Shri Jain Swetamber Khartargacch Sangh, Jaipur
Vedant Granth Prapanchak
Front matter
No text on this page.
श्री
वेदान्तग्रन्थपञ्चकम्
ANS
32.
sri
श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छं-
कराचार्यप्रणीताः
वाक्यसुधारसा, हस्तामलका,
निर्वाणपंचकम् मनीषापश्चकम्
इमे सटीकाः
श्रीमद्विद्यारण्यस्वामिप्रणीता ब्रह्मविदा-
शीर्वादपद्धतिश
श्रीमत्परमहंसस्वामिनित्यानन्दसरस्वतीतः
संशोध्य
श्रीकृष्णदासात्मज, गंगाविष्णुखेमराजायां
स्वकीय श्रीवेङ्कटेशमुद्रायन्त्रे
अंकितम्
शके १८१३ संवत् १९४८ ।
MAMALNCEstate
Registered for copy-right under act. XXV of I867.
No text on this page.
श्रीः अथ वाक्यसुधाप्रारम्भः। श्रीगणेशायनमः ॥ नमोरामायदेवायसच्चिदानंदमूर्तये ॥ कृष्णायगुरवेव्यासशंकराचार्यमूर्तये ॥ ३॥ नामरूपात्मवि श्वाख्यपंको यल्लमईक्ष्यते ॥ तद्दाक्यसुधयाप्लाव्यनिष्पकत त्वमीक्ष्यतां ॥ २ ॥ पदार्थबुद्धिक्यिार्थज्ञानहेतुरितिस्थि तेः॥ आदौपदार्थबुद्धयर्थःपरिच्छेदःप्रवर्तते ॥३॥ वाक्यंत त्वमसीत्यादिप्रत्यग्ब्रह्मैकबोधकं ॥ त्वंपदार्थइहप्रत्यक्तत्प दार्थोमहेश्वरः ॥४॥ तत्रादौवाक्यसुधाख्यं प्रकरणमारभमाणोयंभगवान्भाष्य कारः त्वंपदार्थव्युत्पादयति । रूपंदृश्यमित्यादिनिः पंच भिः श्लोकैः । तत्राद्योयंवस्तुसंग्रहश्लोकः- रूपंदृश्यंलोचनंहक्तदृश्यंद्रष्टमानसं ॥ दृश्याधीवृत्तयःसाक्षीढगेवनतुदृश्यते॥१॥ .
२ वाक्यसुधा. रूपनीलपीतादियत्मसिद्धंतदृश्यंद्रष्ट्रवृत्तिव्याप्यमित्येतदवि वादमित्यर्थः । कापुनःसादृग्ययारूपंव्याप्यतेइत्यपेक्षाया माह ॥ लोचनंगिति ॥ यल्लोचननेद्रियंसाहगित्येतद पिप्रसिद्धमेवनेत्रान्वयव्यतिरेकानुविधायित्वाद्रूपज्ञानस्ये त्यर्थः । एतावतापुत्रआत्माजायात्मेत्यायतिप्रारुतात्मह ष्टिर्बाह्यविषयाभिनिविष्टच्याविता ।तेनैवदेहात्मबुद्धिरपि व्युदस्ता । देहस्यापिबाह्यविषयवदिद्रियग्राह्यत्वात् । इदा नीमिंद्रियात्मदृष्टिंप्रसक्तांवारयति ॥ तदृश्यंद्रष्टुमानसमिति। तल्लोचनरूपापेक्षयागितियदुक्तंतदपिदृश्यमेवनहायतस्त स्यापिमानसंमनोंतःकरणंसवृत्तिकंद्रष्टुतत्सद्भावसाधकंवर्त तोसतिमनसिव्याप्रियमाणेलोचनस्यसद्भावप्रवृत्त्यादेरवग मादसतिचतस्मिन्सुषुप्त्यादावनवगमादित्यर्थः। तर्हिमनएव प्रत्यगात्मेतिप्राप्तांदृष्टिंवारयति । दृश्याधीवृत्तयइत्युत्तरार्दै न । प्रागुक्तमंतःकरणंतत्तयश्वधीवृत्तिशब्देनोच्यते । ताश्चदृश्यविषयाएवतासांसाक्षीचिदात्माहद्रष्टाप्रकाश- १दूरीकृता २दूरहिता ३ वाक्यसुधा. कः । मममनोन्यत्रगतमित्यनुभवादन्यत्रमनाअभूवनादर्श मित्यादिश्रुतेश्च । सिद्धमनसोपिदृष्टयंतराधीनसिद्धिकत्वं तस्ययोद्रष्टासाक्षासहगेव ।एवकारव्यावृत्तावाह । नतुदृश्यत इति । तस्यापिदृश्यत्वेनिरुपपत्तिकानवस्थाप्रसंगाअंत तोगत्वास्वतःसिद्धवस्त्वऽनभ्युपगमेजगदांध्यप्रसंगाचस्व प्रकाशतयापरानपेक्षस्वरूपसिद्धिपर्यंतमेवदृग्दृश्यपरंपरान्वे षणमतोहगेवसाक्षीसनान्यदृश्यइत्यर्थः। एतदुक्तंभवति। ये नविनायस्यद्रष्टुतानसंगच्छतेतदेवैकमन्युष्णत्ववत्स्वरूप तप्रकाशेनरूपपर्यंतस्यसर्वस्यद्रष्टुनमनश्चक्षुषोः । तयोस्तुसा क्षिचैतन्यावेशादग्यावशादिवोदकलोहादौदग्धृत्वंद्रष्टुत्वमु पचर्यते।तस्मात्मनआदिविषयपर्यंतंदृश्यमेवेतिनिश्चित्यते पुसर्वेषुद्रष्टुत्वेनानुगतंदृश्यविलक्षणंचिदेकरसंप्रत्यंचमात्मा नमेषतेआत्मासर्वांतरइतिश्रुतिप्रकाशितंशुद्धमुद्धरोदिति १ संग्रहेणोक्तंविवृण्वन्यदृश्यानांपरस्परव्यभिचारात्व्यभि चारिणांचसर्वाधारदंडमालादिवत्क्वचित्कल्पितत्वनिय १ अनुस्यूतं ।
४ वाक्यसुधा. मात्द्रष्टस्वरूपस्यसर्वदृश्येष्वन्वयाद्रज्जुखंडवत्तस्याकल्पित त्दव्याप्तेरित्यन्वयव्यतिरेकालोचनतयाद्रष्टुरद्वैतात्मनउप पादनप्रकारमाह- नीलपीतस्थूलसूक्ष्महस्वदीर्घादिभेदतः॥ नानाविधानिरूपाणिपश्यल्लोचनमेकधा२॥ आदिपदाइक्रवर्तुलत्वादिग्रहणं । एवंनानाविधा निपरस्परव्यभिचारीणिरूपाणिपश्यल्लोचनमेकधानव्यभि चारीत्यर्थः । नहिलोचनाबहिरुक्तरूपसत्त्वेप्रमाण मस्तिलोचनालोचनदशायामेवतत्प्रतीतेरेवान्यदाचतदप तीतेः । नचप्रत्यभिज्ञयाप्राक्सत्त्वग्रहस्तस्याअन्य थोपपत्तेः । तथाहियथाशुक्तौरजतमारोपितरजतमि दमिहास्तीतिचिरमचिरंवानुभूयतद्बाधोदयात्प्रागेवविष यांतराण्यालोच्यपुनःतस्यामेवशुक्तौलोचनंप्रसारयन्नऽनि वृत्तचक्षुर्दोषस्तदिदंरजतरूपमितिप्रत्यभिजानातिकश्चि त्पुमान्नहितत्रप्रत्यभिज्ञाप्रमाणतामश्नुते । आरोपि तस्यप्रातीतिकशरीरत्वात् । एवमेवाधिष्ठानतत्वनामस्व ५ वाक्यसुधा. रूपत्वावधारणपर्यंतंदृष्टविशेषस्यबांधितत्वानवगमात्पूर्वदृष्ट सदृश्याविषयमांत्यंतरोदयेप्रत्यभिज्ञानमइति ॥ नचैवंस तिबौद्धमतापत्तिदृश्यदर्शनयोः क्षणिकत्वानंगीकारान्नित्य स्याखंडस्यैकस्यसर्वचमाधिष्ठानस्यसदात्मनश्चिदेकरसस्या युपंगमाच्चेतिनकाचनास्मन्मतेदोषकल्पनेत्यत्रयुक्ति रनुसं धेयोति ॥ २ ॥ बहुभ्योदृश्यात्योद्रष्टुत्वेनोवृत्तस्यैकस्यलोचनस्यापिनांजसा इष्टत्वंतस्याप्येकरूपत्वव्यभिचारादित्यतोलोचनमपिदृश्य मेवतस्मात्तदपिस्वद्रष्टुमनसोबहिर्नास्तीतिव्युत्पादयति- आंध्यमांद्यपटुत्वेषुनेत्रधर्मेष्वनेकधा॥संक ल्पयन्मनःश्रोत्रत्वगादौयोज्यतामिति॥३॥ यथाप्येकस्मिन्पुरुषेएकमेवनेत्रतथापितन्नैकरूपंतस्यांध्य मांद्यायवस्थाभेदेनविकारित्वाविकारिणश्चस्वविकारद्र मृत्वायोगादन्यदृश्यत्वमवश्यमायातमपिंडादिवत्तस्यापि योद्रष्टातदन्वेषणायामंतःकरणंतद्रष्टुत्वेनान्वेतीत्याहसं १ निश्चयपर्यतं. २ कल्पित०.३ अंगीकारात्. ४साक्षात्. ५लोचनस्य.
६
वाक्यसुधा.
कल्पयन्मनइति। आंध्यमांद्यपटुत्वेषुनेत्रधर्मपुसत्सुअंधोहम
क्षोहंपटुनेत्रोहमितिचानेकधानकप्रकारेणसंकल्पयत्सम्य
कल्पयत्मनोंतःकरणंतस्यव्यभिचारिनेत्रावस्थास्वऽव्य
भिचारितयाद्रष्टुत्वंसिद्धमिातेयाजानातिएकत्रानिीतस्य
शास्त्रार्थस्यपरत्रापीतिन्यायेनचक्षुष्युक्तंन्यायमितरेंद्रियेषु
योजयेदित्याह । ओत्रत्वगादौयोज्यतामितिरूपेषक्तो
न्यायः शब्दस्पर्शादौयोज्यः चक्षुष्युक्तश्चोत्रत्वगादा
वित्यर्थः ॥ ३॥
इदानींचक्षुरादिवत्मनसोप्यन्यदृश्यत्वसाधयति
कामःसंकल्पसंदेहोश्रद्धाश्रद्धेधृतोतरेह्रीर्दी
ीरित्येवमादीन्भासयत्येकधाचितिः॥४॥
एवमादीनित्यादिपदात्क्रोधलोभमोहादयोगृह्यतेएक्मने
कावस्थमनेकविधमंतःकरणंचितिर्भासयतिपश्यतिसात्वेक
धाएकविधैवनतस्याअवस्थांतरंवाधर्मातरंवासंभाव्यतेतत्र
प्रमाणाभावादित्यर्थः ॥ ४ ॥
वाक्यसुधा. मनआदिसर्वावस्थासाक्षिततायाश्चितेरविकारित्वंसाधयं स्तस्याएकरूपत्वंसविनासकतयासर्वत्राव्यभिचारित्वेना द्वितीयत्वंचोपपादयति- नोदेतिनास्तमेत्येषानादियातिनक्षयं॥स्वं यंतथाविधान्यानिशासयेत्साधनविना॥५॥ एषाचितिः सर्वसाक्षिततयासर्वानुगतापिनोदेति नजायतेनास्तमेतिनविनश्यतिअभूतप्रादुर्भावोजन्मसतोऽस त्वप्राप्तिर्विनाशइत्येवंविधाद्यतविकाररहितैषाचितिरि त्युक्तं भवति । मध्यमानपिवृद्धयादीनविकारानाथ तविकारनिराकरणादर्थतोनिरस्ताअपिप्रतिपत्तिसौकर्याय मुखतः प्रतिषेधयतिनवृद्धिमित्यादिना । वृद्धिरुपचयः क्षयोऽपचयः सावयवंहिकुड्यादिअवयवोपचयावर्द्धतेअप चयाच्चापक्षीयतेचितेस्तुनिरवयवत्वान्नतद्योगइत्यर्थः। वि परिणामस्यचावस्थांतरापत्तिरूपस्योक्तलक्षणवृद्धिक्षया भावात्तन्निरसनेनैवनिराससिद्धिः। अस्तितालक्षणस्यचवि ८ वाक्यसुधा. कारस्यकदाचित्कालावस्थितिरूपस्यजन्मविनाशासंभवा देवासंभवउक्तोवेदितव्यः ॥ कुतएवमस्याःषड्भावविका रराहित्यमित्यवहेतुमाह। स्वयमिति । तथाविधानिउक्तवि कारवंतितानिचान्यानिचेतितथाभासयेत्प्रकाशयेत् । रिंकभासनभानोत्पादनहंततहिविकारित्वमवस्थांतरयोगा दित्यतआह ॥ साधनविनेत्यर्थः । तथाचाविकारितया सर्वविकारावस्थासाक्षित्वादस्याश्चितेर्नविकारयोगशंकेति तात्पर्यार्थः ॥ ५॥ ननुतदेवंद्रष्टदृश्यान्वयव्यतिरेकालोचनेनव्यभिचारि योदृश्यत्योमिथ्याभूत योऽव्याभिचारिद्रष्टासत्यआ त्माअद्वितीयःसिद्धः । सचनिर्विकारएवसःसर्वावक्षा सकइत्युक्तंतन्नोपपद्यतेअवस्थात्रयवत्तयात्मनोनुभवादि त्याशंक्यमैवंअवस्थात्रययोगितयावभासस्यसाभासबुद्ध्य ध्यासनिबंधनत्वादध्यस्तस्यचमिथ्यात्वादित्यभिप्रेत्यसा क्षिसाक्ष्यान्वयव्यतिरेकात्यामसंगकूटस्थात्मतामात्मनःप्र तिपादयति । चिच्छायवेशतइत्यादिभिःसप्तश्लोकैः-- वाक्यसुधा. चिच्छायावेशतोबुद्धौभानंधीस्तुद्विधास्थिता। एकाहंकृतिरन्यास्यादंतःकरणरूपिणी ॥६॥ चिनिर्विकल्पकंसर्वावभासकंज्ञानंप्रत्यगात्मस्वरूपंतस्य छाया आभासस्तस्यबुद्धावंतःकरणेआवेशःप्रवेशस्तस्मा दावेशतोभानविशेषतोमासनमात्मनोभवतीतिशेषः । एतदु भवति । चिदात्मास्वरूपप्रकाशतयास्वयंसदाभासमा नोपिस्वतोनिविशेषत्वाद्विशेषतोनावज्ञासते । तस्मिन्पुनर ध्यस्तमनायनिर्वचनीयमज्ञानंयदाकर्मोद्भूतंवासनाविशेषस दंतःकरणाकारंजायतेतदातस्मिन्नवभासकतयानुगतश्चि हात्मातप्तायःपिंडवदेवागिरयःपिंडाकतिर्बुद्ध्याकारोव भा सते॥तत्रबुद्धयाविशेषेणगृह्यमाणमात्मचैतन्यमानासच्छा येतिचोच्यते । तदाबुद्ध्यात्मनोरेकत्वावभासात्तेनविशेष णसविशेषमात्माभाति । एतदुच्यते । चिच्छायावेशतोभा नमिति । यस्यांबुद्धावेवंभानमात्मनः साधीस्तुबुद्धिस्तु द्विधाद्विप्रकारेणस्थिता एकाहंकृतिरूपेण अहंकृतिरस्या १ अंतःकरणे.
१० वाक्यसुधा. एकाविधेत्यर्थः । अन्याविधाअंतःकरणरूपिणीस्यात्म नोरूपिणीभवतीत्यर्थः मनःसंकल्पविकल्पात्मकंवासना स्थानं चिदात्मानिकर्तृकरणभावमापन्नासतीबुद्धिर्विशेषव्य वहारप्रवर्तिकाभवतीत्यर्थः ॥ ६ ॥ तत्रचिज्जडयोबुद्धयात्मनोस्तादात्म्याध्यासमुक्तंदृष्टांते नस्पष्टयति- छायाहंकारयोरैक्यंतप्तायःपिंडवन्मतात दहंकारतादात्म्यादेहश्चेतनतामियात्॥७॥ पूर्वार्द्धमुक्तार्थ अयसोग्निव्याप्तत्वेनाग्नित्वापत्तिवदहकार स्यात्मचैतन्यव्याप्तत्वेनास्मदर्थत्वंमतमित्यभिप्रायः एता वतालिंगशरीराध्यासआत्मनिकर्तृत्वनोत्तृत्वव्यवहारप्रवृ त्तिहेतुर्दर्शितः इदानीमुक्तोपाधिंपुरस्कत्यस्थूलशरीराध्या समात्मनोदर्शयतितदहंकारेत्युत्तरार्द्धन देहोप्यऽस्मदर्थत्वो ल्लेखयोग्यः संवृत्तइत्यर्थः ॥ ७ ॥ इदानीमुक्ताहंकारतादात्म्यंविषयोदनविभज्यव्युत्प दयति-- वाक्यसुधा. अहंकारस्यतादात्म्यंचिच्छायादेहसाक्षिभिः।। सहजकर्मजंभ्रांतिजन्यंचत्रिविधंक्रमात्॥८॥ अहंकारस्यचिच्छाययाचिदाभासेनयत्तादात्म्यंतत्सहजं उत्पत्तिविशिष्टं चिच्छायाग्रस्ततयैवाहंकारस्योत्पत्तरित्य र्थः । देहेनसहाहंकारस्यतादात्म्यकर्मजंप्राचीनधर्माधर्म जन्यदेहयोगस्यतदधीनत्वादित्यर्थः । साक्षिणातुतादा म्यंत्रांतिजन्यंचममात्रसिद्धमितिक्रमादहंकारस्यतादा त्यंत्रिविधभवतीत्यर्थः । तथाचानुभवोहंजानामिअहं मनुष्यअहमस्मिभवामीतिचक्रमेणानुसंधेयः॥ ८॥ इदानीमुक्ताहंकारतादात्म्यावनासानांक्रमणनिवृत्तिहेतून् व्युत्पादयति- संबंधिनोःसतो स्तिनिवृत्तिः सहजस्यतु॥ कर्मक्षयात्प्रबोधाच्चनिवर्तेतेक्रमाढुझे ॥९॥ संबंधिनोरहंकारचिच्छाययोः सतोर्विद्यमानदशायांतयो दात्म्यनिवृत्तिनास्त्येवतुशब्दोऽवधारणार्थः । अहंका १२ वाक्यसुधा. रोदयात्सिद्धस्यामासस्याहंकारनिवृत्त्यैवनिवृत्तेः यथाश रावोदकनिमित्तोदयस्यसवितृप्रतिबिंबस्यशरावोदकनि त्यानिवृत्तिस्तद्वदित्यर्थः । देहाहंकारतादात्म्यंकर्मक्षयादे हारंभकस्यकर्मणःक्षयाद्देहपातान्निवर्ततेसाक्ष्यतादात्म्यंयु गपेदवनिवर्ततइति ॥९॥ एवमात्माहंकाराध्यासभेदास्तन्निवृत्तिहेतूंश्चव्युपाद्याधुनाह काराध्यासकृतएवात्मन्यवस्थात्रयावभास संसारित्वंचति व्युत्पादयितुमुपक्रमते अहंकारलयइत्यादिभित्रिभिः- अहंकारलयेसुप्तौभवेदेहोप्यचेतनः॥ अहं कृतिविकारोत्थःस्वप्नःसर्वस्तुजागरः॥१०॥ सुप्तौसषुप्त्यवस्थायामहकारलयेहंकारेकारणैकताप्राप्तेस तिदेहोपिस्थूलोचेतनःचेतनावियुक्तोभवेत् अपिशब्दोबाह्य घटादिदृष्टांतार्थ यथासदैवघटादयोऽचेतनाएवतथादेहोप्य चेतनएक्सदाचैतन्यव्यभिचारित्वात् । चिच्छायाप्रस्ता हंकारव्याप्तिकतदेहेचैतन्यंतद्वियोगवियुज्यते ॥ तदा वाक्यसुधा. सुषुप्तःपुरुषोभवतीत्यर्थः । अहंकारलयोपाधिकमात्मनिसु पुस्त्यावस्थायोगमुक्ताहंकारस्थित्याधिकमेवात्मनोऽवस्था तरमपिनस्वतइत्याहाहंकृतिविकारोत्थइति ॥ १० ॥ कथसर्वःस्वमोजागरश्चसर्वोहंकारविकारोत्थइत्यपेक्षाया माह:-- अंतःकरणत्तिस्तुचितिच्छायैक्यमागता। वासनाःकल्पयत्येवबोधेऽविषयान्नहि ११ चितिच्छायैक्यमागतांतःकरणवृत्तिरेषास्वमेवासनाःकल्प यतिसंचिनोतियतएवैषाबोधप्रबोधेऽक्षौरंद्रियैर्बहिर्विषयान कल्पयतीतियोजना।एतदुक्तंभवति।बाह्यार्थविषयानुभवज निताःसंस्काराःस्वमहेतवइतिस्थितिस्तत्रबाह्यार्थानुभवआ गंतुक प्रतिविषयंनात्मनोधर्मस्तस्यकूटस्थत्वात् नापिदेहेंद्रि यमनसांअचेतनत्वनिश्चयात्तेषांअचेतनत्वंचक्रियावत्त्वात् किंतुदेहेंद्रियमनआत्मनांमिथःसंबंधेसतिजायतेसजायमा नोविषयानुभवःकस्यधर्मइतिनज्ञायते । नचवाच्यंमिलिते प्वेवप्रदर्शनादेषामेवायंधर्मइतिसंघातचेतनावादस्यशाकस्नु
वाक्यसुधा.
