Asr,melkote

Khandanodwara

Vaachaspatimishra · 2004/12/26

PDF Proofread

Front matter

No text on this page.

खण्डनाद्वारः। सन्मित्रानीवाचस्पतिविरचितः वाराणसीस्थराजकीयसंस्कृतपाठशालीयपुस्तकाल- याध्यक्षेण पण्डितविन्ध्येश्वरीप्रसाद द्विवेदिना उक्तपाठशालीयन्यायशास्त्राध्यापकेन न्यायाचार्योपाधिधारिणा श्रीवामाचरणभट्टाचार्येण च संस्कृतः । anandamensingh वाराणस्याम् मेडिकल हाल नामकयन्त्रालये १९०६ ईसवीयवत्सरे मुद्रितः । ६२७

No text on this page.

श्रीगणेशाय नमः । खण्डनोद्धारः। श्रीवाचस्पतिमिश्रविरचितः। अणोरणीयान् महतो महीयान् एकः पुमान विश्वजनीनवृत्तिः । जगत्प्रसूतिस्थितिभाबीज- मस्माकमन्तःकरणं चकास्तु॥ आनन्दाद्वयवादिनी श्रुतिरपि त्रस्तेव मृकायते तस्मिन्नेव जडीभवन्ति जगतां चेतांसि मायामुषि। निर्वाणप्रतिभूभविष्णु भजतामाभीरदारप्रियम् वन्दे स्वात्मकचित्प्रकाशममलं तनिर्विकारं महः ॥ क्षीराब्धेरुजिहानां त्रिदशपरिषदि प्रोल्लसद्भरिभङ्गीम् अङ्गीकुर्वन् कटाक्षेत्रिभुवनजननों व्रीडया नम्रमौलिः। देवः पायादपायात् कुसुमशरपरीरम्भसनातभावः सद्यःस्विद्यत्तरेण मितकमलसुखीमादानः करण । तर्ककान्तारचारिण्यः स्खलन्ति प्रायशो गिरः। तत् समादधति प्राज्ञा एष धर्मः सनातनः ॥ खण्डनमुद्दण्डमभूदुपर्युपरि कल्पनासहस्रेण । तन्मूलशुद्धमतिना वाचस्पतिना निरस्यते सम्यक् ॥ अथ कथायां वादिनोनियममेतादृशं मन्यन्ते यत् प्रमाणादयः सर्वतसिद्धान्ततया सिद्धाः पदार्थाः सन्ति इति कथकाभ्यामभ्युपेयम् । तदपरेनक्षमन्ते। तथाहि प्रमा- मा-No. 3, Vol. XXV.-March, 1903.

खण्डनोद्वारे णादीनां यत् सत्त्वमभ्युपेयं कथकेन तत् कस्य हेतोः किं तदनभ्युपगच्छयां वादिभ्या) तदभ्युपगमनियतस्य वाग- व्यवहारस्य प्रवर्तयितुमशक्यत्वात् उततकर्तव्यवाग्व्यव- हारहेतुत्वात् उत लोकसिद्धत्वात् । अथवा तदनभ्युपग- मस्य तत्वनिर्णयविजयातिप्रसञ्जकत्वादिति(२) ॥ अत्र यद्यपि प्रमाणादिसत्त्वाभ्युपगमनियतत्वं तहे- तुकत्वं तथात्वेन लोकसिद्धत्वं तद्धोनफलकत्वं चेति चतु- ध्यमप्यविरुद्धमिति विकल्पो न कल्प्यते। तथापि पुरस्का- राभिप्रायेण विकल्पः इदं वा पुरस्कृत्य तथा मन्यसे इदं वेति । ननु तथापि न्यूनो विकल्पः सर्वपुरस्कारपक्षस्यापि विकल्पनीयत्वादिति चेन्न । एकैकखण्डनेनैव सर्वखण्डनसि- डो तस्यार्थतः खण्डितत्वेन पृथगनुपन्यासादिति । अत्र नायद्वितीया वेदान्तिमाध्यमिकचार्वाकवागव्यवहारस्य तेन विनापि सत्त्वात् । न तृतीयः लोको हि प्रमाणं वा वाहीकादिवा। अत्र नाद्या प्रमाणादिसत्त्वाभ्युपगमः प्रमा- णादिव्यवहारसिद्ध इत्यस्यापि विचार्यत्वात् । नापरः तयवहारस्य परीक्षकैरनादरणात् । नान्त्यः समयबन्धेनैव फलानतिप्रसङ्गादिति खण्डनम् ॥ अत्र प्रायः । अलीकापेक्षवैलक्षण्यमात्रमेवेह सवं विवक्षितं तच्च प्रमाणादिवस्तुस्वरूपमेव । अस्तु वा अबाध्य- स्वादिकं सत्त्वं धर्मधर्मिणार्मया भेदोपगमात तदवधार- णमेव तदभ्युपगमः। अथ सहिष्ट सन्देहात् स्वाहष्टक व्यभिचारात् अबाध्यत्वं दुरवधारणमिति चेन्न । यस्य हि (१) वादिप्रतिवादिभ्यामिति खण्डनखण्डखाये पाठः । (२) एतत्पर्यन्तं खण्डनअन्ये हश्यते अनन्तरं च पाठभेदः । (३) सर्वेषां बाधशष्ट्यभावस्येत्यर्थः ।

प्रथमपरिच्छेदे प्रमाणादिसत्त्वप्रकरणम् । वस्तुनो यावन्तः परीक्षाप्रकारा लोके प्रतीताः तावद्भिः परीक्ष्यमाणे तस्मिन् वस्तुनि चेदन्यथाभावो नावसीयते तदा तदाधितमवगम्यते । तादृशमेव च विज्ञानं लौकिकैः प्रमेति तत्करणमेव प्रमाणमिति तद्विषय एव च प्रमेयमिति गीयते । तस्मादस्ति प्रमाणादीनां सत्वं च अभ्युपगमश्चेति। तद्धि नाभ्युपगम्यते यत्प्रतीयतएव न यथा खपुष्पादि । प्रतीतमपि वा बाध्यते यथा देहात्मत्वादि । उपाधिपुरःस- रमेव वा प्रतीयते यथा कुडमारुणा तरुणीति। प्रमाणादितु नैवं इति । न च तद्गृहीतेःप्रामाण्यसंशयादर्थपर्यन्तमनव- धारणमिति।प्रवृत्तिसामादिना ज्ञातप्रामाण्यस्याप्यव- धारणसम्भवादिति न च प्रतीतमपि प्रमाणादिकम् औत्त. रकालिकबाधप्रतिसन्धानेन त्याज्यम् आसंसारं बाधान- वतारात् तादृशबाघस्यापीदानी विनिश्चायकाभावात् मातापिशाच्याश्चातिदौर्बल्येनाकिश्चित्करत्वात् त्वया- पि च व्यवहारदशायां सर्वलोकसिडस्यैव वर्त्मनोऽनुसत- व्यत्वात् । अत एवानुमानवैरिणं चार्वाकं प्रत्यनुमानप्रयो- गं कुर्वाणान चार्वाकैरभिधीयते ()तत्प्रयोगस्य लौकिकैर- पगमात् वाद्यनुमतत्वस्यादोषत्वात् प्रकृतव्यवहारदशायां लौकिकं पन्थानं जहत् उपेक्षणीय एव भवति । नापि प्रप- पमिथ्यात्वावयम्भेन प्रमाणादेरसत्त्वाभ्युपगमः प्रपञ्चमि- ध्यात्वे प्रमाणाभावात् । न हि प्रत्यक्षेण तसिद्धिः न हि तन्मिथ्यात्वे प्रत्यक्षमस्तिानाप्यनुमानं प्रत्यक्षबाधात्॥ नाप्यागमः विरोधिप्रत्यक्षबाधेन प्रपञ्चमिथ्यात्वश्रुतेरेवा- न्यपरत्वात् । किं च प्रपञ्चमिथ्यात्वं न तावदभावप्रति- (१) चााकादिरिति शेषः । (२) प्रत्यक्षेण बाधितत्वादिति भावः ।

खण्डनोद्धार योगित्वं सिद्धसाधनात्(१) । नाप्यत्यन्तासत्त्वं न हीदं प्रमा- णेनालिङ्गयते खपुष्पवत् । नापि प्राचीनैः प्रमाणादिसत्ता नाङ्गीकृतेत्यतोऽस्माकमपि तदनुपगम इति प्रपञ्चमिथ्यात्व- मिति युक्तम् । अभ्युपगमबीजे सति प्राचीनानभ्युपगमस्या- नभ्युपगमाहेतुत्वात् । तदेतत् दिगम्बरैर्दर्शनावरणीयं :) तम इत्युपहस्यते। किं च प्रमाणं स्वार्थविचारे कथायां च वि- चारयितुः कथयितु श्चनियतोपस्थितिकम् अज्ञातस्य व्यवहा- रानङ्गत्वात् । अत एव लौकिकानां स्वार्थविचारे कथायां चा- इत्वात् प्रमाणादिकं तत्सत्त्वं च सर्वतन्त्रसिद्धान्त इति ।न तत् कथासाध्यम् । न हि तेन मय्येव प्रमा जन्यते न तु त्वयि येन तस्य प्रमाकरणत्वं त्वांप्रति साधनीयं स्यात् तस्य त्व- यि मयि च समवृत्तिकत्वात् । एवं च सति प्रमाणत्वास- त्वाभ्युपगमवतः तदसत्त्वाभिधानम् औदासीन्याभिधान वा नूनं विप्रलम्भकवाक्यं तथा च प्रमाणादिसत्त्वेऽपि प्रमा- णं कथायां वाच्यम् अकथायां वेति विकल्पस्यापि कावका- शः तत्सत्त्वस्य सकलव्यवहनुमतत्वेन तत्र प्रमाणाभि- धानस्यैवानवकाशात् । किं च प्रमाणादिसत्त्वाभ्युपगम- स्तावत् विचारकथयोः प्रवृत्तिहेतुः। तथा च तं विनैव यदि ते मन्यसे तदा परमवाधहेतुभृतं वाग्व्यवहारमन्तरेणापि परप्रबोधमिच्छ तथा च विरमय वाग्व्यवहारादपीत्यलम् अतिप्रीडनया ॥ नन्वियमपि प्रातबन्ध्युपायव्यतिरेके फलं भवती- त्यभ्युपगम्य वादिभ्यां प्रवर्तितायां कथायां त्वया वाच्या (१) तथा च सिद्धसाधनस्थले पक्षताया असत्त्वात् मिथ्यात्वानु- मानासम्भवात् प्रमाणान्तरस्य चार्थान्तरग्रस्तत्वादिति भावः । (२) तमो यथा दर्शनेनावृतं न भवति परन्तु तमसा दर्शनमे- वावृतं स्यात् तद्वदिति भावः।

५ प्रथमपरिच्छेद प्रमाणादिसत्यप्रकरणम् । अन्यथा प्रवर्तितायां वा । नाद्यः स्वयमपि तथोपगमेन तस्यामुपायव्युत्पादनानौचित्यात् । नापरः न्यायमते जगति तादृश्याः कथाया एवासम्भवात् । न ह्युपायासत्त्वं तदादास्यं वा समाश्रित्य वादी वादिनी वा कथां प्रवर्त- यत इति ।न्यायमतमिति चेत् । हन्त तर्हि त्वयापि नैयायि. केषु यदृषणं दीयते तत् तदङ्गत्वानभ्युपगमप्रवर्तितायां कथायाम् अथ प्रमाणसत्त्वाभ्युपगमानिकायाम् । नाद्यः तत्र तदभिधानानौचित्यात् स्वयमेव नैयायिकेन प्रमाणादेरन- ङ्गत्वोपगमात् । नान्त्यः त्वन्मते तादृश्याः कथाया एवास- म्भवात् तस्मात् प्रमाणाद्यनभ्युपगमे कथैव न सम्भवति उन्मत्तकेलिप्रसङ्गात् इत्येव स्यात् ।। नव्यास्तु प्रमाणस्य हि सत्त्वं नेत्यभ्युपगच्छन् प्रमा- णेन कथं दूषयेत् नेति । नाभ्युपैमि किन्तु तत्रौदासीन्येन वर्त इति चेन्न । प्रत्यक्षखण्डनाय त्वया प्रमाणस्याहरणात् औदास्ये च तदसम्भवात् । न हि तत्रोदास्ते चाश्रयते चेति सम्भवति तस्मादौदास्याभिधानम् असत्त्वाभिधानं च विप्रलम्भकवाक्यमिति । सांव्यवहारिकेन प्रमाणेन कथया- मि न तु पारमार्थिकीमपि सत्तामभ्युपैमि शेषे बाधेादयादि- ति चेत् । किमिदं सांव्यवहारिकत्वम् । अविचारितसुन्दर- त्वमिति चेत् । तर्हि तबाधकमेव प्रमाणम् । न हि बाध्येन किञ्चिद्बाध्यते किन्त्वबाध्येनैव । सर्वमेव बाधकं बाध्यम् उभयसिद्धबाध्याविशेषादिति(५) चेत् । इदमप्यनुमानं बा. ध्यम् अवाध्यं वा इत्युभयतः पाशारज्जुः । त्वत्कल्पितानि प्रमाणानि त्वत्कल्पितैरेव दूषणैरुपमृधानि विलीयन्ते एवं दूषणान्यपि सुन्दोपसुन्दवदिति बम इति चेत् । एवं हि (१) उभयसिद्धबाध्यः शुक्तिरजतादिः ।

६ खण्डनोद्धार सर्वाणि प्रमाणानि त्वद्रीत्या पाध्यानीति त्वदचनार्थ: सोपि व्याहतः तस्यैवाबाध्यत्वात् बाध्यत्वे चाासिद्धः किं नश्छिन्नम् उपात्तस्य साधनस्य असाधनत्वे उपादातुरेव निग्रहात्। एतत् सर्व बाध्यमेव शेषे वाघोदयादिति चेह। आसंसारं तदनुदयात् । व्यवहारदशोत्तरं बाधो भविष्य- तीति चेन्न। आसंसारं व्यवहारदशाया एव सत्वात् तदु- दीच्यापि दशा भविष्यतीत्यत्र प्रमाणाभावात् । उपनिष- दां च तत्प्रमाणत्वाभिमतानाम् त्वया प्रामाण्याभावस्य मया चान्यपरत्वस्योपगमात् शामात्रस्य च दाबल्येना- साधकत्वात् । व्यवहारदशायांतावत् उपनिषदेव स्वप्रका- शशुद्धबुद्धस्वभावे ब्रह्मणि दशान्तरभूते(१) प्रमाणम् एतद्द- शात्यये तु तदेव स्वस्मिन् स्वप्रकाशत्वादिति चेत् । दशा- न्तरे(२) तस्याः कुतो न प्रामाण्यम् भगवैकल्यादा अङ्गिवैक- ल्यादा । नोभी प्रागिव तदानीमपि बोडुयोग्यताधवगतेह- पनिषदां च सत्त्वात् उपनिषजन्यबोधो हि वृत्तिलक्षणः स- चानिर्वचनीयानाद्यविद्याइयमहिना प्रादुर्भवति सारस्वत इव पवनोद्भूतस्य वीचिनिचयः। तदत्यये तु विलीयते तस्यैव निवातस्तिमितस्येवेति चेत्।भवेदेवं यदिब्रह्मभिन्नो बोडा तदा न स्यात् स पारमार्थिको नास्त्येवेति चेन्न । साधयि- ष्यन्ते हि नानात्मानः ॥ यत्तु प्रमाणादिसत्त्वाभ्युपगमस्य कथाङ्गत्वं नैया- यिकेन तावत् साध्यते तत् कीदृश्यां कथायां न तावत् वैतण्डिकेन प्रमाणादिसत्त्वाभ्युपगमेनैव प्रवर्तितायां सि- साधनापत्तेः । अथ तदनसत्वाभ्युपगमेन तदङ्गत्वा- (१) सर्वनिषेधावधीभूते इत्यर्थः । (२) अद्वैतदशायामित्यर्थः ।

জুলাই মাষৱিাবাে । नगत्वौदासीन्येन वा तेन प्रवर्तितायां तथासति तत्क- थान्तरमपि तथैवास्तु न हि यया कथया प्रमाणादिसत्त्वा- भ्युपगमस्य कथाङ्गत्वं साध्यते सा कथा तदङ्गत्वसिद्धौ सत्यां प्रवर्तत इति सम्भवति तदानीं साध्यस्य तदानीं सिद्धत्वासम्भवादिति । तत्तुच्छम् । कथा हि तावत् साधन- दूषणपरवचनसन्दर्भविशेषः न च साधनाधनङ्गीकारेतदा- दास्ये वा स तादृशो वक्तुं शक्यते तस्मात् गलेपादि- कयापि कथकेन साधनदूषणे मन्तव्ये तदनुमतिं विना तन्मय्यां कथायामेव प्रवेशासम्भवात् तस्मात्तभ्युपगमम- न्तरेण कथैव न सम्भवति । तदुक्तम् भाध्यकृता । यदि नाभ्युपैति तदा उन्मत्तवदुपेक्षणीयः स्यात् । तर्हि तदङ्ग- त्वसाधिका कथा कथं तदङ्गत्वाभ्युपगममन्तरेण न कथ- चिदित्यवेहि। साधनदूषणानङ्गीकारे तत्परवचनसन्दर्भरू पा कथैव कर्तुं न शक्यते नहि तन्नाभ्युपैति तेन च व्यव- हरति इति सम्भवति तस्मात् ईदृशव्यवही त्वयैवानी- दृशोऽभिसन्धिरपि स्वयमेव हेय इत्यलममाकं तदङ्गता- साधनप्रयासेन इत्याहुः॥ अथावश्यकत्वाल्लाघवाच समयबन्ध एवास्तुकथाहेतु- नं तु तस्मिन् सति प्रमाणादिसत्त्वाभ्युपगमोऽपि गौरवात् माध्यमिकादिकथाप्रयोगे व्यभिचाराचेति चेत् । स कीहक्। तथाहि वादिना प्रमाणेन तर्केण च व्यवहर्तव्यम् प्रतिवा- दिनापि कथाङ्गतत्त्वज्ञानविरहलिङ्गप्रतिज्ञाहान्याद्यन्यतमं निग्रहस्थानं तस्य वक्तव्यं तव्युत्पादने च वादिनो भङ्गो व्यवहर्तव्यः तव्युत्पादने तु प्रतिवादिन एव भङ्ग निरनु- योज्यानुयोगात् । यस्य च साधने परोक्तं दृषणं न लगति यहत्तं च दूषणम् अनुद्धारं ताजेतृतया व्यवहर्तव्याविति ।

DIDI खण्डनाद्वारे ईदृशोऽसाविति चेत् । हन्त तर्हि साधकबाधकतर्व्यवहर्त- व्यम् ते च नाङ्गीकर्तव्या इति दुर्घटम्। परपक्षस्तावत् नाङ्गी- क्रियते तथा च तमादाय तत्यतिषेधलक्षणा व्यवहारः क्रिय- त एवेति चेन्न प्रतिषेधस्य हि तन्त्र धीराहार्यरूपैवाङ्गम् प्रमा- णादेरभ्युपगमरूपे ऽतिविशेषात् प्रमाणादेः प्रतिषेध्यको- टिप्रविस्य प्रमाणादिव्य॑वहर्तव्यमिति स्वोपगमेन करण- कोटावपि प्रवेशात् । ननु प्रमाणादेरप्यभ्युपगमो न प्रयो- जको गौरवात् किन्त्वनभ्युपगमाभाव एव लाघवात् वि- शिष्टव्यवहारे भेदाग्रहवत् । अत एव प्रमाणादेनीसत्वम- ङ्गीकरणीयं वैयात् । किं तु मध्यस्थयैव धिया व्यवहार इति ब्रम इति चेन्न । आहारभिन्ना हि या प्रमाणादेः कथा- व्यवहारादिहेतुत्वधीः सैव हि सत्वधीः स एव चाभ्युपगमः तथा च तयाभ्युपपन्नाहमभ्युपैमीति च वदन् स्फुटमतिधृ- थोऽसीति दूरमपसर । किं च त्वदुक्तो न समयबन्धः शास्त्र- सिडे साधनदूषणयोः सिडिप्रतिषिडिव्याप्यत्वे समय- बन्धस्याधिकत्वात् । अत एव समयबन्धमश्रुतवतामपित- टस्थानां तत्साधनदूषणश्रवणे सिद्धिप्रतिषिद्धिधीर्जयभङ्ग- धीश्चोत्पद्यते। किं तु यन्त्र शास्त्रं न जागर्ति तत्रैव समय- बन्धो यथाऽनौष्ठ्यमेव वाच्यम् अप्रतिभैवोद्भाव्या अमुक एकदेशी समाश्रयणीय इत्यादि तत्र हि समयबन्धालिङ्गाना- देव तदतिक्रमादी जयपराजयसिडेः। प्रमाणतर्कयोस्तु सा- धकबाधकत्वे न सामयिके किन्तु स्वाभाविके एव तयोस्त- थात्वस्य सर्वतत्रसिद्धान्तत्वात् इति न तत्र समयबन्धापे- क्षेति । नन्वस्तुप्रमाणादिसत्त्वाभ्युपगमः कथाङ्गम् अन्यथा व्याघातात् । तथापि प्रमाणादिसत्ता तावन्न तात्विकी सेत्स्यति । सर्वदा सर्वथा सर्वस्य यत्र न बाधकावतार: तद्धि तात्विक एतचाशक्यनिरूपणं कथाप्रवृत्तिसमये प्रथमपरिच्छेदे प्रमायादिसत्त्वप्रकरणम् । सर्वथैवाज्ञेयं तस्मात् कतिपयप्रतिपत्तृनिष्ठः कतिपयकाल- ध्यापकोऽभ्युपगमो लौकिकव्यवहारहेतुः स एव च कथा- मपि तथा च सांव्यहारिकी प्रमाणादिसत्तामभ्युपेत्य विचारारम्भ इतिसिद्ध नः समीहितमिति चेत् । प्रमाणश- रीरं वा दुरवधारम् तस्य प्रामाण्यं वा येनैवं मन्यसे । नाद्यः धूमादेः सर्वै—मत्वादिनावधारणात् प्रमाणत्वेन तदवधारणं न शक्यमिति चेन्न । प्रमात्वस्य प्रवृत्तिसा- मादिना शक्यावधारणत्वेन तदुपहितप्रमाणत्वस्यापि शक्यावधारणत्वात्।विषयिणि संशयात् विषयेऽपि प्रमा- णादौ सर्वत्र संशयः स्यादिति बम इति चेत् । न हि विषयिणो ज्ञानत्वेनापि घटविषयत्वेनापि तस्य घट- त्वप्रकारकत्वसंशयः। न हि अजानन् जानामीति प्रत्येति । नापि घटंजानन् घट जानामीत्यनुव्यवसायाकारनिरस्तए- वास्यान्यथाभावः।नापि गृहीतेः प्रामाण्यसंशयात् गृही- ते ऽप्यामूलं संशयः। न हि ज्ञाने प्रामाण्यसंशयो भवत्ये- वेति नियमः तज्ज्ञानस्याज्ञानेन वा कोट्यस्मरणेन बोत्कट- विषयान्तरसञ्चारेण वा तत्संशयानुत्पत्तेरपि सम्भवात्। तस्मात् प्रमाणसत्त्वालम्बनापि धीः तनिश्चयरूपा तावदु- स्पना सा चागृहीतप्रामाण्यासन्दिग्धप्रामाण्या सती प्रमा- णानि दर्शयन्ती प्रमाणादिसत्त्वे प्रमाणमिति अग्रेतनेन विचारेण प्रमाणादयो बाध्या भविष्यन्तीति शङ्कया नेदा- नीमप्यभ्युपेयतइति चेत् । न हि भविष्यतो बाधकस्य शा- कापि बाधिका अतिप्रसङ्गात् । नातिप्रसङ्गः सर्वमेव हि बाध्यमेवेति चेन्न । तहि सर्व बाध्यम् सर्वबाधकस्यैव वा पाध्यत्वात् तस्मात् सर्व बाध्यमित्यादिकं वाक्यम् नानु- प्रतिपत्तेरङ्गम् स्वक्रियास्ववचनस्वज्ञानादिव्याघातग्रस्त- स्वेन बाधितार्थकतया योग्यताज्ञानविरहादिति ॥

१० खण्डनोद्वारे नन्वेभिरपि बाधकः प्रमाणादिसत्त्वाभ्युपगमस्य कथाङ्गत्वं साधनीयम् कथायामेव न यकथाभूतो वादिनो- वचनसन्दर्भः सम्भवति तथा चैतत्कथावत् कथान्तर- मपि प्रमाणादिसत्ताभ्युपगमं विनवास्तु इति चेन्न । कथात: पूर्वमेव स्वार्थप्रमाणेनोक्तव्याघातादिसहायेन त्वय्यवती- णेन त्वयि तदङ्गत्वसिद्धेनिष्प्रत्यूहत्वात् । नन्वेवं प्रमा- णादिसत्तायामपि तद्धीः प्रमाणम् एवमुत्तरत्रापि इति धीधारोपगमेनाऽनवस्था स्यात् । तदनभ्युपगमे च मूलपर्य- न्तमसिद्धिः स्यादिति चेन्न । न ह्यविरललग्नवित्तितवित्ति- धारोपेयते येनानवस्था स्यात् किं तु काचिद्धीरनुव्यवसी- पते शेषा तु सामान्यलक्षणया योगजधर्मेण वा ज्ञायते इतिसर्वाज्ञायते नवानवस्थेति प्रमाणादिसत्ता त्वया कथा- ङ्गत्वेनाभ्युपेता सा च स्वरूप सत्ता न तु बुडिसिद्धाऽतो न बोधमात्रपरिशेषः॥ अथ यथा त्वन्मते घटादेस्तज्ज्ञानस्य च सत्ताविशेष ऽपि ज्ञानमेव व्यवहारकं तथा मन्मते तयोरसत्ताविशेषे ऽप्यसदेव ज्ञानं व्यवहारकं व्यवहारोऽप्याविद्यक एवेति न सत्करणापेक्षी सर्वेषामेव प्रमेयाणांब्रह्मविवर्तत्वादिति चेत्तर्हि व्यवहारो न साध्यते सर्वदा ऽसत्ताविशेषात् । यदि चालब्धात्मकः सलब्धात्मकी क्रियत इत्युच्यते तदा लब्धात्मकमेव पूर्वावधितयाऽपेक्ष्येत । असत एव पूर्वावधित्वे दण्डाद्यसत्त्वकालादपि घटादिः स्यादिति सर्वकार्याणामनादित्वापत्तिः । अथ यथा सामग्री आध- क्षणे ऽसत्यपि तत्काले कार्यजन्म नियमयति तथा कारण- मपि तत्काले ऽसत्तत्काले कार्यजन्म नियमयिष्यतीति चे- न। भ्रान्तोऽसि । सामग्री हि तत्काले ऽसती यद्यपि प्रथमपरिच्छेदे प्रमाणादिसत्त्वप्रकरणम् । तथापि पूर्वक्षणे ऽसती तत्काले कार्यजन्म नियमयतु तथा स्वभावत्वेनैव सिद्धत्वात् असत् कारणम् सर्वदेवासिडम् निःस्वभावकम् तत्केनावम्भेन नियमयिष्यति कूर्मरो- मवनिरूपाख्यत्वात् । ननु कारणत्वं तावत् सत्ताघटितं नियतप्राक्सत्त्वरूपत्वात्तस्य तथा च तत् सत्ताविशिष्टेध- र्मिणि वर्तते तदविशिष्टे वा । नाद्यः आत्माश्रयात् एक- स्या एव सत्ताया धर्मधर्म्युभयविशेषणत्वात्। न च प्रत्या- श्रयं विभिन्नैव सत्ता सत्सदित्यनुगतव्यवहारस्थाननुग- ताभिस्ताभिर्निर्वाहणासम्भवात् तत्सम्भवे वाननुगतानि स्वरूपाण्येव सदित्यनुगतव्यवहारकाणि भवन्तु कृतमन- नुगताभिः सत्ताभिरिति वृद्धिमिच्छता मूलमपि नमि- ति कारणमसदायातम् । द्वितीये तु सिद्धं नः समीहितम् । तदुक्तम् । अन्तीवितसत्त्वं चेत् कारणं तदसत्त्वतः। नान्तीवितसत्त्वं चेत् कारणं तदसत्त्वतः॥ इति । मैवं नहि सर्वेषां कारणानां महासामान्यरूपा स- ताऽस्माभिरुपेयते प्रतिबन्धकाभावादेरपि मया कारण- त्वोपगमात् तथा च तामादाय विकल्प्य यत् खण्डनं तच्छलम् ॥ अथ स्वरूपसत्तामेव स्वकारणानां मन्यसे इति ता- मेवाहं विकल्पयामीति बषे तदपि न । स्वरूपसत्तया हि वस्तुत्वमनलीकत्वं प्रमाणगम्यत्वं वा तव धर्मिविशेषणम् स्वरूपसत एवोक्तरूपस्य मया नियतपूर्ववर्तित्वलक्षण- कारणत्वोपगमात् इयं च स्वरूपसत्ता धर्मिण्यन्या कारण- त्वे चान्येति कात्माश्रयः । न चैवं कारणतायामननुगमो दोषाय इधृत्वात् कारणता हि विषयप्रतियोगिभेदेन भि- RGE 5- खण्डनोद्वारे व । ननु स्वरूपसदप्यसदेव घटो नेत्यादिधिया घटत्वा- सत्तयोः सामानाधिकरण्यानुभवादिति चेत् । घटो धर्मी कदाचित् स्वरूपसन् कदाचिच्चासन्नितिब्र सर्वदैव संश्चा- संश्चेतिवा।नाथः उभयोरपि दशयोस्तस्य त्वन्मते घटत्वम- विशिधुमस्तीति उभयोरपि ततो घटार्थक्रिया तुल्यैव स्यात् तथा चासनित्यपि न स्यात् अर्थक्रियाकारित्वात्। नान्त्यः विरोधात् तर्हि घटो नास्तीत्यस्य कोऽर्थः घटस्थाभावोऽ स्तीत्येव हि न यसत्ताविशिष्टे घटेकिमपि प्रमाणं प्रसरति इन्द्रिय सन्निकर्षव्याप्त्यादेस्तेन सहासम्भवात् । शब्दोऽ- प्ययं प्रमाणविरोधी उक्तपर एवेति घटतदसत्तयोश्च न धर्मधर्मिभावः नित्यविरोधेन इयोः सहासम्भवात् ॥ किं च निरुपधिर्विरोधोऽनयोः परस्परप्रतिक्षेपरूप- स्वात् इति प्रतियोग्यनुयोगिभाव एवानयोः न तुधर्मधर्मि- भावः । अत एव गोपाङ्गना अपि स्तेनशङ्कायां प्रदीपमु- पादाय तेनापवरकादौ(२) स्तेनासत्त्वमवेत्य निःशशेरते स्तेनप्रतिक्षेपात्। स्तनधर्मत्वे तु तदसत्वस्य तेन स्तेनाप्रति- क्षेपात् त्वमिव ता अपि कांदिशिकी भवेयुः। कथं तर्हि घटो नास्तीति समानाधिकरणप्रयोगः घटाभावे तस्यैव साधुत्वानुशासनात् यथा सूर्यस्याप्यद्ररिअसूर्यम्पश्येति । ननु चासता यदि घटत्वसत्ता तदा घटोऽभूत् भवि- बतीत्यादी भूतभविष्यतारिदानीमसतार्घटयोः कथं सा। न कश्चित् न हीदानी घटत्ववत्ता तयोः प्रतीयते किं स्वकाले घटत्ववतोस्तयोरिदानी तत्कालस्पर्शेन काला- स्पर्शन वा तत्तया प्रतीयमानयोरिदानी प्रागभावप्रध्वंसो परं प्रतीयेते अभावधियः प्रतियोगितावच्छेदकधर्मप्रकार- (१) चौरशङ्कायामित्यर्थः । (२) आवृतदेशे।

प्रथमपरिच्छेदै प्रमाणादिसत्त्वप्रकरणम् । कप्रतियोगिधीसाध्यत्वनियमात् । नन्वयमभावः प्रत्यक्षो योग्यानुपलब्ध्या ग्राह्यः सा चेह नास्ति आहाररूपायाः प्रतियोग्युपलब्धेः सर्वत्र सत्त्वनियमादिति चेन्न । प्रति- योगिसत्त्वप्रसञ्जिताया उपलब्धेरभावस्य मयानुपलब्धि- त्वेनोपगमादिति दिक् ॥ अपि च बुद्धिसिद्धस्यापि स्वरूपासतः कारणत्वम- नुपपन्नम् मानोरथिके वास्तवे च मोदकादिभक्षणे तृप्त्या- दितौल्यं स्यात् । तदुक्तं स्थापकेन । आशामादकतृप्ता ये ये चोपार्जितमोदकाः। रसबीर्यविपाकादि तुल्यं तेषां प्रसज्यते ।। यत्तु मानोरधिकेनापि मोदकादिना तृप्त्यादिकम- सद्रूपं जन्यत एवेति । तत्तुच्छम् । कारणाधीनं यस्योत्तरस- मये स्वरूपं तस्यैव कार्यत्वात् अन्यथा वेमा घटस्य दण्डः पटस्य निगृहीतत्वं जयस्य सत्साधनप्रयोक्तृ भङ्गस्य कारणं स्यादिति सर्व व्यत्यस्तमापद्यतेति साधुपाण्डित्यम् । न च जयभा समयबन्धो नियमयिष्यतीति वाच्यम् । दृढीभूतं हि जयभङ्गकारणत्वं समयबन्ध आलम्बिष्यते तत्कारण. त्वद्रढिमैव तु न स्यादसतोऽपि कारणत्वात् तस्मात् का- र्यपूर्वसमये नियमतः स्वरूपसत्कारणम् । तदुक्तमाचार्यः । पूर्वभावो हि हेतुत्वमिति। त्वमप्यात्थ पूर्वसम्बन्धो हेतुत्व- मिति । पूर्वसम्बन्धनियमश्च स्वरूपासतो न सम्भवति तस्मात् पूर्वसम्बन्धे हेतुत्वे तुल्यएव नौ । हेतुतत्ववाहिy- तसत्त्वासत्त्वकथा वृषेति यत् त्वयोक्तम् तत् सर्वथैवानुप- पन्नम् तथाहि नियमतः प्राक्समयसम्बन्धः कारणत्वम् सच खपुष्पादेः स्वरूपासतो न सम्भवति किं तु प्राक् स्वरूपसतः ईडशो मत्पक्षः त्वत्पक्षोऽप्ययमेव तदा शान्तं विवादेन विप्लुतं च खण्डनेन । .० ९६२ १४ खण्डनोद्वारे अथ प्राक् कारणस्य स्वरूपसत्तां नाभ्युपैषि तदा नावयोः पक्षोल्यमिति गाथापूर्वार्डमशुद्धम् । अपि च सत्त्वं यत्कारणत्वबहिर्भूतं ब्रूषे तत्तावत् स्वरूपसत्त्वं तदी- घकारणत्वान्तभावस्य व्यवस्थापितत्वात् । अथ सत्ता- जात्यभिप्रायेण ब्रूषेतदा व्यक्तम् निरनुयोज्यानुयोगस्तव। न हि वयं सत्ताजातिमपि कारणत्वनिवाहिकां ब्रूमहे बि- शेषादर्शनस्य भ्रमे दोषाभावस्य प्रामाण्ये विहिताकरणस्य प्रत्यवाये समवायस्य रूपादिप्रत्यक्षे मिथ्याज्ञानाधभावस्य मोक्षे अस्माभिः कारणत्वोपगमात्। अत एवाचार्या अप्या- । भावो यथा तथाभावः कारणं कार्यवन्मत इति । अथ यादृश्या धिया त्रिचतुरकक्षाविश्रान्तया सिडान्तिनः का- रणस्य वस्तुसत्तावधारणं ममापि तादृश्यैव धिया तस्य कारणत्वावधारणं तदेतत् सांवृतं सत्वं किं तु सापि धी- स्त्वन्मते स्वरूपसत्स्वेव न तु निरुपाख्येषु येन तेषामपि कारणत्वापत्तिः । मन्मते तुत्रिचतुरकक्षातस्तस्यापि बाध्य स्वावसायात्।मूलपर्यन्तं बाधावतारान्न कारणानां सत्ता- वधारणं इति तर्हि त एव पश्चिमाखाधान्न धीन वा तद- धीनं कारणत्वावधारणम् नवा तत्सत्तावधारणमिति निरुपाख्यादविशेषः ॥ यत्तुसंवृत्तिरपि सती व्यवहारयेत् असती वा । नायः त्वयानभ्युपगमात्। नान्त्यः असत्त्वेनावधृतस्य कारणत्वो- पगमात् इति नैयायिकदत्ते दोषे सा तावदिदानी त्रिच- तुरकक्षामात्रविश्रान्ता अविचारितसत्तासव व्यवहा- रयतीति बमः । अन्यथा प्रथमत एवैताहशविचारावतारणे मतिकर्दमे व्यवहार एव न स्यात् । वस्तुतस्तु सा यदि सतीतदा व्यवहारयितुं क्षमा यदि वासती तदापि तथैव । अमविषयेणासता भ्रमे तथा भविष्यदादिविषयके ज्ञाने प्रथमपरिच्छेदे प्रमाणादिसत्त्वप्रकरणम् । ऽसतैव विषयेण तथा ऽसतैव कार्येण कारणशक्तश्च विल. क्षणव्यवहार इत्यस्य त्वयाप्यनुमतत्वादिति तन्न । उक्त क्रमेण तत्सत्वस्यैवावधारणात् न हि सम्भवति व्यवहा. राय तामाश्रयते तस्याश्च सत्तासत्तयोरुदास्ते इति । दृधा- ताश्चायुक्ताः । तथाहि भ्रमस्तावदसबैशिष्ट्यावगाहि- तया व्यधिकरणप्रकारकतया वा विलक्षणव्यवहारविषयः क्रियते तच इयं तत्रास्त्येव एबं भविष्यदादिना घटादिना समं ज्ञानस्य विषयविषयिभावः सम्बन्धोऽस्त्येव तद्विष- यत्वमेव च तस्य विलक्षणव्यवहारे हेतुः । असत्तु कार्य कारणस्योपलक्षणमिति तदेवं खण्डनकारेण सर्वशुन्य- तावम्भेन यदादिधम् तत् प्रत्यादिश्मेव । अथेदानी तत्रानुशयानेन तेन वेदान्तमतमाश्रीयते तथाहि सर्वशुन्यता सिडान वा अन्त्ये पूर्णतैव आद्यपि स्वतः परतो वा तत्राद्ये स्वप्रकाशत्वेन ज्ञानमस्त्येव परत: पक्षे तु परपदवाच्यम् प्रमाणमस्तीति सर्वथा न शून्यता- स्तीति तस्मात् ज्ञानं परिशिष्यते तच्च स्वप्रकाशं तथाहि ज्ञानस्य ज्ञानान्तरवेद्यत्वे ऽनवस्थानात् स्ववेद्यतैव । ननु कि ज्ञानवेदनेन ज्ञानस्य स्वरूपसत्तयैवार्थव्यवहारसिद्धरिति चेन्न । स्वरूपसत्तायां विप्रतिपत्तो तवेदनस्याप्यवझ्या- नुसर्तव्यत्वात् । एवं तत्तवेदनेष्वपि इत्यनवस्थैव चर- मवेदनस्यावेदने तस्य मानाभावेनासत्त्वे ऽर्थपर्यन्तमसत्त्वं वा स्यात् । तदुक्तम् । अप्रत्यक्षीपलम्भस्य नार्थदृष्टिःप्रसि- ध्यति इति । अथ सर्वा वित्तिरवश्यवेद्यैव प्रमेयत्वस्य केव लान्वयित्वात्। अविरललना तु वित्तितद्वित्तिधारा नाभ्यु- पेयते तथाननुभवात् । किं तु काचित्तदैव काचिदन्यदा काचित् प्रत्यक्षेण काचिच लिङ्गादिना प्रतीयते इति बम- इति चेन । प्रथमा अर्थग्राहिणी व्यवसायास्मिका १६ खण्डनोद्वारे हितीया अर्थावरुडज्ञानग्राहिणी अनुव्यवसायात्मिका घटज्ञानमिति तृतीया अर्थावरुडज्ञानावरुद्धात्मग्राहिणी घट जानामीति । इतोऽधिका धीधारा त्वन्मते ऽपि नानुभू- यते। अन्यथा घटं जानामीति जानामोत्याद्याकारा धोक- दाचित् केनचित् अनुभूयेत । तस्याः सविषयतत्तद्धीविषय- कत्वनियमे घटपर्यन्तावगाहनावश्यकत्वात् । किं च चरमा धीन चरमसमानाधिकरणज्ञानग्राह्या अनिमीक्षापत्तः । नापि व्यधिकरणज्ञानप्राह्या प्रमाणाभावात् । नापि चरमा स्वग्राहिका स्वप्रकाशापत्तेः । नाप्यग्राह्या मूलपर्यन्तं पिलोपापत्तेः । नाप्युपान्त्ययाऽन्त्याया ग्रहः स्वविषयक- तद्ग्रहे स्वप्रकाशापत्तः । न च सामयनवस्थावज्ज्ञाना- नवस्था तस्याःप्रामाणिकत्वात् । अनाहुः । ज्ञानस्यावश्य- वेद्यत्वेऽपि नानवस्था ज्ञानं प्रमेयमित्यादिव्याप्तिज्ञानस्य तथा एतदनुव्यवसायस्यैतद्विषयभूतस्वग्राहकस्य तथा योग- जधर्मज्ञानस्य तथा भगवत्प्रत्यक्षस्य च मयापि स्वप्रका- शत्वोपममात् । अथ घटोऽयमित्यादिस्थले ज्ञानतज्ज्ञान- धारा स्यात् ज्ञानस्य जातसम्वद्धत्वात् अपेक्षणीयान्तरस्य चाभावादिति चेत् । अत्राप्युत्कटविषयान्तराकर्षणेन मनसः प्रतिबन्धसम्भवात् । यत्र नोत्कटो विषयोपरागो न वा सुखदुःखरागद्वेषादिसामग्री तन्त्रधीतडीधारास्त्विति चेत् । वाढं तर्हि तत्र विषयशतभारमन्थराशेषा थी- रवसीयेतेति चेत् । वादं तत्र हि मूलविषये घटत्वे मध्य- मानि परम्शतान्यपिज्ञानानि ज्ञानत्वेन आत्माज्ञानवत्वेन प्रतीयते तेन शेषापि धीर्घटं जानामीत्याकारिकैव ॥ अथ या धीर्घटविषया सा च न वर्तमाना या च वर्तमाना सान घटविषया तथा च कथमत्र घट जानामीति प्रथमपरिच्छेद ज्ञानस्य स्वप्रकाशलाप्रकरणम् । GGERY धीरस्त्यिति चेन्न । अस्या अपि परम्परया घटविषयकत्वात् । वोणायां शब्द इतिवत् समयसक्षम्याच वर्तमानत्वधीः । अथ ज्ञाने उत्पन्ने सति न तस्याज्ञानसंशयविपर्यया इति तस्य प्रमा तावदावश्यकी। सा चैवंरूपेऽपि सुखादी भवतु भिन्ना तस्यां प्रकाशत्वात् । ज्ञाने तु प्रथमज्ञानाभिन्नैक ततेदकल्पने ऽनिर्माक्षापत्तेः । ज्ञानस्य ज्ञानकमत्वे घदवज- डत्वापत्तिरिति चेन्न । न हि सर्व ज्ञानं समानकालीनस- मानाधिकरणसाक्षात्कारविषयनानियतं ब्रूमो येन मान- सानुव्यवसायधारया निर्मोक्षो न स्यात् । किंतु किञ्चि- ज्ज्ञानं व्यवहारेण किश्विल्लिङ्गान्तरेण किञ्चिन्मानसानु- व्यवसायेन किञ्चित्सामान्यलक्षणया किञ्चिद् योगजंध- मलक्षणया च प्रत्यासत्या अवसीयत इति न किञ्चिदपि ज्ञानमवेद्यमिनिमः। नापि जडत्वापत्तिरप्रयोजकत्वात् ॥ ननु चा ज्ञानप्रकाशाधीनप्रकाशत्वाज्ञाने प्रकाश- मान एवं प्रकाशिष्यते। तथा च सिद्धं ज्ञानस्य स्वप्रकाशत्व ज्ञानार्थाः प्रशाशयस्यैकदालुयादिति चेत् । किमिदं लधीनत्वम् । न तावत तुकत्वम्। नहि ज्ञानप्रकाशहंतुका- ऽर्थ प्रकाशःलथा चासिद्धिः स्वप्रकाशत्वे साध्य विरुद्धता च । न हि नद्धेतुकस्तदभिन्नो भवति । नापि तद्व्याप्त अभेदे ऽसम्भवात् । नापि तदभिन्नत्यं साध्याविशेषात् !! यत्तु घटादीनां तावजडत्वं ज्ञानमरवं स्वव्यवहार परापेक्षत्वं वास्ति तत्तावत् न निर्बीजम् । नापि यनिक- चिसोजम् । नाप्यनियतबीजम् । अतिम लक्षात् । तस्मान् नियतविञ्चिद्धीजं वाच्यम् । तच परिशेषादत्यप्रकाशत्व- मिति ज्ञाते जडत्वाद्यभावात् स्वप्रकाशत्वमिति । हन्न । जडत्वं हि प्रकाशान्यत्वम् । सच प्रकाशसामध्यजन्यस्व घ-0.4, viAY.rapati, 1303.

खण्डनोद्वारे निबन्धनं तजन्यत्वे प्रकाशत्वापत्तेः । ज्ञानकर्मत्वं हि ज्ञानविषयत्वम् । तच्च वस्तुत्वनिवन्धनं स्वव्यवहारे परापे- क्षत्वमपि अस्वप्रकाशत्वानिवन्धनमेव । ज्ञानचतुयभि- नानि तज्ज्ञानानि जडानि च सर्वाणि स्वब्यवहारे परापेक्षाण्येव अस्वप्रकाशत्वादिति ॥ ननु ज्ञान जिज्ञासावेद्यं न वा । आये जिज्ञासापि हि सामान्यज्ञानपूर्विकेति जिज्ञासातः प्राक् ज्ञानस्य सा- मान्यज्ञानमायातम् । तदपि च जिज्ञासातः स्यात् ज्ञात- श्वात् तजनन्यपि जिज्ञासा सामान्यज्ञानादिति जिज्ञा- साज्ञानयोहारा इयमनिवृत्तमापद्येत । न वा पक्षेऽप्यवे- धं वा स्यात् अजिज्ञासावेद्यं वा । अत्राधे ज्ञानव्यवहृतिर्न स्यात् ग्रहणाभावात् । ज्ञाततयापि न ज्ञानग्रहः ज्ञानाबोधे सख्या अयोधात् तस्या ज्ञानोपहितशरीरत्वात् । सा हि न चक्षुःपातमात्रवेद्या । नापि व्यवहारानुमेयं ज्ञानं व्यव- हारेण ज्ञानोपस्थितौ व्याप्तिग्रहो गृहीतव्याप्तिकाच्च व्यव- हारात् ज्ञानोपस्थितिरित्यन्योन्याश्रयात् । अजिज्ञासा- वेद्यत्वे चानिमोक्षो ज्ञानमनःप्रत्यासत्तेः सर्वदा सत्त्वा- दिति परिशेषादपि ज्ञानं स्वप्रकाशमिति । उच्यते आत्ममनःसंयोगस्य यदेन्द्रियार्थसन्निकर्षः सहायीभवति तदा वाह्यानुभवः । स एव सहायो यदा स्थिरस्तदा धारावाहिकानुभवायदाच संस्कारपरिपाकस्य स सहायः तदा प्रत्यभिज्ञा । यदा तु तत्सहायरहितः संस्कारपरि- पाकः तदा स्थतिः । यदा तु संस्कारपरिपाकेन्द्रियार्थस- निकर्षरहित आरब्धज्ञान आत्ममनःसंयोगः तदानुव्यत्र- साय इत्युत्सर्गः । यदा त्वस्मिन् सत्यप्युत्कटविषयेन्द्रिय- सन्निकर्षः तदा तदर्थज्ञानम् । न तु ज्ञानज्ञानमित्यलमति- प्रथमपरिच्छेदे ज्ञानस्य स्वप्रकाशताप्रकरणम् । १ विस्तरेण । तस्मादजिज्ञासावेद्यत्वे ऽपि ज्ञानस्य प्रबलधि- षयमहिना धाराया निवारणात्। प्राबल्ये च फलमेव प्रमा- णम् । किञ्चोक्तगत्यापि ज्ञानस्यैव स्वप्रकाशत्वसम्भाव- नापि । न तु ब्रह्माभिन्नस्य नित्यचैतन्यस्य तस्य घटाधनाल- म्बनत्वात् प्रासंसारमप्रतीयमानत्वाचेति व्यर्थस्ते स्वप्र- काशतासाधनश्रमः । किञ्च प्रकाशस्य स्वधर्मावरुडस्यैव प्रकाशमानस्य स्वप्रकाशत्वसिद्धनाद्वैतसिद्धिः । धर्मानव- रुडस्य तु तस्य स्वप्रकाशत्वेन भाने धर्मापग्रहप्रवर्तिष्णु- शब्दविषयता तस्याविधादशायामपि न स्यात् । अथ शब्दान्तरं तावद् ब्रह्मणि न प्रवर्तते। किंतूपनिषत् । सापि न कण्ठतस्तदाह येन प्रकारतया धर्ममपेक्षेत् । किं तु विषं भुक्ष्वेत्यस्य एकादश्यभोजने यथा तात्पर्य तद्वत् प्रपञ्चनि- षेधश्रुनेरपि ब्रह्माद्वैतविधा तात्पर्यम् । तथा च ब्रह्माद्वैत- मेव तच्छुतेरर्थः यत्परः शब्दःस शब्दार्थ इति न्यायादिति चेन्न । न हि तात्पर्यमानं सामग्री कारणान्तरविलोपापत्तेः। नाप्युपलक्षणन्यायाच्छुत्या ब्रह्मधीः काकपदोपस्थापित- काकस्मारितोत्तृणत्वादिविशिगृहविशेषधीवत् श्रुतितो ब्रह्मधियोऽनुदयात् ॥ अथाविद्यादशायां श्रुतितोऽपि तद्धीः। तथाहि नित्येन साबध्ययनविधिनाधीतस्वाध्यायो मुमुक्षुरापाततो वेदा- न्तवाक्यं श्रुत्वावगच्छति यत् आत्मनस्तु कामाय सर्व प्रियं भवतीत्युपक्रमोपनिषदात्मौपाधिकमितरेषां प्रियत्व वदन्त्यात्मैव निरूपधिप्रिय इति प्रतीते तत आत्मनि ज्ञाते सर्वमिदं विज्ञातं भवतीत्युपसंहारेणानन्दात्मकस्या- त्मनः सवभिन्नत्वमिति प्रतीतेः। अथ एतावरे खल्व- मृतत्वमित्युपसंहारशेषादानन्दात्मकब्रह्माभेददर्शनस्यामृ- खण्डनाहारे तत्वसाधनत्वमवेत्य कथं तद्दर्शनं स्यादित्याकाहायों आत्मा वा अरे द्रव्यः श्रोतव्यो मन्तव्यो निदिध्यासि- तव्य इति श्रुत्वा मुमुक्षुमीमांसते । न च तस्य मीमांसना- ऽसम्भवः । अधोत्य स्नायादिति श्रुतेर्मब्राह्मणाध्ययनवत् गृहस्थीभविष्यत्स्वकरिष्यमाणाग्निहोत्राद्यनुष्ठानसाधनी- भूततत्तद्वाक्यार्थविचारमूलस्तम्भत्वेनावश्यकतया कर्ममी- मांसाध्ययनस्यापि तदानीं सिद्धः। एवं च मीमांसामेनां विचारेण मुमुक्षुर्विचारयति । न हि तावदेते चत्वारोऽपि विषयः आत्मदर्शनस्य निदिध्यासनविधिविहितक्रियानु- ष्ठानमात्रसाध्यतया पृथक्कृतिसाध्यत्वासम्भवेन पृथग- विधानायोगात् । नापि श्रवणमनननिदिध्यासनानि त्री- प्येव यथोक्तक्रमवन्ति प्रधानानि एकस्मै फलाय विधीय- न्ते तेषां परस्परनिराकाश्तया समुच्चयायोगात् ॥ अथ य आत्मापहतपाप्मा विजरो विमृत्युर्विशो- को विजिघत्सोऽपिपासः सत्यसङ्कल्पः सोऽन्वेषव्यः स विजिज्ञासितव्य इति(१) छान्दोग्योपनिषदा आत्मज्ञान- स्वैवेघुसाधनत्वे गमिते ज्ञानस्य प्रकाराकासायामिष्टसा- धनत्वमनूद्य द्रव्यः श्रोतव्य इत्यादिविधयः प्रवर्तन्त इति चेन्मेवम् । एवमपि द्रव्य इत्यस्यानर्थक्यादेव । न च सो- ऽनुवादः । न हि तस्येसाधनत्वानुवादेनान किञ्चित्प्र- जनम् प्रतिपत्तिचतुयस्य तुल्यवहुपस्थितेः । तस्मात् पूर्वेक्तेनोपक्रमोपसंहारसंस्कृतवेदवाक्येनात्मदर्शनस्याव- गासम् अपवर्गेसाधनत्वम् आत्मा द्रव्य इत्येकदेशेना- तृत तदर्थितया अवणमणिविधीयते लाघवात् । तत्फ- .. (१) श्रुतिरिय कान्दोग्योपनिषदि हमनपाठके दृश्यते।

प्रयमरिच्छेद जानन्य स्वाकाशताप्रकरणम् । लीभूने चास्माद्वैतज्ञाने कुतकीभ्यामषितान्तःकरणनया भेदहशामश्रद्धामलक्षालनरूपायापकाराय मन्तव्य इत्यत्र मननं श्रवणाइतया विधीयने मलक्षालने ऽपि सत्यात्मश्रा- विकाया उपनिषदो निदिध्यासनरूपणातरव्यापारण ना- स्मातसाक्षात्कारफलपर्यवसानमिति दात्रस्य पांसुरुक्ष- गवत् शब्दस्य निदिध्यासनमपरमॉ विधीयते। तथा च मनननिदिध्यासनाभ्यामगाभ्यां उपहतानि ब्रह्माद्वैतवा- क्यानि मुक्ति हेतुभूतब्रह्माद्वैतसाक्षात्कारं फलन्तीति। श. ब्दश्च आत्मसाक्षात्कारे ऽस्मिन् करणम् असाधारणत्वात्। यदेव यस्यां बुद्धावसाधारणं तदेव तस्याः करणमिति मत्- सिद्धान्तात् । अतश्राविकास्तु उपनिषदः ऋग्वेदे प्रज्ञानं ब्रह्मेति । यजुर्वेदे अहं ब्रह्मास्मीति । तत्रैव वृद- दारण्यके एष त आत्मान्तयाम्यमृतः। तत्रैव तैत्तिरी- ये स यश्चायं पुरुषे यश्चासावादित्ये स एक इत्यादि । सामवेदे तत्त्वमसीति । अथर्ववेदे अयमात्मा ब्रह्मेति । एतानि तावन्महावाक्यानि । अत्र प्रथमवाक्ये प्रज्ञानपदे- नैकादशेन्द्रियाधिष्ठातरि द्वितीयवाक्ये चाहमा जीवे चतु- र्थवाक्ये ऽपीदमा स्वप्रकाशे जीव उक्त सर्वत्र तस्य ब्रह्माभे- दो ऽनुभाव्यते। तृतीयवेदवाक्ये तु तत्पदस्य वाच्यं यतो वा इमानि भूतानि जायन्ते सदेव सौम्येदमन आसीत् तमो वा इदमेकमेवान आसीत् नासदासीनो सदासीत्त- दानों नासीद्रजो व्योमापरो यत् किमारवीरः कुहकस्य शर्मन्नम्भः किमासीत् गहनं गभीरं न मृत्युरासीत् अमृत न तर्हि न राया अह आसीत् प्रकेतः आनीतवातं सुधया तदेकं तस्माद्यान्यं न पर: किञ्च नासत्तम आसीत् तमसा (१) व्यापारवदसाधारणं कारणं करणमिति लक्षणमनुमितिग्रन्थे दृश्यते।

खण्डनोद्वारे .. गूढमग्रे प्रकेत सलिलं सर्वमा इदं तुच्छेनास्त्वपिहितं यदा- सीत्तपसस्तन्महिना जायतकम् । तदैक्षत बहुस्यां प्रजायेये- त्यादिवाक्यार्थीभूतमनाद्यविद्यामायाश्रयो जगदुत्पत्ति- स्थितिनिरोधकारणं सच्चिदानन्दैकरसं ब्रह्म । तत्पदस्य लक्ष्यं तु सत्यं ज्ञानमनन्तं ब्रह्म! ब्रह्मैवेदम मृतं पुरस्ताद्ब्रह्म- क्षिणतः पश्चाच्चोत्तरेणापश्चाद्धं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठमित्याद्युपनिषद्भिः(१) प्रतीतं नित्यशुडबुडमुक्तस- त्यपरमानन्दाद्वयं ब्रह्म । त्वं पदस्य शक्यं तु देहेन्द्रियमनो बुद्धिप्राणाहवारीः कृशस्थूलादिदेहधमैर्मूकत्वादीन्द्रिय- धमैंः कामादिभिरन्तःकरणधमैंः अस्तित्वोत्पत्तिविवृद्धि- परिणत्यपक्षयविनाशैः षड्भिीवविकारैः अशनायापि- पासाशोकजरामरणैः षडभिरूमिभिः त्वगुधिरमांसमेदो ऽस्थिमज्जात्मकैः षड्भिः कोशैरुपेत आध्यात्मिकाधिदैवि- काभौतिकेन तापत्रयेणाभिभूतः स्वर्गनरकाद्यनुभवी प्रत्य- गात्मा । लक्ष्यं तु योऽयं विज्ञानमयो हृद्यन्तज्योतिः पुरुष इत्यादिवाक्यनिरूपितो देहादिविलक्षणस्तत्साक्षीति ॥ अत्र च जहद्जहत्स्वार्थलक्षणया तत्त्वविरुद्धमावि- चकं देहादिसम्भेदमपास्य त्वं पदार्थंकदेशं प्रत्यगात्मा- नमन्तोतिरादिरूपं तत्पदार्थीभूतब्रह्माभिन्नतयाऽसि- पदेनानुभाव्यते । लक्षणा च तात्पर्यमात्रम् । एतादृशमेव वाक्यार्थज्ञानमापदेशिक तत्त्वज्ञानं श्रोतव्य इत्यादिवि- धिविषयीभूतमिति। एवं च आत्मातिरिक्त प्रकाशासम्ब- न्धेन निरस्ते प्रत्यगात्मनि च परमात्माभिन्नतया श्रुत्या तात्पर्यतोऽविद्यादशायामनुभाविते सिद्धं ब्रह्माद्वैतमिति पदन्ति । (१) श्रुतिरेषा मुण्डकोपनिषदि द्वितीयमुण्डके दृश्यते ।

SASIROIRAMERA MPARAN प्रथमरिच्छेदे ब्रह्माद्वैतनिराकरणप्रकरणम् । तत्रोच्यते । शब्दो न साक्षात्कारकारणम् चक्षुषा साक्षात्करोमीतिवत् शब्देन साक्षात्करोमीत्यनवगतः । किञ्चात्मा वा अरे द्रव्य इत्याद्युपक्रम्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्व विदितं भवतीति शतपथे श्रवणात्तुल्यवत्प्रतिपत्तिचतुयावगतेनीङ्गाडि- भावः । हन्तवमात्मज्ञानेम सर्व विदितं भवतीति शत- पथादप्यात्माभिन्नं सर्व सिडोदिति चेन्न । सर्वस्याविधक- तयात्मनश्च तात्विकत्वेन तयोरभेदासम्भवात् किं तज्ज्ञानं स्तूयते । अपि च नित्यानित्यवस्तुविवेके शमा- दिमुमुक्षाभोगवैराग्यैर्ब्रह्मविचारेऽधिकार इत्यात्थ । अत्रा- यो न तावद् ब्रह्मविचारादेव अन्योन्याश्रयात् । नापिन्या- यात् ब्रह्मविचारस्य न्यायपूर्वकत्व नियमापत्तेः । न चेा- पत्तिरपसिद्धान्तात् । किञ्च श्रुतिजन्या ब्रह्माद्वैतविष- या धीन तावद् ब्रह्माभिन्ना अजन्यत्वापत्तेः । नापि ब्रह्म- भिन्ना परप्रकाशापत्तेः । तदभेदाभ्यां न सा निर्वक्तुं श- क्यत इति चेत् । सोऽयं पुसोऽपराधो न तु वस्तुनः । व- स्त्वेव तत्तथेति चेत् । अहो मोहो येन प्रमाणगोचरस्या- वस्तुत्वं तदगोचरस्य तु वस्तुत्वमङ्गीकार्यसे नूनं गगनार विन्दादिकमपि वस्तु मंस्यसे । किञ्च सर्वशन्यतानगरं वि ज्ञाननगरं वा प्रविश स्वीकुरु वा पारमार्थिकी प्रमाणगम्य तामिति।अपिचस्वप्रकाशत्ववत् स्वात्मिकाया लौकिक्याः प्रकाशक्रियायाः कर्मत्वं वाच्यम् । तच्च न । अभेदे क्रियाक- मभावानुपपत्तेः। अलौकिकधीचतुष्के त्वगतिः समाधिः॥ अथ किमिदं कर्मत्वम् । न तावक्रियाफलशालित्वम् । गमनक्रियाफलीभूतग्रामसंयोगशालिनो ग्रामस्येव चैत्र- स्यापि कर्मतापत्तेः । किं तु परसमवेतेति क्रियाविशेष- । । ।

खण्ड नोटारे णम् । ननु परत्वं न नावत् कर्मत आत्माश्रयापत्तः । नापि फलाश्रयतः कर्तुरपि संयोगविभागरूपफलाश्रयत्वा- दिति चेत्र तक्रियानधिकरणत्वे सति तक्रियाफलशा- लिनः कर्मत्वात् । हन्त तर्हि वृक्षात् पतत्ति पञ्चे ऽपादानी- भूतस्यापि वृक्षस्य पत्रनिष्टस्पन्दक्रियाजन्यविभागरूपफ- लाश्रयतया कर्मतापि स्यात् । तथा च वृक्षं पच्न पतनीति स्यात् । न स्यात् धात्वर्थ तावच्छेदकत्वेन फलविशेषणात्। पूर्वविभागस्तु न पतिधात्वर्थतावच्छेदक इति न तरुः पतेः कर्म । अत एव पत्नस्पन्दक्रिया यदा त्यजिनोच्यते तदा वृक्षः कमैंव पूर्व विभागस्यैव त्याजधात्वर्थतावच्छेदकत्वात् । यद्य- पि यमेव स्पन्द त्यजिराह तमेव पतिरपि । तथा च त्यजेरेव प्रयोगे तरुः कर्म न तु पतेरपि शब्दशक्तिवैचित्र्यात् । तथा च विशिस्यैव तत्तहात्वर्थतावच्छेदकफलशालित्वम् तत्त- डातुप्रयोगे तत्तकारकस्य कर्मत्वमित्यननुगतमेव कस्याः क्रियायाः किं कर्मेति विशिष्यैवाकाक्षोदयात् । नन्वेवं नदी वर्धत इत्यत्र वृद्धिरवयवोपचयरूपा धात्वर्थः। तत्फलं त्वप्राप्तदेशप्राप्तिः। तच तीरनिष्ठमतस्तीरं कर्म स्यात् । एवं पते: स्पन्दविशेषोऽर्थः। तत्फलं त्वधःसंयोगः। स चाधो निष्ठ इत्यधः कर्म स्यात् । तेन नदीतीरं वर्धत इति भूतलं पत्र पत्ततीति च प्रयोगः स्यादिति चेत्र प्राञ्चः । अप्राप्तदेशमा- प्त्युपहितावययोपचयस्य विशिस्यैव वृद्धिधात्वर्थत्वम् । तथाऽधासंयोगावच्छिन्नस्पन्दस्य पत्यर्थत्वमिति तीराधाप- दार्थयोरुक्तसंयोगविशेषवताधातुभ्यामेवोपस्थितिरिति न तत्र कर्मविभक्तिराकाङ्क्षाविरहात् । तदुक्तम्। धातारान्तरे वृत्तौ धात्वर्थेनापसंग्रहात् । प्रसिडेरविवक्षातः कर्मणाकर्मिका क्रिया ॥ इति । amaye ..

