Svi-ksri-chennai

Saskuut Chatuthiipaat'ha

T R Krishnacharya

PDF Proofread

Front matter

No text on this page.

JHE,AUHHUSWAMI SASEN
* RESEARCH INSTITUTE
Aaproved by the Tamashanttee, Madress
Fprt s. G. Put FB Page 232, 19th April 1997.
|| श्री।
॥ सस्कृत चतुर्थपाठः ॥
कुंभघोणस्थेन मल्लियं रामाचार्यमूनुना
पण्डित टी.
आर.
कृष्णाचार्येण
विरचितः।
सच
तत्पुत्रेण टी. के. वेंकोबाचार्येण
प्रकाशितः
THE SANSKRIT FOURTH READER
(For the use of Schools)
BY
Pandit T. R. KRISHNACHARYA
AND PUBLISHED BY
T. K. VENKOBACHARYA,
MADHVA VILAS BOOK DEPOT, KUMBAKONAM.
SECOND EDITION
(2000 Copies.)
Registered under Act XXV of 1867.
(All Rights Reserved.)
Price As. 13,1
1931. [Postage I As.

हिन्दी प्रचार प्रेस, मद्रास

THE KUPPUSWAMI SASTRI
RESEARCH INSTITUTE,
MADRAS.
PREFACE
TO THE FIRST EDITION.
The Author has previously published in
Sanskrit. First, Second and the Third Readers
for the benefit of the students. They have been
approved by the Text-Book Committee. It is
universally known in the Educational Department
that the Readers have been highly commended by
Head-masters, Sanskrit Pandits and Scholars, and
are being used as Texts in several institutions.
Impelled by a desire to add one more to the
series of Readers graded in progressive difficulty to
suit the expanding intelligence of the students, the
Author has now published the Fourth Reader.
The following are its Special Features :-
(1) Sentences have been composed in a
compact manner (without splitting theň
into Padas or words.)
(2) A rare and extensive vocabulary has been
employed
(3) Verbs of rarer conjugations than the usual
have been used in their rarer moods.
(4) Full Verb-forms have been used and
participles eschewed.

11
(5) Stories inculcating Loyalty to King, Devo
tion to God, Moral stortes, etc., have beer
incorporated.
They are in
1. Prahladacharitram.
2. Sri Ramajananam.
3. Sri Krishnabalyam.
4. Nalacharitram.
5. Soubharicharitram.
(6) Love-stories have been altogether aban
doned.
(7) In Index difficult Sanskrit words ar
explained by giving Sanskrit equivalents
The Verb-forms of difficult roots an
case-forms of difficult nouns have bee
given
The Author strongly hopes that this woul
prove to be an excellent Text-book for the 4th an
the 5th forms, and that its study would enable th
students to pass the S. S. L. C. or the Matriculatio
Examination with considerable ease.
KUMBAKONAM,
11-12-1926.
T. R. KRISHNACHARY

॥ प्रस्तावना ॥ प्रथमाङ्कनस्य । " संस्कृत इतः पूर्वमनेनैतत्पुस्तकलेखकेन पाठशालोपयोगितया संस्कृ- तभाषायां प्रथमपाठः, द्वितीयपाठः, तृतीयपाठश्च विरचय्य प्राकाशिषत । ते च राजकीयपाठशालासु पाठ्यपुस्तकव्यव- स्थापकसमित्या अन्वमोद्यन्त। पाठशालानां वरिष्ठोपाध्यायः, संस्कृतभाषाध्यापकैः पण्डितैश्वाङ्गीकृत्याध्याप्यन्ते इत्येतद्विधा- पविभागीयानां सर्वेषां विदितमेव । पूर्वोक्तपुस्तकत्रयादपि किंचिदधिककाठिन्योपेतमन्यदेकं पुस्तकं विलिख्य मुद्रणीयमिति कुतूहलेनेदं चतुर्थपाठपुस्तकम्” स एवेदानीं प्राकाशयत् । एतदीया विशेषास्त्वेते- (१) प्रायो वाक्यान्यत्र संहिततयैवालिख्यन्त । (२) अपूर्वाणि पदान्यस्मिन्पायुज्यन्त । (३) द्वितीय तृतीय पञ्चम सप्तम नवम विकरणीयानां केषां चिदा- वश्यकानां धातूनाम्, तत्रापि लिट् लुट् लुङ् प्रभृतीनां लकाराणां च रूपाण्यत्र न्यवेश्यन्त । तेन संशोध्य मुद्रापयित्वा प्रकाशितानां श्रीमन्महाभारतस्य, श्रीमद्रामा- यणस्य, श्रीमद्भागवतस्य, बहूना-माधव [द्वैत] मतग्रन्थानां चान निर्देशो न प्राकरणिक इत्युपेक्ष्यते ॥ 2. fext-book Committee. १ 3. Education Department.

४
(४) तव्य क्त क्तवतु प्रभृति प्रत्ययान्तानि पदान्यस
दपयुज्य तत्स्थाने तिङन्तान्युपायुज्यन्त ।
(५) कथाश्चात्र पठितृणां मनस आहादिकाः देवे राज्ञि
भक्ति जनयित्र्यो नीतिबोधिन्योऽपूर्वाश्च समगृह्यन्त ।
ताश्च कथा:-
(१) प्रह्लादचरित्रम् । (४) नलचरित्रम् ।
(२) श्रीरामजननम् । (५) सौभरिचरित्रम् ।
(३) श्रीकृष्णवाल्यम् ।
इत्येताः।
(६) जुगुप्सितः शृङ्गाररसस्त्वत्र सुतरां नोदघाट्यत ।
(७) अस्मिन्पुस्तके प्रयुक्तानां दुर्बोधपदानामभिधेयं गी
भाषयेव टिप्पन्यामदीयत । तत्र च प्रायः क
नानां शब्दानां धातूनां च रूपाणि प्रादयन्त ।
संस्कृतभाषाया अत्यावश्यकैर्शतुरूपैरुपेतया विपुल्या
प्पन्या सहितमेतत्पुस्तकं यदि चतुर्थ पश्चम कक्ष्ययोश्छात्रा
ठयित्वा हृद्त कारयेयुराचार्यास्तदा तेषामितः परं कठिन
विष्यन्त्यां मेट्रिकुलेषन्परीक्षायां नितरां सौकर्य भवेत् । 3
शयं च ते परीक्षायाः पारं गच्छेयुरिति प्रत्येति ।
कुंभघोणम् ।
टोणपोपाहः रामाचार्यपुत्रः
११-१२-१९२६.)
कृष्णाचायः

श्री लक्ष्मीनृसिहाय नमः। संस्कृत चतुर्थपाठः ॥४॥ प्रह्लादचरित्रम् । सनकादीनां वैकुण्ठगमनम् । आसन्देवेंयुगे ब्रह्मणो मानसाः पुत्राः सनकः सनन्दनः सनातनः सनत्सुजातश्चेति चत्वारः। कदाचित्ते नारायणं द्रष्टुं वैकुण्ठमगच्छन् । तस्याः पुर्या बहिर्वभ्राजकं नामोद्यानवनमासीत् । तत्र सर्वाभीष्टपदा बहवः कल्पपादपाः, तादृशगुणविशिष्टचिन्तामणिः, तादृशी संसन्ताना कामधेनुः, प्रफुल्लानामुत्पलादिपुष्पाणां सुगन्धयुक्ता अमृतापा विद्रुमसोपाना मुक्तासिकता वाप्यः, ॥ टिप्पनी ॥ - (५) देवयुगे-कृतयुगे॥ मानसाः-मनसा सृष्टाः ॥ (८) चिन्ता. मणि:-चिन्तायां सत्यां सर्वकामप्रदो दिग्यो मणिविशेषः॥ (९) ससन्ताना- सन्तानः पुत्रैः सहिता ॥ (१०) अमृतापा:-अमृतमय्या, .

२ संस्कृत चतुर्थपाठः ॥ ४॥ कोटरेभ्यो मधु स्रावयन्तोऽश्वत्थक्षाश्चासन् । तत्र पारावताः परभृताः सारसाश्चक्रवाका दात्यूहा हंसाः शुकास्तैित्तिरयो वर्हिणश्च सदा पत्ता: परिभ्रमन्ति। नवरत्नखचितानि रातवास्तृतानि हैमानि विमानान्यारुह्य मुक्ताः सस्त्रीका: स्वैरमितस्ततः संचरन्ति । चत्वारस्ते मुनयस्तदुधानं प्रविश्य वैकुण्ठपुर्याः पॅरिखाय- मानायां विरजानाम्न्याममृतजलवाहिन्यां नद्यां स्नात्वा माध्या- ह्निकमनुष्ठानं कृत्वा शुचयः पुरीं प्राविशन् । तत्र भगवदालयं परित अष्टो वीथ्यः समचतुरश्राः सप्तभोमैरष्टभौमैश्च भागवतानां गृहेश्चकासति । तासां वीथीनां मध्ये विराजपानं कक्ष्यामप्त- कसंयुतं तदात्वोदितसहस्रसहस्रांशुममपभं भगवदावासभूतं गृहोत्त- . अमृतसदृश्यो वा आपो यासु ताः। "ऋपूरब्धूः पथामानक्षे' इत्यप्रत्ययः । यथा-अर्धर्चः विष्णुपुरम् राज्यधुरा रम्यपथः ॥ (१) कोटरम् - निष्कुहः, वृक्षगतं विवरम् ॥ (२) तित्तिरिः - अङ्गारभक्षकः पक्षिविशेषः ॥ (२) परिखा • खेयम्, प्राकार परितो विद्यमान खातम् ।। (७) भगवदालयं परितः “ अभितः परितः समयानिकषाहाप्रति- योगेऽपि" इति द्वितीया॥ (८) सप्तभौमाः-उपर्युपरि सप्तप्रासादवन्तः ॥ (९) चकासति - प्रकाशन्ते । “चकास्" (चकास्) दीप्तौ । वि० २ । पर० लट् - प्र. चकास्ति । चकास्तः। चकासति || म. चकास्सि चकास्थः। चकास्थ ॥ उ० चकास्मि । चकास्वः चकास्मः ॥ लोट् - म० चकाद्धि - चकाधि ॥ लइ अचकात् ॥ लुङ् - अचकासीत् ॥ कक्ष्या गृहभागः ॥ (१०) तदात्वोदितसहस्रसहस्रांशुसमप्रभम्-तस्कर- लोदितसहस्रसूर्यसंशप्रभावत् ॥

महादचरित्रम् । ममासीत् । तत्रत्यैरपालकैरनिवारितास्ते षट् कक्ष्या अप्यतीत्य सप्तमी कक्ष्यां विविक्षव आसन्। पैश्चषहायनार्भकाभान् दिग्वासमः सकलदेवनिकुरुम्बाभिवन्दितचरणांस्तान्, तत्रत्यौ तदनुभावान- भिज्ञौ सप्तमकक्ष्याया द्वारपालको जयविजयाख्यौ सौवर्णवेत्रेण न्यषेधताम् । अहो ! विजितारिषदुर्गाणामपि तेषामीशेच्छया वर्गद्विती- योऽरिरुदभूत् । तेन क्षुभितमनसस्ते तावशपन् युवां सर्वसमस्य अनुयादिदोषरहितस्य भगवतो द्वाःस्थौ भूत्वाऽपि यस्मादासुरं भावमेवाश्रितो । तस्माद्युवां नात्र शान्तिनिलये - (१) विविक्षवः - वेष्टुमिच्छवः । इदं विशधातोः रूपम् ॥ विव- क्षव - इत्येतत् वहधातोः श्रूधातोर्वा रूपम् ।। (२) पञ्चषहायनार्भकाभान्–पञ्चवा षड्वा पञ्चषाः। पञ्चषा: हायना येषां ते पञ्चपहायनाः । ते च ते अर्भकाश्च पञ्च० भकाः। तेपामा- भेवाभा येषां ते। तान् ॥ दिग्वाससः-नग्नान् ॥ (३) निकुरुवम् समूहः ॥ अनुभावः-महिमा । (६) अरिषड्वर्गः षण्णां वर्गः षड्वर्गः। अरीणाम् (आन्तराणाम् ) षड्वर्गः। तेच - कामः क्रोधः लोभो मोहो मदं मात्सर्य च । वर्गद्वितीयो- ऽरि:-क्रोधः ॥ (८) असूया - गुणेषु दोषारोपः ॥ (९) स्थ:-"अस अस" भुवि । वि० २ पर० रट् - प्र. अस्ति । स्तः। सन्ति ॥ म० असि। स्थः। स्थ॥ उ० अस्मि । स्वः। स्मः॥ लोट् - अस्तु - स्तात् । स्ताम् । सन्तु ॥ म० एधि - स्तात् । स्तम् । स्व ॥ 3. असानि असाव । असाम ॥ लङ् आसीत् ॥ विधिलिङ् . स्यात् ।

४ सस्कृत चतुर्थपाठः॥४॥ स्थाने स्थातुमर्हथः। भूमौ पापीयसीमासुरी योनि प्रामुतम्" इति । तेषु ब्राह्मणेषु स्वकृतापराधानुगुणं तैर्दत्तं शापं तौ श्रुत्वा भीत्वा तेषां पादान् हस्ताभ्यां गृहीत्वेत्थमक्षमापयताम् “भगवन्तः! युष्माकं स्वरूपमज्ञात्वाऽऽवार्मागोऽकुर्व । अनुगृह्णीत आवाम् । आसुरे जन्मन्यस्माकमितोऽप्यधिको महापराधः संभवेदिति विभवः । तस्मात्तजन्मनोऽचिरादेवावयोः स्वपदमाप्तिमनुजा- नीत" इति । स्याताम् । स्युः ॥ लिट् लुट् लृट्आशोर्लिङ् लुङ् लुङ् क्षु “भू" धातोरेव रूपाणि ॥ (४) आगः-अपराधः । सान्तं नपुंसकम् ॥ अकुर्व . डुकृञ्” (क) करणे। वि० ८ उभ० अन्न पर० लङ् - प्र० अकरोत् । अकुरुताम् । अकुर्वन् ॥ म० अकरोः । अकुरुतम् । अकुरुत ॥ उ० अकरवम् । अकुर्व । अकुर्म ॥ अनुगृहीत - अनुपूर्वः “ग्रह " उपादाने । वि० ९ उभ० अत्र पर. लोट् - गृह्णातु - गृह्णीतात् । गृह्णीताम् । गृह्णन्तु ॥ म० गृहाण गृह्णीतात् । गृह्णीतम् । गृह्णीत ॥ उ० गृह्णानि । गृह्णाव । गृह्णाम ॥ लट् - गृह्णाति ॥ लिट् - जग्राह । जगृहतुः ॥ लुङ् - अग्रहीत् ॥ (६) बिभीवः-वित्रस्यावः । जिभी" (भी) भये। वि० पर० लट् - प्र० बिभेति । बिभितः-बिभीतः। बिभ्यति ॥ म बिभेषि । बिभिथः-बिभीथः। बिभिथ - बिभीथ ॥ उ० बिभेमि । बिभिव:- बिभीवः । बिभिमः-बिभीमः ॥ लिट् - बिभाय-बिभयांचकार॥ लुङ्-अभै - पीत् । अभैष्टाम् । अभैषुः ॥ म० अभैषीः । अभेष्टम् । अभेष्ट ॥ उ० अभैषम् । तजन्मनः आसुरजन्मनः । पञ्चम्येकवचनम्।। अनुजानीत - अनुमन्यध्वम् । अनुपूर्वः “शा" अवबोधने। वि० ९ पर० लोट् - प्र० जानातु - जानी- ।

५ प्रहादचरित्रम् । विमिताख्ये पर्यङ्के शेषतल्पे श्रिया सह शयानो योग निद्रानिमीलितनयननलिनो भगवांस्तेषां विवादं श्रुत्वा प्रैबु- ध्यान्तःपुरादहिस्तेषां पुरत आविरासीत् । वक्षसि वनमालां कौस्तुभं च, नितम्बे पीताम्बरं काञ्ची च, कर्णयोरनये मकराकृती कुण्डले, दोषोरङ्गदे, प्रकोष्ठयोर्वलये, पादयोर्मञ्जीरे शिरसि किरीटं च दधानं भक्तानां नयनानन्दकरं भगवन्तं लक्ष्मीपतिं ते मुनयो दृष्ट्वा प्रदक्षिणीकृत्य प्रणम्य च सूक्तवाक्यै- स्तुष्टुवुः ।। "श्रीपते! यदर्शनेनात्मानं कृतार्थीकर्तुमत्रागता वयं, तस्य तवैव द्वाःस्थौ क्रोधेनाशपाम । अस्माकमिममज्ञानकृतं महान्तमतिक्रम क्षाम्यतु भवान् । त्वमेव ब्रह्मरुद्रेन्द्रादितृणान्तं जगत्सृजसि पौसि तात् । जानीताम् । जानन्तु ॥ म० जानीहि - जानीतात् - । जानीतम् । जानीत ॥ उ० जानानि । जानाव । जानाम ॥ लिट् - जज्ञौ ॥ लङ् - अजा- नात् ॥ लुङ् - अज्ञासीत् ॥ शेषं बृहद्धातुरूपावल्यां पश्यत ॥ (१) योगनिद्रा- स्वस्वरूपध्यानरूपा निद्रा । (२) प्रबुध्य - निद्रा स्यक्त्वोस्थाय॥ (३) वनमाला - आजानु लंबमाना बहुविधैः पुष्पैथिता माला ॥ (५) दोषोः-सप्तमीद्विवचनम् । दोषि-दोरिण - दोषणि। दोषोः- दोष्णोः। दोष्षु-दोषसु ॥ मञ्जीरः-नूपुरः ॥ (११) पासि - रक्षसि । “पा" रक्षणे। वि० २ पर० लट् - प्र. पाति । पातः। पान्ति ॥ म. पासि । पाथः। पाथ ॥ उ० पामि । पावः पामः॥

wr संस्कृत चतुर्थपाठः ॥४॥ संहरसि; तेभ्यो यथायोग्यं मोक्षं ददासि च । योगिनोरि तव मायां नौतियन्ति । के वयं तां जेतुम् ? ।" इति ते व्यजिज्ञपन् । “पौत्रकाः ! शृणुत । येषां ब्राह्मणानां पाद- सेवया एतावदैश्वर्यं मया लब्धम् , तेष्वेव ब्राह्मणेषु यदि मे बाहुरेंपराध्नुयात्तर्हि तमपि साङ्गदमहं छिन्द्यामेव । एवं स्थिते मदर्शनेच्छया आगतानां भवतां विनकारिणौ मत्सेवको कथ- महमङ्गीकुर्याम् ? । तत्कृतो भवत्स्वपराधो मत्कृत इत्येव जना ब्रूयुः। अहमपि तथैव जानीयाम् । तस्मादेतयोर्युष्माभि- धृतो दण्डो ममाप्यनुमत एव" इति भगवानभ्यधत्त । तच्छ्रुत्वा मुनयोऽब्रुवन् । सर्वेषां मोक्षप्रद भगवन् ! पूर्वमेव त्वन्मायया मोहिता वयम् । इदानीं पुन: ‘एतावन्मदैश्वर्यं ब्राह्मणसेवया मया लब्धम्' इति यत्त्वयोच्यते तच्छ्रवणेनास्माकं बुद्धिरधिकं कलुषीभवति । विप्राणामग्न्यादयो देवा उपास्याः । तेषामुपास्यो रुद्रः। स च ब्रह्मपुत्रः, स्वपितुश्चतुर्मुखस्योपासकः। सोऽपि (२) अतियन्ति - अतिक्रामन्ति । अतिपूर्वः " इण् वि० २ पर० लट् - प्र० एति । इतः। यन्ति ।। म० एषि । इथः । इथ ॥ उ० एमि । इवः । इमः ।। लिट् - प्र० इयाय । ईयतुः । ईयुः ॥ म० इययिथ- इयेथ । ईयथुः । ईय ॥ उ० इयाय - इयय । ईयिव । ईयिम ॥ लोट् - प्र० एतु • इतात् । इताम् । यन्तु ।। म० इहि - इतात् । इतम् । इत ॥ उ. अयानि । अयाव । अयाम ॥ लुङ् । अगात् ॥ (५) अपराध्नुयात् - अपपूर्वः राधसंसिद्धौ । वि० ५। विधिलिङ् । गतो। पर.

प्रहादुचरित्रम् । पितामहः पूर्व शते कल्पेषु भवन्तमुपास्य तत्पदं प्राप्तः। एवं ब्रह्मादिमनुष्यान्तानां जनानामुपास्यस्य सकलजगदम्बाया लक्ष्म्याः पत्युभवतो ब्राह्मणाः किल देवम् ? यदि त्वमीहक् ब्राह्मणान्न बहुमन्यसे, तर्हि क एवैतानोंद्रियेत ?" इति । भगवानुवाच- जयविजयौ ! मम गिरं भृणुतम् । पूर्व कदाचिदन्तःपुरं प्रविशन्ती रमामपि युवामज्ञानान्न्यवारयतम् । अन्योऽपि कश्चिदपराधो युवाभ्यां कृतोऽस्ति; तस्मादेतदोषत्रयपरि- हाराय युवां भूमौ त्रिषु युगेषु पापिष्ठां योनि प्राप्मुतम् । तत्राहमेवावतीर्य युवां हत्वा स्वस्थान प्रापयिष्यामि" इति । मुनयश्च भगवताऽभ्यनुज्ञातास्तन्महिमानं बहु मानयन्तो यथा- गतं प्रतिजग्मुः॥ (४) आद्रियेत - आदरं कुर्यात् । 'हङ्' () आदरे। वि० ६ आत्म० विधिलिङ् - आद्रियेत । आद्रियेयाताम् । आद्रियेरन् ॥ लट् - आद्रियते ॥ लिट् - आदतें ।। लुङ् - आइत। आदृषाताम् ॥ (५) शृणुतम् - आकर्णयतम् । “श्रु" श्रवणे। वि० १ पर० लोट् - प्र० शृणोतु-शृणुतात् । शृणुताम् । शृण्वन्तु ॥ म० शृणु-शृणुतात् । शृणुतम् । शृणुत ॥ उ० शृणवानि । शृणवाव शृणवाम ।। लट् - प्र. शृणोति । शृणुतः । शृण्वन्ति ॥ म० शृणोषि । शृणुथः। शृणुथ ॥ उ० शृणोमि । शृणुवः - शृण्वः। शृणुमः - शृण्मः ॥ लिट् - प्र० शुश्राव । शुश्रुवतुः शुश्रुवुः ॥ म० शुश्रोथ । शुश्रुवथुः । शुश्रुव ॥ उ० शुश्राव- शुश्रव । शुश्रुव । शुश्रुम ॥ लुङ् - अश्रौषीत् ॥ शेष बृहद्धातुरूपावल्या पश्यत॥ (६) न्यवारयतम् - प्रत्यषेधतम् ।।

८ संस्कृत चतुर्थपाठः ॥ ४॥ हिरण्यकशिपोरुत्पत्तिः। आदिसृष्टौ सनकादीनामवरजा ब्रह्मणः पुत्रा दश प्रजा- पतयोऽभूवन् । मरीचिः, अत्रिः, अङ्गिराः, पुलस्त्यः, पुलहः, ऋतुः, भृगुः, वसिष्ठः, दक्षः, नारदश्चेति । तेषु मरीचिः कर्दमस्य प्रजापतेः पुत्री कलां नामोपयेमे । तयोः पुत्रः कश्यपो नाम । स: अदितिः, दितिः, दनुः, पुलोमा, कालका, क्रोधवशा, इत्याद्या भार्या उदवहत् । तासु ज्येष्ठाया अदितेः पुत्रा इन्द्रादयो देवाः । अन्यासां दैत्याः, दानवाः, पौलोमाः, कालकेयाः, क्रोधवशा इत्याद्या असुरा उदभूवन् । देवा 'निसर्गतो विष्णुभक्ताः । असुरास्त्वाजानं विष्णुद्वेषिणः । तस्माद्देवा एव त्रलोक्यराज्या- धिपत्यं प्रापन् । ब्रह्मा भगवदाज्ञया त्रैलोक्याधिपत्ये इन्द्रमभिषिच्य अन्यानग्न्यादींस्तदनुयायिनो विधाय राजधानीममरावती तस्मै पायच्छत् । देवा असुराचाजानं परस्परं शत्रवोऽभूवन् । (४) कर्दमः - ब्रह्मणः छायाया उत्पन्नः पुत्रः ॥ (५) उपमेये - पाणिग्रहण कृतवान् । “यम" उपरमे । वि० १ पर० उपपूर्वो विवाहे । “उपाद्यमः स्वकरणे" इति आत्म० लिट् . उपयेमे । उपयेमाते । उपयेमिरे ॥ लट् । उपयच्छते ॥ लुङ् - उपायत उपायंस्त ।। (७) उदवहत् - विवाहं कृतवान् ॥ (९) निसर्गतः - स्वभावात् । तसिप्रत्ययान्तमव्ययम् ॥ (२०) आजानम् - जन्मारभ्य ॥ (१३) परस्परम् - अन्योन्यम् "कर्मव्यतिहारे सर्वनाम्नो द्वे ९ प्रहादचरित्रम् । कदाचिदितिर्महासमृद्धिमतामिन्द्रादीनां मातरं स्वसपत्नी- मदिति वीक्ष्य समैत्सरा सायं सन्ध्यासमयेऽन्यगार आसीनं भर्ता रमेत्य त्रैलोक्यविजयिपुत्रदानेनात्मानमनुग्रहीतुमयाचत । एवं तया प्रार्थितो भारीचः काश्यपस्ता मुहूर्त प्रतिपालयेत्युवाच । तथो- तापि सा क्षणमपि कुसुमशरशराहतिं सोडुमशक्नुवती तस्मि- बनायें कर्मणि तं निर्वबन्ध । सः दैवमनुल्लङ्घन्यं मत्वा तस्यां गर्भमाधत्त । पुरा सनकादिभिर्विप्रैः शप्तौ यौ जयविजयौ तावेव तस्या गर्ने प्रविष्टौ यमलौ पुत्रावभूताम्। तयोायान् हिरण्य- कशिपुः ; यवीयान्हिरण्याक्षः। तयोहिरण्याक्षो वराहरूपिणा विष्णु- नौऽघानि । हिरण्यकशिपुस्तत आरभ्य विष्णावधिकं द्वेषमक- वाच्ये"। इति द्वित्वम् । परस्परः। परस्परौ । परस्परे - परस्पराः इत्यादिरूपाणि ॥ (२) मत्सरः-अन्यशुभद्वेषः॥ अग्न्यगार:-अग्नेरगारः अग्निहोत्रशाला ॥ (३) त्रैलोक्यविजयिपुत्रदानेन - त्रयाणां लोकानां समाहारः त्रिलोकी, तदेव त्रैलोक्यम् , तस्य विजयी, सचासौ पुत्रश्च त्रैलोक्यविजयिपुत्रः, तस्य दानेन ॥ (४) मारीच:--मरीचिऋषिपुत्रः काश्यपः । मरीचेरपत्यं पुमान् ॥ प्रतिपालय-प्रतीक्षस्व ॥ (५) कुसुमशरः-मन्मथः, पञ्चबाणः, पुष्पधन्वा। तस्य शरा:- अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य . . सायकाः। (६) निबन्ध-निर्बन्धमकरोत् । निर्पूको “बन्ध" बन्धने । वि० ९ पर० लिट् - बबन्ध । बबन्धतः । बबन्धुः । लट् - बधाति । (८) यमलौ- युग्मं युगलम् ॥ (१०) अघानि --हतः । हनधातोः संस्कृत चतुर्यपाठ ॥ ४ ॥ रोत् । विष्णुभक्तेष्विन्द्रादिषु देवेषु, तद्याजिषु ब्राह्मणेषु च, महान्तं द्वेषं पुपोष। यायजूकान्द्रिजान्, हविर्दोग्ध्रीर्गाः यज्ञादिस- स्त्रियाच नाशयितुं विप्रचित्तिप्रभृतीननेकानसुरान्स भ्ययुत । हिरण्यकशिपोर्वरप्राप्तिः। स पुनरात्मनोऽजेयत्वादिवरप्राप्त्यर्थं ब्रह्माणमुद्दिश्य तप- स्तप्तुं मन्दराचलमगच्छत् । सँ तेपे मन्दरद्रोण्यां तपः परमदारुणम् । ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गष्टाश्रितावनिः ॥१॥ जादीधितिभी रेजे संवर्तार्क इवांशुभिः । तस्मिस्तपस्तप्यमाने देवाः स्थानानि भेजिरे ॥२।। कर्मणि लुङ् - अघानि । अघानिषाताम् | अघानिपत ॥ (२) पुपोष - वर्धयांचकार ॥ यायजूकः-पुनः पुनर्भृशं वा यजते॥ हविर्दोग्ध्रीः-हविषां दोग्ध्रीः। (३) न्ययुत - आज्ञापयत् ॥ (७) स तेपे मन्दरद्रोण्याम् - इत्यारभ्य केचन श्लोकाः श्रीभागवतस्थाः ॥ मन्दरद्रोण्याम् - मन्दरपर्वतस्य निम्नप्रदेशे । (८) ऊर्ध्वबाहुः-उौं बाहू यस्य सः ॥ नभोदृष्टिः-नभसि दृष्टियस्य सः॥ (९) संवर्तार्कः-संवर्तस्य प्रलयकालस्य अर्कः सूर्यः ॥ (१०) स्थानानि भेजिरे • भयात् स्वस्वगृहाणि प्रामुवन् ॥ ॥

प्रहादचरित्रम्। ११ तस्य मूर्ध्नः समुद्भूतः सधूमोऽग्निस्तपोमयः । तिर्यगूर्ध्वमधो लोकानतपद्विष्वगीरितः ॥३॥ चुक्षुभुर्नादन्वन्तः सैद्वीपाऽद्रिश्चचाल भूः । तेन तप्ता दिवं त्यक्ता ब्रह्मलोकं ययुः सुराः ॥४॥ दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः । तस्य चोपशमं भूमन्विधेहि यदि मन्यसे ॥ लोका न यावन्नक्ष्यन्ति बलिहारास्तव प्रभो ! ॥५॥ इति विज्ञापितो देवैर्भगवानात्मभूर्नृप । परीतो भृगुदक्षाधैर्ययो दैत्येश्वराश्रमम् ॥ ६॥ ब्रह्मोवाच- उत्तिष्ठोत्तिष्ठ भेद्रं ते तपःसिद्धोऽसि काश्यप ! वरदोऽहमनुप्रासो त्रियतामीप्सितो वरः ॥ ७॥ इति । (२) तिर्यच् - तिरस् अञ्चति । "तिरसस्तिर्यलोपे" विष्वक् - परितः, सर्वतः। विषु अञ्चति विष्वच् ॥ (३) सद्वीपाऽद्रिः-द्वीपाश्च अद्रयश्च - द्वीपादयः। तैः सहिता भूः ॥ चचाल-"चल संचलने, वि० १ पर० लिट् . चचाल । चेलतुः । चेलुः । लुङ् - अचालीत् ॥ (६) भूमन्-बहोः भावः । “बहोर्लोपो भूच वहोः"॥ सर्वोत्त- म इत्यर्थः। तस्यसंबुद्धिः ॥ (७) बलिहाराः-बलि पूजां हरन्ति कुर्वन्ति इति ॥ (११) भद्रं ते-तव मङ्गलं भवतु ॥

१२ संस्कृत चतुर्थपाठः ॥४॥ हिरण्यकशिपुरुषाच- यदि दास्यस्यभिमतान्वरान्मे वैरदोत्तम ! । भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मी भून्मम प्रभो ।। ८ ।। नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः । न भूमौ नाम्बरे मृत्यु नरैनै मृगैरपि ॥ ९ ॥ व्यसुभिर्वाऽसुमद्भिर्वा सुरासुरमहोरगैः । एतान्सर्वान्वरान्देहि इति वत्रेऽसुरर्षभः ॥ १० ॥ ब्रह्मोवाच- "भद्र ! एते त्वया पार्थिता वराः पुंसां दुर्लभाः। तथाऽपि त्वत्तपसा तुष्टोऽहं तुभ्यं सर्वान्वितरामि । यथेष्टं सर्व तव संप- त्स्यते" इति। एवं ब्रह्मणः प्राप्तवरो दैतेयो मदोद्धतः सर्वा दिशो जित्वा जित्वा इन्द्रादीन् दिक्पालकांस्तत्तत्स्थानात्मच्याव्य (२) वरदोत्तम-वरं ददति इति वरदाः तेषूत्तमः ॥ (३) मा भूत् - मा + भूत् । “" न माड्योगे " इति अडभावः । न भवतु ॥ (४) अन्तः गृहान्तर्भागे बहिश्च न भवतु । दिवा दिवसे । नक्तं रात्रौ । इदं द्वयमप्यव्ययम् ॥ (६) व्यसुभिः-विगतप्राणैः ॥ असुमद्भिः सप्राणैः॥ (९) भद्र !- मङ्गलकर ॥ (१०) वितरामि-"तृ" प्लवनतरणयोः। वि० १ । पर० विपूर्वको दाने । ददामि ॥ संपत्स्यते - 'पद' गतौ। वि० ४ । भारम० छुट् - संपूर्वक संपत्तौ । संपन्नं भविष्यति । लट् - संपत्ते ॥

महादचरित्रम् । १३ नन्दनादिदेवोद्यानसहिताममरावतीं प्राप। तत्र विश्वकर्मविनिर्मितं सर्वद्धियुक्तं महेन्द्रसैदनमध्यास्त । स इत्थं निर्जितककुबेकराडिषयान्मियान् । यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः ॥ ११ ॥ एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः । कालो महान्व्यतीयाय ब्रह्मशापमुपेयुषः ॥ १२ ॥ तस्योपदण्डसंविनाः सर्वे लोकाः सपालकाः । अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥ १३ ।। तेषामाविरभूद्वाणी अरूपा मेघनिःस्वना। संनादयन्ती ककुभः साधूनामभयंकरी ॥ १४ ॥ मी भैष्ट विबुधश्रेष्ठाः ! सर्वेषां भद्रमस्तु वः मदर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ १५ ॥ (२) सदनमध्यास्त - सदने उपाविशत् । “ अधिशीस्थासां कर्म" इत्याधारस्य कर्मवम् ॥ (४) यथोपजोषम्-यथारुचि, यथाप्रीति ॥ (५) उच्छास्त्रवर्ती - उद्गत शास्त्राद्यथा भवति तथा वर्तते इति । शास्त्रमतिक्रम्य वर्तमानः ॥ (६) ब्रह्मशापम् - ब्राह्मणशापम् । (८) अन्यत्र. विष्णोरितरत्र ।। (९) अरूपा-रूपरहितपुरुषोच्चारिता ॥ (११) मा भैष्ट - भय मा प्रामुत । भैष्ठ - (जि) “भी" भये । वि, ३ लुङ्-पर० मध्य० बहु । माको योगादडभावः॥

संस्कृत चतुर्यपाठः ॥४॥ ज्ञातमेतस्य दौरात्म्यं दैतेयोपशदस्य मे । तस्य शान्ति करिष्यामि कालस्तावत्प्रतीक्ष्यताम् ॥१६॥ यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ १७॥ निर्वैराय प्रशान्ताय स्वसुताय महात्मने । प्रहादाय यदाद्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥१८॥ इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः । न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ।।१९।। प्रह्लादोत्पत्तिः । यदा हिरण्यकशिपुस्तपसे मन्दरपर्वतं जगाम तदा विबुधा असुरैः सह युद्धा तान्द्रावयित्वा तेषां धनानि वाहनानि पशृंश्च व्यलुम्पन् । हिरण्यकशिपोः पत्नी जम्भनाम्नोऽसुरस्य पुत्री कयाधूस्तदाऽन्तवन्यभवत् । इन्द्रस्तां राजपहिषीं गृहीत्वा स्वावास निनाय । तथा नीयमानां भयोदिनां रुदती राज- (१) अपशदः- अधमः ।। (४) स वा आशु - सः वै आशु इति च्छेदः ।। (६) हनिष्येऽपि वरोर्जितम् । वरोर्जितमपीत्यन्वयः ॥ (७) दिवौकसः - दिवं ओकः वासस्थानं येषां ते॥ (१३) अन्तर्वत्नी-गर्भिणी । 'अन्तर्वत्पतिवतोर्नु'। :

१५ प्रहादचरित्रम् । महिषी देवर्षिारदो दृष्ट्वा "अनागस पतिव्रतामिमां कुतो नयसि ? मुश्चैनाम् " इतीन्द्रमवदत्। “भगवन् ! नाहमिमामनुभवितुं हन्तुं वा नयामि । अस्या जैठरे गर्भो वर्तते । स पितुरप्युयो भवेत् । अतस्तत्प्रसवानन्तरमेनां मुश्चेयम्" इत्यगदत् । "देवेन्द्र ! अस्या गर्ने निकिल्विषः सर्वसुहृत् महाभागवतः पुपान्वर्तते । नारायणेन रक्षितं तं हन्तुं कथं शक्ष्यसि ?" इति देवर्षिणाक्तः पुरंदरः तां नारदे समर्प्य ययौ। ऋपिस्तां खा- श्रमं नीत्वाऽऽश्वास्य "वत्से ! माविभीहि यावत्तव भर्तुरागमनं तावत्सुखमिहोष्यताम्ः तव भर्ता ब्रह्मणो वरं प्राप्य शीघ्रमेवागत्य त्वां नयेत्” इत्यवदत् । एवपाश्वासिता सा च पत्युनिरामयत्वाये- श्वरमाराधयन्ती ऋषेवसपर्याय तुलसीपुष्पफलादीनि वनान्तरा- दानयन्ती नारदं पर्यचरत् । कदाचित्सा तमृषि स्वस्यां तुष्टं ज्ञात्वा भगवन् ! मम धेवस्य तपसो निवर्तनानन्तरमेवाई सुवीयेत्यभिलपामि । तथा मामनुगृह्णातु भवान्" इति प्रार्थयत । (१) अनागसम् - न विद्यते आगः अपराधो यस्याः सा ताम् ॥ (३) जठरे - कुक्षौ । (५) निष्किल्बिषः-दोषरहितः। निष्क्रान्तः किल्बिषात् । "निरादयः कान्ताद्यर्थे पञ्चम्या" इति समासः ॥ महाभागवतः - भगवान् भक्तिः (भजनीयः) यस्य सः भागवतः । महांश्चासौ भागवतश्च ।। (६) शक्ष्यसि-"शक्ल वि० ० ५ पर० लृट् - म० ए० । शक्तो भविष्यसि लट् (९) ब्रह्मणः-पञ्चम्येकवचनम् ॥ (१०) निरामयत्वम् - वि.कान्त आमयात् निरामयः। तस्य भावः ।। (१३) धवः पतिः ॥ सुवीय "" (सू) प्राणिगर्भविमोचने । (शक्) शक्ती शक्नोति ॥