द्भिःनिरस्तत्वात् नतुदेहस्यरूपादिमत्त्वेनघटादिवदचेतन
त्वनिश्चयादिंद्रियाणांचभौतिकविषयकत्वेनभौतिकत्वाव
गमात्करणत्वेनकुठारादिवचैतन्याविधयित्वनिरातोपपत्ते
मनसश्चधार्मिग्राहकप्रमाणेनकरणत्वसिद्धौतस्यापींद्रियवद
चेतनत्वनिश्चयात्परिशेपादात्मनएवधर्मोविषयानुभवइति
चेत्मैवं तस्यनिर्गुणत्वश्रुतिविरोधेनपरिशेषाऽसिद्धेः अर्थ
प्रकाशोबुद्धिरितिप्रकाशगुणत्वाभिमतस्यज्ञानस्यप्रदपिप्र
काशवत् स्वाश्रयद्रव्यजन्मातिरेकेणाजन्मानुपपत्तिरि
तियुक्तिविरोधाच्चपरिशेषाऽसिद्धेः। तस्माद्विषयानुभवोवि
त्रमएव सचसत्यानृतोमथुनीभावलक्षणसत्यंचचिदात्मात
त्सत्यंसआत्मेतिश्रुतेः अनृतंतुमनआदिविकारगणोवाचारं
भणविकारोनामधेयमितिश्रुतेः । तथाचचिदात्मन्यध्या
सनिष्पन्नाहंकारस्यचैतन्यच्छायाव्याप्ततयासाभासस्य
विषयपर्यंतंजलूकावद्दी!भावलक्षणायावृत्तिःसाविषया
नुभवइत्यागतंतादृश्याश्चवृत्तेराश्रयोहंकाराभेदेनावनास
मानश्चिदात्माप्रमातत्वमनुभवन्जागरणावस्थावाविना
, वाक्य सुधा. वतिएवमहंकारविकाररूपोविषयानुभवः स्वाश्रयेसाभास हंकारएववासनारूपेणविलायते एवंसर्वजारवासनाश्रयमं तःकरणंचित्तादिदोषोत्पन्नमदृष्टादिनासमुद्बद्धवासनासुस्व यमेवग्राह्यग्राहकरूपेणविवर्त्तमानभवति यदातदातदधिष्ठा नतयातदनुगतश्चिदात्मास्वमावस्थावानिवभवति । अतोहं कारोपाधिनिबंधनमात्मनोवस्थात्रयंनस्वतइतिशुद्धएवात्मा सदेतिसर्वसुस्थमिति॥११॥ उपसंहरतिः मनोहंकृत्युपादानंलिंगमेकंजडात्मकं ॥ अव स्थात्रयभन्वेतिजायतेम्रियतेऽपिवा ।। १२॥ मनोहलतियामुपादीयतेइतिमनोहर्कत्युपादानमनसावास नाश्रयेणास्मीतिसंकल्पाहंकारेणचिदात्मभावमापन्नेनानि मन्यमानंलिंगंतच्चसमष्टिहिरण्यगर्भात्मनाएकंआविद्यकं तसूक्ष्मविकारत्वात् जडात्मकंभौतिकमेवतच्चाहंकारिक मित्यर्थः । एवंविधंयवलिंगलिंगशरीरंतदवस्थात्रयमन्वे तिअनुवर्त्ततेइति।जामत्स्वमयोःकथमनुवर्ततेतदाह । जाय वाक्यसुधा. तेम्रियतेपिवाउद्भवाभिभवरूपेणान्वेति । यतोजायतेनि यतेचसुप्तावित्यर्थः । वाशब्दाच्चतुर्थीवाकदाचितमूछा ख्यावस्थामन्तीत्यर्थः॥१२॥ तदेवं त्वंपदार्थःसर्वावस्थासाक्षित्वादवस्थातदाश्रयसंघात विलक्षणोऽविकारीकूटस्थोनित्यःप्रत्यगात्मेतिनिर्धारितः। इदानींतत्पदार्थशाधयितुमुपक्रमतेः- शक्तिद्वयंहिमायायाविक्षेपारतिरूपकाविक्ष पशक्तिर्लिंगादिब्रह्मांडांतंजगत्सृजेत्॥१३॥ अयमर्थः अस्तितावत्प्रत्यभिज्ञादिप्रमाणसिद्धंगतनौतिकं जगन्नामकार्यतञ्चकारणमंतरेणनसंभवतिकारणंचोपादानं निमित्तंचेतिद्विविधतदुभयंश्रुतितोयुक्तितश्चविचार्यमाणन परमार्थंकिंतुमायामयं यतोमायांतुप्रतिविद्यान्मायिनंतु महेश्वरमितिपरमेश्वराधिष्ठितांमायांप्रकृतिशब्देननिर्दिशती श्रुतिर्जगदुपादानमायाऽपरपर्यायमनाद्यज्ञानमाहातत्रैवोपक मेकिंकारणंब्रह्मोतिब्रह्मणोजगत्कारणत्वकिमुपादायेतिवि मृश्यकालस्वभावादिकारणतांमध्येप्रक्षिप्यतदासात्वमात्मा
वाक्यसुध.
प्यनीशःसुखदुःखहेतोरित्यतेनावधार्यते ध्यानयोगानुगता
अपश्यन्देवात्मशक्तिस्वगुणैर्निगूढामित्यात्मशक्तिजामास
मायामेवजगत्कारणनिधारयतिअंतेचनतस्यकार्यकरणंच
विद्यतेपरास्यशक्तिर्विविथैवश्रूयतेस्वाभाविकीज्ञानवलकि
याचेतितामेवमायामीश्वरशक्तिं ब्रह्मणःसर्वकारणत्वनिों
ढोढयति।तथात दंतहव्याकतमासीत्तमआसीत्तमसा
गूढमयेऽप्रकेतंअसदाइदममआसीत्ततोवैसदजायतेत्येवम
न्यपिश्रुतिवादाः मयाध्यक्षेणप्रकृतिः सूयतेसचराचरमि
त्यादिस्मृतिवादाश्चात्रानुसंध्येयाः युक्तितोपिमायामयमे
वजगत् । यतः संघातारंपरिणामपक्षानयुक्तिसहाः
तथाहिसंघातवादिभिःसर्वभावानांक्षणिकत्वांगीकारात्
क्षणिकानांचसहकारिसापेक्षतयातन्निरपेक्षतयावाका
रणत्वानुपपत्तेःसहकारिप्रतीक्षयानावस्थितौक्षणिकत्वा
ज्युपगमहानात्तदनपेक्ष्यजनकतायांसदाकार्योत्पादनप्रसं
मात् नचपूर्वक्षणस्योपादानतयाकारणंतदनन्वितत्वाद
न्वयेवाक्षणिकत्वक्षतेः नापिनिमित्ततयाक्षणिकयोरुपका
१८
वाक्यसुधा.
योपकारकावानिरूपणात्तस्मान्नसंघातवादोयुक्तिस
हः तथारंवादोपिअण्वोर्निरवयवत्वस्वीकारानिरवयव
योश्चसंयोगायोगात्संयोगेयोगेवोपचयाभावादनुपचितस्यो
पादानकारणत्वायोगादश्लिष्टएवपरिणामवादोपिनयुक्ति
भवस्यपूर्वरूपस्थितेनष्टेनारूपांतरोदयासंभावा?
णत्रयात्मकस्यप्रधानस्यसाम्यावस्थायांस्थितायांनमहदा
कारताविरोधात् तस्यांचनष्टायांप्रधानरूपकारणनाशान्नि
राश्रयोमहान्कथमुद्भवेत् । तदपिगुणत्रयस्यसत्त्वानोक्त
दोषप्रसंगइतिचेत् तत्रेदेवक्तव्यं तदाकिंगुणाअविरुताव
ततेविकतावेति । आद्येनतेमहतउपादानभवेयुः स्वरूपाव
स्थापच्युत्यनावात् द्वितीयेगुणावस्थानाशेनिरुपादान
स्यमहतोनोसादः एवमत्रोत्तरोत्तरपूर्वपूर्वस्यनाशेस्थितौवा
नोत्पत्तुमहतीतिमहतोहंकारोहंकारात्पंचतन्मात्राणितेत्यः
पंचमहाभूतानीत्यादिप्रक्रियानचातुरीधत्तइति। किंचनका
रणमविकत्यकार्यस्योत्पादोदृष्टोविक्रियमाणंवानित्यमेवे
तिशून्यावशेषजगदापयेतेत्यास्तांविस्तारः । तथासृज्यम
1
वाक्यसुधा. पिविचार्यमाणनसत्तस्यसिद्धस्यानिष्पादविरोधातानाप्यस तस्यनिष्पादासंभावात् । नहिलोहकारस्यकूटःसमुत्पाद तेत्यंतासदाखपुष्पमितिपरिशेषान्मायात्मकंकारणंमाया मयंचकार्यमितितदेतदाह शक्तिद्वयहीति मायायाःसाभा सायाःशक्तिद्वयहिप्रसिद्धसर्वजनेयुकिंतत् । विशेषरूपैका शक्तिरावृतिरपरानाहंब्रह्ममनुष्योहमितिसर्वेषामनुभवइ त्यर्थः । तत्रविक्षेपशक्तिद्वारकमायाकार्यमाहविक्षेपेति लिंगसूक्ष्मशरीरंसप्तदशात्मकंतदादौप्रथमयस्यब्रह्मांडस्थू लशरीरंसमष्टिरूपमतेयस्यतल्लिंगादिब्रह्मांडांतंजगत्सजेद्विक्षे पशक्तिस्तत्प्रधानमज्ञानमित्यर्थः । तदुक्तमभियुक्तः आककाद्यविक्षिपति(१)संस्फुरदात्मरूपंजीवेश्वरत्वजगदा कृतिभिषैव । अज्ञानमावरणविनमशक्तियागादात्मत्वमा त्रविषयाश्रयताबलेनेति ॥ १३ ॥ यतोमायामयेसृष्टरतोरज्जुवदधिष्ठानतयाविवर्तमानमाया सत्तास्फूर्तिप्रदत्वनानुगतमात्रणकूटस्थमपिब्रह्मकारणमित्य च्यतेनपरमार्थतइत्येतदाह- १ २० वाक्यसुधा. सृष्टि मब्रह्मरूपेसञ्चिदानंदवस्तुनि । अंबुफेनादिवत्सर्वनामरूपप्रसारण।।१४॥ ब्रह्मरूपेअव्यावृत्तेऽनुगतपूर्णचित्स्वरूपेसृष्टि मरूपन सारणमित्यन्वयः नामवाचकःशब्दोरूपंवाच्याकारःवाच्य वाचकाकारस्यप्रसारणंप्रकटीकरणपूर्वपूर्वजांतिवासनया तथोल्लेखइत्यर्थः। तदेतज्जगदधिष्ठानभूतब्रह्मान्यत्वानन्य त्याच्यामनिर्वचनीयमेवनपरमार्थमित्यत्रदृष्टांतमाहअंबुफे नादिवत्सर्वमिति । सर्वमेतदंबुनिफेनादिवत्द्रष्टव्यनांबुनि दृश्यमानफेनाद्यंबुनोमिन्नतेनविनानिरूप्यमाणस्यस्वरू पस्याभावात् पार्थिवाग्न्युपशामकत्वाचानाप्यभिन्नमंबुनः पृथगुपलंभादद्रव्यात्मकत्वाच्चानापिभिन्नाभिन्नंविरोधात् । एवंजगदपिनचिदात्मनोभिन्नंचिद्रूपाबहिःस्वातंत्र्येणानिरू पणात् । नाप्यभिन्नपृथगुपलभादेवइंद्रियगोचरत्वाज्जडत्वा स्थूलत्वादनेकप्रकारत्वाचेति । सच्चिदानंदवस्तुनीति ब्रह्म गोविरोषणतस्यस्वरूपनिर्देशपरंसदितिसदैकरूपत्वमागमा पायिप्रपंचवैलक्षण्यमुच्यते ॥ चिदितिसनातनाप्लुतप्रका वाक्यसुधा. शात्मकत्वोक्तयाजडप्रपंचवैलक्षण्यमीयते आनंदमिति ।। परमानंदरूपत्वकथनेनपरमपुरुषार्थरूपत्वद्योतनात्तुच्छदुः खाकारप्रपंचविलक्षणतोक्तावस्तुशब्दोवाधाभावलक्षय ति । तेनदृष्टनष्टस्वरूपतयास्वमतुल्यजगद्वैलक्षण्यमुक्तं तथाचकार्यकारणरूपेणवाच्यवाचकरूपेणोपकार्योपकार करूपेणविभाव्यमानप्रपंचविलक्षणस्यब्रह्मणः सृष्टत्वादि मायामयमेवेत्यर्थः ॥ १४॥ एवंमायाविक्षेपशक्तिनिबंधनंप्रपंचविश्नममुपपायावरणश क्तिप्रयुक्तंब्रह्मस्वरूपाविवेकलक्षणंसंसारित्वमात्मनोदर्श यति-- अंतर्दृग्दृश्ययोःदंबहिश्चब्रह्मसर्गयोःयार णोत्यपराशक्तिःसासंसारस्यकारणं॥१५॥ अंतःप्रतीचिअहमित्यस्मिन्नवनासेयाशक्तिर्दश आत्मनोदृश्यान्दंवैलक्षण्यंदृश्यस्यवाग्विलक्षणत्वमा णोतितथाबहिश्चपरांचिविषयेब्रह्मणःपरिपूर्णस्य सृज्यत इतिसर्गप्रपंचस्यमिथानेदविलक्षणस्वभावंसत्यज्ञानानं २२ वाक्यसुधा. दैकरसस्यसमात्मत्वंतविपरीतरूपत्वं वावृणोतिसापरावि क्षेपरूपायाअन्यासंसारस्यप्रसिद्धस्यकारणस्वरूपास्फुरणा विपरीतरूपतामात्मनोमन्यमानः स्वमइवसंसरतिलोकइ ति प्रसिद्धत्वान्नात्रयुक्तानुसंधानेन कार्यमित्यभिप्रायः१५ सासंसारस्यकारणमित्युक्तंतत्रतयाशक्त्याकः संसरतीत्यपे क्षायांसंसारिस्वरूपविविच्यदर्शयन्संसारस्यमायामयत्व माह- साक्षिणःपुरतोभातिलिंगदेहेनसंयुतः॥चिति च्छायासमावेशाज्जीवःस्याझ्यावहारिकः१६॥ साक्षिणः सर्वातरस्यनत्यगात्मनःपुरतोऽग्रेऽभ्य, वधानेनयल्लिंगमहंकारपधानप्राणांतःकरणलक्षणदेहेनस्थू लेनसंयुतंभातितल्लिंगंचितिच्छायासमावेशाच्चैतन्याभास व्यातत्वाव्यावहारिकोव्यवहारसिद्धोजीवः स्यात्कर्तामो काहंमनुष्यःकाणोबधिरइत्येवंव्यवहाभवतीत्यर्थः१६॥ दृश्यस्यगात्मन्यध्यासनिबंधनंजीवत्वंव्यवहाराश्रयमु वाक्यसुधा. २३ क्त्वाबंधमोक्षयोर्वैयधिकरण्यशंकानिवृत्तयेचिदात्मनोऽना स्मन्यध्यासनिबंधनंजीवत्वमाह- अस्यजीवत्वमारोपात्साक्षिण्यपिचभासते। आटतौतुविनष्टायांभेदजातंप्रयातितत्१७॥ अस्यपूर्वोक्तलिंगस्यजीवत्वमारोपादध्यासात् । साक्षिण्यपिप्रत्यक्चिदात्मन्यपिचनासतेतथाचसंघातवि लक्षणःसाक्ष्यपिसंघाततादात्म्याध्यासात्संसार्येवनासते नपरमार्थतःकोपिसंसारीजीवोऽस्तीत्यभिप्रायः आत्मा ज्ञाननिबंधनमात्मनोबंधनमित्यत्रान्वयमुक्त्वाव्यतिरेकमा ह । आवृताविति।आत्मतत्त्वावृतोअज्ञानरूपायांविनष्टा यांतुतद्भेदजातंपूर्वोक्तलिंगंजीवःसाक्षीत्येवलक्षणविशेष जातंप्रयातिप्रकर्षणगच्छतिबाधितंभवतीत्यर्थः॥ १७ ॥ तदेवमन्वयव्यतिरेकाच्यामावरणशक्तिप्रधानाज्ञाननि बंधनमात्मनः संसारित्वमुक्त्वाविक्षेपशक्तिप्रधानाज्ञाननि बंधनमेवब्रह्मणः सप्रपंचत्वमित्येतत्पपंचयति- क २४ वाक्यसुधा. सर्गस्यब्रह्मणस्तहत्भेदमात्र त्यतिष्ठति ॥ याशक्तिस्तदशा ब्रह्माविकृतत्वेनभासते॥१८॥ यथादृश्यस्यप्रत्यगदृश्येविवेकाच्छादिकाआवरणश क्तिस्तद्वद्याशक्तिः विक्षेपात्मिकाब्रह्मणः परमात्मनः सका शात्सर्गस्यसृज्यप्रपंचस्यभेदंब्रह्मासंसर्गित्वलक्षणं विशेष मावृत्यतिष्ठतितद्वशात्तन्महिनाब्रह्माविकतत्वनसप्रपंचत्वे नभासते ॥ जगत्सृष्टिस्थितिप्रलयकारणब्रह्म सर्वकर्मासर्व कामइत्यादौसप्रपंचमिवप्रतीयतइत्यर्थः ॥ १८ ॥ अन्वयमुक्त्वाव्यतिरेकमाह--- अत्राप्यातिनाशेनविभाति ब्रह्मसर्गयोः॥भेदस्ततोविकारः स्यात्सर्गेनब्रह्मणिकचित्॥१९॥ अत्रापिब्रह्मण्यावृतिनाशेआवरणरूपाविद्याविनाशे सतिब्रह्मसर्गयोः ब्रह्ममपंचयोभदोविशेषोनविभातिइदं ब्र वाक्यमुधा. २५ सकारणमिदंजगत्कार्यमितियोविशेषःस्थितः सोविद्यावि क्षेपरूपत्वादविद्यायांनिवृत्तायांनिवृत्तः पुनर्नानासतेइत्य र्थः । यतएवमविद्यामायादिशब्दवाच्याज्ञानकल्पितोवि कारोऽतः कारणात्सर्गेसर्गनिमित्तेक्वचित्कदाचिदपिब्रह्मणि नविकारःस्यान्नभवतीत्यर्थः ॥ १९ ॥ एतावताग्रंथसंदर्जेणसदैवासंगकूटस्थएवात्मासाक्षीत्वं पदार्थः तथासदैवनिष्प्रपंचकूटस्थमेवब्रह्मतत्पदार्थः उ भयत्रभासमानोविशेषगुणोमायामयत्वात्कालत्रयेपिनपर मार्थ इतिनतत्कृतोविशेषः कोप्यात्मवस्तुनिसंभाव्यतेइति शोधितौतत्त्वंपदार्थो।इदानींतयोरेकत्ववाक्यार्थकथयितुंत त्वंपदयोर्वाच्यार्थलक्ष्यार्थचक्रमेणश्लोकदयेनोपदिशति-- अस्तिभातिप्रियंरूपनामचेत्यं शपंचकं ॥आयंत्रयंब्रह्मरूपं जगद्रूपंततोडयं ॥ २० ॥ यथावाोकस्मिन्देहेतद्वद्वा घटेचअस्तीतिसत्तोल्लि ख्यतेभातीतिस्फुरताप्रियमित्युनुकूलवेदनीयतयासुखात्म २६ वाक्यसुधा. ता तथारूपमाकारविशेषः करचरणादिव्यूहलक्षणंपृथुबु धोदराकारलक्षणंच नामशरीरंघटइतिचेत्येवपंचक्रयदस्ति तत्रायंत्रयंसत्तास्फुरतामातिचेतिब्रह्मरूपंप्रत्यग्ब्रह्मणः स्थ रूपंपरमार्थततः पुरस्ताद्यदुक्तंद्वयंनामरूपंचेतितज्जगद्रूपमा यामयमनृतंवाचारंमणत्वश्रवणादित्यर्थः ॥ एतेनसर्वए वबाह्याभ्यंतरानावाव्याख्याताः ॥ तथाचैतन्यचैकमवि विक्तंसत्तत्त्वंपदयोर्वाच्यभवतीतिसिदं । २० ।। इदानींपदयोर्लक्ष्यार्थवाच्यार्थंकदेशमुद्धृत्योपदिशति- खवाय्वाग्निजलोर्वीषुदेवतिर्य करादिषु ॥अभिन्नात्सच्चिदा नंदाद्भिद्येतरूपनामनी॥२१॥ खादिषुपंचसुअधिनतेषुदेवतिर्यगादिभेदमिन्नेष्वध्यात्मेषु चअभिन्नादव्यावृतात्सच्चिदानंदादधिष्ठानरूपात्साक्षिणःरू पनामनीप्रतिविषयंभिद्यतेतथाचसर्वपदार्थेष्वनुस्यूतंसच्चिदा नंदात्मकंवस्तुतत्त्वंपदयोलक्ष्यमित्यर्थः । ननुकथंजगतिवि भाव्यमानानांसत्तास्फूर्तानन्दानांप्रत्यग्ब्रह्मरूपत्वमिदमिति वाक्यसुधा. परागरूपेणेवप्रतीयमानत्वादितिचेत् । उच्यते। विचार्यमा णेषुविषयेषुसत्तादेरसंभवएव । तथाहिसदिदमितिपराग्रूप मुल्लिख्यतेतत्रास्तीदमितियदृह्यतेतदेवसमयांतरेऽसत्बुद्धि गम्यंदृश्यतेनास्तीदमिहेतितथाचास्तित्वनास्तित्वयारेकत्र विरोधान्नसत्त्वमसत्त्ववाविषयस्यनिश्चेतुशक्यतेकालोदे नोभयधर्मोपपत्तेनदोषइतिचेत्तर्हिशुक्तिरजतस्यापिसत्त्वा सत्त्वेपरमार्थस्यातामितिनचांतिबाधव्यवहारःक्कापीतिप्रस ज्येत तस्माद्विशेषेषुव्यभिचरत्सुयदिदमितिसाव्यभिचार तयासर्वत्रावभासते तदेवैकंसत्तस्यनक्कापिनकदापिव्यमि चारइतितत्सत्यं विषयास्तुव्यभिचरंतोमिथ्येतिसिद्धं तत्स त्यंतद्ब्रह्मतत्परंसआत्मेतिश्रुतेः। तस्येदमितिपराग्रूपणो ल्लेखस्तुपरागध्यस्तविषयोपरागनिबंधनोविश्वमोहंकारादि देहातेष्वहमितिप्रत्ययोपिप्रत्यक्त्वाध्यासापेक्ष्यइतिसर्वम नवयं एवंघटःस्फुरतिपटःस्फुरतिघदइष्टः पट इष्टः इत्यत्रा पिघटपटादीनांमिथोव्यभिचारेपिस्फुरत्त्वस्येष्टस्यचस्वतो विशेषानिरूपणाव्याभिचरत्सुविशेषेष्वव्यभिचरतोःस्फु २८ चाक्यसुधा- रत्त्वेष्टत्वयोः सर्वानुस्यूतसन्मात्रस्वभावाव्यभिचारादा ताब्रह्मात्मरूपताअतएवश्रुतिःज्ञानंब्रह्म आनंदोब्रह्मविज्ञा नमानदंब्रह्मेतिएतेनानंदमपिब्रह्मणोदेशकालवस्तुपरिच्छे दराहित्यमुक्तमेवभवतिदेशकालयोरपिजडत्वेनपराग्वस्तु वदध्यस्तत्वेनमिथ्यात्वादिति । तस्मान्नामरूपयोय॑नि चारिणायुंदासेनसत्तास्फुरणानंदनागौब्रह्मात्मपदात्याल क्षयित्वाहंब्रह्मास्मीतिवाक्यार्थीनुसंधेयःतत्रापिसत्तारूपेण परागर्थव्यावृत्तंब्रह्मतत्पदेनलक्षणीयंस्फुरणपरप्रेमास्पदत्वे नदेहाद्यहंकारप्रत्यगर्थव्यावृत्तंआत्मात्वं दार्थोलक्षणीयः अनयोश्चलक्षणयापदात्स्फुरणदशायांच्यावर्त्यभेदा दे भासमानेपिनस्वरूपभेदोस्तिस्फुरणत्वराहित्यत्वेसचाया जडत्वापत्तेः सत्ताव्यावृत्तस्यचस्फुरणस्यासत्त्वप्रसंगात्स तास्फुरताविरहिणश्चानंदस्यादर्शनादसंभवाच्चेत्येवमखंड वाक्यार्थप्रतिपत्तिसिद्धिरिति ॥ २३ ॥ एवं विज्ञातवाक्यार्थस्यदृढतरवाक्यार्थरूपाखंडब्रह्मा त्मसाक्षात्कारोदयेसाधनविशेषमुपदिशति- २९ वाक्यसुधा. उपेक्ष्यनामरूपेद्रेसच्चिदानं दवस्तुनि ॥समाधिसर्वदाकु र्यादृदयेवाथवाबहिः॥२२॥ सपूर्वोक्तप्रकारेणवाच्यांशभूतेनामरूपेद्वेअप्युपेक्षावस्तु तयाबाधित्वासच्चिदानंदवस्तुनिलक्ष्येखंडाथैएकरसेसर्वदा समाधिंकुर्यात्समाधिर्नामचित्तस्याखण्डात्मादयब्रह्मताव न्मात्रेणस्थिरीक्षावःतंकुर्यादित्यर्थः।कुत्रस्थानेसमाधिःक नव्यइत्यपेक्षायांकर्तुर्बुद्धिसामर्थ्यतारतम्येनस्थानभेदमा ह॥ हृदयेवाथवाबहिरिति ॥ २२॥ तत्रांतर्बहिश्चब्रह्मणिकर्त्तव्यसमाधिवेधाविभज्यव्युत्पाद यतिसप्तभिःश्लोकैःतत्रचतुभिर्हृदयालंबनसमाधिजेदानाह सविकल्पोऽविकल्पश्चसमा धिदिविधोहदि ॥ दृश्यशब्दा नुवेधेनसविकल्पःपुनर्दिधा॥२३॥ ज्ञातृज्ञानज्ञेयविकल्पानांसम्यग्विलयानपेक्षतयाऽख ण्डसच्चिदानंदात्मनिचित्तसमाधानंसविकल्पकसमाधिः ३० वाक्यसुधा. उक्तविकल्पानांसम्यग्लयापेक्षयायथोक्तात्मनिचित्तसमा धानंसविकल्पोनिर्विकल्पकसमाधिरिति । हृदिविविधस माधिरित्यर्थः प्रथमपुनद्वैधाविभज्यतेदृश्येति ॥ दृश्यानु वेधेनप्रकारेणशब्दानुवेधेनचप्रकारेणसविकल्पकः समाधिः पुनधेित्यर्थः ॥२३॥ तत्रायव्युत्पादयति- कामाद्याश्चित्तसादृश्यात्तत्साक्षि त्वनचेतनां ध्यायेदृश्यानुविद्धो यंसमाधिःसविकल्पकः॥२४॥ कामाद्याश्चित्तस्यैववृत्तयःदृश्याच्चित्तवदाविर्भावतिरोभाव धर्मकत्वात्साचित्तावस्थायामेवविभाव्यमानत्वात्सुषुप्ताव भावाचित्तवत्सदादृश्यत्वादाचित्तधानात्मनोधर्मायतोऽत स्तत्साक्षित्वेनविभज्यावभासमानांचेतनास्वप्रकाशचिदा त्मस्वभावभूतांध्यायेदालोच्यतदेकमनस्तयावस्थानध्या नंतत्कुर्यात् ॥ यदेवंविधंध्यानमयंदृश्यानुविधोनामसवि कल्पकः समाधिरुच्यतइतियोजना ॥ २४ ॥ ।
वाक्यसुधा. ३१ एवंस्थूलसविकल्पकसमाधिमभिधायसूक्ष्मंसविकल्प कद्वितीयंसमाधिमाह- असंगःसच्चिदानंदखप्रभो? तवर्जितः॥अस्मीतिशब्दविडो यंसविकल्पःसमाहितः॥२५॥ असंगः कामादिवृत्तिमञ्चित्तसंगरहितः सच्चिदानंदोन तजडदुःखसंसर्गरहितः स्वपभोऽलुप्तप्रकाशस्वभावोद्वैतव जितोनिवृत्तसमस्तद्वैतावभासोयएवंविधः प्रत्यगात्मासाह मस्मीतिशब्देनविद्धोयंसविकल्पः समाहितःयएवंचिचसमा धानेनसंपादितः शब्दानुविद्धः सविकल्पकसमाधिरि त्यर्थः ॥ २५॥ एवंयत्नतः क्रमेणसमाधिद्वयसंपत्तौस्वयमेवभक्तनिर्वि कल्पसमाधिमुपदिशति- स्वानुभूतिरसावेशादृश्यशब्दा बुपेक्ष्यतु निर्विकल्पःसमाधिः स्यान्निवातस्थलदीपवत्॥२६॥ ६. - .
