Ramkrishna Mission Institute Of Culture, Golpark
Sri Bhagavad Gita And The Tatparyachandrika Of Sri Vedanta Desika
Front matter
No text on this page.
No text on this page.
No text on this page.
4 Sri. Vani · Vilas. Sastra . Series: No. 3. Do
Sri Bhagavad Gita
WITH THE BHASHYA OF
SRI RAMANUJA
AND THE
T'atparyachandrika
OF
SRI VEDAMA DESIKA
EDITED BY
Rao Bahadur M. Rangachariar, M.A.
Professor of Sanskrit, Presidency College, Madras.
WITH THE CO-OPERATION OF
Pandit R. Y. KRISHNAMACHARIAR,
AND
A. Y. GOPALACHARIAR, M.A , B.L..
SRIRANGAM :
SRI YANI VILAS PRESS.
1907.
Copyright Raristered.
مثل
64/
(.
مي . {{ .2
.
arm.
E11
r
॥ श्रीः॥
॥ श्रीमते रामानुजाय नमः ।।
प्रणाम लक्ष्मणमुनिः प्रतिगृहातु मामकम् ।
प्रसाधयति यत्सूक्तिः खाधीनपतिका श्रुतिम् ॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी।
वेदान्ताचार्यों में संनिधत्तां सदा हृदि ॥
S
No text on this page.
॥श्रीः॥ ॥ श्रीमते रामानुजाय नमः ॥ ॥ श्रीमद्भगवद्गीता ॥ ॥ तात्पर्यचन्द्रिकासहितश्रीरामानुजभाष्योपेता । 'यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः । वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ।। ॥ श्रीः ॥ यतिपरिबृढो यद्गीतानामदर्शयद असा निगमपरिषन्नेदीयांसं निरामयमाशयम् । जननपदवीयातायातश्रमापहरां धियं जनयतु स मे देवः श्रीमान्धन जयसारथिः । अनुचितपदवीभिश्चिन्तयित्वा प्रयाता- न्यलमलमतिमात्रत्रासचिन्ताविषादैः । उपनिषदमुदारामुद्वमन्क्कापि लक्ष्ये शरणमुपगतान्नस्त्रायते शार्ङ्गधन्वा ।। सन्तः सारलिहश्चित्ततमःप्रमथिनीमिमाम् । भजन्तु भगवद्गीताभाष्यतात्पर्यचन्द्रिकाम् ।। श्रीमद्गीतां व्याचिख्यासुः, अविघ्नपरिपूरणप्रचयगमनार्थ परमाचार्यस्य संग्रहश्लोकनिर्माण- मुखेन तदर्थोपदेष्टुतां तदनुवृत्तेः स्वाचार्यसंप्रीणनतामप्यनुसंदधानः, परमाचार्यभजनरूपं मङ्गलमा- चरति-यत्पदाम्भोरुहेत्यादि । यच्छब्देन सर्वोत्तराचार्यगुणपौष्कल्यहेतुकां प्रसिद्धिं सूचयति । अम्भो- *1. यत्पादाम्बुरुहध्यानानन्दनिर्वृत्तचेतसः। मुक्किमप्यवजानन्ति तं वन्दे पुरुषोत्तमम् ॥ 2. सुधा- 3: अतिमात्रैरय चित्ते विषादैः। 4. ...मुद्वहन्वापि लक्ष्ये ; ...मुद्वमन्याण्डवार्थम्. 5. सन्तः सानुप्रहश्चित्तैस्तमः प्रमथनीमिमाम्। 6. यत्पदेन. मय...
२ श्रीमद्भगवद्गीतायां .. " . रुहशब्देन भोग्यत्वप्रतीतेर्भक्तिरूपर ध्यानस्य व्यज्यते । यामुनाचार्यस्य, द्रोणाचार्यस्य एकलव्य इवाह- मित्यभिप्रायेण ानशब्दः । सकृत्संदर्शनेन प्रायशः कल्मषाणि विध्वस्तानि, तन्मूलनिरन्तरस्मरणेन तेषां सवासनोन्मूलनं कृतमित्यभिप्रायेण 'ध्यानविध्वस्ताशेषकल्मषः' इत्युक्तम् । वस्तुताम् 'अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः' इत्याद्युक्तप्रकाराम् । अहं वस्तुतामुपयात इत्याश्चर्यगर्भम् । एव- मनिष्टनिवर्तनेष्टप्रापणरूपोपकारस्मृतिप्रेरितवागादित्रितयकरणकः प्रणामः शिष्यशिक्षणार्थं श्रोतॄणां फल- सिद्धयर्थं च अन्थे निवेशितः । तेन स्वाचार्सवत्तदाचार्यपरम्पराया अपि भजनमत्यादरेण करणीयमित्यपि शिक्षितम् । तथा च श्रुयते, ‘स चाचार्यवंशो शेयो भवति, आचार्याणामसावसावित्या भगवतः' इति ॥ अथाभिमतपरदैवतस्य भगवत: स्वरूपरूपगुणविभवादिभावनावर्णनाभ्यामर्थांदभङ्गुरं मङ्गल- माचरन्, 'स्वधर्मज्ञानवैराग्यसाध्यभक्त्येकगोचरः । नारायणः परं ब्रह्म गीताशास्त्रे समीरितः' इति संग्र- हानुरोधेन व्याख्येयशास्त्रप्रधानप्रतिपाद्यं च सप्रकारं दर्शयन् , शास्त्रप्रामाण्यस्थापनाय वक्तुः स्वतःसर्वज्ञत्व- परमकारुणिकत्वसाधुपरित्राणोन्मुखावस्थत्वसर्वशक्तित्वादिना भ्रमविप्रलम्भप्रमादाशक्त्याद्यभावप्रदर्शने- नाप्ततमत्वं समर्थयन् , अपवर्गप्रधानचतुर्वर्गोपायबोधात्मकमवान्तरप्रयोजनम् अपवर्गदशानुभाव्यसप्रकार- भगवत्स्वरूपं च परमप्रयोजनं प्रकाशयन् , शंकरादिपक्षे शास्त्रोपदेशारम्भाद्यनुपपत्तेर्वक्ष्यमाणायाः स्व- पक्षे प्रसङ्गाभावाय शास्त्रोपदेशाद्यनुकूलजीवपरमात्मपारमार्थिकभेदादिकथनेन शास्त्रारम्भं समञ्जसयन् , कारणशोधकोपासनभेदाभेदघटकवचसां सर्वेषामपि मुख्यतां ख्यापयन् , गुणतनुजनिविभवविहरणादिवि- धिनिषेधोपनिषदामल्पश्रुतकुमतिविहितप्रतारणकृतकलहकलङ्कषां विषयव्यवस्थामपि स्थापयन् , समस्तकामस्यापि लीलामात्रविहितनिखिलव्यापारत्वेन शारीरकद्वितीयाध्यायसिद्धं विरोधपरिहारमुपलक्ष- जिज्ञास्यजगत्कारणपरब्रह्मभूतदेवताविशेषमपि सर्वशाखाप्रत्ययसामान्यविशेषादिन्यायैः त्रिमूत्र्यैक्य- साम्योत्तीर्णव्यक्त्यन्तरत्वव्युदासेन निरूपिताकारं 'निर्दिशन् , 'बहु स्याम् ' इति संकल्पमारभ्य सारथ्य- चर्यापर्यन्तस्य सर्वस्य जगद्यापारस्याश्रितार्थतया व्याजमात्रलाभादपि परमपुरुषार्यभूतस्वात्मोपलम्भका- ध्यात्मशास्त्रावतरणादिना च. सौलभ्यातिशयमुद्धोषयन् , प्राप्यत्वोपास्यत्वैकान्तपरत्वसौलभ्यस्थापनौप- यिकगुणवर्गद्वये जगत्पतित्वसर्वज्ञत्वसर्वशक्तित्वसर्वेश्वरत्वादिकं परमकारुणिकत्वशुभाश्रयत्वाश्रितार्थाव- तारत्वविरोधिनिरसनशीलत्वासेचनकदर्शनत्वादिकं चोदाहरन् , पञ्चमवेदपरमप्रतिपाद्यस्य भगवतो नारा- यणस्य प्राक्तनोदन्तं गीतोपनिषदुपदेशेन संगमयति—श्रियः पतिरित्यादिना अवतारयामासेत्यन्तेन । तत्रेत्यादिना चकारेत्यन्तेन द्वितीयेन वाक्येन बुभुत्सोधृतराष्ट्रस्य ज्ञातांशनिष्कर्षः । एवं ज्ञात्वापीत्यादिना तु तृतीयेन वाक्येन शास्त्रोपोद्धातारम्भभूतप्रश्नसंगतिः । अत्र दिव्यात्मस्वरूपव्यतिरिक्तं समस्तमपि नारशब्दार्थतया विविच्य दर्शयिष्यन् , तदयनं स्वरूपमन्यपदार्थतया उत्तरपदार्थतया 10वा समास- द्वयेऽपि प्रधानभूतं प्रथमं निष्कृष्य दर्शयति- 1. यामुनाचार्यस्य एकलव्य. 2. प्रयकरणकः, 3. स्वरूपरूपादि... 4. ...सर्वशरारत्वा. दिना. 5. विषयव्यवस्थामापादयन्; विषयव्यवस्थामुपस्थापयन्. 6. ...त्रिमूर्तिसाम्यैक्योत्ती... 7. निदर्शयन्. 8. तृतीयेन शास्त्रोपो... 9. शास्त्रारम्भोपो... अवाप्त- यन्, , प्रथमोऽध्यायः । श्रियः पतिनिखिलहेयप्रत्यनीककल्याणकतानः, स्वेतरसमस्तवस्तुविलक्षणानन्त- ज्ञानानन्दैकस्वरूपः, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेज:प्रभृत्यसंख्येय- . . । श्रियःपतिरित्यादिना । विशेषज्ञप्तये भर्तुरभिगम्यत्वसिद्धये । समस्तमङ्गलाप्त्यै च प्रथमं श्रीरिहोदिता । 'एष नारायणः श्रीमान्क्षीरार्णवनिकेतनः । नागपर्यङ्कमुत्सृज्य ह्यागतो मधुरां पुरीम्' 'अर्थो विष्णुरियं वाणी' इत्यादिकमिह भाव्यम् । कतिपयहेयनिवर्तकतीर्थसेवादिव्युदासाय निखिलेति विशेषणम् । अत्र हेयशून्यत्वमर्थसिद्धम् । न हि परगतनिखिलहेयनिराकरणसमर्थः स्वगतं हेयं क्षमते । यद्वा हेयविरोधिस्वभावतया हेयशून्यमित्यर्थः । तदा निखिलशब्दः सर्वाचिद्गतं विकारादि- कं सर्वचिद्गतं क्लेशादिकं च संगृह्णाति ; कुमतिपरिकल्पितमंशभेदेनाकल्याणस्पर्शमपाकर्तुं कल्याणैक- तानशब्दः । अत एव 'ज्ञानानन्दैकस्वरूपः' इत्यनेनापौनरुक्त्यम् । अथवा सामान्यविशेषनिर्देशरूप- त्वादपुनरुक्तिः । यद्वा कल्याणकतानः कल्याणगुणानामेवाश्रयभूत इति वक्ष्यमाणगुणप्रपञ्चस्य संग्रहः ॥ . - , त्रिविधानां चेतनाचेतनानां पराधीनत्वादिसाम्यादेवंभूतं वस्त्वन्तरं नास्तीत्यभिप्रायेणाह.- स्वेतरेति । एतेन ज्ञानभोगसाम्येऽपि सर्वप्रकारसमत्वनिषेधः । 'नित्यं विभुं सर्वगतम्' 'विश्वमेवेदं पुरुषः' इत्यादिप्रसिद्धं त्रिविधपरिच्छेदराहित्यं प्राधान्यतः पृथगाह-अनन्तेति । अनन्तं त्रिविधपरिच्छेद- रहितम् । 'अत्रैव देशेऽस्ति, अत्र तु नास्ति' इति देशपरिच्छेदः ; 'अत्र कालेऽस्ति, अत्र तु नास्ति' इति कालपरिच्छेदः ; 'इदम् इदं न भवति' इति वस्तुपरिच्छेदः, अल्पवर्णस्वर्णवत् स्वरूपापकृष्टत्वादिकं वा। एवंविधपरिच्छेदत्रयराहित्यं नाम सर्वदेशसर्वकालव्यापित्वसर्वान्तर्यामित्वरूपम् । वस्तुपरिच्छेदराहित्यं हि सर्ववस्तुसामानाधिकरण्ययोग्यत्वादिकम् ; न पुनर्मिथोविरुद्धविविधवस्तुतादात्म्यं स्वव्यतिरिक्तसम- स्तमिथ्यात्वं वा, उभयोरत्यन्तासंभावितत्वात् । विस्तरस्तु शतदूषण्यां कृतोऽस्माभिः । आनन्दस्य ज्ञान- विशेषत्वात् ज्ञानानन्दशब्दयोः सामानाधिकरण्यमुपपन्नम् । तर्हि आनन्दशब्दस्य विशेषशब्दत्वात् 'घट. द्रव्यम्' इत्यादिवत् 'आनन्दज्ञानम् ' इति वक्तव्यमिति चेत् , तन्न ; बहुलग्रहणेन सर्वोपपत्तेः । यद्वा आनन्दशब्दस्य अनुकूलवेदनीयेषु जडेष्वपि प्रयोगात्तद्विशेषणतया ज्ञानशब्दस्य पूर्वत्वोपपत्तिः । स्वरूप प्रतीदं विशेषणद्वयं वा ॥ स्वाभाविकेति । स्वरूपापेक्षया गुणविग्रहादीनामपृथक्सिद्धिसाम्येऽपि विग्रहादि- धारणनियमनादौ ज्ञानादिगुणगणापेक्षत्वप्रदर्शनाय उत्तरोत्तरसुग्रहत्वसिद्धये च प्रथमं गुणोक्तिः । समस्त- गुणबृन्दप्रधानतया पाड्गुण्यस्य स्वरूपेणोपादानम् ; इतरेषां च सौशील्यादीनां प्रभृतिशब्देन संग्रहणं कृतम् । 'तवानन्तगुणस्यापि षडेव प्रथमे गुणाः । यस्त्वयेव जगत्कुक्षावन्येऽप्यन्तर्निवेशिताः' ह्याहुः । संहृतिसृष्टिस्थितिहेतुभूतसंकर्षणादिव्यूहत्रये ज्ञानबलादिद्वन्द्वत्रिकस्य' यथाक्रमं तत्तत्कार्यविशे- 1. हेयशून्यत्वमित्यर्थः। 2. ...नामेकाश्रयभूत. 3. संग्रहः । अनन्तेति । अनन्तं...4. अन्त- यामित्वादिरूपम् ... तयो... (6. पटद्रव्यम्. 7. द्वयत्रिकस्य. .