संस्कृत चतुर्थपाठः ॥ ४ ॥ ऋषिश्च तत्तथैव भवविति तस्यै वरं ददौ। परमकारुणिको मुनि- स्तस्या उदरे वर्धमानस्य भ्रूणस्यार्थे तस्यै धर्म भगवत्तत्वं चोपदिदेश। हिरण्यकशिपुस्तपसः प्रतिनिवृत्य भार्यामृष्याश्रमादानि- नाय । कयाधूश्च स्वेच्छया शुभे दिने पुत्र प्रामृत । ततः पूर्वमेव तस्य संहादः अनुहादः हाद इति त्रयः पुत्रा आसन् । गुणज्येष्ठस्य कनिष्ठस्यास्य प्रहाद इति नामाकरोत्पिता । स बालः स्वभावतः ब्राह्मणपूजको विष्णुभक्तः सत्यसन्धो जितेन्द्रियः परदुःखास- हिष्णुर्दीनेवत्सलो विरक्तश्वासीत् । असुरेन्द्रस्तं विद्याभ्यासाय गुरुपुत्राभ्यां समार्पयत् । तौ ब्राह्मणौ त स्वगृहं नीत्वा अन्यै- रसुरवालैः सह आसुरराद्धान्तं पाठयामासतुः । प्रह्लादो गुरूपदिष्टं न साधु मेने। वयस्यैः सह क्रीडन्बालः प्रह्लादो गोविन्द ! गोविन्द ! इति सदा जल्पति, गोविन्द गोविन्देति नृत्यति, वि० २। आ० विधिलिङ्-प्र० सुवीत । सुवीयाताम् । सुवीरन् ॥ म० सुवी- थाः । सुवीयाथाम् । सुवीध्वम् ॥ उ० सुवीय । सुवीवहि । सुवीमहि ॥ लट्- प्र० सूते । सुवाते। सुवते ॥म० सूषे। सुवाथे । सूचे ॥ उ० सुवे। सूबहे । सूमहे॥ (२) भ्रूणः-गर्भः ॥ (५) स्वेच्छया स्वाभिप्रायानुसारेण ॥ प्रासूत-उपरि निर्दिष्टस्य "सू" धातोर्लङ् - प्र.। प्रासूत । प्रासुवाताम् । प्रासुवत ॥ (६) गुणज्येष्ठः - गुणैर्येष्ठः ॥ (८) ब्राह्मणपूजकः - ब्राह्मणामां पूजकः ॥ सत्यसन्धः - सत्या सन्धा प्रतिज्ञा यस्य ॥ (९) दीनव- त्सलः-दीनेषु वत्सलः ॥

महादचरित्रम् । कदाचिगोविन्दनामोच्चार्य हसति, रोदिति, उत्पतति, पांसुषु लुठति च । कदाचिन्नारायणं मनसा ध्यायनालिङ्गन्य रोमाञ्चित- गात्र आमीलितनयनो जडवन्निश्चेष्ट उपविशति । वयस्यानारायण नारायणेत्युच्चैस्तरां वाचयति । “भो बालकाः ! हितं व उपदि- शामि, शृणुत । अस्मदीयो देहो जडः। अस्मिन्देहे चित्स्व- रूपी जीवात्मा वर्तते । सः स्वस्य कर्मानुसारेण देवमनुष्य- तिर्यक्प्रभृतीन्नानाविधान्देहान्मामोति । दुःखात्मकोऽयं संसारः । अत्र यत्सुखं दृश्यते तन्निम्बफले माधुर्यमिवात्यल्पमेव । दुःखा- मिश्रं निरतिशयं सुखं मोक्ष एव भवति। तस्य दाता ईश्वर एव । प्रसन्न एव स मोक्षं दद्यात् । तत्प्रसादनं च मनुष्यजन्म- न्येव सुलभं नान्यस्मिस्तिर्यगादिजन्मनि । पूर्वार्जितैः सत्कर्मभिः प्राप्तं मानुष्यं जन्म मा व्यर्थ कुरुत । ईश्वरं भजत ।" इति तानुपदिशति । ते च गुरूपदिष्टां राजनीति विहाय प्रहादोप- दिष्टमेव जगृहुः। (१) रोदिति-विलपति, शोचति । "रुदिर" (रुद्) अश्रुवि- मोचने । वि० २ पर० लट् - प्र. रोदिति । रुदितः । रुदन्ति ॥ म. रोदिषि रुदिथः। रुदिथ ॥ उ. रोदिमि । रुदिवः। रुदिमः॥ लिट् - प्र. रोद । रूदतुः। रुरुदुः॥ म. रुरोदिय । रुरुदथुः । रुरुद ॥ उ. रुरोद । रुरुदिव । हरुदिम ॥ लङ् - प्र. अरोदीत् - अरोदत् ॥ म. अरोदीः - अरोदः ॥ लुक नरूदत् - अरोदीत् ।। (५) चित्स्वरूपी-ज्ञानरूपी ॥ (७) तिर्यञ्चः-तिगमनशीला मृगादयः ॥ (८) दुःखामिश्रम् दुःखसंबन्धरहितम् ॥ (१३) विहाय-त्यक्त्वा । विपूर्वकात् “ओहाक्” (हा) त्यागे। वि.

संस्कृत चतुर्यपाठः ॥ ४॥ कदाचिद्धिरण्यकशिपुः सभायामुपविष्टः प्रहादमाहायया- मास । माता तमात्मजं प्रीत्या स्त्रापयित्वा धौतं वस्त्रं वास- यित्वा फाले तिलकं विधाय पितुरन्तिकमयापयत् । प्रह्लादः सभां गत्वा पितुः पादयोः प्रणनाम । विनीतं कृताञ्जलिवन्धं तनूनमङ्कमारोप्यालिङ्गय मू[पाघ्राय "वत्स ! एतावता कालेन गुरुभ्यस्त्वयाऽधीतेषु यत्सारभूतं तहि " इत्यपृच्छत् । "श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् । क्रियते भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ।। २० ॥" इति प्रह्लादोऽकथयत् । तदाकर्ण्य दैत्यराट् कुपितोऽन्तिके स्थितं गुरुं वीक्ष्य "ब्राह्मणाधम ! किमेतत् ? कथं त्वयाऽस्य बालस्य .३ पर. ल्यप् । लट्-जहाति। जहितः-जहीतः । जहति ॥ म. जहासि । जहिथ:-जहीथः। जहिथ-जहीथ ॥ उ. जहामि । जहिवः-जहीवः । जहिमः- जहीमः॥ (२) धौतम्-"धावु' (धाव) गतिशुद्धयोः । वि. १ कर्मणि क्तः॥ (३) फालम् [भालमित्यपि]-ललाटम् । (७) श्रवणम् - समाकर्णनम् । अन्यैः कथ्यमानानां विष्णोर्गुण- प्रतिपादकशब्दानाम् ॥ कीर्तनम्, स्मरणम्-तेषामेव ॥ पादसेवनम्-परि- चर्या ॥ (८) दास्यम्-स्वकृतसत्कर्मणामर्पणम् ॥ आत्मनिवेदनम्-स्वशरी- रसमर्पणम् । स्वरक्षणे चिन्तां विहाय स एव रक्षतीति ज्ञानम् । (९) इत्यादि यत्क्रियते तदुत्तममधीतं मन्ये ।। (१०) दैत्यराट्-दैत्यराजः । दैत्यानां राट् । जकारान्तः । " राजा राट् पार्थिवः माभृन्नुपभूपमहीक्षिता" इत्यमरः ॥ १ .

प्रहादचरित्रम् । १९ मद्वेषिणि विष्णौ भक्तिरुत्पादिता ?। लोके ब्राह्मणाः प्रायेण विष्णुभक्ताः। मदावर्जितं पिण्डं वं भुक्त्वा ममैव प्रतिकूल करोषि । महोहिणं त्वामद्यैव सर्वस्वापहारं कृत्वा देशान्निस्सार- येयम् । किं ब्रवीषि ?" इत्यगदत् । गुरुपुत्रोऽब्रवीत् “राजन् ! मा कुप्य । न मयेदं पाठित- स्तव पुत्रः, किं तु वदभिमतमासुरराद्धान्तमेव पाठितः । यद्यत्र संदेहः स्यादितरान्बालान्पृच्छ” इति । तदा सोऽसुरः "भो बालकाः गुरुणा युष्मभ्यं किमुपदिष्टम् ? तद्भूत" इति पप्रच्छ । तेऽवदन् “दैत्येन्द्रादन्यदैवतं नास्ति । स एव ब्रह्म- विष्णुमहेश्वराणामप्यधिपतिः । इत्येवास्मद्गुरुरस्मान्सर्वानुपदि- देश" इति । "कुमारकाः! भवतु निःशङ्कं ब्रूत गुरूपदिष्टं वा भवद्भयो रोचते प्रह्लादोक्तं वा ?" इति पृष्टास्ते “राजन् ! प्रथम गुरूपदिष्टं सारयमन्यामहि । ततः प्रह्लादोपदेशं श्रुतवन्तो वयं तमेव साधु मन्यामहे" इति प्रत्यब्रुवन् । हिरण्यकशिपुस्तानिर्भ- पसार्य पुनरपि पुत्रं पप्रच्छ । आयुष्मन् प्रहाद ! गुरुणा- ऽनुपदिष्टा मरिविषयिणी कुत इयमभद्रा मतिस्त्वया प्राप्ता ? ।" इति पृष्टः प्रह्लादो व्याजहार-"स्वामिन् ! सर्वेषां कामादय एव (२) मदार्जितं पिण्डम्-मया दत्तमन्नम् ॥ (३) मद्रोही-मम दोही । द्रुह्यतीति द्रोही। सम्पृचादित्वात् घिनुम् ।। (५) मा कुप्य-कोपं मा कुरु । कुप" क्रोधे । वि. ४। पर. लोट-प्र. कुप्यतु ॥ म. कुप्य ॥ उ. कुप्यानि ॥

२० संस्कृत चतुर्थपाठः ॥४॥ वैरिणः। लोके सत्पुरुषस्यान्ये शत्रव एव न भवन्ति । एवं स्थिते, भगवांस्तु सर्वेषां मित्रम् । स एव सर्वेषामापदो रक्षकः । वृथा त्वं सर्वसमं विष्णुं वेषिणं मन्यसे । मम मतिरेव भद्रतमा। त्वदीया तु अभद्रतमा । नाहमेतदेताभ्यां ब्राह्मणाभ्यामध्यापितः । परमकारुणिकेन नारदमुनिना मातुर्गर्भे स्थितोऽहमुपदिष्टः । राजन्! यथाऽयोऽयस्कान्तं दृष्ट्वा परप्रेरणां विना स्वयमेव तदन्तिकं गच्छति तथा मम मनश्चक्रपाणेः पादयोः स्वयं लुठति" इति । ततो हिरण्यकशिपुः क्रुधा कालाग्निरिव ज्वलन् प्रस्फुर दोष्ठः पुत्रं स्वाङ्कादधः पातयित्वा “रे रे घातुकाः! प्रधावत प्रधावत । एनं पुत्ररूपं मम शत्रु मयि पश्यत्येव सर्वोपायेईत । उपेक्षितोऽसौ मामेव हन्यात् । यदि यूयमस्मिन्दयां कुर्यात, तदा भवतां नेत्राण्युत्पाटयेयम्" इत्यवादीत् । स्वभावतः क्रूराः करालास्यास्ते नैर्ऋतास्तीक्ष्णैः शूलैस्तं सर्वमर्मस्वविध्यन् । असि- (६) अयस्कान्तः-अयःकर्षक: लोहचुम्बकाख्यः शिलाविशेषः । Magnet. (९) क्रुधा-कोपेन । क्रुत् । क्रुधौ । क्रुधः । धकारान्तः । स्त्रीलिङ्गः । “कोपक्रोधामपरोपप्रतिघा स्क्रुधौ स्त्रियाम्" इत्यमरः ॥ २ (१९) हत-" हन" हिंसागत्योः । वि.,२ । पर. लोट-प्र. हन्तु हतात् । हताम् । प्रन्तु ॥ म. जहि-हतात् । हतम् । हत ॥ उ.हनानि । हनाव। हनाम॥

प्रहादचरित्रम् । २१ भिस्तं प्रत्यङ्गं न्यकृन्तन् । गदाभिः पोथयामासुः। दिग्गजांस्त- स्योपरि क्रमयामासुः। सरैरदर्दशन् । आभिचारान्मायुञ्जत । पर्वतावादपातयन् । गले स्थूलां शिलां बद्धा समुद्रे न्यमज्जयन् । तैलाक्तैः कार्पासपटैस्तं वेष्टयित्वाऽग्निं प्रज्वलयामासुः। अग्नौ द्रावितं सीसरसमपाययन् । तैलयन्त्रे निक्षिप्यापीडयन् । एव- मनेकैरुपायैस्तं हन्तुं यतित्वाऽपि ते घातुका नाशकन् । तस्मि- प्रयुक्ताः सर्वेऽपि हननोपाया व्यर्था बभूवुः । शूलाग्राण्यभज्यन्त । असिधारा विशीर्णाः । गदापहारस्तस्य मालाभिहतिरिव- सुखकर्यासीत् । तदुपरि दिग्गजाक्रमणं पिपीलिकाक्रमण भूत् । दंष्ट्रणां सर्पाणां रदना एव विशीर्णाः। पर्वतापात्पातो मञ्चात्तूलतल्पे पात इवासीत् । आभिचारः प्रयोक्तनेव वबाधे। उदधौ मज्जितः स पोतः शुष्कालाबुरिव जलोपरि पुप्लवे । अग्निदाहस्तस्य पटीररससेक इवासीत् । द्रुतसीसरसपानं गुडोद- (१) न्यकृन्तन्-"कृती" (कृन्त) छेदने । वि. ६ लङ्-पर. अकृन्तत् । अकृन्तताम् । अकृन्तन् ॥ लट्-कृन्तति ॥ लिट्-चकर्त । चकृततुः । चकृतुः ॥ लुट् - कर्तिष्यति - करस्य॑ति ॥ लुङ् . अकर्तीत् ॥ (५) द्रावितम् विलापितम् । Melted. Livin. (६) घातुका-नृशंसः । हन्तीत्यर्थे " लषपत-" इति उकञ् । (१०) दंष्ट्रणाम्-दंष्टा । दंष्टारौ। दंष्टारः ॥ षष्ठी-दंष्टुः। दंष्ट्रोः ।। दंष्ट्रणाम् ।। (१२) पोतः-" पोतः पाकोऽर्भको डिम्भः"। इत्यमरः ॥ अलावुः - The bottle gourd, Fons or i. दुधी भोपळा ॥ पुप्लुवे • Floated, Bih pro- २२ संस्कृत चतुर्णपाठः ॥ ४॥ कपानमिव तस्मै रुरुचे । तैलयन्त्रपीडनं तु अङ्गमर्दनमिव तस्या- नन्दमजीजनत् । ततोऽसुर एतत्सर्व दृष्टा भीत: दुरन्तया चिन्तया कर्तव्य- मूढोऽभूत् । "सुप्तमुरगं दण्डेनाहत्य प्रबोधितवानिव तूष्णीं स्थितमेनं जिघांसित्वा वितथोद्यमोऽहमभूवम् । बालस्यास्येदृशी शक्तिः किमौत्पत्तिकी, मणिमन्त्रौषधिकृता वा, आहोस्वित्तद्वचनानु- सारेण विष्ण्वनुग्रहोत्पन्ना। ममापकारान्न कदाप्ययं विस्मरेत् । महान्तं प्रतीकारं मम कुर्यादेव । किं कुर्याम् ? । कथमेतद्विरोधेन न मे मृत्युभवेत् ? कथं वाऽहमेवैनं सान्त्वयेयम् ? ।" इत्यालो- चयत् । अत्रान्तरे गुरुरपि “राजन् ! वालोऽयं बुद्धिविहीनः । इतः परं पूर्ववन्न कुर्यात् । त्वच्छासनानुसारेण पठेत्" इत्युत्का बालकं च परिसान्त्व्य मातृसमीपं प्रापयत् । ततः स प्रहादस्तु पठनार्थ गुरुगृहं नागच्छत् । गुरुरपि तं नापाठयत् । अतिक्रान्तेषु कतिपयेषु मासेषु दैत्यराट् पुनः पुत्रं सभा- "वत्स! कालेनैतावना कचित्तव बुद्धिः समीचीना जाता ? किमिदानीं निरचिनोः ?" इत्यपृच्छत् । तात! (५) बालस्य + अस्य + ईदृशी इति च्छेदः । (६) औत्पत्तिकी - उत्पत्ती भवा । उत्पत्तिमारभ्यागता ॥ कञ्चित् - प्रश्नार्थकमन्ययमेतत् ।। (१६) निरचिनोः - निश्चयं कृतवानसि । निरुपसृष्टात् “चिञ्" (चि) चयने । वि. ५ उ. अन्न पर. लङ् - प्र. अचिनोत् । अचिनुताम् । अचिन्वन् ॥ म. अचिनोः। अचिनुतम् । अचिनुत । उ. अचिनवम् ) मानाय्य प्रहादचरित्रम् । २३ मम बुद्धिः सर्वदा समीचीनैव । विष्णोः सेवा कर्तव्या, तन्ना- मस्मरणं कार्यम् , तस्यैव पूजा कार्या, एवं कृते नरो भद्राणि प्राप्नुयात् , अन्यथा तस्यात्मघात एव स्यात् इत्येवाहमिदानीमपि निरचिनवम्" इत्युदवरत्स प्रहादः। हिरण्यकशिपुरुवाद- हे दुर्विनीत ! मन्दात्मन् ! कुलभेदकराधम ! । स्तब्धं मच्छासनोद्वृत्तं नेष्ये त्वाऽद्य यमक्षयम् ॥ २१ ॥ क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः। तस्य मेऽभीतवन्मूढ ! शासनं किंबलोऽत्यगाः ? ॥ २२ ॥ प्रहाद उवाच- - " न केवलं मे भवतश्च राजन स वै वलं बलिनां चापरेषाम् । अचिनुव - अचिन्व। अचिनुम - अचिन्म ॥ लट् - प्र. चिनोति ॥ म. चिनोषि ॥ उ. चिनोमि । चिनुवः - चिन्वः । चिनुमः - चिन्मः ॥ लिट् - प्र. चिकाय । चिक्यतुः । चिक्युः॥ म. चिकयिथ - चिकेथ । चिक्यथुः । चिक्य ।। उ. चिकाय - चिकय । चिक्यिव । चिक्यिम ॥ पक्षे चिचाय । चिच्यतुः इत्यादि । लुङ् - अचैषीत् । अचेष्टाम् ॥ (४) उदतरत् - उत्तरमदात् ॥ (६) मन्दात्मा - बुद्धिहीनः ॥ (७) स्तब्धः - गर्वितः ॥ त्वा - स्वाम् ॥ यमक्षयम् - यमस्य क्षयो गृहम् । निळयापचयौ क्षयौ इत्यमरः ॥ (९) किंबल:- किं बलं यस्य सः॥ (१२) सः विष्णुः मे ममैव बलं बलप्रदः इति न। किंतु भवतश्च अपरेषां बलिनां च स वै स एव ।

२४ संस्कृत चतुर्थपाठः ॥४॥ परावरेऽमी स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः ॥ २३ ॥ जह्यासुरं भावमिमं त्वमात्मनः समं मनो धत्स्व न सन्ति विद्विषः । ऋतेऽजितादात्मन उत्पथस्थितात् तद्विद्धयनन्तस्य महत्समर्पणम् ।। २४ ॥" इति । हिरण्यकशिपुरुषाच- व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्यसे । मुमूर्पूणां हि मन्दात्मन्न नु स्युर्विप्लवा गिरः ॥ २५ ॥ यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः । कासौ यदि ? प्रहादोऽब्रवीत्–स सर्वत्र । हिरण्यकशिपुरुवाच-कस्मात्स्तम्भे न ? । प्रह्लाद उवाच-दृश्यते ॥ २६ ॥ - (१) स कः? येन परावरे उच्चावचाः । वशं प्रणीताः ॥ (३) आत्मनः- स्वस्य ॥ (५) उत्पथस्थितात् - उन्मार्गगा- मिनः ॥ आत्मनः- मनसः ऋते विना ॥ (६) तत् साम्येन मनोधार- णम्। (९) विप्लवाः - अनन्विताः ॥ (१०) मदन्यो जगदीश्वरः, यदि - अस्ति चेत् । कासौ?॥

प्रहादचरित्रम् । २५ हिरण्यकशिपुरुषाच- सोऽहं विकत्थमानस्य शिरः कायाद्धरामि ते । गोपायेत हरिस्त्वाऽद्य यस्ते शरणमीप्सितम् ।। २७॥ इति। एवमसुरो दुरुक्तैः पुत्रं संतर्जयन् खड्गपाणिरुत्पत्य मुष्टया स्तम्भं संताड्य तच्छिरोऽसिना हर्तुमयतत । श्रीनृसिंहप्रादुर्भावः। तदैव तस्मात्स्तम्भात्स्फुटिताब्रह्माण्डादिव भीषणो निनादः प्रादुरासीत् । तच्छ्रवणमात्रेण हिरण्यकशिपुप्रभृतयः सर्वेऽसुरा वित्रेसुः। सत्यं विधातुं निजभृत्यभाषितम् व्याप्तिं च भूतेष्वखिलेषु चात्मनः । (२) विकत्थमानः - विपरीतं ब्रुवाणः। ते तव। (३) ईप्सितं शरणम् आप्तो रक्षकः । यः हरिः॥ (९) वित्रेसुः - उद्विविजिरे। "सी" (वस्) उद्वेगे । वि. ४ पर. लिट् - प्र. वितत्रास । वित्रेसतुः - वितत्रसतुः । वित्रेसुः- वितत्रसुः॥ लट् - त्रस्यति - वसति । "वाभ्राशेति वा श्यन्" । लङ् - भत्रस्यत् - अनसत् ॥ लुङ् - अत्रासीत् ॥ (१०) निजभृत्यभाषितम् - निजभृत्यस्य प्रहलादस्य भाषितम् ईश्वरः सर्वत्रास्तीति ॥

संस्कृत चतुर्थपाठः ॥ ४ ॥ अदृश्यतात्यद्भुतरूपमुदहन् स्तम्भे सभायां न मृगं न मानुषम् ॥ २८ ॥ आकण्ठकण्ठीरवं पिङ्गलसटासंभिन्नं करालदंष्ट्रं त्रिनेत्रं चतुर्भुजं मनुष्यकायमपूर्व सत्त्वं दृष्ट्वा वित्रस्तोऽसुरः किमेतत्स्यात् ? मद्वधार्थ प्रहादरक्षणार्थं च तदाराध्यो विष्णुरेव वाऽवतीर्णः ?" इति मीमांसमान एव गदया नृसिंहं प्रजहार। भगवांस्तं प्रहारं वञ्चयित्वा तमसुरं जीवग्राहं जग्राह । तस्मादात्मानं मोचयितुं हिरण्यकशिपुर्न शशाक। भगवांश्च स्वयंभुवा वितीर्णानां वराणां माननाय चतुर्मुखासृष्टेन देवासुरमनुष्यतिर्यग्भ्योऽसुमद्भयो व्यसु- भ्यश्च भिन्नेन चिदानन्दमयेन नृसिंहरूपेण स्वयं प्रादुर्भूय, गृह- स्यान्तर्बहिःप्रदेशभिन्ने सभाद्वारदेशे, तत्रापि देहल्यां, भूम्याका- शभिन्ने आत्मन ऊरौ तं निपात्य, दिवानक्तंभिन्ने सायंसन्ध्यासमये, आयुधभिन्नैः स्वनखरैः, गरुडः सर्पमिव विदार्य, तस्यान्त्राण्यादाय कण्ठमालां विधाय, व्यसु तं विससर्ज । भर्तृहननकुपितान् आत्मानं (२) न मृगं न मानुषम् - न मृगसंबन्धि नापि मनुष्यसंबन्धि रूपम् ॥ (३) आकण्ठकण्ठीरवम् - कण्ठादुपरि सिंहरूपम् ॥ (४) सत्त्वम् - जन्तुः ॥ (६) मीमांसमानः - आलोचयन् ॥ (७) जीवग्राहम् - जीव (जीवन्तं) गृहीत्वा । "लमूलाकृतजीवेषु हन् कृञ् ग्रहः" इति णमुल् ।। (१०) चिदानन्दमयेन - ज्ञानानन्दरूपेण ॥ (११) देहली - गृहावग्रहणी। LLB, Gup.

महादचरित्रम् । हन्तुमभियातः सहस्रं तस्यानुचरान्नृसिंहो हत्वा सिंहासने उपाविशत् । त्रिलोक्या उपद्रवकारिणस्तस्य दैत्यस्य वधेन प्रहृष्टा देवा नृ- सिंहं प्रमूनैरवाकिरन् । गन्धर्वा जगुः । अप्सरसोऽनृत्यन् । दिवि देवदुन्दुभयो नेदुः। ऋषयः पितरः सिद्धा ब्रह्मरुद्रादयो देवाश्च तस्य कोपं शमयितुं नृसिंहतापिनीप्रभृतिभिः स्तुतिभिर- वितथाभिस्तमीडित्वा प्रणेमुः। एवमप्यशान्ते तस्य कोपे तं प्रसादयितुं ब्रह्माद्या महालक्ष्मी संप्रार्थ्य तदन्तिकं प्रेषयामासुः । साक्षाच्छ्री: प्रेषिता देवैदृष्ट्वा तन्महदद्भुतम् । अदृष्टाश्रुतपूर्वत्वात्सा नोपेयाय शङ्किता ।। २९ ।। प्रह्लादं प्रेषयामास ब्रह्माऽवस्थितमन्तिके । तात! प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ।। ३० ॥ तथेति शनकै राजन्महाभागवतोऽर्भकः । उपेत्य भुवि कायेन ननाम विधृताञ्जलिः ॥ ३१ ॥ (१) अभियातः अभिमुखमागच्छनः । द्वितीयाबहुवचनमेतत् । यान् । यान्तौ। यान्तः ॥ यान्तम् । यान्तौ । यातः ॥ "या" धातोः शतृप्रत्ययान्तमेतत् ॥ (५) नृसिंहतापिनी - नृसिंहस्तुतिरूपा उपनिषत् ॥ (९) अदृष्टा- श्रुतपूर्वम् - पूर्वमदृष्टमश्रुत च ॥ (११) उपेहि - समीपं गच्छ । उपपूर्वकस्य "इण्" (इ) गतौ। वि. २ पर. लोट् - प्र. एतु - इतात् । इताम् । यन्तु ॥ म. इहि - इतात् । इतम् । इत ॥ उ. अयानि । अयाव । अयामः ॥

संस्कृत चतुर्थपाठः ॥४॥ स्वपादमूले पतितं तमर्भकम् विलोक्य देवः कृपया परिप्लुतः । उत्थाप्य तच्छीर्णोदधात्कराम्बुजम् कालाहिवित्रस्तधियां कृताभयम् ।। ३२ ॥ स तत्करस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः । तत्पादप- हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः ॥ ३३ ॥ अस्तौषीद्धरिमेकाग्रमनसा सुसमाहितः । प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षणः ॥ ३४ ॥ एवं प्रहादकृतस्तोत्रेण तुष्टः श्रीभगवानुवाच- प्रहाद ! भद्र ! भद्रं ते प्रीतोऽहं तेऽसुरोत्तम । वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ।। ३५ ।' (२) परिप्लुतः - व्याप्तः शीर्षशब्दस्य शीर्षमादेशः ॥ (४) कालाहिवित्रस्तधियः- काल अहिः तेन वित्रस्ता धीः येषां ते ॥ (६) अभिव्यक्तपरात्मदर्शन: - अभिव्यक्तं परात्मनः परब्रह्मणः दर्शनं यस्य सः॥ (८) हृष्यत्तनुः - रोमाञ्चितगात्रः ॥ अश्रुलोचनः . अश्रु लोचन- योर्यस्य सः॥ (९) एकाग्रमनसा - एकम् अग्रं यस्य तत् एकाग्रम् । तच तत् मनश्च तेन ॥ (१२) भद्र - मङ्गलकर । - ॥ (३) शीष्णि - एव प्रहादचरित्रम् । २९ प्रह्लाद उवाच- यदि रासीश मे काम्यान्वरांस्त्वं वरदर्षभ । त्वत्पादपद्मयोर्नाथ भक्तिः स्यादनपायिनी ॥ ३६ ॥ इति प्रह्लादेन प्रार्थितो देवस्तस्मै तं वरं ददौ । प्रह्लादो मृतस्य पितुरौर्ध्वदेहिकं कर्म भगवदनुज्ञया कृत्वा ब्राह्मणानुमत्या प्रकृतिभी राज्येऽभिषिक्तः इन्द्रायामरावती दत्वा आसुरराज्यमपा- लयत् । तदा ब्रह्मादयो देवाः प्रसन्न नरहरिं तुष्टुवुः । “ब्रह्मन् ! स्वभावतः क्रूरेभ्योऽसुरेभ्य ईदृशान्वरानितःपरं मा देहि ।" इत्युक्त्वा तत्रैवान्तर्दधे भगवान् । ब्रह्मा सत्यलोकं जगाम । त्रिनेत्रः कैलासमगात् । इतरे स्वस्वधामानि भेजिरे। प्रह्ला- दोऽपि बहूनि वर्षसहस्राणि सर्वत्राव्याहताज्ञो धर्मेणासुरराज्यं प्रशिष्य पुत्रे विरोचने राज्यभरं समर्प्य तपोवनं जगाम । (२) रासि- ददासि । “रा” दाने । वि. २ पर. लट् - प्र. राति । रातः। रान्ति ॥ म. रासि । राथः । राथ ॥ उ. रामि । रावः। रामः॥ लोट् - रातु ॥ राहि ॥ रानि ॥ लिट् - प्र. रौ। ररतुः । ररुः॥ म. ररिथ - रराय । ररथुः । र ॥ उ. रौ। ररिव । ररिम ॥ लङ्- अरात् । भरा- ताम् । अ- अरान् ॥ लुङ्- अरासीत् । आरासिष्टाम् ।। वरदर्षभः-वरं ददाति इति वरदः । वरदः ऋषभ इव । उपमित- समासः॥ (९) अन्तर्दधे - तिरोहितः ॥ (१०) धामानि- गृहाणि ।।

संस्कृत चतुर्थपाठः ॥४॥ एतच्चरित्रश्रवणपठनेनास्माकं “प्रहादवद्भगवद्भक्तैः सर्वलो- कसुहृद्भिः साधुभिश्वास्माभिर्भाव्यम् । न पुनर्हिरण्यकशिपुव- परोपद्रवकारिभिर्भवितव्यम् । तत एवास्माकं क्षेमः स्यात्" इति मतिर्जायते ॥ प्रहलादचरित्रं संपूर्णम् ॥

|| श्रीरामचन्द्राय नमः ॥ ॥ श्रीरामजननम् ॥२॥ ॥ रावणोत्पत्तिः॥ आसीब्रह्मणः पुत्रः पुलस्त्यो नाम । सः कर्दमस्य प्रजा- पतेर्दुहितरं हविर्भुजमुपायंस्त । तस्यामस्य जज्ञे विश्रवा नाम महर्षिः। सः भरद्वाजस्य कन्यां देववर्णिनीनाम्नीमुपयेमे । तस्या- मस्य जज्ञे वैश्रवणो नाम धनाध्यक्षः । स तपसा ब्रह्माणं प्रतोष्य उत्तरदिक्पालको बभूव ; पुष्पकं नाम सूर्यसंनिभं विमानं च प्राप। कैकसी नाम सुमालिनाम्नो राक्षसस्य दुहिता रूपयौवनसंपन्ना दीप्ततेजसं तं महर्षि प्रतोष्य चत्वार्य- पत्यानि लेभे । पूर्व यौ विष्णुपार्षदौ जयविजयौ सनकादि- शापात्कृतयुगे हिरण्यकशिपुः हिरण्याक्षश्चेत्युदभूतां तावेव त्रेतायां रावणः कुम्भकर्ण इति कैकसीपुत्रौ क्रूरस्वभावावुद- (५) उपायंस्त - विवाहमकरोत् । लुङ् - प्र. उपायंस्त । उपायं साताम् । उपायंसत ॥ (७) वैश्रवणः- विश्रवसोऽपत्य पुमान् । विश्रवस् शब्दस्य विश्र- वण' इत्यादेशः।

३२ संस्कृत चतुथेपाठः ॥४॥ पताम् । ततः शूर्पणखाभिख्या पुत्री स्वभावे ज्येष्ठावनुस- रन्ती जज्ञे। तेषां चतुर्थो विभीषणाहः प्रह्लादवन्महाभागवतः पुत्रोऽभूत् । तेषु रावणो ब्रह्माणं तपसा संतोष्य देवदानवय- क्षरक्षोभ्यः स्वस्यावध्यत्वं करमणुत। विभीषणस्तु धर्मात्मा अचञ्चलां धर्मबुद्धिं विष्णुभक्तिं चावारीत्। नित्यत्वं वरं वरीतुकामः कुम्भकर्णः निद्रां वर्षाण्यनेकान्यकृणोत् । स्वयंभू- स्तेभ्यस्तेभ्यस्तत्तदभिलषितं वरं प्रादात् । वरं प्राप्य मत्तो रावणः सज्जनान्बबाधे | त्रीन् लोकानुदवेजयत् । त्रिदशराज प्राधर्षयत् । नन्दने क्रीडन्तीरप्सरसोऽपजहार । तं शासितुमशक्नुवद्भिर्देवै- ब्रह्मपुरोगैः प्रार्थितो नारायणः “दशरथात्कौसल्यायां रामो नाम्नाऽवतीर्य लोककण्टकं रावणं हनिष्यामि" इति व्याहरत् ।। (१) शूर्पणखाभिख्या - शूर्पा इव नखाः कररुहाणि यस्याः सा । शूर्पणखा इति अभिख्या नामधेयं यस्याः सा। यदा इदं पदं कस्याश्चित्संज्ञा भवति तदा आकारान्तं भवति नकारस्य णत्वं च । केवलयौगिकत्वे शूर्प- मखी इति रूपम् ॥ (५) अवारीत् - "वृञ् " () वरणे वि. ५ उ. अत्र पर. लुङ्- अवारीत् । अवारिष्टाम् । अवारिषुः ॥ म. अवारी: । अवारिष्टम् । अवारिष्ट । उ. अवारिषम् । अवारिष्न । अवारिष्म ॥ (६) वरीतुकामः - वरीतुं कामो यस्य सः । “तुं काममनसो- रपि" इति मलोपः ॥ अवृणोत् वृश् धातोर्लङि पर, अवृणोत् । आ. भवृणुत ॥ (७) मत्तः-क्षीबः ॥

७ ३३ श्रीरामजननम् । ॥ दशरथविवाहः ॥ अत्रान्तरे कदाचिद्रावणो ब्रह्माणं द्रष्टुं सत्यलोकमगात् । कथान्तरे "पितामह ! त्वत्तोऽवध्यत्ववरं प्राप्तस्य ममापि मारकः कश्चिदस्ति वा न वा ?। अस्ति चेत्स कः ?" इति रावणेन पृष्टो ब्रह्माऽब्रवीत्-" अस्तीक्ष्वाकुवंशीयो दशरथो नाम राजा। सोऽयोध्यामधिवसति । तस्य कोसलराजस्य पुत्र्या कौसल्यया इतः पञ्चमेऽहनि विवाहो भविता । तस्य जठरे विष्णू राम- नाम्नाऽवतीर्य त्वां सकुम्भकर्ण सहपरिवारं च हत्वा विभीषणं रक्षःसाम्राज्येऽभिषेक्ष्यति" इति । तच्छ्रुत्वा रावणस्त्वरितं दशरथ हन्तुमयोध्यामगच्छत् । तदानीं दशरथ: कैश्चित्सचिवैमित्रैश्च सह द्रोणीमारुह्य सरयूजले विहरन्नास्त । तत्र गत्वा दशकन्धरः (२) अत्रान्तरे - अस्मिन्समये ॥ अगात् - "इण्" (इ) गतौ वि. २ परलुङ् - प्र. अगात् । अगाताम् । अगुः॥ म. अगाः । अगातम् । अगात || उ. अगाम् । अगाव । अगाम॥ (३) कथान्तरे - कथामध्ये ॥ (७) भविता - भू धातोलृट् ॥ (८) सहपरिवारः- परिवारेण सहितः । “वोपसर्जनस्य" इति सहस्य सभावो वा। सपरिवार इत्यपि ॥ आशिषि तु . "प्रकृत्याशिषि" इति प्रकृत्यैव स्यात् । यथा - स्वस्ति राज्ञे सहपुत्राय सहामात्याय । न तु सपुत्राय सामात्यायेति ॥ (११) द्रोणी- काष्ठनिर्मिता कुक्कुटाण्डाकृतिस्तरिः Sarosh.