३२ वाक्यसुधा. स्वानुभूतिसच्चिदानंदानुजवः सएवरसः परमानंदरसोवै रसइतिश्रुतिः तस्मिन्नावशाह्यवेशाञ्चित्तस्यतदेकाकारताप त्तिः तस्मात्स्वानुसूतिरसावेशात्दृश्यंकामादिवृत्तिमात्म नः शब्दोस्मीतिपूर्वश्लोकेयउक्तः सतावुनौदृश्यशब्दावु पेक्ष्याभ्यांसमुद्भवंतमनादृत्यनिर्वातस्थलदीपवञ्चित्तस्याव स्थाननिर्विकल्पकसमाधिः स्यादितियोजनादृश्यशब्दावु पेक्ष्यतुपुनःस्वानुभूतिरसावेशाद्यञ्चित्तस्योक्तलक्षणमवस्था नंसनिर्विकल्पकसमाधिःस्यादितिवासंबंधः ॥ २६ ॥ इदानीमिदमेवसमाधित्रयंबाह्यावलंवनंव्युत्पादयसि- हृदिचबाह्यादेशेपियस्मिनक स्भिश्चवस्तुनिसमाधिराद्यास न्मात्रनामरूपेपृथस्थितः॥२७॥ यस्मिन्कमिश्चवस्तुनिसूर्यादौयत्सन्मात्रसत्तामात्रम व्यभिचरितस्वरूपतस्मिन्सन्मात्रेयश्चित्तसमाधानंसमाधि राद्यादृश्यानुविद्धानामसविकल्पकइत्यर्थः । अस्यसमाधे ३ चाक्यसुधा. विशेषणनामरूपपृथकस्थितइतिनामरूपांशपरित्यागेनस न्मात्रेस्थितइत्यर्थः ॥२७॥ द्वितीयंशब्दानुविधंसविकल्पकसमाधिमाह--- अखंडैकरसंवस्तुसच्चिदानंदल क्षणं॥इत्यविच्छिन्नचित्तेऽयंसमा धिर्मध्यमोभवेत् ॥ २८॥ स्पष्टार्थः ॥ २८॥ अत्रापिनिर्विकल्पकंसमाधिमाह- स्तव्यभावोरसास्वादात्तृती यःपूर्ववन्मतः॥एतैःसमाधिभिःष इभिनयेत्कालनिरंतरं॥२९॥ एतैरुक्तैः पतिर्बाह्यालंबनैर्हृदयाघारैश्चचित्तसमाधिधि निरंतरंकालंनयेदएतेषामन्यतमेनसमाधिनाविनाक्षणमात्र मपिनतिष्टेदित्यर्थः ॥ २९ ॥ उक्तायाःसमाधिकर्तव्यतायाअवधिसूचयन्नुक्तसमाधि - -
वाक्यसुधा.
परिपाकलब्धनित्यसमाधिमयलायतिमाह--
देहाभिमानेगलितेविज्ञातेपर
मात्मनि।यत्रयत्रमनोयाति
तत्रतत्रसमाधयः॥३०॥
परमात्मनिसच्चिदानंदाद्वयेप्रत्यगेकरसेविज्ञातेसाक्षाद्भाव
मापन्नेसतिप्राचीनेदेहाभिमानेमनुष्योहब्राह्मणइत्यादिदेहो
पनिबंधाभिमानेगलितेऽहरिवपरित्यक्तस्वनिर्मोकायगतेस
तियत्रयत्रचक्षुरादिप्रचारभूमौमनोयातिस्वभावतःप्रवर्तते
तत्रतत्रसर्वत्रसमाधयःपूर्वोक्ताएवनामरूपविकारादननुबंधि
नःसच्चिदानंदवस्तुमात्राकारचित्तवृत्तिरूपानिरंतरंजवंती
त्यर्थः ॥ ३०॥
एवंसाक्षात्काररूपेसमाधौसतियद्भवतितन्मुंडकवाक्ये
नाविष्करोति-
भिद्यतेहदयग्रंथिश्छिद्यतेसर्वसं
शयाः।क्षीयतेचास्यकर्माणि
तस्मिन्द्रष्टेपरावरे ॥३१॥
वाक्यसुधा. हृदयग्रंथिरहंकाराख्योभियतेविदीर्य्यते । तस्मिन्न नेतन्मूलास्तदाश्रिताःसर्वसंशयाआत्मविषया छिद्यतेनश्यं तेसकृन्नष्टानामन्येषांपुनःकर्मवशात्प्रादुर्भावोभविष्यती तिनाशंकाकार्येत्याह। क्षीयंतइति ।अस्यविदुषःकर्माणिपु ण्यपापलक्षणानिसंचितानिसर्वाणिक्षीयंतेफलपर्यंतस्वका र्यमनुत्पाविनश्यंतीत्यर्थः ज्ञानावस्थायांप्रमादकृतान्य पितानिनसंश्लिष्यंतइतिचकारणसमुच्चीयते ।प्रारब्धफला नांतुकर्मणांभोगादेवनाशइतिद्रष्टव्याएतत्सर्वकदाभवतीत्य पेक्षायामाहातस्मिन्निति । तस्मिन्परावरेपरब्रह्मादिअवरम नुष्यादिपरंचावरंचपरावरंसर्वात्मकंब्रह्मतस्मिन्ब्रह्मणिदृष्टे साक्षात्कृतेप्रपंचविलायनेनप्रत्यगेकरसतयोपलब्धेसती त्यर्थः॥ ३१॥ तदेवमादितआरश्यतत्त्वंपदार्थशोधनपूर्वकमहावाक्या र्थतत्त्वज्ञानसाक्षात्कारपर्यंतसमाधानसफलंचोपदिष्टासमा तः शास्त्रार्थः सर्वोपि ॥ तत्रप्रत्यग्ब्रह्मणोरकत्ववाक्यार्थः इतियत्पुरापेदिष्टंतत्रचिदाभासस्यस्थूलसूक्ष्मोपाधिविशि ३६ वाक्यसुधा. टजीवस्यप्रत्यक्त्वव्युदासायसाक्षिणःपुरतानातिलिंग देहे नसंयुत।चितिच्छायासमावेशाज्जीवस्याव्यावहारिकः। अस्यजीवत्वमारोपात्साक्षिण्यपिनासतइतियोविशेषः सू चितस्तमिदानीप्रपंचयितुंजीवाख्यप्रकरणमिदमारत्यते-- अवच्छिन्नश्चिदाभासस्तृतीयः स्वप्नकल्पितः॥विज्ञेयस्त्रिविधो जीवस्तवाद्यःपारमार्थिकः॥३२॥ अवच्छिन्नोपटाकाशादिवत्पाणादिसंघातावच्छिन्नविदा त्माप्रत्यगात्मेत्येकाविधा जीवस्यचिदानासउदकइबसूर्या देरूपादौचित्मतिबिंबउपाधिधर्मारकंदितोजोवइतिद्वितीया विधा स्वमकल्पितोदेहोहंमनुष्योहामित्येवस्वमइवस्थूलसं घातानेदेनकल्पितोजीवइतितृतीयाविधा इत्येवंजीवोहमि त्येवज्ञासमानात्मात्रिवियोज्ञेयःतत्रतेषुमध्येआयोअव च्छिन्न पारमार्थिकोजीवोविज्ञेय इतियोजना ॥ ३२ ॥ कथमवच्छिन्नस्यपारमार्थिकत्वमित्यतआह- अवच्छेदःकल्पितःस्यादवच्छे वाक्यसुधा. ३७ द्यतुवास्तवातस्मिन्जीवत्वमारो पाब्रह्मत्वंतुस्वभावतः॥३३॥ निरवयवस्यमहतोभूतस्यचिद्धातोःमाणादिभिरवच्छेदः कोनामस्यात्सांशस्यखलुस्तंभादेर्मूलदेशेलविवरेणावच्छे दोयेचोत्तरावच्छादनवंशपाल्यादिनानैवमस्यावच्छेदोपिनि रंशत्वादेवनापिसर्पगिलितमंडूकइवसर्पणप्राणादिनायमव च्छिद्यतेपूर्णतयातदसंभवात् । निष्फलंनिःक्रियंशांतंपूर्णम दःपूर्णमितिश्रुतेः। नापिहस्तीवहस्तिपकेनस्वेच्छानुविधेयत याप्राणादिनायमवच्छिद्यतेप्राणादेरेवजडस्यचिदात्मपरतं त्रतयावैपरीत्यात् । यःप्राणमंतरोयमयतियःसर्वाणिभूता न्यंतरोयमयतीतिश्रुतेः। एतेनमृदादिनेवघटादेःकारणतया प्राणादिनावच्छेद्यताचिदात्मनःप्रत्युक्तानचेहप्रकारांतरं पारमार्थिकंसंभवतितस्माच्चिदात्मनोवच्छेदःकल्पितःस्या दितिकथंतर्युपाध्यवच्छिन्नश्चिदात्माजीवइतिव्यवहाराव भासावितिचेउपाधेःपरिच्छिन्नादिनाचिदात्मनःपृथग्वि विक्ततयानुपलंभादितिवदामःयथाराहुःस्वरूपेणसन्नपिचं
वाक्यसुधा.
द्रादित्यमंडलोपरागविनानप्रत्यक्षेणविज्ञाव्यतेतथाचिदा
त्माप्यहमुपसगमंतरेणनविशेषतःपरिस्फुरतिअतोविशेषा
कारावभासस्यपरिच्छिन्नोपाधिपरतंत्रत्वादुपाध्यवच्छिन्न
चिदात्माजीवइतिव्यवहारावभासयोरुपपतिरितिसर्वसमं
जसंअवच्छेदस्यावच्छेद्यावच्छेदकोभयनिरूपणीयस्यक
ल्पितत्वेतन्निरूपकयोरपितयो कल्पितत्वंस्यात्ततश्चनकि
चित्परमार्थसदस्तीतिशून्यमतापत्तिरित्यतआहाअवच्छे
द्यतुवास्तवमिति।अयमर्थः अवच्छेदकस्यमाणाधुपाघेरवा
स्तवत्वात्तत्कृतावच्छेदोप्यवास्तवः स्यान्नत्ववच्छेद्यचि
दात्मतत्त्वमपिनहिचरणाभरणेसारोपितेहिकृतचरणवेष्टन
स्यावास्तवत्वेपिचरणतेनबेष्टमानमवास्तवंभवतितदेतदाहा
वच्छेद्यतुवास्तवपरमार्थमेवेत्यर्थः अतइदंसिद्धमित्युपसंह
रतिातस्मिन्निति।तस्मिन् वास्तवेचिदात्मनिजीवत्वंसंसारि
त्वमारोपातपरिच्छेदकोपाध्यविवेकोत्थानममात्रप्रामाणि
कंजीवत्वंतस्येत्यर्थः ॥ स्वभावतस्तुब्रह्मत्वंपूर्णत्वमेवनपरि
च्छिन्नत्वंजीवत्वमेवेत्यर्थः ॥ ३३ ॥
वाक्यसुधा. तत्राद्यःपारमार्थिकइत्यस्मिन्नुक्तविशेषेप्रयोजनमाह- अवच्छिन्नस्यजीवस्यतादात्म्य ब्रह्मणासह॥तत्वमस्यादिवाक्या निजगुर्नेतरजीवयोः॥३४॥ तत्त्वमस्यादिवाक्यानितत्त्वमस्यादिभिः पदैरुपाध्यव च्छिन्नंजीवमनूदतस्यावच्छेद्यस्यावच्छेदावच्छेदकविशे षणांशव्युदासेनलक्षणयातत्पदलक्ष्येणब्रह्मणासहतादा स्यंब्रह्मैकस्वभावंजगुः कथयंतीत्यर्थः नपुनरितरजीव योश्चिदाभासस्वमकल्पितयोब्रह्मतादाम्यंजगुस्तयोःस्वरू प्रतएवकल्पितत्वमिथ्यात्वादित्यर्थः ॥ ३४ ॥ कथंतयोमिथ्यात्वमित्यपेक्षायांतदुपपादयति-- ब्रह्मण्यवस्थितामायाविक्षेपार तिरूपका॥आवृत्याखंडतातस्मि अगज्जीवौप्रकल्पयेत् ॥३५॥ विक्षेपावरणाभ्यांनिरूप्यमाणाचिदात्म्येब्रह्मण्यवस्थि तामायातास्मिन्ब्रह्माणस्वाभावकीमखंडतामावृत्याच्छाय वाक्यसुधा. दाभासेस्थितानिद्रेत्युक्तमितिद्रष्टव्यंयद्वापूर्वश्लोकेचिदाना सोजीवस्तभोग्यंचभूतभौतिकरूपंजगव्यावहारिकमुभयंस चिदानदंब्रह्मचैतन्यस्थानाचविद्याविक्षिप्तमामोक्षदंडाय मानमुदित अस्मिंस्तुश्लोकेचिदानासेस्थितानिनेतिआवर णप्रधानाप्रत्यगविद्योच्यतेतयास्वमकल्पितोजीवस्तभोग्यं जगत्प्रातिभासिकमुनयंप्रतिपादितमितितात्पर्यादृष्ट व्यः। व्याख्यातं ॥ ३७॥ एतयोःकथंप्रातिनासिकत्वमित्यपेक्षायामाह प्रतीतिकालएवैतेस्थितत्वात्प्रा तिभासिक।नहिवनप्रबुद्धस्यपु नःस्वस्थितिस्तयोः॥ ३८॥ एतेअनंतरोत्तेजीवजगतीप्रतीतिकालएवप्रतिक्षाससम यएवनपुनरस्तान्नपश्चातस्थितत्वालातिनासिकेउच्यतेइ त्यर्थः।उक्तंप्रतीतिकालमात्रनासत्वमनुभवोत्याद्रढयति। नहीतिस्वमात्प्रबुद्धस्यावस्थांतरंगतस्यपुंसः पूर्वदृष्टयोस योः पुनः स्वमनिवृत्युत्तरकालमपि । नहिस्वमेस्थितिर वाक्यसुधा. स्तितथादर्शनादेवेत्यर्थः स्वमदृष्टस्यावस्थांतरेस्वमांतरेवा संवादाभावात्प्रतिभासकालमात्रतयासिद्धप्रतिभासकत्व मितिभावः ॥ ३८॥ तदेवंजीवत्रयविभज्यतत्रचिदानासस्वमप्रकल्पितयो जीवयोः सभोग्ययोरुत्पत्तिकारणमनाद्यज्ञानगतकार्यकर णावस्थाद्वयंप्रदर्थेदानीत्रयाणांजीवानांमिथोभेदमनुभवा वष्टंभेनोपपादयतित्रिभिः- प्रातिभासिकजीवस्तुजगत्तत्पा तिभासिकम् ॥वास्तवमन्यतेय स्तुमिथ्येतिव्यवहारकः॥ ३९ ॥ प्रातिनासिकजीवस्तुयःसतुजगतस्वमकल्पितंशुक्तिरज तादिकंचपातिनासिकंजगदास्तवमन्यतेपरमार्थमेतदित्यव गच्छतीतियोजनात्यस्तुपुनः प्रागुक्तजगमिथ्यतिमन्य तेसव्यावहारिकोजीवइतियोजना ॥ ३९ ॥ एवंप्रातिभासिकजीवाव्यावहारिकस्यभेदमुाक्त्वात स्मात्पारमार्थिकस्यजीवस्यभेदमाह--- ४४ वाक्यसुधा. व्यावहारिकजीवस्तुजगत्तड्या हारिक।सत्यं प्रत्येतिमिथ्येतिम न्यतेपारमार्थिकः॥४०॥ यस्तत्व्यावहारिकजाग्रहशापन्नमविसंवादित्वेनाभिम तंजगत्सत्यमवितर्थकालत्रयाबाध्यमितिप्रत्येतिप्रतिपह्य तेसतुव्यावहारिकजीवइतियोजनायस्त्वेतजगमिथ्ये तिमन्यतेसपारमार्थिकोजीवइत्यर्थः ॥ १० ॥ इदानींपारमार्थिकस्यजीवस्यपूर्वस्माद्रेदमाचक्षाणस्त स्याद्वयब्रह्मैक्ययोग्यतांसूचयति- पारमार्थिकजीवस्तुब्रह्मैकंपार माथिकं। प्रत्येतिवीक्षतेनान्य द्वीक्षेतत्वनृतात्मना ॥४१ ॥ यस्तुब्रह्मैवैकंपारमार्थिकामतिप्रत्यतिब्रह्मणोन्यदप्य स्तीतिनवीक्षतेसतुपारमार्थिकजीवइतियोजना।यदिकदा चिद्वीक्षेतजगत्परिच्छिन्नाकारंतदाप्यनृतात्मनाबाधितत्वे नैवेक्षेतनपूर्वयोरिवस्वविषयंपारमार्थमीक्षेतइत्यर्थः । अयं वाक्यसुधा. ४५ भावःायावदुपदेशतः शास्त्रतोवानुमानतोवाइष्टदृश्ययोविवे कज्ञानंनलातेतावत्संघातमेवद्रष्टारंतदृश्यंचविषयंपारमा थमन्यतेलोकः सएवंमन्यमानोविवेकज्ञानवद्भिःप्रातिमा सिकजीवइत्युच्यते।यस्तुपुनरुपदेशादिनासंघातादन्योद्रष्टा तदृश्यंचविषयनंपरमार्थंकिंतुतदनुगतेकारणात्मन्याविर्मा वतिरोनावाल्यांविक्रियतेतच्चाविसंवादात्परमार्थतिमन्य तेसव्यावहारिकोजीवइतिपरमार्थदर्शिभिरुच्यते।यस्तुपुनः सम्यकशास्त्रार्थमनुभवपर्यतमवधार्यनकार्यकारणभाव पार मार्थिक किंनुव्योम्नीवतलमलिनत्वादिपूर्णब्रह्मणिप्रत्यक्त त्वेनांतत्वेत्रांत्यवभासएवेतिमन्यतेसपारमार्थिकोजीवइ तिशास्त्रार्थतत्त्वविद्भिरुच्यतेइति ॥ ४१ ॥ ननुव्यावहारिकमातिनासिकयोर्जीवयोश्चिदविद्याक ल्पितत्वेजडत्वात्कथंजीवत्वंजीवोहिचिदात्माप्रसिद्धोनेन जीवनात्मनानुप्रविशेतिश्रुतेरित्याशंक्यदृष्टांतेननिराकर्तु दृष्टांतमाह- माधुर्यद्रवशैत्यादिजलधर्मास्त ४६ 'वाक्यसुधा. रंगके॥अनुगम्याऽपितन्निष्ठेफेने प्यनुगतायथा ॥४२॥ जलस्यस्वाभाविकाधर्मास्तदवस्थाविशेषेप्यनुगतायथो पलायतइतिदृष्टांतइत्यर्थः । साक्षिस्था सच्चिदानंदसंबंधा व्यावहारिकेतद्वारेणानुगच्छंतितथैवप्रातिभासिके॥४२॥ साक्षिशब्देनप्रत्यगभिन्नब्रह्मविवय॑तेतस्यस्वनासवासस्तू ताएवसच्चिदानंदास्तस्यधर्मत्वेनकल्पयित्वाव्यपदिश्यतेसा क्षिस्थाःसच्चिदानंदाइतितेव्यावहरिकलिंगोपाधिमवष्टायह लोकपरलोकगमनाव्यवहारवत्त्वेनकल्प्यतेजीवेसंबद्धामवं तिजलस्यतरंगवत्परस्येवचिदात्मनोवस्थांतरत्वादस्यतद्ध मानुवृत्तियुक्तेत्यर्थः तद्वारेणव्यावहारिकजीवद्वारेणप्राति भासिकेपिजीवेनगच्छंतिसच्चिदानंदालिंगहारादिस्थूलोपा धावात्मभावाइतिकशोहमित्यायभिमन्यमानेपिप्रातिभा सिकेजीवेफेनइवशैत्यादयोधर्माः सच्चिदानंदाअनुमच्छं तीत्यर्थः एवमात्मधर्माणामध्यारोपमुपपाद्यापवादप्रका रमाह- वाक्यसुधा. ४७ प्रातिभासिकजीवस्यलयेस्यु व्यावहारिकातल्लयसच्चिदानं दाःपर्यवस्यंतिसाक्षिणि॥४३॥ सुषुप्तिमोक्षयोः क्रमेणलीयमानप्रातिमासिकव्यावहारि कजीवगताः सच्चिदानंदाःसाक्षिशब्दनिर्दिष्टेप्रत्यग्ब्रह्मणिप यवस्यतिशैत्यादयइवफेनतरंगमतास्तयोर्लयेसमुद्रेनान्यत्र तेसंतीत्यर्थइति ॥४३॥ ॥ इतिवाक्यसुधासमाता ॥ - श्रीः। वेदान्तसिद्धान्तः। ॐ श्रीगणेशाय नमः ॥ ॐरामसर्वगुणातीतमायागुण समाश्रयं । नत्वावदांतसिद्धांतदीपकेयंप्रतन्यते ॥ ३ ॥ आपातकतन्यासानांविप्राणामल्पमेधसां । सुखंब्रह्मपदं गंतुमियमेवभविष्यति । २ । इहयथारज्ज्वज्ञानात्सर्पः प्रकाशतेतत्तत्वज्ञानाचोपशाम्यत्येवमात्माऽज्ञानादिदंस्वम प्रजगदधिष्ठानेब्रह्मण्यवभासतेतत्तत्त्वज्ञानेननिवृत्तिमेती त्यभिप्रेत्यसंसारदावानलविप्लुष्टांतःकरणस्पविषयसुखमपि दुःखपक्षेनिःक्षिप्यहिरण्यगर्भादिसुखेष्वप्युद्विमचित्तस्य सर्वमूलाज्ञाननिवृत्तौयतमानस्यतन्निवृत्तिलक्षणतत्त्वज्ञानो त्पत्तौजीवपरमात्मनोरभेदभावनामुपदिशत्याचार्यानिमि समित्यादिना- निमित्तंमनश्चक्षुरादिप्रवृत्तीनिर स्ताविलोपाधिराकाशकल्पः॥र वेदान्तसिद्धान्तः ४९ विलोकचेष्टानिमित्तंयथायःसनि त्योपलब्धिस्वरूपोहमात्मा ॥१॥ नन्वकतमंगलाचरणकतोयग्रंथइतिनशिष्टोपादेयंभवि प्यतीतिचेन्न । आत्मस्मरणलक्षणमंगलल्पकतत्वानोक्त दोषोद्भवः । मंगलानांचमंगलभितिव्यासोक्तेः । मनश्चच क्षुश्चमनश्चक्षुषीतेआदिभूतेयस्यसमनश्चक्षुरादिः करणसमू हः । भूतोत्पत्तिक्रमणमनःश्रोत्रादीतिवक्तव्ये छांदोग्य प्रसिद्धभूतत्रयपक्षप्राधान्यमादायमनश्चक्षुरादीत्युक्तं । आ दिशब्दः प्रत्येकंसंबंधमति । तथाचसतिमनआदीनांमनो हकारबुद्धिचित्तानां चक्षुरादीनांचक्षुःश्रोत्रत्वक्रसनघा णानांबुद्धींद्रियाणां वागादीनांवाक्पाणिपादपायूपस्थानां पंचकर्मेंद्रियाणांस्वस्वविषयादानेविषयाभिमुखप्रवृत्तिस्त अनिमित्तंतटस्थततोहेतुर्यः सोहमात्मानतुमृदादिवद्विका रित्वं । अत्रात्मशब्देनसइतितच्छब्दलक्ष्यः कल्पितप्रपं चाधिष्ठानभूतः सर्वनियंतापरमात्मोच्यते । आत्मावाइ दमेकएवायआसीन्नान्यत्किंचनमिपदित्यादिवेदांतवाक्ये ५० वेदान्तसिद्धान्तः प्वात्मशब्दस्यपरमात्मनिप्रसिद्धत्वात् । अहमितिचत्वं पदलक्ष्यार्थः प्रत्यगात्माकूटस्थउच्यते । तयोश्चसामाना धिकरण्येनाभेदोबोध्यते । यदिपुनरहंशब्देनाहंकारविवक्षा तदातुबाधायांसामानाधिकरण्यं ।कीहगात्मानित्योपलब्धि स्वरूपः नित्याचासावुपलब्धिश्चेतिनित्योपलब्धिःज्ञानस्व रूपंयस्यसतथोक्तः। ननुघटोपलब्धिर्जातापटोपलब्धिनष्टेति तदुत्पत्तिविनाशयोःप्रत्यक्षसिद्धत्वात्कथमुपलब्धिनित्येति चेत्तयोरुत्पत्तिविनाशयोर्घटपटज्ञानसंबंधविषयत्वाताननु संबंधविनाप्रवर्तकत्वासंभवात्संबंधेवासंगत्वक्षतिःसधर्मक त्वावाप्तिश्चेत्यतआहानिरस्ताखिलोपाधिरिति निरस्तानि र्गताआखिलानिःशेषादेहेंद्रियादयस्तद्धर्मलक्षणाश्योपाधयो वस्तुतोयस्मात्सनिरस्ताखिलोपाधिःअतएवाकाशकल्पआ काशसदृशः आकाशादीषज्जडत्वमात्रांशेनन्यूनःसर्वानुगतो प्यसंगएवेत्यभिप्रायः सर्वानुगतोप्याकाशवद्विशुद्धइत्यर्थः। यथाव्यापकत्वेनसर्वानुगतोप्याकाशोव्याप्यगुणदोषनाम भवति । निरवयवस्यतस्यव्याप्यसंगासंभवात् तस्यावय
