Central Archaeological Library_asi_ New Delhi

Visayavakyadipika

PDF Proofread

Front matter

ॐ
(वेदान्त)
विषयवाक्यदीपिका।
(श्रीरङ्गरामानुजमुनिप्रणीता)
श्रीवृन्दावननिवासि पं० श्रीलक्ष्मणाचार्येण
टिप्पणीनिवेशनादिना परिष्कृता ।
RE
S
मुम्बय्या
खेमराज श्रीकृष्णदास
इत्यनेन
स्वकीये "श्रीवेङ्कटेश्वर" मुद्रणालये-
कियित्वा प्रकाशिता।
Pub.in/848.
Bombay.
संवत् १९५५ शके १८२०.
अस्य पुनर्मुद्रणाधिकारः“श्रीवेङ्कटेश्वर" मुद्रालयाधिका-
रिणास्वायत्ती कृतः।

प्रस्तावना ॐ विष्णवेनमः । सुविदितमेतत्तत्रभवतां भवतामखिलप्रमाणपरतंत्रीकृतशेमुषीकाणां विदु- षामिहानादिसंसारे परमपुरुषार्थसाधनं वेदान्तशास्त्रजन्य ब्रह्मज्ञानमेवेति । तद्वबोधयिषया भगवानेवसांगान्त्सेतिहासमुराणादिकान्वेदान्स्वयमन्यैश्च प्रवर्तयामास । तत्रोपनिषद्भाग एव निःश्रेयसज्ञानवत्तया तस्य च स्वेतरैर्दुर्घहतया स्वयमेव भगवान्वेदव्यासरूपणावतीर्य तदर्थ निश्चिचीषया षट्पंचाशदुत्तरशता(१५६)धिकरणात्मक षोडशपाच्चतुरध्यायी ग्रन्थेनपंचच त्वारिंशदुत्तरपंचशतीब्रह्मसूत्राणां प्रण्यनैषीत् । तेषामपि सूत्राणां परमार्षरवेन तदथस्यानृषि ज्ञानागोचरतामवधार्य श्रीवेदव्यासप्रशिष्या भगवान्बोधायन ऋषिः स्वयमृषित्वेन दिव्यज्ञा नितया वा पठनपाठन परंपरयाब्रह्मसूत्राणां विशिष्टाद्वैतपरब्रह्मपरतां निश्चित्य तयाख्यान रूपं विशिष्टाद्वैतपरमतीवमहांतं वृत्तिग्रन्थं प्रणिनाय। स च ग्रन्थो महता कालेन बृहत्वात्पठन पाठनलेखनादीनामविषयो भूत्वा व्याडिकृतव्याकरणग्रन्थवदलभ्यतामापातद्ग्रन्थोक्तार्थस्यैव पुनरुद्धाराय महद्भतपरब्रह्मनिःश्वसितवेदराशेः श्रीमहेश्वरादिद्धारा चतुर्दश सूत्राणिसमधिग भ्याष्टाध्याय्यादिपंचपाठी पाणिनिरिव श्रीमद्धकुलाभरणमुन्युच्चरितद्रविडोपनिषदिव्यप्रबन्ध- राशेस्तदर्चाविग्रहद्वारा चिदचिदीश्वरतत्त्ववयार्थान्समधिगम्य न्यायतत्त्वपुरुषनिर्णययोगर- हस्यलंज्ञकग्रन्थानां त्रयीं श्रीमन्नाथमुनिः प्रणिनाय । पुनरष्टाध्याय्यर्थवैशवाय वार्तिकपाट कात्यायन इव अन्यत्रय्यर्थवैशद्याय स्तोत्ररत्नचतुःश्लोक्यागमप्रामाण्यसिद्धिचयगीतार्थसंग्र- हाख्यग्रन्थपंचकं श्रीमद्यामुनाचार्याःप्रणिन्युः । पुनरपिवार्तिक पाठाद्यर्थवैशद्याय व्याकरणम- हाभण्यं पतंजलिरिव ग्रन्थपंचकार्थवेशद्याय ब्रह्मसूत्रव्याख्यानरूपं श्रीभाष्यं मुमुक्षुजनजीवा- तवः श्रीमद्रामानुजाचार्या अभाषिषत । महाभाष्यार्थवेशद्याय भर्तृहरिकैयटादिकृता व्याख्या इव श्रीभाष्यार्थवैशद्यायापि शारीरकाधिकरणार्थसंग्राहकपद्यन्या सुदर्शनश्रुतप्रकाशिकाश्रुत- दीपिकाप्रमेयसंग्रहादिन्यायकुलिशादिभावार्थदीपिकादिग्रन्था अपि पूर्वाचायः। प्रणीताः । यथाहु-धिकरणसारावल्यां शास्त्रावतारे श्रीमद्वेदान्ताचार्याः । “यत्तसेनेश्वरीयरगणिवकुल- भृतिककरैरंग्यकारि व्यासायन्यासि च द्विः श्रुतमिति विशदं विष्णुचित्तर्विवत्रे । अश्रोष शेषकल्यादहमपि विदुषो वादिहंसांबुवाहादद्धा निर्धार्यतेऽतश्चतुरधिकरणीब्रह्मचिंतोद्य- मार्था" इति ॥ तस्मिन्नेतस्मिट्रीमति भाष्ये ब्रह्मसूत्रविषयवाक्यत्वेनोपन्यस्तानां श्रुतिवाक्यानाम- र्थस्य "अविस्तृताः सुगंभीरा रामानुजमुनेर्गिरः" इत्यु उक्तत्वेनश्रीभाष्यतो दुईयत्वमवलोक्य तत्सुग्रहत्वाय विषयवाक्यदीपिकानामकंग्रन्थं श्रीरंगरामानुजमुनयः प्रणीतवन्तः एते श्रीमद्रामानुजसंप्रदायांतर्गतसर्वतंत्रस्वतंत्रश्रीमद्वेदान्ताचार्यानुयायिनः । एतैश्च संन्यासाश्रमं स्वीकृत्य दशोपनिषद्भाष्यं श्वेताश्वतरोपनिषद्भाष्यं न्यायसिद्धांजनटीका श्रीवेदांतदेशिक कृतोपनिषद्भाष्यटीका विषयवाक्यदीपिकाइत्यादयो ग्रन्था विरचिताः। तदिदानीमहमेतस्य ग्रन्थस्य श्रीभाष्यशांकरभाष्यदशोपनिषद्भाष्याद्यध्येतृणामतीवोपकारतां विचिन्त्यैतस्यांकने प्रावतिषि । तां च मे प्रवृत्ति सफलीकर्तुमतीवादयेन “यः पुस्तकैः शब्दतत्त्वप्रख्या तया भुवि । खेमरानजयद्यस्मात्खेमराजस्ततो मतः ॥ १॥ यदा खमीम इत्येतैर्ब्रह्मश्री द्वितैः । उपासनाद्राजते यः खेमराजः स उच्यते ॥ २॥” इत्यन्वर्थसंज्ञाधारकेण दासात्मजखेमराजगुप्तेन स्वकीये मोहमय्यां श्रीवेंकटेश्वरमुद्रालयेविक्रमायभूत हिचंद्रमिले वर्षे तपोमासीयकृष्णप्रतिपदि भार्गवदिन इयमङ्किता। ततस्तमिमं वेदांतनि ता एतस्या अवलोकनेन सफलीकुर्वतु इति प्रार्थयते । श्रीवृन्दावननिवासिलेक्ष्मणाचार्यः। १ महामाष्यपस्पशाह्निके संग्रहे एतत्परीक्षितमितिप्रतीकमुपादाय संग्रहो व्याडिकृतो लक्षश्लोकात्मको ग्रंथ इति कैयरः॥ २ लक्ष्मणः श्रीरामानुजः आचार्यों यस्येति बहुमीहिः । तेन लक्ष्मणदासेनेतिटिप्पणीवाक्येन सह न विरोधः । ब्राह्म णेष्वपि भगवदादिसम्बन्धिदासांतनामप्रयोगे प्रमाणादिकं तु व्यधिकदिशततम्(२०३)पृष्ठटिप्पण्यां अवगन्तव्यम् । ।

श्रीपरमात्मने नमः। अथ विषयवाक्यदीपिका। (श्रीरङ्गरामानुजमुनिप्रणीता.) अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया॥ अञ्जनांचलशृङ्गारमैनलिमम गाहताम् ॥ १ ॥ व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान्गुरूनपि । भाष्योदाहृतवेदान्तवाक्यार्थस्संप्रकाश्यते ॥२॥ विस्तृतोपनिषद्भाष्यप्रवेशाक्षमचेतसाम् ।। अनुग्रहेण साफल्यं कृतिरेषा प्रपत्स्यते ॥३॥ जन्माद्यधिकरणम् । जन्मायस्य यतः १।१।२॥ भृगुवल्ल्यां श्रूयते भाष्यं चेदयवृणोत्स्वयं यतिपतियाख्यानवाचां तथा गाम्भीर्य्यादनवस्थितिर्मितमतिर्दूरे जनस्तद्रािम् । प्रष्टव्यः कथमीश्वरः स हि ननःप्रत्यक्षरूपो दृशां तद्भाष्यं सचभाष्यकृत्स च हरिः सम्यक् प्रसीदन्तु नः ॥ १॥ लक्ष्मणाचार्यचरणकरुणालब्धबुद्धिना ॥ लघ्वी लक्ष्मणदासेन टिप्पण्यत्र विरच्यते ॥२॥ १ अथ श्रीभाष्योदाहृतविषयवाक्यानि व्याचिख्यासुर्वेदान्तब्रह्मनिष्णातः श्रीरंगरामानु- जमुनिर्भाष्यकारस्यापि वेदांतदिव्यज्ञानप्रदानपुरस्सरं वेदार्थसंग्रहश्रीभाष्यादिग्रंथनिर्माणे प्रवर्तयितारं श्रीवेङ्कटाद्रिनिवासिनं श्रीभगवन्तं श्रीनिवासं स्वचिकीर्षितग्रन्थरचनादि- सिद्धये स्तुवन्नाशीर्वादात्मकं मङ्गलमाचरति ॥ अतसीत्यादिना । तदुक्तम् ॥ महाभारते शान्तिपर्वणि भीष्मस्तवराजे ॥ अतसीपुष्पसङ्काशं पीतवाससमच्युतम् ॥ ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयमिति । २ अञ्जनाचलत्वं च वेङ्कटारेरेव “ कृते वृषाद्रिं वक्ष्य न्ति त्रेतायामञ्जनाचलम् ॥ द्वापरे शेषशैलेति कलौ श्रीवेङ्कटाचलम्" इत्यादिना भविष्यो तरपुराणादौ प्रसिद्धमेव । ३ अञ्जलेः स्वतोगाहनकर्तृत्वाभावेपि “त्वदनिमुद्दिश्य कदा पि केनचिद्यथातथावापि सकृत्कृतोऽञ्जलिः । तदैव मुष्णात्यशुभान्यशेषतः शुभानि पुष्णा- ति न जातु हीयत" इति श्रीमद्यामुनाचार्यपद्येऽञ्जलेः कर्तृत्वे प्रयोगदर्शनेन तदनुसन्धाने नायंप्रयोगः । ४ अस्यविचित्रचिदचिन्मिश्रस्य व्यवस्थितसुखदुःखोपभोगस्य जगतः जन्मस्थितिलयाः यतःतब्रह्मेति प्रतिपादयति श्रुतिरित्यर्थ इति वेदान्तसारे श्रीभाष्यकाराः सूत्रार्थमनुजगृहिरे।

(२) विषयवाक्यदीपिका। [अध्या०१-पाद१- “यतो वा इमानि भूतानि जायंते येन जातानि जीवंति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तब्रह्मेति" ॥ जीवन्ति येनात्मभूतेन जीवंतीत्यर्थः । प्रयन्ति सन्ति भूतानि यदभिसंविशंति, लीयमानाति सन्ति यदभिसंविशन्ति, यत्र लीयते। समित्येकीकरणे । एकीकृततया प्रवेशः संवेशः । यद्वा यत्प्रयन्तीति मोक्षः । अभिसंविशन्तीति प्रलयः। अस्मिन्पक्षे यच्छन्दस्यावृत्तिः। यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रय- न्त्यभिसंविशन्तीत्यत्रप्रतिवाक्यं तद्ब्रह्मेत्यनुक्तेः न जगजन्मा- दि प्रत्येकं लक्षणम् । प्रत्येकलक्षणत्वे लक्षणान्तरवैयर्थ्यप्रसंगाच्च । अतस्समुदितमेव लक्षणम् ॥ नच जन्मादिसमुदायस्य लक्षणत्वे व्यावाभावेन निष्प्रयोजनत्वम् ।लक्ष्याकारविपरीतशंकानिवारण- क्षनत्वेन सप्रयोजनत्वात् उत्पत्तिकारणत्वमाभिहिते हि तस्य स्थितिप्रलयकारणभूतवस्त्वंन्तरशङ्कया जगज्जन्ममात्रकारणस्य ब्रह्मणो निरतिशयं बृहत्त्वं न सिध्येत् । तथा लयकारणत्वानभि- धाने प्रलयकारणभूतवस्त्वन्तरशंकया जगजन्मस्थितिमात्रकार- णस्य ब्रह्मणो निरतिशयं बृहत्त्वं न सिध्येत् । तथा आत्यंतिकलय- कारणत्वानभिधाने आत्यन्तिकलयरूपमोक्षप्रदावन्तरसद्भावश- कयामोक्षप्रदत्वप्राप्यत्वानुगुणगुणैर्वृहत्त्वं न सिध्येत् । अतो जगजन्मायेकैककारणत्वमात्रस्य समस्तवस्तुव्यवच्छेदक्षमत्वेपि १ ननु “जगज्जन्मस्थितिध्वंसमहानन्दैकहेतवे” इत्यागमप्रामाण्यग्रन्थे “जगदुद्भवस्थि- तिप्रणाशसंसारविमोचनादयः” इति स्तोत्ररत्नेच श्रीयामुनाचार्यैः, “उद्भवस्थितिप्रलयसं- सारनिवर्तनैकहेतुभूत"इति वेदार्थसद्महे निखिलजगदुदयविभवलयमहानन्दैककारणमि- ति श्रीभाष्ये च भगवद्भिर्भाष्यकारैश्च ब्रह्मणः मोक्षप्रत्यपि पृथकारणत्वस्योक्ततयात्र तदकथ- नान्यूनतेत्यरुचेराह ॥ यद्धति । २ अत्र निर्णयस्त्वधिकरणसारावल्याम् । “तत्तत्स्वप्रत्यनी कव्युदसननियतं भेदकं नान्यवाधि व्याघातः कालभेदान्न भवति जननस्थापनध्वंसनानाम् ॥ प्रत्येकं लक्षणत्वं सुवचमिहबहूदाहति(महिम्ने सम्भूयाप्याहुरेके फलमपि च तदाशङ्कि- तार्थव्युदासः" इति । अत्र धीमहिम्न इत्युक्तत्वेन नवलक्षणानि भवन्तीति वेदान्तपरि भाषाकारोक्तिरपिनिर्वाह्या ।

" सू०२-अधि०२] जन्माद्यधिकरणम् । (३) जन्मादिकारणसमुदायस्यैव बृहत्त्वातिशयौपयिकत्वात्सृष्टिस्थि- तिप्रलयसमुदायकारणत्त्वं लक्षणमिति ज्ञापितम् ॥ यतो येन यदि- ति यवृत्तयोगात्कारणमनूद्यतद्ब्रह्मेति कारणस्थ ब्रह्मत्वं विधीयते। तेन कारणत्वस्य बालक्षणत्वं सिद्धं भवति ॥ तद्विजिज्ञासस्वेति न विचारस्योपासनल्य वा विधिः। विचारात्मकं ज्ञानं रागप्राप्त- त्यान्न विधेयम् । उपासनात्मकस्य तु ज्ञानस्य "ब्रह्मविदाप्नोति" इतिश्राकरणिकवाक्यान्तरसिद्धत्वात् । उपक्रमे “अधीहि भगवो ब्रह्मति" इति प्रश्नस्य तत्त्वपरत्वेनोपायविषयत्वाभावाच नोपासन- ज्ञानमिह विधेयम् । अतो विजिज्ञासस्वेत्युपदिश्यमानार्थेसावधान- त्वार्थ संदेहनिवृत्यर्थ वोक्तं या गन्धवती तां पृथिवीं विद्धीति- वत् । अतःकारणत्वस्य ब्रह्मलक्षणत्वमेवास्य वाक्यस्य विधेयम् । यथा यत्र सारसस्स देवदत्तकेदारः" इत्युक्ते सारससंबन्धस्य देव- दत्तकेदारलक्षणत्वमुक्तं स्यात्, तद्वदिति व्यासायरुक्तम् ॥ ननु ईश्वरस्य लिलक्षयिषितत्वे तदसाधारणसार्वज्ञादिप्रतिपादकसत्यज्ञा- नादिवाक्यानादरेण जन्मादिकारणत्वेन किमर्थ लक्ष्यत इति चेत् । उच्यते॥ गुणैः स्वरूपस्य लक्ष्यत्वे तदपेक्षया बहिष्ठाया विभूतेरुपा- स्यान्तर्भावो न प्रतीयते । सर्गादिविषयभूतया तु विभूत्या स्वरूप लक्ष्यमाणे विभूतेस्सर्गाद्यौपयिकसर्वज्ञत्वादिगुणानामपि जिज्ञास्या- न्तर्भावस्सिध्याते । विभूतेश्च जिज्ञास्यान्तर्भावः “उपासाचैविध्यात् ११॥३॥" इतिसूत्रसिद्धः। नन्वेवमपि कृत्स्त्रविभूतेजिज्ञास्यान्तर्भा वोन सिध्यति त्रिपाद्विभूतेर्जन्माचस्पृष्टत्वादिति चेत् । नायित्प्रयन्ती ति प्रलयवाक्यस्थयच्छब्देन मुक्तप्राप्यस्य ब्रह्मणो विवक्षितत्वात् । नित्यविभूतिविशिष्टस्यैव मुक्तप्राप्यत्वान्नित्यविभूतेरपि जिज्ञास्य- १ अत्रग्रन्थे सर्वत्रव्यासार्यपदेनश्रुतप्रकाशिकाकाराः श्रीसुदर्शनसूरयउच्यन्ते । यथाहुः पूर्वाचार्याः ॥ श्रुतप्रकाशिकाभिख्यांव्याख्यामाकर्ण्यरङ्गराट् । यंवेदव्यासमपरं जगौसद सितं भजे” इति । २“जीवमुख्यप्राणलिङ्गान्नेतिचेन्नोपासात्रैविध्यादाश्रितत्वादिहतद्योगात्" इति सूत्रसिद्ध इत्यर्थः।

विषयवाक्यदीपिका। [अध्या०१-पाद:- त्वसिद्धिः। एवं च जगजन्मादिकारणत्वं लक्षणं विशिष्टनिष्ठं सत्यज्ञा नादिलक्षणं तु विशेष्यनिष्ठमिति भिदा । एवमेव व्यासायरुक्तम् । अत्र यत इति पञ्चमी हेत्वर्थिका । यच्छन्दस्यानुवादरूपत्वात् । अनुवादस्यचप्रापकवाक्यसापेक्षतया तद्विरुद्धार्थपरत्वासंभवात् । प्रापकवाक्येषु "एकमेवाद्वितीयम् । तदैवत बहुस्यां प्रजायेयेति" “तत्तेजोसृजत" इति निमित्तत्वोपादानत्वयोःप्रतिपादनात्तदनुवा- दिनि लक्षणवाक्ये यत इति पदमुभयविषयकमिति व्यासार्यैरुक्तम्॥ नच हेतौ पञ्चमी नानुशिष्टेति शक्यं वक्तुम् । “ अइउण् ॥ १॥ इति सूत्रे विवारभेदादिति भाष्यनिर्देशेन “विभाषागुणेऽस्त्रियाम् २।३।२५॥ इत्यत्र विभाषेति योगविभागस्याश्रिततया तत एव हेतुपञ्चम्युपपत्तेरिति द्रष्टव्यम् ।। " । १ अतिविस्तरेण स्पष्टीकृतश्चायं विषयः सुरपुरवेङ्कटाचाविरोधवरूथिनीप्रमाथिनी- ग्रन्थे परिभाषेन्दुशेखरसर्वमङ्गलाटीकायामपि व्याख्यानत इतिपरिभाषायामनयैव दिशापञ्चम्युपपादनंस्फुटम् । श्रीवल्लभीयमारुतशक्तिप्राभञ्जनयोरप्येतच्छुतिव्याख्याने तथैव दृश्यते । २ नन्वत्राणुभाष्यप्रकाशादिग्रन्थेषु सर्वेष्वधिकरणेषु हेतुघटितसूत्रदर्शनात् पृथक्सूत्रत्वेपृथगधिकरणत्वे च प्रथमे हेतुशून्यत्वेन द्वितीये साध्यशून्यत्वेन चाध्या- हारे गौरवाच्च जन्माद्यस्ययतश्शास्त्रयोनित्वादित्येकमेव सूत्रमिति स्थितमिति चेत् । शृणु ॥ “सौत्रीसंख्या शुभाशीरधिकृतिगणना चिन्मयीब्रह्मकाण्डेतादयेऽनन्तरत्वेप्यधिक- रणभिदा नाल्पसारैःप्रकल्प्या । अक्षोाशाहिकाष्ठा द्विरदमुनिवसूय॑द्रितत्त्वातिशक्कर्य:- रक्षः प्रयाजैरिह भवतिरसैःपादनीतिप्रबंधः" इतिश्रीवेदान्तदेशिककृताधिकरणलारावलीवि- रुद्धत्वेनसर्वमतसंमतचतुस्सूत्रीवादविरुद्धत्वेनचास्माकं तत्रासमतेन दोषः । गौरवंतु तेषामे व । अस्यजन्मादि यतस्तत्कत्रित्यनुपस्थितकर्तृपदाध्याहारेणतद्धाष्यटीकायामेव स्फोरितम्। अस्माकं तूदेशलक्षणपरीक्षारूपेणास्यापि शास्त्रस्य प्रवृत्तेरधिकरणचिन्तामण्यादौ स्पष्ट- तया प्रथमसूत्रेण ब्रह्मण उद्देशे कृते तृतीयादिभिः परीक्षाकर्तव्येति द्वितीयेन लक्षणसमर्प- णाय यत्पदेन तत्पदस्य सुलभत्वाब्रह्मपदस्यानुवृत्तेश्चास्य जन्मादि यतः तद्ब्रह्मेत्यर्थे न गौरवं किंचिदपि । यत्रसहस्राक्षग्रन्थोक्तदूषणोद्धाराय प्राभञ्जनग्रन्थे "ब्रह्मसूत्रपदैश्चैव हेतु- मद्भिः” इति भगद्वाक्यविरोधोद्भावनं तत्तत्र पदपदेन सुप्तिङन्तानामेव ग्राह्यत्वेन हेतुपदस्य पंचम्यतातिरिक्तपरत्वेनापि व्याख्यानेन नक्षतिकरम् । यदप्येतदप्यन्यथयितुं मारुतशक्ति- ग्रन्थे पदपदस्याधिकरणपरत्वेनाधिकदूषणवारणं तत्त्वतीवक्लिष्टतरम् । भगवद्वाक्ये हेतुम- स्पदवैयापादनं तु सर्वस्यापि यत्किचिद्विषयकबुद्धिमत्त्वेन लोके बुद्धिमत्प्रयोगविलोपा- पत्त्या चिन्त्यम्। प्रथमसूत्रादत इतिपदानुवृत्तावप्यर्थाधिकारे दोषेपि शब्दाधिकारे दोषाभा- वादननुमतत्वादनुपयुक्तत्वाच्चाधिकमेवेति संक्षेपः। ....

(५) । सू०४-अधि०४] समन्वयाधिकरणम् । समन्वयाधिकरणम् । तत्तु समन्वयात् ॥१।१।४ ॥ सपर्यगाच्छुक्रम- कायमवणम् । अस्नाविरंशुद्धमपापविद्धम् ॥ कविर्म- नीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदधाच्छा- श्वतीभ्यस्समाभ्यः॥ पर्यगात् परितोव्याप्तवान् । शुक्रमित्यादौलिंगव्यत्त्ययश्छां- दसः । शुक्रं तेजिष्टः । अकायं कर्मफलभोगार्थशरीररहितः । अवणं कायाभावादेव व्रणरहितः। अत एव अस्नाविरं स्नायुशून्यः। शुद्धः अविद्यारागद्वेषादिशुन्यः।अपापविद्धश्च । कविःक्रान्तदर्शी। मनीषी मनीषा स्रष्टव्यालोचनरूपज्ञानं तद्वान् । परिभूःसर्वदेशव्यापनशीलः। स्वयम्भूः उत्पादकशून्यः एवंभूतः परमात्मायाथातथ्यतः यथातथं यथापूर्व सत्यत्वेनेति वार्थः । शाश्वतीभ्यस्समाभ्यः चिरकालस्था- यितया स्वानपदार्थविसदृशान्पदार्थान्व्यदधादकार्षीदित्यर्थः । इदं वाक्यमीशावास्यगतम् । अन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्याचचक्षिरे॥ ये अस्माकं पूर्वे गुरवः उपादिशंस्तद्ब्रह्म सर्वात्मना विदितादपि विलक्षणं सर्वात्मना अविदितादपि विलक्षणमिति तेषां वाचं श्रुत- वंतो वयमित्यर्थः । एतदेव प्रपंचयति। यद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥ १ तत् पूर्वसूत्रोदितं ब्रह्मणः शास्त्रयोनित्वं समन्वयात् सिध्यति सम्यक् पुरुषार्थतया अन्वयः समन्वयः वेदितुनिरतिशयानन्दस्वरूपत्वेनपरमपुरुषार्थरूपे परे ब्रह्मणि वेदकतया- शास्त्रस्यान्वयात् ब्रह्मणः शास्त्रप्रमाणकत्वं सिध्यत्येवेति सूत्रार्थवेदान्तदीपे श्रीभाष्यकारा आज्ञापयांचक्रुः। २ इदं व्याख्यानं तुश्रुतप्रकाशिकातो विलक्षणम् । तत्र हि पर्यगात् गत्यर्था बुद्धयर्थाः अमन्यतेत्यर्थ इत्युक्तम् ।

(६) विषयवाक्यदीपिका । [अध्या०१-पाद- वागादिभिर्यदप्रकाश्यं स्वयं वागादींद्रियप्रकाशकं च यत् तदेव ब्रह्मेति जानीहि । यद्वस्तु इदमिति इदंकारगोचरतया हस्तामलकवत्सुविदिततयोपासते जनाः तत् ब्रह्म न भवति । प्राकृतजनोपास्यजगद्विलक्षणं ब्रह्मेत्यर्थः । इदं च वाक्यं तलवका- रोपनिषद्गतम् ॥ ईक्षत्यधिकरणम् । ( ईक्षते शब्दम् ॥१॥ १।५॥ प्रकृतिश्चप्रतिज्ञाह- ष्टान्तानुपरोधात्॥१।४।२२॥ तदनन्यत्वमारम्भ- णशब्दादिभ्यः ॥ २। १ । १५॥ संज्ञामूर्ति क्लप्तिस्तु त्रिवृत्कुर्वतउपदेशात् ॥२॥४॥ १७॥अनारब्धकार्ये एवतुपूर्वेतदवधेः ॥४।१।१५॥ वाङ्मनसिदर्श- नाच्छब्दाच्च॥४।२।१॥) इत्यादिविषयवाक्यार्थावगत्यर्थ सद्विद्या व्याख्यायते॥ छांदोग्ये षष्टाऽध्यायोपक्रमस्पष्टा ॥ १ यस्मिन् शब्दएव प्रमाणं नभवति तदशब्दम् । आनुमानिकं प्रधानमित्यर्थः । न तजग- कारणवादिवाक्यप्रतिपाद्यं कुतः ईक्षतेः सच्छन्दवाच्यसंबंधिव्यापारविशेषाभिधायिन ईक्षतेधीतोः श्रवणात् इति श्रीभाष्ये भाषितः सूत्रार्थः । २ अवास्यां सद्भिद्यायाम् “उपक्रमो पसंहारावभ्यासोऽपूर्वताफलम् । अर्थवादोपपत्तीच लिङ्गं तात्पर्यनिर्णये” इति षड्विधतात्पर्य लिङ्गं विशिष्टाद्वैतविषयम् । तथाहि । उपक्रमे सदेवेति वाक्यं निमित्तत्वोपादा- नत्वतदुपयोगिसार्वज्ञसर्वशक्तिमत्त्वादिपरत्वात्सविशेषविषयम् । उपसंहारगतंच तत्त्व- मसीति सामानाधिकरण्यं प्रवृत्तिनिमित्तभेदेनैकार्थविषयत्वादिशिष्टाद्वैतविषयम् । वि- शिष्टकार्थपरस्य तत्त्वमसीतिवाक्यस्यावृत्तत्वादभ्यासोप्यस्ति । ब्रह्मणो जगत्कारण- त्वजगदंतरात्मत्वादिगुणानां प्रमाणान्तराप्रतिपन्नत्वादपूर्वता सिद्धा । कस्य “तस्य तावदेवचिरं यावन्न विमोक्ष्ये अथसंपत्स्ये” इतिमोक्षोपदेशात्कलं चास्ति एतद्विषयस्य पितापुत्रसंवादरूपत्वादर्थवादश्च सिद्धः । अस्मिन्नेवार्थे मृत्पिण्डादिदृष्टांत त्रयोपन्यासादुपपत्तिश्चास्तीतिषड्विधतात्पर्यलिङ्गं विशिष्टाद्वैतविषयमेव । विस्तरस्तु वेदा- र्थसंग्रहतात्पर्यदीपिकाश्रीभाष्यजिज्ञासाधिकरणश्रुतप्रकाशिकादौद्रष्टव्यः ॥ ननु किमिदं- विशिष्टाद्वैतत्वमितिचेत् । श्रूयतां सावधानेन । विशिष्टं च विशिष्टं च विशिष्टे विशिष्टयो रद्वैतं विशिष्टाद्वैतम् । सूक्ष्मचिदचिद्विशिष्टस्थूलचिदचिद्विशिष्टयोर्ब्रह्मणोरद्वैतमभेद इत्यर्थः । सूक्ष्मचिदचिद्विशिष्टत्वं च सूक्ष्मचिदचिनिष्ठविशेषणतानिरूपितविशेष्यताशा एवमुपास- सू०५-अधि०५] ईक्षत्यधिकरणम् । श्वेतकेतुहारुणेय आस॥ हः प्रसिद्धयर्थः । अरुणपुत्रस्योदालकस्य पुत्रः श्वेतकेतुनामा बभूवेत्यर्थः॥ तहपितोवाच श्वेतकेतोवसब्रह्मचर्यनवैसोम्यास्म- त्कुलीनोननूच्यब्रह्मबंधुरिवभवति" इति ॥ लित्वम् । एवं स्थूलचिदचिनिष्ठविशेषणतानिरूपितविशेष्यताशालित्वं स्थूलचिदचि- द्विशिष्टत्वम् । चिदचितोब्रह्मविशेषणत्वं च यआत्मनितिष्ठन्नात्मनोऽन्तरो यमात्मा- नवेद। यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरोयं पृथिवी नवेद” इत्यादिश्रुतिषुचिदचित्पदार्थयोः सप्तम्यंतत्वेन निर्दिष्टत्वात् । भूतले घट इत्यादौ सप्तम्यन्तनिर्दिष्टस्य विशेषणतायाः सर्व- तंत्रसिद्धत्वात् । विशेषणतादयस्तु स्वरूपसम्बन्धविशेषा अतिरिक्तविशेषणताविशेषा- वा नतत्राग्रहः। तथा च सूक्ष्मचिदचिनिष्ठविशेषणतानिरूपितविशेष्यताशाल्यभिन्न स्थूल- चिदचिनिष्ठविशेषणतानिरूपितविशेष्यताशालीतिबोधः ॥ नन्वचित्पदार्थस्य स्थूलत्वे सत्यपि चेतनस्य जीवस्य त्वन्मते अणुत्वात्कथं स्थूलत्वमितिचेन्न ॥ चिदचितो मरूपवि- भागार्हत्वं स्थूलत्वं नामरूपविभागानहत्वं सूक्ष्मत्वमिति स्थूलत्वसूक्ष्मत्वयोः पारिभाषि- कत्वात् । पारिभाषिकत्वांगीकारेच “तद्धेदंतहव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत" इतिश्रुतिरेव मानम् । तथाच नामरूपविभागानहचिदचिन्निष्ठविशेषणतानिरू- पितविशेष्यताशाल्यभिन्नं नामरूपविभागार्हचिदचिनिष्ठविशेषणतानिरूपितविशेष्य- ताशालिब्रह्मेतिनिष्कृष्टोबोधः । एवंचकारणावस्थकार्यावस्थब्रह्मणोरद्वैतविशिष्टाद्वैतश- ब्दार्थ इतिफलितम् ॥ नचोभयोरभेदे कथंब्रह्मणोरितिद्विवचनमिति वाच्यम् । नीलघटयो- दण्डिपुरुषयोरित्यादौ विशेष्याभेदेपि नीलत्वघटत्वादिरूपविशेषणान्वयिद्भिवचनदर्शनवत् प्रकृतेपिविशेषणान्वयिद्विवचनसंभवादित्यन्यत्राकरेषु महान्विस्तरः ॥ यत्त्वविशिष्टाद्वैतश- ब्दस्य वेदादौ प्रसिद्धिर्नास्तीतिविरोधवरूथिनीभूमिकायां ब्रह्मानन्दतीर्थ ऊचे।तत्रतुनिर्विशे- षाद्वैतशब्दस्यापि क्वचिदुल्लेखो नास्तीति सममेव । अद्वैतशब्दस्तु क्वचिच्छ्रयत एवेतिचे- तिक तेन । केनचिद्रूपेणाद्वैतं त्वस्माभिरपिस्वीक्रियत एव ॥ यदपि विरोधवरूथिनीटीकायां विशिष्टाद्वैतशब्दे समालादिविरोधोद्भावनं तेनैवकृतम् । तस्य परिहारास्तु विशिष्टाद्वैत- बादग्रन्थादी पूर्वैः कृताः इति ततोवगन्तव्याः । यच्चात्रवेदान्तचूडामण्येकादशप्रकरणे जन्माद्यधिकरणटिप्पण्युदाहतप्राभंजनटीकामारुतशक्तिकारैः गोवर्धनापरपर्यायैः गटूलाल शर्मभि' विशिष्टाद्वैते दूषणमभिहितम् । तत्तु निर्विशेषाद्वैतनिरासकयुक्तिभिरेव निरसनी- यमिति नकिंचित्करम् । तथाहि । यत्तत्रोक्तं कारणावस्थायामेकत्वावधारणश्रुत्यादीनां- सत्त्वान्नतत्त्ववयंसिध्यति किंत्विच्छातः कार्यावस्थायामेव जडजीवान्तरात्मनां भेदो- भवतीति । तत्तुतेनैवावधारणेनेच्छाया अप्यसिद्ध्या मूलोच्छेदकरम् । अशरीरत्वश्रुत्या चिदचिच्छरीराभावसाधने चानन्दमात्रकरपादमुखोदरादिमत्त्वं तदिष्टंकथं वा सिध्येदि- त्यादि किमनेन स्वगृहकलहेनेत्युपरम्यते । सर्वभाष्याध्येतभिर्निपुणतरं परिहर्तुं शक्यम् । ।

JaINAR (८) विषयवाक्यदीपिका। [अध्या०१-पाद- उद्दालकः पितातंद्वादशवर्षमनुपनीतमनधीतिनंपुत्र श्वेतकेतुं प्रति हेसोम्य सोमाहेश्वेतकेतोक्कचिद्गुरावध्ययनार्थ ब्रह्मचर्यवसअ स्मत्कुलीनः अस्मत्कुलप्रसूतः कोप्यनधीत्यब्रह्मबंधुरिवनभवतीत्यु वाचेत्यर्थः ॥ यःस्वयमब्राह्मणएवसन्ब्राह्मणान्वन्धुत्वेन व्यपदिशति सब्रह्मबंधुरित्युच्यते ॥ स ह द्वादशवर्षउपेत्यचतुर्विंशतिवर्षः सर्वान्वेदान धीत्य महामनाः अनूचानमानी स्तब्ध एयाय ॥ स श्वेतकेतुर्दादशवर्षन्सन् गुरुमुपेत्य गुरुकुले द्वादशवर्षानुषि- ला सर्वान्वेदानधीत्य प्रौढमतिरात्मानं सांगवेदाध्यायिनं मन्यमानः परिपूर्ण इव तृणीकृतजगत्रयः चतुर्विंशतिवर्षयुक्तः प्रत्यागतः। तहपितोवाचश्वेतकेतोयन्नुसोम्येदंमहामनाअनू चानमानीस्तब्धोसि ॥ इति । इदंयद्यस्मादेतोस्सकइत्यर्थः ॥ उत तमादेशमप्राक्ष्योयेनाऽश्रुतंश्रुतंभवत्यमतंम- तमविज्ञातंविज्ञातम् ॥ इति । अत्र व्यासाचार्याः। उपक्रमे तावदुत तमादेशमप्राक्ष्य इत्य- त्रादेशशब्देनप्रशासिताऽभिधीयते । (अत्र श्लोकावाचार्यपादैरुक्तौ) छांदोग्ये केचिदाहुर्दिशतिरुत तमादेशमप्राक्ष्यइत्यत्रापूर्वस्तूपदेशं प्रकटयति सतोनप्रशास्ति वमन्तः । नोकर्त्तर्यस्ति कर्मण्यगणिभिहसत्कर्तुशास्तौ नकर्म स्यात्स्यात्कर्मोपदेशे तदिदमुततमादेशवाचोपदेश्यम् ॥ १॥ अत्र १ अयमर्थः सुस्पष्टमनुगृहीतः श्रुतिमनुवचनादिभिर्वेदार्थसंग्रहेश्रीभाष्यकारैः । २ इमौच श्लोकावनयैवरीत्या श्रीभाष्यजिज्ञासाधिकरणमहासिद्धांते वेदान्तवाक्या- नां निर्विशेषैकरसवस्तुमावप्रतिपादननिराकरणप्रकरणे एवंभूतेतिप्रतीकव्याख्याने श्रुत- प्रकाशिकायामुपात्तौ व्याख्यातौच ।

सू०५-अधि०५] ईक्षत्यधिकरणम् । (९) ब्रूमः प्रशास्तिवदति दिशिरसावाङ्मुखेनोपदेशं शास्तौसोतिप्रसि दोनहि पर इह चापेक्षितार्थप्रसंगः । युक्तोऽसाधारणोत्तयाघभगणि करणेप्यत्रवैवक्षिकत्वंशाब्दोक्त कारकाणां ननु करणतया कर्त्तरि- स्याद्विवक्षा ॥२॥ इति । आदेशशब्देनोपदेश्यमुच्यते । प्रकृत्यर्थउपदेशः । प्रत्ययार्थः कर्मत्वम् । “अकर्तरिचकारकेसंज्ञायाम् । पा० ३।३। १९ । इतिकर्तृव्यतिरिक्तकारकेघमोविहितत्वात् । उपदेशे ब्रह्मणः कर्म- त्वोपपत्तेश्च । प्रशासनेतु ब्रह्म न कर्म । अपितु कर्तृ । कर्तृव्यति रिक्तकारके हि घभ्प्रत्ययविधिः। न च इगुपधलक्षणः कप्रत्ययः पा०।३।१।१३५ उपपद्यते । तितिच पा०।१।११५ इति गुणप्रतिषेधादादेशशब्दरूपासिद्धेः । नापि पचायच् पा०३।१। १३४ ॥ प्रत्यय उपपद्यते । दिशिधातोरिगुपधत्वेनेगुपधात्कः पा० ३।११३५ इत्यपवादसूत्रेणकप्रत्ययप्राप्तेर्गुणाभावात् । अतोष प्रत्ययांत एवायमादेशशब्दः । स च प्रत्ययः कर्तर्यविहित इति कर्मार्थकत्वस्यैवयुक्तत्वादुपदेश्यमेवादेशशब्दवाच्यमिति ॥ अत्रो च्यते ॥ प्रकृत्यर्थः शासनं प्रसिद्धिप्राचुर्यात् । अन्यथा स्वारस्य भंगात् । आपूर्वोदिशतिनियोक्तृप्रयोजनवचनः । उपपूर्वस्तुनियो ज्यप्रयोजनवचन इति हि न्यासकारः। नियोक्तरि प्रयोजनं यस्य त- स्यार्थस्य वाचक इत्यर्थः। एवमन्यत्रापि । किंचोपदेश्यत्वंलौकिका- लौकिकधर्मब्रह्मभागार्थसाधारणम् ॥ प्रशासितृत्वंतुब्रह्मणोऽसाधारण म। अंतःप्रविष्टः शास्ता जनानाम् एतस्य वाक्षरस्य प्रशासने गा- गि" इत्यादिभिर्निरुपाधिकप्रशासनस्य ब्रह्मासाधारणत्वश्रवणात् ॥

(१०) विषयवाक्यदीपिका। [ अध्या०१-पाद१- निरुपाधिकोपदेश्यत्वब्रह्मणोऽसाधारणमितिचेन्न । इष्टप्राप्त्यनिष्ट- निवारणतत्साधनेषु साधारण्यात् । यद्यप्यमितसुखदुःखनिवृत्त्या- दि साक्षादुपदेश्यं स्यात् । तथापि संसारनिवृत्तिब्रह्मतदुपासना- नामुपदेश्यत्वं साधारणम् । प्रष्टव्यत्वोक्त्योपदेश्यत्वमर्थसिद्धम् । अतउपदेश्यत्वकथनेवैयर्थ्यच । ननुयेनाश्रुतमित्यादिनैकवाक्य- त्वात् स्वज्ञानेनान्यज्ञानहेतुताविशेषतयोपदेश्यत्वमसाधारणमि- तिचेत् । तथापि तादृशमुपदेश्यत्वं प्रतिज्ञावाक्येनप्रष्टव्यत्वो- त्याचार्थसिमित्यनपेक्षितोपदेश्यत्वकथनादप्यपेक्षितंप्रशास्तृत्व- मेव वाच्यमिति युक्तम् । येनाश्रुतमित्युपादानत्वेसिद्धे प्रशा- स्तृत्वे न हि निमित्तत्वं सिध्येत् । निमित्तांतरे सति हि एकविज्ञाना- सर्व विज्ञानं नोपपद्यते । अतः प्रतिपिपादयिषितवस्तुनोऽपेक्षिता- साधारणाकारविशिष्टतयैवप्रतिपादनमुचितम् । घभ्प्रत्ययस्य करणे व्युत्पन्नत्वात् । विवक्षातः कारकाणां प्रवृत्तिरिति शाब्दोक्तन्यायेन कर्त्तयैव कारकांतरनरपेक्ष्येणसाधकतमत्वविवक्षया तथा प्रयोग उपपद्यते । अकर्त्तरिचेतिसूत्रस्य प्रयोजनं करणत्वविवक्षया विना- कर्तर्यसाधुत्वेन प्रयोगनिवृत्तिः। उपदेशपक्षे प्रकृत्यर्थास्वारस्यं प्रत्य- यस्वारस्यमर्थानौचित्यं च, प्रशासनपक्षे प्रत्ययास्वारस्येपि प्रधा- नभूतप्रकृत्यर्थस्वारस्थमाँचित्यं चेति वैषम्यम् । अतःप्रशासन- मेवादेशशब्दाभिधेयमितिस्वीकर्तुयुक्तमिति । येनाश्रुतं श्रुतं भव- तीत्यत्र “कस्मिन्नुभगवोविज्ञाते सर्वमिदं विज्ञातं भवति आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्व विदितं भवति"इति मुंडक- हदारण्यकवाक्यानुसारेण येन श्रुतेन मतेन विज्ञातेनाश्रुतममतम- विज्ञातं श्रुतं मतं विज्ञातं भवतीति येनाश्रुतमितिवाक्यपर्यवसि- तार्थः। ब्रह्मस्वरूपसत्तामात्रस्याश्रुतश्रुतत्वादिहेतुत्वाभावादितिद्रष्ट- यम् । अवस्थाविशिष्टतयाऽश्रुतं स्वरूपेणश्रुतं भवतीत्यर्थः । अत्र सू०५-अधि०५-] ईक्षत्यधिकरणम् । (११) विज्ञातशब्दोनिदिध्यासनपरः।"श्रोतव्योमंतव्योनिदिध्यासितव्यः" इति क्रमप्रत्यभिज्ञानादितिद्रव्यम् । अत्र “येन अश्रुतं श्रुतम्" इत्यनेन किमुपादानमितिपृष्टभवति । प्रशासितृत्वार्थकेनादेशश- ब्देन चात्मस्वरूपं पृष्ट भवति ॥ ततश्चात्मभूतमुपादानं किमिति प्रश्नस्य फलितार्थः ॥ अत एव श्रीविष्णुपुराणेपि "यन्मयं च जगद्- मन्यतश्चैतच्चराचरम्" इतिश्लोके यन्मयमित्यात्मस्वरूपं यतश्चैत- चराचरमित्युपादानं च पृष्टम् । अत एव “सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः" इति वाक्ये सदायतनाइतिसतआत्मत्वं- "सन्मूलाःसत्प्रतिष्ठा" इति सत उपादानत्वं च प्रतिपाद्यत इति द्रष्ट- व्यम् । अत एव “अथातोऽहंकारादेशः। अथात आदेशोनेति नेति आदित्योब्रह्मत्यादेश उभयमादिष्टंभवतिअध्यात्मंचाधिदैवंच"इत्या- दाविवादेशशब्दस्योपदेशार्थकत्वमेवास्तुनप्रशासनार्थकत्वमितिशं- कापराकृता । अतोजगदुपादानभूतं जगदात्मानं किं पृष्टवानसी त्यर्थः । अत्र ज्ञातवानसीत्यनुक्त्वा पृष्टवानसीत्युक्तवतः " तद्विद्धि- प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यति ते ज्ञानं ज्ञानिनस्तत्त्व- दर्शिनः” इत्युक्तरीत्या प्रणिपातादिप्रसन्नाचार्योपदेशगम्य एव सोर्थःन तु प्रकारांतरेण ज्ञातुं शक्य इत्यभिप्रायः। अन्यज्ञानेनान्यज्ञानासंभवादेकविज्ञानेन सर्वविज्ञानासंभवं मन्वा- नश्चोदयति॥ कथंनुभगवस्सआदेशोभवतीति। हेभगवः ईदृश आदेशः कथंभवतीत्यर्थः । उपादानोपादेययोर- भेदेन भवतीत्यभिप्रायेणोत्तरमाह ॥ यथा सोम्यैकेन मृत्पिण्डेन सर्व मृण्मयं विज्ञातं स्यात्।

(१२) विषयवाक्यदीपिका। [अध्या०१-पाद१- यथा उपादानभूते मृत्पिण्डे ज्ञाते तदुपादेयघटशरावादिकं ज्ञातं भवति तद्वदित्यर्थः।। नैयायिकरीत्या असदेव घटादिकं मृत्पिण्डेनो- त्पद्यते । अतश्योपादानोपादेययोर्भेदादुपादानभूते मृत्पिण्डे ज्ञाते तदुपादेयसर्वमृन्मयानां ज्ञातत्वं न संभवतीति मन्वानं प्रत्याह ॥ वाचारंभणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्। आरभ्यते आलभ्यते स्पृश्यते इत्यारंभणम् । कर्मणि ल्युट् । तेनैव मृद्रव्येण घटझरावादिलक्षणो विकारोघटशरावादिनामधेयं च स्पृश्यत इत्यर्थः। आरंभणशब्दस्य पुनपुंसकलिंगविकारनामधे यविशेषणत्वेपि नपुंसकैकशेषैकवद्भावाभ्यामारंभणमिति नपुंसकै- कवचननिर्देशः । मृद्रव्येण विकारनामधेये कस्मै प्रयोजनाय स्पृश्यते इत्यत्राह । वाचेति । प्रयोजनस्य हेतुत्वविवक्षया तृतीया । वाक्छन्दश्चाजहल्लक्षणया वागादिव्यवहारपरः। ततश्च वाक्पूर्वकहा- नोपादानादिव्यवहारार्थ मृत्पिण्डेननामरूपे स्पृश्यते । मृत्पिण्ड- एव नामरूपभाग्भवतीत्यर्थः । अत्र यद्यपि मृत्पिण्डमृन्मयाभेदद- र्शनं वाचारंभणं विकार इत्येतावन्मात्रेणापि सिध्यति ननामधेय- स्यापि स्पृश्यत्वं वक्तव्यम् । तथापि संज्ञाभेदादुपादानोपादेययोर्भे- दशंका स्यात् । तद्युदासाय नामापि मृद्रव्येण स्पृश्यत इत्युक्तिर- पेक्षितेति द्रष्टव्यम् । कार्यकारणयोरेकद्रव्यत्वे प्रमाणमाह । मृत्तिकेत्येव सत्यम् । मृन्मयं हि घटादिकं मृत्तिकेत्येव प्रमाणप्र- तिपन्नं नतु तद्भिन्नत्वेनेत्यर्थः। यथा सोम्यैकेन लोहमणिना सर्व लोहमयं विज्ञातं स्यात् । वाचारंभणं विकारोनामधेयं लोहमित्येव सत्यम्॥ १ अत्रमृत्तिकैवसत्येतिवक्तव्ये नपुंसकनिर्देशंकृतवत्याश्रुत्याजगन्मिथ्यात्वादयोवादानिरा क्रियंत इतिसविस्तरं श्रुतिव्याख्यानपूर्वकंदृढयुक्तिभिरुपपादितवंतः स्नेहपूाख्यग्रन्थे जग- निवृत्त्यनुपपत्तिनिरूपणेकाशीस्थाः पण्डितस्वामिश्रीराममिश्रशास्त्रिणः ।

सू० ५-अधि०५] ईक्षत्यधिकरणम् । (१३) लोहमणिः सुवर्णपिंडविशेषः । शिष्टं पूर्ववत् । यथासोम्यैकेन नखनिकृतनेन सर्व कार्णायसं विज्ञातं स्यात् । वाचारंभणं विकारोनामधेयं काष्र्णा- यसमित्येव सत्यम् ॥ नखनिबंतनशब्देन कार्णायसपिण्डो लक्ष्यते । शेषपूर्ववत् ॥ एवं सोम्य स आदेशो भवतीति ॥ मयोक्त आदेशो मृत्पिण्डादितुल्य इत्यर्थः॥ एवमुक्तः पुत्र आह। नवै नूनंभगवन्तस्त एतदवेदिषुः । यद्येतदवेदि- ष्यन्कथंमेनावक्ष्यनितिभगवांस्त्वेवमेतद्रवीत्विति॥ भगवन्तः पूजावन्तःमम गुरवः एतत्स्वरूपं नज्ञातवन्तः यद्येतद्व- स्तुतो जानीयुस्तहिभक्ताय गुणवते मह्यमुपदिशेयुर्हिनोपदिष्टंयतस्ते नाहं मन्ये नविदितवन्त इति एवमवाच्यमपिगुरोन्यंगं पुनर्गुरुकुलं प्रति प्रेषणभयादुक्त्वा भगवानेव तदुपदिशत्विति पितरं प्रार्थयामा- सेत्यर्थः॥ तथासोम्ये ति होवाच ॥ पितापि तथैव वदानीत्युक्तवानित्यर्थः॥प्रतिज्ञातस्यैकविज्ञानेन सर्वविज्ञानस्य समर्थनाय जगतोब्रह्मैककारणतां प्रतिपादयितुं प्रवृत्त उद्दालकोयथालोकेऽपराहेप्रसारितानां घटशरावोदंचनादीनां मृ- त्पिडैकोपादानतां प्रतिपिपादयिषुः पूर्वाह्ने एतद्धटशरावादिकं मृत्पिण्डएवासीदिति प्रतिपादयति तथा प्रतिपादयति ॥ सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ इदं विभक्तनामरूपं बहुत्वावस्थं जगद् अग्रे सृष्टेःप्राक एकमेवा विभक्तनामरूपतया एकत्वावस्थापन्नमेव अद्वितीयमधिष्ठात्रंतरशू- न्यंच सदेवासीदित्यर्थः अत्रसच्छब्दोमानसंबंधयोग्यत्वलक्षणं सत्त्वं (१४) विषयवाक्यदीपिका। [अध्या०१-पादmed प्रवृत्तिनिमित्तीकृत्य परमात्मनि वर्तते।अयंच सच्छन्दो विशेष्यभूत परमात्मवाचकोपि कारणविषयत्वसामर्थ्यात् कारणत्वौपयिकगु- णविशिष्टप्रकृतिपुरुषकालशरीरकं परमात्मानमुपस्थापयति । देवा- नामाज्यपानामित्यादौविशेष्यवाच्याज्यशब्दस्य विकृतिषुपृषदा- ज्यवाचित्वस्यदाशमिकन्यायसिद्धत्वात् । अत्र सदेवेत्येवकारेण नै- यायिकाभिमतमुत्पत्तेःप्राक् जगतोऽसत्त्वंव्यावय॑ते । सदेवेत्येवका- रस्य नैयायिकाभिमतोत्पत्तिप्राकालीनकार्यासत्त्वव्यावर्तकत्व"त? कआहुरसदेवेदमग्र आसीत्" इत्यसत्कार्यवादिदर्शनप्रतिक्षेपको- त्तरवाक्यसंदर्भादवसीयते।एकमेवेत्येवकारेणबहुस्यामिति वक्ष्यमा- णस्रक्ष्यमाणकार्यबहुत्वावस्था व्युदस्यते । “तदेक्षततत्तेजोऽसृजत इत्युत्तरवाक्यसंदर्भेसच्छन्दितस्यैवनिमित्तत्त्वकथनात् । अद्वितीय मित्यनेन निमित्तांतरं निषिध्यते । ततश्चैकमद्वितीयमिति पदा- भ्यामभिन्ननिमित्तोपादानत्वं सिद्धं भवति । ततश्चायमर्थः॥ इदं बहुत्वावस्थं विभक्तनामरूपं प्रत्यक्षतया दृश्यमानं जगत् सृष्टेः प्रानिमित्तांतरशून्यमविभक्तनामरूपतया एकंसच्छब्दितं ब्रह्मैवासीदिति । यद्यपीदानीमपि जगत्सदेवातथाप्य विभक्तनामरूपसद्रूपापत्तिः सृष्टेः प्रागेवेत्यग्र इत्यस्य नानुपपत्तिः॥ न च सच्छब्दस्य सूक्ष्मप्रकृतिजीवकालशरीरकपरब्रह्मपरत्वेन सच्छ- ब्दस्य कार्यभूते जगति सृष्टे प्राक्तादृशब्रह्मत्ववोधकत्वेपि जगति सत्तासंबंधस्य बोधकत्वाभावेनासत्कार्यव्युदासकत्वं कथमिति वाच्यम् । सृष्टेः प्राक् सच्छन्दितब्रह्माभेदेवोधिते नैयायिकाभिमता सत्त्वव्युदासस्याप्यर्थसिद्धत्वात् । एतेनैकमेवाद्वितीयमित्येतत् प्रपंचमिथ्यात्वे प्रमाणयंतः परे प्रत्युक्ताः । तस्य ब्रह्मव्यतिरिक्तमि- थ्यात्वपरत्वे "सदेव सोम्येदमग्र आसीत्” इति कालपापकेण पूर्वे णाग्रपदेन " तदैवत” " 7 " नामरूपे व्याकरवाणि" इतीक्षणनाम- सू०५-अधि०५] ईक्षत्यधिकरणम् । (१५) रूपात्मकप्रपंचप्रापकेणोत्तरेण च विरोधप्रसंगात् ॥ किंचेदंशब्दो दितं सर्व जगत्सृष्टेः प्रागेकमेवाद्वितीयं सदेवासीदितिपरैर्व्याख्यात त्वेन सृष्टिप्राकालेऽद्वितीयपदेन द्वितीयासत्त्वबोधनेपि मृष्टयुत्तर- काले तस्यासत्त्वाप्रतिपादनेन जगतोमिथ्यात्वासिद्धेः । घटशरावा- दिकंसर्व सृष्टेः प्रागद्वितीय एकत्पिण्डएवासीदित्युक्त्याघटशरावा दीनां मिथ्यात्वप्रतिपादनादर्शनात् । प्रागसत्त्वप्रतिपादनेन ह्यनि- त्यत्वमात्रं सिद्धयेत् । नतुमिथ्यात्वम् ॥ नच नेहनानास्तीतिवाक्या त्सृष्टयुत्तरकालमप्यसत्त्वावेदनान्मिथ्यात्वसिद्धिरितिवाच्यम् ॥ न स्थानतोपि परस्योभयलिंगं सर्वत्रहि ।३।२।११। इत्यधिक- रणे तस्य वाक्यस्य ब्रह्मगतनानात्वनिषेधपरतया परैरेव व्या- ख्यातत्वात् ॥ नन्वनित्यत्वमेव मिथ्यात्वम् । अनित्यस्य धर्मिणो- ऽनित्यत्वमसत्यत्वमिति पर्यवस्यतीति वाचस्पतिमिश्रोक्तः । विद्यारण्ययतिनापि तथैवोक्तत्वात् । “अनाशी परमार्थश्चप्राज्ञैरभ्यु- पगम्यते । यत्तुकालांतरेणापि नान्यसंज्ञामुपैतिवै ॥ परिणामदिसं- भूतां तद्वस्तुनृपतचकिम् 1 इति पराशरस्मरणादनित्यत्वमेवमि- थ्यात्वमितिचेत् । ईदृशस्य प्रामाणिकस्य प्रत्यक्षाविरुद्धस्य प्रपंच- मिथ्यात्वस्यास्माभिरप्यप्रतिक्षेप्यत्वादित्यास्तां तावत् ॥ सदेवासीदिति सृष्टिप्राकाले ब्रह्माभेदप्रतिपादनमुखेन सत्कार्य वादमुक्त्वातद्विरोध्यसत्कार्यवादिनैयायिकादिमतं वाचारंभणमित्या दिना प्रतिक्षिप्तमपि कंठतः प्रतिक्षेप्तुं तन्मतमुपन्यस्यति । तबैक आहुरसदेवेदमग्रआसीदेकमेवाद्वितीयम् । १ सूत्रार्थे विषयेतु परस्य ब्राह्मणः अंतर्यामितया स्थानतोपि वर्तनादपि पृथिव्यादौ न विकारगंधः हि यस्मात् सर्वत्र श्रुतिस्मृत्यादौ अखिलहेयप्रत्यनीकत्वं कल्याणगुणाकरत्वं चोभयं ब्रह्मणो लिंगमुच्यते इत्यर्थकं वाक्यं भगवंतः श्रीभाष्यकारा वेदांतसारादावा- ज्ञापयंतिस्म ॥

(१६) विषयवाक्यदीपिका। [अध्या०१-पाद- इदं जगदग्रे सृष्टेः प्रागसदेवासीनतु सदासीदित्यर्थः । नामरूप- विभागाभावलक्षणस्यासत्त्वस्य सिद्धांतेपि संमतत्वादाह।एकमेवाद्वि- तीयमिति ॥ प्रागभावव्यतिरेकेणावस्थाया वाऽवस्थाश्रयस्य वा कस्यापि सत्त्वंनास्तीत्यर्थः॥ यदा असदेवेत्यत्र अ इत्येतत्सत्पदे नासमस्तं सत् सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमितिवाक्या र्थस्य प्रतिक्षेपकम् ॥ तस्मादसतःसज्जायत॥ सदितिभावप्रधानोनिर्देशः । सत्तेत्यर्थः । यस्माद्धेतोरुत्पत्तेः प्रागवस्थाश्रयस्याप्यभावस्तस्माद्धेतोः असतः सत्त्वरूपा उत्पत्तिर- जायत अभवदित्यर्थः पर्यवसनः । सजायतेत्यत्राऽडभावश्छान्द- सः॥ तन्मतं प्रतिक्षिपति ॥ कुतस्तुखलुसोम्यैवंस्यादितिहोवाच कथमसतःस- जायेत॥ केन प्रमाणेनासत उत्पत्तिः प्रतीयते तदेवेदमिति प्रत्यभिज्ञा- विरोधेन प्रमाणस्यानवतारात् । अतः कथमसतोद्रव्यस्य सत्ता भ- वेत् । अतोऽसतः सदुत्पत्ति भवति । अपितु सत एवद्रव्यस्यप्रथम- क्षणावच्छिन्नावस्थांतरसंबंध एव उत्पत्तिरित्यर्थः॥एवं परपक्ष प्रति- क्षिप्य स्वमतमुपसंहरति । सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत बहुस्यां प्रजायेयेति तत्तेजोऽसृजत ॥ तदेतत्सच्छब्दवाच्यं परं ब्रह्म विचित्रानंतचिदचिन्मिश्रव्यष्टि- जगद्रूपेणाहंबहुस्यां तदर्थ तेजोवन्नादिसमष्टिरूपेण प्रकर्षेण जायेये- तिसंकल्प्य तेजः ससर्ज॥ तत्तेजऐक्षत बहुस्यांप्रजायेयेति तदपोऽसृजत ॥

" स०५-अधि० ५] ईक्षत्यधिकरणम् । (१७) अत्राचेतनस्य तेजआदेरीक्षितृत्वासंभवात्तेजआदिशब्दास्तच्छरी- रकपरमात्मपरा द्रष्टव्या भगवता भाष्यकृता “गौणश्चेन्नात्मशब्दा- व।१।१६॥” इति सूत्रे तेजःप्रभृतयोपि शब्दाः परमात्मन एव वाचकाः। “तत्तेजऐक्षतताआपऐक्षत" इति मुख्य एवेक्षणव्यपदेश इतिभाषितम् । तथा तदभिध्यानादेवतुतल्लिंगात्सः।२।३।१४॥ इतिसूत्रे “तत्तेजऐक्षतता आप ऐक्षत" इतिश्रूयमाणमीक्षणंतच्छरी रकस्य परस्यैव ब्रह्मणउपपद्यत इतिभाषितम् । संज्ञामूर्तिकप्त्य धिकरणे २।४।१४च तत्तेज ऐक्षत"इति तेजश्शरीरकं परंब्रह्मैवा- भिधीयत इतिभाषितम् । नच तत्तेज ऐक्षतेत्यत्र तेजश्शन्दस्य तेज इशरीरक परब्रह्मपरत्वे तत्तेजोऽसृजतेतिवाक्येपि तेजश्शब्दस्यपरत्र- झपरत्वं स्यात् । नचेष्टापत्तिः।ब्रह्मणःसृज्यत्वाभावादिति वाच्यम् । तेजश्शरीरकब्रह्मणः कार्यत्वेन मृज्यत्वेदोषाभावात् ॥ तेजसो- जलहेतुत्वे उपपत्तिं दर्शयति ॥ तस्माद्यत्र क्वचन शोचति स्विद्यति वापुरुष तेजस एव तदध्यापोजायते॥ १ समन्वयाधिकरणेटिप्पणीत्रुटि:-ननु भाष्यदीपसारेप्वेतत्सूत्रविषयवाक्यत्वेनास्य मंत्र स्यानुपन्यासादेतत्सूत्रेएतच्छृत्युपन्यसनमेतद्ग्रन्थशैलीविरुद्धम्। नाधिकरणविषयवाक्याति- रिक्तवाक्यान्यप्यस्मिग्रन्थे व्याख्यायन्ते । यतः “साक्षाच्चोभयानानात्'इतिसूत्र एवावश्या- पेक्षितोपि किंस्विदिति मंत्रो नव्याख्यात इति चेत्॥सत्यम्॥समन्वयाधिकरणएवभाष्येप्रयो- जनशून्यत्वेन ब्रह्मणि वेदान्तानां प्रामाण्याभावे मीमांसकेनाशङ्किते तत्र निष्प्रपंचीकर- णवादिध्याननियोगवादिभेदाभेदवादिनामुत्थाने ध्याननियोगवादिप्रघट्टके भाष्यकारैरेतन्म- वाऽद्यखण्डस्योदाहतत्वेनाग्रिमयोरपि मंत्रयोस्तत्रैवोपात्तत्वेनच तेषां व्याख्यानस्यात्रोपयो- गमवेहिात्वदुत्प्रेक्षितनियमेतु मानाभावः।किंस्विदिति मंत्राव्याख्यानं त्वल्पोपयोगादा स्पष्टार्थ त्वाति नतादृशनियमकारि । १ तत्तेज ऐक्षतेति वत् तदैक्षतेत्यत्रापि ईक्षतिौण इतिचेन्न। स आत्मा तत्त्वमसीत्यात्मशब्दश्रवणादिति श्रीभाष्याद्यनुगृहीतः सूत्रार्थः । २ तस्य परमा मनोऽभिध्यानात्संकल्पात् तस्य सृष्टत्वलिंगात्सः परमात्मैव पृथिव्यादीनां कारणमित्या शयं भगवान् श्रीभाष्यकारो वेदांतदीपादावाज्ञापयांचकार । ३ "संज्ञामूर्तिक्लप्तिस्तु विवृत्कुर्व त उपदेशात् " इति सूत्रम् । ४ यथाबालत्वयुवरवादयो धर्मा नात्मानं स्पृशंति तथा तेजआ दिगताविकारान परमात्मानं स्पृशंतीति भावः ।

(१८) विषयवाक्यदीपिका। [अध्या० १-पाद १- यत्र कचन देशेवा काले वा पुरुषः संतप्यते प्रस्विद्यते तत्तदा तेजस एवाऽऽपोधिजायंत इत्यर्थः। ता आप ऐक्षत बह्वयः स्यामः प्रजायेमहीति ता अन्नमसृजंत॥ अत्रानशब्देनमहाभूताधिकारात्पृथिव्युच्यते।मूत्रितं च पृथिव्य- धिकाररूपशब्दान्तरेभ्यः२।३।११॥"इति । अधिकारोमहाभूता धिकारः। रूपंयत्कृष्णंतदन्नस्यतितैत्तिरीयके । अङ्ग्यः पृथिवीति शब्दांतरम् ।एतच्चसूत्रमन्यत्रव्याकृतम् ।अपामनहेतुत्वे युक्तिमाह। तस्माद्यत्र वचन वर्षति तदैव भूयिष्ठमन्नं भवति ॥ तदैव तत्रैवेत्यर्थः॥ अयएवतदध्यन्नाद्यंजायते॥ तत्तस्मात्पृथिव्येकदेशस्यव्रीहियवादिलक्षणस्यानस्य वृष्टिप्रभ वत्वदर्शनादेवहेतोः अन्नाद्यमनप्रभृतिपृथिवीत्वावच्छिन्नमयएवा धिजायत इत्यर्थः ॥ सर्वस्येतरस्य तेजोबन्नात्मकबीजत्रयप्रसूतत्वं दर्शयति ॥ तेषांखल्वेषांभूतानांत्रीण्येवबीजानिभवन्त्यण्डजं जीवजमुद्भिजमिति॥ अण्डजजीवजोद्भिजशन्दनिर्दिष्टानामेषां भूतानां तेजोवन्नानि त्रीण्येव बीजानीत्यर्थः॥ तदेवोपपादयति ॥ सेयं देवतैक्षत हताहमिमास्तिस्रोदेवता अनेन जी वेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति॥ १ तदुक्तं पूर्वैः श्लो० द्वेधाभूतानिभित्वापुनरपिच भिनत्यर्द्धमेकंस्थितेऽद्वैतैरेकैकस्यभागैः परमनुकलयत्यर्द्धमर्द्धचतुर्भिः । इत्थंपञ्चीकृतस्तैः सजनयतिजगद्धेतुरंडादिकार्याण्यैदंपर्य त्रिवृत्त्वश्रुतिरधिकगिरामक्षमैकानिरोद्धम् ॥ १॥ इति ।

सू०५-अधि० ५] ईक्षत्यधिकरणम्। (१९) अत्र संज्ञामूर्तिकृप्त्यधिकरणे भगवताभाष्यकृता सेयं देवते त्यादिवाक्यस्यायमर्थः। सेयंसच्छन्दिता परा देवता इमास्तेजोबन्न रूपास्तिस्रोदेवता अनेन जीवेन जीवसमष्टिविशिष्टेनात्मनानुप्र विश्य नामरूपे व्याकरवाणि देवादिविचित्रसृष्टिं तन्नामधेयानि च करवाणीति तदर्थमन्योन्यसंसर्गमप्राप्तानामेषांतेजोबनानां विशेषस ट्यसमर्थानां तत्सामर्थ्यायैकैकांत्रिवृतंत्रिवृतंकरवाणीति भाषितम्। "अभिमानिव्यपदेशेस्तुविशेषानुगतिभ्याम्' इतिसूत्रेहताहमिमास्ति स्रोदेवताइतितेजोवनानिदेवताशब्देनविशिष्यंतइतिभाषितत्वादत्रदे वताइत्यभिमानिदेवतापरत्वंवक्तव्यम्।ततश्चेमास्तिस्रोदेवताइत्यस्या यमर्थः। स्वस्वाभिमानिदेवताधिष्ठितानितेजोबन्नानीति तेजोवन्नाभि मानिदेवतानां परमात्मव्यतिरिक्त प्रमाणाभावात् परमात्मनःसर्वा भिमानिदेवतात्वसंभवाच्च परमात्मरूपदेवताधिष्ठितानीत्यर्थः । परमात्मव्यतिरिक्तदेवताभ्युपगमेपि देवताशब्दस्य तदधिष्ठितत्व मेवार्थः ॥ नच तत्तेजोसृजत तत्तेज ऐक्षतेत्यादौ तेजआदिशब्दानां परमात्मपरत्वात्तेजोवन्नावस्थपरमात्मनां तदुपहितत्वावस्थाधीनव- हुत्वाश्रयाणामेव इमास्तिस्रोदेवता इतिदेवताशब्देन परामर्शोऽस्तु नतुदेवताशब्दस्य तदधिष्ठितपरामर्शित्वमितिवाच्यम् ॥ तत्तदवस्थ परमात्मसु जीवस्य प्रवेशासंभवेन प्रवेशयोग्यतेजोवनानामेवाभेदोप चारेण लक्षणया वा देवताशब्देन निर्देष्टव्यत्वात् । महासिद्धांते तदै क्षतेति सर्वज्ञत्वम्, अमृजतेति निमितत्वं, बहुस्यामित्युपादानत्वं तदुभयानुगुणं, सर्वशक्तित्व, सत्यसंकल्पत्वम्, अनेनजीवेनात्म नानुप्रविश्येति सर्वातरत्वं चोक्तं भवति । जीवेनात्मनेति जीवशरी रकेण मयेत्यर्थः, सिंहेनभूत्वा बहवोमयात्ता इतिवत् । सार्वज्ञा- १ जिज्ञासाधिकरणे वेदान्तवाक्यानां निर्विशेषज्ञानैकरसवस्तुमात्रप्रतिपादनपरत्व निरसनप्रघट्टके एकविज्ञानेनेति प्रतीकव्याख्यायां श्रुतप्रकाशिकायामित्यर्थः॥

(२०) विषयवाक्यदीपिका। [अध्या०१-पाद- दिगुणकस्यतद्विपरीताकारजीवैक्यासंभवात् । यस्यात्मा शरीरमि- त्यादिवचनात्तदनुप्रविश्येत्यचेतन इवजीवेप्यनुप्रवेशश्रवणाचशरी- खाचिशब्दस्य शरीरिपर्यतत्वस्य मुख्यतयोपपन्नत्वाचायमेवार्थ इतिव्यासायरुक्तम् ॥ ननुजीवशरीरकेण मया प्रविश्य व्याकरवाणी त्यर्थोनसंभवति । व्याकरवाणीति तिङा कर्तुरभिहितत्वेनानभिहि ताधिकारविहिततृतीयानुपपत्तेः॥नचव्याकरणक्रियाकर्तुस्तिकाभि हितत्वेपिप्रवेशक्रियाकर्तुरनभिहितत्वात्तृतीया भविष्यतीतिवाच्य- म् ॥तर्हि मया भुक्त्वा बजामीत्यादिप्रयोगः साधुःस्यात् । बजिकि- याकर्तुरभिहितत्वेपि भुजिक्रियाकर्तुरनभिहितत्वात् स्वादुमिणमुल् ।३।४।२६॥"इतिसूत्रे कैयटेन क्त्वाप्रत्ययस्य भावार्थत्वात् पक्त्वौ- दनं भुङ्क्ते देवदत्तः पक्त्वौदनोभुज्यतेदेवदत्तेनेत्यत्रापि क्त्वाप्रत्ययेन पाकक्रियाकर्तृकर्मणोरनभिधानात् तृतीयाद्वितीये कुतोन प्राप्नुत इ. त्याशंक्याख्यातपदवाच्याक्रियाविशेष्यत्वात्प्रधानम्,इतरातुविशेष- णत्वादप्रधानं, तक्रियासाध्ययोरपिशक्त्योः तद्वारकोगुणप्रधानभा- वः, तत्र प्रधानशक्त्यभिधाने गुणक्रियाशक्तिरभिहितवत्प्रकाशतेप्र- धानानुरोधात्,गुणानां पृथक्तद्विरुद्धस्वकार्यारंभायोगाचेत्युक्तत्वा- दितिचेत्॥सत्यम्॥मयेत्यस्य स्वरूपेणेत्यर्थः। आत्मशब्दः स्वरूप- परः।यद्यपि जीवशरीरकं स्वरूपं व्याकरणकर्तुर्नभिद्यते।तथापि व्य- पदेशिवदेकस्मिन्बुद्ध्यानानात्वकल्पना" इतिन्यायेनकल्पितभेद- मादायानभिहिताधिकारविहिततृतीयोपपत्तेः ।घटः स्वेनरूपेण इत- ख्यावृत्तिं करोतीत्यादिप्रयोगदर्शनात् । करोतीति तिङाकर्तुरभिहि तत्वात् ॥ ननु तत्र करणार्थे तृतीया । करणं च न तिङाभिहित मिति चेत् ॥ तर्हि प्रकृतेपि तथास्तुातेनेशस्तद्विशिष्टः स्वकरणतया १ श्लो०"याजीवेनात्मनेति श्रुतिरियमपि न ब्रह्मजीवैक्यमाह प्रागेवैकोऽन्तरात्मा वपुरित- रदितिस्थायिभेदाभिधानात् ॥ तेनेशस्तद्विशिष्टः स्वकरणकतयाऽनुप्रवेशेपि कर्ता जीवेतत्क. र्तृतायामिह नहि घटते त्वाश्रुतिः कर्टभेदात्॥१॥” इति द्वितीयाध्यायचतुर्थपादशेषे इत्यर्थः।

सू०५-अधि० ५] ईक्षत्यधिकरणम् । (२१) नुप्रवेशेपि कर्तेत्यधिकरणसारावल्युक्तेश्चायमेवार्थः। यद्वा आरंभ- णाधिकरणे अनेन जीवनात्मना मदात्मकजीवनात्मतयानुप्रविश्य तद्विचित्रनामरूपभाकरवाणीति भाषितत्वेन जीवशब्दस्य परमा- त्मपर्यतत्वाभावस्यापि दर्शितत्वात्तदनुसारेण जीवेनेत्यस्य जीव एवार्थः । आत्मशब्दस्य शरीरमर्थः। शरीरभूतेनानेन जीवेनानु प्रविश्य नामरूपे व्याकरवाणीत्यर्थः । आत्मशब्दस्य शरीरवाचित्व मभिप्रेत्यैव मदात्मकजीवेनेतिभाषितम् ॥ आत्मतयानुप्रविश्यति भाष्यस्यायमर्थः ॥ आत्मतयेति हेतौ तृतीया। हेतुत्वं च प्रयोजन- त्वेन विवक्षितम् । आत्मत्वार्थमनुप्रविश्येत्यर्थः। प्रविश्यनियन्तृत्वा- भावे आत्मत्वासंभवात् । चारेणानुप्रविश्य परवलं संकलयानीति वदिति । यद्वा “ अनेन जीवेनात्मनानुप्रभूतः पेपीयमानोमोदमान- स्तिष्ठति" इत्यत्रेवानन जीवनात्मनानप्रविश्यत्यत्रापिजीवेनतिजीवा- त्मनेत्येवार्थः । अस्मिन्पक्षेऽनेनेतिशब्दस्य प्रमाणप्रतिपनपुरोवर्ति नामच्छरीरभूतेनेत्यर्थः। अनयोःपक्षयोश्वारेणानुप्रविश्यपरसैन्यंसंक- लयानिदेवदत्तेन पक्त्वौदनंचैत्रोभुङ्क्तेइत्यत्रेवप्रविशिक्रियाप्रयोजक- कापरमात्मना व्याप्रियमाणस्य जीवात्मनः करणतया तृतीयासं- भवात्तृतीयाया नानुपपत्तिः॥इयांस्तुविशेषः॥ नामरूपव्याकरणस्य त्रिवृत्करणसमानकर्तृत्वावगमानामरूपव्याकरणांशे साक्षात्कर्तृ- त्वमप्यस्ति । प्रवेशेतु सर्वव्यापकस्य परमात्मनः साक्षात्कर्तृत्वा- संभवात्प्रयोजककर्तृत्वम् । एवंच प्रवेशनामरूपव्याकरणयोः समा- नकर्तृकत्वसंभवात् क्त्वाप्रत्ययस्यापि नानुपपत्तिरितिद्रष्टव्यम्।एते- नांतःकरणविशिष्टस्याहमर्थत्वं वदंतः परे प्रत्युक्ताः। बहुस्यां हंता- हमिमा इतिसंकल्पसमये तस्याभावादित्यास्तां तावत् ॥ सेयंदेवतेमास्तिस्रोदेवता अनेनजीवेनात्मनानुप्र- - (२२) विषयवाक्यदीपिका । [अध्या०१-पाद:- विश्य नामरूपेव्याकरोत् । तासां त्रिवृतंत्रिवृतमेकै- कामकरोत्॥ अत्र त्रिवृत्करणाधीनत्वानामरूपव्याकरणस्यार्थक्रमानुरोधेन पाठक्रमो बाध्यते । अत्र तेजोवनदेवतासु एकैकां त्रिवृतं कृत्वा नामरूपव्याकरणमकरोदित्यर्थः । अत्र व्यापकस्य परमात्मनः स्वरूपेण स्वाऽपृथसिद्धसर्ववस्तुप्रवेशस्य सर्वदासत्त्वेपि स्वशरीर- भूतजीवेनानुप्रवेशस्य पूर्वमभावात् जीवेनानुप्रविश्य नामरूपे व्याकरोदित्यर्थस्य नानुपपत्तिः । चारस्य च राजशरीरत्वाभावान- चारेणानुप्रविश्येतिवाक्यसाम्यंच ॥ यथातु खलुसोम्येमास्तिस्रोदेवतास्त्रिवृत्रिवृदेकैका भवतितन्मेविजानीहीति॥ देवताधिष्ठितानां तेजोबनानां त्रिवृत्करणप्रकारं मे निगदतः शृण्वित्यर्थः । व्यासाचाय्रानन्दमयाधिकरणे अनुप्रविश्यनामरूपे व्याकरवाणीत्यत्र नामरूपव्याकरणस्यानुप्रवेशपूर्वकत्वमवगम्यते । तत्सृष्ट्वा तदेवानुप्राविशदित्यत्रानुप्रवेशस्य सृष्टिपूर्वकत्वं गम्यते। तस्मात्समानकर्तृकत्वमेव विवक्षितम् । नपौर्वापर्यमपि । अत एव हि“तस्यत्वष्टाविदधद्रूपमति" इति सृष्टयनुप्रवेशयोः समानकालीन- त्वमेवप्रतीयते ।अथवा तत्सृष्ट्वा तदेवानुप्राविशदिति सृष्टयनन्तर- त्वेन श्रूयमाणोनुप्रवेशः स्थित्त्यर्थोन्य एवेत्युक्तम्। अत्र व्यापकस्या पि परमात्मनोंतर्यामिविग्रहद्वारानुप्रवेश उपपद्यत इति केचित् । जीवद्वारैवानुप्रवेशोनस्वत इति केचित् । प्रतिवस्तु तत्तद्वस्तुमात्र परमात्मनः कार्यकारित्वात् तत्र प्रविष्ट इव इत्युक्तिरितिके- चित॥ यदग्ने रोहित रूपंतेजसस्तद्रूपम् मू०५-अधि०५] ईक्षत्यधिकरणम्। (२३) अग्नेर्यद्रोहितस्वरूपं रोहितोभागो दृश्यते तदत्रिवृत्कृतस्य तेजसः स्वरूपम् । यच्छुक्तं तदपां यत्कृष्णं तदन्नस्य ॥ अग्नेर्यच्छुक्त रूपं तदपामेव यदग्नेः कृष्णं तत्पृथिव्या इत्यर्थः ॥ अग्रस्तजोवनसमुदायरूपत्वे यावत्तेजोवन्नावस्थानमग्निरूपेणोप- लंभं प्राप्नोतीत्यत्राह॥ अपागादग्नेरग्नित्वम् ॥ तेष्वेव तेजोबन्नेष्वग्न्याद्यवस्थानाशकसामग्रीसन्निधाने अग्नित्वा- वस्थाअपेता भवति । अवस्थांतरं प्रादुर्भवति ॥ वाचारंभणं विकारोनामधेयं त्रीणिरूपाणीत्येव- सत्यम्॥ अतस्तेजोवनरेवाग्नित्वाद्यवस्थालक्षणोविकारोग्यादिनामधेयंच वाक्पूर्वकव्यवहारसिद्धये तेजोवन्नैरेवस्पृश्यते । अतस्तेजोबन्नस्वरू- पाण्येवाग्निरितिसत्यमित्यर्थः॥ यदादित्यस्य रोहित-रूपं तेजसस्तद्रूपं यच्छुक्ल तदपां यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारंभणं विकारोनामधेयं त्रीणिरूपाणीत्येवसत्यम्। यच्चंद्रमसोरोहितंरूपं तेजसस्तद्रूपंयच्छुक्ततदपां यत्- कृष्णं तदनस्यापागाचंद्राच्चद्रत्वं वाचारंभणं विका- रोनामधेयं त्रीणिरूपाणीत्येवसत्यम् । यद्विद्युतोरोहि- तरूपम् तेजसस्तद्रूपं यच्छुक्तदपां यत्कृष्णं तद- नस्यापागाद्विद्युतोविद्युत्त्वं वाचारंभणं विकारोनाम- धेयं त्रीणिरूपाणीत्येव सत्यम् ॥

(२४) विषयवाक्यदीपिका। [अध्या० १-पाद - पूर्व वदर्थः। एवं सर्वस्यापि प्रपंचस्य त्रिवृत्कृततेजोवनरूपत्वेन तदभेदंप्रसाध्याध्यात्ममांसलोहितमजास्थिलक्षणस्य देहस्येन्द्रिय मन प्राणानांच त्रिवृत्कृततेजोबनाभेदं प्रदर्शयितुं प्रस्तौति ॥ यथाखलुसोम्येमास्तिस्रोदेवताः पुरुषप्राप्य त्रिवृ- त्रिवृदेकैका भवतितन्मेविजानीहीति ॥ तेजोवन्नानि पुरुषेण भुज्यमानानि पुरुषं प्राप्य यथा परिणमंति तं परिणामप्रकारं शृण्वित्यर्थः॥ अन्नमशितंत्रेधा विधीयते॥ पुरुषेण भुक्तं जाठराग्निना पच्यमानं स्थविष्ठमध्यमाणिष्टरूपेण त्रेधा विभक्तं भवति॥ तस्ययः स्थविष्टोधातुस्तत्पुरीषं भवति।योमध्यम- स्तन्मांसम् । योणिष्ठस्तन्मनः॥ स्थूलांशःपुरीषतामापद्यते।मध्यमांशस्तु मांसताम्।अणिष्ठांशस्तु मनस आप्यायकतामापद्यते । मनस आहंकारिकत्वेनानविकारत्वा- भावादितिभावः॥ आपः पीतास्त्रेधा विधीयते । तासां यः स्थविष्ठोधा- तुस्तन्मूत्रं भवति । योमध्यमस्तल्लोहितम् । योऽणिष्ठः सप्राणः। तेजोऽशितं त्रेधाविधीयते।तस्य यःस्थविष्टो- धातुस्तदस्थि भवति । योमध्यमःस मज्जा। योऽणिष्ठः सावाक्॥ तैलघृतादिकं तेजश्शब्देनोच्यते।मज्जा अस्थ्यंतर्गतः स्नेह धातु- विशेषः । घृततैलादेः पीतस्य सूक्ष्मांशोवागाप्यायक इत्यर्थः॥

सू०५-अधि० ५] ईक्षत्यधिकरणम् । (२५) अन्नमयहि सोम्य मनः अपोमयः प्राणस्तेजोम- यीवागिति॥ उक्तरीत्या मनःप्राणवाचामन्नजलतेजस्सूक्ष्मांशाप्यायितत्वा- न्मनोन्नमयं प्राणोजलमयस्तेजोमयीवागित्यर्थः ॥ एकविज्ञानेन सर्वविज्ञानसिद्धयर्थ ब्रह्मव्यतिरिक्तस्य तदुपादेयत्वं वक्तुं प्रवृत्तः तेजोवनात्मकसकलाचेतनवर्गस्य तदुपादेयत्वमुक्त्वाचेतनवर्ग स्यापि तदुपादेयतां प्रतिपादयितुं प्रस्तौति ॥ उद्दालकोहारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नांतं मे सोम्यविजानीहीति॥ स्वप्नांतं सुषुप्ति प्रतिपादयतो मम वाक्याद्विजानीहीत्यर्थः ॥ एवं शिष्यावधानाय प्रतिज्ञायाह ॥ यत्रतत्पुरुषःस्वपितिनाम॥ यत्र यदा नामशब्दः प्रसिद्धौ एतत्पुरुषः एष पुरुष इत्यर्थः॥ सता सोम्यतदा सम्पन्नोभवति ॥ सदेव सोम्येति प्रकृतेन सता संगतोभवति ! तस्या एवसत्संपत्तेः सतिलयरूपत्वं स्वपितिनामनिवर्चनानुगुणविवृणोति ॥ स्वमपीतोभवतीति ॥ अत्र स्वशब्दस्तावनजीवमात्रपरः सता सोम्य तदा संपन्नोभ- वति स्वमपीतोभवतीतिस्थानप्रमाणेन सच्छन्दस्वशब्दयोरेकविष यत्वावश्यंभावात्।सच्छन्दस्य चास्मिन्प्रकरणे परमात्मविषयत्वात्। स्वशब्दोपि तत्पर एव ॥ ननुजीवभिन्नत्वात्परमात्मनः तस्यकथं जीवंप्रति स्वत्वमितिचेत्उच्यते॥देवमनुष्यादिनामरूपाभिमानराग लोभायनुगुणबहिर्दुःखज्ञानप्रसरवजागरितावस्थजीवविशिष्टःपरमा- त्मादेवमनुष्यादिनामरूपरागद्वेषलोभमोहाद्योपाधिकबाह्याभ्यंतरा- MUMBAI (२६) विषयवाक्यदीपिका। [अध्या०१-पाद- भिमानकालुष्यरहितः जीवशरीरकः सन्नात्मन्यंतर्भूतइत्यर्थ इति । "स्वाप्ययात् ।।३।१०॥” इतिसूत्रेव्यासा%ाख्यातत्वान्नानुपप त्तिःअत्रत्वपिपूर्वस्येतर्लयार्थस्यसकर्मकत्वात्स्वमपीतइतिद्वितीया तस्मादेनँ स्वपितीत्याचक्षते स्व ह्यपीतोभवति॥ यस्मात्स्वस्मिल्लीनोभवतितस्मात्स्वपितीतिलौकिका आचक्ष- ते इत्यर्थ अत्र यद्यपि भिष्वपशय इति धातोनिष्पन्नः स्वपि तिशब्दोनतु स्वशब्दोपपदादपीते तथापिअशनायादिनिर्वचनवद- थवादरूपमुपपद्यत इति द्रष्टव्यम् । तत्र जीवस्य परमात्मनि लयप्र तिपादनात्तेजोबन्नादिवजीवस्यापि तदुपादेयत्वात्तज्ज्ञानेनज्ञात त्वमुपपादितं भवति । अत्र वक्तव्यमुपनिषत्प्रकाशिकायामुक्तं तत्रैवद्रष्टव्यम् । अन्नेन सोम्यशुंगेनापोमूलमन्विच्छाद्भिस्सोम्यशुंगे न तेजोमूलमन्विच्छ तेजसा सोम्यशुंगेन सन्मूलम- विच्छ॥ शुंगेन कार्येण कारणं जानीहोत्यर्थः ।। सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनास्स- प्रतिष्ठाः॥ अत्र प्रजाशब्देन सजीवं जगनिर्दिश्यते सन्मूलाः सत्प्रतिष्ठा इति पदद्वयं सच्छन्दवाच्यब्रह्माधीनोत्पत्तिलयपरम् । प्रतिष्ठा- निष्ठापर्यवसानं लय इति यावत् । सदायतना इति सदाधारत्वमु- च्यते । अनेन जगतःशरीरत्वं फलितम् ॥ तत्कथमितिचेत् । इत्थम् ॥ उत्पत्तिलयहेतुत्ववाचिपदद्वयमध्यगतेन स्थितिहेतुत्व- वाचिना सदायतना इतिपदेन स्थितिहेतुत्वरूपधारकत्वं सिध्य- ति । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिवी - सू०५-अधि०५] ईक्षत्यधिकरणम् । (२७) विधृते तिष्ठत इति"तिष्ठतीतिस्थाधातूक्तस्थितेः प्रशासनेन धारणा- धीनत्वावगमात्तस्य च प्रशाशनस्य"अंतःप्रविष्टःशास्ता जनानाम्" इत्यंतःप्रवेशपूर्वकत्वावगमात् सर्वशाखाप्रत्ययन्यायेनांतः प्रवेश- शासनधारणानामन्यतमस्योक्तावपि इतरयोः फलितत्वात् । सदाय- तना इत्यनेन धारकत्वोक्तावप्यन्तः प्रविश्य शासनेन धारकत्वलक्ष- णात्मकत्वस्यफलितत्वाज्जगतः शरीरत्वं फलितम् । सन्मूलाः सोम्येमाः सर्वाःप्रजाः सत्प्रतिष्ठा इति द्वाभ्यां सदुपादानकत्वम् । सदायतना इत्यनेन सदंतर्यामिकत्वम् । उपादानोपादेयभावस्या- भिन्ननिष्ठत्वात्। प्रजाशब्देनाचित्संसृष्टजीवमात्रपरामर्शतस्यसदुपा- दानकत्वासंभवात्।प्रजाशब्देनापि प्रजाशरीरकं ब्रह्मैवोच्यते । सदा- यतना इत्यत्र सदंतयोमिकत्वस्य शरीरभूतचिदचिन्मात्रनिष्ठत्वेन है चिदचिच्छरीरकब्रह्मनिष्ठत्वाभावात् । सदायतना इति वाक्यानुषक्त प्रजाशब्देन शरीरभूतचेतनाचेतनमात्रमेवाभिधीयते। तथा सन्मूला: सत्प्रतिष्ठाः इत्युपादानत्वप्रतिपादकवाक्ये विशिष्टस्यैवोपादान- त्वात् सच्छब्देन मूक्ष्मचिदचिद्विशिष्टमेवोच्यते । सदायतना इत्यत्र विशिष्टस्य सतोतर्यामित्वासंभावात् सच्छब्देन विशेष्यमात्रमेवाभि धीयते । एवं सुषुप्तौ सत्संपत्तिं जीवस्य प्रदय प्रमाणकालेपि सत्संपत्तिं दर्शयति। अस्य सोम्य पुरुषस्य प्रयतोवाङ्मनसि संपद्यते मनःप्राणे प्राणस्तेजसि तेजः परस्यांदेवतायाम् ॥ प्रयतः म्रियमाणस्येत्यर्थः । अत्र वाचःमनःप्रकृतिकत्वासंभवात् व्यापारोपरमहेतुभूतसंश्लेषविशेष एव वाचोमनसि लयामनःप्राणयो- रपितादृश एवामनसि करणग्रामं प्राणेमनः पुरुषे चतं झटिति घट- यन्भूतेष्वेनं परे चतमात्मनीत्युक्तरीत्याप्राणोजीवे संपन्नोजीवेन सह- तेजश्शब्दोपलक्षितेषु सर्वेषुभूतेषुसंपन्नोभवति । ततः परं सुखदुः- (२८) विषयवाक्यदीपिका। [अध्या०१-पाद- खोपभोगायासविश्रमाय सजीवानां भूतसूक्ष्माणांपरमात्मनि संप- त्तिर्भवतीत्यर्थः॥ सयएषोऽणिमा ॥ तादृशःसच्छब्दितः एषोणिमा अणुः दुर्विज्ञेयः मानांतरागोचर इत्यर्थः ॥ ऐतदात्म्यमिदसर्वम्॥ एष आत्मायस्यऐतदात्म्यस्वार्थेष्यम् ॥ तत्सत्यम् ॥ सजीवस्य जगतः सदात्मकत्वमेवसत्यंप्रामाणिकम् ॥ सआत्मा ॥ प्रमाणप्रतिपन्नत्वात्सच्छन्दितः स एतस्यात्मेत्यर्थः ॥ तत्त्वमसि श्वेतकेतो इति॥ अत्रत्वंशब्देनाभिमुखश्वेतकेतुवाचिना पर्यवसानवृत्त्या तदं- तर्यामिपरमात्माभिधीयते । शरीरवाचिशब्दानां शरीरिपर्यन्त- त्वस्याकृत्यधिकरणन्यायसिद्धत्वात्संसारिणः श्वेतकेतोः नित्यमु- तेन तच्छब्दार्थेन सच्छन्दितब्रह्मणाभेदासंभवात् । अत्र वक्तव्यमु- पनिषत्प्रकाशिकायामुक्तंतत्रैवद्रष्टव्यम् ॥ एवमुक्तः श्वेतकेतुः, सुषुप्तिदशायां परमात्मनि संपन्नः स्वापानन्तरं तत उत्थायागतश्चेत् प्रातहादुत्थायागतस्य गृहे स्थितोस्मि गृहादागतोस्मीति प्रतिसं- धानवत् सतिसंपन्नोस्मि ततआगतोस्मीति प्रतिसंधानप्रसंगाव नेतद्विश्रम्भणीयमिति मन्यमान, आह ॥ भूयएव मा भगवान विज्ञापयत्विति॥ सम्यङ्मामनुशाधीत्यर्थः । एवं प्रार्थितः पिता। तथा सोम्येति होवाच । यथा सोम्य नद्यः पुरस्ता- सू०५-अधि० ५] ईक्षत्यधिकरणम् । (२९) प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यस्तास्समुद्रात्समुद्र मेवापियंति समुद्र एव भवंतिताः यथा तत्र न विदुरिय महमस्मीयमहमस्मीति एवमेवखलुसोम्येमाःसर्वाःप्र जाःसत आगत्य न विदुःसत आगच्छामह इति तइह व्याघ्रो वा सिँहोवा वृको वा वराहोवा कीटो वा पतं गोवा दँशोवा मशकोवा यद्यद्भवंति तत्तदा भवन्ति इति सएषोऽणिमैतदात्म्यमिदंसर्व तत्सत्यं स आ त्मा तत्त्वमसिश्वेतकेतो इतिभूयएवमा भगवान विज्ञाप यत्विति तथा सोम्येति होवाच ॥ यथा गंगाद्या नद्यः पूर्वदिक्प्रस्थिताः प्राङ्मुखतया समुद्रं यान्ति पश्चादेशेप्रवृत्ताः सिन्ध्वायाः नद्यः प्रत्यङ्मुखतया समुद्रयान्ति पुनश्चताः समुद्रात्समुद्रं गछन्ति समुद्रपर्यंतदेशात् समुद्रमध्यं गत्वा समुद्रेणैकीभूतास्सत्य इयं गङ्गाहमस्मीयं यमुनाहमस्मीत्येवं प्रत्यभि ज्ञातुमसमर्था भवन्तीति तथा सुप्तोत्थिता अपि सत उत्थिता आगता इति न प्रत्यभिज्ञातुं समर्थाः । अपितु प्राचीनव्याघ्रादिमात्र भावमनुसंदधते । यद्यद्भवन्ति प्रजाः जाग्रदशायां यद्ययाघ्रादित्वं प्राप्नुवन्ति तत्तव्याघ्रादित्वमा भवन्ति । आगत्य भवन्ति । सुषुप्ति स्थानात्परमात्मन आगत्य यथा पूर्व व्याघ्रादिभावमनुसन्दधत इत्यर्थः । अनन्तरं प्रयाणदशायां जीवस्य नाशाभावः “अस्यसो- म्यमहतो वृक्षस्ययो मूलेभ्याहन्याज्जीवन् श्रवेत् यो मध्ये- ऽभ्याहन्याज्जीवन् श्रवेत् योग्रेऽभ्याहन्याज्जीवन् श्रवेत् जीवापेतं वावकिलेदं म्रियते न जीवो म्रियते” इति खण्डेन वर्णितः॥

(३०) विषयवाक्यदीपिका। [अध्या०१-पाद१- यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीयतं ततो विजने विसृजेत् सयथा तत्र प्राङ्वोदङ्वाधराङ् वाप्रध्मायीताभिनद्वाक्षआनीतोभिनद्धाक्षोविसृष्टः ॥ हे सोम्ययथालोके गन्धारेभ्यो जनपदेभ्यो निवद्धचक्षुषं कञ्चित्पु रुपंचोरो गृहीत्वा विजने विसृजेत्सदिग्भ्रमोपेतःप्राङ्मुखोवा उदङ् मुखोवाअधोमुखोवा पिनद्वाक्ष एव तस्करैरानीत अभिनद्धाक्ष एव विसृष्ट इति विक्रोशेत॥ तस्य यथा अभिनहनं प्रमुच्य प्रब्रूयात् एतां दिशं गन्धारा एतांदिशंवजेतिसग्रामारामं पृच्छन् पण्डितो- मेधावी गन्धारानेवाभिसंपद्यते ॥ यथा कश्चित्कारुणिकस्तस्यबन्धनं मुक्त्वा उत्तरतोगन्धाराः एतांदिशं व्रजेत्युक्तो ग्रामाद्रामान्तरं गच्छन् तरूपदिष्टमागों मेधावी उक्तार्थाविस्मरणशीलः पण्डितः ऊहापोहक्षमधीयुक्तः यथा गन्धारा- नेव पुनरभिसंपद्यत इत्यर्थः।। एवमेवेहाचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्यइति ॥ एवमाचार्येण ब्रह्मात्मकस्त्वमसिाअतस्तदात्मकतया स्वात्मान- मनुसंधत्स्वेत्युपदिष्टस्सतदात्मकत्वमनुसन्धत्ते । एतादृशानुसन्धान निष्ठस्य तस्य तावानेव विलंबः यावत्प्रारब्धकारब्धशरीरानविमो- क्ष्यते।तदनंतरंतु सद्रूपं ब्रह्म संपत्स्यते न विमोक्ष्येऽथसंपत्स्य इति पुरुषव्यत्ययश्छांदसः । केचित्तु तस्य तावदेवचिरमित्यत्र मे इत्य- १ अत्र यद्यपि तैलङ्गनागराक्षरयोः पुस्तकयोरेवमेव पाठोदृश्यते तथापि अनिमपाठा नरोधादर्थानुरोधाच्च कैश्चित्कारुणिकैरित्येव पाठ उचित इति प्रतीयते ।

सू०६-अधि०६] आनन्दमयाधिकरणम्। (३१) ध्याहारः।तस्यमे तावानेव विलंबः, यावत्कर्मभिर्नविमोक्ष्येअतः परं ब्रह्म संयत्स्ये इत्युपासकस्यानुसंधानप्रकारोनेन वाक्येनोच्यते इति वदंति ॥ तद्धास्यविजज्ञावितिविजज्ञाविति ॥ एवं नवकृत्वो बोधितः श्वेतकेतुरस्योद्दालकस्यवाक्यात्तद्ब्रह्म- स्वरूपं विजज्ञो ज्ञातवानित्यर्थः । व्यासार्योक्तरीत्योपासितवा- नित्यर्थः। द्विरुक्तिः सद्विद्या समाप्त्यर्था। इति सद्विद्या समाप्ता॥ आनन्दमयाधिकरणम् ॥६॥ आनन्दमयोभ्यासात् ॥१।१।१३॥ परमतत्त्वहितपुरुषार्थप्रतिपादिकानन्दवल्ली प्रस्तूयते ॥ ब्रह्मविदाप्नोति परम् ॥ निरतिशयबृहत्वाश्रयवस्तूपासकः सर्वेभ्य उत्कृष्टं ब्रह्म प्राप्नोती- त्यर्थः “आवृत्तिरसकृदुपदेशात् ।४।१॥9॥"इत्यधिकरणोक्तन्यायेन वेदनोपासनादिशब्दानामेकार्थत्वात् । ब्रह्मविदित्यत्रविच्छब्दोप्यु- पासनपरः तक्रतुन्यायेन प्राप्यस्यैवोपास्यत्वात् । “ब्रह्मविदाप्नोति- परम्” इति परस्यब्रह्मणः प्राप्यत्वकथनात्तस्यैवोपास्यत्वमिति- द्रष्टव्यम् ॥ अत्र ब्रह्मतवेदन प्राप्तिःप्राप्यंचेति चतुष्टयमुक्तम् । किंतद्ब्रह्म कीदृशं तद्वेदनं कीदृशो प्राप्तिः कीदृशं च प्राप्यमित्याकां क्षायां मंत्रमुखेन विवरितुं मंत्रमवतारयात ॥ तदेषाभ्युक्ता॥ तत् ब्रह्माभिमुखीकृत्य एषा ऋगध्येभिरुक्ता ब्राह्मणोक्तस्यार्थ- १ यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतःप्रेत्य भवतीति श्रुतिसिद्धो यथाक्रतुन्यायः। २ एतेन मंत्रव्याख्यानरूपत्वाब्राह्मणभागस्य नवेदत्वमित्यनुमानं दयानन्देन तदीय वेद- भाष्यस्य भूमिकायामुक्तं प्रत्युक्तम् । अत्र वैपरीत्यस्यापि दर्शनात् ।

0 (३२) विषयवाक्यदीपिका। [अध्या०१-पाद:- स्य वैशवमनेन मैत्रेण क्रियत इत्यर्थः । एवमेव हि मांत्रवर्णिकसूत्रे भाषितम् ॥ सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सोश्नुते सर्वान् कामान्सह ब्रह्मणा विपश्चितेति। जन्मादिसूत्रे यतोवा इमानि भूतानीत्यादिकारणवाक्येन प्रति- पन्नजगजन्मादिकारणस्य ब्रह्मणस्सकलेतरव्यावृत्तं स्वरूपमभिधी- यते सत्यं ज्ञानमनन्तं ब्रह्मेति । तत्र सत्यपदं निरुपाधिकसत्तायोगि ब्रह्माह । तेन विकारास्पदमचेतनं तत्संसृष्टचेतनश्च व्यावृतः।नामा न्तरभजनाविस्थान्तरयोगेन तयोनिरुपाधिकसत्तायोगरहितत्वा- ताज्ञानपदं च नित्यासङ्कुचितज्ञानकाकारमाह। तेन कदाचित्सङ्कुचि तज्ञानत्वेन मुक्ताव्यावृत्ताः । अनन्तपदं देशकालवस्तुपरिच्छेदर- हितस्वरूपमाहासगुणत्वात्स्वरूपस्य स्वरूपेण गुणैश्वानन्तत्वेन पूर्व पदद्वयव्यावृत्तकोटिद्वयविलक्षणास्सातिशयस्वरूपस्वगुणा नित्या व्यावृत्ताः। विशेषणानां व्यावर्त्तकत्वादितिभाषितम् ॥ नन्वत्र ज्ञान पदस्य विषयावगाहिज्ञानत्वं प्रवृत्तिमितं चेत्स्वरूपस्याताहत्त्वाऽज्ञा नमित्यस्य ज्ञानगुणकमित्यर्थः पर्यवस्येनतु स्वरूपस्य ज्ञानत्वम् । स्वप्रकाशतारूपज्ञानत्वं प्रवृत्तिनिमित्तं चेत्स्वरूपस्य ज्ञानत्वमात्र सिध्येनतु ज्ञानगुणकत्वम् । नचेष्टापत्तिः। तद्गुणसारत्वात्तब्धपदेशः प्राज्ञवत् । २ । ३।२९ ॥” इति सूत्रे यथा सत्यं ज्ञानमिति ब्रह्मणो ज्ञानगुणसारत्वाज्ज्ञानमितिव्यपदेशइतिभाष्यंविरुध्येतेतिचेत् ॥ उच्यते ॥ स्वप्रकाशत्वमेव प्रवृत्तिनिमित्तम् । तत्र ज्ञानत्वाश्रयत्वम- संकोचात् स्वरूपतो गुणतश्चसिध्यति ब्रह्मशब्दात्प्रतीयमानं बृहत्त्वं १ अतएव स्वावच्छिन्नाश्रयत्व स्वावच्छिन्नाश्रयाश्रयत्व स्वावच्छिन्नजनकसंकल्पवत्त्वै- तत्रितयसंबन्धेन परममहत्त्वत्ववत्वरूपब्रह्मत्वमेव ब्रह्मपदप्रवृत्तिनिमित्तमिति यादवाद्रि- निवासरसिकाः श्रीमदनन्तार्यवर्याः ब्रह्मशक्तिवादे ॥ ।

RANIROPETROMRAKESH सू०१३-अधि०६] आनन्दमयाधिकरणम् । (३३) यथा स्वरूपतो गुणतश्च सिध्यति तद्वदिति व्यासाचार्यैरुक्तम् । वस्तुतस्तु सत्यं ज्ञानमित्यस्यांतोदात्तत्वादर्शआद्यतत्वेन ज्ञान- मुणत्वमेवार्थः । प्रज्ञानघनएवानन्दमय इतिश्रुत्यंतरात् ब्रह्मणो ज्ञानस्वरूपत्वमप्यस्तीति द्रष्टव्यम् । इहेदं नान्यत्रेति परिच्छेत्तुमश क्यत्वं देशापरिच्छेदः । इदमिदानी नान्यदेति परिच्छेदायोग्यत्वं कालापरिच्छेदः । इदमिदं नेति परिच्छेदानहत्वलक्षणं सर्ववस्तुसा मानाधिकरण्याइत्वं वस्त्वपरिच्छेदः। यद्वा वस्तुस्वभावतःपरिच्छेदो वस्तुपरिच्छेदः।यथा तुल्याकारत्वेपि तुल्यपरिमाणत्वेपिदशवर्णस्व णांपेक्षयाकलधौतादेरपकर्षस्तद्राहित्यंवस्त्वपरिच्छेदः । समाभ्यधि कराहित्यनिदानभूतैर्गुणैनिरतिशयप्रकर्षांवस्त्वपरिच्छेद इत्युक्तंभव तीति व्यासाचाय्याख्यातम् । “नान्तंगुणानांगच्छति तेनानंतोय मुच्यते” इति स्मरणादणानन्त्यमनन्तशब्दार्थः। अत्र रूढिवशा- देवताविशेषनिर्णयः॥ नचानन्तपदस्य नारायणवाचिनः पुल्लिंगत्वं स्यादितिवाच्यम् । इष्टापत्तेः। तस्य द्वितीयांतत्वेन पुलिंगत्वस्येष्ट- त्वात् । द्वितीयांतत्वाभावे च यो वेद निहितं गुहायामित्यत्र तच्छ- ब्दाच्याहारप्रसंगात्।अनध्याहारेणोपपत्तावध्याहारस्यान्याय्यत्वात्। यदिचानन्तपदयौगिकार्थस्य त्रिविधपरिच्छेदराहित्यस्य नारायणा- दन्यत्राप्रसत्या श्रीपत्यादिशब्देष्विव न रूढिः कल्पनीयेत्युच्यते तदापि न नः क्षतिः । अत्र “सत्यं ज्ञानमनंतं ब्रह्म" इत्यनेन ब्रह्मश- ब्दार्थों विवृतः । हृदयगुहानिहितत्वप्रकारकज्ञानप्रतिपादकेन यो वेद निहितं गुहायाम्" इत्यनेन विच्छन्दार्थ उक्तः । “परमे व्योमन्सोनुते इत्यंशेन आप्नोतिशब्दार्थ उक्तः । “सर्वान्कामा- ब्रह्मणा सह विपश्चिता" इत्यनेन प्राप्यमुक्तम् । काम्यन्तइति कामाः कल्याणगुणाः । मुक्तस्य सर्वविषयविरक्तस्य तब्य- तिरिक्तकाम्यान्तरासंभवात् । अथ “यइहात्मानमनुविद्य वजन्त्ये- SENA (३४) विषयवाक्यदीपिका। [अध्या०१-पाद:- तांश्च सत्यान् कामान्" इत्यादौ कामशब्दस्य कल्याणगुणेष्वेव प्रयोगात् । विविधं पश्यंती चिद्यस्येति बहुव्रीहिः । निरुपाधिका नन्याधोनासंकुचितसर्वविषयकज्ञानवत्त्वं हि विपश्चित्वम् । अयं च गुणो नित्यमुक्तव्यावर्तकः। ब्रह्मापेक्षयापि तद्गुणानां फलदशायां प्राधान्यं प्रतिपादयितुं ब्रह्मणा सहेति निर्देशः “सहयुक्तेऽप्रधाने" इति हिपाणिनिस्मृतिः। नच भोग्यतायां गुणापेक्षया ब्रह्मणोऽप्राधा न्यं दोषायेति शंक्यं “श्रियं त्वत्तोप्युच्चैर्वयमिह भणामः शृणुतराम्" इतिवत्परमात्मापेक्षयापि तत्कल्याणगुणानां भोग्यतातिशयपर्यव सायित्वेनैतादृशाप्राधान्यस्य गुणत्वेन दोषत्वाभावात् । अतएव हि पुत्रेण सहौदनं भुइतिवद्भोक्तृसाहित्यपरत्वे ब्रह्मणोऽप्राधान्यप्रसं गात् । तत्परित्यज्य पयसा सहौदनभुङ्गेइतिवद्भोग्यसाहित्यपरत्व- मेवस्वीकृतम् ।नावच पक्षे ब्रह्मणोऽप्राधान्यं दोषायति भोग्यसाहित्य पक्षएव भगवता भाष्यकृता समाश्रितः॥ ननु"तेषामृग्यत्रार्थवशेन पादव्यवस्था" इति जैमिनिनार्थवशाधीनपादव्यवस्थात्वस्य ऋग्ल- क्षणतयोक्तत्वात् ।सहइत्यस्य पादांतरस्थस्य ब्रह्मणेति पादांतरस्थे नान्वयो नसंभवति।ततश्च ब्रह्मणेति नसहयोगे तृतीया।अपित्वित्थंभू तलक्षणे तृतीया।सहेत्यस्ययुगपदित्यर्थः । सर्वान्कामान्युगपदनुभव ति ब्रह्मणा। ब्रह्मभूतइतियावत्।अतएव स्कांदे “सोश्नुते सकलान्का मानक्रमेण सुरर्षभाःविदितो ब्रह्मरूपेण जीवन्मुक्तो न संशयः" इत्युप बंहितमितिचेन्न ॥ तेषामृग्यत्रार्थवशेनेत्यस्योपलक्षणमात्रत्वात् ।उप लक्षणपक्षमभ्युपगम्यैवतव्याख्यातृभिरप्यर्थवशेनवा वृत्तवशेनवा पा- दव्यवस्थेतिव्याख्यातत्त्वादभियुक्तानांमंत्रप्रसिद्धिविषयत्वंमत्रत्वमि- तिवत्।अभियुक्तानामृक्पदप्रसिद्धिविषयत्वमेव ऋक्त्वम् । तत श्व पादांतरस्थेनापि पादांतरस्थपदान्वयो युक्तः। ब्रह्मणेत्यस्येत्थं १ सुरर्षभेतिसंबोधनम् । २ छन्दोवशेन ।

सू०१३-अधि०६-] आनन्दमयाधिकरणम् । (३५) भूतलक्षणत्वाश्रयणे ब्रह्मभूतइत्यर्थोपिनसंभवति श्वेतच्छत्रेण राजत इत्यादौ तथाऽदर्शनात् । त्वदुक्तस्कांदवचनस्य पूर्वसंप्रतिपत्नैरनुदा हतत्त्वाच भाष्यकृदुक्तएवार्थः । इतिशब्दो मंत्रसमाप्तिद्योतनार्थः ॥ सत्यंज्ञानमनंतमित्युक्तंवस्त्वपरिच्छेदलक्षणमानंत्यं सर्वोपादानत्व- सर्वांतरत्वमुखेन प्रपंचयति ॥ तस्माद्वाएतस्मादात्मन आकाशस्संभूतः॥ तस्मादित्यनेन ब्रह्मविदाप्नोति परमिति व्यवहितब्राह्मणोक्तं परामृश्यते।एतस्मादितिसत्यंज्ञानमित्यव्यवहितमंत्रोक्तंपरामृश्यते। ततश्च मंत्रब्राह्मणोक्तादात्मनआकाशः समुत्पन्न इत्यर्थः॥ आकाशाद्वायुः वायोरग्निःअग्नेरापः अयःपृथिवी ॥ अत्र तत्तेजऐक्षत ता आपऐक्षतेति तेजः प्रभृतिष्वीक्षणादि- श्रवणादाकाशवायुतेजआदिशब्दास्तत्तच्छरीरकपरमात्मपरा इति "तेजोतस्तथाह्याह २।३।१०॥” इत्यधिकरणे स्थितम् ॥ पृथिव्याओषधयःओषधीभ्योन्नम्। अन्नात्पुरुषः पुरुषः शरीरमित्यर्थः॥ शिष्टं स्पष्टम् । सवाएषपुरुषोन्नरसमयः॥ अयंदेहः अन्नरसस्यपरिणामः । अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति योमध्यमस्तन्मांस मित्याधुक्तरीत्या जाठराग्निपच्यमानानरससारांशनिर्वय॑मानमां- सादिमयत्वाच्छरीरस्येतिभावः॥ तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः। अयमात्मा। इदं पुच्छं प्रतिष्ठा ॥ तस्य देहरूपस्य पुरुषस्येदं प्रत्यक्षतोदृश्यमानमेवशिरः। बाहु- १ अभेदादर्शनात् ।

(३६) विषयवाक्यदीपिका। [अध्या०१-पाद- द्वयं पक्षौ । अधस्तद्रीवाया नाभेरूज़परिदृश्यमानोयंमध्यमोदेह- भाग आत्मा मध्यमंोषामङ्गानामात्मा" इतिश्रुतेः।धारकत्वेन प्रधा- नभूत इत्यर्थः। इदं नाभेरधस्तात्परिदृश्यमानं चरणद्वयं पुच्छवदा- धारत्वात्पुच्छमित्यर्थः । अत्र पुरुषशब्दितमनुष्यपाण्यादेः पक्ष- त्वादिरूपणं प्रतिपत्तिसौकर्यार्थमितिद्रष्टव्यम् । तदप्येषश्लोको- भवति । तस्मिन्नेवार्थेब्राह्मणोक्ते अयं मंत्ररूपः श्लोकोभवतीत्यर्थः। अन्नाद्वैप्रजाःप्रजायन्ते याः काश्चष्टथिवीथंश्रिताः। अथोअन्नेनैवजीवन्ति अथैनदपियन्त्यंततः॥ पृथिव्यां वर्तमानास्सर्वाः प्रजाअन्नादेवोत्पद्यते उत्पन्नाश्चान्नेनै- व जीवन्ति अन्तकाले तत्रैव लयं यान्तीत्यर्थः ॥ अन्नहिभूतानां ज्येष्ठम् । तस्मात्सर्वोषधमुच्यते॥ सर्वभूतोपकारकत्वादन्नमेवज्येष्ठम्। अतएवाशनायादिव्याधिनि- वर्तकत्वात्तदेवसौषधमुच्यतइत्यर्थः । ओषधीभ्योन्नमिति ओषधि- परिणामत्त्वं निमित्तीकृत्याने प्रयुक्तमौषधिशब्दभेषजत्वनिमि- तकतया श्रुतिय॑पदिशतीति द्रष्टव्यम् ॥ सर्ववैतेऽनमाप्नुवन्तियेनंब्रह्मोपासते॥ अन्ने ब्रह्मदृष्टिं कुर्वन्तः यावदन्नमपेक्षितं तावदन्नं प्राप्नुवन्ती त्यर्थः॥ ब्रह्मदृष्टिहेतुभूतं ब्रह्मसाम्यमाह ॥ अन्नहिभूतानाज्येष्ठम् । तस्मात्सर्वोषधमुच्यते ॥ ब्रह्मणोपि सकलरोगनिवर्तकतया सर्वभेषजत्वस्य सत्त्वादि- तिभावः॥ अन्नाद्भूतानिजायन्ते। जातान्यनेनवर्धन्ते ॥ जननवृद्धिहेतुत्वमन्नब्रह्मणोस्सममित्यर्थः ॥ अन्नशब्दस्य निर्व- चनमाह॥

सू०१३-अधि०६ ] आनन्दमयाधिकरणम्। (३७) अद्यतेत्तिचभूतानि। तस्मादनंतदुच्यत इति ॥ जीवनदशायां स्वयमद्यते नाशदशायामलभ्यमानतया वा विपरीतपरिणामहेतुतया वा "अन्नमृत्युंतमुजीवातुमाहुः" इति श्रु- त्युक्तरीत्याऽत्तृत्वलक्षणं संहर्तृत्वं द्रष्टव्यम् । एवमाकाशादेरन्नमयश- ब्दितस्थूलशरीरपर्यतस्य ब्रह्मैवात्मा उपादानचेत्युक्त्वा स आत्मा- कइत्यपेक्षायामानन्दमयएव सआत्मेति दर्शयितुं स्थूलारुन्धतीन्या- येन स्थूलदेहान्तर्वर्तिनप्राणमयमात्मत्वेनदर्शयति । सूक्ष्मामरुन्ध- तीदर्शयितुं प्रवृत्तः प्रथमतएव सूक्ष्मायाअरुन्धत्याः प्रदर्शना- संभवं पर्यालोच्य तत्समीपवर्तिस्थूलतारकामियमेवारुन्धतीति प्रदर्शयति । तस्यां स्थूलतारकायां श्रोतुररुन्धतीत्वबुद्धौ दृढायां तत्समीपवर्तिनी वस्तुतोरुन्धती मूक्ष्मामियमेवारुन्धतीति प्रदर्श- यति सोयं (स्थूलारुन्धतीन्यायः)॥ तस्मादाएतस्मादन्नरसमयात् । अन्योंतरआत्मा प्राणमयः॥ देहान्तर्वर्ती देहादन्यो यःप्राणमयः सएवात्मा आत्मनआकाशः संभूतइति आकाशादिसर्वोपादानत्वेन तदन्तर्यामित्वेन च निर्दिष्ट आत्मेत्यर्थः । भगवताभाष्यकृता "अन्वयादितिचेत्स्यादेवावधार- णात् ३।३।१७॥"इति सूत्रेऽनमयादन्तरे प्राणमये प्रथमं परमात्मबु द्विरवतीर्णा। तदनन्तरं च प्राणमयादन्तरे मनोमये ततो विज्ञानमये तत आनंदमयेइतिभाषितम् । अत्र पंचवृत्तेः प्राणस्य प्राणनवृ त्तिप्रचुरत्वात्प्राणमयत्वम्॥ तेनैषपूर्णः ॥ तेन प्राणमयेनात्मना अयमनरसमयःपूर्णइत्यर्थः । व्याप्तइति- यावत् । सर्वस्यापि देहस्य प्राणव्याप्तत्वादितिभावः। - RURAL (३८) विषयवाक्यदीपिका। [ अध्या०१-पाद१- स वा एष पुरुषविध एव ॥ प्राणमयोपि पुरुषविधः पुरुषाकृतिरेवेत्यर्थः ॥ हस्तपादादिम- त्वेनपुरुषविधत्वभ्रान्तिव्युदस्यति । तस्यपुरुषविधताम् । अन्वयं पुरुषविधः॥ तस्यानमयस्य पुरुषविधत्वमनुकृत्यप्राणमयोपिपुरुषविधइत्य- थः । ततश्चतद्वदेवशिरःपक्षपुच्छादिमत्तया पुरुषविध इत्यर्थः ॥ तस्यप्राणएवशिरः। व्यानोदक्षिणः पक्षः अपानसु (उ)त्तरः पक्षः॥ स्पष्टोर्थः ॥ आकाशआत्मा। यथाकाशस्थितोनित्यवायुस्सर्वत्रगोमहान्" इतिस्मृत्युक्तरी- त्यावायुविकारभूतप्राणापानादिधारकत्वादाकाशस्यात्मत्वम् ॥ पृथिवीपुच्छंप्रतिष्ठा॥ पृथिव्यामाकाशस्यप्रतिष्ठितत्वात्तस्याःपुच्छत्वम् ॥ तदप्येषश्लोकोभवति । प्राणंदेवाअनुप्राणन्तिमनु- ष्याःपशवश्चये ॥ प्राणमनुप्राणन्ति प्राणाधीनजीवना इत्यर्थः॥ प्राणोहिभूतानामायुः । तस्मात्सर्वायुषमुच्यते ॥ यस्मात्सर्वेषांभूतानांयावदस्मिञ्छरीरेप्राणोवसति तावदायुरिति प्राणस्योच्छ्सननिश्वसनादिलक्षणस्यसर्वभूतायुर्हेतुत्वम् । अतः प्राणएवसर्वेषामायुरित्युच्यतइत्यर्थः॥ सर्वमेवतआयुर्यन्ति । येप्राणंब्रह्मोपासते ॥ एवंलक्षणेप्राणेब्रह्मबुद्धिकुर्वन्तः सर्वमायुः प्राप्नुवंतीत्यर्थः । एवं सू०१३-अधि०६] आनन्दमयाधिकरणम् । (३९) प्राणमये आकाशाद्यन्नमयान्तान्तरात्मत्वबुद्धिमवतार्य तांबुद्धिनि वर्तयति ॥ तस्यैषएवशारीर आत्मा। यः पूर्वस्य ॥ पूर्वस्यानमयस्य य आत्माएषएव तस्य प्राणमयस्याप्यात्मेत्यर्थः। शारीरः शरीरप्रतिसंबन्ध्यात्मत्यर्थः । अनेनात्मशब्दस्यस्वरूपार्थ त्वभ्रांतियुदस्ताभवति । ततश्चान्नमयप्राणमयावेकात्मकौनत्वन्न- मयस्य प्राणमयआत्मेत्यर्थः ॥ तीनमयप्राणमययोः क आत्मा- इत्याकांक्षायामाह ॥ तस्माद्वाएतस्मात्प्राणमयात् । अन्योन्तरआत्मा- मनोमयः॥ अत्र मनोमयइत्यत्रप्राचुयार्थमयट् मनोबुद्धयहंकारचित्ताख्यान्तः करणवृत्तिषु मनोवृत्ते प्रचुरत्वात् ॥ तेनैषपूर्णः। सवाएषपुरुषविधएव । तस्यपुरुषविध ताम् । अन्वयंपुरुषविधः॥ पूर्ववदर्थः॥ तस्य यजुरेवशिरः॥ तस्यान्तःकरणस्य यजुर्वेदविषयज्ञानजनकमनोव्यापारश्शिर इत्यर्थः । मुख्यार्थस्य यजुर्वेदस्य मनस्संबंधाभावेन मनसश्शिरस्त्व रूपणासंभवादितिद्रष्टव्यम् । एवमुत्तरत्रापि ॥ ऋग्दक्षिणः पक्षः।सामोत्तरः पक्षः।आदेश आत्मा ॥ इदं कुरु इदंमाकार्षारितिविधिनिषेधरूपं रहस्यानुशासनमादेश इत्यर्थः। तत्र तजन्यज्ञानहेतुभूतान्तःकरणवृत्तिरादेशशब्देनोच्यते॥ अथवांगिरसः पुच्छंप्रतिष्ठा ॥ - (४०) विषयवाक्यदीपिका। [अध्या०१-पाद:- अथवा गिरोभिदृष्टामंत्राः प्रतिष्ठाहेतुभूतं पुच्छमित्यर्थः। अत्रा- पि अथर्वागिरश्शन्दः तज्जन्यज्ञानहेतुभूतमनोव्यापारपरः ॥ तदप्येषश्लोकोभवति । यतोवाचोनिवर्तन्ते। अप्रा- प्यमनसासह । आनन्दंब्रह्मणो विद्वान् । न बिभेति कदाचनेति ॥ यस्माद्ब्रह्मानन्दाद्वाङ्मनसे इयत्तालक्षणं पारमप्राप्य निवर्तेते तादृशं ब्रह्मानन्दं विद्वान् “दृश्यतेत्वय्ययाबुद्ध्या" मनसातुविशु- देन" इत्युक्तरीत्या शुद्धेन मनसा ज्ञात्वा कदापि न विभेतीत्यर्थः। अत्र ब्रह्मानंदस्य विशुद्धमनोगोचरत्वप्रतिपादकत्वादस्य श्लोकस्य मनोविषयत्वमस्तीतिद्रष्टव्यम् ॥ तस्यैषए वशारीरआत्मा। यः पूर्वस्य ॥ पूर्वस्य प्राणमयस्य आत्मा सएवमनोमयस्याप्यात्मेत्यर्थः एवंचानमयप्राणमयमनोमयानामेक आत्मेत्युक्तं भवति ॥ सकइ- त्यपेक्षायामाह॥ तस्माद्वाएतस्मान्मनोमयादन्योन्तरआत्माविज्ञा- नमयः॥ अत्र विज्ञानमयो जीवः । नबुद्धिमानं मयट्प्रत्ययेनव्यतिरे- कप्रतीतेः ॥ तेनैषपूर्णः। सवाएषपुरुषविधएव। तस्यपुरुषविध- ताम् । अन्वयंपुरुषविधः॥ पूर्ववदर्थः ॥ तस्य श्रद्धैवशिरः ऋतंदक्षिणःपक्षः। सत्यमुत्तरःपक्षः॥ अत्र श्रद्धाऋतसत्यशब्दाः ज्ञानविशेषपराः॥