संस्कृत चतुर्यपाठः ॥ ४॥ पादप्रहारेण द्रोणी भड्नत्वा जले तां मज्जयित्वा सर्वे मृता इति नि- श्चित्य कौसल्यामपि हन्तुं कोसलाञ्जगाम। तत्र तां गृहीत्वा हन्तुं प्रवृत्तस्य तस्य दैवात्स्त्रीवधे जुगुप्सा समजनि । तस्मात्तामाय- सपेटिकायां दशदिनपर्याप्तेन भोज्यपदार्थेन सह निक्षिप्य, तां दृढं कीलयित्वा, समुद्रे संचरतः कस्यचित्तिमिङ्गिलस्य वशे विधाय दशरात्रं रक्षितुं तमाज्ञाप्य लङ्कामगच्छत् । रावणेन सरवां निमज्जिताः, दशरथं, तन्मन्त्रिणं सुमन्त्रं च वर्जयित्वा सर्वेऽप्यन्ये मृताः। तौ द्वौ तु जलवेगेनान्तः सुदुरं नीतौ यदा उन्मज्जतस्तदा भग्नद्रोण्याः कंचिद्दारुखण्डं ददृशतुः । तमारूढौ द्वावपि सरयूप्रवाहमार्गेण गङ्गां प्राप्य, ततो जलधिं च प्रविश्य, वाय्वभिघातात्कंच न द्वीपमारुरुहतुः । यस्मिन् दिवसे तौ आस्त-'आस' उपवेशने। वि. आ लड्-प्र. आस्त। आसाताम् । आसत ॥ म. आस्थाः। आसाथाम्। आध्वम् ॥ उ. आसि । आस्वहि । आस्महि ॥ (३) जुगुप्सा - जुगुप्सनम् । Disgust, कुत्सा, निन्दा, गर्हणम् । गुप गोपने । वि. १ आ. "गुतिकिद्भयः सन् " "गुपेनिन्दा- याम् " सन् जुगुप्सते ॥ समजनि - संजाता। जनी [जन् ] प्रादुर्भावे ।वि. ४ आ. लुङ् - प्र. अजनि - अजनिषाताम् । अजनिषत ॥ लट् - "शाजनोर्जा" जायते ॥ लिट् - प्र. जज्ञे । जज्ञाते । जज्ञिरे ॥ म. जशिषे । जज्ञाथे । जज्ञिध्वे ॥ उ. जज्ञे। जझिवहे । जझिमहे ॥ लृट् - जनिष्यते ॥ लङ् - अजायत । (९) उन्मजतः- तलादूर्व गच्छतः ।। २ श्रीरामजननम् । ३५ तत्र प्रापतुः, स एव कौसल्याया विवाहाय निर्धारितो दिवस आसीत् । मुख मञ्जूषां धृत्वा प्लवमानस्तिमिङ्गिलः स्वाभिमुखमा- गच्छताऽन्येन तिमिङ्गिलेन सह योद्धं तस्मिन्नेव द्वीपप्रदेशे तां पेटि- कां न्यधत्त । दशरथः 'किमेतत्' इति जिज्ञासया तां यदा स्पृशति, तदा सा कुञ्चिकां विनैवोद्घाटिता । दशरथस्तत्र कौसल्यां दृष्ट्वा तां स्वस्य भार्या भविष्यन्ती व्यजानात् । साऽपि तं पतिं भविष्यन्तमज्ञासीत् । तौ परस्परं विवाहं तदात्व एवं निर्वर्तयितुमभ्युपागच्छताम् । दशरथेन मनसा स्मृतो वसिष्ठः कुलपुरोहितः सारुन्धतीको योगशक्त्या तत्रागत्य पौरोहित्य निरवर्तयत् । विधृतमङ्गलसूत्रां नववधूवेषां कौसल्यां, हारिद्रं वसनं वसानं वरवेषं दशरथं च सुमन्त्रेण सह तस्यामेव पेटि- कायां स्थापयित्वा 'यूयं मा भैष्ट' इत्युक्त्वा वसिष्ठो निययौ । स तिमिङ्गिलः शत्रुणा सह प्रयुध्य तं निर्जित्य पेटिकामादाय यथापूर्वमुदन्वति आटीत्। यदा कौसल्यादशरथयोर्विवाहः प्रचलति स्म तदा आत्मानं कृतकृत्यं मन्यमानो दशग्रीवः स्वकृतं वृत्तान्तं पिताय- हाय निवेदयितुं ब्रह्मलोकं ययौ। रावणं दृष्ट्वैव ब्रह्मा “ओम् (१) निर्धारितः- निश्चितः॥ (५) कुञ्चिका- उद्घाटनी | Akee, BraGari. (१०) हारिद्रम् -हरिद्रया रक्तम् ॥ (१४) आटीत् - भगमत् । Wandered. javiga.

संस्कृत चतुर्यपाठः ॥४॥ पुण्याहम् । अस्तु श्रीः। मङ्गलानि भवन्तु" इत्युच्चैरवदत् 'पितामह ! किमिदं त्वयोच्यते ?' इति रावणेन पृष्टो ब्रह्माऽब्रवीद - "कौसल्यादशरथयोर्विवाह इदानीं प्रचलति, दशरथपुरो- हितो मत्पुत्रो वसिष्ठः 'पुण्याहं भवन्तो ब्रुवन्तु' इति जगाद, तस्योत्तरं मया दत्तम्" इति । जले मज्जितस्य दशरथस्य, सुगूढं मत्स्यास्ये समर्पिताया: कौसल्यायाश्च विवाहः प्रचलति इत्ये- तत्कथं विश्वसनीयं स्यात् ?" इति रावणो ब्रह्माणमाह। “भवतु पेटिकामानीय पश्य" इति स्वयंभुवाऽऽज्ञप्तो रावणस्तिमिशिलाय दातुं पत्रिका विलिख्य दत्वा दृतं प्रेषयत् । स मत्स्यो रावण- स्यैवेमान्यक्षराणीति प्रत्यभिज्ञाय तदस्ते पेटिकामार्पयत् । भृत्येना- नीतां पेटिकां रावणः कुश्चिकयोद्घाट्य यदा पश्यति, तदा तत्र तदानीमेव संजातविवाहो कौसल्यादशरथौ, सुमन्त्रं चावलोक्य, वधूवरौ हन्तुं कोशात्खड्गमुज्जहार । "वत्स! किं करोपि? मा साहसं कार्षीः। त्वया एकला खलु कौसल्या मञ्जूषायां निहिता, तत्रेदानी कथं त्रयः संजाता:? यं मृतम्, यां सुगुप्तां चामनुथास्तयोविवाहोऽजनि। आलोचयात्र कारणम् । दैवमेवेति ज्ञास्यसि । यदीमो हनिष्यसि, तर्हि तेनैव कोटिशः कौसल्याद- - (१) पुण्याहम् - पुण्यं च तत् अहश्च । 'राजाहः सखिभ्यष्टच् इति टन् । 'पुण्यसुदिनाभ्यां च' इति नपुंसकत्वम् ॥ (१०) प्रत्यभिज्ञाय - स एवायमिति ज्ञात्वा । (१३) कोशः - खापिधानम् ॥

श्रीरामजननम् । ३७ शरथौ कुतो न भवेताम् । कदाचित्तव दुर्नयमसहमान ईश्वरोऽधुनैव रामरूपेणावतीय त्वां कुतो वा न हन्यात् । ईश्वरस्य किमसा- ध्यम् ? दिष्टमुल्लङ्घयितुं किं त्वया शक्यम् ?। तस्माद्यघेन यदा यया भवितव्यम् , तत्तेन तदा तथा भवतु। माऽस्तु दंपत्योर्वधः सांप्रतम् । तव च मरणमिदानीं माऽस्तु । अद्यमरणाच्छोमरणं साधीयः।" इति विधिनोक्तो रावणो देवविहितं वृथा न भवेत्' इति निश्चित्य तां मञ्जूषामयोध्यां प्रेषयामास । एवं मृत्युमुखं प्रविश्य निर्गतो दशरथो भार्यामपि परि- गीय मन्त्रिणा सह निराबाधः स्वामेव नगरी प्राप्य पौराजा- नपदान्मित्राणि बन्धूंश्चामन्त्र्य महान्तं वैवाहिकमुत्सवमकरोत् । ततो मगधवंशजां, सुमित्रां केकयवंशजां कैकेयीं च परिणिनाय । ताभिस्तिसृभिर्भार्याभिर्विहरतस्तस्य वंशप्रतिष्ठापनकरो नैको- ऽपि पुत्र आस । स महात्मा राजा पुत्रार्थ हयमेधेन यष्टुं वसिष्ठ- प्रभृतीन्पुरोहितानानाव्य "भवन्तो ममाश्वमेधं महायज्ञं शास्त्रदृष्टेन विधिना निर्वतयत" इत्यकथयत् । तच्छ्रुत्वा परमं प्रीतास्ते "राजन्! संभारान्संभर, समर्थाधिष्ठितमश्वं विमुञ्च, सरय्या (४) सांप्रतम् - इदानीम् ।। (५) साधीयः-साधु । साधीयः साधिष्ठम् ॥ (९) निराबाधः - निर्गत आबाधायाः। बाधारहितः ॥ (१५) विधिः - A sacred rule. निवर्तयत - कुरुत ।। (१६) संभारान् संभर - पदार्थान् संपादय ॥

३८ संस्कृत चतुर्थपाठः ॥४॥ उत्तरे तीरे यज्ञभूमि च विधेहि, अवश्यं तव पुत्रा भविष्यन्ति" इत्यब्रुवन् । राजामात्यास्तदुक्तप्रकारेण सर्व सज्जं चक्रुः । सुमन्त्रचोदितेन राज्ञा शान्ताभर्ता ऋश्यशृङ्गो यज्ञार्थपानीतः। विधिवद्धयमेधसमाप्त्यनन्तरमृश्यशृङ्गो राज्ञः पुत्रीयामिष्टिं कर्तु- मारभत। ॥ श्रीरामावतारः॥ ततो वै यजमानस्य पावकादतुलप्रभम् । प्रादुर्भूतं महद्भूतं महावीर्य महाबलम् ।। १ ॥ कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् । स्निग्धहर्यक्षतनुज-मथुप्रवरमूर्धनम् ॥ २ ॥ शुभलक्षणसंपन्नं दिव्याभरणभूषितम् । शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥ ३ ॥ : (२) सजम् - सिद्धम् ॥ (४) पुत्रीया - पुत्रस्य निमित्तं । पुत्रोत्पत्ति- निमित्तभूता । 'पुत्राच्छ च' इति छः, तस्य ईयादेशः। (७) ततो वै- एतदादयः६१ श्लोकाः वाल्मीकिरामायणस्थाः ।। श्लो. स्निग्धेति - स्निग्धानि चिक्कणानि हर्यक्षस्येव सिंहस्येव तनुजानि लोमानि, श्मश्रुप्रवराः - श्मश्रुश्रेष्ठाः, मूर्धजाः केशाश्च यस्य तत् ॥ स्लो. ३ शैलशृङ्गस्येव समुत्सेधः उन्नतिर्यस्य तत् ॥

३९ श्रीरामजननम् । दिवाकरसमाकारं दीप्तानलशिखोपमम् । तप्तजाम्बूनदमयी राजतान्तपरिच्छदाम् ॥ ४ ॥ दिव्यपायससंपूर्णी पात्री पत्नीमिव प्रियाम् । प्रगृह्य विपुलां दोर्ध्या स्वयं मायामयीमिव ॥ ५॥ समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम् । प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥६॥ ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः । भगवन्स्वागतं तेऽस्तु किमहं करवाणि ते ॥ ७॥ अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् । राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥८॥ इदं तु नृपशार्दूल! पायसं देवनिर्मितम् । प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥ ९ ॥ भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै । तासु त्वं प्राप्स्यसे पुत्रान्यदर्थ यजसे नृप! ॥ १० ॥ श्लो. ४ तप्तजाम्बूनदमयीम् - द्रुतकनकविकारम् ॥ श्लो. ५ पात्रीम् - स्त्रीलिङ्गप्रयोगः पात्रस्य पत्नीत्वसाम्याय ॥ मायामयी- स्वेच्छानुसारेण निर्मिता। श्लो. ६ प्राजापत्यम् - प्रजापतेरागतम् ॥ श्लो. १० भार्याणाम् - चतुर्थ्यर्थे षष्ठी । भार्याभ्य इत्यर्थः ।

संस्कृत चतुर्थपाठः ॥ ४ ॥ तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् । पात्री देवान्नसंपूर्णो देवदत्तां हिरण्मयीम् ॥ ११ ॥ अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् । मृदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥ १२ ॥ ततो दशरथः प्राप्य पायसं देवनिर्मितम् । बभूव परमपीतः प्राप्य वित्तमिवाधनः ।। १३ ॥ ततस्तदद्भुतपख्यं भूतं परमभास्वरम् । संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत ॥ १४ ॥ हर्षरश्मिभिरुद्योतं तस्यान्तः पुरमाबभौ । शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ।। १५ ॥ सोऽन्तः पुरं प्रविश्यैव कौसल्यामिदमब्रवीत् । पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥ १६ ॥ कौसल्यायै नरपतिः पायसाध ददौ तदा । अर्धादर्ध ददौ चापि सुमित्रायै नराधिपः । कैकेय्यै चावशिष्टाध ददौ पुत्रार्थकारणात् ।। १७ ॥ श्लो. ११ देवान्नम् - देवदत्तमन्नम् । हिरण्मयी - हिरण्यविकारः॥ श्लो. १४ अद्भुतप्रख्यम् - अद्भुता प्रख्या कान्तिर्यस्य तत् । संवर्तयित्वा - निर्वयं कृत्वेत्यर्थः । ल्यवभाव आर्षः श्लो. १५ हर्षरश्मिभिः - संतोषजनितकान्तिभिः। श्लो. १६ प्रविश्यैव - प्रवेशानुपदम् । श्लो. १७ पायसार्धम् - पायसस्य अर्ध समांशमित्यर्थः। अर्धशब्दो श्रीरामजननम् ! ४१ प्रददौ चावशिष्टाध पायसस्यामृतोपमम् । अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः ॥ १८ ॥ एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥ १९ ॥ तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः । संमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥ २० ॥ ततस्तु ताः प्राश्य तदुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक् । हुताशनादित्यसमानतेजसो ऽचिरेण गर्भान्प्रतिपेदिरे तदा ।। २१ ॥ ततस्तु राजा प्रसमीक्ष्य ताः स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः । बभूव हृष्टविदिवे यथा हरिः। सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥ २२ ॥ निवृत्त तु क्रतो तस्मिन्हयमेधे महात्मनः । प्रतिगृध सुरा भागान्प्रतिजग्मुर्यथाऽऽगतम् ।। २३ ।। यदा समांशवाची तदा नपुंसकलिङ्गः। यदैकदेशवाची तदा पुलिया। अर्धादर्धम् - अवार्धशब्द एकदेशवाची ॥ अवशिष्टार्धम् - इत्यत्रापि तथा॥ पुत्रार्थकारणात् - पुत्ररूपो योऽर्थः प्रयोजनं तत्कारणमुद्दिश्य । श्लो. २०.संमानम् - राजकृतं बहुमानम् ॥ प्रहर्षोदितचेतसः - उदित- प्रहर्षमानसाः॥ श्लो. २२ प्रतिलब्धमानसः - स्वस्थचित्तः॥

४२ संस्कृत चतुर्थपाठः ॥४॥ समाप्तदीक्षानियमः पत्नीगणसमन्वितः । प्रविवेश पुरी राजा सभृत्यबलवाहनः ॥ २४ ॥ यथाई पूजितास्तेन राज्ञा वै पृथिवीश्वराः । मुदिताः प्रययुर्देशान्प्रणम्य मुनिपुङ्गवम् ।। २५ ॥ श्रीमतां गच्छतां तेषां स्वपुराणि पुरात्ततः । बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥ २६ ॥ गतेषु पृथिवीशेषु राजा दशरथस्तदा । प्रविवेश पुरीं श्रीमान्पुरस्कृत्य द्विजोत्तमान् ॥ २७ ॥ शान्तया प्रययौ सार्धमृश्यशृङ्गः सुपूजितः । अन्वीयमानो राज्ञाऽथ सानुयात्रेण धीमता ॥ २८ ॥ एवं विसृज्य तान्सर्वानाजा संपूर्णमानसः । उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥ २९ ॥ ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः ॥ ३० ॥ ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ । नक्षत्रेऽदितिदेवत्ये स्वोच्चसंस्थेषु पञ्चसु ॥ ३१ ॥ .. श्लो. २५ मुनिपुङ्गवः - पुमांश्चासौ गौश्च - पुङ्गवः। “ गोरतद्धितलुकि इति टच् । वृषभ इत्यर्थः । मुनिः पुङ्गव इव - ऋश्यशृङ्गः ॥ श्लो. २८ सार्धम् - सह ॥ सानुयात्रेण राशा - सभृत्येन रोमपादेन श्लो. ३१ नावमिके - नवमीसंबन्धिनि ॥ तिथौ - तिथिशब्दः पुंलिङ्गो- ऽप्यस्ति । तिथयो द्वयोः इत्यमरः ॥ अदितिदैवत्ये - अदितिः- ४ ३ श्रीरामजननम् । ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह । प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ॥ ३२ ॥ कौसल्याऽजनयद्रामं सर्वलक्षणसंयुतम् । विष्णोर महाभागं पुत्रमैक्ष्वाकवर्धनम् ।। ३३ ॥ कौसल्या शुशुभे तेन पुत्रेणामिततेजसा । यथा वरेण देवानामदितिर्वज्रपाणिना ॥ ३४ ॥ भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः । साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ।। ३५ ॥ अथ लक्ष्मणशत्रुघ्नौ सुमित्राऽजनयत्सुतौ । सर्वास्त्रकुशलौ वीरौ विष्णोरसमन्वितौ ॥ ३६ ॥ पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः । सापें जातौ च सौमित्री कुलीरेऽभ्युदिते रवौ ।। ३७ ।। दैवतं यस्य तत् । स्वार्थे प्यञ्, आदिवृद्धयभावश्च आर्षः। तस्मिन्पुनर्वसुनक्षत्रे ।। श्लो. ३२ वाक्पतिः-बृहस्पतिः । तस्मिन् इन्दुना चन्द्रेण सह प्रोद्यमाने उदयति सति ॥ श्लो. ३३ पेक्ष्वाकवर्धनम् - इक्ष्वाकुवंशीयानां वृद्धिकर्तारम् । आर्षोऽयं प्रयोगः ॥ श्लो. ३७ सा- सर्पदेवताके आश्लेषानक्षत्रे ॥ कुलीरे - कर्कटके ॥

४४ संस्कृत चतुर्थपाठः ॥ ४ ॥ राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् । गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ॥ ३८ ॥ जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ॥ ३९ ॥ उत्सवश्व महानासीदयोध्यायां जनाकुलः ॥ ४० ॥ रथ्याश्च जनसम्बाधा नटनर्तकसंकुलाः । गायनैश्च विराविण्यो वादनैश्च तथाऽपरैः ॥ ४१ ॥ प्रदेयांश्च ददौ राजा मूतमागधवन्दिनाम् । ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः ॥ ४२ ॥ अतीत्यैकादशाहं तु नामकर्म तथाऽकरोत् ॥ ४३ ॥ ज्येष्टं रामं महात्मानं भरतं कैकयीसुतम् । सौमित्रि लक्ष्मणप्रिति शत्रुघ्नमपरं तथा ॥ ४४ ॥ वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ॥ ४५ ॥ - श्लो. ३८ पृथक् - इत्यस्य गुणवन्त इत्यनेनान्वयः॥ प्रोष्ठपदोपमाः प्रोष्टपदे पूर्वभाद्रोत्तरभादानक्षत्रे उपमे येषां ते। ते नक्षत्रे इव एते चत्वारोऽपि इंदु मिलित्वा स्थिता इत्यर्थः । श्लो. ४० जनाकुलः - आकुलजनः ।।

श्रीरामजननम् । ४५ ब्राह्मणान्भोजयामास पौराञ्जानपदानपि । अददाह्राह्मणानां च रनौघममितं बहु ॥ ४६ ॥ तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ॥ ४७ ॥ तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः । बभूव भूयो भूतानां स्वयंभूरिव संमतः ॥ ४८ ॥ सर्वे वेदविदः शूरा सर्वे लोकहिते रताः । सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः ॥ ४९ ॥ तेषामपि महातेजा रामः सत्यपराक्रमः । इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ॥ ५० ॥ गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु संमतः । धनुर्वेदे च निरतः पितृशुश्रूषणे रतः ।। ५१ ।। श्लो. ४६ पौराः- पुरे भवाः । Citizen. जानपदाः - जनपदे भवाः। Inhabitants of country. अददात् - " दुदाउ - [दा] दाने इति धातोः वि. ३ उ. अत्र पर. लङ्- प्र. अददात् । अदत्ताम् । अदुः ॥ म. अददाः । अदत्तम् । अदत्त ॥ उ. अददाम् । अदद्व । अदद्म ॥ लट् - ददाति । दत्तः। ददति ॥ लुट्दास्यति ॥ श्लो. ४७ जन्मक्रियादीनि - जातकर्माद्युपनयनपर्यन्तानि । स्वे स्वे काले इति शेषः॥ श्लो. ५१ गजस्कन्धः . गजस्कन्धे उपविश्य तर्थव "अश्वपृष्टम्" इत्यपि ॥ प्रेरणम् ।

संस्कृत चतुर्थपाठः ॥ ४ ॥ बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः । रामस्य लोकरामस्य भ्रातुज्येष्ठस्य नित्यशः ।। ५२ ॥ सर्वप्रियकरस्तस्य रामस्यापि शरीरतः। लक्ष्मणो लक्ष्मिसंपन्नो बहिःमाण इवापरः ॥ ५३ ।। न च तेन विना निद्रां लभते पुरुषोत्तमः । मृष्टमन्नमुपानीतमश्नाति न हि तं विना ।। ५४ ।। यदा हि हयमारूढो मृगयां याति राघवः । तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ॥ ५५ ॥ भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः । प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ॥५६॥ स चतुभिर्महाभागैः पुत्रैर्दशरथः प्रियः । बभूव परमप्रीतो देवैरिव पितामहः ॥ ५७ ।। श्लो. ५२ लक्ष्मिवर्धनः - लक्ष्मी वर्धयतीति लक्ष्मीवर्धनः। अत्र आर्षो श्लो. ५३ शरीरतः-रामस्य शरीरादपि। तस्य रामस्य प्रियकरः। स्वशरीरमुपेक्ष्यापि तस्य रामस्य प्रियकर इति वा ॥ मो. ५४ मृष्टमन्नम् - शुद्धमझ, स्वादनम् ॥ श्लो. ५७ देवैः- चतुर्मिर्दिक्पालकैर्देवैः॥

४७ श्रीरामजननम् । ते यदा ज्ञानसंपन्नाः सर्वैः समुदिता गुणैः । हीमन्तः कीर्तिपन्तश्च सर्वज्ञा दीर्घदर्शिनः ॥ ५८ ॥ तेषामेवंप्रभावानां सर्वेषां दीप्ततेजसाम् । पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ॥ ५९ ॥ ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः । पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः ॥ ६० ॥ अथ राजा दशरथस्तेषां दारक्रियां प्रति । चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ॥ ६१ ॥ ॥ इति श्रीरामजननं संपूर्णम् ॥ श्लो. ५८ ह्रीमन्तः- प्रमादात्प्राप्ताकार्यचिन्तासु लजावन्तः॥ दीर्घ- दर्शिनः - दीर्घमनागतं पश्यन्तीति भविष्यज्ज्ञानवन्तः ॥ शो. ६१ दारक्रिया - दाराणां क्रिया। विवाहः ॥ ॥ श्रीरामाय नमः॥

॥ श्रीकृष्णाय नमः ॥ ॥ श्रीकृष्णबाल्यम् ॥ ३॥ पुरा दैवासुरे युद्धे देवैनिहताः कालनेमिप्रभृतयो दान- वपतयो द्वापरयुगस्यान्ते कंसजरासन्धादिरूपेण धर्मशीलानां राज्ञामन्ववायेषदभूतन् । अन्ये च कोटिशोऽसुरा राक्षसाश्च तेषां सहाया जज्ञिरे । क्रूरस्वभावास्ते दैत्याः साधूनहिंसन् पूर्व सनकादिभिः शप्तौ जयविजयौ तृतीये जन्मनि भूमौ शिशुपालो दन्तवक्र इति चोद्भविष्यतः। एतत्सर्व विज्ञाय दीनशरण्या देवा लोकोपद्रवमिमं चतुर्मुखाय निवेदयितुं महा- मेरुस्थां ब्रह्मसभां जग्मुः। एतस्मिन्नेव काले तु भूरिभारावपीडिता। जगाम धरणी मेरौ समाजे त्रिदिवौकसाम् ॥ १ ॥ (३) दैवासुरम् - देवाश्चासुरश्च देवासुराः । तेषामिदम् ॥ (४) कंसजरासन्धादिरूपेण - कंसश्च जरासन्धश्च कसजरासन्धौ तौ आदी येषां ते अरिष्टके शिप्रलम्बादयः। तेषां रूपेण आकृत्या॥ (५) को टिशः - कोटि कोटियथा भवति तथा। “संख्यैकवचनाश्च वोप्सा. याम्" इति शस ॥ श्लो. १ एतस्मिन्नित्यादयो द्वादश श्लोकाः विष्णुपुराणस्थाः ॥ पतस्मिन्नेव काले-यस्मिन्काले देवा ब्रह्मसभा जग्मुस्तस्मिन्नेव काले ॥

4 श्रीकृष्णवाल्यम् । सब्रह्मकान्सुरान्सर्वान् प्रणिपत्याऽथ मेदिनी। कथयामास तत्सर्व खेदात्करुणभाषिणी ॥२॥ प्रजापतिपतिब्रह्मा पूर्वेषामपि पूर्वजः । विष्ण्वंशभूताः सर्वेऽपि यूयं सेन्द्राः सुरोत्तमाः! ॥ ३ ॥ यक्षराक्षसदैतेयाः पिशाचोरगदानवाः । गन्धर्वाप्सरसश्चैव रूपं विष्णोर्महात्मनः ॥ ४ ॥ तथाप्यनेकरूपस्य तस्य रूपाण्यहर्निशम् । बाध्यबाधकतां यान्ति कल्लोला इव सागरे ॥५॥ तत्सांप्रतमिमे दैत्याः कालनेमिपुरोगमाः ॥ मर्त्यलोकं समागम्य बाधन्तेऽहर्निश प्रजाः ॥ ६॥ कालनेमिहतो योऽसौ विष्णुना प्रभविष्णुना । उग्रसेनसुतः कंसः संभूतः स महासुरः ॥ ७ ॥ *लो. २ करुणभाषिणी - करुणं यथा तथा भाषते ॥ तत्सर्वम् - यदर्थ मेरुसभामाजगाम ॥ श्लो. ३ विष्ण्वंशभूताः - विष्णोरंशः एकदेशः। तं भूताः प्रासाः ॥ श्लो. ४ विष्णो रूपम् - आकृतिः । अंश इत्यर्थः ॥ श्लो. ५ तथापि - सर्वस्य विष्णुरूपत्वेऽपि। रूपाणि - देवा देयाश्च । वाध्यबाधकतां यान्ति। कदाचिद्देवा असुरान्बाधन्ते अन्पदा असुरा देवान्बाधन्ते ॥

५० संस्कृत चतुर्थपाठः ॥४॥ तथा चान्ये महावीर्या नृपाणां भवनेषु ये । समुत्पन्ना दुरात्मानस्तान्न संख्यातुमुत्सहे ।। ८ ॥ तद्भूरिभारपीडार्ता न शक्नोम्यमरेश्वराः!। विभतुमात्मनाऽऽत्मानमिति विज्ञापयामि वः ॥९॥ इत्याकर्ण्य धरावाक्यमशेषैत्रिदशैस्ततः । भुवो भारावतारार्थ ब्रह्मा प्राह प्रचोदितः ॥ १० ॥ यथाऽह वसुधा सर्व सत्यमेव दिवौकसः ।। अहं भवो भवन्तश्च सर्व नारायणात्मकम् ॥ ११ ॥ तदागच्छत गच्छामः क्षीराब्धेस्तटमुत्तरम् । तत्राराध्य हरिं तस्मै सर्व विज्ञापयेम वै ॥ १२ ॥ श्रीमन्तः श्रीपतिं देवं देवाः सेन्द्रा दिदृक्षवः । क्षीरोदधिमुपाजग्मुः पुरोधाय प्रजापतिम् ॥ १३ ॥ श्लो. ८ उत्सहे - शक्नोमि ॥ श्लो. ९ विभर्तुम् - विपूर्वकात् “ भृञ्' भरणे इति धातोस्तुमुन् । श्लो. १० इति धरावाक्यमाकर्ण्य अशेषैस्त्रिदशैर्भुवो भारावतारणार्थ प्रचोदितो ब्रह्मा प्राह॥ श्लो. ११ नारायणात्मकम् - नारायणस्वरूपं तत्स्वामिक वा ॥ श्लो. १३ श्रीमन्त इत्यादयः अष्टचत्वारिंशश्लोकपर्यन्ताः ३६ श्लोकाः त्रिविक्रमपण्डिताचार्यकृतोषाहरणकाव्यस्थाः ॥

श्रीकृष्णवाल्यम् । ॥ श्रीपतिवर्णनम् ॥ - यत्तत्वं योगिभिः सूक्ष्मं प्रत्यक्षमनुभूयते । विशदे हृदयांभोजे मुखवन्मणिदर्पणे ॥ १४ ॥ यः साक्षात्कुरुते नित्यं जन्तूनां वृत्तिमान्तरीम् । बाह्यां चाऽब्रह्मगुल्मान्तं स्वातन्त्र्यादिगुणात्मकः ॥ १५॥ यन्माया जगतः सृष्टिस्थितिसंहारकारिणी । रजः सत्वं तम इति त्रिभिरेतैरलंकृता ॥१६॥ नीलोत्पलदलश्याममिन्दिरा यमनिन्दिता । सेवते सुन्दरी वन्द्या क्षणद्युतिरिवाम्बुदम् ॥ १७ ॥ ॥ क्षीरसमुद्रवर्णनम् ॥ द्विजराजोद्भवं वेगाद्विजरा ददृशुस्तदा । महेन्द्रप्रमुखाः सिन्धुमहीन्द्रप्रतिशोभितम् ॥ १८ ॥ श्लो. १४ श्रीपति विशिनष्टि - यदिति - यत्तत्वम् - यस्य विष्णो रूपम् ।। हृदयमम्भोजमिव हृदयाम्भोजम् , तस्मिन्॥ मणिदर्पणे-मणिमयादशैं। श्लो, १५ आन्तरीम् - अन्तरे मनसि भवा । मानसिकी । ताम् ।। गुल्मः-स्तम्बः । A shrub. श्लो. १७ क्षणद्युतिः-विद्युत् ।। इन्दिरा यं सेवते, तं श्रीपति दिदृक्षव इति त्रयोदशश्लोकस्थेनान्वयः ॥ श्लो. १८ द्विजराजस्य चन्द्रस्य उद्भवः द्विजराजोद्भवः । तम् । अहीन्द्रप्रतिशोभितम् - अहीन्द्रेण शेषेण प्रतियोभित प्रकाशितम् ॥

५२ संस्कृत चतुर्थपाठः ॥ ४॥ दत्तश्रियं श्रियः पत्ये हराय विषदायिनम् । स्वरूपप्रौढिहरणप्रापितादिव मत्सरात् ।। १९॥ मौक्तिकैरुजिहानानां शुक्तीनां मुखनिर्गतैः । मणिभिश्चारणस्त्रीणां विदधानं प्रसाधनम् ॥ २० ॥ उदये मुदितं राज्ञः कृशमस्तमयेऽनिशम् । पुत्रोन्नतिवशाः पायो महतामपि संपदः ॥ २१ ॥ विस्मयाद्विस्मृतस्वर्गविभ्रमेणान्तरात्मना । तमिमं जलधिश्रेष्ठं ददृशुस्त्रिदशा मुहुः ।। २२ ॥ अवतीर्य विमानेभ्यो बिम्बेभ्य इव भास्वतः । विद्योतितादेशेभ्यः प्रपातं ते प्रपेदिरे ॥ २३ ॥ श्लो. १९ स्वस्य क्षीरसमुद्रस्य रूपं धवलिमा । तस्य प्रौढिः अतिशयः तस्य हरणेन प्रापितात् समापतितात् ।। श्लो. ०० उजिहानानाम् - उद्गच्छन्तीनां “ओहाङ्" गतौ। वि. ३ आत्म० शानच् । शुक्तीनाम् - मुखान्निर्गतैः ॥ मौक्तिकैमणिभिः- मुक्तामणिभिः ॥ चारणस्त्रीणां प्रसाधनं मण्डनं ॥ विधानं - कुर्वन्तम् ॥ श्लो. २१ राज्ञः-चन्द्रस्य ।। श्लो. २२ स्वर्गस्य विभ्रमः स्वर्गविभ्रमः । विस्मृतः स्वर्गविभ्रमो येन सः । तेन । अन्तरात्मना - मनसा उपलक्षिता देवाः । श्लो. २३ भास्वतः-सूर्यस्य । बिम्बेभ्यो - मण्डलेभ्य इव स्थितेभ्यः । विमानेभ्यः॥प्रपात:-समुद्रतीरम् ।।

५३ श्रीकृष्णबाल्यम् । ॥ भगवत्स्तुतिः ॥ एकाग्रमनसः स्तोतुं भगवन्तं दिदृक्षवः । उपचक्रमिरे देवाश्चक्रिणं पृथुविक्रमम् ॥ २४ ॥ तदा विष्णुं स्वयं स्तोतुमसमर्था दिवौकसः । ब्रह्माणमग्रतः कृत्वा मृक्तवाक्यैः प्रतुष्टुवुः ॥ २५ ॥ अथ ब्रह्ममुखाद्वाचां निरियाय परंपरा । पौर्णमास्यामिवांशूनामोषधीपतिमण्डलात् ॥ २६ ॥ वन्दामहे वयं देवमिन्दीवरसमप्रभम् । सुरासुरेन्द्रसंदोहवन्दनीयपदाम्बुजम् ॥ २७ ॥ देवदेवं जगद्धीजममेयं पुरुषोत्तमम् । आदिमध्यान्तरहितं परस्याः प्रकृतेः परम् ॥ २८ ॥ यस्य वक्षस्थले रम्ये रमते सततं रमा। तत्वविद्येव सच्चित्ते शास्त्राब्धिमथनोत्थिता ॥ २९ ॥ श्लो. २४ चक्रिणं दिदृक्षवः देवा इत्यन्वयः॥ श्लो. २६ अंशूनाम् - किरणानाम् ॥ ओषधीपतिः-चन्द्रः ॥ श्लो. २८ देवानां देवो राजा - देवदेवः। नरदेव इति वत् ॥ परस्याः प्रकृतेः-महालक्ष्म्याः॥ श्लो. २९ रमापक्षे - शास्त्रसमः अधिः-शास्त्राब्धिः। तस्य मथनात् उत्थिता। विद्यापक्षे - शास्त्रमब्धिरिव । मथनमत्राभ्यसनम् ।।

५४ संस्कृत चतुर्थपाठः ॥४॥ तमिमं शरणं प्राप्ता वयमादिममादरात् । भवन्तं भवसभीतिभिदं भुजगशायिनम् ।। ३० ॥ इति वाग्वारिधाराभिर्वर्षति ब्रह्मवारिदे । अदर्शि भगवान्विष्णुर्विद्युतामिव विभ्रमः ॥ ३१ ॥ वैष्णवं तत्परं ज्योतिर्दुनिरीक्ष्यं निरीक्ष्य ते । प्रणमन्तो न नाम्नैव जाताः सुमनसोऽर्थतः ॥ ३२ ॥ उत्थाप्य ताञ्जगन्नाथो वितथेतरकीर्तनः । ब्रूते ब्रह्ममुखान्देवान्सुस्मितेन स्म हर्पयन् ॥ ३३ ॥ कथयन्तु महाभागा! भवन्तस्तं मनोरथम् । यस्मादियं स्तुतिर्देवाः ! श्राविता तुष्टिवर्धिनी ॥ ३४ ॥ श्लो. ३१ वाग्वारिधाराभिः-वाच एव वारिधाराः। ब्रह्मैव वारिदः । विभ्रमो-विलासः ॥ अदर्शि-दृष्टः । स्म-उवाच । "लट् स्मे श्लो. ३३ वितथेतरकीर्तनः-सत्यवाक् ॥ ब्रूते बञ्'' (बू) व्यक्तायां वाचि । वि. २ । उभ. अन आत्म. प्र. ब्रूते । बुवाते । युवते ॥ म. ब्रूषे । बुवाथे । अध्वे ॥ उ ब्रुवे । ब्रूवहे । ब्रूमहे ॥ लिट् - ऊचे । ऊचाते । उचिरे ॥ लुट्-वक्ष्यते अवोचत । अवोचेताम् । अवोचन्त ।।

श्रीकृष्णबाल्यम् । ॥ देवानां प्रार्थना ॥ रचिताञ्जलिमूर्धाऽथ चराचरगुरुं प्रति । विचारचतुरो वाचमुवाच चतुराननः ॥ ३५ ॥ त्वां गोचरयितुं स्वामिन्नागमोऽपि न हि प्रभुः । बोभवीमि भवत्पाद्ये वावदूकस्तथाऽप्यहम् ॥ ३६ ॥ समरेषु महीयस्तु त्रिदिवे ये पराजिताः । ते दैत्यसत्तमा भूमौ बभूवुर्भूभुजां सुताः ॥ ३७ ॥ अभिषिक्ताश्च राज्येषु सप्रभावास्तरस्विनः । सुवेषा इव ते योषाः सर्वतो गृह्णते श्रियम् ॥ ३८ ॥ मोहापादकसंपातैः सुदुर्दर्शनवैः शरैः । युगपत्सकलं लोकं वशीकुर्वन्त्यनङ्गवत् ॥ ३९ ॥ श्लो. ३६ गोचरयितुम् - विषयीकर्तुम् ।। बोभवीमि - पुनः पुनः भृशं वा भवामि ॥ वावदूकः-वाग्मी ॥ श्लो. ३८ तरस्विनः-वेगवन्तः। बलवन्तो वा । सुवेषाः-शोभनो वेष अलंक्रियाजन्यो यासां ताः । न तु स्वरूपेण शोभनाः ॥ श्लो. ३९ मोहापादकसंपातैः-मन्मथपक्षे - मूर्छाजनकपतनवद्भिः । राजपक्षे - चित्तविप्लवापादकपतनवद्भिः ।। सुदुर्दर्शजवैः सुतरां दुर्दों जवो वेगो येषां ते । तैः ।।

५६ संस्कृत चतुर्थपाठ ॥४॥ क्रतूंस्तपांसि दानानि क्रियमाणानि नित्यशः । अन्त्यैरेव महोपायः सांप्रतं वारयन्ति नः ॥४०॥ आनृशंस्यं परित्यज्य परं धर्मममी बत । यज्ञादीनसुरोद्देश्यान्मन्यते बद्धमन्यवः ॥ ४१ ॥ आलोडयन्ति ते पृथ्वी भगवन्वलदर्पिताः । निदाघसमये यद्वन्मदान्धाः कुञ्जरा नदीम् ॥ ४२ ॥ तदिमां जगतीमेभ्यः परित्रातुं त्वमर्हसि । अचिरेणैव कालेन व्याघेभ्य इव रोहिणीम् ॥ ४३ ॥ यदुवंशमधिष्ठाय दह दुष्टमयं तमः । लीलयाऽग्निरिव ध्वान्तं सस्नेहस्वच्छवर्तिकः ॥ ४४ ॥ श्लो. ४० अन्त्यैरेव महोपायैः- दण्डरूपैरुपायैः ॥ नित्यशः-नित्य नित्यम् ॥ श्लो. ४१ आनृशंस्यम् - सौम्यताम् ॥ परं धर्मम् - इत्येतत् आनृशं- स्यमित्यस्य विशेषणम् ॥ असुरोद्देश्यान्- असुराः उद्देश्याः त्यज्यमा- नहविःस्वामितया अभिसंधेया येषां तान् ॥ मन्वते - बहुवचनम् । मनुते । मन्वाते । मन्वते ॥ श्लो. ४३ रोहिणी- गौः ॥ श्लो. ४४ वंश:- कुलम् , वेणुश्च ॥ दुष्टमयम् - दुष्टेभ्य आगतम् । “तत आगतः" इत्यर्थे " मयट च" इति हेतोर्मयट् ॥ तमः- शोकम् । " तमोऽन्धकारे स्वर्भानौ तमः शोके गुणान्तरे " इति विश्वः ॥ सस्ने- हस्वच्छवर्तिकः- दीपपक्षे-तैलयुक्तनिर्मलदशावान् । विष्णुपक्षे-सौहा- दयुक्तनियाजवर्तनवान् ॥ दह-अपनय ॥

श्रीकृष्णबाल्यम् । तत्रापि वसुदेवस्य दयिता या तपोमयी। भवतो भरणायैषा योग्येति प्रतिभाति नः ॥४५॥ इति पद्मासने वाणी ब्रुवाणे धरणीधरः । करुणाईमनास्तत्र तथेत्युक्त्वा तिरोदधे ॥ ४६ ॥ नमस्कृत्य हृषीकेशमारूढं मानसौकसम् । पुरस्कृत्य विधातारं विबुधास्त्रिदिवं ययुः ॥४७॥ तत्र भारसहे भूमिर्भारमावेद्य भर्तरि । कुर्वती स्वैरमाश्वासं दुर्बला निवार सा ॥ ४८ ॥ वसुदेवविवाहः ॥ अत्रान्तरे यदुवंशे आसीदेवांशो देवको नामोग्रसेनस्या- नुजः। तस्य पुत्री गुणाढ्या नाम्ना देवकी । ' तां देवको " श्लो. ४५ तपोमयी- तपःप्रचुरा ॥ भरणाय- गर्भ धारणाय ॥ प्रतिभाति- स्फुरति ॥ भा दीप्तौ । वि. २ | पर. भाति । भातः । भान्ति ॥ श्लो. ४६ धरणीधरः- धरण्या धरः। भूम्युद्धारकः। तिरोदधे-अन्तर्हितः ॥ श्लो. ४७ मानसौकसम् - मानसं सरः ओकः गृहं यस्य सः मानसौकाः तं हंसम् ॥ आरूढं विधातारं पुरस्कृत्य ॥ श्लो. ४८ तत्र- विष्णौ ॥ आश्वासम् - विश्रमम् ॥ निर्ववार- निर्वृति सुख प्राप्तवती ।। ..