प्रयमपरिच्छेदे ब्रह्माद्वैतनिराकरण प्रकरमाम् । संगच्छते इत्यादी धातोरान्तरे वृत्तिः । वर्धते पतनीत्यादी धात्वर्थेनापसंग्रहः । माये मावे ब्रजाम्यह- मिति काचनमालिनीवाक्ये प्रयागमिति । प्रसिजेरवित्र- क्षातो यथा । गच्छ गच्छसि चेत् कान्तत्यादावियाहुः ।। नव्यास्तु वृधेयापारोऽर्थः अवयवोपचयः फलं तद- वच्छेदकमिति न तीरं कर्म तादृशफलभागित्वाभावात् । पतेस्त्वधः कमैव धात्वर्थोपलक्षणीभूनतत्तत्फलरूपसंयो- गाश्रयत्वात् । कर्मविभक्तिरपि तत्र । अत एव । उद्धृत्य मेवैस्तत एव तोयमर्थ मुनीन्द्ररिव संप्रणीताः। विलोकयामास हरिः पतन्तीनदोः स्मृतीर्वेदमिवाम्बुराशि। इति माघकाव्यमपि । अत एव न अकर्मकधातुगणे लजासत्तास्थितिजा- गरण इत्यादी पतः पाठः द्वितोयाश्रितातोतपतिनेत्यादिना नरकं पतित इत्यादी समासश्च घटत इत्याहुः ।। नन्वधस्तीरयोः कथं कर्मताशङ्कापि पतने वृद्धौ च कारकत्वाभावात् कारकविशेषस्य च कर्मत्वादिति चेद भ्रान्तोऽसि । द्वितीयाप्रयोगो ह्यापाद्यते स चाकारके ऽपि प्रकृतक्रियाफल शालिनि यथा ग्रामादौ । कुन तर्हि की- दृशी द्वितीया ब्रीहीन प्रोक्षति घटं पश्यामीत्यादौ कर्मत्वे शाक्ती आत्मानं जानातीत्यादौ तु तत्र भाक्तीपरत्वा- भावात् । ग्रामं गच्छतीत्यादावपि तथा ग्रामादेनक्रि- यायामकारकत्वात्। एवं वहिमनुमिनामीत्यादावीति । विस्तरस्तु तत्वालोके मयैवोक्त इतीहोपरम्यते । यत्तु स्वकर्मत्वं स्वप्रकाशत्वमुक्तदोषाभूत् अस्तु स्वविषयत्वमेव स्वप्रकाशत्वम् । यद्वा स्वव्यवहारे ज्ञाना- (१) माघकाव्यस्य तृतीयसर्गस्य पञ्चसतिसंख्यकोऽयं श्लोकः ।

२६ खण्डनीद्वारे न्तरानपेक्षत्वमेव स्वप्रकाशत्वं स्वस्मिन् सत्यवस्वव्यव. हारात्।अथ विषयविषयिभावो भेदे दृषस्तथा व्यवहारो व्यवहर्तव्यज्ञानादृष्यः । तथा च तदुभयं विनापि विषय- विषयिभावस्य व्यवहारस्य चाङ्गीकारे दृविरोधः स्या- दिति चेन्न । यदि स्वप्रकाशो न स्यात् तदा ज्ञानमेव न सिडोत् परप्रकाशे ऽनवस्थानादित्यन्यथानुपपत्या दृधवि- रोधविधूननादिति । तन्न । परप्रकाशपक्षे ऽप्यनवस्थाया निरस्तत्वेनान्यथानुपपत्तेरनवतारात् । यत्तु स्वाविषय- केणाज्ञानेन स्वव्यवहारो जन्यत इति तन्न व्यवहारस्य व्यवहर्तव्यविषयकधीसाध्यतानियमात् । न बजानन् न वान्यं जानन् अन्ययवहरति । सत्तायामपि सद्यवहारः सत्तावत्वधीजन्य एव । किं तु सा च तत्र भ्रान्तिर्वाधात् । एवं तद्गुणसंविज्ञानबहुब्रीहौ भुवादयः कुटादय इत्यादी क्रियावाचित्वादिना गुणीभूतस्यापि भुवः कुटश्च धीश्चरेति कापि नाज्ञाते व्यवहारः॥ अथ सत्तासत्ताभ्यां विचारासहत्वाजगदेव शून्य- मिति माध्यमिकः । चियतिरिक्तमत एवैवमिति खाण्ड- निकः । तथा च सूत्रम् । नासन्न सन्न सदसत्सदस- तोवैधयादिति(१) । मैवम् । यैषैिः प्रमेयजातं ग्रस्ततया विचारासहं तेदोषाः स्वकमपि ग्रसन्ति न वा । आद्य क प्रमेयशून्यता तबीजभूतानां दोषाणामेव विलयात् । तथाप्यहमेव जयी माक्तदोषाणामेव प्रागल्भ्यादिति चेत् । घिनिस्लप व्याहतं ब्रुवाणोऽपि जैत्रतामिच्छसि । दृष्यदृषणसाध्यसाधनजयपराजयाः सर्वेऽप्यविद्याविल- (१) सूत्रमिदं गौतमसूत्रस्य चतुर्थाध्याये प्रथमाहिके ४८ संख्यायां । वर्तते।

प्रथम परिच्छेदे ब्रह्माद्वैतनिराकरणप्रकरणम् । सिना एव मरुमरीचिकातोयवदिति चेत् । नूनमुन्मदि- अणुरसि यदेवं तत्त्वमवगच्छन्नपि निष्फले कथापथे प्रव- तसे । न प्रवर्ते किं तु चिदात्मनि स्वप्रकाशे भरमवलम्ब्य सुखमास इति चेत् । तर्हि न त्वदुक्तदूषणानि मद्वाक्य- स्{शि कथकानुक्तत्वादिति दूरमपसर । अन्त्ये तु दोषा एवावशिष्यन्त इति न सर्वशन्यतासिद्धिः । अथ तेषां सर्वेषां सत्त्वासत्त्वोदासीन्येन विचार प्रवर्तयाम इति चेन्न । न हि तदाश्रयमाण इति सम्भवति केवलं वाङ्म- नसविसंवादजन्मा प्रलापोऽयमिति। यत्तु अद्वैते प्रमाण- मुपन्यसिष्यंस्तदवताराय नैयायिकप्रश्नमते किं प्रमाण- मित्येवं रूपं खण्डनकृद् वर्णयामास तेन जामीमः स न्याय- नयस्य किं वदन्तीमपि नाऔषीत् । तथाहि न्यायनये सर्वत्र प्रमितस्यैव धर्मीकरणात् अद्वैतस्य च त्वन्मतस्य त्वन्मते गगनारविन्दायमानत्वात् व्यावृत्तत्वस्य केवला- न्वयित्वोपगमात् । किञ्च नायं बुभुत्साः प्रभः। किंतु जिगीषोः स चाचिक्षिपसुस्तथा चाक्षेपयुक्तिं प्रत्यक्षबाधा- दिरूपां हृदि निधाय द्वैतनिषेधधिया किंकरणमभिप्रैषीति प्रश्नः । तत्र च श्रुतिस्त्वदर्भिमतं करणं न घटते पाधा- दिति प्रष्टुभावः। तथा च त्वदुक्तं सर्वमेव प्रश्नखण्डनमल- इनकमिति॥ अथेदानीमन्योन्याभावप्रतियोगित्वमत्यन्ताभाव- प्रतियोगिन वेति संशये सति विधिकोटिमद्वैतं साध- यितुं खण्डनकृदेकमेवाद्वितीयम् नेह नानास्ति किचनति श्रुती तावदुदाजहार । तत्र च ब्रोति प्रकृतम् । तेन यद्यपि ब्रह्मकमेव द्वितीयं ब्रह्म नास्ति एवकारस्तत्राभेदं नियम- यन् भेदाभेदं वारयति तथा अद्वितीयं ब्रह्मणि ब्रह्मप्रति- योनिकोऽन्योन्याभावो नास्तीत्याकानता व्युत्पत्तिलभ्यो खण्डनोद्धार ऽर्थः प्रतीयते । तथापि नात्र श्रुतेस्तात्पर्यम् । एवं कृत्वो- हेयं गिरागिरेति ब्रूयादितिवदर्थवादत्वापत्तेः । किं तु श्रु- त्यन्तरैकवाक्यत्वानुरोधादप्राप्ते शास्त्रमर्थवदित्यतश्चा- दैते तत्तात्पर्यम् । न च घटपटादिभेदप्रत्यक्षबाधादिबला- मुख्यमर्थमपास्य मुमुक्षुणा केवलात्मभावनानिष्ठेन भवि- तव्यमित्यत्र श्रुतेस्तात्पर्य मिति वाच्यम् । भेदप्रत्यक्षस्य घटपटादिविषयत्वेन श्रुतेश्वापाततस्तदविषयत्वेन विष- यभेदेन बाधनायोगात् । क्रत्वङ्गीभूतहिंसाया विदिताया रागप्राप्तहिंसानिषेधः श्रुत्यैवेति । तथा अद्वैतश्रुतिर्घटपटा- दिप्रत्यक्षेण सह स्वजन्याभेदज्ञानस्य तथा घटेन पटेन तद्भेदेन च सह तद्विषयकप्रत्यक्षाणामेवं तेषां प्रत्यक्षाणा- भन्योन्यमभेदमवगाहताम् । न हि तेषामप्यन्योन्यं भेदः घटपटभेदग्राहिणा प्रत्यक्षेण प्रागग्राहीति । तथा च न श्रौतप्रत्यक्षेण श्रौतधीर्वाध्या स्वाभेदात् श्रुत्या तभेदा- लिङ्गनात् घटपटादीनां सर्वेषामेव भेदप्रत्यक्षालिङ्गिता- नामप्यभेदोऽर्थात् सिध्यति । न हि सम्भवति घटाभिन्न- ज्ञानाभिन्नं पटादि परस्परं भिन्नमिति । अथ तेषामपि ज्ञानानां भेदः प्रत्यक्षेणालिङ्गनीयः। सदा तद्धियामभेदं श्रुतिरवगाहताम् तावतैव मूलपर्यन्तमनुपपत्तेरभेद आया- स्यति । न च प्रत्यक्षेण तदभेदालिङ्गनमपि अनवस्थानात् विषयान्तरसञ्चाराच । तथा च भेदधीर्य तो निवर्तते तदे- वाश्रित्याभेदश्रुतिः प्रवृत्ता तभेदं अर्थापत्तिसहकाराच मूलपर्यन्तमभेदं साधयिष्यति । तस्मात् सुदूरधावनश्रान्ता (१) बाधबुद्धिपरम्परा । निवृत्तावद्वयानायैः पाणिग्राहैर्विजीयते॥ (१) अलसेति यावत्। (२ विनिवृत्ताऽद्वयानारित्यपि पाठः खण्डने दृश्यते।

प्रथमपरिच्छेदे ब्रह्माद्वैतनिराकरणप्रकरणम् । पाणिग्राहः पृष्ठस्थोऽरातिः। न च तुल्यन्यायतया भेदप्रत्यक्षेण चरमबुद्धेरप्यालिङ्गनम् । न हि तुल्यन्यायता सामान्यलक्षणादिवत् प्रमाणसहकारिणी येन व्यवहि- तातीतानागतानपि गमयेत ॥ अथ सी बुडयः सर्वस्वविषयभिन्नाः बुद्धित्वादि- ति। न । सर्वतद्विषयावगाहने सार्वयापत्तः अलौकिक- प्रत्यक्षेष व्यभिचाराच तेषु स्वस्यापि विषयत्वात् । अथ सर्व भिन्नं प्रमेयत्वादिभ्य इति तदानुपसंहारस्वरूपासि- यादयः । न हि सर्वेषां पक्षीकृतानां स्वरूपं हेतुमत्तां वां किञ्चिज्ज्ञो वेद । अथ काचिदेव बुद्धिः पक्षः तद्धर्म एव च हेतुः तदा वुमन्तरं द्वारीकृत्याद्वैतश्रुतिः प्रवेक्ष्यति । . हेत्वाद्यभावसार्वये सर्व पक्षयताऽऽस्थिते । किञ्चिच त्यजता दत्ता सैव द्वारव्यश्रुतेः॥ आस्थिते अङ्गीकृते। अथ घटपटौ भिन्नावित्यादिरू- पया प्राथमिकधिया योऽनयोर्मेंदे गृहीतः स एव बुद्धितद्- बुद्धिधाराया अभेदे सति न निर्वहेत । न हि सम्भवति वस्त्वनेकम् तदभिन्नं तु तज्ज्ञानमेकमिति । तस्मादर्थभेदा- न्यथानुपपत्त्यैव धीधारायामपि भेद इति न तदभेदं श्रुति- राह बलवदीपत्तिविरोधादित्याशय साप्यापत्तिा- ता भविष्यतीति तस्यास्तज्ज्ञानस्य चाभेदे श्रुतिः प्रवर्ति- ब्यत इति धीवेद्यभेदस्यान्यथानुपपत्तेस्तज्ज्ञानस्य चाभेदे श्रुतिः प्रवर्त्यतीत्यर्थः । अस्तु वा भेदप्रत्यक्षविषय एव घटादावभेदश्रुतिप्रवृत्तिः । योग्यताज्ञानं न शाब्दधीहेतुर- झाल्यग्रे करिशतमित्यादी व्यभिचारात्। अस्तु वा तदपि। श्रौतधीश्चेयं प्रमैव श्रुतेरन्यत्रालब्धावकाशायाः प्रमाण- ३० खण्डनोद्धार त्वातबिरोधेन भेदप्रत्यक्षस्यैवाप्रमाणत्वात् । अथ यो- ग्यताया असंसर्गाग्रहादियमसंसर्गाग्रहरूपा । तथाप्यस्या असदसंसर्गाग्रहरूपत्वात् संसर्गसिद्धिः । न च प्रत्यक्ष- बाधं श्रुतिषाधेन परिहरतो वेदान्तिनोनौचित्यम् तदुद्भा- वितनिग्रहस्थानेनैवोद्भावितनिग्रहस्थानपरिहारस्य तत्त्वा- त् । तथा च तेन श्रुतेर्भाध इति वाच्यम् । श्रुतेः प्रमाण- त्वात् तस्य चाहायर्यारोपरूपत्वात् । किञ्चानौचित्यात् तत् बाध्यते यस्य मूलं तया हूयते । प्रकृते तु नैवं अद्वैतश्रु- त्यैव तर्कमृलव्याप्यव्यापकस्य भेदगर्भस्य खण्डनात् ॥ यत्तु प्रागन्तिमज्ञानता भेदाग्रह उक्तः । तदयुक्तम् । सत्याप्युदाहियमाणतादशायां भेदग्रहणसम्भवादिति । तन्न । अन्तिमबुद्धेरिदानी प्रत्यक्षेण ग्रहणासम्भवात् । न चानुमानेनानुपपत्त्या वा तद्ग्रहणम् अभेदाभिमानिनं वा- दिन प्रति भेदधीमूलकयोस्तयोरप्रवृत्तेः । न च ममानुमा- नादितस्तद्भेदबुद्धी मवचनाद्वादिनस्तत्र भेदसन्देहोऽप्य- स्त्विति वाच्यम् । अभेदाभिमानिनः कोटिद्वैताभिमानेन निष्परिपन्थिश्रुतिरूपसाधकमानसत्त्वेन सन्देहस्याप्यनुद- यात्। किञ्च परः किञ्चिद्धत्तीति यत्रावगम्यते तत्र न तस्य घटादितो भेदो ग्राह्यः स्वरूपानवधारणात् । तथा चाभेद- श्रुतिस्तत्रैव लब्धपदा तत्त्वाविश्वाभेदे पर्यवस्यति ॥ ननु कथं भेदानङ्गीकारे पदपदार्थवैचित्र्यव्यवहारः आविद्यकभेदोपगमात् । न च मयि व्याघातापादनमपि भेदाभावे आपादकस्यैवासिडेरिति खण्डनम् ॥ अनोच्यते। अभेदश्रुतिः प्रत्यक्षेण प्रतिरुध्यते। न च प्रत्यक्षश्रुत्योरविनिगमादुभयत्र प्रामाण्यसंशयः प्रत्यक्षस्य सकलप्रमाणापजीव्यत्वेन भेदप्रत्यक्षस्योपजीव्यजातीयत- या तेनैव श्रुतेर्वाधनात् ॥

प्रथमपरिच्छेदे ब्रह्माद्वैतनिराकरणप्रकरणम् । ननु भवतु प्रत्यक्षमुपजीव्यम् । तथापि नेहनानास्ति किच्चनेति श्रुतिस्तावदभेदबोधिका । अत्र किञ्चनेतिपदे- नोपस्थिते सर्वत्रैवाभेदः श्रुत्या विधीयत इति नाभेदवि- पा प्रत्यक्षोपजीवनमिति चेत् । तथापि किञ्चनेतिपदस- मानविषयत्वादुपजीव्यत्वाच प्रत्यक्षं तां बाधेतैव । किच्च यत्र भेदाभेदप्रत्ययौ परस्परस्पर्धिनी तत्राप्यनन्यथासिद्ध- स्वाद्भदधीस्तमेव अभेद्धीस्तु तज्जातीयत्वमालम्बते ता एव चैत्रक्षपा इतिवत् । तथा च तद्वदत्रापि स्यात् । न च भेदधियो भ्रमत्वमपि सम्भवति भ्रान्तेरभ्रान्तिपूर्वकत्वात् त्वन्मते भेदस्यालीकत्वात् अलीकस्य च विधिनिषेधाङ्गी- कारे उन्मत्तकेलिप्रसङ्गात् । अविवेका बोधयतु वा श्रुतिर- दैतम् । तथापि भेदप्रत्यक्षधिया तद् बाधनीयं ग्राहकस्य दौर्बल्यात् । पारमार्थिकत्वादद्वैतमबाध्यमिति चेन्न । असिद्धः। न हि पारमार्थिकमबाध्यं दृषम् । लोके दृ- मिति चेन्न । त्वन्मते लोके द्वयोरप्यदर्शनात् । एवं विषया- न्तरेऽपि गृहीते श्रुत्या नाभेदधीः तद्धियैवातादात्म्याग्रा. हिण्या स्वरूपभेदस्य गृहीतत्वात् । किञ्च विशिबोधि- कायां श्रुतो विशेष्यमुद्दिश्य विशेषणं विधीयते । तथा चोद्देश्यत्वविधेयत्वलक्षणभेदावगतेरावश्यकत्वात् तया- प्युपजीव्यया श्रुतेर्वाधः । यच्च श्रुत्या भेदप्रत्यक्षास्पृष्टना- न्तिमज्ञानेन समं स्वजन्यज्ञानस्याभेदे ग्राहिते तदन्यथानु- पपत्त्या मूलपर्यन्तमभेदः स्यादिति । तन्न । प्रत्यक्षेण घटा- दिभेदग्राहिणा श्रुतेरिवान्यथानुपपत्तेरपि वाधनात् विष- यविरोधाविशेषात् । किञ्च तत्तद्विशेषरूपेण श्रुत्याऽभेद- बोधने वाक्यभेदः स्यात् । न च श्रुतितो दागेव सर्ववि- षया अभेधीरुदेति। मद्बुद्धिस्तु विचारजन्यत्वात्तस्याः HETTLEMANDURLAMA ३ खण्डनोद्वारे सर्वविषयत्वं गाहत इति इति चेन्न । घटपटयोर्भेदप्रत्य. क्षेण तत्राभेदश्रुतेर्विनिततया द्राक् सर्वत्राभेदश्रुतेरप्रवृ- तेः । यच्च परः किविद्वेत्तीत्याद्युक्तम् । तदप्ययुक्तम् । तन्मात्रे अर्थादावभेदग्रहे विरम्य व्यापारायोगः स्यात् । तत्रान्यत्र च द्रागेव सर्वत्र श्रुत्याऽभेदग्रहणे चटपटादिभे- दप्रत्यक्षेण तत्र विघ्नः स्यात् । यञ्चोक्तम् अन्तिमवुद्धा श्रोतवुड्या सममभंदधीरभेदश्रुतित आदावस्त्विति। तन्न। अन्तिमबुद्धावज्ञानायां न तावदभेदः श्रुत्या बोध्यते उद्दे- श्याज्ञाने विधानासम्भवात् विधायकशब्दस्य च तथैव सर्वत्र प्रवृत्तिदर्शनात्। नापि ज्ञातायाम् तेनैव ज्ञानेन तस्याः स्वरूपभेदस्य गृहीततया तत्राप्यभेदश्रुतेरप्रवृत्तेः । एतेन सुदूरधावनधान्तति निरस्तम् । किच्दाभेदे बाध्यबोधक- सहकार्यसहकारिजन्यजनकवाच्यवाचकप्रतिपन्नाप्रतिपन्न- भेदविरहात् कथमभेदं अनिर्वाधयतु । अथाविद्यकाझेदात् सर्वमिदं घटते तर्हि तत एव त्वय्यनिषापादनमपि घट- ताम् । सर्वमिदमनिर्वचनीयमिति चेत् । अहो पाण्डित्यं नि- वचनात्मकश्रुतिप्रामाण्यमुपक्रम्यानिर्वचने पर्यवसानम् । वयं वैतण्डिकाः किमपि न साधयामः किं तु भेदं निषे- धाम इति चेत् । अविद्यादशायां श्रुतिरबैते प्रमाणमिति धुष्यन् पुरुषायुषमनैषीरथेदानीं तत्र दोषदर्शनादन्यथा वर्णयन् स्वाशयमपि नावधारयितुंक्षमसे। किक्षाभेदा यः साध्यः स भेदाभावो भेदविरोधी वा । उभयथापि भेदः पारमार्थिक आपद्यत । न यवस्तुनो विरहो विरोधी वा वस्तु सन्निति घटते। किञ्च श्रुतिः प्रपश्वब्रह्मणोऽभेदमा- हेत्यप्ययुक्तम् । ब्रह्मैव तत्त्वं प्रपञ्चस्त्वतत्त्वमिति शङ्करा- चार्यवचनविरोधात् । अत एव तयोर्भदं निषेधतीत्यपि ३ प्रथमपरिच्छेदे बह्माद्वैतनिराकरणप्रकरणम् । न। एवं हि ब्रह्मणःप्रपञ्चाभिन्नतया जडत्वेन स्वप्रकाशचि- दानन्दानात्मकत्वे तदर्थी मुमुक्षोः प्रवृत्तिरपि न स्यात् । तथा च श्रुतिः प्रपक्षनिषेधपरेति वाच्यम् । तथा च क ब्रह्म- प्रपञ्च्योरभेदगन्धोऽपि । अथ जीवपरमात्मनोरभेदं श्रुति- राह तत्त्वमसीत्याद्युक्तरिति चेन्न प्रत्यक्षबाधात् परमा- त्मान्योन्याभावस्य प्रतिस्वं स्वात्मनि प्रत्यक्षत्वात् नाह ज्ञानमितिवन्नाहं परमात्मेति प्रतीतेः। आत्मनि तत्तादा- स्भ्यसत्त्वे तथोपलम्भापत्त्या तभेदस्य तत्राध्यक्षतापग- मात् प्रतियोगिसत्त्वविरोधिन्या एवानुपलब्धेर्योग्यानुप- लब्धित्वात् । किश्चाभेदश्रुत्या क्रमेणाभेदावगाहन मिति यदुक्तम् । तदप्ययुक्तम् । शब्दस्य विरम्य व्यापारायो- गात्। यत्वभेदश्रुत्या द्रागेव सर्वत्रैवाभेदधीर्जन्यते । न च घटादी भेदप्रत्यक्षेण श्रुतिबाधनं वस्तुतः श्रुतेर्बलवत्त्वात् । तथा च श्रुतिनिर्दोषत्वेन बलीयसी भेदप्रत्यक्षमेव प्रति- क्षिपेत् । तदुक्तम् । पारमार्थिकमद्वैतं प्रविश्य शरणं श्रुतिः। बाधनादुपजीव्येन न विभेति मनागपि ॥ एकं ब्रह्मास्त्रमादाय नान्यं गणयतः कचित् । आस्ते न धोरवीरस्य भङ्गः सङ्गरकेलिषु ॥ इति । तन्न। एवं हि सर्वेषामेकदैवाभेदबोधने बोडुः सार्वज्यं स्यात् । तच न मन्यसे । अन्यथा सामान्यप्रत्यासत्त्यो- पस्थितानां सर्वेषामेकदैव भेदे प्रत्यक्षेणावगते श्रुतिर्निर- वकाशैव स्यात् । श्रुतेबलवत्त्वं च विचार्यमेवास्ति । किञ्च बोडुर्वाधावधारणमेव शाब्दधीविरोधि न तु याथार्थ्य- मपि । तचात्रास्त्येव । न च भेदप्रत्यक्षस्यान्यथासिद्धि खण्ड नोद्धार सम्भावनया दौर्बल्यम् श्रुतेरप्यन्यपरत्वसम्भावनया तत्सम्भवात् । न चैवं श्रुतिप्रत्यक्षयोर्बलावलसन्देह एवा- स्त्विति वाच्यम् श्रुतेः सहकारिविरहादिना दौर्बल्यात् । नन्वेतत्सर्वमविद्यावयम्भन मयोक्तम् । वस्तुतस्तु परमात्मभिन्नं न किञ्चित्तत्त्वम् । एवं च श्रुतिश्चाविद्या च जगच्च सर्वमाविद्यकं विचारासहत्वात् । ब्रह्मैवैकं तत्त्वम् । तच्च स्वप्रकाशचिद्रूपत्वान्मेयमातृप्रमामानभेदशन्यमवा- अनसगोचरत्वाच न विचारगोचरोऽपीति चेत् । नूनं मत्तः सज्ञाशुन्योऽसि यद्ब्रह्मणो वचनागोचरत्वं वचनेनैव प्र- तिपादयसि । इदमप्याविद्यकमिति चेत् । यत्र प्रमाणानि प्रसरन्ति तन्न वस्तु यंत्र तु न प्रसरन्ति तदेव वस्त्विति महती दुष्प्रत्याशा । तस्माजगत्कतीरं ब्रह्मपदार्थमवेहि । तत्र च कार्यायोजनादि प्रमाणं जानीहि अभेदभ्रतीभीव- नापरत्वेन विद्धि विरम जगदभेदाभिमानादित्यलमतिवि- स्तरणेति । किच्च केयमविद्या किंनिष्ठा कतिविधा चेति । तत्र परमात्मन्येका जीवेषु प्रतिस्वमपरेति टीका । तन्न । अविद्यावशेन हि जीवे ब्रह्मतो भिन्ने सत्यविद्या तमाश्र- येत । अविद्याश्रयणेन च स ब्रह्मतो भिन्नः स्यादित्यन्यो- न्याश्रयात्() । न चात्रानादितापरिहारो व्यक्तिभेदे हिस स्यात् बीजाकरवत् । अत्र तु न तथा न हि जीवा अपि उदयन्ते व्ययन्ते चेति । येन व्यक्तिभेदः स्यात् ।। जन्मप्रवृत्तिदोषमिथ्याज्ञानानामप्यन्योन्य श्रयचक्रकप्रतिबन्धिरपास्ता । प्रात्माश्रयानवस्थयोहि प्रा- माणिकत्वं परिहारः । तच्चानवस्थायां व्यक्तिभेदादेव सम्भवति अात्माश्रये व्यक्त्यभेदादेव । अन्योन्याश्रयच- (१) तदपेश्यापेक्षित्वनिइन्धनोनिष्टप्रसङ्गोऽन्योन्याश्रयः ।

प्रथमपरिच्छेदे ब्रह्मानिराकरणप्रकरणम् । ऋकयोस्तु व्यक्तिभेद एव परिहारः। यथा जन्मप्रवृत्त्योः जन्मप्रवृत्तिदोषमिथ्याज्ञानानां चेति । तद्वन्नात्र व्यक्ति- भेदोऽस्ति । परस्परापेक्षि च व्यक्तिद्वयं न सम्भवति कार- णाभावादिति ॥ अथास्तु विवरणमतम् । तथाहि अविद्या हि ब्रह्ममा- त्राश्रिता एकैव । सा च ब्रह्मवदनादिरेव । ब्रह्मण्येव च स्थिता जीवानावृणोति । तथा च तयाऽवृता जीवा ब्रह्म- यो भिन्नत्वेन बहुत्वेन चकासति । यदा तु तामावरिकां योगसमाधिमर्यादया जीवो व्यतिक्रामति तदा जीवन्मुक्त इत्युच्यते । यदा तु सर्वे तदा सर्वे जीवा ब्रह्मणि लीयन्ते अविद्या च व्यति कर्तव्याभावात् ब्रह्मैव निर्विकारमवति- ष्ठत इत्येकदैव सर्वमुक्तिरिति । तन्न । सा ह्यविद्या ब्रह्मा- श्रिता ब्रह्मतो भिन्ना वास्तवी चेत्तदा द्वैतं स्यात् । ब्रह्माभि- नाचेत्तदा तययानुपपत्तिरपसिद्धान्तश्च । साप्याविद्यकी चेत्तदा तस्या अविद्यान्तरप्रभवत्वे अविद्यानन्त्यं स्यात् । किच्छेयमविद्या मोहात्मिका वा तत्वज्ञानविरहात्मिका वा । नोभौ। न हि ब्रह्मणि तो सम्भवतः । न हि ब्रह्मान- भिज्ञं मूढच्चेति स्वप्रकाशचिद्रूपत्वात्तस्य । अथ जीवस- मवेतं मिथ्याज्ञानमविद्या ब्रह्म विषयीकरोति । तदान्यो- न्याश्रयः । जीवे हि ब्रह्मतो भिन्ने सति तत्र मिथ्याज्ञानं समवेयात् । समवाये च स ब्रह्मतो भिद्यतेति । अथावि- चाविजृम्भितं मायानगरं तथा विश्वमेवेति ब्रूम इति चेन्मायास्वरूपं पृटो मायाफलेनोत्तरयन्नूनमनभिज्ञोऽसि । किञ्चाऽविद्याऽस्तु यथा तथा । न हि सा ब्रह्म विषयीक- रोति । न वा तत्र समवैतीति कथं ब्रह्माश्रितेत्युच्यते । ननु सत्त्वेनासत्त्वेन च सा निर्वक्तुं यथा न शक्यते तथा खण्डनोद्वारे भावत्वेनाभावत्वेन मोहत्वेन जीवनिष्ठत्वेन वा ब्रह्मनिष्ठ- त्वेनापि निर्वक्तुं न शक्यत इत्येव तदनिर्वचनीयत्वार्थ इति । धिङ्मुढ यां बोद्धं व्याहर्तुं च न शक्नुषे तामाश्रित्य विवमानो न लजस इति दरमपसर । किं कुर्म एवं स्वभावैव सेति चेत् । निःस्वभावामेवं स्वभावां वदन व्याघातादपि विभेषि । तस्माद् यथा यथा परीक्षसे तथा तथा व्याघातसंघातनिर्यातघातमासाद्य माद्यन्नन्माद्यन्नि- तस्ततः प्रलपसीति । अथाविद्या ब्रह्मावृणोतीत्ययुक्तम् तस्य स्वत एवावाङ्मनसगोचरत्वात् । आवृतत्वादेव तत्तथेति चेन्न । अपसिद्धान्तात्। अविद्या ब्रह्म नावृणोति किं तु तहलाब्रह्म विवर्तत इति ब्रूम इति चेत् । कोऽयं विवर्तः। मिथ्यापरिणामः कोऽयं परिणामः । प्रकृत्यनु- वृत्तौ रूपान्तरा वृत्तिः । यथा हेनः कुण्डलादि । सोऽयं परिणाम आविद्यकत्वान्मिथ्येति बम इति चेत् । यथा हेम कुण्डलत्वेन पर्यवस्यति । तथा ब्रह्मासद्भूतादित्वेन पर्यव- स्थतीति त्वद्वाक्यार्थः । स चायुक्तः । सदसताश्चेतनजड- योरात्मानात्मभूतयोस्तादात्म्यासस्भवात् । न हि तात्त्वि- कस्यातात्त्विकः परिणामः सम्भवतीति। हिमान्या मा- यागन्धर्वनगरवदेतत् स्यादिति चेन्मैवम् । न हि हिमानी तथात्वेन परिणयते विवर्तते वा। किंतु हस्त्यश्वादित्वेन मु. प्रतीयते । ब्रह्म तु कथं तथा प्रतीयतां सर्वपरोक्षत्वा- दिति ॥ ईश्वरसिडिस्त्वेवम् । य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्य- सङ्कल्पः सेोऽन्वेषव्यः स विजिज्ञासितव्य इति छान्दो- ग्योपनिषदा आत्मविषयकप्रतिपत्तिविधी सा प्रतिपत्तिः ३७ प्रथम परिच्छेदे ईश्वर्रादिप्रकरणम् । किंरूपा कतिविधा वेत्याकाङ्क्षायां आत्मा वा अरे द्रव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयीति शतपथश्रु- त्यात्मविषयकयथोक्तप्रतिपत्तिचतुष्कस्येसाधनत्वेऽवगते इाकाक्षायां च न स पुनरावर्तत इत्यर्थवादेनापुनरावृत्ती- क्षस्योपस्थितौ विध्यनुवादैकवाक्यतया च प्रतिपत्तिचतु- यस्य मोक्षसाधनत्वावगमे माक्ष्यमाणप्रवृत्तिप्राप्तौ प्रवृ. त्तिविषयीभविष्यत्तदुपायविशेषजिज्ञासायां श्रोतव्यः श्रु- तिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिरिति गुणविधिना वेदा- नुमानयोस्तदुपायत्वविधानात् । अथ श्रवणकारणवेदाका- डायां सहोवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थू- लमनण्वस्वमदीर्घमलोहितमस्नेहमच्छायमतमोवायु ना- काशमसङ्गमस्पर्शमगन्धमरसमचक्षुःश्रोत्रमरागमनातेजस्क- मप्राणमुखमनामागोत्रमजरममरमभयममृतमरजोऽशब्द- मविवृतमसंवृतमपूर्वमनपरमबाह्यं न तदश्नोति कञ्चन तद्- भोति कश्चनेत्यादि शतपथश्रुत्यात्मनि श्रुते विधिबोधित- द्वितीयप्रतिपत्तये निरञ्जनत्वादिश्रुतिसंजाताश्रडामलक्षा- लनाय च मननानुसरणे इतरभिन्नानुमितेयाप्तिपक्षधर्म- तासंवेदनसाध्यत्वे ऽपि तस्यात्र प्रावादुकप्रवानिरासक्ष- मात्मपञ्चावयवसाध्यतया साङ्गोपाङ्गन्यायस्वरूपनिरूप- णाय षोडशपदार्थव्युत्पादनमाप्तौ तत्रापि षोडशपदार्थनि- रूपणस्य निरस्तसमस्तदोषानुषजस्वलक्षणसाध्यतया लक्ष- णदोषनिरासस्य च लक्षणमन्तरेणासम्भवितया लक्षणस्य च धर्मिज्ञानसाध्यस्य तत्साधकोद्देशसाध्यतयोद्देशलक्षण- परीक्षात्मकप्रवृत्तित्रित्वे व्यवस्थिते यथोक्तहेतुहेतुमद्भाव- सङ्गत्योद्देशलक्षणपरीक्षाणां पौर्वापर्ये सिद्ध जातिनिग्रह- स्थानविशेषलक्षणा नात्वभ्यहिततमप्रमाणादिपरीक्षावि- षयकशिष्यबुभुत्साकव्येन प्रतिबन्धे । अथ तत्पर्याप्तावस:

खण्ड नोद्वारे रतः करणादर्थतश्चरमभाव इति सर्वमभिसन्धाय दुःखपङ्क- निमयानुद्दीधीर्षनक्षपादो महामुनिस्तदुपशमस्य परम्परयो- पावभूतामान्वीक्षिकी प्रणिनाय । तत्रापि चान्वीक्षिक्या साङ्गोपाङ्या प्रावादुकप्रवानिरासक्षमे पञ्चावयवे समु- पवर्णिते तेनैवमननात्मिका द्वितीया प्रतिपत्तिरपि साध्यते क्षित्यादेः कार्यत्वेन घटवत् सकर्तृकत्वानुमानात् ॥ नन्वादिपदस्य प्रकारवाचित्वेन कश्चिदेकः प्रकारो वाच्या येन तत्र तत्र महामहीधरादयः संगृह्यन्ते। अत्राहुः । अावारकोपादानगोचरजन्यकृत्यजन्यसमवेतजन्यत्वं तथा । अत्र कृत्यजन्यत्वेन पक्षविशेषणे कृते सर्वासंग्रहः सर्वस्य सन्दिग्धकर्तृकस्य स्वमते कृतिजन्यत्वादिति तदर्थं जन्येति । जन्यपदं तु स्वमते कृता विशेषणम् परं प्रत्या- पातत उपराकम् । एवमपि शब्दफूत्कारादीनां मृदङ्गा- दिगोचरकृतिजन्यानां जन्यकृतिजन्यत्वेन न पक्षत्वमिति तत्संग्रहायोपादानगोचरेति जन्यकृतिविशेषणम् । शब्दा- दयोऽपि हि गगनपवनगोचरजन्यकृत्यजन्या एव तयोर- तीन्द्रियत्वात् । नन्वेवमपि सर्वासंग्रहः । क्षित्यादयो हि परमाणुगोचरजन्यकृतिजन्या एव । तथाहि यागादिगोचरा यष्टुयोजन्या कृतिःसापियागहिंसादिकं भावयन्ती तत्फ- लीभूतं सुखं दुःखच्चोत्पादयन्ती तदवरुद्धत्वेन तत्कारणी- भूतं परमाणुमपि विषयीकरोतीत्यतः सर्वसंग्रहायादृधा- द्वारकेति उपादानगोचरजन्यकृतिविशेषणम् । इयं तु कृतिरावारिकैवोपादानगोचरा भवति । एवमपि निरु- पादानानां प्रध्वंसानामदृष्टाद्वारकोपादानगोचरजन्यकृ- त्यजन्यतया पक्षप्रवेशेवृत्ते तदंशे सकर्तृकत्वानुमाने बांधः। न हि ध्वंसस्य निरुपादानस्योपादानगोचरापरोक्षज्ञानचि- की कृतिमजन्यत्वलक्षणं सकर्तृकत्वं सम्भवतीति तद्वहि- ३ সময় মার্জি। करणाय समवेतपदम् । एवमपि सामान्यानां नित्यगुणानां च पक्षप्रवेशे वृत्ते तदंशे बाधः स्यादिति तद्वारणाय चरम जन्यपदम् । साध्यं तु अषाद्वारकोपादानगोचरापरोक्ष- ज्ञानचिकीर्षाकृतिमन्जन्यत्वम् । अत्राप्युपादानेत्यादी कृते- ऽदृद्वारा उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतयःक्षेत्र- ज्ञस्य भवन्त्येवेति तद्विशिक्षेत्रज्ञेनैवाथान्तरमिति तद्वा- रणायादृाद्वारकेति उपादानगोचरप्रत्यक्षज्ञानचिकीर्षयोः कृतेश्च विशेषणमिति केचित् । तन्न । न ह्यान्तरवारणाय साध्ये विशेषणं साध्यगौरवेण व्याप्यत्वासिापत्तेः। किं त्वाद्वारकोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमाने- व हि कती। यथा घटपटादा कुलालकुविन्दादिः। एवं चैवं प्रयोगः अदृशद्वारकोपादानगोचरजन्यकृत्यजन्यानि सम- वेतानि जन्यानि अदृष्पाद्वारकोपादानगोचरापरोक्षज्ञान- चिकीर्षाकृतिमजन्यानि समवेतत्वे सति प्रागभावप्रतियो- गित्वात् । यद्यत् समवेतत्वे सति प्रागभावप्रतियोगि तद्- दृयाद्वारकोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमजन्यम् यथा घटः । एतानि चाहाद्वारकोपादानगोचरापरोक्षज्ञा- नचिकीर्षाकृतिमजन्यत्वव्याप्यसमवेतत्वसमानाधिकरण- प्रागभावप्रतियोगित्ववन्ति । तस्मादुपादानगोचरापरोक्ष- ज्ञानचिकीर्षाकृतिमजन्यानि । नायं हेतुराभासस्तल्लक्षणा- योगादिति नैयायिकेन स्थापिते ऽनुक्तग्राह्योच्यमानग्राह्या- भासहिरुक्तग्राह्याणां यथायथमनुसन्धीयमानानामनव- तारे उक्तग्राह्यविशेषेण हेत्वाभासेन मीमांसकः स्थापना दूषयति । तथाहि कती शरीरावच्छिन्न एवात्मा घटादा दृषः स च पक्षे बाधितः । न हि शरीरी क्षित्यादि निर्मा- तीति त्वमपि ब्रूषे इति । प्रत्यक्षेणापाधिना वा यद्यपि खण्डनाद्वारे नात्र शरीरजन्यत्वमुपाधिः साधनव्यापकत्वात्। क्षित्या- देरप्यपद्धारा शरीरजन्यत्वादिति । तथाप्याद्वारक- चेपाश्रयजन्यत्वं सः । न च लाघवात् तादृशचेधाजन्य- त्वमेवास्तूपाधिः चेशयामेव साध्याव्याप्तेः। न हि चेशापि बेधाजन्याऽनवस्थापत्तः । स्थापनां निरस्य स एव स्वपक्षे प्रमाणमाह क्षित्यादीनि नापाद्धारकोपादानगोचरापरो- क्षज्ञानचिकीर्षाकृतिमजन्यानि शरीराजन्यत्यात् । यद्यत् शरोराजन्यं तत्तदुपादानगोचरापरोक्षज्ञानचिकीर्षाकृति- मजन्यं न भवत्येव यथा व्योमेति महार्णववत्सेश्वरमते । नरसिंहहरिशर्ममते तु तदि न वीप्सेति । कण्टको डारस्तु कापि मते नास्ति ॥ एवं प्रयुज्य विरतवाचि मीमांसके स्थापकः । न हि शरीरघटितमपि कर्तृत्वं गौरवात् । किं त्वदृपादारकोपादा- नगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वमात्रम् । यत्तू कुला- लादेः शरीरित्वं तज्ज्ञानादिनिष्पत्तये क्षित्यादिकती त्वज- न्यज्ञानादिमानेवेति किं तस्य शरीरेण । तथा च कर्तृस्वरूपे शरीराननुप्रवेशात् । ज्ञानेच्छाप्रयत्नवतश्च कर्तुः परं प्रति नित्यपरोक्षत्वान्न प्रत्यक्षबाधः । यत्तु शरीराजन्यत्वादिकं हेतूकृतम् । तत्र शरीरं नार्थे विशेषणम् प्रतियोगिनि वा। आद्ये स्फुट व्यर्थविशेषणम् अजन्यत्वमात्रस्यैव कर्वजन्य- त्वसिद्धिक्षमत्वात् । अन्त्ये यदपि शरीरं हेतूकृताऽभावं न विशिनष्टि । तथापि जन्यत्वं विशिषत् विशिधाभावस्य हेतुतायां पर्यवस्यति । तथा च लाघवाद्विशेष्याभावमात्र- स्यैव कर्तृजन्यत्वाभावव्याप्यत्वम् । न तु विशिधाभावस्य गौरवादिति शरीरजन्यत्वाभावो व्याप्यत्वासिद्धः । एवं च हेत्वाभासेन मीमांसके पराजितेऽव्याहतहेतुप्रयोक्ता amestic प्रथमपरिच्छेदे ईश्वर्रादिप्रकरणम् । नैयायिको विजयी । तदिदमीश्वरस्य जगत्कर्तृत्वमागमाऽपि संवदति । तद्यथा विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुन विश्वतस्पात् संबाहुभ्यां धमति संपतनद्यावाभूमी जनयन देव एकः । नन्वेवमीश्वरविषयकं प्रतिपत्तिचतुश्य- मपवर्गजनकमिति निर्गलितम् । तमेव विदित्वा अतिमृत्यु- मेति नान्यः पन्था विद्यते ऽयनायेति श्रुतिरप्येवमाह । एत- बायुक्तम् । तत्त्वज्ञानस्य हि समानाधिकरणमिथ्याज्ञा- नध्वंसद्वारोपयोगात् दुःखजन्मेत्यादिसूत्रे तथैव सिद्धा- न्ताच । ईश्वरविषयकंतु मिथ्याज्ञानं न जीवस्थ संसाराय। किं तु स्वविषयकमहं गौरोऽहं स्थूल इत्यादिना शरीर- विषयकेण जीवाभेदभ्रमेण तदनुकूले रज्यते तत्प्रतिकूलं च द्वेधीति तदीयरागद्वेषमोहैरेव संसरति उच्यते तद्विषय- कदोषत्रयोच्छित्तितद्विषयकतत्त्वज्ञानादेवेति । सत्यम् । तदेव तु प्रवणमनननिदिध्यासनैः क्रमादुच्छितैरुत्पन्ने ने- श्वरसाक्षात्कारेण जन्यते । तथा च श्रुतिः । स हि तत्त्वतो ज्ञातः स्वात्मसाक्षात्कारस्योपकरोतीति । अस्त्वेवम् । तथापि शतपथे आत्मा वा अरे द्रव्य इति अयते । शा- खान्तरे साक्षात्कर्तव्य इति । तच्चोभयमप्ययुक्तम् । निदि- ध्यासनप्रवृत्त्यैव साक्षात्कारसम्भवे तस्य प्रयत्नान्तरासा- ध्यत्वेन फलैकरूपतया च विधानायोगात् । कृतिसाध्ये- साधनत्वस्य च विध्यर्थत्वात् । अत एव यागविध्यनन्तरं नापूर्वविधिः यागानुष्ठानेनैव तत्सिद्धेरिति । मैवम् । आत्मा वा अरे द्रव्य इत्येव दर्शनस्येसाधनत्वमाह । कृ- तिसाध्यत्वं तु कथं तस्य दर्शनस्येत्याकाङ्क्षायां निदिध्या- सितव्य इति । निदिध्यासनं च आसनप्राणायामप्रत्याहा- रधारणाध्यानसमाधियमनियमरूपाङ्गयोगेन चिरमिर- न्तरादरसेवितेन परमपुरुषीयचित्तसन्तानरूपम् । एतच ..

