University Library,gurukul Kangri Vishwavidyalaya
जीवन वृत्तान्तः
Front matter
ODE ॥ श्रीः ॥ श्रीयुतसर्वदर्शनाचार्यवेदश्रौतस्मातपारावारपारीण- रानडोपाखाबालास्विणो जीवनचित्तान्तः । Janina CHER 1773 मर काशिकराजकीयप्रधानपाठशालायां साहित्य- शास्त्रस्य प्रधानाध्यापकेन गङ्गाधरशास्त्रिणा निरूपितः। ) तदीयशिष्येण साहित्याचार्यपदवी लब्धवता त्रिपायुपाख्यरघुनन्दन- शर्मणा विषमपटिप्पणीप्रकाशनपुरःसरं संशोधितः । -- জায়িযালাসঘালামীয়নভাল- थिबोसाहिबमहाशयानुमत्या श्रीकाश्यां मोडकल हाल-नामक यन्त्रे मुद्रितः । सं. १९३६ प्रा. सु. ७ सोमे అంతిత 088868888888888లో
.
AM
V.
PRINTED BY E J. LAZARUS & Co.,
AT TILE MEDICA. HALL PRESS, JENARES.
A. *.
श्री: श्रीविश्वेश्वरो विजयते। श्री ६ बालशास्त्रिजीवनवृत्तान्तः । अस्ति स्वस्तटिनीसमीपवसतिः सङ्केतभूः श्रेयसां काशी नाम पुरी अतिस्तुनगुणा विश्वेश्वराधिष्ठिता । दुष्प्रापं विजितेन्द्रियैरपि पदं तद् ब्रह्मणः शम्मुना यस्यामेव सदा विनश्वरतनमूल्येन विक्री यते ॥ १ ॥ प्रासीनिःसीमधीमज्जनविनत यशा वेदविद्यानदीप्या: श्रीमद्गोविन्द शर्मा शिवपदनिरतो दाक्षिणात्यो ऽच विप्रः । निध्य प्लष्टार्यधौद्धरणकृतमतिं कल्पसूत्रप्रणायं सत्याषाडं मुनीन्द्रं भुवि सकलबुधा मेनिरे भूसुरं यम् ॥ २ ॥ असो विधिवदधीनिजवेदो व्रतस्त्रातः प्रसासोपाध्यायमध्याप- यवन्तेवासिनोऽङ्गीकृत्य गार्हस्थ्यं धि चन देवर्षिपितृगणान् पितृगामानृण्य. माको बहुपु निहितेषु गर्भवपूर्णेषु विशीर्णेषु दूयमानमानसो विचार्य कीनाशवलनाशनं गरलाशनं सरमसं शरभरूपमुपास्य भगवन्तं शङ्कर समवाप तनयमेकमेव ॥ जन्मात्सवे ऽस्य मुदित: कृतजातकर्मा श्रीविश्वनाय इति नाम विधाय तस्य । चूडाविधिं च विरचय्य समीहमाना माजीििव विधिसमीपमाप दैवात् ॥ ३ ॥ तदनु यथाचिर्वत्त्यामुष्या@हिकी क्रियानसाचिरादासादित- सकललिपिप्रवीणभावो मनीषाविशेषपरितोपितेन गुरुणा पञ्चमण्व वत्सरे विधिवदुनिन्ये । ततः प्रभृत्येव चाध्याय्यतायं याजुषर्षी शाखामवेदाधि गचितेषु दिवसेषु वेदाङ्गानि च ॥ १ अनेन प्रदर्शितमूल्येतरप्रतिबन्धकराहित्यं व्यज्यते । २ कलिः । 1 ३यमः।
जीवनवृत्तान्तः । गुरुवरमुखनिर्यवेदयागेकबार- ग्रहणजनितदायाशेषशाखो ऽश्रमेण । कृतगुरुवरिवस्यो ऽशेषवेदाङ्गपारं परिचितमिव पूर्व सूर्णमापैष धीमान् ॥ ४ ॥ अनन्तरं च तस्मातकर्मकागद पाण्डित्यमण्डितधिषणो धिषणो. पमः सप्तमएष वत्मरे ऽमत्सरेण चेतसा नानाविर्धादगन्तरागतपरः. सहस्रविदुरपरीक्षणविचक्षणं प्रतिपक्षतोणिपतिशिक्षणदत्तकौतेयकं चित्र- कूगिरिमधिवसन्तं श्रीविनायकरावनृपपुङ्गवं वार्षिक्यां परीक्षायामधलाक्य वितरति स्म तत्राभूतपूर्वी परीक्षामसी मध्यमलोकचतुराननः ॥ यट्वा दशान्यिकतया ऽपि न पारयन्ति शस्त्र बुधा निगदितुं किल वालविल्यम् । मेकान्यिको ऽपि न बभूव यतेो ऽप तेन प्रापापदानमिह बालसरस्वतीति ॥ ५ ॥ पदक्रमजटाघनाद्यखिलवेदचचार्चित: सदर्पबुधमण्डलीवञ्चनखगडने पण्डितः । सतः प्रभृति सा ऽभवत्सकलमतलख्यातिमान नृपार्चितपदद्वयः सकलवैदिकेष्वद्वय: ॥ ६ ॥ मानसं मदमशेषवेदिका यज्जहुः पटति तत्र सुस्वरम् । मानसंमदमबाप भूपते रावांशुक्रधनोन्नतं स तत् ॥ ७ ॥ अनवमे। नवमे किल हायने ऽखिलपदकमपाठविशारदः । मनसि कस्य न विस्मयमार्पयज्जनयति म्म ततो गुरुसंमदम् ॥ ८॥ सतः परं प्रशस्यमानो निरुपमानस्तत्रत्याशेषनिकजनोपदीकृत. बहुधनो गुणातरेकरक्तराजपुङ्गवचितपरिपुष्टत्तिको ब्रह्मावर्तक्षेत्र प्रयाय १ यस्य परीक्षाकाले द्वादशाऽपाठा भवन्ति स द्वादशान्यिकः । २ यस्यैको पिपाठी भर्धातमकान्थिकः । ३ अपवानं कर्मक्त्तम् ।
जीवनवृत्तान्तः। ५ तत्रत्यसम्राट्चरमहाराजबहुमानितो गालवक्षेत्रमुपेत्य द्वादशदर्शनीपारीण- मखिलभूतलभूषणं श्रीकुप्पाशास्त्रियां परितोष्य निजमनीषया तदादिष्ट- गालवक्षेत्रभूपाल्पतवार्षिकविपुलत्तिको विनयावनतपूर्वकायो ऽवाप्या- नुमति दाक्षिणात्यपरिवृढस्य समासादा काशिकां यतते स्म श्राध्याणि काव्यानि सरिकणि च दर्शनानि करतलामनकीकतुं स भारती- पुरुषावतारः ॥ अनेकविबुधार्चिता गुरु विशालयाभूषितः सुरेखास्यदतया शुतो भृशविराजदुच्चः प्रवाः । चिविष्टपसमाप्यभन्न स सुधी: सुराणां प्रिया न चापि शतमन्यु मानिति मनो भृशं विस्मितम् ॥ ६ ॥ मोचा चूतसुधामदैकदमनं स्वाभाविकं यद्वचः प्रागल्भ्यप्रतिभानुभावभरितं चेतश्चमत्कारदम् । उद्यत्यार्वण पाशांतकिरणान्यक्कारिकीयाप्रयो नूनं रीतिमलौकिकीमनुसरन् कोप्येष देवोत्तमः ॥ १० ॥ अथासावल्पेन कालेन सम्पादितोढव्युत्पत्तिको प्रजन द्वित्रान वत्सरांश्चित्रकूटरिं नन्दनाराविहारसिके तत्र राजरने तर्ककार्कश्यं सम्पपादयिषुः समालोच्य निजधीविभवानुरूपभिरूपद्विजोत्तमचक्रवर्ति- नं श्रीकुप्पाशास्त्रिणं निजदेशिकं सम्प्राप्य गालवक्षेत्रं प्राकाशयत पुरस्कृत्य प्रश्रयममुं प्रति निजाशयभिदधे च सादरममुना ॥ त्वं बाल द्विजराजतां किल वहन चित्रं न दोषाकर: सम्पज्योसि महेश्वरेण शिरसा सन्मार्गनित्यानितः । ८ १ देवः पण्डितच । २ वहस्पतेरध्यापकस्य च । ३ सुखस्य जनकतया उत्तमा- काशाधारतया च । ४ अश्वविशेषो महती कीर्तिश्च । ५ देवानां मयानां च । शत- मन्युरिन्द्रः शतं कोपाश्च । कदली। ८ बाल एव विप्रश्रेष्ठतां बालचन्द्रतां च । र दृषणाययश्चन्द्रश्च । १० महाराजन शिवन च। ११ सज्जनमार्ग नक्षत्रमाग ।
६ जीवनवृत्तान्तः । कस्त्वां पाठयितुं किमच बहुना वतुं त्वया च क्षमा भाग्यमे ऽद्य निमित्ततां विरचयन सानुग्रहे। मय्यसि ॥ ११ ॥ नानातर्कवितर्ककर्कशतरा नसर्गिकी ते मति: स्वल्परेव दिने: पुरातनबुधान्न नं स्वयं जेष्यति । तस्मादिकमार्गरक्षण कृते मत्वा ऽवतारं निज मीमांसासु गुरुकुरु त्वमधुना मामित्यहं प्रार्थये ॥ १२ ॥ कण्ठे यस्य लुठन्ति वैदिकांगरः साङ्गाः किमुत्कण्टिताः कुण्ठीभावमुपैति यस्य पुरतो जीयोऽपि युत्युक्तिषु । मीमांसास्ववशिष्यते क्रिमपरं यत्तेन लभ्यं नवं मन्ये मान्यममुं विभाव्य वचनं तस्यैष धन्येऽतनात् ॥ १३ ॥ किं मां वञ्चयसि स्वयं शतते त्वं जीवकोट्याश्रितं श्रीमद्वालसरस्वतीमिषममुं धृत्वा ऽवतारं नवम् । नाहं पाठयितुं नमो ऽस्मि कथमप्यनं क्रिमेवं विधि वतुं भूतलमत्यजद्दसरसा तस्योक्तिभिर्विम्मितः ॥ १४ ॥ अथैष वैशेषिकाशेषविषयविशेषज्ञतामभिलव्यन निशम्य न चिरा- दामिष्यन्तं पुण्ययामप्रतिष्ठितसाम्प्रतिकसम्राट्समुत्तेजितसंस्कृतसरस्व- तीसदनसमस्तप्रशस्तदर्शनपारतारितपरःसहशिष्यं तं श्रीमारशास्त्रिण गालधक्षेत्रप्राड्डिवाकपरिवढपदमलरिष्यन्तमाजानजनिविपश्चिज्जनस- मागमकुतहलो विधाय वसतिं तत्रैव समागते ऽमुष्मिन सूर्यकसूर्य सादरं परिसमाप्य तत एव द्वादशलक्षणीशेषं तनर्याबिशेषमुपलालितो ऽमुना गुणैथुनानो विप्रतिपत्रान् प्रसत्रान विरचयन पौरजनानुपसबान सम्भा- धयन समुचितोपचारेणासबषोडशानि जन्मतो हायनानि तत्रैवानुभवन वाग्मिनां धुर्य हर्यकतानचेतसि तस्मिन्त्राचायवर्य पर्यषण येव दिव्यसुखानां ३ मूरिषु पण्डितेष्वेकोद्वितीयः मूर्यस्तस्मिन् । १ बुहस्पतिः। २ ब्रह्मन् । ४ इच्छया।