श्रीमद्भगवद्गीतायां १ कल्याणगुणगणमहोदधिः, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशयो- ज्ज्वल्यसौन्दर्गसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूपः, स्वोचितविवि- पोन्मुखत्वेनाविर्भावविशेषात् ज्ञानबलेत्यादिक्रमविशेषः कृतः । स्वतः सर्वं सर्वथा सर्वदा साक्षात्करोति, तथा साक्षात्कृतं च सर्वे धारयति, धारयन्नेव नियच्छति, धारयन्नियच्छंश्च न शिथिलीभवति, अघटितं च घटयति, तत्र च सहारिनिरपेक्षो न केनचिदभिभूयते किंतु सर्वाभिभूर्भवति, इति च गुणक्रमपाठविव. क्षा । स्वाभाविकत्वमनन्याधीनत्वम् । मुक्तनित्ययोरपि हि तादृशं ज्ञानादिकं तदनुगुणपरमात्मसंकल्पाधी- नम्। अनवधिकत्वमत्रोत्कृष्टावधिराहित्यम्। द्वाभ्यां विशेषणाभ्याम् 'परास्य शक्तिर्विविधैव श्रूयते, स्वाभा- विकी शानबलक्रिया च' इत्याम्नाते परत्वस्वाभाविकत्वे प्रतिगुणमन्विते प्रदर्शिते । असङ्ख्येयशब्देन महो- दधिशब्देन च 'यथा रत्नानि जलधेरसङ्ख्येयानि पुत्रक। तथा गुणा ह्यनन्तस्य असंख्येया महात्मनः' इ- त्यादि स्मारितम् । कल्याणशब्देन गुणनिषेधवचनानां हेयगुणविषयत्वमुत्सर्गापवादन्यायसिद्धं स्मारितम् ॥ , अथ कारणोपासनादिप्रकरणेष्वस्त्रभूषणाध्यायादिषु च प्रतिपन्नं विलक्षणविग्रहयोगं दर्श- यति-स्वाभिमतेति । अभिमतेऽप्यननुरूपत्वस्य अनुरूपेऽप्यनभिमतत्वस्य लोके दृष्टत्वात्तदुभय- व्यवच्छेदाय स्वाभिमतानुरूपेत्युक्तम् । एकरूपेत्यनेन व्यूहविभवाद्यवस्थास्वपि हेयप्रत्यनीकत्वानन्दा- वहत्वमुमुक्षूपास्यत्वप्राप्यत्वादिस्वभावापरित्यागोऽभिहितः । यद्वा व्यूहादिपरिणामे सत्यपि परमव्योम- निलयस्य विग्रहस्य प्राचीनसंस्थानावस्थितिरुक्ता । 'सावयवत्वादनित्यम्' इत्यादीनां धर्मिग्राहक- बाधादिभिराभासतामभिप्रेत्य अचिन्त्यत्वोक्तिः । एको दिव्यशब्दः संस्थानवैलक्षण्यपरः, परमव्यो- मवर्तित्वमात्रपरो वा; इतरस्त्वप्राकृतत्वपरः । विचित्रावतारयोगः, प्रतिक्षणमपूर्ववदनुभाव्यत्वम् , वट- पलशयनविश्वरूपाद्यवस्थागतमाश्चर्य च, अद्भुतशब्देन विवक्षितम् । नित्यत्वं कालापरिच्छिन्नत्वम् । तथा चामनन्ति रहस्यानायविदः,, 'नित्यालिङ्गा स्वभावसंसिद्धिरिन्द्रियाकाराङ्गप्रत्यङ्गव्यञ्जनवती' इति । श्रीपौष्करे च, नित्यसिद्धे तदाकारे तत्परत्वे च पौष्कर । यस्यास्ति सत्ता हृदये तस्यासौ संनिधि प्रजेत् ' इति । निरवद्यत्वं जरादिराहित्यम् । उत्तरोत्तरनिरवद्यशब्देषु पूर्वपूर्वेभ्यः सुग्रहत्वं वा विव- क्षितम् । शुभाश्रयत्वभोग्यत्वाद्युपयुक्तमङ्गलगुणयोगो निरतिशयौज्ज्वल्येत्यादिनोक्तः । निरतिशयत्वं स्वापेक्षया 'उत्कृष्ट राहित्यम्, अनुत्तमत्ववत् । तच्च प्रतिगुणमन्वेतव्यम् । औज्ज्वल्यं भास्वरत्वम् । सौन्दर्यम् अवयवशोभा । 'सर्वगन्धः' इति श्रुतिरनुकूलगन्धविषया ; सक्चन्दनादि चाल कृतकरमि- त्यभिप्रायेण सौगन्ध्यशब्दः । सौकुमार्य महाबलत्वेऽपि 'पुष्पहासः' इति नाम दुहानं मार्दवम् ; यथोक्तम् , 'सुकुमारौ महाबलौ' इति । लावण्यं समुदायशोभा । यत्तदुच्यते भगवच्छास्त्रे, 'विश्वमाप्याययन्कान्त्या पूर्णेन्द्वयुततुल्यया इति । 'भूयिष्ठं तेज एवाद्भिर्बहुलाभिम॒दूकृतम् । चक्षुरान- . . . । . 1. सर्वथा साक्षा...2. विवक्षया.. 3. घनन्ताश्च, .4. ...पवादादिन्याय... 5. निलयविग्रहस्थ, 6: कालावनच्छिन्नत्वं. 7. नित्ये... 8. ...अवयवशोभा। लावण्यं समुदायशोभा ।'.
प्रथमोऽध्यायः । ४ , धविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषणः', स्वानुरूपासंख्येयाचिन्त्यशक्तिनि- त्यनिरवद्यनिरतिशयकल्याणदिव्यायुधः, स्वाभिमतानुरूपनित्यनियस्वरूपरूपगुणविभ- न्दजननं लावण्यमिति कथ्यते' इति ह्याहुः। यौवनं कौमारानन्तयोंपलक्षणीयः खेभावविशेषः, न तु कौमारानन्तरभाविन्येव दशा; तद्यौवनस्यानादित्वात् , देवादिषु च केषांचित् युवत्वेनैवोत्पत्तिदर्श- नात् । आदिशब्देन शुभाश्रयप्रकरणेषूक्ता: सर्वे विग्रहगुणाः संगृहीताः ॥ एवं स्वरूपतद्गुणौ विग्रहतद्गुणौ च प्रतिपाद्य, विग्रहाश्रितमाभरणवर्गमायुधवर्ग च दर्श- यति-- स्वोचितेत्यादिपदद्वयेन । पूर्वोक्तविलक्षणविग्रहविशिष्ट स्वरूपमिह स्वशब्दार्थः । अल 'आयताश्च सुवृत्ताश्च बाहवः परिघोपमाः । सर्वभूषणभूपार्हाः' इत्यादि भाव्यम् । किरीटहारा- दिरूपेण वैविध्यम् । एकजातीयेष्वपि मणिकाञ्चनादिद्रव्यविशेषवर्णसंस्थानादिविशेषविशिष्टव्यक्तिभे- दाद्वैचित्र्यम् । अपरिमितेत्यसंख्येयत्वोक्तेः, अनन्तत्वमाश्चर्यविशेषणम् । अनवधिकाश्चर्यरसावहत्वमन- न्ताश्चर्यत्वम् ; अथवा अनन्तानि आश्चर्याणि संस्थानविशेषसौगन्ध्यसुखस्पर्शत्वादीनि येषां भूषणानां तानि तथोक्तानि । नित्यनिरवद्यशब्दौ पूर्ववत् । अपरिमितत्वमसंख्येयत्वमेव, न तु हस्वदीर्घादिपरि माणविरहः । यद्वा अनन्तेत्यसंख्येयत्वम् , अपरिमितेति च विग्रहानुरूपमहत्त्वं,' विवक्षितम् । भूषणा- युधयोर्दिव्यत्वमप्राकृतत्वम् । पूर्वोक्तगुणविग्रहाभरणविशिष्टः 'स्वानुरूप' इत्यत्र स्वशब्दार्भः । असं- ख्येयेति । पञ्चायुधत्वप्रसिद्धिः प्राधान्यादिति भावः । अचिन्त्यशक्तीति । कुठारटङ्ककुद्दालादिभिः प्रत्येकं कृच्छ्रसाध्यं सालशैलवसुधातलविदारणम् एकेन हि महेषुणा कृतमिति भावः । निरति- शयकल्याणत्वं निरतिशयानन्दावहत्वम् , भूपणकोटावप्यनुप्रवेशात् ; यद्वा लोके .यान्यायुधलक्षणानि मङ्गलावहतया प्रसिद्धानि तैः सर्वैः संपूर्णत्वम् ॥ , पूर्व स्वरूपनिरूपकतया सामान्यतोऽभिहितां श्रियं विभूतिमध्येऽपि स्थितां विशेषतो दर्शय- नर्थात्तत्स्वरूपादिकम याह-- स्वाभिमतेति । स्वरूपं स्वासाधारणधर्मविशिष्टं श्रियो दिव्यात्म- स्वरूपम् । रूपं दिव्यविग्रहः । रूपानन्तरो गुणशब्दस्तद्गतनिरतिशयौज्ज्वल्यसौन्दर्यादिपरः । विभवशब्दः परिजनपरिबर्हादिपरः । परत्वसौलभ्यौपयिकगुणवर्गद्वयम् ऐश्वर्यशीलपदाभ्यामुपल- क्षितम् । ततश्चादिशब्दः प्रत्येकमन्वयात् ज्ञानशक्त्यादिकं वात्सल्यादिकं च संगृह्णाति । ऐश्व- र्यशीलादयः अनवधिकातिशयाश्च असंख्येयाश्च कल्याणाश्च गुणा इति विशेषणसमासः । एवं- विधगुणानां गण इति षष्ठीतत्पुरुषः । ऐश्वर्यशीलादेर्गणविशेषणत्वानौचित्यात्, अनवधिकाति- शयत्वस्यापि गणविशेषणत्वे प्रत्येकं गुणानामुत्कर्षस्याशाब्दत्वात् , गुणविशेषणतयैव समास उचितः । स्वरूपम् , रूपम् , 'तद्गुणः, विभवः, ऐश्वर्यादिगुणगणश्च, इति द्वन्द्वः । स्वरूपादिपञ्चकं भगवदभिमतानुरूपं नित्यं निरवद्यं यस्याः, सा स्वाभिमतेत्यादिगुणगणेत्यन्तेनोक्ता । स्वरूपम् , रूपम् , 1. ...रिवनिरतिशयसुखस्पर्शापरि...2. महत्तरत्वं. 3. ऐश्वर्यशीलाभ्या. 4. तद्गुणाः; विभवाः . .
६. श्रीमद्भगवद्गीतायां . . । वैश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगणश्रीवल्लभः, स्वसंकल्पानुविधायिस्वरूप- स्थितिप्रवृत्तिभेदाशेषशेषतैकरतिरूपनित्यनिरवद्यनिरतिशयज्ञानक्रियैश्वर्याधनन्तगुणगणापरि- तद्गुणः, विभवः, ऐश्वर्यम् , शीलम् , इत्यादिगुणगण इति योजनायां स्वरूपरूपयोरपि गुणानुप्रवेश- प्रसङ्गः । स्वरूपादेः सर्वस्य परमात्माभिमतत्वं व्यक्तम् । स्वरूपस्य नित्यत्वं निर्विकारतया सर्वकालव- र्तमानत्वम् । निरवद्यत्वं पूर्व परमात्मस्वरूपे प्रतिपादितप्रकारम् , तद्वत् पितृत्वप्रयुक्तकादाचित्कोष्मल- त्वादिराहित्यं वा । अनुरूपत्वं तु यथाप्रमाणं प्राग्वदेव कल्याणैकतानत्वादिकम् । शान्तानन्त' इत्यादिकमिह भाव्यम् । रूपस्य नित्यत्वमवतारादिदशायामपि परमपदनिलयभगवदेकासनस्थितस्य तथावस्थितत्वम् । अनुरूपत्वं च, ‘अस्या देव्या यथारूपमङ्गप्रत्यङ्गसौष्ठवम् । रामस्य च यथारूपं तस्येयमसितेक्षणा' विष्णोदेहानुरूपां वै करोत्येषात्मनस्तनुम्' इत्यादिप्रतिपादितम् । विग्रह- गुणानां नित्यत्वं नाम औज्ज्वल्यादेः कदाचिदप्यपकर्षाद्यभावः । निरवद्यत्वं च दुष्प्रेक्षतादिराहित्यम् । अनुरूपत्वम् , 'घनकनकाती युवदशामपि मुग्धदशाम् ' इत्याद्युक्तप्रकारम् । विभवस्यानुरूपत्वम् , 'देवतिर्यङ्मनुष्येषु पुन्नामा भगवान् हरिः । स्त्रीनाम्नी लक्ष्मीमैत्रेय नानयोर्विद्यते परम्' इत्यादिभिरनुसंधेयम् । अनवधिकातिशयत्ववचनादीश्वरव्यतिरिक्ताशेषगोचरस्यापि तदैश्वर्यस्य ईश्व- राभिमतत्वान्न द्वराज्यादिदोषः । 'अस्येशाना जगतो विष्णुपत्नी' इति विष्णुपत्नीत्ववेषेण हि सर्वस्य जगत इयमीष्टे. 'ईश्वरी सर्वभूतानाम्' इत्यत्र तु, यद्यपि सर्वभूतानामिति प्रतिसम्बन्धिनिर्देशात् स्त्रीप्रत्ययानुसारेण ईश्वरपत्नीति विवक्षा न शक्या; तथापि वाक्यान्तरबलादर्थस्य तथात्वसिद्धिः । निरवद्यत्वं भगवदैश्वर्यैकरसत्वं वा निग्रहादिप्रसङ्गाभावो वा । प्रतिकूलदण्डकत्वं हि पुंस्त्वानुरूपं त- द्वल्लभस्यैव भागः । शीलस्य नित्यत्वं महत्त्वे सत्यपि मन्दैः सह नीरन्ध्रसंश्लेपे कदाचिदपि स्वोत्क- र्षप्रकाशनाभावः ; निरवद्यत्वं तत्र विप्रलम्भाभिप्रायादिविरहः । अनुरूपत्वम् , अनवधिकातिशयत्वं च, 'तुल्यशीलवयोवृत्ताम्' इत्यायुक्तप्रकारम् । एवं श्रियः पृथनित्यस्वरूपरूपगुणविभवैश्वर्यशीलादि- प्रतिपादनेन, ज्ञानादिगुणवदपृथक्सिद्धशक्तिमात्रत्वम्, व्यूहविशेषत्वम् , स्वरूपैक्यम् अन्यदपि, वद- न्तो निरस्ताः । शक्तित्ववादास्तु पत्नीत्वेन कार्योपयुक्तविशेषणत्वाभिप्रायाः । प्रयुज्यते हि शास्त्रेषु सर्वत्र स्त्रीपुंसात्मकेषु इन्द्वान्तरेष्वपि स्यशे शक्तिशब्दः । एकत्ववादास्तु समस्तप्रपञ्चप्रतियोगिकैकशे- पित्वाश्रयत्वेन, विशिष्टैक्येन, आत्महविः प्रत्युद्देश्यैकदेवतात्वादिवेषेण वा, निर्वाह्याः । अत एव हि 'व्यापकावतिसंश्लेषादेकतत्त्वमिवोदितौ' इत्युच्यते । उक्तं च श्रीराममित्रैः षडर्थसंक्षेपे 'उभयाधि- ठानं चै शेषित्वम्' इत्यादि । एवंविधाया भगवत्याः श्रियो वल्लभः प्रियतमः, श्रीः वल्लभा यस्येति वा। न चाभिमतशब्दपुनरुक्तिः, प्रत्येकसमुदायविषयतयाभिमतत्वातिशयव्यञ्जनपरत्वादिति ॥ अथ नित्यपरिजनविशिष्टतां दर्शयति-स्वसंकल्पेति । स्वरूपं धर्म्यशः । स्थितिः अप्रच्युतत- यावस्थानम्। प्रवृत्तिः व्यापारः । नित्यानां स्वरूपस्थित्योः परमात्मसंकल्पानुविधायित्वं नाम तन्नित्येच्छा- . , . 1 'दण्डित्वं. 2.....एकदेवतात्वाविशेषेण ; .एकदेवतात्वादिविशेषेण.