खण्डनाद्वारे सङ्गसु कस्य नाडामलक्षालनं विना सम्भवतीति तदर्थ श्रुत्यात्मस्थिरीकरणाय मन्तव्य इति द्वितीयप्रतिपत्तेरानु- मानिक्या विधानम् । सापि च धर्मिज्ञानसाध्येति । श्रव- साक्षात्कृतवेदप्रभवायाः प्रथमप्रतिपत्तर्विधानं श्रोतव्य इति । तथा चेसाधनत्वं प्रतिपत्तिचतुयस्यैव । कृतिसा- ध्यत्वं तु चतुर्थप्रतिपत्तेस्तृतीयप्रतिपत्तिद्वारेति तदुपप- त्तये तत्साधनसमाधी तृतीयप्रतिपत्तौ च तत उत्पन्नायां साक्षात्काराय चिन्तामेवं तनोतीति सर्व सुस्थम् ।। ननु भेदधीः श्रुतिवाधिकेति यदुक्तं तत्र को भेदः । स्वरूपमन्योन्याभावो वैधय॑मन्यद्वा । आधे घटः पटो नेत्यत्र पटः स्वभेदे विशेषणमुपलक्षणं वा । अत्र नायः । पटविशेषितभेदात्मकत्वे घटस्य स्थात्मकभेदविशेषणीभू- तपटात्मकता वज्रलेपायितैवेति । घटपटयोरभेद एवं पटाद्भेदो घटस्य स्वरूपमिति धियाऽभावः प्रमित इति तद्विरोधेन पटाझिनो घट इति धिया विशेषणीभूतभेद- जन्यया घटपटयोभैंदो न प्रमापणीयः उपजीव्यविरोधात् । तदुक्तम्। अभेदं नोल्लिखन्ती धीन भेदोल्लेखनक्षमा । तथा चाचे प्रमा सा स्थानान्त्ये स्वापेक्ष्यवैशसात्॥१) इति। आधे ऽभदे । अन्त्ये भेदे । अथ घटो भेदमात्रात्मक एव । किं तु तेन तेन पटादिना प्रतियोगिना निरूप्यमाण: स्वस्मिंस्तत्तद्भिन्नधियं जनयतीति चेत् । पटप्रतियोगिकत्वं घटस्य स्वरूपं चेत् तदा पूर्ववद्धटपटयोरभेदः स्यात् । यदि तु तहर्मस्तदा घटः पटवान् स्यात् पटघटितपटप्रतियोगि- (१) आद्ये अभेदे सा धीः प्रमा नान्त्ये भेदे स्वस्य भेदग्रहस्या- पेक्ष्य उपजीव्योऽभेदग्रहस्तद्वैशसात् तद्विरोधादित्यर्थः ।

प्रथमपरिच्छेदे भेदसिद्धिप्रकरणम् । कत्ववत्त्वात् । एवं पटोऽपीति । किञ्च स्वरूपस्यावधिश- न्यत्वेन घटो घटाद्भिन्न इत्यवधिघटितार्थधीन स्याच भिन्न इति । न हि स एव तवान् भवतीति । न च पटप्रतीते- विशिषघटप्रतीतिकारणतया पटादितीयं पञ्चमी । पटाद्भि- न इत्यत्र हि भेदावधी पञ्चमी । न तु विशिषधीहेतुभूत- विशेषणधीविषये। अन्यथा विशिधीहेतुर्निर्विकल्पकवि- षयतया घटत्वाद्धट इत्यपि स्यात् । उपलक्षणपक्षस्त्वति- प्रसङ्गानिरस्तः । अन्योन्याभावस्तु भेदो दुनिर्वचः । तथा- हि स हि घटपटोभयतादात्म्यप्रतियोगिको न सम्भवति अत्यन्तासत्प्रतियोगिकतापत्तेः । नापि घटे पटतादात्म्य- प्रतियोतिक एवं पटेऽपीति घटे पटतादात्म्याभावस्य व्यधि- करणाभावत्वेन संसर्गाभावत्वात् । वैधर्म्यमपि न भेदः तत्रापि वैधयान्तरस्य सत्त्वे ऽनवस्थापत्तेरननुभवाच । असत्त्वे च वैधाणामभेदाद्विधर्मणामप्यभेदे जगभेद एव स्यात् । अपि चास्तु यः कोऽपि भेदः सोऽपि नाभिन्ने निविशते विरोधात् । किञ्चाभिन्ने भेदप्रवेशे एकाभावेनै कमपि न स्यात् तस्यैकसमूहत्वात् । नापि भिन्ने । एवं सति हि सोऽपि भिन्ने सोऽपि च भिन्ने इत्येकस्मिन्नेव घटे नियतायुषि क्रमेण तत्तद्भदालिङ्गनमयुक्तम् । किच्च विधेयी- भूतभेदफलमधिकरणावच्छेदकीभूतभेदेनैव स्यादिति वि- घेयीभूतभेद्धाराविलोप: स्यात् । अयमेव प्राग्लोप इहो- क्तः। अथानन्ता भेदा अपि क्रमेणैव घटमालिङ्गन्ति तदा किं भेदविशिष्टे किं भेदवृत्तिरित्यशक्यावधारणम् । इद- मेव चाविनिगम्यत्वम् । अपि च भिन्नबुडेरेकेनैव भेदेनो- पपत्तावनन्तभेदकल्पने मानाभावः । अयमेव प्रमाणाप- गमः । तदुक्तम् । ।

४४ खण्डनोद्वारे प्राग्लोपाचिनिगम्यत्वप्रमाणापगमैर्भवेत् । अनवस्थितिमास्थातुरचिकित्स्यत्रिदोषता (१) ॥ इति । अथानवस्थाभयात् द्वितीयो भेदो धर्मिस्वरूपमेवा- च्यते । तदा धर्मिस्वरूपं निःस्वरूपमेव स्यात् स्वरूपव्या- वृत्त्यात्मकभेदात्मकत्वात् । अथ धर्मात्मको भेदः स्वरूप- विशेषव्यावृत्तिन तु स्वरूपसामान्यव्यावृत्तिः तदा द्वावपि घटपटादिरूपी भेदिनौ स्वरूपसामान्यरूपतयाऽभिन्नौ स्या- ताम् । किञ्च भेदः स्वप्रतियोगिस्वानुयोगिस्वधर्मस्वस- म्बन्धैः समं यदि भेदान्तरेण भिद्यत तदानवस्था न चेत्त- हि अद्वैतमेव । तद्वैतश्रुतेस्तावद्वाधः प्रत्यक्षतः क्षतः। नानुमानादि तं कर्तुं तवापि क्षमते मते(२) ॥ अद्वैतागमनासीरे साधु सा धुन्वती परान् । सेवामेवाजयत्यापत्तिपत्तिपरम्परा (३) ॥ अद्वैतश्रुतयश्च वर्णपदादिभेदेनाविद्यकेनाइतं पारमार्थिक प्रतिपादयन्त्याऽपि न तेन दुर्बलेन बाध्यन्ते । तस्मात् पारमार्थिकमद्वैतं प्रविश्य शरणं श्रुतिः । बांधनादुपजीव्येन विभेति न मनागपि (४) ॥ (१) तृतीयाविभक्यर्थः प्रयोज्यत्वम् । तथा च प्राग्लोपादिप्रयोज्या त्रिदोषतेत्यर्थः अभित्रित्वं वा अर्थः। तथा चप्राग्लोपाधभिन्नात्रिदोषतेत्यर्थः। (२) प्रत्यक्षविषयाभावात् प्रत्यक्षबाधो न सम्भवतीत्युपसंहरति तदद्वैतेति । नानुमानादीति । अनुमानापेक्षया आगमस्य बलवत्त्वात् । अन्यथा नरशिरः कपालं शुचिःप्राण्यङ्गत्वादित्याद्यप्यवकाशमासादयेत् । (३) अर्थापत्तेः स्वपक्षानुकूलत्वमुक्तं स्मारयति अद्वैतेति । अद्वै. तागमस्य नासीरे पुरतः सा अर्थापत्तिः परान् विरोधिनः प्रमाणाभासान धुन्वती निराकुर्वन्ती सेवामानुकूल्यमर्जयति भजते । (४) श्रुतिः पारमार्थिकमद्वैतं शरणं प्रविश्य उपजीव्येन बाधनात् मनागपि ईषदपि न बिभेतीत्यन्वयः।

४५ प्रथमरिच्छेदे भेदादिप्रकरणम् । श्रतिजन्यत्वस्याप्याविद्यकत्वान्न ब्रह्माद्वैतधियो नि- त्यत्वविरोधः । तस्मात् आपाततो यदिदमद्वयवादिनीनाम् अद्वैतमाकलितमर्थतया श्रुतीनाम् । तत्स्वप्रकाशपरमार्थचिदेव भूत्वा निष्पीडितादहह निर्वहते विचारात् (१) ॥ इति । अत्रोच्यते । यथायथं तावत्रयो भेदाः । तथाहि स्व- रूपं तावद्भेदः भिद्यते व्यावय॑ते अभेद्धीविरोधिधीवि- षयीक्रियते ऽनेनेति व्युत्पत्तेः । स्वात्मना च पटस्तथा क्रियत एव अतो न स्वरूपस्य भेदत्वं पारिभाषिक वैधान्योन्याभाववत् स्वरूपेऽपि व्युत्पन्नत्वात् । अत एवात्मतत्त्वविवेके । त्रीनपि भेदानाचार्या आहुः । ननु स्वरूपभेदवत्ता स्वरूपस्य न सम्भवत्यभेदात् । न हि स एव तद्वांस्तेनैव भवतीति चेत् । माभूत् । न हि स्वरू- पभेदवतस्तेन भेदवत्त्वां ब्रमः। किंतु प्रतियोग्यपेक्षविलक्ष- णधीविषयतामात्रम्।प्रतियोगित्वाभिमताभेदारोपविरो- धिधीपालोचननिबन्धनस्तत्र घटाद्भिन्नः पट इत्यादिः प्रतिभासः । तथा च स्वरूपभेदस्थले अभेदं नोल्लिखन्ती धीरित्यादि यदुक्तम् । तदयुक्तम् । न हि तत्र भेदो वा भिन्नता वा चकास्ति । किं तु भेदान्तरमन्तरेणैव विलक्ष- णधीमानं तत्रोदेति । तदुक्तम् । किञ्चिद्धि वस्तु स्वत एव विलक्षणमिति । यद्वा घटादिव्यक्तः पदादिसाकाङ्क्षत्व- मेव तद्भेदत्वम् । यद्यपि घटादिव्यक्तिन स्वरूपेण पटा- (१) अद्वयवादिनीनां श्रुतिनां यदिदमद्वैतं आपाततोऽर्थतया आक- लितम् विचारितम् तत्स्वप्रकाशचिद्रूप भूत्वा निष्पीडितात् शोधितात् विचारानिर्वहते निर्वाहं प्राप्नोतीत्यन्वयः। पमेव खण्डनोद्वारे दिसाकाङ्क्षा । तथापि तत्प्रतियोगिको भेदो भवन्ती तत्साकाङ्क्षैव । प्रतियोगित्वं च पटादेः भेदत्वप्रकार- कघटादिधीकारणीभूतधीविशेषविषयत्वम् । अन्योन्या- भावस्तु यद्यपि तदात्मीभवतीर्घटपटयोनीभावा । नापि तयोस्तादात्म्यस्याभावोऽसौ येनात्यन्तासत्प्रतियोगिकः स्यात् । नाप्यतदात्मीभवताः। येन स्तम्भः पिशाचो न भवतीत्यत्र तस्यैकस्यैकमेव ज्ञानं स्तम्भे प्रत्यक्षं पिशाचे चाप्रत्यक्षमापद्येत । नापि घटे पटतादात्म्यस्याभावो येन संसर्गाभावः स्यात् । किंतु घटः पट इत्यारोपशरीरम् । एष च घटे पटत्वारोपः तथैवानुभवात् । निषेधस्तु पटस्यैव तस्यैव सामानाधिकरण्येनान्वयात् । वैयधिकरण्येन तु तदन्वये घटे पटो न घटे पटत्वं नेति बाधधीः स्यात् । तस्मादभावाधिकरणे प्रतियोगितावच्छेदकं धर्ममारोप्य यो निषेधः प्रतीयते सोऽन्योन्याभाव इति विज्ञेयम् । ननु धर्म आरोप्यते धर्मी निषिध्यत इति दुर्घटम् । आरोपि- तस्यानिषेधान्निषेध्यस्य चानारोपादिति चेन्न। आरोपे निषेधबुड्या च घटपटयोभीनमित्यनुभवसिद्धम् । किं त्व- नुभववैचिच्यादारोपो धर्मप्राधान्येन । निषेधस्त धर्मिप्रा- धान्येन तथैवानुभवादिति दिक् । वैधयेषु वैधापगमे ऽनवस्था न दोषाय प्रामाणिकत्वात् तत्र स्वरूपभेदेन भिन्नधीसम्भवाद्धति॥ यत्तु भेदो भिन्ने निविशत इत्यादि । तत्तुच्छम् । तस्य नित्यसमाप्रपञ्चत्वात् । न हि तद्भेदविशिष्टे तद्भेद- वृत्तिं नाप्यभिन्ने भेदवृत्तिं ब्रूमः । किं तु भेदोपलक्षिते भेदवृत्तमयोपगमात् । किञ्च यदा यत्र भेदो वर्तते तत्तदा तद्भेदवदेव तत्पूर्व तु नास्त्येव । न हि गौत्वादिशन्यः प्रथमपरिच्छेदे भेदसिद्धिप्रकरणम् । क्षणमपि जातेजीतसम्बन्धत्वात अन्योन्याभावस्य स्वरू- पभेदस्य च तत्समत्वात् स्वरूपभेदस्य पिण्डे निवेशानुपग- मादा । एतेन प्राग्लोपेत्यादि खण्डितम् अप्रसक्तत्वात् । नूनं किं गवि गोत्वमुतागवीति वदता धर्मधर्मिभाववैरि- णा बौद्धन शिक्षिताऽसि यदीदृशान्यसाराणि प्रलपसि। धर्मधर्मिभाव एव मयं न रोचत इति चेत् । नूनमज्ञोऽसि यदभिन्न प्रतिजानीषे धर्मधर्मिभावं त्वपजानीषे इति।अभे- धर्मा हि धर्मी अभिन्न इति धर्मधर्मिभावाभावे काभिन्न- मिति । किञ्च भेदाभावे कथमभिन्न इति । न हि धर्मिमा- त्रम् नाप्यभेदमात्रमभिन्न इति । किं त्वभेदवानभिन्न इति । एवञ्चाभिन्नतापि भिन्नमुपजीव्यैव प्रवर्तते अभे- दधर्मिणार्भेदधियमन्तरेणाभिन्नताधियोऽसम्भवादिति । तस्मात् अनुल्लिखन्ती भेदं धीनीभेदोल्लेखनक्षमा । तथा चाचे प्रमा सा स्यादन्त्ये स्वापेक्ष्यवैशसात् ॥ इति । त्वदुत्थापिता कृत्या त्वामेवाधाक्षीदिति । अथ निर्वचनानां सर्वेषामेव दोषवत्वे निर्वचनासिद्धावनिर्व- चनतारूपो मत्पक्ष एव सिध्यतीति चेत् । निर्वचन- मुपक्रम्य दोषमवेक्ष्यानिर्वचनीयतामाश्रयन् व्याघातमा- सादयन् ततस्त्वविभ्यत्त्वपेक्षणीयतामामुवानो जड मैवं पुनर्वाचः। अन्योन्याभावात्यन्ताभावोऽभेदः तद्वति च तादात्म्यं वर्तत इति कात्माश्रय इति चेन्न । अन्योन्या- भावात्यन्ताभावो हि घटत्वादिकं तदेव च तादात्म्य तथा चात्माश्रय एव । अथ नाभेदेनावच्छिन्नेऽन्यो भेदो वर्तत इत्युच्यते तदा प्राग्लोपादिकं त्वदुक्तं त्वयि प्रहर- तीति । अथाभेदो न धर्मिणा विशेषणम् किन्तु धर्मिणः खण्डनाद्वारे स्वरूपमेव त्वन्मते स्वरूपभेदवत् । तदा न हि स एव तद्वांस्तेनैव भवतीति स्वरूपभेदवदत्रापि दोषः । अथाभे- दपक्षे धर्मितदभेद्योरप्यभेद एव । अन्यथा शतेनापि प्रमाणैरभेदे साध्यमाने ऽप्यभेदो न स्यात् । अभेदतद्धर्मि- गोर्वज्रलेपत्वादिति चेत् । मासैसीदभेदः किन्नश्छिन्नम् । अभेदापलक्षिते ऽभेदा वर्तत इति चेत् । क उपलक्षणार्थः । गवि गोत्वमित्यत्र यः तत्रैव कः। न हि गोत्वेनोपलक्ष- णानन्तरं गोत्ववृत्तिस्तत्र भवतीति चेत् । मैवम् । यो हि पिण्डो गोत्वेनैव विशिष्यते तत्र विशेष्यभागे गोत्ववृ- त्तिरित्येवोपलक्षितवृत्त्यर्थः । एवमभेदे चेदेवं भेदे ऽपीति । यदपि च किञ्च भेद इत्यादि । तदप्यसत् । अनवस्थायाः प्रामाणिकत्वात् । एवञ्च भेदप्रत्यक्षस्य भेदालम्बनत्वे सम- र्थिते तदद्वैतश्रुतेरित्याद्यपि निरस्तम् । अर्धापत्तेस्त्वद्वैता- गमोपकारकता प्रागेवापास्ता । यत्तु पारमार्थिकमबैतमि- त्यादि । तदप्यसत् । तस्य पारमार्थिकत्वे बीजाभावात् । अत एवापातत इत्युपसंहारो व्यपास्तः अद्वैतस्य योग्य- ताज्ञानविरहेण श्रुत्यापि प्रतिपादनायोगादिति। यत्तु तर्केण नैषा बुद्धिरपनेयेति श्रुतिराहेत्युक्तम् । तदपि नाद्वैतसिडौ प्रमाणं स्त्रियश्च धर्मप्रसेविका इतिवत् । तादृशभावनस्य मो- क्षानुकूलत्वे ऽपि तादृशवस्तुतत्त्वस्यासिडेरभेदधीप्रतिपा- लनमात्रस्य श्रुत्युपदिकृत्वात् ॥ अथेयता प्रबन्धन प्राधान्येन स्वमतं व्यवस्थाप्येदा- नी तैर्थिकमतानि खण्डयितुं खण्डनयुक्तीः प्रयोक्ष्यमाणः जल्पे तु स्थापनाघटिते तद्वतारं कर्तुमशक्नुवानः जल्प- स्त्वेका कथा न भवत्येव वितण्डाद्वयशरीरत्वात् । अन्यथा जल्पद्धयेनाप्येका कथा किमिति न भवतीति जल्पमेव प्रथमपरिच्छेदे जल्पप्रकरणम् । खण्डनकृत् प्रत्यादिदेश । यद्यपि जल्पे प्रथमकक्षायां स्था- पनाकण्टकोडारः द्वितीयकक्षायान्तु प्रथमस्थापनाखण्डनं प्रतिस्थापना वेति न वितण्डाद्वयसम्भवः । तथापि अजहत्स्वार्थलक्षणया स्थापनैव स्वपक्षसिद्धिपरपक्षप्रतिषे- धोभयधीपरा सत्प्रतिपक्षवदिति खण्डनार्थ इति प्राञ्चः ॥ आदी प्रथमः स्थापयति ततो द्वितीयः खण्डयतो- त्येका वितण्डा । ततो द्वितीयः स्थापयति ततः प्रथमः खण्डयतीत्यपरा वितण्डेति तु नव्याः ॥ अत्राहुः । परपक्षहननशक्तिमात्रजिज्ञासायां वित- एडा स्वपक्षरक्षणपरपक्षहननशक्तिजिज्ञासायां जल्प इत्य- नयोर्भेदः। इतोऽधिका तुजिज्ञासैव न सम्भवति येन जल्पट इयेनापि कथान्तरं स्यात् ॥ अथ खण्डनकृत् षोडशपदार्थी खण्डयिष्यन् तत्र मूर्धन्यं प्रमाणं खण्डयितुं तदुपधायिकां प्रमामादौ खण्ड- यति स्म तत्त्वानुभूतिः प्रमेत्ययुक्तम् । तद्यथा । तत्त्वपदं योगिक रूढं वा । नाद्यः। तद्धि प्रकृतं न चात्र तदस्ति- भवितुस्त्वशब्दार्थत्वाभावेन तत्प्रमायामव्याप्तेनान्त्यः। स्वरूपपर्यायतया भ्रान्तावतिव्याप्तः। यत्र यदा यत् स्वरू- पसत् तत्र तदा तदनुभूतिः प्रमेति चेन्न । देशकालप्रम- योरव्याप्तः । देशे देशत्वं काले कालत्वमनुभूयत इति सापि धीः प्रमेति चेन्न । धर्मिप्रमायामव्याप्तः। सा हि देश- कालयो(न तु तत्त्वयोः । अनुभवत्वमपि न जातिः श्राग- मेनानुमानेन वा भविष्यतः सुखदुःखयोःप्रत्ययेऽपि सुखं दुःखं वानुभवामीति प्रतीतेरनुत्पत्तेः । नापि स्मृत्यन्य- त्वमुपाधिः तयोरेव स्मृत्यन्यत्वप्रत्ययेऽप्यनुभवामीति- प्रत्ययानुद्यात् । स्मृत्यन्यत्वे च लक्षणान्तरेण सिद्ध तेनै- Baramandomaamrapa प-No. 5. Vol. XXV-Nay, 1903.

५० खण्डनोद्वारे वेतरभेदसिद्धावस्य वैयात् । इत एव तत्सिडावात्मा- श्रयात् । असिडौ च स्वरूपासिद्धेरिति । उच्यते । यद्- बस्य पारमार्थिक रूपं तत्तस्य तत्त्वम् । यथा घटस्य घट- त्वम् । तथा च तडर्मिणि तद्धर्मधीः प्रमेति लक्षणार्थः । तेन यत्र यदस्ति तत्र तस्यानुभवः प्रमेति निर्विकल्पकस- विकल्पकोभयसङ्ग्राहकं लक्षणं पर्यवस्यति । यद्वा व्यव- हारानङ्गत्वेन निर्विकल्पकं तिरस्कृत्य तदङ्गं विशिषप्रमा- मात्रं पुरस्कृत्य तद्वति तत्प्रकारकानुभवत्वमिति । न चा- ननुगमः। न ह्येकत्र प्रमा सर्वत्र प्रमा। किन्तु काचित् कचित् । तथा च किं ज्ञानं कुत्र प्रति जिज्ञासायाम- स्थोत्थितावननुगमस्यादोषत्वात् । आकाशकालादिप्र- मापि आकाशादा तत्त्वधीत्वात् प्रमैव । ननु भविष्यद्रागे इदानीं श्यामे रक्तधीः प्रमा स्यात् । मैवम् । सा हीदानी रागालम्बना वा भविष्यद्रागालम्बना वा कालास्पृष- रागालम्बना वा।प्राधे इदानीं कालविशिष्टे रागो नास्तीति कुतः सा प्रमास्तु एतत्कालविशिस्थाधिकरणत्वात् तत्र च रागाभावात् । अन्त्ययोस्त्वनुमतिरेव । नन्वाधलक्षणे मूलावच्छेदेन तरौ कपिसंयुक्तधीः प्रमा स्यात् । न स्यात् । सा हि तरुः कपिसंयोगीति वा मूलावच्छिन्नस्तरुः कपि- संयोगी वा । श्राद्य इापत्तिः । अन्त्ये तत्र लक्षण- मेव नास्ति। द्वित्तीयलक्षणस्थं तत्प्रकारकत्वन्तु न तद्रूपवि- शेषणज्ञानजन्यत्वमीश्वरप्रमायामव्याप्तेः । किन्तु तवैशि- प्ट्यावगाहित्वम् । न च समवायस्यातीन्द्रियतया घटः पट इत्यादिप्रत्यक्षाव्याप्तिः न्यायमते तस्यापि प्रत्यक्ष- त्वोपगमादिति । न च चलठ्ठलाहकसन्निहिते वस्तुतश्च- (१) समवायस्य प्रत्यक्षत्वं समयायवादे 'प्रत्यक्षं समवायस्य वि- शेषणतया भवेदिस्यादिकारिकायामपि प्रमाणीकृतम् ।

प्रथमरिच्छेदे प्रमाप्रकरणम् । ५१ लति चन्द्रे चन्द्रश्चलतीति धीः प्रमा स्यादिति वाच्यम् । चन्द्रादिकर्मणोऽतीन्द्रियत्वेन सतोऽपि तस्यास्मदादिभि- रग्रहणे बलाहककर्मण एव तत्रारोपाभ्युपगमात् । अनुभव- त्वञ्च जातिरनुभवामीत्यनुगतमतिबलात् । न चैवं भवि- ध्यत्सुखादावपि शब्दाद्यवगते सुखमनुभवामीति धीः स्यात् । इापत्तेः । एवमपरीक्षकस्यापि स्यादिति चेत् । शब्देन भविष्यत्सुखं जानामीति तस्यापि प्रतीतिरेव । सुख- दुःखानुभवो भोगमात्ररूप एवेति । मिथ्याधीदूषितान्त:- करणस्य तु दोषवशात् सुखमनुभवामीति धीौदेतीति ॥ यत्तु अनुभवत्वं न जातिः प्रत्यभिज्ञायां धन्यंशे सं. स्कारेन्द्रिययोव्यापारात् तदंशज्ञाने स्मृतित्वानुभूतित्व- योः सकरादिति । तन्न । संस्कारेण स्मृत्योपनीयमाना- यास्तत्ताया धर्मादन्ताग्राहिणेन्द्रियेण भानोपगमेनांशत्रये ऽपि प्रत्यभिज्ञाया:(१) साक्षात्त्वोपगमात् । न हि प्रत्यभिज्ञा ज्ञानव्यमभेदासियापत्तेः । नापि ग्रहणस्मरणकरम्बिता- कारमेकमुक्तसङ्करापत्तेः । नापि परोक्षापरोक्षानुभवा- कारमेकं साक्षात्त्वस्यानुगतिमतिसिद्धाया जातेरव्याप्य- वृत्तित्वापत्तः । नापि स्मरणमात्राकारमेकमिदन्तायां सं- स्काराभावात् तस्मादुपनीततत्तासनिकृष्टेदन्ताविशिष्ट- धर्मिग्राहीन्द्रियकरणकं साक्षात्कारीन्द्रियकरणकमेकं त- दिति पश्यामः । तत्तायान्तु संस्कारघटिता इन्द्रियसम्ब- विशेषणता प्रत्यासत्तिरिति निबन्धकृतः । तजनितस्म- रणघटितेति वार्तिककृतः । अत्र त तारेवेति न्यायात् प्रथम एव कल्पः श्रेयानिति केचित् । चिरध्वस्तानुभवस्य ऋमिकस्मरणं प्रति व्यापारत्वेन संस्कारकल्पनमिति धर्मि- (१) जिज्ञासाया इति २ पुस्तके पास खण्ड नोद्वारे ग्राहकप्रमाणेन स्मरणार्थमेव तस्य कल्पनात्। यथार्थोऽनु- भवः प्रमेत्यपि निरवद्यं यथाशब्दाऽयमनतिवृत्तिवचनः। तेनानतिवृत्तोऽर्थो यस्येत्यर्थः । भ्रमार ह्यतिवृत्तो भवति । प्रमार्थस्तु न तथा तस्मिन् घटत्वादी घटादिषु सत्येव प्रमा- दयात् । तेन घटत्ववति घटत्वप्रकारकोऽनुभवो घटप्रमेति तत्तत्प्रमितीनां लक्षणं तद्वति तत्मकारकत्वमिति तत्तत्स- वलक्षणसूचनाय सामान्यलक्षणं तत्त्वस्यैकस्याभावात् प्र. मात्वस्यापि विषयप्रकारभेदेन प्रतिव्यक्तिभिन्नत्वादिति। यत्तु द्यूतकारेण पाणै पञ्च वराटकान् कृत्वा पृथस्य पञ्च वराटकास्त्वत्पाणै सन्तीति अजाकृपाणीयन्यायेन संवा- दिवचनं तत्सम्भावनायोनि विप्रलिप्सायोनि वा । कार- णाभावेन तत्र निश्चयमात्रस्यैवानुत्पत्तः । उत्प्रेक्षासहित- मनोजनितप्रमायोनि वा अनुमातुम्तृतीयलिङ्गपरामशी- भासात् । वस्तुता वहिमति या वयनुमितिः प्रमाभूता सापि तव्याप्तिपक्षधर्मतावैशिष्ट्यावगाहिनो भगवज्ज्ञान- रूपात् प्रमाणादिति न प्रमायाः प्रमाणातिपातः । एवं सम्यक् परिच्छित्तिःप्रमा समीचीनानुभूतिःविशेष्यावृत्त्य- प्रकारिकानुभूतिरिति(२) यावत् । एतेनाव्यभिचार्यनुभवो ऽविसंवाद्यनुभवो वा प्रमेति व्याख्यातम् । न चात्र भ्रमां- शभूतप्रमायामव्याप्तिीषः असङ्कीर्णप्रमाया एवात्र लक्ष्य- त्वात् । अन्यथा अनुभूतिः प्रमेत्येतावतैव निवृणुयादिति । अनुगतैस्तु तैस्तैस्तत्तत्प्रमितीनां लक्षणैस्तास्ताः प्रमितय इतरेभ्यो भिद्यन्ते न तु सर्वा प्रमितिरेकदैव तत्तल्लक्षणानां प्रत्येक भागासिद्धत्वात् ।। (२) तथा च स्वयधिकरणप्रकारनिष्ठप्रकारतानिरूपिता या या वि- श्रेष्यता तत्तदनिरूपकज्ञानत्वं फलितम् ।

प्रथमपरिच्छेदे प्रमाणप्रकरणम् । ५३ ननु लक्षणमेव पक्षतावच्छेदकमिह रूपान्तरस्थान- भिधानात्। तथा च हेतुसाध्ययोः सामानाधिकरण्यबुद्धि- रेव पक्षतावच्छेदकसाध्ययोःसामानाधिकरण्यधीः साचा- नुमानफलमित्यनुमानमफलं स्यादिति चेन्न। अत्र व्यतिरे- कसम्बन्धी गमकोऽन्वयसम्बन्धो गम्यत इति मत्सिद्धा- न्तात् । अत एवात्र व्यभिचारसम्बन्ध एवोपर्यते ॥ एवं प्रमायां व्यवस्थितायां प्रमाणमपि स्ववचनं । प्रमाया: करणं हि प्रमाणं करणञ्च साधकतमं तमबर्थश्चाति- शयः स च कारकान्तराचरितार्थकारकत्वम् । तथा हि कती तावत् करणं हस्तपरवादि व्यापारयन् लिङ्गपरामादिक- चोत्पादयंस्तत्र चरितार्थः । एवं कर्मापि करणस्य व्यापार- मुत्पादयत्तत्रैव। न हि कर्म विना निरालम्बनः करणव्या- पार उदीते । अधिकरणमप्येवं न हि तेन विना कता निरालम्बनः करणं व्यापारयितुमीष्टे । सम्प्रदानापादाने तु काचित्के एव । तथा च कारकान्तराचरितार्थ क्रिया- मात्रान्वयि करणमिति व्याख्यायामन्तरपदार्थकल्पनया खण्डनम् । तदसत् । अन्तरपदार्थो हि समभि- व्याहृतपूर्वपदप्रवृत्तिनिमित्तवत्त्वे सति प्रक्रान्तप्रवृत्तिनि- मित्तसाक्षायाप्योपाधिभिन्नतादृशोपाधिमान् । यथाहि कठ उपस्थिते ब्राह्मणान्तरमानयेति शब्दः कठभिन्नं क- एवादिब्राह्मणमेवाह तत्रैव च प्रयुज्यते । न तु घटादिक- माह तत्र प्रयुज्यते वा तथा करणे प्रक्रान्ते कारकान्तरपदं करणकारकभिन्ने कमीदो कारके प्रयुज्यते तदेव चाहेति । अत एव हस्तः परशा चरितार्थीभवन्नपि कारकान्तराचरि- तार्थ एव उभयोरपि करणत्वात् । एवञ्चान्तरपदस्यार्थी- न्तरं प्रकल्प्य यहूषणवचनम् । तच्छल कल्पितदूष्यत्वा- दिति ॥

AD खण्डनोद्वारे ननु करणप्रक्रमे करणभिन्न कारकं कारकान्तरमि- स्यात्थ । तथा च करणज्ञानाधीनं कारकान्तरज्ञानं तद- धोनं च करणज्ञानमित्यन्योन्याश्रय इति चेत् । नूनं शब्द- वदर्थेऽप्यव्युत्पन्नोऽसि । तथाहि न हि लक्ष्यस्य लक्षणा- न्वयात प्राकप्रकारान्तरेणापि ज्ञानं न भवतीति सचेताः प्राह तथासति लक्षणविधिरपि तत्र न स्यात् उद्देश्या- परिचयात् उद्देश्यं हनूद्य लक्षणं विधीयते एवम- वधेरपि सामान्यमुखं तन्त्रम् । तथा च प्रक्रान्तकार- कत्वेन कारकान्तरसाधारणेन करणस्य ज्ञानादन्तर- पदार्थज्ञानं तज्ज्ञानाच तस्यैव प्रक्रान्तस्य करणत्वेन ज्ञानं फलं वदेति() । यथा वा बहिः सत्त्वेन विना जीविनो गृहासत्त्वमनुपपन्नमिति सामान्यमुखाबहिः सत्त्वालम्बि- नोऽनुपपत्तिज्ञानाद्देवदत्ते पत्ते प्रवृत्ताद्देवदत्तो बहिः सन्नि- ति विशेषमुखी धीः फलं वदेति(२) । अत एव यतोऽन्यत्वं तत्सिद्धरग्रेतदसिद्धरिति यत्प्रलपिष्यसि तदपिनिरस्तम् । ननु किमिदं चरितार्थत्वं अन्यथा सिद्धत्वं वा परम्पराका- रणत्वं वा। नोभयं कत्रीदेरप्यतथात्वादिति। उच्यते। तत्त- निष्ठान्यतरजनकत्वं तत्र चरितार्थत्वं कर्तुः कर्मणश्च करण- निष्ठव्यापारजनकत्वं मनसो हस्तादेः करणे चरितार्थत्वे- ऽपि न तस्य करणापेक्षया कारकान्तरतेति । कर्तृव्यापारवि- षयत्वं वा तत्त्वम् । न च कर्तृव्यापारफले ऽतिव्याप्तिः यद- धिकृत्य हि कर्तृव्यापार उदेति स एव तद्विषयतयोक्तो यथा हस्तादि । गोचरता हि द्वयी उद्धेश्यतयानन्यपरकृति- व्याप्यतया चेति मसिद्धान्तात् । पिपक्षोहि पाकानु- (१) वद इति छेदः। (२. वद इति छेदः।

५५ प्रथम परिच्छेदे प्रमाणप्रकरणम् । कूलो यत्नस्तकरणं हस्तमधिकृत्योदेति । अथ शरीरचाल- नाय प्रयत्नः शरीरमधिकृत्योदेतीति शरीरं करणं स्यात् तथा च शरीरं चालयतीतिवच्छरीरेण चालयतीत्यपि स्यात् । भवत्येव दध्नाजुहोति पयसा जुहोतीति श्रोत- प्रयोगदर्शनात् । अपौरुषेयत्वादयमपर्यनुयोज्य इति चेत् । मांसेन भुक्त्वा तृप्तो भवतीति मैत्रेयप्रयोगस्यापि दर्शनात् । सर्वेषामस्तीदृशः प्रयोग इति चेत् । किमतः प्रयोगे सति बीजानुसरणं न तु निमित्तवत्त्वादेव प्रयोगापादनं तस्य प्रयोगसमनियमाभावात् । अत एवारोपे सति मिमित्ता- नुसरणं न हि निमित्तमस्तीत्यारोप इत्याचार्याः । कथ- मीदृशः प्रयोगसङ्कर इति चेत् । निमित्तसमावेशादिति गृहाण । तथा च यदा कर्तृव्यापारविषयतापुरस्कारस्तदा करणतया यदा तु करणव्यापारविषयत्वपुरस्कारस्तदा कर्मतया प्रयोग इति । अत एवाधिकरणीभूते ऽपि देशे समेन देशेन यजेतेति । ननु करणत्वं कारकान्तराचरितार्थ- त्वगर्भ अधिकरणे तचरितार्थे कथमस्तु। तदुक्तं खण्डनकृता। अधिकरणस्यापि कर्मण इव करणे चरितार्थत्वमतः कर्म- ण्यधिकरणे च न कारकान्तराचरितार्थत्वरूपस्य करण- स्वस्य समावेश इति । मैवम् । न ह्यधिकरणं विना करणं परश्वादि तद्विशेषणमुद्यमनादि वा नोदेतीति । एतेन कर्मापि निरस्तं तयोरसार्वत्रिकत्वात् तेन विनापि परशु- तदृद्यमनयोरात्मलाभात् । एवं कर्तृव्यापारविषयत्वम- प्यधिकरणकर्मणेनीसम्भषि आये प्रचरणादेव अन्त्ये प्रक्षेपणादेः कर्तृव्यापारस्य सम्भवात् । क्रिययाऽयोगव्य- वच्छेदेन सम्बन्धित्वं वा तत्त्वम् । अत्र क्रिया प्रधानक्रि- योक्ता तस्या एवोद्देश्यत्वेन वाग्बुद्धिस्थत्वात् । एवञ्च प्रधानक्रियासम्बन्धित्वमात्र उक्त कारकमात्रे ऽतिव्याप्तिः खण्डनाद्वारे परम्परयापि तेषां तत्सम्बन्धित्वादतस्तद्वारणायायोगे- त्यादि । तृतीया चेयं लक्षणे । अयोगश्चेह प्रधानक्रियाया असम्बन्धः तस्य व्यवच्छेदकरणेनाव्यवहितोत्तरकाले प्र. धानक्रियाया अभावः । तेनेदमुक्तं भवति यत् करणे सव्यापारे सति प्रधानक्रियायास्तत्र क्षणमप्ययोगो ना- स्ति किन्तु नैरन्तर्यमेव तेन प्रधानक्रियाकारकत्वे सति प्रधानक्रियया सममव्यवधानेन सम्बन्धित्वं करणत्वम् । काञ्चनेन धनीतिवदभेदे वा तृतीया । तेनायोगव्यवच्छे- दात्मकं प्रधानक्रियासम्बन्धित्वं तत्त्वमिति । अत एव कृत्तिकोयं प्रति रोहिण्यासत्तेः करणत्वमपास्तं तस्यास्तं प्रत्यकारकत्वात् कारकविशेषस्य करणत्वात् । एवञ्च साम- ग्रयामपि नातिव्याप्तिः तस्या अकारकत्वात् । तथाहि सा हि कारणसमाहारः स च यदि कारणं स्यात्तदा तं समाहारमन्तभाव्य कारणसमाहारो वाच्यः सोऽपि च समाहारः पूर्ववत् कारणमिति कारणसमाहारात्मिका सामग्री न निर्वहेत् कारणच्चापरिसङ्ख्येयं स्यात् (१) । अथ कारणप्रागभावानाधारः कार्यप्रागभावाधारः क्षण: सामग्रीकः क्षणः उपाधिळ उपधेयो वा उपहिता वा आये न हि रवेः स्पन्दो विशेष कारणम् । अस्तूपधेयः काला विश्वाधारतया विश्वकारणमिति चेत् । बाढम् । स तु न सामग्री अविलक्षणेकरूपत्वात् । नान्त्यः न ह्युपा- धिसहस्रणापि कालो भेत्तुं शक्यते आत्मवत् । अन्यथा जितमोपनिषदैरुपाधिभेद्वादिभिः । तस्मात् कारणान्येव समाहारः । स च न कारणम् । न हि कारणान्येव कारण- मिति । हन्तवमपि कर्म विभागे स च पूर्वसंयोगध्वंसे स (१) तथा चानवस्थादि दोदापत्तिरित्यर्थः ।

प्रथमपरिच्छेदे प्रमाणप्रकरणम् । चोत्तरसंयोगे करणं स्यात् तत् कारणत्वे सति तन्नरन्त- योदिति चेत् । बाढम् । यदि च करणे व्यापारवत्वनियम- स्तदात्र नियापारे करणत्वशङ्का नास्त्येव । हन्तैवं हस्त- श्छिदाकरणं न स्यात् छिदया समं नैरन्तर्येण सम्बन्धा- भावात् । तथा च हस्तेन परशुना वृश्चतीति न स्यात् हस्तस्याकरणत्वादिति चेत् । न । न हि परशुं व्यापार्य हस्तो विरमति यदि तु स विरमेत्तदा परशुः पतेत् । नतु स पात्येत यत्र तूत्तरकरणं व्यापार्योत्पाद्य वा प्रथम करणं विरमति तत्समद्रव्ये च प्रधानक्रियायामाद्यं तद्विती- यकरणक्रियायां करणं यथा अनुयाजप्रयाजा । अत एव प्र- धाने रागादङ्गे वैधी प्रवृत्तिरन्यथो भयत्रापि राज्ञजैव सा स्यात् द्वयोः स्वर्गसाधनत्वाविशेषादिति(१) । हन्तवमपि सुखदुःखयोः स्वभोगे करणता स्यात् ताभ्यामव्यवधानेन स्वभोगस्यावश्यमुत्पादनाहिति चेन्न । तादृशव्यापारवत एव कारकस्य मया करणत्वोपगमात् सुखदुःखयोश्च ताह- शव्यापाराभावात् । आस्तां वा ते अपि तत्र करणे अयो- गव्यवच्छेदेन सम्बन्धात् । न चैवं सुखेन भुङ्क्ते इत्यपि स्यात् । ईदृशसूक्ष्मेक्षिकावतां भवत्येव । अत एव मांसेन भुक्त्वा तृप्तो भवतीति मैत्रेयप्रयोगो घटते । व्यापारश्च तजन्यत्वे सति तज्जन्यजनकः अत्र व्यापारिवारणायाचं फलवारणाय त्वन्यं विशेषणं यथा यागस्यापूर्वमनुभवस्य संस्कारः। तृतीयलिङ्ग परामर्शस्तु न करणं किन्तु व्याप्ति- स्मृत्यात्मकस्य करणस्यासो व्यापारः। यत्राप्याप्तोक्तश- (१) तथा च प्रधाने मुख्यफलेच्छया प्रवृत्तिर्भवति अङ्के च प्रधाने- च्छया इति वस्तुस्थितिः । एवञ्चोभयोरपि मुख्यफलसाधनत्वे उभयत्रैव मुख्यफलेच्छया प्रवृत्तिः स्यादिति भावः ।

खण्डनोद्वारे ब्दयोनिस्तृतीयलिङ्गपरामर्शस्तत्रापि व्याप्तिस्मृतिरादौ पदार्थज्ञानं विना वाक्यार्थधियो ऽनुद्यनियमात् ।। ननु लिङ्गाभासजन्या यत्र प्रमाभूतानुमितिस्तत्र तत्प्रामाण्यमीश्वरतृतीयलिङ्गपरामर्शरूपानुमानात् गुणज- न्यमिति तावदात्थ तत्र हि स व्यापारभूतो न भवति नित्यत्वादिति चेत् । सत्यम् । जगत्कारणत्वात्तत्रापि कारणं तत एव चानुमानकर्तुस्तस्य गुणानुमितिः प्रमा। करणस्तु तत्रापि अनुमितिमाज एव तृतीयपरामर्शजननी व्याप्तिस्मृतिरिति । शब्दसाक्षात्कारेतु यद्यपि इन्द्रियस- निकर्षों न व्यापारो नित्यत्वात् । तथापि प्राधः शब्द एव तत्र श्रोत्रस्य व्यापारः। ननु कर्मणः कथं करणकोटो प्रवेशः उपाधिसमाधिवेशादित्युक्तं प्राक् । यत्तु चक्षुर्घटसं- योगं व्यापारमुदाहृत्य घटस्य कारणकोटिप्रवेशमाशा तदपि माभूदित्याशयेन वाधे ऽन्यसाम्यादित्युक्तम् । तद्युक्तम् । न हि घट इन्द्रियसंयोगे तयापारभूते निवि- शते इन्द्रियाजन्यत्वात् किन्तु घटबहिर्भावेणैवेन्द्रियसं- योग इन्द्रियव्यापार इति ब्रमः॥ ननु करणस्य प्रधानक्रियया समं नैरन्तर्यमुक्तं तद्- यागे नास्ति अपूर्वेण स्वर्गव्यवधेरिति चेन्न । स्वाङ्गस्याव्य- वधायकत्वात् प्रथमगृहीततत्कारणता निर्वाहार्थमेवापूर्वस्य तन्निवाहकस्य यागव्यापारत्वेनाक्षेपणात् । यत्र तु निर- न्तरयोः सम्बन्धग्रहे सति पश्चात्तद्वारा पूर्वतमस्यापि सम्बन्धो गृह्यते तत्र मध्यमजं प्रत्येव पूर्वतमस्योपयोगः । तेनैव च तस्य व्यवधिर्यथा पुत्रजन्ये घटे तपितुः । एतेन फलाव्यभिचारिव्यापारकत्वं करणत्वमित्यपि समर्थितम्। यद्वानेव करोति तत्करणमिति । कती स्वजन्यासु सा- स्वेव क्रियासु यत्कारकमपेक्षत एव तत् करणम् । कर्मा- प्रथमपरिच्छेदे प्रमाणप्रकरणम् । ५ दिचतुष्कन्तु नैवं तेषां सर्वत्रानपेक्षणात् । करणमेव तथा तेन विना कर्तुः क्रियापचयानुदयात्। एवंयद्वानेव प्रमिमीते तत्प्रमाणं केन प्रमितिकारकेण सहित एव की प्रमिमीते करणेनेति ब्रूमः। तथा हि प्रमिता सम्प्रदानापादाने ताव- दसम्भाविते एव । अधिकरणन्तु प्रमितेः प्रमातैव । न च स एव तद्वान् भवति मेयस्य चाधिकरणं नावश्यकम् आत्मादेनिरधिकरणस्यापि प्रमेयत्वात् । यत्राप्यस्ति तत्रापि न नियतभानं घटः पट इत्यादिप्रमितेरपि दर्श- नात् । कर्म तु प्रमिता पाक्षिकं अनागतादेरपि प्रमितेः । विषयमात्रन्तु न कर्म अकारकसाधारण्यात् । करणन्तु प्रमिता नियतमेव तेन विना प्रमित्यर्जनासम्भवादिति । अत एव करणस्य यश्वरमा व्यापारः स न करणं न वा प्रमाणं तस्य नियापारत्वेनाकारकत्वात् व्यापारवत्कारणस्यैव मया कारकत्वोपगमात् । तद्विशेषस्य च करणत्वात् ॥ नन्वन्यथासिनियतमाक्सत् कारणं तदेव सव्या- पारं कारकं तदेव साधकतमं करणमिति तावन्यायमतम् । तथा च व्यापारविशिषस्य करणतां गतस्य व्यापारान्त- रान्वयाभावात् करणमपि करणं न स्यात् । मैवम् । यत्र रूपं तत्र स इतिवत् यस्य करणं तस्य व्यापारान्वय इति व्याप्त्युपगमात् । घटमुद्यम्य निपात्य प्रत्याक्षालयतो घटः कमैव करणं स्यात् तदानेव हि तं क्षालयति नातद्वानिति चेत् । अबोधात् । न हि यदानित्यत्र यत्पदेन वस्तुमात्र- मुक्तं प्रमेयत्वादावति व्याः । नापि कारकमात्रं तत एव । नापि प्रकृतक्रियाकारकमानं पटस्यापिस्वक्षालने करणता- पत्तेः। नापि प्रकृतक्रियाकरणमात्माश्रयादननुगमाच । किन्तु कर्तुः स्वक्रियायां क्रियात्वेनावश्यापेक्षणीयं कार- ६० तु खण्डनाद्वारे कमुक्तं क्रियात्वेन हि रूपेण क्रियाभिः करणमेवापेक्ष्यते करणं विना क्रियामात्रस्यैवानिष्पत्तः । कर्मादि नैवं तेषां सर्वासु क्रियास्वन्वयनियमाभावात् । कर्मादिकं चतुष्कं विनापि क्रियोदयदर्शनात् । एवं कर्मणि पटे का प्रसङ्गः । न हि स क्षालनेन क्रियात्वेनापेक्ष्यते किन्तु क्षालनत्वेनैवेति विद्धि ॥ ननु चक्षुरादेः परस्परव्यभिचारितया यद्धानेवप्रमि- मीते इति न घटत इति चेत् । भ्रान्तोऽसि । प्रमया फलेन परिचायितं करणं प्रमाणमित्युच्यते । तथा च प्रकृतां प्रमारूपां क्रियां यदानेवार्जयतीति वचोभयापि प्रमाक- रणमेव प्रमाणमुक्तं भवति । प्राक् करणे लक्षिते प्रमाण- लक्षणाय तत्र प्रमान्वयमात्रस्य विधित्सितत्वात् । प्रमा- करणवत एव प्रमार्जनं नातवंत इति नियमाच्च । ननु कि करणत्वं साधकतमत्वं तच निरुक्तम् । अथ करणत्वेन- यानि लक्ष्यसि तेषां किमेकं रूपं लक्षतावच्छेदकमिति चेत् । धिमूर्ख समनियतयोरेवैकं लक्ष्यतावच्छेदकं अपरं लक्षणं पृथिवीत्वगन्धवत्ववत् स्वबोधमेवैतत् । नापि साधकतमत्वं करणत्वमित्यादी पौनरूक्त्यमीभेदादिति देश्यं विवरणरूपत्वात् विवरणत्वेनैव विशेषात् । नाप्या- स्माश्रयः पिकः कोकिल इत्यत्र । यथा कोकिलः पिकप- दार्थ इत्यर्थस्तथा साधकतमत्वं करणपदार्थ इत्यत्रापि पदार्थान्तभीवनात्माश्रयापनोदात् । यद्भावात् कर्तृक- मणी न क्रियां जनयतः तत्त्वं करणत्वमिति वा । कत्री क्रियात्वावच्छिन्नकार्ये कर्तव्ये स्वसहकारितया यवश्यम- पेक्ष्यते तत् करणम् । कर्मादिचतुष्क नैवं तस्य क्रियासा- मान्येऽनावश्यकत्वात् । कत्रा च करणेन च विना कापि क्रिया नोदेतीति । एवं प्रमातृप्रमेये यदभावात् प्रमा ३७० प्रथमपरिच्छेदे प्रमाणप्रकरणम् । ६१ न अनयतस्तत् प्रमाणं प्रमात्रा हि प्रमात्वावच्छिन्ने कार्य कर्तव्ये स्वसहकारितया यदवश्यमपेक्ष्यते तत् प्रमाणम् । प्रमेयाधिकरणे तु नैवं तयोः प्रमासामान्ये ऽनावश्यत्वात् प्रमात्रा च प्रमाणेन च विना कापि प्रमा नोदेतीति कर्म- प्रमेयपदे त्वत्र निरुक्तिद्रये सम्पातायाते न कर्तृवत् कर्मापि क्रियासामान्येऽपि प्रमातृवत् प्रमेयमपि जन्य- प्रमासामान्ये हेतुर्येनोक्तिसम्भवो ऽपि स्यात् । यच्च दिक- तुके क्षेत्रस्य करणत्वमापादितं तद्बाधात् । न हि भगवता क्रियासामान्योत्पत्तये क्षेत्रज्ञोऽपेक्ष्यते अङ्कुरोत्पत्त्यादाव- नपेक्षणात् । करणन्तु तत्राप्यपेक्षत एवेति । चरमव्या- पारवत्त्वं वा तत्त्वम् । कारकव्यत्तयन्तरापेक्षया करणस्यैव चरमो व्यापारः । न च हस्ताद्यव्याप्तिः तद्व्यापारस्यापि परशुकाष्टसंयोगपर्यन्तमनुवृत्ता हस्ते ऽपि लक्षणसत्त्वात् । अनुवृत्तौ तु छिदायां हस्तस्य न करणत्वं किन्तु परशुव्यापार एवेति मदुपगमात् । अनुमानस्य तु व्याप्तिस्मृत्यात्मकस्य च- रमो व्यापारोविशिष्परामर्श एव। ईश्वरज्ञानजन्ये ऽपि घट- पटादौ क्षेत्रज्ञस्य यत्नादिन चरमः किन्तु तत्रापि तजन्यो दण्डवेमादिव्यापार एव तथेति। ननु पटक्षालने निर्णेजकस्य- व्यापारो जलरूपो यद्यपि न चरमस्तथापि काष्ठपटसंयोग- रूपश्चरम एव स च हस्तवत्पटश्यापीति पटः कर्मवत् स्व- क्षालने करणमपि स्यादिति चेत् । न । क्रियात्वेन क्रियया कर्तृकरणे एवापेक्ष्येते इति नान्यत्र प्रसङ्गगन्धोऽपीति तत्रा- पिकरणस्यैव चरमो व्यापारः कर्तृव्यापारण प्रयत्नेन चेपा- या एव निर्माणात् । तथा च क्रियात्वेन क्रियया यत्कार- कमपेक्षते तत्करणमिति प्रागुक्तं तदेव चरमव्यापारक सत्करणमित्यधुनोच्यते । अस्तु वा मांसपटेपि तृतीया अनन्तरफलकत्वं वा तत्त्वम् । फलं हि प्रधानक्रिया सा च खण्डनोद्वारे क्रियात्वेन रूपेण कर्तृकरणे एवापेक्षते नतु कीदि चतुष्कं तस्य क्रियामात्रे व्यभिचारात् । तत्रापि करणस्यैव व्यापा- रोऽनन्तरफलको भवति कर्तृव्यापारस्य यत्नादेः करणव्या पारेणैव व्यवधापितत्त्वात् । करणस्य तु करणव्यापारेण न व्यवधापनम् स्वाङ्गत्वात्। नन्वेवं लिङ्गपरामर्शण व्यापारण चक्षुरादिकमप्यनुमिता करणमस्त्विति चेत् । न । व्यभिचा- रेण हि तेषामनुमिता कारणतापि नास्ति दूरे तु करणताश- केति। हंत तीव्यभिचारितया अनुमिता मनः करणमस्तु वाढम् । तनुमितिरिन्द्रियजन्यतया साक्षात्कारिणी स्या- दिति चेत् । नूनं स्मृतावप्येवं वक्ष्यसि । तत्रापि मनोजन्य- तया साक्षात्त्वमप्यस्त्वित्यपिबम इति।चेत् नूनमजोसियत आस्मा वा अरे द्रव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति शातपथी श्रुतिश्चतस्रः प्रतिपत्तीः प्रत्यक्षपरोक्षप्रस्था- नाः प्राह लोकोऽप्येवमेव व्यवहरति त्वं पुनस्तदुभयविरोधी प्राज्ञम्मन्यः कथमुत्पथं यासि । मनोजन्यत्वाविशेषेपि कथं त्वदुक्तं वैलक्षण्यमिति चेत् । इत्थं इन्द्रियजन्यत्वेनेन्द्रिय- जन्यसाक्षाडी लिङ्गपरामर्शजन्यानुमितिःवाक्यजन्या शा- ब्दी सादृश्यवैसाश्यान्यतरधीकरणिका उपमितिः संस्का- रजन्या स्मृतिः। इयं च याचितमण्डनमिव याथार्थ्यं दधत्य- पिन प्रमेति चतस्त्र एव प्रमाः चत्वार्येव तत्करणानि प्रमा- णानीति । हन्तेन्द्रियार्थसन्निकोत्पन्नमव्यभिचारि प्रत्य- क्षमिति तावन्मुनिनोक्तं तदिदं न प्रत्यक्षप्रमामात्रलक्षण- मीश्वरप्रत्यक्षाव्याप्तः । नापि लक्षणोपलक्षणमाधिक्यात् इन्द्रियोत्पन्नमित्येतावतैव तत्सम्भवादिति चेत् । उच्यते । साक्षात्वं प्रत्यक्षधीमात्रलक्षणं तदेव प्रमात्वेन विशे- षितसाक्षात्कारिपमितीनां एतदुपलक्षणाय विभागाय तद्विशेषलक्षणाय च सूत्रम् । साक्षात्वं तु जातिः साक्षा- प्रथमपरिच्छेदे प्रमाणप्रकरणम् । करोमीत्यनुगतमतिसाक्षिका अतो न लक्षणस्य दुर्जेयता लक्ष्यतावच्छेदकं तु ज्ञानाकरणकज्ञानत्वमतो न लक्ष्या- पामसंग्रहः । तथा च ज्ञानाकरणकानि ज्ञानानि साक्षा- स्ववन्ति तेभ्यो भिद्यन्ते साक्षात्कारित्वादिति व्यतिरेकी। एवं च प्रत्यक्ष लक्ष्येतरेभ्यो भिद्यत इत्यत्र साध्ये ऽनुमेया- भावः लक्ष्यादन्येषां लक्ष्यादन्यत्वे प्रतीयमाने लक्ष्याणा- मपि तेभ्योऽन्यत्वं तदैव प्रतीतमित्यपास्तं साक्षात्वरहिते- भ्यो भिद्यत इत्यस्य साध्यत्वात्। जन्याजन्यविभागतल्लक्ष- णाप्तये च सौत्रो निर्देशः तथाहि तच प्रत्यक्ष वेधा अजन्य जन्यञ्च तत्राजन्यं भगवज्ज्ञानं तस्य तु साक्षात्वं च धर्मि- ग्राहकप्रमाणसिद्धम् ।जन्यमपि वेधा पोहासनिकान्यतम- जन्यं तदजन्यञ्च तत्राद्यस्थार्थत्वेनार्थजत्वं लक्षणम् अात्मा- नुमितिस्मृतिशाब्दास्तु यद्यप्यात्मना तासामनुभूतेन जन्य- त्वे तथापि न तत्रात्मनोऽर्थत्वेन जनकता किन्तु समवायि- त्वेन अन्यथा जन्यावाविशेषात् सा एवात्मधियः परोक्षा एव वा प्रत्यक्षा एव वा स्युः। अर्थत्वेनार्थजन्यधियां तु षो- ढासनिक(न्यतमजन्यत्वं लक्षणं जन्यसाक्षाडीमात्रस्य तु इन्द्रियत्वेनेन्द्रियजन्यत्वं एता अपि वेधा षोढान्यतमज- न्यास्तदजन्याश्च तत्राधा गन्धादिधियः अन्त्यास्तु योगि- धियः तथाहि योगजधर्मसंस्कृतेन मनसा चक्षुरादिना वा व्यवहितेषु विप्रकृष्टेषु चक्षुषा रूपवत् स्वपरमाणुष्वपि ज- न्यते । तटुक्तम् । तत्राप्यतिशयो दृष्टः सस्वार्थानतिलहनात् । दूरसूक्ष्मादिदृष्टौ हि न रूपे श्रोत्रवृत्तिता ॥ इति । तथा च भगवज्ज्ञानं योगजप्रत्यक्षं च द्वयमलौकिक- मेव सामान्यलक्षणया तु यद्धमादिप्रत्यक्षं तचक्षुःसन्निक- ६४ खण्डनाद्वारे मांशे लौकिक शेषे त्वलौकिकम् । एवं सर्वे व्यवसायानुव्य- साये लौकिका व्यत्यये त्वलौकिका इत्युभयेऽप्यमी लौकि- कालौकिकरूपा इति । एवञ्चानागतगोचरसाक्षात्कारहेतुप्र- त्यासत्यजन्यप्रत्यक्षत्वं लौकिकप्रत्यक्षाणां लक्षणं लक्ष्यता- वच्छेदकं तु तेषां सामान्यप्रत्यासत्यजन्ययोगजधमीजन्य- स्वविषयकसविकल्पकाजन्यजन्यप्रत्यक्षत्वं सन्निकृष्ट हि धूमे संयोग एव प्रत्यासत्तिः न तु धूमत्वमेवं व्यवसाये संयु- तसमवाय एव मनसःप्रत्यासत्तिः नतु ज्ञानलक्षणा अत- स्तेऽपि ज्ञाने तयोरंशयोज्ञानसामान्यप्रत्यासत्यजन्य एवेति तदंशे लौकिकप्रत्यक्षे एवेति तदिन्द्रियजन्यत्वं जन्यप्रत्य- क्षस्य तावल्लक्षणमुक्तम् तदयुक्तम् प्रत्यक्षविशेषाणामनुगतै- करूपाग्रहे इन्द्रियजन्यत्वग्रहणासम्भवात्। हन्त जन्यप्रत्य- क्षत्वमेव तेषामेकमवच्छेदकं रूपमित्यपि न । जन्यत्वेऽप्य- वच्छेदकं रूपमित्यस्यापि मया सुवचत्वादितिमैवम् । जन्य- स्वेप्रांगभावप्रतियोगित्वमवच्छेदकमिन्द्रियजन्यहेतुजन्यप्र- स्यक्षमिति मदुपगमात् । हन्तै जन्यप्रत्यक्षत्वमेव तेषामि- तरभेद कमस्तु न तु नियमतश्चरमवेद्यमिन्द्रिजन्यत्वमिति चेत् । न । उपायस्यानुपायतादोषो न तूपायान्तरसंभव इत्याचार्यवचसैव निरस्तत्वात् अमी प्रत्यक्षविशेषा इन्द्रि- यजन्या इत्यादिना प्राप्तोपदेशेन द्रागिन्द्रियजन्यत्वस्यैवा- वगमसम्भवाच्च । एवमर्थजन्यत्वादावप्यूयम् । ननु साक्षा- कारिविज्ञानं स्वविषये साक्षात्कारि भवतु जाते साधा- रण्यादिति चेत् । धिमूर्ख यदि स्वाविषयः कथं विषयस- समीयं स्वाविषय इति । अथ सोपि स्वविषय एव कथन्तर्हि स्वाविषयो विरोधात्। ननूक्तिदोषोयं तथा च साक्षात्का- रिज्ञानं स्वविषयमिव तदन्यमपि प्रतिसाक्षात्कारि भवतु प्रथमपरिच्छेदे प्रमाणप्रकरणम् । यथा गौः सर्व प्रति गैरिति चेत् । वाढम् । साक्षात्त्वं हि जातिौत्ववत् सर्वसाधारणी । यथा हि गाः सर्व प्रति गा- स्तथा साक्षात्कार्यपि सर्व प्रति साक्षात्कार्येव सर्वैस्तथा व्य. वहियमाणत्वादिति यथा तस्याः साक्षाद्धियो व्यवहर्तृषु साधारण्यं तथा विषयेष्वपि साधारण्यं ब्रूम इति चेत् । हन्त तस्याः साक्षात्वं नानानिरूप्यं जातित्वादिति सा- क्षात्कारिणी भवत्येव किन्तु विवक्षितविवेकेन सर्व विषया सा भवत्वित्यापादनार्थः। स चायुक्त प्रापादकाभावात् । नहि घटमात्रविषयायाधियः पटविषयत्वे किमप्यापादक- मस्तीति । साक्षात्त्वञ्च साक्षात्करोमीत्यनुगतानुव्यवसाय- साक्षिकमिति न तत्र मानान्तरापेक्षा नापि निर्वचनापेक्षा जातित्वेनाखण्डत्वात् गोत्वादिवत् । एवञ्च ज्ञानाकरणका- नां ज्ञानानां साक्षात्कारित्वं तच्च जातित्वरहितेभ्यः (१) सा. क्षात्कारिणां भेधीजनकमिति सिद्धम् । इन्द्रियार्थत्यादि तु तदुपलक्षणम् । न चात्राधिक्यं एकैकमेव तदुपलक्षणात् अवान्तरलक्षणाच। अस्तु वा लक्षणस्य प्रत्यक्षव्यवहारसा- धकत्वम् । तथाहि इदं हि लक्षणवाक्यं वादिवाक्यत्वा- घयप्रामाण्यशङ्काग्रस्ततया नाहत्य व्यवहारयति तथापि न्यायप्रयोगवदनुमानमुत्थाप्य व्यवहारयिष्यति । तद्यथा उक्तज्ञानानि प्रत्यक्षत्वेन व्यवहर्तव्यानि साक्षात्कारि- त्वात् । अयं च अन्वयी न सम्भवत्यन्वयाग्रहादिति व्यतिरेकितया परिणमत इति तावत् न्यायमतम् । तत्व- ण्डनन्तु व्यवहारविशेषो लक्षणसाध्यः तत्कर्तव्यता वा। नान्त्यः । न हि तदनभिज्ञः तत्कर्तव्यता ग्राहयितुं शक्यः न हि वह्नयनभिज्ञो वह्निसम्बन्धं ग्राह्यते । अथ व्यवहारवि- (१) साक्षावरहितेभ्य इति २ पुस्तके पाटः । ज-~No. 7, Vol. XXV. August, 1903.