५८ संस्कृत चतुर्थपाठः ॥ ४॥ वसुदेवाय प्रादात् । कृतोद्वाहो वसुदेवो नवोढया भार्यया सह रथारूढः स्वगृहं ययौ । कंसस्तदा पितृव्यपुत्र्यां देवक्यां साक्षात्स्वस- निर्विशेषया प्रीत्या स्वयं सारथ्यमकरोत् । तदा “रे मूढ ! कंस ! अस्याः खल्वष्टमो गर्भस्त्वां हनिष्यति । तत्कुतस्त्वमस्याः सारथ्यं करोषि ?" इत्यशरीरा आकाशवाण्युदभूत् । तच्छ्रुत्वा स कंसो भगिनीं हन्तुं खङ्गपाणिः कचे जग्राह । तदृष्ट्वा वसुदेवो दूयमानमानसोऽपि स्वाकारं प्रच्छाद्य प्रसन्नमुखो भूत्वा भ्रातः कंस ! विरम स्त्रीहत्यायाः । जातस्य खलु मृत्युनियतः । न चाशरीरा वागिमा मृत्युमवदत् । किन्त्वस्या अष्टमं पुत्रम् । लोके सर्वा अपि स्त्रियः प्रसुवत इति न। काश्चन वन्ध्या एव भवन्ति । प्रसुवानाऽपीयमष्टौ पुत्रान्सपोष्यत इति को वेद ?। (१) नवोढा - नूनतया विवाहिता ॥ (२) रथमारूढो - रथारूढः।। (५) अशरीरा - अज्ञातवक्तृपुरुषा ॥ आकाशवाणी - आकाशादागता वाणी॥ (८) विरम - निवर्तस्व । विपूर्वकात् “रमु" क्रीडायामित्यस्मात् धातोः वि. १ । आत्म । “व्योपरिभ्यो रमः" इति परस्मैपदम् लोण्मध्य- मपुरुषैकवचनम् ॥ स्त्रीहत्यायाः- पञ्चम्येकवचनम् ॥ (११) प्रसोष्यते - लृट् प्रथमपुरुषैकवचनम् ॥ लुट् - प्रसोता ॥ वेद - जानाति । "विद" ज्ञाने । वि. २ पर. लट् - प्र. वेत्ति । वित्तः । विदन्ति ॥ म. वेत्सि । वित्थः । विस्थ ॥ उ. वेनि। विद्वः। विद्मः ॥ “विदो लटो वा" इति पक्षे - प्र. वेद । विदतुः । विदुः । म. वेत्थ । विदथुः । विद ॥ उ. वेद । विद्व । विन ॥ को वेद - न कोपि जानाति ॥

श्रीकृष्णवाल्यम् । इदानीमस्माभिः श्रुता वाक्कस्मात्केनचित्कुत्रचिनिगृढेन प्रतारकेण पुरुषेणोक्ता न भवेत् ? । भवतु सर्वमपि तथ्यमभ्युपगच्छामस्तथा- प्यस्या अष्टमः खलु पुत्रस्तव मृत्युभविता। न प्रथमे सप्त । तस्मादस्यास्तावत्पर्यन्तं जीवने का तव हानिः । एतावताऽपि तव यद्यसन्तोषस्तपस्या उत्पत्स्यमानानष्टावपि पुत्राञ्जाताञ्जातांस्तव समर्पये, तेषु त्वं यथेष्टं समाचर" इत्यवदत् निसर्गत: पापोऽपि स सयुक्तिक तद्वचो निशम्य लोका- पवादाच भीतः स्वसुर्वधान्निववृते । वसुदेवोऽपि भार्यया सह स्वगृहं ययौ। ततो व्यतीते कतिपये काले देवकी प्रथमं पुत्रं सुषुवे । यथाप्रतिश्रुतं वसुदेवः प्रसवानुपदं तं कंसायार्पयत् । अष्टमात्खलु मम मृत्युभविता तस्मादयं सुखी जीवतु" इति कंसस्तमुज्झाञ्चकार। अव्यवस्थितचित्तस्य तद्वाक्यं वसुदेवो नाभ्यनन्दत् । ततः कदाचिन्नारद आगत्य कंसमवदत्- 'वसुदेवाद्या विष्णुपक्षीयाः। विष्णुश्च युष्माकं स्वाभाविकः शत्रुः । स च महाकपटी। स एवास्या अष्टमः पुत्रो भूत्वा तव मृत्युभविष्यति । प्रथममारभ्याष्टमो वाऽन्त्यमारभ्याष्टमो वा तव (१) निगूढः-गुप्तः, संवृत्य स्थितः ।। प्रतारकः-वञ्चकः ॥ (३) प्रथमे - प्रथमाबहुवचनमेतत् अस्य शब्दस्य रूपाण्यवश्यं ज्ञातव्यानि ।। (५) जाताजातान् - सर्वानातान् , जननानुपदम् ॥ (८) निववृते - निवृत्तः॥ (१२) उज्झाञ्चकार - " उज्झ" उत्सर्गे । वि. ६ । पर. लिट् ॥

६० संस्कृत चतुर्थपाठः ॥ ४ ॥ मृत्युभविष्यतीति न विद्मः । तस्मात्तत्र त्वया सावधानेन भाव्यम्" इति । तच्छ्वणानुपदं कंसस्तं देवकीपुत्रमानाय्य जघान । स पुनर्देवकीवसुदेवावपि किमनर्थ विधास्यत इति भिया तावाय- सशृङ्खलाभिर्निंगडय्य गृहे स्थापयामास । स स्वपितरमुग्रसेनं च निगृह्य स्वयं राजाऽभूत्। देवकी च प्रतिवत्सरमेकैकं कुमारं प्रासोष्ट। कंसस्तान्सर्वान्प्राहरत् । ततः सप्तमं वारं देवकी गर्भिण्यभवत् । कतिपयेषु मासेषु गतेषु भगवदाज्ञया योगमाया दुर्गा देवक्या जठरादाकृष्य तं गर्भ तत्सपल्या रोहिण्या उदरे निवेशयामास । देवक्याः सप्तमो गर्भोऽकाले पतित इति जना अवदन् । वसुदेवपितुः शूरस्य गोपालिकायां दास्यां जातः पुत्रो (३) जघान - व्यापादयामास । "हन" हिसागत्योः। वि. २ पर. लिट् - जघान । जन्नतुः । जघ्नुः ॥ जघनिथ - जघन्थ । जन्नथुः । जन ॥ उ. जघान जघन । जन्निव । जनिम ॥ बृहद्धातुरूपावल्यां १७१ पृष्ठं पश्यत । (५) शृङ्खला - निगडः, बन्धनसाधनीभूता आयसी रज्जुः ॥ - (७) प्रासोष्ट - प्रपूर्वकात् “सू" धातोलुङ् - प्र. असविष्ट - असोष्ट । असविषाताम् - असोषाताम् । असविपत असोपत ॥ म. असविष्ठाः - असोष्ठाः । असविषाथाम् - असोषाथाम् । असविध्वम् । असविड्डम् - असोड्डम् ॥ उ. असविपि - असोषि । असविष्वहि असोवहि । असविष्महि - असोष्महि ॥

श्रीकृष्णबाल्यम् । नन्दनामा गोपराजो बृहदने आस । तस्य बहु गोधनमासीत् । तद्वशे बहवो गोपा आसन् । स तेभ्यो वार्षिकं करं संगृह्य तत्वष्ठांशं राजे कंसाय ददाति । यदा देवक्याः सपत्न्यो गर्भिण्यो भवन्ति तदा कंसस्ता वसुदेवपत्नीः देवकीगर्भाणां विनिश्चयार्थमाप्रसवं स्था- नान्तरे वासयति । तथैव तदात्व आपन्नसत्वां रोहिणीमपि नन्दगृहे स्थापयामास । तत्रैव सा बलाढ्यं बलराम नाम सु- तममृत। ॥ श्रीकृष्णावतारः॥ पुनर्देवक्यष्टमं गर्भमधारयत् । तस्मिन्नेव गर्भे भगवान्ना- रायणो जगद्रक्षणार्थ प्राविशत् । श्रावणे मासि कृष्णपक्षेऽष्ट- म्यां रोहिणीनक्षत्रयुक्तायामर्धरात्रसमये श्रीकृष्णो देवक्या जठरादुदयाद्रेश्चन्द्र इवाविरभवत् । तदा- " तमद्भुतं बालकमम्बुजेक्षणम् चतुर्भुजं शङ्खगदायुदायुधम् । (१) बृहद्वने- बृहद्वमिति कस्यचिद्वनस्य संज्ञा ॥ (१३) तमद्भुतमित्यादि - श्लोकद्वयमेकान्वयम् ॥ अम्बुजेक्षणम् - अम्बुजे इव ईक्षणे यस्य सः सम् ॥ ११४) शङ्खगदायुदायुधम् - शङ्खच गदाच अरि चक्रं च । एतद्रपाणि उत्कृष्टायुधानि यस्य तम् ॥ शङ्खगदायुदायुधमिति पाठान्तरम् ।

६२ संस्कृत चतुर्यपाठः ॥ ४॥ श्रीवत्सलक्ष्मं गलशोभिकौस्तुभम् पीताम्बरं सान्द्रपयोदसौभगम् ॥ ४९ ॥ महाहवैडूर्यकिरीटकुण्डल- विषा परिष्वक्तसहस्रकुन्तलम् । उद्दामकाञ्च्यङ्गदकङ्कणादिभि- विरोचमानं वसुदेव ऐक्षत ॥ ५० ॥ शिशोरेतादृशममानुषं रूपं वीक्ष्य कंसाद्भीतो वसुदेवस्तं नारायणमवतीर्ण ज्ञात्वा "स्वामिन् ! इदमद्भुतं रूपमुपसंहर" (१) श्रीवत्सलक्ष्मम् - श्रीवत्साख्यं चिह्नं लक्ष्म .लक्षणं यस्य सः- श्रीवत्सलक्ष्मा । तम् श्रीवत्सलक्ष्माणम् । अदन्तत्वमार्षम् ॥ १२) सान्द्रपयोदसौभगम् - सान्द्रो जलपूर्णः पयोदो मेघः तस्येव सौभग कान्तिर्यस्य तम् ॥ (३) महाहवैडूर्यकिरीटकुण्डलत्विषा - महाणि उत्कृष्टानि वैडूर्याणि येषां तानि - महाहवैडूर्याणि । तानि च तानि किरीटकुण्डलानि च | किरीटं च कुण्डले च किरीटकुण्डलानि ०कुण्डलानां स्विट् तया विषा॥ (५) उद्दामकाञ्च्यङ्गदकङ्कणादिभिः काञ्ची च अङ्गदे च कङ्कणानि च कान्च्यङ्गदकङ्कणानि । उद्दामानि उत्कृष्टानि अधिकतेजोयुतानि काळच्य- गदकङ्कणानि आदीनि येषामितराभरणानां । तैः ॥ (६) विरोचमानं बालकं वसुदेवः ऐक्षत इत्यन्वयः ॥ ऐक्षत-" ईक्ष' दर्शने । वि. ।। आत्म. लङ् - ऐक्षत । ऐक्षेताम् । ऐक्षन्त ॥ लुङ् ऐशिष्ट । ऐक्षिषाताम् । ऐक्षिषत ॥ (८) उपसंहर पिधेहि ॥

श्रीकृष्णबाल्यम् । इति प्रार्थयांचक्रे । श्रीकृष्णोऽपि “पितः ! इदानीमेव गोकुले नन्दस्य पत्नी यशोदा योगमायां दुर्गा दारिकां प्रास्त । मां तत्र नीत्वा स्थापयित्वा तामत्रानीय निधेहि ।" इत्युक्त्वा स्वस्य वैष्णवं रूपमन्तर्धाप्य प्राकृतः शिशुरभवत् । सुतं समादाय बहिनि- जिंगमिषतस्तस्य वसुदेवस्य पादाभ्यां निगडः स्वयं व्यगलत् । पिहितानि कपाटानि च स्वयमुद्घाटितानि । तदा मन्दं मन्दं जलधरो ववर्ष । आदिशेषः फणाभिस्ता वर्षधारा न्यवारयत् । मथुरागोकुलयोर्मध्ये तिर्यक्प्रवहन्ती अगाधतोया नकाकुला आवर्तभीषणा यमुना श्रीकृष्णौहे वसुदेवाय समुद्रः श्रीरामायेव मार्गमदात् । तयैकपद्या शौरिनन्दबजे यशोदायाः सूतिकागृहं गत्वा तत्रैनं पोतं निक्षिप्य तत्सुतां दुर्गादेवीमुपादाय यथागतमागत्य (२) दारिका - कन्यका ॥ (३) निधेहि - स्थापय । “बुधाञ्" (धा) वि. लोट् - दधातु-धत्तात् । धत्ताम् । दधतु ॥ म. धेहि-धत्तात् । धत्तम् । धत्त ॥ उ. दधानि । दधाव । दधाम ॥ लट्-दधाति । धत्तः। दधति ॥ लुङ्- अधात् । अधाताम् । अधुः। (४) अन्तर्धाप्य - पिधाय ॥ (५) निगडः-आयसी बन्धनशृङ्खला ॥ (९) आवर्तः-अम्भसां भ्रमः। Whirlpool.ip. श्रीकृष्णौहे - श्रीमांश्चासौ कृष्णश्च श्रीकृष्णः । श्रीकृष्णं वहति इति श्रीकृष्णवा(ह) ट् । तस्मै । ०वाट् : ०वाही। वाहः ॥ ०वाहम् । •वाही। श्रीकृष्णौहः ॥ तृ. श्रीकृष्णौहा। श्रीकृष्णवाड्भ्याम् ।। ३ उभ. अत्र पर.

केवलं जजुः। ६४ संस्कृत चतुर्थपाठः ॥४॥ देवकीशयने तां न्यस्य शिश्ये । बहिरन्तःपुरस्य च द्वारा पूर्ववदर्गलितानि । शृङ्खला च तत्पादावादृणोत् । तत्रत्या गृ रक्षिणस्तावत्पर्यन्तं दुर्गाया मायया मोहिताः पीतमद्या इ प्रज्ञाहीना आसन् । तयैव गोकुलेऽपि जना यशोदायाः प्र जातस्य शिशोर्लिङ्ग वसुदेवस्यागमनं शिशुविनि मयं च नाज्ञासिषुः। देवक्याः शयनगृहे शिशो रोदनवनिं श्रुत्वा तद्गृहरक्षिण कंसाय प्रसवमावेदयामासुः। स तल्पात्समुत्थाय मूतिकागृहम दृष्ट्वा पश्य भ्रातस्तव स्नुषेयं जाता। मुहुर्मत पुत्रायै मामिमां दारिकां वाऽन्ततो देहि नहि लोकेऽवलाभ्यं योषिभ्यस्त्वादृशानां शूराणां भयं संभाव्यते ।" इति शिशुमा लिङ्गय प्रलपन्त्या देवक्या हस्ताच्छिशुमाच्छिद्य स पाप शिलापृष्ठे समपोथयत् । भगवती सा दुर्गा तद्धस्तात्वमुत्पुप्लवे । अष्टभिर्भुजैरष्टा युधानि विभ्राणां देवैः स्तूयमानां तामम्बां दृष्ट्वा स खलोऽप्य- विभेत् । “हे मन्द पापिन् ! नाहं तव मृत्युः, त्वां हन्ता गच्छत् । तं (५) लिङ्गम् - पुंस्त्वस्त्रीत्वरूपम् ॥ (९) स्नुषा - स्नुपात्वयोग्या । (१४) उत्पप्लवे - उड्डिड्ये ॥

5 श्रीकृष्णवाल्यम् । ६५ विष्णुर्यत्र कुत्र वा इदानीमेव जातः" इत्युक्त्वाऽन्याविदितं देवकी- सविधमेवागमत् । सा तत्र एकानगा इति नान्ना प्रसिद्धाऽसीत् । ॥ कंसदुर्वृत्तम् ॥ कंस इमं वृत्तान्तं स्वसहायेभ्यो दुर्मन्त्रिभ्योऽकथयत् । ते तमब्रुवन्- "राजन्! विष्णुरुत्पन्न इति शिशुनोक्तं सत्यमेव भवेत् । तस्मादनिर्दशाहा निर्दशाहाश्च शिशवोऽन्विष्यान्विष्यास्माभि हन्तव्याः । अपि च, विष्णोः सहाया देवाः, ते चास्माकं सहजाः शत्रवः । यज्ञादिभिस्तेषां बलप्रदा विप्राः । पय आज्यादिदानेन होमसाधनानि गावः । तस्माद्गवां विप्राणां च हनने कृते देवाः क्षीणबला भवेयुः । छिन्नेषु सहायेषु कृत्तमूलो वनस्पतिरिव विष्णुः स्वयमेव शुष्येत् । यदि तत्र तत्र जाता बाला इन्यन्ते तदेदानीं समुत्पन्नो विष्णुश्च म्रियेत । तस्मादधो निर्दिष्टानां बालादीनां समूलघातायास्मानादिश" इति । कालपाशवशं गतः कंसस्तेषां दुर्मन्त्रितं हितं मत्वा तथाऽस्त्वित्यवदत् । परहिंसया विहरणशीला दानवा इच्छामात्रमाप्तानि रूपाणि गृहीत्वा बहीभिर्विधाभिस्तान्हिसितुमारेभिरे। (१) यत्र कुत्र वा - स्वयाऽज्ञाते स्थले ॥ (१०) वनस्पतिः-वृक्षः॥

संस्कृत चतुर्थपाठः ॥४॥ ॥ श्रीकृष्णकथारम्भः॥ नन्दो यशोदा च वसुदेवनिक्षिप्तं तं शिशुमात्मजं मत्वा स्वस्तिवाचनं ब्राह्मणैः कारयित्वा जातकर्मादीन्संस्कारान्कार- यामास । तत्पूर्वमेव जातो रौहिणेयस्तत्रैव ववृधे । मासत्रय- व्यवधानौ बलरामकृष्णौ नन्दः समप्रेम्णाऽपोषयत् । कदा- चिन्नन्दः कंसाय वार्षिकं करं दातुं मथुरामगच्छत् । वसुदेवो भ्रातरमागतं श्रुत्वा तं द्रष्टुमगच्छत् । नन्दो वसुदेवं प्रीत्या पर्यध्वजत । " अहो भ्रातः! प्रजाशाया निवृत्तस्य प्रवयसस्त- व पुत्रः संजात इति श्रुत्वाऽहं मोदे । तत्तव प्राग्भवीयपुण्यफ- लमेव । ” इति वसुदेवो नन्दमवदत् । नन्दोऽब्रवीत् - "तव देवक्यां जाताः षट् पुत्रा अपि पापेन कंसेन पोथिताः, सप्तमो गर्भस्तु मृतः । अष्टमी तु दारिकाऽभूत् , सा च दिवमुदप- तदित्यहमश्रौषम् , सर्वमपीश्वरकृत्यम् ; तदपरिहरणीयमिति समाधेयम्" इति । वसुदेवोऽगदत् - " भ्रातर्नन्द ! राज्ञे करस्त्वया दत्तः, अहं च दृष्टः , अत्र कर्तव्यं चेतःपरं किमपि तव नास्ति । पश्य तत्र तत्रोत्पाता दृश्यन्ते । कंसप्रेरिताः पापास्तभृत्या बालानां हननाय सर्वत्र संचरन्ति । त्वरितं गोकुलं गत्वा शिशू सावधानो रक्ष" इति। तच्छ्रुत्वा नन्दोऽपि प्रतस्थे । (८) प्रवयाः-स्थविरः॥ (१४) समाधेयम् - समाधातुं योग्यम् ॥ 198) उत्पाता:- अशुभसूचका महाभूतण्यापाराः । उल्कापातादयः॥

श्रीकृष्णवाल्यम् । ॥ पूतनासंहारः॥ कंसस्य दृती पूतना नाम घोरा काचन राक्षस्यासीत् । तेन प्रेरिता सा स्वस्या भयानकं रूपं गोपायित्वा शुभं रूपं स्वीकृत्य अचिरप्रमूतस्य शिशोर्दर्शनव्याजेनार्भकस्य प्रेङ्खासमीपमगात् । मातरि पश्यन्त्यां शिशुमादाय शिरस्याघ्राय स्वाङ्के धृत्वा धापयितुमारभत । तस्या मायामयेन रूपेण मोहिता नन्दपत्नी का त्वमिति तामपृष्ट्वा शिशु तदधीनं कृत्वा गृहकार्याणि कर्तु- मगमत् । सा पूतना स्वस्तनयोः पूरितं विषमयं क्षीरं शिशु मपाययत् । यस्य प्रभावेण विषस्य मारकत्वशक्तिः, मणि- मन्त्रौषधादीनां विषपरिहारकत्वशक्तिचोदभूतादृशं महाविष्णु मेतद्विषं कथमुपद्रवेत् ? । न कमपि विकारं प्रापयत् । स डिम्भः स्तन्येन सह तस्या असूनपि पपौ। सा निशाचरी चरणौ भुजौ च प्रसार्य भयानकेन रूपेण भूमौ व्यसुः पपात । तं कुणपं वीक्ष्य तत्रत्याः सर्वेऽपि तत्रसुः। यशोदारोहिण्यौ तत्रा- गत्य बालमन्यत्र यापयित्वा गोमूत्रेण स्नपयांचक्रतुः। ब्रजौ- (४) प्रेखा-दोला | Cradle. Garip.. (६) धापयितुम् - पाययितुम् ॥ (८) स्तनयोः- सप्तमीद्विवचनम् ॥ (११) डिम्भः-अर्भकः ॥ (१३) रूपेण - देहेन उपलक्षिता॥ (१४) कुणपः-शवः॥ (१५) गोमूत्रेण • स्नपनं बालानां रक्षार्थम् ॥ ?

संस्कृत चतुर्थपाठः ॥ ४ ॥ कसस्तस्याः शरीरं निरहरन् । अत्रान्तरे मधुराया आगच्छन्न- न्द इममुदन्तं मध्येमार्ग श्रुत्वा वसुदेवोक्तं स्मृत्वा तं त्रिकाल- ज्ञमूर्षि मेने। त्वरितं गृहमागत्य पूतनारिं नीरोगं पुत्रं दृष्ट्वा सर्व नारायणानुग्रहाजातं मेने । ॥ शकटासुरवधः॥ एवं स्थिते गोविन्दस्य चतुर्थो मासः प्रादुरभवत् । शि शोर्जन्मéण युक्ते कस्मिंश्चिदहनि निष्क्रमणाख्यं संस्का नन्दश्चकार। तस्मिन्प्रातरनडुयुक्तान्यनांस्यारुह्य तद्रामसीमा या बहिः कंचन देवालयं नन्दः स्वजनैः सह ययौ। यशोद शिशोर्मङ्गलस्नानमकारयत् । नन्दो ब्राह्मणैः पुण्याहं वाचय मास । मङ्गलसूर्याण्यवादयन् । द्विजेभ्यो दक्षिणां नन्दगोप (१) निरहरन् - निपूर्वकः हृञ्" धातुः प्रेतस्य श्मशानप्रापणे वर्तते यथा - तस्य निर्हरणादीनि संपरेतस्य भार्गव !। युधिष्ठिरः कारयिर मुहूर्त दुःखितोऽभवत् । इति श्रीभागवते ॥ (७) निष्क्रमणम् - षोडशसंस्कारेष्वन्यतमम् । जन्मगृहात् आदिर दर्शनार्थ बहिर्गमनम् । यथोक्त मनुना - " चतुर्थे मासि कर्त शिशोनिष्क्रमण गृहात्" इति । (८) अनड्युक्तानि - अनडुनिर्बलीवर्दैर्युक्तानि ॥ अनांसि - शकटा मानतत्पदम ।।

श्रीकृष्णबाल्यम् । दात् । भोजनवेलायां शकटस्याधस्ताच्छीतलायां छायायां बाल शाययित्वा तत्तोऽपि किंचिदधिकवयसोऽन्यान्बालास्तद्रक्ष- णाय नियुज्य यशोदा ब्राह्मणेभ्यो बान्धवेभ्यश्च पर्यवेवेट् । तदा कंसस्य भृत्यः कश्चन तत्र तत्र शिशूनिघ्नन् परिबभ्राम । स एनं शिशुं हन्तुं शकटस्य चक्रं प्राविक्षत् । अत एव तस्य शकटासुर इति नाम । शिशुभावेऽप्यविलुप्तसार्वज्योऽयं बालश्चक्रस्यान्तः प्रविष्टम- सुरं ज्ञात्वा तं हन्तुं, बुभुक्षया स्तन्यार्थ रोख्यमाणो बाल इव चर- णावुदक्षिपत् । प्रवालादप्यतिमृदुना दरणेन ताडिते चक्रे श- कटोऽधरोत्तरोऽभवत् । तस्मिन्न्यस्ताः सर्वे पदार्था अर्भकस्योपरि पेतुः। विद्विषां वज्रादपि कठोरेण शिशुपादेन ताडितश्चक्रान्तः स्थितोऽसुरः पश्चत्वं गतः । (३) पर्यवेवेट - “विष्ल" (विष्) व्याप्तौ। परिपूर्वकः परिवेषणे वि. ३ उभ. अत्र पर. लङ् - प्र. अवेवेट् । अवेविष्टाम् । अवेविषुः॥ म. अवेवेट् । अवेविष्टम् । अवेविष्ट ॥ उ. अवेविषम् । अवेविष्व । अवेविष्म ॥ लट् - वेवेष्टि ॥ लुङ्-अविषत् । अविषताम् । अविषन् । परिवेषणम् - भोजनपात्रे भोजनार्थमनादेनिक्षेपः॥ (५) प्राविक्षत् - प्रपूर्वकः “विश" प्रवेशने । वि. ६ लुङ- प्र. अवि. क्षत् । अविक्षताम् । अविक्षन् । लङ्- अविशत् ॥ लट् - विशति लिट् - विवेश ॥ (६) अविलुप्तसार्वश्यः - सर्वज्ञस्य भावः सार्वज्यम् । अविलुसम् अनष्टं सार्वयम् यस्य सः॥ (८) प्रवालः-किसलयम् ॥ (११) पञ्चत्वम् - मरणम् ॥

७० संस्कृत चतुर्यपाठः ॥ ४॥ तद्रक्षणार्थ नियुक्ता अन्ये बाला भीत्वा पलाय्य यशोदा प्राप्य “शकटोऽघरोत्तरं परिवृत्तः। तस्मिन्निक्षिप्तानि वस्तूनि शिशोरुपरि परिपतितानि। शिशुर्जीवति वा नवेति न विद्मः " इत्यवदन् । नन्दादयः ससाध्वसास्तत्र गत्वा कृष्णं बहिराक- ध्य "इदानीं वायुरुद्धतं न वाति , कथमकारणे शकटः परि- वृत्तः ?" इत्यालोचयन् । "रुदन्नयं पादावुदक्षिपत् , तेनायं शकटोऽपतत् ।" इति ब्रुवतां बालानां वाक्यं न ते श्रदधिरे । अदूरतः पतितं करालाकृतिमसुरशवं वीक्ष्य तेऽब्रुवन् “कश्चन बालमारको ग्रहोजागतः स्यात् , स पापः स्वेनैव पापेन हतः बालस्तु मन्त्रविदां ब्राह्मणानामाशीर्वादबलेनेश्वरकृपया च रक्षितः" इति । ॥ तृणावर्तवधः॥ कदाचिच्छिशुमङ्कमारोप्य स्तन्यं पाययन्ती यशोदा शिशो और वोदुमक्षमा तमध उत्सृज्य गृहस्यान्तरगच्छत् । अनन्तकोटि ब्रह्माण्डान्युदरे धृतवतो बालकस्य वहनं तदसंमत्यां कया व (५) उद्धतम् - प्रकृष्टम् । (७) श्रदधिरे - श्रद्धां चक्रुः॥ (८) कराल:- दन्तुरः॥

? श्रीकृष्णबाल्यम् । ७१ शक्यम् ? । पूर्वमन्यत्रानेकान् शिशून्हतवान्कंसभृत्योऽन्योऽसुर एनमपि जिघांसन् परिभ्रमंस्तदानीं चक्रवातरूपेण तत्रागत्य तत्र- त्यानि तृणान्यावर्तयामास । अत एव तस्य तृणावर्त इति नाम । तेनोक्षिप्त रेणुभिर्जनानां चढूंषि पूर्णानि । तत्र न कोऽपि स्वा- स्मानमन्यं वा अद्राक्षीत् । तदा सोऽसुरस्तृणावर्तस्तं शिशुमन्तरिक्ष नीत्वा ततोऽधस्तात्पातयित्वा हन्तुमनास्तमुदुह्याडयत । किं- चिदूर्ध्वगमनानन्तरं तस्य शिशोभूरिणाभारेण पीडितः सः “किमहं गिरिशिखरं मोहाच्छिशुं मत्वोच्छ्रितवान् ?" इति मत्वा तत एव तमधः पातयितुमयतत । स शिशुस्तं कण्ठे गृहीत्वा दृढमा- लिङ्गय स्वयं तमुदवहत् । "अहं किं शिशुमुद्रहामि ? स एव वा मामुदहति ?" इति सोऽसुरः संदिदिहे । बालेन गले गृहीतो निश्चे- ष्टो दैत्योऽन्तरिक्ष आर्तरावं रुराव । नन्दादयस्तं शब्दं श्रुत्वा किमे- तत्स्यादित्यूर्ध्वमवालोकयन् । तदा स दैत्यो बालेन निष्पिष्ट- गलो रक्तं वमन्व्यसुर्भूमौ पपात । तस्योपरि बालोऽप्यपतत् । अधः (२) जिघांसन् - हन्तुमिच्छन् । शत्रन्तः ॥ चक्रवातः - भ्रमिवातः । वा- तावर्तः। Whirlwind. BPanipm. (३) आवर्तयामास - परिभ्राम्योर्ध्वमक्षिपत् । तृणावर्तः- तृणान्यावर्तयति इति ॥ (६) उदुह्य-वहनं कृत्वा । (११) संदिदिहे - "दिह दिह” उपचये वि. २ उ. अत्र आत्म. लिट् - प्र. दिदिहे । दिदिहाते । दिदिहिरे ॥ म. दिदिहिषे ॥ उ. दिदिहे ॥ लट् . प्र. दिग्धे । दिहाते । दिहते ॥ संपूर्वको दिहधातुः संशये ॥

७२ संस्कृत चतुर्यपाठः ॥ ४ ॥ पतितस्य मृतस्य राक्षसस्योपरि क्रीडन्तं बालकं सर्वेऽद्राक्षः । नन्दस्तं पुत्रं हस्ते गृहीत्वा कथमयं मत्पुत्रो दैत्यारिविष्णुरेव भवेद्वा ? इत्यचिन्तयत् । ततो वसुदेवेन प्रेषितो गर्गाचार्यो गोकुलं गत्वा रोहिणी- पुत्रस्य बलराम इति यशोदातनयस्य कृष्ण इति च नामनी कृत्वा "कृष्णं नारायणं मन्यस्त्र" इति नन्दं रहसि जगाद । ततो रामकृष्णौ रिङ्गणं विहाय चङ्क्रमितुमारब्धौ, ततः कतिपयकालानन्तरं तौ पद्भयां संचरितुमुपचक्रमाते । ॥ श्रीकृष्णदौष्टयम् ॥ तौ भ्रातरावन्यासां गोपीनां गृहं प्रविश्य नानाविधानि दौ- ट्यानि कर्तुमारेभाते । कृष्णः कस्याश्चिद्गोप्या गृहं प्रविश्यासमये (१) अद्राक्षुः- “दृशिर्'' (दृश्) प्रेक्षणे। वि. १ पर. लुङ् - अडभा. वपक्षे सिच् । प्र. अद्राक्षीत् । अद्राष्टाम् । अद्राक्षुः ॥ म. अद्राक्षीः । अद्राष्टम् । अद्राष्ट ॥ उ अद्राक्षम् । अद्राक्ष्व । अद्राक्षम ॥ अपक्षे तु- अदर्शत् । अदर्शताम् ॥ इत्यादि । (७) रिङ्गणम् - उदरं भूमौ निक्षिप्य हस्ताभ्यां सरणम् । जानुभ्यां हस्ता. भ्यां वा ॥ बङ्क्रमणम् - हस्तौ पादौ च भूमौ निधाय सरणम् ॥ (११) दौष्टयम् -दुष्टस्य भावः॥

श्रीकृष्णवाल्यम्। ७३ वत्सानुन्मुच्य धापयति । कस्याश्चिद्गुहे स्वादु दधि पयो नवनीतं च चोरयित्वाऽत्ति, सवयोभ्यश्च ददाति । ततोऽप्यवशिष्टानि विडालेभ्यो विभजति । अन्तर्गृहेऽन्धकारे निक्षिप्तमपि वस्तु स्वनूपुरमणिगणप्रकाशेन पश्यति। अप्राप्तेषु दध्यादिषु वस्तुषु, गोपीषु क्रुधा स्वपतो बालकानुबोध्य क्रोशयित्वा ब्रजति । दधिक्षीरभाण्डेषु शिक्ये निक्षिप्तेषु, भाण्डे लगुडेन रन्धं कृत्वा पिबति । सर्वप्रकारेणापि वस्त्रप्राप्तौ गोमयोपलिप्ने देववास्तौ मेह- ति । एवंविधानि कृष्णदुर्वृत्तानि गोप्यः पृथक्पृथक् गोपराश्य य- शोदायै न्यवेदयन् । पुत्रदौष्ठवं जानत्यपि सा पुत्रवात्सल्यात् मत्पुत्रस्तादृशान्यकृत्यानि कदापि न कुर्यात् , अतो युष्मदीयं वचनं न प्रत्येमि" इत्यवदत् । ततोऽन्यस्मिन्दिने बहूनि रूपाणि गृहीत्वा कृष्णोऽनेकासां गृहाण्येकदैव प्रविश्य गव्यं व्यलुण्टत् । तास्तं हस्ते गृहीत्वा पाशैर्बद्धा यशोदायै निवेद- यितुं तद्गृहमागच्छन्त्यः, दूरादेव गृहद्वारे स्थितां यशोदा तया लाल्यमानं तदत्तं मधुरं खाद्य खादन्तं श्रीकृष्णं च दृष्ट्वा वि- (६) शिक्यम् - तैलाज्यादिद्रव्यरक्षार्थ तदाधारतया रज्वादिनिर्मितो लम्बमान आधारविशेषः । . (७) देववास्तौ - देवपूजार्थं परिष्कृते धिष्ण्ये ॥ (९) दौष्ठवम् - दुः+तिष्ठति-दुष्ठु अव्ययमेतत् । "अपदुःसुषुस्थः इति कुः । सुषामादित्वात् षत्वम् ।। तस्य भावः ॥ (१२) गव्यम् - गोरिदम् । दधि पय आदिकम् । पुरीधे तु गोमयम् ॥