वेदान्तसिद्धान्तः
५१
यवधर्मत्वात् मूर्तामूर्तयोः कात्स्न्यैकदेशात्यांतन्निरूपणा
नहत्वाच्च । एवंदेहेंद्रियोपाधिसंबंधानहत्वमात्मन्यवगन्त
व्यासमवायस्तुकार्यकारणगुणगुणिजातिव्यक्त्यादौनतुब
मणितदस्ति । सकारणजगदधिष्ठानकारणत्वोपचारात्
क्वचिच्छ्रयमाणमपिब्रह्मणः कारणत्वमन्यकारणव्युदासा
यैकत्वप्रत्ययदाढयायनकार्यकारणभावप्रतिपादनाय ।
वास्तवकारणत्वेनेहनानास्तिकिंचनेत्यादिश्रुतिबाधप्रसंगा
त् । माययाकारणत्वेतुपरमार्थतोऽकारणत्वंब्रह्मणः पर्य
वस्यति। तदुक्तम् । इहरज्जुघटादिहिसावयवसमुपतियुजा
मितरेतरतः । इतिदृष्टमतोन्यददृष्टमपिस्वयमूह्यमिदंत्वप
रित्यजताइति नन्दविग्रहस्यात्मनोमनश्चक्षुरादिप्रवर्तकत्वं
वागादिव्यापारविनाकथमित्याशंक्यतद्रहितस्यापिस्वरू
पसत्तामात्रेणप्रवृत्तिहेतुत्वंरविदृष्टांतेनदर्शयति । रविः
सूर्यःश्रुतिस्मृतिपुराणोक्तकर्मानुष्ठानेयालौकिकानांप्रवृत्ति
श्यथारावीतस्मातकर्मानुछानेलौकिक कृषिवाणिज्यादिव्यव
हारेचतदुपदेशाव्यिापारराहतोपिसत्तामात्रेणानिमित्तस्वयमेव
हिउदितआदित्येसर्वपिलौकिकाव्यवहरंतिनतुसूर्यस्तानुपदिशति
एकुरुध्वमिति।
५२ वेदान्तसिद्धान्तः क्रियाकरचरणादीनांव्यापारस्तस्यनिमित्तं यथायेनप्रका रेणतदुपदेशव्यापाररहितोपिस्वरूपसत्तामात्रेणेवकारणंभ वतितवदहमपिमनश्चक्षुरादिप्रवृत्तिहेतुर्नवामीत्यर्थः ॥१॥ ननुलनश्चक्षुरादीनांनस्वप्रवृत्तावन्यापेक्षातानिस्वतएव प्रवृत्तिलक्षणानीत्याशक्योचरमाह-- यमग्न्युष्णवन्नित्यबोधस्वरूपं मनश्चक्षुरादीन्यबाधात्मकानि ॥ प्रवर्ततआश्रित्यनिःकंपमेकंस नित्योपलब्धिस्वरूपोहमात्मा॥२॥ यमित्याश्रित्यपदेनसंबध्यते । मनश्चक्षुरादीनिताव वर्तमानानिजडत्वाद्रथादिवच्चेतनप्रवर्तकमंतरणनप्रव तितुमर्हति । तथाचयमाश्रित्यप्रवर्ततेचेष्टतेयत्प्रकाशि तानिस्वस्वविषयादानेक्षमाणिभवंतिसोहमित्यन्वयः । वैशेषिकायभिमतंबोधात्मनोर्गुणगुणिभावमपाकर्तुमग्न्यु ष्णत्वदृष्टांतेनपूर्वोक्तंनित्यवोधस्वरूपत्वमेवाह ।अग्न्युष्ण बतइति ।अमेरुष्णेनतुल्यं भवतिइत्यग्न्युष्णव उष्णयथा
२३
वेदान्तासिद्धान्तः
नीतिरिच्यतेअतिरिक्तघटादिवत्ततोन्यत्राप्युपलायताय
तस्तद्वयतिरेकेणनोपलायतेउष्णंततोमिस्वरूपमेवतथास्व
रूपावयवधर्मलक्षणविनाशसामग्रीरहितत्वातानित्योयोबो
धस्तदेवस्वरूपंयस्यसनित्यबोधस्वरूपस्तंमनश्चक्षुरादीनि
मनआदीन्यंतःकरणानिचक्षुरादीनिबाह्यानिकरणानिशरी
राणिचतानिचजडान्यबोधात्मकत्वादोधादन्योऽबोधोज
डंतदेवात्मास्वरूपयेषांतानितथोक्तानितेषांचरथादिवञ्चेत
नप्रवर्तकंविनाप्रवृत्ति संभवतिनित्यबोधस्वरूपात्मप्रेरिता
निप्रवर्त्तते । स्वरूपसत्तामात्रेणैवायस्कांततपनयोलॊहलो
कप्रवृत्तिहेतुत्व वत्प्रवृत्तिहतुत्वनतुकायवाग्व्यापारवत्त्वं
विक्रियांविनवप्रवर्तकत्वंदर्शयतिनि:कंपनिर्गतःकपाकि
यायस्मात्सतथोक्तस्तंनिस्तरंगनिःसंशयमित्यपिकचित् ।
श्रुतिंचात्रदर्शयति। भेदनहृदयग्रंथेः सर्वसंदेहच्छेदन।कर्म
णांचक्षयः पुंसःपरमात्मनिवीक्षितइति । एवंकीटादि
ब्रह्मांतेष्वनुगत्वएकोदेवःसर्वभूतेपुगूढइतिश्रुतेः । एक
एवतुभूतात्माभूतेभूतव्यवस्थितः । इतिश्रुतेश्च । एकमिति
वेदान्तसिद्धान्तः
सांख्यवैशेषिकादिमतापकरणमवगंतव्यं । ननुचेतना
थीनाजडप्रवृत्तिरित्युक्तंतथाचात्मनश्चेतनत्वेकिंप्रमाणाम
तिचेत्तच्छृणु । साक्षीचेताकेवलोनिर्गुणश्चेत्यागम
स्यैवतत्प्रमाणत्वात् । बोधशब्देनापितस्यैवापिलापा
द । ननुतर्हितद्धर्मापुरुषइतिचेन्न । चैतन्यमात्मनो
भिन्नंनवा । आवेधर्मधर्मिभावोनस्यात् । ऋक्षसिंह
योरि। नचतयोरसंबंधानतथा । चैतन्यस्यत्वात्म
संबंधित्वात् । किनभवेत्तद्धर्मइतिवाच्यं । संबंधः सं
योगोवासमवायोवा । संयोगस्यद्रव्यधर्मत्वाच्चैतन्यस्य
भवन्मतगुणत्वात् । नापिसमवायः तस्यगुणगुणिजा
तिव्यक्त्यादिधर्मत्वात् । तद्विपरीतेआत्मनितदसंभवात् ।
तथाहिनात्माद्रव्यंअस्थूलमनण्वहस्वमदीर्घमित्यादिद्रव्य
धर्मप्रतिषेधात् । साक्षाचनिर्गुणत्वोपदेशात् । नापिगु
णस्तस्यनित्यापराश्रयत्वात् । सभगवःकस्मिन्प्रतिष्ठितः
स्वमहिम्नीत्यादावात्मनश्चस्वमहिमप्रतिष्ठितत्वश्रवणात् ।
१ आत्मचैतन्ययोरद्रव्यत्वान्नतत्संभवः राहोः शिरइतिवदभेदे
पिभेदव्यपदेशः।
चेदान्तसिद्धान्तः नापिजातिः । नित्यमनेकानुगतत्वाभावात्तद्वयतिरेकेणेत रेषामनित्यत्वात्। नापिव्यक्तिर्जातिप्रत्याख्याननैवतत्समा नयोगक्षेमायास्तस्याअपिप्रत्युक्तत्वात् । किंचसमवायः समवायिषुसंबद्धोवासमवायिनःसंबंधयेदसंबद्धोवा । आ दोसंयोगेनसमवायस्याद्रव्यत्वात् । नापिसमवायेनस्वे नैवचेत्स्वात्माश्रयःसमवायांतरेणचेदन्योन्याश्रयः। अपरे णैवचेच्चकानवस्थादिदोषप्रसंगः । असंबद्धएवसंबंधांत रेणसमवायः। स्वयंसंबंधस्वरूपत्वादसमवायिनासंबंधय तीतिचेत् । हिमवद्विध्ययोरपिसमवायप्रसंगः संयोगेचा तिप्रसंगः । सोपिहिस्वयंसंबंधरूपएक्सन्समवायेनेवसंयो गिषुसमवेतीत्यायुपगम्यतेजवता। तस्माद्दोधात्मनोःसंबंधा संभवाद्बोधएवात्मानबोधधर्मीस्वस्यचस्वधर्मत्वेघटोपिघ- रधर्मीस्यात् । उक्तंच निरंशत्वाद्वित्वाञ्चतथानश्वरना वतः। ब्रह्मव्योन्नोरभेदोस्तिचैतन्यब्रह्मणोधिकम् ॥ २ ॥ ननुमनश्चक्षुरादिप्रवर्तकस्यात्मनस्तत्संयोगोस्तिनवा । अस्तिचेदद्रव्यत्वासंगत्वनिर्धर्मकत्वादीनांक्षतिः स्यात् । नचेत्प्रवर्तकतासंभवइतिशंकामपाकरोत्युत्तरश्लोकेनमन श्चक्षुरादेरिति- १ ५६ वेदान्तसिद्धान्तः मनश्चक्षुरादेर्वियुक्त स्वयंयोमनश्च क्षुरादेमनश्चक्षुरादिः॥ मनश्चक्षुरा देरगम्यस्वरूपःसनित्योपलब्धिस्व रूपोहमात्मा ॥३॥ मनश्चक्षुरादेवियुक्तोविगतसंबंधःसंयोगसमवाययोः पूर्वमेवानराकतत्वात् । आध्यासिकसंबंधमंतरेणसं बंधांतरस्यसंभवात् । ततश्चकरणमात्रसंबंधरहितस्त स्यचभासकोयोयमात्मासोहमित्यन्वयः । यथाहुः- यदनायुदितंवदनेनसदानयनेननपश्यतियंचसदा । श्र वणेनचयनशृणोतिसदामनसापिचयंमनुतेनसदा ॥ व दननयनंचतथाश्रवणंमनएवचयेनततंसततं । च्छतदेवपदंपरमंत्वमितिश्रुतिरीक्षितुरुक्तवती स्मात्संयोगाद्यनंगीकारान्नतुआत्मनितद्दोषप्रसक्तिः । ननु तत्संबंधानावात्कथंतत्पवर्तकत्वमित्याशंक्योत्तरमाहामन चक्षुरादेर्मनश्चक्षुरादिरिति । मनसोमनोमनस्त्वापादकोमन सोव्यापारहेतुरित्यर्थः । एवंचक्षुषःचक्षुश्चक्षुष्ट्वापादकएवं अवग त
५७
वेदान्तसिद्धान्तः
त्येकमन्वयोद्रष्टव्यः । श्रुतिरप्यत्र श्रोत्रस्यश्रोत्रप्राणस्यमा
णोमनसोमनइत्याशिवाजसनेयिनां । अयमभिप्रायः।नश्री
स्वयमेवशब्दश्रवणसमर्थकितर्हिचैतन्यज्योतिषादीप्तं
तस्माद्यच्छोत्रेणश्रवणसामर्थ्यंतदात्मनिमित्तमित्यात्माश्रो
त्रस्यश्रोत्रंथोत्रत्वापादकइति । एवमन्यत्राप्यूह्यं । यथाकु
लालहस्ताधिष्ठितोदंडोघटोत्पत्तिहेतुर्भवति तथाचिदधि
ष्ठितानिकरणानिस्वस्वविषयोपलब्धिहेतुतांयांति । अत
एवमनश्चक्षुरादिविषयताचितोनास्ति । नहिकल्पिततमो
धिष्ठानस्यसवितुस्तद्विषयतातद्व्यतिरेकेणतस्यांतरासंभवा
त् । मनश्चक्षुरादरित्यदिना । श्रुतिरप्यमुमर्थमाह नतत्रच
भुर्गच्छतिनवाक्गच्छतिनमनोनविद्याइति । नचक्षुषा
गृह्यतेनापिवाचेत्यादि । ननुऔपनिषदत्वमात्मनोमनआद्य
गोचरत्वेव्याहन्येत्।मनसैवेदमाप्तव्यंनहृदामनीषामनसाभि
कृप्तइतिचोपरुध्येत न औपनिषदत्वात्मनिउपनिषज्जन्य
ज्ञानविषयत्वं। नतुतज्जन्यातिशयाधारत्वंयेनव्याघातःस्या
त् । तदुक्तं-फलव्याप्यत्वमेवास्यशास्त्रकाद्भिनिराहतं । ब्रह्म
न
वेदान्तसिद्धान्तः ण्यज्ञाननाशायवृत्तिव्याप्तिरपक्षितेति । तदेवचवृत्तिव्याप्य त्वमनसैवेदमातव्यमित्यर्थः । यद्वातदाकारांतःकरण त्त्युत्पादकत्वमेवतद्विषयत्वमुपनिषदः। यद्वामनश्चक्षुरादेवि युक्तोव्यतिरिक्तः। नचात्मापरिच्छिन्नश्चक्षुरादिव्यतिरिक्त त्वात् घटवत् इतिवाच्यं । आकाशादौहेतोः साध्यव्यभि चारस्तस्यनित्यव्यापकत्वेनतदव्यतिरिक्तत्वेपिदेशकालव स्तुपरिच्छेदाभावात् । अथवास्वयमेवोत्तरमाह मनश्चक्षुरा देर्मनश्चक्षुरादिरिति । अयमर्थः यद्यप्यात्मामनश्चक्षु र दिव्यतिरिक्तस्तथापितेषांमनश्चक्षुरादीनामात्मन्यध्यस्तत्वे नरज्जुसर्पवदध्यस्तस्याधिष्ठानादन्यत्वाभावादित्युक्तंपुर स्तात् ।उक्तंब्रह्मवित्पूज्यचरणेनपराशरेण व्यतिरिक्तंनय स्यास्तिव्यतिरिक्तोखिलस्ययइति।तेषांतत्राध्यस्तत्वाद धिष्ठानत्वेनतदगम्यस्वरूपोभवतीत्यर्थः। तदुक्तंसंक्षेपशारीर के नहिभूमि रूपरवतीमृगतृणजलवाहनीरसंवहति । मृग वारिपूरपरिवारवतीननदीतथोषरसुवंस्पृशतीति ॥ ३॥ ननुनित्यबोधस्वरूपपरमात्मस्वरूपतैवत्वंपदार्थस्योक्ता वेदान्तसिद्धान्तः नथाचबंधमोक्षसुखादिव्यवस्थाअन्यस्यैवाविष्यति । न त्वात्मनस्तस्यसकलधर्मातीतब्रह्मस्वरूपत्वादित्यतआह- मुखाभासकोदप्पणेदृश्यमानोमुख त्वात्पृथक्त्वेननवास्तिवस्तु॥चिदा भासकोधीषुजीवोपितद्वत्सनित्यो पलब्धिस्वरूपोहमात्मा ॥४॥ मुखानासकइति । मुखस्यानासोमुखाभासोमुखाभास एवमुखाभासकइति । स्वार्थेकप्रत्ययः । मुखप्रतिबिंबोदर्प णादिप्रतिबिंबोपाधौदृश्यमानः प्रतीयमानोमुखत्वात्।नावे त्वप्रत्ययः । परमार्थभूतात् मुखात्पृथक्त्वेन देननवास्ति वस्तुयद्यपिनासतेतथापिवस्तुतोनास्त्येववस्तुभूतइत्यर्थः । तथापिनानादर्पणजातिषुनानेवप्रतिभासंतेमुखामासाः । ए पंचितश्चैतन्यस्यानासश्चिदाभासः एवंचिदाभासकोधीषु बुद्धिषुजीवः प्राणानांधारयितातददितिपूर्वेणान्वयः। अ यमभिप्रायः । यथाबिंबप्रतिबिंबव्यवहाररहितंमुखंचंद्रा दिर्वानानोपाध्यनुगतःपरमार्थस्वरूपवैपरीत्येनज्ञासते तथा TH ६० वेदान्तसिद्धान्तः सजातीयविजातीयस्वगतभेदरहितसच्चिदानंदस्वरूपंत्र बनानांतःकरणोपाध्यनुगतंबद्धमुक्तगुरुशिष्यादिव्यवहारं अजतेनतुचिद्धातुबुद्धिगतश्चित्प्रतिबिंबः पृथग्वस्तु । अन्यथाजातेपितत्त्वज्ञानेतत्त्राप्तिनस्यात् । अन्यस्यान्य रूपतादर्शनादहिनकुलवत् । एवंभूतोयोयमात्मासोहमित्य न्वयोन्यत्पूर्ववत् । ननुसिद्धपारदयोगादयसः कांचनताह. टाकथमन्यस्यान्यरूपतानोपलभ्यतइतिचन्न । त्रोटकाचा यैरेवापकृततत्पृथक्खंडनमनुष्ठीयते । तद्यथा-उदकावय वानभितयययोरजतावयवांश्चयथाकनकं ॥विपरीतमतिज नयत्युदकेरजतेचतथायसिहेममतिं ॥ रसवीर्यविपाकवि नाशमनुप्रगमिष्यतिकांचनताप्ययसः॥ कतकहिननित्य मितिप्रकृतिंसमवेतमवश्यमपैतियतः ॥ तथाचवस्तुतोनि वयोरभेदानुपपत्त्यातदभेदेमोक्षशास्त्रवैययस्यात् ॥४॥ ननुजीवस्यब्रह्मरूपत्वाबंधोऽसंभवोबद्धोहिमुच्यतेनाबद्ध इति तदुपास्तत्त्वज्ञानबत्थ्यत्वात् कस्यमोक्षस्तस्माद धमोक्षयोरसंभवान्मोक्षप्रतिपादकंशास्त्रमप्रमाणमेवेतिशं कामपाकरोति-- वेदान्तसिद्धान्तः ६१ यथादर्पणाभावआभासहानौसु खंविद्यतेकल्पनाहीनमेकं॥तथा धीवियोगेनिराभासकोयःसनि त्योपलब्धिस्वरूपोहसात्मा ॥५॥ यथादर्पणाभावआभासहानाविति ॥ यथायद्दपणे उत्सारितेतदक्षावेवाआमासहानौसत्यानिमित्ताभावेनैमि त्तिकस्याप्यभावइतिप्रसिद्धः । मुखप्रतिबिंबेनिवृत्तेनिरु पाधिकंमुखमात्रविद्यतेकल्पनाहीनं दैविध्यज्ञानभ्रमरहितं बिंबप्रतिबिंबव्यवहारहीनंपरमार्थमुखमेवविद्यतेइत्यर्थः । दृष्टांतदर्शयित्वा तद्वदुपाध्यक्षावेदार्थांतिकेप्येतद्दर्शयति । तथाधीवियोगइति । तथातेनैवप्रकारेणधियोबुद्धेर्वियोगे तत्त्वमस्यादिवाक्योत्थयाखंडाकाराकारितचित्तवृत्त्या अविद्यातत्कार्यवानिवृत्तेसति योनिराक्षासकोनिर्गत आभासोयस्मात्सः तथास्वार्थेकप्रत्ययःनिःप्रतिबिंबोजी वब्रह्मविभागरहितः सोहमित्यन्वयः । नित्योपलब्धिस्व रूपइत्यादिपूर्ववत्सर्वत्र।अयमभिप्रायः ।आत्माज्ञानोद्भतो ६२ वेदान्तसिद्धान्तः योबुद्धयादिरुपाधिस्तत्रप्रतिबिंबरूपेणात्मानमध्यस्यतदु द्भवंचसुखदुःखादिकमात्मन्यध्यस्यतिसोयमध्यासलक्ष णोबंधस्तत्वज्ञानेनसकारणस्यतस्यबाधएवमोक्षइतिसर्वम नवा ॥५॥ ननुनिःकंपमेकमित्यादिनासर्वशरीरेष्वेकएवात्मोक्त स्तचनसंभवतितथासत्येकस्मिन्सुखिनिसर्वएवसुखिनः स्यु दुखिनिवादुःखिनोभवेयुनत्वेवमस्त्येव बंधमोक्षगुरुशिष्य जन्ममरणादिव्यवस्थान्यथानुपपत्त्याप्रतिशरीरमात्मांतर सिद्धिः । तथाचकणादोदितंसूत्र "नानात्मानोव्यवस्थात"इ तिशंकामपाक श्लोकमवतारयति । यएकोविज्ञातीति। य द्वायद्यात्मामनश्चक्षुरादेरगम्यस्वरूपस्तदाकथमस्यसिद्धिः पदार्थमात्रस्यतदधीनसिद्धिकत्वादात्मसिद्धावपितदेवसाध नमुचितमन्यथातद्रहितस्यखपुष्पादिवदत्यंतासत्यत्वमेव स्यादित्यतआह-- यएकोविभातिखतःशुद्धचेताःप्रका शस्वरूपेपिनानेवधीषु ॥ शरावो वेदान्तसिद्धान्तः दकस्थोयथाभानुरेकःसनित्यो पलब्धिस्वरूपोहमात्मा ॥६॥ एकअद्वितीयः सजातीयविजातीयस्वगतभेदरहितः। वृक्षस्यस्वगतोभेदः पत्रपुष्पफलादितः। वृक्षांतरात्सजाती योविजातीयः शिलादितः । एकोदेवः सर्वभूतेषुगूटः सर्व व्यापीसर्वभूतांतरात्मा।अजोह्येकः। एकोवशीसर्वभूतान्त रात्मा। एकमेवाद्वितीयंब्रह्म ।एकनिविष्टंबहुधागुहासुक्षेित्र इंचापिमांविद्धिसर्वक्षेत्रेषुभारत । अहसात्मागुडाकेशसर्व भूताशयस्थितः। अविभक्तंचततेषुविजक्तमिवचस्थितं । एकएवतुभूतात्माभूतेतूतेव्यवस्थितः । एकथाबहुधाचैव दृश्यतेजलचंद्रवत् । समोमशकेनसमोनागेनेत्यादिश्रुति स्मृतिवाक्यसचिवेनैवइतिपदेनसांख्यवैशेषिकादिमतात्यु पगतोनानाजीववादोनिराकतइत्यवगंतव्यं । यानिचज न्ममरणसुखदुःखादीन्यात्मभेदसाधकानिलिंगान्युदाहृता निस्तान्येतदुदाहृतवाक्यापहृतविषयत्वात्कालात्यया पदिष्टानोत्यवगंतव्यं । तुल्याचसंसर्गतानेकात्मवादेएक
६४
वेदान्तसिद्धान्तः
स्मिन्नात्मनिसुखिनिदुःखिनिवासर्वात्मनांमुखदुःखादि
मत्त्वप्रसक्तिविशुत्वेनसर्वदेहगतत्वात्सर्वात्मनांविनातिप्रक
शतेस्वतःस्वयमेवनतुज्ञानकर्मत्वेनघटादिवत् । तेपांजड
त्वेनप्रमाणांतरापेक्षास्वरूपप्रकाशउचितैव नतुस्वस्फुरण
स्वरूपस्यात्मनः । अदृष्टोद्रष्टानान्योतोस्तिद्रष्टेतिश्रुतेः।
शुद्धनिर्मलरजस्तमःक्रोधादिमलानभिततं चेतश्चित्स्वरू
पंयस्यसशुद्धचेताः पुरुषस्तस्यस्वतएवसाधनंविनैवात्मा
स्फुरतीत्यर्थः । यद्वाआत्मनोभेदसिद्धौप्रमाणापेक्षामपाक
राति । स्वतइतिीप्रमाणापेक्षांविनैवसिद्धमवगतंचेतः चैत
न्यज्योतिःस्वरूपंयस्यसतथोक्तः । यतोवाचोनिवर्त्ततेम
