S.P College, Srinagar
Shiv Raj Vijay Pataka
Front matter
No text on this page.
K
verv
TO THE READER.
INDLY use
this book
carefully If the book is disfigured
or marked or written
written on while in your
possession the book will have to
replaced by a new copy or paid for. In
case the book be a volume of set of
which single volumes are not available the
price of the whole set will be realised.
to be
O, 1, 29,
PRATAR
7109
SRI
GE
......
LIBRARY
Clan No....
2.91:. 69.
Book No........ N. &3 Sh.........
10648
Acc. No.......
No text on this page.
नूतन
शवराजविजय पताका
Siinsessa w pory Pecalcom
मिलने का पता-
मेहरचन्द्र लक्ष्मणदास
संस्कृत पुस्तकालय, लाहौर।
No text on this page.
toads028 %e0%ayo 60%20%%%%%% SelevelGOOGINDIGODOOGOolalels ००००००००००० * ॐ * ००००००००००० ( नूतन ) शिवराजविजयपताका HOOKQ Oayodyouyasya varmoOGOG ०००००००००००००००० सारस्वतवंशावतंसेन प्राच्यमहाविद्यालयसाहित्य- दर्शनशास्त्राध्यापकेन स्यालकोटवास्तव्य- जैनन्यायविशारद कवितार्किक- नृसिंहदेवशास्त्रिणा दर्शनाचार्येण रचिता। ००००००० tariantarioriteriaalaptools ilajootoniopooloniercoloriosotaakasicolmololoisotorisi ခ င် ရ ခ ခ ခ ခ ခ ခ ခ ခ ခ အ ခ ခ ခ ခ ခ ခ ခ ခ ခ ခ ခ ခ ခ ) 1०००००००००००००००० . alasAATALUNGA LIBRAR आसामन्द पम्भणी निजव्ययेन प्रकाशिता। 000Toyoyoyoyopavela ODOYOToyoy ००००००००० सोलएजेंट-(पुस्तक-प्राप्तिस्थानम् ) मेहरचन्द्र लक्ष्मणदास अध्यक्ष-संस्कृत पुस्तकालय, सैदमिट्टा बाज़ार, लाहौर। मुद्रक-भारद्वाजप्रिण्टिङ्ग प्रेस, लाहौर । Aan प्रथमसंस्करण ५० ०००००००००० cooooo0OBA000000 oyoyoyoyeuroooooooooooyoyonya 10000000000000000000000000000 द्वादशनिश्वाससमाप्तौ २४० पुटे त्रुटि:- इति श्रीपण्डित-देवीदासतनुजनुषा सारस्वतवंशावतंसेन सती-विष्णुदेवी-गर्भजेन स्यालकोटवास्तव्य-जैनन्यायविशारद-कवितार्किक-[तन्त्रचक्रवत्ति ] दर्शनाचार्य- नृसिंहदेवशास्त्रिणा प्रणीता (नूतन ) “शिवराजविजयपताका" नाम शिवराजविजयटीका समाप्ता 10648 * ॐ * द्वित्राः शब्दाः। अयि ! पाठकमहाभागाः! साहित्याचार्यवर्यैः पण्डितप्रकाण्डैः अम्बिकादत्तव्यासैमहा- कविभिः 'विहारिविहार' इत्याख्ये ग्रन्थे स्वयमेव स्वजन्मो- दन्तकथा संक्षिप्य लिखिता, वयञ्च तस्या अपि सारमा- दाब अनुवादरूपेण पाठकजनपरिचयलाभायाऽत्रोद्धरामः । एतावता शिवराजविजय " गद्यघटनावृत्तमपि परिचितं भविष्यति । तथाहि-*राजपुत्रायतनाम्नि देशे जयपुरराज- धानीसमीपवर्ती 'मानपुर' नाम्ना प्रसिद्ध एको ग्रामः, नन्वसौ विद्वग्राम एवासीत् । तत्र तत्रत्यविद्वत्सु प्रसिद्धतरा ज्योतिः- शास्त्रनिष्णाताः गौडा + 'ईश्वररामजी' इत्याख्यया आख्याताः पण्डितवर्या अभूवन् । एतेषामेव प्रपौत्रो " हरिरामः " श्रीमान् राजाश्रयप्रदानकारणात् रावत जी की धूला' इत्य- भिधेये ग्रामे निवासं व्यधित-पं० हरि राम जी' इत्ये- तेषां पुत्रः श्रीमान् पण्डितो ‘राजाराम ' इत्यभिख्यः 'धूला' ग्रामात्सम्बन्धं परिहाय सपरिवारो वाराणसीनिवासमकरोत् स्वगुणगौरवाच तत्र पण्डितमण्डल्यां ज्योतिर्विवे महतीं ख्यातिमलभत । अत्रभवतोऽस्याऽनेकसन्तानेषु पुत्रद्वयमेव चिरञ्जीव्यासीत्,ज्येष्ठः श्रीमान् दुर्गादत्तः, कनिष्ठः श्रीमान् देवी- दत्तश्चेति । स एवाऽयं श्रीदुर्गादत्तः ' यः कविमण्डले 'दत्त नाना प्रसिद्धिङ्गतो वर्तते। अयं श्रीमान् कदाचित् जयपुरे कदाचिच्च काश्यां मनोविनोदमकरोत् । एतेषां द्वितीयपुत्रस्य * 'राजपूताना'। + ' सार्धशतवर्षात् ' पूर्व ' मंडावा ' ग्रामादेतेऽत्र समायाता' इत्यपि केचित् कल्पयन्ति ।
ख जन्म जयपुरे एव ' सिलावटों का मुहल्ला इत्याख्ये श्राव- सथे वैक्रमे वाणचन्द्राङ्कचन्द्रेब्दे ( १६१५) चैत्रशुक्लाष्टम्याम- भूत् । स एवाऽहमस्मि । वैक्रमे रसचन्द्राङ्कचन्द्रेब्दे (१६१६) तु पूज्यपादा मम तातपादाः 'श्रीदुर्गादत्तजी' महो- दयाः पुनर्वाराणसीमयासिषुः शास्त्रानुसारं पञ्चमे वर्षे वर्षे एव मम ( व्यासस्य ) शिक्षायाः प्रारम्भो विहितः । मम जननी, ज्येष्ठा भगिन्यः, पितामही, पितृव्यपत्नी चापि सर्वाः पठिता अभूवन् । एवम् ( सौकर्येण ) मम शिक्षाप्रणाली चतुरस्ररूपतयैव उत्तरो- त्तरमैधिष्ट । तदाऽहं दशवर्षवयस्क एव हिन्दीभाषाकविता- या रचने किंचित् प्रावर्तिषि। यः कश्चित् मत्प्रणीतां कविताम- श्रौत् स एवमेवाकथयत् यन्नानेन स्वयं रचिता, किन्तु स्वपितृद्वारा विरचय्य ( घोटिता सती ) श्राव्यते । अथ कदाचित् वै० ( १९२६ ) मिते वर्षे “श्रोमा" इत्युपपदनामानः श्रीतुलसीदासाभिधाना जोधपुरात् विश्वना- थपुरीमुपसेदुः । एतेऽपि मामकीनां कवितां श्रावं श्रावं तामेव शङ्कामुदभावयिषत, यदत्यणीयसि वयास एतादृश्या उद्भटायाः कवितायाः प्रणयनं न केवलं कठिनमेव प्रत्युत असम्भवप्राय- मिवाभातीति। तत उक्तसंशयविध्वंसनाय ते मत्पुरत एका समस्यां स्थापि- तवन्तः कथितवन्तश्च यदियं मम समक्ष एव पूरणीयेति । साचेयम्- 'दि गई अांखें तब लाखें कौन काम की' इति । अहश्च तत्क्षण एवेमामित्थमपूपुरम् । तथाहि- चमकि चमाचम रहे हैं मनिगन चारु * 'अम्बिकादत्तव्यास' इत्यर्थः ग सोहत चहूंघा धूमधाम धनधाम की । फूल फुलवारी फल फैल के फबे हैं तऊ छवि छटकीलि यह नाहिन श्राराम की ।। काया हण्ड चाम की लै राम की विसारी सुधि जानकी को जाने वात करत हराम की। अम्बादत्त भा अभिलाषे क्यों करत भूठ मूंदिगई आंखें तब लाखें कौन काम की ॥ इति । ततः सर्वाङ्गीणानि दिव्यानि वस्त्राणि प्रशंसापत्रं च मां दत्वा श्रीमन्तः तुलसीदासाः गुणग्राहितां प्रकटितवन्तः, येन तदारभ्य ममापि नाम गुणिगणगणनायामगण्यत गुणज्ञवर्यैः । तत एकादशवर्षात्मके वयसि अमरकोष-रूपावलिप्रभृ- तीन् अनेकान् ग्रन्थान् समाप्य पण्डितवर श्रीकृष्णदत्तगुरुभ्यो लघुकौमुदीमपाठिषम् । एवञ्च तत्तदाचार्येभ्योऽनेकानि शास्त्रा- ण्यध्यैषि । किन्तु द्वादशवर्षात्मके मयि एकदा कश्चित् तैलङ्गवृद्धोऽष्टावधानी वाराणसीमुपेयिवान् , तेन च महोदयेन गुरिणगणगुणगणनाप्रियस्य भारतेन्दुहरिश्चन्द्रस्य भवने स्वाष्टा- वधानकौशलं प्रादर्शि । 'काशीवास्तव्योऽपि कश्चित् विद्वान् किञ्चित् कौशलमेभ्यः प्रदर्शयेत्' इति वदति भारतेन्दौ सर्वेषु च मौनव्रतपरायणेषु 'अयं बालः कदाचित् सरस्वतीमन्त्र- कवितां करोति' इत्यभिहितवति मदीयपितृचरणे ममाग्रे मषीलेखनीकागदादौ च स्थापितेऽहमष्टकोष्ठकं चतुःपति एकमायतं यन्त्रमलिखम् , अपृच्छश्च कं पदार्थ कवयेयमिति। तदा 'इदं घटीयन्त्रं वर्णय' इति बाबुहरिश्चन्द्रसहोदरो गोकुल- चन्द्रमहोदयः सकुतूहलमवोचत् । उच्यताम् ? भवतां कथना- नुसारं तत्तत् कोष्ठक एवाक्षराणि लिखयम्, ऋजुवाचने क्रिय- माणे श्लोक एव भविष्यतीत्येवमभिधाय तदुक्तिपुरःसरं कोष्ठ- केषु वर्णविन्यासमकार्षम् । तेन चायं श्लोकः सम्पन्नः ।
घ सह तत्र महाराजो तथाहि घटी सुवृत्ता सुगतिर्द्वादशाङ्कसमन्विता। उन्निद्रा सततं भाति वैष्णवीव विलक्षणा ॥ ततः सर्वतः समुत्थे साधुवादे ‘सुकविरेष' इति ध्वनिदर्शापि दिशा बधिरीकुर्वन्नुदस्थात् । ततः त्रयोदशे वर्षे तातचरणैः डुमराँव राजधानीमगमम् राधिकाप्रसादसिंहः कवितां मदी- यामाकर्ण्य अत्यन्तं प्रासीदत् । एवमुत्तरोत्तरं सांख्ययोग- वेदान्तादिदर्शनशास्त्रेषु सङ्गीत-सितार-जलतरङ्गादि- नानाविधवादित्रविद्यायाश्च प्रावीण्यमासादयम्। वै०१६३२ वर्षे च गभर्णमेण्टकालेजे संस्कृतविभागे प्रविश्य प्राङ्गलभाषामपि कथञ्चिदधिगतवान् । स्वभगिनीपतिपण्डितवासुदेवसकां- शाच्च चिकित्साग्रन्थानप्यपाठिषम् । अथ झातबङ्गभाषोऽहं क्वचित् सम्पादककृत्यं कर्तुं प्रस्तुत आसम् । एषु दिवसेषु भारतजीवनसम्पादकश्रीश्यामकृष्ण - देवकीनन्दन-अमीर- सिंहकार्तिकप्रसादप्रभृतिभिः सह ममान्तरङ्गता समजनि । ततो महाराजमिथिलेशस्य राज्याभिषेककाले सामवताख्यं प्रसिद्ध नाटकमरचयम् । वै० १६३५ वर्षे काश्मीराधीशस्थापि- संस्कृतकालेजे प्रावीविशम्। श्री १०८ स्वामिविशुद्धानन्दसर स्वतीनामध्यक्षतायां परीक्षाश्चादाम् , ते च सकलकलाकोवि. दानां समक्षे मां “व्यास" इति पदव्या अभूपयन् । वै० १६३७ वर्षे साहित्याचार्यपरीक्षायामहमेव शिरोमणिरासम्। ततः बल्लभकुलावतंसधीजीवनलालाख्यैः सह जाते परिचये कलिकात्ताराजधान्यां सनातनधर्मविषयेषु मम अष्टाविंशति- सङ्ख्याः वक्ता अभूवन् अथाऽहं भगवत्कृपया २४ मिण्ट- मितेकाले १०० एकशतश्लोकानां निर्माणसामर्थ्यमप्यासादयम् । ततः-काश्यां ब्रह्मामृतवर्षिणीसभासभ्याः कोविदाः मां ङा सहस्रशीर्षा "घटिकशतक" पदेन सह रजतपदकमार्पयन् । अथ वै०१९४० वर्षे, १९४३ वर्षे, १६४४ वर्षे, चाहमनेकत्र जीविकामकार्षम् किन्तु अनेकैः कारणे ग्रंणवाधित एवाभूवम् । पुनः वै० १६४८ वर्षे "बिहारीविहार" पुस्तकं महता परिश्रमेण समापितम् । वै० १६५० वर्षे च देशाटनमकार्षम् । ततः भारतरत्न- भारतभूषण-शतावधानाद्यनेकैरुपाधिभिस्तत्र तत्राहं लब्ध- प्रतिष्ठोऽभूवम् । एकदा महाराजजयपुरमन्त्रिणा वेदसमस्या दत्ता तामेवमपूपुरम्-तथाहि- प्रविष्टो राजभवने प्रतिबिम्बै न को भवेत् । पुरुषः सहस्राक्षः : सहस्रपात् ॥ इति एतावत्पर्यन्तं खजीवनी स्वयमेव व्यासैलिखिता । अत्रान्तरे गभर्णमेण्ठपटनाकालेजे प्रोफेसरपदं लब्ध्वापि ते दुर्भाग्यवशात् तत्राऽस्वास्थदूषितदेहाः वै० १६५७, वर्षे ख्रिस्तीये १६०० वर्षे नवाम्बरमासस्य १६ तारकायाम् श्रीव्यासमहा. कविः इन्द्रपुर्या देवगुरुणा सह शास्त्रचर्चा विधातुमिव मर्य- भूमिं तत्याज । एतेषां रचिता प्रस्तारप्रदीपशिवराजविजयाद्या अनेके ग्रन्थाः सन्ति । श्रास्तां तावदेतत् : शिवराजविजयः-शिवराजस्य विजयः शिवराजविजयः तत्प्रतिपादकत्वात् ग्रन्थोऽप्युपचारात् "शिवराजविजय इत्युच्यते । गद्यं काव्यमेतत् । “पद्यं गद्यञ्च मिश्रञ्च तत् त्रिधैव व्यवस्थितम्" इत्युक्तेः । गद्यलक्षणन्तु-"अपादः पदसन्तानो गद्यम्" इति । इदञ्च श्राख्यायिका, कथा चेति द्विविधम् । कथासङ्घकञ्चैतत् गद्यम् । पुनर्गद्यञ्चतुर्विधम्- “ गद्यं वृत्तगन्धि चूर्णमुत्कलिकाप्रायञ्च" इति वामनोक्तेः । एतत्प्रपञ्चः काव्यादर्शटीकायां मदीय कुसुमप्रतिमयायांद्रष्टव्यः। शिवराजविजयस्य तु ." चूर्ण" गद्येऽन्तर्भावः । चूर्णमेव चूर्णिका' इत्यप्युच्यते।यद्यप्यस्मिन् तत्र तत्र दीर्घसमासभाजि च अपि बहूनि गद्यानि सन्ति तस्मात् “उत्कलिकाप्रायम्" इत्यपि वक्तुं शक्यते तथापि “प्राधान्येन व्यपदेशा भवन्ति" इति न्यायमनुरुध्य अदीर्घसमासभाजामेव पदानां बहुत्वात् 'चूर्ण' मेवैतत् । अत एवाऽत्र वैदर्भीरीतिर्मुख्या, क्वचित् क्वचित् गौड्यपि, प्रसादगुणस्य च बाहुल्यम् । प्रसादस्य सर्वरसव्या- पकत्वात् । अन्तराऽन्तरा ओजोऽपि । मुख्यो वीररसः। करुणादिस्त्वङ्गभूतोऽपि । एतच्च सर्व मूलग्रन्थपरिशीलनेन अस्मद्व्याख्याविलोकनेन च विशेषतः परिचितं भवितुमर्हति । धीरोदात्तश्चात्र नायकः श्रीशिववीरः । उपनायको माल्यश्रीक प्रभृतिः। प्रतिनायकोऽवरङ्गजीवः इत्यादि यथायथं वेदितव्यम् । अन्यदेप्येतस्य काव्यस्य विषये बहु वक्तव्यमस्ति परन्तु समया. ऽभावात् विस्तरभयाच्च सम्प्रति नोच्यते। किन्तु-मूलग्रन्थो बह्वशुद्धं मुद्रितः या च यथामति विज्ञाय टीकाग्रन्थो रचितः संशोधितश्च, तथापि क्वचित् २ स्खलितं दृश्येत चेत् पण्डितवर्याः संशोध्य मामनुगृह्णन्तु, नहि सर्वः सर्व जानाति । एतदर्थ साहित्याचार्याणां श्रीशालिग्रामशास्त्रिणां पद्यमेकमु. द्धरामिः दुर्मोपो दोपसङ्घः क्षणमपि न दृढा शेमुषी मानुषीयं गम्भीराम्भोधितुल्यं दुरधिगममहो शास्त्रतत्वं विशेषात् । अद्धा बद्धाञ्जलिस्तद्गुणगणनिकषान् प्रार्थये प्रार्थनीयान् जोपं जोपं विदोषं कलयितुमखिलं जोषमेवानतोऽहम् ॥ इति ई० ३०-३-२०१ विदुषामनुचरः- नृसिंहदेवः।
ॐ * शिवराजविजयपताका * (अर्थात् नूतना शिवराजविजयटीका दुरितरिपुविनाशं वुद्धिसिद्धिप्रकाशं शिवहृदयविलासं पार्वतीचारुहासम् । मुखविततिसुनन्दं तापसंहारचन्दं गणपतिमभिवन्दे विघ्नविध्वंसदण्डम् ॥१॥ अजहरिहरमेधा-योगपीयूषधारा जनिपुषिहृति-हेतु ब्रह्मनान्दीप्रसारा। मम मतिजडतानां यूथमापोथयन्ती जयतु जयतु देवी वाङ्मयाधारभूता ॥२॥ गुरुचरणसरोजं मन्मनोभृङ्गभूमिः सकलनिगमभङ्गी-सौरभाद्वैतराज्यम् । विकचदलवितानं दोपपङ्ककहानं मम कृतिसुरधुन्यां राजतां सर्वदैव ॥ ३ ॥ जनकपदपयोजं निर्मलं चिन्तयित्वा तदनु जठरधायाः पादरेणुं समाल्य । शिवविजयपताका" रच्यते नूतनेयं * नरहरकचिनाऽहो ! तुष्यतां तेन शर्वः ॥ ४ ॥ इह भवति मदीयवाग्विलासः नृसिंहदेवशास्त्रिणा।
( २ ) सहृदय-कोक-विशोक-मोककारी । ननु जगति विनिश्चितं यदेततद्- रविकिरणे न दिवान्धनेत्रतुष्टिः ॥ ५ ॥ क्वाऽम्बिकाव्यासगद्यात्मा कृतिरेषा महोद्भटा । क्व मे व्याख्यान कामोऽयं परिडताणोरनातुरः ॥ ६ ॥ तथापि लीलया छात्र-हितमात्रप्रयुक्रया । शिवराजस्य विजय पताकां टीकयाम्यहम् ॥ ७ ॥ नवा चैपा पताकेयं पूजिता जयकर्मणि । सिद्धिं दास्यति लोकानां गद्यधाराप्रवेशिनाम् ॥ ८ ॥ एपा टीका हितं कुर्यात् परीक्षावार्धिसन्तरे। छात्राणामिति मे कामं पूरयेच्च चतुर्भुजः ॥ ६ ॥ अथ श्रील श्रीदक्षिणाशातिलकस्य महाराष्ट कुलमणः शूरवीरधुराधारिधीरे- यस्य कलावप्यकुण्ठितक्षात्रतेजश्चन्द्रहासस्य प्रातःस्मरणीयनामधयस्य महामहनीय- कोत्तः श्रीमहमिहेन्द्रस्य शिवराजस्य वीररसप्रधानं चरित्रमुपनिबध्नन् अम्बिका- दत्तव्यासो महाकविः स्वकाल सफलयन् शिष्टाचारपरम्परारक्षण दाक्षिण्येन मङ्गल. मपि पाठयन् वर्णनीयप्रसङ्गस्य पातनिकाकणिकामारोपयन्निव श्रीव्यामोक्ति स्मरनि "विष्णोर्मया" इति । वेवेष्टि व्याप्नति चराचरात्मक प्रपञ्चजातमिति * विष्णु:= शुद्धं ब्रह्म । विषेाप्त्यभिधायिनो + नुप्रत्ययान्तस्य रूपम् । “ अन्तर्बहिश्च तत्सव व्याप्य नारायणः स्थितः" इति श्रुतः । तस्य माया दैवीशक्तिः तत्त्वान्यत्वाभ्यामनिर्वच- नीया · मायन्तु प्रकृति विद्यात् " इति " ते ध्यानयोगानुगता अपश्यन् देवात्म- शक्ति स्वगुण निगूढ.म्" इति च श्रुतेः। ' देवी ह्येषा गुणमयी मम माया दुरत्यया" इति स्मृतेश्च । भगवती दिव्या । यया मायया जगत् संसारः सम्मोहितम् अन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते, कर्तव्याकर्तव्यविमूढं भवतीति यावत् । हिंस्र इति । घातुकः करो नरः खलः = दुष्टः स्वपापेनैव विहिसिता * विशतर्वा नुक्प्रत्ययान्तस्य रूपम्-उक्तञ्चः- यस्माद्विष्टमिदं सवं तस्य शक्रया महात्मनः । तस्माद्विष्णुरित ख्यातो विशेर्धातोः प्रवेशनात् ॥ इति विष्णुपुराणे । ' विषः किच्च " ( उ० ३ । ३६ ) इति सूत्रेण नुः । - +- ( ३ ) भवति । पापिनः पापं कमैव तस्योद्ध्वंसने निमित्तम् अतएव शास्त्रेष्वाततायिवधस्या- दोष उक्तः । तथाचोक्तम्- आततायिनमायान्तं हन्यादेवाऽविचारयन् । नाततायिवधे दोषो हन्तुर्भवति कश्चन ॥ इति साधुः = आचारवान् परहितकारी समत्वेन = कुशलाकुशलकर्मविवेक- दृष्ट्या भयात् = परपीडाहेतोः विमुच्यते = मुक्तो भवति । सर्वथा शास्त्राचारपरि- पालनवतां नृणां न काचिद्धःनिरित्यर्थः । एतेनास्य प्रथमनिश्वास्य अनकेषां पामराणां क्रूराः, महात्मानामनिन्द्याश्च प्राचाराः, लुण्टाकानां धाटीमारकाणाञ्च गहिंता व्यवहारा" इत्याद्या अनेकाः समुज्जम्भमाणा भगवतो माया एवोपक्षेपकत्वेन विषया " विष्णो" रिति भागवतप्रतीकेनोपनिबद्धाः सन्तीति ज्ञातव्यम् । विष्णुनामस्मरणेन सकलदुरितोपक्षयश्च सूचितो भवति । किञ्च–अत्र निश्वासे कश्चन म्लेच्छहतको हिन्दुकन्यां हरिष्यतीत्यसौ स्वयं स्वपापेन नष्टः, कन्या च कनचन साधुनोपकृता सुरक्षिता इत्येतद्वृत्तं " हिंस्रा" भागवतोक्तिसमुद्धरणेन यूचितमित्यपि स्मरणीयं ग्रन्याध्यतृभिरिति शिवम् । "अरुण" इति । अरुणः अव्यक्तरागः किचिल्लोहितः उदयकालिकसूर्य- अव्यक्तरागस्वरुण इत्यमरः । " ऋगतो" अस्माद्धातोः '' अर्तेरुरन् " इयाणादिक उरन् प्रत्ययः । ऋच्छतीति अरुणः । पूर्वस्यामिति अत्र''दिशि" इति विशेष्यपदमध्याहर्त्तव्यम् । भगवतः महैश्वर्यस्य मरीचिमालिनः सूर्यस्य । म्रियते तमोऽस्मिन् इति मरीचिः। 'मृकणिभ्यामीचिः" ( ३०४ । ७० ) इत्यौणादिकः इचिप्रत्ययः । मरीचीनां माला=पंक्तिः अस्या- 8 'अरुणोऽन्यारागेऽर्के संध्यारागेऽर्कसारथौ निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु" ॥ इत्याद्यन्यत्र कोपे "माला तु पती पुष्पादिदामनि" इति हैमः । मल्यते ध्रियते इति "माला" । मल धारणे। 1 ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ इति । षड्विधत्वं भगस्य । कालिकापुराणे तु–भग: कामाक्षायोनिः ब्रह्मशिलापर- पर्यायः पापाणविशेषः अर्धयोजनविस्तीर्णः योजनायतः यमाश्रित्य विष्णुर्भगवान् मधुकैटभी जघान । " प्रकाशस्य स्वभाव एषः । * ..
( ४ ) .. म्नास्ति मरीचिमाली। अत इनिठनी ( पा० ५। २ । ११५) इति मतुबर्थ इनिः । सूर्यस्य + भगवत्त्वन्तु सकल सृष्टिस्थितिसंहारहेतुत्वात्पुराणाद। प्रसिद्धम् । तथा च श्रीकृष्णवाक्यमर्जुनम्प्रति- आदित्यो मंत्रसंयुक्त श्रादित्यो भुवनेश्वरः । श्रादित्यानापरों देवो ह्यादित्यः परमेश्वरः ।। श्रादित्यमर्चयेद्रह्मा शिव श्रादित्यमर्चयेत् । यदादित्यमयं तेजो मम तेजस्तदर्जुन ! ॥ इति । किच्च- श्रादित्यञ्च शिवं विद्याच्छिवमादित्यरूपिणम् । उभयोरन्तरं नास्ति श्रादित्यस्य शिवस्य च ॥ इत्यादिप्रमाणैर्युक्तमादित्यस्य भगवत्त्वमिति न संशयः। अनेनाऽशेषजगत्म. वितृमयनारायणस्मरणेन ग्रन्थकत्तुमङ्गलमप्याचरितं भवतीति शिष्यैः सुध्यातव्यम् । नमेव भगवम्तम् एप " इत्यारभ्य " दिनस्य '' इत्यन्तं वर्णयति । अाकाश- मण्डलस्य गगनाभोगस्य मणिः-रत्नम् यथान्धकारे स्थापितो हीरकादिमणिः स्वो ज्ज्टम्भणेन तमो हन्ति तथाऽयमपि भगवान् बाह्याभ्यन्तरतमोऽपहः सकलार्थप्रकाश- कश्चेतितमोहन्तृत्व-प्रकाशकत्वसाम्यात् मणिरूपणम्।खेचरचक्रस्य-खेचराणां ग्रहाणां चक्रस्य समूहस्य चक्रवर्ती सार्वभौमः । यथा चकं मैन्यं वर्तयितुं सर्वभूमी चालयितुं शोलं भवति सम्राजः अस्याऽपि सर्वग्रहगणचालनद्यो- तनशील मिति युक्तं ' चक्रवत्ती इति रूपणम् । अत्र सुप्यजाती णिनिस्ताच्छील्ये ( ३ । २ । ७८ ) इति सूत्रेण ताच्छील्ये णिनिः । चक्र वत्तितुं शालमस्यति व्युत्पत्तिः । * पाखण्डलदिशः+ ऐन्याः दिशः अर्थात् पूर्वस्याः ( नायिकायाः) कुण्डलम् कर्णवेष्टनं भूषणविशेषः वत्त. लत्वसाम्यादित्याशयः । कुण्ड्यते रक्ष्यत धायते वा कणे इति कुण्डलम् । "वृषादिभ्यश्चित्"(३०१ । १०६)इति सूत्रेण "कुडि रक्षायाम्" अस्माचौरा- * "पाखण्डल: सहस्राक्ष" इत्यमरः । + “इन्द्रो वन्दिः पितृपतिनैर्ऋतो वरुणो मरुत् । कुबेर ईशाः पतयः पूर्वादीनां दिशां क्रमात्" ॥ इत्यमरः । एवञ्च-प्राच्यादीनामैन्द्रीत्यादिनामानि । इन्द्रादीनां प्राचीपतिरित्यादीनि नामानाति बोध्यम् । तथा " ( ५ ) दिकात् कलच् प्रत्ययः । “ कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च । काञ्चनद्रु- गुडूच्योः स्त्री" इति ( मेदिनी )। ब्रह्माण्डभाण्डस्य ब्रह्माण्डमेव भाण्डं गृहं नस्व दीपक: प्रकाशकत्वात् । प्रेयान् अतिशयन प्रियः प्रियतम इत्यर्थः "अति- शायने तमविष्ठनौ" (५ । ३ । ५५) इति सूत्रेण प्रियशदात्स्वाथ = अति शयविशिष्टार्थवृत्तेस्तमप् । पुण्डरीकपटलस्य = कमलाकरस्य । यद्यपि “पुण्डरीकं सिताम्भोजम्" इत्यमरोक्तिः पुण्डरीकपदन श्वतकमलानामेव ग्रहणमुचितं तथाप्यत्र कमलमात्र विवक्षितम् , आदित्यादये कमलमात्रविकासस्य स्वभावसिद्धत्वात् । शोक- विमोकः = शोकस्य विमोकः मोचो निवृत्तियस्मात् सः । कोकलोकस्य = चक्रवाक- समुदायस्य। रावा चक्रवाकदम्पत्योविंयुक्तत्वात्। 'कोकश्चक्रश्चक्रवाको रथाङ्गायनामकः' इत्यमरः अवलम्वः आश्रयः। रोलम्बकदम्बस्य-भ्रमरगणस्य सूत्रधारः= प्रवर्त्तयिता सर्वव्यवहारस्य ऐहिकामुष्मिककियायाः । सूर्योदय एव सर्वेषां स्वस्व- व्यवहारोन्मुखतेति वस्तुस्थितिः । इनश्च दिनस्य । इनः स्वामी । “इनः प्रभी नृपे चन्द्रे" इत्यमरः । "एष भगवान्" इत्यारभ्य "दिनस्य" इत्यन्ते गये व्यस्त • मालारूपकं नामाऽम लङ्कारः । वैदभीरीतिः । अल्पसमासवत्त्वात् । प्रसादो गुणः । उक्लन्च मम्मटेन- शुष्कन्धनाग्निवत्स्वच्छजलवत्सहसैव यः । व्याप्नोत्यन्यत्प्रसादोऽसौ सर्वत्र विहितस्थितिः ॥ तमेव भगवन्तं स्वभावोक्त्या भूयोवर्णयति-'अयमेव' इत्यादिना । "नाटकीय कथासूत्रं प्रथमं येन सूच्यते । रजभूमि समाक्रम्य सूत्रधारः स उच्यते" ॥ इत्युक्तलक्षणः प्रधाननटः सूत्रधारः। संसारोऽप्ययं नाट्यमेव विधातुः तत्र प्रधाननरः श्रीसूर्यो भगवान् । यत्र सर्वे प्रोण नः सूत्रधारप्रवर्तनोत्तरं स्वां स्वां भूमिकामारचयन्तीत्येवं साम्ये सति रूपकाभिसन्धिः कवेः । * प्रपञ्चितोऽयमलङ्कारो मया काव्यादर्शस्य कुसुमप्रतिमायाम् 'सौन्दर्यस्य तरङ्गिणी ' इत्याधुदाहरणेन (१३८ ) पुटके । साहित्यदर्पणेऽप्युदाहृतम्- "निर्माणकौशलं धातुश्चचन्द्रिका लोकचचुपाम् । क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा" इति । अन्यत्राप्यतादृशस्थले एषेष दिगनुसरणीया ।
( ६ ) १ पृ०४ ॥ अहश्च रात्रिश्च अहोरात्रः तमहोरात्रम् । अहःसर्वेकदेश- संख्यातपुण्याच्च रात्रः (५ । ४ । ८७ ) इति समासान्तोऽन् । रात्रान्हाहाः पुंसि' (२ । ४ । २ । ४ । २६) इति पुंस्त्वम् । द्वादशसु भागेपु-द्वादशमासरूपेषु अंशेषु । विभनक्लि-विभज्य वर्त्तयति । "अहो रात्र विभजते सूर्यो मानुषदैविके । रात्रिः स्वप्नाय भूतानां चेष्टाय कर्मणामह : '' इति मनुः।। 'विभनक्ति' इति विपूर्वकात् 'मओ आमदने' अस्माद्धातो: लटि प्रथमपुरुषेक- वचने रूपम्। रुधादिभ्यःनम्' (३।१।७८) इति शोऽपवादः श्नम् । उपसगवलेन विभाजनमर्थः । पण्णामृतूनाम् = हेमन्तशिशिरवमन्तग्रंष्मवाशरदाम् । · पडमा ऋतव: पुमि मागादानां युगैः क्रमात् 'द्वौ द्वौ मागदिमासौ स्यादृतुः' इति चाभयत्र (अमरः) । अयनमिति । 'अयने द्व गतिरुदग्दक्षिण(कस्य' इति अमरः । युगभेदाः = कृत-त्रेता-द्वापर-कलिरूपाः । उक्ता विष्णुपुराणे- दिव्यैर्वर्षसहस्रेस्तु कृतव्रतादि-संज्ञितम् । चतुर्युग द्वादशभिस्तद्विभागं निर्वाध मे ॥ इत्यादि । कल्पभेदाः = ब्राह्माद्या: 'तर युगसहस्रान्तं ब्राह्म पुण्यमहविंदुः' इति मनूके: । परमे व्योमनि=चिदाकाशे ब्रह्मपदे वा तिष्ठतीति परमेष्ठी ब्रह्मा तस्य ‘परमे स्थः कित् ' ( उ० ४ । १०) इत्यौणादिक इनिप्रत्ययः ।। परमेटिनः = ब्रह्मणः । ब्रह्मात्मभूः मुरज्येष्ठः परमेष्ठी पितामहः' इति ( अमरः ) । परार्धसंख्या = सर्वस्या: संख्याया अन्तिमा संख्या ॥ चर्ति = अतिशयेन पुनः पुनर्वाकरोतीति कृधातो: 'धातोरेकाचो' ( ३ । १ । २२) इति इति यङि, 'योऽचि च ' ( २ । ४ । ७४ ) इति यडी लुकि, प्रत्ययलक्षणेन यङन्तत्वात् द्वित्वे, अभ्यामकायें ( गुणादौ) 'चकृ ' इति जाते 'सनाद्यन्ताः' ( ३.१।३२ ) इति धातुवे, लटि, ‘शेषात्कतरि'--( १।३।७८) इति परस्मैपदे, लस्थाने तिवादेशे 'कत्तरि '-( ३।११३८ ) इति शपि "चकरीतम् " इति शपो लुकि "चकृति " इत्यवस्थायाम् —“यो वा ( ७ । ३ । ६४) इत्यनेन विकल्पेन इटागमे, तदभावपक्षे “ऋतश्च " (७ । ४ । २) इति अभ्यासस्य रुगागमे, उकि गते 'चकृति' स्थित 'सार्वधातुकाध'- ( ७।३।८४ ) इति गुणे-'चर्ति' इति रूपम् । एवमेव भृधातोः अतिशयन पुनः पुना विभतीति-"वत्ति" । हृधातोः अतिशयेन पुन:पुनर्वा हरतीति- जहात्त इति त्रीणि रूपाणि यङ्लुकि शेयानि । वेदाः = ऋगादयश्चत्वार : .
( ७ ) एतस्यैव वन्दिनः = स्तुतिपाठका: । ऋषिकृतस्तुतेर्वेदकर्तृकत्वमुपचारात् । उक्त श्रीमद्भागवते-द्वादशस्कन्धे सामयजुभिस्ताल्लङ्गैऋषय: संस्तुवन्त्यमुम् ' इति । अथवा-'अन्तस्तद्धर्मोपदेशात्' (ब०१।१।२०) इत्यन्तराधिकरणन्यायेन सूर्योपाधिकस्य ब्रह्मण एव साक्षाद्वेदैः स्तूयमानत्वेन वेदानां वन्दित्वं मुख्यभेव । वेदस्तुतावप्युक्तम्-" जय जय जयजाम्" इत्यादि । गायत्री = गायन्तं वायत इति । 'अातोऽनुपसर्गे कः' (३।२।३) इति गैधातोः कप्रत्यये गारादित्वात् ( ४ । १ । ४१) डीप । अथवा गानं गायः । भावे घञ् । गायन गानेन त्रायते इति त्रैधातोः "सुपि" ( ३ । २ । ४) इति योगविभागात् क डोषि रूपम् । “ गायत्री त्रिपदादेवाच्छन्दोभित्खदिरेषु च " इति ( मेदिनी) । सेयं गायत्री एवं सावित्री " गायत्रामेव सावित्रांमनुव्रयात्" इति शतपथोक्तः । 'गायत्री' शब्द- निर्वचनन्न ग्रन्थान्तरऽपि- "गायत्री प्रोच्यते तस्माद्गायन्तं ब्रायते यत्तः । सवितृद्योतनात्सव सावित्री परिकीर्तिता"॥ जगतः प्रसवितृत्वाद्वानपत्वास्सरस्वती ॥ इति ॥ 'ब्रह्मनिष्ठा' इति । ब्रह्मणि समाधिभाजः वेदपारगा वा । अमुमेव-सूर्यमेव अहरहः = प्रतिदिने । उपतिष्ठन्ते = उपासत । 'उपादेवपूजासङ्गतिकरणमित्रकरण पथिध्विति वाच्यम्' (वा० १।३।२५) इत्यात्मनेपदम् । उक्त षड्विंशब्राह्मणे तस्माद्राह्मणाऽहोरात्रस्य संयोगे सन्ध्यामुपास्ते ' इति । ब्राह्मणपदं द्विजमात्रीपलक्ष द्विजमात्रस्य मन्त्रः सूर्योपस्थानाधिकारात् । भास्वन्त" मिति । सूर्यम् । " भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः" इत्यमरः । निजपर्णकुटीरात्-तृण- निर्मिताया हस्वायाः कुट्याः पर्णशालाया इत्यर्थः । निश्चक्राम=निरगात् । गुरुसेवने गुरुशुश्रूषायां पटुः चतुरः गुरुसवाभिज्ञः । विप्रबटुः ब्राह्मणो ब्रह्मचारीत्यर्थः । पृ०५॥ निजनित्यकर्मकालातिपातं मत्वा-'अहो" इति संखदमाह । चिररात्राय=चिरं दीर्घकालमित्यर्थः । चिराय चिररात्राय 'चिरस्याद्याश्चिरार्थका' इत्यमरः । श्राद्यपदेन चिरं, चिरेण, चिरात्, चिरे इति गृह्णन्ते। स्वामजालपरतन्त्रेण= स्वप्नं निद्रा एव जालमानायः तत्परतन्त्रेण तद्वद्धनेत्यर्थः । "महान्" इति । ब्राह्म मुहूतें शयनस्यार्थतो निषिद्धत्वात् प्रातःकालस्य पुण्यसमयत्वम् बुध्येत धर्मार्थाचानुचिन्तयेत् " इति मनूक्तः । अतिवाहितः यापितः । सन्ध्यो- पासनसमयः = सन्ध्यानुष्ठानकालः । उक्तत्र । " ब्राह्मे मुहूते Diss TAPIHURGH ) - " इति । - पूर्वी सन्ध्यां जपंस्तिष्ठेत्सावित्रीमार्कदर्शनात् । पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ ( मनु० । १०२ ) इति । अवचिनोमिएकत्रीकरोमि । चिञ् चयने । इत्यस्य लटि प्रथमपुरुषेकवचने रूपम् । कदलीदलम् = रम्भापत्रम् । कदली वारणवुसा रम्भामोचांशुमत्कला, काष्ठीला" इति (अमर:) । अकुम्च्य = "कुञ्च" कौटिल्ये । भौवादिकः । तो ल्यप् । भुग्नं विधायेत्यर्थः । तृणशकलैः = तृण- खण्ड: । सन्धाय जोडयित्वा । पुटकम् समुद्गः पुट एक पुटकः । स्वाथें कन् । स्यात्समुद्गः संपुटः पुट " इति (वैजयन्ती) पृ० ६ ॥ ' 'वटुरसौ इति । ' आकृत्या सुन्दरः 'वर्णेन गौरः' इत्यत्र 'प्रकृत्यादिभ्य उपसङ्ख्यानम्' ( वा० २ । ३ । ४१ ) इति तृतीया । प्राकृतिः अाकारो मूर्तिरित्यर्थः । प्राकारे देह प्राकृतिः" इति (वैजयन्ती) । जटाभिः=सटाभिः । अत्र—'इत्थम्भूतलक्षणे' (२।३।२१) इति तृतीय।। षोडशवर्षदेशीयः=ईषदसमाप्तषोडशवर्षः। ईषदसमाप्तौ कल्पब्दश्यदे शीयरः । इति कम्बुकण्ठः कम्युः शङ्खः स इव (वृत्तानुपूर्वः) कण्ठः गलो यस्य सः । धर्मवाचकलुप्तोपमेयम् । “कम्बु शङ्खोऽस्त्र" इति (वैजयन्ती) । उपमासामान्यलक्षणं "काव्यदशे" यथा- यथाकथञ्चित्सादृश्यं यत्रोद्धृतं प्रतीयते । “उपमा नाम सा झेया" इति । आयतललाटः अायतं विस्तृतं ललाटं मस्तकं यस्य सः । सु=मांसलो दीघों वाहू यस्य सः सुबाहुः । विशाललोचनः विशाले (अाम्रफालिके इवेत्यर्थः)लोचने नेत्रे यस्य सः आसीत् बटुरासीदिति क्रियाकर्तृसम्बन्धः । कदलीदलेति। कदली= रम्भा। कुओ निकुञ्जः । कुञ्ज इवा चरतीति कुआयते । 'कर्तुः क्यङ् सलोपश्च' ( ३ । १ । ११ ) इत्युपमानात् कर्तुः सुबन्तादाचारार्थे क्यङ् । अकुआयिष्ट इति कुायितम् । भूत क्तः। कदलीदलै: रम्भापत्रै-कुआयितस्य । क्यङि लुप्तोपमेयम् । "निकुअकुऔ वा क्लोवे लतापिहितोदरे" इत्यमरः । इदम् एतत्कुटीरस्य विशेषणम्। परितः समन्तात् “पर्यभिभ्याञ्च" (५।३ । ६) इति तमिल् । पुष्प- वाटिकायाः गृहोपवनविशेषस्य पूर्वतः पूर्वस्यां दिशि । 'तसिलादिष्वाकृ त्वसुचः' (६।३१३५) इति पुंवद्भावः । परमपवित्र=निर्मलं पानीयं जलं यत्र तत् । परःसहस्रति। परःसहस्राणां असङ्ख्यातानां पुण्डरीकाणां सिताम्भोजानां पटलेन समूहेन परितः समन्ततः लसितं भूपितम् । छदिर्नेत्ररुजोः कीवं समूहे पटलं न ना" इत्यमरः। पतत्रीति-पतत्रिणां पक्षिणां कुलं गणःतस्य कूजितेन रवेण पूजितं मण्डितम्।
(६ ) .. पयःपूरपूरितम् जलप्रवाहभरितम् । 'सरः' इति कर्तृपदम् । दक्षिणतः दक्षिणस्यां दिशि । “पर्वतखण्ड आसीत्" इति सम्बन्धः । निझरेत्यादीनि प्रथमैकवचनान्तानि तस्य विशेषणपदानि । * निर्भरः वारिप्रवाहः । तस्य झर्भरध्वनिना झझर- शन्दन ध्वनितानि नादितानि दिगन्तराणि दिशां प्रान्तभागा यस्य सः । फल- पटलेति-फलानां यानि पटलानि समूहाः तपामास्वादेन चपलिता कृजनपटवा 1 चञ्चुः त्रोटिर्यस्य एवंभूतं यत् $ पत्तत्रिकुलम् पक्षिगण: तस्य अाक्रमणेन प्राक्षे. पेण अधिकमत्यन्तं विनताः नम्रीभूताः। शाखाः शिखा येषां तादृशा ये | शाखिनो वृक्षाः तेषां समूहेन व्याप्तः । सुन्दरा: ** कन्दरा: गुहा यस्य सः । "कदलीदल" इत्यरभ्य " पर्वतखण्ड आसीत् " इत्यन्त गये प्रायोऽनुग्रासः शब्दालङ्कारः । तल्लक्षणमा दण्डी"- वर्णावृत्ति रनुप्रासः पादेषु च पदेषु च । पूर्वानुभवसंस्कार-बोधिनी यद्यदूरता ॥ ( काव्यादर्श ) एतल्लक्षणानुसारमत्रानेकव्यअनवर्णसादृश्यप्रतीतिरनुप्रासः । अयन गौडसम्मत इत्यहं काव्यादर्शटीकयां "कुसुमप्रतिमायां" स्फुटमकार्षम् । तेन चात्र गौडी रातिः । पृ०७ ॥ " यावदेष " इति । ब्रह्मचारी = ब्रह्म वेदः । तदध्ययनार्थ व्रतमप्युपचारात् ब्रह्म । ब्रह्म चरितुं शीलमस्य । “व्रते" ( ३ । २ । ८०) सुपि-" इति वा णिनि प्रत्ययः । यद्वा-ब्रह्म तपो ज्ञानं वाऽवश्यं चरति अर्जयतीति-"श्रावश्यकाधमर्ययोर्णिनिः" (३।३।१७०) इति णिनिः । ब्रह्मचारिणो व्रतं मनुस्मृतौ द्वितीयाध्याये विशेषतः प्रपत्रितम् । प्रालिपुञ्जम् = भ्रमरगणम् । उद्ध्य=निवार्य । कुसुमकोरकान्=पुष्पकलिकाः । सतीर्थ्यः= सहाध्यायी । “समानतीर्थे वासी"(४।४।१०७) इति यप्रत्यये "तीर्थे ये" ( ६।३८७ ) इति समानस्य सादेशः । कस्तूरिकेति-++ कस्तुरिकायाः मृग- *"उस्रः प्रस्रवणं वारिप्रवाहो निझरो झरः" इत्यमरः । + "झर" इति जलशन्दानुकृतिः । + "चन्चु स्त्रोट्यां स्त्रियां पुंसि गोनाडीके व्यडम्बके" इति कोषः । $ “पतत्रिपत्रिपतगपतत्पत्ररथाण्डजा" इत्यमरः । || "शिखाः शाखाः शिफा लता" इति अभिधानचिन्तामणिः । "वृक्षो महीरुहः शाखी विटपी पादपस्तरुः" इत्यमरः । .. "दरी गुहा कन्दरो स्त्री" इति वैजयन्ती । th “ मृगनाभिमृगमदो नगः कस्तूरिकापि च " इति वैजयन्ती । ।
( १० ) - नाभे: रेणुना रजसा ( रजःकणैरित्यर्थः ) रूपितः चचिंतः व्याप्त इति यावत् । -इव श्याम” इति । अत्रोत्प्रेक्षालङ्कारः । स्वभावत एव तस्य बटोः श्यामत्वे सत्यपि तद्रपेण सम्भाव्यमानत्वात् । उत्प्रेक्षालक्षणमुक्तं काव्यादर्श- अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा । अन्यथोत्प्रेच्यते यत्र तामुत्प्रेक्षां विदुर्यथा ॥ इति । अस्यार्थस्तु मत्कृत 'कुसुमप्रतिमायां' द्रष्टव्यः । *चन्दनचर्चितभालः गन्ध मार लेपितल लाट: । कपूरो धनसारः । अगरु:-नृपाईकम् ('अगर' इति यस्य भाषा) नयो: क्षादेनचूर्णेन छुरिता: रूषिताः वक्षोवाहुदण्डा: उर:स्थलं भुजयुगलं च यस्य मः । सुगन्धपटलैः = सौरभसमुदायः । निद्रामन्थराणि=निद्रासालसानि । कोर- कनिकुरम्बकान्तरालसुप्तानि कलिकाममूहाभ्यन्तरे शयानानि । मिलिन्दवृन्दानि भ्रमरगणान् । उन्निद्रानव जागरयन्निवेति अन्वयः । अत्रायमाशयः-श्यामवटु- शरीरे अनेकेषां कस्तू कादिसुगन्धद्रव्याणां समवायः अतः कविना तदीयसुगन्ध- पटलः कृत्वा भ्रमरगण जागरीकरणमुत्प्रेक्षितम् । अवादीत् = अगादीत्। “वदव्रज हलन्तस्या चः” (७२।३) इति मिचि वृद्धिः । “अलं भी अलम्"-इतः परं प्रायः चूर्णकगद्यम् । “अनाविद्धपदं चूर्णम्"(वा ० ० ३।२४ । इति तल्लक्षणात् एतदेव ॥ छन्दोमजा" वृत्तकनाम्ना कथितम् । लक्षितञ्च-"अकठोराक्षरं स्वल्पसमासं वृत्तकं मतम् इति । सप्तवर्षकल्पाम् = सप्तवर्षदेशीयाम् । यावनत्रासेन = यवनानामिदं यावनम् । “तस्येदम्"(४।३।१२०) इति अरण प्रत्ययः । अथवा "तत आगतः" (४।३।७४) इत्यण् । यवनेभ्य आगतो यावनः मचासौ त्रामो भीतिः तन । कलितेति-कलितो रचितो मानवो देहो यया ताम् मानवावतारभूतां सरस्वतीमिवेत्युत्प्रेक्षा । सान्त्वयन् = “सान्त्व” श्रानुकूल्य- करणे चौरादिकः । शत्रन्तोऽयम् सान्त्वयन = प्रियालापादिना क्रोधादिकमुपशम- यन् । मरन्दमधुराः = मकरन्दसमगेंण हृद्याः । अपः = जलानि । मकरन्दः पुष्प- रमः । मरन्दमकरन्दी पयायो । प्रायुडू च कविराजः-“ अयि ! दलदरविन्द- स्यन्दमानं मरन्दं तव किमपि लिहन्तो मञ्जु गुअन्ति भृङ्गाः" इति । पाययन् = आचामयन् । " धातोणिचि शतरि रूपम् । + कन्दं = मूलसस्यम् । ' चन्दनोऽत्रा मलयजो भद्रश्री: रोहण द्रुमः । श्रीखण्डो गन्धसारश्च इति ( वैजयन्ती )। + " कन्दमन्त्री मूलसस्यम् शालूक कन्दमौत्पलम् इत्युभयत्र ( वैजयन्ती )। - - पा " । ( ११ ) शालूकं वा । *त्रियामाया: = क्षपाया रात्रेरित्यर्थ: । परिमार्गणीयो = गवेषणीयो पितरौ = माता च पिता च पितरौ । “ पिता मात्रा ” (१ । २ । ७०) इति सूत्रणकशेषः । “मातापितरी" इत्यपि भवति । " अन्यतरस्याम् इति पूर्वतोऽनुवृत्तेः । संश्रुत्य-अ.कर्ण्य । श्रुधातो: त्को ल्पपि रूपम् । महान् कन्दरः= विशाला— दरी । महामुनिः = योगा । समाधौ = योगे । उक्तञ्च- " यत्समत्वं द्वयोरत्र जीवात्मपरमात्मनोः । स नष्टसर्वसङ्कल्पः समाधिरभिधीयते ॥ इति । * ग्रामणीग्रामीणग्रामाः = ग्रामण्यो ग्रामाधिपाः । (चौधरी, लम्बरदार इति भापायां प्रसिद्धाः ) ग्रामीणाः ग्रामे भवाः ग्राम्याः हालिक प्रभृतयः तेषां ग्रामाः समूहाः। अस्मिन् पदे श्रुतिकटुदोपः । परुषवर्णप्रायत्वात् । यद्यपि रौद्रादी रसे व्यङ्गये, नीरसे च काव्ये श्रुतिकटॉर्न दोषत्वम् , तथापि प्रकृते योगिविषयक- रतिमाव व्यङ्गय अस्यास्ति भावापकर्षकत्वं तेन दोष एव । अतोऽत्र श्रुत्यनुप्रासोऽपि न भ.वोपकारीत्यलम् । “तं केचित् " इति-अत्र उल्लेखालङ्कारः। तल्लक्षणन्तु- क्वचि दाद् ग्रहीतृणां विषयाणां तथा क्वचित् । एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते ॥ इति ॥ दण्डिमत तु रूपकविशेष एव उल्लेखः। तदेतत् प्रपञ्चितमस्माभिः "कुसुम- प्रतिमायाम्" । ब्रह्मचारिवटुभ्यामदार्श = विलोकितः । “अदर्शि इत्यत्र कर्मणि प्रत्ययः । पृ० ६ ॥ सम्भ्रान्तौ = होंद्रेकेण कर्मसु त्वरावन्तौ । अथेति--समापिता विधिवदनुष्ठिता सन्ध्यावन्दनादिक्रिया व्यापारो येन सः तस्मिन् । छात्रगणसह- कारेण = विद्याथिसमूहसाहाय्येन । “ समायाते गुरौ" इत्यादिषु “यस्य च भावेन भावलक्षणम ( २ । ३ । ३७ ) इति । भावे सप्तमी । प्रस्तुतासु % प्रक्रान्तासु । स्वागतसामग्रीषु = अर्घ्यपाद्यादिपूपकरणेषु । सनाथ्यताम् = स्वायत्तीक्रियताम् । ( तन्निर्दिष्ट ) काष्ठपीठम् = दारवीं चतुष्पादिकाम् । भास्वान् = सूर्यः उदयगिरिम् = उदयाचलमिव प्रारुरोह = अधिशिश्रिये । ( अधि- श्रितवान् )। उपाविशच्च = स्थितिमकरोत् । त्रियामा क्षणदा क्षपा इति ( अमरः )। + " दरी तु कन्दरो वा स्त्री " इति । * ग्रामणोः स्वामिनि श्रेष्ठे ग्रामेशे नापिते तु ना" इति ( वैजयन्ती ) " * ( १२ ) -- भास्वानिवेति वाक्ये पूर्णोपमालंकारः । उपमानोपमेयवाचकधर्माणां चतुर्णामप्युपादानात् । काष्ठपीठोदयागर्यारोहणयोः परस्परं विम्वप्रतिबिम्बभावेन समानधर्मता नेया ॥ तस्मिन्निति । सुघटितम् = सुन्दरावयवसंस्थानम् * सान्द्राम् = निविडाम् । घनामिति यावत् । अङ्गारप्रतिमे = अङ्गारतुल्ये स्वतोरागेण देदीप्यमान इत्यर्थः । मधुराम् = श्रवणप्रियाम् । गम्भीराम् = सारार्थवतीम् । चकिता इव सञ्जाताः = कुतूहलिनो बभूवुः । अथ योगिराजमिति : ईहितम् = चेष्टितम् । श्रालपितुम् = वक्तम् । अश्रयत = समाकर्ण्यत तत्रस्थैरितिशेषः । पृ० १०॥ | पृच्छापरवशे = जिज्ञासापराधीने ॥ ' भगवन् ' इति । कुतू. हलम्=श्रांतुमिच्छायां कोतुकम् । ह्यः अतीतदिवसे । सम्पादितं साधितं सायन्तनं कृत्यं मान्ध्या विधिर्येन तस्मिन् । कुशास्तरणम्-कुशासनम् । अधिष्ठित-आश्रित्य- स्थिते । “अधिशीस्थासां कर्म" ( १ । ४ । ४६ ) इति अधिकरणस्य कमसञ्ज्ञा । धीरः = मन्दगतिः । समीरः पवनः । आन्दोल्यमानासु = कम्पाय- मानासु । व्रततिषु = लतासु । “वल्ला तु व्रततिलता" इत्यमरः । यामिनी रात्रिरेवे कामिनी नायिका तस्या चन्दनविन्दी ललाटतिलके इव इन्दौ = चन्द्रे । “यामिनी कामिनी " इत्यत्र रूपकालङ्कारः । “उपमैव तिरोभूतभेदा रूपकमिष्यते” इत्याह दण्डी । कौमुदीकपटेन ज्योत्स्नाव्याजेन । सुधाधाराम् अमृतधारां वर्षतीवेति उत्प्रेक्षा। “ वर्षतीवाअन नभ" इत्यादिवत् । लक्षणमुक्तं प्राक् । शुश्रुषुपु = श्रातुमिच्छुपु । " सनाशंसमिक्ष उः (३।२।१६८) इत्युप्रत्ययः । अत्रापि उत्प्रेक्षा। मौनम्-तूष्णांम्भावम् । पतगकुलेषु = पक्षिसंघेषु । कैरवाणां=रात्रि- विकाशिनां कमलानां विकाशेन प्रफुल्लनेन यो हर्षप्रकाशः मोदाविर्भावः तेन मुखरपु गुञत्सु चञ्चरीकेषु = भ्रमरेषु । • इन्दिन्दिरो मधुकर श्च जरीको मधुव्रत इति ( वैजयन्ती ) । सायंकालवर्णनमिदम् । अस्पष्टाक्षरम् = अस्पष्टवर्णम् । कम्पमाननिश्वासम् = कम्पमान: एजमानः निश्वासो यत्र तत्। श्लथत्कण्ठम्= रुद्धगलमित्यर्थः । घरितस्वनम् = पेपणास्वनसममित्यर्थः, अत्यवधानश्रव्यत्वात्- समषिकतत्परतायां सत्यामेव श्रीतुं योग्यत्वात् । अनुमितदविष्ठतम्-अतिशयन दूरमिति " दविष्ठम्" । दविष्ठस्य भावः दविष्ठता । अनुमिता दविष्ठता अतिदूरता यस्य तत् । क्रन्दनम् = रोदनम् । अश्रौपम् । श्रुधातोलुङि उत्तमेकवचने रूपम् । "धनं निरन्तरं " सान्द्रम् " इति अमरः ॥ "प्रश्नोऽनुयोगः पृच्छा च" इत्यमरः । - * ( १३ ) 'अस्पष्टाक्षर" मित्यारभ्य 'क्रन्दनम्' इत्यन्त गद्ये स्वभावोक्तिरलङ्कारः । श्राह च दण्डी- नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोनिश्च जातिश्चेत्याद्या सालकृतिर्यथा ।। इति । आदिश्य = आशप्य । पृ० ११ ॥ निश्वसती मृगीव व्याघ्राघाता=व्याघ्राक्रान्ता । अत्रो- पमालङ्कारः । सवेपथुः = सकम्पा । “दिवतोऽथुच" ( ३।३। ८६ ) इति टुवेपृधातोरथुन् । "ताञ्च" इति । “चन्द्रकलयेव निर्मिताम् । नवनीतेन हैयङ्गवीनेन इति निर्मिताम् इत्युभयत्राप्युत्प्रेक्षा । मृणालगौरीम्="मृणालमिव- गौरीम्" इत्यत्र 'उपमानानि सामान्यवचनः' ( २ ॥११५५ ) इत्युपमान- समासः । लुप्तोपमा । कुन्दकोरकः : = कुन्दकलिका तस्याग्रमिव दन्ता यस्याः सा ताम् । 'अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च' (५।४।१४५) इति दन्तस्य 'दतृ' इत्यादेशः 'उगितश्च' (६।३।४५) इति स्त्रियां ङीप्। स क्षोभम् = ससाध्वसम् । "मा भैषीः" इत्यत्र "माङि लुङ् (३।३।१७५) न माङ्योगे" (६।४।७४) इत्यट् न । भयं मा विधेहीत्यर्थः । “ मारोपयः " इत्यत्र “स्मोत्तरे लङ् च" ( ३।३।१७६ ) इति लङ् । अएिनषेधश्च पूर्ववत् । पृ० १२ ॥ शोकज्वालावलीढम्-चिन्तातुरामित्यर्थः । क्रोडे=अङ्के । मुग्धतया = वालिशतया । अपरिकलित-वाक्पाटवा = अपरिकलितमज्ञातं वाक्- पाटवं भाषणाचातुर्य यया सा। भयने = यावनत्रासेन । विशेषेण शिथिल: स्खलन् वचनविन्यासो वाक्यरचना यस्याः सा । अवोधयत्-न्यशामयत् । चकितचकिता अतिचकिता । "श्राबाधे च" (८।१।१०) द्वित्वभावः । एतेन वालायाः पीडा व्यज्यते । नेदीयसी-अतिसमीपवत्तिनि । 'अन्तिकवाढयोर्नेदसाधौ' (५॥ ३।६३) इति अन्तिकस्य नेदादेशः । ब्राह्मणस्यतनया=पुत्री । सुन्दरीम्=रम्याम् । श्राकलय्य = निश्चित्य । यवनतनयः=मुसलमानः । क्रन्दन्तीम् विलापं कुर्वाणाम् । अपससार = पलायाञ्चके। अध्वानम् = मार्गम् । अतिक्रम्य मार्गम् । अतिक्रम्य = उल्लङ्घ्य। असि. धेनुकां-छुरिकाम् । “छुरिका चासिधेनुका इत्यमरः । सन्दर्य पुनःपुनर्दर्श- यित्वा । विभीषिकया = भीतिप्रकटनेन अस्याः = बालिकाया एव । क्रन्दनको- * "वस्तुतस्तु-नेयं ब्राह्मणतनया किन्तु क्षत्रियकन्या, नवा मात्रा सह लातुं गता किन्तु दास्या, तथापि पुरोहितमेव पितरं दासीमेव मातरं मन्यमाना तथा बुधत" इति विजयपताकानामाटिप्पण्याम् । " १४ ) लाहलम् रोदनकल हम् । कालकम्बलः कालस्य यमस्य कम्बल इति कालकम्बल : इव । भल्लूलः = ऋक्षः । पृ० १३॥ पलाशपलाशिश्रेण्यां = पलाशः किंशुकः, पलाशा तरुः । श्रेणी = राजिः । किशुकतरुपती इत्यर्थः । घुणाक्षरन्यायेन = घुण: काष्ठवधक: कृमिविशेषः । तेन काष्ठानुवेधे क्रियमाणे यथा अकस्मात् अक्षरमिवाभाति तथैव तत्काय- मवितकिंतमेवोपनतं भवति, तस्मिन् मति घुणाक्षरन्याय उच्यते अकस्मादित्यर्थः । यावद्भयेन । "पुना रोदितुम्" इत्यत्र 'रोरि" (८।३।१४) इति रेफ- लोपे "दलोपे'-( ६।३।१११ ) इति पूर्वस्याणो दीर्घः । “कोपज्वालाज्वलित- इव" ति योगिनः ससम्भ्रता व्यज्यते । भारतभुवम् = भारतवर्षमित्यर्थः । गतस्य = परलोकं प्राप्तस्य । 'सप्तदशशतकानी"ति कथनेन " शिवराज" महाराजकाल: सूचितः । "क्काऽधुना" इत्यादिगद्यन यावनराज्यकाले यावना: अत्याचाराः वर्ण्यन्ते। ''जयजयध्वनिः तीथें तीर्थे घण्टानादः” इत्यादिपु “सर्वस्य द्वे" (८ । १ । १) इत्यधिकारे 'नित्यवीप्सयोः" ( ८।१।४ ) इति वीप्सायां द्विर्भाव: । " मठा- वसथ्यौ छात्रादिवासे” इति ( वैजयन्ती )। वेदाः = ऋगाद्याः चत्वारो हिन्दू. नामादिमं धर्मपुस्तकमित्यर्थः । विच्छिद्य = बलादादाय । वीथिपु = मागेपु । " वीथीपकयध्वनोरपि " इति ( वैजयन्ती) । धर्मशास्त्राणि = मन्वादिमहर्षि- प्रणीताः स्मृतिग्रन्थाः । धूमध्वजेपु = वन्हिषु । पृ०१४॥ ध्मायन्ते = भरमसात्क्रियन्ते । पुराणानि = श्रीमद्भावतादीनि । पिष्ट्वा = चूर्णांकृत्य पायित्वेत्यर्थः । भाष्याणि = व्याकरणमहाभाष्यादिग्रन्थाः भ्राप्टेषु = चणकादिभर्जनपात्रेषु। 'क्लीवेऽम्बरीषं भ्राप्टो ना' इत्यमरः । भय॑न्ते = दाह्यन्त इत्यर्थः । दाराः = भार्याः । “भार्या जाया अथ पुंभूम्नि दाराः स्युः" इत्यमरः । अपहियन्ते = चौर्यन्ते बलात् छिद्यन्ते वा । चूर्णकं गद्यमेतत् । लक्षण- मुक्तं प्राक् । वैदर्भी रातिः । प्रसादो गुणः । दण्डिमते तु–“ समता नाम गुणोऽपि । यत उलं तेनैव- समं बन्धेप्वविषमं ते मृदुस्फुटमध्यमाः । बन्धा मृदुस्फुटोन्मिश्रवर्णविन्यासयोनयः ॥ इति । + हेमचन्द्रमते तु टावन्तोऽपि " दारा " शब्दः । उक्तज तेन- क्रोडा हारा तथा दारा त्रय एते यथाक्रमम् । क्रोढे हारे च दारेषु शब्दाः प्रोक्ता मनीषिभिः ।। इति । : ।
( १५ ) समता एवम् –' काऽधुने '' त्यादि प्रारभ्य " परित " इत्यन्ते स्फुटबन्धनिर्वा- हात् नाम गुणो शेयः । योगिराडिति–पार्वतीयान् = पर्वतप्रदेशनिवासिनः शकान् । स्वराजधा- नीम् = उज्जयिनीम् । आदित्यपदेति–वीरविक्रमादित्यनामेत्यर्थः । तद्विजय- पताकाः = तदीयविजयवैजयन्त्यः । पृ० १५ ॥ " मम चक्षुषारयत एव समुद्भयन्ते = कम्पमाना भ्राजन्ते पटहगोमुखादीनाम् वाद्यविशेषाणाम् । निनादः = ध्वानः । "कथं कथयथ" इति सविस्मयाक्तिः । अत्र भाविकालङ्कारः-"प्रतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम्" इति तल्लक्षणात् । बद्धसिद्धासनैः = बद्धं वशीकृतं सिद्धासनम् = योगाङ्गाष्टकवत्तिसाधनविशेषो यैः अष्टसङ्ख्यानां योगसाधनानां मध्ये तृतीयमासनं नाम साधनम् । प्रास्यतेऽस्मिन् अनेनेति वा प्रासनम् । तच्च द्विविधम् वाह्यशारीरभेदात् । तत्र वाह्यम्-चैला- जिनकुशोत्तरम् ” इत्यादि गीताद्युक्तम् । शारीरञ्च-पद्मस्वस्तिकादिभेदेन ननाविधम् । तेषु सिद्धासनमपि । तल्लक्षणन्तु- योनिस्थानकमधिमूलघटितं कृत्वा दृढं विन्यसेन्- मेढ़े पादमथैकमेव हृदये कृ वा हर्नु सुस्थिरम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद्भवोरन्तरं झेतन्मोक्षकपाटभेदजनकं " सिद्धासनं " प्रोच्यते ॥ निरुद्धनिश्वासैः = निरुद्धा वशीकृता निश्वासाः प्राणा यैः आसनस्थैर्या- ननन्तरं प्राणायामनामकसाधनपरेरित्यर्थः । बाह्यकोष्ठ्यवायोरन्तर्वहिर्गतिविच्छेदः प्राणापानयोरक्यलक्षण: प्राणायामः । अयमेव " हठयोग इत्युच्यते । तदुक्तम्- हकारेण तु सूर्योऽसौ ठकारेणेन्दुरुच्यते । सूर्याचन्द्रमसोरैक्यं “ हठ" इत्युच्यते बुधैः ।। * सिद्धासनस्य महिमा तु- चतुराशीति पीठपु सिद्धमेव सदाऽभ्यसेत् । द्वासप्ततिसहस्राणां नाडीनां मलशोधनम् ॥ प्रात्माध्यायी मिताहारी यावद् द्वादशवत्सरं सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिमाप्नुयात् ॥ इत्यादिवहुक्तः ।
( १६ ) - अयमनेकविधो योगग्रन्येषु वर्णितः सद्गुरूपासनासुलभः प्रकृते वहूपयोगा- भावान्न मया प्रपञ्च्यते । प्रबोधितकुण्डलिनीकैः = प्रबोधिता उद्योतिता कुण्डलिनी नाम्ना प्रसिद्धा पराशक्तिरूपा ब्रह्मणो मूत्ति: सप्ताहिसमानाकरा ना रूपा यैः । उक्त व योगशिखोपनिषदि- गुदमेढ़ान्तरालस्थं मूलाधारत्रिकोणकम् । यत्र कुण्डलिनी नाम परा शतिः प्रतिष्ठिता ।। यस्मादुत्पद्यते वायुर्यस्मादन्हिः प्रवर्त्तते । यस्मादुत्पद्यते हंसो यस्मान्नादः प्रवर्त्तते ॥ इत्यादि । इयज कुण्डलिनी शक्लि:-मूल प्रकृति-महत्तत्वाह कार-पञ्चतन्मात्रा- त्मिकाऽष्टप्रकृतिरूपा इत्यादि शाण्डिल्पोपनिषदादिग्रन्थेषु स्पष्टम् । विजितदशेन्द्रियः = विजितानि वशीकृतानि दश इन्द्रियाणि यः । शान्तैः दान्तरित्यर्थः । अनाहत- नादतन्तुम् = अनाहतनादः हृदयस्थितद्वादशदपद्मवत्तिनः अनाहताख्यात् पद्मात् समुत्थितो ब्रह्ममयः शब्दोऽनाहतनाद:तस्य तन्तुमिव तन्तुं सूक्ष्मावस्थालतिकाम्। अव- लम्ब्ये = आश्रित्य ! आज्ञाचक्रम् भ्रुवोमध्ये द्विदलात्मकं चक्रम् "आज्ञा नाम भ्रुवोमध्य द्विदलं चक्रमुत्तमम् ” इत्युक्तेः । संस्पृश्य = तत्र ध्यानावलम्ब कृत्वा । चन्द्रमण्डलं-तत: परवत्तिषोडशकलात्मकं षोडककलोपेतं दयादिसिद्धिप्रदं सोमचक्र भित्वा = प्रविध्य । तेजः पुञ्जम् = मोमचक्रवत्तिनि महामहमि श्रासक्तिम् अविगणय्य उपेक्ष्य । सहस्रदलकमलस्य = ब्रह्मरन्ध्रवत्तिसहस्त्रार चक्रस्य (यत्र स्थितिभाजा योगिनः सुधासारधाराभिस्तनुवंधते यच्चानन्दकारण दिव्यमार्गमुच्यते ) अन्तःप्रविश्य, परमात्मानम् = परब्रह्म साक्षात्कृत्य । तत्रैव = परब्रह्मणि रममाणे: क्रीडद्भिः । मृत्युञ्जयैः = वशीकृतकालवोगैः । आनन्दमात्रस्वरूपैः = अस्मि- ताध्यानात्परवर्तमान : धममेघनामकसमाधिस्थरिति यावत्। अत्र गये अप्रतीताख्यो दोषः । श्रासन-कुण्डलिनी- अनाहतनादादिशब्दानां योगशास्त्रमात्रप्रसिद्धत्वात् अस्य वीज तु-योगशास्त्रानभिज्ञस्यार्थानुपस्थितिरेव । तच्छास्त्रविज्ञस्य प्रतिपाद्यत्वे स्वयं वा परामर्श नैव दोषः । प्रत्युत्त व्युत्पत्तिसूचकत्वेन गुणत्वमेवेति साहित्यविदां परामर्शः । कालवेगः = कालगीतिः पञ्चाशत्तमः = पञ्चाशत्सङ्ख्यापूरकः ॥ पृ० १६ ॥ यौधिष्ठरे = युधिष्ठिरसम्बन्धिनि । युधिष्ठिरे राज्य शासति स तीत्यर्थः । कलितसमाधिः = आश्रितसमाध्यवस्थः । सश्रुत्य ब्रह्मचारिगुरु: = प्रवक्तुमारभत इत्यन्वयः । कीदृशः भारतवर्षीयानां दशा अवस्था तस्याः संस्मरणनं जातः उत्पन्न : शोको यस्य सः । तत् = योगिराजवचः । = अाकर्य .
( १७ ) हृदयस्थः मनमि वर्तमानः यः प्रमादः प्रसन्नता, तस्याः संभारोऽतिशयः तस्य उद्गिरणश्रमेण वमनप्रयासेनेवेत्युत्प्रेक्षा। अतिमन्थरेण-मन्दतरेण स्वरेण । “यो गिराजस्य धैर्य माऽवधारय" इति सम्बन्धः । धर्मध्वंसनघोषणैः = धर्मोन्मूलन- डिण्डिमैः । कातराभ्याम् = दानाभ्याम् । दम्भोलिघटिता = दम्भोलिवज्र तेन घटिता रचिता वज्रमयीत्यर्थ: । दारुणेति-दारुणा भयङ्कराः ( धर्मध्वजित्वात् ) ये दानवाः म्लेच्छा एव तेषामुदन्तस्य = वृत्तस्य उदीरणः आख्यानः। "वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात्" इत्यमरः । न दीर्यते = न द्वैधीभवति । दृङ् विदारण इत्यस्मात् कर्मणि तङ् । लोहसारमयम्-अयसा घटितम् । यावनान्-यव- नेभ्य भागतान् । परःसहस्त्रान् सहस्रसंख्यातोऽपि परान् “ राजदन्तादिपु परम्" इति सहस्रशन्दस्य परनिपातः । पारस्करादित्वात्सुडागमः । विशेष्यनिघ्न- त्वादालिङ्गत्वमिति पृ० १७ ॥ उपक्रमम्=उत्थानिकाम् । विमनायमानम्-विगत स्वा- वस्थातः प्रच्युतमनवस्थितं मनो यस्य सः विमनाः । विमना इवाचरतीति विम. नायते । “कर्तुः क्यङ्सलापश्च" ( ३ । १ । ११ ) अनेन सूत्रेण “ विम- नस् " प्रातिपदिकात् क्यङ् । पश्चात् लटः शानचि कृते " आनेमुक् (७। २। ८२ ) इति विमनायमानम् = दुर्मनायमानम् । अत्र लुप्तोपमा । हरिद्रेति–हरिद्रया रजन्या द्रवेण रसेन क्षालितं धौतमिव वदनम्=मुखम् । उत्प्रेक्षालङ्कारः । निपतन्तः स्खलन्तो वारिबिन्दवः अस्रकणाः याभ्यां । नयने= नेत्रे । अञ्चितरोमकञ्चुकम् = सरोमाञ्चमित्यर्थः । सकलानर्थमयः सकलानर्थ प्रचुरः । “ तत्प्रकृतवचने मयट" (५ । ४ । २१ ) इति मयट् । एव- मन्यत्रापि । * जिग्लापयिषामि = ग्लापयितुमिच्छामि इत्यर्थः । एवम्- चिखेदयिषामि = खेदयितुमिच्छामि सकलकलाकलापकलनः= सकलकालासमूहरचयिता । सकलकालनः = सकलस्य जरयिता । कराल:= भयङ्करः “स कालकाल" इति श्रुतेः। पयःपूरपूरितानि = अगाधजलभरितानि। । अकूपारतलानि-समुद्रतलानि। “समुद्रोधिरकूपार" इत्यमरः । मरूकरोति =मरुदेशसमानि स्थलानि करोति । अमरुः मरुः सम्पद्यते तं करोतीति " मरूकरोति " कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः" ( ५ । ४ । ५०) * एकः ( देवदत्तादिः) ग्लायति । तमन्यः प्रेरयतीति-ग्लापयति । णिच् । ग्लापयितुमिच्छतीति-जिग्लापयिषति । णिजन्तात् सन् । उत्तमपुरुषकवनने- जिग्लापयिषामि = मिम्लापयिषामि । - SHIPRATAP COLLEGE LIBRAPr ( १८ ) .. "अभूततद्भाव इति वाच्यम्" इत्यनेन अभूततद्भावे चिः । सिंहव्याघ्रति- सिंहः = पञ्चास्यः । व्यावः = शार्दूल: । भल्लूकः = ऋक्षः । गण्डकः = खड्गी । फेरुः = शृगालः । शशः = रोमकरणः एतषां सहस्रव्यासान् । अरण्यानि जगलान् । जनपदीकरोति = अजनपदः जनपदः सम्पद्यत तं कराताति पूर्ववत् च्चिप्रत्ययः । तडागगोष्ठमयानि = तटाकगोव्रजप्रचुराणि नगराणि = पुरः काननीकरोति = जङ्गलीकरोति । पृ० १८ ॥ यायजूकैः = इज्याशालैः । 'यजजपदशां यङः' (३। २ । १६६) इत्यूकः । 'इज्याशाला यायजूक' इत्यमरः । राजमूयादियज्ञा: । आदिना अश्वमेधान्तग्रहणम् । ‘राजसूयसूर्यमृषोद्यरुच्यकुप्य–' (३ । १ १४४) इत्यनेन साधुः । व्ययाजिपत = कृतानि । मन्दुरीक्रियन्ते = वाजिशाला- क्रियन्ते । 'वाजिशाला तु मन्दुरा · इत्यमरः । सत्यः = पतिव्रता नायः । वला- कारण व्यभिचायन्त । धीरधौरेयः धीरायणाः । विधुरयसि-विकलयमि । शुश्रूषते = श्रोतुमिच्छति । 'शाश्रुस्मृदृशां सनः' (१।३।५७) इत्यात्मनेपदम् । 'अथ स मुनि' रिति । धैर्येण सममेव परलोक सनायितवति ' इत्येवं सर्वैः तृतीयान्तैः सम्बन्धो शेयः । सहोतिरलङ्कारः । " सहाक्तिः सहभावन कथनं गुणकर्मणाम् ” इति दण्डिल क्षणात् । * पारस्परिकेति-पार- स्परिकेण = परस्परं समुत्थितेन विरोधन कलहन विशेषेण शिथिलीकृतानि स्नेह- बन्धनानि यः तेषु । पृ० १६ ॥ भामिनीनां प्रणयकोपवतीनां कामिनीनां ये भ्रभङ्गाः सकटाक्ष मीक्षणानीत्यर्थ: भूरिभावा: = हावाद्याश्चेष्टाविशेषाश्च तेषां प्रभावण वशीकरणरूपण पराभूतं तिरस्कृतं वैभवमैश्वर्य येषाम् , एवंभूतेषु भेटेपु शूरे पु। स्वार्थेति-स्वाथस्य या चिन्ता मिद्यपायस्मरणम् तस्य मन्नानः = परम्परा एवं वितानम् उल्लोचः तदैक- तानेषु तन्मात्रकपरषु अमात्यवर्गेपु = मन्त्रिसमूहेषु । प्रशंसामात्रप्रियेषु 'त्वमिन्द्रामि वरुणाऽमि भामोसि, कणे।ऽमि' इत्याकारकशुष्कस्तुतिमात्रलोलुपेषु प्रभुषु = राजस । वुधजनेषु = पण्डितेषु । गजिनीस्थानवासी महामदः = ' महमूद गजनवा' इति नाम्ना प्रसिद्धः यवनः = म्लेच्छः । ज्ञातास्वादः = अभ्यासपरिचय। सन् । अलुलुण्ठत् = घाटीमारमाचक्राम । गर्जदेशचूडायितम् = गुजरदेशशिरोभूषणम् । धूलीचकार-अनीनशन परस्परस्मिन् भवः पारस्परिकः । अध्यात्मादित्वात् ठञ् । + लुठियातो: म्वाथै णिचि लुङ् ।
( १६ ) महावैडूर्याद्या मणिविशेषाः । एतैटितानि = संहितानि । 'जट झट संघाते इत्यस्य धातोः रूपम् । कपाटानि = अरराणि । 'कपाटमररं तुल्ये इत्यमरः । “कपाटश्च कवाटश्च त्रिषु स्यादररं न ना' इति ( वाचस्पतिः) गृहावग्रहणीः : = देहलीः । भित्तीः = कुड्यानि । वलभीः गोपानसीः । * गोपानसा तु वलभीः छादने वक्रदारुणि ' इत्यमरः । विटङ्कानि = कपोतपा- लिकाः गृहीनर्मितान् पक्षिगृहान् इत्यर्थः । — कपोतपालिकायान्तु विटनं पुन्न- पुंसकम् ' इत्यमरः । निर्मथ्य = मर्दयित्वा भञ्जयित्वेति यावत् । रत्ननिचयम् = होरकादिमणिराशिम् । शतयमणसुवर्णशृखलाऽवलम्बिनों चज्ञता समुच्छलता चाकचक्येन चमत्कृत्या चकिताकृतः विस्मेरीकृता अवलोचकलोचनानां द्रष्ट जननयनानां निचयः समूहो यया ताम् । अनुप्रासः । एवंभूतां महाघण्टाम् । प्रसह्य = बलात्कृत्य महादेवमूत्तौ = त्र्यम्बकप्रतिमायाम् । पृ० २० ॥ गदाम्-नाम शस्त्रम् उदतूतुलत् प्राहिणोत् । चौरादिकात् मानार्थकात् उत्पूर्वात् 'तुल' धातोः कर्त्तरि स्वाथें णिचि लुडि रूपम् । मास्माक्षीः मायोगे लुङ् । अटो निषेधश्च । त्रायस्व = अवशेषय इत्याशयः पूजकवर्गेषु = देवलकगणेषु । विक्रीणे = विक्रयं करोमि । भिननि- छिनधि । भिदिर विदारणे रौधादिकः । जनतायाः = जनसमुदायस्य । जनानां समूहो जनता । ग्रामजनबन्धुभ्यस्तल् " ( ४ । २ । ४३) इति सामूहिकस्तल् । अतुत्रुटत = अभिनत् । मूर्तिमध्यात् = प्रतिमामध्यात् । उच्छलितानि-उत्पतितानि । परितः समन्ततः । अवाकार्यन्त-व्यशीर्यन्त विकीर्णानि अभूवन् इत्यर्थः । दग्धमुखः हतको दुष्ट इति यावत् । क्रमेलक- पृष्ठेषु = उष्टपृष्ठेषु ॥ पृ० २१ ॥ गोरदेशवासी = अयं देश: सिन्धुनद्याः पश्चिमायां दिशि म्लेच्छप्रधानः गजिनीसमीपवर्ती च । शहाबुद्दीननामा = शहाबुद्दीनगोरी इत्याख्यातः । महामदकुलम् = महमूदवंशम् । धर्मराजलोकाध्वनि = यमराजलाकमागें। श्रध्वनीनम पान्धं । विधाय-कृत्वा । अत्र सौकुमार्य नाम गुणः । एतल्लक्षणं जयदेव इत्थमाह-'सौकुमार्यमपारुष्यं पर्यायपरिवर्तनात्' इति । अमङ्गलशब्दपरित्यागेन तत्पर्यायशब्दप्रयोगः सौकुमार्यमिति सारः । प्रपत्रि. तश्चायमस्माभिः काव्यादर्श ' कुसुमप्रतिमायाम् ' । चतुङ्गिण्या = अनीकिन्या चतुराङ्गणीसेनया । 'हस्त्यश्चरथपादातं सेनाङ्गं स्यात् चतुष्टयम शीतलशोणितान्-युद्धेच्छारहितान् क्षीणानित्यर्थः । 'असयन् ' खण्डयन् - इत्यमरः ( २० ) अश्वयाम्बभूव-अश्वैर तिचक्राम । 'तेनातिकामति' इति गणसूत्रेण णिन् । विस्मृतराजनीतिम् = विस्मृता * राजनीतियेन तम् । विशस्य = घातयित्वा अकण्टकम् = निःशत्रु । अकीटकिहम्=कीटकिट्टवर्जितम् महारत्नमिवेत्युपमा अस्थिगिरयः कीकसपर्वताः । अनेन महान् हिन्दुहत्याकाण्डो व्यज्यते । रिङ्गत्त- रङ्गभङ्गा-3 रिङ्गत्तः सञ्चलन्तः तरङ्गाणामूमीणां भङ्गा रचनाविशेषाः यस्यां सा । शोणितशोणा = रुधिराक्ता । शोणीकृता= शोणनदस दृश्यं नीता । भूमि सात्कृतानि = धूलिसात्कृतानि ध्वस्तानीत्यर्थः । “विभाषा साति कात्स्न्यै ( ५ । ४ । ५२ १) इत्यनेन भूमिशब्दात् स्वार्थे सातिप्रत्ययः कास्न्ये गम्य । कृत्स्नं ( देवमन्दिरं ) भूमिः सम्पद्यते इति भूमिसात् । पृ० २२॥ राक्षसाः= निर्दयाः हिसाप्रियाश्च । अदीदलन् = घातया- मासुः । गूढशत्रुः = राजपुत्रवंशायैः सह विवाहादिसम्बन्धसञ्चालनेन अन्तरतः सर्वान् म्लेच्छान् विधित्सुरिति युक्तं तस्य गूढशत्रुत्वम् | “ मूर्तिमानिव कलियुगः ।। इत्यादी उत्प्रेक्षा । अवरङ्गजीवः =" औरङ्गजेव' नाम्ना ख्यातः । दक्षिणदेश इति । अरण्यानी = महत् अरण्यमरण्यानी। 'हिमा- रण्ययोर्महत्वे' (वा० ४ । १ । ५६ ) इति वात्तिकेण आनुगागमः ङाप् च । महारष्ट्रकेसरिणः = महाराष्ट्राः केसरिण इव इत्युपमितसमासः । हस्तयितुम् = वशीकर्तमित्यर्थः । दक्षिणदेशशासकत्वेन = दक्षिणदेशशा- सनायां प्रतिनिधित्वेन । यवनेति- यवनानां माहम्मदानां शोणितस्य रुधिरस्य पिपा- मायामाकुल: कृपाणोऽसियस्य सः । वीरतति-वीरस्य भावो वारता शौर्यम् - संव सीमान्तिनी = सुभगाङ्गना, तस्याः सीमन्ते = केशवंशे सुन्दरं हृद्यं यत्सान्द्रं धन सिन्दूरदानम् =f सिन्दूरस्य नागकेसरस्य दानं चर्चनम् तेन देदीप्यमानोऽनि शयेन भ्राजमानो दोर्दण्डो वाहूदण्डो यस्य सः । अत्र शृत्युप्रासः शब्दालङ्कारः । रूपकञ्चालङ्कारः । मुकुटमाणिः = शिरोमणिः । * सा चेयम्- वयं पञ्च वयं पञ्च वयं पञ्च शतश्च ते । परैः साकं विवादे तु वयं पञ्चाधिकाः शतम् ॥ इत्येवं रूपा याधिष्ठिरा नातिः । + 'सिन्दूरं नागकेसरम् ' इत्यमरः । सिन्दुरस्तरुभेदे स्यात् सिन्दूरं रकचूर्णके ।। सिन्दूरी रोचनारक्तचोलिकाधातकीषु च ' इति (मेदिनी ) - । ॥ ( २१ ) पृ० २३ ॥ स्वधर्माग्रहग्रहग्रहिलः = स्वधर्मस्य = सनातनधर्मस्य यः आग्रहग्रहः हठादपि पालनं तत्र पहिलो दृढतर इत्यर्थः 'शिव इवे' ति उपमा उत्प्रेक्षा वा । पुण्यनगरात्=पूनानामकपुरात् । नेदीयसि = अतिनिकटवत्तिनि । अतिशयनान्तिक इति । नेदीयान् ' । 'अन्तिकवाढयोर्नेदसाधौ ' ( ५ | ३ ६३ ) इति सूत्रेण अन्तिकस्य दादेशः। योगबलेति-योगवलन योगसामध्येन भुवनज्ञानं सूर्ये संयमात्' (यो०) इति पातअलप्रातपादितसयमविशेषलब्धेन सकलशानहेतुभूतशक्तिविशेषणेत्यर्थः अवगतो ज्ञातः सकलो निखिलो गोप्यतमः रहस्यात्मको वृत्तान्तो यैः तेषु । पृ० २४ ॥ उरीकृतम् = स्वीकृतम् । ऊरीक्रियते स्म इति व्युत्पत्तिः । क्तः (३ । २ । १०२) प्रत्ययः । उदतीतरत् = उत्तरमदात् । उपत्यकाम्- अनेरासन्नां भूमिम् । 'उपत्यकानेरासन्ना भूमिर्ध्वमधित्यका' इत्यमरः । अधित्यकाम्= अद्ध्वा भूमीमत्यर्थः । निर्मक्षिके = निर्जनत्वे । प्रत्ययेऽव्ययीभावसमासः । अन्यमनस्के= अन्यस्मिन् मनो यस्य । पृ. २५॥ मर्मरः-शुष्कपर्णरवः । अथ मर्मर:-स्वनिते वस्त्रपर्णानाम् ' इत्यमरः । पादनेपः पादध्वनिः । एकतानेन-दत्तचित्तेन । कुटीरेति= कुटीरस्य निकटस्थाः समीपवत्तिनो ये निष्कुटकाः = गृहारामाः तेषां कदलीकटे रम्भाराजी । द्वित्राः = द्वौ वा प्रयो वा । 'सङ्ख्ययाऽव्ययासन्नादूरा धिकसङ्ख्या सङ्ख्येये' (२।२।२५) इति सूत्रेण सङ्ख्यावाचिनोर्बहुव्रीहिः । कुटीरवलाय = कुटीरपटलप्रान्ते । · बलीकनीधे पटलप्रान्तेऽय पटलं छन्दिः इत्यमरः । असीनाम् = खड्गानाम् । रिक्तहस्तेन-शून्यहस्तेन । कपोलतल- विलम्बमानान् = गण्डस्थलचारिणः । चतुश्चुम्बिनः = नेत्रस्पृशः । कुटिलकचान् = वक्राञ् शिरोवालान् । वामकरेण दक्षिणेतरेण पाणिना । पृ०२६॥ किञ्चिदिति-किञ्चित् कोपेन कपायिते कलुपिते नयने चक्षुषी यस्य सः । करे कम्पितः सञ्चलन् कृपाकृपणः दयाशून्यः दुर्धरः कृपाणः खड्गो यस्य सः 'महादेवमारिराधयिपुस्तपस्वीवेषोऽर्जुन इव शान्तवीररसद्धयस्त्रातः पूर्णोपमा । लताप्रतानेति-लतानां वल्लीनां प्रतानवितानैः विविधसंबलनैः वैष्टितं वलयितं यत् रम्भास्तम्भत्रितयं तस्य । नीलवस्त्र-खण्डवेष्टितमूर्धानम् = नील्या रक्तं नीलम् , नीलज तत् वनखण्डम् , तेन वेष्टितो मूर्धा यस्य तम् ,कृष्णोष्णी- पधारिणमित्यर्थः । हरितकञ्चुकम्-हरिद्वर्णचोलकम् । श्यामेति-श्यामवसनेन कृष्णवरेण नद्धं कटितटं येन तादृशं कव॒रं विचित्रवर्णम् अधोवसनं कटयरुजानु- इत्यत्र ..