७४ संस्कृत चतुर्थपाठः ॥ ४॥ स्मिताः । स्वाभिर्गृहीतं पाशबद्धं बालं यदा पश्यन्ति, तदा स तत्र नासीत् । रिक्ताः पाशाः केवलं तासां हस्ते उर्वरिताः । किं करणीयमित्यालोच्य ताः “भवतु पुनर्गोप्य कथयामः" इति निर्धार्य तां गत्वा यथावृत्तं कथयामासुः। यशोदाऽब्रवीत् महाभागाः ! यूयं विवेकिन्यः । अत्रैवेमं दृष्टवत्यश्च । एवं स्थिते कथमयं युष्मद्गृहेऽपि स्थित्वा दौष्ठवं कुर्यात् ? । अपिच , यूयं ब्रूथ 'एकस्मिन्नेव समये सोऽनेकानि वेश्मानि प्रविश्य गव्यं व्यलु- दत्' इति । कथं शक्यं तेनैकेनैकदैव बहूनि गृहाणि प्रविश्य दुर्वृत्तं कर्तुम् ? इतः परमेतादृशान्यसंभावितान्यसत्यानि मा कथ- यत ।" इति । लज्जितास्ताः स्वगृहाण्येव प्रतिन्यवर्तन्त । ॥ विश्वरूपप्रदर्शनम् ॥ कदाचित्कृष्णे रामेण गोपालबालैश्च सह क्रीडति सति "कृष्णो मृदं भक्षितवान्" इति गोपबाला बलरामश्च धावन्त (२) रिक्ताः- रहिताः, शून्याः॥ (६) भ्रूथ-वदथ प्र. ब्रवीति-आह । ब्रूतः-आहतुः। अवन्ति- आहुः॥ म, प्रवीषि-आत्थ । बूथ:-आहथुः । बूथ ॥ उ. ब्रवीमि । वः। ब्रूमः ॥ लिट् - उवाच । उचतुः । ऊचुः॥ म. उवचिथ-उवक्थ । ऊ- चथुः । ऊच ॥ उ. उवाच-उवच । उचिव । अचिम ॥ ल अब्रवीत् ॥ लह-अवोचत्॥

श्रीकृष्णवाल्यम् । आगत्य यशोदाया अकथयन् । यशोदा तं करे गृहीत्वा "रे अदान्त ! मृदं मा भक्षय; सा चेद्भक्षिता तवोदरे गोळा आपतेत् इति त्वं पूर्व मया बहुवारमुक्तः। तथापि कथमिदा- नीमप्यभक्षयः ? एते सर्वेऽपि बालकाः कथयन्ति, तथा तव ज्ये- ष्ठोऽपि कथयति, तत्सत्यमेव भवेत् । गच्छत्विदानीमितः परं भक्षयसि चेन्निम्बपत्राणि पिष्टवा तिक्तं तद्रसं त्वां पाययेयम् ।" इति भलैयामाम। अम्ब ! नाहं मृत्तिकां भक्षितवान । सर्वे बारका मिथ्यावादिनः। अग्रजोऽपि तथैव। लोकेऽहमेक एव सत्यवादी । यदि त्वं संशेषे मुख व्याददामि समक्षं पश्य इति कृष्णोऽब्रवीत् । यद्येवं तर्हि व्यादेह्यास्यमिति मातोवाच । (१) यशोदायै अकथयन् इति च्छेदः ॥ (२) अदान्तः-दान्तो दमितः परायत्त इत्यर्थः। स न भवतीत्यदान्त: अशिक्षितः । स्वतन्त्र इत्यर्थः॥ गोला-रोगविशेषः ॥ (६) निम्बपत्राणि-पारिभद्रे निम्बतरुः Garing. तिक्तम् - BiL. Bitter. केचन तिक्तरसो मरिचस्य कटुरसो निम्बस्ये- त्यपि प्रयुञ्जते । यथा-यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा। यश्चैनं गन्धमायायैः सर्वस्य कटुरेव सः । इति ॥ (९) सशेषे-संदेहं प्रामोषि। सपूर्वकात् “शीङ्" (शी) स्वमे इति धातोः वि. २ आत्म. लट् - प्र. शेते । शयाते । शेरते ॥ म. शेषे । शयाथे। शेध्वे ॥ उ. शये। शेवहे । शेमहे ॥ लिट्-शिश्ये ॥ लङ्-अशयिष्ट।

संस्कृत चतुर्थपाठः ॥४॥ कृष्णेन व्यात्ते आस्ये ब्रह्माण्डं, सप्त वारिधीन् , सप्त कुलपर्वतान् , ज्योतिश्चक्रम् , आकाशं, भूमि, स्वावासभूतं गोकुलं, सरामं सवयोभिः सहितं कृष्णं, करे आत्तयष्टिं पीताम्बरं वसानां लोलकुण्डलां स्वां चाद्राक्षीत् । “अहो ! किमेतदद्भुतम् ? कि- मेष मम स्वमः ? उत मे बुद्धिमोहः ? अथवा मत्पुत्रस्यैवौत्पत्ति- क आत्मयोगः ?" इति वितर्य गर्गाचार्यस्य वचनानुसारे- णायमसंशयं नारायण एव भवेत् " इति निश्चिकाय । - (१) सप्त वारिधयः - सप्त समुद्राः। ते च लवण, इक्षु, सुरा, सर्पिः, क्षीर , दधिमण्डोद, शुद्धोदाः ॥ सप्त कुलपर्वताः-महेन्द्रः, मलयः, सह्यः, शुक्तिमान् , ऋक्षः , विन्ध्यः पारियात्रश्चेति ॥ (२) ज्योतिश्चक्रम्- राशिचक्रम् ॥ (६) आत्मयोगः-स्वरूपभूतं सामर्थ्यम् ॥ (७) निश्चिकाय-निश्चयमकरोत् । “चिञ्” (चि) चयने । वि ५ उ. अत्र पर. लिट् - प्र. चिकाय । चिक्यतुः। चिक्युः ॥ म. चिकयिथ-चि. केथ । चिक्यथुः । चिक्य ॥ उ. चिकाय-चिकय । चिक्यिव । चि- क्यिम ॥ चिचाय । चिच्यतुः । चिच्युः । इत्याद्यपि ॥ लट् -चिनो- ति ॥ लुङ् - अचैषीत् ॥ आत्म. चिक्ये-चिच्ये । चिक्याते-चिस्याते । चिक्यिरे-चिच्यिरे ॥ लट् - चिनुते ॥ लुङ- भचेष्ट ॥ निस्पूर्वको निश्रये ॥

७७ श्रीकृष्णवाल्यम् । ॥ श्रीकृष्णस्य दामोदरनामप्राप्तिः ॥ एकदा प्रातः क्षुधितो माधवो दधि मथ्नती जननीं प्राप्य मन्थानं गृहीत्वा मथनं निषिध्य स्तन्यं दधौ । तदा चुल्ल्यामधि- श्रितं पय उत्सिषिचे। तदृष्ट्वा , पीत्वा अतृप्तं कृष्णं स्वाङ्कादध उत्सृज्य यशोदा तस्यापश्रयणायागच्छत् । गतायां मातरि क्रुद्धः कृष्णो दधिभाजनमश्मना भित्त्वा नवनीतं जग्ध्वा रुदन्नतिष्ठत् । गोपी शृतं पयश्चुल्ल्या उत्तार्य दधिनिर्मथनस्थलमागत्य भग्नं (२) क्षुधितः- बुभुक्षितः। “क्षुध क्षुध” बुभुक्षायाम् । वि. ४ पर. कसरि तः । “ वसतिक्षुधोरिट् ' इति क्त्वानिष्ठयोनित्यमिट् ॥ (३) स्तन्य-क्षीरं ॥ दधौ- पपौ। “धेट्" (धे) पाने । वि. १ पर, लिट् - प्र. दधौ । दधतुः । दधुः ॥ म. दधिथ-दधाथ । दधथुः दध ॥ उ. दधौ । दधिव । दधिम ॥ लट् -धयति । धयतः । धयन्ति । लङ्- अधयत् ॥ लुङ्- चपक्षे - अदधत् । अदधताम् ॥ चङभावपक्षे- अधात् । अधाताम् । अधुः, अधासीत् । अधासिष्टाम् । अधासिषुः ॥ णिच - धापयति । चुलि:- अधिश्रयणी । Gi4. Oven. अधिश्रितम् - पाकार्थ स्थापि-- तम् | GLLHiv amavasiLLL. Placed on oven for cooking. (४) उत्सिषिचे - Gurba par. Foamed over. (५) अपश्रयणम् - पाकार्य चुल्ल्या उपरि स्थापितस्य अधोऽवतार्य स्थाप- नम्।

संस्कृत चतुर्थपाठः ॥४॥ दधिपात्रं मृषाधुलोचनं तनयं च निरीक्ष्य कोपात्तं ताडयितुं हस्ते यष्टिं जग्राह । आत्तयष्टिं तां वीक्ष्य कृष्णो भीतवदपससार । हृद्येव निकटेऽवस्थितं यं ग्रहीतुं योगिनां मनोऽपि न शक्नोति, तादृशं बालं पलायमानं धर्तु कथंकारमबला शक्ता स्यात् ? । बहु- दूरमनुधावनेन श्रान्तायास्तस्या हस्तं कृष्णः स्वस्य भक्तगृह्यतां ज्ञापयितुं स्वयमेव कृपया प्राप। सा तं गृहीत्वा गृहमानीयोलूखले बन्धुं दाम जग्राह । तद्व्यङ्गुलोनमभूत् । तेन सहान्यद्दाम संधाय बबन्ध । तदपि व्यङ्गुलोनमभूत् । एवं बहूनि दामानि संधाय बद्धेऽपि श्रीकृष्णे, तस्य मायया तान्यपि यङ्गुलेनैवोनान्यभूवन् । मातुः परिश्रमं वीक्ष्य भक्तवश्यो भगवान्कृपयैव बन्धने ममौ । तत आर- भ्य तस्य दामोदर इति नामाऽजनि। तमुलूखले बद्धोत्सृज्यैका- किनं जननी दासीर्भिगृहकर्म कारयितुमन्तर्जगाम । बद्धोलूखलः स बालः शनैहादहिनिष्क्रम्य किंचिद्रं गतः । (४) कथंकारम् - कथम् ॥ (७) दाम-गोबन्धनरज्जुः । दाम। दाम्नी-दामनी । दामानि ॥ द्वयङ्गुलोनम् - द्वयोः अगुल्योः समा- हारो द्वयडूगुलम् । तेन उनम् ॥ (१०) ममौ- अन्तर्बभूव । “मा" माने । मानमिहान्तर्भावः । वि. २ पर. लिट् - ममौ । ममतुः । ममुः॥ म. ममिथ-ममाथ । ममथुः । मम ॥ उ. ममौ । ममिव । ममिम ॥ लट् - माति ॥ लुक- अमासीत् ॥ (१२) बद्धोलखल:- बद्धः उलूखले ॥

७ ९ श्रीकृष्णवाल्यम् । ॥ यमलार्जुनभङ्गः॥ पुरा कदाचित्कुबेरस्य तनयौ नलकूबरमणिग्री मदि- रापानेन मत्तौ युवतिभिः सह गङ्गाजले चिक्रीडतुः । यह- च्छया देवर्षि रदस्तत्रागात् । तं दृष्ट्वा देव्यो व्रीडया शाप- भिया च शीघ्रं वासांसि तीरे स्थापितानि परिदधुः। विव खौ मदान्धौ धनदपुत्रौ तु नैव पर्यधाताम् । नारदस्तौ दृष्ट्वा युवां लोकपालस्य परेषां धर्माधर्मसाक्षिणो वैश्रवणस्य पुत्रौ भूत्वाऽपि धर्म न जानीथः । तस्माद्युवां निर्लज्ज वृक्षजन्म प्राप्नु- तम्" इति शापं ददौ। ततः प्रपन्नाभ्यां ताभ्यां क्षमापितो देवर्षिः "युवां गोकुले वृक्षावुत्पत्स्यथ एव । तत्र श्रीवासुदेवस्य पादस्प- त्स्विलोकं चाधिगच्छतम्" इति शापमोक्ष च व्यतरत् । तावत्र गोकुले यमुनातीरे यमलावर्जुनतरू भूत्वा स्थितौ। व्यामपरिणाहौ अभ्रलिहौ तौ महीरुहौ देवौ मत्वा व्रजौकसः पूजयन्ति स्म । मात्रा उलूखले बद्धः स कृष्णः उलूखल विकर्षन्नेव तयोस्त- र्वोर्मध्य प्रविश्यागात् । तिरश्चीनीभूतस्योलूखलस्याकर्षणेन " यूनस्तिः (३) युवतिः - युवन् शब्दात् स्त्रीत्ववियक्षायां इति 'ति' प्रत्यये रूपम् “युवती" इति तु युधातोः शत्रन्तात् ॥ उगितश्च" इति डीपि रूपम् ॥ (६) पर्यधाताम् - "धा" धातोर्लुङ.

संस्कृत चतुर्यपाठः ॥ ४ ॥ यमलावर्जुनावुत्कलितमूलौ निपेततुः। पततोस्तयो वं श्रुत् नन्दादयः किमेतत्स्यात् ? इति विचिन्त्य तत्रागत्योन्मूलित विटपिनौ, दानोदरे बद्धमुलूखलं विकर्षन्तं बालकं च विलो क्य उन्मुच्य च तं दानो गृहमानयन् । ॥ श्रीकृष्णचातुर्यम् ॥ कस्यां चिद्रात्रौ श्रीकृष्णं क्षीरोदनं भोजयित्वा प्रेके शार यित्वा यशोदा गीतानि गायन्त्यान्दोलयत् । गोविन्दर पप्रच्छ-"मातनित्यं दोलान्दोलनसमये किमपि गायसि तत्वि म्?" इति । साञ्चदत् - "क्षीरोदधौ शेषतल्पे निद्राणं भर वन्तं नारायणं स्तौमि" इति । कृष्णोऽपृच्छत् – “अम्ब (१) उत्कलितमूलौ-उत्कलितानि मूलानि ययोस्तौ ॥ (७) आन्दोलयत् - दोलामचलयन् ॥ (९) निद्राणः-निद्रां प्राप्तः । निपूर्वको “द्रा" धातुः स्वापे । वि. २ प कर्तरि क्तः॥ (१०) स्तौमि - स्तुतिं करोमि । “टुञ्(न्तु) स्तुतौ। वि. २ उ. अ पर. लट् - प्र. स्तौति-स्तवीति । स्तुतः-स्तुवीतः ॥ स्तुवन्ति । म. स्तौरि स्तवीपि । स्तुथ:-स्तुवीथः। स्तुथ- स्तुवीथ ॥ उ. स्तौमि-स्तवीमि स्तुवः स्तुवीवः। स्तुमः-स्तुवीमः । लङ्-अस्तीत्-अस्तवीत् ॥ लि तुष्टाव ।। लुडू - अस्तावीत् ॥ :

6 श्रीकृष्णवल्यम् । निद्राणं तं कुतस्त्वं स्तवीषि?". इति । गोप्यब्रवीत् - "निद्रा प्राप्तो देवस्तवाऽपि निद्रां ददात्विति तादृशगुणविशिष्टं स्तवीमि" इति । कृष्णोऽगदत — “पातः! अज्ञानात्किंचित्पृच्छामि, तत्र मा क्रुध्य उत्तरं वद । जाग्रतं स्तौषि चेत्तव स्तुतिं श्रुत्वा त्वदभीष्टं देवो दद्यात् निद्रालोर्नारायणस्य श्रवणपथं कथं तव नुतिर्गच्छेत् ? कथं वा त्वन्मनोरथं स पूरयेत् ?" इति । तस्योत्तरं दातुमजा- नती गोपी ‘रे अदान्त! तूष्णीमास्स्व किं वेदान्तं ब्रवीषि ? स्वपिहि" इत्यमर्स्यत् । तच्छ्रुत्वा मुकुन्दः पुत्रैर्गुरुजनानुव- तिभिर्भाव्यमिति नीति लोकं शिक्षयितुमस्वपीत्। पुनरन्यस्यां रात्रौ स्वं निद्रापयितुं दोलां चलयन्ती मातरं " अम्ब ! कां- चित्पुरातनी कथां कथय ; तयाऽहं निद्रायाम्” इति कृष्णो (४) जाग्रतम् - जाग्रत् । जाग्रतौ। जाग्रतः। द्वि. जाग्रतम् । जाग्रतो । नाभ्यस्ताच्छतुः” इति शतुर्नुम्न ॥ (८) स्वपिहि - निद्राहि । “ त्रिष्वप्" (स्वप् ) शये । वि. २ पर. लोट - प्र. स्वपितु-स्वपितात् । स्वपिताम। स्वपन्तु ॥ म. स्वपिहि- स्वपितात् । स्वपितम् । स्वपित ॥ उ स्वपानि । स्वपाव । स्वपाम ।। लट्-स्वपिति । स्वपितः। स्वपन्ति ॥ लङ् - अस्वपीत्-अस्वपत् ॥ लिट् - सुष्वाप । सुषुपतुः । सुषुपुः ॥ लुङ् - अस्वाप्सीत् । अस्वाप्ताम् । अस्वाप्सुः॥ (११) निद्रायाम् - निद्रां प्रामुयाम् । विधिलिङ्क - निद्रायात् । निद्रा- याताम् । निद्रायुः॥ म. निद्रायाः। निद्रायातम् । निद्रायात । उ. निद्रायाम् । निद्रायाव । निद्रायाम ॥ लिट् - निदद्रौ। निद्रतुः। भिवद्रः॥ जाग्रतः ॥

- ८२ संस्कृत चतुर्थपाठः ॥ ४ ॥ जगाद। सा कथयितुमारेभे-" पूर्वमिक्ष्वाकुवंशे दश नाम राजा बभूव । तस्य तनयो रामो नामाजनि । स नियोगात् सभ्रातृभार्यो वनं ययौ । तत्र रावणो नाम राक्षसः सीतामपाहरत् ।" इति कथाध कथयन्त्यामेव य दायां “सौमित्रे ! क धनुर्धनुः" इति कृष्णोऽवदत् । तच्छ्रुत्वा देवी 'अयं शिशुरेव पूर्व रामनाम्नाऽवतीर्य रावणमहन्' : गर्गोक्तं श्रद्दधे । अथान्यस्यां निशायां गोपी कृष्णं निद्रापयितुं लामान्दोलयत् । चिरपान्दोलितेऽप्यनिद्राणे तनये तमवदत् । कृष्ण! निद्रां शीघ्रमाश्रय" इति । कृष्णस्तां " मात:! निद्राश्रः कि फलम् ?" इत्यपृच्छत । साऽवदत्- "जात! रात्रिनिद्र दिवाभुक्तं जीर्णतां व्रजेन्" इति । स पुनः पप्रच्छ “अम्ब ! नाम निद्रा?" इति । जनन्यवदत् “जीवः निमीलितालियुग माझं नाम देवं यदालिङ्गति सैव निद्रा" इति । कृष्णः “त वा? तर्हि निद्रामि" इत्युक्त्वा मुद्रितात्मनयनो भूत्वा स्वाङ्गं स्व स्ताभ्यामालिङ्ग्य क्षणं तूष्णीकः स्थितः । ततः प्रबुद्ध इवोत्या "मातः! भुक्तं सर्व मम जीर्णम् ; पश्य ममोदरं रिक्तं वर्तते बुभुक्षा मां बाधते , त्वरितं मे भोक्तुं किमपि देहि" इत्यवदत तच्छुत्वा "अयमेव विष्णुः , अयमेव प्राज्ञनामा परमात्मा इस (१२) जीव:- देहस्वामी जीवात्मा ॥ (१५) तूष्णीक:- तूष्णींशीलः ॥ (१८) प्राशनामा-स्वापप्रेरक ईश्वररूपविशेषः । 3B श्रीकृष्णवाल्यम् । ८३ वृद्धेभ्यः श्रुतं सत्यमेव । तदयमपि वेद" इत्यजानागोपी । परेचवि प्रातःकाचिद्धा जम्बूफलविक्रयिणी "भोः फलापेक्षिणः! फलानि क्रीणीध्वम्" इत्युच्चैरवदत् । अन्तगृहस्थः कृष्णस्त्वरितं तण्डुल- घट्यास्तण्डुलानादाय तत्रागच्छत् । आगच्छतस्तस्याञ्जलेरङ्गुलि- रन्ध्रमार्गेण तण्डुला मध्येमार्ग गलिताः । कृष्णः स्वाञ्जलि तण्डुलपूर्ण मत्वा “अये वृद्धे एतत्तण्डुलपरिमितानि फलानि देहि" इति रिक्तमञ्जलिं तस्याः पिटके चिक्षेप। सा जरठा तस्य सुस्मितं मुखं वीक्ष्य विस्मिता परमानन्दभरिता तमा- लिङ्ग्य मूर्ध्याघ्राय तस्याञ्जलिं जम्बूफलैः पूरयामास । ईश्वरोऽपि तस्याः कण्डोलं निष्कैः पूरयामास । ॥ कालियमर्दनम् ॥ ततः कतिपयेषु वत्सरेषु गतेषु श्रीकृष्णः स्वयं सर्वपालो- ऽपि प्रथमं वत्सपालः ततो गोपालकथाभूत् । कदाचिदामो- दरो गाश्चारयितुं वयस्यैः सह यमुनातीरे दुरतो विद्यमानं बहु- तृणयुक्तं काननं प्राप। गास्तत्र विहाय मध्याह्नभोजनायानीतं शिक्यगतं दध्योदनं वृक्षशाखास्ववालम्ब्य सर्वे कुमारा विजहुः (७) पिटकः; (१०) कण्डोल: वंशादिनिर्मितं पात्रम् ॥ 5 mL... Arr-वटा ॥

संस्कृत चतुर्यपाठः ॥४॥ बहोः कालात्पूर्व वैनतेयः सर्पेभ्यः क्रोधेन तान्सानिः- शेषं हन्तुमारभत । तस्माद्भीतास्ते "प्रतिपर्व तुभ्यमन्नमयं बलिं वयं यच्छामो माऽस्मान्समूलं वधीः” इति गरुडमूचुः । स तां व्यव- स्थामभ्युपागच्छत् । तदनु पन्नगा यथाव्यवस्थमेकैकस्मिन्प- वण्ये कैक इति बलिं ददत आसुः । विषवीर्यमत्तः कालियो गरुडं कदर्थीकृत्य तस्मै करं नादात् । प्रत्युत परैर्वृत्तं बलिं च स्वयं बुभुजे । तेन कुपितस्तायः कालियं जिघांसुः समुपाद्रवत् कालियो गरुडं विषपूर्णर्दशनैरदशत् । स्फटाभिः पाहरत् , भोगेन बबन्ध । तत्सर्व तृणाय मत्वा गरुडस्तं पक्षाभ्यामताड- यत्, नखरैर्व्यदारयत्, चच्चा बिभेद च। तत्पहारानिविह्वल: (२) प्रतिपर्व- पर्वणि पर्वणि । दर्शप्रतिपदोः संधिः पर्व ॥ (५) ददतः- यच्छन्तः । ददत् । ददतौ । ददनः ॥ द्वि. ददतम् । ददतौ । ददतः ॥ " नाभ्यस्ताच्छतुः"॥ आसुः- बभूवुः' इति भाग्यम् । 'असु' क्षेपणे इति देवादिकस्य वा रूपम्। धातूनामनेकार्थत्वात् । चान्द्रमतानुसारेण तु “अस" भुवि इत्य- स्यैव आस । आसतुः। आसुः । इति च रूपाणि ॥ अव्ययमिति च प्रामाणिकाः ॥ (७) बुभुजे- आदत् । अभ्यवाहरत् । “भुजोऽनवने, इत्यात्मनेपदम् । भवनार्थे तु बुभोज पालयामास ॥ (८) स्फटा- फणा ॥ (९) भोगः- सर्पशरीरम् ॥ तृणाय मत्वा- तृणसाम्येन मत्वा । तृणं मत्वा इत्यपि वक्तुं शक्यम् । "मन्यकर्मण्यनादरे विभाषाऽप्राणिषु" इति सूत्रम् ॥

श्रीकृष्णवाल्यम् कालियः कान्दिशीको गरुडागम्यं स्थलमन्वियेष । कालिन्यां बृहद्वनस्यानतिदूरे एको महानगभीरो हृद आस ! बहोः कालात्पूर्व सौभरि म महर्षिस्तस्य हृदस्य तीरे तप- स्तप्यमान आस्त । तस्मिञ्जलेऽनेके मीना पोप्लूयमाना विह- रन्ति स्म । क्षुधितो गरुडस्तान्भक्षयितुं तत्राजगाम । सौभरि- णा निवारितोऽपि स जलचरान्गृहीत्वाऽभक्षयत् । तदृष्ट्वा महर्षिः कुपितः "अद्य प्रभृति यदि त्वमत्रागमिष्यसि तर्हि म्रियेथाः ।" इति पन्नगारिमशपत् । इमं वृत्तान्तं विदितवान्कालियः सपरि- वारस्तं महाह्रदं प्राप्य सुखमवसत् । तस्यावासेन तस्य हृदस्य जलं विषमयमभूत् । तज्जलं नराणां पक्षिणां गवां चापेयपासीत् । अज्ञानाद्यदि कोऽपि पिबति तर्हि स तत्क्षणं म्रियते । इमं वृत्ता- न्तमजानाना गोपबालकाः कृष्णश्च वृक्षावलंबितं पाथेयं मध्याह्ने भुक्त्वा तद्भदजलं पपुः। अनुपदं गोपदारका मनुः । कृष्णस्य तु विषजलपानेन न कोऽपि विकार उदभूत् । पञ्चत्वं गतान्वय- स्यान्कृष्णो दृष्टा पीयूषवर्षिण्या स्वदृष्टया समजीवयत् । ते कुमाराः स्वेषां निधनं कृष्णमहिम्ना जीवनं चाजानन् । ते च तं महान्तं (१) कान्दिशीकः- भयद्रुतः॥ अन्वियेष- अगवेषयत् । " इष" इच्छायाम् । अनुपूर्वको मार्गणे । वि. ६ पर. लिट् -प्र. इयेष । ईषतुः । ईषु: ॥ म. इयेषिथ। ईषथुः । ईष । उ. इयेष । ईषिव । ईषिम ॥ लट् - इच्छति ॥ लडू-ऐच्छत् ।। लुडू- ऐषीत् । ऐषिष्टाम्॥

संस्कृत चतुर्यपाठ ॥४॥ कमपि देवं मेनिरे। "वयस्याः! ह्रदान्तर्वतिनं नागं दमया नोद्विजध्वम् । दूरे स्थित्वा संभ्रमं पश्यत ।" इत्युक्त्वा तीर महोन्नतं कदम्बामधिरुह्य वस्त्रं कटावाबध्य बाहू अस्फोट्यागा हदेऽपतत् । तस्य पतनेन स ह्रदः संचुक्षुमे । तेन तत्रस्थाः कालि यो नागः तद्भार्यापुत्रादयश्चाविभयुः। तं परिभवमसहमानः बहु- शीर्षः कालियः कृष्णं स्वस्य भोगेनावेष्टय गरलपूर्णैर्दशनैरद- शत् । तदंशेन कृष्णस्य कापि विक्रिया नाभूत् । किंतु वज्रादा कठोरस्य कृष्णदेहस्य दंशनेन कालियस्यैव रदना अभ्रश्यन् नन्दोऽशुभसूचकानुत्पातानिरीक्ष्य रामं विना वयस्यैः सह गोचारणाय गतस्य कृष्णस्य किमत्याहितं जातमिति भिया यमुनातीरं पाप। तत्र नागभोगवेष्टितं तेन दश्यमानं च तनयं वीक्ष्य तन्मोचनाय स्वयं यमुनां प्रवेष्टुं नन्द इयेष । अनुजस्य प्रभावज्ञो रामस्तं न्यषेधीत् । कृष्णः स्वीयानां संकटं वीक्ष्या- स्मानं मोचयितुं स्वीयं वपुरप्रथयत् । तेन संजातमहादुःखः स कालियः कृष्ण स्वयमेव मुमुचे । कृष्णस्तं पुच्छे गृहीत्वो- र्ध्वमुन्नमय्याधः पोथयित्वा तस्य फणा अधिरुह्य नर्त । तस्याज्रिपातैः क्षुण्णफणः स चक्षुःश्रवा मुखेभ्यो रक्तं स्वाम (२) संभ्रमः- आश्चर्यम् ॥ (३) अगाधः-अतलस्पर्शः॥ (१०) अत्याहितम् - महाभीतिः ॥ (१७) चक्षुःश्रवाः- चक्षुः श्रवः कर्णो यस्य । सान्तं पदम् ।।

श्रीकृष्णवाल्यम् । मुमूर्च्छ च । मरणोन्मुख पति वीक्ष्य तत्पल्य आगत्य कृष्ण तुष्टुवुः । तासां स्तुत्या तुष्टः कृष्णस्तम िकुट्टनाद्विससर्ज । योगालोचनया विदितकृष्णानुभावो नागः "स्वामिन्! तव स्वरूपमज्ञात्वाऽहमपरराध । त्वं जगदीश्वरः, आघन्तशून्यः, लक्ष्म्याः पतिः, जगन्नियामकानां चतर्मुखत्र्यक्षमघवदादीनां स्रष्टा । तमःप्रकृतयः सद्योमन्यवो वयं दन्दशूकाः कथं भवन्महि- मानं जानीयाम? । अहं दासोऽस्मि तब सपरिवारः। अनुगृही- वास्मान् किमस्माभिः करणीयमाज्ञापय? ।" इत्यवदत् । 'सर्पापसर्पास्मादात् । जनसञ्चाररहितं त्वज्जातीयैः पूर्ण रमणकं - (३) योगालोचनया - चित्तवृत्तिनिरोधजन्यज्ञानेन ॥ (४) अपरराध अपराधमकरवम् । 'राध" संसिद्धौ। वि. ५ पर. अपपूर्वो हिंसायाम् । लट् - अपराधोति ॥ लिट् - प्र. अपराध । अपरेधतुः । अपरेधुः ॥ म. अपरेधिथ । अपरेधथुः । अपरेध ॥ उ. अपरराध । अपरेधिव । अपरेधिम ।। अत्र "राधो हिसायाम् इति एत्वाभ्यासलोपः । हिंसाभिन्नेऽर्थे तु । रराध । रराधतुः इत्यादि- रूपाणि । उत्तमपुरुषे प्रयोक्तुरिन्द्रियागोचरत्वरूपपरोक्षत्वं स्वत्राज्ञान- कृतम् ॥ (५) व्यक्षः - श्रीगि अक्षीणि नेत्राणि यस्य सः । शिवः ॥ “बहुवीही सक्थ्यक्ष्णोः स्वाङ्गात्षच (६) दन्दशूकः - सर्पः । गर्हितं दशतीत्यर्थे यकि “यजजपे" ति तति पच् ॥ ऊकप्रत्ययः॥ (९) अपसर्प - लोट् - अपसर ॥

तं संस्कृत चतुर्थपाठः ॥ ४ ॥ द्वीपमितो गच्छ। मद्वाहो गरुडः स्मरन्नपित्वदीयमपराधं नेतःपरं मत्पादलाञ्छितं त्वां सपरिवारं हिंस्यात् ।" इति कृष्णोऽवदत् । एवमुक्तो भगवता कृष्णेनाद्भुतकर्मणा। पूजयामास मुदा नागपल्यश्च सादरम् ।। ५१॥ दिव्याम्बरमणिस्रग्भिः पराध्यैरपि भूषणैः । दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ॥ ५२ ॥ ततः प्रीतोऽभ्युनुज्ञातः परिक्रम्याभिवन्ध सकलत्रसुहत्पुत्रो द्वीपं रपणकं ययौ ।। ५३ ।। तदैव साऽमृतनला यमुना निर्विषाऽभवत् । अनुग्रहाद्भगवतः क्रीडामानुषरूपिणः ॥ ५४ ।। कृष्णं हृदाद्विनिष्क्रान्तं दिव्यस्त्रग्गन्धवाससम् । उपलभ्योत्थिताः सर्वे लब्धप्राणा इव प्रजाः ॥ ५५ ॥ प्रमोदनिभृतात्मानो गोपा: प्रीत्याऽभिरेभिरे । यशोदा रोहिणी नन्दो गोपा गोप्यश्च सर्वशः ।। ५६ ॥ तम् । (७) परिक्रम्य - प्रदक्षिणकृत्वा ॥ ६१२) पूर्व नष्टप्राणाः पुनर्लब्धप्राणाः प्रजाः प्राणानुपलभ्य प्राप्येव सर्वे ५६ श्लोके वक्ष्यमाणा नन्दादयः कृष्णमुपलभ्योस्थिताः ।। (१३) अभिरेभिरे-परिरभिरे , आलिलिगुः ।।

श्रीकृष्णबाल्यम् । कृष्णं समेत्य सुस्निग्धा आसन् लब्धमनोरथाः ॥ ५७ ॥ एवंविधान्य तानि कृष्णस्य परमात्मनः । वीर्याण्यनन्तवीर्यस्य सन्त्यनन्तानि भारत ।। ५८ ।। • ॥ श्री कृष्णबाल्यं संपूर्णम् ॥३॥ ॥ श्रीवेदव्यासाय नमः॥ (१) लब्धमनोरथा:- लब्धः प्राप्तः मनोरथः श्रीकृष्णानामयरूपो यैस्ते ।। (३) भारत-भरतकुलोपन हे परिक्षित् ! ॥

॥ नलचरित्रम् ॥ ४ ॥ ॥ उपोद्घातः ॥ आसीचन्द्रवंशे विचित्रवीर्यो नाम महाराजः । तस्य धृतराष्ट्रः पाण्डुः विदुरश्चेति त्रयः पुत्रा उदभूवन् । तेषु ज्येष्ठो धृतराष्ट्रोऽन्धः कौरवराज्यं न प्रपेदे । विदुरस्य शूद्रापुत्रस्य राज्य- प्राप्तिरेव निरवकाशा। तस्मात्पाण्डुरेव राजा बभूव । ज्येष्ठस्य स्वभा- र्यायां गान्धार्या शतं पुत्रा उदभूवन् । मध्यमस्य मृगयायै वनं गत्वा तत्रैव बहुकालं स्थितस्य कुन्त्यां मायां च पञ्च मूनव आसन् । ततस्तत्रैव वने पाण्डुर्दैवीं गतिं पाप । ततः पाण्डोस्तनया मात्रा सह हास्तिनं पुरमगच्छन् । एवं पञ्चोत्तरशतस्य भ्रातृणां समा- नेऽपि कौरवत्वे, शतस्य कौरवा इति, पञ्चानां पाण्डवा इति च व्यवहारोऽजनि । असुरांशाः कौरवाः विष्णुद्वेषिणः, देवाव- ताराः पाण्डवा विष्णुभक्ताश्चासन् । त उभयेऽपि परस्परं विदिद्विषुः । तदृष्ट्वाऽन्धोऽपि धृतराष्ट्रः पाण्डवान्स्वपुत्रेभ्योऽपि बलिष्ठान्विज्ञाय राज्य विभज्य (७) मृगया- भारखेटः॥ (१४) विदिद्विषुः- अप्रीतिमकुर्वन् । “द्विष"मीतौ । वि २ उभ, मन्त्र नलचरित्रम् । ९१ स्वतनयेभ्यः पाण्डवेभ्यश्चादात् । पाञ्चालनृपतेः कन्यां द्रौपदी पश्चापि पाण्डवा उदवहन् । युधिष्ठिरः पाण्डोज्येष्ठः पुत्रः सगा- भ्यां भीमार्जुनाभ्यां, वैमात्रेयाभ्यां नकुलसहदेवाभ्यां च सह नि- खिलां पृथिवीं जित्वा राजसूयं नामेतरासाध्यं यागमातनोत् । धार्तराष्ट्रेषु ज्येष्ठो दुर्योधनः राजसूयमहर्दि दृष्ट्वाऽमर्षात्तप्यमा- नहृदयोऽनुजस्य दुःशासनस्य, मातुलस्य कितवस्य शकुनश्च संमत्या पाण्डवानक्षवत्यां जित्वा वनं प्रेषयामास । सभार्यास्ते यथासमय वन ऊपुः। एवं वसत्सु तेष्वरण्ये युधिष्ठिरानुमत्याऽर्जुनो देवेभ्योऽस्त्रा- णि शिक्षितुम् इन्द्रलोकमगच्छत् । ततः कदाचित्ते चत्वारः पर. लिट् - प्र. विद्वेष । दिद्विषतुः । दिद्विषुः ॥ म. दिद्वेषिथ । दिद्वि- षथुः । दिद्विष ॥ उ. विद्वेष । निद्विषिध । दिद्विषिम ॥ लट् - प्र. द्वेष्टि । द्विष्टः। द्विषन्ति ॥ द्वेक्षि । द्विष्टः । द्विष्ठ । उ० द्वेष्मि । द्विष्वः । द्विष्मः ॥ लोट् - मध्य. एक. द्विद्धि ।। लङ् -प्र. ए. अद्वेट्-ड् ॥ लुङ्- अद्विक्षत् ॥ (२) सगर्थ्यः- समाने गर्भ भवः । समानोदर्यः, सोदयः ।। (३) वैमात्रेयः- विरुद्धा माता विमात । तस्याः अपत्यं पुमान् । सापत्नो . भ्राता । (६) किनव:- अक्षदेवी॥ (७) अक्षवती-यूतक्रीडा ॥ (1) वने+ऊष:- इति च्छेदः ॥