जीवनवृत्तान्तः । समारूठे परं पदं नितान्तदूनो ऽननो ऽपि निखिलवसुमतीवास्तविबुधे. भ्यो ऽसौ तत्रयनिखिलविबुधेभ्यो पयाचितावासा निवासी निखिलवि. यानां निरीत्य तत्रैव समागतं पाणिनीयतन्त्राज्जीवनायेत्र पुनरवतीर्ण भगवन्तं पतर्जालं विवादधीरसिकतासमेतधीसिकाताचतुर्दिशप्रक्षेपण- प्रचण्डवातं निखिलगुणरवरवाकरं निशाकरं सहृदयकुमुदधनानां नाना- विधप्राजसमभृतशोभासु गालवपुराधीश्वरसभासु सर्वदेव जयिनं निता- न्तयिनं कृत्स्वभारतभूतलप्रसिदुमहिमानं श्रीराजारामशास्त्रिणं गृहय चमुष्य परिचर्यायै सविनयमुपसदा सदा एव निगा निजाशयं निश्चि- तमना मनापि वसतिं तत्र नगरे विहातुं समनुजाण्य कानि चिदेव दिनानि तत्रत्यपार्थिवानुरोधेन निवस्तुकामं गुरुवरश्रीराजारामशास्त्रिण सत्वरं समवाप काशिकाम् ॥ येषां द्वादशदर्शनीनिपुणता लोकेषु विख्याप्यते यद्वाग्वज्रविशीर्गवादिगिरिभिः प्रामा दिगन्ता द्रुतम् । सम्राडादिकदुर्विधावधिजनेनौल्लङ्कितं यद्वचा यच्छारेरधुना ऽपि सर्वविषये विद्याः प्रतिष्ठापिता: ॥ १५ ॥ प्रकटनिजविहारैः काशिको पूतमार्गों रचयितुमिव काशीनायमचायतीर्णम् । सदधि गुरुकाशीनाथशास्त्याख्यमेनं स भृशमुपसिषेवे नाप यावद्गुरुः सः ॥ १६ ॥ वर्षीयांसमुपाश्रिता ऽद्य खलु मां विद्याभिधा बल्लरी नोपनं लभते नवं यदि ततो भङ्गं द्रुतं यास्यति । स्यादेषा सफला कथं न्विति चिरं सञ्चिन्तयंश्चेतसा पाचं प्राप्य तमुत्तमं स मुमुदे निश्चिन्ततामाप च ॥ १० ॥ १ इभ्या धनिनः । २ विवादबुद्धी रसिकता स्पहा । सिकता वालुका असारत्वादिति भावः । धीराः पण्डिता सय ४ उपध्र प्राश्रयः ।
जीवनवृत्तान्तः । आहूतः कर्तुमाय: सपदि कुविधवाद्वाहशङ्कासमाधि प्रोदामाशेषवादिद्वरदविदलनाकुण्ठकण्ठीरवेन्द्रः । सम्प्राप्नोथ स्वगेहं विपुलबहुमतिं प्राप्य भूपात्सपी श्रीराजारामशास्त्री विनयनतगुरुस्तेन सामोदमूचे ॥ १८ ॥ शिष्याभ्रान्तिकपूर्णदर्शनरसैः कीर्ति महीव्यापिनी कुर्वन्तं नयसागरं प्रतिपदारेढो ऽनिशं जम्भयन् । यः स्वीयां द्विज राजतां प्रकटयेत् पुष्णन् समस्ता: कला नव्या बालशशी स सम्पति भवत्मानयादर्थताम् ॥ १६ ॥ इत्थं गिरं गुरुवरात्स निशम्य धीर. स्तं पाणिनीयनयसागरकर्णधारः । पारीणमारचयति स्म पदे ऽचिरेण तुष्टः प्रकृष्टतमया किल तस्य बुद्धया ॥ २० ॥ মনিষাঙ্কিীনিৱাননগয়া मीमांसास्वतिमांसल: कपिलगीळत्पादने कोविदः । स्वल्परेव दिने: पुराणनिपुणस्तन्त्रस्वतन्त्रः सुधी- योगे गीतमतिः स तेन विदधे भूपण्डिताखण्डल: ॥ २१ ॥ मोचा नीचतरा सिता विहसिता धिक्कारयोग्या सुधा माकन्दो ऽपि च निन्दनीयविभवो द्राक्षा न वीक्षाचिता । वर्षारम्भविजृम्भमाणसलिला मापगासोदरे वाग्गुम्फे ऽस्य समस्तशास्त्रविषयान् सम्यक् परिष्कुर्वति॥ २२ ॥ १ शिष्येष्वभान्तिक भमरहित पूर्णाः शिष्या सवाभाणि मेघास्तदन्तिके पूर्णा- २ यशः पहुंच। ३ प्रतित्तथावारूढः प्रतिपदमारूढः प्रवृद्धश्च । ४ वि- प्रश्रेष्ठतां चन्द्रतां च। ५ घोडशभागान् चतुःष्टिकलाश्च । ६ ६ रखेः सूरेः पगितस्य च । व्याकती।
जीवनवृत्तान्तः । काशीस्थराजयरनिर्मितपाठशाला- मुख्याधिकार्यय समादरमानपूर्वम् । व्युत्पादनाय विनियोजयति स्म सारे हूणाग्रणी: प्रभुवरग्रिफिथाभिधानः ॥ २३ ॥ अथासौ पचविंर्शाततमएव हायने समवाप्यादेशं प्रभुवरस्य पञ्चविंशकव्युत्पादनकृतोत्साहः सोपत्तिकानि सर्वाण्येव शास्त्राणि सङ्क- मर्यात स्म शिष्यक्तिकाहृदयेषु सुतिजनोपभोगयोग्यानि सलिलानीव स्वातीघनाघनो वसुमतीवाचस्पतिः ॥ सा व्युत्पादनचासुरी निरूपमा सा कल्पनाकल्पता ग्रन्थग्रन्थिविभेदियुक्तिकथने सा भास्वरा च त्वरा । नानादेशसमेतशिष्यनिवहे ऽकम्पा ऽनुकम्पा च सा प्रारम्मन्त तदाद्यहम्प्रथमिकां शिष्योघजीवातवे ॥ २४ ॥ घादे सादरपूजितान बुधजनेल्पेष्वनल्यक्रमान शिष्यान खण्डनपगिडतान् स विदधद घेतण्डिकानां गिराम् । प्राशीताचलसेतुभूतलभृतां कीति शशिस्पर्धिनी- मातेने चिरकालशोभिविभवां शास्त्राघमध्यापयन् ॥ २५ ॥ नूनं को ऽपि स वेदशास्त्रजलधिः शीलेकरवाकरो यच्छिष्याम्बुदवृन्दसङ्कमितवाक्तोयमही नावयन् । विद्याकल्पलताः प्रतिक्षणभवत्पाढाक्तिभिः पुष्पिता- श्चक्रे राजसभासु भासुरफलाः सङ्खावतां मानने: ॥ २६ ॥ अथ क्रमेण निर्वाहविजं कार्य प्रकाशनेन काशीविदयासुधानि- धिपत्रे परिभाषेन्दुशेखरप्रत्यभिज्ञादर्शनादिदुरूहयन्यवास्तवार्थानां मुद्रा- तरैः सापत्रपाणि तन्ववपार्थपाठनकर्थिविद्यार्थिसार्थानि दुर्वादिहृदया. नि प्रमोदमेदुणि च सम्पादयन् दर्शनसिकमानसान समूलकाषं कषश्च
१०
जीवनवृत्तान्तः ।
कलिकालप्रबलीभवद्वालविधवापुर्विवाहवैधताप्रख्यापनदुराग्रहयहाविष्टा-
न मोहमयीनामकनगरवास्तव्यान् बोधलेशदुर्विधापि निबन्धकरणा-
दातान दुराशयान निर्माय दोपाभानिरासनामकं स्वकीयगुरुवरप्रणीत.
विधवोद्वाहशङ्कासमाधिनामनिबन्धर तिलकं गाढयुक्तिरिपरितं चिर.
मन्वभवदसावखण्डपाण्डित्यसाम्राज्यम् ॥
भम्यां नास्ति पुरं तदस्य सुयशा नो यच चन्द्रायते
राजा साम्प्रतिको न केो ऽपि स पदं मूधा ऽस्य यो नार्चति ।
ईदृक् को ऽद्य बुधो न योस्य सशिरःकम्पं गुणान् श्लाघते
का विद्वत्परिषच्च सा ऽस्य वचसा या चित्रतां नर्च्छति ॥ २८ ॥
वृद्धानां समुपासने रघुपति तो च वाचस्पति:
सदाचरणे च धर्मतनयः श्रीहर्ष एवोक्तिषु ।
त्यागे कर्णविवर्णतावहगुणो लक्ष्म्यां कुबेराधिको
नास्माभिः सदृशो ऽस्य को ऽपि विबुधो दृष्टः श्रुतो वा ऽधुना ॥ २६ ॥
इत्थमेष परिपूतचरिचा
निर्वहन भुवि निजागमकार्यम् ।
अत्यवाहयत कालमनल्यं
कल्पनानमितवादिसमाजः ॥ ३० ॥
আম্মা ন লিনানামি-
मगडीपुरीपरिवठः समिती कदा चित् ।
साथीभिधा विजयसेनमहीमहेन्द्र
आचार्यकार्यकरणाचितवृत्तपूतम् ॥ ३१ ॥
प्रागागतो हरपुरे निजकारितायां
घोक्ष्यनमर्दितविवादिगणं सभायाम् ।
हर्षप्रकर्षपरतन्त्रमनाः स नित्यं
भट्टारकः स्पृह्यति स्म तदर्चनाय ॥ ३२ ॥
जीवनवृत्तान्तः । ११ सम्प्रेष्य शीलनिलयं स्वपुरोहितं स सप्रश्रयं स्वगुरुभिः सहितं बुधं तम् । भानाययन्निजपुरं पुरुहूतवीर्य: शिष्यर्द्विजेश्च मह वेदविशेषविज्ञः ॥ ३३ ॥ सादृक् च पर्यचरदेनमसीमभक्तिः शीलेन तत्परतया विनयेन चित्तः । दुद्राव चन्द्रकिरणरिव व चन्द्रकान्त: स्वान्तं नितान्तमृदु तस्य सदा यथान्त: ॥ ३४ ॥ उन्मस्तकैश्च कनकैर्जनकेः सुखानां सन्तोष्य तद्गुरुमसा शनकैर्जगाद । मन्त्रोपदेशविधये मयि सानुक्रम्पः स्यायेन भूमिधिषणा ऽयमिदं यतेथाः ॥ ३५ ॥ श्रद्धातिरेकमवधार्य सगद्गदेन वाक्येन तस्य करुणावरुणालयः सः । श्रीमद्गणेशमनुदानविधी न्ययुत तं वेदवागधिकमानितनेजवाक्यम् ॥ ३६ ॥ कृत्वोपदेशविधिना स नृपं कृतार्थ शुअषितश्चिरतरं विनतेन तेन । सम्प्रापरायवरांशुकभरिविते- हृष्टार्द्विजे: सह महेशपुरीमवाप ॥ ३० ॥ अष्टाविंशसमासमाश्रितवयाः पूतं विधायेदृशं वृत्तं शारदशीतदीधितियशा वित्तचिजान मोदयन् । आतेने स विनायकायमखिना सम्प्रार्थित: प्रश्रया- दोद्गाचं रचितेष्टकाग्निचयने ऽनार्यामनाम्नि ती ३८ ॥ म १२ जीवनवृत्तान्तः । तेषां कायनिकायमुजझति चिरान्नाद्यापि रोमाञ्चिता तेषामतिपथे प्रमोदसलिलासारो न विश्राम्यति । चेत: किञ्च चमत्कृते: परवशं कार्यान्तरं नेहते यैर्यते ऽत्र सुधासमानमधुरं तत्सामगानं श्रुतम् ॥ ३६ ॥ अग्निष्टोममखे जनार्दनकृते चाध्वर्यवं निर्वहन प्राचीनाधुनिकान् बुधान स विदधे चित्रीयमाणांश्चिरम् । अन्यस्मिंश्च मखे स होचमतुला याज्याः पठन् नातनोत् तेनासीत् प्रकटा चानिपुणता तस्याखिने भूतले ॥ ४० ॥ गत्वा ऽथ दक्षिणदिशं गुरुभिः सहेव संसेव्य तीर्थनिवहान् परि पूज्य देवान् । संतोष्य भूसुरवरान् विपुलः स वित- स्त्रिंशत्तमामनुबभूव समां समान: ॥ ४१ ॥ कुर्वन्नसावितरमानुषदुष्कराणि कार्याणि नित्यमिति भतलभारतीश: । काश्चित्समाः सततपाठितसर्वशास्त्रो निर्णातधर्मविषया गमयाम्बभूव ॥ ४२ ॥ मगडीपुरेन्द्रगुणसंहतिभिर्बलेन सन्दान्यमान हृदयः स दयापयाधिः । वारान् बहूनगरमस्य जगाम राज- स्तेनापि शिष्यसहितो बहुशोचिताभूत् ॥ ४३ ॥ एवमयर्मातवाहयत्रनेहसं कतिपयं पञ्चत्रिंशत्तमे हायने परित्यक्त- निखिलविषयवासनेषु सदाचारतुलितसलिलसम्भवासनेषु विहितपरःसह- शिष्यमतिविकासनेषु निजगुरुवरश्रीराजारामशास्त्रिषु ब्रह्मभूयमनुभवत्स्व- नवशेषितावगन्तव्यविषयो ऽपि चिराभ्यस्तसन्तताचार्यपरिचयाऽऽस्मि- कविच्छेविरमाशयस्ततः प्रभृत्येव विहातुकामः पाठशालाऽध्यापनादिकार्य -----mir-men------------- जीवनवृत्तान्तः । १३ निवार्यमाणो निजजननीमुनिखिलबन्धुवर्गेणा सादर सम्भावितो निजगु- निर्वाहितमनितरसुकर धर्मशास्त्राध्यापनाधिकारं समर्प्य काशिकराजकी- यप्रधानपाठशालाप्रभुवरेण तदनुरोधादूरीकृतप्रशस्ततदादेशो दिशन दुरू- हधर्मसङ्कटेषु सोपपत्तिक लेखचातुरीसमवधीरितगीर्वाणगुरुव्यवस्थापत्राणि निबधवनेकविधान निबन्धान परिशोधयन काश्मीरमण्डलाखण्डलप्रार्थन- या तदीयसभास्तारपण्डितनिर्मितं धर्मशास्त्रनवीनप्रबन्धरत्वं निरन्तरं नाना- दिगागतासमधर्मविषयविशयपत्रोत्तर्राबलेखनव्ययतया विस्मृताहारविहा. रविश्रमो ऽप्यश्रमः प्रग्व्यापयन निजमाविश्रान्तां पण्डितैकशेषतामवधार्य पाठशालीनिजकार्यानर्वहणतमान निजान्तेवासिनोविज्ञाप्य तत्रत्यं प्रभुवर पञ्चदशहायनमात्राधिकारसम्पादितपरःसहस्रवत्सरानश्वरविविविज्ञा ऽनिच्छत्येव वियोगखेदर्जानतनयनाम्बपरपरितमहीतले तत्र प्रभुवरे स्वीकृत्य तत्रत्यवार्षिकपरीक्षाव्यवस्थापनं विहायाऽऽसत्रचत्वारिंशे वत्सरे निजाधि- कारं यतते स्म सुनिकर तर्पयितुं नव्यानव्य हव्यैरसो वसुमतीवसिष्ठः ॥ एकः सेो ऽत्र पवित्रचित्रचरितः साङ्गयीपारगः श्रौतस्मार्तपथप्रवीणधिषण: षड्दर्शनीमार्मिकः । दृष्यदृष्ट कनिद्विपाहतिदलद्विद्यानतेकाम्बुदः पूज्यश्रीगुरुबालशास्त्रिविबुधः पुंरुपवाग्देवता ॥ ४४ ॥ शुअषापरितोषिताद् गुरुकुन्नाद्येनाधिगत्य अती- बाल्ये बालसरस्वतीपदभृता सपि विस्मापिताः । यः कृत्स्नद्रविणार्पणादपि गुरुन् व्युत्पत्तिसंतोषितान सेवसेषममन्यतागुतगुणा नानृण्यमप्यात्मनि ॥ ४५ ॥ यः स्वा'त्युज्ज्वलसर्वतोमुखभृतान्तेवासिशुक्त्यावली- निर्यन्निस्तुलमूक्तिमौक्तिकसिते सारस्वते स्रोतसि । १ स्वस्यात्युज्ज्चलेन सर्वतो मुखेन भता अध्यापिता इति यावत् । तादृशा अन्ते. वासिमः शिष्या एव स्यात्यां नक्षत्रावशेषउज्ज्वलेन सर्वतोमुखेन जलन भताः पूरिता इति श्लेषमूलकं समस्तवस्तुविषयं रूपकम् । २ वर्तुलमुपमाशून्यं च । ३ सरस्वती संबन्धिनि सागरसंबन्धिनि च ।
१४ जीवनवृत्तान्तः । सद्या रञ्जितराजहंसनियहाहपूर्विकाऽभ्यर्चिता- श्चिचं कोपि विशारदो विजयते किं शारदो वारिदः॥ ४६ ॥ अग्निष्टोममुखान्मखानविकलं निर्वानुमानवते यस्मिन् हातरि हर्षमापुरमरा मोहं मुहुः सामगे । मुख्याध्वर्यवभाजि विस्मृतचरान् भागान भृशं लेभिरे मन्ये यज्वनि तुन्दिलाः किमधुना मुञ्चन्ति नो यगृहम् ॥ ४७ ॥ हुस्वामप्यनुयाति यस्य विजयः सेना समित्संज्ञयो- लिम्पन् शीतगिरि सितेन यशसा पिष्टं पिनष्टीव यः । सेो ऽयं खगिडतरिमगडलधनुर्मगडी धराऽऽखण्डला धत्ते मूर्ध्नि सुवर्णरत्नघटितां काटीरवद् यद्गिरम् ॥ ४८ ॥ आचारव्यवहार संशयभवत्कोलाहलव्याकुला प्रासम्राजमकिञ्चनादि मनुजा: श्रद्धाय वेदेष्विव । विश्वस्य प्रियपथ्यकारिवचने विश्व स्य यस्यादरा- माध्वन्यपराधलेशविधुरा विवर्तयन्ति क्रियाः ॥ ४६ ॥ वादे जल्पवितण्डयो: प्रतिसभं सोत्साहमागच्छतो वादिन्यङगणान् स्वयुक्तिनखरैर्विद्रावितान् पश्यता । वैतानाग्निनिषेवणेकमतिना वेदान्तशान्तात्मना येनामीष्वधुना समापितमभच्छार्दूलविक्रीडितम् ॥ ५० ॥ १ गजानो हंसाश्च त एव राजहंसाः । २ प्रवीणाः शारदायिहीनापीति विरो- धाभासनः। ३ शदि भवः सरस्वतीसंबन्धी च । अत्रोक्तरूपकमलकोत्प्रेक्षालषयो. रेकवाचकानुप्रवेशसंकरः । विरोधाभासस्तु व्ययः । वृत्त्यनुप्रासेन सह संसटिरिति बोध्यम् । ४ प्रतिप्रस्यातृव्यावत्यर्थम् । ५ अल्पायसीमपि एतनां युद्धे विजयो ऽनुगच्छ- ति । यत्सेनायाः सदा जय एवंत्यर्थः । संज्ञायां नार्मान हस्वां सेनां विजयः शब्दः अनु. गच्छति । यत्राम विजयसेन ति भावः । ६ धनुर्मगडर्यात भूषयतीति सः। (धनुरिति पृथक पदं वा ।) ७ शोभनटारूप रखः । कनके रत्न हीरकादिभिर्घटतां धा। विश्वास कृत्वा । ( शार्दूलस्येव विक्रीडितं पराक्रमः । एतदाख्यं वृत्तमुपक्रान्तं समापिर्तामति मुद्रालंकारश्च । .
जीवनवृत्तान्तः । अथ श्रोतानग्नीन विधिवदयमाधाय सदने । हविर्भिः सन्तर्प्य चिदशनिवहं पर्वणि सदा । पिपासां सोमस्य प्रशमयितुमस्य व्यवसितो घभूषाग्निष्टोमक्रतुवरविधानोत्सुकमनाः ॥ ५१ ॥ ततोऽयमधिगत्य श्रीतविधिषु देवयजनभूमिं राजयाचनीयां श्रीमतो बन्दीकृतारातियन्दाद् बुन्दीपुरपुरन्दरादासादितानुमतिरदसीयामात्मसा- स्कृत्य भुवं परिहत्य प्रतिनिधिभावभाजि यज्ञोपकरणवस्तनि सम्पादिता- शेषयज्ञसम्भारो ऽवधार्य माध्यां पौर्णमास्यामग्नीषोमीययागकर्तव्यतामाम- त्रिविविधदेशवास्तव्यस्तव्यगुणभासुरभूसुरगणः प्रागेव दशभ्यो वासरेभ्यो ऽपूपुजगुवम् तदानुभूतभूयिष्ठमखापि मखमरियम् । सत्वरा चत्वरोत्सेधादर्षाच्छूनत्वमाप किम् ॥ ५२ ॥ गणनायकभूवराहकानथ शेषं सुशिल्पिनं समच॑ । गणनाय विहारमाशु कतुं न्यदिशछिल्पविशारदान स यक्ष्यन् ॥ ५३॥ ततः पश्चात्यावंशं ततः पुरस्तात्सदोहविधाने पावयोश्च मार्जालीयाग्नीधी ये पुरश्चात्तर दिं चात्या लोत्करो सर्दास होत्राधि- fणयान्योदुम्बर्यव'"टं विधाने चौपरवान्याविमाप्य परिकल्प्य चान- ल्पमन्दिाणि तत्रतत्र द्वाराणि संसाध्य च शुभं मण्डपभितो विधापि. तोचितोपवेशनस्थानः प्रतीतते स्म यज्ञारम्भमहोत्सवं स यज्वनाम- यणीः ॥ षयोदश्यां माध्यामथ कृतगणाधीशनमना मनाभीष्टः शिष्टः सह विहितनान्दीमखविधिः । १ चत्वरण्य हर्ष हेतुकपुष्टयोत्प्रेक्षा। २ प्रारुतिकाग्निस्यानम् । होत्रा- युपवेशनस्थानम् ४ साल्दनीयमोमाभिषस्थानम् । 1 चमसशोधनस्थानम् । प्राग्नीध्रस्थानम्। ७ प्रधानहोमस्थानम् । ८ यजियमदाहरणगतः । एक्तपदार्थप्रक्षेपणार्थ गतः। १० होत्राटायस्थस्थगिडलानि । ११ उदासच्छाया- भूतोदुम्बरशाखानिखननार्थं गतः । १२ गतचतुष्कमन्तर्मिश्रम् । ६ प. -Prammarg-ra.. diwww.ante.