( २२ ) -विशतिव. - जङ्घाच्छादकं परिधानं ( ' तहमत' इत्याख्यम् ) यस्य तम् । काकासनेन = चिबुकापितजानयुगलं यत्र तादृशेनासनेनेत्यर्थः । रम्भालवालेति-रम्भायाः कदल्या आलवालम् आवापः ( स्यादालवालमावाप: ' इत्यमरः) तत्र लग्नम् अधो- भागे मुखं यस्य तादृशो यः खड्गः=अमिः तस्य त्सरौ = मुष्ट न्यस्त = स्थापित विपर्यस्तं न्युजीभूतं = हस्तयुगलं करद्वयं यस्य तम् । लशुनगन्धिभिरित्यादी लुप्तोत्प्रेक्षा। नवाङ्कुरितेति-नवा अड्कुरिता स्फुरिता या श्मश्रुश्रेणी तस्याः छलेन व्याजेन । कन्यकेति--कन्यकाया: कुमाया अपहरणमेव पर् कर्दमः तदेव कलई तेन पङ्कलितं भ्रष्टमाननं मुखं यस्य सः विंशतिवर्पकल्पम् = पदेशीयम् । युयुत्सुः = युद्धं कर्तुमिच्छुः । पृ० २७ ॥ अवतस्थे = स्थितः । " समवप्रविभ्यः स्थः ( १।३ । २२) इत्यात्मनेपदम् । 'रे' इति नीचसम्बोधने । यवनकुलकलङ्क ! नीचयवनेत्यर्थः । भारतीयकन्दरिकन्दरेषु = भारतवर्षीयपवतगुहासु । आखटक्रीडया = व्याधखेलया रमामहे = क्रीडामः । स्वां आगतानि प्राप्तानि मत्त्वानि जीवा एव वृत्तयः प्राणपाररणा येषां तादृशाः । दीर्घदावदहने = प्रज्व- लितवनहुतभुजि । पतङ्गायितः = शलभायित: । असिभुजङ्गिन्या = असि- रेख भुजगिनी सपिणी तया । संवय॑थ = भविष्यथेत्यर्थः । कलकलम् = कोला- हलम् । अपजिहीर्षुः : = अपहत्तुमिच्छुः । वलीकात् = छदेः । पृ० २८ ॥ सरोखड्गमुष्ट । तदध्युषितकुटीरनिकटे = तत्मवितकुटीसमीपे । कवोप्णेति-कोष्णम् इष्टदुणं यत् शोणितं रुधिरं तस्य तृषिते पिपासिते अर्थात् तव कत्तनेोद्यते । चन्द्रहासे = खड्गे । “ कूर्दनं वा उत्पाल वा इति देश्युक्लिः । व्यालीढमर्यादया = युद्धावस्थानविशेण ( पैंतरा जमाकर इति भाषा ) । दिनकरेति-दिनकर:-सूर्यः, तस्य करा: मयूखाः, तेषां स्पर्शन चतुगुणीकृतं बधितं चाक चक्यं प्रतिभामविशेषो येषां तैः । चञ्चञ्चन्द्रहासचमत्कारः = सत्ररत्खड्ग चमत्कारैः । चक्षुपि = नेत्राणि मुष्णतः= चोरयतः । ' स्वामिना शिरः चिच्छेद' इत्यन्वयः । कीदृशं शिरः इत्याह-कलितेति = कलितेन व्याप्तेन क्लेदेन श्रमविशेषेण सातं स्वेदजलस्य जालं यत्र तत् । विशेषेण शिथिला चेष्टाशुन्या कचकुलस्य वालसमूहस्य माला यस्य तत् । भग्नया ध्रुवा भयानलं भालं ललाटं यस्य ।-जालम्-मालं, भालम् ' इति यमकालङ्कारः । चिच्छेद = चकर्त्त । दाडिमेति- *दाडिमस्य = करकस्य • समौ करकदाडिमी' इत्यमरः। दाडिमस्तु विलिङ्गः स्यादेलायांकरकेत्रिपु'इति (मेदिन। , ( २३ ) कुसुमानां पुष्पानाम् आस्तरणन अाच्छन्नायामावृतायामिव, गाढरुधिरदिग्धायाम् = धनशोणितलिप्तायाम्। ज्वलदिति-ज्वलाद्भः भस्मीभवनोन्मुखः अङ्गारैः चितायां व्याप्तायां । वसुधायाम् =धरायां शयानन् स्वपन्तम् । वियुज्यमाना परिहियमाणा या भारतभूः ताम् आलिङ्गन्तमिव को डीकुर्वाणमिव। निर्जीवीभवन्ति निष्प्राणीभवन्ति यानि अङ्गानि तेषां बन्धपु = सन्धिषु चालनपरं चेष्टापरम् । शोणितस्य रुधिरस्य संघातः पूर: तक्ष्याजेन तत्कैतवेन अन्त:स्थितो यौ रजोराशिः रजोगुणगण: तमिव उद्विगरन्तं - वमन्तम् । कलितः सायन्तनस्य सन्ध्याकालीनरय धनाडम्बरस्य मेघविडम्बनाया विभ्रमो विलासो येन तम् । सततं निरन्तरं यत्ताम्रचूरभक्षणं चरणायुधकवलीकरणं तस्य पातकेनैव ताम्रीकृतं = रक्तीकृतम् । छिन्नकन्धरम् = उत्कृत्तशिरोधरम् हर्षेण सह सहपमित्यादि 'आश्ष्यि' इति क्रियाविसेषणम् । मृतकस्य = तस्यैव यवनस्य। कञ्चुकम् = चोलकम् । कटिवन्धः = जघन- पट्टिका । उष्णीषम् = शिरस्त्राणम् । इति (नूतन) शिवराजविजयपताकायां प्रथमो निश्वासः ॥ अथ द्वितीयो निश्वासः। यो मन्दबुद्धिर्वहुधापि जालं वितत्य रोक्षु यतते शिवाय । ध्रुवं स वह्नौ शलभायमानो * यमेक्षणानां विषयं प्रयाति ॥१॥ पृ० ३० ॥ 'रात्रि'रिति । अपजलखानः कपटेन शिवं हन्तुं, जयं प्राप्तुं, यशो लब्धुं नानामनोरथपरम्पराकुल आसीत् परमसौ स्वयमेव पञ्चत्वमगात् इति वर्ण्यमाननिश्वामविषयस्योपक्षेपणायायं श्लोक श्रादौ धृतः। श्लोकार्थस्तु निगदव्याख्यातः। द्विरेफो = भ्रमरः । 'द्विरेफपुष्पलिड्भृङ्गपट पदभ्रमरालयः' इति ( अमरः) । वृत्तान्तमुत्थापयितुमाह -'इतस्तु' इति । ' अपनलखानः सेनानीः प्रपतापदुर्गाद- विदूर एव तिष्ठति' इति सम्बन्धः । कथंभूतः-इति प्रथमान्तः पदं तं विशिनष्टि- स्वतन्त्रेति । स्वतन्त्रं स्वच्छन्दं यत् यवनकुलं तेन भुज्यमानस्य अधिष्ठितस्य * 'यमेक्षणानाम्' इति बहुवचनेन शिवद्रोहिणो भोगायाऽनेका याम्या यातना व्यज्यन्त । विषयमिति भावप्रधानो निर्देशः ।
( २४ ) विजयपुरस्य अधीष्टेन 'खान'इति प्रसिद्धेन प्रेषितः (शिवं निगृहीतुं) पुण्यनगरम = पूना इति प्रसिद्धम् । तस्य समीपे = सन्निधावेव । भीमानदी वर्णयति-प्रक्षा- लितति । प्रक्षालितानि जलेन धौतानि गण्डौलानां गिरेः च्युतानां स्थूलोपलानां मण्डलानि यया तस्याः । ‘गण्डशैलास्तु च्युताः स्थूलोपला गिरेः' इति (अमरः) । निर्भरेति-निर्भराणां = जलनिगमस्रोतोबिलानां वारिधारापूरः जल- धारासारैः पूरितः भरितः प्रवल: वेगवान् प्रवाहो यस्याः । पुनः कथंभूतायाः पश्चिमो यः पारावारः सागरः (समुद्रोऽब्धिरकृपारः पारावारः सरित्पतिः' इत्यमरः) तस्य प्रान्त = निकटवत्तिनि प्रदेशे प्रसूताः =निर्गता ये गिरयः = पर्वता: तयां ग्रामाः संघाः तेषां गुहागभात् कन्दरामध्यात् निर्गतायाः प्रवहितायाः अपि- प्राच्यपयोनिधि-चुम्बने पूर्वीयसमुद्र प्रवेशे चञ्चुरायाः चपलायाः ( या पश्चिमीय- समुद्रगिरिगुहाभ्यो निर्गत्य पूर्वसमुद्रं प्रविवेशेत्यर्थः रिङ्गदिति-रिङ्गता मञ्चलतां तरङ्गाणामूमाणां भङ्गैः उद्भूतैः सातैः * आवत्तशतैर्भीमायाः = भयङ्करायाः भीमायाः = भीमाख्याया: नद्याः = सरितः । अनवरतमिति- अनवरतं निरन्तरं निपतन्ति प्रच्यवन्ति + बकुलकुलानां केसरवृक्षसंघानां कुसुमानि पुष्पाणि तेषां कदम्बः समूहै: सुरभीकृतं सौरभायितर्माप वहगाहमाना जलक्रीडा कुर्वाणा: स्नान्तो वा ये मत्ता मातङ्गाः गजाः तेषां मदधाराभिः दानवारिपूरैः कटकुर्वन् = मलिनयन्निवेत्यर्थः । हयेति-हयानामश्वानां हेषाध्वनिप्रतिध्वनि. भिवधिरीकृतः श्रुतिसामयविकलीकृतः गन्यूतिमध्यगः क्रोशयुगमध्यवत्तिनाम् पान्थानां वर्गः संघो येन मः । 'गव्यूतिः स्त्रीकोशयुगम् ' इत्यमरः । पृ० ३१ ॥ पटकुटीरेति-पटकुटीरकूटः = शिविरसमुदायैः विहिता शारदाम्भोधराणां शरत्कालभवानां निर्जलानां मेघानां विडम्बना अनुकृतियेन सः । निरपराधेति-निरपराधो निदोषो यो भारताभिजन: भारतदेशः तस्य पांडनेन सन्तप्तीकरणेन यानि पातकानि पापानि तेषां पटलैः समुदायरिव समुद्धयमाननी- लध्वजैः = समुत्कम्पमानकृष्णवर्णपताकाभिरुपलक्षितः । अत्राऽचेतनानां प्रकृतानां ध्वजानां स्वभावसिद्धेन नीलप्रकारेण स्थितो व्यव- 'आवत्तोऽम्भमां भ्रमः' इत्यमरः । + केचित् ' बकुल ' इत्यौष्ठयादि लिखन्ति पठन्ति च तदयुकमाभाति उच्यते वण्यते कविभिरिति मुकुटादिकृतव्युत्पत्ति दर्शनात् । न च वबयोरभेद इति युक्तम् मर्वत्र तथासति द्वयोरैकान्तिकविवेका भावात् इत्याहुः । वयन्तु-ववयोर्विवकोऽद्यापि न पारित इति स्वसम्प्रदाय एव सरणमित्याचक्ष्महे बहुलेखभयात् ।
( २५ ) हारः भारतदेशपीडाजनितपापपटलरूपेण अप्रकृतेन सम्भावितत्वात् स्वरूपोत्प्रेक्षा ज्ञेया । ' अन्यथैव स्थिता वृत्तिश्चेतनस्यतरस्य वा ' इति तल्लक्षणात् । अाहवद्यूतेन * आहवः संग्राम एव घृतं तेन युद्धक्रीडयेत्यर्थः । चिक्री- डिषुः = दिदेविषुः ( युद्धं कर्तुमिच्छुरिति विवक्षितम् ) तिष्ठति स्म = अस्थात् । लट् स्म' ( ३ । २ । ११८ ) इति स्मयोगे भूते लट् । ( सायङ्कालवर्णनम् ) 'अथ भास्वान् चक्षुषामगोचर एव सात' इति सम्बन्धः । जगतः संसारस्य प्रभाजालम् दीप्तिपुजम् संमुद्य-सङ्कोचयित्वा । कोकान् = चक्रवाकान् । 'कोकश्चक्रश्चक्रवाकः इत्यमरः । 'चक्रवाको रथः कोकश्चक्रश्चक्राह्वयाह्वयः' इति ( वैजयन्ती ) । सशोकीकृत्य =वियोज्यत्याशयः । सायसमये तेषां वियोगो भवाति नियतिः । सकलेति-सकलानां विश्वषां चराचराणां स्थावरजङ्गमानां चतुःशक्ति नेत्रदर्शनमामर्थ्यम् । शिथिलीकृत्य = मन्दीकृत्य । अन्धकारे- मतोरपि चक्षुषोदर्शनशक्तेरनुद्भवात् । कुण्डलेनेव = कर्णभूषणेनेव निजमण्ड- लेन पश्चिमाशां भूषयन् = मण्डयन् । अत्र अस्तमयनकाले सूर्यमण्डलस्य स्वतःसिद्धोपि भूष्यभूपणभावः प्रकृतः अप्रकृतेन कुण्डलेन सम्भावितः निजमण्डले कुण्डलत्वारोपपूर्व- कत्वात् रूपकानुप्राणित इति रूपकानुप्राणितोत्प्रेक्षा । समासोक्तिरपि-अत्र प्रस्तुते सूर्यास्तमनसम्बन्धे अप्रस्तुस्य. कुण्डलकरणककामुककत्र्तकनायकामण्डनात्म- कवृत्तान्तस्यापि प्रतीतिसद्भावात् समासोक्तावप्रस्तुतव्यहारसमोरोपस्य चारुताहेतुत्वा- दिति दिक। + वारुणी-वरुणाधिष्ठिता पश्चिमा दिक् सुरा च । 'सुरा प्रत्यक् च वारुणी ' इति (अमरः)। 'वारुणी गण्डदूर्वायां प्रतीचीसुरयोः स्त्रियाम् ' इति च ( मेदिनी)। माञ्जिष्ठेति । मञ्जिष्ठा-मण्डूकपणी ' मजीठ ' इति प्रसिद्धा तस्या अयं माधिष्ठः स चासौ मञ्जिमा रक्तिमा तेन रअितः = शोणित इवेत्यर्थः । अनवरतभ्रमणपरिश्रमश्रान्तः अनारतपर्यटनखेदखिन्नः इव सुषुप्सुः= स्वप्तुमिच्छुः । अत्र सूर्यस्य स्वाभाविकगतिकरणपूर्वकास्ताचलप्राप्तिरूपोऽर्थः खेद- हेतुकशयनेच्छावत्वनोत्प्रेक्षितः । म्लेच्छेति । म्लेच्छगणस्य यवनगणस्य । सच * अत्र तिरोभूतभेदत्वादुपमायाः रूपकालङ्कारः। + वरुणस्येयम् । तस्येदम् ' (४३ । १२० ) इत्यण । ततो ङाप् ।।
( २६ ) । । दुराचौर: लुण्टनमारणप्रभृतिभिर्दुष्कर्मभिः दुःखन कष्टेन आक्रान्ता आपीडिता या वसुमती पृथ्वी तस्या वेदनां पाटाम् समुद्रशायिनि-श्रीविष्णा निविवे- दयिषुरिव-निवेदयितुमिच्छरिव । अत्रापि-अस्तमयनं विष्णोरग्रे निवेदन- रूपत्वेन सम्भावितमित्युत्प्रेक्षव। वैदिकेति–वैदिकधर्मस्य सत्यसनातनधर्मस्य ध्वसो नाशः तस्य दर्शनेन सातो यो निवेदः वैराग्यं यस्य स तथाविधः गिरिगहनेपु-पर्वतकन्दरेषु तपश्चिकापुरिवेति पूर्ववदुत्प्रेक्षा । सिस्नासुः- स्नातुमिच्छुः । “ अन्योऽपि तापतप्तो जलं प्रविशति " इति वस्तुध्वनिः । विधित्सुः=चिकीर्षुः । पृ० ३२॥ मत्कुले = मदीयवंशे यः मूर्यवंशीय इत्यर्थः । यज्ञियात्= यज्ञाहात् । 'यज्ञविग्भ्यां घखो'(५।१।७१) इति यज्ञमहतीति 'यज्ञियः'तस्मात् भारतगर्भात् भारतमध्यात् भारतभुवः इत्यर्थः । चिन्ताक्रान्तः शोकाकुल: कन्दरिकन्दरेषु गिरिगुहासु । प्रविविशुः प्रवेशं कर्तुमिच्छुः। अत्रापि भास्वतः स्वतःस्थितमस्तमयनं चिन्ताकुलत्वनिमित्तेन पर्वतकन्दराप्रवेशत्वेन रूपेणोत्प्रेक्षितम् । क्रूरकरान्-तीक्षणान् किरणान् । 'श्वतीभूय' इत्यादि स्वभावोक्तिः। कलिकौतुककवलीकृतम् = कलिकुतृहलनिगलितम् ' इति प्रचारम् ' इत्यस्य विशेषणम् । पातकपुञ्जपिञ्जरितम् = कल्मषसमूहविध्वस्तम् अन्धतमसे-गाढेऽन्धकारे । 'ध्वान्त गांढऽन्धतमम्' इति (अमरः)। 'धूपधूमेनव' । इत्युत्प्रेक्षा । हरित्सु-दिशासु । 'दिशस्तु ककुभः काष्ठा प्राशाश्च हरितश्च ताः' इति (अमरः) । 'अागतप्रत्यागतच विदधानः' इति प्राहरिकाणां स्वभावोक्तिः । विदधानः = कुवाण: प्रतापदुर्गदौवारिका := प्रतापदुर्गद्वारपालः । दौवारिकः = द्वारे नियुक्तः। : = द्वारे नियुक्तः। 'तत्र नियुक्तः' ( ४ । ४ । ६६) इति सूत्रेण द्वारशब्दात् ठक् । 'द्वारादीनाञ्च' ( ७ । ३ । ४) इत्युभयपदवृद्धिः । पादक्षेपध्वनिम्-चरणच क्रमणशब्दम् । अवतमसवशात् क्षीणध्वान्तहेतो: 'अवसमन्धेभ्यस्तमसः' (५ । ४ । ७६) इति समासान्तोऽन् । पृ० ३३॥ अश्रावि = आकरिणतः । श्रु अक्णे । कमणि लुङस 'चिण भावकमणोः ' ( ३ । १ । ६६) इति श्लेश्विण । मुमुर्पः = मत्तमिच्छुः । सदाचार . गाढेनान्धकारेण स्वतः सिद्धाऽपि दिशां व्याप्तिः धूपधूमव्यापनत्वेन रूपेणा- त्प्रेक्षिता चेत् क्रियारूपोत्प्रेक्षा, धूमे धूपत्वेनोत्प्रेक्षित चेत् स्वरूपोत्प्रेक्षा । अत्र बहुवक्तव्यमपि बालमतेर्विशेषाऽनुपयोगं मत्वोदास्यते ।
( २७ ) - बधिरः = श्रुतिसामर्थ्यवर्जितः। अपश्यता= अनालोकमानेन । आकर्णि = प्रश्रावि । मन्द्रस्वरमेदुरा= गम्भीरस्वरस्निग्धा । काषायवासाः = कापायं = कषायण रक्तं वासो यस्य, कषायशब्दात् 'तेन रक्तं रागात्' (४।४।१८) इत्यण । भस्मच्छरितललाटः = भस्मरमितमस्तकः । रुद्राक्षेति = रुद्राक्षमालिकया सनाधितः सहितः कण्ठो यस्य सः । आलापः परस्परभाषणम् । तुरीया- श्रमसेवी - चतुर्थाश्रमस्थः संन्यासीत्यर्थः । पृ० ३४ अन्तरायाणाम् - विघ्नानाम् 'विघ्नोऽन्तरायःप्रत्यूहः इति (अमरः) । हन्ता = निवारयिता । अलमालप्यापि = इदमालपनीयमपि नैव । 'लप्' धातोः 'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' ( ३ । ४ । १८) प्रतिषेधार्थे त्का। को ल्यप् । पृ० ३५ । राजनीतिनिष्णातः=राजनीती प्रवीणः । 'प्राणे निपुणाभिशविशनिष्णातशिक्षिताः ' इत्यमरः । निरीक्षस्व = पश्य । न प्रात- रुन्धेः=न प्रतिहस्तयेः । प्रतिपूर्वकस्य 'रुधिर प्रावरणे' इत्यस्य धातोः विधिलिडि मध्यमपुरुषैकवचने रूपम् । परिष्कृतम् = वैद्यकशास्त्रविधिना साधितम् । जाम्बूनदम् = सुवर्णम् । ‘स्वर्ण सुवर्णम्-जाम्बूनदमष्टापदोऽस्त्रियाम्' इति (अमरः पृ० ३६ ॥ उत्कोचलोभेन = अन्यायतोधनग्रहणलोभेन 'रिशवत ' इति ख्यातेन । पृ० ३७ ॥ भुशुण्डीति-भुशुण्ड्याः यत्समुत्तोलनमुत्थापनं तेन यः किरणोऽङ्कविशपः तेन कर्कशः कठोरो यः करः तस्य ग्रहम् = ग्रहणम् । अपहाय% त्यत्का । स्वाङ्गरक्षिका = लघुकन्चुकः ॥ पृ० ३८ ॥ मेचकान् = नीलान् । अट्टालिकाम् = इष्टकादिनिमिते राजादिगृहे ' तलिन्यट्टालिके समे ' इति ( वैजयन्ती)। 'शिववीरस्तु अट्टालिकाया- मुपविष्ट प्रासादिति सम्बन्धः । चन्द्रचुम्बिन्याम् = अत्युच्चायामित्यर्थः। अत्र- अट्टालिकायाश्चन्द्रेण सहाऽसम्बन्धेऽपि सम्वन्धवर्णनात् अतिशयोक्तिरलङ्कारः। तल्लक्षणमुक्तं दण्डिना- विवक्षा या विशेषस्य लोकसीमातिवर्तिनी। असावतिशयोक्तिः स्यादलङ्कारोत्तमा यथा ॥ * ग्रन्थान्तरेत्वियं 'सम्बन्धातिशयोक्ति' रुक्ता—' सम्बन्धातिशयोक्तिः स्यात्तदभावेऽपि तद्वच' इति तल्लक्षणात् । *चन्द्रालोके। . SARI POLLEGE LIRHAPr ( २८ ) सान्द्रति-मान्द्रेण = घनेन सुधासारेण चूर्णद्रव्येण लिप्ताः उपचिता भित्तिका: कुड्यानि यस्याः सा तस्याम् । धूपधूपितायाम् = धूपसन्तापितायाम् । गजदन्तिकेति-गजदन्तिकायाम् = एडूके शकुविशेषे अवलम्विताः विविधाः नानाप्रकाराः छुरिकाखड्गारािष्टिका यस्या सा तत्र । छुरिका-कृपाणी । खड्गः असिः । रिष्टिका-शस्त्रविशेषः । सुवर्णेति-सुवर्णस्य पिअरे परिलम्बमाना शुकाः = कीराः । पिका: = कोकिलाः । चकोराः = जीवनीवाः । 'जीवीव: खगान्तरे । द्रुमभेदे चकोरे च' इति ( हैमः ) । सारिकाः = शारिकाः तासा कलकजितेन मधुर रवण पूजितायां सत्कृतायां सजितायामित्यर्थः । पृ० ३८, ३६ ॥ परितः = समन्ततः । तस्य = ( शिववीरस्य ) एव मार्त दश दशं परं प्रसादमामादयन्तः तस्य वयस्याः ( माल्यश्रीकादयः ) कटान् अध्यवसन्'इति सम्बन्धः । दशं दर्श = दृष्ट्वा दृष्ट्वा । 'दृश्' धातोः 'भाभीक्ष्ण्ये णमुल च' (३।४।२२) इति सूत्रेण णमुल् । 'नित्यवीप्सयोः (८।१।४) इति द्वित्वम् । प्रसादम् = हर्षम् । प्रासादयन्तः = प्राप्नुवन्तः । वयस्याः = सखायः । कथम्भूतां मूत्तिम् इति — खामप्यखर्वपराक्रमा' मित्यारभ्य 'कलितगौर- वामपि कलितलाववाम्' इत्यन्तं विरोधाभासालङ्कारेण परतः स्वभावोतया उत्प्रेक्षया च वर्णयति-खर्वाम् = हस्वाम्। अपि अखर्वपराक्रमाम् = अखर्वस्य पराक्रमो यस्याः तामिति विरोधः । या खर्वा सा कथमखर्वपराक्रमा स्यात् । परिहारस्तु- अखर्वः अनल्पः पराक्रमो बलं यस्याः सा ताम् । श्यामाम् = कृष्णाम् । यशः: ममूहन कीर्तिपुञ्जन श्वताकृतं धवलीकृतं त्रिभुवनं यया ताम् । या श्यामा सा कथ श्वेतीकरणे समर्थेति विरोधः। परिहारस्तु-त्रिलोक्यां प्रख्यातयशममित्याशयेन ज्ञेयः । कुशासनाश्रयामपि = कुत्सित शासनं आश्रयो यस्याः सा तामिति विरोधपक्षे । सुशासनाश्रयाम् = सु = सुष्टु शासनं राष्ट्रास्थातराश्रयः कर्तव्य- त्वेन आधार। यस्याः । या कुत्सितशासना सा कथं सुशासना इति विरोधप्रतीती परिहारस्तु-कुशाया आसनं कुशासनं तदेव पाश्रयोऽवस्थानं यस्याः सा ताम् । पठनपाठनादीत्यत्र विरोधपरिहारी स्फुटौ । ( एवं हि ऐतिहासिका आमनन्ति शिववीरः आकृत्या खर्वः रूपेण श्यामः स्थूल: पठनरहितश्चति) स्थूलदर्शनाम् = स्थूल दशन यस्याः सा । मूक्ष्मदर्शनाम् = या स्थूलदर्शना सा कथं सूक्ष्मदर्शनेति विरोधः । परिहारस्तु-मूक्ष्मं दर्शनं कर्त्तव्याकर्त्तव्यविचारो यस्याः सा कुशाग्रबुद्धि- त्वादिति भावः । हत्याकाण्डव्यसनिनामपीति या हत्याकाण्डव्यसनिमी सा कथं धर्मधारया इति विरोधे म्लेच्छानां हत्याकाण्डव्यसनेन सनातनधर्मरक्षकाग्रणीत्वेन - ( २६ ) -- च परिहारः । कठिनाम् कठोरामपि कोमलां = मृद्वीमिति विरोधः । परिहारस्तु सामादिभारसहाम् । उग्रामपि शान्ताम् = योग्रा सा कथं शान्तति विरोध: दुधपत्वादुग्रा, अधिकारिणि दयावत्त्वात् शान्तेति परिहारः । शोभित। म्लेच्छदलनकारित्वात्सुन्दरो विग्रहो विरोध: सङ्ग्रामा यस्याः सा ताम् सङ्ग्रामकु- शलामित्यर्थः । दृढः अकाट्यः सन्धिबन्धः सत्ग्रामविरोधी राज्ञां परस्परं सङ्गतिकरणं यस्याः तामिति विरोधः । परिहारस्तु-शोभितशरीराम् दृढशरीरबन्धामित्यर्थः । कलितति-गुरोभावो गौरवम् या कलित (रचित) गारवा सा कथं कलितलाघवा इति विरोधः । गृहीतगाम्भीर्याम् रक्षित चातुर्याञ्च इति तत्परिहारः । विशालल- लाटाम्-चतुरस्रमस्तकाम् । शोणापाङ्गाम् रक्तनेत्रप्रान्तभागाम् । सुनद्धा स्नायवो यस्याः, वर्तुला श्यामा श्मश्रुयस्याः ताम् । धारितेति = उत्प्रेक्षा । समासादिता समरे सङ्ग्रामे स्फूर्तियया ताम् । न्यवीविदत् = निवेदितवान् ! स्वार्थे णिच् । दिदृक्षते-द्रष्टुमिच्छति । साश्रुस्मृ दृशां सनः' (१।३।५७) इत्यात्मनेपदम् । कुमुमानावेत्यादःवुत्प्रेक्षा पृ० ४० ॥ त्रिः = त्रिवारम् । क्रियाविशेपणमतत् । 'द्वित्रिचतुर्यः सुच्' ( ५१४ । १८ ) इति क्रियाभ्यावृत्तिगणने सुच् । अन्तरायः = विघ्नः । भूतनाथः = पशुपतिर्महादेवः । प्रत्नः = पुराणः । 'पुराणे प्रतन-प्रल-पुरातन- चिरन्तनाः' इति ( अमरः ) । स्वच्छन्देत्यादौ अनुप्रासः । उच्छिन्न विनष्ट मच्छील सदाचारो येषाम् अत्यन्ताऽसभ्यानामित्यर्थः । गव्यूतिः = क्रोशयुगम् । उञ्छस्य = कणादानस्य 'उञ्छः कणश प्रादानं कणिशायर्जनं शिलम्' (यादव:) इंङ्गुदी = तापसतरुः । भूर्जपत्रम् = चर्मिपत्रम् । 'भूनें चमिमृदुत्वचौ ' इति (अमरः)। पृ० ४१ ॥ जाल्माः = असमीक्ष्यकारिणः । वारणवारेषु = गजवृ. न्देषु । 'आर्यवंशीयाः' 'भारतवर्षीयाः' इत्यत्र भावार्थे 'वृद्धाच्छः' ( ४२ ११४ ) इति छः। गद्यमिदं * चूर्णकम् । वैदर्भी रीतिः । प्रसादो गुणः । पृ० ४२ ॥ कन्यापहारकेति-कन्याया अपहारकस्य आच्छेदकस्य चूर्णकस्य लक्षणमाह वामनः 'अनाविद्धललितपदं चूणम् ' (३ । २४ ) अस्यायमर्थ:-न विद्धानि अनाविद्धानि अदीर्घसमासभानि च तानि ललितपदानि अनुद्धतानि पदानि यस्मिन् तदनाविद्धपदं चूर्णमित्युच्यते । श्लेषादि- सर्वगुणोपेता पदसङ्घटना वैदर्भी रीतिः । प्रसादगुणलक्षणमाह जयदेवः- :
( ३० ) बभार यवनयुवकस्य म्लेच्छतरुणस्य मृत = शवीभूतं यच्छरीरं तस्य वस्त्रान्तात् वसनमध्यात् प्राप्तमिति पत्र विशेषणम् । ' शिवं युद्धे जेष्यसि चेत् पय्यां मिहं जित वानसि' इति मंस्ये" इत्यत्र निदर्शनालङ्कारः । तल्लक्षणमुक्तं 'जयदेवेन'- वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना' = सदृशवाक्यार्थसंबंधी य ऐक्यारोवः अर्थात् उपमेयवाक्याथे उपमानवाक्यार्थाऽभेदारोप: म निदर्शनालङ्कारः प्रकृते च- शिवं युद्धे जेष्यसि चेत् ' इत्यस्य युद्धविषयकशिवकर्मकजयनरूपो वाक्यार्थ उपमेयवाक्यार्थ: तस्मिन् पटक.र रणकसिंह जयनरूपापमानवाक्यार्थस्याभेदा- रोपणानिदर्शना *। पृ० ४३॥ अरुणकौशेयजालनिबद्धौ अरुणं रक्तं यत् कौशेयस्य पट्टवत्रस्य जालमानायः तेन निबद्धौ = आच्छादितौ मीनौ = मत्स्यौ इव नयने नेत्र साते = अभूताम् । क्रोधवशान्नेत्रयो रक्तिमा जातेत्यर्थस्यैव भङ्गयन्तरेण अभिहितत्वात् । पर्यायोक्लमल कारः । मुखमिति–वालभास्करय यद्विग्वं तस्य विडम्बनाम् अनुकृतिम् । आललम्बे । अधरः = निम्नोष्ठः धीरताधुरम् = धैर्यभारम् अधरीचकार = जहावित्यर्थः क्रोधवशादधरः फुस्फोरेति भावः । अलङ्कारस्तु पूर्ववत् । विवक्षति = वक्तुमिच्छति । प्रताहारः = द्वारपालन त्रिाहृत्य त्रिवार मुत्त्वा । दिदृशुः = द्रष्टुमिष्ठु । उपतिष्ठते = संगतिकरणार्थ प्राप्तोऽस्ति उपाद्देवपूजा'-इति वात्तिकेन सङ्गतिकरणेऽर्थे आत्मनेपदम् । साम्रडम् यस्मादन्तःस्थितः सर्वः स्वयमोऽवभासते । सलिलस्येव सूत्रस्य स प्रसाद इति स्मृतः ॥ प्रपत्रस्तु मदीयकाव्यादर्शव्याख्यायां प्रथम परिच्छेदे द्रष्टव्यः । * उदाहृतश्चायमल द्वार अप्पय्यदीक्षितः अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽञ्जमवरोपितं सुचिरमूपरे वर्पितम्। श्वपुच्छमिव नामितं वधिर कर्णजापः कृतो- धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥ इति पर्यायोक्नं तु गम्यस्य वचो भङ्गयन्तराश्रयम् । नमस्तस्मै कृतो येन मुधा राहुवधूकुचौ ।। इति (कुवलयानन्दे) यदेव गम्यं विवक्षितं तस्यैव भङ्गयन्तरेण विवक्षितरूपादपि चारुतरेण केन चिद्रपेणाभिधानं पर्यायोकम् ।
( ३१ ) पायजामा ' पुनः पुनरित्यर्थः । सतर्कम् = ऊहासहितम् । सोत्साहम् = सहर्षम् । व्याहृतवत्सु = कथयत्सु। पृ० ४४ ॥ व्याहन्मि = विध्वंसयामि । नीतिमार्गान् = चराणां विद्या इत्यर्थः । अत्यन्त निर्दयाः करुणाशून्याः अतिकदर्याः नाचकर्मकरणे निर्भयाः । कूटनीतयः-( कपटचाल ) कपटाचारचतुराः । 'कूटं पूर्वारयन्त्रयोः । 'मायादम्भाद्रिशृङ्गेषु साराङ्गेऽनृततुच्छयो: 'निश्चलेऽयोघने राशौ ' इति ( हैमः) । इङ्गितेन-चेष्टितेन । इङ्गितं हृद्तो भावः । प्रसाधनिकया-कत्या । उष्णी- षिकाम् = शिरस्त्राणिकाम् ' टोपी' इति प्रसिद्धाम् । पृ० ४५ ॥ अधोवसनम कटिवस्त्रम् पादायाम इति ख्यातम् । तानपूरिकाम् - वाद्यविशेषम् ' तानपूरा' ( तम्बूरा ) इति प्रसिद्धिः । गुप्तच्छुरिकाम् = गुप्ता छुरिका कृपाणी यस्यां ताम् । दन्तावलदन्तमुष्टि- काम् अतिशयितौ दन्तो अस्यति दन्तावलः । दन्तशिखात् सञ्चा- याम्' (५२।११३) इति दन्तशब्दात् वलच् प्रत्ययः । ‘वले' (६।३।११४) इति दीर्घः । दन्तावलस्य यो दन्तः, तस्य = गजदन्तस्य मुष्टिका यत्र तां यष्टि- काम् । पटवासैः = सुगन्धनियासैः । दिगन्तम् = दिशामन्तम् । दन्तुर- यन् = उन्नतयन् सौरभयन्नित्यर्थः । करस्थपटखण्डेन = कर्पटेन । प्रतस्थे- प्रचचाल । परःशतश्वेतपटकुटीरैः = शतसळ्यातीतशुभ्रपटभवनैः शारद- मेघमण्डलायितम = शरत्कालिकमेघमण्डलभिवाचरितम् ( लुप्तोपमा ) अति- श्वेतमित्यर्थः कोकनदेति-कोकनदच्छवि शोणं यत् वस्त्रम् तस्य खण्डेन वेष्टितो मूर्धा यस्य येन वा । · शोणः कोकनदच्छविः ' इत्यमरः । कोकनदं रक्तोत्पल- मिव छविर्यस्य । कटीति-कटिपर्यन्ता सुनद्धा सुबद्धा काकश्यामा प्रतिकृष्णवर्णा अङ्गरक्षिका चोलिकाविशेषो येन सः । कर्बुराधोवसनः = चित्रिताधोवासाः । शोणश्मश्रुः = शोणं रक्तं श्मश्रु पुंमुखवतिलोमदाढिका यस्य सः । विजय. पुरेति-विजयपुराधीशस्य नाम्ना अङ्किता मुद्रिता या वर्तुला पित्तपट्टिका ' चप- डास' इत्याख्या तया परिकलितं व्याप्तं वामवक्षःस्थलं यस्य सः चपडासीसंशक- प्राहरिकवेषं दधान इत्यर्थः । सावष्टम्भम् = सोदेगा . समार्दवम् = सको. मलम् । व्याख्यायि = उत्तरितम् । 'धृतेन लातु भवद्रसना' इति लोकोक्तिर लङ्कारः । आह च जयदेवः- लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते। सहस्व कतिचिन्मासान्मीलयित्वा विलोचने ॥ इति ।
( ३२ ) . पृ० ४६ ॥' तत्र च' इत्याद्यारभ्य ४६ पृ० ४६ पर्यन्तं साइनामिक- भटानालोकयन् , 'प्रधानपटकुटीरद्वारमाससाद ' इति दूरेऽभिसम्बन्धः । पृ० ४६ ॥ ताम्रकधूमम् = तमाकू-इति प्रसिद्धम् । मुखादिति- अत्रोत्प्रेक्षाऽलङ्कारः। ताम्रकधूमध्वजायाः स्वरूपेण श्यामलत्वेऽपि अप्रकृतकालसर्परूपत्वेन सम्भाव्यमानत्वात् । इयञ्च स्वरूपोत्प्रेक्षा ऐन्द्रजालिकोऽपि मुखात्सपी- नुद्गिरतीति वस्तुध्वनिः । अनेन वस्तुध्वनिना ( वस्तुना व्यङ्गयेन ) शिवं मोह- यितुमैन्द्रजालिकानिव स्थितानिति उपमाल कारो व्यङ्ग्यः इति वस्तुनाऽलंकार- ध्वनिः । वहृदयकालिमानम् = स्वान्ततिकालुष्यमिव । मरणोत्तरमतिद्- र्लभं मुखाग्निसंयोगम् = यवनानां शवा निखन्यन्ते नत्वग्नौ हूयन्ते यतः । ( अत्र- सर्वत्रोत्प्रेक्षव यथायथं लापनीया ग्रन्थगौरवभयादस्माभिर्वहु न लाप्यते) । प्राप्ता- धिकारकलिताखर्वगर्वान = प्राप्तेन प्राप्तेन ( तेन तेन ) अधिकारेण अखर्वोऽनल्पो गवों दुरभिमानो येषां तान् । हरिद्रा=( रजनी ) पाता । 'निशाह्रा काञ्चनी पाता हरिद्रा वरवणिनी ! इत्यमरः । लशुनम् = रसोनकः । रसे प्रास्वादने ऊन्यते पातकहेतुत्वादिति व्युत्पत्तेः । ' लशुनं गृअनारिष्टमहाकन्दरमोनका: इत्यमरः । चुक्रम् = तितिण्डीकम् इम्बलीतिप्रसिद्धम् । “तिन्तीडीकञ्च चुक्रञ्च वृक्षाम्लम् इत्यमरः । वितुन्नकम् = छत्रा । अथ छत्रा वितुन्नकम् इत्यमरः । शृङ्गवेरम् = आद्रकम् । आर्द्रकं शृङ्गवरं स्यात् ' इत्यमरः । रामठम् = हिगु । सहस्रवेधि जतुकं बाह्रीकं हिङ्गु रामठम्' इत्यमरः मत्स्यण्डी = फाणितम् । कुक्कुट्या अण्डम् कुक्कुटाण्डम् । पललम् = क्रव्यम् । आम मांसमित्यर्थः । निद्रां विद्रावयतः = भञ्जयतः । समीपति- कुतूः = चर्मरचितं तैलादिरेलहाधारपात्रम् । कुतः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् ' इत्यमरः । कर्करी = गलन्तिका 'कर्कर्यालुर्गलान्तका 'कर्करी भाण्डभेदे ना दर्पणे कठिने त्रिपु' इति ( विश्वमदिन्यौ ) कराडोलः = पिटः । वंशादिनिर्मितभाण्डविशेषः । ' कण्डोलपिटौ ' इत्यमरः । कटाहः कडाहः। वटक-पूरिका-पुटिकादिपाक (तलन) पात्रम् । कम्विः दवीं । ' कम्विः दवीं खजाका च ' इत्यमरः । कडम्वः = शाकनालविशेषः नाडी- शाक इति प्रसिद्धः । अस्य तु नालिका कडम्बश्च कलम्बश्च 'कलम्बः शाकभेदे स्यात्कदम्बशरयोः पुमान् — इति ( मेदिनी)। एतेषां द्वन्द्वः । ततः-समीपे संस्थापिताः कुत्वादयो यैस्तानिति बहुव्रीहिः । इत्यमरः । इत्यमरः ।
( ३३ ) पृ०४७ ॥ उग्रगन्धीनि = दुत्कटगन्धोनि । शूलाकुर्वतः = शूलेन संस्कुर्वतः 'शूलात् पाके' ( ५। ४ । ६५ ) इति ढाच । नखम्पचाः = मितम्पचाः । ‘मितनख च' ( ३ । २ । ३४ ) इति खश् । यवागू: यवागूरुष्णिका धाना विलेपो तरला च सा ' इति ( अमर: )। स्थालिकासु = थाली' इति नाम्ना प्रसिद्धेषु पत्रिषु प्रसारयतः = परिवेषयतः । हिगुगन्धीनि = हिङ्गुनः गन्धः आधारणलेशो येषु तानि । 'अल्पाख्या- याम्' (१।४।१३६) इति सूत्रेण गन्धस्येकारोन्तादेशः । 'गन्धो गन्धक श्रामोद लेश सम्बन्धगर्वयो'रिति ( विश्व: ) तेमनानि = व्यञ्जनानि । तिन्तिडीरसैः चुक्ररसः मिश्रयतः = घाटयतः :। जम्बीरनीरम् = दन्तशठरसम् । नि- श्च्योतयतः = क्षारयतः । ताम्रचूडान् = चरणायुधान् कुक्कुटानित्यर्थः आरनालम् = कालिकम् । एतानि सर्वाणि द्वितीयाबहुवचनान्तानि ‘सूदान्' इत्यस्य विशेषणम् । सूदान् = पाचकान् (खानसामान् ) इत्यर्थः । कचिदिति-वक्रेण कङ्कत्या साधिताः स्फालिताः काकपक्षा यैः तान् । मदेन मद्यनितेन व्याघूरिणतानि व्याघृरितानि शोणानि रक्तानि नयनानि येषां तान् । यौवनचुम्बितशरीरान् = यौवनेन चुम्बितं स्पृष्टं सम्बद्धमिति यावत् शरीरं येषां तान् । अत्र-' चुवि वक्त्रसंयोगे' इति धातोर्युत्पन्नस्य चुम्वित- पदस्य वक्त्रसंयोगरूपो मुख्यार्थः स च बाधितः । कालात्मकस्याऽवस्थाविशेषस्य अमूर्तस्य मुखाभावात् तस्मात् चुम्बितपदस्य सम्बद्धेऽथे लक्षणा । सौन्दर्यातिशयश्च प्रयोजनम् । स्वसौन्दर्येति-पत्र निमित्तोत्प्रेक्षा । अनवरतेति-अन- वरतमाक्षिप्ताः पतिताः कुसुमषामन्मथस्य वाणा येषु तान् श्व कुसुमैर्भूषितान् = पुष्पैर्मण्डितान् । अत्र-कुसुमभूपितत्वे कुसुमेपुराणाक्षिप्तमुत्प्रेक्षितम् । वसनाति- रोहिताङ्गच्छटान् वसनैः वस्त्रैः प्रतिरोहिता अङ्गच्छटा अवयवद्युतियेषां तान् । विविधेति-विविधैः पटवासैवासितानपि चिरमलानेन देहशुद्धयभावेन महा- मलिनः अत्यन्तं मलीनो महोत्कटश्च महानुग्रश्च यः स्वेदः देहवारि, तस्य पूति- गन्धेन दोर्गन्ध्येन प्रकटीकृताऽस्पृश्यता यैः तान् , नययुवकान् = नवान् यूनः । क्वचिदित्यारभ्य ' इति ब्याहरत ' इत्यन्तं बहु स्पष्टम् । पृ० ४६ ॥ साङ्ग्रामिकभटान् = सङ्ग्राममहताति साड्यामिकः । 'तदर्हति' (५।१।६३) इति ठक् । सानामिकाश्च ते भटाः इति समानाधिकरणसमासः । प्रधानपटकुटीद्वारम् = उपकार्याद्वारम् । पृ०५१ । निष्ठयतादानभाजनहस्तैः = पतद्ग्रहपाणिभिः। लालाटिकैः ( ३४ ) प्रभुभालदशिभिः कार्याक्ष मैरित्यर्थ: । " लालाटिकः प्रभो लदशी कार्याक्षमश्च यः' इत्यमरः । सुवर्णसूत्रेति । सुवर्णसूत्रेण सूत्राकारेण सूक्ष्मतरेण सुवर्णेन ‘कनारी' इत्याख्यन रचिताः या विविधाः नानारूपाः कुसुमकुड्मललताः पुष्प-कलिका-वल्लथः तासां प्रतानैः श्रातानवितानरूपैः सधैः अङ्कितः कञ्चुकश्चोलको यस्य तम् । महोपवहम् = महोपधानम् । कोडे = उरसि । क्रोडे = उरसि । संस्थाप्य = धृत्वा । रजतपर्य३ = राजते पल्यङ्के । विविधेति = विविधेन प्रचुरेण फेनेन डिण्डोरेण फेनिलो यः क्षारधिः दुग्धसमुद्रः तस्य जलतलस्य छविं शोभाम् अङ्गीकुर्व- त्याम्=धारयन्त्यां तूलिकायाम् = कूच्याम् । उपविष्टम् = स्थितम् = 'अपजल खान' ददर्श = प्रवालुलोके । किंदेशवास्तव्यः = कुत्रत्यः । वसतीति वास्तव्यः । 'वसेस्तव्यत् कर्तरि णिच्च ' इति वार्तिकेण कर्तरि तव्यत् । पृ० ५२ ॥ पर्याटयति-भ्रामयति । णिच् । पृ० ५३ ॥ अटाट्याम् = पर्यटनम् । 'परिचर्यापरिसर्यामृग- याऽटाट्यानामुपसङ्ख्यानम्' ( वा० ३ । ३ । ११५) इति निपातनात् माधुः। अवालू लुकत् = 'अवालुलोकत्' इति युज्यते । 'नाग्लोपिशास्वृदिताम्" ( ७ । ४ । २ ) इति ऋदितामपि चङ्पर णो उपधाहस्वनिषेधात् । तस्मादत्र च्युतसंस्कृतिर्वा लेखकप्रमादो वेति स्वयं विवेचनीयम् । प्रान्तप्ररूढाम्-तटो- पान्तवत्तिनि प्रदेशे विद्यमानां । पद्मावलीम्-कमलवनीम् । परिमर्दयन्ती उल्लालयन्तो । यत्र-पूर्ववङ्गे । ब्रह्मपुत्र इव-विषविशेष इव । शत्रुसेनाना- शननकुशलः वैरिबातविश्वसनसमर्थ: । साम्लेति-श्राम्लेन सह वर्तते साम्लः स चासा सुमधुरो रसः तेन पूरितानि=भरितानि । फूत्कारेति-फूत्कारेण उद्धता उड्डायिता भूतिभस्म यस्य तादृशो यो चलदङ्गार:=चमदङ्गारः तस्य विजित्वरः सदाभातिरस्कारकारी वणों येषां तानि ।' नागरङ्गाणि ' इत्यस्य विशेषणम् । श्रावतः=' स्यादावतोऽम्भसां भ्रमः इत्यमरः । स्रोतस्वतीषु-नदीषु । "महोहोकार" मिति शब्दानुकृतिः क्षेपणीः नौदण्डान् । 'नोकादण्डःक्षपणी म्यादरित्रं केनिपातनः' इत्यमरः । बडिशम् = मत्स्यवेधनम् । कुवेणीति- कुवेण्यां मत्स्याधान्यां तिष्ठन्तीति कुत्रेणास्था ये म्रियमाणा श्रासन्नमरणा मत्स्या मीनाः तेषां परीवर्तान् = कक्षवर्तनानि । आलोकमालोकम् = दृष्ट्वा दृष्ट्वा । पृ० ५४ प्रनन्दन्तः = हर्षयन्तः । कूष्माण्डफक्किकाकारया = कर्कारुफा- लिकासदृशया । कूष्माण्डकस्तु ककारुः इत्यमरः। 'भिन्नाअनलिप्ता इव मसिस्नाता इव साकारा अन्धकारा इव काला' इति सर्वत्र उत्प्रेक्षा । अभिनन्ये= - ( ३५ ) इति कर्मणि तङ् स्तूये इत्यर्थः । मूर्च्छनाप्रधानम् = अविच्छेदं स्वरात्स्वरान्तर- प्राप्तिः मूर्च्छना। सविच्छेदं स्वरान्तरावृत्तिस्तानः । सोऽयं चतुरशांतिसङ्ख्याकः महोतशास्त्रे प्रसिद्धः । 'मप्तस्वरास्त्रयो ग्रामा मूर्च्छना एकविंशतिः' इति (वैजयन्ना )। उक्त सङ्गीतशास्त्र- विस्तार्यन्ते प्रयोगाय मूर्छनाऽशेषसंश्रयाः । तालास्तेप्यूनपञ्चाशत् सप्तस्वरसमुद्भवाः ॥ इति स्वराः सम्मूञ्छितो यत्र रागतां प्रतिपद्यते । * मूर्च्छनामिति तां प्राहुः कवयो ग्रामसम्भवाम् ॥ इति पृ० ५५ ॥ स्वरान् = निषादादीन् सप्त । 'निषादपभगान्धारषड्जमध्यमवताः । पनमश्चत्यमी सप्त तन्त्रीकण्ठोत्थिता: स्वराः' । इत्यमरः । सम्मेल्य-सन्तोल्य समीकृत्यति यावत् । पातितवामजानुः पातितो वामजा- नुयेन सः । ( इत्यवस्थानजातियकातनाम् ) तानपूरिकायाः तुम्ब=तुम्बिकाम् अधोभागम् कोडे = अङ्के । दक्षेति-दक्षहस्तस्य वामेतरकरस्य यः कर्परः कफोणिः भुजमध्यग्रन्थिः ( ' कफोणिस्तु कूर्परः' ) इत्यमरः । तस्य स्थापनं धरण तत्पुरःसरं तत्पूर्वकमिति सवा स्वभावोक्तिः । रणयन् = सन्नादयन् ग्रामान्-स्वरसंदोहान् । उकन्न- * ' सङ्गीतदर्पणे' तु- क्रमात् स्वराणां सप्ताना मारोहश्चावरोहणम् । मूर्छनेत्युच्यते ग्रामत्रये ताः सप्त सप्त च । स्थानत्रयसमायोगे मूर्च्छनारम्भ-सम्भवः ॥ स्फुटीभवद्ग्रामविशेषमूर्च्छनाम् ' इति माघः । + उक्तञ्च सङ्गीतरत्नाकरे'- श्रुतिभ्यः स्युः स्वराः षड्ज-र्षभ-गान्धार-मध्यमाः । पञ्चमो धैवतश्चाऽथ निषाद इति सप्त ते ॥ तेषां सञ्ज्ञाः स-रि-ग-म-प-ध-नीत्यपरा मताः । श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः । स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते ॥ इत्युक्तम् । 'सङ्गीतदर्पणे 'तु- स्वयं यो राजते नादः स स्वरः परिकीर्तितः ।
( ३६ ) यथा कुटुम्बिनः सर्वेप्येकीभूता भवन्ति हि । तथा स्वराणां सन्दोहो *ग्राम इत्यभिधीयते ।। षड्जग्रामो भवेदादौ मध्यमग्राम एव च । गान्धारग्राम इत्येतत् ग्रामत्रयमुदाहृतम् ॥ इति । समधात् =समयोजयत् । 'सखि ' इति स्थायिवाक्यमिदम् । 'यत्रोपविश्यते रागः स्वरः स्थायीति कथ्यते' इत्युक्तेः । हे सखि ! प्रालि ! नन्दतनयः श्रीकृष्ण आगच्छति इत एवायातीति सोल्ला- समुक्तिः । मुरलीरणनैः वंशीस्वनैः समाधक सुखम् सम्यगधिकं सुखं ब्रह्मानन्दमेव प्रयच्छति तदीयवेणुरणनश्रवणेन ब्रह्मादीनामपि तदेकमात्रलयस्य पुराणादिप्रसिद्धः तमेव वणयति-भैरवरूप' इति—पापिजनानाम् = दुष्टानां तमःप्रकृतीनां राक्षसावताराणामपजलखानप्रभृतीनामिति गूढोऽभिसन्धिः भैरवरूपः = भयङ्करः कालभैरव इत्यर्थः । सताम् = पुण्यात्मनां धर्मावताराणां शिवप्रभृतीनां सुखकरः सङ्कट निवारयिता प्रानन्दप्रदश्चेत्यर्थः । धार्मिकाणामेव परमार्थसुखलाभ इति ध्वनिः । उल्लेखालङ्कारोऽप्यत्र, लक्षणमुक्त प्राक् । किञ्च भरवाद्याः शब्दा: रागाणां नामानि तत्र-भैरवलक्षणमुक्तं ‘सङ्गीतदर्पणे'. धैवतांशग्रहन्यासो रिपहीनत्वमागतः । भैरवः सतु विशेयो धैवतादिकमूर्च्छनः । विकृतो धैवतो यत्र औडवः परिकीर्तितः ॥ इति ॥ रिपहीनत्वमागतः-- ऋषमपञ्चमवर्जितः इन्यर्थः । औडवः पञ्चमिः स्वरंगीतः * 'ग्रामः स्वरसमूहः स्यान्मूर्च्छनादेः समाश्रयः इति सङ्गीतरत्नाकरः । । एतल्लक्षणमुक्तं । सङ्गीतदर्पणे '- षड्जग्रामः' पञ्चमे स्व-चतुर्थश्रुति संस्थिते । स्वोपान्त्यश्रुति संस्थेऽस्मिन् 'मध्यमग्राम' इष्यते ॥ यद्वा धस्त्रिश्रुतिः षड्जे मध्यमे तु चतुःश्रुतिः । रिभयोः श्रुतिमेकैकां गान्धारश्चेत् समाश्रयेत् । प-श्रुतिं धो निषादस्तु थ-श्रुति स-श्रुति श्रितः । गान्धारग्राममाचष्ट तदा तं नारदो मुनिः । प्रवर्त्तते स्वर्गलोके ग्रामोऽसौ न महीतल । इति ।
( ३७ ) 'ध-नि-स-ग-म-ध' इति भैरवस्योदाहणम् । अस्य ध्यानन्तु- गङ्गाधरः शशिकलातिलकस्त्रिनेत्रः सर्विभूषिततनुर्गजकृत्तिवासाः। भास्वन्त्रिशूलकर एष नृमुण्डधारी शुभ्राम्वरो जयति भैरव आदिरागः ॥ एवं देव-ललितलक्षणादिकमपि सङ्गीतग्रन्थेषु सप्रपञ्चं तत एवाऽवलोक्यं, अन्य- वृद्धिभयाद्दिड्मात्रन्तु दर्शितम् । पुनः कीदृशो नन्दतनयः इत्याह--कलितललि. तेति । कलिता ललिता = मनोहरा चासो मालतीमाला अस्याऽस्तौति तादृशः । पक्षान्तरे कलितः उपक्रान्तो यो ललितः = (a) ललिता इत्याख्यो रागः त एव मालतामाला अस्य । ललितारागस्य माल्यधारित्वेन रागसमाधौ तदभेदभावो व्यज्यते। सुरवरैः: इन्द्रादिभि: (अपि) वाञ्छिता इष्टा । (कृतेत्यर्थः) सेवा यस्य सः । सारङ्गैः :- तन्नामभिः पक्षिभिः सारङ्ग इव सुन्दरः पक्षे सारङ्गाख्यरागालापेन हृदयङ्गम: । दृग्भिः = नर्निपीयमानः = सादरमीक्ष्यमाणः । चपलेति चपला इव विद्युदिव चपलचमत्कृति = चञ्चल चाकचक्यं वसनम् = अम्बरं यस्य सः पीताम्वर इत्यर्थः । विहितं मनोहरं श्रोतृणां हृदयवशीकरं गानं येन सः । श्रीवत्सेन लान्छितः श्रारिति रागोऽपि गवीशः = वेदाऽऽविर्भावकः 'तेने ब्रह्म हृदा य आदिकवये ' इत्युक्तेः । गौरीपतिना= महादेवेन संदा भावितः = ध्यातः गौरीति गौडीनामको रागोऽपि । वहिणबहकिरीटः = मायूरपिच्छकृतमुकुट: कनककशिपुकदनः =हिरण्यकशिपुसंहारी नृसिंहोऽपि स एवेत्यर्थः । बलि- मथनः= बलिध्वंसी स एव वामनः । विहतदशाननकीटः = विहतो नाशिता दशाननो रावणः कीट इव स 'एवम्भूतालौकिकमहिमा सर्वथोपास्य इति सखीम्प्रति सख्या उक्तिः । पारिषदेषु = परिषदि साधुषु सभ्येष्वित्यर्थः । 'तत्र साधुः' ( ४ । ४ । ६८ ) इत्यधिकारे—'परिपदोण्यः' (४।४।१०१) इत्यत्र योगविभागात् णोऽपि तेन 'पारिपद्यः ''पारिषदः' इति रूपदयं नियति ससाधुवादम् = साधुवादपूर्वकं वितीर्णकङ्कणे = दत्तकङ्कणे च अपजल- खाने इति भावे सप्तमी । गुणग्राहिताम् = गुणशतां प्रशशंस = अस्तीत् । सैन्धवारोहविद्यासिन्धुः = अश्वारोहणकर्मशानसागरः । चन्द्र- हासचालने खड्गमारणे । वीरवारवरः- शरसमूहश्रेष्ठः । समूहेनिवहव्यूहसन्दोहविसरबजाः । स्तोमौषनिकरत्रातवारसंघातसञ्चयाः इति ( अमरः)।
( ३८ ) .. पृ० ५७ ॥ दीनदुःखदावदहनः = अनाथजनदुःखध्वंसनकारीत्यर्थः मादृशेति-अत्र प्रायोऽनुप्रासालङ्कारः । पृ० ५७ ॥ दक्षिणपूर्वस्याम् = दक्षिणस्याः पूर्वस्याश्च दिशोर्यदन्तारालं मा दक्षिणपूर्वा । 'दिङ्नामान्यन्तराले' (२ । २ । २६) इति समासः । 'विभाषादिक्समासे बहुव्रीहौ ' ( १ । १ । २८ ) इति सर्वनामसंज्ञा । 'महेन्द्रमन्दिरखण्डमिव' इति कथने शत्रुभिरेजयता व्यज्यते । डमरुहुडुक्कारेण तोपितो भगः शिवो यत्र । तपनीयभित्तिकेति-तपनीयं = सुवर्णं तस्य भित्तिकासु भित्तिषु जटितादि खचितानि यानि महारत्नानि तेषां किरणावलीभिः मयूखमालाभि: वितन्यमानं विस्तार्यमाणं यत् महावितानं महोल्लेचिः तस्य वितत्या विस्तारेण विरोचितः उद्योतितो यः प्रतापः शिवप्रताप इत्यर्थः तेन तापिता: ज्वालिता परिपन्थिनां शत्रणां निवहः समूहो येन तमिति 'प्रतापदुर्गम् ' इत्यस्य विशेषणम् । अत्र शिवविभूतेर्वर्णनात् उदात्तालङ्कारः। उक्तञ्च 'दण्डिना'- श्राशयस्य विभूतेर्वायन्महत्वमनुत्तमम् । दात्तं नाम तं प्राहुरलङ्कारं मनीषिणः ॥ इति ।। चन्द्रचुम्बनचतुरचारुशिखरनिकरम् = अत्युच्चमनोहराशिखरसमू- होपेतम् । अत्र चरयोर्वणयोः असकृत्साम्यात् अनुप्रासः । सम्बन्धातिशयो- क्लिश्च चन्द्रचुम्वनाऽसम्बन्धेऽपि सम्बन्धवर्णनात् । भुशुण्डिकेति -भुशुण्डि- कानां किणः अङ्किताः चिह्निताः प्रचण्डाः कर्कशा: भुजा एव दण्डा येषाम्-एवं- विधा: ये रक्षकाः रक्षाभटाः तेषां कुलेन संधेन विधायमानाः परःसहस्राः परिक्रमाः मण्डलानि यस्य तम् । धमद्धमदिति-धमद्धमदिति शब्देन दोधूयमाना अनेका ध्वजाः तेषां पटलैनिमथितः विलोडित इव महान् आकाशा यत्र तम् । पृ० ५८ ॥ खपुष्पायितः = खपुष्पमिवाचरितः । यथा आकाशस्य शशस्य शृङ्ग, कमठ्याः = कच्छप्याः स्तन्य दुग्धं, सरीसृपस्य = सर्पस्य श्रवणं भेकस्य = मण्डूकम्य रसना न भवति तद्वदत्यन्तमसम्भावितः कोऽस्ति शिव इति मगर्वोक्तिरपजलखानस्य । पृ० ५६ ॥ सादीनाम् = अश्वारोहाणाम् । पत्तीनाम् = पदातीनाम् । "पदातिपत्तिपदगपादातिकपदाजयः । इत्यमरः । मदावेशस्त्विति । मदस्य विवेकनाशकता सुप्रसिद्धैव वरिणता च बहुशः कविभिः । तथाहि- पुष्प, ( ३६ ) लॊपश्च हलः । हसति नृत्यति गायति वल्गति भ्रमति धावति मूर्च्छति शोचते पतति रोदिति जल्पति गद्गदं धमति धाम्यति मद्यमदातुरः ॥ इति । ( सुभाषितरत्नसन्दोहे ) तदवधार्य = तनिश्चित्य । समस्तकूर्चान्दोलनम् = समग्रदाढिकाहिल्लोलनम् । पारिपदेषु = सभ्येषु । अदुर्मना दुर्मना भवतीति दुर्मनायमानः तेषु । 'भृशादिभ्योभुव्यच्वे ( ३ । १ । १२) इति सूत्रेण अभूततद्भावविषये दुर्मनंम्- शब्दात् क्यङि शानच् । 'यस्य च भावेन भावलक्षणम्' ( २ । ३ । ३७ ) इति भावे सप्तमी । व्यत्येति = उल्लध्य यातीत्यर्थः। 'सत्प्रास' मित्यादि स्वभावोक्तिः । निववृत्ते = निरियाय निरगादित्यर्थः॥ पृ०६१ । यदिचाहमाहवे म्रियेय, वध्येय ताड्येय' इत्यत्र क्रियादीपकम् दीपकल क्षणमाह दण्डी- जातिक्रियागुणद्रव्यवाचिनैकत्र वर्तिना। सर्ववाक्योपकारश्चेत् तमाहुर्दीपकं यथा । इति । पृ० ६३॥ दुर्गप्राचारान्तरालेपु-दुर्गस्य यत्प्राचीरं प्रान्तन्तो वृतिः तन्मध्येषु । अरुणश्मश्रवः = यवनाः । विजेष्यामहे= 'विपराभ्यां जेः' (१ । ३ । १६ ) इत्यात्मनेपदम् । पृ० ६४॥ चञ्चतश्चन्द्रहास्य चमत्कारचाकचक्येन चिल्लीभूतानि लिन्नानि चचूपि येषां ते । विकचताम् = विकाशभावम् । — चाटकैर '-इति । चटकायाः पुमपत्यं चाटकैराः तेषां चकचकमिवाचरत्सु कवचचकत्कारेषु = कवचा- नामुरच्छदानां चकत्कारेषु शब्दविशेषेषु । 'उरच्छदः कङ्कटको जगरः कवचोऽस्त्रियाम्' इत्यमरः । भ्रमरालिष्विव' इत्युत्प्रेक्षा । लोहवर्म लोहनिमित तनुत्रं कवचमित्यर्थः। 'अथ तनुत्रं वर्म देशनम्' इत्यमरः । पृ० ६५ ॥ आयसम्=अयोनिर्मितं शिरस्त्राणम् शिरोरक्षकं जालविशेषम् झज्झया = झञ्झावातेन । 'झञ्झावातः सवृष्टिक' इति (वैजयन्ती) । सूक्ष्मवसन- परिधानः ' इति शिवापेक्षया तस्यापजलस्य महज्जाड्यं व्यज्यते । वज्रकेति वज्रकेण हीरकेण जटिता या उष्णीपिका तस्यां मुक्तागुच्छैः मौक्तिकगुलुन्छैः चोचुम्व्य- ( ४० ) मानं अतिशयेन स्पृश्यमानं भालं ललाटं यस्य सः । निश्वासप्रश्वासाभ्यां परिमथितः सम्मर्दितो यो मद्यगन्धः तेन परिपूरितं व्याप्तीकृतं पार्श्वदेशान्तरालं येन सः । शोणाभ्यां रक्ताभ्यां श्मश्रृकूर्चाभ्यां विजितः तिरस्कृतः नूतनः प्रवालः सद्योनिर्गतं पत्रं येन सः । वल्गाम्=अश्वरश्मिम् । अवारुधत्-अस्तम्भयत् । पृ० ६६ ॥ जत्रुणी = स्कन्धसन्धी । महाध्वजः = महती पताका। अग्निसात् = वह्निसात् । समपप्तन् = सम्पातमकार्षुः रोदसी = द्यावापृथिव्यौ शतशः सादिनः = अनेकशतसंख्याः अश्वारोहिणः । 'ज्वालामाला अवलोक्य महाहाकारं तदभिमुखं प्रयाता' इति सम्बन्धः। कीदृश्यो ज्वालामाला इति विशिनष्टि- 'गगनं चोचुम्व्यमानाः' इत्यादि विशेषणैः । कडकडाध्वानना धार्षिताः = उद्घोजिताः प्रान्तप्रजाः समीपवत्तिन्यः प्रजा याभः ताः । उड्डीयमानेति-उड्डीयमानानि दन्दह्यमानानि च यानि परःसहस्राणि पटखण्डानि तैविहितो विहङ्गमानां पक्षिणां विभ्रमः खेदो याभिः । ज्योतिरिङ्गणायितेति-ज्योतिरिङ्गणः खद्योतः तद्वदाचरिता ये पर:कोट्याः : = कोटिसङ्ख्यातोऽपि अतीताः स्फुलिङ्गाः- अग्निकणाः तेषां रिङ्गतः = उडुयनैः पिङ्गीकृताः पिअरीकृताः प्रान्ताः परि- मरभूमयो याभिः । दोधूयमाना अतिमात्रमेजमाना या धूमघटाः धूमलेखाः तासां पटलेन समुदायेन परिपात्यमान समन्ततो विकीर्यमाणं यद् भसितंभस्म तेन सितीकृता: श्वतीकृता अनोकहा वृक्षा याभिः । पृ०६७॥ अपरे चेति-महाराष्ट्राणां असयः एव भुजाङ्गिन्यः सर्पिण्यः ताभिः दंदश्यमानाः नितरां पीडयमानाः । पलायन्त = अधाविषत । जपासुमन:- समाच्छन्नमिव = जवापुष्पप्रावृतमिव । रणाङ्गणम् समरभूमिरित्यर्थः । अन्यत् मदीय व्याख्याशैल्या लापनीयम् । .. इति (नूतन ) शिवराजविजयपताकायां द्वितीयो निश्वासः ।
ॐ * अथ तृतीयो निश्वासः। यः संयुनक्ति भूतानि वियुनक्ति विहन्ति च । नमस्मस्मै महाभूत-स्वामिनेऽचिन्त्यशक्तये ॥ १ ॥ स्मारं स्मारं महावीरं ध्यायं ध्यायं शिवं तथा निश्वासस्य तृतीयस्य व्याख्या सन्तन्यतेऽधुना ॥ २ ॥ उदयपुरभूमिप्रदेशान्यतमप्रदेशस्वामिनः खङ्गसिंहस्य पुत्रयोगौरबटुश्यामव- टुनाम्नाऽत्र प्रसिद्धयोः भूयसा कालेन स्ववियुकसौवणींनामकभगिनीपुरोहिताभ्यां सह काकतालीयन्यायेन जातस्य समागमस्योपक्षेपकं स्फुटं श्लोकप्रतीकमादत्ते उपन्यास- विन्यासनयनिपुणो महाकवियास:-'जीवन् नर' इति । विचित्रप्रपत्रचरित्रापेक्षया नान्यत् किमपीन्द्रजालमिति साश्चर्य घटना- वैलक्षण्यं द्योतयितुं भर्तृहरिप्रतीकमप्युद्धरति-'संसारेऽपी 'ति । पृ०६६ ॥ 'कथं कथमपि' इति-सौवीं शोकस्य किञ्चिन्मार्जन सूच्यते । दाडिमाद्यास्वादनतत्पराम् = 'दाडिमः करको दन्तबीजो लोहित- पुष्पक" इति (निघण्टुः) । दाडिमः = दाडिम्बोपि स एव तथा च-“दाडिम्ब सारपिण्डीरस्वादम्लशुकवल्लभाः" इति (रभसः)। कुसुमगुच्छैः = कुसुमानां पुष्पाणां गुच्छर्गुलुन्छः । मनोविनोदयन्तीम् चित्तमुल्लालयन्तीम् । अस्य 'कथं कथमपि' इत्यनेन सम्बन्धः। समन्वेष्टुम् = गवेषयितुम् । अन्तरिति । अन्तरभ्य- न्तरे गोपिता आच्छादिता क्षुरप्रा दुरधारा छुरिका कृपाणी यस्याः तां यष्टिम् । 'गुच्छगुच्छै' रित्यादौ 'नित्यवीप्सयोः' (८ । १ । ४) इत्यनेन भाभीक्ष्ण्ये दिवचनम् । अत्यन्तं गुच्छाकारैः लोललोलैः कञ्चितकुञ्चितैः= अनयोः-अत्यन्तलोलैः अत्यन्तं कुञ्चितैरिति यथाक्रममर्थः । शूली = भैरवावतारो महादेवः । शूलाकरोति = शूलेन पचतीत्यर्थः । शूलात्पाके' ( ५।४ । ६५ ) अनेन शुलशब्दात्पाकविषये कृनोयोगे डाच् । खड्गिनी = काली । खड्गेन = असिना । चक्री = विष्णुः । चक्रेण ( ४२ ) .. " सुदर्शनाख्येन । चूर्णयति = क्षोदयति । पाशी = वरुणः । पाशैः = स्वैःपा- शकसज्ञकैरस्त्रैः । पाशयति = बन्धयति । हली = हलधरो बलदेवः । अव- हेलयति = कर्षयति । जम्भारातिः इन्द्रः । दम्भोलिघातैः वज्राहतिभिः दम्भिनः = कपटिनः अम्भोधिः समुद्रः तस्य जलस्तम्भानां मेघमण्डलान्त- जलविकाराणामारम्भेषु उद्गमेषु । न पातयति-नैव परिणामयति । अहह= महान् खेद इत्यर्थः । अत्र-असकृत् मभयोरावृत्तिदर्शनात् अनुप्रासालङ्कारः । पृ० ७० ॥ धर्मादपि निर्भीकान् = त्यक्तधर्मभयानित्यर्थः । 'अध्य- यनात्पराजयते' इत्यादिवत् पञ्चमी। अभीकान् = कामुकान् ‘अनुकाभि- काभीकः कमिता' ( ५ । २ । ७४ ) इति सूत्रेण अन्वभिभ्यां कन् अमेः पातिको दीर्घश्च । अभिकामयते इत्यभीकः । " अभीकः कामुके क्रूरे निर्भये त्रिषु ना कवौ इति ( कोषः) । चिन्तासन्तानवितानकतानः शोक- प्रवाहस्थगितचित्तवृत्तित्यर्थः । न्यविशत = प्रविष्टः। “नेर्विशः" (१।३।१७) इत्यात्मनेपदम् । सतु इति । वाष्पेन नेत्रवारिणा क्षालितं उपनयनमुपनेत्रं यस्य सः तादृशः । शोकेन अधिका कम्पिता वेपमाना गात्रयष्टिः शरीरं यस्य स तथाविधः । " सोपि रुरोद " इति सम्बधः । " वृद्धोऽपि च- सकरुण रुरोद" इति सम्बन्धः । “मुक्तकण्ठ"मिति क्रियाविशेषणम् मुक्तोऽप्रतिहतः उत्पाटित इति यावत् कण्ठो यस्यां क्रियायां तत् यथा स्यात् तथा म्लेच्छहतकैः= दुष्टैर्यवनैः । धर्मराजनगराध्वनि = यममार्गे । अध्वन्यः पान्थ: मारित इत्यर्थः । यमलौ= सहोदरौ । आखेटव्यसनिनौ-मृगयारसिकौ । “ मृगव्य मृगयापि च । आखेटश्च वराधिश्च " इति ( वैजयन्ती ) ॥ पृ० ७१ ॥ वाष्पति–वाष्पानामस्राणां व्रजस्य समूहस्य उद्गमेन यद् दुर्दिनमिव दुर्दिनम् , ( 'मेघच्छन्नेऽह्नि दुर्दिनम् ' इत्यमरः ) तेन ग्लपित म्लानं मुखमाननं यस्य सः । अवदधे-सावधानो बभूव। अवोपसृष्टात् 'दुधाञ्' धातोलिट्येकवचने प्रथमपुरुषस्य रूपम् । गौरवटुः ( एव ) अचकथत् ' इत्य- न्वयः । कथंभूतः-परिपक्वेति-परिपका परिणता या ताली. तद्वत् दलीभूता रक्तपल्लवीभूता कपोलपाली = गण्डस्थलं यस्य सः ‘शेषाद्विभाषा' (५। ४ । १५४ )-इति सूत्रेण समासान्तः कप् । उदश्चितरोममाली = उद्भिन्नरोमराजिः । त्वरिताभ्यां कोष्णाभ्यां ईषदुष्णाभ्यां श्वासप्रश्वासाभ्यां शालते शोभत इति तथाविधः । शारदेति-शरदि भवः शारदः । भवार्थेऽण् । शारदी ( ४३ ) " चासौ शर्वरी रात्रिः तस्या यः शव सार्वभौमः रात्रिचक्रवत्ती अर्थात् चन्द्रः, तस्य किरणानां मयूखानां यत् किरणं क्षेपणं प्रसरणमिति यावत् तेन उद्धृतोद्भुता अतिमात्रं निर्याता या कीलाली=नीरराजिः ( पयःकीलालममृतम् इत्यमरः ) पानीयप्रवाह इत्यर्थः तया व्यालीढो व्याप्तो यश्चन्द्रकान्तः तदाख्यो मणिविशेषः तद्वत् जालीभूते = आनायीभूते समन्ततो व्याप्ते लोचने नेत्रे यस्य स तथाविधः । उच्छलितरोदनविन्दुप्रवाह इत्यर्थः । अत्र लकारशकारयोरसकृदावृत्तेरनुप्रासः । शारदशर्वरीशर्वरीत्यादौ तु- प्रावृत्ति वर्णसंघातगोचरां यमकं विदुः" इति दण्डिलक्षणात् यमकालङ्कारः । अन्तरा लुप्तोपमापि । प्रासादो गुणः। गौडी रीतिः । अत्र प्राचां “अर्थस्य ओजः प्रौढि' रिति लक्षणात् प्रौढिरपि गुण: । रोदं कुर्वन्निति समस्ते (संक्षिप्तऽथें) व्यासकरणात् | गद्यमुत्कलिका । करुणो रसः । गद्यकाव्यत्वात् कचित्करुणा- दावपि दीर्घसमासकरणं न दोषाय । · शर्वरी ' इत्यत्र । षिद्गौरादिभ्यश्च ( ४ । १ । ४१ ) इति ङीष् । कातरेण = दीनेन । भज्यमानेन = त्रुट्यता कम्पमानेन वेपथुमता स्खलतेत्यर्थः । सर्वभूमेरीश्वर इति सार्वभौमः । ' तस्यश्वरः ' ( ५। १ । ४२ ) इति सूत्रेणाऽण् ।। पृ० ७२ सा = देवशर्मा पुरोहितः । तौ = श्यामगौरौ खड्गसिंहस्य तनयौ । स्वनयनवारिधाराभिः = स्वाश्रुप्रवाहैः । अभ्यसिचत् = 'प्राक्सिता- दड्व्यवायेऽपि' (८ । ३ । ६३ ) इति पत्वे सति — अभ्यपिचत् ' इति भाव्यम् । करुणोद्गारप्रवाहैः = करुणरसधाराभिरिवेत्युत्प्रेक्षा । पर्यपूर्यत = साविताऽभूत् । कर्मणि तङ् । 'अथ कुटीराध्यक्षः गौरश्यामौ समुवाच ' इति सम्बन्धः । कस्मिन् सति गोरे श्यामे च कोशलामले संस्थाप्य समुविष्टे सति । कथंभूते गोरे श्मामे च-रिङ्गदित्यादिना सप्तम्यन्तेन विशेषयति-रिङ्गन् = सञ्च- रन् यस्तुङ्गो महान् * तिमिगिलगिल: = सत्स्यविशेषः तस्य यः परिवर्तः पार्श्वविवर्त्तनम् तस्य प्रसङ्गोऽवसरः, तस्य सङ्गेन सम्बन्धेन अवसरप्राप्त्येति यावत् सभङ्गाः = समुच्छलिता ये तरङ्गाः वीचयः अर्थात् सुन्धा या लहर्यः तेषां ( तरङ्गाणाम् ) यद् रङ्गप्राङ्गणं सञ्चरणपर्यन्तचत्वरं तस्य सोदरीभूतं = समान अस्ति मत्स्यस्तिमि म शतयोजनविस्तरः। तिमिलिङ्ग गिलोऽप्यस्ति तद्लिोप्यस्ति राघवः ॥ इति ( हनुमन्नाटके) - ( ४४ ) हृदयं = स्वान्तम् अत्यन्तं क्षुब्धं हृदयम् वशीकृत्य = कथञ्चित् स्तम्भयित्वा । अत्रापि-प्रौढिरर्थगुणः, अनुप्रासश्चेति पूर्ववत् शेयम् । किञ्च–' अथ' इत्यारभ्य समुवाच ' इत्यन्ते गये. "अनिष्ठुराक्षरप्राय सुकुमारमिहेष्यते । बन्धशैथिल्यदोषस्तु दर्शितः सर्वकोमले ॥" इति दण्डिकृतलक्षणानुसारं सौकुमार्यमपि गुणः । सच प्रकृते करुणरसं परिपोषयति । सुवर्णवर्णाम् = गौरीम् । क्रियासमभिहारेण = भृशं पुनः पुनश्चेत्यर्थः । पृ० ७३ ॥ पटान्तेन = वस्त्रकोणन । अतन्द्रितौ = अनलसौ । सनातनधर्मस्य = वदिकहिन्दुधर्मस्य विप्लवो विध्वंसः तस्य-असहनौ अदान्तौ नतिकुशलौ-क्षत्रियत्वादव राज्यव्यवहारपण्डितौ । परोपकारव्यसनिनौ परहितकरणस्वभावौ। दुर्वलात्कारेति–दुवेलात्कारपरायणानां प्रसह्यकारिणां तुच्छानां हत- हृदयानां यवनानां म्लेच्छानां छेदे समुन्मूलने या इच्छा कामः तया उच्छलन्ती उद्गच्छन्ती या छटा अर्थात् हृदयस्यैवाऽप्रतिरुद्धप्रसरावस्था तया आच्छन्नी प्रावृत्तौ= एकमात्रयवनध्वंसकामनाचुम्वितमनसौ इत्यर्थः । अवालपराक्रमौ-महावलौ वर्वति-अतिशयेन जायते । इन्दीवरयोः कमलयोः उपरि भ्रमतः सञ्चरतः भ्रमरानिव-द्विरेफानिवेत्युपमा । मेचकान्=कृष्णवर्णान् कचान्वालान् पृ० ७४ । 'अस्ति कश्चन क्षत्रियवयः आर्यवर्यः अर्यवर्यैः व्याप्तो राजपुत्र प्रदेशः' इति सम्बन्धः । 'अर्यः स्वामी वैश्ययो' रित्यमरः । तान् विशिनष्टि तृतीयान्तः धैर्येत्यादिपदैः । धैर्यधारिधुरन्धरैः = महाधारताशालिभिः । धर्मोद्धारधौरेयैः = धर्मोद्धरणाग्रेसरैः। सोत्साहति-उत्साहेन हृदयसत्त्वेन सह यत् साहसम् वलकर्म तेन चञ्चन् चमत्कुर्वन् चन्द्रहासः खड्गो येषाम् तैः सुशक्तिशक्तिभिः = सुशोभना अकुण्ठिता या शक्तिः कृपाणी तस्याः तया वा शक्तिः सामर्थ्य येषां तैः कृपाणीसञ्चालन चतुरैरित्यर्थः । “सद्य" इति-सद्यः तत्कालं छिन्नाः कृत्ता ये परिपन्थिनां घाटीमारकाणां शत्रणां गलाः कण्ठाः तेभ्यः गलत् स्रवत् यत् शोणितं रुधिरं तस्य छुरितैः विन्दुकैः छन्नाः लिप्ताः छुरिका: प्रसिधेनुका येषां तैः । भयोद्भेदनभिन्दिपालैः = भयस्य उद्भेदनं = छेदन यस्मात् तादृशः भिन्दिपालाः भिण्डिपालाः क्षेपणाः येषां तैः । भिन्दिं भेदनं पालयतीति 'भिन्दिपालः ' हस्तक्षेप्यं नालिकास्त्रम् । पिस्तौल ' इति ख्यातम् ।
( ४५ ) - -- , 'घुमाणी' इति प्रसिद्धिरित्यन्ये । स्वप्रतिकूलेति-स्वप्रतिकूलानां शत्रूणां यानि कुलानि तेषामुन्मूलने = उद्ध्वंसने अनुकूल उचिता यो व्यापारो वेधनरूपः तत्र व्यासक्तानि शूलानि कुन्तास्त्राणि येषां तैः । ' हरितकुन्तशकुन्तकुलान्तधृत् इत्यस्मद्गुरवा 'गुरुगोविन्दकाव्ये' । घनेति-धनानां प्रचुराणां विघ्नानां शत्र- कृतानामुपद्रवाणां विघट्टकः संघर्षकः प्रतीकारकारीत्यर्थः यो घंधर इत्यनुकृतिघोंपः शब्दः तेन घोरा भयावहा: शतघ्न्यः तोफा: तोभा इति यावत् येषां तैः । प्रत्यर्थीति–प्रत्यर्थिनां वैरिणां ये शुण्डिनो गजाः तेषां शुण्डानां कराणां श्राखण्डनन उत्कर्त्तनेन उद्दण्डाः उद्भटाः लक्ष्यादप्रच्युता भुशुण्ड्यो येषां तैः । प्रचण्डेति-प्रचण्डः उद्धतो यो दोर्दण्डः = दण्डाकारो दीर्घा वाहुः तस्य यद् वैदग्ध्यं चातुर्यम् अर्थात् अवसरे बलकर्म तदेव भाण्ड भूपा येषाम् एवंभूताः । प्रकाण्डाः प्रशस्तफाला: काण्डाः ताणा येषां तैः । वणिमूलधने पात्रे भाण्डे भूपाश्वभूपयोः ' इति (वैजयन्ती) यत्र = राजपुत्रदेशे । सानुमन्तः, जनाः, गृहाः, मार्गाश्च सन्ति इति शेषः तानुत्प्रेक्ष्य पृथक् २ विशिनष्टि--''कोषपूरिता' इत्यादिना । कोषपूरिताः नीवीधनोपेताः । काञ्चनमयाः = सुवर्णमया इव सानुमन्तः = पर्वताः । जनाः = लोकाः कीदृशः गन्धर्वा इव । गन्धवोंदेवयोनिविशेषः तेच ते कीदृशः- महाहेति-महार्हाणां बहुमूल्यानां मणीनां गणेन = समूहेन जटितानि संहितानि यानि भूपणानि तैर्भूषिता मण्डिताः । विचित्रेति-गवाक्षजालम् = वातायनम् अट्टालिका = इष्टकादिनिर्मितं राजगृहम् । अङ्गणम् = चत्वरम् । कपोत- पालिका = विटङ्कम् सौधादिप्रान्ते काठरचितं पक्षिवासस्थानम् । चत्वरम् = चतुष्पथः गोष्ठम् = गावीस्तष्ठन्त्यत्र । 'घत्रय कविधानम्' इति । गवां स्थानम् । भित्तिकाः = कुड्यानि । विचित्राः = अलौकिका गवाक्षाचा यत्र एवंभूता विश्वकर्म- रचिता इव गृहाः । सादीति = सादिनोऽश्वारोहाः तेषां करेषु स्थिता या कशा प्रश्वचालनी तस्याः चालनसङ्केतेन सनलितानां धावमानानां सप्तीनाम् = अश्वानां समूहस्य ये शफाः खुराः तेषां सम्मद्देन = संघटनेन समुद्धृता उच्छलिता या धूलिः रजःसंघः तया धूसरिता मृत्स्नावर्णा इव मार्गाः । क्षत्रियकुलतिलकाः राजन्यवंशरत्नभूताः । यवनराजवशंवदता म्लेच्छराज्याधीनता एव कर्दमः पङ्कः तेन सम्मईनैः लेपनैः कदापि आत्मानं न कलङ्कयामासुः = नैव संविभिदुः न मिश्रयाम्बभूवुरिति यावत् । पृ० ७५ ॥ कमला इव विमलाः । अत्र-उपमा । कमला = लक्ष्मीः ।
( ४६ ) - कमला श्रीहरिप्रिया' इत्यमरः । विमलाः == निर्मलाः । शारदा इव सरस्वतीव विशारदाः = विगगशारदाः मूर्खा इति विरोधः । परिहारस्तु-विशिष्टा शारदा सरस्वती विद्या यासामिति । विरोधानुप्राणितोपमालङ्कारः । अथवा द्वयोः सङ्करः । अनसूया अगस्त्यपत्नीव अनसूया असूयाभिन्ना । या अनसूयाः ताः कथमनसूयाभिन्ना स्वस्मिन् स्वभेदाभावादिति विरोधः । न असूया ईर्ष्या यासामिति तत्परिहारः । पूर्व एवालङ्कारः । ' यशोदा इव' इत्यारम्य · सवर्णा इव च सुवर्णा' इत्यन्तं शुद्धोपमैव । सती = पार्वती । सत्या सत्यभामा । रुक्मिणी = कृष्णपत्नी । रुक्मिण्यः = सुवर्णभूषणवत्य इत्यर्थः । सवर्णाः = समानवाः वर्णाः क्षत्रियाद्याः सुवर्णाः = शोभनवर्णवत्यः सुन्दर्य इत्यर्थः । सम्भाव्यमानेति-सम्भाव्यमानः कलिप्रतापहेतोर्भवन्नेव यो वलात्कारः हठाकरणं तस्य धिक्कारे = तिरस्कारे ऊर्जस्वलं बलवत् तेजो यासां तास्तथाभूताः योगाग्निनेवेति । योगात् = योगसामर्थ्यात् उत्पन्नोऽग्निर्योगाग्निः तेनेवेति उत्प्रेक्षा । एवम्--'पतिविरहाग्निना इव । स्वक्रोधाग्निना इव' अत्रापि सैव । योगाग्निधारणया सत्या देहत्यागश्च * श्रीमद्भागवतस्य चतुर्थस्कन्धे व्यासेन वर्णितः । तथाहि-' योगाग्निनेव सन्दीपितासु चितासु' इत्यन्वयः । अत्र-प्रसिद्धाग्निनव चितासन्दीपनरूपार्थस्य-अचेतनवस्तुनः स्थितस्य योगा- ग्नित्वेनाऽप्रस्तुतेन रूपेण यदुत्प्रेक्षणं सम्भावनं तदुत्प्रेक्षालङ्कार इति लक्षणसङ्गमनं बोध्यम् । एवमेव 'स्वक्रोधाग्निनेव' इत्यादावपि शेयम् । उत्प्रेक्षालक्षणम् 'अन्यथैव स्थितावृत्ति' रित्यादि दण्डिनोक्तं प्रागुक्तं न विस्मरणीयम् । ज्वालाजालाञ्चितासु = वन्हिकीलमालाव्याप्तासु पतङ्गताम् = शलभताम् । अङ्गीकृत्य स्वीकृत्य। गङ्गाधरः महादेवः । तस्य अङ्गभूपणताम् भूतिभावं भस्मत्वम् । अगमन्=प्रापुः शिवं धाम जग्मुरित्यर्थः । अत्र सौकुमार्य नाम गुणः । मरणात्मकाऽमङ्गलशब्दपरिहारेण 'वन्हौ प्रविश्य मृता' इत्यर्थस्य पर्यायेण कोमलरीत्या वर्णनात् । आह च जयदेवः-'सौकुमार्यमपारुष्यं पर्यायपरिवर्तनात्' इति । एवं स्वदेहं महतां महीयसा मुहुः समारोपिमङ्कमादरात् । जिहासती दक्षरुषा मनस्विनी दधार गात्रेष्वनिलाग्निधारणम् ॥ इति ( ४७ ) करुणाया %3D तदाकण्यति ' इत्यादिसन्दर्भ गुणदीपकमलङ्कारः । तदुक्तम्- जातिक्रियागुणद्रव्यवाचिनैकत्र वर्तिना। सर्ववाक्योपकारश्चेत् तमाहुर्दीपकं बुधाः ॥ इति करुणादिपदं यथायथं गुणक्रियावाचि शेयम् । 'करुणया क्षालितहृदयेपु इत्येवं प्रत्येकं तृतीयान्तेनाभिसम्बन्धः । करुणादिना व्याप्तहृदयेष्वित्यर्थः । अत्र क्षालितपदं लाक्षणिकम् । व्यापन सम्बन्धः । करुणातिशयवोधनञ्च प्रयोजनम् । विरहयाम्बभूव = परित्यक्तवतो ममारेत्यर्थः । विशालभल्लेन हता भल्लाख्यन शस्त्रेण 'भल्लः स्यात्पुंसि भल्लूके शस्त्रभेदे तु न द्वयो: ' इति ( मेदिनी ) । वीरगतिम् = स्वर्गतिम् । तथाच शास्त्रम्-' हतो वा प्राप्स्यसि स्वर्ग मृतो वा भोक्ष्यसे महीम् ' इति । तुरगौ तुरङ्गमौ अश्वाविति यावत् । मार्गभ्रष्टो = पथात् परिच्युतौ । पृ० ७६ ॥ काम्बोजीयदस्युवारेण = काम्बोजदेशीयतस्करसमूहेन । 'तैरेव वनानमनायिष्वहि' इति सम्बन्धः। 'नी' धातोः कर्मणि प्रत्ययः । समयम् = कालम् । अयापयाव = अगमयाव । पान्थसार्थम्= पथिकसंघम् । लुलुण्ठयिषया = लुण्ठयितुमिच्छया । 'लुलुण्ठयिष' इत्यस्य धातुसशाया 'अप्रत्ययात् ' (३।३।१०२) इति सूत्रेण स्त्रियामकारप्रत्ययः । अलब्ध-लब्धः कर्मणि तङ् । परिकरे = गात्रिकाबन्थे । असिधेनु- काम् = छुरिकाम् । निस्त्रिशम् = खड्गम् । चर्म = फलम् । ढाल इति प्रसिद्धम् । फलकोऽत्री फलं चर्म' इत्यमरः । श्रात्मोत्तलनयोग्याम् = स्वशक्तयाँमित्यर्थः सज्जाम् = धृतगालेकाम् । उपकरिकायाः = उपका- र्यायाः पटभवनादित्यर्थः। पृ० ७७। परतति-परेतपतिर्यमः तेन पालिता पुरी यमलोकः तस्याः पान्थम् पथिकं विधास्यावः = करिष्यावः । त्वां हनिष्याव इत्यर्थः । 'अश्वानाम् ' इति निर्धारणे षष्ठी। चण्डवेगौ = वरचालौ महारंहसौ । श्राजानेयौ = प्रशस्तजातिको । उक्तञ्चाश्वशास्त्रे- शक्तिभिर्भिन्नहृदयाः स्खलन्तश्च पदे पदे। आजानन्ति यतः संस्था माजानेयास्ततः स्मृताः ॥ इति वल्गाम् = अवक्षेपणीम् 'लगाम' इति प्रसिद्धिः । 'वल्गाऽवक्षेपणी ( ४८ ) ' ' ततश्च . कुशा' इति (वैजयन्ती ) * प्रान्तरात् = दूरशून्यात् अध्वनः । उल्लङ्घ मानौ = उत्क्रम्य यान्तौ । गन्यूतिपञ्चकम् = दशक्रोशपर्यन्तमित्यर्थः । गव्यूतिः स्त्रीक्रोशयुगम् ' इत्यमरः । 'अध्वपरिमाणे च ' (वा. ६।११७६) इति सिद्धम् । ग्रामटिकाम् = अल्पं ग्रामम् । पृ० ७८ ॥ अवास्थिष्वहि' इत्यत्र 'समवप्रविभ्यःस्थः' (१। ३ । २२ ) इति सूत्रेण स्थाधातोरात्मनेपदम् लुङि उत्तमस्य द्विवचनम् । इत्यादिगद्येन चन्द्रोदयवर्णनां प्रसञ्जयन् अग्रेतनं वृत्तान्तं ग्रथ्नाति । 'समुदिते चैत्रचन्द्रखण्डे' इत्यन्वयः । दुग्धधाराभिरिवेत्युत्प्रेक्षा। संक्षा- ल्य = संशोध्य । भसितच्छुरिताम् = भस्मना चर्चितामिव कृत्वा । कुन्द- कुसुसैः = माध्यपुष्पैः । गगनसागरमीने = गगनम् आकाश एव सागरः समुद्रः तस्य मीने मत्स्ये इव । रूपकानुविद्धयमुत्प्रेक्षा । मनोजः कामः तस्य मनोज्ञे हृदयङ्गमे हसे इव । विरहिणां = वियोगिनां निकृन्तनाय = तक्षणाय रौप्यस्य = रजतस्य कुन्तप्रान्ते कुन्तफाले इव । पुण्डरीकाक्षो विष्णुः तस्य पत्न्या लक्ष्म्याः करपुण्डरीकपत्रे = करस्थितकमलपत्रे इत्र । शारदं शरदि भवं यदभ्रं मेघः तत्सार इव स्थिते अतिश्चैत्यात् शारदमेघौपम्यं । सप्तसप्तीति- सप्तसंख्याः सप्तयोऽश्वाः यस्य स सप्तसप्तिः = सूर्यः तस्य सप्तिरश्वः तस्य पादात् अङ्ग्रेः च्युते गलिते राजतखुरत्रे रौप्यखुरत्रे इव । —मनोहरता महिलाललाटे इव' इत्यसङ्गतः पाठो भाति । मनोहरतया' इति युज्यते । सौन्दर्येण महिलाललाटे = कामिनीमस्तके इव । सुन्दा महिलाया मस्तकं चन्द्रार्धफलकसदृशं भवति । अत्र तूपमेयस्योपमानभावो गृहीतः । अथवा-मनोहरतैव महिलेति रूपकम् । तस्या ललाट इव स्थिते इति व्याख्येयम् । प्रजाजनानां यानि नयनानि नेत्राणि तेषां कर्पूर खण्डे = हिमवालुकाखण्डे इव । तमी=रात्रिः, तस्यां यत्तिमिरम- न्धकारः तस्य कर्तनाय छेदनाय शाणन कपेण उल्लीढः क्षोदितः तेजित इति यावत् यो निस्त्रिंशः तद्रूपे इव । 'शाणस्तु निकपः कषः' इत्यमरः । एवंभूते चैत्रचन्द्रखण्डे समुदिते सति । ' तत उत्तरस्यां दिशि शैलगण्डः आसीत् ' इति सम्बन्धः । पृ० ७६ ॥ झरेति । झरः वारिप्रवाहः तस्य झर्भरध्वनिना पूरितानि दिगन्तरालानि यस्य सः तथाविधः । महीरुहाणां वृक्षाणां समूहेन धनतया समा- प्रान्तरं दूरशून्योऽध्वा छायापानीयवर्जितः इति ' 'उज्जड़ उजाड़ इति पावी भाषा ।
( ४६ ) वृतः । तथा-उच्चावचानां नानाविधानां सानूनां शृङ्गाणां प्रचयः संधैः सूचिताः प्रकीकृता विविधा नाना कन्दरा दयों यस्य सः । चन्द्रेति। चन्द्रा तपद्यतेरित्यर्थः । स्फुटम् = प्रकटम् । अवालोक्यन्त-समैक्ष्यन्त । यस्य उप त्यकाः अनेरासन्ना भूमयः । ततः अनाहतध्वनिना = अव्यक्तशब्देन वसुधा = धरित्री अपूर्यत अपूर्यत = इत्यन्वयः अनाद्यतत्यर्थः एवं वनरात्रिध्वनिः शाँ शाँ इत्याकारः शब्दः । कीचकध्वनिः- वेणुध्वनिः । कीचका वेणवस्ते स्युयें स्वनन्त्यनिलोद्धताः' इत्यमरः । अव- दधता = अवधानं कुर्वाणेन । साक्षादकारि = प्रत्यक्षतां नीतः । समा- कर्णि = समश्रावि । समन्वभावि-सम्यगनुभूतम् । समीरणेन = पवनेन समीरितानां सञ्चालितानां किसलयानां पारिलवताया = प्रस्फुरमाणताया प्रभूतः प्रचुरः स्वनः = शब्दः । रात्रिकालवर्णनमेतत् । तत्रापीति–' कोकिलकुलकूजितं प्रत्यक्षांकृतम् ' इत्यन्वयः । कीदृशं तत्-इत्याह-कलति--कला मधुरा या काकली= सूक्ष्मो मधुरोऽस्फुटो ध्वनिः तस्य कलनेन नदनेन पूजितम् = सत्कृतम् । 'सुधाधारामपि अधरी कुर्वत् हीनीकुर्वदित्यादीन्यस्यैव विशेषणानि । ' काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे । कले' इत्यमरः । पृ० ८०॥ तारकितम् = नक्षत्रसमूहभूषितम् । तदस्य सञ्जातं तारकादिभ्य इतच् '.( ५।२।३६) इति इतच्प्रत्ययः । स्मारं स्मारं = स्मृत्वा २ । महाचिन्तापारावारे = चिन्ताया महति समुद्रे इत्यभिप्रेतार्थः । न्यमाङक्षम् = बुडितोऽभूवम् । साम्मुखीनशिखरिशिखरे- पुरोवत्तिपर्वतपुरोभागे । पृ०८१ वज्रण = हारकेण । अत्रोत्प्रेक्षा। ' प्रातरन्धकार इव इत्यादौ सर्वत्रोपमा । प्रकाशि= प्रकाशवति लब्धंसशे । हृदये = मनसि पृ० ८३॥ विस्फाटितनयने इत्यादि गये स्वभावोक्तिः। अथ इति सचिन्तं निवेदितवति ' इति सम्बन्धः । इतीति किमित्यपेक्षायां माध्यमिकं गद्य भगवन् इत्यादि । धुन्यः = नद्यः । भयानकेति-भयानकानां = भीतिप्रदानां भल्लूकानाम् ऋक्षाणाम् अम्बूकृतैः सघूत्कारघोणानादैः संकुलानाम् = व्याप्तानाम् । सर्वेषां पष्ठ्यन्तानां बहुवचनानां । पदे पदे साक्षात्कारसंभवः' इत्यन्वयः । पृ० ८४ ॥ मुस्तेति-मुस्ता = कुरुविन्दः तरय मूलोत्खनन मूलोत्पा- ( ५० ) इत्यमरः टने घुर्युरायिता घोणा नासिका येषां तेषां घोणिनाम् = शुकराणाम् । 'कुरुविन्दो- मेघनामा मुस्ता मुस्तकमस्त्रियाम् ' इति — वराहः सूकरः-दंष्टी घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ' इत्युभयत्रापि ( अमरः ) । पङ्केति-पङ्कस्य कर्दमस्य परीवर्तन-उल्लालनेन । उन्मथिताः-विलोडिता: कासाराः सरांसि यः तेषां कासाराणाम् = अरण्यमहिषाणाम् । ' लुलायो महिषो वाहद्विषत्कासार- सैरिभाः' इत्यमरः । नरमांसम् = मनुष्यमांसम् । बुभुक्षूणाम् = खादयि- तुमिच्छूनाम् । विकटेति-विकटानां = स्थूलस्थूलानां प्रचुरमांसपेशिवतां कर- टिकटानां गजगण्डानां विपाटने = विदारणे यत् पाटवं = लाघवं झटित्येव विदार- णमित्यर्थः तेन पूरितानि भरितानि संहनानि = अवयवसंस्थानविशेषा येषाम् अनल्पवलिनामित्याशयः एवंभूतानां सिंहानाम् = मृगेन्द्राणाम् । 'सिंह। मृगेन्द्रः पञ्चास्य' इत्यमरः । नासाग्रेति–नासाग्र घोणाग्रे ( विद्यमानं ) यत् विषाणं शृङ्गं तस्य शाणनच्छलेन-तेजनव्याजेन विहितः सम्पादितः गण्डशैलानां खण्डः यैः तेषां खङ्गिनाम् = गण्डकानाम् । ‘गण्डके खड्गखड्गिनौ ' दोदुल्येति-दोदुल्यमानाः अतिशयेन पुनः पुनर्वा उत्क्षेप्यमाणाः ये द्विरेफा भ्रमराः तेषां दलेन सङ्घन पेपीयमानाः = पुनः पुनरास्वाद्यमाना या दानधारा = मदसम्पातः तया धुरन्धराणाम् = 'अग्रेसराणाम् प्रमत्तानामितित्वाशयः । एव- म्भूतानां सिन्धुराणाम् = हस्तिनाम् । इभा मतङ्ग जो हस्ती-सामजः सिन्धुरः कपिः' इति (वैजयन्ती) । कृपाकपणेति-कृपायां = दयायां कृपण = रान्यं यत् कृपाणं खड्गः ( कृपाकृपणत्यनेन खड्गस्य तीक्ष्णता व्यज्यते ) तेन दिन्नानि कृत्तानि यानि दीनानां कातराणाम् अध्वनीनानां पान्थानां गलानि तेषां तलात् = स्थानात् ( शिरोधराया मध्यभागादित्यर्थः) गलन्ती स्खलन्ती पीन- पावरा = अति स्थूला धारा यस्य तादृशं यत् शोणितं रुधिरं तस्य बिन्दुवृन्दै: कणगणैः रञ्जितानि रागवन्ति जातानि यानि वारवाणसारसनोष्णीषाणि = कन्चुक–अधिकाङ्ग-शिरस्त्राणानि तेषां * धारणेन आकलितः सम्प्राप्तः योऽखर्वः अनल्पः गर्वोऽहङ्कारः तेन वर्वराणां मूर्खाणाम् अथवा तादृशो गवी येषां ते च ते बर्बराः बर्बरदेशवासिनः तेषां लुएटकनिकराणाम् = दस्युसंघा- नाम् सर्वथा = सर्वप्रकारेण साक्षात्कारसम्भवः = समागम इत्यर्थः । अवा= कञ्चुको वारवाणोऽस्त्री-यत्तु मध्ये सकञ्चुकाः वघ्नन्ति तत्सारसनम धिकाङ्गः' इति अमरः । ' सारसनमधोवस्त्रे तनुत्रिणां मेखलायाञ्च' इति (मेदिनी)।
५१ .. मार्गः । दुर्ग्रहाणाम् = दुष्टानां शन्यादिग्रहाणाम् । जनपदशन्यम् = उज्जट- मित्यर्थः । प्रान्तरम् = दूर शन्योऽध्वा । पृ०८५॥ दुःखाकुरुतम् अात्मानं दुःखिनं मा विधत्तम् । सुखप्रिया दानुलोम्ये' ( ५ । ४ । ६३) इति डाच् । निर्देयामि = वक्ष्यामि । पीयताम् = आस्वाद्यताम् । एलेति-एला = चन्द्रवाला गोस्तनी% द्राक्षा । केसरम् = काश्मरिजम् । शर्करा = सिता । एतामा सम्पर्क: मिश्रणं यत्र तच्च तत् । सुधाविस्पर्द्धि = अमृततुल्यमित्यर्थः एवम्भूनं महिषीदुग्धम् । दासाः= भृत्याः । समाश्वासयत् = धैर्यमपादयत् । अशयिष्वहि = अस्वाप्स्व । वितर्कविचारादिसम्पर्कशून्यया = विविधस्तर्को वितर्कः ऊहा- विशेपः विचारः = वस्तुविवेकः इदंकर्तव्यमिदमकर्त्तव्यमितिनिश्चयः आदिना. वृत्त्यन्तराणां कामादीनां ग्रहणम् तेषां सम्पर्केण सम्बन्धेन शून्यया = रहितया गाढ- तरयेत्यर्थः । निद्रया' इत्यस्य विशेषणम् । तामुत्प्रक्षते-असम्प्रज्ञातेति । असम्प्रज्ञाताख्यो यः समाधिः तत्सोदरया तत्तुल्यया । असम्प्रशातोऽपि समाधिः वितर्कादिशून्यो भवति । उक्तञ्च 'योगशास्त्रे' -* वितर्कविचारानन्दास्मि- * अयमनयोः सूत्रयोः संक्षिप्तोऽर्थः-सम्प्रज्ञायते सम्यक् ज्ञायते येन भाव्यं वस्तु स भावनाविशेषः सम्प्रज्ञातो नाम समाधिः । स च वितर्कादिरूपैश्चतुर्धा भवति । सवितर्कः । सविचारः। सानन्दः । सास्मित इति भेदात् । तत्र-भावनया भाव्यभूतेन्द्रियगोचरसाक्षात्कारः सवितर्कः पञ्चतन्मात्रान्तःकरणगोचर- साक्षात्कारः सविचारः । रजस्तमोलशानुविद्धसत्त्वप्रधानवुद्धिगोचरसाक्षात्कारः सानन्दः । शुद्धसत्त्वप्रधानमहत्तत्वगोचरसाक्षात्कारः सास्मितः । वितर्कविचारद्वयी समापत्तिाह्यविषया । सानन्दो ग्रहणविषया । सास्मितः ग्रहीत- विषया । एवं ग्राह्यग्रहणगृहीत्पु भावनोत्कर्षः सम्प्रज्ञातो योग उच्यते । अयञ्च- समाधिरपरवैराग्यसाध्यः । परवैराग्यसाध्यस्तु असम्प्रज्ञातः तस्येदं लक्षणं विरामति विरामः = वृत्तीनामुपरमः तस्य प्रत्ययो हेतुभूतो यः प्रयत्नः तस्याशेषवृत्युपरमा- यीयप्रत्ययस्य अभ्यासः पौन:पुन्येन सम्पादनम् तत्पूर्वः संस्कारशेषः प्रशान्तसकल वृत्तिकस्य चित्तस्य दुर्लक्ष्यत्वात् संस्काररूपेणावस्थानं सोऽसम्प्रज्ञातः । तदुक्तम्- मनसो वृत्तिशून्यस्य ब्रह्माकारतया स्थितिः। असम्प्रज्ञातनामासौ समाधिरभिधीयते ॥ इति ॥ तत्र =तज्जन्यः सम्प्रज्ञातादन्यः ( ५२ ) ज्ञायमानाः तानुगमात् सम्प्रज्ञातः ' (यो० १ । १७) ' विरामप्रत्ययाभ्यास- पूर्वः संस्कारशेषोऽन्यः' इति च । ( यो० समा० १ । सू० १७ । १८ ) एवं सम्प्रज्ञातो वितर्कादिविशिष्टः । असम्प्रज्ञातो वितर्कादिविकलः । अयमेव निवजः समाधिरिति चोच्यते पृ० ८६, ८७, ८८, ८६ ॥ शर्वरीतमांसि =रात्र्यन्धकाराः । अम्बरं = गगनतलम् । विरावबहुलानि = कृतवहुचुकृतानि । वयांसि= पक्षिणः । नीडाधानकुटान् = कुलायवृक्षान् । 'अनोकहः कुटः शाल इत्यमरः । व्यावर्त्तमानाः - भेदेन । जातीः = पिप्पलत्व- चूतत्व-जम्बूत्वादि-रूपान् स्वाऽसाधारणधर्मान् । उत्तरोत्तरतः = अधिकाद- प्यधिकम् । तारतारतरैः = अत्युच्चैः रुतैः = रवैः । रत्तार्तिम् = कामपीडाम् ईरयन्ती= प्रकटयन्ती अपि तरुणतित्तिरी= नवयौवना तित्तरी । वाचस्प- तिस्तु-कपोतलावतित्तिराः' इत्याह । अयं पक्षी एतन्नाम्नैव प्रसिद्धः मांस- लोलुपा अस्य वह्वाखेटं कुर्वन्ति । वृष्यञ्चास्य भोजनम् । अत्र स्वभावोक्ति- रलङ्कारः । अनुप्रासश्च । आलोकेति-आलोकस्य उपाया आलोकेन कृतः सातः किञ्चिच्छोकस्य मोकः परित्यागो यस्य स तादृशोऽपि कोकः चक्रवाकः । वराकीम् = तपस्विनीम् विरहित्वात् । कोकीम् = स्वस्त्रियं चक्रवाकीम् । नोपसर्पतीति सम्बन्धः । ईदृमिव मनोहारिणी शोभामवलोकयन्तो मुहूर्तमयापयाव' इत्यन्वयः । मनोहारिणीम् = हृद्याम् । कथंभूती आवाम्-समरिस्य- स्पर्शसुखमनुभवन्तौ । कीदृशस्य समीरस्य इत्याह-कम्पितेति । कम्पितः दोतिल: कुन्दकलापः माध्यवृन्दो येन तस्य । ' माव्यं कुन्दम् 'इत्यमरः । पुनः-उन्मीलन्तीनां मालतीनां जातीनाम् यानि मुकुलानि कलिकाः तेषां मकरन्दो रसः तस्य चौरस्य अपहर्तुः मालतीसौरभभारतस्येत्यर्थः । 'सुमना: मालती जातिः' इत्यमरः । पुनः- पाटलिपटलं अमोघावृन्दः तस्य परागपुओन धूलिसमूहेन पिअरितस्य पीतवर्णस्य पुनः- शनैः शनैः मन्दं मन्दं फरफरायमाणा:= =(जातेः) स्वपक्षास्फोटनं कुर्वन्तो ये शुकपिकादयः कीरकोकिलादयः पक्षिणः तेषां पतत्रः पक्षः उन्मथ्यमानस्य उच्छो- लितस्य द्विगुणीकृतस्येथः । पुनः-पलाशिनां वृक्षाणां पलाशाग्रेषु पत्राग्रभागेषु विलुलतां विलुठतां तुपाराणां अवश्यायानां या कणिकाः बिन्दवः तासामपहरणेन शीतलस्य शिशिरस्येत्यर्थः । पौनःपुन्येन=क्रियासमभिहारेण । मुहूर्तम्- घटिकाद्वयम् । अयापयाव-अगमयाव । प्रातःकालवर्णनमिदम् । • अथ ( ५३ ) - तस्मिन्नेव समये-तदाकर्ण्य अमृतोदं नाम सर: समासादितवन्ती' इति सम्बन्धः । प्रातःकाले पूर्वस्या दिशोऽवस्थां वर्णयति गौडीरीतिमनुसरन् *प्रसन्नगयेन- पष्ठिसहस्रति पष्ठिसहस्रं ये बालखिल्याः तदाख्या ऋषयः तेषां यानि कापायवसनानि कपायेण, रक्तं कापायं तेन रक्तं रागात् ' ( इत्यण् ) काषायाणि च तानि- वसनानि वस्राणि धौताङ्गाच्छादीनि तैः विधूतायाम् विधूनितायामुत्कम्पितायामि- वेत्युत्प्रेक्षा ' प्रात्र्याम् ' इत्यस्य विशेपणमिदम् । एवमग्रेऽपि । मन्देहेति- मन्देहानां राक्षसविशेषाणां देहस्य शोणितेन = रुधिरेण शोणि- तायामिव रक्तविप्लुतायामिव इत्युत्प्रेक्षा । मन्देहा नाम राक्षसाः एषां वृत्तं विष्णुपुराण- सन्ध्याकाले तु सम्प्राप्ते रौद्रे परमदारुणे। मन्देहा राक्षसा घोराः सूर्यमिच्छन्ति खादितुम् ।। प्रजापतिकृतः शापस्तेषां मैत्रेय रक्षसाम् । अक्षयत्वं शरीराणां मरणत्वं दिने दिने । ततः सूर्यस्य तैर्युद्धं भवत्यन्तञ्च दारुणम् । ततो द्विजोत्तमास्तोयं प्रक्षिपन्ति महामुने! श्रोङ्कार ब्रह्मसंयुक्तं गायत्र्याऽभिनियन्त्रितम् । तेन दह्यन्ति ते पापा वज्रीभूतेन वारिणा ॥ इत्यादि । अरुणःमरसूतः तस्य अरुणिम्ना रक्ततया रञ्जितायां कृतरागायामिव । पुन:-मोमुद्यमानाः = अतिहृष्यन्तः नरीनृत्यमानाः अतिनृत्यन्तः ये परःकोटि- ताम्रचूढाः कोटिसङ्ख्यातोऽप्यधिका कुक्कुटाः तेषां चूडाया:-शिखायाः प्रतिविम्बेन संवलितायां प्रावृतायामिव । पुनः-पोस्फुटयमानानाम् अत्यन्तं विकाशभाजां स्वर्गङ्गायाः कोकनदानां रतोत्पलाना पटलैः समूहै: व्याप्तायां छन्नायामिव । ' मोमुद्यमान-नरीनृत्यमान, पोस्फुटयमान ' इत्येतानि पदानि यथाक्रमं मुद्, नृत्, स्फुट घातूनां यङन्तानां शानचि साधनीयानि । पुनः-भक्तजनानां भागवतानां भक्तयाः सेवायाः प्रभावण सामध्येन भाविताः सम्पादितः आविर्भावो यया सा चासौ छिन्नमस्ता ( नाम ) देवी = महाविद्या तन्त्रशास्त्रप्रसिद्धा तस्याः कन्धराया ग्र.वाया उच्छलता उद्गच्छता शोणितेन रक्तेन स्नातायां धातायामिव । पुनः- वसन्तोत्सवे = होलिकोत्सवे उच्छालितेन उत्फालितेन सिन्दूरेण योऽन्धकारः * प्रसादगुणवता गधेन ।
( ५४ ) अन्धकार इव अन्धकारः तेज:प्रावरकत्वसामान्यात् तेनान्धीकृतायामिव । पुनः- तातप्यमानं यत् ताम्रम् तस्य द्यतेः शोभायाः चौरायाम् अपहामिव तद्वद्रक्तीभूतत्वात्तथोक्तिः । तत्र तास्ताः शोभाः पश्यन्तौ, मुनीनां दर्शनं कुर्वन्तौ, हनूमन्मन्दिरा- ध्यक्ष प्रणतवन्ती ' इति सम्बन्धः । तथा च विशेषणपदसम्बन्धं व्याख्यायते- वरटाभिः = हंसयोपिद्भिः। 'हंसस्य योपितरटा' इत्यमरः । अनुगम्यमानानां राजहंसानाम् = कादम्बानाम् । 'राजहंसास्तुते चञ्चु चरणैर्लोहितैः सिताः । मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः ॥ इत्यमरः पक्षतीति-पक्षमूलं पक्षतिः ‘पक्षात्तिः ' ( ५ । २ । २५) इति मूले तिप्रत्ययः । कण्डूत्या ( हेतूभूतया) कपणेन घर्षणेन चञ्चलश्चपल: चञ्चुपुटः वोटियेषाम् एवंभूतानां मल्लिकाक्षाणाम् = हंसविशेषाणाम् । लक्ष्मणायाः सारस्याः सारसस्य तु लक्ष्मणा' इत्यमरः। कण्ठस्य स्पर्शेन यो हर्षवर्षः अानन्दवृष्टिरित्यर्थः तेन प्रफुल्लानि अङ्गरुहाणि लोमानि येषां तेषां सारसानाम् । भ्रमताम् इतस्ततः ( पुष्पात् पुष्पम् ) सञ्चरतां भ्रमराणां द्विरेफानां झङ्कारभारेण समधिकझङ्काररवेण विद्राविता उत्सारिता निद्रा येषां तेषां कारण्डवानां तास्ताः शोभाः पश्यन्तौ । गङ्गातट एव पम्फुल्यमानानाम् = विशरारूणाम् । विशरणार्धकात् त्रिफला धातोयङन्तात् शानचि रूपमिदम् । मकरन्दतुन्दिलानाम् = पुष्परसभरि- तानाम् प्रचुरमधुमतामित्यर्थः । एवंभूतानाम् इन्दीवराणाम् = कमलानां समीपत एवं कलितानि व्याप्तानि ललिततिल केन मनोहरतिलकेन अलिकानि मस्त- कानि येषां तेषाम् व्यधिष्वहि = अकृष्वहि । सैन्धवौ = अश्वौ । समारुक्ष्व- आरोहणमकार्घ । अभापिट = अकथयत् । पृ० १०॥ निदिद्रासाद्भः := निद्रातुमिच्छद्भिः । सन्नन्तात् 'निद्रा' धातोः शतरि रूपम् । कुटीरेष्वेव निद्रा द्राघणीया-दीघीकर्तव्या यायनीयेत्यर्थः । दिनकतिपयैः कतिपयैः दिनैरित्यर्थः ‘पोटायुवतिस्तोककतिपय'- इति सूत्रेण कतिपयशब्दस्य परनिपातः । चिञ्चावृक्षस्य = तिन्तिडीतरोः । अाजानेयौ = अश्वौ। निकटस्थपूगतरुशाखायाम् = समीपवतिक्रमक- वृक्षशाखायाम् । जलम गाहिप्वहि = अस्नासिष्व । पृ० ६१ ॥ तावदकस्मात् दृष्टं यत्-कश्चित् श्यामो युवा आयातीति सम्बन्धः । निविवृत्सन्तम् = निवर्तितुमिच्छन्तम् । * इति (नूतन) शिवराजविजयपताकायां तृतीयो निश्वासः * ॥ ॐ॥ चतुर्थो निश्वासः। विजयन्ते महासचा विपदोऽभिभवन्त्यपि । लभन्ते परमां सिद्धिं कार्याकार्यविचक्षणाः ॥ १॥ पृ० ६३ ॥ गौरवटुनाम्ना वहिःप्रसिद्धस्य सहासत्त्वशालिनो रघुवीरस्य शिवाशां धारयित्वा तोरणदुर्ग प्रति प्रस्थानोपक्षेपकं स्फुटं लोकमुद्धरति-कार्यम्' इति । वर्षौ सायंसमयवर्णनमिदम्---'मासोऽयमाषाढ' इत्यादिना । अस्तं * जिगमिषुः= अस्तमितो बुभूपुः रित्यर्थः । भास्करः = सूर्यः । सिन्दूरोति । सिन्दूरस्य = नागोद्भवस्य । ' नागोद्भवन्तु सिन्दूरम् ' इति (वैजयन्ती ) द्रवेण = रसेन स्नातानां धौतानामिव वरुणदिगवलम्बिनाम् = पश्चिमायामेव दिशि लम्बमानानाम् अरुणवारिवाहानाम् = रक्तमेघानाम् । 'भास्करो अभ्यन्तरं प्रविष्ट' इत्यन्वयः । अत्र सूर्यकिरणसम्बधे सति रक्तीभवन- स्वभावानां मेघानां सिन्दूरद्रवस्नातत्वेन रूपेणोत्प्रेक्षणम् । कलविङ्काः चटका: । चाटकैररुतैः = चटकापोतचुङ्कारैः । चटकाया ऐरक् (४ । १ । १२८ ) इति सूत्रेण चटकाशब्दादपत्येऽथे ऐरक् । चटकाया अपत्यं चाटकैरः । "चटकः कलविङ्कः स्यात् तस्य स्त्री चटका तयोः । पुमपत्ये चाटकैरम्यपत्ये चटकैव सा" ॥ इत्यमरः। नीडेपु = कुलायेषु । प्रतिनिवर्तन्ते = प्रत्यावृत्य प्रविशन्ति कलयन्ति = प्राप्नुवन्ति । मेघमाला = वारिदराजिः । पर्वतश्रेणीव- महीधरपतिरिवेत्युपमा 'मेघमाला गगनतले पर्यच्छदीत् '. इत्यन्वयः । तां * सनन्ताद् 'गम्' धातो:-'सनाशंसभित उः' (१ । २।१६८) इत्युप्रत्ययः। + 'कुलायो नीडमस्त्रियाम्' इति ( अमरः ) 'नीडं स्थानकुलाययोः इति ( मेदिनी ) कुलं पक्षिसङ्घातोऽयते अत्र । अय गतौ । 'हलश्च' ( ३ । ३ । १२१) इति सूत्रेण घञ् । एमम्-नितरामीड्यते इति नीडम् । भावे घञ्।
( ५६ ) विशिनष्टि-'सूक्ष्मविस्तारा' इत्यादिना । प्रकटेति-प्रकटितं शिखरिशिखराणां =पर्वताग्रभागानां विडम्बनं सादृश्य यया सा तथाभूता । दर्शितेति-दर्शित = उद्भावितः दीघेण = लम्बेन शुण्डादण्डेन दण्डाकारेण करणेत्यर्थः मण्डितस्य भूषितस्य ( सज्जितस्यति यावत् ) दिगन्त * दन्तावलस्य = दिग्गगजस्य भयानक:= भीतिप्रदः आकारः मूर्तियया सा। वर्पत्तों मेघाः नानावस्तूनामाकारेण प्रतिभा- समानाः कदाचित् महागजाकारेणापि प्रतिभासन्ते । ततः' इति । पारस्परिक संश्लेषण अन्योन्यासक्त्या विहितः कृतः महान्धकारः सन्तमसं यया । 'पर्वतश्रेणी रुपर्युपरि गच्छति स्म' इति । 'उपर्यध्यधसः सामीप्ये' (८।१ । ७ ) इति सूत्रेण द्वित्वम् । 'उभसर्वतसोः कार्याधिगुपयर्यादिपु त्रिषु'–इत्युक्तेः उपरि- योगे द्वितीया । पृ० ६३, ६४॥ 'एष तोरणदुर्ग प्रयाति' इति कत्र्तक्रियासम्वधः । सुघटितदृढशरीरः=सु=शोभनं घटितं सम्पन्नं दृढं शरीरं यस्य सः संहनानङ्ग इत्यर्थः । पुनः कीदृशः-कचकलापैः कचनिचयः कमनीया मनोहरा कपो- लपालि: गण्डस्थलं यस्य सः तादृशः । कीदृशः कचकलापैः-श्यामश्यामैः- अतिश्यामैः । गुच्छगुच्छ :=अत्यन्तं गुलुञ्छितैः । कुञ्चितकुञ्चितैः= अत्यन्तवः । पुनस्तमेव गौरं युवानं विशिनाष्टि दूरागमेने' त्यादिसन्दर्भेण- दूरागमन श्रमकारणेनेत्यर्थः सूक्ष्ममौलिकपटलेन इव-अणुमुक्ताप्रसरेणेवे. त्युत्प्रेक्षा । स्वदविन्दुव्रजेन-स्वदो धर्मः तस्य विन्दूनां कणानां व्रजेन गणेन ( 'धर्मो निदाघः स्वदः स्यात् ' इत्यमरः ) आच्छादिताः व्याप्ताः ललाट-कपोल- नासाग्रोत्तरोष्ठाः यस्य सः। पुनः–प्रसन्नेन-विकसितेन वदनाम्भोजेन-मुख- कमलेन प्रदर्शितः प्रकटीकृतः दृढः सिद्धान्तमहोत्साहः= कर्त्तव्यपरायणतामहा- हषों येन स तथाविधः । पुनः–राजतसूत्रशिल्पेन रजतस्येदं राजतं यत् सूत्रं 'कनारी' इत्याख्यम् अर्थात् रौप्यसूत्रविकारेण कृतं बहुलं प्रचुरं चाकचक्यं= प्रतिभासना यस्य तादृशं वक्रम् = अनृजु हरितं हरिद्वर्ण यत् उष्णीष शिरोवेष्टनं तेन शोभितः। हरितेनैव च कच्चुकेन = चोलकेन प्रकटीकृतं व्यूढं शृङ्खलावद्धं गूढ रहस्यभूतं चरतायाः स्पशतायाः गूढदूतभावस्य कार्य येन सः तथाविधः । 'दन्तशिखात्सायाम्' ( ५। २ । ११२ ) इति सूत्रेण मतुवर्थे 'दन्त' शब्दात् वलच प्रत्यवः । 'वले' (६ । ३ । ११८ ) इत्यनेन- दीर्घः । 'दन्ती दन्तावलोहस्ती'-इत्यमरः । * ( ५७ ) चरतव वा कार्यमिति रूपकम्। चरः = स्पशः । यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः । चारश्च दृढपुरुषश्च ' इति ( अमरः) । चरस्य भावः चरता । तस्य भावस्त्वतलौ' ( ५। १ । ११६ ) इति सूत्रेण भावे तल् । 'तलन्तं स्त्रियाम् इति स्त्रीत्वम् । अत्र गये-उदारतालक्षणो गुणः । तदुक्तम्-'पाध्यविशेषणयुक्त मुदारं कैश्चिदिष्यते' इति । अयमेव परेषां ' परिकरालङ्कार' इत्येके झञ्झावातः= वार्षिको महावात: । अनुद्भदिनी = सरला हयस्य = अश्वस्य । खुराः = शफानि । ‘शफं क्लीवे खुरः पुमान् ' इति (अमरः)। चिक्कणपाषाणखण्डेषु = स्निग्धाश्मशकलषु । प्रस्खलन्ति प्रच्यवन्ति । दोधूयमानाः = अत्यन्तं वायुना सञ्चाल्यमानाः । सम्मुखं पुरोभागम् । श्राघ्नन्ति = ताडयन्ति । 'श्राङो यमहनः' (१ । ३ । २२ इत्यनेन नावात्मनेपदं शङ्कयम् । अकर्मकात्स्वाङ्गकर्मकादित्येव तद्विधानात् । दृढ- सङ्कल्पः = महासत्त्वः । सादी = = अश्वारोहः । 'अश्वारोहास्तु सादिनः इति (अमरः)। न विरमति = हतोत्सोहो न भवतीत्यर्थः । व्यापरिभ्यो रमः (१।३ । ८३) इति सूत्रेण परस्मैपदम् । पृ० ६५ ॥ वाताघातेति । वाताघातेन सातः पाषाणपातो येषाम् तेषां प्रपातानाम् = पर्वतानाम् । 'प्रपातस्त्वतटो भृगुः ' इति ( अमरः)। सत्वानाम् = ऋक्षादीनाम् । स्वनेन कवलीकृतमिव = शब्देन निगलित- मिव गगनतलम् = अकाशमण्डलम् । सिंहादीनां शम्देनाकाशं सकुलमासी- दित्यर्थः । अत्राकाशे शब्दव्याप्तिः स्वतःसिद्धापि कवलीकरणत्वेन रूपणोत्प्रेक्षिता। सैन्धवस्य = अश्वस्य । तावदिति चञ्चलाभिः = तडिद्भिरपि स्वचमत्कार प्रारब्ध' इत्यन्वयः । ' तडित् सौदामिनी विद्युच्चञ्चला चपला अपि इत्यमरः। कीदृशीभिः-चचच्चञ्चलं उद्भटचाकचक्यं यत् चामीकरं = सुवर्ण तस्य रेखाणामिवाकारो यासां ताभिः । भास्वरसुवर्णलेखासदृशाभिरित्यर्थः । अत्र अकारचकारादीनामदूरवत्तिनां व्यञ्जनवर्णानां सादृश्यप्रतोतेरनुप्रासो नाम अलङ्कारः । आह च मम्मटाचार्यः-वर्णसाम्यमनुप्रासः' इति । मेघान् सौवर्णकषयेव = हैरण्यशाणनेवेत्युत्प्रेक्षा । ज्वालाजालेन = वहिकीला- समुदायेनेव । बलाहकान् = मेघान् । श्रावृणोति = आच्छादयति । पर्यपूर्यत = परिपूर्णा अक्रियत । सा अरण्यानी = महत् अरण्यम् अरण्यानी हिमारण्ययोमहत्त्वे ( ४ । १ । ५६ ) इति वात्तिकेन प्रानुक् ।
( ५८ ) खुराप्रैः अत्र–एकेनैव शब्देन तथाविधार्थप्रतिपत्तेः सम्भवात् पुनः पुनस्तेनैव शब्देन तदर्थप्रतिपादनात्मा पुनरुक्तोऽर्थदोषः स्यादिति न शङ्कयम् प्रकरणे पुनस्त. स्यैव वाक्यस्यावृत्तेः अर्थस्यौजस्त्वविधानेन दोषाङ्कुशवत्त्वादित्याहुः । पृ० ६६ ॥ समपीपतत् = पातयामास । सम्पूर्वात् 'पत' धातोः णिचि लुङि, च्लश्चङि, द्वित्वे, अभ्यासकायें, सन्वद्भावे, दी? लघोः ( ७।४।६४ ) इति लघोरभ्यासस्य दो रूपम् । अश्वश्च समीहां समससुचत् ' इति प्रेरणान्वयः । फेनान् = डिण्डीरान् । कन्धराम् = शिरोधराम् । उद्धृनयन् = कम्पयन्। हेषारवैः = अश्वजातीयैः हिनहिनाशब्दैः । प्रस्यन्देति = प्रस्यन्दजलेन प्रस्वेदवारिणः सिक्तः आर्द्रतां नीतः भूभागो येन सः । समुत्सृष्टपुरीपः = समुत्सृष्ट त्यक्तं पुरीपं गूथं येन, लेण्डं विसृजन् इत्यर्थः । मुहूर्तार्धेनैव = घटिका- द्रयानैव एकयैव घटिकयेत्यर्थः विस्मृतः परिश्रमो ग्लानियेन सः । सगति- स्तम्भम् = मगतिरोधम् । = शफकोटिभिः । मूमिम् = पृथिवीम् । उत्खनन् = उत्पाटयन् । अश्वजातिरियम् । उत्तम्भयन् । उत्तंसयन् । लाङ्ग्लम् = पुच्छम् । लोलयन् = चालयन् । पृ० ६७ ॥ सौदामिनी = विद्युत् । समदेदीप्यत = अत्यन्तं चमदकरोत् । स्थिरयति = स्थिरं करोति । तत्करोति तदाचरे इति णिच् । पूगस्थूलैः क्रमुकफलवत् स्थूलाकारैः। मघवा = इन्द्रः मेघ इत्यर्थः । परम् इति । मारुतेन = पवनात्मजेन हनूमता । अस्मिन् वाक्य-पूर्णा- पमाऽलङ्कारः । * उपमानोपमेयसाधारणधर्मोपमावाचकानां चतुर्णामप्युपादानात् । वाहोऽयम् = रघुवीरघोटकः । शिलातलानि = पाषाणचट्टकानि । लता- प्रतानानि = वल्लीविस्तृतीः । अलोक्यत = अदृश्यत । तोरणदुर्गदीपः= तोरणनामा दुर्गः, तस्य दीपः । — परीक्ष्य ' इव इत्युत्प्रेक्षा । प्रशशाम = शान्ता वभूव । 'अम्लबलेन दुग्धमिव' इत्युपमा । पूर्वस्याम् = दिशि कला- नाथः = चन्द्रः । ददृशे = दृष्टः कर्मणि तङ् । 'क्षणेनैव झन्झावातोत्पातोऽपि निजगाम' इति सम्बन्धः । ‘पावतनदावेग इव' इत्युपमा ॥ · ततः पलाशिनां शोभा समवालोक्यत' इति परत्राभिसम्बन्धः । सा कीदृशी-लोचनरोचिका नेत्रयोरासेचनकरी । कीदृशां पलाशिनाम्-नूतनेति-नूतनाऽभिनवा या वारि- * अत्र मारुतिरूपमानम् । शिववीरचरः = रघुवीरः उपमेयः । कार्यहाने- रसहनं समानो धर्मः । इवशब्दो वाचकः ।
( ५६ ) तया क्षालनेन शोधनेन प्रकटितं परमम् = धारा-पानीयासारपात: अत्यधिक हारित्यं = हरितभावो यैः । — हारित्यम् ' इत्यत्र गुणवचनब्राह्मणादिभ्यः कर्मणि च ( ५।१ । १२४ ) इति भावे ध्यङ् । पलाशिनां हारित्यमुत्प्रेक्षते- परःकोटीति--पर:कोटि = कोटिसंख्यातीतं यत् कीराणां शुकानां पटलं समुदायः तेन परीतानां व्याप्तानामिव । पृ० ६८॥ सादी = अश्वारोही स एव गौरः । चञ्चच्चन्दचमत्का रेण = भाममानचन्द्र चन्द्रिकया । झिल्लीति-झिल्ल्या झिल्लिकाया रवेण टों टी इत्यनारतशब्देन मिश्रितं द्विगुणितं कवचस्य तनुत्राणस्य शिञ्जितं यस्य सः । 'मृङ्गारी चारुका चीरी झिल्लिका च समा इमाः' इति ( अमरः )। भूपण।- नान्तु शिञ्जितम् ' इति यद्यपि, तथापि शूराणां कवचस्यापि भूषणत्वाददोषः । वार्षेति-वाण = वृष्टिभवेन वारिव्रजेन जलधारया विधूतः विगतः स्वेदविन्दूनां मन्दोहो यस्य सः । साध्विति साधुवादेन सचुचुत्कारप्रियालापन सम्यक वधितः हेषमाणस्य हिनहिनायमाणस्य हयस्य वाजिन उत्साहो येन स तथाभूतः । तोरणति = तोरणाख्यदुर्गस्य यामिकानां प्रहरिणां पादचारैः यातायातैः परि- मर्दितायां भुवि समाजगामेति सम्बन्धः । अश्वम्' इति । उन्मुच्य = परित्यज्य = परित्यज्य । परःसहस्रति-पर:- महस्रपतगानां सहस्रसङ्ख्यामप्यतीत्य वर्तमानानां पक्षिणां पटलस्य समूहस्य कल- कलेन मधुररवेण उन्निद्रस्य सुदूरं वितता: काण्डाः प्रकाण्डाश्च यस्य तस्य पन- सवृक्षस्य-कएटकिफलस्य कटहरेतिख्यातस्य, शाखायामावध्य । 'अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः इति ( अमर: )। पृ० ६६ ॥ ‘चुम्बितयौवनाम् ' इति । या चुम्बितयौवना सा कथं न त्यक्तबालभावा=परिहृतबालिशभावा स्यादिति विरोधः । परिहारस्तु-यौवनारम्भ वर्तमानामपि बाल्यावस्थायामधिकपक्षपाताम् नतु मूर्खतोपेताम् । मधुराम् = हृद्याम् । श्राकृतिम् = देहम् । अलिपटलेति-भ्रमरसमूहतिरस्कारकारिणः अतिकृष्णानित्यर्थः। कुञ्चितकचगुच्छान् = कुञ्चितान् गुच्छाकारान् मूर्धजान् । उत्पत्स्य- मानैःकेशाङ्करैः श्मश्वरैः खिन्न: उत्स्फुटितः उत्तरोष्ठो यस्य सः । 'उत्तरोष्ठ' इत्यत्र श्रोत्वोष्ठयोः समासे वा इति वात्तिकेन वृद्धिविकल्पः । अतीति- अतिमसुणस्य स्निग्धतरस्य कमलस्य उदरे मध्ये यत् किसलयं पत्रं तस्य सोदरी तुल्यौ कपालौ गण्डौ यस्य तम् । श्रार्थीयमुपमा । - ।
( ६० ) ॥ इत्यमरः इत्यत्र पृ० १०० ॥ भद्रतयेव स्नातं शरीरम् –शान्ततया स्नातं व्याप्तमिवेत्यु- प्रेक्षा । ' मशकैरप्यशङ्कनीयम् इत्यारभ्य । गुप्ततमं वृत्तान्तम् ' इत्यन्ते गये पर्यायोक्लमलङ्कारः । आह च ' दण्डी'- इष्टमर्थमनाख्याय साक्षात्तस्यैव सिद्धये । यत्प्रकारान्तराख्यानं पर्यायोक्नं तदिष्यते ॥ इति अत्रष्टो वृत्तान्तस्य गोप्यतमत्वरूपोऽर्थ: तमनाख्याय साक्षादभिधया अप्रति- पाद्य व्यञ्जनात्मकव्यापारेण तस्यैव 'मशकैरप्यशङ्कनीयम्' इत्यादिपदैः प्रकारान्त- रेणाख्यानं कृतम् । उपबहलग्नपृष्ठः = उपधानाधारितपृष्ठभाग: उपधानन्तृपवर्हम् । तत्रभवतः = पूज्यस्य महाराष्ट्रराजस्येत्यर्थः वात्या- वायुचक्रम् विधूय = धूनयित्वा । 'वात्याम्' इति पाठं सम्यञ्चं प्रपद्ये । अत्र जयदेवमतेन लोकोतयलङ्कारः । लक्षणमुक्तं प्राक् । यथा ' सहस्व कति- चिन्मासान्मालायित्वा विलोचने 'लोचने मोलयित्वा' इति लोक- प्रवादानुकरणम् तथा 'वात्या विधूय' इत्यत्रापाति शेयम् । कर्णजपस्य सूचकस्य । स्तम्बकर्णयोरमिजपोः ( ३ । २ । १३ ) इत्यच् प्रत्ययः । तत्पुरुषे कृतिबहुलम् ' ( ६ । ३ । १४ ) इति सप्तम्या अलुक् । दुर्गाधीशः = दुर्गरक्षायै अधिकृतः स्वामी । दुःखन गम्यते अत्र इति दुर्गम् । दुर्गलक्षणं पुराणादौ । तथाहि- दुर्गास्तु सततं कुर्यात् प्राकाराट्टालतोरणैः । भूषितान्नगराद्राजा दुर्गे दुर्गा श्रियं चरेत् ॥ इति पृ० १०२ ॥ साम्मुखीने = पुरोवत्तिनि सम्मुखे भवे । भवार्थे ईन प्रत्यय इति चान्द्राः सारस्वताश्च । णीन इति मौग्धाः । किञ्चि दुदञ्चति = किनिदिते । मरीचिमालिनि = सूर्ये । अत्रागत्य = प्रातःकाले समेत्येत्यर्थः । यातासि = गन्तासि । 'या' धातो:--अनद्यतने लुट ( ३ । ३ । १५) मध्यमैकवचने रूपम् । अपरदासेरकेण भृत्येन । ' भृत्ये दासेरदासेयदासगोप्यकचेटकाः' इत्यमरः । व्यादिएमार्गः = परिचायितवा । नववारिदेति --नवानां नूतनानां वारिदानां मेघानां यो वारिबिदुवृन्दः = जलकणगणः तस्य सम्पर्केण प्रकटितः प्रादुर्भूतः सिन्धुराणां गजानां सन्दोहस्य समूहस्य यूथस्येति यावत् सन्तर्पणः तृप्तिकरः मदजनकः ॥ = द्वितीयेन ..