प्रथमोऽध्यायः । मितसूरिभिरनवरताभिष्टुतचरणयुगल:, वाड्मनसापरिच्छेयस्वरूपस्वभावः, स्वोषितविवि- सिद्धत्वम् । तच्चानिच्छासंभवे निवर्तयितुं शक्यतामात्रम् । तेषु त्वनिच्छायाः कदाचिदप्यमावात् स्थितेः सदातनत्वम् । इदं च परमात्मसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तित्वं बद्धमुक्तप्रकृतिप्रातकालादिष्वपि भाव्यम् । तच्च सर्व प्रपञ्चयिष्यते । शेषता शेषवृत्तिरित्यर्थः। अशेषशेषता यथाभिमताकारता । अत्र 'शरा नानाविधाश्चापि धनुरायतविग्रहम् । अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहाः' 'निवासश- य्यासनपादुका' इत्यादि द्रष्टव्यम् । एकैककृतस्यैव हि कैयस्य मिथ: सर्वार्थवयानुसंधानात् सर्वेऽ. प्यस्य सर्वकर्यकारिणो भवेयुः । यद्वा स्वरूपस्थितिप्रवृत्तिभेदा एव अशेषशब्देन संगृह्यन्ते ; तेषामशेषाणां परमात्मानं प्रति शेषता शेषभावः । एवमुक्तप्रकारीयां शेषतायामितरपरित्यागेन तदेकावलम्बिनी प्रीतिरेव रूपं स्वरूपं स्वभावो वा येषां ते अशेषशेषतैकरतिरूपाः । ते च सर्वे नित्याः । स्वरूपनित्य त्वस्य सर्वात्मसाधारणत्वात् मुक्तवत्कदाचिदाविर्भूतस्वरूपत्वमिह नित्यशब्देन व्युदस्यते, नित्यासंकुचि- तज्ञानादिगुणा इत्यर्थः । तत एव निरवद्याः क्लेशकर्मस्वातन्त्र्याभिमानादिदोषात्यन्ताभाववन्तः । एषां ज्ञानस्य निरतिशयत्वं परमात्मज्ञानतुल्यत्वम् । क्रियाया निरतिशयत्वं स्वच्छन्दानन्तकैङ्कर्यात्मकत्वम् । ऐश्वर्यस्य निरतिशयत्वं परमात्मकैङ्कोपयोगिस्वेच्छागृहीतशरीरेन्द्रियादिनियमने निर्विघातत्वम् ; न तु सर्वविषयत्वम्, 'जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्च' इति न्यायात् । अत्र निरतिशयशानक्रियैश्व- र्यादिरनन्तो गुणगणो येषामिति विग्रहः। ते च अपरिमिताः असंख्येयाः सूरयः । 'सदा पश्यन्ति सूरयः, तद्विप्रासो विपन्यवो जागृवाँसः समिन्धते' इत्याद्यनुसन्धानेनाह- अनवरताभिष्टुतचरणयुगल इति । विपन्यवः विशेषेण स्तुतिशीलाः । ‘पण व्यवहारे स्तुतौ च । पन च ।' अभिष्टुतेत्यभिर्वि- शब्दार्थः । स्तुतिशीलत्वादनवरतत्वोक्तिः ॥ . 5स्तुतिविषयत्वप्रसक्तमैश्वर्यादेरियत्तारूपं परिच्छेदमपाकरोति- वामनसेति । एतेन 'यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम् ' 'सो अङ्गं वेद यदि वा न वेद 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इत्यादीनां वाङ्मनसयोरवेद्यत्वा- र्थतां वदन्तो निरस्ताः । तथा सति 'तद्विजिज्ञासस्व' मनसा तु विशुद्धेन' 'ब्रह्मवित्' 'आनन्दं ब्रह्मणो विद्वान् इत्यादिभिः, 'यतो वाचो निवर्तन्ते' इत्यत्र यच्छब्दादिभिश्च, विरोधप्रसङ्गः । विरोधपरिहाराय मुख्यवृत्तिनिषेधविषयतया व्यवस्थाप्यत इति चेत्, आगतोऽसि. पन्थानम् ; विषयव्यवस्था तु यथाप्रमाणमस्माभिः क्रियत इति विशेषः । वामनसेत्यादिकं परमव्योमविशे- षणतया केचिद्याचक्षते, श्रीवैकुण्ठगद्ये तथोक्तेः । वयं तु अत्रैव षष्ठाध्याये ‘योगिनामपि' इति श्लोके 'वाङ्मनसापरिच्छेद्यस्वरूपस्वभावम्' इति परमात्मविशेषणत्वेनैवाभिधानात् , कुमतिनिरासार्थ- मपेक्षितत्वाच्च, अत्रापि तथा विवक्षामाचक्ष्महे ॥ स्वोचितेत्यादि । अत्राप्यनन्ताश्चर्यशब्दः पूर्ववत् । विभवशब्देन वाहनरत्नादिसंग्रहः । 1. यथाभिमताकारा. 2. सर्वे सर्व... 3. अशेषशेषतायां. 4. ...स्वभावत्वंमिह. 5. ...प्रयुक्तमै ...
श्रीमद्भगवद्गीतायां . इति सूत्रेण च, . धानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाविभवानन्तपरिमाणनित्यनिरव- चाक्षरपरमव्योमनिलयः, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभव- अनन्तपरिमाणत्वं तिर्यगूर्खादिदेशापेक्षया, अधस्तात् प्रकृत्यवच्छिन्नत्वात् । अनन्तशब्दावृत्तिः प्रत्ये- कमानन्त्ये तात्पर्यातिरेकात् । नित्यत्वं प्राकृतव्योमवल्लयरहितत्वम् । निरवद्यत्वं शुद्धसत्त्वमयत्वेन रजस्तमस्तत्कार्यराहित्यम् । अक्षरत्वम् अंशतोऽपि सृष्टिसंहारविरहः । परमशब्देन परनिर्दिष्टप्र- क्रियया प्राकृतव्योमव्यवच्छेदः । एतेन 'तदक्षरे परमे व्योमन् ' इत्यादिश्रुतिसूचनम् । एवं नित्यविभूतियोग उक्तः ॥ अथ लीलाविभूतियोगप्रतिपादनमुखेन 'यतो वा इमानि' इत्यादिवाक्यैः, 'जन्माद्यस्य यतः' निरूपितं जिज्ञास्यब्रह्मलक्षणयोगं दर्शयति-विविधेति।शब्दस्पर्शादिरूपेण दिव्यादिव्यादि- भेदेन चात्र भोग्यवैविध्यवैचित्र्ये । 'इमानि' इत्यादिश्रुत्या हस्तप्रसारणेन तत्तत्प्रमाणसिद्धसमस्तकार्यप्रकार- निर्देशात् बहुवचनासकोचाच्च भोक्तॄणां ज्ञानसुखादितारतम्यहेतुभूतं देवादिरूपेण वैविध्यम् , तदवान्तर- विधाभूतब्राह्मणादिरूपेण वैचित्र्यं च, दर्शितम् । यद्वा विविधशब्द एव सावान्तरभेदं समस्सं वैविध्यं सं- गृह्णाति । विचित्रशब्दस्त्वाश्चर्यपरत्वेनान्याशक्यत्वपरः, 'मेघोदयः' इत्यारभ्य 'विष्णोर्विचित्राः प्रभवन्ति मायाः' इत्यादिवत् । ज्ञानसुखादितारतम्याभावेन परमव्योम्नि भोक्तृवैविध्याभावात् परभोग्यत्वैक- रसानां नित्यसूरीणां पृथगुक्तत्वाच्च तत्र भोक्तृवर्गानुक्तिः । भोगोपकरणभोगस्थानान्यत्राप्यर्थसिद्धानि । एवंविधायाश्च विषमसृष्टेर्विचित्रानादिचेतनकर्मप्रवाहमूलत्वान्न वैषम्यादिदोषः। निखिलशब्देन कतिपय- सृष्टयादिनिमित्तोपादानभूतचतुर्मुखादिव्यावर्तनम् । उदयशब्देन सद्वारकाद्वारकसमस्तसृष्टिसंग्रहणम् । एवं विभवशब्देन विष्ण्ववतारान्तर्यामित्वादिकृतविविधस्थितिसंग्रहः। लयोऽपि नित्यनैमित्तिकादिरूपः । नि- खिलसृष्टयादिष्वन्यसमस्यैव ब्रह्मलक्षणत्वे संभवत्यपि, उपात्तव्यतिरिक्तयोः किमन्यः कर्तेति शङ्काव्यावर्त- नाय सृष्टयादित्रयोपादानम् । जगद्गतानां त्रयाणामुदयविभवलयानामेतद्गतलीलात्वेन व्यपदेशादुपादा- नत्वं सूचितम् । जगदाकारेण जायमानत्वादीन्यस्य लीला ; 'बहु स्यां प्रजायेय ' यति हि जगत्कारण- स्य तस्य संकल्पः । सूक्ष्मचिदचिद्विशिष्टस्यैवोपादानत्वात् बालस्येव युवत्वादिप्राप्तौ न स्वरूपतो विकार इति निर्विकारत्वश्रुत्यविरोधः । अवाप्तसमस्तकामस्य कथं जगद्यापार इति शङ्कां परिहरता लीलाशब्देन निमित्तत्वमपि तस्यैवेति सिद्धम् । एतेन निमित्तोपादानभेदं वदन्तो निरस्ताः । न च लोके निमित्तोपादानभेददर्शनमात्राद्विरोधः, लौकिककारणविलक्षणत्वाच्छ्रतिसिद्धस्य ब्रह्मणः । अन्ततो वैशे- षिकादिभिरपि घटेश्वरगतसंयोगविभागद्वित्वपृथक्त्वादिकार्येष्वीश्वरस्यैव निमित्तत्वम् उपादानत्वं च अभ्युपगतमिति न कश्चिदस्मिन्मते दोषः । तथा 'बुद्धिपूर्वकस्वसुखोत्पादनादावपि द्रष्टव्यम् ॥ एवं ब्रह्मलक्षणयोगात् नारायणस्यैव परब्रह्मत्वं दर्शयन्, सद्ब्रह्मात्मादिसामान्यशब्दानां । । . 1. रसनित्य... 2.... माश्चर्यरूपत्वेन मननाशक्य... 3. जायमानत्वादित्यस्य 4. जुल्यपूर्वपूर्वकख...
प्रथमोऽध्यायः । ५ वलीलः, परं प्रा पुरुषोत्तमो नारायणो ब्रह्मादिस्थावरान्तमखिलं जगत्सा स्वेन रूपे- णावस्थितः, प्रमादिदेवमनुष्याणां ध्यानाराधनाधगोचरोऽपारकारुण्यसोशील्यवात्सल्यौदार्य- महोदधिः, स्वमेव रूपं तत्तत्सजातीयसंस्थानं स्वस्वभावमजहदेव कुर्वस्तेषु तेषु लोकेष्ववतीर्या- नारायणाख्यविशेषपर्यवसानं च सूचयन् , 'नारायणपरं ब्रह्म इति श्रुत्यनुकारिणः 'नारायणः परं ब्रह्म गीताशास्त्रे समीरितः' इति गीतार्थसंग्रहश्लोकस्य प्रपञ्चममिह क्रियत इति ज्ञापयन् , उक्तैः प्रकारैः समाख्यालयमस्यैव संगतमिति चोदाहरन् , उक्तेष्वर्थेषु वा समाख्यात्रयं प्रमाणयन् , 'परं ब्रह परं धाम पवित्रं परमं भवान्' 'प्रथितः पुरुषोत्तमः' 'एष नारायणः 'एष नारायणः श्रीमान्' इत्यमीषां कृष्णकविषयत्वं च दर्शयन् , अभेदश्रुतीनां भेदश्रुतीनां घटकश्रुतीनां कारणशोधको- पासनश्रुतीनं च निष्कृष्टमर्थ संगृह्णाति-परं ब्रह्म पुरुषोत्तमो नारायण इति । सर्वसामानाधिकरण्यं सर्ववैलक्षण्यं च सर्वान्तर्यामित्वेनोपपत्रमिति पदत्रयाभिप्रायः । अत एव अत्र प्रपञ्चबाधभेदाभेदादिना सामानाधिकरण्यं वदन्तो निरस्ताः । 'एको ह वै नारायण आसीन्न ब्रह्मा नेशानः' इत्यारभ्य, ब्रह्मा चतुर्मुखोऽजायत' 'यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै' इत्यायुक्तकरण- कलेबरप्रदानहितोपदेष्टत्वादिकमभिप्रेत्याह- ब्रह्मादि स्थावरान्तमखिलं जगत् सृष्ट्येति । ब्रह्मसू- ज्यस्य स्थावरपर्यन्तस्य जगतः परमात्मसृज्यत्ववचनात् ब्रह्मादिकञ्चुकितः परमात्मा तत्तत्सृजतीति सिद्धम् ।। तत्र अथ स्वेच्छयावतारं तत्प्रयोजनं च वक्तुमनवतारदशायां तत्प्रयोजनानिवृत्ति दर्शयति-स्वेने. त्यादिना अगोचर इत्यन्तेन । अगोचरत्वम् अव्यक्तत्वात् । यथोच्यते--- 'यैर्लक्षणैरुपेतो हि हरि- रव्यक्तरूपधृत् । तैर्लक्षणैरुपेता हि व्यक्तरूपदशा युवाम् ' इति । ब्रह्मादिदेवेति वचनात् 'तदुर्यपि बादरायणः संभवात् ' इत्यधिकरणेऽर्थित्वसामर्थ्याभ्यां समर्थितं ब्रह्मरुद्रेन्द्रादिदेवजातीनामपि परमात्मो- पासनाधिकारित्वं सचितम् । स्वप्रयोजनाभावे कथं प्रवर्तेतेत्यत्राह- अपारेति । स्वार्थनिरपेक्षया पर- दुःखासहिष्णुतया, महत्त्वाप्रतिरुद्धया मन्दैः सह निरन्तरसंश्लेषरसिकतया, स्वाभाविकेन परदोषतिर. स्कारिणा संबन्धविशेषेण, पिशाचगोपालगोपिकादिभ्यः स्वात्मसमर्पणे कृतेऽपि कियदत्तमिति भावयता महौदार्येण च, प्रेरितोऽवतरतीत्यर्थः । अस्त्रभूषणाध्यायोक्तं विग्रहम् 'समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेमहत्' इति परामृश्य, 'समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यमनुष्याख्याचेष्टावन्ति स्वलीलया' इत्युक्तप्रकारेणावतारविग्रहस्याप्यप्राकृतपरम- पदनिलयविग्रहांशविशेषत्वं दर्शयितुम् , स्वमेव रूपम् इत्यादि उपन्यस्तम् । 'नैष गर्भत्वमापेदे न योन्यामवसत्प्रभुः । न तस्य प्राकृता मूर्तिोसमेदोऽस्थिसंभवा । न भूतसंघसंस्थानो देहोऽस्य परमा- त्मनः' इति चोच्यते । 