१६ जीवनवृत्तान्तः । कुशासीनः पन्या सह सकुशपाणि: कुशलधी- रसावन्तर्वाणिर्मखकरणसङ्कल्पमतनात् ॥ ५४ ॥ लसद्रम्मास्तम्भा किसलयचलतोरणवृता कृतानल्पाकल्पा श्रुतिशतकजल्पाकभरिता । यजुःसामर्गजन्यध्वनिभिरभिभूतान्यनिनदा सदा तोषं केषामतुलमकरोनाध्वरमही ॥ ५५ ॥ ब्रह्मक्षार्यसम्पर्णा कीा पुष्पफलैः क्रुशैः । यजुःसामर्गध्वनिभृता चिकणी भूस्त्रिधा बभौ ॥ ५६ ॥ द्वादशशतगवदक्षिण ऐन्द्राग्नाश्विनसमानतन्त्रपशुः । द्वादशशस्त्रस्तोत्र: प्रवर्ययुक्तो रथन्तरेण युतः ॥ ५० ॥ ज्योतिष्टोमः सोमो ऽग्निष्टोममखस्तदा ऽमुना ऽऽरब्धः । श्रीयज्ञपुरुषहर्षप्रकर्षमा मनसिकृत्य ॥ ५८ ॥ अथ पायसौदननिवेदनपूर्व कृतसोमराजनमनः स सुधी: त्वरतेस्म विस्मितजनेक्षितया द्विजपूजयत्विज इमान्वरितुम्॥५६॥ सोमप्रवाकेण पुरा वृतानां होचादिकानामथ ऋत्विजां सः । समन्त्रकं प्रारभताध्यरीन्द्रो विद्वद्वराणां वरणं सुतर्णम् ॥ ६० ॥ विद्वद्वन्दितबालदीक्षितसुतः सङ्ग्यावतां सम्मत- स्तत्र द्वादशवार्षिकोपि वयसा तुल्यः सुराणां गुरोः । होता ऽऽहूतमहेन्द्र मुख्यादिविषत्सानन्दसंवीक्षितो यते तच गदाधराभिधसुधीवो वृताभन्मदा ॥ ६१ ॥ ततो जयरामशास्त्रिसदाशिवदीतितराजारामदीक्षिता मैत्रावरू- णाच्छावाकयावस्तुद्धाधेनाप्रियन्तामुना दीतिष्यमाणेन ॥ ९ द्विनाः स्याणि अक्षण च ।
जीवनवृत्तान्तः ।
१७
बाल्ये यैरुपनीय वेदमखिलं पातं तथाध्यापिता
यस्मात् प्राप वसिष्ठतुल्यचरितादाधानकाले ऽरणी।
तान्नानाविधयज्ञधर्वहतया विख्यातकीर्तीनसौ
मुख्याध्वर्यवमापयट् गुरुवर श्रीरामकृष्णाभिधान् ॥ ६२ ॥
ततस्तैत्तिरीयशाखाध्यापनधुरन्धरं श्रीतार्णवमन्थनैकमन्दरं सुत्या.
त्मजवेणीमाधवदीक्षितं प्रतिप्रस्थातृभावे नियुज्य पुरस्कृत्य च काशीनाथ-
शाणं नेष्ट्रीये विहितसोमयागं सत्यापाठमतपारदृश्वानं जनार्दनशाण-
मुनेतृभावे प्रोत्साहयामास ॥
घृतापायामादिक्रतुसकलनिर्वाहणधुरान
जगन्मान्यान् धन्यान् विदितनिखिलन्यायविषयान् ।
सखारामाभिख्यानिजगुरुवरज्येष्ठसहजान
स क्त्रे ब्रह्मत्वे विशदधिषणाहीणधिषणान् ॥ ६३ ॥
ततो नानाविनिगमश्रातस्मातशास्त्रप्रवीणं धुरीणमध्यापकानां
राजारामशास्त्रिणमङ्गीकार्य ब्राह्मणाच्छसित्वं निविधीतपथपारीणं
काशीनाथशास्त्रिणं यायित्वाग्नीध्रीयं भट्टवंशावतंसं गोपालशर्माणं वि.
दधे पोतारमसो मध्यमलोकचतुराननः ॥
वाणीकरक्वणदनल्पगुणाढ्यवीणा-
संमूर्च्छनाविजयिसुन्दरसामगानम् ।
गोपालकृष्णविबुधं स्तुतिकार्यधुर्य-
मुद्गातृतामनयदेष विशेषवेदी ॥ ६४ ॥
प्रस्तोतृत्वे च प्रख्यातसामगानं बालदीतितं परिकल्प्य सम्पादन
च यज्ववररघुनाथदीक्षिते प्रातिहत्रं वरित्वा बाबूशर्माणं सुब्रह्मण्यं पुर-
श्चक्रे यज्ञकर्मसु बापभट्टाभिधसदस्यं वर्षरसी सौम्यमूर्तिः ॥
अथोपविष्टान कुशविष्टरेषु शिष्टानधीष्टान् परमप्रहृष्टान् ।
पाद्यार्थ्यतायाचमनीयपूर्व समय॑ यज्वा मधुपर्कदायी ॥६५॥
१८ जीवनवृत्तान्तः । विशालकाशेयभवान्तरीयैर्महाधने राङ्कववस्त्ररत्नैः । रत्नाकुलीयैरपि रौप्यपारमोदयवेदविदां वरिष्ठः ॥ ६६ ॥ पानिपीतं रसनायगीतं नीतं त्वचा चन्दनतां यशो ऽस्य । मालीभवद् घ्राणमुख किमक्षणामदे ऽवहदाजतपाचशैलीम॥६॥ दशेदृशी मे हविषामलामात्प्रतिक्रिया ऽस्या भवतां करस्था। ऋत्विग्वरान् वक्तमितीव रक्तरत्नाङ्गुलीयत्वमवाप वन्हिः ॥६८॥ तदनु चमसाध्ययून रश्मीनिवात्मन उद्गतान विदितयशसो धातारं च प्रसर्पकपुङ्गवान् । सुरभिमुमनोवस्त्र: पाचर्गवारण पूर्वकं मुदितमनसा यज्ञारम्मे व्यधात्स बुधाधिपः ॥ ६६ ॥ तदनु प्राग्वंशपश्चिमद्वारउपस्याय देवता देवयजनं गत्वा सम्पादा विधिना प्राम्वंशेग्नीनिर्दिदेश द्रव्याणि प्रतिपत्तये ॥ आज्यं पशुपुरोडाश्या यावता स्यान्मखा मम । तावद्यज्ञार्थमन्यनु भुजोरन् ब्राह्मणा इति ॥ ७० ॥ प्रससार तदारभ्य तत्र खादतमादता । द्विजानां कर्मटानां तु जज्ञे पचतभृज्जता ॥ १५ ॥ अथारब्धे ऽध्वरवरे विधायाहवनीये कुष्माण्डहोममध्वर्युः सम्पाद- यिष्यन् प्रवर्गासामग्रीमयेसरीकृत्य कृविदामग्रणीरश्वमनुगतो ब्रह्मयज- मानाभ्यामाहृत्य मृदुराहविहतादीनि ताभिमन्त्र्य निष्यादा तैर्यथावन्म. हावीरान्प्रताप्य चामून परिद्रढय्य हुत्वा सम्भारयजुर्भिः प्राक्रमत दीक्ष- णीयार्मािष्टम् ॥ पूज्याः सर्वे कथमिव सुरा एकदादी मखेस्मिन् आलोच्यत्यं कृतपरिचयो बहृचब्राह्मणेषु? १ अग्नि देवानामवमा विपणः परमस्तदन्तरेण सर्वा देवता इति तत्र श्रुतत्या दिति भावः । ------.NNA- जीवनवृत्तान्तः। प्रत्याहाराकलनचतुरो दीक्षणोयेष्टिमध्ये सेो ऽग्नाविष्ण प्रथमचरमी किं तदानीमयष्ट ॥ १२ ॥ अथो विहितवापनस्त्रिपथगाजले निर्मले यथाविधि कृताप्लवोप्यहतवाससा वेष्टितः । शचीसदृशशीलया सपदि तब पन्या युतो मनोभिलषितान्धसा निजजनेरमोद्यादृतेः ॥ ७३ ॥ ततस्त्रिककुदजनं नयनयारसी धारयन मृगाविकलचर्मणा वृततनुः शिरस्त्राणवान् । उदुम्बरभवं वहन पृथुलदण्डमास्यान्मितं तनुं मृगविषाणया स विलिखन्नभूदीक्षितः ॥ १४ ॥ कलेस्त्रातुं वेदान् कमलभवलोकापगतो वसिष्ठा ऽरुन्धत्या सह किमिति नातर्कि किल केः । तदोपेतं पन्या शिरसि मृदुजालोल्लसितया सदःस्थं पश्यदिव्रतकृतमति दीक्षितममम ॥ ०५ ॥ तस्मिन्नन्हि वनीपकामरतरोर्बुन्दीपुराधीशितुः प्राप्याज्ञां नवनन्दशर्मविबुधा आचार्यलक्ष्माभिधाः । वर्षन्ति स्म तथाविधं वसु सनीहारा विहारादहि- वैययं व्यपदिश्य येन गमने ऽजायन्त लालाटिकाः ॥ १६ ॥ इति प्रथमवासरे परिसमाप्य सर्व विधि विसृज्य सकलविजो रजनिविनमायादरात् । वितीर्णवसुरप्यसावनिशबद्धमुष्टिस्तदा निशामनयदर्चयन मनसि यसनारायणम् ॥ ०७ ॥ १ यज्ञसंपादनोपयोगिधनाहरणार्थ नियुक्ताः २ प्रभाभीलदर्शनमात्रकार्याः द्रव्यस्य प्रभूतस्य प्राप्तत्वादिति भावः । ३ कदर्यः विधिवलान्मुष्टिबन्धनति विरोधपरिहारः। -Rat-..