६१ मधुरः हृयो गन्धो यस्याः ताम् इति भूमिविशेषणम् । 'गन्धस्येत्त्वे तदेकान्त ग्रहणम्' ( वा० ५ । ४ । १३५) इति वात्तिकेन बहुव्रीहावित्त्वम् । रजनीकर-निकर- विरोचिताम् = चन्द्रकिरणबातशोभिताम् भूमिमालेोकयन् मन्दमन्दम् = शनैः शनैः । मारुतिमन्दिरम् हनूमन्मन्दिरम् । पाससाद=प्राप । तत्र- मारुतिमन्दिरे । श्रागन्तुकानाम्=प्राधुरिणकानाम् । कलितयथोचित- सामग्रीणाम् कलिता सम्पादिता यथोचितम् यथायोग्य सामग्री प्रास्तरणप- ल्यङ्काधुपकरणं यत्र तेषाम् 'कोष्ठानाम् ' इत्यस्य विशेषणम् । 'कोष्ठम् ': सम्प्रति 'कमरा' इति प्रसिद्धो भवनविशेषः । गवाक्षान्-वातायनानि उन्मुद्य =* खोलयित्वा नागदन्तिकासु-कालिकासु । वर्मवस्त्राणि = कवचादीनि । अवलम्च्य= लम्बयित्वा अन्तर्भावितण्यर्थः । उत्तोल्य = उद्धृत्य । प्रक्ष्याल्य = धावयित्वा उपगृह्य = उपभुज्य । दुर्गप्राचीरम् = दुर्गकोटम् । सुदूरेति-सुदूरं पर्यटन्तो ये यामिकाः प्रहरिणः तेषां यातायात गमागमम् । नतोन्नतभूभागान् उच्चावचान् पृथिव्याः प्रदेशान् । अभ्रक- पान्=अत्युच्चानित्यर्थः । सर्वकूलाभ्रकरीषेषु कपः ( ३ । २ । ४२ ) इति खच् । अवलोकयन् पश्यन् । परिक्रमेति-परिक्रमापराणां परिक्रमण- कराणां पादानाम् हतिभि:-आघातै: पिच्छला मृदुला याः पाषाणपट्टिकाः ताभिः परिष्कृता सुसज्जिता या वेदिका तर्दिका तस्याम् । किञ्चित् समयम् अति- वाहयामास-गमयाम्बभूवेत्यर्थः । पृ० १०३ ॥ तावदिति–'तावत् तेन स्वरालापाः समश्रूयन्त' इत्यन्वयः। पयाफेनेति-पयःफेनस्य दुग्धडिण्डीरस्य य तस्य छविः शोभा तस्याः विजित्वरया=जयशीलया । ज्योत्स्नया चन्द्रिकया। द्विगुणितोत्साहेन प्रवर्धितहर्षेण । धीरसमोरेति-धीरसमीरस्य- मन्दमरुतः स्पर्शन शान्तो दूरीभूतः श्रमो यस्य तेन प्रस्फुटन्त्यो विकासोन्मुखाः याः चन्द्रकलया अथात् चन्द्रिकया कलिकाः = कैरवकोरकाः तासु ये भ्रमराः = मधुलिहः तेषां झङ्कारभार इव गुअनरव इव यो मन्द्रः स्वरः एव पीयूषममृतं तस्य शीकरैः जलकणैः परिमार्जिते =शोधिते श्रवणे अर्थात् आप्यायितौ करें यस्य सः तेन । कीदृशः स्वरालापाः इत्याह-'शुकीच्कयन्तः' इत्यादि । एतेन स्वरालापानामत्यद्भुतत्वं शुक्यादिस्वरव्यतिरेकश्च व्यज्येत । काकलीकल- * खोलु गतिप्रतिघाते । अनेकार्था धातव इति दर्शनम् । प्रासारः धारासम्पात:
( ६२ ) .. मयाः = ' काकली तु कले सूक्ष्मे ध्वनौ तु मधुराऽस्फुटे' इत्यमरवचनात् सूक्ष्मा माधुर्यमयाश्चेत्यर्थः । श्रवणेनेति । कस्या अपि बालिकायाः = अनुद्भिन्नयौवनायाः वस्तुतः उद्भेदोन्मुखीनयौवनायाः अन्यथा तादृशालापरवशतानुपपत्तः । सा च लज्जापरवशति । तत्र हेतुमा ह–' यतो नाञ्चायति' इति । मन्द्रस्वरण गायतीत्यर्थः । इयञ्च बाल्ययौवनयोः सन्धावेव वर्तमानेत्याभाति अग्रे ( १०४ पृष्ठे ) 'वयसा एकादशमिव वर्ष स्पृशन्तो' इत्यु के: तेनेयं नायिका-'कन्यात्वजातो. पयमा सलज्जा नवयौवना' इति कन्यालक्षणं प्रायः स्पृशतावेति ममाभाति । अथ कर्णाविव गृहीत्वा प्राकृष्टो रघुवीरसिंहः' इति । · कणांविवे त्यत्र ‘लोकोक्ति' रलङ्कारः। लक्षणमुक्तं प्राक् । 'मन्दिरं दक्षिणा प्रदक्षिणी कृत्य' =इति । दक्षिणतः मन्दिरस्य प्रदक्षिणां कृत्वेत्यर्थः । 'दक्षिणादाच्' ( ५ । ३ । ३६ ) दक्षिणशब्दादाच् स्यात्-अस्तातविषये । प्रस्तातिविषयश्च- दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालवस्तातिः (५। ३ । २७ ) इति सूत्रोक्तः । कपोतेति-कपोतपोतकानां पारावत: शावकानां गृङ्कारेण तज्जातिरवेण मधुराया मनोहरायाः कपोतपालिकायाः विटङ्कस्य अधस्तम्भारम्भनिकट अधोवत्तिनि स्तम्भप्रदेशसमीपे । 'पारावतः कलरवः कपोत' इति ‘कपोतपालिकाङ्कायान्तु विटङ्क पुन्नपुंसकम्' इति चोभयत्रामरः । समुपतस्थे- स्थितोऽभूत् । समवप्रविभ्यः स्थः (१ । ३ । २२ ) इत्यात्मनेपदम् । अवालोकयत् = ददर्श । पूर्वस्याम् = दिशि । पुष्पवाटिका = गृहोपवनम् अतिमुक्तलताः = वासन्तीवल्ल्यः । सौरभेण = सौगन्ध्येन । विष्णुपदम् आकाशमपि । मदयन्ति = सुरभयन्ति । अतिमुक्त: पुण्डकः स्याद्वासन्ती माधवी लता' 'वियद्विष्णुपदं वापि पुंस्याकाशविहायसी' इति चोभयत्रापि (अमरः)। यूथिकाः = मागधीलताः ‘अथ मागधी । गणिका यूथिकाऽम्वष्ठा' इत्यमरः । सुगन्धतरङ्गैः = सौरभलहरीभिः प्रसरत्सौरभभैररित्यर्थः । हरिताम् = दिशाम् । हृदयम् = प्रदेशानित्यत्र तात्पर्यम् । हरन्ति = वशीकुर्वन्ति । पाटलिपटलानि = *झाटलझटाः । पृ० १०४ ॥ अलिपटलरसनाः भ्रमरबातरसनाः चटुलयन्ति चपलयन्ति । एतेन तत्र भ्रमरसङ्घस्य महती आसक्तिः व्यज्यते । मालतिकाः *लोध्रविशेषसमूहाः । 'गोलीढो झाटलो घण्टापालिर्मोक्षकमुष्कको' इति(अमरः) - - ( ६३ ) - मुमनसः । मरन्दविन्दुसन्दोहैः मकरन्दकरणगणैः वसुमतीम् = भूमिम् । वासयन्ति = सुरभयन्ति । सुरभयन्ति । तस्याम् इति । 'तस्यां = पुष्पवाटिकायां हंसपक्षवलक्षच्छविविजित्विरधवलगाववादिका एका अस्ति ' इत्यन्वयः । परमेति परमरमणीयाया: अतिमात्रं हृदयहारिण्याः ज्योत्स्नाया: चन्द्रिकायाः स्पर्शन = सम्पर्केण प्रकटितं द्विगुणतरं चाकचक्यं = द्युतिविशेषो यया सा। हंसेति-हमपक्षाणां कादम्बपक्षाणां वलक्षा = धवला या छविः शोभा तस्या विजित्विराः जयशीला: धवला: शुभ्राः ग्रावाण: पाषाणाः तेषां वेदिका = परिष्कृता भूमिः । ' तेषामन्यतस्मिन् उपविष्टा एका वालिका इति । अस्या एव नायिकात्वम् । एतद्विषये पुरातनटिप्पणे किञ्चिदुक्तं तदेव द्रष्टव्यम् । अस्माभिस्तु ग्रन्थगौरवं मत्वा न बहु तन्यते दिङ्मात्रन्तूकं प्रागेव । तां वर्णयति ‘सेयम् इत्यादिना । 'वणेन सुवर्ण तिरस्कुर्वती' इत्येवं सर्वत्र योज्यम् । अत्र--प्रती- पालङ्कारो व्यङ्गयः । तदीयवर्णादिना सुवर्णादीनामुपमानानामनादरता प्रत्याय. नात् । प्रतीपविशेपलक्षणमाह जयदेवः-'वण्योपमेयलाभेन तथाऽन्यस्याप्यनादर' इति । अयं प्रतीप एव दण्डिमते विपर्यासोपमा । यत उक्तं तेनैव- तवाननमिवोन्निद्रमरविन्दमभूदिति । सा प्रसिद्धेर्विपर्यासात् विपर्यासोपमा मता ॥ श्यामेति-श्यामन तत् * कौशेयवस्त्रं पट्टवासः तत् परिधानं यस्याः परिहितकृष्णपट्टवसनत्ययः । पृ० १०५ ॥ श्वेतविन्दुसन्दोहेति-श्वेतविन्दूनां सन्दोहैः वातैः सङ्कलस्य = व्याप्तस्य रक्ताम्बरस्य लोहितवाससः कञ्चुकिका = चोलिका यस्याः सा। कण्ठे एकयष्टिकाम् = एकावलीम् एकलतिकामिति यावत् । एवम्भूतां नक्षत्र- मालाम् = सप्तविशतिमोक्तिकवतीम् । ( एकावल्येकष्टिका, सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः' इत्यमरः) विभ्रती = धारयन्ती । 'उगितश्च ( ४ । १ । ६ ) इति डीप् । नुम् तु न 'नाभ्यस्ताच्छतुः' (७ । १। ७८) इति तन्निषेधात् । सिन्दूरेति-सिन्दूरस्य = नागसम्भवस्य या चर्चा: (धम्मिल्लस्य मीमन्तप्रदेशे ) छुरणम् तया रहितेन शून्येन धम्मिलेन =केशवेशेन परिशिष्टं पाणिपीडनम् = विवाहसंस्कारम् इति = एव प्रकटयन्ती । सिन्दूरं नागसम्भवम् ' ' धम्मिल्लाः संयताः कचाः' इति चोभयत्र (अमरः)। हस्ते पाणी । पाटलिकुसुमस्तबकम् झाटलापुष्पगुलुञ्छम् । अविदितेति * 'कोशाड्ढञ्' ( ४ । ३ । ४२ ) इति ढञ् । , ( ६४ ) न विदितं न ज्ञातं बहुलं प्रायः तानतारतम्यं = + तानानां तरतमभावो यस्यां क्रियायां तद् यथा स्यात् तथेति क्रियाविशेषणम् । यद्यपीति ='सरस्वतीसरू- पया ' = सरस्वतीसदृशया । अज्ञातं अननुभूतं तातोत्सङ्गे पितुरङ्के शयनातिरिक्त सांसारिकसुखं भोगविलासादि यया तया । कदापि = कदाचिदपीत्यर्थः गायितुम् तानालयादि गानं कर्तुं न शिक्षितमिति सम्बन्धः । गायकानां तास्ताः गीति- शास्त्रोक्ताः कर्णरसायनमूर्च्छनाः = कर्णयोः: श्रोत्रयोः रसायनाः = आनन्दजनिका मूर्च्छनाः स्वरालापविशेषाः कर्णातिथीकृताः = श्रोत्रगोचरी- कृताः । समाधिर्नामगुणः । तल्लक्षणमुक्तं दण्डिना- अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना । सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥ अत्र मूर्च्छनानां श्रवणविषयत्वं प्रस्तुतम् । तत्र अप्रस्तुताया अतिथि- विषयतायाः ( सादृश्यातिशयसामर्थ्यात् ) गौण्या लक्षणया आरोप एव समाधिः । भज्यमानम् = स्खलत्तारम् त्रुट्यमानम् = पूर्वापरस्वरसम्बन्ध- विकलम् । अाम्रड्यमानम् = अनवसरेऽपि पुनःपुनरुच्चार्यमाणम् । अद र्शितरागविशेषम् = न दर्शितः न स्फुटीकृतः रागविशेषो मल्हारविहारादि. रूपविशेषो यत्र तत् । आरोहेति-आरोह: सरिगमादीनामुन्नयनम् अवरोहः= तेषामेवाऽवतरः । : । ध्रुवा=ध्रुवपदम् आभोगः = रागस्य व्याप्तिरूपो विस्तारः तत्तद्रूपा या अलङ्कारादिकथा तच्छून्यमपि । अथवा-अलङ्करणमलङ्कारः रसादिः: तत्कथा- शून्यमपि । निजकल्पनामात्रम् = कपोलकल्पितम् । तद्देशीयेति-तद्देशीयो यो ग्राम्यस्त्रीजनः हालिकादिस्त्रीजन: तस्य गानानुकल्पम् सदृशम् । सुदीर्घस्वररणनम् = सुष्ठु दीर्घाणां = ताराणां स्वराणां रणनं= ध्वननं यत्र तादृशम् । गानम् = गीतिः । परमसरसम् = चित्ताकर्षकत्वात् । परममधुरम् = ततो वृत्तेयुत्थानाभावात् । परमहारि= श्रोत्रप्रियत्वादिति ज्ञेयम् । 'गानमासीत् ' इति क्रियाकारकसम्बन्धः । सौवीदर्शनोत्तर रघुवीरसिंहस्य दशां वर्णयति-'अहो' इत्यादिना सन्दर्भण । ' अहो आश्चर्यम् ' इत्यत्र ‘ोत् ' ( १ । १ । १५ ) इति प्रगृह्य- + तनु विस्तारे । अस्माद्धातोः भावे घञ् । तन्यन्ते विस्तार्यन्ते इति तानाः। स्वरभेदाः । घत्रजपाः पुंसि इति पुंस्त्वम् । 'तानप्रदायित्वमिवोपगन्तुम् ' इति कुमारसम्भवे । = तदीयगीति- { ६५ ) " स्फटा. संज्ञायां प्रकृतिभावः । य एषः = रघुवीरसिंहः । फणिफणात्कारेपु= फणिनः सर्पस्य फणा स्फटा तस्याः फूत्कारेषु = 'पूँकार' रवेषु अपि य एष धेय न अत्याक्षात् = ( न जहै। ) इत्येवं सर्वेषाम्-अप्यन्तपदानां सम्बन्धः । यांन्तु फणा द्वयोः ' इत्यमरः । सोधेति-क्रोधेन कोपेन मह वतन इति सक्रोधः कुपितो यो हयक्षः = सिंह: तस्य जृम्भाणां गात्राविनामानां मुखव्यादाना- नामिति यावत् प्रारम्भपु उपक्रमेष्वपि । कुपितस्य सिंहस्य स्वता जम्भारम्भा जायन्त इति स्वभावोक्तिरेव ।। पृ० १०६ ॥ भल्लेति-भल्लतल्ल जानां प्रशस्तानां * भल्लनामकशस्त्राणां परिस्पधिनः = प्रतिद्वन्द्विनः ( तुल्या इत्युपमा व्यज्यते ) खरा: = कठारा नखराः= करजा येषां ते च ते भल्लाः = भल्लूकाः ऋक्षा इति यावत् तेषां वनेष्वपि घनेघनेति-धनाः मान्द्रा जलभरवत्त्वात् ये घनाघना: वपुंकाः वारिदाः ( मेघाः तेषां घर्षणेन संघट्टनेन विघट्टितेषु विस्फुटितेषु गैरिकबातेषु गैरिकचट्टकेषु ये जल- प्रपाता: आसारा: येषु एवंविधा ये गिरिगहरा:=पर्वतकन्दराः तेषामुत्फालेषु उत्कृदनेषु अपि । तरलतरेति-तरलतराः अतितरलाः तरङ्गा वाचयो येषु एवंभूतानि यानि तोयानिजलानि तेषाम्-श्रावतशतैः असङ्ख्यातभ्रमैः आकुलानां व्याप्तानां तरङ्गिणीनाम् = नदीनां तीव्रतरवेगेष्वपि । गण्डकेति-गण्डकमण्डलस्य = खगि मृगसमूहस्य घोणानां-नामिकानां धर्षणेन सूत्कारेण घोरो भयङ्करो यो घर्घरा- घोपः घर्षररवः तेन घोरतराः अत्यन्तं भौतिजनका ये प्रान्तराः = दूरशून्य। अध्वानः तेष्वपि । धैर्यम् = हृदयसत्त्वम् । न अत्याक्षीत् = सन्देशहरणादि न व्यस्मार्षीत् = नव विस्मृतवान् । आत्मानञ्च न न्यगकार्षीत् = नैव निकारितमकरोत् । तस्य रघुवीरस्य अधुना सौवणीदर्शनकाले । स्विद्यन्ति- स्वदवन्ति भवन्ति, अङ्गानि गात्राणि । एजते-कम्पते गात्रयष्टिः । प्रशस्त शरीरमित्यर्थः। विमनायते-विक्लवं भवति हृदयम्=मनः । अञ्चन्ति- उद्गच्छन्ति रोमाणि=लोमानि तुभ्यति सञ्चलति पूर्वावस्थां परिहाय वर्तते मनः=हृदयम् । 'तत् कथमिदम्' इत्याद्युक्तिः कवेः । एष वीरबालोऽपि अव- सरं प्राप्य मदनमृगयुना आहतः' इत्यन्वयः । मदनमृगयुनाकामदेवव्याधेन । मदन एव मृगयुर्व्याध इति रूपकम् । * 'स्नुहीदलफलो भल्लश्चिपाटाल्पस्तदाकृतिः ' इति ( वैजयन्ती। भल्ल। भल्लूके शस्त्रविशेपे चेति शब्दस्तोममहानिधिः। ।
( ६६ ) .. अत्रेदमवधेयम्-यद्यपि—पादौ वाच्यः स्त्रिया रागः पुंसः पश्चा- तदिङ्गित' रिति नियमाद् अत्र तद्वै परीत्यन (सौवर्णीरागं विहाय रघुवीरसिंह रागस्य दर्शनेन ) रघुवीरसिंहरागोऽनुवर्णितः तथापि प्रायोतादोऽयमाभाति । दृश्यते च नैपधचरितादौ नायिकाविषयानुरागोऽपि प्रथम नायकस्य कविनोपनि- बद्धः इत्यत इहाप्यदोषः । किञ्च वीररस प्रधानेऽस्मिन् काव्ये शृङ्गारवर्णनमिदं तदङ्गत्वेनोत्थापितम् 'अङ्गमन्ये रमाः सर्वे' इत्युक्तः । अयञ्च प्रकृते शृङ्गारो विप्र- लम्भः पूर्वरागाख्यः । तथाच- श्रवणाईशनाद्वापि मिथः संरूढरागयोः । दशाविशेषोऽयोऽप्राप्तौ पूर्वरागः स उच्यते । इत्युक्तेः । अत्र च रघुवीरसिंहः सौवणी च आलम्बनविभावौ । 'रत्याधुबोधका लोके विभावाः काव्यनाट्ययोः' इत्युक्तेः। ‘ालम्बनो नायकादिस्तमालम्ब्य रसोद्मात् । इति च । रघुवीर स्य धैर्यापसरणसमुत्था स्वदाद्याः * सात्त्विका भावाः अनुभावाः । तथा चोक्तम्- उद्बुद्धं कारणैः स्वः खर्बहिर्भावं प्रकाशयन् । लोके यः कार्यरूपः सोऽनुभावः काव्यनाट्ययोः ॥ एवं व्यभिचारिभावोऽपि निवेदादिः तत्र २ प्रकरण यथाऽयथं वेदनीयः । बालबुद्धिवैलव्यभयाद् बहु नोक्तम् । तावदिति–तावदकस्मात् स्वयमेव प्रबोधितः ' इत्यवान्तरान्वयः । 'शिववीरस्य चरोऽसि' इति कथनेन तदीयशासनकाले धर्ममर्यादोल्लङ्घनकारि- णामुपरि सद्यस्तत्कोपज्वालानलपातो व्यक्तीकृतः, तेन च सदाचारप्रचारवहुलता- ऽपि व्यज्यते इति व्यङ्गयाद् व्यङ्ग्यम् । 'गूढाभिसन्धिषु प्रेष्यसे' इति कार्यगौरवम् 'अल्पं तव वेतनं साधारणी चाऽवस्था' इत्यनेन निर्धनस्याल्पवयस्कस्य च स्त्रीस- कुल्योऽनुचितः । 'खगधारावलेहनमिव कष्टतरं तव कार्यम् ' इत्यनन- * सत्त्वं रजस्तमोगुणवर्जितमनोधर्मविशेषः तस्मात् सम्भूताः विकारा:= चित्तस्य अन्यथात्वरूपा धर्मा इत्यर्थः । 'विकाराः सत्त्वसम्भूताः सात्त्विकाः परि- कीर्तिताः' इत्युक्तेः । ते च- स्तम्भः स्वदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमथुप्रलय इत्यष्टौ साविकाः स्मृताः ॥ इति । ।
६७ राजसेवा मनुष्याणामसिधारावलेहनम् । पश्चाननपरिष्वङ्गो व्यालीवदनचुम्बनम् ॥ इति प्रतिपादितदिशा राजसेवाया कष्टतरमाध्यत्वं प्रमादसम्भावनमात्रताया- मपि च ततो महाननर्धापातश्च इत्यादि । ' किशोरं वयः अवहुदशि हृदयन' इत्य - नेनैतादृशकार्यात् सर्वथा भेतव्यता । 'जागरूको राजदण्ड' इत्यनेन राजशासन- पाल्यत्वम्। 'अवितर्कनीया च भाविनी घटना' इत्यनेन सावधानो भूत्वैव व्यव- हार साधयदित्यादि यथायथमनेकानि व्यङ्ग्यानि सन्तीति विज्ञेयम् । 'मास्म त्वम् --मुखचन्द्रावलोकन:-श्रात्मानं विक्रीणीष्व' इति सर्वैः तृतीयान्तैः पदैः मम्बन्धः । अधरसीधुतृषाभिः अधरमेव सीधु=मयं तत्तृषाभिः तृष्णाभिः । कोमलाङ्गालिलिङ्गिपाभिः कोमलानामङ्गानामाश्लेपेच्छाभिः । मधुरा लापश्रुश्रूषाभिः प्रियालापश्रवणेच्छाभिः । 'विक्रीणीष्व' इति 'क्रीन' धातो लोटि मध्यमपुरुषैकवचने रूपम् । 'परिव्यवेभ्यः क्रियः' ( १ । ३ । १८) इत्य कर्बभिप्राये आत्मनेपदम् । पृ० १०७ नेत्रे प्रमृज्य-प्रोञ्छ्य । स्तम्भावष्टम्भम् स्थगितभावम् अर्थात् सौवर्णी दृष्ट्वा कामविकारेण प्राप्तां जडतां परिहाय । कौमारात्परं वयः 'कौमारं दशमावधि' इत्युक्तः परं वयो यौवनं चुचुम्विषतीम्स्प्रष्टुमिच्छन्तीम् । कुसुमेति-कुसुमानां पुष्पाणां कुड्मलस्य=गुलुन्छस्य घूर्णनन्याजेन परिचालनकपटेन यूनां-तरुणानां मनः हृदयं घूर्णयन्तीम्=परिचालयन्तीम् सौन्दर्यस्य मार: स्थिरोश: तदवतारस्वरूपाम् = पिण्डीभूतसौन्दर्यामित्यर्थः । ऐक्षिष्ट = अद्राक्षात् । सुधाधवलम् = चूर्णकश्वेतम् । सचकितम् = * सविस्मयम् सग- तिस्तम्भम् = परिवर्तितकन्धरम् इत्येतानि ‘अवलोकयामास' इत्यस्याः क्रियाया विशेषणानि मुग्धाया बालाया नायिकायाश्चेष्टितमिदम् । इयन स्वीयैव मन्तव्या + अशातयविना च । सर्वमिदमग्रे द्वयोश्चरिते तत्र २ स्फुटीभविष्यति । * विस्मयेन सह वर्तते यस्यां क्रियायां तद्यथा तथा, वरिवृत्ता ग्रीवा यस्यां क्रियायां तद्यथा तथा । + इयञ्चोदाहृता 'रसमजाम् - नीरात्तीरमुपागता श्रवणयोः सीम्नि स्फुरन्नेत्रयोः श्रोत्रे लग्नमिदं किमुत्पलमिति ज्ञातुं करं न्यस्यति ।
( ६८ ) - ' 'अपरोपिऽ जातो वशीकार प्रयोगप्रचारः' इति रघुवीरस्य विषये ज्ञातव्यम् । स्वाधिकृतकोणकोष्टम् = दुर्गपालाज्ञया निर्दिष्टं स्वावतारस्थानम् । तत्रचेति–गवाक्षजालप्रसारितैः = वातायनरन्ध्रव्याप्तः । 'वाता- यनं गवाक्ष' इत्यमरः । राजतमार्जनीनिभैः = रजतं रूप्यम् तस्येयं तद्विकारो वा राजता, सा चासी मार्जनी बहुकरी तत्तुल्यैः । अर्थीयमुपमा ! कलानिधिकर- निकरैः = कलानिधिः चन्द्रः तस्य कराणां निकरैः समूहैः समूह्यसमुत्साय शोधिते-अपसारित इव अन्धकारे तमसि । अत्र चन्द्रकिरणसम्पर्केणान्धकारस्यापसरणं स्वभावस्थितमपि मार्जनीकृतशो- धनत्वेन रूपेणोत्प्रेक्षितम् । पयःपयोधिफैनैः = क्षीरसमुद्रडिण्डीरैः इव आस्तृते = सज्जे । शयनीयपीठे = शयनाथमुपस्थित पल्यङ्कविशेष उपविश्य । विदधत् = कुर्वाणः । करे कलयन् = पाणी कुर्वन् । जालान्तरेण = वाता- यनरन्ध्रेण तारकमण्डलम् = = नक्षत्रमण्डलम् । तारकं तारका तथा ' इति ( शाश्वतः )॥ पृ० १०८॥ सान्त्वयन् = धीरयन् । विद्रुताऽसि-पलायितामि अशान्तिम् = चित्तविकल्पम् विभ्रत् = धारयन् । उभे अभ्यस्तम् (३ । १ । ५) इत्यभ्यस्तसंज्ञायां ' नाभ्यस्ताच्छतुः ' (७ । १ । ७८) इति नुनिषेधः । ' पार्श्वतः पार्थे परिवर्तमान' इति • निद्राया अभावे कामिजनाव- स्थितिः स्पष्ट व्यक्तीकृता । होराम् = एकां घटिकामित्यर्थः । अयापयत् = गमयाञ्चकार प्रकाण्डकोष्ठे = विशाले कोष्ठे । निक्षिष्ट = अपश्यत् । आरकूट- दीपिकायाम् = पित्तल दीपिकायाम् । — रीतिः स्त्रियामारकूट: शैवालाङ्कुरशङ्कया शशिमुखी रोमावली प्रोञ्छति श्रान्ताऽस्मीति मुहुः सखीमविदितश्रोणीभरा पृच्छति ॥ एतानि सर्वाणि लक्षणानि एतदवस्थायाः सौवा अन्तर्गभिंतानीति मूक्ष्मे- क्षिकया ( पूर्वोत्तरसन्दर्भपठनेन ) सुधाभिनिरीक्ष्यम् ॥ * प्रजागरे सतीत्यर्थः । उक्त · महाभारते ' ( विदुरनीतिप्रकरणे ) अभियुक्तं वलवता दुर्वलं हीनसाधनम् । हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥ इति । इत्यमरः ( ६६ ) इ - - - । " पीठिका अधिष्ठापितानि' = पीठिकासु स्थापितानीत्यर्थः । अधिशी- स्थासां कर्म' (१ । ४ । ४६) इत्याधारस्य कर्मसंज्ञा । नागवल्लीदलानि ताम्बूलीपत्राणि । · ताम्बूलवल्ला ताम्बूली नागवल्ली इत्यमरः । पूगानि = क्रमुकाः । शङ्कला = पूगकर्तनशस्त्रिका 'मरौता' इति भाषा। एला-चन्द्र- वाला । पृथ्वीका चन्द्रवालेला निष्कुटिर्वहुला ' इत्यमरः। जातिपत्राणि मालतीपत्राणि । कर्पूरम् = धनसारः । महोपवहम् = महोपधानम् ‘तकिया' इति प्रसिद्धम् । निद्रामन्थरः = निद्राजनितालस्योपेतः । तत्र चैकस्मिन् ' इत्यारभ्य 'विशिथिलशब्दरुत्तरयति ' इत्यन्तेन गद्येन यथावस्थितबस्तुवर्णन- मलौकिकम् । पृ० १०६ ॥ एनम् = रघुवीरसिंहम् । पादसंवाहनपरः = अहि- मदनपरः । ' मन्दमभ्यधात् ' शनैाहापीत् । अनेन तदीयसभ्यता व्यज्यते । करौ सम्पुटीकृत्य = प्राञ्जलिर्भूत्वेत्यर्थः । असहयोगिनः = अस्मत्सा- हाय्यविमुखाः । पार्श्वस्थपृथिवीपतयः=जयसिंहप्रभृतयः । अङ्गबङ्गेति- तत्तन्नामदेशेषु । समुद्धृतध्वजाः= समुद्भूताः समुन्नता ध्वजा येषां ते अङ्गादि- देशवशीकरणादित्यर्थः । परिपन्थिनः=लुण्टाका अस्मद्वैरिणो म्लेच्छाः । सम्बोभीति = अतिशयेन पुनः पुनर्वा सम्भवतीति सम्बोभवीति । भूधातो: धातोरेकाचो हलादेः क्रियासमभिहारे यङ्' (३ । १ । २२ ) इति भृशार्थे यङ् । ' योचि च ( २ । ४ । ७४ ) इति यड़ोलुक्, प्रत्यय- लक्षणेन यउन्तत्वात् द्वित्वम् , अभ्यासकार्यम् , धातुत्वाल्लडादयः। शेषात्क- तरि'-परस्मैपदम् । ' दिवादिभ्यःश्यन् ' ( रुधादिभ्यः श्नम् ' इत्यादिगण- निर्देशात् श्यन्नाद्यभावे शवेव । 'चर्करीतच' इत्यदादा पाठात् शपोलुक् । वोभूति ' इत्यवस्थायां यङो वा' (७ । ३ । ६४ ) इति सूत्रेण ईडागमे 'वो भू ई इति ' इति स्थित ऊकारस्य गुणे, अवादेशे — बोभवीति ' इति सिद्धम् सम् ' तूपसर्गः। संशेते हृदयम् = संशयमापद्यते मन इत्यर्थः । शाङ्' धातोर्लटि प्रथम- कवचने । समुपसर्गेण संशयोऽर्थः । ' उपसर्गाद्धात्वथों वलादन्यत्र नीयते' इत्युक्तः दैवज्ञः = जानातीति ज्ञः । 'इगुपक्षाप्रीकिरः कः' (३ । १ । १३५) इति शाधाताः कः । देवस्य भागधेयस्य शः = ज्ञाता दैवशः = ज्यौतिषकः । ' देवं दिष्ट भागधेयं भाग्यं स्त्री नियतिर्विधिः' इत्यमरः । - - . ।
( ७० ) । पृ० ११० ॥ यूथिकामालाम् = मागधीमालाम् अथ मागधी। गणिका यूथिकाम्बष्ठा इत्यमरः । व्यात = अपमरति । रजनी = रात्रिः शेष्व-स्वपिहि । इति उक्त प्रकारेण । उदीर्य-ऊत्का ब्रीडाभरमन्थराऽपि लज्जातिशयमन्दापि । 'ताताशया बलादिव प्रेरिता' 'आज्ञा गुरूणां ह्यविचा- रणीया' इत्युक्तेः । आत्मना ऽत्मन्यव निविशमाना' अनेन लज्जातिशयत्वं व्यज्यते । 'नेर्विशः' (१ । ३ । १७) इत्यात्मनेपदम् । ‘लटः शतृशान चावप्रथमासमानाधिकरण' (३ । २ । १२४) इति शानच् । मोदक- भाजनसभाजितम् मोदकपात्रसत्कृतम् सव्येतरकरम् वामं पाणिम् । सच-रघुवीरः । आत्मनो भावम् = अङ्करितां रतिम् । संवृण्वन् आच्छादयन्। तद्धस्तात् सौवणीकरात् उदतू तुलत्=अग्रहीत् । सा=सौवण्येव । अञ्चलको णम् वसनदशाम् । कटिकच्छप्रान्ते-कटिभागे, कच्छभागे चेत्यर्थः । नतकन्धरस्य-अवनामितीवस्य । चिक्षप-पर्यधापयत् । अत्र ‘क्षिप्' प्रकृत्या मालापरिधानकाले सर्वथा स्पर्शाऽभावो योतितः । ईषदिति ईषत् * कम्पिता सत्त्वोदयाच्चलिता गात्रयष्टिर्यस्याः सा । शनैः मन्दमेव । यथागतं यथा स्यात् तथा निववृते = निवृत्ताऽभूत् । सैवेयमिति-गयेनोपन्यासकुशलः कविः स्वयमेव पाठकानां कृते रघुवीरसिंहादीन् परिचाययति । पृ० १११ को जानाति' इति नकोऽप्यन्य इत्यर्थः । स्वाऽवस्था प्रत्या- त्मवेदनायेति भावः । एतेन देहाद्यात्मवादपरासनपूर्वकं देहातिरिक्तात्मवादसमर्थन- मपि व्यक्तीकृतमिति वस्तुध्वनिः । 'नान्यदृष्टं स्मरत्यन्य' इति निय- मात् । अथवा-सर्व वाक्यं सावधारणमिति न्यायेन 'कः' प्रजापति रेव जानाति तस्य सर्वान्तर्यामितया कोशलारघुवीरान्तःकरणोपाध्योस्तदभेदादिति वेदान्तसिद्धान्त- गुप्तिः । उपसि-प्रभाते । उपतिष्ठासते-उपस्थातुमिच्छति । 'उपाद्देवपू- जासङ्गतिकरणमित्रकरणपथिषु'-( वा० १। ३ । २५) इति वाात्तेकेन स्थाधातारोत्मनेपदम् । कुसुमपतङ्गान् = पुष्पभ्रमरिकाः । उद्धृय- । उड्डाय्य । पृ० ११२ वीडया = लज्जया । कुलाङ्गनाङ्गीकृतमहाव्रतेन = स्वब्रह्मचर्यरक्षणरूपेण । वाचंयमताम् = तूष्णीम्भावम् । 'वाचियमो व्रते' (३ । २ । ४०) इति सूत्रण खच्प्रत्यय 'वाचंयमपुरन्दरौ च' (६ । ३ । ६ ) * कम्पो नाम विभावकार्यमनुभावः ।
( ७१ ) इत्यनेन वाचोऽमन्तभावो निपातितः । पवित्रतमानि = पुंयोगाभावना- तिपूतानि । स्फुटतमेति = स्फुटतमम् अतिप्रकटं यत् यौवनंतारुण्यं तस्योद्भेदः आविर्भावः तद्रहितानि = तच्छून्यानि । तदङ्गानि = कोशलायाः कुचायवयवान् । न अस्पाक्षीत् = नाऽमृद्गात् । प्रतस्थे = प्रस्थानमकरोत् इति शिवोम् । इति ( नूतन ) शिवराजविजयपताकायां चतुर्थो निश्वासः।
*32* पञ्चमो निश्वासः। असुर-सुर-नराणां कस्य नो भाग्यभङ्गो इह जगति कदाचिन्नैव कोऽपि * स्वतंत्रः । भवति विकचदृष्टिोऽपि घूको निशायां रविकिरण-समाजे सः स्वयं नष्टदृष्टिः ॥ १ धीरो नैव जहाति सत्त्वमतुलं नित्यं व्रतादच्युतो धर्मस्तस्य सदैव निर्मलतया । यन्मातृभूमिस्थितिः । * हंसः सञ्चरणे प्रभुर्यतमना देशे विदेशे तथा नेष्टे मानसमानहानसहनं स्वप्नेऽप्यसो भावितम् ॥ २॥ पञ्चमे निश्वासे स्वहस्तात् प्रणष्ट पुण्यनगरं पुनरपि स्वायत्तीकत्तुं लगितलग्न- तस्य शिववीरस्य गुप्तरीत्या शास्तिखानोदन्तपरिचयमवतारयन् , शिववारेण सह भूषणकवेः सङ्गमवीजन प्रदर्शयन् , पुण्यनगरे च हिन्दूधर्मम्लानि प्रकटयन्निव उप- क्षेपकविधया पण्डितराजकृतकाव्यद्वयप्रतीकमुपादत्ते-" वयं नो ते" इति, " हरेरद्य द्वारे " इति च । जाल्मेति-जाल्मा:=नीचा: असमीक्ष्यकारिणः । करा वेति यावत् । दिल्लीश्वरेण=अवरङ्गजीवेन । ववृधे एधाम्बभूव । तद्धस्तात् शिव- वीराऽधिकारादित्यर्थः । प्राचिच्छिदे स्वाधिकारे निन्ये । “छिदिर द्वैधीकरणे" इत्यस्य लिटि रूपम् । उभयपदीयोऽयम् । आपसर्गादर्थव्यत्ययः । * एकरसतया स्वसंकल्पपूरणे समर्थ इत्यत्र तात्पर्यम् । 'निहीनोऽपसदे। जाल्म" इति ( अमरः ) । जाल्मस्तु पामरे । असमीक्ष्यकारिणि च इति ( हैमः ) । जालं करोतीति जाल्मः । बाहुलकान्मप्रत्यय: । नेड्वशि- कृति" ( ७ । २ । ८ ) इतीट् न । + स्वदेशरक्षायां स्वदेशप्रियतायां वाऽऽग्रह इत्यत्र तात्पर्यम् । * हंसः पक्षी ब्रह्मनिष्ठश्च $ मानसम् =तदाख्यं सरः अन्तःकरणञ्च । " ( ७३ ) पृ० ११४ ॥ शिववीराध्युषितचरे = पूर्व शिववीरेणाध्युपिते । * पूर्वमध्युषितमिति अध्युषितचरम् । भूतपूर्वेचरद” ( ५ । ३ । ५३ ) इति मूत्रण स्वार्थे चरट् । छलाशङ्काः छलातङ्काः । युद्धाशङ्काः=सग्रामातमाः । । जरीजृम्भन्ते =अतिशयेन वर्धन्ते । " अथैकदा श्रीशिववीरः पारादाजगाम” इति सम्वन्धः । रजन्याम् रात्रौ । सुकोमलेति-सुकोमला अत्यन्तं हरिताः + शादा:= शष्पाणि ( बालतृणानि ) यस्यां तस्याम् । कलितप्रसादायाम् = प्रर्काट कृतनिर्मलतायाम् । केकिकेकेति-केकिनां मयूराण || केकाभिः वाणीभिः विहितं सम्पादित प्रहरिणां यामिकानां प्रातिनिध्यम्=प्रतिनिधिकर्म यस्याम् एवंभूतायां-भुवि । गुणवचनब्राह्मणादिभ्यः कर्मणि च (५। १ । १२४ ) इति ष्यत् । निष्कृपकृपाणपाणिः निष्कृपः कृपाशून्यः तीक्ष्णः कृपाण: पाणी यस्य सः कञ्चुकेति-कन्चुकेन चोलकेन आच्छादितः प्रावृतः कठिनो दृढ़ः शस्त्र- वेध्य इत्यर्थः कवचः तनुत्रं यस्य सः। कलितेति-कलितः रचितः सैनिक- भटस्य सैन्यशूरस्य वेषो नेपथ्यं येन स: एवम्भूतः श्रीशिववीरः । सेनां रक्षताति सैनिकः । रक्षति (४ । ४ । ३३ ) इति सूत्रेण द्वितीयासमर्थात् " सेना" शब्दात् ताद्धितः ठक् । अथवा-समवायान् समवैति (४ । ४ । ४३ ) इत्यधिकाराथें 'सेनाया वा' ( ४ । ४ । ४५ ) इति सूत्रेण ठक् । सेनां समवैताति सैनिकः इति साधुः । 'सेनारक्षास्तु सैनिकाः । सेनायां सम- वेता य सैन्यास्ते सैनिकाश्च ते ' इति ( अमरः ) । 'सैनिकः मैन्यरक्षे च स्यात् सेनासमवेतके' इति ( मेदिनी)। * अध्युपितं भूतपूर्वम् " इति लौकिकविग्रहः । + भी गात्रविनामे । यङ्लुकि रूपम् । " शादो जम्बालशष्पयोः" इति ( अमरः )। शादः कर्दमशष्पयोः " रति ( हैम:) श्यतीति शादः । “शाशपिभ्यां ददनौ" (उ. ४+६७) इति । || " केकावाणी मयूरस्य इति (अमरः)। बामणादेराकृतिगणत्वात् प्रतिनिधिशब्दात् कर्मणि व्यजित्यर्थः । " ( ७४ ) - दुग्धेति-दुग्धधारया=क्षीरधारयेव । क्षालितैः=शोधितैः क्रियोत्प्रेक्षे यम् । ज्योत्स्नया चन्द्रिकया प्रकाशितैः प्रद्योतितैः । पथिभिः मार्गः । श्रासन्नात् समीपवत्तिनः । शिवमन्दिरात्=महादेवमन्दिरात् । तत्र चेति-द्वारि=शिवमन्दिरद्वारीत्यर्थः कञ्चनाऽश्वमद्राक्षीत् " इति सम्बन्धः । द्विवचनान्तानि अश्वस्य विशेषणानि । रेणुरूषितरोमकुहरम्= रेणुना रूषितानि छुरितानि राम्णां लोम्नां कुहराणि छिद्राणि रोमकृपा इतियावत् यस्य तम् । शफः खुरैः उत्फालितया उत्पाटितया मृत्स्नया प्रशस्तया मृत्तिकया *स्नातम्=लिप्तम् । त्वरितेति त्वरितगत्या शांघचालेन यौ निश्वासप्रश्वासौ=श्वासस्य गमागमा तयोः सहचरितेन अविनाभाविना तयोरन्वितेनेत्यर्थः हिणत्कारण= हेषारवेण सूचितः व्यक्तीकृतःलम: मार्गलवनश्रमो येन तम् । उत्थायोत्याये- त्यारभ्य भुवि विलुठन्तमित्यन्तं स्वभावोक्तिः । तश्चेति शूद्रयुवकमित्यर्थः । विवर्णवदनम्-म्लानमुखम् । श्राजानु जानू अभिव्याप्य धूल्या रजसा धूसरित चरणयुगलं यस्य तम् । मन्थरितशरीरम् स्थगितदेहम् । स्वेदाक्लिन्नम् स्वेदः श्रमजवारि तेन धौतम् व्याप्तमित्यर्थः । पृ० ११५ । पूरितजठरपिटकः पूरितो भरितो जठरमुदरमेव पिटको मञ्जूषा येन तादृशोऽहमित्यर्थः । ताम्रकधूमपानै रिति तदभ्यामिनां परिश्रमा- पनोदव्यवहारः सूचितः । मन्दिरेति-मन्दिरस्य पाश्चात्यः पश्चाद्भवो यः प्राचीरः= कोटः तस्य गवाक्षात् वातायनात् आयान्तम्-प्राप्नुवन्तम् अस्पष्टालापध्वनिम् अव्यक्तशब्दम् । अश्रौषीत् प्राकणयामास । क्षणमिति–विरम्य=विश्रम्य ध्वनिप्रतिध्वनिभिः = शब्दप्रतिशब्दैः । अव्यक्तांशबहुलाम्-अस्फुटांश- प्रचुरामपि । उक्तिम् बननजातम् । एवम्-अनया रीत्या निश्चिच्य=निश्चिकाय । 'चित्र' चयने । तोदादिकः । अस्य लिटि प्रथमैकवचन रूपम् । विभाषा चेः ( ७ । ३ । ५८ ) अनेन अभ्यासात्परस्य चिञः सनि लिटि च कुत्वं वा भवति "चिराय" इत्यारभ्य इति वक्रारम् इत्यन्तं कस्यचित् पधिकस्य वचनम् अयमेव च भूपणकविः । दिल्लीति-दिल्लीवल्लभ:=अवरङ्गजीवः तस्य पाणिपल्लव- तल्लजच्छायाम्=प्रशस्तहस्ताश्रयम् । अध्युषितोऽस्मि तदीयानुचर्यमकार्षमित्यर्थः । पृ० ११६ । साभिमानेति-अभिमानेन सहितो यो भ्रमङ्गस्तम् । * 'स्नात' पदस्य शौचरूपो मुख्यार्थः स च प्रकृत बाधितः अतोऽस्य लपाऽथों लक्ष्यः । संयोगश्च सम्बन्धः । मालिन्यातिशयश्च व्यङ्गयः ॥
( ७५ ) उसुङ्गेति-उत्तुङ्गन उन्नतेन प्रचुरेणेति यावत् कोपेन अनितो व्याप्ती योऽखोऽन- ल्पो गर्वोऽहङ्कारः तेन बर्बरताम् मौढथं वा सहामहे = इत्यन्वयः । मृध्यामहे इत्यर्थः सारस्वतसृष्टौ = सरस्वत्या इदं सारस्वतम् = तस्य सृष्टी= मगें कवितारचनायामित्यर्थः । तस्य = दिल्लीश्वरस्य । क्रीतदासाः = वैतनिकाः। तदीहासमकालमेव = तदिच्छासमसमयमेव। बद्धकरसम्पुटाः प्राअलिभूताः । यथोचितावस्थानाः = यथायुकस्थितयः । यथायुक्तस्थितयः । श्रवतिष्ठन्ते उपस्थानं विदधत इत्यत्र तात्पर्यम् । "यथा" इति— अस्माकम्-कवीनाम् । पदानि = *सुप्तिङन्ताः शब्दाः नामाख्यातोपमगनिपाताश्चेत्यर्थः + वाक्यानि = पदोच्चयाः पदसमूहा इत्यर्थः । * छन्दांसि मात्रावर्णविभेदभिन्नानि प्रार्यादीनि । अलङ्काराः- अनुप्रासोपमादयः । || रीतयः पदसंघटनारूपा: वैदर्भीप्रभृतयः * 'सुप्तिङन्त पदम्' ( १ । । ४ । १४) इति पाणिनिसूत्रम् । ' एतानि चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च' इति निरुक्तम् । वाक्यलक्षणमुक्त 'साहित्यदर्पणे '-यथा- "वाक्यं स्याद् योग्यताकाङ्क्षाऽसत्तियुक्तः पदेोच्चयः" इति । "सुप्तिङन्तचयो वाक्यं क्रिया वा कारकान्विता" इत्यमरः । तत्र सुवन्तानां चयः- प्रकृतिसिद्धमिदं हि महात्मनाम् ' इत्यादि । अत्र भाष्यकारमते 'भवति' इत्यध्याहारस्य नावश्यकता । तिङन्तचयः–'पचति पश्य 'पचति भवति इत्यादि । 'घटमानय ' इत्यादि तिसुपचयात्मकमपि । इति । 1 उक्तञ्च वृत्तरत्नाकरे- पिङ्गलादिभिराचार्यदुक्तं लौकिकं द्विधा। मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते ॥ इति ६ उक्तन महाकविना दण्डिना- काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते । ते चाऽद्यापि विकल्प्यन्ते कस्तान कात्स्न्येन वक्ष्यति ।। || उक्त भोजराजेन सरस्वतीकण्ठाभरणे- वैदर्भादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः ।
( ७६ ) ॥ गुणाः पाद्याः रसधर्माः । । रसाः शृङ्गाराद्याः । व्यञ्जनाव्यापारैकगम्याः । दीनारसम्भारैः मोहरकोटिभिरित्यर्थः । तोषयितुम् = प्रसन्नीकर्तुम् । अलम् = समर्थः । यथा वयं = कवयः केवलं + वचनभङ्गीभिः = कविता- चातुरीभिरित्यर्थः । पारयामः = शक्नुमः । अस्मदिति-अस्माकं शृङ्गार- रीङ् गताविति धातोः सा व्युत्पच्या रीतिरुच्यते ॥ ३ वैदर्भी साऽथ पाञ्चाली गौडीयाऽवन्तिका तथा । लाटीया मागधी चेति षोढा रीतिर्निगद्यते ॥ इति दण्डी तु- अस्त्यनेको गिरां मार्गः सून्मभेदः परस्परम् । तत्र वैदर्भगौडीयौ वण्र्येते प्रस्फुटान्तरौ॥ इत्याह * आलङ्कारिकसमयानुपाती श्लेषाद्यन्यतमो ' गुण' इति रत्नेश्वर- प्रभृत्यभिमतं गुणलक्षणम् । + विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी भावो रस ' इति 'हेमचन्द्राचार्यः ' ( काव्यानुशासने ) स च शृङ्गारादिभेदाद- नेकविधः । शृङ्गारस्य च प्राधान्यम्- शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् । स एव चेदशृङ्गारी नीरसं सर्वमेव तत् ॥ इति ( सरस्वतीकण्ठाभरणे) + 'किं वदति मनोभवाभितप्ता चिरममयागतवल्लभा मृगा।' इति समस्यायां दीयमानायाम्- गुरुजननयने पिधेहि निद्रे ! त्वरितमिहास्तमुपैहि पद्मवन्धो !। इति वदति मनोभवाभितप्ता चिरसमयागतवल्लभा मृगाक्षी ॥ इत्यादिरूपा वचनभङ्गी कवीनाम् । अनया वचनभङ्गया कश्चित् कविः स्वकीयं राजानं कारागारान् मोचयामासत्यस्मद्गुरुचरणाः।
( ७७ ) - रस एव रसायनकं = जीवनौषधम् * स्वगों वा । आस्वाद्य = रयित्वा जितरागद्वेषः = वीतरागः । मुनिः : = सुगतः ब्रह्मविद्वा । प्रतीपदर्शि- नीम् = वामां सुन्दरीम् । अनुकूलयितुम = मानयितुं स्वायत्तीकर्तुम् आकुलः = विह्वलः कल्पेत = समथों भवेत् ! अस्मच्छृङ्गाररसकथाश्रवणन मुनिरपि धैर्यच्युतो भवेदित्यभिप्रायः । अस्मद्वैराग्यकविताम् = अरमच्छा- तरसप्रधानकविताम् । रागोऽपि कामोऽपि विषयासक्तिरूपो दोषोऽपि । विरज्येत् = विरक्तीभवेत् । वीररसकविताम् = उत्साहस्थायिभावपूर्णा कविताम् नियमाणोऽपि = प्राणान् त्यजन्नपि युद्धे = सङ्ग्रामे उत्तिष्ठेत् = उत्थिता भवेत् । उदोऽनूर्ध्वकर्मणि ( १ । ३ । २४ ) अत्रोर्ध्वकर्मत्वादात्मनेपदं न । एषु सर्वत्रातिशयोक्तिः। " यस्य भाग्य" इति । भाग्ये = देवे भागधेये इति यावत् । चिरा वस्थायिनी = कल्पान्तस्थायिनी । कविरचनानां कल्पान्तस्थायित्वादिति भावः । कीर्तिः : = यशः । समुद्रेति-समुद्रस्य सागरस्य कल्लोलानां वीचीनामाघातः ठात्करणं तत्सहं यशः अर्थात् समुदान्तव्यापिनी कीतिः । स एव अस्मान् आद्रियते = सत्करोति । “न वयम्" इति । द्विजिह्वान् इत्यन्तमिदं * मालती शिरसि जृम्भणं मुखे चन्दनं वपुषि कुङ्कुमाऽविलम् । वक्षसि प्रियतमा मदालसा स्वर्ग एष परिशिष्ट भागमः ॥ ( शृङ्गारशतके ) + मुनीन्द्रः सुगतः शाक्यो मुनिरद्वयवाद्यपि ' इति ( वैजयन्ती )। दुःखेष्वनुद्विग्नमनाः सुखषु विगतस्पृहः । वीतरागभयक्रोधः स्थिरधीर्मुनिरुच्यते ॥ इति ॥ ( श्री. भगवद्गीता ) # क्षणं बालो भूत्वा क्षणमपि युवा कामरसिका क्षणं वित्तीनः क्षणमपि च सम्पूर्णविभवः । जराजीणे रङ्गैर्न इव वलीमण्डिततनु- नरः संसारान्ते विशति यमधानीजवनिकाम् ॥ इत्यादि शान्तरसकविताम् । ॥ SEE PRATAP CULLAGE LIBRARI ( ७८ ) गद्यम् - उपमालङ्कार प्रधानम् । मीनाः मत्स्या: पीनाः स्थूला तानिवेत्यर्थः । इभाः = गजा: तुन्दिभाः = वृद्धा नाभिस्तुन्दिः सा एपामस्तीति तुन्दिभाः = तान् स्थूलोदरान् इत्यर्थः । तुन्दिवलिभटेर्भः (५। २ । १३६) इति सूत्रेण तुन्दिशब्दान्मत्वथीयो भः प्रत्ययः । भेकाः = मण्डूकाः निर्वि- वेकाः = विचारशून्याः ये कूपमेव समुद्रं मन्वते अल्पप्रज्ञा इति प्रतीतिः । वृष- दंशकाः = मार्जाराः यथा ते घातं लगयित्वा ( आत्मानं गोपायित्वा ) आखट घ्नन्ति तद्वत् कपटेन हिंसाकतारः तान् कपटहिसकान् । काकाः = करटाः । आस्वादितो रसित: दुर्विपाको मलं यः तान् । बलीमुखाः = वानराः । यथा ते चपलमुखा भवन्ति एवमेव ये ऽनवस्थितमयादा: अस्थिरवाच इत्यत्र तात्पर्य तान् । शृगाला. = फेरवाः । कलिता धृता धूर्तताया माला परम्परा यैः तान् । द्विजिह्वाः = सर्पाः सूचकाश्च । द्वे जिह्व येषाम् अर्थात् येषामेकाऽव्यभिचारिणी वाणी नास्ति तान् । सजीवानिवोपवान् = प्राणवन्ति उपधानानीय इत्युत्प्रेक्षा एतेन भोगलम्पटत्वं स्थूलकायत्वञ्च व्यज्यते । ' उपधानन्तूपबह : ' इत्यमरः । पृ० ११७ । आत्मस्तुतिमात्ररूान् = आत्मस्तुतिमात्रे ' त्वं कुवेरो ऽसि, वरुणोऽसि ' एवं स्तवनमात्रे ( केवलं स्तुतावेव ) रुचिरिच्छा येषां तान् । मूर्त्तिमत = इति–देहधारिण इत्यर्थः । गुणीति-गुणिनां कलाविदां गुणाः तेषां ग्रहणे = ज्ञानेऽसमर्थान् । मिथ्यामोदरतान् = सङ्कल्पकल्पितानन्दभाजः । वाराङ्गनेति वाराङ्गनाः = वेश्या: तासां वातस्य समूहस्य यश्चरणपाताघातः = ( कामवशीकरणमन्त्रफलभूता ) पादाहतिः तत्सहान् पण्यस्त्रीरतिलोलुपानित्यर्थः । मद्यकीटान = अतिसुरापानकारिण इत्यर्थः । रसिकान्तरम् -- अन्य कनन * रमविदम् अरसिकजनेन सह वार्ता- लापादिकरणमप्ययुक्तमिति भावः । लालााटकः- प्रभो लदी सेवक इत्यर्थः । सञ्ज्ञायां ललाटकुक्कुटयौ पश्यति ( ४ । ४ । ४६ ) इति सूत्रेण पश्यत्यर्थे ठञ् । द्वारमार्गेण मन्दिरं प्रविश्य प्रदक्षिणच्छलेन इत्यन्तेन गयेन शिवप्रति- मादर्शनविधिर्वणितः । श्रागन्तुकम् = तमेवातिथिं कविम् । आगच्छतीति * उक्तञ्च-मदीयकविकल्पलतिकायाम्- अरसिकजनभाषणतो रसिकजनैः साकमपि वरं कलहः । लम्बकुचालिङ्गनतो लकुचकुचापादताडनं श्रेय : ॥
( ७६ ) आगन्तुः । सितनिगमिमसिसच्यविधा शिभ्यस्तुन्' ( ३०१ ) इत्यौणादि. कस्तुन् । आगन्तुरेव 'आगन्तुकः' । ' स्युरांवशिक आगन्तुरतिथिर्ना गृहागते इत्यमरः । - - पृ० ११८ । उदतीरत् = उत्तरमदात् । आर्पयत् । दत्तवान् । 'आर्पयत् ' इति ऋ गतिप्रापणयोः : । ऋगता । इति द्वयोरपि धात्वोौँ लरि रूपम् । अतिहील्वीरीनयीक्ष्माय्यातां पुङ् णौ' ( ७ । ३ । ३६ ) इति णो परे पुगागमः । पृ० ११६ । गजानां विंशतिः इति । विंशतिर्गजाः इत्यर्थः । विंशत्याद्याः सदैकत्वे सर्वाः सख्येयसङ्ख्ययोः = विंशत्याद्याः मी एव सङ्ख्यये सङ्ख्यायाञ्च नित्यमेकवचनान्ता एव वर्तन्ते इत्यमरप्रामाण्यात् 'विशतिर्गजाः गजानां विंशतिः' इत्युभयथाऽपि वाक्यम् । प्रपञ्चित चैतदस्मा- भिरन्यत्र । अथ " इति कथान्तरमवतारयति । शास्तिखानस्य-दिल्लीश्वर - प्रेषितसेनापतेः अस्तमिते इति सायङ्कालवर्णनमारभते । मरीचि- मालिनि-सूयें । हरित्सुदिक्षु । चमत्कुर्वत्सु नक्षत्रेषु युतिं प्रसारयत्सु तारागणेप्वित्यर्थः। शिवेति । अध्युषितचरस्य-पूर्वमध्युषितस्य। महाप्रासा- दस्य-मह।यसो राजमन्दिस्य । 'प्रासादो देवभूमुजाम् ' इत्यमरः । अट्टालि- कायाम्=तलिन्याम् 'अटारी ' इति प्रसिद्धायाम् । तलिन्यट्टालिके सम इति ( वैजयन्ती ) । पर्यवातिष्ठन्त परिवार्य स्थिता अभूवन् । दीपमाला- दीपराजिः चकास्ति-दाप्यते । प्रस्फुटदिति-प्रस्फुटतां=विकसतां अतिमुक्तय कुमुमानां माधवी पुष्पाणां सौरभं हृद्यं गन्धम् । श्रादाय = गृहीत्वा । उपधानम् = उपवहम् । सम्मुखेति सम्मुखेति = पुरःस्थापितं यत् = पुरःस्थापितं यत् रत्नमणिमि- जटितं खचितं धूमपानयन्त्रम् ' हुक्का' इत्याख्यं तस्य नलिकाम् नडिकाम् । हस्ते पाणो दधत् कुर्वन् । यूथिकेति-यूधिकाया: कोरकाणां कलिकानां परिभिः राजिभिः परिवेष्टितायाः = व्याप्ताया नलिकायाः अग्रतः = पुरोभागात् । सगु. डगुडाशब्दम् = गुडगुडेतिशब्दानुकृतिः तत्सहितम् । ताम्रकधूमम् तमाखुधूमम् । अाकर्षन् = आसञ्जयन् । पार्श्वस्थेति-पार्श्वस्थः समाप स्थितो यस्ताम्बूलवाहकः तस्य हस्तात् वीटिकाम् = वोटिम् । उशीरति = उशी- रस्य नलदस्य जलेन सिक्तय॑जनवातैः वीज्यमानः = सेव्यमानः । परितः इति–परितः = समन्ततः संस्थापितानि यानि तोयभाजनानि = पानीयपात्राणि ( ८० ) तत्स्थकुसुमस्तबकैः = पुष्पगच्छैः गुलदस्ता ' इति ख्यातः सुरभी- क्रियमाणः = तेषां सौरभेण व्याप्तीक्रियमाणः । कार्यवाहेण = अनुचरेण । पृ० १२० ॥ प्रतीति-शृङ्गाटकं शृङ्गाटकं प्रतीति प्रतिशृङ्गाटकम् । शृङ्गाटकमात्रमभिव्याप्येत्यर्थः । अव्ययं विभक्तिसमीप-' (२।१।६) इति सूत्रेण यथाऽथें वाप्सायामव्ययीभावसमासः । एवमेव- प्रतिविपणि ' इत्यादौ शेयम् । शृङ्गाटकम् = चतुष्पथम् । विपणिः = पण्यवाथिका । गोपुरम् = पुरद्वारम् । पल्लिः = ग्रामटिका । दोधूयन्ते = अत्यन्तमेजन्ते । विजयपताकाः : = विजयध्वजाः । रुष्टतमसोदर्यः = रुस्तमसहोदरोऽपि महावलशाल्यपीत्यत्र तात्पर्यम् । गोपुरावग्रहणीम् = पुरद्वारन्तु गोपुरम् = तस्य अवग्रहणीम् = देहलीमपि । पदा = चरणेन । स्प्रष्टुम् = * छुपितुम् । उल्लंघितुम् = अतिक्रमितुम् । उद्वाहिकेति-जन्यायात्रार्थमित्यर्थः । प्रति प्रत्यूष मित्यादि पूर्ववदव्ययीभावसमासः । + प्रत्यस्तमनवेलम् = प्रत्यस्तकालम् । ध्वन्यन्तरेति-अन्यध्वनि- तिरोधानप्रतिभटा इत्यर्थः । " नभी मण्डलं तरङ्गायन्ति" इत्येन न्यायसिद्धान्तः सूचितः आकाशे वीचितरङ्गन्यायेन शब्दोत्पत्तेः स्वीकारात् । । उदूढभ्राष्ट्राः = उज्जटभ्राष्ट्रा इव । दुःखेति-दुःखेन अस्मत्कृतपराजयप्राप्तकष्टेन दन्दह्यमा- नम् = अतिशयेन दग्धं हृदयं येषां ते महाराष्टाः । पृ० १२१ ॥ पुष्परथाः=भ्रमणार्थ यानानि । ' असौ पुष्परथश्चक्रयानं न समराय यत् ' इति ( अमरः ) । रथ्यासु = प्रतोलीषु । वीटिकारागेति । वीटिका = ताम्बूल बीटी इति ग्राह्यम् तस्या रागेण रजिता अधरा येषां ते * छुप स्पर्श । तौदादिकः । + अन्यते इति अनः = गतिरित्यर्थः । ' अन ' धातो वे अप् । अस्तस्य ( सूर्यादेः ) अनो गतिरिति अस्तमनः । उक्तञ्च- तिरोधानञ्च यत्रैति तदेवास्तमनं रवेः । नैवास्तमनमर्कस्य नोदयः सर्वदा सतः ॥ इति (ज्योतिष) + भ्राष्टः = अम्बरीषम् । क्लीवेऽम्बरीषं भ्राष्ट्र इत्यमरः । भ्रस्ज पाके अस्मात् भ्रस्जिगमिनमि'-( ४ । १६० ) इत्यौणादिकः ष्ट्रन् प्रत्ययो वृद्धिश्व । भृज्ज्यतेऽत्र धान्यादि । - . .
( ८१ ) । उत्तरीयाणि = प्रावरणानि । नागर ङ्गाणि = फलविशेषाः । रम्भाः = कदल्यः । मालिकाः = पुष्पादिरचिताः । परिमलम् = सौरभं द्रव्यम् " कुनश्चित वाराङ्गनाः नवयुवकमृगान् पाशयन्ति " इति सम्बन्धः । श्राकुश्चिततिरस्करि- णीषु-किनिट भुग्ना जवनिका यासां तास्त्रित्यर्थः । अट्टालिकागवाक्षिकासु हम्यवत्तिचन्द्रशालादिजाले । प्रसाधितकेशाः कृतकङ्कतिकपट्टिकाः। अञ्जनति- प्रअनेन कज्जलेन रश्रितानि मज्जितानि नयनानान्चलानि नेत्रप्रान्तभागा यामां ताः । सुवर्णेति-सुवर्णकुसुमैः = हिरण्मयपुष्पैः अङ्कितानि जटितानि यानि पट्टा- म्बराणि कौशयवस्त्राणि तेषां धराः = धारयिव्यः । मदविघूर्णितलोचनाः मदेन विघूर्णितानि नेत्रानि लोचनानि यामां ताः । उद्भिन्नयौवनाः = उत्स्फुटि- ततारुण्या: । उन्नतकुचाः = उन्मुकुलितोराजा: । एतेन कुचानां काठिन्यं व्यज्यते । मसृणकपोलाः = स्निग्धगण्डस्थलाः । कपोतकराठ्यः = पारावत- कन्धराः । वाराङ्गनाः = पण्यस्त्रियः कटाक्षेति-कटाक्ष जालमेव वागुराः = मृगबन्धनानि ताभिः । नवयुवकमृगान् = नवतरुणहरिण।न् । रुपकम् । पाशयन्ति = वन्धयन्ति वशीकुर्वन्तीति यावत् । प्रकटितेति-प्रकटितः स्फुटीकृतः शिववियोगस्य शिवराजस्य विषादः क्लेशो येन सः वलात् = प्रसद्यापि विषादः = विषाशी-क्रियेत असौ हन्यतेत्यर्थः । पृ० १२३ । चिचर्वयिषुः = चयितुमिच्छुः क्रव्यादेभ्यः = मांस- भक्षकेभ्यः सिंहादिभ्यः । शतन्यः = तोफाः । सोत्प्रासम् = सोपहासम् । पृ० १२५ । उन्दुरेभ्यः मूषकेभ्यः । कोष्णेति-कोष्ण: कवाष्ण। मन्दोप्णो यः किरातस्वरसः भूनिम्बकषायः तमिव क्रोधमवगीर्य-कोपं पीत्वा । चाटुकाराः=नर्मवचांसि । विजिग्यिरे विपूर्वकात् 'जि' धातोः विपराभ्यां जेः ( १ । ३ । १६ ) इत्यात्मनेपदम् । ‘पादांगुष्ठशिरीषाग्निौलिमवाप्स्यति' इति लोकोक्तिः । ( प्रकृते ) एकैकदुर्गजयोद्योगो वृथा तस्मिन् कृते सति अस्माकं परा- जयः' महाराष्टा एव च जायेरनिति भावः । पृ० १२६ । अत्यन्तं सप्रतिभः-महानिपुणः । करौसम्पुटीकृत्यबद्धा- भलिर्भूत्वेत्यर्थः । पशुमारं मारयिप्यन्ति=पशुवत् हनिष्यन्ति। उपमाने कर्मणि व ( ३ । ४ । ४५ ) इति सूत्रेण एमुल् । पशुमिव मारयिष्यन्तीति विग्रहः * वैजयन्तीकोषे तु-" शतघ्नी तु चतुस्ताला लोहकण्टकसञ्चिता" इत्युक्तम् । । :।
( ८२ ) उच्चावचोपत्यकासु-नानाविधासु अनेरासन्नासु भूमिषु । गण्डशैलेति- गण्डशैलमयानि यानि निबिडानि धनानि अरण्यानि एव कुज्झटिका दुरवगाह- त्वात् तासु । दुरूहेति-दुरूही लब्धुमशक्यो आरोहाऽवरोही यत्र तादृशीषु पद्धतिषु पादमार्गेषु। सानुषु-पर्वत शृङ्गेषु। ‘शास्तिखानस्तु समुवाच' इत्यन्वयः । कातरेति-कातरतरः अत्यन्त कातरः दुर्बल: अन्तरात्मा हृदयं यस्य सः । कन्द रिकन्दरेषु-पर्वतगुहासु । शक्तिप्रोतान्-शक्त्याख्यशस्त्रविद्धान् । सवे डम्-ससिंहगर्जनम् । पृ० १२७ । * उद्घातिनीषु = पादस्खलनयोग्यासु उपत्य- कासु-पर्वतासन्नभूमिषु। 'उन्दुर इव कुहरषु निविशन्ते' इत्यत्र उपमालङ्कारः । 'निविशन्ते' इत्यत्र 'नेर्विशः' (१ । ३ । १७ ) इत्यनेन श्रात्मनपदम् । एवमेव मर्कट इव' पक्षिण इव' अत्रापि-उपमैव । मर्कटाः= वानराः । सानुमत्सानूनि = अद्रि शृङ्गाणि । ‘उड्रीय इव' इत्यत्रोत्प्रेक्षा । अत्र चेत- नेषु पक्षिषु स्थितस्य विहायसागमनात्मक स्य उड्डयनरूपस्य धर्मस्य सादृश्यमहिम्ना महाराष्टेषु सम्भाव्यमानत्वात् । शशका इवेत्युपमा। सिंहदुर्ग एवाश्रयणीय: = सिंहदुर्गोपर्येव अाक्रमणं विधातव्यम् । साहसिकः। । माहसेन वल कर्मणा जयति इति साहसिकः । तेन दीव्यति खनति जयति जितम्' ( ४ । ४ । २ ) इति ठक् । पृ० १२८ । ताम्बूलिकेति–ताम्बूलं पण्यमस्य । तदस्य पण्यम् (४ । ४ । ५१) इति ठक् । उपचारात् ताम्बूलदाने नियुक्तोऽपि ताम्बूलिकः । शाकुन्तलेऽपि-'आयुष्मन् उद्घातिनी भूमिरिति'-प्रायातम् ‘उद्घातः कथ्यते पादस्खलने समुपक्रमे' इति विश्वः। सहसि बले भवम् साहसम् । तत्र भवः ( ४ । ३ । ५२ ) इत्यण् । अथवा सहसा निवृत्तम् । तेन निवृत्तम् ( ४ । २ । ६८ ) इत्यण् । सहसा क्रियते यत्तु तत्साहसमुदाहृतम्' इति स्मृतिः। तच्च पञ्चविधम्- मनुष्यमारणं स्तेयं परदाराभिमर्षणम् । पारुष्यमनृतश्चैव साहसं पञ्चधा स्मृतम् ॥ 'साहसोऽग्निभेदोऽपि-पाकयशे तु साहस' इत्युक्तेः प्रकृते साहसं बल- कति दिक। - * ॥
( ८३ ) किञ्चित् खर्वाकृतिम् = ईपद्वामनम् अपीच्यदर्शनम् = सुन्दर- दर्शनम् । अवास्थिपत = स्थिता बभूवुः । पृ० १३० । जम्बुकस्य = शृगालस्य बुभुक्षितति = बुभुक्षितः = क्षुधात्तों य: केसरी महामिहः तस्य खरनखरैः तीक्ष्णकर जै: आक्रान्तस्य उरणस्य मेषस्य जिघृक्षा = गृहातुमिच्छा (यथा) विफला तथैव शिवस्यापि । न कुर्यादिति अप्रस्तुतप्रशंसालङ्कारः । तथाहि-'अप्रस्तुतप्रशंसा स्यात् मा यत्र प्रस्तुताश्रया' इति जयदेवोक्त-लक्षणेन प्रकृते (प्रस्तुतायां शास्तिखानस्तुता ) चातकमेघादीनां वर्णनं प्रस्तुतशास्तिखानस्तुतिपर्यवसायीति घट्यते । दण्डिमते तु-'अप्रस्तुतस्तुत्या प्रस्तुतानन्दावोधनमप्रस्तुतप्रशंसा' इति फलति तदत्रायुक्तमिव । प्रपञ्चितश्चायमों- ऽस्माभिः काव्यादर्शस्य द्वितीयपरिच्छेदे कुसुमप्रतिमायाम् । पृ० १३२ शोणितेति-शोणितस्य रुधिरस्य शोणधाराभिः रक्तासार रित्ययः । न वयं शोणितशोणां पृथ्व। कर्तुं कामयामहे इत्यर्थः । सन्धित्सते सन्धिकर्तुमिच्छति । विवित्सति = वेत्तुमिच्छति आदेच्यते = प्रादेशः करिष्यते । पृ० १३३ । संवादिनी सदृशी । प्राकृतिः मूर्तिः । श्रनुकारिणी तुल्या वाक् । संशयानः संशयमापन्नः । मुकुरेति-मुकुरचित्रपट्टादीनां द्वन्दः । निश्रेणी: = अधिरोहणीः । रक्षके = प्राहरिके रक्षिपुरुष पृष्टवति सतात्ययः । अङ्गारप्रतिमाभ्याम् अङ्गारतुल्याभ्यां क्रोधेन शोणिताभ्यामित्यर्थः । घण्टा- पथेन = राजमार्गेण । यातायातम् = गतागतम् । इति ( नूतन ) शिवराजविजयपताकायां पनमो निश्वासः ।
* षष्ठो निश्वासः । -- मतिरेव बलाद्वलीयसी मतिहीना बलिनोऽपि दुर्बलाः । शिववीरजये स्फुरन् * ध्वजो मतिमत्ता-मह-मान-मापकः ॥१॥ महादेव-पण्डितरूपेण शिववीरस्य महाराजयोधपुराधीश्वरजसवन्तसिंह- वशीकरणाप्रभावं दिदर्शयिषुः कथोपक्षेपकरीत्या पञ्चतन्त्रप्रतीकमुद्धरति—'वुद्धि- र्यस्य'--इति । पृ० १३५॥ नीतिनिष्णातः = राजनीतिकुशल: । निनदीभ्यां स्नातेः कौशले ( ८ । ३ । ८६ ) इति सूत्रेण स्नातेः सस्य ष: कौशले गम्ये ' प्रवीणे निपुणाभिज्ञविज्ञनिष्णातपण्डिताः' इति ( अमरः ) । वीरवरः = वाराग्रणी: । परम : साहसः = महाबली। विविधेति, विहितेति- एतेन तस्य शिवविषये परमाप्तता व्यज्यते । खड्गेति-खड्गः = अमिः तस्य चालनविद्या = वामाऽवामपार्धाभ्यां अग्रपश्चाभ्याञ्च शत्रोरुपरि मारणप्रकारविज्ञानं तत्र दक्षः । शत्रुभवनम् = शास्तिखानाधिष्ठितस्थानम् । प्रविविशुः = प्रवेष्टु- मिच्छुः । तदनुमत्या = शिवानुज्ञया । गृहीतेति-गृहीतः = कृतो यवन- भिक्षोः म्लेच्छयाचकस्य 'पीर' इति प्रसिद्धस्य वेषो नेपथ्य येन सः । नीलेति न्यायाचारयमाहिसास्वस्त्रा मेढायोर्ध्वजः' इति ( वैजयन्ती ।। + नीयन्त = उन्नीयन्ते अनया अर्था इति नीतिः । नीधातो:-स्त्रियां क्तिन् शुक्राचार्यादिप्रणीतं शास्त्रम् । नीतिविषये भर्तृहरिणाऽप्युक्तम्- सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चाऽर्थपरा वदान्या । नित्यव्यया प्रचुरनित्यधनागमा च वाराङ्गनेव नृपनीतिरनेकरूपा ॥ इति ॥ * साहसं बलकर्म । परमं साहसं यस्य सः । 'दण्डो दमः साहसोऽस्त्री इति ( वैजयन्ती) । सहसि बले भवम् । ( ४ । ३ । ५२) इत्यण । - * तत्र भवः ८५ * नीलनिचोलस्य नील्या रक्तस्य प्रच्छटपटस्य यदचलं कोणविशेषः तस्य अधः = अधोभागे तिरोहिताः = छुपिता तीक्ष्णतरा = कठोरतरा छुरिका कृपाणिका यस्य येन वा स तथाविधः । कटीति-कटिपर्यन्तम् = श्रोणीपर्यन्तं विलम्बमाना: दोलायमाना मेचकाः कृष्णवर्णाः कुचिताः वलिताः केशाः शिरोरुहाः यस्य म तादृशः । हरितपरिधानः = हरितवर्णवासाः । तीव्रतमेति--तीव्रतमः अत्यन्तं कठोरः शङ्ककृतः = कीलकाकृतो दण्डो यस्य । नारङ्गाकृति = नारङ्गाकारं मुख यस्य, विलम्बितानि विविधानि मुसूक्ष्माणि शृङ्गलाखण्डानि यत्र, एवंभूतं- झणझणध्वनिना रुचिरं श्रोतृमनोरञ्जक वाद्यमेकं वादयन् भिक्षाटनार्थ तत्पश्चा- देव प्रचलित ' इत्यन्वयः । निरोधः= प्रतिरोधनम् । गोपुराध्यक्षेण = पुरद्वारमहाप्राहरिकेण । किञ्चिदालप्येति-विश्वासधरणक्तिः । कानिचित् छन्दांसि = वैत-गजल- प्रभृतानि मुसलमानकवितासु प्रधानभूतानि अामेडयन् = पुनः पुनरुच्चारयन् । कर्हिचिदिति- प्रपदे पादाग्रे पातिता दृष्टियेन सः । 'पादायं प्रपदम् ' इति ( अभिधानचिन्तामणिः ) निरपेक्ष इव ' इत्यादि परैरज्ञायमानत्वं व्यक्ति । पृ० १३६ । द्वारपालानाम् = दौवारिकाणाम् । रक्षकाणाम् = रक्षिपुरुषाणां प्राइरिकाणाम् । तानि तानि निवेशनानि = निवेशकोष्ठकानि । ईक्षमाणः = पश्यन् । दिदृचः = द्रष्टुमिच्छुः । पुष्पवाटिकायाम् = गृहोपवने । “प्रथमत" इत्यादिसन्दर्भेण भिक्षोश्चर्या वर्णयति । सघना हरिता लतावेष्टितद्रुमावलिः, इति पुष्पवाटिकाया विशेषणानि शेयानि। यस्यां पुष्पवाटिकायां प्रविष्टः-सा सघना = सान्द्रा निबिडेति यावत् । हरिता अशुष्का । लताभिः वल्लीभि: वेष्टिता वलयिता दुमाणां वृक्षाणाम् श्रावलिः राजिर्यत्र । द्वितीयत इत्यन्य हेतुमाह-तमोबहुला = अन्धकारप्रचुरा तमी = रात्रिः । “तृतयित" इत्यपरं कारणमाह-नीलनिचोलः = कृष्णप्रच्छदः । जटिलः = जटी । पिच्छादीलन् । (५ । २ १००)। इति हेतोः=वीक्षमाणैः पश्यद्भिरपि अवी- क्ष्यमाणः = अनालोक्यमानः । सप्रसादम् सहर्षम् + अचकथत् = * ' नील्या अन् ' ( वा० ४ । २ । २ ) इति नीलीशब्दात् रक्तार्थेऽन् । 1 ‘नारङ्गो नागरगःस्यात् त्वक्सुगन्धो मुखप्रियः' इति निघण्टुः । भयं मधुराम्लः, दीपनः, वातनाशकश्चेति । । प्रारम्भोऽत्र पदस्य इति प्रपदम् ।
( ८६ ) फलकाः । " इति भाषा । अगादीत् । मन्दुरासु = वाजिशालासु । लोहदण्डप्रावारः = पायसदण्ड- वृतिः। आच्छन्नशरीराः : = गुप्तदेहाः। परैः = शत्रुभिः। अलक्ष्यमाणाः = अशायमानाः । गवाक्षाः = जालानि उन्मुद्रिताः अपिहिता एव उपेक्ष्यन्ते उपेक्षाविषयीक्रियन्ते । निर्निस्त्रिंशाः = त्यक्तासयः । निश्चर्माणः = परि यस्त- " फलकोऽस्त्री फलं चर्म " इति ( अमरः ) । " ढाल पानैः = सुरागोष्ठीभिरित्यर्थः । शयनै रित्यनेन रतिविलासो व्यङ्ग्यः । सुरापाने तस्यावश्यसत्त्वात् । पृ० १३७ । व्यत्येति-अपसरति । परकीयः परस्याऽयम् । गहाद्यन्तर्ग- तगणसूत्रेण परस्य कुक् छश्च । आत्मीयः = अात्मनोऽयम् । * गहादित्वात् ( ४ । २ । १३८ ) छप्रत्ययः । परावृत्त्य = परावर्त्तनां विधाय । प्रधान- द्वारम् = महाद्वारम् । मुखमण्डले-दत्तदृष्टिः = स्थगितनेत्रः । अनिमेष- पातम् = निर्निमेषमित्यर्थः । क्रियाविशेषणमेतत् । अस्थात् = निवृत्तगतिरभूत् । स्थाधातोलुंङि रूपम् । “ गातिस्था "-( २ । ४ ७७ ) इति सिचोलुक् । द्विस्त्रि- रिति-द्विवार त्रिवारं वेत्यर्थ: । द्वित्रिचतुर्थ्यः सुच ( ५ । ४ १८ ) इति मुच् । “सतु तूष्णीकः सन्तस्थे" इत्यन्वयः । घण्टापथस्य = राजमार्गस्य । प्रान्तस्थायाम् = समीपवत्तिन्याम् । उन्नतवेदिकायाम् = उच्चायां परि- ष्कृतभूमा । पातितोभयजानु = पातितौ उभयजानू यस्यां क्रियायां तद्यथा स्यात् तथेति क्रियाविशेषणम् । विचाराकूपारस्य = विचार—( चिन्तन ) समुद्रस्य । तरङ्गाः = लहर्यः । वहुभङ्गम् = = नानाप्रकारं परिणामम् । श्राकलयन् = प्रादुरभवन् । अहह-इत्यारभ्य भगवन् ! पाहि इत्यन्तं गद्यं ( १४२ पृष्ठ० ) करुणरसपरिपूर्णम् । दुर्भाग्यमयः = दुरदृष्टप्रचुर: । गरुडाङ्किताः = पक्षिराजचिह्निताः । महाध्वजाः = महत्यः पताकाः । समुद्धननैः = सञ्च- लनैः हिल्लालनैरित्यर्थः । गगनेति-गगनतले आकाशमण्डले उद्धयमानं प्रवान्तं पवनं = समीरणम् अपावयन् = पवित्रमकापुः । तत्र=गगनतले । भार- तेति-भारताभिजनस्य भारतदेशस्य सघनाः सान्द्राः कलङ्का इव नीलध्वजाः नील्या रक्ता ध्वजाः कृष्णाः पताकाः ( यवनैरारोपिताः ) समुद्धयन्ते = दोला- यन्ते इत्यर्थः । अत्र-यवनारोपितस्वभाव स्थिता नीलध्वजाः भारतदेशीयगाढकलङ्क * गहादिराकृतिगणः ।
( ८७ ) ( पाप ) रूपत्वनोत्प्रेक्षिताः । यत्र = भारताभिजने कोकणदेशे वा । कोटीति-कोटिजन्मभिः अर्जितं सञ्चितं यन्-* महापातकं ब्रह्म- हत्यादि तदेव दीर्घदावः महाकान्तारः तस्य दावानलः ( भस्मीकरणत्वसादृश्येन ) वन्हिः तस्य ज्वालामालाभिः = अचिंपां ततिभिरिव हरिनामघोषणाभिः = भगवन्नामोच्चारणः व्यापूर्यत = भरिताऽभूत् , वसुधा = पृथिवी । तत्र = कोकूणदेशे कर्णकषायाः कर्णयोः श्रोत्रयोः कटुरूपा: श्रोत्रवधनकराः श्रवणा- नहीं इति यावत् । चीत्कारमयाः = 'वाँग ' इति प्रसिद्धाः। हरीति- हरिः विष्णुः । हरः = महादेवः । ( उपलक्षणञ्चैतत् सर्वेषां देवानाम् ) तेषां निन्दानादाः = गर्हणारूपा घोपणाः कर्णौ = श्रुती स्फोटयन्ति । पृ० १३८ ॥ द्राक्षा= गोस्तनी। रम्भा = कदली। आम्राणि = चूत ( रसाल ) फलानि । नारिकेलानि = * लागलीफलानि । दाडिम्बानि + दन्तवीजफलानि । 1 बीजपूराणि = मातुलुङ्गाः । $ जम्बीराणि = दन्तशठाः ॥ लिकुचानि = लकुचफलानि । क्षुद्रपनसफलानीत्यर्थः । पन- सानि = कण्टकिफलानि ' कटहर ' इति प्रसिद्धानि । व्यत्रीयन्त = विनि- मयितानि अक्रियन्त । वर्तिकाः इत्याद्याः पक्षिजातयः। विशालतिलकाः विशालं शोभि तिलकं येषां ते । कलितेति-कलिताः धृताः रुद्राक्ष-तुलसी- * ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ इति ॥ (मनु० ११ । ७४) स्तेयं = ब्राह्मणसुवर्णहरणम् । " ब्राह्मणसुवर्णापहरणं महापातकम् इत्यापस्तम्बस्मरणात् । सुरापानं = निषिद्धसुरापानम् । * ' नारि (लि ) केरो दृढफला लागली कूर्चशीर्षकः ' इति (निघण्टुः ) अस्य गुणाः तत्रैव- नारिकेलफलं शीतं दुर्जरं बस्तिशोधनम् । विष्टम्भि वृंहणं बल्यं वातपित्तास्रदाहनुत् । १ ।। + दाडिमः करको दन्तबीजो लोहितपुष्पकः' इति ( निघण्टः )। + ' बीजपूरो मातुलुङ्गो रुचकः फलपूरकः ' इति ( निघण्टुः )। S 'जम्बारो दन्तशठो जम्भजम्बीरजम्भला: ' इति ( निषण्टः )। • लिकुचो लकुचो बहुः ' इति (भमरः)। . M ८८ ) कमलाक्षमालिका यस्ते तथोक्ताः । ऊर्णाकौशेयमात्रवसना = ऊर्णा = मेपा- दिलोम, कौशेयम् = कृमिवसनम् एतन्मात्राणि वसनानि वासांसि येषां ते पवित्र- तरवस्त्रधारिण इत्यर्थः । भगवदिति-भगवन्नाम = परमेश्वरनामैव अमृतरसः = सुधारसः तस्य रसेन = आस्वादनेन रसिका = लोलुपा रसवती रसना = जिह्वा येषां ते * परमेश्वरनामस्मरणरता इत्यर्थः । विहितेति-विहितं कृतं तीर्थसाधेषु गङ्गादितीर्थसङ्ग्रेषु चरणं भ्रमणं यैः तादृशः चरणाः पादा येषां ते तीर्थयात्रा परायणा इत्यर्थः । स्वोचितेति-स्वस्य उचित: वेदादिशास्त्रविहितो य + आचारः = सन्ध्यावन्दनादिरूपः = तदुपयोगिवाह्याभ्यन्तर शौचरूपश्च । (प्राचार- हानं न पुनन्ति वेदाः इत्युक्तेः ) तदाचरणमात्रम् तदनुष्ठानमात्रमेव व्यसनं प्रात्यहिकः स्वभावो येषां ते । व्यसनपदनिवेशेन द्यूतमद्यादिव्यसनराहित्यं व्यज्यते महात्मानः = भगवद्भक्तिपूर्वत्वेन महान् उच्चो विशाल आत्मा मनो येषां ते । प्राणम्यन्त = अभ्यवाद्यन्त । कर्मणि प्रत्ययः । महामांसेति-महामांसस्य = गोमांसस्य ढक्कारैः = उद्गारै-यः पूतिगन्धो दुर्गन्धः तस्य सम्बन्धेन अन्धीकृताः पारिपाश्विकाः = पार्श्ववत्तिनो यैः तैः । चिरेति-चिरं यज्जलावगाहनं स्नान ( अर्थात् बहुकालपर्यन्तमपि स्नानाभावः ) तेन उद्भूतं जातं यन्महामलम् = अति- मलीनता तस्य श्रावलिभिः राशिभिः मलीमसैः = मलदूषितैः स्नानाद्यभावेनात्यन्तं , * भगवन्नामस्मरणमाहात्म्यं शास्त्रेषु बहु प्रपञ्चितं, यच्च सर्वथैव अद्धयम् । दिङ्मात्रन्तु निरूपयामः- सकृत्स्मृतोऽपि गोबिन्दो नृणां जन्मशतैः कृतम्। पापराशिं दहत्याशु तूलराशिमिवाऽनलः ।। १ ॥ यथाऽग्निरुद्धतशिखः कक्षं दहति साऽनिलः । तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्विषम् ॥ २॥ कलावत्राऽपि दोषाढ्ये विषयासक्तमानसः । कृत्वाऽपि सकलं पापं गोबिन्दं संस्मरञ्शुचिः॥३॥ इत्यादि । + आचारस्य महिमा सस्वरूपः ‘सनत्सुजातीये' कुमारधृतराष्ट्रप्रसङ्गे विस्तरेण वर्णितः । तत एव कणेहत्य निरीक्षणीयः । " आचारप्रभवो धमों धर्मस्य प्रभुरच्युत " इति विष्णु माहात्म्यमपि ।
८६ .. घृणितैरित्यर्थः । मद्येति-मद्यम् = सुरा । स्वेदः= धर्मः । निष्ठ्यतम् श्रुत्कारः । कर्णकिट्टम् = कर्णमलम् । सिंघाणम् = नासामलम् । दूषिका नेत्रयोर्मलम् । एतेषां द्वन्द्वः। दूषिकान्ता श्रादिर्यस्य तादृशं यत् विविधम् = नाना- प्रकार मलं तेन लिप्तानि = शिष्टानि तथा चिराऽक्षालितानि बहुकालादप्यधौतानि मलिनानि कच्चराणि वसनानि वासांसि येषां तैः । अत्र बीभत्सो रसः । वार- बधूनां = वेश्यानाम् उच्छिष्टभोजिभिः भुक्तावशिष्टभक्षकैः एवंभूतैः दुराचारहतकैः= म्लेच्छैरेव-अवहेल्यन्ते अनाद्रियन्ते तिरस्कारविशेषद्योतनायव 'अव- धीर्यन्ते तिरस्क्रियन्ते ' इत्यर्थपुनरुक्तिर्न दोषावहा । ताड्यन्ते = हन्यन्ते । निःसार्यन्ते =निःस्थानीक्रियन्ते । अहह ! = महान् खेद इत्यर्थः । पृ० १३६ । अपरे चेति-व्याघ्रति-व्याघ्रवदनघ्राणसाह- सस्य = शार्दूलमुखकवलनबलात्कारस्य * सोदयं = तुल्यं यत्साहसं = बलकर्म तनो- पबृंहिताः अर्थात् व्याघ्रमुखपाते सत्यपि निर्भया इव वर्तमाना:। कृपाणधारासु इव = असिधारासु इव । धावमानाः = पलायनक्रियां कुर्वाणाः अत्र-उत्प्रे- क्षाव्यङ्गया अतिशयोक्तिरपि । कलिमलमथनानि-कलिपापविध्वंसकानि । अधरीकृतेति-अधरीकृतं न्यक्कृतं सुधाया मधुरिमा वैः तानि । स्वर्गे स्वपुण्यः सुधां लब्ध्वा देवभावं गता अपि जीवाः पुनरपि जननी- जठरे शरत "क्षीणे पुण्ये मर्त्यलोकं विशन्ति" इत्युक्तेः । भगवन्नामानि पिबन्तस्तु तदभेदभावं गताः पुनर्न कदापि संसारमुखं प्रेक्षन्ते इति युक्तमेव भगवन्नाम्नां सुधा- धरीकरणमिति भावः । "भगवन्नामानि" इत्यस्य विशेषणम् । उच्चारयन्तः- रटन्तः । कलितेति-कलितः कृतः परमपवित्रः अतिपावनः वेषः नेपथ्यं यः । महासभ्यवेषा इत्यर्थः । वाचाटानाम् = कुत्सितं भाषमाणानाम् । श्राल- जाटचौ कुत्सितभाषिणि ( ५। २ । १२५ ) इत्याचट् । अरुन्तदा:- मर्मवेधिन्यः । अरूंपि तुदन्तीति “अरुन्तुदाः"-विध्वरुयोस्तुदः (३।२।३५) • इति अरुष्कर्मणि उपपदे तुद् धातोः खर प्रत्ययः । अरुर्विषदजन्तस्य मुम (६ । ३ । ६७ ) इति मुमागमः। “अरुन्तुदस्तु मर्मस्पृक्" इति (अमरः )। मुद्रया=नरागान नराधिपः (गी. १०) इत्यादिशास्त्रप्रमाणेनेत्यर्थः सोदराद्यः (४ । ४ । १०१ ) इति सूत्रेण तातितो यः । उदरे शयितःस्थित " इति वाच्यार्थः । तुल्यार्थस्तु लक्ष्यः । अमृतस्य माधुर्य : " समाने * १० ) ग्रहाः = सूर्यायाः 1 विधिः=दिष्टम् । समयः कलिरूपः । अशुभमयः= पापप्रचुरः । अदृष्टम् = दिष्टम् । । भवितव्यमेवति-निन्दितव्यम् = गह- णीयम् । भटम्मन्यः अात्मानं भटं मन्यते इति । आत्ममाने खश्च (३।२।८३) इति खश् । वस्तुतस्तु अभट एव भटत्वाभिमानीत्यर्थः । प्रधानवीरः = वीरा- ग्रणीः । पार्श्वग्रहताम् = पक्षपातिताम् । पृ० १४० । पुण्यनगरनेदीयसि = पुण्यपुरस्याऽतिसमीपवत्तिनि । प्रकाण्डभूभागे = विशाले प्रदेश । शिविराणि = सेनानिवेशान् । परवन्ताः= परतन्त्राः । अवतरामीति प्रतिज्ञातवानसि- यदा यदा हि धर्मस्य ग्लानिर्भवति भारत !। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ( गी० ४ । ७ ।) इति प्रतिज्ञामकरोः । कुत्सिताऽभिप्रायेण = व्यभिचारेच्छयेत्यर्थः । + औरसप्रजा इव इत्युपमा । आत्मजा इवेत्यर्थः । " लुण्ठ्यन्ते पात्यन्ते पात्यन्ते ज्वल्यन्त च” इत्यत्र क्रियादीपकमलङ्कारः । उक्तञ्च प्रकाशकारेण- $ सहृत्तिस्तु धर्मस्य प्रकृताऽप्रकृतात्मनाम् । सैव क्रियासु वहीषु कारकस्येति दीपकम् ।। * “तत्प्रकृतवचने मयट" (५ । ४ । २१ ) इति मयट । अथवा-- अशुभ एव अशुभमयः । चिदेव चिन्मयम् इत्यादिवत् स्वाथें तत् । + उक्तञ्च- अवश्यंभाविभावानां प्रतीकारो भवेद्यदि । तदा दुःखैनलिप्येरन् नल-राम-युधिष्ठिराः ॥ इति ॥ + वणितश्चषोऽर्थः रघुवंशकाव्येऽपि- प्रजानां विनयाधानाद्रक्षणाद्भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः ॥ इति । ( इयं हि-आर्याणां सभ्यता सर्वतो मान्याऽभूत् ॥ ) 8 उपमानोपमेयभूतानां धर्मिणां धर्मस्य क्रियादेः सकृद्दृत्तिः एकवारमेवा- पादानं यत्तदेकं दीपकम् । कारकस्य च नहीषु क्रियासु सकृवृत्तिरित्यपरं दीपकम् ।
(६१ ) पृ० १४१ । 'ग्रावाणोऽपि मदन्ति" इति । सम्बन्धाऽतिशयोक्तिः । व्यामोहः भ्रान्तिः । गरलन्त्विति । गरलं विषन् । धूनंटिना=महादेवेन । मधु-मद्यम् । दानवैः दनुः । श्रास्वादि-कवलितं पीतमिति यावत् । अत्र-असङ्गतिरलङ्कारः । " कार्यकारण्योभिन्नदेशतायाममङ्गति रिति तल्लक्षणात् । रजतेति-रजतस्य अयं “ राजतः " इदमर्थेऽण् । राजतः प्रासादो हयं यस्य सः। अथवा-प्राणिरजतादिभ्योऽञ् (४।३।१५४) इत्यञ् । रजतस्य विकारो " राजतः" क्षीरस्य सागरी यस्य सः । दन्तिदन्तस्य गजदन्नस्य पर्यङ्कः पल्यको यस्य सः। कुण्डलितेति । कुण्डलितः=कुण्डलाकारः अनन्तभोगः शेषनागदेहः प्राभोगोऽधिष्ठानं यस्य सः । वेवेति-पृथक् २ कृत्वा विचारयमि । विजिर प्रथग्भावे । जुहोत्यादिः । लटि मध्यमपुरुषकवचने रूपम् । अगणितेति-अगणितैः असंख्यातः फणावलीनां फूत्कृतैः वीज्य. मानः-सेव्यमान इवेत्युत्प्रेक्षा । विमलेति-विमलं निर्मलं यत् कमलं सरोज तस्योदरमोदरः मध्यभागसदृशं सौन्दर्य ययोः ताभ्याम् । कमलेति-कमलवत् कोमलाभ्यां कमलाया: लक्ष्म्याः करतलाभ्याम् । तस्मिन्नवेत्युक्तिः अनन्तस्य प्रलयकरणकालीनसामर्थ्य व्यनक्ति । कोमलतमः= =अतिमृदुर्वेषो यस्य सः तस्मिन् शेषे अनन्ते शेषे स्वपिषि । अगणितैः–इत्यारभ्य " वशे शेषे शेषे" इत्यन्तगयेऽनुप्रासच्छटा विमलकमलोदर ". "" कमलकोमल " इत्यत्र-पुनरुक्तदोषः । पदार्थपौनरुक्त्यञ्चाऽत्र विमलकमलेतिपदेन योऽथोंs भिहितः “कमलकामले" तिपदेनापि तस्यैवाऽभिधानात् , विशेषाभावाच्च । ' तव निद्रया भक्ष्यते" इति भञ्जो आमर्दने धातुः कर्मणि तङ् । नंक्ष्यते इत्यर्थः । तस्यैव + पुराणादिप्रसिद्धस्य । महागरलस्य-हालाहलस्य । महामद्यस्य-बारुण्या: । भगिन्या सहोदरया । क्षीरसमुद्रादेव सर्वेषामुत्पत्त युक्त सहोदरात्वम् । कनकाङ्गिन्या-सुवर्णागिन्या गौरवर्णयेत्यर्य: लक्ष्म्याः इत्यर्थः । " इति " इत्यकः पक्षः । पज्ञान्तरमाह-पन्नगेति-पन्नगकुलमूलस्य सप- वंशप्रसूतेः । शेषनागस्य अनन्तस्याहे: : । गरलावलीदैः विषाक्तैः । प्रतिरोमकुह- रम् रञ्जितः व्याप्त इत्यर्थः । काञ्चनेति-अस्माभिवक्तुं चिन्तितुञ्चाशक्याम स्वोक्या विपति-" किन्तु मैवम्" इति । अनल्पजल्पकल्पनाम् रहूक्तिरचनाम् । प्रामाणिकानां वचनानि अत्र-एवं रूपायां तव सत्ताया.