'अजोऽपि सन्' इत्यादि वक्ष्यमाणमनुसंदधान आह.-- स्वस्वभावमजह- . 1. शार्ष:... 2. तैर्मक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम्. R) १०. श्रीमद्भगवद्गीतायां वतीर्य स्वैराराधितस्तचदिष्टानुरूपं धर्मार्थकाममोक्षास्यं फलं प्रयच्छन् , भूभारावतारणापदे- शेनास्मदादीनामपि समाश्रयणीयत्वायावतीर्योा सकलमनुजनयनविषयतां गतः, पराव- रनिखिलजनमनोनयनहारिदिव्यचेष्टितानि कुर्वन् , पूतनाशकटयमलार्जुनारिष्टप्रलम्बधेनुक- कालियकेशिकुवलयापीडचाणूरमुष्टिकतोसलकंसादीनिहत्य अनवधिकदयासौहार्दानुरागग- र्भावलोकनालापामृतविश्वमाप्याययन् , निरतिशयसौन्दर्यसौशील्यादिगुणगणाविष्कारेणा- देवेति । 'यदा यदा हि धर्मस्य ग्लानिर्भवति भारत' 'संभवामि युगे युगे' इत्यादिवीप्सार्थम्, 'बहूनि मे व्यतीतानि जन्मानि' इत्याद्यर्थं च भावयन्नाह- तेषु तेषु लोकेष्ववतीर्यावतीर्येति । 'स उ श्रेयान्भवति जायमानः' यस्यावताररूपाणि समर्चन्ति दिवौकसः । अपश्यन्तः परं रूपम्' इत्यादिकं स्मारयितुम् 'अवतीर्यावतीर्य तैस्तैराराधितः' इत्युक्तम्। 'तत्तदिष्टानुरूपम्' इति वचनात् फलप्रदाने वैषम्यदोषः परिहतः । तस्मिन्प्रसन्ने किमिहास्त्यलभ्यम्' इत्यादि चात्रानुसंधेयम् ॥ एवमवतारसामान्यं तत्प्रयोजनं च दर्शितम् । अथ तद्विशेष प्रस्तुतान्वितं दर्शयति-- भूभारावतारणेत्यादिना। भूभारावतारणं व्याजमात्रम् । सर्वसमाश्रयणीयत्वं तु साक्षादुद्देश्यम् । दुष्कद्विनाशस्य साधुपरित्राणाख्यमहाप्रयोजनानुषङ्गिकत्वात् 'भूभारावतारणापदेशेन' इत्युक्तम् । अस्मदादीनामपि अयोगिनामित्यर्थः । समाश्रयणीयत्वं विवृणोति--सकलेति । 'यन्न देवा न मुनयो न चाहं न च शंकरः । जानन्ति परमेशस्य तद्विष्णोः परमं पदम् ' इत्यादिप्रतिपादितप्रकारेण महायोगिनां परिशुद्धेन मनसापि दुर्ग्रहः सौलभ्यातिरेकान्मनुष्याणां तत्राप्यागोपालमवधीरितविरु- दाविरुद्धविभागानां मांसचक्षुषा ग्राह्योऽभूदिति भावः । एवमवतरणनयनविषयत्वयोर्न केवलमाराध्य. त्वमेव प्रयोजनम् , किंतु तदनुभवोऽपीत्यभिप्रायेणाह-परावरेति । पराः उपासनसमर्था ब्रह्मरुद्र- भीष्माक्रूरादयः । अवरास्तु आभीरप्रभृतयः । 'निखिलजन' इति स्त्रीपुंसादिविभागोऽपि नास्ती- त्यभिप्रेतम् , 'पुंसां दृष्टिवित्तापहारिणम्' इतिवत् । दिव्यचेष्टितानि नवनीतनटनादीनि । एवं विशे- षणद्वयं साधुपरित्राणप्रकारविशेषतयाभिहितम् । अथ साधुपरित्राणानुषङ्गिकं दुष्कृतिनाशनप्रकारं प्रपञ्चयति-पूतनेति । भगवतो बलभद्रस्याप्येतदंशरूपत्वात् प्रलम्बमुष्टिकादिहननमप्येतत्कर्तृकत- योपात्तम् + पुनः साधुपरित्राणान्तर्गतां भोग्यतां दर्शयति- अनवधिकेति । प्रियतमस्वरूपदर्शनं धारकम् । तष्टितदर्शनं पोषकम् ; तेन सहालापादिः भोगप्रकारः; इति नयनविषयत्वचेष्टितालोकनादि- विभागनिर्देशाभिप्रायः । दया स्वार्थनिरपेक्षा परदुःखनिराकरणेच्छा ; सौहार्द हितैषित्वम् ; अनुरागः प्रीतिः । एवं साधुपरित्राणं तदोपयिकं दुष्कृद्विनाशनं चोक्तम् । अथ धर्मसंस्थापनम् आराध्यस्वरूप- प्रदर्शनेन देशकालविप्रकृष्टानामपि परम्परयानुप्राहकेणोपदेशेन च दर्शयति-निरतिशयेत्यादिना वास्यशेषण । एतथाखिलं 'परित्राणाय' इति श्लोके व्याख्यास्यते । तत्र हि साधूनां लक्षणस्वभावा- . 1. इत्यादिश्लोकार्थम् .
प्रथमोऽध्यायः। . रमालाकारादीन परमभागवतान् कृत्वा, पाण्डुतनययुद्धप्रोत्साहनव्याजेन परमपुरुषार्थलक्ष- णमोक्षसाधनतया वेदान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतं भक्तियोगमवक्तारयामास । तत्र दिकमुक्त्वानन्तरमेवमुक्तम्- 'मत्स्वरूपचेष्टितावलोकनालापादिदानेन तेषां परित्राणाक, तद्विपरीताना विनाशाय च, क्षीणस्य वैदिकस्य धर्मस्य मदाराधनरूपस्य आराध्यस्वरूपप्रदर्शनेन स्थापनाय च, देव- मनुष्यादिरूपेण युगे युगे संभवामि' इति । उपदेशतो धर्मस्थापनं व्यासादिमुखेनापि कर्तुं शक्यम् । आराध्याकारप्रदर्शनेन स्थापनं तु स्वेनैवावश्यकर्तव्यमिति भावः । बाह्यान्तरकरणावगुणवर्गद्वयप्रदर्श- नतया सौन्दर्यसौशील्ययोर्ग्रहणम् । परमभागवतान् कृत्वेति भगवद्भक्तिरूपपरधर्मनिष्ठान् कृत्वेत्यर्थः ।। एवं प्राचीनभगवच्चरितस्य श्रीमद्गीतार्थोपदेशेन संगतिः प्रदर्शिता । 'पाण्डुतनययुद्धप्रोत्सा- हनव्याजेन' इति तु भारतकथासंगतिः । अत्र व्याजशब्देन 'अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् । पार्थ प्रपन्न मुद्दिश्य शास्त्रावतरणं कृतम्' इत्यत्र 'उद्दिश्य' इति पदस्याभिप्रायो विवृत्तः । 'परम- पुरुषार्थ' इत्यादिना शास्त्रस्य परमप्रयोजनाभिधानम् । तेनात्र भूमविद्यायामिवात्मानुभवोक्तिरप्यैश्वयों- तिवद्भगवदनुभवापेक्षया निकृष्टपर्वज्ञापनायेति सूचितम् । 'मोक्षसाधनतया' इति साध्यसाधनभाव- निर्देशेन संसार्यात्मन एव नित्यमुक्तिं वदन्तो निराकृताः । वेदान्तोदितं वेदान्तविहितम् , न तु वेदान्तो- त्पादितमित्यर्थः । एतेन अविधेयज्ञानवादिनो निरस्ताः । वेदान्तोदितस्यार्थस्योपबृंहणमत्र क्रियत इति भावः । स्वविषयमिति-- मोक्षार्थोपासनवाक्यानामनन्यपरतया साक्षात्परमपुरुषाराधनविषयत्वमेव । अथर्वशिरःप्रतर्दनविद्यादिषु रुद्रेन्द्रादिभिः स्वस्य मुमुक्षूपास्यत्ववचनेऽपि रुद्रेन्द्राद्यन्तर्यामिभूतः पर- मात्मैवोपास्य इति 'शास्त्रदृष्टया तूपदेशो वामदेववत्' इति सूत्रकारैरेव प्रतिपादितमिति भावः । एतेन वेदान्तोदितस्वमाहात्म्यवादिनो भगवतः 'स्वगुणाविष्क्रियादोषो नात्र भूतार्थशंसिनः' इति सूचितम् । 'स्वविषयम्' इति भक्तियोगस्य सिद्धरूपपरमप्रतिपाद्यानुबन्धित्वं दर्शितम् । प्रधानषि- धेयांशनिष्कर्षाय 'भक्तियोगम्' इत्युक्तम् । ज्ञानकर्मानुगृहीतत्वं ज्ञानकर्मसाध्यत्वंम् । एतेन समुश्चया- दिपक्षा निरस्ताः । वैराग्यस्य संग्रह श्लोके पृथगुक्तस्यापि निष्ठाद्वयानुप्रविष्टत्वादिहानुक्तिः । एवमुपायोपे. यात्मकमुभयमपि शास्त्रप्रतिपाद्यमिति संग्रह श्लोकतात्पर्यमुक्तं भवति । 'माक्षसाधनतया वेदान्तोदितं भक्तियोगम्' इति वचनात् उपासनस्यार्वाचीनब्रह्मप्राप्त्यादिसाधनत्वं वाक्यार्थज्ञानमात्रस्य . मोक्ष- साधनत्वं च वदन्तः प्रत्युक्ताः। ज्ञानध्यानादिसामान्यवचसां भक्तिरूपविशेषे पर्यवसानमिति च भावः । एतचाखिलमुत्तरत्र व्यक्तं भविष्यति ॥ एवं शास्त्र संगमय्य, शास्त्रोपोद्धातं संगमयितुं 'पाण्डुतनय' इत्यादिना सूचितं 10पूर्ववृत्तान्तं प्रकटयन् , सारथित्वेनावस्थायाचार्यकृत्यकरणे प्रतारकत्वशङ्का च वारयति- तत्रेति । तत्र प्रथम • 1. उपदेशेन 2. ...नापि शक्यम् 3. ...प्राहकगुणवर्गनिदर्शनतया 4. भूमविद्यावामिहा- 6. निकृष्टपुरुषार्थत्व...; निकृष्टपर्वस्व... 6. रुद्रादिभिः 7. ...वचनसत्वेऽपि 8. विधे. यांशनिष्कर्षाय 9. तत् समु... 10. पूर्ववृत्तं 11. प्रतारकत्वशां निवायति. त्मा...
श्रामगढ़ाताया पाण्डवानां कुरूणां च युद्धे प्रारम्धे स भगवान् पुरुषोत्तमः सर्वेश्वरेश्वरो जगदुपकविवर्स माभितवात्सल्यविवशः पार्थ रथिनमात्मानं च सारथिं सर्वलोकसाक्षिकं चकार । एवं सात्वापि सर्वात्मनान्धो धृतराष्ट्रः सुयोधनविजयबुभुत्सया संजयं पप्रच्छ । धृतराष्ट्र उवाच- । , धर्मक्षेत्रे कुरुक्षेले समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥१॥ भक्तियोगमवतारयितुमेवं चकारेत्यर्थः ; यद्वा तत्र युद्धे प्रारब्धे इत्यन्वयः; भक्तियोगावतरणव्याजभू- तप्रोत्साहनविषयभूते युद्धे प्रारब्धे इत्यर्थः । भगवतोऽवतारदशायामपि पूर्णत्वस्वाच्छन्द्यादिकं वात्स- ल्यादिमूलसारथ्याद्यपकृष्टकर्मानुष्ठानस्य गुणरूपत्वादिकं च प्रदर्शयितुं 'स भगवान्' इत्याद्युक्तम् । स भगवान् पुरुषोत्तमः सर्वेश्वरेश्वरः इति चतुर्भिः पदैः स्वरूपगुणवैलक्षण्यविभूत्यादिप्रतिपादनेन परत्वसंग्रहः । सर्वेश्वरेश्वरः इत्यनेन 'सर्वेश्वरेश्वरः कृष्णः' इत्यादिवचनोक्तं स्वाच्छन्द्यं जगत्कुटुम्बित्वं च शापितम् । जगदुपकृतिमर्त्य आश्रितवात्सल्यविवशः इति सौलभ्यसंग्रहः । अविप्रलम्भकत्वं चानेन व्यञ्जितम् ; 'जगतामुपकाराय', 'जगदुपकृतिमयं को विजेतुं समर्थः', इत्यादिकमिह स्मारितम् । जगदुप- कृतिमर्त्यत्वेऽयुत्कुष्टचरितं परित्यज्य निकृष्टसारथ्यादिकृत्यं किमर्थं कुरुत इत्यत्रोक्तम् , आश्रितवात्सल्य- विवशः इति । पार्थ रथिनमात्मानं च सारथिमिति- अपकृष्टं पार्थमुत्कृष्टकृत्ये स्वयमेवावस्थाप्य आत्मानमुत्कृष्टं निकृष्टकृत्ये चकारेति भावः । पार्थशब्देन 'वात्सल्यौपयिकलौकिकसंबन्धविशेषोऽपि सूचितः ; पितृष्वसा हि पृथा भगवतः। सर्वलोकसाक्षिकमिति–न चासौ निकृष्टकृत्यं सापत्रपो रहस्ये कृतवान् ; अत इदमपि आश्रितवात्सल्यस्य नैरपेक्ष्यस्य अर्थापहवाद्यसंभवस्य च लिङ्गमिति भावः । यद्वा सर्वेषां स्वसमाश्रयणेन पुरुषार्थलाभाय स्वस्य शास्त्रैकसमधिगम्यमाश्रितपारतन्त्र्यं सर्वलोकप्रत्यक्षं चकारेति भावः ॥ 4अथ त्वां शीलरूप' इत्यादिक्रमेणानन्यसाधारणशीलरूपचरितपरमसत्त्वप्रबलशास्त्रदेवता- पारमार्थ्यवेदिशान्तनवसंजयादिवचनैरप्यासुरप्रकृतीनां यथावदवगन्तुमशक्यतां प्रदर्शयन् , गीतोपनिष- प्रस्तावनार्थ. प्रथम श्लोकमवतारयति एवमिति ; श्रियःपतिरित्यादिना पूर्वोक्तप्रकारेणेत्यर्थः । सर्वात्मनेति-न केवलं चक्षुषा, परत्रेह च हितमजानता मनसापीत्यर्थः । एवंविधमान्ध्यं सुयो- धनविजयाभिलाषेण प्रश्ने हेतुः । अल 'मामकाः' इति प्रथमोक्त्या ममकारेण, 'यत्र योगेश्वरः' इत्यादिप्रतिवचनप्रक्रियया च, सूचितं प्रष्टुरभिप्राय दर्शयितुं 'सुयोधनः' इत्यादिकमुक्तम् । संजबमिति- व्यासप्रसादलन्धसकलभारतसमरवृत्तान्तसाक्षात्कारं 'शुद्धभावं गो भक्त्या शा- 1. युद्धे वा मगय... 2. वात्सल्यौपायकसंबन्ध... 3. समाश्रयगेन 4. तदेवं . 5. प्रम- हेतुः प्रीतिहेतुः। . %3 .