जीवनवृत्तान्तः । तदनु परेयुः प्रभातएव विहिनियक्रिये वैतानाग्नीन् ज्योतिष्म- तः कर्तुमादिशत्या स्वरमाणे च याजकगणे प्रदक्षिणचिमिषेण पूर्व- दिनहविरास्वादनसंजातहविरौत्सुक्ये प्रसार्य रसना याचमानइव हवीषि हुतवहे पूर्यमाणे च तेजोतिरकनिष्पादितापरकृशानुशकैखिलागमपारगै. द्धिजोत्तमैर्यजमण्डपे सज्जीक्रियमाणे च परिर्कामभिस्तत्तत्प्रदेशेषु कुशस- मिदादिसंभारे निजमातृवरिवस्यावलोकनायेव त्वरर्यात सारथिं कर्माल- नीनाथे ॥ मन्दाक्रान्तामथ रविकरैर्यज्ञशालां विशाला संप्रेक्ष्यासावदितिमयजत्प्रायणीयाभिधेष्टा । यस्यां धम्याविशयमदिशत्केवलच्छान्दसानां द्रागायान्त्याः सुरमुनिपथात्केशपाश: श्नयो ऽस्याः ॥ १८ ॥ सोमक्रयण्यामथ कल्पितायामेकाब्दशोणाकृतिपिङ्गलाक्ष्याम् । प्राप्यष यज्वोत्तरदिदेशं प्रावर्तत ऋतुमशेषसोमम् ॥ ६ ॥ परिश्रितेन च्छदिषोपरिष्टाद् वृतेन साद्धं शक्रटेन गच्छन् । सोमाभिमुख्यं विदधच्च तस्य स्थिते तदा ब्रह्मणि दक्षिणस्याम् ॥ ८० ॥ प्रास्तीर्य च सोमवरं मृगाजिने सहेमहस्तेन ममे स सोमम् । यथाविधि स्वर्चितमङ्गुलीभिस्ततो न्यबद्धावसनेन तेन ॥८१॥ गोहेमाजाधेनुवत्सवृषैरनडुहा ऽतनोत् । गायुगेन च वस्त्रेण सोमक्रयमसी कृती ॥ ८२ ॥ १ किं चिदाक्रान्ताम् । इत्तनामोद्धाटनान्मुद्रालंकारश्च । २ धूमसमूहसंशयं । ३ न तु चतुराणां तेषां दितिकेशपाशनिश्चय एवाभूदिति भावः। ४ तत्र कश्यप- सनिधादितः सत्त्वादिति भावः ।
indianadaNamna----- --------- जीवनवृत्तान्तः । २१ निर्दिश्य समिक्रयणानथासौ श्रुत्युक्तगन्धर्वमहत्तरेभ्य: । निष्कास्य सामयिणं सलाष्टर्यवेशयत्तं शकटे च सोमम्॥ ३ ॥ युक्त वृषाभ्यां शकटे प्रयाति सुब्रह्मणीयाभृति सामगे च । स्तुक्त्यमुं होतरि मन्द्रमृग्भिः शोभा गिरां पारमगात्तदानीम् ॥ ८४ ॥ अथाग्नीषोमीये ऽसितधवलवणे पशुवरे प्रकृप्ने तं कर्णे दधदधृतदण्डो ब्रतिवरः । प्रतीक्ष्यासा सामं कृतवृषवरोन्मोचनविधि- स्तदानीमातिथ्यां व्यधित विमलामिष्टिमचिरात् ॥ ८५ ॥ अग्नीषोमातिथ्यमस्यां विधाय प्रोन्मुच्याथो धर्वहं चोत्तरस्थम् । वारुण्यचा गन्धपुष्योपहारैः सोमस्याचामेष यज्वा व्यधा॥८६॥ आप्यायनं निन्हवनं तदानी राजा विधायाखिलऋत्विजोऽथ। मुदा बभुब्रह्मपुरोगमास्ते ब्रह्मर्षयः शक्रमिवार्चयित्वा ॥ ८ ॥ अथ प्रवयं विधिना विधातुं प्राग्वंशजद्वारगणं पिधाय । आच्छाद्य पत्नी वसनेन तत्र प्रचक्रमे याजकवर्यसंघः ॥८॥ पश्चाद्धोता ऽध्वर्युरासीत्यरस्ता- त्प्रस्तोताऽभद्धातृयाम्ये तदानीम् । आग्नीध्रोपाध्वर्युवावुदीच्या ब्रह्मा यष्टा गार्हपत्यस्य याम्य ॥ दहा खरे महावीरममी विधाय जलं मदन्तीस्थमुपस्पृशन्तः । प्रपटा शान्तिं मधुरस्वरेण प्रवर्ग्यमारब्धमथायतन्त ॥ ६0 है अग्नीधि रोहिणहविःकरणकताने प्रस्तोतरि प्रथितमुस्वरसामगाने । Dhamaaaaamana जीवनवृत्तान्तः । होतयभिष्टुवति धर्ममनेककार्य- घीक्षाऽऽकुलाः सदसि विप्रवरा बभूवुः ॥ ६१ ॥ सामाकर्णननिश्चलाः कतिपये चित्रार्पितानां दशां होतृस्तोत्रमुपगोकर्णविवरा अन्ये शिरोधननम् । गणीचर्मधविचधुक्षितशुचीनध्वर्युमुख्यान परे दृष्ट्वा पूतमनस्कतामुपगता यज्वानमस्ताधिषुः ॥ ३२ ॥ प्राग्वंशे विशदे स्थितिं विदधतां शुद्धाशयानां तदा प्राग्वंशे विशदे स्थितिर्बुधजनैर्निश्चीयते स्माद्भुतम् । प्रत्यक्षापि तदा ऽनुमामजनयत्सा येन तस्मिन् क्षणे जिग्युस्तेन परान विवादरसिकान वैशेषिका: सायहम् ॥१३॥ अथोपयमनी मुचं विदधता करे ऽध्वर्युणा हुते हविषि तत्क्षणं सरसितार्चिषा वन्हिना । स्वतृनिरुदिता ऽथ वा पुनरमुष्य यात्रा कृते त्यभून्न विदुषामपि प्रशमिता विवादस्तदा ॥ ४ ॥ अथ विधाय समापनमस्य ते पठितशान्तिकृतेतरवागणा: । उपसदिष्टिमनिष्टनिवारिणी त्वरितकृत्यविधिं प्रवितेनिरे ॥ ६५ ॥ अध्वर्युहातृक्रियमाणकार्यधारावगाहि श्रुतिनेजातम् । एकक्षणे ज्ञानयुगं तदानी निर्दिश्य सांख्या अजयन् विपक्षान॥६६॥ व्याचष्टाऽग्नीदेवपत्नीः समस्ताः मुब्रम्हण्यश्चाव्हयामास शक्रम्। पौवाहिक्या ते समाप्यवमिष्टा सद्यश्चक्रुस्ते दिनान्तोक्तरूपे॥६॥ प्रवर्ये साधु विहिते तदा मखशिरश्चिरात् । अयुज्यत समर्थाभन्मखो येन फलार्पणे ॥ ८ ॥ १ प्राक् वंशे इति पदद्वयम् । २ प्रत्यक्षपरिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिका ति वदन्त इति भावः ।
जीवनवृत्तान्तः । श्रीमद्धरिश्चन्द्रमुखा दिने ऽस्मिन्महार्हवस्त्रादिबहूपहारैः । यज्ञेशशअपणकारिणः स्वमपावयन्नागरिका महेच्छाः ॥ ६ ॥ द्वितीयदिवसे ऽखिलं परिसमाप्य चैवं विधि विसृज्य सकलविंजो रजनिविनमायादरात् । वितीर्णविभवो ऽप्यसाधनिशबद्धमुष्टिस्तदा निशामनयदर्चयन् मनसि यज्ञनारायणम् ॥ १०० ॥ अथ तृतीदिने स बुधाग्रणीः प्रमुदिताखिलऋत्विगुपक्रमम् । समतनोविधिबोधितकर्मणां कृतसमस्तविलोककशर्मणाम् ॥ १०१ ॥ तदनु यथाविधि विहितयोः पौर्वाहिक्योः प्रवापसदोर्यगंधर्वहा- ययाय्यध्वर्युरयेण प्राग्वंशं यथोपदिष्टान् प्रक्रम्य प्रक्रमान् समपादयन महादिमभ्यमन्त्रयच्चामं यजमानः ॥ तदन्वापराडक्या प्रवापसदी समापयामासुरध्वर्युपुरोगमा ऋत्विजः सह यजमानेन ॥ तस्मिन्नन्हि कृताभिनन्द्यविनयो ऽमेठीपुराधीश्वरः साष्टाङ्गं प्रणिपत्य यज्ञपुरुषं दत्वा ऽतुला दक्षिणाम् । भक्त्युकभवत्प्रभुतपुलकः सानन्दबायो मुहु- श्चक्रे विस्मितमानसान बुधजनान् श्रद्धाभृतेनात्मना ॥ १०२॥ तृतीदिवसे ऽखिलं परिसमाप्य चैवं विधिं विसृज्य सकलविजो रजनिविश्रमायादरात् । वितीर्णविभवो ऽप्यसावनिशबद्धमुष्टिस्तदा निशामनयदर्चयन मनसि यजनारायणम् ॥ १०३ ॥ अथ चतुर्यादिनारम्भे ससंरम्भमम्भसा विमलेन परिशोधिताखिल- शरीरेष्वपि यजवाटप्रवेशयोग्यतायां संदिहाविव साशङ्कमितस्ततो ऽवलोकयत्सु प्रविशत्सु यजमण्डपं परःसहस्रेषु प्रेक्षकेषु प्रभातप्रभृत्येव कथं चिदासादितप्रवेशनिर्गममार्गेषु त्वरमाणेषु याजकवरेषु संनिवेशयत्सु २४ जीवनवृत्तान्तः । च तत्तदवकाशेषु यज्ञपात्रहिःसमिदादीनि परिर्कामषु प्रावर्तन्त पौवा- हिकप्रवापसदी सदर एव चापराहिल्या ते विधातुमध्वर्युमुखा मखधुर- न्धराः ॥ उवासयिष्यन्नथ स प्रवर्ग्यमग्नीन्मुखानुत्तमदक्षिणाभिः । अजादिभिस्तोषयति स्म यज्वास्वोत्साहसंधुक्षणदक्षिणाभिः॥१०४॥ मुहुः प्रस्तोत्रोक्ते मधुरमधुरे सामनि मुदा तदा वापीहारे विधुतशिरसस्ते दिविषदः । श्रुतेष्टाहोचीया यदजहुरथ स्वं स्वरविदं तदा हाहाकारादनुगतपदार्थो ऽयमभवत् ॥ १०५ ॥ प्रवर्यमुद्वास्य स विप्रवर्दी। गणस्तदेवोत्तरदिदेशे । त्वरायुतो ऽथोपसदा प्रचर्य कुशैर्महावेदिपिधानकारी ॥ १०६ ॥ कृत्वा हविर्धानविशेषकार्य खात्वा तथैवोपरवानमुष्मिन् । प्राग्नीध्रधिष्ण्यादि विधाय तर्णमादुम्बरीगतमुखं ततान ॥ १०७ ॥ प्रणीय चैवोत्तरवेदिकाग्निं तथा हविधानमपि प्रणीय । सदोहविधानसमस्तमाजीलीयेषु निर्माप्य च शुद्धमण्डपान्॥ १०८॥ सदसि होकधिध्ययविधेः परं विरचितोत्करयोग्यविधिस्तदा । धृतपशुचययागविधित्वरोन हि तदाऽऽलभत क्षणविश्रमम्॥ १०६॥ येन्द्राग्नाश्चिनपशुयुगसमानतन्तने तदारब्थे । अग्नीषोमीयपशी तिलमाच: सदसि नावकाशोऽभूत् ॥ ११० ॥ तदनु यथाविधि निर्वृत्ते वैसर्जनहोमे ऽनीषोमप्रणयनोत्तरं विस. ष्टायां चावान्तरदीक्षायां सत्वरं विधाय यूपसमानादिपाशुकं कृत्यं व्यधा- त्याशुकं मन्यनममन्यरमाविभायिष्यत्त्विजां गण आशुशुणिम् ॥ तदा किल पुरतो निरुद्धदृष्टिपथावकाशान्प्रागागतान प्रेक्षकानप- सारयतां किच्चिरमवलोक्यथ दूरादागतानामस्माकमपि नयनयोर्महो-
जीवनवृत्तान्तः ।
२५
त्सवं संपायितुं विधातुं चात्मानं पूततम क्षणमन्तरदानाय प्रसीदति
पाश्चात्त्यानां कथं बयममीभिरलसशिरोर्माणभिबाध्यामहे चिरादागत्य
सप्रार्थनमासादितावकाशाः पश्चादागतैयदनमीषामीदृशी यागावलोकन
श्रद्धा कपमे प्रागेव नोपयाता इति पुरःस्थितानां किं वृथा कलकलं
तनुथ वाक्कलहकारिणां संमदन भवतां वयपि कर्थिता न पारयामो
द्रष्टुमिति पार्श्वस्थानां जोषमाध्वं किं न पश्यथ राज्ञापि निर्दयसमर्दि-
तानलब्यावकाशान्विप्रकृष्टदेशास्थितान् वास्कलहेन भवतां विरच्यमा.
नयक्रियान्तरायाः प्रेक्षन्ते समभङ्गममी किलाध्वर्युमुखा इति व्यवस्थाप-
कानां किमेवं भाषध्ये न कुप्ययुर्दयामर्यानजाशयाः स्वतन्त्रप्रज्ञा न स्व.