(६२ ) मिति हृदयम् । तानि च * श्रुतिस्मृतिपुराणेतिहासादीनि । पृ० १४२ ॥ " जगदीश्वरोऽसि " इति महाप्रभुता व्यज्यते । तत एव परं स्वातन्त्र्यम् , तेन वचनानहतेत्यादिव्यंग्यपरम्परा सहृदयहृदयैकवेद्या । प्रकारा- न्तरेणोपालभते तत्किमेति-गजेति-गजस्य उद्धारार्थ धावनेन स्थगितः= श्रान्तः । विप्रेति-ब्रह्महत्याया महालज्जाकरत्वादिति भावः । चिरन्तनः= पुरातनोऽनादिः वृद्धो वा वलीभिः पलितो व्याप्तो विग्रहो देहो यस्य स तथाविधः न ज्ञायते तत्त्वम् "-भगवन्मायायाः दुरूहत्वादिति भावः । उक्त च- श्रीमद्भागवते वेदस्तुतौ-क इह नु वेद बताऽवरजन्मलयोऽग्रसरं यत् उदगादृ- षिर्यमनु देवगणा उभये" इत्यादि । यादृशस्त्वं तादृशमेव नमस्कुर्मः" इति । नमस्कारस्य सकलपापसा- धरणप्रायश्चित्तत्वात् दुःखस्य पापफलत्वात् तन्निवारणाय भगवति नमस्करणमेवो चितमिति भावः । भषकैः कुक्कुरतुल्यैरमध्यभक्षणपरायणः म्लेच्छरित्यर्थः । कौमोदकी-विष्णोगदा । कुमोदकः विष्णुः तस्येयम् । “ तस्यदम् " ( इत्यण् णित्वात् ङोप् । चापः धनुः । नन्दकः खड्गः । चक्रम-सुदर्शनम् । चंक्रमिष्यत अतिशयन चूर्णयिष्यत्त्यर्थः । मास्मति-“ अस्मदपराधान् मास्मार्षीः इत्यन्वयः । माड्योगेऽडभावः । ) श्रुतिस्तावत्- " विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो वाहुरुत विश्वतस्पात् " यतोवा इमानि भूतानि जायन्ते" "योऽस्याध्यक्षः परमे व्योमन् सोग वेद यदि वा न वेद" इत्याद्यनेकशाखीया । स्मृतिरपि- ततः स्वयम्भूर्भगवान् अव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ इत्यादि । पुराणश्च- ज्योतीषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयोदिशश्च। नद्यः समुद्राश्च स एव सर्व यदस्ति यन्नास्ति च विप्रवर्य!॥ इत्यादि । एवं रामायणमहाभारताचा इतिहामा अपि भगवत्सत्तायां परं प्रमाणम् । आर्षेयाणां पुराणेतिहासादिग्रन्धानां स्मृतित्वेऽपि तयोः पृथनिर्देशस्तु तत्तत्प्रतिपाद्य- विषयप्रधानताख्यापनायेति साम्प्रदायिकं परं रहस्यम् ।
“ एक ऊचे ऊचे" पृ० १४३॥ " जात इत्यारभ्य ( ६३ ) एवम्भावयतः भावनां कुर्वतः ध्यायत इत्यर्थः । तस्य-यवनवेषधारिणो माल्यश्रीकस्य-" अश्रुजलधारा भूतलमाविलंचकार इत्यन्वयः । प्रथमान्तानि तस्या विशषणानि । ध्याननिष्ठमिव समाधिलीनमिव । श्रध्वन्याः पथिकाः । परितोऽवातिष्ठन्त-परिवारितवन्तः । अत्र-धर्मादीष्टविध्वंसनपूर्वकभारताभिजनपोडनं विभावः। दैवापालम्भ- निश्वास-मुखशाषण स्वरभे दवैवण्यप्रभृतिरनुभावः । निवेदग्लान्याधाः तत्र २ उपनिबद्धाः (व्यङ्गयाः) व्यभिचारिणः । एतैरभिव्यक्तश्चित्तवैधुर्यलक्षणः शोकः स्यायीभावः सहदहृदय चर्वणतां गतः करुणो रस इति ध्येयम् । " इत्यन्तं स्पष्टम् । “ नेत्रे उन्माल्य तानेवापश्यत्" इति सम्बन्धः । भावनासहस्रैः = चिन्तनासहस्रैः येषु = दुष्टम्लेच्छेषु । वर्द्धितेति-वड़ितो वृद्धि गतो महांश्चासावमर्षः महाक्रोधः तस्य ज्वालाभिः अचिंभि: जटालः व्याप्त: । कीदृशः तान्-लशुनगन्धैः लशुनस्य = रसोनकस्य गन्धो येषु तैःश्वासप्रश्वासैः वमिम् = उद्गीर्णिम्- लुप्तोत्प्रेक्षा-वाचकानुपादानात् प्रकृतस्य समेन सम्भाव्यमानत्वात् । परिपन्थि- पथिकान् = लुण्टकाध्वनीनान् । ज्वलदिति-ज्वलता अङ्गारेण प्रतिमे सदृशे नयने यस्य सः । वाद्यम्-उत्तोल्य = उत्थाप्य । सहुङ्कारम् = हुङ्कार- शब्दसहितम् । ताडयितुम् = तान् हन्तुमिवेत्यर्थः । उदस्थात् = उत्तस्थो । पर्यप्राक्षीत् = परिपृच्छामकरोत् । महादेवस्तु भीत इव । वस्तुतस्तु न भीतोऽन्तरङ्गत्वात् । महान्धकारेति = महता अन्धकारेण तमसा आवृता आच्छन्ना चासी वोथिः पदवी ताम् । “वीथि (थिः) पङ्गो गृहाने च रूपकान्तरवर्त्मनोः" इति ( मेदिनी) । श्रयमपि-म्लेच्छवेषकोमाल्यश्रीकः । प्रधानमर्गम् = राजपथम् ध्वान्तमार्गेण = अन्धकाराच्छन्नेनाऽप्रसिद्धेन वर्त्मना । मुद्रयाऽनया = उक्तेन व्याजेन । अनायासेन = केशं विनेत्यर्थः । वीथिकातो वीथिकाम् = पदवीतः पदवीम् । यवनयतिम् = म्लेच्छवेषकभितुम् + धर्मादीष्टनाश पालम्बनविभावः । तत्र मन्दिरादीनां घोटननजनादिकं हिन्दुजनताहननवोद्दीपनविभाव इति विशेषः । उक्तत्र ' काम्यानुशासन " प्राचार्य-हेमचन्द्रेण- " इष्टनाशादिविभावो दैवोपापालम्भाधनुभावो दुःखमयो व्यभिचारी शोकः करुणः" इति ।
( ६४ ) न्वयः तेन सह योक्ष्यामि युक्तो भविष्यामि पृ० १४४॥ कजलस्य = अञ्जनस्य । रेणुपटलमिव = धूलिप्रसर इवे- * त्युत्प्रेक्षा । गगनं मसिमिव वर्षति । अत्राप्युत्प्रेक्षा । परिचितेति-परिचितं पूर्वानुभूतं सकलं पुण्यनगरस्य मार्गजालं वर्त्म- समूहो येन स तथाविधः । वीथिकान्तरम् अन्यां पदवीमित्यर्थः । अन्ध- तमसे गाढेऽप्यन्धकारे । पर्यटितुमशकत् = भ्रमितुं समर्थोऽभूत् । गोक्ष: गवाक्षे। तस्मिन् इति--" तस्मिन् अवतमसे किमपि श्यामश्याममद्राक्षीत् " इत्य- । तदेवोत्प्रेक्षया वर्णयति-" एकत्रकृतमन्धकारमिव एकत्रकृतमन्धकारमिव " इत्यादिना एकतोऽर्धस्खलितम्=एकपार्श्वतः अधं ( स्वस्थान ) भ्रष्टम् । विशीर्यते - निबन्धं वर्तत इत्यर्थः । । उपानद् = पादत्राणम् । " अथ पादुका । पादूरुपा- नत् स्त्रो" इति ( अमरः )। वेदिका-इति + वेदिकायाः = वितर्दिकायाः ( प्राङ्गणवत्तिनः उपवेशस्थानस्य ) प्रान्ते लम्बितात् पादात्, च्युता इति "उपानद्" इत्यस्म विशेपणम् । लालाभिः = स्पन्दिनीभिः । “सृणिका स्यन्दिनी लाला" इति (अमरः ) । धूलिधूसरितानि रजः स्नातानि । नीलवसनानि = नौल्या- रक्तानि वासांसि स्वेदैः = धर्म जलैः धर्म जलैः क्लिद्यन्ते = आद्रीभवन्ति । यामिकजन- स्वापजातिरियम् । पृ० १४५ । वणिग्वीथौ = वणिजामावसथे। दत्तकर्णः = स्तम्ध- श्रवणन्द्रियः । अवधाय = सावधानो भूत्वेत्यर्थः । संशयितवान् = संशय- मापेदे । अद्राक्षीत् = अवालोकिष्ट । कक्षिगुटिकायाम् = कक्षागुप्तो । उष्णीषिकाम् = शिरोवेष्टनिकाम् । गवाक्षिकायाम् = वातायनिकायाम् । निविडान्धकारे = घन तमसि । नैजः = स्वीयः भ्रमः भ्रान्तिः । विभाव्य * रात्रौ सर्वतः प्रसरणशीलस्य गाढान्धकारस्य नैल्य-दृष्टिप्रतिरोधकत्वादि- माधारणधर्मसम्बन्धेन कज्जलरेणुपटल (त्व) तादात्म्यसम्भावनोत्प्रेक्षयं स्वरूपो- त्प्रेक्षेत्यर्थः । एवम् - " मसिमिव वर्षति " इत्यत्र गगनकर्तृकमसिवर्षणता- दात्म्योत्प्रेक्षापि शेया । अर्थात् मसिवर्षणत्वेनोत्प्रेक्षितम् । . पादमुपनह्यते, पादमुपनयति वेति व्युत्पत्तिः। गह बन्धने । 'सम्प- दादिभ्यः क्किए ' ( वा० ) इति किप् । ' नहिवृति-( ६ । ३ । ११६ ) इति दीर्घः। * ' स्यादितर्दिस्तु वेदिका , इत्यमरः । - ६५ ) पालोच्य । प्रातिष्ठत् = प्राचलत् । उपवीथिकायाम् = उपपदव्याम् । जागरूकस्य = प्राहरिकस्यैव । पानेड्य-द्विस्त्रिवारमावृत्ति कृत्वा । वदतः = कथयतः तारध्वनिम् = उच्चैःशब्दम् = 'मास्म मामीक्षिष्ट = मामां पश्यदिनि हेतोः। प्राविक्षत् = प्रवेशकमकरोत् । कान्दिशीकः = भयद्रुत: । मार्गा- न्तरमलभमानः = अन्यमध्वानमप्राप्तवन् । निष्कोपनिस्त्रिशहस्तः = नश- खड्गपाणिः । सतर्क: सावधानः । कपटेति-कपटेन व्याजेन या क्षुतादयः। तत्र तुतम् = कासः । ढक्कारः = प्रसिद्धः । छिक्काः = प्रसिद्धाः करकलितति- करे पाणौ कलिता धृता या काचमञ्जूषा — लालटेन इति प्रसिद्धा कूपिकाकारा- काचमयी दीपाधानिका तस्या अन्त:स्थस्य दीपस्य प्रकाशेन । पृ० १४६ । पादाग्रस्थहस्तति-पुरोवत्तिप्रदेशे धृतहस्त चतुष्टयमानवतीम् अलसनयनः = निद्राकुलित इत्यर्थः । होरा= घटिका पृ० १४६ । शयीय = निद्रां सेविष्ये । तडागम् = सरोवरम् । पाससाद = प्राप्तः । उच्चावचायाम्=निम्नान्नतायाम् । भग्नमन्दिरेषु जीर्णदेवायतनेषु । यातैकयामायाम् = यातः गतः एकोयामः प्रहरो यस्याः तस्याम् । यामिन्याम् = रात्रौ। भयानकभल्लः = तीक्ष्णकोटिः। श्रोत- प्रोतमिव = विद्धानुविद्धमिव । सचकितम् = सविस्मयम् । क्रियाविशेषण- मतत् । * शक्तिः= कामः वरच्छी 'तिप्रसिद्धा । महादेववक्षःस्थलं चुचुम्ब = अस्पृशत् । लाक्षणिकमिदं पदम् । कञ्चुकान्तति–कञ्चुकस्य चालकस्य अन्तःस्थितेन = अन्तनिहितेन वर्मणा = कवचेन (यः) श्राघातः= अभिघाताख्यसंयोगः तेन । सझणत्कारम् = झणत्कारशब्दसहितं यथा तथा । पृ० १४७ । श्रालय = दृष्ट्वा । घृतखड्गम् = गृहीतामिम् । पिचण्डिलम् = स्थूलोदरम् । —तुन्दिलस्तुन्दिकस्तुन्दी बृहत्कुक्षिः पिचण्डिल:' इति ( अमरः )। आवेड्य = आक्रुश्य । सचन्द्रहासः= सखड्गः । श्येन इवाभिपत्य । उपमालङ्कारः । श्यनः = शशादनः 'बाज' इति प्रसिद्धः पक्षी । न टिडढणञ्पण्डितः = व्याकरणमात्ररटनकर्ता । युद्धपण्डितः = सङ्ग्राम- विद्यानिपुणः । पाञ्चालाः= पञ्चालदेशस्य राजानः । सिन्धौ भवाः सैन्धवाः । * ' अथ शशादन: । पत्री श्येन ' ( अमरः )। + काली-कराली-मनोजवा-सुलोहिता-स्फुलिङ्गिनी-विश्वदासाख्याः इति सप्त वहजिहाः । तथा च श्रुतिः- ( ६६ ) %D* "को नाम मरौ भवा मारवाः । क्रमेलकाः = उष्टाः । झटितिकारिता = शीघ्रचाल- चातुरी । अतिसत्वरतया = महता शैध्येण चद्रहाससञ्चालनपराः = खड्गमारणपरायणाः । हैहया इव = कार्तवीर्या इव । उपमा । बहुवाहवाः = अनेकभुजाः । महाराष्ट्रेति-महाराष्ट्रदेशीयानां वीरताया महत्त्वमित्यर्थः । सोऽयम् = महादेवपण्डितवेशधारी शिववीर: चञ्चलेति-चञ्चल:-चपल- चासौ चपलाया विद्यतः चमत्कारः द्युतिकृतिः तमिव । स्वरुः = वज्र तत्सारेण तत्स्थिरांशेनेव सृष्टम् = रचितम् । कल्पान्तेति-कल्पान्तः प्रलयकालिकोयः + सप्तजिह्नः वह्निः तस्य एकं जिह्वाविशेषमिव । तथा प्राहिणोत् = तेन प्रका- रेण प्राक्षिपत् यथा चान्द्रखानस्य असिम् = खड्गम्, कन्धरम् = ग्रोवाम् एकेनैव श्राघातेन पाताडेन द्विरकरोत् = द्विधा अकाषीत् अभि- नदित्यर्थः । पृ० १५८ ॥ यवनवीरश्मश्रूपमम् = यवनेषु ये वीराः तेषां श्मश्रः ओष्ठरोमराशिः तस्या उपमा यस्य यवनेषु प्रधानं भटमित्यर्थः। धर्मराजाध्वनि यमलोकमार्गे श्रध्वनीनम् = कारितवानसि = मारितवानसि ( मवारेति शेषः ) मदसिविलोढे = मदसिना आस्वादिते हते सति इत्यर्थः । तव कठिनो विजय" इति सम्बन्धः । न कोऽपि कठिन इति काकुः । कथम्भूतस्य नव-वारवधूकरेति --वारवध्वः वेश्याः तासां कराः पाणय एव शरावः सरकः तस्य चुम्बने चञ्चुरस्य व्यापृतस्य । वस्तुतस्तु-वारबधूनां करेभ्यः ये शरावाः मद्यसरकाः तेषां चुम्बने पाने चञ्चुरस्य चपलस्य । वेश्याभिः सहैव मद्यगोष्ठी- प्रियस्येत्यर्थः । विचिकित्सा संशयः। सन्धेक्ष्यति = संशयं करिष्यति। एषः = मृतश्चान्द्रखानः । श्रासन्ने = निकटवत्तिनि । शुष्ककूपे = कूपगत्तें इत्यर्थः । पाषाणेति-पाषाणा: = अश्मानः । कर्पराः = कपालाः । मृत्पिण्ड- खण्डाः = लेष्टुकानि । विदधिरे = चक्रिरे। कतिभिश्चित् = कतिपयरित्यर्थः शोणितेति-शोणितस्य = रुधिरस्य शोणः रक्तैः विन्दुभिः छुरणः अङ्कितम् अक्तम् । दक्षिणम् = वामेतरम् वाहुमूलम् = भुजमूलम् । श्रावृत्य % काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरूपी च देवी लेलायमाना इति सप्त जिह्वा ॥ (मुं० १। खं० २।४) | आताडः = 'चोट' इति भाषा।
बटः न्यग्रोधः (१७ ) पाच्छाप) घण्टापथम् = राजमार्गम् । गोपुराभिमुखम् = अनुपुरद्वारम् = "पुरद्वारन्तु गोपुरम्" इत्यमरः । कुशलेन = विघ्नं विनैवेत्यर्थः । *कुटपट- लीषु = वृक्षराजिषु । घनच्छायस्य = निविडच्छायस्य मर्मरेति-मर्मरेण - शुष्कपर्णरवेण स्तब्धौ = शङ्कभूतौ कौँ यस्य तम् । अनिमेषनयनाभ्याम् = निनिमेषनेत्राभ्याम् सम्मुखम् = पुरोवतिंप्रदेशम् अवलो- कयन्तम् = पश्यन्तम् । अश्वम् = वाजिनम् आरूढम् = अश्ववारमित्यर्थः । प्रतीक्षमाणम् = प्रतिपालयन्तम्। दासेरकेण = भृत्येन । पृ० १४६ ॥ गृहीतवल्गम् = गृहीता धृता वल्गा रश्मियस्य समिति "प्राजानेयम्" इत्यस्य विशेषणम् । श्राजानेयम् = अश्वम् । अविगणित- परिश्रमः = अध्यातखेदः । “स्नातोत्थित इव स्फूतिस्फुरितगावः " इत्यत्रोपमा। पूर्व स्नातः पश्चादुत्थित इति स्नातोत्थितः । पूर्वकालैकसर्वजरत्पुराण- नवकेवलाः समानाधिकरणेन (२।१।४६) इति सूत्रेण पूर्वकाले समासः। स्फूर्त्या = रोमरन्धमलनिधूननेन स्फुरितानि = लघूनि जातानि कार्यक्षमाणि भूतानीत्यर्थः) गात्राणि अवयवा यस्य स तादृशः । अनूनोत्साहः = पूर्णोत्साह इत्यर्थः स्मयमानमुखः = विकासताननः। रश्मिम् = अश्ववल्पाम् ।संयम्य = उत्तोल्य गृहीत्वेत्यर्थः । श्रास्पृश्य = आश्रित्य अविलक्षितेति अविलक्षितं शैघ्यहेतोः अज्ञातम् उत्पतनम् आरोहणं यस्य सः । चतुरतराश्वारोहिणां जातिरियम् । तत्पृष्ठमारूढः = अश्वपृष्ठमाशिश्रिये इत्यर्थः । यशस्विसिंहो महाराजः = जसवन्तसिंहाख्यो यो जोधपुराधीश्वरः । प्रतीक्षते = प्रतिपालयते कृतायासा= कृतपरिश्रमः अपि अनायस्तः ='आन्तिरहितः । पतेन महावीरत्व-सकल क्लेशसहत्व-उत्तमप्रकृतित्वप्रभृत्यनेकं व्यज्यते । तामेव दिशम् = यशस्विसिंहावतरणमार्गमित्यर्थः । प्रातिष्ठत = प्राचलत् । प्रस्थानमकरोत् । इत्यारभ्य करुणरसभरितं यशस्विसिंहचिन्तनं "असिच्यत" इत्यन्तगयेन अध्नाति गद्यग्रन्थनकुशलो ग्रन्थकारः । शिबिरेति- शिविरस्य कटकस्य अन्तर्मध्ये पटभवनेषु = उपकार्यासु (मध्ये ) अन्यतमस्मिन् : एकस्मिन् पटमवन इत्यर्थः । कलितेति-कलितः उपवईस्य महोपधानस्य आश्रयो येन सः । वीज्यमानः = व्यजनवातेन सेव्यमानः । उपधानेति- उपभाने स्थापितं बाहुमूलं यस्य तस्मिन् । कमलदले इव = पद्मपत्रे इव दो करतले । ईषदिति-पदरुणपाण्डुरम्=किञ्चिच्छ्वेतरक्तम् सायं समये मृगाकस्य चन्द्रस्य मण्डलमिवेत्युपमा। वदनम्-मुखम् । वामेति-वामहस्तस्य दक्षिणेतर- अथ । 'तत्र ( १८ ) करस्य * तर्जन्यगुष्ठाभ्यां वामश्मश्वाः अग्रम् = कोटिम् परिमृजन = आर्जवयन् । घोरः = भयङ्करः । आततायिहतकैः = वधाय सन्नद्धैनीचैः अत्युग्रपरपीडाजनककर्म-विशेषकरैर्महादुष्टरित्यर्थः । उक्तञ्च- अग्निदो गरदश्चापि शस्त्रपाणि र्धनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ॥ इति । " सन्नद्धे त्वाततायी बधोद्यते " इति ( अमरः )। आततं यथा तथा अयितुं शीलमस्य । अय गती । अस्माद्धातोः सुप्यजातौणिनिस्ताच्छील्ये ( ३ । २ । ७८ । ) इति सूत्रेण णिनिः । दृशाऽपि इति । एतेन सर्वथा तेषाम- स्पृश्यता सूचिता । शुनकेभ्यः कुक्कुरेभ्यः । वितीर्णम् दत्तम् । अभि- वाद्यन्ते नमस्क्रियन्ते । पृ० १५० ॥ चर्मकारमण्डलेपु पादूकृन्मण्डलपु " पादूकचर्मकार: इति ( अमरः ) । वासभूमिः आसनस्थानम् । अदीयत-कर्मणि स्यात् प्रत्ययः। अस्मादिष्टदेवनिन्दकाः अस्माकम् इष्टदेवाः हरिहरादयः तेषां निन्दका गर्हणाकराः । सजिह्वाच्छेदम् जिह्वाच्छेदेन सह वर्तते यथा तथा । निरवासिपत-वहिरकारिषत । मर्दयन्ति-प्राभञ्जन्ति । श्रापानभूमी- कुर्वन्ति–सुरागोष्ठाकुर्वन्ति । कमला इव विमलाचाराः लक्ष्मीरिव स्वधर्मनिष्ठाः कुलीनकन्याः=कुलीनाना सदाचारिणां कुमारीः कदर्थयन्ति = बलाद्यभिचार- यन्ति । सगात्रकम्पम् = गात्रकम्पेन सह वर्तते इति । एवमेव-साश्रुपातम् , सकरुणम् । "त्रायस्व २" इति आमेडनपराणाम्=पुनःपुनर्वदताम् । परमेति- तर्जनी च अङ्गुष्ठच ताभ्यां तर्जन्यङ्गुष्ठाभ्यामिति द्वन्द्वः । परन्तु- द्वन्द्वश्च प्राणितूय सेनाङ्गानाम् ( २ । ४ । २ ) इति प्राण्यङ्गत्वाद् । एकवद्भावः स्यात् तस्मात् , च्युतसंस्कृतिदोपोऽत्राभाति । केचित्तु—“सर्वोऽपि द्वन्दो विभाष- यैकवद्भवति '' इति नियमेन न दोष इत्याहुः । तदपरे न क्षमन्ते द्वन्द्वश्चेति सूत्रविषये परिभाषैषा न प्रवत्तते इति परिभाषेन्दुशेखरे भैरवमित्रैरपि सिद्धान्ति- तत्वात् । अन्त्य एव पक्ष: श्रेयान् , जैनशाकटायनेऽपि-प्राणितूर्याङ्गम् (२।१।१०१) = "प्राण्यङ्गानां तृङ्गिानां दन्द्र एकात्यों नित्यं भवति इत्युक्तम् । - ( ६ ) परमपूज्यपादाश्च ते वेदविद्वांस इति तेषाम् । अत्यन्तमाननीयानां श्रोत्रियमहाभागाना- मित्यर्थः । शोणितैः रक्तै: भुवम् भूमिम् शोणयन्ति-रक्तीकुर्वन्ति । शोणो नदोवा शोणनदीकुर्वन्ति, एतेन महाहत्याकाण्डो व्यज्यते । कन्यादानाम् नैर्ऋतानाम् , रक्षसामिति यावत् । क्रव्यात्क्रव्यादनैऋता: " इति ( वैजयन्ती ) । स्वधर्म- रक्षापरान् = शिवराजप्रभृतान् । बन्धून् = देशबन्धून् । चिक्लेशयिषामः= क्लेशयितुमिच्छामः । इच्छायां सन् । अनुदाराः = न उदाराः पक्षे अधोमुखा भूदाराः = वराहाः । उल्लूलुषन्ति = लवितुमिच्छन्ति । लूञ् छेदे । उत्पूर्वः सनि रूपम् । न्याकारविषयाः = धिक्कारपात्राणि इत्यर्थः तुच्छानाम् = महानीचानाम् । उच्छलताम् = उच्छृखलानाम् । म्लेच्छहतकानाम् = दुष्टानां यवनानामित्यर्थः । चाटुकारा इव = नर्मालापका इव “भूत्वा इति शेषः । किमिदमिति-अविगणय्य = दुष्टानां वैदेशिकानां साहाय्यकरणं स्वभ्रा- तृणां हननकरणं वा श्रेय इत्यनालोच्यव । कृत्रिमेति-कृत्रिमश्चासौ कोपः तस्य ज्वालाभिः = अचिंभिः । दिधक्षामः = दुग्धुमिच्छामः । महेति- महामहिम्नां - महानुभावानां मर्यादा प्रथाम् । उल्लधिरे = अतिचक्रमुः । पितृपैतामहिकीम् = पितृपितामहक्रमादागताम् पारम्परी णाम् = परम्पराप्राप्ताम् । प्राणाधिकमूल्याम् = जीवनाधारभूतामित्यत्र तात्पर्यम् । ? " 'पितृपैतामहिकीम् ” इति च्युतसंस्कृतं भाति । गद्यगतार्थशृङ्खला- नुसारेण तु-"पितृपितामहतः ( पितृपितामहाभ्याम् ) आगता" इत्यर्थः। परं-केन सूत्रण प्रत्ययः स्यात् ? कथञ्च पूर्वपदं विहाय उत्तरपदे एव वृद्धिः स्यात् ? कथन स्त्रीप्रत्ययः स्यात् ? इति पण्डिताः स्वयं विवेचयन्तु । अस्मद्भावनया तु- " पैतृपितामहिकाम्" इत्येव साधु । तथाहि—“ विद्यायोनिसम्बन्धेभ्यो वुञ् ( ४ । ३ । ७७ ) इति सूत्रेण बुनि, आदिवृद्धौ, वुञोऽकि, अजाद्यतः "-( ४ । १ । ४) इति टापि, प्रत्ययस्थात् "_ (७ । ३ । ४४ ) इति पूर्वस्याऽकारस्यकारे, " पैतृपितामहिका " इति शब्दो निष्पद्यते । एवमेव-"पारम्परीणाम्" इत्यत्रापि प्रत्ययार्थस्तु-प्रागतरूप एव सङ्गच्छते । परन्तु-" परोवरपरम्परपुत्रपौत्रमनुभवति " (५।२।१०) इति सूत्रेण परांश्च परतरांश्वाऽनुभवति इति “परम्परीणः" इति सिद्धान्त- कौमुद्यां मूल एव साधितम् । तदर्शितः प्रयोगः कथं घटेत । स्वार्थे वाऽणि, टापि स्यात् । व्याकरणान्तरे तु अनायासेन सिद्धं स्यादित्यपि केचिदिति दिक् ।
( १०० ) इत्यमरः स्वतन्त्रतासम्पत्तिम् = स्वातन्त्र्यस्वाराज्यम् । अभद्राणि भाग्यानि = दिष्टानि प्रतिकूलानीत्यर्थः । अभव्यं भाव्यम् = अमङ्गलं भावि । पतनोन्मुखी आसन्नविनाशा सम्पत्तिः = राज्यश्रीः । विधूतप्रायः = नष्टप्रायः । वदनमलिनीकारः = मुखमालिन्यकरणम् । महतां निन्दया हि मुखमपवित्रं जायते इति विश्वासः । श्मश्रुमूलम् = कूचिकामूलमित्यर्थः । असिच्यत = सिक्तमक्रियत । कर्मणि प्रत्ययः । " यावच्चैव " इत्यारभ्य " सम्मुखमवलोकयति इत्यन्तं शोकावस्थस्य जातिः । अत्रभवतः = पूज्यान् । दिक्षते द्रष्टुमिच्छति । "साधुस्मृ- दृशां सनः (१। ३ । ७५ । ) इत्यात्मनेपदम् । प्रासन्न स्थानम् = निकटवर्ति स्थानम् ' समीपे निकटासन्नौ स्वेदात् = धर्महेतोः । स्विन्नवदनम् = धर्मवारिणा क्लिन्नमुखम् । उपवीज- यितुम् = व्यजनयितुम् । व्यजनिनम् = व्यजनक्रियानियुक्तं भृत्यम् । इङ्गितवान् = चेष्टया आज्ञप्तवान् । पृ० १५२ । राजन्वती= प्रशस्तराजयुक्ता । राजन्वान् सौराज्ये ( ८।२।१४ ) इति निपातितम् । यस्मिन् = इति विषये सप्तमी यद्विषये इत्यर्थः । धर्मधारिधौरेयाः = धार्मिकमुख्याः । अाग्रहग्रहग्रहिलाः = पक्षपातवन्तः । पीयूषपूरमिव = सुधाप्रवाहमिव । चतुश्चषकैः = अक्षिपात्रैः। पिपासामः= पातुमिच्छामः सादरमीक्षामहे इत्यर्थः । सनातनधर्मरक्षायाः = वैदिकहिन्दुधर्म- पालनायाः। यश्चेति-*भारतीयानां भारतभवानां वीराणां कुलस्य मुकुटमणिः शिरोमणिः अग्रणारित्यर्थः । कदर्यहतकानाम् अत्यन्तनीचानाम् । पाटचराणाम् लुण्टकानां धाटीमारकाणामिति यावत् । जात्यानाम् = असमीक्ष्यकारिणाम् । धर्मध्वंसिनाम् = धर्मघातुकानाम् । दासपदलाञ्छनम् = अनुचरत्वेनाऽनु- सरन्तमित्यर्थः । सतां न्यकरणीयम् = सद्भिर्गहणीयमित्यर्थः । सताम् इति “ कृत्यानां कर्तरि वा (२ । ३ | ७१) इति सूत्रेण कर्तरि षष्ठी । भारतति-भारतस्य विद्रोहिणः उत्सादयितारो ये यवनाः तेषां वशवत्तिताकार्यम् तत्परतन्त्रताकुकृत्यमित्यर्थः, इतिहेतोःलानः = क्षीणहर्षः । ग्लै हर्षक्षये । "गत्यर्थाकर्मक"-( ३।४।७२ ) इति कतरिक्तः । अग्लासीदिति "ग्लानः"। क्षीणहर्षः । संयोगादेरातो धातोर्यण्वतः (२४३ ) इति निष्ठातस्य नः। उत्थानिका= उपोद्धातः । एतत्प्रस्तावस्य = एतत्प्रकरणस्य ।चकितः = विस्मयं गतः । वीणः = लज्जितः । पूर्ववत् करदाभ्यां निष्ठातो नस्य ( १९१ ) णः पूर्वस्य च दः (८।२।४२) इति निष्ठातस्य णत्वम् । किमितोऽपि कथयेदिति- सकुतूहलः साश्चर्यः । खेदेति-स्वदस्य * धर्मस्य अपसारणं प्रोन्छनं तस्य छलेन ब्याजेन । विविधानां भावानां शोकोत्साहादीनां ये भक्ताः आविर्भावतिरोभावाः तः तरङ्गितम् = आकुलम् प्राननं = मुखम् । पटान्तेन = पटैकदेशेन साच्छा- दनम् = सप्रावरणाम् । प्रोञ्छन् = अपसारयन् । उपधानम् = उपबईम् । क्रोडे = उरसि । स्थापितकफोणिः धृतकूपरः । "स्यात् कफोणिस्तु कूपरः,, इति ( अमरः)। "महाराज!,, इत्यारभ्य "क्षुब्धं महाराष्ट्र स्य हृदयम्', इत्यन्तं पुनः करुण- रसाप्लुतं ग्रथ्नाति । दिक्करिकरेति-दिक्ककरिणः = दिशां ये करिणः गजाः + ऐरावताधाः तै दोधूयमानं यशःपुष एव पुण्डरीक = सिताम्भोजं यस्य सर्व दिगन्तव्यापियशस इत्यर्थः । स्वातन्त्र्येति-स्वतन्त्रस्य भावः स्वातन्त्र्यम् तदेव पोतः तस्य कर्णधारस्य = नाविकस्य । क्षत्रियकुलकमलदिनेशस्य = राजन्य वंशसरोजार्कस्य । एवम्भूतस्य उदयपुराधीशोप्रतापसिंहस्य कुलप्रसूतम् = कुलोद्भवम् । स्त्रीरत्नम् = योपाशिरोमणिरित्यर्थः । यस्य = तवैव यशस्विसिंहस्ये त्याशयः) अर्धाङ्गम् = पाणिगृहीती । ( इतोऽये “यः शतवीरवरः सजयजयध्वनि ब्रियमाणं मरुदेशराजसिंहासनं पदा समाक्रम्य विराजते" इति सम्बन्धः । सर्वाति तृतीयाबहुवचनान्तानि “वीरवरैः" इत्यस्य विशेषणानि । कथम्भूतैः शतवीरवरैः ( असङ्ख्यातैर्महाशरैः) विद्युद्विनिन्दककृपाणकरैः = विद्युतः सौदामिन्या विनिन्दकानि अर्थात् तीक्ष्णधारतया अत्यन्तं चाकचक्यभाभि कृपाणानि असयः करे येषां तैः, सघनेति-सघनश्मश्रकूर्चाभ्यां समाच्छन्नाः सम्यगाच्छादिताः कन्धराः ग्रीवा येषां तैः । वामपाद = दक्षिणेतरचरणे समाकलितः परिधृतः सुवर्ण कटक: हिरण्मयवलयो यैः तैः । दक्षको कलितं धृतं कनकवलयद्यं यः । पीतररुति - .. * "स्खेदो धर्मो निदाघः स्यात्, इति (वैजयन्ती)। x ते च- ऐरावतः पुण्डरीको वामनः कुमुदोऽअनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः॥ इत्यमरोक्का शेयाः । कटको वलयं पारिहार्यावापौ च करणम् । हस्तसूत्र प्रतिसरः इति (अभिवानचिन्तामणिः) ( १०२ ) पीतरक्तादिभिर्वर्णेः चित्रविचित्राणि उष्णीषाणि शिरोवेष्टनानि येषां तैः । *'उष्णीषो मूर्धवेष्टनम् , इति ( अभिधानचिन्तामणिः) । विविधेति = विविधानाम: अनेक- प्रकाराणां मणिमयहाटकमालानां = हीरकादिजटितानां सुवर्णमालानां संघट्टस्य समूहस्य किरणमयूखैः अधिकं विकटं (निम्नोन्नतमिव लक्ष्यमाणं ) वक्षःस्थलमुर:- पटलं येषां तैः । रणाङ्कणति-रणाङ्गणे सङ्ग्रामभूमौ विपोथितानां विध्वस्तानां = विमर्दिताना प्रत्यर्थिनां शत्रणां सार्थस्य = सवस्य यानि मुकुटानि = किरीटानि तेषां मौक्तिकमण्डलै: मुक्ताबजैः रचितानि कृतानि कुण्डलानि = कर्णवेष्टनानि कर्णभूष- णानि यः । । कुण्डलं कर्णवेष्टनम् , इति (अमरः)। सिंहसंहननैः = सिंहसदृश शरीरैः । मधुनयनैः = मत्तनेत्ररित्यर्थः । यदिति-यस्य योधपुराधीशस्य कथोपकथनैः = कथानकैः कामिन्यः शाय- यन्ति = 1 स्वापयन्ति । यतो विभेति । यतः–यस्मात् पञ्चम्यां तसि: । भीत्रार्थानां भयहेतुः ( १।४।२५ ) इति पञ्चमी । ऊर्जस्वलयशसः ऊर्जस्वलं प्राञ्जलं यशो यस्य तस्य । चतुरङ्गिणीम् = हस्त्यादिभिः चतुर्भिरङ्गैरुपेतां सेनाम् । नुब्धम् = सञ्चलितम् । क्षुब्धवान्तध्वान्त–(७१२।१८) इति निपातनात् साधुः । 'क्षुभितम्" इत्येव समीचीनं भाति । तुन्धो भवति मन्यश्चेत् इत्युक्तः। मन्थादन्यत्र क्षुभितम्। अथवा-अागमशास्त्रस्य अनित्यत्वमाश्रित्यैवं स्यात् । पृ० १५५ ॥ लज्जया तिर्यग् वदनम् = साचीमुखम् साधा- रणः% प्राकृतः अल्पमतिरित्यर्थः भाषणपरिपाटीम् = वचोभङ्गीम् । महोपकार्यासन्निवेशः = महांश्चासौ उपकार्याणामुपकारिकाणां सन्निवेशः पाड- * उपति दहति अश्रियमिति उष्णीषः पुंकोवलिङ्गः । मूर्धा वेष्ट्यते अनेनेति मूर्धवेष्टनम् । ज्योत्स्नातमिस्रागृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमली- यसाः (१२।११४ ) इत्यनेन निपातनात् सिद्धिः । कुण्डलं कर्णभूषायां पाशेऽपि वलयेऽपि च । काञ्चनद्रुगुंडूच्योः स्त्री इति ( मेदिनी )। + सायङ्काले क्रीडास्थगितान् शिशुन् प्रायः सर्वदेशेषु तन्मातरः पाणिभ्यां मन्दं मन्दं ललयन्त्यः पालोलिकाभिः शाययन्तीति वस्तुस्थिति: । यस्मिन्देशे यः कोऽपि यथाकथञ्चित् प्रख्यातो भवति तस्य कथानकान्यपि श्रावयन्ति । वाल. स्वापनोचितगीतिका आलोलिका इत्युच्यते । भाषायां "लोरी" इति भएयते । वर्णितञ्चैतत् “आलोलिकातरलरसनाभिः” इति गयेन वासवदत्तायाम् ।
( १०३ ) म्वरः । अश्वयितुम् = अश्वराक्रमितुम् । सादिनः = अश्वारोहाः । भवत्कोपदावानल: = भवतः कोपः एव दावानला वनवह्निः । रक्तः = रुधिरैः । रेणुकाराशिम् = धूलिसञ्चयम् । अरुणयितुम् = रक्तीकत्तुम् । रक्तः कर्दमयितुमित्यभिप्रायः । भवदिति-भवतो माहात्म्यं कात्तिगौरवं, तस्य समाकणेनन श्रवणेन । मोदन्ते-हृष्टा भवन्ति । मेदोभिः पलतेजोभिः । " मेदस्तु पलतेजः पलोद्भवम् । विस्रमस्थिकर स्नेहवरं गौतममित्यपि" इति ( वैजयन्ती ) । मेदिनीम्=पृथ्वीम् । मेदस्विनाम्-चिकणामित्यर्थः । अस्मायामेधास्रग्भ्यो विनिः ( ५। २ । १२१) इति मेदःशब्दात् मत्वर्थीयो विनिः । निर्मातुम्-विधातुम् । वैदिकेति- वैदिको चासो मर्यादा सनातनी पद्धतिः तस्या विलोपनं विध्वंसनमेव व्रतमेषामस्तीति तान् । अत इनिठनौ (५।२।११५) इतीन् । वर्धयितुम्=पोषयितुम् । यथेति श्येनः शकुन्याखेटकरः पा । वज्रनिष्पेषनिष्ठुरैः वज्रवत् कठोरै रित्यर्थः । निजचञ्चुचरणाघातैः स्वाटिपादपातः । दीनान् इति तेषां दयापात्रत्वं व्यनक्ति । भयविह्वलान् भयेन कातरान् । पतत्रिणः= पक्षिणः । निहत्य-मारयित्वा । व्याधाय-मृगयवे । ' मृगयुर्लुन्धको ब्यायो द्वौ वागुरिकजालिको ' इति ( वैजयन्ती ) । समर्पयति-दत्त । स्वयश्चेति- व्याधा हि श्येनपक्षिणं पालयित्वा पोषयित्वा तद्द्वारा पाखरं कुर्वन्ति, स्वयञ्च पक्षिमांसं भुञ्जते इति लोकप्रसिद्धन् । अविचारेति-अविचारो विवेकाभावः । व्यभिचारः कदर्थनम् । अत्याचार:=हत्याकाण्डः एतेषां प्रचाराय=विवृद्ध्यौ । क्षत्रियव्याघ्र 'राजन्यश्रेष्ठ ! । शिरःकण्डूयनैः शिरोघर्षणैः । लज्जितानां चिह्नजातिरियम् । यापयित्वा गमयित्वा । पृ० १५६ हीणोऽपि त्रपां संवृण्वन् लज्जितः सन्नपि लज्जामाच्छा- दयन् । गौरवम् अवगूर्यते-हिनस्ति । गूरी हिंसागत्योः । देवादिकः । पदवैधुर्यम् वाक्यार्थबोधाय अपेक्षितानां पदानां सन्निध्यभावः । ध्रियते- * ' वेद ' शब्दात् भवाथें 'अध्यात्मादेष्ठत्रिष्यते' इति वात्ति- केन ठञ् । स्त्रियां डीप् । अध्यात्मादिराकृतिगणः । | श्यायते द्राक् गतिमान् भवतीनि श्येनः। ' श्यास्त्याहनाविभ्य इनच् ( उ० २ । ४६ ) इत्यौणादिक इनच् प्रत्ययः। श्यैङ् गतौ इति भौवादिको धातुः ।
( १०४ ) " अवस्थितं भवति । धृङ् अवस्थाने । तौदादिकः । तव भाषणे पदगौरव न अवर्यते न पदवैधुर्य धियते " इति विशकलय्यान्वयः । प्रसादः = स्पष्टार्थता । * निरस्यते-क्षिप्तो भवति । असु क्षेपणे । देवादिकः । । उपसर्गादस्य त्यूह्योर्वेति वाच्यम् ( १ । ३ २६) इति वार्तिकेन पक्षे आत्मनेपदम् । निरुपसर्गः। संशयति-संशयापादकानां सन्देहजनकानां पदानां प्रचयः = श्राधिक्यं समुदायो वा प्रचीयते = वर्धते । तव भाषणे निरर्थकानि पदानि न सन्तोत्यर्थः पाटवम् = पटोर्भावः । भावेऽण् । चातुर्यमित्यर्थः । गहनगहनैः = प्रति गम्भीरैः । कोमलकोमलैः = अतिकोमलैः । मधुरमधुरैः = अतिमधुरैः । वाचां विलासैः = लसन्तीभिर्वाग्भिः । श्रासारप्रसारैः = धारापातप्रपातः । प्लावयसि = शोधयसि अर्थात् धाराप्रपात इव तव वक्तृता बन्धानुबद्धा प्रस्फुटा- र्थवती च । कल्पनाकेसरिणः = प्रवन्धसिंहान् वाग्मिनः इत्यत्र तात्पर्यम् । त्वदुक्कीति = त्वदुक्तीनां त्वदीयानां वाचां श्रवणे विरिरिसा = विरन्तुं ( विराम कर्तुम् ) इच्छैव न भवत्यस्माकम् तव वाचोभङ्गीनामाकर्णने उत्तरोत्तरं कुतुहलं वर्धते इति भावः। क्षमाभिक्षुः = क्षमाप्रार्थी । नतकन्धरः = नामितग्रीवः । समा. स्थित = स्थितोऽभूत् । समुपसृष्टात् “ स्था" धातोः “ समवप्रविभ्यः स्थः (१ । ३ । २२ ) इत्यात्मनेपदम् । लुङि रूपम् । उपचिकीर्षया = उपक. तुमिच्छया। अपचिकीर्षया = अपकर्तुमिच्छया । वारसहस्रम् = अनेक- वारमित्याशयः । आसिन्धुकूलम् = सिन्धुकूलं मर्यादीकृत्य अभिव्याप्य वा आङ्मर्यादाऽभिविध्योः ( २ । १ १३ ) इत्यनेन “ आवालं हरिभक्ति रित्यत्रेव अव्ययीभावः । विद्राविताः भग्नतां नीताः। पारतन्त्र्येति-परतन्त्रस्य भावः पारतन्त्र्यं पराधीनता सैव कलई पाप्मा तम् असहमानाः सोदुमशक्नु- वत्यः । नवनीतकोमलाः = तन्वंग्य इत्याशयः । रमण्यः = कामिन्यः । * इदन्तु चिन्त्यं यत् "प्रसादो निरस्यते" इत्यत्र कथमकर्मकभावो धातोः । समोगमृच्छिभ्याम् (१ । ३ । २१ ) इत्येतत्सूत्रस्थं वात्तिक- मिदम् । "अकर्मकादिति न सम्बध्यते" इति कैयटेनोक्तम् । "अकर्मकादि"ति निवृत्तम् । बन्धं निरस्यति । निरस्यते । इति च दीक्षितैर्व्याख्यातम् । अग्रे पण्डिताः प्रमाणम् । " " ( १०५ ) ज्वालाजालजटालेषु ज्वलयाम्बभूवुः' इत्यत्र न्यूपदत्वं दोषः । 'वहिषु इति विशेष्यपदमपक्ष्यते । पृ० १५७ ईहितम् = चेष्टितम् । भगवत्याः महामायायाः = देव शक्तेः । यदितोऽपि = पूर्वापेक्षया उत्तरोत्तरमधिकमेवेत्याशयः । अधिकार- वैशिष्टयम् = विशिष्टमधिकारम् । भारतविद्रोहिणां यवननां सन्दोहः - समुदायः । कर्तृपदमिदम् । कलयति - प्रासादयते । स्वाधिकारं स्थिरीकरोतीत्यर्थः । आत्मोच्छेदाय = स्वविध्वंसाय एव । एतेषाम् = यवनानां भाग्यरिति- सम्बन्धः । यौमाकीणवलम् = युष्माकं सामर्थ्यम् । युष्मच्छन्दात् शैषिकेऽणि कृते-तस्मिन्नर्माण च युष्माकास्माको (४ । ३ । २) इति युष्मा- कादेशः । यवनेति-यवनानां म्लेच्छानां रुधिरस्य = रक्तस्य तृषिताः पिपासिताः ये खगा: असयः तेषां प्रचयैः सङ्घः उद्भासिताः चाकचाक्यवन्तो भुजाः बाहा येषां ते । सहस्रशः = असंख्याताः महाराष्ट्रव्याघ्राः = महाराष्ट्रपुङ्गवाः । एषाम्-मध्ये इत्यर्थः । सर्वोऽपि ( जन इति शेषः) रोदिति , इत्यन्वयः । दत्तेति-दत्त: म्लेच्छेभ्यो हस्तावलम्बो यैः तान् । वद्धकरसम्पुटः = प्राअ- लिभूतः । भावत्कम् = त्वदीयम् । भवतष्ठक्छसौ ( ४ । २ । ११५ । ) इति वृद्धसञ्झकात् भवच्छब्दात् ठक् । इसुसुक्कान्तात्कः ( इत्यनेन ठस्य कः । यौवराज्यसमय = युवराजस्य भावो यौवराज्यम् तस्य काले चित्रार्पित इव चित्रलिखित इव । चकितीकृतः = विस्मरतां नीतः । प्राप्तेति-विभ्यदिव= भीत इव । शुश्रूषते = श्रातुमिच्छति । शाश्रुस्मृदृशां (१।३ । ५७ ) इत्यात्मनेपदम् सनः । पृ० १५८ । श्रीमत्प्रतिवेशी - प्रातिवेशिकः विधेयः = अनुचरः । पारतन्त्र्यम् वैदेशिकराज्याधीनताम् । अवलुलोकयिषति = द्रष्टुमिच्छति । भारतद्रुहाम्-दुयन्तीति द्रुहः भारतस्य द्रुहो भारतद्रुहः तेषाम् । द्रुह् धातोः क्किए । गर्धाभिभूताः लिप्सया तिरस्कृताः अतिलोभिन इत्यर्थः । उद्देश्यम्- उद्देशः अनुसन्धानम् अभिलापो वा । उद्देश एव उद्देश्यम् प्रशस्यम् = प्रतिश्लाध्यम् । सारवत्ताम् = बलवत्ताम् । मोदामहे हृष्यामः । अस्मभ्यं रोचते = अस्माकं प्रीतिकरं भवतीत्यर्थः । रुच्यर्थानां प्रीय- माणः ( १ । ४ । ३३ ) इति प्रीयमाणोऽर्थः सम्प्रदानम् । अनुसरति = अनुहरति । । " स्वार्थे प्रत्ययः ।
( १०६ ) समश्रौषीत् = सम्यगाकर्णितवान् । निरपराधान्=अपराधशून्यान् । पथिकान् = अध्वन्यान् । भित्तिम् = कुड्यम् । भिया = सन्धि दत्वेत्यर्थः । अपजहार = चोरयामास । एषाम् = यवनानाम् अत्याचारम् = कदर्थनाम् । दण्डयति = दण्डेन उपायेन व्यवहारतीत्यर्थः । परिपन्थिनः = विरोधिनः। 'परिपन्थी विरोध्यपि ' इति ( वैजयन्ती)। पृ० १५६ ।। नीतिविशेषस्य = विशिष्टायाः नीतेरित्याशयः श्रीमन्त- मेव द्वेष्टि = शत्रूयतीत्यर्थः । ' शठे शाट्यम् ' इति मुद्रया = प्रमाणेन । कूट ' * परि दोषाख्याने पन्थयितुं शील इति परिपन्थी । पथि गता चुरादिः । सुप्यजातौ णिनिः-( ३ । २ । ७२ ) इति णिनिः। परि- शब्दश्च दोषाख्याने । तथा च मेदनीकार:- दोषाख्याने निरसने पूजाव्याप्त्योश्च भूषणे ' इति पपाठ। इदन्तु वोध्यम् – यद्यपि उक्तसूत्रे ' उपसर्गभिन्ने एव सुपि णिनिः' इति वृत्तिकारैर्व्याख्यातम् , तथापि भाप्यविरोधादुपेक्ष्यम् न वचनीयाः प्रभवोऽनु- जीविभिः ' इत्यादौ दर्शनाच्च । + नीतिशास्त्रेषु येन केनापि प्रकारेण शत्रूणां हननमेव राज्ञां परं कृत्यं भवति तस्मिन् घोरे विसवे इमां नीति शिववीरो यथा विदितवान् नेतरे राज. पुत्राः ते यदि अवेदिष्यन् नैव स्वघातं = स्वापादकुठार एव प्रपातमकरिष्यन् इति शिववीरचरित्रचञ्चूनां सम्यग् विदितं भवितुमर्हति ! पश्यन्तु तावत् शुक्राचार्य- प्रोक्ताया नातेरेव सारम्- पण्डितान् पृष्ठतः कृत्वा परेषां गुणवादिनः । अरेश्चित्तगुणान् ज्ञात्वा न सैन्ये भङ्गशङ्कया। विधीयतां तथा नीतिर्यथा बध्यो भवेत्परः ॥ अस्यायमाशयः-परेषां शत्रूणां गुणवादिना गुणपक्षपातिनोऽपि पण्डितान् पृष्ठतः कृत्वाऽविगणय्यापि अरेः शत्रोः चित्तगुणान् मनोभावान् ज्ञात्वा भङ्गशङ्कया रणाद्भग्नो माभूदिति अभिप्रायेण तथा नीतिविधीयतां यथा परः शत्रुर्बध्यो भवेदिति ॥ अन्यदप्युक्तं शुक्रनीतिसारे- आततायित्वमापन्नो ब्राह्मणः शूद्रवत्स्मृतः । नाततायिवधे दोपो हन्तुर्भवति कश्चन ॥
( १०७ ) । नीतिः = शार्गाली नीतिः । रोदं रोदम् = रुदित्वा रुदित्वा । रोदसी= द्यावा- पृथिव्यौ । रोदयताम् = विलपयताम् । दाराः स्त्रीः । इष्टदेवप्रतिकृती: = महादेवादिप्रतिमाः । चूर्णयन्ति = आमर्दयन्ते । दुर्विनीतानाम् = दुःशिक्षि- तानाम् । अाततायिनाम् = क्षेत्रदारापहर्तृणाम् । छलेनापि दण्डनम् = * कूटनीत्याऽपि हननमित्यर्थः । धर्ममर्मेति-'गूढो हि धर्मस्वरूपनिर्णया 8 गुहानिहितः । “महाजनो येन गतः स एव पन्था” इति भावः । जाज्वल्य- मानम् = अतिशयेन ज्वलत् 'महावैरम्' इत्यस्य विशेषणम् । गुप्तरूपेणेति- उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायिनम् । निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत् ॥ उद्यतेपुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत् । यो हन्यात् समरे क्रुद्धं युध्यन्तमपलायितम् । ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः । किञ्च- हीनं यदा क्षत्रकुलं नीचैर्लोकः प्रपीड्यते । तदापि ब्राह्मणा युद्धे नाशयेयुश्च तान् द्रुतम् ॥ इत्यादि । एतादृशनीतिशास्त्रीयपरममर्मवेदनं शिववीरस्य स्वाभाविको धर्म प्रासीदिति निश्चीयते । + तथा च—' शुक्रनीतिसोरे , यथायोग्यन्तु संयोज्य निघ्नन् धमों न हीयते । धर्मयुद्धे तु,—इत्यवान्तरप्रकरणमुपसंहृत्य "कूटे वै"-न सन्ति नियमा श्रमी ।। न युद्धं कूटसदृशं नाशनं वलवद्रिपोः । रामकृष्णेन्द्रादिदेवैः कूटमेवाढतं पुरा । कूटेन निहतो बालियवनो नमुचिस्तथा ॥ इत्यादिना कूटनीतिः प्रशस्ता । ग्रन्थान्तरेष्वपि च पण्डितरूपवेदनीयश्चा- यमर्थः । मयापि च धर्मतत्त्वं निर्णयमानेन स्वग्रन्थान्तरे भगायन्तरेणाऽयमथों बहू- पपादितः । इह प्रकृतोपयोगित्वेऽपि ग्रन्यवृद्धिभिया नाधिकमुक्तम् । $ गुहा च शास्त्रमेव-" धर्मस्य तत्त्वं निहितं गुहायाम् श्रीभगवानपि अर्जुनम्प्रति इत्थमेवाचष्टे- " इत्युक्तेः। 5.INSTAPCOLLEGE ( १०८ ) अन्तरेवैवमानम् । उपशम्यमानम्=निर्वाप्यमानम् । निगीर्य अन्तरेव- पीत्वा । " महाराष्ट्रः सह योत्स्य इति दिल्लीश्वरं कथयित्वा समायातोऽस्मि " इत्यन्वयः । शिववीरस्तु-'सत्रुहननाय स्वेष्टसिद्धयै प्रतिशतस्याऽप्यन्यथा- करणं न दोषमावहति । दृष्ट एव धर्मपुत्रादीनामपि गुरुद्रोणादिहनने मृषावात्कम् इति शातशास्त्रतत्त्व आचष्टे-'सत्यम्' इति । 'योत्स्यते ' इति । वक्षः उर: छुरिकाभिः=कृपाणीभिः । विदारयिष्यते = द्वैधीकरिष्यंत । सद्यः इति–सद्यः तत्कालं चिन्नेभ्यः कृत्तेभ्यो ब्राह्मणकन्धरेभ्यः विप्रग्रीवाभ्यः गलत् = स्रवत् यद् रुधिरं तस्य प्रवाहैः । वसुमती = भूमिः । स्नपयिष्यते = अक्ती- करिष्यते । महामांसदिग्धा = *गोमांसक्लिन्ना भारतभूः = भारताभिजननः द्रक्ष्यते = अवलोकिष्यते । प्रस्फुरिताभ्याम् = अन्तःकोपेन = अन्तःकोपेन चलद्भाम् । अधराभ्याम् ओष्ठाभ्याम् । अरुणिम्ना = लौहित्येन अमिताभ्यां व्याप्ताभ्याम् प्रस्फारिताभ्याम् = विकाशिताभ्यां नयनाभ्याम्-उपलक्षित इति शेषः । इति अचकथत् = इति सम्बन्ध: । अन्तर्निलीनक्रोधपुरुषजातिरियम् । स्थ- गत इव निश्चेष्ट इव । ह्रीतः = ह्रीणः । 'हीणो ह्रीतो लज्जितः स्यात् ' इति ( वैजयन्ती )। अवहेलितः तिरस्कृतः । प्राक्षिप्तः = निरस्तः । पुत्तली- कृतः शालभाजिकीकृतः । त्रिवलीमण्डिते त्रयाणं बलानां समाहारः त्रिवली तया भूषिते । अवाक्-मूकः । स्तब्धवाक्=कीलितवाक् । मन्त्रितः मंत्र कीलितः इव । तूष्णीम्=निःशब्दः तस्थौ । पृ० १६१ ॥ तिरस्करणीयाः क्षेपणे।याः परिहातव्या इत्यर्थः । नीतिगर्भम् नीतिगर्भे यस्य तम् । वाग्मिनि प्रशस्तवाचि । राक्षसोचि. तानि = करतमानीत्यर्थः । जननेति = उत्पादकस्य पालकस्य चेत्यर्थः । वलीप- लितस्य = जराशाक्ल्यस्य वृद्धस्येत्यर्थः । सक्रन्दति-क्रन्द्रेन रोदेन सह यन्नयनजलम् अस्रधारा तेन सिक्ती क्लिन्ना शमश्रुकू =मूच्छितदाढिके यस्य तस्य । साऽवहेलम् = सावशम् । निगृह्य = बन्धयित्वा । कारागारे तस्माच्छास्त्रं प्रमाणं ते कार्याऽकार्यव्यवस्थितौ। ज्ञात्वा शास्त्रविधानोक्नं कर्मकर्तुमिहाईसि॥ इति दिक् * 'स्त्रीविप्राभ्युपपत्तौ च गोविनाशेऽपि ब्राह्मणैः । प्राप्ते युद्ध कचिन्नव भवेदपि पराङ्मुखः' इति । (शु० नी० सा० अ० ४ । ३०० ) भार्गवनीतिमा- श्रित्य यवनः सहव योद्धव्यं नतु स्वभ्रातृभिः सहेति वीरस्य हृदयम् ।
( १०६ ) वन्यनालये । 'कारा स्याद्वन्धनालये' इत्यमरः । जननीकररथमोदकम् = मातृपाणिस्थितलड्डुकम् । अहमहमिकया = अहम्पूर्वमहम्पूर्वमितिचेष्टया । सोद्दण्डभावम् = सक्रूरभावम् । लजाऽनावहनम् = ब्रीडापरित्यागः । 'जीवजीवं' करग्रहणम् = साम्प्रतिकेतिहासप्रसिद्धजिजिवानामककर (वलि) विशेष स्यादानम् । कवाटेति-कवाटः = कपाटः । देहली = गृहाऽवग्रहणी । 'गृहावग्रहणी देहली ' इति ( अमरः)। पृ० १६२ ॥ यतरः = ययोर्दयोरन्यः । किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच् ( ५ । ३ । ६१ ) इति डतरच प्रत्ययः । क्षमा पृथ्वी । क्षमाम् = तितिक्षां क्षान्तिमितियावत् । क्षमा तितिक्षा पृथ्वी च ' इति ( धरणिः )। 'प्रतिक्षापालनव्याजेन महापातकवर्धनम्' इति कथनेन यशस्विसिंहस्य नीतिधर्मानभिज्ञता व्यज्यते । वाचंयमम् = वाग्यतम् । विधत्ते = करोति । धर्ममर्यादाघरमरा- णाम् = धर्मपद्धतिहिंसकानाम् । प्रत्यर्थिनाम् = शत्रूणाम् । उदगिरताम् = वहि- यसारयताम् । पृ० १६३ ॥ पटप्रान्तन = अञ्चलकोणेन । प्रामाश् = प्रौच्छीत् । प्रोपसृष्टस्य ' भृज्' धातोर्लङि रूपम् । मारुराजस्य = यशस्विसिंहस्य । प्रेमेति-प्रमैव पारावारः समुद्रः तस्य पूरेण = प्रवाहेण प्राप्लुतं अडितमिव हृदयमित्यर्थः । वाष्पोद्गारेण = अस्रप्रवाहेण । पक्षमपंक्तियुगलम् = नेत्रलोम- राजिद्वन्दम् । उत्साहति-उत्साह एव सुधा पीयूषं तदासारैः सम्पातः मुदितम् = हृष्टम् । उन्नतम् = इति क्रियाविशेषणम् । वीरासनेन = मृत्यु- संयमनासनेन । ' स्याद्वीरासनमुत्पादः कृत्वा भूमौ शिरः स्थितः । बुर्योधनासन- मपि मृत्युसंयमनोऽपिच ' इति ( वैजयन्ती )। श्रालिलिनिषामि= क्रोडी कर्तुमिच्छामि। क्षत्रियकुलावतंसम् = क्षत्रियकुलभूषणम् । परिष्वङ्गेन आलिङ्गनेन । म्लेच्छपक्षेति-म्लेच्छानां पक्षस्य अवलम्बनेन या ग्लानिः घृणाविशेषः तया ग्लपितं = क्षीणहर्षम् । मोदयिष्ये = हर्षयिष्ये । 'तस्य करें अवकथत् ' इत्यनेन शिववीरस्य महत् नीतिकौशल्यमाभाति । प्रामस्तकमापा. दश्न = मस्तकमारभ्यपादपर्यन्तश्चेत्यर्थः । ससम्भ्रमम् = ससत्त्वरम् । परि- षस्वजे = प्रालिलिङ्ग । पृ० १६४ ॥ स्वाधिष्ठितेति = स्वेनाधिष्ठितम् आक्रान्तं यत् उन्नत तूलिकास्तरणं तत्र । उपधानसमीपे = उपरईसविधौ । संललाप:
( ११० ) प्रेमगर्भितं लपितवानित्यर्थः। * प्राचिकंसते = आक्रान्तुमिच्छति । वाता हतेति-वातेनाहतायाः स्पृष्टाया: भीमायाः तदाख्यायाः नद्याः शीकरैः अम्बु- कणः शीतलीकृते शिशरीकृते । क्रमुककानने = पूगवने । मृगयाभिः = आखेटः । विनुनोदयिपामि = विनोदयितुमिच्छामि । खरतरेति-खरतगसु= अत्यन्तं कठिनासु फक्किकासु = जटिलेष्वेकग्रन्थेषु । एकग्रन्थस्तु फक्किका इति (वैजयन्ती) । विप्रतिपत्तिषु = विरुद्धकोटिद्वयोपस्थाकेषु शब्दविशेषु आपत्सु वा । असंख्येति-असंख्यानामनेकासाम् । अवच्छेदकतानां नियामकधर्मविशेषक- तानां खण्डनतानां वा यत् अनल्पं महत् कल्पनं परिष्करणं तस्य । कल्पतरौ कल्पवृक्षे तर्कशास्त्रे । येन = अभ्यासेन । खड्गाः = असयः । श्रास्माकीनाः अस्मदीयाः । अवच्छेदकाः = खण्डकाः । दुरात्मानः = दुष्टाः । अव- च्छेद्याः = खण्ड्याः प्रतियोगिनश्च । छात्रता = छात्रस्य भावः । परायत्ततेति हृदयम् । अध्यापकताम् = स्वातन्त्र्यमित्याशयः । मम छात्राः एव = मया शिक्षिता एव । विवादे = विरुद्धे वादे शास्त्रार्थे कलहे संग्रामे चेत्याशयः । द्रष्टव्यं युद्धविषये इत्याद्युक्तिप्रत्युक्ती रहस्यरक्षणायैव द्वयोझेंये । महाराष्ट्रेति-महाराष्ट्रानां राष्ट्र राज्यं तस्य या सृष्टिः रचना रक्षणा वर्ध- नञ्चेति तस्य परमेष्ठी = प्रजापतिः उत्पादक इत्यर्थः । महाराष्ट्रेति पदं वीरोक्तौ श्रुतिकट्वपि न दुष्टम् । मरुमेदनीपरिवृढः = मरुधराधीश्वरः । अन्तः = उपका- या मध्ये शयनागारे इत्याशयः । शिवोम् । इति ( नूतन ) शिवराजविजयपताकायां षष्ठो निश्वासः । * श्राङ् उद्गमने ( १ । ३ : ४० ) इत्यनेन आत्मनेपदम् । परन्तु- ज्योतिरुद्गमन इति वाच्यम् " इति वात्तिकेन । आक्रमते सूर्यः' इत्याधुदाहरणं स्यात् । अत्र तु पराक्रमणार्थो विवक्षितः तत् कथं घटतेति सुधियो विवेचयन्तु । + नव्यन्यायपरिभाषेयं नालापेन घ्यर्था प्रयुक्ता । अवच्छेदकत्वम् अव- च्छेदकता इति शब्दः । अवच्छेदकत्वञ्च-स्वरूपसम्बन्धविशेषः । कचिद- नतिरिक्तवृत्तित्वम् । क्वचित् तदधिकरणस्य तन्निष्ठधर्मावच्छेदकत्वञ्चेत्यादि नानाविधं ज्ञयम् । अस्य सरलं व्याख्यानं ( बालोपयोगि ) न्यायमुक्तावलीप्रभायां मया कृतं तत एव द्रष्टव्यम् । इहोपयोगि विवृतमेव । कल्पतरुः नाम वाचस्पतिमिश्रकृतभामतीनामकटीकाग्रन्थोपरि अमलानन्दसरस्वतीप्रणीतो वेदान्तग्रन्थविशेषोऽपि । " ++ * ॐ * सप्तमो निश्वासः। अघटितघटनायामद्भुतं यस्य दादयं जगति विविधरूपं प्राणियोगाऽनुयोगि । विधितदितरवाह्यं तं विधिं नौमि भूयो भवभविकविधानां प्राज्यराज्यप्रकामी ॥१॥ चित्तं तु वासनाऽधीनं वासना चित्तसञ्चिता। अन्योऽन्यमिथुनीभावो द्वयोर्दैवेच्छया नृणाम् ॥२॥ यावन्मधु न पीयेत शाङ्कर्या माययोऽमया। तावद्र्जन्ति तर्जन्ति मूढा गर्वमदातुराः ॥ ३ ॥ महामायानिशातासिखरधाराकरम्विते । दैतेयवर्गे देवानां वर्गो गर्जति गर्जति ॥४॥ पृ० १६६ सप्तमे निश्वासे सौवाः ( कौशलायाः ) भाविसम्बन्ध घटकमनुरागं, मूढशास्तिखानस्य पराजयं तदवलानां क्रन्दनभअनादिकन वर्णयितुकामस्तत्तद्वृत्तान्तोपक्षेपकतया यथाक्रमम् " अयं रेवाकुञ्ज" इति, 'गर्जगर्जे'–ति 'क्रामन्त्य '-इति च पूर्वसिद्धग्रन्थविशेषप्रतीकादिमुद्धरति गधनयनिपुणो महाकविासः । 'अयं रेवाकुञ्ज' इति कस्याश्चन विरहातुराया उक्तिरियम् । अयम् = पुरो- वत्ती रेवाकुअः = रेवाख्याया नद्याः कुओ लतापिहितद्वारविशेष: यत्र स्थितयोयूनो रतिसमये परकीयदृष्टिपातादिभीतिशङ्का नाति भवितुं, दीप्तिश्च प्रकामं जायत इति भावः। कुअमेव विशिनष्टि-कुसुमेति-कुसुमानि शरा यस्य सः कुसुमशरः कामो रतिपतिः तस्य सेवार्य उपासनायै समुचितो योग्यः । कामोऽपि देवः देवाश्चैकान्त एव मनोवृत्तिनिरोधमुपासिता विशिष्ट फलदानायाभिमुखीभवन्तीति वस्तुध्वनिः । प्रकृते विशिष्टं फलन्तु द्वयोरवाच्यानन्दलाभ एव । उक्तश्चैषोऽर्थः श्रुतावपि दृष्टान्तरूपेण-"तद्यथा स्त्रिया सम्परिष्वतो न वायं वेद किञ्चन नान्तरम्' ) इति । किञ्च–वेलायां तटे दरमीषद् विदलन्तीनां प्रस्फुटिनानामेलानां ( ११२ ) चन्द्रवालानां परिमल: सौरभं यत्र तादृशोऽयं समीरः-पवनोऽपि ' मन्दं मन्दं सरतीति शेष: । अयमप्युद्दीपनं विभावः । इयं प्रावृट् = वर्षाकालः धन्या= रस्येत्यर्थः । अत्रैव हेतुमाह-नवेति-तस्य विन्यासेषु = विविधेषु न्यासेषु उत्थापनेषु चतुरा-दक्षा दक्षत्वं चेतनधोंऽपि तद्घटकत्वसम्बन्धेन उपचारसिद्धोऽस्ति। एवं सति हे ! सखि ! आलि ! पराधीनम् = श्वश्चादिपरवशत्वात् अस्वतन्त्रं अथवा तस्मिन् प्रेयसि लग्नत्वात् अस्वतन्त्रं वलवत्तत्सङ्गमाथि चेतः = हृदयम् किमपि कत्तुं मृगयते = किञ्चिद्यवसितुमनुसन्धत्ते । कथं प्रियसङ्गमः स्यादिति तर्कना । अत्राऽनिर्धारितविशेषत्वरूपेऽर्थे शक्तस्य किमःशब्दस्य रेवाग्रुद्दीपनविभावः, प्रकरणपतिततया आलम्बनविभावरूपरमणस्यैवान्वेषणमिति व्यंग्यम् । अनुप्रासोऽलङ्कारः। सच विप्रलम्भशृङ्गारानुगतः । विरहिणी च नायिका । शिखरिणी वृत्तम् । " रसरुद्रैः छिन्ना यमनसभलागः शिखरिणी " इति तल्लक्षणात् । 'क्रामन्न्य'-इति । आनन्दवर्धन कृते ध्वन्यालोके तृतीयोद्योते उदाहृतं पद्यमिदम् । राजानम्प्रति कस्यचित् कवेरुक्लिरियम् । हे राजन् । त्वद्वैरिनार्यः तव शत्रूणां स्त्रियः पुनरपि उद्यद्विवाहा इव = जायमानपरिणया इव दावाग्निम् वनवहिम् परितः = समन्ततः । भ्रमन्ति = परिक्रमणमिव कुर्वन्तीत्यर्थः । विवाहस्याङ्गभूते लाजाहोमे प्रायो वध्व एवमेव परिक्रमणं विदधते । कथम्भूताः ता:- इदानीम् क्षतेति-क्षताभ्यो विदारिताभ्यः अर्थात् दभैरेव कृतप्रणाभ्यः कोमलांगु- लीभ्यः गलत् स्रवत् रक्तं रुधिरं येषु तादृशः पादैः= धरणः पातितयावकैरिव = लिप्तालतकरसैरिव सदर्भाः = कुशाङ्कुरोपेताः * स्थलीः = अकृत्रिमान् वन्यान् प्रदेशान् कामन्त्यः = लङ्घयन्त्य: । कुशकण्डिकावर्त्तने विवाहभूमयोऽपि आस्तीर्णदर्भा भवन्ति । तथा—गलता प्रच्यवता वाष्पाम्बुना अस्रजलेन धौतं प्रक्षालितम् आननं मुखं यासां ताः । वाष्पपतनं शोकेन होमधूमेनापि चेति प्रसिद्धम् । तथा-भीताः = भवविह्वलाः शत्रुरस्माकं न पश्येदिति भीतिः । वरश्च सम्प्रत्येव रागान्धो न भवेदिति च । तथा–भर्तृणां पतीनां करे पाणी अवलम्बिताः कराः स्वपाणयो याभिस्ताः अतएव ' पुनरपि उद्यद्विवाहा इव इत्युक्तिः मङ्गच्छते । अत्र राजविषयको रतिभावः प्रधानम् । करुणशृङ्गारी * स्थली भवति अकृत्रिमा चेत् । जानपदकुण्डगोल-(४।१।४२) इति सूत्रेणाऽकृत्रिमाणे ङीप् ।
( ११३ ) राशि सेनापतिद्वयवत् साक्षात्तस्याङ्गभावं गतावित्यन्यदेतत् ।। अहह इति अग्रतनं सन्दर्भमुत्थापयितुं नूतनां शलीमनुरुन्धानः कविरेव वक्ति पाठकान् स्वाभिमुखीकर्तुम् । * चिररात्राय = चिराय । अव्यय मिदम् । 'चिराय चिररात्राय चिरत्याद्याश्चिरार्थकाः ' इति ( अमरः ) । पुण्येति = पुण्यनगरस्य अन्धतमसवीथिकासु = गाढान्धकारल्याप्तासु वीथीस चिररात्राय अस्मन्मनो भ्रान्तम् ' इत्यन्वयः । तोरणति-तोरणदुर्गस्य उपत्य- कासु अनेरासन्नासु भूमिषु यानि उद्यानानि = पारामा. तेषु भ्रमणः पर्यटनैः । तद्विषयवृत्तान्तपठनैरिति कवेरभिप्रायः । विनोदनीयः = हर्षणीयः । श्रान- = पाहादसमूहः । क्रोशार्धम् = क्रोशस्याधं यावत् । पृ १६७ ॥ प्राषाढा मामः । जलदपटलाच्छन्नम् = मेघम.लाप्रावृतम् । सान्द्रनीलम् = नीलनीलमित्यर्थः = नीलनीलमित्यर्थः । गगनतलम् = तलाकारं व्योम । मयूराणां बहिणां नृत्यानि । क्वचित् चातकानां स्तोककानां विरावाः = शब्दाः धारासाराः = धाराप्रपाताः । । इन्द्रगोपेति–इन्द्रगोपानां वर्षाभवानां रक्तवर्णानां कीटविशेषाणां संसर्गेण चङमणात्मकेन सम्बन्धेन अधिकमनोहराणि = अत्यन्तं हृयानि । शालानि शादै ोलतृणै हरितानि क्षेत्राणि इति शेषः । नड- क्र + एवञ्चास्मिन् निश्वासे कोशलाविप्रलम्भवर्णनमपि प्रधाननायकशायर्यानु. परिघुवीरसिंहवीरतावर्णनेन तयोर्भाविसमागमवीजत्वेन अविरुद्धं मन्यते ग्रन्थकार इति सूक्ष्मं तदहृदयं ममाभाति, अग्रे सन्तः प्रमाणम् । * चिराः रात्रयः इति चिररात्रान् । अप्रत्यन्ववपूर्वात्सामलोम्नः (५। ४ । ७५ ) इति सूत्रेण समासान्तोऽन् । चिररात्रान् अयते इति चिररा- त्राय । कर्मण्यम् (३।२।१ ) इत्यण् इति "व्याख्यासुधा" कथं घटते । + इन्द्रो गोपो रक्षकोऽस्येति इन्द्र गोपः। । इह यद्यपि अमरप्रामाण्यात "शादलानि" इति नपुंसकत्वञ्चिन्स्यम् । तथापि महाकविनिबन्धेपु अस्य क्लीव- लिङ्गताऽपि दृश्यते । तथाहि-श्रीहर्षदेव प्रणीते "नागानन्द" नाटकस्य चतुर्थेऽङ्के नायकोप्तो "शय्या शाहलमासनं शुचिशिला" इति । व्याख्यातच तथैव शिवरामेण स्वकृतायां "विमशिन्याम्"-शावलम् ='शष्पकर्दमयोः शादः इत्युक्तत्वात् निरन्तरशष्पहरितं स्थलं तत्र तत्र शयनापेक्षायां सुलभम् इति । एवमस्य स्वविशेष्य- निपतव गतिर्भातीति यथारूपं भूभाग-प्रदेश-क्षेत्र-स्थलादिपदाध्याहारेणैव व्याख्यानं विधेयम् ।
( ११४ ) शादाड् ड्वलच् (४।२।८८) इति चातुरथिकः हलच । “शादल: शादहरिते" इति ( अमरः ) । पञ्चपाणि = पञ्च वा षड् वेति विग्रहः । सङ्ख्याऽव्यया- सन्नादूराधिकसङ्ख्या संङ्ख्यये (२२२२२५) इति बहुव्रीहिः । बहुव्रीही सङ्ख्यये डजवहुगुणात् ( ५।४। ७३) इति डन् । चण्डकरकरैः = चण्डकरः सूर्यः तस्य करैः मयूखैः । कशिमानम् = कृशस्य भावः क्रशिमा कायमित्यर्थः । पृथ्वादिभ्यः इमनिज्वा (५।१।१२२) इति प्रस्तुत्य वर्णदृढादिभ्यः ष्यञ्च ( ॥१२१२३) इति दृढादित्वात् पक्षे कृश शब्दात् इमनिच् । र ऋतो हलादे लघोः ( ( ६।४१६१ ) इति रत्वम् । श्रालम्बते—प्राप्नोतीत्यर्थः । वाटिकामध्ये = पुष्पवाटिकायामित्यर्थः । तिर्यक् = चिरश्चीनः । दारुस्तम्भः = काष्टस्थूण। । प्रतिकोणेति-कोण कोण प्रति इति प्रतिकोणम्-आसक्ता एका शृङ्खला यत्र सा । सुरुचिरा-मनोहरा पीठिका। दोलिका = दोला क्रीडार्थ दोलनयन्त्रमित्यर्थः । शिल्पीति-शिल्पीनां कारुकाणां शिल्पस्य कारुकताया चमत्कारः महत्त्वमित्यर्थः । लताः= वल्यः । स्तम्भौ = दोलिकास्तम्भावेव । सर्वाङ्गीणेति-सर्वाङ्ग व्याप्नोतीति “सर्वाङ्गीणः"। तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति (२७) इति द्वितोयान्तात् सर्वाङ्गशब्दात् खः । खस्य ईनः । परस्परस्मिन् भवः “पारस्परिकः" आध्यात्मादि- त्वात् भवाथै ठञ् । सर्वाङ्गीणश्चासौ पारस्परिकः संश्लेष: आलिङ्गनं तेनेवेत्युत्प्रेक्षा। प्रफुल्लाः = विकाशिन्यः । विविधकुसुममयी = उच्चावचपुष्पप्रचुरा भ्रमदिति-भ्रमतां गुआरवं कुर्वतां भ्रमराणामलीनां निकरैः वातैझङ्कृता झाकारिता नादितेति यावत् । चनुष्मताम् इति कथनन रसिकाणामेव मनोहरणे दोलिकाया अतिशयिता सूचिता । वाच्यार्थस्तु-द्रष्ट्रणामिति । एतदिति- यस्मिन् हरिते स्थले दोलिका वत्तते तस्य शादलस्य मध्ये मध्ये इत्यर्थः । । आसन्धः = वेत्रासतीन 'कुरसी"ति प्रसिद्धानि । प्रत्यासन्दि = आसन्दीमासन्दा प्रति इति अव्ययीभावः । प्रफुल्लानि सुमानि पुष्पाणि येषां ते तुपाः = हस्वशाखा द्रुमाः । “प्रतिक्षुपम्" इति पूर्ववत् * अत्र-सतानां स्वभावप्रफुल्लत्वम् परस्पराश्लेषहेतुकत्वरूपेण सम्भावितमिति हेतृत्प्रेक्षयम्। प्रास्यतेऽस्यामिति अासन्दी। ग्रास उपवेशने अब्दादयश्च (१०।४।६८) इत्योणादिको निपातितः। वेत्रासनमासन्दी स्त्री वृष। च व्रतिकासनम्" इति कोपः ।
( ११५ ) ) इति समास: । आलवालेषु = आवापपु । ' स्यादालवालमावालमावापः" इति (अमरः) सकोरकाः = सकलिकाः । अङ्कुराः = अभिनवोद्भिदः शोभन्ते "अङ्कुरो रोम्णि सलिले रुधिरेऽभिनबादम" इति ( हैमः ) । पृ० १६७,१६८ । वर्तुलक्षेत्रं चैतत् परितः = एतस्य वर्तुल क्षेत्रस्य समन्ता. दित्यर्थः । "श्रभित. परितः समयानिकपा हा प्रतियोगेऽपि" (वा. परितोयोगे द्वितीया । वर्तुलक्षेत्रम् = गोलस्थलम् । कुसुमिताः = प्रफुल्लिताः । कुसुमानि सञ्जातानि * एषाम् । कदम्बकुटाः = कदम्बवृक्षाः । तेपालकैकमन्तरा = एकमेकमन्तरित्येत्यर्थः : । माकन्दद्रुमाः = रसाल वृक्षाः। मध्ये मध्ये चेति = विहित: पार्श्वस्थपादपैः सन्निधित्तिभिर्दुमः पाश्पः पालिङ्गनं सम्बन्धश्च याभिः ताः । मन्दमन्दम्-अनिलालोलाः अनिलेन वायुना श्रासमन्तात् लोलाःचपला: वातनुन्ना: लता: लसन्ति-शोभन्ते । समासोक्तिरलङ्कारः-अत्र-प्रक- तानां द्रुमाग्णां लतानाञ्च परस्परमारेपे वर्ण्यमाने अप्रस्तुतनायकनायिकालिङ्गनादिव्यव. हारपरिस्फूर्तेः । तदुक्तम् समासोक्तिः परिस्फूर्तिः प्रकृतेऽप्रकृतस्य चेत्" इति। समवयस्काः = समं वयोऽवस्था यासां ताः । *चुम्बितयौवनाः = उत्स्फुटित- तारुण्याः । सुन्दर्यः = रामाः । रमण्यः । वासांसि = वस्त्राणि | महाराष्ट- कन्योचितानि, अतिरमणीयानि = अत्यन्तहृद्यानि। “ये एते'' इत्यत्र ईदूदेद्- द्विवचनं प्रगृह्यम् ( १।१।११ ) इति प्रगृह्यसञ्ज्ञायां प्रकृतिभावः । उत्थाय- मुत्थायम् = ऊवीभूय २ तयोः द्वयोः चुम्बितयौवनयोः कन्ययोः “केशाः प्रसा- धिताः" इत्यादि षष्ठी सम्वन्धो वोध्या। विभज्य प्रसाधिताः = प्रतिकीकृताः = सीमन्तसरणि निर्माय सन्जिताः शिरोवाला: "सन्ति" इति शेषः । एवं सर्वत्र यथा- योग क्रियासम्बन्धो वोध्या 1 पीतरनेति-पीतञ्च रक्तञ्च पीतरक्तम् , तच्च तत् * तदस्य सञ्जातं तारकादिभ्य इतच् (५।२।३६) इत्यनेन 'कुसुमिता" इत्यत्र इतन् प्रत्ययः । | पा समन्तात् जलस्य लवमालाति इति प्रालवालः। “ला" आदाने । मूलविभुजादिभ्यश्च इति ( वा० ३।२।५ ) इति वार्तिकेन कः प्रत्ययः । * "मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम्" इति कालिदासः । * अत्र चुम्बतिर्वक्त्रसंयोयरूपे मुख्यार्थे सवाधः सन् तारुण्यस्योद्गमत्वेन रूपेण लक्षणलक्षणया सम्वन्धसामान्य लक्षयति, वाच्यार्थश्च अत्यन्तं तिरस्कृतः । रम्याति- शयत्वं प्रयोजनम् (व्यङ्ग्यम् )।
( ११६ ) कौशेयसूत्रं पट्टसूत्रं तस्य ग्रन्थनपाटवेन = गुम्फनचातुर्येण अङ्किता लक्षिता *कवरी = केशविन्यासः वेणीत्यर्थः । विविधेति--विविधै नानाप्रकारैः मणिभिः मुक्ताविशेषैः जटिता जटलिता या वालपाश्या पारितथ्या स्त्रीणां सीमन्तभूपणविशेषः तया, कनक- कुसुमैः सुवर्णपुष्पैश्च अलङ्कृतम् = मण्डितम् शिरः = उत्तमाङ्गम् । सुवर्ण- सूत्रस्य वेष्टनेन वलनेन आविष्कृता प्रकटीकृता बहुला प्रचुरा सुषमा परमाशोभा यस्या एवंभूता-कुण्डलीकृत्य-कुण्डलाकारं नीत्वा वेष्टिता=जूटिता । वेणी- केशवन्धनम् । ' वेणी केशस्य बन्धने' इति ( मेदनी) । सिन्दूररेखाङ्किता-* नागसम्भवलेखालिखिता, कवरीमध्यरेखा=केशानां मध्यगता लेखा ( अस्ति ) । मौक्तिकगुच्छति-मौक्तिकानां मुक्तामणीनां गुच्छन स्तबकेन अङ्कितं जटितं यत् सुवर्णभरणं तेन अल ड्कृता भूपिता नासा नासिका । आरक्नेति-पार- कया समन्ततो रक्तवर्णया कौशिककञ्चुकिया पवट्टस्त्रीय चालिकया छन्नमावृतम् प्रारब्धः समुपक्रान्त: कुचयोः स्तनयोः उन्नतिमहोत्सवः उद्गमनोद्धवो यत्र तत्, अवलोचकानां द्रष्टुणां ( यूनामवं ) नयनयोः वशीकरणं पाशीकरणम् एवंविशेषण विशिष्टं वक्षः उर:स्थलम् । कर्णिकायुगलति + कर्णिकायुगलेन तालपत्र- द्वन्द्वेन चोचुम्ब्यमानं पुनः पुनः संस्पृश्यमानम् , दोलनश्रमेण=दोलाखेलनग्लान्या उद्भूतानां जातानां स्वेदकणिकानां धर्मलवानां पटलेन=संघेन परिलसितं शोभाय- मानम् । समीरसरणन=पवनसञ्चलेन आन्दोलितैः हिल्लोलितः चूर्णकुन्तलैः कुटिलकैशैः वीजित सेवितं व्यजनितमित्यर्थः, एवंभूतं कपोलयुगलम् गण्ड. दयम् । सौवर्णेति-सुवर्णस्य विकारः सौवणम् कुन्दीकरणमित्यर्थः सौवर्णेश्च "कवरी केशवेशः" इति (अमरः) जानपदकुण्डगोल० (४।१।४२) इति सूत्रेण डोप् । कंशिरो वृणोति आच्छादयतीति व्युत्पत्तिः । "कवरी केशविन्यास शाकयोः" इति ( हैम: )। | वालपाशे केशसमूहे साधुः । तत्र साधुः ( ४।४।६८ ) इति यत् । वालेषु पाश्या पाशसमूहो वा बालपाश्या । * नाग-सीसं सम्भव उत्पत्तिस्थानमस्येति–नागसम्भवः । 'सिन्दूरं नागसम्भवम् ' इति ( अमरः )। + ' कणिका तालपत्रं स्यात् ' इति ( अमरः ) । 'कणिका कर्णभूषणे । वजिकोशे सरोजस्य करमध्यांगुलावपि । कुट्टिन्यां हस्तिहस्ताग्रे' इति ( हैमः ) कर्णललाटात्कनलकारे ( ४ । ३ । ६५ । ) इति सूत्रेण कन् । .