प्रथमोऽध्यायः । १३. संजय उवाच- दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा। आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ २॥ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥३॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः॥ ४ ॥ धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः॥५॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥ ६ ॥ अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥७॥ भवान्भीष्मश्च कर्णश्च कृपश्च समितिअयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८॥ स्त्राद्वेनि जनार्दनम्' इत्यादिवादिनम् ; एवं यथार्थदर्शित्वयथादृष्टार्थवादित्वाभ्यामाप्ततमतया निणांत- मिति भावः । पप्रच्छ, समरवृत्तान्तमिति शेषः ॥ धर्मक्षेत्रे-धर्मस्य स्थानभूते समराध्वरसमुचित इति भावः । कुरुक्षेत्रे पाण्डवधार्तराष्ट्राणां स्वकटस्थनामोपलक्षितत्वेन बहुमानविषय इति भावः । युयुत्सवः समवेताः मिथः प्रत्यनीकरूपेण व्यूढा इत्यर्थः । च, एव, इत्यव्यययमनतिरिक्तार्थम् ; यद्वा समस्तभूमण्डलवर्तिनां राशा तंत्र समाहारेऽपि तादOद्वर्गद्वयमेष तथाभूदित्येवकाराभिप्रायः । अकुर्वत इत्यात्मनेपदेन कर्लभिप्राय- क्रियाफलविषयेण स्वार्थतोक्ता ॥ .. .
.१४
श्रीमद्भगवद्गीतायां
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥९॥
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥
अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥
तस्य संजनयन् हर्ष कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्ख दध्मौ प्रतापवान् ॥ १२ ॥
'-ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।
पौण्डूं दध्मौ महाशङ्ख भीमकर्मा वृकोदरः ॥ १५ ॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पको ॥ १६ ॥
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १५ ॥
प्रथमोऽध्यायः । द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते। सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक् पृथक् ॥ १८ ॥ स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलोऽप्यनुनादयन् ॥ १९ ॥ दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम् आत्मीयं च भीष्माभि- रक्षितं बलमवलोक्य, आत्मविजये तस्य बलस्य पर्याप्तताम् आत्मीयस्य बलस्य तद्विजये चा- एवं सुयोधनविजयबुभुत्सया कृतस्य प्रश्नस्य 'यत्र योगेश्वरः' इति साक्षादुत्तरं वक्ष्यन् , तत्प्रत्यायनार्थमखिलमवान्तरवृत्तमपि संजय उवाच--- दृष्ट्वेति । पाण्डवानीकं व्यूढं दृष्ट्वा इति सुयोधनस्य धैर्यभ्रंशहेतुः । तदधीनो धैर्यभ्रंशरूपोऽवस्थाविशेषः तुशब्देन सूच्यते । दृष्टुत्यादेरनुनादय- नित्यन्तस्याव्यक्तांशं व्यञ्जयति-दुर्योधन इत्यादिना अकथयदित्यन्तेन । संज्ञार्थं सम्यक्शानार्थम् ; संशया परिसंख्यानार्थ वा । तत्र अन्तर्विषण्णोऽभवत् इत्यन्तेन भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि इत्येतदन्तं व्याख्यातम् । अपर्याप्तम् इति श्लोकस्यायमर्थ:-~-तत् तस्मात् ; अस्माकं बलं भीष्माभिरक्षितमपर्याप्तं परबलविजयाय नालम् ; इदं त्वेतेषां पाण्डवानां बलं भीमाभिरक्षितं पर्याप्त- मस्मद्वलविजयायालम् ---इति । नन्विदमनुपपन्नं तत् बलमिति सामानाधिकरण्यप्रतीतिभङ्गायोगात्; पूर्वत्र च परबलखबलयोः सामर्थ्यासामर्थ्यहेतूपन्यासाभावात् । न च भीष्मद्रोणादिरक्षितं स्वबलमयम- समर्थ मन्यते । प्रबलानामेव हि भीष्मद्रोणादीनां वधः सोपाधिकः । 'न भेतव्यं महाराज' इत्यादिषु च बहुशः स्वबलस्यैव सामर्थ्य दुर्योधनेनोपन्यस्तम् । न चेदानीं तद्विपरीतप्रतीतौ कारणमस्ति । द्वितीय. दिवसारम्भे च दुर्योधन एवं वक्ष्यति- 'अपर्याप्तं तदस्माकं बलं पार्थाभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं पार्थिवसत्तमाः' इति । तत्र चास्माकमपर्यासमित्येवान्वयः ; न पुनरस्माकं बलमिति । ततोऽत्रापि तथैव वचनव्यक्तिरुचिता। तस्मात् पाठभेदेन व्यवहितान्वयेन वाक्यभेदेन पदार्थभेदेन वा योजना स्यात् । तत्र भीमभीष्मशन्दयोर्विपर्यासात्पाठभेदः। तथा च भीमाभिरक्षितं तद्बलमस्माकमपर्याप्तमित्यन्वये सामानाधि- करण्यम् , तदिति विप्रकृष्टनिर्देशस्वारस्यम् , दुर्योधनाभिप्रायाविरोधश्च, सिध्यति । व्यवहितान्वयेऽप्यय- मेवार्थः। द्विधा च व्यवहितान्वयोऽत्र शक्यः । भीमाभिरक्षितभीष्माभिरक्षितयोपिर्यासादेकः । अपर्याप्त पर्याप्तं त्विदम्, इत्यनयोर्विपर्यासाद्वितीयः । अर्थोचित्याय तु व्यवधानमा सह्यते। वाक्यमेदेऽप्येवं योजना-अपर्याप्तं तदित्येका प्रतिज्ञा; पर्याप्तं त्विदमिति द्वितीया । अत्र को हेतुरिति शङ्कायां हेतुपरं वास्यद्वयम् ; अस्माकं बलं भीष्माभिरक्षितम् , एतेषां बलं भीमाभिरक्षितमिति। अस्मद्वलस्य प्रबलाधि- 1. धैर्यभ्रंशहेतुमुक्त्वा तदधी... तत्, श्रीमद्भगवद्भाताया .. . .. ॥ ष्ठितत्वात् परबलस्य च दुर्बलाधिष्ठितत्वादित्यर्थः । पदार्थभेदे त्वेवं योजना- पर्याप्त पर्यापनं समापनम् ; पर्याप्तमिति कर्तरि क्तः, नाशनसमर्थमित्यर्थः ; अपर्याप्त नाशनासमर्थमित्यर्थः । भीष्माभिरक्षितमस्माकं बलं तत् अपर्याप्तं नाशयितुं न शक्नोति। तत् इति अत्र पाण्डवबलं कर्तृतया निर्दिश्यते; इदम् इति च स्वबलं परबलपर्यापनकर्तृतया । निष्ठायोगाश्च न कर्मणिषष्ठीप्राप्तिः । यद्वा अपर्याप्तमपरिमित- मित्यर्थः; पर्याप्त परिमितमित्यर्थः ; स्वबलस्यैकादशाक्षौहिणीयुक्तत्वात्, परवलस्य सप्ताक्षौहिणी- युक्तत्वाच्च । सर्वथा तावन्न स्वबलदौर्बल्यं परबलप्राबल्यं च युद्धारम्भे दुर्योधनः प्रसञ्जयेदिति- सोऽयं घण्टापथात्पाटश्चरकुटीरप्रवेशः । तथाहि- इह तावन्दीष्माभिरक्षितमित्येतस्पतिशिरस्तया भीमाभिरक्षितमिति केनाभिप्रायेण निर्दिश्यते.? न तावद्भीष्मवगीमस्यापि सेनापतित्वेन ; धृष्टद्युम्न- स्य तत्पतित्वेनोक्तत्वात् । नापि भीष्मसमपौरुषत्वेन ; अत्यन्तविषमतया प्रसिद्धेः। यथोक्तं भीष्मेणैव- 'शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् । यद्येषां न भवेद्गोप्ता विष्णुः कारणपूरुषः' इति । नापि प्रतिवलाधीश्वरत्वेन ; धर्मसूनोस्तथात्वात् । नापि परबलभटप्रधानत्वेन; अर्जुनस्यैव तथा प्रसिद्धः । अतो भीमस्य समस्तधार्तराष्ट्रवधदीक्षितत्वात्तदुचितसाहसबलसहायादियुक्तत्वाञ्च तस्य विशेषतो निर्देशः । एवं सति तत्प्रतिशिरस्त्वेन भीष्मस्य निर्देशोऽपि समस्तपाण्डुतनयसंरक्षणप्रवणत्वेन प्रतिपन्नत्वात् । अतः शत्रुभयसहायातिशङ्के पदयसूचिते इत्युक्तं भवति। यत्तूक्तं पूर्वत्र परबलस्वबलयोः सामर्थ्यासा- मर्थ्यहेतुः कश्चित्रोक्त इति--तदप्यसमीक्षितवचनम्। उपक्रमे हि प्रथममेव स्तबलाचतुरक्षौहिणीन्यूनापि 'महती चमूम्' इति प्रतिचमूर्वर्णिता। अनन्तरं 'धीमता' इत्यन्तेन प्रतिसेनापतिर्वर्णितः । तदनन्तरं च 'अत्र शूरा महेष्वासाः' इत्यारभ्य 'सर्व एव महारथाः' इत्यन्तेन दृष्टान्तीकृतभीमार्जुनाभ्यां सहासनवि- शतिसङ्ख्याः पुरुषा निरतिशयपौरुषतया वर्णिताः । स्वपक्षे तु न चमूर्णिता ; नापि सेनापतिः । स्वबलप्रधानपरिसंख्याने च सप्त पुरुषा उपात्ताः; व्यतिरिक्तास्त्वाकृतिगणत्वेन 'अन्ये च बहवः शूराः' इत्युक्ताः । 'मदर्थे. त्यक्तजीविताः' इति चोक्तम् ; न तु मदथें जिगीषव इति । साभिसन्धिकत्वमेव तेनापि प्रतिपाद्यत इति चेत् , सत्यम् । तथापि वचनव्यक्तिप्रकार एवंविधः । अभिसन्धिद्योतनायापि हि त्यक्तजीवितत्ववचनं प्रतिभटानां बलीयस्त्वबुद्ध्यैव भवति । अनन्तरं च 'तस्य संजनयन्हर्षे कुरु- वृद्धः पितामहः' इति दुर्योधनस्य जनयितव्यहर्षत्वेन पूर्व विषादः स्वरसतया प्रतीयते। एतदभिप्राये- णोक्तम् ‘अन्तर्विषण्णोऽभवत् ' इति । परस्ताश्च ‘स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्' इति धार्तराष्ट्रहृदयसंक्षोम एवोच्यते । अत उपक्रमे प्रतिचमूतत्सेनापतिसमप्रभटवर्णनात्, उपसं- हारेऽपि शखशन्दमात्रेण हृदयसंक्षोभवचनात् , मध्ये जनयितव्यहर्षत्वेन विषादोत्पत्तितदपनयनसू. चमात्, एतम्लोकस्वारस्याच, उक्तार्थ एव तात्पर्यम् । अतस्तच्छब्दस्य तस्मादिति हेत्वर्थत्वमुपपन्नम्। अत एक विप्रकृष्टनिर्देशचोद्यं च परिहृतम् । न च परबलमिदानी दुर्योधनस्य परोक्षम् , 'दृष्ट्वा तु पाण्डवानीकम्' 'पश्यैताम् ' 'एतेषाम् ' इत्यादिप्रत्यक्षनिर्देशात् । यत्तु भीष्मद्रोणादिरक्षितस्य स्वर- लस्यौवल्यप्रतीतिर्न युक्तेति-तदप्यसत् ; सोपाधिकस्यापि भीष्मद्रोणादिषधस्य शातोपाधिना दुर्योध- - 1. यदुक 2. सहकोनविं... 3. स्वरसतः 4. हृदयसंमेद. 5. विवादापत्ति...