खण्डनोद्धार शेषाभिज्ञ एव लक्षणेाद्देश्यो व्यर्थः कथन्तर्हि लक्षणं तस्फलस्य व्यवहारबिशेषस्य स्वतः सिद्धत्वात् । श्राद्येऽपि ब्यवहारविशेषो लक्षणेनानुमेयो न तु जननीयो मानस्य मेयाजनकत्वात् । तथा च स ज्ञानविशेषजन्यो वाच्या ज्ञानविशेषश्चार्थविशेषाधीनः ज्ञानस्य स्वता विशेषाभा- वात् । अर्थविशेषश्च न प्रमामात्रात् सिध्यति अतिप्रस- ङ्गात्। न हि घटप्रमया पदरूपोऽर्थविशेषः सिध्यति । नापि तत्तदर्थोपलक्षितप्रमया तत एव । नापि तत्तदर्थविशे- षितप्रमया आत्माश्रयापत्तेः । तदुक्तम् । नात्यापत्त्या(१) प्रमामात्रात्ते ते ऽर्थाः स्वीक्रियादिताः। तडियस्तदुरीकारे स्वाश्रयं कश्चिकित्सतु ॥ न च तत्तदाहितविशेषया प्रमया अर्थविशेषसि- डिः ज्ञानस्यार्थाहितविशेषाङ्गीकारे हि साकारपचप्रवेशः स्यात् । तदुक्तम् । अथान्यः सविशेषश्चेत्तडीत्वं कश्चिदिष्यते । दत्तः साकारवादाय विधुरः(२) स्पषमेव तत् ।। अथ तडीत्वमनुमात्वादिवदर्थादुत्थास्नुस्तदार्थमन्त- रेणैव स्यादित्यर्थो विलीयेत । तदुक्तम् । अर्थादुत्थास्नवा धर्मा नानुमात्वादयो यथा । तद्धीत्वमपि तद्वत्स्या "दित्यर्थोऽनर्थमाविशेदिति ॥ तस्मिन्नपि तडीविशेषे तद्विषयकस्तद्धीविशेषः प्र- माणमेवं तत्राप्येवं तत्रापि । तथा चानन्तायां तद्धीविशेष- धारायां तहीनिर्वचनोक्तदूषणानि प्रसज्जतीत्याशयेन (१) अत्यापत्तिः अतिप्रसङ्गः पटप्रमातोऽपि घटप्रसिद्धिलक्षणः । (२) विष्टरः प्राप्सनम् । (३) उत्थानवः उत्थितिशीलाः। (४) तद्वत् स्यात् अर्थादुत्थितं न स्यादित्यर्थः । . ६०० प्रथमपरिच्छेदे प्रमाणप्रकरणम् । ६७ सोऽपि वा धीविशेषः किं स्वीकार्यस्तद्धियं विना । एवञ्च सोऽपि सोऽपीति नान्तः सोपानधावने(०) । एवमेष दोषो मन्मतानुसारेण परन्न लगतीति प्रश्नपूर्वकमाह समस्त लोकशास्त्रकमत्यमाश्रित्य नृत्यताः। का तदस्तुगतिस्तबद्धस्तुधीब्यवहारयोः ॥ उपपादयितुं तैस्तैर्मतैरशकनीययोः । अनिर्वचनतावादपादसेवा गतिस्तयो:(३) ॥ अत्र ब्रूमः। यो हि तास्ताः प्रत्यक्षव्यक्तीः प्रत्यक्ष- तया व्यवहरति व्यवहारः सनिमित्तक इति च जानाति अप्रत्यक्षव्यवहारे किं निमित्तमिति वुभुत्सते तं प्रति सा- क्षात्कारित्वं लक्षणमुपतिष्ठते । तञ्च साक्षात्कारित्वमनु- मानच्छायामवलम्ब्य व्यवहारयति तत्रापि साक्षात्कारि- त्वव्यवहारयोः पक्षादन्यत्रासतोरन्वयव्याप्त्यनवधार- णात् लक्षणं व्यतिरेक्यनुमानमिति पर्यवस्यति । न- नूक्तव्यवहारोत्पत्तये ज्ञप्तये वा नानुमितिः व्यवहर्तरि तयोः सत्त्वादेवेति चेत् । मैवम् । प्रत्यक्षधियां प्रत्यक्षत्वेन व्यवहारः साक्षात्कारित्वानिवन्धनः निबन्धनान्तराभावे सति सनिवन्धनस्वात् साक्षात्कारित्वान्वयव्यतिरेका- नुविधायित्वादेत्यस्य मानार्थत्वात् । एतेन प्रत्यक्षत्वेन व्यवहारः प्रत्यक्षपदप्रयोगरूपः सोऽपि तत्प्रयोगे साक्षा- कारित्वस्यान्वयव्यतिरेकितयैव सेत्स्यति किं तदर्थ लक्ष- (.) सोपि धीविशेषः घट्धीविशेषः कि तद्भिर्य घटधीविषयकधियं विना, स्वीकार्यः न स्वीकार्य इत्यर्थः । एवञ्च सोऽघि सोऽपि घटधीधीगोचरधीविशेषादि- रपि स्वस्वोचरधियं विना स्वीकार्य इति सोपानधावने ऽनवस्थेत्यर्थः। (२) तत् तस्मात् समस्तलोकशास्त्रयोरैकमत्वमाश्रित्य मृत्यताः भासमानयो- स्तत्तद्वस्तुव्यवहारतत्तद्धीव्यवहारयोः का गतिरस्तु इत्यन्वयः । (३) लस्तैर्मतरूपपादयितुमशकनीययोस्तयोरनिर्वचनतावादपादसेवा गतिरि- त्यन्क्यः।

६८ खण्डनोद्वारे एप्रणयनेनेत्यपास्तम् । अन्वयव्यतिरेकाभ्यामपि प्रत्यक्ष- शब्दवाच्यत्वादिकमपि यद्वगन्तव्यं तदपि व्यतिरेकन्या- प्तिबलेनैव न त्वेतद्व्यतिरेकयोः सामानाधिकरण्यमात्रब- लेन अप्रयोजकत्वात् । तस्माचतुर्थविकल्पोऽयं नानिय । एवञ्च जवगडदशादिशब्दवाच्यतानुमानमप्यपास्तं व्यति- रेकव्याप्तिविरहात् । एवं युक्तो व्यतिरेक्यनुमानात्मकम्य लक्षणस्य प्रयोगः। व्यवहारविशेषश्च प्रत्यक्षत्वेन व्यवहारः तद्धतुश्च ज्ञानगतो विशेषः स च साक्षात्कारिलक्षणजाति- रूपः । एवञ्च स जातिविशेषो यस्मिन् ज्ञाने ऽस्ति स ज्ञान- विशेषस्तजातियोगेन हेतुना प्रत्यक्षत्वेन प्रकारेण व्यवहि- यते । न च साध्यप्रसिद्ध्यप्रसिघोषिः घटप्रत्यक्षादौ प्र- सिद्धस्य प्रत्यक्षत्वव्यवहारस्यान्वयव्याप्स्यप्रतिसन्धाने ज्ञानाकरणकज्ञानत्वावच्छेदेन साक्षात्कारित्वेन व्यतिरे- किणा साधनात् । इतरभेदानुमाने न्यायाचार्या अप्येव- मिति सर्व सुस्थम् ॥ ननु भवत्वेवं तथापि प्रमामात्रेण वा अर्थविशेष: स्वीकार्यः तदर्थविषयकप्रमया वा ताहितविशेषया वा । प्रमयेत्यत्र न किश्चिाक्तमिति चेत् । त्वयापि न किञ्चिदुक्तम् । तथाहि न हि प्रमया स्वीकारो ऽभेदात् किन्तु प्रमाणेन अर्थाान्विताभ्युपगमस्वीकारः । तत्र यथोक्त- त्रितयमध्ये किं निमित्तमिति महाक्यार्थ इति चेत् तेनार्थेन समं स्वभावसम्बन्धेन यथार्थबोधेन स स्वीकार्य इत्यवेहि । तथा चार्थी ज्ञाने विशेषणम् । ज्ञानस्य तु तद- र्थकस्य तदर्थव्यवहारजनने उपलक्षणं रूपवति रस इत्यत्र यथा धर्मिणि रूपं विशेषणं रसवृत्तातूपलक्षणं आश्रयव्यव- च्छेदकत्वे सति क्रियानन्वयित्वात् । न हि ज्ञानं विशिष- ६०२ प्रथमपरिच्छेदे प्रमाणप्रकरणम् । ६ नप्यों व्यवहारं जनयत्यतितादिसाधारण्यात् । नापि व्यवहारं विशिषन्नप्यों ज्ञानेन जन्यते ज्ञानस्य तत्प्रा- क्सत्त्वनियमाभावात् । नाप्यों ऽर्थेन जन्यते आत्माश्र- यादित्यगत्यैवार्थस्योपलक्षणतेति तदेव तत्रैव तदैव विशे- षणचोपलक्षणच्छेति महदैशसमिति चेत् । न । अबोधात् तत्र हि तद्विशेषणमेव घटे रूपवत् ज्ञानस्य तु प्रत्यक्षव्यवहा- रार्जने ऽनङ्गत्वादुपलक्षणं शेषमशेषं प्रत्यक्षखण्डनं कल्पि- तदूष्यत्वादुपेक्षितमिति। ननु साक्षात्त्वं जातिरव्याप्यवृत्ति तथा च परमाणी। ननु व्यवसायो व्यवसाय इव परमा- णोरपि साक्षात्कारी स्यादिति चेत् । वाढं किन्तु स व्यवसेयांशे त्वलोकिको ज्ञानलक्षणप्रत्यासत्तिजन्यत्वात्। व्यवसाये तु लौकिक: संयुक्तसमवायजन्यत्वात् । हन्तव, लिङ्गबुद्धिलक्षणया प्रत्यासत्त्या वहिरपि मानसो ऽस्त्विति चेत् । केयं लिङ्गबुद्धिः । वहिनिरूपितव्याप्त्यु- पहितपक्षधर्मधूमधीविशेषणविशेषणं वह्निमपि स्पृशन्ती भवति वहिमनसाः प्रत्यासत्तिरिति बम इति चेत् । तर्हि तादृशलिङ्गधीर्मानान्तरमित्यकामेनाप्युपेयं तद्वष्ट- म्भेन मनसो बहिः प्रवृत्तेश्चक्षुर्वत् । एवं प्रत्यभिज्ञापि सा- दात्त्ववती तमिमं साक्षात्करोमीति प्रतीतेः । ननु साक्षा- स्वस्यव्याप्याश्रयज्ञाने सतो योग्यत्वेनावधारणे प्रत्यभि- ज्ञायां तत्तांशे साक्षात्त्वपरोक्षत्वसंशयो न स्यात् विशेष- दर्शने भ्रमानुदयादिति चेत् । स्थाणुपुरुषसंशयवन्नायं सा- लाकिक:(२) किन्तु तत्तदर्शनप्रामाण्याभिमानिनां विप्र- (৭) স্মঘময় ঘি মাখলুয়ি মিলমালি ন “আআয় मनुमोयते । (३) प्रजापि पूर्ववदेवाबराणि विलुप्तानीति । एच.

खण्डनोद्वारे तिपत्तेः परीक्षकाणामेवायं नित्यानित्यसंशयवत् । ननु स्वात्मानुमितिरात्ममनोरूपेन्द्रियार्थसन्निकर्षजत्वात् सा- क्षात्कारिण्यपि स्यादिति चेत् । न । तत्रात्मा नार्थत्वेन किन्तु समवायित्वेन मनोऽपि नेन्द्रियत्वेन किन्तु मन- स्त्वेन जनकमिति मदुपगमात् । ननु भगवज्ज्ञानं कथं साक्षात्कारि इन्द्रियाजन्यत्वादिति चेत् । कार्यस्योपादा. नप्रत्यक्षजन्यत्वनियमादिति दिक् ॥ ननु नियतव्यञ्जकाभावात् साक्षात्वं न जातिरिति चेत् । न तावनियतव्याकधीपूर्विकैव जातिधीरिति निय- मः ज्ञानत्वेच्छात्वयत्नवादी व्यञ्जकस्यैवाभावात् । किच्च त्वदुक्तरीत्या जातिर्न स्थादेव व्याकेनैवानुगतमतेरु- पपत्तेः । अस्तु वा गोत्वे सास्नेवाननुगतमेव साक्षात्त्वे व्यञ्जकम्।तथाहि अस्मदादिरूपादिप्रत्यक्ष चक्षुरादिजन्यत्वं योगिप्रत्यक्षे योगजधर्मजन्यत्वं भगवत्प्रत्यक्षे धर्मिग्राह- कमानम् । एतदनवधारणदशायामेव साक्षात्त्वसंशयो विशेषादर्शनादिति । अस्तु वा ज्ञानाकरणकज्ञानत्वमेव साक्षात्वस्य व्यञ्चकम् । न चैवमावश्यकत्वात्तदेव साक्षा- त्वधीविषयोऽस्त्विति वाच्यम् । साक्षात्त्वधीहि विधि- मुखी सा कथं व्यतिरेकालम्बनास्तु गोत्वधीवत् । अन्यथा गोत्वधीरप्यगवापोहालम्बना किन्न स्यादित्यपाहापातः । तदुक्तं त्वयैव । विधिजः प्रत्ययोऽन्योऽयं व्यतिरेकासमर्थन:१) । नैवच्छेदपराद्धं ते किमन्यापोहवादिना ॥ इति ॥ अनुमानमपि किमुच्यते । लिङ्गपरामर्श ऽनुमान लिङ्गत्वं व्याप्तपक्षधर्म वमिति चेत् । पक्षता हि साध्यस- (१) ातरेकेगासमर्थनं यस्येत्यर्थः। ०४ ७१ प्रथमपरिच्छेदे प्रमाणप्रकरणम् । न्देहः । स च पर्वतस्य नोपलक्षणमनुमित्युत्तरमपि अनु- मित्यापत्तः पर्वतस्य तदापि साध्यसन्देहोपलक्षितत्वात् । नापि विशेषणम् । अनुमित्युत्तरं पर्वतः पक्षताविशिषुः तावन्नास्तीति तत्राऽग्नयर्थिनः प्रवृत्तिन स्यात् वहः केव- लपर्वतावृत्तित्वात् । धूमः पक्षवृत्तिः वह्निस्तु केवलपर्व- तवृत्तिरिति न सम्भवति वैयधिकरण्यापत्तेः । न चैवं वैयधिकरण्यं न दोषः सामानाधिकरण्यरूपव्याप्तिविरो- धित्वात्। विशेष्ये पर्वते द्वयोः सामानाधिकरण्यमस्त्येवेति चेत् । तहि साधनस्य पक्षधर्मता व्यथा स्यात् । सा हि न साध्यसामान्यसि पयोगिनी व्याप्तेरेव तत्र सामर्थ्यात् । नापि तद्विशेषसियपयोगिनी प्रतीत्यपर्यवसानस्यैव तत्र सामादिति । सिद्धसाधनपरिहारमात्रार्थ सेव्या । सिडसाधनञ्च न स्वार्थानुमाने दोषः भागमेनेत्यादेः । एतेन संशययोग्यतापि निरस्तेति खण्डनम् ॥ तन्न । न हि साध्यसन्देहघटितां पक्षतामाचक्ष्महे प्रत्यक्षपरिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तकरसिका इति टीकाविरोधापत्तः । आगमेनानुमानेन ध्यानात् प्रत्यक्षणेन च । त्रिधात्मनि प्रमाणानां संप्लवः स्वार्थमिष्यते॥ इत्यागमविरोधापत्तेः श्रोतव्यो मन्तव्य इति श्रुति- विरोधापत्तश्च । एतेन संशययोग्यतापि निरस्ता । न चैवं शास्त्र संशयव्युत्पादनानर्थक्यम् । संकशुकतानिवृत्तये न्या. योपासने तदङ्गत्वोपगमात् । अत एव संशयाभावे ऽपि मन्तव्य इति विधिसमभिव्याहृतवाक्यजनितेषसाधनता- ज्ञानजसिषाधयिषया भगवदनुमानप्रवृत्तिरिति कुसुमाञ्ज- लावाचार्या अप्याहुः । अस्तु तर्हि सिपाधयिषाघटिता खण्डनोद्वारे साहन्तानिष्टार्थीयामनुमिता सापि व्यभिचरतीति चेत्। बाढम् । तद्योग्यता तावदस्ति । सापि साधकबाधकमाना- भावरूपा श्रुतिस्वरूपसाधकमानावरुद्ध भगवति ना- स्तीति । उच्यते। सिषाधयिषाविरहसहकृतसाधकमान- स्याभावः सा । सा च सर्वत्रैवास्ति । शेषमनुमाननिर्णये- ऽध्यवसेयम् । अस्तु का कापि पक्षता सा तावदनुमित्युत्तरं नास्तीत्यविवादम् । अन्यथा लिङ्गोपहितलैङ्गिकावगाहि- न्यामनुमिता व्याप्तपक्षधर्मलिङ्गभानावश्यकत्वेऽनुमित्य- विच्छेदः स्यात् । तथा चानुमित्युत्तरं तत्र पक्षता त्वया- भ्युपेया । तथा च विशेषणाभावादिशिषः पर्वतोऽपि नास्तीति तनिष्ठोऽग्निरपि नश्येदिति चेत् । एवं सति हि क्षणभङ्गःस्थात् असविशेषणोपरागेण सतोऽपि विशेष्यस्या- त्ययोपगमात् स च प्रत्यभिज्ञानबाधितः । किञ्चानुमाने. नाग्निनिश्चय प्रसूय समूलकाषं कषितो निसंशये विरोधि- विधूननानिष्कम्पा वयर्थिप्रवृत्तिः स्यादेव । अपि च धूमः पक्षवृत्तिरग्निः पर्वतवृत्तिरतो वैयधिकरण्यान्न व्याप्तिरन- योः तस्याः सामानाधिकरण्यरूपत्वादिति वदन खण्डनकृ- याप्तिपक्षधर्मतयोरबोधमबोधयत् । तथाहि व्याप्तिहि अ- व्यभिचरितसम्बन्धरूपा । सा च समानाधिकरणयोरिवा- समानाधिकरणयोरप्यस्ति । कथमन्यथा पृथिवीत्वादिना इतरेषामन्योन्याभावोऽनुमीयते तत्र हीतरे व्याप्याः पृथि- वीत्वाभावस्तु व्यापकः । न चेतरे तत्समानाधिकरणा अवृत्तेरपीतरत्वात् । न च तत्रेतरतादात्स्यमेव पृथिवी- स्वाभावस्य व्याप्यं तयोश्च सामानाधिकरण्यमस्त्येवेति वाच्यम् । तथा सति हीतरतादात्म्यस्यात्यन्ताभाव: पृथिवीत्वेन सिद्धो न त्वितरान्योन्याभावः । इतरतादा- प्रथमपरिच्छेदे प्रमाणप्रकरणम् । ७३ त्म्यात्यन्ताभावेनेतरान्योन्याभावः पश्चात् साधनीय इति चेत् । न साधनाभावेनेतरेषामात्मादीनां सामाना- धिकरण्याभावस्य वज्रलेपतया केनापि कदापि इतरान्या- न्याभावो नानुमातुं शक्यतेत्यस्याप्युक्तप्रायत्वात् । अथ य एवेतरतादात्म्यस्यात्यन्ताभावः स एवेतरान्योन्याभायो न तु ततोऽधिकः स इति चेडन्त य एव घटत्वात्यन्ता- भावः स एव घटान्योन्याभाव इत्यपि वदिष्यसि ओमि- ति चेत् समानाधिकरणनिषेधोऽन्योन्याभावो व्यधिकरण- निषेधस्तु संसर्गाभाव इति घुष्यन् पुरुषायुषमनैषीरथे- दानी चरमे वयसि समस्ततीर्थतीर्थिकविरुडं प्रल एन्न जिहेषि न वा विभेषोति । तस्मादिदमिह नास्तीदमिदं न भवतीतिविलक्षणधीवेद्ययोः संसाभावान्योन्याभाव- योरभेदं वदन् विश्वाभेदाय यतिष्यन्नभेदवादी पर्यवस्थन् भेदासिद्धभेदमपि व्यस्यन् भेदादभेदाभेदाभेदाच भ्रश्यन् कीदृशः स्या इति। तस्माद्ययोरेव सामानाधिकरण्य- लक्षणा व्याप्तिः तत्परमेव निवन्धृणां सामानाधिकरण्य- निर्वचनं न तुव्याप्तिमात्रपरमिति मन्तव्यम् । अत एवाव्य- भिचरितः सम्बन्धी व्याप्तिरनापाधिका सम्बन्धी व्याप्ति- रिति च सामान्यमुखी प्राचामपि निरुक्तिः अन्यथा सामा- नाधिकरण्यमुख्येव सा स्यात् रत्नप्रकाशकृतोऽप्येवमिति । अस्त्वन्यत्र यथा तथा धूमानलयोरेव सामानाधिकरण्यं न स्यादुक्तदोषादिति चेत् । भ्रान्तोऽसि यस्मिन धर्मिणि साध्यसंशयोऽस्ति तत्र धर्मिणिधूमानलयोः सामानाधिक- रण्यं न ब्रूमः न तु पक्षताविशिषे धूमत्तिमुपेमो येन त्वदु- क्तसामानाधिकरण्यं स्यात् । तदयं संक्षेपः संशयादिलक्षणा पक्षता विशेषणं सत्त्वात् सत्यपि धूमादित्तावुपलक्षणं -No. 6 Vol.XXVIII-June 1906. MINALpmemuner | ७४ खण्डनोद्वारे तदत्यनन्वयित्वात् लिङ्गपरामर्श तु तत्कालेऽसनी अदू- रविप्रकर्षेण तु सत्यप्युपलक्षणमेव परामशीनन्वयित्वात् न हि धूमवत् पर्वतवच संशयोऽपि ज्ञायमानोऽङ्ग किमर्थ तब पादायते स्वरूपसत्तामात्रेणानुमितेनियमनाय लिङ्ग- परामर्शस्य चानुगमायेति। हन्तवं साध्यस्य मामान्यसिद्धि- याप्तितः विशेषसिद्धिस्तु प्रतीत्यपर्यवसानादिति साध्य- सिद्धावनुपयोगिन्येव पत्तधर्मति तत्खण्डकमपि सिद्ध- साधनं नानुमानदूषणं स्यात् अनुमितिप्रयोजकाखण्डना- दित्युक्तमिति चेत् किमिदमपर्यवसानं प्रकृतानुमानं वा मानान्तरं वा प्रकृतानुमानस्यैवैकमङ्गंवा नाद्यः पक्षधर्मता- विनाकृतस्य तस्याकरणत्वात् तस्याश्च याङ्गत्वानुपगमा- त् । नापरः पक्षधर्मतां विना तस्यापि भूकत्वात् तस्मात् परिशेषाचरमः कल्पः स्यात् तथा च पक्षधर्मतामेव स्वना- ना दूषयसि अपर्यवसाननाम्ना तु मन्यसे सोऽयं शिरश्छे- देऽपि काकणी न ददाति पञ्चगण्डकांस्तु ददातीतिवद्- वसीयते ।। ननु धूमाग्न्योर्देशगी वा कालगर्भा वा उभयग- भी वा व्याप्तिः नाद्यः व्योमलेलिहानायां धूमधारायां तदालोढव्योमनि व्यभिचारात् । अथ यत्र धूमस्तत्र तन्मू- लावच्छेदेन वहिरिति नियम इति चेत् । न आभीरकुट्यां व्यभिचारात् । अथाविच्छिन्नमूलसतता गतिशीलस्थूल- धूमलहरीमूलेप्रदेशे पहिरिति देशगर्भव्याप्तिशरीरमिति चेत्।न। कालान्तरेऽपि तत्र वन्यर्थिप्रत्त्यापत्तेः न द्वितीय- स्तदा देपि वन्यापत्तेः तृतीयस्तु सम्भवति स नाङ्गं तदन- वगमे ऽपि अनुमित्युदयादिति तटस्थदेशनायां तु उच्यते प्राद्य एवं कल्पः न च कालान्तरेऽपि तत्रारन्यर्थिप्रवृत्त्या- deas- प्रथमपरिच्छेदे प्रमाणप्रकरणम् । पत्तिः यत्र धूमस्तत्र सर्वदा वहिरितिन व्याप्तिर्येन तथा स्यात् सामान्यव्याप्त्यैव तथा भविष्यतीति चेत् । न । तस्याः किञ्चित्कालीनवह्निमत्तयैव पर्यवसितत्वात् कुतस्तहि वर्तमानवह्रिसिद्धिः पक्षधर्मतावलात् पक्षतावच्छेदकधर्म- संबद्ध हि साध्यं पक्षधर्मता ग्राहयति तद्विना प्रतीतेरपर्यव- सानात् पक्षतावच्छेदकः पर्वतत्ववत् वर्तमानः कालोऽपि अयं पर्वताग्निमानित्यनुमित्याकारात् । अस्तु तावदिदम- विनाभावसम्बन्धो व्याप्तिरिति यदुक्तं तदयुक्तमन्वये 5- न्वयस्य व्यतिरेके व्यतिरेकस्य व्यभिचारिसाधारण्यादिति मैवम् । अविनाभाव इत्यत्र हि विनाभावपर्युदासे नञ् विनाभावश्च व्यभिचारः तेन व्यभिचारविरोधी सम्बन्धी ऽव्यभिचरितः सम्बन्ध ऐकान्तिकः सम्बन्धो ऽसम्बन्धा- सहचरः सम्बन्धो यथाग्निनाधूमस्य धूमेन त्वग्नेस्तद्विपरीतः तथा च यत्समानाधिकरणान्यान्याभावप्रतियोगिता येन नावच्छिद्यने तेन समं तस्य सम्बन्धों व्याप्तिरिति धूमवान् वहिमान्न भवतीत्यप्रतीतेः धूमसमानाधिकरणान्योन्या- भावप्रतियोगिता वहिना नावच्छिद्यते तेन वह्निना समं धूमस्य सम्बन्धो धूमस्य व्याप्तिः। हन्तवं ईदृशेन वहिनासमं ज्ञाप्यज्ञापकत्वादिरपि सम्बन्धो व्याप्तिः स्यात् सामाना- धिकरणमितिकरणे तु नायं दोषः सम्बन्धमात्रस्य सामा- नाधिकरण्यरूपत्वाभावात् । अत एव चिन्तामणिकाराद- योप्येव मिति चेत्। न अविशिष्यावृत्तविशिषोनियाम- कस्थेह सम्बन्धपदार्थत्वात् म च धूमादी संयोगः रूपर. सादौ समवायो वृक्षशिंश पादा सामान्यविशेषभावादि. रिति ज्ञाप्यज्ञापक भाववाच्या वकभावादिस्तु न तथा किञ्च सामानाधिकरण्यविशेषस्य व्याप्तित्वे भेदानुमानं न ..

खण्डनाद्वारे स्यात् । तथाहि घटः पटो न भवतीतिप्रतीतिसाक्षिक- स्तावदन्योन्याभावो दुरपह्नवः न चायं तद्धर्मात्यन्ताभा- वात्मैव घटः पटो न घटे पटत्वं नेतिप्रतीत्योः समाना- धिकरणव्यधिकरणाभावग्राहितया तयोः समानाधिकर णाभावत्वव्यधिकरणाभावत्वरूपवैधासिद्धः । ननु भव- त्वन्योन्याभावो धर्मिप्रतियोगिको धर्मात्यन्ताभावभिन्न: सत्वनुमानान्न ज्ञातुं शक्यते । तथाहि इतरे व्याप्याः पृथि- वीत्वात्यन्ताभावस्तु व्यापक इति वाच्यं तच्च इतरेषाम- वृत्तिघटिततया समानाधिकरणत्वाभावात् व्याप्यत्वस्य च नियतसामानाधिकरण्यरूपत्वात् अस्तु वा अन्यत्कि- विद्याप्यत्वं तथापि व्यापकस्य व्यतिरेकात् व्याप्यस्य व्यतिरेकः संसर्गाभावात्मा सेत्स्यतीति वहिव्यतिरेकात् धूमव्यतिरेकवत् स तु न भेदः आकाशसंसर्गाभावस्याकाशे ऽपि सत्वात् आकाशसंसर्गाभावस्य केवलान्वयित्वात् न चाकाशादाकाशो भिन्नः । ननु यदि तावद्यत्र न पृथिवीत्वं तन्नेतरदिति नरसिंहाकारैव व्याप्तिरतः पृथिवीत्वेनेतर- भेद एव सेत्स्यतीति चेत् अस्तु तावदेवं तथापि व्याप्तेरा- कारोनुगतो वाच्यः स च न सामानाधिकरण्यरूपो नाप्य- न्यरूप इति महव्यसनं प्राप्तम् । उच्यते व्यभिचारविरोधि- सम्बन्धस्तावद्याप्तिः अत एव स्वाभाविकसम्बन्ध इति टीकाकृतः अव्यभिचरितः सम्बन्ध इति वार्तिककृतः निरुपाधिः सम्बन्ध इति निबन्धकृतः कात्स्न्यन सम्बन्ध इति लीलावतीकृतः सामान्यमुखमेव व्याप्तिस्वरूपमाहुः । यत्त्वर्वाचां सामानाधिकरण्येन तन्निर्वचनं तत्प्रसिद्धतरधू- मानलादिव्याप्तिमात्रपरं न तु सामानाधिकरण्यगर्भेव व्या- प्तिरित्याशयेन अत एव ययोरेव सामानाधिकरण्येनैव परं ३४० प्रथमपरिच्छेदे सामान्य लक्षणाप्रकरणम् । नियमसम्भवः तयोरेव सामानाधिकरण्येन व्याप्तिरित्य- त्राचार्याणामनिर्भर इति वर्द्धमानोपाध्यायकृतखण्डनोद्धा- रफकिकापि सङ्गच्छते। किञ्चान्यथा इतरेषामबादीनां त्रयो- दशानां त्रयोदशान्योन्याभाववैधम्र्येण हेतुना साध्यत इति न्यायमार्गो व्याकुप्येत वैधhणान्योन्याभावस्त्वया साध्य इति खण्डनं च निरालम्बनमापद्यते सामान्यमप- हाय विशेषाश्रयणे निर्बीजं च गौरवं स्यात् अवृत्त्यपि व्याप्यमेवं स्यात् यदाकाशं तत्र पृथिवीत्वाभाव इति व्याप्तेरिति चेत् अस्तु तल्लिङ्गस्यापीति चेत् भ्रान्तोऽसि यो धूमः स वहिमानिति व्याप्तौ यथा धूमत्वं लिङ्गं क्रियते तथात्राकाशत्वमिति उक्तव्यास्तु फलं यत्र पृथिवीत्वं तन्नाकाशादीति भेदधीरेवेति सर्व सुस्थम् ॥ व्याप्तिग्रहः सामान्य लक्षणया सकलधूमा दिविषयकः कथमन्यथा पर्वतीयधूमस्य व्याप्त्यग्रहे तस्मादनुमितिः । ननु धूमो वहिव्याप्य इति ग्रहणं स्मरणं च दृप्रान्तधूम. मात्रविषयक तथा पर्वतवृत्तिधूम इति पक्षधर्मताग्रहण- च त्रयमिति धूमत्वप्रकारकमस्त्वनुमितिजनकं ततोरे- वास्तु किन्तेनेति न्यायात् । तथा च न व्याप्तिग्रहाय सामा- न्यलक्षणा । अत एव शक्तिग्रहायापि नेयं सन्निपिण्ड- मात्र एक घटो घटपवाच्य इति शक्तिग्रहात् ततो घद- पदात्तद्घटव्यक्तरेव स्मृतिः ततो वाक्यार्थज्ञाने ऽपूर्व एव घटो घटत्वेनान्वयधीविषयीभवतीति नानुमितिशाब्द योरनुरोधात्सामान्यलक्षणेतिचेत् । न व्याप्यतावच्छेद- कप्रकारकं हि ग्रहणं नानुमितिहेतुौरवात् वहिव्याप्य- चानयमिति परामर्शस्थले व्यभिचाराच किं तु व्याप्यत्व- प्रकारकमेव लाघवात् एवमन्वेष्यत्येव व्यक्तिः शक्तिग्रहे खण्डनोद्वारे ऽपि भासते कथमन्यथा तस्या अस्मरणे तदन्वयानुभव: स्यात् विशेषणज्ञानं विना विशिज्ञानानुदयादिति मैवम् । एवं हि तृतीयलिङ्गपरामर्शस्य विशिज्ञानानां विशेषण- ज्ञान जन्यत्वनियमस्य च बलात् सामान्यलक्षणेति निर्ग- लितम् । तथा च तदुभयासिडी न सामान्यलक्षणा तदुक्त- मसिडमसिद्धेन साधयतो महानैयायिकत्वमिति । किञ्च धूमत्वेन वहिव्याप्तेर्महानसीयधूमे ग्रहात्पक्षवृत्तिधूमेऽपि धूमत्वेन भाते तयाप्तिवैशिष्ट्यं ज्ञायतां एकैव हि सा व्याप्तिरिति तृतीयलिङ्गपरामर्शेऽपि तां विनैवेति कि सामान्यलक्षणया। अथ यदि सामान्यलक्षणा नास्ति तदा पाकादा चिकीर्षा सुखादाविच्छा च न स्यात् सिद्ध तद् सम्भवात् असिडस्य चाज्ञानात् तस्मात्सामान्यलक्षण्या- सर्वपाकावगतावसिद्धं पाकं पक्षीकृत्य कृतिसाध्यत्वेऽनु- मिते तत्र चिकीर्षा एवं तयैव सुखेषु ज्ञातेषु चा सडे तत्रेच्छे- ति चेत् । न सिद्धविषयतदुभयज्ञानादेवासिद्ध तदिच्छा. व्योत्पत्तेः। यत्त्वहं सुखप्रागभाववान् मिथ्याज्ञानवत्त्वादि- त्यादिना भाविसुखे ज्ञाते तत्रेच्छेति तत्तुच्छम् । ईदृशानु- मानानवतारेपि वाहीकादेः सुखेच्छादर्शना दिति। तत्रेच्छा भविष्यन्मात्रविषया सा च भविष्यन्मात्रवृत्तिधर्मप्रका- रिकावाच्या कथमन्यथा कृतिसाध्यतानुमिति भविष्यत्पा- कविषयां शवरस्वाम्याहेति चेत् । न यथाहि दण्ड विना ऽस- त्वेन दण्डसाध्यता घटस्य तथा कृति विना ऽसत्त्वेन कृत- साध्यतापि पाकस्य उक्तहेतास्तावन्मात्रसाधन एव साम- र्थात् सा च कृत्यन्तरनियतसत्त्वरूपा कार्यान्तरवदेव तथा च यद्यपि यथोक्तप्रकारता पाकान्तरस्मरणस्याप्यस्ति तथापि तन्न भविष्यत्पाकविषयकमिति प्रवर्तकज्ञानेच्छ- प्रथमपरिच्छेदे सामान्यनता प्रकरणम् । 8 योः समान विषयतां नैयायिकानुमनामनुरुध्य महार्णवकृ- दनुमानमानमाह । ननु समानप्रकारकधीसिद्ध्ये पाकान्त- रस्मरणस्यापि तथात्वात् अन्यथा स्तनपानान्तरस्य कृ- तिसाध्यतास्मरणादाद्या प्रवृत्तिलस्येति तदुक्तमयुक्तं स्यात् तथा चान्यस्मरणादेव भविष्यताः सुखपाकयो- च्छाचिकीर्षे इति न तदनुरोधादपि सामान्यलक्षणेति । यत्तु व्याप्तिः सम्बन्धविशेषः तद्ग्रहश्च सम्बन्धिविषयतानि- यतः तत्र च सन्निकृवेव धूमानी सम्बन्धिना सर्वे वा। आधे धूमत्वं न तदवच्छेदकमनिप्रसक्तत्वात् अन्त्ये सा- मान्यलक्षणां विना न निस्तारः न हि तां विना सर्वे गृह्यन्त इति । तन्न सर्वीय एवायं सम्बन्धो धूमत्वावच्छिन्न इति सत्यं किं तु सर्वीयसम्बन्धग्रहः सर्वसम्बन्धिविषय- ताव्याप्त इति न नियमः समवायग्रहे व्यभिचारात् स हि सर्वेषां द्रव्यगुणकर्मसामान्यानामेक एव सम्बन्धो रूप- वान् घट इत्यादी घटघटत्वादिमात्रग्राहिणि प्रत्यये च- कास्ति सर्वव्यत्तयग्रहे सर्वव्यक्तयः कथं व्याप्तिमत्तया गृह्य- न्तामिति चेत् । न कथञ्चिदपि सर्वो धूमो वहिव्याप्य इति धीः किं तु धूम वहिव्याप्य इत्येव तथा च प्रसिद्ध एव हि धूमो धूमत्वेन प्रकारेण वहिव्याप्तिमान् कृत्वा गृह्यता तावतैव तृतीयपरामर्शोऽस्तु । ननु गारितरेभ्यो भिद्यते गोत्वादित्यत्र गोत्वं लिङ्गमिति तज्ज्ञानं सविकल्पकं वाच्यं निर्विकल्पकस्य व्यवहारानङ्गत्वात् तत्र च सविकल्पके न गर्विशेषणमन्योन्याश्रयात् जातेय॑क्ता व्यक्तेश्च जाता विशेषकत्वोपगमात् किं तु गोत्वत्वमुपाधि!त्वे विशेषणं तच्च गवतरावृत्तित्वे सति सकलगोत्तित्वमिति तदुपा- विज्ञानाय सकलगोज्ञानं तच्च न सामान्यलक्षणां विनेति खण्डनाद्वारे चेत् । न यथाहि गारित्यत्र गोत्वविशिषः पिण्डो भासेत तथा गोत्वमित्यत्रापि गोविशिधू गोत्वं न तु ततोऽधिकम- ननुभवात् न चान्योन्याश्रयः । जातिहि यथा स्वतो विल- क्षणा पिण्डं तथा पिण्डोऽपि स्वतो विलक्षणो जातिं विशि- नधीति अन्यथोक्तान्योन्याश्रयाद्विशिधियस्ततो धर्मधर्मि- भावस्य ततस्तयोरत एव विश्वस्य खण्डने साधु सामान्य- लक्षणाव्यवस्थापनमिति । यत्तु धूमो मदीयव्याप्यतासं- शयविषयः मया अनुकूलतर्कवत्तयाऽगृहीतत्वादित्यनुमा- नेन प्रतीतधूमे बाधादप्रतीतं धूममादाय पर्यवस्यता ऽज्ञात- धूमस्यैव संशयविषयत्वं बोध्यमिति। तन्न पक्षाज्ञानेना- श्रयासिद्धेः । धर्मिज्ञानजन्यस्य संशयस्य तदसत्त्वेनाभा- वादनुमानवाधितत्वात् मानस्य मेयाजनकत्वाचेति अत्रोच्यते । अनुकूलतकं विना धूमे वहिव्यभिचारित्व- शङ्का तावदुदेति सा तावह्निजन्यतया निश्चिते पुरोव- र्तिनि धूमे न सम्भवति तस्य वह्निजन्यतयैव निश्चित- त्वात् । न हि वहिजन्योऽयं धूमो वहिं विना भवत्वित्य- नुन्मत्तः शङ्कते । अनयो—मत्ववाहित्वाभ्यामवच्छेदकाभ्यां कार्यकारणभावो न गृहीत इति सामान्यद्वयावच्छिन्नस म्बन्धितारूपा व्याप्तिरगृहीतैवेति व्याप्तेरव्यभिचरितस- म्बन्धस्याग्रहादव व्यभिचारशङ्कोति चेत् । धूमत्ववाह- स्वयोस्तदवच्छेदकता कुतो न गृहीता। धूमान्त स्य व्यभि- चारशङ्कयेति चेत् । तडियं विना कथं तहि व्यभिचार- शङ्का धर्मिज्ञानजन्या हि सा तडीश्च न सामान्यलक्षणां विनेति घट्टकुट्यां प्रभातम् । एवं च धूमत्वावच्छिन्नानां व- हित्वावच्छिन्नैः समं सम्बन्धिता वह्निव्याप्यता सा च सर्वधूमेषु गृह्यते । कथमन्यथा पर्वतीयधूमस्य व्याप्त्यग्रहे ..

प्रथमपरिच्छेदे सामान्य लक्षणप्रकरणम् । तस्माद्नुमितिः । सर्वधूमधीश्च न सामान्यलक्षणां विनेति दीकाकृन्मते किं सर्वधूमेषु व्याप्तिग्रहेण यावता सनिकृष्ट- धूमव्यक्तावेव धूमो वहिव्याप्य इति धूमत्वेन प्रकारेण व्याप्तिर्गृह्यतां ततः पक्षधर्मताज्ञानानन्तरं तथैव स्मर्यतां ततः पर्वतवृत्तिधू मो वह्निव्याप्य इत्यस्तु त्वन्मनतृतीय- परामर्शो मन्मतानुमितिर्वाऽस्तु कृतं सामान्यलक्षणया न हि पर्वतीयधूमनिष्ठतया तदीयाया व्याप्त प्राग्ग्रहणं तृती- यपरामर्शाय गौरवात् किं तु तस्या व्याप्त कुत्रापि ज्ञानं तच वृत्तमेव महानसीयधूमे एकैव हि सर्वधूमव्याप्तिस्तत एव ज्ञानान्तरे ज्ञानत्वग्रहात्तदुत्तरज्ञाने ज्ञानत्वविशिज्ञानमि- त्याचार्या अप्याहुरित्याशय यदि सामान्यलक्षणा नास्ति तदा ऽनुकूलतर्क विना धूमादी व्यभिचारसंशया न स्यात्। प्रसिद्धधूमे तमत्वेन तदहिव्याप्त रवगमात् धूमान्तरस्य सामान्यलक्षणां विना चाग्रहात् । सामान्येन तु सकलधू- मोपस्थितो धूमान्तरे शङ्का युज्यते विशेषादर्शनात् तथा च तीदिना तच्छङ्कायां निरस्तायां प्रसिद्धधूममात्र एव यद्यपि धूमो वहिव्याप्य इति व्याप्तिग्रहोऽप्युचित एव तथाप्युक्तयुक्तया सामान्यलक्षणायां सिद्धायां सर्वधूम- व्यक्तिषु व्याप्तिग्रहः सम्भवति प्रत्यासत्तिसौकर्यादिति । तथैवोक्तं तात्पर्याचार्यैः । ननु सामान्यलक्षणां विना न सर्वधूमापस्थितिस्तां च विना न धूमत्वेन व्याप्यतावच्छे- दकेन प्रकारेण ग्रह इति सामान्यलक्षणा व्याप्तिग्रह एवो- पयुज्यत इति चेत् । न सर्वव्यक्त्युपस्थितिमात्रेणैधाव- च्छेदकत्वग्रहः किं तु सम्बन्धान्यूनानतिरिक्तवृत्तित्वग्रहण स च धूमस्य व्यभिचारशङ्कानिरासेनेति तद्वारेणैव व्या- प्तिग्रहे सामान्यलक्षणोपयुज्यत इति युक्तिमत् । ननु सा- wintromaastha hddesi खण्ड नोद्वारे मान्यलक्षणप्रत्यासत्त्या तदाश्रयसकलव्यक्तिज्ञाने प्रमेयं वाच्यमिति व्याप्तिवुद्धौ सार्वज्यं स्यात् । वाढं महाशय स्तवैवं निश्चयः स्यात् । वाढं घटत्वादिना तु विशेषेण निश्चयोऽस्य न भवति स्वसामग्रीविरहात् । कासा स्वसा- मग्री घटत्वनिर्विकल्पकं तद्युत्तरधारावाहिकानि घटत्वप्र- कारकाणि न स्युः पूर्वधारावाहिकानां घटत्वनिर्विकल्प- त्वाभावादिति चेत् । तान्यपि हि घटत्वांशे निर्विकल्प- कान्येव । तद्विषयतयैव च तेषामुत्तरविशिधीजनकताधि- शिधावगाहित्वं तु तेषां कार एसाम्यतोयाम् । हन्तैवमपि विशेषणधीप्रयुक्ता विशिषधीः स्यादेव प्रमेय वादिनापि रूपेण घटत्वादेविशेषणस्य ग्रहात् । इयं हि सामान्यसामग्रो विशेषसामग्री तु विशेषणनिर्विकल्पकम् अविशिषबुद्धौ वि- शेषणतावच्छेदकप्रकारकं तु ज्ञानं विशवैशिष्ट्यबुडौ तच्च नाति आचार्या अप्येवम् । नापि व्याप्तिबुद्ध्यैच पर्वतस्या- प वहिमत्त्वालिङ्गनादनुमितितार्था तत्र धूमवत्त्वपुरस्का- रेणात्र च पर्वतत्वपुरस्कारेण वह्निमत्त्वसिडेः । ननु सामा- न्यलक्षणया पुरा पर्वतस्यापि धूमवत्वपुरस्कारेण वहिम- त्वग्रहणादिदानों नत्स्मरणसहितेन पर्वतेन्द्रियसन्निकर्षण सोऽयं वह्निमान् पर्वत इति प्रत्यभिज्ञवास्तु कृतमनुमानेने- ति चेत् । एवं हि सोऽयमिति स्थान्न तु पर्वतोऽयं वह्निमा- निति । किञ्च पुरा विशिष्य ज्ञात एव प्रत्यभिज्ञा तथैवा- न्यत्र दर्शनात् । अथ यथा सामान्यता गृहीता स्मृता व्याप्तिरिन्द्रियसन्निकृष्टे धूमे ऽनुभूयते तेनायं धूमो वह्नि- व्याप्य इति तृतीयलिङ्गपरामर्श उदेति तथा, सामान्यता गृहीतस्य स्मृतस्य वहिमत्त्वस्य वैशिष्ट्यमिन्द्रिय सन्निकृष्ट पर्वते ऽपि भामताम् । तेन पर्वतोऽयं वह्निमानिति साक्षा- प्रथमपरिच्छेदे सामान्य लक्षणाप्रकरणम् । डोरेव भवत्विति ब्रूम इति चेत् । न । तस्यां दशायां सा धकबाधकमानाभावेन वह्निसंशयस्यैव सम्भवात् । धूम- रूपविशेषदर्शनसहाया प्रत्यक्षसामग्रो प्रत्यक्षं जनयत्विति चेत् । विशेषदर्शनं हि विशेषत्वेन दर्शनं न तु वस्तुतः अन्यथा शिरःपाण्यादेः प्रमेयत्वादिनापि निश्चयात् पुम- वधारणं स्यात् । तथा च सन्दिग्धवहौ पर्वते तवृत्तितया वहिव्याप्यतया च य हमज्ञानं स एव लिङ्गपरामर्श इति निमीलिते ऽपि चक्षुषि ततो भवन्ती वहिमत्पर्वतधीर- नुमितिरेव स्यादिन्द्रियव्यापारविरहात् । चक्षुषि व्यापा- र्यमाण एव भवन्ती हिमपर्वतधीस्तु साक्षाडीरिति चेत् । अस्तु । अनुमितिम्तु सावकाशकृतैव निमीलिते चक्षुष्युपनीतपर्वतविशेष्यका लिङ्गपरामर्शसहितमनःकर- णिका वह्निमत्पर्वतधीरस्तु । साक्षाडीरेवेति चेत् । सिद्ध तहि लिङ्गपरामर्शो मानान्तरं मनसो बहिः प्रमिता च सा- धारणसहकारित्वादिन्द्रियवत् । किष्ट चक्षुापारस्थ- लेपि नासा साक्षाद्धीः साक्षात्कारिप्रमाहेतुभूतविशेषणे- न्द्रियसन्निकर्षविरहात् । संस्कारः स्मृनिर्वहिना बम- मिन्द्रियस्य संन्निकर्षस्तत्राप्यस्ति प्रत्य भज्ञा तत्तयैवेति चेत् । न द्रव्यविशेषणकसाक्षात्यमायास्तदजन्यत्वात् । अन्यथा स्मृतव्यवहितदण्डे ऽपि पुंसि दण्डीति साक्षात्प्रमा स्यात् । तन्नान्तीयकतया ज्ञातपुंसि भवत्येव सेति चेत् । भवतीत्यडा किं तु सा साक्षाडीरवत्यसिद्ध लिङ्गपरामर्श- योनित्वात् । विशेषदर्शनजप्रत्यक्ष. दियमपि साक्षारव स्यादिति चेत् । न पुंप्रत्यक्षमपि हि ज्ञानयजन्यं तथा । तृतीयपरामर्शजन्यं तु तदनुमितिरेव । प्रपञ्चतं चेदम- स्माभिरनुमाननिर्णये॥