( १९७ ) - यस्याः सा मौक्तिकैश्च राजितं माण्डितं यद् |वेयकं ग्रीवायां भवं कण्ठभूपेति यावत् तेनाऽङ्किता मण्डिता कम्बुग्रीवा-काम्ब्वाकारा शिरोधरा । कुलकुक्षिग्रीवाभ्यः श्वाऽ. स्यालङ्कारेषु (.४।२।६६) इति सूत्रेण भवार्थेऽलङ्कारे ढकञ् । अथवा- ग्रीवाभ्योऽण् च ( ४।३।५७ ) इति सूत्रण पक्षे ठत्रि ग्रैवेयम् = ग्रेवेयमेव ग्रेवेयकम् । स्वार्थकन् । दोलादोलनेति-दोलादोलनेन=दोलाया हिल्लालेनन दोदुल्यमाना=पुन:पुनरुक्षिप्यमाणा या ललिता मनोहरा ललन्तिका लम्बनाख्य कण्ठभूषणं तया लालितं=लाडितं उरः चक्षः । मिकतया विशेषतः पुमां कामो- दीपकत्वेन पुनरप्युर। वर्णितम् । । लम्बन ललन्तिका ' इति (अमरः) पृ० १६०। पञ्चकच्छभंग्या-हंसकेति-हंसकं-नूपुरम् । कात्री रशना । कङ्कणादि-वलयप्रभृति तैर्मण्डिनानि भूषितानि यानि अङ्गानि पादाद्यवयाः। अल्पं वयो जुषाणा=सेवमाना ते द्वे अपेक्ष्य किञ्चिदल्पवयस्केत्यर्थः । धम्मिल्लेति- धम्मिल्लन = संयतकचनिचयेन समुल्लसन् शोभमानो मूर्द्धभागो शिरोभागो । कुंकुमति-कुंकुमविन्दुना = विन्द्राकारेण केसरतिलकेन सुन्दरं मनोहरं ललाटं गोधिर्यस्याः सा तादृशी । कजलाअनेन रञ्जितं लोचनयुगलं यस्याः । सा । नागवल्लीदलरसना ताम्बूलीच्छदवत् ( वर्तुलेत्यर्थः ) रसना यस्याः सा । रक्ताधरेति-रकेन शोयितन अधेरण वर्धिता वृद्धि नीता उच्चायिता रमिकजनानां कामुकानां पिपासा तृट् तच्चुम्बनविपयिणी इच्छा यया सा । पुनःकीदृशी-“वक्षसा कञ्चुकी विभ्रती" इत्यन्वयः । कञ्चुकीम् चोलिकाम् । कथम्भूतेन वक्षसा-अभिनवेति अभिनवो नूतनः समासादितः प्राप्तः मांसलतायाः स्थूलताया: भावः स्थितिरवस्थाविशेपो येन तेन-उन्नत कुचेनेतितात्पर्यम् कथम्भूतां कन्चुकीम्-वृन्ताकश्यामाम् + भंटाकीवत् कृष्णाम् । कौशेयसूत्ररचिताम्-पट्टवस्त्रस्यूताम् । पुनः-समावृत्तार्थवाहुम्=समावृत्ता प्रत्यावृत्ता अर्थवाहुर्यस्याः ताम् । 'समावृतार्थवाहुम् ' इति पाठं सम्पञ्चं प्रपद्ये । चोलिका हि अर्थवाहुर्भवति । समावृतं श्राच्छन्नम् अर्थ बाहोर्यया सेति तामित्यर्थः । पुनः कीदृशीम्-सुवर्णेति-सुवर्णसूत्रेण सुवर्णविकारेण सूत्रेण 'कनारी' इति पदवाच्येन रचितानां लतानां वल्लीनां वितानेन विस्तारण * .. कराठा' इति प्रसिद्धिः। + किचिल्लम्बमानकण्ठभूषणं — लम्बन ' मित्युच्यते । + वृन्ताकं स्त्री तु वार्ताकुभंण्टाकी भांटिकाऽपि च इति (निघण्टः ) ( ११८ ) रोचितः भ्राजमानः प्रान्तः कोणभागो यस्याः ताम् । पुनः कन्यामेव वर्णयति–दोलादोलनेति–दोलाया: दोलिकायाः दोलनेन हिल्लोलनेन यो * वेगभङ्गः जवरोध: तत्परवशतया तदायत्ततया उच्छाल- मुच्छालम् उच्छाल्य २ उरसि-वक्षःस्थले निपतन्तीम् स्खलन्तीम् नक्षत्र- मालाम् = सप्तविंशतिमौक्तिकनिमितांमालाम् , कथम्भूताम्-कुचप्रदेशा- धस्तात् स्तनतलाधोभागात् परिवेष्टितं वलितं यत् शोण रक्तं चैलं वसनं तस्या- अले कोणे आपातिनीम्=समन्तत: पतनशीलामपि तदुपरिभागे-तस्य चैलाञ्च- लस्य उपरि प्रदेशे प्रत्यक्षतः दरीदृश्यमानं भृशमालोक्यमानं पूर्वाधं यस्याः तां नक्षत्रमालां धारयन्तीं परिदधानां । सुवर्णेति-सुवर्णस्य हिरण्यस्य विजि- त्वरो जयशाली वर्णो यस्याः सा तां गौरवर्णामित्यर्थः । मूर्तिमतीवशोभा=आकृ- तिमती शोभेवेति, धारितो देहो यया एवम्भूता प्रेमपरम्परेव=प्रीतिलतिकेव, कलितोघृतोऽवतारो यया एवम्भूता रतिः कामपत्नीव आसीत् । अत्र सर्वत्रोत्प्रेक्षा अनुप्रासादिच्छटा तु स्वयमूह्या । वेगः=जवः । ववृधे एधाञ्चचक्रे । साङ्ग- हारम् = अङ्गहारेण अङ्गाक्षेपेण सह वर्तते तद् यथा तथेति क्रियाविशेषणम् । हन्ति ताडयसे गमयतीत्यर्थः । मञ्जीरशनादीनाम्=नूपुरकाञ्च्यादिभूषणानाम् विलक्षणम्-अलौकिकम् । शिक्षनम् । शिञ्जितम् शब्दः । भूषणानान्तु शिञ्जितम् ' इत्यमरः । प्रतीति-गमागमवेत्यर्थः । पृ० १७० ॥ कर्णेति-कर्णयोभूषणीकृतानाम् , अवतंसीकृतानामिति यावत् *पाटलिकुसुमानाम् = अमोबपुष्पाणाम् । केशेषु = शिरोवालेषु । व्या- सञ्जितानाम् = व्याधुट्टितानां चितानामिति यावत् । मल्लिकाकोरका- णाम् = मालतीकलिकानाम् । विशिथिल दलानि = दोलादोलनेन विचलित- वन्धनानि पत्राणि । परिस्खलन्ति = परितः पतन्ति स्मेत्यर्थः । 1 महा- मधुरेति –महामधुरम् = अतिस्वादु यन्माध्वीकम् = * मधुमद्य तस्य मधुरिम्णो माधुर्यस्य धिक्कारे = न्यक्करणे योऽधिकार : सामर्थ्य विशेषः तस्य धारिणी 'गीति रित्यस्य विशेषणम् । अत्यन्तं मधुरोन्मादकारिणी च । पुन: कोदृशी-प्रफुल्लेति- * 'वेगः प्रवाहजवयोरपि ' इति ( अमरः )। * ' अमोघा पाटलि नं क्ली' इति ( वैजयन्ती)। 'मधुमद्ये तु माध्वकिं कामिकान्तं मदोत्कटम् ' इति ( वैजयन्ती)। * अनुप्रासप्रधानं गद्यमिदम् । + ( ११६ ) प्रफुल्लो विकाशी उल्लासतलजः = प्रकृष्टोल्लासो यो ६ मल्लाररागः तदनुमारिणी- एवम्भूता ' गीति र्गातुमारब्धा' इत्यन्वयः। तथाहीति तामेव गीति दर्शयति- घनपटलीति-धनानां मेवानां पटली राजिः वहु तोयं वर्पति । अयम् = अस्मदृष्टिपथमवतीर्णः पथिकः = यात्रिकः घनपटलीनमुखः = धनपटे मेघ- खण्डे लीनं तन्मयतां गतं मुखं यत्य, मेघे दत्तदृष्टिरित्यर्थः । एतेन पथिकस्य विप्रलम्भविजृम्भणा मूचिता । किञ्च-बहूनां धारणामासाराः जलदेभ्यो निःसृता धारासम्पाताः समुदिताः = सम्यगुदिताः प्रवर्त्तमानाः सन्तीति शेषः । रसिकाः = रागिलोका अपि वहुधा = नानाप्रकारेण रागैः = मल्लारादिभिरेव स्वस्वप्रियाविषयकैश्चित्तवृत्तिविशेषैः कामा मुदिताः मुदिताः = हृष्टाः ' वर्तन्ते । इति शेषः । अत्र 'मुख-पुच्छक ' यमकयोः संसृष्टिः । यदि प्रथमः पादो द्वितीये यम्यते तदा ' मुखं ' नाम यमकम् । तृतीयः पादश्चतुथें चेद् यम्यते तदा 'पुच्छं' नाम यमकम् । एवमत्र प्रथमपादस्य द्वितीये, तृतीयस्य च चतुर्थे यमनमधोदर्शित स्थूलवर्णाकारेण स्पष्टम्- घनपटली बहुवर्षति तोयं घनपटलीनमुखः पथिकोऽयम् । वहुधारासाराश्च समुदिताः वहुधारागै रसिका मुदिताः ॥ किन-पादान्तगो ऽन्त्यानुप्रासोऽप्यात्रालङ्कारः । उक्तञ्च विश्व- नाथेन- व्यञ्जनश्चेद्यथावस्थं सहायेन स्वरेण तु । आवर्यतेऽन्त्ययोज्यत्वादन्त्याऽनुप्रास एव तत् ॥ इति । $ अमेव · मल्लारी' इत्याख्य इत्याभाति–सङ्गीतदर्पणे-श्रीरागाद्याः पडेव रागा उक्ताः तासां पृथक् २ रागिण्यः सन्ति । ' मल्लारी 'तु मेघरागस्य रागिणी । तथा च तत्रेवाप्तम्- मल्लारी सौरटी चैव सावेरी कौशिकी तथा । गान्धारी हरशृङ्गारा मेघरागस्य योषितः॥ इति । भने सन्तः प्रमाणम् ।
( १२० ) - एवम् इत्यारभ्य आकलयत् ' इत्यन्ते गद्य श्रान्तनायिकाजातिः = (स्वभावोक्तिः) अलङ्कारः । स्वैदेः = धर्मलवैरित्यर्थः । क्षालितौ = धौती व्याप्ता वित्यर्थः । वसनम् = वस्त्रम् । अार्द्रितम् = क्लिन्नम् । वपुः = शरीरम् वेपथुना = कम्पेन, चुम्बितम् = स्पृष्टम् । शरीर चकम्पे इत्यर्थः । श्वासप्रश्वा- सयोरिति-त्वरिता= वेगवती अजायतेति शेषः । आननच्छटा = मुख- च्छविः । काञ्चनकमनीयाम् = किमप्यलोकिकं रामणीयकं दधानाम् । शोणता शोमाम् = रक्ततालालित्यम्-श्राकलयत् = दभ्रे । ललिताविशाखाभ्या- मिति–राधिकेव' इत्यत्र-उपमालङ्कारः । इयमपरा = किञ्चिदल्पवयस्का या तृतीया आसीत् अर्थात् सौवणीति प्रसिद्धा कोशला । दोलापट्टिकोपविष्टा सतीतिशेषः । * नीति-नापशाखायाः कदम्बशाखाया प्रचुम्बिनी सङ्गिनी या दोला तस्या वेग = रह: असहमाना= अमर्षयन्ती। 'कदाचित् भुवम् कर्हि- चित् आत्मानम् ' इत्यादि द्वितीयान्तानां सर्वेषां पदानाम् ' अवलोकयन्ती' इति पदेन सम्बन्धः । पृ० १७१ ॥ समीरेति-समीरवेगेन पवनरंहसा आहतस्य = उच्छा- ल्यमानस्य वसनस्य वस्त्रस्य अग्रेण टाडयमानायां = आहन्यमानायां दोलायाम्- अवलम्बिनी सा चासो शृङ्खला ताम् अर्थात् दोलाबन्धनभूतामेव । 'कदापि पिक- शावकान् ' इति सम्बन्धः । कथम्भूतान् पिकशावकान्-तारेति-तारस्वरेण= उच्चस्वरेण अर्थात् पञ्चमाख्येन स्वरेण यद् गानम् अथवा तारस्वरो यत्र तादृशं यद्गानं = गीतिः तस्य श्रवणेन अाकर्णनेन विद्राविता पलायिता * निद्रा येषां तान् । पुनः--कदम्ब | शाखानां नीपशिखानां सन्धिषु जोडेपु विलम्विनां दोलितानां नीडानां कुलायानाम् अन्तराले अभ्यन्तरे रिङ्गणं = $ रिझणं येषां तान् । पुनः-सिताः श्वेतवर्णाः पीताः = पीतवर्णाः सृक्कण्यः श्रेष्ठप्रान्तभागा येषां तान् । पुनः-न प्राप्ता प्रासादिता पक्षतीनां पक्षमूलानां पुष्टिः उड्डयनसामर्थ्य * * 'नीपः कदम्बवन्धूकनीलाशोकद्रमेषु च ' इति ( व्याख्यासुधा ) जुड बन्धने । तौदादिकः । भावे घञ् । + शिखा शाखा लता समा ' इति ( अभिधानचिन्तामणिः )। * शावकगतिविशेषः । गुच्छे गुच्छस्तवकगुत्सकाः । 'गुलुन्छः इति ( अभिधान- चिन्तामाणिः )। :
( १२१ ) यैः तान् । पुनः–अर्थोन्मिषिते अर्धोन्मीलिते लोचने नेत्रे येषां तान् । पुनः- विहितः कृतः मीरानुकारी = नूपुरस्.दृशः रावः चुकारो यः तान् पिकशाव- कान् = कोकिलशिशुन् । कहपीति–दोलान्दोलनेति–दोलाया आन्दो- लनैः गमागमैः दोल्यमाना हिल्लोल्यमानाः ( सञ्चाल्यमाना इति यावत् ) याः दोलाग्रे विलम्विन्यः प्रतायमानाः लताः तासां प्रतानेभ्यः कुटिलतन्तुभ्यः निपत्यमा- नानि यानि कुसुमानि पुष्पाणि तेषां स्तवकान् = गुच्छान् । अथवा-निपत्यमानान् कुसुमस्तबकानिति योज्यम् । भ्रमरिकाभिः= भ्रमणकैः आकलिता व्याप्ता दृष्टिः यस्याः सा। प्रतीति = गतेभेदः गमागमरूपः गतिभेदं गतिभेदं प्रतीति प्रतिगतिभेदम् अव्ययीभावः । पतन्तीव = पतनोन्मुखीव । कम्पमानेव= वेपथुमतीव । अाहतेव = प्राताडितेव । भीतभीतेव= प्रतिभातवेत्यर्थः । मुग्धा = वाला शैशवतारुण्यसन्धा वर्तमानेत्याशयाः । “का नाम वाला द्विजराजपाणिग्रहा- भिलाषं कथयेदलज्जा" इति नैपधे । क्रियासमभिहारेण = पुनःपुनरित्यर्थः वक्तुमारब्धवती = लपितुं प्रचक्रमे । अत्र गद्यऽनुप्रासबाहुल्यम् । साम्प्रत- मेवेति-नमोक्तिः । दोलाविहाररसम् = दोलाखेलानन्दम् । रसयिष्यास = अनुभविष्यसि वर्धिष्यसे वा । सौवर्णी च-उभयतो ग्रीवां परिवर्त्य मन्दं सक्षोभमिवाऽचकथत्" इति सम्बन्धः । चारुहासिनि !" "विलासिनि !" इति सम्बोधनपदे । अलं हासः = हासैनमैंः साध्यं नास्तीत्यर्थः “गम्यमाना ऽपि क्रिया कारकविभक्तों प्रयोजिका" इति " हासै" रित्यत्र तृतीया । भ्रमति = अनवस्थितं भवति मे = मम चक्षुः = दृष्टिः। तुभ्यति = सञ्चलति। मनः = हृदयम् । क्षमता = सहनशक्तिः । तन्न पारयामि = नैव शक्ता भवामि । ग्रीवां परिवर्त्य = शिरोधरां मोटयित्वा । सक्षोभमिव = किञ्चित्कोप- कलुषितमिवेत्यर्थः । ततः-" तृतीयाऽपि सप्रेम समवादीत् इति सम्बन्धः । पृ० १७२ ॥ अथ = तृतीयायाः कथनानन्तरम् । प्रेमेति-प्रेमालापः नमोक्तिः तत्परायणासु एव तासु। तद्धस्तावलम्बनेनैव च सभयं सौवयंप्यवतीर्णा। एतेन सौवा भयातिशयः खेलानभ्यासश्च सूचितः । सावेगम् = सचक्रम् दोलान्दोलनभ्रमरिकासहितमित्यर्थः । प्राप्तधैर्या = ( भ्रमरिकावतारकारणात् ) स्वभावस्थिता । त = चारुहासिनीविलासिन्यौ । खिन्नेति-खिन्नानि = श्रान्तानि स्विन्नानि = आणि सर्वाणि च तानि अङ्गानि वनयोः सन्तीति तादृश्यौ । कदलीदलखण्डेन = रम्भापत्रभागेन । आत्मानं वीजयन्त्यौ = ( १२२ ) - = वाला । त्रजः सेवमाने । पर्यटितुम् = भ्रमितुम्-आरेभाते = प्रचक्रमाते । शाद्वले = हरिते क्षेत्रे पावस्थेति-पार्श्वस्थायाः समोपवत्तिन्या मल्लिकायाः * विचकिलस्य स्तवकेषु गुत्सकेषु यत् परिक्रमणम् = सगुञ्जारवभ्रमणं तत्र परवशः तत्परो यो मिलिन्दवृन्दः भ्रमरसमूहः तस्मिन् दत्ता धृता दृष्टिर्ययाः तस्याः सौवाः । एवम्-वक्ष्यमाणप्रकारेण । आलापाः = वार्ताः मुग्धा दुग्धमुस्खा = क्षीरकण्ठी । जहसतुः = हास्यमका म् हास्यमकाष्टम् वेलनानि नर्मवचांसि पृ० १७३ ॥ रासपञ्चाध्यायर्याम् " जयति तेऽधिकं जन्मना " इत्यादिम् ।। उरसि मुरारेरुपहितहारे"-इत्यादि गीतानि । आदिना " विगलितवसनं परिहृतरसनं घटय जघनमपिधानम्" इत्यादि ग्राह्यम् । गायन्ती-एव वाष्पप्रवाहेण = अश्रुपूरेण अञ्जनम् = कज्जलम् , अधर- रागम् = अधरे वर्तमानं यावकरागम् वक्षःकेसरम् = उरसि लिप्तं काश्मीर कुङ्कुमञ्च क्षालयति = धावयति । हृपयथः = लज्जयथः । विहरतम् = क्रीडतम् । हे ! सौवणिं ! न रोचन्ते = नैव भान्ति । अग्निहोत्रविधिम् = अग्निहोत्राऽनुष्ठानप्रकारम् । योगसाधनपद्धतिम् = योगश्चित्तवृत्तिनिरोधः तस्य साधनानि प्राणायामप्रत्याहाराधारणाध्यानादीनि तेषां पद्धतिम् = रीतिम् । वेदान्तोपदेशैः ब्रह्मविद्याया उपदेशैः । अपराम् = द्वितीयाम् + गार्गीम् वाचक्नवी गागीम् ब्रह्मविद्याविदुषीम् । अस्मत्साहचर्यः = अस्माकं सख्यः । "मखि ! सखि !" इति । सम्बोध्य - पाहूय वञ्चनैः = प्रतारणैः । मास्म उपेक्षिष्ठाः=मा उपेक्षां कापीरित्यर्थ: प्रीतिपात्रे = प्रेयास्पदीभूते । अन्तरङ्गगित्वगविण्यौ = रहस्यरक्षाऽभिमानिन्या । न वक्षि = नैव कथयसि । अनुरागमिव = आसक्तिमिव वहसि = धत्से । कदाचित् विमनायसे = उन्मना भवसि । शृङ्गाररसस्नातानाम् = शृङ्गाररसप्लावितानाम् अनुभूतशृङ्गार. रमानामित्यर्थः । पुरातने लघुतर्राटप्यणे तु-'गीतगोविन्दादि काव्यानुभवजन्योऽयं * मल्लिका स्याद्विच किलः" इति ( अभिधानचिन्तामाणः) । मालतीभेद एवेति तु वयम् । + “घन इव तरलबलाके । तडिदिवपीते रतिविपरीते । राजसि सुकृतविपाके” इति शिष्टं पादत्रयम् । * गााः प्रसङ्गो वृहदारण्यकोपनिषदि वर्तते - ( १२३ ) .. पशतैः । रमानुभवः इत्युक्तम् । गीतगोविन्दादिकाव्येषु विशिष्टतया शृङ्गाररसानुकर्ष- दर्शनात् । पृ० १७४ ॥ गोपितः = रहसि रक्षितः अनुरागप्रवाहः = प्रिया. मक्ति (प्राति ) पूरः । नवति = नवो नूतनोऽभ्यस्तः शिक्षितः अपाङ्गप्रसारः = कटाक्षपातप्रकार: याभ्यां ते तव दृशी = नेत्रे । पालीवेति-पालीढा चुम्बिता तालीदलस्य तृणद्रुमविशेषस्य छवि: छटा यया एवंभूता कपोलपाली = गण्डस्थलम् । सहीति-होस्तम्भन = लजाभरेण सहितो यो निःश्वासः = दीर्घश्वासः तेन यन् मान्थर्यमाधुर्यम् = आलस्यलालित्यं तस्मात् स्वरभङ्गो येषु एवम्भूता पालापाः = लपितानि । सर्वम् = तव हृदयगतं भावम् , स्फुटयन्ति = प्रकटयन्ति । तदलमिति - सम्प्रति न गोपनीयामित्यर्थः । बारः = वहिभूतैः । पाला- = अनेकाभिया॑जवार्ताभिः सम्प्रति न किञ्चित् कार्यमस्तीत्यर्थः। "सत्यम्" इति । किमिव चिन्तयसि = योगिनीव वा वियोगिनीव वेति गूढोऽमिसन्धिः । केन च महाभाग्येन = महामहिम्ना सहचरिताम् = एकत्राऽवस्थितां भुक्ता मिति व्यङ्ग्यम् , स्वमूर्तिम् पश्यसि । स्वापेषु = स्वप्नषु । (हे !) “सौवर्णि इत्यारभ्य “भिद्यत इवावयोहृदयम्" इत्यन्तगद्यन सौवा विरहो दर्शितः । एकान्ते तरुतले उपविशन्तीम् ' इत्यतेन स्मररागस्य दुरितया एकान्ते तन्निगूह- नमिति * व्यज्यते । वचन रहमि शिलासु-चिन्तयन्तीम्” इति इति * चिन्तारव्या द्वितीया स्मरसादशा । "कदाचित् कुआन्त:प्रविश्य- प्रतिमूर्तिमिव लिखन्तीम् " इति स्मृतः परा काठाऽनुरागस्य च प्रगाढता सङ्गमा- भिलाषश्चत्यादिकम् । कदाचनति–पाण्डुनि=विरहकृशे गण्डतले कपोल- पाल्यां विसृत्वराणि प्रपतन्ति अथूणि-अस्रविन्दून् पटप्रान्तेन-अचल- कोणेन । मार्जयन्तीम्-प्रोञ्छयन्तीम् , एतेन सम्प्रलापावस्था कचित् लुण्ठितेनेव वञ्चितेनेवे ' त्यादिना उन्मादावस्था । कञ्चिद् धवलिमानम् श्वेत्यमिति अङ्गेषु वहन्तीम् इत्यनेन पाण्डुताकशतादिरूपो व्याधिरित्याद्या: * "खजूरः केतकी ताली खजूरी च तृणदुमाः' इति (अमरः)। * चिन्ताद्याः कामदशा दश साहित्यदर्पणादावुक्ताः । तथाहि- अभिलाषश्चिन्ता स्मृतिगुणकथनोद्वेगसम्प्रलापाश्च । उन्माथोऽथ व्याधिर्जडता मृतिरिति दशाऽत्र कामदशा॥ एतासां स्वरूपमपि तत्रैव द्रष्टव्यम् ।
( १२४ ) कामावस्था उबुद्धानुबुद्धरूपतया यथायथं सुधीभिरूहनीया ग्रन्थगौरवभयात्तु न बहु प्रपचितम् । दर्श दशम् दृष्ट्वा २ । भिद्यते-द्वैधीभवति संशयानं जायते विकलं भवतीत्यत्र तात्पर्यम् । सर्वत इति-संवृतः=निन्हुतः । अग्निः अनलः । पृ० १७५ ॥ अनुद्गीर्णम्=न उद्गीर्ण वान्तमित्यनुद्गीर्णम् नन्समासः । विषम् हालाहलादि प्राणानपहरति=प्राणघातं करोति । असूचितः अनाख्यातः व्याधिः-ज्वरादिरोगः । अप्रतीकारः नास्ति प्रतीकार उपायो यस्य सःअमाध्य इत्यर्थः ' या त्वं विश्वासमापितापि न वक्षि तत् संवृताग्न्यादीनामधिकतापादिकमि. वेति निदर्शनालङ्कारः वाक्यार्थयोः सदृशयोरैक्यारोपो निद- शना इति तल्लक्षणात् । — अनुरागस्य निरोधः ' इति सम्बन्धः । निरोधः= अप्रकाशनम् । दुःखाकरिष्यति दुःखिनी विधास्यति । सहाये-सुखादि- विभागपात्रे । सखीजने आलिजने । एतेन विश्वासस्य रक्षणीयत्वं व्यज्यते । 'अम्तज्वरं न विभजसि ' इत्यन्वयः । स्पष्टमन्यत् । सौवर्णी तु वाष्पविन्दुसन्दोहप्रवाहण स्वान्तस्थं धैर्य गाम्भीर्यञ्च बहिः प्रवाहयामास ' इति सम्बन्धः । निरन्तरेति-निरन्तरपरिक्रमणेन बहुदोला- भ्रामणकरणन यः क्लमः श्रमः तेन क्लान्तं म्लानं । कमलपल्लवादरे सरसिजपत्र- मध्ये, सुप्तं कलानाथमिव चन्द्रमिवेत्युत्प्रेक्षा । कदर्थयन्तीतिरस्कुर्वती । विरहजन्मना-रघुवीरवियोगजतितेन धवलिना=श्वत्येन भस्मना रूपितेव= भसितेन छुरितेवेति-उत्प्रेक्षा । बदरपाण्डुना=बदरमिव पाण्डुना गण्डेन- कपोलेन । अत्र लुप्तोपमा । उष्णेति-उष्णश्वासप्रश्वासयोः प्राघातेन स्पशेन शुष्कः यः तेन अधेरण । स्वेदजुषा-धर्मात्तेन वषुपा-देहेन । कञ्चन दुष्प्र- तीकारम् अशक्योपायमित्यर्थः । प्राधिप्रधानम्-मायसव्यथाहतुकमित्यर्थः । ' पुंस्याधिमानसी व्यथा ' इति ( अमरः ) । व्याधिम-कष्टम् । स्पष्टयन्ती प्रकटयन्ती । चक्षुषी नेत्रे । धवलतया श्वतीकुर्वता । कपोलौ गण्डयुग- लम् । मलिनयता धूसरयता । अधरम् निम्नमोष्ठम् । ताडयता-आघा- तयता, रागम्-अधरस्थमेव यावकरसजम् अपहरता-मार्जयता । वक्षसि- उरमि शतधारीभूय-असंख्यातधारारूपेणाऽवतीर्य पटसन्धिपु-वस्त्रखण्डेपु प्रवहता-प्रसरता एवम्भूतेन-वाप्पाणां नेत्रवारीणां बिन्दुसन्दोहस्य कणसमू- हस्य प्रवाहेण=पूरेण स्वान्तस्थम् हृदयत्ति धैर्यम्=वियोगजनितदुःखसहनाऽ- क्षमताम् । गाम्भीर्यम् ( कुलाङ्गनात्वात् मुग्धात्वाच्च ) हृदयनिगृहनभावं च वहि: प्रवाहयामास वहि:प्लावयाचक्रे । सौवीं कत्रीं । अत्र-प्रियप्रश्न- , ( १२५ ) स्मारितप्रियभावनाद्विगुणितविरहविह्वलताजनितरोदनवारिणा धर्यगाम्भीर्यप्लावन- क्रियोत्प्रेक्षा शेया । वियोगातिशयश्च व्यंग्योऽपि । “तां ते सान्त्वयामासतुः' इति क्रियाकारकसम्बन्धः । निःशब्दोदनेन तृष्णीविलापेन रोदसी यावापृ. थिव्यौ रोदयन्तीम विलापयन्तीम् । अतिशयोक्तिः द्यावापृथिव्यो रोदनाs- सम्बन्धेऽपि तत्सम्बन्धवर्णनात् । सधडत्कृतिना-धडत्कृत्या सहितेन वक्षसा-हृदयेन, विवर्णन म्लालेन वदनेन-मुखेन । शून्यया='दावान्दोलनया ' निर्विषयिण्या इत्यर्थः दृष्ट्या-चक्षुषा विकलया विहलया अङ्गयष्ट्या देहेन । अतीति- अति अत्यन्तं स्फुटीकृतः प्रकटीकृतः प्रियविरहस्य प्रियवियोगस्य क्लेशः कष्टं यया ताम् श्राकलय्य निर्वण्य । परवशताम्=पारतन्त्र्यम् अङ्गीकुर्वदिव हृदयं स्ववशंवदं विधाय' इत्येवं प्रत्यकमन्वयः । + भज्यमानाम् स्खलन्तीमिव वाचम् , रुध्यमानम्बाप्पोच्छलनपरिपूर्णमिव कण्ठम् गलम् । वेपमान- मिव कम्पमानमिव । विग्रहेति-विग्रहेण कलहेन प्लाव्यमानम् आकुली- क्रियामाणमिव च चक्षुः=नेत्रम्कथकथमपि अतिकष्टेनेत्यर्थः स्ववशंवदम्= स्वाधीनम् । विधाय-कृत्वा । *त ते चारुहासिनी विलासिन्यौ । अश्रुमाजनैः= अस्रप्रोन्छनैः कदलीदलवीजनैः = रम्भाखण्डवातकरणैः । शान्तवचनैः- " सखि ! धैर्य धर, ग्लानि मा गमः, भगवान् भद्रं वितरिष्यति, तव मनोरथः सेत्स्यति " इत्यादिभिः शान्तिप्रदैः हार्दैः वचनैः सान्त्वयमासतुः= धैर्यमापादयामासतुः। पृ० १७६ । “भगिन्यौ ! भवत्यावेव मम जीवने" इत्यादि गचं प्रायश्चूर्णकम् वैदर्भीरीतियुतं विप्रलम्भशृङ्गारानुगतं शेयम् । विस्तरेण नोच्यते । वित्थ = जानीथ 'विद्' धातोलोटि मध्यमाद्विवचने रूपम् । भाग्य- हीनायाः = हतभाग्याया इत्यर्थः 'मम व्यतीतवृत्तान्तं युवां वित्थ" जननीति--जनन्याः मातुः क्रोडे ( गोदे) अङ्के या क्रीडा शिशुकेली तस्याः सुखम् । तातलालनसुखस्य = पितृपालनसुखस्य तपोः=भ्रात्रोः । पार्श्वपरिवर्तिनः = निकटचराः प्रत्यर्थिनः = प्रतिकूलवत्तिनः क्षत्रत्रवः । मृगतृष्णकासु मरुमरीचिकासु । तृष्णाभिः = पिपासाभिः लालसाभिश्च । - इत्यन्वयः + इत्यादिषु उत्प्रेक्षालङ्कारः। * अत्र प्रगृह्यत्वात्सन्ध्यभावः ।
( १२६ ) यस्य .. “ आपतन्ती मृगीब = अत्र–उपमालङ्कारः । यं प्राणनाथम् = तमेव रघुवी- रनाम्ना प्रसिद्धम् वस्तुतस्तु-रामसिंहम् । व्यरमत् = व्यरंसीत् । व्याङ्- परिभ्यो रमः ( १ । ३ । ८३ ) इति परस्मैपदम् प्राणनाथता. सनाथितः वल्लभताविषयीकृत इत्यर्थः । श्रावसथम = समेत्यर्थः पात्रे कुलीने । अभिलाषः = कामः । सुपरिणामः = सुशोभनः परिणामः फलं सः एवंभूतः चित्तवन्धः = मनोलग्नता प्रेमवन्ध इति परमार्थः । प्रातिपदिकचन्द्रमिव = प्रतिपदि भवः प्रातिपदिकः । भवाऽर्थेण्- सचासौ चन्द्रः । यद्यपि प्रतिपदि चन्द्रो न दृश्यते तथाऽप्यत्र प्रतिपच्छन्देन द्वितीयाग्रहणेन दोषाभावः । एतस्मिन्नेवार्थे भारविरपि प्रायुल-"प्रतिपञ्चन्द्र- मिव प्रजा नृपम्” इति । पृ० १७७ । चिरदाहदग्धम् = चिरकालीनविरहोष्मणा परिप्लुष्टम् हृदयहतकम् =अभाग्य हृदयमित्यर्थः । दुःखकथेति-महाकविः कालिदासोऽपि— “कुमारसम्भवे" स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवो- पजायते " इत्यकवयीत् । अनुरुद्धाऽपि = अनुकामिताऽपि । अपवृणेमि = तत्सख्याविति-मम हतभाग्याया मुखावलोकनमपि न कर्त्तव्यमित्याशयः । * 'हला' इति सखीनां सम्बोधने प्रयोगः 'मास्म वदः '= मैवं कथयेत्यर्थः मातृपितृसुखं सर्वे नाऽनुभवन्ति" इति विधातृसमें कर्मणां वैचित्री अनिवार्या तस्माच्छोको न कर्त्तव्य इति भावः । विरहदुःखमननुभूय = वियोगअनितं क्लेशं भुक्ता । प्रेयसा = इष्टेन । संयुङ्क्ते = मिलितो भवति । पारावारेति-पारावारस्य सागरस्य तरङ्गारिङ्ग- णानां वीचिविक्षोभानाम् अाघातम् = पाताडम् , असोवा = अमयित्वा । मुक्ताः = मौक्तिकानि न प्राप्यन्ते = प्रासाद्यन्ते । शतशः = अनेकशः शङ्कलाभिः = क्षोदिनीभि: अनुत्कृत्ता= अतनूकृता देवमूर्तिः = दुर्गादि- प्रतिमा सुसिंहासनार्हाम् = महासिंहासनस्थितियोग्यां सुषमाम् = परमां शोभाम् । न कलयति = नैवासादयते तत् = उक्त हेतोः । समाश्वसिहि = धैर्यन्धरेत्यर्थः । । अत्तिके । अत्तिके ! इति दूराहूतिः = दूरादाह्वानम् । अवाचि= उक्तम् । प्रजापति ! भ्रातृजाय इत्यर्थः । “प्रजावती भ्रातृजाया" इति ( भ्रमरः )। * " हण्डे हो हलाघाहाने नीचां चंटी सखीम्प्रति" इति ( अमरः ) ॥
( १२७ ) . ॥ प्राप्ता । अत्र पृ० १७८ ॥ सोत्प्रासम् = सोल्लासम् सोपहासं वा । अनुमतिम् अनुशान् । प्रासाद्य = प्राप्य । स्वकटीति-स्वकट्याः पटप्रान्तेन = अचल- कोणेन आसञ्जितम् लग्नम् एकं गजदन्तपट्टिकाफलकम् = हस्तिदन्तखण्डिका- खण्डम् उत्सार्य = " निकालमित्वा " स्वयमपि चित्रलिखितेव यावत् काञ्चन क्षणान्–अतिवाहयति = यापयति । श्वासभङ्गम् = भग्नं श्वासम्- उच्छ्रासमित्यर्थः । प्राणाधारम् = जीवनौषधम् । + अदर्शत् = अलोकिष्ट । मुदिता = प्रियदर्शनेन हृष्टा, मोहिता= प्रकाण्डदर्शनप्राप्तया विचित्ता, कम्पिता = वेपथुमती हृदयसत्त्वांद्रेकेण कम्पनभावोपेता इत्यर्थः भीता = कश्चिन्मां न पश्यदिति जस्ता । ह्रीता = प्रथमसमागमहतोलज्जां प्राप्ता । दीपकालङ्कारः एकस्यैव कर्तकारकस्य अनेकाभिः क्रियाभिरन्वयदर्शनात् । नतमुखी = नम्रमुखी फलकम् = फलकलिखितं रघुवीरचित्रम् गोपायन्ती छुपयन्ती, सन्तस्थ = आसानके "रघुवीरस्तु-इतः समायात" इत्यन्वयः । सवैलक्ष्यम् = साशङ्कम् । अवीक्षितः = अदृष्टः । श्राजानेयवल्गाम् = अश्वरश्मिम् । श्रायोज्य वद्ध्वा । उपवनपर्यटनेन = उद्यानभ्रमणेन हेतुना स्वेदान् = धर्मान् अपनेतुम् = दूरीकतम् । स्विन्नकपोलयोः = स्वेद- युक्तयोगण्डयोरित्यर्थः । चूर्णकुन्तलाः = अलिक लम्बिनोऽलकाः । श्मश्रूप्ररोह- = मूर्च्छतिकोद्गमनस्थाली स्वेदविन्दुब्रजेन स्वेदविन्दुजेन = धर्मकणगणेन मौक्ति- कवातेनैव = मुक्तामणिराजीव-इति उत्प्रेक्षा । अङ्कितैव = आस- अितैव । प्रेयसी = वल्लभा । रहसि = एकान्ते । पुनरुद्वेल्लित इव स्वेद- प्रवाहः । पुनरुच्चलित इव धर्मपूरः । केनापि व्याजेन = भावितेन हेतुना परिक्रमाम् = परिक्रमणम् । वाटिकाया = पुष्पोपवनिकायाः । धीरेति- धारो मन्दश्चासौ समीरः पवनः तस्य. स्पर्शसुखम् = स्पर्शजनितमानन्दम् अनुभवति = भुङ्क्ते । पृ० १७६ ॥ चिरतृषिते = अतितृष्णालुनी अत्यन्तमनुरागिणीत्यर्थः नयने =नेत्रे । सन्तर्पयति = आनन्दयति । कमलोदरसोदरे- सरसिजमध्यभागसदृशे एतेन करयो बहुलालित्यं कोमलत्वञ्च बज्यते । स्वप्रति- कृतिः= स्वकीया प्रतिमा । साक्षात्कृता = दृष्टा । प्रेयस्याः = बल्लभायाः सौवा एव विलुलितेति-विलुलितः विलुठितः वारिबिन्दूनां = अश्रुकणानां व्रजः समूह। यत्र ते लोचने = नयने । अहह = महान् खेदः किमिति = कस्माद्धेतीरित्यर्थः । ताम्यसि = ग्लायसि। शुष्यसि = कायमेषि । ग्ला- CALIBRA ( २२८ ) । " इति त्वयैव हृतम्, यसि= क्षीणहर्षा भवसि खिद्यसे = दन्यं प्राप्नोषि । पथिकजने = अध्व. नीने । रज्यसे = रक्ता भवसि अनुरागमनुवनीष । अश्वपृष्ठमेव घोटकपृष्टमेव । अशरणम् = निगृहम् । अव्यवस्थम् = नियतावासमर्यादारहितम् । चेतः= हृदयं चञ्चलयसि = व्याकुलीकरोषि । उद्विजे-खिद्ये । अहम्-चीञ्चकार, विललाप, उत्तस्थौ ( करौ ) प्रससार, रुदोद (च)"-अत्र सर्वत्र-परोक्ष लिट ( ३ । २ । ११५ )। उत्तमपुरुषप्रयोगश्चित्तविक्षेपादिना शेयः । जटालाभिः दीर्घाभिरित्यर्थः । चिन्ताज्वालाभिः = चिन्तार्चिषां मालाभिरित्यर्थः । कुसु मानीव कोमलानि अङ्गानि मारम धाक्षीः इति सम्बन्धः । दह भस्मीकरणे- धातुः । लुङि मध्यमपुरुषैकवचन रूपम् । माड्योगे अटो निषेधः । चक्षुषी परिमृशन्ती = परिमार्जयन्ती । परिवर्तितवदना = अर्थात् तदभिमुखीभूता सती अभ्यधात् = अगादीत् । “वीर ! अभाग्य एष जनः इत्यारभ्य " किमिव भावयामि इत्यन्तं गद्यं सौवयाः स्वप्रेमोद्गिरणबोधकम् , सुस्पष्टञ्च । अत्र व्यङ्गयानि-'अस्वायत्तम् धैर्यम् ' इति कामस्य परा जागृतिः मुग्धताया अपसरणकालश्च, चित्तम् " इति पूर्वोक्तमपि अर्थ पुनः प्रकाशयन्त्या स्तस्या उन्मादः, " अप्रतिरोधा कमरेखा" इति त्वयैव सह मे सङ्घटना इत्यादीनि ज्ञेयानि । भावयामि = आलक्षये। वज्रादपि = अशनेरपि । पृ० १८० ॥ निष्ठुरम् = कठोरम् । व्यरचि = निरमायि । विधात्रा= प्रजापतिना । स्वेति-स्वस्मै समर्पित जीवनं यः तेषाम् । न अन्यत् शरणं रक्षकं येषां तेषाम् । सधासारसारैः = पीयूषधारानियूपैः 'आलापै' रित्यस्य विशेषणम् । ज्वलदिति-ज्वलतो भस्मीभवतो जीवजी- वनस्य = प्राणिप्राणनस्य जीवातुभूतैः जीवनौषधिरूपैः पालापैः = लपनैः । आलोकैः = दर्शनैरपि दुःखेति-दुःखमेव दावो वनवह्निः तेन दन्दह्यमानं= जाज्वल्यमानम् देहम् = शरीरम् । न = नैवेत्यर्थः । शीतलयन्ति = शिशिर- यन्ति । स्वप्राणाधारभूताम् = स्वजीवनावलम्बभूताम् । श्रालोक्य दृष्ट्वा । अश्रूणि मुञ्चन्तीम् = रुदन्तीम् । विस्मृतात्मा = विस्मृतः आत्मा स्वरूप येन सः । सपदि = शीघ्रम् । स्वकक्षगुटिकातः “विगलितं " पराधीनं = स्वकच्छगुप्तिस- * वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥
( १२६ ) । काशादित्यर्थः । पटखण्डम् = कपटमित्यर्थः । " स्वहस्तेन तद्वाप्पाणि अप- हरन् " = स्वकरेण तदणि मार्जयन् । द्वित्रः मौक्तिकैः = मुक्ताफलैः इव । स्वचक्षुषः पतितैः स्खलितः कचोष्णैः = ईपदुष्णः विन्दुभिः = कणः । तद्धम्मिल्लेति--तस्याः धम्मिल्लमतल्लिकाम् = प्रशस्तान् कचानित्ययः । श्रासि- श्चन् = आर्द्रयन् । भग्नेन = त्रुटितस्फुटितेन । अत्र = विपये । किं संशेषे = संशयं करोषि । कोऽत्र सन्देहः = नैवेत्यर्थ इति काकुः । विचिकित्सा= संशय: पुनरुक्ति ने दोष: विवक्षितार्थस्य दृढीकरणात् । वस्तुतस्तु-एतेन रघुवीरवैकव्यातिशयो व्यज्यते । कौमारेति- कौमारब्रह्मचर्यम् = वाल ब्रह्मचर्यम् एव महाव्रतं तेन । गात्राणि = अङ्गानि । जर्जरयिष्यामि = जीणानि करिष्यामि । त्वामेव वा परिणेष्यामि = उद्वा. हयिष्यामि इति दृढः = अकाट्यः मे नियमः= प्रतिशा त्वं क्षत्रिय- कन्याऽसी" त्यादिना समानदेशकालादियोग्यतामतां विवाहो न्याय्य इति व्यक्ती- करोति । परिणयः= विवाहः । पृ० १८१ ॥ दूराहूतिः = दूरादाहानम् । शाद्वलम् = हरितं क्षेत्रम् रिक्तम् = शून्यम् अकुरुताम् = व्यधाताम् । सुकुमारो गुणः । 'कन्यका हि' इति–एतेन- उबुद्धयौवनानां पितृगृहनिवासो नोचित ' इति व्यज्यते । स्पष्टमन्यत् । । पृ० १८२ ॥ समवयस्कैः समानं वयो येषां तैः। विवाहखेला खेलारूपो विवाहविधिरित्यर्थः । व्यधायि = अकारि । प्रत्यक्षासीत् = प्रतिज्ञा मकरोत् । प्रतिज्ञां दर्शयति—यधुभाविति । तस्य = वीरासिंहस्य रघुवीरपितुः । सेनेति--सेनायाः निवेशः शिवि- रकृत्यमित्यर्थः तस्य शैथिल्यं त्रुटिम् । भूसम्पत्तिः = क्षेत्रधनम् । विसूचिका- पीडिता = विसूचिकारोगाक्रान्ता । चरमं निरश्वसत् = अन्तिमम् श्वासं प्राप ममारे- त्यर्थः । वीरश्चेति–वीरः स एव वीरसिंहः सपुत्रपुरोहितः = पुत्रपुरोहिता- भ्यां सहित: । एतेन विपन्निपातेऽपि 'पुरोहितानां सार्थो न हातव्यः नापि पुरोहित- यजमाना' इति प्राक्तनं व्यक्तीकृतम् । महाभारतेऽपि-युधिष्ठिराद्युपाख्यानेऽयमर्थः स्फुट-वणितो व्यासेन भगवतेति नाऽविदितं भारतजुपां विदुषाम् ॥ प्रफुल्लनयना=विकसन्नेत्रा भ्रातृसन्दर्शनेन सोदर्यभावोदोधनादित्यर्थः गव्यूत्यन्तराले = क्रोशद्वयावकाशे ' गव्यूतिः स्त्री क्रोशयुगम् ' इत्यमरः । यवनसादिभिः = म्लेच्छाश्वारोहेः । भल्लहस्तैः = भल्लः खड्गविशेषः हस्ते पाणी ..
( १३० ) येषां तैः । धानुष्कैः = धनुषा प्रहरणकरैः धनुधेरैरित्यर्थः । प्रहरणम ( ४ । ४ । ५७ ) इति सूत्रेण प्रहरणवाचिनः प्रथमान्तादस्यत्यर्थे ठक। उसन्तात् इसुसुक्तान्तात्कः ' (७ । ३ । ५१) इति ठस्य कः । 'इणः पः ' (८।३:३६) इति षत्वम् धनुः प्रहरणमस्येति ‘धानुष्कः' तैः । शाक्नीकैः = शक्तिप्रहरणैः । याट्रीकैः यष्टिप्रहरण: शक्तियष्ट्योरीकक् ( ४ । ४ । ५६ ) इति सूत्रेण शक्तियष्टिभ्यां प्रहरणवाचिभ्यां प्रथमासमाभ्यामीका प्रत्ययः । शक्ति- प्रहरणमेषां तैः ' शाक्तीकैः । । एवम्-सुरक्षिता = अधिष्ठिता एका शिविका = नरयानम् । निरचैषम् = निश्चयमकापम् । अवेदिषम् = अज्ञासिपम् । पृ० १८७ दिल्लीश्वरः = अवरङ्गजीवः । तत्साक्षात्काराय = तन्मेलाकरणाय । तदुहिता = तस्यैव पुत्री रसनारी = 'रोशनआरा' इति नाम्ना ख्याता । कन्दरद्वारि = पर्वतमुख मृगीव स्वयमापतिता–उपमा । हत्ययापि = तं मारयित्वाऽपीत्यर्थः । न शाम्यति = नैव शान्तो भवतीत्यर्थः । परवधूकन्याहरणम् = परेषां वधूनां कन्यानाञ्च हरणम् = वलादादानम् । कथमिव = किम्प्रकारकं कीदृशमित्यर्थः । अरुन्तुदम् = मर्मवेधि । अनु भावयिष्यामि = तदीयकन्याहरणेन बोधयिष्यामि । अनुमन्यताम् = अनुज्ञाप्यताम् । त्वरिताम् = शीघ्रम् । आर्यः :- पूज्यैः । सैन्धवारोहाः = सादिनः । स्वाधिष्ठितेति-स्वाधिष्ठितं स्वाक्रान्तं यत् कुटीरं ततः । * कटि- पटे = श्रोणिवस्त्रे आच्छन्ना: छुरिकाः कृपाण्यो येषां तान् । सान्तरिति-अन्तर्भ- लेन सह वर्तमाना इति — सान्तभल्ला: ' ते च ते कृत्रिमाः दण्डाः हस्तेषु येषां तान् शतम् = शतसंख्याकान् । मस्करिवेपान् = संन्यासिवेषान् । वीरान्= भटान् सह नीत्वा । पर्वतप्रान्ते = पर्वतैकदेश । पृ० १८४॥ वर्पति = वर्षावारिणा वार्षिकेण जलेन पूर्णम् = भरितम् । कुण्डम् = गतविशेषम् । विपातम् = विषेण अतं = संसृष्टं विधाय तदिति = तस्य प्रान्ते = तटे प्ररूढानि यानि कुसुमानि पुष्पाणि तेषां स्तवकेपु गुच्छेषु अपि घ्राणमात्रेण = गन्धोपादानमात्रेण मूर्छावहम् = निःसज्ञ- * कटिः श्रोणिः ककुद्मती इति ( अमरः )। मस्करमस्करिणौ वेणुपरिव्राजकयोः ( ६ । १ । १५४ ) इति सूत्रेण निपात्यते ।
( १३१ ) लिटि रूपम् । ताप्रदं गरलम् = विषम् आयोज्य = मित्का । तदिति-तस्य परिसरः = प्रान्तभूमिः तस्य वदनं = पुर।भागः तदने एव सवें समाच्छन्नाः = छुपिताः । समतिष्ठन्त = सावधानाः स्थितिमकुर्वन् । सगरणाः = सभटाः । शिविकावाहा: = नरयान ( पालवी ) चालकाः । रुन्धि = स्थगितो भव । तत्रैव = विषाक्तकुण्डपरिसरभूमी एव । विरेमुः= विश्राममकापुः । वुभुक्षवः = क्षुधात्ता: एको वृद्धः = जठरः । करधृतेति- करे पाणी धृतः गात्राणामवयवायाम् अवलम्बः प्राश्रयभूतो दण्डा येनेति 'वृद्धजाति'। पिटकम् = मञ्जूषाम् । ' पिटकः पेटकः पेटा मञ्जूपा इति ( अमरः )। दृष्टः = अालोकितः तरेव बुभुक्षुभिरित्यर्थः । अररे ! इति नीचसम्बोधनम् । दशमीहतक = नवतरूव॑मवस्थां प्राप्त ! नाच : ईषत्रस्तः = किञ्चिद् भाति नाटयन्निवेत्यर्थः गृह्णीध्वम् इति साहसोक्तिः इत्यहम्पूर्विकया लुलुण्ठः लुलुण्ठुः = प्रत्यनन् । लुट प्रतीघात कृत्रिमपथिकः = पथिकवेषधारी । सकपटेति-सकपटाक्रन्दनेन इव मव्याजविलापन, गलद्भिः = स्खद्भिः जलैः नेत्रवारिभिः मुखम् = आननभ क्षालयन् = प्लावयन् । तिरोवभूव = अच्छुपीत् । मधुरमोदक- वृन्दम् = लड्डककन्दवृन्दम् । बुभुजिरे = चखदुः । अशयिषत = अस्वाप्सुः । शूलाकृतम् = शूल्यम् मांसम् = आमिषम् । काचेति-काचपात्रम् काच- पिका · बोतल ' इति प्रसिद्धपात्रम् । मद्यम् = सुरा । तदेति-तयोरास्वा- दनेन खानेन पानेन च प्रासादिता प्राप्ता तृप्तियेन सः जागर्ति स्म = अजागारीत् । पृ० १८५॥ मेघदण्डः = घनपटलः । ‘नकोऽपि- उदस्थात् ' = उत्थितोऽभूत् । ' अत्यन्तं समशयिष्ट अध्यक्षः । वाहकान् = शिविकायाश्चालकान् पाहूयमानाम् = श्राकारयन्तीम् । शिविकान्तःस्थाम्= पालंक्यन्तर्वर्तमानाम् । दास्याः पुत्राः = नीचा इत्यर्थः । षष्ट्या अाक्रोशे ( ६ । ३ । २१ ) इति षष्ट्या अलुक् । ' इति रसनारी बोधयित्वा ' इत्यन्वयः । पादाघातेन = पादताडनेन । कराकर्षणेन = करेप्वाकर्षणेनेत्यर्थः करेण कर्षणेन वा । सत्यं मूच्छितान् = निःसशान् अवगत्य = निश्चित्य । सुगन्धि कुसुमानि = सौरभवन्ति सुमानि, जिघ्रापयिषुः = प्रापयितुमिच्छुः पार्वेति-पार्श्ववत्तिन: ममीपवर्तिनः तुपस्य हस्वशाखिन अमात् पुरोभागात् गुच्छकम् = स्तबकम् एकम्-प्राचिनोत् = अग्रहीत् । = संशयं भेजे इत्यर्थः ।
( १३२ ) - * नवेति-नवस्य नूतनस्य कुसुमस्तबकस्य पुष्पगुलुञ्च्छस्य रूपदर्शनेन मोहितः मोह = प्राप्तः आसक्तो भूतः सन् । गाढम् = अत्यन्तम् । स्वयमेव- अघ्रात् =घाणेनाचुम्बीत् तत्क्षणात् भूमौ पपात = चस्खाल, मुमुर्छ = मोहं जगाम । प्रशशाम निववृते । संन्यासिकदम्ब- संवलितः = मस्करित्रातोपेतः । घृणाम् = ग्लानिम् , श्रावहन्तः= धारयन्तोऽपि क्षात्रधर्मम् = क्षत्रियाणां रक्षाधर्मम् प्राकलय्य=विचार्य । तत्कञ्चुकैः = तेषां चोलकैः । दिल्लीति-दिल्लीश्वरनाम्ना अङ्कितेन मुद्रितेन रजतफलकेन = + रूप्यखण्डेन अल कृतानि सज्जितानि यानि उष्णीषाणि शिरोवेष्टनानि तैः । तादृशाः दिल्लीश्वरनाम्नाऽङ्किता या पित्तल पट्टिकाः = * आरकूट मय्यः पट्टिकाः ताभिरङ्किताः ये कटिबन्धाः श्रोणिवन्धाः तैश्च, आत्मानम् = स्व- स्वरूपम् अलञ्चक्रुः = भूषयाम्बभूवुः । वेषपरिवर्तनं दधिरे इत्यर्थः । तरुशाखा लम्बितान् = वृक्षशाखाबद्धान् । वाजिनः = अश्वान् । उन्मुच्य = खोर ( ल ) यित्वा । " खोल” गतिप्रतिघात । अनेकार्था धातवः । वल्गादियोजनैः- रश्म्यादिवन्धनः । सजीकृत्य = तात्कालिकीकृत्य । वलितवारवाणाः = वलिताः परिहिता वारवाणाः कवचा यैः । सुप्तेति-सुप्तानां शयानानां सादि- नामश्वारोहिणां शस्त्रैर्धनुरादीभिरवे ॥ धानुष्काः = धनुःप्रहारिणाः * काण्डीराः= वाणवन्तः । शाक्तीकाः= शक्ति ( हेति ) प्रहरणाः । याट्रीकाः = यष्टिप्रहरणाः । + पारश्वधिकाः= परश्वधप्रहरणाः प्रासिकाः = प्रासप्रहरणाः। नैस्त्रिशिंकाः = निस्त्रिंशप्रहरणाः । कौन्तिका कुन्तप्रहरणाः । फलकपाणिनः= चर्मवन्तः = करधृतचर्माणः । तान् = अश्वान् भारुरुहुः = अधितष्ठुः । जङ्घालाः= जङ्घाकरिकाः । वाह कताम् = शिविकाया इत्यर्थः । पालङ्कीम् = शिविकाम् । * अत्र बहुवक्तव्यमाभाति परन्तु ग्रन्थगौरवभयादिह नोक्तम् । * दुर्वर्ण " रजतं रूप्यं खजूरं श्वेतमित्यपि " इति (अमरः)। रीतिः स्त्रियामारकूटो न स्त्रियाम् इति (अमरः) व्याख्यातं पूर्वमपि । *काण्डाण्डादीरनीरचौ ( ५ । २ । १११) इत्यनेन मत्वर्थे काण्ड' शब्दात् ईरन् । परश्वधाट्ठश्च ( ४ । ४ । ५८ ) इति परश्वधशन्दात् प्रहरणार्थे ठञ् ।
( १३३ ) " इति चाल :। पृ० १८६॥ दुर्गाध्यक्षम् = दुर्गपालम् । तन्निगालम् = अश्वीयं गलोद्देशम् । श्रास्फोट्य = पोथयित्वा । भास्कन्दितैः = * उत्तेरितैः । “पोईया" इति प्रसिद्धैर्गमनैः । धौरितकैः- धोरणैः प्रसिद्धैः । वलितैः = उच्छलनविशेषैः “ टपोसीमारना " इति ख्यातैः । निम्लोचति = अस्तमुपेयुषि । प्लुतैः = सवनर्गमनैरित्यर्थः पश्चिमाशाकुण्डलमिव = पश्चिमाया वारुण्या आशायाः दिशायाः (नायि- कायाः) कुण्डलं कर्णभूषणमिवेत्युत्प्रेक्षा । मार्तण्डमण्डलम् = सूर्यबिम्बम् । अस्ताचलेति-अस्ताचलस्य अस्तगिरे : चूडायां शिखरे शोणोष्णीस्य भावः तत्तां, रक्तशिरोवेष्टनमूर्ति भेजे=दभ्रे । युद्धसजाम् = सङ्ग्रामस्य तात्कालिकी स्थितिम् । भूषणकविः यस्य वृत्तं पूर्वमागतं सः । * वीररसकवितापाठः वीररसप्रधान कवित्वश्रावणैः । उत्साहम् = हृदयसत्त्वम् । द्विगुणयति स्म = अवीवृधदित्यर्थः । अन्त- लौह वर्म = कवचम् तदुपरि = वोपरि । माङ्गलिकवणैः मङ्गलप्रयोजनकैः वर्णैः श्वेतपीतरक्लादिभिः । मङ्गलं प्रयोननमस्य इति 'माङ्गलिकम्'। -प्रयोजनम् ( ५। १ । १०६ ) इति सूत्रेण ठञ् । वारवाणैः = लोहवर्मभि अङ्गरक्षिकाभिः = अङ्गरक्षिणीभिः । आयसीभिर्जालिकाभिरित्यर्थः । आत्मा- नमाभूष्य = मण्डयित्वा सारसनम् = कटिवन्धविशेषम् । श्रायसशीर्षाच्छा- दकस्य = लोहमयं यच्छीर्षाच्छादकं शिरस्त्राणं तस्योपरि चक्रोष्णीषम् = चक्राकारमुष्णीपम् शिरोवेष्टनम् । 'अथ' इति वृत्तान्तरमारभते-रिङ्गिदिति-रिङ्गतां सन्नलतां तर- गाणां भङ्गैर्वलितैः अाहतं तीरं तटं यस्याः सा, शीतलसमीरा = शीतलः शिशिरः समीरः पवनो मया यस्या वा । धलद्धलद्ध्वनिना धीरा मन्दचाला गम्भीरा= गूढजलतला नाम्ना नदी प्रवहति । ~ " नीरा "उत्तेरितमुपकण्ठमास्कन्दितकमित्यपि । उत्प्लुत्योत्प्लुत्य गमनं कोपादेवाखिलैः पदैः ।। इति (हेममाला)। “आस्कन्दितं थोरितकं रेचिंत वल्गितं प्लुतम् । गतयोऽमूः पन्न धाराः" इति (अमरः)। + वाणं वारयति वृणोति वा । वृञ् धातोः कर्मण्यण् राजदन्तादित्वात्पर- निपातः । कन्चुकविशेषोऽपि ।
( १३४ ) दक्षिणा = दक्षिणस्याम , प्रतीच्याम् = पश्चिमायाम् गिरिराजी- नाम् = पर्वतश्रेणीनाम् परतः = उत्तरोत्तरतः गिरिराजयः = पर्वतश्रेणयः । अभ्रंलिहैः = मेघमण्डलचुम्बकैः उच्चोच्चैः = अत्युच्चैरित्यर्थः सानुभिः = शृङ्गैः अधित्यकास्थैः = पर्वतोर्ध्वभूमिवत्तिभिः अरण्यानीसंस्थानैः=महाजङ्गल- सन्निवेशविशेषैः । मेघमालेति-मेघमालायाः नीरदराजेमण्डलस्यविम्वक्रान्तेभ्रमं भ्रान्तिमित्यर्थः । गिरिराजयः उत्पादयन्ति " इति कर्तक्रियान्वयः । उदीच्यामिति । = उत्तरस्यां दिशि-सुदूरविस्तृतम् = महाविशालम् । पृ० १८७ ॥ दूरवीक्षणनलिकातः = ' दूरवीन' इति प्रसिद्धयन्त्रेण । चित्रमिव = प्रतिकृतिरिव । साकल्येन = सामग्रयेण नगरम्-एनत् = “ द्वितीयाटौस्स्वेन " ( २ । ४ । ३४ ) इति अन्वादेशे एनादेशः । रजन्याम् = रात्रौ । दुर्घटा = अचिन्त्या, घटना = दशा । इति पर्या- लोचयन्ति स्म समीक्षाञ्चक्रिरे । बहुदर्शी = दीर्घदीत्यर्थः । शिवेति-शिवस्य पितुः करपल्लवच्छायायां पाणिपल्लवाश्रये यापितं गमित वाल्यं वयो येन सः । एवम् = वक्ष्यमाणप्रकारेण अालपुः = अभाषिषत । धैर्यम् = धीरताम् । गाम्भीर्यम् = गूढप्रकृतिम् । चातुर्यम् = नपु- ण्यम् । वीर्यम् = सामर्थ्यम् । विजेष्ये = जयं लप्स्ये । वीरगतिम् = निर्भयं युद्धे मरणम् । कुशलिषु = जीवत्सु । प्राप्तशरणः = प्राप्तं शरणं रक्षिता येन तादृशः। वैदिको धर्मः = * सत्यसनातनहिन्दुधर्मः । पृ० १८८ ॥ कम्पः = वेपथुः । वक्षःसु = उर:सु । भारतेति- भारतस्य ये प्रत्यर्थिनः शत्रवो यवनाः तेषां पत्नीनाम दाराणाम् । भारतभुवं विरहवस्तु = त्यजत्सु–अर्थात् वीरगति गच्छत्सु । धुरम् = राष्ट्रभारम् धर्मः = वैदिक एव । प्रालम्विष्यते = आश्रयिष्यते । भारतति-भारत- भिजनस्य भारतदेशस्य स्वातन्त्र्यभारः स्वतन्त्रताधूः । नवोन्नतिम् = नवां राष्ट्र- सम्पत्तिम् । तदलमालप्यान्यत् = अन्येनालपनेन कार्य नारित । सहेति–सहचरैः अनुयायिभिः सह वर्तमानाय मह्यम् स्वस्ति = स्वस्तिकचनम् । प्रमत्तहत. कान् = नीचान् प्रमादिनः इत्यर्थः । श्राशीराशीन् = आशीर्वाक्यावली: * अयमेव " वर्णाश्रमधर्म " इत्युच्यते ।
( १३५ ) वरयात्रा. सप्रेमेति-प्रेम्णा सह आशीभिश्च सह उदन्तम् = वृत्तान्तम् । प्रस्थानात् प्रागेव वधूप्रवेशो जातः' महषोंक्तिः । इदं भङ्गिवचनं रसनारीकाराकारी- करणविषयकम् । विशकलय्य = विभागशः कृत्वा । विस्तरेणेत्यर्थः । अति. माङ्गलिकमिदम् = मङ्गलहेतुभूतन् । मूर्तिमती = देहधारिणी जयश्रीः- जयलक्ष्मीः । युद्धकार्येषु = रणागणक्रियासु । तोपितवानसि = प्रमन्नम- कार्षीः । मङ्गलम् = शुमम् आचक्षाणः = कथयन् । पुरस्कार्यः = परि- तापकप्रदानेन सत्कार्य: अध्यक्षतायाम् = आधिपत्ये । विनियुनज्मि = स्थापय । समस्तकनमनम् = शिर प्रहीकरणपूर्वकम् । शिवेङ्गितेन = शिवा- भिप्रायं ज्ञात्वेत्यर्थः । तत्पदाहाणि = पञ्चसहस्रसङ्ख्याकसादिप्रभुताया- ग्यानि वासांसि = वारवाणादीनि । विश्राणयति = ददति सति मुरेश्वरे भावसप्तमी । सुवर्णपट्टकम् हिरण्मयफलकम् । वक्षसि = सुवर्णकोशेन सहित एकं खड्गम् = असिम् । कटिप्रदेशे = शिवः -- महाराष्ट्राभिजनाचीचर: स्वहस्तेन = निजपाणिना स्वयमायोजितवान् = वन्धयामास । पृ० १८६ ॥ तदुदारतेति-तस्य शिवस्य या उदारता = उद्भटता तस्याः वर्णनकवितां रचयन्तम्-निर्मिमाणम् । भूपणम् = भूपणाख्यं कविम् । मौक्तिकमालया = मुक्तानां मालया। सम्मान्य = सत्कृत्य । चिरसहचरः= पुरातनः सखा । नयनेति-नयनजलैः अप्रैः क्षालितं सावितं कपोलं यस्य सः सहेति-सहगमनस्य अनुमतिम् = अनुशाम् । पारितोपिकम् = प्रासादम् । प्रत्यक्षासीत् = प्रतिज्ञामकरोत् साम्प्रतम् = इदानीम् असाम्प्रतम् = अनुचितम् । 'दे युक्ते साम्प्रतं स्थाने ' इति ( अमरः )। आज्ञाप्यः = अनुशाविषयीकर्तव्यः । विधेयः = सेवकः । चित्रम् = आश्चयम् । सन्देशहरपदे = जङ्घाकरिकपदव्याम् । अतीति–प्रति = अत्यन्तं शिक्षितानां निपुणाणां वीराणां कार्यप्रवाहे = क्रियासरण्याम् । साहसम्= अविचारितं कर्म । श्राधत्से = करोपि ।। प्रायतिः = उत्तरकालः । मङ्गल- मयी = मगलस्वरूपा । प्रापिप्रच्छिषमाणम् = आप्रष्टुमिच्छन्तम् । पृ० १६० ॥ पञ्चशतीम् = पञ्चानां शतानां समाहारः पञ्चशती ताम् । • समाहारेऽत ईप् द्विगु: " इति अदन्तात् द्विगो: स्त्रियामीप् । प्रतीक्षस्व % प्रतिपालय । रक्तम् शोणितवर्णम् एकं अग्निपुष्पम् 'बुर्ज' इति ख्यातम् । समुड्डीयमानम् = विहायसा गच्छत् पश्यः द्रक्ष्यसीत्यर्थः । आक्रमणम् = आक्रान्तिम् । " स्वर्णदेवोऽपि चोमिति" ( १३६ ) इत्यत्र श्रोमाङोश्च ( ६ । १ । ६५ ) इति सूत्रेण श्रोमि परे पररूपम् । त्रिपुरमथनः = महादेवः अर्पिता = दत्ता । ' ब्राह्मण:- अक्षतान्' इति स्पष्टम् । पराभवम् = पराजयम् । शाम्यन्तु = नश्यन्तु घोराणि = उपद्रवकराणि । पृ० १६१॥ रिपुनिकरम् = शत्रुवृन्दम् दिधक्षन्त इव = दग्धु- मिच्छन्त इव । तूष्णीम् = समौनम् । श्रदीपप्रकाशा = दीपप्रकाशविहीना । अवाग्विलासा-वाग्व्यापारविहीना । पञ्चविंशति वा उत्साहधनान् धैर्य- शालिनः धीरान् = कुशलान् वीरान् गाढान्धकारे = सन्तमसे । अाम्र- वणे = अाम्राणां वनम् + आम्रवणम् तस्मिन् रसालवन्यामित्यर्थः । प्रती क्षमाणः = प्रतिपालयन् । वाद्यनिनदम् = वाद्यवादनम् । वरयात्रा = जन्या । वरयात्रामण्डने = जन्याजनमण्डले । सपादाताः = पादातैः सहिताः । सवाडवाः = घोटीभिरुह्यमाणाः । घाण्टिकेति-घण्टया चरन्ति "घाण्टिका:' चक्रेण समूहेन चरन्ति 'चाक्रिका' । चरति (४।४।८) इति सूत्रेण ठक् । बहवो मिलित्वा ये राशां स्तुतिपाठादि कुर्वन्ति ते घाण्टिकाः चाक्रिकाः वन्दिविशषाः । 'चाक्रिका घाण्टिकार्थकाः' इति ( अमरः ) आयुधन जीवन्ति आयुधिकाः । श्रायुधाच्छ च (४ । ४ । १४) इति सूत्रेण चात् ठन् । वैजयन्त्यषामस्तीति · वैजयन्तिका' = पताकिनः । वाह्यादिभ्यश्च (५।२।११७) इति ठन् । अथवा-" चरितं , ( ४ । ४ । ८ ) इति सूत्रेण ठक वैजयन्त्या चरन्ति ते । पताका वैजयन्तिका " इति ( अमरः ) वादयन्तीति 'वादका' । एतेषां द्वन्द्वः । तदादि = तत्प्रभृतिसहिताः । कृशानुक्रीडेति-कृशानुक्राडाया : अग्निखलायाः आकलेने करणे कौतुकिनः कुतुहालनः अलातखलननिपुणा इत्यर्थः 'ऐते" यत एव ( मार्गात् ) यान्ति स्म तत एव गवाक्षभ्यः इत्यन्वयः । गवाक्षेभ्यः = वातायनेभ्यः । क्रोडेति-क्रोडे = उत्सङ्गे स्थापिताः धृताः स्तनन्धयाः शिशिवो याभिस्ताः एवंभूताः-गृहिण्यः = पतिपुत्रवत्यः साध्व्योऽङ्गनाः । उच्चकुचेति–उच्चाना मुन्नतानां कुचानां पानानां स्तनानामित्यर्थः अग्रेण अर्थात् चूचिकाप्रदेशेन आस्फालिता: आमर्दिताःगवाक्षाणां जालानां दण्डा याभिस्ताः। स्वप्रेमेति-स्वस्य " ' .. :D 1 "प्रनिरन्तःशरेचसक्षाम्रकार्घ्यखदिरपीयूक्षाभ्योऽसञ्ज्ञायामपि" ( ८/४/५) इति सूत्रेण नस्य णत्वम् ।
( १३७ ) प्रेम्णःरतेःपात्रं यःप्रियजनो वल्लभलोकः तस्य दन्तक्षतव्रणेन विषमाः सक्षताः तथा ताम्बूलीरागेण रश्रिताः शोणिता अधरा यासां ताः एवम्भूताः चिरण्ट्यः- युवतयः च-अंगुल्या = करशाखया निर्दिशन्त्यः = बोधयन्त्यः । पृ० १६२ समारोहः = संघट्टः । शास्तिखानेति-शास्ति- खानेन अध्युषितम् अधिष्ठितं यद् गृहं तस्य द्वारपर्यन्तम् । सीमन्तिन्यः = योपाः । धमदिति-धमद्धमदश्वने: वाद्यादिनिनदस्य समाकर्णनेन श्रवणेन जातं कुतूहलमाश्चर्य यासां ताः । निराहततन्द्राः = तन्द्राराहिताः । मन्दा- क्षेति-मन्दाक्षण = हिया मन्दः प्रचारः इतस्ततः संसरणं यासां ताः प्रतिसीराः= जवनिकाः । द्वितीयाबहुवचनम् । अपसारमपसारम् = अपसार्याऽपसार्य । लशुनेति-लशुनम् = रसोनकम् , पलाण्डुः = गृजनम् तयो. गन्धेन कटुभिः, जम्भा परम्पराभिः गात्रविनामनातैः । नासेति-नासाया मौक्ति- कानि मुक्ताभूषणानि मलिनयन्त्यः दूषयन्त्य इवेत्युत्प्रेक्षा । सा च वाचक- शब्दाऽनुपादानात् गम्या ( लुप्ता ) । लोलत्कुण्डलाः = लोलन्ति स्वस्थानात् गमागमं कुर्वन्ति चलानि कुण्डलानि कर्णभूषणानि यासां ताः । दोलल्लल- न्तिकाः = दोलन्त्यो हिल्लोलमाना ललन्तिकाः कण्ठिका यासां ताः । स्खल- द्वसनाः = स्खलन्ति स्थानभ्रष्टानि भवन्ति वसनानि उत्तरीयादीनि वामांसि यासां ताः । वलद्धसनाः = प्रतिहसन्त्यः । मदेति-मदेन = मद्यन ब्या- घूर्णितानि नयनानि यासां ताः । विहितेति-विहितं कृतं मेचकस्य कृष्णवर्णस्य कुञ्चितस्य गुच्छितस्य कचप्रचयस्य = संयतकेशनिचयस्य संचयनम् = स्वावस्थापनं याभिः ताः । अञ्जनरञ्जिताभिः = कज्जलाक्ताभिः दृग्भिः दृष्टिभिः इन्दीवरमाला: इव = नीलोत्पलमालाः वर्षन्त्यः = प्रकिरन्त्यः इवेति क्रियास्वरूपोत्प्रेक्षा। रोलम्बकदम्बामिव क्षिपन्त्यः = रोलम्बाः भ्रमराः तेषां कदम्बं समूहमिव क्षिपन्त्यः प्रसारयन्त्यः “ शास्तिखानसीमन्तिन्योऽपि वीक्षितुमारेभिरे " इति क्रियाकारकपदान्वयः। अन्यन्याः-न न्यूनाः । त्रिंशत् = वीराः= महाभटाः। तद्भवनेति तस्य शास्तिखानस्य यद् भवनं गृहम् तस्य नेदिष्ठा = अतिशयेन समीपवतिनी या वाटिका अर्थात् पुष्पक्षेत्रिका तत्र विटपानां वृक्षाणाम् अन्धतमसच्छायासु = गाढान्ध- कारच्छायासु एव समवलीयन्त = लीना अभूवन् अच्छोप्सुरित्यर्थः । वरयात्राकलकलः = जन्यासनलनकोलाहलः । नागरिकानां नगर- भवानां जनानां रखः = माहारविहारवार्तादिकरणकोलाहलः । श्यामश्यामैः ।
( १३८ ) ग अत्यन्तं नीलैः तिमिरसान्द्रता = अन्धकारगाढता द्विगुणिता = वर्धिता । झिल्लीति = झिल्लीनां झिल्लिकानां रवः शब्दः तस्य अनुसृतः तत्मदृशः । नैशीथः = निशीथे भवः । भवार्थेऽण् । अर्धरात्रकालिक: स्वभावसिद्धः प्राकृतिकः । अनाहतानुकारो = योगशास्त्रप्रसिद्धनादविशेषमदृशः ध्वनिर- श्रयत = आकर्यत । प्रतीहाराः = द्वारपालाः । गृहीतः भित्तिकानां कुड्यानां आश्रय: स्तम्भनं यैः तादृशः, घुरघुरायिताः घोरा भयङ्करी घोणा नासिका येषां ते । श्लथत्करवाला: = स्थानशिथिलखडाः समशयिपत = सम्यक् ( गाढम् ) शयाना अभूवन् । सम्पूर्वः शोङ् धातुः संशयेऽर्थे वा चको न तु गाढनिद्राथें तस्मादत्र अवाचकदोषः प्रतीयते । "अथ" इति वृत्तान्तरमन्वाख्यायते-"अर्धसुप्ताभिः-महामदमहिलाभिः - शास्तिखानयोषाभिः किञ्चित् शब्दजातमश्रावि" इत्यन्वयः । निद्रया गाढम्= यथा तथा आक्रान्ताभिः = व्याप्ताभिः उत्थातुम् निणेतुं वा नाऽपार्थत = नैव पारितं न समार्थ्यतेत्यर्थः । पृ० १६३ । "हण्डे" इति दासी सम्बोधनम् । "हण्डे हले हलाऽऽह्याने नीचां चेटी मखोम्प्रति' इत्यमरः । रन्धनगृहे = रसवत्याम् । सशब्दमास्खलितम् = सध्वनि किञ्चिदापतित- मित्यर्थः । निद्रेति-निद्रायाः भरण भारेण मन्थरा = आलस्योपता । भट्टिनि' इति राश्याः मम्वोधनम् । शेष्व = स्वपिहि । विडालः = मार्जारः । पाखुः मूपिकः । भित्ति भित्त्वा = सन्धि छित्त्वेत्यर्थः । विकोशखड्गाः = नग्नामयः । गृहेति-गृहावग्रहणीषु = गृहदेहलीषु सम्यक् उद्घातेन उच्छालमारणेन आह- तानि आघातं प्राप्तानि स्फुटितानीति यावत् प्रपदानि यामां ता: प्रघाणे = वहि- रिप्रकोष्ठके । कान्दिशीकाः = भयद्रुताः भीत्या पलायिताः । अट्टेषु अट्टालिकासु । सेनान्यम् = मेनानायक शास्तिखानम् । समवूवुधन् = वोधितमकापुः । अचकर्थश्च = अवादिपुः अवादिषुः । नग्नासिहस्ताः = विकोश- खड्गाः । “सेनानीस्तु-शिवराजं पश्यन्नासीत्" इत्यन्वयः। अकस्मादुः स्थापितश्च = अकाण्डतः सहमेत्यर्थः जागरायितः । सीमन्तिनीजनग्रीवां समा- लिङ्गन् इत्यादि चेष्टनमस्य पराजयसूचकमशुमिति शेयम् । अन्तःपुरक्रमणम् = अवरोधक्रान्तिमपि व्यधुः = अकापुः । पृ० १६४ । स्वाधिष्ठितविशालकोष्ठस्य = स्वाक्रान्तमहाप्रासादस्य । %3D ( १३६ ) .. .. पक्षद्वाराणि = खडकिकाद्वाराणि प्यधात् = अबन्धयत् । एकल: = एकाकी । पुरुषान्तःस्थः = पुरुषभध्ये लुक्कायितः । प्रच्छन्नतया - गुप्तभावेन । व्यचेष्टिष्ट = चष्टामकरोत । रक्षकाः = रक्षिपुरुषाः । चन्द्रशालासु शिरोगृहेषु । श्येनाः इव = वाजपक्षीवति उपमा। समापतन् = अाक्रान्ति व्यधुः । “अक्रियत' इति "कृ" याताः कर्मणि लङ् । महानिनदः = महतो गर्जना । कुट्टिमे = निबद्धभूमौ । अट्टे = अट्टालिकायाम् । प्राङ्गणे = चत्वरे । खड्गति -खड्गानामसीनां खणत्कारः अाघातर्जानतः शब्दविशेषः, * वेडा सिंहगर्जनम् अथवा खणत्कार वंडा इति खणत्कारशब्दः, हुङ्कारध्वनिः एतेषां प्रति- ध्वनिभिः प्रतिशब्दैः धर्षिताः = धडाकारिताः प्रतिवेशिनां पारिपाश्विकानां निचयः ममुदायो येन तादृशम् । मुहर्त यावत् = घटिकाद्वयपर्यन्तमित्यर्थः । तुमुलम् = सङ्कुलम् । परितो विशस्यमानाः = समन्ततो विहन्यमानाः । स्वमति-- मज्जा = शरीरस्य धातुविशेष: रुधिरं = शोणितम् मेदः अस्थितेजः एतेषां निचयः मेदिनीम् = पृथिवीम् । मेदस्विनीम् स्थूलामित्यर्थः पङ्किलाम्=कर्दममयाम् तावत् = तस्मिन्नेव काले इत्यर्थाथः । कुसुमाकारम्=पुष्पसदृशम् । स्फुलिङ्ग- निकुरुम्बम् = अग्निकणवृन्दम् । चुचुम्ब = अन्तरिक्षं प्रति डिड्ये। "शिवराजस्तु-उक्तवान्" इति सम्बन्धः । सेनापतिमिव-अन्विष्यन् = गवेषयन् । शुद्धान्तदिशि = अन्तपुराशामेव भापतितः = अनुधावितः । मार्गम् = वर्त्म । अवरुध्य = प्रावार्य । चान्देण = चान्द्रखानेन संवादि- नीम् = संवादवतीं सदृशीमित्यर्थः । तदाकृतिम् = तस्य यवनयुवकस्य प्राकृतिम् । निर्धारयन् = निश्चयन् । मृषा = निष्फलम् । स्वपित्रिति-स्वस्य पितुः अथात् चान्द्रखानस्य शोणितेन रुधिरेण दिग्धः म्लिष्टो यो मत्करवालः चन्द्रहासः तस्य धारैव तीर्थम् तस्मिन् विसिसृक्षसि = विस्रष्टुमिच्छसि । पृ० १६५ । मुग्धम् = मनोहरम् । करुणापरवशः = एतेन हिन्दूना धर्मस्वभावदाळ व्यज्यते । क्रौर्यम्: = करस्य भावः करतामित्यर्थः । तस्य = शिववीरस्य । अकस्मात् = सहसा उत्प्लुत्य = कूर्दयित्वा । मूर्ध्नि = शिरसि प्राहिणोत् = प्राक्षिपत् । रिपुवालः = शत्रुशिशुः । स्तिमितः = स्तन्धीभूतः एकतः = एकस्मिन् * "वेडा वंशशलाकायां सिंहनादे च योषिति । लोहितार्कपर्णफले घोष पुष्पे नपुंसकम् । दुरासदे च कुटिले वाच्यलिङ्गः प्रकीर्तितः” इति ( मेदिनी ) -.
( १४० ) पार्श्वे इत्यर्थः । स्वखड्गत्सरुम् = स्वतलवारमुष्टिम् । “दृढम्' यथा तथेति क्रियाविशेणम् । “ तावत्-अद्राक्षीत्" = अलांकिष्ट । भयानकशल्यया = तीव्रभल्लेन हृदयं भित्त्वा = अर्थात् तस्यैव चान्द्रखानपुत्रस्य हृदयं विदार्य परतः परभागेऽपि निःसृतं निर्गर्तमग्रमग्रभागो यस्याः तया शक्त्या = कृपाण्या। भूमौ शायितः = पातितः । पिचण्डिलः = तुन्दिलः । कृष्णेति-कृष्णकृर्चप्रचयेन = नीलश्मश्रु- निचयेन चुम्बितः स्पृष्टो वक्षोभागो यस्य सः दिधक्षन्निव = दग्धुमिच्छन्निव । सक्ष्वेडम् = सगर्जम् । अरे ! रे ! अपसद ! = नीच ! । उदतूतुलत् = उदस्थापयत् । विदीर्यमाणम् = द्वैधीक्रियमाणम् । वेपमानाः कम्पमानाः अवयवा गात्राणि यस्य तम् । विघ्नहर्तारम् = अन्तरायध्वंसकम् । शञ्चिति शत्रोः शोणितेन रुधिरेण शोणीकृतं रक्तीकृतं करद्वयं पाणियुग्मं यस्य तम् । इन्द्रगोपेति- इन्द्रगोपः रक्तवणों वार्षिकः कीटविशेषः तस्य द्युतिरिव घोतिताः ये विन्दवः अर्थात् शत्रुरुधिरविन्दवः तेषां वृन्देन समूहेन आच्छादितो वारवाणो यस्य तम् " रघुवीर इति पर्यचेष्ट' = निश्चिकाय । सोत्फालम् = सोत्कूदनम् अविहितोत्फालानाम् = अकृतकूईनानाम् । सविदरम् = सच्छिदम् । परिपत्य = उत्प्लुत्य उत्तिष्ठासताम् = उत्थातुमिच्छताम् । शिरोधराम् ग्रीवाम् । अशिरोधरां व्यधित = चकत्तेत्यर्थः । मेदोमांसपिच्छलकर्दमे चलितान् = स्खलितान् । चरणान् = अग्रीन् । असञ्चरणान् अकृत = चिच्छेद इत्यर्थः । खड्गेति = खड्गस्य असेरुत्क्षेपणन उत्क्षिप्तान् ऊध्वींकृतान् करान् = पाणीन् । निजेति = निजासिना वृकणं वाहुमूलं येषां तान् उदःप्सीत् उदभैत्सीत् । समिद्धक्रोधाः = उद्दीप्तकोपाः । तश्च अभिमन्युमिव महारथैरा- क्रान्तम् ” इति पूर्णोपमा । तम् = रघुवीरमित्यर्थः । चन्द्रहासेति–चन्द्र- हासस्य तलवारस्य चालनचातुरी = मारणनैपुण्यं तस्य महिम्ना = सामयेन । आघातान् चोटान् प्रतिरुन्धन् वारयन् । यमसदनम् यमलोकम् अनैषीत् =अवधादित्यर्थः । काकोलान् द्रोणकाकान्, सर्पान् इव वा अतिलोलान् अति- चपलान् बहुस्फुरतिकरातित्यर्थः। दोलायोग्यान् अकार्यु:=कृत्तावयवान् व्यधुरित्यर्थः। अवरोधम् = अन्तःपुरम् । अवरोद्धम् = आक्रान्तुम् । रुद्धानि पिहितानि वद्धकपाटानि इत्यर्थः । अरराणि = द्वाराणि पादाघातैः चरणा- हतिभिः । प्रासानां=कुन्तानां निपातश्च गवाक्षिकातः = खडकिकात: । चरण भृत्येन भटेन । तस्य = शास्तिखानस्यैव प्रसारितकरस्य = स्फारितपाणः । " ( १४१ ) सोत्फालम् = सकूर्दम् । अन्धकार एव महान् उदधिः समुद्रः तत्र निमग्नः = जडितः । - पृ० १६७ ॥ इतस्तु = अंन्यस्मिन् भागे । “दानवा इव मानवान् इत्यत्रोपमा । “ व्यर्थहत्या शिवेन निवारिता" इति शिवस्य वैदिकसंग्राम- धर्मवित्त्वं व्यज्यते । त्यनेति-त्यक्तानि अवतारितानि रुधिरातानि शोणितशोणानि वसनानि वस्त्राणि यः ते । प्रत्यर्थीति-प्रत्यर्थिनां शत्रूणां परिचारकवसनैः सेवक- वस्त्रैः पट्टिकाभिः शस्त्रैश्च । आलोचकान् = द्रष्टुन् । यामिन्याम = रात्रौं । विजितेति-विजितं स्वायत्तीकृतं बाह्यसेनानिवेशम् = शिविरम् । उन्मुद्रितेति उन्मुद्रितं सर्वगोपुरम् = पुरद्वारम् संस्थापितेति-संस्थापिताः निजयामिकाः स्वीयप्रहरिणः द्वाररक्षकाश्च यत्र तत् । “ साक्षात्कुर्वन्" इत्यशुद्धम् । “ साक्षाद- कुर्वन् ” इति क्रियापदं युक्तमाभाति । अन्यथा पूर्वोत्तरानन्वय एव । पाणि- न्धमम् = महान्धकारावृतम् अध्वानम् = मार्गम् । पराजितप्रत्यर्थिभिः परास्तशत्रुभिः । श्रारुरुहुः = उत्सस्पुः । इति (नूतन ) शिवराजविजयपताकायां सप्तमो निश्वासः ।
* 30 * अष्टमो निश्वासः । यो धर्मरक्षणपरो निजकर्मनिष्ठः पूतान्तरो व्यसनपाशशतात्सुदूरः । रम्भाऽपि तं न निजदम्भवशे विधातुं शक्का कथा किमु भवेद्वद ! चान्यनार्याः ॥१॥ निः शस्त्रं शरणागतं भयगतं क्लान्तं तृषा मूञ्छितं बद्ध्वा पाणियुगं तवाऽहमधुनेत्येवं वचोवादिनम् । भग्नास्त्रश्च न हन्ति धर्मकुशलः शूरो वुधो द्वेषणं यस्तं नीतिविदं शिवैकचरितं प्रातर्न कः संस्मरेत् ॥ २॥ अष्टमे निश्वासे कारान्तःकृताया अपि सत्कृताया 'रसनार्या:" समागमे शिवस्य महाधैर्य वर्णयन् मायाजिह्मस्यापि च प्रसङ्गे शिवस्य धन्यं धर्म्य यशस्य- मायुष्यं वृत्तचोपनिवघ्नन् तत्तत्प्रसङ्गोपक्षेपकरीत्या कुवलयानन्दधृतमाप्पय्यदीक्षित पद्यमुद्धरति—'वेधा द्वधा इति । अस्येयं व्याख्या-वेधाः प्रजापतिः कान्तासुन्कामिनीषु कनकेषु च सुवर्णेषु । विषये सप्तमी-कान्ताविषये कनकविषये चेत्यर्थः द्वेधा = कान्ताधर्मिकत्व-कनकर्मिकत्वरूपविधाद्वययुलं भ्रमम् अन्यस्मिन् अन्यताबुद्धिरूपं प्रत्ययं चक्रे निर्ममे । तासु-कान्तासु । तेषु-कनकेषु अपि अनासक्तः आसक्तिरहितः पुमान् । नराकृतिः-नराकारः साक्षाद्भगः साक्षाच्छिवः अस्तीति शेषः । तादृशपुरुषस्य शिवस्य च मानुषाऽमानु- पाकार एव विशेपो नान्यः कश्चिदित्याशयः । अत्र--साक्षादिति विशेषणन विरक्तस्य वशिनः प्रसिद्धशिवतादात्म्यमुपदिश्य नराकृतिरिति दिव्यमूत्तिवैकल्यप्रतिपादनात् न्यूनाभेदरूपकमल कारः । पृ० १६८ ॥ मम्प्रति रसनारीवृत्तान्तं कीर्तयन् आह—' तोरणदुर्गे इति । "तोरणदुगें तु रसनारी–किमपि न वेत्तिस्म" इति सम्बन्धः । प्राप्तसं- शाभिः :=प्राप्तचैतन्याभिः । चेटीभिः दासीभिः । मञ्चासन्दाति-मजादीनां द्वन्द्वः । केचित् समानार्था अपि किञ्चिदि. शेषं विवक्षित्ला उपात्ताः । प्रासन्दी वेत्रासनिका । वितानम् =उल्लोचः । तृलिका= ..