प्रथमोऽध्यायः । १७. पर्याप्ततामाचार्याय निषेध, अन्तर्विषण्णोऽभवत् । तस्य विषादमालक्ष्य भीष्मस्तस्य हर्ष जनयितुं सिंहनादं शङ्खध्मानं च कृत्वा, शलभेरीनिनादैश्च विजयाभिशंसिमं घोष वाका- . नेन शङ्कितत्वोपपत्तेः। यत्तु 'न भेतव्यम्' इत्यादौ बहुशः स्वबलसामर्थ्यमुपन्यस्तम् ; इदानीं च तद्वि- परीतप्रतीतौ हेतुर्नास्तीति-तदपि न । यथार्जुनो जिघांसया शरचापोद्यमनपर्यन्तं प्रवृत्तोऽपि हन्तव्यबन्धु. समुदायसंनिधिसंदर्शनेनोल्बणैः स्नेहकारुण्यधर्माधर्मभयैराकुलीकृतः पुनर्भगवता पर्यवस्थाप्यते, तथा- त्रापि दृढघस्तिव्यूहबहुमहाभटनिविडप्रतिभटबलसाक्षात्कारादुषणभयविषादो दुर्योधनो भीष्मेण पर्य- वस्थाप्यत इति किमनुपपन्नम् ? प्रत्यक्षितं च दुर्योधनेन गोग्रहणस्वग्रहणादिवृत्तान्तेषु सर्वेभ्यः स्वबल- भटेभ्यः परेषां सामर्थ्यम् । न चेदानीं तन्न स्मरति ; वदति हि स्वयमेव 'अकारादीनि नामानि अर्जुनत्रस्तचेतसः' इति । यत्तु द्वितीयदिवसारम्भोक्तवचनव्यक्तिवदत्रापि वचनव्यक्तिः कार्येति- तदपि मृन्दम् । न ह्यवश्यमेकदेशसादृश्यात् सर्वथासादृश्येन भवितव्यमिति नियमः । प्रथमद्वितीय- दिवसयोरभिप्रायभेदोऽनुपपन्न इति चेत् , न; युद्धसिद्धेश्चञ्चलत्वाद्यनुसंधानेन विषमत्वादभिप्रायपद- तेः । किं चात्राचार्यभीष्माभ्यां सह व्यूहान्तरमार्गेषु यथाभागमवस्थापनसेनासंरक्षणादिहितनिरूपणे प्रवृत्तत्वादेवमभिप्राय उपपन्नः। तदेतद्दर्शितम् आचार्याय निवेद्यान्तर्विषण्णोऽभवत् इति । द्विती- यदिवसे तु स्वसहायभूतेभ्यः सर्वेभ्यः पार्थिवेभ्यः स्वधैर्यप्रकाशने बलसान्त्वनादौ च प्रवृत्तत्वात् तथा व्यवहार इति न कश्रिद्दोषः । तदेतदखिलमभिप्रेत्य 'दृष्ट्वा तु' इति तुशब्दः प्रयुक्तः । इदं च प्रार. म्भे दैवोपहतस्य दुर्योधनस्यातर्कितागतविषादमूलं स्वबलस्यापर्यातत्ववचनमागामिनमपजयं सूचयति । अतः सर्वजनपठितपाठस्वरससिद्धार्थस्य निर्दोषत्वात् , पाठभेदादिपक्षाः परिक्षीणाः; पाठभेदव्यवहि- तान्वयवाक्यभेदाप्रसिद्धार्थकल्पनादीनामेव च प्रबलदूषणत्वात् । वाक्यभेदयोजनायां तु प्रतिशाइये हेतुदयस्य यथाक्रमं तावदन्वयो न घटते । यो हि प्रबलो दुर्बलो वा यलं रक्षति, स तस्य पर्यासा- वपर्यासौ वा हेतुः स्यात् ; न तु तत्प्रतिबलस्य । फलतस्तथानिर्देश इति चेत्, तथाप्यस्वारस्यम् । माति- लोम्येन हेत्वोरन्वय इति चेत् , तर्हि व्यवहितान्वयोऽप्यागतः । हेतुद्वयं समुचिस प्रत्येकं प्रतिज्ञायां योज्यत इति चेत् , तथापि व्यवहितान्वयास्वारस्ययोर्न परिहारः; समुच्चायकशन्दाभावश्वाधिको दोषः । एवं दूषणा- न्तराण्यपि भाव्यानि । अतो यथाभाष्यमेवार्थ इति ॥ 'तस्य संजनयन्' इत्यादेः 'तुमुलोऽभवत्' इत्यन्तस्यार्थमाह-- तस्येति । जन्य- निति शतुः 'लक्षणहेत्वोः क्रियायाः' इति हेत्वर्थत्वसूचनाय जनयितुम् इत्युक्तम् । 'सिंहनादं विनय' इत्येतत् 'ओदनपाकं पचति' इतिवदिति सूचयितुं कृत्वा इति पदम् । भ्वस्तयः कियासामान्यवचना इत्येतयजनायोदाहरणतया शाध्मानं च कृत्वा इत्युक्तम्। 'ततः शाः' इत्यत्र ततःशन्देन विजिगीषासूचनाय भीष्मेण सेनापतिना कारितत्वं शापितमित्यभिप्रायेणोक्तम् अकारयत् इति । शहमेरी इति पणवायुपलक्षणम् । ततः श्लोकेऽपि कतिपयवायविशेषनिर्देश उपलक्षणार्थ B3 १८ श्रीमद्भगवद्गीतायां रयत् । ततस्तं घोषमाकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयबैलोक्यविजयो- पकरणभूते महति स्यन्दने स्थितौ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शलो प्रदध्मतुः । ततो युधिष्ठिरो वृकोदरादयश्च स्वकीयान् शङ्खान पृथक् पृथक् प्रदध्मुः । स घोषो दुर्योधनप्रमुखानां सर्वेषामेव भवत्पुत्राणां हृदयानि बिभेद । 'अचैव नष्टं कुरूणां बलम्' इति धार्तराष्ट्रा मेनिरे । एवं तद्विजयाभिकाङ्गिणे धृतराष्ट्राय संजयोऽकथयत् ॥ अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः। प्रवृत्ते शस्त्रसंपाते धनुरुषम्य पाण्डवः ॥ २० ॥ हृषीकेशं तदा वाक्यमिदमाह महीपते । इति सचितम् । सिंहनादशाध्मानाभ्यां राजभेर्यादिनादसमुच्चयाथों द्वितीयश्चकारः । कृत्वत्यनेन अकारयदित्यस्य समुच्चयार्थस्तृतीयः ॥ . 'ततः श्वेतैः' इत्यादिकं 'धनंजयः' इत्यन्तं व्याचष्टे -ततस्तगिति। तत इति व्याख्येय- पदम् ; तपोवमाकर्ण्य इति तद्विवक्षितकथनम् । सर्वेश्वरेश्वरः पार्थसारथिरिति- सर्वोत्कृष्टेभ्य उत्कृष्टः परमपुरुषो निकृष्टमानुषमात्रादपि निकृष्टतामाश्रितवात्सल्येन नीत इति भावः । पाण्डवविजय- सूचनाय संजयेनोपात्तो माधवशब्दोऽत्र श्रियःपतित्ववाची सर्वेश्वरेश्वरत्वपर एव । 'स्यन्दने स्थितौ' इत्यविशेषेण स्थितिव्यवच्छेदाय सारथित्वरथित्वविभागः । 'श्वेतैः' इत्यादिना प्रतिपादितमहत्त्वव्य- स्त्यर्थमुक्तं त्रैलोक्येति । नात्र परिमाणादिमहत्त्वमात्रं विवक्षितमिति भावः । बैलोक्यं कम्पयन्ता- विति- तयोः स्यन्दने स्थितिमात्रमपि सैलोक्यकम्पनहेतुरिति भावः । यद्वा 'दिव्यौ शङ्खौ प्रद- ध्मतुः' इत्याधुक्तप्रकृष्टाध्मानमूलकशङ्खघोषातिशयेन, 'नभश्च पृथिवीं चैव' इति वक्ष्यमाणेन च, फलितमिदम् । दिव्यत्वोक्तिदर्शितशलातिशयवैशद्याय पाञ्चजन्यदेवदत्तसंशोक्तिः । एवं भीमसे- नादिशब्सचतुष्टयविशेषनामनिर्देशोऽपि । पृथक् पृथक् प्रदध्मुरिति-- यथैकैकशङ्खध्वनिरेव धार्त- राष्ट्रहदयभेदाय स्यात्, तथा प्रदध्मुरिति भावः ; यद्वा यथास्वं प्रहर्षद्योतनाय क्रमात्प्रदध्मुरिति । 'स घोषः' इति श्लोके नभश्च पृथिवीं चानुनादयन्नपि धार्तराष्ट्राणामेव हृदयानि बिभेदेत्यन्वयः; अन्ये- षां तु हर्षहेतुरिति भावः। सर्वेषामेव भवत्पुत्राणाम् इत्यनेन तेषु दृढचित्तः कश्चिदपि नास्तीति यो- तनाय धार्तराष्ट्रशन्दतद्गतबहुवचनयोरर्थ उक्तः । 'व्यदारयत्' इत्यस्य वक्ष्यमाणाभिप्रायद्योतकं प्रतिपदं विभेद इति । घोषस्य शस्त्रादिवत् हृदयविदारणत्वं कथमित्यत्राह- अद्यैवेति ; स्वबलस्य विजयित्वंमध्यवस्यतां तमाशबुद्धिरेव हि हृदयभेद इति भावः । धार्तराष्ट्रविजयबुभुत्सया पृच्छते धृतराष्ट्राय प्रागुक्तप्रकारेण तदपजयसूचकमेव संजयोऽकथयदित्याह- एवमिति ॥
प्रथमोऽध्यायः। २९. अर्जुन उवाच- सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥. यावदेतानिरीक्षेऽहं योद्धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ २२ ॥ योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः। धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥ संजय उवाच- एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥ भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ २५ ॥ अथ युयुत्सूनवस्थितान्धार्तराष्ट्रान्दृष्ट्वा लकादहनवानरध्वजः पाण्डुतनयो शानश- क्तिबलैश्वर्यवीर्यतेजसां निधिं स्वसंकल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिल- 'अथ व्यवस्थितान्' इत्यादेः 'कुरून्' इत्यन्तस्यार्थमाह-अथेत्यादिना इति पावोचदित्य- न्तेन। तत्र वाक्यत्रये प्रथमेन वाक्येन 'प्रियचिकीर्षवः' इत्यन्तस्यार्थ उच्यते। 'व्यवस्थितान्' इत्यत्र विश- न्दसूचितविशेषव्यक्तये युयुत्सून् इत्युक्तम् ; 'यो कामानवस्थितान्' इति धनन्तरमप्युच्यते । 'कपि- ध्वजः' इत्यत्र कपित्वमात्रप्रतिपन्नलाघवं निवारयितुं सौगन्धिकयात्रायां हनुमद्दत्तं वरम् , स्वरूपसंदर्शन- मात्रेण रक्षसामिव परेषां संक्षोभं च, सूचयितुं लङ्कादहनवानरध्वजः इत्युक्तम् । अप्रच्युतस्वभावत्व- प्रतिपादकाच्युतपदाभिप्रेतव्य अनाय शानेत्यादिकम् । हृषीकेशपदव्याख्या परावरेत्यादि । यहा सध्या- दिक वीर्यादिकं तदुपलक्षितं ज्ञानादिकमपि हृषीकेशशब्दार्थ एव । यथोक्तमहिर्बुध्न्यसंहितायाम्- 'क्रीडया हृष्यति व्यक्तीशः सन् सृष्टिरूपया । हृषीकेशत्वमीशत्वं देवत्वं चास्य तत्स्फुटम् । . - 1. ध्वजसंदर्शन...
.२० श्रीमगवतीतायां जनान्तरवायकरणानां सर्वप्रकारनियमनेऽवस्थितमाश्रितवात्सल्यविवशतया वसारध्येऽवस्थित 'युयुत्सुर्यथावदवेक्षितुं . तदीक्षणक्षमे स्थाने रथं स्थापयेत्यचोदयात् । स च तेन चोदितस्त- रक्षणादेव भीष्मद्रोणादीनां सर्वेषामेव महीक्षितां पश्यतां यथाचोदितमकरोत् । ईदृशी भव- दीयानां विजयस्थितिरिति चावोचत्।। - अविकारितया जुटो हषीको वीर्यरूपया । ईशः स्वातन्त्र्ययोगेन नित्यं सत्यादिकर्मणि । ऐश्वर्यवीर्य. रूपत्वं हृषीकेशत्वमुच्यते' इति । आश्रितान् न च्यावयति, अतश्च च्युतोऽस्य नास्तीत्यच्युतशब्दस्य काचिनिरुक्तिः ; तां दर्शयति-आश्रितवात्सल्येत्यादिना । स्वसारध्येऽवस्थितमिति- हृषीकेश- तया सर्वेषां करणानां सर्वप्रकारनियमने स्थितस्य रथयुग्यमात्रनियमनं कियदिति भावः 'निरीक्षे' इत्यत्रोपसर्गाः यथावत् इति दर्शितः । यावच्छन्दोऽत्र साकल्यवाची, निरी- क्षणकालावधिवाची वा, यावत्पुरानिपातयोर्लट्' इति निरीक्षणस्य भविष्यत्त्वद्योतको वा । सह मया योद्धव्यं तानिरीक्षे इत्यत्र, मया सह यैयोद्धव्यं तानवेक्ष इति नोक्तम् ; अतः 'योत्स्य- मानान्' इति श्लोकस्योत्थानम् । 'धार्तराष्ट्रस्य दुर्बुद्धेः' इति दुर्योधनादिदोषप्रख्यापमतात्पर्याच न पौनरुक्त्यम् । यद्वा 'सेनयोरुभयोर्मध्ये ' इति पूर्वोक्तत्वात् , सेनयोरुभयोरपि 'स्थितानपश्यदिति वक्ष्य- माणत्वाच, स्वसेनास्थितस्वसहायविषयः पूर्व श्लोकः; कैर्मया सह स्थित्वा पर्योद्धव्यमित्यर्थः । उत्तरस्तु श्लोकः प्रतिसैन्यस्थितधार्तराष्ट्रसहायविषय इति व्यक्त एव । प्रागेव तेषां विदितत्वेऽपि इदानीन्तनसंरम्भादिविशेषदर्शनेन तत्तदुचितसाम्परायिकव्यापारसौकर्याय यथावद्दर्शनमिहार्जुनेनाका- क्षितम् । 'सेनयोरुभयोर्मध्ये' इत्यस्याभिप्रेतकथनं तदीक्षणक्षमे स्थाने इति । अचोदयत् इत्यनेन 'स्थापय' इत्यत्र प्रत्ययस्य नियोगार्थत्वं दर्शितम् । सर्वप्रशासिता नियोज्योऽभवदित्याश्च- यमिति भावः ॥ तत . 'एवमुक्तः' इत्यादे: 'महीक्षिताम्' इत्यन्तस्यार्थमाह-स चेति । अर्जुनवचनरथ- स्थापनयोर्व्यवधायकाभावफलितमुक्तं 'तत्क्षणादेवेति । 'भीष्मद्रोणप्रमुखतः' इत्यत्र प्रमुखशब्दः आदिशब्दसमानार्थः ; तद्गतस्तसिप्रत्ययश्च सार्वविभक्तिकत्वात् षष्ठीबहुवचनार्थ इत्याभप्रायणक्ति भीष्मद्रोणादीनाम् इति । तथा चकारोऽवधारणार्थ इति दर्शयितुं सर्वेषामेवेत्युक्तम् । अना. दरे षष्ठीति व्यञ्जनाय पश्यताम् इति पदाध्याहारः । यद्वा प्रमुखतः अग्रत इत्यर्थः । तदेव 'महीक्षिताम्' इत्यत्रापि बुख्या निष्कृष्य योजनीयम् । तदा चकारः समुच्चयार्थः । भाष्ये त्वेवकारोऽपि तदर्थ पश्यतामिति फलितार्थोक्तिः। 'उवाच पार्थ' इत्यस्य 'तात्पर्यमाह-दशीति। "एतान्स- मवेतान्' इति जैतन्यसमुदायप्रदर्शनेन विजयस्थितिरभिप्रेतेति भावः। यद्वा धार्तराष्ट्रकर्मकविजयस्थिति- एवं; 1. युयुत्सून, 2. भतश्च्यु... 3. अपस्थितस्य. 4. ...बोरवस्थिता...5. उत्तरलोक 6. योज्यम. 7. तात्पर्यार्थमाह.
प्रथमोऽध्यायः । •२१ तलापश्यस्थितान्पार्थः पितृनथ पितामहान् । . आचार्यान्मातुलान्भ्रातृम्पुत्रान्पोत्रान्सखींस्तथा ॥ २६ ॥ श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । तान्समीक्ष्य स कौन्तेयः सर्वाग्बन्धूनवस्थितान् ॥ २७ ॥ कृपया परयाविष्टो विषीदन्निदमब्रवीत् । अर्जुन उवाच- दृष्टुमं वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ २८ ॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥ गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥ निमित्तानि च पश्यामि विपरीतानि केशव । ' न च श्रेयोऽनुपश्यामि हत्वा खजनमाहवे ॥ ३१ ॥ न काझे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ ३२ ॥ रित्यर्थः । धृतराष्ट्र प्रति संजयवाक्याभिप्रायेण भवदीयानाम् इत्युक्तम् । अथवा धार्तराष्ट्रकर्तृकविजय- स्थितिरित्थमित्युपालम्भगर्भमवोचदित्यर्थः । अयमेवार्थ उचितः, अर्जुनं प्रति कृष्णेन भवतामित्येता- वन्मात्रस्य वक्तव्यत्वात् ; धृतराष्ट्र प्रति तु भवत्पुत्राणाम् इति पूर्वोक्तवत् भवदीयान्विलोक्य इति वक्ष्यमाणवचात्रापि भवदीयनिर्देशोपपत्तेः । 'किमकुर्वत' इति गूढाभिसंधेः पृच्छतो धृतराष्ट्रस्य गूढा भिसंधिः संजयो धार्तराष्ट्रहदयविदारणादिकमेवमकथयत् ।। ...विजयस्थितिरीरीत्युपा... 2,...मेवाकथयत्. 65,771 1. THE RÅMAKASHA lot od morning INSTITUTE OI CULTURE LIbran
२.२ .
श्रीमद्भगवद्गीतायां
येषामर्थे काक्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥
आचार्याः पितरः पुलास्तथैव च पितामहाः।
मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस्तथा ॥ ३४ ॥
एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ३५॥
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याजनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ ३६ ॥
तस्मान्नाह वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् ।
खजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७॥
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥
कथं न ज्ञेयमस्माभिः पापादस्मानिवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥३९॥
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ४० ॥
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
ख्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः॥ ११ ॥
प्रथमोऽध्यायः । . संकरो नरकायैव कुलमानां कुलस्य छ । तन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४२ ॥ दोषेरेतैः कुलमानां वर्णसंकरकारकैः । उत्सायन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥ उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥ अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥ यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः। धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥ संजय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविनमानसः ॥ ४७॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः॥ स तु पार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको भव- अथाध्यायशेषस्य संकलितार्थमाह-स विति । तुशब्देन पूर्वोक्तप्रकारादुर्योधनात् वक्ष्य- माणप्रकारविशिष्टस्य पार्थस्य विशेषं ‘स कौन्तेयः' इत्यनेनाभिप्रेतं द्योतयति । बन्धुव्यपदेशमान- योग्यशत्रुवधानिच्छया विजयादिकं त्रैलोक्यराज्यावधिकमपि तृणाय मन्यत इति महामना इत्यु- 'न काक्षे विजयम्' इत्यादिकं हि वदति। शत्रूणामप्यसौ दुःखं न सहतं इति, परमकारणिक- .