. मू०१३-अधि०६] आनन्दमयाधिकरणम् । (४१) योगआत्मा॥ ब्रह्मणेत्वामहस ॐ " इत्यात्मानंयुंजीतेतिविहितज्ञानविशेषो योगशब्देनोच्यते ॥ महः पुच्छंप्रतिष्ठा॥ योगविरोधिनिरसनसामर्थ्यलक्षणंमहः पुच्छमित्यर्थः । एते- षांश्रद्धादीनामात्मगुणत्वेन प्रसिद्धत्वात्तत्तदवच्छिन्नमात्मस्वरूपं शिरःपक्षपुच्छादिमत्तयाप्रतिपाद्यतेइति द्रष्टव्यम् । अतः स्वस्मा दनतिरिक्तैः स्वावयवैश्शिरःपक्षपुच्छादिरूपणपरत्वात्प्रकरणस्ये तिभाष्यस्य न विरोधः॥ तदप्येषश्लोकोभवति ॥२॥ विज्ञानयज्ञं तनुते । कर्माणि तनुतेपिच॥ अत्र विज्ञानमयशब्दनिर्दिष्टोजीवोविज्ञानशब्देनोच्यते । आत्म- स्वरूपस्य स्वप्रकाशतयाज्ञानकनिरूपणीयत्वेनच विज्ञानशब्दे- नाभिधानसंभवात् । “कृत्यल्युटोबहुलम् ३।३।११३॥” इति जाना- तीत्यर्थेकर्तरिल्युडाश्रीयते । नन्द्यादित्ववाश्रित्य "नन्दिग्रहि ३।। १३४॥इत्यादिनाकर्तरिल्युःआश्रीयते ।तेन केवलविज्ञानमात्रपराम- शैयज्ञं तनुतेकर्माणि तनुतेपिचेति प्रतिपादितवैदिकलौकिककर्मक र्तृत्वासंभवादन्तर्यामिब्राह्मणे “यआत्मनितिष्ठन्नितिमाध्यंदिनपाठ- गतात्मशब्दस्थानेयोविज्ञाने तिष्ठन्निति काण्वपाठदर्शनाद्विज्ञानश- ब्दोजीवात्मपरः ॥ विज्ञानं देवास्सर्वेब्रह्मज्येष्ठमुपासते॥ सर्वदेवा विज्ञानं जीवस्वरूपमेव प्रधानशब्दाभिलप्यादचेतना ब्रह्मणोज्येष्टप्रजापतिविद्योक्तरीत्याउपासतइत्यर्थः ॥ विज्ञानं ब्रह्मचेद्वेद तस्माच्चेन्न प्रमाद्यति । शरीरेपा- प्मनोहित्वासर्वान्कामान्समश्नुतइति ॥ १ ममयोनिमहब्रह्मेत्युक्तत्वेनब्रह्मणः प्रधानादित्यर्थः।

MOH (४२) विषयवाक्यदीपिका। [अध्या०१-पाद:- यस्तुजीवरूपं ब्रह्मवेदतस्माच्चजीवादन्तिमप्रत्ययपर्यन्तंनप्रमाय तिचेच्छरीरे पाप्मनोहित्वा देहेवर्तमानएव विनष्टाश्लिष्टपूर्वोत्तरायः सर्वान्कामान्समश्रुते॥ तस्यैष एव शारीर आत्मा। यः पूर्वस्यातस्माद्वाए तस्माद्विज्ञानमयादन्योन्तर आत्मा आनन्दमयः।तेनै षपूर्णः।सवाएवपुरुषविधएवातस्यपुरुषविधताम्।अन्व यंपुरुषविधः। तस्यप्रियमेवशिरः। मोदोदक्षिणः पक्षः। प्रमोदउत्तरःपक्षः।आनन्दआत्मा।ब्रह्मपुच्छंप्रतिष्ठा ॥ इष्टवस्तुदर्शनजन्यं सुखंप्रियम्। तल्लाभजन्यं सुखंमोदःलब्धस्यो पभोगजन्यं सुखंप्रमोदः सुखातिशयआनन्दः॥नच मध्यमकायत्वेन रूपितस्यानन्दस्य पुच्छत्वेन रूपितस्यब्रह्मणश्च भेदाभावेन तस्यै- वात्मत्वेनपुच्छत्वेन च रूपणं कथमितिवाच्यम्।।एकस्यैवब्रह्मणोब- मत्ववेषेणपुच्छत्वम्, आनन्दत्ववेषणात्मशब्दितमध्यकायत्वमित्यु- पपत्तेःनिचानन्दरूपब्रह्मस्वरूपस्य कथमानन्दप्रचुरलक्षणमानन्दम यत्वमानन्दस्यचानन्दप्रचुरत्वाभावादितिवाच्यम् ॥आनन्दस्वरूप- स्यैव ब्रह्मणः प्रियमोदप्रमोदशब्दवाच्यशिरःपक्षतादिरूपितधर्मभू- तानन्दमयत्ववत्तस्याप्युपपत्तेः । अत्र पूर्वेष्वन्नमयादिषु चतुर्यु पर्यायेष्वनिरूपितस्यब्रह्मणोवयवत्वस्यास्मिन्नानन्दमयपर्याय निरू- पणंब्रह्मविदाप्नोतिपरमित्युपत्रांतस्यब्रह्मोपदेशस्यानन्दमयपर्यायेस- मापनमितिज्ञापनार्थमितिद्रष्टव्यम् । अतोत्रानन्दमयएवप्रक्रांतंब्रह्म। तदप्येषश्लोकोभवति॥२॥असन्नेव सभवति।असद्ध- टेतिवेदचेत्।अस्तिब्रह्मेतिचेद्वेदासंतमेनंततीविदुरिति। पूर्वेषु चतुर्पु पर्यायेषूदाहृतानांश्लोकानां पुच्छवद्विषयत्वदर्श- -- १ ब्रह्मरूपपुच्छत्वरूपस्येत्यर्थः।

सू०१३-अधि०६] आनन्दमयाधिकरणम् । (१३) नादयमपिश्लोकः पुच्छवदानन्दमयविषयकएव । नतुब्रह्मपुच्छमिति- निर्दिष्टतदेकदेशविषयः । ततश्चब्रह्मशब्देनानन्दमयएवोच्यते । आनन्दमयसदसत्त्वज्ञानान्मोक्षसंसारौभवतइत्यर्थः॥ आनन्दमयरू- पस्यब्रह्मणः आकाशादिविज्ञानमयान्तपदार्थान्तर्यामितयानिर्दिष्ट- स्याप्यात्मान्तरमस्तिकिमितिशङ्कांव्युदस्यति ॥ तस्यैष एवशारीरआत्मा। यः पूर्वस्य ॥ पूर्वस्यआकाशादिविज्ञानमयान्तपदार्थस्यात्मभूत एष आनन्दम- यआत्मा। तस्यानन्दमयस्यात्मेत्यर्थः। ततश्चानन्यात्मत्वमुक्तंभव- ति ॥ नचपूर्वेषु पर्यायेषु तस्यैष एव शारीर आत्मेत्यस्यानन्यात्म- त्वप्रतिपादकत्वादर्शनादस्मिन्पर्यायेतदाश्रयणेऽर्थवैरूप्यस्यादिति शंक्यम्॥ पूर्वेषु पर्यायेष्वनुक्तस्यैवब्रह्मावयवत्वस्येहनिरूपणात्तस्मा द्वाएतस्मादानन्दमयादन्योन्तरआत्मेतिनिर्देशाभावाच एतत्पर्या- यगतस्यतस्यैषएवशारीरआत्मेत्यस्यानन्यात्मत्वमेवार्थः ॥ आन- न्दमयब्रह्मप्रतिपादनानन्तरंब्रह्मविदाप्नोति परमित्युपक्रमाभिहितप्रा- प्तिविशदीकरणार्थप्रश्नानुपक्षिपति ॥ अथातोनुप्रश्नाः। उताविद्वानमुंलोकंप्रेत्यकश्चनग- च्छतीति । आहोविद्वानमुंलोकंप्रेत्यकश्चित्सम- श्नुता३३॥ पूर्वप्रतिपादनस्यबुभुत्साहेतुत्वमतः शब्देनोच्यते । उतेति- निपातस्य च्छांदसोदीर्घः । अथासपत्नानितिवदविद्वानितिपदे सतिहि आधुदात्तत्वंस्यात् । तत्पुरुषेतुल्याङ्केतिस्मरणात् । अन्तोदात्तंचेदंपदम् । उत विद्वानितिच्छेदः । अविप्रकृष्टहृदया- दिस्थानस्थमनवच्छिन्नब्रह्मोपासिनोविद्वानकिमितः प्रेत्यामुलो- कंपरमेव्योमन्नित्युक्तलोकं गच्छतीत्येकः प्रश्नः । उतगत्यनपेक्षमि- (४४) विषयवाक्यदीपिका। [अध्या०१-पाद- हैवब्रह्माप्नोतीत्यर्थसिद्धः प्रश्नः । आहोविद्वान्समश्रुतइतिभोक्तृत्ववि- वक्षितम् । अयमर्थः कश्चिदहं ग्रहेणोपासीनोपि विद्वानमुंलोकं गत्वा- किंसमश्नुते भोग्यभूतब्रह्मानुभवतीत्येकः प्रश्नः । उत ब्रह्मस्वरूपे णैकीभवतीत्यर्थसिद्धः प्रश्नः । एवं शास्त्रवैविध्यमूलागतिविशे- षस्वरूपभेदसदसद्भावविषयाः प्रश्नाः बहुवचनेनविवक्षिताः । एतत्स वैव्यासाचार्यैः "उपासात्रैविध्यात ।१।१।१३॥" तिसूत्रेस्पष्टमुक्तम्।। एतान्प्रतिवक्तुं जगत्कारणत्वौपयिकगुणविशिष्टस्यैवब्रह्मणः प्राप्य- त्वादिज्ञापनायाह॥ सोकांमयतबहुस्यांप्रजायेयेति ॥ सआनन्दमयआत्मा देवमनुष्यादिरूपेण बहुस्यां तदर्थमाका- शादिभूतरूपेण प्रजायेयेतिव्यष्टिसमष्टिरूपचेतनाचेतनविषयसंक- ल्पमकुरुतेत्यर्थः॥ सतपोऽतप्यत॥ सपरमात्मा स्रष्टव्यालोचनरूपं तपः कृतवानित्यर्थः । तपआ- लोचनइतिहिधातुः॥ सतपस्तत्वा, इदंसर्वमसृजत। यदिदंकिंच, तत्सृ- वातदेवानुप्राविशत् ॥ ननुसर्वदासर्वव्याप्तस्य ब्रह्मणः कोसौसृष्टिकालानुप्रवेश इति- चेत् ॥ च्यते ॥ गोजठरेगतवत्सवत्सर्वव्याप्तस्यब्रह्मणः प्रत्येकंसर्व- वस्तुषु पुष्कलप्रतीत्यर्हस्थितिविशेषएवानुप्रवेशः । अनेन “सत्यं ज्ञानमनन्तंब्रह्म योवेदनिहितं गुहायाम् इत्यत्रोक्तमनन्तस्य ब्रह्मणोहृदयगुहानिहितत्वमुपपादितंभवति ॥ १ नन्वत्र तदैक्षतेत्यत्र च जननानंतरमेव बहुभवनस्य संभवात् विपरीतनिर्देशोऽनुचितइति- चेत् । न॥अव्यापारेतथानियमसत्वेपिघटंकरिष्यामीतिमृदमाहरिष्यामीतिसंकल्पेतादृश विप- रीतनियमस्यैवसत्त्वेनदोषाभावात् । स्पष्टंचैतच्छुतप्रकाशिकारण्यकांडैकत्रिंशसर्गभूषणादौ। १ सू०१३-अधि०६] आनन्दमयाधिकरणम् । (४५) तदनुप्रविश्यसच्चत्यच्चाभवत्॥ सच्छब्देननिर्विकारतया सततैकरूपश्चेतन उच्यते। त्यच्छब्देन पूर्वपूर्वावस्थात्यागविकारास्पदमचेतनमुच्यते । ब्रह्मैवचेतनाचेतन नामरूपभाग्भवतीत्यर्थः ॥ ननु ब्रह्मण एवसर्वोपादानतया सर्वभावे विकारास्पदत्वस्यादित्याशंक्याह । निरुक्तंचा निरुक्तंच, निलयनंचानिलयनंच ॥ जातिगुणक्रियावत्तयाजातिगुणक्रियाभिधायिशब्दवाच्यमचेतनं निरुक्तम् । जातिगुणादिशून्यचेतनजातमनिरुक्तम् । एता भूत मात्राः प्रज्ञामात्रास्वर्पिताइत्युक्तरीत्याऽचेतनवर्गाधारभूतं चेतनजा तंनिलयनम् । आश्रितमचेतनजातमनिलयनम् ॥ विज्ञानंचाविज्ञानंच॥ अजडस्वरूपंजडस्वरूपंच ॥ सत्यंचानृतंच सत्यमभवत्॥ निर्विकारतयासत्यत्वंचेतनस्याइतरस्यत्वतथात्वम् । ततश्चनिरुक्त त्वानिरुक्तत्वनिलयनत्वानिलयनत्वविज्ञानत्वाविज्ञानत्वयुक्तसत्या नृतशब्दितचेतनाचेतननामरूपभाग्भवदपि ब्रह्म सत्यमेवाभवत् । अजहनिर्विकारत्वलक्षणस्वस्वभावमेवाभवदित्यर्थः।। यदिदंकिं च, तत्सत्यमित्याचक्षते॥ यस्माचेतनाचेतनात्मकवर्गानुप्रविष्टतया सत्यशब्दितस्य ब्रह्म- णआत्मत्वमतएव सर्वमपिचेतनाचेतनात्मकंजगच्छास्त्रदृष्टिमन्तः पुरुषाः पराशरादयो “हरेकिंचिव्यतिरिक्तमस्ति ज्योतीषिविष्णुर्भु- वनानिविष्णुः” इत्याचक्षतइत्यर्थः ।। तदप्येषश्लोकोभवति॥ स्पष्टोर्थः॥

HTRA विषयवाक्यदीपिका। [अध्या०१-पाद:- असदा इदमग्रआसीत् । ततोवैसदजायत ॥ इदंस्थूलचेतनाचेतनशरीरकं ब्रह्मानभिव्यक्तनामरूपंब्रह्मसृष्टेः पागासीत् । तस्मादिदं जगदभिव्यक्तनामरूपमभवदित्यर्थः ॥ नन्वसच्छन्दितस्य ब्रह्मण उपादानत्वे कत्रैतरमपेक्षितं निमित्तो पादानयोर्भेदावश्यंभावादित्याशंक्याह ।। तदात्मानस्वयमकुरुत॥ आत्मानमेवोपादानत्वेन स्वीकृत्य स्वयमेवाकुरत ॥ तस्मात्तत्सुकृतमुच्यतइति ॥ यस्मात्स्वयमेवस्वस्वकार्यम्।अतएव ब्रह्मसुष्टुकृतंकार्ययस्यतत्सु- कृतम् । कार्यस्यसौष्ठवंचानतिक्केशरूपत्वम् । स्वभिन्नस्यकार्यस्य निर्माणहि केशप्रसक्तिः। ततश्चाविष्टकार्यब्रह्मेति “निश्वसितमेतन्म हतोभूतस्य" इत्यादिश्रुतयोवदन्तीत्यर्थः । भवतु तत्सुकृतंतस्यो पास्यत्वप्राप्यत्वयोः किमायातमित्यत्राह ॥ यद्वैतत्सुकृतम् । रसोवैसः॥ सुकृतमिति निर्दिष्टब्रह्मरसः आनन्दः॥ रसोवायंलब्ध्वानन्दीभवति ॥ तल्लाभादस्यानदित्वम्।ततश्चतस्यानन्दत्वात् प्राप्यत्वोपास्यत्वे युक्तइतिभावः ॥ तदेवोपपादयति ।। को वान्यात्कः प्राण्यात्। यदेष आकाशआनन्दो नस्यात् । एषह्येवानन्दयाति॥ यद्ययमपरिच्छिन्नानन्दरसः परमात्मा नस्यात्सांसारिकमाप- वर्गिकंचसुखंकः प्राप्नुयात् । अतएषएवानंदयाति । अतस्तस्यस विधानन्दहेतुत्वात्तस्यप्राप्यत्वमस्तीतिभावः ॥ १ अत्र तैलंगनागराक्षरयोः पुस्तकयोदृश्यमानमपि ब्रह्मपदमधिकमितिप्रतीयते । ।

सू०१३-अधि०६] आनन्दमयाधिकरणम् । (४७) यदा वैषएतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने- ऽभयंप्रतिष्ठांविन्दते ॥ अथसोऽभयंगतोभवति ॥ अदृश्ये चक्षुरादिग्रहणानहें आत्म्यं व्याप्यं शरीरमित्यर्थः । अनात्म्येऽशरीररूपइत्यर्थः । अतएवानिरुक्ते जातिगुणादिवाचिदे- वादिपदावाच्योअनिलयने आधारशून्याअभयं अभयाय । नाव्ययी- भावादितिचतुर्थ्या अम्भावः । अर्थाभावेयदव्ययमित्यव्ययीभावस- मासः । अभयसाधनभूतांप्रतिष्ठां निरंतरस्मृतिलक्षणांनिष्ठांयोविन्द- तेलभते स अभयंप्राप्नोति । अत्र व्यासाचाय्यः “अदृश्यइत्यचि- यावृत्तिः । अनात्म्यइतिवद्धव्यावृत्तिः । सहिपरमात्मनाव्याप्यः॥ यद्वा आत्म्यव्याप्यंकर्मकृतशरीरंतद्रहितोऽनात्म्यः । अनिरुक्तइ- तिमुक्तव्यावृत्तिः। सहिबद्धावस्थायांदेवादिशरीरशब्दैरुक्तः । अनि- लयनइतिनित्यमुक्तव्यावृत्तिः। तेषांभगवानाधार" इत्युक्तम् ॥ एवं विहितायाः प्रतिष्ठायाविच्छेदेऽनर्थदर्शयति ॥ यदाह्ये वैषएतस्मिनुदरमंतरं कुरुते । अथतस्यभ- यंभवति ॥ एष उपासकः एतस्मिन्परमात्मनि ध्यानस्यांतरंविच्छेदंदरम- ल्पमंतरमपि यः कुरुते तस्य भयंभवतीत्यर्थः । पूर्ववाक्येप्र- तिष्ठाशब्देन निरन्तरध्यानवाचिनाध्यानगतनैरन्तर्यस्याभिहितत्वा- दत्रान्तरशब्देनापितस्यैवध्यानगतनैरन्तर्यस्य विरोधिनोध्यानवि- च्छेदस्य ग्रहणमुचितम् । नतुपरोक्तरीत्या “ब्रह्मण्यन्तरंभेदं यः कुरुते जानातीत्यर्थः” उचित इति द्रष्टव्यम् ।वस्तुतस्तु ब्रह्मैक्यवा- दिनामस्माकं ब्रह्मणि नानात्वनिषेधो नप्रतिकूलः । अस्माभिर्नाना- ब्रह्मवादस्यानभ्युपगमात् । तथापि प्रकरणानुगुण्यादस्मदुक्त एवार्थ उचित इति द्रष्टव्यम् ॥ किंभयं तत्राह ।।

॥ (४८) विषयवाक्यदीपिका। [अध्या०१-पाद- तत्त्वेवभयंविदुषोमन्वानस्य । विदुषोब्रह्मोपासननिष्ठस्यतदतिरिक्तविषयस्पृहया निरंतरमन नमकुर्वतस्तदेवामननं भयम् । नहितदपेक्षयाऽन्यद्भयमस्ति उक्तं च महर्षिभिः “यन्मुहूर्तक्षणंवापिवासुदेवो न चिंत्यते । साहा- निस्तन्महच्छिद्रंसाभ्रांतिस्साचविक्रिया ॥ १॥ वरंहुतवहज्वा- लापंजरांतर्व्यवस्थितिः ॥ नशौरिचिंताविमुखजनसंवासवेशसम् ॥ ॥२॥ इति ॥ तदप्येषश्लोकोभवति ॥५॥७॥ भीषास्माद्रातः पवतेभीषोदेतिसूर्यः । भीषास्मादग्निश्चंद्रश्चमृत्यु- वितिपंचमइति॥ अग्नींद्रसूर्यप्रमुखास्सर्वेपि देवप्रवराः परमात्मशासनातिवृत्तौ किं भविष्यतीतिभीत्या स्वस्वकर्मसु जागरूकाभवंति । अतश्चब्रह्मव्य- तिरिक्तंकृत्स्नमपिपदं दुःखोदकत्वादनर्थरूपमेव । अतश्च तादृशप- दकामनया मननविच्छेदस्यात्यंतभयावहत्वात्ततोनभयंकिंचिदस्ती त्यर्थः॥ एवं ब्रह्मवेदनस्य जगत्कारणत्वतदौपयिकसार्वज्ञादिगुणवि- शिष्टविषयकत्वमविच्छिन्नत्वं च विधाय प्राप्यस्यानन्दमयस्यब्रह्मण आनन्दमयशब्दप्रवृत्तिंनिमित्तमानन्दप्राचुर्यदर्शयति ॥ सैषानन्दस्यमीमाश्साभवति ॥ वक्ष्यमाणानन्दविषयविचारोभवतीत्यर्थः ॥ युवास्यात्साधुयुवाध्यायकः आशिष्ठोदृढिष्ठोबलि- ष्ठः । तस्येयंष्टथिवीसावित्तस्य पूर्णास्यात्। सएको- मामानुषआनन्दः। श्रोत्रियस्यचाकामहतस्य॥ • अत्रव्यासाचार्यै।साधुयुवाध्यायकः साधु यथाविधि सम्यक्संप्रदा यसिद्धतयास्वरवर्णादिभ्रंशरहितंवा युवशब्देन प्रत्यग्रत्वं विवक्षितम्।

सू०१३-अधि०६ ] आनन्दमयाधिकरणम् । (४९) अविस्मरणानित्यनवं यथा तथा अध्ययनवानित्यर्थः।यद्वा स्वसमव- यस्कानांसर्वेषामध्यायकअध्यापकः। तदधिकज्ञानइत्यर्थः। आशिष्ठः आशुतरक्रियः। यद्वाऽशनक्षमः अरोगइत्यर्थः। यद्वाआशीर्वादविषय- भूतः सर्वानुरञ्जकइत्यर्थः। “सर्वान्देवान्नमस्यंति" इतिवत्।बलिष्टोमनो- बलवान्। द्रविष्ठइतिशरीरबलस्योक्तत्वात् । यद्वा द्रडिष्ठ दृढतरः। स- त्त्वव्यवस्थितस्वभावइत्यर्थः। बलिष्ठः शारीरमानससर्वविधबलवान्। वित्तस्यपूर्णावित्तेनपूर्णा। पूरणगुणसुहितार्थ०२।२।११॥'इति षष्ठया अनुज्ञानात्। एवंगुणसमुदायविभूतिपौष्कल्यंचोक्त्वा “सएकोमानुष आनन्दः" इतिश्रुत्यातस्यैवानन्दत्वमुक्तम्।नचज्ञानभिन्नस्यगुणविभू- त्यादेः कथमानन्दत्वमितिशंक्यम्। अनुकूलत्वंह्यानन्दत्वम्।तच्चस्व- तएवेष्टत्वम्।तच्चगुणविभूत्योरपिसंभवति। तद्विषयस्यज्ञानस्याप्यनु- कूलत्वं विषयानुकूलत्वान्वयव्यतिरेकसिद्धम् । अतःश्रुतिस्वार- स्यागुणविभूत्योरेवानन्दत्वम्। श्रोत्रियोब्रह्मनिष्ठः।अकामहतःसमस्त- सांसारिकभोगानुपहतः। अतोमुक्तउच्यतइत्युक्तम् । एवंचयुवत्व- दृढगात्रत्वसौंदर्यज्ञानवलेश्वर्यादयः संभूय यत्रभवन्तिसएकोमानुषा- नन्दः । अकामहतस्यश्रोत्रियस्यमुक्तस्यापिसआनंदोस्तिमुक्तस्य- सर्वानन्दानुभवशालितया तत्रमानुषानन्दस्यान्तर्गतत्वादितिभावः।। तेयेशतं मानुषाआनन्दा।सएकोमनुष्यगन्धर्वाणा- मानन्द।श्रोत्रियस्यचाकामहतस्या तेयेशतंमनुष्यग- न्धर्वाणामानन्दाः।सएकोदेवगन्धर्वाणामानन्दः।श्रोत्रि यस्यचाकामहतस्य । तेयेशतंदेवगन्धर्वाणामानन्दाः। सएकःपितॄणांचिरलोकलोकानामानन्दः। श्रोत्रियस्य चाकामहतस्य। तेयेशतं पितॄणांचिरलोकलोकानामा- नन्दाः। सएक आजानजानांदेवानामानन्दः। श्रोत्रिय- (५०) विषयवाक्यदीपिका। [अध्या०१-पाद- स्यचाकामहतस्य । तेयेशतमाजानजानांदेवानामान- न्दाः। सएकः कर्मदेवानांदेवानामानन्दायेकर्मणादेवा नपियन्ति।श्रोत्रियस्यचाकामहतस्यातेयेशतंकर्मदेवा नांदेवानामानन्दाः। सएकोदेवानामानन्दः। श्रोत्रिय- स्यचाकामहतस्य। तेयेशतंदेवानामानन्दाः। सएका न्द्रस्यानन्दः।श्रोत्रियस्यचाकामहतस्यातेयेशतमिन्द्र स्यानन्दाः। सएकोबृहस्पतेरानन्दः।श्रोत्रियस्यचाका- महतस्य । तेयेशतंबृहस्पतेरानन्दाः। सएकः प्रजाप- तेरानन्दः। श्रोत्रियस्यचाकामहतस्य॥ येमनुष्याएवसंतः कर्मविशेषेण वा विद्याविशेषणवान्तर्धानादि- शत्त्युपेततया गन्धर्वत्वंप्राप्तास्तेमनुष्यगन्धर्वाः । अन्तरिक्षलोकवा- सिनोदेवगन्धर्वाः । चिरकालस्थायिलोकश्चिरलोकः। चिरलोको लोकोयेषांते चिरलोकलोकः पितरः। आजानोदेवलोकः। तत्रजाता आजानजाः । स्मार्तकर्मविशेषतोदेवस्थानेषु जाताइत्यर्थः । अग्निहोत्रादिकर्मणा अग्नीन्द्रादिसायुज्यंप्राप्ताः कर्मदेवाः । देवास्तु वसुरुद्रादयः त्रयस्त्रिंशद्धविर्भुजः। इन्द्राबृहस्पती प्रसिद्धौ । प्रजाप- तिश्चतुर्मुखः नतु दक्षादयः । एकवचनश्रवणात् ॥ तेयेशतंप्रजापतेरानन्दाः । सएकोब्रह्मणआनन्दः। श्रोत्रियस्यचाकामहतस्य ॥ अत्र ब्रह्मशब्दोब्रह्मविदाप्नोतिपरमिति प्रकृतब्रह्मपरः॥ नच ब्रह्मानंदस्य ते येशतमितिपरिच्छिन्नत्वं कथमितिशयम्।क्षणार्दैन बहूनियोजनानि खौगच्छति इषुवद्गच्छति सवितेति इषुसाम्यप्रति- पादकवचनस्य गतिमान्यनिवृत्तिपरत्ववत्तेयेशतमितिवाक्यस्यापि सू०१३-अधि०६] आनन्दमयाधिकरणम् । (५१) चतुर्मुखानन्दाधिक्यमात्रपरत्वेन शतगुणितचतुर्मुखानन्दान्यूनान- धिकपरत्वाभावात् ॥ एवंभूत आनन्दमयो योवेदनिहितं गुहायाम्" इति हृदयगुहानिहितत्वेनोपास्यमानः कीदृशविग्रहविशेषविशिष्टः- कोवादेवताविशेषइत्याकाकायामाह ॥ सयश्चायंपुरुषे। यश्चासावादित्ये।सएकः॥ "यएषोऽन्तरादित्येहिरण्मयः पुरुषोदृश्यतेहिरण्यश्मश्रुहिरण्यके- शः आप्रणखात्सर्वएवसुवर्णः तस्ययथाकप्यासंपुण्डरीकमेवमक्षि णीतस्योदितिनाम"इत्यादित्यमण्डलान्तवर्तीकमनीयविग्रहयुक्तोयः पुण्डरीकाक्षः सएव हृदयगुहावर्तीविज्ञानमयादन्तरस्ततश्चपुण्डरी- काक्षत्वादिविग्रहोपेतो नारायणएवेत्यर्थः । ततश्च तादृशविग्रहवि- शिष्टत्वेन हृदयगुहान्ततिनोभगवतोध्यानकर्तव्यमितिफलितोर्थः।। अत्र “सच्चत्यच्चाभवत्" इतिचिदचिच्छरोरकत्वेनानुसन्धानमुक्तम् । सत्यज्ञानम्"इतिस्वरूपेणानुसन्धानमुक्तम् । तच्चस्वरूपेणानुसन्धा- नमादित्यमण्डलान्ततिपुण्डरीकाक्षत्वादिविग्रहविशिष्टतयाचोक्तं- भवति । “जीवमुख्यप्राणलिङ्गान्नेतिचेन्नोपासात्रैविध्यात्।।१॥३२॥" इति सूत्रे भगवता भाष्यकृतातदिदंत्रिविधंब्रह्मानुसन्धानप्रकरणां- तरेष्वप्याश्रितम् । “सत्यज्ञानमनन्तंब्रह्म"इत्यादिषु स्वरूपेणानुस- न्धान “तत्सृष्ट्वातदेवानुप्राविशत् तदनुप्रविश्यसच्चत्यच्चाभवत्" इति भोक्तृशरीरकतयाभोग्यभोगोपकरणशरीरकतयाचानुसंधानमित्यु- तम् । एवमस्यप्राप्यत्वोपयुक्तंरूपमुक्तम् ॥ "उताविद्वानमुंलोकम् त्यादिनोपक्षिप्तानां प्रश्नानामुत्तरमाह ॥ सयएवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमय मात्मानमुपसंक्रामति । एतंप्राणमयमात्मानमुपसं- क्रामति । एतंमनोमयमात्मानमुपसंक्रामति । एतं १ श्रीभगवद्गीतातृतीयाध्यायारम्भेश्रीरामानुजभाष्येपिप्रपंचितोयमर्थः । " (१२) विषयवाक्यदीपिका। [अध्या० १-पाद - विज्ञानमयमात्मानमुपसंक्रामति । एतमानन्दमय- मात्मानमुपसंक्रामति ॥ अत्र सयएवंवित् अस्माल्लोकात्प्रेत्य"इत्यनेन सर्वेषांब्रह्मविदामाच- रादिमार्ग उक्तोभवति। आनन्दमयमात्मानमुपसंक्रामति"इति मुक्त- दशायां जीवब्रह्मणोरुपास्योपासकयोः भोक्तभोग्यभावप्रतिपा- दनान्मुक्तौजीवब्रह्मणोरैक्यपक्षोव्युदस्तोभवति।एतमन्नमयमित्यादि- पंचस्वपिपर्यायेषुएतच्छन्दः परमात्मपरः । अन्नमयप्राणमयमनोम- यविज्ञानमयशब्दास्तच्छरीरकपरमात्मपराः । अत्रव्यासायःस- वॉपि विद्वानस्माल्लोकात्प्रेत्यानमयादिसमष्टिव्यष्टिविभूतिकनिरति शयानन्दंपरमात्मानंभोग्यभूतंभोक्तासन्ननुभवतीतिप्रश्नस्योत्तरमु- भवतीत्युक्तम् ॥ अभयंप्रतिष्ठांविन्दते, अथसोऽभयंगतोभवती- त्युक्तार्थे साक्षित्वेन श्लोकं पठति ॥ वदप्येषश्लोकोभवति। यतोवाचोनिवर्तते । अप्रा- प्यमन्सासह ॥ आनन्दंब्रह्मणोविद्वान् । नबिभेति- कुतश्चनेति । वाङ्मनसे आनंदस्य इयत्तालक्षणं पारंगतुंप्रवृत्ते तदप्राप्यैव- निवृत्तेभवतः । तादृशानन्दगुणकब्रह्मोपासनेन सर्वक्लेशभयादत्यंत निवृत्तिर्भवतीत्यर्थः ॥ तदेवोपपादयति ॥ एत हवावनतपति। किमहंसाधुनाकरवम् । किम- हंपापमकरवमिति॥ खर्गादिहेतुकंसुकृतं नाकार्षनरकादिहेतुभूतदुष्कृतमकार्षमिति ईदृशीचिंता एनंब्रह्मविदंनबाधते । स्वर्गादिलोकेष्विच्छायाअभावा- त् । ब्रह्मज्ञानदग्धपापतयानरकादिभयस्याप्यभावात्॥ एतादृशंब्रह्म विद्याप्रयुक्तमाहात्म्यमपिध्येयमित्याह ॥ सयएवंविद्वानेतेआत्मान स्टणुते ॥

स०२१-अधि०७] अन्तरधिकरणम् । (५३) एतेएताभ्यांचिंताभ्यामात्मानंस्पृणुते रक्षतीत्यर्थः । पुण्यपाप- फलानुभवो नास्तीत्युक्तंभवति ॥ उभेोवैषएतआत्मानस्टणुते । यएवंवेद॥ पुनर्वचनंपुण्यपापविधूननध्यानसातत्यतात्यर्यद्योतनायानुवाक- समाप्तिद्योतनायच ॥ ॥ इत्युपनिषत् ॥ इत्थंपरमरहस्योपदेशः तादृशोपदेशयोग्यायैववक्तव्यइतिभावः॥ अन्तरधिकरणम्। अन्तस्तद्धर्मोपदेशात् । १॥ १॥ २१ ॥ छांदोग्येप्रथमाध्यायेषष्ठखण्डे ॥ अथयएषोन्तरादित्येहिरण्मयःपुरुषोदृश्यते ॥ आदित्यमण्डलस्यमध्ये हिरण्मयः कमनीयविग्रहः यः पुरुषो- योगिभिर्दश्यत इत्यर्थः। “दृश्यतेत्वय्ययावुद्धयासूक्ष्मयासूक्ष्मद- शिभिः” इतिश्रुत्यैकार्थ्यात् । “हिरण्मय इति रूपसामान्याच्च- न्द्रमुखवत्" इति वाक्यकारः। ततश्चहिरण्मयशब्दस्य न मुख्यार्थों- ग्राह्य इति वाक्यकाराभिप्रायः । ततश्च हिरण्मयत्वमुज्ज्वलत्वमि- त्यर्थः । अतोनीलतोयदाभस्यापिहिरण्मयत्वेनानुपपत्तिः। यदा "कच्चिन्नतद्धेमसमानवर्णम्। तस्याननम्" इतिश्रीरामायणप्रयोगात्। “पश्यतेरुक्मवर्णम् इतिश्रुतेश्च। नीलतोयदाभस्यापिरुक्मवर्णत्वंसं- भवति । तत्र हेतुश्च संप्रदायंगम्यः। एतत्सर्ववेदार्थसंग्रहप्रकाशिका- यांस्पष्टम् । ततएववावगंतव्यम् । " यदापश्य पश्यतेरुक्मवर्णम्" इति प्रकरणे"मनसातुविशुद्धेन" इति रुक्मवर्णविग्रहविशिष्टस्यविशु इमनोग्राह्यत्वोक्तेः आरोपिताकारस्यविशुद्धमनोग्राह्यत्वाभावा- दनारोपितत्वंसिद्धम् । “ईक्षतिकर्मव्यपदेशात्सः ।। ३ । १२।" १ सचरहस्यत्रयव्याख्यानेतत्त्वदीपेद्रष्टव्यः ।

(५४) विषयवाक्यदीपिका। [अध्या०१-पाद- इत्यत्रेक्षणस्यपरमार्थविषयत्वंवक्तव्यमितिपरैरप्यङ्गीकृतत्वाच "आदित्यवर्णतमसः परस्तात्" इतितमःपारवर्तिनः आदित्यवर्ण- विग्रह विशिष्टत्वाभिधानेन कल्पितत्वाप्रसक्तेः । नहिकल्पितस्य तमःपारवर्तित्वंसंभवति ॥ । १ यत्त्वत्रतार्किकमोहप्रकाशग्रन्थे ब्रह्मानन्दसंन्यासी “अत्रकेचिदैष्णवादयः सशरीरत्व नानात्वरूपवत्वादि कमभ्युपगच्छंति॥तदसंगतम् ॥ अनित्यत्वासर्वज्ञत्वादिदोषस्य दुर्निवार त्वात्॥ननुतच्छरीरस्याप्राकृतत्वान्न तस्यानित्यत्वादिकंसम्भावयितुं शक्यमितिचेन्नाविकल्पा सहत्वात् । तथाहि किन्नामाप्राकृतत्वं प्रकृतिविकारभिन्नत्वमुत प्रकृतिभिन्नत्वंवा । नाद्यः । विकारभिन्नायाः प्रकृतेः शङ्खचक्राद्यायुधविशिष्टहस्तपादादिविकाररूपशरीरत्वानुपपत्तेः । शरीराणांभौतिकत्वनिश्चयात्।प्रकृतिविकारशून्यशरीरस्य वन्ध्यापुत्रशरीरवदप्रसिद्धत्वाच्च । नान्त्यः । प्रकृतिभिन्नस्य चेतनस्य हस्तपादादिविशिष्टशरीररूपेण परिणतत्वादनित्यत्वस्य दुर्निवारत्वेन शून्यवादप्रसङ्गात् । तादृशशरीराप्रसिद्धेश्च ॥ किश्चरामकृष्णादीनां भिन्नत्वेना- नेकेश्वरकल्पने प्रमाणाभावात् । एकेनैवेश्वरकार्यसंभवेऽनेकेश्वरकल्पनावैयापत्तेश्च । अस्म- न्मतेत्वेकस्यैवेश्वरस्य मिथ्याभूतमायिकरामकृष्णाद्यनेकविग्रहपरिग्रहवत्त्वान्न कोपि दोषः। भवतां पुनः सात्त्विकानेकसत्यविग्रहवादिनामगतिरेव स्यात् ॥ नन्वीश्वरस्याचिन्त्यशक्ति मत्त्वान्न कोपि दोष इतिचेन्न ॥ तस्य जगत्कर्तृत्वाद्यसिद्ध्या तन्मूलाचिन्त्यशक्तिमत्त्वस्याप्य- सिद्धेः ॥ किश्चतन्मतसिद्धः परमेश्वरोऽनित्यः परिच्छिन्नत्वात् रूपादिमत्त्वात् विभक्तत्वात भक्तपक्षपातित्वेन रागादिमत्त्वात् दृश्यत्वेन जडत्वाच्च घटवत्" इत्यक्षिणी निमील्य प्रलपित- वान्।तत्तुशास्त्रहदयग्राहिभिरनादरणीयत्वादरण्यरोदनमेव । तथाहिातदुक्तप्रथमवाक्यादीह- शानुमानं फलति, ईश्वरोऽनित्यः असर्वज्ञश्च सशरीरत्वात् नानात्वात् रूपवत्त्वाञ्चेति॥तवेदंव क्तव्यम्।सशरीरत्वमनित्यत्वव्याप्यमितिकदृष्टं त्वया।येनदृष्टांतेनेदंसाधयसि।जीवानांसशरीर त्वेनानित्यत्वं जानासि चेत्सम्यग्जीवसि । तस्मादुभयवादिसंप्रतिपन्नजीवानां सशरीरत्वे- प्यनित्यत्वं नास्तीत्यप्रसिद्धनिबन्धनाव्याप्तिः।सशरीरत्वेनासर्वज्ञत्वंतु गीतोपदेष्टरि श्रीकृष्णे व्यभिचरितम्॥किञ्चमुक्ता अपि लीलयाविग्रहंकृत्वा भजंत इति नसिहतापनीयश्रीशंकर भाष्यप्रतीकमुपादाय व्याख्यातं च सर्वज्ञैः श्रीमद्भिर्भाष्यकारैः” इति श्रीधरस्वाम्युक्तिरपि त्वया भाष्यकारोक्त्या सह खण्डिता भवति कथमितिचेत् येमुक्तास्तेतु तवमते वेदमपि ब्रह्मव्यतिरिक्तत्वेन मिथ्यामन्यमानाः कथंमिथ्याविग्रहान् भजेयुः। कथंवा शरीरवन्तः श्रीशंकराचार्याः सर्वज्ञाभवेयुरिति सूक्ष्मधियाविचारय ॥ किश्च त्वन्मते ईश्वरोनित्यः सर्व- ज्ञश्च शरीराभावात् नानात्वाभावात् रूपवत्त्वाभावाच्चैत्यनुमानं सिध्यति । तत्र शरीराभा. वेपि नित्यत्वं सर्वज्ञत्वंच घटादौ व्यभिचरितम्, नानात्वाभावेपि नित्यत्वं सर्वज्ञत्वं चाकाशे वेदांतिमते व्यभिचरितम्, रूपवत्वाभावेपि नित्यत्वं सर्वज्ञत्वंच वाय्वादौ व्यभिचरितम्, इतिकीदृशीतेतार्किकमोहप्रकाशकता ॥ नन्वित्यादिवाक्येपि प्रथमे त्वदभिमतजडविकार- भिन्ना प्रकृतिः विविधशक्तिमती प्रकृतित्वात् भगवदुक्तजगद्विधारकजीवरूपप्रकृतिवद् इत्यनुमानेन विकारभिन्ना प्रकृतिः शरीरत्वाभाववती प्रकृतित्वादिति तवानुमानं सत्प्रति- पक्षितम्।तेनाभौतिकत्वेपि शरीरत्वंनानुपपन्नम्। अवास्मदृष्टांते प्रमाणंतु अपरेयमितस्त्वन्यां प्रकृति विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत्” इतिवाक्यम् । द्वितीयेपि सू०२१-अधि०७] अन्तरधिकरणम् । । विवादास्पद ईश्वरोऽनित्यः शरीररूपेणपरिणतत्वात् घटवदितितवाभिमतानुमाने पारणत- त्वादिति हेतुः सोपाधिकः । उपाधिश्चतत्र चेतनभिन्नत्वम् । अस्तिच घटादौ साध्यव्यापक- स्वेन त्वदभिमतईश्वरव्यक्तिविशेष साधनाव्यापकत्वेनचोपाधित्वं तस्येति ।ततस्तादृशशरीर प्रसिद्धिपि समर्थिता । पुनः किंचेत्यादि वाक्यंत्वस्मन्मतापरिज्ञाननिबंधनम्।नास्माभीराम कृष्णादीनां विग्रहभेदेपितत्त्वभेदः स्वीक्रियतेोयेनत्वदुक्तोदोषःस्यात्।यदिच त्वया रामकृष्णा- दयस्तत्त्वतोपि भिन्नाः शरीरभेदात् देवदत्तवदित्यनुमानेन भेदः साध्यते, तदा त्वस्माभी- रामकृष्णादयो विग्रहभेदेपितत्त्वतो नभिन्नाः सौभर्यादियोगिवदित्यनुमानेन सत्प्रतिपक्षी क्रियते । अस्मदित्यादिवाक्यतु रामकृष्णादीनां मिथ्यामायिकशरीरवत्त्वंकेन चिद्युक्त्या- भासेन साध्यमानमपिं तद्विपरीतशाब्दप्रमाणसत्त्वेन बाधितमेव । प्रमाणानित्वनुपदमेव वक्ष्यामोऽवसरे। पुनर्नन्वित्यादिवाक्ये जगत्कर्तृत्वाभावहेतुना अचिन्त्यशक्तिमत्त्वाभावसा- धनं तव जगद्व्यापारवर्जाधिकरणसिद्धजगत्कर्तृत्वाभाववत्सु विश्वामित्रप्रभृतिषु व्यभि- चरितम् । पुनः किश्चेतिवाक्येपि हेत्वाभासपंचतयी पूर्वोक्तचेतनभिन्नत्वोपाधिनोपाधिमती। तत्रैव दृश्यत्वेनजडत्वसाधनंतु आत्मावारे द्रष्टव्यइति श्रुत्यपालोचनमूलकामीतसंक्षेपः । वस्तुतस्तु यक्षानुरूपोबलिरिति न्यायानुसारेण विनोदार्थमेवैवमुक्तम् । नत्वतेनैव वस्तु- स्थिरीकरणम् । यत एतेप्यनुमानप्रयोगा विज्ञैरन्यथा कर्तुशक्यंते । अतएवतुशास्त्रयोन्यधि- करणे तर्काप्रतिष्ठानसूत्रेच भाष्यादौ उत्तरोत्तरतर्कयुक्तिमतालोके संभवेन नहिशास्त्रमन नुरुध्य तर्कः प्रतिष्ठितोभवतीति सिद्धांतितम् । अन्यथात्वदुक्तरीत्या मेरुः पाषाणमयः पर्वतत्वात् विन्ध्यवत् । नरशिरः, कपालं, शुचि, प्राण्यङ्गत्वात् स्नातजीवच्छोत्रियकरवत् तप्तचकाङ्कनं न धर्मः निखिलजनैरननुष्ठीयमानत्वात् क्वचित्प्रतिषेधवचनोपलंभाच्च केशो- ल्लुचनादिवदित्यादीनामप्यनुमानानां विजयः स्यात् ।तस्मादीदृशानामनुमानप्रयोगाणां बा- धकानि शास्त्रवचनान्येवेति त्वदनुमानबाधकानिशास्त्राणि क्रमेण प्रदर्श्यन्ते । तथाहि। “अजा- यमानो बहुधाविजायते इति दिव्योह्यमूर्तः पुरुषः सबाह्याभ्यंतरो ह्यजः इति वेदाहमेतं पुरुषं महांतमादित्यवर्ण तमसः परस्तात् ॥ तमेवं विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इत्यादिश्वेताश्वतरादिश्रुतिषु परब्रह्मणो मूर्तिमत्त्वं नानात्वंच दिव्यं प्रतीयते॥ नन्वेतत्सर्वमस्माभिर्मायिकपरमेश्वरपरत्वेन योजयितुं शक्यते । सत्यंशक्येत । यदि भग- वती श्रुतिरेवासंदिग्धं ब्रुवाणा युष्मन्मुखं नापिदधीताप्यधात्तुसा।तथाहि । अजायमान इत्यत्र तस्य धीराः परिजानंति योनिमिति वाक्यशेषणेन युष्मदभिमताविद्यानिवृत्त्या ज्ञानिनां वेद्यत्वेनाविद्यागन्धं निवारितवती बहुधा जायमानस्यापि । दिव्यो ह्यमूर्तइत्यत्रापि सहस्त्र शीर्षादिमत्त्वेन प्रसिद्धस्य पुरुषस्य दिव्यत्वं बुवती मायागंधमुत्सारितवतीवेदाहमित्यत्रापि तमेवंविदित्वातिमृत्युमेतीति वचनेन मोक्षसाधनवेदनविषयस्यादित्यवर्णस्य तमसः परत्वं वदंती मायापारवर्तित्वं निर्धारयति । अत्र तमाशब्दस्य लौकिकतमःपरत्वं तु नशक्यं संभा- वयितुं व्यर्थविशेषणत्वापातात् । नहि प्रत्यक्षसिद्धं तमःपरत्वमादित्यवर्णस्य श्रुत्या वक्तुमु चितम् । अप्राप्तेहिशास्त्रमर्थवदिति न्यायात् । किंतु नासदासीन्नोसदासीत्तदानींतमआसीत् पूर्वसिद्धतमसोहिपश्चिमः इत्यादौ युष्मसिद्धांतसिद्धस्य मायावाचकस्यैव तमाशब्दस्य ग्रहणमुचितम् । तथा महाभारतेपि नभूतसंघसंस्थानो देहोस्य परमात्मनः इति श्रीकृष्णवि- ग्रहविषयवचनम् । तथागीतायामपि दिव्यं ददामि तेचक्षुरित्युक्त्वा विश्वरूपप्रदर्शनेन तस्य रूपस्यामायिकत्वं स्फुटमेव । तथा श्रीरामायणे तमसः परमोधाता शंखचक्रगदाधरः इत्यत्र श्रीराममूर्तेस्तमःपरत्वमुच्यते । श्रीविष्णुपुराणेपि इच्छागृहीताभिमतोरुदेहोऽव्यक्तस्वरूपः प्रकटस्वरूपइत्यादिकमुच्यतइत्युपरम्यतआस्तिकजनसंतोषमनीषया । एतेन सत्यार्थविवेक कृतोक्तजीवविषयकम् अणुर्जीवोऽनित्यः परिच्छिन्नत्वात् घटवत् इत्यादिकमपिपरास्तम् । जीवविषयेपिनजायतेम्रियतेवाविपश्चिदित्यादिश्रुतिसद्भावात् ।

(६६) विषयवाक्यदीपिका। [अध्या०१-पाद- हिरण्यश्मश्रुर्हिरण्यकेशआप्रणखात्सर्वएवसुवर्णः॥ रमणोयश्मश्रुकेशो रमणीयसवयव इत्यर्थः ।। तस्य यथाकप्यासंपुण्डरीकमेवमक्षिणी ॥ कंपिवतोतिकपिरादित्यः । तेनास्यते क्षिप्यते विकास्यत इति कप्यासम् । तदाहवाक्यकारः “आदित्यक्षिप्तं वा श्रीमत्वात् इतिक पिवतीति कपिालं तस्मिन्नास्त इति कप्यासम् । अपचितादपि पंकजानालस्थस्यपुण्डरीकस्य शोभातिशयवत्वं तादृशमिहविव- क्षितम् । यद्वा । कंजलम् “आसउपवेशने” इतिधातुरपिपूर्वकः। "वष्टिभागरिरल्लोपमवाप्योरुपसर्गयोः” इतिवचनादकारलोपः । के जलेअप्यास्तइतिकप्यासं सलिलस्थमित्यर्थः। एवमस्यार्थत्रयस्योप- पन्नतया वाक्यकारेण सिद्धांतितत्वमभिप्रेत्यभगवताभाष्यकारेण बेदार्थसंग्रहे “गंभीरांभः समुद्भूतसुमृष्टनालरविकरविकसितपुण्ड- रीकदलामलायतेक्षणः” इत्यभिहितम् । मर्कटजघनसदृशपुण्डरीक सादृश्याद्यर्थातरंवश्लीलत्वादिदोषदुष्टतया वाक्यकृदनादृतत्वाद्भा ष्यकारेणाप्यनाहतम् । यद्यप्यमरकोशे “पुण्डरीकंसिताम्भोजम्' इत्यनुशिष्टं तथापि शबरस्वामिनानवमाध्याये मौद्रंचरंनिर्वपेश्रि- यैश्रीकामः" इतिविहितायामिष्टौपुण्डरीकाणिवहाँषिभवन्तीतिस्तर- णार्थत्वेन विहितेषुपुण्डरीकेष्वतिदेशतः प्राप्तस्य "दर्भस्तृणातिह- रितैः"इतिमंत्रस्य दर्भपदस्थानेपुण्डरीकपदंहरितपदस्थानेरक्तपदमू हितव्यमित्युक्तत्वात् । रक्ताम्भोजमेवपुण्डरीकमितिद्रष्टव्यम् ॥ तस्योदितिनाम॥ स्पष्टोर्थः। तस्योनामकत्वेहेतुमाह ।। " १ अंते मीमांसकमतनिराकरणानन्तरं नित्यविभूत्यादिनिरूपणावसरइतिभावः ।२ अयंच पदवाक्यार्थ दोषाणां मध्ये पद दोषएव तथाचसाहित्यरत्नाकरदोषतरंगे पददोषनिरूपणे "अश्लीलंतदमांगल्यंजुगुप्साव्रीडकारणम्” इतितल्लक्षणमुक्तम् ।

सू०२१-अधि०७] अन्तरधिकरणम् । सएषसर्वेभ्यः पाप्मभ्यउदितः॥ सर्वपाप्मोद्गतत्वादुन्नामकत्वमित्यर्थः । नोडाच्छकुंतस्योद्गम- नवत्पापपंजरादुद्गमनरूपमुख्यार्थस्यकुत्राप्यभावादुद्गमनेनतत्संब- न्धराहित्यंलक्ष्यते नैनंसेतुमहोरात्रे तरतः नजरानमृत्युनंशोकोन- सुकृतंनदुष्कृतमिति” परमात्मनः सुकृतदुष्कृतसम्बन्धाभावोहि- प्रतिपाद्यते । तरतेः प्राप्तिवाचित्वात् । पापशब्दश्च पुण्यपापरू- पोभयविधकर्मपरः । परमात्मप्रकरणेषु "नैनसेतुमहोरात्रेतरतो नजरानमृत्युनंशोकोनसुकृतंनदुष्कृतम् । सर्वपाप्मानोतोनिवर्तते" इतिसुकृतेपिपापशब्दप्रयोगात् । “पाप्मानः किलजरामृत्युशो- कादयः संख्यातत्वादिति” वाक्यकारवचनादलौकिकत्वेसत्यनि- ष्टफलसाधनत्वरूपप्रवृत्तिनिमित्तयोगात्पुण्यस्यापिपापशब्दाभिधे- यत्वोपपत्तेः । मुमुक्ष्वपेक्षया स्वर्गादीनामप्यनिष्टत्वात् । “एते वैनिरयास्तातस्थानस्यपरमात्मनः" "वनाकपृष्ठगमनं पुन- रावृत्तिलक्षणम् । वजपोवासुदेवेति मुक्तिबीजमनुत्तमम्" इति स्मरणात् । सर्वपापोदितत्वं नाम कर्मवश्यतागन्धराहित्यमिति फलितोर्थः । कृतानामपि कर्मणां फलजननशक्तिप्रतिभटल- क्षणः कश्चिदेश्वरस्वभावविशेषोपहतपाप्मत्वाख्यः सर्वपापोदित- शब्दार्थ इतिद्रष्टव्यम् । एवंनाम विशिष्टस्यध्यानस्यफलमाह ।। उदेति ह वै सर्वेभ्यः पाप्मभ्योयएवंवेद ॥ स्पष्टोर्थः॥ तस्य ऋक्सामच गेष्णौ ॥ ऋक्सामेतद्गानरूपेअनीन्द्रादिप्रतिपादकऋक्सामज्ञेयत्वो- क्यासर्वात्मकत्वमुक्तंभवति ॥ तस्मादुद्गीथः॥

(५८) विषयवाक्यदीपिका। [अध्या०१-पाद:- यस्मात्परमात्मनः उन्नामकत्वंतद्गेष्णत्वंचऋक्सामयोः अतः ऋक्सामात्मकद्वितीयभक्तरुद्गीथत्वम् ॥ तस्मात्वेवोद्गाता एतस्यहिगाता॥ उन्नामकपरमात्मगातृत्वादेव ऋत्विग्विशेषस्यउद्गातृसंज्ञत्वम् ।। सएषयेचामुष्मात्परांचोलोकास्तेषांचेष्टेदेवकामा- नांच॥ सएषहिरण्मयः पुरुषः आदित्यमण्डलोवर्तिलोकानांदेव भोग्यभोगोपकरणभोगस्थानानांच नियन्तेत्यर्थः । इत्यधिदैवतम् ॥ उपदिष्टमितिशेषः॥ अथाध्यात्मम्॥ उपदिश्यत इतिशेषः॥ अथयएपोन्तरक्षिणिपुरुषोदृश्यते सैवऋक्तत्साम- तदुक्थंतद्यजुस्तब्रह्म॥ सएवऋग्यजुःसामात्माउक्थादिशस्त्रात्माब्रह्मचेत्यर्थः । अत्रो- क्थस्यत्रय्यपेक्षयापृथक्परिगणनं गोवलीवर्दन्यायेनद्रष्टव्यम् ॥ तस्यैतस्यतदेवरूपं यदमुष्यरूपं यावमुष्यगेष्णौ- तौगेष्णौ यन्नाम तन्नाम॥ एतस्याक्ष्यन्तरवर्तिनः आदित्यान्तरवर्तिनो यद्धिरण्मयत्वादि- रूपमुदिति नाम ऋक्सामरूपगेष्णोचतानि सर्वाणिभवंतीत्यर्थः॥ सएषएवैतस्मादर्वाञ्चोलोकास्तेषांचेष्टे मनुष्यका- मानां चेति ॥ एतस्मादक्षिस्थानादधोवर्तिनां लोकानां मनुष्यभोग्यादीनांच- नियंतेत्यर्थः ॥

सू०२१-अधि०७] अन्तरधिकरणम्। तद्यइमेवीणायांगायत्येततेगायंति ॥ यस्मादयमीश्वरस्तस्माइतोर्वीणागायकाः सर्वेपि इममेवगायं- तीत्यर्थः । तस्यसर्वात्मकत्वेनदेवमनुष्यादिकर्मकगानस्यापिपर- मात्मविषयकत्वादितिभावः॥ तस्मात्तेधनसनयः॥ सनिलाभः धनानां सनिर्येषांते धनसनयः । ईश्वरगायकत्वादेव- वीणागायकानां धनलाभवत्वं नानीश्वरगातृत्वे धनप्रशक्तिरस्ती तिभावः ॥ अथयएवंविद्वान्सामगायति उभौसगायति ॥ अध्यात्माधिदैवतभिन्न विद्यायुक्तः सन्जुद्गीथंयोगायति सचाक्षुष- मादित्यस्थंच परमात्मानं गायतीत्यर्थः । उद्गीथस्यचाक्षुषेण परमा- त्मना आदित्यांतरवर्तिना च परमात्मनाऐक्याध्यासविशिष्टतया तादृशोद्गीथगायकस्यैव परमात्मगायकत्वादितिभावः। तस्यैवंविदः फलमुच्यते ॥ सोमुनैव सएषयेचामुष्मात् पराञ्चोलोकास्तांश्चा- प्रोति देवकामांश्चअथाननैवयेचैतस्मादर्वाञ्चो लोका- स्तांश्चाप्नोति मनुष्यकामांश्च ॥ सविद्वानमुनैवादित्यान्तरवर्तिना उपासितेन तदुपासनाविशिष्ट- एषःतदूर्वलोकान्देवकामांश्चाप्नोति । अनेनाक्ष्यन्तरवर्तिना मनुष्य- लोकाधस्तनलोकान्मनुष्यकामांश्चाप्नोति चक्षुरादित्यस्थानवर्ति- परमात्मोपासनया सर्वलोकावाप्तिर्भवतीत्यर्थः ।। तस्मादुहैवं विदुद्गाताब्रूयात् कंते काममागा- यानीति ॥

(६०) विषयवाक्यदीपिका। [अध्या०१-पाद:-
एतादृश विद्यायुक्तउद्गातायजमानं प्रतिहेयजमान तेकंदेवकामं
मनुष्यकामंवागायानि संपादयानीतिब्रूयादित्यर्थः । नन्वेताहशो
काबुद्गातुः कथं सामर्थ्यमित्यवाह ॥
एष वकामगानस्येष्टे यएवं विद्वान्सामगायति
सामगायति॥
एवं विदुषस्सामगस्य कामसंपादकगानसामर्थ्यमस्तीत्यर्थः ।
द्विरुक्तिर्विद्यासमाप्त्यर्था॥
आकाशाधिकरणम् ।
आकाशस्तलिंगात् । १।१।२३॥
छांदोग्यप्रथमप्रपाठकऽष्टमखण्डे ॥
त्रयोहोद्गीथे कुशलाबभूवुःशिलकःशालावत्यश्चैकि-
तायनोदाल्भ्यःप्रवाहणोजैवलिरिति ॥
शालावत्सुतः शिलकनामादाल्भ्यः दल्भगोत्रश्चिकितायन
सुतःप्रवाहणोनामाजिवलसुतश्चत्रय एते उद्गीथविज्ञानेनिपुणावभूवु
रित्यर्थः । शालावच्छब्दादपत्यार्थेऽण् तदंतात्स्वार्थ अभिजिद्विद
भृच्छालावत्"६।३।१०८। इत्यादिना यम्प्रत्ययः। दल्भशब्दाद्गो
त्रापत्येगर्गादित्वाद्यभ् । चिकितायनशब्दादपत्यार्थे ऋषित्वादणि
चैकितायनः जिवलशब्दात् अतइ ४।१।९५। जैवलिः॥
तेहोचुरूद्गीथेवैकुशलाःस्मःहंतोगीथेकथांवदामइति
वयमुद्गीथविज्ञाने कुशलाभवामः अतो विद्यावैशवाय वादकथां
परस्परं प्रवर्तयाम इत्यूचुरित्यर्थः ॥
तथेतिह समुपविविशुः॥
एकत्रोपविष्टवंतः ॥
सह प्रवाहणो जैवलिरुवाच॥
ब्राह्मणौ प्रागल्भ्यादुवाचेत्यर्थः ॥
A
प्रकरणः क्षत्रियः

VGAUR सू०२३-अधि०८] आकाशाधिकरणम् । (६१) भगवंतावग्रेवदतांब्राह्मणयोर्वदतोचिंश्रोष्यामीति। भगवंतौ पूजावंतौ ब्राह्मणौ अग्रे वादकथां कुरुताम् तत्प्रकार श्रोष्यामीति ॥ सहशिलकश्शालावत्यश्चेकितायनं दाल्ल्यमुवाच हंत खाटच्छानीति पृच्छेति होवाच ॥ स्पष्टोर्थः॥ कासानो गतिरिति॥ गतिरयनं प्राप्यमित्यर्थः॥ स्वरइतिहोवाच ॥ स्वरात्मकत्वात्साम्रइतिभावः॥ स्वरस्य कागतिरिति प्राण इतिहोवाच ॥ प्राणनिर्वय॑त्वास्वरस्येतिभावः । एवमुत्तरत्राप्यौचित्यमनुस- न्धेयम् ॥ प्राणस्यकागतिरित्यन्नमितिहोवाच अन्नस्यकाग- गतिरित्यापइतिहोवाच अपांकागतिरित्यसौलोक इति होवाच ॥ धुलोकादेव वृष्टिप्रभवादितिभावः॥ अमुष्यलोकस्य कागतिरिति नवैपरंस्वर्ग लोकम- तिनयेदिति होवाच ॥ स्वर्गलोकमतीत्यपरमाश्रयांतरं साम ननयेत् । इति स्वर्गलो- कव्यतिरिक्तमाश्रयांतरं सामनप्रापयेदित्यर्थः । नवदेदितियावत् ॥ स्वर्ग वयंलोक सामाभिसस्थापयामःस्वर्गसंघ स्तवहिसामेति ॥

SONIRMAN (६२) विषयवाक्यदीपिका। [ अध्या०१-पाद१- अतोवयमपि सामाभि सामप्रति आश्रयत्वेन स्वर्गलोकं सम्यक्स स्थापयामः “स्वावलोकः सामवेद" इति श्रुत्यास्वर्गत्वेन साम्रः स्तूयमानत्वादित्यर्थः॥ तहशिलकः शालावत्यउवाच अप्रतिष्ठितं वै किल- ते दाल्भ्यसाम यस्त्वेतर्हिब्रूयान्मूाते विपतीष्यती- ति मूख्तेविपतेदिति ॥ हे दाल्भ्य अप्रतिष्ठितं स्वर्गलोकं सामगतिपरंपराविश्रांतिभूमि वदतस्तवमतेसाम अप्रतिष्ठितमेव स्यात् एतस्मिन्समये यः कश्चि- दागत्य वादकथायामयुक्तमर्थप्रतिजानानस्य ते मूर्धाव्यपतिष्यती ति यदिब्रूयात्तदाविपतेदेव नसंशयः । मयातुसौहार्दात्तथानोक्तमतो जीवसीतिशिलक उक्तवानित्यर्थः॥ हताहमेतद्भगवत्तोवेदानीति विद्धीतिहोवाच ॥ तमुहं सामगतिपरंपराविश्रांतिभूमि त्वत्तोजानीयामितिप्रार्थितः तथेत्युक्तवानित्यर्थः॥ अमुष्य लोकस्य कागतिरित्ययंलोक इतिहोवाच ॥ यागदानहोमादिभिर्भूलोकस्यस्वर्गोपजीव्यत्वादितिभावः॥ अस्य लोकस्य कागतिरिति नप्रतिष्ठां लोकमति- नयेदिति होवाचप्रतिष्ठांवयं लोकचंसामाभिसंस्थाप- यामः प्रतिष्ठासंस्तवहिसामेति ॥ पृथिवीलोकस्य कागतिरिति दाल्भ्येन पृष्टः शिलकः प्रतिष्ठां पृथिवीलोकमतिक्रम्यसामगतिपरंपराविश्रांतिभूमिमन्यन्न कश्चिद- पिवदेत् । अतोवयमपि तथैववदामः 'इयवैरथंतरम्' इतिश्रुत्या- साम्न प्रतिष्ठालोकत्वेन स्तृयमानत्वात् । स्वर्गस्यज्योतिश्चकलग्न- मू०२३-अधि०८] आकाशाधिकरणम् । (६३) तयावंभ्रम्यमाणत्वेन प्रतिष्ठात्वाभावेपि पृथिव्यास्तुस्थिरत्वात्प्रति- ष्ठात्वमित्युक्तवानित्यर्थः॥ तह प्रवाहणो जैवलिरुवाच अंतवद्वैकिलते शाला- वत्यसाम॥ अंतवतींपृथिवीं सामगतिपरंपराविश्रांतिभूमितया प्रतिजाना- नस्य ते मते सामान्तवदेवस्यादित्यर्थः॥ यस्त्वेतहिब्रूयान्मूर्धा तेविपतिष्यतीति मूर्खातेवि- पतेदिति हताहमेतद्भगवत्तोवेदानीति विद्धीतिहोवाच ॥ पूर्ववदर्थः॥ अस्य लोकस्य कागतिरित्याकाश इतिहोवाच ॥ अस्य पृथिवीलोकस्य कागतिरिति शालावत्येनपृष्टःप्रवाहणः आकाश इत्युक्तवानित्यर्थः । अत्राकाशते आकाशयतीति वा व्युत्पत्त्या आकाशशब्दोब्रह्मपरः । “आकाशोहवै नामरूपयोनि- वहिता" इत्यादावाकाशशब्दस्य ब्रह्मण्यपि प्रसिद्धत्वात् । नतु- भूताकाशपर इतिद्रष्टव्यम् । तदेवगतित्वं प्रपञ्चयति ॥ सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्प- द्यन्ते आकाशं प्रत्यंस्तयन्ति ॥ चिदचिदात्मकः प्रपञ्चः आकाशादेवोत्पद्यते तत्रैवलीयते इत्यर्थः॥ १ चिदचिदात्मकः प्रपंचउत्पद्यते इत्युक्त्या अचिदस्तुनइवचिद्रस्तुनोपि स्वाभाविको भेदः पूर्वसिद्धइतिसूच्यते । अत्र तार्किकमोहप्रकाशनन्थे ब्रह्मानंदतीर्थनामकः संन्यासी जगाद । यत्तु रामानुजेनोत्प्रेक्षितम् जीवस्येश्वरांशत्वमणुत्वं चिद्रूपत्वं गुणिव्यतिरिक्तदे- शव्यापिज्ञानगुणवत्त्वं चेति तदसदित्यादिना विस्तरेण । तत्र तत्पंक्तीरसुद्धत्य तदाशयोनूद्य दूष्यते तथाहि जीवस्येश्वरांशत्वे “ अंशोनानाव्यपदेशात् ।। १ । ३ । ४१ इति ब्रह्मसूत्रं " ममैवांशोजीवलोक” इति गीता “ तवपुरुषं वदंत्यखिलशक्तिधृतोंशकृतम् । अं- शांशास्ते देवमरीच्यादय एते तत्रांशेनावतीर्णस्य ततोजगन्मंगलमच्युतांशमित्यादि (६४) विषयवाक्यदीपिका। [अध्या०१-पाद - आकाशो वैतेभ्योज्यायान॥ ज्यायस्त्वनाम सर्वैः कल्याणगुणैः सर्वेभ्योनिरतिशयनिरूपा- धिकोत्कर्षः॥ श्रीभागवतादिकंच प्रमाणजातमस्तीति कथमंशत्वं दुष्टतर्केणनिवारयितुं शक्यम् । अणुत्वे- पि“एषोणुरात्मा चेतसावेदितव्यः आराममात्रोह्यवरोपि दृष्टः वालाग्रशतभागस्य शतधा कल्पितस्य च । भागोजीवः सविज्ञेयः” इत्याद्याः श्रुतयः नाणुरतच्छ्तेरितिचेन्नेत- राधिकारात् । २ । ३। २२ । इतिब्रह्मसूत्रम् ।"अणुनित्योव्याप्तिशीलः" इतिपद्मपुराणादिक प्रमाणजातमस्ति चिद्रूपत्वेतु शास्त्रज्ञानां विवाद एव न विद्यते गुणिव्यतिरिक्तदेशव्यापि- ज्ञानगुणवत्त्वेपि “विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथा परा । अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते” ६ । ७ इतिचिदचिद्रूपं जगत् शक्तिशब्देन निर्दिश्य “एक देशस्थित स्याग्नेज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत्" १ । २२ इत्यादिना प्रभाप्रभावदृष्टांतेन निरूपयद्विष्णुपुराणादिकं प्रमाणमस्त्येव । ( निरवयव योस्तयोरंशांशित्वासंभवात् ) इतित्वशास्त्रज्ञचोदितम् । यतो न वयं ब्रह्मखंडत्वेन जीवस्यांशत्वं ब्रूमः । अपितु ब्रह्मविशेषणत्वेनैव यथा घटघटत्वयोर्घटत्वंविशेषणत्वेनांश इतिव्यवहरंति शास्त्रज्ञाः विशेष्यविशेषणभावस्तु ब्रह्मजीवयोनिरूपित एवपूर्व विशिष्टाद्वैतनिर्वचने एतेनैव ईश्वरस्यांशित्वेनांशदुःखेन दुःखित्वं सावयवत्वेनानित्यत्वं जीवस्यांशत्वे जन्यत्वेनानित्यत्वमित्याद्यग्रिमं सर्वमप्युत्तारतम् । जीवस्याणुत्वेनानित्यत्वापा- दनंतुश्रुत्याबाधितमिति पूर्वमेवोक्तम् । तथातस्याणुत्वे सकलदेहक्रियासुखाद्यनुपलब्धि- रपि “अविरोधश्चन्दनवत् । २।३।२४ । गुणाद्वालोकवत् । २।३।२६॥"इति सूत्राभ्या- मेवनिरस्ता ज्ञानं न गुणिव्यतिरिक्तदेशव्यापि गुणत्वात् रूपादिवदित्यनुमानं तु अस्मन्म तापरिज्ञानात्स्वरूपासिद्धहेतुमत्त्वेन हास्यास्पदमेव । तथाहि "द्रव्याद्रव्यप्रभेदान्मितमुभय- विध तद्विदस्तत्वमाहुर्द्रव्यं देधा विभक्तं जडमजडमिति प्राच्यमव्यक्तकालौ ॥ अंत्यं प्रत्यक पराक्च प्रथममुभयथा तत्र जीवेशभेदान्नित्या भूतिर्मतिश्चेत्यपरमिह जडामादिमां केचिदाहुः" । इत्यादिना तत्वमुक्ताकलाप न्यायसिद्धांजन सिद्धांतसिद्धांजनादौश्रीमद्धे- दांतदेशिकादिभिर्ज्ञानस्य द्रव्यत्वमेव सुदृढंस्थापितम् । अस्य ज्ञानस्य द्रव्यत्वेपिगुणत्वव्य- वहारस्तु यथाभवति तथा प्रभाप्रभावदृष्टांतादिना निपुणतरमुपपादितं महासिद्धांते श्रीभा- प्यश्रुतप्रकाशिकयोरिति तवैवावलोकनीयम्।एतेनैवाग्रिमःसवापि प्रलापोनिरस्तएव किंचे- त्यादिविकल्पत्रयेपि " पृथगुपदेशात् ॥ तद्गुणसारत्वात्” । २।३।२९। इतिसूत्राभ्यांजीव धर्मभूतज्ञानयोभिन्नत्वं जीवस्य ज्ञानशब्देनव्यवहारश्च भवतीति युक्तिभिर्भानरूपितं वेदार्थ- संग्रहादौ अणोरपिजीवस्य धर्मभूतज्ञानस्य संकोचविकासशालित्वेच" तया तिरोहित- त्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता । सर्वभूतेषु भूपालतारतम्येन वर्तते”।२।७।२९ । इत्यादि वदुद्धिष्णुपुराणादिकं प्रमाणमिति कथमंतर्दग्धो दग्धांगांत्यजशिष्य शब्दादिभिरस- त्प्रलापं कुर्वाणश्चन लज्जते इति कृतगुरुपरिचर्या निर्मत्सराः शास्त्रज्ञा एवविदांकुर्वतु ॥ एवं तस्मिन्नेवग्रंथे आत्मनोनिर्विशेषत्ववादः जीवेश्वरयोः स्वाभाविकभेदाभाववाद- श्चैतदुक्तौ नैयायिकश्रीमाध्वश्रीवल्लभश्रीनिंबार्कादिभिरेवशतशः खंडितौ इतिकितेन पिष्ट- पेषणेनेत्युपरम्यते विस्तरभीलुकेन ॥

सू०२३-अधि०८] आकाशाधिकरणम् । (६५) आकाशः परायणम् ॥ परायणत्वं परमगतित्वम् । परमप्राप्यत्वमितियावत् ।। सएष परोवरीयानुद्गीथः ॥ परः उत्कृष्टः। वरीयान् वरीयसामपिवरइत्यर्थः । अत्र पर शब्दः सकारान्तोदृष्टव्यः। एवंरूप आकाश उद्गीथः परमात्मदृष्टिविशिष्ट उद्गीथ इत्यर्थः । उद्गीथे एतादृशाकाशदृष्टिः कर्तव्येति यावत् ।। सएषोऽनन्तः॥ उद्गीथे अध्यस्यमानः अयमाकाशोऽनन्तः अपरिच्छिन्न इत्यर्थः। ततश्चानन्तस्याकाशशन्दितस्य परमात्मन एव सामगतिपरंपरा- विश्रांतिभूमित्वान्मत्पक्षे अन्तवद्वैकिल ते सामेत्युक्तोन्तवत्त्वदोषो नप्रसरतीतिभावः॥ परोवरीयोहास्य भवति । परोवरीयसोहलोकाञ्ज- यति । एतमेवंविद्वान्परोवरीयांसमुद्गीथमुपास्ते ॥ यः परोवरीयांसमेतमाकाशशब्दितं परमात्मानं विद्वान् आका- शत्वेनोद्गीथमुपास्ते,तस्यपरोवरीयस्त्वगुणकंजीवनं भवति, परोवरी यस्त्वगुणकसकललोकावाप्तिश्च भवति ॥प्रवाहणउद्गीथसंवादयति।। तहैनमतिधन्वा शौनक उदरशांडिल्यायोक्खो- वाच ॥ अतिधन्वनामा शुनकसुतः उदरशांडिल्यायर्षये । उदरशब्देन संततिलक्ष्यते। संततिशांडिल्यायेत्यर्थः। एतमुद्गीथमुक्त्वा अन्यद- प्युवाचेत्यर्थः । किंतदित्यत्राह ॥ यावन्तएनं प्रजायामुद्गीथवेदिष्यंते परोवरीयोटे- भ्यस्तावदस्मिल्लोके जीवनं भविष्यति तथामुष्मि- ल्लोकेलोकइति॥

Artist (६६) विषयवाक्यदीपिका। [अध्या०१-पाद:- लोकेलोकइति वीप्सायां द्विवचनम् ।यावन्तः पुरुषाः उद्गीथमुपा- सिष्यते तेषामुत्कृष्टमिहलोके जीवनभविष्यति, तथा सर्वस्मिन्नपि परलोके भविष्यतीति । वेदिष्यंते इत्येतव्यत्ययेनात्मनेपदम् । इती ति। अतिधन्वा उवाचेतिपूर्वेणान्वयः । अत इदानींतनानामपि तद्वि- दां तत्फलमस्तीत्याह ॥ सयएतमेवंविदानुपास्ते। परोवरीयएवहास्यास्मि- ल्लोके जीवनं भवति । तथामुष्मिलोकेलोकइति ॥ लोकेलोकइतिद्विरुक्तिविद्यासमाप्त्यर्था । प्राणाधिकरणम् । अतएवप्राणः।।१।२४॥ छांदोग्यप्रथमेनवमे- मटचीहतेषु कुरुष्वाटिक्या सहजाययोषस्तिहचा- क्रायण इभ्यग्रामे प्रद्राणक उवास ॥ चक्रस्य सुतः उपस्तिनामा कश्चन ऋषिः अश्मवृष्टिकृतदुर्भिक्ष- दूषितेषु कुरुदेशेषु आटिक्या अनुपजातपयोधरादिव्यंजनयाभार्य- या सहइभ्यानां गजारोहाणां ग्रामे प्रद्राणकः अनशनेन कुत्सितां- गतिमा पन्नः ब्रह्मविद्यानिष्पत्तयेप्राणानामनवसादकांशसुवास । द्राकुत्सायांगतावितिहि धातुः। चक्रस्यगोत्रापत्यमित्यर्थे अश्वादि- त्वात् फभि चाक्रायण इतिरूपम् ॥ सहेभ्यंकुल्माषान् खादन्तंबिभिक्षे ॥ सोनार्थी पर्यटनकुत्सितान्माषान्खादन्तमिभ्यंयाचितवान् । कुल्माषान्खांदन्तमितिनिर्देशात्कुत्सितमाषार्थे कुल्माषशब्दस्यसा- धुत्वम्॥

सू०२४-अधि०९] प्राणाधिकरणम् । (६७) त होवाच नेतोऽन्येविद्यन्ते यच्चयेम इम उपनि हिताइति। इतोमया भक्ष्यमाणादृच्छिष्टराशेः कुल्माषाअन्ये नविद्यन्ते यद्यस्माद्धेतोः इमेकुल्माषाः मे चये मदीये भक्ष्यचये उच्छिष्टरा- शौउपनिहिताः प्रक्षिप्ताः, अतः किंकरोमीत्युपस्तिमिभ्य उवा- चेत्यर्थः॥ एतेषांमेदेहीतिहोवाच ॥ उछिष्टानामपि मध्येमामपिकिंचिदेहीति प्रार्थितवानित्यर्थः॥ तानस्मैप्रददौ ॥ तान्कुल्माषान् उपस्तये दत्तवानित्यर्थः। हंतानुपानमित्युच्छिष्टंवैमेपीतस्यादितिहोवाच ॥ समीपस्थमुदकं गृहीत्वा गृहाणानुपानमितिइभ्येनोक्तः तदुदक- पाने उछिष्टोदकपानमेस्यादित्युवाचेत्यर्थः ।। नस्विदेतेप्युच्छिष्टाइतिनवा अजीविष्यमिमा न खादनितिहोवाच । कामोमउदपानमिति ॥ किमेते कुल्माषा अनुच्छिष्ठा इतिइभ्येनपर्यनुयुक्तः कुल्माषा- खादने स्वस्यजीवनहानिर्भवति तावन्मात्रखादनेन धृतप्राणस्य स्वस्योच्छिष्टोदकपानं कामकारितं निषिद्धस्यादित्युषाचेत्यर्थः ॥ सहखादित्वाऽतिशेषाआयाया आजहार ॥ उपस्तिस्तान भक्षयित्वाऽतिशिष्टाचायायै दत्तवानित्यर्थः॥ साग्रएवसुभिक्षावभूवतान् प्रतिगृह्य निदधौ ॥ साजाया प्रागेव लब्धान्ना बभूव । तथापिस्त्रीस्वभावादनवज्ञाय (ज्ञया) तान्पत्युर्हस्तात्प्रतिगृह्य निक्षिप्तवती ।।

A (६८) विषयवाक्यदीपिका। [ अध्या०१-पाद- सह प्रातः संजिहान उवाच यद्तानस्य लभेमहि लभेमहि धनमात्राम् ॥ सहोषस्तिः शयनंपरित्यजन्नेव पत्न्यांशृण्वन्त्यां यद्यनस्यस्तो- कमपिलभेमहि तेनप्राणं धृत्वाल्पमपिधनलभेमहीत्युवाचेत्यर्थः । कथं धनमात्रालभ्यते इत्यत्राह ॥ राजासौयक्ष्यतेस मा सर्वैरात्विज्यैर्वृणीतेति ॥ राजासौनातिदूरे यजते स मांदृष्ट्वा सर्वाण्यात्विज्यानित्वया कारयितव्यानीति प्रार्थयेतेत्युवाचेत्यर्थः॥ तंजायोवाच हंत पत इम एव कुल्माषा इति ॥ हेपतेमद्धस्तनिक्षिप्तास्त्वया कुल्माषास्ते इम एव तान्गृहाणे- त्युक्तवतीत्यर्थः॥ तान्खादित्वाऽमुंयज्ञं विततमेयाय॥ तानेवपर्युषितोच्छिष्टान्कुल्माषान् भक्षयित्वा विस्तीर्ण यज्ञवा- टंगतवानित्यर्थः॥ तत्रोद्गात्रादीना (द्गातॄना) स्तावे स्तोष्यमाणानु- पोपविवेश॥ आस्तुवंत्यस्मिन्नित्यास्तावः स्तोत्रस्थानम् । सदसि स्तोतुंप्रवृ- त्तानामुद्गातृप्रस्तोतृप्रतिहर्तृणांसमीपे उपविष्टवानित्यर्थः ॥ सहप्रस्तोतारमुवाच । प्रस्तोतर्यादेवता प्रस्तावम- न्वायत्ता, तांचेदविद्वान्प्रस्तोष्यसि, मूर्द्धाते विपतिष्य- तीति॥ हेप्रस्तोतः प्रस्तावभक्तावध्यस्य यादेवतोपास्या तामविदित्वा यदि विदुषो मम समीपे प्रस्तोष्यसि मूर्दा ते विपतिष्यतीत्यर्थः। यद्यपि तेनोभौकुरुतो यश्चैतदेववेद यश्चनवेदेत्यविदुषोप्यात्विज्या- सू०२४-अधि०९] प्राणाधिकरणम् । (६९) धिकारोस्ति । तथापि विद्वत्सन्निधावविदुषः कर्माधिकारोनास्ती- तिभावः॥ एवमेवोद्गातारमुवाच। उद्गातादेवतोद्गीथमन्वाय त्ता,तांचेदविद्वानुदास्यसि । मूर्धा ते विपतिष्यतीति । एवमेव प्रतिहारमुवाच। प्रतिहर्तर्यादेवता प्रतिहारम- न्वायत्ता, तांचेदविद्वान्प्रतिहरिष्यसि, मूर्धा ते विपति- ष्यतीति ॥ स्पष्टोर्थः॥ तेह समारतास्तूष्णीमासांचक्रिरे ॥ ते ह प्रस्तोत्रादय उपरताः संतः मूर्द्धपातभयातूष्णीमेव स्थिता इत्यर्थः ॥ अथहैनं यजमान उवाच। भगवन्तं वा अहं विवि- दिषाणीति ॥ कोभवानिति भवन्तंज्ञातुमिच्छामीति उपस्ति यजमान उक्त- वानित्यर्थः ॥ उपस्तिरस्मि चाक्रायण इति होवाच ॥ स्पष्टोथैः॥ सहोवाच भगवन्तंवाअहमेभिः सर्वैरालिंज्यैःपर्यै- षिषं, भगवतो वाहमविद्याऽन्यानवृषि भगवांस्त्वेवमेस- वैरार्खिज्यैरिति॥ भगवंतंसर्वगुणोपेतं श्रुत्वा सर्वाण्यात्विज्यानि भगवदधीनानि कर्तु भवतोन्वेषणंकृतवानस्मिाभगवतः अविद्या विदिाभः नविदिः अविदि इकृष्यादिभ्यः।३।३।१०८वा.' इति इक्। अविद्या अला- (७०) विषयवाक्यदीपिका। [अध्या०१-पाद- भेन, इमानृत्विजोवृतवानस्मि । इतः परमपि भगवानेवसर्वैत्र त्विकर्मभिर्वृत इत्युवाचेत्यर्थः । सर्वात्वियार्थवृत इति यावत् ।। तथेतियथतर्खेत एवसमतिसृष्टास्तुवतां यावत्त्वे- भ्योधनं दद्यास्तावन्मे (न्मम) दद्याइति ॥ तथेत्युपगम्यानंतरं त्वया पूर्ववृताएतएव मया सम्यक् प्रसन्ने- नानुज्ञाता उपदिष्टदेवताः संतस्तुवतां स्तुवंतु । एभ्योयावदनंप्रय- च्छसि तावन्मम दद्याइत्युक्तवान् ॥ तथेतिहयजमानउवाच ॥ स्पष्टोर्थः॥ अथ हैनंप्रस्तोतोपससाद ॥ उपस्तिवचनं श्रुत्वाप्रस्तोता विनयेन समीपमागतवानित्यर्थः ॥ प्रस्तोतर्यादेवता प्रस्तावमन्वायत्ता, तांचेदविद्वान प्रस्तोष्यसि, मूर्धा ते विपतिष्यतीति, मा भगवानवोच कतमासा देवतेति ॥ भगवान्मांप्रतिप्रस्तोतादेवतेत्यादिना यां देवतां पृष्टवान्सा देवता केति पप्रच्छेत्यर्थः॥ प्राणइतिहोवाच ॥ .. अब प्राणयितृत्वगुणयोगात् प्राणशब्देन परमात्मैवोच्यते ॥ प्राणशब्दस्यमुख्यप्राणपरत्वं व्यावर्तयति ॥ सर्वाणिहवा इमानि भूतानि प्राणमेवाभिसंविशंति, प्राणमभ्युज्जिहते, सैषा देवता प्रस्तावमन्वायत्ता ॥ प्राणमभिलक्ष्यसंविशति । समित्येकीकारे । ऐक्येन विशंति लीयन्तइत्यर्थः। प्राणमभ्युजिहते प्राणादेवोद्गच्छंतीत्यर्थः । सर्वभू- मू०२५-अधि०१०] ज्योतिरधिकरणम् । (७१) तलयोत्पत्तिस्थानत्वेन वेदान्तेषु प्रसिद्धा प्राणरूपादेवता प्रस्ताव- भत्त्यनुगता प्रस्तावभक्तावध्यस्योपास्येत्यर्थः । तांचेदविद्वान्प्रास्तोष्यो मूर्धा ते व्यपतिष्यत्तथोक्त स्यमयेति॥ तांचेदविद्वानप्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मदुत्त्यनंतर- मप्युक्तिमनाहत्यतदेवतामनभिज्ञाय यदि प्रास्तोष्यस्ततोमूर्धाते व्यपतिष्यदेव । अतस्साधुकृतं त्वया मत्समीपमागत्य विनयेन पृच्छतेतिभावः । अत्र मूाते व्यपतिष्यत् तथोक्तस्यमयेत्यु- त्या विदुषैवमुक्तस्याविदुषः तदनादरेण कर्मकरणे शिरः पातलक्षणः प्रत्यवायः । नतुविदुषानुक्तस्याविदुषइतिभावः । व्यासायैस्तु मूर्धा ते व्यपतिष्यदित्यस्यऽऽत्मसत्ता नलभ्येतेत्यर्थ इत्यात्मसत्ताहानिपर्यन्तःप्रत्यवायोवर्णितः॥ ज्योतिरधिकरणम् । ज्योतिश्चरणाभिधानात् । १।१।२५॥ छांदोग्यतृतीयाध्यायेद्वादशखण्डस्योपक्रमे॥ चतुष्पात्त्वषाड्विध्याभ्यां ब्रह्मणोगायत्रीसादृश्यानुसंधानरूपा वि- याप्रस्तूयते " इन्द्र शचीपतिः। बलेनपीडितः। दुःश्च्यवनोवृषा। समित्सुसासहिः" इतिहिगायत्रीचतुष्पदा।एकैकस्य पादस्य षडक्षरा- त्मकतया षडक्षरपावत्त्वेन षड्विधाचाएवंब्रह्मणोपि भूतशन्दितात्म- वर्ग एकःपादः, कर्मार्जितभोगस्थानरूपः पृथिवीलोक एकः पादः, भोगोपकरणंशरीरमेकः पादः, आत्मस्थित्यनुगुणंप्रदेशविशेषरूपं हृदयमेकः पादः, इतिभूतपृथिवीशरीरहृदयानि चत्वारः पादाः । तत्रसर्वभूतलक्षणपादस्यब्रह्मात्मकवाकर्तृकगानकर्मत्वत्राणकर्मत्व लक्षणंविधाद्वयम् । पृथिवीलक्षणस्य पादस्य सर्वभूतप्रतिष्टात्वसर्व- (७२) विषयवाक्यदीपिका। [अध्या०१-पाद- भूतानतिवर्तित्वलक्षणंविधाद्वयम् । शरीरहृदयलक्षणयोः पादयोः प्राणप्रतिष्ठात्वतदनतिवर्तित्वलक्षणंविधाद्वयम् । द्वयोरपिविधाद्वययो भैदाभावात् । ततश्च ब्रह्मरूपागायत्रीभूतपृथिवीशरीरहृदयरूपपाद- चतुष्टवत्तयाचतुष्पदा। एवंगानकर्मवत्राणकर्मत्वसर्वभूतप्रतिष्ठात्व- सर्वभूतानतिवर्तित्वसर्वप्राणप्रतिष्ठात्वसर्वप्राणानतिवर्तित्वलक्षणवि- धाषट्कयुक्ततया षड्डिधा । अतश्चतुष्पात्त्वषाड्विघ्याभ्यांब्रह्माणि गाय- श्रीसादृश्यानुसंधानं कर्तव्यमितिप्रतिपादयति ॥ गायत्रीवाइदंसर्वभूतंयदिदंकिञ्च ॥ अत्रगायत्रीशब्देन नप्रसिद्धागायव्यभिधीयते।तस्या भूतादिपाद चतुष्टयसंबन्धाभावात्, एतावानस्य महिमा"इति पुंसूक्तमंत्रप्रतिपा- यत्वाभावाच । अपितु परमात्मा। यथाकुण्डपायिनामयने मासमेक मग्निहोत्रं जुहोतीत्यग्निहोत्रशब्दः प्रयुज्यमानः तत्सादृश्यविशिष्टा- नुष्ठानार्थः, तथा गायत्रीशब्दोब्रह्मणि प्रयुज्यमानः तत्सादृश्यानु- सन्धानार्थः । ततश्च गायत्रीशब्देनब्रह्मैवाभिधीयते । वैशब्दोऽवधार- णार्थः। ब्रह्मैव परिदृश्यमानं सर्वभूतात्मकमित्यर्थः। ततश्च ब्रह्मणो- भूतलक्षणपादवत्त्वमुक्तम् ॥ गायत्रीशब्दप्रवृत्तिनिमित्तमपि ब्रह्मण्यु- पपादयन्विधाद्वयमाह ॥ वाग्वैगायत्री॥ गायत्रीशब्दितं ब्रह्मैव वागरूपविशिष्टंभवतीत्यर्थः। “ शब्दमू- तिधरस्यैतद्रूपंविष्णोर्महात्मनः" इतिपराशरस्मृत्यनुरोधेन ब्रह्मण एव शब्दरूपत्वमितिभावः। ततश्चकिमित्यत्राह ॥ वाग्वाइदंसर्वभूतंगायति (च)त्रायतेच ॥ वायूपमेवब्रह्म सर्वाणिभूतान्यभिधत्ते । हिताहितविधिनिषेधमुखेन १ पराशरास्मृतिशब्देनविष्णुपुराणविवक्षितम् ।

सू०२५-अधि०१०] ज्योतिरधिकरणम् । (७३) त्रायतेच । अतोब्रह्मणोवायूपस्य गानबाणकर्तृत्वाभ्यां गायत्री- शब्दवाच्यत्वम् । भूतात्मकपादवतोब्रह्मणोवाकर्तृकगानवाणकर्म- त्वाभ्यां दैविध्यंचोक्तंभवति ॥ उक्तार्थानुवादपूर्वकंद्वितीयंपादं सामा- नाधिकरण्येनाह॥ यावसागायत्रीइयंवावसायेयंटथिवी ॥ उक्तरूपविशिष्टप्रकृतधर्मिपरः यच्छन्दः । यासासर्वभूतरूपैक- पादयुतागायत्री गायत्र्याख्यंब्रह्म तदेव प्रसिद्धापृथिवीत्यर्थः । कथं पृथिव्याब्रह्मात्मकत्वमित्यत्राह ॥ अस्याहीदसर्वभूतंप्रतिष्ठितम् ॥ ब्रह्मात्मकत्वादेव हि सर्वभूतप्रतिष्ठात्वम् । नहि केवलपृथिव्याः सर्वभूतधारणशक्तिरस्तीत्यर्थः । प्रतिष्ठात्वंच नियतमित्याह । "एतामेवनातिशीयते" इति ॥ पृथिवीं भूतजातं नातिवर्तते । कर्मवश्यात्मनांहि प्रतिष्ठात्वादेव पृथिवीनियमेनाशक्यातिक्रमणेत्यर्थः। पृथिवीमयब्रह्मांडोदरे हिभो- क्तवर्गः परिवर्तते,नतप्तोऽन्यत्रेतिभावः। एवंद्वितीयःपादो भूतप्रतिष्ठा- त्वतदनतिवतित्वरूपंविधादयं चोक्तम् ॥ अथतृतीयंपादमाह॥ यावसाष्टथिवी यं वाव सा यदिदमस्मिन् पुरुषे शरीरम् ॥ पुरुषशब्दः शरीरविशिष्टजीवपरः। पृथिवीरूपपादविशिष्टा या गायत्री गायत्र्याख्यंब्रह्म साशरोरंशरीराख्यपादविशिष्टेत्यर्थः । भूत- पृथिव्योर्गायत्रीसामानाधिकरण्येन निर्दिष्टतया भूतपृथिवीशब्दयो- ब्रह्मपर्यतत्वेन तदुपस्थापनक्षमत्वात् । अग्र्यप्रायन्यायेनावशरीर- लक्षणपादान्तरस्यनिष्कर्षकशब्दत्वेपि सामानाधिकरण्येन निर्दे- शोयुक्तः॥ - (७४) विषयवाक्यदीपिका। [अध्या०१-पाद:- शरीरस्यब्रह्मात्मकत्वंप्राणप्रतिष्ठात्वतदनतिवर्तित्वाभ्यामुपपा- दयति ॥ अस्मिन्हीमे प्राणाः प्रतिष्ठिताः । एतदेवनाति- शीयन्ते॥ नातिवर्तन्तइत्यर्थः॥ चतुर्थपादमाह ॥ यद्वैतत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिनंतः- पुरुषे हृदयम् ॥ शरीराख्यपादविशिष्टं यद्गायत्र्याख्यंब्रह्म तदेवहृदयं हृदयलक्ष- णपादकमित्यर्थः॥ हृदयस्य ब्रह्मात्मकत्वमुपपादयति ॥ अस्मिन्हीमे प्राणाःप्रतिष्ठिताः।एतदेवनातिशीयंते॥ प्राणशब्देन प्राणापानादय इंद्रियाणिवा कथ्यन्ते । तेषां हृदय- संबन्धिनाडीद्वारा हृदयप्रतिष्ठितत्वम् । एवंतृतीयचतुर्थपादयोः प्राणप्रतिष्ठात्वतदनतिवर्तित्वरूपंविधाद्वयंचोक्तम् ॥ एवमुक्तंचतुष्पात्त्वं षाड़िध्यंच निगमयति ॥ सैषाचतुष्पदापड़िधागायत्री॥ नन्वेवं चतुष्पात्त्वेब्रह्मणः परिच्छिन्नत्वस्यादितिशङ्कायामुक्तस्य महिम्न एतावत्त्वप्रतिषेधिकामृचमुदाहरति । तदेतदृचाभ्यनूक्तम् ॥ तदेतद्गायच्याख्यंब्रह्माभिमुखीकृत्यऋचाप्युक्तम् ॥ तामेवचैपठति ॥ तावानस्यमहिमा॥ पूर्वोक्तः सर्वोपि एतस्यमहिमा नियाम्यवर्गः। Ja सू०२५-अधि०१.] ज्योतिरधिकरणम् । (७५) ततोज्यायाश्च पुरुषः॥ । पूर्वोक्तमहिमापेक्षया पुरुषःपरमात्मा ज्यायान् । ततोधिकम- हिमशालीत्यर्थः॥ पादोस्यस भूतानि॥ अत्र सर्वाभूतानीति कार्यजगदंतर्गताऽचित्संसृष्टाश्चेतनाउच्यते। सर्वा सर्वाणि पादः अंशमात्रमित्यर्थः। सर्वशब्दात्परस्य शेः"सुपांसु- लुक्०७॥१॥३९॥” इतिलुकिनलोपेरूपम् ॥ त्रिपादस्यामृतंदिवि ॥ अत्राशब्दः समष्टिव्यष्टितत्त्ववहिर्भूताप्राकृतस्थानविशेषपरः। अप्राकृतस्थानविशेषेऽस्यपरमात्मन अमृतंपादत्रयमित्यर्थः। त्रिपा- त्वंचा प्राकृतै ग्यभोगस्थानभोगोपकरणविशेषैर्वा भूषणास्त्रादि- रूपेण जगदन्तर्गतवस्त्वभिमानिभिनित्यैर्भगवदनुभवमात्रपरैर्नित्य- सिद्धेश्चमुक्तैश्चात्मभिर्वा संभवति ॥ अथचतुर्थपादत्वेनोक्तस्योपास्यतयावक्ष्यमाणस्यहृदयस्यस्तु- त्यथै तत्स्थाकाशस्य बाह्याकाशाभेदेन महत्त्वंवक्तुं बाह्याकाशस्य ब्रह्मतुल्यत्वंसामानाधिकरण्येनाह ॥ यद्वैतब्रह्मतीदं वाव तद्योयं बहिर्धा पुरुषादाकाशो योवैसबहिर्धा पुरुषादाकाशोयं वाव सयोयमंतःपुरुष आकाशः॥ स्वकार्यव्याप्तत्वामूर्तत्वाचलत्वादिभिर्ब्रह्मतुल्यवाह्याकाशाभि- नःपुरुषांतर्वाकाशइत्यर्थः । बाह्यान्तराकाशयोर्भेदसत्त्वेपि धर्में- क्याभिप्रायेणाभेदनिर्देशः ॥ योवै सोंतः पुरुष आकाशोऽयं वाव स योयमंत- हृदयआकाशः॥

द (७६) विषयवाक्यदीपिका। [अध्या०१-पाद- एवंब्रह्मतुल्यवाह्याकाशाभिन्नपुरुषांतर्गताकाशाभेदं हृदयाका- शस्योक्त्वैतादृशमहिमशाली हृदयाकाशइतिस्तौति ॥ योवै सोंतर्हदय आकाशः॥ अन्तर्हदये वर्तमानो य आकाशः अयं स एतादृशमहिमशा- लीत्यर्थः ॥ अनयाच हृदयाकाशस्तुत्या चतुर्थपादत्वेनोक्तहृद- यंस्तुतंभवति ॥ एवंचतुष्पदः षड्विधस्य ब्रह्मणः प्रपञ्चान्तर्भावेन परिच्छिन्नत्वा- स्थिरत्वशंकाव्यावृत्यर्थपूर्णत्वाप्रवर्तित्वगुणकतयोपासनं मोक्षफ- लंविदधाति॥ तदेतत्पूर्णमप्रवर्ति ॥ पूर्णत्वमपरिच्छिन्नत्वमप्रवर्तित्वमचलत्वं स्थिरत्वम् ॥ पूर्णामप्रवर्तिनींश्रियंलभतेयएवंवेद ॥ अनन्तस्थिराश्रीर्मुक्तैश्वर्यमेव । तदुपासीनोमुक्तिं भजतीत्यर्थः॥ एवंगायत्रीविद्याप्रकृतस्यासंबन्धिनः सकलफलप्रदस्य ब्रह्मणः आभिरूप्यकीर्तिमत्त्वरूपफलविशेषार्थकोक्षेयज्योतीरूपत्वेनोपास- नविधानायाह ॥ अथ यदतः परोदिवो ज्योतिर्दीप्यते विश्वतः पृष्ठे- पु सर्वतः पृष्ठेष्वनुत्तमेषत्तमेषु लोकेषु ॥ "तथाक्षरात्संभवतीहविश्वम्" इत्यत्रजगदतर्वतिव्यष्टिजातेविश्व- शब्दप्रयोगाद्विश्वशन्दोव्यष्टिषरः, सर्वशब्दः परिशेषात्समष्टितत्त्व- परइति व्यासारुक्तम् । ततश्च दिवो प्राकृतस्थानविशेषस्योप- रिष्टात्समष्टिव्यष्टिबहिर्भूतेषु स्वावधिकोत्तमरहितोत्तमस्थानविशे- पेषु “ तस्यभासासर्वमिदंविभाति " इत्यवभासकतयाज्योति- सू०२५-अधि०१०] ज्योतिरधिकरणम् । (७७) श्शब्दितः परमात्मायोदीप्यतइत्यर्थः। अत्र यच्छन्दस्य सर्वनामत्वे- ( न प्रकृतपरामर्शितयाप्रकृतंत्रिपाद्ब्रह्म परामृश्यते ॥ इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषेज्योतिः ॥ तदिवः परस्तादीप्यमानं त्रिपाद्ब्रह्म कौक्षेयज्योतिरेव । कौक्षेय ज्योतिश्शरीरकमेवेत्यर्थः । “अहवैश्वानरोभूत्वा प्राणिनांदेहमा- श्रितः। प्राणापानसमायुक्तः पचाम्यन्नंचतुर्विधम्" इति स्मरणात् । ततश्च तदात्मकत्वानुसंधानं कर्तव्यमित्यर्थः ।। तस्यैषादृष्टिर्यत्रैतदस्मिञ्छरीरे संस्पर्शनोष्णिमानं विजानाति ॥ तस्य परमात्मशरीरभूतस्य जाठराग्नेरेषादृष्टिः । दर्शनमित्यर्थः। यत्र यदा अस्मिछरीरे हस्तस्पर्शनोष्णिमानं विजानातीति यत्त- दौष्ण्योपलंभनमित्यर्थः। उपलभ्यमानोष्णस्पर्शस्य जाठराग्निसंब- न्धित्वात्तत्स्पर्शसाक्षात्कार एव तत्साक्षात्कारइत्यर्थः ।। तस्यैषाश्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नद- थुरिवाग्नेरिव ज्वलत उपशृणोति ॥ यत्र यदाकर्णावंगुलिभ्यांपिधाय निनदमिवरथघोषमिवनदथु- रिवनदथुमिव ऋषभकूजितमिव बहिर्वलतोनेः शब्दमिव शृणो- तीति यत्तदेव जाठराग्निश्रवणम् । आन्तरस्य शब्दस्य जाठराग्नि संबन्धित्वात् । तच्छन्दश्रवणमेवतच्छ्रवणमित्यर्थः॥ तदेतदृष्टंच श्रुतंचेत्युपासीत ॥ तदेतत्परमात्मशरीरभूतं कौक्षयज्योतिरुक्तरीत्यादृष्टत्वश्रुत- त्वाभ्यामुपासीतेत्यर्थः॥ तस्य फलमाह। चक्षुष्यः श्रुतोभवति । यएवं वेद यएवंवेद ॥

. (७८) विषयवाक्यदीपिका। [अध्या०१-पाद:- चक्षुष्यत्वमाभिरूप्यम् । चक्षुषेहितइत्यर्थे “ शरीरावयवायत् । ६।१।६॥” इतियत् । श्रुतत्वंकीर्तिमत्त्वमिति । द्विरुक्तिर्वि- यासमाप्त्यर्था॥ इन्द्रप्राणाधिकरणम् । प्राणस्तथानुगमात् ॥११॥२९॥ कौषीतकिब्राह्मणे प्रतर्दनविद्यायाम् ॥ प्रतर्दनोहवै दैवोदासिरिन्द्रस्य प्रियंधामोपजगाम युद्धेनचपौरुषेणच ॥ दिवोदासस्यापत्यं दैवोदासिः, नाम्ना प्रतर्दनः, युद्धसाधनबलेन शौर्येणचयुतः इंद्रस्यप्रियंस्थानस्वर्गमुपगतइत्यर्थः ॥ तहेन्द्रउवाच ॥ प्रतर्दन वरंवृणीष्वेति ॥ स्पष्टोर्थः॥ सहोवाच प्रतर्दनः । त्वमेव मेवरंवृणीष्व । यंत्वं मनुष्यायहिततमंमन्यसे॥ सर्वज्ञस्त्वं यं वरं मनुष्याय मे हिततमं मन्यसे तमेव वृणीष्व । अहमज्ञः हिततमं वरं नवेद्मीति ॥ तण्हेन्द्र उवाच ॥ नवै परः परस्मै वृणीते । त्वमेव वृणीष्वेति ॥ नह्यन्योऽन्याथैवरं वृणीते । अतस्त्वदभिलषितं वरं त्वमेव मत्तो- वृणीष्वेत्यर्थः॥ अवरोवै तर्हि किल म इतिहोवाच प्रतर्दनः॥ यदि हि त्वयापि नत्रियते तर्हि मम हिततमस्यापरिज्ञानाद्वरा- भाव एव प्राप्त इति प्रतर्दन इन्द्रमुवाचेत्यर्थः ॥ अथो खल्विन्द्रः सत्यादेव नेयाय ॥

। सू०२९अधि०११-] इन्द्रप्राणाधिकरणम् । (७९) एवमुक्तस्ते वरं ददानीति सत्याद्वाक्यानापेतः। तत्रहेतुमाह ॥ सत्यंहीन्द्रइति॥ इन्द्रस्य सत्यप्रधानत्वादित्यर्थः । ततश्च वरंददानीति मदुक्तं वाक्यमसत्यं माभूदित्यमन्यतेत्यर्थः॥ सहोवाच । मामेवविजानीहि । एतदेवाहंमनुष्या- य हिततमंमन्ये । यन्मांविजानीयात् ॥ यदि ते हिततममुपदेष्टव्यं तर्हि मदुपासनमेवहिततममोक्ष- साधनमिति मन्मतम् । अत इतरत्परित्यज्य मामुपास्स्वेत्यर्थः। अत्र प्रसिद्धजीवभावस्येन्द्रस्यहिततमत्वलक्षणमोक्षसाधनत्वाश्रयो- पासनकर्मत्वासंभवान्मामितिशब्दः स्वात्मभूतं परमात्मानमभिद- धाति । “यआत्मनि तिष्ठन्” । “अन्तःप्रविष्टश्शास्ता जनानां- सर्वात्मा” इतिशास्त्रेणस्वस्याप्यात्मभूतः परमात्मा निर्दिश्यते । अहंबुद्धिशब्दाः परमात्मपर्यंताइतिजानतइन्द्रस्यस्वात्मभूते पर- मात्मनि मामिति शब्दप्रयोगे नानुपपत्तिः। ननु स्वायत्तेशब्दप्रयोगे संदिग्धपरमात्मवाचकमेवपदं प्रयुज्यताम्, किंन्यायलभ्यपर- मात्मपर्यवसानेन मामितिशब्देनेतिचेत् ॥ स्यादेवम् ॥ यदिपरमा- त्मस्वरूपमात्रोपासनंविधित्सितस्यात् । अपितु स्वशरीरकतया। अतोमामितिनिर्देश उपपद्यते । तत्क्रतुन्यायेन स्वोपासकस्य पापाश्लेषवक्तुंस्वस्यपापाश्लेषं दर्शयति ॥ त्रिशीर्षाणंत्वाष्ट्रमहनम् ॥ त्रिशिरस्कंत्वाष्ट्रविश्वरूपंहतवानस्मि । अरुन्मुखान्यतीन् शालावृकेभ्यः प्रायच्छम् ॥ रौतीतिरुद्वेदः । रुत् मुखे न विद्यतेयेषांते अरुन्मुखाः । वेदांत- विमुखान्यतीविशेषेभ्यः खादनाय प्रायच्छम् ॥ 00 (८०) विषयवाक्यदीपिका । [अध्या०१-पाद- बह्वीःसंधाअतिक्रम्यदिविप्राहादीयानतृणहमन्त- रिक्षे पौलोमान्पृथिव्यां कालकान् ॥ नहनिष्यामीति कृतावही प्रतिज्ञा अतिक्रम्य दिविवर्तमानान्प्रह्लाद पुत्रानतृणहम् अहनम् । तृहहिंसायामिति धातुः । अंतरिक्ष पौलो- मान पुलोमसुतान् पृथिव्यांकालकनाख्यानमुरांश्चहिंसितवानस्मि।। तस्यमे तत्र न लोम च मीयते ॥ एवहिसितवतो मेलोमापि न हिंस्यते ब्रह्मविद्याप्रभावादित्यर्थः।। सयोमांविजानीयानास्यकेनच कर्मणा लोको मी- यते न मातृवधेन न पितृवधेन न स्तेयेन न भ्रूणह- त्यया नास्य पापं चक्रुषोमुखंनीलवेति ॥ यएतादृशं मदात्मकं परमात्मानमुपास्ते तस्यकेनापि कर्मणा मातृवधपितृवधस्तेयभ्रूणहत्यादिलक्षणेन परलोकप्राप्तिनविरुध्यते । एवंपापंकृतवतोपि मयेदृशं पापं कृतमिति निर्वेदजनितमुखवैवर्ण्य- मपि नास्तीत्यर्थः। चक्रुष इति क्वस्वंतात्षष्ठी ॥ एवंचेतनविशेषरूप- स्वविशिष्टपरमात्मोपासनमुक्त्वाऽचेतनविशेषरूपप्राणविशिष्टोपास नमाह॥ सहोवाच ॥प्राणोस्मि प्रज्ञात्मा। तमामायुरमृतमि- त्युपास्स्व॥ प्रज्ञारूप आत्माप्रज्ञात्मा जीवः। जीवशरीरकइत्यर्थः । जीवशरी- रकोहं प्राणोस्मि प्राणशरीरकोहमस्मिातादृशंप्राणशरीरकं मामायुर- मृतमित्युपास्स्वाकथंप्राणशरीरकस्यायुष्वाऽमृतत्वेइत्याशंकयाह॥ आयुःप्राणःप्राणोवाआयुःप्राणउवाअमृतंयावद्धय- स्मिञ्छरीरेप्राणो वसति तावदायुः। प्राणेनोवामुष्मि- ल्लोकेऽमृतत्वमाप्नोति ॥

सू०२९-अधि०११] इन्द्रप्राणाधिकरणम् । (८१) शरीरेप्राणस्थितेरुच्छासादिलक्षणायुःसाधनत्वादायुःप्राणः । लोकांतरेचिरस्थायित्वरूपामृतत्वप्राप्ते प्राणाधीनोपायानुष्ठानसाध्य- त्वात्प्राणस्यामृतत्वम्।अतआयुट्वामृतत्वेप्राणस्योपपद्यते।तबारापर मात्मनश्चोपपत्ते आयुष्ट्वामृतत्वाभ्यां प्राणशरीरकब्रह्मणउपासनमुप- पद्यते । यद्वा अत्र व्यासायॊक्तरीत्या तमामायुरिति वाक्ये मामिति जीवविशिष्टतोच्यते । आयुरिति प्राणविशिष्टता । योवैप्राणइति झनंतरमेवश्रवणात्।अमृतमिति स्वेनरूपेणावस्थितिः। एवंचास्मि- नेव वाक्ये स्वेनरूपेण चिदचिद्विशिष्टतयाच त्रिविधोपासनविधी- यते । अतोनोपासनात्रयविधिकृतवाक्यभेद इति द्रष्टव्यम् ॥ प्रज्ञा- त्मकत्वविशिष्टोपासनस्य फलमाह ॥ प्रज्ञया सत्यसंकल्पमिति॥ अपहतपाप्मत्वादिगुणाष्टकलक्षणं ब्राह्मरूपमित्यर्थः ॥ योवै प्राणः सा प्रज्ञा यावै प्रज्ञास प्राणः॥ ननु प्रज्ञाशन्दितजीवस्य प्राणस्य च कथमभेद इत्यत्राह ।। सहह्येतावस्मिञ्छरीरेवसतस्सहोकामतः॥ सहोक्रमणप्रतिष्ठत्वादेककार्यकारित्वादभेदव्यपदेशोयुज्यतेइत्यु क्त्वा “प्राण एव प्रज्ञात्मा इदंशरीरं परिगृह्योत्थापयति" इति प्रज्ञाशब्दितजीवसहायकस्य मुख्यप्राणस्यैव शरीरोत्थापकत्व मिति मुख्यप्राणस्यामुख्यप्राणापेक्षया वैलक्षण्यमुक्त्वा “यत्रैतत्पु रुषः सुप्तः स्वनकथंचनपश्यति । अथास्मिन्प्राण एवैकधा भवति" इति सुषुप्तिदशायामपि प्राणविशिष्टपरमात्मनि जीवस्य लीनतया (८२) विषयवाक्यदीपिका। [अध्या०१-पाद- सुषुप्तावपि जीवप्राणयोः साहचर्यप्रदर्य प्राणस्य सर्वभूतोपजी- व्यत्वमुक्त्वा “अथ खलु यथा प्रज्ञायां सर्वाणि भूतान्येकं भवन्ति तयाख्यास्यामः” इति प्रज्ञाशब्दितजीवस्य सर्वभूताश्रयत्वप्रकार: कथ्यत इति प्रतिज्ञायाऽह ॥ वागेवास्या एकमंगमुदूढं तस्या नामपुरस्तात्प्रति विहिता भूतमात्रा॥ अस्याः प्रज्ञायाः प्रज्ञया । जीवेनेति यावत् । वागिंद्रियमेकम- गमुदूढंपरिगृहीतमित्यर्थः । उदाहकर्मभूतपत्नीवत्परिगृहीतमित्यर्थः। वस्तुतस्तु स्वांगाभावात्तस्या वाचः पुरस्ताद्वाह्यत्वेन प्रतिनियत- तयाविहिता भूतमात्रा नाम । एवमुत्तरत्रापिद्रष्टव्यम् ॥ घ्राणमेवास्या एकमंगमुदूढं तस्य गंधः पुरस्तात् प्रतिविहिता भूतमात्रा । चक्षुरेवास्या एकमंगमुदृढ तस्य रूपंपुरस्तात्प्रतिविहिता भूतमात्रा । श्रोत्रमेवा- स्या एकमंगमदूढं तस्यशब्दः पुरस्तात्प्रतिविहिता भूतमात्रा। जिढवास्या एकमंगमुदूढं तस्या अन्नरसः पुरस्तात्प्रतिविहिता भूतमात्रा। हस्तावेवास्या एकम- गमुदूढं तयोः कर्माणिपुरस्तात्प्रतिविहिता भूतमात्रा। शरीरमेवास्या एकमंगमुदृढं तस्य सुखदुःखेपुरस्ता- त्प्रतिविहिता भूतमात्रा। उपस्थमे वा (स्थ एवा)स्या एकमंगमुदूढं तस्यानन्दोरतिःप्रजातिः पुरस्तात्प्रति- विहिता भूतमात्रा॥