( १४३ ) - तूलवता, उपवर्हम् उपधानम् तदादि यः सकलः परिच्छदः उपकरण तेन परि. कृतायां मण्डितायाम् । अतिरम्यस्य हर्म्यस्य = प्रासादस्य अट्टालिकायाम् । अव- रुद्धा-कारागारिता । तदिति-तस्या. परिचर्यायां सेवायाम् । वाचम्= वाणीम् । यछन्ति स्म=मूकतामेव भेजिरे। एतेन—महाराष्ट्राधीशस्य गुप्तमन्त्रस्य परा काष्ठा व्यज्यते, दासदासीनान परमाप्तत्वम् । कोष्णम्-ईपदुष्णम् । येन शरीरस्वारध्यं मलापकर्षश्च सम्यग्भवेदित्यर्थः । यूथिकेति-यूधिकादिभिः मुरभीकृतम् । स्मानीयम् = स्नानाहम् । कर्पूरेति-कर्पूरः हिमवालुका, काश्मीरपाटोरम्=काश्मीरभवं कुंकुकम् , तयो क्षोदेन चूर्णेन रचितम् उद्वर्तनम् देहनिर्मलीकरणद्रव्यम् -"उबटना" इति प्रसिद्धम् । सौवर्णप्रान्तानि=सुवर्णविकारतन्तुप्रीतप्रान्तभागानीत्यर्थः । नानेति- नानावणानि अनेकरङ्गानि यानि कौशयकुसुमानि पट्टनिर्मितपुष्पाणि तेषां रचनय। विचित्रतानि वासांसि वस्त्राणि । प्रसाधनीम् कतिकाम् । पृ० १६६ अङ्गरागम्-अङ्गं रज्यतेऽननेति अङ्गरागः अङ्गविलेपन कुंकुमादि चूटाबन्धम् = जूटावन्धम् ‘परांदा ' इति प्रसिद्धम् । विविधासु- अनेकासु दासीषु-भुजिष्यासु । तैलाभ्यङ्गन सह वत्तते, उत्सादनमुदत्तनं तेन सह वर्तत इति, केशमार्जनं कङ्कतिकाकरणं तेन मह वर्तत इति यथा तथा स्नानसेवां विहितवतीपु-कृतवतीषु । धारितधौतकौशया परहितशुद्धपट्टवासा द्राक्षेति-द्राक्षाद्रवः गोस्तनीरसः, दाडिम्ब: दाडिमोफलम् , डुग्धादि, महा- मधुरा चासौ महोपस्कारमयो ताम् श्राहारसामग्रीम् भोजनोपकरणम् । उपलभते स्म प्राप्नोतिस्म । 'क्षणेक्षण च-अखिलं सुसज्जमेव अवलोकयतिस्म' इति सम्बन्धः । किन्तदखिलमिति दर्शयति जातीपत्रति-जातीपत्रम् = जातिकोशः, केसरः-कुंकुमम् , कर्पूर: घनसारः, लवङ्गम् देवकुसुमम् , एला = चन्द्रवाला एतेषां द्वन्दः । जातीपत्रादिभिः सुवासितानि-सुरभीकृतानि ताम्बूलानि । प्रहरे २ धूमपानयन्त्र-कीदृशं तत्-पाटलेन प्राशुव्रीहिना सुगन्धि. ताम्रकपिष्टकम् अर्थात् पिष्टं ताम्रकं तेन अङ्गारकेण च परिपूर्णा . शोभनगन्धि यत् , अथ जातीकोशजातोफले समे' इति । घनसारश्चन्द्रसन्शः ' इति ' लवङ्गं देवकुसुमं श्रीसन्बकम् इति (भमरः)। अथ कर्पूरमस्त्रियाम्- इति च सर्वत्र- ( १४४ ) 3 पुरुष या साच्छानिका आच्छादनेन सह वर्तमाना हाटकामात्रका = सुवर्णमयी पात्रिका तवा अलंकृतः ऊर्ध्वभागो यस्य तत् । केतकेति-केतक्या क्रकचच्छदस्य पुष्पं केतकः ( केतकः ) तस्य तोयेन अर्थात् केतकाकेंण परिपूरितानि यानि पयःपात्राणि तैः परिलसितं मूलमधोभागो यस्य तत् । पुनः काञ्चनचञ्च्चा सौवण्या मुखकोट्या चमत्कृता सुसज्जिता या प्रलम्बा दीर्घा नलिका तया संवलितं = संयुतम् । व्यजनेति-व्यजन-चामर -पतग्राहाः हस्ते यासां ताः दास्यः । 'प्रतिग्राह: पतद्ग्रह: ' इति ( अमरः )। मर्यादाम् = परदारसन्दूषणाभावरूपां सनातनी परिपाटीम् , नैव भनक्ति = भामर्दयते उल्लङ्घयते इत्यर्थः । इत्यादि गद्य निगदव्याख्यातम् । अथ एकदा अट्टालिकायां पर्यटन्त्या अकस्मात् बहूनां पादध्वनिरिव अश्रावि" इत्यन्वयः । कथम्भूतया तया- (तेषां तेषां) षष्ठ्यन्तपदबोध्यानां शोभाः पश्यन्त्या। तेषां केषाम्-दक्षिणा- दचिणस्यां दिशि सुदूरम् = अतिमात्रं विस्तृतानां काननानाम् = जङ्गलानाम् । तथा-अभ्रंलिहानाम् = अत्युन्नतानां शैलशिखराणाम् = पर्वतकोटी- नाम् । तथा—उपत्यकानाम् = अनेरासन्नानां भूमीनाम् । पृ० २०० ॥ कथम्भूतानां-कालिन्दीति-कालिन्द्याः यमुनाया ललितसौन्दर्यस्य = महालावण्यस्य विजित्वरः = जयशीलाः अतिहारताः अत्यन्त- हरिद्वर्णा ये वनौषधयः तेषां वृन्देन समूहेन व्याप्तानाम् । पुनः उच्चावचानां अनेकेषां तलानामन्तःस्रवन्ति प्रस्रवणानि = वारिप्रवाहा येषां तादृांश यानि स्रोतांसि तेषां समीपे नरीनृत्यमानानां सहषं नृत्यतां मेघनादानुलाासिनां = मयूराणां लास्येन नर्त्तनेन ललितानां मनोहरन्तीनाम् । “द्रुमात् द्रुमम्" इति । दन्तकात् दन्तम् = कुञात्, कुअम् । अथवा-अद्रिकटकात् अद्रिकटकम । " दन्तोऽद्रिकटके कुओ दशनेऽथौषधौ स्त्रियाम्" इति ( मेदिनी)। पादात् = प्रत्यन्तपर्वतात् पादम् = प्रत्यन्तपर्वतम् । सपत्रकम्पनम्'' इत्यादिना पक्षिजातिः । सपक्षति० इति-पक्षतिः = पक्षमूलं, तस्याः कण्डूयनेन कर्षणेन सह यथातथेति क्रियाविशेणम् । तनूरुहाः रोमाणि । प्रडीनाद्याः पक्षिणां टयनप्रकाराः । कलविङ्कानाम् = चटकानाम् । कर्करेटूनाम् करेटूनाम् । “कर्करेटुः करेटुः स्यात्" इत्यमरः । किकीदिर्वानाम्= चापाणाम् । “अथ चापः किकीदिवीः " इत्यमरः । कपोतानाम् = पारावता- नाम । कोकानाम् = चक्रवाकानाम् । काकानाम् = वायसानाम् । कराि- ( १४५ ) गाम् = शुकानाम् कौञ्चानाम् = पक्षिविशेषाणाम् कुरराणाम् = कुरलानाम् उत्क्रांशपक्षिणामित्यर्थः द्वारोपरिस्थगवाक्षात् = द्वारदेशापरिवर्तमानात् वातायनात् । ईपच्छ्यामलः ईपच्छ्यामलः = किञ्चित्कृष्णवर्णः । विधृतेति--विधृतं मरकतादिगुच्छरङ्कितं = जटितमुष्णाषं शिरोवेष्टनं येन सः । सौवर्णसूत्ररचित कञ्चुकः = हिरण्मयस्त्रव्यूतचोलकः । जाम्बूनदेति--जाम्बूनदं = सुवर्णम् । कौशयम् = पट्टम् = पट्टम् एतयोः कुसुचित्रैः अञ्चितेन सज्जितेन प्रावारण परिलमितः शोभमाना वामस्कन्धो दक्षिणतरवहो यस्य सः । महाति- महार्हस्य = महामूल्यस्य वजकस्य होरकस्य प्रचयेन श्राकलितः = रचितो यः कोशः अस्याधानं तत्स्थ: चनन् = चमत्कुर्वन् यश्चन्द्रहासः खड्ग: तेन अवलम्वितं दोलितं कटितट कटिप्रदशो यस्य सः । मरकतति-मरकतमहामणिमालया लसितः गल: = कण्ठे। यस्य सः एवम्भूतः कमनीयः = मनोहरः । युवा = तरुणः । भुशुण्डिकेति-भुशुण्डिका = बन्दूकम् । तोमरम् = पादृशम् = सौवर्णदण्डाः हिरण्ययष्टयः एतैः प्राकलिताः युक्ताः करा येषां तान् । पृ० २०१ ॥ भटान् = वारान् । सम्बोभोति = अतिशयेन भवति । यङ्लुकि-लटि रूपम् । परिवृढः = स्वामी । प्रभौ परिवृढः (७।२।२१) इति मूत्रेण निपातः । भीता = मां मारयिष्यति किं करिष्यति वेति विचारेण । स्तब्धा = निश्चेष्टा । खिन्ना = दीना । क्षुब्धा = सञ्चिलिता । उद्विग्ना = भयचलिता धडत्कृतहृदयेत्यर्थः । इवेति संभावना । समवित्त = अज्ञामीत् । स्विन्नाम् = स्वेदवतीम् । परिमाटि = प्रोञ्च्छयति । प्रतिसीराम् जवनिकाम् । उत्क्षिप्य = उत्तोल्य । शिरोनमनपुरःसरम् = वन्दनगिर- मुच्चारयन्नित्यर्थः । परमादराचारम् = परमं सत्कारव्यवहारमित्यर्थः । इयम् = रसनारी । तम् = वीरवर शिवमेवेत्यर्थः । “तम्-पिपासिताभ्याम् " इत्यन्वे- तव्यम् । श्रादरेङ्गितः= आदरैः = बायर्नमनादिसत्कारैः इङ्गितैः = हृद्गत वैः । तद्वचनेति-तस्य शिवस्य वचनमेव सुधा पीयूषं तस्याः धार। परम्परा तस्याः पिपासिताभ्यां = पातुमिच्छभ्यामिव कर्णाभ्याम् = श्रवणाभ्याम् । परमैक- तानेति-परमा मात्रामतिकान्ता चासौ एकतानता = अनन्यभावता जडीकृताभ्याभ्यामिव = निश्चेष्टीकृताभ्यामिव नयनाभ्याम् उपलक्षिता सतीत्यर्थः उपलक्षणे तृतीया । चित्रार्पितेव = चित्रलिखितेव । उत्प्रेक्षा। बद्धकरसम्पुटः = कृताञ्जलिः । समवर्तत = अभूत् । “न च बिन्दुमपि विसर्गमपि चानत्" = किश्चिदपि नोक्तवानित्यर्थः । पराधीना तया ( १४६ ) - .. परतन्त्रा तदाकारेति- आकारः = मूर्तिः, सोजन्यम् = सज्जनता सभ्य जनतेति यावत् , लावण्यम् = सौन्दर्यम् , गाम्भीर्य्यम् = महाहृदयताम् , आदर: = सत्कार: आचारादिः = आचारव्यवहारादिः एतेषामवलोकनेन मोहिता तस्मिन्नासक्तत्यर्थः स्वयमेवेति-पूर्व स्वयमेव वाचोभङ्गीः प्रास्तादित्यर्थः । आसन्दी = वेत्रामनिका । सनाथ्यताम् = सक्रियतामित्यर्थः । माति–अधेन सह वर्त्तत इति साधः स चासौ हस्तः तस्य उच्छ्राय: ऊर्ध्वता यस्याः तस्याः । कौशेयवसनाच्छन्नायाः = कृमिवमनप्रावृतायाः । सजलेति मजलकुसुमस्तवकैः = जलसहितैः पुष्पगुच्छैः अलङ्कृतं मध्यं यस्याः तस्याः वर्तुलपीठिकायाः = गोलमचिकायाः प्राक् = पूर्वस्यां दिशि, प्रत्यक् = पश्चिमायां दिशि च ( यथायोगम् ) उपाविक्षताम् = आसिषाताम् । पृ० २०२ । वीर इत्यारभ्य 'दिनानि गमयामि' इत्यन्तं गद्यं निगदव्या- ख्यातम् । तत्र-* शम्बरः = 'मृगविशेषः । शल्लकी = श्वाविधः शशक: = शश एव शशकः वनाखुः । शिवाः = शृगाल्यः एतासां पलायनानि = कूर्द नोत्फालनानीत्यर्थः । कर्णशष्कुलीम् = कर्णझिल्लीम् श्रुतिरन्ध्रमित्यर्थः अस्पार्सीत् = अच्छोप्सीत् । 'स्पृश' धातोलुङि रूपम् । कदर्याणि-कुत्सितानि । दग्धहृदयाः =इतहृदया: नीचा इत्यर्थः । पृ० २०३ ।। 'प्रतिप्रभातम् = प्रतिसायम् ' इत्यत्राऽव्ययीभावसमासः । वाष्पति–वाष्पवारिबिन्दूनाम् = अस्रजलकणानां सन्दोहै: बातैः । पाननं मुखम् क्षालयन्तः = स्नापयन्तः। विलापं कुर्वन्त इत्यर्थः । धमद् धमद्धमनीति- धमद्धमन्तीपु = त्रासेनात्यन्तं धढत्कुर्वतीषु धमनीषु = रुधिरवहासु स्थूलनार्डापु धावमान सञ्चरणशील यद् रुधिरं तस्य धाराभिः दुर्धर्ष वदनं मुखं येषां ते तादृशाः अर्थात् अतित्रस्ता मलीनवदनाश्च । तव तातस्य=पितुः उच्छेदाय = ध्वंसाय । $शपन्ति = आक्राशन्ते । * 'शम्बरो दानवान्तरे । मत्स्यणगिरिभेदेषु शम्बरी पुनरीषधौ इति ( हैमः )। $ उक्तञ्च ( श्रीमद्भागवते ) यस्य राष्ट्र प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः । तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ।
( १४७ ) शासनकाले = राज्यशासनममये पक्षपातो नावश्यकः, प्रत्युत पक्षपात- रहितः सन् शामका राजा इहामुत्रफलभाग्भवतीति भावः । भगवती विश्व म्भरा = पृथिवी । युद्धेति-युद्धे पाहतानां मारितानां वीराणां रमण्यः : । अत्रभवती = पूज्या । पूज्या । मौद्गलराज्यम् = मुगलराष्टम् । वला- कारसाध्वसम् = बलात्कारपीडनम् । यत्र = महाराष्ट्रराष्टे ' परिपन्थिनामपि दुहतरः सम्मान्यन्ते' इति सम्बन्धः । युवजनेति-युवजनानां तरुणानां मनोमाहनं हृदयवशाकरणं यस्मात् तेन अतिमधुरेण = अतिप्रियेण कौमा- रात् परेण वयसा = तारुण्यनेत्यर्थः प्रालिङ्गिताः = व्याप्ताः । सौन्दर्येति- सौन्दर्यस्य लावण्यस्य यः सारः = नियूपः तेन विरचिता इवेति-उत्प्रेक्षा- लङ्कारः । सम्मान्यन्ते = श्राद्रियन्ते । नतु अवहेल्यन्ते = तिरस्क्रियन्ते । प्रमाणम् = मदुक्तः साधकम् । पृ० २०४ ।। अपाङ्गति–अपाङ्ग नेत्रप्रान्तभागे क्षिप्ता प्रेरिता लाला चपला तारका अज्ञिकनीनिका यस्य तेन लोचनेन = नेत्रेण । असकृत् = पुनः पुनः । ईक्षमाणा = पश्यन्ती । उरोजयोः = स्तनयोः संसदिव = स्खलितमिव वस्त्रम् = उत्तरीयम् । स्कन्धयोः वहयोः । क्षिप्त्वा = धृत्वा । एतन-रसनार्याः स्तनयोरुद्वर्तुलत्वं पीनतरत्वञ्च व्यज्यते, शिथिलाभ्यां स्तनाभ्यां तथा वस्त्रपातस्याऽसम्भवात् । 'इव' पदेन शिवामक्तिमत्या तया स्वतोऽपि स्तनवसन स्वालितमिति गम्यत । श्रासक्तानां चेष्टासु तथादर्शनात् । उपतिष्ठते = सेवार्थ स्थितः । धृष्टवादिनीम् = निलज्जामित्यर्थः । मनोरमैः = हृदयहारिभिः नालापैः = कोमलालापैरित्यर्थः । मनसापि। हृश्येनापि अकल्पनीयः अभावनीयः । सपत्नः = शत्रुरपि । श्रादरेषु = सत्कारेपु एव भवान् सयत्नः = सोद्यतः । चकितयोः = विस्मितयोः । मुदितयोः = हृष्टयोः अनुरक्तयोः = परस्परासक्तिमतोः । अथ समार्दवम् = प्रेमालापपूर्वकमेव तदनुमतिम् = रसनार्याः अनुशाम् 'सिंहदुर्ग, प्रतिनिवर्तमानः । इत्यत्र प्रथमाऽसङ्गतेवाऽभाति अग्रे अनन्वयात् किन्तु-'प्रतिनिवर्तमानेन-माल्यश्रीकः समागच्छन् आलोकि ' इति सम्बन्धी युज्यते । । कथम्भूतो माल्यश्रीकः-दुग्धधवलेन = दीरनिभेन घोटकेन = + एतस्मिन्-स्वविचारः प्रकृटीकृतः, इतोऽग्रे पण्डिताः प्रमाणम् ।
( १४८ ) आजानेयेन धावमानः = शीघ्रं चलन् । कीदृशेन घोटकेन महता= विशा- लेन । हिमगियादिविशेषणः घोटकधवलिमानमुत्प्रेक्षते-हिमगिरिः हिमालयः। कर्पूरपूरः = हिमवालुकासंघः तेन निर्मितेन = रचितेनेव । तथा–चन्द्रस्य चन्द्रिकायाः = ज्योत्स्नाया चयः समूहः तेन रचिंतन मूर्तेन = प्राकृतिमता महाराष्ट्रयशसा = शिववीरयशसेव । पुनः कीदृशो माल्यश्रीकः-सादिभिरनु. गम्यमानः = अश्ववारैरनुस्रियमाणः । कथम्भूतः सादिभिः-सुप्रसादनयनैः : विकसितनेत्रः उत्साहम् = हृदयसत्त्वं वमद्भिरिव = उद्गिरद्भिरिव = इत्यु- *त्प्रेक्षालङ्कारः । प्रत्यर्थीति--प्रत्यार्थिनां शत्रणां प्रताप = प्रभुतामिव अरुण- रश्मिवन्धम् = रक्तमश्वप्रग्रहबन्धनम् । सव्येन = दक्षिणेन करेण वशयद्भिः = स्वायत्तीकुवद्भिः इव । निजेति-निजो यो विजयध्वजः = विजयपताका तनेव मन्दम् = शनैः २ आघूर्णमानेन = उत्फाल्यमानेन कशाग्रेण = अश्वताडन्याः पुरोभागेन हयान् = अश्वान् हेषयद्भिः = हेपारवं कारयद्भिः कटित- तेति-कटितटबिलम्बिनः लोला: चञ्चला: करवाला: चन्द्रहासाः येषां तैः । उष्णीपेति-उष्णीपस्य परेण प्रान्तन अञ्चलेन दोदुल्यमानः उत्क्षिप्यमाण योऽनिलः समीर: नवलेन विलोलं = अतिचपलं वालजातं = शिरोरुहवृन्दं येषां तैरित्यर्थः । स्पष्टमन्यत् । न्यवीविदत्-निवेदनं कृतवान् । शिवेङ्गितम् शिवाभिप्रायम् । धनुषां विंशत्यामिव=विंशतिसंख्याकधनुषामन्तराल इवेत्यर्थः । तुरगनिगा- लेति-तुरगस्य अश्वस्य निगाल: गलप्रदेशः तस्य प्रास्फोटनं स्थापितीकरणं तत्पूर्वकम् । ' प्रचलत्सु अश्वारोहेषु' इत्यन्वयः । स्वभावोक्तिः । पुरुषमयं पारावारप्रावाहमिव पुरुषमयं समुद्रोच्छलनमिव इत्युत्प्रेक्षा। मायाजिह्मः="सुल्तान मुआजिम्” इति ख्यातः । गव्यूतिः सप्तकान्तराले= चतुर्दशसंख्यकक्रोशान्तराले इत्यर्थः । उपकार्याः शिबिराणि । समासज्य= मम्यगायोज्य। प्रतीक्षमाणः युद्धावसरमिति शेषः । पृ० २०६ ॥ तृणाय मन्यन्त-नृसिंहस्य सटामित्यादि + अति. शयोक्तिः । सटाजटेति समानार्थी शब्दौ । स्फटा: फणा ताम् । लम्पटः परस्त्रालोलुपः लाम्पट्यम् लम्पटस्य भावः कर्म वा तद्गभे यस्य तादृशम् । । * अत्रोत्साहस्य प्रकटनं वमनेन रूपेण सम्भावितम् । नृसिंहावतारादीनां सदादिभिः सह प्रतापाऽसम्बन्धेऽपि तद्दशनात् ।
( १४६ ) .. अभिलाषम् इच्छाम् । पाञ्चसाहस्रिका पञ्चसहस्राध्यक्षः पञ्चमहस्रेण चरति । चरति (४।४६) इति ठक् । अनुशतिकादेराकृतिगणत्वादुभयपदवृद्धिः । 'मायां रचितवान् ' इति-मायाविपु मायार चनमावश्यकमिति भावः । पृ० २०७ ॥ दिवाकीर्तिम् नापितम् । 'चुरिमुण्डिदिवाकीत्ति- नापितान्तेवसायिनः' इति ( अमरः ) । मसृणमुखः स्निग्धाननः मुखवालानां मुण्डनात् । संवृत्य-सम्भूय । पटवासेति–पटवासेन सौगन्ध्येन वासित सुरभीकृतं दिशामन्तरमवकाशा येन तादृशः रतिप्रतिकृतिरिव रतिः कामस्त्री तन्मूत्तिारवेत्यर्थः । स्मितः हास्यः । कटाक्षक्षपः नेत्रप्रान्तभागसञ्चालनैः । मधुरवचनैः-प्रेमालापः परवशीकरणमन्त्रभूतरित्याशयः । सजघनेति- 'स्त्रीकट्या: जवनं पुरः ' इति ( अमरः) । जवने कम्पेन मह वर्तमाना इति सजघनकम्पा: ते च ते पादक्षेपाः वेश्या जननां गतिविशेषाः तैः । सकृत्रिमति- कृत्रिमयोः कुचयो ।पनेन कम्पेन सह यत् वलिभङ्गेन ललित युवजनमनोमोहन- समर्थ कन्चुकिकादर्शनं तैः । यूनाम्-तरुणानाम् । मनः मन्मथोन्मथितम्= कामपीडितं कामातुरमिति यावत् विदधत्-कुर्वन् । ब्रह्मचारिकुटारेति ब्रह्मचारिणः कुटीरे वासिनो ये सन्यासिनः परिव्राजः तेषाम्-एव मध्ये इत्यर्थः । परिवर्तितवेरैः परिवर्तितः अन्यथाकृतो वेपो नेपथ्यं यः तैः । कलित- मृदङ्गः धृतमृदः तानपूरिकेति–तानपूरिकातालझझराः करे येषां तैः व्यजनति-व्य जनम् वातकरः । पतद्ग्रहः-थूत्कारपात्रम् । ताम्बूलकरङ्कम् ताम्बूलिकाधारगुटिका । मऔरपोर लिका = नूपुरगुप्तिका एतदादिवाहकैः सौवर्णेति—सुवर्णमयप्रावरणपटप्रावृतामित्यर्थः । शिबिकाम् = नरयानम् पालङ्कीमित्यर्थः । वीरैः = भेटैः । आकलितेति-परिवर्तितभारिकनैपथ्यैः । 'भारवाहस्तु भारिकः ' इति (वैजयन्ती ) । पद्मिनीनाम्नीति—अनेन नाम- करणेन झटिति मायाजिह्मभाववशीकरणप्रयोजनं व्यज्यते । 'नाम श्रवण- मात्रेण ' इत्यादि गद्यमपि दर्शितार्थोपपादकम् । श्रादिदेश = आशप्तवान् । रङ्गशिविरम् = नृत्यशालाम् । ‘रङ्गो ना रागे नृत्यरणनिती अस्त्री वपुणि इति ( मोदनी ) । यत्र-शिविरवत्तिनि रङ्गे। दुरोदरम् = द्यूतम् । 'दुरोदरो द्यूतकरे * पण द्यूत दुरोदरम् ' इति ( अमरः ) । नर्मशर्माणि = क्रीडा- सुखानि । * पणौ ग्लहः । 'पानं पीतिभाजरक्षणे' इति ( मेदनी ) ।
( १५० ) पृ० २०८ ॥ पानकपरम्परा = पानगोष्ठिकेत्यर्थः । निविशन्ते प्रवेशं लभन्ते । भट्टारकाः = स्वामिनः शिविरादीनाम् । वितस्तीति- वितस्तिः द्वादशांगुलः उच्छ्रायः प्रोन्नत्यं यस्याः सा कनकमयी= सौवणीं । तूलिका = शय्योपकरणम् । —तुलाई ' = — गद्दा ' इति भाषा । तूलिका कृर्चिकायाञ्च शय्योपकरणेऽपि च ' इति ( मेदनी )। उपवर्हाः = उपधानानि । प्रलम्बनलम् = प्रलम्वा दीघों नल: नलिका यस्य तत् तादृशम् कटविति- कटुमधुरामोदेन मोदितानि सुरभीकृतानि दिशामन्तराणि येन तत्-'धूमपानय त्रम्' राजतपीठिकायाम् = दुर्वर्ण चतुष्किकायाम् । विन्यस्तानि = स्थापितानि । ' काचपात्राणि' । इति सम्बन्धः तानि विशेषयति- अन्तःस्थति । अन्तःस्था अन्तर्वर्तमाना या रक्तपीताऽरुणद्रवस्य आभवाऽभा तस्याः भारधारया = समुदायरेखया लापितानि व्यापितानि आस्तरणानि यः तानि तथा-मथ्यस्थेन मध्यभागे स्थापितस्य द्योतेन प्रकाशन द्योतितानि प्रकाशितानि च तानि दीप्तिप्रचयेन प्रभापिण्डेन विहितं कृतं चाकचक्यं चमत्कृतियःतानि । तथा- अधोमुखं ( यथा तथा) विन्यस्तानि स्थापितानि विविधानि अनेकानि चषक- वृत्तानि चषकामत्राणि । तथा—माध्वीकम् = मधुना = मधूकपुष्पेण निर्वृत्तं माध्वीकम् = मधूकपुष्पजातं मद्यम् । मैरेयम् = आसवः । “ मिरा" देशविशेषः तस्यां भवम् । अथवा अओषधिविशेषः । नद्यादिभ्यो ढक् ( ४ । २ । ६७ ) इति ढक् । जगलः = मद्यकल्कः । " मेदको जगलः समौ " इति (अमरः)। जगलो मदनद्रुमे । मेदके पिष्टमये च " इति ( मेदनी )। वारुणी = सुरा । सुरा प्रत्यक् च वारुणी" इति ( अमरः) "वारुणी गण्डदूर्वायां प्रतीचि सुरयोः स्त्रियम्" इति (मेदिनी) । एताभिः-माध्वीक-मरेय-जगल-वारुणाभिः परिपूरितानि = भरितानि । अष्टापदेतिः -अष्टापदेन रचितम् अष्टापदम् = शारीफलकचतुष्पाटीति प्रसिद्धम् । रत्ननिर्मिता शारिवाटिका-दन्तिदन्तेति दन्ती गजः तस्य दन्तानां सारेण रचिता पाशकाः = दलानि । व्यजनयुताः व्यजन हस्ताः । भरण्यभुजः = वैतनिकाः । = वैतनिकाः । “भरण्यभुक् कर्मकर" इति ( अमरः) पृ० २०६ ॥ ताम्बूलेति–ताम्बूलस्य चर्वणेन चत्रलाः कर्च- कायिताः : रदनाः दन्ताः यस्य तादृशं वदनं मुखं यस्य सः । पिबन्निव = सादरमीक्षमाण इवेत्यर्थः । विविधति-विविधेन नानाप्रकारेण परिमलेन = जनमनो- हारिगन्धेन परिमदितं प्लुतम् अग्रम् अग्रप्रदेशो यस्याः सा तया घोणया = नासि- ( १५१ ) । कया जिघ्रन्निव = गन्धोपादानाकयां कुर्वन्निव 'मायाजिह्मः" तूलिकामलञ्च- कार" इति सम्बन्धः । ताम्बूलेति-व्याख्यातप्रायम् । स्मयमानेव = चकितेव वस्तुतस्तु न चकिता कृत्रिमवेपत्वात् । लज्जमानेव = व्रीडां दधतीव । सग्रीवति-ग्रीवा- भङ्गेन कन्धरा परिवर्तनेन सह यथा तथा अवनतमुखी = नम्रानना कामिवशीकरण प्रकारोऽयं नारीणाम् । स्वस्मिन्नेव निविशमाना = स्वशरीरे गुलुन्छ।यमानेव। तूष्णीकारण मानेन । अङ्गीकारम् = स्वीकृतिम् पाचक्षाणा=कथयन्ती अनुकूला भवन्तीत्यर्थः। चूर्णकुन्तलमूलम् = अलकामूलम् कण्डूयितुम् भारेभे = प्रचक्रमे । भूभङ्गेन = भ्रकुटिरन्यासेन । हाटकामत्रात् = सुवर्णपात्रात् । उत्थाप्य = उत्तोल्य पञ्षा:-पञ्च वा पट् वा । पृ० २१०॥ एला= चन्द्रवालाः । रजतसम्पुटम् रौप्यकाडम्बिकाम् । इतोऽये बहु सरलं गयम् । “सरकेऽप्यनुतर्षणम्" इति (अमरः) । * कादम्बरी मदिरा । अतितीक्ष्णा = महामदकारिणी । अवदंशम् = भक्षणम् । अव- दंशस्तु भक्षणम्" इति ( अमरः) । शेष्व = स्वपिहि पालङ्कयाम् = शिविकायाम् । शाकविशेषार्थोऽपि पालकीशब्दः वर्णसादृश्यमादाय शिविकायां प्रयुक्त इति कवेराशयो वर्णितः प्राक्तने लघुटिप्पणे । चेटीरालपती = दासी: कथयन्ती, पमिन्येव । अतिष्ठिपत् = स्थापयामास । पृ० २११ ॥ उदतारीत् = उत्तरमदात् । वाहकाः = शिविकानेतारः। पालङ्कीम् = शिविकाम् । धिक्त्वाम् इत्यत्र धिक्-योगे द्वितीया धिगुपर्यादिषु त्रिषु” इत्युक्तेः । नल्वद्वयान्तरे = चतुःशतहस्तमितप्रदेशान्तरे प्रतीक्षमाणान् = प्रतिपालयतः । त्यक्नेति-त्यक्तःपरिहृतः चेटीवादकादिवेशो यैः ते वीराः प्रनष्टम् = लुप्तम् । विवर्णाः = इतकान्तयः । अथोमिति अत्र-श्रोमाङोश्च ( ) इति सूत्रेण पररूपम् । महाराष्ट्रभूपरिवृद्ध = महाराष्ट्रदेशाधीश्वरे, सति सप्तमीयम् । पृ० २१२ ॥ समुद्धतध्वजाः= सञ्चालिते सन्देशहराः=जङ्घा- %3D * कुत्सितं मलिनमम्बरं वस्त्रं यस्य सः कदम्बरः बलभद्रः तस्येयं प्रियेति कादम्बरी । +पानरुचिजनक भक्षणमित्यर्थः ।
( १५२ ) । पुनः क्र करिकपदे नियुक्ताः सादिनः अश्ववाराः घोटकैर्धावमानाः = अश्वैश्चममाणाः, दूरादेव जयजयेतिवादिनः समागताः" इति सम्बन्धः । कथम्भूतैघोंटकैः-फेनाऽ विलवल्गेः = फेनन = मुखनिगतडिण्डोरेण आविला: लिप्ताः वल्गाः रश्मयो येषां तः पुनः -हेपया हिनहिनेत्यश्वजातिशब्देन विहितं जयध्वनिप्रातिनिध्यम् = जयध्वनि प्रतिनिधिभूतं कर्म यैः तैः ''सचामरे" रिव इत्युत्प्रेक्षा उत्थितपुच्छः = उत्थितं पुच्छ लाङगूलं येषां तैः । पुनः–कलितं धृतं कमलदलद्वयं सरोजपत्रयुग्मं यैः तैरिवेति - उत्प्रेक्षा । ऊर्ध्वकर्णैः = उद्धतकर्णैः हर्षस्नातैः = हर्षेण स्वातैः व्याप्तैरिव स्विन्नैः = स्वेदवद्भिः। समासादितः प्राप्तःशुभसंवाद: विजयसमाचारो यैः तान् अवगत्य- ज्ञात्वा । निजेति-निजस्य आजानेयस्य घोटकस्य रश्मि वल्गाम् श्राकृष्य स्वगति निरुरोध = प्रतिहस्तयाञ्चके । जयध्वनिधाराभिः = जयजयेतिशब्दपरम्पराभिः । धराधरम् = पर्वतम् । धाराधरम् = मेघम् । धराम् = पृथिवीम् । ध्वन- यत्सु = नादयत्सु । अनुप्रासोऽलङ्कारः । पोतेति-पोतानां समुद्रनौकानां परम्पराभिः लतिकाभिः राजिभिरिति यावत् धावमानाः चडममाणा ये सोयात्रिका: पोतवणिजः तैः सकौतुकं सकुतूहलं वीक्षितः दृष्टः । संयात्रा प्रयोजनमस्य सांयात्रिकः। तदस्य प्रयोजनम् (५।१।१०६) इति ठञ् । पारावारेति- पारावारः समुद्रः तस्य वीचिवजैः = लहरीततिमिमार्जित: सावितः कोकणदेशः । सागरेति-सागरे संसर्पिणां सञ्चलतां सवानां तरणीनां कूपकेषु गुणवृक्षेष्वपि । महाराष्ट्रमण्डलाखण्ड स्य महाराष्ट्रदेशाधीश्वरस्य । पृ० २१३ । विक्रमकथा शौर्यकथा गीयते प्रस्तुयते । सगुल्फाहति= गुल्फी=धुटिक ताभ्यां तयो ा या आहतिः ताडनं तेन सह यथा स्यात् तथा 'पानीय" इति कृदन्तक्रियाया विशेषणम् । 'गुल्फेन कुक्षावाहन्यमानाः सपदि चलन्ति हयाः" इति प्राक्तन लघुटिप्पणे । एवम्-सवल्गास्फालनम् रश्मी- नामास्फोटनसहितम् । “विजयतां-महाराष्ट्रमण्डलाखण्डलः" इति सम्बन्धः । कथम्भूतः-पाथोधीति—पाथोधेः समुद्रस्य पयःपूरे जलप्रवाहे परिवर्तिताः सञ्चालिताः परःशतं शतात् परे ये पोताः ससुद्रयानानि तत्स्थानां सांयात्रिकानां समुद्रवणिजां समूहेन सङ्घन जेगीयमाना पुनः पुनः अतिशयेन वा कीर्त्यमाना या कीतिरेव चन्द्रिका ज्योत्स्ना, तस्याश्चुलकने चुलुकीकरणे चातकीभूतः स्तोककीभूतः कोकण-कल्याणखानदेशादिमहामण्डले प्रजागणो यस्य सः । पुनः-सद्यः ( १५३ ) - तत्कालं चिन्नाः कृत्ता: प्रत्यर्थिनां वैरिणां पृथिवीपतीनां भूपानां या: कन्धराः शिरो- घराः, ताभ्याः विगलत् अत्यन्तं स्रवत् कवोष्णम् ईपदुष्णं शोणं रक्तं शोणितं (रक्त मधिरं तस्य प्रवाहेन परितीपंता या शाकिनीडाकिनीभूतानां मण्डली, तस्या विलोडि- तेन विलोलितेन ताम्रश्मश्रुणा रक्तवर्णकून गण्डेन मुण्डमालया (च) छिन्नकन्धरशिरो- मालया मण्डिता भूपिता चण्डी येन सः तथाविधः । सनातनधर्मरक्षणे वैदिक- धर्मपालने सक्षण: सोत्कण्ठः । पुनः-रिपुनिकराणां वैरित्रातानां सम्पत्तिः= राज्यश्रीरेव सीमन्तिनी केशवेशवती वधूः तस्याः धम्मिल्ले केशवेश वेल्लितं दोलित यत् मल्लिकामतल्लिकामाल्यम्=प्रशस्तमल्लिकारचितशेखरं तेन सुवासित: करपल्लव- तल्लजः-प्रशस्तपाणिपल्लवो यस स तथाभूत: जितशत्रुश्रीक इत्यर्थः । पृ० २१४ । सविजयेति-विजयध्वजस्य विजयपताकायाः आन्दोलन सह । वाधमानाः पीड्यमानाः । युयुत्सवः=युद्धं कतमिच्छवः । महा राष्ट्रेति-महाराष्ट्रानां रिष्टयः असयः तेषां धारैव तीर्थ तत्र मुक्तिं गताः= मृता इत्यर्थः । चमूः सेना। तुमुलम्=भयङ्करम् । जन्यम्="युद्धमायोधनं जन्यम्" इति ( अमरः ) । वेभिद्यमानाः चेच्छिद्यमानाः । पुरन्दरमन्दिरम्- इन्द्रपुरीम् । युद्धे निर्भयं मृतत्वात् “हतो वा प्राप्स्यसि स्वर्गम्' इत्युक्तेः । गिरि कन्दरम् पर्वतगुहां । भेजुः पलायाञ्चक्रिरे इत्यर्थः । इङ्गितः स्वाम्यभिप्रायशै- रित्यर्थः । समीरंग्रसमानैः अतिवेगशालिभिः अतिशयोक्तिरियम् । वियद ङ्गणति-वियदेव अङ्गणं चत्वरं तत्र रिङ्गणं कूर्दनं तत् ईहमानैः कामयमानैः उत्सवमा रित्यर्थः । मुमुदिरे-मोदं भेजिरे । मुद् हर्षे । लिट्य कवचन रूपम् । परिषस्वजिर प्रालिलिगुः । पञ्ज-परिष्वङ्गे । पृ० २१५ । गततन्द्रे-निनिद्रे प्राप्तसशे इत्यर्थः । “स च वाचंयम एवाऽवत्तिष्ट" इत्यन्वयः । श्राश्चर्यपुषी विस्मयविमेरे तन्द्रासम्पर्कजुषी प्रमीलासम्बन्धभाजी । चनुषी-नेत्र। चिरालस्येति-चिरमालस्येन मन्थराभ्याम् अलमाभ्याम् सम्मर्य-निमथ्य। सान्द्रेति-सान्द्रा घनीभूता या श्यामता=हरितिमा तया श्यामीकृतो दिशां वलयो मण्डलं यत्र तादृशं वनम् । उत्तोलमुत्तोलम्= उत्थाप्योत्थाप्य । चिश्चाकिसलयाग्रेषु चिञ्चा=तिन्तिडीवृक्षः तस्य किसलयानां पत्राणामग्रेषु । चिचापत्रमतिसूक्ष्मं भवति तत्र लक्ष्यवेधे कृताभ्यासा भटाः सङ्ग्रामे शत्रुलक्ष्यं सम्यक् भिन्दन्ति । हाटकेति-हाटकं सुवर्ण, करहाटः शिफाकन्दः तयोः छविः शोभा यस्य तादृशः कपोलो यस्य सः । लोलतारकः चपलनेत्रकनीनिकः । विविधेति-विविधानां भावानां कर्तव्यानां या भावनाः विचाराः तासां भरुन - - ( १५४ ) नाशेन भज्यमानो भावो हृदयं यस्य स तथाविधः । “ नोमिति न वा नेति-न स्वीकारं न वा निषेधमित्यर्थः । पृ० २१६ ॥ प्रजागरमन्थरः = जागरणेनालस्योपेतः । गतयामि- न्याम् = यातायां रात्रौ । दीपोद्यातेति–दीपानामुद्योतेन=प्रकाशेन लटलट- ज्वलनेन चतुर्गुणितं चाकचक्यं चमत्कारो येषां एवम्भूतानां चन्द्रहासानां खड्गानां भासाभिः भयानवानां भौतिप्रदानां प्रहरिणाम् = यामिकानाम् । रेणुकाराशिम् = धूलिराजिम् । आहितवान् = प्रक्षिप्तवानसि । कथं वा = केन वा प्रकारेण । गगनोद्भदाभ्यासेन इव निशिततरैः खरतरैः । वाताघातेन वायुस्पर्शेन चालितैः शोधितैरिव मयूखपूरैः = किरणपुजैरिव । विहितेति-विहितं कृतम् - आतपत्राणां छत्राणां विडम्बनम् अनुकरणं यैः तादृशभलैः = च्छुरकैः भयङ्करान् = भीतिजनकान् प्रती- हारान् = द्वारपालान् । साधुवादवर्षाभिः = " साधु साधु ” इति वचन- वृष्टिभिः । व्याघ्रमृगयाव्यसना = शार्दूलखेटककर्मण्यः । "वीरगतिं गतो मार्तण्डमण्डलं = सूर्यमण्डलं भित्त्वा नन्दनवनावहारम् = स्वलोकारामविश्राम आससाद = अकरोत् , स्वर्गअगामेत्यर्थः । सौकुमार्य नाम गुणः । वाचां प्रचारा:= बात्तालापाः। पृ० २१७ ॥ प्रौढिः = अभिमानः । उदर्काऽभिलाषिणम् = उत्तर- कालिकशुभफलकामिनम् । विक्रमेति-विक्रमव्यापारेषु व्यत्यायितं = गमित यौवनं येन तम् । सदाचारः :- शास्त्रीय आचारम्यवहारः । ' हविष्यभोजिनम् इति ब्रह्मचारित्वात् । विविधेति-विविधानामनेकेषां देवानां महादेवहनुम- दादीनाम् अनुष्ठाने उपासने एकोऽनन्योऽद्वितीयः ताना लो यस्य तम् क्षत्रिय- कुलकलशम् = क्षत्रवंशावतंसम् । विचिकित्सा = सशयः । मम तानपादस्य = खड्गसिंहस्य । न शाम्यति = शान्ता भवति । उद्वेगः = जिज्ञासारूपा कलना । शङ्केति- शङ्का = संशयः एव पङ्कः कर्दमः तेन पङ्किलस्य मलिनस्य हृदयस्य । जनिभूः= उत्पत्तिस्थानम् । स्पष्टमन्यत् । पृ० २१८ ॥ श्राश्वीनम् = अश्वेन एकेनैव दिनेन गम्यम् । “अश्वस्यै- काहगमः" (५।२।१६) इति सूत्रेण खञ् । जितवारनामा जटवारा इति प्रसिद्धः । सनाथितवान् = सभाजितवान् । अपि = किञ्च । आपृच्छे = प्रश्नयामि ।
( १५५ ) भूमिभुजः = भिौमायभोक्तारः “जागीरदार” इति ख्यातः । अक- स्मात् = दुर्दैववशादित्यर्थः । ज्वरितेषु = ज्वररोगेण आक्रान्तेषु कर्णेजपैः= पिशुनैः । ईर्ष्यापरवशैः = मत्सरिभिः । असूचितयात्रः = न सूचितः यात्रा येन सः । सादिसङ्ख्याम् = अश्वारोहसङ्ख्याम् । विनैव विचारम् = साह- ममाचरत्रित्यर्थः । पृ० २१६ ॥ वज्रेण रचितम् ' इत्यादि जर्जरीभवति इत्यन्ते गद्य यथासंख्यमलङ्कारः । करुणो रसः। (अत एव) वैदर्भी रातिः । परिवर्ती = परिणामी । अवितर्कणीया = इदमित्यमेवभाव्यमित्यना- कलनीया । दैवघटना = भागधेयपरिस्थितिः । सुखदुःखमयः = सुखदुःख- प्रचुरः सुखदुःखस्वरूपो वा । दुःखाऽसम्भिन्नम् = दुःखेन अनाविद्धम् । अंभिलापाः = वासनाः । अपरिचितति-न परिचिता नाऽनुभूता पश्चा- तापस्य संघर्षः सम्बन्धो येन तत् । धैर्य मेवेति-विपदि धैर्यधरणस्य सतां लक्षणत्वात् । श्राकलयितुम् = रचयितुम् । वात्या = वातसमूहः । पारावारः = समुद्रः । ' पर्वतानिव पयसः तरङ्गभङ्गान् = ( लहरीनिचयान् ) इति सम्बन्धः । पोतेन = दोलितुम् = कम्पयितुम् । उद्विग्नान् = खिन्नहृदयान् कर्णधारान् क्रन्दनकोलाहलम् = रोदनाहानशब्दम् । यात्रिनिकराः = सांयात्रिकसमूहाः । रामवालस्य = रामसिंहस्य । अयमेव रघुवीरः । पृ० २२० । कार्प.सभाराः कर्पास्याः विकारः कार्पासः तस्य भाराः । तस्य विकारः ( ४ । ३ । १३४ ) इत्यण् । “तुण्डिकेरी समुद्रान्ता कार्यासी बदरेति च" इति (अमरः)। लवप्रान्तस्थेन-पोतप्रान्तभाग स्थितेन । तुन्दिभः तुन्दी । तुन्दिलस्तुन्दिभस्तुन्दो" इति ( अमरः) तुन्दिवलिभटेर्भ: : पृथुकम्-शिशुम् । गोपायिष्यामि रक्षयिष्यामि । व्याहृत्य-उत्त्वा । स्वपृष्ठदेशे-त्रिकभागे। अतित्रस्तम्-महाभीतम् । दोधूयमानस्य-कथ्य- मानस्य उच्छलतिं कुर्वाणस्येत्यर्थः । " दोदुल्यमानै लोललोलैः कल्लोलैः अनुप्रासः । चक्रम्यमाणौ-अतिशयेनोच्छाल्यमाना । अस्ताचल- चूडाचुम्बिनम् अस्तंयान्तम् । लोकलोचनम्-सूर्यम् । आलोकमालोकम्= दृष्ट्वा दृष्ट्वा । वाष्पेति-वाष्पविन्दुभिः स्नाता साविता श्मश्रूर्यस्य तम् रोरुद्यमा- इत्यत्र भौमश्चाऽसौ आयो लाभ इति भौमणः तस्य भोलारः।
( १५६ ) " इत्यमरः । नम्-अतिविलपन्तम । अजीगमाव = प्रावामयीयपाव । तरङ्गो त्तमाङ्गे = तरङ्गाणां वीचीनाम् उत्तमाङ्गे शिरसि उपरिप्रदेशे इत्यर्थः । कदाचित् तरङ्गतले = तरङ्गाधोभागे । अभ्रीः = नौकामलघर्षणार्थ काठ- रचितान् कुद्दालान् । " अभ्रिः स्त्री काष्ठकुद्दाल: कृदि. कारात् ''—(ग० ४ । १ । ४५ ) डीपि . अभ्री " इत्यपि । क्षेपणीः- नौकादण्डान् । सेवनानि = नौकाद्यर्थ बन्धनानि । अानायान् = जालानि । जालमानायः(३।३।१२४) इति घञन्तो निपातितः । कुवेणीः मत्स्याधानीः। पृ० २२१ क्रन्दमानम् रुदन्तम् । वीचिभङ्गैः : लहरीपरीवत्तैः । अतिलोलम्-दोदुल्यमानम् । कोलम्=प्लवम् । अकूपारस्य-सागरस्य । झम्भावातः=महावातात्पात इत्यर्थः । उदन्वान् समुद्रः । तरङ्गेति तरङ्गाणां लहरीणाम् उच्छालनस्य उत्फालनस्य वेगं जवम् । वीचिपातघातैः- तरङ्गमावनानामा हननैः । घोरा भयङ्करा । रजनी-रात्रिः। अन्तरालः= व्यवधानम् । अवर्धिष्ट-वृद्धि गतः । सक्रन्दम् सरोदम् । प्रतिपादम्- प्रतिक्षणम् । पयःपूरेण-जलसंघेन । प्लाव्यमानः=उह्यमानः । तिमिङ्गि लै: मत्स्यविशेषैः । ग्राहैः-नऊः । सामुद्रिकसत्वैः समुद्रान्तर्वत्तिभिर्म- करादिभिजीवः । परीवाहैः-प्रवाहैः । यमेन कालेन मृत्युना । " कालेन “ मृत्युना" चेत्येक एवाऽर्थ: आवेगोद्वेगव्यअनाय पुनरुक्तोऽपि न दोषवहः । पृ० २२२ ॥ तारकितम् = साततारकम्। तरङ्गितम् = सात- तरङ्गम् । प्रेसितम् = उल्लोलितम् । वीचिप्रचयम् = वीचीनां पुत्रम् । क्षारेति-क्षारक्षादेन = समुद्रशोषण क्षीयमाणं = कृशाभवन्तम्, कृशाकरणस्वभावत्वात् । क्रन्दनैः विलपनैः । तमीम रात्रिम् । अहम्- अतिवाहयाम्बभूव-गमयाचके । ' समुद्रफेनेष्विव लीयमानेषु '-तारका- निकरेषु-नक्षत्रसंघेषु इति–उत्प्रेक्षा । उडुपे-पोते इव प्रतीच्याम् निमग्ने उदुप-चन्द्र अस्तङ्गत इत्यर्थः । “ उडुपश्चन्द्रभेलयो: " इति धरणिः ) । सरस्वतः = समुद्रस्य । तरङ्गेति–तरङ्गेभ्यः उच्छलितान् उद्गतान् तोयकणान् = जलविन्दून् माणिक्यानीव = मुक्ताफलानीव । । क्षारस्य " + “ मत्स्याधानी कुवेणी स्यात् इत्यमरः । कुत्सितं वेणन्तेऽस्यां मत्स्या इति कुवेणी । — हलश्च ' (३ । ३ । १२१) पञ् । वेण धातुगत्यर्थः । गौरादि- त्वात् (४ । १ । ४१) ङीष् ।
( १५७ ) विदधत् = दर्शयन्नित्यर्थः । कुंकुमेति-कुंकुमस्य केसरस्य बलाहकानां मेघानां निकरैः वातैः अाक्रान्ताम् व्याप्तामिव प्रकापीत्-भास्वान् सूर्यः । वीचिक्षोभः लहरीसश्चलनम् । उद्ग्रीवेण-उन्नतकन्धरेण । विस्फा- रितचक्षुषा=उद्घाटितनेत्रण । गुणवृक्षकमिव-नौकायाः मध्यवत्ती दण्ड- विशेषमिव । 'मास्तूल' इति ख्यातः । प्लवः एको दृष्टः सवस्य प्रथमं गुणवृक्ष- दर्शनन पृथिव्या गालत्वं स्पष्टीभवतीति वैज्ञानिकाः । तन्नियामकाः = पोत- प्रवन्धकाः । पृ० २२३ ॥ वायुविधूतान्समीरचालितान् तारोदेति- चारोदः = क्षारजलः समुद्रः तस्य क्षारेण क्षारनीरेणेत्यर्थः नीलीकृतो वणे यस्य एवम्भूतः । * उल्लाघः रोगनिमुक्त: ' मा स्म ग्रसिष्ठाः अमङ्गलचिन्त- या ' अशुभचिन्तनेन ग्रस्तो माभूरित्यर्थः । कुशलिनौ-क्षमवन्तौ । तुर- कति–तुरप्काद्याः म्लेच्छजातयः । विचित्रा-मनुष्यवुद्ध्यतिक्रान्ता । पृ २२४ ॥ 'पीतं रक्तं श्याममिव च दिक्चक्रमालोकयन् " इति महावीरचपेटाहतस्य आसन्नमरणावस्था जातिः । पृ० २२५॥ कथोपकथनैः चाकोवाकैः । 'यदि जीवेद् वयसा रूपेण चेदृश एव सम्बोभूयेत रामसिंह ' इति कविना दण्डी कविरनुकृतः । पृ० २२६ ॥ विकचसारसम्=प्रफुल्लकमलम् । सारसेति—सारसाः= पुष्कराहः कारण्डवाः पक्षिविशेषाः । तदादिपतिविशेषैः-कूजितं नादितम् " सर " इत्यस्य विशेषणम् । चिरेति-चिरतृष्णया बहुकालपिपासया गलित: भग्नः उत्साहः धावनोत्सवना- दिविषयकोत्कण्ठाविशेषो यस्य तम् वाहम् अश्वम् । सैन्धवस्य अश्वस्य । फेनति-फेनेन डिण्डीरेण क्षालितं लिप्तं खलीनं कविका " लगाम इति प्रसिद्धं यस्य तम् । रश्मिम् = बल्गाम् । पाणिपांडाम् = विवाहम् । शिष्टं निगदव्याख्यातम् । पृ० २२७ ॥ ' शल्यानीव निमग्नानि कीलकानीव खचितानि । अधरसीधुसमास्वादनेन तस्याः सौवा अधरमेव सीधु मयं तस्य समास्वा- 'वात्तों निरामयः कल्प उल्लाघो निर्गतो गदात् ' इति (अमरः)। 'उल्लाघो निपुणे हृष्ट शुचिनीरोगयोरपि ' इति ( हैम: )। उपसर्गात्फुल्ल- (८ । २ । ५५ ) इति सूत्रेण साधुः ।
( १५८ ) . ! दनेन चुम्बनेन । सुधासुखम् = अमृतानन्दम् । अधरीकुर्याम् = न्यक्कुर्याम् । मानसाः कथाप्रसाराः इत्यारभ्य जीवयसि' इत्यन्तगयेन रघुवीर- सिंहस्य विप्रलम्भो वर्णितः । पृ. २२७ ॥ चिन्तेति-चिन्तायाः सन्तानः प्रसारः तस्य वितान- मुल्लोचो व्याप्तिरिति विवक्षितोऽर्थः तत्परवशः । निःशब्दम् = तृष्णीम् रुद. तीम् = विलपन्तीम् । कितव ! धूर्त ! । शाखिशाखायाम् = वृत्तस्कन्थे । रोषारुणाभ्याम् = क्रोधेन रक्ताभ्याम् । अनिमेष :- निनिमेषं प्रेम्णा गाढ- त्वात् । व्याहृतवती = अवोचत् । अवहेलिताऽसि = न्यवकृतासि । पृ० २२८ ॥ ' एवं विलक्षणा संवृत्ता दैवघटना' इति तामेव घटनां दर्शयति—'ज्वालामुखपर्वता इव जाज्वल्यन्ते इत्यन्तेन ग्रन्थेन । धर्षयितुम्- भर्त्सयितुम् भीषयितुं वा । न्यवीविदत् = निवेदनमकापीत् । पुष्पाणि अवचिन्वतीम् = पुष्पावचयं कुर्वतीमित्यर्थः । मदसिविलीढम् = मदीयखड्ग- हतम् । वरिष्यसि = विवाहयिष्यसि च्योतद्रक्ताभ्याम् = इव शोध- रक्ताभ्यामित्यर्थः । सान्त्वयित्वा = धारयित्वा । प्रास्थित = प्राचलत् । शान्तः सौवाः प्राधिः = मानसी व्यथा । क्रूरसिंहस्य ततोपसरणादितिभावः। अवसीदति = दुःखमनुभवति । रामसिंहेति-रामसिंहस्य आलुलोकविषया= दिदृक्षया लोलुपे = लुब्धे लोले = चपले लोचने नेत्रे ययोः । विषीदतः : लिश्यत:। पृ० २२६ ॥ 'परतो रघुवीराय लज्जया विरहय्य-कोशला दिवसान् गणयति' इति सम्बन्धः । के शलामेव उत्प्रेक्षया वर्णयति–'वितीर्णेव उत्क- एठया' इत्यादिना । उत्कण्ठा = रुहरुहिका हृदयस्येच्छाविशेषः तया वितीर्ण दत्तेव । इन्द्रियगणेन = चक्षुरादिना । कुसुमेषुघातैः = पुष्पमयवाणवेधै- रित्यर्थः । मदनेन–कामेन । दुर्मदेति–दुर्मदः असह्यमदो यो मदनः तस्य मदैः मामद्यमाना= अत्यन्तं मादिता सती अपि अधिकं सम्मदय्य% मादयित्वा, अनुरागेण = प्रीत्या दत्तेव । कोशलाविप्रलम्भं वर्णयित्वा रस नार्या विप्रलम्भमपि ग्रन्थयति-ततो रसनारी च ' इत्यादिना । 'रस नारी खिद्यते ' इति दूरमभिसम्बन्धः । मन्मथोन्मथितेन = मदनविलोडितेन । एतेन = शिववीरेण महाराष्टमण्डलाखण्डलेनेत्यर्थः । विरहेयम् = विहारं क्राडां कुर्य्याम् । स्वमनोरथम - पाणिपाटनरूपम् निजासक्तिरूपं वेति ।
( १५६ ) धवलस्य भावः विधित्सिष्यति = विधातुमिच्छिष्यति । चक्रवर्तिनन्दिनी सार्वभौमपुत्रं ति व्यर्थः = मुधा मे मम अभिमानः = अहङ्कारः । वाचालताम्=बहुभापित्वम् वावदूकता मित्यर्थः । पृ० २३० ॥ स्तवः = स्तुतिः । परिभवः निन्देत्यर्थः । विलापः रोदनम् । परिदेवनम् = विलपनम् । भषणम् = बुक्कनं कुक्कुररव इत्यर्थः । मारेण दुराचारेण = दुष्टेन कामेन इति जल्पन्ती = उक्त प्रकारण व्यक्तं वदन्ती । केनचन धवलिम्ना = वक्तुमशक्यन शिवविरह जनितेन श्वत्येन । " धवलिमा " । आलिङ्गयमाना = अशिष्यमाणेव । रोमपञ्जरेण = रोमाण्येव पजरं तेन निगृह्यमाणा = कारीक्रिय- माणा जातरोमाञ्चेत्यशयः । स्वेदेति-स्वेदविन्दूनां धर्मकणानां सन्दोहे: समूहै: अभिषिच्यमाना = कृताभिषकेत्र । प्रेमनिगडवद्धा प्रतिशृङ्खला- निगडिता अनुरागेति-अनुरागः शिवविषयकः प्रेमा एव कारागारा वन्दी- गृहं तत्र संयन्त्रिता = शृङ्खलीकृता उच्छ्वसन्ती = ऊर्ध श्वास कुर्वती । खिद्यते = दैन्यं भजते । अपरां दैवघटनामाह-' इतः क्रूर ' इति । क्रूरः = क्रूरसिंहः । रघौ- रघुसिंहे । क्रूरं कर्म चिकीर्षुः = जिघांसुरित्यर्थः । कोशलाकामनया कोशलाया- मासक्तया क्लिश्यतिखिद्यते । करक्रूरताम् = क्रूरसिंहस्य दुष्टताम् । आकलय्य = निश्चित्य। ग्लायति-क्षाणहों भवतीति । ज्वालामुखपर्वता: इवेति उपमालङ्कारा: । जाज्वल्यन्ते = अतिशयेन ज्वलन्ते । पृ० २३१ ॥ 'मायाभवने मायानिह्मवृत्तं ' ग्रथ्नाति-इतश्चेति । नृशंसम् = घातुककृत स्वमरणरूपम् , अन्यत् बहु स्पष्टम् । 'स्वागतम्' इति गृहा- गतशत्रुणा सहापि वर्त्तने कीदृशी प्रशंसनीया सभ्यता हिन्दूनामासीदिति शिववृत्तेन स्पष्टं भवति म्लेच्छानाञ्च तद्विपरीतैवेति अग्रे शिवं रोधयित्वा अवरङ्गजीवस्य वृत्तेन नातं भविष्यति। दासेराः = भृत्याः । कुमारः = मायाजिह्मः । ह्रीपरवशः लज्जितः । कथमपीति क्लेशाधिक्यं लज्जाधिक्यञ्च व्यनक्ति । स्वागतेति स्वागतवाणी = सत्कारवागेव वाणाः सायकाः तैः । मर्मसु=जीवनतन्तुषु । अलापिष्टाम् = वार्तामकार्टाम् । पारस्परिकाः = परस्परस्मिन् भवाः सन्धि- विरोधरूपाः = सन्धिविग्रहरूपाः । यौवनेति-यौवनस्य तारुण्यस्य उद्भेदः स्फुटनं तेन सुभगानि सुन्दराणि %3D ( १६० ) अङ्गानि = अवयवाः। :। ॥ साक्षात्काराय = परिचयाय । पृ० २३२॥ रामणीयकानि = सौन्दयाणि । रमणीयस्य भावः रामणीयकम् योपधाद्गुरुपोत्तमाकुञ् ( ५ । १ । १३२ ) इति भावे बुञ् । निविवर्तिषते = निवत्तितुमिच्छति । प्रास्माकीनाः अस्मदीयाः । सादिनः अश्ववाराः सैनिकाः । दयिष्यते-द्रयांकरिष्यते । वशंवदानाम् वशमागतानाम् व्याहरमाणानांम् = ब्रुवताम् । सदाचारेति = सदाचारसौष्ठवाभ्यामधिक- मत्यन्तं मधुर्र प्रियं वचनामृतम् = वाक्सुधाम् । पीत्वा = सादरमाकर्ण्य । दौरात्म्ये = दुरात्मनो भावो दौरात्म्यम् तस्मिन् दुष्टे व्यापार इत्यर्थः । घृणाम् = अवहेलनाम् , अावहन् = कुर्वन् । प्रस्थिते = प्रचलिते सति "श्यामसिंहः समुपतस्थे " इति सम्बन्धः । महाराष्ट्रेति = महाराष्ट्रराष्ट्रमेव त्रिविष्टिपं स्वर्गः तस्य नाथे सुरेन्द्र महाराष्ट्रदेशाधिपतावित्यर्थः पृ० २३३॥ नत्तित काम्बोजैः-चालितकम्बोजदेशाश्वैः अश्वारोहै : अनु- सृतः अनुगतः। कीदृशः श्यामसिंह:-"श्यामेन=श्यामवर्णेन एकेन वनायुजेन- वनायुदेशे जातेन प्रशस्ततरेण घोटकेन सहित इति साऽर्थोऽन्वयः । कीदृशन- वनायुजेन–सुवर्णवल्गेन=सुवर्णस्य हिरण्यस्य वल्गा रश्मियस्य तेन । पुनः- राजतखलोनन = रौप्यकविकेन । पुनः-मौक्तिकानां मुक्ताफलानां राज्या श्रेण्या राजितं निगालं लण्ठप्रदेशो यस्य स तेन । पुनः-रत्नानां वज्रवैडूर्यादीनां प्रचयस्य = समूहस्य या रुचिरा हृद्या रोचिः शोभा तया छुरितो बालधिः पुच्छं यस्य सः तेन । पुनः-सुवर्णसूत्रः- “सुनहरी कनारी" इति प्रसिद्धैः सुवर्ण- तन्तुभिः ग्रथितं प्रान्तं यस्याः सा चासौ पीतकौशयस्य पीतकपट्टवस्त्रस्य उपवेश- निका = अासनिका " काठी" इति प्रसिद्धा तया आच्छन्नं मध्यं पृष्टभागो यस्य तेन । कशाङ्गितकक्षण चावुक " इति प्रसिद्धा तया अङ्किता कक्षा यस्य सः तेन । एकेन नियन्त्रा धृतरश्मिना, तथा मन्दमन्द-मानीयमानेन तेन = श्यामसिंहेन । अालप्य = वार्तयित्वा । प्राविक्षत् = प्रविवेश । रम्भास्तम्भान् = कदलीस्तम्भान् । कुट्टिमे कुट्टिमे = प्रतिकुट्टिमम् । “कुट्टि- मोऽस्त्री निवद्धा भूः" इत्यमरः । अवलम्बितेति--अवलम्वितानि दोलितानि माणिक्यदीपकानि मुक्ताप्रदीपा येषु एवंभूतान् उल्लोचान् = वितानानि वीक्षमाणः = पश्यन् । ग्रैवेयकेति-ग्रैवेयकैः ग्रीवाभूषणः अलङ्कताः सज्जिताः कन्धराः ग्रीवा येषां एवम्भूतान्–सिन्धुरान् = गजान् । उच्चैश्रवसः = कशा ताडनी ॥ ।
( १६१ ) इन्द्राश्वस्य । वान्धवान् सहोदरानिव । सैन्धवान् = अश्वान् । धारितानि- परिहितानि अभिनवानि नूनतानि वस्त्राणि यैः तान् पौरान् = नागर।न् । समुद्धृतेति-समुद्धृताः = सम्यक् वायुना कापायमांनाः धनाः पताका येषु एवम्भूतान् गेहान् = गृहान् उपलभमानः= वोक्षमाणः । सौरतान् = मुरतभवान् विद्रोहिणः = शत्रन् । पातयोधिनः सामुद्रान् साङ्ग्रामिकान् । समुदतारीत् = सन्यगुत्तरमदात् । पृ० २३४॥ ततो निवृत्तः (मायाजिह्मः भवनमद्राक्षान् " इति सम्बन्धः । कीदृशं भवनम् महाप्रघणम् = महान् प्रघण: अलिन्दो यत्र तत् । पुनः-शारदः = शरदि भवो यो धनः = सान्द्रः जलपूर्णो घनाघनः मेघः तस्य विडम्बना = अनुकरणं यस्य तत् शारदनवनीरदसदृशामित्यर्थः । निर्मीयमाणा रत्र्यमानाः । कर्कम् = शुभ्राश्चम् । समलुलोकत् = अद्राक्षात् । "तावत् एकतः रघुवीरसिंह: समागतः” इति सम्बन्धः । धौरितकेन अश्वगतिविशेषेण । अश्वारोहशतकेन = सादिनामकेन शतेन अनुगम्यमानः = अतुस्रियमाणः । पारसीकम् = पारसदेशोद्भवमश्वम् । अतिलोलकुन्तलः = चपलतरकचः । अरुणैः = रक्तैः वासोभिः = वस्त्रैः । अपरिचीयमानः- परिचयमप्राप्तः । " शतमश्वारोहान्' = इत्यत्र शतमित्येकवचनं "विंशत्याद्याः सदैकत्वे " इति नियमेन शेवन् । समस्तकनमनम् = शिरो नमायित्वेत्यर्थः । पृ० २३५॥ सेनानिवेशान् = शिविराणि । पदातीति–पदाताना पत्तीनां निकरैः समूहै: विरचिताः कृताः व्यूहरचनाः । विहायास = आकाशे । प्रयुज्यभानाः = चाल्यमानाः अभ्यासार्थमिति शेषः भुशुण्डिका: । ह्रादिनी निर्हादम् = हादिनी वज्रं तस्या निहींदं कडकडाशब्दं हृपयन्त्यः-लज्जापयन्त्यः ततोऽप्यधिक धडधडायमानाः। इत्यर्थः शतघ्नीः = तोफान् । चन्द्रति चन्द्रहासस्य खड्गस्य चालनचातुर्राम् = मारणविद्याम् । प्रासेति-प्रासाना कुन्तानामसनस्य क्षेपणस्य साहसं = बलकर्म । पट्टिशप्रयोगपाटवम् = प्रमोदेति-प्रमोदो हर्षः तस्य पूरेण प्रवाहेन प्रफुल्लितान् हृष्टान् । विविधेति- श्यामसिंहस्तु-महाराष्ट्र द्रष्टुं राजदुर्ग प्रचलितः' इति सम्बन्धः । तम्-मायाजिह्मम् । तत्र-मायाप्रसादे । साकारे-भूर्तिमति प्रताप इवे- त्युत्प्रेक्षा महति-विशाले स्वर्णसिंहासने । समारूढम् स्थितम् । मूर्तिमता यशसेवेति अत्रापि उत्प्रेक्षा । सुशोभितम्राजमानम् । प्रजाभिः प्रकृति वगैः । श्राद्रियमाणाम् जयजयेतिमान्यमानम् । स्पष्टमन्यत् । इति ( नूतन ) शिवराजविजयपताकायामष्टमो निश्वासः । ..
** * नवमो निश्वासः । चिन्तितं दूरतो याति यन्न चिन्तितमेति तत् । गतिर्दैवी विचित्रेयं नरो यञ्चिन्तनाऽक्षमः ॥१॥ अमन्दानन्दसन्दोह-दोहदः पुरुपोऽस्ति यः । स कथं दुःखिताज्वालामाला-हालाहलं पिवेत् ॥ २॥ गतेषु निश्वासेषु उत्तरोत्तरं शिवसाम्राज्यमहिम्नो वृद्धिरेव गुम्फिता, सम्प्रति “दैवी घटना विचित्रा" इति समर्थयितुमिव सहसैव तस्या वृद्धः प्रतिरोधं निरुपयि- तुकामः अस्मिन्नवमे निश्वासे महाराज-"जयसिंह" प्राज्यबलसन्निपातेन अवरङ्ग- जीवाधीनतामिव शिवस्य प्रदर्शयन् तद्वृत्तोपक्षेपकरीत्या प्रतीकद्वयमादत्ते-दैवी इति, येनामन्दमरन्दे इति च । “ येनामन्द "-इति भ्रमरान्योक्तिः पण्डित- राजानाम् । येन ( मधुकरण ) अमन्दमरन्दे = प्रचुरमकरन्दे दलदरविन्दे = विक- सितकमले दिनानि = अहानि अनायिपत = अगमयिषत तेन मधुकरेण = भ्रमरेण कुटजे=गिरिमल्लिकायाम् ईहा=इच्छापि कथम् = केन प्रकारेण तेने = चक्रे इत्यर्थः । "हा" इति कष्टम् । धीरोदात्तेन विपन्नेन नायकेन महत्यामापद्यपि नीचपरिचरण- करणं नव कर्तव्यं स्यादिति भावः । अत्र करुणो रसः । पृ० २३६ ॥ अकाले असमये । पुंस्कोकिलाः=पिकाः । काकलीकलकलैः पञ्चमस्वरैः । दिगन्तम्-दिशामन्तम् । बधिरयन्ति मूकयन्ति । मिलितेति-मिलितेन सङ्गेतन मलयानिलेन-दक्षिणसमीरेण लोलाः चपला: लवङ्गलताः= * देवकुसुमवल्ल्यः । दोलन्ति कम्पन्ते । मध्विति- मधुगन्धन मकरन्दगन्धन अन्धाः मत्ता ये मधुब्रता: भ्रमराः तेषां बातेन समूहेन विधुताः विधूनिताः, सञ्चालिता इत्यर्थ: माकन्दमञ्जयः-रसाल (आम्र) शिक्षयः, मा ल्यम्=मञ्जुलस्य भावो मा ल्यं सौन्दर्यम्-वमन्ति-उद्गिरन्ति, प्रकटयन्तीति लक्ष्यम् , सौन्दयातिशयो व्यंग्यः । नितान्तति-नितान्तम् अत्यन्तं विरहे या प्रियावियोगेन क्लान्तः=म्लानिङ्गतः परमश्रान्तः अत्यन्तं स्थगितः, * — लवङ्गं देवकुसुमं श्रीसन्शम् ' इति ( अमरः )।
( १६३ ) शन्यस्वान्तः हृदयलयहीनः सचासौ कान्तवनः युवजनः तस्य ज्वालाभिजटाल: मटाल: यो दावज्वलनः वनाग्निः तेन जाज्वल्यमानानाम् अतिशयेन ज्वलताम् अङ्गाराणां कदम्ब समूहमिव पाटलपटलम झाटलाराजिः उल्लसति-प्रकाशते । पुष्पपरागैः कुसुमरजोभिः पीतः = पीतवर्णः । मकरन्देति-मकरन्दः पुष्परसः तस्य विन्दूनां कणानां सन्दोहै: = समूहै: आर्द्रः = स्विन्न इत्यर्थः । प्रफुल्लानां विकसितानां वल्लीनामालिङ्गनैः = संस्पर्शनैः शीतः = शिशिरीकृतः । पृ० २३७ ॥ कुञ्जसंश्लेपः = लतातानद्वारः धीरः = ( गतिप्रतिरो- धात् ) मन्दः, समीरः = पवनः वहतिस्म = ससार । दुःशकनरूपत्वात् = अकालपुष्पादनामुगमो भाव्यऽभव्यं भावयतीति शकुनशास्त्रविदां परामर्शः । आगामीति-आगामिभयम् = जयसिंहादि- समुत्थमग्रे वक्ष्यमाणपराजयात्मकम् ! अबहुदूरम् = नातिदूरम् । ' तत्र = ( पुष्पवाटिकायाम् ) च- ( महाराष्ट्रराजः ) अकस्मात् यवनकामिनीमदाक्षीत् इति सम्बन्धः । किं कुर्वन्- भ्रमभ्रमरैः = भ्रमद्भिः पट्पदैः चोचुम्ब्यमानाः आस्वाद्यमानाः मल्लिकाः = मालतीः पश्यन् । तथा–दोदुल्यमानैः = उत्क्षिप्यमाणः, करपल्लवैः = पारिणपत्ररिव पल्लवतल्लजैः = प्रशस्तदलैः पार्श्ववरिवत्तिद्रुमान्= समीपवत्तिनो वृक्षान् स्पृशन्ती आलिङ्गन्ती: वासन्तीः = माधवीलताः अवलोकयन् । साम्रडम् आकर्णनेन = पुनः पुनः श्रवणेन । विहितेति- विहितः सम्पादितः तदनुकरणेन विरावाभ्यास: भाषणावृत्तिर्याभिः ताः सारिकाः विभावयन् = पश्यन् । परस्परग्रथितम् = अन्योन्यसङ्गतम् कुसुमभार- निविडम् = पुष्पप्रचयसान्द्रम् । मिलिन्दव्याप्तम् = भ्रमरचितम् लतानां व्रततीनां प्रतानस्य विस्तारस्य निचयं समूहम् उभयतो हस्ताभ्याम् अपसार्य निवार्य निविशमानाम् = प्रविशन्तीम् । अष्टादशवर्षदेशीयाम् = अष्टादशवर्षतः किचिन्यूनवयस्काम् 'प्रतिक्रान्तशैशवां तारुण्यधृतपदाम् ' इत्यर्थः धारितहारितपरिधानाम् = धारितानि परिहितानि हारितानि हृद्यानि * ‘कान्तजनस्य ज्वालाभिर्जटाल ' इति सम्बन्धस्तु निरथों भाति न हि कान्तजनस्य ज्वाला भवन्ति तस्माद् ‘वह्निना सिञ्चति' इतिवदत्र योग्यताभावः न्यूनपदत्वं ' दोषः। किन्तु तान्तश्वास' इति पदं मध्ये निक्षेप्यम् । अथ-' कान्तजन एव ज्वालाः ' इति रूपकमभिप्रैपि तदा पण्डिताः प्रमाणमिति दिक् । एवञ्च ( १६४ ) - हरिद्वर्णानि वा परिधानानि वेशवस्त्राणि यया ताम् । कण्टकेति-कण्टकानामा- कण घर्षणेन पृथतः अपसरतो वसनात् उत्तरीयात् दरीदृश्यमानम् = अतिशयेन चक्षुषोविषयीभूतम् , ईषद् उन्मिप्तिं = चूचुकाग्रभागे किछिदुन्नतम् , उरोज- युगलम् = स्तनद्वन्द्वम् , अञ्चलेन = वसनकोणेन आच्छादयितुम् = प्रावरणयितुम् यतमानाम् = उद्यमं कुर्वतीम् । प्रफुल्लकमलेति-प्रफुल्लस्य विकसितस्य कमलस्य पद्मस्य भ्रमेण भ्रान्त्या इव वदनमभिपततः = मुखमभिलक्ष्य स्थितिमुपेयुषः मधुकरान् = भ्रमरान् ससम्भ्रमम्=सभयसत्त्वरम् सभ्रभङ्गम् = भ्रकुटिभङ्गिसहितं यथा तथा ईक्षमाणाम् = आलोकयन्तीम् । कपोलपालीति-कपोल पाल्यां = गण्डस्थले लग्नस्य = लिप्तस्य परागस्य = पुष्परजसः रागेण रक्तिम्ना होलिकायाः महोत्सवस्य उद्धवस्य नेपथ्येन = वेशेन इव अवतरन्तीम् = अवतीर्णाम् आयातामित्यर्थः । मल्लीवल्लीति मल्लीवल्ल्या: मालतीलतायाः-संघण उन्मार्थत: मदितोयोऽधररागः तेन अधिकमधिकम् = अतिमात्रं तर्षम् = अधरपानेच्छामिव जनयन्तीम् = उत्पादयन्तीम् यूनामिति शेषः । तथा-शुकेति-शुकशावकानां कीरशिशूनां रावस्य शब्दस्य अनुकारि = सदृशं मञ्जु = मनोहरं मीरयोः नूपुरयोः शिअितं यस्याः सा ताम् । गृहीतकुसुमस्तबकाम् = धृतपुष्पगुलुञ्छाम् । सा-त्विति-सा = यवनी । 'दक्षकरमुत्थाप्य शिरो नमयित्वा" वन्दी कृत्वेत्यर्थः । स्त्रंसमानेति-स्रंसमानात् = स्थानभ्रष्टात् वसनात् वस्त्रात् दर्शितः ताटङ्कनिचयः = कर्णभूषणावली यया सा । रशनेति-रशनायाः काञ्च्याः निःस्वनेनेव = शब्देनेव । पृ० २३८ ॥ किञ्चन = किञ्चित् वचनीयम् = कथ्यं सूचयन्तीव, लोलल्ललन्तिका = लोलन्ती चपलन्ती ललन्तिका = आनाभिलम्बिनी काण्ठिका यस्याः सा । सूक्ष्मति -सूक्ष्मस्य वसनस्य वस्त्रस्य अन्तः देदीप्यमाना = लसन्ती वालानां शिरोरुहाणां पाश्या = समूहो यस्याः सा । वद्धकरसम्पुटा- प्राअलिभूता एकतः = एकास्मिन् भागे अवतस्थ = स्थिताऽभूत् । आलक्ष्य = दृष्ट्वा । भद्रे != भन्दनीये कल्याणिनि ! किमीहसे कि चेष्टमे ? । विवक्षास वक्तुमिच्छसि । 'वरणीयं वयः " इति कथनेन तस्या अक्षतयोनित्वं व्यज्यते । अवैतु = जानातु । चन्द्रशालेति = चन्द्रशालायाः शिरोगृहस्य गवाक्षजालिकायाः = गोक्षरन्ध्रिकायाः। साहसः= हृदयसत्वम् । सहचरी= ( १६५ ) । मुखी । ( इतोऽग्रे बहु निगदव्याररन्यातं, पूर्वमपि न्याख्यातसदृशञ्च) विकलयति विलयति । खिन्ना=न्याकुला । पृ० २३६ ॥ सहचरी-" महाराज" इत्यादिगयेन ' यद्यपि केवलं रमनार्या एव महाराजविषयकोऽनुर।गो व्यज्यते नतु महाराजस्यापि, तथापि अनु- रागस्य श्राश्रयालम्बनत्वात् परकीयात्वम् , अनूदात्वञ्च ( रसनार्याः ) प्रकरणवशात् स्फुटमेव” इति पुरातनशिवराजलघुटिप्पणे उक्तम् । अत्र बहु वक्तव्यमपि मया ग्रन्थगौरवभयानोक्तम् । व्याधिः = व्यथा । धुनोति = कम्पयति आत्तीकरोतीत्यर्थः । प्रतिक्षणम् = क्षणक्षणं प्रतीति अनिमिषेति-निनिमेपश्वासरोधपूर्वक- मित्यर्थः-रोमाञ्चति = पुलकति । स्विद्यति = प्रस्वेदं धत्ते । सीत्करोति- दन्तोष्ठकम्पनां तनुते । ताम्यति लाम्यति। विलयति-मूर्च्छते। वेपते-कम्पते। उद्भमति = उद्भान्ता भवति शीतोपचारमपि उष्णं मनुते इत्यर्थः । पृ० २४० ॥ रोदिति = अश्रून् विमुञ्चति ग्लायति = क्षीणहर्षा जायते । क्लिश्यति = विवाधयते। मुह्यति = विचित्ता भवति । मूर्च्छति विसंज्ञां प्राप्नोति । धीरम् = मन्दं समीरम् = मन्दगति वायुमित्यर्थः । शीतमयूखम् = चन्द्रमसम् । ताप्यते = तापमुपैति । कोकिलकलरवम्= पिकानां कुहूकुहूशब्दम् । तोद्यमाना = व्यथ्यमानेव । कराभ्याम् पाणिभ्याम् कर्णकुहरम् = श्रुतिरन्ध्रम् । पिधाय = पाच्छाद्य । अन्तर्नि- विशते = कोष्ठे निलीयते । हास्यमाना= नर्मवचसां विषयोक्रियमाणा । विविधेति=विविधानि नाना प्रकाराणि यानि विलासरामणीयकानि मनोलगिति- सुन्दरकाणि तेषु । पाटलीति--झाटलाराजिकारकमालामित्यर्थः । ज्वलनेति = ज्वलनो वह्निः तस्य ज्वालानाम् अधिषां जालम् आनायः तस्य पावलाम् = पुलं वेवेत्ति = अत्यन्तं जानाति । परिवर्त्तनैः = विवलनैः । दीर्घनिश्वासैः = लम्बाच्छ्वासैः । सङ्घ- भ्भेति-जम्भया गावविनामेन सह अङ्गुलीनां स्फोटनैः चुटकीकरणैः । क्षपाम्-निशाम् । क्षपयति = गमयति । मदनव्याधिः= कामज्वरः। सारसनारी । साअनेति-अअनेन कज्जलेन सह वर्तते इति साधनं यद् वारि अर्थात् नेत्रजलम् तस्य धाराणां सम्पातस्य अनवरतपतनस्य सम्मों व्यतिकरः तेन मलिनो कलुपितौ पाण्डुरौ- पीतिमानं प्राप्ता कपोलौ= गण्डमण्डले 'वहति ' इति क्रियया सह सर्वेषां द्वितीयान्तपदानां सम्बन्धः ।
( १६६ ) । तापेति–तापो विरहजनितो ज्वरः तपनो वह्निः तेन तप्तानां निश्वासा- नाम् आहीतीभः पाताडनैः शुष्कम् = नीरसं म्लानमित्यर्थः एवंभूतमधर वहति । कर्पूरेति-कर्पूरपूर स्य घनसारपुञ्जस्य यत् चूर्ण क्षोदः तस्य मञ्जिमेव मञ्जिमा शोभा यस्य तेन, केनचित् = अनिर्वाच्येन धवलिम्ना = श्वेतोभावेन, ऋशि- ना = कायेन च समालिङ्गितानि = व्याप्तानि । विमनायमाना = दुर्मनायमाना । पिपठिषन्ती = पठितुमिच्छन्ती । आविलयति = आर्द्रयति । विरहमयानि = विरहप्रचुराणि छन्दांसि- बैंतगजलप्रभृतीनि । अामेडते = पुनः पुनः पठति । वाष्पविन्दुव्रजव्याजेन = अम्रकणसमूहकपटेन 'धैर्य वमतीवेति' उत्प्रेक्षा। अालपति = वार्त्तयति । उपालभते = उपालम्भं ददाति । प्रार्थयते = याचते । स्तवीति = गुणान् गायति । वन्दते = नमति च ' इत्यनेन उन्मादावस्था सूचिता । फलकम् = भवतो महाराजस्य चित्रमेव । अथ इत्यारभ्य 'क्षन्तव्यो महाराष्ट्रराजैः' इत्यन्तं व्याख्यातप्रायमव । धैर्यघस्मरेण = धैर्यभक्षकेन स्मरेण = कामेन । मारेति–मारस्य कामस्य यो विकारः कम्पादिः तस्य व्यापनस्य भारः = समुदाय एव तेन जर्जरितम् जीर्णम् अन्यथाजातम् श्राकारम् = कुसुमस्तबकानां सुमनोगुलुच्छानामवचयैः कलजितेन मधुररवेण पूजितं सत्कृतं हृद्यमित्यर्थः यत् पतत्रिणां पक्षिणां कुलं तेन कलितानां प्राप्तानां शाखानाम् अनुसन्धानैः दर्शनैरित्यर्थः । तत्क्षणेति- तस्मिन् क्षणे अवसरे वोटितानां कदलीदलानां रम्भापत्राणां वजिनैः ( आत्मानं प्रति ) व्यजनव्यापारणः । स्वेदापनोदनैः = स्वेदस्य = कामविकारजस्य धर्मस्य अपनोदनैः दूरीकरणैः । निगूढवान् = निन्हुते स्म । ' तां सहचरी तु—एषा- ऽहमायामि इत्यभिधाय विसृष्टवान् ' इत्यन्वयः । स्पष्टमन्यत् । पृ० २४२ ॥ शुश्रूषे = श्रोतुमिच्छामि । ज्ञाश्रुस्मृदृशां सनः (१ । ३ । ५७ ।) इत्यात्मनेपदम् । सा= रसनारी अतरलेति-न तरला तारका कनीनिका यस्य तेन, क्षुण्णानि अनिमीलितानि पक्ष्माणि यस्य तेन ईक्षणेन = दृशा । ऐक्षिष्ट =अलोकिष्ट । 'ईक्षमाणैव च-भयेना- कम्पत ' इत्यन्वयः । स्वेदेति-स्वेदसलिलस्य = धर्मजलस्य पूरैः स्नपितेव = सावितेवेत्यर्थः । महाराष्ट्रेति-महाराष्ट्रदेशाधीश्वरायेत्यर्थः । वाष्पेति-वाष्प- विन्द्रवः = अस्रकणा एव मौक्तिकानि मुक्ताः तेषामावलि मालामिव उपहरन्ती- उपढौकयन्ती। श्वासेति-श्वासप्रश्वासा एव झञ्झावातः महावातः तेन उड्डीनं ( १६७ ) " प्रनष्टं धैर्य यस्याः सा एवम्भूता-शोकाङ्कुरैः -शोकाङ्कुरैः = शोकस्योद्गमनैः इव रोम- निकरैः = लोमराजिभिः निगृहीता-व्याप्ता भयेन = त्रासेनेव अकम्पत%3D वेपथु दधे । अत्र-गध उत्प्रेक्षालङ्कारः वेपमानैः = कम्पमानैः अङ्गैः हस्तपादा- दिभिः निवार्यमाणवेति सम्बन्धः । मन्मथेन = कामेन उन्मथितेन मर्दितेन मनसेव-मूकीक्रियमाणा = अवाकीक्रियमाणा | उद्वेलितैः - उच्छलितैः वाष्पैः अश्रुभिः कण्ठे रुध्यमाना = प्रतिहस्तीक्रियमाणव । अवहेलितया = तिरस्कृतया ह्रिया = लजयेव अव- हेल्यमाना = तिरस्क्रियमाणा । अनासादितचरेण = पूर्वमप्राप्तन साहसेन = अविचारितकर्मणा हास्यमानव = मदनमदेन = काममयेन इव माद्यमाना = विहलाक्रियमाणा । वाचां प्रचारम् = वचनपरम्पराम् " न उररीचकार" इति सम्बन्धः । उररीचकार = स्वीचकार तृष्णामेव तस्थी इत्यर्थः । अथ-महाराजेन सान्त्व्यमाना- पुनर्मोनमेव अकलयत्" इति सम्बन्धः इति सम्बन्धः । अञ्चलान्तेन = वसनकोणेन स्वैदेः सह = धर्मः साकन् लज्जा = ब्राडामपसायेव = धूनयित्वेव । कम्पयित्वेव क्रियासमभिहारेण = पुनः पुनः सान्त्व्यमाना = धैर्यमापाद्यमाना । कदलीदलेति--रम्भापत्रेन यद् वोजनम्-वातकरणं तस्य व्याजेन अवशिष्टम् = रहितसहितम् धैर्यम् = धारताम् उद्धृय = प्रक्षिप्य । वाष्पति = वाष्पानामपहरणं प्रोञ्छनं तस्य कैतवेन व्याजेन विवेकम् = विचारमपि सम्मी = विनाश्य । कर्णति-कर्णयोः अर्पितकणिकारेण = धृतकणिपुष्पेण निपात्यमानाः उडाय्यमाना ये मधुकराः भ्रमराः तेषां निकरस्य विधूननच्छलेन = उत्सारणव्याजेन निर्मक्षिकमिव = शून्यमिव विदधती = कुर्वती। पृ० २४३ ॥ अवलोकनच्छद्मना = इतस्ततो दृष्टिप्रसारणब्याजेन । वास्तुदेवी-गृहाधिष्ठात्री देवी तस्याः श्रवणं “ सा किं न शृणुयात् " इति आशङ्कमानेव = संशयानेव । विरहेति-विरहज्वालया वियोगानलाचिंषा अवलीढं कवलितं वसनं यस्याः सा तया, प्रकाशं = प्रकटीभावम् अनाजि- गमिपन्त्या = प्राप्तुमनिच्छन्त्या भगवत्या सरस्वत्या = वाण्या वागधिष्ठात्र्या देव्या वारितेव = निषिद्धव पुन्मौनम् = तुष्णीम्भाव- मेव आकलयत् = भेजे । महाराष्ट्रेति-महाराष्ट्रकुम्भिनी = महाराष्ट्र- समूहम्य च ( १६८ ) क्षमा - भूमिः तस्याः स्तम्भेन आधारभूतेन महाराष्ट्रदेशाधीश्वरेणेत्यर्थः । “गौरिलाकुम्भिनी " इति ( अमरः ) । षट्कर्णा = वक्तृश्रोत्रातिरिक्ततृतीयकर्णगता, अर्थात तव रहस्यं न भेत्स्यति । वक्षि= वदसि । लजां = ब्रीडां मानयसि = धत्से नतु जीवनम् = प्राणान् आद्रियसे इत्यर्थः । परतश्च = महाराजोक्त्यनन्तरम् | "परतश्च -वक्तुमारभत रसनारी” इति सम्बन्धः । "निश्वासानुपातिभिः-त्रपायाम्" इत्यन्तं गद्यमुत्प्रेक्षाबहुलम् पृ० २४४॥ परमापराधिनी बह्वपराधकारिणी, महतामाशाभङ्गत्वादि- त्यभिप्रायः । श्राधीनां मानसीनां व्यथानाम् । वनितति-वनिताजनस्य अवलाजनस्य वचनं प्रतारणम् । व्यर्थेति-व्यर्था निष्प्रयोजना या मर्यादा धार्मिकसीमा तस्या विकत्थनम् साधनम् । भङ्गीम् वचनप्रकारम् । लोलताम्- चपलताम् । निर्भीकताम् भौतिर।हित्यम् । अभीकताम्-कामुकताम् । चटुलताम् चपलताम् । चतुरताम् नैपुण्यम् । कविताम् कवित्वम् विशकलय्य=विस्तारं कृत्वा । अनाचारः = दुर्व्यवहारः । प्रादर्शि प्रकटितः । आच्छन्दयसि = मोहयमि । मायाः = मोहनप्रकाराः। घटना:- योजनाः । वर्वत्सि = अत्यन्तं वर्तसे । भुझे = अत्सि । अंशुकम् = अञ्च- लम् । स्पृशसि = आकर्षयसे । मर्यादायाः ध्वजम् = धर्मस्य पताकाम् । कवाटयुगलम् = कपाटद्वन्द्वम् । शृङ्खलाम् = कुण्डलिकाम् । सहचरीः= सखीः दासी । पृ० २४५॥ अनन्य श्राव्यम् = इतरजनैः श्रोतुमनहम् । निभृतम् गुप्तिम् । चित्रगतः = आलेख्यगतः । स्मयसे = हससि । एतां मायाम् = मन्मोहकरीम् । “विभेमि, खिये, उन्माद्यामि " ईदृक्षाणि = एतादृशि । विलक्षणानि = लोकोत्तराणि इन्द्रजालानि = अनिर्वचनीयानि । उद्वन्धुम् = पाशीकर्तुम् । यतमानाम् = सोद्यताम् । निरी- क्षिष्यसे = द्रक्ष्यसि । परीक्षिप्यसे = विवेकं करिष्यसि । समीक्षिष्यसे = समालोचयिष्यसे । अणुः = लेशरूपः । अपराध्यति = दुष्यति अपराधहे- तुर्भवति । दिल्लीवल्लभेति- अहञ्चक्रवत्तिपुत्र्यस्मि ' इत्यभिमानं त्यक्त्केति अनुरक्तवती = अनुरागं कृतवती श्रानृण्यम् = ऋणराहित्यम् विभावनीयम् = विवेचनयिम् । व्यभिचारिणी = कुलटा, वचनीया 3 निन्दिता । वदावदानाम् = वक्तृणाम् । तातेन = पित्रा अनुमता = अनुज्ञाता।
( १६६ ) अप्रत्ताम् = अदीयमानाम् । अात्मसात्कुर्वन् = स्वीकुर्वाणः । लम्पटः = धूर्त इति निन्द्यते = गीते 'लोके ' इति शपः । तातभव- नम् = पितृगृहम् । प्रापयामि = गमयामि । पृ० २४६ ॥ मदपेक्षया = मत्तोऽपीत्यर्थः । अतिसुन्दरम् : कमनीयतरम् । अतिसम्पदम् = महैश्वर्यवन्तम् । तुरुष्कारव्यादि = इति देशनामानि । 'आत्मनं अकृतार्थम् = असिद्धप्रयोजनं मा मंस्था ' इति अन्वयः । वासन्तवासन्तीव सहकारम् '-इति उपलङ्कारः । वसन्तकालभवा वासन्ती माधवीलता, सहकारः = आम्रः तम् ! कलयिष्यसि = प्राप्स्यसीत्यर्थः । एवमिति-श्रालपद्भ्याम् = वात्तो कुर्वद्भ्याम् । अन्वभावि- माक्षादकारि धूमगन्ध इव । शुण्डीति-शुण्डी = गजः तस्य शुण्डादण्ड इव कर इव चण्डः = भयंकरः धूमः इति–उपमा । तावदिति-अग्निरित्यादि साध्वसव्यअकाः शब्दाः । सुब्धानाम् = सञ्चलितानां त्रस्तानामिति यावत् । दौर्गिकाणाम् = दुगें नियुक्तानाम् । उद्विग्ना = भीता रसनारी । बाहुल ताभ्याम् = भुजवल्लीभ्याम् गाढम् = सान्द्रं यथा स्यात् तथेति क्रियाविशेष- एम् । * अवेष्टयत् = पाश्लिषत् । भीतभीताम् = अतित्रस्ताम् । उदञ्चिताभ्याम् = उन्नताभ्याम् उन्नमितचूचुकाभ्यामित्यर्थः कुचाभ्याम् = वक्षोजाभ्याम् । वक्षस्थलम् = ( महाराजस्यैव ) उरःस्थलम् । पीडयन्तीम् = बथयन्तीम् वस्तुतस्तु आनन्दयन्तीम् । वाहुपाशेति-वाहुपाशन भुजजालेन वेष्टिता ग्रीवा कन्धरा यया ताम् , सवेपथुम् = सकम्पाम् गाढमश्लिष्टाम् = सान्द्रालिङ्गनवतीम् । माभैषीः ' = भयं माकार्षीः इत्यभिधाय = उल्ला । कराभ्याम् = पाणिभ्याम् । कोडे = उरसि उत्थाप्य - उत्तोल्य पृ० २४७ ॥ कान्दिशीकाः = भयद्रुताः । भयेन भीत्या भ्रान्तानि क्षुब्धानि नयनानि यासां ताः । तत्रैवेति-यत्र महाराजो रसनारी कोडी- कृत्य गतस्तत्रवेत्यर्थः । उद्धृतम् = उवृद्धम् । अकृशम् = अक्षीणम् । कृशानुम् = वह्निम् । जलयन्त्रैः = नीरनिष्कासनसारणायन्त्रः। शमयाम्बभूवुः = शान्तमकार्पः । गृहीतकण्ठाम् = कण्ठसंलग्नाम् । निर्दिष्टगृहे = प्राप्त - समनि । * अत्र-प्राक्तने लघुटिप्पणे उक्तं द्रष्टव्यम् ( १७० ) .. सोपानैः = अवरोहणीभिः । महाराजः-इत्यभिदधत् हनुमन्मन्दिरमया- सीत् ' इति सम्बन्धः । अाकस्मिकः = अकाण्डताभवः । अज्ञातेति-न ज्ञातं कारण यस्य सः । ज्वालाजालः = अर्चिषां माला । जातवेदसः = हुतभुजः । आत्मीयान् = स्वान् अनु चरान् । सहचरान् = साथै चलितान् प्रति. निवर्त्य प्रतिलोम प्रेषयित्वा । साक्षात्काराय = दर्शनाय । चरान् स्पशान् । पृ० २४८ ॥ महाराष्ट्रेति-महाराष्ट्रस्य विश्वम्भरा = पृथिवी तस्या ईश्वरः तत्सम्बुद्धा । वीराणां महारण्येन = महता जगलेनेव । सिन्धुराणाम् गजानाम् घटया = महासंघेनेव, वाजिनाम् = अश्वानाम् वीचिभिः लहरीभिरिव परिवृतः = परितो व्याप्तः अम्बरेश्वरः - आमरेनाम्ना प्रसिद्धाया राजधान्या ईश्वरः = राजा । अयमेव जयपुरनगरनिर्माणकर्ता । इत्याह—— जयपुरसंस्थानकत्ता ' इति । दिल्लीपक्षम् = अवरङ्गनीवपक्षमित्यर्थः पुष्णन् = समर्थयन् तत्पक्षपाती भूत्वेत्यर्थः । अविदूरतः एव = नातिदूरे । उपकारिकाः = पटभवनानि शिबिराणि इत्यत्र तात्पर्यम् । समरम् = युद्धम् । श्रारिप्सते आरब्धुमिच्छति । रणसजया = युद्धोद्योगार्थम् । आदिशत् = अाज्ञापयामास मात्रायाम् = घटिकायाम् । व्यतीतमात्रायाम् = गतप्रयायाम् । शतघ्नी निर्हादः = तोफशब्दः युद्धसज्ञासचकाः = संग्रामकृत्याबोधकाः सेनासन्निवेशभ्यः = शिबिरेभ्यः । सघर्घराघोषाः = घर्घरघोषसहिताः । घोरघोराः = अत्यन्त = अत्यन्तं भय कुराः । घनाघनति-घनाघनो मेघः तस्य निघोपों गर्जन स्तनयित्नुशब्द इत्यर्थः तत्सदृशः तोभनिस्वनाः = तोभानां तोफानां निस्वनाः शब्दाः । कथमुद्विग्ना = दुःखिता । तदितरः = रसनारी- भिन्नः न कोऽपि वेत्तीत्यर्थः । दण्डासनेन = साष्टाङ्गपातेन प्रणामेन। 'एषोऽ- ग्निदाहः न शुभः' इति सम्बन्धः । वृ०२४६ ॥ हवनैः = होमैः । विप्रपूजनैः = ब्राह्मणार्चनैः। दानैः: त्यागः। स्थगिता = श्रान्ति गता। नवासादितराज्यम् = नवमायत्तीकृत्यं रान्य प्रबध्नन्ति = प्रवन्धयुतं कुर्वन्ति । सम्भाव्यते = अनुमीयते । तादृशम् = पराजयरूपम् । अत्रभवता = पूज्येन । पृ० २५० ऋते प्रभुवर्यात् = ऋते योगे पञ्चमी । ज्योतिषगणितैः = - ( १७१ ) •. । । ज्योतिर्विद्याप्रकारेण कृतैः गणितः ग्रहनक्षत्रादीनां गतिगणनाविशेषैः । कलित- मुनिवेशः = धृतमुनिव्रतः । प्रनष्टः = गोपितात्मा । जयसिंहति-जयसिंहस्य सेनैव समुद्रः सागरः । समस्तरूप- कमलङ्कारः । परिमार्गयिष्यामि = अन्वेषयिष्यामि । दैवात् = अदृष्टहेतोः । पृ०२५१॥ प्राप्तकालम् = समयानुसारम् । यते = उद्योग कुवें । एतना. ऽस्य धीरोदात्तता व्यज्यते । स्तन्यजीवम् = " तन्नाजी" इति नाम्ना प्रसिद्धम् महाराजानुमतः = महाराजानुशां प्राप्तः । तत्साहचर्येण = स्तन्यजावमाल्य- श्रीकाभ्यां सहैवेत्यर्थः । महनीयमहाभिः = प्रशस्तैः तेत्रोभिः । महितम् तेजस्विनम् । श्राजिशपत् = आशां दत्तवान् । साशीराशि = आशाराांशाभः मह यथा स्यात् तथा क्रियाविशेषणम् । अमोदिष्ट = प्रसन्नो बभूव । ह्राणः = लज्जितः । इतरान् = अन्यान् तत्रस्थान् भ्रसज्ञया = भृकुट्या इङ्गितेन निर्मक्षिकायतुम् = शून्यांकर्तुम् । पृ० २५२ ॥ व्यर्थः = निष्फलः । पाण्डित्याडम्बरः = चातुर्य नाटनम् । ज्योतिर्यन्त्रालयाः = मानमन्दिराधाः । व्यरचिपत = निरमायिषत रचिता इत्यर्थः । वशयितुम् = स्वायत्ती- कर्तुम् । नीतिमर्मज्ञाः = राजनीतिचालन चातुरीचतुराः । दुर्गरोधम् = दुर्गाणां प्रतिवन्धम् । विधित्सति = विधातुमिच्छति । विजिगीषते विजेतुमिच्छति । पृ०२५३ ॥ अपहृतदुर्गेषु = जितदुर्गेषु । अधिकारः = स्वशासनम् करप्रदता= करो राजदेयांशः तस्य दातृत्वम् । ऊरीकार्या = अङ्गीकार्या अर्थात् अवरङ्गजीवाधीनेन भाव्यम् । उपधिः = कपटम् । महाराष्ट्रधराधनी = महाराष्ट्रपृथ्वीश्वरः । विजिघृक्षायाम् – विग्रहं (युद्धम् ) कर्तुमिच्छायाम् । असम्मतिम् = सम्मत्यभावम् । सन्धित्सा. याम् = सन्धि कर्तुमिच्छायाम् । आकलय्य = निश्चित्य । परेद्यः : अपरस्मिन् दिवसे । रजन्याम् = रात्रौ । प्रतीहारः = द्वारपालः । पृ० २५४ ॥ चित्रेषु = पालेख्येषु कारुवरैः = चतुरशिल्पिभिः । तन्मूर्तीः : = तदाकृतीः = सादरम् = बहुमानपुरःसरम् । श्रालिङ्गय क्रोडीकृत्य । स्वोपविएविष्टरे = स्वाधिष्ठितासने एव । अमुना स्नेहेन = अनया प्रीत्या । सनाथितः = सभाजितः । व्यवाहारष्यम् = व्यवहारमकरिष्यम् ।
( १७२ ) " %3D समधेक्ष्यम् = सन्देहमकरिष्यम् । सेनेति--सेनाव्यूहस्य प्रचण्डे भयङ्करे दुर्गान्तस्थे शिबिरे = सेनाचक्रे । क्षत्रियवंशावतंसानाम् = राजन्यकुलभूषणानाम् लज्जितवान् = ब्रीडाङ्गतः। पृ० २५५ ॥ रक्षादिविषये = अनिष्टचिन्तनाऽभावविषये । प्रतिज्ञात- वानस्मि = प्रतिज्ञां कृतवानस्मि । तथा विदध्याम् = तथैव कुर्याम् । वज्रलिपि- रिव - अनिवार्या इत्यर्थः । महाराष्ट्रेति-महाराष्ट्रणां यत् महत् राष्ट्र राज्य तस्य प्रतिस्तस्मिन् 'अस्मत्ता विश्वासघातस्य लेशोऽपि न शङ्कनीयः इति सम्बन्धः । उदाराम् = उद्भटाम् । पञ्चमः कर्णोऽवधत्ते = शृणोति अर्थात् द्वावेवाऽवां तिष्ठावः नतु मध्ये कश्चित् तृतीयः तेन शङ्कास्पदं नास्त्येव राजपुत्रेति--प्रतापगानैः = प्रतापगीतिभिः । बाल्यम् = शैशवम् । व्यतियापितवान् = गमितवानस्मि । यैः = ज्ञत्रकुलच्छत्रैरेव भारतभूः भारताभिजन इत्यर्थः । राजन्वती मौराज्यवती। पृ० ५५६ ॥ पालम्वनम् = आश्रयः । विदीर्यते = द्वैधीभवति । तारुण्यम् = यौवनं महद्वलमित्यभिप्रायः सूर्यः तस्य । छुरिकालेखनीभिः = कृपाणिकाविलेखनैः । व्यत्यति = अतिक्रामति ग्रीष्मे = ज्येष्ठापाढमासि शोषितः = नीरसीकृतः महानदो येन सः भास्करः = तपनः । हिमे = शीतौ । हिमकणिकाभिः = हिमानीविन्दुभिः वस्तुतस्तु नीहारकणिकाभिरिति विवक्षितोऽर्थः । वार्धक्यसमयः = अस्तमनकाल इत्यर्थः । पारवश्यम् = पारतन्त्र्यम् । कल्पपरिवत्तनम् = युगव्यतिक्रम इत्यर्थः । निष्कृपेति-निष्कृपाः = निर्दया ये कृपाणप्रहाराः खड्गधाराः तैः । यवनेति-यवनानां म्लेच्छानां कूटकोटेः समुदायकोटेः कन्धरायाः ग्रीवायाः यत् कोष्ण = मन्दोणं रक्तं रुधिरं तस्य प्रवाहैः, तुन्दिलीकृताः = स्थूलोदरीकृता पृ० २५७ ।। भगवती चण्डिकाः = महाकाली। अश्राविषत = न्यशामयिषत इतिहासाः । यवनवंशावतंसध्वंसम् = अवरङ्गजीवविनाशम् । तत्साहचर्यम् म्लेच्छसाहाय्यम् अत्याक्षीत् = विजहा । एतेन-न त्वमेवासि सत्यप्रतिज्ञापालकः, अन्येऽपि मन्ति, त्वन्तु सत्याऽ- सत्यस्वरूपविवेकं सम्यङ् न वेत्सि काले सत्यमप्यसत्यायते असत्यञ्च सत्यायते इति गूढोऽभिसन्धिनीतिविदामिति महाराष्ट्रधराधीश्वराभिप्रायो व्यज्यते । प्रताप एव तपनः ( १७३ ) "भारतविद्रोहिणाम्" इति कथनं तत्पक्षपातित्वेन भवानपि भारतभूपुत्रः सन् स्वमात्रे एव द्रुह्यसि इति भावः । वोबोद्धि = अतिशयन जानासि । यदि स इति—सः = यशस्विसिंहः । अनाच्छादयन् = अनावृण्वन् । समयोत्स्यत-युद्धमकरिष्यत्। भारतस्य स्वातन्त्र्यं स्वाराज्यमेव पोतः नौका तस्य कर्णधारधुरं नाविकक्रियाभारम् , अवक्ष्यत्- अधारयिष्यत् । समराङ्गणे = युद्धभूमी प्राणान् श्रत्यक्ष्यत् = अहास्यत् । मार्तण्डमण्डलम् = सूर्यमण्डम् । अभेत्स्यत् = द्विधा अकरिष्यत् । सकु- सुमवृष्टि = कुसुमानां वृष्ट्या वर्षणेन सह यथा तथा । पृ० २५८ ॥ दिवम् = स्वलोकम् असनाथयिष्यत् = अप्राप्स्यत् तत् = तदा तद्यशोगीतिगानैः = तदीयकात्तिगायनैः। राजपुत्रदेशः समपूर- यिप्यत - पूर्णोऽभविष्यत् । निन्दन्ति = गर्हयन्ति । कुलीनाः = सत्कुलोत्पन्नाः । प्राणान् अगणयन्तः = असून अनेपेक्षमाणाः। कपटाचरणैः = छलव्यवहारैः । विघट्ट- यन्ति = क्षादयन्ति । एवमाकये जयसिंहोक्ति महाराष्टहृदये शौर्यच्छटा प्रास्रवदिवेति कविर्दर्शयति " किञ्चित् कुपित इव" इति । युक्तिभिः = नीतिव्यापारः । "धन्यं युष्माकं सत्यम्" इति विरुद्धलक्षण्या अधन्यमित्यर्थः। प्रकारान्तरेण जयसिंहो धिक्कृत एव । गौराङ्गेति रक्तः नाति = रुधिरैराप्लुता भवति । " दृश्यतां धर्मशास्र " मिति + पृ० २५६ ॥ यवनेति-यवनपदैः म्लेच्छपदैः दलितया आक्रान्तयेत्यर्थः । दन्दल्यमानेन = अत्यन्तं दलितेन । बम्भज्यमानेन = अत्यन्तं भग्नेन । चन्द्रचुम्बीति-चन्द्रचुम्बीनि अत्युच्चानि कलशानामग्राणि येषु तेषु माधवमन्दिरेषु एतन मन्दिराणामत्यौन्नत्यं व्यज्यते । अतिशयोक्तिश्च । पार्श्वतः = एकस्मिन् भागे । कलहम् = विरोधम् । श्रारप्स्यन्ते = अाहवद्यूतम् = युद्धक्रीडाम् । पङ्किला = सकर्दमा । मन्दिरमर्द- नम् = मन्दिराणां विसवः । तीर्थानां मन्थनम् = विलोडनन् । वेदच्छेदनम् = वेदविनाशः, धेनूनां गवां वंसनं कर्त्तनञ्च । संवर्यते = भविष्यति। असा- ध्येन = निरुपायेन दुर्दशा एव ज्वरः तेन उल्लोढः = कवलीकृतः । पृ० २६० ॥ युद्धक्षेत्रे = सङ्ग्रामभूमौ । धारातीर्थ = धारा असिधारा | एतद्विपये महाभारतादौ बहु लिखितम् । .