८४ खण्डनोद्वारे ननु निरुपाधिः सम्बन्धो व्याप्तिरित्युक्तं तत्र क उपा- धिः साध्यव्यापकत्वे सति साधनाव्यापकः तथाहि यद्यसो साध्यं न व्यानुयात् तदा तव्यतिरेकेण साध्यव्यतिरेको न सियेत् । तथा च नव्याप्यतया हेतोः साध्यव्यभिचारो- ऽपि न स्यात्। तथा च तदव्याप्यतया हतोः साध्यव्याप्यता न त्या दिति व्यर्थ उपाधिः स्यात् । एतत्रयस्य उपाधेः साध्य- व्यापकतामूलकत्वात् । एवं यदि साधनं व्यामुयात्तदा साधनवति पक्षे स स्यादेवेति न तव्यतिरेकेण पक्षे साध्यव्य- तिरेकः स्यात् । तथा साधनस्य साध्यव्यभिचारः साध्या- व्याप्तिश्च न स्तां तयोःसाधनत्तिनोपाधिव्यभिचारेण उपा- ध्यव्याप्यत्वेन च निवाहणात् । न च बाधोनीतपक्षेतरेऽति- व्याप्तिः तस्य स्वव्यघातकत्वेन साध्यव्यापकत्वाभावात् ! धूमस्य च साध्यत्वं सिद्धिकर्मत्वं तथा वह्नः साधनत्व सिद्धिकरणत्वं यद्यपि नास्ति सोपाधौ सिड्यनुदयात् तथापि स्थाभिमनन्वमस्ति अनुमातुस्तथाभिमानात् । एवं व्यापकत्वमपि न व्याप्तिनिरूपकत्वं येनान्यान्याश्रयः स्यात् । किं तु तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वं प्रतियो- गित्वमपि न विरोधित्वं सहानवस्थाननियमलक्षणं येन चक्रकं स्यात् । तथा घटतदन्योन्याभावयोः कपाले सहा- वस्थानेन तत्प्रतियोगिन्यव्यापकं च लक्षणं स्यात् । कि- न्त्वभावविरहात्मत्वमिति विस्तरस्त्वनुमाननिर्णये ।अयं च निश्चितवत्सन्दिग्धोऽप्यनुमानखण्डनाय व्यभिचारसंशया- धायकत्वात् । पर्वतेतरादिस्तु नैवं स्वव्याघातकत्वात् । किन्तु स श्यामो मित्रातनयत्वादित्यत्र गर्भस्थ मित्राभ्रणे ज्योतिःशास्त्रादिना प्रतीते पक्षाकृते श काहारपरिणतिज- न्यत्वमुपाधिः स हि आयुर्वेदेन मातुः शाकाहारपरिणतेस्त- प्रथमपरिच्छेदें उपाधिप्रकरणम् । ८५ दोयश्यामरजार्जनद्वारा भ्रूणश्यामत्वहेतुत्वेन सिह इति साध्यव्यापकतया तावनिश्चितः साधनव्यापकतया तु स- न्दिग्धः पक्षे तत्तदभावयानिश्चायकत्वात् । अथ मित्रातन- यत्वेनेतरश्यामसामग्र्यपि साध्या धूमेनेव वह्निसामग्री न च तत्साधने श्यामत्वमुपाधिः द्वयोरेकदैव साधनात् । अत एव सामग्री च कचिनोपाधिरित्याचार्या अप्या- हुरिति चेत् । धूमे लिङ्गे वहिसामग्री नोपाधिरिति ।सत्यम् धूमस्य तजन्यवाहजन्यतया पहिसामग्र्याः साधनीभूत- धूमव्यापकत्वावधारणात् । प्रकृते तु नैवं न द्योत्पत्तिकनर. श्यामत्वसामग्री मित्रातनयत्वं व्याप्नुयावेत्यत्र विञ्चि- प्रमाणमस्ति । सहचारदर्शनव्यभिचारदर्शने तावन्मित्रा- तनयत्वस्य श्यामत्वेन सह व्याप्ती प्रमाणं तद्वारा च श्याम- त्वसामग्यापि समं हेतोयाप्तिः व्याप्यव्याप्यस्य सुतरां व्याप्यत्वात् । तथा च नायमुपाधिः साधनव्यापकत्वनिश्च- यादिति चेत् । न ते हि व्यापकत्वसंशायके न तु निश्चायके अन्यथा जन्यत्वस्य शरीरिजन्यत्वेनापि व्याप्तिः स्यात् न चेापत्तिः लाघवात् कर्तृजन्यत्वेनैव सह तस्य व्याप्तः । अथ श्यामत्वे शाकाहारो न प्रयोजकः जठरश्यामत्वस्य तेन विनापि भावात् । नाप्योत्पत्तिकश्यामत्वे इन्द्रनीला- दो व्यभिचारात् । औत्पत्तिकनरश्यामत्वे तु शाकाहारः प्रयोजक इति स तत्रोपाधीकर्तुमर्हति किं तु तदिह न साध्यते पक्षधर्मतायखलभ्यत्वात् । न हि स्वस्थात्मा पर्वते पर्वतीयवाहि साधयति । पर्वतीयत्वस्य पक्षधर्मतालभ्य- तया व्यापककोटावप्रवेशनीयत्वादिति चेत् । सत्यम् । अय- मपि साधनेन मिन्त्रातनयत्येनावच्छिन्नं साध्यमौत्पत्तिक- श्यामत्वं व्याप्नुवानो भवत्येवोपाधिः पर्यवसितसाध्य- ४६ ग्वण्डनाद्वारे व्यापकत्वात् साध्यसाधनसम्बन्धव्यापकत्वाद्वेति। तथा च मित्रातनयान्तरे दृन्तीभूते मित्रातनयत्वावच्छिन्नमत्पि- त्तिकश्यामत्वं व्याप्नुवानोऽयं भवत्युपाधिः । ननु निश्चि- तोपाधिरप्यप्रत्यक्षे पक्षे साधनवति साधनाव्यापकत्वसि- ड्यर्थमसत्तयानुमेया हेतुना च स एव सत्तयानुमेय इति सत्प्रतिपक्षमासात् साधनाव्यापकत्वसंशयात् सन्दिग्धे।- पाधिरेव पर्यवस्थेत् । दृप्रान्ते साध्यव्यापकत्वं पक्षे च सा- धनाव्यापकत्वं गृह्यत इति तत्सिडान्तादिति चेत् । ती- दिना हि साध्यव्यापकतासाधनाव्यापकताभ्यां पुरैव निश्चितोपाधिरुच्यते । यथाग्निना तप्तायःपिण्डे धूमे साध्यमान आदेंन्धनवत्त्वादिः स हि महानसादौ दृषान्ते साध्यव्यापकतया गृहीतस्तप्तायःपिण्डे तु पक्षे ऽपक्षे वा साधनाव्यापकतया निश्चित एव तावतैव हेतोयभिचारम- सिद्धिं वा निश्चाययितुमीले तत्कथं वहिना पक्षे परोक्षेपि साध्यमुपाधिर्वानुमीयतां प्रागेव साधनस्योपाधिसाध्यो- भयाव्याप्यत्वनिश्चयात् । यदा तु साधनांश एव तीव- तारस्तदा न सन्दिग्धोपाधिरपि यदा तूपाधिसाधनयोस्तु- ल्यैव साध्यव्याप्तिग्राहिका सामग्री तदा सन्दिग्धोपाधि- प्रभेदस्तुल्ययोगक्षेम इति गीयते। ननु जीवच्छरीरं पृथिव्या- द्यद्रव्यभिन्नानेकद्रव्यवत् प्राणादिमत्त्वादिति व्यतिरेकि- णि साध्ये ऽनेकपदं विशेषणं तच्च व्यर्थम् एकेनैव तादृ- शेन सात्मकत्वसिद्धः व्यर्थविशेषणे च व्याप्यत्वासिद्धि- रावश्यकी व्याप्स्यत्वामिडौ च व्यभिचार आवश्यकापा- धिरिन्यतोत्रोपाधिरवश्यं वाच्यम् तदुक्तं च लक्षणं तं न ब्यानोति यथोक्तसाध्यस्याप्रसिद्ध्या उपाधिकृतधर्मस्य साध्यव्याप्यकत्वासिद्धेरिति चेत् । न साध्याप्रसिहौ हि measur प्रथम परिच्छेद लर्कप्रकरणम् । न व्य भचारस्तदत्यन्ताभावाप्रसिद्मा तद्वद्गामित्वरूपव्य- भिचारासिद्धः। तथा च न तत्रोपाधिः व्यभिचार एव तदुपगमात् । व्याप्यत्वासिडिस्तु नीलधूमवदिति । एतेन व्यतिरेकेऽत्रोपाधिरित्यपास्तंसाध्याप्रसिद्धौ तदभावेसिडे तत्र साधनाभावप्रतियोगिक व्यभिचारित्वे सिद्ध तत्रो- पारसम्भवादिति ॥ सा चेयं व्याप्तिः शङ्कोदये सति तदपनोदनद्वारा तर्कगम्या । हन्तवमनवस्था स्यात्तर्कस्यापि व्याप्तिग्रहमू- लकत्वादिति चेन यावच्छङ्क तीनुसरणात् । व्याघा- तेन तु श कानुत्थाने विश्रामात् । ननु धूम वहि विना भवत्विति शहां यदि निर्वह्निः स्यात्तदा निर्धूमः स्यादिति तर्को वारयिष्यतीति ब्रूषे तच्च न अन्वयव्या- प्स्यज्ञाने व्यतिरेकव्याप्तेरप्यबोधेन मूलशैथिल्येन प्रकृ- ततर्कस्याप्याभासकत्वात् । अन्वयव्याप्तेस्तु ग्रहे सति तीनुमरणस्यैवायोगादिति चेत् । मैवम् । अयं हि विष- यपरिशोधकतर्क इति नास्तीदानीमस्यावसरः तां तु शङ्का व्याघातो वारयति न तु तर्क इति मदुपगमात् । तथाहि कारणं विना कार्य भवत्वति वा सामान्यमुखो शङ्का- स्थात् वहि विना धूमो भत्विति हि विनैव धूमो भव- त्विति विशेषमुखी वा सर्वत्र व्याघातः । नन्वेवं शङ्कने सति व्याघात इ.तिशङ्कालम्बनतया प्रतीयमानो व्याघात: शङ्कां वारयिष्यतीति इति ब्रूषे तथा चोक्तप्रतीत्या व्याघा- तालम्बनत्वेनप्रती ताशङ्काप्रमितत्वान्नात्र निषेहुं शक्यते। अथ व्याघातो न प्रतीतस्तदा व्याघातधोविरहेण शङ्का- स्त्येव विरोधिविरहादित्युभयथापि शङ्कास्ति । किं च आशङ्कापि व्याघातस्यावधिः पूर्वावधिः तामालम्ब्य व्याघातस्योत्थानात् । तथा च कथं तर्कः शङ्काया अव- खण्डनोद्धार धिः उत्तरसीमा भविष्यति तथाहि एवं सति व्याघातः स्यादित्येवं प्रतीत्या व्याघातः स्वालम्बनभूतां शङ्का ता- वद्वारयिष्यति व्याघातप्रती तश्च विपर्ययपर्यवसिततर्काधी- ना तद्यथा यदि कारणमन्तरेण कार्य स्यात्तदा स्यादेव वा न स्थादेव वा न तु कदाचित् स्यादिति तथा चैतत्तमूलभू- तव्याप्तावपि शङ्कोदये कुतस्तर्कः शङ्काया अवधिः शङ्का- प्रवाहस्यानिवृत्तरित्यर्थकम् व्याघातो यदि शङ्कास्ति न चेच्छङ्का ततस्तराम् । व्याघातावधिराशङ्का तर्कः शङ्काधिः कुत इति ॥ मैवम् विरुद्धस्वक्रियैव हि व्याघातपदार्थः सैव शसोदयप्रति बन्धिकेति मदुपगमात् । न हि परबोधरूपकार्यार्थशब्दप्रयो- गादिकं कारणमुपाददानस्य कारणं विना कार्य भत्विति- शङ्कोदेति नापि धूमार्थ नियमता वहिं तृप्त्यर्थं वा भाज- नमुपादानस्य विशेषमुखं शङ्काद्वयमुदेतीति । ननु स्व- क्रिया कथं शङ्कांप्रतिरूण विषयविरोधाद्यभा रात् । यदि चशङ्का विरुद्धत्वेन ज्ञाता स्वक्रिया प्रतिरुणद्धि तदा शङ्का- विरुद्धत्वस्य शङ्काविरहव्याप्यत्वरूपस्य ज्ञानाय तर्कानु- सरणे पुनरनवस्थेति । मैवम् विरूद्धस्वक्रियामूलभूतं शङ्का- विरुडकोद्यालम्बनं विशेषदर्शनमेव शङ्का प्रतिरुणद्धाति मदुपगमात् । ननु भवतु व्याप्टिस्तथापि तस्याश्चानुमि- तेश्च व्याप्तिरेव्या न हि व्याप्तिं विनानुमितिरूदेति तथा च:त्माश्रयः व्याप्तावेव व्याप्तेत्त्युपगमात् । अथ व्याप्ते- व्याप्तिः प्रथमव्याप्तिता भिन्ना तदाननुगमः विलक्षणयो- ईयोरेकाकारानुमितिजनकत्वाक प्रथमा चरमा चेत्यविनि- गमश्चेति । तन्न । न हि व्याप्तिरनुमितिव्याप्या तां विनापि सत्वात् किं त्वनुमितिरेव व्याप्तिधीव्याप्या तजन्यत्वात् ।

प्रथमपरिच्छेदे प्रमाण प्रकरणम् । तथा चानुमिता व्याप्तिधीव्याप्यत्वमस्तीति नात्माश्रयग- न्धोऽपि । अथेदमनुमितिजनकं व्याप्तिमत्त्वादित्यत्र व्या- प्तिमत्त्वंतावदनुमितिजनकतया स्वरूपयोग्यतारूपया व्या- तं व्याप्तिमत्त्वं च व्याप्तिरेव तथा च व्याप्तिाप्तिमतीति स्थादात्माश्रय इति चेत्।न।भेदात् धूमानलादिव्याप्तिविर- हलिङ्गं तस्यास्त्वनुमितिजनकता व्याप्तिस्तदङ्गं सा च ततो भिन्ना सम्बन्धिभेदेन तस्या अपि भेदात् । न चैवमनन- गमः अन्योन्याभावगर्भाया एव व्याप्तेरनुमितिजनक- त्वात् । अस्त्वेवं तथाप्यविनाभावादिषु बहुषु व्याप्ति- प्रस्थानेषु कामचारेण प्रतीयमानेषु अनुमितिकदेतीत्यवि- वादं तत्र कीदृशं व्याप्तेानमनुमितेरङ्गं न तावत् सर्वा- कारमननुगमात् नापि नियतकाकारं तदन्वयेप्यन्याकार- व्याप्तिज्ञानादनुमितिसम्भवादिति । मैवम् । कारणत्वव्या- प्यत्वादीनां लघुगुरुविषयत्वसम्भवेन लघोरेवार्थे प्रमाणस्य कारणवाच्यत्वादिग्राहकत्वमिति तद्ग्राहकप्रमाणानां स्व- भाव इति सवतन्त्रसिद्धान्तात् । तथा च यत्रात्यन्ताभा- वादिगर्भ व्याप्तिशरीरं गुरुतरमादी स्फुरति तत्राप्यनुमि- तेः प्रागन्योन्याभावगर्भव्याप्तिशरोरस्फुरणं कल्प्यं प्रमाणवन्त्यानि कल्प्यानि सुबहून्यपीति भवच- नात् । अत एव वीचीतरङ्गादिकल्पनापि युक्ता । का चेयं पक्षधर्मतापि पक्षनिष्ठतेति यदि तदा प्रमेयत्वाद्यसंग्रहः । प्रमेयत्वं प्रमाविषयत्वं तच प्रमाता न भिन्नमपसिद्धा- न्तात् । किन्तु भिन्न प्रकाशस्य सतस्तदीयतामात्रनिबन्ध- नः स्वभावविशेष विषयविषयिभाव इत्याचार्यवचनात् । तच न घटादिनिष्ठमात्मवृत्तित्वादिति। मैवम् । घटादी प्रमा मा वर्ति स्वरूपतो घटादिकं विशिषन्ती तनिष्ठेत्यु. श्रा-No. 10 Vol. XXVIII-October 1906. ५६३ १० खण्डनोद्वारे च्यते अभाववत् । न चायमपि बाध्यः भूतले घटाभाव इत्यस्य सार्वलौकिकत्वेन बाधासम्भवात्। स्वरूपसम्बन्धेन धर्मधर्मभावो न दृष इति चेत् । तत्किं सम्बन्धान्तरण दृधः नेति चेत् । नूनमन्धोसि यत्स्वमपि ब्राह्मणमुपवीतिनं च न पश्यसि । धर्मधर्मिभावो न सम्भवति भेदे चाभेदे च विरोधादिति चेत् । तर्हि प्रत्यक्षादिपरिकलितं जगदे- वापहुषे ओमिति चेत् । तीनेनैव प्रणवेन मध्यमागमा- नधीष्व तेन सर्वापहोतापि भ्राजसे । अस्ति वस्तुभूतं ब्रह्मास्माकमिति चेत् । तर्हि कुतो ऽज्ञासीः। न ताव- दुपनिषत्तत्र प्रमाणं तत्र मूकत्वात् विश्वमेव निषेधन्ती ब्रह्मणि मूकीभवन्ती सा ब्रह्मानुजानातीति चेत् । न तहि तत्रोनिषत् प्रमाणं किन्तु मूकीभावान्यथानुपपत्तिः तथा च ब्रह्मानुमेयं प्राप्तव्यवहारदशायां श्रुतिरेव तद्त- गमयति शेषे तु स्वप्रकाशं तत् सिध्यति इति चेत् तर्हि तत् सर्वथा प्रमेयतां नातिवर्तते मेयमातृमितिमानरूपेण तन्निवक्तुं न शक्यते सर्वत्र दोषग्रहादिति चेत् धिगज्ञ यच्च- क्षुष्पथे मनःपथे च न प्रतिबिम्बते तन्मनुषे यत्तूभयत्र जागर्ति तदपहषे किमत्र ब्रुमः । अस्तु तावदिदं तथापि का पक्षता सिषाधयिषाघटितेति चेत् कासा सिषाधयिषा प्रतिपिपादयिषा वा प्रतिपित्सा वा नाद्यः स्वार्थानुमिता तभावात् नान्त्यः अनिष्टानुमिता तद्विरहादिति । मैवम् । सिषाधयिषायोग्यता हि पक्षता सा च प्रपञ्चि- तानुमाननिर्णये ॥ उपमानमपि सादृश्यमानं यच्चोक्तं गोसदृशो गययः प्रायः कानने महति दृश्यते इति श्रुतवाक्यस्य काननपदा- विदितसङ्गतेर्गवयपदविदितसङ्गतेश्च काननपदसङ्गतिप्रति- प्रथमपरिच्छेदे उपाधिप्रकरणम् । पत्तिः फलमित्यतिव्यापकत्वमिति । तदसत् । इह प्रभिन्नकमलादरे मधूनि मधुकरः पिवतीत्यत्र पुरोवर्ति- प्रभिन्नकमलोदराधिकरणकमधुपानकर्तृकत्वस्येव गोसाष्ट- श्यविशिगवयदर्शनविषयाधारत्वे सति सहत्वस्य वैध- य॑स्योपमानीभावेनैव काननपदसङ्गतिबोधकत्वात् । न च पदान्तरसमभिव्याहारोत्थाया अन्यथानुपपत्तेरेवायं प्रभाव इति युक्तं कीदृग्गवय इति प्रश्ने यथा गैस्तिथा गवय इति श्रुतोत्तरवाक्यस्य तादृशे पिण्डे दृष्ट अति- देशवाक्यार्थानुपसन्धाने गोसहशोयं पिण्ड इत्येवं रूपे ज्ञाते गवयशब्दवाच्योऽयं पिण्ड इति तावदनुभूतिरु- देति सा च न वाक्यमात्रात् अप्रत्यक्षीकृतपिण्डस्यापि प्रसङ्गात् नापि प्रत्यक्षमात्रात् अश्रुतवाक्यस्यापि प्रस- ङ्गात् नापि तयोः समाहारात् भिन्नकालयोस्तयोः स्वरू- पसमाहारासम्भवात् । अथ वाक्यतदर्थयोः स्मृतिद्वा- रोपनये गवयपिण्डसम्बद्ध नेन्द्रियेणास्तु समयपरिच्छि- त्तिरित्यपि न तदापीन्द्रियेण सादृश्याग्रह समयपरि- च्छेदासिद्धः । अथेन्द्रियगवयपिण्डसम्बन्धं तनिष्ठं गोसा- दृश्यविषयं व्यापारीकृत्य समयं परिच्छिनत्त्विति चेत् । हन्तैवं तृतीयलिङ्गपरामर्श व्यापारीकृत्य वह्निमपि परि- च्छिनविति गतमनुमानमपि । अथ चक्षुषि निमीलि- तेपि तत्फलं तृतीयलिङ्गपरामर्शी व्याप्रियमाणो भिन्नं प्रमाणमिति यदि हन्त तदा निमीलितेपि चक्षुषि सादृश्य- धीयाप्रियमाणा भिन्नं किं न स्यात् एवं धिकरभकमि- त्यादौ पश्वन्तरवैसादृश्यधीरपीति तथा च सादृश्यं तडीवी भिन्नं प्रमाणं गवयत्वेन निमित्तेन गवयपदवा- च्यायमित्यनुभूतिर्भिन्नं फलं परिशेषात् प्रश्नस्य प्रवृत्ति- ५५ १२ खण्डनोद्वारे निवृत्तिविषयतयोत्तरस्थापि तत्पर्यवसायित्वात्। इयं चा- नुभूतिस्तिसृषु प्रमितिषु चानिविशमाना चतुर्थी सेयमु- पमितिरित्युच्यते एवमेतस्याः करणं चतुर्थं प्रमाणमुप- मानमिति चोच्यते एवं धिकरभकमित्यादापि निन्दा- परे वाक्ये स्वरूपाख्यानपरे च द्रव्यं तत्रापि हि वैधयेण समयपरिच्छित्तेः । न च तद्भिन्नमेव मानं । नियतधर्मसा- मानाधिकरण्येन प्रवृत्तिनिवृत्तितत्परिच्छित्तैरुभयोरप्युप- मानत्वादिति । अत्र च सादृश्यादिविशिष्टे पिण्डे न शक्ति- गौरवात् । अप्रतीतगूनामपि वनेचराणां गवयव्यवहारा- पत्तेश्च । किन्तु सादृश्यवैसादृश्योपलम्भितं गवयत्वं कर- भत्वं च प्रवृत्तिं निमित्तीकृत्य गवये करभे च गवयपदस्य करभपदस्य शक्तिरिति । किमर्थं तर्हि सादृश्यवसादृश्य कथयति उपलक्षणार्थं न हि तदा गवयत्वं करभत्वं चो- पस्थापयितुं शक्यते तत्पदयोरगृहीतशक्तिकत्वेन मूक- त्वात् तत्पिण्डयोश्चानुपस्थित्येन्द्रियेणापि तयोरनुप- स्थितेः । अत एव तदा न शक्तिग्रहः। तदुक्तम् । सादृश्यस्यानिमित्तत्वानिमित्तस्याप्रतीतितः । समयो दुर्ग्रहः पूर्व शब्देनानुमयापि वेति ॥ नन्वतिदेशवाक्यं तावत्समयपरिच्छेदं नाजीज- नत् गोसादृश्यस्य प्रतिनिमित्ततोपलक्षणतयोः सन्दे- हात् । अथ पश्चापिण्डे दृष्ये लाघवाद्वयत्वं निमित्तीकृत्य समयं परिच्छेत्स्यतीति चेत् । न । उक्तसंशयपि यो गोस- दृशः स गवयशब्दवाच्य इति समानाधिकरणान्वयवोधेन गन्धवतीपृथिवीतिमद्वाक्यस्य प्रागेव पर्यवसिततयानिरा- काङ्क्षत्वात् अयं तु विशेषो यद्गन्धवतीत्यादि तदैव शक्तिमग्राहयत् पृथिवीत्वस्य निमित्तस्य यदैवोपस्थितेः प्रथमपरिच्छेदे तर्कप्रकरणम् । (३ इदं तु न तथेति जनितान्वयधियोपि वाक्यस्य पुनरनुस- न्धाने गवयत्वेन निमित्तेन गवयपदद्वाच्यताग्राहकत्वे वाक्यभेदापत्तेः । न चातिदेशवाक्यं शक्तिग्रहतात्पर्यकमि- ति गोसहशपदं गवयत्वलक्षकमिति वाच्यं । प्रवृत्तिनि- मित्ततात्पर्याभावेपि स्वरूपाख्यानपरादप्यतिदेशवाक्या- दुक्तरीत्या समयपरिच्छेदसिद्धौ मानान्तरसिद्धे चावश्य- कत्वात् । अपि च धिक्करभकमित्यादेः करभनिन्दाता- त्पर्यकादपि वाक्यात् समयपरिच्छेदसिद्धौ मानान्तरसि- द्धेरावश्यकत्वात् तस्मात् पिण्डे ले गवयत्व उपस्थिते सादृश्यं गुरु गवयत्वं च जातित्वाल्लध्विति विमर्श तथा पिण्ड इत्यनुसन्धानमेव समयं गवयत्वेन निमित्तेन रावयप- दवाच्योयं पिण्ड इत्येवं रूपं परिच्छिनत्तीति । सादृश्यं च समानबहुधर्मवत्त्वं वैसादृश्यं त्वसमानबहुधर्मवत्त्वं अत एव विसदृशयोरपि गोवराहयोरक्तं सादृश्यम- स्तीत्यता वराहं गावोनुधावन्तीत्यत्र गोसादृश्यं वराहे- प्युक्तं शक्तिनिर्णयाय काकापेक्षया शुकरस्यैव गोवृत्तिब- हुधर्मवत्त्वात् । अत्र सादृश्यधीकरणिकैव समयपरिच्छि- त्तिरूपमितिरिति जरन्तो जयन्तादयः।सादृश्यधीकरणि- कापि करभादौ सोदेति तथाहि यथा गवयपदशक्ति- ग्राहकः सादृश्यविशेषो गवय एव न तु महिषादी एवं करभपदशक्तिग्राहकोपि वैसादृश्यविशेषः करम एव न तु पश्वन्तरे तेनेमे सादृश्यवैसादृश्ये गवयकरभनियत एव । इह सहकारतरावित्यादौ तुन तथा एतत्सहकाराधिकरण- (१) तत्वचिन्तामणी गङ्गेशपाध्यायेनाप्युक्तं जरनैयायिका जयन्तप्रभृतयः इति जयन्तश्च न्यायसूत्रवृत्तिकारः न्यायसूत्रवृत्तिश्च न्यायमञ्जरीनामिका विजयनगरसं स्कृतसीरीज इति प्रसिद्धायां पुस्तकावल्यां मुद्रितास्ति ।

खण्डनोद्वारे कमधुरध्वनिकर्तृत्वस्य शुकादावपि सम्भवात् । तस्मानिय- तधर्मसामानाधिकरण्येन शब्दप्रवृत्तिनिमित्तपरिच्छित्ति- रुपमितिस्तकरणमुपमानं तेन सादृश्यवसादृश्ये एवो पमानं इह सहकारेत्यादौ तु प्रसिद्धपदसामानाधिकरण्या- न्यथानुपपत्त्या शक्तिग्रहसम्प्रदायः । एकदेशी तु इद्मपि वैधापमानान्तर्गतमेव एतत्प्रभिन्नकमलोदराधिकरणक- मधुपानकर्तृत्वस्य तथैतत्सहकारवृक्षाधिकरणकमधुर- ध्वनिकर्तृत्वस्यान्यवैधर्म्यस्यैवान शक्तिग्राहकत्वात् सर्व- संग्राहकं तु लक्षणमनवगतसङ्गतिसंज्ञासमभिव्याहृतवा- क्यार्थस्य संज्ञिन्यनुसन्धानमुपमानमिति। न चादी सङ्गति- मवेत्य पश्चादैवात्प्रस्मृत्य पश्चादुक्तसामग्या यत्र समयं परिच्छिनत्ति तत्रोपमितावव्याप्तिः सा हि संज्ञावगतसङ्ग- तिरेवेति चेत् । नाबाधात् । न हि यदा कदाचिदपि सङ्गते- रवगमनिषेधोत्रोच्यते । अन्यथानादौ संसारे प्राक् तद्व- गमस्य सम्भवेनासम्भवदोषः स्यात् । किं त्वनवगता अव- गम्यमानेत्यर्थः । एतच्चावगतप्रस्मृतसङ्गतावप्यस्ति । एतच्चावगम्यमानत्वं प्रकृतफलकरणीभूतानुसन्धानवता न तु येन केनापि यस्यैव करणान्वयस्तस्यैवोपकरणान्वयो- पीत्यस्यार्थस्य सकलजनसाक्षिकत्वान्नात्र विकल्पावसरः सादृश्यवसादृश्ययोस्त्वप्रवृत्तिनिमित्ततया तयोः प्रवृत्ति- निमित्तानुभावकं समयपरिच्छेदकमेव न भवतीति तथा परिच्छेदके उपमानाभासे नोपमानलक्षणातिव्याप्तिः प्र- त्तिनिमित्तं पुरस्कृत्य संज्ञासंज्ञिसम्बन्धं परिच्छिन्दत एव प्रमाणस्योपमानत्वात् । ननु गोसादृश्यं विहाय गवयत्व- जातागवयशब्दार्थताप्रतीतिः कल्पनालाघवाख्यतर्कमपा- स्य न स्यादिति तदुपन्यासस्थिती किमानुमानिक्येव तत्र पूर प्रथमरिच्छेदे सामान्य लक्षणाप्रकरणम् । ५ गवयत्वस्य गवयपदवाच्यताप्रमितिरियं नेष्यते सम्भवति च प्रयोगः विमतिपदं गवयत्वं गवयपदप्रवृत्तिनिमित्तं तथात्वे तर्केण विषयीक्रियमाणविपर्ययकत्वात् । न यदेवं न तदेवं यथा गोत्वं तथा चेदं ततस्तथेति न ह्यस्ति सम्भवो मूलशैथिल्यादिदोषरहितनिवेदितविपर्ययवांश्चार्थी न च तथेति । अथवा गवयपदमसम्भवत्प्रवृत्तिनिमित्तान्तरमनु- पपद्य माना सोक्तगोसादृश्यसामानाधिकरण्यमाद्वय- त्वप्रतिनिमित्तकतामाक्षिपतीत्यर्थापत्तिरेवात्र प्रमाण- मस्तु सा च त्वया व्यतिरेकोकृत्य परण पृथगेवावश्यं प्रमाणनीयेति । मैवम् । न हि लाघवगौरवे तो नापि मूलशैथिल्यादिरहिते नापि विपर्ययपर्यवसायिनी नापि प्रमाणसहकारिणी किन्तु लघौ गुरौ चार्थे युगपदुपस्थिते प्रमाणं लघुमर्थ कारणत्वादिनालिङ्गति न तु गुरुमिति प्रमाणस्य स्वभाव इत्येव तत्त्वम् । अत एव लाघवगौरवो- त्सविनिगमप्रतिबन्ध्यनाचित्यानि तु षडपिन ती इति न्यायविदां परिसंख्यानमपि । हन्त तथापि गोसादृश्यं तावन्न गवयपदप्रतिनिमित्तं अप्रतीतगूनामारण्यकानां गोसादृश्यापरिचयाद्वयपदप्रयोगादिलक्षणव्यवहारानुप- पत्तेः। एवं चानेन तर्केण विपर्ययपर्यवसिते गोसादृश्यस्य प्रवृत्तिनिमित्तत्वे निरस्ते ऽन्यस्य प्रतिनिमित्तत्वेऽसम्भ- विनि प्रवृत्तिनिमित्तवत्त्वे च पदवेनैव सिद्धे गवयपदं गवय- त्वप्रवृत्तिनिमित्तकं इतराप्रवृत्तिनिमित्तकत्वे सति प्रवृत्ति- निमित्तवत्त्वादिति व्यतिरेकिणैव क्लोनोपमानं प्रमुवि- षयमिति चेत् । मैवम्। श्रुतातिदेशवाक्यस्य गवयपिण्डदर्श- नोत्तरं गवयत्वगोसादृश्ययोरवगताविदं लविदं गुद्धिति तावडीरुदेति सा च प्रतिसन्धानसहकारितामापाद्योपमा- ५६६ (६ marne खण्डनोद्वारे पयतु अप्रतीतगूनामव्यवहारप्रसङ्गस्य तु तदानीमवतारे प्रमाणाभावः अस्तु वा तत्र प्रमाणं तथापि स हि प्रसङ्गो विपर्ययपर्यवसितीभूय सामान्यतो दृष्टावतारमपेक्ष्य यथा- क्तं परिशेषनामक व्यतिरेकिणमवतारयिष्यति स चाव- तीर्णः समयं परिच्छेत्स्यतीति क्लृप्तमप्यनुमानं चरमोप- स्थितत्वेन लाघवसहितप्रतिसन्धानस्य५न मात्रजनुषःप्र- थमोपस्थितस्य समयग्राहकतां न प्रत्यादिशति युगपदुप- स्थित्यभावेन कृप्तकल्प्यविरोधे हीत्यस्यानवकाशात् नन्वतिदेशवाक्यं समयग्रहतात्पर्यनिर्वाहकमुत्थाप्य सम- यनिष्पत्तिवह्निजिज्ञास्यं प्रति दृश्यते धूम इति वह्नयनुमि- तिद्वारेति तावदूषे तथा च तव स्ववचनविरोधः । धिक्क- रभमित्यादौ समयग्रहतात्पर्याभावे ऽपि उपमानेन सम- यपरिच्छेद इति त्वयैव बहुधोक्तत्वादिति । अथ तत्र मा- नान्तरं तदा चतुःप्रमाणीभङ्ग इति चेत्। भ्रान्तासि तथे- ति प्रतिसन्धानं लाघवाद्वयत्वकरभत्वपुरस्कारेण गवय- पदकरभपदवाच्यतां तावत्परिच्छिनत्ति तत्र च का ता- त्पर्यापेक्षेति दिक् ॥ आप्तोपदेशः प्रमाणशब्दः प्राप्तिश्च वाक्यार्थयथार्थ. ज्ञानं तादृशशब्दबुबोधयिषा यत्नश्च करणापाटवं च तद्वा- नाप्तः तस्योपदेशस्तद्वक्तकं वाक्यं प्रमाजननं प्रति स्वरू- पयोग्यं स चाकाजादित्रिकधिया सहकारिण्योपहितः प्रमापयति चक्षुरिवोन्मीलनोपहितं कीरवालभ्रान्तप्रता- रकस्थले तु भगवानीहशो वक्तति प्राञ्चः । नव्यास्त्वाप्त उपदेश आकाङ्गादित्रितयवानुपदेशः तत्रितयधीमात्रोप- देशः प्रमाणशब्दः एतजनिता च प्रमा बोडुरेवाकाङ्क्षादि- (१) पत्रादर्शपुस्तकत्रयेपि कश्चिदंशो निपतितः।

प्रथमपरिच्छेदे प्रमाणप्रकरणम् । प्रमेया गुणेन जन्यते न तु वक्तु क्यार्थप्रमेया तथा च श्रोतुर्वेदार्थप्रमया न वेदवतुर्वाक्यार्थप्रमारूपो गुणोपेक्ष्यते अतो न वेदार्थप्रमावलादीश्वरसिडिः । वक्तुस्तात्पर्य च शाब्दप्रमायामतन्त्रमेवेति न तहेतुभूततात्पर्याधारतयापि तत्सिहिः । यदसमवधानावच्छिन्नं यस्यान्वयानुभवा- सम्बन्धित्वं तस्य तदेव तत्साकाक्षत्वं तच्च यावन्तं कालं तावन्तमेवाकाङ्क्षा योग्यता च बाधकमानाभावः आस- त्तिश्चोपस्थित्यो रन्तयं वाक्यं चैकार्थावच्छिन्नः पदसमूहः पदत्वं च सङ्केतवद्वर्णत्वमिति तेन प्रकृतिप्रत्ययौ पदे न तु पदमिति॥ नन्वन्यथानुपपत्तिरनवगता तावन्न बहिःसत्त्व- कल्पिका ज्ञानान्वयव्यतिरेकित्वात् किं तु ज्ञाता तस्याश्च ज्ञानं कल्पनीयज्ञानाधीनं न हि तदज्ञाने तदन्येन वर्मना नेदमुपपद्यत इति ज्ञातुं शक्यते अभावस्य प्रतियोगिनि- रूपणाधीननिरुपणत्वात् तथा च फलीभविष्यच्चैत्रबहिः- सत्त्वादिसत्त्वादिज्ञाने किमीपत्त्या तत्फलस्य तां विनैव सिद्धः। तदज्ञाने चान्यथानुपपत्तिरज्ञातैवेति कथं प्रभवतु तदुक्तं यतोन्यत्वं तत्सिडेरग्रे तदसिडेरिति मैवम् ।बहिः- सत्त्वेन विना जीविनो गेहासत्त्वमनुपपन्नं वह्निना विना धूम इव एवं चेदमनुपपद्यमानं यत्रास्ति तत्र फलं प्रसभत इति चैत्रे बहिःसत्वं सिध्यति पक्षधर्मताबलात्पर्वतीयव- हिवत् न तु विशेषयोरेव व्याप्तिग्रहोत्राङ्गं येन चैत्रबहि:- सत्त्वस्यापि प्रसिद्धिरादौ मृग्येत गौरवात् पक्षधर्मताज्ञान- स्यानङ्गत्वापत्तेस्त्वदुक्तदोषाच । इयमेव दृप्राथापत्तिरिति गीयते एवं पीनो देवदत्तो दिवा न भुङ्क्त इत्यत्रापि रोगाद्यजन्यं पीनत्वं भोजनमात्रेण विनानुपपन्नं भोजन- खण्डनाद्वारे मात्रमेव यद्यपि व्याप्तिबलादानेतुमर्हति तथापि दिवा अभाजिनः पक्षत्वेन दिवाभोजनमादाय माध्योपसंहारस्य बाधेनासम्भवादबाधेन भोजनत्वेनैव रूपेण रात्रिभोजन- मायाति पक्षताधर्मतावलात् वह्नित्वेन पर्वतीयवह्निवत् न हिरात्रिभाजनेन विना पीनत्वानुपपत्तेानं कारणं किंतु भोजनेन विना पीनत्वस्य भाजनमात्रसाध्यत्वात् । अतो यतोन्यत्वमित्यादिकमज्ञप्रलपितम्।अथ तथापिजीवी देव- दत्तो गृहे नेत्यत्र देवदत्ते पक्षे जीविगेहासत्त्वेन बहिःसत्त्वं प्रतीयते तत्र तावदेहासत्त्वे ऽस्य गेहवृत्तेर्बहिःसत्त्वेन चैत्र- त्तिना समं न व्याप्तिः वैयधिकरण्यनियमात् वैयधिकर- ण्येपि व्याप्त्यभ्युपगमे पक्षधर्मता सर्वथा न सम्भवतीति नेहानुमानवार्तापीति चेत् । न गृहनिष्ठाभावप्रतियोगि- त्वस्यैव देवदत्तवृत्तेरिह लिङ्गत्वात् । तस्य चाव्यवहितस्मृ- तदेवदत्तविशेषणकस्य गृहे देवदत्ताभाव इति चाक्षुषं ज्ञानं अभावे देवदत्तस्य प्रतियोगित्वमवगाहमानं जनयता चक्ष. षैव ग्रहणसम्भधात् अयं तु विशेष यदन्यत्र व्याप्तिलि- ङ्गवत्वं पक्षे गृह्यते अत्र तु व्याप्तिपक्षधर्मते लिङ्ग एव प्राधा न्येन गृह्यते तृतीयलिङ्गपरामर्शानुमित्योस्तु नैकविशेष्य-- कतानियम इति दिक् । ननु तथापि जीवी देवदत्तो गृहे नास्तीत्यत्र जोवित्वेन तावद्देवदत्तस्य कचित् सत्त्वमाक्षिप्त जोवता कापि स्थातव्यमिति व्याप्तः तच गृहबहिरुभय- स्पर्शि तदानीं विनिगमकानुपस्थितेः अथ पश्चागहे नास्तीत्यनेन विशेषमुग्वप्रवृत्तेन प्रमाणेन गृहे देवदत्तस्या- भावे ग्राहिते तत् कचित्सत्त्वं बहिर्मात्रे व्यवस्थाप्यते तथा च विशेषमुखप्रवृत्तेन प्रमाणेन सामान्यमुग्वप्रवृत्तस्य प्रमाणस्य स्वालिङ्गितविशेषातिरिक्तविशेषविषयत्वव्यव- प्रथमपरिच्छेदे प्रमाणप्रकरम् । हर स्थापनं प्रमाणयोरापाततः प्रतीताद्विरोधान्निवहतीति वि. रोध (१)केयमापत्तिरित्युच्यते।मैवम् । न हि जीवी देवदत्त इत्येकं वाक्यं गृहे देवदत्तो नास्तीत्यपरं येन सामान्यवि- शेषन्यायछायापि स्यात् । किन्तु जीविनं देवदत्तं स्मरतो योग्यानुपलब्ध्या च गेहे तद्भावं पश्यतः प्रत्यक्षमिद- मभिलप्यते जीवी देवदत्तो गृहे नास्तीत्यतो न त्वदुक्त- मनुस्पर्शि । अथ यदीदृशं वाक्यं स्यात्तदा किं स्यात् अनेन हि वाक्येन देवदत्तस्य जीवित्वगेहासत्त्वे प्रत्या- ख्येते योग्यतादिमत्त्वात् तथा च तेन बहिःसत्त्वमर्थाप्य- तेनुमाप्यते वेति सर्वसमञ्जसम् । ननु पीनो देवदत्तो दिवा न भुङ्क्त इति तावच्छतार्थापत्तेरुदाहरणमात्थ तच्च वाक्यार्थधियं विना न घटते सा च पीनत्वान्वयप्रयोजक रात्रिभोजनं विना नेह तच्च रात्रौ भुक्तइति शब्द विना न शाब्दी त्वाकाङ्क्षा शब्देनैव पूर्यत इति नियमात् तथा च रात्री भुङ्क्ते इति शब्द एवात्र कल्प्यत इति नात्रानुमानगन्धोपीति। मैवम् । यद्यपि श्रोत्रा रात्रि- भोजनं प्रतीतमस्ति तथापि दिवेतिविशेषणमर्या- दया तेन तावद् दिवाभोजनमपि सम्भावितमपि तत्सं- शयेन योग्यतासंशयात् शब्दार्थयारध्याहारमन्तरेणैव वाक्यार्थधियः सम्भवे तन्मूलाया अर्थापत्तेरनुमितेर्वा सम्भवादिति । गुरवस्तु ज्योतिस्तन्त्रेण देवदत्तस्य शत- वर्षजीवित्वे ज्ञाते पश्चाद्भूयसा प्रत्यक्षेण तस्य गृहस- स्वनियमेवसिते शेषे योग्यानुपलब्ध्या तस्य गृहासत्त्वे निश्चिते ज्योतिःशास्त्रस्य नियममप्रत्यक्षेण समं योग्या- नुपलब्धिघटितेन विरोधेनोभयोः সমযহাকামু (१) अत्रादर्शपुस्तकत्रयपि कश्चिदंशो निर्याततः ।

१०० खण्डनोद्वारे Kumantervalent जीवति न वेति संशये जाते तेन जीवनसंशयन बहिःसत्त्वं कल्प्यते । एवं च जीवनसंशयः करणं तच्च नानुमानं अनुमितेः संशयकरणत्वसम्भवाध्याप्तिविर- हाचेति पञ्चमं प्रमाणमापत्तिः । अथ जीवनग्राहक- गृहनियमग्राहकयोर्यदि तुल्यबलत्वं न तर्हि बहिःसत्व- कल्पना विशेषादर्शनात् अतुल्यबलत्वे चैकेनापरस्य बाध एवेति जीवित्वसंशये न बहिःसत्त्वधीः किं तु जीवित्वनिश्चये सा चानुमानादेव न त्वर्थापत्तेरिति । उ च्यते यथोक्तसंशयवान् खल्वेवं विमृशति यद्योग्यानुपल- ब्धिनिश्चितं गृहासत्त्वं तावत्सुहृद तथा च गृहनियमग्राह कस्य प्रामाण्ये स नास्ति शास्त्रस्य तु प्रामाण्ये स बहिरस्ति तथा च स बहिरस्तीति कल्प्यते भावत्वेन लाघवात् न तु नास्तीति कल्प्यतेऽभावत्वेन गुरुत्वादिति । यत्त्वस्यां दशा- यामनयाविरुद्धार्थग्राहित्वेऽवगते जीवनग्राहकं गृह नियम- ग्राहकञ्च बाधितैकतरं परस्परविरुद्धत्वादिति सामान्यतो दृष्धेन लाघवाद्गृहनियमग्राहकस्यैव बाध्यता तु जीवनग्रा- हकस्य प्रमाणद्वयवाधालिङ्गने गौरवात् तद्वाधे हि शतवर्षा- वच्छिन्नजीवित्वतावत्कालीनगृहसत्वयोईयोरपि बाधा स्यात् विशेषणबाधे विशिवाधस्यावश्यकत्वात् तथाहि शतवर्षावच्छिन्नजीवित्ववत्तयोपस्थिते देवदत्ते गृहनियम- ग्राहकेण प्रत्यक्षण शतवर्षावच्छिन्नजीविगृहसत्त्वस्यैवालि- नात् प्रत्यक्षोपनीतपर्वतत्वविशिष्टे धर्मिणि लिङ्गेन पर्वतो वहिमानितिवदिति मैवम् । विशेष्यवति विशिष- बाधो हि विशेषणबाधमात्रं सविशेषणे हीति न्यायात् न तु विशेषणबाधाधीनस्तत्र सतो विशेष्यस्यापि बाध: क्षणभङ्गापत्तेःनियमप्रत्यवं च शतवर्ष जीवित्वं ज्योतिः- ६०४ प्रथमपरिच्छेदे प्रमाणप्रकरणम् । १०५ शास्त्रोच्छिमनुवदति न तु विधत्ते वन्यनुमानमिव पर्व- तत्वं तेन तद्वाधे तद्विधायकस्यैव बाधो न तु तदनुवाद- कस्य देवदत्तगृहनियमे प्रत्यक्षं प्रमाणमन्यास्पृश्त्वादिति किं च बाध्यत्वज्ञानाय विरोधित्वज्ञानमात्रमपेक्ष्यते न तु संशय एव कल्पके लाघवस्य सहकारिता कल्प्यत इति यदपि देवदत्तो जीवनमरणान्यतरधर्मा प्राणित्वादिति तदपि न जीवनमरणसन्देहेन तस्य तदा तदन्यतरधर्मवत्त्वं ज्ञातमेवास्ति ततस्तत्कथमनुमीयतां वैयर्थ्यादिति तस्मा- त्संशयेनैव लाघवसहकाराद्वहिःसत्त्वमर्थाप्यत इति । अत्रोच्यते सम्बन्धं विनापनेतिप्रसङ्गात्स इह वाच्यः स च व्याप्तिलक्षणः स च नान्वयेन न वा व्यतिरेकेणेहास्तीति यत्किञ्चिदेतत् ॥ योग्यानुपलब्धिरभावग्राहिका सा च द्वेधा ज्ञाता च स्वरूपसती च तत्राद्यानुमानमेव अन्त्या तुप्रत्य- क्षसहकारिणी। नन्वियं योग्यस्यानुपलब्धिर्योग्ये वानुप- लब्धिः नाद्यः स्तम्भे पिशाचान्योन्याभावाप्रत्यक्षापत्तेः न हि पिशाचो योग्यः न द्वितीयः महति वायावुद्भूतरूपा- भावस्य सत्यालोकेप्यचाक्षुषत्वापत्तेः न हि वायुश्चक्षुर्योग्यः नान्त्यः न्यायमते सर्वस्यैवानुपलम्भस्य योग्यत्वात् भट्ट- मते तु सर्वस्यैवायोग्यत्वादिति ।अथ प्रतियोगिनो यावदुप- लम्भकसाकल्ये सत्यनुपलब्धियॊग्यानुपलब्धिरिति तन्ना- सम्भवात् । न हि प्रत्यक्षाहस्य तत्र सतो यावदुपलम्भक- साकल्ये सत्यनुपलब्धिः सम्भवति सामग्याः कार्यनिय- मात् नाप्युपलम्भके प्रतियोगीतरेति विशेषणं असम्भवा- देव न हि प्रतियोग्यसत्त्वे प्रतियोगोतरस्य प्रतियोगिग्रा- हकस्य सर्वस्य सत्त्वं भवति प्रतियोग्यसत्त्वे प्रतियोगिसन्नि- ६०५ खण्डनोद्वारे कर्षस्याप्यसत्त्वनियमात् । अथ प्रतियोगितद्व्याप्येतरयाव- त्तदुपलम्भकसाकल्ये सत्यनुपलब्धिर्योग्यानुपलब्धिरिति ब्रूम इति चेन्न एकाश्रयनाशजन्यस्य संयोगध्वंसस्य पारो. क्ष्यापत्तः । प्रतियोगितयाप्यभिन्नो यः संयोगस्याश्रयो ध्वस्तः सोपि संयोगस्योपलम्भक एव संयोगस्य संयोगि- इयव्यङ्ग्यत्वात् । तथा च तत्र प्रतियोगितच्याप्येतरयाव- त्तदुपलम्भकसाकल्यं नास्ति नाया आश्रयव्यक्तरसत्त्वा- दिति । अथ प्रतियोगिसत्त्वविरोधिनी योग्यानुपलब्धिः न हि प्रतियोगिग्राहकसत्त्वे प्रतियोगिनि च योग्ये सत्य- नुपलब्धिः सम्भवति न हि महत्यालोके महान् घटश्चक्षु- मता चक्षुःसनिकृष्टो व्यासङ्गाभावे सति न गृह्यत इति सम्भवति सामग्र्याः कार्यनियतत्वात् । एकाश्रयनाशे तु या संयोगानुपलब्धिः सा संयोगसत्त्वे न सम्भवति योग्यो हि संयोगो यदि तत्र स्यात्तदा गृह्येतैवेति । मैवम् । यदि घटे पटतादात्म्यं स्यात् तदोपलभ्येतैव न चोपलभ्यते तस्माद्धटे पटतादात्म्यं नास्तीत्यवगम्यते अयं तु घटे पटतादात्म्यस्य संसाभावग्रहः न तु घटे पटान्योन्याभावग्रहः तत्र पट: प्रतियोगी तादात्म्यमवच्छेदकं तथा चायं तादात्म्यसंस- गीभावो यथोक्तसामच्या गृह्यताम् अन्योन्याभावस्तु समानाधिकरणनिषेधरूपो घटादिधर्मिप्रतियोगिकः तादा- त्म्यावच्छिन्नप्रतियोगिताकः स कथमेवं ग्राह्यः। अथ य एवं तादात्म्यसंसर्गाभावः स एव तादात्म्यान्योन्याभाव इति चेत् तर्हि तादात्म्यसंसर्गाभावे प्रविस्यान्योन्या- भावस्य लक्षितेष्वलक्षणलक्षितत्वादित्यत्र सूत्रे चतुर्थाभा- वत्वं व्यवस्थापयतोऽक्षपादस्य महामुनेः प्रमत्तत्वमापद्येत अस्त्वेवमिति चेत् धिङ्मूर्ख विरुद्धानां हि भेव्यवस्थाप মুঘলয়ার মামলা। १०३ नायान्योन्याभावमङ्गीकुरुषे विरुद्धयोरेव च समानाधि- करणव्यधिकरणनिषेधयोरन्योन्याभावतादात्म्यसंसर्गा- भावयोर्भेदमपहषे चेति विरुडयोरप्यभेदमातिष्टमानो न्यायमतत्यागं वेदान्तमतप्रवेशं च न बुध्यस इति दूरम- पसर । अत्राहुः प्रतियोगीत्यनेन निरूपकमुक्तं तच्च संसर्गा- भावे प्रतियोगिरूपमेव अन्योन्याभावे तु तदवच्छेदकं तेन तादात्म्यवत्तयाधिकरणस्यानुपलब्धिः सैवान्योन्याभाव- ग्राहिका न हि तर्भिन्ने तत्तादात्म्यवत्तयानुपलब्धि- सम्भवति यदि हि स्तम्भः पिशाचतादात्म्यवान् स्यात् तदा तद्वत्तयोपलभ्येत स्तम्भः स च पिशाचतादात्म्यस्याधि- करणयोग्यतयैव योग्यत्वसम्भवात् । ननु घटः पटो नेत्यत्र नत्रा घटे पटान्योन्याभावः प्रत्याय्यते आरोप्यते तु घट- पटतादात्म्यं कथमन्यथा घटः पट इत्यारोपशरीरं स्यात् । तथा च तादात्म्यमारोप्यते धर्मी निषिध्यत इति चित्र- मिति चेत् । किं चित्रं तादात्म्यावच्छिन्नो धर्मी आरोप्यः किन्त्वारोपे तादात्म्यस्य प्राधान्यं निषेधबुद्धौ तु धर्मिणः प्राधान्यमिति विशेषः कथमेवं संविदं पृच्छ संविदेव हि भगवती वस्तूपगमे नः शरणमिति । ननु भेदान्योन्या- भावः स च धर्मिप्रतियोगिको अभेदस्तु तादात्म्यं तत्कथं भेदाभेदयोः परस्परविरहात्मत्वं न कथञ्चित् परस्परविरु- हौ हि ता। नन्वनुपलब्धिरनुयोगिनःप्रतियोगिमत्तयोपल- म्भस्याभाव इति तावन्न सम्भवति आहार्यारोपरूपस्य त- दुपलम्भस्य तत्रावश्यकत्वात् तत्पमाविरहस्तथेति चेत्।न। प्रमाणान्तरेण प्राचीत्ववत्वप्रमितावपि दोषात्तत्र तदभा- वभ्रमदर्शनात् अभावप्रमायां प्रतियोगिमत्त्वप्रमाविरहो हे- तुरिति चेन्न । प्रतियोगिमत्त्वे प्रमीयमाण एव प्राङ्नासीदि E0७ १०४ खण्डनाद्वारे दमत्रेति प्रतीतेः यत्कालीनत्वेन तत्राभावः प्रतीयते तत्का लीनायाः प्रतियोगिमत्तायास्तत्रापि प्रमितिविरह एव न हि प्राङ्नास्तितास्थलेपि तत्कालीनप्रतियोगिमत्तया इदा- नीमपि प्रमितिःप्राङ्नास्तिताविरोधादिति चेत् । हन्तैव- मभावकालीनप्रतियोगिमत्तायाः प्रतीतिः कापि न सि- हेति कथं तद्भावलक्षणानुपलब्धिः सिध्यतु प्रतियोग्य- सिद्धरिति मैवम् । अभावसमये अधिकरणे प्रतियोगिम- स्वप्रकारकप्रमाविषयत्वाभावस्थानुपलब्धित्वात् प्रमा चेह यथार्थधीमात्रं अतः प्राङ्नास्तिताधीस्थले तादृशस्मरणा- भावकत्वमनुपलब्धिरेव तादृशानुभवाभावस्मरणाभाव- योईयोरपि प्रतियोगिसत्त्वविरोधित्वाविशेषात् । ननु यदि स्यादुपलभ्येत न चोपलभ्यते तस्मान्नास्तीति तावद- नुपलब्धेः शरीरमेवं चानुभवाभावरूपैव सति सिध्यति तत्कथं प्राङ्नास्तितायां स्मरणाभावरूपां तामात्येति चेत् । सत्यम् । वस्त्वभावव्याप्योनुभवाभावः तयाप्यश्च स्मर- णाभावात्रेति व्याप्यव्याप्यस्य सुतरां व्याप्यतयानुमा- नस्य जघन्यतया साक्षादेव स्मरणाभावेन वस्त्वभावानु- मितिरुक्ता । अस्त्वेवं तथापि स्मरणाभावो नानुपलब्धिः सत्यं तत्स्थानाभिषिक्ततया सोप्यनुपलब्धिक्त इति एवं च खण्डनकृता द्विजिह्वेन प्रमाणानि विदश्य षोडशपदार्थी कदर्थिता सेयं मया गुरुचरणसेवाचरणेन जाङ्गलिकप्रवरेण जगदहकारेण निरामयीकृतेति ॥ अथ प्रमाणखण्डनानन्तरं तदाभासखण्डनं प्रस्ताति कश्चायमसिद्धो नाम व्याप्तिपक्षधर्मताभ्यामप्रमिताऽसिद्ध इतिचेन्न। हेत्वाभासान्तराणामप्येवमसिड एव प्रवेशाप- तेः व्याप्तिं पक्षधर्मतांतत्प्रमितिं चाविरुद्धतां विना हेतुदो १०५ प्रथमपरिच्छेदे प्रमाणाभासप्रकरणऽसिद्धप्रकरणम् । षत्वासम्भवात् । अथ व्याप्तिपक्षधर्मतया प्रमाविरहो नासि- द्धो येन सर्वत्रासिद्धसङ्करः स्यात् किञ्च ताहशधीविरहो न हेत्वाभासो ऽज्ञायमानत्वात् आत्ममनःसंयोगाद्यभाववत् किन्तु व्याप्तिपक्षधर्मतावैशिष्ट्यविरह एव ज्ञायमानदोष- त्वात् ज्ञायमानकरणे उत्सर्गतो ज्ञायमानस्यैव विरोधिनो ऽसाथारणदोषत्वात् तथा च यत्र व्यभिचारविरोधावद्वारी- कृत्य व्याप्त्यभावः प्रतीयते तत्रैव व्याप्यत्वासिद्धिः यथा नीलधूमशरीराजन्यत्वयोः यत्र तु पक्षासिद्धिस्तत्राश्रया- सिद्धिः यत्र च सत्यपि पक्षे हेतोस्तधर्मताविरहस्तत्र स्वरू- पासिद्धिः एते च दोषा असिडमध्यमध्यासते यत्र तु व्य- भिचारेण विरुडतया वा व्याप्तिभङ्गावगमस्तत्र यथायथं सव्यभिचारविरुडौ दोषानुपजीव्यत्वात् ताभ्यामेव प्रथ- मावगताभ्यामनुमानस्यासाधकीकरणात् न हि साध्यव्य- भिचारी साध्याभावाव्यभिचारी वा साध्यसाधक इति सम्भवतीति सत्प्रतिपक्षे तु नासिद्धिगन्धोपि किन्तु परस्प- रप्रतिबन्धेनानुमित्यजनकत्वं बाधेपिन सामान्यसम्बन्धस्य प्रथमगृहीतस्य बाधेन भङ्गः समानविषयत्वाभावात् किन्तु पक्षे बाधेन तद्यतिरिक्तविषयता प्रथमगृहीतसम्बन्धस्य व्यवस्थाप्यते तयवस्थापनाय च मध्ये पक्षेतरत्वमुपाधिः कल्प्यते अत एवाह बाधेन परोपाधिमुन्नीयतामन्यथा वेति न कश्चिद्विशेष इति । यद्वा सत्प्रतिपक्षबाधा साक्षात्प्रतिब. न्धकतयैव दोषाविति तथा च यत्र व्याप्तिपक्षधर्मताप्रमि- तेविरहस्य विरोधिधियं विना धोस्तत्रासिडो हेत्वाभासः यत्र तु व्याप्तिविरहस्य व्यभिचारादिधिया धीस्तत्र यथा कथं सव्यभिचारविरुडी यत्र तु प्रतिपक्षस्य धीस्तत्र बा- धप्रतिरोधी । नन्वेवमपि व्याप्तिपक्षधर्मताधीसाध्यानुमि- तिरिति तद्विरह एको दोषोस्तु तथा बाधप्रतिरोधावपि -No. 11 Vol. XXVIII-November 1906. Ect १०६ खण्डनोद्वारे साक्षाद्दोषौ प्रतिबन्धकत्वादिति सन्तु वयोमी हेत्वाभा- साः व्यभिचारविरोधी तु कथं तो हि व्याप्तिविरहं गम- यन्तावुपाधिवद्भवितुमर्हत इति नैतव्याप्तिविरहोन्नायका- वपि तो प्रथमोपस्थितत्वे सति स्वतो दूषणाक्षमत्वात् पृथगिति खण्डने न्यायमतसङ्क्षपः॥ अत्र खण्डनं इदमसिडलक्षणं सव्यभिचारादावस्ति न वा प्राधे सोप्यसिद्धभेद इति पञ्चसंख्याविरोधः । अथै- तल्लक्षणसत्त्वेपि न तेऽसिडभेदास्तदा लक्षणमतिव्यापक अन्त्ये विरुडादीनां व्याप्तिपक्षधर्मताभ्यां प्रमितत्वं स्यात् व्याप्तिपक्षधर्मताप्रैमितत्वतदभावौ विहाय तृतीयकाटेरस- म्भवादिति । अत्रोच्यते । असिहत्वादिनां हेत्वाभासत्व- साक्षायाप्यानां उपाधीनां विभजनान्न विभागभङ्गः ते यसङ्कीर्णा एव न वा धर्मिसङ्करो दोषः तेषामविभजनात् । नन्वस्त्वेवं तथाप्यसिद्धिः कथमेको दोषो ऽसिद्ध एव च कथ- मेको हेत्वाभासः तथाहि व्याप्तिविरहे व्याप्तिधीविरहे च व्याप्यत्वासिद्धिः पक्षविरहे तडीविरहे तद्विशेषणसिषा- धयिषाविरहे चाश्रयासिद्धिः पक्षधर्मताविहे तद्धीविरह च स्वरूपासिद्धिरिति वहव्योऽसिद्धयः व्याप्यत्वासिडोय- माश्रयासिद्धोयं स्वरुपासिद्धोयमित्येवमवगता तद्भाविता- श्च स्वपरानुमितिप्रतिवन्धकाश्च त्रयो भवन्ति । अथासि- होयमितिज्ञानादनुमितिप्रतिवन्धस्य दर्शनादसिढेरेकदो- षत्वं तर्हि व्याप्यत्वासिडोयमाश्रयासिडोयं स्वरूपासि- होयमित्यादिबुद्धौ प्रत्येकमनुमतिप्रतिवन्धदर्शनादसिद्धि- श्चतविशेषाश्च सन्तु चत्वारो दोषाः ।अथासिद्धिः सामग्री- विरहरूपो दोषः व्याप्त्या पक्षधर्मतया च प्रमितेरनुमिति- सामग्रीत्वादिति विशिधीविरह एवायं दोषो न तु प्रत्ये- कधीविरहः तस्य विशिधीविरहत्वाभावात् किन्तु प्रत्ये.