सू०२९अधि०११-] इन्द्रप्राणाधिकरणम् । (८३) प्रजातिःप्रजननमित्यर्थः॥ पादावेवास्याएकमंगमुदूढं तयोरित्याः पुरस्तात्प्र- तिविहिता भूतमात्रा॥ इत्याः गमानि॥ प्रज्ञैवास्या एकमंगमुदूढं तस्या धियो विज्ञातव्यं- कामाः पुरस्तात्प्रतिविहिता भूतमात्रा॥ अत्र प्रथमान्तः प्रज्ञाशब्दो मनःपरः । नतुप्रज्ञारूपजीवपरः।उत्त रत्र नेत्यांविजिज्ञासीतएतारंविद्यादित्यनंतरंनमनोविजिज्ञासीतेति- मनश्शब्दप्रयोगात्स्थानप्रमाणेन प्रज्ञाशब्दस्य मनएवार्थः। धियो विज्ञातव्यं मनोजन्यज्ञानविषयइत्यर्थः। कामाःकाम्यमाना इत्यर्थः॥ एवंनामगन्धरूपशब्दरसकर्मसुखदुःखानन्दगतिज्ञातव्यानां दशा- नां भूतमात्राणां वाग्घ्राणादिविषयत्वमुक्त्वाप्रज्ञाशब्दितस्य जीव- स्य नामादिदशविधभूतमात्राव्याप्तिप्रकारमाह ॥ प्रज्ञया वाचंसमारुह्य वाचा सर्वाणि नामान्याप्नोति। अत्र प्रज्ञाशब्द अव्यवहितप्रज्ञाशब्दनिर्दिष्टमनःपरः । ततश्च मनसा वागिद्रियमधिष्ठाय तद्वारा सर्वाणि नामानि अभिलपनक्रि- याद्वाराज्ञानेन व्याप्नोति ॥ प्रज्ञया घ्राणंसमारुह्य घ्राणेन सर्वान्गन्धानाप्नोति ॥ मनसा प्राणेन्द्रियमधिष्ठाय तद्दारा सर्वान् गन्धान ज्ञानेनाप्नोति। एवमुत्तरत्रापि द्रष्टव्यम् ॥ प्रज्ञया चक्षुस्समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नो- ति । प्रज्ञयाश्रोत्रं समारुह्य श्रोत्रेण सर्वाञ्छब्दानाप्नो- ति। प्रज्ञया जिह्वां समारुह्य जिह्वया सर्वान् अन्नर- (८४) विषयवाक्यदीपिका। [अध्या०१-पाद:- सानाप्नोति। प्रज्ञया हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्माण्याप्नोति । प्रज्ञया शरीरं समारुह्य शरीरेण सुख दुःखे आप्नोति । प्रज्ञयोपस्थं समारुह्य उपस्थेनानन्द- रतिं प्रजातिमाप्नोति । प्रज्ञया पादौसमारुह्य पादाभ्यां सर्वांइत्या आप्नोति । प्रज्ञयैवधियं समारुह्य धियोवि- ज्ञातव्यं कामानाप्नोति॥ ननु मनोद्वारा वागादिनियमनं किमर्थमित्याशंक्याह । नहिप्रज्ञापेता वाङ्नामकिंचित्प्रज्ञापयेत् ॥ नहिमनोऽनधिष्ठितं वागिन्द्रियं नाम प्रज्ञापनसमर्थ भवतीत्यर्थः। अत्र लोकमेव साक्षित्वेनोदाहरति । अन्यत्र मे मनोऽभूदित्याह नाहमेतन्नाम प्राज्ञा- सिषमिति॥ लोकोहि अन्यत्र मे मनोभूदित्युक्त्वैतन्नाम नप्राज्ञासिषमित्या- है। मनोव्यासङ्गवशाज्ञानपूर्वकनामाभिलपनलक्षणवागिंद्रियव्या पारोनाभूदितिहिलोकः प्रत्येतीत्यर्थः । एवमुत्तरत्रापिद्रष्टव्यम् ॥ नहि प्रज्ञापेतोघ्राणो गन्धं कंचन प्रज्ञापयेत् । अन्यत्र मेमनोभूदित्याह नाहमेनं गंधं प्राज्ञासिषमि ति । नहि प्रज्ञापेतं चक्षुः रूपं किंचन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह । नाहमेतद्रूपं प्राज्ञासिष मिति । नहि प्रज्ञापेतं श्रोत्र शब्दं कंचन प्रज्ञापयेत् । अन्यत्र मे मनोऽभूदित्याह । नाहमेतं शब्दं प्राज्ञासि पमिति । नहि प्रज्ञापेता जिह्वा अन्नरसं कंचन प्रज्ञा- सू०२९-अधि०११ ] इन्द्रप्राणाधिकरणम् । (८५) पयेत् । अन्यत्र मे मनोभूदित्याह । नाहमेतमन्नरसं प्राज्ञासिषमिति । न प्रज्ञापेतौ हस्तौकर्मकिंचन प्रज्ञा- पयेताम् । अन्यत्र मे मनोभूदित्याहानाहमेतत्कर्मप्रा- ज्ञासिषमिति । नहि प्रज्ञापेतंशरीरं सुखं दुःखं किंचन प्रज्ञापयेत् । अन्यत्र मे मनोभूदित्याह । नाहमेत्सुखं दुःखं प्राज्ञासिषमिति । नहि प्रज्ञापेत उपस्थआनन्दं रतिंप्रजाति कांचन प्रज्ञापयेत् । अन्यत्र मे मनोभूदि- त्याह । नाहमेतमानन्दरतिं प्रजातिं प्राज्ञासिषमिति । नहिप्रज्ञापेतौ पादावित्यां कांचन प्रज्ञापयेताम् । अ- न्यत्र मे मनोभूदित्याह। नाहमेतामित्यां प्राज्ञासिष- मिति । नहि प्रज्ञापेता धीः काचन सिद्धयेत् ॥ एवं प्रज्ञाशब्दितस्य जीवस्य भूतमात्राव्याप्तिप्रकारकथनमुखेना ऽऽत्मानात्मविवेकंप्रदय अन्यावाचोविमुंचथ" इत्युक्तरीत्या भूतमात्राशब्दितानात्मविज्ञानंपरिहर्तव्यमित्याह । न प्रज्ञातव्यं प्रज्ञापयेत् ॥ ज्ञानात्मव्यतिरिक्तोऽनात्मभूतोविषयो न ज्ञातव्य इत्यर्थः। तदे- वप्रपंचयति॥ न वाचं विजिज्ञासीत वकारं विद्यात्॥ अत्र वाक्छब्दः प्रकरणानुगुण्यात्रामपरः। वक्तारमुक्तरीत्यामनो धिष्ठितवागिन्द्रियजन्याभिलपनक्रिययानामवक्तारमात्मानमेव विद्या त् । वक्तजीवशरीरकपरमात्मानं विद्यादितियावत् । एवमुत्तरत्रापि द्रष्टव्यम् ॥ 11 (८६) विषयवाक्यदीपिका। [अध्या०१-पाद१- न गन्धं विजिज्ञासीत घातारंविद्यात्। नरूपं विजि ज्ञासीतरूपं विद्वांसंविद्यात् ॥ रूपंपश्यंत विद्यादित्यर्थः॥ नशब्दं विजिज्ञासीत । श्रोतारं विद्यात् । नान्नरसं विजिज्ञासीत । अन्नरसविज्ञातारं विद्यात् । नकर्मवि- जिज्ञासीत कर्तारं विद्यात्। न सुखदुःखे विजिज्ञासीत। सुखदुःखयोर्विज्ञातारं विद्यात्। नानन्दं न रतिं न प्रजा तिं विजिज्ञासीत । आनन्दस्य रतेः प्रजातर्विज्ञातारंवि- द्यात्। नेत्यां विजिज्ञासीताएतारंविद्यात्।न मनो विजि ज्ञासीत । मंतारं विद्यात् । तावाएताः दशैव भूतमात्रा अधिप्रज्ञम् । दशप्रज्ञामात्राअधिभूतम् । यदिभूतमात्रा नस्युः । न प्रज्ञामात्राःस्युः। यदिवाप्रज्ञामात्रा न स्युः नभूतमात्राःस्युः। नान्यतरतो रूपं किंचन सिध्येत् । नोएवैतन्नाना॥ नामगन्धरूपशब्दरसकर्मसुखदुःखानंदगतिज्ञातव्यलक्षणदश भू- तमात्रा तद्राहिवाग्घ्राणचक्षुःश्रोत्रजिह्वाहस्तशरीरोपस्थपादमनो- लक्षणादश प्रज्ञामात्राश्चान्योन्याधाराः । वागादीन्द्रियाणाम- भावेनामादिसिद्धेरभावेन वागादिलक्षणप्रज्ञामात्राधीनसिद्धिकत्वा- नामादिभूतमात्राणाम् । तेषांचाभावे तब्यवहारफलकप्रज्ञामात्रा- शन्दितेन्द्रियाद्यनिष्पत्तेः अतोग्रााग्राहकोभयाधीनत्वात्सर्वलोक- यात्रायाः ग्राह्येण विनाकृतं ग्राहकंग्राहकेण विनाकृतंग्राह्यं वा न का यक्षमभवति ॥ नोएवैतन्त्राना नानाशब्दो विनार्थकः । एतद्राह्य- १ रूपबिदमित्यपिपाठांतरम् ।

सू०२९-अधि०११ ] इन्द्रप्राणाधिकरणम् । (८७) ग्राहकजातं परस्पराविनाभूतमित्यर्थः। तस्मात्प्रज्ञामात्राशन्दितम- पींद्रियजातं भूतमात्रांतर्गतमित्यर्थः ॥ तद्यथा रथस्यारेषु नेमिरर्पितानाभावरा अर्पिताएव मेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे अर्पिताः॥ यथा रथस्यनाभौ रथचक्रमध्यवर्तिसरंध्रकाष्ठविशेषे अरश- न्दिताः काष्ठविशेषाः परितोर्पिताः। तत्रच नेमिशब्दितं वलयाकारं काष्टं यथापितमेवं प्राणशन्दितपरमात्मनि प्रज्ञामात्राशब्दनिर्दिष्टा- श्वेतनाः अर्पिताः । तेषुचभूतमात्राशब्दितग्राह्यग्राहकजातं सर्वसम- पितमित्यर्थः॥ नन्वत्र प्रज्ञामात्राशब्देन यदिभूतमात्रा न स्युः न प्रज्ञामावास्युः यदि प्रज्ञामात्रा न स्युः न भूतमात्रास्स्युरितिपूर्ववाक्ये प्रज्ञामात्रा- शब्दनिर्दिष्टानां वागादीनां ग्राहकाणां दशानामेव ग्रहणमुचितम् । नतुयोवैप्राणः साप्रक्षेति व्यवहितकेवलप्रज्ञाशब्दनिर्दिष्टजीवपरत्व- मितिचेन ॥ पूर्ववाक्येन्योन्याधाराधेयभावप्रतिपादनात्तत्र प्रज्ञामा- त्राशब्दस्यवागादिपरत्वेपीहप्रज्ञामात्राशब्दनिर्दिष्टस्य भूतमात्राश्रि- तत्त्वाप्रतिपादनात्प्राणशब्दितपरमात्माश्रितत्वस्यैव प्रतिपादना- प्रज्ञामात्राशब्दोजीवपरएव पूर्ववाक्येबाधकबलात्प्रज्ञाशब्दस्य मु- ख्यार्थत्यागेपि इहतत्त्यागे कारणाभावात् । जडरूपस्य वागादेः प्रज्ञाशब्दमुख्यार्थकत्वासंभवात् । यथा अस्मिन्प्रकरणे “यावद्धय स्मिञ्छरीरे प्राणो वसति तावदायुः । अथास्मिन्प्राण एवैकधा भवति । एतस्मादात्मनःप्राणा यथायतनं विप्रतिष्ठते” इतित्रिष्व- पिवाक्येषु मुख्यप्राणपरमात्मजीवपरत्वेन भिन्नार्थकत्वम् । एवंयथा प्रज्ञायांसर्वाणि भूतानि । नहिप्रज्ञापेता वाङ्नाम किंचित्प्रज्ञापयेत् ।

use (८८) विषयवाक्यदीपिका। [अध्या०१-पाद१- दशैव भूतमात्रा अधिप्रज्ञमितिवाक्येषु जीवमनोबाह्येन्द्रियरूपार्थ- त्रयविषये दृष्टप्रयोगस्य प्रज्ञाशब्दस्यााँचित्यानुसारेणैवार्थस्य वर्णनीयत्वात् ॥ नचैकवचनान्तप्रज्ञाशब्दनिर्दिष्टस्य जीवस्य बहु- वचनान्तप्रज्ञामात्राशब्देन परामर्शों न युक्तइतिवाच्यम् ॥ सद्वि- द्यायां "स्वमपीतोभवति" इति एकवचनान्तशब्दनिर्दिष्टस्य जीवस्य “सतिसंपद्यनविदुः” इतिबहुवचनान्तशब्दनिर्देशवदुपपत्तेः । एत- सर्व श्रुतप्रकाशिकायामिन्द्रप्राणाधिकरणेस्पष्टम् ॥ सएष प्राण एष प्राज्ञात्मानन्दोऽजरोऽमृतः॥ प्रज्ञएवप्राज्ञः निरुपाधिकसार्वज्ञाश्रयः । निरुपाधिकानन्दत्व विजरत्वविमृत्युत्वाश्रयः॥ न साधुना कर्मणा भूयान्नो एवासाधुनाकर्मणा कनीयान् ॥ पुण्यपापकृतोत्कर्षापकर्षशून्य इत्यर्थः । एप वैनं साधु कर्म कारयति तं यमेभ्योलोकेभ्य उन्निनीषति॥ यं पुरुषम् एभ्योण्डान्ततिभ्यो लोकेभ्यः उर्ध्व भगवल्लोकं नेतुमिच्छति तंपुरुष भगवल्लोकप्राप्तये साधुकर्मकारयति । कर्म- णां भगवल्लोकप्राप्त्युपयोगित्वं च तद्धेतुभूतविद्याविरोधिपापनि- रसनद्वारा ॥ एषउ एवैनमसाधुकर्म कारयति तं यमधोनि- नीषति। यमेभ्योलोकेभ्योननुत्सुतेइतिपाठद्वयम् । यंपुरुषमेभ्योलोके- भ्योऽधः पातयितुमिच्छति तमसाधुकर्मकारयति । यथा साधु कर्मणां ब्रह्मोपासनानिष्पादनद्वारोन्नयनहेतुत्वमेवमसाधुकर्मणामप्यु-

सू०२९-अधि०१३ ] इन्द्रप्राणाधिकरणम् । (८९)
पासनाप्रतिबन्धद्वाराऽधोनयनहेतुत्वम् । उक्तंचभगवताभाष्यका-
रेण “पापस्यज्ञानोदयविरोधित्वम् । एष वासाधुकर्मकारय-
तितं यमधोनिनीपति इतिश्रुत्यावगम्यते” इति । विवृतंचव्यासायः
" कर्मणामुन्नयनहेतुत्वमुपासननिष्पादनरूपमिति तद्विपरीतमधो-
नयनमुपासनप्रतिवन्धरूपमिति स्फुटतरमवगम्यते” इति ।
एषलोकपाल एषलोकाधिपतिरेषसर्वेशः॥
लोकपालो लोकरक्षकः । अत्र व्यासाचार्याः “ लोकाधिपतिः
लोकस्वामी सर्वेशः सर्वलोकनियंता । ननु पा रक्षणे इति धातोः
पतिशब्दः, तत्कथमत्र शेषिबाचित्वम्।उच्यते॥न हि सर्वत्रावयवश-
तिरेवनरूढिशक्तिरित्यस्तिनियमः । अन्यथागमोंइतिव्युत्पत्त्या-
गोशब्दस्यसकलजङ्गमवाचित्वप्रसंगात् । स्थिताया गोरवाचकत्व
प्रसङ्गाच्च । अतः शेषिणिपतिशब्दोरूढः । अन्यथा “ वृद्धौचमा-
तापितरौसाध्वीभार्यासुतः शिशुः । अप्यकार्यशतंकृत्वाभर्तव्यामनु-
रब्रवीत् इतिन्यायेन पितुः संरक्षकेपुत्रेपतिशब्दव्यवहारप्रसं-
गाद्" इत्यूचुः॥
सम आत्मेतिविद्यात्समआत्मेति विद्यात् ॥
पूर्वोक्तगुणविशिष्टस्वांतर्यामीतिप्रतिपत्तव्यः । यद्वास्मिन्नेववा-
क्येपूर्वोक्तत्वाष्ट्रहननादिकृतपापले पशून्यत्ववक्तृत्वघातृत्वादिगुणक-
जीवविशिष्टतया आयुरिन्द्रियनिश्श्रेयसहेतुत्वशरीरोत्थापकत्वादि
गुणविशिष्टप्राणविशिष्टतया, आनन्दत्वामृतत्वादिस्वरूपेणच विशि-
पृस्य स्वात्मत्वेनोपासनंविधीयते । एवं सत्यनेकोपासनाविधानक-
तवाक्यभेदशंकाया नावकाशइतिद्रष्टव्यम् ॥
इति श्रीरंगरामानुजमुनिविरचितायां विषयवाक्यदीपिकायां ब्रह्मसूत्र
प्रथमाध्यायप्रथमपादविषयवाक्यदीपिका समाप्ता ॥ १ ॥

Wannavin (९०) विषयवाक्यदीपिका। [अध्या०१-पाद२- सर्वत्र प्रसिद्धयधिकरणम् १. सर्वत्र प्रसिद्धोपदेशात् । १।२।१॥ छांदोग्येतृतीयाध्यायेचतुर्दशखण्डोपक्रमशांडिल्यविद्याप्रस्तूयते। सर्वखल्विदंब्रह्म तज्जलानितिशान्तउपासीत ॥ जायतेइतिजम् । लीयते इतिलम् ॥ जलशब्दौडप्रत्ययान्तौ । अनितीति अन् । अनिति जीवतीत्यर्थः । किबन्तोविजन्तोवायं- शब्दः । तस्यजलान् तज्जलात् इतिशब्दोहेत्वर्थः । सर्वशब्दः सर्वशरीरकपरः । इदमित्येतत् ब्रह्मणः सर्वस्य वाविशेषणम् । अतश्च तज्जत्वात्तल्लत्वात्तदनत्वात्सर्वात्मकंब्रह्मेतिशान्तःसन्नुपासीते- त्यर्थः । अत्र तज्जत्वतल्लत्वे स्थूलचिदचिच्छरीरकब्रह्मगते । उपा- दानोपादेयभावस्याभिन्ननिष्ठत्वात् । तदनत्वरूपंनियाम्यत्वं न ब्रह्म- गतम् । ब्रह्मणस्तदसंभवात् । अपितु चिदचिन्मात्रगतमितिद्रष्ट- व्यम् । भगवता भाष्यकृता “सर्वखल्विदं ब्रह्म तज्जलानिति शान्त- उपासीतेति सर्वोत्पत्तिस्थितिप्रलयकारणत्वेन सर्वस्यात्मतयाऽनुप्र- वेशकृतजीवयितृत्वेनच सर्वात्मकंब्रह्मोपासीतेत्युपासनं विधाय"इति भाषितम् । व्यासायश्च "ब्रह्मात्मकत्वं सर्वस्य शास्त्रादवगम्य-सर्व- भूतात्मके तातजगन्नाथेजगन्मये-परमात्मनिगोविन्दे मित्रामित्रकथा- कुतः इत्युक्तरीत्या रागद्वेषादिरहितः सन् वक्ष्यमाणगुणकं ब्रह्मो- पासीतेत्यर्थइति"उक्तम् । वक्ष्यमाणगुणकंब्रह्मेतिवदतांव्यासाचार्या- णामयमाशयः। सवैखल्विति वाक्योक्तं सात्म्यिंतुनोपास्यगुणत- याविवक्षितम् । उत्पत्तिशिष्टसार्वात्म्यगुणावरुद्धमनोमयत्वादिवक्ष्य- माणगुणविधानानुपपत्तिप्रसंगात् । नचोपासनोत्पत्तिवाक्यश्रुतस्य सार्वात्म्यस्याविवक्षाकथमभ्युपगन्तव्येतिवाच्यम् । सर्वं खल्विदं ब्रह्म १ उत्पत्तिशिष्टगुणावरुद्धउत्पन्नशिष्टगुणस्यान्वयोनभवति ।

सू०१-अधि०१ ] सर्वत्रप्रसिद्धयधिकरणम् । (९१) तज्जलानित्यन्तस्य वाक्यस्य खलुशब्दकृतेन प्रसिद्धवान्निर्देशन शांतउपासीतेत्यनेनैकवाक्यत्वस्यनिवारितत्वात् । नापासीत खल्वितिवचनव्यक्तिर्घटते । अतः सात्म्यिस्योपासनोत्पत्तिवाक्य- श्रुतत्वाभावेन शांत उपासीतेति वाक्ये उपास्याकांक्षायां पूर्ववाक्य- प्रतिपन्नस्य ब्रह्मरूपमिमात्रस्यैवोपास्यतयान्वयः। नतु सार्वात्म्य- विशिष्टस्य । ततश्चोत्पत्तिशिष्टसात्म्यिानवरोधात् नवक्ष्यमाणमनो- मयत्वादिगुणानन्वयशंका।सर्वात्मकं ब्रह्मोपासीतेति तदर्थनिर्देशक- भाष्येपिसर्वात्मकत्वं नोपास्यतया निर्दिष्टम्, अपितूपास्यस्य ब्रह्मणः स्वरूपकथनमात्रपरमित्येतत्सर्वतैः कण्ठत एववर्णितं च । ननुब्रह्मात्मकत्वं सर्वस्य शास्त्रादेवावगत्यरागद्वेषादिरहितः सन्वक्ष्यमाणगुणकं ब्रह्मोपासीतेति व्यासाचार्यैरेवोक्तत्वात्तदे- कवाक्यत्वसंभवे तज्जलानित्यस्यपृथग्वाक्यत्वकल्पनाऽयोगात, सार्वात्म्यस्योत्पत्तिवाक्यविहितत्वेपिमनोमयत्वादीनामुत्पत्तिशिष्ट सात्म्यिगुणाविरोधिनामन्वयेदोषाभावाच, वाक्यभेदकल्पनंवा शांडिल्यविद्यायांसात्म्यिस्यानुपास्यत्वकल्पनंवाव्यर्थमितिचेन्न । उपासीतेत्यनेन वाक्यैकवाक्यत्वाभ्युपगमेपिपदैकवाक्यत्वनिराक- रणेदोषाभावात् । शान्तिहेतुतयान्वितस्य सार्वात्म्यस्योपा- स्यगुणत्वे प्रमाणाभावादितिव्यासाचार्याभिप्रायात् ॥ ननुन- मणः सर्वात्मकत्वायत्रक्वचित् क्रियमाणस्यापि द्वेषादेरात्म- द्वेषपर्यवसन्नत्वेनायुक्तत्वाच्छांतः सन्नुपासीतेत्युक्तेब्रह्मोपासीतेति कथमवगम्यते, सर्वखल्विदंब्रह्मेत्यस्यशमविध्यर्थवादभूतस्योपास्य- समर्पकत्वाभावादितिचेत्सत्यम् ॥ शमविध्यर्थतयानिर्दिष्टस्यापि ब्रह्मणः उपास्याकांक्षापूरकत्वस्यापि संभवात् । अन्यार्थतयापि स्ववाक्यनिर्दिष्टंब्रह्मविहायोपास्यांतरकल्पनस्यानुचितत्वात् । मू- (९२) विषयवाक्यदीपिका। [अध्या०१-पाद२- लतः शाखांपरिवास्योपवेषंकरोतीत्यत्रमूलतः इत्यस्यशाखापरि- वासने अपादानतयान्वितस्याप्याकांक्षावशेनोपवेशंकरोतीत्यनेना- प्यन्वयाभ्युपगमादितिद्रष्टव्यम् ॥ विहितमुपासनस्तौति ॥ अथखलुक्रतुमयः पुरुषोयथाक्रतुरस्मिल्लोके पुरु- षोभवति तथेतः प्रेत्यभवति ॥ तं यथायथोपासते तथैवभवतीतिश्रुत्यन्तरादिह लोके पुरुषोय- थोपासनस्तथैवेतः प्रेत्यामुष्मिल्लोके भवति । ततोयंपुरुषक्रतुमयः ऋतुप्रधानः उपासनप्रधानइत्यर्थः। ततश्चोपासनस्यैव हिततमत्वात्त सर्वदानुष्ठेयमित्यर्थः ॥ एवंविहितं ब्रह्मोपासनं मनोमयत्वादिगुणा- न्तरविधानायानुवदति ॥ सक्रतुंकुर्वीत॥ सपुरुषः क्रतुंब्रह्मोपासनंकुर्वीतेत्यर्थः ॥ मनोमयः प्राणशरीरो भारूपः सत्यसंकल्पः आ- काशात्मा॥ मनोमयः परिशुद्धमनोमात्रग्राह्यः विवेकादिसाधनसप्तकानुगृही- तपरमात्मोपासननिर्मलीकृतमनोमात्रग्राह्यइत्यर्थः ।प्राणशरीरः जग- तिसर्वेषां प्राणानांधारकः प्राणो यस्यशरीरम् आधेयंविधेयंशेषभूतं- भ १ साधनसप्तकंच “तल्लब्धिविवेकविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षेभ्यःसंभ- वान्निर्वचनाच्च"इति-वाक्यकारेणोक्तम् । जात्याश्रयनिमित्ताऽदुष्टादन्नात्कायशुद्धिर्विवेकः। विमोकः कामनाभिष्वंगः। आरंबणसंशीलनं पुनः पुनरभ्यास:पंचमहायज्ञानुष्ठानं शक्तितः क्रिया । सत्यार्जवदयादानाहिंसानभिध्याः कल्याणानि । देशकालवैगुण्याच्छोकवस्त्वाद्यनु- स्मृतेश्च तज्जं दैन्यमभास्वरत्वं मनसोवसादः । तद्विपर्ययोऽनवसादः । तद्विपर्ययजातु ष्टिरुद्धर्षः । तद्विपर्ययोऽनुद्धर्षः-इतितल्लक्षणान्यपि वाक्यकारोक्तान्येव श्रीभाष्येलघुसिद्धांत विस्तरेणोक्तानि ॥

सू०१-अधि०१] सर्वत्र प्रसिद्धयधिकरणम् । (९३) च सप्राणशरीरः आधेयत्वविधेयत्वशेषत्वानामेवशरीरंशब्दप्रवृत्ति- निमित्तत्वाताभारूपः।भास्वररूपः । “आदित्यवर्णतमसः परस्ता- त्" "पश्यतेरुक्मवर्णम्” इत्यादिवाक्यप्रतिपन्नाप्राकृतस्वासाधार णनिरतिशयकल्याणगुणगणनिरतिशयदोप्तियुक्तविग्रहशालीत्यर्थः । सत्यसंकल्पोप्रतिहतसंकल्पः । आकाशात्मा आकाशवत्सूक्ष्म- रूपः। सकलेतरकारणभूतस्याव्याकृताकाशस्यात्मभूतइतिवाऽका- शात्मा । स्वयंचप्रकाशते अन्यान्प्रकाशयतीतिवा आकाशात्मा ॥ सर्वकर्मा ॥ क्रियते इति कर्म । सर्वजगद्यस्य कर्मासौ सर्वकर्मा । सर्वा वा क्रियायस्यासौसर्वकर्मा। सर्वकामः॥ काम्यंतइतिकामाः भोग्यभोगोपकरणभोगस्थानादयः । तेपरि- शुद्धास्तस्यसन्तीत्यर्थः॥ सर्वगन्धःसर्वरसः॥ अशब्दमस्पर्शमित्यादिनाप्राकृतगंधादिनिषेधात् । अप्राकृताः स्वासाधारणाः निरवद्या निरतिशयाः कल्याणाः स्वभोग्यभूताः सर्वविधा गन्धरसास्तस्यसन्तीत्यर्थः।। १ अनेनैव न्यायेन चिदचिद्रूपजगच्छरीरकः परमात्मेति विशिष्टाद्वैतसिद्धांतः । " सर्वात्मनाधेयतया नियाम्यतया शेषतयाचापृथक्सिद्धं प्रकारभूतमित्याकारः शरीर- मिति चोच्यते” इति शरीरलक्षणं वेदार्थसंग्रहे श्रीभाष्यकाराः। चेष्टाश्रयत्वादीनां त्वव्या- प्तिरेव दोषः। तत्र तात्पर्यदीपिकायामपि “व्याप्यत्वेसति सर्वात्मना स्वार्थे धारयितुं शक्यं शरीरमिति शरीरलक्षणम् । “व्याप्तत्वेसति यावद्दव्यभावितया स्वार्थेधारयितुं शक्त आत्मे- ति शरीरिलक्षणम् । स्वार्थशक्यपदाभ्यामुत्पतनादिव्यापाराणां रुग्णदेहनियमनस्यचाभा- वादसंभवाऽव्याप्तिशंकापरिहारः। घटपटादिव्यावृत्त्यर्थ व्याप्यत्वेसतीत्युक्तम्।परकायप्रविणं प्रति परकायस्य देहत्वव्यावृत्त्यर्थ सर्वात्मनेतिपदम्।आत्मनोधर्मभूतज्ञानं रत्नदीपादेः प्रभाच शरीरस्यादितितद्वयावृत्त्यर्थं च व्याप्यत्वेसतीत्युक्तम् ” इत्यादिनानिरूपितमिदम् । भाष्ये पि नविलक्षणाधिकरणादौ स्फुटमिदम् । नवीनरीत्या परिष्कारादिकं तुश्रीमदनंतार्यवादा वल्यां शरीरलक्षणवादे विस्तृतम् ॥

X (९४) विषयवाक्यदीपिका। [अध्या०१-पाद२- सर्वमिदमभ्यात्तः॥ उक्तंसर्वमिदं कल्याणगुणजातमभ्यात्तः स्वीकृतवान् । भुक्ताबा- मणाइतिवत्कतरिक्तः । अर्शाद्यजंतोवा ॥ अवाकी॥ वाक उक्तिः। सोस्य नास्तीत्यवाकी । कुतइत्यत्राह ॥ अनादरः॥ अवाप्तसमस्तकामत्वेनादर्तव्याभावादादररहितः । अतएवअ- वाकीपरिपूर्णैश्वर्यत्वाद्ब्रह्मादिस्तंबपर्यतनिखिलंजगत्तृणीकृत्यजोर्ष- मासीनइत्यर्थः॥ एषम आत्मान्तर्हदये अणीयान् व्रीहेर्वा यवादा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा ॥ मदीये हृदये ब्रीह्याद्यपेक्षयाणुत्वेनात्मत्वेन परमात्मोपासनार्थ- मवस्थितइत्यर्थः। तथानुसन्धानकर्तव्यामितिभावः ॥ अंतर्हृदयेव- स्थितस्योपास्यमानस्यप्राप्याकारमनुसंधेयंनिर्दिशति ॥ एषमआत्मान्तर्हृदयेज्यायान्मृथिव्याज्यायानंत- रिक्षाज्ज्यायान्दिवोज्यायानेभ्योलोकेभ्यःसर्वकर्मास कामः सर्वगंधः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्य- नादरः॥ उक्तोऽर्थः । एवंभूतंपरब्रह्म परमकारुण्येनास्मदुजिजीविषया- स्मद्धृदयेसैनिहितमित्यनुसंधातव्यमित्याह ॥ एषमआत्मांतह॒तयेएतद्ब्रह्म ॥ यथोपासनमीदृशंपरमात्मानम् अस्माच्छरीरात्समुत्थायपरंज्यो- शतूष्णीमर्थसुखेजोषम् इत्यमरः ॥

सू०१-अधि०२] अत्रधिकरणम्। (९५) तिरुपसपद्यस्वेनरूपेणाभिनिष्पद्यते” इत्युक्तरीत्या देशविशेषविशि ष्टं प्राप्तास्मीतिनिश्चयरूपमनुसंधानकर्तव्यमित्याह ॥ एतमितःप्रेत्याभिसंभवितास्मीति ॥ अत्रेतीत्यस्यसक्रतुंकुर्वीतत्यनेनान्वयः। मनोमयः प्राणशरीरइ- त्यारभ्यैतमितः प्रेत्याभिसंभवितास्मीत्येतत्पर्यतोनुसंधानप्रकारः । अवचेतिशब्दनिर्दिष्टोमनोमयत्वादिगुणगतःक्रमविशेषएकएव विधी यते । मनोमयत्वाद्युपास्यगुणानांत्वाक्षेपतोविधानपृष्टगतसर्वतावि- धानादिवत्पृष्ठानाम्।ततश्चप्राप्तानुवादेन मनोमयत्वाद्यनेकगुणविधा- नेवाक्यभेद इतिशंका प्रत्युक्ता।यदा विधेयानांबहुत्वेपिक्रमरूपविधे यतावच्छेदकैक्यान्नवाक्यभेदः । यदग्नये च प्रजापतये चेति वाक्ये देवतात्वरूपविधेयतावच्छेदकैक्येन वाक्यभेदस्यतांत्रिकैः परिहृत- त्वात् । केचित्तुप्राप्तोपासनानुवादेनाभ्युदयेष्टिवाक्यवत्प्रयोगविधि- त्वसभवानवाक्यभेद इतिवदन्ति ॥ एवंविधप्राप्यप्राप्तिनिश्चयो- पेतस्योपासकस्य प्राप्तौ नसंशयोस्तीत्युपसंहरति । यस्यस्यादरा न विचिकित्सास्ति ॥ अत्रेतिशब्दोध्याहर्तव्यः। अभिसंभवितास्मीति शब्दस्य क्रम- वाचकस्यैव काकाक्षिगोलकन्यायेन वाऽन्वयः। उक्तप्रकारेण यस्यो पासकस्य अद्धा निश्चयोस्ति तस्यप्राप्तौ विचिकित्सा संशयो ना स्ति ॥ उक्तार्थस्यश्रद्धेयत्वसिद्धयैवक्तुराप्तिदर्शयति ॥ इतिहस्माह शाण्डिल्यः शाण्डिल्यः॥ अबधिकरणम् २. अत्ता चराचरग्रहणात् । १।२ ।९॥ प्रकरणाच्च १।२।१० ॥ गुहांप्रविष्टावात्मानौहितदर्शनात् । १ । १सर्वपृष्ठोऽतिरात्रोभति।

(९६) विषयवाक्यदीपिका। [अध्या०१-पाद२- २।११॥ विशेषणाच्च । १ ।२ । १२॥शब्दादेवप्र- मितः। १।३।३३ ॥ कंपनात् । १ । ३ । ४० ॥ ज्योतिर्दर्शनात् । १।३।४१ ॥ आनुमानिकमप्ये- केषामितिचेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयतिच । १।४।१ ॥ वदतीतिचेन्न प्राज्ञोहिप्रकरणात् । १। ४।५॥त्रयाणामेवचैवमुपन्यासः प्रश्नश्च ।१।४।६॥ इत्येवमादिमूत्रविषयवाक्यार्थप्रदर्शनाय कठवल्ली प्रायेण व्याख्यायते॥ उशन हवै वाजश्रवसः सर्ववेदसं ददौ ॥ उशन् कामयमानः । वशकांतावित्यस्माच्छतरि “अहिज्या ६।१।१६ । इत्यादिना संप्रसारणम् । हवै इति वृत्तार्थस्मरणा- यौनिपातौ । फलमितिशेषः । वाजश्रवसः। वाजेनान्नेन दानादिकर्म भूतेन श्रवः कीर्तिर्यस्य स वाजश्रवाः । तस्यापत्यं वाजश्रवसः । रूढिर्वा वाजश्रवस इति । स किल ऋषिः विश्वजिता सर्वस्वदक्षिणेन यजमानः तस्मिन् कतौ सर्ववेदसं सर्वस्वं ददौ दत्तवानित्यर्थः । उशन्नित्यनेन कर्मणः काम्यत्वावगमादक्षिणासाद्गुण्यमावश्यक- मितिसूच्यते ॥ तस्यह नचिकेता नाम पुत्रआस ॥ आस बभूव “छन्दस्युभयथा ॥ ३।४।११७। इति लिटः सार्वधातुकत्वात्स्वस्तयेताक्ष्यमितिवदस्ते भावाभावः। तह कुमारंश्संतंदक्षिणासु नीयमानासु श्रद्धा- विवेश॥ कुमारं संतं बालमेवसंतमृत्विग्म्योदक्षिणासु नीयमानासु श्रद्धा आस्तिक्यबुद्धिः पितृहितकामप्रयुक्ता आविवेश आविष्टवती॥

सू०९-अधि०२] अत्रधिकरणम् । (९७) श्रद्धाप्रकारमेवदर्शयति ॥ पीतोदका जग्धतृणा दुग्धदोहानिरिन्द्रियाः॥ पीतमुदकंयाभिस्ताः पीतोदकाः। जग्धंभक्षितं तृणं याभिस्ता जग्धतृणाः । दुग्धोदोहोयाभिस्ता दुग्धदोहाः । निरिंद्रियाः अप्र- जननसमर्थाः। जीर्णानिष्फला इतियावत् ॥ अनन्दा नाम ये लोकास्तान्स गच्छतिता ददत् । याएवंभूतागावस्ताऋत्विग्म्योदक्षिणाबुद्धयाददत् प्रयच्छन् अनन्दा असुखा येशास्त्रप्रसिद्धा लोकाः सन्तिनामखलु तान् स यजमानोगच्छति एवममन्यतेत्यर्थः॥ सहोवाच पितरं तत कस्मै मां दास्यसीति द्वितीयं तृतीयम् ॥ दीयमानदक्षिणावैगुण्यं मन्यमानो नचिकेताः स्वात्मदानेनापि पितुः क्रतुसाद्गुण्यमिच्छन् आस्तिकाग्रेसरः पितरमुपगम्योवाच तात कस्मै ऋत्विजे दक्षिणार्थ मां दास्यसीति । एवमुक्तेनापि पित्रो पेक्ष्यमाणोपि प्रथमं द्वितीयं तृतीयमपि पर्यायं कस्मैमांदास्य सी- त्युवाच॥ तहोवाच मृत्यवे त्वां ददामीति ॥ एवं निर्वध्यमानः पिता कुपितस्तंपुत्रं मृत्यवे त्वां ददामी त्युक्त- वान् । एवमुक्तोपि विगतसाध्वसशोकः पितरमुवाच ॥ बहूनामेमि प्रथमो बहूनामेमि मध्यमः॥ सर्वेषांमृत्युसदनं गतॄणां पुरतोमध्ये वा गच्छामि नतुमंथरः। पश्चान्मृत्युसदनगमने न कोपि ममविचार इति भावः॥ किंतर्हितत्राह॥ किस्विद्यमस्यकर्तव्यंयन्मयाद्यकरिष्यति ॥

(९८) विषयवाक्यदीपिका। [अध्या०१-पादर- तत्तादृशं यमस्यकर्तव्यं, किंवा पूर्णकामस्यमृत्योः मादृशेन वा लिशेन किंप्रयोजनं स्यायेन ऋत्विग्भ्य इव तस्मै मदर्पणं सफलं स्यात् । अत एतदेवानुशोचामीतिभावः । साध्वसरोषावेशहीनमी दृशं पुत्रवाक्यंश्रुत्वा क्रोधावेशान्मयामृत्यवे ददामीत्युक्तं, नेदृशं पुत्रं मृत्यवेदातुमुत्सह इति पश्चात् तप्तहृदयं पितरमालोक्योवाच॥ अनुपश्य यथापूर्व प्रतिपश्य यथापरे ॥ पूर्वे पितामहादयो यथामृषावादं विनैव स्थिता यथाच परे साध- वोद्यापितिष्ठन्ति तान्वीक्ष्य तथा वर्तितव्यमिति भावः॥ सस्यमिव मर्त्यः पच्यतेसस्यमिवाजायते पुनः॥ मर्त्यः सस्यमिवाल्येनापि कालेन जीर्यति । जीर्णः सन् मृत्वा सस्यमिव पुनराजायते । एवमनित्येजीवलोके किं मृषाकरणेन पालयसत्यं प्रेषयमा मृत्युव इति भावः । एवमुक्त्वा प्रेषितःप्रोषि- तस्य मृत्योभरि तिस्रोरात्रीरनश्ननुवास । ततः प्रोष्यागतं यम द्वाा वृद्धा ऊचुः॥ वैश्वानरः प्रविशत्यतिथिाह्मणोगृहान् । तस्यैता शांतिकुर्वन्ति । हर वैवस्वतोदकम् ॥ साक्षादग्निरेवातिथिाह्मणः सन् गृहान् प्रविशति । तस्याग्नेरेतां पाद्यासनादिलक्षणांशान्तिकुर्वन्ति संतः,तदपचारेण दग्धामाभूमेति। अतो हेवैवस्वत नचिकेतसे पायार्थमुदकं हर आहर ॥ अकरणे प्रत्यवायं च दर्शयन्तिस्म ॥ आशाप्रतीक्षे संगत मूनृतांचेष्टापूर्ते पुत्रपशूऽश्च सर्वान् । एतदवृतेपुरुषस्याल्पमेधसो यस्यानश्नन्व सति ब्राह्मणो गृहे ॥ यस्याल्पमेधसः अल्पप्रज्ञस्य पुरुषस्य गृहे अनश्नन जानः सू०९-अधि०२] अत्रधिकरणम् । (९९) अतिथिसति तस्याऽऽशाप्रतीक्षे अनुत्पन्नवस्तुविषयेच्छा आशा, उत्पन्नवस्तुप्राप्तीच्छाप्रतीक्षा । संगतं सत्संगमम्।मुनृतां सत्यप्रियवा- चम् । इष्टापूर्ते इष्ट यागादि,आपूर्त खातादि।पुत्रान्पशृंश्च एतत् अन शनरूपं पापं वक्ते वर्जयति नाशयतीत्यर्थः । “वृजीवर्जने" रुधादि- त्वाच्यम् । “वृजिवर्जन" इत्यस्मादिदितोनुमदादित्वाद्वा शपोलुक्च। एवं वृद्धैरुक्तोमृत्युर्नचिकेतसमुवाच ॥ तिस्रो रात्रीर्यदवात्सीहेमे अनश्नन् ब्रह्मन्नति- थिनमस्यः ॥ मे गृहे यस्माद्वेतोर्टब्रह्मन् नमस्काराोतिथिस्त्वं तिस्रोरात्रीरभु- जान एवावात्सीरित्यर्थः॥ नमस्तेस्तु ब्रह्मन्स्वस्तिमेस्तु ॥ स्पष्टोर्थः॥ तस्मात्तान प्रति त्रीन वरान् वृणीष्व ॥ तस्माद्धेतोर्मा स्वस्ति यथास्यादित्येवमर्थ वरान प्रत्युदिश्य- वृणीष्वप्रार्थयस्व । तव लिप्साभावे मदनुग्रहार्थमनश्रनात्रिसमसं- ख्याकान् त्रीन्वरान्वृणीष्वेतिभावः ॥ एवं प्रार्थितोनचिकेतास्त्वाह ॥ शांतसङ्कल्पः सुमनायथास्याद्रीतमन्युौतमो- माभिमृत्यो॥ हेमृत्यो मत्पुत्रो यमं प्राप्य किंकरिष्यतीति मद्विषयचिन्तारहितः प्रसन्नमना मामभिमांप्रति ममपिता गौतमोवीतरोषश्च यथास्यादि- त्यर्थः ॥ किंच- १ एकाग्निकर्म हवनं त्रेतायां यञ्च हूयते । अंतवैद्यां च यदानमिष्टं तदभिधीयते ॥ १॥ पुष्करिण्यः सभावापी देवतायतनानि च । आरामश्च विशेषेण पूर्तकर्म विनिर्दिशेत् ॥२॥ इति मनुः ॥

- (१००) विषयवाक्यदीपिका। [अध्या०१-पादर- त्वत्प्रसृष्टं माभिवदेत्प्रतीतः॥ त्वया गृहाय प्रेषितं मामभि मांप्रति प्रतीतः यथापूर्वप्रीतः सन् वदेत् । यद्वा अभिवदेत् आशिषं प्रायुताम् । अभिवदति नाभिवादयतइति स्मृतिषु अभिवदनस्याशीर्वा दे प्रयोगात् ॥ एतत्रयाणां प्रथमं वरं वृणे॥ स्पष्टोर्थः॥ एवमुक्तोमृत्युः प्रत्युवाच ॥ यथापुरस्ताद्भविता प्रतीतः॥ यथापूर्वत्वयिहृष्टोभविता ॥ औद्दालकिरारुणिर्मत्प्रसृष्टः॥ उद्दालक एवौद्दालकिः। अरुणस्थापत्यमारुणिः । व्यमुष्यायणो वा उद्दालकस्यापत्यम् अरुणस्यगोत्रापत्यमितिवार्थः । मत्प्रसृष्टः मदनुज्ञातः मदनुगृहीतः सन् । मदनुग्रहादित्यर्थः॥ सुखात्रीःशयिता वीतमन्युः॥ वीतक्रोधः सन् उत्तरा अपिरात्रीः सुखंशयिता । लुट् । सुखंनि- द्रांप्राप्स्यतीति यावत् ॥ त्वांशिवान् मृत्युमुखात्प्रमुक्तम् ॥ हशिवान् दृष्टवान् सन्नित्त्यर्थः । कस्वन्तोयं शब्दाहशेश्चेतिवक्त- व्यमिति क्वसोरिट्राछान्दसोद्विवचनाभावः। मत्प्रसृष्टमिति द्वितीयां- तं वा । मत्प्रेषितंत्त्वामिति योजना ॥ नचिकेतावरंद्वितीयं प्रार्थयते स्वर्गलोके इत्यादिना मंत्रद्वयेन ॥ स्वर्गे लोके नभयं किंचनास्ति ॥ अत्र स्वर्गशब्दोमोक्षस्थानपरः॥ न तत्र त्वं न जरया बिभेति ॥

म सू०९-अधि०२] अवधिकरणम् । (१०१) हेमृत्यो त्वं तत्र न प्रभवसि । जरया युक्तः सन् न विभेति । जरातोनविभेति तत्र । वर्तमानः पुरुषः इतिशेषः॥ उभे तीा अशनायापिपासे शोकातिगोमोदते स्वर्गलोके॥ अशनाया बुभुक्षा । अत्रापि स्वर्गशब्दोमोक्षस्थानपरः, प्रसि- दस्य स्वर्गस्य क्षयफलविरक्तनचिकेत प्रार्थ्यमानत्वानुपपत्तेरिति- द्रष्टव्यम् । अत्र वक्तव्यमुपनिषद्भाष्येउक्तं तत्र दृष्टव्यम् । सवमग्निं स्वयंमध्येषि मृत्यो। पुराणादिप्रसिद्धसार्वज्ञस्त्वं स्वर्गप्रयोजनकमग्निंजानासि । “स्व- गर्गादिभ्योयद्वक्तव्यः" इति प्रयोजनमित्यर्थेयत् । स्थंडिलरूपानेः स्वर्गप्रयोजनकत्वंचोपासनाद्वारेत्युत्तरत्रस्फुटम् ॥ प्रब्रूहित श्रद्दधानाय मह्यम् ॥ श्रद्दधानायमोक्षश्रद्धावते॥स्वर्गलोकेन तवकिं सिध्यतीत्यत्राह॥ स्वर्गलोका अमृतत्वं भजन्ते एतद्वितीयेन वृणेवरेण ॥ स्वर्गालोको येषां ते परमपदंप्राप्ताइत्यर्थः । परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इतिदेशविशेषविशिष्टब्रह्मप्राप्तिपूर्वकत्वा- स्वरूपाविर्भावलक्षणमोक्षशब्दितामृतत्वस्येतिभावः ॥ एवमुक्तोमृ- त्युराह ॥ प्रते ब्रवीमि तदु मे निबोध॥ तेप्रब्रवीमि “व्यवहिताश्च १।४।८२॥” इति व्यवहितप्रयोगः।मे उपदेशाजानीहीत्यर्थः ॥ ज्ञानस्य फलंदर्शयति ॥ स्वय॑मम्रिनचिकेतःप्रजानननंतलोकाप्तिमथो प्रतिष्ठाम् ॥

(१०२) विषयवाक्यदीपिका। [अध्या०१-पाद२- अनंतस्य विष्णोलोंकः तत्प्राप्तिं “तद्विष्णोः परमं पदम्" इत्यु- त्तरत्रवक्ष्यमाणत्वात् । अथोतत्प्राप्त्यनन्तरं प्रतिष्ठामपुनरावृत्तिं च लभत इति शेषः ॥ तज्ज्ञानस्य चेदृशसामर्थ्य कथं संभवतीति मन्य मानं प्रत्याह॥ विधित्वमेतनिहितश्शुहायाम् ॥ ब्रह्मोपासनांगतयैतज्ज्ञानस्य मोक्षहेतुत्वलक्षणमेतत्स्वरूपं गुहा- यां निहतमन्ये नजानंति।त्वंजानीहीतिभावः। यद्वा ज्ञानार्थकस्य वि देाभार्थकत्वसंभवादनिं प्रजानंस्त्वमनंतलोकाप्तिप्रतिष्ठांलभस्वे- त्युक्तेहेतुहेतुमद्भावः सिद्धोभवति । प्रजानन् “लक्षणहेत्वोः" इति शतप्रत्ययः । अनंतरंश्रुतिवाक्यम् ॥ लोकादिमग्निं तमुवाच तस्मै ॥ लोकस्यादिहेतुम् । स्वय॑मिति यावत् । तमग्निमुवाच ॥ याइष्टका यावतीर्वा यथावा॥ यल्लक्षणा इष्टकाश्चेतव्या यत्संख्याका येन प्रकारेण चेतव्यास्तत्स- बमुक्तवानित्यर्थः । यावतीरितिपूर्वसवर्णदीर्घश्छांदसः॥ सचापितत्प्रत्यवदद्यथोक्तम् ॥ तच्छुतं सर्व तथैवानूदितवानित्यर्थः॥ अथास्य मृत्युः पुनराह तुष्टः॥ शिष्यस्य ग्रहणसामर्थ्यदर्शनेन संतुष्टः सन् पुनरप्युक्तवान् ॥ तमब्रवीत् प्रीयमाणोमहात्मा। संतुष्टोमहामना नचिकेतसमब्रवीत् ॥ वरंतवेहाद्य ददानिभूयः॥ पुनश्चतुर्थवरंप्रयच्छानि । किंतत् । तत्राह ॥

सू०९-अधि०२] अत्रधिकरणम् । (१०३) तवैव नाम्ना भवितायमग्निः॥ मयोच्यमानोनिस्तवैव नाना नाचिकेत इतिप्रसिद्धोभविता ।। किंच- मृङ्कांचेमामनेकरूपांगृहाण ॥ मुंकांशब्दवती रत्नमालां स्वीकुरु इत्यर्थः॥पुनरपि कर्मस्तौति॥ त्रिणाचिकेतस्त्रिभिरेत्यसंधिंत्रिकर्मकृत्तरतिजन्म मृत्यू॥ त्रिणाचिकेतः "अयंवाव यः पर्वते" इत्यादि अनुवाकत्रयाध्या- यी। त्रिकर्मकृयजनाध्ययनदानकृत् पाकयज्ञहविर्यज्ञसोमयज्ञकृद्धा, विभिरग्निभिरनुष्ठितैरग्निभिः संधि परमात्मोपासनेन संबंधमेत्यप्रा- प्यजन्ममृत्यूतरतीत्यर्थः। “करोति तयेनपुनर्न जायते” इत्यनेनैका- •ताएवमेवद्ययंमंत्रः त्रयाणामवचैवम्।।४।५।"इतिसूत्रेव्यासाचा यर्विवृतः॥त्रिभिरेत्यसंधिमितिनिर्दिष्टमंगिभूतं परमात्मोपासनमाह।। ब्रह्मजज्ञं देवमीड्यं विदित्वा ॥ अयमंत्रो “ विशेषणाच्च।१।२।१२।” इतिसूत्रेभाष्येब्रह्मजज्ञो- जीवः । ब्रह्मणोजातत्वाज्ज्ञत्वाचतंदेवमीडयं विदित्वा जीवात्मान- मुपासकं ब्रह्मात्मकत्वेनावगत्येत्यर्थः" इति विवृतः । देवशब्दस्य परमात्मवाचितया जीवपरयोश्चैक्यासंभवादनत्यदेवशब्दस्यपरमा- त्मकत्वपर्यतोर्थइतिभाष्याभिप्रायः॥ निचाय्यमा शांतिमत्यंतमेति॥ निचाय्य ब्रह्मात्मकं स्वात्मानं साक्षात्कृत्य इमां त्रिकर्मकृत्तर- तीति पूर्वमंत्रनिर्दिष्टां संसाररूपानर्थशांतिमेतीत्यर्थः।। त्रिणाचिकेतस्त्रयमेतद्विदित्वा ॥ त्रिणाचिकेत उक्तोर्थः। त्रयमेतद्विदित्वा "ब्रह्मजज्ञदेवमीडयम्" BREASEEN (१०४) विषयवाक्यदीपिका। [अध्या०१-पाद२- इति मंत्रनिर्दिष्टं ब्रह्मस्वरूपं तदात्मकस्वात्मरूपंत्रिभिरेत्यसंधिमि- तिनिर्दिष्टाग्निस्वरूपं चविदित्वा गुरूपदेशेन शास्त्रतोवा ज्ञात्वा ॥ यएवंविधार्थश्चिनुतेनाचिकेतम् । एतादृशार्थत्रयानुसंधानपूर्वकं नाचिकेतममिं यश्चिनुते॥ समृत्युपाशान्पुरुतःप्रणोद्य॥ मृत्युपाशान् रागद्वेषादिलक्षणान् पुरुतः शरीरपातात्पूर्वमेव प्रणोद्य तिरस्कृत्य जीवशायामेव रागादिरहितः सन्नित्यर्थः ।। शोकातिगो मोदते स्वर्गलोके ॥ पूर्वमेव व्याख्यातम् ॥ योवाप्येतां ब्रह्मजज्ञात्मभूतां चितिविदित्वा चिनुते नाचिकेतम् । स्एवभूत्वा ब्रह्मजज्ञात्मभूतः करोति तयेन पुनर्न जायते॥ एवं चितिं ब्रह्मजज्ञात्मभूतांविदित्वा ब्रह्मात्मकस्वरूपतयानुसं- धायनाचिकेतमग्निचिनुते सएव ब्रह्मात्मकस्वात्मानुसंधानशीलस्स- पुनर्भवहेतुभूतं यद्भगवदुपासनं तदनुतिष्ठति। ततश्चानौ भगवदा- त्मकस्वात्मानुसंधानपूर्वकमेवचयन त्रिभिरेत्य संधित्रिकर्मकृत्तरति- जन्ममृत्यू"इतिपूर्वमंत्रे भगवदुपासनद्वारा मोक्षसाधनतया निर्दिष्टं नान्यदितिभावः॥ एषतेग्निर्नाचिकेतः स्वयः॥ उपदिष्ट इतिशेषः ॥ यमवृणीथा द्वितीयेन वरेण ॥ स्पष्टोर्थः । किंच- एतमग्निं तवैव प्रवक्ष्यति जनासस्तृतीयं वरं नचि- केतो वृणीष्व ॥ १ अयं मंबोदशोपनिषत्पुस्तकात्स्खलितः ।

सू०९-अधि०२] अत्रधिकरणम् । (१०५) एतदग्निं तवैव नाना प्रवक्ष्यतीत्यर्थःशिष्टंस्पष्टम्।नचिकेताआह॥ येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नाय- मस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः॥ अत्ताचराचर० १।२।८॥"इत्यधिकरणे इमं मंत्र प्रस्तुत्य इत्थंहि भाष्यकृता “अत्र परमपुरुषार्थरूपब्रह्मप्राप्तिलक्षणमोक्षयाथात्म्यवि- ज्ञानाय तदुपायभूतपरमात्मोपासनपरावरात्मतत्त्वजिज्ञासयाप्रश्नः क्रियते येयंप्रेतइति न शरीरवियोगमात्राभिप्रायम् । अपितु सर्वबंधविनिर्मोक्षाभिप्रायम् । यथा नप्रेत्यसंज्ञास्तीति ॥ अयमर्थः। मोक्षाधिकृते मनुष्ये प्रेते सर्वबंधविनिर्मुक्त तत्स्वरूपविषयवादिवि- प्रतिपत्तिनिमित्ताअस्तिनास्त्यात्मिका एवं विचिकित्सा तदपनोद नाय तत्स्वरूपयाथात्म्यं त्वयानुशिष्टोहं विद्यां जानीयामिति ॥तथा हि ॥ बहुधाविप्रतिपद्यन्ते-केचिद्वित्तिमात्रस्यात्मनः स्वरूपोच्छि- त्तिलक्षणं मोक्षमाचक्षते ॥ अन्येतु वित्तिमात्रस्यैव सतोऽविद्यास्तम- यम् ॥ अपरेपाषाणकल्पस्यात्मनो ज्ञानायशेषविशेषगुणोच्छेद- लक्षणं कैवल्यरूपम् ॥ अपरे अपहतपाप्मानं परमात्मानमभ्युपग- च्छंतस्तस्यैवोपाधिसंसर्गनिमित्तजीवभावस्योपाध्यपगमे तद्भाव- लक्षणंमोक्षमातिष्ठन्ते ॥ त्रय्यंतनिष्णातास्तु निखिलजगदेककार- णस्याशेषहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपस्य स्वाभाविकान- वधिकातिशयासंख्येयकल्याणगुणाकरस्य सकलेतरविलक्षणस्य सर्वात्मभूतस्य परस्य ब्रह्मणः शरीरतया प्रकारभूतस्यानुकूलापरि- च्छिन्नज्ञानस्वरूपस्य परमात्मानुभवैकरसस्य जीवस्यानादिकर्म रूपाविद्यातिरोहितस्याऽविद्योच्छेदपूर्वकस्वाभाविकपरमात्मानुभवं मोक्षमाचक्षते ॥ तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादाद्विद्या- (१०६) विषयवाक्यदीपिका। [अध्या०१-पाद२- मिति नचिकेतसा पृष्टोमृत्युः" इतिभाषितम्॥तथा "त्रयाणामेवचै- वम् । १।४।५॥"इतिसूत्रे "तृतीयेनवरेण मोक्षस्वरूपप्रश्रद्वारेणो- पेयस्वरूपमुपेतृस्वरूपमुपायभूतकर्मानुगृहीतोपासनस्वरूपं चपृ- टम्" इतिभाषितम् । श्रुतप्रकाशिकायां च “येयंप्रेतइत्यादिप्रश्नवा- क्येमोक्षस्वरूपप्रश्नः कण्ठोक्तः । प्रतिवचनप्रकारेणोपासनादिप्रश्न- श्वार्थसिद्धः । निर्विशेषताऽऽपत्तिर्मोक्षश्चेद्वाक्यार्थज्ञानस्योपायतान- स्यात् । उभयलिंगप्राप्यंचेत्तथात्वेनोपासनमुपायःस्यात् । अतोमो क्षस्वरूपज्ञानं तदनुवंधिज्ञानापेक्षम्” इतिचवर्णितम् । अतो येयंप्रेत इत्यस्य मुक्तस्वरूपपरत्वमेव निदेहातिरिक्तपारलौकिककर्मानुष्ठानो पयोगिकर्तृभोकात्मकजीवस्वरूपमात्रपरत्वम् । अन्यथा तस्यार्थ स्य दुरधिगमत्वप्रदर्शनविविधभोगवितरणप्रलोभनपरीक्षाया असं- भवादितिद्रष्टव्यम् । नचिकेतसोह्ययमभिप्रायः । हितैषिवचनादा- त्मापरित्यक्तचरमदेहाविर्भूतापहतपाप्मत्वादिगुणाष्टकोभवतीत्युप श्रुत्य स्वर्गलोके नभय कंचनास्ति' इत्यादिना मंत्रद्वयेन मोक्षसाधन भूताग्निमप्राक्षम् । अधुनातु वादिविप्रतिपत्त्या तद्विषयसंदेहोजाय- ते । अयं स्वर्ग लोके न भयं किंचनास्ति"इत्यादिना मयोपन्यस्ता- पहतपाप्मत्वादिविशिष्टरूप आत्मा अस्तीत्येके ॥ नास्तीत्यपरे॥ त्वयोपदिष्टएतज्जानीयामिति । अतएवप्रतिवचने “एतच्छ्रुत्वा- संपरिगृह्य मर्त्यः । प्रगृह्यधर्म्यमण्डमेतमाप्य समोदतेमोदनीयँ हि लब्ध्वा” इति एतत्प्रश्नानुगुणमेव दृश्यते । अतो यथोक्त एवार्थः ॥ एवं मुक्तस्वरूपं पृष्टोमृत्युरुपदिश्यमानार्थस्यातिगहनतया पारं प्राप्तंप्रभवते मध्ये पतयालवे नोपदेष्टव्यमिति मत्वाह ॥ देवैरत्रापि विचिकित्सितं पुरा॥ बहुदर्शिभिरपि देवैरस्मिन् मुक्तात्मस्वरूपे विचिकित्सितं संशयितम् ॥ । -- सू०९-अधि०२] अत्रधिकरणम् । (१०७) नहिसुज्ञेयमणुरेषधर्मः॥ आत्मतत्त्वं न सुज्ञानमतिसूक्ष्मोधर्मः । सामान्यतोधर्म एव दुनिः । तत्राप्ययं दुर्ज्ञान इतिभावः ॥ अन्यं वरं नचिकेतोवृणीष्व स्पष्टोर्थः॥ मामोपरोत्सीरतिमासृजैनम् ॥ मामा इतिनिषेधे । वीप्सायां द्विवचनम् । उपरोध माकार्षीः। एनंमामतिसृज मुंच ॥ एवमुक्तोनचिकेताआह ॥ देवैरत्रापि विचिकित्सितंकिल ॥ स्पष्टोर्थः॥ खंचमृत्योयंनसुज्ञेयमात्थ ॥ न सुज्ञेयमिति च यदात्मस्वरूपमुक्तवान् ॥ वक्ताचास्यत्वादृगन्योनलभ्यः॥ त्वाह भवादृश इत्यर्थः॥ नान्योवरस्तुल्य एतस्य कश्चित् ॥ एवंनचिकेतसोक्तोमृत्युविषयस्य दुरधिगमतया मध्ये नत्यक्ष्य- तीति निश्चित्य सत्यपि ग्रहणसामर्थ्य विषयांतरासक्तचेतसे एता- दृशमुक्तात्मतत्त्वं नोपदेशाहमिति मुमुक्षास्थैर्यानुवृत्त्युर्थ प्रलोभ- यनुवाच॥ शतायुषः पुत्रपौत्रान वृणीष्व । बहून् पशून हस्ति- हिरण्यमश्वान् ॥ स्पष्टोर्थः। भूमेर्महदायतनं वृणीष्व ॥

(१०८) विषयवाक्यदीपिका। [अध्या०१-पाद२- पृथिव्या विस्तीर्णमायतनं मण्डलं राज्यं वृणीष्व । अथवा भूमेः संबंधि महदायतनं विचित्रशालाप्रासादादियुक्तं गृहं वृणीष्व ॥ स्वयंचजीवशरदोयावदिच्छसि ॥ यावर्षाणि जीवितुमिच्छसि तावजीवेत्यर्थः॥ एतत्तुल्यं यदिमन्यसे वरं वृणीष्व वित्तं चिरजीवि- कांच॥ उक्तेन वरेण सहशमन्यमपि वरं मन्यसे चेत्तदपि वृणीष्व प्रभूतं हिरण्यरत्नादिकं चिरजीवनं चेत्यर्थः॥ महाभूमौ नचिकेतस्त्वमेधि ॥ भव राजेतिशेषः । अस्तेर्लेण्मध्यमपुरुषैकवचनम् । कामानांत्वा कामभाजं करोमि ॥ कामानां काम्यमानानामप्सरप्रभृतिविषयाणाम् । कामभाज कामः कामना तांविषयतयाभजतीति कामभाक् तम् । काम्यमा- नाप्सरप्रभृतीनामपि कामनाविषयं करोमीत्यर्थः ॥ येये कामा दुर्लभा मर्त्यलोके सर्वान्कामान्छन्दतः प्रार्थयस्व ॥ छन्दतो यथेष्टमित्यर्थः॥ इमा रामाः सरथाः सतूर्या नहीशा लंभनीया मनुष्यैः ॥ रथवादित्रादिसहिता मया दीयमानाः स्त्रियो मनुष्याणां दुर्ल- भा इत्यर्थः॥ आभिर्मत्प्रत्ताभिः परिचारयस्व ॥ मया दत्ताभिः परिचारिकाभिः पादसंवाहनादिशुश्रूषां कारय- स्वेत्यर्थः ॥

। सू०९अधि०२] अत्रधिकरणम् । (१०९) नचिकेतोमरणं माऽनुप्राक्षीः॥ मरणमनु मरणान्मुक्तेः पश्चात्।मुक्तात्मस्वरूपमितियावत्।मरण शब्दस्य देहवियोगसामान्यवाचिनोपि प्रकरणवशेन विशेषवाचि- त्वं नदोषायेति द्रष्टव्यम् ॥ एवं प्रलोभ्यमानोपि नचिकेता अक्षुभित हृदय आह॥ श्वोभावा मर्त्यस्य यदंतकैतत्सर्वेद्रियाणां जरय न्तितेजः॥ हे अंतक त्वदुपन्यस्ता ये मर्त्यस्य कामास्तेश्वोऽभावाः श्व- अभावोयेषां ते तथोक्ताः। दिनद्वयस्थायिनो न भवतीत्यर्थः । सर्वेन्द्रियाणांयदेतत्तेजः तत क्षपयन्ति । अप्सरः प्रभृतयोहि भोगाः सर्वेन्द्रियदौर्बल्यावहा इतिभावः॥ अपि सर्व जीवितमल्पमेव ॥ ब्रह्मणोपि जीवितं स्वल्पम् । किमुतास्मदादिजीवितम् । अत- श्चिरजीवितापि न वरणाहेति भावः॥ तवैव वाहास्तवनृत्य (त) गीते॥ वाहा रथादयः। तिष्ठत्विति शेषः॥ नहिवित्तेन तर्पणीयोमनुष्यः॥ नहि वित्तेन लभ्ये (ब्धे) न कस्यचित्तृप्तिदृष्टचरी “न जातु कामः कामानामुपभोगेन शाम्यति" इति न्यायादितिभावः॥ किंच- लप्स्यामहे वित्तमद्राक्ष्मचेत्त्वाम् ॥ वयं दृष्टवंतश्चेत्त्वां वित्तं प्राप्स्यामहे । त्वदर्शनमस्ति चेद्वित्त- लाभेकोभार इतिभावः॥ तर्हि चिरजीविता प्रार्थनीयेत्यत्राह ॥ जीविष्यामोयावदीशिष्यसित्वम् ॥ १ हविषा कृष्णवमेव भूय एव विवर्धते इत्युत्तरार्ध श्रीभागवते ।

(११०) विषयवाक्यदीपिका। [अध्या०१-पाद२- यावत्कालं याम्येपदेत्वमीश्वरतया वर्तसे । व्यत्ययेन परस्मैपदम् । तावत्पर्यन्तमस्माकमपिजीवनं सिद्धमेव । नहित्वदाज्ञालंघनेनास्म- 4 जीवितान्तकरः कश्चिदस्ति । वरलाभालाभयोरपि तावदेवजीवन मितिभावः॥ वरस्तुमेवरणीयःसएव ॥ येयंप्रेत इति प्राक्प्रस्तुतोवरएव वरणीय इतिभावः॥ अजीर्यताममृतानामुपेत्य॥ जरामरणशून्यानां मुक्तानां स्वरूपं ज्ञात्वा ॥ जीर्यन्मर्त्यःक्तदास्थः प्रजानन् ॥ विवेकीजरामरणोपप्लुतोयंजनः तदास्थः जरामरणाद्युपप्लुता- प्सरप्रभृतिविषयकास्थावान् क कथं भवेदित्यर्थः । काधस्थइति पाठेअधोदेशभूतभूमिष्ठइत्यर्थः ॥ अभिध्यायन्वर्णरतिप्रमोदान् ॥ तत्रत्यान्वर्णाआदित्यवर्णत्वादिरूपविशेषाः रतिप्रमोदाः संभोगा- दिजनिता आनंदविशेषाः, तान्सर्वानभिध्यायन् निपुणतयानिरू- पयन् ॥ अनतिदीर्धजीवितेकोरमेत ॥ अत्यल्पे ऐहिकेऽचिरजोविते कः प्रीतिमान्त्स्यादित्यर्थः॥ यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये महति ब्रूहि नस्तत् ॥ महति पारलौकिके यस्मिन्मुक्तात्मस्वरूपे संशेरते तदेव- मेब्रूहि ॥ योयं वरोगूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते॥

सू०९-अधि०२] अप्रधिकरणम् ।
(१११)
गूढमात्मतत्त्वमनुप्रविष्टोयोयंवरः तस्मादन्यं न नचिकेता बृणीत
इतिश्रुतेर्वचनम् ॥ इतिप्रथमावल्ली ॥ एवं शिष्यं परीक्ष्य तस्य मुमु-
क्षास्थैर्यनिश्चित्य तस्योपदेशयोग्यतां मन्वानः मुमुक्षां स्तौति ॥
अन्यच्छ्रेयोन्यदुतैवप्रेयः॥
अतिप्रशस्तं मोक्षवाप्यन्यत् । प्रियत्वास्पदं भोगवा
प्यन्यत् ॥
ते उभे नानार्थे पुरुषसिनीतः॥
ते श्रेय प्रेयसी विलक्षणप्रयोजने पुरुषं स्ववशमापादयत इत्यर्थः।।
तयोः श्रेयआददानस्य साधु ॥
तयोर्मध्येश्रेय आददानस्यमोक्षायप्रयतमानस्य साधुभद्रभवति।
हीयतेांद्यउप्रेयोवृणीते॥
यस्तु प्रेयोवृणीते सपुरुषार्थाअष्टोभवति । उइत्यवधारणे ॥
श्रेयश्चप्रेयश्चमनुष्यमेतः॥
मनुष्यप्राप्नुतः॥
तौसंपरीत्यविविनक्तिधीरः॥
तौ श्रेय प्रेयःपदार्थों सम्यगालोच्य नीरक्षीरे हंस इव पृथकरोति॥
श्रेयोहि धीरोऽभिप्रेयसोवृणीते ॥
धियारमत इतिधीरः प्रज्ञाशाली|प्रेयोपेक्षयाभ्यर्हितं श्रेयएववृणीते
प्रेयो मंदो योगक्षेमादृणीते॥
मन्दमतियोगक्षेमावेतोः प्रेयोवृणीते । शरीरस्योपचयोयोगः।
क्षेमः परिपालनम् ॥
स त्वंप्रियान्प्रियरूपांश्चकामान् ॥
ताहशस्त्वंस्वतोरूपतश्चप्रियान्काम्यमानांख्यादीनित्यर्थः ॥

४ (११२) विषयवाक्थदीपिका। [ अध्या०१-पादर- अभिध्यायन्नचिकेतोत्यस्राक्षीः॥ दुःखोदकत्वदुःखमिश्रत्वादिदोषमिश्रतया निरूपयंस्त्यक्तवान- सीत्यर्थः ॥ नैताश्मृङ्कांवित्तमयीमवाप ॥ वित्तमयीं धनमयीं मृतां कुत्सितगतिं विमूढजनसेवितां नाऽवा- सवानसि ॥ यस्यां मज्जतिबहवोमनुष्याः॥ स्पष्टोर्थः॥ दूरमेतेविपरीते विधूची अविद्या या च विद्येति ज्ञाता॥ या अविद्येतिज्ञाता कामकात्मिका याच विद्येतिज्ञाता वैराग्य- तत्त्वज्ञानमयी एतेदूरमत्यंतंविषूची विषूच्यौभिन्नगती परस्पर विरुद्धेच॥ विद्याभीप्सिनं नचिकेतसं मन्ये॥ विद्याभीप्सिनं विद्यार्थिनम् । विद्याभीप्सितमितिपाठे आहिता ग्यादित्वाविष्टांतस्य परनिपातः, छांदसत्वाद्वा॥ नत्वांकामाबहवोऽलोलुपन्त ॥ कामाबहवोपि त्वां नालोलुपन्त श्रेयोमार्गाद्विच्छेदनकृतवंतः । लुपसदेतियङत्ताल्लुङि छांदसो यलोपः । यङ्लुगंताद्वाछांदसमा- त्मनेपदम् अडभावश्च । “अविद्या या चविद्येति ज्ञाता" इत्युपात्त- मार्गद्वये अविद्यामार्गनिंदति ॥ अविद्यायामंतरे वर्तमानाः॥ काम्यकर्मादिलक्षणायामविद्यायां मध्ये घनीभूत इव तमसि व. र्तमानाः॥

सू०९-अधि०२] अत्रधिकरणम्। (११३) स्वयंधीराः पण्डितंमन्यमानाः॥ स्वयमेव प्रज्ञाशालिनः शास्त्रकुशलाश्चेति मन्यमानाः॥ जंघन्यमानाः परियन्तिस्ममूढाः॥ जरारोगादिदुःखपीडिता अविवेकिनः परिभ्रमंति ॥ अन्धेनैवनीयमाना यथान्धाः न सांपरायः प्रति भाति बालम् ॥ परलोकसाधनव्यापारोऽविवेकिनं प्रति न प्रकाशते ॥ प्रमाद्यन्तं वित्तमोहेनमूढम् ॥ अनवहितमनस्कं विषयाशावशीकृतमनोरथम् ॥ अयंलोकोनास्ति परइतिमानी॥ अयमेवलोकोस्ति परलोकोनास्तीति मन्यमानः ॥ पुनः पुनर्वशमापद्यतेमे। मत्कार्यमाणयातनाविषयो भवतीत्यर्थः। व्यासाचार्यैः “संय- मनेत्वनुभूय । ३।१।१३ । इति" सूत्रे 'अयं लोकोनास्तिन- परउतमानीति पाठानुसारेण अयं च लोकः परश्च लोकोनास्तीत्य यमर्थोवर्णितः। तत्र पक्षे तस्येति शेषः । पूरणीयश्चशब्दश्चाध्याहा- यः। मानीत्यस्यदुर्मानीत्यर्थः। तस्यायंलोकः परश्च लोकोनास्ती त्यर्थः। शिष्टपरिग्रहाभावादयं च लोकोनास्तीत्यस्योपपत्तिईष्टव्या। स दुर्मानी पुनःपुनर्वशमापद्यतेमइत्युत्तरत्र संबध्यते ॥ श्रवणायापिबहुभिर्योनलभ्यः॥ यः प्रसिद्धः परमात्मा सोऽनेकैः पुरुषैः श्रोतुमपिनलभ्य इत्यर्थः । श्रवणलाभोपि महासुकृतफलमितिभावः ॥ शृण्वंतोपि बहवो यं न विद्युः॥ ८ PHORNSRHAN (११४) विषयवाक्यदीपिका। [अध्या०१-पाद२- श्रवणेपि नसर्वेषां परमात्मप्रतिपत्तिः सुलभतिभावः॥ आश्चर्योस्य वक्ताकुशलोस्य लब्धा । अस्यकुशलोवक्ता कुशलः प्राप्ता च दुर्लभइत्यर्थः ॥ आश्चर्योज्ञाता कुशलानुशिष्टः॥ कुशलेनाचार्येणानुशिष्टोज्ञाताप्याश्चर्यः “मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ॥ यततामपि सिद्धानां कश्चिन्मांवेत्ति तत्त्वतः" इत्युक्तेरितिभावः ।। न नरेणावरेण प्रोक्तएष सविज्ञेयोबहुधाचित्यमानः। अवरेणाश्रेष्ठेन प्राकृतेन पाण्डित्यमात्रप्रयोजनवेदान्तश्रवणेन नागदेहात्माभिमानिना एषआत्मा विज्ञेयो न भवति बहुधाचि- त्यमान वादिभिरितिशेषः। अनन्यप्रोक्ते गतिरत्र नास्ति । अनन्येनोच्यमानादात्मनोनन्येनतदेकांतिना ब्रह्मात्मसाक्षात्का- रिणा प्रोके आत्मनि यादृशी अवगतिः सा आत्मावगतिरत्रावरण प्रोक्ते नास्तीत्यर्थः। यद्वा । अत्र संसारे गतिःचंक्रमणं नास्तीत्यर्थः। यहा। अनन्यप्रोक्ते स्वयमवगते गतिरात्मावगतिर्नास्तीत्यर्थः। अन्य प्रोक्त इतिपाठांतरेऽवरनरप्रोक्ते सति आत्मावगतिर्नास्तीत्यर्थः ॥ ननु येन केन चिदुपदिष्टेप्यूहापोहशालिनः स्यादेवेत्यत आह ॥ अणीयान्ह्यप्रतय॑मणुप्रमाणात् ॥ यतोऽणोरणीयानात्माऽतस्तत्स्वरूपं तर्कागोचरम् ॥ तदेवाह ॥ नैषातर्केण मतिरापनेया॥ आत्मविषयिणी मतिस्तर्कप्रापणीया नेत्यर्थः ॥ अतस्तककुश- लेनापि स्वयंज्ञातुं नशक्येत्यर्थः।

RED सू०९-अधि०२] अत्रधिकरणम्। (११५) प्रोक्तान्येनैव सुज्ञानायप्रेष्ठ ॥ हे प्रेष्ठ प्रियतमस्वस्मादन्येनैव गुरुणोपदिष्टैव मतिर्मोक्षसाधन- ज्ञानाय भवति ॥ का पुनः सा मतिरित्यत्राह ॥ यांत्वमापः सत्यधृतिर्बतासि ॥ यांमतित्वमापः प्राप्तवानसि सिसाधयिषिततया निश्चितवानसी- त्यर्थः ॥ सत्यधृतिः सत्याऽप्रकंप्याधृतिर्यस्य तथोक्तः । वतेत्यनुकं- पायाम् ॥ त्वादृङ्नोभूयानचिकेतः प्रष्टा ॥ त्वादृशः शिष्योस्माकं भूयादित्यर्थः। पुनरपि तुष्ट आह ।। जानाम्यह शेवधिरित्यनित्यम् ॥ शेवधिः कुबेरायैश्वर्यमेवंजातीयककर्मफललक्षणमनित्यमिति जानामि॥ नह्यध्रुवैःप्राप्यते ध्रुवंतत्॥ तदात्मतत्त्वम् । अध्रुवैरनित्यफलसाधनभूतैरनित्यद्रव्यसाध्यैर्वा कर्मभिरित्यर्थः॥ ततो मया नाचिकेतश्चितोग्निरनित्यैव्यैः प्राप्तवा- नस्मि नित्यम् ॥ एवं ज्ञातवता मया ब्रह्मप्राप्तिसाधनज्ञानोदेशेनानित्यैरिष्टकादि- द्रव्यैर्नाचिकेतोग्निश्चितः। तस्माद्धेतोनित्यफलसाधनं प्राप्तवानस्मी- त्यर्थः । अतो ब्रह्मप्राप्तेानैकसाध्यत्वस्यनविरोधः॥ त्वानोभूया नचिकेतः प्रष्टेति पूर्वमंत्रोक्तं नचिकेतसः श्रवणाधिकारविवृणोति ॥ कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानंत्यमभयस्य पारम् । स्तोमंमहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्यानचि- केतोत्यस्राक्षीः॥

(११६) विषयवाक्यदीपिका। [अध्या०१-पाद२- तोः कर्मणः प्रतिष्ठां फलभूतां जगतः कामस्याप्तिं चतुर्मुख- स्थानपर्यंतसर्वलोकसंबंधिख्यादिविषयात्मककामप्राप्तिं च दृष्ट्वा मो- क्षस्वरूपमाह ॥ आनंत्यमभयस्य पारमित्यादिना अविनाशित्वम्, अत्यंतनिर्भयत्वम्, अपहतपाप्मत्वम्, सत्यसंकल्पत्वादिमहागुण- रूपस्तोमम्, उरुकीर्ति स्थैर्यच मोक्षगतं दृष्ट्वा लौकिकान् कामान् प्रज्ञया त्यक्तवानित्यर्थः । यद्वा । मोक्षस्वरूपपरमात्मस्व- रूप एवसर्वकामावाप्तिं तत्रैव सकलजगदाधारत्वं क्रतोरनंतफल रूपतां चेत्येवं सर्व परमात्मविषयतया योजनीयम् ॥ तृतीयं प्रश्नं प्रतिवक्ति ॥ तंदुर्दर्शमित्यादिना मंत्रद्वयेन ॥ तंदुर्दर्श गूढमनुप्रविष्टम् ॥ "श्रवणायापि बहुभिर्योनलभ्यः" इत्युक्तरीत्या द्रष्टुमशक्यम् । गूढं तिरोधायि कर्मरूपाविद्यातिरोहितम् । सर्वभूतानुप्रविष्टम् ॥ गुहाहितम् ॥ हृदयगुहावर्तिनम् ॥ गह्वरेष्ठम् ॥ आत्मांतर्यामिणम् ॥ पुराणम् ॥ अनादिम् ॥ अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ विषयेभ्यः प्रतिसंहृत्यचेतसः आत्मनि समाधानमध्यात्म- योगः। “यच्छेवाङ्मनसीप्राज्ञः यदापंचावतिष्ठते ज्ञानानि मनसा सह" इत्यादिना योवक्ष्यमाणस्तेन योयमधिगमःजीवात्मज्ञानं तेन हेतुना देवं परमात्मानं मत्वाध्यात्वेत्यर्थः। जीवात्मज्ञानस्य परमा- सू०९-अधि०२ ] अत्रधिकरणम् । (११७) त्मज्ञानहेतुत्वादितिभावः । हर्षशोको विषयलाभालाभप्रयुक्तहर्ष शोको जहातीत्यर्थः॥ एतच्छुत्वासंपरिगृह्यमर्त्यः॥ एतदात्मतत्त्वं श्रुत्वा संपरिगृह्य मननादिकंकृत्वेत्यर्थः॥ प्रवृह्यधम्यम् ॥ कर्मसाध्यं शरीरादि प्रवृहपृथक्कृत्य परित्यज्येत्यर्थः ॥ अणुमेतमाप्य ॥ एतं स्वात्मभूतं सूक्ष्मतया चक्षुरायगोचरम् । अणीयान् ह्यप्रत यमिति निर्दिष्टं देशविशेषे प्राप्य ॥ समोदतेमोदनीयणहिलब्ध्वा ॥ सविद्वान्मोदनीयं प्रीतिविषयमपहतपाप्मत्वादिगुणाष्टकविशि- पृस्वरूपं लब्ध्वा मोदते आनंदीभवतीत्यर्थः। “एष संप्रसादोऽ- स्माच्छरीरात्समुत्थाय परंज्योतिरुपसंपद्यस्वेनरूपेणाभिनिष्पद्यते। स तत्रपयेति जक्षत् क्रीडन् रममाणः” इतिश्रुत्यंतरार्थोऽञानुसं- धेयः । एवं प्रश्नस्योत्तरमुक्त्वा नचिकेतसं मोक्षाहत्वेनस्तौति ॥ विवृतथ्सझनचिकेतसंमन्ये ॥ नचिकेतसं प्रति ब्रह्मरूपं सद्मधाम विवृतद्वारं प्रवेशार्ह मन्येइत्य- र्थः। "तस्यैष आत्मा विशति ब्रह्मधाम” इतिश्रुतेः॥ ननु ब्रह्मजझं देवमीड्यं विदित्वेति श्रुत्यैकार्थ्यायाध्यात्मयोगाधिगमनदेवं मत्वे- त्यत्रापि परमात्मात्मकजीवः प्रतिपाद्यताम् । ततश्च तंदुईमिति पूर्वमंत्रखंडोपि जीवविषय एवास्तुतितश्च श्रवणायापिबहुभिर्योनल- भ्यइतिपूर्वसंदर्भोपिपरिशुद्धजीवस्वरूपपरएवास्त । ततश्च “आश्चर्य- वत्पश्यति कश्चिदेनमाश्चर्यवद्वदतितथैवचान्यः । आश्चर्यवच्चैनम- न्यः शृणोतिश्रुत्वाप्येनंवेदनचैवकश्चित् " इति परिशुद्धात्मविषय- (११८) विषयवाक्यदीपिका। [अध्या०१-पादर- गीतावचनैकार्थ्यमुपपद्यतइतिचेन ॥ ब्रह्मजज्ञमितिमंत्रेब्रह्मजज्ञत्वरू- पप्रक्रमश्रुतजीवलिंगवलेनचरमश्रुतदेवशब्दस्यदेवात्मकस्वरूपाश्र- 4 यणेपितंदुर्दर्शमितिमंत्रेतादृशजीवलिंगाभावेनदेवमित्यस्यदेवात्मक- मित्यर्थाश्रयणायोगात् । एतदेवाभिप्रेत्यभगवताभाष्यकृता “गुहां- प्रविष्टावात्मानौ । १।२।३१॥” इति सूत्रेपरमात्मनस्तावत्तंदुर्दर्श गूढमनुप्रविष्टमितिगुहाप्रवेशोदृश्यतइत्युक्तम् । तथैवायंमंत्रः परमा- त्मपरतयाव्यासाचा विवृतः। गहरेष्ठमितिपदेनपरमात्मनः गह्वरश- ब्दितदुर्जेयपरिशुद्धात्मस्वरूपशरीरकत्वमप्युक्तम् ॥ इयांस्तुविशे- पः॥ ब्रह्मजज्ञमितिमंत्रेपरमात्मात्मकपरिशुद्धजीवस्वरूपंप्रतिपाद्य- ते। तंदुर्दर्शमितिमंत्रेतुजोवशरीरकपरमात्मस्वरूपंप्रतिपाद्यत इति नतयोरैकार्थ्यहानिः । “नह्यधुवैःप्राप्यतेहिध्रुवंतत् । एतछुत्वासंप रिगृह्यमर्त्यः । प्रवृह्यधर्मामणुमेतमाप्य । समोदतेमोदनीयहिल- ब्ध्वा । अध्यात्मयोगाधिगमेन देवं मत्वा हर्षशोकौ जहाति" इति प्र- देशेषुधर्मफलविलक्षणतया ज्ञानसाध्यतया प्राप्यतयाचनिर्दिष्टस्यमा प्यस्य स्वरूपंचोक्तप्रदेशेषु धर्मविलक्षणतया मत्त्वेतिप्रतिपन्नस्यो- पायस्य स्वरूपं च धीरोहर्षशोकौ जहातीत्यत्र धीर इतिप्रतिपन्नस्य प्राप्तुश्चस्वरूपं शोधयितुं पृच्छति ॥ अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि (ति) तद्वद ॥ ननुभाष्ये देवं मत्वेत्युपासनविषयतया निर्दिष्टस्य प्राप्यभूतस्य देवस्याध्यात्मयोगाधिगमेनेति वेद्यतया निर्दिष्टस्य प्राप्तुः प्रत्यगा- मनश्च मत्त्वा धीरोहर्षशोकौजहातीतिनिर्दिष्टस्य ब्रह्मोपासनस्य स्वरूपशोधनाय पुनः पप्रच्छ ॥ अन्यत्रधर्मादित्युक्तेः कथंतद्विरुद्ध- तया धीर इतिनिर्दिष्टस्य प्राप्तुरित्युच्यतइतिचेत् मैवंवोचः ॥

सू०९-अधि०२] अत्रधिकरणम् । (११९) अध्यात्मयोगाधिगमेनेति वेदितव्यतया निर्दिष्टमात्मशब्दवाच्यं प्रजापतिविद्याप्रतिपन्नमुपास्यं प्राप्यभूतं परिशुद्धस्वरूपमेव । अत- स्तस्यापि प्राप्यनिर्देशकत्वमेव । वस्तुगत्या तस्य प्राप्तुरभिन्न- त्वात्प्राप्तः प्रत्यगात्मनश्चेति भाष्यनविरोत्स्यते । अतएव प्रथम तावत्प्राप्तः प्रत्यगात्मनः स्वरूपमाह-नजायतेम्रियतेवाविपश्चिदिती त्युत्तरभाष्यमपिनविरोत्स्यते। नहि नजायतेम्रियते वा विपश्चिदिति मंत्रप्रतिपाद्यस्य विपश्चिच्छब्दितपरिशुद्धस्वरूपस्य प्रामरूपतोप- पत्तिः “आत्मेंद्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । विज्ञानसारथि- र्यस्तु मनः प्रग्रहवानरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं- पदम्"इतिमंत्रप्रतिपाद्यस्यैव प्रानुरूपत्वात् । तथैव "विशेषणाच्च।। २।१२।" इतिसूत्रभाष्ये प्रतिपादितत्वात् । अतएव प्राप्मप्राप्य- काधिकरणे निर्देशपरे गुहामंत्रे छायातपावित्यज्ञत्ववाचिन छाया शब्देन निर्देशोदृष्टः । नतुविपश्चिच्छन्देन । अतोयथोक्त एवार्थः। अयं मंत्रोव्यासायः "त्रयाणामेवचैव०४६" इतिसूत्रे विवृतः॥ धर्म उपायः धर्मादन्यत्र प्रसिद्धोपायविलक्षण इत्यर्थः । अधर्मोधर्म- तरः उपेयः अधर्मादन्यत्र प्रसिद्धसाध्यविलक्षण इत्यर्थः । अस्मा- दिति बुद्धिस्थस्तत्साधकोविवक्षितः। स एवोपेता सहिप्रसिद्धोपेतृवि- लक्षणः । साधकावस्थायामितरफल विरक्तत्वादेवं फलदशाया- माविर्भूतगुणाष्टकविशिष्टस्वरूपत्वाच्च । कृताकृतादितिधर्मादीनां- विशेषणम् । कृताकृताच धर्मादेविलक्षणं यद्भूताच्च भव्याच धर्मादेविलक्षणं यदित्यर्थः ॥ यद्वा धर्माधर्मादच्चान्यत्रेत्युपा- सनग्रनः पुण्यपापरूपसाधनविलक्षणत्वात् । कृता- कृताद्भूताव्याच्चान्यत्रेति कालापरिच्छिन्नमुपेयं पृष्टम् । उपे- तुरपि चेतनस्य नित्यत्वात् प्राप्यांतर्भावाच्च । अतएव तस्यापि तंत्रण प्रश्नः । तदन्तर्गतंच प्राप्तः स्वरूपमितिहि वक्ष्यते । अत्र यत्त च्छन्दौ तृतीयपरावितिभाव इतिनचिकेतसा पृष्ट आह ॥ - २ (१२०) विषयवाक्यदीपिका। [अध्या०१-पाद२- सर्वे वेदा यत्पदमामनंति ॥ पद्यतइति पदं “सोध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" इत्युत्तरत्र वक्ष्यमाणं ब्रह्मस्वरूपं सर्ववेदाः साक्षात्परंपरयावा प्रति- पादयंतीत्यर्थः॥ तपासिसर्वाणिचयद्वदंति ॥ तपांसि तपःप्रधानाः उपरितनभागा इतिव्यासायाख्यातम् ।। यदिच्छंतो ब्रह्मचर्य चरंति ॥ ब्रह्मचर्य गुरुकुलवासस्त्रीसंगराहित्यादिलक्षणं यदिच्छंतोनु- तिष्ठंति॥ तत्तेपदं संग्रहेणब्रवीमि॥ तत्तेपदं संग्राहकेण शब्देन वक्ष्यामीत्यर्थः। प्राप्यवक्तव्यत्वप्रति- ज्ञापरेस्मिन्मंत्र्थात्प्रणवप्रशंसाया अपिलाभात्प्रणवंप्रशस्येति भा- प्यस्य सर्वे वेदा इत्यादि पादत्रयोक्तब्रह्मप्रतिपादकतयाप्रशस्येत्यर्थ इतिश्रुतिप्रकाशिकावचनस्यचनानुपपत्तिरितिद्रष्टव्यम् । संक्षेपेण तत्प्रतिपादकं किमित्यतआह ॥ ओमित्येतत् । "ॐ तत्सदितिनिर्देशो ब्रह्मणस्त्रिविधः स्मृतः" इतिप्रणवस्यब्रह्मवा चकत्वात्प्रणवावयवयोरकारमकारयोः परजीववाचितयोपेयोपेत्रो- रप्युपदिष्टत्वमस्तीति द्रष्टव्यम् । अतएवोपायस्वरूपमप्यत्रार्थमि- तिमन्तव्यम् ॥ एवं वाचकं प्रणवं द्वाभ्यांमंत्राभ्यांस्तौति ।। एतदेवाक्षरब्रह्म॥ ॐ मित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीतेतिब्रह्मप्राप्तिसाधन- ध्यानालंबनत्वादिदमेवाक्षरं ब्रह्मप्राप्तिसाधनत्वाद्ब्रह्म। १ अयमर्थः श्रीपद्मपुराणेउत्तरखण्डेषड्विंशत्यधिकदिशततमाध्यायादौस्पष्टः श्रीवैष्णव सम्प्रदायगम्यश्चभवति ॥

सू०९-अधि०२] अत्रधिकरणम् । (१२१) एतद्धयेवाक्षरंपरम् ॥ जाप्येषुध्येयेषुच श्रेष्ठमित्यर्थः॥ एतद्धयेवाक्षरंज्ञात्वा योयदिच्छति तस्यतत् ॥ एतदक्षरमुपास्यानेनोपासनेनेदंफलंमेभूयादिति यत्कामयते त- त्तस्य भवतीत्यर्थः॥ एतदालंबन श्रेष्ठम् ॥ एतदोंकाररूपमालंबनंश्रेष्ठम् । ध्यानादेरितिशेषः॥ अतएव- एतदालंबनंपरम् ॥ एतदालंबनंध्यानादि सर्वोत्कृष्टमित्यर्थः ॥ एतदालंबनंज्ञात्वा ब्रह्मलोकेमहीयते ॥ स्पष्टोर्थः॥ प्रथमंतावत्प्रत्यगात्मस्वरूपमाह ॥ नजायतेम्रियते इत्यादिना मंत्रद्वयेन । इदंचप्रस्तुत्य व्यासारित्थंयुक्तम् “इदं मंत्रद्वयं तावदेकविषयम् । नहन्यतेहन्यमानेशरीर इत्येतद्विवरणरू पत्वाहितीयमंत्रस्य हताचेदितिमंत्रश्च जीवविषयएव । लोकस्यपर- मात्मनि हेतृतव्यभावप्रतीत्यभावात् । परमात्माहि प्रत्यक्षा- गोचरः। कथतस्मिन्वध्यतादिप्रतिपत्तिः। अहमेनं हन्मि अयं महिं- तुमिच्छतीति वध्यघातकभावाभिमानोहि देहिनां जीवविषय एव । ननुनास्यजस्यतज्जीर्य्यतीतिवत् परमात्मनोपि हननप्रतिषे धउपपद्यते ॥ सत्यम् ॥ तत्र दहराकाशस्य देहांतःस्थित्या शङ्कित विकारनिषेध उपपद्यते । इहतुलोकप्रसिद्धा भ्रांतरनू ध निरस्यते । नहिपरमात्मनि वध्यघातकभ्रान्तिः कस्याप्यस्ति । अतोनुवादनि- षेधावनुपपन्नौ । नजायत इतिमंत्रश्चेतनैकार्थः । अतोमंत्रद्वयमपि जीवविषयकमेवेति । अक्षरार्थस्तु- नजायते म्रियतेवा विपश्चित्॥ - (१२२) विषयवाक्यदीपिका। [अध्या०१-पादर- विपश्चित्त्वार्होऽयमिदानीमपि जननमरणशून्य इत्यर्थः ॥ नायंकुतश्चित्॥ उत्पादकशून्यः ॥ नबभूवकश्चित् ॥ पूर्वमपि मनुष्यादिरूपेण जननशून्यःनिजायते इत्यत्र हेतुमाह। "अजः" ॥ इति ॥ नम्रियते इत्यत्रहेतुमाह ॥ "नित्यः" ॥ इति ॥ नकुतश्चिदित्यत्र हेतुमाह ॥ "शाश्वतोयम्" ॥ इति॥ नवभूवेत्यत्र हेतुमाह ॥ "पुराणः" ॥ इति॥ ननुकथमस्य नित्यत्वं शरीरान्तर्वर्तिनः शरीरविनाशानुविना- शित्वावश्यंभावादित्यतआह॥ नहन्यतेहन्यमानेशरीरे ॥ स्पष्टोर्थः ॥ तदेवोपपादयति ॥ हन्ताचेन्मन्यतेहंतुम् ॥ अहमेनं हनिष्यामीति देहात्मदृष्टया मन्यतेचेदित्यर्थः॥ हतश्चेन्मन्यतेहतम् ॥ छिनदेहावयवो देहात्मदृष्टयात्मानं हतोहमितिमन्यतेचेदित्यर्थः।। उभौतौनविजानि (नी) तः॥ आत्मस्वरूपमितिशेषः॥

सू०९-अधि०२] अत्रधिकरणम् । (१२३) नायंहन्ति ॥ आत्मानमितिशेषः॥ नहन्यते ॥ आत्मस्वरूपमितिशेषः । नचवेदान्तवेद्यपरिशुद्धात्मस्वरूपे कथंहननादिप्रसक्तितत्पूर्वकनिषेधावितिवाच्यम् । तस्यैव क्षेत्रज्ञतया तत्प्रयुक्तस्य तत्संभवादितिद्रष्टव्यम् ॥ एवं मंत्रद्वयेन प्रत्यगात्म- स्वरूपविशोध्य तदात्मभूतपरमात्मस्वरूपमाह ॥ अणोरणीयान्॥ अणोः सर्वाचेतनापेक्षया सूक्ष्माच्चेतनादणुतरः । ततोपिसूक्ष्म- स्तदन्तःप्रवेशयोग्यः॥ महतोमहीयान् ॥ आंकाशादेरपि महीयान्महत्तरः। स्वाव्याप्तवस्तुरहितइत्यर्थः ॥ आत्मास्यजन्तोर्निहितोगुहायाम् ॥ अस्यजन्तो जायते म्रियत इति मंत्रद्वयप्रतिपाद्यस्य चेतन- स्यात्मा अंतः प्रविश्य नियन्ता ॥ नचास्यजंतोरित्यस्य हृदयकु- हरवाचिगुहाशब्देनैवान्वयोनात्मशब्देनेतिशयम् ॥ मूलतः शाखां परिवास्योपवेशंकरोतीत्यत्र मूलतः शाखांपरिवास्य मूलतः उप- वेशंकरोतीत्यन्वयवत् साकांक्षाभ्यामात्मगुहाशब्दाभ्यामन्वयसंभ- वात् । अतश्च जंतुशब्दितपूर्वमंत्रद्वयनिर्दिष्टजीवस्वरूपापेक्षया एत- न्मंत्रप्रतिपाद्यस्य भेदप्रतीतेः पूर्वमंत्रद्वयप्रतिपाद्य एवाणोरणीया- नितिमंत्रप्रतिपाद्योस्त्वितिशंकानिरस्ता ॥ ननुनजायत इत्युपन्य- स्तस्यात्मनोजायमानवाचिजंतुशब्देन परामर्शस्यानुपपन्नतयाऽ स्यजंतोरित्यस्य प्रत्यक्षादिसंनिधापितेतरदेहपरताया एव वक्तव्य- १ कालनिष्ठात्यंताभावाप्रतियोगीत्यर्थः॥

MINAR (१२४) विषयवाक्यदीपिका। [ अध्या०१-पाद२- त्वेन तद्हानिहितआत्माप्रागुपन्यस्तोजीवएवास्तु ॥ नचकर्तृत्व- भोक्तृत्वविशिष्टतया सदाहमिति भासमानेजीवे “कस्तंमदामदं देवं मदन्योज्ञातुमर्हति । कइत्थावेदयत्रसः" इत्युत्तरसंदर्भ प्रति- पाद्यमानदुर्विज्ञानत्वं कथमन्वेतीतिवाच्यम् । जीवस्यकर्तृत्वा- दिविशिष्टतया सर्वलोकविदितत्वेपि मुक्तप्राप्यब्रह्मरूपविशिष्टतया दुर्ज्ञानत्वसंभवादितिचेन्ना प्राणीतु चेतनोजन्मी जंतुजन्युशरीरिणः" इतिजंतुशब्दस्य चेतनपर्यायतया पाठात् प्रकृतजीववाचित्वसंभवा दस्येतिशब्दस्यपूर्वमंत्रनिर्दिष्टजीवविषयत्वसंभवेप्रत्यक्षोपस्थापित देहपरत्वाश्रयणायोगात् । “एषमआत्मान्तर्हदयेणीयानेषमेआत्मा न्तर्हदयेज्यायान्" इत्यत्यंताणुत्वमहत्वयोः परमात्मधर्मत्वेन प्रसिद्ध तया अणोरणीयानितिमंत्रस्य तद्विषयत्वस्यैव युक्तत्वेन पूर्वमंत्र- निर्दिष्टशुद्धात्मपरत्वासंभवादणोरणीयानिति मंत्रः परमात्मस्वरू- पपरएव ॥ तमक्रतुः पश्यतिवीतशोको धातुः प्रसादान्महिमा- नमात्मनः ॥ तं तादृशं परमात्मानम् । अक्रतुः काम्यकर्मादिरहितः सन् धातुर्धारकस्यपरमात्मनः प्रसादादात्मनोमहिमानं महत्वसंपादक स्वसार्वज्ञादिगुणाविर्भावहेतुभूतं परमात्मानं यदापश्यति तदा वीत- शोकोभवतीत्यर्थः।"धुभ्वाद्यायतनं १।३।१।"इत्यधिकरणेजुष्टं यदा पश्यत्यन्यमीशम्"इतिमंत्रं प्रस्तुत्य यदास्वस्मादन्यं स्वस्येशं प्री- यमाणस्येश्वरस्यमहिमानंच निखिलजगन्नियमनरूपं यदा पश्यति तदावीतशोकोभवतीति भगवता भाष्यकृता व्याख्यातत्वात्तदनु सारेणेहापि यःपश्यति सवीतशोकोभवतीत्यर्थः । धातुः प्रसादादी तशोकोभवतीतिवान्वयः। प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने केशसंक्षयः" इतिस्मृतेरितिद्रष्टव्यम् । धातोःप्रसादादितिपाठेपिसएवार्थः । तमक सू०९-अधि०२] अत्रधिकरणम्। (१२५) तुमितिपाठे अक्रतुं कर्मकृतोत्कर्षापकर्षशून्यमिति परमात्मविशेष- णम् । धातुः प्रसादशून्यस्य परमात्मतत्त्वं दुरधिगममितिदर्शयति॥ आसीनोदूरंव्रजतिशयानोयातिसवतः॥ परमात्मनः सर्वात्मकत्वादितरत्रविरुद्धतया भासमाना अपि आसीनत्वदूरगन्तृत्वादिधर्मा जीवद्वारा तत्रसंतीतिभावः ॥ कस्तंमदामदं देवं मदन्योज्ञातुमर्हति ॥ हर्षाहर्षरूपविरुद्धधर्माश्रयं तं परमात्मप्रसादानुग्रहीतमाहशज- नव्यतिरिक्तः कोवा ज्ञातुमर्हतीत्यर्थः॥ अशरीर शरीरेष्वनवस्थेष्ववस्थितम् ॥ अशरीरं कर्मकृतशरीररहितम् । अनवस्थेषु अस्थिरेषु शरीरेषु नित्यत्वेन तत्रास्थिरम् ॥ महांतविभुम् ॥ महावैभवशालिनम् ॥ " आत्मानंमत्वाधीरोनशोचयति"। इति ॥ स्पष्टोर्थः ॥ ईदृशात्मप्राप्त्युपायमाह ॥ नायमात्मा प्रवचनेनलभ्यो नमेधयानबहुना श्रुतेन॥ अत्र प्रवचनशब्देन प्रवचनसाधनंमननलक्ष्यते । उत्तरत्र नमेधया नबहुना श्रुतेनेति श्रवणनिदिध्यासनयोर्वक्ष्यमाणत्वात्तत्समभिव्या- हारादध्ययनरूपप्रवचनस्य हेतुत्वाप्रसक्तेः । तथैवव्यासायैरपिवि- वृतत्वाच॥ यमेवैष वृणुते तेन लभ्यः॥ एष परमात्मा यसाधकं प्रार्थयते तेन लभ्यः । प्रार्थनीयपुंसा INTERNEasanaNTERWEARINATEDUCTIOPordevastuRAMDHANE. (१२६) विषयवाक्यदीपिका। [अध्या०१-पाद२- लभ्य इत्यर्थः। तत्प्रार्थनीयत्वंच तत्प्रियतमस्य पुंसः। तत्प्रियतम- त्वंच तत्पीतिमतएव। ततश्च भगवद्विषयिणी उपासकस्यप्रीतिभंग- वत उपासकेप्रीतिमुत्पाद्य तत्प्राप्तिहेतुर्भवतीत्यर्थः ।। तस्यैष आत्मा विवृणुते तनुं स्वाम् ॥ तस्योपासकस्यैष आत्मा परमात्मा स्वरूपंप्रकाशयति स्वात्मा- नुभवं प्रयच्छतीत्यर्थः । वृणुत इतिपाठे सएवार्थः॥ परमात्मोपास- नांगतया कांश्चिद्धर्मानुपदिशति ॥ नाविरतो दुश्चरितात्॥ अकृत्यकरणाद्योऽनिवृत्तः॥ नाशान्तो नासमाहितः॥ अशान्तबाह्येन्द्रियः नानाविधव्यापारविक्षिप्तचित्ततयाऽनवहि- तमनाः॥ नाशान्तमानसोवापि॥ अनिगृहीतमानसश्च ॥ प्रज्ञानेनैनमाप्नुयात् ॥ अत्र पुरुषार्थस्यापि दुश्चरितविरत्यादेरुपासनाङ्गतया विधानं पुरुषार्थानृतवदननिषेधस्य दर्शपौर्णमासप्रकरणे नानृतंवदेदिति क्रत्वङ्गतया विधानवदुपपद्यते । यस्तु पुरुषार्थमपि दुश्चरितनिषेध- मतिलंध्य परमात्मोपासनमविगुणंचिकीर्षति तस्य दुश्चरितविरति- रूपाङ्गवैगुण्यादुपासनसाद्गुण्यं नसिध्यतीतिभावः॥ यस्यब्रह्मचक्षत्रंचउभेभवतओदनः । मृत्युर्यस्यो- पसेचनंकइत्थावेदयत्रसः॥ १ प्रियतमएवहि वरणीयोभवति । यस्यायंनिरतिशयप्रियः सएवास्य प्रियतमोभवति । न्यथा यंप्रियतमम् आत्मानं प्राप्नोति तथास्वयमेव भगवान् प्रयतते इत्यादिश्रीभाष्य मप्यत्रानुसन्धेयम् ॥

सू०९-अधि०२] अत्रधिकरणम् । (१२७) ब्रह्मक्षत्राख्यवर्णद्वयोपलक्षितकृत्स्नचराचरात्मकमिदं जगद्यस्यौ- दनोभवति विनाश्यंभवतीत्यर्थः। यस्यमृत्युः स्वयमद्यमानत्वेसति- अन्यस्यादनहेतुर्भवति “सः" निखिलचराचरसंहर्तापरमात्मा यस्मि- प्रकारे स्थितः यत्प्रकारविशिष्टः तत्प्रकारमित्थमितिकोवेदेत्यर्थः।। ननु ब्रह्मक्षत्रशब्देन चराचरग्रहणे किंवीजमितिचेत् ॥ उच्यते ॥ ब्रह्म च क्षत्रं च ओदन इत्युक्ते ब्राह्मणक्षत्रियवर्णयोः किं(कंचित्प्रत्योद नशब्दस्यमुख्यार्थत्वाभावादोदनशब्देन भोज्य(ग्योत्वविनाश्यत्वंवा लक्षणीयम् । नहि ब्रह्मक्षत्रमात्रभोक्तातन्मात्रसंहतीवाकश्चिजीवः परमात्मावास्ति ॥नचान्तरादित्यविद्यायां येचामुष्मात्परांचोलोकाः तेषांचेष्टइति सर्वलोकेश्वरे परमात्मन्युपासनार्थ लोकविशेषेईशित- त्वश्रवणात्सर्वसंहर्तर्यपि परमात्मनि ब्रह्मक्षत्रसंहरणमुपासनार्थमुप- दिश्यतामितिवाच्यम्॥तद्वदस्योपासनाप्रकरणत्वाभावात्।अतोब्रह्म- क्षत्रग्रहणस्य चराचरमात्रोपलक्षणं युक्तम्।उक्तंचसूत्रकृता। अत्ताच- राचरग्रहणात्।।२।९।"इति।निन्वेवमप्योदनशब्देन किमिति विना- श्यत्वं लक्षणीयम्।गौणत्वमपि शब्दस्य साधारणगुणमपहायासाधा- रणगुणेनैव निर्वाह्यम्।नह्यग्निर्माणवक इत्यत्राग्निशब्देन पैंगल्यादेखि द्रव्यत्वादेरुपस्थितिरस्ति अतएवोद्गातृशब्देन सर्वत्विसाधारणगुणं विहायोद्गातृगुणमात्रलक्षणा पूर्वतन्त्रेनिर्णीतातिद्वदिहापिब्रह्मक्षत्रयोरो दनशब्दमुख्यार्थत्वाऽसंभवेपि भोज्यत्वभोग्यत्वरूपान्तरङ्गाकारलक्ष कत्वमेव युक्तम् । नत्वत्यंतबहिरङ्गविनास्यत्वाकारस्य येननिखिल चराचरसंहतां परमात्मात्रवाक्ये प्रतीयत इतिचेत् । उच्यते । यद्यपि विनाशित्वं साधारणाकारः तथापि मृत्युर्यस्योपसेचनमिति वाक्य शेषानुरोधात् साधारणोपि गौरयावृत्त्या लक्षयितुमुचितः। ननु उप- सेचनशब्दापेक्षया ओदनशब्दस्य मुख्यत्वादोदनशब्दस्वारस्यानु रोधेनासाधारणाकाररूपभोग्यत्वे लक्षिते जघन्यमुपसेचनपदमवाध- (१२८) विषयवाक्यदीपिका [ अध्या०१-पाद२- कत्वाभिप्रायेणकथंचिनीयताम् । अतश्च योत्र ब्रह्मक्षत्रभोक्ता यस्यच मृत्युखाधकः सोस्मिन्मंत्रे प्रतिपाद्यः। भोक्तृत्वंचजीवस्येति सएवा- स्मिन्मंत्रे प्रतिपाद्यतामितिचेत् उच्यते । उपसेचनत्वेन रूपितस्यमृ त्योरोदनत्वरूपितेन ब्रह्मक्षत्रशब्दितेनदध्यन्नवत्प्रतीतस्य संबंधस्य सर्वात्मनावाचप्रसंगात् । नहि यस्य ब्रह्मक्षत्रंभोग्ययस्यच मृत्युरखा- धकइत्युक्ते मृत्योर्ब्रह्मक्षत्रस्यच संबंधः प्रतीयते ।अतः उपसेचनशब्द स्योदनशब्दापेक्षया जघन्यत्वेप्यवादकत्वरूपसाधारणगुणं विहाय स्वयमद्यमानत्वेसत्यन्यादनहेतुत्वरूपासाधारणाकारएवग्राह्यः। तत- श्चैकवाक्यान्तर्गतयाचरमश्रुतोपसेचनपदानुसारेणौदनशब्देनापिवि नास्यत्वमेवलक्षणीयम् । स्वबुद्धयुपस्थापनीयविशेषाकाररूपगुणग्र हणादप्येकवाक्यतापन्नपदांतरोपस्थापित गुणग्रहणस्यैव बुद्धिलाघ- वेनैकवाक्यतासामर्थ्यानुरोधेनचन्याय्यत्वादित्यस्यार्थस्याप्ताचरा- चरग्रहणादित्यधिकरणेनिर्णीतत्वात् । परमात्मनश्च सूयासत्वंद्वा- भ्यांमंत्राभ्यांदर्शयति ॥ ऋतंपिबंतोसुकृतस्य लोके गुहांप्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदोवदंति पंचानयो येचतृणा- चिकेताः॥ सत्यवदवश्यं भाविकर्मफलमनुभवंतौ सुकृतसाध्यलोकवर्तिनौ गुहांप्रविष्टौ हृदयगुहावर्तिनौ पराधै उत्कृष्टे परमाकाशे वर्तमानौ अज्ञसर्वज्ञरूपतया छायातपशब्दनिर्दिष्टौ पंचाग्निपरिशुश्रूषापरिशु- द्धांतःकरणात्रिणाचिकेताब्रह्मविदश्च वदंतीत्यर्थः। अज्ञवाचिछायाश- ब्देनजीवंनिर्दिशतोयमभिप्रायः ।उपास्योपासकयोरेकगुहावर्तित्वेत- योरेवप्राप्तप्राप्यतया प्राप्यस्य चतत्प्राप्तिसाधनरथत्वेननिरूपितेश- READFARPrities MarketinakairmapterIOHINOR सू०९-अधि०२] अवधिकरणम् । (१२९) रीरेवस्थानमयुक्तम् । नहिरथेन प्राप्तव्यो रथस्थोभवतीति शंका न कार्या । प्राप्यस्य परमात्मनः तत्रावस्थितत्वेपि जीवस्य “पराभि- ध्यानातुतिरोहितम्।३।२।५॥"इत्युक्तरीत्या परमात्मसंकल्पमूलक- मरूपाविद्यातिरोहिततया तदनुभवलक्षणतत्प्राप्तेरभावेन प्राप्तप्राप्य- योः रथत्वरूपितशरीरांतर्वत्यैकगुहावर्तित्वकथनेनानुपपत्तिः॥ यः सेतुरीजानानाम्, यज्वनामाधारभूतः। कर्मफलप्रद इत्यर्थः । ईजानानामितिकान- जंतःशब्दः॥ अक्षरंब्रह्मयत्परम् ॥ निर्विकारं परं ब्रह्म ॥ अभयंतितीर्षतांपारम् ॥ संसारसागरांतितीर्षतांनिर्भयं दृढतरं तीरम् ॥ नाचिकेत शकेमसि॥ नाचिकेताग्निप्राप्यमुपासितुं शक्ताः स्मे त्यर्थः । शकेर्व्यत्यये- नशपि “इदंतोमसि । ७।१४६॥" नाचिकेतंशकमसीत्यस्य मंत्र खंडस्य तथैव भाष्यकृता व्याख्यातत्वात् । अतोदुरुपास्यत्वबु- या नभेतव्यमितिभावः ॥ आत्मानंरथिनंविद्धीत्यादिना सोध्वनः पारमाप्नोतीत्यंतेन संसाराध्वपारभूतवैष्णवपरमपदप्राप्तौ परिकरमु- पदिशन प्राप्तरूपमुपदिशति ॥ आत्मानंरथिनंविद्धि शरीराधिष्ठातारम् ॥ शरीरंरथमेवच॥ स्पोर्थः॥

(१३०) विषयवाक्यदीपिका। [अध्या०१-पाद२- बुद्धिंतुसारथिंविद्धि, बुद्धिलक्षणव्यवसायाधीनत्वादेहप्रवृत्तेस्तस्याः सारथित्वमिति- भावः ॥ मनः प्रग्रहमेवच ॥ प्रग्रहोरशना॥ इंद्रियाणिहयानाहुः, स्पष्टोर्थः॥ विषयांस्तेषु गोचरान् ॥ तेषुइन्द्रियेषु इयत्वेन रूपितेषु । गोचरान्मार्गान् । शब्दादिविषया- विद्धीत्यर्थः। रथसारथिहयप्रग्रहत्वेन रूपितानां शरीरेन्द्रियमनोबु- दीनामभावे रथित्वेन रूपितस्योदासीनस्यात्मनो गमनरूपलौकि- कवैदिकक्रियाकर्तृत्वमेवनास्तीत्येतत्सुप्रसिद्धत्वेनदर्शयति ॥ आत्मेंद्रियमनोयुक्तंभोक्तेत्याहुर्मनीषिणः॥ आत्मशब्दोदेहपरः।मनश्शब्दस्तत्कार्यबुद्धेरप्युपलक्षकः। पूर्व- मंत्रे बुद्धेरपिसारथित्वेन निर्दिष्टत्वात् । भोक्ता कर्तृत्वभोक्तृत्वादि- मानित्यर्थः । नहिकेवलस्यात्मनः कर्तृत्वंभोक्तृत्ववास्तीतिभावः ।। शरीरादेरथत्वादित्यरूपणस्य प्रयोजनमाह ॥ यस्त्वविज्ञानवान्भवतिअयुक्तेन मनसा सह । तस्ये- न्द्रियाण्यवश्यानि दुष्टाश्वा इवसारथः ॥ यस्तुविज्ञा- नवान्भवतियुक्तेनमनसासह । तस्येंद्रियाणिवश्यानि सदश्वाइवसारथेः॥ लोकेहि समीचीनसारथिप्रग्रहवतः अश्वा वशीकृता भवंति एवं- सारथिप्रग्रहत्वेन रूपितयोविज्ञानमनसोः सामीचीन्ये अश्वत्वेन DANAwentyNew Heal.. मू०९-अधि०२] अबधिकरणम् । (१३१) रूपितानींद्रियाणि वश्यानिभवन्तिनान्यथेत्यर्थः ॥ हयत्वेन रूपिता- नामिन्द्रियाणां वशीकरणतदभावयोः प्रयोजनंदर्शयति मंत्रद्वयेन ॥ यस्त्वविज्ञानवान्भवतिअमनस्कः सदाऽशुचिः । नतुतत्पदमाप्नोतिसंसारंचाधिगच्छति ॥ यस्तुविज्ञान- वान्भवतिसमनस्कःसदा शुचिः। सतुतत्पदमाप्नोतिय- स्माद्भूयोनजायते॥ अमनस्कः अनिगृहीतमनाः।अतएवाशुचिः सर्वदाविपरीतचिंता- प्रगत्वादित्यर्थः। नकेवलंजिगिमिषितप्राप्त्यभावमा प्रत्युत गहनं संसारकांतारमेवप्रापयतीत्यर्थः ॥ किंतत्पदमित्याकांक्षायांतत्पदं दर्शयन्नुपसंहरति ॥ विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ समीचीनविज्ञानमनःशाली संसाराध्वपारभूतं परमात्मस्वरूप प्रामोतीत्यर्थः । वशीकार्यत्वायरथत्वादिनारूपितेषु शरीरादिषु यानि येभ्योवशीकार्यतायां प्रधानानि तान्युच्यते ॥ इन्द्रियेभ्यः पराह्यर्थाअर्थेभ्यश्चपरंमनः। मनसस्तुप. राबुद्धिबुद्धरात्मामहान्परः॥महतः परमव्यक्तमव्यक्ता- त्पुरुषः परः। पुरुषानपरंकिंचित्साकाष्ठासापरागतिः॥ १ अवास्य परमपदस्य मायिकत्वेन मिथ्यात्वं परममुक्ताप्राप्यत्वंच केचिदंति ॥ तत्प- रिहाराः श्रुतियुक्तिभिर्वेदार्थसंग्रहे श्रीभाष्यकार्निरूपिताः। अन्येषामपि तर्काणां परिहारो- धिकरणसारावल्यां चतुर्थाध्याये “संघाते नित्यता न क्वचिदपि न पृथिव्यादिबाधस्तथात्वे पर्यकाचैर्न साध्यं किमपि भगवतः पूर्णनिस्सीमशक्तः ॥ व्याप्तप्राप्त्यर्थमूर्व गतिरपिविफ- लेत्यादिकान् हैतुकानां क्षोदिष्टक्षीवजल्पाञ्छुतिरुपशमयेदद्भुतार्थस्वतंत्रा" इत्यादिना कृतः । तत्राधिकरणचिंतामणिरपि । यः संघातः सविनाशीति दृष्टानुसारेण व्याप्तिः दिव्य- विभूतिनित्यत्वप्रतिपादकप्रमाणवाध्या | यथानरशिरःपवित्रत्वेन प्राण्यंगत्वस्य व्याप्तिः कपालापवित्रत्वप्रतिपादकप्रमाणवलादाध्यतेइत्यादिः ॥

(१३२) विषयवाक्यदीपिका। [अध्या०१-पाद२- अस्य मंत्रद्वयस्यार्थीभगवता भाष्यकृता“आनुमानिकमप्येकेषा म् ॥१।४।१॥” इत्यधिकरणेउक्तः। इत्थंहि तत्र भाष्यकृता तेषु स्थादिरूपीतशरीरादिषु यानि येभ्योवशीकार्यतायां प्रधानानि ता- न्युच्यते । इंद्रियेभ्यः पराइत्यादिना तत्र हयत्वेन रूपितेन्द्रियेभ्यो गोचरत्वेन रूपितविषया वशीकार्यत्वे पराः। वश्यद्रियस्यापि विष- यसन्निधाविन्द्रियाणां दुनिग्रहत्वात्।तेभ्योपि परंप्रग्रहरूपितंमनागमन सिविषयप्रवणे विषयासन्निधानस्याप्यकिंचित्करत्वात् । तस्मादपि सारथित्वरूपिताबुद्धिः परा ।अध्यासादौ मनसोप्यकिंचित्करत्वात्। तस्यापि रथित्वेन रूपित आत्मा कर्तृत्वेन प्राधान्यात्परः। सर्व- स्यात्मेच्छायत्तत्वात्।आत्मैव महानितिच विशिष्यते । तस्मादपि- रथरूपितंझरीरं परम् । तदायत्तत्वाजोवस्य सकलपुरुषार्थसाधन- प्रवृत्तीनाम् । तस्मादपिपरः सर्वान्तरात्मभूतोंतर्याम्यध्वनः पारभूतः परमपुरुषः । यथोक्तस्यात्मपर्यतस्य तत्संकल्पायत्तप्रवृत्तित्वात् । सखल्वन्तर्यामितयोपासनस्यापि निर्वर्तकः । “परात्तुतच्छुतेः।२।३ 1४०" इतिहिजीवात्मनः कर्तृत्वं परमपुरुषायत्तमितिवक्ष्यते। वशी- कार्योपासननिर्वृत्त्युपायकाष्टाभूतः परमप्राप्यश्च सएव । तदिदमुच्य- ते।"पुरुषानपरंकिंचित्साकाष्टासापरामतिः" इति । तथाचान्तर्यामि ब्राह्मणे"यआत्मनितिष्ठन्”इत्यादिभिः सर्वसाक्षात्कुर्वन्सर्वनियमयती त्युक्त्वा नान्योतोस्ति द्रष्टेतिनियंत्रंतरनिषिध्यते॥ भगवद्गीतासुच- "अधिष्टानंतथाकर्ताकरणंचपृथग्विधम् । विविधाचपृथक्चेष्टादेवं- चैवात्रपंचमम्" इति।।दैवमत्रपुरुषोत्तमएव । “सर्वस्यचाहदिसन्नि- विष्टोमत्तः स्मृतिनिमपोहनंच" इतिवचनात् । तस्य च वशी- करणंतच्छरणागतिरेव ॥ यथाह । “ईश्वरः सर्वभूतानांहृद्देशेर्नुतिष्ट- ति । भ्रामयन्सर्वभूतानियन्त्रारूढानिमायया ।तमेवशरणंगच्छ" इति। तदेवमात्मानंरथिनं विद्धीत्यादिना रथ्यादिरूपकविन्यस्ताइन्द्रिया- ॥

मू०९अधि०२] अत्रधिकरणम् । (१३३) दयः इन्द्रियेभ्यः परार्था इत्यत्रस्वस्वशब्दरेवप्रत्यभिज्ञायन्ते। तेन रथरूपितं शरीरमितिपरिशेपात्तदव्यक्तशब्देनोच्यतइतिभापितम्।। एपसर्वेषुभूतेषुगूढोत्मानप्रकाशते ॥ सर्वेषु भूतेष्वात्मतया वर्तमानोसौ गुणत्रयमायातिरोहितत्वेना- जितवाह्याभ्यंतःकरणानां नयथावत्प्रकाशते ॥ दृश्यतेत्वय्ययावुद्ध्यासूक्ष्मयामूक्ष्मदर्शिभिः। अग्र्यया ऐकाग्र्ययुक्तया बाह्याभ्यंतरव्यापाररहितया सुक्ष्मार्थ- विवेचनशक्तया सूक्ष्मदर्शनशीलैंदृश्यतेइत्यर्थः॥ बाह्याभ्यंतरकरण- व्यापारराहित्यप्रकारमध्यात्मयोगाधिगमेनेतिनिर्दिष्टजीवस्वरूपज्ञा नप्रकारंचदर्शयति ॥ “यच्छेद्वाङ्मनसीप्राज्ञः"॥ इत्यादिना ॥ इमंमंत्रं प्रस्तुत्येत्थंहि भाष्यकृता " हयादिरूपितानामिन्द्रि- यादीनां वशीकरणप्रकारोयमुच्यते । यच्छेद्वाङ्मनसी वाचमनसि- नियच्छेत् । वाक्पूर्वकानि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणिच मनसि नियच्छेदित्यर्थः। बाक्झब्देद्वितीयायाः सुपांसुलुगित्यादिनालुक् । मनसीति सप्तम्याइछांदसोदीर्घः। तद्यच्छेज्ज्ञानआत्मनि॥ तन्मनोबुद्धौनियच्छेत् । ज्ञानशब्देनात्र पूर्वोक्ताबुद्धिरभिधीयते। ज्ञानआत्मनीतिव्यधिकरणे सप्तम्यौ । आत्मनिवर्तमाने ज्ञाने निय- च्छेदित्यर्थः ॥ ज्ञानमात्मनि महति नियच्छेत् । (खुद्धिकर्तरि मह- ति आत्मनि नियच्छेत्।) तद्यच्छेच्छांत आत्मनि॥ तकर्तारं परस्मिन् ब्रह्मणि सर्वान्तर्यामिणि नियच्छेत् । व्यत्य- १“ भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोत्मावर्णविकृतेर्वर्णनाशात्पृषोदरम्" इति पृषोदरादौपाठात्साधुत्वंगूढात्मनः इत्यस्य ॥