( १७४ ) - । एव तीर्थम् । करप्रदताग्लानिम् = बल्यपणताम्लानिम् । चिक्षालयिषन्तः क्षालयितुमिच्छन्तः । तृणाय मन्यमानाः । " सन्धी राजधर्मः = अत्र रोरि (८।३।१४) इति सूत्रवृत्तिः । दीर्घदर्शी = सूक्ष्मदशीत्यर्थः । यवनरुधिर- तृषितम् = म्लेच्छरक्तपिपासुमित्यर्थः । राजपुत्रेति-" तैः सह सङ्कामं कर्तु- मुचितं न मन्ये" इति फलितार्थः । एतेन-विदेशीयत्वात्सनातनधर्मध्वंसकत्वात् यवना उत्साद्याः, स्वदेशीय- त्वात्समानेष्टत्वाच्च स्वीया न हन्तव्या इति युक्तमतो वृद्धोऽपि वं म्लेच्छपाशं गतः न धर्म नापि च नीति जानामि इति शिववीराभिप्रायः । पृ० २६१ ॥ हस्तं क्षिपेयुः = म्लेच्छा इति शेषः निगदव्याख्यातमन्यत् । दुराचारेति-दुराचारा एव कीटाः तैः जर्जरितः = जीण: अन्तःसारः अन्तर्बलं यस्य स तादृशः प्रतापः संवृत्तः । महापातकैः = अत्यन्तं कृतैः क्रियमाणैश्च दुराचारैरित्यर्थः कृत्तमूलम् = छिन्नमूलम् । काशीस्थेति-काश्यादिस्थानेषु वर्तमानानि मज्जितस्थानानि तेषु घूकारैः = स्वजातिरवैः घूकाः=उल्लूकाः घोरं घोषम् = भयङ्करं शव्दम् । वरटाः = पक्षिविशेषाः सरटाः = कृकलासाः करटाः = काकाः । पृ०२६२॥ तैलपायकाः = जतुकाः । विष्ठाभिः = गूथैः । मलिन- यिष्यन्ति = कच्चरं करिष्यन्ति । एतत्सर्व जयसिंहस्य वचनं तस्य अदीर्घदर्शिता व्यनक्ति यवनपक्षपातमलिनमनोमान्द्यन्न । यावतीनाम् यत्परिमाणवतीनाम्। जाज्वल्यते-देदीप्यते। वैरवन्हिः -वैराग्निः । मण्डलशासकाः = नव्याबसूबेदारपदबोध्या: । गूढम् अन्तरत: । एषः = अवरङ्गजीवः । वैरायते = वैरं करोति । निजधर्मधुरीणानाम् = माहम्मदधर्मशासकमुख्यानाम् । आसन्नेति-आसन्नः समीवत्तीं विनिपातो विनाशो येषां तानि । अयुध्ये = युद्धमकरवम् । संशये = सन्देशि संशयमाप्नो- मीत्यर्थः । पृ० २६३ ॥ अटवीपु= अरण्यानीपु । अपभ्रष्ट्रः = मार्गच्युतः श्राहवः = सङग्रामः । विश्वसयेयम् = विश्वासं कुर्याम् । अत्र = पृ० २६४ ॥ मन्थरैः = सालसैः अङ्गः = हस्तपादाद्यवयवैः, चिन्ता- सन्ताने = चिन्ताप्रवाहे एकतानः एकमात्रं लग्नः । सुष्वाप = निदद्रौ । पृ० २६५॥ अन्येद्युः = अन्यस्मिन् दिवसे। कटकानां कोटिभिः= ( १७५ ) . ॥ । वहुभिः शिविरैरित्यर्थः । कोटिशब्दोऽत्र बहुत्वं लक्षयन् समुदायं व्यनक्ति । 'भव. त्याः तातचरण: = पिता' इयमुक्तिः रसनारीहृदये तत्पितुदोषनिधानार्था । अस्मत्कोपकृशानुषु = अस्मदीयक्रोधानलेषु । न शाम्यति = नैव शान्ता भवति । युयुत्सा=योडुमिच्छा। निगडबद्धः = शृङ्खलाभिः सितः । महा- प्रासादे = विशाले राजहम् । पृ० २६६ । सुन्दरस्य = कमनीयाकृतेः। यूनः तरुणस्य । श्रास्मा- कीनः = अस्मदीयैर्महाभटः । ईहते = चेष्टत । कलाकौशलानि = कारुककृत्यानि । न अवधत्ते नैव ध्यानविषयीकरोति । श्रालापमूर्च्छना = गीतिमूर्च्छना । पृ० २६७ ॥ सक्रन्देति-क्रन्देन सह यह विलपितं तत उद्धृत निर्गतैः वाष्पैः = अश्रुभिः । श्मशृं कूर्चञ्च स्वपयति = अत्र रोदनातिशयो व्यङ्गयः । प्रेमभाराः = प्रातिपुञ्जाः । विभराम्बभूविरे = दधिरे । तौ एव = रसनारीमायाजिमावेव । अवित्ताम् = श्राजानीताम् । उदीर्य = उत्त्का । निरचायि = निश्चितम् । सन्धातुम् = सन्धि कर्तुम् । शत्रुसम्बन्धिनः = शत्रूणां वान्धवान् । निगृह्य = कारीकृत्य । पशुमार मारयति = पशुवन्मारयतीत्यर्थः । महाराष्ट्रमेघवाहनः = महाराष्ट्रदेशस्य मेघवाहनः इन्द्रः । पृ० २६८ ॥ प्रेमपूरप्रवाहैः = प्रीतिपुओद्गारैः । शलभप्रणा- शम् = शलभमिव प्रणाशयितुम् । श्रानृण्यम्=ऋणाभावम् । सन्धास्यति सन्धि करिष्यते । प्रतीक्षते = प्रतिपालयति । पृ० २६६ ॥ अनुभविष्यमाणेन = अनुभवविषयतां प्रति नेष्यमाणेन शिवविरहेण शिवराजवियोगेन । ग्लाना = क्षीणहर्षा । मुहुर्मुहुः पुनः पुनः । कुपिता-क्रुद्धा। विकला = विह्नला। प्रस्थातुम् = (दिल्लीम्प्रति) यात्रां कर्तुम् । चलप्रकृतिम् चञ्चलस्वभावम् । अगम्भीति-न गम्भीरः विशा- लमूलः स्वभावो यस्याः तां तादृशीम् अवगत्य = निश्चित्य । अलं विषादैः= विपादाः न कर्त्तव्या इत्यर्थः । 'साच-श्रीजयसिंहाध्युषितशिबिराभिमुखं प्रतस्थे ' इत्यन्वयः । पृ० २७० ॥ मोदिष्यते = हृष्टो भविष्यति । किञ्चिन्मलिनमुख इव = जितदुर्गाणां प्रत्यावर्तनहेतोः करप्रदताभारोदहनकारणाच्च म्लानमुख इत्यर्थः ।
( १७६ ) - दक्षिणो बाहुः संवतस्त्र = दक्षिणभुजतुल्यो भवेरित्यर्थः । “स्फुरितवाहु" रिति महाराष्ट्रराजस्य परमं क्षात्रं तेजो व्यज्यते । “सेना आयोजयितुम् = युद्धार्थ सज्जीकर्तुम् । आदिदेश = आशप्तवान् । हस्तगतं स्वायत्तीकर्तुम् । महान्धतमसे = गाढेऽन्धकारे । पृ० २७१ ॥ रुद्रमण्डलस्य = तदाख्यदुर्गस्य । निभृतम् = गुप्तम् । गिरिः= पर्वतः । अविदितचरः = पूर्व विदितः ज्ञात इति । विदितचर."। भूतपूर्वे चरट् ( ५ । ३ । ५३ ) न विदितचर अविदितचरः। पूर्वमपरिचित इत्यर्थः । उत्प्लुत्य-उच्छालं दत्वा । शाखाः वृक्षादीनां शिफाः । पालम्व्य आश्रित्य । उपविश्य आसित्वा । निर्भरजलस्य प्रस्रवणपानीयस्य अन्तःप्रविश्य लताजालानि = वल्लीप्रतानानि अपसार्य = वारयित्वा । विद्धान् = कृत- वेधान् कण्टकान् = वृक्ष शूलान् , अपनीय = निष्काल्य । नेदयिस्याम् = अतिनिकटवर्तिन्याम् । अधित्यकायाम् = ऊर्ध्वमूमौ । “आयात" इत्यत्र शिववीर इति कर्तृपदं बोध्यम् । तावत् = तदेत्यर्थः अपश्यत् । दुर्गप्राचीरे = दुर्गकोटे । सदीपा काचमञ्जूषा अन्तर्वलितदीपा काचपेटिका “लालटेन" इति प्रसिद्धा । तरुच्छायासु = वृक्षच्छायासु । विलीनाः = विनष्टाः । सतर्कम् सालोचम् । अनीक्षमाणाः = अनालोकमानाः । मर्मरकारणम् = शुष्क- पत्रस्वनितहेतुम् । दौर्गिकाः=दुर्गरक्षायां नियुक्ता: यामिकाः । मुहूर्तानन्तरम् =घटिकाद्वयोत्तरम् । दुर्गप्राचीरस्य = दुर्गप्राकारस्य तेऽपि = दौगिका अपि । नेदिष्टान् = अतिसमीपवत्तिनः महाराष्ट्रयोधिनः । प्रत्यर्थिनः = शत्रून् । " इति इति कुव्याख्यानम् । शक्तिशराघातैः = छुरिकासायकातादैः ताडयितुम् = मारयितुम् । श्रारेभिरे = प्रचक्रमिरे । आत्माच्छादनः = स्वात्मनिलयनैः । स्वयं वोवुध्यमानाः = स्वयमेवातिशयेन विचारितवन्तः । पृ० २७२ ॥ प्रत्यक्षीभूय = सम्मुखं भूत्वा । शाखिशाखेति- शाखिशाखान्तरोदरेपु वृक्षशाखामध्ये सुप्तानां पक्षिणाम् = पतत्रिणाम् पटलान् = समूहान् उन्निद्रयन्तः = जागरयन्तः चन्द्रचन्द्रिकासाक्षिकम् = ज्योत्स्ना प्रकाशे एवेत्यर्थः । यवनेति- यवनानां म्लेच्छानां शरभल्लैः पाहताः प्राताडिताः चन्द्रति-चन्द्रस्य शशिनः मरीचीनां किरणानां चाकचक्यचयेन चमत्कृति- पुलेन चमत्कृता: प्रकाशिताः अधित्यकाम् = ऊर्ध्वभूमिम् । स्नपयन्तः= आर्द्रयन्तः । शिवेति = शिवस्य शिववीरस्य यो विजयः तस्य कुक्कुमेन इव चर्चयन्तः = लेपयन्त इति उत्प्रेक्षा । ससूर्यभेदं स्वर्ग प्रतिष्ठामानाः = " शत्रव ( १७७ ) । मूर्यमण्डलं भित्त्वा स्वलोकप्रति प्रस्थिताः मन्त इत्यर्थः । शिवं = महाराष्ट- देशाधीश्वरम् महादेवञ्च । प्रणमन्त इव पेतुः = धरायां मृताः शिश्यिरे इत्यर्थः । शिलामुखः वाणः । चञ्चुप्रवेशः = प्रवेशलेशोऽपीत्यर्थः । होराद्वयानन्तरम् = अहो- रात्रस्य चतुर्विशतितमोभागः होरा तवयानन्तरम् । अधिकवलान् = अधिकसैन्यकान् । केनाऽपि कौशलेन = कालोचित चातुर्येणत्यर्थः। घोरं युद्धमग. रयन् = भयङ्कर संग्राममपि उपेक्षमाणः । शिलाखण्डान् = पार्वतपाषाण शकलान् चित्वा = एकत्रीकृत्य भित्तिकति–भित्तिकायां कुडये मर्पितो न्यस्तः भल्लस्य समाश्रयो येन सः तथाविधः लाघवेन = शयेण उत्प्लुत्य = उच्छालं कृत्वा । उच्चरवदत् = उच्चरघोषयत् । सदन्तघर्षम् मरदनचर्वसम् । सन्दष्टदशनछदम् = सन्दष्टाः दन्तनिपीडितः दशनच्छदः मधरो यस्यां क्रियायां तद्यथा तथा । निस्त्रिंशान् = अमीन् कोशात = प्रावारात् श्राकर्षन्तः =निष्कालयन्तः । शक्तिम् = छुरिकाम् उत्तोलयन्तः: उन्नमयन्तः । शरासनान् = धपि । टंकुर्वन्तः= मजयन्त इत्यर्थः । परितः पृ० २७३ ।। समापतिताः= समाक्रान्ति कुर्वाणाः प्रविरे = वारित- वन्तो बभूवुः । " भूमिष्ठा " अपीति महाराष्ट्राणां महामाहसिकता व्यज्यते । अविध्यन् विद्धानकार्पः श्रात्मसहचरम्=तमेव नवयुवकम् । समरक्षन् अपीपलन् । गौरवगरिष्ठः गुरुतया गरीयान् उत्पत्य उत्प्नुत्य । कद कृत्य निष्फलीकृत्य सोत्फालम् = सकूर्दनम् प्राचीरम् = प्राकारम् श्रारोहन = क्षणेन = अल्पेनैव कोलन उदतूतुलन् = ऊध्वं निन्यिर । तेन सहैव = रघुवीरसिंहेन साकमेव । शार्दूल इव = जघन्यवन्यमण्डले जघन्या नीचा ये वन्याः श्रारण्याः (पशवः) तेषां मण्डल समुदाये शार्दूल इवेति उपमालङ्कारः । समापप्तत्=प्रक्राम्यत् । तुमुलम् सङ्कुलं भयानकमिति यावत् । दण्डद्वयेन दण्डः कालविशषः। स्थूलदीपान् इतिख्यातान् । सज्वल्य% ज्वालयित्वा दीपयित्वा । दुर्गाध्यक्षः = दुर्गरक्षाधिकारे नियुक्तः प्रधान पुरुषः । लौहशृङ्खलकीलैः = प्रायसशृङ्खलिकाकीलकः । दृढतरैः अत्यन्तं द्वैः । पृ० २७४ ॥ कपाटैः = कवाटः । अमुमुद्रत् = पिहितमकाषीत् । धक्ष्यामः भस्मीकरिष्यामः । क्रियासमाभहारण = पुनः पुनः शृण्वन् = भाकरर्णयन्नपि न निरगात् = नैप निरयासीत् । इन्धनैः = काष्ठः । प्रासादम् = महाहर्म्यम् । ज्वलयितुम् = भस्मोकर्तुम् । विहायसम् = " मशाल :::OLLEGi..AR ( १७८ ) आच्छेत्तुम गगनम् । लिहन्तीषु = आस्वादयन्तीपु । देदीप्यमानासु जाज्वल्यमानासु शिखासु = वह्निकीलासु । अवीरयोग्यम् = वीरानहम् । गवाक्षिकातः = खडकिकातः । उत्फ्लुत्य = कूदयित्वा । महाघवति-महा_णि बहुमूल्यानि यानि वस्तुजातानि वस्तुग्रामाः तैः पूरितम् = भरितम् । दहथ = भस्मीकुरुथ । यथेच्छम् = यथारुचि प्रहरत प्रहारं कुरुत । उत्सृजामि = उत्स्रक्ष्यामि । तदाकलय्य = तस्य तदुक्ति निश्चित्य । सुसज्जनिस्त्रिंशानाम् = उद्यतखड्गानाम् । दक्षान् वामांश्च मार्गान् = रणचालान् चरति = कुर्वति । सति सप्तमीयम् । यवनवीरे = ( तस्मिन्नेव ) रहोमत्तखाने । विद्यञ्चमत्कार इव= चपलाचमत्कृतिपात इव । पृ० २७५ ॥ सोत्फालम् = सकूदम् अापत्य अाक्रम्य सत्सरुम्- त्सरुः खङ्गमुष्टिः तत्सहितं तस्य = रहामत्तखानस्य मुष्टिम् जग्राह = आदेदे । एषकः = एप एव । यतते = प्रयत्नं करोति = श्रादातुम् स्वहस्तं = स्वाणिम् । चन्द्रहासम् = खड्गम् । उष्णीपिकापटेन शिरोधष्टनिकया । वाह्रोः = यो जयोः । स्कन्धे = असे च । समबन्धन निजगृहिरे । अरुणोदयः = प्रातःकालिकरतिमा स्फुटित इत्यर्थः । भासमाने = प्रतीयमाने । भूभागे = धरातल । परिपन्थिपदातीनाम् = शत्रुपतीनाम् । स्वाभिमुखम् = स्वसम्मुखम् । गौरोति-गौरसिंहस्य सेनायाः कोलाहलेन कलकलरवेण सुदूरम् । प्राकष्टाः = श्रावर्षिताः । प्रासाददाहस्य हर्म्य दाहस्य ज्वालामाला:=अधिषां राजीः अवलोक्य = दृष्ट्वा । कोपकषायिताः= क्रोधकलुषिता: । सुमुच्छेत्स्यन्ति = नाशयिष्यन्ति । प्रायस्तम् स्थगितम् । पृ० २७६ ॥ नोररीकरोति-नाङ्गीकरोति । उरः वक्षःस्थलम् । होरार्धमिव = घटिकाद्वयाधमिव समर दुरोदरेण यापयिप्यन्ति । कृपाणधाराभिः = असिधाराभिः = स्नपयिष्यति = शौचयिष्यति हनिष्यतीत्यर्थः । व्याजहार = ऊचे । पूर्णपारितोपिकभाक् = ओमित्युक्त्वा = । साहसिकान् = शार्यकर्मभटान् पत्तीन् = पदातीन् । उच्छ- लितकोपैः = उदीणक्रोधैः । अन्वतिष्ठत् = प्रारेभे । सपत्नापेक्षया शत्र्यपेक्षया द्विगुणितेषु = द्विरावृत्त्याऽपि अधिकेषु । विस्मितप्रायेषु : = अाहवद्यतेन = गमयिष्यन्ति स्वीकृत्य %3D ( १७६ ) . चकितमनःसु । प्रासासिरिष्टि-तोमरक्षेपतत्परेषु = तत्र प्रासा: = कुन्ताः । इति व्याहरन्ती एवं गर्जयन्ती । पृ० २७७ ॥ विजयदुर्गेति-विजयदुर्गस्य यो विजयः तस्य वैज- यन्तो = पताका: उड्डाय्य = उत्फाल्य । भेरीः = ढक्काः पाहत्य = ध्वनयित्वा जयनादैः = जय जयेति शब्दः गगनम् = अाकाशम् । व्यलोडयन् ममन्युः । जयधानध्वनितमकापुरित्यर्थः । तावदिति- तावात् महाराष्ट्रराजः ससाधुवादमखिलान् नित्यक्रियाभिः आत्मानं सुखयितुं विससर्ज इत्यन्वयः । अरुणपीतप्रकाशेन = अरुणः सः पातश्च अरुणपतिः सचाऽसौ प्रकाशः तेन, । सम्मान्य = श्रादरं दत्वा । नित्यक्रियामिः = स्नानशौचादिभिः । सुखयितुम् = प्रानन्दयितुम् । विससर्ज = प्रेषयामास । अवगमय = वाधय । प्रदर्शितयुद्धकौशलान् = प्रदर्शितं युद्ध कौशलं चातुरी यः तान् । भटान् = शूरान् । उत्साहयितुम् उत्कण्ठयितुम् । उपस्थाय = उपस्थितं कृत्वा । सनाथनीया= शोभनी- येत्यर्थः । समितिः = सभा । तस्मिन् = गोरसिंह । तथा प्रस्थिते महाराष्ट्राशामादय प्रचलित | विश्वस्तति-विश्वस्तान् = विश्वासार्हान् चिर- न्तनान् = प्राचीनान् स्वामिभक्तान् = स्वामिसेवकान् भटान् = वीरान् । प्रायोज्य = विनिवेश्य । उपस्कर्तुम् = सञ्जयितुम् । श्रादिश्य = प्राशप्य स्वास्थ्यम् = कृतकृत्यतासुखम् । श्राससाद भेजे | अथ-थाऽनुष्ठितवत्सु अखिलेषु महासभा समातिष्ठत" इति सम्बन्धः । विहितेति= विहिता सम्पादिता भोजनादि क्रिया येन स तस्मिन् , परतः = भोजनोत्तरम् निद्रामुद्रया = प्रमीलाऽवस्थया = प्रमीलाऽवस्थया इव, विद्रावितं = दूरीकृतं मान्धयं पाल्यस्य येन सः तस्मिन् एवम्भूते जयपुराधीश्वर सतीत्यर्थः । पश्चिमायां दिशि । अवनमति = अवतितीर्षति । मार्तण्डमण्डले सूर्यविम्बे, चण्डेति चण्डमरीचिपचयन = खरकिरणबजेन ईषत् किञ्चित् प्रतप्त: उष्णो यो वातः समीरः तस्य प्राघातेन स्पर्शेन यः प्रतापः = तपनं तेन शुष्यन्तः शोषङ्गताः फल-पत्र-शाखा- प्रशाखा येषां तेषु वृक्ष-क्षुप-व्रतती व्रजेषु । तत्र-वृक्षाः= दुमाः । तुपः = हस्वशाखिनः । व्रतत्यः = वल्ल्यः । तासां व्रजः समूहः । सम्पत्स्यमाने = भाविनि, सायङ्काले = प्रदोषे । प्रविततभूभागे विशाले पृथ्वीप्रदेशे । सुवर्णसूत्रेण- सुवर्णसूत्रप्रचयेन रचितानि यानि लता ( १८० ) .. स: तस्य तेज:पुञ्जस्य कुसुम-चित्राणि तैः विचित्रितस्य = करितस्य, विविधति-विविधैः नाना प्रकारः वः = रङ्गः वर्णनीयानि = चित्रितानि यानि स्तम्भशतानि = स्थूणा- शतानि तै: उच्छ्रितस्य = उन्नतस्य, पुष्कलेति-पुष्कलानां दृढानां दाम्नां रज्जूनां शतैः श्राकृष्टस्य वद्धस्य च एवम्भूतस्य-कौशेयोल्लोचस्य कृमिवसनवितानस्य अधस्तात् आस्तीर्णेषु = श्रास्तृतपु, कौशेयास्तरणेषु = पट्टास्तरणेषु तत्र हि-जयपुराधीश्वर उपविष्ट ' इति सम्बन्ध: । पृ० २७८ ॥ कनकसूत्रेणेति-कनकसूत्रैः = सुवर्णसूत्र: गुंफित ग्रथितं प्रान्तं यस्य तादृशं यदासनं तेन श्राच्छादितायाम् = प्रावृतायाम् । वितस्तिः= वितस्तिप्रमाण मुच्छ्रायो यस्याः साचाऽमा तृलिका = तस्याम् महापर्वहै = महति विशाले उपधाने लग्नं = धृतं पृष्ठ यस्य तद्वामतः = जयपुराधीश्वरवामवभाग महाराष्ट्राणां यद्राष्टं तस्य त्रिविष्टपेशः इन्द्रः समवर्तिष्ट = स्थिति भेजे इत्यर्थः । वितानस्य-उल्लोचस्य परितः = समन्तः वद्धाः पंक्तयो राजयो यै ते योद्धारः = भटाः सुसजाः प्रभाकरेति-प्रभाकरः = सूर्यः प्रभाप्रचयस्य = प्रपातेन = प्रसारण धृतानां सङ्गतानाम् , तत्कट्याम् = तेषां योद्धृणां कटि- भागे बद्धाः या महार जतस्य सुवर्णस्य रजतस्य = दुवर्णस्य तदादेश्च या पट्टिकाः तासाम् , स्कन्धेषु = अंसेपु उन्नमितानाम् ऊर्ध्वान्दोलितानां शक्तिमल्लानां छुरिकासीनाम् । कट्यां विलम्बितानि यानि कृपाणानि तेषां ये सावणाः सुवर्णरचिताः सरवः खड्गमुष्टयः तेषाम् । चाकचक्यं चमत्कृतिः अवलोचकानां द्रष्टणां लोचन = नेत्रम् अतीतडत्= चकितमकापुः । कलितमहाध्वजाः धृतमहापताकाः । अजूघुषन्- अरीरटन् । ततः जयशब्दघोपणानन्तरम् । स च जयपुराधीश्वरो जयसिंहः । उत्साहयाम्बभूव-उत्कण्ठयाम्दभूव । विहितसाहाय्याः कृतसाहाय्याः तान् गौरसिंहादीन् । प्रशशंस अस्तीत् । असिधेनुकायाः-छुरिकाया दानेन पर्यतोपयत् अप्रासन्नयत् । रघुवीरं निर्दिश्य = रघुवीरस्य निर्देश कृत्वेत्यर्थ: पृ० २७६ ॥ वीरवालः = वालोऽपि शूरः । प्रधानकारणम्- मुख्यो हेतुः । शरप्रपातम् = सायकासारम् । अगणयित्वा = अविचार्य । रिपुनिकरव्याप्त = शत्रुसङ्घपूर्णे । सोत्फालम् = सोच्छालम् । निगृहीत. वान् = वद्धवान् । पराजेष्ट = जितवान् । [:
( १८१ ) । दन्दह्यमानहृदयात् = जाज्वल्यमानमानसात् । महासिम् = महा- खड्गम् अयच्छत् = प्रादात् । समतूतुषत् = सन्तुष्टमकापात् । सोऽपि = रघुवीरसिंहोऽपि । लम्बयित्वा = दोलयित्वा । उपाविक्षत्=पासनं शिथिय । पाश्चपाहसिकतायोग्यः= अम्बरेशकणे = अमरदशा- धीशश्रवण । श्रालपत् = अचकथत् । सोऽपि = अम्बेरशाऽपि अन्वमू- मुदत् = अनुमोदनं कृतवान् । तोद्यमानः मानः = पाहन्यमानः । स्वामिपिण्डस्य = स्वामिनोऽनस्य । न स्वाधीनः = न स्वायत्तः । पृ० २८० ॥ ब्रीडा = लज्जा । नोचिता = नाह। । स्वच्छन्दम् स्वच्छानुनारमित्यर्थः । औदार्येण = उदारभावन विजयपुरविरोधिनाम् = विजयपुरेशशत्रणाम् साहाय्याय = सहायत करणाय । निस्त्रिंशम् = खट्गम् अाकलयितुम् = उत्तोलयितुम् । उत्सहते = उत्कण्ठते । निविवेदयि- पामि = निवेदयितुमिच्छामि । राजभक्ताः = राजसेवापराः । विद्रोहिणः वरिणः । भवत्कृपापात्रताम् = भवदीयदयास्पदताम् । वहन्तः = धारयन्तः । गूढम् = गुप्तम् । विद्राहम् = वरम् । सतर्कीकृताः = सचेतिताः जय्यम् = जेतुं शक्यम् । साऽनुसन्धानम् = सान्वीक्षणम् । शोधनीया- तादृशकएटकापसारण निर्मलीकरण या स्वसना । कोपति-कोपेन क्रोधेन अरुण कृत रतीकृते नयने नेत्रे येन सा एकलखायाम् एकस्यां पंक्ती उत्थाय स्थातुम् । श्राज्ञप्तवान् अाज्ञां ददे । पृ० २८१ ॥ विद्रोहाचरणम् विश्वासघातीकरणम् । निर्मक्षिक- सञ्चारा=निर्मक्षकषत् शून्यवत् सञ्चारो यस्याः सा । श्रवसन्नाः=अवसाद पीडां प्राप्ताः वीक्षितः: दृष्टः । कृतान्तेन -यमन पाशितः पाशवद्ध कृतः । जडीभूताः=निश्वष्टाः प्राणेति-प्राणदानस्य जीवनरक्षणस्य प्रतिशया वाग्दा- नेन । सनाथ्येय-रक्ष्येय । मिथ्याकलङ्कन-मृषादोषारोपेणेत्यर्थः । पृ० २८२ ॥ क्रूरेण-भयङ्करेण चक्षुपा=नेत्रेण दिधक्षन्-भरमी- कुर्वनिव । उल्वणम्-महाभौतिप्रदम्। फलम्=परिणामम् । निःशब्दः मौनी। पृ० २८३ ॥ मधुरा-प्रिया । गी:-वाक् । छली दम्भी विद्रोहीत्यर्थः। अनीहमानस्य-अकामयमानस्य प्राणरक्षायत्नःजीवनरक्षणप्रयासः तोषः प्रसन्नता । रोपः कोपः । व्यापादयतु हन्तु । वाचालः=विकत्थनः बहुभाषीत्यर्थः । नववयस्का नवतारुण्या । अपरा व्यक्तिः सावीत्यर्थः ।
( १८२ ) पृ० २८४ ॥ त्यक्ष्यामि हास्यामि । शुश्रूषे श्रोतुमिच्छामि । व्यर्थप्रलपितम् व्यर्थ रोदनम् शक्तिम्-छुटिकाम् । सज्जीकृतवान् उत्तोलितवान् । सान्त्वितः शमयितः । क्रोधेन अस्थिरः कोपेन स्थितिमल. भमानः । अवलुलोकयिषामि-द्रष्टुमिच्छामि । खिद्य दैन्यं भेजे वास्तविकविद्रोहिणम् यथार्थविद्रोहकर्तारम् । निश्चेतुम्=निर्णेतुम् यते यत्नं करिष्ये । विमतिः विरुद्धा मतिः । यच्छिबिरम्-मदीयसनानि- वेशम् । सादिनः अश्वारोहाः । आसन्नम् निकटवत्तिनम् । अवगत्य- निश्चित्य । समुत्तस्थुः उत्थानं कृतवन्तः, सभाविसों जात इत्यर्थः । अतिस्पष्टं व्याख्यातप्रायमनुपयुक्तञ्च न व्याख्यातम् । इति ( नूतन ) शिवराजविजयपताकायां नवमो निश्वासः ।
अथ दशमो निश्वासः । पृ० २८६ ॥ पर्यङ्कम् = पल्यङ्कम् प्रातरिति-विधेयकर्मणः = वेदविहितन्ध्यावन्दनादिनित्यकर्मणः सकाशात् निवृत्य = अवकाशं लब्ध्वा । निरणैर्षात् = निर्णयमकरोत् । कोपकषायितेन = क्रोधकलुषितेन । प्राक- लय्य = निश्चित्य । तस्य = क्रूरसिंहस्य निरचायि = निरणायि । धिङ् दुरदृष्टम् = मम दौर्भाग्यं चिक्... मुक्तकण्ठम् = गलमुत्स्फायेत्यर्थः क्रियाविशेणम् । रुदित्वा = विलप्य । न परावर्तते-नैव प्रत्यायाति । पृ० २८७ ॥ अन्यायप्रचारः = दुयायव्यवहारः। विद्रोहम् = विश्वासघातम् । महाकुलस्य = उच्चवंशस्य मानहानिखिन्नः = अपमान- दुःखित इत्यर्थः । व्याघ्रवदने = शार्दूलमुखे । वाहिनीप्रवाहे = नदीप्रवाहे | गरलम् = विषम् । तपोभिः = अनशनव्रतादिभिः। जर्जरयिष्यति जीणं करिष्यति । वाष्पधाराभिः = अनप्रवाहैः । गण्डौ = कपोलो । अस्त्र- पयन्- = असावयन् । रोदनाधिक्यं व्यज्यते । तस्य = रघुवीरस्य । वीरता- व्यवहार: शार्यकृत्यम् । गम्भीरम्=निगूढार्थम् भाषणम = वचः । औदा. र्यपूरितम् = उदारताभरितम् । तेजस्विनी = प्रतापशालिनी । प्राकृतिः मूत्तिः । कुलम् = सदंशम् । परिचाययन्ति = प्रकटयन्ति । भाषणभङ्गी- वाग्व्यापारप्रकार: । परिपाटीम् = तिम् । किमितिहासः= कः इतिहासो यस्य सः। पृ० २८८ ॥ श्रावक्ष्यति = धारयिष्यति । अलं शोकसमुद्र- मन्थनैः शोक एव समुद्रः तस्य मन्धनैः विलोडनः अलम् न किञ्चित्माध्यमस्तीति भावः । अवहेलितः = अवज्ञात: । पश्चात्तापैः = अविचारितकृत्यजनितैः शोकैः । धयामि जलयिष्यामि । पटान्तेन = वसनकोणेन । वाष्पम् = नेत्रजलम् । परिमृजन् = प्रोग्छन् । चिरतापव्यथाम् = बहुकालविरहजनित- पांडाम् पर्यवसाययिष्यामि = समापयिष्यामि । झन्झावाताघातात्- महावातवर्षात् । पोतपातम् = नौकाबडनम् । पृ० २८६ ॥ सांयात्रिकेति-सांयात्रिकाणां-पोतवणिजां क्रन्दन- श्रवणन विलापाकर्णनेन सातम्=उत्पन्नम् । रोमोत्कम्पम लामहर्षम् ।
( १८४ ) मन्दरगण्डशैल इव-मन्दराचल प्रत्यन्तपर्वतक इव । पारावारतलम् = समुद्राधोभागम् । अगात्=प्राप । पोतः समुद्रनौका। ऊर्मिराशिभिः= लहरीप्रचयः दोदुल्यमानः अत्यन्तं साव्यमानः । अरुणोदयसमये- प्रातःकाले । पयोधीति पयोधेः समुद्रस्य पयःक्षारेण क्षारण पयमेत्यर्थः । क्षरितप्रायाम्=प्रायःस्फुटिता त्वचम् चर्म । मर्दयन्ति-अभ्यङ्गयन्ति । उल्लाघौगदान्निगती स्वस्थाविति यावत् । हा-कष्टम् । वार्धक्ये वृद्धावस्था याम् । व्याजिहर्षवः-व्याहत्तु वक्तुमिच्छव इव । विवनुम् व्यानिहीऍम् । दत्तकर्णाः सावधानाः । मूढयोपितः मूस्त्रिय इव। नन्ति-व्यापादयन्ते । पृ० २६०॥ गूढपौरुषम् गुप्तं परामक्रम् । प्रमाणीकरोति- निश्चाययति मे हृदयम् । उक्तञ्च-कालिदासेन-"सतां हि सन्देहपदेषु वस्तुपु प्रमाणमन्तःकरणस्य वृत्तयः ' इति । नऊः जलतन्तुभिमकरादिभिः जटिलवेपेण-तपस्विवेषण आराधयति सेवत । अमार्गयाम-व्यचष्म । " कण्ठगतोमणिरिव न ज्ञातः' इत्यत्रोपमालङ्कारः । आलेपुः=अचकथन् वार्तामकाघुरित्यर्थः । जयपुरपुरन्दरः जयपुराधीशो जयसिंहः । प्रालिलिङ्ग-परिपस्वजे । नाज्ञासिषम्=न पर्यचैपम् । खेदमयाः=दुःखप्रचुरा: । पृ० २६१॥ असकृत्=पुनःपुनः सम्राट-चक्रवत्ती। सच्चिकीर्पति- सत्कर्तुमिच्छति । प्रत्ययलेशः-प्रत्ययस्य विश्वासस्य लेशो गन्धः गन्धमात्रमपि विश्वास इत्यर्थ: । निगृह्णीयात्-कारागारे कुर्यात् । पृ० २६२ ॥ प्रतीपम्=विरुद्धम् । संहितः कृतसन्धिः । निरर्थम्- निष्प्रयोजनम् अन्यायनेत्यर्थः । भ्रंशयन्ति भञ्जयन्ते। सौजन्यलेशः-सअनता- 'किं सम्भाव्यते'–नव सम्भाव्यते इति काकुः । 'युद्धे मत्तुमुपदति' इति महाराष्टेश्वरोक्ति : तस्य परं क्षात्रं तेजो व्यअयति । पृ० २६३ ॥ शोणितम् = रक्तम् । निग्रहम् = कारीकरणम् । प्रतियापयिप्यति = प्रत्यावर्त्तनां कारयिष्यति । भवदीयमंत्रणाश्रवणे = त्वदीयसम्मतिश्रवण । वधिरीभूय = निःश्रवणो भूत्वा पापम् = अनिष्टम् । निरवतयत् = समापयत् । मरीचिमालिनि = भगवति भास्करे । चप- लितति-चपलितः चञ्चुपुटः वोटिकोटिर्याभिः तासु । प्राचीम् = पूर्वा दिशम् । अवलोचमानासु = पश्यन्तापु चकोरीषु = चेकोरप्रियासु । उदगात् = उदितोऽभूत् । गन्धः ।
( १८५ ) पृ० २६४ ॥ निशानाथः = चन्द्रः । समयोऽयं शरदन्तस्य - शरदृतोरवमानस्य । अत्र प्राचीनटिप्पणे-" शरदि जयसिंह पायातः । अयं हिम ममयः. दिल्लीङ्गच्छतः शिवराजस्य मागें शिशिरः । वसन्तारम्भ शिवो दिल्ली- म्प्राप्तः । कारागारे च ग्रीष्ममनुवभूवेति सर्वमवदातम् ' इति लिखितम् । हिमः = हेमन्तः । श्रासन्दीपु = वेत्रासनिकासु । अलीकः = मिथ्याभूतः ! सहचरीम् = सखोम् । प्रामाणिकैः = विश्वासार्हः प्राप्तरिति यावत् । आत्मनोग्लपनम् = मनोम्लानीकरणम् । किञ्चिदिति-किञ्चित् ईषत् लग्नो जातो निमपो यस्याः सा एवम्भूता। विह्वलीभवत् = व्याकुलतां गतम् । तमेव = रघुवीरमेव । वरयिष्यामि = विवाहयिष्यामि । पृ० २६५ मनोरथाः = सङ्कल्पाः अञ्जनीसूतुः = हनूमान् विद्रु- ह्यन्ति = विद्रोहमाचरन्ति । अभ्यर्हिततरे प्रतिपूजिते अत्युच्चे इत्यर्थः । नियोक्ष्यति = स्थापयिष्यति । प्राणत्यागम् = मृत्युम् । व्यस्रदयम् = अहास्यम् । कलङ्कः = दूपणम् । सुपात् = हस्वशखिनः = कुटात् = वृक्षात् । कदली = रम्भा। वीजयन्ती = व्यजनयन्ती। विकचानाम् = विकसि- तानाम् । भ्रमदिति-भ्रमद्भिः भ्रमरैः षट्पदैः झकृतानां गुजारवितानाम् । कैरवाणाम् = रात्रिविकाशिककमलानाम् । सोपानैः = रोहणीभिः । पृ० २६६ शुश्राव = कर्णयामास ' कस्यापि हनूमत्स्तोत्रपाठम् शुश्राव' इति सम्बन्धः । निःश्रेणीति-निःश्रेणी अधिरोहणो तत्प्रान्तस्था या शिला- वेदिका तत्स्थस्य 'झटिति उन्मुखीभूय पश्यन्ती ब्रह्मचार्यस्ति इति न अवालोक- पत्' इत्यन्वयः । कीदृशो ब्रह्मचारी-अंसद्वयति-अंसद्धये स्कन्धद्वये लम्ब- मानः दोलन् धूसरितः कपायितो जटाजूटः जटाबन्धो यस्य सः । दीपेति- दीपशिखादीप्तिवत् दीपज्वालाद्युतिवत् घोतमानं = भासमानं विशालं विपुलं कुकुमतिलकं यस्य सः। भगवञ्चरणायोः चिहेन अङ्कितं ललाटं गोधिर्यस्य सः । पीतेति-पीता चासौ मृत्तिका पीतमत्तका तस्याः चूर्णेन छुरिताः चचिंताः बदन-वक्षो-बाहुदण्डा यस्य सः । तुलसीति-तुलसीमालाऽक्षमालाभ्यां विलम्वितः गलः कण्ठो यस्य सः । रामेति रामनाम्ना अङ्कितेन मुद्रितेन वसनेन रत्रेण वेष्टितः मूर्श शिरो येन सः । पीतेति-पीतवसनं पीतवलं परिधान वेषो यस्य सः। मृगचर्मासनस्थः = हरिणचर्मासने स्थितः । समीपस्थितं ( १८६ ) तन, तुम्बीपात्रम् अलाबुपात्रं यस्य सः । तेजःपुञ्जम् ब्रह्मचर्यवर्चः समूहम् उद्धम- निव= उद्गिरन्निव अल्पवयाः= तरुण: नेदीयांसम् = अतिनिकटम् प्रदेशम् = स्थानम् प्रासाद्यः = प्राप्य । गम्भीरम् = गाढम् बद्धकर- मम्पुटा = बद्धाञ्जलिः । निविवेदयिषति = निवेदयितुमिच्छति । दीनदीना अत्यन्तमनाथा । 'अबला' इति पदेन दयापात्रतातिशयो व्यज्यते । अवहे- लितः = न्यकृतः । पृ० २६७ । सतु= म एव क्षत्रिययुवा । अपराधी= दोषी अवहेलनायोग्य इत्यर्थः । कुलीनम् = सदंश्यम् प्रत्यक्-उदियात = पश्चिमतो भूत्वा उदितो भवेत् । प्रफुल्लति-प्रफुल्लानां विकभितानां कमलानां मण्डलेन = समूहेन मण्डितम् अर्थात् गगने पुष्पाणि समवेतानिभवेयुः । गुप्तम् = रहः प्रभुम् = स्वामिनं महाराष्ट्रेशं व्यरुणत् = अविरो- धयत् । मात्सर्यपूरितेन = मत्सरस्य भावो भात्सय...... ....तेन पूरि- ईर्ष्यापरवशेन = असूयापरतन्त्रेण पिशुनेन दुर्जनेन निर्वन्धः- भाग्रहः चिकीत्यर्थः । पौरुषेति-पौरुषस्य = विक्रमस्य प्रचयेन = समूहेन यत् सम्पादितं साधितं तेन यशसा= कीर्त्या । धरातलम् = पृथिवीमण्डलम् । धवलीकृत्य = शुभ्रयित्वा । कलानिधिः= चन्द्रमाः । पृ० २६८ । परिजिहासति = परिहातुमिच्छति मुमूर्षतीत्यर्थः । हतभाग्या = दुर्भग। निष्कपटप्रणयिनी= शुद्धप्रातिमती । कृतकार्यः = सिद्धफलः । अनुरोत्स्यामि = अनुरोधं करिष्यामि = तथाऽग्रहं करिष्यामि यथासौ त्वाम्प्रति श्रात्मानं दर्शयितुं यतेत । समाप्नोति - समाप्तो भवति । पालापः = तयोयोतिकिरणम् । सोपानोपान्तस्थेति- मोपानस्य अधिरोहण्या उपान्तस्थः समीपवत्तों यो वटकुटः = न्यग्रोधवृक्षः तस्य कुटीरात् अश्रावि = तास्यामाकणिं । रघुवीराभिमानिनी = रघुवीरासक्ता उदीरितः = उच्चारितः क्रूरः = कठोरः शब्दः 'उदीरितः क्रूरः शम्दः भश्रावि' इति सम्बन्धः । कुलेति-कुलस्य मर्यादा परपुरुषाऽस्पर्शनरीतिः अव्यभिचारितधर्मरक्षत्यर्थ: तस्याः भङ्गेन नाशेन हेतुना भीरुः भीता । व्याह- रन्ती = कथयन्ती। श्राश्लिपत् = अलिलिङ्ग । त्रासमावसेन रक्षार्थमालिङ्गनं न दोषाघहम् । कृष्णवसनम् = नीलनिचोलम् । मुण्डितश्मथूकूर्चम् = दादिकामूच्छितविवर्जितम् । करकलितच्छुरिकम् = करधृतकृपाणिकम् । पृ० २६६ । वद्धपरिकरः = वद्धकटिः । समाकुञ्चिता वेणीकृता १८७ ) ८. यन सः। योद्धं सजः = युद्धकर्तुं सन्नद्धः । स्वामिद्वितीयाम् = स्वामी द्वितीया यस्याः, स्वामिनो द्वितीया - सहधर्मिणी तामिति वा । द्वितीया महामणी' इति ( अमरः )। कोपेति-कोपेन स्फुरितः स्फरस्फरायितः अधरो यस्य सः । कुलटाम् = व्यभिचारिणीम् । 'कुमारीम' इति पदेन पुरुषसंस. गांभावो बोधितः । वलात्कारम् = साहसिक कम। रघुवीरनिर्वासने रघुवीरनिकालने पिशुन: । पृ० ३००। कुलकन्येति-कुलकन्यायाः बलात्कारण यत् पातकं पाप्मा तेन पतयालुः पतनशीलः । रघुवीरप्रत्यर्थिनः = रघुवीरशत्रो: । विकोश- छुरिकाहस्ती = नग्नकृपाणपाण। । मार्गान् योद्धृपादक्रमणानि जिघांसया हन्तुमिच्छया । समवर्तिघाताम् = अभूताम् । खलतालतायाः दुष्टता. वल्ल्याः । ऊर्द्धश्वास-प्रश्वासाधीनः = उमन्नित्यर्थः । समुत्तम्भितेति ममुत्तम्भिते = सविकाशमुघूर्णिते नयने यस्य सः । स्खलदिति-स्खलतः च्यवतः रुधिरस्य धारया स्लपितं सावितं सोपानं येन सः । प्राणान् अत्याक्षीत् = असून विजहौ । करभम्=करदर्भािगम् । कूर्परम्-कफोरिणम् । रोमहर्षणीम्- रोमाञ्चजनिकम् घटनाम्=तयोयुद्धरूपां क्रियाम् । असाधारणबन्धोः निष्का- रणवान्धवस्य । जीवनदीक्षागुरोः = रक्षकस्येत्यर्थः । चिन्तेति-चिन्ताचकण चूर्णितं मथितं चित्तं यस्याः सा । स्वावस्थानम् = स्वनिलयम् । अधुना--महा- राष्ट्रराजस्य दिल्लीगमनवृत्तान्तमुत्थापयति—'महाराष्ट्राजस्तु' इति । भटवेषेण = प्राहरिकयोधृवषेण । द्रुमेति-द्रुमाणां वृक्षाणां निच- यस्य संघस्य छायातः द्रुतम् = शीघ्रम् । महात्मानमिव = साधुमिव । रेरिवति-रेणुना = धूल्या रूषितानि रतानि सर्वाणि अङ्गानि यस्य येन वा, रामनाम्ना भङ्कितं मुद्रित उत्तरीयं यस्य सः । यवनैःसहत्यर्थः । प्रात्मानम् = स्वसम्वघ्नन्तः = सम्वन्धं कुर्वन्तः । अर्धयवना एव अर्धम्लेच्छा एव । पृ० ३०२ । धन्यता = उत्तमता जघन्यता = नाचता । सकल- भारताभिजनमान्यम् = सकलभारतदेशतिलकम् । मेदःपाटपरिवृढम् = मेवाडदेशाधीश्वरम् । अचिक्लिशत् = अपीडयत् । तस्यैव = मानसिंहस्यव श्रध्वनि = मागें एषः = जयसिंहः अध्वन्यः = पथिकः तन्मार्गानुग इत्यर्थः दुण्ढारेति-दुण्डारवन्याः या अवनी पृथिवी तस्या अध्यक्षः । अस्य = जयसिंहस्य । मायामयम्-कपटस्वरूपम् । मन्त्रणम् सम्मतिम् उरीकरोतु स्वीकरोतु।
( १८८ ) निर्जरसाम् = देवानां । जर्जरः = जरया जाणं इति सावहेलमुक्तिः । राजा भवतु = अर्थात् युद्ध म्रियताम् । स्वगर्जनेति-स्वगर्जन तर्जन सिंहनाद एव ज्वलनो वह्निः तेन एतान् वान् = धिकरण यान् । भारतद्रहः = भार- तद्रोहिणः :। घनच्छायेति-धना निबिडा छाया येषाम् एवम्भूता ये पलाशिनो वृक्षाः तेषां पटले = समूहे अलीयत = लोनो बभूव । सचिन्तः = चिन्ता. तुरः। तादृक्षान् = स्वामिप्रोक्तानुरूपान् । पञ्चशतीम् = पञ्चानां शतानां समाहारः पञ्चशतो ताम् । अनिच्छन् = अकामयमानोऽपि। दिल्ली प्रतस्थे = दिल्ली प्रति प्रस्थानमकरोत् । पृ० ३०३। विमनायमानः = दिल्लीम्प्रति यात्राकरणेन यवनानां विश्वासानहताञ्च चिन्तयन् दुर्मनायमानः । ग्लायति = म्लायति असनीया = पराजेतव्या । हरिद्रेति-हरिद्राद्रवेण स्नापितौ क्षालितो कपोलौ यस्य सः इव, निःशोणितवदनः = नीरक्तमुखः । विस्मृतः तुरङ्गः अश्वो येन सः । पारि- प्लवकुरङ्ग इव = त्रस्त हरिण इव। कुरङ्गः = कुत्सितो रङ्गो वणों यस्य सः पर्यन्वेपितः गवेपितः सुरङ्गः बिलप्रदेशः पलायनमागों येन सः । सर्वपथ्विति- सवेपथूनि = कम्पमानानि दुरङ्गानि म्लानानि अङ्गानि यस्य सः। संवयंति- भविष्यति। समासादितेति-समासादितः प्राप्तः भयानकः नवो रङ्गो येन सः एवम्भूतः अवरङ्गः = अवरङ्गजीव इत्यर्थः । अत्रानुपासः । येन-भवानीनामक खड्नेन- भवानीनाम्ना असिना, भवेति--भवे संसारे या अनीकिनी - अर्थात् शत्रुसेना तस्या यो विजयलाभः तद्वता भवता आपदः = विपत्ती: उत्तीर्णाः । 'न विश्वसिहि दिल्लीकलङ्कम् = दिल्लीकल के विश्वास मा कापीरित्यर्थः । स एव- पूर्वश्रुतः स्वामी दृष्टः' इति सम्बन्धः । काञ्चनेति–काचनचूणप्रचयवत् = सुवणक्षोदवातवत् रुचिरया शोभावत्या पीतया मृत्स्नया मर्दितानि सर्वाणि अङ्गानि यस्य सः । कुङ्कुमतिलकः = केसरतिलकः । तुलसीमालया लसत् युतिमत् विशालं विपुलं वक्षःस्थलं यस्य सः । त्रिदण्डी = त्रिदण्डिसंन्यासिवेशः । पृ० ३०४ । योत्स्यामहे = संग्रामं करिष्यामहे । त्यक्ष्यथ = हास्यथ । आकुलयिष्य = सहीण करिष्यथ स्वर्ग प्राप्स्यथेत्यर्थः। विजेष्यध्वे विजयं लप्स्यध्वे । 'अवरङ्गजीवस्य गृहावग्रहणी-धर्षणेन अलम्' इति सम्बन्धः कथम्भूतस्य अवरङ्ग जीवस्य-कुक्कुटानां चरणायुधानां मेदोभिः मेदस्वि चिकणं ( १८६ ) यत् तुन्दं तेन तुन्दिलस्य महोदर स्य, तथा-वारुण्या= सुरया व्याघृणिते व्याच- लिते नयने यस्य तस्य । गृहावग्रहण्याः = देहल्याः घर्षणेन चक्रमरान अलम् = न किञ्चित्साध्यमस्तीत्यर्थः । करप्रदः = तदधीनः । पातकेति- पातकानां पापानां पुअन समूहेन पतयालुम् = पतनशीलम् । करेति-करे हस्त कलितः उत्तमितः भवानीकरवालो येन तादृशः सन्नपि-जालमस्य- करस्य । पाटच्चराणाम् =लुएटकानाम् । पृ० ३०५ । नीरवाः= तूष्णीकाः । मासैः = पललैः मांसलीकि येत = स्थूली क्रियेत । भारतवसुमती - भारतभूमिः। विरोधिनाम् = धर्मद्रुहां पक्षम् - श्राश्रयम् स्वबन्धून् = जिघांसति = हन्तुमिच्छति । शाल- जाले = निलिल्ये = अच्छौप्सीत् । गगनगिरा = आकाशवाचा । घोप्यन्ते = कीर्त्यन्ते । श्रावृतवन्तः स्वायत्तीकृतवन्तः । भवानी दुर्गा । पृ० ३०६ । उत्साहयते = उत्कएठयते । यवनरमणीनाम् = म्लेच्छकान्तानाम् । गर्भाः = भ्रूणानि गगनविहारी = आकाशचारी विहङ्गराजः= गरुडः नागनाथः=नागराजः अनन्तः-शेपः घटे = कुम्भे मुद्येत = पात्येत। तस्य = जयसिंहस्य उष्णीषम् = शिरोवेष्टनम् । लौहशिरस्त्रम् = पायसं शिरस्त्राणम् । सकवचम्-अङ्गम् = महोपवेशनम्-....... ......दन्तावलम्-गजम् । वसुधाम् = भूमिम् विदार्य = पाटयित्वा । कमठपृष्ठे = कूर्मत्रिके रेखां-लेखाम् विधास्यसि = करिष्यसि । अतिश- योतिरलङ्कारः। अवरङ्गजीवापेक्षया शिवबलाधिक्यं व्ययम् । तेन च व्यतिरेकः। अरुणेन = क्रोधरक्तेन अपाङ्गेन = कटाक्षण द्रक्ष्यसि । मूर्च्छयिष्यसि = विचेतयिष्यसि । पृ० ३०७ ॥ विद्रोहस्य = विरोधस्य 'दिल्लीत आपदोऽप्युल्लध्य हनूमानिव लङ्कातः कुशलेन निवतिष्यते' इत्यत्रोपमा। दैवः = ज्योति- विद्भिः। दक्षकरेति-दक्षकर = वामेतरे पाणौ धृतः विकोशः = नग्नः खड्गः तलवारो येन सः। वामे = दक्षिणतरे चर्म। तम् = शिवम् । श्राच्छि- न्दति = आक्रभ्य वर्तते। श्रोतप्रोतम् = विद्धानुविद्धम् । व्याजद्वेअवाचि। खोपकार्याः = स्वस्वपटभवनानि । विविशे = विष्टम् । महामहिमति = महामहिम्ना बलवता हिमेन पाच्छन्नस्य आक्रान्तस्य ( १६० ) प्रातपस्य शिशिरस्य ऋतोरित्यर्थः । एतेन ऋतुना दिनानां परिणाहः = दैय॑म् , तमीनाम् = रात्रीणाम् । तनुता= अल्पता, पयोजानाम् = पद्मानाम् प्रसन्नता = मनोहरता, सलिलानाम् = पानीयानां सुखावगाह्यता = सुखं स्नानयोग्यता लुण्टिता= अपहृता ॥ दक्षिणस्याम् = दिशि निर्वासितः प्रस्थापितः । गगनतलम् = आकाशमण्डलम् प्रायिकानां प्रालयानां हिमसंह- तानां पातैः धूमधूमरितमिव धूमाक्रान्तमिव विहितम् = सम्पादितम् । साम्प्र. तम् = अधुना शिशिरत्तौ । तैलेति-तैलं = तिलादिनहः। तापः = अग्नेर्वा । तूलिका = तूलवतीरल्लकादिः तरुणी = युवतिः, ताम्बूलम् = नागवल्ली एतत्प्रभृतिषु । कृतादरः = प्रीतिमान् । जगत्प्राणः= ममीरणः। प्राणिनः जन्तून् जडीकुर्वन् = शीतलयन् जवेन = वेगेन वहति= सरति । पृ० ३०८ ॥ आखण्डलेति-पाखण्डलः = इन्द्रः तस्य दिक् प्राची तस्याः कुण्डलतामात्रम् उपयुषः = प्राप्तवतः, शुष्का = निर्बला तुण्डस्य मुखस्य छविः कान्तिर्यस्य तस्य मार्तण्डमण्डलस्य = सूर्यमण्डलस्य अचएडा- नाम् = अखराणाम् मरीचीनाम् कोमलम् = मृदु उपतापम् = औष्ण्यम् सिषेवयिषूणाम् = सेवयितुमिच्छूनाम् , शाद्वलन = हरितेन पथा = मार्गेण, प्रयातानां = गतानाम् वन्यजन्तूनाम् = पारण्य जीवानां सिंहादी- नाम् , पादक्षेपेण = चंक्रमणन विहताः = विनाशिताः । नैशीथश्चासौ मिहि. काप्रचयः अवश्यायवृन्दं तस्य भङ्गाः = अवस्थितिविशेषा एव, आखेटस्य भृग- यायाः क्रीडाविनोदः तस्य कौतुकिनाम् = कुतूहलवताम् पन्थानम् = मार्गम् उपदिशन्ति = आदेशयन्ति । 'नशीथमिहिकाभङ्गाः उपदिशन्ति' इति क्रियाकारकसम्बन्ध: सुन्दरीति-सुन्दरी = कान्ताः तस्याः संसर्गेण सहवासेन रहितं = शून्यमपि इदम् = शिवयात्राचरम् वीरमण्डलम् = शूरसमूहः, प्रायिकः सीत्कारो यत्र तत् , व्रणितोऽधरो यस्य तत् , सरोमाश्वम् = उत्कण्ठितरोम । सवे- पथु = सकम्पञ्चास्ति । सवेगेति-वेगेन सह वर्तमानाः ये घोटकाः अश्वाः तेषां-धावनेन न लक्षितः = नैव प्रतीतः हिमपातवातघातः = हिमस्प- शसञ्चारानुविद्धः वातस्पर्शः। निशीथिन्याम्-रात्रौ । वरूथिनी = सेना मन्थरिता= स्थगिता। तदेवं स्थिरप्रतिशास्ते- कतिपयरेवाहोभि वसन्तारम्भे दिल्लीनिकटं प्रापुः' ( १९१ ) 're इति सम्बन्धः । कथम्भूतास्त-थिषु = म गेंपु प्रायः क्षेत्राणि = कदारान् निरीक्षमाणाः = मालाकमानाः । कीदृशानि क्षेत्राणि-गोधूमेति-तत्र गोधूमः = सुमनः । यवा: = प्रसिद्धाः । श्राढकी = तुवरिका = पुनः-परिपक्कैः परिणतर्धान्यैः कपिशानि......... ..पुनः~-निविडैः = घनरिक्षुभिः पाण्डे दुर्गमाणि दुर्ल ध्यानि, पुनः-छिद्यमानानि कृत्यमानानि मुद्गमाषवज्राणि येषु तानि तत्र-मुद्गः = मकुष्टकः । तत्क्षणति-तत्क्षणे तस्मिन्नेव क्षणे श्च्योतितः चारि- तश्वासाविक्षुरसः तं रसयन्तः आस्वादयन्तः पिवन्त इति यावत् । नवीनान् = नूतनान् सद्यस्कानित्यर्थः सतीनान् = वर्तुलान् ‘मटर' इति प्रसिद्धान्। स्वाद. मानाः = कवलयन्तः । कृत्तति-कृत्तानां कलमानां...............पुष्कलप- टलेषु महापूलेषु वृषभावलीचालनव्याजेन = वलीवदंभ्रामणोपधिना । धान्य लवनकार्यम् = ब्राह्याद्यन्नकण्डनकृयम् सम्पादयताम् = कुर्वताम् , तथा खट्टाः शय्याः परित्यज्य सकौतुकम् = साश्चर्यम् महाराष्ट्रवीरमण्डलम् = अवलोकयताम्-पश्यताम् खटखवटवासिनाम् निरीक्षण कौतुकम् = दर्शनकुतुहलम् । श्रावहन्तः = धारयन्तः, सूच्यप्रैः- सूचीनां पुरोभागः अहिफेनफलानि = खाखस फलानि निर्यासार्थम् = तदीयनिषार्थम्। घर्षयन्तीनाम् = कण्डयन्तीनाम् । कलमान् शालिधान्यानि कृत्तन्तीनाम् = छिन्दन्तीनाम् , आरण्यकेति-अरण्ये भवा प्रारण्यका ये गोमयाः गोः पुरीषभूताः ‘गोवर' पदवाच्याः तेषां राशीन् = संघान् चिन्वतीनाम् = राशीकुर्वतीनाम् ग्राम्यचेटीनाम् = ग्रामीणदासानाम् । शिवराजयशोमयानि गीतानि शृण्वन्तः = कर्णैः पिबन्तः । अङ्गर्तुरसेति अपदेन षट् शिक्षादीनि घडेवाङ्गानि भवन्ति, 'ऋतु' पदेनाऽपि षटसंख्या, मृतवोऽपि षट् , रसा अपि मधुराधाः षट् , इन्दुः चन्द्रः, अनेन पदेन एकसंख्या- ग्रहः। एवम् –'अकानां वामतो गतिः' इति नियमेन ( १६६६ ) इत्येवरूपो विक्रमान्दः फलितः, तस्य वर्षस्य आरम्भे दिल्लीनिकटं प्रापुरिति । पृ० ३०६ ॥ गिरिग्रामसमीपे= गुडगांव ' इति प्रसिद्ध । सादिनः = अश्वारोहाः। महाराष्ट्रेति-महाराष्ट्राधीशस्य शिववीरस्य समा- गमसंवादः = प्राप्तिसूचना तस्य कथनाय । एकाकी = एकल एव । एकादाक- निच्चासहाये ( ५॥३१५२ ) इति स्त्रेण एकशब्दात् स्वाथै आकनिन् महाराष्ट्रमेदनीयः = ' महाराष्ट्रमदनीशः महाराष्ट्रमदनीशः ' इति पाठं सम्पनं प्रपये । प्रालयस्वाते = हिमतहतिमाविते पाषाणखएडे = अश्मशिलायाम् ( १६२ ) श्यामश्यामैः = अतिनीलैः, तरङ्गपटलैः = वाचिवृन्दैः । गगनेति- गगनमेव महासागरः तस्य फेनपटलमिव डिण्डीरपुअमिव आचरन्तम् तारका- पटलम् = नक्षत्रमण्डलम् दीपेति-दीपानां प्रचयैः समूहः सूचितं प्रकटित प्रासादानां हाणां मण्डलं पटलं यस्याः सा ताम् यवनराजधानीम् = अवरङ्ग जीवराजधानीम् । निमालयन् = आलोकमानः मुहूर्तम् = घटिका- दयम् निभृतम् = तूष्णामेव अवतस्थे = स्थितोऽभूत् । वास्तव्याः = तद्देशवासिभिः = होरातादिदेशवासिभिरेव भुज्यते = अधिष्ठीयते । सना- तनधर्मस्य तिरस्कारः = वैदिकधर्मस्योपमर्दः । भव्यम् = कल्याणम् उदारगम्भीरा = उदारा गम्भीरा च । विजिज्ञासमानैः = विचिकित्स- मानैः । सावधानतया = सचेतनतया । पृ० ३१० ॥ स्वामिमुखम् = शिववीराभिमुखम् मधुराधीशस्य श्रीकृष्णस्य प्रसादकुसुमम् = प्रसादपुष्पम् । अलैकिकाभ्यासपरायणा:= लोकोत्तरसिद्धिसामर्थ्यशालिनः अनुग्रहः : = कृपा । सम्राजा-यवनराजेन सह । सतः = सावधानैः । साक्षात्कारः = परिचयः मूलाकूतिरित्यर्थः । बहु न स्थेयम् = चिरं न वसनीयम् । निःशस्त्रण = शस्त्रशून्येन तदीयः= यावनो राजकीयः । अकारणम् निहेतुकम् । स्निह्यति = प्रीणाति । पृ० ३११ ॥ अमाम् = पर्यप्रोञ्छताम् । पर्कटीवृक्षस्य भिन्नेति-भिन्नाअनवत् = स्फुटिताअनवत् श्यामला = कृष्णा या छाया ततः । कष्टम् = दुःखम् । सोद्वा = मर्पयित्वा । अपेक्षस्व = पालय। नीलेति- नीलवसनपरिधानस्य = नीलवस्त्रपरिच्छदस्य विरहितपादभूपणा = भूपणशून्यपादा । अन्धतमसवशात् = गाढा- न्धकारकाणात् अस्पटम् = अप्रकटं दृष्टं रूपं यस्याः सा । यवनसुन्दरी यवनयुवतिः । सपूर्वेति-पूर्वकायनमनेन सह यथा स्यात् तथा प्राणम्य = प्रहाभूय । पृ० ३१२ ॥ कृतेति-कृतः जातः हिमकणानां पातो येन, कालिन्दी कूलेन = यमुनातटेन आघातो यस्य तादृशं वातम् = शीतलतरं पवनमित्यर्थः सहसे = मर्पयसे । 'कथं वा-न भौतासि ' इति सम्बन्धः । घोरे-भयङ्करे। कलिन्दति-कलिन्दतनयायाः यमुनायाः उत्तगानामुच्चानां तरङ्गानां वीचीनां भन्न अवस्थानन भयङ्करे भीतिजनके सर्जेति-सर्जाद्या वृक्षविशेषाः अन्तरङ्गसखीम् = अभिन्न हृदयां वयस्याम् । अवगच्छ = जानीहि ।
( १६३ ) । %D 'अहो अपि '-अत्र- 'प्रोत् ।। १ । १५ ) इति मूत्रेण सन्ध्यभावः । हरिद्रेति-हरिद्राया निशाया रजन्या द्रवेण रसेन क्षालितं यत् तालीदलं तत्प्रख्या नत्मदृशी कपोलपालीम् = गण्डस्थलं वहति धत्ते । तव विहरेण कृशा वर्ततः इति भावः । दिल्लीति-दिल्लीवल्लभस्य यवनेश्वरस्य कोडे गोदे अतिवा- हितं गमितं वाल्यं याभिः तासां महाराजकुमारीणां किं दुरापम् ' इति सम्बन्धः । निशीथे अर्धरात्रे पृ० ३१३ ॥ रज्यन्ते = अनुरक्ता भवन्ति । यस्मिन् अनुरागः- प्रेमा। तदलाभः = तदप्राप्तिः एव खेदस्य = दुःखस्य । अनुगृह्णाति- दयते। तत्रभवतीम् = माननीयाम् । अनुमन्येत-अङ्गीकुर्यात् । प्रस्तुतः= मजः । 'स्वहस्तेन श्रीमत्याः स्वेदानेपतुम्' इत्यत्र विवाहयितुमिति व्यङ्गयम् । तद्गतचित्तः = तस्यां लीनमनाः । दुर्घटः कठिनोपायसाध्यः । गुढसञ्चाराः = गुप्तागतिः कृष्णभिसारिका इव = कृष्णं प्रति प्रस्थिता अभिसारिकेव। 'कान्तार्थिनी तु या याति सकतं माभिमारिका' इति । वीक्ष्येथाः= आलोक्येथाः ।' पक्षद्वये = रसनारीपक्ष मत्यक्षे च विपत्तिः = अनिष्टम् । शिविरम् = सेनाकाटकम् । सुषुपतुः = निद्रां भेजाते । परेयुः = अपरस्मि- नहनि । विहितेति-विहिता कृता स्नानभोजनादिक्रिया यैः नैः मित्रगणैः- माल्यश्रीकप्रभृतिभिः सह समुल्लोचतले = वितानाध:प्रदेशे । प्रतीहारेण= द्वारपालन । पृ० ३१४ ॥ अम्बरराजकुमारः = जयसिंहसुतः । वीरोचिताम् वीरेषु योग्याम् । तेजस्विनीम् = प्रतापशालिनीम् । मुमुदे = जहर्ष । विस्फा- रितनयनम् ' इति क्रियाविशेषणाम् । श्रादेशेन = आशया । क्षत्रियकुलावतं- मस्य = राजन्यवंशभूषणस्य । चण्डः = खरः । चण्डमरीचिः = मूर्यः । पृ० ३१५ ॥ प्रतीपम् = विरुद्धम् अनिष्टमित्यर्थः समरेति- समरः संग्राम एव ज्वलनो वह्निः तस्य चालाः अचीपि । चन्द्रहासम् = स्वकीयं भवानीनामकं खड्गम् । समास्रंसयन् = दोलयन् । सम्मुखमुकुटे- पुरःस्थापितदर्पणे । प्रबलप्रवाहा = बलवद्वेगवती। यमुना = कालिन्दी । नौकापरम्पराभिः = तरणिश्रेणाभिः। प्रायोजितः = साधितः सेतुः यातायातम् = गमागमम् । पुष्परथम् = चक्रयानम् । पृ० ३१६ ॥ भूषणभूषितान् = भूपणैर्मण्डितान् । सौवर्णवल्गान् हिरएमवरश्मीन् । धावनेति-धावनसंवेगेन यो महोत्साहः तेन खुरखुरायिताः खुराः ( १६४ ) शका येषाम् । कथं कथमपि = अतिबलेन संयम्यमानानाम्-निरुध्यमाना नाम् । कुसुमैरिव = पुष्पेरिव । फेनप्रपातैः = डिण्डोरप्रक्षेपैः । परिपूजिता अचिंता वसुंधरा पृथ्वी यैरिति अत्रोत्प्रेक्षा । धावनधुरन्धराणाम् = पलायन- शूराणामित्यर्थः । सैन्धवानाम् = = अश्वानाम् । हेषाभिः = हेषणैः । अध्वनी- नान् = पथिकान् बधिरान् = श्रुतिवर्जितान् अकार्षुः = व्यधुः। साक्ष- तानि = अक्षतैः सहितानि । मौक्तिकेति-मौक्तिकमालाभिः कलितः व्याप्तः कण्ठो यस्य तम् । सौवर्णेति-सौवर्णकिरणः = हिरण्यमयूखैः कलितं कर्णद्वय- मध्यं यस्य तम् । राजतकुसुमावलिशोभितलाङ्गुलम् = दुवर्णपुष्पप्रचयद्योतित- पुच्छम् । प्रकाण्डम् = महीयांसम् । 'वाजिनमारूढवान् भूषणकवि' रिति सम्बन्धः । भास्वान् = सूर्यः । मृदुलमयूखः = कोमलकिरणः । संवृत्य = भूत्वा, भुवमभिपतति = अस्तमु ग्यातीत्यर्थः । अभ्रंलिहा- नाम् = मेघस्पृशाम् अत्युच्चानामित्यर्थः कलितः = सम्प्रकटितः अपरमेघाडम्बरः द्वितीयवारिदानुकृतिः यैः तेपाम् । समुद्धताः = ऊर्ध्व दोधूयमाना धजाः पताका येषां दिल्लीहाणाम् । छाया = सूर्यप्रिया, कर्तृपदमिदम् । कलिन्द- नन्दिन्याः = यमुनायाः श्यामताम् = कायम् द्विगुणयति-वर्धयति । अभितः सेतुम् = सेतोः समन्तात् 'सहस्रशो नाका इतश्चतश्च सवरन्ति' इति सम्बन्धः । नाकाः वर्णयति-तनव ' इत्यादिना । तनवः= लव्यः । महत्यः = दीर्घा विशालाश्च, सपटला = मच्छदयः । श्रपटलाः- छदिरहिताः । साट्टाः= द्विपटला: चन्द्रशालासहिता इत्यर्थः । निरट्टाः = अट्टा- लिकाहीनाः । हंसमयूरेति-हंसाः = कादम्बाः मयूराः = वहिणः । वर्तकाः = वर्तकाद्याः पक्षिविशेषाः सारसाः कारण्डवाः%3D सवाः इत्यादिवत् विविधाः नाना आकारा यासां ताः । चित्रविचित्रिताः= चित्रः श्रालेख्यमूतिभिः चित्रिताः लिखिताः । पृ० ३१६ ॥ समञ्जीरेति-समीराणां = मजारसहितानां क्षेपणानां नाकादण्डानां झणत्कारेण आकुलीकृताः विह्वलतां प्रापिताः कमठा: कच्छपा: याभिः ताः। तटस्थाः = तारे वर्तमानाः, तरणिस्थाः = नौकायां वर्तमानाः । सेता- वपि च यातायातम् = वन्थे अपि गतागतं कुर्वाणाः परःसहस्रशः = सहस्र- सङ्ख्यातोश्याधिकाः बहुला इति तात्पर्यम् । नागराः पौराः। कन्धरम् = ग्रोवां परिवर्य-मोटयित्वा । चनुषी = नेत्रे विस्फार्य उद्घाट्य । अङ्गुलिनिर्देशन सह । ( १६५ ) कालियसदनम् = कालियाख्यनागगृहम् । काकोदरम् = मर्पम् । निर्मथ्य = पराजय्य । नन्दः = गोपराजः यशोदापतिः । 'तत्र च प्रघाणस्थैः-मकौतुकं निरीक्षमाणः । प्रघाणस्थैः = अलि. न्दभूमौ स्थितः । 'प्रघाणप्रघणालिन्दाः वहिरिप्रकोष्ठ के ' इति ( अमरः )। परिवर्तितग्रीवैः = विलोलितकन्धरः । लोलति-लोलश्चपलः ( ऊर्च निरी- क्षणात् ) उष्णोपबन्धो येषां तैः । भटैः = शुरैः। आपणोपविष्णैः = पापणेषु हट्टेषु स्थितैः । स्तब्धानिश्चला = शकुला पूर्वीफलादिकृन्तनसाधनं येषां तैः । स्वर्णकारैः = पश्यतोहरैः। कर्णे श्रवणे अर्पिता दत्ता लेखनी तूलिका यैः तैः चित्रकरैः = कारुभिः । समुपक्षितः = परत्र स्थापितः तुलादण्डी ये: तै: वाणिजैः = वणिग्भिः, विशिथिलः विशेषेण शैथिल्यङ्गतः स्खलितश्च मानदण्ड। येषां तैः पटविक्रयिभिः = वस्त्राविकेतृभिः । रुद्धसीवनैः = त्यकसूचीव्या- पारैः स्यूतिकारः = दरयोजिभिः । विस्मृतं हाराणां ग्रन्थनं गुम्फनं यः तैः मालाकरैः माल्यनिर्मातृभिः पुष्पहरैत्यर्थः । घण्टापथे= राजमागें । आशीर्वचनेन = आशीर्वादेन स्फुरिताः चलिता श्रोष्ठाः येषां तैरिव ब्राह्मणैः विप्रैः। पृ० ३१८ ॥ परिवर्जिता परितस्त्यक्ता क्रीडा खेला यः एवंभूतैः बालकः। गवाक्षस्थैः = गोक्षस्थैः । कुलयुवतिजनैः कुलीनाभिस्तरुणीभिरित्यर्थः । कादृशः कुलयुवतिजनैः-शिथिलितवीडैः = किञ्चित्परित्यक्तलज्जैः। पुनः- अगुल्यग्रेति-अगुल्यग्रेण अपसारितानां परकृतानां तिरस्करिणीनां जव. निकानां विच्छंद अवकाशे प्रहितं कटाक्षावलोकनं नेत्रप्रान्तभागचालनं यैः तै:। कोऽयमित्यादिना द्रष्टव्यापारं दर्शयति-शास्तिखानेति-शास्ति- खानस्य या शास्तिः शासनं तत्प्रतिपादकं यच्छार्ने नीतिरूपं तज्ज्ञोऽयम् शास्तिखान- हन्तेत्यर्थः । एवं विजयपुरेत्यादि स्पष्टम् । मन्त्रमान्त्रिकः = गारुडिकः । मन्दम् = शनैः। अर्घोदारितान् = अर्धकथितान् । एतेन द्रष्टणां दर्शनकुतूहलं व्यज्यते । कैश्चित् इति — यवन' रित्यनेनान्वेति-कुक्कुटाण्डेति--कुक्कु- टाण्डानां चरणायुधाण्डानां गणनायामासक्तैः । वत्तिकानिचयस्य वशीकारे व्या. पृता मुष्टया येषां ते वत्तिकाक्रीडावाजैः । मञ्चारूढः = खट्वारूढः धूमपान- परायणः । अक्षक्रीडासक्तैः = पाशकखेलनपरैः । एतेन = श्रीशिववीरेण सकरकटाक्षम् = क्रूरदृष्टिपातमाहतम् । कथाविषयीक्रियमाणः = वार्तासु कप्यमानः । सझणत्कारम् = झणझणदितिशन्दसहितम् । स्वापणे = स्वीये हट्ट ( १६६ ) समुज्झितानां प्रसारितानां दीनाराणाम् = मोहराणाम् गणनासक्लान् = मङख्यानलगितान् । रत्नेति-रत्नानां पद्मरागप्रभृतीनां निचयस्य राशेः परीक्षणाय प्रहितं दत्तं मूक्ष्ममीक्षणं यः तान् । अलङ्काराणाम् = स्वस्तिक-रुचक-कुण्डल-दामिनीप्रभृतिभूषणानां क्रयविक्रयव्यववहारे लानादानव्यापारे संसक्तान् = खचितान् । गवाक्षस्थः= वातयने स्थिती यो गणिकाजनः पण्यस्त्रीलोकः तस्य भ्रूभङ्गे भ्रकुटिचालने निहिता दृष्टयो यः तान् वीक्षमाणः = पश्यन् । सपरिजनः = स्वपरिचारिकवर्गमाहितः महाराष्ट्रराजः मार्गान्तरं प्राप्त ' इति सम्बन्धः। प्रोच्चापस्त्यम् = अत्युच्च मदनम् । पृ० ३१६ ॥ महामजितम् = ' जुम्मामास्जद' इति प्रसिद्धम् । परतः= अग्रतः । कियन्तम् = किनिदित्यर्थः । अध्वानं = मार्गम् । अति- कम्य = लवयित्वा । कैलाशेति-कैलाशशिखिरखण्डस्य आभव आभा यस्य तत् महाहर्म्यम् = महाप्रसादम् । ग्रहाणाम् = सूर्यादीनाम् गतयः = चलनानि । रोद्धम् = प्रतिबन्धं कर्तुम् उत्सुकाः = उत्कण्ठिताः। कक्षा याम् = गेहप्रकोष्ठे । पुष्परथान् = चक्ररथान् विविधेति-विविधानां अनेकेषां मण्डलेश्वराणां यातायातः गमागमैः सङ्कुलं = व्याप्तम् । प्रशस्तम् = विशालम् । प्राङ्गणम् = चत्वरम् । पृ० ३२० ॥ अजिरम् = प्राङ्गणम् । सार्वति-सार्धहस्तव्यस्य उच्छ्रायः नित्यं यस्याः सा चासौ वेदिका । सकाचेति-काचपट्टिक महिताः हरित-कपिश-श्यामलादिभिः वर्णविशेषैः रञ्जिताः कपाटाः येषां तानि कोष्ठानि : सौवाः = हिरण्मयाः । दन्तावलानां गजानां ग्रेवयकघण्टा = ग्रीवाभूषणभूता घण्टा निमीयन्ते रच्यन्ते । परतः = अन्यतः पाटीरेति सैन्धवशृङ्गाराय । गुम्फ्यन्ते कौशयास्तरणानाम् = कृमिवसनास्तरणानाम् । प्रान्तेषु = कोणेषु । सौवर्णसूत्रवतत्यः = हिरण्यसूत्रवल्लयः सीव्यन्ते = सूच्या रच्यन्ते । राजत- च्छत्राणाम् = दुर्वर्णच्छत्राणाम् परिधिषु गोलभागेषु हीरकजालानि = हारकमणिसमूहाः। हाटकमश्चानाम् = सुवर्णमञ्चानाम् । पन्थानमुभयतः = मार्गस्योभयपाश्र्वे इत्यर्थः । सौवर्णपात्रेति-सौवर्णपा- वाणि आधारा येषां ते सकुसुमाः = सपुष्पाः । पुंस्कोकिलाः = पिकाः कीराः = शुकाः । सारिकाः = मेनिकाः पक्षिविशेषाः । कलविङ्काः .. : = अश्वमण्डनाय = ग्रथ्यन्ते ( १९७ ) - - - श्रारुह्य पारुह्य । चटकविशेषाः लावाः = वर्तिकविशेषाः । चकोराः = चन्द्रिकाप्रिया: चातकाः = स्तोककाः । चपलितचञ्चवः : - चञ्चलितत्रोटयः। पक्षतेः पक्षाणां समूहस्य कण्डूयनेन कर्षणेन मनोहराः हृद्याः । पुच्छानां सारणे विकाशने सङ्कोचने निमीलने चनलाः चपलाः । वीणायाः विपञ्च्या रणनस्य शब्दस्य स्पधि = ईर्षालु ( तत्सदृशमित्यर्थः ) कूजितं येषां ते दाडिमद्राक्षा- खण्डस्य त्रोटने भञ्जने तत्पराः लग्नाः त्रोटयः चञ्चवो येषां ते । प्रारोहमारो. अान्दोलमान्दोलम् हम् = दोलित्वा दोलित्वा पक्षिणः समुल्लसन्ति = शोभन्ते । सौरभेति-सौरभपटलेन = सुगन्धपुञ्जन व्याप्तं दिगन्तरम् = दिशां भागो यत्र तत् उद्यानम् = आरामः । तदन्तस्थ- कुञ्जषु = उद्यानमध्यवर्तिलतापिहितद्वारेषु । वीणानादः = तन्त्रीस्वनः । पृ० ३२१॥ महासिंहासनम् = राजपीठः । तदेवाऽध्युषितः = तदारूढः भारतसम्राट् = भारतचक्रवती दृष्टः = पालोकितः । कलितक- नकदण्डाः = धृतसुवर्णदण्डाः । करवालैः = असिभिः प्राकलितः व्याप्ताः कटिप्रदेशा येषां तैः । सौवर्णदण्डाभत्तिकादत्तहस्तावलम्बाः सुवर्णदण्डैः निमितासु रचितासु भित्तिकासु दत्तो हस्तावलम्बो यैः ते मण्डलेश्वराः = माण्डलिका राजानः । सेनापतयश्च । राङ्कवास्तरणेति-रंकुमृगविशेषः तस्य इदं राङ्कवम् , तानि प्रास्तरणानि तैः आच्छन्नानि प्रावृतानि सोपानानि अाक्रम्य = प्राप्य वेदिकामारूढाः = स्थिताः । कुमारेण = जयसिंहपुत्रेण इङ्गितः = चेष्टया बोधितः । पंक्तिम् : राजिम् भेजिरे = प्रविष्टाः । मुद्रिकाम् = अंगुलीयकम् । निजाञ्जली "अन्यतः क्षिप्तक्षणे-शिवमुपेक्ष्य अन्यत्रैव दत्तदृष्टौ सम्राजि । जगत्पाल. कानाम् श्रीमतां सम्राजाम्। करुणावलोकनम्-कृपादृष्टिम् ।सभाजयति कामयते । अथ = कस्यचिदुक्तेरनन्तरम् , दृष्टिम् = चक्षुः परिवर्त्य मोटयित्वा वाचंयमः = मुद्रितमुख एव । पाञ्चसाहनिकैरिति स्पष्टम् । किरातरसमिव = तिक्तकरसमिव पिवन् = प्रास्त्रादयन् । “ कौडाघुटकरके इति पजाबी भाषायाम् । सकष्टम् = सदुःखम् ततः बभ्राम = भ्रमणं ददौ । चक्षुषैव = दृष्टयैव वारितः = मन्दीकृतः । अरुणमुखः रक्तास्यः अत्यन्तं क्रुद्ध इत्यर्थः तूष्णीमस्थात् = मौनी तस्थौ ! सभाभङ्गः = सभाविसर्जनम् । अवरोधम् = अन्तःपुरम् । जनसमूहः = जनता । महाहर्म्यम् = महा- प्रसादः। प्रात्यहिकेति-प्रात्यहिकवस्तुजातं = प्रतिदिनापतितं भक्ष्यभोज्या- ( १९८ ) दिवस्तुजातम् तेन । महाराष्ट्रस्य अवहेलनम् अवज्ञानं तस्य दर्शनेनेव ग्लानः = क्षीणः । यवनाखण्डलस्य = यवनेन्द्रस्य दुरभिसन्धिम् = दुष्टं हृदय- भावम् जानानः = विद्वान् इव पाण्डुमुखमण्डलः = धूसरितविम्ब इव राघवाचार्यकाथितम् = राघवाचार्यमणितिम् । कोपेनेव = क्राधेनेव शोणः कोकनदच्छविः रक्त इत्यर्थः। भास्वान् = सूर्यः अस्तअगाम । तदागारस्य = नियतीकृतमहाप्रसादस्य। इति ( नूतन ) शिवराजविजयपताकायां दशमो निश्वासः ।
एकादशो निश्वासः। सङ्गे ननु दुर्जनधूतमतेः, कष्टं नहि कस्य भवेदतुलम् । इङ्गालकपण्यकरस्य मुखं, नीलीललनापरिचुम्बितकम् ॥ १ ॥ दुर्जनजनविश्वासो कर्तुंर्घाताय नात्र सन्देहः । गर्भो यथाऽश्वतर्या दृष्टो नाशाय नैव सौख्याय ॥२॥ हंसो न भेकसङ्गी सङ्गी चेद्धन्त कश्मलं भजते । पल्वलसेवा भेको मानसमाननक्रियाप्रियो हंसः ॥३॥ दशमे निश्वासे अम्बराधीशानुमत्या दोलायमानहृदयस्यापि शिववीरस्य दिल्लीयात्रां निरूप्य दिल्लीश्वरसाक्षात्कारञ्च वर्णयित्वा शिववीरप्रवेशमुपसंहृतवान् सम्प्रति एकादशनिश्वासे शिववीरस्य कारीकरणं वर्णयितुकामः तत्कथोपक्षपकविधया शेते' इति 'उपकारिणि' इति 'पुरासरसि' इति प्रतीकत्रयमुद्धरति उप- न्यासन्यसनचतुरधुरीणोऽभिनवो 'व्यासो' महाकविरिति । धृतानां श्लोकानां संक्षिप्तार्थस्तु-* 'करी'= गजः मकश पादविपादिकायां' मशकस्य क्षुद्र- तरस्य जन्तोः पादस्फोटे 'शेते' = निद्राति अर्थात् पूर्वन्तु मशकस्य पादस्फोट एवासम्भवः कुतस्तत्र करिणः शयनम् यथा चैतत् असम्भव्यपि केनापि योगादि- मामर्थ्यविशेषेण घटेत तद्वदेव शिवस्य अम्बराधीशयोगेन दिल्लीकलकाऽवरोधः । उपकारिणि = उपकारकारिणि 'विश्रब्धे = ' विश्वासमापन्ने शुद्ध मतौ=निर्मलहृदये 'यः' 'पापम् ' कश्मलम् 'समाचरति' = करोति । हे ! भगवति ! 'वसुधे।' = पृथिवि ! तम् + 'असत्यसन्धम्' = मिथ्या- • इयं समस्याऽस्मद्गुरुचरणपूरिता इत्थं पठनीया- कुद्धस्त्रिशंकुसुरलोकगतेर्निरोधात् प्राची स गाधितनयो लघयंस्त्रिलोकीम् । तां सृष्टिमारभत योगवलेन यस्यां शेते करीमशकपादविपादिकायाम् ॥ १॥ + शिववीरेण दिल्लीश्वरस्य महानुपकारः कृत इति स्पष्टमेव रसनार्यादि. स्तन । दिल्लीश्वरेण स्ववाङ् मिथ्यव कृता ।।
( २०० ) प्रतिशं कथं 'वहसि धारयसे । शोच्यमेतादृशं मृषावादिनो दुष्टस्य जीवनमिति भावः । 'पुरा सरसि' इति-मानसे = मानसाख्य सरोवरे, विकचानि = विकाशभाञ्जि पुल्लानीति यावत् यानि सारसानि = सरसीरुहानि कमलानि, तेषामालिः राजिः तस्याः सकाशात् स्खलद्भिः च्यवद्भिः परागैः पुष्परेणुभिः सुर- भीकृते सुगन्धीकृत पयसि = नोरे यस्य ( उदात्तप्रकृतेविशिष्टस्य महाशयस्य ) पुरा वयो यातम् , स मरालकुलनायकः= राजहंसशिरोमणिः मिलद्भिः- समुच्चयोभवद्भिः अनेकैः भेकैः मण्डूकैः प्राकुले व्याप्त पल्वलजले = अल्पसरा- वारिणि कथं वर्तताम् केन प्रकारेण व्यवहरताम् निवसतु वा, हे ! नीच! इति त्वं कथ- येत्यर्थः । हंसान्योक्तिरियम् । अत्राऽप्रस्तुतप्रशंसालङ्कारः । 'अप्रस्तुतप्रशंसा स्यात् मा यत्र प्रस्तुताश्रया' इति लक्षणात् । अत्र वर्णनीयत्वेन प्रस्तुतः कश्चित् मार्वभौमाश्रितोऽपि सूरीश्वरः तद्विरहान्निगश्रयं तमालोक्य 'क्षुद्राश्रितोऽयं पीडितो भविष्यति' इति हृष्यन्तं कमपि नाचम्प्रति कस्यचिदुक्तिरियम् । तस्मादत्र-अप्रस्तु- तहसप्रशसा प्रस्तुतस्य सुद्राश्रयसेवां स्वप्नेऽपि नेच्छत उदात्तानायकस्य प्रशंसा- पर्यवसायिनीति ज्ञेयम् । किञ्च तादृशस्य महापुरुषस्य क्षुद्रानाश्रयणे सार्वभौमाश्रयेण वयोयायनं ( पल्वलानाश्रयणे मानसे वयोयापनं हंसस्येव ) हेतुरिति वाक्यार्थहेतु- कोऽत्र काव्यलिङ्गाल कारोऽपि । 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् ' इति तल्लक्षणात् । अत्र--उदात्तो नायकः । तल्लंक्षणन्तु-'साहित्यसारे' यथा- स्थिरो निगूढाल कारो धीरोदत्तो दृढव्रतः' इति । दृढत्यनेनौदायम् । एतदुरा- हरणं 'भामिनीविलासे' यथा- श्रापद्गतः खलु महाशयचक्रवर्ती सन्दर्शयत्यकृतपूर्वमुदारभावम् । कालागरुर्दहनमध्यगतः समन्तात् लोकोत्तरं परिमलं प्रकटीकरोति ॥ एवमन्यदपि शेयम् । 'पुरा सरसि_' इत्यत्र ‘पृथ्वी' वृत्तम् । 'जसौ जमयलावसुग्रहयतिश्च पृथ्वी गुरुः' इति तल्लक्षणात् । पृ० ३२२ ॥ निशीथप्राया = अर्धरात्रप्राया. रजनी = रात्रिः उष्णः कालः = धर्मत्तुः । बालानाम् = शिशूनाम् । रोदनस्य = विल. पनस्य आर्तनादः पीडास्वरः व्यजनचालनस्य पङ्खादोलनस्य निद्रा मन्थरान् = प्रमीलासालसान् । व्याकुलयति = विलयति । 'जलं जलम्' इत्यादिना घानां स्वरूपमभिनयति । निगदव्याख्यातमिदम् । इति ।
( २०१ ) - - - - पृ० ३२४॥ अद्देभ्यः = अट्टालिकाभ्यः । ध्वनिः= शब्दः । भेरी- नादसहचरितेन = महाढकानादोपेतेन वंशीनादेन = वेणुनादेन सना- रब्धः = सहैवोपक्रान्तः । मध्यनिशीथमचकः = अर्धरात्रमूचनाजनकः । नवो. दानाम् = सद्योविवाहितानाम् । मञ्जीरेति-मजारस्य या: किङ्किण्याः क्षुद्र- घण्टिकाः, नूपुरम् = पादभूपणम् वलयः = कङ्कणम् तेषां शिञ्जितं = शब्दः । भूषणानान्तु शिक्षितम्' इत्यमरः। एतद्रसभञ्जकः = नवोढानूपुरादिशिजितानन्द विघ्नकरः । श्राकर्णि = प्रश्रावि । प्रहरिणाम्-यामिकानाम् । कर्णकपायः= श्रोत्र वैरस्य ( पीडा ) करः । नादः = ध्वनिः । महाराजस्तु-निद्रा नालभत । अथ--एकामासन्दीम् अध्युवास ' इति सम्बन्धः । उशीरव्यजनि- काम्= = खसनिर्मितां वातकरीम् । अान्दोलयन् = चालयन् । दाडिम्ब- सेति-दाडिम्बरसः अनाररसः । सितोपलम् = ताभ्यां मिश्रितम् । शीतम् = शिशिरम् । सलिलम् = वारि । स्वमातुः = स्वपल्याश्च संस्मरन् इत्यत्र- अधीगर्थदयेशां कर्मणि' (२ । ३ । ५२) इति सूत्रेण विविक्षायां कर्मणि षष्ठी । अलिन्दम् = बहिरिप्रकोष्ठकम् 'प्रघाणप्रघणालिन्दवहिरिप्रकोष्ठ के ' इत्यमरः । निर्वाणप्रायम् अस्तप्रायम् । सज्वल्य = ज्वलयित्वा दीपयित्वा निष्कुटकोत–निष्कुटकस्य गृहारामस्य माश्लेषेण = संसर्गेण ऊनितः हसितः नापो यस्य तम् । तातम्- अत्र-पुस्तकदयेऽपि तातमालिङ्ग नित्येव पाठः तदत्र तातपदस्यार्थ न बुध्यामहे । 'तातोऽनुकम्प्ये पितरि ' इति हेमचन्द्रः ) ' तातस्तु जनकः पिता ' इत्यमरः, इत्येवं जानीमहे । तदर्थघटना- त्वत्र कथं युज्यते ?........ आसन्दीम् = वेत्रासनिकाम् । अध्युवास = अधिशिश्रिये। मनसि= चेतसि एव चिन्तयितुमारब्धवात् इति । शस्यश्यामाम् = हरितक्षेत्रैईरिताम् । मारुतिमूर्तिम् = हनुमन्मू- तिम् । गौरसिंहभगिन्याः = सौवाः। अन्वेष्टुम् = गवेषयितुम् । 'हा' इति कष्टम् । तदर्थमनुमतः = कोशलार्थमनुशातः मदनुचरः = भट्टयः । पृ० -३२५ ॥ सभर्त्सनम् = सतिरस्कारम् निर्दोषेति-निर्दोषः दोपरहितो रघुवीरः तस्य निर्वासनस्य यत्पापम् तस्यैव फलम् = परिणामः एतत् = कारागारीकरणम्' 'प्रत्यर्थिनाम् = शत्रूणाम् क्रोडे = अङ्के । भूप- तिसमे=राशःसभायामित्यर्थ: सभाराजाऽमनुष्यपूर्वा' (२। ४ । २६ ) इति सूत्रेण भूपतिसमम्' इति नपुंसकलिङ्गम् । दिल्लीकलङ्केन = तेनैवाऽवरङ्ग- जीवन-विषयान्तरे = देशगमनाशामिन्नविषये भन्यत् निगदव्याख्यातमिव ( २०२ ) निष्कुटकुटेति--गृहारामवृक्षमध्यभागेषु। अस्पष्टाकृतिम् = अस्फुटमूत्तिम अद्राक्षीत् = अपश्यत् । चोरोऽयम्' इत्यादिससम्भ्रमोक्तिः । विकोशां छुरिकाम् = नग्नां कृपाणिकाम् । उदस्थात् = उत्थितोऽभूत् भस्मोद्ध लितति-भस्मना भूत्या उद्धूलितं र(मि)तं शरीरं यस्य सः। विश्लथेति- विश्लथतां इतस्ततः स्खलतां कूर्वानां कुलै : पुरैः समाच्छन्नम्-अंस-पृष्ठ-वक्षःस्थलं यस्य सः तादृशः । लम्बूकूर्चः = दीर्घदाढिकः । नील्या रसेन रागेण रञ्जितं रक्तं वसनं वळ यस्य सः । वामे दक्षिणेतरे करे पाणी गृहीता धृता मृत्तिकामाला 'तसवी' इति म्लेच्छव्यवहारप्रसिद्धा येन सः यवनाभक्षुः = म्लेच्छसाधुः म्लेच्छपीवर इत्यर्थः । सप्रौढि = सोत्तेजनम् । 'रे' इति नीचसम्बोधने । पृ० ३२६ ॥ मन्दम् = शनैः प्राह = अवोचत् । शुभचिन्तकः- हितकारी । श्रुतपूर्वम् = पूर्व श्रुतमित्यर्थः । परिचेतुम् = स एवाऽयम् ' इति ज्ञातुम् । अक्षमः = असमर्थः । दयसे = कृपां करोषि । प्राचीरम् = प्राकारम् । वैष्णवेषु = विष्णुभक्तपु साधुषु । म्लेच्छावधूतेषु = यवनभिक्षुपु जानपदाः महाराष्ट्रदेशवासिनः । महाराष्ट्रभूमिभरणभारम्-महाराष्ट- शासनप्रबन्धमित्यर्थः । क्षामंदहा = कृशशरीरा। स्थण्डिलशायिनी = भूमिशयनकारिणी । हविष्याहारा = पक्वान्नभुक् । अश्रुविन्दून् = वाष्पकणान् । अमूमुचत् = त्यक्तवान् । पृ० ३२७ ॥ परमात्मा आराध्यते = उपास्यते 'प्रजाभि' रिति शेष: महारुद्रमुद्रया = शिवार्चनाविधिना रुद्रः महादेवः अभिषिच्यते स्नाप्यते । गृहीतेति-गृहीतं ब्रह्मचर्यम् = * अष्टविधमैथुनत्यागरूपो नियम। यः तेषाम् ब्राह्मणानां सहस्रैरिति । भगवती-दुर्गा = महामाया । ग्रहमात केति--ग्रहा:-सूर्याद्याः । मातृकाः पोडश गार्याद्याः, श्रादिना इन्द्रादिदिक्- पालानां ग्रहणम्, एतेषां मण्डलेन मण्डितस्य सन्जितस्य मण्डपस्य । वेद- मन्त्रैः आकृष्णेन रजसा वर्तमानो० . इत्यादिभिर्मन्त्रैः । बृहद्भानुः- * स्मरणं कीर्तन केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिवृतिरेव च ॥ एतन्मैथुनमष्टाङ्ग प्रवदन्ति मनीषिणः विपरीतं ब्रह्मचर्य-मेतदेवाष्टलक्षणम् ॥
( २०३ ) । अग्निः । हविषा = चरुणा हूयते = आहुतिभिरर्यते । कोपकृशानुहे. तिभिः = क्रोधानलज्वालाभिः । अान्दोल्य = स्फोरयित्वा । कोनाम वागुरया = पाशेन समारणमिव भवन्तं गोत्स्यति = बन्ध- यिष्यति' इत्यत्र + पूर्णोपमालङ्कारः । पृ० ३२८ ॥ सशङ्कुग्रन्थिवंशः = शकुना कीलकेन सह ग्रन्थिवंशः= ग्रन्थिल: कीचकः। कुड्योलड्धनम् = भित्तरुत्मपनम् । त्रुटिमात्रेण = त्रुटि: द्वयोनिमेषयोः । निमेषद्वयमात्रणेत्यर्थः । 'त्रुटिः स्त्री संशये स्वल्पे सूक्ष्मैलाका- लमानयोः' इति ( मेदिनी)। निलीनः = गोपितः । कलिन्दतनयायाम् = यमुनायाम् । क्षेप- णीहस्ताः = क्षेपण्यो नौकादण्डा हस्तेषु येषां ते । वाहकाः = कर्णधाराः त्वरया= शीघ्रम् । प्रहरिषु = यामिकेषु कलितयवनवेषाः = धृतम्लेच्छ- नेपथ्याः । अन्तरायम् = निघ्नम् । विदध्यात् = कुर्यात् । पृ० ३२६ ॥ छद्मवेषिणः = छद्मना कपटेन वेषिणः वेषधारिणः खड्गहस्ताः = तलवारपाणयः । प्राकम्ये = प्राक्षिप्ये । कर्मणि प्रत्ययः । कपटभिक्षुकाः = व्याजेन भिक्षुरूपतां गताः भावत्काः = त्वदीयाः महाराष्ट्रा एव सजृम्भारम्भम् = गात्रविनामसहितं स्वापमिव कदाऽऽयास्यति महाराष्ट्रपतिरिति स्वप्नमिव पश्यन्ति । तरणिगतिम् = नौकाचालम् । रुन्ध्युः प्रतिहस्तयेयुः । तरणितनूजामभितः = यमुनां सर्वतः । तरणि- रोधम् = सूर्यरोधनम् । पारयेत् = समथोंभवेत् । यथा च सूर्य रोधोऽसम्भवी तथैव भवतो रोधकरणमिति मा शङ्का गम इति भावः । पृ० ३३० ॥ भ्रातॄन् = सहोदरान् अबधीत् = मारितवान् । पितरम् = जनकमपि च न्यग्रहीत् = कारायां स्थापितवान् इत्यनेन तस्य महत् क्रौर्य व्यज्यते । प्राश्रितान् = माल्यश्रीकप्रभृतीन् । मृत्युकपोले- कालमुखे इत्यर्थः। कवलवत् = ग्रासवत्। जिजीविषामि = जीवितुमि- च्छामि । 'वरोकरेतैः सिंहा इव' । अत्रोपमा । + - असम्भावितोपमा ' चेयम् । तदुक्तं दण्डिना- चन्द्रबिम्बादिव विषं चन्दनादिव पावकः । परुषा वागितो वक्त्रादित्यसम्भावितोपमा ॥ इति ।
( २०४ ) पृ० ३३१ । वक्षोघ्नतीम् = उरःताडयन्तीन् । पृथुकान् = शिशून् । राजधर्मपरतन्त्रः = राजधर्मनिघ्नः । पृ० ३३२॥ स्मार स्मारम् = स्मृत्वा २ । मामपवदति = मां गर्हयति । कुलीनानाम् = सदश्यानाम् । सतर्कम् = ऊहासहितम् । ऐतिष्ट = अलोकिष्ट । अनुरक्तायाः = अनुरागवत्याः । मुक्तकण्ठम् सगलोत्पाटम् । चित्वा = एकत्रीकृत्य शुष्ककाष्ठश्चितां रचयित्वेत्यर्थः । पृ० ३३३॥ करुणकोलाहलम् = सदयमाक्रन्दनम् । श्लथद्व- सनाः = स्खलद्वाससः । त्वरासम्भ्रमहेतोरित्याशयः । वैकुण्ठम् = स्वलॊकम् वसुधाम् = पृथ्वीम् । 'अलङ्करोति' = अर्थात् जीवति ते बल्लभः । वाता. हतः = समीरनुन्नः रम्भास्तम्भ इव = कदलीखण्ड इव ! गृहीतेति- गृहीतं दृढं मौनव्रतं यया तुष्णींम्भावोपेता । मुक्तकेशी = उत्स्खलितमूर्थजा धूलिधूसरितदेहा= रज:प्लुतशरीरा। रुद्राक्षमालया कलितं वक्षो यया सा । तडागकोणे = सरोवर स्य एकस्मिन् प्रदेश । पृ० ३३४ ॥ धूर्तपत्रैः = धत्तूर कुसुमैः । प्रघणे = बहिरप्रकोष्ठके । - सुष्वाप = निद्रां भेजे । उदञ्चिते = उदिते चण्डमरीचौ = भास्करे । गवाक्षात् = वाता- यनात् । व्यजिज्ञपत् = निवेदितवान् । अन्तराजिगमिषतः = अभ्यन्तरे भागन्तुमिच्छतः जनान् अर्थात् शिववीरस्यैव सेवकान् परिचितान् वा। लोहित- वदनः = शोणमुखः । कोपस्फुरदधरः = क्रोधेन स्फुरन् चलन् श्रोष्ठो यस्य । क्रोधचलदोष्ठः इत्यर्थः । जिघत्सन् = अतुमिच्छन्निव ब्राह्मण्डमण्डलमिति । भ्रवोः = भृकुट्योः आकुञ्चनन = सर्वतोवलनेन अभ्यन्तरीकरणन । स्फोट- यन्निव = उत्पाटयिन्न । पृ० ३३५ ॥ कदर्याणाम् = नीचानाम् । रेणुकाराशिम् = धूलिपुञ्जम् । प्रक्षिप्य = चर्चयित्वा । अनवरुद्धगतिः = अप्रतिहतगतिः । असहायस्य = एकाकिनः । · रोचिष्यतेतराम् यवनकुलनन्दनाय म्लेच्छकुल पुत्राय । सप्रसादम् = सहपम् । यथावाञ्छितम् = यथेष्टम् । दिल्लीति-दिल्ल्याः सकाशात् निर्गमनपत्रिकाः = प्रस्थानपत्रिकाः चातुरीगर्वः = नैपुण्याभिमानः । पृ० ३३६ ॥ सिष्णासति = स्नातुमिच्छति । प्राङ्गणे = अलिन्द कुसुमविक्रेत्री = समुपातिष्ठत ' इति सम्बन्धः । कथंभूता सा इति : चत्वर ।
( २०५ ) प्रथमान्तैः पदैविशिनष्टि । अनवरोद्धव्या = ( पूजोपकरणनेत्रीत्वात् ) अवरोधानां इति कृत्वा प्रतीहारैः = द्वारपालैः अनवरुद्धा = अप्रतिषिद्धान्तःप्रवेशा । वामस्कन्धेति-वामस्कन्धे दक्षिणतरे अंमे स्थापिता धृता कुसुमपूर्णा पुष्पभरिता पिटर्किका = मञ्जूषिका यया । दक्षकरे = वामेतरे पाणी पाक- लितानि धृतानि अतिमुक्तकलिकाभिः माधवीकोरकैः रचितानि अनेकानि बहुनि विक्रेयव्यजनानि पएयव्य जनानि यया सा । कर्णान्ते = कर्णप्रान्तभागे लम्बमानेन दोलता राजतताटङ्कन दुर्वर्णताटङ्काख्यभूपणेन चोचुम्ब्यमानं पुनः पुनः स्पृश्यमानं गण्डयुगलं कपोलद्वन्दं यस्याः सा । श्रारक्लया = ईपद्रक्तवर्णया कन्चुकिकया चोलिकया छन्नौ प्रावृतौ तालफलवत् ( तालफलाकारी ) स्तनौ कुचौ यस्याः सा । एतेन स्तनयोः काठिन्यं वर्तुलत्वञ्च व्यज्यते । काचखण्डैः = नगैः मण्डितमग्रं यस्य एवम्भूतं यत् राजतलवङ्गिकाभरणं तेन भूषिता नासा यस्याः सा । ताम्बूल- रागरञ्जिताधरा = नागवल्लीरागरक्तनिम्नोष्ठा । यौवनमरमन्थरा तारण्यातिशयमत्ता, मन्दस्मितेन = ईषद्धसितेन मालतीमुकुलानानीव- मल्लिका कलिका इव वमन्ती = उद्गिरन्ती । उत्प्रेक्षा। अपाङ्गवीक्षणैः कटाक्षपातरित्यर्थः । नीलोत्पलैरिव-नीलकमलैः कुमुदरिव ताडयन्ती पूर्व- क्दलङ्कारः । विलुलितैः = विशृंखलैः लोलालकैः = चपलकुन्तलैः । रोलम्बकदम्बान् = भ्रमरगणान् इव वशयन्ती = स्वायत्तीकुर्वती सुद्रघण्टिकानां शिजितेन आकृष्टा वशीकृता निर्दिष्टजनानां दृष्टिर्यया साः एका = लोकोत्तरसौन्दयोपेता । कस्तूरिकायाः मृगमदस्य उद्वर्त्तनेन वर्तिता मदिता शृङ्गाररसेन स्नाता व्याप्तवेत्यर्थः । श्यामा= पोडपवार्षिकी। पराङ्गनाप्रतारणषु = परस्त्रीवशीकरणविडम्बनासु । परस्त्रीच्छलनेष्वि- त्यर्थः । न = नैव पटीयान् = अत्यन्तं चतुरः। वेलयसि = उपहससि । सौशील्यम् = साध्वाचरणम् । युवति- दर्शनसमकालमेव = तरुणिलोकनसमसमयमव । मनः = हृदयं द्रवति स्खलति । वारवधूः = पण्यत्री। विश्वषाम् = सर्वेषाम् । नर्मपात्रम् = हासविषयः। सरोषमिव = सकोपमिव । कृत्रिमेन कोपेनेत्यर्थः । पृ० ३३७ ॥ सखरभङ्गम् = स्वरभङ्गेन सह यथा तथा । खदासे- रस्य = स्वसेवकस्य दुवृत्तम् = अनाचारम् । उद्यानम् = आरामम् । रुरुदि. पन्तीम् = रोदितुमिच्छन्तीम् क्षणञ्च स्मयमानाम् = हसन्तीम् । विस्म- यते= चकितो भवति । क्षम्येत = सह्येत । करौ सम्पुटीकृत्य = हस्तौ- - ( २०६ ) वद्ध्वा । धर्मध्वजोडूननधुरीणेषु = धर्मविदग्रेसेरेश्चित्यर्थः। राजकन्याम् रसनारीमेव । स्फुटमन्यत् । पृ० ३३८ ॥ रहसि - एकान्ते । प्रपञ्चनम् = चातुरीम् । महान- नर्थः = अस्मद्विरोधेन मारणादिरूपः । तनुगात्रा = कृशाङ्गी । मृद्वीका= गोस्तनी । मन्दतारका = निष्प्रभनक्षत्रा इति रजनीपक्ष । निष्प्रभकनीनिका विरहात् इति रसनारीपक्षे । योगिनीवेतिस्पष्टम् । 'योगिनी' अपि अशनापिपा- माशून्या भवति, रसनारी तु शिवविरहेण त्यक्तखानपाना । अवधूता= उन्मत्ता उन्मादनामककामदशां प्राप्ता । । प्रतिवचनजीवातुम् प्रतिज्ञा- जीवनौषधम् । वधूवधवुधः स्त्रीहननदोपवित् । प्रतिद्वन्द्विनी विरुद्धा । कुमारीति-कुमारीप्रणयः कुमाय्यासक्तिः मलीमस दूषणं यस्य सः एवम्भूतोऽहं ( यदि, तेन ) शायय-ज्ञाता भवेयम् । प्रेमाम् यीतिम्=' प्रेमा ना प्रियता हार्दम् ' इति ( अमरः )। पृ० ३३६ ॥ श्रालपति वार्तयति । यः भवानित्यर्थः । मम स्व सारम् भगिनीम् । नावैमिनो जानामि । ' श्राः '= शोकोस्तीत्यर्थः । प्रहरिणः महाराष्ट्राधीशरोधनार्थ यामिकान् । मिथ्याभिशंसिभिरिति-मृषा- स्तुतिकररित्यर्थः । ‘दुह्यन्ति भवन्तम्' इति च्युतसंस्कृतम् । बुधदुहेाऽसूया- र्थानां यम्प्रति कोपः ' ( १ । ४ । ३७ ) इत्यनेन द्रुह्यतियोगे सम्प्रदान- सज्ञायां चतुर्थी स्यात् ( ' दुह्यन्ति भवते ' इति भाव्यम् ) । अथवा अस्तु- 'उपदविभक्तः कारकविभक्तिर्वलीयसी ' इति । अस्मिन् समय=यदा मायाजिह्मः गतः । मालतीकुञ्जे मल्लिकाभवने । मारकतदण्डायाम् = मरकतमणिनिर्मितदण्डायाम् । अासन्द्याम् = कुर- स्याम् । शुकाः पिकाः ' इत्यादीनि पदानि पुरा व्याख्यातप्रायाणि । लूम- दोलनैः-लागूलचालनैः । पक्षस्फुरणैः पत्रस्फारणः चञ्चुकोटिभिः वोटिपुरोभागैः । पक्षतिकण्डूयनैः-पक्षमूलघर्पणैः । प्रणयकलहैः- प्रीतिविरोधाचरणः । समञ्जीरेति-मारशिअितसहितैः कपटकलहैः छलकलहैः । प्रेयसीति-प्रेयस्यः बल्लभाः याः शुकीप्रभृतयः तासां प्राप्ती या अहम्पूर्विका पूर्वमहमेवैनां रमेयेत्यभिमानः तज्जनितैः युद्धैः= मंग्रामैः । चिक्रीडिरेखेलाञ्चक्रिरे । साम्मुखीनायाम्=पुरोवतिन्याम् । ताम्बूलदलाकारायाम् = नागवल्लीपत्राकृतिधारायाम् । पुष्करिण्याम्- दीधिकायाम् । नर्तनः ।
( २०७ ) । पृ० ३४० ॥ कारण्डवाकाराः सवाकृतयः परिष्कृताः सज्जध्व. जिताः । तरयः नौका: । हंसा: कादम्बाः । कारण्डवाःबतकाः । सारसाः पक्षिविशेषाः । मोदन्तेस्म-हृप्यन्ति स्म । कपोतभवनात्- कपोतपालिकायाः । प्रडीनोड्डानाद्याः पक्षिणां डयनप्रकाराः । तारका इव मंववृतिरे' = नक्षत्राणीव बभूवुः । कन्दरिणाम् - पर्वतानाम् । कन्दर- मन्दिरेषु-गुहागृहेषु । किरणकिरणे-मयूखसारण निर्गतः दूरीभूता कलकूपङ्कस्य दोषकर्दमस्य पातको भौतिर्यस्य एवम्भूतः भवतः यशश्चन्द्रः कीर्तिनिशाकरः । चमत्करोतिभासते । तुभ्यति-व्यथते । विहितसमरः कृतसंग्रामः । अतिदयादर्शनम् = बहुकृपालुताप्रकटनम् । अतिमहत्तासूचकम् गौरवबोधकम् । प्राजल्पत् वृथाजल्पमकरोत् । दिल्ली नगरवीथिकासु-दिल्लीपुरीवीथिषु । पृ० ३४१ ॥ श्रागन्तुम् आयातुम् अन्वमन्यत-अनुमोदितवान् । महेति-महांश्चासौ कलकल: कलरवः तस्य रोधनाव वारणाय । कोट्टपा- लस्य-नगराध्यक्षस्य सूचनानुरूपम् । वन्याः जाङ्गलिकाः । मर्यादाम्- अस्मन्नियतव्यवहाररूपाम् । ऐकान्तिकम् रहस्यम् । प्रवणीभूय-प्रहीभ्य । चन्दी कृत्वेत्यर्थः चुन्धः सञ्चलितहृदयः । क्षोभस्य-चित्तव्याकुलतायाः विशकलय्य-विस्तरं कृत्वा । पृ० ३४२ ॥ श्रासन्दीति-वेत्रासनिकादण्डलगितकफोण इत्यर्थः । अवितर्कितम्-काकतालीयन्यायनोपनतमित्यर्थः । अंग्रे बहु स्पष्टम् । विवर्णः= म्लानाकृतिः । पृ० ३४४ ॥ नवजलदेति-नवाः नूतनाः ये जलदाः मेघाः तेषां जलपूरेण नीरभरेण पूरिताः भरिताः, सहस्रशः असंख्याताः नद्यः सरितः, अजगराः=महासर्पाः इव सर्पिष्यन्ति-कुटिलगतयो भविष्यन्ति । एते- महाराष्ट्राः । अश्वयानाः - घोटकारोहिणः । स्रोतोभिः वारिप्रवाहैः । तीरेषु नदीतटेषु । उषिताः कृतवाससः । वैद्यम् भिषजम् । श्रापद्यरन्- प्राप्नुयुः । वायुश्च जलन अनयोः समाहार: वायुजलम् ' । प्रहरि- बन्धः यामिकरक्षाडम्बरः । एषः महाराष्ट्राधिपतिः । पृ० ३४५ ॥ किञ्चित् जजल्प' प्रत्यक्ष न श्रुतमिति किचित् तत्परो- क्षता सूचकोऽयं लिट' इति प्राचीना लघुटिप्पणी । वाहजीवनमपि-बहिश्वराः प्राणा श्वेत्यर्थः । नीतिविरुद्धम् मच्चालितराजनियमविपरीतम् । प्राचरेः- EIPRATAP COLLEGE LIR...।
( २०८ ) इत्यन्वयः कुर्याः । निगडवद्धम् वेडिकावेष्टितम् । जघन्यस्य-नीचस्य-वन्यस्य-जङ्गा- लिकस्य । सौवर्णकौशेयपटावृतम् सुवर्णतन्तुग्रथितपट्टवस्त्रावरणोपेतम् नर- यानम्=पाल द्वीम् । छत्रेति-छत्रादीनि सम्राजः चिह्नानि । ततः प्रतस्थे- तस्मात् स्थानादुच्चचाल । 'चिन्तया तापेन शोकेन कोपेन च वीचिभङ्गैरिव विविधभावभङ्गैः पारा- वार इव क्षुब्धः इत्यत्र समुच्चयः उपमा चालङ्कारः । दिल्लीनगर- वास्तव्याः सर्वेऽपि-महाराष्ट्रदिल्लीश्वरयोः श्राचारमेवलोचन्ते स्म प्रतिकथम् = कथां कथां प्रति · प्रतिकथम् । पृ० ३४६ ॥ प्रस्ताव प्रस्ताव प्रति इति प्रतिप्रस्तावम्। एवमेव- प्रतिकिंवदन्ति, प्रत्याभाणकम् ' इत्यत्रापि वाप्सायामव्ययीभावः । कदर्यम् = नीचकर्म । · यवनसीमन्तिन्यः यन्नाम श्रवणमात्रेणापि गर्भान् अपीपतन् ' इत्यन्वय: । ' अपीपतन् ' = पातयाम्बभूवुः । 'जातोननीतिनिष्णातस्य' अस्यार्थ पण्डिताः स्वयं जानन्तु, अस्माकन्तु- - जातोऽत्र '-इति पाठ उचितो लगितश्च भाति । 'अत्र' विषये नीतिनिष्णातस्य = नोतिनिपुणस्यापि भ्रमोजातः . यत् ' = यस्माद्धेतोः 'एषः' = महाराष्ट्रधीशः एनम् = दिल्लीशं प्रत्यगात् = प्रत्यायासीत्। अथवा-जातः न = अपितु जात एवेति काकुः । ग्रहदशा = भीमशन्यादिग्रहाणां दशा। शार्दूलपराक्रमः = सिंहविक्रान्तः । शशकायितैः = शशकवदाचरद्भिः । क्षयते = क्षीणो भवति । रुग्णः = ज्वरादिग्रस्तः। शृङ्गाटके-चतुष्पथे । शृङ्गारः नवीनवस्त्रभूषणादिना आत्मनः सज्जी- करणम् । महासम्वाधः जनसंघट्टः । वार्षिकः वर्षे वर्षे भवः पर्वसमयः। हिमोपलशीतलम् हिमकरकशिशिरीकृतम् । सितोपलजलम्-शर्करो दकम् । भिक्षुकाः = भिक्षार्थिनः । * पङ्गवः = श्रोणा: जंघाहीना इत्यर्थः । खञ्जाः = खोडाः । एडाः = बधिराः श्रवणशक्तिहीनाः । कुजाःगडुलाः । प्रत्यहम् = प्रतिदिनम् , अन्नं वितीर्यते = दीयते । न सत्यते- 'न शक्यते ' इत्युचितः पाठः । घण्टापथेरानमागें । १ खोडे खञ्जः * 'श्रोणः पङ्गी स्यादेडे बधिरः ' ' कुब्जे गडुलः ' इति सर्वत्र ( अमरः )। कुजो वृक्षप्रभेदे ना न्युजे स्याद्वाच्यलिङ्गकः । ति, ‘गदुः पृष्ठगुडे कुब्जे इति च ( मेदिनी ) ।
( २०६ ) पृ० ३४७ ॥ एतामाज्ञाम = कोट्टपालाज्ञाम् । प्रासीदन् = प्रसन्ना प्रभूवन् । मुमुदिरे-हर्ष भेजिरे। द्विषः शत्रवः यवनाः इत्यर्थः । 'भिक्षुकाश्च-पर: सहस्रराशीराशिभिः समवर्धयन् ' इति सम्बन्धः । शकुलीः= पूरिकाविशेषान् अपूपान् = 1 पिष्टकान् । मोदकान्-लड्डुकान् । पेटा:=' पेडा' इत्याख्यं फन्दम् । इण्डारेकाः कुण्डलिनीकन्दम् , “ इन्दुरमा” इति वा ताः । एकदा भृत्यवेपेण गौरसिंहः-पत्रमेवमपठन् ' इति दूरे सम्बन्धः । राबहिनिगत: कार इव ' = इति पूर्णोपमा । भिनुकेभ्यः = याचकेभ्यः 'भोज्यमयितुम् ' = भोज्यमर्पयितुमित्युचितं भाति । वारुणीचुम्बनेन : वारुणी पश्चिमाशा मद्यञ्च चुम्बनम् = वक्त्रसंयोगः प्राप्तिश्च । मत्तस्य = उन्मादं गतस्येवेति । मार्तण्डस्य = सूर्यस्य । कोमलेः = मृदौ अल्पे इत्यर्थः पञ्ज- . प्रकाशे। - इत्यन्तमलग्नक भुग्नितम् = न्युजीकृतम् भूर्जत्वक्पत्रकम् । विचिन्वन् = विवेचयन् अर्थात् गौरसिंह एव । कक्षिगुटिकायाम् = गुप्तौ । अतिरहस्यम् = केनाप्यज्ञातम् ऊर्ध्वतनगृहम् = सर्वोपरिवर्तमानमत्युच्चं चन्द्रशालागृहम् । महाराजमाहूय = महाराष्ट्रश्वरमामन्य। अनन्यथावम् = तदेकमात्रश्रव- एयोग्यम् । स्पष्टमन्यत् । पृ० ३४८ ॥ 'सर्वमेतदाकर्ण्य-समालपितवन्तौ मिवाभाति मध्ये त्रुटितपदञ्चेति विवेचयन्तु पण्डितमहोदयाः । भगवति भास्करे पश्चिमसमुद्रं स्पृशति ' = सूर्येऽस्तं याति सतीत्यर्थः । ते = महाराष्ट्रा । स्थिरयित्वा = निश्चित्य । यातयामा = गतेकप्रहरा । यामिनी रात्रिः। वादित्रध्वनिः = वाधरावः । शिविकाम् = नरयानम् । सम्राट्प्रेषितः सम्राजा प्रहितः । चिकित्सितुम् = भैषज्यं कर्तुम् । सप्रौढि = अनवरुद्ध- मिव । महाराष्ट्रवसुधाधवः = महाराष्ट्रपृथिवीपतिः । पादत्राणापटा- पटाभिः = उपानहः फटफटाशन्दैः। सोपानपती : सोपानराजीः। ध्वनयन्- + उक्त -( निघण्टौ ) समिताया घृताक्लाया लोप्त्री कृत्वा च वेल्लयेत् । प्राज्ये तां भर्जयेत् सिद्धां शष्कुली फेनिकागुणाः॥ अस्मद्देशे 'लुच्ची' इति भाषायाम् । * 'पूपोऽपूपः पिष्टकः स्यात् ' इति ( अमरः) ।
( २१० ) शब्दयन् । यवनचिकित्सकः = म्लेच्दैवद्यः । पिचिण्डलः = स्थूलोदरः । दृढस्नायुः = संहननाङ्गः । ज्वलदिति-ज्वलति = प्रकाशमाने नयनयुगे आरोपितया न्यस्तया राजतशलाकया रूप्यकतुलिकया अधिकचाकचक्येन = समधि- कचमत्कृत्या चमत्कृत भासितं उपनेत्रम् = अयनकं यस्य सः । हरितेति-हरित कौशयस्य उष्णीषं शिरसि यस्य सः । श्रानाभीति-आनाभि = नाभिमभि- व्याप्य विलम्बमानो दीर्घः सितकृष्णः = श्वेतकालः (करडबरडः ' इति भाषा- याम् ) कूचों यस्य सः। कर्णान्तं दीर्घ श्मश्रुद्वयम् = मूर्च्छयुगलं यस्य सः । हरितकञ्चुकः = हरितचोलः । सुदीर्घति-सुदीर्घ पाण्डुर श्वेतरक्त- मधोवसनं ' तहमत ' इत्याख्यं कटिवस्त्रं यस्य सः । करे= पाण| कलिता धृता पुष्टा दृढा यष्टियेन स आम्रेडयन् = पुनः पुनः कथयन् । तत्पृष्ठलग्नः = तदनुगामी। पृ० ३४६ ॥ द्वाविंशतिवर्षकल्पः = द्वाविंशति वर्षतः किञ्चिदूनवयाः । कक्षे स्थापिता श्यामा मञ्जूषा पिटिका येन सः । राजपल्यङ्कसमीपे = महा- राष्ट्राधीशपर्यङ्कसन्निधा । क्षुधा = बुभुक्षा । हसते = हीनीभवति। ज्वलान्त= दग्धानि भवन्ति अङ्गानि । यवनस्पृष्टम् = म्लेच्छच्छुपितम् । अगदम् = औषधम् । पृ० ३५० ॥ ॥ एतत्समयानुरूपम् = काराबन्धकालयोग्यम् । वदान्यताम् = दानशौण्डताम् । अत्रभवतः = पूज्यस्य । परदत्तम् - दिल्लीवल्लभभिन्नार्पितम् । कारुकोषम् कारुनामकमहाधनिककोपम् । ईहामहे- कामयामहे । रोगिणाम् = रुजा पीडितानाम् । सम्मतिम् = इच्छानुरोधम् । अपेक्षामहे = पालयामः । ‘ाविद' इति चिकित्सकसहचरनाम । पेटापिधा- नम् = मञ्जूषाप्रावरणम् । उदतूतुलम् = उदघाटयत् । द्रवकम् = द्रव- द्रव्यम् । श्वतं चूर्णम् = शुभ्रं क्षोदम् । मेलयितुम् = योजयितुम् । कफवा- तेति-तत्र कफः = श्लेष्मा । वातः = शीतरूक्षस्वभावः । पित्तम् = सरमुष्णञ्च एते त्रयो दोषाः शरीरस्वास्थ्याऽस्वास्थ्यहेतवः तेषां प्रकोपः = वैषम्यं तजः । पृ० ३५१ ॥ अवालूलुकत् = " अवालुलोकन् ' इति भाव्यम् । तोयमावलु = पानीयमालोट्य । तादृशवचनभनीश्रवण = पीयूषहालां- हलमित्यादिवचनप्रकाराकर्णने । क्रमशः = उत्तरोत्तरम् । विवृद्धमन्युः प्रदीप्तकोपः । यवनेति-यवनेन स्पृष्टं यत् पानीयं तस्य पानम्। अचिकीर्षुः कर्तुम- ( २११ ) शतधाऽ. .. - निच्छुः 'प्रत्यक्षं गरल जलम्=विष जलम् पाययति ' इति हेतोः 'ज्वालयेव ज्वलितः ' वहिकीलयेव दग्धः । शतधाऽभूत् 'इत्यस्य स्थाने । करोत् ' इति पाठः समुचितो भाति । तदाहतीति-तस्य महाराजस्य पाहत्या पाताडन विस्मितप्रायस्य चकित चकितस्य चिकित्सकस्य वैद्यस्य । चपेटम् प्रसृतं करतलम् वेलायाः = हास्यस्य । चकर्ष= प्राकृष्टवान् । जघर्ष-पृष्टवान् 'सखिलखिलाशब्दम्' इति हसन्तम् । तम्- श्रालुलोक ' इत्यशुद्धन्---' पालुलोके इति शुद्धम् । परिपस्वजे- प्रालिलिङ्ग । शिरःशिरासु-शिरसः उत्तमाङ्गस्य शिरासु-नाडीपु । पृ०३५२॥ फलमिदं सिंहै: सह क्रीडायाः' इति सोपहासोक्तिः । स्पष्टमन्यत् । भट्टारकस्य-भर्तस्तवेत्यर्थः । निग्रहवृत्तान्तम् = कारीकरणो- दन्तम् । पारावार इव=समुद्र इव । वाडवेव = समुद्राग्निरिव । कोपेति- कोपः क्रोध एव कृपोटयोनिः वह्निः तेन नुन्धः = प्रज्वलितचित्तः । सर्वोऽपि महाराष्ट्रशिशुरपीत्याशयः दिल्ली =दिधक्षन्निव = दग्धुमिच्छन्निव । चिचर्वयिषन्निव-चर्वयितुं दन्तैः कुदृयितुम् इच्छन्निव । चुचूर्णयिषन्= चूर्णयितुं क्षोदीकर्तुमिच्छन् । लुलुण्ठयिषन् लुण्ठयितुमिच्छन् । क्रोधज- रोत-अत्र जरारूपकेण क्रोधस्य पराकाष्ठा व्यज्यते । गरुडस्येवेत्यादि उपमा। निदर्शना' च व्यङ्गया । शून्यमतावलम्बी= सुन्नी' इति प्रसिद्धयावनसम्प्रदाऽनुसारी । मोहरमोत्सवस्य= मुहर्रम ' इति ख्यातस्य उत्सवस्य । प्राडम्बरः = प्रदर्शनी । पृ० ३५३ ॥ सत्वरगामिनः = महाजवाः । पञ्चषाः = पञ्च पा षड् वा । हयाः = वाजिनः । कशाः = ताडन्यः । चिकित्साप्रकरणे तु- इति । स्पर्शदोषः = रोगस्य विपत्कालत्वात् । सुधाकरः = पीयूषपाणिरसि । पक्षे–चन्द्रमाः । चन्द्रकान्तस्पर्श = चन्द्रकान्तो मणिविशेषः चन्द्रकिरणे- स्पर्श सति द्रवतीति प्रसिद्धिः, पक्षे तु-चन्द्रकस्य चान्द्रखानस्य अन्तो नाशो यस्मात् स तथाविधः शिववीरः तस्य स्पर्श सम्बन्धेऽपि । रसम्: रसम् = पानीयञ्च । स्पष्टमन्यत् । पृ० ३५४ ॥ मुमुदेतमाम् = जहर्ष । ' मुमुदेतमाम् ' तिङश्च (५ । ३ । ५६ ) इति सूत्रेण तिङन्तादतिशयेोत्ये तमत् । तरप्त- मपौघः (१।१ । १२ ) इति तमपो घसम्शायाम्-किमेत्तिङव्ययघा- दाम्वद्रव्यप्रकर्षे ( ५ । ४ । ११ ) घान्तादामुः। गदनदम् =रोगहदम् । औषधरसम्, ( २१२ ) - शोपयितुम् = शुष्ककिर्तुम् नाशयितुमित्यर्थः । तत् = तस्मात् हेतोः । अल्लासकृपया=अल्ला महामाया जगदम्बा यवनभाषायाम् –' अल्ला खुदा ईश्वर इत्यर्थः तस्य ( तस्याः ) कृपया दयया। अल्लाकृपया इति युज्यते पाठः । सार्थ जानन्तु पण्डिताः । शक्ष्यति = शक्तो भविष्यति । कोशान् धावितुम्' इत्यत्र कालाध्वनोरत्यन्तसंयोगे (२ । ३ । ५) इति द्वितीया । 'रुग्णो न लप्स्यते' इति सम्बन्धः । अत्र · रुग्णे न लप्स्यते किन्तु रोगसहित एव लप्स्यते, गूढार्थस्तु ये ऽयमधुना रुग्ण: स परश्वो न लप्स्यते पलायि- प्यते इति यावत् ' इति प्राचीनलघुटिणे विवृतम् । पृ० ३५५ ॥ कृर्चिकास्निग्धकूर्चान् = कृचिका = क्षीरविकारः । तया स्निग्धः कूचों येषां तान् तादृशान् । इण्डारिकापिचण्डिलान् = इण्डारि- काभिः स्थूलोदरान् विदधाति । उल्लाघताम् = नीरोगताम् । ते केभ्य- श्चित् 'अन्यारादितरत्ते'-(२।३।२६) इत्यनेन अत्र 'ऋत' योगे पञ्चमी । आपण- स्थानि = विपणिपु विक्रेयार्थ प्रस्तुतानि । स्वावसथम् = स्वगृहमित्यर्थः । पेटासु = मञ्जूषाम् । आयोज्य = निवेश्य । मद्राणाम = पूज्यानां मान्या- नाम् । दधिचिकेति-अत्राहु:- दध्ना सह पयः पक्कं यत्स्यात्सा दधिकूर्चिका । तक्रेण पक्वं यत् क्षीरं तद्भवत् तक्रकूर्चिका ॥ इति । नवनीतम् = हयगवीनम् । सिता= शर्करोपला । यवसोटजम् = यवसकुटीरम् । मोदकेति-मोदकादि व्याख्यातपूर्वम् । पृ० ३५६ ॥ पक्वान्नपाचकाः = कान्दविकाः । पक्वान्नानि = अपूपमोदकादीनि । प्रस्तुतवन्तः = रचयन्तः । चुल्हीम् = चुल्लीम् । पृ० ३५७ ॥ कोष्णानाम् सयः पक्कानान् ताजकानाम् । कचौरीणाम् पूरिकाविशेषाणाम् । चपलयति = चटुलयति । रसनाम् = जिह्वाम् । अर्थात् तादृशगन्धमाघ्राय मे रसना मूत्रयति । पृ० १५८ ॥ 'भगवान् भास्वान् ज्वलयिन्निवाऽखिलं भूवलयं-वरुणदिशो नेदीयान् संवृत्तः' इत्यन्वयः । तदेतत् सूर्यास्त मुत्प्रेक्षया वर्णयति-गेहान् = गृहान् भ्राष्ट्रान् = भर्जनस्थानानि इव सन्ताप्य = सज्वल्य । । 'ग्रीष्मात्ता- पितः सिष्णासुरिव '-धर्मात् तापं प्राप्तः स्नातुमिच्छुरिव । सरस्वन्तम् = सागरम् । शुशोपयिषुरिव = शोषयितुमिच्छरिव । वाडवम् = वडवानलम् ( २१३ ) . विजिगीषुः = जेतुमिच्छुः। शेषेति-शेषः = अनन्तनागः तस्य फणावलीनां ज्वालाजालम् = कोलालिः तस्य प्रचण्डताम् = उग्रताम् आलोकयितुम् = द्रष्टुम् । दिधनुः=दग्धुमिच्छुरिव । अस्ताचलेति-अस्ताचलस्य अस्तगिरेः निर्भराणां वारिप्रवाहाणां शीतलजलानि शिशिरवारीणि पिपासुः = पातुमिच्छु- रिव । वरुणदिशः = पश्चिमाया श्राशायाः नेदियान् = अत्यन्तं निकटवत्ती। संवृत्तः = बभूवेत्यर्थः । दिल्लीमार्गाः = दिल्लीवानि । छत्रमयाः छायामया: इत्यर्थः । भस्त्रापूरितैः मषकभरितैः । पान्थान्-मार्गगतान् । अपसारम- पसारम् = अपसार्याऽपसायेंत्यर्थः । पथः = मागांन् । सेक्नुम् = पाद्रीकर्तुम् । अापणिकैः = हट्टस्वाभिभिः । पक्वान्नपूरपूरितानि = पक्वान्नराशिभरि- तानि । वंशपात्राणि = वैणवानि पात्राणि करण्डकादोनात्ययः । विहङ्गि- कानाम् = वीवधानां भारयष्टीनामित्यर्थः । पृ० ३५६ ॥ पेटायाः= विशालायाः मञ्जूषायाः । धूलिविमर्द धूसरितदेहः = रजःसंघींपतशरीरः । कपायवसनैः वेष्टितः कचानां कलापो यस्य सः । वक्रदण्डहस्तः = अनृजुदण्डपाणिः । भस्मोल्लिखितललाटः भसितलिप्तमस्तकः। अनुकालिन्दातारम् = कालिन्दोतोरमभिव्याप्य । 'समये- ऽस्मिन्-महाराष्ट्रराजः सुदीर्घभश्वसत् तञ्च मालो- पमालङ्कारेण वर्णयति । पञ्चास्यः =सिंहः । जालवन्धनविमुक्लः = भानायपाशिकामुक्तः । विहङ्गः = पक्षी इव । कुवेणीतः = मत्स्याधानीतः । अहितुण्डिकः-व्यालग्राही तस्य पिटकायाः मञ्जूषाया अपसृतः पन्नगः इव=सर्प इव। सुदीर्घमश्वसत्-दीघोच्छासं ततान । बन्धननिर्मुक्तस्य श्वासजातिरियम् अस्पृष्टाकृतिः = अन्धकारोत्थानहेतोः । अस्पष्टं प्रतीयमानाऽपि, विनिवर्त्त- मानैः = प्रत्यावृत्य आगच्छद्भिः परःशतानां भिक्षुकानां याचकानां बातैः संधैः व्याप्तः = सङ्कीर्णः । यातायातपरैः = गमागमासक्तैः पान्थैः = अवनीनः परिपूरितः= सङ्कुलीकृतः घण्टापथः= राजमार्गः । 'वामतः= ( एवंभूता ) यमुना= कालिन्दी प्रवहतीति शेषः । अनकैः उत्प्रेक्षागभैं: विशेषणैर्यमुनां वर्णयति-चाल्यमानाभिः = सार्यमाणाभिः । दीर्धाभिः: लम्बमानाभिः । आयताभिः = विशालाभिः । अल्पाभिः= लध्वीभिः महतीभिः = लघुप्रतियोगिनीभिः। साहाभिः= साट्टालिकाभिः । निरट्टाभिः- अट्टालिकारहिताभिः । सोल्लोचाभिः = सवितानाभिः । सनूपुराणाम् = तुद्रघण्टिकावतीनां क्षेपणानां क्षपणेन यो झणत्कारः = झणझणशम्दः तेन इत्यन्वयः । ..