२४. श्रीमद्भगवद्गीतायां - . - द्विरतिधोरैारणैर्जतुगृहदाहादिभिरसकृतश्चितोऽपि, परमपुरुषसहायेनात्मना हनिष्यमाणान्म- वदीयान्विलोक्य बन्धुमेहेन परया च कृपया धर्मभयेन पातिमानसन्मसर्वगात्रः, 'सर्वथाई त्योक्तिः ; 'कृपया परयाविष्टम्' इति 'घुक्तम् । 'पितृनथ पितामहान्', 'आचार्याः पितरः पुत्रीः', इत्यायुक्तस्नेहविषयप्राचुर्य दीर्घबन्धुशब्देनोक्तम् । यद्वा बन्धुना महापकारे कृतेऽपि स्वयं न शिथिल- बन्धो भवतीति भावः। 'सर्वान्बन्धून्', 'स्वजनं हि', इत्यादिकमिह भाव्यम् । आततायिपक्षसानामप्या- चार्यादीनामहन्तव्यत्वांनुसन्धानात् , कुलक्षयादिजनिताधर्मपारम्पर्यदर्शनाच, परमधार्मिक इत्युक्तिः आततायिवधानुशानमाचार्यादिव्यतिरिक्तविषयमित्यर्जुनस्य भावः । सभ्राहक इति-नायमेक एवैवं. विधः, किंतु सर्वेऽपि पाण्डवा इति भावः । एतेन 'अस्मान्', 'नः', 'वयम्', 'अस्माभिः', इत्यादि- मिरुक्तं संगृहीतम् । यद्वा न केवलं स्वापकारमात्रानादरादेष बन्धुवधादिकमुपेक्षते; अपि त्वासनतरा- चार्यादिस्थानीयबहुमतिस्नेहदयादिविषयधर्मराजद्रौपद्याद्यपकारेऽपीति भावः । आचार्यादिवघदोषो भ्रातृणामपि मा भूदित्यर्जुनाभिप्रायः । हन्तव्यत्वसूचनाय 'नतोऽपि' इत्युक्तम् । तद्विवृणोति-भव- द्विरित्यादिना । जतुगृहदाहादिभिरित्यादिना आततायिशब्दोऽपि व्याख्यातः। 'अग्रिदो गरदौव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते आततायिनः । आततायिनमायान्तं हन्या- देवाविचारयन् । नाततायिवधे दोषो हन्तुर्भवति कश्चन ' इति हि स्मरन्ति । आदिशन्देना- सकृच्छन्देव चाततायित्वहेतवः प्रत्येकं बहुशः कृताः, न चेदानीमप्युपरतमिति दर्शितम् । अनु- परतिश्च 'मतोऽपि' इति वर्तमाननिर्देशेन सूचिता । भवद्भिरित्यनेन धृतराष्ट्रमपि 'मुह्यन्तमनु- मुयामि दुर्योधनममर्षणम्' इति पुत्रस्नेहवशादनुमन्तारं तत्तुल्यं व्यपदिशति । एवं च दुर्योधनादीनां सर्वेषामप्यतिलोभोपहतचेतस्त्वादिना महामना इत्युक्तविपरीतत्वमुक्तं भवति । शकुनिकर्णादिसहायानां धार्तराष्ट्रादीनां हनिष्यमाणानामपि हतत्वनिभयेन शोकोत्पत्यर्थमुक्तं परमपुरुषेति । परमपुरुषः सहायो यस्येति विग्रहः; परमपुरुषस्य सहायो निमित्तमात्रमिति वा । वक्ष्यति हि- 'मयैवेते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्' इति । अर्जुनश्च पूर्व महाबलसहस्रेभ्योऽपि निरायुधस्य परमपुरुषस्य संनिधिमात्रमेव विजयहेतुतया निश्चित्य तमेव वने । लेहाद्यस्थानत्वसूचनाय भव- दीयान्विलोक्येत्युक्तम् । बन्धुस्नेहेनेत्यादि-- नह्यसौ दुर्योधनवत् बन्धुदेषनृशंसत्वप्रतिभटभया. दिना विषण्णः ; नापि परेषां गुणानिवर्तते ; न च परमपुरुषसचिवस्य स्वस्य दौर्बल्यादिति भावः । 'सीदन्ति' इत्यादेः 'मनः' इत्यन्तस्यार्थः अतिमात्रेत्यादिना संगृहीतः । 'एतान हन्तुमिच्छामि', 'यदि मामप्रतीकारम्', इत्यादेरभिप्रेतमाह- सर्वथाहमिति । सर्वथा बहुप्रकारम्- एषामाततायि- स्वेऽपि, इदानी हन्तुमुद्यतत्वेऽपि, युद्धानिवृत्तरधर्माकीर्त्यादिहेतुत्वेऽपि, युद्धस्य त्रैलोक्यराज्या- पायत्वेऽपि, किंबहुना सर्वेश्वरेश्वरेण मम हिततमोपदेशिना भवतोक्तत्वेऽपीति भावः । बन्धुविनाशस्य . 1. इत्यप्युक्तम्. 2. बन्धूनां. 3. निर्देशसूचिता. 4. युद्धानुत्तेधर्मकीविहेतुत्वेऽपि. 5. सर्वेश्वरेण.
प्रथमोऽध्यायः । .२५ न योत्स्यामि' इत्युक्त्वा बन्धुविश्लेषजनितशोकसंविनमानसः सशरं चापं विसृज्य, रथोपस्थ उपाविशत् ॥ इति श्रीभगवद्रामानुजविरचिते श्रीमगीताभाष्ये प्रथमोऽध्यायः ॥ . सिद्धत्वाभ्यवसायः शोकहेतुः; विषादमात्रपरो वात्र शोकशब्दः; स च शोकः सशरचापपरित्यागे हेतुरिति व्युत्क्रमपाठेन दर्शितम् । 'संविममानसः' अत्यर्थचलितयुद्धाध्यवसाय इत्यर्थः; 'ओविजी भयचलनयोः' इति धातुः । एवं चलितयुद्धाध्यवसायत्वात् समराध्वरसुनुवादिस्थानीयं सशरं चाप विसृज्य प्रायोपवेशादिपर इव रथे रथिस्थानाद्विनिवृत्य रथोत्सङ्ग उपाविशदिति भावः ।। 'सखीन्' वयस्यान् ॥ २६ ॥ 'सुहृदः' वयोविशेषानपेक्षया हितैषिणः । 'सेनयोरुभयोरपि' एकैकस्यां सेनायामेते सर्वे प्रायशो विद्यन्त इति भावः । 'समीक्ष्य' शास्त्रं लोकयात्रायुक्तमवलोक्येत्यर्थः। 'सर्वान्बन्धून्'- न पत्रानागतः कश्चिद्वन्धुरवशिष्यत इति भावः ॥ २७ ॥ 'अधोऽभिभवति' इति मानसदोषोक्तिः ॥ ४० ॥ . 'प्रदुष्यन्ति' इति कायिकोक्तिः ॥ ४१ ॥ इति कवितार्किकसिंहस्य सर्वतन्त्रखतन्त्रस्य श्रीमद्वेकटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीमद्गीताभाष्यटीकायां तात्पर्यचन्द्रिकायां प्रथमोऽध्यायः॥ B4 द्वितीयोऽध्यायः॥ - संजय उवाच- तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १॥ श्रीभगवानुवाच- कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वय॑मकीर्तिकरमर्जुन ॥ २ ॥ मा क्लैब्यं गच्छ कौन्तेय नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥ एवमुपविष्टे पार्थे 'कुतोऽयमस्थाने समुपस्थितः शोक इत्याक्षिप्य तमिमं विषमस्थं अथ शोकापनोदनविषयो द्वितीयोऽध्याय आरभ्यते । संजयवाक्याविच्छेदेऽपि 'संजय उवाच' इति निर्देशोऽध्यायान्तरारम्भरूपतयान्योक्तिशङ्कापरिहाराय । 'तं तथा' इत्यादिश्लोकत्रयं व्याख्याति–एवमिति । 'विषीदन्तम् ' इत्यन्तस्य पूर्वाध्यायोक्तानुवादत्वं सूचयितुम् एवमुपविष्टे पार्थ इत्युक्तम्। 'तथा' इति अस्थान इत्यर्थः । कृपा च आन्तरो विषादः । ततः अश्रुपूर्णाकुलेक्षणं बाह्य- शोकेनाप्याविष्टमित्यर्थः । विषीदन्तं पूर्वाध्यायोक्तरीत्या विषादं प्राप्योपविष्टम् । मधुसूदनशब्देन शोक- मूलरजस्तमोनिबर्हणत्वं सूचितम् । अस्थान इति विषमशब्दोपचरितार्थः । कश्मलमिह मूर्छाकल्पः शोकः; 'शोकसंविनमानसः' इति प्रकृतत्वात् । प्रख्यातवंशवीर्यश्रुतादिसूचकाः ‘अर्जुन' कौन्तेय' 'त्वा' 'त्वयि' 'परन्तप' इति शब्दा आक्षेपकाकुगर्भा इत्यभिप्रायेण आक्षिप्य इत्युक्तम् । फुत:- शब्दश्च हेत्वाभासस्य हेतुतां प्रक्षिपन् धिक्कारगर्भः । परान् तापयतीति परन्तपः । क्लैब्यमिह कातर्यम् ; तत् हृदयदौर्बल्यशब्देन विवृतम् । पूर्व श्लोकस्थविशेषणानामपि कातर्यत्याज्यताहेतुत्वादर्थतस्तान्यप्यत्र 1. कुतोऽसमये. 2. विषीदन्तमित्यस्य. 8. आक्षेपगर्भाः. 4. मप्यत्र कातर्य...
द्वितीयोऽध्यायः । २७. शोकमविद्वत्सेवितं परलोकविरोधिनमकीर्तिकरमतिक्षुद्रं हृदयदौर्बल्यकृतं परित्यज्य युद्धा- योत्तिष्ठेति श्रीभगवानुवाच ॥ अर्जुन उवाच- कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजाविरिसूदन ॥ ४॥ गुरूनहत्वा हि महानुभावान् श्रेयश्चर्तु भेक्षमपीह लोके। हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगानुधिरप्रदिग्धान् ॥ ५॥ पुनरपि पार्थः स्नेहकारुण्यधर्माधर्मभयाकुलो भगवदुक्तं हिततममजाननिदमुवाच- भीष्मद्रोणादिकान् गुरून्बहुमन्तव्यान्कथमहं हनिष्यामि? कथन्तरां भोगेष्वतिमात्रसक्तान - .. संगमयति-तमिमं विषमस्थमित्यादिना । अतत्त्वेभ्यः आरात् दूरात् याता बुद्धिर्येषां ते आर्याः विद्वांसः ; तदन्ये तु अनार्याः । 'अस्वय॑म्' इत्यत्राविशेषात् स्वर्गशब्दः परलोकमात्रोपलक्षकः नप्रश्वात्र विरोधिपरतया स्वय॑शब्दनिर्दिष्टस्वर्गहेतुविरोधित्वेऽर्थतस्तत्फलविरोधात् परलोकविरोधिन- मित्युक्तम् । क्षुद्रशब्दस्यांत्र संकोचकाभावेनापेक्षिकक्षुद्रविषयत्वायोगान्महत्तरस्यार्जुनस्य तथाविधावस्था- पर्यालोचनाच काष्ठाप्राप्तं क्षुद्रत्वं विवक्षितमिति दर्शयितुम् अतिक्षुद्रम् इत्युक्तम् । कार्ये कारणोप- चार इति वा, कारणत्यागस्य कार्यत्यागार्थतया पूर्वोत्तर श्लोकफलितार्थविवक्षया वा, हृदयदौर्बल्यकृ- तमित्युक्तम् ; 'अदृढहृदयत्व तमित्यर्थः । 'परन्तप' इत्यनेन ज्ञापितं प्राकरणिकमर्थमध्याहृत्योक्तं युद्धायोत्तिष्ठेति ॥ अथ भगवदुक्तयुद्धारम्भस्य परम्परया परमनिःश्रेयसहेतुत्वरूपहिततमत्वाज्ञानात् तत्प्रतिक्षेप- रूपस्यार्जुनवाक्यस्योत्थानम् । तथाविधाज्ञानस्य चास्थानस्नेहाद्याकुलतामूलत्वं वदन्नुत्तरमवतारयति- पुनरपीति । उक्तार्थविषयतया पुनरपीदमुवाचेत्युक्तम् । 'कथम्' इत्यादिश्लोके चकारस्यानुक्तसमुच्च- यार्थत्वप्रदर्शनाय आदिशब्दः; उपात्तस्यानुपात्तोपलक्षणतया वा । पूजाईशब्दविवक्षितबहुमन्तव्यत्व- हेतुत्योत्तरलोकस्थमत्राकृष्योक्तं गुरूनिति । बहुमन्तव्यानिति- 'महानुभावान्' इत्युत्तरश्लोक- - 1. अध्रुवह...
श्रीमद्भगवद्गीतायां तान् हत्वा तैर्भुज्यमानास्तानेव भोगांस्तधिरेणोपसिच्य तेष्वासनेषूपविश्य भुजीय ॥ न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम- 'स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥ कार्पण्यदोषोपहतखंभावः पृच्छामि त्वा धर्मसंमूढचेताः। यच्छ्रेयः स्यानिश्चितं हि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥७॥ स्थानुसंधानाद्वा; ते स्वत एव बहुमन्तव्याः, पितामहत्वधनुर्वेदाचार्यत्वादिभिरत्यन्तबहुमन्तव्या इति भावः । पुष्पादिभिः पूजार्हाणां पूजानिवृत्तिरेव साहसम् ; हननं त्वतिसाहसम् । गुरुभक्त्या च तद्वि- रोधिभिः सह योद्धव्यम् , न पुनर्गुरुभिरिति- 'कथं गुरूनिषुभिः प्रतियोत्स्यामि' इत्यस्य भावः। अहं- शब्देन प्रख्यातवंशत्वादिकमभिप्रेतम् । 'इषुभिः प्रतियोत्स्यामि' इत्यस्य हननपर्यन्तप्रतियुद्धाभिप्रायत्व- मुत्तरश्लोकेन विवृतमिति हनिष्यामीत्युक्तम् । मधुसूदनारिसूदनशन्दाभ्यां नहि त्वमपि सांदीप- न्यादिसूदन इति सूचितम् । 'चर्तुम् ' इत्यल भावमात्रार्थस्तुमुन् , न तु क्रियार्थोपपदकः । यद्यपि या काचिजीविकाश्रयणीया; तथापि गुरुवधलब्धभोगेभ्य इह लोके परधर्मरूपमैक्षाचरणमपि श्रेयः प्रशस्यतरम् ; महाप्रभावगुरुवधसाध्यपारलौकिकदुःखस्यातिमहत्त्वादिति भावः । प्रकृतविरुद्धार्थत्वभ्र- मव्युदासाय पूर्व श्लोकस्थकर्थशब्दानुषङ्गादतिनृशंसत्वसामर्थ्यात् तुशब्दद्योतितवैषम्याच कथन्तराम् इत्युक्तम् । 'गर्दायां लडपिजात्वोः', 'विभाषा कथमि लिङ् च' इति गर्दार्थ इह लिङ्प्रत्ययः । 'अर्थ- कामान् ' इत्यत्र द्वन्द्वादिभ्रान्तिनिवर्तनाय समासतदंशदयार्थो भोगेष्वतिमात्रप्रसक्तानित्युक्तः, अर्थेषु कामो येषामिति विग्रहः ; 'अवयॊ हि व्यधिकरणो बहुव्रीहिर्जन्माधुत्तरपदः'। अर्घ्यन्त इत्यर्याः भोगाः; कामचातिमात्रसको वक्ष्यते । यद्वा अर्थ कामयन्त इत्यर्थकामाः । ते निष्कामाश्रेत् , तद्भोगहरणमपि सोत; इदं तु क्षुधितानामोदनहरणवदिति भावः । हननादप्यतिनृशंसत्वसूचनाय भोगाधिरादिशग्दैर- सिद्धः तुशम्देन च द्योतितो विशेषः तैरित्यादिना उक्तः। 'इहैव' इत्यनेन विवक्षितो नृशंसत्वाति- शयः .तेषु इत्यादिना दर्शितः । गुरुवधसाध्यभोगा रुधिरप्रदिग्धगुरुस्मृतिहेतुत्वात् स्वयमपि तथाविधा इव दुर्भोजा भवन्तीत्यैहलौकिकसुखमपि नास्तीति रुधिरप्रदिग्धशब्दाभिप्राय इत्याह-तद्रुधिरेणोपसि- च्येति । उपसेचनं हि स्वयमद्यमानं सदन्यस्यादनहेतुः; इह तदुभयमपि विपरीतमिति भावः ।। - .