(१३४) विषयवाक्यदीपिका। [अध्या०१-पाद२- येन तदिति नपुंसकलिंगता । एवं भूतेन रथिना वैष्णवं पदंगन्तव्य- मित्यर्थः" इति भाषितम् । विवृतंच श्रुतप्रकाशिकायाम् । वाचोम- नसि नियमनं मनोननुगुणप्रवृत्तिवैमुख्यापादनम् । मनसोबुद्धौ नियमनं व्यवसायानुगुणप्रवृत्त्यापादनम् । बुद्धिश्चार्थेषु हेयताध्यव- सायरूपा । तस्या बुद्धरात्मनि नियमनं सएवोपायतया साक्षात्का- यइत्येतदर्थविषयत्वापादनम् । शांते-स्वतऊर्मिषटुप्रतिभटे। शांत- आत्मनि महत आत्मनोजीवस्य नियमनंनाम तच्छेषतया प्रति- पत्तिः । आत्मशब्दस्य पुल्लिंगत्वात् पुल्लिंगतच्छब्देननिर्देष्टव्ये- छांदसत्वाल्लिंगव्यत्ययः ॥ ननु भाष्ये ज्ञानआत्मनीति व्यधि- करणे सप्तम्यौ, आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थइत्युक्तिर- युक्ता । अव्यावर्तकत्वादात्मनीति विशेषणस्य । आत्मन्यवर्तमा- नज्ञानस्यैवाभावात् ॥ नचतद्यच्छेज्ज्ञानइत्येतावत्युक्ते आत्मस्व- रूपज्ञानभ्रांतिःस्यादतोज्ञाने आत्मनीत्युक्तमितिवक्तुंशक्यम् । तथा सति तस्याएवभ्रांतेः सामानाधिकरण्ययोजनया दृढीकरणप्रसंगा- त् । नह्यात्मनीत्यनेनात्मभ्रांतियुदस्यते । नचात्मनि वर्तमान इति भाष्यस्यात्मनि विषयविषयिभावलक्षणसंबंधेन वर्तमानइत्यर्थः । आत्मविषयकज्ञान इतियावत् । अतोनाव्यावर्तकत्वेन वैयर्थ्यदोष इतिवाच्यम् । तथासति ज्ञानमात्मनि महति नियच्छेदित्यस्य वैय- •पातात् । तदर्थस्यानेनैव सिद्धेरितिचेत् । उच्यते । अयमभिप्रा- योभाष्यकारस्य। तबच्छेज्ज्ञानआत्मनीत्यत्राऽऽत्मनीति विषयसप्त मी । तच्चात्मविषयंज्ञानम्।आत्मोपादेयः तदतिरिक्ताअर्थाहेयाइत्ये- वरूपम् ॥ तच्चार्थेषु हेयताध्यवसायरूपाबुद्धिरितिश्रुतप्रकाशिकायां व्यक्तम् । तस्यचात्मानात्मविषयकाहेयताहेयताध्यवसायरूपस्य १ “इच्छयायदुपादेयं परातिशयसिद्धये ॥ उभयानुभयैकैकजुषातौशेषशेषिणो” इति शेषलक्षणम् ॥ तत्रोभयजुषेच्छया पत्येशेते, अनुभयजुषेच्छया कुंडलाय हिरण्यम्, एकै- कजुषेच्छया पुरुषायवस्त्रं, प्राणदायपुरुषः इतिक्रमादुदाहरणानि ।।

MAKRANUANEngshuPMHINMASHAN सू०९-अधि०२] अत्रधिकरणम्। (१३५) ज्ञानस्य महत्यात्मनि नियमननाम सएवोपायतयासाक्षात्कार्य इत्ये तदर्थविषयत्वापादनमिति तत्रैवश्रुतप्रकाशिकायामुक्तात्वाद्वाक्य- द्वयस्यापि सप्रयोजनतयात्वदुक्तवैयर्थ्यशंकानवकाशइति ॥ एवं वशीकरणप्रकारमुपदिश्याधिकारिपुरुषानभिमुखीकरोति ॥ उत्तिष्ठतजाग्रत, आत्मज्ञानाभिमुखाभवत । अज्ञाननिद्राक्षयंकुरुत ॥ प्राप्यवरान्निबोधत ॥ वरान्छेष्ठानाचार्यानुपगम्यात्मतत्त्वंनिबोधत । यद्वा उपासिताद्भग तोब्रह्मवियोवा। देवतापारमार्थ्यचयथावद्वेत्स्यते भवानित्येवंरूपान् वरान् प्राप्य ज्ञेयमात्मतत्त्वनिबोधत । नोदासितव्यमितिभावः ।। क्षुरस्यधारानिशितादुरत्यया दुर्ग पथस्तत्कवयो- वदन्ति ॥ ज्ञानिनस्तदात्मतत्त्वंदुर्गमपंथानं वर्णयन्ति । तत्कस्य हेतोः।यत आत्मतत्त्वंक्षुरस्यायुधविशेषस्य धाराअग्रंनिशिता तीक्ष्णादुरत्यया नातिक्रमणीया। तीक्ष्णे क्षुराग्रे संचरतः पुंसोयथाकियत्यप्यनवधाने आत्मनाशोभवति एवमात्मस्वरूपावगतिदशायांस्वल्पेप्यनवधानेऽ पराधेआत्मनाशोभवतीतिभावः॥ उपसंहरति । अशब्दमस्पर्शमरूपमव्ययं तथारसंनित्यमगंधव चयत्॥ अत्र नित्यमित्येतदशब्दमित्यादौ प्रत्येकमभिसंबंध्यते । अश- ब्दत्वादिवशादेव कालवदव्ययम् अवयवापचयशून्यमित्यर्थः ॥ अनाद्यनन्तं महतः परंध्रुवंनिचाय्यतंमृत्युमुखा- त्प्रमुच्यते॥

(१३६) विषयवाक्यदीपिका। [अध्या०१-पाद२- महतइत्यनेनात्मनि महतिनियच्छेदितिपूर्वमंत्रनिर्दिष्टो जीवो गृह्यते ।ध्रुवंस्थिरंनिचाय्य दृष्ट्वा दर्शनसमानाकारोपासनेनवशीकृत्ये त्यर्थः । मृत्युमुखादतिभीषणात्संसारादित्यर्थः ॥ उपसंहरति ॥ परांचि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्य तिनान्तरात्मन् ॥ परानंचंतीति परांचि, खानींद्रियाणि, परप्रकाशकान्येव नात्मप्रकाशकानि कुतइत्यत्राह ॥ व्यतृणत्स्वयंभूः-परमात्मा इमानीन्द्रियाणि हिंसितवान् । “उतृदिरहिंसायाम्" इति हिधातुः । तस्मात्पराङ्पश्यति तस्मादेव हेतोःप्रत्यंचं द्रष्टुमसमर्थानि संति परापराचःपदार्थान्पश्यंतीत्यर्थःईदृशेपिलोकस्वभावे नद्याः प्रति- स्रोतःप्रवृत्तइव कश्चित्पुरुषधौरयः प्रत्यगात्मप्रवणोप्यस्तीत्याह ॥ कश्चिद्धीरःप्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमि- च्छन्॥ चक्षुश्शब्दः इंद्रियमात्रपरः।स्वस्वविषयव्यावृत्तेन्द्रियः कश्चिन्मु- मुक्षुः धीशाली प्रत्यगात्मानंपरिशुद्धेन मनसासाक्षात्करोतीत्यर्थः ॥ पराचःकामाननुयन्ति बालास्तेमृत्योर्यति वितत- स्य पाशम् ॥ अज्ञास्त्वात्मव्यतिरिक्तशब्दादिविषयानवगच्छंतः संसारपाशं- विस्तृतंप्रतिपद्यन्तइत्यर्थः॥ याप्राणेन संभवत्यदितिर्देवतामयी । गुहांप्रविश्य- तिष्ठन्तीयाभूतेभिर्व्यजायत ॥ १ तैलधारावदविच्छिन्नस्मृतिसंतानरूपा ध्रुवास्मृतिानशब्दवाच्याभवति,सैवभावना प्रकर्षवशात् “वृक्षेवृक्षेचपश्यामिचीरकृष्णाजिनांबरम्" इतिवदर्शनसमानाकाराचभवतीति चस्पष्टं श्रीभाष्यश्रुतप्रकाशिकयोलघुसिद्धांतशेषे ॥

SWARA AriespahilmwiParinemaNAIHAR सू०९-अधि०२] अत्रधिकरणम् । (१३७) कर्मफलान्यत्तीत्यदितिर्जीवउच्यते।प्राणेन संभवति प्राणेन सहव- तते । देवतामयीइंद्रियाधीनभोगा गुहां प्रविश्यतिष्टंती हृदयपुण्डरी- ककुहरवर्तिनी भूतेभिःपृथिव्यादिभूतैः सह व्यजायत देवादिरूपेण विविधासत्यजायतेत्यर्थः॥ एतद्वैतत् ॥ एतन्मंत्रप्रतिपाद्यजीवस्वरूपं तत् तदात्मकंब्रह्मात्मकमित्यर्थः। अत्रैव प्रकरणे ब्रह्मजज्ञदेवमीजंविदित्वेत्यत्र देवमित्यस्यदेवात्मकंप- रमात्मकमितिव्याख्यातत्वात् । क्षेत्रमंचापि मांविद्धीत्येतदुपबृं- हणेगीतावचनेपि मांमदात्मकमितिभाषितत्वाच्चैवमेवार्थः ॥ ननु सर्वेषांब्रह्मात्मकत्वनसंभवति । अहमित्यहंताश्रयतयानुसन्धीयमा- नोह्यात्मा सचाहमिहैवास्मीतिदेशांतरव्यावृत्ततयानुसन्धीयते ॥ अतो ब्रह्मणः कथंसर्वदेशकालवर्तिपदार्थात्मभूतत्वमित्याशंक्याह ॥ यदेवेह तदमुत्रयदमुत्र तदन्विह ॥ यदेव परमात्मतत्त्वमत्र लोकेऽनुसन्धीयमानतयात्मभूतं तदे- वलोकान्तरवर्तिनामप्यात्मभूतमित्यर्थः। ततश्चात्मभेदोनास्तीत्य र्थः । अयमभिप्रायः । किपरमात्मतत्त्वविदामहमिहेवेतिप्रतीतिःसर्व- देशवर्तिपदार्थात्मत्ववाधकतयोपन्यस्यते उततद्रहितानाम् । नायः। तेषामहमिहेत्यादिप्रतीतरेवाभावात् । प्रत्युताहंमनुरभवंसूर्यश्चेत्येव प्रतीतेःसत्त्वात्।नद्वितीयः । अतद्विदामहं प्रतीतेर्जीवमात्रविषयत्वेन- तत्र परिच्छिन्नत्वप्रतीतेःपरमात्मविभुत्वबाधकत्वाभावादिति ॥ मृत्योः समृत्युमाप्नोति यइह नानेवपश्यति ॥ यइह परमात्मनि भेदमिवपश्यति संसारात्संसारांतरंप्राप्नोतीत्य- र्थः॥ नन्वस्माकं परमात्मतत्त्वंकुतोनोपलभ्यत इत्यत्राह ॥ १ "अतोभिसऐस्” “बहुलंछन्दसि"।७।१।९-१०। इत्यैसभावोबोध्यः॥

Pa (१३८) विषयवाक्यदीपिका। [अध्या०१-पादर- मनसैवेदमाप्तव्यं, इदंपरमात्मस्वरूपम् । परिशुद्धमनोग्राह्यमित्यर्थः॥ उक्तमेवार्थ- दृढीकरणायपुनरभ्यस्यति॥ नेहनानास्ति किंचन॥ मृत्योः समृत्युमाप्नोति यइ- हनानेवपश्यति ॥ उक्तोर्थः॥ अंगुष्ठमात्रः पुरुषोमध्य आत्मनि तिष्ठति। ईशानो भूतभव्यस्यनततो विजुगुप्सते॥ कालत्रयवर्तिनिखिलचेतनाचेतनेश्वरः पुरुष उपासकशरीरम- ध्येअंगुष्टपरिमाणः सन्नास्ते । ततस्तस्मादेव निखिलेश्वरत्वहेतोरेव वात्सल्यातिशयात् कष्टभूतदेहांतरावस्थानान्नहिविजुगुप्सते। वात्स- ल्यवशेन भोग्यमेवपश्यतीत्यर्थः॥ एतद्वैतत् ॥ एतन्मंत्रप्रतिपाद्यमपिपूर्वोक्तपरमात्मस्वरूपमेवेत्यर्थः॥ अंगुष्ठमात्रः पुरुषोज्योतिरिवाधूमकः॥ शुष्कन्धनानलवत्प्रकाशमानइत्यर्थः ॥ ईशानोभूतभव्यस्यसएवाद्य सउश्वः॥ अद्यतनपदार्थजातं श्वस्तनपदार्थजातं कालत्रयपदार्थजातं सएवेत्यर्थः॥ यथोदकं दुर्गेवृष्टं पर्वतेषु विधावति ॥ यथापर्वतमूर्द्धनि वृष्टं प्रत्यन्तपर्वतेषु नानाभूततयापतित्वापति- त्वा धावति ॥ एवं धर्मान्पृथक् पश्यन्तानेवानुविधावति ॥

REMEDIENTATERMERHIMAP MMEANI APANIPRATAPMRATARNINE TRAINISHADAINBURAMMEHRERASAIRATREPREMAore मू०९-अधि०२] अत्रधिकरणम् । (१३९) एवं परमात्मगतदेवमनुष्यान्तर्यामित्वादिधर्मान्पृथगधिकरण- निष्ठान्पश्यन्पर्वतनिर्झरपातमनुकृत्य संसारकुहरेपततीत्यर्थः ॥ अथ सर्वत्रैकात्म्यज्ञानस्य फलमाह ॥ यथोदकंशुद्ध शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्माभवति गौतम ॥ यथा शुद्धे शुभं जलं प्रक्षिप्तं तत्सदृशमेव भवति, नतुकिंचिदपि वैसादृश्यमेवं मनननिदिध्यासनशीलस्यात्मापि परमात्मसदृशएवे त्यर्थः । गौतमेतिसहर्षसंबोधनम् ॥ यएषु सुप्तेषु जागति कामंकामंपुरुषोनिर्मिमाणः॥ सर्वेषु जीवेषु निद्रांगतेषु । कामंकाममितिणमुलन्तम् । संकल्प्य- संकल्प्येत्यर्थः । स्वच्छन्दानुरोधेन पुरुषोनिर्मातायोस्ति ॥ तदेवशुक्रतद्ब्रह्म तदेवामृतमुच्यते । तस्मिल्लो- काः श्रिताः सर्वेतदुनात्येतिकश्चन ॥ शुक्रं प्रकाशकम् । तदेवनिरूपाधिकममृतमित्यर्थः । नित्यमुक्ता- नाममृतान्तराणांसत्त्वेपि निरूपाधिकामृतत्वाभावात्तदेवेत्यवधारण- स्यनानुपपत्तिरितिध्येयम् । एतेनामृतान्तरनिषेधान्मुक्तपरमात्म नोरभेदइतिशंकाप्रत्युक्ता॥ एकोवशी सर्वभूतान्तरात्मा एकं बीजं बहुधा यः करोति । तमात्मस्थं येनुपश्यंति धीरास्तेषां सुख शाश्वतनेतरेषाम् ॥ तमःपरे देवे एकीभवतीतिस्वात्मन्यविभक्ततमस्त्वावस्थामा- पन्नमव्यक्ताख्यं बीजमित्यर्थः । आत्मस्थम् आत्मन्यंतर्यामित- यास्थितमित्यर्थः। शिष्टस्पष्टम् ।।

(१४०) विषयवाक्यदीपिका। [अध्या०१-पाद२- नित्योनित्यानां चेतनश्चेतनानामेकोषहूनांयोवि- दधातिकामान् ॥ एकोनित्यश्चेतनः सन् बहूनांनित्यानां चेतनानां कामान्विदधाती त्यर्थः । नित्यानांमध्येनित्यः चेतनानांमध्येचेतन इतिराजराजादि- शब्दवदत्यंतनित्यत्वचेतनत्वप्रतिपादनेपि नानुपपत्तिः । “तमात्म- स्थम्" इत्यादिस्पष्टम् ॥ न तत्रसूर्योभाति नचंद्रतारकं नेमाविद्युतोभांतिकु- तोयमग्निः॥ सर्वतेजसांछादकमित्यर्थः॥ तमेवभांतमनुभातिसर्व, अनुभानपश्चाद्भानम् । तेनकार्यकारणभावः सिद्धः । पौर्वापर्य- नियमोहि कार्यकारणभावः । सर्वतेजसाकारणमित्युक्तंभवति ॥ तस्य भासा सर्वमिदंविभाति ॥ चाक्षुषरश्म्यनुग्राहकचंद्रातपादित्यवदुत्पन्नस्यापि तेजसः स्व- संबन्धेनस्वकार्यकारणसामर्थ्यापादकत्वलक्षणानुग्राहकत्वशालीत्य- र्थः । अत्रचवक्तव्यंकठवल्लीप्रकाशिकायामुक्तं ततोवगन्तव्यम् । यदिदंकिंचजगत्सर्वप्राणएजतिनिस्सृतम्। महद्भयं- वज्रमुद्यतंयएनंवि (तद्वि) दुरमृतास्तेभवन्ति ॥ अस्मिन्नंगुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टेस्थितानां सर्वेषांततो- निस्मृतानां तस्मात्संजातमहाभयनिमित्तमेजनकंपनंश्रूयते । तच्छा- सनातिवृत्तौकिंभविष्यतीतिमहतोभयात्रादिवोधतात्कृत्स्नं जग- कंपतइत्यर्थः । भयादस्याग्निस्तपतीत्यादिनैकार्थ्यान्महद्भयंवज्रमु- द्यतमितिपंचम्यर्थेप्रथमेतिभाषितम् । तच्चव्यासायैर्विवृतम् । प्राण इतिसप्तम्यंतपदसामर्थ्यात् स्थितानामित्यध्याहारः । कुतोनिस्मृता- सू०९-अधि०२] अबधिकरणम् । (१४१) नामित्यपेक्षायां प्रकृतस्यैवोपादानत्वमाह। ततइति । एजनंकंपनम्। "एजूकंपने" इतिहिधातुः । प्रत्यवायभयात्स्वस्वकार्यप्रवृत्तिः कंप- नम् । उद्यतवज्रादिवपरमपुरुषात्संजातेनभयेनकृत्स्नंजगत्कंपतइत्य- र्थः । अत्रमहद्भयं वज्रमुद्यतमितिचत्वारिपदानिपंचम्यर्थेप्रथमाता- नि । तत्राद्यपंचम्यर्थप्रथमांतपदद्वयंभयवाचि, उत्तरंतुपदद्वयमुद्य- द्वसदृशब्रह्मपरमितिद्रष्टव्यम् ॥ वझीकार्यपरंपराविश्रांतिभूमितया- प्रानिर्दिष्टमेव परमात्मानंस्मारयति ॥ इन्द्रियेभ्यः परंमनोमनसः सत्त्वमुत्तमम् ॥ इंद्रियेभ्योमनः परमित्यर्थः॥ इंद्रियेभ्यः पराह्यर्था अर्थेभ्यश्चपरं- मनइत्यनेनैकार्थ्यात् । सत्त्वशब्दश्चतत्कार्यबुद्धिलक्षकः । मनसस्तु- पराबुद्धिरित्यनेनैकार्थ्यात् ॥ सत्त्वादधिमहानात्मामहतोव्यक्तमुत्तमम् । अव्य- तान्नुपरः पुरुषोव्यापकोलिंगएवच ॥ अलिङ्गः लिङ्गागम्यः। पुरषोवशीकार्येषु परः। तस्यच वशीकर- शंतच्छरणागतिरेखेत्ययमर्थः पूर्वमुक्तएवानेनस्मारितोभवति ॥ नसंदृशे तिष्ठतिरूपमस्य नचक्षुषा पश्यति कश्च- नैनम् ॥ अस्य स्वरूपविग्रहोवा व्यापकत्वादेवसंदर्शनविषये मूर्तत्वेनाभि- मुखतयानतिष्ठतीत्यर्थः । अतएवचक्षुषा कोपिद्रष्टुंनेष्टे ॥ हृदा मनीषा मनसाभिकृप्तः ॥ अयमंत्र खण्डः व्यासायः “सर्वत्रप्रसिद्धोपदेशात् ।।२।३॥" इत्यधिकरणेहृदेतिभक्तिरुच्यते ।मनीषेतिधृतिः।नसंदृशेतिष्ठतिरूप- मस्य न चक्षुषा पश्यतिकश्चनैनमिति पूर्वार्द्धमेकरूपंपठित्वा भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीहेति महाभा- (१४२) विषयवाक्यदीपिका। [अध्या०१-पाद२- रतोक्तेः । अभिक्प्त ग्राह्यइत्यर्थः" इति विवृतः। धृत्यासमाहितात्मा- भक्त्यापुरुषोत्तमंपश्यतिसाक्षात्करोति-प्राप्नोतीत्यर्थः । भक्त्या- त्वनन्ययाशक्यइत्यनेनैकार्थ्यादितिवेदार्थसंग्रहेप्रतिपादितम् ॥ यएनंविदुरमृतास्तेभवंति ॥ स्पष्टोर्थः॥ यदापंचावतिष्ठन्तेज्ञानानिमनसासह ॥ ज्ञायतेनेनेतिव्युत्पत्त्याज्ञानानीन्द्रियाणीत्यर्थः । “सप्तगतेविशे- पितत्वाच्च ।२।४।५।" इत्यधिकरणेव्यासार्विवृतम् ॥ बुद्धिश्चनविचेष्टेत, अध्यवसायोपेतं मन एवबुद्धिशब्देनोच्यते । अतएव तत्रभाष्यम् । “अध्यवसायाभिमानचिन्तावृत्तिभेदान्मनएव बुद्धयहंकारचित्तशब्दै रुपदिश्यते" इति ॥ तामाहुः परमांगतिम्॥ शरीरांतःसंचरणं विहाय मोक्षार्थगमनंपरमागतिरितितत्रैव स्पष्टम् ॥ तांयोग इतिमन्यते स्थिरामिंद्रियधारणाम् ॥ पूर्वमंत्रनिर्दिष्टां बाह्यांतःकरणधारणां परमां गतिं परमव्योम गति मन्यन्ते । उक्तंच व्यासायः परमा गतियोगइति ॥ यदासर्वे प्रमुच्यते कामायेस्य हृदिस्थिताः। अथ मोऽमृतोभवत्यत्र ब्रह्मसमश्नुते ॥ कामाः शब्दादिविषयमनोरथाः हृदि गता यदाशाम्यते तदुत्त- रक्षण एवायमुपासकः पुमानविश्लिष्टाश्लिष्टपूर्वोत्तरदुरितोभवति । अत्रोपासनवेलायामेव ब्रह्माश्नुते । ब्रह्म अविक्षिप्तेन मनसानुभवती त्यर्थः । “इदंच समानाचामृत्युपक्रमात०४।२७।" इतिभाष्ये सू०९-अधि०२] अत्रधिकरणम्। (१४३) स्पष्टम् ॥ उक्तमेवार्थमादरेणाभ्यसन्नुपदेष्टव्यांश एतावानेवेत्युप सहरति ॥ यदा सर्वेप्रमुच्यतेह्रदयस्यैव (स्येह) ग्रंथयः । अथमोभृतोभवत्येतावदनुशासनम् ॥ ग्रंथय इव दुर्मोचा रागद्वेषादयो यदैव प्रमुच्यन्त इत्यर्थः । एतावदनुशासनमनुशासनीयम् । उपासकस्य कर्तव्यत्वेनसमुपदे- ष्टव्यमेतावदेवेत्यर्थः ॥ विमुक्तश्च विमुच्यत इति पूर्वमुक्तांद्वितीयां परममुक्तिमाह ॥ शतंचैकाच हृदयस्य नाड्यस्तासां मूर्धानमभिनि स्मृतैका॥ हृदयस्य प्रधाननाड्यः शतंचैकाच सन्ति । तासां मध्ये एका सुषुम्नाख्या ब्रह्मनाडी मूर्धानमभिनिस्सृता। तयोर्ध्वमायन्नमृतत्वमेति विष्वकन्या उत्क्रमणे भवंति ॥ तयोर्ध्वनाड्योवब्रह्मलोकं गच्छन्देशविशेषविशिष्टब्रह्मप्राप्तिपूर्वक स्वरूपाविर्भावलक्षणं मुक्तिं प्राप्नोति । अन्यास्तु नाड्योविष्वगुत्क- मणे नानाविधसंसारमार्गोत्क्रमणायोपयुज्यंते । विष्वर विततानाध्यः अन्योत्क्रमण उपयुज्यंत इति व्यासायँाख्यातम् ॥ अंगुष्ठमात्रः पुरुषोंतरात्मा सदा जनानां हृदये सन्निविष्टः ॥ स्पष्टोर्थः॥ स्वाच्छरीरात्प्रवृहन्मुंजादिवेषीकां धैर्येण ॥ सकलचेतनाचेतनांतर्यामितया संतमात्मानं तच्छरीरिणं चेतना चेतनलक्षणाच्छरीरा ( तच्छरीरभूताजनशब्दिताचेतना) त्प्रवृहे- (१४४) विषयवाक्यदीपिका। [अध्या०१-पादर- त्पृथक्कुर्यात्पृथगात्मानमित्युक्तरीत्याधारकत्वनियंतृत्वशेषित्वधर्वि लक्षणं धैर्येण प्रज्ञाकौशलेनजानीयात् ॥ तं विद्याच्छुक्रममृतं, शुक्रं तेजिष्टं स्वप्रकाशज्ञानरूपं ब्रह्म जानीयादित्यर्थः। देवदत्तः स्वाच्छरीराद्विलक्षण इत्यत्र स्वशब्दस्यदेवदत्तसंबंधिपरत्ववाद- हापिस्वाच्छरीरादितिस्वशब्दः परमात्मसंबंधिशरीरपरामर्शी। नवे- दितृजनसंबंधिपरामर्शी। एतेन देहात्पृथक्करणस्य देहैक्यभ्रमविषये जीवएव संभवात्तस्यैव तं विद्याच्छुक्रममृतमिति ब्रह्मत्वोपदेशादि- दंप्रकरणं जीवब्रह्माभेदपरमितिशंकायाअनवकाशः॥ अंतरउपपत्तेः १।२।१३। छांदोग्ये चतुर्थाध्यायेदशमखण्डोपक्रमे ॥ उपकोसलोह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास॥ कमलसुत उपकोश (स ) लनामा पूर्वोक्तजाबाले सत्यकामे विद्यार्थ ब्रह्मचर्यमवात्सीत् ॥ तस्यह द्वादशवर्षाण्यग्नीपरिचचार ॥ तदग्निशुश्रूषां द्वादशवर्षाणि कृतवान् । सहस्माऽन्यानंतेवासिनः समावर्तयंस्तं ह स्मैव नसमावर्तयति॥ स्वाध्यायार्थिन इतरान्ब्रह्मचारिणः स्वाध्यायंग्राहयित्वा समाव- तयन् । तं ब्रह्मविद्यार्थिनं ज्ञात्वाचिरसवामंतरेण ब्रह्मविद्यानोपदेष्टव्ये तिमत्वा तमेव न समावर्तयतिस्म ॥ तंजायोवाच तप्तोब्रह्मचारी कुशलमग्नीन्पर्यचारीन मात्वाग्नयःपरिप्रावोचन प्रब्रह्मस्मा इति ॥

मू०९-अधि०२] अत्रधिकरणम्। (१४५) तपसा तप्तः ब्रह्मचारी सम्यगग्निशुश्रूषां कृतवान् एतस्यविद्या- नुपदेशेतत्परिचरणप्रीता अग्नय एव तदनुग्रहं कुर्युरिति तस्मा उपकोशलाय विद्यामुपदिशेति तस्य भार्योक्तवतीत्यर्थः ॥ तस्मैहाप्रोच्यैवप्रवासांचक्रे ॥ तस्य विद्यामनुपदिश्यैव देशांतरंपोषितः॥ सहव्याधिना अनशिवेंदध्रु॥ स मानसेन दुःखेन पीडितः सन् अनशनाय मतिचक्रे ।धृङ् अव- स्थाने इतिधातुः॥ तमाचार्यजायोवाच ब्रह्मचारिन्नशानकिंनुनाश्ना- सीति॥ स्पष्टोर्थः॥ सहोवाच बहव इमेऽस्मिन्पुरुषेकामाः नानात्ययाव्या धिभिः परिपूर्णोऽस्मिनाशिष्यामीति ॥ अस्मिन् जीवे ब्रह्मप्राप्तिव्यतिरिक्ताः काम्यमाना विषया नानाविध गर्भजन्मजरामरणादिलक्षणफलजनकाः मनसि परिवर्तमानाःसन्ति । अतस्तद्विषयभयरूपव्याधिभिः पूर्णोस्मि अतोनभुंजेइति ॥ अथहाग्नयःसमुदिरे॥ एतद्वाक्यंश्रुत्वा परिचरणप्रीता गार्हपत्यादयोग्नयोदयमानमा- नसाः संभूयोक्तवंतः॥ तप्तोब्रह्मचारी कुशलं नः पर्यचारीद्धतास्मै प्रब्रवा- मेति ॥ स्पष्टोर्थः ॥ १० (१४६) विषयवाक्यदीपिका। [अध्या०१-पाद२- तस्मैहोचुः॥ तस्मै उपकोशलाय अग्नयोवक्ष्यमाणमूचुरित्यर्थः ॥ प्राणोब्रह्म कब्रह्म खंब्रह्मेति।सहोवाच विजानाम्यहं यत्प्राणोब्रह्म कंचखंचतुनविजानामीति ॥ अस्यायमभिप्रायः॥नतावत्प्राणादिप्रतीकोपासनमनिभिरभिधी- यते । जन्मजरामरणादि भवभयभीतस्य मुमुक्षोर्मममोक्षोपदेशाय प्रवृत्तत्वात् । अतोब्रह्मेवोपास्यमुपदिष्टम् । तत्र प्राणादिभिः समानाधिकरणं ब्रह्म निर्दिष्टं तत्र सकलजगत्प्राणपितृत्वयोगेन प्राण- शब्दितत्वस्य ब्रह्मण्युपपन्नत्वात्प्राणो ब्रह्मेत्युक्तम् । तज्जानामि कं ब्रह्म खंब्रह्मेत्युक्तंच नविजानामि । यद्यपि कंशब्दस्य सुखमर्थः खमित्यस्यचाकाशोथ ततश्च वैषयिकसुखशरीरकमाकाशशरीरकंच ब्रह्मेत्यभिप्रायः । उत कमित्यनेन सुखमभिधीयते खमित्यनेनाका- शवाचिनाऽपरिच्छिन्नत्वमभिधीयते । तयोरन्योन्यविशेष्यविशेषण- भावेनापरिच्छिन्नसुखं ब्रह्मेत्यर्थोलभ्यते । ततश्चानयोर्मध्येक्वार्थे तात्पर्यमिति नजाने इत्यर्थः॥ तेहोचुः यद्वाचकं तदेवखं यदेवखं तदेवकमिति ॥ ते तदभिप्रायज्ञा आग्नयो कंखमित्यनयोरन्योन्यविशेषणवि- शेष्यभाव एवाभिमत इत्यूचुः इत्यर्थः । ननु पुनरुक्तिय॑थैतिचेत् । एतद्दाढ्यार्थवाऽपरिच्छिन्नसुखत्वेन सुखरूपापरिच्छिन्नत्वेनचोपास- 'नासिद्धयर्थवा परस्परविशेषणविशेष्यभावोपदेशसार्थक्या ॥ तत्प्राणंचहास्मै तदाकाशंचोचुः॥ अतोजगत्प्राणपितृत्वेन प्राणत्वविशिष्टं यद्ब्रह्म तदेवापरिच्छिन्न- सुखरूपंचेत्यग्नय उक्तवंत इत्यर्थः ॥ अथहैनंगार्हपत्योनुशशास॥

asme PRERNAT सू०९-अधि०२] अबधिकरणम् । (१४७) जगत्प्राणपितृत्वेनापरिच्छिन्नसुखरूपंच ब्रह्मेत्युपदिश्येवमुपदिष्ट ब्रह्मविद्यमेनमुपकोशलं गार्हपत्योग्निः स्वविद्यांवक्ष्यमाणामुपदिदे- शेत्यर्थः । अथ शब्दश्च प्रकृतविषयत्वद्योतनार्थः । अत्रचाथहैनमि- तिशब्दाभ्यां वक्ष्यमाणाग्निविद्याया प्रकृतब्रह्मविद्यांगत्वमुपदिश्यते। अनुशासनप्रकारमेवाह ॥ पृथिव्यग्निरन्नमादित्यइति ॥ गार्हपत्याग्नेमएताश्चतस्रस्तनवइत्यर्थः॥ यएषआदिये पुरुषोदृश्यते सोहमस्मि सएवाहम- स्मीति॥ पृथिव्यग्यन्नादित्यलक्षणानां चतुर्णा रूपाणां मध्येन्यादित्यरूप- योर्वक्तृत्वप्रकाशकत्वरूपधर्मसंबन्धादैक्यमग्नेरादित्येन यादृशमैक्यं नतादृशं पृथिव्यन्नाभ्याम् । तस्मादादित्य एवाहमस्मीत्यनिरुवाचे- त्यर्थः ॥ यएतमेवंविद्वानुपास्ते अपहते पापकृत्याम् ॥ ब्रह्मप्राप्तिविरोधिपापंकर्मापहंति ॥ लोकीभवति॥ तद्विरोधिनि पापेनिरस्ते ब्रह्मलोकंप्राप्नोतीत्यर्थः । यद्यपि ब्रह्म- प्राप्तिविरोधिपापनिवृत्तेब्रह्मप्राप्तेश्च प्रधानभूतब्रह्मविद्याफलत्वमेव तथाप्यंगिफलेनांगस्तूयते इतिद्रष्टव्यम् । यद्वा पापशब्दोब्रह्मविद्यो- त्पत्तिप्रतिबंधकपापपरः। लोकशब्दश्च ब्रह्मलोकप्राप्तिमार्गभूताग्नि- लोकपरोद्रष्टव्यः॥ सर्वमायुरेति॥ ब्रह्मोपासनप्राप्त्ययावदायुरपेक्षितं तत्सर्वमेति ॥ ज्योग्जीवति॥

(१४८) विषयवाक्यदीपिका। [अध्या०१-पाद२- व्याध्यादिभिरनुपहतोयावद्ब्रह्मप्राप्तिरुज्ज्वलोजीवति ॥ नास्यावराः पुरुषाःक्षीयंते॥ अस्य शिष्यप्रशिष्यादयः पुत्रपौत्रादयोपि ब्रह्मविदएवभवति । सन्ततौब्रह्मविद्यानुवर्तते नास्याब्रह्मवित्कुलेभवतीतिश्रुत्यंतरे ब्रह्म- विद्याफलत्वेन श्रवणात् ॥ उपवयंत जामोस्मि श्वलोकेऽमुष्मिघंश्च ॥ यएतमेवंविद्वानुपास्तेऽस्मिश्चलोकेऽमुष्मिश्चवयमग्नय उपभुजा- मोयावद्ब्रह्मप्राप्तिविघ्नेभ्यः परिपालयामः एवमुत्तरत्रापिद्रष्टव्यम् ॥ अथहैनमन्वाहार्यपचनोनुशशास ॥ अन्वाहार्यपचनो दक्षिणाग्निः॥ आपोदिशो नक्षत्राणि चन्द्रमा इति य एषचन्द्रम- सि पुरुषोदृश्यते । सोहमस्मि सएवाहमस्मीति । सय - एतमेवं विद्वानुपास्ते । अपहते पापकृत्यांलोकीम- वति सर्वमायुरेति ज्योग्जीवति नास्यावरः पुरुषाः क्षीयंते उपवयं जामोऽस्मिंश्चलोकोमुष्मिश्चयएत- मेवंविधानुपास्ते ॥ चंद्रमसश्चाग्नेश्वप्रकाशकत्वसाम्यादितिभावः॥ अथहैनमाहवनीयोनुशशास प्राण आकाशोद्यौर्वि- द्युदिति यएतद्विद्युति पुरुषोदृश्यते सोहमस्मि सए- वाहमस्मीति स य एतमेवं विद्वानुपास्तेऽपहतः पाप- कृत्यां लोकीभवति सर्वमायुरेति ज्योग्जीवति ना- स्यावरपुरुषाःक्षीयन्ते उपवयंत भुंजामोऽस्मिश्च लो- केमुष्मिश्च यएवंविधानुपास्ते॥

RANTORRENTINEPAL सू०९-अधि०२] अत्रधिकरणम् । (१४९) विद्युत्पुरुषस्यापि प्रकाशकत्वादाहवनीयैक्यं द्रष्टव्यम् ॥ तेहोचुः उपकोशलैषा सोम्यास्मद्विद्या आत्मवि- द्या च इति॥ प्रत्येकमनुशासनानंतरं संमिलित्वा तेब्रुवन्नस्मद्विद्याग्निविद्या आत्मविद्या परमात्मविद्येत्यर्थः । चशब्दोंगांगिविद्ययोरुपदेशकि- यायां समुच्चयद्योतनार्थः । नतु समसमुच्चयार्थः । अग्निविद्याचात्म- विद्याचोपदिष्टेत्यर्थः॥ आचार्यस्तु ते गतिं वक्तेति ॥ एवं वदतामग्नीनामयमभिप्रायः। हेउपकोशल ब्रह्मविद्यामनुपदि- श्य प्रोषिते गुरौ तदलाभादनाश्वासं त्वामुपजीवयितुं ब्रह्मस्वरूप- मात्रं तदंगभूतामग्निविद्यांचोपादिक्षाम आचार्यादेवविद्याया विदि- तायाः साधिष्टत्वादाचार्य एव संयद्वामत्वादिगुणकं ब्रह्माक्षिरूपं च तदुपासनस्थानमचिरादिकां गतिमुपदिशत्विति । ततश्च गतिं वक्ते- त्यस्यावशिष्टवक्तेत्यर्थः । नतु गतिमात्रमिति द्रष्टव्यम्। आजगामहास्याचार्यः तमाचार्योभ्युवाचोपको- शल इति भगव इति हप्रतिशुश्राव ब्रह्मविद इव सो- म्यते मुखंभाति कोनुत्वानुशशासेति ॥ . स्पष्टोर्थः । एवमुक्तआह ॥ कोनु मानुशिष्याद्भो इति॥ हेभगवन् त्वयि प्रोषित इहमां कोनुशिष्यादिति ॥ अपेवनिद्भुते॥ अपनिद्भुतइवेत्यर्थः । नापहृते नच यथावदग्निभिरुक्तमित्यप्य ब्रवीदित्यभिप्रायः। कंचित्कालमपहृत्याग्नीनिमे एवनूनमुपदिष्टवं- तइत्युक्तवानित्याह ॥

(१९०) विषयवाक्यदीपिका। [अध्या०१-पादर- इमे नूनमीदृशा अन्यादृशा इति हानीनभ्यूचे ॥ इदानीमीदृशा ज्वलनाकारतया परिदृश्यमाना एवाग्नयः पूर्वम- न्याकाराः संतो ममोपदिष्टवंत इत्युक्तवानित्यर्थः । आचार्यआह ।। किंनु सोम्य किल तेवोचन्निति ॥ इतरआह॥ इदमितिहप्रतिजज्ञे॥ एतातावदुपदिष्टमिति प्रतिज्ञातवान् । इतरआह ।। लोकान्वावकिलसोम्यते वोचम् अहंतुतेतद्रक्ष्या- मि यथा पुष्करपलाशे आपोन श्लिष्यंते एवमेवंविदि पापं कर्मनश्लिष्यते इति ॥ हेसोम्यते अग्नयः पृथिव्यादीन् लोकानेव तवोक्तवन्तः नतुज्ञा- तव्यंब्रह्मकात्स्न्येन । अहंतु ते पद्मपत्रजलाश्लेषतुल्यसर्वपापाश्लेषा पादकविद्याविषयभूतंब्रह्म वक्ष्यामि यदि शुश्रूषसे इत्यर्थः । पापाश्ले पोनाम पापहेतुभूतकर्माचरणेपि पापोत्पत्तिप्रतिबंधकशक्तिमत्त्वम् । इदंच प्रामादिकपापविषयम् । पापशब्दश्च सुकृतदुष्कृतसाधारणः एतच्च तत्र तत्रोक्तं तत्रैवानुसन्धेयम् । इतरआह । ब्रवीतु मेभगवानिति तस्मै होवाच तस्मै एवमुप- पन्नायोपकोशलायाचार्योवक्ष्यमाणमुवाचेत्यर्थः । यए- षोक्षिणिपुरुषो दृश्यते एष आत्मेति होवाच एतदमृत- मभयमेतद्ब्रह्मेति ॥ योगिभिर्योक्ष्यंतर्वर्तिपुरुषोडश्यते अयमेवात्मा नियंतेत्यर्थः । १ अस्मिन्नेव ग्रंथे अंतरधिकरणे श्रीभाष्यश्रुतप्रकाशिकयोरपि तत्रैव जिज्ञासाधिकरणेच वेदार्थसंग्रहतात्पर्यदीपिकयोश्चेति बोध्यम् । श्रीशंकरभाष्येपि चतुर्थे स्फुटमिदम् ।

सू०९-अधि०२] अधिकरणम् । (१५१) अमृतत्वनिरतिशयभोग्यत्वमभयत्वं दुःखासंभिन्नत्वं ब्रह्मत्वं निरति- शयवृहत्त्वम्॥ तद्यद्यप्यस्मिन्सर्पिर्वोदकंवा सिंचति वर्त्मएवग- च्छति॥ तस्मानिर्लेपस्थानप्रभावादक्षिणि यद्यपि सर्वोिदकंवा कश्चित्सि- चेत् तत्पार्थद्वयंगच्छति न तत्रलिप्यते ॥ एतंसंयद्वामइत्याचक्षते एतं हि सर्वाणि वामान्य- भिसंयन्ति यएवं वेद ॥ संयंति संगतानि वामानि वरणीयानि प्रार्थनीयानि यस्मिन्स संयद्रामः सर्वकल्याणगुणाश्रयत्वं सत्यसंकल्पत्वं वासंयद्रामत्वं तदुपासकस्यापि तत्क्रतुन्यायात्तद्भवतीत्यर्थः । एष उ एव वामनीरेषहिसर्वाणि वामानि नयति यएवंवेद॥ वामनीत्वं स्वाश्रितेषु शोभनप्रापकत्वं तत्क्रतुन्यायेन तद्गुणो- पासकस्यापि तद्भवतीत्यर्थः॥ एष उ एव भामनीरेषहि सर्वेषु लोकेषु भातिय- एवंवेद॥ भामनीत्वं सर्वलोकव्याप्तदीप्तिमद्विग्रहयुक्तत्वम् । उपासक- स्यापि तद्भवत्यपेक्षायां सत्यामित्यर्थः । अत्र संयद्वामत्ववामनीत्व- भामनीत्वेषु फलत्वकथनं फलरूपतात्पर्यलिंगोपन्यासेन तेषु गुणेषु तात्पर्यप्रदर्शनार्थम् । नतु सर्वोिदकंवासिंचतीत्यत्रैवार्थवादमा- तयास्तुतिरूपत्वमितिप्रदर्शनार्थम् । सपितिवाक्यस्य स्तुतिप- रत्वं व्यासारुक्तम् ॥

(१५२) विषयवाक्यदीपिका। [अध्या०१-पाद२- अथ यदुचैवास्मिन शव्यं कुर्वति यदु च नार्चिषमे- वाभिसंभवंति॥ अथ शब्दः प्रकृतविषयत्वद्योतनार्थः। अस्मिन् ब्रह्मविदि सामा- न्याभिप्रायत्वात्तदेकवचनस्योत्तरत्राभिसंभवंतीति बहुवचनेन न वि- रोधः।यद्यदि शव्यं शवदहनादिकर्म पुत्रादयः कुर्वन्ति यदिवा न ते- चिषमभिसंभवंति । अचिरादिशब्दाश्च “आतिवाहिकास्तल्लिंगात् । ४।३।४॥” इतिन्यायेन तदमिभानिदेवतापराइत्यन्यत्रस्थितम् । अत्रकेचित् । उपकोशलविद्यांगभूतानिविद्यावैभवेन शवदहनादिवै- गुण्येप्युपकोशलविद्यानिष्ठस्य न क्षतिः । विद्यान्तरनिष्ठस्य दहना- दिवैगुण्ये किंचिद्वैगुण्यमस्तीतिवदन्ति । तन्न । नकर्मणा लिप्यते नोकनीयानित्यादिश्रुतिसिद्धार्थानुवादित्वादस्यवाक्यस्य तादृशा- र्थप्रत्यायकत्वाभावात् । अतोऽथयदुचैवास्मिन्नित्येतत्सर्वब्रह्मवित्सा- धारणमेव ॥ अर्चिषोहरन्ह आपूर्यमाणपक्षमापूर्यमाणपक्षा द्यान षडुदङ्केति मासांस्तान मासेभ्यः संवत्सरं संव- त्सरादादित्यमादित्याचंद्रमसं चंद्रमसो विद्युतं तत्पुरुषोऽमानवः स एतान् ब्रह्मगमयति । एषुदेवयथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमंमानवमावर्त ना- वर्तन्ते॥ यान षण्मासान् उदादित्यएति तान्मासानित्यर्थः । देवपथः देवैरातिवाहकैर्नीयमानः पंथा देवपथः ब्रह्मप्रापकः पंथाः ब्रह्मपथः एतेन मार्गेण प्रतिपद्यमाना इमंघोरं घटीयंत्रवजननमरणाद्यावर्तक मनुष्यादिशरीरोपलक्षितं संसारं पुनर्न प्रतिपद्यते ॥ १ तत्रैवसूत्रेश्रीभाष्यादावित्यर्थः ।

सू०९-अधि०२] अबधिकरणम्। (१५३)
अन्तर्याम्यधिदैवाधिलोकादिषुतद्धर्मव्यपदेशा-
त्।१।२।१९॥
बृहदारण्यके पंचमाध्याये सप्तमब्राह्मणे ॥
अथ हैनमुद्दालकः आरुणिः पप्रच्छ ।
नाम्नोद्दालकः। अरुणस्यापत्यमारुणिः॥
याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतंजलस्य
काप्यस्य गृहेषु यज्ञमधीयानाः॥
मद्रेषु देशेषु गोत्रतः काप्यस्य नाना पतंजलस्य गृहेषु
गृहाः पुंसिचभूम्न्येव” इत्येकस्मिन्बहुवचनम् । कल्पसूत्रमधी
यानाउपितवंतः॥
तस्यासीद्भार्या गन्धर्वगृहीता तमष्टच्छाम कोसीति
सोब्रवीत्कबन्ध आथर्वण इति ॥
नाम्ना कवन्धः अथर्वपुत्रश्च इतरत्स्पष्टम् ॥
सोब्रवीत्पतंजलं काप्यं याज्ञिकांश्च ॥
सगन्धर्वः याज्ञिकान यज्ञाध्येतॄन् अस्मांश्चाध्यापकं काप्यंचा-
ब्रवीदित्यर्थः। तदेवाह ।।
वेत्थनु त्वं काप्य तत्सूत्रं येनायं च लोकः परश्च
लोकः सर्वाणि भूतानि संदृब्धानिभवन्तीति ॥
सूत्रेण पुष्पाणीव ग्रंथनेन विष्टब्धानीत्यर्थः । एतादृशं सूत्रं
त्ववेत्थ किमितिप्रश्नः॥
सोब्रवीत्पतंजलः काप्यः नाहं तत्सूत्रं भगवन
वेदेति॥
एवं सूत्रंपृष्ट्वा अन्तर्यामिणं पप्रच्छेत्याह ।।

(१६४) विषयवाक्यदीपिका। [अध्या०१-पाद२- सोब्रवीत्पतंजलं याज्ञिकांश्च वेत्थनुत्वंकाप्य तमंत मिणं यइमं च लोकं परंचलोकं सर्वाणिच भूतानि योन्तरोयमयतीति।सोब्रवीत्पतंजलः काप्यःनाहं भग- वन् वेदेति । सोब्रवीत्पतंजलं काप्यं याज्ञिकांश्च योवै तत्काप्य सूत्रं विद्यात्तंचांतर्यामिणमिति ॥ इतिशब्दः प्रकारवचनः । हेकाप्य तत्सूत्रं तम् ॥ चांतर्यामिणमस्मदवगतप्रकारेण योविद्यादित्यर्थः॥ शिष्टंस्पष्टम् ॥ सब्रह्मवित्सलोकवित्सदेववित्सवेदवित्स भूतवित्स- आत्मवित्ससर्वविदितितेभ्योब्रवीत्॥ सपरब्रह्मवित्तन्नियाम्यलोकदेवभूतवित्सपरमात्मवित्ससर्वविदिति एवंतेभ्यः काप्ययाज्ञिकेभ्यः गंधर्वोब्रवीदित्यर्थः॥ तदहवेद ॥ तत्सर्वमहंजानेइत्यर्थः॥ तच्चैवंयाज्ञवल्क्य मूत्रमविद्वान तंचांतर्यामिणं ब्र- झगवीरुदजसे मूर्द्धातविपतिष्यतीति ॥ ब्रह्मगवीब्रह्मविद्यापणबंधभूतागाः। गोरतद्धितलुकि । ६।४।९२॥ इति टचि समासांते टिड्राणभ् । ४।१।१५। इत्यादिना डीए उदजसे चेत्कलयसेचेत् तेमूर्धा व्यपतिष्यतीति शशापतम् ॥ वेदवा अहंगौतमतत्सूत्रंतंचांतर्यामिणमिति ॥ याज्ञवल्क्यस्यप्रतिवचनम् । हेगौतम तत्सूत्रं तंचांतर्यामिणमहं वेदवेदेवेत्यर्थः । एवमुक्तउद्दालक उवाच ॥ योवाइदंकश्चिद्व्याद्वेदवेदेति ॥

सू०९-अधि०२] अबधिकरणम्। (१५५) यःकश्चिदै सर्वज्ञडंभः इदं वेद इदं वेदेति वाचा ब्रूयादित्यर्थः । यथावेत्थ तथा ब्रूहीति॥ यथा येन प्रकारेण वेत्थ तेन प्रकारेण ब्रूहि किं वचनेनेत्यर्थः ॥ सहोवाच वायुर्वंगौतम तत्सूत्रं वायुना वैगोतम सूत्रेण अयंच लोकः परश्च लोकः सर्वाणि भूतानि संह- ब्धानि भवंति तस्माद्वै गौतम पुरुषप्रेतमाहुःव्यसुव्यत्रं सिषतास्यांगानीति वायुनाहि गौतम सूत्रेण संदृब्धानि भवंतीति ॥ यस्मात्सर्वाणि वायुना ग्रथितानि तस्मादेव हेतोरुनांतप्राण- स्य पुरुषस्यांगानि उत्सूत्रमाल्यानीव विस्रस्तानि भवन्ति । अतो- वायुना संदृब्धानि । व्यत्रंसिषत लुङ् अंगीकरोति ॥ एवमेवैतद्याज्ञवल्क्येति ॥ भवत्वेतदेवमितरबृहीत्याह । अंतर्यामिणं बहीति यः पृथिव्यांतिष्ठन्पृथिव्या अंतरोयंष्टथिवी न वेद यस्य प्रथिवी शरीरं यःष्टथिवी- मंतरोयमयत्येषतआत्मांतर्याम्यमृतः ॥ पृथिव्यां स्थितस्तदंतर्गतस्तदवेद्यः। तच्छरीरकः सन् योंतःप्र- विश्य प्रवृत्तिनिवृत्तिलक्षणनियमनंकरोति । एषोन्तर्यामीतेऽमृतः आत्मा निरुपाधिकामृतत्वशाल्यात्मत्यर्थः। तेऽमृतात्मतिव्यतिरे- कनिर्देशादंतर्यामिणोजीवव्यतिरेकः सिद्धः । अमृतत्वविशेषणाच्च सिध्यति । तद्विशेषणं जीवव्यावृत्त्यर्थम् । अंतर्यामीते आत्मेत्युक्ते आत्मशब्दस्य स्वरूपवचनत्वशंकया जीवव्यावृत्ति प्राप्नोतीति १ अत्रोभयोःपुस्तकयोरस्यैवपाठस्यसत्वेपि पोतः पाकोभकोडिम्भइत्यमरकोशात् डिभो पि बालिशेबालेइतिमेदिनीकोशात् चाँडभइत्येवोचितः पाठः।

(१५६) विषयवाक्यदीपिका। [अध्या०१-पाद२- यमृतइत्युक्तम् । निरुपाधिकामृतत्वशाल्यात्मा परमात्मैवात्र प्र- श्रानुसारेणेमंच लोकंपरंच लोकं सर्वाणि भूतानियोन्तरोयमयति एषत आत्मांतर्याम्यमृत इत्येकेनैव निर्देशेन सर्वातर्यामिणः उद्दाल- कंप्रति त आत्मेति । आत्मप्रतिपादनसंभवात् । यः पृथिव्यां तिष्ठन् योप्सुतिष्ठन्नित्यादिपर्यायोपदेशबाहुल्यं किमर्थमितिचेन्न । पृथिव्या- चैकैकवस्तषु परिपूर्णत्वेन नियंतृतया स्थितिज्ञापनार्थत्वेन सार्थ- क्यात् । परिपूर्णत्वं चाणुमात्रेपिस्थितस्य निरवधिकषाडुण्यविशिष्ट- तयास्वप्रतिपत्तियोग्यत्वमितिव्यासायुक्यिान्वयाधिकरणे । १ । ४।१९। वर्णितम् । नन सर्वाणि भूतानि योंतरोयमयति तमेब्रही- ति सर्वभूतस्याप्यंतर्याम्येकोस्ति सवक्तव्य इतिपृष्टवंतं प्रति पृथिव्यं- तर्याम्येव तेंतर्यामीजलांतर्याम्येव । तेंतर्यामीति पृथिवीजलायंतर्या- मिणश्चोहालकांतर्यामिणश्चाभेदवोधनमसंगतम् । अंतर्याम्यैक्यस्य- प्रागेवनिश्चितत्वात् । अतस्तआत्मेत्यत्रात्मशब्दोनांतर्यामिवचनोपि तु स्वरूपवचन इत्येव युक्तमितिचेत् । न । आत्मशब्दस्य शेषित्वा- धारत्वाद्यर्थकतयाप्युपपत्तेः। पति विश्वस्येत्यादिवाक्यर्विश्वशेषिणः कस्यचिदवगतत्वात्तेनवाक्येन प्रतिपन्नस्त आत्मातेशेषीपृथिव्यादी- नामंतर्यामीति प्रघट्टकार्थः । एवम् ॥ योप्सु तिष्ठन् योनौ तिष्ठन् योन्तरिक्षे तिष्ठन् यो- वायौ तिष्ठन् य आदित्ये तिष्ठन् योदिक्षु तिष्ठन् यश्चं- द्रतारके तिष्ठन् य आकाशे तिष्ठन् यस्तमसि तिष्ठन् एषत आत्मांतर्याम्यमृत इत्यधिदैवतम् ॥ उपदिष्टमंतर्यामिस्वरूपमितिशेषः॥ अथाधिभूतम् ॥ अन्तर्यामिस्वरूपमुपदिश्यत इति शेषः॥

सू०९-अधि०२ ] अबधिकरणम् । (१५७) यःसर्वेषुभूतेषु तिष्ठन्नित्यधिभूतमथाध्यात्मम् । उच्यत इति पूर्ववच्छेषः॥ यः प्राणे तिष्ठन् । योवाचि तिष्ठन् यश्चक्षुषि तिष्ठन् यः श्रोत्रे तिष्ठन् योमनसि तिष्ठन् यस्त्वचि तिष्ठन योविज्ञाने तिष्ठन् योरेतसि तिष्ठन्नेषत आत्मांतर्या- म्यमृतः॥ अत्र विज्ञानशब्द आत्मपरः समानप्रकरणे माध्यंदिनिशा- खायां विज्ञानशब्दस्थाने आत्मन्नित्यात्मशब्देन निर्देशदर्शनात् ॥ अदृष्टोद्रष्टा अश्रुतः श्रोता अमतोमंता अविज्ञातो विज्ञाता॥ अत्र द्रष्टुत्वंरूपसाक्षात्कारवत्वं नतु चक्षुर्जन्यज्ञानवत्वम् । तस्य परमात्मन्यसंभवात् । श्रोतृत्वं शब्दसाक्षात्कारवत्वं मंतृत्वं मंतव्य- विषयसाक्षात्कर्तृत्वं विज्ञातृत्वं विज्ञानशब्दितनिदिध्यासनविषयसा- क्षात्कर्तृत्वम् । द्रष्टुत्वादिकं जीवस्याप्यस्तीति अद्रष्टुत्वादिना द्रष्टु- त्वादिकं विशेषितं तादृशंच नजीवस्यास्तीतिभावः । अत्रैव द्रष्टुत्वा- दावुपाध्यनुक्तेनिरुपाधिकद्रष्टुत्वमर्थसिद्धम् ॥ नान्योतोस्ति द्रष्टा नान्योतोस्ति श्रोता नान्योतो- स्ति मंता नान्योतोस्ति विज्ञाता एषत आत्मांतर्याम्य- मृतः। अतोन्यदात ततोहोद्दालकआरुणिरुपरराम ॥ अन्यशब्दादेः सर्वनाम्नः पूर्वनिर्दिष्टसमानान्यपरत्वस्य “समानेषु पूर्वत्वादि"इतिसाप्तमिकाधिकरणे व्यवस्थितत्वाताअत्राप्यन्यशब्देन पूर्वनिर्दिष्टादृष्टुत्वादिविशेषितनिपरुपाधिकरूपादिसाक्षात्कारादिम- तोनिषेधउपपद्यतेजीवस्यकरणायत्तज्ञानत्वात् । अन्यस्तत्सदृशोऽ ए (१९८) विषयवाक्यदीपिका। [अध्या०१-पाद२- दृष्टोद्रष्टानास्तीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । शिष्टंस्पष्टम् सप्तमंब्राह्मणम् ॥ अदृश्यत्वादिगुणकोधर्मोक्तेः॥१॥२॥२२॥ मुंडकोपनिषदिप्रथमखण्डे ॥ शौनकोहवै महाशालोंगिरिसंविधिवदुपसन्नः प्रप- च्छकस्मिन्नुभगवोविज्ञातेसर्वमिदं विज्ञातंभवतीति ॥ सर्वोपादानंकिमितिप्रश्नार्थः । विस्तरस्तु मुंडकोपनिषत्प्रका- शिकायां द्रष्टव्यः॥ तस्मैसहोवाच ॥ स्पष्टोर्थः॥ देविद्यवेदितव्येइतिहस्मयब्रह्मविदोवदंति ॥ अत्र प्राप्तमित्यध्याहारः । यद्वस्तु प्राप्तं वेज्ञाने उपादेये इतिह तदभिज्ञाः पराशरादयः। “तत्प्राप्तिहेतुआनंच कर्मचोक्तं महा- मुने । आगमोत्थंविवेकाच द्विधाज्ञानंतथोच्यते । शब्दब्रह्मागममयं परंब्रह्मविवेकजम् ।” इति यद्वदति तज्ज्ञाने सर्वविज्ञातं भवतीत्यर्थः। एतत्सर्वमभिप्रेत्य भगवता भाष्यकृतादेविद्ये वेदितव्ये इति हस्म यद्ब्रह्मविदोवदन्ति पराचैवापराचेति । ब्रह्मप्रेप्सुना देविद्ये वेदितव्ये ब्रह्मविषये परोक्षापरोक्षरूपे द्वे ज्ञाने उपादेये इत्यर्थः इतिभाषितम्। एतेन परविद्याया ब्रह्मप्रेप्सूपादेयत्वेप्यपरविद्यायास्तथात्वाप्रतीतेः। प्रत्युताथ परा यया तदक्षरमधिगम्यतइति वाक्यपर्यालोचनायामपर विद्याया ब्रह्मप्रेप्सूपादेयत्वाभावस्यैव प्रतीतेब्रह्मप्रेप्सूनां देविये उपादेये इतिभाष्यं कथमिति शंकापिनिरस्ता॥ प्राप्नुमितिपदाध्याहारेणास्यार्थस्य प्रतीतेरितरथा यत्पदवैय- र्थ्यात् । किंच कस्मिन् भगव इति सर्वोपादाने पृष्टे विद्याद्वयकथन MUNINDAAIPUR मू०९-अधि०२] अबधिकरणम्। (१५९) मानान्पृष्टः कोविदारानाचष्टे इति न्यायमनुसरेदतोयथोक्तएवार्थः। ओदनपाकं पचतीतिवत् देविद्ये वेदितव्ये इतिनिर्देशः। केते विद्ये- इत्यत्राह॥ पराचैवापराचेति॥ परमपरमिति ज्ञानं द्विविधमित्यर्थः। तत्र सूचीकटाहन्यायेना परज्ञानस्वरूपमाह ॥ तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोज्योतिषमितिहासपु- राणन्यायमीमांसाधर्मशास्त्राणीति ॥ पडंगोपेतसशिरस्कसोपबृंहणवेदश्रवणजन्यपरोक्षज्ञानमित्यर्थः। अपरविद्यामुक्त्वापरविद्यामाह ॥ अथ परा यया तदक्षरमधिगम्यते ॥ अत्रतच्छब्दः इति ह स्म यद्ब्रह्मविद इति यच्छन्दप्रतिनिर्देश- कायेन ज्ञानेन इति हस्म यद्ब्रह्मविद इतिवाक्ये प्राप्यतयानिर्दिष्टम्। तदक्षरमधिगम्यतेआधिक्येन गम्यते।अपरोक्षीक्रियतइत्यर्थः । विवे- कादिसाधनसप्तकजन्यं श्रवणजन्यज्ञानानंतर्भाविदर्शनसमानाकारंप रज्ञानमित्यर्थः। एतेनाधिगम्यतइत्यस्य ज्ञायत इतिवाप्राप्यत इतिवा अर्थस्याश्रयणीयतया परविद्याया एव ब्रह्मविषयत्वब्रह्मप्राप्तिहेतुत्व- योः सिध्यापरविद्याया ब्रह्मविषयत्वब्रह्मप्राप्तिहेतुत्वयोरभावेनावर- विद्याया अपि ब्रह्मप्राप्तिहेतुत्वप्रतिपादकभाष्यासंगतिःकिंच परवि- द्याया अपरोक्षज्ञानरूपत्वे प्रमाणानुपलंभादपरोक्षत्वप्रतिपादकभा- ष्यस्याप्यसंगतिरितिदूषणंपरास्तम् । अधिगम्यत इत्यस्यापरो- क्षीक्रियत इत्यर्थकत्वात् ॥ नन्वेतदुपबृंहणे श्रीविष्णुपुराणे "देविये (१६०) विषयवाक्यदीपिका। [ अध्या०१-पाद२- वेदितव्येवै” इतिचाथर्वणीश्रुतिः। परयात्वक्षरप्राप्तिऋग्वेदादिमया ऽपरेति। अधिगम्यतइत्यस्यप्राप्त्यर्थतपोपबृंहितत्वात् कथमिदमुच्य तइतिचेन्न । यधुपबृंहणानुसारेणप्राप्त्यर्थकतयाव्याख्यातव्यमितिनि- बैधः। तहीतिहस्मतद्ब्रह्मविदोवदंतीतिपूर्ववाक्येपरापरविद्ययोईयोर- पिब्रह्मप्राप्तिहेतुत्वस्य कथितत्वेन यया तदक्षरमधिगम्यते । ते इत्य- स्यापरविद्याव्यावर्तकत्वाभावप्रसंगेन तव्यावर्तकत्वार्थसाक्षादितिप दमध्याहृत्य ययासाक्षादक्षरमधिगम्यते प्राप्यते सापराविद्येत्यस्तु । अपरोक्षत्वंतु अाल्लभ्यते । श्रुत्यंतरे निचाय्य तन्मृत्युमुखात्प्रमु- च्यते " तस्मिन्दृष्टे परावरे” इत्यादिदर्शनादिति दृष्टव्यम् । ननु स्वाध्यायस्यतथात्वेहि । ३।३।३। इतिसूत्रे तेषामेवैतां ब्रह्म विद्यां वदेतेत्युपसंहारगतब्रह्मविद्याशब्दस्यब्रह्मविद्यावेदविद्यामित्यु- पनिषत्परतयाभाष्यकृताख्यातत्वात् येनाक्षरंपुरुषं वेद सत्यं प्रोवाचतां तत्वतोब्रह्मविद्यामिति द्वितीयखण्डगतब्रह्मविद्याशब्द, स्यापि तत्परत्वौचित्यादुपक्रमेच ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वा- यज्येष्ठपुत्राय प्राहेत्युक्तिकर्मतया श्रूयमाणाया ब्रह्मविद्याया उपनि- पवंथरूपत्वस्यैवौचित्यात् । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदः इत्यत्रऋग्वेदादिशब्दानां तज्जन्यज्ञानलक्षणाया अयुक्तत्वेन विद्याशब्दस्यैव ग्रंथपरत्वाश्रयणस्य युक्तत्वात्परविद्याशब्देनापि साक्षाद्ब्रह्मप्रापकोपनिषद्भागएवाभिघ्यातुमुचितः। ततश्च परोक्षापरो- क्षरूपज्ञानपरत्वेन युक्तिपश्यामइति चेत् । अत्रोच्यते । यदि पर- विद्याशब्देनोपनिषद्रंथसंदर्भविशेषः प्रतिपाद्यःऋग्वेदादिशब्दैमुख्य या वृत्त्या ऋग्वेदादय एव प्रतिपाद्यास्तहि ब्रह्मप्रतिपादकोपनिषदां ऋग्वेदादिवहिर्भावप्रसंगेन “यावेदवाह्याः स्मृतयः” इत्युक्तरीत्या १ रुद्योगादिमयीपरा । २ यावेदबाह्याः स्मृतयो याश्चकाचकुदृष्टयः । सर्वास्तानिष्फलाः प्रेत्यतमोनिष्ठाहिताः स्मृताः इति मनुः। १२ । ९५ ॥

सू०९-अधि०२] अबधिकरणम् । (१६१) सदर्थत्वमेव स्यात् । ऋग्वेदादिशब्दानां मुख्यार्थत्वमाश्रितवद्भिर- पि परैरुपनिषदां वेदवाह्यत्वप्रसंगात्परविद्याशब्दोज्ञानवाचीतिव्या- ख्यातम् । इयांस्तु विशेषः । परमते द्वे विद्ये वेदितव्ये इत्यत्र सकृ- त्प्रयुक्त एवं विद्याशब्दो सत्यपि साधारणे प्रवृत्तिनिमित्ते ऋग्वेदादि- ग्रंथसंदर्भलक्षणमपरविद्यांब्रह्मज्ञानलक्षणां परविद्यांचव्यनक्तीतिदो- पोस्ति । अस्मन्मते सनास्ति । किंचपरव्याख्याने ऋग्वेदादि वेद्य- विलक्षणत्वाद्ब्रह्मणो वेदैश्चसर्वैरहमेववेद्य इति स्मृतिः पीड्येत । अत ऋग्वेदादिजन्यज्ञानं ब्रह्मविषयकमेवेत्येवयुक्तम् । अतः परापरज्ञान- शब्दितपरोक्षापरोक्षज्ञानविषयत्वं ब्रह्मण एवेति भाष्यकारीया रीतिरेवसाधीयसी ॥ यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपा- णिपादं नित्यं विभुं सर्वगतं सुसूक्ष्म तदव्ययं यद्भू- तयोनिपरिपश्यति धीराः॥ अद्देश्यम् अदृश्यम् । ज्ञानेंद्रियाविषयम् । अग्राह्यपाण्यादि- कार्यहानोपादानाद्यविषयम् । अगोकुलरहितम् । अवर्णमपेतब्रह्म क्षत्रादिकम् । अचक्षुःश्रोत्रं ज्ञानेंद्रियरहितम् । तत्प्रसिद्धम् । अपाणिपादं कर्मेन्द्रियरहितम् । नित्यंकालापरिच्छिन्नम् । विभुं- देशापरिच्छिन्नं सर्वगतंसर्वेष्वंतःप्रविश्यावस्थितम् । तत्रहेतुमाह । सुसूक्ष्ममित्युक्तविशेषणविशिष्टं यत्तदव्ययम् । अथ परायया तद- क्षरमित्यत्राक्षरशब्दनिर्दिष्टमित्यर्थः । यद्भुतयोनिपरिपश्यंतिधीराः। प्रज्ञाशालिनः । यत्सर्वभूतोपादानतयापश्यन्तीत्यर्थः । योनिश- ब्दस्योपादानवचनत्वम् । “यथोर्णनाभिः सृजतेगृहतेच” इति वाक्यशेषादवगम्यत इति प्रकृत्यधिकरणे १ । ४ । २३॥ भा षितम्।ननु भूतयोनिशब्दनिर्दिष्टं सर्वोपादानत्वं ब्रह्मणो न संभवति ।

। (१६२) विषयवाक्यदीपिका। [अध्या०१-पाद२- घटादिषु मृदादेवोपादानत्वदर्शनेन ब्रह्मण उपादानत्वासंभवादि- त्याशङ्कय मृदादिष्वपि ब्रह्मण आत्मतया व्याप्तत्वान्मृदादिरूपस्य ब्रह्मण उपादानत्वेनानुपपत्तिरित्यभिप्रयन्नाह ॥ यस्मात्परं नापरमस्ति किंचित् ॥ अत्र परशब्द उत्कृष्टवचनः । अपरशब्दोन्यवचनः । यस्मादन्य- दुत्कृष्टनास्तीत्यर्थः । नात्र परापरयोईयोरपिनिषेधः । तथा सति नभः सकृच्छ्रुतस्यावृत्तिप्रसंगात् ॥ यस्मानाणीयो न ज्यायोस्ति कश्चित् ॥ अणोरणीयान्महतो महीयानितिभावः । अणीयस्त्वं सूक्ष्मत्वं व्यापित्वमिति फलति । ज्यायस्त्वं सर्वेश्वरत्वं सर्वव्यापित्वात । सर्वेश्वरत्वादस्यैवैतव्यतिरिक्तस्य कस्याप्यणीयस्त्वं ज्यायस्त्वं च नास्तीत्यर्थ इतिवेदार्थसंग्रहेव्याख्यातम् । कश्चिदिति लिंगव्य- त्ययश्छांदसः॥ वृक्षइव स्तब्धो दिवि तिष्ठत्येकः॥ नंतव्यवस्वभावादृक्ष इवाप्रणतस्वभावः सन् यः प्रधानभूतः परमपद आस्तइत्यर्थः॥ तेनेदं पूर्ण पुरुषेण सर्वम् ॥ नियमनाद्यर्थमंतःप्रविष्टेन सर्वमिदं व्याप्तमित्यर्थः । अतश्च मृदादिशरोरकस्य ब्रह्मणो घटादावप्युपादानत्वसंभवाद्भूतयोनित्वं नानुपपन्नमितिभावः । अयंमंत्रः केषुचित्कोषेषु न दृष्टः कैश्चिद- व्याकृतस्तथापिव्यासायरक्षरपुरुषस्य यस्मात्परंनापरमस्तीति समाभ्यधिकनिषेधश्चोपक्रमादवगत इत्यभिहितत्वात् नप्रक्षेपशंका- हइतिद्रष्टव्यम् । ननु लोके उपादानस्य स्वभिन्ननिमित्तकारणसापे- क्षत्वदर्शनादेकविज्ञानेन सर्वविज्ञानमनुपपन्नम् । किंच । एकस्य १ अत्र च शब्दोपेक्षितः अथवा गामश्वंपुरुषपशुम् इतिवविनापिचंसमुच्चयः स्यात् ॥

मू०९-अधि०२] अत्रधिकरणम् । (१६३) ब्रह्मणः परस्परविरुद्धानन्तप्रपंचोपादानत्वमपि न संभवति । किंच। घटाद्युत्पत्तावुपादानरूपमृत्पिडादिषु पूर्वावस्थोपमर्दोदृश्यते । प्रा- कारोपादानभूतास्विष्टकासु चतुरस्रत्वादिलक्षणपूर्वाकारतिरोधानं दृश्यते । अक्षरशब्दितस्य निर्विकारस्य ब्रह्मणः पूर्वाकारोपमर्दति- रोधानयोरसंभवेनोपादानत्वं न संभवतीत्याशङ्कयाह ।। यथोर्णनाभिः सृजते गृढ़ते च ॥ "यथोर्णनाभिर्हदयादू'संतत्यवक्रतः । तयाविहृत्य भूयस्तां ग्रसत्येवंजनार्दनः । इत्युक्तरोत्या यथालूताख्यकीटविशेषस्य स्वांतःस्थिततंतुनिःसारणतत्प्रवेशनयोनिरपेक्षकर्तृत्वम् । यथापृथिव्यामोषधयः संभवन्ति ॥ यथैकस्यामेवपृथिव्यां पूर्वावस्थोपमर्दतिरोधानाभावेपिविलक्ष- णानन्तौषध्युपादानत्वम् ।। यथा सतः पुरुषात्केशलोमानि ॥ यथाजीवतः पुरुषस्याचेतनकेशलोमाधुपादानत्वम् ।। तथाक्षरात्संभवतीहविश्वम् ॥ एवमेवनिमित्तांतरनिरपेक्षादुपादेयविलक्षणानिर्विकारात्परमा- त्मनः परस्परविलक्षणचेतनाचेतनात्मकं निखिलं जगत्संभवती- त्यर्थः। ब्रह्मणोविश्वोत्पत्तिप्रकार उच्यते ॥ तपसाचीयते ब्रह्म॥ तपसा ज्ञानेन “ यस्य ज्ञानमयंतप इति वक्ष्यमाणत्वात् । चीयते उपचीयते । बहुस्यामिति संकल्परूपणे ज्ञानेन ब्रह्म सृष्टयु- न्मुखं भवतीत्यर्थः॥ ततोन्नमभिजायते॥ " अद्यतेऽत्तिचभूतानि” इतिभोग्यभोक्तरूपचेतनाचेतनसंघात लक्षणमव्याकृतं परस्माद्ब्रह्मणोजायत इत्यर्थः ॥

(१६४) विषयवाक्यदीपिका। [अध्या०१-पाद२- अन्नात्प्राणोमनः सत्यं लोकाः कर्मसु चामृतम् ॥ तस्मात्समष्टिरूपचिदचित्संघातात्मकादनशब्दितादव्याकृतात् मुख्यप्राणः अंतःकरणं सत्यशब्दितोभोक्तृवर्गः स्वर्गादयोलोकाः कर्मसुश्रायतममृतंचामृतत्वसाधनं कर्मेतियावत्। अथवा कर्मस्विति निर्धारणे सप्तमी । कर्ममध्ये मोक्षार्थ कर्मेत्यर्थः । तद्दारा एतत्सर्वम भिजायते इतिपूर्वेणान्वयः । एतत्सर्व भाष्यश्रुतप्रकाशिकयोः स्पष्टम् । पूर्वमंत्रोक्ततपःशब्दविवृण्वन्भूतयोनिभूतस्य ब्रह्मणः मृष्टयुपकरणसार्वइयं दर्शयति ॥ यत्सर्वज्ञः सर्वविद्यस्य ज्ञानमयंतपः ॥ सर्वज्ञः सर्वविषयकज्ञानवान् सर्ववित् तद्वस्तुगतसर्वप्रकार- ज्ञानवान् स्वरूपतः प्रकारतश्चसर्वविषयकज्ञानवत्वमस्मिन्मंत्रेभूत- योनेविधेयम् । अप्राप्तत्वात् “ यस्य ज्ञानमयंतपः" इत्यनेनांशेन पूर्वमंत्रोक्ततपश्शब्दविवरणम् । यस्य ब्रह्मणः संकल्परूपज्ञानव्यतिरे केण जगत्सृष्टयुपयुक्तंकर्मान्तरंनास्तीत्यर्थः। ततोनमभिजायत इत्यादिकमनुवदति ॥ तस्मादेतद्ब्रह्म नामरूपमन्नं चजायते ॥ तस्मात्संकल्पेन सृष्टयुन्मुखात् ब्रह्मणः “ ततोत्रमभिजायते' इत्यत्रानशब्दनिर्दिष्टमेतदव्याकृताख्यं ब्रह्म साक्षाज्जायते । तारा नामरूपवत् । अद्यतेऽत्तिच भूतानीत्यनशब्दनिर्दिष्टभोग्यभोक्तरूपं च जायत इत्यर्थः । यद्यप्यस्मिन्मंत्रे सर्वज्ञत्वाद्यनुवादेन ब्रह्मशब्दिता व्यक्तादिहेतुत्वं विधीयत इतिप्रतिभाति । तथापि तस्य पूर्वमंत्रप्राप्त स्य विधेयत्वासंभवादप्राप्तस्य सर्वज्ञत्वस्यैव विधेयत्वमितिद्रष्टव्यम्। ननु सर्वज्ञसर्वविच्छन्दयोरपौनरुत्याय सर्वज्ञशब्दस्यरूढिरभ्युपगं तव्या “कृशानुरेताः सर्वज्ञः” इतिनिघंटुपाठेसर्वज्ञशब्दस्योमापतौ रूढत्वात् । तस्मात्सर्वविदोदेवतांतरानिमित्तभूतात्तपसा चीयते ब्रह्मे eHiman ABBHRIRAIN मू०९-अधि०२] अत्रधिकरणम् । (१६५) ति पूर्वमंत्रनिर्दिष्टमेतत् ब्रह्म नामरूपमन्नंच जायत इत्युपादानभूताह मणो निमित्तस्येश्वरस्य भेद एव प्रतीयत इतिचेन्न “यः सर्वज्ञः सर्व- वित् यस्यज्ञानमयंतपः" इति तपसा चीयमानतया पूर्वमंत्रनिर्दिष्ट- स्याक्षरब्रह्मण एव सर्वज्ञत्वसर्ववित्त्वयोःप्रतीत्या तयो दासंभवान्नि- मित्तोपादानभेदविवक्षायामकविज्ञानेन सर्व विज्ञानासंभवेन कस्मिन् भगवोविज्ञाते सर्वमिदं विज्ञातं भवतीति प्रश्नस्य प्रतिवचनासंभवेन प्रतिपिपादयिषितप्रधानार्थविरोधप्रसंगादित्यलमतिप्रसङ्गेन । प्रथम- खंडः॥ तदेतत्सत्यम्॥ नित्यम् उत्पत्तिविनाशादिषड्डावविकारशून्यमित्यर्थः ।। मंत्रेषु कर्माणि कवयो यान्यपश्यन् ॥ अतीन्द्रियार्थसाक्षात्कारसमर्था वेदेषु यान्यग्निहोत्रादिकर्माणि दृष्टवंतः॥ तानि त्रेतायां बहुधा सन्ततानि ॥ गार्हपत्यादिवैतानिकाग्निषु यावज्जीवं कर्तव्यतयाधिकारिमंत्रफ- लभेदेन बहुधा विहितानि ॥ तान्याचरत नियतंसत्यकामाः॥ स्वतः सत्यं परंब्रह्मैव कामयमानाः । फलाभिसन्धिरहितास्संत इत्यर्थः॥ तानि कर्माण्याचरत॥ अनुष्टितकर्मणां ब्रह्मप्राप्तिहेतुत्वं ज्ञानद्वारेतिद्रष्टव्यम् । अमुमु- शून् प्रत्याह॥ एषवः पंथाःसुकृतस्यलोके ॥ १ जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यति इतियास्कमुन्युक्ताः षड्किाराः श्रीशंकरभाष्येप्युक्ताः॥

Hum (१६६) विषयवाक्यदीपिका। [अध्या०१-पाद२- पुण्यफलभूतेलोकेतु वक्षमाणोमार्गइत्यर्थः ॥ यदालोलायतेह्यर्चिःसमिद्धेहव्यवाहने ॥ यथेंधनादिभिर्दीपिते अग्नौ यस्मिन्काले ज्वाला चलति ॥ तदाज्यभागावंतरेणाहुतीः प्रतिपादयेत् ॥ तस्मिन्काल आज्यभागयोर्मध्ये आहुतीः प्रक्षिपेच्छ्रद्धयातत्सुहु तंभवेदित्यर्थः॥ यस्याग्निहोत्रमदर्शपौर्णमासमनाग्रयणमत्तिथिव- जितंचाहुतमवैश्वदेवमश्रद्धया अविधिनाहुतमासप्त- मांस्तस्यलोकानहिनस्ति ॥ दशख्यिपौर्णमासाख्येष्टयननुष्ठाने नवान्नस्वीकारार्थशरत्कालक र्तव्याग्रयणाख्येष्टिविशेषाननुष्टाने तिथिसत्कारोपासनहोमवैश्वदेवा- ननुष्ठाने श्रद्धावैधुर्येण यथाशास्त्रमननुष्टाने वानुष्ठितमप्यग्निहोत्र- कर्मतस्य सुकृतफलं सर्व सप्तपुरुषपर्यंतं नाशयतीत्यर्थः । यद्यप्य- ग्निहोत्रस्य न दर्शपौर्णमासादिकमंग तेषांपृथक्फलकत्वात् । तथा- पि नित्यनैमित्तिकं सकलं कर्मानुष्ठेयमित्यत्र तात्पर्यम् । अत एव भगवता भाष्यकृता श्रुतिस्मृतिचोदितेषु कर्मसु एकतरवैधुर्येपीतरे षामनुष्टितानामपि निष्फलत्वमयथानुष्ठितस्याननुष्ठितसमत्वंचाभि धायेति मंत्रार्थोविवृतः॥ काली करालीच मनोजवाच सुलोहिता याचसुधू- म्रवर्णा । स्फुलिंगिनी विश्वरुचीच देवी लोलायमाना इंति सप्तजिह्वाः॥ देवीत्येतद्विश्वरुच्यादिविशेषणम् । इतिलोलायमानाःसप्तजिह्वा इत्यन्वयः॥

सू०९-अधि०२] अबधिकरणम् । (१६७) एतेषु यश्चरते भ्राजमानेषु यथाकालंचाहुतीराद- दायन्॥ एतेषुदीप्यमानेषु अग्निजिह्वाभेदेषु विहितकालानतिलंघनेन होमद्रव्यंगृहीत्वा योग्निहोत्रादिकर्माचरति ॥ तनयंत्येताः सूर्यस्यरश्मयो यत्र देवानां पतिरेको- धिवासः॥ अधिवसतीत्यधिवासः यस्मिन्सत्यलोकेदेवानां पतिरनवधिका समानोहिरण्यगर्भ आस्ते तत्राहुतयः सूर्यरश्मयोभूत्वा तयजमानं प्रापयन्तीत्यर्थः॥ एह्येहीतितमाहुतयः सुवर्चसःमूर्य्यस्य रश्मिभिर्य- जमानंवहति । प्रियांवाचमभिवदंत्योर्चयंत्यः एषवः पुण्यः सुकृतोब्रह्मलोकः॥ सूर्यस्यरश्मिसंपृक्ता अतएव सुवर्चसः आहुतयस्तं यजमानमर्च- यंत्यः सुकृतसाध्य पावन एष चतुर्मुखलोकोभवदीयः भवत्स्वा- मिकः। ईदृशीं प्रियां वाचं वदन्त्यएहिएहोत्याह्वयंत्यस्तं यज- मानं ब्रह्मलोकं प्रापयन्तीत्यर्थः । एवं ब्रह्मलोकपर्यन्तसाधनान्यपि कर्माणि क्षयिफलतया निंद्यते ॥ प्लवाद्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ॥ षोडशत्विपत्नीयजमानरूपाष्टादशकाश्रितत्वेनोक्तमवरफला- भिसन्धिमत्तयाऽश्रेष्ठं कर्मयेषु यजमानेषु वर्तते । ते यज्ञप्रधानाः पुरुषाः जीर्णनौका इव संसारार्णवसंतरणासमर्थाइत्यर्थः । यद्वा । अष्टादशस्मृत्युक्तं स्मार्त कर्म येषु श्रौतकर्मसु तदधिकारसंपाद-

(१६८) विषयवाक्यदीपिका। [अध्या०१-पाद२-
कत्वेनावरमंगभूतं भवति । तान्यपि श्रौतानि यज्ञात्मकानि कर्माणि
शोकांबुधितरणे साधनानि न भवतीत्यर्थः ।।
एतच्छ्रेयो येभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवा
पि यन्ति ॥
एतत्कर्म श्रेयःसाधनं मत्वा येहष्यति । ते जरां मृत्युं च भूयो
भूयो गच्छंति ॥
अविद्यायामंतरे वर्तमानाः स्वयंधीराः पंडितं
मन्यमानाः॥
अविवेकप्रधानाः स्वयमेव धीमंत ऊहापोहक्षमा धीशालिन
इति मन्यमानाः॥
जंघन्यमानाः परियंतिमूढाः॥
जरारोगायनेकानर्थवातैः भृशं हन्यमाना मूढाः परिभ्रमंति
अन्धेनैव नीयमाना यथान्धाः॥
स्पष्टोर्थः। एतदेवविशदयति॥
अविद्यायां बहुधा वर्तमानाः ॥
प्रकृतिमंडले देवमनुष्यादि बहुधाभिमानितया वर्तमाना:
अज्ञानिनः ॥
वयं कृतार्था इत्यभिमन्यन्ति बालाः॥
वयमेव कृतार्था इत्यभिमानं कुर्वति ॥
यत्कर्मिणो नप्रवेदयंतिरागात् ॥
कर्मफलस्वर्गादि रागात् कर्ममूढास्तत्वंयतो नजानंति ॥
तेनातुराः क्षीणलोकाश्च्यवन्ते ॥
तत्वज्ञानाभावादेव हेतोः क्षीणे पुण्ये मर्त्यलोकं विशन्तीत्यर्थः॥

सू०९अधि०२] अत्रधिकरणम् । (१६९) इष्टापूर्त मन्यमाना वरिष्ठम् ॥ इष्टं यागादि पूर्तखातादि एतदेवाखिलपुरुषार्थसाधनं मन्यमानाः॥ नान्यच्छ्रेयो वेदयंते प्रमूढाः॥ श्रेयोन्तरं न जानंतीत्यर्थः ॥ नाकस्य पृष्ठे सुकृतेन भूत्वा इमं लोकं हीनतरं वा विंशति॥ तेसुकृतसाध्ये स्वर्गलोकोप्रलोके कर्मफलमनुभूय इमं लोकं ततोप्यवरतरं या नरकादिलक्षणं विशन्ति । तपः श्रद्धयेापवसन्त्यरण्येशांता विद्वांसो भैक्ष- चर्या चरन्ति । सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रा- मृतः सपुरुषो ह्यव्ययात्मा॥ ये संन्यासिनः कृतश्रवणमनना वने स्थित्वोपरतकरणग्रामा- स्तपःशब्दितं च ब्रह्म तदादरातिशयरूपां च श्रद्धां ये सेवते ते अवधूतपापाः सूर्यमंडलं भित्त्वा“सहस्रस्थूणे विमिते दृढउग्रे यत्र देवानामधिदेव आस्ते।” इति पर्यकविद्यादिप्रमाणप्रतिपन्नो हेयप्रत्य नीकः । सदैकरूपरूपायेतिप्रमाणप्रतिपन्ननित्यविग्रहयुक्तो यत्रास्ते तत्र यान्तीत्यर्थः । येचेमेऽरण्ये श्रद्धातप इत्युपासते इत्यत्र तपः- शब्देन ब्रह्मोच्यते । बृहदारण्यके श्रद्धां सत्यमित्युपासतइतितप- इशब्दस्थाने सत्यशब्दप्रयोगात् सत्यशब्दस्य ब्रह्मपरत्वादिति व्यासायरुक्तत्वात्तपःशब्दो ब्रह्मपरः । विरक्तस्य परब्रह्मप्राप्तिसाधन- ज्ञानेच्छोपेरूपसदनं विधीयते ॥ परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमाया- नास्त्यकृतः कृतेन तद्विज्ञानार्थ सगुरुमेवाभिगच्छेत्स मित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् । तस्मै विद्वानुपसन्नाय (१७०) विषयवाक्थदीपिका। [अध्या०१-पाद२- सम्यक्प्रशांतचित्तायशमान्विताय येनाक्षरं पुरुषं वेद सत्यं प्रोवाचतां तत्वतो ब्रह्मविद्याम् ॥ अस्मिन्वाक्ये न्यायसिद्धार्थानुवादेन गुरूपसत्तिविधीयते कर्मचि- तान्कर्मसंपाद्यान् लोकान् परीक्ष्यमीमांसान्यायनिरूप्य ब्राह्मणोधीत सांगसशिरस्कवेदःयइत्यध्याहार्यस इत्युत्तरत्रश्रवणात्।अकृतोनित्यः अत्र पुरुषोविशेष्यः लिंगवशादक्षरं पुरुषमित्यनंतरोक्तेश्च । कृतेन कर्मणा नास्ति नसिध्यति नलभ्यतइतीतिकरणं द्रष्टव्यमितियोनि- दमायासतद्विज्ञानार्थ गुरुमेवाभिगच्छेत् एवकारेण नियमविधित्वम- वगम्यते । समित्पाणिः न रिक्तपाणिः "रिक्त पाणिस्तु नोपेयाद्राजानं दैवतं गुरुमितिस्मयते । श्रोत्रियं श्रुतवेदांतम् । ब्रह्मनिष्टं ब्रह्मसाक्षा- कारवंतम्।श्रुतवेदांतोपि रुचिभेदादब्रह्मनिष्ठोनोपगंतव्य इतिभावः। अभिगच्छेदित्यन्वयः । शमोबायेंद्रियनियमनरूपः प्रशान्तचित्ताये त्यंतःकरणनियमनस्योक्ततयापारिशेष्यात्।एतेनश्रवणोपयुक्तमवधा नेविवक्षितं नतूपासनोपयुक्तात्यंतेंद्रियजयादि सतस्मैविद्वान् प्रोवाचे त्यन्वयः। येनेति निर्देशोविज्ञानाभिप्रायः। तद्विज्ञानार्थमिति प्रकृतं सामान्यतःकरणाभिप्रायेणवालिंगव्यत्ययेनवाअक्षरम् स्वरूपेणा- विकारं सत्यं गुणतोप्यविकारम् । आभ्यामचिन्जीवव्यावृत्तिः तां ब्रह्मविद्यांप्रोवाच प्रबेयादित्यर्थः इति वेदांतसारे व्याख्यातम् ॥ तदेतत्सत्यम्। पूर्ववत् ॥ यथासुदीप्तात्पावकाद्विस्फुलिंगाः सहस्रशः प्रभवं तेसरूपाः॥ अयोगोलकादिगतादन्यमानादा वेश्मादिषु सुदीप्ताद्वा पावका- दनेकशः स्वरूपाविस्फुलिंगायथोत्पद्यते॥ g- PAR सू०९-अधि०२] अत्रधिकरणम् । (१७१) तथाक्षराद्विविधाः सोम्य भावाः प्रजायंते तत्र चैवापियन्ति ॥ एवमेवचिदचिच्छरीरादक्षराद्ब्रह्मणः तत्सरूपानानाविधस्थूल- चिदचिद्रूपा भवंतीतिभावः । कार्यवर्गाउत्पद्यते तत्रैवलीयन्तेच ॥ दिव्योह्यमूर्तः पुरुषः सबाह्याभ्यंतरो ह्यजः। अप्रा- णोह्यमनाः शुभ्रोह्यक्षरात्परतः परः॥ पूर्वत्र वृक्ष इवस्तब्धोदिवितिष्ठत्येक इतिधुसंबन्धित्वेन तदपाणिपादमितिवा नित्यं विभुमितिवा अमूर्तत्वेन तेनेदं पूर्ण पुरुषेण सर्वमिति बाह्याभ्यंतरसर्ववस्त्वात्मतया अचक्षुः श्रोत्रमित्यनिद्रियत्वेन प्राणमनःशून्यतया येनाक्षरं पुरुषं वेद सत्य- मितिविकाररूपदोषशून्यतया शुभ्रशब्दितश्च यः सअव्याकृतादक्ष- रायः परः समष्टिरूपः पुरुषस्तस्मादपिकारणत्वेन पर इत्यर्थः । प्रधानपुरुषयोस्तजन्यत्वादितिभावः। अक्षरात्परत इत्यत्राक्षरशब्दः अश्नुते इतिवा नक्षरतीति वा व्युत्पत्त्या स्वविकारव्यापकेनामांतरा भिलापयोग्यक्षरणाभाववत्यव्याकृते वर्ततेनतु भूतयोन्यक्षरेभूतयोन्य क्षरस्य सबाह्याभ्यंतर इत्यत्र तच्छन्दनिर्दिष्टस्य तस्मादेव परत्वासं- भवातानहि तस्यैव ततः परतः परत्वं संभवति विरोधात् । नचाक्ष- रात्परत इति पंचम्योःसामानाधिकरण्यमेवास्तु।ततः स्वविकारापेक्ष यापरभूतादव्याकृतात्पर इत्येवास्तुनितु अव्याकृतादक्षरात्परभूता- समष्टिभूतात्पर इतिवाच्यम् । परशब्दस्य प्रतियोगिसापेक्षत्वेनाक्ष- रशब्दस्य परत्वावधिसमर्पकत्वस्यैव युक्तत्वान्नहि देवदत्तादुत्पन्ना- यमित्यत्र पंचम्योः सामानाधिकरण्यप्रतीतिरस्ति । अतोयथो- तएवार्थः विश्वसृष्टिमेव प्रपञ्चयति ॥ एतस्माज्जायते प्राणो मनः सर्वेद्रियाणिच ॥

. । (१७२) विषयवाक्यदीपिका। [अध्या०१-पाद२-- स्पष्टोर्थः॥ खवायुयोतिरापंपृथिवीविश्वस्य धारणी॥ खमाकाशोज्योतिस्तेजो विश्वस्य कृत्स्नस्य धारिणीति पृथिवी- विशेषणम् ॥ अग्निर्मू चक्षुषी चंद्रसूर्योंदिशः श्रोत्रेवाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पयां पृथिवी - षसर्वभूतान्तरात्मा ॥ असुं मंत्र प्रस्तुत्य “स्मर्यमाणमनुमानस्यात् ।।२।२६॥ इत्यत्राग्निरिहालोकः “असौवाव लोकोग्निरितिश्रुतेः। स्मरंतिच। मुनयः द्यांमूर्द्धानं यस्य विप्रावदन्ति खं वै नाभिं चंद्रसूर्योच नेत्रे दिशः श्रोत्रे विद्धिपादौक्षितिं च सोचिंत्यात्मा सर्वभूतप्रणेतेतिभा- षितम् । वाग्विवृता वागिंद्रियव्यापारा एववेदा वायुःप्राणःमहावायु- व देहधारकः प्राणः जगत्सर्वमस्य देहांतर्वतिहृदयाख्यं मांस- विशेषः । पयांपृथिवी पादावेव पृथिवीत्यर्थः । “प्रकृत्यादिभ्य- उपसंख्यानम्" इतितृतीया । सर्वभूतानां तच्छरीरत्वात् सर्वेषाम- तरात्मेत्यर्थः॥ तस्मादग्निः समिद्धोयस्य॥ इत्यादि । वैश्वानरः साधारणशब्दविशेषात् । १।२ । २५॥ छांदोग्ये पंचमप्रपाठके एकादशखण्डे वैश्वानरविद्या प्रस्तूयते ॥ प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलपिरिंद्रा- नो भाल्लवेयो जनः शार्करायोबुडिल आश्वतराश्वि- स्तेहैते महाशाला महाश्रोत्रियाः समेत्यमीमासां चक्रुःकोनु आत्मा किंब्रह्मेति ॥

मू०९-अधि०२] अत्रधिकरणम्। (१७३) उपमन्युसुतः प्राचीनशालनामा पुलषसुतः सत्ययज्ञनामा भाल्लविसुतः इंद्रद्युम्ननामा शार्कराक्षिसुतो जननामा अश्वतराश्वसुतः बुडिलनामा एते पंचापि महागृहस्थतया विस्तीर्णशालाः संपन्नाः प्रसिद्धा इति यावत् । अतीव श्रुताध्ययनसंपन्ना एकत्र संभूयास्मा- कमंतर्यामितयात्मभूतं ब्रह्म किमितिविचारं कृतवंत इत्यर्थः॥ तेह संपादयां चक्रुः॥ त एव मीमांसित्वा निश्चयमलभमानाः आत्मभूतब्रह्मोपदेष्टार कंचित्संपादितवंतः निश्चितवंत इत्यर्थः। किमिति तत्राह ।। उद्दालको हवै भगवंतोयमारुणिः संप्रतीममात्मानं वैश्वानरमध्येति तंहंताभ्यागच्छामइति ॥ हे भगवंत उद्दालकनामा इदानी वैश्वानरमात्मानमध्येति । इक्- स्मरणे उपास्तइत्यर्थः। यद्वा। इणगतौ गत्यर्थाज्ञानार्थाइत्यवग- च्छतीत्यर्थः । तमभ्यागच्छामेति ॥ तंहाभ्याजग्मुः॥ तमागतवंतः॥ सहसंपादयांचकार । प्रक्ष्यति मामिमे महाशाला महाश्रोत्रियास्तेभ्योन सर्वमिव प्रतिपत्स्येहंताहम- न्यमभ्यनुशासानीति ॥ सहोदालक एते महाशाला महाश्रोत्रिया मावैश्वानरमात्मानं प्रक्ष्यति नाहं तत्सर्वप्रतिपत्तुं शक्नोमि । अन्यंतदभिज्ञं कंचिदुपा- दिशानीत्येवं संपादितवानिश्चितवानित्ययः॥ तान् होवाचाश्वपति_भगवंतोयं कैकेयःसंप्रतीममा त्मानं वैश्वानरमध्येति तंहंताभ्यागच्छामइतितंहा- भ्याजग्मुः॥

(१७४) विषयवाक्यदीपिका। [अध्या०१-पाद२- केकयस्यापत्यकैकयः अश्वपतिमुद्दालकषष्टास्तेभ्यागतवंत इत्यर्थः शिष्टस्पष्टम् ॥ तेभ्योह प्राप्तेभ्यः पृथगर्हाणिकारयांचकार ॥ प्राप्तेभ्यस्तेभ्यो महर्षिभ्यः पृथक् पूजां भृत्यैः पुरोहितादिभिश्च कारितवान् ॥ सहप्रातः संजिहान उवाच ॥ अन्येयुः प्रातःकाले स्वभवनसंजिहानस्त्यजन् स्वभवनान्निर्गत्य तत्समीपमागत्येतियावत्।तान् महर्षीनुवाचेत्यर्थः । किमितितत्राहा। नमे स्तेनो जनपदे नकदर्यो न मद्यपः । नानाहि- ताग्नि विद्वान्नस्वैरी स्वैरिणी कुतः । यक्ष्यमाणोह वै भगवंतोहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्या- मि तावद्भगवद्भ्यो दास्यामि वसंतु भगवन्त इति ॥ हेभगवंतः पूजार्हा मदधिष्टिते जनपदे चोरो वा दानशून्योवा मद्यपायी वा सत्यायोग्यतायामनाहिताग्निर्वा वेदाध्ययनादिशून्य- स्वर्णिकोवा परदारगंतावानसंतिस्वैरिणीपुंश्चलीतुकुतःस्यादित्यर्थः। एवमाया दुष्टा नसंति न तैर्दत्तं धनमुपजीवामि । अतोमम प्रतिग्र- हयोग्यतास्त्यचिरेणैव कालेन यागंकरिष्याम्येकैकस्मा ऋत्विजे यावद्धनं दास्यामि तावद्भगवभ्यः प्रत्येकं दास्यामितावत्कालमत्रैव वसंतुयागंचपश्यंत्विति प्रार्थितवानित्यर्थः। भगवता भाष्यकृतानमे स्तन इत्यादिना यक्ष्यमाणोहवैभगवंतोहमस्मोत्यतेनात्मनोवृत्त- स्थतया प्रतिग्रहयोग्यतांज्ञापयन्नेवब्रह्मविद्भिरपिप्रतिषिद्धस्य परिह- रणीयतांविहितस्य कर्त्तव्यतांच प्रज्ञाप्य यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्योदास्यामि वसंतु भगवंत इत्यवोचदि- तिभाषितम् ॥

मू०९-अधि०२] अत्रधिकरणम् । (१७५) तेहोचुर्येन हैवार्थेन पुरुषश्चरेत्तं हैव वदेदात्मानमे- वेमं वैश्वानरंसंप्रत्यध्येषितमेव नोब्रूहीति॥ येनार्थेन प्रयोजनेन यत्प्रयोजनमुद्दिश्य पुरुष आगच्छति तमेव पुरुषार्थ तस्य कुर्यात्समीहितं हि कर्त्तव्यं भवत्यस्माकंच वैश्वानरा- त्माजिज्ञासितः त्वंच तमात्मानमधुनोपास्सेनचतेतज्ज्ञानमपह्नवा- हम् । तमेवन उपदिशनप्रयोजनांतरमित्यर्थः । विश्वानरान्नयतीति विश्वेयनं नराः नयंतीति वा विश्वनरः विश्वनर एव वैश्वानरः रक्ष एव राक्षसः वय एक्वायसइतिवत् ॥ तान्होवाच प्रातःप्रतिवक्तास्मीति ॥ तेषामभिमानं परिशोध्यश्वः प्रतिवचनं दास्यामीति मत्वा प्रातः प्रश्नस्य प्रतिवचनंवक्तास्मीत्युवाचेत्यर्थः । तेह समित्पाणयःपूर्वाप्रतिचक्रमिरे ॥ तेचराज्ञोभिप्रायज्ञाः समिद्भारहस्ताः अपरेयुः पूर्वाह्ने राजानं शिष्यभावमेत्योपगतवन्तः॥ तान्हानुपनीयैवैतदुवाच॥ राजातुसमित्पाणानुपयामेतिवदंतस्त्यक्तस्वजात्यभिमानानुद्री- क्ष्यतेषामुपदेशयोग्यतां ज्ञात्वाब्राह्मणेन नब्राह्मणउपनेतव्य इति- शास्त्रार्थ ज्ञात्वा समर्पितं समिदाद्युपायनं स्वीकृत्यैव मैत्र्येतदक्षमा- णमुवाचेत्यर्थः । यत एवमहाशाला महाश्रोत्रिया ब्राह्मणा महाशाल वाद्यभिमानं हित्वा समिद्भारहस्ता जातितोहीनं राजानं विद्यार्थित- योपजग्मुः।तथान्यैरपि विद्योपादित्सुभिर्भवितव्यमित्याख्यापिकया सूच्यते कैकेयस्तेभ्योवैश्वानरात्मानमुपदिदिक्षुर्विशेषप्रश्नान्यथा नुपपत्त्यावैश्वानरात्मन्येतैः किंचिज्ज्ञातं किंचदज्ञातमिति विज्ञाय ज्ञाताज्ञातांशबुभुत्सया तानेकैकशः प्रष्टुमुपक्रमते ॥

(१७६) विषयवाक्यदीपिका। [अध्या०१-पाद२- औपमन्यव कंत्वमात्मानमुपास्स इति दिवमेवभ- गवोराजनिति होवाच॥ हेभगवः धुलोकशरीरकं वैश्वानरमुपास इत्युवाचेत्यर्थः । कैके- य आह॥ एषवै सुतेजा आत्मा वैश्वानरो यंत्वमात्मान मुपास्से॥ यंद्युलोकावच्छिन्नं वैश्वानरमात्मानमुपास्स एषवैश्वानर आत्मा सुतेजाः शोभनं तेजो यस्य स सुतेजाद्युलोकोहिसूर्यचंद्रादितेजसा युक्ततया सुतेजा भवति ततश्चद्युलोकावच्छिन्नोवैश्वानरात्मा तयो- पास्यमानः सुतेजस्त्वगुणयोगेन सुतेजानाम वैश्वानरः॥ तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते । अत्र सुतप्रसुतासुतशब्दा एकाहाहीनसत्रकर्मगताभिषवणपराःसु- तशब्दवत्त्वसाम्यात्सुतेजस्त्वोपासनाया:सुतादिफलकत्वोपपत्तिः । अत्स्यन्नं पश्यसि प्रियम् ॥ तदुपासनवैभवेन लौकिकं भोग्यमनुभवसि प्रियं पुत्रादिकं चपश्य सीत्यर्थः। एवमन्योपि यःकश्चित्त्वमिव त्वदुपास्यं वैश्वानरमुपास्ते। सोपि त्वमिवान्नादनप्रियदर्शनब्रह्मवर्चसशाली संतानवांश्चभव- तीत्याह॥ अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले यएतमेवमात्मानं वैश्वानरमुपास्ते ॥ उक्तोर्थः उक्तमर्थमंगीकुर्वन्नेवफलदर्शनेन तदभिमुखीकृत्य तत्र वक्तव्यमुपदिशति ॥ मूर्द्धात्वेष आत्मन इतिहोवाच मू ते व्यपतिष्य- धन्मां नागमिष्यइति ॥

सू०९-अधि०२] अत्रधिकरणम्। (१७७) त्वया वैश्वानरबुद्धयोपास्यमान एष द्युलोकपरिच्छिन्न आत्मा वैश्वानरस्यात्मनो मूर्द्धरूपावयवभूतः। नतु सएक्वैश्वानर आत्मा एतदर्थनिर्णयार्थ मत्समीपानागमने वैश्वानरमूर्द्धावयवभूते कृत्स्नवै- श्वानरबुद्धि कुर्वतस्तवविपरीतविद्यावशादनर्थः स्यादतः साध्वका- पीस्त्वं यतोमामागतोसीत्यभिप्रायः॥ अथहोवाच सत्ययज्ञं पौलषि प्राचीनयोग्यकत्व- मात्मानमुपास्सइतिप्राचीनयोग्येति सत्ययज्ञस्य नामान्तरआदित्यमेवभगवो राजनिति होवाच एष वैविश्वरूप आत्मा वैश्वानरो यंत्वमात्मानमुपास्से। तस्मात्तव विश्वरूपं कुले दृश्यते प्रवृत्तोऽश्वतरीरथोदा- सीनिष्कोऽत्स्यन्नंपश्यसि प्रियम् । अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानंवै- श्वानरमुपास्ते चक्षुस्त्वेतदात्मन इति होवाच । अन्धो- भविष्योयन्मांनागमिष्य इति ॥ रूप्यत इतिरूपं विश्वरूपं प्रकाश्यं यस्य सविश्वरूपः आदि- त्यस्य विश्वप्रकाशकत्वात् विश्वरूपत्वम् । तव कुले विश्वरूपं विश्वप्रकाशकं पुत्ररत्नादिकं कुले दृश्यते अश्वतरीभिर्युक्तोरथः त्वागनुगतः दासीभिर्युक्तोहारः दासीनिष्कः त्वामनुगतः शिष्टं- पूर्ववत् ॥ अथहोवाच इन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्यकंत्वमा- त्मानमुपास्स इति वायुमेव भगवो राजनिति होवाच एषवैष्टथगवत्मिा वैश्वानरो यंत्वमात्मानमुपास्से तस्मात्त्वां पृथग्वलय आयन्ति ॥

(१७८) विषयवाक्यदीपिका। [अध्या०१-पाद२- पृथग्रथश्रेणयोऽनुयन्ति ॥ अत्स्यन्नपश्यसिप्रियम् । अत्त्यन्नं पश्यति प्रियंभ- वत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानर- मुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उद- क्रमिष्यद्यन्मान्नागमिष्यइति । अथहोवाच जनं शार्क- राक्ष्यंकत्वमात्मानमुपास्स इति आकाशमेव भगवोरा- जन्निति होवाच एषवै बहुल आत्मा वैश्वानरो यंत्वमा- त्मानमुपास्से तस्मात्त्वं बहुलोसि प्रजयाच धनेनच अत्स्यन्नं पश्यसि प्रियम् । अत्त्यन्नं पश्यति प्रियं भ- वत्यस्य ब्रह्मवर्चसं कुले यएतमेवमात्मानं वैश्वानरमु- पास्ते संदेहस्त्वेष आत्मन इतिहोवाच संदेहस्तेव्यशी- यंद्यन्मांनागमिष्यइति॥ भूतांतरेभ्यआकाशस्य महत्वात् बहुलत्वम् । संदेहोमध्यकायो- मध्येकायोहिउत्तराधरकाययोश्चानुप्रविष्टइति संदिह्यमानत्वात् संदे हइत्युच्यते । व्यशीर्यतविशीर्णोभविष्यत् । शिष्टं स्पष्टम् ॥ अथहोवाच बुडिलमाश्वतराश्विवैयाघ्रपद्यकंत्वमा- त्मानमुपास्सइति अपराव भगवो राजनितिहोवाच एषवैरयिरात्मावैश्वानरोयंत्वमात्मानमुपास्से तस्मा- त्वरैमान पुष्टिमानत्स्यन्नं पश्यसिप्रियम् अत्त्यन्नं पश्यतिप्रियं भवत्यस्य ब्रह्मवर्चसं कुले यएतमेव- मात्मानंवैश्वानरमुपास्ते बस्तिस्त्वेषआत्मानइतिहो वाच बस्तिस्तेविभेत्स्यद्यन्मांनागमिष्यइति ॥

सू०९-अधि०२] अत्रधिकरणम्। (१७९)
अपांवेगवत्वात् रयित्वं विसर्गछांदसःधनप्राप्तिहेतुत्वाद्वारयित्वं
रैमान् धनवानित्यर्थः । बस्तिनाममूत्रस्थानम् ॥
अथ होवाच उद्दालकमारुणिं गौतम कंत्वमात्मान
मुपास्स इति पृथिवीमेव भगवोराजनितिहोवाच एष
वैप्रतिष्टात्मा वैश्वानरो यंत्वमात्मानमुपास्से तस्मात्त्वं
प्रतिष्ठितोसि प्रजयापशुभिश्च अत्स्यन्नं पश्यसि प्रियं
अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसंकुले य एत
मेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति
होवाच पादौ ते व्यम्लास्येतां यन्मां नागमिष्य इति ॥
प्राण्याधारत्वात् पृथिव्याः प्रतिष्ठात्वं व्यम्लास्येतां म्लानौश्लथा
वभविष्यताम् ।शिष्टंस्पष्टम् ।।
तान्होवाच ॥
तानृषीनुवाचेत्यर्थः॥
एते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं वि-
द्वांसो अन्नमत्थ॥
तादृशा यूमिमं वैश्वानरमात्मानं पृथगिव विद्वांसो भिन्नभिन्न
तया उपासीना तदानुरूप्येण लौकिकं भोगमनुभवथ । पूर्ववात्स्य
नमिति प्रतिपुरुष एकवचनेनोक्तस्य अत्र बहुवचनेन निर्देशः ।
अत्रान्नम थेत्येतत् प्रियंपश्यथेत्यस्याप्युपलक्षकम् ॥
यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वा-
नरमुपास्ते ससर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्म
स्वन्नमत्ति॥
अभिविमानं सर्वात्माभिव्याप्ततया विगतमानं विश्वेषां नराणां

(१८०) विषयवाक्यदीपिका । [अध्या०१-पाद२-- नेतारमेतमात्मानं प्रादेशमात्रं द्युलोकादिप्रदेशसंबंधिनीप्रादेशीप्रा- देशीमात्रा यस्य तंप्रादेशमात्रम्।धुप्रभृतिप्रदेशपरिच्छिन्नं य उपास्ते ससर्वलोकसर्वभूतसर्वात्मवति ब्रह्मरूपमन्नमत्ति अनुभवतीत्यर्थः अनेन वैश्वानरोपासनस्य ब्रह्मप्राप्तिफलकत्वमुक्तं भवति । भगवता भाष्यकृता सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु वर्तमानं यदन्नं भोग्यं तदत्ति सर्वत्र वर्तमानं स्वत एवानवधिकातिशयानन्दं ब्रह्मा- नुभवति । यत्तु सर्वैः कर्मवस्यैरात्मभिः प्रत्येकमनन्यसाधारणमन्नं भुज्यते तन्मुमुक्षुभिस्त्याज्यत्वादिहनगृह्यते इतिभाषितम्। अत्र प्रा- देशमा हवैदेवाः सुविदिता अभिसंपन्ना तथात्वेतान्वक्ष्यामि यथा प्रादेशमात्रमभिसंपादयिष्यामीति । सहोवाच मूर्धानमुपदिशन्नेषवा प्रतिष्ठा वैश्वानर इति चक्षुषी उपादिशनुवाच।एषवै सुतेजा वैश्वानर इति नाशिके उपदिशन्नुवाचैषवै पृथग्वा वैश्वानर इति मुख्यमा- काशमुपदिशनुवाच । एषवै बहुलो वैश्वानर इतिमुख्याश्रयउपदि- शन्नुवाच एषवै रयिर्वैश्वानर इति चिबुकमुपदिशनुवाच एषवै प्रतिष्ठा वैश्वानर इति वाजसनेयकोक्तमूर्द्धचिबुकांतरालप्रतिष्ठितत्वलभ्यप्रा- देशमात्रत्वंनोपजीव्यम् । थुप्रभृतिप्रदेशसंबन्धमात्रस्य यौगिकार्थस्य प्रकरणतःप्रतीतेः । उक्तंच व्यासाचार्यैः सर्ववेदान्तप्रत्ययाधिक- रणे ३ । ३ । १ । यस्त्वेतमिति नवाजसनेयकोक्तानुवादः स्वशाखावाक्य एवं पूर्वप्रतिपादितस्यानुवादेन फलसमर्पकत्वोपप- त्तेरिति । नचापरिच्छिन्नस्य परस्य ब्रह्मणो थुप्रभृतिपृथिव्यंतप्रदे शसंबंधिन्यामात्रया कथं परिच्छिन्नत्वमितिचोदनीयम्।परिच्छिन्नत्वे बुद्धिसौकर्यलक्षणाभिव्यक्तस्संभवात् । मूत्रितंचा “भिव्यक्तरित्या- स्मरथ्य ११२॥ ३२ ॥” इतिबुद्धिसौकर्यलक्षणाभिव्यक्तेहेतोर भिविमानस्यापि ब्रह्मणः प्रादेशमात्रत्वमुपदिश्यत इति आस्मरथ्य १ अत्रेत्यस्योपजीव्येन्वयः॥ - सू०९-अधि०२] अत्रधिकरणम् । (१८१) आचार्योमन्यतइतिसूत्रार्थः । अभिव्यक्तार्थपरिच्छिन्नत्वोपदेशेपि मूर्द्धप्रभृत्यवयवविशेषैः पुरुषविधत्वं परस्य ब्रह्मणः किमर्थमिति नचोदनीयम् तथोपासनार्थत्वात् । सूत्रित्वंचा “नुस्मृतेर्वादरिः ।। ३३॥” इति अनुस्मृतिरुपासनम् । अनुस्मृतेर्हेतोः पुरुषविधत्व- रूपणमिति बादरिराचार्योमन्यतइतिसूत्रार्थः । प्राणाहुत्याधारत्व- त्रिविधाग्नित्वपरिकल्पितजाठराग्निशरीरकधुमूर्द्धत्वादिविशिष्टात्म- त्वभावितेश्वरशरीरेक्रियमाणप्राणायाहुतिभिः वैश्वानरविद्यानिष्ठेन परमात्मा समाराधनीय इति प्रतिपादयति ॥ तस्य हवा एतस्यात्मनोवैश्वानरस्य मूर्दैवसुतेजा चक्षुर्विश्वरूपः प्राणं पृथग्वसिंदेहोबहुलो बस्तिरेवर- यिः पृथिवी पादा उरएव वेदिर्लोमानि बर्हिर्हदयंगार्ह- पत्योमनोन्वाहार्यपचन आस्यमाहवनीयः॥ एतस्योपासकस्यात्मनः मूर्दैव तस्य वैश्वानरस्य मूर्धात्वेष आ- त्मन इति वैश्वानरं मूर्खत्वेन निर्दिष्टस्सुतेजा इत्यर्थः । नचात्र तस्य हवा एतस्येति पदयो सामानाधिकरण्यमेवास्तु। नत्वेतस्येति शब्द- स्योपासकपरत्वमितिशंक्यम् उरएववेदिरित्यादावुपासकपरामर्श- स्यावश्यंभावात् । मूर्द्ववेत्यत्राप्युपासकस्य मूर्दैव परामृश्यते । त- स्मादेतस्येति शब्दस्योपासकपरत्वमेवसिद्धम् । इह भगवताभाष्य कृता आमनंतिच ११२।३६॥” इति सूत्रव्याख्याने । एनंपुरुषद्यु मूर्द्धत्वादिविशिष्टं वैश्वानरमस्मिन्नुपासकशरीरे प्राणाहुत्याधारत्वाय आमनन्ति तस्य हवा एतस्यात्मनोवैश्वानरस्य मृद्धैव सुतेजाइत्या- दिना । अयमर्थः यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानंवैश्वा- नरमुपास्त इति त्रैलोक्यशरीरस्यैव परमात्मनो वैश्वानरस्योपा- सनं विधाय सर्वेषु लोकेषु इत्यादिना ब्रह्मप्राप्तिलक्षणं फलमुपदि- (१८२) विषयवाक्यदीपिका। [ अध्या०१-पाद२- श्यास्यैवोपासनस्यांगभूतं प्राणाग्निहोत्रं तस्य हवाएतस्येत्यादिनोप- दिशति । यः पूर्वमुपास्यतयोपदिष्टोवैश्वानरः तस्यावयवभूतान ब्यादित्यादीन् सुतेजोविश्वरूपादिनामधेयानुपासकशरीरमूर्खादि- पादांतेषु संपादयति । मूर्दैव सुतेजा उपासकस्यमूर्दैव पर- मात्ममूर्द्धभूतं द्यौरित्यर्थः । चक्षुर्विश्वरूप आदित्य इत्यर्थः । प्राणःपृथग्वा वायुरित्यर्थः । संदेहोबहुल उपासकस्य मध्यकाय एव परमात्ममध्यकायभूत आकाशइत्यर्थः । पृथिव्येव पादौ अस्य पादावेव तत्पादभूता पृथिवीत्यर्थः । एवमुपासकः स्वश रीरेपरमात्मानं त्रैलोक्यशरीरं वैश्वानरं संनिहितमनुसन्धाय स्वकी- यान्युरोलोमहृदयमनआस्यानि प्राणाहुत्याधारस्य परमात्मनो वैश्वानरस्य वेदिहिगार्हपत्यान्वाहार्यपचनाहवनीयानग्निहोत्रो- पकरणभूतान् परिकल्प्य प्राणाहुतेश्चाग्निहोत्रत्वं परिकल्प्य एवं विधेन प्राणाग्निहोत्रेण परमात्मानं वैश्वानरमाराधयेदिति उरएक्वेदि- लौमानिवर्हिर्हदयंगार्हपत्य इत्यादिनोपदिश्यते इतिभाषितम् । उरप्रभृतीनां वेद्यादित्वोपदेशश्च प्राणाहुतेरग्निहोत्रत्वसंपत्त्यर्थइति संपत्तेरितिजैमिनिस्तथाहिदर्शयति १ । २॥ ३४ ॥ इतिमूत्रि- तम् । सय इदंविद्वानग्निहोत्रं जुहोतीतिदर्शिताग्निहोत्रसंपत्तेहेतो- द्यादित्वोपदेश इतिजैमिनिर्मन्यते इतिसूत्रार्थः। हृदयंगार्हपत्याहृद- यकमलावच्छिन्नजाठराग्निर्हपत्यः। मनइन्द्रियावच्छिन्नजाठराग्नि- दक्षणाग्निः आस्यमाहवनीयः आस्यावच्छिन्नजाठराग्निराहवनीयइ- त्यर्थः। गार्हपत्यादिपरिकल्पनस्य सजातीयजाठरएवोचितत्वात् वैश्वानरस्य हृदयादिस्थस्याग्निहोत्रत्रयकल्पनंक्रियतइतिभाषितत्वा च । अत्रचहृदयादिशब्दास्तत्तदवच्छिन्नजाठराग्निशरीरकपरमात्म- पर्यताइतिद्रष्टव्यमतउक्तएवार्थः॥ तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम् ॥