लेयुरस्मत्सांराविणेन महाशयाः पर्थ्यान्त सकरुणमेव भवदिभिभूयमाना-
नस्मानिति दम्यमानानां च व्यानुर्वात रोदसीरधं महति कोला-
हले ॥
कृत्वोपाकरणाज्यसंस्कृतिमुखान् सर्वान् विधीनध्वरे
यन्नवावरुणाय मन्द्रनिनदैरध्वर्युरादिष्टवान् ।
तेनैतत्क्षगाएव मूर्च्छित इवालेख्यार्पितनीरिव
प्राय: सो ऽध्वरमगडयोभवदलं दुब्धार्थवाभा ऽपि सन् ॥ १११ ॥
गभीरमधुरस्वरामथ पुरोनुवाक्यां मुदा
प्रशास्तरि पठत्यलं त्वरितवाहनान्वेषिणाम् ।
मखा हरिसभासदां कलकलेन वा परितः
प्रशास्तृनिनदेन वेत्युदभवन्नृणां संशयः ॥ ११२ ॥
किं मैत्रावरुणेन मन्द्रमधुरव्याहारिणा ऽऽकर्षितः
किं हात्तमयाज्यया निजबलाद् वृन्दारकाणां गणः ।
कि बाध्वर्युवक्रियाश्रुतिभवन्संरम्भपूर्णस्तदे-
त्येवं भूरिविवादसान्द्रसदसा नानन्दि कस्को जनः ॥ ११३ ॥
जीवनवृत्तान्तः। घपा अथ नृपार्चिता हुतवहे हुता मन्त्रविन निरीक्ष्य न ममा मुदा वपुषि यज्वनामग्रणीः । प्रमोदनयनाम्बुभिनिबिड़परितारस्थलः सुतृतविबुधार्पितां दधदिवैष पुष्पाञ्जलिम् ॥ ११४ ॥ सामोदं करतालिकाः कतिपये तस्मिन्क्षणे ऽवादयन् नृत्यन्ति स्म मुदा विसंतुलपदं के चित्तदा संसदि । इन्द्राग्न्यश्विमुखान्मखे ऽच मुहितानस्ताविषुश्चापरे नानाभावविभाविता इति जना उच्चावचं चक्रिरे ॥ ११५ ॥ तोडम्बरशम्बराम्बरचलगीवागावृन्दाकुल: काष्ठातीतनिनादकारिनलिकाध्वानर्निरुन्धन अतीः । संप्राप्नातुलदक्षिणद्विजवराशीर्वादसंनादितो जैषीद्यज्ञवरः स धर्मजकृतं तं राजमयाध्वरम् ॥ ११६ ॥ गाम्भीर्येगा पयोनिधिं सुरतरून दानेन मत्या गुरूं नीत्या शुक्रमनुतमेन यशसा शीतद्युतिं शारदम् । यो धर्मण युधिष्ठिरं विजयते यस्य प्रसादादभूद् विद्वद्वन्दनिकेतनेषु सततं सा चञ्चला ऽचञ्चला ॥ ११७ ॥ भूमीमण्डलमण्डनायितयशा मण्डीपुराखण्डल: सर्वस्वार्पणतुष्टसद्गुरुकृपापीयूषधाराधरः । सो ऽयं शोभननामकं द्विजवरं संप्रेष्य तस्मिन्दिने सर्वानभ्यभवन्निर्वितरणैर्यजेश्वरप्रीतिकृत् ॥ ११८ ॥ पितापुत्रीयायामथ मधुरकण्ठं गिरि तदा स सुब्रह्मण्यायां सविधि विहितायां मखिवरः ।
जीवनवृत्तान्तः ।
श्तेषु च्छागेषु प्रतिपशु पुरोडाशहवनं
विधातुं प्रारब्ध चिदशगण संतोषफलकम् ॥ ११ ॥
तदेव वसतीवरीरप उपाहरन् सत्वरा
द्विजाः सुरनदीतटात् स्फुटतरातपच्छायत: ।
समन्त्रकमसादयन् द्रुतममश्च शालामुखा-
नलापरदिशि क्षमाः परदिनीयसुत्याविधौ ॥ १२० ॥
प्रस्तशैलशिखरं गते रवावयागविधिरुत्तमा ऽभवत् ।
स्विटकृच्चरमकृत्यसंभृतो मोददः सकलनाकिसन्ततः ॥ १२१ ॥
विधाप्य वसतीवरीपरिहृतिं चतुर्थ दिने
विभप्य सकलविजो ऽध्युषितशोभनाग्नीध्रकान् ।
प्रजागरकृते वधू विधिवलादमूं बोधयन
असाववसदादगत्सततसामगोपायिता ॥ १२२ ॥
अथ पञ्चमेन्हि स्तोकविश्रान्तेषु श्रान्तेष्वपि सौयदिनसंप्राप्ति.
जमहर्षपरिपूर्णस्वान्तेषु चिविश्रान्तेष्विव त्वरमाणेषु याजकेषु रात्रितृती.
यभागारम्भराव निर्मलं गाङ्गमम्भावगाह्म संनद्वेषु बटुरिकरणाशीतिवा-
पिकेणापि यूनो ऽपि वैलक्ष्यलक्षीकृतान्विदधता ऽध्वर्युणा हुतास्वाग्नीधीये
यजतनुपु प्राकामयत् सवनीयस्य पशोस्तन्वं सर्वतन्त्रस्वतन्त्रो ऽसौ मन्त्र-
विदामयणीः ॥
उपांशुपाचप्रमुखानि तव प्रयुज्य पाचाणि खरे ऽखिलानि ।
यथावकाशं चमसान परिप्लवां न्यवेशयच्चाधवनीयपात्रम् ॥ १२३ ॥
पुरोधुरं पूतभृतं निवेश्य स्थालीस्ततश्चकधनाः प्रचो ऽथ ।
कृत्वोपरे ग्राववरांश्च संमुखान् राजानमासादयदेषु यज्वा ॥ १२३ ॥
सविश्वरूपाभिधसामगानउपाकृते प्रातरथानुवाके ।
मुदा तदा निर्वपति स्म सम्यगध्वर्युवर्य: सवनीयमाशु ॥ १२५ ॥
जीवनवृत्तान्तः । धानाः करम्भान यवजान विधाय ब्रीहीनगृहात्परिवापहेतोः । ततः पुरोडानिमित्तमेतानामिध्यमेकीकृतवान् पयो ऽथ ॥ १२६ ॥ अथैकधनाद्याहरणे जाते प्रचार च दधियहस्यांश्वदाभ्ययोश्चापा- शुप्रचारे च निष्पत्रे सोमस्य राजा महाभिषवे ऽन्तयामप्रचारोत्तरं गृहीतेषु विधिना यहेषु गीते च सुस्वरमास्तावे बहिष्यवमानउद्गात्रा व्याधारितेषु धिपयेप्वभूदाश्विनग्रहणम् ॥ ग्रहेषु सज्जेधु ततो ऽखिलेषु प्रावर्तताग्नेयपशाः स यागः । अध्वर्यु मैत्रावरुणावयाग्नीवाता च चक्रः किल यत्र कार्यम् ॥ १२७ ॥ अथ हुतायामाग्नेयपशुवपायां निर्तिते च यहावकाशोपस्याने सवनीयप्रचादिदेवत्यप्रचारशुक्रामन्यिप्रचारेषु निष्पादिते च भते विरचित- सकलसामाजिकसाधुवादे चाच्छावाकवादे मृतुग्रहप्रचारोत्तरभाविन्येन्द्रा- ग्नग्रहणे कृतउदीरिते च मन्द्रमाज्यशस्त्रे होत्रा वैश्वदेवयहणसमनन्तरं मधुरतरं गीते चोद्गात्रा ऽऽज्यस्तात्रे होत्रा च प्रउगशस्त्रे निर्गादतेषु मैत्रा- वरुणप्रभृतिभिरुक्थ्यपर्यायेषु निष्ठामटीकत सवनाहुत्यन्तशेषकर्मपरि- शोभितं प्रातःसवनम् ॥ शस्त्रस्तोत्रप्रचुरनिनदो देवतामादहेतु- स्तत्र प्रात:सवनविहितः सा ऽभवत्सोमहामः । यस्मिन्नक्षणां शतकदशकं विभ्रदेको महेन्द्र- श्चित्र नानाविधविधिभवाश्चर्यसाक्षी बभूव ॥ १२८ ॥ औदुम्बरीतलनिषण्णाकुशाप्रसारि- प्रस्तातृसाममधुरस्वरजाततोषाः । उद्गातृगीतिकृत्तकर्णसुखाः सभास्था नेव प्रयातमविदन् क्षणवट्टिनं तत् ॥ १२६ ॥ होतुः शस्त्रं प्रथममभवत्स्तोचपूर्व प्रशास्तु- स्तस्मादने प्रथमसवने ब्राह्मणाच्छंसिनो ऽथ ।
जीवनवृत्तान्तः ।
२९
अच्छाधाकस्य च परमत: शस्त्रमाश्चर्यरूपं
चैवं माध्यंदिनसवनगा स्तोचशस्त्रालिरासीत् ॥ १३० ॥
समाप्यासा प्रातः सवनमिति शक्रादिविबुधान
हविःसोमेस्तृप्तान पुनरपि हविर्भिर्मयितुम् ।
अथारेभे माध्यंदिनसवनमाश्चर्यचरितो
विदित्वा गीर्वाणान् कृतपशुपुरोडाशमनसः ॥ १३१ ॥
अथ प्रतायमाने ऽभिषवादिमाध्यंदिनसवने स्तूयमाने सुस्वरं ग्राव-
स्तुता रानि कृते ग्रहग्रहणे ग्रहावकाशोपस्थानात् परं सर्दास गीयमाने
च माध्यदिनपवमाने धिषण्यव्याघारणे विहिते संपादिते च दधिधर्म
सवनीययागशुक्रामन्यिप्वनुष्ठितेषु ॥
चतुष्पदगवीमखे प्रददरेव याज्याः पुरा
कथं रजतधेनवः कुशवृते प्रदेया इह ।
इति अतिविचक्षण: समवधार्य तस्मिन् मखे
ददौ सुरतरूपमः सदसि गास्तदा ऽष्टापदीः ॥ १३२ ॥
मदीयतातं ज्वलनं हविर्भिः पुष्णादिरस्म्यद्य कृतोपकारम् ।
इत्थं विचिन्त्येव सुवर्णमृत्विक्करेषु गोरूपधरंतदाऽभात्॥१३३॥
तदेव चमसाध्वयुप्रसर्पकमुखान् द्विजान् ।
विपुलाभिर्दक्षिणाभिः स यष्टा समतोषयत् ॥ १३४ ॥
तदा स्वयमुपागतः किमु शतक्रतुः सादरं
दिदृक्षुरममध्वरं जमितीव विस्मापयन् ।
समेत्य युवकाशिकापुरवरेश्वरः प्रलया
समर्म्य विपुलं वसु व्यधित भूषितं तत्सदः ॥ १३५ ॥
३० जीवनवृत्तान्तः। सोमेनापहृतानि किं सुतधिया चेतांसि तद्वीक्षिणां किं वा मादमुधासमुद्रलहरीमग्नानि नियान्ति नो । किं सामश्रुतिमूर्छितानि यदमी प्राप्ताः क्रतोर्मण्डपं निश्चेष्टा निरगुः समस्तदिवसं नेत: सभायां स्थिताः ॥ १३६ ॥ तदनु शते मरुत्वतीयप्रचारे तृतीयमरुत्वयीयग्रहणे च मरुत्वती. यशस्त्रमुद्गिति होरि माहेन्द्रयहणे च नन्दति महेन्द्रं पृष्ठास्तोत्रेषु प्रगीयमाने चोगात्रा परितोषितसकलसभास्तारान्तरे रथन्तरे निगति निष्केवल्यशस्त्रं होतरि विरचिते माहेन्द्रेण सहातियाह्मप्रचार वामदेव्य- स्तोत्रपूर्वकमुक्थ्यपर्यायेषु प्रशास्त्रोदीरिते शस्त्रे नौधसस्तुतिपूर्वके ब्राह्म- णासना कालेयस्तोत्रपूर्वक्रमच्छावाकेन समाप्यत माध्यदिनं सवना- हुत्यन्तशेषकर्मालंकृतं सवनम् ॥ माध्यंदिनं सवनमित्यमसी समाप्य सद्यस्तृतीयसवनोत्सुक्रमानसो ऽभूत् । श्रद्धावतां सततवैधविधी रतानां कि श्रान्तिराश्रयति चित्तशरीरवाचः ॥ १३० ॥ अथ तृतीयसवनारम्भ ससंरम्भमनुष्ठितेवादित्यग्रहग्रहणयागम- हाभिषवेषु गृहीतेषु यहेषु जाते चाशिरावनयने यहावकाशोपस्थानादुत्तरं सर्दास गीयमानाभवपवमाने ऽङ्गयागसवनीयप्रचारप्रस्थितप्रचारेषु कृतेषु विधीयमाने पिण्डदाने सावित्रग्रहणप्रचारयोरुत्तरं वैश्वदेवयहे गृहीते तारमुदीरयति वैश्वदेवशस्त्रं होरि समृतसौम्ययागमनुव्याधारितेपु धि- प्णयेषु पानीवतयहणप्रचारयोः परस्तादुद्गात्रा गीयमाने यज्ञाजियाख्ये ऽग्निष्टामसानि होतानन्दयत्याग्निमारुतशस्त्रेण विरचितसितोष्णी- पात्विजः प्रतिधिष्ण्यं प्रज्वलितानग्नीन सामाजिकांश्च ध्रुवावनयने कृते चमसप्रचारसमनन्तरमनुष्ठितेष्वनयाजादिषु हारियोजनयहणप्रचारशोभि- तमवासासीदाजपुच्छादिसवनाहुत्यन्तशेषकर्मसमलंटतं तृतीयसवनम् ॥
जीवनवृत्तान्तः ।
३१
तुष्यद्धोचकसपकोक्तविलसत्प्रस्थानयाज्याभृतं
माद्यच्छक्रमुखाखिलादितिमुतस्तोचाय्य शस्त्रावृतम् ।
दीप्यज्ज्वालहुताशभासितदिशं तं पश्यतां मण्डपं
सभ्यानां विधिसंसदीव परमो मोदस्तदानीमभूत् ॥ १३८ ॥
ऐकान्यिकत्वमपि यन्न बभूव होतुः
शस्त्रं तदा निगदतो निशि वैश्वदेवम् ।
तेनास्य चित्रचरितस्य जनातियायि
शीलं बभूव भृशनन्दितविश्वदेवम् ॥ १६ ॥
आग्निमारुतमथान्तिमशस्त्रं वर्जितस्खलितमेष उदीर्य ।
साधुवादविवणाद्यजमानात प्राप कण्ठगतमाक्तिकहारम॥१४०॥
अस्माकमस्त्यग्निरसा पुरस्तान्मरुत्किमायास्यति वा न वा ऽद्य ।
परीक्षितुं कि विति शुक्लवस्त: शिरः प्यधाद्याजकयाज्यवर्गः ॥१४१ ॥
पश्खयागरुचिरं कृतसोमयागं
धानाकरम्भसुरसाज्यहविःप्रपूर्णम् ।
जने तृतीयसवनं मुरभमुराणां
साहित्यकारि विधिदूषणलेशशून्यम् ॥ १४२ ॥
यो यज्ञान्तरटुलभैर्निजगुणस्त्यागेश्च भत्या कृते.