प्रथमरिच्छेदे प्रमाणाभासप्रकरणे, सिद्धप्रकरणम् । १०७ कधीविरहविशिधीविरहमुत्थापयन्त उपाधिवदन्यथा- सिद्धा इति हन्तैवं सव्यभिचारविरुडायपि व्याप्पत्वा- सिद्धिमुत्थापयन्ता स्तामन्यथासिद्धाविति पञ्चहेत्वा- भासी पुर्नाकुप्पेत अथ सव्यभिचारविरुद्धयोस्तदुत्थाप- कत्वेपि स्वतोऽदृषकत्वात् पृथगेवाभासत्वमस्तु अथैवम- पि व्याप्यत्वासियादयस्तिस्रोऽसिडिश्चैकेति चत्वारो दो- षाः चतसृणामपि ज्ञानस्य प्रत्येकमनुमितिप्रतिबन्धकत्वद- शनादिति। मैवम् । एवं हि विशेषवत्सामान्यस्यापि दोषत्वे हेत्वाभासविशेषवत्तत्सामान्यस्यापि दोषतायां हेत्वाभा- सनामा षष्ठोपि हेत्वाभासस्तवापि स्यात् अथ न निर्विशेष सामान्यं भवेच्छशविषाणवदिति न्यायाडेत्वाभासोयमि- तिधीर्थ कच्चन हेत्वाभासविशेषमालम्बते स एव तत्र दोषः तहसिद्धोयमित्यत्रापि तथात्वे व्याप्यत्वासियादिरूपो विशेष एव दोषोस्तु अथ व्याप्यत्वासिडोयमित्यादिधीयंत्र तत्र विशेषो दोषः यत्र त्वसिद्धोयमितिधीस्तत्र सामान्य दोषः अत एवासिद्धत्वाविरूद्धत्वादिधियां पञ्चानां दोषत्वे पञ्च हेत्वाभासीमात्थेति । मैवम् । सव्यभिचारत्वधीविरुद्ध- त्वधीवर्वा न व्याप्यत्वासिडिमालम्बते तेन तो भिन्नावेव असिद्धत्वधीस्तु व्याप्यत्वासिद्धिमाश्रयासिडि स्वरूपासि- डिवावश्यमेवावलम्बते सामान्यधियो विशेषविषयकत्व- नियमात् अत इमास्तिस्रः तथापि सामान्यप्रकारकं ज्ञानं विशेषप्रकारकज्ञानतो भिन्नमिति पुनश्चतस्रस्ता इति चेत्। किमतः विशेषविषयकमित्येतावतैव विशेषस्य दोषत्वं बमो नतु विशेषप्रकारकत्वेन । ननु व्याप्यत्वासियादिज्ञा- नमसिद्धिज्ञानत्वेन वा दोषोस्तु असिडिज्ञानं वा व्याप्य- स्वासिड्यादिज्ञानत्वेनेति किंविनिगमकम् । उच्यते। सामा- न्यज्ञानस्य विशेषविषयतानियमक्त् विशेषज्ञानस्य सामा- ६६९ ૧૦: खण्डनोद्वारे न्यविषयतानियमो नास्तीति विशेषज्ञानात्पतिवन्धदर्शना- त्तस्य दोषत्वे क्लप्ते सामान्यज्ञानस्थलेपिविशेषालम्बनतयै- व तज्ज्ञानस्य दोषत्वमिति तस्मात्तिस्रोऽसिडयस्त्रयोऽसिद्धा इति कथं पञ्च हेत्वाभासी अनेनैवाशयेन खण्डनकारोपि प्रथमे तावदसिडभेदमध्यमध्यासते इत्यसिद्धानां बहुत्व. मेव व्याजहारेति विभागभङ्ग इति । अत्राहुः । आश्रया- सिद्धिः स्वरूपासिद्धिाप्यत्वासिद्धिश्च पृथगेव दोष इति सत्यं किन्तु तिमृणां यथान्यस्तमेकं रूपं पुरस्कृत्य विभागकरणान्न विभागभङ्गः न च मुनिरेव पर्यनुयोज्य: स्वतत्राभिप्रायत्वात् अत एव हाना हेत्वादिहानि प्रति- ज्ञाहानित्वेन संगृह्णतः प्रतिज्ञान्तरात्तु हेत्वन्तरं विभज्य निर्दिशतो मुनेः पर्यनुयोगो निरस्तः यच्च न्यायतन्त्रमन्त्र- न्यस्थता खण्डनकृता व्याप्यत्वासिडिरुपाधिरिति लपितं तत् प्रलपितं उपाधिव्याप्त्यारन्येन विरहत्वासम्भवात् न हि प्रकृतोपाध्यभावो व्याप्तिः प्रतियोग्यप्रसिडेः नापि यत्किञ्चिदुपाध्यभावः सा व्याप्यत्वासिपि सत्त्वात् नाप्युपाधिसामान्याभावः सामान्याभावस्य भावत्वा- सम्भवात् न हि सर्वव्यक्तिप्रतियोगिक उपाधित्वाव- च्छिन्नप्रतियोगिताक एकः तद्भावश्च सर्व एवोपाधय इति व्याप्तेरेकस्या एव विरहः सर्वे उपाधयः स्युः किन्तु व्याप्तिमनोपाधिकसम्बन्धरूपामपि वदन्तो यावत्स्वव्यभि- चारिव्यभिचारिसाध्यसामानाधिकरण्यरूपामाहुः स च नोपाध्यभावः। वस्तुतस्तु अव्यभिचरितासम्बन्धो व्याप्ति- रनोपाधिकत्वं तु तल्लक्षणमतो यत्किञ्चिदेतत् व्यभिचार- विरोधिनः सामानाधिकरण्यस्य तादृशसम्बन्धमात्रस्य वा व्याप्तित्वात् न चैवं लाघवादावश्यकत्वाच व्यभिचाराभाव एवास्तु व्याप्तिः तथापि व्यभिचारोप्यसिद्धिरस्त्विति- १०९ সঘনাই মামাযৱসংঘ। वाच्यं व्यभिचारो हि साध्यवदन्यत्तित्वं तदभावश्च नाव्यभिचारोऽवृत्तिसाधारण्यात् वृत्तिमत्त्वे सति सोऽ- व्यभिचार इति चेत् । न । केवलान्वयिन्यसम्भवात् तत्र हि साध्यवदन्याप्रसिडिः किच्च प्रकृतहेतोः प्रकृतसाध्येन समं व्यभिचारस्याभावो न व्याप्तिः प्रतियोग्यप्रसिडे: नापि यत्किञ्चित्प्रतियोगिकव्यभिचाराभावः सा अति- प्रसङ्गात् किन्तु यत्समानाधिकरणान्योन्याभावप्रतियो- गितावच्छेदकं यन्न भवति तेन समं तस्य सामानाधिक- रण्यं व्याप्तिः द्रव्यत्वसमानाधिकरणान्योन्याभावप्रति- योगिता संयोगेन नावच्छिद्यते द्रव्यं संयोगि नेत्यप्रतीते: वहिसमानाधिकरणान्योन्याभावप्रतियोगिता तु धूमे- नावच्छिद्यते वहिमान्धूमवान्नेति प्रतीतेः अतो द्रव्यत्वं संयोगव्याप्यं वह्निस्तु न धूमव्याप्य इति स्थितम् । यद्यपि सर्वत्र वह्निमति धूमवदन्योन्याभावो नास्ति महानसादौ धूमवभेदस्यापि सम्भवात् तथापि क्वचिदस्ति धूमवति तु कापि न वहिमद्भेदः किन्तु सर्वत्रैव तभेदः यद्यपि सर्वेषु हेत्वाभासेषु सिडिप्लवस्तेन सैव दोषो भवितुमर्हति तथापि प्रयाणामप्यनैकान्तिकानां संशायकत्वेनासाधकतेति त एव त्रयो दोषाः प्राथम्यात् न तु तेषु सत्स्वपि व्याप्य- त्वासिद्धिः चरमोपस्थितत्वात् तथाहि सा साधारणेन्व- येनासाधारण व्यतिरेकेणोभयसहचारादनुपसंहारिणि तु पक्ष एवोभयान्वयात्साध्यसंशयार्जनादसाधकता अथ तेषु व्याप्तिधीरेव नोदेति त्वनिर्दिष्टोभयसहचारादिति व्याप्यत्वासिद्धिरेवास्तु क्लप्तत्वादसाधकताबीजमिति सै- वामीषु त्रिषु दोष इति चेत् । तर्हि मास्तु संशयबारतापि किन्तु साधारणे विपक्षगामितयाऽसाधारणे सपक्षागामि- तयानुपसंहारिणि पक्षमात्रगामितयैव प्रथमप्रतीतया 990 खण्डनोद्वारे तेषामसाधकत्वानुमितिसम्भवात् किन्तु ते त्रयोप्य सिद्धात् पृथक् एवञ्चच दूषकतायां प्रस्थानभेदात्तेषां त्रित्व- स्थादिति न च वाच्यं इतृत्वात् विरुद्ध तु विरद्धत्वज्ञाना देवासाधकता सत्प्रतिपक्षे तु लिङ्गयोाप्तिपक्षधर्मतावि- शिधीसत्त्वेपि परस्परप्रतिबन्धादेवासाधकता वाधेतु बल- वता साध्याभावज्ञानेन प्रतिबन्धादेवासाधकतेति बाधे च तृतीयलिङ्गपरामर्शदयं वक्ष्यामः तस्मात्साधारणानुपसं- हारिविरुद्धा व्याप्यत्वासिद्ध्युन्नयनक्षमतया तदुपजीव्याः प्रथमोपजातेन साधारणत्वादिज्ञानेनासाधकतां हेतोः साधयन्तो भवन्त्यसिद्धात् पृथक् हेत्वाभासाः सिद्धसाध' नस्थले साध्यसिद्धिः सेोपाधावुपाधिराश्रयासिद्धिव्याप्य- त्वासिद्ध्योरुपजीव्यावप्येता न पृथक हेत्वाभासा स्वतो दृषकत्वाभावात् किन्तु सिडिः सिषाधयिषां विघटयन्ती धर्मिविशेषणविघटनेनाश्रयासिद्धि निर्मिमाणा एवमुपा- धिरपि हेतोः स्वव्याप्यतया स्वव्याप्यसाध्यव्याप्यत्वधि- यमुत्पादयन्ननत्थानबीजमात्रमिति तथाहि तर्केणोपाधी स्वरूपेण निश्चिते अयं हेतुःसाध्याव्याप्यः साध्यव्यापको पाध्यव्याप्यत्वात् प्रमेयत्वादिवदिति व्याप्यत्वासिद्धि- मुत्थापयर्यात सा त्वनुमानं दूषयतीति ॥ अथ विरुद्धत्वादीनां प्रकृतहेत्वसाधकतासाधकत्वेन- हेत्वाभासत्वमुक्तं तत्र कोऽसौ विरुद्ध इति । माध्याभाव व्याप्तो विरुद्ध इति चेत् । तदा हि इदमसाधकं साध्याभा- वव्याप्यत्वादित्यस्य साध्याभावनियतसमानाधिकरण- स्वादित्यर्थे नियमांशो व्यर्थ: साध्याभावसामानाधिकरण्य- मात्रस्यैव साधारणाकान्तिकवदसाधकत्वे तनत्वात् अपि च नियमांशे व्यर्थतया निरस्ते विरुद्धस्य साधारणानुप्रवेशे विरुद्ध एव लुप्यते कि साध्याभावनियतसामानाधिकर- By EEV प्रथमपरिच्छेदे प्रमाणाभासप्रकरणेविरुद्धप्रकरणम् । ૧૧૧ एयग्रहे भवति साध्याभावसामानाधिकरण्यग्रह अावश्यक इति स एव क्लृप्तत्वादावश्यकत्वाल्लाघवाच दोषः स्यान्न तु विरुद्ध इति खण्डनं । अत्रोच्यते इयं हि विरुडस्य स्वरूपनि- रुक्तिरिति सत्यं न हि साध्यतभावोभयगामिनि परीक्ष- काणांविरुडव्यवहारः किन्तु साध्याभावमात्रस्पृशि अप्ला- धकतायां तु नेदं लिङ्गं येन विशेषणवैययं स्यात् किन्तु साध्यविपरीतप्रमितिजनकत्वं तदेव कुत इत्याकाक्षायां साध्यविपरीतव्याप्यत्वादिति । हन्तवमसाधकतासाध- कत्वं साध्यविपरीतप्रमितिजनकत्वस्य तहीजत्वं च साध्या- भारतद्व्याप्यत्वस्य तथा च विरुद्धो न हेत्वाभासः स्यादुपा- धिवदिति चेन्न ।साध्याभावप्रमितिजनकत्वमेव विरुद्धत्व- मित्यभ्युपगमात् । तदुक्तं तेनैव लिङ्गेन साध्याभावप्रमा- विरोध इति । अन्ये तु असाध्यसहचारत्वं अदृष्टसाध्या- भाव्यभिचारित्वं वा तल्लिङ्ग सर्वाधिः सन्दिग्धा स्वाह- ष्टिस्तु व्यभिचारिणीति यदि तदा साध्यासहचरितत्वं सा- ध्यव्यापकाभावप्रतियोगित्वं वा लिङ्गमस्तु । ननु हेत्वाभा- सशरीरमेवासाधकतालिङ्ग तथा चोक्तचतुष्कृयमपि विरुद्धस्य शरीरं स्यात् असाधकतालिङ्गत्वात् तच्चायुक्तमवृत्तिसाधा- रण्यात् इदं हि चतुध्यमाकाशादेरप्यस्तीति किमतः अवृ. तावपि विरुडव्यवहारः स्यादिति चेत्तत्र साध्याभावप्रमि- तिजनकत्वमात्रस्य तन्त्रत्वमिति मदुपगमात् एवं चासाध- कतानुमाने कर्तव्ये नियमांश व्यर्थ इति विरुद्धज्ञाने चासा- धकतानुमितिबीजे भवति साध्याभावसामानाधिकरण्य- ज्ञानमेवावश्यकत्वादिनाऽसाधकतानुमापकमस्तुकृतमना- वश्यकेन गुरुणा जघन्यप्रतिपत्तिकेन विरोधेनेति खण्डनमा पास्तं असापकतानुमिता साध्यव्यापकाभावप्रतियोगि- त्यस्य मया हेतुत्वेनोपगमात् यदा तु विरुद्ध साध्याभावव- ११२ खण्डनोद्वारे द्वामितामात्रमेव प्रतीयते तदा साधारणतयैवायंदोषः यदा तु साध्यवदवृत्तिताधीः तदा त्वसिडतयोपधेयसङ्करस्य मयोपगमात्। नन्वयं साध्यवत्तितया प्रतीयमानश्चेदुष- येत्तदा सिडे प्रविशेत यदि तु साध्याभावव्याप्यतया तदा गौरवेण नियमांशे त्यक्ते सति साधारणतया दूषयेत्तदुभय- थापि पृथग हेत्वाभासोन स्यादिति चेत्। सत्यं साध्यव्याप- काभावप्रतियोगितया प्रतीयमानायं दृषयन पृथगिति बमः इदंतुरूपमसिद्धप्यस्तिन त्वसिद्ध एवास्ति येनासिडमेवा- सौ प्रविशेत् । वस्तुतस्तु स्वसमानाधिकरणान्योन्याभाव- प्रतियोगिसाध्यवकत्वं विरुडत्वं सडेतुस्तु नैवं धूमवान्व- हिमान्नेत्यप्रतीतेः इदं च रूपं नावृत्तौ नवा व्यभिचारिणी- ति नास्य धर्मिसरोपीति ।यच्चानैकान्तिकः सव्यभिचार इति सूत्रमखण्डि तदप्ययोधात् साध्यस्येव तदभावस्या- प्युपस्थापनसमर्थत्वं ह्यनैकान्तिकावं तथाहि साधारणा- न्वयेनासाधारणो व्यतिरेकेणानुपसंहारी पक्ष एवोभयस- हचारेण साध्यतभावावुपस्थापयितुं क्षमः तेन साध्यतद भावोभयोपस्थापनसमर्थत्वं साध्यवन्मात्रवृत्त्यन्यत्वे सति साध्याभावन्मात्रवृत्त्यन्यत्वं वा न चैवं सर्वमभिधेयं प्रमेय- त्वादित्यनुपसंहारिणो न संग्रहः तत्र साध्याभावाप्रसि- डोरिति वाच्यं तस्यानुपसंहारित्वाभावात् किन्तु सडेतु- रेव केवलान्वयिनि साध्ये तत्समानाधिकरणमात्रस्यैव गम- कत्वात् । नन्वस्त्वेवं तथापि नायमेको हेत्वाभासः तचाहि उक्तरीत्यास्य संशायकत्वेन दूषकतायामेकहेत्वाभासता भवेत् सा चायुक्ता विपक्षगामितामात्रेणैव लघुनावश्यकेन प्रथमप्रतीतेन साधारणस्य तद्वत्सपक्षास्पर्शितामात्रेणैवा. साधारणस्यैकवयुपसंहाराभावेनैवानुपसंहारिणो दृषक स्वसस्भवादिति बाद अयोमी साधारणानुपसंहारि- प्रथमपरिच्छेदे प्रमाणाभासप्रकरणावरुद्धप्रकरणम् । ११३ भेदात् न चैवं विभागासम्यक्तवं उक्तरूपपुरस्कारेणैव विभागकरणात् तत्र च विपक्षत्तित्वं साधारणत्वं तन्मा त्रस्यैव दृषकत्वात् विरुद्धस्यापि तत्त्वाज्ञाने विपक्षवृत्तिता. ज्ञानदशायां साधारणत्वं अन्यथा तदा तस्य हेत्वाभासा- न्तरता स्यात् उपाधेरसङ्कर एव सर्वमनित्यं मेयत्वादित्य नुपसंहारो शब्दो नित्यः शब्दत्वात् भूनित्या गन्धवत्त्वादि- त्यसाधारणश्च वस्तुगत्या साध्याभावववृत्तित्वेन साधा- रणपि पक्षतादशायां तथात्वेन न बोडुं न वा बोधयितुं शक्य इत्पुभयोर्भेदेनोपन्यासः अनित्यः शब्दः शब्दत्वा- दित्यसाधारणश्च वस्तुतस्सडेतुरपि पक्षतादशायामसाधा- रण एव पक्षमात्रतित्वात् । ननु पक्षतादशायामसाधार- णतया साध्यनिश्चयदशायामाश्रयासिडतया सर्वदैवायमा भास इति न कदापि सडेतुरिति चेन्न । साध्यसन्देहे प्रमा णान्तरेणानुपनुन्ने सिषाधयिषया पक्षतासम्भवेनाश्रया- सिद्ध रसम्भवात् । ननु संशयाभावासिषाधयिषापि नोदेष्यतीति चेत् । तथापि सिड्यन्तरस्येष्टसाधनताज्ञाने- नात्मनीव तत्सम्भवात् तत्र हि श्रोतव्यो मन्तव्य इति श्रुत्या श्रुतिनिश्चितस्याप्यात्मनो मननमिष्टसाधनतयाव- सितमिति तत्र तद्धीना सिषाधयिषोदेतु प्रकृते तु तद्वदू- द्वितीयसिद्धरिसाधनताग्राहकं किमपि न पश्यामो येन तत्र तधोना निश्चितेपि सिषाधयिषोत्पद्यतेति चेत् । अत्रापि यद्यप्यस्य प्रातिभेनेसाधनताज्ञानेन द्वितीयसि- द्वाविच्छादयेत्तदा कस्तां वारयेत् अयं तु विशेषो यदसा धारण दशाविशेषे दोषः विशेषदर्शने सति संशयसत्प्रति- पक्षयोहारयोरनुदयात् सत्प्रतिपक्षवत् साधारणानुपसंहा रिणौ तु नित्यदोषाविति।प्रावस्तु असिद्धानकान्तिको त्व- दुक्तरीत्या यद्यपि प्रत्येकं त्रिविधौ तथापि सामग्रीविरह- ११४ खण्डनोद्वारे शयः॥ त्वेन संशायकत्वेन च दूषयन्ता द्वावेवेति मुनेरा- अथ सत्प्रतिपक्षः । अत्र केचित् । तुल्यबलबोधितसा- ध्यविपर्ययः सत्प्रतिपक्षितः तद्यथा तुल्यबलेन समानव्या- प्तिपक्षधर्मताकत्वेन रूपेणानुमितिभागित्वाभिमतेन वा- दिना ज्ञायमानेन लिङ्गत्वाभिमतेन प्रतिहेतुना यदीयः साध्यविपर्ययो बाधिताबोधयितुमारब्धः स सत्प्रतिपक्षित इति ईदृशा चात्रावपि हेतू इति द्वावपि सत्प्रतिपक्षिता। बाधितस्त्वधिकबलबोधितसाध्यविपर्यय इति ततोऽस्य भेदः इदं तु स्वार्थपरार्थयोः साधारणमस्य रूपं एवं च बलं व्याप्तिपक्षधर्मते उभयलिङ्गगतयोस्तयोस्तौल्यं वैज्ञा- निकं तथात्वेन ज्ञातो वानुमितिभागित्वाभिमत इत्येवं वर्णने बहुषु दूषणेषु निरस्तेष्वपि सत्प्रतिपक्षहेत्वोरबोध- कत्वप्रयुक्तानि खण्डनान्यवशिष्यन्ते । तत्र ब्रूमः । मिथः प्रत्यनीकव्याप्यतयावगतयोरेकर्मिणि प्रतिसन्धीयमान- योस्तद्यापकीभूतगोचराया अनुमितेनात्पत्तिः अन्यथा तत्सत्त्वे तयापकयोरुभयोरपि व्यवहारः स्यादिनिगम- नाविरहात द्वयोरपि याथायें वस्तुनो विरुडबैरूप्यं च स्यात् तस्माद्व्याप्तिपक्षधर्मताधीसद्भावेप्यनुमितिरसम्भवन्ती कम- पिस्वप्रतिबन्धकमाक्षिपति तच्च प्रतिबन्धकं न तावदुभय- लिङ्गव्याप्तिपक्षधर्मतावगाहितृतीयलिङ्गपरामर्शविषयीभू. तव्याप्तिपक्षधर्मतासंशयः विरोधिसन्धानमन्तरेण तस्यै- वानुदयात् तस्मात्प्राथम्यादन्तर छुत्वादुपजीव्यत्वाच मिथः प्रत्यनीकव्याप्यतयावगम्यमानयोः धर्मयोरेकत्र धर्मिणि- प्रतिसन्धीयमानत्वमेव विरोधिकोटिग्रहणजन्यतया प्रति- बन्धकं एवं च सति तुल्यबलबोधितसाध्यविपर्ययत्वं सत्प्रतिपक्षत्वमिति यदाशक्य दूषितं तदयुक्तं न हि तन्त्र- प्रथमपरिच्छेदे प्रमाणाभासप्रकरणे समतिपत्तप्रकरणम् । ११५ कमपि साधनं स्वसाध्यं बोधयत्यपरेण प्रतिबन्धादिति न चाविनिगमानुभयो: साध्ययोरेकैवानुमितिकदेति सा च परस्परविरुद्धार्थीवगाहित्वेनात्सिंशयाकारेति संशायक- त्वेनास्याभासत्वमिति वाच्यं तर्हि द्वयं मिलितं संशायक प्रत्येकं च हेत्वाभास इति यो हेत्वाभासः स न संशाययति यस्तु संशाययति स न हेत्वाभासः इति महढेशसं अथ इयोर्मियो विरुडव्याप्ययारकत्रदर्शनाजिज्ञासादेति अन- योः साध्ययोरनयोश्च हेत्वोः किं तत्त्वमिति तेनेदृशजि- ज्ञासाजनकत्वमेव सत्प्रतिपक्षितत्वमिति तन्न । जिज्ञासा- जननेप्येकस्मिन्धर्मिणिविरोधिसाधनव्यप्रतिसन्धानमेव तत्रमिति प्राथम्यादावश्यकत्वाच तदेव दोषः तेन गमक- तापयिकव्याप्तिपक्षधर्मताधीविषयेण यत्साध्यधीप्रतिबन्ध- नं तदेव सत्प्रतिपक्षितलक्षणं नन्वेवं कार्य प्रतिबन्धप्रति- हेतुः सत्प्रतिपक्षयिता तेन च प्रतिरुद्धकार्यः सत्प्रतिपक्षि- त इति त्वद्वाक्यार्थः तथा च सत्प्रतिपक्षितत्वस्य ज्ञातस्य दोषतया तज्ज्ञाने सति कार्यप्रतिबन्धः कार्यप्रतिबन्धे च सति तद्धादितसत्प्रतिपक्षत्वसिडीतज्ज्ञानमित्यन्योन्या- श्रयः स्यात् न स्यात् कार्यप्रतिबन्धो हि सत्प्रतिपक्षस्य फलं सत्पतिपक्षस्तु विरुडानुमितिहेतुभूतव्याप्तिपक्षधमतापप- नलिङ्गोपस्थितिः सा चावश्यं विपरीतानुमिति प्रतिवध्ना- तीति योरप्यनुमित्यो प्रतिबन्धः षाधस्तु नैवम्। ननु बाधे बलवताप्रमाणेन प्रकृतानुमितेः प्रतिबन्ध इह तुसमानबले- नेति ततास्य भेदः स्यात् तदुक्तं विरोधियोधकान्यगमक- तापयिकरूपसम्पत्तिमत्तया ज्ञायमानेन प्रतिरुद्धकार्यलिङ्ग- त्वं तत्त्वं अत्र चोपजीव्येनानुमानेन बाधेतिव्याप्तिवारणाय विरोधिबोधकान्येति गमकतापयिकरूपसम्पत्तिमत्ताया विशेषणं । हन्तैवं बाधे बलवता प्रतिबन्धः सत्प्रतिपक्ष तु ११६ खण्डनाद्वारे समानवलेनेति प्रतिबन्धाविशेषादुभयोरैक्यं स्यात्मैवम् । एवं हि पञ्चानामप्यैक्यं स्यात् अनुमितिप्रतिवन्धलक्षणफ- लाविशेषात् । किं नश्छिन्नमिति चेत् नहि फलैक्ये हेत्वैक्यं सम्भवति फलस्य ततो भेदात् किन्तु शरीरैक्ये तच्चन पञ्चा- नां न वानयोरपीति । ननु समानत्वाभिमता विरुद्धव्या- प्तिपक्षधर्मतोपपन्नलिङ्गोपस्थितिः सत्प्रतिपक्षः तत्कवलितः सत्प्रतिपक्षित इति त्वन्मतं तथा च सत्प्रतिपक्षस्य हेतुदो- षस्य हेत्वाभासान्तरज्ञानावश्यकत्वे उपस्थितेरपि ज्ञान वाच्यं तथा च समानबलत्वेन ज्ञायमानस्य ज्ञानमह वाच्यं तच्चायुक्तं समानवलोपस्थितिरेव प्रतिबन्धिका न तु तद्धीरपि तत्सत्त्वे तद्विलम्बन प्रतिबन्धविलम्बादर्शना- दिति चेत् । अत्राहुः येन ज्ञानेन हेत्वाभासशरीरं निर्मी- यते तस्य ज्ञानमवश्यं वाच्यं यथा व्यभिचारे निश्चितसा- ध्याभाववद्गामित्वलक्षणे निश्चयस्यापि ज्ञानं वाढं सत्प्र- तिपचस्थलेप्युपस्थितेज्ञानमवश्यमेवैव्यमिति हेत्वाभा- सानां ज्ञाननियम इत्यप्याहुः॥ ननु बाधो दोषो न तु बाधकं बाधश्च साध्याभावप्र- मेति फलं दोषो न तुकरणं तथा सत्प्रतिपक्षे विरुद्धं करणं बाधे तु विरुद्ध फलं दोषः अत एव साध्याभाषप्रमायाः प्रामाण्यग्रहः प्रतिबन्धक इति तवैव सिद्धान्तोद्गार इति चेत्। अत्र केचित् बाधे प्राथम्याकरणस्यैव दोषत्वं वस्तु- तस्तुकरणमपि स्वफलीभविष्यद्विरुडावगतिं विना न दृष- यितुमलमिति तस्य तदुपधानमवश्यं वाच्यं तथा च चर- मोत्पन्नापि साध्याभावधीर्वाधकस्य दूषकत्वे प्रथमोप- स्थिता चोपजीव्या चेति विवक्षितविवेकेन सैव बाघो दोषः तथा च सत्प्रतिपचे विपरीतं करणं प्रतिवन्धक तत्र फलोदयस्यासम्भवात् बाधे तु विपरीतं फलमेव प्रथमपरिच्छेदे प्रमाणाभासप्रकरण समतिपक्षप्रकरणम् । ११७ प्रतिबन्धकमिति कानयोः सङ्करसम्भावनापि एवं व्यव। स्थापिते एतत्प्रणालीमजानानं प्रति विरोधियोधकान्ये. त्युपलक्षणविधयोक्त मिति सर्व सुस्थम् । यत्तु हे अप्यनुमाने सत्प्रतिपक्षिते सती जाती इति गुरुमतमवेत्य स्वव्याघात- कत्वं त्वन्मते न सदुत्तरे सत्प्रतिपक्षेतिव्याप्तं तथाहि स्थाप- नाहेतुरसाधकः समबलप्रतिपक्षप्रतिहतत्वादितिवत् सत्म- तिपक्षत्वं अनेनैव हेतुना स्वस्याप्यसाधकत्वं साधयितुं क्षममुभयोरपि सत्प्रतिपक्षत्वाविशेषादिति खण्डनं। तन्न। प्रबोधात् जाता हि साधर्म्यमानं बलं तच्च स्थापनाजात्यो। समानमेवेति जातिवाद्याशयः। समीकरणाभिसन्धिनैव जात्युत्थानात् स्वप्रयोगस्य बलवत्त्वाभिमाने च समीकर- गाभिसन्धिना तदुत्थानमेव न स्यात् तथा च जातिवत्स्था- पनापि स्वसाध्यं साधयेत् तथा साधयान्तरमपि जाति- साध्यविपरीतं साधयेत् साधर्म्यत्वेन तस्यापि स्थापना- जात्युभयतुल्यत्वात् तस्माद्यथा जातिवादी समबलयानु- मानप्रतिहतत्वेन स्थापनाया असाधकतां मन्यते स्थापय- ति च तथा तत एवाविशेषात् स्वानुमानस्यापि तथा मन्येत साधयेचेति भवति जातेः स्वव्याघातकत्वं सत्प्रतिपक्ष तु नैवं न हि तत्रोच्चारयिता स्थापको वा दयोः समबलत्वं मन्यते किन्तु स्वानुमानस्य बलवत्त्वमपरस्य तु विशेषादर्श- नदशायां बलभ्रममात्रमिति हि तस्याभिमानात् तथा च परानुमानस्यासाधकतामयं बलवत्प्रतिबन्धत्वेन साधयति न तु स्वानुमानस्य तथा साधयितुक्षमते तेन परानुमानस्य बलवत्त्वानङ्गीकारेण स्वानुमानस्य बलवत्प्रतिबन्धत्वान- भ्युपगमात् किन्तु बलवत्त्वाभिमतमपरानुमान प्रतिबन्धक मन्यते तेन च रूपेण न परस्यासाधकतां साधयति मदनु- मानं बलवत्त्वेनावगतं किन्तु बलवन्न भवतीति तेनानगी- ५१८ खण्डनोद्वारे कारात् तथा च बलवत्प्रतिवन्धत्वेन परस्यासाधकतांसा धयति न तु स्वस्यापि तेन रूपेणेति न सत्प्रतिपक्षःस्वव्या- घातक इति । ननु सत्प्रतिपक्षत्वेनासाधकतासाधनन्तस्यैव हेतुदोषत्वात्तच द्वयोः समानमेवेति चेत् । सत्यम् । एकेन छपरानुमानस्यासाधकता साध्यते सा च बलवत्प्रतिबन्ध- स्वलक्षणेन सत्प्रतिपक्षत्वेन न तु स्वस्यापि तथा साधयितुं शक्नोति बलवत्प्रतिबन्धत्वलक्षणस्य हेतोः स्वयमेवानभ्यु- पगमात् । ननु तथापि स्थेयादिः सत्प्रतिपचितत्वेन द्वयोरप्यसाधकतां साधयितुं शक्नोत्येवेति भवत्येव सत्प्र- तिपक्षत्वं व्याघातकमिति चेत् । सत्यम् । तथापि सत्प्रतिप- दयिता यहलवत्प्रतिवन्धत्वमाद्रियते तन्नोभयसाधारण- त्वेन मन्यत इति स्वाशयानुसारेण सदुत्तरयन्न तेन व्याह- न्यते जातिवादी तु तथेतिविशेषः अत एव सत्प्रतिपक्षः सदुत्तरं जातिरसदुत्तरमिति सर्वतन्त्रसिडान्तः । एतद्विरु- डाभिधायी तु गुरुरपि लघुरेवेति एवमपि रत्नप्रकाशतदु- बोधावपि नेयावितिसंक्षेपः। निरालम्बनाद्यनुमानमपि व्याप्त्यादिपुरस्कारमयुक्तं सदुत्तरमेव तदपुरस्कारप्रयुक्तं तु जातिरिति विवेकः ॥ अथ बाधो निरूप्यते। तत्र तावत्साध्याभावप्रमा बाध: प्रमिताभावप्रतियोगिसाध्यको बाधितः यद्यप्यकेवलान्व यिनः सर्वस्यैव साध्याभावप्रमा सम्भवतीति व्यतिरेकि- साध्यकाशेषसडेतुव्याप्तिः तथापि पक्षे सा विवक्षिता बाधे च पक्षतास्तीत्युक्तं तेन पक्षे साध्याभावप्रमा बाधः न च कपिसंयोगसाध्यक सद्धतावतिव्याप्तिः प्रतियोगिव्यधि- करणेति साध्याभावविशेषणात् । ननु साध्याभावप्रमा गृहीतप्रामाण्या वा प्रतिबध्नीयादगृहीतप्रामाण्या वा नाद्यः तस्या बुड्यन्तरमात्रविनाश्यत्वेन तावन्तं कालमनव- प्रथमपरिच्छेदे प्रमाणाभासप्रकरणे बाधप्रकरणम् । ११९ : स्थितेनापरः तस्याःसंशयोपस्थितसाध्याभावधीवदधि- कबलत्वानवगमेन प्रतिबन्धकत्वायोगात्।साध्याभावधि- यः प्रामाण्यग्रहः प्रतिबन्धक इति चेत् । न तहि बाधो दोषः प्रामाण्यस्य ततो भिन्नत्वात् साध्याभावधियः प्रामाण्य- ग्रहानन्तरं पुनर्जाता साध्याभावधीः सा च विशेषदर्शनो- दीच्यत्वेन शङ्कामास्कन्दितेति सैवानुमितिप्रतिवन्धिकेति चेत् सा हि तृतीयलिङ्गपरामर्शादाक पश्चाहा आद्ये परा- मर्शेनैव तर्हि सा ध्वंसितेत्यसत्त्वान्न प्रतिबन्धुमीष्टे अन्त्ये किं तया लिङ्गपरामर्शस्य चरमकारणत्वेनानुमितिः स्यादेव सत्प्रतिपक्षवदसावपि प्रतिबध्यत इति चेत् । तर्हि तृतीय- लिङ्गपरामर्शस्यव्याप्तिपक्षधर्मतासम्पन्नद्रयग्राहिणः समस- मयतया भागशः प्रतिवध्यप्रतिबन्धकभावा युज्यते प्रकृते तु निष्परिपन्थिना तृतीयलिङ्गपरामर्शनादावनुमितो ज- नितायां बाधैव नोदेष्यति अनुमित्यैव प्रतिबन्धात्। उदिता बाधनानुमितिं प्रतिबध्नीयात् । तदुक्तं गृहीत्वार्थ गता- चौराः कस्तानाच्छेत्तुमर्हतीति । अथ प्रागुत्पन्नैव बाधा ऽदूरविप्रकृया. तृतीयलिङ्गपरामर्श प्रतिरोत्स्यति यथा सिषार्धायषा पक्षतां घटयतीति चेत् । निरन्वयध्वस्तापि सा मतिरेतस्य व्यामोहः । अथ बाधेन हेतुमति पक्ष व्यभिचारो निर्वाह्यत इति तद्वारैव बाधो विरोधीति तहि क्लप्तत्वाध्यभिचार एव दोषः स्यात् हेत्वसत्त्वे त्वसिद्धि- रिति नोभयथापि बाधः। तदुक्तं बाधायामपक्षधर्मो हेतु- रनैकान्तिको वेति । अथ पक्षे हेतोः साध्याभाववद्दा- मितासन्देहो न दोषाय अनुमानमात्रीच्छेदापत्तेः किन्तु तन्निश्चयः न च साध्याभावप्रमायाः प्रामाण्यनिश्चया- देव तथा च गृहीतप्रामाण्या साध्याभावप्रमा पक्षे व्यभि- चारनिश्चयमप्णपादयन्ती स्वतो दोषः प्राथम्यादा- १२० खण्डनोद्वारे वश्यकत्वादुपजीव्यत्वात्स्वतो दूषकत्वाच्चेति। एवं क्लप्त- त्वाद्यभिचारो दोषोस्तु दूषणक्षमत्वे सति प्राथम्याद्वाधा वेति विवादसीमा । अत्र च व्यभिचारव्याप्यत्वासि- डयोः सङ्करे यथा प्रथमोपस्थितः स्वतो दूषणक्षमस्तत्र व्यभिचारो दोषस्तथात्र बाध इति त्वद्वचनार्थः अस्तु तावदेवं तथापि व्यभिचारान्न बाधः पृथक् असङ्कीर्णा- भावादिति । अत्राहुः । प्रथमे क्षणे घटे पृथ्वीत्वसम्बन्धः जातेः सम्बन्धश्चेति वैशेषिकवचनात् द्वितीये च क्षणे तत्र गन्धोदयः तस्य घटत्वात् । अत एवाहुः।क्षणमगुणो भाव इति तथा च प्रथमे क्षणे पृथिवीत्वेन घटे यद्गन्धानुमानं तत्ता वन्न सम्भवति तत्र तदा गन्धासत्त्वात् नाप्यसत् व्यभिचा- राद्यभावात् अथ तत्र गन्धसम्बन्ध एवानुमीयते स च सम- वायलक्षणस्तत्रास्त्येव गन्धयोग्यता वा सापि तत्रास्तीति मैवम् । यदि तत्राशयस्वातत्रयात्कश्चिद्गन्धमनुमिनाति तदा किंवाच्यं बाधादन्यत् साध्यसंसर्गाभाववति मद्धेतु- यभिचरित एव तेन गन्धप्रागभावावच्छिन्न घटे तत्पृथि- वीत्वं व्यभिचरितमेवेति चेन्मैवम् । साध्यवद्भिन्नसाध्यात्य- न्ताभाववद्गामित्वस्य वा व्यभिचारपदार्थत्वात् प्रथमे क्ष- णे न गन्धोदयः सम्भवतीति तत्रापिगन्धात्यन्ताभाव एवे- तिचेत् । धिङ्मूर्ख न हि यत्र यदवच्छेदेन यस्य प्रागभाव- स्तत्र तदवच्छेदेन तस्यात्यन्ताभाव इति कोप्याह नापि युज्यते प्रागभावस्य प्रतियोगिसादेश्यनियमात् अत्यन्ता- भावस्य तद्वैदेश्यनियमादिति कथं तर्हि गन्धमागभावाव- च्छिन्नो घटो गन्धवानित्यत्र वाक्ये ऽयोग्यता एकपदार्थ- संसर्गस्यापरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वे हि सा सा च नात्र प्राद्यक्षणावच्छिन्न घटे गन्धस्य प्रागभावो न त्वत्यन्ताभाव इति । मैवम् । यत्र हि यन्न सम्भवति तत्र १०४ प्रथमपरिच्छेदे प्रमाणाभासप्रकरणे विरुद्धप्रकरणम् । तस्य बाधश्चायोग्यता च तेन गन्धप्रागभावावच्छिन्ने घटे न सम्भवतीति तत्र तदुभयमविकलम् अयन्तु विशेषोया प्रागभावस्तल्लक्षणमात्रम् अत्यन्ताभावस्थले यावत्सत्त्वम् अत्र द्वितीयस्य स्फुटावभासत्वात्तत्रैव तदुभयमुदाहृतं प्राचीनैर्न तु प्रागभावस्थले दुर्बोधत्वादिति योग्यताल- क्षणे यदत्यन्ताभावग्रहणं तत्सम्पातायातमन्यमतावल- म्बेन वेति । न च जात्या व्यक्त्याक्षेपे प्रलये व्यभिचार इति यन्नैयायिकैरुक्तं तदेवं सति विरुध्येत न हि व्यक्ति- ध्वंसवद्गामितया जातेय॑क्तिव्यभिचारिता सम्भवतीति। मैवम् । तत्रत्यव्यभिचारिपदेनाव्यभिचारविरोधिनः का. स्न्येन सम्बन्धाभावस्य विवक्षितत्वात् । अन्यथा ताहर्श पृथिवीत्वं मध्येपि गन्धंन गमयेदित्यस्योक्तप्रायत्वादिति साध्याभावधियो गृहीतप्रामाण्याया: साध्यधीप्रतिष- न्धकतया तदभावस्तृतीयलिङ्गपरामर्शनापेक्ष्यते तस्या अभ्युत्थानात्तु सह नास्तीति ॥ इति श्रीवाचस्पतिमिलते खण्डनोद्वारे प्रमाणतडामा- सोद्धारो नाम प्रथमः परिच्छेदः ॥ E-No.2 Vol. XXIX-February 1907.

१२२ खण्डनोद्वारे हेत्वाभासखण्डनानन्तरं निग्रहस्थानत्वेन स्मृतान् प्रतिज्ञाहान्यादीन खण्डयति स्वीकृतोक्तपरित्यागः प्रति- ज्ञाहानिरित्य लक्षणं झटिति संवरणेतिव्याप्तेन हि झदिति संकृतं पतितमपि निग्रहस्थानं निगृह्णाति किच्च स्वीकृतेति व्यर्थ स्वीकृत्यास्वीकारो हि त्याग इति स्वीकारस्य त्याग- पदार्थान्तर्गतत्वेन तत एव प्राप्त्या पोनरुक्त्यात् । निग्रह- स्थानसामान्यलक्षणानुत्त्या झटिति संवरणातिव्याप्ति- निरासात् न हि झटिति संहतं कथाकारणीभूतसम्यग्ज्ञान- विरहनिग्रहस्य स्थानमुन्नायकं भवति नापि स्वीकृतपदं पुन- रुक्तं परिहारमात्रस्यैव त्यागपदार्थत्वात् परोक्तं दूषणं परिहरतीत्यादेर्दर्शनात् नापि रूपान्तरेण स्वीकृत्य रूपा- न्तरेण त्यागेतिव्याप्तिस्त्यागस्य प्रकाराकाहायां स्वीकार- प्रकारस्यैवोपस्थितत्वेनान्वयात् उपस्थितपरित्यागे गौरवा- त् आग्नेयीन्यायात् । न चापसिडान्तेतिव्याप्तिः तत्रापि नैयायिकोहमित्यादिना सङ्क्षिप्ताक्षरेण सर्वस्यैव न्यायसि- डान्तस्योक्तौ पश्चात्तदेकदेशत्यागे उक्तलक्षणसत्त्वादिति वाच्यं स्वीकृतस्य विशिष्योक्तस्य संवरणावसरात्यये परि- त्यागः प्रतिज्ञाहानिरिति लक्षणात् । हन्तैवं संवरणावस- रात्यये स्वीकृतपरित्याग इत्येवास्तु तावन्मात्रस्यैव निग्रा- हकत्वात् शेषं व्यर्थ मिति चेत् । मैवं वाचः। विचित्राभिस- न्धाना हि प्राचः तथाहि विप्रतिपत्तिरप्रतिपत्तिश्च निग्र- हस्थानमिति सङ्क्षपे पारमर्षे सूत्रं विस्तरे तु प्रतिज्ञाहा- निरित्यादि एवमसाधनाङ्गवचनमदोषोद्भावनमिति प्रस- ज्यपर्युदासाभ्यां सङ्क्षपे चतुर्धेति बौडाः विस्तरे तु चतु- दशेति त एवाहुःतथा चामीषां यावन्ति रूपाणि निग्रह सम्भवन्ति तेषांमध्ये केनचित्कानिचित्परिगृहीतानि केन- चित्कानिचिदभिप्रायस्वातन्त्र्यात् सम्भवन्ति तु सर्वाण्येव द्वितीयपरिच्छेदे निग्रहस्थानप्रकरणे प्रतिज्ञाहान्यादिप्रकरणम् । १२३ रूपाणीति । अयन्तु विशेषो यत्स्वाश्रितशास्त्रानुक्तं रूपं निग्रहक्षममपि पुरस्कृत्य निगृह्णन्नपसिद्धान्तमासादयती- ति । हन्तैवं चौरापराधेन माण्डव्य निग्रहः कुरुभैनाहिसं- तृभ्रतार्मुनेमताश्रयणे न सडमैनानिगृह्णता वादिनोपसि- द्वान्तः स्यादिति किमत्र क्रियतां दुर्लभा हि शाखपरिपाटी तथाहि खाण्डनिक त्वमेव वेदान्तमाश्रयमाणो वेदानामपि प्रामाण्यमपजानाना व्याघाताप्यबिभ्यत् प्रमाणपथाव- तीर्ण सर्वं जहत् तदनवतीर्ण ब्रह्माद्वैतं दधत्स्वाश्रितशास्त्र- श्रद्धालुतया परं जीवसीति । नन्वेकस्य परित्यागपरिग्रही विरुद्धाविति विरोध एवात्र दोषास्त्विति चेत् । मैवम् । त्यागस्यानुद्भावने तटितस्य विरोधस्योद्भावनाशक्यतया आवश्यकोद्भावनस्य त्यागस्यैवात्र दोषत्वात् सेयं प्रतिज्ञा- हानिः पक्षहानिसाध्यहानिलिङ्गहानिदृष्टान्तहानितद्वि- शेषणहानिक्रमहानिभेदादनेकधा प्रतिज्ञापदं त्वत्र निर्वा- यभागपरं तेन सर्वसङ्ग्रह इति स्थापकेनोक्तस्य दूषकेण दूषितस्य साध्यभागस्य पूर्वानुक्तविशेषणवतोऽभिधान प्रतिज्ञान्तरं न च पूर्वपदार्यानिरुक्तिः यस्मिन् काले उक्तवि- शेष्यस्य समभिव्याहारः सम्भवति तत्कालस्य पूर्वपदार्थ- त्वात् तेन विशेष्यसमभिव्याहारीपयिककालेऽनुक्तस्य सा- ध्यविशेषणस्य दृषणाभिधानानन्तरं यदभिधानं तत्पति- ज्ञान्तरम् । नन्वीशः काले विशेष्याभिधानाव्यवहितः पूर्वश्चोत्तरश्च भवति तथा चैतयोरेकस्मिन्नुक्तमपरस्मिन्न- नुक्तत्वात्पूर्वमुक्तं भवत्येवेति चेन्न । सामान्याभावस्याश्रय- णात् । न च प्रागुक्तस्य प्रकरणलभ्यस्य विशेषणस्यानुक्त- भ्रान्त्या दूषितस्याभिधानेऽतिव्याप्तिरिति वाच्यम् अनुक्त- पदेनाप्रतिपादितस्योक्तत्वात् तस्य तु प्रकरणेनैव प्रतिपा- (१) श्रादर्श पुस्तके वेवमेव पाठो दृश्यते ।