प्राप्यमनसासहेतिनतत्रचक्षुर्गच्छतिनवाग्गच्छतिइत्यादि
प्रमाणविषयत्वमात्मनड़पपादनंपुरस्तात् । अपिशब्दः एक
पदेनसंबध्यते स्वप्रकाशस्वरूपएकोप्यात्माअनेकासुधीषु
बुद्धिषुप्रतिबिंवतामवाप्यतत्तद्गतसुखदुःखाद्यनेकोपाध्य
धिष्ठानत्वेननानेवप्रतिशरीरंभिन्नइवविज्ञातिप्रकाशतेप्रती
यतवायः सोहमित्यन्वयः। दृष्टांतमाह । शराबोदकस्थइ
३ वेदान्तसिद्धान्तः ६५ ति । शरावेषुउदकानिशरावोदकानिशरावशब्देनप्रतिबिं बोपाधिजलपूर्णपात्रमवगंतव्यंनतुपार्थिवतामहम् तेषुतिष्ठ तीतिशरावोदकस्थः । यथायद्यप्येकएवज्ञानुरादित्योनाना बहुरूपोनिश्चलचंचलस्वच्छमलिनादिभेदेनप्रतिभातीतिसं बंधः । एवमात्माप्येकएवपरमार्थतःसन्मायाकल्पितमौ उचपांडित्यशौर्यभीरुत्वादिजेदभिन्नासुनानाबुद्धिपुनानेव भासतइत्यर्थः ॥६॥ ननुभवत्वात्मनउपाधिरूपादेकस्यैवबहुधाव्यवस्था । कथंनिरीहस्यदेहेन्द्रियादिसंबंधरहितस्यसर्वधर्मातीतस्य श्रुतिस्मृतिपुराणसिद्धस्येहलोकपरलोकगतिरुपपद्यतइत्या शंक्य जलचांचल्येनचंद्रचांचल्यवदुपाधिगत्यातत्रगति भमोनत्वमूर्तस्यगतिः संभवतीतिदृष्टांतपूर्वकमाह- यथासूर्यएकोप्यनेकश्चलासुस्थि रास्वप्यबन्वग्विभाव्यस्वरूपः॥ चलासुप्रभिन्नासुधीष्वेकएवसनि त्योपलब्धिस्वरूपोहमात्मा ॥ ७॥ -
वेदान्तसिद्धान्तः
यथासूर्यएकइति । यथायेनप्रकारेणशरावादिगतासुचं
चलासुस्वच्छत्वमलिनत्वाद्युपाधिविशिष्टास्वप्सुजलेषुप
तिबिंबितः सूर्यएकोनेकोनानारूपतयाप्रतिभासतेनत्वाका
शेदेदीप्यमानस्यरवेर्भममंतरेणबहुत्वस्वच्छत्वमलिनत्वा
दिकंकालत्रयेऽप्यस्ति । चलासुचंचलासुस्थिरासुस्थितासु
तिष्ठतीषु अपिशब्दः स्वच्छमलिनबहुस्वल्पादिसमुच्चया
र्थः । अबन्दग्विभाव्यस्वरूपः अपामनुगच्छतीत्यबन्वक्
अपांगमनंस्वच्छत्वमलिनत्वायुपाधिवैशिष्टयमधिगच्छती
त्यर्थः । तत्रतद्वद्विनाव्यंजलचलनाद्यनुकारणानुकृतस्वरू
पंयस्यसतथा । अन्येत्वनन्वग्विभाव्यस्वरूपइतिपाठम
गीकुर्वतोव्याख्यातंचतैरेव अन्वंचतिगच्छतीत्यन्वक् ना
न्वगिति अनन्वतेनविभाव्यस्वरूपयस्यमतथोक्तः ।
एवंबहुव्रीहिसमासंकत्वापश्चानबासमासःकर्त्तव्यः । अय
मर्थः रवि लानुगतोनभवत्यपितुतथैवाकाशेदेदीप्यमानो
चान्त्याजलानुगतःप्रतीयते । दृष्टांतदर्शयित्वादाष्टांति
कमाह चलासुकर्मानुसारेणेहलोकपरलोकगमनशीलासु
६५ वेदान्तसिद्धान्तः भिन्नासुप्रतिशरीरतिष्ठंतीषुधीषुतदन्वग्विभाव्यस्वरूपस्तद्र त्यादिधर्मेणधर्मवानिवनात्यामतीयमानोनतुस्वतःकियात स्यामूर्तस्यतदसंभवात् । ध्यायतीवलेलायतीवेतिश्रुतेः। सइत्यादिपूर्ववत् ॥ ७॥ तस्मात्गुरुशिष्यबंधमोक्षस्वर्गनरकादिव्यवस्थोपाधि गतात्मनिचंद्रादिचांचल्यवनांत्याप्रतीयते नत्वक्रिय स्यनिरस्तधर्माधर्मसंबंधस्यकापिचेष्टासंभवतीत्युक्तंतन्नसुं दरं बुद्धयादिवदात्मनःक्रमद्रष्टुत्वेनतद्वदेवपरिणामित्वमना त्मत्वंपरिच्छिन्नताचम्निस्यादित्याशंक्ययदिक्रमदृष्टत्वं स्यात्तदैवस्यान्नत्वेवमस्त्यन्यथाघटदर्शनोत्तरकालंएवसंदें होविपर्ययोवास्यान्नत्वेवमस्तितस्माद्बुद्धिस्तदृत्तयः सत्यः कदाचिदविदितानतिष्ठंतीतिदृष्टांतपूर्वकमाह-- यथानेकचक्षुःप्रकाशोरविनक्रमेण प्रकाशीकरोतिप्रकाश्यं ॥ अनेका धियोयस्तथैकःप्रबोधःसनित्योप लब्धिस्वरूपोहमात्मा ॥ ८ ॥ .
६८
वेदान्तसिद्धान्तः
यथानेकचक्षुःप्रकाशोरविरिति । यथायेनप्रकारेण
रविरादित्योनेकचक्षुःप्रकाशः अनेकानियानिचक्षुषितेषां
प्रकाशोयस्यसोनेकचक्षुःप्रकाशोयुगपदनेकानिचछूष्यधि
तिष्ठतोत्यर्थः । ननुक्रमेणैकैकस्यचक्षुषः प्रकाशीकरोति
तदधिष्ठातृत्वेनतदनुगतत्वात् । अनेकचक्षुषांनकाशोने
कचक्षुःप्रकाशः । अत्रबहुवचनस्यत्रित्वमात्रपर्यवसानं
नकल्पनीयंसर्वान्कपिंजलानालभेतइत्यादिवत्तत्राशक्य
स्वात्तथाकल्पना। अत्रतुतस्यैवसर्वाधिष्ठातृत्वात्सर्वप्रका
शकत्वंनतुबुद्धयादिववक्रमेणप्रकाशीकरोतिप्रकाश्यंअप
काशान्प्रकाशान् करोतीतिप्रकाशीकरोतीतिच्चिप्रत्य
याअभूततद्भावेकावस्तियोगेसंपद्यकरिच्चिः । अप्रका
शात्मकंजडवस्तुजातमुदयमात्रेणप्रकाशयतीत्यर्थः । तथा
लेनैवप्रकारेणैकश्चासौप्रबोधोऽधिष्ठाताअनेकाधियइतिद्वि
तीयाबहुवचनं । अनेकान्यंतःकरणानितद्वृत्तीश्चयोयुगप
प्रकाशीकरोतिसोहमात्मेतिसंबंधः । नतुक्रमेणतानित
वृत्तीतित्प्रकाशयति । ननुबुद्धिसाक्षीबुद्धिव्यतिरिक्तोना
६९ वेदान्तसिद्धान्तः स्तिसैवयाह्यग्राहकतयेतिशाक्यभिक्षुपक्षीयाः. प्रत्यवति छतेतेचापाकतास्त्रोटकाचार्यैः । तथा विदितत्वमवि प्रतिपन्नतयामतिपुप्रगतविषयेषुयथा । यतएवमतःपरसं विदिताविदितत्वतएव यथाविषयाः ॥ ननुभवंतुमतयः प रसंवेद्याःस्वसंवेद्यतायां तुनकिंचनदोषपश्यामइत्यतआह। परसंविदिताः सततंहियतोनविदुः स्वममीविषयास्तुत तः । मतयोपितथापरसंविदितानविदुः स्वममूर्विषयास्तु यथेति ॥ सइत्यादिपूर्ववत् ॥ ८॥ ननुसर्वप्रवर्तकत्वेनबुद्धितद्वृत्तीनामपिरविरेवास्तुप्रवर्त कः किमात्माभ्युपगमेन । तथाचश्रुतिःयोदेवःसवितास्मा कंबुद्धिवृत्तिप्रवर्तकः इतिगायत्रीव्याख्यानेयोगियाज्ञव ल्क्योप्युक्तवान् । चिंतयामोवयंभगंधियोयोन प्रचोदया त् । धर्मार्थकाममोक्षेषुबुद्धिवृत्तीःपुनःपुनरित्याशंक्यतत्रा पिसवितृपदस्यसूतेजगदितियोगाश्रयणेनब्रह्मपरतैवेत्याह । विवस्वत्प्रभातमिति।यद्वानित्यबोधस्वरूपआत्माअक्रमप्र काशइत्युक्तंतदसत्तत्साधकप्रमाणाभावेनाजडप्रकाशरूप स्यकस्यचिदसंभवात्संभवेवाप्रमाणविषयत्वेनघटादिवज्ज वेदान्तसिद्धान्तः उत्वादयोदोषाःस्युरित्याशक्यदृष्टांतपूर्वकमुत्तरमाह- विवस्वत्प्रभातंयथारूपमक्षप्रय हातिनाभातमेवंविवस्वान्॥य दाभातमाभासयत्येकमेकंसनि त्योपलब्धिस्वरूपोहमात्मा॥९॥ विवस्वतादित्येनप्रजातंप्रकर्षेणभातंप्रकाशितंतत्य भयाव्याप्तरूपादिवस्तुजातं यथायेनप्रकारेणाक्षंचक्षुःम गृह्णातिकर्षणनीलपीतादिगुणवैशिष्ट्येनबोधयतीत्यर्थः । नामानितदप्रकाशितादृष्टांतमुक्त्वादाष्टांतिकमाह । एवम मुनाप्रकारेणविवस्वान्सूर्योयदाभातयेनचिद्रूपेणप्रकाशि तंजासयति एकंप्रधानसमस्तस्यजगतोक्षंचक्षुरेकमशंभग बदक्षत्वेनप्रधानतोचितैवअयमभिप्रायः नयनाधिष्ठातृत्वे नादित्यानुग्रहोपेतंचशूरूपादिगृह्णातितथाभगवत्तेजसोधि हानभूतोविवस्वानपितत्प्रसादोपेतएवजगत्प्रकाशयतिसर्व जगचक्षुःस्थानीयस्यरवेर्भगवदनुग्रहमंतरेणप्रकाशकत्वंना स्ति । किंपुनरन्येषामितिदर्शयितुंतदुक्तं । ननुविवस्वदा
वेदान्तसिद्धान्तः
दिप्रकाशकमापियथान्येनानुगृहीतंप्रकाशयति । तद्वदात्मा
पिकेनचित्तकाशांतरेणानुगृहीतमेवप्रकाशयतिइतिचेन ।
तस्यापिस्वप्रकाशेन्यापेक्षायामनवस्थास्यात्तदतिरिक्तस्य
प्रकाशस्यानावात्तस्यापिजडत्वेजगहाध्यस्यात् । नान्यो
तोस्तिद्रष्टेत्यादिवेदांतकदंबेनद्रष्ट्रतरस्यप्रतिषेधाच । यदा
दित्यगततेजोजगनासयतेखिलं । यचंद्रमसियच्चामौतचे
जोविद्धिमामकमिति ज्योतिषामपितज्ज्योतिस्तमसः परम
च्यते इतिस्मृतेश्चप्रतिषिद्धप्रकाशान्तरालाघवादात्मैवान
न्यप्रकाशोत्युपगंतव्यः । तथाचसूर्यादिगतप्रकाशमात्रस्य
तत्प्रकाशत्वान्नतत्परप्रकाश्यतेति । सइत्यादिपूर्ववत्॥९॥
ननुस्वप्रकाशस्वरूपआत्मासर्वजगत्प्रकाशकइत्युक्तंत
चनसंभवति । सर्वसंबंधेसंगत्वक्षतिरतिरिक्तसंबंधेचप
रच्छिन्नतास्यातूधदादिवदित्याशंक्योत्तरमाह--
समस्तेषुवस्तुष्वनुस्यूतमेकंसम
स्तानिवस्तूतियन्नस्टशंति ॥विय
इत्सदाशुद्धमच्छस्वरूपंसनित्यो
पलब्धिस्वरूपोहमात्मा ॥१०॥
वेदान्तसिद्धान्तः समस्तष्विति।समस्तेषुप्रत्यक्षादिप्रमाणगोचरेषुमर्तामूर्त वस्तुजातेष्वनुस्यूतमनुगतंसच्चिद्रूपान्यांसन्घटः सदजलं सतीव्यक्तिरित्यादिजडपदार्थेषुसत्तान्वयप्रतीतेः। घोरमूढ धीवृत्त्योदयोरप्यात्मनोन्वयात्युपगमाव। घटसत्त्वंपटसत्त्व मित्यादौविशेषणीभूतानांघदादीनामेवभेदःप्रतीयते नतुवि शेष्यांशेनमत्ययोभवति। यदितुविशेषणभेदप्रत्ययान्यथानु पपत्त्याविशष्यभेदोभ्युपगंतव्यस्तदाघटाकाशमठाकाशादा वपिविशेष्यभेदःप्रमाणसिद्धास्यात्। तथाच सामान्यात्यु पगमोऽपसिद्धांतःस्यात् इतिनकिंचिदेतत् । ननुसर्वानुगतं महासामान्यमेकमात्मातुनतथा तदसत् । सदेवसोम्येदमग्र आसीदितिश्रुतेः। असन्नेवसभवतिाअसत्ब्रह्मेतिचेद्वेद अ स्तिब्रह्मेतिचेद्वेदसंतमेनंततोविदुरित्यायाब्रह्मस्वरूपमेवस त्त्वंप्रतिपादयति । ब्रह्मात्मव्यतिरिक्तसत्तानत्युपगमात्ावि शेषणभेदेपिविशेष्याभेदमपाकरोति।एकोदविशिष्टेष्वनुस्यू तमपिनि दें समस्तानिवस्तूनियदात्मस्वरूपंशुक्तिरजतवन्न स्पृशंति। नतत्रस्वसंबंधमापादयंति।कल्पितस्यस्वरूपासत्त्वे वेदान्तसिद्धान्तः ७३ नाधिष्ठानसंबंधाभावात्। निरवयवशुद्धस्यव्याप्यगुणदोषा लेपेदृष्टांतमाह । वियदाकाशेयथासर्वगतमपिशुद्धमेकंतथा मांतर्यामित्वेनसर्वानुस्यूतमपि शुद्धं निर्मलंबुद्धयादिगत रागादिमलरहितं । प्रज्ञानमेवेतिश्रुतेः । अतएवाच्छस्वरू पंअच्छंस्वच्छंसर्गादिसर्वधर्मातीतंयवस्तुसोऽहमात्मेत्यन्व यः। असंगोनहिसज्जते । असंगोह्ययंपुरुषइतिश्रुतेः॥१०॥ नन्वसंगश्चेदात्माकथमहंसुखीदुःखीसंसारीबद्धइत्या दिधर्मवत्तयाप्रतीयतेइत्याशंक्याह- घनच्छन्नदृष्टिर्घनच्छन्नमय थामन्यतेनिःप्रभंचातिमूढः॥त थाबद्धवद्धातियोमूढदृष्टेःसनित्यो पलब्धिस्वरूपोहमात्मा॥११॥ घनच्छन्नदृष्टिरिति । घनेनमेघेनछन्नाआच्छादितादृष्टि दर्शनचक्षुर्यस्यसवनच्छन्नदृष्टिःपुरुषःघनाभिभूतदृष्टिरित्य थः। सघनच्छन्नंचनेनाभिभूतंयथायेनप्रकारेणार्कमादित्यम न्यतेजानातिकथंभूतमकनिःप्रनिर्गतापभादीतिर्यस्मात्स ७४ वेदान्तसिद्धान्तः तथोक्तस्तानन्वल्पपरिमाणेनकथंमहत्तरिमाणस्यरवेश्छन्न त्वंमन्यतेइत्याशंक्याह अतिमूदाअतिशयेनविवेकरहित इत्यर्थः। दृष्टांतमुक्त्वादाष्टांतिकमाह तथाआदित्यविपरी तभानप्रकारेणबद्धःसंसारीसुखीदुःखीतितेनतुल्येवर्ततइति बद्धवत् । ननुवस्तुतोमूर्तस्याद्वितीयस्याविद्यादिसंबंधाधि धानस्यबंधमोक्षौसंभवतस्तयोरवस्तुभूतत्वात् । तदुक्तंश्रु तौ। ननिरोधोनचोत्पत्तिर्नबद्धोनचसाधकः । नमुमुक्षुर्न वैमुक्तइत्येषापरमार्थतेतिश्रुतेः । वस्तुगत्याएवंभूतोपि मूढः आत्मानात्मविवेकरहितादृष्टिबुद्धिर्यस्यसमूढदृष्टिः पुरुषस्तस्यवेदांतश्रवणसंस्काररहितांतःकरणस्यएवंभाति सोहमित्यन्वयः ॥ ११॥ तथाचजन्ममरणसुखदुःखस्वर्गनरकबंधमोक्षादिव्यव स्थोपाधिगतैवात्मनिसर्वधर्मातीतेकेवलेनिरस्ताविद्यात कार्यसंबंधेनमालतीयतेइतिदृष्टांतपूर्वकमाह- उपाधौयथाभेदतासन्मणीनांत थाभेदताबुद्धिभेदेपुतेपि॥ यथा १ - वेदान्तसिद्धान्तः ७५ चंद्रिकाणांजलेचंचलत्वंतथाचंच लत्वंतवापीहविष्णो ॥१२॥ उपाधाविति ॥ उपसमीपेआधीयतेस्थाप्यतेयः सउपा घिर्जपाकुसुमादिः निर्गुणस्यनिर्भेदस्यनिःक्रियस्यचसगु णसक्रियसभेदेनयद्भानकारणंतदुपाधिः । तदेवदृष्टांतपूर्व कमाह । सन्मणीनामिति विशुद्धमणीनां यथायेनप्रका रेणजपाकुसुमादींद्रनीलमण्यादिसंबंधात्तमुपरागमवाप्य शुद्धस्फटिकादीनामपितत्तदाकारणभानभवति । दार्टी तिकमाह । तथातेनमण्यादिप्रकारेणबुद्धीनांभेदाः बुद्धि भेदास्तेषुबुद्धयाद्युपाधिषुसत्सुतेपितवापिसेदता नानारू पताकूटस्थत्वादिरूपेणभवति । तद्यथा। अधिष्ठानतयादे हद्वयावच्छिन्नचेतनः कूटवनिर्विकारेणस्थितः कूटस्थ उच्यते । अज्ञानोपहितबिंबचैतन्यमीश्वरः अंतःकरण तत्संस्कारावच्छिन्नंअज्ञानेप्रतिबिंबितंचैतन्यंजीवइतिके चित् । इंद्रियैरस्मिन्घटसंनिकर्षेअंतःकरणमपिअस्मिदा वेदान्तसिद्धान्तः राघटाकारतामेतितच्चसावयवत्वात्परिणम्यमानदेहात्यंत रघटादौदेहघटयोमध्येचसम्यग्व्याप्यवर्त्तते तत्रचदेहम ध्यवर्तीतद्भागोहंकाराख्यः कर्तृशब्दवाच्योभवति । देह विषयमध्यवतीदंडायमानस्तद्भागोवृत्तिज्ञानाख्यः क्रिया शब्दाभिधेयोभवतिघटादिविषयव्याप्तः तद्भागोविषयस्य ज्ञानकर्मत्वापादकोभिव्यक्तियोग्यमित्युच्यते । त्रिभाग स्यांतःकरणस्यातिस्वच्छत्वाच्चैतन्यंतत्राभिव्यक्तिमति।त त्राभिव्यक्तस्यचैतन्यस्यैकत्वेप्यभिव्यंजकांतःकरणभाग लक्षणोपाधिविध्यात्तस्यापित्रैविध्यंव्यपदिश्यते कर्तृभा गानुगतश्चिदात्माप्रमाताक्रियाभागानुगतश्चिदंशःप्रमाणं विषयानुगताभिव्यक्तियोग्यत्वभावावच्छिन्नश्चिदंशामि तिरिति विषयगतंब्रह्मचैतन्यमज्ञातसत्तदेवफलमित्युच्य तोबिंबप्रतिबिंबमुखानुगतमुखस्वरूपवत्। जीवेश्वरानुगतं सर्वानुसंधातृचैतन्यंसाक्षीत्युच्यते । ईश्वरोपित्रिविधःस्वो पाधिभूताविद्यागुणत्रयभेदात्सोपिब्रह्मविष्णुरुद्रोदावत्रि विधोभवति । कारणीभूतसत्वगुणविशिष्टोविष्णुःपालकः वेदान्तसिद्धान्तः कारणीभूतरजोगुणविशिष्टोब्रह्मास्रा हिरण्यगर्भस्तुनब लामहाभूतकारणत्वात् । स्थूलभूतकारणत्वेनौपचारि कीब्रह्मेतिसंज्ञा । कारणीभूततमोगुणविशिष्टत्वाद्रुद्रःसंह र्ता । ब्रह्मोपाधिस्तुसूत्रकारेणैवोपदिष्टः । जन्माद्यस्ययतइ ति । अस्यप्रत्यक्षादिप्रमाणगोचरस्यजगतोयतोनिमित्ता जन्मादिजन्मस्थितिरंगतद्ब्रह्माब्रह्मसंज्ञाप्यौपाधिक्येवा त स्यसंज्ञासंज्ञिसंबंधरहितत्वात् । तथा जीवोपित्रिविधः । उपाधिोदेनविश्वतैजसमाज्ञसंज्ञाभेदमधिगच्छति । तद्य था । अविद्यांतःकरणस्थूलशरीरविशिष्टोजायदवस्थाभि मानीविश्वः ।विवण्वस्थूलशरीराभिमानरहितउपाधिद्व यावच्छिन्नःस्वमाभिमानीतैजसःशरीरांतःकरणोपाधिद्वय हीनांतःकरणसंस्कारावच्छिन्नाज्ञानमात्र विशिष्टः सुषुत्यव स्थाभिमानीप्राज्ञः। एवंस्तंभादिब्रह्मांताख्यंबकचतुर्मुखा याःसंज्ञास्तथासरस्वतीश्रीभवानीत्याद्याश्चैतस्यैवोपाधिो देनसंज्ञाअवगंतव्याः सर्वखल्विदंब्रह्मेतिश्रुतेः। ननुस त्मकत्वेनसर्वत्रसर्वदाचेत्सत्त्वमात्मनःकथामिहलोकपरलो . वेदान्तसिद्धान्तः कादौकर्मनिबंधनातक्रियापुराणादौप्रसिद्धा तस्यामूर्तध मत्वादित्याशंक्याहायथाचंद्रिकाणामिति। चंद्रिकाश्चंद्रप तिबिंबालक्षणयोच्यते। चंद्रकाइतिपाठोपचंदप्रतिबिंबाए वावगंतव्याःस्वार्थक प्रत्ययः। यथाआकाशेदेदीप्यमानस्य चंद्रमसःचंचलत्वंस्वच्छत्वमलिनत्वंतत्रनसंभवतिकेवलं श्रांत्यातद्धर्मत्वेनप्रतीयतेप्रतिबिंबद्वारातथाहेविष्णोहेव्या पनशीलइहपुराणायुपवर्णितकर्मकार्यसंसारमंडलआध्या सिकसंबंधाबुद्धिगतचंचलत्वमूढास्तदाधिष्ठानेब्रह्मणाधिग च्छंतिानतुनिरस्तधर्माधर्मसंबंधेत्वपिकापिक्रियासंभवति। ध्यायतीवलेलायतीवेतिश्रुतेः।नचान्यथाख्यात्यात्युपगमो वृत्तइतिवाच्यमत्रसर्वधर्मविशिष्टस्याज्ञानवुद्धयादेरारोपा युपगमाद्धर्मिणोन्यत्रसत्त्वानभ्युपगमात्तच्छंकायानावका शलेशोपीतिसर्वमनवा ॥ १२ ॥ इतिश्रीवेदांतसिद्धांतदीपिकाहस्तामलकटीकासमाता ॥ .