" ९.२ संस्कृत चतुर्थपाठः ॥ ४ ॥ कृष्णया सह वन्यानि दुःखान्यनुभवन्तः, पूर्वानुभूतानि सुखानि स्मरन्तः, धनञ्जयवियोगादधिकं खिद्यमानाः, काम्यके वन अवात्सुः । तत्र युधिष्ठिरं द्रष्टुं महातपा बृहदश्वो नाम मुनिः समा- ययौ। सानुजो नृपस्तं प्रणम्य वानप्रस्थविधिना पूजयामास । गृहीतार्हण समाश्वस्तं स्वेषामनामय पृष्टवन्तं मुनि धर्मजो बभाषे । "स्वामिन् ! सर्वमपि मद्वृत्तान्तं त्वं ज्ञानचक्षुषा जानी, अतः स तुभ्यं न वक्तव्यः । अपि कश्चिदस्ति राजा लोके मत्समो दुःखानां विपदां च निकेतनम् ? पूर्वमभूद्वा ? इतः परं वोत्प- त्स्यते ?" इति । स मुनिः क्षणमात्रं सुप्तमीनोऽर्णव इव स्तब्धो ध्यानपरो भूत्वा सस्पितं पाण्डवमभ्यधात् । लोकपालसमास्त्रयो भ्रातरः, सर्वसहासमा द्रौपदी च सहच- रास्तव सन्ति । तवास्ति सूर्यदत्तमक्षयं पात्रम् , येन त्वमेकस्यामेव (१) कृष्णा-द्रौपदी । (८) निकेतनम् - गृहम् । अत्र स्थानमित्यर्थः ॥ उत्पत्स्यते - जनिष्यते । पद" गतौ । वि. ४ आ. लृट् । उत्पूर्वको जनने ॥ (११) सर्वसहासमा - सर्वसहा भूमिः । तया समा॥ (१२) अक्षयं पात्रम् - अनेय कथा - छूते पराजितेषु पाण्डवेषु वनं गतेषु तनहे भुक्तवन्तोऽनेके ब्राह्मणास्तमन्वयुः । तेषां भरणाय युधिष्ठिरः सूर्यमाराधयामास । प्रसनः सूर्य:- अहमग्नं प्रदास्यामि सप्त पञ्च च ते समाः। गृहीण्य पिठरं तानं मया दत्तं नराधिप ।।

नलचरित्रम् । पती अशीतिसहस्राणि ब्राह्मणान्वनं गतोऽपि भोजयसि । कां न्यूनतामात्मनि दृष्ट्वा खिन्त्से ? । बहवः पुण्यश्लोकाः पार्थिवाः त्वत्तोऽप्यधिकं दुःखं पूर्वमन्वभूवन् । कृतास्त्रोऽर्जुनः शीघ्रं समेष्यति । सः, भीमसेनश्च कौरवैः सह युद्धा तानिहत्याचिरादेव निष्कण्टकां सप्तद्वीपवतीमवनीं तुभ्यं समर्पयिष्यतः। तस्मान्या खिद्यस्व ।" इति । युधिष्ठिरोऽभाषत भगवन् ! एतादृशी- मवस्थां संप्राप्तमेकं वा भूपं ज्ञातुमिच्छामि ब्रवीतु भवान् " इन । यावद्वय॑ति पाञ्चाली पात्रेणानेन सुव्रत । फलमूलामिषं शाकं संस्कृतं यन्महानसे ॥ चतुर्विधं तदमाद्यमक्षय्य ते भविष्यति । द्रौपद्या भोजने जाते तदनं क्षयमेष्यति ॥ इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि । इति युधिष्ठिराय वरं ददौ । इति महाभारते ॥ (२) खिन्त्से-विषीदसि । "खिद" दैन्ये । वि. ७ आत्म. लट् -प्र. खिन्ते । खिन्दाते । खिन्दते ॥ म. खिन्त्से । खिन्दाथे । खिन्ढे ॥ उ. खिन्दे । खिन्द्वहे । खिन्द्महे ।। लिट् - चिखिदे ॥ लुङ् - अखित्त ॥ (६) खिद्यस्व-विषीद “खिद" दैन्ये । वि. ४ आत्म. लोट् - प्र. खिद्य- ताम् । खिचेताम् । खिद्यन्ताम् ॥ म. खिद्यस्व । खियेथाम् । खिद्य- ध्वम् ॥ उ. खिद्ये । खिद्यावहै। खिद्यामहै ॥ लट् - खिद्यते ॥ म. खिद्यसे ॥ उ. खिये ॥ (७) एकं वा भूपम् - बहूनां कथनं मा स्तु। एकं भूपं प्रथमं कथयेति तात्पर्यम् ॥

संस्कृत चतुर्यपाठः ॥ ४ ॥ ॥ नलकथारम्भः ॥ - बृहदश्व उवाच निषधेषु वीमेनस्य राज्ञः सुतो रूपे मन्मथसमः, लोकोत्तरैर्गुणैरुपपन्नः, दानशौण्डश्च नलो नाम राजा बभूव । तस्मिन्नेव काले विदर्भेषु भीमो नाम महीक्षिदास । अपजसस्तस्य शीलेन तोषितस्य दमननाम्नो महर्षेरनुग्रहाद्दमयन्ती नाम कन्यारत्रं, दमो दान्नो दमनश्चेति त्रयः पुत्राश्वासन् । त्रिषु लोकेष्वपि कापि सीमन्तिनी रूपे लावण्ये सौभाग्ये च दमयन्त्याः समा नासीत् । प्राप्तयौवना सखीजनपरिवृताऽनवद्याङ्गी सा ब्राह्मणेभ्यो नलस्य रूपलावण्यादिकं शुश्राव । त एव ब्राह्मणा नलं प्राप्य दपयन्ती प्रशशंसुः। तयोर्द्वयोः परस्परमदृष्टयोरेव कामो व्यवर्धत । कदाचिनलोऽन्तः पुरसमीपस्थ उद्यानवन आस्त । तत्र मानससरोवासिनो जाम्बूनदपक्षा हंसा वियत आगत्योपविविशुः । (३) दानशौण्ड:- बहुप्रदः- दाने शौण्डः । “सप्तमी शौण्डैः" । (५) अप्रजसः - न विद्यते प्रजा यस्य सः अप्रजाः, तस्य । सान्तं पदम् । "नित्यमसिच्प्रजामेधयोः । नदुःसुभ्य इत्येव" अप्रजाः, दुष्प्रजाः, सुप्रजाः । अमेधाः, दुर्मेधाः, सुमेधाः ॥ (६) कन्यारत्नम् । श्रेष्ठा कन्या। कन्या रनमिव ॥ (११) आस्त - अभूत् । आस " उपवेशने । वि. २ आस्म, आस्त। आसाताम् । भासत ।।

नलचरित्रम् । ९५ तेष्वेकं पक्षिणं नलो जग्राह । “राजन् ! मा मां जहिजहीहि । दमयन्त्याः सकाशे तव गुणान्कथयित्वा यथा सा भाविनि स्वयंवरे त्वदन्यं पुमांसं न वृणुयात्तथा करिष्यामि" इति स श्वेतगरुयाजहार । एवमुक्तो नलस्तमुत्ससर्ज। ते हंसा विदर्भनगरं प्राप्य उद्याने सखीपरिवृताया दमयन्त्या: पुरतो निपेतुः । ताजातरूपच्छदानद्भुतरूपान् खगान्दृष्ट्वा भैमी सह सर्वाभिस्ता- न्ग्रहीतुमुपचक्रमे । एकैका कन्या एकमेकं हंसमन्वसरत् । तेषु (१) जहि - “हन " हिंसागत्योः। हिंसात्र प्राणवियोजनम् । वि. ३ प. लोट् - प्र. हन्तु - हतात् । हताम् । घ्नन्तु ॥ म. जहि - हतात् । हतम् । हत ॥ उ. हनानि । हनाव। हनाम । शेष मस्मदीय- बृहद्धातु रूपावल्यां पश्यत । जहीहि - मुञ्च । ओहाक्” (हा) त्यागे। वि. ३ पर. लोट् - प्र. जहातु जहितात् - जहीतात् । जहिताम् - जहीताम् । जहतु ॥ म. जहाहि - जहिहि - जहीहि । जहितात् - जहीतात् । जहितम् - जहीतम् । जहित - जहीत ॥ उ. जहानि । जहाव । जहाम ॥ लट् - प्र. जहाति । जहितः - जहीतः । जहति ॥म. जहासि । जहिथः - जहीथः। जहिथ - जहीथ ॥ उ, जहामि । जहिवः - जहीवः। जहिमः-जहीमः ॥ लिट् - प्र. जहौ। जहतुः । जहुः ॥ म. जहिथ जहाथ । जहथुः । जह ।। उ. जही। जहिव । जहिम विधिलिङ्-जह्यात् । जह्याताम् ॥ अशीर्लिङ्- हेयात । हेयास्ताम् ॥ लुङ् • अहासीत् ॥ (२) भाविनि- भविष्यति, उत्पत्स्यमाने ॥ (४) श्वेतगरुत्-हंसास्तु श्वेतगरुतः इत्यमरः ॥ . - ९६ संस्कृत चतुर्षपाठः ॥ ४॥ नलेन गृहीतप्रतिमुक्तो यो हंसः स एव भैम्याः समीपमागत्य तां प्रलोभ्य सखीजनरहितं प्रदेशं नीत्वा “बाले ! मद्रहणेन तव किं फलं स्यात्? यत्त्वयाऽवश्यं करणीयं तत्र त्वमुदासीना वर्तसे, तत्राई शोचामि। अनन्यसाधारणरूपवती त्वं यदि नलं निषधाधिप पतिं लभेयास्तदैव ते जन्मेदं रूपं च सफलं भवेत् । वयं सत्यलोके मानससरोवरविहारिणो विहगाः त्रिलोकसञ्चारिणस्तत्र तत्र देवग- न्धर्वमनुष्यादिकाननेकापवतोऽपश्याम । तेषु नैकमपि नलतुल्यं दृष्टवन्तः । तत्प्राप्तये यतस्व" इत्युवाच । सा तं प्रत्यब्रवीत् - " सौवर्णाण्डज ! यद्यस्ति तव मय्यनुकंपा एवमेव नलाय मां कथय" इति। स विहङ्गप्रस्तां तथेत्युक्त्वोड्डीय पुनर्नलसमीप इदं सर्व वृत्तं न्यवेदयत् । ॥ दमयन्त्याः स्वयंवरः ॥ तत आरभ्येन्दुवदना सा तमेव राजशशिनं ध्यायन्ती निःश्वासपरमा मृष्टेऽप्याहारे रुचिमणामुवती कृष्णपक्षहिमांशु- (१) गृहीतप्रतिमुक्तः-पूर्व गृहीतः पश्चाप्रतिमुक्तोविसृष्टः ॥ (९) अनुकंपा - कृपा, दया ॥ (१०) उड्डीय • उत्पूर्वकात् “ डीङ्" (डी) विहायसा गती इत्यस्मात् म् -श्यते।

T नलचरित्रम् । फलेव क्षामा समभूत् । विदर्भभूपति(मो दमयन्त्याः सखीमुखा- त्तस्या मदनकृतमस्वास्थ्यं ज्ञात्वा स्वयंवरं कारयामास। दूतान्सं- प्रेष्यानेकाञ्जनपदेश्वरानानिनाय। बहवो राजानो राजपुत्राथ विचित्रवेषाभरणा इस्त्यश्वरथघोषेण वसुन्धरां नादयन्त आजग्मुः । तान्सर्वान्यथाई समान्य तृप्तेष्वावासेष्वावासयांचक्रे । इमां स्वयंवरकथां नलोऽपि भीममेषितेभ्यो दुतेभ्यो विज्ञाय दमयन्तीमाप्तुकामो विदर्भान्प्रतस्थे । नारदाद्विदि- तदमयन्तीस्वयंवरोदन्ता महेन्द्रः अग्निः यमः वरुणचेति दिशां पालकाः चत्वारोऽपि तामेव परिणेतुं कान्तो विदर्भनगरीमाजग्मुः। ते त्रिदिवौकसस्तेनैव पथा तमेवार्थ- मुद्दिश्य गच्छन्तं नलं दृष्ट्वा तद्पर्षिता विस्मिता व्यचिन्तयन् । "अहो ! अस्यात्यद्भुतं रूपम् , सा राजपुत्री एनं दृष्ट्वा नान्यं वरं मन्मथमपि वरिष्यति" इति । ततस्ते देवाः कामपि युक्तिं मनसि निश्चित्य नलमब्रुवन् । “नैषध ! त्वमस्माकं भक्तः, वयं च त्वयि प्रीतिमन्तः । अस्मदीयं कार्य त्वया कार्यम्" इति । तच्छ्रुत्वा याच्याभङ्गेष्वशिक्षितो राजा नलस्तांश्चतुरः प्रणम्य, करिष्यामीत्य- विशङ्कमभ्यधात् । “ त्वमस्मदर्थे दमयन्तीं प्राप्य 'शक्रोऽग्निर्वरुणो यम इति चत्वारो देवास्त्वत्माप्तीच्छयाऽऽगच्छन्ति । तेष्वन्यत- मस्त्वया वरणीयो नान्यः' इति तस्या उक्त्वा सा यथाऽस्मास्वेकं वृणुयात्तथाऽस्मद्गुणास्तन्निकटे त्वया वक्तव्याः " इति ते धागानां वचः श्रुत्वा विषण्णो नैषधस्तानब्रवीत संस्कृत चतुर्थपाठः ॥ ४ ॥ यथा यूयं भैमीमभिलाषुकास्तथाऽहमपि वर्ते । एकार्थसमवेतं मां प्रेषयितुं नार्हथ" इति । नैषधेन एवमुक्ते मघवा पुनस्तमब्रवीत् । "नैषध ! प्रथमं करिष्य इत्यस्मासु संश्रुत्य इदानीं न करिष्य इति कस्माद्वदमि, शीघ्रं दृत्येन व्रज" इति । नलोऽब्रवीत् “धर्म- लोपभयादनभिप्रेतमपि कार्य करिष्ये, कथं स्वयंवरसमये विशेषतो रक्षितं कन्यान्तःपुरं गच्छेयम् ?" तद्वदत इति । नलेनैवं प्रोक्तो " अस्मदनुभावेन त्वमितरालक्षितोऽनिरुद्धगतिर्गत्वा तां द्रक्ष्यसि" इत्यवदत् । तच्छ्रुत्वा नलः तस्या दर्शन कुतो वा मत्कार्यसाधनार्थमेव न भवेत् ?" । इति विचिन्तयन्नेव निर- र्गलं क्षणेन कन्यागृहमगच्छत् । प्रविशन्नेव स सखीजनपरिवृतां तां . (१) अभिलाषुकः - अभिलषति इत्यर्थे लषपतपदस्था इत्यादिना उकञ् ॥ एकार्थसमवेतः - एकस्मिन्नर्थे दमयन्तीप्राप्तिरूपे कार्ये समवेतः सहितः उद्युक्त इति यावत् ॥ (८) द्रक्ष्यसि - अवलोकिष्यसे, ईक्षिष्यसे। 'दृशिर्' (दृश्) प्रेक्षणे वि. १ पर. लृट् - प्र. द्रक्ष्यति । द्रक्ष्यतः । द्रक्ष्यन्ति ॥ म. द्रक्ष्यसि । उ. द्रक्ष्यामि ॥ लुट् - प्र. द्रष्टा । द्रष्टारौ । द्रष्टारः ॥ म. द्रष्टासि । दष्टास्थः। द्रष्टास्थ ॥ उ. द्रष्टास्मि । दृष्टास्वः। द्रष्टास्मः ॥ लट् - पश्यति ॥ लिट् - ददर्श । ददृशतुः । ददृशुः ॥ म. ददर्शिथ - दद्रष्ठ । दशथुः ददृश ॥ उ. ददर्श । ददृशिव । ददृशिम ॥ लुङ् . प्र. भदर्शत् । अदर्शताम् । अदर्शन् । पक्षे - अद्राक्षीत् । भद्राष्टाम् । भद्राक्षुः॥

नलचरित्रम् । ९९ मृगेक्षणामैक्षिष्ट । सा च चन्द्रमुखी आयान्तं नैषधं दूरादेव विलो- क्य विस्मिता "हे सख्यः ! यमुद्दिश्य पञ्चशरो मां पञ्चभिरपि- शरैर्दुनोति स एव महानुभावोऽयमार्यपुत्रो भवेदिति मन्ये; प्रवेशयतैनम्" इत्युवाच । ताभिरित इत इति प्रदर्शितमार्गों नरपतिः प्रविश्य शुद्धान्तं क्षणमात्रं कर्तव्यमूढो बभूव । तं दृष्ट्वा प्रहृष्टां भैमी स्वयमेव व्याहरत् । “कस्त्वं सर्वानवद्याङ्ग ! देवो वा गन्धर्वो वा आहोस्विन्नल एव वा। मां मानसौकसोऽ- यथा अवदन् तथारूपस्त्वमसि । अपि स्वागतं ते ?। उग्रशासनेन मम पित्रा सुरक्षितं मे भवनं कथं त्वं प्रविष्टः ?" इति । देवदूतोऽहं निषधा- धिपतिनलो नाम । शक्रोऽग्निवरुणो यमश्च चत्वारो देवास्त्वां प्राप्तुमागताः । तेषामन्यतमं त्वं वृणीष्व । कल्याणि! अहमपि तेषा- मेव प्रभावेण कैरप्यदृष्टस्तव गृहं प्रविष्टः" इति । सा प्रहस्य नलं प्रोचे “यदाऽहं हंसानां वचनमशृणवम् तदैव त्वां पति- डजा - तच्छ्रुत्वा नलोऽवदत् - “ (१) ऐक्षिष्ट - अद्राक्षीत् । ईक्ष" दर्शने । वि. १ आत्म. लुङ् - प्र. ऐक्षिष्ट । ऐक्षिषाताम् । ऐक्षिषत ॥ म. ऐक्षिष्ठाः । ऐक्षिषाथाम् । ऐक्षिद्धम् ॥ उ. ऐक्षिषि । ऐक्षिष्वहि । ऐक्षिष्महि ॥ ल्ट् - ईक्षते ।। लिट् - ईक्षांचक्रे ॥ लङ् • ऐक्षत । ऐक्षेताम् । ऐक्षन्त ॥ (३) आर्यपुत्रः - भर्ता ॥ (५) शुद्धान्तः - अवरोधः, अन्तःपुरम् ॥

१ संस्कृत चतुर्यपाठः ॥४॥ मणि। स्वयंवरारम्भश्च त्वदागमनायैव । किमियं तवैवमुक्तिः सौभाग्यहेला ? उत विडम्बनरीतिः १ । किंवा मम दौर्भाग्यम् ? । किंवा मम भावपरीक्षा ? तेषामेव हंसानां वचनान्मम त्वय्यनुराग- स्त्वया ज्ञात एव भवेत् । एवं स्थितेऽपि त्वामेव भजमानां मां यदि प्रत्याख्यास्यसि तर्हि विषपानेन, अग्निप्रवेशेन, जले पतनेन, उद्वन्धनेन वा प्राणांस्त्यक्ष्यामि" इत्युक्त्वा शराकारैः सासूयैः सलज्जैः सहर्षेश्च कटाक्षैस्तं व्यलोकयत् । "अयि मुग्धे! नाई तेषां देवानामैश्वर्ये बले रूपे वा पादरजसाऽपि तुल्यः। अहं मर्त्यः, ते त्वमाः । तस्मात्तेष्वन्यतमस्य वरणमेव तवोपयिकम्" इत्युक्तवन्तं नैषधं सा " नल! तत्सर्वं मया ज्ञातमेव । नान्योऽस्ति भर्ता त्वत्तो ममास्मिञ्जन्मनि । त्वयि चिरसम्भृतं मम प्रणय मा. नाशय । सर्वज्ञेभ्यस्तेभ्यो मनिश्चयं कथय" इत्युवाच । ॥ । (१) अवृणि - "वृञ् " (वृ) वरणे । वि. ९ उभ. अत्र आत्म. लङ् - प्र. अवृणीत । अवृणाताम् । अवृणत ॥ म. अवृणीथाः । अवृणाथाम् । अवृणीध्वम् ।। उ. अवृणि । अवृणीवहि । अवृणीमहि ॥ लट् - प्र. वृणीते। वृणाते । वृणते ॥ "प्वादीनां ह्रस्वः" इति हस्वः ।। (२) विडम्बनम् - परिहासः॥ (३) भावपरीक्षा - अभिप्रायशोधनम् ॥ (६) उद्वन्धनम् - Hanging. ETGAGurGso. (७) मुग्धा - सुन्दरी अथवा मूढा ॥ (९) औपयिकम् - युक्तम् । Fit, Proper.

नलचरित्रम् । १०१ ॥ दमयन्तीविवाहः ॥ तस्यास्तं निश्चयं नैषधो ज्ञात्वा प्रहृष्ट एवंविधं तस्या वृत्तं त्रिदशेभ्योऽकथयत् । तैरनुज्ञातो नलः परेयवि स्वयंवरमण्डपं पाप । तत्र नानादिग्भ्य आगता युवानो राजानस्तं समालोक्य भूपतिसुतालामे श्लथमनोरथा अभवन् । एवं नरेश्वरैः पूर्णा समिति कामस्य विजयवैजयन्तीव दमयन्ती क्लुप्तविवाहवेषा पतिंवरा करे धृतमधूकमाला ससखीगणा प्राविशत् । सा राज्ञां मनांसि चक्षुषि च स्वप्रभयाऽमुष्णात् । तस्या अवयवेषु यस्मिस्तेषां दृष्टिः पतिता तत्रैव सक्ताऽभून्नान्यत्र चचाल । भुजिष्यया राज्ञां नामसु संकीर्त्यमानेषु भैमी नलतुल्या कृतीपञ्च पुरुषान्ददर्श । तेषां मध्ये यं यं सा पश्यति तं तं नलं मेने । बुद्धया चिन्तयन्त्यपि सा सत्यं नलं नाध्यगच्छत् । तां देवानां मायां ज्ञात्वा तत्प्रयोक्तूंस्तानेव शरणमगच्छत् । "हंसानां वचनश्रवणादारभ्याई नलमेव पतिं मन्ये ; यद्येतत्सत्यं स्यादनेन सत्येन देवाः स्वरूपं प्राप्य नलं मह्यं बोधयन्तु । देवा निनिमेषाः; छायाविरहिताः, अम्लानसूनः, स्वेदरहिताश्चेति . (६) विजयवैजयन्ती - विजयपताका, ध्वजः ॥ (७) पतिवरा • पतिं वृणीते ॥ (१०) भुजिष्या - स्वामिन्या उच्छिष्ठभोजिनी बेटी ॥ १६) निनिमेषाः-निर्गतो निमेषो येभ्यस्ते ॥

१०२ संस्कृत चतुर्थपाठः ॥४॥ मया वृद्धेभ्यः श्रुतम् , तानि देवलिङ्गानि ते लब्ध्वा नलं पृथक् प्रदर्शयन्तु" इति प्राञ्जलिः प्रणता प्रार्थयत । तस्याः पतिभक्ति- दायेन तुष्टा देवाः स्वैः स्वैर्लक्षणैः स्थिताः । ततो भैमी तेभ्योऽ- नुज्ञां प्राप्य नलस्य कण्ठे परमशोभनां मधूकस्रजमाधत्त । तेष्वेकैकोऽपि देवस्तस्मै नैषधाय वरयुग्ममदात् । यज्ञे प्रत्यक्षदर्शनम् उत्तमां गतिं च महेन्द्रो वरमदात् । अग्निरपेक्षिते स्थले स्वस्य प्रादुर्भावं स्वसदृशीं कान्ति च, अपां पतिरिच्छासमका- लमेव जलोत्पत्ति, मर्दितानामपि सजामम्लानतां च, यमश्च पाकरसं, धर्मबुद्धिं च प्रादुः। सर्वेषु महीपालेषु देवेषु च नलदमयन्त्योर्विवाहं निर्विवादमनुमोद्य गतेषु नलो दमयन्ती परिणीय कंचन कालं तत्रोषित्वा भीमेन समनुज्ञातः स्वकं पुरं भैम्या सह प्राप्य सुखमुवास । एतस्मिन्नन्तरे सद्यो विदितद- मयन्तीस्वयंवरः कलिापरसहायो विदर्भानाययौ। देवेन्द्रः कलिं स्वयंवराय द्वापरेण सह गच्छन्तं ज्ञात्वाऽब्रवीत् । “सखे ! निवर्तस्व, संवृत्तः स्वयंवरः। पुण्यकीर्तिनलस्तया वृतः" इति । ॥ नलस्य राज्यभ्रंशः॥ सद्योजातमन्युरधर्माभिरुचिः कलिः “किमिदमकार्य तया कृतम् , यद्युष्मादृशान्महात्मनोऽपहाय क्षत्रियापशदो नलो वृतः । (९) पाकरसः- पक्वपदार्थानां रुचिः॥

नलचरित्रम् । १०३ तस्या वराक्या न्याय्यो दण्डो मया धार्यः। यथा तौ दम्पती परस्परं सुखं न लभेयातां तथा करिष्ये" इत्यवदत् । तच्छुत्वा देवाः "शान्तं पापम् , अस्मदनुमतैव सा तमट्टणोत् । तादृशो गुणवांस्तस्मिन्समाजे नान्योऽभूत् । अस्मत्तोऽपि स गुणवत्तरः । तस्माद्विरमास्मात्पापकृत्यात्" इत्युक्त्वा त्रिदिवं गताः । क्रोधमात्मगतं नियन्तुमक्षमः कलिापरं बभाषे “सखे ! त्वं अक्षान्प्रविश । नलमक्षैर्देवयित्वा तद्वन्धुना पुष्करेण जाप- यामि । तत्र वं साहाय्यं कर्तुमर्हसि ।" इति । एवं व्यवस्थाप्य निषधेषु नलदेहं प्रवेष्टुमन्तरप्रेक्षी कलिश्चिरमवसत् । विध्युक्तप्रकारेण धर्ममनुतिष्ठतस्तस्य देहं प्रवेष्टुं बहून्वत्सरान शशाक कलिः । अथ द्वादशे वर्षे नलः सायं मूत्रोत्सर्जनानन्तरं सम्यक्शौचमकृत्वा सन्ध्यामन्वास्त । इदमन्तरमासाद्य तं कलिराविशत् । स्वावेशेन नले नष्टविवेके तज्ज्ञाति पुष्करं प्राप्य "त्वं नलेन दीव्य (१) वराकी - शोचनीया। Wretched. (३) शान्तं पापम् - पापनिवृत्तिसमाशंसायामेवमुक्तिः सांप्रदायिकी ॥ (७) अक्षाः • पाशकाः । The Dies. FILLI wrisor. जापयामि - “जि" जये । वि. १ पर. णिजन्तालट - “क्रीजीनां णौ" इत्यात्वम् । “ अतिहीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ" इति पुक् । “ जप" धातोरपि तथैव रूपम् । (११) द्वादशः - द्वादशानां पूरणः ॥ Twelfth.

संस्कृत चतुर्यपाठः ॥ ४॥ तत्र त्वं तं जेतासि" इत्यवदत्कलिः। पुष्करः नलेन सहाक्ष- द्यूते तस्य सर्व राज्यमपाहरत् । दमयन्ती मन्त्रिमुखेन राजानं प्रबोध्यापि वितथप्रयत्ना बभूव । ततः सा सुतमिन्द्रसेनं कन्य- कामिन्द्रसेनां च पितुर्नगरं प्राहिणोत् । नलसारथिर्णेियो दारको रथमारोप्य कुण्डिनं नीत्वा भीमाय राज्ञे दत्वा नलस्य द्यूते पराजयोदन्तं च निवेद्य रयं हयांश्च तत्रैव निक्षिप्य जीवनाय ऋतुपर्ण ययौ। अयोध्याधिपतिः ऋतुपर्णश्च शतनिष्केण मासभृत्या तं संभाष्य सारथ्ये नियोजयामास । द्यूते हारितसर्वस्वः पुष्करेण निषिद्धनगरवासो दमयन्ती- सहायः एकवासा नलो वनं प्रविवेश । तौ च दंपती निराहारौ क्षुत्क्षामकण्ठौ कस्य चिवटवृक्षस्य मूल उपाविशताम् । तत्र तयोः पुरतः केचन हिरण्मया विहगा व्योम्नोऽवतीर्य न्यषीदन् । तान्दृष्ट्वा ‘एतेषां ग्रहणेनावयोर्भक्ष्यं वसु च भविष्यति' इति मत्वा अन्तरीयेण वाससा नान्समादृणोन्नलः । तस्य वस्त्रमपहत्य ते खगा उड्डीय दिग्वाससं तं दृष्टाऽवदन् “राजन् ! वयमक्षाः, सवाससस्तव वनगमनं न सहामहे । तव वस्त्रापहरणायैवमस्माभिः सुवर्णविहगरूपं स्वीकृतम् इति । तच्छुत्वा नलो भार्या- (५) दारको - पुत्रौ । दारका दारिका च ॥ (१४) अन्तरीयम् - अधोवस्त्रम् , परिधानम् ।। (१५) दिग्वासाः - नमः ॥

- नलचरित्रम् । १०. मब्रवीत् “ प्रिये ! मम राज्यभ्रंशे नाहं कारणं कोऽपि दुष्टो मत्य- रिपन्थीति जानीहि । दैवपरीक्षयाऽऽवयोः कन्दमूलफल पूर्णेऽप्यस्मिन्नरण्ये पाणतिर्न लभ्यते , किं कुर्वः ?" इत्युक्त्वा तस्या अच्छिन्नेनैकेनैव दुकूलेन स्वयं च परिधाय पुनः किश्चिद्रं गत्वाऽब्रवीत् “हे सूभ्रः! एष पन्थाः कोसला- नगच्छति, एषोऽवन्तीन् , एष विदर्भान् ," इति। तच्छ्त्वा दमयन्ती नलं जगाद-" वल्लभ! शङ्किताऽहं तवानेन विदर्भमार्गप्रदर्शनेन त्वं मां त्यक्ष्यसीति, श्वापदाध्युषितेऽरण्ये मम त्यागो नोचितः । नृणां आपत्काले भायैव परमं मित्रम् । मां विना त्वमेकाकी कथं जीविष्यसि ? अहं वा कथमेकाकिनी प्राणान्धारयेयम् ? किंचा- रण्ये मम दुःखं स्यादिति मन्यसे चेत्तर्हि आवां सहितावेव मत्पितुः पुरं गच्छावः । तव श्वशुरो धन्योऽस्मीति त्वां पूजयिष्यति' इति । नल उवाच “भद्रे! यत्त्वयोक्तं तत्सर्वं युक्तमेव तथापि प्राभवेण पूर्व तत्र गतोऽहमिदानीं कथं निर्धनो दीनो गच्छेयम् ?" इति । ततस्तावेकवस्त्रसंवीतौ इतस्ततोऽटन्तौ क्षुत्पिपासापरिश्रान्तौ . (५) सुभ्रूः - संबोधनप्रथमा। भ्रमेश्चडूः इति डूप्रत्ययान्तोऽयम् । भतएव स्त्रीप्रत्ययान्तत्वाभावात् "गो स्त्रियो" रिति हस्वो न भवति । (८) त्यक्ष्यसि - हास्यसि, उत्स्रक्ष्यसि । त्यज हानौ । वि. १ पर. लृट् -अ. त्यक्ष्यति ॥ म. त्यक्ष्यसि ॥ उ. त्यक्ष्यामि ॥ लिट् - तस्याज ॥ लुङ • अत्याक्षीत् । अस्याक्ताम् । अत्याधुः ॥

१०६ संस्कृत चतुर्थपाठः ॥४॥ काञ्चन जीर्णो भग्नां सभामासेदतुः। तत्र दमयन्ती गाढां निद्रां प्राप । तदा नलोऽचिन्तयत् “अहो! प्रासादे महार्हशयनोचितेयं तन्वङ्गी मदर्थेऽत्रानाथेव भूमौ शेते । इतः परमपि मदाश्रया- द्विनश्येत् , यद्यहमिमां त्यजेयं तदा कथंचिद्धान्धवान्प्राप्य सुखिनी स्यात् ।" इत्यालोच्य वस्त्रार्ध तत्रैव दैवाल्लब्धेन शस्त्रेण छित्त्वा तेनात्मानं वासयित्वा सुप्तां वैदर्भी विहाय नलः पाद्रवत् । ततः किंचिदूरमध्वानं गत्वा तस्यां कारुण्येन पुनरागत्य तां दृष्ट्वा रुरोद । यां न वायुनचादित्यः पुरा पश्यति मे प्रियाम् । सेयमद्य सभामध्ये शेते भूमावनाथवत् ॥ १॥ इयं वस्त्रावकर्तेन संवीता चारुहासिनी । उन्मत्तेव मया हीना कथं बुद्धवा भविष्यति ॥ २ ॥ विचिन्त्येति ययौ दूरं कलिना हृतमानसः । गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः ।। ३ ॥ अष्टकवस्तु कलिना मोहितः पाद्रवन्नलः । सुप्तामुत्सृज्य नां भार्या विलप्य करुणं बहु ॥ ४ ॥ (१) जीर्णा - पुरातनी ॥ गाढा • तीवा ॥ (१०) संवीता - आवृता ॥

नलचरित्रम् । ॥ दमयन्त्याश्चेदिदेशगमनम् ॥ हा ततः प्रबुद्धा सा सुलोचनाऽन्तिके नलं नापश्यत् । शस्त्र कर्तितं स्ववासोऽध चापश्यत् । भर्तारमपश्यन्ती भैमी " नाथ! किं मामेकाकिनीमनपकारिणीं प्रियामनुव्रतां भार्या कान्तारे अजहाः । लोकपालानां संनिधौ ‘धर्मे च अर्थे च कामे च त्वां नातिचरामि' इति प्रतिज्ञाय मत्पाणिं गृहीत्वा कथमिदानीमुत्सृज्यागाः ?" । इत्युक्त्वा मुक्तकण्ठं रुरोद । सातं तत इतो वने संतमसे विचिन्वती क्षुधिर्तन घोरेणाजगरेणाया- हि । अत्रान्तरे तस्या आर्तस्वरं श्रुत्वा तत्र समायातो धनु- पाणिर्लुब्धकस्तमजगरं हत्वा ताममोचयत् । ततः स तां सा- त्वयित्वा "बाले ! मा बिभिहि, त्वं मम भार्या भव, आवाम- स्मिन्धने सुखं वत्स्यावः” इत्यब्रवीत् । तच्छ्रुत्वा क्रुद्धा भैमी "यद्यहं कायेन मनसा वाचा वा नैषधं नात्यचरं तद्वयं (५) अजहाः - अत्यजः, उदसृजः । ओहाक्” (हा) त्यागे। वि. ३ पर. लड़-प्र. अजहात् । अजहिताम्-अजहीताम् । अजहुः॥ म. अजहाः । अजहितम्-अजहीतम् । अजहित-अजहीत ॥ उ. अजहाम् । अजहिव-अजहीव । अजहिम-अजहीम ।। (६) अतिचरामि-अतिक्रमामि । (७) मुक्तकण्ठम् - loudly.