१२४ खण्डनाद्वारे दितत्वात्। ननु तथापि परस्मिन्ननुत्पन्नप्रतिपत्तौ प्रतिपादि- तत्वस्याभावात्तत्रातिव्याप्तिरेवेति चेन्न । श्रोतृप्रतिपत्त्यनु- कूलकारणाकात्य॑स्य प्रतिपादितपदार्थत्वात् तस्य चानु- त्पन्नप्रतिपत्तिके सत्त्वात् न च प्रतिज्ञाहान्या हेतुहानेरिव प्रतिज्ञान्तरेण हेत्वन्तरस्यापिसङ्ग्रहोस्त्वितिमणिकण्ठम- तमादेयं स्वतन्त्राभिप्रायस्य नियोगपर्यनुयोगानहत्वादित्यु- क्तत्वात् । प्रतिज्ञाविरोध उक्तव्याघातः स च यस्य येन रूपेण यदनन्वयो येनाभ्युपगतस्तस्य तेनैव रूपेण तेन पुंसान्वया- भ्युपगमः स च पदादिभिरुन्नीयत इति पदादिव्याघात उच्यते। ननु यावजीवमहं मौनी अवाचकः शब्द इदं न जा- नामि ज्ञानमविषयमित्यादिषु विरोधप्रपञ्चेषु नाभ्युपगमा- न्तरं पश्यामो येन विरोधः स्यादिति ।मैवम् । मौनं हि वच- नोच्चारणसमर्थस्य तदनुच्चारणं तत्राहं मौनीति शब्दोचार- यितृत्वं आत्मनोऽभ्युपगच्छति कथमन्यथा वाचा प्रतिपाद- यति एवं चाहं मौनीदि व्यक्तमभ्युपगमान्तरं न चेत्प्रतिपा- दयति न तर्हि प्रतिपादकः एवमवाचकः शब्द इत्यादावपि शब्दस्य वाचकत्वमभ्युपैति कथमन्यथा तेन प्रतिपादयति तथा चावाचकः शब्द इति ब्रुवतो व्यक्तमभ्युपगमान्तरं एवमिदमिति प्रत्यक्षविषयमिदमा निर्दिशति न जानामी- ति तज्ज्ञानमपहुते एवं ज्ञानमविषयमित्यादिवदत एतबा- क्यजमपि ज्ञानं ज्ञानाविषयत्वं न विषयीकरिष्यतीतिगले- पादिकयापि ज्ञानस्य विषयत्वमङ्गीकारयितव्य एवञ्च ज्ञान- स्थाविषयत्वाभ्युपगमो विरुद्धः। यत्तु घटो नास्तीत्यादी घ- टोस्तीत्यस्य घटसत्त्वविधायकतया नत्रश्च घटासत्त्वविधाय- कतयात्रापिप्रतिज्ञा विरोध: स्यादिति खण्डनम् । तदव्युत्प- त्तिविज़म्भितम्।घटेन नो नत्राचास्त्यन्वयस्य सार्वलोकि- द्वितीयरिच्छेदे नियह स्थानप्रकरणे प्रतिज्ञाहान्यादिप्रकरणम् । १२५ कत्वात्। ननु घटनञोः कथमन्धयः उभयोरतादात्म्यात्नापि घटस्य नार्थे प्रतियोगितयान्वयः घट इति प्रथमान्तात्सम्ब- न्धितया तस्योपस्थित्यसम्भवात् तत्सम्भवे वा घटस्य नेत्य- नेन घटसम्बन्धिकः कश्चिनिषेडव्यो न घट एवेति। मैवम् । घटो नेति शब्दाद्धटनिषेधस्तावत्प्रतीयत इति सार्वलौकिक ईदृशञ्च प्रत्ययमपहुवानो माध्यमिकवदुपेक्षणीयः स्यात् । ननु प्रतीम एवं किं ततः। शब्दादीदृशः प्रत्ययः कथं स्यादिति पृच्छाम इति चेदनुभवं पृच्छ । अनुभवः कूटसा- दोति चेत्। आत्मानमुपालभस्व येन ताहशमेव कूटमनुभवं पुष्यसि । अपसिद्धान्ते शास्त्राकाराभ्युपगमेनात्र तु स्वाभ्यु- पगमेन सह स्वाभ्युपगमान्तरस्य विरोध इत्यपसिद्धान्ता- दस्य भेदः। नित्यः शब्दः कृतकत्वादित्यादी प्रतिज्ञाविरो- धवत् विरुद्धहेत्वाभासत्वेपि प्रतिज्ञाविरोध एव निग्रहा. य साध्याभावहेत्वोप्प्त्युपजीवनेन प्रवर्तिष्णुं हेत्वाभा- समप्रेक्ष्याभ्युपगमविरोधमात्रोपजीवनमात्रप्रवृत्ततयास्य द्रागेव सम्भृतसामग्रीकत्वादिति सह प्रतीतावप्रतीतौ च न विरोध इति खण्डने तवापि विरोधमन्तःसमानमिद- मिति नैयायिकवचसि प्रतिवन्दिखण्डनं तद्यथा प्रतिव- न्दी तावदूषणप्रतिवन्दी वा समाधिप्रतिवन्दी वा नाद्यः अप्रस्तुतत्वात् स्वपक्षे दोषे परेण देशिते तत्पक्षदोषा- दीरणं न कापि घटते किञ्च परदत्तस्य दोषस्यानुद्धरणात् एकनिग्रहान्तत्वात्तस्याः। नापरः यः प्रतिवन्या द्योत्यते स एव तहि समाधिरभिधीयतां किमनया कुसृष्ट्या कि- चावयोर्भिन्नमताश्रितयोः समानः समाधिरिति न नियमः एकमिन्मते यः समाधिस्तस्य परमते विमतेरपि सम्भवात् किञ्च परोद्भावितं दोषज्ञानादपोद्यत इति। अविनिगमस्तु Apn खण्डनाद्वारे युगपदुपस्थितयोः प्रमाणाभावादन्यतराभावः अत्र च प्र- माणाभाव एव दोषो न त्वविनिगमः लाघवगौरवे तु प्रमा- णस्य लघुगुरुविषयत्वसम्भवे लघुपरिच्छेदकत्वं गुर्वपरिच्छे- दकत्वञ्च स्वभावभेदी प्रमाणसहकारितामात्रेण तुतर्कव्य- पदेशः प्रतिवन्दिस्त्वापाततोऽर्थान्तरं तथाहि यदि क्षिता कर्ता स्यात् शशे श्रृङ्गमपि स्यात् शशशृङ्गवदसावपि प्रमाण- बाधित इति चेत् । तर्हि स एव दोषो न तुप्रतिवन्दिरिति। तदुक्तं प्रतिवन्दिरदूषणं तथा च यदुन्नेयं तदेवेह दूषणं क्लृप्त- त्वादिति सम्प्रदायः । अनौचित्यन्त्वौचित्यस्य प्रामाणिक- त्वविरहः सच प्रमाणाभावान्तर्गत एव न चान्तरमर्था- न्तरेण परिहरतः को दोषो वाच्यो यद्यनौचित्यं न दोषः स्यात्तच प्रमाणाभावावधारणानन्तर्भावेण पृथगिति वा- च्यं प्रथमार्थान्तरेणैव कथापर्यवसाने द्वितीयार्थान्तराभि- धानस्यानवसरपराहतत्वादिति । यत्तु दोषसामान्योहा- वनंसा मतानुज्ञा । अत एव प्रतिषेधेपि समाना दोषः तथा प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोष इति सूत्रद्वयस्य तथै- वार्थ आकरे स्फुटीकृतःतथा प्रतिवन्दी पृथग्दोष इति न्याय- मार्ग. इति विडि। प्रतिवन्द्या दूषणत्वानभ्युपगमेऽपसिद्धा- न्तः सा हि सर्वतन्त्रसिद्धदूषणभावेत्युपक्रमापसिद्धान्तो- पि दुर्वचः तथाहि सिद्धान्तविपरीताभ्युपगमोऽपसि- हान्त इत्यलक्षणंमत्सिडान्तविपरीताभ्युपगन्तुस्तवापसि- डान्तापत्तेः।अभ्युपतमानभ्युपगमयोः कर्बभेदोभिमत इति चेत् । अङ्कुरस्य जन्यत्वं व्योन्नश्चाजन्यत्वमभ्युपगच्छतोऽप- सिद्धान्तापत्तेः।विषयाभेदोप्यभिमत इति चेन्न । एकस्या- कथायामचेतनस्यापि कर्तृत्वमपरस्यान्तु चेतनस्यैवमभ्यु- पगच्छतोऽपसिद्धान्तापत्ते।कथाया अभेदाप्यभिमत इति द्वितीयपरिच्छेद निग्रहस्थानप्रकरणे प्रतिज्ञाहान्यादिप्रकरणम् । ૧૨૭ चेत्तहि यस्यां कथायां येन वादिना यद्दर्शनमाश्रितं तस्यामे- व कथायां तेनैव वादिनातद्विपरीताभ्युपगमापसिद्धान्तः। यदा येन वादिना यस्यां कथायां यार्थः सामान्याकारण यथाभ्युपगतः तेनैव वादिना तस्यामेव कथायां तबस्तुन- स्तद्विपरीताभ्युपगमापसिद्धान्तः तथा चानुगतलक्षणा- अयणेऽतिव्याप्तिःअननुगततदाश्रयणे त्वव्याप्तिरिति खण्ड- नम् । तदयुक्तम् । उभयथाप्यदोषात् तथाहि निग्रहस्था- नत्वे सति सिद्धान्तविपरीताभ्युपगमस्यापसिद्धान्तत्वात् तेन चोक्तसकलदोषपरिहारात् लक्ष्याननुगमें लक्षणा- ननुगमस्यादोषत्वाच न ह्यपसिद्धान्तत्वं घटत्वादिवत्सा- धारणं किन्तु कथायामाश्रिततत्तच्छास्त्रकाराभ्युपगमवि- रुद्धाभ्युपगमः स च कथारम्भे बोडोहमित्युक्ता परेण क्षणभङ्गादा दोषदेशनायां मास्तु क्षणभङ्ग इत्यादिरभ्युप- गमः। ननु न शास्त्राश्रय एव विवादः पर्वतस्य वहिम- स्वादावपि तत्सम्भवात् तदाह । रिक्तस्य जन्तोर्जातस्य गुणदोषमपश्यतः। विलब्धा वत केनामी सिद्धान्तविषयग्रहाः ।। न हि शास्त्राश्रया वादा भवन्तीति तस्मानापसि- द्धान्तो निग्रहस्थानमिति । मैवम् । बौद्धस्य क्षणभङ्गादिकं स्वशास्त्रोक्तं त्यजतोपसिडान्तोक्तयोपजीव्यविरोध एव- च्यते मीमांसकस्य श्रुतिविरोधवत् तथा चोपजीव्यविरो- धोद्भावने न तदैव कथाविच्छित्तिः । न चायमुपजीव्यवि- रोधः शास्त्रविरोधप्रतिज्ञाविरोधव्याघातेषु मन्मतेषु त्रि. ध्वपि साधारण इति एवं वह्नयनुमानेपि स्वाभ्युपेतप्रमा- पविरुद्धाङ्गीकारेपसिहान्तापरनामोपजीव्यविरोध एवेति तस्मादेवमादीन्यसम्यञ्चि खण्डनानि प्रपञ्च्यन् भवान्न खण्डनोद्वारे केवलमन्वीक्षायामनधीतीत्यवधार्यते किं तर्हि तन्त्रमात्र एवेति एवं निग्रहस्थानान्तरखण्डनान्यपि निराकरणी- यानि ॥ रति श्रीवाचस्पतिमिश्रकृते खण्डनोद्वार नियह- स्थानखण्डनोद्धारो नाम द्वितीयः परिच्छेदः । EMAIL तृतीयपरिच्छेदे सर्वनामप्रकरणम् । सर्वनामः खण्डयिष्यता ईश्वरसद्भावे किं प्रमाण- मिति तावत्तदवतारितम् अत्र च विकल्पकल्पना न युक्ता प्रकरणेन प्रश्नार्थताया एवावधारणात् किच्चेदृशः प्रश्न एव न सम्भवतीतीश्वरमन्तुस्तदभिज्ञतया प्रश्नायोगात् तदमन्तुश्चेश्वरासत्त्वाभ्युपगमेन तद्विषयकप्रमाणप्रश्नानुप- पत्तेः तस्मात्तत्त्वभुवनारुपादानगोचरापरोक्षज्ञानचिकी- (कृतिमज्जन्यत्वे किं प्रमाणमिति प्रष्टुर्महतीति अयमेव प्रश्नस्तत्परः तथा च प्रमाणपदं यद्विशेषपरमुत्तरेपि तथैव तद्विशेषपरमस्तु तथा च प्रमाणमित्येवोत्तरं घटतामेवं सर्वत्र प्रश्ने खण्डनमूहनीयमिति चेत् । धिङ्मूर्ख उक्तरी- त्यापि किं पचतीत्यादेः प्रश्नस्याखण्डनात् नहि किं प्रमा- णमितिवत् किं पचतीत्यत्रापि किञ्चिदुत्तरं त्वदिशा घटते विना कलायमित्यादेः किमः प्रश्नमानपरत्वेन प्रकृव्या- नभिधायकत्वात् । भावनानवरुडप्रश्न एवायं मया खण्ज्यत इति चेत् । अनेन खण्डनकृता सुरा पीतान वेत्यत्र भावना- नवरुडेपि प्रश्ने त्वदुक्तखण्डनाप्रवृत्तः तित्वानुपसन्दाने यः सुबन्तानुप्रश्नस्तमेव खण्डयामीति चेन्न । दक्षदौहित्रम- तानुसारेणासम्भवात्। यनान्यक्रियापदं नास्ति तत्रास्ति- र्भवतीत्यपरः प्रयोक्तव्य इति तद्वचनात् न्यायतस्त्रानुसारे- णैव सुबन्तानुप्रश्नखण्डने प्रवृत्ते अत्र च तत्रे वाक्ये न तिङ- न्तप्रयोगनियमः काञ्च्यामिदानी त्रिभुवनतिलको राजे- त्यादिवाक्यस्य न्यायप्रथमाध्याये दर्शनात् एवच्च किं प्र- माणं केन प्रमाणेन कस्मै प्रमाणाय कस्मात्प्रमाणात् कस्य प्रमाणस्य कस्मिन्प्रमाणे इत्येवंरूपषविविभत्तयवरुद्धसु- बन्तप्रश्नार्थ एव मया खण्ड्यते इति चेत् साधु वेदान्तावा समन्वितः तथाहि किं स्विद्धिमस्य भेषजमिति प्रश्नोत- प्रश्ने अग्निहिमस्य भेषजमिति श्रौतमुत्तरन्त्वन्मतेनालग्नक खण्डनाद्वारे । स्यात् भेषजमेवोत्तरन्त्वद्दिशा घटेत श्रुतयो विशृङ्खला एवेति चेत् । त्यज तर्हि श्रुतितात्पर्यमात्रसाक्षिके ब्रह्मणि विश्वासम् अधीष्व मध्यमागमं सेवस्व सत्त्वशून्यतावाद- मिति। नन्वस्त्वेतद्यथा तथा उत्तरवत्प्रश्नखण्डने य उद्धा- रस्तं प्रबहीति चेत्। बमः। किं प्रमाणमिति प्रथा वैजात्येन प्रमाणमित्युत्तरे कृतेपि तावन्न निवृति यावत्प्रत्यक्षम- नुमानं वेति न शृणोति तत्कस्य हेतोः प्रमाणमित्युत्तरमा- कापि स्वजिज्ञासितममुं प्रमाणविशेषरूपं न प्रापेति ग- म्यते प्रश्नस्थेन प्रमाणपदेन प्रमाणत्वेन रूपेण यथा प्रमाण- विशेष उपस्थाप्यते अन्यथा किमालम्बनः प्रश्न: स्यात् तथा उत्तरस्थेन तु तेन पदेन प्रमाणत्वेन रूपेण प्रमाण उपस्था- प्यते । अत्रैव सङ्ग्रहश्लाको । यथाविधं यं विषयं निजस्य प्रश्नस्य निर्वक्ति परो ययोत्तया। वाच्यस्तथैवोत्तरवादिनापि तयैव वाचाम तथाविधार्थः ।। प्रश्नस्य यः स्याद्विषयःस वाच्या वाचानया चैष भवेनिरु- तः। इदं त्वयाप्यास्थितमेतयैव वाचा स्वपृच्छाविषयस्य वत्वा ॥ इति । अत्र ब्रूमः । सामान्येन प्रकारेण विशेषमतिरस्कुर्वन विवेको तावद्विवेकिनं पृच्छति विवेको तु स्वविवेचित- विशेष प्रष्टुं प्रतिबिम्बयिष्यन्ननपेक्षितविशेषं तिरस्कुर्वन्न- पेक्षितं पुरस्कुर्वन् श्रृङ्गग्राहितया तं विशेषमाह प्रत्यक्षमि- त्यनुमानमित्यादि। एवञ्च प्रश्नविषये समदृशा सामान्यप्र- कारकोतिरस्कृनकिञ्चिद्विशेषः किं प्रमाणमित्यादिः प्रश्नो युज्यते उत्तयितुस्तविशेषेषु विषमदशा विवेकिनोभिमत- विशेषमात्रप्रत्यापिपयिोः शृङ्गग्राहिकानिर्देशमन्तरेण न निस्तार प्रष्टुजिज्ञासापनादिका हि विशेषप्रकारिका धीः सा नान्यथा सम्भवतीति । एवञ्च गाथावयं विशेषादर्शन- MINI तृतीयरिच्छेदे मर्वनामप्रकरणम् । १३१ योनीति विनः। अथ तनुभुवनादेरुपादानाभिज्ञजन्यत्वे किं प्रमाणमिति प्रमाणविशेषप्रश्नस्तजिज्ञासाविष्करण- रूपः तजिज्ञासा च तत्सामान्यज्ञानपूर्विका तच्च ज्ञानं यदि प्रमारुपं मन्यसेतदेश्वरप्रमा तद्विषयभूतश्चेश्वर स्त्वया प्रमित एव किं पृच्छसि अथाप्रमाभूतं ब्रूषे तदा कि पृच्छसि न ह्यप्रमालिङ्गितस्य स्वरूपं पृच्छयतं तस्य नि:- स्वरूपत्वात् अथ प्रमाप्रमादास्येन तज्ज्ञात्वा तत्स्वरूप पृच्छसि भवत्वेवं तदपि प्रत्येक कोठ्योषितत्वात् किम- धिकमस्ति अथ संशयानः पृच्छसि तदा शिष्योसि न तु वादी अथाचिक्षिप्सुः पृच्छसि तदा पूर्वोक्तं निश्चयपक्ष नातिवर्तस इति । अत्रोच्यते । तनुभुवनादेः कर्तृजन्यत्व- विषयत्वे च प्रमात्वं तावन्मन्यस इति न्यायमतमनूद्य स्वयं तत्प्रामाण्याप्रामाण्यौदास्यमालम्व्य तत्र किं कार- णमित्याचिक्षिप्सोः प्रश्नस्तत्तदोषग्रासात् किमपि करणं न भविष्यतीति प्रष्टुर्भावः एवं सर्वत्र प्रश्ने नेयम् ॥ इति श्रीवाचस्पति मिनाले खण्डनोद्वारे सर्वनामखानाद्वारो नाम तृतीयः परिच्छेदः ॥ ७५ १३२ खण्डनाद्वारे तदयं संक्षेपः। किमस्ताव जिज्ञासाविष्करणमर्थः किं स्विदेकाकी चरतीत्यादी क्वचित्स एवाक्षेपगर्भः क्षित्यादेः कर्तृजन्यत्वे किं प्रमाणमित्यादी कचिदाक्षेपो यथा मयि विरोधिनि सति कस्ते शरणमित्यादी कचिन्निन्दा यथा किं तेनाघ्रियुगेन येन नगरी न प्रापि वाराणसीत्यादा कचित् विकल्पः यथा हृतात्मा किमयं दिवाकर इत्यादी। पदादीनान्तु सप्तानां धर्मिण्येव शक्तिः प्रस्तुतत्वादिकन्तु पङ्कजसमुदाये पद्मत्वादिवत्प्रयोगोपाधिः धेनुपदे गोत्वव- च्छक्युपाधिति तथाहि प्रस्तुतत्वं तटस्थीकृत्य यच्छन्दो धमिणि वर्तते एवं तच्छब्दापीति । एवमिदमेतदादौ प्रत्य- चज्ञानविषयत्वम् अदाशब्दे तु परोक्षज्ञानविषयत्वम् अत एवोभी लौको सञ्चरसि इमञ्चमुच देवलकेति शाब्दिकाः। एवं युष्मच्छब्दः सम्बोध्यात्मनि अस्मच्छन्दः स्वतनवना- स्मनि स्वातत्र्यग्रहणात् वाच्यस्त्वया मवचनात्स राजे- त्यादी कविरेव नास्मच्छन्दवाच्योनुवादकत्वेन स्वातच्या- भावादिति।ननु विरमतु प्रश्नखण्डनं सिध्यतु चात्र भवान् उपनिषत्तात्पर्यमर्यादानिविणे भवान् तथापि तं भावभूतं मन्यसे तत्र किमिदं भावत्वं नामान तावद्रव्यादिषड़न्य- तमत्वम् अनुगतानतिप्रसक्तकरूपाभावे आदिपदाप्रवृत्तः तद्भावे च तस्यैव भावस्य वचनाचित्यात् किश्च यत्कि- चिद्भावत्वं ब्रूषे तद्भावत्वेस्ति न वा अाये स्वात्मनि वृत्ति- विरोधः अन्त्ये भावत्वस्य धर्मभूतस्यान्यनिषेधमुखेनाप्रती- यमानस्यापि भावत्वराहित्ये घटादेर्भावत्वे का प्रत्याशा। भगवतो भावत्वं माभूदिति चेत्तीभावत्वं प्राप्तम् । अस्त्वे- वमिति चेत् । किमिदमभावत्वं नाम भावनिषेधत्वं कश्चि- डि निषेधा भावस्य यथा घटो नेति आद्योऽभाव: भावप्र- १३३ चतुर्थपरिच्छेदे ऽभावप्रकरणम् । तिक्षेपणात् द्वितीयस्तु भावः अभावप्रतिक्षेपणात्। तदुक्तं अभावस्य तु योऽभावो भाव एवावशिष्यत इति चेत् । निषेध इति कोर्थः अभावो वा विरोधीवा। अनाये एवं हि भावस्य निषेध इत्यस्य भावस्थाभाव इति स्यात् तत्रा- प्यभावो भावनिषेध इति स्यात् अत्रापि निषेधपदस्या- भाव इति विवृतौ पुनीवप्रवेशे अभावनिरुक्तौ भावा- नन्त्यमापतेदिति नायं पन्थाः । अन्त्ये गोत्वमप्येवमश्वत्व- स्याभाव इति स्यात् तत्राप्येकेनापरस्य विरोधात् । अन- यो वयोर्विरोधेपि भावत्वेनोपस्थितस्य भावस्य विरो- धिता नास्ति अभाव इत्यस्य तु सास्ति स्वभाव इति भावनिषेधनादिति चेत् । तहि भावविरोधी भावत्वेनोप- स्थितस्य निषेध इति निर्ग लतम् अत्राद्यकल्पोर्थग्रास इति। अत्राहुः । त्रिविधा हि पदार्थास्तत्र द्रव्यगुणकर्मणां सत्ता च तडीश्च सामान्यविशेषसमवायानांतडीरेव अभावाना- न्तु चतुर्णामभावत्वेन सत्तासम्बन्धमानविरोधिना प्रकारे- गोपस्थितानां तडीरपि नास्ति विशेषदर्शने भ्रमानुदयात् । एवञ्च सत्तासम्बन्धमानविरोधिप्रकारवत्ता अभावानां तच्छून्यता तु भावानामिति । यद्वा सत्तावत्त्वप्रतीतिविष- यत्वं भावत्वम् एवं भावाश्चाभावाश्चोभयेपि लक्षिताः।य- द्वानुपलब्धिकरणकप्रतीतिविषयत्वमभावत्वम् अतीन्द्रिय- स्याप्यभावस्य ज्ञातानुपलब्धिकरणकप्रतीतिविषयत्वात् । एवमनुपलब्धिकरणकप्रत्यक्षाविषयत्वं भावत्वं घटाभावा- भावत्वेनापि घटस्य या धीः सापि घटत्वनैव घटाभावा- भावत्ववाक्येनापि घटत्वस्यैवोक्तः वायुर्नीरूप इत्यत्र ज्ञातानुपलब्धिकरणिकायामनुमिता यद्यपि वायुरपि चकास्ति तथाप्यनुमितिः सर्वैव पक्षेनुवादः साध्यमात्रे तु विधिरिति न वायोरप्यनुपलब्धत्वेनाभावत्वापत्तिः १३४ खण्डनोद्वारे भावत्वमुपदेशसहकृतेन्द्रियवेद्यत्वं रत्नेतरत्ववत् अभा- वत्वन्तु स्वरूपत एव योग्यं घटाभाव इत्यादिरूपेण चक्षु:- पातेन प्रतीतेः॥ ननु सर्वमिदं लक्षणजातं विशिष्टमिष्टं भवतः तत्र किं विशिष्टं नाम । न तावद्विशेषणविशेष्यतत्सम्बन्धे- भ्यो भिन्नं तवापसिद्धान्तप्रसङ्गात् नापि तचितयात्मकं प्रत्येकं विशिव्यवहारापत्तेः नापि समुदितं तत्रयं विशिष्टं तर्हि तेषु त्रिषु चतुर्थः समुदायः परं प्रवेशिता न तु विशिष्टोऽतिरेचितः तथा च प्रत्येक प्रसङ्गस्तदवस्थ एव त्वया विशिष्टस्यानन्यत्वाभ्युपगमात् । चतुर्णामपि समुदा- योपेक्षित इति चेत्तयतिप्रसङ्गः पूर्ववदेव अनवस्था चाधि- केति। अत्राहुः । अनेन विशिखण्डनेन स्वकर्तुर्ज्ञानाविशि. धृत्वमुद्दझीति स्तनन्धयैरपि निरटकि। नतु विशिविशे- षणविशेष्यसम्बन्ध इति सत्यं तच्च न विशिपृव्यवहारहेतुकं व्यवहारस्य व्यवहर्तव्याजन्यत्वात् किन्तु तज्ज्ञानं तथा त- दपि त्रितयग्राहितया समूहालम्बनाविशिमिति समूहा- लम्बनादपि विशिव्यवहार आपद्यतेति मद्देशनार्थ इति। चेत् । नूनं भ्रान्तासि न त्रितयग्राहितामात्रेण समूहालम्ब- नमपि विशिषव्यवहारकमन्वये विशिज्ञानं हि तथा तत्किं समूहालम्बनं विशिस्य ज्ञानं न भवति भवति न तु विशिएं ज्ञानं तत्कस्य हेलो सामग्रीभेदादिति ब्रूमः। समूहालम्बने हि दण्डपुरुषतत्तत्सम्बन्धैः सममिन्द्रियसन्निकर्षस्तथा दण्डत्व- पुरुषत्वतत्सम्बन्धानां ज्ञानसंसर्गाग्रहश्चेति सामग्री विशि- ज्ञाने तु दण्डात्मकविशेषणज्ञानं पुरुषदण्डसन्निकर्षाभ्यां सहेन्द्रिय सन्निकर्षः सामग्नी तथा चार्थभेदेन सामग्रीवैल- क्षण्यात् विशियज्ञानं विलक्षणमुदेति तदेव विशिषव्यव- । sasuALLAMMARRIED १३५ चतुर्थपरिच्छेदे द्रव्यलक्षणप्रकरणम् । हारकरणं यथा भूतले घटाभावो घटाभाववद्भूतलमिति ईदृशञ्च विशिकृतद्वीव्यवहारव्यवस्थिता यदिशिखण्डनं सोयमबोधस्य विवर्तः परिणामो वेति ॥ इयता प्रबन्धेन कथाङ्गत्वाभिमतानि निग्रहस्थानानि नैयायिकानुमतानि तथा सर्वव्यवहाराशीभूतानि सर्वानुम- तानि सर्वनामानि तथा सर्वाणि विशिधानि च स्वाभिमा- नेन दूषयित्वा सम्प्रति वैशेषिकमतं खण्डयितुमवतारयति गुणवद्रव्यमिति गुणवत्त्वं द्रव्यलक्षणमुक्तम् । तच्चायुक्तम्। गुणादीनांषणामपि संख्यारूपगुणप्रतीत्या बाधकाभावा- चप्रमाभूतया गुणवत्त्वसिद्धातिव्यापकत्वादिति। तदस- त् । सामान्यादीनां सत्प्रत्ययवद्गुणानां रूपादीनां संख्या- दिप्रत्ययस्यौपचारिकत्वात् । उभावपिप्रत्यया प्रमे एव बा- धकाभावादिति चेत् । गुणस्यापि गुणवत्त्वे सामान्यस्य सा- मान्यवत्त्वे अनवस्थाया एवं बाधकत्वात् उत्तरधारायाच्दा- प्रामाणिकत्वेनानवस्थाया दोषत्वात् । रूपादीनां गुणवत्त्वे प्रमाणं नास्तीति चेत्तर्हि संख्यादावप्येवमस्तु । अस्तु का नो हानिरिति चेद्गुणवत्त्वे द्रव्यलक्षणे गुणादावतिव्याप्ति- हानिरेव त्वडानिस्त्वदिशा तदुक्तम् । ममतु द्रव्यगुणादि किञ्चिदपि नानुमतमिति चेत् । तहि तन्मतेऽवस्थादि- ग्राहि(९) दो गुणवत्त्वं नास्तीति गृहाण। एवञ्च सत्तासं- ख्ययोः प्रत्यये समेपि सत्ता सिध्यत्यबाधात्संख्या नास्ति बाधादिति । वस्तुतस्तु नवापि द्रव्याणि स्व- समवेतं कार्यमारभन्ते न त्वन्यानि तथा चामीषां सम- वायिकारणतावच्छेदकमेकमनुगतमनतिप्रसक्तमेव्यं त- देव च द्रव्यत्वमतस्तदेव नवानां लक्षणं जातिवादख- (१) प्रत्रादर्श पुस्तकत्रयेऽपि कश्चिदंशो निहितः । ७६ १३६ खण्डनाद्वारे एडत्वेन लाघवात् न तु गुणवत्त्वमुपाधित्वेन सखण्डतया गौरवात् किन्तु गुणवत्त्वं तस्य व्यञ्जकमात्रं गोत्वस्य सा- स्नावत्त्ववत् । ननु गुणवत्त्वं भवतु द्रव्यत्वाचकं तथापि गुणत्वासिडी तदप्यसिद्धमिति तदवश्यं वाच्यमिति चेत् । गुणत्वं जातिरेव । गुणत्वमसिद्धं गोत्वादिवदप्रतीतेरिति चेदत्राहुः । गुणकर्मणी तावद्व्याश्रिने तत्र कर्मापि गुण एव वैलक्षण्याभावादिति भूषणः । तदयुक्तम् । कर्मणां हि परस्परविरुद्धसंयोगविभागलक्षणकार्यद्वयकारित्वं न गुणा- नान्तथेति पञ्चानामपि कर्मणामेकं कर्मत्वं तदभिव्यङ्ग्यं गुणानां चतुर्विशतेरप्यविरुद्वकार्यकारितया चतुर्विशते- रपि गुणत्वमेकं तदेवाखण्डत्वेन लाघवाल्लक्षणं तयञ्जकन्तु सामान्यवान् चलनानात्मकः समवायिकारणताहीनो तुण इत्यादीति । द्रव्यकर्मणास्तु विरुद्धकार्यकारित्वेप्यनपे- क्षतत्कारिता कर्मणामिति तयवस्थापकं कर्मत्वमिति द्रव्यम् ॥ सामान्यवानित्यत्र किंसामान्यम् । जातिरिति यदि केयं जातिः नित्यत्वे सत्यनेकसमवेतति विद्धि अनेकसम- वेतोप्यवयव्यादिर्न नित्यः नित्यश्च परमाणुस्नेहादिर्न त्वने- कसमवेतः । अथ महाप्रलये सर्वेषामनित्यानामभावात्तन्नि- ष्ठाजातयो नित्यानेकसमवेतत्वं स्वलक्षणं त्यजन्तीति चेत् । किं नश्छिन्नं यावन्तं कालं लक्षणाधीनो व्यवहारस्तावन्तं कालं लक्ष्यात्यागादेव लक्षणं एवमनुगतधीकारणत्वम् । न च सामग्यामतिव्याप्तिः तस्या अकारणत्वात् नापि तद्- न्तर्गतेषु सा तेषां तत्राप्रधानत्वात तेनानुगतमतिप्रधानका- रणत्वं जातिलक्षणं न च महाप्रलये लक्षणासिडि>षाय तदेतरव्यवच्छित्रसाधनेन लक्षणसिहनिजत्वात् अत mymptimum चतुर्थपरिच्छेदे सामान्यलक्षणप्रकरणम् एव गन्धशब्दाश्रयत्वाद्यपि लक्षणं घटते । यत्तु खण्डितं नित्यानेकसमवेतत्वं लक्षणं नित्यमनित्यं वा। आये अंशत आत्माश्रयः नित्यत्वेपि लक्षणान्तर्गते नित्यत्वस्योपग- मात् ।अन्त्ये जातिव्यक्तिसमवायादीनामेकतमस्यानित्य- त्वमावश्यकं तदन्तरेण विशिषाभावासम्भवात् घट दा- वनित्ये तदनित्यतया घटत्वादी लक्षणस्यानित्यत्वं यद्यपि सम्भवति तथाप्यात्मत्वादी तदसम्भवः प्रात्मनोपि व्यक्तनित्यत्वात् एपञ्चैकमेव नित्यानेकसमवेतत्वं घट- स्वादावनित्यम् । आत्मत्वादी तु नित्यमिति प्राप्तम् । एवं प्राप्तेऽभिधीयते । नित्यानेकसमवेतत्वमुपाधित्वात्सखण्ड सखण्डत्वाचान्यघटितं तथा च यत्र घटादिव्यक्तिटितं तत्र तदनित्यत्वेनानित्यं यत्र त्वात्मादिव्यक्तिभिर्घटितं तत्र तासामपि नित्यतया दैवान्नित्यमिति । नन्वेकमेव वस्तुनित्यमनित्यञ्च ध्वस्तञ्च सच्चेति महढेशसमिति चेत्। न अन्येनानेकेन घटितं घटत्वादेरनेकत्तित्वमन्यदिति नैकस्य विरुद्धधर्माध्यासः। तत्कथमिदमेकं लक्षणम्नेकह- त्तित्वस्योभयत्राविशेषात् नित्यत्वस्य च नित्यत्वं प्रामा- णिकं तदनित्यत्वस्याप्रामाणिकत्वादिति सम्प्रदायः । नव्यास्तु अभिधादीनां भङ्गरत्वेप्यभिधेयत्वादिकं यथा ध्रुवं तथा व्यक्तीनां भङ्गेप्यनेकसमवेतत्वं स्थादेबेत्याहुः ॥ सामान्यलक्षणादीनां विशेषणैर्विशेषादयो यथास- म्भवं निबार्या इत्यात्थ । तत्र के ते विशेषाः। नित्येष्वेव द्रव्येष्वेव वर्तन्त एव येते विशेषा इति चेन्न आत्म- त्वादावतिव्याप्तेः । आत्मत्वादिकं सर्वस्मिन्नित्यद्रव्ये न वर्तते एते तु वर्तन्त एवेति चेन्न तर्हि एकैकविशेषस्य सकलनित्यत्तित्वमिति सर्वाव्याप्तिरिति खण्डनम् । ज-No. 3 Vol. XXIX-March 1907. १४५ खण्डनोद्वारे HINicknationalmalaniamen NummaNeutram wonlayananatantrwas तन्न । एकैकव्यक्तिरेकैकत्र नित्यद्रव्ये वर्तत इत्यनेन रूपेण ये नित्यद्रव्येष्वेव वर्तन्त एव ते विशेषा इत्यस्य लक्षणार्थत्वात् यद्यप्यैकैका एव वर्तत इत्यव्याप्तिरेव । तथाप्यतजातीयाः सर्व एवेति सर्वव्याप्तिः एतज्जाती- यत्वं तु लक्षणैक्यादिति काणादादयः। अत्र गैातमीयाः। अत्र सर्वत्र वृत्त्याव्याप्तिनिरासेन लक्षणसिडिः लक्षण- सिड्या तल्लक्षणवत्त्वपुरस्कारेण सर्वत्र वृत्तिः व्यक्तीनां हि गङ्गावालुकायमानानामेकैकद्रव्यव्यक्तिमात्रविश्रान्तानां स्वतः सार्वत्रिकत्वासम्भवादित्यन्योन्याश्रयः विलक्षण- धीस्तु वैलक्षण्याजात्यादिवदिति ॥ ननु लक्षणानि लक्ष्येषु कुतो व्यवहारकाणि सम्ब- न्धादिति चेत् । किमिदं सम्बन्धत्वं विशिधीनियामकत्वम् असम्बन्धेभ्यो हि व्यावर्तमाना हि विशिप्रमा विशेषण- वत्येव विश्राम्यति न हि केवले पुंसि दण्डोति कश्चित् प्रमि- जाति । नीरूपे वाया रूपसम्बन्धोस्त्येवेति चेत् । अस्तु रूपात्यन्ताभावसम्बन्धोप्यास्त तथा च विरोध्यनुपहिता विशेषणसम्बन्धी विशिषव्यवहारकः स तादृशो वाया नास्तीत्यता न तत्र रूपविशिव्यवहारः । एवं दण्डि- व्यवहारे दण्डसम्बन्धः संयोगलक्षण हेतुः स च दण्डसं- योगात्यन्ताभावेनाव्याप्यत्तिनोपहितापि विरोध्यनुप- हित एव तस्यात्यन्ताभावस्याव्याप्यत्तित्वावच्छिन्नस्य तदविरोधित्वात् सम्बन्धेन समं सम्बन्धिनः सम्बन्धः संयोगेन समं समवायः समचायेन समं कः स्वरूपमेव । अस्तु तर्हि स्वरूपत एव स्वरूपं सम्बन्ध इति चेत् । भवेदेवं यदि जातिगुणक्रियाविशिधियां सम्बन्धजन्यत्वानुमिति- लांघवादेकं नावगाहेत । हन्तवमभावरूपादिविशिधि- पामप्येकः सम्बन्धी विषयो निमित्तं वास्तु लाघवादिति चतुर्थरिच्छेदे विशेषसमवायप्रकरणम् तदेव वैशिष्ट्यं स्यादिति चेत् । इदं हि प्रत्यक्षनिर्ण- येऽस्माभिः प्रपञ्चितमिति तत्रैवानुसन्धेयम् । एवञ्च नियामकत्वमेव सम्बन्धत्वमित्युत्प्रेक्षाभावापि त्वया नि- यामकाङ्गीक्रियते तथापि सोपि सम्बन्धः स्यादिति यत्व- एडनम् तच्छ लम् । विशिधीनियामकस्य मया सम्बन्ध- त्वमुपेयते न न तु नियामकमात्रस्येति ॥ ननु नियामकत्वं नियमकारणत्वं कारणत्वञ्च निय- तप्राक्सत्त्वमत्र च प्रागिति व्यर्थं सत्त्वमात्रमेवास्तु कारणत्वमिति धिनियामकं न हि भविष्यदतीतं कर्तु शक्नोति स्वरूपासिद्धः प्राच्यन्तु भाविनं कुर्यात् व्यापा- रादियोगात् अत एव घटार्थी मृदमुपादत्ते न तु जलाहर- णादिकमिति सार्वलोकिको व्यवहारः । ननु स्वभावस्य नियामकत्वे स्वयमेव स्वं नियमयतीति प्राप्तं तथा च स्वस्याप्रसक्तत्वे नियामकतानतिप्रसक्तत्वे च न नियम्यता। अयमेव सम्भाव्यत्वादिति सत्यम् । नियामकमन्तरेण यन्नियतत्वं तदेव स्वभावनियम्यत्वार्थः। यद्वा तेजःप्रभृते- रोष्ण्यादि स्वभावनियम्यं तेजस्त्वादिप्रयुक्तमित्यर्थः। ननु दण्डादिना कारणेन घटादिकार्य नियम्यत इति ब्रूषे तस्य किं नियम्यते स्वरूपं वा कालविशेषयोगो वा उभयमप्य- नियतं वा। आधे घटमिव पटमपि घटस्योत्तरकालसम्बन्ध- मिव पटस्याप्युत्तरकालसम्बन्धं नियमयेदविशेषात् अनि- यतत्वेनाभयोरपि नियतत्वात् तदाह । यदि कुर्यादसत्कालानियतं नियतं परः। तत्स्यादतिप्रसक्तत्वमन्यथा च नियन्तृता ॥ इति । अस्यार्थः । परी दण्डादिः यदि असत्कालानियतं वा घटादिः नियतं घटादिस्वरूपेण नियतं कालविशेष- खण्डनाद्वारे योगितया वा नियतं कुर्यात्तदातिप्रसक्तिः स्यात् न ह्यत्पत्तेः प्राक् पटस्यालब्धात्मकस्यात्मलाभे कोपि विशे- पोस्ति अभ्युपेत्याह अन्यथा घटस्य तदीयकालविशेषयो- गस्य वा नियतत्वे नियामकं न नियन्तृ तदन्तरेणैव घटस्य तत्कालविशेषयोगस्य वा नियतत्वादिति । तन्न । न हास- त्वकाले घटादेनियतत्वादिकं धर्मो भवितुमर्हति । धर्मिण एवासत्त्वात्तथा च प्रा चोत्तरयिता च द्वावपि शुन्यह यौ । ननु सुहृद्भावेन पृच्छामः घटकारणानि कुतो नियामकाद्घटमेव जनयन्ति । तत्समवायिकपालमिल- नात् । कपालमेव कुतो घटमेवारभते न तु पटं स्वभावा- दिति ब्रूमः । कार्यमप्राप्तानि कारणानि जनयन्त्यतिप्रस- झात् तत्प्राप्तानि च न तजनयन्ति विशेषादिति बम इति चेत् । इमे हि प्राप्त्यप्राप्तिसमे हि जातीति स्वव्याघात- मपि न वेत्सीति दूरमपसर । अस्तु व्याघातः किं नश्छिन्नम् न वयं किञ्चिदपीच्छामः किञ्चिदपि साधयामः किच्चि- दपि स्थापयामः किञ्चिदपि ब्रूम इति चेन्न । न हि लोकिको न परीक्षक इत्युन्मत्तवदुपेक्षणीयः स्या इति ॥ ननु नियामक नियम्ये सन्नियम्यं नियमयेत् तत्र च कः सप्तम्यर्थः । अाधारत्वमिति चेत् । किमाधारत्वम् देशे इहेति प्रत्ययविषयत्वम् गवादी अत्रेति प्रत्ययविषयत्वम् अवसरे एतहीति प्रत्ययविषयत्वमिति चेत् । इत्यादयः शब्दपरा अर्थपरा वा । नायः न हि देशानां नामाधारता- बुही प्रात्यक्षिक्याद्यः शब्दा अपि चकासति । नान्त्यः सर्वसाधारणस्य तस्यैव सप्तम्यर्थस्य निरूप्यमानत्वादिति खण्डनम् । अत्रोच्यते । अयमाधारत्वस्य लक्षणप्रश्नो वा स्वरूपे प्रश्नो वा प्राधारपदप्रवृत्तिनिमित्तप्रश्नो वा । नाद्यः १४ নৃথবিজু জাযনাথানার तस्य प्रमेयत्ववत् केवलान्व यत्वात् सर्वे किं वस्तु स्वीय- लक्षणस्याधार एव । ननु कारकत्वगर्भमाधारत्वं पृच्छा- मीति चेत् । अत्रोच्यते।चरमध्वंसेतरत्वमिति गृहाण। चर- मध्वंसः परमकारकः शेषास्तु धर्मित्वे सति कारका इति। द्वितीये स धर्मी इत्येवोत्तरम् यावान् धर्मी तावान् धर्मस्या- धार एव । अन्त्ये धर्मित्वमित्येवोत्तरम् धर्मित्वमेव प्रती- त्याधारवाचिपदं प्रयुज्यते । कुण्डे वदमित्यादि कुण्डा- देद्धर्मिभूतस्य धर्मभूतं वदरादि । कुण्डस्य व प्रति किमा- धारत्वमिति चेत् । वदरपतनप्रतिबन्धकत्वम् । नन्वेवं ब्रह्माण्डधर्ता प्रयत्नवान् परमपुमान् ब्रह्माण्डस्याधारः स्यात् । तदुक्तं भगवतैव । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इवेति । केचित्त्वेवमनिच्छन्तो मूर्तपदमत्रविशेषणमाहुः । वदादिकं हि कुण्डाद्यपेक्षते न तु कुण्डेन वदरं स्वास्तिता- यै तदपेक्ष्यते सहैव कुण्डेन पतति वदरे नाधाराधेयभा- धः। एवं रूपादिना तदुत्पत्तिमता पटादिकं स्वोत्पत्त्यर्थम- पेक्ष्यते न तु पटादिना रूपादि तदर्थमपेक्ष्यते एवं गोत्वा. दिना गवादि ज्ञप्तयेऽपेक्ष्यते न तु गवादिना तदर्थं गोत्वा- दिकमपेक्ष्यते । तदाहुः । उत्पत्तये स्थितये ज्ञप्तये च यद्यनापेक्ष्यते तत्तस्याधिकरणमिति । एवञ्च प्रतिबध्यप- तनानाश्रयत्वे सति पतनप्रतिवन्धकसंयोगवन्मूर्तत्वं कु- ण्डादेवंदरादिकं प्रत्याधारत्वम् । ननु किमिदं पतनं नाम अधासंयोगफलककर्मत्वमिति चेत् । कोयमधःपदार्थः पतनभागी देश इति तावदयुक्तमन्योन्याश्रयात् । अन्य- चाधापदार्थभूतमनुगतं दुर्वचमिति । सत्यम् । न ह्यधस्त्व मप्रतियोगिकं गोत्वादिवदनुगतं मृगयसे किन्तु प्रति १४२ खण्डनाद्वारे स्वम्भिन्नं तथाहि यद्यदपेक्षया गुरुत्वासमवायिकारणक- क्रियाजन्यफलाश्रयस्तत्तदपेक्षया अध इति । एवं सूर्यापे- क्षया भूः तदपेक्षया पातालं तदपेक्षया नरकस्ततदपेक्षया गौद्कमित्यादि यथाक्रममधः एतत्प्रतिलोममूर्डम् । उभयरूपाश्रयो मध्यमित्यादि । गवि गोत्वसमवाय इत्या- दो स्वरूपसम्बन्धेनैव विशिधीनिघटयोरिव विषयवि- षयिभायः॥ ननु कोयं विषयविषयिभावः । प्रकाशस्य सतस्त- दीयतामात्ररूपः स्वभावविशेषो विषयविषयिभाव इति तावव्यापकम् । इच्छाया विषयिण्या अप्रकाशत्वात् कि- व स्वस्य वा भावः स्वश्चासौ भावश्चेति वा स्वभावः। श्रा- द्यपि सकलसाधारण वा घटज्ञानादिप्रत्येकविश्रान्तो वा। अत्राद्यो नास्य घटादिग्राहितज्ज्ञानमात्ररूपकासकल- ज्ञानसाधारण्यात् तद्धमतापगमाच । द्वितीये तु ज्ञान- कारकस्यैव प्रतिज्ञानव्यक्तिभेदादिति वचनभङ्गया साका- रपक्षाद्वाकार एव । किच्चाय धर्मश्चौपाधिकः स्वाभा- विको वा । आये कुङ्कुमारुणा तरुणीतिवदुपाधेरप्यव- भासः स्यात् । विषयीभूतो घटादिरेव च तत्रोपाधिरिति चेत् । नासम्बन्धात् । न हि सोपि ज्ञानेन सम्बध्यते विष- यविषयिभावस्यासिद्धत्वात् नापि स्वाभाविकः न हि घटज्ञानेष्वेकः पटज्ञानेषु पर इत्यभ्युपगमे समूहालम्बने स- कीर्यंत । एकं ज्ञानं घालम्बनं नैव भवतीति चेत् । तर्हि विशिज्ञानाभावे विशिस्य व्यवहारो न स्यात् । न हि विशिधुमेकं नापि द्वितीयः न हि ज्ञानमेव विषयविष- यिभावः ज्ञानव्यक्त प्रतिस्वं भेदे ततोनुगतविषयविषयि- भावस्य व्यवहारानापत्तेः। एतेन ज्ञानं स्वाकारालम्बन- १४३ चतुर्थपरिच्छेदे विषर्यावर्षायभावप्रकरणम् मित्याद्यपि सावद्यामिति । अत्र ब्रूमः । ज्ञानस्य निर्विषय- तां साधयसि वा सविषयतां निरस्यसि वा अभिप्रेषि वा किञ्चिदपि वा न कुरुषे वा नाद्यौ विपरीतापत्तेः । यथा यथा निर्विषयतायै यत्नस्तथातथा सविषयता प्रत्यापद्य- ते । न हि त्वदुक्तं निर्विषयतां नालम्बते निर्विषयता चसि- ध्यतीति सम्भवति । वयं शुद्धवैतण्डिका अतो न ज्ञानस्य निर्विषयतां साधयामो न वा तामभिप्रेम इति चेत् । तथापि सविषयतां निरस्यसि तदपि नेति चेत् । तहि शून्य- हृद्यपशुवदुपेक्षणीयोसि । मदर्थं मा यस्य तव तु विषयविष- यिभावस्य निरुक्तिः कथं घटतामिति बहीति चेत् । उक्तं प्र- काशस्येत्यादि । तथाहि प्रकाशप्रकाश्ययोरतिरिक्तः सम्ब- न्धस्तावन्नानुभूयते तेनासम्बन्धो वा स्यादनतिरिक्तो वा सम्बन्धः तत्राद्यो व्याघातदूषित एवेति परिशेषादन्त्यः सिध्यति। ननु सम्बन्ध्येव कथं सम्बन्धोऽस्तु तथा सति वा समवायमपि त्यजेति चेत् । स ह्यनुभूयमानतया न त्यज्यते प्रवाहस्तु त्यज्यत एव सम्बन्धिनि तु सम्बन्धातिदेशः स च कार्यातिदेशः पर्यवस्यति न तु स्वरूपस्यातिदेशः सम्भ- वति तथा सत्युपदेश एव स्यात्। तेन सम्बन्ध्येव सम्बन्ध- कार्य विशिष्टव्यवहारादिरूपं करोति । ननु विशिष्टव्य- वहारो वैशियव्यवहाराधीनः तच वैशिष्ट्याधीनं वैशि- ष्ट्यञ्च सम्बन्धः स च सम्बन्धिनोभिन्नः न हि स एव तद्वांस्तेनैव भवतीति चेत् । उपदेशे तथैव अयन्तु कार्या- तिदेश इत्युक्तम् । यत्तु यज्ज्ञानजनिता ज्ञातता यस्मिन् धर्मिण्युदेति तज्ज्ञानं तद्विषयकमिति । तन्न । ज्ञातताया नैयायिकैरनभ्युपगमात् । भट्टैरुपेयत एव सेति चेत् । उपेयताम् । यत्रेत्यत्र कः सप्तम्यर्थः न हि ज्ञातता धर्मिणि ૧૫ ૨ १४४ खण्डनोद्वारे समवेता नापि संयुक्ता किन्तु स्वभावसम्बद्धा तथा च ज्ञानमेव स्वभावसम्बद्धमस्तु किमन्तर्गडुना ज्ञाततया अनीतानागतयोश्चार्थयोस्तदुपादानमशक्यम् । तत्रापि घटत्वादी नित्ये धर्मे ज्ञाततादय इति चेत् । तर्हि घटे धर्मिणि ज्ञातव्यवहारो न स्यात् धर्मधर्मिणार्भेदात् विरोधेन भेदाभेदपक्षस्य शङ्कितुमशक्यत्वात् । अतीता- नागतयोतितां विनैव ज्ञातव्यवहारश्चेत् । वर्तमानेऽ- प्येवमस्तु अन्यथा वर्तमाने ज्ञाततया तयोस्तु ज्ञाततां विनैव ज्ञानव्यवहारो भवन् भ्रान्तः स्यादिति । तत्प्रति. बन्धव्यवहारानुकूल शक्तिशालित्वं तद्विषयत्वमित्यपि न तत्प्रतिबन्धो हि तद्विषय इति विषयविषयिभावख- एडनं नातिवर्तते । अथ ज्ञानं स्वाभिन्नमेव स्वाकारं विष- यीकरोति बाह्यघटादिसिद्धिस्तु ज्ञानस्य घटाकारत्वान्य- थानुपपत्त्या न हि बाह्यघटमन्तरेणैव ज्ञानस्य घटाकार- ता सर्वज्ञानानां घटाकारतापत्तेः तथा च ज्ञानाकार- त्वमेव ज्ञानविषयत्वमिति सौगताः। तन्न । प्रभावत्वा- नुपपन्नं ज्ञानं तदपि हि आकारमात्रग्राहि न तु बाह्य- ग्राहि न हि भेदे विषयविषयिभाव इति ब्रूषे तथा च न बायासिद्धिः कोयं भेदः यं प्रातीतिकमप्यशक्यसम- र्थनमनिर्वचनीयमाविद्यकमात्थ ॥ ननु कथमस्तु भेदस्तथाहि ब्रह्म तावदेकमेव प्रप- वस्तु न प्रमाणसिद्धः स न स्वप्रकाशः जड़त्वात् नापि परप्रकाशः प्रकाशजडयोः सदसतोः सम्बन्धाभावात् तस्माद्युक्त्यापि प्रपञ्चे निरस्त एकमेवाद्वितीयं नेह नाना स्ति किञ्चन इन्द्रो मायाभिः पुरुरूप इत्यादिभिरुपनिष- Fletednesdamad १४५ चतुर्यपरिच्छेदे भेदविचारप्रकरणम् द्भिरेव हि ब्रह्मणैक्यं प्रपञ्चस्य विषय फलभेदो भाविक: स्यादिति । उच्यते। अस्ति विस्वरूपान्योन्याभावो वैधय- भेदालाकिकप्रत्ययो यद्घोयं न पटो मृन्मयश्चेति कात्रापि कथन्ता स्वरूपभेदस्य लक्षणं ताप्येणाप्रतीता प्रतीतिरिति अन्योन्याभावस्य तु लक्षणमबाधितः समानाधिकरण निषेधप्रत्ययो वैधय॑स्य तु एकधर्म्यसमावेशलक्षणो विरोध इति । अत्र प्रतीतिरित्येतावत् कृते इदं रजतमिति भ्रमेपि शुक्तिकायां या धीस्तया शुक्तिकायां रजतरूपव्यवहारः स्यादिति तद्वारणाय ताद्रप्येणाप्रतीतेति । तथाहि यतो रजतादेर्भेदावधिभूतात् शुक्तिकाव्यवहारः स्यात्तद्रूपत. यैव शुक्तिकायाः प्रतीतिरभूदिति नेयं धीः शुक्तिकायां स्वरूपभेदतः । एवमपि द्विचन्द्रबुडे स्वरूपचन्द्रस्य मायाचन्द्रतादूप्येणाप्रतीता प्रतीतिरस्तीति तत्रापि स्वरूपभेदः स्यादतो प्रतोतिरियं दोषात् तत्र तु स्वरूप- चन्द्रस्य मायाचन्द्ररूपत्वेनाप्रतीतिर्दोषादेव तत्त्वाप्रती- तावतत्त्वप्रतीतो चोभयत्रापि मन्मते दोषानां हेतु- त्वोपगमात् । ननु ताप्येणाप्रतीतो प्रतीयमानस्य धर्मिणः स्वरूपभेदे प्रतीते कथमभेदाप इति चेत् । दोषमाहात्म्यादिति गृहाण । न चाभेदो नारोप्यते किन्तु तादात्म्यमिति वाच्यम् । तहि संसर्गाभावायं स्यात्तादा- त्म्यस्य धर्मिणि निषेधादिति । अपरी तु भेदा स्था- पयिष्यामः प्रपञ्चस्य चाबाध्यतां वक्ष्यामः। ननु भेद्धी- कालेऽवध्यन्वयोपि ना कीदृशा भेदवन्तावेवेति गृहाण । अनुयोगिनि स एव भेदोस्तु अवधी तु अनुयोगिप्रतियो- गिक इति शेषः । ननु किम्भेदविशिष्] किं भेदवृत्तिः न (१) पत्रादर्शपुस्तकेषु कश्चिदंश निपतितोस्ति ।

१४६ खण्डनोद्वारे *AIDANRememusewitne जात्या जानीमः । वस्तुतो यावत्सत्त्वमन्योन्याभाववैधये सहैव स्तः अन्योन्याभावस्य जातिरूपवैधर्म्यस्य वाद्यक्षण एव तत्रान्वयात् अन्त्यक्षणपर्यन्तञ्च तत्र स्थितेः । स्वरूप- भेदस्तु धर्मिणि वर्तत एवाभेदात् । कथं तर्हि पृथिवी- त्वादिना वैधयेणाभावात् स्वरूपभेदः पृथिव्यादेरनु- मीयते धर्मिज्ञाने सिसाधनात् धर्म्यज्ञाने चाश्रयासिरे- रिति चेत् । न । तायत्वेन पिपासोपशमनशक्तस्तदभिन्ना- या अनुमितिवदत्राप्यनुमितिसम्भवात् । तत्रापि कथम- नुमितिरुपाधिभेदस्यानुमेयत्वात् । तोयत्वेन पिपाशोपशमनकारणतावच्छेदकरूपत्वेन तदेव तायमनु- मीयते यथा तया पृथिवीत्वेन जात्या पृथिव्याः स्वभावा- द्विलक्षणशरीरमनुमीयते । ननु पृथिवीत्वस्वरूपभेदयोः सामानाधिकरण्याभावात् कथं व्याप्तिः निरूपाधिसम्ब- न्धादित्यवेहि । तथाहि चतुर्हा न हि व्याप्तिः यो धूमवा- न सोग्निमानिति यत्र धूमस्तत्राग्निरिति यो धूमवान् सत्राग्निरिति यत्र धूमः सोग्निमानिति इदञ्च व्या- प्तिखण्डनोडारे प्रपञ्चितमतस्तत्रानुसन्धेयम् । ननु स्वरूपं निरवधिभेदः समाधिः स्वरूपमन्यनिरूप्यं भेदान्यनि- रूप्यं तत्कथं स्वरूपं भेदास्त्विति चेत् । इत्थम् । यथा घटस्य घटत्वेन निरूप्यमानस्य न सप्रतियोगिता न वान्यनिरूप्यता घटाभावाभावत्वे तु प्रतीयमानस्योभ- यस्यापि तथा स्वरूपत्वेन प्रतीयमानस्य माभूतेंदत्वेन प्रतीयमानस्यावधिमत्ता वान्यनिरूपिता च स्यादेव । ननु चाभावस्य स्वरूपं निषेधत्वात् सप्रतियोगिकत्वं भेद- त्वात् सावधिकं तथा च प्रतियोग्यनुयोगिभावोऽवध्यव- धिमद्भावश्च द्वयमप्यभावस्य स्वरूपं तथा भावस्यैकस्य १४० चतुर्थपरिच्छेदे भेदविचारप्रकरणम् विरुद्ध द्वयं कथं स्वभ वास्तु एकस्य विस्वभावत्वात् सप्रतियोगिकोस्तु एकस्य द्विस्वभावत्वासम्भवादिति चेत् । न भेदस्यावध्यवधिमद्भावे प्रमाणाभावात् । घटो- यं न पट इत्यादिधियावध्यवधिमद्धावस्यानुल्लेखात् प्र- माणान्तरस्य च तत्राभावात् । अन्योन्याभावस्तु भेदो ऽभावत्वात् सप्रतियोगिकोस्तु न प्रतियोग्यनुयोगि- भाव एव तयोः सम्बन्धः अन्यप्रत्येकविश्रान्तधर्मस- माहाररूपतया सम्बन्धत्वायोगात् तथाहि प्रतियोगित्व- मभावविरहात्मत्वं सत्प्रतियोगिमात्रधर्मश्चानुयोगित्वं तनिषेधत्वं तदुपमर्दत्वम् स च निषेधमात्रधर्मः ॥ एतेन कार्यकारणभाव क्रियाकर्मभावज्ञाप्पज्ञापक- भावव्याप्पव्यापकभावावध्यवधिमद्भावप्रभृतयोप्यधिका निरस्ता वेदितव्याः। तदयं सङ्कपः। घटः पटो नेत्या- दिप्रतीतेः स्वरूपवैधये तु न सप्रतियोगिके सावधिकास्तु नात्र केपि अभावोपिन सावधिकः अभावबुद्धाववधेरस्फु- रणात् । अत एवाभावधीकारणीभूतायामपि बुद्धाववधे- भर्भानमित्यपास्तम् । घटः पटो नेति बुद्धरव्यवहितप्राज्ञप्य- वधेरभानात् । तस्यैव त्वभावस्य भेदत्वेन ज्ञाने वधिज्ञाना- पेक्षा घटाभावाभावत्वेन घटज्ञाने घटाभावज्ञानापेक्षाव- त्। अमुकादमुको भिन्न इत्यादिकं पृथत्त्वादित्यप्याहुः । घटः पटोनेति प्रयोगे घटोधर्मी पटप्रतियोगिकान्योन्यामा- ववाननुभूयतेऽत्र चाभावे नत्रथैकदेशे प्रतियोगितया पटो- न्वीयत इति । न च भेदेषु भेदाकारानुगतमतेर्भेदत्वं तत्र च विलक्षणधीसाक्षिकाभेद इति परस्पराश्रयायिभाव इति वाच्यम् । प्रामाणिकेनास्यादोषत्वात् । न च विजाती- यस्य त्रयस्यैकं भेदत्वमयुक्तम् अभेदव्यवहारविरोधित्व- १४८ खण्डनोद्वारे स्योपाधेस्त्रिष्वपि सम्भवात् घटत्वादयश्च पप्रवृत्तितया प्रतीयन्ते ततः स्वाश्रयं भिन्दन्तीति नान्योन्याश्रयादि। नन्वननुगतैर्भेदैरनुगतो व्यवहारः कथम् अननुगतैरालोकधू- मादियाथार्थ्यगता वहयनुमितिः सापि कथं वह्निव्याप्य- त्वेन भासते न आलोकादीनामनुगतिमत्त्वादिति यदि तब- भेदविरोधित्वेन भासिता भेदा अप्यनुगता एवेति । ननु भेदः कुत्र वर्तते यत्र प्रमीयते तत्र वर्तते कुत्र तहि प्रमिति- व्यक्तिर्यत्र वृत्तिप्रमितिः अस्तु इयं रूढितोक्तिप्रत्युक्तिः सुहृद्भावेन पृच्छामः भेदा भिन्नै वर्ततेऽभिन्ने वा । नान्त्यो विरोधात् आद्यपि तेनैव भेदेन भिन्ने भेदान्तरेण वा । अत्राद्य आत्माश्रयः एकस्य क्रमिकवृत्तिद्वयासम्भवाच्च न ह्येक एव एकस्मिन्नेव धर्मिण्यादी प्रविश्य पुनः प्रविशतीति सम्भवति । बहिःस्थस्यैव प्रवेशसम्भवात्। अन्त्येऽनवस्था- ए भिन्नाभेदभिन्नाहा अत्राद्यकल्पस्य एतद्भिन्नीभूतादयं भिन्नो भविष्यतीति भिदा एतस्मिन् भिन्नीभूतत्वेन ज्ञाता- दयं तद्भिन्नत्वेन ज्ञातव्यमिति वा अर्थः।अत्र नाद्य उभययो- रपीति भेदयोरन्योन्याभावत्वेन तुल्यस्थित्या क्रमिकत्वा- योगात् । नापरोन्योन्याश्रयात् । नान्त्यो बाधात् । न ह्यभिन्नात् भेदो भवतीति। किञ्च भेदः स्वप्रतियोगिनः स्वा- श्रयतः स्वधर्मतश्च भिद्यते न वा आद्ये बहुमुखीऽनवस्था अन्त्ये स तेष्वेव लीयेतेति क्व भेदवार्तापीति । यद्यपि भेदं प्रतिभासमान नापहोतुं शक्यमतस्तथाप्युक्तदूषणगणग्र- स्ततया पत्रनिर्भरमभ्युपेयः । अत्रोच्यते। भेदो भिन्ने वर्ते- ताभिन्ने वा इति पृच्छतः सकलधर्मधर्मिभावखण्डनमभि- प्रयतः किंगवि गोत्वमुतागवि गोत्वमिति धर्मकीर्तिपुरस्कृ- (१) अत्रादर्शपुस्तकत्रये ऽपि कश्चिदेशो निपतितः १४९ चतुर्थपरिच्छेदे भेदविचारप्रकरणम् तेन कापथेन संवरमाणस्य तव शून्याभिसन्धिः तथाहि न हि रूपवति रूपं वर्तते नापि रूपे रूपं वर्तत आत्माश्र- यात् नापि नीरूपे रूपं वर्तते विरोधात् किन्तु रूपवानि- त्यत्र यो विशेषस्तत्र विशेषं वर्तत इति कात्रापि कथन्ता कोयं विशेष्यः पृथिव्यप्तेजोन्यतमः। स विशेष्यो रूप- वृत्तः प्राकीहगिति चेत् । जन्यरूपस्थले रूपपागभाववा- नित्युत्तरम् अजन्यरूपस्थले तु रूपवृत्तिप्राकालो नास्त्येव क प्रश्नः । एवञ्च भेदो धर्मिणि निविशते नापि भिन्ने नापि भेदे । न च भेदवृत्तेः प्राक् स धर्मी कीदृशः नास्त्येवेति ब्रूमः यदैव हि धर्मी लब्धात्मकस्तदैव तत्र जातिरूपवैधय॑नामा भेदः समवेतो जातः सम्बन्धश्चेति मदुपगमात् । अन्यो- न्याभावस्वरूपभेदावपि तदैव न हि स तदानोमारभ्य तदा- स्मासीत्पश्चात्तदन्य इति सम्भवतीति । भिन्नभावप्रति योगिकोन्योन्याभावलक्षणभेद इति सत्यम् । न तु भेन- तियोगिनि पिशाचादी स्मृते स्तम्भे ऽनुभूयमाने योग्या- नुपलब्ध्या स्तम्भः पिशाचो न भवतीति अन्योन्याभाव- प्रतियोगितः स्वाश्रया (१धर्मतः भिद्यत इत्यत्रानुज्ञया व- र्तिव्यम् । न चानवस्था तत्र मया स्वरूपभेदस्यैवोपगमात् । ननु स्वरूपं भेदो न सम्भवति अभेदे धर्मधर्मभावाभा- वात् । न हि स एव तद्वान् तेनैव भवतीति चेत् । सत्यम् । ताद्रूप्येणाप्रतीयमानत्वे सति प्रतीयमानत्वं यत् धर्मिणः तदेव तस्मिन् तस्माद्विलक्षणं व्यवहारमर्जयतीति । न हि सम्भवति व्यवहीर्षणा प्रतीयमानापि धर्मी न व्यव- हियते । नापिच सम्भवति अन्यतदात्मतया अप्रतीयमा- नोऽन्यतदात्मतयैव व्यवयिते तस्मात्ताप्येनाप्रतीती (१) पत्रादर्भपुस्तकत्रये ऽपि कश्चिदंशो निपत्तिः ।