श्रीः अथ निर्वाणपंचकम् ॥ ॐ श्रीगणेशाय नमः ॥ शंकरं परमानंदं सच्चिदानंद विग्रहं ।। नित्यं निरंजनं शंसुं नमामि जगदीश्वरं ॥१॥ नाकतंकतेभवति अकते मोक्षं कतेन कर्मणा न भवति इति कर्मपक्षनिरासः ।भेदापासनायां दोषमाह । ॐ आत्मनि अन्यत्र वेद अथ तस्य योन्यां देवता मुपासतेमृत्योःस मृत्युप्रामोतियइहनानेवपश्यति द्वितीयाद्वै भयं भवति यस्तस्मिन्नुदरमंतरंकुरुते अथ तस्य भयं भव तीत्यादिवाक्यं श्रुत्वा परीक्ष्य लोकान्कर्मचितान् वैहसौ म्यवाह्मणोनिर्वदमायात् इति प्रवाजिनोलोकमेतमिच्छं तः प्रव्रजतिब्राह्मणाः किंप्रजयाकरिष्यामोयेषांनायमा त्माऽयंलोकःतमेवविदित्वातिमृत्युमेतीतिश्रुतेः । पुत्रैषणा याश्चवितैषणायाश्चलकैषणायाश्चव्युत्थायाथब्राह्मणाभि क्षाचयंचरतिनिर्वदमायातः त्वंपदार्थविवेकायसंन्यस्यसर्व कर्मणांशांतोदांतउपरतस्तितिक्षुःसमाहितो त्वागुरुंप्रपूच्छे 4
८२
निर्वाणपंचकम्.
पापवादपूर्वकम् । यथा असर्पभूतायांरज्जौसपारोपवद्वस्तु
न्यवस्त्वारोपोध्यारोपवस्तुसच्चिदानंदाद्वयंब्रह्म अज्ञानंस
कलजडसमूहोऽवस्तु । अज्ञानमपिद्विविधज्ञानशक्तिक्रिया
शक्तिभेदात् रजस्तमोरहितंसत्वंज्ञानशक्तिरित्युच्यते । स
त्वात्संजायतेज्ञानरजसोलोभएवचेतिस्मृतेः क्रियाशक्ति
विधा। आवरणशक्तिर्विक्षेपशक्तिश्च । रजःसत्वरहितंतमः
आवरणशक्तिरित्युच्यते । कृष्णंतमः आवरणात्मकत्वा
त् । इति तमःसत्वरहितरजोविक्षेपशक्तिरित्युच्यते । रज
सोलोएवचेतिस्मृतेः । लोनादीनांविक्षेपकत्वंप्रसिद्धं ।
अथवा अज्ञानमपिद्विविधं मायाअविद्याभेदात् । चैत
न्यमपित्रिविधं साक्षीश्वरजीवभेदात् । पुनःमायासमष्टिरू
पात्रिविधा । कारणसूक्ष्मस्थूलभेदात्। अविद्याव्यष्टिरूपा
त्रिविधा।कारणसूक्ष्मस्थूलभेदात् । पुनःईश्वरोपित्रिविधः
ईश्वरहिरण्यगर्भविराझेदात् । अथवा ब्रह्मविष्णुशिवभे
दात् । जीवोपित्रिविधः प्राज्ञतैजसविश्वोदात् । तथाहि
ईश्वरस्यसमष्टिरखिलकारणत्वात्कारणशरीरं । आनंदप
चरत्वात् कोशवदाच्छादकत्वात् आनंदमयःकोशः । स
।
निर्वाणपंचकम्.
८३
वोपरमत्वात्सुषुप्तिः। हिरण्यगर्भस्यसमाष्टस्थूलपपंचापेक्ष
यासूक्ष्मत्वात्सूक्ष्मशरीरविज्ञानमयःकोशः । ज्ञानशक्तिमान
कर्तृरूप मनोमयकोशः । इच्छाशक्तिमानुकरणरूपमाणम
यकोशः । क्रियाशक्तिमान कार्यरूपःजायद्वासनामयत्वाद
स्वमःविराजःसमष्टिस्थूलभोगायतनत्वातस्थूलशरीरंअन्न
विकारत्वात् अन्नमयःकोशः । श्रोत्रादिज्ञानेंद्रियशब्दादि
विषयज्ञानत्वात्जायत्प्राज्ञस्यव्यष्टयहकारादिकारणत्वा
कारणशरीरं आनंदप्रचुरत्वात् कोशवदाच्छादकत्वाद
आनंदमयकोशः । सर्वोपरमत्वात्सुषुप्तिःतैजसस्यापिव्यष्टि
स्थूलप्रपंचापेक्षयासूक्ष्मशरीरविज्ञानमयमनोमयप्राणमयः
कोशः जायद्वासनामयत्वावस्वमा विश्वस्यव्यष्टिःस्थूलमो
गायतनत्वात् स्थूलशरीरंअन्नविकारत्वात् अन्नमयः
कोशः।श्रोत्रादिज्ञानद्रियशब्दादिविषयज्ञानत्वात् जामद
एवंसमष्टिव्यष्टयोर्वनवृक्षयोरिवएतदुपहितयोरीश्वरजीव
योरपिवनवृक्षावच्छिन्नाकाशयोरिवाभेदावनवृक्षतदव
च्छिन्नाकाशयोआिधारानुपहिताकाशवत् अनयोराधा
८४ निर्वाणपंचकम्. रभूतैयदनुपहितंचैतन्यतुरीयंसाक्षिइत्युच्यते।अयमेवाध्या रोपः । अपवादोनाम यथारज्जुविवर्तस्यसर्पस्यावस्तुनो अज्ञानस्यप्रपंचस्यअपिब्रह्ममात्रभवतिएवंसद्वैतोपमर्दने नअज्ञाननश्यत्येवतहिअस्त्येवाज्ञानं । प्रकतेकिमायात 'दारांपत्यक्षेत्रवित्तादिदूरः इति । पत्रीपुत्रक्षेत्रधनादिकम पिपरित्यज्यस्थूलदेहेनसहस्वर्गवानरकंवागच्छतिव्यावहा रिकोजीवः संसारीसएव । इहलोकेपरलोकादिषुसंचर तीतिसर्वानुभवसिद्धमितिकिंवक्तव्यं । तर्हिइदंपरिदृश्यमा नंदेहापिअविद्यकंप्रत्यक्षंयथातथाब्रह्मादिपिपीलिकांतप रोक्षप्रत्यक्षरुपसर्वजगतमायिकमनात्मरूपं । चिदात्माकी दृशइत्यतआह । साक्षीति । ज्ञाताज्ञातंसाक्षादीक्षतेइति साक्षीद्रष्टा । ननुएकःकूटस्थोनिर्धर्मकःसाक्षीनाद्रियते अ 'प्रामाणिकत्वात् इतिचेतून । तमेवशांतमनुभातिसर्वतस्य भासासर्वमिदंविधाति । नदृष्टेष्टारंपश्येत् । अदृष्टोद्रष्टाना न्योतोस्तिद्रष्टानान्योस्तिमंताइत्यादिवेदांतप्रमाणराजेन तस्यैवसर्वसाक्षित्वेनाभिषिक्तत्वात् । नित्यः कालत्रये
निर्वाणपंचकम्.
प्यबाध्यमानः देशतः कालतः वस्तुतः परिच्छेदरहितः ।
शिवःसच्चिदानंदस्वरूपः मायाविद्याजगज्जीवेश्वरादिदृश्या
दृश्यप्रपंचविलक्षणःप्रत्यगात्मासाक्षीब्रह्मैवसत्यंतस्मात् अ
न्यत्सवअनित्यंसआत्मासोहमस्मीति । अस्मिन्नर्थश्रुति
स्मृतिपतीनिबहूनिप्रमाणानि । ब्रह्मविद्रह्मैवावति ।
तरतिशोकमात्मवित् । शिवमद्वैतंचतुर्थमन्यते । निष्क
लोनिष्क्रियोनिर्विकारानिर्विकल्पोनिरंजनःशुद्धोदेवएको
नारायणः पुरुषएवेदसर्व । सर्वखल्विदंब्रह्म । नेहनाना
स्तिकिंचनातथाचस्मृतिः।अजोनित्यः शाश्वतोऽयंपुराणो
नहन्यतेहन्यमानेशरीरे। इत्यादिश्रुतिस्मृतिसहस्रायः। श्रु
तिस्मृतीममैवाज्ञाइतिप्राहस्वयंहरिः। तद्वेदितव्यमुमुक्षुभिः
आत्मनोऽन्यत्रप्रियांत्वांरोदिष्यसि पामरादेहवादिनाइदं
मेस्यातइदंमेनूयात् इदमेपुनभविष्यतीतिदुःखसंसारार्ण
वेमज्जति। तदुक्तंकैश्चत् । अलायमानस्तनयः पितरौक्लेश
येचिरं । लब्धोपिगर्भपातेनप्रसवेनचबाधते ॥१॥ जातस्य
ग्रहरोगादिः कुमारस्यचमूढता । उपनीतेप्यविद्यत्वमनु
८६ निर्वाणपंचकम् द्वाहंश्चपंडिते ॥ २ ॥ यूनश्चपरदारादिदारियंचकुटुंविनः। पित्रोर्दुःखस्यनास्त्यंतोधनीचेम्रियतेतदा ॥३॥ एवंआशा पाशक्लेशाहंकारादिकर्तृत्वभोक्तृत्वसुखित्वदुःखित्वजन्मप्र लययुक्तसंसारसमुद्रेपुनः पुनः मनाजवंतिइत्यर्थः॥१॥ ननुप्रत्यगभिन्नः परमात्माजगतजीवेश्वरादिश्योभिन्न इतिचेत्प्रत्यक्षानुमानयोः प्रत्यक्षस्यबलवत्त्वात्तेषांदेहा दीनांअनुमानेनअनात्मत्वेसिद्धेपिअहंजीवइतिवाप्रत्यक्ष सिद्धत्वात्एषजीवः एषआत्मास्यावतस्मात्परमात्माहं कथावयमित्यतआह रज्ज्वज्ञानाद्भातिरन्जुर्यथाहिः स्वा त्माज्ञानादात्मनो जीवभावः ॥ आप्तोत्या हिभ्रांतिनाशे सरजुर्जी वो नाहं देशिकोत्याशिवोह॥ २॥ रज्ज्वज्ञानादिति । दृष्टांतायथामहांधकारेकालत्रयेप्प विकाररज्ज्वज्ञानातूइयरज्जुरितियथार्थज्ञानाभावतया भात्यानिर्विकाररज्जुः अहिः सर्पोजातिप्रकाशतेसाकारे ८७ निर्वाणपंचकम् णविभाति यथाआतवचनातनायंसर्पः किंतुरज्जुरेवतन्न मात्पूर्ववर्तमानकालेन्चमकालेनमनिवृत्तिकालेपिकालत्रये पिनायंसर्पःरज्जुरेवेतिश्रुत्वामत्वादृष्ट्वारनौसर्पत्रांतिनिवृत्ति भवति तथादेशिकोक्यागुरुवचनात्महावाक्यश्रवणमन ननिदिध्यासनात्ब्रह्मात्मव्यतिरेकेणजीवोनास्तितस्मादस त्यंजीवः किंतुपरब्रह्मैवभवतिइतिश्रुत्वामत्वानित्यापरोक्षं परब्रह्मभूत्वाआचार्यप्रसादनेचअसंभावनाविपरीतभावना निवृत्तिपूर्वकंनित्यापरोक्षब्रह्मवाहमस्मीतिसिद्धमित्यर्थः २। ननुप्रत्यक्षतयात्रतीयमानस्यप्रपंचस्यकथमसत्यत्वसंभव दित्याशंक्यस्वमदृष्टांतेनतस्यासत्यत्वादितिपरिहरति- आभातीदं विश्वमात्मन्यसत्येस त्यज्ञानानंदरूपेविमोहात् ॥ नि द्रामोहात्स्वप्नवत्तन्नसत्यशुद्धः पू पोनित्यएकः शिवोहं ॥ ३॥ आजातीदमिति। विश्वविविधाकारंसर्वपरिदृश्यमानमि ८८ निर्वाणपंचकम्. देदेवमनुष्यपशुपक्षिमृगतिर्यगादिरूपब्रह्मादिपिपीलिकांत स्थावरजंगमात्मकंसकलंजगत् असत्यरूपं विमोहाद अज्ञानात्माययासत्यज्ञानानंदरूपेआत्मनिब्रह्मणिकालत्र येप्यसत्यमेवसत्यमिवभाति प्रकाशते ।अत्रदृष्टांतमाह । यथानिद्रामोहानिद्रास्वरूपात्मायापरवशात् पुरुषस्य जीवस्यअसत्यःस्वमः सत्यमिवाभाति प्रकाशते । तथा असत्यमिदंजगदात्मस्वरूपंनभवति । अनात्मैव। किंतु शुद्धः शुभोज्योतिषांज्योतिरितिश्रुतिः। पूर्णः सर्वव्यापी सर्वभूतांतरात्मेतिश्रुतेः । नित्यः दृढः एकः अद्वितीयः एकमेवाद्वितीयंब्रह्मेतिश्रुतेः । शिवः एवंभूतआत्मासोऽह मस्मीत्यर्थः॥३॥ ननुअहंजातोऽहंबालोऽहंयुवाऽहंवृद्धोऽहंनष्टोऽहंकर्ता ऽहंमोक्ताऽहंसुख्यऽहंदुःख्यहंपश्यामिगच्छामीत्यादिअनु भूयमानस्यममात्मत्वंकथमितिशिष्याभिप्रायमनसिनिधा यगुरुः हेशिष्यजरामरणादिदेहधर्मः शब्दस्पर्शरूपरसगंधा इंद्रियधर्मःक्षुत्पिपासादिप्राणधर्मः संकल्पविकल्पोमनोधर्मः ८९ निर्वाणपंचकम् निश्चयानुसंधानादिबुद्धिधर्मः विचारणावधारणादिचित्त धर्मः कर्तृत्वभोक्तृत्वादिअहंकारधर्मः ज्ञातृत्वानुभवितृत्वा दिअंतःकरणधर्मः आत्मधर्मोनकश्चिदित्याह-- नाहंन जातोन प्रवृद्धोन नष्टो देह स्योक्ता प्राकृताःसर्वधर्माः॥कर्तृ वादिश्चिन्मयस्यास्ति नाहंकार स्यैवह्यात्मनोमेशिवोहं ॥ ४॥ नाहमितिानाहंजातः किंतु षद्विकारशून्यत्वात् जा यतेऽस्तिवर्द्धतेविपरिणमतेअपक्षीयतविनश्यतीतिषड्ञा बविकारादेहधर्मः ममधर्मोनकिंचन । किंतुअहंकारस्यैव प्रकतिधर्माः। एवाचन्मयस्यसच्चिदानंदस्वरूपस्यसर्वसाक्षि णः ममैतेधर्माः कदाचित्किंचित्कश्चित्धर्मलेशोनास्ति । अस्मिन्नर्थेनमवद्वचनंप्रमाणं । नजायतेम्रियतेवाकदाचि नायंभूत्वाभवितावानभूयः । अजोनित्यः शाश्वतोऽयंपुरा णोनहन्यतेहन्यमानेशरीरे॥ १ ॥ इति।असंगोह्ययंपुरुष तिश्रुतेः । यद्यौतिकंययजन्मादिकम्तत्तदनात्मतिसि ९० निर्वाणपंचकम्. छ। तस्माशिवोहमस्मीतिकर्तृत्वादिअहंकारधर्मत्वात् । मायापरवशावनात्यामयाअनुसूयमानत्वादिदानीतुसद्गुरू पदेशनेज्ञात्वातस्मादहमात्माब्रह्मैवेत्यर्थः ॥ ४॥ मुमुक्षूणामविद्यानिवृत्त्यर्थज्ञानदाढायचनिःसंशयज्ञा नार्थ पुनर्वदति- मत्तो नान्यत्किचिदत्रास्ति दृश्य सर्वबाह्य वस्तु मायोपकप्तम्॥आ दीतर्भासमानस्य तुल्यं मय्य ।। द्वैतभाति तस्माच्छिवोहं ॥५॥ मत्तोनान्यदिति । मत्तोऽन्यत्इतरतूकदाचिदपिकि चिदपिनास्तिकिंबहुना । सब्रह्मासशिवः सविष्णुःसेंट: सोऽक्षरः परमः स्वराट् सपाणः सकालामिः सचं द्रमाःइत्यादिश्रुतिभ्यः प्रतिपादितत्वात् । एकमेवाद्वितीयं ब्रह्मसिद्धसोहमस्म्येव । मय्येवसकलंजामयिसर्वप्रतिष्ठि तं । मयिसर्वलयंयातितद्ब्रह्माद्वयमप्यहं । अत्रदृष्टांतः। वस्तुमायोपकृतंआदर्शात समानस्यतुल्यंयथाऽऽदर्शप्रति निर्वाणपंचकम्. विवितंमुखंग्रीवास्थमुखंभवति आदर्शमुखंनास्तितथापि तत्प्रतिबिंबितंमुखंग्रीवास्थमुखादन्यनास्ति आदर्शस्य स्वच्छत्वात् तस्मिन्प्रतिबिंबितंमुखाभासंमुखमेवनवास्त वंबिंबभूतंयथार्थतंमुखंनभवति तथाअंतःकरणस्यावि द्याकल्पितस्यस्वच्छद्रव्यत्वात् तस्मिन्प्रतिबिंबितंचैत न्यंजीवचैतन्यंतत्प्रतिबिंबंब्रह्मात्मस्वरूपमेववास्तवस्वरू पमेवबुद्धौस्वच्छत्वेनसाक्षिबिंबग्राहकत्वात् साक्षिचिदा भासयोस्तादात्म्याध्यासः तस्मिन्निवृत्तेकृतकृत्योभवति विज्ञायदेवंसर्वपाशोपहानिः तमेवविदित्वातिमृत्युमेतिना न्यःपंथाविद्यतेयनायभिद्यतेहृदयग्रंथिश्छिद्यतेसर्वसंशयाः इत्यादिश्रुतेः । ननुदर्पणमुखयोर्जपाकुसुमस्फटिकयोःसा वयवयोःप्रतिबिंबदर्शनात् नीरूपस्यात्मनःकथंप्रतिबिं बतयाभ्युपगमइत्याशंक्याह ॥ जानुअमितजलेमेघस्यग्रहन क्षत्रोदराकाशस्यप्रतिबिंबदर्शनात्चएवंनिरवयवस्यात्मनः प्रतिबिंवोभवति ।ननुआत्मनःप्रतिबिंबेकिंप्रमाणमितिचेत् शृणु । रूपंरूपंप्रतिरूपोबभूव दृश्यतेजलचंद्रवत् मायामा सेनजीवेशीकरोतीत्यादि वदता वेदांतप्रमाणराजेनतस्यै ९२ निर्वाणपंचकम्. वसर्वप्रतिबिंबत्वेनाभिषिक्तत्वात् अतःअंतःकरणस्या विद्याकल्पितत्वात् साक्षीभास्यत्वात् उत्पत्तिमत्त्वात जडत्वात् अज्ञानकार्यत्वात् सोपाधिकत्वात् । त स्मात्प्रतिबिंबितंचैतन्यसाक्षीचैतन्यमेव । तथापि आदर्शाभावेमुखाभावःअंतःकरणाभावेप्रतिबिंबाभावःम तिबिंवाभावेजीवत्वानावातदक्षावईश्वरत्वाभावःतदभावे मायाऽविद्याभावेतयोरभावःतस्मात् नित्यशुद्धबुद्धमुक्त परमानंदाद्वयंब्रह्मैवाहमहमस्मीतिसर्ववेदांतसिद्धांतोय। ना न्यत्पश्यतिनाऽन्यच्छृणोतिनाऽन्यत्वदति तदेवभूमायो वैमासएवमुखयदन्यत्तदल्पंएतस्यैवानंदस्यान्यानिभूता निमात्रामुपजीवंति तस्मिन्सर्वाणिभूतानिआत्मैवाभूद्वि जानतः तत्रकोमोहःकःशोकएकत्वमनुपश्यतःइत्यर्थः॥५॥ हरिः ॐतत्सदितिश्रीमद्भगवत्पादपूज्यश्रीम च्छंकराचार्यविरचितनिर्वाणपंचकंश्रीमत्परम हंसपरिव्राजकश्रीस्वामिनित्यानंदसरस्वती विरचितनिर्वाणपंचकवितिसमेतंसंपूर्णम्?
श्रीः।
अथ मनीषापंचकम्.