युक्तो दूषणलेशशून्यनिखिलानुष्ठानशस्त्रस्तुतिः ।
प्रायश्चित्तविशोधनाय विदधे तस्मिन् स सुत्वा मखे
प्रायश्चित्तवृताहुती: प्रमुदित: शेषं च कृत्यं निजम् ॥ १४३ ॥
स पञ्चमदिने ऽखिलं परिसमाप्य चेवं विधि
विसृज्य सकलविंजो विधिविसृष्टसख्यान्मुदा ।
कृताखिलविधिनमः प्रमुदितेर्बुधैर्वन्दिता
मखाम्बनिधिपारगः प्रणमति स्म यज्ञेश्वरम् ॥ १४४ ॥
३२
जीवनवृत्तान्तः।
अथ चिरातीते ऽपि यागे प्रतिक्षणतत्स्मरणसमुद्भुतप्रभतरोमाञ्च.
कञ्चकितैरासादितामन्दानन्दपि कण्टकातैरिव निरन्तनिर्यन्वयनाम्बु.
परतया संपायििरव चिरपरिश्रान्तम्य तस्य यज्वनो निकटवाव-
भृयोचितं तायपरमध्वरवरावलोकनोत्सुनिमिषेक्षणतया हविःसुहित.
सोमरसास्वादनजनितमदाक्रान्तनिद्रानुनिर्जरन्यासीकृतामिवास्वप्नतां वह-
दिरवभृथावगाहनोत्कमानसारधनैर्महाजनैः परिवृतो निष्पीडनसंजातग्ला-
नितया न्दितुमतममिव नीरसविधदेशप्राप्तयइव स्वयमपि नीरसवि-
धतां दधानमुपवेश्य सम्राडासन्यां राजानं गादिः सुस्वरं सामानि
सामगैः स्तादिः स्तुतिः स्तुतद्धिश्च होर्विविधयज्ञायुधधरैरध्य.
युपुरोगमैश्च संगृहीतावभृथीयेष्ठ पकरणैः प्रयताचरणैः परिशुद्धान्तःकरणैः
सर्वतो निरुवामानगमनमार्गः परिकर्मिभिः सोमपानमत्तप्रसुप्तगीर्वाणगण.
बोधनायेव विनीप्वापवाझनिवहाव्हानायेव दिवमानामता भेरीनिस्सा-
णतर्यप्रमुखवादिनिनदेन विदार्यव रसातलं संपिपादयिषुर्यज्ञशरणधारण-
वेतनं शेषप्रभृतिभुजङ्गपुङ्गवानां विनिर्गत्य प्रदक्षिणक्रमेण क्रतुस्यानावि-
रलपारकरयुगलपतत्पुष्पवृष्टिचितमृदुलास्तरसंचरणेन तिरोभावयन भूग-
मनोशमानुयात्रिकाणामन्तरान्तरा सामगानकृतसमस्तजनसंवननो ध्रिय.
माणातपत्रतया पवित्रतममात्मानं पादैरस्पष्टुकामेनैव दिनकरण परिहता.
वकाशा यशनिशाकरप्रकाशमिततापातिरकतया निमित्तमात्रतामातन्वन
हेमन्तस्य रविमन्दीरता प्रतिपदं प्रणबिदिश्चरणाडितमहीपरागं
सानुरागं शिरस्सु भक्तिभरितैः सुरितैरनुगम्यमानः संप्राप्य त्रिलोकीतीर्थ-
मौलिललामभूतां सकलसुरासुरमुनिनिर्षोवतसलिलां भगवत्या भागीरथ्या
विभूषितां मणिर्कार्णकामारभतात्रभृथीयार्मािष्टम् ॥
श्रद्धाऽनुढतबुद्धिभिः परिवृत: पारैर्विशुद्धाशयैः
संरुद्धप्रसरः स यज्ववृषभः संघीभवद्भिश्च तेः ।
इष्टिं शिष्टपरिदृष्टचरितो हष्टेः मुरैनन्दिता
तस्मिन् तीर्थवरे पुरारिमतनोत्संग्रीणयिध्यंश्चिरम् ॥ १४५ ॥
जीवनवृत्तान्तः । ३३ ॥ धृतावतारः किमु काशिकापतिः किमेष यज्ञेश्वर एव साक्षात् । जनेरिति स्वीकृतचिचतर्मुहुः प्रहर्षादमिवीक्ष्यमाणः ॥ १४६ ॥ निवारिताशेषनृपालवेषस्तरि समारुह्य मयूरचिन्हाम् । भक्तिप्रकर्षानतकाय ईश्वरीप्रसादनारायणसिंहभूपतिः ॥ १४७ सिष्णासुरेत्यावभृथे तदानी प्रणम्य जज्वानममुं सहर्षम् । जनान् समेतान मणिकर्णिकायां श्रद्धाम्बुधौ मज्जयतिस्म चिचम्॥१४८॥ विहितावभृथेष्टिना ऽमुना नृपपारौघनिरन्तरे तदा। जनिताखिलदोषशाधनं शुचि सस्ने मणिकर्णिकाजले ॥ १४ ॥ प्रागेवाखिलतीर्थमौलिमणितां प्राप्मा शिवानुग्रहा- दद्यासा मणिकर्णिका ऽवभृथजामासाद्य शुद्धिं पराम् । दोषान् मानसकायिकोक्तिजनितान्निर्मलयेत्सत्यमि- त्यस्नासीद्धृतनिश्चयो ऽखिलजनो जज्ञे च शुद्धः क्षणात् ॥ १५० ॥ उद्धता जलबिन्दवो ऽच शिरसा यैः सादरं धारिता- स्तभ्यः स्वाधिककालजं शुभफल दातुं दरिद्रो विधिः । किं वा दास्यति यज्वने ऽधिकफलं श्रुत्वेति गोया वचे। नूनं मुक्तिमवेत्य सर्वसुलभामीशो ऽपि मूको ऽभवत् ॥ १५१ ॥ अथासो चिरमवगाहा सप्रमोदं जान्हवीजलमापादा च कृतकृत्यतां कृत्स्नजनस्य तूर्णमुत्तीर्ण ऽहते वाससी परिधाय पुरोधायाध्वर्युमुखाननु- गम्यमानः पन्या प्रतिपदं प्रणमादिः संजिघृक्षद्धिश्च चरणोदकं बहुभिरा- स्तिकजनैः क्रियमाविलम्बो ऽपि जनयन् शुभाशीर्वादकुशलप्रश्नादिना तेषामुन्मस्तकं प्रमोदमासादर यजवाटं प्रविश्य प्राग्वंशं संतl चोदयनी. यायामिष्टा देवताः परितप्य मित्रावरुणावामितया समालक्ष्य भृशपरिथा- न्तात्विजो विधाय पूर्णाहुतिमुदवसानीष्टिस्याने प्रदक्षिणीकृत्य प्रद- तिर्चिपो हुतवहानासादितस्वनिकेतन आधाय विधिना ऽग्नीन् कृत्वा च सायं होममभूत्सर्वतः कृतकृत्यः । ८
३४
जीवनवृत्तान्तः ।
धन्या सा जननी शशीव जलधेर्यस्या अभूत्यागसा
श्रोतस्मातसमस्तदर्शनविदा या वन्दिता चामुना ।
धन्यं नगरी वसिष्ठमिष यं देधे ऽधुनेषा ऽऽत्मना
धन्याश्चापि वयं यदवियुगले मी नमामो मुहुः ॥ १५२ ॥
कृत्वा शक्रमुखान सुरान् स मुहितान् दत्वा तुला दक्षिणा-
श्चक्रे ब्राह्मणतर्पणं चिरतरं नानाविधेनान्धसा ।
यस्मिन् षड्रसशालिभक्तरुचिरापपादिसंर्पिता
मन्यन्ते स्म महीसुरा दिविषदः किं चिद्धविर्वञ्चितान् ॥ १५३ ॥
कस्को नाजनि भूसुरो ऽत्र सुहितः को नाप वा दक्षिणाः
का वीथी जनिता सिता न यशसा के नाघिया नार्चिताः ।
के ऽन्तर्वाणिवराः सभासु महती नापुः सपयों ततः
को वा विस्मयपरमग्नहृदयो नास्मिन्मखे ऽजायत ॥ १५४ ॥
इष्टं विधायेत्यमा प्रहृष्टः पूर्वैरलंकर्तुममुप्य भूमिम् ।
तूर्ण समाज्ञापयति स्म कारीन निर्मातुमाराममिहाभिरामम् ॥ १५५ ॥
घनं कदलिकावनं तदनु तब जज्ञे ऽचिरात्
प्रफुल्ल नवमल्लिकाप्रमुखवृक्षषगडान्वितम् ।
यदीयसुमपरितं स्थलमवेक्ष्य नवा जनाः
पुरा सुरकरोज्झिते सुमगणे न संशेरते ॥ १५६ ॥
अथाशु मल्लीकरवीरबिल्वधाचोमुखानाकहशोभमानम् ।
स्थलं ससंरम्भविजम्भमाणरम्भाशतस्तम्भभृतं बभी तत् ॥ १५ ॥
संप्रापमानन्दवनेक्षणार्थ मन्दादरं नाकगतो पुन: किम् ।
भनन्दनं स्थानमिदं यतो ऽच संदृश्यते भूसुरवृन्दमेष ॥ १५८ ॥