सू०९-अधि०२] अत्रधिकरणम् । (१८३) होमसाधनं तेन होतव्यमित्यर्थः। सयां प्रथमामाहुतिं जुहुयात् तां जुहुयात् प्राणाय- स्वाहेति प्राणस्तृप्यति प्राणेतृप्यति चक्षुस्तृप्यति चक्षुपि तृप्यत्यादित्यस्तृप्यतिआदित्येतृप्यतिद्यौस्तृ- प्यति दिवितृप्यंत्यांयत्किंचिद्यौश्चादित्यश्चाधितिष्ठतः तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजयापशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ प्राणायस्वाहेति प्रथमायामाहुतौ हुतायां प्राणश्चक्षुरादित्यो द्योश्च तृप्यतिब्यादित्याभ्यामधिष्ठितं वस्तुजातंच तृप्यतीत्यर्थः । तस्मिन्सर्वस्मिन् तृप्ते तत्तृप्तिमनुप्रजायश्वादिभिौतापितृप्यती- त्यर्थः । अत्र प्राणचक्षुरादिशब्दाः तदभिमानिदेवतापराः । अचे- तनानांतृप्तेरसंभवादिति । एवमुत्तरत्रापिद्रष्टव्यम् ॥ अथ यां द्वितीयांजुहुयात्तांजुहुयायानायस्वाहा ॥ इत्यादिखण्डचतुष्टयम् ॥ सयइदमविद्वानग्निहोत्रंजुहोति ॥ उरः प्रभृतीनामग्निहोत्रोपकरणवेद्यादिनामजानन् यः प्राणाग्निहो- त्रमनुतिष्ठतीत्यर्थः॥ यथांगारानपोह्यभस्मनिजुहुयात्तादृग् तत्स्यात् ॥ भस्माहुतिसमानस्यादित्यर्थः। निष्फलमिति यावत् ॥ अथय एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ सर्वात्मकभगवदाराधनेन सर्वमाराधितं भवतीति हुतप्रकर्षोक्तिः॥ तद्यथैषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पा- (१८४) विषयवाक्यदीपिका। [अध्या०१-पाद३- प्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ यथैषीकायाभुजांततितृणविशेषस्य तूलमग्नौ प्रक्षिप्तं सद्योद- ह्यत एवं सर्वाणि पापानि एतादृशविद्यापूर्वकप्राणाग्निहोत्रानुष्ठानेन दग्धानि भवतीत्यर्थः । ब्रह्मोपासनफलस्य सर्वपापप्रदाहस्य प्राणा- ग्निहोत्रे कीर्तनमंमिफलेनांगस्य स्तुत्यर्थम् । ततश्चानेनापिप्राणाग्नि होत्रस्य वैश्वानरविद्यांगत्वं ज्ञापितं भवति । वैश्वानरविद्यां स्तौति ॥ तस्मादुहैवं विद्यद्यपि चण्डालायोच्छिष्टंप्रयच्छेत्। आत्मनि हैवास्य तद्वैश्वानरे हुतं स्यादिति ॥ उच्छिष्टप्रदानायोग्यचांडालाय उच्छिष्टप्रदानमपि वैश्वानरे सर्वभूतात्मनि अन्नंजुहोमीति बुद्धयानुष्ठितत्वान्नाधर्मायभवतीत्यर्थः। तदेषश्लोकः। यथेहक्षुधिताबालामातरं पर्युपासते। एवं सर्वाणि भूतान्यग्निहोत्रमुपासते इति । अग्नि होत्रमुपासत इति ॥ यथा बुभुक्षिता बालाः कदा मातान्नं प्रयच्छतीति मातरं परितः उपासते । एवं सर्वाणि भूतानि एवंविधप्राणाग्निहोत्रमुपासते । इति विदुषः प्राणाग्निहोत्रस्तुत्यर्थः श्लोक इत्यर्थः । द्विरुक्तिरध्याय परिसमाप्त्यर्था ॥ इति विषयवाक्यदीपिकायां ब्रह्मसूत्रेषु द्वितीयः पादः ॥ २ ॥ द्युभ्वाद्यायतनं स्वशब्दात् । १।३ । १ ॥ मुण्डकोपनिषदि द्वितीय मुण्डके द्वितीयखण्डे ॥ यस्मिन् द्यौश्च पृथिवीचांतरिक्षमोतं मनः सहप्रा- णैश्च सर्वेस्तमेवैकं जानथात्मानमन्या वाचो विमुंचथ अमृतस्यैषसेतुः॥

सू०९-अधि०२] अबधिकरणम् । (१८५)
यस्मिनक्षरे धुपृथिव्यंतरिक्षमनःप्राणादिकं समवेतं तमेव स्वे-
तरसमस्तनियंतृत्वेन व्यापकतयात्मानं जानीत अनात्मविषया-
वाचः त्यजत अमृतस्यैष सेतुं नद्यादिषु सेतुर्हिकूलस्यप्रतिलभकः
इव संसारार्णवपारभूतस्यामृतस्यैष प्रतिलंभकइत्यर्थः ॥
अरा इव नाभौसंहता यत्र नाड्यः सएषोंतश्चरते
बहुधाजायमानः॥
संततं शिराभिस्तु लंबत्याकोशसन्निभमित्युक्तरीत्या यत्र हृदये
रथनाभौ समर्पिता अराइव नायः संगताः तत्र मध्ये सएष प्रकृत
आत्मा “ अजायमानो बहुधाविजायते तस्यधीराः परिजानन्तियो-
निम्"इति । देवादीनां समाश्रयणीयत्वाय तत्तत्सजातीयस्वरूपसं
स्थानगुणकर्मसमन्वितः । स्वस्वभावमजहदेव स्वेच्छया बहुधा
जायमानः सञ्चरते वर्ततइत्यर्थः॥
ओमित्येवं ध्यायथ आत्मानम् ॥
स्पष्टोर्थः ॥
स्वस्तिवः पारायतमसः परस्तात् ॥
तमसः पारे वर्तमानाय वः पाराय परतीराय । पारावारेपरावा-
चीतिनैपंटुकाः। प्राप्यभूतायेतियावत् । तत्प्राप्तयेध्यायथेत्यन्वयः।
एवंध्यानायप्रवृत्तेभ्योयुष्मभ्यं स्वस्तिभवतु ॥
यःसर्वज्ञः सर्ववित् ॥
उक्तोर्थः॥
यस्यैष महिमाभुवि ॥
भूलोकेसंसारतन्त्रप्रवर्तनरूप एवमहिमायदीयः ।।
दिव्ये ब्रह्मपुरोष व्योमन्यात्मा प्रतिष्ठितः॥
यस्यैष महिमाभुवीति लीलाविभूत्यन्वयउक्तः । दिव्येव्योनीति

SEASANAATSHATRiksha -1-1 ... (१८६) विषयवाक्यदीपिका! [अध्या०१-पाद३- त्रिपादविभूतिरुक्तंतिव्यासाय्यॆरुक्तत्वात् । वैकुंठाख्ये ब्रह्मपुरेप- रमे व्योमनि अयमात्मा प्रतिष्ठितइत्यर्थः ।। भिद्यतेहृदयग्रंथिश्छिद्यतेसर्वसंशयाः । क्षीयंतेचास्यकर्माणि तस्मिन् दृष्टेपरावरे ॥ हृदयस्यांतःकरणस्य ग्रंथयः ग्रंथिवदुर्मोचाः रागद्वेषादयः । हृत्स्थानमयतइतिव्युत्पत्त्या हृदयशब्दितो जीवोवा ब्रह्मज्ञानेन सार्वज्ञसिद्धेः सर्वविषयकाः संशयाः नश्यंतीति । अस्यच प्रारब्ध व्यतिरिक्तानि पूर्वाण्यनेकभवार्जितानि च कर्माणिनश्यन्ति । नाशो- नाम । कर्मणां फलजननशक्तिविनाशः । तदधिगमउत्तरपूर्वाद्ययोः ४।१।१३॥ इतिसूत्रे । अघस्य विनाशकरणमुपनायास्तच्छ- तेविनाशकरण शक्तिर्हिपरमपुरुषाप्रीतिरेवेतिभाषितम् । एतत्सर्व कदेत्यत्राह। तस्मिन्दृष्टे परावरे । परेऽवरेयस्मात् सपरावर सर्वोत्कृ- टाअपिब्रह्मादयो यस्मानिकृष्टाइत्यर्थः। अथवा परावरे परावरशरी- रके सर्वात्मभूतइत्यर्थः । तादृशे तस्मिन् दर्शनसमानाकारज्ञानवि- षयीकृतइत्यर्थः॥ द्वासुपर्णा सयुजा सखाया समानंवृक्षं परिषस्वजाते॥ युज्यत इति युक युक्झब्दोगुणपरः। समानगुणकः सयुक्इति व्यासायविवृतत्वात् । सयुजा समानगुणको सखाया अपहतपाप्म- त्वादिगुणैः परस्परसमानौ द्वौ सुपौँ पक्षिसदृशौ समानमेकंवृक्षव- च्छेदनाह शरीरं समाश्रितावित्यर्थः ॥ तयोरन्यःपिप्पलं स्वादत्यनश्नन्नन्योभिचाकशीति । तयोर्मध्ये अन्यतरोजीवः स्वादुपरिपक्कं पिप्पलं कर्मफलं भुक्ते । १ उपबृंहिताचैषाश्रुति श्रीमद्भागवतैकादशस्कंधे श्रीशुकमुनिभिः सुपर्णावेतौ सदृशौ सखायौ यदृच्छयैतौ कृतनीडौ च वृक्षे ॥ एकस्तयोः खादति पिप्पलान्नं सपिप्पलादोनतु पिप्पलादः इति ॥ -- मू०९-अधि०२] अत्रधिकरणम् । (१८७) अन्यस्तु परमात्मा अभुंजान एव प्रकाशते । अत्र शरीरतदाश्रय- जीवपरादिविषयवाचकशब्दनिगरणेन विषयिवाचकवृक्षसुपर्णादिश- ब्दैवृक्षत्वाद्यध्यवसानविषयनिमरणेन विषयव्यध्यवसानलक्षणरू- पकातिशयोक्तिविच्छित्तिविशेषायेतिदृष्टव्यम् ॥ समाने वृक्षे पुरुषोऽनिमानोनीशया शोचति मुह्य- मानः॥ अनीशया भोग्यभूतया प्रकृत्या मुह्यमानः 'पराभिध्यानातुति- रोहितंततोहस्यबंधविपर्ययौ। ३।३।४॥देहयोगाद्वासोपि ।३। २१६॥ इति न्यायेन तिरोहितपरमात्मशेषत्वज्ञानानन्दलक्षण- स्वरूपः सन् वृक्ष इव च्छेदना एकस्मिन् शरीरे जीवः स्थूलोहंकृ- शोहमित्यादितादात्म्यबुद्ध्यापासूदकवत् तदेकतामापनःसन् तत्सं- सर्गकृतानि दुःखान्यनुभवतीत्यर्थः ॥ जुष्टं पदापश्यत्यन्यमीशमस्य महिमानमितिवी- तशोकः॥ इति शब्दोबुद्धिस्थप्रकारवचनः । चशब्दश्चाध्याहर्तव्यः । य असौजीवो निमनात्स्वस्माद्धारकत्वनियंतृत्वशेषित्वादिनाविल- क्षणस्वकर्मभिःप्रीतं परमात्मानं निखिलजगदीशनलक्षणमस्य महि- मानं च यदापश्यति तदावीतशोकोभवतीत्यर्थः॥ यहापश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् तदाविद्वान् पुण्यपापे विधूय निरंजनः परमं साम्यमुपैति॥ पश्यतीति पश्यः पाघ्राध्मादृशःशः।३।१।१३७॥ इति शप्रत्ययेशित्वात् पश्यादेशः। यस्मिन् काले आदित्यवर्ण तमसः परस्तात् हिरण्यश्मश्रुर्हिरण्यकेश इत्युक्तरीत्यादेदीप्यमानदिव्य- ARE AND (१८८) विषयवाक्यदीपिका। [अध्या०१-पाद३- मंगलविग्रहयुक्तं जगत्कारं जगदीशितारं तस्मादेतद्ब्रह्मेतिनि- दिष्टाव्याकृतब्रह्मोपादानभूतम् । “भगवानितिशब्दोयं तथापुरुष इत्यपि । निरुपाधीचवर्तेते वासुदेवे सनातने” इत्युक्तरीत्या पुरुषश- ब्दनिर्दिष्टं वासुदेवं यदापश्यति तदापुण्यपानिरस्य निरस्तप्रकृ- तिलेपः सन् अपहतपात्मत्वादिगुणाष्टकलक्षणेन ब्राह्मण रूपेण परमंसाम्यमुपैतीत्यर्थः । व्यासायैस्तु षष्ठीतत्पुरुषे लक्षणाप्रसंगात् योनि ब्रह्मेति योनिब्रह्मशब्दयोः सामानाधिकरण्यं युक्तमित्युक्तं तदतिसुंदरम् ॥ प्राणोह्येषः सर्वभूतैर्विभाति ॥ "सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ती” त्यादा विवप्राणशब्दः परमात्मपरः एष परमात्मा सर्वभूतैराश्रितोभव- तीत्यर्थः॥ विजानन विद्वान् भव तेनातिवादी ॥ भवेति लोण्मध्यमैकवचनं श्रवणमननाभ्यां विजानन् विद्वान् तमुपासीनः तेन परमात्मना अतिवादीभवेतिशिष्यंप्रत्युपदेशः। अतीत्यसर्वान् वदितुं शीलमस्येति सोतिवादी यस्तुस्वोपास्यदेव- तायाः सर्वातिशायित्वं वदति सोतिवादीत्युच्यते ॥ आत्मक्रीड आत्मरतिः क्रियावानेषः ब्रह्मविदां वरिष्ठः॥ यस्यक्रीडाआत्मन्येवनोद्यानादौ सआत्मक्रीडः यस्यरतिःआत्म न्येवनस्रक्चन्दनादौ सआत्मरतिः रतिः स्रक्चन्दनादिजन्याप्रीतिः क्रीडाउद्यानादिजन्यति भूमाधिकरणे ।।३।७॥ व्यासाय- रुक्तत्वात् । क्रियावान् अनभिसंहितफलक्रियानुष्ठानशाली च भवेति पूर्वेणान्वयः । क्रियावत्वं किमर्थमित्यत्राह । एषः ब्रह्मविदांवरिष्ठः सू०९-अधि०२] अत्रधिकरणम् । (१८९) क्रिययायंतःकरणे परिशुद्धे ब्रह्मविद्यानिष्पत्तिशैठ्यात् ब्रह्मविद्या- निष्ठइत्यर्थः॥ सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येणनित्यम् । अंतः शरीरे ज्योतिर्मयो हिशुभ्रां यंपश्यंति यतयःक्षीणदोषाः॥ रागादिदोषशून्या जितेन्द्रियाः यंपश्यंति सशरीरांतर्वति ज्ञानम- योनिर्दोष आत्मा “मनसश्चेन्द्रियाणांचैकाग्र्यपरमंतप” इत्युक्तेः बाह्याभ्यंतरैरिन्द्रियैकाग्र्यलक्षणतपसा आगमोत्थज्ञानेनच स्त्रीसं- गादिराहित्यलक्षणनित्यब्रह्मचर्येण च लभ्यः साक्षात्कर्तव्यः । उपा- सनद्वाराप्राप्यइतिवार्थः। न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसाकर्म- णावा॥ देवाइंद्रियाणि शिष्टंस्पष्टम् ॥ ज्ञानप्रसादेन विशुद्धसत्वस्ततस्तुतं पश्यति निष्फ लंध्यायमानः॥ सनोदेव शुभयास्मृत्या संयुनक्तीति ज्ञानहेतुत्वेन ज्ञानशब्देन परमात्मोच्यते । उपासीनः पुमान तत्प्रसादेन विशुद्धांतःकरणः । तदनन्तरं दर्शनसमानाकारज्ञानेन तं विषयीकरोतीत्यर्थः । “नाय- मात्माप्रवचनेन" इति मंत्रः कठवल्यामेव व्याकृतः॥ नायमात्मा बलहीनेन लभ्यो नचप्रमादात्तपसो वाप्यलिंगात्॥ अयमात्मा अवसन्नमनसा न लभ्यः अवसादो नाम देशकाल- वैगुण्यजं दैन्यं तदभावोहिवलं प्रमादः अनवहितचित्तता तपशब्दः । (१९०) विषयवाक्यदीपिका। [अध्या०१-पाद३- तपप्रधानसंन्यासाश्रमपरः तपएवद्वितीय इतिवत् तस्य च लिङ्ग शिखायज्ञोपवीतव्रतादि । हितासंन्यासादपि न लभ्यः इत्यर्थः । इदं आश्रमांतराणामप्युपलक्षणम् । सर्वाश्रमाणामपि ब्रह्मविद्याधि- कारात् । आश्रमलिङ्गान्यपेक्षितानीत्यर्थः ॥ एतैरुपायैर्यततेयस्तु विद्वांस्तस्यैष आत्मा विशति ब्रह्मधाम॥ उक्तबलाप्रमादसलिङ्गाश्रमैः योविद्वान् ब्रह्मप्राप्तये यतते तस्यै- तादृशमात्मस्वरूपं धामभूतं ब्रह्म विशति प्राप्नोतीत्यर्थः॥ यथानद्यः स्यंदमानाः समुद्रेऽस्तंगच्छति नामरूपे विहाय॥ यथा गंगायमुनासरस्वत्यादिनद्यः । स्वोत्पत्तिस्थानेभ्यः प्रवृत्ता- गङ्गायमुनादीनि नामानि शुक्लकृष्णादीनि च रूपाणि विहाय एक- तामेव भजन्ते॥ तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमु- पैति दिव्यम्॥ तदेवभेदकनामरूपादिविमुक्तः सन् अक्षरात्परतः परइति पूर्व १ ननु शिखायज्ञोपवीतादिकं नसंन्यासलिंगमिति चेन्न । तादृशोक्तौ प्रमाणाभावात् । अथ परिवाड्विवर्णवासाः मुंडोऽपरिग्रहः " इति जाबालश्रुतिरस्तीतिचेत् एवंतर्बेकदं डस्यात्रानुक्तेः सोपिलिंगंनस्यात् “ एकंवैणवं दंडमेकशाटीधरोवा " इति संन्यासोपनि- पयुक्तमस्तीतिचेत् तर्हितस्यामेवोपनिषदि “ कुटीचकः शिखायज्ञोपवीती" नपरः श्वेतोर्ध्वपुंड्रधारीत्रिदंडः" इति श्रूयतएवेति संतुष्यताम् । किंच तत्रैव “पवित्र स्नानं शार्टी च उत्तरासंगत्रिदंडकम् । अतोतिरिक्तंयत् किंचित्तत्सर्ववर्जयेद्यतिः" इत्यपिशू- यते “ सर्वभूतहितः शांतस्त्रिदंडीसकमंडलुः । एकारामः परिव्रज्यभिक्षार्थी ग्राममाश्रयेत्। ३ । ५८ इति याज्ञवल्क्यस्मृतौ । तत्रमिताक्षरायामपिविस्तरः “शिखौदंडीकुसुंभवान् इति श्रीरामायणे अरण्यकांडे “ त्रिदंडीद्वारकामगात् ” इत्यादिश्रीभागवतेच प्रयोग दर्श- नात् त्रिदंडशिखायज्ञोपवीतोर्ध्वपुंड्रादिकं संन्यासिनां लिंगमितिस्फुटमवगम्यते । एवं च छांदोग्यद्वितीयाध्यायत्रयोविंशखंडे “ त्रयोधर्मस्कंधाः" इतिश्रुतिव्याख्याने मुंडित्वादिकमे वसंन्यासलक्षणमित्येतत्परं श्रीशांकरभाष्यं प्रौढिवादमात्रपरामितिद्रष्टव्यम् ॥ एकतान्नाद- सू०९-अधि०२] अबधिकरणम् । (१९१) मंत्रनिर्दिष्टं पुरुषं प्राप्नोतीत्यर्थः । यथा नदीसमुद्रजलयोर्भेदकाका- राहाणमेवनस्वरूपैक्यम् । एवं इहापि शुद्ध शुद्धमाशिक्तंतादृशे- वभवतीत्यादिश्रुत्यनुरोधात् । भेदकाकारप्रहाणकृतसादृश्यमेव नत्वैक्यमितिद्रष्टव्यम् ॥ सयोहवै तद्वत् परमं ब्रह्म वेदब्रह्मैवभवति ॥ आविर्भूतब्रह्मस्वरूपो भवतीत्यर्थः । आनुषंगिकप्रयोजनमाह ॥ नास्याब्रह्मवित्कुलेभवति॥ ब्रह्मभावमेवाह ॥ तरतिशोकं तरतिपाप्मानं गुहाग्रंथिभ्यो विमुक्तो मृतोभवति ॥ त्रिगुणात्मकप्रकृतिरूपगुहाकारितरागादिग्रन्थिभ्योमुक्तः सन् अमृतशब्दितब्रह्मभूतो भवतीत्यर्थः॥ तदेतदृचाभ्युक्तम् ॥ एवंद्विधासंप्रसिद्धमभिमुखीकृत्यऋमंत्रेणोक्तम् ॥ क्रियावन्तः श्रोत्रियाब्रह्मनिष्ठाः स्वयंजुहुतएकऋ- पिंश्रद्धयन्तः॥ नित्यनैमित्तिकक्रियायुक्ता अधीतवेदा ब्रह्मबुभुत्सवः । अग्निहोत्रं स्वयमेवकुर्वन्तः एकऋषिमुख्यंऋषिपरमात्मानं श्रद्धयन्तः तत्र रक्षकत्वविश्वासशालिनोये ॥ तेषामेवैतांब्रह्मविद्यांवदेतदानशिरोव्रतविधिवद्यैस्तु- चीर्णम् ॥ अत्र विद्याशब्दोग्रन्थसंदर्भेवर्त ते यैः शिरस्यंझारपात्रधारणल- क्षणम् । आथर्वणिकानुष्ठेयं शिरोव्रतनामकं व्रतं चीण तेषामेवेमामुप- निषदमध्यापयेदित्यर्थः॥

(१९२) विषयवाक्यदीपिका। [अध्या०१-पाद३- तदेतत्सत्यमृषिरंगिराः पुरोवाच ॥ एतत्सत्यमक्षरमंगिराऋषिःशौनकायप्रोवाच ॥ नैतदचीर्णव्रतोधीते ॥ इदमचीर्णव्रतस्याध्ययन निषेधपरं पूर्ववाक्यमध्ययननिषेधपरम् । अतोनपौनरुत्यम् एतत्सर्व "स्वाध्यायस्य तथात्वेहि।३।३।३॥" इतिसूत्रभाष्येस्पष्टम् अत्रावगन्तव्यं सर्वमुंडकप्रकाशिकायामवर्ग तव्यम्॥ भूमासंप्रसादादध्युपदेशात् । १ ॥३७॥ छांदोग्ये । सप्तमाध्यायोपक्रमे भूमविद्याव्याख्यायते ॥ अधीहिभगवइतिहोपससादसनत्कुमारंनारदः ॥ सनत्कुमारंनारदोविधिवदुपसन्नः तं ॥ होवाचयत्थितेनमोपसीद ततस्तऊर्ध्ववक्ष्यामीति॥ ज्ञातांशमुक्त्वामत्समीपउपसीद तच्छ्रुत्वा अज्ञातांशंतेवदिष्या- मीत्युक्तवानित्यर्थः॥ सहोवाचऋग्वेदंभगवोध्यमियजुर्वेदसामवेदमाथ- वणंचतुर्थमितिहासंपुराणं पंचमवेदानांवेदंपित्र्यंरासिं- दैवंनिधिवाकोवाक्यमेकायनंदेवविद्यांब्रह्मविद्याभूतवि यांक्षत्रविद्यांनक्षत्रविद्यांसर्पदेवजनविद्यामेतद्भगवोध्ये- मिसोहंभगवोमंत्रविदेवास्मिनात्मवित्॥ मंत्रवित् मंत्रप्रधानकर्मविदेवास्मि नात्मविदित्यर्थः ॥ श्रुतंह्येवमेभगवदृशेभ्यस्तरति शोकमात्मविदिति साहंभगवःशोचामितंमाभगवान् शोकस्यपारंतारय- विति॥

सू०९-अधि०२] अत्रधिकरणम् । (१९३) भवादृशेभ्यः आत्मवित् शोकंतरतीतिमयाश्रुतमतआत्मानमु- पदिश्यतंशोकतारयत्वित्यर्थः॥ त होवाचयबैकिंचैतदध्यगीष्ठा नामैवैतन्नामवा- ऋग्वेदोयजुर्वेदइत्यादिः॥ अध्यगीष्टा अधीतवानसीत्यर्थः॥ नामोपास्वसयोनामब्रह्मेत्युपास्तेयावन्नाम्नोगतंत- त्रास्य यथा कामचारोभवति सयोनामब्रह्मेत्युपास्ते ॥ नामात्मकशब्दोयावदिहलोकेनुवर्ततेतावत्पर्यतं नाग्निनिरतिश- यलक्षणातिशयबृहल्लक्षणब्रह्मत्वेआत्मत्वेचश्रद्धामलभमानः चारो- भवतीत्यर्थः । संपृच्छति॥ अस्तिभगवोनाम्नोभूयइति ॥ इतराह॥ इतराह॥ इतराह॥ नाम्नोवावभूयोस्तीति॥ तन्मेभगवन्ब्रवीतीति ॥ वाग्वावनाम्नोभूयसीति॥ एवंप्रश्नप्रतिवचनरूपेणवाङ्मनःसंकल्पचित्तध्यानविज्ञानवलान- जलतेजआकाशस्मराशापर्यंतमुपन्यस्याह ॥ प्राणोवाचआशायाभूयान् ॥ अत्रप्राणशब्देनप्राणसहचारीजीवोलक्ष्यते तस्यचहेतुरुत्तरत्रव- क्ष्यते ॥ यथावाअरानाभौसमर्पिताएवमस्मिन्प्राणेसर्वस- मर्पितम् ॥ १३ (१९४) विषयवाक्यदीपिका। [अध्या०१-पाद३- यथारथचक्रस्यारानाभ्याश्रिताः एवंसमस्त चेतनभूतजातमेतच्चे- तनाश्रितमित्यर्थः । “भूतमात्राप्रज्ञामात्रास्वर्पिता इतिश्रुत्यंतरात्॥ प्राणःप्राणेनयातिप्राण प्राणंददातिप्राणायददाति ॥ गंतादेवदत्तादिरपिजीवएवगमनकरणभूतोश्वादिरपिजीवएवदाता पि जीवएवदेयोगवादिरपिजीवएवसंप्रदानभूतोब्राह्मणादिरपिजीवए- वेत्यर्थः॥ प्राणोहपिताप्राणोमाताप्राणोभ्राताप्राणःस्वसाप्राण- आचार्यःप्राणोब्राह्मणः॥ पित्रादिरपिजीव एवेत्यर्थः । ननुपरिदृश्यमानमांसपिंडविशेषाए वपित्रादिशब्दवाच्याः नजीवइतिमन्यमानंप्रत्याह ॥ सपदिपितरंवामातरंवाभ्रातरंवास्वसारंवाआचार्य वाब्राह्मणंवाकिंचिद्भुशमिवप्रत्याहधिक्त्वास्त्वित्येवैन माहुः पितृहावैत्वमसिमातृहावैभातृहावैत्वमसिस्वस- हावैत्वमस्याचार्यहावैत्वमसिब्राह्मणहावैत्वमसीति । अथपोनाक्रान्तप्राणान्शूलेनसमासंव्यतिसंदहेन्नैवैनंबू युः पितृहासीतिनमातृहासीतिनस्वसहासीतिनाचार्य- हासीतिनब्राह्मणहासीतिप्राणो वैतानिसर्वाणिभवंति। सजीवेषुपित्रादिशरीरेषुधिक्त्वामितिकिंचिदशमधिक्षिपतिपुरुषे धिक्त्वामित्युक्त्वापितृहेत्यादिशब्दान् प्रयुंजतेतेष्वेवशरीरेषूत्रांत- जीवेषुशूलेनसमासमितिसंपूर्वात्क्षेपार्थात् अस्यतेमुलंतोयंशब्दः । शूलेनसम्यक्प्रक्षिप्यसम्यग्दाहकेपिपुरुषेपितृहेत्यादिशब्दाप्रयोगात निर्जीवस्यशरीरस्यपित्रादित्वाभावस्यसिद्धत्वात् जीवएवपित्रादि- र्भवतीत्यर्थः।भगवताभाष्यकृताप्राणशन्दनिर्दिष्टप्राणसहचारीप्रत्य- गात्मैवनवायुविशेषमाप्राणोहपिताप्राणोहमातेत्येवमादयः प्राणस्य slidishal सू०९-अधि०२] अबधिकरणम्। (१९९) चेतनतामवगमयंतिपितृहामातृहेत्यादिनासप्राणेषुपितृप्रभृतिषूपमर्द कारिणिहिंसकत्वादिनिमित्तोपक्रोशवचनात्तेष्वेवविगतप्राणेष्वत्य- न्तोपमर्दकारिण्यप्युपक्रोशाभावाच्चहिंसायोग्यश्चेतनएवप्राणशब्दनि र्दिष्टःअप्राणेषुस्थावरेष्वपिचेतनेषूपमर्दभावाभावयोहिसातदभावद- र्शनाहिंसायोग्यतयानिर्दिष्टःप्राणः प्रत्यगात्मैवेतिनिश्चीयते अतएव चारनाभिदृष्टांताद्युपन्यासेन प्राणशब्दनिर्दिष्टः परइतिनभ्रमितव्यपर स्यहिंसाप्रसंगाभावात् जीवादितरस्यभोग्यभोगोपकरणस्यकृत्स्न- स्याचिद्वस्तुनोजीवायत्तस्थितित्वेनप्रत्यगात्मन्येवारनाभिदृष्टांतोपप त्तेश्चेतिभाषितम् यद्यपि"नायंहतिनहन्यते इतिनिर्दिष्टस्यजीवस्यस्व तोहिंसायोग्यत्वाभावेनदेहादिसाहित्यप्रयुक्तहिंस्यत्ववन्मुख्यप्राण- स्यापिहिंस्यत्वंसुवचम् । स्थावरहिंसास्थलेपि “भेदश्रुते_लक्षण्याच ।२।४।१६॥” इतिसूत्रभाष्योक्तरीत्यास्थावरषुप्राणस्यपंचधावस्था- यशरीरधारणस्याभावपिप्राणसद्भावोस्तीति “ नतुदृष्टांतभावात् । २।१।९॥” इतिसूत्रेभापितत्त्वेनप्राणस्यसद्भावाद्धिसावचन मुपपद्यतएव तथापिप्राणोहपितेत्यादिवाक्यनिर्दिष्टानांजीववाचित- यालोकेप्रसिद्धानांबहूनांपित्रादिशब्दानांगौणत्वकल्पनापेक्षयाएक- स्यप्राणशब्दस्यैवजीववाचित्वमाश्रयणीयमितिभाष्यकाराभिप्रायः। अतएव वृत्तिकृता भगवताबोधायनेनापि "भूमासंप्रसादादध्युपदेशा- त्।।३।७॥” इति सूत्रव्याख्याने प्रत्यगात्मन ऊर्ध्वमुपदेशादि- त्येवोक्तं नतुमुख्यप्राणादूर्ध्वमिति । वेदनाजनकव्यापारलक्षणहिंसा- यावेदनाशून्ये अचेतन असंभवाच्च ।। सवाएष एवं पश्यन्नेवं मन्वान एवं विजानन्नति वादी भवति ॥ पूर्ववाक्ये प्राणशब्दनिर्दिष्टः सवा एष जीवः स्वात्मानमुक्तेन R भ (१९६) विषयवाक्यदीपिका। [ अध्या०१-पाद३- प्रकारेण मन्वानः अनेन प्रकारेण विजानन्नुपासीनः तेन प्रकारेण पश्यन् साक्षात्कुर्वन्नतिवादी भवति । अतिक्रांतस्वोपास्यवस्तुवादी भवति स्वोपास्यवस्तुनः सर्वोत्कृष्टत्ववादी भवतीत्यर्थः । बृहस्पति समप्रत्यर्थिजनाप्रतिबाध्यस्वोपास्यदेवतायारम्यशीलत्वमतिवादि- त्वम् । तस्योपास्यदेवतातिशये पर्यवस्यति ।“ एवं पश्यन्नेवं म- न्वानः" इत्यादौ “ लक्षण हेतोः क्रियायाः३।२।१२६॥” इति हेत्वर्थे शतृप्रत्ययः । ततश्च स्वोपास्यदेवतासाक्षात्कारोतिवादित्वे हेतुरित्यर्थः । साक्षात्कारप्रीतस्वोपास्यदेवतानुग्रहादीशमतिवा- दित्वं भवतीतिभावः । अत्र “स वा एप एवं पश्यन्नेवं मन्वानः इति वाक्येन पूर्वसंदर्भनिर्दिष्टप्राणस्य द्रष्टुत्वमन्तृत्वकथनादपि प्राण- शब्दनिर्दिष्टो जीव इत्यवसीयते । प्राणशब्दनिर्दिष्टस्य जीवत्वज्ञा- पनायैव हि स वा एपपदयोः प्रवृत्तिः॥ तंचेड्युरति वाद्यसीत्यति वाद्यस्मीति बयाना- पन्हुवीत ॥ प्राणशब्दितस्य जीवस्य पूर्वोक्तसर्वातिशायित्वादेवातिवादित्वं नापन्होतव्यमितिभावः । अत्र पूर्वपर्यायेष्वनुक्तस्यातिवादित्वस्य कथनात्प्रक्रांतआत्मोपदेशः। प्राणशब्दिते प्रत्यगात्मनि पर्यवसन्न इति प्राणाद्वावभूयोस्तीति पुनरपृच्छत्येव नारदे सनत्कुमारः स्वय- मेव ततोप्यतिशयितं परमात्मानमुपक्षिपति॥ एष तु वातिवदति यः सत्येनाति वदति ॥ तु शब्दोविशेषप्रदर्शकः “तस्य हवा एतस्य ब्रह्मणोनामसत्य मिति ।" इति दहरविद्यायां वक्ष्यमाणत्वात् “सत्यज्ञानमनंतंब्रह्मे ति" सत्यशब्दस्य ब्रह्मणि प्रसिद्धेः सत्यशब्दोब्रह्मपरः । तस्यसत- तैकरूपत्वेन निर्विकारत्वात्सत्यत्वम् । तेनब्रह्मणानिमित्तेन योतिव- सू०९-अधि०२] अत्रधिकरणम् । (१९७) दत्येषोति वादीपूर्वस्मात्प्राणातिवादिनो विशिष्टइत्यर्थः । अत्र भाष्यकृता सत्येनेति “इत्थं भूतलक्षणे २।३।२१॥" तृतीया सत्येन परेण ब्रह्मणा उपास्येनोपलक्षितोयोतिवदतीत्यर्थः-इतीत्थंभूतलक्षणे तृतीया कंठतः प्रतिपादिता । अतिवाद्यन्तरत्वनिमित्तसत्यशब्दा- भिधेयं परं ब्रह्म प्रतीयतइतिभाष्यवाक्यानिमित्तत्वार्थकत्व- मपि तृतीयायाः सूचितम् । ततश्च निमित्तस्य करणत्वविवक्षया कारकविभक्तित्वमपि भाष्यकृदभिमतमेवेतिद्रष्टव्यम् । अत्र सत्या- तिवादिनः प्राणातिवाद्यपेक्षयातिशयकथनात्सत्यशब्दनिर्दिष्टस्य ब्रह्मणः प्राणशब्दितजीवापेक्षया भूयस्त्वमुक्तंभवति । नचपूर्वप्रस्तु- तप्राणातिवादिन एव “एषतुवाअग्निहोत्रीयः सत्यंवदति” इत्यादावि- व सत्यवदनमंगतया विधीयतामितिवाच्यम् । “एषतुवाअग्निहोत्री" इतिवाक्ये द्रव्यदेवतान्तराभावेनाग्निहोत्रंतराप्रतीतेस्तुशब्दस्वार- स्यभंगः इहतुप्रकृतातिवादिनिमित्तप्राणव्यतिरिक्तस्यैव सत्यशब्दि- तस्य ब्रह्मणोनिमित्तांतरस्य प्रतीते तत्स्वारस्यभंगोयुक्तः । किंच। सत्यवदनस्यांगतयाविधाने सत्यं वदतीतिनिर्देशस्य युक्ततयास- त्येनेतितृतीयायाअतीत्युपसर्गस्यचायोगादितिद्रष्टव्यम् ।। सोहं भगवः सत्येनातिवदानीति ॥ ब्रह्मणातिवदानीति शिष्यःप्रार्थयामास इत्यर्थः । इतराह ॥ सत्यत्वेव विजिज्ञासितव्यमिति ॥ यदि सत्यशब्दितब्रह्मनिमित्तकातिवादितामभिलपसितर्हि ब्रह्मो- पास्यमित्यर्थः। ब्रह्मोपासनमतिवादित्वनिमित्तमितियावत् । शिष्य स्तदभ्युपगच्छति ॥ सत्यंभगवोविजिज्ञास इति॥ उपासनंकरोमीत्यर्थः । ब्रह्मोपासनस्यातिवादित्वेहेतुत्वं ब्रह्मसा- क्षात्कारद्वारेत्याह॥

'111 MARRIROIN (१९८) विषयवाक्यदीपिका। [अध्या०१-पाद३- यदावै विजानात्यथ सत्यंवदति ॥ अत्र विजानाति शब्दः साक्षात्कारपरः यदावसाक्षात्करोति तदा सत्यं वदति सत्येनातिवदतीत्यर्थः । पूर्वत्र सत्येनातिवदानीति नि- दिष्टत्वात् । सत्यशब्दितस्य ब्रह्मणोतिवदनप्रतिनिमित्तत्वेन करण- त्वविवक्षया ॥ तृतीयावद्वदनप्रति कर्मतया द्वितीयाया अप्युप- पत्तिः । “सवाएष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति । इति” साक्षात्कारमननोपासनानामतिवादित्वनिमित्ततया पूर्वत्रोक्तत्वात् सत्यत्वेव विजिज्ञासितव्यमित्युपासनस्योक्तत्वान्म- तिस्त्वेव विजिज्ञासितव्येति मननस्य वक्ष्यमाणत्वादत्र विजानाती- त्यनेन साक्षात्कार एवोच्यते । उक्तंचव्यासायः। विजानातिशब्दः साक्षात्कारपरः नतुशास्त्रजन्यज्ञानपरः । “यदावैमनुतेऽथविजा- नाति" इतिविजानात्यर्थस्य मननसाध्यत्वावगमात् । सत्यं वदति सत्यमतिवदतीत्यर्थः॥ नाविजानन्सत्यंवदति विजानन्नेव सत्यं वदति विज्ञानलेव विजिज्ञासितव्यमिति ॥ साक्षात्काराभावेनातिवादित्वमित्यतः साक्षात्काररूपं विज्ञानं विजिज्ञासितव्यं संपाद्यमित्यर्थः । पाकंपचतीतिवत् विज्ञानं विजि- ज्ञासितव्यमितिनिर्देशः। उत्तरत्रापि विजिज्ञासितव्यपदस्यसंपाद्य- त्वमेवार्थः । उक्तंचव्यासायःसत्यव्यतिरिक्तविषयाणि विजिज्ञासित- व्यपदानि संपायवाचीनीति । शिष्यस्तदभ्युपगच्छति ॥ विज्ञानभगवोविजिज्ञासइति॥ हेभगवन्नतिवादित्वनिमित्तं साक्षात्कारं संपादयामीत्यर्थः । पूर्वखंडे सत्यत्वेव विजिज्ञासितव्यमिति ब्रह्मोपासनस्यातिवादित्व- १ अवभाविनोपिपाकस्यबुद्धयासनिधापितत्वेनयथापूर्वनिर्देशस्तद्भदित्यर्थः।

सू०९-अधि०२] अबधिकरणम् । (१९९) हेतुत्वकथनादत्रच वाक्ये साक्षात्कारस्यातिवदनहेतुत्वकथनाद्ब्रह्मो- पासनतत्साक्षात्कारयोरिद्वारिभावापन्नयोरेवातिवादित्वहेतुत्वंसि- ध्यति । एतत्सर्वमभिप्रेत्य भगवता भाष्यकृता ब्रह्मसाक्षात्का- रनिमित्तातिवादित्वसिद्धये परब्रह्मसाक्षात्कारोपायभूतं ब्रह्मोपासनं सत्यत्वेव विजिज्ञासितव्यमित्युपदिश्यतइतिभाषितम् । केचित्तु सत्यत्वेवविजिज्ञासितव्य" मितिविहितस्य साक्षात्कारस्य उपास- नात्मकं हेतुभूतं विज्ञानमेव “यदावैविजानात्यथसत्यं वदती"तिख- ण्डेनापिनिर्दिश्यते नतुसाक्षात्कारः। एवंच सति कारणपरंपरोपदे- शावैरूप्यंसिध्यतीतिवदन्ति ॥ यदावै मनुतेऽथविजानाति नामत्वाविजानाति मत्वैवविजानाति मतिस्त्वेव विजिज्ञासितव्येति मति भगवोविजिज्ञासइति ॥ ब्रह्मोपासनोपायभूतं मननं संपायमित्यर्थः॥ यदावै श्रद्दधात्यथमनुते नाश्रद्दधन्मनुते श्रद्दधदे- वमनुते श्रद्धात्वेव विजिज्ञासितव्येति श्रद्धां भगवोवि- जिज्ञासइति॥ अत्रच भाष्यकृता श्रवणप्रतिष्टार्थत्वान्मननस्य मननोपदेशेन श्रवणमप्यर्थसिद्धमत्वाश्रवणोपायभूतां ब्रह्मणिश्रद्धांश्रद्धात्वेवविजि- ज्ञासितव्यतीत्युपदिश्यतइतिभाषितम् । श्रवणोपायभूतां ब्रह्मणिश्र- द्वामित्यनेन ब्रह्मश्रवणविषयिणी श्रद्धाविवक्षिता श्रद्धात्वरेतिव्यासा- याख्यातम् ॥ यदावैनिस्तिष्ठत्यथश्रद्दधातिनानिस्तिष्ठन्श्रद्दधा- तिनिस्तिष्टनेवश्रद्दधातिनिष्ठात्वेवविजिज्ञासितव्येति- निष्ठांभगवोविजिज्ञासइति ॥

(२००) विषयवाक्यदीपिका। [अध्या०१-पाद३- ब्रह्मैवश्रोतव्यंनान्यदितिहिव्यवसायरूपानिष्ठा श्रोतुस्तरालक्षण- श्रद्धोपायतयासंपायेत्यर्थः ॥ यदावैकरोत्यथनिस्तिष्ठतिनाकृत्वानिस्तिष्ठतिकृ- त्वैवनिस्तिष्ठतिकृतिस्त्वेवविजिज्ञासितव्येतिकृतिंभग- वोविजिज्ञासइति ॥ उद्योगप्रयत्नापरपर्यायाश्रोतव्यांतरेषुहेयत्वानुसन्धानेन मनसो नियमनरूपाकतिः । ब्रह्मैवश्रोतव्यमितिव्यवसायलक्षणानिष्ठाहेतु- त्वात्संपाद्येत्यर्थः ॥ यदावैसुखंलभतेऽथकरोतिनासुखंलब्ध्वाकरोतिसु- खमेवलब्ध्वाकरोति सुखंत्वेवविजिज्ञासितव्यमितिसु- खभगवोविजिज्ञासइति। उक्तलक्षणायाः कृतेर्ब्रह्मणि निरतिशयानुकूलत्वावगतिमंतरेणा- संभवात् श्रोतव्यांतरेषुहेयत्वानुसन्धानाहितमनोनियमनरूपकृतिहे- तुतयात्यंतानुकूलत्वलक्षणंसुखत्वंब्रह्माणिज्ञातव्यमित्यर्थः । अत्र चश्रवणमननश्रद्धादेः प्रागेव सुखप्राप्तेरसंभवादत्रप्राप्त्यर्थस्यापिलभते निमेवार्थः । ज्ञानस्यापिप्राप्तिरूपत्वात् श्रोतव्येऽत्यन्तानुकूलत्व- ज्ञानाभावेश्रोतव्यांतरेषुहेयत्वानुसन्धानाऽऽहितमनोनियमनरूपकृ- तेरसंभवात्यंतानुकूलत्वं श्रोतव्येब्रह्मणिज्ञातव्यमितिभावः । अत्र वि- जिज्ञासितव्यशब्दस्यज्ञातव्यत्वमर्थोनोपासितव्यत्वंसंपादनीयत्वंवा। योवैभूमातत्सुखनाल्पेसुखमस्तिभूमैवसुखंभूमात्वे वविजिज्ञासितव्यइति भूमानंभगवोविजिज्ञासइति ॥ भूमशब्दोबहुत्ववाचीवहुशब्दात्पृथ्वादित्वादिमनिचि “बहोलो- पोभूचवहोः ६।४।१५८॥” इतिप्रकृतिप्रत्यययोर्विकारेचसतित- निष्पत्तेर्वहुत्वंचात्रवैपुल्यंनसंख्याविशेषः बहुशब्दस्य "बहुषुबहुवच सू०९-अधि०२] अत्रधिकरणम् । (२०१) नम् । १४॥२१॥” इत्यादौसंख्यायामिव"अल्पंवावहुवायस्यश्रुत- 1. स्योपकरोतियः” इत्यादावल्पत्वप्रतिप्रयोगितिवैपुल्येपि प्रयोग- दर्शनादिहापिनाल्पेसुखमस्तीत्यल्पत्वप्रतिद्वंद्वितयैवभूमशब्दप्रयो- गाच्चवैपुल्यमेवार्थः वैपुल्यंचगुणोत्कर्षरूपम् । उत्तरत्रोत्कर्षस्यप्र- तिपादितत्वात् नतुपरिमाणरूपम् अतउत्कर्षकृतवैपुल्यमेवेहभूमश- ब्देनविवक्षितम् । अतएवनवैपुल्यरूपधर्मपरोभूमशब्दः सुखस्यवै- पुल्यरूपत्वासंभवात् अल्पप्रतियोगितयानिर्देशाच नात्रवोत्तरत्रवा ल्यत्वंभूमप्रतियोगितयानिर्दिश्यतेअपितुअल्पमेव अतोल्पशब्दप्र- तियोगितयाप्रतीयमानोभूमशब्दोवैपुल्याश्रयधर्मिपरएव ततश्चाय- मर्थः। यदुत्कृष्टतयाविपुलंतदेवसुखमत्यंतानुकूलमित्यर्थः नाल्पे- सुखमस्तिसुखंसुखत्वमत्यतानुकूलत्वमित्यर्थः अपशवोवाअन्यगोअ श्वेभ्यइत्यत्रगवाश्वादिव्यतिरिक्तेपशुत्वनिषेधस्यप्रशस्तपशुत्वनिषे धपरत्ववत् अल्पेप्रत्यगात्मसुखेसुखत्वनिषेधस्यप्रशस्तसुखत्वनिषे धपरत्वात् एतत्सर्वभाष्येपिस्पष्टम् एतद्वाक्यप्रस्तुतयोर्भूमाल्पश- ब्दयोरथैजिज्ञासमानंप्रत्याह॥ यत्रनान्यत्पश्यतिनान्यच्छणोतिनान्यद्विजानाति सभूमायत्रान्यत्पश्यत्यन्यच्छणोत्यन्यद्विजानातित- दल्पम् ॥ यत्रेत्यनन्तरमनुभूयमानइत्यध्याहारः यत्रयस्मिन्वस्तुन्यनुभूय- मानेततोन्यन्नदृश्यतेनश्रूयतेनविज्ञायतेचसभूमेत्यर्थः यस्मिन्दृश्य मानेततोन्यन्नदृश्यते यस्मिन्यूयमाणेततोन्यन्नश्रूयतेयस्मिन्विज्ञाय- मानेततोन्यन्नविज्ञायतेसभूमेतिवार्थः । यद्वा । सप्तम्याविषयत्वमर्थः पश्यन्नित्यध्याहारः यंपश्यन्नन्यनपश्यतीत्यर्थः अत्रतदितरदर्शनाय- भावोविषयाभावकृतः ततश्चयतोन्यन्नास्तिसभूमेतिपर्यवसितोर्थः ।

MINAARICHHANE (२०२) विषयवाक्यदीपिका। [अध्या०१-पाद३- ननुचेतनाचेतनवर्गस्यतद्भिन्नत्वात्कथंभूनोन्यन्नास्तीत्युच्यतेनचचि- दचिद्विशिष्टस्यैवभूमशब्दार्थत्वात् चिदचितोरपितत्रांतर्भावात्तद- न्यन्नेतिनिषेधः शक्यतेकर्तुमितिवाच्यविशेषणभूतयोश्चिदचितोर्मू- मशब्दार्थभूताद्विशिष्टादन्यत्वेनततोन्यन्नास्तीतिनिषेधस्यायुक्तत्वा- दतएवजगदैश्वर्यविशिष्टमनुभवन्नतदतिरिक्तम् पश्यतीत्यपिनयु- तम् । ऐश्वर्यविशिष्टादीशितव्यस्यभिन्नत्वात्सर्वज्ञत्वेन विशिष्ट- मनुभवन् तदतिरिक्तनपश्यतीतितस्यापिभूमत्वप्रसंगात् । अ- थातआत्मादेशइतिभूमएवात्मत्वस्योपदेक्ष्यमाणत्वात् । तरति- शोकमात्मविदितिप्रस्तुतस्यात्मोपदेशस्यभूग्निपर्यवसानाच्चभूना- त्मत्वमवर्जनीयम् । नहिचिदचिद्विशिष्टस्यात्मत्वमस्तिविशेष्य- स्यैवांत प्रविश्यनियंतृत्वेनात्मत्वादतश्चतस्यैवभूमत्वंवक्तव्यम् नचैतल्लक्षणं संभवतितव्यतिरिक्तस्यवस्तुनःसत्वादितिचेत् उच्यते । ब्रह्मशब्दवद्भूमशब्दस्यापिवस्तुपरिच्छेदरहितत्वमेवार्थः । वस्त्वप- रिच्छेदोनामेदमिदंनेतिनिर्देशाईत्वराहित्यम् । तच्चस्वरूपाभेदादा- भवेत्तदपृथसिद्धत्वाद्वाभवेत् । जीवजडयोरीश्वराभेदाभावात्तद- पृथक्सिद्धसत्ताकत्वमितिफलति । तच्चद्वेधाघटतेतत्सत्ताव्यतिरिक्त सत्ताशून्यत्वाद्वा “यदधीनायस्यसत्तातत्तदित्येवमण्यते"इतिस्मृत्य- नुसारेणतदधीनसत्ताकत्वाद्वाभवेत् । तत्रतत्सत्ताव्यतिरिक्तसत्ताशू- न्यत्वमपिसत्तारूपविशेष्याभावेनमिथ्यात्वादाभवेत् । तत्सत्ताऽभि- नसत्ताकत्वेनसत्ताव्यतिरिक्तत्वरूपविशेषणाभावाद्वाभवेत् । तत्रस- त्ताशून्यत्वंसकलप्रमाणविरुद्धत्वन्नाभ्युपगमाई तथैवतत्सत्ताभिन्न- सत्ताकत्वमपिनाभ्युपगमाहम् । अपितुतत्सत्ताधीनसत्ताकत्वमेव । एवंविधापृथक्सिद्धत्वस्यसिद्धांतेभ्युपगतत्वात् । “अंशोनानाव्य- पदेशाः २।३।४२॥” इत्यत्र अपृथक्सिद्धत्वलक्षणांशत्वस्या- भेदव्यपदेशनिर्वाहकत्वस्योक्तत्वादात्मभरणमिहसत्ताशब्दार्थः सू०९-अधि०२] अबधिकरणम्। (२०३) उक्तंचहरिणा । "आत्मानमात्मनाविभ्रदस्तीतिव्यपदिश्यते” इति चेतनाचेतनयोरात्मभरणलक्षणासत्तापरमात्मसत्ताधीनेत्यर्थः। तत- श्चयवनान्यदित्यस्यापियत्सत्तानधीनसत्ताकंनास्तिएतदनात्मकना- स्तीत्यर्थपर्यवसानानानुपपत्तिः। यद्वा । “समानेषुपूर्वत्वा” दितिसा- तमिकाधिकरणेअन्येतरादिसर्वनामशब्दानांपूर्वनिर्दिष्टसदृशवाचि- त्वस्यव्यवस्थापिततयानान्योतोस्तिद्रष्टेत्यादिवाक्योष्विवयत्रनान्य- त्पश्यतीतिवाक्येपिसामान्यनिषेधस्यविशेषनिषेधपरत्वाश्रयणाना- नुपपत्तिः॥ योवैभूमातदमृतम् । अथयदल्पंतन्मय॑म् ॥ उक्तलक्षणोभूमैवामृतम् । जन्ममरणादिशून्यनित्याविर्भूतान- न्याधीनापहतपाप्मत्वादिगुणाष्टकमितियावत् । इतस्त्वनीदृशम् । नित्यमुक्तादीनामप्यनन्याधीनतादृक्त्वाभावान्नवाक्यानुपपत्तिरिति द्रष्टव्यम् ॥ सर्ववस्तूनामाधारसापेक्षत्वं दृष्ट्वा पृच्छति ॥ सभगवःकस्मिन्प्रतिष्टितइति ॥ उत्तरमाह॥ स्वेमहिम्नि इति॥ स्वस्वरूपमहिमाधारकः । “स्वयंदासास्तपस्विनः" इतिवत् । अनाधारइत्यभिप्रायः॥ १ यदत्रकेचिदनादित “याशास्त्रसिद्धंस्वस्मिन्भगवदास्यस्वाहंकारपारवश्येनासहमानाः" "दासम्सेवकशूद्रयोः” “कैवर्तेदासधीवरौ” इत्यादिकोशबलेन ब्राह्मणानां दासपदघटि- तनामनभवतीतिवदंति तत्तेषांवदनंबहुशास्त्रादिविरुद्धम् ॥ तथाहि “दासोहंकोशले- द्रस्य" इतिरामायणेश्रीहनुमति "हंतायमगिरबलाहरिदासवर्यः” इतिगोवर्धने “ हरि- दासो ब्रजौकसाम्" इतिउद्धवे "हरिदासस्यराजर्षेः” इतियुधिष्ठिरेचश्रीभागवते "दासो- स्मितेलक्ष्मण” इतिहनुमन्नाटके “देवदेवस्यदासः” इति श्रीशिवमहिम्नस्तवे गंधर्वे "सूर्य- दासः सोमयाजी" इतिसमरसारग्रंथे "कालिदास" इत्यादयोलोकेपि प्रयोगा येषु दृश्यतेन ह्यतेसर्वेशूद्राएवेतिशक्यते वक्तुम् ॥ एवंच भगवन्नाम्नासह कृतंदासांतनामनब्राह्मणादिषु प्रयोक्तव्यमितिनिष्कर्षः॥

विषयवाक्यदीपिका। [अध्या०१-पाद३- उक्ताभिप्रायेणाचार्यः स्वयमुक्त्वास्वशब्दस्यात्मात्मीयवचनत्वा दात्मीयेनियाम्यतयामहिमभूतेगवाश्वहस्तिहिरण्यदासभार्यादिलक्ष णेप्रतिष्ठतइत्यभिप्रायशिष्योगृह्णीयादथवास्वशब्दस्यात्मपरतया । आत्माधारइत्यभिप्रायइतिवुध्येत नचतदुभयमपिसंभवतिपरमात्मन उभयविभूतिलक्षणात्मीयमहिमसद्भावेप्यनाधारस्यपरमात्मनस्तत्प्र- तिष्ठितत्वासंभवानप्रतिशिक्षितोपि नटः बटुः स्वस्कंधमारुह्यनरी- नर्तीतिन्यायेनस्वस्वाश्रितत्वासंभवाच नद्वयमपियुज्यते । अतः शिष्यस्यसाबुद्धिनिवर्तनीयेतिमत्वापुनराह ॥ यदिवानमहिनीति॥ यदिवाअन्यथापश्यसितदानमहिनीतिबमइत्यर्थः॥ तद्विवृणोति गोश्वमिवमहिमेत्याचक्षतेहस्तिहिर- ण्यंदासभार्यक्षेत्राण्यायतनानीति ॥ इति शब्दः प्रकारवचनःएवंजातीयकानीत्यर्थः॥ नाहमेवंब्रवीमीतिहोवाच ॥ तत्रप्रतिष्ठितत्वंनववीमीत्यर्थः । उक्तंचव्यासायः । “अस्य- महिमानमितिवीतशोकः 7 "च" एतांविभूतियोगंइत्यादिश्रुतिस्मृ- तिषुचपरमात्मनोमहिमवत्वावगमात् । यदिवानमहिनीति नमहिम निषेधःअपितुविभूतिरूपमहिमप्रतिष्टितत्वनिषेधोवगम्यतइतिस्व- स्वरूपप्रतिष्ठितत्वं ॥ निषेधति ॥ अन्योह्यन्यस्मिन्प्रतिष्ठितइति ॥ ननु यत्रनान्यत्पश्यतीत्यनुपपन्ननानादिग्वर्तिनांचेतनाचतनप- दार्थानामुपलंभादित्यत्राह ॥

सू०९-अधि०२] अबधिकरणम् । (२०५) सएवाधस्तात्सउपरिष्टात्सपश्चात्सपुरस्तात्सदक्षि- णतःसउत्तरतःसएवेदथ्सर्वमिति ॥ सामानाधिकरण्यात्सइतिनिर्दिष्टस्यभूम्नःइदंसर्वमितिनिर्दिष्टस्य चिदचिद्वर्गस्यचशरीरात्मभावःफलितोभवतिशरीरात्मभावश्चव्या- प्तिनिबंधनइतिसएवाधस्तादितिश्रुत्यभिप्रायः । ततश्चयत्रनान्यत्प- श्यतीतितदनात्मकान्यनिषेधेनानुपपत्तिरितिभावः॥ एवंसात्मभूतस्यभूम्नः उपासकेनस्वशरोरकतयोपासनकर्तव्य- मित्युपदिशति ॥ अथातोहंकारादेशः॥ क्रियतइतिशेषः अथशब्द प्रकृतविषयत्वद्योतनार्थः।अहंकारोऽ- हंबुद्धिः अहंग्रहेणभूम्नउपासनप्रकारोतःपरमुपदिश्यतइत्यर्थः नतुजी- वस्वरूपोपदेशइतिमंतव्यम् तथासत्यहमादेशइतिनिर्देशस्यैवयुक्त- तयाकारपदवैयर्थ्यात् ॥ परमात्मनोहंग्रहेणोपासनप्रकारमेवदर्शयति ॥ अहमेवाधस्तात् अहं उपरिष्टादहपश्चादहंपुरस्ता- दहंदक्षिणतोहमुत्तरताहमेवेद सर्वमिति ॥ सर्वदिग्वर्तिसर्वात्माभूमाहमेवेतिज्ञातव्यमित्यर्थः । नतुजीवस्य सर्वात्मकत्वमुपदिश्यतइतिभ्रमितव्यंजीवस्यातथात्वात् । तथात्वे कारशब्दवैयर्थ्यस्योक्तत्वाच्च । उक्तंचभगवताभाष्यकृतायत्त्वहमे- वाधस्तादित्यादिनासर्वात्मत्वमुपदिष्टम् तद्भमगुणविशिष्टस्यब्रह्मणो हंग्रहेणोपासनमुपदिश्यते । अथातोहंकारादेशइतिपरमात्मनःप्रत्य- गात्मशरीरकत्वज्ञानप्रतिष्ठार्थमहंग्रहेणोपासनंकर्तव्यमितिच ॥ नन्वहंबुद्धिशब्दयोः जीवात्मविषययोः कथंभूमपर्यंतत्वम् । अतोऽनहमर्थेचपरमात्मन्यहंग्रहोपासनस्यायथार्थत्वमेवस्यादित्या- (२०६) विषयवाक्यदीपिका। [अध्या०१-पाद३- शंक्यभून प्रत्यगात्मानंप्रत्यात्मत्वेनतद्विषयबुद्धिशब्दानांपरमात्मप यतत्वमुपपद्यतइतिदर्शयन्तरतिशोकमात्मविदितिप्रक्रांतमात्मोपदे शंभूग्निसमापयति॥ अथातआत्मादेशः॥ अत्रापिक्रियतइतिशेषः अथशब्दः प्रकृतविषयत्वद्योतनार्थः । आत्मादेशः आत्मत्वोपदेशः क्रियतइत्यर्थः॥ आत्मैवाधस्तादात्मोपरिष्टादात्मापश्चादात्मापुर- स्तादात्मादक्षिणतआत्मोत्तरतआत्मैवेद,सर्वमिति ॥ सामानाधिकरण्येनात्मत्वंफलति तथापिकंठोक्त्योपासकात्मत्व- सिध्यर्थविशिष्यकंठोत्त्योपदेशः । नचाथात्मादेशइत्युपासकंप्रत्या- त्मत्वोपदेश इतिविशेषेकिनियामकमितिवाच्यम् । एवंविजानतआ- त्मतःप्राणइतिविद्वदात्मनः प्राणाद्यपादानत्वेनसात्त्म्यिस्योत्तरत्र- प्रतिपादयिष्यमाणत्वात् । यत्त्वत्रपरैः अहंकारस्यात्मैकत्वेनप्रत्यक्ष- सिद्धस्याथातोहंकारादेशः अथातआत्मादेशइतिपृथगुपदेशोभे- दार्थः । भूमात्मनोभिन्नत्वेनप्रसिद्धयोः पृथगुपदेशऐक्यार्थः । द्वयोः सार्वात्म्यायोगादिति तदसारमहमादन्यस्यात्मनः भूमाख्यब्रह्म- भिन्नत्वेनप्रत्यक्षासिद्धत्वात्तयोरुपदेशोभेदार्थः । अहमर्थस्यतुब्रह्म भिन्नत्वेनप्रत्यक्षसिद्धत्वात् तयोरुपदेशऐक्यार्थइतिवैपरीत्यस्यापि सुवचत्वादित्यास्तांतावत् ॥ सवाएषएवंपश्यन्नेवंमन्वानएवंविजानन्नात्मरतिरा- त्मक्रीडआत्ममिथुन आत्मानन्दः सस्वराड्भवतित- स्यसर्वेषुलोकेषुकामचारोभवति ॥ रतिःस्रक्चंदनादिजन्याप्रीतिः । क्रीडोद्यानादिजन्या स्त्रीसंभ- १ उक्तमितिशेषः ॥

सू०९अधि०२] अत्रधिकरणम् । (२०७) वाप्रीतिः । मिथुनंविभूतिजन्याप्रीति आनन्दः आत्मन्येवरतिर्यस्यस तथोक्तः । सर्वविधसुखानुभवोध्यात्मसुखानुभवांतर्गतइत्यर्थः । स्वराट्स्वयमवराजाअकर्मवश्यः विधिनिषेधकिंकरोनभवतीतिया- वत् । च "अतएवअनन्याधिपतिः॥९॥"इतिसूत्रेअतएव सत्य- संकल्पत्वादेव अनन्याधिपतिः अन्याधिपतित्वविधिनिषेधयोग्यत्वं विधिनिषेधयोग्यत्वेहिप्रतिहतसंकल्पत्वंभवेत् । अतः सत्यसंकल्प- त्वश्रुत्यैवानन्याधिपतित्वंसिद्धम् । अतएवसस्वराड्भवतीत्युच्यतइ- तिभाषितम् । “प्रत्यक्षोपदेशान्नेतिचेत् । ४।४।१८॥” इति सूत्रे- अकर्मप्रतिहतज्ञानोमुक्तः विकारिलोकान्ब्रह्मविभूतिभूताननुभूयय- थाकामंतृप्यतीत्यर्थः इतितस्यसर्वेषुलोकेषुकामचारोभवतीत्यस्य वाक्यस्यार्थइतिभाषितम् ॥ अथयेन्यथातोविदुरन्यराजानस्तक्षय्यलोकाभवं. तितेषांसर्वेषुलोकेष्वकामचारोभवति ॥ येउक्तप्रकारादन्येनप्रकारेणोपासतेतेन्यराजानोभवंतिविधिनिषे- धकिंकराभवन्ति कर्मवश्याभवतीत्यर्थः। स्वराडित्यस्यप्रतिद्वंद्वि- त्वात् क्षय्यलोकाश्चभवंतीत्यर्थः । अत्रक्षय्यलोकाभवंतीत्यनेनयथो- क्तप्रकारेणपरमात्मोपासकानामक्षय्यभगवल्लोकत्वमस्तीत्युक्तंभव- ति । अथात आत्मादेशइत्यनेनोक्तोपासकांतर्यामिणः चेतनाचेतन- सकलप्रपंचोपादानत्वलक्षणंसर्वात्मत्वंस्पष्टयति ॥ तस्यहवाएतस्यैवंपश्यतएवंमन्वानस्यैवंविजानत आत्मतःप्राणआत्मतआशात्मतःस्मरआत्मतआका शआत्मतस्तेजः आत्मतः आपः आत्मतः आविर्भाव तिरोभावावात्मतोन्नमात्मतोबलमात्मतोविज्ञानमात्म- तोध्यानमात्मतश्चित्तमात्मतः संकल्पआत्मतोमन- Rom A (२०८) विषयवाक्यदीपिका। [अध्या०१-पाद३- आत्मतोवागात्मतोनामात्मतोमंत्राआत्मतः कर्माणि- आत्मतएवेद सर्वमिति॥ ततश्वविहितोहंग्रहस्तात्विकविषयएवेतिभावः तदेषश्लोकः॥ तस्मिन्विषयेएषवक्ष्यमाणःश्लोकः प्रवर्ततेइत्यर्थः ॥ नपश्योमृत्युपश्यतिनरोगंनोतदुःखतांसहपश्यः पश्यतिसर्वमाप्नोतिसर्वशइति ॥ पश्यः ब्रह्मदर्शी मृत्यु मरणं रोगं दुःखसाधनम् जगतिप्रतिकूलतां चनपश्यति सर्वसाक्षात्कर्तासन्संकल्पमात्रेणसंकल्पितानन्सर्व- स्मिन्कालेप्राप्नोतीत्यर्थः। अपहतपाप्मत्वादिगुणाष्टकाविर्भावोभव तीतिपर्यवसितोर्थः । अत्रजगतिदुःखतांनपश्यतीत्युक्त्याजगतोमु तंप्रतिप्रतिकूलत्वंनास्तिपित्तोपहतस्यपयसः प्रतिकूलत्ववत् जगतः प्रतिकूलत्वंकर्मनिबंधनमित्युक्तंभवति ॥ सएकधाभवतित्रिधाभवतिपंचधाभवतिसप्तधानव धाचैवपुनश्चैकादशस्मृतः । शतंचदशचैकंचसहस्राणि चविशतिः॥ आत्मनोनिरवयवस्यविधापञ्चधाविभागायोगात्संकल्पपरिगृही- तानेकविधशरीरोभवतीत्यर्थः ॥ एवंमोक्षसाधनभूतोपासनप्रकारमुपदिश्यतादृशोपासननिष्पत्ता- वंतःकरणस्योपासनोत्पत्तिप्रतिबंधकपापरहित्यमपेक्षितम् तच्चराज- सतामसाहारसेविनांनभवत्यपितुतद्विविक्तसात्विकाहारसेविनांभवे- दित्युपदिशति ॥ आहारशुद्धौसत्वशुद्धिः सत्वशुद्धौध्रुवास्मृतिः स्मृ तिलंभेसर्वग्रंथीनांविप्रमोक्षः॥

सू०९-अधि०२] अत्रधिकरणम् । (२०९) इतिध्रुवस्मृतिलंभेदुर्मोचतयाग्रंथिशब्दवाच्यानाम् अविद्यारागा दीनांमोक्षोभवतीत्यर्थः । अत्रस्मृतिलंभएवसर्वग्रंथीनांप्रमोक्षइत्यु- त्यास्मृत्यनंतरभाविनास्मृतिविलक्षणेनदर्शनेननमोक्षः अपितुदर्श नसमानाकारस्मृतिसंतानेनैवततः सवाएषएवंपश्यन्नेवमन्वानएवंवि- जानन्नित्यत्र पश्यनित्यादिशब्दादर्शनसमानाकारोपासनपराः प्रक- रणांतरस्थाः “ आत्मावारेद्रष्टव्यः श्रोतव्यः' इत्यादिशब्दाश्चदर्श- नसमानाकारः पराइतिसूचितंभवति ॥ शास्त्रार्थमशेषमुक्त्वाआख्यायिकामुपसंहरतिश्रुतिः ॥ तस्मैमृदितकषायायतमसः पारदर्शयतिभगवान्स नत्कुमारः॥ एवं शुद्धांतःकरणायनारदायभगवान्सनत्कुमारः संसारसंतमस चण्डभानूपासनगोचरंपरमात्मानंस्पटमुपादिशदित्यर्थः । अत्रनामा- दिषुब्रह्मत्वेनोपदिष्टेष्वपितत्रब्रह्मत्वस्यानभ्युपगमात्तस्यमृदितकषा यत्वंशिष्यस्यपरिशुद्धांतः करणतयोपदेशयोग्यतांपरीक्षयैवोपदिष्ट- वानित्यर्थः॥ तस्कंदइत्याचक्षतेस्कंदइत्याचक्षते ॥ तंसनत्कुमारंस्कंदइत्यपिवदंतीत्यर्थः। द्विरुक्तिरध्यायपरिसमा- यी ॥ अक्षरमंबरांतधृतेः।१ । ३।९ ॥ बृहदारण्यकेपंचमाध्यायेष्टमेगार्गीब्राह्मणे॥ साहोवाच अहंवैवायाज्ञवल्क्ययथाकाश्योवावैदे- होवाउग्रपुत्रउज्ज्यंधनुरधिज्यंकृलाद्वौबाणवतौशरौ- सपत्नातिव्याधिनौहस्तेधृलोपोत्तिष्ठेदेवमेवलांद्वाभ्यां प्रश्नाभ्यामुपोदस्थांतीमेब्रूहीति ॥ १४ (२१०) विषयवाक्यदीपिका। [अध्या०१-पाद३- काशीदेशभवोविदेहदेशभवोहिशूरवंश्यः उत्सृष्टज्यं धनुःपुनरधि- ज्यंकृत्वाद्वौवाणवंतौ बाणशब्देनशराग्रेयःखंडःसोभिधीयते सपत्ना- तिव्याधिनौ सपत्नात्यन्तव्यथनशीलौ शरौ हस्तेगृहीत्वासपत्नसमी पंगच्छति । एवमेवाहंद्वाभ्यांप्रश्नाभ्यामुपस्थितास्मि । उपोदस्था- म् । लुङि “गातिस्थाघुपाभूभ्यः २।४।७७॥” इतिसिचोलुक् ॥ तोमेबहीत्येवमुक्तआहयाज्ञवल्क्यः॥ पृच्छगार्गीति साहोवाचयदूर्वयाज्ञवल्क्यदिवोय- दक्टिथिव्यायदंतराद्यावाष्टथिवी इमेयद्भूतंचभवच्च- भविष्यच्चेत्याचक्षतेकस्मिस्तदोतंचप्रोतंचेति ॥ दिवोयदूर्वलोकजातंपृथिव्याश्चाधस्तनंयद्वस्तुजातंद्यावापृथिव्यं तरालपतिकालत्रयपरिच्छिन्नंयवस्तुजातमेतत्सर्वकुत्रवादीर्घतंतुव- दोतंतियक्तंतुवत्प्रोतंचेति । यदाक्पृथिव्याइतिपाठेप्ययमेवार्थः॥ सहोवाचयदूर्ध्वगार्गिदिवोयदक्टिथिव्यायदंतरा- द्यावाप्टथिवीइमेयद्भूतंचभवच्चभविष्यच्चेत्याचक्षतआ- काशेतदोतंचप्रोतंचेति ॥ आकाशशब्देन नवायुमदंवरंगृह्यते तस्यसर्वविकाराश्रयत्वाभा- वात् । किंतु । अव्याकृताकाशःएतच्च “अक्षरमंबरांतधृतेः। १।३। ९॥” इत्यत्रस्थितम् ॥ साहोवाचनमस्तेस्तुयाज्ञवल्क्ययोमएतंव्यवोचः । अपरस्मैधारयस्वेति। यस्त्वंम एतेप्रश्नंव्यवोचउक्तवानसितस्मैतेनमोस्तुअपरस्मैद्विती- यप्रश्नायावधानंकुरुसहोवाच ॥ पृच्छगार्गीति साहोवाचयदूर्द्धयाज्ञवल्क्यदिवोयद सू०९-अधि०२] अत्रधिकरणम् । (२११) क्टिथिव्यायदंतराद्यावाप्टथिवीइमेयद्भूतंचभवच्चभ- विष्यच्चेत्याचक्षते आकाशएवतदोतंचप्रोतंचेति ॥ यआकाशउक्तइतिशेषः॥ कस्मिन्नुखल्वाकाशओतश्चप्रोतश्चेति ॥ सोव्याकृताकाशः किमाश्रितइत्यर्थः॥ सहोवाचैतद्वैतदक्षरंगार्गिब्राह्मणाअभिवदन्त्यस्थूल मनएवह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोवा- युरनाकाशमसंगमरसमचक्षुष्कमश्रोत्रमवागमन अते जस्कमप्राणममुखममात्रमनंतरमबाह्यनतदश्नातिकि- चननतदश्नातिकश्चन ॥ हेगार्गितदेतत्सर्वासूपनिषत्सुप्रसिद्धम् । अश्नुतइतिवानक्षर- तीतिवाअक्षरंब्रह्मब्राह्मणाब्रह्मविदःअभिवदन्ति । अत्रब्राह्मणाभिव- दनकथनेननाहंकिंचिद्विप्रतिपन्नवक्ष्यामीतिहृदयम् । अस्थूलंल्थूल भिन्नम् । तर्हिकिमण्वितितत्राह अनविति तहिकिंवस्वमित्यतआ- है । अह्रस्वमिति । तर्हिकिमदीर्घमित्यत्राह अदीर्घमिति । एवमु तरत्रापिद्रष्टव्यम् । अमात्रम् । मात्राइन्द्रियाणि यद्वामात्रापरिच्छेद- स्तद्रहितमित्यर्थः । अनंतरमवाह्यस्वाव्याप्तदेशशून्यमित्यर्थः । नतदश्नातिकिंचन तदक्षरंकर्तृकिंचिदपिनानाति । अवाप्तसमस्त- कामतयाभक्ष्यनिरपेक्षमित्यर्थः। स्वयंकस्यापिनभक्ष्यमित्याह नत- दश्नातिकश्चनेति तद्ब्रह्मनाशनकर्म ॥ एतस्यवाक्षरस्यप्रशासनेगार्गिसूर्याचंद्रमसौविधृ- तौतिष्ठतः॥ वैशब्दोवधारणेप्रशासनेआज्ञाचक्रेसूर्याचंद्रमसौ देवताद्वंद्वेच ६। ३।२५ ॥ इतिपूर्वपदस्यानङ् । विधृतौविशेषेणधृतौतिष्ठतः प्रकृष्टं- Meri AaTerms । (२१२) विषयवाक्यदीपिका। [अध्या०१-पाद३- शासनप्रशासनम् । कचिदप्यप्रतिहतत्वमेवशासनस्यप्रकर्षः । तत- श्वसर्वविषयकंशासनमितिफलति प्रशासितारंसर्वेषामितिप्रमाणानु- सारात् । ततश्चसर्वविषयकशासनाधीनद्यावापृथिव्यादिधारणत्वमर्थ- इतिपर्यवस्यति । अत्रप्रधानस्यजगद्धारकत्वेपि प्रशासनाधीनधार- कत्वाभावात् । जीवस्यप्रशासनाधीनयत्किचिद्धारकत्वेपिप्रशासन- शब्दितसर्वविषयकशासनाधीनसर्वधारकत्वासंभवाच्च नात्रजीवोवा- प्रधानवाप्रतिपाद्यते । इदंच “साचप्रशासनात् । १।३।१०॥ इति सूत्रेस्पष्टम् ॥ एतस्यावाक्षरस्यप्रशासने गार्गिद्यावाप्टथिव्यौविधू- तेतिष्ठतः। एतस्यवाअक्षरस्यप्रशासनेगार्गिनिमेषामु- हूर्ताअहोरात्राण्यर्द्धमासामासाऋतवः संवत्सराइति- विधृतास्तिष्ठंतीति ॥ इतिशब्दः प्रकारपरः संवत्सराइत्येवंजातीयकाः कालविशेषा इत्यर्थः॥ एतस्यवाअक्षरस्यप्रशासनेगार्गिप्राच्योनद्यःस्यंद- न्ते श्वेतेभ्यः पर्वतेभ्यःप्रतीच्योऽन्याःयांयांचदिशमनु। प्रशासनइतिनिमित्तेसतिसप्तमी। प्राच्यः प्राक्प्रवाहाः प्रसिद्धा गंगाद्यानद्यः श्वेतेभ्यो हिमवदादिभ्यः पर्वतेभ्यो लोकोपकारायस्य- न्दन्ते । तत्प्रशासनाभावे ताः स्यंदनायनप्रभवन्तीतिभावः । प्रती च्याप्रत्यङमुखाः अन्याउदीच्यश्चनद्यः यांयांदिशमनुप्रस्थितास्ताः सर्वाएतस्यप्रशासनेसतिस्यन्दन्ते ॥ एतस्यवा अक्षरस्यप्रशासनेगार्गिददतोमनुष्याः प्रशंसन्तियजमानंदेवादीपितरोन्वायत्ताः॥ एतस्यवाअक्षरस्यप्रशासनेनिमित्तेददतस्तदाज्ञयादानंकुर्वतः सू०९-अधि०२] अत्रधिकरणम् । (२१३) आज्ञाकैंकर्यबुद्धयादानंकुर्वतोजनान् अन्वायत्ताअनुवशास्संतोम- नुष्याः प्रशंसन्ति प्रशासनइत्येतद्यजमानंदेवादर्विपितरइत्यत्रापि संवध्यते । अन्वायत्ताइतिपदं देवमनुष्यपितृसाधारणम् । द्विती- यान्तपदानांप्रशंसन्तीत्यनेनान्वयः । परमात्माज्ञयायागंकुर्वताम- न्वायत्ताः संतोदेवाः प्रशंसन्ति । परमात्माज्ञयाप्रवृत्तांदोहोमम- न्वायत्तास्संतः पितरः प्रशंसन्ति । एवमेवव्याख्यातंव्यासायः॥ योहवाएतदक्षरंगार्यविदित्वास्मिल्लोकेजुहोतिय- जतेतपस्तप्यतेबहूनिवर्षसहस्राण्यंतवदेवास्यतद्भवति। योवाएतदक्षरंगार्यविदित्वास्माल्लोकात्प्रैतिसकृपणः॥ ब्रह्मज्ञानमंतरेण क्रियमाणंहोमयज्ञतपआदिकंबहुकालमपिसाध्यं सर्व नश्वरफलसाधनं भवति । तद्ज्ञानमंतरेण लोकान्तर्गतस्यापि शोच्यताभवति । तदज्ञानात्संसारोभवतीतियावत् ॥ योवा एतदक्षरं गार्गिविदित्वास्माल्लोकात्प्रेति स ब्राह्मणः ॥ ब्रह्मज्ञानवान् म्रियते स ब्रह्मवित् ब्रह्मानुभविता मुक्त इति यावत् । उक्तं च भगवताभाष्यकृता योवाएतदक्षरंगार्गीत्येतद्या- कुर्वता यदज्ञानात्संसारप्राप्तिः यज्ज्ञानाचामृतत्वप्राप्तिस्तदक्षरंपरं ब्रह्मेति ॥ तद्वा एतदक्षरं गार्ग्यदृष्टं दृष्टश्रुतं श्रोत्रमृतं मंत्र- विज्ञातं विज्ञातृ॥ अयोगिभिरदृष्टं सत् द्रष्टरूपादि साक्षात्कर्तृश्रोतृशब्दसाक्षा- त्कारकर्तृ मंतृ मंतव्यं साक्षात्कर्तृ विज्ञातृ अध्यवसायसाक्षात्कर्तृ ॥ नान्यदतोऽस्ति द्रष्टनान्यदतोस्ति श्रोतृनान्यदतो- स्ति मंत नान्यदतोस्तिविज्ञातृ॥

MAHBAN (२१४) विषयवाक्यदीपिका। [अध्या०१-पाद३- अंतर्यामि ब्राह्मणोक्तरीत्यात्राप्यन्यपदस्य तत्सदृशपरत्वमेव यथाचोल एव भूपतिर्नान्यइत्युक्तेस्तत्सहशभूपतिनिषेधपरत्वमे- वमिहाप्यद्रष्टुत्वादिविशेषितनिरुपाधिकद्रष्टुत्वाश्रयस्य परमात्मनः सदृशं किमपि नास्तीत्येवार्थः यद्वैतदक्षरमन्यैरदृष्टंसत् स्व- व्यतिरिक्तसमस्तसाक्षिभूतम् । एवमनेनाक्षरेणादृष्टमेतस्याक्षर- स्याधारभूतमेतस्य द्रष्टनास्तीत्यर्थः । पूर्वव्याख्याने समनिषेधः अस्मिंश्च व्याख्यानेऽधिकनिषेधश्च फलति । नच नेह नानास्ती- तिवन्नान्यदतोस्तिद्रष्ट्रिति वाक्यस्याप्यब्रह्मात्मकवस्तुनिषेधपरत्वो पपत्तौ समाभ्यधिकनिषेधतयाव्याख्यानं किमर्थमितिवाच्यम् । तद्वदत्रैक्यविधिशेषत्वाभावेन समाभ्यधिकनिषेधपरत्वस्यैवयुक्त- त्वात् । उपसंहरति ॥ एतस्मिन्नुखल्वक्षरेगार्गि आकाश ओतश्चप्रोतश्चे- ति साहोवाच ब्राह्मणा भगवंतस्तदेव बहुमन्यध्वं यद- स्मानमस्कारेण मुच्येध्वम् ॥ हे भगवंतो ब्राह्मणायूयं तदेव बहुमन्येवं यदस्माद्याज्ञवल्क्या- नमस्कारं कृत्वा मुच्येध्वमिति यन्मुक्ताभवतेति यदस्तीत्यर्थः । न कदाचिदस्य पराभवःशंकनीयः नमस्कारं कृत्वामुक्ताभवतेत्यर्थः । मन्येध्वमिति लिङ्मध्यमबहुवचनम् ॥ नवजातु युष्माकमिमंकश्चिद्रह्मोद्यंजतेति ॥ युष्माकं मध्य इमं याज्ञवल्क्यं कश्चिदपि ब्रह्मवादं प्रति जेता नास्तीत्यर्थः ॥ ततो ह वाचनव्युपरराम॥ वचकोरपत्यवाचक्नवी गाग्र्युपररामेत्यर्थः ।। ईक्षतिकर्मव्यपदेशात् सः। १।३१२॥

सू०९-अधि०२] अत्रधिकरणम् । (२१५) प्रश्नोपनिषदि पंचमप्रश्ने॥ अथ हैनं सैव्यं सत्यकामःप्रपच्छ । स्पष्टोर्थः॥ सयोहवै तद्भगवन्मनुष्येषु प्रापणान्तमोंकारमभि- ध्यायीतकतमंवावसतेनलोकं जयति ॥ हवाइति प्रसिद्धयर्थः। तदित्यव्ययं सयइत्येतदधिकारिसामान्य- परम् । अयमर्थः हे भगवन्पूजाई । योधिकारी मनुष्याणां मध्ये मरणान्तम् एतदोंकारमभिध्यायति । सः कतमंलोकं तेनोङ्कारेण प्राप्नोतीत्यर्थः । वावशब्दोवधारणेप्रसिद्धौवा ॥ तस्मैसहोवाच ॥ स्पष्टोर्थः॥ एतदै सत्यकामपरं चापरं चब्रह्मयदोंकारस्तस्मा- द्विद्वानतेनैवायनेनैकतरमन्वेति ॥ हेसत्यकामएतदेवपरंचापरंचब्रह्मोभयवाचकमित्यर्थः।वाच्यवाच- कभावनिबंधनसामानाधिकरण्यम्।तथैवव्यासाय"इक्षतिकर्माधिकर- णे १।३।१२॥” व्याख्यातत्वात् । किंतदित्यत्राह यदोंकारस्तदु- पासकएतेनैवोंकाररूपेणैकतरंपरमपरंवाब्रह्मान्वेत्युपास्तइत्यर्थः।। सपद्येकमात्रमभिद्धययीत सतेनैवसंवेदितस्तूर्णमे- वजगत्यामभिसंपद्यते॥ सउपासकः यद्येकमात्रंहस्वंप्रणवमपरब्रह्मवाचकमभिध्यायीता- परब्रह्मवाचकेनह्रस्वेनप्रणवेनयोऽपरंब्रह्मोपास्तेसतेनैवैकमात्रोंकार- करणकायपरब्रह्मध्याननैवसंवेदितोलब्धसत्ताकोजगत्यांभुव्यभिसंप- द्यते॥

(२१६) विषयवाक्यदोपिका। [अध्या०१-पाद३- तमृचोमनुष्यलोकमुपनयन्ते ॥ तमृङ्मंत्रामनुष्यलोकंप्रापयन्ति । सतत्रतपसाब्रह्मचर्येणश्रद्धयासंपन्नोमहिमानमनु- भवति ॥ समनुष्यलोकनीतस्तपसानशनादिना ब्रह्मचर्येण मैथुनवर्जनेन श्रद्धयास्तिक्यबुद्ध्यायदिसंपन्नोभवति । तदामहिमानंश्रेयस्साधनकं ब्रह्मोपासनमनुतिष्ठतीत्यर्थः । नचैचोह्रस्वत्वाभावात्कथमोंकारस्य- ह्रस्वत्वमितिशङ्कनीयम् । न्यूखेवस्वस्योंकारस्यदर्शनात् ॥ अथयदि द्विमात्रणमनसिसंपद्यते ॥ द्विमात्रेणापरब्रह्मवाचकेनप्रणवेनयस्यमनस्यपरब्रह्मध्यानसंपद्यते॥ सोन्तरिक्षयजुर्भिस्त्रीयतेससोमलोकम् ॥ अन्तरिक्षम् अन्तरिक्षाश्रितेसोमलोकंद्विमानोपासकः पुमान्यजु- मैत्रैरुन्नीयते अत्रांतरिक्षसोमलोकशब्दः उर्वलोकमात्रोपलक्षकः आमुष्मिकमात्रपरः अतएव "ईक्षतिकर्माधिकरणभाष्ये।३।१२॥" यदपरंकार्यमपरब्रह्मनिर्दिष्टंतदैहिकामुष्मिकत्वेनद्वेधाविभज्यैकमात्र प्रणवमुपासीनानामैहिकमनुष्यलोकावाप्तिफलमभिधायद्विमात्रमुपा- सीनानामामुष्मिकमंतरिक्षशब्दोपलक्षितंफलंचाभिधायेत्युक्तम् ॥ ससोमलोकेविभूतिमनुभूयपुनरावर्तते॥ आमुष्मिकैश्वर्यमनुभूयतत्पुण्यावसानेपुनरावर्तते ॥ यः पुनरेतंत्रिमात्रेणोमित्यनेनैवाक्षरेणपरमपुरुषम- भिध्यायीत। एकमात्रत्वद्विमात्रत्वदशायामर्वाचीनफलसाधनेनैवाक्षरेणत्रिमा- त्रेणपरमात्मानमभिध्यायीत आभिमुख्येनध्यायतीत्यर्थः॥

मू०९-अधि०२] अत्रधिकरणम् । (२१७) सतेजसिसूर्यसंपन्नः यथापादोदरस्त्वचाविनिर्मु- च्यते एवंहैवसपाप्मनाविनिर्मुक्तः ससामभिरुन्नीयते ब्रह्मलोकम् ॥ सउपासकस्तेजोमंडलेसूर्ये संगतः सन्नुदरमेवपादोयस्यसपादो- दरः सर्पइतियावत् । यथासर्पोजीर्णत्वचाविनिर्मुक्तोभवत्येवंपा- प्मनाविनिर्मुक्तः सन् ब्रह्मलोकंवैकुण्ठंसामभिर्गीतप्रधानमत्रैरुन्नीयते। अत्रव्यासायः सपाप्मनाविनिर्मुक्तइतितच्छन्दांतरश्रवणात्ससामभि- रित्यैकपद्यमाश्रित्यसामगानसहितैरितिवा सांत्ववचनसहितैःपुरुषै- रितिवार्थः इतिवर्णितम् ॥ सएतस्माज्जीवधनात्परात्परंपुरिशयंपुरुषमीक्षते ॥ ईक्षति "कर्माधिकरणे । ११३।१२॥" यस्यहिकर्मनिमित्तं देहि- त्वं सजीवधनइत्युच्यते । चतुर्मुखस्यापितच्छूयते यो ब्राह्मणंविदु- धातिपूर्वमित्यादिभाष्योक्तेर्जीवधनशब्देनसंसारिमंडलमुच्यते ।मूर्ती घनइतिकाठिन्यशब्दितमूत्तौं धनशब्दस्य निपातितत्वादेहद्वारत्वा- दात्मकाठिन्यस्य घनशब्दोदेहिपरएव । तस्मात्परः परिशुद्धात्मा। तस्मादपिपरभूतंपुरिशयं पूं-प्राणिनः सर्वगुहाशयस्येति सर्वेषुप्राणि- वंतरात्मतयाशयानम्। "भगवानिति शब्दोयं तथा पुरुषइत्य- पि। निरुपाधीचवर्तेतेवासुदेवे सनातने” इति निरुपाधिकपुरुष- शब्दवाच्यं भगवंतं परवासुदेवमीक्षते इत्यर्थः। अतएवसामभि- रुनीयते ब्रह्मलोकमित्यत्रब्रह्मलोकशब्दस्य चतुर्मुखलोकपरत्वशं- काव्युदस्ता । चतुर्मुखलोकगतानां परवासुदेवेक्षणासंभवादिति द्रष्टव्यम् ॥ तदेतौश्लोकौभवतः ॥ १ इदं चापस्तंबवचनमितिसमन्वयाधिकरणश्रीभाष्ये स्पष्टम् ॥ - (२१८). विषयवाक्यदीपिका। [अध्या०१-पाद३- तदोंकारध्यानमधिकृत्य वक्ष्यमाणौ श्लोकोप्रवृत्तावित्यर्थः॥ तिस्रोमात्रामृत्युमत्यःप्रयुक्ता अन्योन्यसत्ताअन- विप्रयुक्ताः॥ अविप्रयुक्तानभवंतीत्यनविप्रयुक्ताः विप्रयुक्ता इतियावत् । अत्यं- तद्रुतोच्चारणेन अन्योन्यसक्ततयाअतिविप्रकृष्टकालतया अत्यंत- विप्रयुक्ततया वाप्रयुक्तास्तिस्रोमात्रामृत्युमत्यः मृत्युप्रदाः अनर्था- वहाइतियावत् ॥ क्रियासुबाह्यांतरमध्यमासुसम्यक्प्रयुक्तासुनकंप- तेज्ञः॥ यज्ञाद्या बाह्यक्रिया अंतरा मानसक्रिया मध्यमा वाचकजपरूपा- दिक्रिया आसुक्रियासुतिसृषु मात्रासुसम्यगत्यंतसंयोगविप्रयोगम- तरेणप्रयुक्तासुसतीषु ज्ञः तत्प्रयोगाभिज्ञः पुमानकंपतेफलानच्यवत इत्यर्थः॥ ऋभिरेतंयजुभिरंतरिक्षसामभिर्यत्तत्कवयोवेद- यंते ॥ तमोकारेणैवायनेनान्वेतिविद्वान् यत्तच्छांतम- जरममृतमभयंपरचेति॥ ऋम्भिरतं मनुष्यलोकमित्यर्थः । यजुभिरंतरिक्षम् । आमुष्मि- कमित्यर्थः । यत्तत्कवयोवेदयंते । कवयः क्रांतदर्शिन इत्यर्थः । "तद्विष्णोःपरमपदंसदा पश्यंतिसूरयः"इत्युक्तरीत्या सूरयः यलोकंप श्यंतितमोंकारेणैवमार्गेणान्वेति गत्वाच शांतमूर्मिषटरहितंजरामरण शून्यमकुतोभयम् । सर्वकारणत्वेनसर्वोत्कृष्टंब्रह्मचप्राप्नोतीत्यर्थः॥ दहरउत्तरेभ्यः। १।३।१३॥ आकाशो- र्थान्तरलादिव्यपदेशात् । १।३।४२॥ नचका- L "" ३ मू०९-अधि०२] अत्रधिकरणम् । (२१९) येप्रत्यभिसंधिः । ४।३।१३॥" कृत्स्नभावात्तु गृहिणोपसंहारः।३।४।४७॥" इत्यादिविषयवाक्यार्थज्ञानाय प्रायशश्छांन्दोग्याष्टमप्रपाठको व्याख्यायते॥ अथयदिदमस्मिन् ब्रह्मपुरदहरंपुण्डरीकंवेश्म ॥ विद्यांतरारम्भदर्शनार्थोयमपशब्दः । उपास्यतयासन्निहितस्य परब्रह्मणः स्थानतयानवद्वारवत्त्वादिनाचपुरशब्दितेउपासकशरीरे पुण्डरीकाकारमल्पं हृदयाख्यं परस्यब्रह्मणोवेश्म ॥ दहरोस्मिन्नंतराकाशस्तस्मिन्यदंतस्तदन्वेष्टव्यंत- दावविजिज्ञासितव्यमिति॥ अस्मिन्वेश्मनिदहरः सूक्ष्मः आकाशः यइतियुल्लिंगयच्छन्दो- ध्याहर्तव्यः । अस्मिन् योदहराकाशः तस्मिन्यदंतरित्यत्रांतः- शब्दोंतरवर्तिपरः चशब्दश्चाध्याहर्तव्यः । ततश्चायमर्थः अस्मिन् दहरपुण्डरीकेयोदहराकाशः तदंतर्वर्तिचयत् तदुभयं श्रवणमनना- भ्यामवगंतव्यं ध्यातव्यंचेत्यर्थः । तदन्वेष्टव्यमित्यत्रतदितिनपुं- सकलिंगनिर्देशोलिंगसामान्यविवक्षयाद्रष्टव्यः । यद्वा दहरोस्मिन्नं- तराकाशइत्यत्रनपुलिंगोयच्छन्दोध्याहर्तव्यः । योस्मिन्दहराकाशः तदंततिचयदितियच्छन्देनैव "नपुंसकमनपुंसकेनैकवचास्यान्य- तरस्याम् । १।२।६९॥” इतिकृतनपुंसकैकशेषवद्भावेनैकेनैवन- पुंसकलिंगयच्छब्देनद्वयोरपिपरामर्शसंभवात् । तदन्वेष्टव्यमिति- वाक्येतच्छब्देपिनपुंसकैकशेषसंभवादेकेनैवतच्छब्देनद्वयोरपिपरा- मर्शः । ततश्चानेन वाक्येन दहराकाशस्तदंतरवर्तिचान्वेष्टव्य- मित्युक्तं भवति । उक्तंचभगवताभाष्यकृता यदिदमस्मिन् ब्रह्मपु- १ आदिपदेन संकल्पादेवतुतच्छ्रुतः । ४।४। ८ । संपद्याविर्भावः स्वेनशब्दात् । ४।४। १ ॥ इतिसूत्रेगृह्यते ॥

- (२२०) विषयवाक्यदीपिका। [अध्या०१-पाद३- रेदहरंपुण्डरीकंवेश्मेत्यनूद्य तस्मिन्दहरपुण्डरीकवेश्मनि योदहरा- काशः यच्चतदंतर्वति तदुभयमन्वेष्टव्यमितिविधीयतइति । अत्रचा- काशशब्दः आसमंतात्काशतेप्रकाशतेइतिव्युत्पत्त्यापरमात्मपरः । तत्रहेतुरुत्तरत्रवक्ष्यते।नचतदंतरवर्तिनएवान्वेष्टव्यत्वेप्रतीयमाने दह- राकाशस्यान्वेष्टव्यतासिद्धयर्थमेतावानक्लेशः किमर्थमाश्रीयते।किंच “विश्वजित्सर्वपृष्ठोतिरात्रोभवतीत्यत्र पृष्ठगतसर्वताविध्याक्षिप्तपृष्ठ- विधिवदहराकाशांतरवर्तित्वेनगुणजातोपासनस्य दहराकाशोपास- नमंतरेणासंभवेनाक्षेपादेव दहराकाशोपासनस्यापि सिद्धतयाय-. त्तच्छब्दयोनपुंसकैकशेकवद्भावचशब्दाध्याहारक्लेशानुभवोव्यर्थ- इतिवाच्यम् । “अथयइहआत्मानमनुविद्यव्रजेत्येतांश्वसत्यान्का- मान्” इत्यौपसंहारिकोभयोपासनवचनानुसारेणास्यक्लेशस्यानुभो- क्तव्यत्वात् । नचतदेववाक्यंदहराकाशतदंतर्वर्तिलक्षणोभयोपास- नविधिपरमस्त्वितिवाच्यम् । उपक्रमस्थंविस्पष्टतव्यप्रत्यययुक्तं- वाक्यं विहायौपसंहारिकस्यविस्पष्टविधिप्रत्ययशून्यस्ययच्छब्दयु- तस्यविधित्वकल्पनानौचित्यात् । तस्यविधित्वकल्पनायामप्यनु- वादरूपस्याप्यस्यवाक्यस्यतदनुसारेणार्थद्वयोपासनपरत्वस्याश्रय- णीयतया नपुंसकैकशेषादिक्लेशस्याश्रयणीयत्वात् । इतिशब्दो- वाक्यसमाप्तौ । अथवाइतीत्यस्यानंतरमाचार्योब्रूयादित्यध्याहारः॥ तंचेदयुर्यदिदमस्मिन्ब्रह्मपुरेदहरंपुण्डरीकंवेश्म- दहरोस्मिन्नंतराकाशः किंतदत्रविद्यतेयदन्वेष्टव्यंयदा वविजिज्ञासितव्यमिति॥ एवमुक्तवंतमाचार्यस्वल्पहृदयमध्यवर्तितयातिस्वल्पआकाशे किंवावर्तितुमर्हतियदन्वेष्टव्यस्यादितिदहराकाशशब्दितस्यब्रह्मत्वं- तदंततितयानिर्दिष्टस्यतद्गुणजातत्वंचाजानानाअंतेवासिनोयदिब्रू- युरित्यर्थः। किंतत्रविद्यत इतिवाक्यंसर्वातरस्यपरमात्मनः अन्तर्व सू०९-अधि०२] अत्रधिकरणम् । (२२१) त्यंतरासभवलक्षणानुपपत्तिगर्भातर्वतिविशेषप्रश्नपरमिति व्यासार्या णामभिप्रायइति यद्यपिप्रतीयते तथापीदमस्मिन्ब्रह्मपुरे दहरंपुण्डरी वेश्मदहरोस्मिन्नंतराकाश इत्येतावन्मात्रंश्रुतवतांशिष्याणांपरमा- त्मत्वविरोधिन्याकाशशब्देजागरूके दहरत्वान्वेष्टव्यांतराधारत्वादि- विरोधिलिंगेच जाग्रतिब्रह्मलिंगेषु चानुपन्यस्तेषु परमात्मनिश्चयस्यत दुपजीव्याक्षेपप्रवृत्ते संभवात् । किंचसतिरस्यपरमात्मनोंतर्व|सं- भवलक्षणानुपपत्तेरेवशिष्याणांहदिविपरिवर्तमानत्वेप्रश्नवाक्येदहरं- पुण्डरीकंवेश्मदहरोस्मिन्नंतराकाशइतिदहरपुंडरीकांतरवर्तित्वेना- काशस्यदहरत्वोपन्यासस्यवाप्रतिवचनेयावान्वायमाकाशइतिवैपु- ल्योपन्यासस्यवा असंगत्यापातात् । व्यासार्याणामप्युक्तएवार्थोभि- प्रेतः केचित्तुशरीरस्यब्रह्मपुरत्वेनोपक्रमादेवतदंतर्वतिआकाशशब्द निर्दिष्टंब्रह्मेत्यवगत्यैवतदंतर्वर्तिवस्त्वंतरासंभवलक्षणानुपपत्तिमभिप्र यन्तएवअंतर्वर्तिविशेषपप्रच्छुरित्यपिसंभवान्नानुपपत्तिरितिवदन्ति॥ सबूयाद्यावान्वाअयमाकाशस्तावानेषोतर्हदयआ- काशउभेस्मिन्द्यावाप्टथिवीअंतरेवसमाहितेउभावग्नि- श्चवायुश्चसूर्याचंद्रमसावुभौविद्युन्नक्षत्राणि ॥ एवमुक्त सआचार्यः प्रतिब्रूयाद्धृदयपुंडरीकमध्यवर्त्याकाशशब्द- निर्दिष्टः भूताकाशवद्विपुलः द्यावापृथिव्यादिशब्दोपलक्षितंभोग्य भोगस्थानभोगोपकरणम् ।अग्निसूर्यादिशब्दोपलक्षितोभोक्तृवर्गश्चस- माश्रितइत्यर्थः।यच्चास्येहास्तियच्चनास्तिसर्वतदस्मिन्समाहितमिति अस्योपासकस्येहलोकेयोग्यजातमस्तियच्चमनोरथमात्रगोचरमिह नास्ति सर्वतद्भोग्यजातमस्मिन्दहराकाशेसमाहितमित्यर्थः। दहरा- काशोनिरतिशयभोग्यइतियावत् । भगवताभाष्यकृतायावान् वाय- माकाशस्तावानेषोंतर्हृदय आकाशइतिदहराकाशस्यातिमहताम- भिधाय "उभेस्मिन् द्यावापृथिवी अंतरेवसमाहिते । उभावग्निश्चवा- (२२२) विषयवाक्यदीपिका। [अध्या०१-पाद३- युश्चसूर्याचन्द्रमसावुभौ । विद्युन्नक्षत्राणीति प्रकृतमेव दहराकाशम स्मिन्निति निर्दिश्यतस्मिन्त्सर्वजगदाधारत्वमभिधाय यच्चास्येहा- स्ति यच्चनास्ति सर्व तदस्मिन्समाहितमिति । पुनरप्यस्मिन्नितित- मेवदहराकाशं परामृश्य तस्मिन्नस्योपासकस्येह लोकेयद्भोग्यजात- मस्ति यच्चमनोरथमात्रगोचरमिहनास्ति सर्वतद्भोग्यजातमस्मिन्दह- राकाशे समाहितमिति निरतिशयभोग्यत्वं दहराकाशस्याभिधा- यः” इतिभाषितम् । नचयच्चास्येहास्ति यच्चनास्ति सर्व तदस्मिन्स- माहितमित्यनेनोपासकभोग्यवस्त्वाधारत्वमाप्रतीयते । नतु दहरा काशस्यनिरतिशयभोग्यत्वम् । ततश्च यच्चास्येहास्तीतिवाक्येन दहराकाशस्य निरतिशयभोग्यत्वमभिधायेतिभाष्यं कथमुपपद्यवा मितिवाच्यम् । उपासकस्य ब्रह्मप्रात्यैकफलकस्य स्वर्गपश्चादीनां भोग्यत्वाभावात् । यच्चास्येहास्ति यच्चनास्ति सर्वतदस्मिन्समा- हितमित्यनेन दहराकाशस्य निरतिशयभोग्यत्वमेव प्रतिपाद्यतइ- तिव्यासाय्यरुक्तत्वात् । नास्याशंकाया अवकाशइतिद्रष्टव्यम् ॥ केचित्तुसयदि पितृलोककामो भवतीत्यादिना प्राचीनानेकजन्म- संवन्धिपित्रादिवर्गदिदृक्षया संकल्पमात्रेणतत्स्रष्टुत्वस्य प्रति- पादयिष्यमाणत्वात् । सूत्रकृतापि “संकल्पादेवतच्छुतेः । ४ । ४।८” । इति सूत्रेणतद्वाक्यस्य विवक्षितार्थत्वाविष्करणात् । योगस्येतःप्रेति न तमिह दर्शनाय लभते ॥ अथ येचास्येह जीवा येचप्रेता यच्चान्यदिच्छन्न लभते सर्वतत्रगत्वा विन्दत इत्यनेन नष्टानां पित्रादीनां मुक्तकामनाविषयत्वप्रतिपादनात् । “प्रत्यक्षो पदेशान्नेतिचेन्नाधिकारिकारिकमंडलस्थोक्तेः।४।४।१८ ।” इति सूत्रोक्तन्यायेन ब्रह्मविभूतितया नएपित्राद्यनुभवस्यकामना- विषयत्वसंभवाच्च । अन्यथा अस्मिन्कामाः समाहिताः एतांश्चसत्या न्कामानित्यादावपि कामशब्दस्य निरतिशयभोग्यार्थकत्वं को सू०९-अधि०२] अत्रधिकरणम् । (२२३) वारयेत् । तथाजक्षन्क्रीडन्नित्यादावपि भोग्यार्थकत्वमेवस्यादिति परोपिविजयेत । अतोयथाश्रुतार्थत्वेपि नदोषः । भाष्यमपिभोग्या- धारत्वफलितभोग्यत्वपरमेवास्त्वितिवदन्ति । अत्र भूताकाशतुल्यवै पुल्यप्रतिपादनेन द्यावापृथिव्यादिजगदाश्रयत्वप्रतिपादनेनोपासक प्रति निरतिशयभोग्यताप्रतिपादनेनच दहराकाशस्य प्रसिद्धाका- शवलक्षण्यप्रतिपादनात्स्वल्पे दहराकाशे किमपिमातुं नशनोती- त्याक्षेपवीजं परिहतंभवति ॥ तंचेद्व्युरस्मिश्चेदिदं ब्रह्मपुरे सर्व वा समाहितम्। सर्वाणि च भूतानि सर्वच कामाः । यदेतज्जरावाप्नोति प्रध्वंसते वा किंततोऽतिशिष्यत इति॥ अल्पत्वरूपमाक्षेपवीजं परिहत्य किं तत्र विद्यते इति प्रश्नं प्रतिविवक्षत्येव । आचार्यउक्तेर्थे अनुपपत्तिं पश्यतः शिष्या यद्याचार्य ब्रूयुः किमिति ब्रह्मपुरशब्दितं शरीरं द्यावापृथिव्या- दिशब्दनिर्दिष्टभोग्यभोगोपकरणभोगस्थानमग्निवाद्यादिशब्दनिर्दि- टो भोक्तवर्गश्च यद्याश्रयेयुः । तदा शरीरस्य जरानाशादौसति यावापृथिव्यादिकं किमपि नावशिष्येत तदपि नश्यदित्यर्थः । सर्वेचकामाइत्यस्य यच्चास्येहास्तीतिवाक्यनिर्दिष्टनिरतिशयभोग्य- त्वानुवादित्वात्सर्वेचकामाइत्यस्य निरतिशयभोग्यत्वमर्थइतिव्या- सार्यैरुक्तम् ॥ ननुदहराकाशाश्रितत्वस्यैवोक्ततया ब्रह्मपुरशब्दितशरीराश्रित- त्वस्यानुक्ततया तज्जरानाशानुविधायिजरानाशवत्त्वस्य दहराका- शाश्रिते द्यावापृथिव्यादौ कथंप्रसक्तिरितिचेदुच्यते । यथा घटाद्य- तराकाशे निहितस्य ध्यादेर्वस्तुतोघटादिरेव धारकः । आकाश:- परमवकाशात्मनोपकरोत्येवं देहांतर्वतिनि दहराकाशे विद्यमानस्य द्यावापृथिव्यादेः देहएव धारकः, दहराकाशस्त्ववकाशात्मनोपक- "24TAMMERINoreHARRIANIBAREN (२२४) विषयवाक्यदीपिका। [ अध्या०१-पाद३- रोति । अस्तुवादहराकाशस्य घटाकाशवैलक्षण्येन स्वतो धारकत्व- म् । तथापि तस्य देहजराप्रध्वंसानुपदभाविजराप्रध्वंसवत्त्वाद्यावद्दे हस्यभारधारणानुकूलंबलं तावत्पर्यन्तमेव दहराकाशस्य तद्वारक- त्वमिति फलतो देहएव तस्य सर्वस्य धारकः पर्यवस्यतीत्याशेट्ट- णांशिष्याणामभिप्रायः॥ तत्प्रतिवति ॥ नास्य जरयतज्जीर्यति न वधेनास्य हन्यते एत- त्सत्यं ब्रह्मपुरम् ॥ भोग्यभोगस्थानभोगोपकरणभोक्तृवर्गादिशालितया पुरमिव वर्तमानमेतदहराख्यं ब्रह्म । न तु घटाकाशादिवत्केवलमवकाशा- त्मनोपकारकम् । यथा पुरंभोग्यभोगस्थानादीनां स्वत एवाधारभूतं न तु दध्यादीनां घटादिवदाकाशात्मनोपकारक तथेत्यर्थः।। ननु स्वतो धारकत्वेपि देहांतर्वतितया तदंतर्गतहृदयवत्तज्ज- रानाशानुविधायित्वं स्यादितिशंकाबीजं परिहरति ।। एतत्सत्यमिति ॥ सत्यं निर्विकारमित्यर्थः ॥ अतएव देहजरामरणानुविधायि न भवतीत्यर्थः । यद्वा अथ यत्तत्सत्तदमृतमित्यस्मिन्प्रकरणे वक्ष्य- माणसत्यशब्दनिर्वचनरीत्या चेतनाचेतननियामकत्वंसत्यत्वम् । यथाकथंचिद्घटादिविलक्षणधारकइत्यर्थः । केचित्त्वस्मिश्चेदिदंत्र- झपुरइत्यत्रब्रह्मपुरशब्देन ब्रह्मरूपपुरत्वादहराकाश एवोच्यते । यदेतज्जरावाप्नोतीत्येव पाठः । तत्रचैतस्य शरीरस्य जराएतज्जरा यदा दहराकाशं प्राप्नोति तद्धसेन ध्वंसते वा तदा द्यावापृथिव्या- दिकं नावशिष्येत इत्येवार्थः ॥ नतुब्रह्मपुरशब्देन शरीरपरामर्श- मभिप्रेत्य तदनुगुणो दृशाभिप्रायपरिकल्पनाकेशोऽनुसर्तव्यइति वदन्ति ॥

सू०१३-अधि०५] दहराधिकरणम् । (२२५) एवं मध्ये प्रसक्तमाक्षेपं परिहृत्य किं तदन्त्र विद्यत इत्यंतर्वति- विशेषजिज्ञासां शमयति॥ अस्मिन्कामास्समाहिताः॥ काम्यंत इतिकामाः कल्याणगुणाः॥ कोदहराकाशः सचकैः कामैर्विशिष्ट इत्याकांक्षायामाह ॥ एष आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसंकल्पः॥ उक्तंचभगवताभाष्यकृता दहराकाशस्य काम्यभूतकल्याण- गुणविशिष्टत्वं तस्यात्मत्वं च । “एषआत्माअपहतपाप्मेत्यादिना- सत्यसंकल्पः" इत्यंतेन स्फुटीकृत्येति॥ पापजरामरणशोकबुभुक्षा- पिपासावर्जितः सत्यकामस्सत्यसंकल्पश्चेत्यर्थः । परमात्मप्र- करणेषुपाप्मशब्दः सुकृतदुष्कृतसाधारणः । नसुकृतं नदुष्कृतं सर्वे पाप्मानोऽतो निवर्तते इति सुकृतेपि पापशब्दप्रयोगात् । “एते- वैनिरयास्तातस्थानस्यपरमात्मनः” इतिस्वर्गादीनामपि मुमुक्षो- रनिष्टत्वेन स्वर्गादिसाधनकर्मणां मुमुक्षून्प्रत्यनिष्टसाधनत्वेनालौ- किकत्वेसत्यनिष्टसाधनत्वलक्षणपापशब्दप्रवृत्तिनिमित्तस्यक्रोडीकृ- तत्वेनपापशब्दवाच्यत्वावश्यंभावात् । अपहतपाप्मत्वं च नध्वस्त- पाप्मत्वम् । नैनसेतुमहोरात्रेतरतोनसुकृतंनदुष्कृतमितिसुकृतदुष्क- तप्राप्त्यभावश्रवणात् । तरतेः प्राप्तिवचनत्वात् । तस्मादपहतपाप्म- त्वमश्लिष्टपाप्मत्वमित्यर्थः । अकृतकौश्लेषस्यसर्वसाधारणत्वा- स्कृतेपिकर्मणितत्फलाश्लेषउच्यते। अतईश्वरेणकृतानिपुण्यपापजा- तीयानिकर्माणि न शुभाशुभफलजननशक्तानीत्यर्थः। कृतेपिपापे तत्फलजननशक्तिप्रतिभटत्वलक्षणः कश्चिदीश्वरस्यस्वभावविशेषोऽ- पहतपाप्मत्वम् । परिशुद्धात्मविषयस्यापहतपाप्मत्वस्यायमेवार्थः । स तु तस्य तिरोधानाहः प्रतिबंधकनिवृत्तावाविर्भवति । ईश्वर- AAR VAVIGARHWARNITIONTHOURSHAN (२२६) विषयवाक्यदीपिका। [अध्या०१-पाद३- स्यतु तिरोधानान) नित्याविर्भूत इति विशेष इतिव्यासायः"अंतस्त धर्मोपदेशात् !919॥२१॥” इत्यधिकरणेवर्णितः । अत्रसत्यकामश ब्दोन कामनायाः सत्यत्वपरः। अमोघाशयत्वस्य सत्यसंकल्पशब्दे- न सिद्धत्वात् । नापि काम्यंत इति व्युत्पत्त्या गुणमात्रपरः। कतिपय गुणांतराणांपृथगुक्तेः। अतोभोग्यभोगोपकरणभोगस्थानरूपा नि- त्याः कामाअस्य संतीत्युच्यते ॥ तदक्षरे परमेव्योमन्नित्युक्तरीत्या नित्यविभूतिविशिष्टत्वं सत्यकामशब्दार्थ इतिव्यासायॆरुक्तम् । वेदार्थ संग्रहेभाष्यकृताप्युक्तं “सत्यसंकल्पः अप्रतितसंकल्पः" इति ॥ यथा वेह प्रजाअन्वाविशन्ति यथानुशासनम् । यं यमन्तममिकामा भवन्ति । यं यमन्तं यं जनपदं यं क्षेत्रमागं तंतमेवोपजीवन्ति ॥ इह लोके प्रजा यथानुशासनं राजशासनाननुल्लंघनेन राजानम- न्वाविशंति अनुसरन्तीत्यर्थः । अनुसृत्य किं कुर्वतीत्यत्राहयियमंतमभिकामा भवन्ति । कर्मणः फलापवर्गिकत्वात्फलमेव कर्मणोंतः ययमंतंयद्यत्फलमभिकामाअ- भ्यर्थिनो भवन्ति जनपदं क्षेत्रादिकं तत्तत्फलं यथानुशासनमेवोप- जीवंति।राजशासनानुरोधेनवेहलोके यथोपजीवंति तथा परलोकेपि परतंत्रा भवतीति भावः ॥ यद्वा यंयमंतमभिकामा भवंति तमिह लोकेयथा प्रजाअन्वाविशति राजानमनुसृत्य लभंते तथा परलोके- प्युपजीवन्तीत्यर्थः । अयमेवार्थो व्यासायवर्णितः ॥ एवं कर्मसाध्ये परलोके पारतंत्र्यमुक्त्वा क्षयिष्णुत्वमप्याह ॥ तद्यथेह कर्मचितो लोकःक्षीयते एवमेवामुत्र पुण्य चितो लोकःक्षीयते॥

IN सू०१३-अधि०५] दहराधिकरणम् । (२२७) राजसेवादिकर्मणार्जितो लोको यथा क्षीयते एवमेवामुत्र पर लोके पुण्यसंपादितो लोकः क्षीयते॥ तद्य इहात्मानमननुविद्य व्रजंत्येतांश्च सत्यान्का- मांस्तेषां सर्वेषु लोकेष्वकामचारो भवति । अथ य इहात्मानमनुविद्य व्रजंत्येतांश्च सत्यान्कामांस्तेषांस- वैषु लोकेषु कामचारो भवति ॥ यस्मात्सुकृतसाध्येषु परलोकेषु पारतंत्र्यक्षयिष्णुत्वादिकं तस्माद्यउक्तमात्मानमेतानपहतपाप्मत्वादीनेतांश्च सत्यानित्यान्का- म्यमानान्कल्याणगुणांश्चाननुविद्यानुपास्य परलोकं ब्रजन्ति तेषां सर्वेषु लोकेषु अकामचारोभवति । पारतंत्र्यमिति यावत् । ये त्वात्मानमपहतपाप्मत्वादींश्च कल्याणगुणानुपास्य परलोकं ब्रज- न्ति ते ब्रह्मविभूतिभूतान्विकारिलोकाननुभूय यथाकामं तृला न पारतंत्र्यमनुभवन्तीत्यर्थः । नन्वपहतपाप्मेत्यादिवाक्येषु अप- हतपाप्मत्वादिधर्माणां स्वातंत्र्येणानुपस्थितानां कथमेतानित्यनेन परामर्शः॥ न च गत्यभावात्तेषामेव परामर्श इति वाच्यम्॥यचास्ये हास्तीतिवाक्यनिर्दिष्टस्य सर्वाणि भूतानि सर्वे च कामा इति बहु- वचनांतकामशब्देनानूदितस्य निरतिशयभोग्यत्वस्यैवास्मिन्का- मास्समाहिताः एतांश्च सत्यान्कामानित्यत्रापि निर्देशोस्त्विति चेन्न ॥ तथासत्यपहतपाप्मा विजर इत्याधुपन्यासवैयर्थ्यप्रसंगात्का- मानित्यस्य भोग्यत्वपरत्वे बहुवचनासंगतेश्चापहतपाप्मत्वादय एव एतांश्च सत्यान्कामानिति कामशब्देन निर्देश्याः । भोग्य त्वहेतुपितृलोकादिविषयपरत्वे सत्यानितिकाम्यमानानां नित्यत्व कथनस्यासंभवादिति सिद्धम् । ततश्च दहरोस्मिन्नंतरआकाश इत्याकाशशब्दनिर्दिष्टः परमात्मा न भूताकाशः, तस्मिन्यदंतरिति (२२८) विषयवाक्यदीपिका। [अध्या०१-पाद३- निर्दिष्टमपहतपाप्मत्वादिगुणजातमितीयता संदर्भेणोपदिष्टं भवति ॥ सपदि पितृलोककामो भवति । संकल्पादेवास्य पितरः समुत्तिष्ठन्ति । तेन पितृलोकेन संपन्नो महीयते ॥ स मुक्तः सन्यदि प्राचीनानेकजन्मसंबन्धिपितृवर्ग दिहक्षेत तदा स पितृवर्ग एतस्य संकल्पमात्रसमुत्थितो भवति । तेन सहितः पूज्यते॥ त इमे सत्याः कामा अनृतापिधानाः तेषां सत्यानां सतामनृतमपिधानम् ॥ परमात्मनिष्ठा इमे सत्याः अपहतपाप्मत्वादयः कामाः अनृतम- पिधानं येषां ते अनृतापिधाना अनृताच्छादिताः । ऋतेतरविषयो झनृतशब्दः। ऋतमिति कर्मवाची ऋतं पिवंतामिति वचनात्।ऋतं कर्मफलाभिसन्धिरहितं परमपुरुषाराधनवेषं तत्प्राप्तिफलम् । अत्र- तब्यतिरिक्तफलं सांसारिकफलं कर्म अनृतं ब्रह्मप्राप्तिविरोधोति महासिद्धांते भाषितम् । तेषां सत्यानां सतांविद्यमानानामेव कर्माच्छादकम् । ततश्चस्वात्मभूतपरमात्मगतापहतपाप्मत्वादयो धर्माः कर्मरूपाविद्यातिरोहितत्वान्न प्रकाशन्ते इत्यर्थः॥ योयो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिछन्नलभ- ते सर्व तदत्र गत्वा विन्दते ॥ । १ एतद्धिकरणसिद्धान्तसंग्राहको वियतिजयति क्रीडनसर इति काव्यकादम्बिनी समस्यापूर्ती मदीयश्लोको यथा “ गुणैरष्टाभिर्यच्छ्रतिनिगदितैः कामपदगैरुपेतं प्राप्तव्यं श्रुतिषु पठितं तत्क्रतुनयात् । मुनीनां मुक्तानां हृदयदहराख्ये सुविमले परंतद्ब्रह्माख्यं वियति जयति क्रीडनसरः" इति ॥ अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्प इत्यत्रोक्ता अष्टौ गुणाः॥