श्रीगणेशायनमः ॥ अथश्रीमनीषापंचकंपारश्यते ॥
श्रीमद्यतीन्द्रमानम्यजगन्नाथमुनिगुरुं ॥ मनीपापंचकव्या
ख्यातन्यतेमधुमंजरी॥ १ ॥ तत्रादौकथानिरूप्यते । स
त्याचार्यस्यगमनेकदाचिन्मुक्तिदायकं ॥ काशीक्षेत्रप्रति
सहगौर्यामार्गेतुशंकरं ॥१॥ अंत्यवेशधरंदृष्ट्वागच्छगच्छे
तिचाबवीत्॥ शंकरःसोपिचांडालस्तंपुनः प्राहशंकर॥२॥
अस्यार्थः । कदाचिमुक्तिदायकंकाशीक्षेत्रप्रतिआचार्य
स्यशंकराचार्यस्यगमनेसतिमा गौर्यासहशंकरअन्त्यषध
रंचांडालवेषधारिणंरदृष्ट्वागच्छगच्छेतिचअब्रवीत् उक्तवा
न् । शंकरप्रतिनामआचार्यप्रति चांडालोपिसः शंकरः
पुनःमाहप्रत्युत्तरंदत्तवानकिंतत् तथाहि-
अन्नुमयादन्नमयमथवाचैतन्य
मेवचैतन्यात्ाद्रिजवरदूरीका
वांछसिकिंबहिगच्छगच्छेति॥१॥
९४ मनीषापंचकम्. अन्नमयादिति । अद्यतेयज्जनस्तदन्नंअनुभवतिचभूता नियत्तदन्नं । अदलक्षणइतिधातोरन्नशब्दस्योत्पन्नत्वात् । अदन्तियच्च तानितस्मादन्नंतदुच्यतइतिश्रुतेश्च ।तदन्नमय स्तत्प्रधानस्तद्विकारोवास्थूलदेहोऽन्नमयइत्युच्यते । तस्मा रन्नमयाचंडालत्वजातिविशिष्टाद्विपत्वजातिविशिष्टाद्वा अन्नमयमुक्तलक्षणंस्थूलदेहमन्यतरजातिविशिष्टदूरीकां दूरतःपरिहृत्यगंतुहेद्विजवर जन्मनाजायतेशूद्रः कर्मणाजा यतेद्विजः। वेदाध्यायीभवेदिप्रोब्रह्मजानातिब्राह्मणइतिस्म रणात् द्विजानाद्विजन्मनांकर्मिणांवामध्येवरःश्रेष्ठःअत्यं तकर्मीत्यर्थः । गच्छगच्छेतिवचसावांछसिअभिलष सिमनःपूर्वकत्वात्वाग्व्यापारस्यायद्धिमनसाध्यायतितद्वा चावदति वाङ्मेमनसिप्रतिष्ठितामनोमेवाचिप्रतिष्ठितमि त्यादिश्रुतिश्योवाग्व्यापारस्यमनोव्यापारपूर्वकत्वंसिद्धं । तदुक्तंभाष्यकताश्रीविष्णुदिव्यसहस्रनामभाष्ये। मनसावा चाअसंकल्पयत्यथवाचाव्याहरति यद्धिमनसाध्यायति तद्वाचावदतिइतिश्रुतिभ्यांसंस्मरणध्यानचनामकीर्तनेएवां
९५
मनीपापंचकम्.
तर्भूतमितिकिंबहीतिकाकुस्वरेणआक्षेपःकृतः। पक्षांतरम
वलंबयत्यथवेति । अथवाउतचैतन्यमेवचैतन्यात् । नच
भिन्न चैतन्यधर्मः चेतनस्याद्वितीयत्वेनव्यक्तिभेदस्यानं
गीकारेणजातेरनंगीकारात् । तच्चचैतन्येकूटस्थरूपं प्रति
बिंबरूपमवच्छिन्नरूपमेवनान्यत् । तादृशादेवचैतन्यात्
पूर्वोक्तोभयजातिविशिष्ट स्थूलदेहांतवर्तिनोदूरीकर्तुवांछ
सि । किंबहिगच्छगच्छेति पूर्ववदनुषज्यते ॥ १ ॥
देधाविकल्पोद्वितीयविकल्पमादौपरिहरन्प्रतिबिंबाव
च्छिन्नचैतन्यान्यांतयोश्चैतन्ययोर्दूरीकरणेच्छानयुज्यत
इति क्रमेणसदृष्टांतमाह-
किंगंगाबुनिबिंबितेंबरमणौचंडा
लवाटीपयःपूरेवांतरमस्तिकांच
नघटीमृतकुंभयोाबरे॥प्रत्यग्व
स्तुनिनिस्तरंगसहजानंदावबोधां
बुधौविप्रोयंश्वपचोयमित्यपिम
हान्कोयंविभेदोत्तमः ॥२॥
९६
मनीषापंचकम्.
किमिति । नंगांबुनिआर्यावर्तक्षेत्रेकाश्यादिपुण्यनगर
प्रांतेदेवतामनोहारिणीविष्णुपदोद्भवाभागीरथीजाह्नवीत्य
परंपर्यायनानीविलसतिगंगातस्याः सर्वपापक्षयकरपरममो
क्षप्रापकंचयदंबुजलं तस्मिन्अंबरमणौअंबरेनासिमणि
रिवदीप्यतिसयेनविराजमानत्वादंबरमणिः सूर्यः तस्मिन्
बिंबितेप्रतिबिंबितेसतिप्रतिच्छाययादृश्यमानेसतीतिया
वत् । तथैव चंडालवाटीपयःपूरे चंडालाः श्वपचास्ते
पांवाटीवीथीतस्यांपयःपूरंचर्मक्लेदनादिनादुर्गधंदुर्मलिनं
जलंतस्मिन्बिंबितेसतीत्यनुषज्यते । अंतरंभेदोऽस्ति
विद्यतेकिमित्याक्षेपः उभयत्रापियोज्यः । नांतरमनुभूय
ते । विद्वदविद्वत्साम्येनेत्याक्षेप्तुरभिप्रायः । एवंप्रतिबि
बपक्षांगीकारेशेदनमस्यानवकाशंपदावच्छिन्नपक्षेपितं
दर्शयति । कांचनेति । कांचनेनसुवर्णेननिर्मिताघटीकुंभः
कांचनामृदाप्रसिद्धयागंधादिगुणवत्यानिर्मितः कुंभोमृत्कुं
भस्तयोस्ताल्यामवच्छिन्नमाच्छादितमंबरंनभायत्तस्मि
अंबरेंतरमस्तिकिमित्याक्षेपः । नास्त्येवेतितात्पर्य ।
मनीषापंचकम्. अत्रोभयपक्षयोः प्रतिबिंबयोरवच्छिन्नयोर्वाधिबेनवाऽनव च्छिन्नेनप्रतिबिंबाश्यामवच्छिन्नात्यांवाबिंबस्याऽवच्छि नस्यप्रतिबियोरवच्छिन्नयोर्वापरस्परंनकदाचितभेदगं घस्यावकाशः व्यवहारभेदस्योपाधिपरामर्शमंतरेणाविना व्यमानत्वात् । विचाराभावजीवस्यद्वैतमिथ्यात्वमस्यवि चारवद्भिर्नवस्तुत्वमवसीयते । किंतुविचारविकलैरेवेत्य तोविचारवतानवताकथमुच्यते गच्छगच्छेतीत्यभिप्रायः। संप्रतिदृष्टांतेसोपाधिकयोरन्योन्यमनुपाधिकेनताश्यांतस्य च भेदाभावेप्युपाधिभूतयोरार्यावर्त्तादिपुण्यापुण्यक्षेत्रयोर थ चतत्स्थगंगादिपुण्यापुण्यजलयात्रैर्दस्यविद्यमानत्वात् दार्टीतिकेपि विप्रत्वाविप्रत्वजातिविशिष्टयोः स्थूल सूक्ष्मदेहयोस्तत्संस्कारतदक्षावविशिष्टयोरंतःकरणयोश्च भेदस्यानुभूतत्वात् विप्रत्वजातिविशिष्टतत्संस्कारोपेतदे हतदंतर्वय॑तःकरणान्यांतजातिरहिततत्संस्कारशून्यदेह तदंतर्वर्यंतःकरणयोर्दूरीकरणेच्छायुक्तैवेतिवदताशंकित इव पुनरप्यध्यस्तप्रपंचविधुरेपरमात्मनिविज्ञातेनकिंचि -
९८
मनीषापंचकम्.
दन्यद्विद्यतइति । यत्रत्वस्यसर्वमात्मैवात्कनकंपश्ये
दित्यादिश्रुतिमवष्ट यसर्वात्मकत्वमात्मनोऽभवत् । उपा
घिदृष्ट्यापितदूरीकरणेच्छानघटिप्यते इतिप्रथमविकल्प
परिहरति । प्रत्यग्वस्तुनीति । प्रातिलोम्येनमिथ्याध्यस्त
सर्वप्रपंचवैलक्षण्येनअंचतिप्रकाशयतिइतिप्रत्यक् परमा
त्मा सचवस्तुअनध्यस्तात्मस्वभाववत्त्वेसतिकल्पितसमस्त
वस्त्वधिष्ठानतः तस्मिन्प्रत्यग्वस्तुनि । किंचनिर्गतप्रपंच
रूपस्तरंगोयस्मात्सहजानंदावबोधांबुधेः सहजस्वभावः
आनंदः सुखंअवबोधः स्फुरणंस्वभावतोनकेनापिनिर्व
तितआनंदश्वासाववबोधश्चेतिसहजानंदावबोधः सएवांबु
धिरिवांबुधिरपर्यंतत्वात् तस्मिननिस्तरंगसहजानंदावबो
धांबुधौप्रत्यग्वस्तुन्यहमित्यनुभूयमानेसतीतिशेषः । वि
प्रोऽयंद्विजातिरध्ययनशीलः श्वपचोऽयंचांडालः पशुपा
तकइतिचइयत्तापरिच्छेदशून्योऽयविभेदनमः दैतन्त्रांतिः
कः कुतः संभवतिनकुतोपीत्यर्थः । प्रत्यगेकरसस्यवस्तु
नोनिष्पपंचोक्तरितिभावः ॥२॥
मनीषापंचकम्. एवंकेवलपारमार्थिकदृष्टिमवलंब्याऽक्षिप्तः सन् आचा ोयंदेवस्तारकोपदेष्टापूर्णपुरुषोविश्वेश्वरोभवितुमर्हतीति निश्चित्ययथोक्तमेवमेतत्एतादृशदृष्टिमत्सु भवादृशेषुना स्माकंचंडालत्वादिप्रतीतिरित्यभिप्रेत्यजापदित्यादिभिः पंचनिःश्लोकैःस्वानुभवनिरूपयति । तत्रतावच्चतुर्युवेदेषु यानिप्रसिद्धानि प्रज्ञानंब्रह्म अहंब्रह्मास्मि तत्वमसि अय मात्माब्रह्मेत्येवरूपाणिक्रमेणऋग्यजुःसामाथर्वणोपनिषद् तानिमहावाक्यान्यर्थतोऽनुक्रामति । जाग्रदित्यादिना-- जाग्रत्स्वप्नसुषुप्तिषुस्फुटतराया संविदुज्जृभतेयाब्रह्मादिपिपीलि कांततनुषुप्रोताजगत्साक्षिणी॥ सैवाहनचदृश्यवस्वितिहढाप्रज्ञा पियस्यास्तिचेच्चांडालोस्तुसतु हिजोस्तुगुरुरित्येषामनीषामम॥१॥ अस्यायमर्थः । यस्यापिकस्यचित्पुरुषविशेषस्यदृष्ट १०० मनीपापंचकम्. प्रज्ञाऽस्तिचेत्सपुरुपश्चंडालोदिनोवास्तुगुरुरित्येपामममनी पेत्यन्वयः । अत्रसैवाहनचदृश्यवस्त्वितिप्रज्ञाया:प्रकार क्तः। स्फुटतरेति संविदासर्वप्रसिद्धिद्योतनाथ । जानामी त्यादिसंव्यवहारेषुप्रज्ञानस्यविजृभमाणत्वात् । प्रज्ञानानु भवविहीनस्यलोष्टचत्नरसमाकतेःशास्त्रार्थविचारेअनधि काराच । अथवा स्फुटतरेति संविदोऽनावृतत्वमुच्यते। तस्याःसर्वाधिष्ठानतयासर्वप्रकाशकत्वेनावरणाज्ञानस्यापि भासकत्वात् । तमेवभांतमनुनातिसर्वमित्यत्रश्रुतौसर्व शब्देनाऽवरणस्यापिविवक्षितत्वात् । चैतन्यप्रसिद्धिद्यो तनंतुयच्छब्देनभवति। ननुयच्छब्देनचैतन्यस्यप्रसिद्धिर्विव क्षिताचेत्तर्हिसाप्रसिद्धिःकेत्याकांक्षायामाह। जायत्स्वमसु पुतिष्विति । इंद्रियैरर्थोपलब्धिर्जागरितं । करणेखूपसंहते पुजागीरतसंस्कारजप्रत्ययःस्वविषयःस्वमः । सर्वप्रकार कज्ञानोपसंहारेवुद्धःकारणात्मनावस्थानंसुषुप्तिः । इत्येवं लक्षणकाजामदाद्यवस्थाःप्रसिद्धाः तासुप्रसिद्धास्ववस्थासु सीवदप्रिपसिद्धा । यथाप्रसिद्धाऽन्निाद्भुतइ (१) वचंद्रमाः
मनीपापंचकम्.
एवंप्रसिद्धास्ववस्थासुसंविदपिप्रसिद्धानन्वेवंशास्त्रकतपरि
श्रमाणांसंवित्प्रसिद्धिरस्तुअतिरिक्तानांकथमितिचेदुच्यते
शब्दांतरेणव्यवहृतत्वादिति । संवित्प्रज्ञानचैतन्यंवोधःसा
क्षिकूटस्थःस्वयमात्मेत्येवंप्रकारकैःशब्दैव्यवहर्तुमसंस्कृता
अपिदेशनापादिसांकेतिकशब्दैरात्मानंचैतन्यरूपंसर्वसंव्य
वहारसाधकत्वेनव्यवहरति । ज्ञापकंचतेषांवर्त्तनविजाना
मीत्यादि । तत्रविजानामीत्यादिव्यवहारोबोधैकहेतु
कइत्यनुमानादिस्वप्रमाणेनाऽविजानंतोऽपिप्रसिद्ध्याजा
नत्येव । इदानीज्ञानमस्ति व्यवहारोप्यस्ति इदानींतु
ज्ञाननास्तिव्यवहारोपिनास्तिइतिअन्वयव्यतिरेकज्ञानवि
वेकिनांगुरुमुखातसिद्धमपिअविवेकिनामनुभवतएवासिद्धं
तद्यथाचंद्रमाभगवतईश्वरस्यहृदयनेत्रमित्यादिरूपणाशिष्टै
विज्ञातोपिमूढातएवस्वप्रकाशत्वेनशिशिरकरत्वेनमंडला
याकारणच । एवमेवसंवित्स्वतःसिद्धास्वप्रकाशेत्यादि
नालिंगसिद्धिकात्यादिविशिष्टानुभवाविवेकनाविज्ञातापि
संवित व्यवहारसाध्यात्वप्राध्यान्येनविज्ञाताभवति । त
१०२ मनीषापंचकम्. स्माद्विवेकविकलानामप्यात्मसवित्प्रसिद्धिरस्तीतिबो ध्यं । व्यवहारवलेनेत्यभिप्रेत्याह । उज्जभितइति । उद धिकयथास्यात्तथागतेउल्लसति।व्यवहारहेतुतयाप्रकाश तइत्यर्थः।यदा उदपिज़ुभतइतिहेतुः।संवित्मसिद्धौविद्वत्स्व विद्वत्सुचाहमितिसर्वदानानात् विद्वांसोहिवयंस्मइतिजा नंति। अविद्वांसोपितथाकिंतुप्रकारांतरेण । अतएवविद्वद विद्वद्भेदः । जाग्रदित्यारण्यउज्जूंजतइत्यतेनइयताग्रंथसं दःणप्रज्ञानं ब्रह्मेतिमहावाक्यस्यप्रज्ञानशब्दस्यार्थउक्तोम वति।अधुनाब्रह्मशब्दस्यार्थमाहायाब्रह्मादिपिपीलिकांतत नुषुप्रोताजगत्साक्षिणीति ब्रह्माचतुर्मुखआदिउँपांतेब्रह्मा दयःपिपीलिकाकीटविशेषोंडतोयेषांतेपिपोलिकांताःब्रह्मा दयश्चेतिपिपीलिकांताश्चेतिब्रह्मादिपिपीलिकांताः प्राणि नस्तेषांतनव शरीराणितासुजगतः प्रपंचस्यसाक्षिणीसाक्षा दव्यवधानेनईक्षणकर्तीतिहेतोःप्रोताअनुगततयावर्त्तमाना यापसिद्धासविद्वयाख्याता एवंब्रह्मशब्दस्यपरिपूर्णत्वमर्थमु क्त्वोतनप्रत्यगात्मनएकत्वमभिवदति।सैवाहामति ! सैवर मनीषापंचकम्. १०३ सिद्धैवसंविदहअहंपदलक्षितःअहंप्रत्ययव्यवहारयोग्याश्च दात्मा।नचदृश्यवस्तुदशाव्याप्यतइति ।दृश्यंजगत्तद्वस्तुज गतोवस्तुत्वंकल्पितसंबंधेनपरमार्थवस्तुनिविद्यमानमुपर्यते जगतः कल्पितत्वेनवस्तुतोस्तुत्वाऽभावेपिव्यवहारसत्य त्वांगीकाराद्योग्यवस्तुत्वमस्तीत्यभिप्रायः । तदहंनभवा मिदृश्यवस्तुनोजडत्वावपरिच्छिन्नत्वाच्चइति।दृढप्रज्ञादृढा संशयानावनादिभिरबाधिताप्रज्ञामतिरज्ञानांदेहात्मप्रज्ञेव यस्यकस्यचिदीपपुरुषस्य श्रुत्याचार्यप्रसादमहिनाअस्ति विद्यतेचेद्यदिसतुपुरुषश्चंडालः पशुघातकोऽस्तुभवतुअथ वाद्विजोजात्याविप्रोस्तुगुरुःसर्वज्ञोभगवानिति । ज्ञानीत्वा त्मैवमेवमतमितिस्मृतेः ।तस्मादात्मज्ञह्यर्चयेद्भूतिकामइत्या दिश्रुतयश्च । एषाएतादृशीमममनीपामदीयाबुद्धिर्ममानुभ वइति यावत् । इदमत्राकूतंयस्तुपुरुषधौरेयोजाग्रत्स्वमसु षुप्तिषुस्फुटतरायासंविदुज्जृभतेइतिइयताग्रंथेनोक्तप्रज्ञान शब्दार्थबुद्धएतस्यार्थस्ययाब्रह्मादिपिपीलिकांततनुषुप्रो ताजगत्साक्षिणीति एतावताग्रंथेनोक्तब्रह्मशब्दार्थत्ववि
१०४
मनीपापंचकम्.