जीवनवृत्तान्तः । ३५ किं वञ्चितं विष्णुपदाभिधानादानन्दनं नन्दनमीक्षणानाम् । यज्ञस्य विष्णोः पदमेतदाप्य प्रतिष्ठितं वीक्ष्य जर्ष लोकः ॥ १५६ ॥ ततो दृढं कारयति स्म तत्रोपलेर्विशालैः कृतबन्धमन्धुम् । माधुर्यनेमल्यतुषारताभिर्यदम्बु गङ्गाम्ब्वतिसंदधाति ॥ १६० ॥ अचान्तरे हिमगिरेः समुपागतेन मण्डीपुरेश्वरनिदेशवशंवदेन । दूतेन तन्नगरयानकृते ऽर्थ्यमानो यातुं स निश्चितमनाः सुधियां वरिष्ठः ॥ १६१ ॥ गोष्ठीनजालवनपत्तनपार्थिवश्री- गोविन्दरावनृपसोमपुरोहितेन । सप्रश्रयं प्रणमता वदता निजाङधि- पूजोत्सुकं नृपममुं परिचर्यमाणः ॥ १६२ ॥ प्राप्य प्रयागमवगाह्म सिताऽसितान्त: संतर्य देवपितृपूर्वमनेकविप्रान् । भूपेन नम्रशिरसा विनतेन तेन निन्ये निजं गृहमनेकविधोपचारैः ॥ १६३ ॥ भूपो ऽथ तं विदधतं स्वगृहं मुफ्तं शीलेन शीतकरशीतलकामलेन । चक्र पयोनिधिगभीरमपि क्षणेन मोदाऽमृतामलचलल्लहरीपरीतम् ॥ १६४ ॥ स्वीकृत्य तस्य स नमस्यगुणः सपयों पर्यायभाषिबुधमगडलमण्डितायाम् । -- जीवनवृत्तान्तः । भूपस्य संसदि मनांसि नृणां समस्त- शास्त्राविरोधमुपपाद्य चिरादतार्योत् ॥ १६५ ॥ हुंकारमाचपरिभवविवादिवर्गः संप्रार्थिता नृपवरण पदानतेन । शेवों विधाय दुरितक्षयदक्षदीक्षां तस्मस पार्थिवशिवार्चनमादिदेश ॥ १६६ ॥ मुक्तः कथं चिदमुना विरहासहेन मण्डीपुरेन्द्रमवलोक्य नितान्तभक्तम् । प्रासादनिर्मितिभृशोत्सुकमानसा ऽथ पूर्ण व्यभूषयदसा निजयज्ञशालाम् ॥ १६० ॥ उत्सृज्य तवान्धुमशेषभूततृय स सुत्वा सुरसन कर्तुम् । जातत्वरः प्रेरयति स्म शिल्पपारीणबुद्धीनथ तब कारीन् ॥ १६८ ॥ अथ निरूप्य शुभ मुहूर्न निर्वार्तिते शिलान्यासे स्यूलस्थलोपलश- कलचक्रबालभिट्यमानरसातलविवरनिःसरत्फणाभृत्फूत्कारमनुकुर्वति पर्व- ताहृतप्रचुरप्रस्तरसमीकरणचटत्कारे विवदमानेषु स्वाशल्पनैपुण्यवर्णन- पुरःसरं विविधवास्तुनिर्माणविषये कारिवरेषु सम्भाव्येव चिरमात्मानं प्रतार्य मलयेन पर्वतवती दिशमाश्रितं भगवन्तं कुम्भसंभवं दिदृतुतया पुनः काशि- का समागतं सहैव धर्मपव्या लोपामुद्रया यायजूकममुं प्रसार्दायतुमिव संनिदधतं विन्ध्यपर्वतं संशाययातायतोदययाधराशा मसृणीकरणगुण- प्रति(िम्बता दवोदयानमध्योदयत्फलपल्लवतल्लजल्लिता पल्लीः समु. कीणाः प्रकाशदिराकल्पमनल्यां जल्पाकजनजेगीयमानामसमानाममुष्य कीर्तिमम्बरपतिथीभवन्तीमुत्तयितुमिव धृतविग्रहः स्तम्भैः शिवप- रिचर्यागतरजताचलविमलाधित्यकाविशयसंपादनालंकर्मीणैः कुद्यैश्च स- मलंकृतं विस्तृतविर्दिकासनाथसर्वतोभागतया भितो निषण्णपान्यजन- जीवनवृत्तान्तः । वर्ण्यमानरामणीयकं यजमिव विततम स्तरोदकं प्रतिपक्षताणीपतिस. मागमिव संभ्रमदयोधरावरणं राजभव मत्र विचित्रमत्तवारण वैशे- षिकनर्यामव द्रव्यगुण स्थिरीकरणप्रवीणं वणिगापणमिव धृतपृथु लतुलं सरदव बहुकीलालंकृतं विशालमपि चन्द्रशालाशोभितशिरःप्रदेश मानोच तमपि विमानाधिकश्रीकं टङ्कपरिष्क"तमपि विटङ्कशोभाश्रय- माकल्पस्थायिनं दृढं पुरतः सभामण्डपण्डितमभिनवं निरमीमपत्मासा- दम् ॥ मन्ये यत्र सुरापगातटचलद्वीचीभृशान्दोलन- प्राप्नोत्कर्षतुषारमन्दपवने वासाय बद्धस्पृहः । कैलासाचलनित्यवासविरसे। मन्दादरो मन्दरे सान्निध्यं बहुमन्यते स्म सगणः श्रीपार्वतीवल्लभः ॥ १६६ ॥ तस्मिन्मन्दरमन्दिरे दृढतरे संपूर्णकल्पाकृती पत्नी तस्य बताय॑देवनिवहानाहातुकामा किमु । शैवं प्राप पदं प्रसूय तनयामल्पायुषं हा यत: श्रेयांसि प्रबलान्तरायसहितान्यापागमे शुश्रुम ॥ १०० ॥ पुत्रीकृत्य विधानता द्विजसुतं पञ्चाब्ददेश्यं मृतां वैतानाग्निसमस्तपात्रसहितां संस्कृत्य स प्रेयसीम् । तादृन्दारवियोगशङ्कमनिशं चिते वहन् दुःसहं धैर्येणेव यथापुरं कतिपयं कालं बुधो ऽयापयत् ॥ १०१ ॥ १ दर्भमुष्टिः वेदिश्च पाषाणानां विर्दिका च। २ संभमादी त्वराजनको योधानां रावरणा यत्र । सम्यक् भमदयाकीलं धरत्यावरणं यत्र । ३ मदयुक्ता गजा यत्र । विचित्रो मत्तवारणा निर्वृदो यत्र । ४ द्रव्यादिसाधकत्वात् । धनानश्वरतासं- पादकत्वाच्च । ५ स्तम्भाधारप्रस्तरा मानदण्डाश्च । ६ बहुजलं कृतं कोलेलिंकृतं ७ विस्तृतं शालारहितं च । ८ शिरोमणा । है प्रमाणेन । शोभारहितं व्योमयानापेक्षया रम्यं च । १९ शस्त्रविशेषनिर्मितम् । १२ टकजन्य- शोभारहित कपातपालिकाषितं च । १० प्रमाणा- जीवनवृत्तान्तः । शमीतहरिवोद्वहन हृदयदाहिदुःखानलं ज्वरेण महता बत प्रतिदिनं प्रशुष्यत्तनुः । विचार्य चपलाचलं भवमा निसर्गारसं त्वरामतनुतादराद्धरिहरप्रतिष्ठाविधी ॥ १०२ ॥ सजीकृत्य समस्तवस्तुनिचयं देवप्रतिष्ठाचितं मूर्ती: खेतदृषद्विस्तमतमाः संपाद्य च द्योसदाम् । वृत्वा ऽऽचार्यमशेषतद्विधिविदं संभाव्य चविंगण प्रारब्धं निदिदेश तीव्ररुजयाक्रान्तोऽपि वैधं विधिम् ॥ १०३ ॥ नन्दाग्न्यङ्कधरामिताब्दगसितापाढे दशम्यां विधा- वास्थाप्यन्त यथाविधानममुना तत्पञ्चसूत्रीमितम् । रुद्रेकादशकं फणीन्द्रशयन: सूर्यो गणेश: शिवा गडाभेरवतायमारुतिवृषत्रीदक्षिणामूर्तयः ॥ १०४ ॥ आहूता विबुधास्तदावनिगुरुं नालोक्य संस्थापने निर्धार्यातिरुजार्दितं तमगमन् यां दुर्दशां दुःखिताः । स्मर्तुं वक्तमिमां विलेखितुमपि स्याम क्षमा: स्यान्न चे- च्वेता दूनतमं सगद्गदजडा वाणी तनुः स्तम्भिता ॥ १०५ ॥ श्रद्धोद्रेकमनीदृशे ऽपि समये दृष्ट्वा प्रमादेन वा नायातो नियतं रुजार्दित इति प्राप्नन शोकेन वा । निर्यद्वाष्पजलाकुलातियुगलाः सभ्या: शिलानिश्चला नाविन्दन्त विशेषदर्शनविधी दाक्ष्यं सधैर्या अपि ॥ १६ ॥ पूर्वहन्यधिवासितान्सुरवरान संस्थाप्य तस्मिन्दिने संप्रानं सहऋत्विजं गुरुवरं संपूज्य धेन्वादिभिः ।
जीवनवृत्तान्तः । ३९ सम्यक् पर्यवसायिताखिलविधिः कृत्यावशेषोभिता ब्रह्मण्येव निवेश्य चित्तमनिशं रागं भवे ऽसौ जहो । ५७७ ॥ श्रोतुं वक्तुमपाटवं यदभवद् द्रष्टुं मनाक् स्पन्दितुं तच्चित्तभ्रममंनिपातजमिति भ्राम्यन्ति के चिन्मुथा । संध्योपास्तिशिवार्चनश्रुतिशिरःपाठावधानेर्वयं संपन्नः प्रणवैकतानहृदसावित्येव मन्यामहे ॥ १०८ ॥ आरोग्यार्थिभिर्पितं बहु हसन यनेषजं सेो ऽपिबत् संपत्तित्वरितः कृताखिलविधिर्मत्वा जनान् बालिशान् । आशिश्वासिपया रुजा धृतित इत्यचुः क्षणावेक्षका ब्रह्मात्मैक्यविभावनादिति वयं नित्यनका मन्महे ॥ १६ ॥ इत्यमतिवाह्य स्तोकमनेहसमालोचयवेकदिनावशिष्टमुत्तरायणं व- सुमती विहातुकाम व्यावर्तितनिखिलविषयवासनः प्रणवाकतान- मना वितीय विनिबहेभ्यो भरिशो दानानि चिरकालसकलविदयाभार- वहनश्रान्तइव बहुमन्यमानो दीर्घनिद्रां त्रयश्चत्वारिंशत्तमे वर्ष यशसैव भूमण्डलममण्डयन्मन्ये च नियतमबापदरखण्डब्रह्मरूपताम् ॥ नातथ्यां किमपीह वाचमवदं नावणेयं बन्दिव- नात्युक्तिं व चिदानयं न कविताप्रागल्भ्यमीषद् व्यधाम् । नूनं विस्तरवीक्षणालसमतीन दृष्ट्वा जनान् संकुच- द्वाक्यः किं तु गुणेकदेशकथनेनापावयं स्वं वचः ॥ १८० ॥ श्रीमत्तावनृसिंहशास्त्रिचरणस्ववृक्षसंसेविन: पूज्यश्रीगुरुबालशास्त्रिकरुणापीयूषपतात्मनः । नन्दाग्न्यङ्कमहीमिते विरचिता संवत्सरे वैक्रमे स्याद् गङ्गाधरशास्त्रिणः कृतिरियं विद्वज्जनानां मुदे ॥१८१॥ इति॥ इति श्री ६ बालशास्त्रिजीवनवृत्तान्ताः ॥