मू०१३-अधि०५] दहराधिकरणम्। (२२९) अस्योपासकस्य यो बंधुवर्गः इतः प्रैति न स इह दृष्टुं शक्यः। अन्येतु ये जीवंतः नष्टाश्च बंधवः अलभ्याश्च मनोरथाः तत्सर्व दह- राकाशं परमात्मानं प्राप्यलभते । अत्र यच्चेहास्ति यच्चनास्तीति वाक्यसमानार्थत्वादस्य वाक्यस्य मुक्तस्य सर्वतोविरक्तस्य प्राप्यां- तरासंभवान्निरतिशयभोग्यत्वमेवार्थः॥ अत्र ह्यस्यैते सत्याः कामाः॥ यत् उपासकस्य काम्यमाना भोग्यभूतापहतपाप्मत्वादयः एतनिष्ठा अतोनिरतिशयभोग्यत्वमित्यर्थः । हिशब्दो हेतुत्वपरः॥ तद्यथाहिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि- संचरन्तो न विंदेयुरेवमेवेमाः सर्वाः प्रजाः अहरहर्ग- च्छंत्य एतं ब्रह्मलोकं न विदत्यनृतेन हि प्रत्यूढाः ॥ यथाऽधस्तानिक्षिप्तं हिरण्यनिधि निधिमत्क्षेत्रस्वभावविज्ञान- हीना निधेरुपर्युपरिसंचरंतोपि न लभन्ते एवमेवेमाः सर्वाः प्रजाः सुषुप्तिकाले अहरहर्गच्छंत्यः सुषुप्तौ सति संपद्य न विदुरित्युक्तरी- त्याऽविभागं गच्छंत्यः एतं दहराकाशाख्यं ब्रह्मरूपं लोकं न विन्द- न्ति न लभते न जानंतीत्यर्थः । ब्रह्मलोकशब्दौ निषादस्थपत्यधि- करणन्यायेन समानाधिकरणो । तत्रहेतुमाह । अनृतेन हि प्रत्यूढाः। प्रतीपं नीताःस्वभावान्तरंनीताः प्राप्ताः। आच्छादिता इति यावत् । यद्वाऽहरहर्गच्छंत्य इति न सुषुप्तिकालीनं गमनमुच्यते । अपित्वं. तरात्मत्वेन सर्वदा वर्तमानस्य दहराकाशस्य हिरण्यनिधिवत्परम- पुरुषार्थभूतस्योपर्युपर्यहरहर्गच्छंत्यः सर्वस्मिन्काले वर्तमानास्तम जानंत्यस्तं न विदंति न लभंतइत्यर्थः । अर्थद्वयमपि भाष्यकृता वर्णितम् । अत्रव्यासायरंतर्यामिविषयतया व्याख्यानेंतर्यामिण्यहर- हर्गमनस्य दहराकाशस्य परब्रह्मत्वसाधकत्वमयुक्तम् । उपासकानु- (२३०) विषयवाक्यदीपिका। [अध्या०१-पाद३- ग्रहायावस्थितो हिदहराकाशः अंतरात्मतयावस्थितो ह्याधारः । तयोरूपभेदादित्याशंक्य धयक्याभिप्रायेणैक्यमुक्तमिति परि- हृतम् ॥ पूर्वोक्तस्य हृदयांतर्वर्तित्वं स्मारयति ॥ सवाएष आत्मा हृदि॥ हृदयनामनिर्वचनादप्यात्मनो हृद्तत्वंसिद्धयतीत्याह ।। तस्यैतदेवनिरुक्तंहृद्ययमिति । तस्माद्धृदयमिति ॥ तस्यैतस्य हृदयस्य । हृदि अयमात्मा वर्तत इति हृदयशब्द- निरुक्तिरितिभावः॥ अहरहर्वा एवंवित्स्वर्गलोकमेति ॥ अहरहःप्रत्यहमाप्रयाणम् । एवंविदेतादृशदहरोपासननिष्ठः सुख- रूपं लोक्यमानं ब्रह्म प्राप्नोतीत्यर्थः । ब्रह्मोपासननिष्ठस्य तत्क्रतुन्या- येन ब्रह्मप्राप्तेरेव वक्तव्यतया प्रसिद्धस्वर्गलोकप्राप्त्यसंभवादिति दृष्टव्यम् ॥ कथं ब्रह्मप्राप्तिः प्राप्तस्य वा ततः किं भवतीत्यत आह ।। अथ य एष संप्रसादोस्माच्छरीरात्समुत्थाय परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यते ॥ अथशब्दः प्रकृतार्थत्वद्योतकः । संप्रसादशब्दः सुषुप्तिस्थानवच नस्सन्तत्संबन्धाजीवलक्षयतिाअहरहर्वा एवं विदिति पूर्ववाक्यनिदिष्ट उपासको जीवो अस्मादेयतयापरिदृश्यमानाच्छरीरादुत्क्रम्यदेश- विशेषनिष्टं परमात्मानं प्राप्य स्वेनरूपेणाभिनिष्पद्यते । अस्यवा- क्यस्यार्थः प्रजापतिविद्यायांविशिष्यवक्ष्यते ॥ एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्मेति ॥ एष आत्मा एतदमृतमित्यत्र एतच्छन्दौ पूर्ववाक्ये परंज्योतिरुप- सू०१३-अधि०५] दहराधिकरणम् । (२३१) संपद्येति प्राप्यतया निर्दिष्टपरंज्योतिश्शब्दितब्रह्मपरौ । प्राप्यतया प्राधान्यादव्यवहितत्वाच ॥ अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसं- भदाय॥ उक्तलक्षण आत्मा सेतुरिव धारकः। किमर्थ स सेतुर्विधृतिरित्य- त्राह । एषां लोकानामसभेदाय असंभेदोऽसंकरः। यद्ययं परमात्मा- स्वशासनेन जगन्न धारयेत् सर्वधर्माणां सांकर्यमेवस्यात् । पृथिव्या- गंधवत्त्वंजलस्यशैत्यं तेजस औष्ण्यमित्यादयो धर्माः परमात्माज्ञया व्यवस्थिता भवन्ति । सिनोति बनाति स्वस्मिश्चिदचिद्वस्तुजात- मसंकीर्णमिति सेतुरुच्यते इति “सामान्यात्तु ।३।२।३१ ॥" इतिसूत्रे भाषितम् ॥ नैनं सेतुमहोरात्रे तरतो न जरा न मृत्युनं शोको- न सुकृतंन दुष्कृतम् ॥ तरतिः प्राप्तिवचनः । वेदांतं तरतीतिवदिति तत्रैव भाषितत्वात्। एनं परमात्मानं सेतुमहोरात्रे परिच्छेदकत्वेन नप्राप्नुतः। जरादिक- मपि न प्राप्नोति ॥ उक्तमर्थनिगमयति॥ सर्वे पाप्मानोतो निवर्तन्ते ॥ शोकादिषु पाप्मशब्दस्यामुख्यत्वोपि सुकृतदुष्कृतयोरलौकिक- मुमुक्ष्वनिष्टसाधनत्वलक्षणपापशब्दप्रवृत्तिनिमित्तसद्भावात्पाप्मश- ब्दोमुख्य इति व्यासायलघुसिद्धांते उक्तम् ॥ तत्रहेतुमाह॥ “अपहतपाप्मा ह्येष ब्रह्मलोकः” ॥ इति ॥ ब्रह्मरूपो लोकः एष अपहत पाप्माहि। हितौ । यस्मादपहतपा- ma Bream (२३२) विषयवाक्यदीपिका। [अध्या०१-पाद३- प्मातस्मात्सर्वेपाप्मानोतो निवर्तन्त इत्यर्थः। पापहेतुकर्माचरणेपि तदुत्पत्तिप्रतिवन्धकशक्तियोगित्वमेव झपहतपाप्मत्वम् । तस्मान- पापशब्दमुख्यार्थसुकृतदुष्कतयोस्तत्फलभूतजरारोगादीनांच प्रस- क्तिरित्यर्थः॥ तस्माद्वा एतं सेतुं तीा अंधस्सन्ननंधो भवति । विद्धस्सन्नविद्धो भवति। उपतापी सन्ननुपतापी भवति॥ एतं परमात्मलक्षणं सेतुं प्राप्य पूर्वमांध्यायुधवेधज्वरादियुक्तदे- होपिसन्तदोषरहितदिव्यदेहयुक्तो भवतीत्यर्थः ॥ तस्माद्वा एतं सेतुं तीा अपिनक्तमहरेवाभिनि- ष्पद्यते । सकृद्रिभातो ह्येष ब्रह्मलोकः॥ परमात्मानंप्राप्तस्य तमिस्रारात्रिरपिदिवैव । तस्याऽज्ञानप्रसक्तेर- भावात् । अहस्सदृशी सा रात्रिः । अहोरात्रयोर्न विशेषः । अत्र हेतुः सकृद्विभातः । सर्वदा ब्रह्मस्वरूपप्रकाशस्यासंवृततया भासमान- त्वादित्यर्थः॥ तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति । तेषामे वैषःब्रह्मलोकःोतेषा/सर्वेषु लोकेषु कामचारो भवति॥ तत्तत्र । एवंसति एतमेव परमात्मानंस्त्रीविषयतृष्णात्यागपूर्वक- शास्त्राचार्योपदेशादिना जानंति तेषामेवेशब्रह्मप्राप्तिः, सर्वलोकानु- भवश्च । न ब्रह्मचर्यहीनानामित्यर्थः॥ अरश्चहवैण्यश्चार्णवौ ब्रह्मलोके ॥ अरसंज्ञकोण्यसंज्ञकश्च द्वौ समुद्री ब्रह्मलोक इत्यर्थः॥ प्रसिद्धं चतुर्मुखलोकं व्यावर्तयति ॥ तृतीयस्यामितोदिवि ॥ प्रथमो द्युलोकः स्वर्गलोकः द्वितीयस्तु चतुर्मुखलोकः तृतीयस्तु वैकुंठलोक इतिभावः॥

मू०१३-अधि०५] दहराधिकरणम् । (२३३) तदैरंमदीयं सरः तदश्वत्थः सोमसवनः॥ तत्तत्रैरंमदीयनामकंसरः । इरयाऽमृतेन माद्यतेयस्मिन्तदैरं मदीयममृतमयं सर इत्यर्थः। सोमसवननामाश्वत्थः चंद्रवदाहादक- त्वात्सोमसवनत्वम् ॥ तदपराजितापूर्ब्रह्मणः॥ तत्तत्र अब्रह्मविद्भिः प्राप्तुमशक्यत्वेनापराजितानाम पुरी॥ प्रभुविमितहिरण्यमयम् ॥ मंडपमितिशेषः । प्रभुणा भगवता परमपुरुषेण विशेषेण मितं स्वभोग्यभूमित्वेन विशेषतः परिगृहीतमित्यर्थः। भगवतो व्याप्तत्वे- पि नित्यविग्रहविशिष्टतया सन्निधानाद्विमितत्वम् । अतश्च तद्देश विशिष्टब्रह्मप्राप्तिरेव ब्रह्मप्राप्तिरितिभावः॥ तद्य एवैतावरंचाण्यं चार्णवौ ब्रह्मलोके ब्रह्मच- येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकः तेषां सर्वेषु लोके षु कामचारो भवति॥ ब्रह्मप्राप्तिसाधनीभूतारण्यशब्दितार्णवद्वयप्राप्तेः ब्रह्मचर्याधीनत्वा- ब्रह्मचर्यमेव सर्वसाधनोत्कृष्टमितिभावः ।। उक्तब्रह्मलोकप्राप्तिसाधनतयामूर्धन्यनाडीगमनं प्रस्तौति ॥ अथ या एता हृदयस्य नाड्यस्ताः पिंगलस्य अणिम्नस्तिष्ठति शुक्लस्य नीलस्य पीतस्य लोहि- तस्येति॥ हृदयसंबंधिन्यो नाड्यो नानारूपसूक्ष्मानरसपूर्णास्तिष्ठंतीत्यर्थः।। असौवा आदित्यः पिंगलः एष शुक्ल एष नील एष पीत एष लोहितः॥

(२३४) विषयवाक्यदीपिका। [अध्या०१-पाद३- आदित्यस्य नानारूपत्वं च मधुविद्यायां प्रसिद्ध प्रत्यक्षसिद्धंच। ततश्चैतद्रश्मिसंबंधादेवान्नरसस्य नानारूपत्वं चेतिभावः॥ तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुंच एवमेवैता आदित्यस्य रश्मयः उभौ लोको गछंतीमं चामुंच॥ यथा विस्तीर्णो महापथो ग्रामद्वयप्रतिष्ठितो भवति तथादित्य- स्य रश्मयो लोकद्वयानुप्रविष्टा इत्यर्थः ॥ लोकद्वयानुप्रवेशक्रममाह॥ अमुष्मादादित्यात्प्रतायंते ता आसु नाडीषु सप्ता आभ्यो नाडीभ्यः प्रतायंते तेमुष्मिन्नादित्ये सप्ताः प्रतायन्ते सन्ततास्सृप्ताः॥ प्रतायंते संतताः सृप्ताः प्रविष्टाः । रश्मीनामुभयलिंगत्वादेता इतिच निर्देशः। शिष्टंस्पष्टम् ॥ तद्यत्रतत्सुप्तः समस्तः संप्रसन्नस्स्वप्नं न विजानाति आसु तदानाडीषु सृप्तोभवति ॥ तत् तस्मात् यत्र यदा समस्त उपसंहृतकरणमंडलः अतएवसंप्र- सन्नः बाह्यविषयसंपर्कजनितकालुष्यशून्यः स्वप्नं न पश्यतीति।एत- स्वप्नादर्शनं सुषुप्तिरितियावत् । तदा आसुनाडीषु प्रविष्टो भवति- पुरीतद्गतब्रह्मगमनाय नाडीषु प्रविष्टो भवति ।नायोवाद्विसप्त- तितहस्राणिहृदयात्पुरीततमभिप्रतिष्ठंते आभिः प्रत्यवसृप्य पुरीत- ति शेत इति श्रुत्यंतरात् नाडीपुरीतद्ब्रह्मणां समुच्चयेन सुषुप्तिस्थान- त्वस्य । “तदभावोनाडीषु तच्छुतेरात्मनि ।३।२।७।" इत्यत्र- स्थितत्वात्तासामपि सुषुप्तिस्थानत्वंद्रष्टव्यम् ॥ तन्नकश्चनपाप्मास्टशति ॥

सू०१३-अधि०५]
दहराधिकरणम् । (२३५)
सुषुप्तौ सतोपि कर्मणः फलजननमामर्थ्य नास्तीत्यर्थः । तन्न
कश्चन पाप्मा स्पृशतीत्यस्मिन्वाक्येनुष्ठानाशक्तिर्विवक्षितेति व्यासा-
र्यवचनस्याप्ययमेवार्थः ॥
तत्र हेतुमाह ॥
तेजसा हि तदा संपन्नो भवति ॥
सता सोम्य तदा संपन्नो भवतीति श्रुतेः । तेजश्शब्दः प्रकाश
गुणयोगाद्ब्रह्मपरः । ब्रह्मणि संपत्तिर्नाम देहेंद्रियाधिष्ठातृत्वराहि-
त्येन ब्रह्मण्यवस्थानम् । संपत्त्यधिकरणस्य करणत्वविवक्षया
तृतीया निर्देशः॥
अथ यत्रैतदबलिमानं नीतो भवति ॥
अथ शब्दोऽर्थातरप्रस्तावार्थः । अबलस्य भावः अबलिमा
बलत्वम् । विरोधिकृतदौर्बल्यं नीतो भवतीत्येतद्यत्र यदेत्यर्थः।
तदा दौर्बल्यंप्राप्तवानित्यर्थः।
तमभित आसीना आहुर्जानासि मां जानासि
मामिति ॥
तादृशशा विशिष्टं परितोवर्तमाना बांधवाः मां जानासि मां
जानासि किमित्याहुः । यदा एतासु नाडीषु स्थित इत्यर्थः॥
स यावदस्माच्छरीरादनक्रांतो भवति तावज्जा
नाति । अथ यत्रैतच्छरीरादुकामत्यथैतैरेव रश्मिभि
सूर्ध्वमाक्रमते॥
स्पष्टोर्थः॥ (तद्यथ महापथा आतत उभौ ग्रामौ गच्छतीम चाम
च एवमेवैता आदित्यस्य रश्मयः उभौ लोकौ गच्छंतीमं चामुंच
अमुष्मादादित्यात्प्रतायंते ता आसु नाडीषु मृप्ता आभ्यो नाडीभ्यः
प्रतायते अमुष्मिन्त्रादित्ये सृप्ता इतीति) ॥

(२३६) विषयवाक्यदीपिका। [अध्या०१-पाद३- सओमिति वाहोद्वामीयते ॥ सविद्वान् ॐतत्सदितिनिर्देशो ब्रह्मणस्त्रिविधः स्मृतः, तस्योदि- तिनामेति च प्रमाणप्रसिद्ध परमात्मनमाह कीर्तयति । कीर्तयन्नेव मीयते प्रमीयते चामरणकाले तस्य भगवतो नामस्मरणं संभवति । यद्वा एतैरश्मिभिरुन्मीयते उन्नीयते । एको वाशब्दोवधारणार्थः ॥ स यावत् क्षिपेन्मनस्तावदादित्यं गच्छति ॥ मनोवेगेनैव गच्छतीत्यर्थः । नचयावत् क्षिपेन्मनस्तावदादित्यं गच्छतीति त्वरावचनेनरश्म्यनुसारिणः मार्गस्यमार्गातरवैलक्षण्य प्रतीतेार्गभेदः शङ्कयः । “अचिरादिना तत्प्रथितेः।४।३।१॥" इत्यधिकरणे नानाशाखासुतस्यैव मार्गस्यप्रथितेः प्रत्यभिज्ञानाद- चिरादिरेकएवमार्गः । अतोचिरादिनैष मार्गेण विद्वान्गच्छतीति समर्थितत्वात् । स यावत् क्षिपेदितित्वरावचनस्यकाश्मीरापेक्ष- यामगधानक्षिप्रंगच्छंतीतिवत् गंतव्यस्वर्गाद्यपेक्षयादित्यगमनस्य- शैध्येणाप्युपपत्तेर्नदोषः॥ एतद्वैखलुलोकद्वारंविदुषांप्रपदनंनिरोधोऽविदुषाम्। विदुषां ब्रह्मलोकस्य प्रपदनं द्वारम् । प्रपद्यतेऽनेनेतिप्रपदनप्राप्ति- साधनम् । यआदित्यः अविदुषांचनिरोधकः। अविद्वांसोहि सूर्यमं- डलभेदासामर्थ्यान्नगंतुंशक्नुवन्तीत्यर्थः ।। तदेष श्लोकः ॥ तस्मिन्विषयेएषवक्ष्यमाणश्लोकः प्रवर्ततेइत्यर्थः॥ शतंचैकाचहृदयस्यनाड्यः तासां मूर्द्धानमभिनि- स्मृतैका । तयोर्ध्वमापन्नमृतत्वमेति विष्वङ्कन्या उत्र- मणे भवंति ॥ मूर्धन्यनाड्यागच्छन्मुक्तिंप्राप्नोति । विष्वग्गतयइतरनाड्यस्तू- सू०१३-अधि०५] दहराधिकरणम् । (२३७) क्रमणमात्रेभवन्ति, नत्वमृतसाधनीभूतोर्ध्वगतावित्यर्थः। यद्वाविष्व- गुक्रमणेअन्याउपयुज्यंत इत्यर्थः । एवंदहरविद्यांसमाप्यतदंगभूतां प्रत्यगात्मविद्यांप्रस्तौति ॥ यआत्माअपहतपाप्माविजरोविमृत्युर्विशाकोविजि घत्सोऽपिपासःसत्यकामःसत्यसंकल्पःसोन्वेष्टव्यःस- विजिज्ञासितव्यः। ससर्वांश्चलोकानाप्नोतिसर्वांश्चका- मान् यस्तमात्मानमनुविद्यविजानातीतिहप्रजापति- रुवाच॥ अनुविद्येतिवाक्यार्थज्ञानमुच्यते । विजानातीतिध्यानमिति लघु- सिद्धांतेभाषितम् ॥ तद्धोभयेदेवाअसुराअनुबुबुधिरे ॥ प्रजापतिवचनमैतिह्यरूपेणदेवाअसुराउभयेपिश्रुतवन्तइत्यर्थः ।। तेहोचुर्हततमात्मानमन्विच्छामोयमात्मानमन्वि ष्यसर्वांश्चलोकानाप्नोतिसर्वांश्चकामानिति ॥ तमन्विच्छामः श्रवणमननाभ्यामवगच्छामइत्यर्थः॥ इंद्रोहवैदेवानामभिप्रवव्राजविरोचनोऽसुराणाम् ॥ देवानांमध्येइंद्रश्वासुराणांमध्येविरोचनश्चप्रजापतिसमीपंगतुंप्र- स्थितौ ॥ तौहासंविदानावेवसमित्पाणीप्रजापतिसमीप (स- काश) माजग्मतुः॥ असंविदानौपरस्परासूययापरस्परसंमंत्रणमकुर्वतावित्यर्थः । शि- टस्पष्टम् ॥ तौहद्वात्रिंशतवर्षाणिब्रह्मचर्यमूषतुः ॥

Rame (२३८) विषयवाक्यदीपिका । [अध्या०१-पाद३- शुश्रूषापरौभूत्वाब्रह्मचर्यचेरतुः तौहप्रजापतिरुवाच किमिच्छंताववास्तमिति ॥ किंमयोजनमुद्दिश्योषितवंतावित्यर्थः ॥ तौहोचतुः य आत्माअपहतपाप्माविजरोविमृत्युर्वि शोकोविजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोन्वेष्टव्यःसविजिज्ञासितव्याससर्वांश्चलोकानाप्नोति सर्वांश्चकामान्यस्तमात्मानमनुविद्यविजानातीतिहम- गवतोवचोवेदयंतेतदिच्छंताववास्तमिति ॥ तमिच्छंतावावामुषितवंतावित्यर्थः । अवास्तमितिपुरुषव्यत्य- यश्छांदसः॥ तौहप्रजापतिरुवाच । यएषोक्षिणिपुरुषोदृश्यते, एषआत्मेतिहोवाच । एतदमृतमभयमेतद्ब्रह्मेति ॥ अत्रएषोक्षिणिपुरुषोदृश्यतइतिनहाक्षिपुरुषः परमात्मा एतत्वे- व ते भूयोनुव्याख्यास्यामीत्युपक्रम्यस्वप्नाद्यवस्थाविधानात् । नचे- हजीवस्याक्षिणिस्थितिरुपदिश्यते । अपित्वक्षिविकाराज्जीवस्य- स्थितिगतीनिश्चीयेते । अतोक्ष्णोर्जीवस्थितिगतिसूचकत्वादक्षिणि- दृश्यतइत्युक्तं । कर्मणः सामर्थ्यसूचकत्वाभिप्रायेणास्यास्मिन्कर्म- णिसामर्थ्यदृष्टमितिवत् । ततश्चगृहस्थित्वानिर्गच्छन्पुरुषः यथा गृहादन्यः एवंशरीरेस्थितिगतिमानात्मा शरीरादन्यइत्युक्तंभवति । अमृतमितिनिरतिशयसुखरूपत्वम् अभयमितिदुःखासंभिन्नत्वं ब्रह्मे त्यसंकुचितज्ञानतयाब्रह्मत्वंचोक्तमितिव्यासारुक्तम् ॥ अथयोयंभगवोप्सुपरिख्यायतयश्चायमादर्शकत- मएषइति ॥ एवंप्रत्यगात्मनिप्रजापतिनोपदिष्टेच्छायापुरुषआत्मेत्युपदिष्ट- इतिभ्रान्त्यास्वगृहीतच्छायापुरुषेआत्मत्वदृढीकरणायजलादादि- सू०१३-अधि०५] दहराधिकरणम् । (२३९) प्रतिबिंबोप्यक्षिप्रतिबिंबाभिन्नआत्मैवउततद्भिनोनात्मेत्यभिप्रायेणप- प्रच्छतुरित्यर्थः । एवंताभ्यांपृष्टस्तयोान्तिमनिराकुर्वन्नेवाह ।। एपउएवैषुसर्वेष्वंतेषुपरिख्यायतइतिसहोवाच॥ यश्चक्षुषिदृश्यत्वेनमयोक्तः सआत्मासर्वातरोजलादिष्वपिनभिद्य- तइत्युत्तरंददावित्यर्थः । शिष्यभ्रांतिमनिराकृत्यतान्तिदृढीकर- णायेत्यमुत्तरंददतआचार्यस्यायमभिप्रायः । सुरासुरेन्द्राविन्द्रवि- रोचनौस्वात्मन्यध्यारोपितपांडित्यमहत्वातिशयो। तथैवजगतिप्रसि- छौचतबदियुवांभ्रांतावितिब्रूयांतदाचित्तावसादात्पुनः प्रश्नग्रहणधा- रणेषुभनोत्साहौस्याताम् । अतोयथाश्रुतप्रश्नमात्रस्योत्तरमिदानींव- तव्यम्।अनेनचोत्तरेणपूर्वोत्पन्नप्रतिबिवात्मभ्रमोदृढीभवतिचेद्भवतु । दृढीभूतोपिभ्रमः उदशरावनिरीक्षणनियोजनोपायेनापनेष्यतइति । अतएवतद्धमापनयनार्थमेवोदशरावआत्मानमवेक्ष्ययदात्मनोनवि- जानीथस्तन्मेब्रूतमितिउदशरावावेक्षणेतौनियुयोज । अत्रव्यासायरे- तादृशाभिप्रायपरिकल्पनस्यातिक्लिष्टत्वायोयंभगवोप्सुपरिख्यायते- यश्चायमादर्शकतमएषइतिएषउएवैषु सर्वेष्वंतेषुपरिख्यायतइत्येता- वानपिप्रश्नएवाप्रश्नमध्यगतइतिशब्दःप्रश्नांतेनिवेशयितव्यः इति हो वाचेत्येतदुत्तरस्यास्योदशराववाक्यस्यशेषभूतम्।उदशरावआत्मान मवेक्ष्ययदात्मनोनविजानीथस्तन्मबूतमितिहोवाचेत्युत्तरेणान्वयः । तत्रएकइतिशब्दः समाप्तिद्योतकः अन्यस्तुप्रकारवचनः। अथवाकत मएपइतीत्यत्रइतिशब्दोवक्ष्यमाणवचनः इत्येवंनेतिशब्दवयवैयर्थ्य- मभिप्रेत्यप्रजापतिहृदयानभिज्ञानाच्छायापुरुषउपदिष्टइतिमत्वापु- नःपप्रच्छतुः। योयंभगवोप्सुपरिख्यायतइत्यादिना सर्वेष्वंतेषुनेत्रादि- स्थानेषुपरिख्यायतेकतमएषइत्यर्थ इत्युक्तम् । चक्षुरादिप्रतिबिंब- एवात्मेतिदायर्थिपुनरपिपप्रच्छतुरितिभावः । जलादिस्थानेषुयोह- -- (२४०) विषयवाक्यदीपिका। [अध्या०१-पाद३- श्यतेसनेत्रेदृश्यमानएषएवकिमुतान्यःकतमएषइतिव्यासार्याणाम- भिप्रायः॥ उदशरावआत्मानमवेक्ष्ययदात्मनोनविजानीथःत- न्मेप्रब्रूतमिति॥ उदकपूर्णेशरावेआत्मानंदृष्ट्वाआत्मसंबंधिनमनुपपन्नतयाभासमा- नंसम्यगनवगतमंशंयुवांवदतमित्युक्तवान् । तौहोदशरावेअवेक्षांचक्राते॥ तौहप्रतिविमवलोकितवंतौ। अवलोक्यापिदोषास्फुरणातूष्णी मुषितवंतौ। तयोरनुपपत्तिस्फूर्तिज्ञात्वाकिंपश्यथइतिस्वयमवप्रजा- पतिरुवाचेत्याह॥ तौहप्रजापतिरुवाचकिंपश्यथइति । तौहोचतुः । सर्वमेवेदमावांभगवआत्मानंपश्याव आलोमभ्यआ- नखेभ्यःप्रतिरूपमिति॥ इदंप्रतिरूपमात्मानं पश्यावइति प्रतिक्विात्मभ्रममेवोद्घाटि- तवंती॥ तौहप्रजापतिरुवाचसाध्वलंकृतौसुवसनौपरिष्कृतौ- भूत्वाउदशरावेऽवेक्षेथामिति । तौहसाध्वलंकृतौसुवस- नौपरिष्कृतीभूत्वोदशरावेअवेक्षांचकाते । तौहप्रजाप- तिरुवाच । किंपश्यथइति । तौहोचतुः। यथैवेदमावा- भगवः साध्वलंकृतौसुवसनौपरिष्कृतौस्वएवमेवेमौभ- गवःसाध्वलंकृतौसुवसनौपरिष्कृताविति ॥ आवांसाध्वलंकृतौसुवसनौपरिष्कृतौस्वःभवावइतीदंयथैवतथैव- इमावपिप्रतिबिंबौसाध्वलंकारादियुक्तावितिप्रत्यूचतुरित्यर्थः । अत्रो- दशरावावेक्षणालंकृतदेहप्रतिबिंबनिरीक्षणयोनियुंजानस्यप्रजापतेर- सू०१३-अधि०५] दहराधिकरणम् । (२४१) यमभिसन्धिः । आगमापायशालीद्वात्रिंशद्वर्षब्रह्मचर्यदी(भूतकेश- नखवस्त्रालंकारादिलक्षणदोषगुणयुक्तव्यवस्थितदेहानुकारिदोषगु- णवत्त्वादेहवत्तत्प्रतिबिंबोप्यनात्मानिरतिशयमुखत्वदुःखासंभिन्नत्व- लक्षणामृतत्वाभयत्वशून्यइतिजानीयातामिति । एवंद्विविधनियो- जनेप्यप्रक्षीणकल्मषतयादोषादर्शनेनप्रतिबिंबात्मभ्रमोनापनीतः । ततःप्रजापतिभ्रौतिनिवारणार्थमयाकृतस्यद्विविधप्रतिबिंबदर्शनस्या- भिप्रायमिमावप्रक्षीणकल्मषत्वान्नावगच्छतः । प्रत्यक्षंचयुवांभ्रांता वितिवक्तुमप्यनहौं । तदिदानीमेतदोयहृदयानुरोधेनप्रतिबिंवमेव- निर्दिश्यसर्वातरंपरमात्मानंमनसिनिधायएषआत्मेत्युपदेशेनतयोरा कांक्षांनिवर्तयिष्यामिकालेनकल्मषेप्रक्षोणेमद्वचनसंदर्भस्यसर्वस्या- प्यभिप्रायस्वयमेवावगमिष्यतः। विचिकित्समानौ वा मत्समीपमा- गमिष्यतइतिमत्वा॥ एषआत्मेतिहोवाच । एतदमृतमभयमेतद्रह्मेति ॥ स्पष्टोर्थः।। तौहशांतहृदयौप्रवव्रजतुः ॥ शांतहृदयौनिवृत्ताकांक्षावित्यर्थः ॥ तौहान्वीक्ष्यप्रजापतिरुवाच ॥ एवंप्रतिनिवृत्तयोःप्रजापतिौतिगृहीतार्थश्रद्धयेमौविनष्टौमाभू- तामिदमपिमद्वचनंयआत्मेतिपूर्ववचनवत्कर्णाकर्णिकयागिराशृणु- तामित्यभिप्रेत्योवाचेत्यर्थः॥ अनुपलभ्यात्मानमननुविद्यव्रजतोयतरएतदुपनि- पदोभविष्यंतिदेवावाअसुरावातेपराभविष्यंतीति । एताविंद्रविरोचनावात्मस्वरूपंश्रवणमननाभ्यामज्ञात्वागच्छतः यतरेयेदेवावाअसुरावाएतदुपनिषदो भविष्यति । उपनिषच्छन्द- (२४२) विषयवाक्यदीपिका। [अध्या०१-पाद३- उपदेशपरः । अनयोरुपदेशाद्रांतिगृहीतार्थविषयकनिश्चयायेहिभ- विष्यंतितेपराभविष्यति । नित्यसंसारिणोभविष्यतीत्यर्थः॥ सहशांतहृदयएवविरोचनोसुराना (न) जगामते- भ्योहैतामुपनिषदंप्रोवाच ॥ विरोचनस्तुप्राजापत्यस्यद्विविधदेहच्छायादर्शननियोगस्यदेहानु- कारित्वाच्छायायादेहएवात्मेतिसूचनेतात्पर्यम् । अलंकृतदेहच्छायां- निर्दिश्यैषआत्मेत्युपदेशस्यनीलानीलयोरादर्शदृश्यमानयोसिसोर्य नीलंतन्महार्पमितिवचनस्य च्छायानिमित्तेवाससीवालंकृतदेहेता- त्पर्यमितिमन्वानोदेहएवात्मालंकारादिभिः परिचरणीयइतिनिश्चित्य- राज्यंप्राप्यासुरेभ्यस्तथैवोपादिशदित्यर्थः॥ आत्मैवेहमहय्यआत्मापरिचर्यआत्मानमेवेहमह- यन्नात्मानंपरिचरन्नुभौलोकाववाप्नोतीमंचामुंचेति ॥ आत्मैवदेहएवमहय्यः पूज्यइत्यर्थः । उभौलोकावितिसर्वलोक- सुखानुभवोपिशरीरगतएवेतिभावः।ससंप्रदायोद्याप्यनुवर्ततइत्याह ।। तस्मादप्योहाददानमश्रद्दधानमयजमानमाहुः आसुरो बतेति असुराणाोषोपनिषत् ॥ यस्मादसुरेभ्यइयमुपनिषत् प्रवृत्ता तस्माद्यागदानश्रद्धावैधुर्य- हेतुभूतनास्तिक्यबुद्धिरसुराणामेवहि । अतएतादृशंपुरुषंजनाअसु- प्रेतस्यशरीरंभिक्षयावसनेनालंकारेणेति संस्कुर्वति एतेनह्यमुंलोकंजेष्यंतोमन्यते ॥ यतएवदेहस्यैवात्मतयापरिचरणीयत्वम् अतएवप्रेतस्यमृतस्य- शरीरंभिक्षित्वावस्त्रालंकारादिभिः पूजयंति । कुणपसंस्कारेणैवपर- लोकजयंमन्यमानाइत्यर्थः । ततः प्रतिबिंबस्यबिंबदोषानुविधायि- त्वदोषदर्शनेनप्रत्यागतायपुनरपिद्वात्रिंशद्वर्षाण्युषितवतेमघवते ॥ ॥ रमाहुः॥

" सू०१३-अधि०५] दहराधिकरणम्। (२४३) यएषस्वप्नेमहीयमानश्चरतिएषआत्मेतिहोवाचेति ॥ स्वप्नावस्थस्यजीवस्योपदेशः । अनन्तरम् ॥ नंतित्वेवैनं विच्छादयंतीवाप्रियवेत्तेवभवत्यपिरोदि- तीवनाहमत्रभोग्यंपश्यामीति ॥ हन्यमानत्वद्राव्यमाणत्ववन्धुमरणाद्यप्रियद्रष्टुत्वादिदोषदर्शनेनप्र तिनिवृत्तायद्वात्रिंशद्वर्षाण्युषितवते ॥ तद्यत्रतत्सुप्तः समस्तः संप्रसन्नः स्वप्ननविजाना- त्येषआत्मेति होवाच ॥” इति ॥ सुषुप्त्यवस्थजीवस्योपदेशः॥ नाहखल्वयमेव संप्रत्यात्मानंजानात्ययमहम- स्मीतिनोएवेमानिभूतानिविनाशमेवापीतोभवति नाह- मत्रभोग्यपश्यामीति॥ सुषुप्तौस्वपरज्ञानशून्यतयामरणतुल्यतादोषदृष्ट्वाप्रतिनिवृत्ताय चवर्षाण्युषितवतेउपदेशयोग्यायजायत्स्वमसुषुप्त्यवस्थात्रयातीतंमु- तात्मस्वरूपमाह॥ मघवन्मय॑वाइ शरीरमात्तंमृत्युनातदस्यामृत- स्याशरीरस्यात्मनोधिष्ठानम् ॥ हेमघवन् इदंशरीरमेवहिमरणमि नकेवलंमरणधर्मित्वमात्रम् । अपितुतव्याप्तंचासततविनाशशीलमितियावत्।इदंचशरीरेहेयत्वानु- संधानार्थमुक्तम् । एवंभूतंतदिदंशरीरंकर्मकृतशरीरंकर्मकृतशरीररा हित्यलक्षणामृतत्वस्वरूपस्यात्मनोभोगाधिष्ठानम् । कर्मवशेनजीवे नभोगार्थपरिगृहीतमित्यर्थः।ततश्चाशरीरत्वमेवस्वरूपम्।सैवामृतत्व लक्षणामुक्तिः। सशरीरत्वमेवतदभावइत्युक्तं भवति ॥ ननुपुरुषार्थ (२४४) विषयवाक्यदीपिका। [अध्या०१-पाद३- स्यहिमुक्तिरूपत्वंवक्तव्यम्।नाशरीरत्वंपुरुषार्थः।अपितुदुःखाभावः। ततश्चतस्यैवामृतत्वरूपत्वमुचितं नत्वशरीरत्वस्येत्यत्राह ॥ नहवैसशरीरस्यसतः प्रियाप्रिययोरपहतिरस्ति ॥ कारब्धशरीरयोगिनः तदनुगुणसुखदुःखयोगस्यावश्यंभावि- त्वात्कारब्धदेहसंबंधाभावस्य पुरुषार्थतयामुक्तिरूपत्वमुपपद्यतइ- तिभावः । व्यतिरेकं दर्शयति ॥ अशरीरंवावसंतंनप्रियाप्रियेस्टशतः॥ वावशब्दः प्रसिद्धाववधारणेवा । ततश्चावस्थात्रयराहित्यलक्षण- स्वरूपमेवमुक्तिरित्यर्थः । शिष्टंस्पष्टम् ॥ अशरीरोवायुः॥ शिरःपाण्यादिलक्षणशरीरशून्योवायुरित्यर्थः॥ अभ्रंविद्युत्स्तनयित्नुरशरीराण्येतानि ॥ अभ्रादीनिचाशरीराणीत्यर्थः । अन्नं भूत्वामेघो भवतीत्यादि- वत् । अन्भ्रस्तनयित्न्वोरवस्थाभेदेन भेदोद्रष्टव्यः । अशरीराणांच प्रियाप्रियानन्वयो दृष्टइतिभावः॥ तद्यथैतान्यमुष्मादाकाशात्समुत्थायपरं ज्योति- रुपसंपद्यस्वेन रूपेणाभिनिष्पद्यते । एवमेवैषसंप्रसादो स्माच्छरीरात्समुत्थायपरं ज्योतिरूपसंपद्यस्वेनरूपे णाभिनिष्पद्यते॥ अत्र व्यासायैस्तुवाय्वादीनामाकाशात्समुत्थानं नाम स्वका- र्यकरणायोर्ध्वदेशे अभिवृद्धिः । परशब्दो वाय्यादीनां कारणाव- स्थावाची । ज्योतिश्शब्दः स्वकारणानां कार्योत्पादनद्वारेण तद- भिव्यक्तिहेतुतया प्रयुक्तः । वाय्वादीनिच कारणद्रव्यमुपगत्य- कार्यावस्थां हित्वा कारणसदृशेन रूपेण विशिष्टानि भवन्ति ।

सू०१३-अधि०५] दहराधिकरणम् । (२४५) वायुर्हि आवहप्रवहादिरूपेणसप्तविधत्वं हित्वा वायुत्वमात्रेणाव- तिष्ठते।विद्युच्च विद्युत्त्वं हित्वा तेजस्त्वेन। अभ्रस्तनयित्नूचाभ्रत्वादि- प्रहाणेन स्वकारणरूपेण । एवं जीवोपि मार्गविशेषेण देशविशेषवि- शिष्टं परं ब्रह्म प्राप्य संसार्यवस्थाप्रहाणेन परमात्मतुल्यरूपेणावि- भवतीत्यर्थः । एवंसत्येव दृष्टांतेदार्टीतिकवाक्यसामंजस्यं भव- तीति वर्णितम् ॥ सउत्तमः पुरुषः सतत्रपर्येति ॥ स उपसंपदनीय उत्तमः पुरुष इत्यर्थः । उत्तमः पुरुषस्त्व- न्यइति भगवतएवोत्तमपुरुषत्वेनोपसंपदनकर्त्तयुत्तमपुरुषत्वस्य बाधितत्वात् । सतत्रपर्येतीत्युत्तरवाक्यस्वारस्यभंगप्रसंगाच्च । सउपसंपत्ता परमात्मनिपयेति तं परितोनुभवति । यद्वानुसंचरति कामरूप्यनुसंचरन् यत्रयवधाता गच्छति" इति श्रुत्यंतरात् ॥ जक्षत् क्रीडन रममाणः स्त्रीभिर्वायानैज्ञातिभिर्वा ॥ यथेष्ट भोगानवाप्नोतीत्यर्थः ।। नोपजनंस्मरन्निदशरीरम् ॥ स्त्रीपुंसयोरन्योन्योपगमेन जातमित्युपजनत्वं शरीरस्य । तेन चापुरुषार्थत्वमुच्यते। अथवोपजनं जनानां बंधुजनानां समीपे शयितं कुणपमित्यर्थः । यद्यपि मुक्तस्स सर्वज्ञत्वात् त्यक्तमपि शरीरमनुभवत्येव । तथाप्यब्रह्मात्मकतया दुःखस्वरूपत्वेनानुभूतं शरीरं तत्र मुक्तदशायां तथानानुभवतीत्यर्थः । आत्मनोऽशरीर- स्वभावत्वे प्राक्छरीरसंबंधः किंनिबंधन इत्यत्राह ॥ स यथा प्रयोग्य आचरणे युक्तएवमेवायमस्मि- ञ्छरीरेप्राणोयुक्तः॥ यथा आचरणेशकटेप्रयोग्यो युग्यः अश्वोबलीवर्दोवा पाशेनयु- N (२४६) विषयवाक्यदीपिका। [अध्या०१-पाद३- कोभवति एवमेवायंप्राणसहचारीप्रत्यगात्मासंसारदशायांकमपा- शवशेनयुक्तोभवति । अनेनयुग्यशकटदृष्टांतेनदेहात्मनोर्व्यतिरे- कोदृढीकृतो भवति ॥ अथयत्रैतदाकाशमनुविषण्णंचक्षुः सचाक्षुषःपुरुषो- दर्शनायचक्षुः॥ आकाशं प्रकाशमानालोकादि अथवाप्रकाश्यमानत्वाद्वा आ- काशंरूपम् । ततश्चायमर्थः । यत्रयस्मिन्नुपकरणत्वेनानुविषण्णं निवद्धंचक्षुः आकाशमालोकरूपंवाप्रकाशयतीतिशेषः। यद्वा आका- शंरूपादिप्रकाशकंचक्षुरित्यर्थः। सचाक्षुषः चक्षुरुपकरणकः पुरुष आत्मेत्यर्थः । चक्षुरुपकरणकमुदिश्यपुरुषशब्देनात्मत्वंविधीयते । चक्षुस्तुदर्शनकरणमात्रम् । ततश्चक्षुरादीनांरूपादीनामात्मनश्चकर- णत्वज्ञेयत्वज्ञातृत्वप्रदर्शनमुखेनशरीरोंद्रियेभ्योन्यतिरेक उपपादितो- भवति॥ अथयोवेदेदंजिघ्राणीतिसआत्मागंधायघ्राणम् ॥ गंधग्रहणकरणंघ्राणम् । ज्ञातात्वात्मेत्यर्थः । अनेनघ्राणेंद्रियव्य तिरेकयुक्तोभवति ॥ अथयोवेदेदमभिव्याहराणीतिसआत्मा।अभिव्याहा रायवाक् ।अथयोवेदेदंशृणवानीतिसआत्मा।श्रवणाय- श्रोत्रम् । अथयोवेदेदमन्वानीतिसआत्मा। मनोस्य- दिव्यंचक्षुः।सवाएषएतेनदिव्येनचक्षुषामनसैतान्कामा न्पश्यत्रमते यएतेब्रह्मलोके ॥ विधूतकर्मनिमित्तशरीरेंद्रियःपुरुषः मनश्शब्दाभिहितेनदिव्येन- स्वाभाविकेनज्ञानेनसर्वान्कामाननुभवन्मोदतइत्यर्थः। शिष्टस्पष्टम्।।

सू०१३-अधि० ५] दहराधिकरणम् । (२४७) तंवाएतदेवाआत्मानमुपासतेतेषांसर्वेचलोकाआत्ताः सर्वेचकामाः॥ एतादृशात्मस्वरूपस्य मघवते उपदिष्टत्वाद्देवाःसर्वेमघवतए- तमात्मानमुपश्रुत्यतमेवोपासते । अतस्तेषांसर्वलोकसर्वकामावाप्स्यु- पलक्षितब्रह्मानुभवोभवति । असुराणांतुनतथेतिभावः । अद्यत्वेपि तमुपासोनानांतत्प्राप्तिर्भवतीत्याह । सर्वांश्चलोकानाप्नोतिसर्वांश्चकामान्यस्तमात्मान- मनुविद्यविजानाति ॥ अद्यत्वेपिमनुष्याणामपितमात्मानमुपासीनानांसर्वलोकसर्वका- मावाप्तिर्भवतीत्यर्थः। अत्रकिंप्रमाणमित्यत्राह ॥ इतिहप्रजापतिरुवाचेति॥ द्विरुक्तिविद्यासमात्यर्था । अत्रप्रत्यगात्मविद्यायाब्रह्मविद्यांगत्वे नांगीभूतब्रह्मविद्याफलमेवतदंगप्रत्यगात्मविद्यायास्तुत्यर्थनिर्दिश्यत इतिद्रष्टव्यम्। उक्तंचभगवताभाष्यकृता प्रजापतिवाक्येमुक्तात्मस्व- रूपयाथात्म्यविज्ञानंदहरविद्योपयोगितयोक्तंब्रह्मप्रेप्सोर्हिजीवात्मनः स्वस्वरूपंचज्ञातव्यमेव स्वयमपिकल्याणगुणएवसन्ननवधिकातिश- यासंख्येयकल्याणगुणगणंपरंब्रह्मानुभविष्यतीतिब्रह्मोपासनफलांत तत्वात् । सर्वांश्चलोकानाप्नोतिसर्वाश्च कामानितिप्रजापतिवाक्येकी य॑मानंफलंदहरविद्याफलमेवेति ॥ ननुप्रजापतिविद्यायादहरविद्या- गत्वेदहरब्रह्मविद्याधिकृतायैवोपदेष्टव्यास्यात् । उपकोसलविद्यां- गभूताग्निविद्यावत्-प्रकृतेचब्रह्मविद्याविधुरायेन्द्रायोपदिश्यमानायाः प्रत्यगात्मविषयकप्रजापतिविद्यायाः कथं विद्यान्तरशेषत्वमितिचे- न ॥ प्रजापतिवाक्यस्यैषसंप्रसादइति दहरविद्यावाक्यांतर्गतसं प्रसादशब्दार्थशोधनार्थप्रवृत्ततयातदेकवाक्यत्वेनतादर्थ्यसिद्धेइन्द्र- (२४८) विषयवाक्यदीपिका। [अध्या०१-पाद३- स्यापिपश्चादहरविद्योपदिष्टेत्येवावगंतव्यत्वेनादोषात् ॥ ननुप्रजाप- तिविद्याया प्रकरणादहरविद्याशेषत्वेसर्वब्रह्मविद्याशेषत्वंनस्यात्। वि- यांतरशेषत्वेप्रमाणाभावात् । नचेष्टापत्तिः। आत्मेतितूपगच्छन्ति ग्राहयंति च ।।। १।३॥” इत्यधिकरणसिद्धजीवोपास्यत्वमंगीकृत्य- किंकर्तृत्वादिविशिष्टंसांसारिकस्वरूपमनुसंधेयमुतप्रजापतिवाक्यो- दितापहतपाप्मत्वादिलक्षणः सांसारिकरूपव्यतिरेकोवेतिविशये क- र्तृत्वादिविशिष्टमेवरूपमनुसंधेयम् । शरीरेवर्तमानस्योपासितुरात्मन स्तथाभावादित्येकमन्यतइतिगुणोपसंहारपादे “एकआत्मनः शरीरे भावात् । ३।३।५३॥” इतिसूत्रेणपूर्वपशंकृत्वाप्रजापतिवाक्यो- दितापहतपाप्मत्वादिलक्षण सांसारिकरूपव्यतिरेकएवानुसंधेयः । तथोपासनेसत्येवतत्क्रतुन्यायेनतादृशात्मस्वरूपरूपफलप्राप्तेर्भावा- दित्यादिना “व्यतिरेकस्तद्भावभावित्वान्नतूपलब्धिवत्।३।३।५४॥" इतिसूत्रेण सिद्धांतितत्वादितिचेन्न ॥ यथाविद्याविशेषप्रकरण- श्रुतानांसत्यत्वज्ञानत्वादिस्वरूपनिरूपकधर्माणाम् “ आनन्दा- दयःप्रधानस्य ।३।३ । ११ ॥ इत्यधिकरणोक्तन्यायेनस- ब्रह्मविद्यापेक्षितब्रह्मस्वरूपप्रतीत्युपयोगितयासामर्थ्यरूपालिंगात्प्र- करणभंगेनदहरविद्यांगत्वपिसर्वब्रह्मविद्यासाधारण्यमाश्रीयते । यथा वा तमेतवेदानुवचनेनब्राह्मणाविविदिषन्ति" इति विद्याविशेषप्रकरण श्रुतानांवेदानुवचनादीनां सर्वविद्यापेक्षितचित्तनैर्मल्योपयोगित्वल- क्षणसामर्थ्यरूपलिंगवशेनसर्वविद्यासाधारण्यमेवमिहापिब्रह्मप्राप्तिपूर्व कापहतपाप्मत्वादिगुणाष्टकविशिष्टस्वात्माविर्भावलक्षणमोक्षरूपफ- लस्यतत्क्रतुन्यायेनतादृशस्वात्मोपासनसाध्यत्वेनप्रजापतिवाक्योदि तप्रत्यगात्म विद्यायाः सर्वविद्यापेक्षितत्वात् ॥ प्रजापतेः सभांवेश्मप्रपद्ये॥ प्रजापतेः परमात्मनः सभास्थानवेश्मप्रपद्ये । प्रभुविमितंहिरण्म " सू०१३-अधि०५] दहराधिकरणम्। (२४९) यमितिदहरविद्यायांनिर्दिष्टं वेश्मप्रपद्यइत्यर्थः। नचात्रप्रजापतिशब्दः कार्यभूतहिरण्यगर्भविषयः।"नचकार्येप्रत्यभिसंधिः।४।३.१४॥"इति सूत्रकृतैवनिरस्तत्वात् । भाष्यकृताचनचकार्येप्रत्यभिसंधिः । कार्य हिरण्यगर्भ।अपितुपरस्मिन्नेवब्रह्मणि यशोहंभवामिब्राह्मणानामिति तस्याभिसंधातुः सर्वाविद्याविमोकपूर्वकसर्वात्मभावाभिसंधानात् । अश्वइवरोमाणिविधूयपापंचंद्रइवराहोर्मुखात्प्रमुच्यधूत्वाशरीरमकृ- तंकृतात्माब्रह्मलोकमभिसंभवामीत्यभिसंभाव्यब्रह्मलोकस्याकृतत्व श्रवणात् । सर्वबंधविनिर्मोकस्यचसाक्षाच्छ्रवणादितिभाषितम् ॥ यशोहंभवामिब्राह्मणानाम्।यशोराज्ञाम्।यशोविशाम्॥ अत्रयशश्शब्देनतत्साधनमात्मोच्यते ब्राह्माणादीनामात्मास्मी- त्यर्थः। अत्राहमितिशब्दः स्वांतर्यामिपरमात्मपरः॥ "तबैतद्ब्रह्माप्रजापतयउवाच ॥” इत्यादि ॥ एतद्ब्रह्मज्ञानम् । ब्रह्माहिरण्यगर्भः। प्रजापतयेकाश्यपाय। शिष्टं- स्वष्टम् । विद्यांगभूततयाकर्मानुष्ठातव्यमित्येतत्प्रस्तौति ॥ आचार्यकुलावेदमधीत्ययथाविधानंगुरोः काति शेषेण॥ यथाविधानविधिमनतिक्रम्य गुरोः कर्मातिशेषेणकर्माविशिष्टकाले- न गुरुशुश्रूषानवरुद्धनकालेनाधीत्येतियोजना । "व्यासायैस्तुपुरु- षार्थाधिकरणे ३।४।१॥” अतिशेषेण निःशेषमित्यर्थ इतिव्याख्या- तम् । तेषामयमाशयः। ब्रह्मचारीवेदमधीत्योपायनान्याहृत्यगुर्व- नुज्ञातोदारान्कुर्वीत । विद्यांतेगुरुरर्थेननिमंत्र्यस्ततः कृतानुज्ञानस्य वास्नानमित्यादिस्मृत्यनुसारादाचार्यायप्रियंधनमाहृत्यप्रजातंतुमा- व्यवच्छेत्सीरित्यादिश्रुत्यनुसाराच्च गुरोर्यथाविधानमाचार्यस्य- नियमनमनतिलंघ्यकर्तव्यं कर्मातिशेषेण । अतिमर्यादमित्यादाव- तेमर्यादाभाववृत्तेर्दर्शनादतिर्थाभावेवर्तते । ततश्चातिशेषेणाभिस- SAMAND (२५०) विषयवाक्यदीपिका। [अध्या०१-पाद३- मावृत्त्यनिर्वय॑त्येवान्वयः। नत्वतिशेषेणेत्यस्याधीत्येतिपूर्वेणान्वयः। तस्यव्यवहितत्वानिराकांक्षत्वाच्च । नचगुरोः कर्मशेषेणजपेदिति गौतमस्मृत्यैकरूप्यात् कर्मातिशेषशब्दस्यापिकर्मातिशिष्टकाल- परत्वंवक्तव्यमितिवाच्यम् । शेषातिशेषशब्दयोभिन्नार्थत्वेनतत्प्रत्य- भिज्ञाभावादिति ॥ अभिसमावृत्यकुटुंबेशुचौदेशेस्वाध्यायमधीयानः॥ अभिसमावृत्त्यसमावर्तनंकृत्वागुरुकुलानिवृत्येत्यर्थः । न्यायतो- दारानाहृत्यकुटुंबेस्थित्वागार्हस्थ्यविहितकर्मणिनिष्ठितइत्यर्थः शुचौदेशेस्वाध्यायमधीयानः । स्वाध्यायमितिनित्यकर्मणामप्युपल- क्षणम् ॥ धार्मिकान्विदधत् ॥ पुत्रशिष्यादीन्धर्मेनियुंजानः॥ आत्मनिसर्वेन्द्रियाणिसंप्रतिष्ठाप्याहिंसन्सर्वभूता- न्यन्यत्रतीर्थेभ्यः॥ अनात्मविषयेभ्यःइन्द्रियाणिनिगृह्यशास्त्रीयहिंसाव्यतिरिक्तांहिं- सामकुर्वाणइत्यर्थः॥ सखल्वेवंवर्तयन्यावदायुषंब्रह्मलोकमभिसंपद्यते। न च पुनरावर्तते नचपुनरावर्तते ॥ स्पष्टोर्थः ॥ मध्वादिष्वसंभवादनधिकारंजैमिनिः।१।३।३०॥ छान्दोग्यतृतीयाध्यायारंभेमधुविद्याप्रस्तूयते ॥ असौवाआदित्योदेवमधु ॥ वस्वादीनांदेवानामामोदहेतुत्वान्मधु । अत्रमधुत्वदृष्टिकर्तव्ये त्यर्थः। मधुत्वोपयोगिनींदृष्टिंसंपादयति ॥

सू०-३०अधि०८] मध्वधिकरणम् । (२५१) तस्यद्यौरेवतिरश्चीनवशः॥ तस्यऽऽदित्याख्यमधुनोधुलोकएवाधारभूतस्तिर्यक्प्रसारितोवंशः॥ अंतरिक्षमपूपः॥ अंतरिक्षमध्वपूपः । मध्वाश्रयापूपोहितिरश्चीनवंशलग्नः सन्- लंबते एवमंतरिक्षमपिधुलोकल लंबतइवभातीत्यतोमध्वपूपत्वम् ॥ मरीचयः पुत्राः॥ मरीचिशब्देनमरीचिस्थास्सवित्राकृष्टाभौम्यआपउच्यते । ता पुत्राइवपुत्राः भ्रमरवीजभूतामध्वपूपच्छिद्रस्थाःसूक्ष्मकीटाइत्यर्थः ॥ तस्ययेप्रांचोरश्मयः॥ तस्यादित्यस्ययेप्रांचोरश्मयः॥ तएवास्यप्राच्योमधुनाड्यः॥ ताएवाग्दिगवच्छिन्नमधुनाड्योमधुच्छिद्राणि ॥ ऋचएवमधुकृतः॥ ऋमंत्राएवभ्रमराः॥ ऋग्वेदएवपुष्पम् ॥ ऋग्वेदविहितंकर्मपुष्पस्थानीयम् ।। ताअमृताआपः॥ ताः कर्मणिप्रयुक्ताः सोमाज्यपयोरूपाआपः । अग्नौप्रक्षिप्ताः पाकादिभिर्निवृत्ताअमृताः अत्यंतरसवत्योभवंति ॥ तावाएताऋच एतमृग्वेदमभ्यतपन्ह ॥ तावाएताऋचः भ्रमरस्थानीयाः पुष्पेभ्योरसमाददानाभ्रमराइ- वैतदृग्वेदविहितंकर्मपुष्पस्थानीयमभ्यतपन अभितापंकृतवत्यइव ।। तस्याभितप्तस्ययशस्तेजइन्द्रियंवीर्यमन्नाधरसोऽ- जायत॥

(२६२) विषयवाक्यदीपिका। [ अध्या०१-पाद३) यशस्तेज इन्द्रियवीर्यान्नाधलक्षणो रसोऽजायतेत्यर्थः । ऋग्भि- मैत्रैः स्तोत्रशस्त्राचंगभावमुपगतैः क्रियमाणं कर्म मधुनिर्वर्तकंसो- माज्यादिरसमुंचति पुष्पमिव भ्रमरैराचूष्यमाणम् । तेनचयशस्तेज इंद्रियवीयर्यादिलक्षणं फलमुत्पन्नभवति ॥ तयक्षरत् ॥ तयशआदिलक्षणं फलं विशेषेणागमत् ।। तदादित्यमभितोश्रयत् ॥ गत्वाचादित्यमभितः श्रितवदित्यर्थः॥ तद्वा एतद्यदेतदादित्यस्यरोहित रूपम् ॥ आदित्ये प्रत्यक्षतः परिदृश्यमानं यद्पं तत्कर्म निर्वर्त्य यशस्तेजआदिलक्षणफलरूपमित्यर्थः । रोहिते रूपे तबुद्धिः कर्तव्येति यावत् ॥ अथयेस्य दक्षिणारश्मयस्ता एवास्य दक्षिणाम. धुनाड्यः । यजूंष्येव मधुकृतो यजुर्वेद एवपुष्पंता अमृताआपः । तानिवा एतानि यजूंष्येतं यजुर्वेदम- भ्यतपन।तस्याभितप्तस्ययशस्तेज इन्द्रियं वीर्यमन्नाचं रसोजायत । तब्यक्षरत्तदादित्यमभितोश्रयत्तद्वा एत- द्यदेतदादित्यस्य शुक्लरूपम् । अथयेस्य प्रत्यंचो- रश्मयः ताएवास्य प्रतीच्यो मधुनाडयः सामान्येव मधुकृतःसामवेद एवपुष्पंताअमृता आप-तानिवा एता नि सामान्यतथ्सामवेदमभ्यतपन् । तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोजायत । तब्ध क्षरत्तदादित्यमभितोश्रयत्तद्वा एतद्यदेतदादित्यस्य - सू०३०-अधि०८] मध्वधिकरणम् । (२५३) कृष्णरूपम् । अथ येस्योदंचोरश्मयः ताएवास्योदी च्यो मधुनाड्यः। अथर्वागिरसएवमधुकृतः ॥ अथर्वणांगिरसाच दृष्टा अथर्वागिरसः॥ इतिहासपुराणं पुष्पम् ॥ इतिहासपुराणविहितकर्मस्वथागिरसां विनियोगादृग्वेदादिवत् पुष्पत्वोक्तिरितिद्रष्टव्यम् ॥ ताअमृता आपस्ते वाएतेऽथवागिरस एतदितिहास पुराणमभ्यतपन् । तस्याभितप्तस्ययशस्तेज इन्द्रि- यवीर्यमन्नाद्यरसोजायत । तद्यक्षरत्तदादित्यमाभ- तोश्रयत् तद्वाएतद्यदेतदादित्यस्यपरं(रः)कृष्णरूपम्॥ अतिशयितं कृष्णंरूपमित्यर्थः॥ अथयेस्योरिश्मयस्ताएवास्योर्ध्वा मधुनाड्यो गुह्या एव देशामधुकृतः॥ ब्रह्मविषयकोपनिषदहस्योपदेशाइत्यर्थः ।। ब्रह्मैवपुष्पं ताअमृताआपः। तेवाएतेगुह्या आदेशाः एतद्ब्रह्माभ्यतपन् । तस्याभितप्तस्य यशस्तेज इन्द्रि यंवीर्यमन्नाद्यसोऽजायत। तब्यक्षरत्तदादित्यमभितो श्रयत्वाएतद्यदेतदादित्यस्यमध्यक्षोभतइव ॥ समाहितदृष्टिभिर्वीक्ष्यमाणं मध्ये चलतीवस्फुरतीत्यर्थः ।। तेवाएते रसानासा वेदाहिरसास्तेषामेते रसा स्तानिवाएतान्यमृतानाममृतानि वेदाह्यमृतास्तेषामे तान्यमृतानि ॥ लोकसारभूतर्वेदादिप्रतिपाद्यकर्मनिष्पाद्यत्वात् रोहितादिरूपा - (२५४) विषयवाक्यदीपिका। [अध्या०१-पाद३- णामतिरसत्वम् । तथा वेदेभ्योपीष्टतत्साध्य (धन) प्रतिपादकतया भोग्यभूततयाऽमृतेभ्योरोहितादिरूपाणां तत्प्रतिपाद्यकर्मनिष्पाद्या- नामतिभोग्यत्वादमृतादप्यमृतत्वमित्यर्थः॥ अयमत्रनिर्गलितोर्थः॥ प्रागायूर्ध्वदेशांतःस्थितरश्मिनाडीतस्तत्तद्वेदोक्तकर्मकुसुमेभ्यस्तत्त- दैदिकमंत्रमधुकरैरादित्यमंडलमानीतानिसोमाज्यपयःप्रभृतिद्रव्यनि ष्पन्नानियशस्तेजोवीर्यमंद्रियमित्येवमात्मकानिलोहितंशुक्कुंकृष्णं- परंकृष्णंमध्येक्षोभतइवेत्युक्तानिरोहितादीनिपंचामृतानि आदित्य- मध्वाश्रयाणीति एषांपंचानाममृतानांवसुरुद्रादित्यमरुत्साध्यगणभो ग्यत्वंतदुपासीनानांवसुत्वादिप्राप्तिपूर्वकब्रह्मप्राप्तिरितिप्रतिपादयति। तयत्प्रथमममृतंतद्वसवउपजीवंत्यग्निनामुखेन ॥ अग्निमुखेनवसवोरोहितरूपलक्षणममृतमुपजीवन्तीत्यर्थः। उप- जीवनभक्षणमितिशंकांप्रतिषेधति ॥ नवैदेवाअनंतिनपिबन्ति॥ चंद्रमिवेतिभावः। पुनःकथमुपजीवनमित्यत्राह ॥ एतदेवामृतंदृष्ट्वातृप्यंति ॥ यशस्तेजआदिलक्षणंरोहितंरूपसर्वैः करणैरुपलभ्यतृप्यतीत्यर्थः। एतदेवरूपमभिसंविंशन्ति ॥ एतदेवरूपमभिलक्ष्यानुभूयतियावत् । संविशन्तिभोगानंतरसु- दासीनाभवंतीत्यर्थः॥ एतस्माद्रूपादुद्यन्ति ॥ प्राप्तेभोगकालेइतिशेषः। सर्वत्रैतस्माद्रूपादितिल्यब्लोपेपंचमी । एतद्रूपानुभवमुदिश्योद्यन्ति सोत्साहाभवंतीत्यर्थः॥ सयएतदेवममृतंवेद॥ अनेनप्रकारेणवसुतृप्त्याधायकदर्शनगोचरत्वलक्षणवसूपजीव्य- त्वादिनारोहितामृतंयोवेद॥

सू०३०-अधि०८] मध्वधिकरणम् (२५५) सवसूनामेवैकोभूत्वाग्निनैवमुखेन एतेदवामृतंदृष्ट्वात प्यति । सएतदेवरूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ तत्कतुन्यायेनतदुपासीनोपिवसुत्र्यप्राप्यतथैवभवतीत्यर्थः ॥ कियंतकालमित्यत्राह॥ सयावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसू. नामेवतावदाधिपत्यश्स्वाराज्यंपर्येता ॥ आदित्यस्यप्राच्यादिश्युदयः प्रतीच्यामस्तमयश्चयावंतंकाल- मनुवर्ततेतावंतंकालंवसूनां यदाधिपत्यंयदप्रतिहतसंकल्पत्वलक्षणं- स्वाराज्यंचतत्पर्यंता परितोगताऽनुभवतीत्यर्थः ॥ अथयद्वितीयममृततद्रुद्राउपजीवन्तींद्रेण मुखेनन- वैदेवाअनंतिनपिबन्त्येतदेवामृतं दृष्ट्वातृप्यंत्येतदेव- रूपमभिसंविशंत्येतस्माद्रूपादुद्यंति । स यएतदेवममृ- तंवेदरुद्राणामेवैकोभूलाइन्द्रेणैवमुखेनैतदेवामृतं दृष्ट्वा तृप्यति सएतदेवरूपमभिसंविशत्येतस्माद्रूपादुदेति । सयावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्ता- वदक्षिणतउदेतोत्तरतोस्तमेता रुद्राणामेवतावदाधि- पत्यंस्वाराज्यंपर्येता॥ पुरस्तादुदयपश्चादस्तमयापेक्षयाद्विगुणंकालंदक्षिणतउदयमु- त्तरतोस्तमयंचकल्पयित्वाश्रुतिब्रवीतिनात्रकथंताकार्या । शिष्ट- स्पष्टम् ॥ अथयत्तृतीयममृतंतदादित्याउपजीवन्ति वरुणेनमु- खननवैदेवाअनंतिनपिबंत्येतदेवामृतंदृष्ट्वातृप्यन्तित- एतदेवरूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति । सयएत- क (२५६) विषयवाक्यदोपिका। [अध्या०१-पाद३- देवममृतंवेदादित्यानामेवैकोभूत्वावरुणेनैवमुखेनैतदे वामृतंदृष्ट्वातृप्यतिसएतदेवरूपमभिसंविशत्येतस्माद्रू पादुदेतिसयावदादित्योदक्षिणतउदेतोत्तरतोस्तमेता- द्विस्तावत् पश्चादुदेता पुरस्तादस्तमेता आदित्यानामे- वतावदाधिपत्यंस्वाराज्यपर्येता ॥ अथयच्चतुर्थममृतंत न्मरुतउपजीवन्तिसोमेनमुखेननवैदेवा अश्नं तिनपिब- त्येतदेवामृतंदृष्ट्वातृप्यंति । तएतदेवरूपमभिसंविशं त्येतस्माद्रूपादुद्यंतिसयएतदेवममृतंवेदमस्तामेवैको- भूत्वासोमेनैवमुखेनैतदेवामृतंदृट्वातृप्यतिसएतदेवरू- पमभिसंविशत्येतस्माद्रूपादुदेति सयावदादित्यः पश्चा- दुदेता पुरस्ता दस्तमेता द्विस्तावदुत्तरतउदेता दक्षिण तोस्तमेता मस्तामेवतावदाधिपत्यश्स्वाराज्यंपर्येता। अथयत्पंचमममृतंतत्साध्याउपजीवन्ति ब्रह्मणामुखे- ननवैदेवाअनन्तिनपिबत्येतदेवामृतंदृष्ट्वातृप्यन्ति तए तदेवरूपमभिसंविशंत्येतस्माद्रूपादुद्यंति सयएतदेवा- ममृतंवेदसाध्यानामेवैकोभूत्वाब्रह्मणैवमुखेनैतदेवाम- तंदृष्ट्वातृप्यतिसएतदेवरूपमभिसंविशत्येतस्माद्रूपादु देति । सयावदादित्यउत्तरतउदेता दक्षिणतोस्तमेता द्विस्तावदूर्ध्वउदेता अर्वागस्तमेता साध्यानामेवताव दाधिपत्यंस्वाराज्यंपर्यंता॥ वसुरुद्रादित्यमरुत्साध्यगणभोग्यरोहितादिपञ्चरूपात्मकपंचामृ- ताश्रयदेवमधुत्वरूपितज्योतिमैडलाख्यरूपयुक्तस्योदयास्तमया- - सू०३०-अधि०८] मध्वधिकरणम् । (२६७) दिकृत्यविशिष्टस्यादित्यनामकस्यादित्यशरीरककार्यावस्थब्रह्मण- उपासनमुपदिश्यनामरूपकृत्यादिरहितकार्यावस्थारहितादित्यजी- वशरीरकब्रह्मोपासनंदर्शयति ॥ अथततऊर्ध्वउदत्यनैवोदेता नास्तमेता॥ अथब्रह्मदिवसरूपस्यकल्पस्यसमात्यनंतरंततऊर्ध्वउदेत्यउदया- स्तमयकृत्यप्राण्यनुग्रहरहितइत्यर्थः। उदयास्तशून्यः॥ नैवोदेतानास्तमेताएकलएवमध्येस्थाता ॥ एकस्वभावएवोदासीनतयावर्ततइत्यर्थः । अत्राहभाष्यकायर्का- रणावस्थब्रह्मोपासनंविधीयते । असौवादित्योदेवमध्वित्यारभ्याथत- तऊर्ध्वउदेत्येत्यतः प्रागादित्यवस्वादिकार्यविशेषावस्थब्रह्मोपास- नमुपदिश्यते । अथततउर्ध्वउदेत्येत्यादिनाऽऽदित्यांतरात्मतयाव- स्थितंकारणावस्थमेवब्रह्मोपदिश्यतइत्युक्तम् । तत्राथततऊर्ध्वउदे त्येत्यस्यमुक्तावस्थादित्यांतर्यामिब्रह्मोपासनपरत्वेथशब्दादिस्वार- स्यात्कारणावस्थमितिभाष्यस्याकार्यावस्थंमुक्तावस्थमित्यर्थएवो- चितः। नत्वादित्यभावप्राप्तिपूर्वावस्थम्।व्यासायैस्तुभाष्यस्वारस्य- मवलंब्यादित्यनामरूपभाक्त्वावस्थापूर्वभाव्यवस्थैवं अथततऊर्ध्व- उदेत्येत्यादिसंदर्भणप्रतिपाद्यतइतिवर्णितम्। तेषामयमाशयः अथ- शब्दोननिर्दिष्टानंतर्यार्थः । अपित्वर्थातरप्रस्तावार्थः। अथततऊर्ध्व- उदेत्यनैवोदेतानास्तमेता एकलएवमध्येस्थातत्यस्यायुदयास्त- मयतत्कार्यशून्यत्वमर्थः । तच्चादित्यभावपूर्वावस्थायांकल्पादौसं- भवतीति॥ तदेषःश्लोकः ॥ तस्मिन्विषयेदेवान्प्रतिकेनचिद्योगिनागीतश्लोकः॥ १७ २५८) विषयवाक्यदीपिका। [अध्या०१-पाद३- नवैतत्रसनिम्लोचनोदियायकदाचन। देवास्तेना- हंसत्येनमाविराधिषिब्रह्मणेति ॥ हेदेवास्तस्मिन्नादित्यभावमुक्तिकालेसमुक्तादित्यांतर्यामिपरमा- त्मा नास्तमितोनोदितश्चतेनसत्येनब्रह्मणाऽहंमाविराधिषिविरोधनग उच्छामि । अप्राप्तिनगच्छामीतियावत् ॥ नहवाअस्माउदेतिननिम्लोचतिसकृविवाहैवास्मै- भवति यएतामेवंब्रह्मोपनिषदं वेद ॥ यएतांमधुविद्यारूपांब्रह्मोपनिषदंब्रह्मविद्यावेदानुतिष्ठत्यस्मैब्रह्म- विदेआदित्योनोदेतिनास्तमेति । आदित्योदयास्तमयाभ्यांनांक- चित्तस्यप्रयोजनमित्यर्थः ॥ सकृतिवाहैवास्मैभवति ॥ अस्मैब्रह्म- विदेसकृथिवैवभवतिसकृदुदितमवहेरभवति ॥ सदैवाहर्भववती- त्यर्थः । संततंसर्व विषयकसाक्षात्कारोस्यभवतीत्यर्थः । मधुवि- यासंप्रदायमाह॥ तबैतब्रह्माप्रजापतयउवाचप्रजापतिर्मनवेमनुः प्र- जाभ्यः॥ तद्वैतन्मधुविज्ञानमित्यर्थः॥ तद्वैतदुद्दालकायारुणयेज्येष्ठायपुत्रायपिताब्रह्मप्रो- वाच॥ तद्वैतद्ब्रह्मउद्दालकाय पिताप्रोक्तवान् ॥ इदंवावतज्ज्येष्ठायपुत्रायपिताब्रह्मप्रब्रूयात् प्रणा- य्याय वांतेवासिने॥ तस्माद्धेतोः इदंब्रह्मविज्ञानज्येष्ठायपुत्रायवाचूयात्, योग्यायशि- व्यायवाप्रब्रूयात्। नान्यस्मै । प्रणाय्योऽसमतावितिनिष्कामार्थप्रणा- य्यशब्दस्यनिपातितत्वात् ॥

मू०३३-अधि०९] अपशूद्राधिकरणम् । (२५९) यद्यप्यस्माइमामद्भिः परिगृहीतां धनस्यपूर्णादद्या देतदेवततो भूयइत्येतदेवततो भूयइति ॥ समुद्रावृतां भोगोपकरणैः पूर्णामिमां पृथिवीं यद्यप्यस्मै आचा- र्यायदद्यात् । तदपेक्षयाप्येतद्विज्ञानमेवाधिकम् । नैतस्यानुरूपो नि- ष्क्रयोस्तीत्यर्थः। द्विरुक्तिविद्यासमाप्त्यर्था॥ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि । १।३।३३॥ छांदोग्ये चतुर्थाध्यायारम्भे ॥ जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहु- पाक्य आस॥ जनश्रुतस्या (तेर) पत्यंजानश्रुतिः। हशब्दः प्रसिद्धौ ॥ पुत्रसं- ज्ञस्यपुत्र-पौत्रः । तस्यापत्यं पौत्रायणः । श्रद्धापुरःसरंदेयमस्यसः श्रद्धादेयः । अर्थिभ्योबहुदातुंशीलमस्यसबहुदायी । बह्वस्यगेहेन्नं पक्तव्यंसबहुपाक्यः, आस ॥ सहसर्वत आवसथान्मापयांचक्रेसर्वतएवमेऽनम- त्स्यंतीति ॥ सहजानश्रुतिः सर्वत एत्यातिथयोममान्नं भोक्ष्यंत इत्यभिप्रा- येणसर्वासु दिक्षुग्रामनगरमार्गारण्यादिषु पांथानामनाथानां शीत- वातवर्षातपनिवारकानोदकशयनाच्छादनादिपूर्णाः शाला:कारि- तवानित्यर्थः॥ अथह हश्सानिशायामतिपेतुः ॥ एवंसतिकस्यां चिद्रात्रौकेचनमहात्मानोन्नदानादिगुणैस्तोषिताः हंसस्वरूपाः संतोराज्ञोदर्शनगोचरेआगताः॥

(२६०) विषयवाक्यदीपिका। [अध्या०१-पाद३- तद्वैवंह सोहसमभ्युवाद ॥ तत्तस्मिन्काले तेषांहंसानां मध्येएकःपृष्ठतोगछन्हंसः अग्रेगामि- नंकंचनहंसमुवाच ॥ भोभोहिभल्लाक्षभल्लाक्ष॥ जानश्रुतेः पौत्रायणस्य समंदिवाज्योतिराततं तन्माप्रसाजोस्त- त्त्वा माप्रधाक्षीदिति । भोभोइतिसंवोध्य भल्लाक्षभल्लाक्षेत्यनेन विप- रीतलक्षणायां मंदलोचनेतिसंभ्रमेणद्विवारंसंबोधनम् । समंदिवा- स्वर्गेण समं दिवसेन समंवा । एतस्यतेजः प्रसृतम् । तस्मिस्तेजसि- मासक्तोभूः। तत्तेजस्त्वांमादहेत् ॥ तमुहपरःप्रत्युवाच ॥ एतजानश्रुतेःप्रशंसारूपंवाक्यमुपश्रुत्यतदसहमानः परो हंस-प्र- त्युवाच॥ कमुअरएनमेतत्संत सयुग्वानमिवरैक्वमात्थेति॥ उइत्यनर्थकोनिपातः । अरेकंसंतकेनमाहात्म्येनयुक्तमेनंजान- श्रुतिसशकटरैक्वमिवैतत्प्रशंसावचनंब्रवीपि । रैक्वएवब्रह्मज्ञोमहाप्र- भावः । अब्रह्मज्ञस्यास्यकिंतेजःकिंवामांदहेदितिभावः । एवमुक्तः पश्चात्पतन हंस पृछति ॥ योनुकथंसयुग्वारक्वइति ॥ यउक्त सर्किप्रकारकइत्यर्थः । इतरआह ॥ यथाकृतायविजितायअथरेयास्संयंत्येवमेन सर्व तदभिसमेति यत्किंचप्रजाःसाधुकुर्वति ॥ यथालोकेकृतनामाअयःद्यूतसमयप्रसिद्धश्चतुरंकायः तत्रविजितं- जयोयस्यसः कृतायविजितःपुरुषः अथवाविजितंविजयः तस्मा- इत्यर्थः । तदर्थमितरेत्रियेकांकाः अथरेन्यूनाःअयाःसंयंतिसंगच्छंते- मू०३३-अधि०९] अपशूद्राधिकरणम्। (२६१) अंतर्भवंति । चतुरंकेकृतायेएकांकव्यंकव्यंकानांशतंसहस्रसंभवतीति न्यायनविद्यमानत्वात् तत्रांतर्भवति । कृतांकविजयिनःएकांकादि- जयोप्यस्तीतिभावः । एवमेवहिलोकेप्रजायच्छोभनकर्मानुतिष्टति तत्सर्वमेनंकृतायस्थानीयरेक्कमभिसमेतिसंगच्छते । तत्कर्मणिस- कलंशोभनकातर्गतमितियावत् ॥ यस्तद्वेदयत्सवेद ॥ सरवः यद्वेदतदेवान्योपि । यःकश्चिद्वेदतज्ज्ञातमेवान्येजानंति । तज्ज्ञानेसर्वज्ञानमंतर्गतमित्यर्थः ॥ समयैतदुक्तः॥ सतादृशोरक्कोमयतेनसयुग्वानमिवरैक्वमात्थेत्यनेनोक्तइत्यर्थः । वेदांताचार्यैस्तत्त्वटीकायामस्यार्थस्यप्रतिपादितत्वात् । उक्तंचभग वताभाष्यकृतालोकेयत्किचित्साध्वनुष्टितंकर्मयच्चसर्वचेतनगतविज्ञा नंतदुभयंयदीयज्ञानकर्मीतर्गतंसरैवइत्याहेति ॥ यद्यपिव्यासायलघु सिद्धांते “ आवृत्तिरसकृदुपदेशात्।४।१।१॥” इत्यत्रचयस्त- द्वेदयोवेदितायत्सवेदयद्वेद्यं समयैतदुक्तः सवेदितारैक्वस्तद्वेद्यब्रह्मचो- भयंमयोक्तमित्यर्थइत्युक्तम् । तदप्येतत्परमवद्रष्टव्यम् । नतुप्रतीय- मानार्थपरम्।यस्तद्वेदयत्सवेदेतिवाक्यात्प्राचीनेयथाकृतायविजिता- याथरेया संयंति एवमेनंसर्वतदभिसमेतियत्किंचप्रजाःसाधुकुर्वती- तिवाक्येब्रह्मप्रसक्तेरेवाभावेनवेदितावेद्यंचतवोपदिष्टमित्यर्थस्यासंभ- वेनयस्तद्वेदयत्सवेदेतिवाक्येनप्रतिपादनासंभवाद्भाष्यविरोधाचेति- द्रष्टव्यम् ॥ तदुहजानश्रुतिःपौत्रायणउपशुश्राव ॥ तद्ब्रह्मज्ञानरहिततयाऽऽत्मनिन्दागर्भनद्वत्तयाचरैवप्रशंसारूपं- वाक्यंशुश्राव ॥ सहसंजिहानएवक्षत्तारमुवाच ॥ सहकथमपिनिशामतिवाह्यतल्पंत्यजन्नेवक्षत्तारमुक्तवान् । “वैश्या- (२६२) विषयवाक्यदीपिका। [अध्या०१-पाद३- द्राह्मणकन्यायांक्षत्तानामप्रजायते ॥जीविकावृत्तिरेतस्यराजांतःपुरर क्षणम्" इत्युक्तरीत्याराजांतःपुररक्षक प्रतिलोमजातिविशेष क्षत्ता अंगारेहसयुग्वानमिवरैक्चमात्येति ॥ योनुकसयु खारैवइतियथाकृतायविजितायाथरेयाःसंयंति । एव मे सर्वतदभिसमेतियत्किचप्रजाःसाधुकुर्वतियस्तद्वेद यत्सवेदसमयैदुक्तइति ॥ अरेअंगवत्सेतिक्षत्तारंराजासंबोध्यरात्रावेवंहसयोः सल्लापः सम- जनि इतिरवस्यचिह्नमुक्तवानित्यर्थः॥ सहक्षत्तान्विष्यनाविदमितिप्रत्येयाय॥ सचक्षत्ताशकटलक्षणरैक्वचिद्रंस्मरन्ग्रामनगरादिकमन्विष्यना- ज्ञासिषमितिप्रत्यागतवान् । त होवाचयत्रारेब्राह्मणस्यान्वेषणातदेनमृच्छेति ॥ अरेब्राह्मणस्यब्रह्मविदोयत्रविविक्तेषुनदीपुलिनारामादिषुमार्गणं- युक्तंतत्रगत्वामार्गणंकुर्वित्युवाचेत्यर्थः॥ सोधस्ताच्छकटस्यपामानंकषमाणमुपोपविवेश ॥ विजनेकस्मिंश्चिदेशेशकटस्याधस्तात्पामानंकडूयमानं रक्कमेत्य- दृष्ट्वासमीपेगत्वाविनयेनोपविष्टवान् ।। तहाभ्युवादखनुभगवःसयुग्वारैवइत्यहंारा३इति हप्रतिजज्ञेसहक्षत्ताऽविदमितिप्रत्येयाय ॥ हेभगवस्त्वंवारैक इतिपृष्टो रैवोहमेवेतिप्रत्युवाच । तच्छ्रुत्वाऽऽ- ज्ञासिषमितिप्रत्यागतः॥ तदुहजानश्रुतिः पौत्रायणः षट्छतानिगवांनिष्कम- श्वतरीरथंवदादायप्रतिचक्रमे॥

सू०३३-अधि०९] अपशूद्राधिकरणम् । (२६३) ततोजानश्रुतिः गवांषट्छतानिनिष्कंकंठाभरणम् । अश्वतरीयु- तंरथंतदादायगृहीत्वारैकंप्रतिगतवान् । तहाभ्युवादरैक्वेमानिषट्छतानिगवामयंनिष्कोय- मश्वतरीरथोनुमएतांभगवोदेवताशाधियांदेवतामु- पास्सेइति॥ हेरैक्वएतत्सर्वमानीतंतद्हाण । त्वंयांदेवतामुपास्सेतां देवतांमे- अनुशाधिविविच्यज्ञापयेतिप्रार्थयामास ॥ तमुहपरः प्रत्युवाचाहहारेत्वाशूद्रतवैवसहगोभिर- स्त्विति ॥ अहइत्याश्चर्ये । स्वयोगमहिमविदितलोकत्रयोजानश्रुतेब्रह्मज्ञान- विधुरतानिमित्तानादरगर्भहंसवाक्यश्रवणेनशोकाविष्टतांतदनंतरमे- वब्रह्मजिज्ञासयोद्योगचविदित्वाऽस्यब्रह्मविद्यायोग्यतामभिज्ञायसत्या मपियोग्यतायांचिरकालसेवांविनाऽर्थप्रदानेनशुश्रूषमाणस्यास्ययाव च्छक्तिप्रदानेनब्रह्मविद्याप्रतिष्ठिताभवतीतिमत्वातमनुगृह्णन्तस्यशो- काविष्टतामुउपदेशयोग्यताख्यापिक ब्रह्मजिज्ञासादायंसिद्धयर्थस्व- योगमहिमसाक्षात्कृतसकलवृत्तांतत्वलक्षणस्वमहिमानंचशोचितृत्व- प्रवृतिनिमित्तशूद्रशब्दामंत्रणेनख्यापयन् हारसहितरथः तवैवगो- भिः सहास्तु । कलत्रहीनस्यग्रामगृहादिशून्यस्यममगोरथादिरक्ष- काशक्तिः, मत्प्रयोजनापर्यवसाय्यल्पधनदानेनकथंतवब्रह्मविद्याप्र- तिष्ठिताभवेदित्युवाचेत्यर्थः । स्फायितंचि०।२।१७०॥ इत्या- दिनारप्रकरणपठितेन शुचेर्दश्च उ०।२।१७६॥” इत्युणादि सूत्रे- गरक्प्रत्ययेकृतेशुचेश्चकारस्यदकारेअमितम्योपश्चेतिपूर्वसूत्रानु- वृत्तेनधातोरुकारस्य दीर्घादेशेनचशूद्रशब्दोनिष्पन्नोभवति ॥ तदुहपुनरेवजानश्रुतिः पौत्रायणःसहस्रंगवांनिष्क- (२६४) विषयवाक्यदीपिका। [अध्या०१-पाद३- मश्वतरीरथंदुहितरंतदादायप्रतिचक्रमेत हाभ्युवाद- रैक्वेदंसहस्रंगवामयंनिष्कोयमश्वतरीरथइयंचजाया- अयंग्रामोयस्मिन्नास्सेअन्वेवमाभगवःशाधीति ॥ तदभिप्रायजाननरैवस्यपरिणयार्थ स्वकन्यामावासार्थतत्रत्यं ग्रामंचोपहृत्यप्रार्थयामासेत्यर्थः ॥ तस्याहमुखमुपोगृहन्नुवाच ॥ तस्यमुखमुपायनरूपोपायमंगीकुर्वन्नुक्तवानित्यर्थः । आजहारेमाः शूद्रानेनैवमुखेनालापयिष्यथाइति ॥ इमादक्षिणा आजहीअनेनेवोपायेनमां ब्रह्मोपदेशरूपं वाक्यमा- लापयिष्यसे ब्रह्मविद्योपदेष्टारं करिष्यसीत्यर्थः । थास सेइत्येतद- भावश्छांदसः । पुनरपिशूद्रेति संबोधनस्यपूर्ववत्प्रयोजनम् । अत्र शूद्रशब्दस्यन रूढ्यावर्णविशेषोर्थः। चतुर्थवर्णस्यब्रह्मविद्यायामन- धिकारादितिद्रष्टव्यम् ॥ तेहैतेरैक्वपर्णानाममहावृक्षेषुयत्रास्माउवास ॥ यत्रग्रामेषु रैवउवासलेषु महावृक्षाख्यदेशेषुरैक्कपर्णाइतिप्रसि- दास्तानग्रामांश्चास्मैददावित्यर्थः। स तस्मैहोवाच॥ तत्सर्वदत्तवते जानश्रुतयेरेवः स्वोपास्यांदेवतामुपदिदेशेत्यर्थः।। वायुविसंवर्गः॥ संवर्जनं सम्यग्ग्रहणम् । एकीकृत्यग्रहणमित्यर्थः । संवर्गत्वगुण- कोवायुथैयइतियावत् । संवर्गत्वमेवोपपादयति ॥ यदावाअग्निरुद्रायति वायुमेवाप्येति यदासूर्यो- स्तमेति वायुमेवाप्यति यदाचंद्रोस्तमेतिवायुमेवा- सू०३३-अधि०९] अपशूद्राधिकरणम् । (२६५) प्येति यदाआपउच्छुष्यंति वायुमेवापियंतिवायुझैवै- तान्सर्वानसंवृक्तेइत्यधिदैवतम् ॥ प्रक्रमेहिएनं सर्वतदभिसमेतीत्यादिब्रह्मविद्याप्रशंसावगमात् वक्ष्य माणलिंगानुपपतेश्च वायुशब्देनवायुशरीरकः परमात्मोच्यते । संवृं- तेएकीकृत्यगृहातीत्यर्थः । इत्यधिदैवतम् । एवंदेवेषुसंवर्गोयमित्य- र्थः। अध्यात्मं प्राणः संवर्गइत्याह ॥ अथाध्यात्मंप्राणोवावसंवर्गः सयदास्वपिति॥ सपुरुषोयस्मिन्कालेस्वपितीत्यर्थः ॥ प्राणमेववागप्येतिप्राणंचक्षुःप्राण श्रोत्रप्राणंमनः प्राणोह्येवतान्सन्सिंवृक्तइति ॥ अत्रापिप्राणशब्दस्तच्छरीरकपरमात्मपरोद्रष्टव्यः । उक्तमर्थमुप- संहरति ॥ तौवाएतौद्वौसंवर्गों वायुरेवदेवेषुप्राणः प्राणेषु ॥ स्पष्टोर्थः॥ संवर्गविद्यास्तुत्यर्थमाख्यायिकेयमारभ्यते ॥ अथहशौनकंचकापेयमभिप्रतारिणंच काक्षसेनि परिविष्यमाणौब्रह्मचारीबिभिक्षे॥ कपिगोत्रं शुनकसुतं कक्षसेनसुतमभिप्रतारिनामानंचतौद्यौसू- पकारैः परिविष्यमाणौभोजनायोपविष्टौकश्चित्संवर्गोपासको ब्रह्म- चारी भिक्षितवान् ॥ तस्माउह नददतुः॥ अयं ब्रह्मचारीसंवर्गविद्यानिष्ठोदुरभिमानी यद्वक्ष्यतितच्छ्रोष्या- वइतिबुद्धयाभिक्षांनदत्तवंतौ सहोवाच ॥

- (२६६) विषयवाक्यदीपिका। [अध्या०१-पाद३- स ब्रह्मचार्युवाच ॥ महात्मनश्चतुरोदेवएकः कःसोजगारभुवनस्यगो- पाः।तंकापेयनाभिपश्यंतिमाःअभिप्रतारिन्बहुधाव- संतम् ॥ अधिदेवतम् । महात्मनःअन्यादित्यचंद्रजलरूपान्।अध्यात्मम्। वाकूचक्षुश्श्रोत्रमनोरूपान् चतुस्संख्याकान्देवान्सर्वलोकस्यगोप्ता- सः एकएववायुःप्राणरूपीक प्रजापतिःजगारसंहृतवान् ।हेकापेयाभि प्रतारिणौ एवंभूतं प्रजापतिंबहुरूपतयावसंतमामरणधर्माणः अविद्यामोहिताःसंतोनजानन्तीत्यर्थः । गोपाः गुपूरक्षणेअसुन्प्रत्य- यांतः॥ यस्मैवाएतदनंतस्माएतन्नदत्तमिति ॥ जगत्सर्वयस्यसंवर्गस्यप्रजापतेरनंतस्मैभिक्षमाणायमह्यमन्नंनदत्त म्।अतः केपिनजानंतीत्युक्तोपासनदाढयायोक्तोपास्यैक्यबुद्धयाभि क्षमाणायस्वस्मैअप्रदानमेवस्वोपास्यदेवतायाअप्रदानंमत्वातस्मैए- तन्नदत्तमितितौनिदितवानित्यर्थः ।। तदुहशौनकः कापेयः प्रतिमन्वानः प्रत्येयाय ॥ कापेयः शौनकःतत्प्रतिमन्वानः मनसाऽऽलोचयन् तत्समीपंप्र- त्यागत्योवाच ।। आत्मादेवानांजनिताप्रजानाहिरण्यदंष्ट्रोबभसोऽन- मूरिः।महांतमस्यमहिमानमाहुरनद्यमानोयदनन्नमत्ती तिवैवयंब्रह्मचारिन्नेदमुपास्महेदत्तास्मैभिक्षामिति ॥ देवानांनियंता प्रजानामुत्पादकः। कमनीयदंष्ट्रायुक्तः हिरण्यविदा रकदंष्ट्रायुक्तइतिवा । वभसोभक्षणशीलः । असुरसंहारकइतियावत् । अनसूरिरविपश्चिन्नभवतीत्यनसूरिः। विपश्चिदितियावत् । अस्यच- How सू०३३-अधि०९] अपशूद्राधिकरणम् । (२६७) श्रीनृसिंहस्यपरमात्मनः महिमानमहांतमाहुः । यत्स्वयमन्यैरनाश्य- मानः अननं वागादिकमत्ति नाशयति एवंभूतः परमात्मैवसंवर्गः नत्वदुक्तः प्रजापतिरित्यर्थः।अतोवयंनत्वदुक्तप्रजापतिरूपंसंवर्गसुपा- स्महे । अपितुपरमात्मानमेव । अतस्त्वंसंवर्गनयथावज्जानासीत्यु- क्त्वातस्मैभिक्षांप्रयच्छतेतिपरिचारकानाहतुरित्यर्थः । अनेनसंवर्ग- विद्यायाः वायुप्राणशरीरकपरमात्मपरत्वमाविष्कृतंभवतीति ॥ तस्माउहददुः॥ तस्मैब्रह्मचारिणेपरिचारकाभिक्षांददुरित्यर्थः। संवर्गविद्यास्तुत- येतत्संबंधिपदार्थान् कृतायत्वेनविराट्त्वेनान्नत्वेनान्नादित्वेनच- स्तौति ॥ तेवाएतेपंचान्येपंचान्येदशसंतस्तत्कृतम् ॥ अधिदैवतमन्यादित्यचन्द्रजलरूपाःपदार्थाः अपियंतश्चत्वारः अपीयमानोवायुरेकइतिपंचाअध्यात्मवागाद्याअपीयंतश्चत्वारः।अपी यमानःप्राणएकइतिपंच। आहत्यदशत्वसंख्यांप्राप्ताः संतः कृतायतां भजते । कृतसंज्ञकेतस्मिन्नयेचतुरंकायत्र्यंकायव्यंकायैकांकायाना- मनुप्रविष्टतयादशांकत्वमेकस्यद्वयोस्त्रयाणांचतुर्णाचसमावेशेदशत्व संख्यासंभवादितिभावः॥ तस्मात्सर्वासुदिक्ष्वन्नमेवदशकृतम् ॥ तस्माद्धेतोः संवर्गविद्योपास्यंदशत्वसंख्यायुक्ततयाकृतायरूपं- सद् दशसुदिक्षुविद्यमानमन्नमेवभवति । दशाक्षराविराडन्नविराडि- तिश्रुतेः॥ सैषाविराडन्नादी॥ दशत्वसंख्याश्रयत्वादशाक्षरा विराडितिविराट्छंदोभवति । अन्नमत्तीत्यन्नादी । कृतसंज्ञिकेअयेदशसंख्यायाभक्ष्यवदंतर्भूतत्वा (२६८) विषयवाक्यदीपिका। [अध्या०१-पाद३- दशत्वसंख्यायाश्चविराट्त्वाद्विराजश्चान्नत्वादशत्वसंख्यागर्भकृताय- स्थानीयसंवर्गविद्योपास्यानादित्वमप्यस्तीत्यर्थः॥ तयेदश्र्वदृष्टम् ॥ तयाविराजा उपासितया इदंसर्वदशदिग्वर्तिपदार्थजातंदशत्वसं- ख्यासाम्यादृष्टंभवति । उपासितंभवतीत्यर्थः । तदुपासनस्य- फलमाह॥ सर्वमस्येदंदृष्टंभवत्यन्नादोभवतियएवंवेदयएवंवेद ॥ एतदुपासकस्यसार्वज्ञब्रह्मलक्षणान्नानुभवश्वभवतीत्यर्थः । विद्या- समाप्तिद्योतकंद्विवचनम् । व्यासायैस्तु “छन्दोभिधानान्नेति०।१।। २५ ॥” इतिसूत्रेअन्नादितिपाठमाश्रित्यानंचतदत्तिचेत्यनादितिभो- कृत्वभोग्यत्वाश्रयपरमात्मपरतयाव्याख्यातम् ॥ सुषुप्त्युक्रांत्योर्भेदेन । १।३।४३ ॥ नसंख्योपसं- ग्रहादपिनानाभावादतिरेकाच्च । १।४।१०॥संध्ये सृष्टिराहहि।३।२।१॥ प्रतिषेधादितिचेन्नशारीरा- त्।४।२।१२॥ एतद्विषयवाक्यार्थनिर्णयायबृहदारण्यकषष्ठाभ्यायमतवाक्यान्य- त्यंतोपयुक्तानिव्याख्यायते॥ अस्तमितआदित्येयाज्ञवल्क्यचंद्रमस्यस्तमितेशां- तेग्नौशांतायांवाचिकिंज्योतिरेवायंपुरुषइत्यात्मैवास्य ज्योतिर्भवतीत्यात्मनैवायज्योतिषास्तेपल्ययतकर्म- कुरुतेविपल्येतीति॥ स्वप्नेबायेंद्रियाणामुपरतत्वादादित्यादिप्रकाशकाभावाचात्मैव- स्थितिगतिहेतुभूतप्रकाशकोभवतीत्यर्थः । आत्मैवास्यज्योतिरित्य. त्रात्मशब्दनिर्दिश्यमानंपुरुषस्वरूपंकिमितिपृच्छति ॥

ga सू०४३-अधि०१० ] अर्था व्यपदेशाधिकरणम् । (२६९) कतमआत्मति॥ हृत्कमलमध्यगतः प्राणशब्दितेंद्रियमध्यगाविज्ञानधर्मक इत्यु- त्तरमाह॥ योयंविज्ञानमयःप्राणेषुहृद्यंतज्योतिःपुरुषः ॥ अत्रविज्ञानमयइति प्राचुर्यार्थेमयटाऽऽत्मनोज्ञानव्यतिरेकउक्तः। प्राणेष्वितिसप्तमीनिर्देशादिद्रियव्यतिरेकोपि सिद्धः । अत्र ज्योति- श्शब्दितात्मनोविज्ञानमयत्वोक्त्याधर्मभूतज्ञानद्वाराभासकत्वमादि- त्यादीनामिवप्रभाद्वाराज्योतिष्ट्वमितिभावः ॥ ससमानःसन्नुभौलोकावनुसंचरतिध्यायतीवलेलाय तीव ॥ सजीवः अहंकारविमूढात्माकर्ताहमितिमन्यतइत्युक्तरीत्यापराय- त्तकर्तृत्वेपिस्वातंत्र्यलक्षणकर्तृत्वाभिमानयुक्तःसन्लोकद्वयपिसंचर- ति । ध्यायतीव चलतीव ।परतंत्रप्रभौ प्रभुरिवेत्युक्तिवत्परायत्तकर्तृ- त्वाश्रयेध्यायतीवेतीवशब्दप्रयोगेनानुपपत्तिः। ततश्चलोकद्वयसंचा- रध्यानादेर्दैहातिरेकउक्तोभवति॥ ननुस्वप्नेस्वयंज्योतिष्ट्वंकुतोभ्युपगं- तव्यमिन्द्रियाणांप्रकाशकत्वादित्याशंक्याह ॥ सयूत्रप्रस्वपित्यस्यूलोकस्यसवितोमात्रामुपा- दायस्वयंनिहत्यस्वयंनिर्मायस्वेनभासास्वेनज्योतिषा प्रस्वपित्यत्रायंपुरुषःस्वयंज्योतिर्भवति ॥ यदायस्वप्नमनुभवतितदासर्वावतः सर्ववतःभोग्यभोगोपकरणा- दिसर्वयुक्तस्यजगतोमात्रा, मीयतेनेनेति मात्राप्रकाशकेंद्रियवर्गः तमुपादायस्वयमेवमंद्रियवर्गनिहत्यनिश्चेष्टतामापाद्यनिर्व्यापार- कारयित्वास्वयंनिर्मायजीवस्यस्वानपदार्थस्रष्मृत्वमदृष्टद्वाराद्रष्टव्यम् परैरपितथैवोक्तत्वात् ॥ स्वेनभासेत्यस्यैवविवरणस्वेनज्योतिषे- की (२७०) विषयवाक्यदीपिका। [अध्या०१-पाद३- ति । प्रस्वपिति स्वप्नमनुभवतीत्यर्थः । अत्रास्यांदशायांपुरुषःस्वयं- ज्योतिर्भवति प्रकाशकान्तराभावादित्यर्थः। यद्यपिस्वप्नपदार्थभानं धर्मसूतज्ञानेनैवनात्मज्योतिषा । तथाप्यादित्यादिप्रकाशकांतर- स्थानाभिषिक्तआत्मैवेतिभावः । यद्यपिस्वप्नेआदित्यादिज्योति स्मृष्टयभ्युपगमेप्रकाशकांतरव्यतिरेकोनवक्तुंशक्यः तथापिलोकप्र- सिद्धादित्यादिज्योतिरंतराभावाजाग्रदादिवैषम्यमस्तीतिद्रष्टव्यम् । नन्वत्मनवायज्योतिषास्तेकर्मकुरुतेइत्यादिनोपपद्यते । अर्थस्यैवा- भावेनासनकर्मकरणादीनामभावादित्याशंक्याह ।। नतत्ररथानरथयोगानपंथानोभवंत्यथरथान्रथयो- गान्पथःसृजते ॥ युज्यंतइतियोगारथयोगाअश्वादयः। रथरथाश्वमार्गादयःजाग्रह- शानुभवयोग्यानसति । अथतुतत्तत्पुरुषतत्तत्कालमात्रानुभाव्या- नर्थान्परमात्मासृजते ॥ नतत्रानंदामुदःप्रमुदोभवत्यथानंदान्मुदःप्रमुदः- सृजते॥ अनुकूलदर्शनजाप्रीतिरानंदः । स्वकीयत्वबुद्धिजाप्रीतिर्मुत् । विनियोगजन्याप्रीतिः प्रमुत्॥ नतत्रवेशांताः पुष्करिण्यः सवंत्योभवत्यथवेशांता- पुष्करिण्यः स्रवत्यः सृजते॥ वेशंताः पल्बलानिवेिशांताइतिदीर्घश्छांदसः। पुष्करिण्योवाप्यः। खवंत्योनद्यः। पुष्करिणीः स्रवतीः सृजतइत्यर्थः अत्रवाछंदसीतिपूर्व- सवर्णदीर्घाभावः ॥ ननुस्वप्नेहग्यस्मिन्देशेयदारथंपश्यतितदानींतत्र- स्थितोन्यस्तनपश्यतितत्रतस्यान्यत्रनयनचिह्नानिवानाशचिह्नानि- वानोपलभ्यते । अतःकथमीहशीस्वनार्थसृष्टिरुपपद्यतामित्यत्राह ।।

सू०४३-अधि०१० ] अर्था०व्यपदेशाधिकरणम्। (२७१) सहिकर्तेति॥ सकलप्रपंचनाटकसूत्रधारः सर्वेश्वरः खलु तत्रकर्ता सकिंवाकर्तु- नशक्नुयादितिहिशब्दाभिप्रायः॥ तदेतेश्लोकाभवन्ति ॥ सुप्तमधिकृत्यैतेवक्ष्यमाणश्लोकाः प्रवृत्ताइत्यर्थः ॥ स्वप्नेनशारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति शुक्रमादायपुनरेतिस्थानंहिरण्मयः पुरुषएकहसः ॥ स्वप्ननेतीत्थंभावेतृतीया|स्वनेनोपलक्षितस्सन् ।शारीरमभिप्रह- त्यशरीरीनष्टचेतामापाद्य असुप्तः - अलुप्तप्रकाशएवसन्सुप्ताँ- लुप्तप्रकाशान्प्राणानभितश्चाकशीति । कशगतिशब्दयोरित्यस्मा- बङ्लुगंतादिदंरूपम् । पर्यटतीत्यर्थः। शुक्रज्योतिष्मत्प्रकाशकम् । मनआदींद्रियवर्गमादायस्वमातेपुनः स्वस्थानमेति। हिरण्मय प्रका- शमयः। एकहंसः एकएवहतिगच्छतीति एकहंसः॥ प्राणेनरक्षन्नवरंकुलायंबहिष्कुलायादपरश्चरित्वा ॥ सईयते अमृतोयत्रकामंहिरण्मयः पुरुषः एकरहसः॥ अवरंनिकृष्टंस्थूलंशरीरंप्राणेनपंचवृत्तिप्राणेनरक्षन्प्राणस्यापिस्व- जीवेनसहनिर्गमेसद्योमरणमेवस्यात् । अतः प्राणेनशरीरंरक्ष- न्कुलायाजाग्रच्छरीराद् बहिर्निर्गत्ययत्रकामं, काम्यतइतिकाम,यत्र- भोग्यंतत्रसर्वत्रचरित्वा अमृतः अमरणधर्मा हिरण्मयः एकहंसः पुनरपिस्वस्थानमीयतेगच्छतीत्यर्थः। यद्वायत्रकामंतवईयतेगच्छ- तीत्यर्थः॥ स्वप्नांतउच्चावचमीयमानोरूपाणिदेवः कुरुतेबहूनि। उतेवस्त्रीभिःसहमोदमानोजक्षदुतेवापिभयानिपश्यन्॥

(२७२) विषयवाक्यदीपिका। [अध्या०१-पाद३- स्वप्नांतेस्वप्नमध्यइत्यर्थः । अंतशब्दोमध्यवचनः । उच्चावचं पुण्यपापलक्षणमुत्कृष्टापकृष्टंसंगच्छमानोदेवः जीवइत्यर्थः । बहूनिदे वादीनिरूपाणिभजतइत्यर्थः । उतशब्दोप्यर्थः । स्त्रीभिःसहमोदमा- नइवजक्षदिव । जक्षणंभक्षणंहसनंवा । जशभक्षहनयोरितिहिधातुः । भयानिविभेत्येभ्यइति । व्याघ्रादीनिपश्यन्निवापिभवतीत्यर्थः ॥ आराममस्यपश्यंतिनतंपश्यतिकश्चनेति ॥ अस्यजीवस्याराममुपकरणभूतमुद्यानादिकं देहेंद्रियादिकंच सर्वे- पिपश्यति । तदेहेंद्रियादिविविक्तमंतर्बहिस्संचरंतमपिनपश्यंतीति- लोकं प्रत्यनुक्रोशंदर्शयतिश्रुतिः। इतिर्मत्रसमाप्तौ । लोकप्रसिद्धि- रपितथेत्याह॥ तन्नायतंबोधयेदित्याहुर्भिषज्यंहास्मैभवति यमे- षनप्रतिपद्यते ॥ यतएवस्वनइन्द्रियाण्युपत्य जीवोबहिनिर्गच्छति । अतआय- तंगाढंसुप्तम् । यमउपरमे, निष्ठा । अनुदात्तोपदेशेत्यनुनासिकलोपः। तनवाधयेदित्याहुः चिकित्सकाः । तेहितत्रदोषपश्यंतिदुभिषज्यं हास्मैभवतियमेषनप्रतिपद्यते । बहिनिर्गत आत्मायमिंद्रियदेशनप्र- तिपद्यतेोकदाचिध्यत्यासेनेंद्रियाणींद्रियांतरदेशेप्रवेशयेत्।तत्रांध्यवा- धिर्यादिदोषप्राप्तीदुभिषज्यंहास्मैभवतिदुःखेनभिषकर्मास्मैदोषायभ- वति । अयंदोषोदुर्विचिकित्सएवस्यादित्यर्थः ॥ सवाएषएतस्मिन्स्वप्नांतेरत्वाचरित्वादृष्ट्वैवपुण्यंपा- पंचपुनः प्रतिन्यायंप्रतियोन्याद्रवतिबुद्धांतायैव ॥ स्वप्नतिस्वप्नस्थानइत्यर्थः। अन्तशब्दःस्थानवचनः।"अंतःसमाप्तौ- स्थानेचनिर्णयेभ्यंतरेपिचेतिनघण्टुकाः।बुद्धांतोबोधस्थानजागरण- मितियावत् । स्वमस्थानेक्रीडित्वाचरित्वापुण्यपापफलमनुभूयपश्चा सू०४३-अधि०१० ] अर्था व्यपदेशाधिकरणम् । (२७३) द्यथान्यायंयथागतम् । अयनमाय गमनम्। योनिशब्दःस्थानवचनः। स्वप्नस्थानाद्यथागतंजाग्रत्स्थानमागच्छतीत्यर्थः॥ तद्यथामहामत्स्यउभेकूलेअनुसंचरतिपूर्वचापरंच एवमेवायंपुरुषएतावुभावंतावनुसंचरतिस्वप्नांतंचबु- द्धांतंच॥ कूलद्वयसंचारिमत्स्यवजाग्रत्स्वप्नस्थानसंचरणशीलोभवतीत्य- र्थः। एवंस्थानद्वयसंचारंप्रदयसुषुप्तिदशांप्रकाशयति । तद्यथास्मिन्नाकाशेश्येनोवासुपर्णोवाविपरिपत्यश्री- तः संहत्यपक्षौसल्लयायैवध्रियतेएवमेवायंपुरुषएतस्मा अंतायधावतियत्रसुप्तोनकंचनकामकामयतेनकंचन- स्वप्नंपश्यति॥ यथाआकाशेश्येनोवागरुडोवाविशेषणविपरिपत्यपतनंकृत्वाश्रां- तः सन्पक्षौसंहत्य । लोयतेऽस्मिन्पक्षीनिलयः नीडः । समीचीननी- डायैवधियतेअवविष्ठते । धृङ्अवस्थानइतिधातुः । एवमेवायंपुरुषः बुद्धांतस्वप्नांतसंचरणश्रांतोयत्रस्थानेसुप्तः न कामायुपगतः स्वमां- श्चान्याम्पदार्थाश्चनपश्यतितादृशायपूर्वोक्तस्थानद्वयकालुष्यरहितसु प्तिस्थानायधावतोत्यर्थः ॥ ननुक्वचित्स्वानादिदर्शनंक्वचित्तदभाव- इत्यत्रकिंविनिगमकमित्याशंकायांस्थानवैषम्यकृतमित्याह ॥ तावाअस्यैता हितानाम नाड्योयथाकेशः सहस्रधा भिन्नस्तावताणिम्नातिष्ठतिशुक्लस्यनीलस्यपिंगलस्यह- रितस्यलोहितस्यपूर्णाः अथयत्रैनंनंतीवजिनंतीवह- स्तीवविच्छाययतिगर्तमिवपतति ॥ यत्रस्थितमेनकेचननंतोवजिनंतीवजयंतीवगजोविद्रावयतीवगर्त- -- १८ (२७४) विषयवाक्यदोपिका। [अध्या०१-पाद३- मिवपतननिमित्तंभाति।ताः केशसहस्रांशसूक्ष्मानानारूपानरसपूर्णा- हितानामिकानाड्योभवंतीत्यर्थः ।। यदेवजाग्रद्भयंपश्यतितदत्राविद्ययामन्यते ॥ यद्यजाग्रहशायांभयसाधनंपश्यति तत्सर्वमासुनाडीष्वविद्य- याकर्मवशान्मन्यतेप्रत्येतीत्यर्थः । हितानामकस्वप्नवहनाडीस्थि- तस्यकर्मसंबंधसत्त्वात् । भीषणस्वानपदार्थप्रतिभानंसंभवती- तिभावः॥ अथयत्रदेवइवराजेवाहमेवेदंसर्वोस्मीतिमन्यतेसो- स्यपरमोलोकः॥ सयथाकुमारोवामहाराजोवामहाब्राह्मणोवाअतिसीमानंदस्यगत्वा- शयीतवमेवैषएतच्छेतेइतिवालाकिब्राह्मणोक्तरीत्यायत्रस्थानेस्थित- स्यदेववद्राजवच्चानंदानुभवः स्वव्यतिरिक्तानुकूलप्रतिकूलवस्त्वनुप लम्भः सोस्यजीवस्यपरमोलोकः मुख्याश्रयः। परत्मात्मेतिभावः ।। तद्वाअस्यैतदतिच्छन्दाअपहतपाप्माभयंरूपम् ॥ तदेतत् । अस्यातिच्छंदाः । छंदश्शब्दइच्छावाची अतिच्छंद- मभिलाषातिगम् । अपहतपाप्म पापप्रतिभटम् । अभयंप्रियं प्राप्यं- रूपं परमात्मैवेत्यर्थः। ततः किमित्यत्राह ॥ तद्यथा प्रिययास्त्रिया संपरिष्वक्तोनबाह्यं किंचन- वेद नांतरमेवमेवायंपुरुषः प्राज्ञेनात्मनासंपरिष्वक्तो न बाह्यकिंचन वेद नांतरम् ॥ यथाप्रियस्त्रीपरिष्वक्तस्यांतरदुःखादिपदार्थज्ञानंबाह्यपदार्थज्ञानं वानास्ति एवं परमप्रियेण प्राज्ञेनपरमात्मनापरिष्वक्तस्यवाह्याभ्यं- तरज्ञानाभावउपपद्यते । अत्रचपरिष्वंगोनामलयएव । “स्वाप्य- सू०४३-अधि०१०] अर्थी व्यपदेशाधिकरणम् । (२७५) यात् । ११०॥” इतिसूत्रेस्वमपीतोभवतीति भाष्ये वाक्यसमा- नार्थतयैतद्वाक्यस्योदाहत्वात् । अथवाजाग्रत्स्वप्नभोगप्रदकर्मसंव- न्धविरोधिपरिष्वंगः संबंधविशेषः सुषुप्तिमात्रकालवर्तीतिद्रष्टव्यम् ॥ तद्वा अस्यै तदाप्तकाममात्मकाममकामरूपं- शोकांतरम् ॥ तदेवप्राज्ञात्मलक्षणमवाप्तसमस्तकाममात्मव्यतिरिक्तकामना- शून्यम् शोकांतरं शोकबाह्यम् । अंतरशब्दो बहिर्योगवचनः। प्राप्यं रूपमित्यर्थः॥ अत्रपिताऽपिताभवति माताऽमाता ॥ अत्रपरमात्मनि सुषुप्तिस्थानेलोनस्य पित्रादयोनसंति । तद्रूपस्य शरीरसंबंधघटककर्मसंबंधशून्यतया अशरीरस्यजनकाभावेन पि- वादेरभावादितिभावः॥ लोकाअलोकाः॥ तस्याश्रयशून्यत्वादितिभावः॥ देवाअदेवाः॥ अनुग्राहकशून्यत्वादितिभावः॥ वेदाअवेदाः॥ अननुशासनीयस्वरूपत्वादितिभावः ।। अत्रस्तेनोऽस्तेनोभवति भ्रूणहाऽभूणहा चंडालोऽचं- डालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणः तापसो ऽतापसः॥ परिशुद्धात्मस्वरूपेस्तेयादिकर्तृत्वायसंभवादितिभावः । अत्र हेतुमाह ॥ अनन्वागतंपुण्येनानन्वागतंपापेन ॥

(२७६) विषयवाक्यदीपिका। [अध्या०१-पाद३- शरीरसंबंधघटकपुण्यपापासंस्पर्शनादिति भावः । ननुचरम- देहवियोगानंतरभावित्वात्सर्वकर्मप्रहाणस्य कथं सुषुप्तौकर्मसंबंधा- भावइत्याशंक्याह॥ तीर्णोहितदासर्वाश्लोकान्हृदयस्यभवति ॥ मनस्तापरूपफलाभावाद्विद्यमानानामपिकर्मणां फलप्रदानाभि मुख्याभावात् । कर्मणामसंबद्धप्रायत्वात् । शरीरसंबंधाभावेन तद- नुबन्धिमातापित्रादयोनसंतीत्यर्थः । ज्ञातृस्वरूपस्यसुषुप्तस्यात्मनो बाह्याभ्यंतरज्ञानाभावः किंनिबंधनइत्याशंक्याह ॥ यदैतन्नपश्यति पश्यन्वतन्त्रपश्यति नहिद्रष्टुर्दृष्टे विपरिलोपो विद्यते अविनाशित्वान्नतुतद्वितीयमस्ति- ततोन्यद्विभक्तंयत्पश्येत्॥ द्वैतबाह्यमाभ्यंतरं वा स्वातिरिक्तं वस्तुसुषुप्तौ जीवोनपश्यती तियत् ।तत् पश्यन् वैनपश्यति । वैशब्दएवार्थः। पश्यतः दर्शनयो- ग्यज्ञानवतएवबाह्यांतरादर्शनमित्यर्थः । नन्वपश्यतः कथंपश्यत्त्व- मित्यत्राहानहिद्रष्टुर्दष्टेविपरिलोपोविद्यते अविनाशित्वादिति । ज्ञातु धर्मभूतज्ञानस्य नित्यत्वाद्विनाशोनास्तीत्यर्थः । तर्हिसुषुप्तौकथम दर्शनमितितत्राह । नतुतद्वितोयमस्तिततोन्यद्विभक्तंयत्पश्येदिति । अयमर्थः । ज्ञानस्वरूपाभावनिबंधनोबाह्यांतरद्वितोयज्ञानाभावोन भवति । अपितु ततोविभक्तस्यप्राज्ञात्मनः पृथसिद्धस्यान्यस्य- बाह्यांतररूपद्वितीयवस्तुनोभावादेवानुकूलप्रतिकूलपदार्थादर्शनमि- त्यर्थः । नचपृथक् सिद्धपदार्थाभावस्यजायत्स्वप्नयोरपिसमत्वा- त् । तत्रैवसुषुप्तावप्यविद्यमान पृथक्तिद्धपदार्थानुभवोस्त्वितिशं- क्यम् । तत्रकर्मरूपदोषवशात्पृथक्सिद्धपदार्थोपलंभसंभवात्सुषुप्ते कर्मदोषस्याकार्यकरत्वेनासंबद्धप्रायत्वस्योपपादितत्वाच्च । नचतही सू०४३-अधि०१० ] अर्था०व्यपदेशाधिकरणम् । (२७७) पृथकसिद्धतयाब्रह्मात्मकत्वेनैवविषयाणामुपलंभोस्त्वितिशंक्यम् । एतंब्रह्मलोकनविंदत्यनृतेनहिप्रत्यूढा इति छांदोग्योक्तरीत्या अनृत शब्दितकर्मविशेषेणजीवधर्मभूतज्ञानस्यतिरोहिततया ब्रह्मणउपलं भासंभवेन ब्रह्मात्मकतयाप्युपलंभासंभवाद् ब्रह्मात्मकत्वाब्रह्मात्म- कत्वोभयवहिर्भूतपदार्थस्याभावादितिभावः ।। सलिलएकोद्रष्टाऽद्वैतोभवति एपब्रह्मलोकःसम्राडि- तिहैनमनुशशासयाज्ञवल्क्यः ॥ यथाजलेजलंप्रक्षिप्तमेकंभवत्येवं सलिलवत्स्वच्छस्वभावेपर- मात्मनिलीनोयंद्रष्टाजीवः प्राज्ञात्मपरिष्वंगवशेनैकीभूतःसन्नद्वैतोभव ति।देवादिलक्षणभेदकाकारशून्योभवतीत्येषब्रह्मलोकएषसुषुत्याधा- रभूतपरमात्मा ह सम्राडितियाज्ञवल्क्योनुशिष्टवानित्यर्थः । ननुक- थंसुषुप्त्याधारस्यब्रह्मलोकत्वंब्रह्मलोकोहिपरमगतित्वादिनाश्रूयतइ- त्यत्राह॥ एषास्यपरमागतिः॥ जीवस्याचिरादिगत्याप्राप्यागतिरेषैव ।। एषास्यपरमासंपत्॥ तत्त्वज्ञानादिनाप्राप्यापिसंपदेषैव ॥ एषोस्यपरमोलोकः॥ शाश्वतंभोगस्थानमप्येषएव ॥ एषोस्यपरमआनन्दः॥ निरतिशयानुकूलोप्यस्यायमेवेत्यर्थः। ननुस्वर्गादिषुभोगेष्वनु- कूलेषुजाग्रत्सुकथमेतस्यपरमानंदत्वमित्यत्राह ।। एतस्यैवानंदस्यान्यानिभूतानिमात्रामुपजीवंति ॥