ज्ञायएतद्विज्ञानस्यफलभूतंसैवाहनचदृश्यवस्त्वितिइयता
ग्रंथेनोक्तवाक्यार्थानुभवकुर्वन स्थितप्रज्ञोभूत्वासदासमा
हितःसन्वर्तेत नतस्मिन्ममचंडालत्यादिविपरीतज्ञानकि
तुब्रह्मत्वमतिरेव । ब्रह्मवेदब्रह्मैवावतिइतिश्रुतेरिति । यद्य
पिसर्वमात्मेतिविज्ञानातश्वपचत्वादिप्रतीतिर्नपारमार्थिकी
तथापिव्यवहारसांकर्याऽनापत्तये व्यवहारेभनयइति
न्यायाधावनयास्वात्मनः सर्वात्मकत्वमनुभव कि
यायावत्प्रारब्धंद्वैतव्यवहारेयथापूर्वयथाशाखंविदुषावर्ति
तव्यमितिच । लोकसंग्रहमेवापिसंपश्यन्कर्तुमर्हसीति
स्मृतेराचार्यस्याभिप्रायांतरविज्ञायते । ननुचंडालोऽस्तु
सतुद्विजोऽस्तुगुरुरित्येषामममनीषेतिकथमभियुक्तैर्वक्तुमु
चितमितिचेन्न । आक्षेप्तुर्दवस्यचंडालवेषधारित्वात्
आक्षेपस्यापिसंपश्यविप्रोयंश्वपचोयमित्यापिमहान्कोयं
विभेदनमइत्येवंरूपत्वात् उत्तरस्यचोक्त्यनुसारित्वात्।अ
थपरमार्थवस्तुनउपनिषदेकसमधिगम्यत्वेनवेदाधिकारिणा
मेवतदनुभवस्तथापयश्चकश्चनयोगन्नष्टोगहनाकर्मणोगति
मनीषापंचकम्. १०५ रितिवचनात् किंचित्कर्मशेषतयाचंडालदेहधार्यपिनवे नामतस्मिञ्जन्मनिनतस्याध्ययनापेक्षाजन्ममात्रेणैवप्रार ब्धकर्मणोनष्टत्वात् भूतपूर्वगत्याबलानुभवस्यसिद्धत्वाद नतस्मिन्ममचंडालत्वादिनमः । नहिज्ञानेनसदृशंपवित्रमि हविद्यतइतिस्मृतेः । अत्रपितापिताभवतिमातामातालो काअलोकादेवाअदेवावेदाअवेदास्तेनोऽस्तेनोभवतिषण हाऽत्रूणहाचांडालोऽचांडालइत्यादिश्रुतेश्च ॥ १॥ इदानीयजुर्वेदोपनिषद्गताऽहंब्रह्मास्मीतिमहावाक्यार्थ मभिवर्णयति ॥ ब्रह्मैवाहमिदंजगच्चसकलंचिन्मा त्रविस्तारितंसर्वचैतदविद्ययात्रि गुणयाशेषमयाकल्पितं ॥ इत्थं यस्यहढामतिःसुखतरेनित्येपरे निर्मलेचंडालोऽस्तुसतुहिजोस्तु गुरुरित्येषामनीषामम॥२॥ ब्रह्मैवाहमिति । यस्यमतिः सुखतरेनित्येपरेनिर्मलेह १०६ मनीपापंचकम्. ढासतुपुरुषश्चंडालोऽस्तुद्विजोवास्तुममगुरुरित्येपामनीपे त्यन्वयः । इत्यादिविशेषणैर्विशेपितेपरेकिमितिदृढत्या कांक्षायामाह । ब्रह्मैवाहमित्यादि । अहमहंशब्दप्रत्यया झ्यामुपलक्षितआत्माब्रह्मैवाहं परिपूर्णःपरमात्मैव । किंच इदंसकलंसमस्तंजगचेतनात्मकंचिन्मात्रविस्तारितंचिन्मा चिदेकरसेब्रह्मणिविस्तारितंप्रपंचितं । नविस्तारित मित्याशंकायामाह । सर्वचैतदिति । एतत्परिदृश्यमा नमशेषंब्रह्मादीश्वरसहितसर्वजगत्रिगुणयात्रिगुणात्मिक याअविद्ययामाययामयाअध्यक्षेणकल्पितंरचितंदृश्यमेवं प्रकारेणनिश्चित्येतिशेषः दृढप्रज्ञाहबुद्धिरसंभावनादिभि नबाधितेत्यर्थः । यस्यापियस्यवाकस्यचित्पुरुषवरस्यअ स्तिविद्यतेचेद । इत्यनेनज्ञाननिष्टायादुर्लभत्वमुक्तं । सतु चंडालोस्त्वित्यादिस्पष्टं ॥ २॥ अधुनासामशाखोपनिषदुक्ततत्त्वमसीतिमहावाक्य स्यार्थमाह ॥ शश्वन्नश्वरमेव विश्वमखिलं नि श्चित्यवाचागुरोनित्यंब्रह्मनिरंत १०७ मनीषापंचकम्. रविमृशतानियाजशांतात्मना।। भूतंभाविचदुष्कृतंप्रदहतासंचि न्मयेपावकेप्रारब्धायसमर्पितं स्ववपुरित्येषामनीषामम॥३॥ शश्चदिति । अखिलं जगत्कारणंसत्तामात्रंवस्तुय निर्दिष्टंसदेवसौम्येदमासासीदित्यादिना तदेवत्वंनततोनि नोऽसि । भेदस्यमिथ्यात्वात् वस्तुनएकरूपत्वादित्युप देष्टुराचार्यस्यवाचावचसाब्रह्मपरिपूर्णवस्तुनिरंतरंस्वात्म नोभिन्ननिश्चित्यनिश्चयेनज्ञात्वा अखिलंसमस्तविश्वजगत् शश्वत्सर्वदानश्वरमेवनतुनित्यमिति । नित्यंसर्वदाविमृश ताआलोचयता अतएवनिर्व्याजशांतात्मनानिाजोनि ष्कपटःशांतउपरतः आत्मांऽतःकरणंयस्यतेन भूतमतीतं भाव्याऽगामि चकारेणवर्त्तमानंचयतदुष्कृतंदुःखानुभव कारणंपापंसंचिन्मये अहंब्रह्मास्मीतिज्ञानस्वरूपेपावकेअ गौप्रदहताप्रकर्षणदहनंकतवता तेनपुरुषधौरेयेणब्रह्मविन्मु ख्येनेतियावत् । स्वस्वकीयंवपुःशरीरंप्रारब्धायअवश्य मनीपापंचकम्. भाविफलायकमणसमर्पितसम्यगऽतिप्रारब्धाधीनंकलेवर कृतं । तस्यजीवितेमरणेवानस्वयंबुद्धिःविक्रियतइतिजा वः । सतुचांडालोऽस्तुद्विजोवाऽस्तुगुरुरित्येतदनुषंगितव्यं शिष्टंस्पष्टार्थ ॥ ३ ॥ संप्रत्यऽयमात्माब्रह्मेत्यथर्वणशाखोपनिषदतमहावा क्यस्यार्थमाह । यातिर्यकरदेवताभिरहमित्यंतः स्फुटागृह्यतेयद्भासातहदयाक्ष देहविषयाभांतिस्वतोचेतनाः। तांभास्यैः पिहितार्कमंडलनिभां स्फूर्तिसदाभावयन्योगीनित मानसोहिगुरुरित्येषामनीषामम॥४ यातिर्यगिति । याप्रसिद्धास्फूर्तिःस्फुरणचैतन्यामिति यावत् । तिर्यङ्गदेवताभिः तिर्यप्तिः पशुभिः नरैर्मनु व्यैः देवताभिर्देवश्चैअहमित्यहप्रत्ययव्यवहारयोग्यतया " मनीषापंचकम्. अंतर्विज्ञानमयशब्दवाच्यायांबुद्धौस्फुटमनावरणंयथात थागृह्यते अनुभूयते । किंचयद्भासायस्याःस्फूर्तेनसिाप्रका शेनहृदयाक्षिदेहविषयाः हृदयंहृदिहृदोलकेअयनमस्योति हृदयंमनः अक्षीणिइंद्रियाणिज्ञानकर्माख्यानि देहः स्थूलः विषयाः शब्दाद्याः वचनाद्याश्च एतेसर्वे स्वतः स्वभावतः अचेतनाः जडाअपीत्यपिशब्दोद्रष्टव्यः । मातिप्रसन्नेचत नाइवेत्यर्थः । पुनर्जास्यैःप्रकाश्यैःहृदयाक्षिदेहविषयैःपिहि तार्कमंडलनिशांपिहितमाच्छादितमेधैर्यदर्कमंडलंसूर्यमंडलं तन्निभांतत्सदृशींस्फूर्त्तिव्याख्यातांसदानित्यंयोगीनिर्जि तेंद्रियोभावयनहमितिध्यायन्नितिआत्मशब्दार्थोव्याख्या तः । यस्यास्फूर्त्तिस्तिर्यक्नरदेवताभिरहमित्यंतःस्फुटागृ यतेइति ब्रह्मणोरूपमुक्तं । यद्भासाहृदयाक्षिदेहविषया भांतिस्वतोचेतना इत्यात्मनोरूपमुक्तं । तांभास्यैः पिहितार्कमंडलनिझांस्फूर्तिसदाचाययनितिहिब्रह्मात्मनो । रकत्वमुक्तं । यच्छब्दद्वयेनस्फूर्तिसमष्टिव्यष्टयुपाधिवि शिष्टांलक्षीयत्वातच्छब्देनैकान्वयेनतस्ययोजितत्वात् । -- ११० मनीपापंचकम् एवंनिर्वतमानसोमोक्षसुखयुक्तमानसोहिप्रसिद्धायःसगुरु रित्यादिस्पष्टं । अथवाहिशब्दोहेत्वर्थेयस्मानिवृतमानसः तस्माद्गुरुरिति ॥ ४ ॥ एवंमहावाक्यचतुष्टयस्यजीवब्रह्मैक्यपरत्वमभिवर्ण्य तनिष्ठस्यगुरुत्वमपिव्याख्यायअधुनाफलितमाह । यत्सौख्यांबुधिलेशलेशतइमेश कादयोनिस्तायचित्तेनितरांप्र शांतकलनेलब्ध्वामुनिनिदृतः॥ यस्मिन्नित्यसुखांबुधौगलितधी ब्रह्मवनब्रह्मविद्यःकश्चित्ससुरेन्द्र वंदितपदोनूनंमनीधामम ॥५॥ यत्सौख्यांबुधीतियत्पसिद्धविद्वत्सौख्यंसुखमंबुधिःसमुद्र इवसमुद्रःअपर्यंतत्वात्। एतस्यैवानंदस्यान्यानिभूतानिमा त्रामुपजीवंतीतिश्रुतेः । तस्यसौख्यांबुधेर्लेशलेशतःसुक्ष्मात १११ मनीषापंचकम्. सूक्ष्मतरात्लेशमात्रादित्यर्थः । इमेप्रसिद्धाःशकादयःइंद्रा दयःब्रह्मबृहस्पतिप्रभृतयःआदिशब्देनोच्यतानिवृतामुक्ता आनंदिनोजाताइत्यर्थः। यत्सुखंचित्तेऽतःकरणेनितरामत्यं तंप्रशांतंकलनंचलनंयस्मिन्तत्तथातस्मिन्सतिलब्ध्वापा प्यअपरोक्षतयाअहमित्यनुसूयेत्यर्थः।सुमतिर्मननशीलोनि तोमुक्तोभवतीत्यर्थः। यस्मिन्योगिप्रत्यक्षगम्येप्रसिद्धति सत्यसुखांबुधौसुखमेवांबुधिःसुखांबुधिःनित्यश्चासौसुखां बुधिश्चेतिनित्यसुखांबुधिः मुखस्यविषयजनितस्यवृत्त्यधी नतयाक्षणिकत्वपिअविषयजनितस्यवृत्त्यधीनत्वाऽभावा नित्यसुखतएवापरिच्छिन्नत्वंचेतिविज्ञेयं । तत्रतस्मिन्नि त्यसुखांबुधौगलिताचष्टाविलीनेत्यर्थः । धीवुद्धिर्ब्रह्माका रवृत्तिरितियावत् यस्यसतथा सब्रह्मैवब्रह्मस्वरूपएव नब ह्मवित् ब्रह्मवेत्तीतिब्रह्मवित् सनभवतिवृत्तेरुपरतत्वात् । बृत्यधीनहिवेद्यत्वंदितृत्वंचयएतादृशः कश्चित् इत्यनेनब सविनिर्विकल्पसमाधिमान्लोकेदुलीतरइतिगम्यते। सर्व सिद्धोब्रह्मविद्वरिष्टः सुरेंद्रवंदितपदः सुराःदेवाः तेषामिंद्रः 1 ११२ मनीपापंचकम्. स्वामीशतमखः तेनवंदितनमस्कृतंपदंपादोयस्य सतथान नंसत्यंअस्मिन्नर्थनसंशयःएवंमममनीपेतिस्पष्टम् ॥ ५ ॥ मनीपापंचकस्यैवंरुताटीकामनोहरा । बालगोपालेंद्रनाम्नामुनिनामधुमंजरी ॥ इात श्रीमनीषापंचकंव्याख्यासहितं संपूर्णम् ।
श्री। अथ ब्रह्मविदाशीर्वादपद्धतिः। श्रीगणेशायनमः ॥ हरिॐ ॥ अथब्रह्मविदाशीर्वाद पद्धतिविद्यारण्योक्ता ॥ हिरण्यगर्भादिस्थावरांतेषुशरीरेषु यदेकंचैतन्यमस्तितदेवाहमस्मीतिदृढज्ञानसिद्धि यात् ।। लयविक्षेपकषायरसस्वादेन्योरक्षितंवित्तमविनेनब्रह्मण्यव स्थितंभूयात् ॥ २॥ नित्यनिर्विकारासंगाद्वितीयपरिपूर्ण सच्चिदानन्दस्वप्रकाशब्रह्मानुभवसिद्धियात् ॥ ३॥ अ हमादिदृश्यंविलक्षणात्मप्रत्ययानुभूतप्रत्यक्चिन्मात्रानुभ वसिद्धिर्भूयात् ॥ ४ ॥ सजातीयविजातीयस्वगतभेदरहि ताखंडसच्चिदानंदानुभवसिद्धिर्भूयात् ॥ ५॥ नित्यशुद्धबु द्धसत्यपरमानंदाद्वितीयब्रह्मात्मानुभवसिद्धिर्भूयात् ॥६॥ स्वगतादिभेदरहितसच्चिदानंदलक्षणब्रह्माभिन्नकूटस्थप्रत्य क्चैतन्यसर्वसाक्षीतिचिद्रूपानुभवसिद्धि यात् ॥ ७ ॥ स्वात्मनोन्यत्वेनप्रतिभातंसकलंसाक्ष्यंजगत्स्वाविद्याविल सितत्वेनस्वानन्यत्वात् स्वात्ममात्राद्वितीयब्रह्मात्मानुभ वसिद्धियात् ॥ ८ ॥ असंभावनाविपरीतभावनार हितत्वेनकरतलामलकवदहब्रह्मास्मीत्यप्रतिबंधापरोक्षत्र ॥ ८ ११४ ब्रह्मविदाशीर्वादपद्धतिः। मात्मसाक्षात्कारोहढीयात् ॥ ९॥ योब्रह्मादिस्तंबप यंतानांसर्वपांप्राणिनांदेहमध्येतत्तदेहसाक्षित्वेनभासमानःप रिपूर्णात्मास्तिसोयंपरमात्माकेवलंमुमुक्षोःपुरुपस्यमत्स्वरू पमित्येवरूपात्मसाक्षात्कारोढीभूयात् ॥ १० ॥ वास नाक्षयमनोनाशतत्वज्ञानाच्यासवशाज्ज्ञानरक्षातपःसिद्धिः सर्वसमतत्त्वदुःखनिवृत्तिःसुखाविर्भावइत्येतत्पंचप्रयोजन सिद्धि यात् ॥ ११ ॥ मैत्रीकरुणाविदितोपेक्षेतिसद्वास नापाटवेनरागादिदुर्वासनाक्षयःसम्यक्स्यात् ॥१२॥ नि रंतरमात्मानुसन्धानबशान्मनसोवृत्तिरूपपरिणामपरित्यागे ननिरुद्धताकारेणपरिणामोदृढीभूयात् ॥१३॥ शमादिपूर्व कश्रवणमनननिदिध्यासनाभ्यासबलाद्विषयासक्तिःप्रज्ञामां द्यकुतर्कोविपर्ययदुराग्रहश्चेतिवर्तमानपतिबन्धचतुष्टयनि बृत्तिद्वाराप्रतिबंधापरोक्षवलसाक्षात्कारोदृढीभूयात्॥१४ उपक्रमादिषड्विधलिंगैरशेपवेदांतानामद्वैतेब्रह्मणितात्वर्या वधारणम्भूयात् ॥ १५॥ गुरुमुखहृतस्याद्वितीयवस्तुनो वेदानुगुणयुक्तिभिरनवरतमनुचिंतनभूयात् ॥१६॥ विजा तीयदेहादिप्रत्ययानंतरितसजातीयसच्चिदानंदात्मप्रत्ययम वाहोनिरंतरंशूयात् ।१७॥असंगोहंचिदात्माहमितिप्रत्यगा
ब्रह्मविदाशीर्वादपद्धतिः। ११५
त्मनिनिवेशितेवृत्तिरहितेसंस्कारविशेषमात्रतयासूक्ष्मरूपे
णावस्थितचित्तेआत्मनःस्वरूपततपरमानंदोनिरंतरंसम्य
गावि‘यात्।१८।अहमात्मासाक्षीकेवलचिन्मात्रस्वरूपो
नाज्ञानंतत्कार्यचकिंतुनित्यशुद्बुद्धमुक्तसत्यपरमानंदाद
यंबलवाहमस्मीत्योदेनावस्थानसमाविरंतःसमाधिनाइंग्रह
श्यविवेकेबहिःसमाधिनाब्रह्मसर्गविवेकेचदृढेजाततेनविवे
कद्दयेनायंगलितदेहाभिमानविज्ञातपरमात्मतत्वश्चयात्
॥१९॥ देहादहिःसकलनामरूपात्मकेषुवस्तुष्वपिसर्पधारा
दिषुरज्जुरिवव्यात सच्चिदानंदलक्षणोयःपरमात्मासएक्पर
शब्देनोच्यतेअंतरहमादिदृश्यविलक्षणोस्मत्प्रत्ययालंबन
तःप्रत्यचिन्मात्ररूपःसाक्ष्याख्योयोजीवात्मासएवावरश
ब्देनोच्यतेपरश्वासावरचेतिपरायरःप्रत्यगजिन्नपरमात्मात
स्मिन्नेवमंतर्बहिःपररूपेणावररूपेणचावस्थितेपरमार्थतःप
रावरेब्रह्मणित्वंवाहमस्मिागवोदेवतेवाहंबातत्वमसीतिश्रु
त्यनुसारेणावलास्मिन वाहमस्मीतिव्यवहारेणखंडेकर
सत्वेनसाक्षात्कृतेसतितेनपरावरब्रह्मसाक्षात्कारेणास्यप
रावरब्रह्मसाक्षात्कृतवतस्तवहरथिनेदःसर्वमंशयनिवृत्तिः
सर्वकर्मक्षयरूपःपरमपुरुषार्थःसम्यग्भूयात् ॥ २० ॥
ब्रह्मविदाशीर्वादपद्धतिः। अहंकारात्मनोरेकत्वनमनिवृत्तिरूपाथिभेदोदृढीभूयात ॥ २१॥ आत्मादेहयातिरिक्तोनवाव्यतिरिक्तत्वेपिकर्त त्वादिधर्मयोनिर्नवाअकर्तृत्वेपितस्यब्रह्मणोभेदोस्तिनवाअ भेदोपितज्ज्ञानकर्मादिसहितमुक्तिसाधनंकेवलंवाआत्मासा क्षिकावासाक्षित्वेपिअस्यब्रह्मत्वंअस्तिनवाब्रह्मत्वोपतगु घ्यावेदितुंशक्यंनवाशक्यत्वेपितवेदनमात्रेणमुक्तिरस्तिन वाममपरमार्थताब्रह्मत्वमस्तिनवाब्रह्मत्वोपवाहररूपममसा क्षात्कृतनवासाक्षात्कृतेपिइतःपरंकर्तव्यमस्तिनवाकर्तव्या भावेपिइदानीममजीवन्मुक्तित्वंअस्तिनवाजीवन्मुक्तित्वेपि वर्नमानदेहपातानंत विविविदेहमुक्तिभविष्यतिनवाताव प्राप्तावपिकालांतर्जन्मपुनर्भविष्यतिनवेत्यादिसर्वसंशय निवृत्तियात्॥२२॥अनारब्धानामागामिजन्महेतूनामने ककोटिजन्मार्जितानांप्रारब्धव्यतिरिक्तानांसंचितकर्मणां निवृत्तिरूपःपरमपुरुषार्थःसम्यग्भूयात् २३॥यत्पूर्णानदैक बोधतद्ब्रह्माहमस्मीतिब्रह्मात्मानुभवमात्रपर्यवसानेबुद्धिनि रन्तरंभूयात्।२४॥यस्मिन्कालेद्वैतभाननास्तिनिद्रापिनाग च्छतियस्मिन्कालेउपलायमानंयत्सुखमस्तिसब्रह्मानंदइ तिब्रह्मानंदानुभवनिरन्तरसिद्धि यात २५॥मनोव्यापारा ब्रह्मविदाशीर्वादपद्धतिः। भावसमयेयत्सुखंभासतेतत्सुखमात्मस्वरूपमित्यात्मनिश्च यःसम्यग्भूयात्।२६।स्वस्वमःस्वातिरेकेणयथानास्तितथै वजाघदपिस्वातिरेकेणनास्तितेनाद्वितीयात्मानुभवःसम्य भूयात्॥ २७॥वासनाक्षयमनोनाशात्यांनिर्वासनेवृत्तिशू न्येचित्तेसंशयविपर्ययदोषद्वयाभावेनप्रतिबंधाभावादुत्पन्नं तत्वज्ञानमबाधितेनसुरक्षितंभूयातु२८पंचम्यादिशूमीत्रय रूपायांजीवन्मुक्तीसंपाद्यमानायांद्वैतानासाभावेनसंशयवि पर्ययप्रसंगाभावादुत्पन्नतत्वज्ञानमबाधेनरक्षितंभूयात् २९ स्वमेस्थलशरीराभिमानेप्यारमन् जागृदाद्यवस्थाचतुष्टयेय श्चिद्रूपात्मामणिपुसूत्रमिवानुस्यूततयानिरंतरंभासतेसच्चि दूपात्मैवाहमस्मीत्यन्वयव्यतिरेकात्यांशरीरत्रयस्यव्यावृ तितत्साक्षिचैतन्यस्यानुवृत्तिंचपश्यतोममशरीरत्रयव्यति रिक्तात्मानुभवःसम्यग्भूयात् ३० भगवन्तंपरमेश्वरंप्रीतिपूर्व काजतोममोपर्यनुकंपार्थभगवान् वासुदेवआत्मभावस्थःस विवेकप्रत्यग्रूपणशक्तिप्रसादस्नेहसिक्तेनमद्वासनाभिनिवेश वातेरितेनब्रह्मचर्यादिसाधनसंस्कारवत्प्रज्ञावत्तिनाविरक्तां तःकरणाधारणविषयव्यावृत्तचित्तरागद्वेषकलुषितमिवावा ११८ ब्रह्मविदाशीर्वादपद्धतिः पवरकस्थेननित्यप्रवृत्यैकाग्यध्यानजनितसम्यकदर्शनमा स्वताज्ञानदीपेनाज्ञानजमविवेकतोजातंमिथ्याप्रत्ययरूपं मोहांधकारतमोनाशयत्वित्याशीनिरंतरंभूयात् ॥ ३१ ॥ परमेश्वरंप्रीतिपूर्वकाजतोयेतायेनबुद्धियोगेनसम्यग्दर्श नलक्षणेनात्मकृतंभगदंतपरमेश्वरमात्मत्वेनोपयांतिप्रति पद्यतेतंबुद्धियोगभगवान् वासुदेवामेददात्वित्याशीनिरंतरं भूयात् ॥ ३२॥ असंगोहंचिदात्माहमितिप्रत्यगात्मनिये शितेवृत्तिरहितेनसंस्कारमात्रोपतयासूक्ष्मरूपेणावस्थिते चित्तेआत्मनःस्वरूप परमानंदोनिरंतरंसम्यग्भूयात्॥३३॥ विकारेअंतरिक्षणस्वाध्यस्तंसर्वसाक्षादव्यवधानेनस्वरूप बोधनक्षतपश्यतीतिसाक्ष्यनुभवस्सम्यग्भूयात् ॥ ३४ ॥ देहद्रियादिसकलजडावनासकत्वेनचिद्रूपइतिचिदात्मानु भवःसम्यग्यात् ॥ ३५ ॥ आत्मनिकदाचित् प्रियाभावेनपरमप्रेमास्पदत्न चात्मापरमानंदरूपइतिआनं दात्मानुभवःसम्यग्यात् ॥ ३६॥ आनारूपस्यवि श्वस्यभानजासंविधविनाकदाचिदानानावाज्ञानरूपात्मा सर्वगतहासिवर्गतात्मानुभवःसम्यग्भूयात् ॥ ३७॥ अस ज्जडदुःखात्मकाहंकारादिश्योविलक्षणतयापातिकूल्पेनस ५ ब्रह्मविदाशीर्वादपद्धतिः। त्यज्ञानानंदरूपेणअंचतिप्रकाशतिइतिप्रत्यगात्मनःसम्य ग्यात् ॥ ३८ ॥ पश्चादासमानस्यजस्यप्रथमतोबास मानचैतन्यत्ववज्ञास्तवस्वरूपमितिनिश्चित्यजडमुपेक्ष्यचि न्मानमेवचिनिरंतरंझूयात् ॥ ३९ ॥ सर्वाण्येवैतानिय ज्ञानस्यनामधेयानिभवतीतिवाक्येनदेहंद्रियादिसाक्षिरूपं यत्प्रज्ञानत्वंपदार्थरूपनिर्णीतंतदेवैषब्रह्मेत्यादिवाक्येनजग कारणतयानितिं परंबल्लनचानयोरीषदपिोदोऽस्तीत्यै तरेयमहावाक्यज्ञानसिद्धिनिरंतरयात् ॥ ४० ॥ यतः सर्वत्रावस्थितंत्रज्ञानबलातोमय्यवस्थितप्रज्ञानंबढ़वात्म ज्ञानत्वाविशेषाइत्यैतरेयमहावाक्योक्तजीवनलैक्यज्ञान सिद्धिनिरंतरंथात् ॥ ४१ ॥ आत्मसन्निधौविद्यमानत्वे वजडरूपस्यापिदेहेंद्रियादसिमानत्वादात्माचिद्रूपइतिचि दात्मानुभवःसम्ययात् ॥ ४२ ॥ आत्मसहितत्वेनः खात्मकस्यदेहादेशपिप्रियतमत्वादात्यापरमानंदरूपइत्यानं दानुभवःसम्यग्भूयात् ॥ ४३ ॥ देशतःकालतोवस्तुतः परिच्छेदरहिताहितीयबह्मानुभवसिद्धि यात् ॥ ४४ ॥ पूर्वापरपरामर्शमंतरेणसहसोत्पद्यमानस्यकोषादिवृत्तिवि शेषस्यहेतोश्चित्त्वगतसंस्कारस्यविवेकजन्याचांक्षांतिवास नझविदाशीर्वादपद्धतिः। नायांहढायांसत्यांब्रह्मनिमित्तेनकोवाद्यनुत्पत्तिः सम्यग्भू यात् ॥ ४५ ॥ यस्यप्रसादादहमेवविष्णुःमय्येवसर्वप रिकल्पितंचेतीत्ययमात्मस्वरूपविजानामितस्यपादारविंद योरचंचलाभक्तिर्निरन्तरंयात् ॥ ४६॥ अचिद्रूपस्य सर्वस्यजगतःचित्सन्निधेर्विद्यमानत्वाचिद्रूपात्मसर्वगतइ तिसर्वगतात्मानुभवःसम्यग्भूयात् ॥ ४७ ॥ सर्वार्थसाथ कत्वेहेतुनासर्वसंबंधत्वेनचात्मासर्वपरिपूर्णइतिपरिपूर्णा त्मानुभवःसम्यग्भूयात् ॥ ४८ ॥ देशकालव्यवहितत्वे नपरोक्ष्यहेतोरनावात्साधनांतरेनिरपेक्षतयास्वयंप्रकाशमा नःचिदात्मासर्वदास्वतःसिद्धापरोक्षरूपइत्यपरोक्ष्यानुभवः सम्यग्भूयात् ॥ ४९ ॥ यत्रयद्वस्त्वीक्ष्यतेतेनवस्तुनान्य प्रानन्वागतत्वेनात्माऽसंगइतिअसंगात्मानुभवःसम्यग्लया त् ॥ ५० ॥ निरवयवत्वेनासंगत्वेनचात्मनःकेनापिसंबंधा भावादात्मानित्यमुक्तइतिनित्यःस्वरूपानुभवसिद्धियात ॥५१॥ अवेद्यत्वेसत्यपरोक्षव्यवहारयोग्यत्वादात्मास्वयं प्रकाशइतिस्वयंप्रकाशात्मानुभवःसम्यग्भूयात् ॥ ५२ ॥ साधनांतरनिरपेक्षतयास्वयमेवज्ञासमानत्वादात्मास्वयम्भ काशइतिस्वयंप्रकाशात्मानुभवःसम्यग्भूयात् ॥ ५३॥ इतीश्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्विद्यारण्योक्ताब्रह्मविदाशीर्वादपद्धतिःसमाप्ता।