( २१४ ) विस्मायिताः = क्षोमं नाताः मीनाः मत्स्या याभिः एवंभूताभिः तरणिभिः: नौकाभिः विलोडितनीलनीरा = विमर्दितकृष्णपान.या। पर शतेति- परःशतकमठपृष्ठानाम्=असङ्ख्यातकच्छपपृष्ठानां विम्बप्रतिविम्वैरिव, प्रतिसायम् सायं सायं प्रति-निविशमानाः प्रविशन्तः वगाहमानाः =निमज्जन्तः नीलगिरेः = नीलाख्यपर्वतस्य गण्डशेला इवाऽऽचरन्तः ये सिन्धुराः = गजा: तेषां घटानां यूथानां क्षालनैः धावनारव, सकलैः कलकैदोषः अतितमुद्रितो ये दिल्लीवल्लभोऽवरङ्गजीवः तस्य सम्पः = संसगैरिव च श्यामश्यामा = अत्य- न्तनीला । सन्तरणासक्तैः = तारीकरणलग्नः यवनयुवकैः-यवनयुवभिः । विक्षोभ्यमाणा= विस्फाट्यमाना जलयुद्धेति-जलयुद्धे = जलक्री- डायामासक्ता ये यवनबालकाः तेषां करयन्त्रेभ्यः च्युतानां स्खलितानाम् अम्बुविन्दूनां जलकणानां स्पशात् सम्पर्कात् भीतैः त्रस्तैः अवसारमवसारम् उपविशद्भिः- स्थितिं कुर्वाणैः ब्राह्मणैः सेव्यमाना = आश्रीयमाणा । क्वचिदिति- प्रक्षिप्तः मांस मग्रे यस्य एवं भूतोयो वडिशः मीनवेधनी तत्र वद्धा रज्जुर्हस्तयेषां तैः, जलचराणां मानानां तालुवेधं = तालुव्रणं प्रतीक्षमाणैः यवनैः । तरङ्गभङ्गैः- लहरीचालैः । वक्षो घनती-ताडयतीव । स्पष्टमन्यत् । दक्षतः = क्षक्षिणे पावें । अतिवाह्य = गमयित्वा । स्वावासम् = स्वं स्वं नीडम् । विहितकलकलैः सञ्चालितचुतैः विहङ्गकुलैः = पक्षिणां व्रातः उद्यानानि व्याप्तानि इति ग्रामाटकानाम् = क्षुद्राणां ग्रामाणाम् । पद्या: = पद्धतीः अन्वसरन् = अनुचेलुः । पृ० ३६१ । गोपुरोवरोधः = महाद्वारवन्धनम् । द्विमुखंपन्या- नम् = उभयतःपद्य मार्गम् । प्लक्षवृतम् = न्यग्रोधतरुम् । शाखाबद्धान् = खुराणामप्रैः उन्मथितः उत्खानितो भूभागो यः तानश्वान् । 'महाराष्ट्रराजो ऽपि-हयानालोक्य मन्दमगादीत् ' इत्यन्वयः । कीदृशान् हयान्- खलीनेति- खलीनस्य कविकाया लेहनेन चर्वणन या लीला = क्रीडा तत्र लीनान् लग्नान् । अतिमुक्तकुसुमस्तवकैः = माधवीसुमनोगुलुञ्चैः इव फेननिचयैः डिण्डीरगणैः परिपूजिता सज्जतां नीता वसुन्धरा पृथिवी यैः तान् , सजा उपनिवेशनिका 'काठी' इति प्रसिद्धा येषां तान् , लम्बितः दोलायितः लौहः प्रायसः पादाधारः ‘रकाब' इत्याख्यो येषां तान् । स्पष्टमन्यत् । हयनियामकम् अश्वसेवकम् । विशालम् = महान्तम् । श्राजानेयम् = अश्वम्। उदतीतरत् - सम्बधः उत्तरमदात्।
( २१५ ) पृ० ३६२ ॥ सादिनः = अश्वारोहाः एतेषाम् = महाराष्ट्राधीशा- दीनाम् । गतिम् = चालम् । रुरुधुः = अवारुधन् । सरलोऽयंमार्ग = सरला सरणिः । उदारा वाक् = उद्भटा वाणी । भव्या = भद्रा पर्यटन कौतुकिनः = भ्रमणकुतुहलवन्तः । पृ० ३६३ विमृशन्ति = आलोचन्ते सन्दिहानेन = संशयवता । भल्लागण = फालाग्रेण शिरोवेष्टनम् = उपणीपम् । उत्तोलितम् उत्थापितम् । लौहम् = पायसम् शिरस्त्रम् = शिरस्त्राणम् । उत्फालि- तवाहः = उच्छालितघोटकः। कश्यः = कशया ताडयितुं योग्यः । मुसल्यः= मुसलेन घात्यः । परिचिकाय = परिचितवान् । समशयिष्ट = शेते स्म, मृतः पपातत्यर्थः । भल्लतल्लजम्-प्रशस्तं भल्लम् । पृ० ३६४। वस्तान् = अजान् एतान् । आचक्राम= पाचुकूदें। सहयम् = साश्वम् । अपथेन = अमार्गेण । आषाढघनघटाम्= वर्षाकालीनमघच्छटामिव । अपसृताम् = दूरीभूताम् । अक्षतविग्रहाः = भद्रशरीराः । कन्दताम् = चीत्कारं कुर्वतान् । अस्मत्प्राणरक्षकः = अस्म- जीवनरक्षकः । प्रत्यार्थिनः = शत्रून् । श्रानृण्यम् = ऋणापनयम् । मत्कण्ठाखड्गम् = इति अलग्नार्थकमिव पदम् 'मत्कएठाऽपितखङ्ग' मितियुक्त मन्ये । झंझावातपाताघाताहतः-महावातप्रपातातुएणः। शुष्कच्छदः% शुष्कपत्रमिव । इष्वासपाणिम् । धनुष्पाणिम् । कटिवद्धति--कट्यां वद्धं निषक्तं तूणीरम् इषुधिर्येन स तम् । विहितेति-विहितः बहुल:प्रचुरः साधुवादा येन, समासादितः प्रसादः पाल्हादो येन स तस्मिन् एवंभूते महारा- ष्ट्रराजे । सोऽपि = तच्छत्रुहन्तापि। वाहात् = घोटकात् । उत्तीर्णः... कलितेति-कलितो रचितो हयनियामकस्य वेषो येन सः । प्रणन्तुकामम्- प्रहीभवितुकामम् । दासः= भृत्यः । तोषरोषभाजनन् = प्रसादकोपपात्रम् । पृ० ३६५ ॥ असाधारणः = अप्राकृतः । वन्धुः= हितकारी, स्पष्ट- मन्यत् । कण्टाकतः = सरोमाञ्चः । स्विन्नः = स्वदवान् । वेपितः कम्पितः । मुग्धमाणवक इव = मूढवाल इव । मुक्तकण्ठम् = गलोत्पाटम् क्रियाविशेषणम् । गौरः-गौरसिंहः। भगिनीजीवजीवनम् = सहोदराप्राण- पतिम् । प्रेमवाष्येति-प्रेम्णा यो वाष्पपूरः अस्रप्रवाहः तेन परितः सावितः । जटिवेषः-ब्रह्मचारिवेषः। अस्थिचविशेषः = अत्यन्तं कृश इत्यर्थः प्रांशुम् = उन्नतम् । कदम्बेति = कदम्वानां नीपानां कदम्वेन समूहेन संव.
( २१६ ) लितः व्याप्तश्चासौ ( पन्था ) तेन पथा—मार्गेण । दिल्लीशसकतेन अङ्किता: मुद्रिता याः पट्टिकाः ताभि राकलितः कटिबन्धो येषाम् तान् । पृ० ३६६ ॥ श्यामवसनान-कृष्णावस्त्रान् । रक्तशिरोवेष्टनान् लोहितोष्णीपान् । भुशुण्ड्या ( बन्दूकेन ) मण्डितो वाहुदण्डो भुजदण्डो येषां तान् — अश्वारोहान् अपश्यन् ' इति सम्बन्धः । हृष्यन्तः मोदमानाः । अन्धकारमये तमःप्रचुर। पथि-मागें । विलीनाः-अदृश्या अभूवन्नित्यर्थः । इति ( नूतन ) शिवराजविजयपताकायां- एकादशो निश्वासः।
* ॐ * द्वादशो निश्वासः। यदीय-भक्ति-भावना-पुनीत-मानसा नराः । त्रन्ति दुःखसागरं नमामि तं रमापतिम् ॥ १ ॥ भवे भवे भवाम्बुधि-प्रभूतमजकश्मलम् । नरा न यान्ति यत्पराः परं परायणं भजे ॥ २ ॥ श्रुति-स्मृति-प्रमाणसिद्ध-रूपमद्भुतं हरेः । धरामि चित्तपङ्कजे शिवं शिवाय कीर्तयन् ॥ ३ ॥ अचिन्त्य-योगशनि-शक्य-मेयभाव-वर्जितम् । निरञ्जनं विभञ्जनं तमस्ततेः परं श्रये ॥४॥ जपतां जुह्वतां नित्यं ध्यायतां कृष्णसन्मणिम् । चिन्तितार्थजया भूति भव्या भूमौ भवेन्नृणाम् ॥५॥ एकादशे निश्वासे लोहपअरमुक्तस्य सिंहस्येव दिल्लीकलङ्कमुक्तस्य शिवस्य स्वदेशाभिमुखं प्रस्थानमुपसंहृत्य सम्प्रति द्वादशनिश्वासमारभमाणः शिवशान्ति- महोत्सवं सौवर्णमङ्गलादि वृत्तञ्च ग्रन्थयन् आदी वृत्तोपक्षेपकविधया 'तासाम् '- इति भागवतं ' यत्र योगेश्वरः '-इति गीतासम्बन्धि प्रतीकमुपादत्ते ग्रन्थकारः । श्लोकयोः संक्षिप्तार्थस्तु-तासाम्-भगवद्वियोगानलतप्तमनसां गोपीनां मध्ये शौरिः = श्रीकृष्ण भगवान् आविरभूत् = प्रकटो बभूव । कीदृशः-स्मयमानं विकसितं मुखमेव अम्बुजं कमलं यस्य सः तथा-पीताम्बरधरः, स्त्रग्वी वैजयन्तीमालाभूषितकण्ठः, माक्षात्मन्मथमन्थथः = वस्तुत एव मदनमथनशील: वशीकृतकाम इत्यर्थः । एतेन श्रीभागवते कृष्णः कामलावित इत्यन्यो गोताकृष्ण वदन्तः केचित् परास्ताः भागवतपुराणान्तर्गतरासमर्मानभिज्ञानात् । यत्रेति योगेश्वर = सकलमायानियन्ता कृष्णः = सकलाघहन्ता जगदीश्वरः सच्चिदा- नन्दं ब्रह्मत्यर्थः, पार्थोऽर्जुनो धनुर्धरः श्रीः = लक्ष्मीः सकलसम्पत्तिः विजयः = परम उत्कर्षः । भूतिः = ऐश्वर्यम् । नीतिः ='नयः । स्पष्टमन्यत् । गम्भारतत्त्व- न्त्वन्यत्र दर्शितम्। SRI PRATAP MIT Bom ( २१८ ) पृ० ३६८ ॥ अरुणोदयः : - प्रातःकाल इत्यर्थः । " अरुणोदय- वर्णनेनोपक्रम्य तेनैव सगापयन् उपक्रमोपसंहारयोरेक्यं दर्शयति ग्रन्थकारः" इति प्राचीनलघुटिप्पणे उक्तम् । कलविकैः = चटकैः । तनूभूतम् = सूक्ष्मीभूतम् तमः = अन्धकारः । इरम्मदः = मेघः । मयूरान् = बहिणः। मतङ्गमो- हनम् = गजमत्तताकरम् । उद्गिरति = वमति बहि:प्रकटीकरोतीत्यर्थः । रसा = पृथिवी । “रसा विश्वम्भरा" इत्यमरः । कथम्भूता-नवेति-नवाना नूतनानां वारिदाना मेघानां वारिभिः जलैः सरमिता आा सतीत्यर्थः । दिष्ट्या = हर्षे अव्ययम् । मनोरथैः सङ्कल्पैः । गुप्तवेषः गोपिताकृतिः । ह्यः गतेऽह्नि । अानन्दमयः= आनन्दप्रचुरः । विषादम् खदम् । समनुभव-भुव । महादेवसेवायाः- शिवार्चनायाः । नमस्यायाः = नमस्कारस्य । तपस्यायाः = तपश्चयायाः परिणामम् = फलम् । अवसन्नानि = अवसिति गतानि समाप्तानीत्यर्थः । दुरदृष्टानि = दुष्टानि प्रारब्धकर्माणि । सन्तापेति-सन्तापेन विरहदुःखेन तप्तः श्वासः शुष्कम् = नीरसम् । हासरसै-:नर्मालापसुखैः अधरं रञ्जय-रक्की कुरु | अधरे रागो दीयते सुन्दराजनेन । अञ्जनरञ्जनरहिते = कज्जलचर्चन- शून्ये । क्रन्दनेति-क्रन्दनवारािबन्दुव्रजैः = विलपननेत्रजलकणगणैः यद्द- दिनदु:खं तत्र स्थिते वर्तमाने अर्थात् रोदनविह्वलीभूते। ' नयन ' इति कर्मभूतम् । आमोदामृतासारैः = श्रामोदो हर्ष एवाऽमृतम् तस्य प्रासारैः धाराप्रपात: स्नपय = धावय। सतोरणाः = वहिारसहिताः । ' तोरणोऽस्त्री वहिद्वारम् इति ( अमरः)। पृ० ३६६ ॥ महादेवम् = शिवम् । परिक्रम्य = प्रदक्षणीकृत्य । पुलकाऽवरुद्धकण्ठा = पुलक: रोमाञ्चैः अवरुद्धः गलच्यासः कण्ठो यस्याः व्यतीताः = गताः दुर्घटनाः = दुरावस्थाः । स्मारस्मारम-स्मृत्वा २ । एवमन्यत् । समूलतपस्या परिपूर्णतपस्या इत्यत्र तात्पर्यम् । तत्=तस्माद्धेतो: तपस्विनीवेषम् = वतिनीनेपथ्यम् । गङ्गाधरस्य - महादेवस्य । परमेति- परमानन्दसंदोहस्य प्रगाढहर्षसमूहस्य मदेन मन्थरा सालसा सती । व्याहृत्य- वाचयित्वा । अानन्दन-रघुवीरागमश्रवणजनितेन हर्षेण या अश्रुकला=नेत्रवारि बिन्दुकणिका ताभिः श्राकुलिती सावितो कपोलो गण्डयुगलं यस्याः सा (सौवर्णी ) अस्तोट = गुणरकीर्तयत् भस्मोद्धूलितेन = भरमना लिप्तेन । माभैरिति-३०० पृष्ठ दशमे निश्वासे ३०० पृष्ठ दशमे निश्वासे 'सुन्दरि भास्म भैषीः इति ( २१६ ) - लिखन् अत्र " माभै" रित्यसकृदाभाष्य-इति ग्रन्थन् ग्रन्थकारः युक्तोऽयुक्तो वेति पण्डितैरेव चिन्त्यः । अस्माकन्तु महन्मानपात्रम् , शब्दवारिधिश्चागाध इति मंक्षेपः । वलितः वेष्टितो व्यालबाल एव वलयो यस्मिन् तेन 'वलितबालव्यालवल- येन' इति तु युकमाभाति । पृ० ३७० ॥ तत्परिपूजितमूतौं सौवणीसमचिंतमहादेवप्रति- मायामित्यर्थः । निलीनः = लयङ्गतः । स्वयश्च-तथैव समस्थित' इत्यन्वयः। वद्धसौवर्णोष्णीषम् = धृतसुवर्णमयशिरावेष्टनम् । लोलञ्चन्द्रहासम् दोलितखड्गम् । पुलकांशुपूरिपूर्णेति ' पुलकांशुपरिपूर्णमालोललोचनम् इति स्याञ्चेत्तदाऽयमर्थ:-' पुलकांशुपरिपूर्णम् '=मरोमाञ्चम् — पालोललोचनम् ' हर्षवशात् समन्ततश्चपलनेत्रम् ' दृशा लिहन्तमिव' -इत्यादिपु सर्वत्रोत्प्रेक्षालङ्कारः। कर्णरसायनम् = श्रोत्रानन्दकरम् । उन्मील्य = उद्घाट्य । रघु- वीरसिंहमदर्शत्' इत्यन्वयः । कथम्भूतं तम् = जीवनाधारम् = प्राणा- श्रयम् । ध्याने--समाधौ विहितः कृतः साक्षात्कारो यस्य तम् । विलुलिता प्रेमवशात् प्रचलिता अश्रुधारा यस्य तम्। संसारसारम् = संसारे सारभूतम् अतिप्रियत्वात् पतिव्रतानां पत्युरेवसारत्वाच्च । प्रापितः =गमित: पीडायाः पारावारः समुद्रो येन तम् । अभिहितः = कथितः प्रवाहितः इत्यर्थः वचनमेव पीयूष- ममृतं तस्य श्रासारः धाराप्रपातो येन तम् । अनपेक्षितेति-अनपेक्षिता नध्याता ब्रीडा लज्जा येन सा, समनुभूता-सम्यक् भुक्ता या चिरविरहपीडा-बहुकाल- वियोगव्यथा तया प्राकलिता रचिता कृता विक्षिप्तक्रीडा उन्मत्त (पागल) खेला यया सा मुक्तकण्ठं यथा स्यात् तथा रुरोद-विललाप। कण्टाकितेति-कण्टाकितकरेण रोमाञ्चवता पाणिना प्राकलितो धृतो यः पटखण्डः कष्ट इति तेन, कपोलतले गलन्ती स्खलन्ती या अध्रुधारा ताम् प्रेञ्छितवान्ममार्ज । उपवेश्यताम् प्रासयित्वा उपविश्य = ( स्वयम् ) आसित्वा । दुरदृष्टदशा = दुर्ग्रहदशा । तवैव पुण्यैः = सुकृतैः । दुष्कीर्तिवेदनाम्-अपयशोव्यथाम् । विधूय- दूरे नीत्वा विनाश्यस्यर्थः परमपुरस्कारभाजनम् -परमपारितोषकपात्रम् । पृ० ३७१ ॥ 'अहह क ते नवनीतकोमलानि भङ्गानि क चैतद्ब्रह्मचर्यम्' इत्यत्र विषमालङ्कारः उक्तञ्च-" विरूपयोः सङ्घटना"-इति । प्रकृतिकु- श्चिताः-स्वभाववलनावलिताः कचाः = केशाः । जटाजूटताम्-जटारूपेण जूटभावम् । भसितसंघर्षम्-भस्मलपम् । मौक्तिकमालागौरवम् मुक्तामालाभारम् । सग्लानि - सखेदम् । रुद्राक्षराशिभारकष्टम्-रुद्रा- ..
( २२० ) क्षमालापरिधानमित्यर्थः । कुसुमेति-कुसुमानां पुष्पाणां शयनसनाथनस्य = शयनविलासस्य प्रार्थनाया भाजनं पात्रम् । स्थण्डिलशय्याम् = भूमिशयनम् । साधयामि = गच्छामि । आनन्दपरवशा= रघुवीरसिंहमिलनजनितहर्षा- धीना । जडीकृतेव स्तब्धेव । चित्रार्पितेव = लिखितव । मन्त्रकी. लितव = मन्त्रयन्त्रितेव । मायामोहितेव = ऐन्द्राजालिकविद्यामुग्धव । विक्रीतचित्तव = दत्तचित्तव । हृतहृदयेव = चोरितहृदयेव । मथितमा- नसेव = विलोडितस्वान्तेव । अविरलति-अविरलं गलतो नयनजलस्य धारया भसितसम्मर्दम् = भस्मलपमिव क्षालयन्ती-प्रोच्छन्ती। मोमोद्यमानः अतिशयन प्रसन्ना क्रियमाणः । सच्चरीक्रियमाणः = अत्यन्तं सक्रियमाणः । पृ० ३७२ ॥ परमं मादसन्दोहमवाप = रघुवीरसिंह इति कर्ता । मोदसन्दोहम् = हर्षकूटम् तत्पूजकेन = हनूमन्मन्दिरपूजाधिष्ठात्रा । सशीराशिसमाश्लिष्टः अाशिषां राशनपूर्वकमालिङ्गितः । प्राप्त प्रसादमाला येन सः । सम्पादितं सम्भूषितं सिन्दूरतिलकेन भालं मस्तकं येन सः । साष्टाङ्गम् = दण्डवदित्यर्थः प्रणनाम अभ्यवन्दिष्ट । “देवशर्मा तु- वक्षसि गाढमालिलिङ्ग” इति सम्बन्धः । तादृशं स्वरम्-रघुवीरसदृशं शब्दम् । चकितः = विस्मितः । जड इव स्तब्धः = मूढ इव निश्चेष्टः। उपनेत्रम्- अयनकम् । श्मश्रुकृर्चम् = श्मश्रुश्च कूर्चश्च अनयोः समाहारः तत् “मूर्छा- दाढिके"। इत्यर्थः प्रक्षाल्य = आद्रयित्वा प्रक्षाल्य = श्राद्रयित्वा . पतन्तीभिः-प्रस्खलन्तीभिः वाष्पधाराभिः = अश्रुप्रवाहैः । तम्-रघुवीरम् । आसिच्य = क्लिन्नं कृत्वा । समुदञ्चितैः-उद्भिन्नैः श्वतरोमभिः = सितवालांकुरैः व्याप्तः । श्वतरामव्याप्तिम् आनन्दाक्षतैरिव' इति तृतीयान्तरुत्प्रेक्षते। आनन्दाक्षतैः = हर्पतण्डुलः वात्सल्येति-वात्सल्यं प्रेमैव रजतं तैरिव । प्रेमा एव पीयूषममृतं तस्य धाराणामुद्गारैनिस्सरणरिव, निःसरद्भिः निर्याद्भिः । कष्टस्य कण्टकैरिव समुदञ्चितः । वलितवलीपलिते...... ....... अस्थिधर्ममात्रे अस्थिचविशेषे । वक्षसि-क्रोडे । सोऽपि रघुवारोऽपि । तुरगनिगालम्- अश्ववल्गाम् । श्रास्फाल्य = प्राकृष्य । सोत्फालम् = सकूर्दम् । अभीषून् अश्वरश्मान् । पलाशिनाम् = वृक्षाणाम् । पृ० ३७३ ॥ तत्र कुटीरे' इत्यग्रिम वृत्तमाह-जटिलः = ब्रह्मचारि. वधः । वीरगतिम् = वीराणां गतिं निभीक मत्युम् । शोकविमोकम् = शोकपरित्यागं नाऽकापीत् । चिरेति-चिरमनुभूतं भुक्तं सुतावयोगस्य = पुत्र- ।
( २२१ ) - विरहस्य दुःखं येन सः। खिद्यतेतमाम्'--अत्यन्तं दुःखितो भवति । ऊर्जस्वलैः- उद्भटैः । वागासारैः = वाचांप्रवाहै: मन्दं चक्रुः = शमयाम्बभूवुः । कृष्ण- कर्ण-तुरगं चालयन्' इति सम्बन्धः । द्वितीयान्तानि तुरगविशेषणानि चञ्चदिति-चञ्चत् चमत्कुर्वत् चन्द्र इव वों यस्य तम् । उन्नतग्रीवम् = ऊद्धींकृतकन्धरम् । मेचकेति–मेचकानां कृष्णवर्णानां कचानां केसराणां प्रचयेन वोजितः भनमानः निगाल: = गलोदेश। यस्य तम् । धूम्रति-धूम्रलाङ्- गूलस्य = धूमरवर्णपुच्छस्य उद्धृननेन विहितं चामरचालनस्यव चातुर्य चातुरी येन तम् । चर्वणावशिष्टैः निगरणोशषभूतः प्रत्यर्थियशोभिरिव शत्रुयशोभिरिव फेनैः-डिण्डोरैः। प्रालिप्ता = सर्वतोव्याप्ता सृकिणी = प्रोष्ठप्रान्तभागो यस्य तममुं तुरगं चालयन् । उपत्यकाम् = अनेरासन्नां भूभिम् परिक्रम्य = परितो भ्रास्वा इत एवायाति । अनुकरोति = अनुसरति । अस्य प्राकृतिः-मूर्तिः । हयारोहभङ्गी = अश्वारोहणप्रकारः । संशते- संदेहाकुलं भवतीत्यर्थः। पृ० ३७४ ॥ व्या अवोचन् । प्रसूतिः = प्रसवः सन्तति. रित्यर्थः । समाकर्णि = अश्रावि । तोषितप्रभुः= तोषितः प्रसन्नीकृतः प्रभुयेन । वीरेन्द्रसिंहव्रतस्य = वीरेन्द्रसिंह कृतमहादेवाराधनरूपस्य फलम् । विजृम्भितः = प्रकटीभूतः । परिणामः = परीपाकः । वटूनाम् = ब्रह्म- चारिणाम् । अश्रुकलाभिः = बाप्पधाराभिः प्राकुलिते लोचने यस्य सः। पृ० ३७५ ॥ 'न लक्षितः केनापि ' इन्तेन गधेन जनबाहुल्यं प्रेमप्रवाहाच्छलनप्राचुर्यञ्च व्यज्यते । तयोः = पितृपुत्रयोः । मेलनेति मेलनस्य समागमस्यावलोकनेन चकितः विस्मित इव । महापरिणाहः = विशा- लतरः । गतन्नाहः- 'विगलन् = प्रस्रवन् स्वदप्रवाह। यस्य सः वाहः = अश्वः । निरभीषूकृत्य = निष्पग्रहांकृत्य । घोटकः = अश्वः । हर्षवर्षपरवशः = आनन्दवृष्टिपराधीनः । पारस्परिकेति-पारस्परिक प्रेमपूरप्रवाहस्य = अन्योन्यप्रीत्युच्चालौघस्य ये पावर्ताः = अम्भसां भ्रमाः एव गतः तस्मिन् यत् परिपतनं स्खलनं ततो भीतेव त्रस्तेव वाणी = वाक् । न प्रचचार- नैव प्रासरत् । व्यतीतेति-व्यतीताया गताया व्याकुलतायाः दुःखपरम्परायाः जह्वः विषये । पृ० ३७६ ॥ नेदिष्ठानाम् अत्यन्तमन्तिकवत्तिनामपि, परस्परदिदृक्षया= भन्योनदर्शनेच्छया क्षामं = कृशम् हृदयं येषाम्। अपरिचिन्वताम् = परिचय- ( २२२ ) %3D मकुर्वताम् । नेदिष्ठानामपि-मिलिता वयम् ' इत्यन्तं गद्यमलग्नार्थकमिव मे भाति । भोक्तव्यम् - अवश्यं भोगार्ह सुखं दुःखं वा । विद्रावितनिद्राः = विद्राविता दूरीभूता निद्रा यासु। तन्द्रादरिद्राः=प्रमीलोपेताः। महायामया- मिन्यः = दीर्घतरप्रहरवत्य: यामिन्यः = रात्रयः । नोदासितव्यम् औदासीन्यं नाश्रयणीयमित्यर्थः । सारगर्भाम् = उचितार्थोपेताम् । उपदेश- पूर्णाम् = भोक्तव्यस्याऽवश्यभोग्यतादिरूपः उपदश: तद्युक्ताम् । धैर्यधुराणाम् = धीरताविशिष्टाम् कोमलाम् = मृद्वीम् । अमलाम् = शुद्धाम् । वाचम् = वाणीम् परमेति-परमानन्दसन्दोहेन समुवेल्लन्तः उच्छ- लन्तो ये वाष्पाः तेषां विन्दूनां कणानां व्रजेन समूहेन । क्षालयाम्बभूवुः = सावयामासुः अर्थात् तेषां प्रेम्णाऽस्रप्रवाहो निरगात् । 'कलितकम्पया इत्यादि तृतीयान्तं — लेखन्या' इत्यस्य विशेषणम् । पृ० ३७७ ॥ अविरलेति-अविरलं गलन्ती प्रस्रवन्ती साजनवारि- धारा = मपीधारा यस्याः सा तया। सामग्रीसाधनम् = व्रतपारणोपकरणम् । स्पष्टमन्यत् । सादी = अश्वारोहः । एनम् = पूर्वारूढमश्वम् आर्द्रपृष्ठीकर- गाय = विश्रामोपेतीकरणाय । तौ = रघुवीरः रघुवीरानुसरसादी च खुराग्रेण = शफपुरोभागेन शारद- घनपटलमिव = शरत्कालीनमेघमण्डलमिव रेणुकाराशिम् = धूलिपुजम् । उद्गिरन्तौ = उत्थापयन्ती, प्रलम्बपुच्छौ = दीर्घलूमौ अायतग्रीवौ = विशालकन्धरौ समीरणस्य = पवनस्य संसरणेन संस्तब्धाः कण्ठस्यकेशाः ययो- स्तो । सप्तसप्तिः = सूर्यः तस्य सप्तयः अश्वाः तेषां दर्पम् = गर्व दूरीकर्तुमिवेति उत्प्रेक्षा। पृ० ३७८ ॥ अङ्गारपरिपूर्णाम् = इङ्गालव्याप्तामिव भुवम् = पृथिवीम् । उत्फालमुत्फालम् = उत्पाटमुत्पाटम् । ' पलमेकं स्पृशन्ती ' इत्यस्य स्थाने पदमेकं स्पृशन्ती' इति युक्तं भाति अतिशीघ्रचालत्वात् एकमिव पदं = चरणं स्पृशन्तौ इति लुप्तोत्प्रेक्षा स्यात् । एवंभूतौ वाजिनौ = घोटकौ चालयन्तौ = तावित्यर्थः । निलिल्यतुः = निलीनौ वभूवतुः । गणेशशास्त्री महो- त्सवमकारयत्' इत्यन्वयः । वीरम् = वीरसिंहम् । व्रतोत्सर्गम्बतपारणाम् । उद्वर्य = उद्वर्त्तनं कारयित्वा । अभ्यङ्ग्य = तैलं मर्दयित्वा । प्रणमय्य = नमस्कारयित्वा । अवितर्कितसमागमः = अतर्किनोपनतः । श्रार्पयत् = ( २२३ ) ददी । 'सच-गणेशहस्ते आर्पयत् ' इति । सच = वीरेन्द्रसिंहः । श्रीदि- गन्तति-दिशामन्ता: दिगन्ताः तेषां दन्तः मुखरित्यर्थः दन्तुरिता गीकृता या कीतिरेव कौमुदी चन्द्रिका, तया धवलिते शुभ्रीभूते वसुधातले पृथिवीतले यो राज. पुत्रदेशः तस्य चूडीमणीभूतो शिरोमणीभूतो यो जयपुरप्रदेशः तस्मिन् ये सामन्ताः माण्डलिका राजानः तेषां मण्डल्या मस्तकमण्डनेन ललाटभूषणेन अर्थात् मुकुटेन मण्डिस सज्जितं पादारविन्दं यस्य त एवम्भूतः-जयपुराधीशः । साशीराशि= पाशिषां शशिभिः सह। अन्वेपणैः = गवपणैः। चिरम् = बहुकालम् अन्वभूम = अमुमहि चिन्ताकलापम् = चिन्तासन्तानम् । भवतः सम्पत् = गृहादिसम्पत्तिः । शीर्णानि जीर्णानि = त्रुटितानि स्फु- टितानि । : .. पृ० ३७६ ॥ मण्डलेश्वरतापर्यवसायि = माण्डलिकशास्तिरूप- मित्यर्थः । राजपदमर्पयामः -- अर्थात् ' एनं ' सामन्तं राजानं विधास्यामः इति । दैवघटनायाः = प्रारब्धयोगस्य । वैचित्री= विचित्रता। नैष्ठिकतप- साम् = ब्रह्मचर्याणामित्यर्थः । समोदम् = सहर्षम् । सुगन्धितसलिलैः : सुरभिपानीयैः अभितः पन्धानम् "_मार्गस्य समन्तादित्यर्थः रम्भास्तम्भाः = कदलीस्तम्भाः सम्भाविताः = सुसज्जायिताः । कुकु- चर्चिताः = केसरच्छुरिताः । अम्भ:पूर्णाः = जलभरिताः, कुम्भाः स्थापिताः । मगलहेतवे इत्यर्थः । अशोककिशलयमाला= अशोकपत्रमालाः । पृ०३८०॥ ध्वजाः पताकाः । श्रारोपिताः आयोजिताः । इतः पश्चाच्च सन्तस्थे अत्र प्रायः सम्पूर्वकस्थाधातारमङ्गलव्यअकत्वादश्लीलमिदम्पदमिति मे मतिः, परं सूरयः प्रमाणम्। संस्थाञ्च पाण्डुपुत्राणाम्' इत्यादौ 'संस्थाम्'=मृत्यु- मित्याद्यर्थदर्शनात् ।( शोणितं = रतं शीर्षण्यं = शिरस्त्रं शी येषाम् । सधनुः र्वाणानाम् = धनुष्पाणानाम् , सायकधारिणाचेत्यर्थः । कलितवारवाणा नाम् = धृतकञ्चुकानाम् । कावचिकानाम् = धृतसन्नाहानाम् । वर्मभृतां कावचिकं गणे" इति ( अमरः) । "ठञ् कवचिनश्च" (४।२।४१) इति सूत्रेण समूहाथै ठञ् । कवचिनां समूहः " कावचिकम् " तेषाम् । पङ्किः = राजिः । अपरा-सादिभटानां श्रेणी भवतस्थे " इति सम्बन्धः । कीदृशानां. व्यूढकङ्कटानाम् = परिधृतजगराणाम् । “उरच्छदः कङ्कटको जगरो कवचोऽस्त्रि- याम् ” इति ( अमरः) । पुनः-प्रास्फोटिताः = पापोथिता घोटकानां केसरालियः तेषाम् । पुनः—मौाः प्रत्यञ्चाया घातसंट्रेन = पुनःपुनराताडनेन ( २२४ ) .. यः किणः घर्षत्रणः तेन विकटे = निम्नोन्नते मणिबन्धे करमे संसपीणि हाटककटकानि सुवर्णवलया येषाम् । प्रतिघोटकेति-घोटकविंशतिकं घोटकं विंशतिकं प्रतीति प्रतिघोटक विंशतिकम् तावत्यन्तराले " कुचराः उपस्थिताः" इति सम्बन्धः । कुञ्जराः = गजाः । कुञ्जरान् विशिनष्टि:--विविधेति-विविधैरनेकप्रकारैः मण्डनैः भूपण: मण्डिताः शुण्डादण्डा येषां ते । मौक्तिकानां = मुक्तानां स्तवकैः गुत्सकैः चोचुम्व्यमानाः तथा दानवारिधारायाः = मदजलधारायाः आसारेण सम्पातेन क्षालितानि कपोलानि येषां ते । वमथुना = सजलफूत्कारेण परिषिक्ताः श्राद्रीकृताः पार्श्वपरिवत्तिनां तुरङ्गारोहाणां सादिनां अङ्गनिचोलाः कवचा यैः ते, नीलाद्रिसानुमञ्जुलाः : = नीलपर्वत शृङ्गसुन्दराः यान्- कुञ्जरान् वहवो ब्राह्मणवटवः समारूढा: इति । कीदृशः-कुसुमानां पुष्पाणां निचयैः समूहै: आकीणानि व्याप्तानि पात्राणि हस्ते पाणी येषां ते ब्राह्मणवटवः । प्रतिगजद्वयानन्तरम्=प्रत्यकगजद्वयान्तराले । दौन्दुभिकेति-दौन्दुभिकाः दुन्दुभिवादकाः । वैणविकाः = वैणवशिल्पिनः । वैणुवादनशीला इत्यर्थः। वैणिकाः- वीणावादकाः । मार्दङ्गिकाः = मृदङ्गवादकाः । मौरजिकाः = मुरजवादिनः एषु सर्वत्र-शिल्पम् । ) इति सूत्रेण ठक् । पाणिघाः = पाणि- ताड़काः । पाणिघताडयौ शिल्पिनि ( ३ । २ । ५५ ) इति निपातनात साधुः । पाणि घ्नन्तीति पाणिघाः 'अथ-सत्पथेऽस्मिन् न्यविशत महाराष्ट्रचक्रवती' इति दूरेऽभिसम्बन्धः । वारुणीति-वारुणी = पश्चिमा दिक् तस्याः संसर्गेण अधिकशोणे = अत्यन्तं रक्ते अस्तमनकाले सूर्यस्यैवंवर्णत्वात् । वारुणी = सुरा च, अन्योऽपि वारुणीसंसर्गेण ( पानेन ) रक्तस्याधिकसञ्चारात् शोणो भवतीति वस्तुध्वनिः । लजयेव बीडयेव । पाश्चात्येति पाश्चात्यपर्वतस्य पत्य एव जवनिका प्रतिसारिणां तस्या अन्तनिलीने अन्त:हिते, मुरादिनिन्दितं कर्म कुर्वाणोऽन्योपि लज्जाहतोऽन्तनिलीयते इति व्यङ्ग्यम् । एवम्भूते चण्डमरीचिमण्डले = सूर्यविम्बे । चिरेति- चिरकरस्पर्शेन उदीण निष्कलितो यः स्वेदः तेन स्नातानि धौतानि वदनानि येषाम् एवम्भूतेषु वीरेषु = भेटेषु । पुनः कथम्भूतेषु-पटान्तसङ्घर्षेण = अम्बरकोण संघट्टनेन अधिका द्विगुणा कान्तिः छविर्येषां तेषु । परःशतेति-परःशतानाम- संख्यानानां वादित्राणां वाद्यानां वादनेन उद्भूतो यो महाध्वनिः = महानादः तेन बधिरीकृतेषु दिगन्तरालेपु= दिशां प्रान्तभागेषु सत्सु । पृ० ३८१ ॥ उद्ग्रीवैः = उन्नतकन्धरैः । विस्मृताभिः = तदर्शनैकचित्त- - क्त ( २२५ ) यत् तस्य, .. - स्वात् , निमिमेपनयन - अनुरागाधिक्यात् । निपीयमानः = सादर मोक्ष्यमाणः । सहस्रगुणयन् = अतिमात्रं कुर्वन्नित्याशयः । “चिरविरहविधुराम्" अतिकालवियोगव्याकुलान् श्रात्ममात्रशरण जनगात्रयष्टिम् = स्वाऽनन्याश्रित. प्रजाजनशरारमित्यर्थः। पुनरुज्जीवयन्-भूयोऽपि प्राणयन् । दुर्दिनेति-दुर्दिनैः दुःखप्रदर्दिनैः शोषितं नाशित भारतस्यमाभाग्यम् ऐश्वर्य पुनरभिवर्षणेन हर्षमयम् = आनन्दमयम् अपरम् = द्वितीयम् । मेघच्छन्नेऽह्नि दुर्दिनम्" इति ( अमरः ) । " दिशोऽपि हासयन् "-इत्यादिगद्ये प्रायः उत्प्रेक्षा सुषुप्तिस्वादनस्पर्धिनः = सौपुप्तानन्दप्रतिद्वन्दिनः लोकोत्तरमहानन्दस्य । प्राशीभिरभिनन्धमानः इत्यादि निगदव्याख्यातम् ।। वाहुमूलेति-वाहुमूले भुजमूले रोपिता: धारिता भलिकामतल्लिकाः = प्रशस्ता ( अतितीक्ष्णाः ) भल्ला यः तेषामित्यर्थः । मल्लतल्ल जानाम् = महामल्लानाम् श्रावलिपटलम् = राजिपरम्परेति विवक्षितोऽर्थः । वनीयकी-कृतेति । वनीयका. कृतः याचकीकृतः अवन्यां भूमौ यवनीससुदायः म्लेच्छकामिनीसमूह। येन सः । एतेन–अनेकयवनहन्तति व्यक्तम् । पृ० ३८२ ॥ विप्रवटवः-सुमनसः संववपुः इति सम्बन्ध । मकरन्दति-मकरन्दः पुष्परसः तस्य बिन्दूनां सन्दोहप्रसारण तुन्दिलानि स्थूलानि “बहुसौरभभाजि" इत्यर्थः । महासौरभेन = अधिकगन्धेन समाकृष्टाः आसञ्जिताः परःकोटयः रोलम्बकदम्बा: = भ्रमरपुआ: यैः तानि, मोदितानि हर्षितानि सकलानां जनानां मनांसि चेतांसि यैः एवम्भूतानि । सुमनसः = पुष्पाणि । स्त्रियः सुमनसः पुष्पम् इति ( अमरः )। महासन्नाहेति---महान् सन्नाहो येषाम् एवम्भूतो यो विविधानां वाहानां घोटकादीनां प्रवाहाः यथाः तैरित्यर्थः सञ्चकम्यमाणा = अत्यन्तं गम्यमाना मोदेनेव = हर्षेणैव चकम्प = पृथिवी एतेन जनतासम्वाधातिशयो व्यज्यते । कुसुमेति - कुसुमानां मरन्दविन्दुभिः मकरन्दकर्णः स्नातः = व्याप्तः समीरणः = वायुः पुलकमिव समाससाद इत्यन्वयः । श्राजुहाव = भाकारयामास । अत्र सर्वत्र उत्प्रेक्षा । अखर्वेति-अखर्वाणां महाकायानां गन्धर्वाणाम् अश्वानां खुराघातैः = शफोत्पाटनैः धूलीभूय रजोभूय उद्गतया भुवा = पृथिव्या अपि प्रालिङ्गयमानः आश्लिष्यमाणः "प्रतापदुर्गमाससाद देवः” इति सम्बन्धः । " सादि " इत्याकारं पदमलग्नार्थकम्-" ससादि " इत्याकारं क्रियाविशेषणं तु भवितुर्महति । । एजाचक्रे । वसुन्धरा ( २२६ ) पृ० ३८३ ॥ तत्र च-स्वावलोकनामोदपरवजनसमाकीर्णान् एव समद्राक्षात् ' इति सम्बन्धः । स्वस्य अवलोकनन दर्शनेन परवन्तः नाथवन्तो ये जनाः तैः समाकीर्णन् व्याप्तान् — गण्डशलान् ' इत्यादि । दृक्पातेन = दृष्टि- दानेन सम्मान्य = मानीयत्वा । सपल्लवकलशहस्तान् = सपत्रकुम्भपा- णीन् ! गिरतः = उच्चारयतः । स्पष्टमन्यत् । जननीति-जनन्याः मातु: स्मरणन् उद्भूतोद्भूतया = अत्यन्तं निर्गतया बाष्पधारया व्याकुल विह्वलं लोचन- द्वयम् = नयनयुगलं यस्य सः । दुर्गान्तः प्रविशेश । अन्येयुः अपरस्मिन् दिवसे । महागजति–महाराजस्य महाराष्ट्रमंदिनीस्वामिनः श्रीशिववीरस्य आगमन- महोत्सवेन पराधीना परतन्त्रा तदुत्साहवतीत्यर्थः या अनेकसहस्रशोपायना प्रजा तया परिवृतः वारितः प्रघाणाऽलिन्दप्रेदेशो यस्य एवं भूतस्य महाप्रासादस्य महाहय॑स्य, चन्द्रशालायाम् = शिरोगृहे । उपविष्टः = कृतासनः । प्राणयास = जावयसि । सङ्गरकष्टानि = संग्रामदुःखानि। सहसे मर्षयसे । पृ० ३८४ ॥ यवनोद्दण्डेति -यवना:म्लेच्छा एव उद्दण्डशुण्डा- दण्डिनः = महाराजाः तेषां गण्डमण्डम् = मुखमण्डलमित्यर्थः केसरीव: महासिंह इव । ' विश्वस्मिन्नपि विश्वस्मिन् ' = सर्वास्मिन्नपि संसारे । सामन्तसिंहासनम् = मण्डलेश्वरपदम् विभ्रियेत = अतिशयेन ध्रियेत पाल्यतेत्यर्थः । संवृत्येत = भवदित्यर्थः । शासनम् = राज्यव्यवस्था । दक्षिणति-दक्षिण- भारताभिजनस्य भरण पालने यो भारः तेनाकुलः । प्रकृतीः = प्रजाः । महापरिणाहमिव = अतिविशालतामिवेत्यर्थः । पृ० ३८५ ॥ प्रत्यर्थिनां = शत्रूणां खड्गन असिना पालीढप्रायः = प्रायः स्पृष्टः । 'भवान् मां नारक्षिष्यत् चेत् शास्निखानं नाजेष्यम्' इत्यत्र लुङ् । यवनानां कारागार एवान्ध कूपः तस्मात् न निरयास्यम= नैव निर- गमिष्यम् । जन्मान्तरीणपाप्मनाम् = पूर्व जन्मपापानाम् । ' इतः परः दूरपर्यन्तं प्रायः गद्यं निगदव्याख्याताम् कानिचिद् स्वयमपि व्याख्यतव्यानि व्याख्याभ्यासपरैति ग्रन्धगौरवकरणाद् विभिमो वयम् । पृ० ३८६, ३६० ॥ परमप्रीतिपूरपूर्णः = परमप्रेमपुञ्जभरितः । देवं सम्बोध्य = श्रीमन्तमामन्त्र्य । अवदधामि = दत्तचित्तो भवामि । 'मेदःपाटक्षितीश्वरो देवः श्रीशिवराजवीरवरेषु यथोचिताचारपुरःसरं स्वाभिप्राय ( २२७ ) प्रकटयति ' इति सम्वन्धः । कथम्भूतेषु श्रीशिवराजरिवरेपु--श्रीसकलेति-श्रिया सहिता या सकला वसुमती पृथिवी तस्य वलये देदीप्यमानो जाज्वल्यमानो धैर्य-वीर्य-गाम्भीर्य प्रभावो येषां तेषु । तथा-स्वच्छन्दानां स्वतन्त्राणाम् उच्छृङ्गलानां निमर्यादानां म्लेच्छानां मण्डलस्य वातस्य मूछीदीक्षायाम् अर्थात् हत्यादीक्षायां दक्षषु = निपुणषु । तथा—रणारङ्गे = ससरभूमी अगणिता: प्राण, यैः तेषु । तथा–वैरिणां शत्रणां यात समूहे कृपाकृपणः दयाशून्यो यः कृपाणः असिः तस्य धारया अवली ढानां चुम्वितानां भारतस्य प्रत्नसपत्नानां पुरातनशत्रणां व्यग्रेभ्यो विकटेभ्यो ग्रीवाग्रेभ्यः कन्धरायेभ्यः प्रविगलता प्रस्खलता कवोष्णशोणेन ईपदुष्न शोणितेन रुधिरेण,शोणच- न्दनद्रवे रक्तचन्दनरसेन इव चचिंता भूभागाः यैः तेषु । तथा-स्वातन्त्र्यम् = स्वाधीनता स्वाराज्यमिति यावत् तदेव पीयूषममृतं तस्य प्रवाहेन रञ्जिता महारा- ष्ट्रदेशप्रदेशाः यैः तेषु । तथा-क्षत्रियभूपानाम् अनुरूपैयोग्यः प्राचारप्रचारैः वैदिकधर्मरक्षादिसद्यवहारपालनरूपैः प्रचुरीकृतः महामहीकृतः श्रास्माकीन: अभिमानो ये तेषु । तथा-परमसहभाजनेषु = परमप्रीतिपात्रेषु एवम्भूतेषु महाराष्ट्रचक्रवत्तिषु । यवनवनदावदहनः = म्लच्छवनानलः । करप्रदता बलिदानमेव कलकाङ्कपङ्कः = कलङ्कमुद्राकर्दमः तेन अनङ्कितस्य भस्पृष्टस्य वंशस्य अन्वयस्य अवतंसः शिरोभूषणभूतः वीरमित्र:-वीरपुत्र इत्यादि स्पष्टम् । मेदपाटक्षितीश्वरः = मेवाडाधीश्वरः। तत्रभवतः = पूज्यस्य । म्लेच्छेति- म्लेच्छाना मुच्छेदनं ध्वंस एव महाव्रतं तच्छ्रवणन रोमाञ्चितानि प्रफुल्लितानि गात्राणि येषाम् एवंभूता अपि वयम्-'क्षुब्धहृदया आस्म' इति सम्बन्धः । चिरमखेदयत् = चिराय अपीडयत् । करालः= कठोरः । कर्णशूल इव= श्रवणशूल इव । रोधोदन्तः = बन्धनवृत्तान्तः । सिंहवाहिनी = दुर्गा । 'ततश्चाहम्-शार्दूलम् – वदनमण्डलम् च पश्यन् तृष्णाक एव तस्थिवान् ' इति दूरेऽभिसम्बन्धः । शार्दूलम् = ( देव्या वाहनं ) सिंहमित्यर्थः । कीदृशम्- प्रलम्ब दीर्घः सावत्तं वलयितं लांगूलं लूमं यस्य तम्, तथा-विद्युतः चपलायाः विनिन्दकेन तिरस्कारिणा छटापटलेन द्युतिपुञ्जन परिव्याप्ताभिः सटाघटाभिः जटाततिभिः प्रालिङ्गित: कण्ठो यस्य तम् , तथा—जाज्वल्यमानलौहगोलकयुगल- स्य-देदीप्यमानायसगोलद्वन्दस्य अवगूरणगरिम्णा = न्यक्कारगौरवेण गुरु बृहत् नयनगोलकं यस्य तम् , तथा-शूली = महादेवः तस्य शूलायमहिम्नः उन्मूलनानां ध्वंसकराणां दशनानां दीप्त्या प्रकाशेन दूरीकृतोऽन्धकारप्रचारो येन तम् , तथा- SRI PRATAPOOLLBOE LIBRAR ( २२८ ) पृष्ठेन संस्पृष्टं देव्या दिव्यं दुकूलमुत्तरीयं वासो येन तं परिपन्थिप्रतिकूलम शत्रुध्वंसनकरं शार्दूलम् = महासिंह केसरिणमिति यावत् । तलाग्रेति--तलाये विलसतां शोभमनानां माणिक्यमणीनां मईनेन घर्षणेन यः शोणितसंघातः रुधिररयैकत्रीभवनं तेन शोणीकृतः रक्तीकृतः पञ्चा- नस्य सिंहस्य पृष्ठदेशो येन तादृश पादयुगलम् = चरणद्वन्द्वम् अर्थात् .देव्याः एव । बालोऽभिनबोदितो यो भास्करः तस्य करनिकरैः = मयूखसंघरेव ग्रथित- मिव-स्यूतमिव स्वप्रभाप्रवाहेन=निजद्युतिपुञ्जपूरेण व्याप्तमम्वरम् आकाशं येन तादृशम् अम्वरम् = वासः । तथा हरितेति-हरित = पालाश:, शोणितः = कोकनदच्छविः, अर्जुन : = श्वेतः, हारिघ्रम् = पीतवर्णः तदादीनाम- नेकावचं नानाप्रकारं यच्चाकचक्यं चमत्कारः तेन पाक्षिप्तानि अक्षाणि ( अर्थात् द्रष्ट्रणामेव ) यैः एवम्भूता ये अलङ्काराः तेषां निचयम् = वृन्दम् । असीति- अस्यादयः शस्त्रविशेषाः पूर्वं व्याख्यात प्रायाः । ३६१॥ अहो = आश्चर्यम् । यस्याः= भगवत्याः महामायायाः चरणयोः= पादयोः यो रेणुनिकरः = धूलिव्रातः तेनेव ब्रह्माण्डमण्डलम्- भुवनमण्जलम् रचितमस्ति ' इत्यन्वयः । कीदृशं तत् शेषस्यापि = अनन्तना- गस्यापि शिरोधार्यम् = उत्तमाङ्गेनाद्वाह्यम् , गङ्गाधरस्य महादेवस्य भस्म- च्छुरणछद्मना= भसितलेपनव्याजेन । = भसितलेपनव्याजेन । 'श्राः पश्यतोः पित्रो ला: करपत्रैः कर्त्यन्त ' इत्यादिना पुनरपि वीररसाङ्गतय करुणरसमुपनिबध्नाति । व्याख्यानं स्पष्टमिव । दिल्लीति = दिल्लीदौभाग्यस्य दिल्लीदुरदृष्टस्य परिणामस्वरूपः फलरूपः । पृ० ३६२ ॥ करालान्=क्रूर।न् । जगज्जननीपदेनजगदम्बापदेन विडम्ब्यसे= अनुक्रियसे । सत्ताविषयः= अस्त्येव जगदम्बा इत्याकारक- ज्ञानविषयः । विश्वासः = श्रद्धा । खिद्येथाः खेदं भजेथाः । करटैः = काकैः । सरटैः = कृकलासैः एते प्रासादाः = हाणि । स्वप्नकथानकानि = स्वप्नवृत्तान्ताः । वितथानि = मिथ्याभूतानि न भवन्तीत्यन्वयः प्रबुद्ध एव = शयनादुथितएव । प्रहिणोमि = प्रेषयामि। यवनराज्यस्य स्तम्भभूतः= मुख्य आधार: । यवनकुलकरिकदम्बकेसरिणः यवनकुलमेव करकिदम्ब = गजयूथः तस्य तेषु वा सिंहान् हस्तयित्वा = हस्ते कृत्वा वशमानीयेत्यर्थः युद्धमहाम्बुधिनिमग्ने = युद्धमेवमहाम्बुधिः महासागरः ( २२६ ) तत्रनिमग्ने बुडिते । सन्दम् = सविलापम् । पृ. ३६३ ॥ विपत्तिम् = शत्रुकृता क्रमणरूपामापदाम् । प्रासीदत्- जहर्ष । निजभटैः = स्वयोद्धृभिः द्विगुणयन्तौ वर्धयन्ता । वलक्षम् = शुद्धम् पक्षम् = पार्श्वम्, अस्माकं युद्धस्य न्याय्यत्वादिति भावः । न चैपामिति- एतेषां पदं नावलम्ष्यिन्ते इत्यर्थः । कीदृशां दुराचारयवनानाम्-शरणागतघा. तकानाम् = महानीचानामिति फलिताऽर्थः अतएव विहितं कृतं महापातकं गोब्रह्मत्यादिरूपं यैः तेषाम् । तथा-कुक्कुटानां = चरणायुधानां कूटस्य = समुदायस्य कवलीकारेण प्राकलितं यत् कलुपं पाप्मा तेन कुटिलो वको विश्वासानहः कर्कशः कठोरश्च आकारविकारप्रकारो येषाम् अतएव-अकीर्तिसवनानाम्- अपयशस्विनामित्यर्थः श्मशृप्रान्तम् = मूच्छितकोणम् । परिमृशन् = परि- मार्जयन् । पृ० ३६४ ॥ आख्यानुकूलाकारौ नामसदृशाकृती । आखेट- परिभ्रष्टौ= मृगयां कुर्वाणौ प्रनष्टौ । स्थावरजङ्गमसम्पत्ती क्षेत्रादिरूपा स्थावरसम्पत्तिः, पश्वादिरूपा जङ्गमसम्पत्तिः । भारताभिजनभूरिभाग्यभवनम् = भारतदेशीयबहुभाग्यप्रसवकारि, तथा- भारताभिभावकानाम् = भारतशत्रूणां भाग्यस्य ऐश्वर्यस्य पराभवनम् = विध्वंसनकरञ्च ऐक्यम् = स्वजात्यसङ्घवलमित्याशयः प्रासादनीयम् । पारस्प- रिको विरोधः एव ज्वरः रोगराट् तेनाऽवलीढानि = कवलीकृतानि बलानि = दुर्बलानि = क्षीणशक्तीनि भवन्ति । प्रेम एव पीयूषं तस्य धाराभिः अभ्युक्षि- तानि = सिक्तानि ( तान्येव वलानि ) महामहांसि = महान्ति तेजांसि सम्पद्यन्ते । पृ०३६५॥ दुग्धदग्ध ' इति लौकिकमाख्यानम् । सन्धेर्शाता- स्वादैः = सन्धिनामकोपायरसविद्भिः। श्रभाणकः = लोकोक्तिः । तिमि- निलगिलप्रायैः = तिमिङ्गिलगिलनामकमत्स्यसदृशैः । गण्डूपदवृन्दानिव किल्चुलकसंघानिव, श्रदयिष्यावः = भक्षयिष्यावः। सचेति-विजयध्वजो नाम सेनापतिरित्यर्थः। सौवर्णेति-सौवर्णप्रान्तैः अरुणैः रक्तैर्वस्त्रैः प्रालिङ्गिताङ्गः = परिवृत- शरीरः कटयां विलम्बित: महाचन्द्रहासः महाखड्गो यस्य स एवम्भूतः । मण्ड- लेति-मण्डलेश्वरमण्डलस्य माण्डलिक समुदायस्य चूडामणिमिः चोचुम्व्यमानं चरणतलं यस्य सः महाराजाधिराजः । अस्माभिरञ्चितानि = अस्माभि- ( २३० ) ॥ राकान्तानि । पृ० ३६६ ॥ सौवर्णकङ्कणयुगलम् = हिरण्मयवनयद्वन्द्वम् । वहु- विधेनि-बहुविधाः नानाप्रकारा वीररसकलिताः कविताः भूस्वामितासूचकम्= पृथ्वीभोग्यता सूचकम् ओजस्विपदविन्यासाःप्रोजोगुणविशिष्टपदरचिताः। याः कविताः श्रुत्वा तत्रत्यवीराणाम् = माल्यश्रीकगौरसिंहरघुवरिप्रभृतीनाम् । ‘कृपाणाः स्वयं कोशादि ' त्यत्र अतिशयोक्तिः । क्षत्रियकुलकमलदिवा- करण = राजन्यवंशसरोजभास्करेण । ' धन्यो भवान् य एवं-श्रीमदुदयपुरमेदिनी- परिवृढेन सततं स्मयते ' इत्यन्वयः। कीदृशन-पूर्ण-प्रतापति–पूर्णप्रताप- पटल पुञ्जन पाटलीकृतः श्वेतरक्तीकृतः मेद: पाटो येन तेन । तथा—दुणानां गणस्य संघस्य या दुर्घटघटना अनिष्टकारिणी घटना तस्य विघाटनेन शत्रुपक्षहन्त्रे- त्यर्थः । तथा-प्रत्यर्थिनां शत्रूणां प्राचीरकपाटानां = प्रकारकपाटानां विपाटनं = विच्छेदनं यस्मात् तेन तथाभूतेन । साऽनुजः = ससहोदरः । कौमारमहा व्रतम् = बालब्रह्मचर्यमहानियमम् । पृ० ३६७ ॥ भगवते = परमेश्वराय प्रसादीकृतमुपायनीकृतं यदास्वाद्य तस्य आस्वादनसमय: भोजनक्ला इति । नवाधिकृतराज्यस्य = नवमधिकृतम् अधिष्ठितं राज्यं येन तस्य । नवेति-नवः नूतन प्रासादितो यः प्रासादः महाहयं तस्य परिष्कार. शोभा = मण्डनीकारणच्छविः । 'प्रतिद्वारम्' इत्यादिषु अव्ययीभावः व्याख्यात- प्रायश्च । रम्भास्तम्भाः = कदलीखण्डाः । मङ्गलकलशाः = विवाहमङ्गलार्थ स्थापिताः पूर्णकुम्भाः । अशोकपल्लवतल्लजावली = अतिमनोहराशोकवृक्ष- पत्रावली । प्रतिस्तम्भम् = स्तम्भं स्तम्भं प्रति परिवेष्टयन्त्यः या कुसुमिताः = प्रफुल्लिताः वल्लीमतल्लिकाः = मनोहरा लताः, प्रतिकलशम् = प्रतिकुम्भम् कुङ्कुमेति-कुकुमम् = काश्मीरकेसरम् । कस्तूरी मृगनाभिः । चन्दनम्= मलयजरसः एतेषां चर्चामचर्चिकाः-छुरणमतल्लिकाः प्रतिगवाक्षम्=प्रतिगोऽक्षम् यक्षकर्दमेति-तत्र * यक्षकर्दमः = यक्षप्रियः कर्दभो लेपविशेषः, वृक- धूपः=वृक इव धूपः दशाङ्गादिधूपः धनसारधूपः = कपूरधूपः एतेषां धूमैः उद्भूताः * "कर्पूरागरुकस्तुरीककोलैर्यक्षकर्दमः' इति ( अमरः ) कर्पूरागरुकस्तूरीककोलघुसृणानि च । एकीकृतमिदं सर्व यक्षकर्दम इष्यते ॥ इति ( व्याडिः )।
( २३१ ) उत्थिता ये धनाः सान्द्रा घनाघनाः मेघा ते च ते उद्धाः महामेघाः, प्रतिकुञ्जम् प्रतिलतापिहितद्वारम् माङ्गलिकमण्डनप्रकाराः = मङ्गलप्रयोजनकनानाप्रका- रसज्जीकरणविधानानि । एते सर्वे-परितः= समन्ततः मङ्गलामिव वर्षन्ति स्म' इति सम्बन्धः। रम्भेति–रम्भादीनां श्रेणीश्रेयांसि = मङ्गलश्रेणय इत्यर्थः । मार्गमभितः विश्राणयन्ति = ददते भूषयन्तीत्यत्र तात्पर्यम् । दुन्दुभीति-दुन्दुभ्याचा वाविशेषाः ( पूर्व व्याख्यातप्रायम् ) । तेषां सप्रसादनादाः = मनोहर्षकाः ध्वनयः दिवम् = आकाशं स्पृशन्ति = धानयन्ति इत्यर्थः । सुहासिनी- नाम् = स्मरमुखानाम् सुवासिनीनाम् = मनोहारिवेषवतीनां युवतीनाम् कलिताभिः आश्रिताभिः ललिताभिमनोहराभिः काकलीभिः = मधुराऽस्फुर कलध्वनिमिः उन्नीतानि = उत्थापितानि उल्लापितानीत्यर्थः एवंभूतानि गीतानि पुंस्कोकिलान् = पिकान् अपि कलकूजनम् = मधुरपञ्चमस्वरालापनम् शिक्षयन्ति = शासयन्ति कोकिलादपि सुन्दरीणां गीतध्वनिरत्यन्तं मनाहर इति भावः । अतिशयोक्तिरलङ्कारः । पीतारुणेति-पीतादिविविधवर्ण- वासोभिभूषिता इत्यर्थः । कुंकुमतिलकाः = काश्मीरजकेसरतिलकाः क्रमुकेति फमुकम् = पूगफलम् । कुसुमानि-पुष्पाणि, कुंकुमम् = केसरम् , अक्षताः = तन्दुला: अम्लरम् = एतनाम्ना प्रसिद्धं ( बहुमूल्यम् ) गन्धद्रव्यम् , नारिकेलम् लागलीफलम् इत्यादीनि यानि महामाङ्गलिकानि उपायनानि = उपढौकनिकानि हस्ते पाणौ येषां एवम्भूताः सहस्रशो नागरिकाः पारा जनाः यातायातैः: गतागतैः पदवीः = मार्गान् श्राकुयन्ति = व्यप्नुवन्ति सङ्गोकुर्वन्तीति यावत् । पृ० ३६८ ॥ 'प्राप्तराज्यस्य गौरसिंहस्य श्यामसिंहस्य च केन वर आनन्दो वर्णनीय स्यात्' इति सम्बन्धः । कीदृशस्य-सोदर्यायाः-सहोदरत्याः पाणिपीडनमहोत्सवः उपयमन (विवाह ) महोत्सव एव पीयूषम् अमृतं तस्य पूरप्रवाहेन स्नातस्य = व्याप्तस्येत्यर्थः । दक्षिणक्षितिचक्रचक्रवत्तिनी _ दक्षिण- देशमहाराजेन शिववीरेण सनाथ्यमानस्य = सभाजितस्य महो- त्सवरसरसायनैः =( कोशलाविवाह ) महोत्सवरस एव रसाययानि = जीवनौषधानि तैः तरुणीकृत इव = युवक इव जात इत्यर्थः । राजतपात्रेषु = रूप्यभाजनेषु स्थापिताः रक्षिताः श्रौद्वाहिकीः= विवाहप्रयोजनिकाः सामग्रीः= उपकरणानि । आयस्त इव = श्रान्त इव । स्पष्टमन्यत् । अश्रूयत = समाकर्ण्यत । दविष्ठः अतिशयेन दूरमिति दविष्ठ:-- ( २३२ ) .दूरशब्दात् अतिशायने-( ५। ३। ५५ ) इति इठन् प्रत्ययः । स्थूलदूरयुवहस्व-( ६ । ४ । १४६ ) इति सूत्रेण यणादिपरलोपे पूर्वस्य गुणाऽवादेशे रूपसिद्धि: । नेदिष्ठताम् = अतिसमीपताम् । अन्तिकशब्दस्य अन्तिकवाढयोर्नेदसाधौ ( ५ । ३ । ६३ ) इति सूत्रेण अजादिप्रत्यये परे नेद इत्यादेशः । नेदिष्ठस्य भावो 'नेदिष्ठता' । कलकलः = कोलाहल: समुद- स्थात् = उत्थितोऽभूत् । सत्पथाभिमुख = राजमार्गाभिमुखं या श्चन्द्रशाला: तासु गवाक्षेषु जालकेषु चिरण्टयः-सुवासिन्याः सौभाग्यवत्य इत्यर्थः । 'सुवासिन्यां चिरण्टी स्यात् द्वितीयवयासि स्त्रियाम् ' इति रुद्रः । उपतस्थिरे वरयात्रादर्शनार्ध स्थितिञ्चकुरित्यर्थः । सम्बाधः संघट्टः । रम्भास्तम्भानां कदली- खण्डानां सहस्रैः भरिते=पूर्णे आरक्तानां समन्ततो रक्तवर्णानां पताकानां पटलैः वृन्दैः अरुणिते रञ्जिते । जाम्बूनदवितानानां सौवर्णोल्लोचानां याः प्रभा: तासां पुजेन समूहन पीते पीतवणे अनेकशतमञ्चाधिष्ठिते महाकुट्टिमे-विशा- लायां निबद्धायां भुवि । पृ० ३६६ ॥ क्रमशः च क्रमेण मश्चान्-अध्यवसन्–आरुरुहु रित्यर्थः । सतारापुरीवास्तव्याः पूनासविधे वर्तमाना या ‘सतारा' नामक- नगरीतन्निवासिनः । सोपायनेति–उपायनैः प्राभृत । सह वर्तमानानि यानि राजतभाजनानि चान्द्रपात्राणि तैः सभाजिताः शोभायमानाः कराः पाणय एव कोकनदकुड्मलानि येषां ते । मेदःपाटवाटवास्तव्याः मेवाडनिवासी । महामहः महोत्सवः । 'मह उद्धवउत्सवः' इति ( अमरः ) । प्राणसंशयापादिकाःमरणसंशयज- निकाः कष्टपरम्पराः=दुःखघटनाः । दयताम् दयां कुर्यात् । दीनदयार्द्र- हृदयःदीनेषु अनन्यशरणेपु स्वभक्तेषु आई कोमलहृदयं यस्य सः दयोद- चान्=कृपासागरः । दामोदरः श्रीकृष्णो भगवान् । 'रामं विना कोशलायाः सौभाग्यभवनम् भवेत् ' इति श्रीरामसीतासादृश्यं गीकृतम् । श्रूयते राम एव क्रूर-हतवान्' क्रूरं-करसिंहम् यथा करं–दुष्टं रावणं राम: श्रीजानकीजानिहतवान् तथैव रामसिंहः इत्यर्थः । सैन्धवनियामकवेष: सैन्धवनियामक: अश्वसेवी 'साईस' पदवाच्यः । लव्धेति-लव्धा प्राप्ता पारम्परीणा=परम्पराप्राप्ता स्थावरजङ्गमसम्पत् येन सः। जयपुराधीश्वराणाम् जयासिंहनाम्नाम् । महासेनेति-महासेना एव समुद्रः सागरः तस्य वींचीसहस्रैः लहरीसहस्रैः प्लावयितुकामम् नाशयितु - ( २३३ ) . : काममित्यर्थः । पक्षिराज इव-गड इव सुप्तसर्पम् शयानं फणिनम् । निभृतम गुप्तम् । अहह इति हर्षेऽव्ययम् आश्चर्य वा महदाश्चर्यमित्यर्थः । धन्या-प्रशस्या अनन्यसाधारणपतिव्रता यतः। अवधूतवेपेण साध्वीवेषेण विधूतेति-विधूता दूरीकृता या इतरवासना अन्यविषयकामना तया पूतन पवित्रेण हुदा-मनसा । भूतनाथम् भूतपति शिवम् | चिरमारधयाम्ब- भूव-चिराय सिपेवे । कलितति-कलितं प्राप्त दुर्घटघटानानाम् अचिन्तनीय- प्रकाराणां नैपुण्यं चातुर्य यः तेषां पुण्यानाम् = मुकृतानामेव फलमिदम् । वाल्ये शैशवे । देवशर्मणः यो भिक्षाभागः तस्य भागे भागधेयं प्रारब्धं यस्याः एवं भूतापि अधुना महाराजाधिराजन श्रीशिवबारेण । रामसिंहस्य राझी महिषी पट्टाभिपिक्ता । इत्येवम्-श्रालपन्तः=भाषमाणाः । परितः समन्ततः समुपतस्थिरे स्थितिं कुर्वाणा प्रभूवन् । वरयात्रासमारोहः = जन्या- समारोहः । वरयात्रासमारोहमेव वर्णयति—एकतानेति-एकतानश्रुति. शतैः एकाग्रीकृतकर्णशतः सुखेन = प्रानन्देन प्रास्वाधानाम् = श्रवणाहाणां वाद्याानां भेरीपटहादीनां परतः वाद्यानि । रञ्जितेति--रजिता: रातो कृताः विवि. धरौ नानावणैर्भङ्गाः प्रकारा प्राकृतिविशेषा येषाम् एवंभूतानां मतङ्गानाम् गजानाम् । अनवरतं यथा तथा पातिता फेनरानि:-डिण्डार पुओ यैः तेषाम् ,तधः- खरैः कठोरैः खुराणां शफानामग्रः कोटिभिः उद्धृतया उत्खानितया धूल्या यो महान्धकारः तेन अन्धाकृताः महान्तः श्राजयः मग्रामाः यः तेषां वाजिनाम् = घोटकानाम् । पीतेति–पांतारुणाधनेकवर्णैः वर्णनीयानि अम्बराणि वासांसि येषाम्, तथा –मणीनां गणाः संघाः तेषां प्रभाभिः द्युतिभिः प्रभासितानि शोभायमानानि अम्बराणि वासांसि येषां तेषां वीरवराणाम् महाभटा नाम् । नाति-नानाचित्रचयः चकितीकृताः विस्मेरीकृताः अवलोचक- लोचनानां द्रष्टदृष्टीनां व्रजाः समूहा: यैः तेषां ध्वजानां पताकानाम् । तुण्डेति-तुण्डस्य मुखस्य यत् सौष्ठवं सुष्ठुभावः अर्थात् तेजनं तस्य परिस्पर्षि प्रतिद्वन्द्रि यद् श्रयं कोटिः तेन व्यग्रीकृताः अर्थात् चकितांकृताः शकुन्ताः श्यनाः यः तेषां कुन्तानाम् = शस्त्रविशेषाणाम् । इति = तात्कालिकसौवणों विवाह- महोत्सव नवीनाः कविकोविदम्मन्याः कथमिव वर्णयेयुः इति सम्बन्धः । कीदृशास्ते स्मरणमात्रेणापि पराधीना: नवीनैः स्वयं साक्षात्काराभावात् अनुभवं विना स्मरणाऽनुपपत्तेश्च परतन्त्राः, तथा-अलौकिकसामर्थ्यविही नाः अलौकिकं यत् सामर्थ्य योगजधर्मात्मकप्रत्यासत्तिरूपं तेन विहीनाः ( २३४ ) रहिताः, यदि नानाः युक्तयुआनान्यतरयोगिनो भवेयुः तादृशालौकिकसामयन ज्ञात्वा वर्णयेयुः, परं तदपि नास्तीति भावः । एतेन तात्कालिकमहस्य अलौकिकतैव व्यज्यत । .. पृ०४०१ ॥'वरयात्रामहासमारोहस्यैतस्य शेपभागे=( पृष्ठभागे ) जित वारधराधीशस्य श्रीवारेन्द्रसिंहस्य कुमारः श्रीमान् रामसिंहः। तस्य विशेषणानि- कथम्भूतो रामसिंह:-क्षत्रियवंशावतंसैरावृतः राजन्यवंशशिरोभूषणभूतैः परिवृतः । कथम्भूतैः क्षत्रियवंशावतः-परिहितमहाकञ्चुकैः = धृतमहा- चोलकैः, तथा—ाबद्धपीतारुणोष्णीषैः अाबद्धं सम्यक् वष्टितं पीतमरुण मुष्णीषं शिरोवेष्टनं यः तैः । तथा–आमुक्तानामनाणां मुक्तामाणिक्यवैहूर्य- हीरकमरकतपद्मरागादीनाम् अगणितानामसंख्यातानां मणोनां ये गणाः समूहाः तेषां प्रभापुनः द्युतिविसरः पिअरीकृतं श्वतरतादिविविधवणंमिश्रीकृतं निजमण्डलं यैः तैः । तथा–कमलानां पद्मानां मुकुल कुलै: कोरकनिकरैः प्राकलितानां रचितानां सौरभभारप्रचारेण मांगन्ध्यनिचयविस्तारेण आकृष्टा: प्रासन्जिताः भ्रमन्तः इतस्ततः सञ्चरन्तः ये भ्रमग: अलयः तेषां निकटस्य संघस्य भकारेण गुञ्जनरवेण स्तृयमानः गीयमानरिवेतीति लुप्तोत्प्रेक्षा । पुनः कीदृशो रामसिंहः-बडवामेकारूढः= एका घे टकीमधिष्ठितः,वरो हि घोटकोमधिरोहतीति अद्यापि लोकाचारः । 'रीतिरेषा राजपुत्रदेशस्य ' इति कथनमत्यल्पायः । कीदृशीं घोटकीम् –परःसहस्राणां मौक्तिकानां मुक्तामणीनां जालन समूहेन श्रावृतः सज्जितैः सर्वैरङ्गैः प्राकलिता धृता आलोचकानां द्रष्टणां लोकनलोभस्य दर्शनलेभिस्य वहा जनयन्ती शोभा यया ताम् , द्रष्ट जनदृष्ट्याकपणशोभावतीमिति निर्गलितोऽर्थः । पुनः-नूपुराशञ्जितैः मोरध्वनिभिः अखिलानां = विश्वेषां द्रष्टृणां मनोहरतीति वस्तुध्वनिः । पुनः-लोललाङ्ग्लेन = लोलेन चपेलन लाङ्लेन लूमेन पुच्छेनेति यावत् चामरदोलनम् = चमरिकाहिल्लोलनम् अनुकुर्वतीम् = विडम्वयन्तीम्, तथा उन्नतग्रीवाम् = उत्कन्धराम् , स्तब्धकर्णाम् = शङ्कुकर्णाम् । हरि तवर्णाम् = इति * बडवाजातिरपि । पुनः कीदृशः रामसिंहः-सौवर्ण- शिल्पेति-सौवर्णशिल्पं सुवर्णतन्त्वादिरूपं कारुकृत्यं । सिलमासतारा' इति नाम्ना प्रसिद्धं यत् 'कनारी' योजकानां सूचीकर्मकराणां कृत्यमित्यर्थः तस्य * उत्तमजातीयाया वडवाया वरयात्राकाले एवं रूपदर्शनात् स्वभावोक्ति- रल कारोपीत्यर्थः ।
( २३५ ) सौष्ठनं यत्र एवंभूतानि प्रासादितानि परिहितानि अरुणानि रक्तानि मर्वाङ्गीणानि सर्वाङ्गव्याप्तिमन्ति वासांसि यन रञ्जितवासा हि वरो भवति' इति प्राचामाचारः। तथा कुसुमकोरकेति--कुसुमानां पुष्पाणां कारकैः कलिकाभिः रचितानि यानि हारमालाकंकणकेयूराऽवतंसानि तैललामः सुन्दरः, तथा-विविधालङ्कारालङ्- कृतः अनेकविधभूषणमज्जितः । तथा-ताम्बूलरसाऽरुणिताधारः ताम्बूल. रसेन अरुणितः रक्कोऽधरो निम्नौठो यस्य नागवल्लीदलरसरभितदन्तच्छद इत्यर्थः भगवतः कसुमधन्वनः = रतिपतेः पनवारणस्य प्रतिरूपमिव = प्रतिकृति- रिव, माधुर्यस्य = सौन्दर्यस्य अवतार इव एवम्भूतः विश्वपां नयनानि = सपा द्रष्टणां नेत्रानि मनः = हृदयम् मोदयन् : हर्षयन् । मौक्तिकजालावलीललितप्रान्तम् = मुक्कामालापंक्तिमण्डितकोणम् महा- पुण्डरीकमञ्जिमामत्रम् = महापुण्डरीकस्य महाकमलस्य मजिम्ना सौन्दर्येण ( रचितमिव ) अमत्रं = पात्रमिव छत्रम् = अस्य = छत्रस्य वाहकः = धारकः आकञ्चुयितुम् = मोलयितुम् यतते = उद्यतो भवति, चक्रवत्तिमविधे अन्य- दीयच्छत्रचामरादिधारणमर्यादाया अभावात् । तावत्-देवेन = महाराष्ट्राधाशन वारितः । उद्वासमये अलमेतेनाचारेण = विवाहकालेऽयमाचारो न विधेय इत्यर्थः । माङ्गलिकगीतिगानपराः - मङ्गलकालिक सौभाग्गीतितत्परा इत्यर्थ: सुन्दर्यः = सुबासिन्यः । सुमनसः = पुष्पाणि । ववर्युः = प्राकिरन् । द्वार- पूजायाम् = वरीयद्वार प्रवेशकाले सत्कारविशेषादिरूपे व्यवहारे निवृत्ते सतीत्यर्थः। पारस्परिकेति-पारस्परिकाऽवलोकनेन अन्योन्य सन्दर्शनेन विकसिताः प्रादुर्भूता ये विविधाः भावभङ्गाः = प्रीतिप्रवाहाः तेषां तुगतरङ्गः = महामहोच्छ- लनः आकुलस्य = विहलीभूतस्य हृदयस्य अर्थात् कोशलारामयोरेव मनमः । शिथिलेति-शिथिलितं जालबन्धनं यस्या: सा शफरी = मत्स्यी इव । दृष्टिः परस्परमभिमुखीभवतीति सम्बन्धः । तडागतलम् = मरोवराधोभा- गम् । निर्भरवारा प्रसार इव = प्रस्रवणनिर्गत जलप्रवाहमिवेत्यर्थः । पृ० ४०३ ॥ प्रस्रवति = वहति । स्वेदविन्दुव्रजः = धर्मकणगणः। अरुणेति-अरुणवसनादीनां प्रभासहस्रैः अरुणाक्रियमाणाऽपि = रक्ता क्रियमाण। तालीदलद्युतिम् = तालीपत्रशोभाम् कपोलपाली = गण्डस्थलम् उभयोः = वरवध्वोः । नेदीयांसौ = प्रतिनिकटवत्तिनौ विवाहविधिसम्पादन- करणहेतोः अभ्यर्णस्थाः समीपस्थाः। जडतास्तम्भादियाख्यातप्रायमस्माभिः पूर्व ६६ पृष्ठे चतुर्थे...... "निश्वासे । ऊर्द्धतनशालासु = चन्द्रशालासु ।
( २३६ ) %3D ब्रह्मघोषैः वेदपाठैः । पारिषदानाम् = परिषदि भवानां सभ्यानाम् कौँ = श्रुती । पावयन्ति = पवित्रयन्ति । घनानन्दानुभवपुरःसरम्=महाहर्षपूर्वकम् असौ कोशालापरिणयमहोत्सवः = कोशलायाः पाणिपाडनमहामहः समाप्तः । 'रामावरहेण चिरग्लाना कोशला '-इत्यनेन सीतासहितस्य दाशरथेरयो- ध्याप्राप्तिवृत्तान्तोऽपि व्यज्यते शब्दशक्तिभूलोऽयं ध्वनिः । अमोमुद्यन्तत- माम् = अत्यन्तं जहषुः । पौरा: = नागराः । चिन्ताचक्रस्य = चिन्तैव चक्रम् । गृहीतेति-गृहीतं सुकुलकन्यायाः पाणिपद्म येन तम् । सन्तोषम् प्रमोदम् । आससाद भेजे । महाराजः = श्रीशिववीरः । पृ० ४०४॥ निर्वाधः = वाधाशून्यः यथार्थ इति यावत् । निष्प्रति- बन्धः = प्रतिबन्धविहीना: भौतिशून्य इति यावत् । विलासैः हावभावादिभिः । 'कोशलारामयोः शुद्धोऽनुरागः-साफल्यमापेदे' इति सम्वन्धः। अधुना- 'मतारानगर्या महाप्रासाद मकुटुम्बो महाराष्टपतिर्वसति' इति सम्बन्धः । स्त्रियां सप्तम्यन्तैः सतारानगरों विशिनष्टि-कीदृश्याम्-पुण्यनगरोपकण्ठस्थायाम् = पुण्यनगरममोपवत्तिन्याम् । पुनः–तारामण्डलेति–तारामण्डलचुम्बिनाम्= आकाशव्यापिनां सौधानां हानाम् अग्रशैतः = शिरोभागशतैः विहिता अमरात्याः इन्द्रपुर्या विडम्बना अनुकृतिर्यया तस्याम् । पुनः-नीलगिरीति-नीलगिरि- प्रतिमाः नील पर्वतसदृशाः येः महामत्ताः = मदोत्कटा: मतङ्गजकाएडाः = महागजाः तेषां गण्डमण्डलेभ्यः कपोलस्थलेभ्यः सोस्रयमाणया = अतिशयन दानवारिधारया अभ्युक्षिताः सिक्ताः राजमार्गाः यस्यां तस्याम् । पुनः-अनवरतम् अनारतं सरास्रियमाणानाम् अत्यन्तं सरतां आजानयानां घोटकानां सहस्रस्य ये खुराः = शफाः तेषां खराग्रेण= कठोरणाग्रेण खननात् विलिखनात् उद्धृतया रेणुकपटलघटया = धूलिपुअघटया प्रालिङ्गितः व्याप्त: प्राचारैः प्राकारैः परिवेष्टितायाम् । पुनः-निरन्तरमनारत महाराष्ट्रराजस्य जयध्वनिसमाकर्णनेन = जयजयेतिशब्दश्रवणन सातः समु. द्रतो यः संस्कारः भावनारूप: तस्य भारोऽतिशयः तेन तदानुपूर्वीरटने = तत्क्रमा- नुसन्धानपूर्वपरिभाषणे पटुभिः चतुरैः कीरसारिकादिभिः = शुकशारिकादिभिः चक्रभ्यमाणाः जङ्गम्यमाना ये विटपाः = वृक्षाः तः श्रावृतानि व्याप्तानि उद्यान- कदम्बानि = पारामसमूहाः यस्याम् एवम्भूतायां सतारानगर्याम्-महोद्यान- वर्तिनि = विशालतरारामनिर्मिते महाप्रसादे = महाहम्ये सकुटुम्बः = मपरिवारः । मदधारय स्रवन्त्या घण्टापथाः ( २३७ ) * पाणिगृहीत्या = भार्यया । सैनिकानाम् = भटानाम् । व्यूह- रचनाकौशलम् = सेनानिवेशचातुर्यम् । व्यूहः : स्याद्वलविन्यासे निर्माण वृन्दतर्कयोः' इति ( विश्वः ) । शस्त्रक्षेपेति-शस्त्राणां तलवारभृप्रतीनां क्षेपः शत्रोरुपरिप्रपातः तस्य लाघवकोशलं शीघ्रताचातुर्यम् । परीक्षमाणः आलोचना कुर्वाणः । सैन्धवैः = घोटकैः विलसति = भ्राजते। एतस्य = शिववारस्य सौजन्यन सज्जनतया वशंवदा-अायत्ता इत्यत्र दीपकालङ्कारः । दिल्लीश्वरस्य- अवरङ्गजीवस्य महाभिमानः-महागर्व एव मतङ्गजः = गजः कीर्तिदेव- धुन्याः कीर्त्तियश एव देवधुनी स्वर्गङ्गा तस्याः प्रवाहे । कृपाणधारास्फालनैः= कृपाणानां धारैव धारा तदास्फालनः तदीयगलनवलनैः गम्भीरतरे अतिगम्भारे अत्र-परम्परितं-रूपकमलङ्कारः। तथा' ग्राव. शकलवत् = ग्रावणां पापाणानां शकलवत् खण्डवत् निमग्नः = अडितः । विश्वेषाम् = सर्वेषाम् अन्तराकाशे = हृदयाकाशे प्रचकाशे = दिदीपे । अस्य = प्रतापतपनस्य धूमैरिव । स्वान्तम् = हृदयम् । पृ० ४०५ ॥ एततिदि-एतस्य महाराष्टाधीशस्य चामराहतानां चमरिकाचालनानां समोरप्रसारैः = पवनगतिभिरेव । परमनो० परेषां शत्रूणां ये मनोरथाः सङ्कल्पाः ते एव कासाराः = महासरांसि ते शोषिताः = शोषणं नीता इव । रुपकोत्प्रेक्षयोः संसृष्टिः । एकदा--अट्टालिकायां गजदन्तपर्यडू फेननिभायां तुलिकायां शयानो महाराजः स्वप्नममुमपश्यत् ' इति सम्बन्धः । कथम्भूतायाम् अट्टालिकायाम् – केतकीति-केतक्याः = तृणदमपुष्पविशेषस्य सौरभेन सौग- ध्येन वासितं सुरभीकृतं यत् पानीयं जलं, तेन पूरितो भरिते पात्रे तिष्ठन्तीति तादृशानि यानि मरन्दतुन्दिलानि = मकरन्दपुअितानि कुसुमानि पुष्पाणि तेषां वृन्दस्य समूहस्य मोदेन अन्धाः = अन्धीभूताः मत्ता इति यावत् ये मधुपाः = भ्रमराः तैः झङ्कृतायाम् = गुआरितायाम्, पुन:-नागदन्तिाकायाम् = एडूके अवलम्बी दोलायमानो यः करालः = खरः करवालः खड्गः तस्मिन्निपतन्ती प्रति- सामन्ती या दीपावलीनां प्रतियातना = प्रतिकृतिः तस्याः प्रभूतप्रभूतप्रभाभिः = प्रचुरप्रचुरद्युतिभिः प्रभासितायाम् = भ्राजमानायाम्, पुनः-अत्युच्चतया = * ' पाणिगृहीती भार्यायाम् ' इति वात्तिकेन सिद्धम् । या न भार्या सा 'पाणिगृहीता' भवति पयः ( २३८ ) अत्यौन्नत्येन पादार्पितचित्रगतस्य इव समस्तानि सर्वाणि यानि सातारायां सतारानाम्न्यां नगर्या गृहादीनि तस्य-सौष्ठवावलोकनस्य सौन्दर्यदर्शनस्य यत् सौकयं सौख्यं तस्य प्रदायाम् = परितः समन्ततः गवाक्षमण्डलावृता- याम् = वातायनपटललभूषितायाम् ताराग्रहमण्डलं स्पृशन्त्याम् = एतेन महदौन्नत्यं व्यज्यते । अतिशयोक्तिरलङ्कारश्च । गजदन्तपर्य३ = हस्तिदन्तनिर्मित पल्यङ्के पयःफेननिभायाम् = दुग्धडिण्डारसदृशायां तूलिकायाम् = तूलवत्यां शयानः= निद्रां भजमानः । अमुम्% वक्ष्यमाणम् स्वप्नम् अपश्यत् । तदेव स्वप्नं वर्णयति-यदित्यादिना-सौवर्णपर्यङ्के = हिरण्मय पल्यङ्के महोपधाने = महति उपबहें अवलम्बितः आश्रितः पृष्ठदेशो यन सः अवर- ङ्गजीवः = दिल्लीपतिः । अवरङ्गजीवस्य दशां अध्नाति–कदाचित् पादा- वित्यादिना । वीजयन्तमपि दासेरम् = वातयन्तमपि भृत्यम् श्राश्यक्रुति भत्सर्यति । स्वेदाक्लिन्नम् = धर्मवारिणा आद्रीभूतम् कञ्चुकम् = चोलकम् । जाम्बूनदभाजनम् = सुवर्णपात्रम् । विशिथिलेन = दुबलेन कम्पमानेनेति । तात्पर्यमाभाति । करेण = पाणिना । उल्वणम् = उष्ण दीर्घञ्च । मन्त्रकी- लितः= मन्त्रेण जडीकृतः जीर्णाजगर इव = वृद्धमहासर्प इव स्तब्धने- यनः=निनिमेषनेत्रः । ललाटतले मस्तकफलके पिच्छलीभवत्स्वेदराशिम्= घनीभवधर्मघटाम् । लशुनति-लशुनम् = गृअनम् प्रियालम् ग्रन्थकम् "प्याज'' इति प्रसिद्धम् । पललम = मांसम् , तेषामिति द्वन्द्वः लशुनादिमिश्रः यः पूतिगन्धः दुर्गन्धः तस्योद्गारैः डात्कारः 'मशाकनपि मूर्च्छयन्' इत्यनेन तस्य मुखे दुरवस्थाहतोर्मशका अपि भिनभिनायाञ्चक्रिरे' इति व्यज्यते । नासामिव छित्वा=नासिकां कर्त्तयित्वेव । कूर्चम् दाढिकाम् । पृ० ४०६ ॥ समूलम् = मूलसहितम् । उल्लूय = उत्पाट्य । पाद- प्राणेन इवाहत्य-जूतिकामिव मारयित्वा, निष्ठीवनेव-धूत्कारेणेव अभि- पिच्य = आद्रयित्वा इत्यादि लोकप्रवादानुकरणात् लोकोक्तिरलङ्कारः । कालाजगरेति-काजाजगरः कृष्णमहाशाविषः तस्य यो जगरज्वलनः उदयों वह्निः तस्य ज्वालासु कीलासु पतङ्गः । तद्गतप्राणाशिवराजनिष्ठमानसा तदासक्तेत्यर्थः। अपक्षीयतेविरहेण कृशीभवतीत्यर्थः । 'जागरे' इति। एकेति- एकसम्बन्धी यथा हस्तिपकः तस्य ज्ञानम्, अपरसम्वन्धिनो गजस्य स्मारकम् स्मृति- जनकं भवतीत्यर्थः । अयं विषयो मदीय 'मुक्तावलीप्रभायां' शब्दखण्डे द्रष्टव्यः ।
( २३६ ) इति । : पृ० ४०७ ॥ वाष्पेति-वाष्पधारया नापितं = प्रवाहितं स्तनद्वयं कुचद्वन्द्वं यया सा । 'अस्थिवर्मगात्राऽवशेषा' इत्यादीनि रसनार्या विशेष- णानि विरहसीमाबोधकानि शेयानि । व्याहृत्य = उक्ता, स्पष्टमन्यत् । पृ० ४०८ ॥ कुक्कुटम् = नाम द्विजविशेषम् एतद्विपये पुरातनपता- कायां स्कन्दपुराणप्रमाणमुकम्-तथाहि- वाराणस्यां दक्षिणेऽस्ति कुक्कुटो नाम वैद्विजः । तस्य स्मरणमात्रेण दुःस्वप्नं सुखदं भवेत् ॥ ज्वरजर्जरित : ज्वरशीङ्गिः जराजीर्णः = अतिवृद्धः । जयपुर ज्याजानिः = जयपुरस्य ज्या पृथिवी जाया यस्य सः अर्थात् जयपुरराधीशः । जायाया निङ् ( ५ । ४ । १३४ ) इति समासान्तः। भवेति- भवः संसार एव रोगो व्याधिः तस्य भेषजभूतानि औपधरूपाणि-भगवन्नामानि- 'हरे राम हरे राम राम राम हरे हरे। हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे' इत्यादीनि,अथवा--'गोविन्द! हे दामोदर ! माधव !' इत्यादीनि । भज्यमानेन ( कण्ठस्य घुघुरायितत्वात् ) त्रुट्यता स्वरेण । पृ० ४०६ ॥ अवहेल्येत = तिरस्क्रियेत । महायन्त्रणाम् = महती पीडाम् । कल्मषेति-कल्मपेण = मिथ्योक्तिरूपेण पापेन मलीमसेन = दूषितेन श्रात्मानम् = स्वस्वरूपं मनो वा। कलुषयितुम् = मलिनायितुम् उत्सह = कामये । अस्थाने = अनवसरे ग्लानिः= खेदः । शुभोदर्क- विघटकः=शुभपरिणामनाशक एव स्वतन्त्रः = तदीयकरप्रदतामनङ्गोकुर्वाण - इत्यर्थः। पृ० ४१०॥ युयुत्सौ = युद्धं कर्तुमिच्छौ । दिल्लीति-दिल्लीदुरितस्य दिल्लीकल बूस्य अवरङ्गजीवस्यैव दर्पदलने अहङ्कारभअने दीपों भुजदण्डो यस्य सः। भारताभिजनप्रतापपताकाः= भारतदेशप्रतापध्वजाः । दोधूय- न्ताम्- स्फारीभवन्तु । हिमसानुषुः = हिमालयशृङ्गेपु । अकूपारकू लेषु = समुद्रतटेषु । 'भारतीयभेरीनादः कर्ण स्पृशतु' इति सम्बन्धः । पृ० ४११ ॥ क्रौर्यकण्टकोत्सारिताः-क्रूरस्य भावः क्रौर्यम् तदेव कएटकं तेना उत्सारिताः = विद्धा इत्यर्थः मदिति-मत्प्रतिशायाः रक्षणे पालने सक्षणं सावसरं सोत्सवं वा । निरवक्ष्यम् = अधारायष्यम् । पृ० ४१२ ॥ वर्षीयसः= अतिशयेन वृद्धस्य । प्राज्यम् = प्रभूतम् अभेद्यम= अच्छेयम् । समपत्स्यत = अजनिष्यत । नन्दकेति ( २४० ) कदाचाराणाम् दुष्टाचाराणाम् । प्रजामृगवृकाणाम्=प्रजाभक्षकाणामित्यर्थार्थः। पृ० ११३ ॥ शारदाकाशेति-शारदाकाश इव श्यामेषु तारका इव = नक्षत्राणांव । गलितति-गलितं स्खलितं कुसुमानां वन्धनं येष एवम्भूताः-कुञ्चितमेचककचाः-वकृष्णशिरोवालाः । सौदामिनीति- सौदामिन्याः विद्युतः वृन्दस्य विनिन्दकं तिरस्कारकं ततोऽप्यतिचपलद्युतिभाक् वसनम् = वस्त्रम् । 'गुञ्जातोलनेन-' इत्यादिगयेन महाराष्ट्रपतदानशूरतां प्रदिपादयति । विजयध्वजेन = विजयध्वजनाम्ना सेनापतिना। 'रिपूणाम्-' इत्यत्र उत्प्रेक्षा । 'अलिकुलाकुलै : कमलरिव' इत्यत्र उपमा। पृ० ४१५॥ प्रतिध्वनीति–प्रतिध्वनिनिवहै: = प्रतिशब्दपरम्पराभिः सहस्रगुणितम् । जयध्वनिधानम् = जयशब्दशब्दम् । कन्दरिकन्दरेषु- पर्वतगुहासु । समाधिसन्धौ = समाध्यवस्थायाम् । त्राटकीति त्राटकी योग- मुद्राविशेष: 'यतोधर्मस्ततः कृष्णः' इत्याद्युक्तया उपक्रमोपसंहारयोरक्यं प्रदर्शयन् ऐक्येनैव सर्व समवयितुं शक्यते इति व्यक्तीकरोतीति शिवोम् । श्रीकृष्णाय नमः । कृष्ण दले रविदिने मधुमासि वर्षे श्रीवैक्रमे गुण-भुजङ्ग-नवेन्दु (१९८३) सङ्ख्ये । टीका नवा शिवजयध्वजनामरूपा पूर्णा कृता नृहरिणा कविनेति विज्ञाः ! सम्भाव्यते सुलभमानववुद्धिदोष- प्राग्भारभूमिरतुला स्खलिताङ्कुराणाम् । तस्मात्प्रमार्य गुणशाखिनमाश्रयध्वं दोषो ममास्तु शिरसा वहनक्षमोऽहम् ॥ २॥ भूपान्तराणां वचसाऽप्यवाच्या विज्ञानसत्कौशलचाकचक्या । कीर्तिर्यदीया विपुलास्ति तस्मिन् श्रीमायोजे रचिता पताका ॥४॥ शिवा यदीयाङ्गविभागभाग्या यो देवमौलीलितपादकञ्जः । सदाशिवः शान्तचिदम्बरेश- स्तं भूतराजं प्रणमामि नित्यम् ॥ ५॥ इति ( नूतन ) शिवराजविजयपताकायां द्वादशो निश्वासः ।
No text on this page.