- (२७८) विषयवाक्यदीपिका। [अध्या०१-पाद३- स्वर्गादिवैषयिकसुखानुभवितारः सर्वेप्येतदानंदसहस्रांशानुभवि- तारइत्यर्थः । एतस्यपरलोकसंचरणप्रकारमाह ॥ तद्यथानस्सुसमाहितमुत्सर्जद्यायादेवमेवाय शारी रआत्माप्राज्ञेनात्मनान्वारूढउत्सर्जन्या (द्या)ति ॥ यथाअनश्शकटंसुतरांसमाहितंयात्रोपकरणसंभाराक्रांतसत्पूर्वदे- समुत्सृज्ययाति । एवमेवशकटस्थानीयोजीव:प्राज्ञेनपरमात्मनासा- रथिस्थानीयेनसंबन्धविशेषप्राप्तःशरीरमुत्सृज्ययाति । कदेत्यत्राह ॥ यतध्वोच्छासिभवति॥ यदाएतच्छरीरमाच्छासिभवतीत्यर्थः॥ तद्यथाराजानंप्रयियासंतंउग्राःप्रत्येनसःसूतग्राम- ण्योभिसमायंत्येवमेवेममात्मानमंतकालेसर्वेप्राणाअ- भिसमायंतियत्रैतदूर्वोच्छासिभवति ॥ यथाजिगमिधुराजानंतदुपजीविनःसर्वेतदाज्ञामंतरेणाभिमुख्येना- यांति । एवमेवेममात्मानंभोक्तारमूर्ध्वश्वासकालेसर्वेप्राणाआत्मनःस- मीपमायांतीत्यर्थः॥ सएतास्तेजोमात्रास्समभ्याददानोहृदयमेवान्वव- कामति॥ स आत्मातेजोमय्योमात्रास्तेजोमात्रा प्रकाशकांशाइत्यर्थः। इंद्रि- याणीतियावत् । ताएताःसमभ्याददानःसमितिस्वप्नापेक्षयावैषम्यमु- च्यते । अस्त्येवस्वप्नेअभ्यादानं नतुसम्यक् । सवासनमभ्यादाये- त्यर्थः। हृदयमेवपुंडरीकाकारमन्वाक्रामति अन्वागछति ॥ तस्यहैतस्यहृदयस्याग्रंप्रद्योतते तेनप्रद्योतेनैषआत्मा निष्कामतिचक्षुषोवामूोवाअन्येभ्योवाशरीरदेशेभ्यः। तस्यहैतस्यम्रियमाणस्यसंबंधि यत् हृदयस्यायनाडीमुखा- सू०४३-अधि०१० ] अर्थी व्यपदेशाधिकरणम्। (२७९) निर्गमनद्वारंप्रद्योततेउपसंहृतकरणतेजःप्रज्वलितंसत्प्रदीप्तंभवति । तत्प्रकाशितद्वारःसन्नेष आत्मानिष्कामतिचक्षुरादिद्वारेभ्यः ॥ तमुत्क्रामन्तंप्राणोनूत्क्रामतिप्राणमनूत्क्रामंतंसर्वेप्रा णाअनूकामन्ति ॥ उक्रामंतमध्यक्षंजीवंमुख्यप्राणोनूकामतितंमुख्यप्राणंजोवं तदधी- नाइतरेप्राणाअनूकामंतीत्यर्थः॥ सविज्ञानोभवतिसविज्ञानमेवान्ववक्रामति ॥ तस्यांदशायामुक्रामन्जीवः यंयंवापिस्मरनित्युक्तन्यायेनप्रा- प्तव्ययोनिविषयकस्मृतिमान्भवतीत्यर्थः । तच्चज्ञानकर्माधीनंनतु- पुरुषयत्नसाध्यम् । यंयोगिनः प्राणवियोगकालेयत्नेनचित्तेविनि- वेशयंतीत्युक्तरीत्यायोगिनामेवहि चरमं ज्ञानंयत्नसाध्यम् । एवंस- विज्ञानमेवपुरुषप्राणवर्गोनुगच्छतीत्यर्थः॥ तंविद्याकर्मणीसमन्वारभेतेपूर्वप्रज्ञाच ॥ तंतादृशंचपुरुषसंसरंतं विद्याकर्मपूर्ववासनाचानुवर्तते । नहिपूर्व- वासनांविनाकश्चित्कर्तभोक्तुंवाप्रभवति । नानभ्यस्तेविषयेकौशल- मिन्द्रियाणांभवति । पूर्वानुभववासनयाप्रवृत्तानामिद्रियाणामिहज- न्मन्यभ्यासमंतरेणैवकासुचिक्रियासुचित्रकर्मादिलक्षणासुकौशलंह- श्यते । केषांचिच्चात्यंतसौकर्ययुक्तास्वपिक्रियास्वकौशलंदृश्यते । तदेतत्सर्वपूर्ववासनोद्भवानुभवनिमित्तकम् । तस्माद्विद्याकर्मपूर्व- वासनालक्षणमेतत्रितयंशाकटिकसंभारस्थानीयंपरलोकपाथेयमि- त्यर्थः॥ तद्यथातृणजलकातॄणस्यांतंगत्वान्यमाक्रममाक्र- म्यात्मानमुपस हरत्येवमेवायमात्मेद शरीरंनिहत्या HERA (२८०) विषयवाक्यदीपिका। [अध्या०१-पाद३- विद्यांगमयित्वान्यमाक्रममाक्रम्यात्मानमुपसहरति यथातृणजलूकातृणस्याग्रभागंगत्वान्यतृणांतरलक्षणम् । आक- म्यतेइत्याक्रमः आश्रयइतियावत् । तमाश्रित्यात्मनोऽपरावयवमुप- संहरति । एवमेवायं संसरन्जीवः प्राक्तनंशरीरंनिहत्य । तस्यैवविवर- णम्।अविद्यांगमयित्वानिःसंबोधतामापाय । अन्यंशरीरलक्षणमाक्र- ममाक्रम्यस्वात्मानंपूर्वस्माच्छरीरादुपसंहरति । ननुदेहांतरारंभेप्रा- गुपात्तमेवोपादानस्वीकृत्यतदेवोपमृद्यस्वर्णकारवदेहांतरंकरोति । आहोस्विदपूर्वमेवोपादानद्रव्यंस्वीकरोतितत्राह ॥ तद्यथापेशस्कारीपेशसोमात्रामुपादायान्यन्नवतरंक ल्याणतररूपंकुरुते एवमेवायमात्मेद शरीरंनिह- त्याविद्यागमयित्वान्यन्नवतरकल्याणतरंरूपंकुरुते- पित्र्यंवागांधर्ववादैवंवाप्राजापत्यवाब्राह्मवान्येषांवाभू तानाम् ॥ पेशः सुवर्णतत्करोतीतिपेशस्कारीसुवर्णकारः पेशसः सुवर्णस्य- मात्रामेकदेशमुपादाययथान्यत्कल्याणतररूपंकुरुते । यद्वा पेशस्का रीकोशकारकृमिःसयथापेशसः पट्टतंतोः मात्रामंशमुपादायनवतरं- कल्याणतरंजालंकुरुते।एवमेवायमात्माइदंशरीरंनिहत्यान्यद्रूपंकुरुते पित्र्यंवागांधर्ववा। पित्र्यंपितृभ्योहितंपितृलोकोपभोगोपयोग्यमित्य- थः। तथागांधर्व दैवंप्राजापत्यंब्राह्मम् । गंधर्वादिलोकोपभोगयोग्य- मित्यर्थः । अन्येषांवाभूतानांसंबंधिशरीरंकरोतीत्यर्थः । कर्तृत्वं- चास्यकर्मद्वारकंद्रष्टव्यम् ॥ प्राप्यांतंकर्मणस्तस्य यत्किचेहकरोत्ययम् । तस्माल्लोकात्पुनरेत्यस्मैलोकायकर्मणइतितुकामय- मानः॥

सू०४३-अधि०१० ] अर्था व्यपदेशाधिकरणम्। (२८१) इहलोकेफलमुद्दिश्ययत्किचित्कर्मकरोतितस्यकर्मणोंतंभोगेना- वसानंप्राप्यकृत्स्नफलंभुक्त्वेतियावत् । तस्माल्लोकादस्मैलोकाय- पुनरेति।किमर्थमित्यत्राह । कर्मणइति।कर्मकर्तुमित्यर्थः । इतितुका- मयमानः। एवंकामयमानः संसरतीत्यर्थः । एवमविद्वद्विषयं संसार- सप्रपंचमुपवर्ण्यविदुषस्तद्वैलक्षण्यंदर्शयति । अथाकामयमानः योकामोनिष्कामआप्तकामआ- त्मकामः नतस्यप्राणाउकामंतिब्रह्मैवसन्ब्रह्माप्येति ॥ अथशब्दअर्थान्तरपरिग्रहे । अकामयमानः वीतरागअत्र उच्यत- इतिशेषः । यः अकामः कामशून्यः । कथंकामशून्यतेत्यत्राह । नि- कामइति । निर्गताः कामाः यस्मात्स तथोक्तः। पूर्वस्थितानांका- मानांनिर्गतत्वादकामत्वमुपपद्यतइतिभावः। उत्तरकामानांसत्त्वेनिवृ- तपूर्वकामस्यापि कथमकामत्वमित्यत्राह । आप्तकामइति ॥ आप्तः कामोयेनसः तथोक्तः । कथमाप्तकामत्वमित्यत्राह । आत्मकामइ- ति । आत्मैवकामोयस्यसःतथोक्तः। आत्मव्यतिरिक्तस्यकाम्यस्य- वस्तुनः अभावात् आत्मरूपकाम्यस्यनित्यसिद्धत्वादाप्तकामत्वम् । अतएवाकामत्वंचेत्यर्थः । एतादृशस्तुब्रह्मैवसन्ब्रह्माप्येतीतियोजना। ब्रह्मैवसन् आविर्भूतगुणाष्टकरूपब्राह्मस्वरूपः सन् परब्रह्मणिलीनोभ- वति । अपिपूर्वस्यएतेलंयार्थकत्वात् । लयोनामतद्विविक्ततयादर्श- नाभावः । अपहतपाप्मत्वादिब्राह्मरूपसाधयेणपरब्रह्मविविक्ततया- दर्शनायोग्योभवतीत्यर्थः। नन्वतन्नसंभवति । ब्राह्मरूपाविर्भावोहिप- रब्रह्मोपासीनस्यैवभवति । परंज्योतिरुपसंपद्यस्वेनरूपेणाभिनिष्प- यतइतिश्रवणात् । देशविशेषविशिष्टब्रह्मप्राप्तिश्चदेशविशेषेऽचिरा- दिमार्गगतिमंतरेणनसंभवति । तद्गतिश्चभूतसूक्ष्मयुक्तप्राणादियु- तस्यैवभवति । तद्योगश्वकर्माधीनः। विधूतकर्मणश्चोत्क्रांतप्राणतया M RANICHANE (२८२) विषयवाक्यदीपिका। [अध्या०१-पाद३- देहेंद्रियप्राणयोगासंभवेनदेशविशेषविशिष्टब्रह्मप्राप्त्यसंभवात् । ब्राह्म रूपाविर्भावाभावेनब्रह्मैवसन्ब्रह्माप्येतीतिनोपपद्यतइत्याशंक्याह ॥ नतस्यप्राणाउत्क्रामंति॥ तस्मादकामत्वाद्युक्तगुणाज्जीवात्प्राणानोकामंतीत्यर्थः। नटस्य- शृणोतीतिवदपादानलक्षणसंबन्धेषष्ठी । अतएवसमानप्रकरणेमाध्यं- दिनशाखायांनतस्मात्प्राणाउकामन्तीतिस्पष्टपंचमीश्रूयते ॥ तदेषश्लोकोभवति ॥ तत्तत्रब्रह्मविदिविषयेएषश्लोकः प्रवृत्तोभवतीत्यर्थः ॥ यदासर्वेप्रमुच्यतेकामायेस्यहृदिश्रिताः । अथ मोमृतीभवत्यत्रब्रह्मसमश्नुत इति ॥ कामादुर्विषयगोचरमनोरथाः हृद्तायदाशांताभवंति तदनंतर- मेवोपासकोमयोऽमृतोभवति । विनष्टाश्लिष्टपूर्वोत्तरापोभवति । अत्र ब्रह्मसमश्नुते । अत्रैवोपासनवेलायांब्रह्मानुभवतीत्यर्थः॥ आत्मानंचेद्विजानीयादयमस्मीतिपुरुषः । किमि- च्छन्कस्यकामायशरीरमनुसंज्वरेत् ॥ यद्ययंपुरुषःस्वात्मानमेतादृशोहमस्मिदेहेंद्रियमन प्राणधीविल- क्षणब्रह्मात्मकोहमस्मीतिविजानीयात्तदादेहेंद्रियोपभोग्यषुलोका- दिषुस्पृहाया अभावात्स्वबंधुभूतभार्यापुत्रादेरप्यभावाचस्वस्यकि वाफलमिच्छन्वास्वानुबंधिनः कस्याभीष्टायवाशरीरमनुसंज्वरेत् शरीरानुबंधिफलमनुसृत्यकुतस्तप्यतेत्यर्थः । अतोसौकृतकृत्यएवे- त्यर्थः । पुनरपिस्तौति ॥ यस्यानुवित्तःप्रतिबुद्धआत्माअस्मिन्सदेहेगहनेप्र- विष्टः। सविश्वकृत्सहिसर्वस्यकर्तातस्यलोकस्सउलो- कएव॥

सू०४३-अधि०१० ] अर्थाव्यपदेशाधिकरणम्। (२८३) गहनेविषयेअनर्थसंकटेअस्मिन्देहेसंप्रविष्टोमननाभ्यासेनावगतः- प्रतिबुद्धाध्यातश्चेत्यर्थः। सविश्वकृत्सएवलोककर्ताईश्वरवद्वंद्यइति- यावत् । तत्रहेतुमाह । सहिसर्वस्यकर्तातस्यलोकःसउलोकएव । लोकआश्रयभूतःसर्वस्यकर्तायईश्वरस्तस्यापिसब्रह्मविल्लोकएव आ- धारएव । ज्ञानीत्वात्मैवमेमतमितिभगवतैवगोतत्वाद्भगवतोज्ञानिनं- विनाआत्मसत्तायाअभावादितिभावः । उशब्दःप्रसिद्धौ ॥ इहैवसंतोथविद्मस्तद्वयंनचेदवदिमहतीविनष्टिः॥ इहैववर्तमानाक्यंतद्ब्रह्मविद्मःजानीमः।नचेजानीमस्तीवेदिःवेिदनं वेदिः। इन्सर्वधातुभ्यइतिइन्प्रत्ययः । नःस्वरार्थः । अवेदिरज्ञानम् । तदेवमहतीविनष्टिःमहाहानिरित्यर्थः । ज्ञानाज्ञानयोरेवमहालाभहा- नित्वंदर्शयति ॥ यएतद्विदुरमृतास्तेभवत्यथेतरेदुःखमेवापियंति ॥ स्पष्टोर्थः । तज्ज्ञानस्यमहाफलत्वमेवाह ॥ यदैतमनुपश्यत्यात्मानंदेवमंजसा।ईशानभूतभव्य स्यनततोविजुगुप्सते ॥ यदाभूतभव्येशितारंद्योतमानसर्वभूतात्मानंपश्यतितदासर्वस्या- प्येकात्मकत्वज्ञानात् सर्ववस्तुषुनिन्दानप्रवर्ततइत्यर्थः ॥ यस्मादक्सिंवत्सरोअहोभिःपरिवर्तते ॥ यस्माद्भूतभव्येशानात्परमात्मनः अक्तिदन्यविषयएवेति- यावत् कालात्मासंवत्सरःस्वावयवैरहोभिःपरिवर्ततेपरिच्छेदकत्वेन- वर्तते । य आत्मासंवत्सरमासादिलक्षणकालपरिच्छेदातीतइत्यर्थः।। तंदेवाज्योतिषांज्योतिरायुर्योपासतेऽमृतम् ॥ ज्योतिषांज्योतिः प्रकाशकानांप्रकाशकम् । अमृतंकालापरिच्छि- नम् । आयुः सर्वप्राणिप्राणनहेतुभूतम् । तंहदेवाउपासते। देवोपास्य- (२८४) विषयवाक्यदीपिका। [अध्या०१-पाद३- त्वंतुतस्यैवेत्यर्थः । उक्तंचव्यासायः । “ज्योतिषि भावाच । १।३। ३२॥” इतिसूत्रेदेवाएवज्योतिरुपासते देवाज्योतिरेवोपासतइतिवा- वाक्यभंगीस्यात् । तत्रनप्रथमः कल्पोयुज्यते । मनुष्याणामनधि- कारप्रसंगात् । तस्माज्ज्योतिरेवोपास्यमित्यर्थः॥ यस्मिन्पंचपंचजनाआकाशश्चप्रतिष्ठितः । पंचजनसंज्ञा पंचआकाशश्चयत्रप्रतिष्टितइत्यर्थः । अत्राकाशश- ब्दोभूतांतरस्याप्युपलक्षकः। पूर्वस्मिन्मंत्रज्योतिषांज्योतिरितिषष्ठयं तज्योतिःशब्दस्यार्थनिर्णायकसापेक्षत्वात् । पंचजनशब्दस्याप्यर्थ- निर्णायकांतरसापेक्षत्वात्पंचत्वसंख्यान्वययोग्यानिज्योतीषीन्द्रिया- ण्येवेत्यवसीयंते । उक्तं च व्यासायैः । श्रुत्यैवपंचसंख्ययाविशेषि- तत्वात् । पंचसंख्यज्योतिरंतरप्रसिद्धयभावाच्चपरिशेषेणोद्रियत्वाव गमइति ॥ तमेवमन्यआत्मानं विद्वान्ब्रह्मामृतोऽमृतम् ॥ तादृशमात्मानममृतं ब्रह्मेत्येवं विद्वानन्योप्यमृतोभवतीत्यर्थः । पंचजनशब्दनिर्दिष्टानि ज्योतीषिकानीत्यपेक्षायामाह ॥ प्राणस्यप्राणमुतचक्षुषश्चक्षुः उतश्रोत्रस्यश्रोत्रम् । मनसोयेमनोविदुस्तेनिश्चिक्युः ब्रह्मपुराणमग्र्यम् ॥ प्राणशब्देनस्पर्शनेन्द्रियंगृह्यते । वाय्वाप्यायितत्वात् स्पर्शनें- न्द्रियस्य । मुख्यप्राणस्यज्योतिःशब्देनप्रदर्शनायोगात् । चक्षुष इतिचक्षुरिन्द्रियं गृह्यते । श्रोत्रस्येतिश्रोत्रंद्रियम् । मनसइतिमनो- गृह्यते । समानप्रकरणेमाध्यंदिनशाखायां अन्नस्यानमितिपाठा- दनुक्तमन्यतोग्राह्यमितिन्यायेनतदपिगृह्यते । सूत्रितंच । “ज्योति पैकेषामसत्यने । १।४।१३ ॥ इति । अनशब्देनचा- नसबंधिनोोणरसनयोर्ग्रहणम् । अनेनघ्राणस्याप्यायितत्वलक्षणः सू०४३-अधि०१० ] अर्था०व्यपदेशाधिकरणम् । (२८५) संबन्धः । रसनस्यानभक्षकतयासंबंधइतिद्वयोरपिग्रहणम् । एतत्सर्व भाष्यश्रुतप्रकाशिकयोःस्पष्टम् । एतादृशंयेजानंतितेपुराणमय्यपरं ब्रह्मनिश्चिक्युः। निश्चितवंतइत्यर्थः । तज्ज्ञानेसाधनमाह ॥ मनसैवानुद्रष्टव्यम् ॥ अनु पश्चात् श्रवणमननानंतरंशुद्धेन मनसैवदर्शनसमानाकार स्मृतिसंततिरूपंध्यानसंपाद्यमित्यर्थः । एकस्यात्मनः पंचजनाका- शाद्याधारत्वंनसंभवतीतिमन्यमानंप्रत्याह । नेहनानास्तिकिंचन ॥ इहद्रष्टव्येब्रह्मणि । नानाशब्दोभावप्रधानः । नानात्वमित्यर्थः । इहयस्मिन्पंचपंचजनाइतिपूर्वमंत्रनिर्दिष्टे आत्मनि किंचिदपिना- नात्वनास्ति भेदलेशोपिनास्तीत्यर्थः ॥ मृत्योः समृत्युमाप्नोतियइहनानेवपश्यति ॥ इवशब्दोऽल्पार्थः । इहात्मनिनिखिलप्रपंचाधारत्वासंभवबु- याऽल्पमपिनानात्वंयः पश्यतिससंसारात्संसारमाप्नोति । अत्यंत संसारमाप्नोतीत्यर्थः॥ एकधैवानुद्रष्टव्यम् एतदप्रमेयंध्रुवम् ॥ अप्रमेयमपरिच्छेद्यं सर्वभूतात्मभूतं ब्रह्मएकत्वेनैवद्रष्टव्यमित्यर्थः व्यासायैस्तु । एकधैवानुद्रष्टव्यम् । केषांचित्स्वनिष्ठत्वं ब्रह्मान्यपरतं त्रत्वंवानमंतव्यम् । अपितुपरमात्मपरतंत्रतयकरूपमेवद्रष्टव्यमि- त्यर्थइत्युक्तम् । नेहनानास्तिकिंचनेत्यत्रापि अब्रह्मात्मकनानात्वंनि- षिद्धयतइत्यप्युक्तम् । तदप्यविरुद्धमेव । एकार्थपर्यवसायित्वाद्दयो रपीतिद्रष्टव्यम् ॥ विरजःपरआकाशादजआत्मामहान्ध्रुवः । तमेव धीरोविज्ञायप्रज्ञांकुर्वीतब्राह्मणः॥

- - (२८६) विषयवाक्यदीपिका। [अध्या०१-पाद३- विरजः रागादिदोषरहितः। आकाशादपिपरः कारणभूतः। ध्रुवः स्थिरः । अनाशीत्यर्थः । अजः उत्पत्तिरहितः । एवंभूतोमहानात्मा। तादृशमात्मानंधीरः प्रज्ञाशाली विज्ञाय श्रवणमननाभ्यांज्ञात्वा प्रज्ञां निदिध्यासनंकुर्वीतेत्यर्थः । अत्रब्राह्मणग्रहणंद्विजातेरुपलक्षण- म् । यद्वा ब्रह्माधीतइतिब्राह्मणः । अधीतवेदइत्यर्थः ।। नानुध्यायाहूञ्छब्दान्वाचोविग्लापनंहितदिति। बहू छब्दान्ब्रह्मगुणानुवर्णनरहितानानुध्यायात् नचिंतयेदित्य- र्थः। तत्रप्रयोजनंब्रह्मविदोनास्तीत्यत्रहेतुमाह । तदिति।तत् अब्रह्म- गुणवर्णनशब्दानुध्यानादिकंवाचोविग्लापनंग्लानिसाधनंश्रमजनक- मित्यर्थः । इतिर्मत्रसमाप्तौ ॥ सवाएषमहानज आत्मायोयंविज्ञानमयः प्राणेषुय- एषोंतर्हदयआकाशस्तस्मिञ्छेते ॥ प्रानिर्दिष्टः अजआत्मामहान्ध्रुवइतियोयंनिर्दिष्टआत्मायोयवि- ज्ञानमयः प्राणेषुहृद्यन्तज्योतिरितिनिर्दिष्टेजीवात्मनिशेते तदंतरात्म तयावर्ततइत्यर्थः । अतएवोत्तरत्रात्मन्येवात्मानंपश्यतीतिवक्ष्यति । अत्रहृद्यंतरित्यस्यव्याख्यानंयएषांतर्हदयइति । ज्योतिरित्यस्यव्या- ख्यानमाकाशइति । ज्योतिराकाशशब्दयोः प्रकाशकत्वार्थक- त्वात् । अतश्चात्राकाशशब्दोजीवपरएव ॥ ननु “कामादीतरत्र- तत्रचायतनादिभ्यः । ३।३।३८॥” इत्यधिकरणेवाजसनेयकेतु आकाशेशयानस्यवशित्वादिश्रवणात् परमात्मत्वेसतितदाधाराभि- धायिनआकाशशब्दस्यतम्यांतेसुषिरसूक्ष्ममितिहृदयांतर्गतस्यसु षिरशब्दवाच्याकाशस्याभिधायकत्वमवगम्यतइतिभाष्ये श्रुतप्र- काशिकायाञ्चाकाशशब्दस्यभूताकाशपरत्वं समर्थितमिवप्रतीयते । अतस्तद्विरुद्धमिदमितिचेत् मैवम्।।दहरोस्मिन्नंतराकाशइतिच्छांदो- सू०४३-अधि०१०] अर्थी व्यपदेशाधिकरणम्। (२८७) ग्यगताकाशशब्दस्येवपरमात्मपरत्त्वंनास्तीत्यत्रतात्पर्यात् ॥केचि- त्तुभाष्यानुरोधादतर्हदयेयोभूताकाशस्तत्रविज्ञानमयः महानात्मा- शेतइत्येवार्थः । अस्मिन्प्रकरणेप्राज्ञेनात्मना संपरिष्वक्तः प्राज्ञेना- त्मनान्वारूढइतिसुषुप्त्युत्क्रांत्योर्जीवपरमात्मभेदप्रतिपादनेनविज्ञा- नमयशब्दनिर्दिष्टस्यमहतश्चपरमात्मनः अभेदासंभवात् । विज्ञान- मयशब्देनतच्छरीरकः परमात्मैवाभिधीयते । महद्भूतमनंतमपारंवि- ज्ञानघनएवैभ्योभूतेभ्यः समुत्थायतान्येवानुविनश्यतीतिमैत्रेयीबा- ह्मणोक्तरीत्याविज्ञानमयशन्दस्य “ अवस्थितेरितिकाशकृत्स्नः 1१।४।२२॥” इतिसूत्रोक्तन्यायेनांतर्यामिपरत्वमित्याहुः॥ केचित्तु- योविज्ञानमयइत्यत्रकतम आत्मायोयविज्ञानमयइतिपूर्वनिर्दिष्टजी- वस्यप्रत्यभिज्ञावशेनग्रहणंनसंभवति । तस्यमहानजइतिमहत्त्वाय- संभवात्।अपितुविज्ञानमयइतिसाक्षादेवपरमात्मनोनिर्देशइत्याहुः ॥ तमेवमुमुक्षूपास्यंविशिनष्टि । सर्वस्यवशीसर्वस्येशानः सर्वस्याधिपतिः॥ सर्वस्यब्रह्मरुद्रादेवंशीसायस्यवशेवर्तते । उक्तंच एतस्यवाअ- क्षरस्यप्रशासनइति । अतश्चप्रशासनेनधारकत्वलक्षणमात्मत्वमुक्तं भवति । सर्वस्येशानइत्यनेननियंतृत्वलक्षणमात्मत्वम् । सर्वस्याधि- पतिरितिशेषित्वलक्षणमात्मत्वमुक्तमितिद्रष्टव्यम् । इदंचच्छांदोग्य दहरविद्यावाक्यप्रतिपन्नसत्यकामत्वादीनामप्युपलक्षणम् । उक्तंच भाष्ये वशित्वादयश्चवाजसनेयकेश्रुताः छांदोग्यश्रुतस्यगुणाष्टका- न्यतमभूतस्य सत्यसंकल्पत्वस्यविशेषाएवेति सत्यसंकल्पत्व सहचारिणांसत्यकामत्वादीनामपहतपाप्मत्वपर्यतानांसद्भावमवगम यंतीति ॥ सनसाधुनाकर्मणाभूयान्नोएवासाधुनाकनीयान् ॥ साध्वसाधुकर्मकृतोत्कर्षापकर्षशून्यइत्यर्थः ।

(२८८) विषयवाक्यदीपिका। [अध्या०१-पाद३- एषसर्वेश्वरएषभूताधिपतिरेषभूतपालएषसेतुर्विध- रणएषांलोकानामसंभेदाय ॥ सर्वेश्वरः नियंता, अधिपतिः शेषी, भूतपालः रक्षकः, एषांसर्वेषां लोकानामसांकर्यायधारकः सेतुरप्ययमेव । अनेनहीश्वरेणसेतुना अविधृताहिलोकाः निर्मर्यादाभवेयुरितिभावः । अत्रप्रकरणोपक मेआत्मैवेदमग्रआसीत्पुरुषविधइतिदेवताविशेषस्यनारायणस्यैवप्र- स्तुतत्वात्तस्यैवसर्वेश्वरत्वादिकथनादेवतांतराणांनावावकाशइतिद्र ष्टव्यम् ॥ तमेतवेदानुवचनेनब्राह्मणाविविदिषंतियज्ञेनदानेन तपसानाशकेन ॥ ईदृशंपरमात्मानंवेदाध्ययनेन यज्ञेन दानेन अनशनलक्षणेनतपसा चज्ञातुमिच्छति।आशः अशनंभावेघम् । अनाशः अनशनःस्वार्थंकः। तच्चानशनंकामानशनात्मकंनतुसर्वात्मनानशनंदेहपातप्रसंगात् । यद्वानविद्यतेआशायस्यतदनाशम्।स्वार्थेकप्रत्ययः फलाभिसंधिविर हितेनेतियावत् । अश्वेनजिगमिषत्यसिनाजिघांसतीत्यादावश्वादेः सन्प्रत्ययप्रकृत्यर्थभूतगमनादिसाधनत्वप्रतिपादनदर्शनात् । इहापि- वेदनसाधनत्वमेवप्रतिपाद्यते।नतुविविदिषासाधनत्वम् । यद्यपिप्रकृ- तिप्रत्ययार्थयोः प्रत्ययार्थस्यप्राधान्यमित्युत्सर्गः।तथाप्यश्वेनजिगमि पतीत्यादौसनंतप्रयोगस्थानेप्रकृत्यर्थप्राधान्यस्यैवव्युत्पत्तिसिद्धत्वा दवापिप्रकृत्यर्थीभूतवेदनसाधनत्वमेववेदानुवचनादीनांतृतीययात्र तिपाद्यतइतिद्रष्टव्यम् ॥ एतमेवविदित्वामुनिर्भवति ॥ एतमेवात्मानविदित्वामुनिमननशील योगीभवति।नान्यमित्यर्थः।। एतमेवप्रवाजिनोलोकमिच्छंतः प्रव्रजति ॥

सू०४३-अधि०१० ] अर्था०व्यपदेशाधिकरणम् । (२८९) लोक्यतइतिलोकः । एतमेवलोकंपरमात्मानमिच्छंतः संन्यासि- नस्संन्यस्यंतीत्यर्थः । एतमेवेत्यवधारणाल्लोकांतरेप्सूनांपारिवाज्ये- नाधिकारइतिगम्यते । नहिगंगाद्वारंपतिपित्सुः काशीवासीपूर्वा- भिमुखोयाति ॥ एतद्धस्मवैतत्पूर्वविद्वांसःप्रजानकामयंतेकिंप्रजया करिष्यामोयेषांनोयमात्मा॥ हस्मवैप्रसिद्धौ । एतादृशब्रह्मविदःपूर्वेप्रजांनकामयंतीप्रजया- करिष्यामः । प्रजासाध्योयंलोकोप्यस्माकंपरमात्मैव । एतल्लोकसा- ध्यस्यसुखानुभवस्यपरमात्मानुभवांबुधिलवकणिकायमानत्वात् । तादृशेपरमात्मनिलब्धेएतल्लोकरूपक्षुद्रफलसाधनभूतयाप्रजयाकि- करिष्यामइतिपूर्वे नाकामयतेत्यर्थः ।। तेहस्मपुत्रैषणायाश्चवित्तैषणायाश्चलोकैषणायाश्च- व्युत्थायाथभिक्षांचरंतियाह्येवपुत्रेषणासावितैषणाया- वित्तैषणासालोकैषणाउभेोतेएषणेएवभवतः ॥ इदंचकहोलब्राह्मणेव्याख्यातम् । सएषनेतिनेतीत्यात्मा अगृह्यो- नहिगृह्यतेअशीयोहिनशीर्यतेअसंगोनहिसजते असितोनव्यथतेनरि- ष्यति॥ एतदपिप्राग्व्याकृतम् ॥ एतमुहैवैतेनतरतइत्यतःपापमकरवम् । इत्यतः क ल्याणमकरवमिति ॥ अतोदेहयात्रादिलक्षणादेतोः पापमकार्षपुण्यमकार्षमितिद्वेचिंते एतंब्रह्मविदंनतरतःनप्राप्नुतइत्यर्थः । तत्रहेतुमाह ॥ इहैवएतेतरतिनैनंकृताकृतेतपतः ॥ यस्माद्धेतोः अस्मिन्नेवलोकवसन्पुण्यपापंचतीर्णवान् । तत्रहेतुः (२९०) विषयवाक्यदीपिका। [अध्या०१-पाद३- नैनंकृताकृतेतपतः । एनहिब्रह्मविदंकृताकृतेसुकृतदुष्कृतेफलसंबं- धिनकर्तुनप्रभवतः । एवंविदिपापकर्मनश्लिष्यतइत्यश्लेषश्रवणादि- तिभावः॥ तदेतदृचाभ्युक्तम् ॥ तदेतत्पुण्यपापसंतरणमभिमुखीकृत्यऋचोक्तमित्यर्थः। तामेव- चैपठति ॥ एषनित्योमहिमाब्राह्मणस्यनवर्धते कर्मणानोक- नीयान् । तस्यैवस्यात् पदवित्तंविदित्वानलिप्यतेकर्म- णापापकेनेति ॥ ब्रह्मविदः एषमहिमासनित्यः । ब्रह्मज्ञानानंतरंयावदात्मभावित- यानुवर्ततइत्यर्थः। कोसौमहिमेत्यत्राह|नवर्द्धतेकर्मणानोकनीयान् । तस्यैवस्यात्पदविदिति । तस्यब्रह्मणः पदवित् । पद्यतइतिपदंस्वरू- पम् । ब्रह्मस्वरूपविदितियावत् । सः पुण्यपापकृतलक्षणकर्मकृतो- त्कर्षापकर्षशून्योभवति । एषमहिमाब्रह्मविदइत्यर्थः । महिमज्ञा- नस्यफलमाह॥ तंविदित्वानलिप्यतेकर्मणापापकेन । तंब्रह्मविन्महिमानं विदित्वापापकेन कर्मणानलिप्यतेइत्यर्थः ॥ । तस्मादेवंविच्छांतोदांतउपरतस्तितिक्षुःसमाहितो- भूत्वाआत्मन्येवात्मानंपश्यति॥ सर्वात्मानं पश्यति यएवं वित् शास्त्रजन्यज्ञानवान् । शमः अंत- रिद्रियनियमनरूपः । दमः बहिरिंद्रियनियमनरूपः। उपरतिः निषि- काम्यादिषुकर्मसूपरतिः। तितिक्षाक्षमा। समाहितःसमाहितचित्त- इत्यर्थः । एवंरूपःसन्नात्मनिजीवात्मनिपरमात्मानंतदंतर्यामिणंपश्ये- ॥

सू०८-अधि०२] चमसाधिकरणम् । (२९१) दित्यर्थः । भाष्यादिषुकोशेष्वात्मन्येवात्मानंपश्येदितिपाठोदृश्य- ते । अतः पाठद्वैविध्यमत्रद्रष्टव्यम् ॥ किंच- सर्वमात्मानंपश्यति ॥ आत्मानंपरमात्मानंसर्वशरीरकंचपश्येदित्यर्थः।। चमसवदविशेषात् । १।४।८॥ अथमंत्रिकोपनिषत् विकारजननीमज्ञामष्टरूपाम जांध्रुवाम् । ध्यायतेऽध्यासितातेनतन्यतेप्रेर्यतेपुनः ॥ मूयतेपुरुषार्थचतेनैवाधिष्ठिताजगत् । गौरनाद्यंतवती साजनित्रीभूतभाविनी ॥ सितासिताचरक्ताचसर्वकाम दुघाविभोः। पिवंत्येनामविषमामविज्ञाताः कुमारकाः॥ सर्वसाधारणीदोग्ध्रींपीड्यमानांतुयज्वभिः । एकस्तु- पिबतेदेवःस्वच्छंदोत्रवशानुगाम् ॥ ध्यानक्रियाभ्यां सततंभुङ्क्तेसौप्रसभंविभुः। चतुर्विंशतिसंख्याकमव्य तंव्यक्तमुच्यते ॥” इति ॥ विकारजननीमित्यादि । अष्टरूपत्वं भूमिरापोनलइत्युक्त प्रकारेण । अजामुत्पत्तिरहिताम् । ध्यायते परमात्मनासंकल्परूप- ज्ञानेनज्ञायते । अध्यासिताम् अधिष्ठिताम् । तन्यतेविस्तार्यते । स्थूलावस्थंक्रियते । समष्टिभूतरूपेणक्रियते । प्रेर्यते व्यष्टिसृष्टयर्थ- प्रेर्यते । पुरुषार्थ पुरुषाणामर्थनीयम् । भोग्यभोगोपकरणभोग स्थानरूपम् । जगत्सूयते । जनित्रीभूतभाविनीति समष्टिव्यष्टिरु- च्यते । सितासिताचरक्ताच गौणवृत्त्यासत्त्वरजस्तमोमयी। तेजोब- ब्रद्वारा सिताऽसितारक्ताच । विभोरीश्वरस्य सर्वकामदुधा लीलारस ।

MOS (२९२) विषयवाक्यदीपिका। [अध्या०१-पाद४- दोग्धी । अविषमां भोक्तृकर्मानुगुणपरिणामित्वादपक्षपातिनीम् । अविज्ञाता देहादिभ्योविविच्यस्वात्मभिरज्ञाताः । कर्मवश्यबहुभो- तृव्यावृत्त्यर्थमेकः स्वच्छंदइत्युक्तम् । ध्यानक्रियाभ्यां संकल्प सर्गादिव्यापाराभ्याम् । पीड्यमानान्तुयज्वभिः वत्साहिमातरंक्षीर- क्षरणार्थ पीडयंतोभुंजते तद्वत्कर्मवश्यैरात्मभिः भोग्यफलानु- रूपंपरिणाम्यमानामित्यर्थ इति व्यासारतेमंत्रोपनिषन्मंत्राव्या- कृताः । श्वेताश्वतरेआरंभे॥ किंकारणं ब्रह्मकुतस्मजाताजीवामकेनक्कचसंप्र- तिष्ठाः । अधिष्ठिताः केनसुखेतरेषुवर्तामहेब्रह्मविदो व्यवस्थाम् ॥ हेब्रह्मविदो जगतः कारणंब्रह्मकिदेवतारूपम् । कस्माच्चब्रह्मणोऽ- स्माकंजन्मस्थितिश्च । कुत्रवास्माकंसंप्रतिष्ठाशब्दितोलयश्च । केन वाब्रह्मणा अधिष्ठिताः संतोवयंकष्टरूपजन्मसुव्यवस्थामनुसृत्यवर्ता महे इत्येवंब्रह्मविदांसंशयःप्रदर्शितः॥ तेध्यानयोगानुगताअपश्यन् देवात्मशक्तिस्वगु- णैर्निगूढाम् ॥ एवंध्यानयुक्तामुनयो “अपहतपाप्मा दिव्योदेवएकोनारायण" इति श्रुतिप्रसिद्धदेवशन्दितनारायणात्मिकांकार्योपयोग्यपृथसिद्ध विशेषणतयाशक्तिशब्दितांसत्त्वरजस्तमोलक्षणस्वगुणोपेतांब्रह्मणो- जगत्कारणत्वनिर्वाहिकांप्रकृतिंदृष्टवंतइत्यर्थः ॥ सर्वाजीवेसर्वसंस्थेवहंतेतस्मिन्हंसोभ्राम्यतेब्रह्मचक्रे॥ सर्वजीवनहेतुभूते सर्वलयाधारे तस्मिन्निरतिशयबृहति ब्रह्मचक्रे. हतिगच्छतीतिसंसारकांतारपर्यटनशीलतया हंसशब्दवाच्योजीवोयं भ्रमतीत्यर्थः॥ १ इदं वाक्यंच सुबालोपनिषद्गतम् ॥

सू०८-अधि०२] चमसाधिकरणम् । (२९३) पृथगात्मानं प्रेरितारंचमत्वा जुष्टस्ततस्तेनामृत त्वमेति ॥ भ्रामयितृत्वेनपरमात्मानं तेनभ्राम्यमाणं तच्छरीरभूतंच स्वात्मा- नंमत्वातव्यानप्रीतेनपरमात्मनाजुष्टः प्रीत्याविषयीकृतः सन्मुक्ति प्राप्नोतीत्यर्थः॥ संयुक्तमेततक्षरमक्षरंचव्यक्ताव्यक्तंभरतेविश्वमी- शः।अनीशश्चात्मावध्यतभोक्तृभावाज्ज्ञात्वादेवंमुच्यते सर्वपाशैः॥ ईशःपरमात्माव्यक्तरूपंक्षरमचिद्वर्गमव्यक्तमक्षरंचिद्वर्गचपरस्पर संयुक्तंबिभर्तिनतुवध्यते । अनीशोजीवस्तुबध्यते ॥ नन्वविशिष्टेप- कृतिसंवन्धेकुतएतद्वैलक्षण्यमित्यत्राह ॥ भोक्तभावादिति।।भोक्तृत्वा- भिसन्धिलक्षणभावसत्त्वात् । परमात्मनस्तु “नमांकर्माणिलिंपंतिन- मेकर्मफलेस्पृहा" इतिकर्मफलस्पृहाऽभावनकर्मफललेपाभावादित्य- र्थः। त्रयाणांपरस्परवैलक्षण्यमेवाह ॥ ज्ञाज्ञौदावजावीशनीशावजा काभोक्तृभोगार्थ- युक्ता॥ ईशानीशौ । ह्रस्व छांदसः। भोक्तुर्जीवस्यभोगप्रयोजनसाधिके- त्यर्थः। ननुपरमात्मनोपिजीववत्फलाभिसंधिपूर्वककर्तृत्वं कुतोन- भवतीत्याशंक्याहं ॥ अनंतश्चात्माविश्वरूपोह्यकर्ता ॥ विश्वशरीरकस्यपरमात्मनो “ नांतंगुणानांगच्छंतितेनानंतोयमु- च्यते” इत्युक्तरीत्यासत्यकामत्वाधनंतगुणाश्रयतयाकाम्यमान- वस्त्वंतराभावेनफलाभिसन्ध्यभावेनफलाभिसन्धिपूर्वककर्तृत्वना- स्तीत्यर्थः । एतादृशवलक्षण्यज्ञानस्यफलमाह ॥

(२९४) विषयवाक्यदीपिका। [अध्या०१-पाद४- त्रयंयदाविंदतेब्रह्ममेतत् ॥ एतत्रयंपरस्परवैलक्षण्येनदर्शनसमानाकारध्यानेनविषयीकरोति- तदाब्रह्मभवतिमुक्तोभवतीत्यर्थः । ब्रह्ममितिछांदसंरूपम् । संयुक्त- मितिमंत्रनिर्दिष्टक्षराक्षरशब्दार्थविवृण्वन्परस्परवैलक्षण्यज्ञानमात्रेण- मुक्तेमनननिदिध्यासनवैयर्थ्यमितिशंकांचशमयति॥ क्षरंप्रधानममृताक्षरहरःक्षरात्मानावीशतेदेवएकः। तस्याभिध्यानाद्योजनातत्त्वभावाद्भूयश्चांतेविश्वमाया- निवृत्तिः॥ प्रधानप्रकृतिस्त्रियामिति प्रधानशब्दिताप्रकृति क्षरमित्युच्यते । भोग्यमात्मनोभोगार्थहरतीतिहरोजीवः । अमृतत्वान्मरणधर्मशून्य- त्वादक्षरमित्यर्थः । क्षराक्षरशब्दितचेतनाचेतनवर्गेशिता अपहतपा प्मा दिव्योदेवइतिदेवत्वेननिर्दिष्टोनारायणएव । तस्यारंभणसंशीलन लक्षणाभिध्यानाद्योजनशब्दिताद्योगात्तत्वाविर्भावरूपात्तद्भावाच्च- त्रयंयदाविंदतेब्रह्ममेतदितिनिर्दिष्टोपासनकालीनब्रह्मानुभवरूपमु- त्यनंतरंचरमशरीरवियोगकालेसमस्तप्रकृतिसंबंधनिवृत्तिर्भवती- त्यर्थः॥ अजामेकालोहितशुक्लकृष्णबह्वीः प्रजाः सृजमा- नासरूपाः । अजो कोजुषमाणोऽनुशेतेजहात्येनां- भुक्तभोगामजोन्यः॥ तेजोबन्नलक्षणविकारगतलोहितशुक्लकृष्णरूपयुक्तां स्वसमानरू- पविविधभूतभौतिकस्रष्ट्रीम् उत्पत्तिरहितां कांचित्कश्चिदविद्वान उत्पत्तिरहिततयातत्समानएवसन्तत्राहंबुद्धयासेवमानस्तामनुसृत्य- शेतेतिष्ठति । अपरो विद्वान्कंचित्कालंभुक्त्वोत्पन्नवैराग्यस्त्यजती- त्यर्थः । इतरत्सर्वमुपनिषद्भाष्येवगंतव्यम् ॥

सू०८-अधि०२] चमसाधिकरणम् । (२९५) बृहदारण्यकेचतुर्थाध्यायेद्वितीयब्राह्मणे ॥ तदेषश्लोकोभवति । अर्वाग्बिलश्चमसऊर्ध्वबुध्नस्त- स्मिन्यशोनिहितविश्वरूपम् । तस्यासतेऋषयस्सप्त- तीरेवागष्टमीब्रह्मणासंविदानेति ॥ अमुंमंत्रंश्रुतिरेवव्याचष्टे॥ अर्वारबिलश्चमसऊर्ध्वबुध्नइतीदंतच्छिरः एषह्य- किबिलश्चमसऊर्ध्वबुनः॥ अर्वागविलश्चमसइतिमंत्रखंडेनोच्यमानमिदंतदेवशिरः-प्रसिद्धमे वशिरःकंठादुपरिभागइतियावत् । किंतदित्याशंक्याह। एषाम्- बिलश्चमसऊर्ध्वबुध्नः-चम्यतेनेनेतिचमसः । भक्षणसाधनमित्यर्थः। एषमुखरूपश्चमसः । आस्यस्यबिलरूपत्वादविलत्वंशिरस: उर्ध्वस्थूलभागरूपवुनाकारत्वादूर्ध्वबुध्नत्वम् । लोकेहिप्रसिद्धश्चमस ऊर्ध्वबिल तिर्यगबुध्नः। अयंतुविलक्षणश्चमसइतिभावः॥ तस्मिन्यशोनिहितंविश्वरूपमित्येतद्वाक्यं पंचवृत्तिप्राणानाह । तत्रहेतुमाह ॥ प्राणावैयशोनिहितंविश्वरूपम् ॥ प्राणस्यप्राणापानादिरूपबहुरूपतयायशसोविष्वक्प्रसृमरत्वाद्य शस्त्वेनरूपणम् । वृत्तिभेदात् प्राणाइति बहुवचनम् ॥ तस्यासतेऋषयः सप्ततीरइतिप्राणावाऋषयःप्राणा- नेतदाह॥ नासाक्षिश्रोत्रास्योपाधिसंबंधिनः सप्तशीर्षण्याःप्राणाः तस्यसमी- पेवर्ततइत्यर्थः॥

(२९६) विषयवाक्यदीपिका। [अध्या०१-पाद४- वागष्टमीब्रह्मणासंविदानेति वाग्ध्यष्टमीब्रह्मणासं- वित्ता॥ ब्रह्मणावेदेनचतुर्मुखेनवासंविदानासंवादंकुर्वती । संवित्ता-समि- त्येकीकारे-वित्तशब्दोज्ञानपरः। ब्रह्मणैकप्रत्यया। एकबुद्धिब्रह्मणै- ककंठा-वेदवादिनीतियावत् ॥ कारणत्वेनचाकाशादिषुयथाव्यपदिष्टोक्तेः।१।४।१४॥ बृहदारण्यके तृतीयाध्यायेचतुर्थब्राह्मणे ॥ तद्धदंतमुव्याकृतमासीत् तन्नामरूपाभ्यामेवव्या- क्रियते ॥ हशब्दोवृत्तार्थस्मरणे । तदिदंमिथुनादिलक्षणंजगतहितदासृष्टेः प्रागव्याकृतमासीदव्यक्तमासीत् । अव्यक्तशरीरकंब्रह्मासीदित्यर्थः । नामरूपाभ्यांनव्याकृतमितिव्युत्पत्त्याऽव्याकृतशब्दस्याव्यक्तवचन- त्वात् । अव्यक्तत्वंचनामरूपविशिष्टतयाऽनभिव्यक्तत्वम् । अव्या- कृतशब्दस्यतच्छरीरकब्रह्मपरत्वेयुक्तिः समनंतरमेवस्पष्टयिष्यते । तत् अव्याकृतशरीरकंब्रह्म । नामरूपाभ्यमितीइत्थंभावेतृतीया । नामरूपवत्तयाव्याकृतमासीत् । व्याङ्म्यामुपसर्गाभ्यांविविच्यसम- न्तात्कृतमासीदित्यर्थः । तदेवदर्शयति ॥ "असौनामायमिदंरूपइति ॥” इति ॥ देवमनुष्यादिनामाकरशिरश्चरणादिरूपवान् इत्येवंव्याक्रियत- इत्यर्थः ॥ तदिदमप्येतहिनामरूपाभ्यामेवव्याक्रियतेऽसौना- मायमिदछरूपइति ॥ अनेनवाक्येनसृष्टयादिकालिके प्रत्यक्षेऽव्याकृतनामरूपव्याक- रणसुत्रहत्वायनिदर्शनमुच्यते । तत् पूर्वतथानामरूपाभ्यांव्याक- सू०१४-अधि०४] कारणत्वाधिकरणम् । (२९७) णा देतो।एतद्यपि इदानीमपि।इदमुत्पद्यमानंचराचरव्यक्तिजातम्। इदंरूपोयम् एतादृशसंस्थानवानयम्, असौनामा देवदत्तयज्ञदत्त नामवानितिनामरूपाभ्यामेवव्याक्रियतो, इत्थमेवादावपिनामरूपा- भ्यांव्याकरणमवधेयमित्यर्थः। उभयत्रअसौनामेतिच्छांदसोऽलुक्॥ अंदोनामेतिवक्तव्ये असौनामेतिलिंगव्यत्ययः छांदसः। ततश्चनाम- रूपवत्त्वमव्याकृतशब्दितस्यब्रह्मणः सिद्धम् । अतः सर्वाणिनामा नितत्प्रवृत्तिनिमित्तभूतानिचरूपाणितदीयान्येव । अतइदमादिशब्दै रपितस्यैवनिर्देशसंभवात्पूर्वत्रात्मैवेदमग्रआसीदित्यभेदनिर्देशे नानु- पपत्तिरितिभावः । नामरूपाभ्यामेवेत्यत्रैवकारोभिन्नक्रमः। तन्ना- मरूपाभ्यांस्वयमेवव्याक्रियतइत्यर्थः । व्याक्रियतेइत्यत्रकर्मकर्त्त- रिलकारः । कर्चतराक्षेपेगौरवात्तदात्मानस्वयमकुरुतेत्यनेनैका- र्थ्यात् । उक्तंचभगवताभाष्यकृतातदेवाविभक्तनामरूपंब्रह्मसर्वशंस- त्यसंकल्पस्वेनैवविभक्तनामरूपतयास्वयमेवव्याक्रियतइत्युच्यतइ- ति ॥ नन्वव्याकृतमासीदित्यवक्तप्रत्यायांतस्यकर्मार्थकत्वमेववक्त व्यंनतुकर्मकर्थकत्वम् ॥ नचकर्मकर्तर्यपिकर्मवद्भावेनक्तप्रत्यय- सिद्धिरस्त्वितिवाच्यम् ॥ लांतस्ययः कर्मणातुल्यक्रियः कर्ता- तस्यैव कर्मवद्भावविधानात् । कृत्यक्तखलर्थेषु कर्मवद्भावाभावा- दवश्यकर्मण्यवक्तोवक्तव्यः । ततश्चतदवैरूप्यायव्याक्रियतेइत्यत्रापि कर्मण्येवलकारोस्त्वितिचेन ॥ एवकारेणक-तरव्यवच्छेदात्कर्वतरा क्षेपेगौरवाचव्याक्रियतइतिलकारस्यकर्मकर्तर्यवाभ्युपगंतव्यत्वाद्वै- रूप्यस्यापिसोढव्यत्वात् ॥ नन्वात्मनः कथंदेवमनुष्यादिनामरूपव- वंदेवमनुष्यादिशरीरेतस्यावर्तमानत्वादितीमामाशंकांव्यावर्तयति। सएषइहप्रविष्टआनखाग्रेभ्यः ॥ अंतर्यामिरूपेणेतिशेषः । तत्रदृष्टांतमाह ॥

(२९८) विषयवाक्यदीपिका। [ अध्या०१-पाद४- यथाक्षुरः शुरधानेवहितः स्यात् विश्वंभरोवाविश्वं- भरकुलाये॥ क्षुरोधीयतेस्मिन्नितिक्षुरधानंक्षुरकोशः । तस्मिन्यथाक्षुरः अव- हित प्रविष्टः। विश्वविभर्ति वैश्वानराम्यादिरूपेणेतिविश्वंभरोग्निः । तस्यकुलायेनीडेदारुणीतियावत् ॥ तन्नपश्यत्यकृत्स्नोहिसः॥ यस्तिलतैलवत्सर्वस्वरूपव्याप्तं परमात्मानं न पश्यतिसः अकृ- स्नः अपूर्णस्वरूपः असत्कल्पइतियावत् । परमात्मनएवसर्वनाम- रूपवत्त्वमुपपादयति॥ प्राणन्नेवप्राणनामाभवति वदन्वाक्पश्यंश्चक्षुःशृण्व छोत्रंमन्वानोमनः तान्यस्यैतानिकर्माणिनामान्येव॥ प्राणनरूपक्रियांकुर्वन् प्राणनामाभवति।चष्टइतिहिचक्षुः। शृण्वन्स- छोत्रंशृणोतीतिहिश्रोत्रम् । मनुतइतिमनः । तान्येतानिप्राणादीनि नामानिपाचकलावकादिवत् कर्मनामान्येव । अतः सर्वनामरूपा श्रयत्वंपरमात्मनोस्तीतिभावः । अत्र प्राणनादिकरणेषु प्राणादिषु- कर्तृत्वोपचार प्राधान्यादवगंतव्यः॥ जगदाचित्वात्। १।४।१६ ॥ ऋग्वेदांतर्गतकौषीतकि (की) ब्राह्मणोपनिषदिचतुर्थाध्याये । गार्योहवै बालाकिरनूचानः सं (सु) स्पष्ट- आस ॥ बलाकस्यापत्यं बालाकिः गोत्रतोगार्ग्यः। अनूचानः अं (सां) गाध्यायी (सां) गाध्याय्यनूचानइतिस्मृतेः । संस्पष्टः सम्यग् विद्ययाख्यातः ।एवंभूतःसन्नासबभूव ।।

सू०१६-अधि०५] जगद्वाचित्वाधिकरणम् । (२९९) सहोवासोशीनरेषु सत्त्वमत्स्येषु कुरुपांचालेषुका- शीविदेहेष्विति ॥ स बालाकिः उशीनरेषु सत्त्वप्रचुरेषु मत्स्यदेशेषु कुरुपांचा- लेषु काशीविदेहेषु उषितवान् । इतिशब्दः प्रकारवचनः । एवं जातीयकेष्यन्येष्वपीत्यर्थः॥ सहाजातशत्रुकाश्यमेत्योवाच ॥ अजातशत्रुनामानंकाशीराजमधिगम्योवाच ॥ ब्रह्मते ब्रवाणीति तं होवाचाजातशत्रुः सहस्रंदद्मएत स्यांवाचिजनकोजनकइतिहवैजनाधावंतीति ॥ ब्रह्मतेत्रवाणीत्येतस्यामेववाचिनिमित्तेगवां सहस्रप्रयच्छामः। सर्वे पिब्रह्मविदः जनकएवब्रह्मशुश्रूषुर्दाताचेतिजनकस्यसमीपेधावति । भवांस्त्वस्मत्समीपमागत्यब्रह्मतेववाणीत्युक्तवान् । अनेनैववाक्येन- तोषितावयंसहस्रप्रयच्छाम इतिभावः ॥ सहोवाचबालाकिः यएवैष आदित्यपुरुषः तमेवाह मुपासइति ॥ आदित्यमंडलांतर्वर्तिनं पुरुषं ब्रह्मेत्यहमुपासे । अतस्त्वमपि तमेवोपास्स्वतिभावः॥ तथ्होवाचाजातशत्रुः मामैतस्मिन्संवादयिष्ठाः बृ- हन्पांडुरवासा अतिष्ठाः सर्वेषांभूतानांमद्धेतिवा अहम- तदुपासइति॥ वैशब्दोवधारणे।बृहन् महान्। पांडुराणिकिरणरूपाणिवासांसिय- स्यसः पांडुरवासाः। आदित्यकिरणानां नानारूपत्वात् पांडुरवा- सस्त्वमस्तीति दृष्टव्यम् । बृहदारण्यकेवालाक्यजातशत्रुसंवादेबृ- हत्त्वपांडवासस्त्वेचंद्रधर्मतयोक्तेइति विशेषः। अतिष्टाः । सर्वमपि (३००) विषयवाक्यदीपिका। [अध्या०१-पाद४- कार्यजातमतिक्रम्यतिष्ठतीत्यतिष्ठाः। सर्वेषांभूतानां मूर्दाश्रेष्ठः । तदुपासनस्यानुरूपफलमाह ॥ “सयोहैतमेवमुपास्ते अतिष्ठाः सर्वेषां भूतानांमूर्दा भवति । सहोवाचबालाकिः यएवैषचंद्रमसिपुरुषस्तमे वाहमुपासे ॥” इत्यादि। ततोहबालाकिस्तूष्णीमास॥ उत्तरापरिस्फूर्तेरितिशेषः॥ तश्होवाचाजातशत्रुः एतावन्नुबालाकइति ॥ हेबालाकेएतावदेवखलुतेविदितमित्यर्थः॥ एतावंदितिहोवाचबालाकिः॥ एतावदेवविदितमित्युवाचेत्यर्थः॥ त होवाचाजातशत्रुः मृषावैकिल मा संवादयिष्ठाः॥ ब्रह्मतेबवाणीतिमृषोत्त्यामांमृषैवंसंवादयिष्ठाः संवादकारितवा- नित्यर्थः । एतावतंकालमब्रह्मवादएवप्रवृत्तइत्यर्थः । तहिकिंतद्वेदि- तव्यंब्रह्मेत्यत्राह ॥ सहोवाचयोवैवालाकेएतेषांपुरुषाणांकर्तायस्यचैत- कर्मसंवैवेदितव्यइति॥ वैशब्दोवधारणे। त्वयाब्रह्मत्वेनोपदिष्टानामादित्यादिपुरुषाणांयः कातेयत्कार्यभूताः किंविशिष्याभिधीयतेयस्यप्रत्यक्षादिसंनिधापि तंचिदचिद्रूपंसमस्तजगत्कार्यम्। क्रियतइतिव्युत्यत्त्याकर्मशब्दःका- र्यवचनः । सएक्वेदितव्यः।नतुत्वदुपन्यस्ताआदित्यादयइतिभावः॥ ततउहबालाकि समित्पाणिःप्रतिचक्रामउपत्वा- यानीति॥

। सू०१६-अधि०५] जगद्वाचित्वाधिकरणम् । (३०१) उशब्दोवधारणे।हशब्दप्रसिद्धौ। एवमजातशत्रुणोक्तोबालाकिर्ग- ताभिमानो" नीचादप्युत्तमांविद्याम् । आपत्कालेब्राह्मणस्याब्राह्म- णाद्विद्योपयोगः" इतिशास्त्रमनुसृत्यक्षत्रियादप्यजातशत्रोविद्यामुपा- दित्सुर्नानुपसन्नायब्रह्मोपदेष्टव्यमितिशास्त्रार्थजानन्समिद्भारहस्त- शिशष्य सन्नुपगच्छानीतिवत्रे॥ तथ्होवाचाजातशत्रुःप्रतिलोमरूपमेवस्यात् यत्क्ष- त्रियोब्राह्मणमुपनयेदित्येह्येव (येदेहि ) त्वाज्ञापयि ष्यमीति॥ क्षत्रियोब्राह्मणमुपनयेदिति यत्तद्विपरीतरूपमेवस्यात् । अतएव हि त्वामुपनयनमंतरेणैवब्रह्मविज्ञापयिष्याम्येव ।। तपाणावभिपद्यप्रववाज ॥ तंबालाकिंपाणौगृहीत्वानिर्गतइत्यर्थः ॥ तौहसुप्तंपुरुषमीयतुः॥ तौबालाक्यजातशत्रूराजभवनेसुप्तं कंचित्पुरुषप्राप्तवंतावित्यर्थः। बालाक्यधिकरण १।४।१६॥ भाष्ये “तौहसुप्तंपुरुषमाजग्मतुः इत्युदाहृतंवाक्यंबृहदारण्यगतनैतच्छाखागतम् । अतएवतत्रव्या- साथैः तौहसुप्तंपुरुषमीयतुरितिश्रुतिरित्युक्तम् ॥ तथ्हाजातशत्रुरामन्त्रयांचक्रेबृहन्पांडुरवासास्सो- मराजनिति॥ प्राणोवावज्येष्ठश्चश्रेष्ठश्चतिज्येष्ठयश्रेष्ठयगुणेनप्राणस्यबृहत्त्वाबृ- हनित्यामंत्रणम्।पांडुरवासस्त्वंचप्राणधर्मः। किंमेवासइतिप्राणेनपृष्टे आपोवासइत्यपांप्राणवासस्त्वोक्तेः । तासांत्वपांशुक्लवर्णाश्रयत्वात् पांडुरवासस्त्वमुक्तम् । सप्तानब्राह्मणेअथैतस्यप्राणस्यापः शरीरंज्यो तीरूपं असौचंद्रइतिप्राणस्यचंद्रसंबन्धप्रतीतेर्लक्षणयासोमेतिप्रा- " AN (३०२) विषयवाक्यदीपिका। [अध्या०१-पाद४- णस्यसंबोधनम् । प्राणोवैसम्राडितिश्रवणादाजनित्यामंत्र्यतइति- व्यासाघुरुक्तम् ॥ सतूष्णीमेवशिश्ये॥ अनुत्थित एव यथापूर्वमशयिष्टेत्यर्थः ॥ ततउहैतंयष्टयाचिक्षेप। सुप्तंयष्टयाताडितवानित्यर्थः॥ सततएवसमुत्तस्थौ ॥ दंडताडनादेवसमुत्तस्थौ।नतुप्राणानामामंत्रणादिनेत्यर्थः। प्राणना- मभिरामंत्रणेप्यनुत्थानप्रदर्शनंप्राणान्यत्वज्ञापनार्थम्।सुषुप्तिदशाया- मुपरतव्यापारेभ्यः शरीरोंद्रियेभ्योन्यत्वंसुज्ञानमितितस्यामपिदशा- यामनुपरतव्यापारात प्राणादन्यत्वज्ञापनीयमितिप्राणनामभिराम- त्रणेप्यनुत्थानेनदंडताडनोत्थानेनचजीवस्यप्राणव्यतिरेकः प्रदर्शि- तः । एवं देहेंद्रियमन प्राणव्यतिरिक्तंजीवंप्रदर्यततोतिरिक्तंपरमा- त्मानंबोधयितुमाह ॥ त होवाचाजातशत्रुः वैषएतद्वालाकेपुरुषोऽशयि- ष्टक्ववाएतदभूत्कुतएतदागादिति ॥ हेवालाकेएषपुरुषः अशयिष्टेत्येतत् वेतिस्वप्नस्थानप्रश्नः । यद्वैतच्छन्दः स्वप्नपरः। अशयिष्टेत्येतत्प्रत्ययार्थमात्रपरम् । कैत स्वप्नमकृतेत्यर्थः । सर्वथास्वप्नस्थानप्रश्नः । क्वाएतदभूदिति- सुषुप्तिस्थानप्रश्नः । एतच्छब्दस्यनपुंसकलिंगत्वेपिप्रकृतवाचिप्र- कृतिस्वारस्यात्प्रकृतपुरुषशन्दितजीवपरः । जीवः कसुप्तोभूदित्य- र्थः । कुतएतदागादित्यत्राप्येतच्छन्दोजीवपरएव । प्रबोधकाली नजीवोद्गमनापादानंकिमित्यर्थः । ततश्चजीवस्यस्वप्नस्थानसुषुप्ति- स्थानोद्मनापादनानिपृष्टानिभवति । यद्वात्रविष्वपिप्रश्नेष्वेतच्छन्दः सू०१६-अधि०५] जगदाचित्वाधिकरणम् । (३०३) सप्तम्यतः । एतस्मिन्कालइत्यर्थः । सुपांसुलुगितिसुपोलुक् । एतस्मिन्कालेकस्वप्नमनुभूतवान्, एतस्मिन्काले कुतोनिर्गतः। एवं चत्रयाणामप्येतच्छन्दानामैकरूप्यंचसिद्धयति ॥ तदुहबालाकिर्नविजज्ञौ ॥ उत्तरंवालाकिर्नज्ञातवानित्यर्थः ॥ त होवाचाजातशत्रुः । यत्रैषएतद्वालाकेपुरुषोश- यिष्टयत्रैतदभूद्यतएतदागात् ॥ यत्रैषएतद्धालाके पुरुषोशयिष्टयत्रैतदभूद्यतदागात् तदुच्यत- इतिशेषः । स्वप्नस्थानप्रश्नंप्रतिवक्ति । हितानामहृदयस्यनाड्योहृदयात्पुरीततमभिप्रति- ष्ठंति यथासहस्रधाकेशस्यापिपातः तावदण्व्यः पिंग- लस्याणिम्नापूर्णास्तिष्ठते शुक्लस्यकृष्णस्यपीतस्यलो हितस्येतितासुतदाभवति ॥ आत्मनोहितावहत्वाद्धिताइतिप्रसिद्धाहृदयसंबंधिन्योनाड्य हृद- यात्पुरीततंपुरीतदाख्यं हृदयांतर्वर्तिमांसपिंडविशेषम् । अभिप्रस्थि- ताभवंति-हृदयपुरीततिनद्धाभवंति । ततश्चयथाकेशस्यापिसह- स्रधापातः अतिसूक्ष्मास्तावदण्व्यः सूक्ष्माः पिंगलस्यकृष्णस्य- पीतस्य लोहितस्यानपीतादिरसस्याणिम्नालेशेन पूर्णास्तिष्ठति, अतिसूक्ष्मत्वाल्लेशेनापिपूर्णाभवंति । तासुनाडीषुतदास्वप्नकाले आश्रितोभवतीत्यर्थः । सुषुप्तिस्थानप्रश्नस्योत्तरमाह ।। यदासुप्तः स्वपन्नकंचनपश्यतिअथास्मिन्प्राणएवै कधाभवति । अथैनंवाक्सर्वैर्नामभिःसहाप्येति। चक्षुः सर्वैरूपैः सहाप्येति । श्रोत्रंसर्वैः शब्दैः सहाप्येति । मनःसर्वैर्ध्यानैः सहाप्यतीति।

(३०४) विषयवाक्यदीपिका। [अध्या०१-पाद४- सुप्तइतिवर्तमानेक्तः । स्वपन्यदोपरतस्वप्नदर्शनोभवति । ति- स्वप्नानंतरमस्मिन् प्राणेप्राणशरीरकेपरमात्मनिएकधाभवति एकधाभावोनाम जाग्रदाद्यवस्थाजनितदेहात्माभिमानकृतरागद्वेषा दिलक्षणकालुष्यराहित्येनावस्थानम् । सर्वाणिहवाइमानिभूतानिप्रा णमेवाभिसंविशंतीत्यादौप्राणशब्दस्यपरमात्मनिप्रचुरप्रयोगात् । वाजसनेयकेसमानप्रकरणे यएषोंतर्हृदय आकाशस्तस्मिन् शेतइति आकाशशब्दितस्यसुषुत्याधारत्वश्रवणादाकाशप्राणशब्दयोः पर मात्मपरत्वमंतरेणाविरोधासंभवात् । सतासोम्यतदासंपन्नोभवति । “सतिसंपद्यनविदुः। प्राज्ञेनात्मनासंपरिष्वक्तः” इतिपरमात्मनः सुषु त्याधारत्वस्यश्रुत्यंतरश्रवणाच्च प्राणशब्दोयोगेनवापर्यवसानवृत्त्या- वाब्रह्मपरः। परमात्मनोबुद्धिस्थत्वादस्मिन्नितिनिर्देशोप्युपद्यते।तत् अथैनंतदुत्तक्षणएनंपरमात्मानमपियंतंजीवंवागादींद्रियाण्यपितत्त स्वकार्येणसहापियंतीत्यर्थः। नामशब्दोनामाभिलपनपरः । रूपश ब्दशब्दौतज्ज्ञानौपयिकव्यापारपरौ । रूपशब्दादीनांसुषुप्तौलयासंभ वात् । इंद्रियव्यापारोपरतेरेवसुषुप्तिशब्दार्थत्वात् । उद्गमनापादन प्रश्नस्योत्तरमाह। सयदाप्रतिबुध्यतेयथाग्नेर्विष्फुलिंगाएवमेतस्मादा- त्मनःप्राणायथायतनंविप्रतिष्ठतेप्राणेभ्योदेवाः देवे- भ्योलोकाः॥ अग्नेर्विष्फुलिंगाश्चैतस्मात्परमात्मनः प्राणशब्दिताजीवायथा स्थानंप्रस्थिताभवंति तेभ्यश्चदेवशब्दितानींद्रियाण्येतेभ्यश्चलोकश न्दितानिज्ञानानिभवतीत्यर्थः॥ तद्यथाक्षुरः क्षुरधानेऽवहितः स्याद्विश्वंभरोवावि- त्व का ती यव या सू०१६-अधि०५] जगद्वाचित्वाधिकरणम् । (३०५) श्वम्भरकुलाये एवमेवैषप्राज्ञआत्माइदंशरीरमात्मान मनुप्रविष्टआलोमभ्यआनखेभ्यः॥ क्षुरोधीयतेअस्मिन्नितिक्षुरधानंक्षुरकोशः तस्मिन्यथाक्षुरः अव- हितःप्रविष्टः विश्वविभतिवैश्वानराम्यादिरूपेणेतिविश्वंभरोग्निःतस्य कुलायेनीडेदारुणीतियावत् । एवमेवैषपरमात्माइदंपुरोवर्तिशरीरमा लोमभ्यआनखेभ्यः। व्याप्तमित्यध्याहारः । व्याप्तमात्मानंजीवात्मा- नमनुप्रविष्टः । अंतर्यामितयाअनुप्रविष्टइत्यर्थः । तादृशस्यसुषुप्त्या धारत्वोद्गमनापादनत्वेसंभवतइतिभावः। यद्वा । इदंवाक्यंजीवशरी- रकपरमेवव्याख्येयम् । आत्मानमिदंशरीरआत्मत्वेनाभिमन्यमान- मिदंशरीरमालोमभ्यआनखेभ्योजीवरूपेणप्रविष्टइत्यर्थः ॥ तमेतमात्मानमेतेआत्मानोन्ववस्यंति ॥ एतादृशंपरमात्मानमितरेजीवाअन्ववस्यतिअनुवर्तते । तत्रदृष्टा- । न्तमाह॥ यथाश्रेष्ठिनंस्वाः॥ यथाश्रेष्ठयवंतंस्वाः ज्ञातयःअनुवर्तन्ते ॥ तद्यथाश्रेष्ठीस्वैर्भुक्तेयथावाश्रेष्टिनंस्वाभुंजतेएवमेवै- पप्राज्ञआत्माएतैरात्मभिर्भुक्ते॥ यथाश्रेष्ठीस्वैः। एवंवाएतमात्मानमात्मानोन्ववस्यंति।यथाश्रेष्टिनं स्वाः। यथाकश्चित्प्रभुः भोगोपकरणभूतैः स्वैज्ञातिभिः यथाभोगान्- भुक्ते । यथास्वाश्चवंधवः तंप्रभुमैश्वर्यादिसमग्रमनुभूयतदत्तानिवि- तादीनिचोपजीव्यहृष्यति । एवमेवायपरमात्मास्वोपकरणभूतैर्जी- वात्मभिलीलारसंभुंक्तोतेचात्मानःपरमात्मदत्तभोगोपकरणाः सर्वैश्व- यादिविशिष्टंतमनुभूयदृष्टाभवंतीत्यर्थः । यथावास्वाः श्रेष्ठिनं जंती तिपाठे यथाप्रधानपुरुषः स्वकीय त्यादिभिर्भोगसाधनान्युपहरद्भिः २० B विषयवाक्यदीपिका। [अध्या०१-पाद४- भोगान्मुंक्तयथाचभोगसाधनान्युपहरंतः प्रधानपुरुषंपालयंत्येवमि- त्यर्थः । “भुजोनवने १।३।३६॥” इतिभुजेः पालनेपरस्मैपदि- त्वादितिध्येयम् । ईदृशंभोक्तृत्वंजीवद्धारावापरमात्मनियोजनीयम् ॥ सयावद्धवाइंद्रएतमात्माननविजज्ञौतावदेनमसुरा- अभिबभूवुःसयदाविजज्ञौअथहलासुरान्विजित्यसर्वे- षांदेवानांश्रेष्ठयंस्वाराज्यमाधिपत्यंपरीयायअथोयोवै- वंविद्वान सर्वान् पाप्मनोपहत्यसर्वेषांभूतानांश्रेष्ठयं- स्वाराज्यमाधिपत्यंपर्येतियएवंवेदयएवंवेद ॥ इंद्रो ब्रह्मविद्याऽलाभात् प्रागसुरैः पीडितः इमांब्रह्मविद्यालब्ध्वा असुरहननेन विजयीसर्वदेवाधिपत्यं सर्वदेवश्रेष्ठयं स्वाराज्यशब्दि- ताकर्मवश्यत्वलक्षणंमोक्षंचप्राप । अतोन्योप्येवंवित्सर्वभूताधि- पत्यं सर्वभूतश्रेष्ठयं पापापहतिपूर्वकाकर्मवश्यत्वलक्षणस्वाराज्य शब्दितं मोक्षं च प्राप्नोतीत्यर्थः । व्यासायैस्तुसर्वान् पाप्मनोपहत्ये- त्यनेनापहतपाप्मत्वादिगुणाष्टकमुक्तम् । जरादीनामपिपाप्मांतर्गत- त्वात् । उक्तहिवाक्यकारैः । “ स्युः पाप्मानः कालजरामृत्युशोका- दयः संख्यातत्वात्" इति । स्वाराज्यस्वाधीनत्वम् । अनेनसत्यसं- कल्पत्वंचोक्तंभवति । तत्स्वाराज्यं संसारिभ्योऽस्य श्रेष्ठयरूपम् । आधिपत्यम् । अधिपतिः परमात्मासर्वस्याधिपतिरितिश्रुतेः।तत्संबं- धि आधिपत्यं गुणाष्टकंहिब्रह्मसंबंधितयाब्राह्ममुच्यते "ब्राह्मणजैमि- निः"।४।४।५॥ इति । अतोब्रह्मसंबंधितयातत्साधर्मरूपंसं- सारिभ्यः श्रेष्ठतारूपं यत्स्वाराज्यंतदेतीतिश्रुतेरर्थइत्युक्तम् । अन्योऽ पियएतामुपनिषदंवेदसोपीदृशंफलमानोतीत्यर्थः ॥ वाक्यान्वयात्।।४।१९ ॥ १ इति सूत्रेणेत्यर्थः॥

सू०१९-अधि०६] वाक्यान्वयाधिकरणम् । (३०७) बृहदारण्यके चतुर्थेषष्ठेचमैत्रेयोब्राह्मणं किंचिद्भेदभिन्नमाम्नातम्। तत्रचतुर्थेमैत्रेयीब्राह्मणव्याख्यायते ॥ मैत्रेयीतिहोवाचयाज्ञवल्क्यः ॥ मित्रायाः अपत्यमैत्रेयोतामैत्रेयीत्यामंत्र्याह ।। उद्यास्यन्वाअरे अहमस्मात्स्थानादस्मिहंततेऽन याकात्यायन्यांतंकरवाणीति ॥ अरेमैत्रेयि । अहमस्मात्स्थानात् गार्हस्थ्यलक्षणादाश्रमादुद्यास्य नस्मिऊर्ध्वगंतुमिच्छन्नस्मि । हंत । तवअनयाकात्यायन्यासहअंत युवयोःकलहशांतयेद्रव्यविभागनिर्णयंकरवाणीति ॥ साहोवाचमैत्रेयीयन्नुमइयं भगोः सर्वाप्टथिवीवित्ते- नपूर्णास्यात्कथंतेनामृतास्यामिति ॥ हेभगो।संबुद्धौ “विभाषाभवत्भगवदघवतामोचावस्य" इति ओ- त्वंरुत्वंविसर्गश्च । सर्वापिपृथ्वीवित्तेनपूर्णायत्यदिमेममस्यात् वशंव दास्यादित्यर्थः । तदातेनवित्तेनकथंकथंचिदमृतास्यानुसंसारान्मु- तास्यान्नुकिमित्यर्थः ॥ नेतिहोवाचयाज्ञवल्क्यः यथैवोपकरणवतांजीवितं तथैवतेजीवितस्यात् अमृतस्यतुनाशास्तिवित्तेन ॥ उपकरणवतांभोगसाधनवतांजीवितंसुखजीवनंयथासिद्धयति त- थैवतेभोगोपकरणवित्तवत्याः सुखेनजीवनंपरंलभ्यतेमोक्षस्यवित्ते- नसाधनेनप्राप्यताशानास्तीत्यर्थः॥ साहोवाचमैत्रेयीयेनाहन्नामृतास्यांकिमहंतेनकुर्या यदेवभगवान्वेदतदेवमेब्रूहीति ॥ ममामृतत्वप्राप्त्यनुपायभूतेनवित्तेनाहंकिंकरिष्यामिभगवन्यदमृ- तत्वप्रात्युपायवेदतदेवमेबहीति॥ we (३०८) विषयवाक्यदीपिका। [अध्या०१-पाद४- सहोवाचयाज्ञवल्क्यः प्रियावतारेनःसतीप्रियंभाष- सएह्यास्स्वव्याख्यास्यामितेव्याचक्षाणस्यतुमेनिदि- ध्यासस्वेति॥ बतेत्यनुकंपायाम् । अरेमैत्रेयि । त्वंसतीप्रियाऽनुकूलाचसतीप्रियं मनोनुकूलंवाक्यं भाषसे।एहिआगच्छआस्स्वउपविश । तेअमृतत्वो पायंवक्ष्यामि। किंतु व्याचक्षाणस्यव्याख्यानंकुर्वतोममवाक्यानिअर्थ तोनिश्चयेनध्यातुमिच्छायदा व्याचक्षाणस्यतुमेमुखंनिदिध्यासस्वनि दिध्यासनमवलोकनम्।अवलोकयेतियावत्।इतिशब्दोवाक्यावसाने। एवमुक्तामैत्रेयीसावधानासतीस्वस्यश्रवणावधानज्ञापयितुमाह ।। ब्रवीतुमभगवानिति॥ स्पष्टोर्थः॥ सहोवाच ॥ नवाअरेपत्युःकामायपतिः प्रियोभवत्यात्मनस्तुका मायपतिःप्रियोभवति ॥ अत्रामृतत्वार्थिन्यमैत्रेय्यै अमृतत्वसाधनदर्शनविषयतयाआत्मैव- द्रष्टव्यइत्युपदिश्यमानआत्मापरमात्मेत्यवश्यमभ्युपेयः । “तमेवंवि- द्वानमृतइहभवति।नान्यः पंथाअयनायविद्यते” इतितज्ज्ञानस्यैवमो- क्षसाधनत्वावगमात् । ब्रह्मतंपरादादित्यादिनातस्यसार्वात्म्यकथ- नात् । आत्मनोवाअरेदर्शनेनेत्यादिनातज्ज्ञानेनसार्वज्ञवेदनेनसों- पादानत्वप्रतिपादनाच्च । अस्मिन्प्रकरणेद्रष्टव्यतयोपदिश्यमानआ- त्मापरमात्मेतिसिद्धम् । तदुपपादकस्यास्यसंदर्भस्ययथापरमात्म- परत्वं तथार्थोवर्णनीयइतिचसिद्धम्।अतोस्यवाक्यस्यायमर्थः। नवाइ त्यत्रवैशब्दोवधारणेनिवेत्यर्थः पत्युःकामायाकामः संकल्पः कामा- यसंकल्पायसंकल्पंसफलीकर्तुमित्यर्थः ।"क्रियार्थोपपदस्यचकर्मणि सू०१९-अधि०६] वाक्यान्वयाधिकरणम् । (३०९) स्थानिनः" २।३।१४। इतिचतुर्थी।पत्युः प्रियत्वम्।अहमस्याः प्रियः स्यामितिपतिसंकल्पसाफल्याय नभवतिपतिसंकल्पायत्तंनभवती- तियावत् । वेदाध्ययनंसफलीक यज्ञइत्युक्ते वेदाध्ययनस्ययज्ञः फ- लमितिहिसिद्धयति । एवंसंकल्पसाफल्यायप्रियत्वमित्युक्ते संकल्प- फलंप्रियत्वमितिहिसिद्धयति । ततश्चाहमस्याः प्रियः स्यामितिप तिसंकल्पायत्तंनपतिप्रियत्वम् । अपित्वात्मनः परमात्मनः कामा- यसंकल्पायप्रियोभवतीत्यर्थः । आत्मशब्दस्यपरमात्मनिमुख्यवृ- त्तत्वात् । अत्रापिकामायेत्यत्रपूर्ववच्चतुर्थी। एवमुत्तरत्रापिद्रष्टव्यम् । नवाअरेजायायाः कामायजायाप्रियाभवत्यात्मन- स्तुकामायजायाप्रियाभवति । नवाअरपुत्राणांकामा- यपुत्राः प्रियाभवत्यात्मनस्तुकामायपुत्राः प्रिया- भवन्ति। नवाअरेवित्तस्यकामायवित्तंप्रियंभवत्यात्म- नस्तुकामायवित्तंप्रियंभवति । नवाअरेब्रह्मणः कामा- यब्रह्मप्रियं भवत्यात्मनस्तुकामायब्रह्मप्रियंभवति ॥ ब्रह्मब्राह्मणइत्यर्थः॥ नवाअरेक्षत्रस्यकामायक्षत्रप्रियंभवत्यात्मनस्तुका मायक्षत्रप्रियंभवति॥ क्षत्रंक्षत्रियवर्णइत्यर्थः॥ नवाअरेलोकानांकामायलोकाःप्रियाभवंत्यात्मन- स्तुकामायलोकाः प्रियाभवन्ति ॥ स्वर्गाद्यालोकाइत्यर्थः॥ नवाअरेदेवानांकामायदेवाः प्रियाभवंत्यात्मनस्तु कामायदेवाः प्रियाभवंति। नवाअरेभूतानांकामायभू- तानि प्रियाणिभवंत्यात्मनस्तुकामायभूतानिप्रियाणि (३१०) विषयवाक्यदीपिका। [अध्या०१-पाद४- भवंति । नवाअरेसर्वस्यकामायसर्वप्रियंभवत्यात्मन- स्तुकामायसर्वप्रियंभवति ॥ स्पष्टोर्थः। ततः किमित्यत्राह॥ आत्मावाअरेद्रष्टव्यः श्रोतव्योमंतव्योनिदिध्या- सितव्यः॥ यस्मात्पतिजायादीनांप्रियत्वंयत्संकल्पायत्तस्यपरमात्मनः प्रसादायपरमात्माद्रष्टव्यः । सहिपरमात्मादर्श नेनप्रसन्नः सन्सर्वे- षामपिवस्तूनांपतिजायादिवत् ततोधिकंवाप्रियत्वमापादयितुंश- नोति नपश्योमृत्युपश्यतिनरोगंनोतदुःखतामितिमुक्तौसर्वेषांप्रिय- त्वश्रवणादितिभावः । अत्र स्वाध्यायस्यार्थपरत्वेनाधीतवेदः पुरुषः प्रयोजनवदर्थावबोधित्वदर्शनात्तनिर्णयायस्वयमेवगुरुमुखा- न्याययुक्तार्थग्रहणरूपश्रवणेप्रवर्ततइतिश्रवणस्य प्राप्तत्वाच्छ्रो- तव्यइत्यनुवादः । स्वात्मन्येवमेवेतियुक्तिभिः श्रुतार्थप्र- तिष्ठापनलक्षणमननस्यश्रवणप्रतिष्टार्थतयाप्राप्तत्वान्मंतव्यइतिचानु- वादः । अनवरतभावनारूपध्यानमेव निदिध्यासितव्यइति विधी यते। उपायत्वदशाप्रभृति भगवद्ध्यानस्यानुकूलत्वसूचनाय निदि- ध्यासितव्य इति सन्नंतपदेन निर्देशः । अत्र स्मृतिलंभेसर्व- "ग्रन्थीनां विप्रमोक्ष इतिच ध्यानस्यैवः भोक्षाव्यवहितहेतुत्वश्रव- णात् “क्षीयते चास्य कर्माणि तस्मिन्दृष्टे परावरे 7 इतिदर्शन- स्यापि मोक्षाव्यवहितकारणत्वश्रवणादुभयोरप्येकार्थत्वस्य वक्तव्य त्वात् । दृशिधातोश्चाक्षुषज्ञानवाचितया चाक्षुषज्ञानस्य “नचक्षुषा गृह्यते"इत्यचाक्षुषतयाप्रतिपन्ने ब्रह्मण्यसंभवादर्शनशब्देनोपचाराद- निसमानाकारमतिविशदज्ञानमभिधीयते । ततश्च द्राव्योनिदि- ध्यासितव्य इत्याभ्यां दर्शनसमानाकारंध्यानं विधीयते । “आर्षेयं- वृणीते एकंवृणीते द्वौवृणीते त्रीन्वृणीते चतुरोवणीते मपंचाति 14 सू०१९-अधि०६] वाक्यान्वयाधिकरणम् । (३११) प्रवृणीते” इत्यत्रायंवृणीते त्रीन्वृणीत" इत्याभ्यांत्रित्वविशिष्टार्षेय- वरणविधानवदिति द्रष्टव्यम् । तस्य किंफलमित्यत्राह ॥ मैत्रेय्यात्मनो वारे दर्शनेन श्रवणेन मत्या विज्ञा- नेन इद सर्व विदितं भवति ॥ अत्र विज्ञानेनेति विज्ञानशब्दो निदिध्यासनपरः। आत्मावा अरे द्रष्टव्यः श्रोतव्यो मंतव्यो निदिध्यासितव्य इति स्थानमानात् । तस्मिन् परमात्मनि दर्शनसमानाकारध्यानविषयीकृते सति तत्प्र- सादात्सर्वविदितं भवति अनुकूलत्वेन विदितं भवति सर्व प्रियं भवतीति यावत् ।यद्वा निदिध्यासितव्यतयानिर्दिष्टपरमात्मनः जग- कारणत्वलक्षणमाह । आत्मनोवाअर इत्यादिना उपादानोपादेययो- रभेदात् । तस्मिन् ज्ञाते सर्वविदितंभवति। अत्र सर्वमिदमितिशब्दौ- स्थूलावस्थचिदचिद्विशिष्टब्रह्मपरौ । आत्मशब्दोपि सूक्ष्मचिद्वि- शिष्टब्रह्मपरः । अतस्तयोरभेदात् तद्विज्ञानेन सर्व विज्ञातमित्यु- पपद्यते । अनेन जगदुपादानत्वमुक्तंभवति । अत्र निदिध्यासितव्यः इत्युक्त्यासर्वोपादानत्वकथनात् जगत्कारणत्वं सकलपरविद्यानु- यायीति वदंति । ननु कथमात्मनिज्ञाते सर्वमिदं विज्ञातं स्याजगत- स्तद्भिन्नत्वादित्याशंक्याह ॥ ब्रह्मतंपरादाद्योन्यत्रात्मनो ब्रह्मवेद ॥ ब्रह्म ब्राह्मणवर्णः यस्त्वात्मनः परमात्मनोन्यत्र स्थितम् । नतुप- रमात्मनि । एवमुत्तरत्रापि द्रष्टव्यम् ॥ क्षत्रं तं परादाद्योन्यत्रात्मनः क्षत्रं वेद लोकास्तं परादुर्योन्यत्रात्मनोलोकान्वेद वेदास्तंपरादुर्योन्यत्रा- १ अबव्याख्येयश्रुतौ "आत्मावारेद्रष्टव्यः श्रोतव्योमंतव्योनिदिध्यासितव्यः” इतिपाठेपि पाठक्रमादर्थक्रमोवलीयान् । इतिन्यायातू श्रवणानन्तरमेवदर्शनस्यसंभवाच्च । अग्निहोत्रंजु- होतियवागूपचतीतिवनिर्देशोबोद्धव्यः॥

Game (३१२) विषयवाक्यदोपिका। [अध्या०१-पाद४- त्मनोवेदान्वेद भूतानितंपरादुर्योन्यत्रात्मनोभूतानिवे द सर्वतंपरादाद्योन्यत्रात्मनः सर्ववेद ॥ स्पष्टोर्थः । ननु सर्वस्य ब्रह्माधारकतया ब्रह्मात्मकत्वेपि ब्रह्मात्म- कस्यशरीरभूतस्य जगतः शरीरिभूतब्रह्मभिन्नत्वेन तज्ज्ञानेन तज्ज्ञा- नासंभवमाशंक्य तस्मिन् विज्ञाते इदं सर्व विदितमितीदंसर्वशब्दा- भ्यामन्यैरपि शब्देस्तच्छरीरकं ब्रह्मैवाभिधीयते इत्यभिप्रेत्याह ॥ इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूता- नीदं सर्व विदितं भवति॥ सर्वशरीरकं ब्रह्म विदितं भवतीत्यर्थ उपपद्यतइतिभावः । एवं जगत्कारणविशिष्टपरमात्मोपासनां विधाय उपासनोपकरणभूत मनःप्रभृतिकरणनियमनमाह ।। सयथा दुंदुभेर्हन्यमानस्य न बाह्याञ्च्छब्दाञ्च्छ- क्नुयाद्रहणाय दुंदुभेस्तु ग्रहणेन दुंदुभ्याघातस्य वा शब्दोगृहीतः॥ दुंदुभेरित्यनादरे षष्ठी । ग्रहणशब्दइह निरोधपरः। उपादाननि- रोधयोयोरपि ग्रहणशब्दवाच्यत्वात् । यथा गृहीतानि पुष्पाणि गृहीताःश्रोतार इति । यथादुंदुभौ हन्यमाने ततो निःसरतः शब्दा- बनिरोढुं शक्नुयात् । कथं तर्हि निरुणद्धीत्यवाह । दुंदुभेस्तुग्रहणेन दुंदुभ्याघातस्य वा शब्दो गृहीतः । दुंदुभिनिरोधेन तदाहंतृपुरुष निरोधेन वा शब्दानिरुध्यते। भेरीदंडयोरन्यतरनिरोधेन संयोगनि- रोधद्वारा शब्दानिरुध्यते । एवमिंद्रियेषु व्याप्रियमाणेषु वाह्यार्थ ज्ञानं दुनिरोधम् । अतो विषयापसारणेन वा इंद्रियनिरोधेन वा पर- मात्मसाक्षात्कारविरोधिवाह्यार्थज्ञानं निरुत्थ्यते इत्यर्थः । एव मुत्तरत्रापि द्रष्टव्यम् ॥

सू०१९-अधि०६] वाक्यान्वयाधिकरणम् । (३१३) स यथा शंखस्य ध्मायमानस्य नबाह्यांच्छन्दा उच्छक्नुयाद्हणाय शंखस्यतु ग्रहणेन शंखध्मानस्य वा शब्दोगृहीतः। स यथा वीणायै वाद्यमानायै नबा- ह्यांच्छब्दाञ्च्छक्नुयाद्रहणाय वीणायै तु ग्रहणेन वीणावाद्यस्य वाशब्दो गृहीतः॥ अत्र वीणाया इति चतुर्थी षष्ठयर्थे । छांदसोविभक्तिव्यत्ययः । सामान्येनोक्तं कारणत्वं प्रपंचयति ॥ स यथाऽट्रैधाग्नेरभ्याहितात्पृथक्धूमाविनिश्चरंति। एधशब्द अकारांतैइंधनवाची आर्दैधाग्निग्रहणं निमित्तोपादान- योपिनार्थम् । अग्निर्हिधूमोत्पत्तौ निमित्तम् । इंधनंतदुपादानम् । अभ्याहितादाध्मानवीजनादिना प्रवर्तितादित्यर्थः। पृथग्विधाधूमा- निर्गच्छंतीत्यर्थः ॥ एवंवारे अस्य महतो भूतस्य निश्वसितमेतत् ॥ महतोभूतस्य परमात्मनोनिश्वसितम् । अनायासेनोद्तमेतद्व- क्ष्यमाणमित्यर्थः । किंतदित्यत्राह ॥ ऋग्वेदोयजुर्वेदः सामवेदोथवा गिरस इतिहासपु- राणं विद्योपनिषदः श्लोकः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्यैवैतानि निश्वसितानि॥ इतिहाँसोरामायणादिः।पुराणं विष्णुपुराणादि । विद्याः चतुःषष्टि विद्याः। उपनिषदः प्रसिद्धाः। श्लोकाः स्मृतिरूपाः। सूत्राणि ब्रह्मसू- त्रादीनि।अनुव्याख्यानानि भाष्यव्याख्यानानि।व्याख्यानानि भाष्य- १."चतुर्थ्यर्थेबहुलंछंदसि ।२।३६२॥” इतिसूत्रेणेतिशेषः।२ इदमेधोदकस्योपस्कु- रुतइत्यत्र एधाःपक्ष्यतीत्यादि भाष्यनिर्देशेनशब्देन्दुशेखरेनिरूपितम् । ३ एतेषामितिहा- सादीनांशांकरभाष्योक्तरीत्यावेदपरत्वस्वीकारेतु दयानंदिनएवविजयिनोभवेयुरितिज्ञेयम् ।

- (३१४) विषयवाक्यदीपिका। [अध्या०१-पाद४- रूपाणि । एतानि सर्वाणिभगवतोनिश्वसितानि । अयत्नेनतदुद्ग- तानीत्यर्थः । यद्यपि सूत्रस्मृतिपुराणादयोव्यासाद्युद्गता इति पुराणेषु प्रसिद्धिः । तथापि तेषांभगवदंगत्वादद्भवन्निश्वसितोक्ति- रुपपद्यत इतिद्रष्टव्यम् । अत्रवाचकशब्दसृष्टिमात्रमुक्तं षष्ठे मैत्रे- योब्राह्मणेतु । इष्टंहुतमाशितंपायितमित्यादिना भोग्यभोगस्थान- भोक्तृवर्गरूपवाच्यसृष्टेरक्तत्वात् । अनुक्तस्यान्यतोग्राह्यत्वादत्रा- पिवाच्यसृष्टिरुक्तेतिद्रष्टव्यम् । अनेनपूर्वसामान्यतोनिर्दिष्टंजगत्का- रणत्वविवृतं भवति । सयथादुंदुभेर्हन्यमानस्येत्यादिना परोपा- सनोपकरणभूतकरणग्रामनियमनमुक्तं विशदयति॥ सयथासर्वासामपांसमुद्रएकायनमेवंसर्वेषांस्पर्शा- नांत्वगेकायनम् ॥ समुद्रस्यापामयनत्वनामतदुपादातृत्वमेव । एवंचस्पर्शायतनत्वं नाम तदुपादातृत्वम् । ततश्चायमर्थः । यथासमुद्रोभूयसीरपो गृह्णाति । एवंत्वगिद्रियमसंख्याकान्स्पर्शविशेषान्गृह्णाति । तत- श्चत्वगिद्रियस्य स्पर्शविषयव्यापाराअनंताइत्यर्थः । एवमुत्तरत्रा- पिष्टव्यम् ॥ एव सर्वेषासानांजिव्हैकायनमेवं सर्वेषांगंधा- नांनासिकैकायनमेव,सर्वेषारुपाणांचक्षुरेकायन मेव सर्वेषाशब्दानांश्रोत्रमेकायनमेव सर्वेषासं कल्पानांमनएकायनमेव सर्वासांविद्यानाहृदयम- कायनम् ॥ अवस्थाविशेषविशिष्टंमनोहृदयमित्युच्यते ॥ एव सर्वेषांकर्मणाहस्तावेकायनमेव सर्वेषा- सू०१९-अधि०६] वाक्यान्वयाधिकरणम् । (३१५) मानंदानामुपस्थएकायनमेव सर्वेषांवेदानांवागेका- यनम् ॥ स्पष्टोर्थः। ततश्चैकैकेंद्रियवृत्तिविशेषाअनंताः । ततश्चात्मसा- क्षात्कारार्थिना एतेवृत्तिविशेषानिरोद्धव्याइत्यभिप्रायः । तत- श्वसयथादुंदुभेर्हन्यमानस्येत्यनेनोक्तब्रह्मोपासनोपयोगिकरणग्राम- नियमनं विवृतंभवति । अथ सर्वावस्थास्वपिजीवस्वरूपस्य पर- मात्मनिष्ठतया स्वातंत्र्याभावज्ञापनाय जीववाचिशब्देनपरमात्मानं निदर्शयन्नमृतत्वोपायप्रवृत्तिप्रोत्साहनाय भूतसंघातात्मकशरीरज- न्ममरणानुविधायिनः संसरतोजीवस्यापरिच्छिन्नज्ञानकाकारतामु- पपादयति ॥ सयथासैंधवखिल्यउदकेप्रास्त उदकमेवानुविली- येत नहास्योद्हणायैवस्यात् यतोयतस्त्वाददीतलव- णमेव ॥ सैंधवखिल्यः लवणखंडः । खिलएव खिल्यः स्वार्थेयत् । यथासैं- धवशकलमुदके निक्षिप्तमुदकमनुप्रविश्यलीयते एवमस्यविलीनस्य लवणास्योद्हणायोदकात्पृथकृत्यगृहीतुयथानैवकोपिशक्त स्यात् । तचोदकंयथायतोयतः यस्माद्यस्मात्प्रदेशान्मध्यतः पार्श्वतोवा आददीततत्तोयंलवणमेवभवति ॥ एवंवा अरे इदंमहद्भूतमनंतमपारं विज्ञानंघन एवैतेभ्योभूतेभ्यः समुत्थाय तान्येवानुविनश्यति ॥ १ नन्वत्र विज्ञानघन एवेत्यवधारणेन “ सयथासैंधवघनोऽनंतरोऽवाह्यः कृत्स्नोरसघन- एव” इत्यन्यत्राप्युक्तत्वेनचेतरगुणदरिद्रं ज्ञानस्वरूपमेवात्मस्वरूपमितिप्रतीयते इतिचेत् । सत्यम् । यथैतच्छ्रतिबलेन ज्ञानस्वरूपत्वमंगीक्रियते. तथापहतपास्मत्वादिप्रतिपादकश्रुति- बलेन तद्गुणविशिष्टत्वमप्यगीकरणयिम् । दृष्टांतेपिरूपत्त्वगुरुत्वादयो थथाप्रमाणप्रतिपन्ना- स्तथात्रापातिनकोक्लिोषः। निरूपितचैतत् “ एवमप्युपन्यासात् ४१४।७॥” इतिसू- त्रेश्रीभाष्येश्रीरामानुजमुनिभिः ॥

(३१६) विषयवाक्यदीपिका। [ अध्या०१-पाद४- एवमेवैतन्महद्भूतमनंतमपरिच्छेद्यम्।अपारंगुणतोप्यपरिच्छेद्यम्। ब्रह्मविज्ञानघनएवजीवशरीरकतयाएतेभ्योभूतेभ्यउत्थायतान्येवानु- विनश्यति । भूतेषूत्पद्यमानेषुस्वयमुत्पद्यमानस्तेषु नश्यत्सु अनु- पश्चात्स्वयंनश्यतीत्यर्थः । देहोत्पत्तिविनाशानुविधाय्युत्पादविना- शवान् भवति । विनाशोनामात्यंतज्ञानसंकोच उत्पत्तिामविकाश- प्रादुर्भावः॥ नप्रेत्यसंज्ञास्तीति॥ प्रेत्यचरमदेहवियोगंप्राप्य मोक्षदशायांस्वाभाविकापरिच्छिन्त्रज्ञा- नसंकोचाभावेन नसंज्ञास्ति।समित्येकीकारे।ज्ञाधातोानमर्थः तत- श्चभूतसंघातेनैकीकृत्यज्ञानसंज्ञाशब्दार्थः।आमोक्षंदेहात्मभ्रमोनुवर्त- तइतिभावः । नचमहद्भूतमनंतमपारमितिनिर्दिष्टस्यैव ब्रह्मणोविज्ञा- नधनएवैतेभ्योभूतेभ्यः समुत्थायेतिजीवत्वसंसारित्ववेदनमुख्यमेवा- स्तु । विज्ञानधनः जीवशरीरकइतिकुतोव्याख्यायतइतिवाच्यम् । निरनिष्ठोनिरवद्यइतिश्रुतिप्रतिपन्नस्य परमात्मनः संसारित्वासंभवा- त् । मोक्षधर्मे जनकयाज्ञवल्क्यसंवादे । अन्यश्चराजन्सपरस्त- थान्यः पंचविंशकः । तत्स्थत्वादनुपश्यंति क एवेतिसाधवः” इति शरीरशरीरिणोभैदेपिशरीरांतस्थितस्यशरीरिणएकत्वादय- मेकः पुरुषइतिव्यवहारवदंतरवस्थितिनिबंधनः प्रकाय्क्यविषयो- भेदव्यवहारइत्युक्तम् । ततश्चजीवस्यपरमात्मशस्तियातद्वाचिना- विज्ञानघनशब्देन परमात्मनोभिधानंतद्धर्मभूतोत्पत्तिविनाशादिना तद्धमत्त्वंचनविरुद्धमितिद्रष्टव्यम् । नचोत्थानविनाशयोः सद्वार विशेषणत्वे आवश्यकेविज्ञानघनत्वस्यपरमात्मनि साक्षादेवसंभवात् विज्ञानघनशब्दस्यजीववाचित्वमाश्रित्य विज्ञानघनशब्देन जीवश- रीरकपरमात्माभिधानाश्रयणक्लेशः “अवस्थितेरितिकाशकृत्स्नः। १ जीवैक्यविषयः। - ।

सू०१९-अधि०६] वाक्यान्वयाधिकरणम् । (३१७) १।४।२१॥” इतिसूत्रभाष्येकुतोनुभूयतइतिवाच्यम् । परमा- त्मनः स्वरूपेणोत्थानविनाशासंभवाजीवस्वरूपेणोत्थानविनाश- स्यवक्तव्यत्वेन जीववाचिपदस्यकस्यचिदावश्यकत्वादन्यस्यचाभा- वाद्विज्ञानघनशब्दस्यजीववाचित्वसंभवाच्च विज्ञानघनशब्देनजीव- शरीरकपरमात्माभिधीयत इत्युक्तौविरोधाभावात् ॥ साहोवाचमैत्रेयी अत्रैवमाभगवानमूमुहन्नप्रेत्यसं- ज्ञास्तीति॥ नप्रेत्यसंज्ञास्तीतिवाक्ये एवमामां अमूमुहत् । मुहेर्गीचङ् । मोह यतिस्मेत्यर्थः । विज्ञानघनशब्दितस्यज्ञानेकाकारस्यात्मनःमुक्तौ- संज्ञाभावोविरुद्ध इतिमोहोमेसंवृत्तइतिभावः। यद्यपिसंज्ञाशब्दोदे- हात्म्यैक्यभ्रांतिपर इतिनविरोधः। तथापितदभिप्रायानभिज्ञानान्मु- झंतीमैत्रेय्येवमुक्तवतीतिद्रष्टव्यम् ॥ सहोवाचनवाअरेहंमोहंब्रवीम्यलंवा अरइदं वि- ज्ञानाय॥ नप्रेत्यसंज्ञास्तीति नाहंमोहंवचोब्रवीमि।इदंविज्ञानघनशब्दितम- हद्भूतपूर्वनिर्दिष्टंप्रेत्यापिविज्ञानायालंज्ञातुंपर्याप्तम् । ततश्चमुक्तावपि ज्ञानमस्तिज्ञानिनएवसतोमुक्तस्य नप्रेत्यसंज्ञास्तीतिपूर्वनिदिष्टसंज्ञा- भावोदेहात्मैक्यविषयकभ्रांत्यभावात्मेतिभावः। एवंमुक्तौदेहात्मभ्र- मनिवृत्तिमुक्त्वा स्वनिष्ठताभ्रमनिवृत्तिप्रतिपादयति ॥ यत्रहिंद्वैतमिवभवति तदितरइतरंजिघ्रति ॥ यत्र यस्यामवस्थायांद्वैतमिवभवतिस्वनिष्ठतया परमात्मनःपृथः- गिवभवतिस्वतंत्रइवभवतीति यावत् । स्वातंत्र्यस्याप्रामाणिकत्वद्यो- तनार्थः इवशन्दातदितरः इतरंजिघ्रति । तत् तदाइतरः भिन्नात्मकः S (३१८) विषयवाक्यदीपिका। [अध्या०१-पाद४- इतरंभिन्नात्मकंजिघ्रति । अत्रेतरेणेत्यध्याहार्यम् । उत्तरत्रतत्केन कंजिदितिदर्शनात् । इतरेणस्वतंत्रण करणेनजिघ्रतीत्यर्थः ॥ तदितरइतरंपश्यति तदितरइतरमभिवदति तदित-1 रइतर शृणोति तदितरइतरंमनुते तदितरइतरंविजा नाति यत्रत्वस्यसर्वमात्मैवाभूत्तत्केनकंजिघ्रत् तत्के नकंपश्येत् तत्केनकमभिवदेत् तत्केनकंशृणुयात् । तत्केनकंमन्वीत तत्केनकविजानीयात् ॥ यत्रयदासर्ववस्तुएकात्मकमेवाभूत्तदाकेनभिन्नात्मकेनकरणेनकं भिन्नात्मकंजिदित्यर्थः । इतरशब्दः सर्वत्रस्वतन्त्रवस्तुपरः।एवंसर्व द्रष्टव्यम् । अत्रसदैकात्मकस्यजगतः कालभेदेनभिन्नाभिन्नात्मक- त्वासंभवात् । आत्मैवाभूत् एकात्मकत्वेनज्ञातमभूदित्येवार्थः । यस्यात्मभेदप्रतीतिरस्ति तस्यकर्तृकर्मकरणेषुभिन्नात्मकत्वप्रती- तिरनुवर्तते । यस्यात्मभेदप्रतीतिर्यदासर्वथानास्ति तदाविरुद्धधर्म- वत्तयाप्रतीतेष्वपिकर्तृकर्मकरणेषभिन्नात्मकतयाप्रतीतिः सर्वथाना- स्तीतिपर्यवसितोर्थः । शिष्टंस्पष्टम् ।। येनेदंसर्वविजानातितकेनविजानीयात् येलपरमात्मना प्रसन्नेनानुगृहीतः सर्वज्ञोभवति तंपरमात्मानं केनहेतुनाविजानीयात् ॥ विज्ञातारमरेकेनविजानीयादिति ॥ अत्रविज्ञाशब्देन प्रक्रमोदितजगत्कारणत्वाक्षिप्तसार्वज्ञाश्रयः परमात्मैवोच्यते । तादृशंविज्ञातारं सर्वशंपरमात्मानंप्रकमोदित- ध्यानविना केनकेवलयज्ञदानाद्युपायेनविजानीयात् । उक्तंचव्यासा- यः। परमात्मप्रसादाढते तस्यदुरवगमत्वपरकेनविजानीयादितिपूर्व- वाक्यम्।उपासनातिरिक्तकेवलयज्ञदानाद्युपायांतरनिषेधपरविज्ञाता- सू०१-अधि०१] तदंतरप्रतित्यधिकरणम् । (३१९) रंकेन विजानीयादित्युत्तरवाक्यमिति । ततश्च परमात्मप्रसाद परमात्मोपासनयोईयोरप्यावश्यकत्वं द्वाभ्यां वाक्याभ्यां प्रति पादितंभवति । अत्र परमात्मोपासनतत्प्रसादसाध्यापरमावगतिः किंरूपेतिचितायां दर्शनसमानाकारध्यानरूपावगतिरेव प्रसादोपा- सनसाध्यत्वेन वाक्यद्वयप्रतिपत्रेतिकेचिदूचुः । मुक्तिकालीनदेशवि- शिष्टब्रह्मसाक्षात्कारलक्षणेत्यपरे । नोभयथापिविरोधपश्यामः । इति शब्दः प्रतिवचनसमाप्तौ । इति ब्रह्मसूत्रेषु प्रथमाध्यायः समाप्तः ॥ १ ॥ तदंतरप्रतिपत्तौ रंहतिसंपरिष्वक्तः प्रश्ननिरूपणा- भ्याम् ।३।११॥ छांदोग्येपंचम प्रपाठके तृतीयखण्डे ॥ प्रकृतिषिविक्तजीवयाथात्म्यविषयां पंचागिविद्यां संसृतिवैरा- ग्यायप्रस्तौति ॥ श्वेतकेतुहारुणेयः पंचालाना समितिमेयाय ॥ अरुणस्यापत्यमारुणिः तस्यापत्यमारुणेयः। पंचालानांजनपदा- नांसमितिसभामाजगाम ॥ तह प्रवाहणोजैवलिरुवाच ॥ जीवलस्यापत्यंजैवलिः नामतःप्रवाहणः पंचालराजउक्तवान् ॥ कुमारानुत्वाशिषत्पितेति ॥ हेकुमार त्वां तवपिता अन्वशिषत्किम् । अनु शिष्टवान्किमि- त्यर्थः । इतरआह॥ अनुहिभगवइति ॥ हेभगवः पूजाई । अनुशिष्टोस्मीति । एवमुक्तोजैवलिः पप्रच्छ । भ (३२०) विषयवाक्यदीपिका। [अध्या०३-पाद- वेत्थयदितोधिप्रजाः प्रयन्तीति ॥ प्रजाइतोधि इतऊर्द्ध यत्प्रयंति तज्जानीषे किम् । कर्मिणां गंतव्य देश कइत्यर्थः। इतरआह॥ नभगवइति ॥ जानइतिशेषः। पुनः पृच्छति ॥ वेत्थयथापुनः पुनरावर्तन्ता ३ इति ॥ कम्मिणांपुनरावृत्तिप्रकारः कइत्यर्थः । इतरआह॥ नभगवइति ॥ पुनः पृच्छति॥ वेत्थयथासौलोकोनसंपूर्यतइति॥ अस्माल्लोकादनवरतंगच्छद्भिः पुरुषः कस्माइतोः धुलोकोनसं- पूर्यतइत्यर्थः । वाजसनेयके समानप्रकरणे । वेत्थयथासौ लोकः एवं बहुभिः पुनः प्रयद्भिः नसंपूर्यतइतिश्रवणात् । अमुष्यलोकस्याप्राप्ता कइतितु प्रश्रस्यफलितार्थः। इतरआह॥ नभगवइति ॥ पुनः पृच्छति॥ वेत्थयथादेवयानस्यपितृयाणस्यचव्यावर्तनाइति॥ देवयानपितृयाणयोावर्त्तनेभेदकेरूपैकिंवत्थेत्यर्थः। केनप्रका रेणतयोभैदइत्यर्थः। इतरआह॥ नभगवइति॥ पुनः पृच्छति ॥

॥ सू०१-अधि०१] तदन्तरप्रतिपत्त्यधिकरणम् । (३२१) वेत्थयथापंचम्यामाहुतावापः पुरुषवचसोभवं- तीति॥ आपइतिभूतांतराणामप्युपलक्षणम् । भूतसूक्ष्माणि पंचम्यामाहु- तौयेनप्रकारेण पुरुषवचसः, पुरुषइतिवचोयासांताः पुरुषवचसः। पुरुष शब्दाभिलप्याइत्यर्थः। कस्यपंचम्यामाहुतावित्यपेक्षायांपुरु- पवचस्त्वभवनकर्तृतयानिर्दिष्टाः आपएवहूयमानतयासंबध्यते । अ- सन्निहितार्थातरकल्पनेगौरवात् । ततश्चापांपंचम्यामाहुतावापः पुरु- पवचसोभवतीत्यर्थः । ततश्चापामेवपंचस्वप्याहुतिषुहूयमानत्वमि- तिसिध्यतीति द्रष्टव्यम्। इतरआह॥ नैवभगवइति ॥ रंहत्यधिकरणे । ३।११॥ भगवताभाष्यकृताकम्मिणां गंत- व्यदेशं पुनरावृत्तिप्रकारंदेवयानपितृयाणपथव्यावर्त्तने अमुष्यलोक- स्याप्राप्तारंचवेत्थेति पृष्ट्वावेत्थयथापंचम्यामाहुतावापः पुरुषवच- सोभवंतीतिपप्रच्छेति भाषितम् ॥ अथनुकिमनुशिष्टोऽवोचथाःयोहीमानिनविद्यात्क- थंसोनुशिष्टोब्रवीतेति॥ किंकस्मादनुशिष्टोस्मीत्युक्तवानसि योहीमान्यर्थजातानिन जानीयात् सकथमनुशिष्टोस्मीतिवदेत् । यदाकिमनुशिष्टः कमर्थ- मनुशिष्टइत्यर्थः॥ स हाऽऽयस्तः पितुरईमेयाय ॥ सश्वेतकेतुः राज्ञाजैवलिना अयासितःसनपितुरर्द्धस्थानमाजगाम॥ त होवाचाननुशिष्यवावकिलमाभगवानब्रवीद- नुत्वाशिषमिति । पंच मा राजन्यबन्धुः प्रश्नानप्राक्षीत्ते- षांनैकंचनाशकंविवक्तुमिति॥ २१ (३२२) विषयवाक्यदीपिका। [अध्या०३-पाद:- मामननुशिष्य समावर्तनकालेऽनुशासनीयानि सर्वाण्यननुशि- ष्यैवत्वामन्वशिषमितिभगवान्मांप्रत्यब्रवीत् राजन्यबंधुः, मां पंचप्र- श्रानप्राशीलातेषांमध्येएकंचन, एकमपिप्रभंविवक्तुंविशिष्यवक्तुंनाश- कं,नशक्तोस्मीतिपितरमुवाचेत्यर्थः । राजन्यावंधवोयस्यसराजन्य- बंधुः राजन्यानांवंधुरितिवा । स्वयमराजन्यइत्यर्थः । राजन्याभा- सइतियावत् ॥ त होवाचयथा मां त्वंतदैतानवदः तथाहमेतेषांनै- कंचनवेदयद्यहमिमानवेदिष्यंकथंतेन वक्ष्यमिति ॥ त्वंमांप्रतितदाऽऽगमनकाले एतान्प्रश्नान्यथाऽवदः तेषांनै- चनाशकंविवक्तुमितियथोक्तवानसि तथाऽहमपितेषां मध्ये नैक- मप्यज्ञासिषम् । यद्यज्ञासिषते प्रियायपुत्राय समावर्तनकाले कुतो. नावक्ष्यमिति ॥ सहगौतमोराज्ञोई मेयाय ॥ एवमुक्त्वागोत्रतो गौतमआरुणिः राजस्थानमाजगाम ॥ तस्मैहप्राप्तायाहाँचकार ॥ प्राप्तायगौतमायराजाहीपूजांचकारेत्यर्थः ॥ सहततःप्रातः सभागउदेयाय ॥ ततःप्रातःकालेराज्ञि सभागते सतिउदेयाय गौतमआजगामायदा भजनं भागः पूजा।तेनयुक्तःअादिभिः पूज्यमानः समागतइत्यर्थः।। तथ्होवाचमानुषस्य भगवन् गौतम वित्तस्य वरं वृणीथाइति॥ हेभगवन् गौतम मनुष्यवित्तसंबंधिवरं वृणीष्वेत्युवाचेत्यर्थः ॥ सहोवाचतवैवराजन्मानुषंवित्तं यामेवकुमारस्यां- तेवाचमभाषथास्तामेवमेब्रूहीति ॥

सू०१-अधि०१] तदन्तरप्रतिपत्त्यधिकरणम् । (३२३) हेराजन् मानुषंवित्तं तवैवतिष्ठतुमत्पुत्रस्यसमीपे पंचप्रश्नलक्षणां यांवाचमुक्तवानसि तामेवमेब्रूहीति ॥ सहकृच्छ्रीबभूवत हचिरंवसेत्याज्ञापयांचकार । एवयुक्तोराजा गौतमस्याप्रत्याख्येयतांज्ञात्वा कृच्छ्री दुःखितोव- भूव । तंचगौतमंविद्यार्थचिरंवतेत्याज्ञप्तवान् । तहोवाचयथामात्वंगौतमाऽवदः यथेयंनप्राक्त्वत्पु राविद्याब्राह्मणान्गच्छतितस्मादुसर्वेषुलोकेषुक्षत्रस्यै- वप्रशासनमभूदिति ॥ हेगोतमत्त मांयथाऽवदः तथाकरिष्यामीतिशेषः । इयंवक्ष्यमा- णाविद्या पुराविद्यमानापित्वत् त्वत्तःप्राब्राह्मणानप्राप्तवती।तस्मा- त्सर्वेषुलोकेषुक्षत्रियजातेरेवैतद्विद्योपदेष्टुत्वम् । अतोब्राह्मणेष्वेतद्वि- द्याया अभावात् ब्राह्मणानामेवसमीपंगमिष्यामीतिबुद्धिर्नकार्या । चिरवासाऽऽज्ञापनमपिसोढव्यमितिभावः॥ तस्मैहोवाच ॥ चिरकालमुषितवतेतस्मैराजा विद्यामुपदिदेशेत्यर्थः। वेत्थयथा पंचम्यामाहुतावापः इतिपंचमप्रश्नप्रतिवचनस्य इतरप्रश्नप्रतिवचना- नुकूलत्वात्प्रथमतस्तदेवाह ॥ असौवावलोकोगौतमाग्निस्तस्यादित्यएवसमिद्र- श्मयोधूमःअहरचिःचंद्रमाअंगाराः नक्षत्राणिविष्फु- लिंगाः।१ । तस्मिन्नेतस्मिन्नग्नौदेवाःश्रद्धांजुह्वतितस्या आहुतेः सोमोराजासंभवतिापर्जन्योवावगौतमाग्निस्त- स्यवायुरेवसमिदभ्रंधूमोविद्युदचिरशनिरंगाराःहादुन- योविष्फुलिंगास्तस्मिन्नेतस्मिन्ननौदेवाः सोमराजानं (३२४) विषयवाक्यदीपिका। [अध्या०३-पाद- जुह्वति तस्याआहुतेर्वर्ष संभवति । पृथिवीवावगौतमा- ग्निस्तस्यसंवत्सरएवसमिदाकाशोधूमोरात्रिरर्चिर्दि- शोगाराः अवांतरदिशोविष्फुलिंगाः। तस्मिन्नेतस्मिन्न नौदेवावर्षजुह्वतितस्याआहुतेरन्नध्संभवति । पुरुषो वावगौतमानिस्तस्यवागेवसमित्प्राणोधूमोजिह्वार्चिश्च- क्षुरंगाराःश्रोत्रंविष्फुलिंगाः।तस्मिन्नेतस्मिन्नग्नौदेवाअन्नं जुह्वतितस्याआहुते रेतःसंभवति। योषावावगौतमा:- ग्निः तस्याउपस्थएवसमित् यदुपमंत्रयतेसधूमोयोनि- रर्चिर्यदंतःकरोतितेंगाराःअभिनन्दाविष्फुल्लिंगाः तस्मिन्नेतस्मिन्नग्नौदेवारेतोजुह्वतितस्याआहुतेर्गर्भःसं- भवति ॥ इतिपर्जन्यपृथिवीपुरुषयोपिद्रूपेष्वनिषुपंचसुश्रद्धासोमवृष्टयनरे- तोरूपाःपंचाहुतयः प्रदर्शिताः। देवाइन्द्रियाणि । तेषांहोमकर्तृत्व- मिंद्रियार्जितकर्मणांद्युलोकादिगमनहेतुत्वादितिद्रष्टव्यम् ॥ इतितुपंचम्यामाहुतावापःपुरुषवचसोभवंतीति ॥ इत्युक्तप्रकारेणरेतोरूपायांपंचम्यामाहुतावपछन्दितानिभूतमू- माणिपुरुषशब्दाभिलपनीयानिभवंतीत्यर्थः । इतिशब्दः पंचमप्र- श्रप्रतिवचनसमाप्तियोतनार्थः॥ सउल्बावृतोगर्भोदशवामासानंतःशयित्वायावद्वा- थजायतेसजातोयावदायुपंजीवति । तप्रेतंदिष्टमितोग्र- यएवहरंतियतएवेतोयतःसंभूतोभवति ॥ सगर्भउल्बेनजरायुणावेष्टितः सन्दशमासान्वा यावदानववाएका- दशवाद्वादशवा मातुःकुक्षौशयित्वा अथानंतरंजायते जातश्चयाव- - सू०१-अधि०१ ] तदन्तरप्रतिपत्त्यधिकरणम्। (३२५) दायुषंजीवति । आयुरवसानएवतंप्रेतंपुरुषं दिष्टंपरलोकायनिर्दिष्टम्। यद्वादिष्टंकानुसृत्ययतोधुलोकपर्जन्यायग्नेरिहागतः यतश्चयोषिद् पाग्नेरुत्पन्नः।तस्माअग्नयएवंदेवाहरंतिाततश्चद्युपर्जन्यपृथिवीपुरुषयो पित्सुपुनरप्येवं भ्रमतीत्यर्थः । अयं चोपन्यासोवैराग्य हेतोः। कष्टेहि मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्यो- वाशुचिपटावृतस्य शुक्रशोणितबीजस्य मातुरशितपीतरसानुप्रवे- शेनविवईमानस्य निरुद्धवीर्यबलशक्तितेजःप्रज्ञाचेष्टस्य बहुकालंश- यनम् । ततोयोनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिः।कर्मणो- पात्यावदायुस्तावदेवजीवनंपुनरपिघटीयंत्रकुंडिकान्यायेनारोहणा- वरोहणलक्षणं भ्रमणश्रूयमाणं वैराग्यमापादयति । अतएतदुपन्य- स्तमितिद्रष्टव्यम् ॥ वेत्थयथादेवयानस्यपितृयाणस्यचव्यावर्त्तना इतिचतुर्थप्रश्नं- प्रतिवक्ति॥ तद्यइत्थंविदुर्येचेमेरण्ये श्रद्धातपइत्युपासते ॥ प्रांकप्रस्तुतस्यसंसरतोजीवस्य स्वरूपंतदित्यनेन परामृश्य- ते । तत्प्रत्यगात्मस्वरूपये इत्थमुक्तप्रकारेणापर्जन्यपृथिवीपुरुष- योषित्सुश्रद्धासोमवृष्टयनरेतःशरीरकतयादेहादिविलक्षणतयाप्रक- तिविविक्ततयाचयेविदुरित्यर्थः । अत्रब्रह्मात्मकतयाचेत्यपियो- जनीयम् । भाष्यकृता "अप्रतीकालंबनात्।४।३।१४॥" इतिसूत्रे पंचाग्निविदोप्यचिरादिना गतिश्रवणादचिरादिनागतस्य- ब्रह्मप्राप्त्यपुनरावृत्तिश्रवणाच, अतएवतक्रतुन्यायात्प्रकृतिविनि- मुक्तब्रह्मात्मत्वानुसंधानसिद्धमिति भाषितम् । येचेमेऽरण्ये- स्थित्वाश्रद्धांपुरस्कृत्यतप:शब्दितंब्रह्मोपासतइत्यर्थः । वाजस- नेयकेसमानप्रकरणे “श्रद्धासत्यमुपासते” इति श्रवणात्सत्यश- ब्दस्य ब्रह्मपरत्वात् तपः शब्दोपिब्रह्मपरः॥“अनियमः सर्वे- (३२६) विषयवाक्यदीपिका। [अध्या०३-पाद:- पाम् । ३।३॥३२॥” इत्यधिकरणे भगवताभाष्यकृता तयइ- त्यविदुर्यएवमेतद्विदुरितिपंचाग्निविद्यानिष्ठान्येचेमइत्यादिना श्रद्धा- पूर्वकं ब्रह्मोपासीनांश्चोदिश्याचिरादिकागतिरुपदिश्यते । सत्यज्ञान- मनंतंब्रह्मसत्यत्वेवविजिज्ञासितव्यमितिसत्यशब्दश्च ब्रह्मणिप्रसिद्ध- इतिभाषितम् । उक्तंचव्यासायः “परमंयोमहत्तपः"इत्यादिषु तपः शब्दस्य ब्रह्मपरत्वंदृष्टमिति । वाजसनेयकेश्रद्धांसत्यमिति श्रद्धा- शब्दस्यद्वितीयांतत्वश्रवणादिहापिश्रद्धाशब्दोद्वितीयांतः । छांदस- वात्सुपांसुलुगिति सुपोलुक् । ततश्च पुरस्कृत्येत्यध्याहारः । श्रद्धां पुरस्कृत्य ब्रह्मोपासतइत्यर्थः । इतिस्त्वविवक्षितः । अथवैव- कारोबाध्याहर्त्तव्यः । ब्रह्मेत्येवोपासतइत्यर्थः । ततश्चाब्रह्मोपा- सनव्यावृत्तिफलकोयमितिशब्दोद्रष्टव्यः । यद्वा श्रद्धातपशब्दयोः प्रसिद्धएवार्थः । श्रद्धातपःपरायणानां च ब्रह्मविद्यानिष्ठत्वमर्थ- सिद्धम् । ततश्चब्रह्मविद्यानिष्ठाइत्यर्थः फलति । अयंचार्थस्त- दप्यविरुद्धं ना (अ) र्थत्वादपि शाब्दत्वंसंभवद्युक्ततममिति वदतां व्यासार्याणामनुमतएव ॥ तेर्चिषमभि संभवंत्यर्चिषोहरन्ह आपूर्यमाणपक्ष- मापूर्यमाणपक्षाद्यान् षडुदतिमासांस्तान्मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्याच्चंद्रमसं चंद्रमसो- विद्युतम् । तत्पुरुषोऽमानवः सएनान् ब्रह्मगमयति ॥ अत्राचिरादिशब्दास्तत्तदभिमानिदेवतापराः । तत्पुरुषोवैद्यु- तपुरुषः अमानवः असंसारी ब्रह्मलोकादागत्यब्रह्मलोकं प्रापयती- त्यर्थः । अमानवः सएत्यब्रह्मलोकान् गमयतीति श्रुत्यंतरेश्रवणात्॥ एषदेवयानः पंथाइति ॥ स्पष्टोर्थः॥ ।