१०८ संस्कृत चतुर्यपाठः ॥ ४॥ मृगयुभस्मीभवतु" इति शशाप । तस्याः पातिव्रत्यामिना स भस्मसादभवत् । व्यसनमोहिता सा 'अपि दृष्टो नलः ?' इति गज सिंहं मृगं पादप गिरि नदी च पप्रच्छ । "राजन् ! गहने निलीनो दृश्यसे; आहूतोऽपि नाभिभाषसे, किं कारणम् ? किमयं प्रणयकोपः १ उतेयं मम परिक्षा ? आहोस्विदस्य जनस्य दौर्भाग्यमेव वा ? " इत्युक्त्वाऽटन्ती सा तत्र ऋषीणा- माश्रमं दृष्ट्वा तान् नमस्कृत्य स्वस्या दुर्गतिं तेभ्य उक्त्वा 'अप्यहं पत्या समेष्यामि ?' इत्यपृच्छत् । 'पुत्रि ! नचिरादा- पदोऽस्या उत्तीर्ण पतिं लप्स्यसे' इत्युक्त्वाऽन्तर्हितास्ते तापसाः । किमयं स्वप्नः उत बुद्धिमोहः, पिशाचचेष्टा वा ? इति विस्मिता सा मार्गेण तेन चेदिदेशं व्रजन्तं महासार्थ दृष्ट्वा तज्जनमध्यं प्रविवेश । उन्मत्तरूपां तां दृष्ट्वा ते भीत्वा, "किं त्वं यक्षी, राक्षसी दानवी, उतास्य वनस्य देवता ?। या वा का वा त्वं भवा- स्मान्रक्ष" इत्यवदन् । “भोः सार्थवाहाः! नाहं राक्षसी, यक्षी देवता वा। अहं मानुषी नैषधस्य नलस्य राज्या- ट्रस्य महिषी विदर्भराजस्य दुहिता। सुप्तां मां विहायापगतं भर्तारं मार्गयामि, यदि तं जानीय तर्हि ब्रूत काऽस्ति सः ?" इति तानब्रवीद्रैमी। " अबले! न वयं त्वत्तोऽन्यं मनुष्यम- स्मिन्नरण्येऽपश्याम" इत्यवदन् । ततः स सार्थः सायं कस्या- (१) मृगयुः - व्याधः॥ (११) महासार्थः - महांश्चासौ सार्थश्च ।सार्थों - वणिक्समूहः ॥

" नलचरित्रम् । १०९ श्चिद्विरिणद्या रोधसि न्यषीदत् । निशीथे सर्वेषु सुप्तेषु वन्यो गजयूथः जलं पातुं तेनैव पथा नदीं गच्छन् मार्गे प्रसुप्तान् ताञ्जनान्ममर्द, ग्राम्यान्गजाञ्जघान, भाण्डनिचयं चावाकिरत् । सार्थवाहाः प्राणपरीप्सयाऽधकारे वनगुल्मान्विविशुः । भैमी च प्रबुद्धा भीता कुत्रचिन्निलिल्ये । सार्थवाहाः के चिदवदन् कस्यैतत्फलम् ? अस्माभिर्यक्षाधिपो वैश्रवणो न सम्यक् पूजितस्तस्य वा ? माणिभद्रो नैव पूजितस्तस्य वा ? शकुनानां वा?" इति । अपरेऽब्रुवन् “या पिशाचग्रस्तेव सायमागता परमदारुणा तस्या एवैतत्कर्म स्यात् । सा ध्रुवं राक्षस्येव भवेत् , यदि पुनस्तां पश्येम तर्हि काष्ठोष्टै; हन्याम" इति । सा तेषां दारुणं वचः श्रुत्वा तैरज्ञाता उषसः प्रागेवान्येन मार्गेण पलाय्य चेदिविषयं सायाहे पाप । उन्मत्तामिव राजमार्गेण गच्छन्तीमेकवसनां सुरूपां तां दृष्ट्वा पुरवासिनो बाला युवान- श्वानुजग्मुः । प्रासादगता राजमाता जनेन क्लेश्यमानां तां बालामानयेति धात्रीमुवाच । सा जनं वारयित्वा तां प्रासा- दमनयत् । राजजननी तां पप्रच्छ "बाले! त्वं राजपुत्रीव भासि, सत्यं वद का त्वम् ?" इति । दमयन्त्युवाच-"मातः! (३) भाण्डं वणिजां मूलधनम् । (६) वैश्रवणः - कुबेरः। स वणिजां दैवतम् ॥ (७) माणिभद्रः - कुबेरस्य मन्त्री यक्षः॥ (१५) धात्री • उपमाता॥

११० संस्कृत चतुर्थपाठः ॥४॥ अहं सैरन्ध्री, महागुणो मम भर्ता अनागसं मां परित्यज्य गतः। तमहं मार्गयामि" इति। राजमाता तामामिब्रवीत् यावत्तव भ रागमनं तावन्मम पुत्र्याः सुनन्दायाः सैरन्ध्री भव । त्वामहं रक्षामि" इति । " कस्याप्युच्छिष्टं न खादेयम् , नैवान्यस्य पादान् धावयेयम् , पुंभिः सह न भाषेय, यदि कश्चिन्मां प्रार्थयेत तहि स त्वया दण्डयितव्यः" इति समयेन -सा तत्र सुनन्दया लाल्यमाना सखीवदुवास । ॥ नलस्यायोध्यागमनम् ॥ वस्त्रार्ध विच्छिद्य व्रजन्नलः दावाग्निपरीतस्य कस्यचित् 'त्रायस्व मां राजन्ननेः' इति वाचं श्रुत्वाऽग्निसमीपं गतोऽनिना दह्यमानं कर्कोटकं नागराजमपश्यत् । "राजन्! मां स्कन्ध उदुह्यानलात्तारय, न चाहं तव दुर्वहो भवामि । तेन त्वं परमं श्रेयोऽवाप्स्यसि " इति नागो नलमब्रवीत् । तमादायाग्नेर्बहिर्गतो नलः । “कानिचन पदानि गणयित्वा मामुत्सृज" इति कर्कोट- (१) सैरन्ध्रो - परवेश्मस्था सच्चरित्रा स्त्रीणां प्रसाधनादिकी दासी ॥ (६) समयः - व्यवस्था ॥ (१२) तेन-अनलात्तारणेन ॥

नलचरित्रम् । १११ केनोक्तः स नलस्तथैव गणयामास । दशमे पदे "दश" इत्युक्त एव स नागस्तमदशत् । तेन दंशनेन तस्य रूपं विपर्यस्तमभूत् । नैषधं नागोऽब्रवीत् “ राजन् ! त्वां जना न विद्युरिति तव रूपं मयाऽन्तर्धापितम् , यदा स्वं रूपं प्राप्तुमिच्छेस्तदाऽनेन वासो- युग्मेन संवीतः स्वरूपं प्राप्स्यसि । मदीयं विषं त्वां न बाधे- ताऽपितु त्वच्छरीरे स्थित्वा त्वामुपद्रवन्तं कलिं बाधेत । मूतोऽहं बाहुक इति मम नामेति ब्रुवन्नयोध्याधिपतिमृतुपर्ण गच्छ। स त्वां सुखेन वासयिष्यति । त्वत्तः सोऽश्वहृदयं प्राप्याक्षहृदयं तवो- पदेक्ष्यति । ततस्त्वं पुष्करं पुनीते जित्वा राज्येन दारैश्च योक्ष्यसे ।" इत्युक्त्वा वस्त्रयुगलं दत्वा औषयत् । नलोऽपि तथैव ऋतुपर्ण प्राप्य तस्य रथयन्ता बभूव । रथवाहनेन कदाचिदन्नसं- १ , (१) दश - इदं पदं दशत्वसंख्याविशिष्टवाचि, "दंश" दशने । वि. पर. लोण्मध्यमपुरुषैकवचनं च भवति ॥ प्र. दशतु ॥ म. दश दशतात् । दशतम् । दशत ॥ लट् - दशति ॥ लङ् - अदशत् । अदशताम् । अदशन् ॥ लुङ् - अदाङ्क्षीत् । अदांष्टाम् । अदाक्षुः॥ म. अदाङ्क्षीः ॥ उ. अदाङ्क्षम् ॥ (९) उपदेक्ष्यति-उपदेशं करिष्यति । “दिश" अतिसर्जने । वि. ६ । उभ. अत्र पर. उपपूर्वक उपदेशे। -उपदेश्यति ॥ लुङ्-उपादिक्षत् । (१०) योक्ष्यसे-युक्तो भविष्यसि । “युजिर्” (युज्) योगे। वि. ७ ॥ उभ. अत्र आत्म. लुट्-प्र. योक्ष्यते ।। म. योक्ष्यसे ॥ उ. योक्ष्ये ।। लट्- प्र. युङ्क्ते। युजाते । युनते ॥ म. युझे । युञ्जाथे। युमध्ये ॥ उ. युओ । युभवहे । युझ्महे ॥ लट्-अयुक्त ॥ लु-अयुक्त ।। लट्- संस्कृत चतुर्यपाठः ॥४॥ स्कारेण च नलस्तमतोषयत् । सखिवत्तेन पूजितो नलस्तत्र केनाप्यज्ञातः सुखेन न्यवसत् । ॥ विदर्भवृत्तान्तः॥ भीमो राजा वाष्र्णेयेनानीतौ दौहित्रौ प्राप्य पुत्रीजा- मात्रोः शोचनीयमदर्शनं प्रति संचिन्त्य तयोरन्वेषणाय ब्राह्म- णान्प्रेषयामास । तेषु सुदेवो नाम कश्चन ब्राह्मणः तयोरन्वेष- णाय महीं भ्रमंश्चेदिराजगृहे सुनन्दाया भुजिष्यां दृष्टा इयमेव दमयन्तीति संदिहानस्तस्याः शारीरैश्चिदैनिश्चित्य तामब्रवीत "बाले! अहं सुदेवो नाम ब्राह्मणस्तव भ्रातुः सखा त्वां विचेतुमत्रागतः । एवमनेके ब्राह्मणास्तत्र तत्र महीमटन्ति । भाग्यवशात्त्वामहमपश्यम् , प्रत्यभ्यजानां च । तव दारकावायु- मन्तौ कुशलिनौ च स्तः । आगच्छ त्वं मया सह ; मातृसमीपं त्वां नयामि" इति । ब्राह्मणेन सहैकान्ते कथयन्तीमश्रुपूर्णलो. (७) भुजिष्या - भुजिष्यायाः स्वाम्युच्छिष्टभोजननियमावश्यंभावादेवेय दमयन्ती प्रथममेव " कस्याप्युच्छिष्ठं न खादेयम्" इति न्ययमयत् ॥ (११) प्रत्यभ्यजानाम् - प्रत्यभिज्ञानं नाम कस्य चिद्वस्तुनः पूर्वष्टलक्षण- वत्तया ज्ञानम् । " अवबोधने । वि. ९। पर. लल्-प्र.. अजामात् । अजानीताम् । अजानन् । म. अजानाः। अजानीतम् ।. अजानीत ॥ उ. अजानाम् । अजानीव । अजानीम ॥

8 नलचरित्रम् । ११३ चनां सैरन्ध्रीं सुनन्दा मात्रे विज्ञापयामास । साऽऽगत्य ब्राह्मणं पप्रच्छ "ब्रह्मन् ! कस्त्वम् ? कीदृशं तवानया सह बान्धव्यम् ? कीदृशं चास्या व्यसनं येन त्वां दृष्ट्वेयं रोदिति" इति । सोऽ- ब्रवीत् “राजमातः! शृणु; धर्मात्मा भीमो नाम विदर्भराजोऽस्ति । तस्येयं दुहिता दमयन्ती नाम नैषधस्य नलस्य धर्मपत्नी । द्यूते भ्रात्रा पराजितो हृतराज्यः स भार्यया सह वनं प्रविष्टः । भीमस्य राज्ञः शासनादहमनेके ब्राह्मणाश्च तावन्विष्य पृथिवीं चरामः । तामहं तव गृहेऽदृष्टवशादद्राक्षम्" इति । तां स्वस्या भागिनेयीं विज्ञाय तां परिसान्त्व्य संपूज्य च पुत्रानुमत्या राजमाता महता राजीविभवेन शिविकामारोप्य विदर्भान्प्रेषयामास । ततः सा ब्राह्मणेनानीता विदर्भनगरी गत्वा पितरौ दारको चापश्यत् । तत्र मात्रा सह संमन्त्र्य भैमी नलान्वेषणाय पुनर्ब्राह्मणाबाजानुमत्या प्रास्थापयत् । “भो विप्राः ! कनु त्वं कितव! च्छित्वा वस्त्रार्ध प्रस्थितो मम । उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय! ॥५॥ इति श्लोकश्च युष्माभिस्तत्र तत्र वाच्यः; यदि कश्चिदेन श्लोकं श्रुत्वा प्रतिब्रूयात्तं नलं वित्त । तद्वचनं च यथावन्मम (८) अद्राक्षम् - अपश्यम् । (१०) शिबिका - नरयानम् । Lodour . पालकी Palanquin. (१४) कितवः - वञ्चकः ॥ (१७) वित्त - जानीत, बुध्यध्वम् । “विद" हाने । वि.

११४ संस्कृत चतुर्थपाठः ॥ ४ ॥ निवेदयत, तस्य रूपादिस्थितिरपि कथनीया" इति तान्ब्राह्मणा- न्दमयन्त्यवदत् । एवं नलगवेषणाय गता ब्राह्मणास्तपलब्ध्वा प्रतिनिवृत्ताः । तेषु पर्णादो नाम द्विज आगत्य दमयन्तीमब्रवीत् । “अयो- ध्यायामृतुपर्णस्य निवेशने त्वदुक्तं श्लोकमकथयम् । तच्छ्रुत्वा तत्रत्यः कश्चिदाहुको नाम ह्रस्वबाहुकः पाकशास्त्रेऽश्वशास्त्रे च निपुणो विरूपः सारथिर्मयोक्तं श्लोकं श्रुत्वा भवत्या दारकयोश्च कुशलं पृष्ट्वाऽवादी- वैषम्यमपि संप्राप्ता न कुप्यन्ति कुलस्त्रियः । प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः ॥ ६ ॥ विषमस्थेन मूढेन परिभ्रष्टसुखेन च । यत्सा तेन परित्यक्ता तत्र न क्रोडुमर्हति ॥ ७ ॥ लोट् - प्र. वेत्तु - वित्तात् । वित्ताम् । विदन्तु ॥ म. विद्धि - वित्तात् । वित्तम्. वित्त ॥ उ. वेदानि । वेदाव । वेदाम ॥ पक्षे - प्र. विदांकरोतु कुरुतात् ॥ म. विदांकुरु - कुरुतात् ॥ उ. विदांकरवाणि ॥ लट् - प्र. वेति । वित्तः। विदन्ति ॥ म. वेसि । विस्थः । वित्थ ॥ उ. वेनि। विद्वः । विद्मः॥ पक्षे - प्र. वेद । विदतुः । विदुः ॥म. वेत्थ । विदथुः। विद ॥ उ. वेद. विद्व । विद्म ॥ लङ्क - प्र. अवेत् । अवि- ताम् । अविदुः ॥ म. अवेः - अवेत् । अवित्तम् ॥ लुङ्क अवेदीत् ।। ९) वैषम्यम् - दुरवस्थाम् ॥ . .

नलचरित्रम् । ११५ पाणयात्रां परिप्रेप्सोः शकुनैर्हतवाससः । आधिभिर्दह्यमानस्य श्यामा न कोडुमर्हति ॥ ८ ॥” इति । एवं द्विजेन कथितां वार्ता श्रुत्वा भैमी स बाहुको नल एव भवेदिति निश्चित्य मातरमाहूय तया सह संमन्त्र्य पितुर- विदितं ऋतुपर्णाय, राज्ञे “दमयन्त्याः पुनःस्वयंवरः श्वः प्रातर्विद- भेंषु संवय॑ति । यदि त्वमेकेनैवाहा शतं योजनानामतीत्य गच्छसि तदा तामवश्यं प्राप्स्यसि इति निश्शङ्कं ब्रूहि" प्रेषयामास । अयोध्यां गत्वा स दूतः यथा दमयन्त्या उक्तं तथाऽकथयत् । तच्छुत्या ऋतुपर्णो बाहुकमब्रवीत् “मित्र वाहुक! त्वत्सामर्थ्यपरीक्षाया अद्यैव ममावसरो लब्धः; श्वः प्रभाते विदर्भेषु दमयन्त्यन्यं पतिं स्वयंवरे वरिष्यति । तत्र मयाऽद्य मूर्यस्यास्तगम- नात्प्राक् स्थेयम् । पन्थाश्च शतं योजनानि सन्ति। कालस्तु एकमेव दिनं वर्तते । अपि शक्नोषि मां तत्र नेतुम् ?" इति । तद्वाक्यं श्रुतवतो नलस्य हृदयं विदीर्णमिवासीत् । “अहो ! कालस्य कौटिल्यम् । महापतिव्रतायास्तस्या अपि मनः पापकार्ये " इति दूतं . (२) श्यामा - यौवनमध्यस्था स्त्री, श्यामाषोडशवार्षिकी। (१०) अवसरः - अवकाशः ॥ (१४) विदीर्णम् - भिन्नम् । “दृ'' विदारणे । वि. ९ पर. कतरिक्त। रदाभ्या निष्टातो नः इति तस्य नः । लट् - दृणाति ॥ लिट् - प्र. ददार । दद्गतुः - ददरतुः । द्रुः - ददरुः ॥ म. ददरिथ संस्कृत चतुर्यपाठः ॥ ४॥ प्रवृत्तम् । तन्न तस्या दोषः ; किं तु ममैव नृशंसस्य । लोके साधारणाः स्त्रियः कदाचित्तथा कुर्युः, सतीशिरोमणिरियं विशेषतः सापत्या च कथमन्यं पतिं वरयेत् ? अथवा ममात्र स्थिति पर्णादमुखेन ज्ञातवत्या तया मदानयनायायमुपायो निश्चितः स्यात् । भवतु ऋतुपर्णस्य काममात्मार्थमित्येव ज्ञात्वा करोमि " इति विचिन्त्य "राजन् ! सज्जीकरोमि ते रथमारोहतु भवान् । मुहूर्तावशिष्ट एव दिवसे त्वां कुण्डिनं प्रापयामि, पश्याय मेऽश्व- विद्याम्" इत्युक्त्वा दृढसत्वानमांसलान् सलक्षणान् कृशान्ह- याव्रथे संयोज्य पुरतः स्थापयामास बाहुकः । विस्मितं नृपं वार्ष्णेयं च रथमारोप्य नलो हयान्समचोदयत् । ते घोटका जानुभिर्भू- मावपतन् । तदृष्ट्वा क्रुद्धो राजा "बाहुक! मत्मार्थनां वितथी- कर्तुं किमेवं विप्रलभसे ?" इत्यवादीत् । “राजन्न भेतव्यं त्वया, यथाप्रतिज्ञं त्वां कुण्डिनं प्रापयामि तूष्णीमास्स्व । तत्र गत्वा त्वत्तोऽहं पारितोषिकं ग्रहीष्यामि" इति नलोऽगदत् । ततो वातरंहसस्तेऽश्वा गरुत्मन्तो विहायसीव समुत्पेतुः । अमानुषं बाहुकस्य सारथ्यकर्म ऋतुपर्णो दृष्ट्वा "किं न्वयं बाहुको दद्रथुः . ददरथुः। दद्र - ददर ॥ उ. ददार - ददर । दद्रिव - ददरिव । दद्रिम - ददरिम ॥ लङ् - अदृणात् ॥ लुङ् • अदरीत् ॥ (८) अमांसलः - मांसमस्त्यस्य मांसलः पुष्टः। मांसलो न भवति ॥ (१२) विप्रलभसे - प्रतारयसि । वि.+प्र. पूर्वको “ लभ" धातुः । वि. १ आत्म.॥

नलचरित्रम् । ११७ मातलिः स्यादुत रूपान्तरेण प्रच्छन्नो नलः । नान्येष्वीदृशी शक्तिदृष्टा" इति व्यस्मयत । . बहीनदीः पर्वतान्वनानि पल्व- लानि चाचिरेणैव कालेन स रथो व्यत्यकामत् । एवं गच्छति राज्ञ उत्तरीयमधः पपात। स्थापय स्थं तद्रहीष्यामीति राजा नलमज्वदत् । राजन् ! योजनमतिकान्तो रथ इति नलेनोक्तोऽपि राजा स्यन्दनं स्थापयितुमादिश्य तं पटमानेतुं वार्ष्णेयमादिशत् । अत्रान्तरे ऋतुपर्णो नलमब्रवीत् “पश्य ममापि गणिते सामर्थ्यम् । अमुं विभीतकं पुरः पश्यसि खलु, एतस्मिन्निदानी कति पत्राणि वर्तन्ते, कति फलानि, कति वा पतितानि, तानि सर्वाण्यहं यथावद्वक्तुं शक्नोमि" इति । तद्वाक्ये सन्दिहानो नल एका शाखां छित्वा अस्यां कति पर्णानि वर्तन्ते तत्कथयेत्यवदत् । एतावन्ति सन्ति इत्युक्तो नलस्तानि गणयित्वा तदुक्तप्रकारेण सन्तीति व्यजानात् । “अवश्यमियं विद्या मद्यमिदानीमेवोपदेष्टव्या अहं च तवाश्चहृदयमुपदिशामि" इति नलस्तमयाचत । अक्षहद- याविनाभूतां गणितविद्यां स तस्मै प्रायच्छत् । प्राप्ताक्षहृदयस्य नलस्य देहात दमयन्त्याः शापेन कर्कोटकस्य विषेण च दह्यमानः कलिर्बहिर्निर्गत्य तमेव विभीतकं प्राविशत् । एतस्मिन्नन्तरे पटं (१) मातलिः - देवेन्द्रस्य सारथिः । (८) विभीतकः - Freoflungii वृक्षविशेषः ॥ (१०) सन्दिहानः-"दिह" उपचये। संपूर्वकः सन्देहे । वि. २ । उभ. अत्र आत्म. शानच् । १४) अक्षहृदयम् -धूतशास्त्रम् ॥

संस्कृत चतुर्थपाठः ॥ ४ ॥ गृहीत्वाऽऽगतं वार्ष्णेयं दृष्टाऽश्वहृदयोपदेश इदानीं मम मा भूत कालान्तरे ग्रहीष्यामीति प्रातिष्ठत । मूर्यास्तमयात्प्रागेव बाहुंक: ऋतुपर्ण कुण्डिनं प्रापयत् । स तत्र किमपि स्वयंवरस्य चिहं जनसमर्द वा नापश्यत् । भीमो राजा ऋतुपर्णमागतं ज्ञात्वा प्रत्युद्गम्या- नीय कस्मिंश्चित्पासादे स्थापयामास । ऋतुपर्णस्य रथघोपं श्रुत्वा कुण्डिने स्थापिता नलाश्वाः अद्वेषन्त । दमयन्त्यपि स्थघोषं श्रुत्वा नलरथस्यैवायं शब्द इति निरचिनोत् । अभ्यागतबुद्धया भीमेन पूजित ऋतुपर्णः स्वागमनकारणं नोचे । वैदर्भी केशिनी नाम दूती दारकाभ्यां सह बाहुकस्य सविधं प्रेषयामास । तं प्राप्य “हे बाहुक! दमयन्त्या भर्ता नलः कच्चित्त्वया कुत्रचिद्दष्टः ?" इति पप्रच्छ । स तम्योत्तरमदत्वा इन्द्रसेनमिन्द्रसेनां च परिष्वज्यारोदीत् । केशिनी इमं वृत्तान्तं भैम्यै निवेद्योवाच "तत्र रिक्तानि पात्राणि बाहुकस्पर्शमात्रेण जलपूर्णान्यभूवन् । तृणमुष्टिं सा (२) प्रातिष्ठत - गन्तुमारभत । "समविप्रविभ्यः स्थः" इत्यात्मने पदम् । लट् - प्रतिष्ठते ॥ लिट् - प्रतस्थे ॥ लङ् • प्रातिष्टत । लुट् - प्रस्थास्यते ।। आशीलिङ • प्रस्थासीष्ट ॥ लुङ् - प्रास्थित ॥ (३) स्वयंवरस्य चिह्नम् - स्वयं पित्राज्ञां विना ब्रियते वरो यस्मिन्विवाहे स स्वयंवरः । तस्य चिह्न पत्तनस्य तोरणाधलङ्करणम् ॥ (६) अहेषन्त - अश्वाः शब्दमकुर्वन् । “हेष" (अश्व) शब्दे । वि." आत्म. ॥ (७) अभ्यागतः - अतिथिः॥

नलचरित्रम् । ११९ करे धृत्वा किमप्यजापीत् । तदनुपदं तत्र वीतिहोत्रः प्रज्वलितः । ह्रस्वेऽपि द्वारे अनमन्मविशन्नपि स क्षतं नाप्नोति । पदार्थैः संकटे स्थले गच्छतस्तस्याधिकमन्तरं स्वयमेव जायते । तेन हस्ताभ्यां मृदितानि पुष्पाणि हृष्टान्येव भवन्ति । एतैर्निदर्शनैर्बाहुको नल एव भवेत् । अपि च तेन पाकसंस्कृतं किंचित्खाद्यं त्वदर्थ प्रेषि- तम् । तदास्वाद्य त्वमपि तं नलं संभावयेः" इति। दमयन्त्यपि भोज्यरसास्वादनेन केशिनीकथितैस्तैश्चिद्वैश्च तं नलं निश्चिकाय। "अम्ब ! केशिन्याऽसकृद्धाहुकः परीक्षितः, स नल एव नान्यः। किंतु तस्य रूपमात्रे संशयो वर्तते । स मया प्रत्यक्षं दृष्दैव निश्चेतव्यः । स वाऽत्र प्रवेश्यतां मां वा तत्र गन्तुमनुजानीहि" इत्यवदत् । ततो माता राजानुमत्या नलं तत्रानेतुं केशिनी प्रेषयामास । केशिनी ऋतुपर्णावास गत्वा, भुक्त्वा सुखोपविष्टं मूतमूचे “बाहुक! राजाज्ञया त्वां दमयन्त्याः प्रासादं नेतुमहमागता | मया सहागच्छ" इति । ततो- ततो मातरमाहूय (१) अजापीत् - जपमकरोत् । “जप" व्यक्तायां वाचि । वि १ पर. लुइ - प्र. अजापीत् • अजपीत् । अजापिष्टाम् - अजपिष्टाम् । अजापिषुः - अजपिषुः ॥ म. अजापी: - अजपीः ॥ उ. अजापिषम् - अजपिषम् ॥ लट् - जपति ॥ लिट् - जजाप । जेपतुः । जेपुः ॥ लङ्. अजपत् ॥ (२) संकटम् - निबिडम् । (४) हृष्टानि - अग्लानानि ॥ निदर्शनम् - दृष्टान्तः ॥

१२० संस्कृत चतुर्थपाठः ॥ ४॥ ऽन्तःपुरं तया प्रवेशितो नो दमयन्ती दृष्दैवात्मनः शोकं धारयि- तुमक्षमो मुक्तकण्ठं रुरोद । सुभग! अनागसं प्रियां भार्यामनुरक्तां देवानप्यरहायात्मानं स्वयंवरे वृतवतीं पुत्रिणी क्षुत्लामां श्रान्तां निर्जने विपिने सुप्तामुत्सृज्य यः पुरुषर्षभो गतः स मम प्राणवल्लभः अपि कुत्रचित्त्वया दृष्टः ? । कोऽपि तस्मादन्य- स्तथा कुर्यात् ?" इति दमयन्ती तं पप्रच्छ । “ देवि ! यस्त्वां बने तत्याज स नलोऽहमेव । राज्याद्भशस्त्वया वियोगः एवमादि सर्व न मया कृतम् , किंतु महेहमाविश्य स्थितेन कलिनाऽऽव- योरपकारार्थमेव कृतम् । आवयोदुःखानुभवकालस्येदानी समा- (३) अनुरक्ता - अनुरागयुक्ता । अनुपूर्वः “रञ्ज" रागे। वि. १। उभ. रजति-ते । दिवादौतु-रज्यति-ते । कर्तरि क्तः॥ (४) क्षुत्क्षामा-क्षुधा क्षामा । क्षामः-कृशः, दुर्बलः । “खै" क्षये । वि. १। पर. क्षायति । इत्यस्मात्कर्तरि क्तप्रत्यये रूपम् । "क्षायो मः" इति निष्ठातस्य मः । "क्षीणः" इति तु “क्षि" क्षये। वि. पर. लट् - क्षयति ॥ लिट्-चिक्षाय ॥ लङ्-अक्षयत् ॥ आशीलिङ् । शीयात् ॥ लुङ्-अझैषीत् । इत्यस्य रूपम् ॥ (७) तत्याज - विससर्ज। “त्यज" हानौ। वि. १ लिट् . प्र. तत्याज। तत्यजनुः । तत्यजुः ॥ म. तत्यजिथ-तत्यक्थ । तत्यजथुः । तत्यज । उ. तत्याज-तत्यज । तस्यजिव । तस्यजिम ॥ लट्-त्यजति ॥ लूट-त्यक्ष्यति ॥ लङ्- अत्यजत् || लुङ- प्र. अत्याक्षीत् । अस्याक्ताम् । अस्याक्षुः ॥ म. अत्याक्षीः । अस्याक्तम् अस्याक्त। उ. अत्याक्षम् । अत्याक्ष्व । अत्याक्ष्म।

नलचरित्रम् । १२१ सत्वात्कलियाँ विहाय गतः । सर्व समीचीनं जातम् , परन्त्वेकस्मि विषये खिद्ये । कथं त्वादृशी पुत्रवती नारी द्वितीयं पति वरीतुं यतेत ?” इति नलोऽब्रवीत् । तद्वचनं श्रुत्वा वेपमाना प्राञ्जलिर्द- मयन्ती भीता वचनमब्रवीत् । “कल्याण! न मां पापेन परिशङ्कितुमर्हसि । प्रथमं तव निवासज्ञानाय ब्राह्मणा मया सर्वत्र विसृष्टाः । तेषु पर्णादस्त्वां ऋतुपर्णगृहे दृष्ट्वा त्वया सह संभाष्य तब प्रतिवाक्यमानीतवान् । तच्छ्रुत्वा त्वां नलं सन्दिहा- नाऽहं पुनस्तवानयनायैनमुपायं विधाय दूतं कोसलानेव औषयं नान्यकारणात् । यतस्त्वामृतेऽन्यः कः पुमान्योजनशतमेकेनाहाऽऽ- गन्तुं समर्थः ? । मम सुकृतदुष्कृते सदागतिः तिग्मांशुः शीतांशुः द्यावापृथिव्यौ अन्ये च देवा जानन्ति । यदि मयि पापं स्यात्तहि ते मत्तः प्राणान्मोचयन्तु ।" इति। तदनुपदमन्तरिक्षादशरीरा वाण्युदभूत- नैषा कृतवती पापं नल ! सत्यं ब्रवीमि ते । राजशीलनिधिः स्फीतो दमयन्त्या सुरक्षितः ॥९॥ साक्षिणो रक्षिणश्वास्या वयं त्रीन्परिवत्सरान् । उपायो विहितश्चायं त्वदर्थमतुलोऽनया ॥ १० ॥ (२) त्वादृशी - स्वमिव पश्यन्ती ॥ १२) प्राणान्मोचयन्तु - मारयन्तु ॥ १५) स्फीतः पूर्णः । “स्फायी" वृद्धौ। वि. १ । आ. लट् - स्फायते ॥ लिट् - परफाये ॥ अस्मारकर्तरि कः । “स्फायः स्फी निष्ठायाम्॥

१२२ संस्कृत चतुर्थपाठः ॥ ४॥ नात्र शङ्का त्वया कार्या शुद्धां स्वीकुरु नैषध ॥ ११ ॥” इति। ततो दमयन्त्यां शङ्कां विहाय नागराजं स्मृत्वा तदत्तं वस्त्रयुग्मं परिधाय स्वकं वपुर्लेभे । स्वस्वरूपिणं भर्तारं भैमी दृष्ट्वा तमालिङ्गयोच्चै रुरोद । नलोऽपि निश्शङ्ख परिष्वज्य मलदि- ग्याङ्गी क्षामां भैमी पर्यतुष्यत् । स्वसुतौ च परिष्वज्य परमां मुदं नलो लेभे। दूरतो निलीय स्थित्वा तयोः संलापं श्रुतवतो दमयन्त्या जननी भर्ने सर्व वृत्तं निरवशेषमकथयत् । भीमश्च श्वः प्रातरहं जामातरं द्रष्टाऽस्मि इत्यवदत् । तो दम्पती वने विचलितं स्वं स्वं वृत्तान्तं परस्परं कथयन्तो निशां निन्याते । अथ रात्र्यां व्यतीतायां नलः कृतमङ्गलस्नानः कृताहिक: स्वलकृतः तादृश्या भार्यया दारकाभ्यां च सह गला श्वगुरं प्राणमत् । दमयन्ती च पितरं वचन्दे । भीमस्तं पुत्रवत्पतिजग्राह । ततः सभा नलेन सह गत्वा ऋतुपर्णमानयत् । ततः पूर्वमेव ना- तान्तः सर्वोऽपि तेन ज्ञात आसीत् । “ मामविज्ञाप्यैव स्त्रीभिर- विमृश्यकारिणीभिस्त्वं छलितस्तत्क्षम्यताम्" इति भीमः ऋतुपर्ण- मब्रवीत् । “कथंचिदनयोर्दम्पत्योः क्षेमे तुष्यामि " इति ऋतुपर्ण उक्त्वा नलं क्षमापयामास । नलोऽपि तं क्षमापयांवभूव । आगतं नलं दृष्ट्वा पौराणां महान्हर्षोऽभूत् । भीमो नगरी पताकाध्वजतोरणैरलंचकार । देवतायतनेषु पूजामधिकं ततान । (१५) छलितः - छलं छमास्य सञ्जातम् ॥ (१९) ततान - वितस्तार, विस्तारयामास । " तनु " विस्तारे। वि.८ नलचरित्रम् । १२३ ब्राह्मणान्मोजामास । ऋतुपर्णो भीममापृच्छयायोध्यां प्रतस्थे । नलः स्वस्मिन्निक्षेपतया ऋतुपर्णेन स्थापितमश्वहृदयं तस्मा उपदिदेश। वार्ष्णेयः ऋतुपर्णादाज्ञां प्राप्य यथापूर्व नलस्य सारथिर्वभूव । ऋतुपर्णस्त्वन्यं मूतमादायायोध्यामगच्छत् । नलस्तत्र भीमेन लालितो भैम्या सह सुख्यन् मासं तत्र स्थित्वा श्वशुरानुमत्या किंचिद्धनं गृहीत्वाऽल्पपरीवारः निष- धान्गत्वा पुष्करमासाद्य " भ्रातः ! बहुधनं संपाधानीतवानहम् । तत्सर्वं धनं, दमयन्ती चैकं पणं विधास्यामि । यदि ते रोचते तर्हि तव संपूर्ण राज्यं प्रतिपणं कुरु । तथैवावां प्राणा- नपि पणावहे । यदि देवितुं नेच्छसि तर्हि युद्धाय सिद्धो उभ. अत्र पर. । लिट्-प्र. ततान । तेनतुः । तेनुः॥ म. तेनिथ । तेनथुः तेन । उ. ततान-ततन । तेनिव । तेनिम ॥ लट्-प्र. तनोति । तनुतः। तन्वन्ति ॥ म. तनोषि । तनुथः। तनुथ ॥ उ. तनोमि । तनुवः- तन्वः । तनुमः-तन्मः ॥ लङ्-अतनोत् ॥ लुङ - अतानीत्-अतनीत् । अतानिष्टाम्-अतनिष्टाम् ॥ (१) आपृच्छय-अनुज्ञां प्राप्य । आपूर्वः प्रच्छधातुः "आडिनुप्रच्छ्यो- रुपसंख्यानम्" इत्यात्मनेपदी। आपृच्छते “आपृच्छस्व प्रियसख- ममुम्" इति मेघः॥ (२) निक्षेपः - न्यासः। Deposit. (५) सुख्यन् - कण्ड्वादियगन्तात् शतृप्रत्ययः॥ (९) प्राणानपि पणावहे - “जेता पराजितस्य प्राणानामपीश्वरो भवतु' इति पणं कुर्वः॥

१२४ संस्कृत चतुर्यपाठः ॥ ४॥ भव इत्युवाच । तच्छ्रुत्वा पुष्करो युद्धे आत्मन असाम- र्थ्य विज्ञाय द्यूते त्वात्मजयं निश्चित्य “भ्रातः ! दिष्टया त्वं धूताय सिद्धः । इदानीं दमयन्त्या दुष्कृतं क्षीणम् । द्यूते त्वां जित्वाऽस्य राज्यस्येश्वरी तां करिष्यामि" इत्यवदत् । ततः पानिकानां समक्षं द्यूतं पावर्तत । प्रथमेन पणेनैव पुष्करो नलेन पराजिग्ये । कथं वा जयपराजयव्यवस्था ? इत्युभाभ्यां दृष्टाः प्राश्निकाः पुष्करेण पणीकृतं राज्यं धनानि तस्य प्राणाः कलत्रपुत्रादयश्चेति सर्व नलायतमासीत्" इत्यवदन् । ततो नल: प्रहसन्नब्रवीत् “प्राश्निकोक्तप्रकारेण सर्व मया जितम् । अहं तव प्राणानां दाराणां चेश्वरोऽभूवम् । मूढ ! वैदर्भी वीक्षि- तुमपि त्वं न शक्नोषि; त्वया महासेयेन तव भार्यया वैदा भुजिष्यया च भवितव्यम् । तथापि तथा त्वां न करोमि, वदीयं पुरक्षेत्रधनादिकं तुभ्यमेव दास्यामि। समार्य त्वां दास्यभावान्मोचयामि । त्वयि सौहार्द च मे न नश्यति । यथा २) निश्चित्य - निर्णयं कृत्वा । निर्वात् “चिम्" प्वयने इत्य- स्माल्यप् । ३) क्षीणम् - "क्षि" क्षये इत्यस्मारकर्तरि क्तः॥ (५) प्राश्निकाः मध्यस्था:॥ १०) दाराः - भार्या । दारशब्दो नित्यं पुंलिङ्गो बहुवचनश्च ॥ ११) दासेयः. दासः । भृत्ये दासेयदासेरदासगोप्यकचेटकाः । नियोज्य- किकरप्रेष्यभुजिष्यपरिचारकाः । इत्यमरः ॥

नलचरित्रम् । १२५. था वा भवतु त्वं मम भ्राताऽसि, तस्मात्पूर्ववत्स्वतन्त्रो यथेष्ट- धि । यत्त्वया पूर्व पराजितोऽहं तन्न त्वया कृतं किं तु कलिना कृतं, तदहं वेद, त्वं तु दुर्बुद्धिः सर्व स्वसामर्थ्य मत्वा एकरात्र- मपि नगर आवां नावासयः । प्रत्युत “यदि कश्चिनलमुपचरे- सवध्यो भवेदित्युदघोषयश्च" इत्युक्त्वा पुष्करं नलो व्यसर्ज- यत् । “यो मम प्राणान् अधिष्ठानं च वितरसि दास्यभावाच मां मोचयसि तादृशस्य तव कीर्तिर्विपुलाऽक्षय्या चास्तु" इति पुष्करो नलं संस्तुत्य सकलत्रभृत्यवर्गस्तेन सत्कृतो मासं तत्रो- पित्वा स्वपुरं प्रययौ। पौरा जानपदाः अमात्याः श्रेणयश्च नलं प्रशशंसुः। “वयमद्यैव तव दर्शनेन निर्वृताः, वयं त्वा- मुपासितुं सिद्धाः स्मः । यथापूर्वमस्मान्पाहि" इत्यूचुः । अथ महत्या सेनया नलो विदर्भेभ्यो दमयन्तीमुपानयत् । भीमश्च सुतां महता परिवण प्रेषयामास । आगतायां दमय- न्त्यां सपुत्रायां विधिवद्राज्यं पालयन्सुखी अवसत् । विविधै- यज्ञैरीजे च । "युधिष्ठिर! एकाकिना नलेन सुमहद्व्यसनमनु- भूतं प्राप्तश्चाभ्युदयः पुनः" । तथा “त्वमपि अचिराच्छञ्जित्वा राज्यं प्राप्स्यसि" इति बृहदश्व उक्त्वा तीर्थाटनाय ययौ । . (२) एधि - भव ॥ (९) श्रेणयः - शिल्पोपजीविनः, कर्मकराः ।। (१५) एकाकी - असहाय एकः । “एकादाकिनश्चासहाये” एकक इत्यपि ॥