१५० खण्डनोद्वारे धर्मिणः प्रतीतिर्भवन्ती तद्विलक्षणतयैव धर्मिणि व्यवहा- रयतीति स एव धर्मी तादृश्या वुड्यालिङ्ग्यमानः स्व- स्मिन् नेतरविलक्षणव्यवहारं जनयन् भेदकार्यकारितया भेद इत्युच्यते । अत एव कर्मव्युत्पत्त्या स्वस्वरूपं करण- व्युत्पत्त्या वैधयं ईषड्युत्पत्त्यान्योन्याभावं भेदं वई- मानोपाध्याया आहुः। अन्याय्यश्चानेकार्थत्वमिति जैमि- निसूत्रस्वरसेनात्र नानार्थत्वे निरस्ते लाघवाभावार्थ- त्वस्यैव युक्तत्वे तस्य व्युत्पत्तिमात्रप्रदर्शनपरत्वात्। पर- स्परस्पर्द्धया यत्र नानार्थाधिगतिस्तस्यैव नानार्थत्वात् भा. वार्थधीनियतत्वात् परद्वयप्रतोतेः वैधर्म्य स्वरूपान्यो- भावो द्रव्यादिषु त्रयमिति। किञ्च वेदान्तिनापि मद्वत्त्री- नपि भेदानवुध्यमाना धर्मकीर्तनेन किंगवि गोत्वमित्या- दिना भ्रमितान्तःकरणा भेदान व्यवस्थापयितुमशक्नुवन् अनिर्वचनतानगरं प्रविश्य मुग्वं शेरते। नैयायिकास्तु तर्क- कान्तारसञ्चारधुरीणा उक्तिप्रत्युक्तिप्रवीणास्त्रयक्षकणभ- क्षपक्षिण उपनिषदविरुहपञ्चनर्कीकुण्डमतय एकत्वविरु- डमपि शस्त्रितमर्थं करतलानलकरतामुपन्यस्यन्तः की- तिरभृतिव्याहृतीस्तुणवदस्यन्तःस्वमतमुन्नतं कुर्वते अत एवान्यत्र टीकाकृताप्युक्तं न हि मृगाः सन्तीति शालयो नोप्यन्ते भिक्षवः प्रचरन्तीति स्थाल्यो वा नाधिश्रियन्त इति । तत्र चानिनिणेजनेन स्वे रक्षणीयमिति तेषां भाव उन्नीयत इत्यलमतिविस्तरेणेति ॥ नन्वेकवर्यसमावेश इति वैधये लक्षणमुक्तम् । तद्- युक्तम् । प्रमाणत्वप्रमेयत्वयोरेकर्मिसमाविष्टयोरपि पर- स्परवैधर्म्यरूपत्वात् । प्रमाकरणत्वं हि प्रमाणत्वं प्रमावि- षयत्वं च प्रमेयत्वमिति । अथैवमपि एतावुपाधी भिन्नावि- instealinsan १५१ चतुर्थपरिच्छेदे भेदविचारे वैधर्म्यलक्षण प्रकरणम् त्युक्तं भवतीति न तु विरु हौ एकधर्मिसमावेशादेव अन्यथा घटत्वकम्बुग्रोवाजत्त्वेऽपि परस्परविरुद्ध किं न स्तां त- स्मात् कचिदर्थैक्येऽप्यक्षरमात्रभेदो यथा कारकत्वं व्यापा- रवत्कारणत्वं चेति कचिद्विरोधेपि भेदः यथा गन्धवत्वपू- थिवोत्वादीनां समसमावेशवतां कचित्तु समावेशे व्याय- स्य स्वव्यापकधर्म्यधिष्ठितस्वानाधिष्ठितधर्मिभेदकत्वेन त- तोवैधर्म्यरूपत्वं यथा पृथिवोत्वस्य द्रव्यत्वक्दबाद्यत्तित्वे- न ततो भेदकतया तवैधयंत्वं तथेह प्रमेयत्वाक्रान्तहेत्वा- भासाद्यवृत्तितया प्रमाणत्वमस्तु हेत्वाभासादिभ्यो वैधयं प्रमेयत्वं तु न स्यात् केवलान्वयित्वेन सर्वीयत्वादिति- घटपटत्वादि तुपरस्परवैधय॑मिति सुप्रसिडमेवेति । एवं बाधिताभेदसाक्षाडीरर्थकारणिकेत्यतापि भेदसिद्धिः॥ ननु किमिदं कारणत्वं न तावत्प्राक्सत्त्वम् चिरध्वस्त- स्यापि कारणत्वापत्तेः। ननु स्वाङ्गस्याव्यवधायकव्यापारण व्यापारी न व्यवधीयत इति चेत् । न व्यापारानिरुक्त तजन्यत्वे सति तज्जन्यजनकस्तयापार इति चेत् । कुम्भका- रस्यापि स्वपितृव्यापारतापत्तेः तज्जन्यकुम्भस्तत्पितजन्यो न भवतीति चेत् । न । स्वर्गे यागवत्तस्यापि तजन्यजनक- त्वाविरोधात् व्यवहितयोः कार्यकारणभावे गृहीते तन्नि- हाय यत्र मध्यम आक्षिप्यते तत्र सव्यापारो यथा याग- स्वर्गयो यत्रतुन तथा तत्र प्रथमस्यमध्यमेऽन्यथासिद्धिर्यथा कुम्भकारपितुः कुम्भकारेणेति चेत् । तानन्यथासिद्धपूर्व- वर्तित्वं तदित्यायाति तथा च भक्षितं विनवीजमरे कारणं न स्यात् तदङ्करपूर्ववर्तित्वाभावात् ।अनन्यथासि- दनियतपूर्ववर्तिजातीयत्वं तदिति चेत् । तर्हि रासभो- प्यङ्घरकारणं स्यात् द्रव्यत्वेन तस्यापि बीजसजाती- ૨૫૯ १५२ nirmaamideudaeislim खण्डनाद्वारे यत्वात् । येन रूपेणाङ्कुरवत्तान्विष्यते तेन रूपेण साजात्यं विवक्षितमिति चेत् । कारणावच्छेदकरूपेण सा- जात्यकारणत्वविवक्षायामात्माश्रयापत्तः। तहिं बीजत्वम- पिन तथा न ह्यकुरवत्ता बीजत्वेनावच्छिद्यते भक्षितवि- नथे बीजे अङ्कुरासम्बन्धिनि गतत्वात् । अङ्कुरवत्ता येन रूपेणावच्छिद्यते तेन रूपेण साजात्यं विवक्षितमिति चेत् । न । कारणावच्छेदकरूपेण साजात्यकारणत्वविवक्षायामा- त्माश्रयापत्तेः ॥ अनन्यथासिद्धिस्त्वन्यथासिडिविरहः सा च दुर्व. चेति खण्डनम् । तन्न । अनन्यथासिद्धञ्च तन्नियतपूर्वव- तित्वञ्चति कार्योपहितं कारणशरीरं तज्जातीयं सदे- व बीजवाद्यवच्छिन्नं व्यक्तयन्तरञ्चति । अन्यथासिद्ध- मपि दण्डत्वादिकं घटादिपूर्वसमये नियमतो ऽस्त्येवेति तद्वारणायानन्यथासिड चेति । अन्यथासिद्धिस्त्रेधा येन सहैव यस्यान्वयव्यतिरेको गृह्यते तस्य तेन सा यथा घर्ट प्रति दण्डेन दण्डरूपस्य यागापूर्वयोस्तन्नैवं तत्र हि यागस्य पूर्ववर्तित्वे ऽवगतेऽपूर्वस्य तथात्वमवगम्यते । न त्ववगम्य- माने एवं दण्डेन दण्डत्वमप्यन्यथासिद्धं तस्याप्यन्वयव्य- तिरेको दण्डेनैव सह गृह्यते तथा च स्वतन्त्रान्वयव्यतिरे- कयोः कारणताबीजस्याभावात् न दण्डरूपं दण्डत्वं वा घटस्य कारणमुद्भूतरूपन्तु विषयेऽनुगततया प्रत्यक्षाव- च्छेदकमपि सत् स्वतन्त्रान्वयव्यतिरेकित्वात् घटादिप्र- त्यक्ष प्रति कारणमेवेत्युभयरूपं तथा अन्य प्रति पूर्ववर्तित्वे ज्ञात एव यत् प्रति यस्य पूर्ववर्तित्वं ज्ञायते यथा शब्दं प्रति पूर्ववर्तित्वे ज्ञात एव घटादिकं प्रत्याकाशस्य तथात्वं ज्ञायत इति शब्देन घटादिकं प्रति व्योमान्यथासिद्ध धर्मिग्राहक- १५३ चतुर्थपरिच्छेदे कारणविचारः । मानेन शब्दकारणतयैव तसिडौ व्योम्नस्तदन्यकारणत्वक- ल्पनायां मानाभावात् । अत एव पुत्त्रप्रति पूर्ववर्तित्वे ज्ञाते पितुस्तजन्यघटादिकं प्रति पूर्ववर्तिता ज्ञायत इति पुनस्य कार्य पितान्यथासिद्धः कारणताग्राहकस्य स्वतन्त्रान्वयव्य- तिरेकस्याभावात् । दण्डसंयोगधामणयोस्तु नैवं तयो- युगपदेव पूर्वभावित्वग्रहात् दण्डे भग्नेपि सतो भ्रामणस्य पूर्वभावित्वग्रहान्न दण्डरूपवदन्यथासिडिः । न च याग- स्थापि स्वर्ग प्रति पूर्ववर्तित्वे ज्ञात एवापूर्वे तत्त्वं ज्ञायत इत्यपूर्व प्रति यागोप्यन्यथासिडोस्त्विति वाच्यम् । अत्रैवं रूपत्वेपि अपूर्वकारणताग्राहिकायाः प्रतीतस्वर्गसाधन- तानुपपत्तः सत्त्वात् । तथा च यद्यवहितयोः शब्दा- दिना कार्यकारणभावे गृहीते तन्निर्वाहाय मध्यमः कल्प्यते तत्र नान्यथासिद्धिगन्धोपि। न हि प्रथमस्य मध्यम प्रत्य- कारणत्वे तद्वारा चरमं प्रति कारणत्वं निर्वहतीति तथा चान्यन्न क्लुप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहयू- तत्वं यथा गन्धवति गन्धानुत्पादात् गन्धं प्रति गन्धप्राग- भावस्य पूर्ववर्तित्वकल्पना तत एव पाकजस्थलेपि गन्धोद- यसम्भवे रसादिप्रागभावानां त्रयाणामपि गन्धं प्रति कार- णत्वं न कल्प्यते गौरवादित्यन्यथासिडत्वम् । एवञ्च सर्वत्र कारणताग्राहकाभावो मूलमन्यथासिद्धरिति द्रव्यम् । एतावदन्यथासिद्धिरहितं सत् यत्यूर्ववर्ति भवति तत् कारणम् । तत्र मागभावावच्छिन्नस्तु समयः पूर्वपदार्थः तन्त्र प्रतियोग्यन्यूनानतिरिक्तकालीनावधिकयावत्परत्वा- श्रयसमानकालीन: कादाचित्कोऽभावः प्रागभावः जन्य- गुणकर्मणेरपि प्रागभावः सम्भवति स च न प्रतियो- ग्यवधिकपरत्वाश्रयसमानकाल: নানালিজুন- व-No. 7 Vol. XXIX-July 1907.

१५४ खण्डनोद्वारे Madamentantaneone त्वेन परत्वोपाधित्वासम्भवादतः प्रतियोगि च तद्भिन्न- ञ्च तत्कालीनं द्वयमपीदृशं भवति । तत्र गुणकर्मणाः प्रतियोगिभिन्नमन्यत्र तु प्रतियोग्येव ग्राह्यम् एतादृशं प्रतियोगिन्यूनकालीनमपि तदधिकपरत्वाश्रयस्य च न समानकालीनो भवति घटादिप्रागभावस्तस्य घटाग्रुत्प- क्या प्रागेव नपृत्वादतोऽन्यूनेति । एवञ्च प्रतियोग्युत्प- त्तिक्षणोत्पत्तिक इल्यों विवक्षित एतावत एवार्थस्य प्रागभावनिरूपणे उपयोगः शेषन्तु सम्पातायातमत एव समानकालीनपदार्थनिरूप्ययावत्परत्वाश्रयतुल्यकाल इति प्राच्चोपि व्याचक्रः । एवञ्च प्रतियोगिसमानकालोत्पत्ति- कावधिकपरत्वाश्रयो यत्र प्रतियोगिध्वंसानन्तरमप्यनुव- तते तत्र तु ध्वंसस्यापि प्रतियोगिसमानकालावधिकपर- स्वाश्रयसमानकालत्वमस्तीत्यतिव्याप्तिरतो यावदिति पर- त्वाश्रयविशेषणं ध्वंसस्तु नैवं पूर्वनष्टः प्रतियोगिपरै- रसमानकालीनत्वात् । अत्र यावदिति यदि परत्वविशे- षणं तदासम्भवः न हि यावन्ति तदधिकानि परत्वानि कारणात्मक आश्रयः सम्भवति । अथाश्रयविशेषणं तदा- नन्वयः परत्वपदेन व्यवधानादिति यद्यपि तथापि परत्वा- नन्तरं यावत्पदं पठनीयमिति सम्प्रदायः । यथोक्ताव- धिकयार्वाश्च परत्वाश्रयः परत्वस्य तद्धिकत्वेन तदाश्रय- स्यापि तदधिकत्वोपचारादिति केचित् । न चान्त्यशब्दस्य क्षणिकतया मूर्तस्य चाक्षणिकतया तदन्यूनानतिरिक्त- कालीनस्याप्रसिद्ध्या तत्प्रागभावाव्याप्तिरिति वाच्यम् । तस्यापि कालनाश्यत्वेन क्षणिकत्वानभ्युपगमात् । वस्तु- तस्तु द्वित्रिक्षणावस्थायिकमपि मूर्त प्रतियोग्युत्पत्तिक्ष- णोत्पत्तिकं भवत्येव एतावदेव चेह विवक्षितमतो न ४२६ १५५ चतुर्थपरिच्छेदे कारणविचारः । तव्याप्तिः किन्तु खण्डप्रलयकालीनपरमाणुपरिस्पन्दानां प्रागभावव्याप्तिविरहदोषः । न हि तद्भावविवक्षितपर- त्वाद्यवधिभूतं भूर्तमस्तीति किन्तु गन्धानाधारसमया- नाधारोऽभावः प्रागभावः गन्धत्वं स्वाधिकरणानधिकर- णानधिकरणकालवृत्तिः कार्यमात्रवृत्तिधर्मत्वात् एतद्धद- वदित्यस्य सत्त्वादिति स्वपदेन क्षारीकृतत्वात् किन्तु शब्दध्वंसः शब्दप्रागभावरहितवृत्तिः ध्वंसत्वात् घट- ध्वंसवदिति हि तत्र समानम् । ननु पूर्वसमयः प्रागभाव- विशिष्टो वा प्रागभावोपलक्षितो वा । नाद्यः तविशिष्टे तदवृत्त्या प्रागभावस्य पूर्ववर्तित्वाभावादकारणत्वाप- ते। नापरः पूर्वसमये पूर्वसमयस्यावृत्त्या तस्याकारणत्वा- पत्तेः ध्वंसे प्रतियोगिनो ऽकारणत्वापत्तेश्च । न हि ध्वं- सस्य प्रागभावः सम्भवति । प्रतियोग्येव तस्य प्रागभाव इंति चेत् । न । तस्य जन्यभावस्याजन्याभावतादात्स्या- भावादित्यभिप्रेत्य सहकारिविरहपयुक्तकार्याभाववत्त्वं तत्त्वमित्याहुः। शिलाशकलन्तु न तथा तस्याङ्कुरानुप- धाने शिलात्वस्यैव प्रयोजकत्वादेवं च सहकारिविरह- व्याप्यकार्यप्रागभाववत्त्वं तत्त्वमिति चेत् । न निमि- त्तासमवायिकारणाव्याप्तेः न हि तत्र कार्यप्रागभावो- स्तीति । उच्यते । कारणे बीजादी कार्यतभावा तावद्विद्यते तत्र वीजस्याङ्गुरासम्बन्धः कैवल्येनाव- च्छिद्यते न च बीजत्वेन सहकारिसहितात्तत एवा- कुरोदयात् शिलायान्तु शिलात्वेनैव शिलायामङ्कुरास- म्बन्धाव्यभिचागत् । एवच्चान्यासमवधानावच्छिन्नका- सम्बन्धिकत्वं कारणत्वम् । न च भक्षितविनवीजा- व्याप्तिः तस्यापि सत्त्वदशायामकुरासम्बन्धस्यान्यास- ४२७ Gultantline १५६ खण्डनाद्वारे म्बन्धिनि चावच्छेदनात् । तदेव हि बीजं सत्त्वदशायां यदि सहकारिभिः सम्पत्स्यते अकरमजनिष्यदेवेति न चासमवाय्यादीनां कार्यसम्बन्धनियतानामव्याप्तिः आ- जानिकधर्मावच्छिन्नकार्यासम्बन्धस्य चिरहः कारणत्वमस्य चासमवाय्यादावपि सत्त्वादिति कारणत्वं तावन्नियतप्रा- क्सत्त्वविशेषस्तद्ग्रहश्चान्वयव्यतिरेकाभ्यां नियतेनान्व- येन वा। नन्वस्तु या कारणता सापि कथं ग्राह्या तथाहि कारणता ह्यविशेषिता न गृह्यते वि.न्तु घटादिकार्यविशे- षिता विशेषान्वयव्यतिरेकाभ्या तस्या एव ज्ञान सम्भ वात् । सा च न पूर्वकाले प्रायविशेषणीभूतकार्यविर- हात् कार्यसत्त्वकाले च तत्प्रागभावटितसामग्रीवि- रहान कार्यजननविशेधितं कारणत्वमस्तीति न कदापि घटकारणत्वमस्तीति न कदापि घटकारणत्वमध्यक्ष स्वात्। अथ संक्षारोपनीतकारणत्वमादाय कार्यकाले प्रत्यक्षेण कारण विशिकार्यग्रह इति चेत् । कार्यविशेषितस्य कार- णस्य पूर्वक्षणे कार्यातत्त्वेनासत्तया ग्रहणाभावेन संस्का- राभावात् । अनुमानेन तद्ग्रहे तत्राप्यनुमानान्तरेण तद्- ग्रहेऽनवस्थापत्तः । न चैवं कारणत्वाग्रहे तवापि प्रवृत्तिनि- वृत्ती न स्तामिति वाच्यम् । ममानिर्वाचनवादिनो दोषा- स्पर्शात् । कार्यस्य कादाचित्कत्वान्यथानुपपत्या दण्डादेः कारणत्वग्रह इति चेन्न । कदाचित्कार्यत्वस्य कार्यधर्मत्वेन कारणत्वस्य च कारणधर्मत्वेन नियतधैयधिकरण्येनाक्षे- पायोगात् । न चार्थान्तरापत्तथैयधिकरण्येनापि गमक- स्वम् । अत एव देवदत्ताभावो गृहवृत्तिर्देवदत्ते बहिःसत्त्वं कल्पयति । अत एव चानुमानादसा भिद्यते अपक्षवृत्ति- त्वात् । न च गृहत्यभावप्रतियोगित्वमाक्षेपकं देव- ४२७ चतुर्थारच्छेदे कारविचारः । दत्तासन्निकर्षे तविशेष्यकप्रत्यक्षतृतीयलिङ्गपरामर्शास- म्भवात्। तथाप्युपपाद्योपपादकयोरसम्बन्धेऽतिप्रसङ्गात्। सम्बन्धे च सम्बन्धस्यापि सम्बन्धान्तरे चानप्रस्थानान्नोप- पाद्योपपादकभाव इति । किञ्च कार्यवत्कारणस्यापि कादा- चिकत्वेन कारणत्वेऽनवस्था अकारणत्वे च पूर्वावधि- विधुरत्वे तन्मात्रावधेः कार्यस्यापि पूर्वावधिविधुरत्वं स्यादिति । अपि चास्तु यत्किञ्चित्कारणत्वं तदपि प्रत्यक्ष यदि तदा स्वविषयप्रत्यक्षे तस्य कारणत्वं वाच्यं तथा चात्माश्रयः कारणत्वे कारणत्ववृत्तिस्वोकारात् । न च विषयाविशेषितस्य सन्निकर्षमात्रस्य साक्षाडीका- रणत्वमतिप्रसङ्गात् । इन्द्रियस्थाप्यर्थवदेव कारणताप- तेश्च । अपि च कारणत्वाकारणत्वसन्देहाच्छेदकं कि दवश्यं वाच्यम् । अन्यथा तदुच्छेदो न स्यात् । तथा च तदेव कारणत्वस्थानेऽभिषिच्यतां लाघवादावश्यक- त्वाच । किच्छ कारणत्वं दण्डादेर्थदि स्वभावधर्मस्तदा यावत्सत्वं करोतीति धीः स्यात् । आगन्तुकत्वे च कार्योपधानात्प्राक् तडीन स्यात् । किञ्च कारणत्वं घटादिनिरूपितप्राक्तत्वमिति कारणव्यक्तिभेदात् कार्य- व्यक्तिभेदाद्भिन्नभित्यनुगतधीव्यवहारी न स्याताम् । किच्च समवाय्यसमवायिनिमित्तानि कारणानि वृक्षशिंगापयो: सामग्रीद्वयं तदा कार्यद्वयं स्यात् । यद्येकैव तदा वृक्षाः सर्वे शिंशपात्मका एव स्युरिति वण्डनम् । अत्रोच्यते । घटकारणत्वं घटनियतमाक्सत्त्वं तत्र च संस्कारोपस्थि- तो घटो विशेषणीभवति । एवं घटस्य दण्डकार्यत्वे संस्कारोपस्थितो दण्डः कारणत्वन्तु सामान्यं नियत- प्राक्सत्त्वमात्रमेव । नन्वन्वयव्यतिरेकाभ्यां कथं कारण- १५८ खण्डनोद्वारे ܞ܀ त्वग्रहः । ननु लिङ्गीभूय तो तद् ग्राहयतः। न चान्वयव्य- तिरेकप्रत्यक्षेण तद्ग्रहो भिन्नविषयत्वात् । नापि तज्ज- न्मना संस्कारेण विषयभेदात् तद्यथा संस्कारो ह्यन्वयव्य- तिरेकालम्बन इन्द्रियन्तु प्राक्सत्त्वसम्बद्धमतो नानयोः सहकारो विषयभेदात् । दण्डस्य घटकारणत्वग्रहे नैवं तत्र द्वयोरपि संस्कारेन्द्रिययोर्विशिपालम्बनत्वादिति । मैवम् । अन्वयव्यतिरेकग्राहकं हि प्रत्यक्षं तडर्मिभूते कार्यकारणे अपि विषयीकरोति कारणताग्राहकमि- न्द्रियमपि तत्सम्बद्धमेवेति भवत्येवानयोः सहकारिता समानविषयप्रत्ययत्वादिति । न च पूर्वभावित्वमपि दुर्वचं पूर्वकालसम्बन्धित्वस्यैव तत्त्वात् । न च पूर्वकाले सम्बन्धाभावात्तत्कालस्याकारणतापत्तिः। य एव दण्डे पूर्वकालसम्बन्धः स एव पूर्वकालेपि सम्बन्धस्योभयनि- ठत्वात् । एतेन प्रागभारस्यापि हेतुत्वं स्थापितं कार्य- प्रागभावोपलक्षितसमयसम्बन्धस्य कार्यप्रागभावेपि स- त्वात् । न चैवं ध्वंसं प्रति कारणता न स्यात् तस्य प्राग- भावाभावादिति वाच्यम् । प्रतियोगितत्प्रागभावान्यत- रावच्छिन्नसमयस्यैवेह पूर्वसमयपदार्थत्वात् । न चैवं पूर्व- पदस्य नानार्थतापत्तिः अगत्या तस्यापीत्वात् । ननु का- योपस्थिततत्सामग्र्यस्ति न वााद्य उत्पन्नमपि तदुत्तरक्ष- णे पुनरुत्पद्येत् । अन्त्ये उत्पत्तिक्षणेपि नोत्पद्येत् तत्काले सामग्रीविरहात् । पूर्वक्षणस्थैव सामग्री अव्यवहितोत्तरक्ष- स्थं कार्यमर्जयति स्वभावादिति चेत् । तर्हि व्यवहित- क्षणस्थमप्यर्जयेदविशेषादिति । मैवम् । प्राप्त्यप्राप्तिसमा पत्तेः तद्यथा त्वदुक्तमपि दूषणं दुष्वुद्धिं प्राप्य जनयेद- प्राप्य वेत्यस्य मयापि सुषचत्वात् । ननु कारणसत्त्वे चतुर्थपरिच्छेदे कारणविचारः । कार्यसत्त्वं कारणासत्त्वे कार्यासत्त्वमिति नान्वयव्यतिरेको किन्तु प्राका बुद्धौ तत्कारणबुद्धौ कार्याबुद्धौ अबुद्धिव्यं तत्प्रत्यक्षमित्यबुद्धित्रयमनुपलम्भ इति । तदुक्तं कीर्तिना। धूमार्थवहिविज्ञानं धूमज्ञानमधीस्तयोः। प्रत्यक्षानुपलम्भाभ्यामेभिः पञ्चभिरन्वयः॥ इति। तदसत् । इदन्तु कारणताग्राहकं न तु कारणत्वमि- त्यस्योक्तत्वात् । तत्रापि नियतव्यतिरेकेण कारणताग्रहो नियतान्वयव्यतिरेकाभ्यां न त्वदुक्त पञ्चकेनाकारणसाधा- रण्यादिति । ननु न्यायमते नियतप्राक्सत्त्वं तावत् कार- णत्वं तेन तदैव करोतीति प्रयोगः स्यादिति चेत् । न । कार्योत्पत्त्यनुकूलव्यापारवत्वस्य करोतिना प्रतिपादनात् प्रकृते तादृशव्यापाराभावात् । यत्तु दण्डघटयोर्विशेषयोः कारणत्वं दण्डघटत्वाभ्यां वा एतद्धटत्वैतद्दण्डत्वाभ्यां वा नाधः न हि विशेषयोः सम्बन्धः सामान्याभ्यामवच्छि- द्यते ऽतिप्रसक्तत्वात् । नापरः न ह्यन्ययोरन्वयव्यतिरेको किन्तु दण्डघटयोरेवेति । मैवम् । सा हि सामान्यरुपेणापि विशेषाणामेव हि सम्बन्धो गृह्यते न तु तदस्पृश्य सामा- न्यमानस्य तस्य शशविषाणायमानत्वात् । तदुक्तम् । न निर्विशेषं सामान्यं भवेच्छशविषाणवदिति। कथंतर्हि विशेषसिडिःसामग्रीविशेषात् सामग्रीवि- शेषेण घटविशेषः सिध्यति। कारणानान्तु सामान्यार्जने शक्तिःसामग्रीविशेषात्तु विशेषः सिध्यति । यथा शब्दानां पदार्थसामान्ये शक्तावपि वाक्यविशेषादन्वयविशे- षधीः व्याप्यस्य व्यापकसामान्यवुडौ सामर्थ्यपि पक्ष- धर्मतासहकारेण पक्षत्तिसाध्यसिह्यादि । एवं सिद्धे कारणत्वे तद्विशेषश्चिन्त्यते । ते च त्रेधा समवाय्यसम- १६० যুনাৱা : : वायिनिमित्तभेदात् । यत्समवेतं कार्यमुत्पद्यते तत्स- मवायिकारणं यथा रूपादौ घटादि । यस्मिन् सति कार्य- नास्तीति तत्समवाघिसाम्यम् । यस्मिन् कारणे विद्यते तद्गु- णकर्मान्यतररूपमसमवायिकारणं पर्युदासे नञ् यथा पटे तन्तुव्यसंयोगः घटरूपे कपालरूपमित्यादि । यत्तु न का- याधिकरणं न वा कार्यस्थितिनियामकं किन्तु कार्योत्पत्ति- नियामकमात्रं तन्निमित्तकारणमिति । न च कालत्रया- निरुक्तिः । कालस्य स्वभावत ऐक्येपि उपाधिभेदेन ताव- ड्रव्यवहारात् । तदुपाधयश्च घटाद्य एव तथा च तत्स्व- বোঃ কাঃ ন বনমালঃ কাঃ মামা- वेनावच्छिन्नः तस्य पूर्वकालतद्ध्वंसेनावच्छिन्नस्तस्योत्त- रकालः। तदुक्तमात्मतत्त्वविवेके । वर्तमानकस्वभावत्वा- भावानामिति । नन्वेवं ज्ञानावच्छिन्नः कालो ज्ञानस्य वर्त- मानः कालस्तत्र च जानामीति लट् साधुः । तथा च घट- ज्ञाने स्वोत्पत्तितृतीयक्षणे ध्वस्ते चतुर्थक्षणे घटमहं जाना- मीति न स्यात् । स्यात् चतुःक्षणरूपस्य स्थूलकालोपाधे- घंटज्ञानवत् स्वरूपोपहितत्वात् । यः कालो यस्य प्रागभा- बेनावच्छिन्नः स तस्य सतः पूर्वकालः । यश्च यस्य प्रध्वंसे- नावच्छिन्नः स तस्य भविष्यत्काल: । एवञ्च भूतभ- विध्यवर्तमानत्वानि धर्मनिरूपकभेदात्प्रतिस्वम्भिन्नानि । न च प्रागभावप्रध्वंसमोरनिरूक्तिः गन्धानाधारसमया- नाधाराभावस्य प्रागभावत्वात् । नित्यान्यत्वे सति प्रा- गभावातिरिक्ताभावस्य ध्वंसत्वात्। कोहि प्रागभावस्य नाश इति । तदुक्तं तत्रोत्तरं प्रतियोग्येव नास्तिताव्यव- हारस्य प्रतियोगिनैवोपपत्तेरतिरिक्त प्रमाणाभावात् ॥ संशयनिरुक्तिखण्डनमप्यसत् । विरोधे भासमाने .. ४३२ १६१ .. चतुर्थपरिच्छेदे तर्कविचारः। विरोधिनानाप्रकारकैकधर्मिज्ञानत्वस्य तन्निरुक्तित्वात् । एकस्मिन् धर्मिणि तज्ज्ञानालिङ्ग्यमानविरोधाभ्यां प्रका- राभ्यां यदेकं ज्ञानं संशय इति तदर्थः । संशयग्राहकन्तु ज्ञानं विरोधिनानाप्रकारकत्वप्रकारकं न तु विरोधिनानाप्रका- रकं येन तदपि संशयः स्यादिति । ननु कोयं विरोध: सहानवस्थानमिति चेत् । न । संयोगतदत्यन्ताभावयोरे- कत्रैव तरी सहैव सत्त्वात् । अवच्छेदभेदाश्रयाणां तत्रापि सहभाव इति चेत् । मूढासि । तथाहि परमाणा हि पर- माण्वन्तरस्य संयोगञ्च तद्भावच्च मन्यसे । न च तत्रा- वच्छेदः सम्भवति तरोः शाखावत् परमाणे प्रतीका- भावात् । तत्राप्युदयाचलादालोकमण्डलः परमाणी प्राच्यां दिशि लग्नः प्राञ्चं परमाणुसंयोगमवच्छिनत्ति अस्ताचलादायातस्त्वालोकस्तस्मिन्नेव परमाणा प्रतीच्यां लग्नः प्रत्यञ्चन्तत्संयोगाभावमवच्छिनत्तीति चेत् । भ्रा- न्तासि । न हि परमाणाः परमाण्वन्तरसंयोगेनानवच्छिन्न: कोपि भागोस्ति तस्य निर्भागत्वात् अन्यथा सभागो भ- वेत् । न च सापि नास्ति तस्यास्त्वयाभ्युपगमात् । अत एव यूपवच पतिवच्चेत्यात्थेति । तस्मात्तदत्यन्ताभावयोर्द- शगर्भ प्रतियोगिनैव समं प्रागभावध्वंसयोः कालगभं घटतदन्योन्याभावयोस्तु विरोध एव नास्ति एकस्मि- नेव कपाले एकदैव स्थितेस्तादात्म्येन तु सममन्योन्या- भावस्य विरोधो नियतवैदेश्यात् ॥ अथेदानी तर्कखण्डनकृदाह तर्को हि प्रसक्तमित्य- युक्तं सम्भावनायामव्याप्तेः इशापादने विपर्ययापर्यवसिते चातिव्याप्तः तयोरतिप्रसङ्गत्वात् । वस्तुतस्तु यत्र पराभ्यु- पेतव्याप्तिरसेन परानिय तयंते तत्र विपर्ययापर्यवसि- श-No. 7 Vol. XXIXJuly 1907. ४३३ १६२ खण्डनाद्वारे तोपि परानिय प्रभवत्येव । तथाहि ज्ञानात्मा भवेदित्य- त्रालीके विरोधो देश्यते। यस्तु तर्कः स्वपक्षसिद्धये प्रवर्तते तस्य परविपर्यये अनुमाने स्वयं दण्डभूतत्वेनाङ्गीभवते वि- पर्ययपर्यवसानापेक्षा। अत एव व्याप्यारोपेण व्यापकप्रस- ञ्जनं तर्क इत्यपि निरस्तम् इथापाद्ने मिथो विरुडेतिव्या- तेश्च । किञ्च कार्यत्वाददृपूजन्यम कुरादि स्यात् हन्त तत- एव कर्तृजन्यमपि स्यादिति सिद्धेनैव व्याप्येन यः प्रस- गस्तस्य व्याप्तिः तत्रादृष्टजन्यत्वस्योभयानुमतत्वेन व्या- प्यानारोपादिति खण्डनम् । तन्न न हि सम्भावना तर्क इति तार्किकः प्राह उत्कटकोटिकः संशयो ह्यसौ । तथा. हि दूरादशोकानोकहमवेत्याशोक एवायं प्रायः शतां- शेन तु बहुलः स्यादिति । सायं संशय एव उच्चावच- भावेनापि कोटियालम्बनात् । तर्कस्तु सर्वम्मादेव संशयाद्भिन्न इति ब्रूमः । संशयात् प्रच्युतो निर्णयं चाप्राप्त इत्याचार्यवचनात् । इपादने विपर्ययापर्यवमित चा- व्याप्तिरित्यप्यसत् । इापादने प्रसङ्गमात्रस्य सत्त्वेनाहा- यारोपरूपव्यापकप्रसञ्जनमस्ति । तथाहि क्षितिर्यदि कर्तृ- जन्या स्यात् प्रयोजनिजन्या स्यादिति तावदिशापादनं भगवतोपि प्रयोजनित्वात् । तथैवाभ्युपगमान्नैयायिकैः । जगच्च सृजतस्तस्य किन्नामेएं न सिध्यति । तदेवासृजतस्तस्य किं नामेधुं न हीयते ॥ इति । तथा च नात्र प्रयोजनिजन्यत्वस्य व्यापकस्याहार्या- रोपरूपं प्रसन्नमस्तीति । एवं विपर्ययापर्यवसितपि नातिव्याप्तिः । तथाहि यदीश्वरः कर्ता स्थानाशरीरी स्यात् । अयं हि तर्को विपर्ययापर्यवसितः । ईश्वरस्य सिौ कर्तृत्वाभावानुमाने बाधात् । तदसिही चाश्रया- १६३ खण्ड- चतुर्थरिच्छेदे तर्क वचारः । सिद्धरनुमानानवताराद्विपर्ययापर्यवसानमिति । च नातिव्याप्तिः शरीरित्वस्य मन्मते कर्तृत्वाव्याप- कत्वेन व्यापकप्रसञ्जनाभावात् । यत्तु पराभ्युपेतखर नाय परमात्राभ्युपेतव्याप्तिबलेन यत्र तय॑ते तत्र विप- येयापर्यवसितोपि तर्कः सत्तर्क एव । यथा घटादि स्फुरत् ज्ञानं भवेदिति ज्ञानवादिकृत आपादने सौगतेन विरोधो देश्यते अलीकं स्फुरति न च ज्ञानं तदिति तेषु एवं हि न विरोधापादनं तर्कः किन्तु तर्के मूलशैथिल्यं सौगतेनोच्यत इति त्वदुक्तमत्यन्तायुक्तम् । न हि तर्क- मात्रे विरोधापादनं किन्तु तर्कदूषणमिह व्याप्यत्वा- सिद्धिरिति । यत्तु मियो विरुद्धेऽतिव्याप्तिः तत्रापि हि व्याप्यारोपेण व्यापकप्रसञ्जनमस्तीति यथा शब्दो यद्य- नित्यो न स्यात् कृतको न स्यादित्येकः यदि नित्यो न स्यात् श्रावणो न स्यादित्यपरः । तत्र कृतकश्चायं तस्माद- नित्यः श्रावणश्चायमिति परस्परप्रतिबन्धेनानुमित्यनु- त्पत्तेः करणयोः फलानर्जकत्वात् । उपकरणभूतावपि ताविमा मिथो विरोधादाभासी अनातिव्याप्तिरिति तन्न । न हि मिथो विरोधे उभयपक्षसत्त्वे व्याप्तिरस्ति । अन्यथा वस्तुनो वैरूप्यं स्यात् । यच्च यदि कार्यत्वादह- पृजन्यमङ्कुरादि स्यात्तदा तत एव कर्तृजन्यं स्यादिति तर्के सिद्धेनैव व्याप्येन प्रसङ्गो न तु व्याप्यारोपेणेत्येत- दव्याप्तिर्दोष इति । तन्न । अयं हीापादननामा तर्काभास इति । मन्मते तु शिथिलमूल इति अनुगुणस्त्वेतद्भिन्नः । तथाहि हिमं यदि दाहकतेजोवन्न स्यात्तृणादिविकार- कारि न स्यात् । भवति च तृणादिविकारकारि तस्मा- द्दाहकतेजोवदिति सिद्धव्याप्तिकत्वान्नाभासः । तदुक्तं १६४ खण्डनोद्वारे टीकाकृता । न हि त्रैलोक्यपरिपाकहेतोः सावित्रस्य रश्मेस्तुहिनादपगमः क्षमत इति । यत्त्वारोपितव्याप्ति- केनारोपितव्यापकताकस्य यदनुमानं तत्रातिव्याप्तिरत्र दोषः तत्रापि हि व्याप्यारोपेण व्यापकप्रसञ्जनमि- ति । अत्रोच्यते । व्याप्याभावप्रतियोगिकाधारता- प्रतियोगिव्याप्यज्ञानात् व्यापकाभाववत्ताप्रतियोगिका- धारताप्रतियोगिव्यापकज्ञानं तर्कः। अत्र व्याप्यज्ञाना- ध्यापकज्ञानमित्यनुमिताव तिव्याप्तमतः पूर्वविशेषणं त- स्यार्थः व्याप्याभावप्रतियोगिका या आधारता पक्षीकृत- स्य हदादेस्तत्प्रतियोगि यद्याप्तं निहित्वादि तस्य ज्ञाना- त्तेनोल्लिखिताभावस्य व्याप्यस्य ज्ञानादित्यर्थः । एवमपि धूमवान्निधू मो वायमिति संशये धूलीपटले धूमारोपादुत्प- नायामनुमितावतिव्याप्तिरत उत्तरविशेषणम् । अस्यार्थः । व्यापकाभाववत्ताप्रतियोगिका धूमवत्त्वादिप्रतियोगिका या आधारता तत्प्रतियोगि ययापकनिधू मत्वादि तस्य- ज्ञानं तेनावधारितव्यतिरेकस्य ज्ञानमित्यर्थतो न पूर्वोक्ता- नुमितावतिव्याप्तिरिति । यद्वा अव्यवस्थिताभ्युपगम्यमा- नकोद्युपाधिकानिकृसत्त्वप्रतिबन्धानि तर्कः। तदुपाधिक- त्वञ्च तस्मिन्सति आवश्यकत्वम् । यथा शब्दो यद्यनित्यो न स्यात् कार्यो न स्यादित्यादी समभिव्याहृतकोटेरभ्युप- गतत्वम् । अभ्युपगतञ्च यमनिस्यापीत्यत उक्तमनि- ति । अनिषत्वञ्च स्वीयकार्यताविरोधिधर्मवत्त्वंप्रमाणवि- रोधात् स्वाभ्युपगमविरोधाच व्याप्यारोपकोटहीनबलव- त्त्वार्थम् । अन्यथा व्याप्यारोपव्यापकविरहवुड्योः सत्प्र- तिपक्षः परं स्यान्न तु व्याप्यारोपस्य पराजय इति । स चायं तर्कः पञ्चविधः। आत्माश्रयान्योन्याश्रयचक्रका- . चतुर्थपरिच्छेदे तर्कविचारः । नवस्थातदन्यबाधितार्थप्रसङ्गभेदात् । तत्र स्वस्य स्वापेक्षा- मारोप्यानिप्रसङ्ग आत्माश्रयः। स चायमुत्पत्तिस्थितिज्ञ- प्तिरूपद्वारभेदात्रेधा । तथाहि घटो यदि घटजन्य: स्यात् घटभिन्नः स्यात् । न चैतद्विपर्ययानुमाने घटत्वस्य हेतो. रसाधारणतया विपर्ययापर्यवसितत्वमस्येति वाच्यम् । विशेषदर्शने ह्यसाधारणस्यादोषता संशयस्य सत्प्रतिप- क्षस्य वा दुवीजस्यानुत्थापनादिति । स्थितौ यद्ययं घट एतद्धवृत्तिः स्यात्तदा तथा प्रतीयेत अत एव प्रमेयत्वं स्व- वृत्तित्वेन प्रमाणगोचर इति तत्रात्माश्रयो न दोषः। न हि प्रमेयत्वं न प्रमेयम् । ज्ञप्तौ तु घटज्ञप्तिर्यदि घटज्ञप्तिजन्या स्यादेतज्ज्ञप्तिभिन्ना स्यात् । न चेापत्तिः स्वज्ञप्तेः स्वज्ञ- प्तिजन्यत्वनियमे त्वनवस्थानात् । स्वापेक्षापेक्षित्वनिबन्ध- नः स्वस्यानिप्रसङ्गोऽन्योन्याश्रयः। अयमुत्पत्त्यादौ पूर्वव- दूह्यः। न चान्योन्याश्रयस्यात्माश्रयनियतत्वेनावश्यकत्वा ल्लाघवाचात्माश्रय एव दोष इति वाच्यम् । साक्षात्स्वापे क्षाया अभावात् परम्परया च तत्सम्भवे आत्माश्रयनिर्वा- हार्थं प्रथमोपस्थितस्य स्वतो दूषकत्वकल्पनात् । स्वापे- क्षापेक्षापेक्षित्वनिबन्धनोऽनिप्रसङ्गश्चक्रकमिदमुत्पत्यादी पूर्ववत् । अत्र त्रिकत्वमविवक्षितं चतु:कक्षादेरपि चक्र- कत्वात् तथैव हि तात्रिकव्यवहारात्। स चायं कक्षाभेद, आपत्तिप्रयोजकीभूतरूपवदापाद्यापादनमनवस्था। यथा ज्ञानं यदि समानकालीनसमानाधिकरणसाक्षात्कारवि- षयताव्याप्यजातिमत्स्यात् तदानुपदवेद्यं स्यात् सुख- वदेवञ्च तदप्यनुव्यवसीयेतेत्यर्थादनवस्था स्यात् । एषा- ब्वाभासत्वे प्रामाणिकत्वं बीजं यथा बीजाङ्करादावि- त्यादि । उत्सर्गाविनिगमकल्पना गौरवकल्पना लाघव- खण्डनोद्वारे प्रतिवन्धनौचित्यानि तु न तोः प्रसङ्गानात्मकत्वात् । तथाहि उत्सर्गस्तु बाधकैकापोद्यो नियमः। यथा तस्माद्वोधात्मकत्वेन प्राप्ता वुद्ध प्रमाणता । यथान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥ इति । सायं भूयः साहचर्यरूपा ज्ञानात्मक एव न भव- ति कुतस्तकः स्यात् । अवनिगमस्तु युगपदुपस्थितयोः प्रमाणभावादन्यतरावधारणाभावः। अत्र च प्रमाणा- भावो दोषो न त्वविनिगमः। लाघवगौरवे तु स्वल्पपरि- च्छेदकत्वं प्रमाणानां स्वभावी ज्ञानात्मकावपि न भवतः प्रमाणमहकारितामात्रेण योस्तव्यपदेशोपि । प्रतिय- न्दिस्त्वर्थान्तरम् । विरोधपरत्वे तु तदन्तर्भूतैव । अना- चि यन्त्वौचित्यस्थ प्रामाणिक स्य विरहः प्रमाणा- भाान्तर्गतः । न चार्थान्तरमर्थान्तरेण परिहारतः का दोषो वाच्यो यद्यौचित्यं न दोषः स्यात् तच प्रमाणा- भावानन्तर्भावात् पृथ गति वाच्यम् । प्रथमान्तरणैव कथापर्यवमान द्वितीयान्तरस्थानवमरग्रस्तत्वात् । स चायं तर्को व्याप्तिग्राहको विषयपरिशोधकश्च । तथा- हि व्यभिचारश शानिराससहितं सहचारदर्शनन्नावद्- व्याप्तिप्रत्यक्षकारणं तच्छङ्का च विरूह कोटावनिमुपन- यता तर्केण निवयते। केवलान्वयिन्यपि साधनसमाना- धिकरणात्यन्ताभावप्रतियागि साध्यं न वेति शङ्का- स्त्येव सा च यद्यपि व्यापकतागोचरा तथापि समान- संविसंवेद्यतया गोचरापि । न च शब्दादिना व्याप्ति- ग्रहे व्याघातेन शङ्कानुत्पादेन तर्कस्पोभयत्राप्यकारण- तादोषाय विरोधिशकानिरासमात्रेऽस्य कारणत्वोपग- चतुथपरिच्छेदे तौवचारः। १६७ मात् । एवञ्च पुरुषप्रयत्नाधोनानुमितावस्य विषयपरि- शोधकतापि । तथाहि संशयान्नानाकोद्युपस्थिती संश- यानुकारिण्युपस्थितनानाकोटिका जिज्ञासापि ततो जा- यते सा चांशतः साध्याभावविषयतया साध्यसिद्धिपरिप- न्थिनी तत्र तण कोट्यन्तरेऽनिधमुपनयता सापनीयते यथा मधुविषसम्पृक्तानबुभुक्षाभक्षणसाध्यानिप्रतिस- न्धानेनेत्येवं परिशोधिते विषये तर्केण केवलसाध्यको- टिकजिज्ञासान्तर उत्पादिते समुत्पद्यमानस्तृतीयलिङ्ग सोऽनुमितये प्रभवतीति। तीभासस्तु इथापादन- मनुगुणः प्रशिथिलमूलो विपर्ययापर्यवसितो मिथो वि- रुहश्चेति पञ्चधा । अत्राद्य विपर्यये स्वरूपासिद्धिः द्वितीये सिद्धसाधनं तृतीये गप्यत्वासिद्धिः चतुर्थे बाधः पञ्चमे सत्प्रतिपक्षिात्वं प्रपञ्चितमिदं प्राक् । ननु तर्कस्य सकलप्रमाणसहकारितेति न्यायमतम् । तच्चायुक्तं विपर्ययापर्यवसाने ह्यस्य च तकीभासतैव तत्पर्यवसाने- तु तदितिकर्तव्यतात्वमेव तर्कस्येति नोभयथाप्यस्य प्रत्यक्षाद्यङ्गतेति । मैवम् । विपर्यये यद्यपि प्रत्यक्षादिस्थले नायं पर्यवस्थति तथापि विपर्ययापर्यवसानयोग्य एता- वतैवादी सत्तर्क इत्येतादृश इत्येवायं प्रत्यक्षादिसहकारी भवति । तथाहि यद्यत्र घटः स्यात्तदा भूतलवदर्शनगो- चरः स्यादिति। यत्तु यथा जात्युत्तरं स्वव्याघातकं तथा स- प्रतिपक्षोपीति । अयन्तु यद्विशेषो यजातावुत्तरमेव मन्दं सत्प्रतिपक्ष तु भाषापि । तत्र द्वयोरपि स्वब्याघातकत्वा- दिति गुरुणोक्तं तद्गुरुणोक्तमतः प्रागेव निरस्तमिति । एतावानर्थः सौत्र एव तथाहि पारमर्षसूत्रम् अविज्ञा- ततत्वेर्थे कारणोपपत्तितस्तत्त्वज्ञाना नार्थमूहस्तर्कः। अत्र तर्क ४३६ १६८ खण्डनोद्धार इति लक्ष्यनिर्देशः शेष लक्षणाय । अत्र ऊह इति कृते ज्ञान- मानेऽतिव्याप्तिरत उक्तम् अविज्ञाततत्त्व इति ।न विज्ञातं विशेषतो ज्ञातं तत्त्वं वास्तवं रूपं यस्य तस्मिन्नर्थविशेष- विशेषात् सामान्यज्ञानं धर्मिज्ञानच्च तर्कहेतुसंशयहेतु- लभ्यते । एवमपि तृतीयादिविग्रहेण बहुब्रीही मूढज्ञानमा- नेतिव्याप्तिरत उक्तमर्थ इति । तथा च तृतीयविग्रहान- न्तरं बहुब्रीहिसम्भवः विषयसप्तमी चानेन स्फोरिता । निश्चितेप्यर्थे पुनर्निश्चयार्थं य ऊहः स व्युदस्तः । एवमपि संशयेतिव्याप्तिस्तद्वारणाय कारणोपपत्तित इति । कारणं व्याप्यं तस्योपपत्तिराहार्यारोपः ततः एवमपीथापादनेति- ऽव्याप्तिरत उक्तं तत्त्वज्ञानार्थमिति । तत्तु न तत्त्वज्ञानार्थ भवति तद्विपर्ययस्याप्रमितत्वात् । अनेन निर्णयफलकता दर्शिता । एवञ्च सम्बन्धी विषयः कारणमाहायर्यारोपः आहार्यतात्वस्यैच्छिकतामात्रेण न तु प्रतियोग्यारोप्यादि वहाधित विषयत्वेनेति स्वरूपमनिप्रसजनं फलं निर्णयः । तर्कशरीरे यद्यपि पूर्वभागः करणव्युत्पत्त्या उत्तरभागस्त भावव्युत्पत्त्या तर्कपदार्थस्तथापि उत्तरभाग एव तर्कः क्षादनुमित्यनुकूलत्वादिति स एवात्र लक्ष्यः । नन्वात्मा- श्रयादेर्मूलप्रमाणोपपत्तिश्चेत्तदा प्रामाणिकत्वाददोषत्वं न चेत्तदा मूलशैथिल्यादोषत्वं तथा चैते सत्तकी एवेति खण्डनम् । तदप्यसत् । प्रमेयत्वं यदि प्रमेयत्तिः स्यात्तदा प्रमेयत्वभिन्नं स्यादभिधेयत्वषत्र तावन्न मूले प्रमाणापप- त्तेः प्रमेयवृत्तित्वप्रमेयभिन्नत्वयायाप्त्यभावात् प्रमेयत्व एव तद्भङ्गात् । हन्त तर्हि मूलशैथिल्यं तदपि न पक्षता- दशायामुद्भावनायोगात् । इदमेव वैलक्षण्यं गमयितुं प्रस- ङ्गात्मनोप्यमी चत्वारोपि गोषन्यायेन पृथगुक्ता इति । सा- MA ४४० ७६१ चतुर्थपरिच्छेदे तर्कविचारः अस्त्वेवं तथापि नायं सत्तः विपर्ययापर्यवसितत्वात् । तथाहि प्रमेयत्वञ्च न प्रमेयभिन्नं प्रमेयत्वं प्रमेयमिति थावत् । ईदृशञ्च विधानं न भवति। न ह्युदेश्यविधेययो- रैक्यं सम्भवतीति। मैवम् । प्रमेयत्वंप्रमेयत्वप्रतियोगिका- न्योन्याभावाश्रयो न भवतीत्यस्य विधेयत्वात् । तथा च प्रमेयत्वं न प्रमेयवृत्ति प्रमेयत्वान्यान्यत्वात् । ननु चाभाव- प्रतियोगीन विशेषणम् अभावविधा प्रतियोगिनोप्यनुप्र- वेशापत्तेः। नोपलक्षणम् अभावमात्रविधिस्तहि स्यात्तथा चातिप्रसङ्ग इति चेन्न। एवं हि निषेधमात्रखण्डने व्याघात: स्यादिति । व्याघातप्रतिवन्द्योस्तु यत्तर्कत्वमुक्तं तदयुक्तम्। बयोरप्रसङ्गत्वात् प्रसङ्गस्यैव च तत्कार्यत्वादिति । अन्यो- न्याश्रयापादनन्वित्थम् इतो भिन्नतया ज्ञात्वा तस्मादयं भिन्नतया ज्ञातव्यः। ततो भिन्नतया ज्ञाताच्चास्मात्सोपि भिन्नतया ज्ञातव्य इत्युभयीयं भेदज्ञानाधीनमित्युभयमपि ज्ञानं न स्यादन्योन्यापेक्षित्वादित्यसंवादयोरन्योन्याश्र- यः न त्वन्योन्याश्रय आपाधते आपाधाप्रसिद्ध। एवं चक्रकेप्यूह्यं तत्र परम्परा परमधिकेति विशेषः । अन्योन्या- श्रयापादनमेव नेति सत्यं किन्तु प्रकृते नैवं न हि पक्षभि- नतया ज्ञातात् पक्षो भिन्नतया ज्ञेय उक्तदोषात् । नापि प- क्षाभिन्नतया ज्ञातात् विरोधात् । किन्तु प्रतियोग्यनुयो- गिनोः स्वरूपेण ज्ञाने एकस्मादपरस्तदन्योन्याभावरूपवत्त- या प्रतीयते। सा तुभेदधी सत्ये प्रमाणे त्वन्यथेति प्रमेय- त्वादावात्माश्रयस्तु न दोषःप्रामाणिकत्वात्।एवं कार्यका- रणयोरन्योन्याश्रयोपि न उपलक्षणाश्रयणात्।एवं दुःख- जन्मेत्यादौ चक्रकं बीजामुरादावनवस्था च न दोषः व्य- क्तिभेदाश्रयणेन प्रामाणिकत्वात् । चक्रकन्तु व्यक्तित्रया- ज-No. 8 Vol. XXIX-August. 1907.

१०० Katternmome खण्डनोद्धार दिस्थमेकभेदादनन्तरभेदम् । अनवस्था तु यदि द्रव्यं द्रव्यस- मवेतत्वनियतं स्यात्तदा गुणकर्मान्यतरं स्यात् । अन्न द्रव्य- स्य द्रव्यसमवेतत्वनियतत्वे अवयवव्यवस्था न स्यात् अव- यवावयविप्रसङ्गो निरवधिरिति सुमेरुसर्पपयोरप्यविशे- षापत्त्या निरस्तमेवेति। सा चेयमनवस्था कारणमुखी तु धी- जामुरादा न दोषाय प्रामाणिकत्वादात्माश्रयादिपेय- ते।ापादनस्थत्वे तु प्रमाणं नास्तीत्यात्माश्रयादयस्तत्र दोषाभावात् । तर्हि प्रमाणाभावस्तत्र तत्रोद्भाव्यतामुप- जीव्यत्वात् किमात्माश्रयोद्भावनेनेति खण्डनम् । तन्न । आत्माश्रयादिव्यवस्थापनात्पुरत एव निरस्तत्वात् । ननु गगनारविन्दात् कूर्मरोम भिन्नमभिन्न घेत्यत्र प्रश्रे न किञ्चिद्प्युत्तरं घटते। न चानुत्तरमेवाप्रतिभापत्तरिति तन्न । उत्तराहें उत्तराप्रतिपत्तेरप्रतिभात्वात् । नन्दि- दमुत्तरानहमित्यपि वाच्यमेवेति चेत् । न । अवस्तुनि विधिनिषेधयोरप्रवर्त्यत्वात् । ननु बन्ध्यासुतशविषा- णे कूर्मरोमैवेति वाक्यादपि सदुपरक्तमसद्भासते कथम- न्यथा असव्याप्तिवादिनां मतमपि ज्ञास्यसि । अज्ञात्वा च कथं ततो विमुखः स्था इति । तन्न। वन्ध्यासुत इत्यता बन्ध्यासुतयोरन्वयः कथं प्रतीयताम् अस्याः सुतान्वये बा- धात्।अजननी हि सा बन्ध्यापदेनोपस्थिता तस्माद्वन्ध्या- यां सुतान्वयोनिषिध्यते सुते च बन्ध्यान्वयःन तु बन्ध्या- सुतो निषिध्यते प्रतियोगिसिड्यसिडिपराहतेः । यत्तु खा- ण्डनिकस्य प्रज्ञाशेषे तत्तुल्योहस्तदीयच्च योजनं विषयान्तरे। शृङ्खला तस्य शेषे च त्रिधा भ्रमति मक्रिया।

१७१
चतुर्थपरिच्छेदे तर्कविचारः ।
इति खण्डनकृतोपदिमिति खण्डनोडारकृतापि
समानमिति साधूपदिमिति सर्वं चतुरस्रमिति ॥
यदक्षपादस्य महामुनेर्मतं
विखण्डितं पण्डितमानिनामुना।
नतेन गोडेन)
तदक्षसाधुना
मयोवृतं पश्यत वीतमत्सराः ॥
लक्ष्यते वैनतेयोपि नीरक्षीरविवेचने ।
सुकृती राजहंसोयमेवमेवं प्रगल्भते॥
इति श्रीमहामहोपाध्यायसन्मिश्रवाचस्पतिविरचितः
खण्डनोडारः समाप्तः ॥
(९) अत्र प्रथमद्वितीयादर्शपुस्तकयोरक्षराणि विलुप्तानि तृतीयादर्शपुस्तके
'उतनगीडेन” एतान्यक्षणि वर्तन्ते । तद्वर्शनादुद्धृतं "नतेन गाडेने"ति ।

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Khandanodwara

Author
Vaachaspatimishra
Other authors
Vama Charanabhattacharya
Title
Khand-ng-anoddhaara:
File name
Khandanodwara
Text
OCR done
Citation
1909
Published
2004/12/26
Publisher
Medical Hall Press ,varanasi
Language
Sanskrit
Pages
178
Library
Asr,melkote
Classification
Hinduism Narrowly
Keywords
Refutational books on Visistadvaita vedanta
DLI number
383167
Barcode
1990020047460.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
8MdqpsyT1zL
Download PDF

Khandanodwara