सू०१-अधि०१] तदनन्तरप्रतिपत्त्यधिकरणम् । . (३२७) अथय इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूम- मभिसंभवन्ति ॥ येपुरुषाःग्रामएवस्थित्वेष्टंयागादि, पूर्तखातादि, दत्तं दानम् , इति शब्दस्तजातीयोपवासादिकम्मतिरपरयागदानहोमादीनि कर्माणि येऽनुतिष्ठन्तीत्यर्थः । उक्त प्रकारेणानुतिष्ठंतीत्यर्थ इतिव्यासार्यव- चनस्याप्ययमेवार्थः। श्रुतौ पूर्वमनुष्टानप्रकारानुक्तेः । यद्वा श्रद्धा- पूर्वकत्वरूपोक्तप्रकारवाची इतिशब्दः । तेधूममभिसंभवंतीत्यर्थः ॥ धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान् षड्दक्षिणे ति मासांस्तान ॥ अत्रापि धूमादिशब्दास्तत्तदभिमानिदेवतापराः। दक्षिणांदिश- मादित्य एति “दक्षिणादाच् । ५। ३ । ३६ ॥” इत्यानंतोयं शब्दः । तान्दक्षिणायनमासाभिमानिनीदेवताः प्रतिपद्यन्तइत्यर्थः॥ नैतेसंवत्सरमभिप्राप्नुवंति। एतेकेवलेष्टादिकारिणः दक्षिणायनमासान् प्राप्यापि विद्वांस इवनसंवत्सरं प्राप्नुवैतीत्यर्थः॥ पुनः किंप्राप्नुवंतीत्यत्राह॥ मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशा- चंद्रमसम् ॥ स्पष्टोर्थःवेत्थयदितोधिप्रजाःप्रयंतीतिप्रथम प्रश्न प्रत्युक्तोभवति ॥ एषसोमोराजा॥ अत्रैषइत्यनेन नाभिसंभाव्यश्चंद्रमाः परामृश्यते । तस्यसोमराज भावोपदेशस्य व्यर्थत्वात् । अपित्विष्टादिकारी अभिसंभवितापरा- मृश्यते । तस्याहुतेः सोमोराजासंभवतीति पंचाग्निविद्यावाक्या- नुसारात् । स्वर्गभोगयोग्यदिव्यदेहयुक्तोभवतीत्यर्थः॥

(३२८). विषयवाक्यदीपिका। [अध्या०३-पाद- तद्देवानामन्नतंदेवाभक्षयंति॥ इष्टादिकारिणामाजानसिद्धदेवकिकरत्वादन्नत्वभक्ष्यत्ववादः । मूत्रितंच “भाक्तंवानात्मवित्त्वात् ।३।११७॥” इति ॥ तस्मिन्यावत्संपातमुषित्वा ॥ संपतत्यनेनसंपातः कर्मशेषः । यावत्कर्मशेषमुषित्वेत्यर्थः । यावच्छब्दः साकल्यार्थः । साकल्यंच फलप्रदानयुक्तकर्मविशेष- विषयम् । नतुसर्वकर्मविषयम् ॥ वेत्थयथापुनरावर्ततइतिद्वितीयंप्रश्रप्रतिवक्ति ॥ अथैतमेवाध्वानंपुननिवर्त्ततेयथेतम् ॥ अथानंतरमेतमेव धूमादिमाग यथेतंयथागतंपुननिवर्त्तते । धूम राज्यपरपक्षदक्षिणायनषण्मासपितृलोकाकाशकमेणारोहणात्तेनैवक्र- मेणावरोहणे प्राप्ते तत्रविशेषमाह ।। आकाशमाकाशाद्वायुम् ॥ यथाकाशाचंद्रमभिसंभवत्येवचंद्रमसआकाशमभिसंभवंति । आरोहणावरोहणयोराकाशाभिसंभवस्त्वविशिष्टइतिभावः ॥ आ- काशाद्वायुमभिसंभवतीतिशेषः। वायुर्भूत्वाधूमोभवतीत्युत्तरत्र श्र- वणादत्राप्यवरोहन्नाकाशोभवतिवायुर्भवतीत्येवार्थः । अवरोहताचा- काशादिभवनं न तत्तच्छरीरकत्वम्।सर्गादिकालमारभ्याऽऽप्रलयमा- काशायभिमानिदेवतानामन्यासांक्प्तानांसत्त्वेनप्रतिक्षणमवरोहता- माकाशायभिमानिदेवतात्वानुपपत्तेस्तत्सादृश्यमेवार्थः। या आप- चंद्रमंडलेशरीरमारब्धवत्यस्तासां कर्मक्षये द्रवीभूतानामाकाशग- तानां भेदकाकारप्रहाणेनाकाशसादृश्ये तदुपश्लिष्टाजीवाअप्याका- शसमा इत्युच्यते । ताश्चापः इतश्चामुतश्चनीयमाना वायुसमाभवं- सू०१-अधि०१] तदन्तरप्रतिपत्त्यधिकरणम् । (३२९) ति। ततश्चतत्संश्लिष्टोजीवोपि वायुर्भवतीत्युच्यते । एवमुत्तरत्रा- पिद्रष्टव्यम् ॥ वायुर्भूत्वाधूमोभवतिधूमोभूत्वा_भवत्य_भूत्वा- मेघोभवति॥ अपोबिभर्तीत्यभ्रम् । मूलविभुजादित्वात्कः । मिह सेचनइति- धातोः पचायच्प्रत्यये न्यंक्वादित्वात्कुत्वेमेघइति ।ततश्चाभ्रशब्देन जलधारणावस्थउच्यते । मेघशब्देनवर्षोन्मुखावस्थउच्यते । एवमे- वभेदोव्यासायॆरुक्तः॥ मेघोभूत्वाप्रवर्षति॥ मेघसंश्लिष्टोभूत्वा वर्षधारारूपेणभूमौपततीतिफलितार्थः । तइहव्रीहियवाओषधिवनस्पतयस्तिलमाषाइतिजायंते वर्षसंश्लिष्टभूतसूक्ष्मपरिष्वक्ताजीवा व्रीहियवादिरूपेण जायते । अत्रतेनरूपेणजननं नाम न स्थावरभावप्रतिपत्तिः । स्थावरत्वप्राप्ति- हेतुभूतकर्मणामिहाकीर्तनात् । किंतुजीवांतराधिष्ठितेषुव्रीह्यादिषु संश्लेषमात्रम् । सूत्रितंच “ अन्याधिष्ठितेपूर्ववदभिलापात् । ३।। २४॥” इति । अतोवैखलुदुनिष्प्रपतरम् ॥ अतः स्थावरादिभावादतिचिरेणनिर्गमनंभवति । अत्रखलंताद् दुनिष्प्रपतशब्दादातिशायनिकेतरप्प्रत्ययेछांदसेतशब्दलोपेदुनिष्प पतरमितिरूपम् । ततश्चातिशयस्य प्रतियोग्याकांक्षायां प्राग- नुक्रांताकाशादीनां बुद्धौसन्निधानात्तेषामेवप्रतियोगित्वेनान्वयःस्या- त् । ततश्चत्रोह्यादिष्वाकाशाद्यपेक्षया चिरावस्थानोक्त्याऽका- शादिष्ववस्थानस्य तदपेक्षयाल्पकालत्वंपर्यवस्यति । उक्तंचभग- वताभाष्यकृताछांदसस्तशब्दलोपः दुनिष्प्रपतरं दुःखनिष्क्रमणत- + (३३०) विषयवाक्यदीपिका। [अध्या०३-पाद- रमित्यर्थइति । नच “ तयोरेवकृत्यक्तखलाः । ३ । ४। ७० ॥” इतिखलो भावकममात्रविषयत्वात् पतेश्चाकर्मकत्वेन- भावार्थस्यैवपरिशिष्टत्वात् तत्रचभावार्थस्यप्रकर्षाभावात्तरपोदौ लभ्यमितिशंक्यम् । शिश्येतरामित्यादिप्रयोगादभावार्थेपि प्रकर्षसं- भवात् कर्थपचाद्यजंतात्तरपःसंभवाच्च भाष्यस्यनानुपपत्तिः।यदा, आतोयुच्।३।३।१२८॥छन्दसिगत्यर्थेभ्यः।३।३।१२९॥इतिच्छंदसि- विशेषविहितखलर्थयुजंतएवायंशब्दः । रेफरूपवर्णविकार छांदसः॥ नन्वस्यतरप्प्रत्ययत्वाभावपूर्वनिर्दिशकाशादिभ्योतिशयस्तेष्वचि- रावस्थानवाकथंसिध्येदितिचेन ॥ वैशब्दस्यावधारणार्थतयाऽतः शब्दितत्रीह्यादिभावादेवचिरनिष्क्रमणे कथिते ततः पूर्वनिर्दिष्टेभ्य आकाशादिभ्योचिरानिष्कमणसिद्धयति।तशब्दलोपश्छांदसइतिभा ष्यस्यापि वर्णलोपेनवा वर्णविकारेणवा यथाकथंचित्साधुत्वंसमर्थनी यमित्यत्रतात्पर्यम् । ब्रीह्यादयोहिगिरितटादुदकस्रोतसोह्यमानान- दीप्राप्नुवंति । ततः समुद्रम् । ततोमकरादिभिर्भक्ष्यते । तेप्यन्यैः । तत्रैवचमकरेणसहसमुद्रेविलीनाः समुद्रांभोभिर्जलधरैराकृष्टाः पुनर्व षेधाराभिर्मरुदेशे शिलातलेवाहर्येवापतितास्तिष्ठति । कदाचिया- लमृगादिपीताभक्षिताश्चान्यैः। तेप्यन्यरित्येवंप्रकाराः परिवर्तेरन् । ततोदुनिष्क्रमणत्वम् ॥ योयोह्यन्नमत्तियोरेतः सिंचतितद्भूयएवभवति॥ अत्रस इत्यध्याहारः। सः ब्रीह्यादिसंश्लिष्टोवरोहन जीवः यो- नमत्तियोरेतः सिंचति पश्चात्तद्भवति । आकाशादिभाववद्रेतस्सि- ग्भावोप्यौपचारिकः । रेतःसिग्योगीभवतीत्यर्थः । एवमेवव्यासाय- रुक्तम् ॥ तद्यइहरमणीयचरणाअभ्याशो ह यत्तेरमणीयांयो- सू०१-अधि०१] तदनन्तरप्रतिपत्त्यधिकरणम् । (३३१) निमापोरन्ब्राह्मणयोनिवाक्षत्रिययोनिवावैश्ययोनि- वा।अथयइहकपूयचरणाअभ्याशोहयत्तेकपूयांयोनि- मापद्येरन्श्वयोनिवासूकरयोनिवाचण्डालयोनिंवा ॥ तत्तषुयेऽभ्याशोभ्यागंतारः । अभ्यापर्वादशेर्धातोः क्विवंताबहु- वचनांतोयंशब्दः। हेतिप्रसिद्धौ । यद्यदारमणीयचरणाःचर्यतइतिच- रणकर्म रमणीयकर्माणः । भुक्तशिष्टपरिपक्कसुकृतकर्मयुक्ताभवंती- त्यर्थः अत्रयदाशब्दानुरोधात् तदेत्यप्यध्याहर्तव्यम् । शिष्टस्पष्टम् । कपूयचरणाःकुत्सितचरणाइत्यर्थः।भुक्तशिष्टकर्मानुसारिजन्मप्राप्नुवं- तीत्यर्थः । यथासौलोकोनसंपूर्यता ३ इतितृतीयंप्रभूप्रतिवक्ति ॥ अथैतयोः पथोनकतरेणचतानीमानिक्षुद्राण्यसक दावर्तीनि भूतानिभवंति । जायस्वम्रियस्वेत्येतत्तृतीय- स्थानं तेनासौलोकोनसंपूर्यते ॥ अथशब्दः प्रतिवचनांतरोपक्रमेवर्तते । यानिभूतान्युक्तयोर्देवया- नपितृयाणयोर्मध्येकतरेणयेनकेनापि मार्गेणनगच्छंतिनागच्छंतिच तानीमानिभूतानिक्षुद्राणि दंशमशककीटादीन्यसकृदावर्तीनिसंति जायस्वम्रियस्वेतिभवंति । पुनःपुनर्जायंतेम्रियंतइत्यर्थः । सक्तू- पिवधाना-खादेत्ययमभ्यवहरतीत्यस्यपुनःपुनःपिबतिपुनःपुनःखाद तीत्यर्थः तद्वत । “क्रियासमभिहारेलोलोटोहिस्वौवाचत- ध्वमोः । ३ । ४ । २ ॥” इति पौनःपुन्यलक्षणक्रियासमभिहारे लोट्तध्वमोर्हिस्वादेशविधानाजायस्वम्रियस्वेतिरूपम् । “यथावि- ध्यनुप्रयोगः पूर्वस्मिन् । ३ । ४।४॥” “समुच्चयेसामान्य- वचनस्य । ३।४ । ५॥” इतिभवंतीतिसामान्यशब्दस्यानु- प्रयोगः । उक्तंचव्यासायः पुरीमवस्कंदलुनीहिनंदनंमुषाणरत्नानि- हरामरांगनाइतिवदिति ॥

विषयवाक्यदीपिका। [अध्या०३-पाद१- इत्येतत्तृतीयस्थानम् ॥ अत्रैतच्छब्देन जायस्वम्रियस्वेति भूतानिभवंतीति प्रथमांत- शब्देन प्रधानतयानिर्दिष्टाः पापकर्माणः परामृश्यते।सर्वनाम्नांपूर्व- निर्दिष्टप्रधानपरामर्शित्वात् । स्थानशब्दाभिप्रायेणैकवचनम् । पूर्वनिर्दिष्टद्युलोकब्रह्मलोकापेक्षया क्षुद्रजंतुभवनादिलक्षणस्थानस्य तृतीयत्वात्तत्स्थानसंबंधात् पापकर्माणः तृतीयस्थानमित्युच्यते ॥ तेनासौलोकोनसंपूयते ॥ तेनतृतीयस्थानशब्दितेन पापकर्मणाऽसौद्युलोकोनसंपूर्यते नप्राप्यत इत्यर्थः । अत्रैतत्तृतीयंस्थानमित्येतच्छन्देनपूर्वानर्दि- ष्टः पौनःपुन्येन जननमरणादिभवनलक्षणोधात्वर्थएव परामृश्य- ते । तस्यैव तृतीयस्थानत्वम् । ततश्चैतस्य तृतीयस्य स्थानस्य सद्भावादत्रैतत्स्थाने जीवानांप्रायेणप्रचारादधुलोकगंतॄणामल्पत्वाद् धुलोकोनसंपूर्यतइत्युक्तावपि भाष्यस्य नविरोधः । अतएवधु- लोकारोहावरोहाभावेन झुलोकासंपूर्तिवचनादिति भाषितमिति- द्रष्टव्यम् ॥ तस्माज्जुगुप्सेत॥ यस्मात्संसारिणां गतिरुक्तरीत्याकष्टतरातस्मात्संसाराज्जुगुप्से- तमाभून्मेएवंविधसंसारमहोदधौ घोरेपातइति निदेत् ।मुक्तिफलकप- चाग्निविद्यायाः फलांतरमप्याह । तदेष श्लोकः॥ तच्छन्दः प्रसिद्ध परः । एषवक्ष्यमाणः श्लोकइत्यर्थः॥ स्तेनोहिरण्यस्य सुरांपिबंश्चगुरास्तल्पमावसन्ब्रह्म हाच । एतेपतंतिचत्वारःपंचमश्चाचरंस्तैरिति॥ ।

सू०२१-अधि०५] उभयलिङ्गाधिकरणम् । तैराचरंस्तेनादिभिश्चतुभिर्विद्यायोनिसंबंधमाचरन्नित्यर्थः । शिष्टं स्पष्टम् ॥ अथहयएतानेवपंचाग्नीन्वेदनसहतैरप्याचरन्पाप्म नालिप्यते॥ स्पष्टोर्थः । विद्याविषयकज्ञानफलमाह ।। शुद्धःपूतः पुण्यलोकोभवतियएवंवेदयएवं वेद ॥ स्पष्टोर्थः॥ प्रकृतैतावत्त्वंहिप्रतिषेधतिततोब्रवीतिचभूयः।३।२।२१ बृहदारण्यकेचतुर्थाध्यायेतृतीयब्राह्मणारंभे॥ देवावब्रह्मणोरूपे । मूर्तचामूर्तच । मयंचामृतंच । स्थितं च । यच्चसच्चत्यच्च ॥ ब्रह्मणोद्धेशरीरे । वावशब्द प्रसिद्धौ । मूर्तकठिनम्।अमूर्त्तमकठि- नम् । महँचमरणम्मिनश्वरमित्यर्थः । अमृतंतदितरत् स्थितम् । अव्यापकम् । यध्यापकम् । एतिगच्छतिसर्वानिति यध्यापकमित्य- र्थः । सत्प्रत्यक्षोपलभ्यम् । त्यत्तदितरत् ॥ तदेन्मूर्त्तम् । यदन्यदायोश्चांतरिक्षाच्चैतन्मय॑मेत- स्थितमेतत्सत्॥ वाय्वंतरिक्षव्यतिरिक्तं पृथिव्यप्तेजोलक्षणं त्रयमपि कठिनत्ववि- नश्वरत्वाव्यापकत्वप्रत्यक्षोपलभ्यत्वरूपधर्मयुक्ततया मूर्तमर्त्य स्थितसच्छन्दवाच्यमित्यर्थः॥ तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यै तस्य सतः एषरसः यएषतपतिसतोह्येषरसः॥ यएषतपतिमंडलरूपेणेत्यर्थः । आदित्यमंडलंसच्छन्दितस्य तेजोवनस्यरसइत्यर्थः । तेजोवनवन्मंडलस्य प्रत्यक्षोपलभ्यमा- विषयवाक्यदीपिका। [अध्या०३-पाद२- नत्वात् । आदित्यमंडले मूर्त्तत्वादिचतुष्टययुक्तो तेजोवन्नरसत्वबुद्धिः कर्तव्येत्यर्थः॥ अथ मूर्त्तवायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यत् तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्ययतएतस्यत्यस्यै परसो यएतस्मिन्मंडले पुरुषस्त्यस्यह्येषरसइत्यधि दैवतम् ॥ अमूर्त्तत्वामृतत्वयत्त्वत्यत्त्वलक्षणधर्माचतुष्टयाश्रयवाय्वंतरिक्षर- सत्वबुद्धिरादित्यमंडलस्थपुरुषेकर्त्तव्येत्यर्थः ॥ एवमधिदैवतमुपासनाप्रकारमुक्त्वा अध्यात्ममूर्त्तामूर्तरसोपास- नचिंताप्रकारमाह ॥ अथाध्यात्ममिदमेव मूर्तयदन्यत् प्राणाच्चयश्चाय मंतरात्मन्नाकाश एतन्मर्त्यमेतत् स्थितमेतत्सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सतः । एषरसो यच्चक्षुः सतोह्येषरसः । अथामूर्त प्राणश्चयश्चायमंतरात्मन्नाकाशः । एतदमृतमेतद्यदे- तत्त्यत्तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्ययतएतस्य त्यस्य ह्येषरसोयोयंदक्षिणेक्षन्पुरुषस्त्यस्योषरसः॥ प्राणहार्दाकाशव्यतिरिक्तं शरीरांतर्वार्तमूर्त्तत्वादिधर्मचतुष्टया- धारभूतं यत् तस्यचक्षुरेवरसः । अमूर्त्तत्वादिचतुष्टयाश्रय प्राणहार्दाकाशयोदक्षिणाक्षिस्थपुरुषः परमात्मारसइत्यर्थः। नन्वहि कुंडला।३।२।२६ ॥ऽधिकरणभाष्ये मू मूर्त्तस्याचित्प्रपंच- स्यब्रह्मणोरूपत्वं देवावब्रह्मणोरूपइत्यादिनोपदिश्यतइत्युक्तम् । तव्याचक्षाणैासारचिदात्मकप्रपंचकथनेनचित्प्रपंचोपिकथितः स्यादित्यर्थः । नत्वन्ययोगव्यवच्छेदः । संगत्युपयोगित्वेनाचित्प्र- मू०२१-अधि०५] उभयलिङ्गाधिकरणम् । (३३५) पंचमात्रोपादानंकृतमिति भाष्यस्थमचित्प्रपंचपदं चित्प्रपंचस्याप्यु पलक्षणमितिव्याख्यातम् ॥ नचास्मिच्छुतिसंदर्भेचित्प्रपंचसमर्पकं किमपिपदं दृश्यतइतिचेन्न । वाय्वंतरिक्षादिशब्दानामचित्संसृष्ट- चित्परत्वोपपत्त्याचित्प्रपंचस्याप्युपादानसंभवेन चेतनाचेतनप्रपंच- स्यदेवावब्रह्मणोरूपेइत्यादिनाब्रह्मशरीरत्वप्रतिपादनादितिध्येयम् ॥ तस्यहैतस्यपुरुषस्यरूपंयथामाहारजनंवासोयथा- पांड्वाविकंयथेंद्रगोपो यथाग्न्यर्चिर्यथापुण्डरीकंय- थाऽसकृद्विद्युत्तम् ॥ कौसुंभंवास कंवलशक्रगोपकृम्यग्निज्वालांभोजैककालीनानेक- विद्युत्सदृशंरूपमस्यभवतीत्यर्थः। विद्युत्तंभावेनिष्ठा । युगपत् प्रवृ- त्तविद्योतनमित्यर्थः॥ सकृद्विद्युत्तेवहवास्यश्रीभवतियएवंवेद ॥ युगपत्प्रवृत्तविद्युदिवास्यश्रीः प्रकाशमाना भवति यएवंवेदेत्य- र्थः । देवावब्रह्मणोरूपे इतिमू मूर्त्तात्मकरूपत्वंब्रह्मणः प्रतिपाद्यत- त्प्रयुक्तेयत्तालक्षणपरिच्छेदरूपप्रकारवत्त्वं प्रसक्तंप्रतिषेधति ॥ अथातआदेशोनेतिनेति॥ आदेशउपदेशइत्यर्थः। क्रियतइतिशेषः । अथातः शब्दौवाक्यां- तरोपक्रमार्थो । इतिशब्द इयत्तालक्षणप्रकारवचनः । नैवनैवमि त्यर्थः। मूर्त्तामूर्त्तात्मकद्वयवत्त्वप्रयुक्तेयत्तालक्षणप्रकारयुक्तोनेत्यर्थः। इयत्तायानेतिनेतीतिवीप्साऽऽत्यंतिकाभावद्योतनानितिनेतीतीय- त्तानिपेधएवनपूर्वोक्तप्रकारनिषेधइत्यभिप्रायेणाह ।। नह्येतस्मादितिनेत्यन्यत्परमस्ति ॥ इतिनेतीयत्तारहितंयद्ब्रह्मप्रतिपादितं तस्मादेतस्मादन्यद्वस्तुपरंन झस्ति । ब्रह्मणोन्यत्स्वरूपतोगुणतश्चपरमुत्कृष्टनास्तीत्यर्थः । नत्व- (३३६) विषयवाक्यदीपिका। [अध्या०३-पाद३- न्यमात्रस्यनिषेधः। तथाहिसत्यन्यत्परमितिपदद्वयवैयापत्तेः । तदेवोपपादयति ॥ "अथनामधेयंसत्यस्यसत्यंप्राणावैसत्यंतेषामेषस- त्यम्" ॥ इति। प्रकृतिवत्स्वरूपविकाररहिततयासत्यशब्दवाच्येभ्यः प्राण- शब्दनिर्दिष्टचेतनेभ्योपिकदाचिदपिज्ञानादिसंकोचाभावात्परमात्म- सत्यनिर्विकारमित्यर्थः॥ अन्यथात्वंशब्दादितिचेन्नाविशेषात् । ३।३।६॥ छान्दोग्येप्रथमप्रपाठकारम्भेब्रह्मविद्यौपयिककर्माङ्गविषयमादा- बुपासनमुपदिश्यते ॥ ॐमित्येतदक्षरमुद्गीथमुपासीत । उद्गीथभक्त्यवयवभूतम् ओमित्येतदक्षरसुपासीतेत्यर्थः उद्गीथावय वओंकारेउद्गीथशब्दस्यलक्षणा । स्वयमेवश्रुतिरोंकारस्योद्गीथशब्द प्रतिपाद्यत्वेहेतुमाह। ओमित्युगायति॥ लोकेओमितियारभ्यैवोद्गायति । अतउद्गीथावयवत्वादुद्गीथशब्द प्रतिपाद्यत्वं युक्तमित्यर्थः ॥ तस्योपव्याख्यानम् ॥ तस्याक्षरस्यैवमुपासनमेवंविभूतिरेवंफलमित्यादिकथनमुपव्या- ख्यानक्रियतइतिशेषः॥ एषांभूतानांप्रथिवीरसः॥ एषांस्थावरजंगमात्मकभूतानांपृथिवीरसः परायणम्।पृथिव्याधा रकत्वादितिभावः॥

सू०६-अधि०२] अन्यथात्वाधिकरणम् । (३३७)
पृथिव्याआपोरसः॥
तस्याजलप्रकृतिकत्वादितिभावः
अपामोषधयोरसः॥
तत्परिणामत्वादितिभावः॥
ओषधीनांपुरुषोरसः॥
अन्नपरिणामत्वाच्छरीरस्यतिभावः ॥
पुरुषस्यवाग्रसः॥
वाचोत्युपकारकत्वादितिभावः॥
वाचऋग्रसः॥
ऋचांगंभीरार्थत्वादितिभावः॥
ऋचः सामरसः॥
गीतिसारत्वात्साम्नामितिभावः॥
साम्नउद्गीथोरसः॥
श्राव्यत्वात्सारइत्यर्थः। अत्रोद्गीथशब्देनोद्गीथावयवओंकारउच्यते॥
सएषरसानासतमः परमः ॥
सएषओंकारः भूतादीनामुत्तरोत्तररसानामतिशयितरसः ॥
पराद्धर्योष्टमोयदुद्गीथः॥
पराद्धयः परस्यब्रह्मणोधस्थानमहतीतिपरायः । "छंदसिचाद।।
६७॥” इतियत् । ब्रह्मवदोंकारस्याप्युपास्यत्वादितिभावः। अष्टमो-
यमुद्गीथः पृथिव्याआपो रसइति परिगणनायामष्टमइत्यर्थः। यदुवी-
थः यउद्रीथइत्यर्थः । वाचः ऋग्रस ऋचः सामरसः साम्नः उदीथो-
रसइति ऋक्सामोद्गीथानांप्रस्तुतत्वात्तान्विमृशतिविचारयतीत्यर्थः।।
"कतमाकतम ॥” इति॥
वीप्साऽऽदरार्था । काऋगित्यर्थः । एवमुत्तरत्रापि ॥
२२

(३३८) विषयवाक्यदीपिका। [अध्या०३-पाद३- कतमत्कतमत्साम कतमःकतमउद्गीथइतिविमृ- टंभवति॥ विमर्शःपूर्वैःकृतोभवतीत्यर्थः । विमर्शान्निष्पन्नमर्थमाह ।। वागेवप्राणःसामोमित्येतदक्षरमुद्गीथः ॥ स्पष्टोर्थः ॥ तदाएतन्मिथुनंयद्वाक्चप्राणश्च॥ स्त्रीलिंगशब्दवाच्यतयावाचःस्त्रीत्वं, प्राणस्यपुंल्लिंगशब्दवाच्यत- यापुंस्त्वमितिभावः॥ ऋक्चसामचतदेतन्मिथुनमोमित्येतस्मिन्नक्षरेसं- सृज्यते॥ वाक्प्राणयोमिथुनत्वेन तदभिन्नत्वेनऋक्सामयोरपि मिथुनत्वाद्- ऋक्सामात्मकंतदेतन्मिथुनमोमित्येतस्मिन्नक्षरे उद्गीथावयवभूतेसं- सृज्यते । उद्गीथस्य ऋगारूडसामभक्तिरूपत्वेन ऋक्सामरूपत- योद्गीथावयवप्रणवस्यऋक्सामाभ्यांसंसृष्टत्वात् तदात्मकमिथुनेनसं सृष्टत्वमित्यर्थः । वाक्प्राणात्मकमिथुनाध्यासविशिष्टऋक्सामसंसृ- ष्टतयोगीथावयवप्रणवोपासनं कर्त्तव्यमित्यर्थः॥ यदावैमिथुनौसमागच्छतआपयतोवैतावन्योन्यस्य- कामम् ॥ यदादंपतीमिथुनीभूतौ ग्राम्यधायसंमृज्येयातांतदान्योन्यका- मप्रापकत्वप्रसिद्धमित्यर्थः । मिथुनावितिपुंस्त्वद्विवचनेछांदसे।तत- श्योंकारोपिस्वात्मसंसृष्टमिथुनेनयजमानस्यकामप्रापकइतिभावः । तदुपासकोप्युद्गातास्वोपास्योंकारवद् यजमानकामप्रापकइत्याह ॥ आपयिताहवैकामानांभवतियएतदेवंविधानक्षर- मुद्गीथमुपास्ते॥

सू०६-अधि०२] अन्यथात्वाधिकरणम् । (३३९) कामाप्त्यादिविशिष्टोद्गीथावयवोपासनस्य यजमानगतकामाप्तिरे- व फलमित्यर्थः॥ तद्वाएतदनुज्ञाक्षरम् ॥ ओंकारोनुज्ञाक्षरमित्यर्थः । तदेवोपपादयति ॥ यद्धिकिंचानुजानात्योमित्येवतदाह ॥ लोकानुज्ञां प्रयच्छन्पुरुष ओमित्यनुजानाति ।। एषउएवसमृद्धि यदनुज्ञा ॥ उशब्दः प्रसिद्धौ । लोकेसमृद्धौहिओमित्यनुज्ञांप्रयच्छति । अतो- नुज्ञारूपस्योंकारस्य समृद्धिमूलकत्वादनुज्ञारूपओंकारएवसमृद्धि- रित्यर्थः। एवंसमृद्धिगुणविशिष्टोंकारोपासनस्यफलमाह ॥ समईयिताहवैकामानांभवतियएतदेवंविद्वानक्षरमु गीथमुपास्ते॥ यजमानस्यकामसमृद्धिंकरोतीत्यर्थः। उपास्यमोंकारं प्ररोचना- थै स्तौति॥ तेनेयंत्रयीविद्यावर्तते॥ तेनप्रकृतेनोपास्येनोंकारेण त्रयीविद्यात्रयीविहितंकर्म प्रवर्ततइ- त्यर्थः। तदेवोपपादयति ॥ ओमित्याश्रावयत्योमितिश सत्योमित्युद्गायति ॥ अंकारपूर्वकत्वादाश्रवणं शंसनोद्वानानामित्यर्थः । किमित्यों- कारपूर्वकमेवाश्रवणादिकंक्रियतइत्यत्राह ॥ एतस्यैवाक्षरस्यापचित्यैमहिम्नारसेन ॥ रसेनसारभूतेन महिनामाहात्म्येन युक्तस्यैतस्योंकारलक्षणस्या- क्षरस्यापचित्यै पूजार्थमित्यर्थः॥ नन्वनेवं विद्भिरपि कर्मणोनुष्ठीयमानत्वदर्शनाद्विद्यायावैयर्थ्य HASE (३४०) विषयवाक्यदीपिका। [अध्या०३-पाद३- मित्याशंक्यसत्यविद्वद्भिरविद्वद्भिरपिलोके ओंकारेणकर्मानुष्ठीयते । अथापिविद्याविद्येविलक्षणफले । विद्ययाक्रियमाणंहिकर्मवीर्यवत्तरं- भवत्यतादृशंतुनतथेत्याह ॥ तेनोभौकुरुतः।यश्चैतदेवंवेदयश्चनवेदनानातुविद्या- चाविद्याचयदेवविद्ययाकरोतिश्रद्धयोपनिषदातदेववी- यवत्तरंभवति ॥ विद्याउपासनम् । श्रद्धाआस्तिक्यबुद्धिः । उपनिषच्छन्देनोप- निषज्जन्यब्रह्मात्मकत्वज्ञानमुच्यते । कर्मणोवीर्यवत्तरत्वनामप्रब- लकान्तराप्रतिवद्धफलकत्वम् । इतिखखेतस्यैवाक्षरस्योपव्याख्यानंभवति॥ रसतमत्वकामावाप्तिसमृद्धिगुणकत्वादिभिरुक्तप्रकारैविशिष्टम- भिहितमुपासनंसर्वमेतदक्षरविषयकमेवेत्यर्थः। ततश्चउपास्यभेदशं कानकायेत्यर्थः॥ देवासुराहवैयत्रसंयेतिरेउभयेप्राजापत्याः॥ द्विविधाःप्रजापतिसुताः देवासुरायस्मिन्कालेपरस्परंयुद्धंकृतवं- तइत्यर्थः । प्राजापत्याइत्यपत्यार्थे “दित्यदित्यादित्यपत्युत्तरपदा- एण्यः।४।१॥२५॥” इतिण्यः॥ तद्धदेवाउद्गीथमाजबरनेनैनानभिहनिष्यामइति ॥ तदादेवा अनेनोद्गीथावयवेनोंकारेणोपासितेनासुरानेष्यामइत्य भिसंधायोगीथंप्रणवमुपायत्वेन स्वीकृतवंतइत्यर्थः ॥ तेहनासिक्यंघ्राणमुद्गीथमुपासांचक्रिरे॥ तेदेवाघ्राणेंद्रियत्वेनउद्गीथमुपासितवंतइत्यर्थः। नासिकायांभव- नासिक्यम् । “शरीरावयवाच्च । ४।३।५९ ॥” इतियत्।

सू०६-अधि०२] अन्यथात्वाधिकरणम्। (३४१) तहासुराःपाप्मनाविविधुः॥ तन्नासिक्यंप्राणमसुराःस्वकीयेनपाप्मनासंयोजितवंतः। पापहेतु- भूतवृत्त्यासंयोजितवंतइतियावत् । तत्रयुक्तिवक्ति ।। तस्मात्तेनोभयंजिघ्रतिसुरभिचदुर्गंधिचपाप्मनाये- षविद्धः॥ तस्मात्पाप्मसंसर्गाद्धेतोःपुरुष घाणेनसुरभिचदुर्गधिचोभयंजिन- तितस्मान्नासिक्यःप्राणः पापविद्धएवेत्यर्थः।। अथहवाचमुद्गीथमुपासांचक्रिरेतहासुराःपाप्म- नाविविधुस्तस्मात्तयोभयंवदतिसत्यंचानृतंचपाप्मना ह्येषाविद्धा । अथहचक्षुरुद्गीथमुपासांचक्रिरतद्धासुराः पाप्मनाविविधुस्तस्मात्तेनोभयंपश्यतिदर्शनीयंचादर्श नीयंचपाप्मनाह्येतद्विद्धम् ॥ अदर्शनीयममेध्यादिकमित्यर्थः॥ अथहश्रोत्रमुद्गीथमुपासांचक्रिरेतद्धासुराःपाप्मना- विविधुस्तस्मात्तेनोभयंशृणोतिश्रवणीयंचाश्रवणीयंच पाप्मनाह्येतद्विद्धम् ॥ अश्रवणीयंपापवचनमित्यर्थः॥ अथहमनउद्गीथमुपासांचक्रिरेतद्धासुराःपाप्मनावि- विधुस्तस्मात्तेनोभयसंकल्पयतेसंकल्पनीयंचासंक ल्पनीयंचपाप्मनाह्येतद्विद्धम् । अथहयएवायंमुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे ॥ असंकल्पनीयंपापमित्यर्थः । उद्गीथावयवमोंकारं मुख्यप्राणत्वे- नोपासितवंत इत्यर्थः॥

विषयवाक्यदीपिका। [अध्या०३-पाद३- तहासुराऋत्वाविदध्वंसुः॥ तंमुख्यप्राणंपाप्मनावेर्बुप्रवृत्ताअसुराः तंप्राप्यस्वयमेवविध्वस्ता- अभवन्नित्यर्थः। तत्रदृष्टांतमाह। यथाश्मानमाखणमृत्वाविध्वसेतैवम् ॥ आखन्यतइत्याखणंमृत्पिण्डः । यथामृत्पिण्डोश्मानंप्राप्यविध्व- स्तोभवत्येवमितिव्यासायाख्यातम् । आखणमितिछांदसंणत्वंन- पुंसकत्वंच । एतद्विद्यायाः फलमाह । यथाश्मानमाखणमृत्वाविध्वंसते एवं हैव सविध्वं- सते यएवंविदिपापं कामयतेयश्चैनमभिदासति ॥ यएवंविदिएतद्विद्यानिष्ठे यः पापंक कामयतेयश्चैनहिनस्तिसो- श्मप्राप्तलोष्ठबद्धस्तोभवतीत्यर्थः । दाप्लवनेदोअवखंडनेइत्यतोवा- लेट् “सिब्बहुलंलेटि। ३ । १॥३४॥” इतिसिपि दासतीतिरूपम् ॥ सएषोश्मा खणः॥ सएषः एतद्विद्यानिष्टेसदृशपापकामः अश्मप्राप्ता खणइत्यर्थः । “खनोघच ।३।३।२६॥” इत्यत्रकरणाधिकरणयोरित्यनुवृत्ताव- पिबहुलग्रहणात्कर्मणिधप्रत्ययः। अत्रचवक्तव्यमुपनिषद्भाष्यएवोक्तं- तत्रैवद्रष्टव्यम् ॥ बृहदारण्यकेतृतीयाध्यायेतृतीयब्राह्मणारंभे कर्मा- गभूतोद्वातरिमुख्यप्राणदृष्टिं विधातुमाख्यायिकामाह ॥ दयाहवैप्राजापत्यादेवाश्चासुराश्च ॥ हशब्दोवृत्तार्थस्मरणे । प्रजापतेरपत्यानिप्राजापत्याः दित्येत्या- दिनाअपत्यार्थेण्यप्रत्ययः । द्वया द्विविधाद्विप्रकाराइत्यर्थः । “द्वित्रि- भ्यांतयस्यायज्वा ।६।२।४३॥” इत्ययच्प्रत्ययः। केते । देवा- श्वासुराश्च॥ ततः कानीयसाएवदेवाः ज्यायसाअसुराः ॥ ततः तत्रेत्यर्थः । देवाः कनीयांसः अल्पीयांसः। कानीयसाइति सू०६-अधि०२] अन्यथात्वाधिकरणम् । स्वार्थे अण् । ज्यायसाअसुराः ज्यायांसः भूयांसः भूयांसोसुराइतिश्रु- त्यंतरात् ॥ तएषुलोकेष्वस्पर्द्धत ॥ परस्परविजिगीषांकृतवन्तः॥ तेहदेवाऊचुः॥ स्पष्टोर्थः॥ हंतासुरान्यज्ञउद्गीथेनात्ययामेति ॥ हतेत्यसुरविजयोपायदर्शनजहर्षे । अत्रोद्गीथशब्दउद्गातृपरः।उत्तर- त्रोदातुरेवाध्यस्तप्राणभावस्योपास्यत्वप्रतीतेः । त्वंनउद्गायोउद्गात्रा- अत्येष्यतीत्युत्तरत्रबहुकृत्व उद्गातृशब्दस्याभ्यसिष्यमाणतयातद- नुरोधेनोपक्रमस्थस्याप्युद्गीथशब्दस्य लक्षणयोगातृपरता। “अन्य- थात्वंशब्दात् । ३।३।६॥” इत्यधिकरणेचोद्गातुरुपास्यत्वे उद्गी- थेनेत्युपक्रमविरोधोनशंकनीयः। उद्गीथस्योद्ानकर्मभूतस्यावश्या- पेक्षितत्वात् तस्यापि परपरिभवाख्यफलंप्रतिहेतुत्वादितिभाषि- तत्वात् । श्रुतप्रकाशिकायां बृहदारण्यके अध्यस्तप्राण- भावस्योद्गातुरुपास्यत्वे उपक्रमविरोधइत्याशंक्य नापक्रमाधि- करणेउपक्रमानवगतमुपसंहारावगतंत्याज्यमित्युक्तम्। किंतूपक्रमाव- गतस्यभंगोनकार्यइति ।अत्रतूपक्रमावगतमधिकं चस्वीक्रियते।उद्गी- थेनात्ययामेत्युद्गातृगीयमानोद्गीथेतात्पर्यमित्युक्तत्वाच नोद्गीथ- शब्दस्योगातृलक्षकत्वम् । अपितूद्गीथशब्द उद्गातृविशेषणभूतोद्गीथ परः । नतुतद्धदेवाउद्गीथमाजह्वरने नानभिभविष्याम इतिच्छांदो- ग्यगतोद्गीथशब्दवत् स्वतंत्रोद्वीथपरः इतिवदन्ति । तेहवाचमूचुस्त्वन्नउद्गायेति ॥ त्वनउद्गाताभवेतिवागभिमानिनीदेवतांप्रार्थितवंतः॥

(३४४) विषयवाक्यदीपिका। [अध्या०३-पाद३- तथेतितेभ्योवागुदगायत ॥ तथेत्यंगीकृत्यतेभ्योदेवेभ्यो वागुद्गानं कृतवती । दृष्टिविधिप्रक- रणत्वात् । “आदित्यादिमतयश्चांगउपपत्तेः । ४ । ११६॥” इति न्यायनक्रत्वंगभूतउद्गातरिवाग्दृष्टिकृतवंतइत्यर्थः ॥ योवाचिभोगस्तं देवेभ्य आगायत् यत् कल्याणं वदतितदात्मने ॥ वाचिनिमित्ते यो भोगः गानादिजन्यो यः सुखानुभवः तंभोगदेवे भ्यः आगायत्देवानां भोगमुदिश्याऽऽगायत् गानंकृतवती ।गानेनदे- वानां भोगसंपादितवतीतियावत् । कल्याणवार्ताभिलपनरूपंवागि- द्रियकार्यतदप्यात्मनेवाक्संपादितवती ।। तेविदुरनेनवैनउद्गात्रात्येष्यंतीति ॥ तेअसुराविदुः ज्ञातवंतइत्यर्थः ॥ तमभिद्रुत्यपाप्मनाऽविध्यन् ॥ तमुद्गातारमभिद्रुत्य शीघ्रं प्राप्य पाप्मना अविध्यन् पापेन- संयोजितवंतः॥ संयः सपाप्मायदेवेदमप्रतिरूपं वदति स एव सपाप्मा॥ यः पाप्मातद्वेधनसाधनभूतः सतुयदेवेदमप्रतिरूपमनुचितमश्ली- लानृतपैशुन्यादिवदति सएवतद्रूपएक्सपाप्मेत्यर्थः । अयंभावः । असुराः वागिंद्रियं क्रोधाद्युत्पादनद्वारा परुषादिवादपैशुन्यादिदू- षितंकुर्वन्तीत्यर्थः । असुरबुद्धिकार्यत्वादिद्रियाणां पापप्रवृत्ते रितिभावः॥ अथहप्राणमूचुस्त्वन्न उगायेतितथेतितेभ्यः प्राण उद गायत्ायःप्राणेन भोगस्तंदेवेभ्यआगायद्यत् कल्याणं सू०६-अधि०२] अन्यथात्वाधिकरणम् । (३४५) जिघ्रतितदात्मने तेविदुरनेनवैनउद्गात्रात्येष्यंतीति त- मभिद्रुत्यपाप्मनाऽविध्यन्। सयःसपाप्मायदेवेदमप्रति रूपंजिघ्रति सएक्सपाप्मा। अथहचक्षुरूचुस्त्वन्नउद्गा येतितथेतितेभ्यश्चक्षुरुदगायत् । यश्चक्षुषिभोगस्तं देवे- भ्य आगायत्ायत् कल्याणंपश्यति तदात्मनेतेविदुर- नेनवैनउद्गात्रात्येष्यंतीति तमभिद्रुत्यपाप्मनाविध्यन्। सयःसपाप्मायदेवेदमप्रतिरूपंपश्यतिसएवसपाप्मा। अथहश्रोत्रमृचुस्त्वन्नउद्गायतितथेतितेभ्यः श्रोत्रमुद- गायतायः श्रोत्रेभोगस्तं देवेभ्यआगायत्ायत्कल्याणं शृणोतितदात्मनेते विदुरनेनवैनउद्गात्रात्यष्यंतीतितम भिद्रुत्यपाप्मनाविध्यनसयःसपाप्मायदेवेदमप्रतिरूपं शृणोतिसएवसपाप्मा । अथहमनऊचुस्त्वनउद्गायति तथेतितेभ्योमनउदगायत्।योमनसिभोगस्तंदेवेभ्यआ गायत्ायत्कल्याणं संकल्पयतितदात्मनेतेविदुरनेनवै- नउद्गात्रात्येष्यंतीतितमभिद्रुत्यपाप्मनाविध्यन्। सयः स पाप्मायदेवेदमप्रतिरूपंसंकल्पयतिसएवसपाप्मा॥ पूर्ववदर्थः॥ उक्तमर्थनिगमयति॥ एवमुखल्वेतादेवताः पाप्मभिरुपासृजन्नेवमेताः पा- प्मनाविध्यन् ॥ उशब्दोवधारणे । एवमेवखलूक्तयारीत्यैतादेवताः वागाद्या- उक्ताअनुक्ताश्चपाप्मभिरनृतवदनादिलक्षणैरुपासृजन् । उपगतवत्य- इत्यर्थः॥

(३४६) विषयवाक्यदीपिका। [अध्या०३-पाद३- एवमेनाः पाप्मनाऽविध्यन् ॥ असुराः एनाः वागादिदेवताः अनृतादिपाप्मनावेधनंकृतवन्तः॥ अथहेममासन्यप्राणमूचुस्त्वन्नउद्गायेति ॥ आसन्यमासन्नंमुख्यमित्यर्थः । यद्वा आस्येभवआसन्यः। आस्य शब्दस्य “पद्दन् ।६।३।६३॥ " इत्यादिनाआसनादेशः । मुख्यमितियावत् । तपाणंदेवाउक्तवंतः त्वन्नउद्गायेति । स्पष्टोर्थः । तेभ्यएषप्राणउदगायत् ॥ उद्गातरिमुख्यप्राणदृष्टिंकृतवंतइत्यर्थः । तथैवहिव्याख्यातंव्या- सायः “अन्यथात्वंशब्दात् ।३।३।६॥” इत्यधिकरणे ॥ तेविदुरनेनवैनउद्गात्रात्यष्यतीतितमभिद्रुत्यपाप्म- नाअविव्यत्सन् ॥ वेद्धमैच्छन् । व्यधताडने । तस्मात्सनिनेट् । अकित्त्वान्नसम्प्र सारणम् । शिष्टस्पष्टम् ॥ सयथाश्मानमृत्वालोष्टोविध्वंसेतएवंहैवतेविध्वंस- मानाविष्वंचोविनेशुः॥ यथाश्मचूर्णनायक्षिप्तोलोष्ठः पांसुपिंडः अश्मानंपाषाणभृत्वाप्रा- प्यविध्वंसेतचूर्णीभवेत्सदृष्टांतोयथा तथाऽध्यस्तमुख्यप्राणभावोद्वा- त्रुपासननिष्ठान्देवान्प्राप्यविध्वंसमाना चूर्णीभवंतः विष्वंचः नाना- गतयः विनष्टा अभवन्नित्यर्थः॥ ततोदेवाअभवन्परासुराः॥ ततः परं देवाजाता द्योतमानाअभवन्नित्यर्थः । यद्वा देवाः अभवन् सत्तामालभंतेत्यर्थः । विजयिनोभवन्नितिवार्थः । असुरास्तुपराभ- वन्पराभूताअभवन्नित्यर्थः॥

सू०१०-अधि०३] सर्वाभेदाधिकरणम् । (३४७) भवत्यात्मनापरास्यद्विषन्पाप्माभ्रातृव्योभवतिय एवंवेद॥ यउद्गातारमध्यस्तप्राणभावमुपास्तेसआत्मनाभवतिउत्तरोभवती- त्यर्थः । यद्वा आत्मनामनसासमीचीनेनयुक्तोभवतीत्यर्थः । अस्य द्विषन् “द्विषः शतुर्वावचनम्" इतिकर्मणिषष्ठी । एनंप्रतिद्वेषकुर्व- छत्रुः पाप्माच पराभवतिपराभूतोभवतीत्यर्थः। भवत्यात्मनापरा- स्यद्विषन्भ्रातृव्योभवतियएवंवेदेतिशत्रुपराजयफलायोद्गीथेप्राणहा ष्टिविहितेतिभाष्यस्योपलक्षणतयापाप्मपराभवस्यआत्मनाभवन- स्य च फलत्वप्रतिपादनस्य न विरोधइतिद्रष्टव्यम् । यद्वा अस्यद्विष- भ्रातृव्यः आत्मनास्वतएवपराभवतिपाप्माचनिन्दायुक्तश्चभवती- त्यर्थः ॥ सर्वाभेदादन्यत्रेमे । ३।३। १० ॥ छान्दोग्येपंचमप्रपाठकारम्भे प्राणविद्याप्रस्तूयते ॥ योहवैज्येष्ठंच श्रेष्ठंचवेदज्येष्ठश्चहवैश्रेष्ठश्चभवति ॥ ज्येष्ठत्वश्रेष्ठत्वगुणकंप्राणयोवेदसतत्क्रतुन्यायेनस्वयमपिज्येष्ठश्च- श्रेष्ठश्चभवति । ज्येष्ठत्वंवृद्धत्वम् । “वृद्धस्यचा५।३।६२॥ इति वृद्ध- शब्दस्यज्यादेशविधानात् । श्रेष्ठत्वंप्रशस्ततमत्वम्। प्रशस्यस्यश्रः। ५।३।६०॥” इतिप्रशस्यशब्दस्यश्रादेशविधानात् ॥ एवंफलदर्श नेनपुरुषमभिमुखीकृत्याह ॥ प्राणोवावज्येष्ठश्चश्रेष्ठश्च॥ वावशन्दोवधारणार्थः । गर्भस्थपुरुषेप्राणव्यापारप्रवृत्त्यनंतरभा- वित्वादिद्रियप्रवृत्तेःप्राणस्येंद्रियापेक्षयाज्येष्ठत्वम् । इन्द्रियव्यापा- राणांसर्वदैतदधीनत्वाच्छैष्टयंच। योहवैवसिष्ठंवेदवसिष्ठोहस्वानांभवति ॥

(३४८) विषयवाक्यदीपिका। [अध्या०३-पाद३- स्वानांज्ञातीनांमध्येवसिष्ठोभवतीत्यर्थः । कोवसिष्ठइत्यत्राह ॥ वाग्वाववसिष्ठः॥ अतिशयेनवसुमान्वसिष्ठः।वाग्मीहिलोकेअतिशयेनवसुमानभवति। अतश्ववसुमत्तासंपादकसब्यवहारजनकत्वाचोवसिष्ठत्वमितिभावः।। योहवैप्रतिष्ठांवेदप्रतिहतिष्ठत्यस्मिँश्चलोकेमु- ष्मिश्च॥ हशब्द प्रसिद्धौ।अत्रचामुत्रचप्रतितिष्ठतीत्यर्थः । कातर्हिप्रतिष्ठे- त्यत्राह॥ चक्षुर्वावप्रतिष्ठा ॥ चक्षुषाहिसमेदुर्गेचप्रतितिष्ठतीतिबृहदारण्यकेसमानप्रकरणेश्रव- णात्प्रतिष्ठासंपादकसमविषमभूतलप्रदर्शकत्वमेवचक्षुष प्रतिष्ठात्वम्। योहवैसंपदंवेदसहास्मैकामाःपयंतेदैवाश्चमानुषाश्च अस्मैकामाःसंपद्यतइत्यन्वयः । कातर्हिसंपदित्यत्राह ॥ श्रोत्रंवावसंपदिति॥ श्रोत्रेहिइमेसर्ववेदाअभिसंपन्नाइतिबृहदारण्यकेसमानप्रकरणेश्रव- णात्संपद्धेतुभूतवेदशास्त्रतदर्थश्रवणादिसंपादकत्वमेवश्रोत्रस्यसंप- त्त्वम् ॥ योहवाआयतनंवेदायतनथ्हस्वानांभवतिमनोहवा- आयतनम्॥ सकचंदनादिविषयकज्ञानस्वरूपभोगायतनत्वमेवमनसआयत- नत्वम् ॥ मुख्यप्राणस्यत्रैष्ठयसंपादनायाख्यायिकामाह ॥ अथहप्राणाअह/श्रेयसिव्यूदिरेअहश्रेयानस्म्यहं- श्रेयानस्मीति॥

सू०१०-अधि०३] सर्वाभेदाधिकरणम् । (३४९) अथशब्दआख्यायिकोपक्रमार्थः । अहंश्रेयसिस्वस्यश्रेयसिविष- येव्यूदिरेअहंश्रेयानस्मिअहंश्रेयानस्मीतिविवादंचकुरित्यर्थः॥ तेहप्राणाःप्रजापतिपितरमेत्योचुःभगवनकोनःश्रे- ष्ठइति॥ स्पष्टोर्थः॥ तान्होवाचयस्मिन्वउत्क्रांतेशरीरंपापिष्ठतरमिवद्द- श्यतेसवःश्रेष्ठइति ॥ युष्माकंमध्येयस्मिन्नुकांतेशरीरमतिशयेनपापिष्ठमतिहेयमिव- श्यतेसवः श्रेष्ठइत्युवाचेत्यर्थः॥ साहवागुच्चक्राम॥ साप्रसिद्धावाक्परीक्षणायशरीरादुक्रांतवती ॥ सासंवत्सरंप्रोष्यपर्येत्योवाचाकथमशकतर्ने मज्जी- वितुमिति॥ सावागेकसंवत्सरंप्रवासंकृत्वापुनरागत्यमहतेमांविनाजीवितुंक- थमशकतकथंशक्ताइत्युक्तवती । यथाकलाअवदंतःप्राणंतःप्राणेनपश्यंतश्चक्षुषा- वंतःश्रोत्रेणध्यायंतोमनसैवमिति ॥ यथाकलामूकावागिंद्रियव्यापाररहिताअपिइतरै प्राणैस्तत्तत्का यकुर्वतोजीवंतिएवंवयमप्यजीविष्मेतिप्रत्यूचुः॥ प्रविवेशहवाक्॥ एवमुक्तावाक्स्वस्यश्रैष्ठयाभावंनिश्चित्य देहंप्रविष्टवती। चक्षुर्दोच्चक्राम॥ चक्षुरुक्क्रान्तमभूत् । एवमुत्तरत्रापिद्रष्टव्यम् ॥

MAMIR (३५०) विषयवाक्यदीपिका। [ अध्या०३-पाद३- अथहप्राणउच्चिक्रमिपन्सयथासुहयः पड़ीशशंकू- न्संखिदेदेवमितरान्प्राणान्समखिदत् ॥ समुख्यः प्राणउच्चिक्रमिषन्क्रमितुमिच्छन् यथाशोभनोश्वः परीक्षार्थमश्वारूढेनताडितःषड्डीशशंकून्पादवंधनकीलकान्संखिदेत् उत्पाटयेदेवमितरान् प्राणान्स्वस्वस्थानेभ्यउत्पाटितवान् । तहाभिसमेत्योचुः भगवन्नेधित्वनः श्रेष्ठोसि मो- क्रमीरिति॥ हेभगवन् ! पूजाहत्वमेधिस्वामीतिशेषः । अस्तेलोंटिमध्यमपुरु- पैकवचनम् । भवेत्यर्थः । अस्माकंत्वमेवश्रेष्ठोसित्वमुक्रमणमाकार्षी- रितीइतरेषाणास्तमागत्योचुरित्यर्थः॥ अथहैनवागुवाचयदहंवसिष्ठास्मित्वंतसिष्ठोसीति । ययेन वाग्मिनोवसुमत्तासंपादकत्वलक्षणेनवसिष्ठा स्मीत्यर्थः । मदीयस्यगुणस्यत्वदधीनत्वात् त्वदीयएवसगुणइतिभावः । उक्तं- चव्यासायः । अहंयत्स्वकार्यकरणसमर्थास्मितस्यत्वधीनत्वात्तवै- तत्कार्यकरणसामर्थ्यमित्यर्थइति ॥ अथहैनचक्षुरुवाचयदहंप्रतिष्ठास्मित्वंतत्प्रतिष्ठासी ति। अथहैनंश्रोत्रमुवाचयदहंसंपदस्मित्वंतत्संपदसी- ति। अथहैनमनउवाच यदहमायतनमस्मित्वंतदाय- तनमसीति । नवैवाचोनचक्षूषिनश्रोत्राणिनमनांसी- त्याचक्षते । प्राणाइत्येवाचक्षते।प्राणो वैतानिसर्वाणि- भवंति॥ लौकिकावाआगमज्ञावावागादीनींद्रियाणिसर्वाणिवागायकैकवा- चकवागादिशब्दैनव्यवहरंति । अपितुप्राणशब्देनैवव्यवहरंतितत्क- सू०१८-अधि०५] कार्याख्यानाधिकरणम् । (३५१) स्यहेतोः। प्राणाधीनसत्ताकत्वादितरेषाम् । “यदधीनायस्यसत्तात- चदित्येवमण्यते” इत्युक्तेः प्राणाधीनसत्ताकत्वादितरेपामिद्रियाणां- सर्वाणींद्रियाणिप्राणएवभवंतीत्यर्थः ॥ कार्याख्यानादपूर्वम् । ३।३। १८ ॥ छान्दोग्येपंचमप्रपाठकेद्वितीयखण्डे । सहोवाचकिंमेनंभविष्यतीति ॥ वागादीन किंमेनंभविष्यतीतिप्राणः पप्रच्छेत्यर्थः । यत्किचिदिदमाश्वभ्यआशकुनिभ्यइतिहोचुः ॥ सर्वप्राणिनां यदनजातं तत्सर्वतवेतिवागादयः प्रत्यूचुः । श्रुतिः स्वेनरूपेणाह॥ तद्वाएतदनस्यानम् ॥ यकिंचिल्लोके प्राणिभिरद्यते तदेतदनस्यप्राणस्यान्नम् । प्राणेनै- वतद दद्यतइत्यर्थः॥ अनोहवैनामप्रत्यक्षम् ॥ अननं हिचेष्टा, सर्वविधाऽदनचेष्टायुक्तत्वात् प्राणस्यानइतिप्रत्यक्ष नाम । देवानां परोक्षप्रियत्वात् प्रत्यक्षमनइति नाम परित्यज्य प्राण इतिपरोक्षेणनाम्ना व्यवहारः। ततश्च अदनचेष्टायाअपितदीयत्वात्स- र्वप्राणिजातेनाद्यमानमन्नं सर्वतेनैवायतइतिप्राणस्यसर्वमन्त्रमित्यर्थः । यद्वा अनइत्यस्यनकारांतरयुक्तस्यैवान्नत्वाद्, अनइत्यस्य प्राण- नामत्वस्यप्रत्यक्षत्वादनं तत्संबंध्यवेत्यर्थः । अत्रप्राणविद्यानिष्टेनसर्व प्राण्यन्नादनस्यकर्तुमशक्यत्वान्नास्यवाक्यस्यसर्वप्राण्यन्नादनकर्तव्य त्वमर्थः । अपितुसर्वप्राणिजातान्नेप्राणान्नत्वचिंतनकर्त्तव्यमित्यर्थः । सर्वप्राणिजातान्नेप्राणानत्वचिंतनंस्तौति ॥

(३५२) विषयवाक्यदीपिका। [अध्या०३-पाद३- नहवाएवंविदिकिंचनानन्नंभवतीति ॥ प्राणविद्यानिष्टस्याभक्ष्यभक्षणदोषोनास्तीत्यर्थः ॥ सहोवाचकिमेवासोभविष्यतीतिआपइतिहोचुः॥ आपोवासस्त्वेनचिंतनीयाइतिहोचुरित्यर्थः ॥ तस्मादाएतदशिष्यंतः पुरस्ताच्चोपरिष्टाचाद्भिः परिदधति लंभुकोहवासोभवत्यनग्नोहभवति ॥ तस्मादपांवासस्त्वादेवाएतदेतस्मिन्नपिकालेभोक्ष्यमाणाःभोजना- त्प्राक्पश्चाचाचमनीयाभिरद्भिर्वासोभिः परिहितंप्राणमनग्रंकुर्वतीत्य- र्थः। अप्सुवासस्त्वचिंतनेनवासोभूताभिरद्भिः प्राणस्यपरिहितत्वादि तिभावः । अनग्नत्वचिंतनेनचस्वयमपिवासोलंभुकोभवति, वासोल- ब्धाभवतिअतएवानग्नश्चभवति । तत्क्रतुन्यायेनइतिभावः । वाजस नेयकेकाण्वशाखायांतस्योतमेकिमन्नंकिंवासइतियदिदंकिंचाश्वभ्य- आक्रिमिभ्यः आकीटपतंगेभ्यस्तत्तेनमापोवासइतिनहवाअस्याननं जग्धंभवतिनाननंप्रतिगृहीतंभवतियएवमेतदन्नस्यानत्वंवेदतद्विद्वां- सः श्रोत्रियाअशिष्यंतआचामंत्यशित्वाचाचामति । एतमेवतदनम- नग्नंकुर्वतोमन्यंतइतिपाठामाध्यदिनशाखायांतुतस्मादेवंविशिष्य- नाचामेदशित्वाचाचामेदेतमेवतदनमनग्नंकुरुतइतिपाठः॥ संबंधादेवमन्यत्रापि।३।३।२० ॥ बृहदारण्यकेसप्तमाध्यायेचतुर्थब्राह्मणादौ ॥ यएवमेतन्महद्यशंप्रथमजवेदसत्यंब्रह्मेतिसत्यंोवब्रह्मेति प्रस्तु- त्यव्याहतिशरीरकब्रह्मविद्याश्रूयते ॥ तद्यत्सत्यमसौसआदित्यः यएषएतस्मिन्मंडलेपु- रुषोयश्चायंदक्षिणेक्षन्पुरुषः॥

सू०२०-अधि०७] संबंधाधिकरणम्। (३५३) यत्प्रसिद्धसत्यमसौसआदित्यः सकइत्यत्राह । यएपएतस्मिन्म डलेपुरुषइति।यएषोतरादित्येहिरण्मयः पुरुषोदृश्यतेयएषोंतरक्षिणि पुरुषोदृश्यतइतिश्रुतिप्रसिद्धइत्यर्थः ।। तावेतावन्योन्यस्मिन्प्रतिष्ठितौरश्मिभिरेषोस्मिन्प्र- तिष्ठितः प्राणैरयममुष्मिन् ॥ अधिदैवतमध्यात्मंचावस्थितौआदित्यचाक्षुषपुरुषौपरस्परोप- कारकोभवतः । रश्मिद्वाराआदित्यपुरुषश्चाक्षुषस्यपुरुषस्योपका- रकः। आदित्यरश्मिसंबंधाभावेचाक्षुषस्यपुरुषस्यपरमात्मनः स्व- कार्यासमर्थत्वात् । चाक्षुपश्चपुरुषः प्राणनद्वारा आदित्यपुरुष- स्योपकारकः । प्राणनाभावेआदित्यपुरुषस्यपरमात्मनः प्रका- शकत्वाभावात् ॥ सयदोक्रमिष्यन्भवति शुद्धमेवैतन्मंडलंपश्यतिनै- नमेतेरश्मयः प्रत्याययंति ॥ एवंविद्वानक्रांतिवेलायांद्वारभूतमादित्यमंडलंद्रष्टुंशक्नोतिनसूर्य- रश्मयः एनं प्रतिप्रतिकूलंनायंति । अस्योपासकस्य । चक्षुःप्रतिघा- तायनप्रभवंतिचक्षुरादित्यमंडलस्थयोःपरस्परोपकार्योपकारकभाव- ज्ञानवैभवादिति भावः॥ यएषएतस्मिन्मंडलेपुरुषः तस्यभूरितिशिरः ॥ आदित्यमंडले वर्तमानस्य सत्यपुरुषस्य भूरितिव्याहृतिः शिर इत्यर्थः । तच्छिरस्कत्वेन ध्यानकर्त्तव्यमितिभावः तत्रोपपत्तिमाह ।। एक हिशिर एकमेतदक्षरम् ॥ एकत्वसंख्यासाम्यादितिभावः॥ भुवइतिबाहू ॥ तत्रोपपत्तिमाह ॥

FAN विषयवाक्यदीपिका। [अध्या०३-पाद३- द्रौबाहूद्वेएतेअक्षरे ॥ द्वित्वसाम्यादितिभावः॥ सुवरितिप्रतिष्ठा॥ प्रतिष्ठापादावित्यर्थः। तत्रोपपत्तिमाह ॥ देप्रतिष्ठेद्वेएतेअक्षरे तस्योपनिषदहरिति ॥ तस्यादित्यमंडलांतर्तिनः अहरित्युपनिषद्रहस्यनामेत्यर्थः । उक्तंच व्यासायः । संबंधादेवमन्यत्रापीत्यत्रोपनिषदो रहस्यनामनी इत्यर्थः इति । अहरित्यस्य हते हातेश्च रूपसंभवमभिप्रेत्यतदनु- सारेणफलमाह ॥ हंतिपाप्मानंजहातिचयएवंवेद ॥ सपाप्मानंहतिजहातिच । एवमुत्तरत्रापिद्रष्टव्यम् ॥ योयंदक्षिणेक्षन्पुरुषः-तस्योपनिषदहमिति ( अ- ध्यात्म)हंतिपाप्मानंजहातिचएवंवेद ॥ पूर्ववदर्थः॥ संभृतिधुव्याप्त्यपिचातः।३।३ । २३ ॥ तैत्तिरीयकराणायनीयानांखिलेषुच ॥ ब्रह्मज्येष्ठावीर्यासंभृतानि ब्रह्माग्रेज्येष्ठं दिवमात तान । ब्रह्मभूतानांप्रथमोथजज्ञेतेनार्हतिब्रह्मणास्पर्द्धि तुंकइति ॥ ब्रह्मब्रह्मणेत्यर्थः । ज्येष्ठाज्येष्ठानि । सुपां सुलुगिति लुकि न लोपेचरूपम्।वीर्यावीर्याणिोपराक्रमविशेषाः ।अत्रापिपूर्ववद्रूपम्।संभृ- तानिसम्यक्धृतानि तद्वीर्यविहति स्तीत्यर्थः । तचब्रह्मअग्रेइंद्रादि जन्मनः प्राकदिवस्वर्गमाततानव्याप्तवत् । सर्वदासर्वलोकव्याप्तमि- त्यर्थः। तादृशंसर्वेषांभूतानांप्रथममाविर्भूतंकालापरिच्छिन्नमितियाव- सू०२४-अधि०९ ] पुरुषविद्याधिकरणम् । (३५५) त् । तादृशेनब्रह्मणास्पर्दितुंक-क्षमतेइत्यर्थः।।इति संभृत्यधिकरणम्। पुरुषविद्यायामपिचेतरेषामनाम्नानात्। ३।३।२४॥ छान्दोग्यतृतीयप्रपाठकेषोडशखण्डारंभे दीर्घायुष्ठफलिकापुरुष विद्याप्रस्तूयते ॥ पुरुषोवावयज्ञस्तस्ययानिचतुर्विशतिवर्षाणि त- त्प्रातःसवनम् ॥ षोडशोत्तरशतवर्षपरिमितेपुरुषायुषेआधानिचतुर्विंशतिवर्षा- णिप्रातःसवनम् । तत्रहेतुमाह ॥ चतुर्विशत्यक्षरागायत्रीगायत्रंप्रातस्सवनम् ॥ प्रातःसवनस्यगायत्रीछंदस्त्वाद्गायत्रीछंदसश्चतुर्विशत्यक्षरा- त्मकत्वात् चतुर्विंशतिवर्षप्रातःसवनत्वाध्यासोयुज्यतइतिभावः ॥ तदस्यवसवोन्वायत्ताः॥ अस्योपासकस्यतत्प्रातःसवनंवसवः स्वामित्वेनानुगताः प्रसिद्ध- यज्ञेप्रातःसवनस्यवसुस्वामिकत्वादितिभावः । प्रसिद्धान्वमन्व्याव- तयति ॥ प्राणावाववसवः॥ वावशब्दोवधारणे । प्राणानांवसुत्वेयुक्तिमाह ॥ एतेहीद सर्ववासयंति॥ शरीराणामशैथिल्यलक्षणवासस्यप्राणाधीनत्वादितिभावः॥ तंचेदेतस्मिन्वयसिकिंचिदुपतपेत् ॥ तपुरुषंविद्यानिष्ठमेतस्मिन्वयसिचतुर्विंशतिवर्षात्मकेवयसिकि- चिद्रोगादिवातेत्यर्थः ॥ सब्रूयात्प्राणावसवःइदंमेप्रातःसवनमाध्यंदिन- (३५६) विषयवाक्यदीपिका। [अध्या०३-पाद३- सवनमनुसंतनुतेतिमाऽहंप्राणानांवसूनांमध्येयज्ञोवि- लोप्सीयेति॥ तदेममंत्रंब्रूयात् । सउपासकः हेप्राणावसकः यज्ञरूपस्यममाधु नाप्रातस्तवनंप्रवर्ततेइदंप्रवर्त्तमानप्रातःसवनमाध्यंदिनसवनेनावि- च्छिन्नंकुरुताप्रातस्सवनेशानांप्राणानांवसूनांमध्येयज्ञोहंयज्ञरूपोहंमा विलोप्सीयलुप्तोमाभूवम् । छांदसोमाङिलुङभावः । माशब्दोवा ॥ उद्धैवततएत्यगदोहभवति ॥ ततउपतापादुदेतिउद्गच्छतिअगदो भवति । अरोगोभवति । एवमुत्तरत्रापि॥ अथयानिचतुश्चत्वारिशद्वर्षाणितन्माध्यंदिनस- वनंचतुश्चत्वारिशदक्षरात्रिष्टुपत्रैष्टुभमाध्यंदिनंसवनं तदस्यरुद्राअन्वायत्ताःप्राणावावरुद्राएतेहीदछसर्वरोद यंतितंचेदेतस्मिन्वयसिकिंचिदुपतपेतसब्रूयात्।प्राणा- रुद्रा इदंमेमाध्यंदिन सवनंतृतीयंसवनमनुसंतनुते- तिमाहंप्राणानांरुद्राणांमध्येयज्ञोविलोप्सीयेति । उद्वै- वततएत्यगदोहभवति।अथयान्यष्टाचत्वारिशद्वर्षा- णितत्तृतीयंसवनम् अष्टाचत्वारिंशदक्षराजगतीजागतं- तृतीयसवनंतदस्यादित्याअन्वायत्ताः प्राणावावादि- त्याएतेहीद सर्वमाददतेतचेदेतस्मिन्वयसिकिंचिदुप तपेत्सब्रूयात् । प्राणाआदित्याः इदंमेतृतीयसवन- मायरनुसंतनतेति ॥ तृतीयंसवनात्मकमायुरासमाप्त्यविच्छिन्नंकुरुतेत्यर्थः॥

सू०२४-अधि०९] पुरुषविद्याधिकरणम् । (३६७) माहंप्राणानामादित्यानांमध्येयज्ञोविलोप्सीयेतिउ- द्वैवततएत्यगदोहैवभवति॥ स्पष्टोर्थः॥ एतद्धस्मवैतद्विद्वानाहमहीदासऐतरेयः सकिंमए- तदुपतपसियोहमनेननप्रेष्यामीति ॥ हेरोगसत्वमेमांकिकस्मादुपतपसियोहंत्वत्कृतेनोपतापेननप्रेष्या- मिनमरिष्यामि । अतस्तवश्रमोवृथैवेति । एतत्पुरुषविज्ञानस्वरूपं विद्वानितरपुत्रोमहीदासनामाऽऽहस्मेत्यर्थःशुभ्रादित्वादितरशब्दा- दुपत्यार्थेढक्॥ सहषोडशवर्षशतमजीवत्॥ स महोदासःषोडशाधिकंवर्षशतमजीवत्। "तदस्मिन्नधिकामिति दशांताड्डः" इतिषोडशशब्दाड्डप्रत्ययः । अन्योप्येवंवित्पोडशव पशतंजीवतोत्याह ॥ प्राहषोडशवर्षशतंजीवतियएवंवेदसयदशिशिषति यत्पिपासतियनरमतेताअस्यदीक्षा। अशनायापिपासारत्यभावानांदुःखात्मकत्वेनदीक्षात्वम् ॥ अथयदश्नातियत्पिबतियद्रमतेतदुपसदैरेति ॥ अशनपानरतीनांपयोव्रतादियुक्तोपसद्वत्सुखरूपत्वादुपसद्रूपत्व मुपसद्भिःसमानतामेतीत्यर्थः । उपसदृष्टिस्तासुकर्त्तव्यतिभावः ।। अथयतसतियज्जक्षतियन्मैथुनंचरतिस्तुतशस्त्रैरेव- तदेति॥ हासादीनांशब्दवत्त्वसाम्यात्स्तुतशस्त्रैः साम्यमेतीत्यर्थः ॥ अथयत्तपोदानमार्जवमहिंसासत्यवचनमितिताअ- स्यदक्षिणाः॥

विषयवाक्यदीपिका। [अध्या०३-पाद३- धर्मत्वतु (पु) ष्टिकरत्वसाम्यादितिभावः॥ तस्मादाहुः सोष्यत्यसोष्टेतिपुनरुत्पादनमेवास्य ॥ यतोहेतोः पुरुषस्यैवयज्ञरूपत्वमतएवयथायशंकरिष्यमाणःपुरु- पोदेवदत्तः सोमंसोष्यतीतिप्रयुंजतेतथापुरुषस्योत्पादनप्रतीक्ष्यय- दामाता तंपुरुषंजनयिष्यतितदापुरुषसोष्यतीतिप्रयुंजतेलोकास्तदु त्पादनादनंतरमसोष्टसोमंयज्ञदत्तइतिवत् असोष्टमातापुरुषमित्यु- त्पत्तेः पश्चात्प्रयुंजते । ततश्चपुरुषस्योत्पादनमेवसोष्यत्यसोष्टेतिश- ब्दसंबंधित्वसामान्याद्यज्ञानुष्टानलक्षणमुत्पादनमित्यर्थः॥ तन्मरणमेवावभृथः॥ समाप्तित्वसामान्यादितिभावः॥ तद्वैतद्धोरआंगिरसः कृष्णायदेवकीपुत्रायोक्त्वो वाच॥ घोरनामांगिरोगोत्रः।तदेतत्पुरुषयज्ञदर्शनदेवकीपुत्रायकृष्णाय । इतिशब्दोध्याहर्त्तव्यः। तच्छेषभूतं तत्प्रीत्यर्थमित्युक्त्वेत्यनुसंधा- योवाचाऽनुष्ठितवानित्यर्थः । वचेलक्षणयाऽनुष्ठानार्थत्वम् ॥ अपिपासएक्सबभूव ॥ स पोरनामाभगवच्छेषत्वानुसंधानपूर्वकपुरुषयज्ञोपासनानुष्ठाने- नब्रह्मविद्यांप्राप्यापिपासोमुक्तोबभूवेत्यर्थः । ततश्चषोडशाधिकवर्ष- शतजीवनफलकस्यापिपुरुषयज्ञदर्शनस्यभगवच्छेषत्वानुसंधानपू- र्वकमनुष्टितस्यब्रह्मविद्योपयोगित्वमप्यस्तीतिभावः ॥ वेधाद्यर्थभेदात् । ३।३।२५॥ आथर्वणिकाउपनिषदारंभेअधीयते ॥ शुक्रप्रविध्यहृदयंप्रविध्यधमनीः प्रविध्यशिरोभि- बज्यत्रिधाविवृत्तइति।

सू०२५-अधि०१०] अन्तरत्वाधिकरणम् । (३५९) अभिचारकर्मणिदेवताप्रार्थनार्थोमंत्रः । अस्यचायमर्थः । हेदे- वतेमच्छरोः शुक्रतेजिष्टमंगप्रविध्यालोण्मध्यमैकवचनम् । विदार- येत्यर्थः। हृदयंप्रविध्यहृदयंचविदारयेत्यर्थः । धमनीः शिराः प्रवि- ध्यविदारयेत्यर्थः । शिरोभित्रज्यत्रोटयेत्यर्थः । एवंममशत्रुस्त्रिधा- भिन्नशिराभवत्वित्यर्थः॥ देवसवितः प्रसुवयज्ञम् ॥ हेसवितः देव यज्ञप्रसुवअनुजानीहीत्यर्थः । काठास्तैत्तिरीयाश्च॥ "शन्नोमित्रः शंवरुण” इत्यादि ॥ सूर्यवरुणादयः सुखंकुवैत्वित्यर्थः ॥ ॥ इति वेधायधिकरणम् ॥ अन्तराभूतग्रामवत्स्वात्मनोन्यथाभेदानुपपत्तिरि- तिचेन्नोपदेशवत् । ३।३।३५॥ बृहदारण्यकेपंचमाध्यायेचतुर्थब्राह्मणारंभे ॥ अथहैनमुषस्तश्चाक्रायणः पप्रच्छ ॥ नानाउषस्तः चक्रस्यगोत्रापत्यम्।नडादिभ्यः फकाचाकायणः॥ याज्ञवल्क्येतिहोवाचयत्साक्षादपरोक्षाब्रह्मयआ- त्मासर्वांतरस्तन्मेव्याचक्ष्वेति॥ अपरोक्षादपरोक्षमित्यर्थः । सुपांसुलुगित्यादिना आदादेशः अपरोक्षत्वनामसर्वदेशकालसन्निहितत्वम्। देशकालसनिकर्षेयापरो- क्ष्यदर्शनाद्यदपरोक्षसाक्षाद्ब्रह्म। अव्यवधानेनब्रह्म । अगौणंमुख्यमिति यावत् । सर्वांतरआत्माचद्रष्टव्यः श्रोतव्यइतिदर्शनादिविषयत्वेनो- तश्चयः तादृशंवस्तुमेव्याचक्ष्वविविच्याचक्ष्वप्रदर्शयेत्यर्थः नदृष्टेष्टारंपश्येरितिद्रष्टव्यत्वादेरन्यत्रनिषेधादृष्टव्यत्वादिकमपिप्र- श्रविषयइतिद्रष्टव्यम् । उत्तरमाह ॥ plane विषयवाक्यदीपिका। [अध्या०३-पाद३- एषतआत्मासातरः । कतमोयाज्ञवल्क्यसन्ति- रः। यःप्राणेनप्राणितियोपानेनापानितिसतआत्मास- वातरः । योव्यानेनव्यानितिसतआत्मासर्वातरः। य- उदानेनोदानितिसतआत्मासर्वांतरः। एषतआत्मास- तिरः॥ तेयआत्मासएवसर्वातर्यामीअपरोक्षंमुख्यंब्रह्मद्रष्टव्यश्चेत्यर्थः । पुनःप्रछति । “कतमोयाज्ञवल्क्यसर्वातरः" यदुक्तंतेआत्मासर्वांतरः इतितदस्तु । कतमआत्मासर्वातरइतितवाभिप्रायइतिनजाने । देहें- द्रियप्राणजीवादिषुकश्चिन्मआत्मांतरः उतततोन्यइत्यर्थः । यद्यपिते आत्मेतिव्यतिरेकनिर्देशेनप्रत्यक्षदृष्टाभिमुखशरीव्यतिरेकः सिध्य- ति । तथापींद्रियाद्यन्यतमत्वसंदेहोनापाकृतइतिभावः । उतरमाह- यः।उक्तइतिशेषः । प्राणितीत्यादौरुदश्चपंचभ्यइतीट् । प्राणादिव्या- पारकर्तायः ससर्वांतरआत्मेत्यर्थः । अत्रप्राणस्यकरणतयानिर्देशा- प्राणव्यतिरेकः सिद्धः । सुषुप्तौबाह्याभ्यंतरेंद्रियोपरतावपिप्राणना- दिव्यापारदर्शनात् तव्यतिरेकोपिसिद्धः । सुषुप्तौजीवस्याप्युपरत व्यापारतयाप्राणेनप्राणितत्वाभावात्तव्यतिरेकोपसिध्यतीत्याशयः॥ सहोवाचोषस्तश्चाक्रायणः॥ आशयमविद्वान्पुनराहेत्यर्थः॥ यथाविब्रूयादसौगौरसावश्वइत्येवमेवैतद्यपदिष्टंभ- वति ॥ यथागांप्रदर्यासौगौरसावश्वइतिगव्यश्वाभेदोपदेशोविरुद्धः एव मेवैतद्यपदिष्टंभवति । एवमेवयत्साक्षादपरोक्षाद्ब्रह्मयआत्मासर्वांतर- स्तंमेव्याचक्ष्वेतिमामकप्रश्नएपतआत्मासर्वातरः यः प्राणेनप्राणितो- १ रुदादिभ्यस्सार्वधातुकइतीडित्यर्थः।

॥ मू०३५-अधि०१५] अन्तरत्वाधिकरणम् । (३६१) तिप्राणनादिकर्तुर्मदात्मनोजीवस्यसर्वांतरत्वकथनंविरुद्धवचनमेव । जीवस्यभिन्नभिन्नत्वेनसर्वातरत्वासंभवात् । अतः कतमोयाज्ञवल्क्य सर्वातरः। सतावदविरुद्धतयावक्तव्यइत्यर्थः । उत्तरमाह ॥ नदृष्टेन्रष्टारंपश्येः नश्रुतेः श्रोतारंशृणुयाः नमते मैतारंमन्वीथा नविज्ञातेर्विज्ञातारंविजानीयाः ॥ अत्रदृष्टेष्टारमितिपाकंपचतीतिवनिर्देशः।दृष्टेष्टारंदर्शनकर्ता- रमित्यर्थः।दर्शनश्रवणमनननिदिध्यासनानांयाकाजीवासनद्रष्टव्यः श्रोतव्योमंतव्योनिदिध्यासितव्यः । दर्शनादिकर्जुर्जीवादन्यएवद- र्शनादिकर्मभूतः सर्वातरआत्माइंद्रियाधीनदर्शनादीनांकारंजीवं प्राणनकर्तृत्वेननपश्येनमन्वीथाइतिवाक्यार्थः॥ अतोन्यदातम्॥ अतः परमात्मनः अन्यव्यतिरिक्तत्वदभिमतंप्राणितृत्वादिमजीव जातमातदुःखीत्यर्थः । अतएवनित्यमुक्तानांकदाप्यस्पृष्टदुःखत्वा- दतोन्यदातमित्युक्ति कथमितिशंकाप्रत्युक्तातेिषामिहाप्रसक्तत्वात् । अन्यशब्दस्यसन्निहितग्रागितृत्वादिमजीवपरत्वात् । यद्वा आऋ- तमीपनिर्विकारंनित्यमुक्तानांनिर्विकारत्वस्यान्याधीनत्वेनतनिर्वि- कारत्वस्थाल्पत्वात् ॥ ततोहोषस्तश्चाक्रायणउपरराम ॥ इति चतुर्थब्राह्मणम् ॥ अथहैनंकहोलः कौषीतकेयः पप्रच्छ ॥ कहोलोनामतः कुषीतकस्यापत्यकौषीतकेयः। “विकर्णकुषीत- कात्काश्यपे" इतिढक्॥ याज्ञवल्क्येतिहोवाचयदेवसाक्षादपरोक्षाब्रह्मय- आत्मासर्वांतरस्तन्मव्याचक्ष्वेति एषतआत्मासान्त रकतमोयाज्ञवल्क्यसर्वान्तरः॥ ॥

(३६२) विषयवाक्यदीपिका। [अध्या०३-पाद३- पूर्ववदर्थः। यद्यपिप्रश्नोयमुषस्तेनकृतएवदत्तोत्तरश्च । निरुपाधि- कसर्वप्राणिप्राणनहेतुत्वनिरंकुशसर्वातरत्वादस्यजीवव्यावृत्तिरपि- सिद्धा । नदृष्टेष्टारमित्यादिनादर्शनश्रवणादिकर्तुर्जीवस्यद्रष्टव्य- त्वादिनिषेधमुखेनमुख्यब्रह्मत्वमपिप्रतिषिद्धम् । तथापिप्राणि- तृत्वस्यजाग्रदादिदशाविशेषजीवेपिसंभवाद्यत्किंचिदेहाद्यपेक्षयांत रेजीवेआपेक्षिकसीतरत्वसंभवान्नदृष्टेष्टारमित्यत्रापिदृष्टिव्यतिरि- क्तद्रष्टुनिषेधपरत्वसंभवेनज्ञानस्वरूपजीवप्रतिपादकत्वसंभवादुक्तध- र्माणांपरमात्मैकांतिकत्वंनिश्चेतुमसमर्थस्यकहोलस्यदृढतरेणव्याव- तकधर्मेणजीवव्यावृत्तिनिश्चिकीर्षयापुन प्रश्नउपपन्नइतिद्रष्टव्यम् । अतएव "व्यतिहारोविशिषंतिहीतरवत् ।३।३।५२ ॥” इतिसूत्रेव्यावर्त्तकधर्मभूयस्तयाव्यावृत्तिबुद्धयतिशयार्थमेकविषय कंपनद्वयमित्युक्तंव्यासायः । तदभिप्रायजाननाह ॥ योशनायापिपासेशोकंमोहंजरांमृत्युमत्येति ॥ अशनायाबुभुक्षा । पातुमिच्छापिपासा । शोकइष्टानिष्टोभयवि- योगसंयोगजः । मोहःकामादिजनितःअज्ञानंवा । जीवस्यकर्माधी नदेहसंसर्गितयाऽशनायाचनतीतत्वात्तव्यावृत्तिासिध्यतीतिभावः । यद्यपिमुक्तानांनित्यानांचाशनायाबतीतत्वमस्ति।तथापितेषामशना याद्यतीत्वस्यपरमात्मसंकल्पायत्तत्वात, अनन्यसंकल्पाधीनाश- नायाबतीतत्वंपरमात्मनएव । किंच प्रकृतेवद्धजीवव्यावृत्तेरेवसत- आत्मेतिनिर्दिष्टस्योपदेष्टव्यतयानित्यमुक्तव्यावर्तकधर्मानुक्तावपि- नदोषइतिद्रष्टव्यम् ॥ एतवैतमात्मानं विदिलाब्राह्मणाःपुत्रैषणायाश्चवित्तै- षणायाश्चलोकैषणायाश्चव्युत्थायाथभिक्षाचर्यचरंति॥ तमेसर्वातरमशनायाबतीतंपरमात्मानमनातविदित्वाब्राह्मणा- सू०३५-अधि०१५] अन्तरत्वाधिकरणम् । (३६३) इत्यनेनक्षत्रियादिव्यावृत्तिः । पुत्रैषणायाश्चाइषेःस्वार्थेण्यंतास्त्रियां- ण्यासश्रंथोयुजितियुक्तिनपवादः । अण्यंतातुइच्छेतिनिपातः । इषेःस्वार्थेणिच्छांदसः । पुत्रैषणेत्यनेनजायामस्यात्प्रजाययेतियो- तासागृह्यते । वित्तषणायाश्चेत्यनेनवित्तमेस्यादथकर्मकुर्वीयेतियो- तासागृह्यते ।लोकैषणायाश्चेत्यनेनजायाप्रजावित्तकर्मसाध्यसकल- लोकेच्छागृह्यते । उक्तैषणात्रयाद्वयुत्थायषणात्रयहित्वायथाविधिसं- न्यस्येतियावत् । अथानंतरदेहयात्रार्थभिक्षाटनंकुवैतीत्यर्थः । इदं- चोपलक्षणंसर्वसंन्यासाश्रमधर्मानुष्ठानस्य अत्रवाक्येअप्राप्तत्वात्पारि व्राज्यविधीयते॥ याह्येवपुत्रैषणासावित्तषणा॥ अवर्जनीयपरस्परसंबंधादितिभावः॥ उभेह्येतेएषणेएवभवतः ॥ सर्वथासाध्यसाधनविषयकैषणाद्वयमेवपर्यवस्यतीतिभावः ॥ तस्माद्राह्मणःपांडित्यनिर्विद्यबाल्येनतिष्ठासेत् ॥ यस्माद्वैराग्यमावश्यकंतस्माद्राह्मणअधीतवेदइत्यर्थः । ब्रह्मा- धीतेब्राह्मण जातिपरोवा, पांडित्यंनिर्विघऊहापोहक्षमाधीः । पंडासा- स्यसंजातेतिपंडितःतस्यकर्मपांडित्यमौपदेशिकााधिगमरूपंविवे कंनिवेदविरक्तिफलकंनिर्विद्यलब्ध्वावाल्येनस्वमाहात्म्यानाविष्कर- णलक्षणवालस्वभावेनयुक्तस्सन्ब्रह्मणितिष्ठासेत् तनिष्ठांलभेत । उ- पासीतेतियावत् ॥ बाल्यंचपंडित्यंचनिर्विद्याथमुनिः॥ बाल्यपंडित्यनिर्विद्यलब्ध्वाऽऽरंबणसंशीलनलक्षणमननशीलः स्यादित्यर्थः । ध्यानविच्छेददशायामप्यत्यंतविषयोन्मुखत्वराहि- त्यायशुभाश्रयवस्तुसंशीलनंकर्तव्यमित्यर्थः॥

(३६४) विषयवाक्यदापिका। [अध्या०३-पाद३- अमौनंचमौनंचनिर्विद्याथब्राह्मणः ॥ अमौनमौनादन्यत्पूर्वनिर्दिष्टवाल्यपांडित्यलक्षणंमौनंचारंबणसं- शीलनात्मकमौनंचनिर्विद्याथब्राह्मणोब्रह्मविद्भवति । लब्धनिदिध्यास नोभवतीत्यर्थः॥ सब्राह्मण केनस्यायेनस्यात्तेनेदृशएव ॥ लब्धनिदिध्यासनोब्रह्मविदुक्तोपायादन्येनकेनस्यादितिप्रश्नः । उत्तरंयेनस्यात्तेनेदृशएवयेनमौनपर्यतेनब्राह्मणः स्यादित्युक्तंतेनैवे- दृशःस्यानकेनाप्यन्येनोपायेन ॥ अतोन्यदार्तम् ॥ अस्मात्परमात्मनः यदन्यत्प्राणिजातंतहुःखीत्यर्थः। ततोहकहोलः कौषीतकेयउपरराम ॥ स्पष्टोर्थः। लिंगभूयस्त्वात्तंद्धिबलीयस्तदपि ।३।३।४३ ॥ तैत्तिरीयकेषष्ठप्रश्श्रेदशमानुवाके ॥ ० दह्रविपाप्मंवरवेश्मभूतंयत्पुण्डरीकंपुरमध्यसंस्थ- म् । तत्रापिदद्वंगगनंविशोकस्तस्मिन्यदंतस्तदुपासि- तव्यम् ॥ अथयदिदमस्मिन्ब्रह्मपुरेदहरपुंडरीकंवेश्मदहरोस्मिन्नंतराकाश- स्तस्मिन्यदंतस्तदन्वेष्टव्यमितिच्छांदोग्योक्तरीत्योपास्यतयासन्नि- हितस्यपरस्यब्रह्मणः पुरभूतस्योपासकस्यशरीरस्यमध्येसंस्थितंदह रमल्पविपाप्मनिरस्तपापंपरमात्मनोवरवेश्मभूतंयद्धदयपुण्डरीकंत- त्रापियदल्पविशोकोपलक्षितापहतपाप्मत्वादिगुणकंगगनंगगनवदप रिच्छेद्यंब्रह्मतस्मिन्नतश्चयत्तदुभयमप्युपासितव्यमित्यर्थः । अत्रवक्त व्यंछांदोग्यप्रकाशिकायामुक्तंतत्रैवद्रष्टव्यम् । दहरविद्योपास्यदेवता- सू०४३-अधि०१९] लिङ्गभूयस्त्वाधिकरणम् । (३६५) विशेषः कइतिजिज्ञासायांनारायणस्यतदुपास्यत्वप्रतिपादयितुंस- कलपरविद्योपास्यत्वौपयिकंमहेश्वरत्वनारायणस्यदर्शयति ॥ यद्रेदादौस्वरः प्रोक्तोवेदान्तेचप्रतिष्ठितः । तस्यप्र- कृतिलीनस्ययः परःसमहेश्वरः॥ "ब्रह्मणः प्रणवंकुर्यादादावंतेच सर्वदा । स्रवत्यनोंकृतंब्रह्मपरस्ता चविशीर्यते” इतिमानवस्मरणात् । वेदाद्यते प्रतिष्ठितस्वरःप्रणवः। तस्यप्रकृतिरकारः समस्तशब्दमूलत्वादकारस्य । तत्रलीनत्वंतद्रूप- तामापन्नत्वमोंकारस्येतियावत् । तस्ययः परः प्रतिपाद्यः इदंपर- स्तत्परइत्यादौपरशब्दस्यवाच्येप्रयोगदर्शनात् “ अकारेणोच्यते- विष्णुः सर्वलोकेश्वरोहरिः "अकारोविष्णुवाचकः" इतिश्रुतिस्मृति- भ्यामकारवाच्योविष्णुः सएवमहानीश्वरइत्यर्थः। (दशमोनुवाकः) पूर्वस्मिन्ननुवाकेदहरविद्योपास्योनारायणएवेत्युक्तम् । अधुनातुपर- विद्याप्रकरणेषुशिवशंभुपरब्रह्मपरंज्योतिःपरतत्त्वपरमात्मादिशब्द- निर्दिष्टवस्तुनोनारायणत्वंप्रतिपाद्यते ॥ सहस्रशीर्षदेवं विश्वाक्षविश्वशंभुवम् । विश्वनारायणं- देवमक्षरंपरमंप्रभुम् । विश्वतः परमंनित्यंविश्वनाराय- णहरिम् । विश्वमेवेदंपुरुषस्तद्विश्वमुपजीवति । पतिविश्वस्यात्मेश्वरशाश्वतंशिवमच्युतम् । नाराय- णंमहाज्ञेयंविश्वात्मानंपरायणम् । नारायणपरंब्रह्मत- त्त्वंनारायणः परः । नारायणपरोज्योतिरात्मानाराय- णः परः । यच्चकिंचिजगत्यस्मिन्दृश्यतेश्रूयतेपिवा । अंतर्बहिश्चतत्सर्वव्याप्यनारायणः स्थितः । अनंतम- व्ययंकवि समुद्रेतविश्वस्वशंभुवम् ॥

(३६६) विषयवाक्यदीपिका। [अध्या०३-पाद३- लिङ्गभूयस्त्वा०।३।३।४३॥ऽधिकरणे भगवताभाष्यकृता नचसहस्रशीर्षमित्यादिद्वितीयानिर्देशेनपूर्वानुवाकोदितोपासिनासं- बंधः शंकनीयः । तस्मिन्यदंतस्तदुपासितव्यमित्युपासिगतेनकृ- त्प्रत्ययेनोपास्यस्यकर्मणोभिहितत्वादुपास्येद्वितीयानुपपत्तेः विश्वमेवेदंपुरुषस्तत्त्वनारायणइत्यादिप्रथमानिर्देशाचप्रथमार्थेद्विती यावेदितव्या । अंतर्बहिश्चतत्सर्वव्याप्यनारायणः स्थितः । नीवा- रशूकवत्तन्वीपीताभास्वत्यणूपमा। तस्याश्शिखायामध्ये परमात्मा- व्यवस्थितः। सब्रह्मा (म)सशिवःसहरि-सेंद्रःसोक्षर परमःस्वराडिति- निर्देशैः सर्वस्मात्परोनारायणएवसर्वत्रोपास्यइतिनिर्णीयमानत्वात्प्र- थमाथेंद्वितीयेतिनिश्चीयतइतिभाषितम् व्यासार्यैरपिद्वितीयांत- पदस्वारस्यानुरोधेतुविद्यादुपासीतेतिविधिपदाध्याहारः। प्रथमांतप- दस्वारस्यानुरोधेतुनाध्याहारः । सहस्रशीर्षमित्यादिद्वितीयायाये- नावृतंखंचदिवंमहींचेतिवत् प्रथमाश्रयणमात्रमितिवर्णितम् । विश्वा- क्षत्वं सर्वविषयकसाक्षात्कारवत्त्वम् । विश्वशंभुवत्वंसकलजगत्क्षे- मकरत्वम् । ननुविश्वनारायणमित्यभेदनिर्देशः कथमित्याशंक्यो- तं विश्वमेवेदंपुरुषस्तद्विश्वमुपजीवतीति । विश्वेनात्मतयोपजीव्य- तयाविश्वत्वंनतुस्वरूपेणेत्यभिप्रायः । नारायणपरंब्रह्मेत्यत्रनाराय- णात्परंब्रह्मेतिनार्थः शङ्कनीयः । पूर्वापरविरोधात् । नारायणः परं- ब्रह्मेतिमहोपनिषदिस्फुटमावेदनात् । समुद्रेअंतः स्थानंयस्यसमु- द्रेतः। सप्तम्यास्तत्पुरुषेकृतिबहुलमित्यलुक् । अन्तःसमाप्तीस्थाने- चनिर्णयेभ्यंतरेपिचेतिनैघण्टुकाः । इतरत्स्पष्टम् ॥ ननुसहस्रशीर्ष मित्यादिद्वितीयायायेनावृतंखंचदिवंमहींचेतिवत् प्रथमाश्रयणेतस्मि- न्यदंतस्तदुपासितव्यमितिप्रकृतदहरविद्योपास्यनिश्चायकत्वमेवयु- तम् । पद्मकोशप्रतीकाशमित्यस्मिन्ननुवाकेदहरविद्याप्रत्यभिज्ञा- नात् प्रकृतहान्यनौचित्यादितिपूर्वपक्षेप्राप्ते ॥ उच्यते ॥ "लिंगभूय- सू०४४-अधि०२० ] पूर्वविकल्पाधिकरणम् । (३६७) स्त्वात्तदिवलीयस्तदापियद्यपि"दहरविद्याप्रकृतातदेकवाक्यत्वंचयु- क्तम् । तथापिसकलपरविद्योपास्यनिर्धारणत्वेवहूनिलिंगान्युपलभ्य- न्तेतत्तत्परविद्यावाक्यगतानि परब्रह्मपरतत्त्वादिपदरूपाणिचिह्नानी- हवाक्यदृश्यन्ते । यदिप्रकृतविद्योपास्यदेवताविशेषसमर्पकमिदंवा- क्यजातस्यात् परब्रह्मपरतत्त्वादिप्रयोगोनारायणपदावृत्तिश्चनस्यात्। एकेननारायणपदेनैवसमीहितसिद्धेः, अतःपरब्रह्मादिपदवाच्यस्य- नारायणत्वविधानायैवायंसरंभः । शिवश्वनारायण शक्रश्चनारायण:- परतत्त्वमपिनारायणइतिवाक्यभेदोपिनदोषाय । तच्चलिप्रकरणा- दलीयः।तदुक्तंपूर्वकाण्डे। "श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवायेपारदौर्बल्यमर्थविप्रकर्षात्।"इतिनचसकलपरविद्योपास्यनि- श्वायकत्वेपद्मकोशप्रतीकाशमितिदहरविद्योपास्यविशेषेणोपसंहारो- नयुक्तइतिवाच्यम् । ऐतदात्म्यमिदंसर्वमितिसामान्येननिर्दिष्टस्यत- त्वमसीतिविशेषउपसंहारवत्सकलपरविद्योपास्यतयाभिहितस्यना- रायणस्यप्रकृतदहरविद्योपास्यतयोपसंहारेदोषाभावादितिस्थितम्।। पूर्वेविकल्पःप्रकरणात्स्याक्रियामानसवत् ।३। ३।४४॥ वाजसनेयके अग्निरहस्ये॥ तत्पत्रिंशतंसहस्राण्यपश्यदात्मनोनीन्मनोम- यान्मनश्चितः॥ तन्मनएवषट्त्रिंशत्सहस्रदिनात्मकपुरुषायुषांतर्गतैकैकदिनप्रभ वमानसबृत्तिसङ्घानग्नित्वदृष्टयोपास्यमानान्मनश्चित आत्मनःसंबं- धिनः अतएव अर्चनीयान्मनोमयान्मनोनिष्पाद्यानपश्यदित्यर्थः । कर्मण्यन्याख्यायामितिमनश्चीयतइत्यर्थेश्येनचिदादिशब्दवदसौ किवंतोनिष्पन्नः मनश्चितोनामाग्रीनित्यर्थः ।।

(३६८) विषयवाक्यदीपिका। [अध्या०३-पाद३- तेषुमनसैवाधीयन्तमनसाचीयन्तमनसैषुग्रहाअगृ- ह्यतमनसास्तुवन्मनसाशंसन् ॥ एषुमनश्चिदायग्निषुउपयुक्तान्याधानचयनग्रहणस्तोत्रशस्त्राण्य- पिमनोनिष्पायान्येवेत्यर्थः । नचसर्वेषांमनोव्यापाराणामग्नित्वह- ट्याक्रोडीकृतत्वादाधानचयनग्रहणस्तोत्रशस्त्रादिदृष्टिविषयोव्यापा रोनास्तीतिशंक्यम् । केषांचियापाराणामग्नित्वदृष्ट्याक्रोडीकार- स्यकेषांचित्तदुपयोग्याधानचयनस्तोत्रादिव्यापारत्वेनकोडीकारत्व- संभवान्नानुपपत्तिः॥ यत्किंचयज्ञकर्मक्रियतेयत्किंचयज्ञियंकर्ममनसैव ॥ तेषुमनोमयेषुमनश्चित्सुमनसैवमनोमयमक्रियतेत्यर्थः ॥ तद्यत्किंचेमानिभूतानिमनसासंकल्पयन्तितेषामे- वसाकृतिः॥ तत्तस्माल्लोकेसर्वैर्भूतैःक्रियमाणामनोव्यापारास्सर्वेप्येतनिष्पाय- मानानांविद्यामयानांमनश्चितांनिष्पादकव्यापाराइत्यर्थः । मनोव्या- पारत्वावच्छिन्नेषुसर्वेषुक्रियमाणायाअग्नित्वदृष्टेःसकलमनोव्यापारा- श्रिततयासर्वेषांमनोव्यापाराणांस्वाध्यस्ताग्निनिष्पादकत्वादितिभा- वः। तदेतदाह ॥ तान्येवाददतितांश्चिन्वन्तितेषुग्रहानगृह्णन्तितेषुस्तु वतेतेपुशंसन्ति ॥ सर्वाणिभूतानि विदुषासंपायेषुमनश्चित्स्वग्निषूपयुक्तान्याधा- नचयनस्तोत्रशस्त्राणिनिष्पादयन्तीत्यर्थः ।। एतावतीवैमनसोविभूतिरेतावतीसृष्टिरेतावन्मनोम- नसएतेग्नयः॥ तदधीनास्तत्कार्यभूताः। एतादृशमाहात्म्यशालिमनइत्यर्थः ॥

सू०४४-अधि०२०]. पूर्वविकल्पाधिकरणम् । (३६९) षट्त्रिंशत्सहस्राणिह्यग्नयोऽस्तेिषामेकैकएवता- वान्यावानसौपूर्वः॥ पत्रिंशत्सहस्रसंख्याकानामर्चनीयानामग्रीनामषांमध्येएकैको- प्यग्निः पूर्वोक्तेष्टकचिताग्निप्तहशइत्यर्थः । इष्टकचितस्याग्नेःस्वांगी- भूतक्रतुद्वारेणयत्फलंतदेवमनश्चिदादीनामपिविद्यामयक्रतुद्वारेणफल मित्यर्थः। एवमुत्तरत्रापिावाचितो वागिद्रियव्यापाराः कर्मचितःवा- गिद्रियातिरिक्तकमैंद्रियव्यापाराः । अग्निचितोजठाराग्निव्यापाराः तेहैतेविद्याचितएव॥ तेएतेमनश्चिदादयःसर्वेपिविद्याचितःविद्यार्थाश्चितइत्यर्थः । नतु मनश्चिदादीनामेव विद्यारूपचित्त्वं बोध्यते । तस्यसिद्धत्वेन विद्या- चितएवेत्यवधारणवैयर्थ्यप्रसंगात् । अतोविद्याचितएवेत्यस्यविद्या मयमानसग्रहादेः क्रियामयद्वादशाहादिक्रत्वर्थत्ववद्विद्यामयस्यमन- श्चिदादेः प्रसक्तस्यक्रियामयक्रत्वर्थत्वस्यप्रतिषेधार्थत्वमेव ॥ तान्हैतानेवंविदेसर्वदासर्वाणिभूतानिविचिन्वन्त्य- पिस्वपते ॥ एवं विदेविद्यामयक्रतुमतेजाग्रतेस्वपतेचसर्वदातानेतानग्नीन्वि- चिन्वंतीत्यर्थः । सार्वकालिकसर्वभूतकर्तृकमनोव्यापाराः अग्नित्व- दृष्टिविशिष्टविद्यावत्पुरुषशेषभूताश्चयनरूपाएवासन्नित्यर्थः। अत्रस- र्वभूतकर्तृकसर्वकालव्यापिमनोव्यापाररूपाग्नेः परिमितकालकर्तृक क्रियामयक्रत्वनुप्रवेशासामर्थ्यान्मनश्चिद्रूपोग्निनिसग्रहवन्नक्रिया- मयकत्वनुप्रवेशी । अपितुविद्यामयक्रत्वनुप्रवेशीतिद्रष्टव्यम् । तेहै- तेविद्याचितएवेत्येतद्वाक्यविवृणोति ॥ विद्ययाहैवैतेएवंविदश्चिताभवंति ॥ एवंविदः पुरुषस्यविद्ययाविद्यामयेनक्रतुनासंबद्धामनश्चिदादयः

(३७०) विषयवाक्यदीपिका। [अध्या०३-पाद३-
चिताभवंतीत्यर्थ इतिभगवताभाष्यकृतोक्तम् । अत्रविद्ययेतिप्रयो-
जनतयाहेतौ । विद्यार्थचिताइत्यर्थ इतिव्यासायाख्यातंच । अत्र
विद्ययाहैवैतइतिवाक्यस्यतेहैतेविद्याचितएवेतिवाक्यविवरणरूपत्व
स्यभाष्यएवाविष्कृतत्वाद्विद्याचितएवेत्यस्यापिविद्यार्था इतिपूर्वो-
क्तएवार्थइति ॥ इत्यग्निरहस्यप्रकाशिकायांप्रथमंब्राह्मणम् ॥
अग्निलोकंपृणाविषयाण्युपासनान्युपदिश्यन्ते ॥
अयंवावलोकएषोनिश्चितः॥
अस्मिल्लोकेचित्याग्निदृष्टिः कर्तव्या।
तस्यापएवपरिश्रिताः॥
समुद्रजलेअश्मन्नूजमितिपरिषिंचतीतिविहिताग्निपरिषेचनबुद्धिः
कर्तव्या॥
मनुष्यायजुष्मत्यइष्टकाः ॥
मनुष्येषुयजुमैत्रोपधेयेष्टकाबुद्धिः कार्या ॥
पशवः सूददोहाः॥
पशुषुसूददोहमंत्रोपधेयेष्टकाबुद्धिः कार्या ॥
ओषधयश्चवनस्पतयश्चपुरीषम् ॥
ओषधिवनस्पतिष्विइष्टकासन्धिच्छादनार्थगोमयबुद्धिः कार्या ॥
आहुतयः समिधः॥
स्पष्टोर्थः॥
अग्निलॊकंटणा॥
भूततृतीयाग्नौलोकंपृणछिद्रंपृणेतिमंत्रोपधेयशर्करावुद्धिः कार्या ।
पृणप्रीणनइत्यस्मात्तौदादिकाल्लोकंपृणतीत्यर्थेमूलविभुजादित्वात्क
प्रत्ययेलोकस्यपृणेमुम्बक्तव्यइतिमुमागमेस्त्रीत्वाहापिलोकंपृणेतिरू-
पसिद्धिः॥

सू०३-अधि०२६ ] यथाश्रयभावाधिकरणम् । (३७१) सयोहैतदेवंवेदलोकंटणाम् ॥ एवमनौलोकंपृणाहष्टियः करोति ॥ एनंभूतमेतत्सर्वमभिसंपद्यते॥ एनविद्वांसंसर्वाणिभूतान्याश्रयंतीत्यर्थः ।। तद्वाएतत्सर्वमग्निमेवाभिसंपद्यतेसयोहैतदेवंवेदलो- कंटणाम् ॥ एवमुक्तप्रकारेणैतदग्निमेतमग्निम् । लिंगव्यत्ययच्छांदसः। लोकं पृणांयोवेद । एनंभूतमेतत्सर्वमभिसंपद्यते ॥ एनविद्वांसमेतत्सर्वमभिसंपद्यते । शेषभूततयाऽऽश्रयतीत्यर्थः ।। समाहारात्।३।३।६१॥ छान्दोग्येप्रथमप्रपाठकेपंचमखण्डे । अथखलुयउद्गीथः सप्रणवो यः प्रणवः सउद्गीथ- इतिहोतृषदनाद्वैवापिदुरुद्वीथमनुसमाहरति ॥ अपिदुरुद्गीथवेदनहीनमप्युद्गीथमित्यर्थः । होतृषदनातहोतकर्तृ- कोद्गीथप्रणवैक्यज्ञानादित्यर्थः । होतृषदनेत्यत्रपूर्वपदादितिषत्वम् । अयंभावः । उद्गीथप्रणवैकत्वविज्ञानहोत्रापिकर्त्तव्यमुद्गात्रापिकर्तव्यं- प्रणवेहोतुरुद्गीथउद्गातुश्चकर्तृत्वात् । तत्रोद्गातुरेतादृशैकत्वविज्ञाना- भावेनदोषयुक्तमप्युद्गात्राप्रयुज्यमानयुद्गीथंहोतास्वीयोगीथप्रणवैक- त्वविज्ञानमाहात्म्यादनुसमाहरतिसमादधात्यदुष्टंकरोतीत्यर्थः॥

(३७२) विषयवाक्यदीपिका। [अध्या०४-पाद:- विशेषानुग्रहश्च ।३।४।३८॥ प्रश्नोपनिषदिप्रथमप्रश्रे॥ अथोत्तरेणतपसाब्रह्मचर्येणश्रद्धयाविद्ययात्मान- मन्वीक्ष्यादित्यमभिजयंते ॥ अथशब्दोवाक्यांतरोपक्रमे ।येतावत्किप्रजयाकरिष्यामइतिविर- ताऋषयः तेकायक्केशादिलक्षणेनतपसास्त्रीसंगराहित्यलक्षणेनब्रह्मच येणास्तिक्यबुद्धिलक्षणयाश्रद्धयाविद्ययाप्रत्यगात्मविद्ययापरमा- स्मानमुपास्याचिरादिनोत्तरेणायनेनादित्याचंद्रमसंचंद्रमसोविद्युतं- तत्पुरुषोऽमानवःसएतान्ब्रह्मगमयतीत्युक्तप्रकारेणब्रह्मप्राप्तिद्वारभूत- मादित्यमभिजयंतेप्राप्नुवंतीत्यर्थः॥ आवृत्तिरसकृदुपदेशात् ४।१।१॥ मुण्डकोपनिषदितृतीयमुण्डकेप्रथमखण्डे ॥ ज्ञानप्रसादनविशुद्धसत्त्वस्ततस्तुतंपश्यतेनिष्कलं- ध्यायमानः॥ ज्ञानहेतुभूतपरमात्मप्रसादेनविशुद्धांतःकरणः सन्निरवयवपरमात्मा नध्यायमानो ध्यायन्ध्यानेनदर्शनसमानाकारज्ञानविशेषेणपरमा- त्मानंसाक्षात्करोतीत्यर्थः। कठवल्लीमंत्रोयम्॥ इत्यावृत्त्यधिकरणम्॥ अचलत्वंचापेक्ष्य ४।१।९॥ "न्दोग्येसप्तमाध्यायेषष्ठखंडेभूमविद्यायाम् ॥ पनवावचित्ताद्भूयः ध्यायतीवष्टाथिवीध्यायतीवां- ॥ श्रेष्ठयादेवध्यातारंपृथिव्यादयोप्यनुकुवैतिातस्मादयानं- सू०४-अधि०३] अध्यक्षाधिकरणम् । (३७३) यत्रैकाग्रतातत्राविशेषात्।४।१।११ ॥ श्वेताश्वतरोपनिषदि ॥ समेशुचौशर्करावह्निवालुकाविवर्जितेशब्दजलाश- यादिभिः । मनोनुकूलेनतुचक्षुःपीडनेगुहानिवाताश्र- यणेप्रयोजयेत् ॥ निनोन्नतत्वादिरहितेपरिशुद्धे क्षुद्रपाषाणवह्निवालुकारहिते वा- धध्वनिजलाशयावत्यंतसामीप्यरहिते मनोनुकूलेचक्षुःपीडनादिहे- त्वौष्ण्यादिरहिते गुहादिलक्षणनिवातदेशाश्रयणेन योगमनुतिष्ठेदि- त्यर्थः॥ इत्यासीनाधिकरणम् ॥६॥ अतएवचसण्यनु । ४।२।२॥ तस्मादुपशां- ततेजाः पुनर्भवमिंद्रियैर्मनसिसंपद्यमानैर्यच्चित्तस्तेनै- षप्राणमायाति॥ इदंचप्रश्नोपनिषद्गतम् । अस्यचायमर्थः । अपगतदेहोष्ण्यः सन्पुनर्जन्मप्राप्तुंमनसिसंपद्यमानैरिद्रियैः सहितंप्राणमीहश्यामनोवा- सनयासहितएवसन्नागच्छतीत्यर्थः॥ इतिवागधिकरणम् ॥१॥ सोध्यक्षेतदुपगमादिभ्यः। ४।२।४॥ प्रश्नोपनिषदिषष्टप्रश्ने॥ सईक्षांचकेकस्मिन्नहमुत्रांतेउप्रान्तोभविष्यामिक- स्मिन्वाप्रतिष्ठितेप्रतिष्ठास्यामीतिप्राणमसृजतेति ॥ मदुक्रांतिप्रतिष्ठासहभूतोक्रांतिप्रतिष्ठः कोवास्यादितिविचिंत्यप्रा- पंजीवोसृजदित्यर्थः । अत्रजीवस्यप्राणस्रष्टत्वमदृष्टद्वाराद्रष्टव्यम् ॥

SERINAR (३७४) विषयवाक्यदीपिका। [अध्या०४-पाद४- अतश्चायनेपिदक्षिणे।४।२। १९॥ तेषांयदातत्पर्य वैत्यथेममेवाकाशमभिनिष्पद्यते ॥ इतिबृहदारण्यकपंचाग्निविद्यागतंवचनम् । तेषांकर्मिणांयदाक- म्मपर्यवैतिपरिक्षीणंभवति ॥ तेचंद्रप्राप्यानभवंतितांस्तत्रदेवायथासोमराजान- माप्यायस्वापक्षीयस्वेत्येवमेनास्तत्रभक्षयंति ॥ तदाततश्च्युता द्रवीभूता आकाशसादृश्यंप्राप्नुवंतीत्यर्थः॥ इति दक्षिणायनाधिकरणम् ॥ ११ ॥ अचिरादिनातत्प्रथितेः। ४।३।१॥ सवायुमागच्छतितस्मैसतत्रविजिहीतेयथारथचक्र- स्यखंतनसऊर्ध्वमाक्रमते सआदित्यमागच्छतितस्मै- सतत्रविजिहीतेयथाडंबरस्यसमिति॥ बृहदारण्यकगतम् । रथचक्ररंधंयाहग्भवति तथाप्राप्तायब्रह्मविदे सवायुर्विजिहीतेमार्गप्रदे (वे) शादवयवानिस्सारयति । डंबरशन्दो वाद्यविशेषवाची॥ इत्यचिरायधिकरणम् ॥ १ ॥ कार्यात्ययेसहाध्यक्षेणातः परमभिधानात् । ४। ३।९॥ परामृतात्परिमुच्यंति सर्वे ।। परामृतं परमात्मानं प्राप्येतिल्यब्लोपेपंचमी ॥ इति कार्याधिकरणम् ॥५॥ जगद्यापारवजप्रकरणादसन्निहितत्त्वाच्च।४।४।१०॥ बृहदारण्यके तृतीयाध्यायेचतुर्थब्राह्मणे ॥

सू०१७-अधि०६] जगद्व्यापारवाधिकरणम् । (३७५) ब्रह्मवाइदमग्रआसीदेकमेवतदेक सन्नव्यभवतत- च्छ्योरूपमत्यसृजतक्षत्रम् ॥ एकत्वादेवविवृद्धंनाभवत् । तच्छ्रेयोरूपमत्यसृजत् ।। तच्छ्रेष्ठं शरीरमत्यसृजतक्षत्रम् ॥ क्षत्रियाख्यंश्रेष्ठंशरीरमसृजत् ॥ तदेवप्रपंचयति ॥ "यान्येतानिदेवत्राक्षत्राणींद्रोवरुणः " ॥ इत्यादि । देवत्रादेवेषु । स्पष्टमन्यत् ॥ इतिजगद्व्यापारवाधिकरणम् ॥ क्षेमाय यःकरुणया क्षितिनिर्जराणांभूमावजूंभयत भाष्यसुधा- मुदारः। वामागमाध्वगवदावदतूलवातोरामानुजः समुनिराद्रियता- मदुक्तिम् ॥ इतिश्रीरंगरामानुजमुनेःकृतिषुश्रीभाष्योदाहृतोपनिषदास्यविवरणं- समाप्तम् । शुभंभूयात् ॥ १ नन्वत्राट्कुप्वाङितिणत्वंप्राप्नोतीतिचेन्मैवम् । रामनामेत्यादौणत्ववारणायनिमित्तान- धिकरणनिमित्तिमत्पदाघटितत्वरूपार्थकेनरषाभ्यामित्यत्रकृतेनसमानग्रहणेनवारणात् नन्वे- वमपिनारायणरामायणादाविवपूर्वपदादितिप्राप्नोतीतिचेन्न। “रामानुजलक्ष्मणपूर्वजंच " इत्यादिप्रयोगैरस्यसंज्ञात्वावगमेनरघुनाथादाविवसंज्ञाभंगभियातत्सूत्रप्राप्त्यभावात् ॥ इतिश्रीलक्ष्मणाचार्यकरुणालब्धबुद्धिना ॥ क्वचिल्लक्ष्मणदासेनटिप्पण्यत्रनिवेशिता ॥ पुस्तक मिलनेका पता- खेमरन श्रीकृष्णदास, श्रीवेङ्कटेश्वर" छापाखाना-मुंबई.

विदुषामभ्यर्थना। अत्रास्माकं मुद्रणालय ऋग्वेदादयो वेदा उपनिषदो वेदान्तग्रन्था महाभारतादीतिहासा श्रीमद्भागवतादिमहापुराणोपपुराणानि धर्मशास्त्र-कर्मकाण्ड-व्याकरण-न्याय-योग-सांख्य- मीमांसादिशास्त्रीयग्रन्थाः काव्य-नाटक-चम्पू-प्रह- सन-व्यायोग सट्टकाख्यायिकादिग्रन्थाः सहस्र- नामायनेकस्तोत्रग्रन्थाश्च विविधभाषाग्रन्था- श्व सीसकोत्तममहल्लध्वक्षरैर्मनोहरं मुद्रि- तास्ते योग्यमूल्येन क्रय्या सन्ति । तांश्च ग्राहका यथापुस्तकसूची- पत्रं मूल्यप्रेषणेन प्राप्नुयुः। Deli वेदान्तग्रंथाः। नाम. LTERARI की, रु. आ. sauth ... शारीरक (शांकरभाष्य ) रत्नप्रभाटीका व्यासाधिकरण- माला और भक्तिसूत्र सभाष्य अक्षरबडा ब्रह्मसूत्र (शारीरक) भाषाटीका १-८ वेदांतसार संस्कृतमूल और संस्कृतटीका तथा भाषाटी- कासहित पंचदशीसटीक २-८८ पंचदशी पं० मिहिरचंद्रकृत अत्युत्तम भाषाटीका सहित ४-० पंचदशी भाषा-आत्मस्वरूजीकृत पुस्तकोंके मिलनेका पता- खेमराज श्रीकृष्णदास "श्रीवेङ्कटेश्वर' छापाखाना- ldstivities

Visayavakyadipika

Title
Visayavakyadipika
File name
Visayavakyadipika
Text
OCR done
Citation
1898
Publisher
Swakiye Sriveketesar Mudranalaye
Language
Sanskrit
Pages
378
Library
Central Archaeological Library_asi_ New Delhi
Classification
Litrature
DLI number
284109
Barcode
5990010905201.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
8Khi3eBozVy
Download PDF

Visayavakyadipika