१२६ संस्कृत चतुर्थपाठः ॥ ४॥ चरित्रस्यास्य पठनेन, पुरुषस्य दुःखान्यतकितान्यापतन्ति । तानि सोढानि चेत्पुनः क्षेमं पुरुषः प्राप्नुयात् । महति कृच्छ्रे आपतितेऽपि स्त्रीभिः पातिव्रत्यं न हातव्यम् , पुरुषैश्च सच्चरित्रा एव स्वस्त्रियोऽपि सेव्याः। कृच्छं प्राप्ताय कृत उपकारो न व्यर्थों भवति । स धर्मः कर्तारं रक्षति । इति पठितुर्ज्ञानमुत्पद्यते ॥ इति नलचरित्रं संपूर्णम् ॥ ४॥ EMS ॥ श्रीसरस्वत्यै नमः॥ ॥ सौभरिचरित्रम् ॥५॥ ॥ मांधातृकथा ॥ बभूव किलेक्ष्वाकुवंशे युवनाश्वो नाम सर्वत्राव्याहता- ज्ञोऽखिलसज्जनानुवर्ती चक्रवर्ती। तस्य च्छन्दानुवर्तिन्यः कुलिन्यो रूपिण्यो बढयो भार्या आसन् । तास्तस्यैहिकसुखाय केवलमभूवन्न त्वामुष्मिकाय सुखाय; यतस्तासां नैकाऽपि पुन्नान्नो नरकात्रानारमेकमपि पुत्र प्रासोष्ट । बन्ध्यापति तम- (४) युवनाश्वो नाम - युवनाश्व इति प्रसिद्धः। नामेति अव्ययम् ॥ अव्या- हताशः - न व्याहता अव्याहता आज्ञा यस्य सः ।। (५) सजनानुवर्ती - सन्तश्च ते जनाश्च । ताननुवर्तते इति ॥ कुलिन्यः - सत्कुलोत्पन्नाः ॥ (६) ऐहिकम् - इह लोके भवम् ॥ (७) आमुष्मिकम् - अमुष्मिन् परलोके भवम् ।। (८) पुत्रः - पुतः पुनामकनरकात् श्रायते ॥ पुन्नाम्नो नरकात्राता पुत्र- इत्युच्यते बुधैः ॥ प्रासोष्ट - प्रसूतवती ॥ वन्ध्यापतिः - अपुत्राणां स्त्रीणां भर्ता॥

१२८ संस्कृत चतुर्थपाठः ॥४॥ वनीपतिं सद्वीपा मेदिनी रत्नमूरपि नापीणयत् । स . च निर्विष्णो राज्यधुरां मन्त्रिष्वाधाय महिष्या सह. तपोवनमेत्य तापसैः सह तापसो भूत्वोवास । तत्र पार्थिवशीलतोषितैर्द- यालुभिस्तपस्विभिरस्यापत्योत्पादनाय पुत्रकामेष्टिरारेभे । रात्रौ कर्मपरिश्रान्ता ऋषयोऽभिमन्त्रितजलं कलशं वेदीमध्ये निक्षिप्य सुषुपुः। (१) रत्नसूः . रत्नानि श्रेष्ठवस्तूनि सूते ॥ सद्वीपा - द्विर्गता आपो यत्र स द्वीपः । तेन सहिता ॥ (२) निविण्णः - निर्वेदं प्राप्तः विरक्तः। “निर्विण्णस्योपसंख्यानम्" इति णत्वम् ॥ राज्यधुरा - राज्यस्य धूः भारः । (३) उवास - अध्यास्त । "वस" निवासे । वि. १। पर. लिट् - प्र. उवास । उपतुः । ऊपुः ॥ म, उवसिथ - उवस्थ । उषथुः ऊष ।। उ. उवास-उवस । ऊषिव अषिम ॥ लुट्-वत्स्यति ॥ लुड्-अवारसीत् । अवात्ताम् । अवात्सुः॥ (४) आरेभे - उपचक्रमे । “रम" रामस्ये वि. १ । आत्म. । आपूर्व उपक्रमे। लट् - आरभते ॥ लिट् - आरेभे। आरेभाते । आरेमिरे ॥ कर्मण्यपि लिटि कर्तरीव रूपम् ॥ (५) वेदी - परीष्कृता भूमिः । वेदिरित्यपि ॥ (६) सुषुपुः - निददुः । शिश्यिरे । “भिष्वप्" (स्वप्) शये । वि. २ । पर. लिट् - प्र. सुष्वाप । सुषुपतुः । सुषुपुः॥ म. सुष्वपिथ-सुष्वस्थ । सुषुपथुः । सुषुप ॥ उ. सुष्वाप - सुष्वप । सुषुपिव। सुषुपिम ॥ लट्- प्र. स्वपिति । स्वपितः । स्वपन्ति ॥ म. स्वपिषि । स्वपिथः । स्वपिथ ।। उ. स्वपिमि । स्वपिवः । स्वपिमः ॥ विधिलिक - स्वप्यात् सौभरिचरित्रम् । १२९ अर्धरात्रे तृषा परीतः स भूपालस्तामिष्टिशालां प्रविश्यो. कमन्वैषयत् । तत्र पुंसवनजलपूर्ण कलशमेकं वर्जयित्वा न्यानि सर्वाण्यपि भाजनानि रिक्तान्येवासन् । कर्तव्यमूढो हीजानिस्तदेवोदकमपिवत् । परेद्यवि प्रातः प्रबुद्धास्ते भूदेवाः सवनजलशून्यममत्रं दृष्ट्वा “केनैतत्पुमपत्योत्पादकं वारि तम् ? इदं चेद्राज्यपास्यत्तदा गर्भिण्यभविष्यत् । महावलपराक्रमो शकरस्तनयश्च राज्ञोऽजनिष्यत । इदानीमास्माकीनो यत्नश्च " स्वप्याताम् ॥ आशीलिङ् सुप्यात् । सुप्यास्ताम् ॥ लुङ्- अस्वाप्सीत् । अस्वाप्ताम् ॥ १) अर्धरात्रः - निशीथः। अर्ध रात्रेः अर्धरात्रः। “अहःसंख्यैक- देशपुण्याच्च रात्रेः" इत्यच् । रात्राहाहाः पुंसि" यथा - अहोरात्रः । सर्वरात्रः । पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः। यहः। संख्यापूर्व रात्रं क्लीबम्" द्विरानम् ॥ पृषा - उदन्या तु पिपासा तृट् इत्यमरः । तृतीयैकवचनम् । तृट् तृषौ तृषः तृषाशब्दष्टाबन्तोऽप्यस्ति ॥ २) पुंसवनम् - पुमांस सूते इति पुंसवनम् ॥ ३) रिक्तम् - शून्यम् । Empty. ४) महीजानिः . मही जाया यस्य " जायाया निङ्" ॥ ६) अपास्यत् - पानार्थकारपाधातोर्लुङ ॥ ७) अजनिष्यत - “जनी" (जन्) प्रादुर्भावे । वि. ४ | आत्म लुङ्, अजनिष्यत । अजनिष्येताम् । अजनिष्यन्त ॥ लट् - जायते । लिट् . प्र. जज्ञे । जज्ञाते । जज्ञिरे ॥ म. जज्ञिषे। जज्ञाथे । जशिध्वे ॥ उ. जज्ञे । जशिवहे । जज्ञिमहे॥ लुङ् - अजनि - अजनिष्ट ।

१३० संस्कृत चतुर्थपाठः ॥४॥ विफल: संजातः । इतः परं किं कर्तुमुचितम् ?" इत्यब्रुवन् । तेषां वचनं श्रुत्वा भयव्याकुलमानसो मेदिनीपतिरकथयत्- "पिपासाकुलितेन मया जाल्मेनापायि पुंसः पानानई पानीयम्" इति। मन्त्रप्रभावेण तस्यैवोदरे गर्भः समजनि । तस्य कुक्षौ क्रमेण वृद्धः स भ्रूणः दशमे मासे दक्षिणं कुक्षि निर्भिद्य बहिनि- श्चक्राम। ईश्वरकृपयाऽसौ नृपो न पञ्चत्वं गतः। कुशलैंचयः क्ष्मापतिरचिरेणैव निर्बणोऽकारि । "जातो नामैष कां धास्यति" इति मुनयः परस्परमज- ल्पिषुः। अथागत्य देवराट् “ मां धाताऽयं बालकः" इत्यु- क्त्वा तस्य वक्त्रे स्वस्य प्रदेशिनी न्यास्थत् । तां चामृतस्राविणी- मङ्गुलिं लीड्ढा पीत्वा च तस्याः स्रुतं पयोऽत्यल्पैरेव वासरैर- भिवृद्धः स बालो नामतो मांधाताऽभवत् । प्राप्तयौवनं भूभा- " (३) जाल्मः - असमीक्ष्यकारी ॥ (८) कां धास्यति - कस्याः स्त्रियाः स्तनं पास्यति । धेद" (धे)- पाने । वि. १। पर. लुट् - धास्यति । धास्यतः । धास्यन्ति ॥ लुट् - धाता। धातारौ । धातारः॥ धातासि । (१०) प्रदेशिनी - तर्जन्यङ्गुली ॥ न्यास्थत् - अक्षिपत् । "असु (अस्) क्षेपणे । वि. ४। पर. लुङ् - प्र. आस्थत् । आस्थताम् । आस्थन् । म, आस्थः । आस्थतम् । आस्थत ॥ उ. भास्थम् । आस्थाव । आस्थाम || “ अस्यतेस्थुक्"। लट् - अस्यति ॥ लिट्- भास। भासतुः। मासुः॥ " र यदि॥

सौभरिचरित्रम् । १३१ रभरणे क्षमं शूरं वीरं विक्रान्तं पुत्रं राज्ये निक्षिप्य युवनाश्वः सभार्यो वनं प्रयाय तत्रैव तपसा सिद्धिमगात् । पितुरनन्त मांधाता सप्तद्वीपवती महीं बुभोज । स शशबिन्दोर्दुहितरं बिन्दुमती चन्द्रमुखीमुपायंस्त । तस्यां तस्य पुरुकुत्सोऽम्बरीषो मुचुकुन्द इति त्रयः पुत्राः पञ्चाशदुहितरवाजायन्त ।। ॥ सौभरिकथा ॥ तदात्वे बहुचः कश्चन सौभरि म ऋषिरन्तर्जले मनस्त- पस्यन्द्वादशाब्दं कालमुवास । तत्र चान्त ले संमदो नामातिव- हुमजो मीनाधिपतिरासीत् । तस्य पुत्रपौत्रदौहित्राः पार्श्वतः पृष्ठतो वक्षःपुच्छशिरसां चोपरि प्लवमानास्तेन सहाहर्निशमतिनि- वृता रेमिरे । स चापि तत्स्पर्शोपचीयमानहर्षप्रकर्षोऽनुदिनं तैः सहारस्त । अथैकदा जलमग्नो बदनाचार्यः समाधिमपहाय यदा पुरतः पश्यति तदा तस्य शफरस्य क्रीडा विषय आसीत् । तदा स वाडवोऽचिन्तयत्-"अहो धन्योऽयं मीनराजो यदीदृशं जुगुप्सिततममपि यादोजन्मावाप्यभिः परिवारैः सह (२) प्रयाय - प्रपूर्वकयाधातोर्व्यप् ॥ (३) बुभोज • पालयामास । अवनार्थको भुजधातुः परस्मैपदी। (१२) अरंस्त - अफ्रीडत् । (१३) शफर:-मीनः (१४) बाडबा-ब्राह्मणः। (१५) जुगुप्सितम् - निन्दितम् ॥ ।

१३२ संस्कृत चतुर्थपाठः ॥४॥ रममाणोऽतीवास्माकमपि स्पृहामुत्पादयति । वयमप्येवमात्मा- नं पुत्रादिभी रमयिष्यामः" । इति । समाधि परित्यज्य जला- निष्क्रम्य निर्देष्टुकामो महर्षिः कन्यार्थ मांधातारं चक्रवर्तिनम- गच्छत् । विप्रागमनश्रवणानुपदमेव चोत्थाय तेन राज्ञार्ष्यादिना सम्यगाराधितः सौभरिरुवाच- "निष्ठुकामोऽस्मि नरेन्द्र कन्या प्रयच्छ मे मा प्रणयं विभाङ्कीः । न ह्यर्थिनः कार्यवशाभ्युपेताः ककुत्स्थगोत्रे विमुखाः प्रयान्ति ॥ १ ॥ अन्येऽपि सन्त्येव नृपाः पृथिव्यां क्ष्मापाल ! येषां तनयाः प्रभूताः । (३) निर्वेष्टुकामः-निर्देष्टुं विवाहं कर्तुं कामो यस्य । “तु काम- मनसः" इति मकारलोपः। (७) प्रणयः-याच्आ । विभाङ्क्षीः-व्यभाङ्क्षीः। माङो योगादडभावः । भो” (भज्ञ) आमर्दने । वि. ७ ।पर. लुङ् - प्र. अभाशोत् । अभाक्ताम् अभाक्षुः॥ म. अभाङ्क्षीः । अभातम् । अभात ॥ उ. अभाक्षम् । अभाव । अभाङ्म ।। लट्-प्र. भक्ति। भक्तः । भान्ति ॥ म. भनक्षि भक्थः भक्थ ॥ उ. भनज्मि । भन्ज्वः । भज्मः ।। लड्-प्र. अभनक । अभक्ताम् । अभञ्जन् । म. अभनक - अभङ्क्तम् । अभक्त ॥ उ. अभनजम् । अभव। अभम्म ।। लिट | बभन॥

सौभरिचरित्रम् । १३३ किन्त्वर्थिनामर्थितदानदीक्षा- कृतव्रतं श्लाध्यमिदं कुलं ते ॥ २ ॥ शतार्धसंख्यास्तव सन्ति कन्याः तासां ममैकां नृपते ! प्रयच्छ । यत्प्रार्थनाभङ्गभयाद्रिभेमि तस्मादहं राजवरातिदुःखात् ॥ ३ ॥ इति । जर्जरितदेहं तमूर्षि विलोक्य, तद्वाक्यं चाकर्ण्य स भूपः 'अहो ! उभयतःपाशा मे रज्जुः समापतिता । यद्यहं दुहितॄणां पध्ये यां कां चिदेकामस्मै जरठाय प्रयच्छामि । तदा सा मया- संशयमन्धकूपे प्रक्षिप्तैव । यद्येनं प्रत्याख्यास्यामि कोपनोऽयं हर्षिौं सपरिवारं सराष्ट्रं च शप्त्वा नाशयेत् " इति विचिन्त- पन्नेवाधोमुखश्चिरं तस्थौ। ३) शतार्धसंख्याः - पञ्चाशत्संख्याकाः । शतस्य अधं शतार्धम् । शतार्ध संख्या यास ताः। (५) यत् - यस्मात्कारणात् । अतिदुःखा- प्रार्थनाभङ्गभयात् (अहं) बिभेमि तस्मात् एकां (कन्या) मम .. प्रयच्छ॥ ७) जर्जरितः - खिलीभूतः ।। ८) उभयतःपाशा - उभयपाऽपि पाशः बन्धनं यस्याः सा ॥ ९) जरठः - जीर्णः॥ १०) प्रत्याख्यास्यामि - निराकरिष्यामि। "ख्या" प्रकथने । वि २॥ पर. लुट् - प्रस्याख्यान निराकरणम् ॥

१३४ संस्कृत चतुर्थपाठः ॥४॥ " नरेन्द्र ! कस्मात्समुपैषि चिन्ता- मशक्यमुक्तं न मयाऽत्र किंचित् । याऽवश्यदेया तनया तयैव कृतार्थता नो यदि किं न लब्धम् १ ॥ ४ ॥" इत्य॒षिणोक्तो राजा "भवत्वेवमात्मानं मोचयाम्यस्या आपदः " इत्यालोच्य सप्रश्रयमुवाच -" भगवन् ! अस्म- स्कुलस्थितिरियम् ; 'य एव कन्याया अभिरुचितोऽभिजनवा- वरस्तस्मै कन्या प्रदीयते' इति । तस्माद्भवद्याञा त्वस्मन्म- नोरथानामप्यगोचरवर्तिनी कथमेषा संजाता?। यदि काचि- न्मत्सुता भवन्तं वृणुयानाहं तत्रान्तरायं करोमि । तदेवमवस्थिते न विद्मः किं कुर्म इति । एतदेव मयाऽऽलोच्यते नान्यत्" इति । (३) या तनया यस्मै कस्मैचिदवश्य देया, तया नः अस्माकं, ममेत्यर्थः। “गुरावात्मनि बहुवचनम् ॥" (४) कृतार्थता यदि स्यात्तदा किं न लब्धम् - त्वया तया वा सर्व लब्धमेव ।। (७) कन्याया अभिरुचितः - कन्याय इति च्छेदः । "रुच्यर्थानां प्रीयमाणः"। अभिजनवान् - कुलीनः ।। "संततिमोत्रजनन- कुलान्यभिजनान्वयौ। वंशोऽन्ववायः संतानः इत्यमरः ।। (९) मनोरथानामगोचरवर्तिनी - मनसा चिन्तयितुमप्यशक्या ।। यः प्रत्यह: इत्यमर:॥

सौभरिचरित्रम् । १३५ "अहो! बुद्धिमानयमवनीपतिः। विचितोऽनेनापूर्वोऽय- मस्मत्पत्याख्यानोपायः। जरनयमनभिमतः स्त्रीणां किमुत कन्या- नामित्यमुना विमृश्यैवमभिहितम् । भवतु, अहमस्य वञ्चनोपा- यमन्यं करिष्यामि । तथाऽऽत्मानं योगसामर्थेन साधयिष्ये यथाऽहं सुरस्त्रीणामप्यभीप्सितः स्याम् , किं पुनर्मानवीनाम् ?" इति व्यवसाय "यद्येवं तादिश्यतां वर्षवरोऽस्माकं कन्या- न्तःपुरमार्गप्रदर्शनाय । यदि काचित्कन्या स्वयमेव मामभि- लष्येत्तदाहं दारसंग्रहं करिष्यामि । अन्यथा चेत्तदाऽलमस्मा- कमेतेनातीते वयस्युपयमारम्भेण" इति यौवनाश्वमुवाच । तच्छ्रुतवान्स राजा " मदुपर्यापतिता पीडा दैवादन्यत्र गच्छति चेद्गच्छतु । तत्र नाहमपराधी। किं तु तन्न जाने कस्या उपर्येषा पतिष्यतीति । सर्वव्ययेनाप्यात्मा रक्षणीयः खलु ?" स्यति । (१) विचितः - अन्वेषितः, गवेषितः ।। (२) जरन् - "प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरनपि जीर्यतेरतन्" ॥ (६) व्यवसाय - निश्चित्य । "पो" अन्तकर्मणि वि.४। पर. स्यतः । स्यन्ति ॥ अस्माल्ल्यप् ॥ वर्षवरः - पण्डः, सौविदलः॥ (७) अभिलष्येत् - इच्छेत् । 'लष" कान्तौ । कान्तिरिच्छा। वि. १ उभ.। अत्र पर. विधिलिङ् - प्र, लष्येत् । लष्येताम् । लष्येयुः ॥ "वा भ्रासभ्लाशभ्रमुकमुक्लमुत्रसित्रुटिलषः" इति श्यनो वैकल्पिकत्वात् लषेत् । लषेताम् । इत्यापि ॥

- १३६ संस्कृत चतुर्थपाठः ॥ ४ ॥ एवं विचिन्त्य स भूपः सौविदल्लमेकं महर्षेः कन्यान्तःपुरप- वेशनायाज्ञापयामास । तदर्शितपथेनान्तःपुरं प्रविशन्नेव भगवा- नखिलयुवतिजनकमनीयं रूपमगृह्णात् । प्रवेश्य च तमृषिमन्तःपुरं वर्षवरस्ताः कन्याः प्राह- "भवतीनां जनयिता महाराजो वः समाज्ञापयति-स्वयमस्मा- ब्रह्मर्षिरयं कन्यार्थी समभ्यागतः । मयाचास्य प्रतिश्रुतं ' यद्यस्म- कन्यका काचिद्भगवन्तं वरयति तर्हि नाहं पातिकूल्यं करिष्यामि" इति । इति वचनमाकर्ण्य कन्दर्पमिव रूपिणं तं विलोक्य च सर्वा एव ताः कन्याः सानुरागाः समन्मथाः करेणव इवेभयूथपति तमृषिमहमहमिकया युगपदेव वरयांचक्रुः । एकाऽब्रवीत्-“अलं भगिन्योऽहमिमं वृणोमि"। अन्या बभाषे-"वृतो मया नैव तवानुरूपः" । अपरावादीत्-" ममैव भर्ता विधिनैष सृष्टः" । इतराऽगादी-" अहमेवास्य कान्ता क्लुप्ता यूयं तूष्णी- माध्वम्"। कयाचिदल्पि-" यतोऽयं मया प्रथमं तृतस्ततस्तवाय- मावुत्तः" । (९) इभयूथपतिम् - गजसमूहश्रेष्ठम् ।। (१५) आध्वम् - उपविशत । (१७) आवुत्तः - भगिनीपतिः॥

सौभरिचरित्रम् । १३७ षष्ठयाऽभाषि-"गृहं प्रविशन्नेव मयाऽयं तृतः, एवं स्थिते कि मां विहंसि ?" इति । अहमेवास्यानुरूपा भार्या, अयमेव ममानुरूपो भर्ता इति प्रत्येकं वदन्तीनां क्षितीशपुत्रीणां सौहदपरित्यागेन ऋषेः परिणय- नार्थमत्यर्थ कलिर्बभूव । यदा तु सर्वाभिरतीव हार्दा- द्वतः स कन्याभिरनिन्धकीर्तिः । तदा स कन्याधिकृतो नृपाय यथावदाचष्ट विनम्रमूर्तिः ॥ ५॥ तदवगमास्किमेतन्मया ऋषिप्रभावमविज्ञाय कृतम् ? इत्या- कुलमतिः स राजा तासां सर्वासां विवाहमनुमेने। कृतानुरूप- विवाहश्च स बाडबः सर्वास्ताः कन्याः स्वाश्रममनयत् । तत्र चाशेषशिल्पिप्रणेतारं विधातारमिवान्यं विश्वकर्माणमाहूय ? (२) विहंसि - विघ्नं करोषि। “हन" हिंसागत्योः। वि. २ । पर, लट् - प्र. हन्ति । हतः । प्रन्ति ।। म. हंसि । हथः । हथ ॥ उ. हन्मि । हन्वः । हन्मः ॥ विपूर्वो विघ्नकरणे । शेष बृहद्धातुरूपावल्यां १७१ पृष्ठे पश्यत, पठित्वा हृद्तं च कुरुत ।। (५) कलिः - कलहः ।। (१३) शिल्पी - शिल्प कलादिकं कर्म । तदस्यास्तीति ॥

१३८ संस्कृत चतुर्थपाठः ॥ ४ ॥ "सकलकन्यानां पृथक्पृथक्प्रोत्फुल्लपङ्कजंकूजत्कलहंसकारण्डवादि- विहङ्गमाभिरामजलाशयाः सोपवनाः सावकाशाः साधुशय्यासनप- रिच्छदाः रत्नखचितभित्तयः प्रासादाः क्रियन्ताम्" इत्यादिदेश । तञ्च तथैवानुष्ठितमशेषशिल्पविशेषाचार्यस्त्वष्टा ऋषयेऽदर्शयत् । सर्वरत्नसमन्वितं मणिस्तंभैरुपस्कृतं सर्वर्तुसुखावहं विततवितानैः पर्यकैः विद्रुमवेदिभिर्महाहैं हेमतोरणैः आरकूटकपाटेश्वोपशोभित पताकाभिरलंकृतं तद्वेश्मजालं दासदासीरहितं निरीक्ष्य स योगी योगप्रभावेण स्वर्गादशशतानि किशोग्वयसो देवकन्यकाः तावतो गन्धर्वाश्चानयत् । ताश्च तासां परिचर्या चक्रुः । स महात्मा एकैकां भार्यामेकैकस्मिन्प्रासादे वासयांबभूव । स्वयं च पञ्चाशतं रूपाणि स्वीकृत्यैकैकया प्रियया सह (१) प्रोत्फुल्ले-त्यादि - प्रोत्फुल्लानि यानि पङ्कजानि पद्मानि तेषूपविश्य कृजन्तः कलहंसकारण्डवादयो विहङ्गमाः पक्षिणः, तैरभिरामाःमनोज्ञाः जलाशयाः सरांसि येषु ते प्रासादाः ।। (२) सावकाशाः अवकाशेन मध्ये वातसञ्चारार्थेन रिक्तस्थलेन pfear: 1 With open space. (४) त्वष्टा - विश्वकर्मा ।। त्वष्टा । त्वष्टारी । त्वष्टारः।। (५) वितानम् - धूलीपातपरिहारार्थमुपरि निबद्धं पटादि । CLupig. अस्मानिगरी॥ (६) विद्रुमवेदिभिः प्रवालनिर्मितपरिष्कृतभूमिभिः ॥ तोरणः बहिौर, बन्धनमाला वा॥ आरकूटः - पित्तलम् ॥ (७) वेश्मजालम् - गृहसमूहः ॥ (6) किशोरवयसः - तरुणवयसः ।। - .

सौभरिचरित्रम् । १३९ पृथक्पृथगेकैकस्यामुपकारिकायामवात्सीत् । ता राजदुहितरः दिव्यदासीभिः स्नापिताः सुगन्धितैलोपलेपनपूर्वकं कङ्कतिकाभिः प्रसाधितकबर्य उपलिप्तपरायचन्दनाः वसितानुत्तमदुकूला: सर्वा- भरणभूषिताः सूदपकं षड्सोपेतममृतस्वान्नमशित्वा गन्धर्वैः- यमानं गानं शृण्वत्यः, अप्सरसां नृत्यं पश्यन्त्यः भर्ना सह विजहिरे । स योगी स्मरणमात्रसंनिहितेषु विमानेषु ता आरोप्य स्वर्गादप्यतिशयितसुखेषु वैत्रंभिकनन्दनचैत्ररथादिष्वष्ट- दिक्पालकानामुद्यानेषु ता रमयामास । एकदा तु दुहितृस्नेहाकृष्टहदयोऽविदितमहानुभावानुभावो नृपः, दुहितरः किं मुखिताः उत दुःखिताः ? इति ज्ञातुं महर्षे स्तपोवनमाजगाम । तत्र स्फुरदंशुमालां स्फटिकमयीं प्रासाद- मालां विहङ्गममिथुनकूजितातिरमणीयोपवनजलाशयामपश्यत् । (१) अवात्सीत् लुङ्। लङ्. अवसत् । (२) कङ्कतिका - प्रसाधनी। Fity. Comb. फणी ।। (३) प्रसाधितकबर्यः - परिष्कृत केशपाशवत्यः॥ (४) अमृतस्वादु - अमृतवत्स्वादु रुचिरम् ॥ (६) विजहिरे - चिक्रीडुः । “हृञ्" (ह) हरणे । वि. १ । उभ. अत्र आत्म. लिट् - प्र. जहे। जहाते । जहिरे॥ म. जहिये। जहाथे। जहिध्वे - ड्ढे ॥ उ. जहे । जहिवहे । जहिमहे ॥ लट् - हरते ॥ लङ - अहरत । लुङ् - अहृत । अहषाताम् । अहषत ॥ विपूर्वक क्रीडायाम् ॥ ११२) विहङ्गममिथनम् - पक्षिदम्पती ।। ।

१४० संस्कृत चतुर्यपाठः ॥४॥ प्रविश्य चैं प्रासादं तत्रासनोपविष्टां चामरहस्ताभिर्दासीभिर्वी- ज्यमानां वीणां वादयन्ती तनयां, तस्याः पार्चे वीणागानदत्त- श्रवणं मन्मथप्रतिमं सूर्यवर्चसं कंचन मघवानमिव युवानं चाद्राक्षीत् । अपृच्छच्च तां कृतपादाभिवन्दनां पिता नाति- प्रीतस्वान्त आशिषश्चाप्रयुञ्जानः “भद्रे! कोऽयं जारः ? लोकन- मस्कृतं मुनि कथं विप्रलभ्यामुमध्वगं भजसे ? कथं भर्तुर्मम च कुलमधः पातयसि" इति । सा तमवादीत्-"तात! तवैवैष जामाता बढचाचार्यों योगी" इति । ततो पहर्षिरपि श्वशुरं प्राणमत् । “वत्से ! उत स्मर्यतेऽस्मद्गहस्य ?" इति पित्राऽनुयुक्ता सा प्रहर्षविस्मयतुन्दिलहृदयेन राज्ञा तमाह- "तातातीव रमणीयोऽस्मदीयः प्रासादोजातिमनोहरमुपवनमतिक- लरुतविहगमिथुनाभिरुताः प्रोत्फुल्लपद्मसुरभयो जलाशयाः, मनोनु- कूलो भक्ष्यभोज्यानुलेपनवस्त्रभूषणादिभोग्योपभोगो, मृदुनि शयनानि, अपीच्यो भर्ता, सर्वसंपत्समृद्धं वशंवददासदासीकमस्म- गाईस्थ्यं तथाऽपि कया वा न स्मर्यते जन्मभूमिः १ । भवत्प्रसा- (६) विप्रलभ्य - वचनां कृत्वा । वि.+प्र. 'वकालभधातोर्यप् ॥ अध्वगः - अध्वन्यः, पान्थः, पथिकः॥ (१०) तुन्दिल:-तुन्दिकः, तुन्दी, बृहत्कुक्षिः ॥ अतिशयितं तुन्दमुदरमस्य । तुन्दादिभ्य इलच अन पूर्णमित्यर्थः॥ (१४) अपीच्यः - यौवनमध्यस्थः ॥

सौभरिचरित्रम् । १४१ दनिदानं खल्विदमतिशोभनम् । किन्त्वेतन्ममैकमपरिहार्य दुःख का- रणं "यन्मम भर्ता सर्वदा मम गृहान्न निष्क्रामति । ममैव केवलमतिप्रीत्या समीपवर्ती, नान्यासां मद्भगिनीनाम् । एवं च मम सहोदरा दुःखिता इत्येव" इति । तच्छ्रुत्वा अन्यस्याः कस्याश्चित्स्वतनयायाः प्रासादं प्रविवेश । तत्र पुत्रस्योपनयनाय भर्ना सह स्वस्तिवाचनं कारयन्ती पुत्रीमपश्यत् । “अयि वत्से ! भवत्याः सुखमुतासुखमपि ? किमयं महर्षिस्त्वयि स्नेहवान् ? इति पित्रा पृष्टा सा प्राह- तात! मदपेक्षया त्वं परमदरिद्रः । तव प्रासादो मदीयेन शौचगृहेणापि समो न स्यादिति मन्ये । किं बहुना शचीपुरन्दरा- विवावां सुखिनौ स्वः । किन्त्वेतदेव मे मनो निकृन्तति । यन्मम भगिन्यः कुत्र वा तिष्ठन्ति कथं वा ता भर्ता विना वर्तन्त इति न जाने । यतोऽयं क्षणमप्यन्यत्र न गच्छति" इति । ततस्तृतीयं प्रासादं प्रविष्टो राजा केनचिद्वरेण कन्यायाः पाणिं ग्राहयन्तं भार्यासहितं स्वजामातरमपश्यत् । अथापरस्मिन्सौधे भर्चा क्रियमाणे पौर्णमासस्थालीपाकहोमे तण्डुलान्वितुषीकु- - (१) निदानम् - आदिकारणम् ॥ (६) स्वस्तिवाचनम् - पुण्याहवाचनम् ॥ (११) निकृन्तति - छिनत्ति । (१६) वितुषीकुर्वती-अवितुषान्वितुषान्सपथमानान्कुर्वती । कण्डयन्ती ।।

१४२ संस्कृत चतुर्थपाठः ॥ ४॥ र्वती तनयां नरपतिरलक्षयत् । ततोऽवशिष्टेषु सर्वेष्वपि प्रासादेषु राजा प्रविश्य प्रविश्य, एकैकामपि तनयां तथैव कुशलमपृच्छत् । ताश्च तथैवाभिदधुः। अथान्यस्मिन्नेकपञ्चाशे कुटीरे तपस्यन्तं भगवन्तं जरा- जर्जरितदेहं त्वगस्थिमात्रावशिष्टं परितोषविस्मयनिर्भरविवशहदयो राजाऽवालोकयत् । “ एहि राजन् ! अपि कुशलं तव सहामात्यस्य सराष्ट्रपरिवारस्य ? कदा त्वमत्रागतः ? । कुतस्त्वं विस्मयाकुलो दृश्यसे ?" इति तपस्विसार्वभौमेन पृष्टः स सार्वभौमः प्रत्यवा- दीत्--" भगवन्सर्वाश्चर्यसागरे त्वयि किं किं न संभाव्यते ? दृष्टस्ते भगवन् ! सुमहानेष सिद्धिप्रभावः। नैवंविधमन्यस्य कस्यचि दस्माभिविभूतिविलसितमुपलक्षितम् । तत्र योगमहर्द्धिमविज्ञाय पूर्व मया त्वं छलितः; तन्मम हेलनं क्षमस्व" इति। क्षमापयित्व तत्रैव तेन ऋषिवर्येण सह कंचित्कालमभिमतोपभोगं भुञ्जा उषित्वा स्वपुरं जगाम । ततः कालेन महता तस्य महस्तासु राजतनया प्रत्येकं पुत्रशतं सार्धमभवत् । तदनु स महर्षिस्तत्रानुदिनमारूहरू होऽतीव ममताविष्टहृदयोऽभवत् । "अप्येतेऽस्मत्पुत्राः कर भाषिणः स्युः? पद्भयां गच्छेयुः ? अप्येते यौवनिनो भवेयुः ? अ "-" गतौ। वि.स पर.

सौभरिचरित्रम् । तदारानेतान्पश्येयम् ? दुहितरश्च सदृशान् भर्तृन् लभेरन् । प्येषां पुत्रा भवेयुः १ अप्येतत्पुत्रान्पुत्रसमवेतान्पश्येयम् ? त्येवमाद्यैच्छत् । तदनुसारेण सर्व मनोरथफलं प्राप्याप्यचि- तयत्-"अहो मे मोहस्य विस्तारः। मनोरथानां न समाप्तिरस्ति वर्षायुतेनापि तथाऽन्दलझैः। पूर्णेषु पूर्णेषु पुनर्नवाना- मुत्पत्तयः सन्ति मनोरथानाम् ॥ ६॥ पद्भयां गता पौवनिनश्च जाता: दारैश्च संयोगमिताः प्रसूताः। दृष्टाः सुतास्तत्तनयप्रमूर्ति द्रष्टुं पुनर्वाञ्छति मेऽन्तरात्मा ॥ ७ ॥ द्रक्ष्यामि तेषामपि चेत्यमूर्ति मनोरथो मे भविता ततोऽन्यः। पूर्णेऽपि तत्राप्यपरस्य जन्म निवार्यते केन मनोरथस्य ॥८॥ आमृत्युतो नैव मनोरथाना- मन्तोऽस्ति विज्ञातमिदं मयाऽद्य ॥ ९॥" (१) लभेरन् - प्राप्नुयुः। (१०) प्रसूताः - कर्तरि कः । पुत्रानुदपादयन् ॥

१४४ संस्कृत चतुर्थपाठः ॥४॥ इत्यात्मानं स्वयमेवाभिधायेममर्थ पञ्चाशतमपि भार्या उपदिश्य तासां वैराग्यमुत्पाद्य सौभरिरपहाय पुत्रगृहप्रासादा- दिकमशेषपरिबर्हजातं योगमहिना परिगृहीतानि पश्चाशतमपि रूपाणि स्वमूलरूपेणकीकृत्य वनं प्रविवेश । तत्राप्यनुदिनं वानप्रस्थनिष्पाद्यमशेष क्रियाकलापं विधाय तेन क्षपितसकल. पापः परिपकमनोवृत्तिरात्मन्यग्नीनारोप्य भिक्षुरभवत् । भगवत्या- सज्याखिलं कर्मकलापमनमविकारममरणादिधर्माणं परेभ्योऽपि परं भगवन्तं ध्यात्वाऽच्युतं तत्पदमवाप । पञ्चाशदपि तद्भार्याः स्वासां राजपुत्रीत्वं विस्मृत्य स्वानुभूतं सुखं स्वामसुखसदृशं मत्वा, दुकूलवलयादिकं संत्यज्य चीराणि वसित्वा, कालत्रयस्नानेन जटीकृतधम्मिल्लाः नीवारानं भुजानाः भर्तुस्तपस औषयिकी शुश्रूषां कुर्वत्यस्तदुपदिष्टमार्गेण तमेव भगवन्तं नारायणं ध्यायन्त्यः शाश्वतसुखां गतिमवापुः ।। ॥ इति सौभरिचरित्रं संपूर्णम् ॥५॥ संपूर्णश्वायं संस्कृत चतुर्थपाठः ॥ ४ ॥ शुभं भूयात् ॥ (३) परिबर्हः - उपकरणम् ॥(७) अमरणादिधर्माणम्- मरणस्याभावः अमरणं तत् आदिर्येषां ते अमरणादयः। तादृशाः धर्माः यस्य सः तम् । "धर्मादनिकेवलात्" इत्यनिन् । (८) अच्युतम् - पुनरावृत्ति न्यम् ॥ (११) धम्मिल्लः केशपाशः ॥ (१३) शाश्वतसुखा • शाश्वतं सुखं यस्यां सा ॥ ॥ इति टिप्पनी संपूर्ण मंचा

No text on this page.

Saskuut Chatuthiipaat'ha

Author
T R Krishnacharya
Title
Saskuut Chatuthiipaat'ha
File name
Saskuut Chatuthiipaat'ha
Text
OCR done
Citation
1931
Publisher
T K Venkobacharya Madhva Vilas Book Depot ,kumbakonam
Language
Sanskrit
Pages
152
Library
Svi-ksri-chennai
Classification
Fiction. Prose Narrative
DLI number
368722
Barcode
5010010078752.00
Scanning centre
RMSC, IIIT-H
Rights
IN_COPYRIGHT
VMLT id
7ZHfL1atX0u
Download PDF

Saskuut Chatuthiipaat'ha