द्वितीयोऽध्यायः । २९ एवं युद्धमारभ्य निवृत्तव्यापाराम् भवतो धार्तराष्ट्राः प्रसन्म हम्युरिति चेत्- अस्तु । तपलब्धविजयादधादस्माकं धर्माधर्मावजानदिस्तहिननमेव गरीय इति मे प्रति- भातीत्युक्त्वा, यन्मह्यं श्रेय इति निश्चितं तत् शरणागताय तब शिवाय मे गृहीत्यतिमात्रा- पणो भगवत्पादावुपससाद ॥ न हि प्रपश्यामि ममापनुया- बच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ ८॥ संजय उवाच- एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥९॥ 'न चैतद्विमः' इत्यादेश्चकारयोतितशङ्कापूर्वकं तात्पर्यार्थमाह- एवमिति । बन्धुविनाशा- द्रीतेन त्वया धर्मसुतभीमनकुलाद्यासन्नतरबन्धुविनाश एव कारितः स्यादिति भवत इत्यनेन सूचि- तम् ; 'विप्रः' इत्यादिबहुवचनानुसारेणाह- अस्माकमिति; अस्माकमित्यनेन हन्तव्यतया निर्दिष्टभीष्मद्रोणाद्यपेक्षया सर्वेषां शिष्यत्वादिकमभिप्रेतम् । पूर्वोत्तरार्धाभ्यां विमर्शस्वाभिमतपक्षौ व्य- जितौ । 'यद्वा' इति 'यदि वा' इति च तुल्यार्थम् । येषां वधेन जीवनमस्माकमनिष्टम् , त एवा- स्मान् जिघांसन्तः स्वहननानुरूपत्वेनावस्थिता इति, ‘यानेव' इत्यादेरन्वयार्थः । 'न जिजीविषामः इत्यनेन सूचितामनिर्णयपर्यवसिताम् अत एव प्रश्नहेतुभूतां प्रतिभामाह- इति में प्रतिभातीति । 'यच्छ्रेयः' इत्यादेरन्वयफालेतार्थमुपदेशयोग्यत्वायोक्तां शिष्यगुणसंपत्तिं च स्फुटयति–चन्मयमि- त्यादिना । निश्वेतव्याकारनिष्कर्षणाय इतिकरणम् । शासनीयो हि शिष्यः; अतः 'शिष्यस्तेऽहं शाधि माम्' इति वदति । स्वभावोऽत्र धैर्यम् ; कर्तव्यनिशेषाशानात् शोकापनोदनोपायराहित्यादिना वा अतिमात्रकार्पण्यम् । त्याज्यस्यापरित्यागोऽल कार्पण्यमित्येके ; दयाजनकदीनवृत्तिनिरतत्वमित्यपरे । भगवत्पादावुपससादेति शिष्यत्वप्रपन्नत्वाद्युक्तिफलम् ॥ एवमुक्त्वा' इति श्लोके हृषीकेशपदेन सदर्थश्रवणायार्जुनहषीकप्रेरकत्वम् , 'यमलोकम- 1. युद्धायारभ्य निवत्तव्यापारं भवन्तं धार्त... 2. तत्वबरणागताय..
श्रीमद्भगवदीसावा 'एवमस्थानसमुपस्थितमेहकारुण्याभ्यामप्रकृतिं गतं क्षत्रियाणां युद्धं परमधर्मम- प्वधर्म मन्वानं, धर्मबुभुसया च शरणागतं पार्थमुरिश्यात्मयायात्म्यमानेन मुखस्य फला- भिसंधिरहितस्यात्मप्राप्त्युपायताज्ञानेन च विना अस्य मोहो न शाम्यतीति मत्वा, भगवता परमपुरुषेण अध्यात्मशास्त्रावतरणं कृतम् । तदुक्तम्- 'अस्थाननेहकारुण्यधर्माधर्मधिया- कुलम् । पार्थ प्रपत्रमुद्दिश्य शास्त्रावतरणं कृतम्' इति ॥ 65,771 छोषणमिन्द्रियाणाम्' इत्याधुक्केन्द्रियक्षोभशान्तिकरत्वं च, व्यञ्जितम् । दृष्यन्ति हर्षयन्तीति वा हृषीकाणि इन्द्रियाणि । 'एवमुक्त्वा' स्वावस्थामावेद्येत्यर्थः । 'निद्रालस्ये गुडाका स्यात्' इति गुडाका निद्रा, तस्या ईशो गुडाकेशः, प्रबुद्धस्वभाव इत्यर्थः; पिण्डितकेश इति वा । गोविन्दश- ब्देन शोकापनोदनयोग्यवाक्छालित्वम्, गौशब्दनिर्दिष्टाया भुवो भारावतारणार्थप्रवृत्तत्वं च अभि- .. - प्रेतम् ॥ . . एवमनेनोपोद्धातेनोचितावसरे वक्ष्यमाणशास्त्रावतरणसंगतिं वदन् अर्थादुपोद्धातसंग्रह श्लोकं च व्याकरोति- एवमिति । अस्थानशब्दस्य 'विषमे समुपस्थितम्' इत्येतद्विषयत्वं व्यञ्जयन् , तस्य स्नेहकारुण्याभ्यामेवान्वयाय तयोः पृथनिर्देशं कृतवान् । अप्रकृतिं गतम् इति आकुलशब्दार्थ उक्तः । तेन स्वभावतो धीरत्वं सूच्यते ; 'उपहतस्वभावः' इति हि स्वेनैवोक्तम् । एतेन कार्पण्यदोषोप- हतस्वभावत्वं धर्मसंमूढचेतस्त्वे हेतुतयोक्तमित्यपि दर्शितम् । 'धर्मसंमूढचेताः' इत्येतद्विवरण- रूपस्य 'धर्माधर्मधिया' इत्यस्य अर्थः क्षत्रियाणामित्यादिनोक्तः। धर्मे अधर्मधीः धर्माधर्मधीः, शुक्तिकारजतधीरितिवत् ; तत्र यथार्थख्यातिपक्षे भेदाग्रहो विवक्षितः । तामसी चेयं धीः; 'अधर्म धर्ममिति या मन्यते' इत्यादि हि वक्ष्यते । अत्रास्थानस्नेहकारुण्याभ्यां जाता धर्माधर्मधीरिति विग्रहो द्रष्टव्यः । स्नेहकारुण्यधर्माधर्मभयाकुल इत्यादिप्राचीनभाष्यानुसारेण 'धर्माधर्मभंयाकुलम् ' इति पाठे तु त्रयाणां द्वन्द्वः । 'पृच्छामि त्वा' इत्यादिसमभिव्याहृतप्रपन्नशब्दार्थः धर्मबुभुत्सया च शरणांगत- मित्युक्तः । एवं योग्योद्देशेन प्रवृत्तियुज्यत इत्याह-पार्थमुदिश्येति । व्याजलाभमात्रेण शास्त्रावतरणं कृतमिति भावः । 'आकुलं पार्थमुद्दिश्य' इत्यस्य तात्पर्यम् आत्मेत्यादिना मत्वेत्यन्तेनोक्तम् । आत्मनो याथात्म्यं नित्यत्वभगवदधीनत्वादिकम् ; 'नहि प्रपश्यामि' इत्यादिकं वदतोऽस्यायमेव शोक- निरासोपाय इति भावः । कृतम् इत्यस्य केनेत्याकाङ्क्षायां प्रबन्धकर्तृभूतव्यासादिशङ्काव्यावर्तनायोक्तं भगवता परमपुरुषेणेति। अनेन पदद्वयेन शास्त्रप्रामाण्याद्युपयुक्तमुभयलिङ्गत्वादिकमभिप्रेतम् । अन्यपरशास्त्रान्तरव्युदासाय अध्यात्मेति विशेषितम् । अस्यार्थस्य सांप्रदायिकत्वायाह कमिति । प्रत्यध्यायं संग्रहश्लोकैरर्थभेदेऽभिधीयमानेऽपि इतःपूर्वस्य द्वितीयाध्यायैकदेशस्यापि शास्त्रोपोडातत्वम्, अतःपरस्य शास्त्रावतरणरूपत्वं च, विवेक्तुम् अस्थानेत्यादिना संग्रहश्लोके- - 1. एवमस्थाने समुपस्थितमेह. .
द्वितीयोऽध्यायः । ४. तमुवाच हृषीकेशः प्रहसन्निव भारत'। सेनयोरुभयोर्मध्ये सीदमानमिदं वचः॥१०॥ . एवं देहात्मनोर्याथात्म्याज्ञाननिमित्तशोकाविष्टं देहातिरिक्तात्मज्ञाननिमित्तं च धर्म भाषमाणं परस्परविरुद्धगुणान्वितम् उभयोः सेनयोर्युद्धायोयुक्तयोर्मध्ये अकस्माभिरु- . . - 'नानिर्दिष्टप्रथमाध्यायेनैतावत्संगृहीतम् । महर्षिस्तु शोकृतदपनोदनरूपकथावान्तरसंगत्या 'तं तथा' इत्यादिकं द्वितीयेऽध्याये न्यवीविशत् ; इदमपि सूचितम् 'तन्मोहशान्तये' इति द्वितीयाध्यायफलं संगृहद्भिः। ततश्चास्थाननेहाद्याकुलत्वं प्रथमाध्यायार्थः; सविशेषः स एवात्र संगत्यर्थमनूदित इत्यपि दर्शितं भवति । नन्वेवंविधमुद्दिश्य कथमपृष्टकर्मयोगशानयोगभक्तियोगादिविषयं शास्त्रमुपदिश्यते ? 'नापृष्टः कस्यचिद्रूयात्' इति हि स्मरन्ति । विशेषतश्चायं गुह्यगुह्यतरगुह्यतमप्रकारोऽर्थ: सहसोपदेष्टुम- युक्तः । 'तस्मायुध्यस्व भारत', 'युध्य च', इत्यादिषु च प्राकरणिकयुद्धप्रोत्साहनपरत्वमेव प्रतीयते । अतो नास्य शास्त्रस्याध्यात्मपरत्वमिति । अत्रोच्यते-' यच्छ्रेयः स्यात् ' इति प्रश्नवाक्ये 'यच्छ्रेयः' इत्य- निर्धारितविशेषं दृश्यते। न चार्जुनस्य युद्धमेव श्रेयस्त्वेन जिज्ञास्यमित्यस्ति नियमः, परमास्तिकस्य तस्य भगवति संनिहिते प्रस्तुतमुखेन परमनिःश्रेयसपर्यन्तजिज्ञासोपपत्तेः । अस्तु वा तस्य युद्धमात्रविषया जि- तथापि परमकारुणिकेन भगवता ' यच्छ्रेयः' इति सामान्यवचनमालम्ब्य परमहितोपदेश उपप- नः । 'युध्यस्व' इत्यादिकमपि परमनिःश्रेयसोपायतयेति तत्र तत्र व्यक्तम् । तस्मायुक्तमिदम् अध्या- त्मशास्त्रावतरणमिति ॥ शासा; . परिहासयोग्यत्वाय 'तम्' इति परामृष्टमाह-एवमित्यादिना। 'उभयोः' इत्यनेन सूचितमुक्तं युद्धायोयुंक्तयोरिति। एतेनोपदेशावसरलाभो व्यञ्जितः । 'सीदमानम् ' इत्यनेन निरुद्योगत्वं फलितम् । युद्धनिवृत्त्यनस्वस्थाशापकेन 'मध्ये' इत्यनेनाभिप्रेतमाह- अकस्मादिति । अधर्मादिः पराजयादि युद्धनिवृत्तेः सम्यग्घेतुरत्र नास्ति; अहेतुकोपक्रान्तत्यागे तु परिहास्यत्वमिति भावः । अत्र हृषीकेशत्वो- क्तिफलितं वक्ष्यमाणशास्त्रप्रामाण्याद्युपयुक्तं वक्तुः पुरुषस्य सर्ववैलक्षण्यं परमपुरुष इति दर्शितम् । यद्यप्यसौ हृषीकेशत्वात्पार्थस्य हृषीकादिकं सर्व संकल्पमात्रेण नियम्य भूभारावतारणाय प्रेरयितुं शक्तः ; तथापि जगदुपकृतिमर्त्यतया पार्थतदितरात्मसाधारणपुरुषार्थोपायशास्त्रोपदेशद्वारा प्रवर्तयतीति भावः । यद्वा धीरमर्जुनं हृषीकेशतया स्वयं प्रक्षोभ्य प्रहसन्निव जगदुपकाराय शास्त्रमुवाचेति संबन्धविशेषात् समनन्तरवाक्यपर्यालोचनया च परिहासार्थत्वौचित्यात् प्रहासस्य पार्थकर्मकत्वमुक्तम् । यद्वा प्रपन्नस्य दोषनिरीक्षणेन परिहासासंभवं, शिष्यं प्रत्यध्यात्मोपदेशे प्रहासमात्रदृष्टान्तानुपयोगं च, अभिप्रेत्य पार्थ- शब्दः। अतः "प्रहसन्निव' इत्यनेन फलितं सरसत्वं सुग्रहत्वं निखिलनिगमान्तगहरनिलीनस्य महतोऽर्थ- 1. न निर्दिष्ट... .
१. भीमद्भगवद्रीतायां योगं पार्थमालोक्य परमपुरुष. प्रासनिवेदमुवाच- परिहासकायचं वदणिक आत्मपरमा- लयाथात्म्यतत्त्रात्युपारभूतकर्मयोगज्ञानयोगभक्तियोगगोचरं 'न त्वेवाई जातु नासम्' इत्यारभ्य अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि माशुचः' इत्येतदन्तं वचनमुवाचेत्यर्थः ॥ श्रीभगवानुवाच- अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासुंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥ . अशोच्यान्प्रति अनुशोचसि । 'पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः' इत्यादि- कान देहात्मस्वभावप्रज्ञानिमित्तवादांश्च भाषसे । देहात्मस्वभावज्ञानवतां नात्र किपिच्छोक- निमित्तमस्ति । गतासून देहान् अगतासून् आत्मनश्च प्रति तत्स्वभावयाथात्म्यविदो न शोचन्ति । जातस्यानायासभाषणम्, इदंशब्दस्य वक्ष्यमाणसमस्तभगवद्वाक्यविषयत्वम्, इङ्गितेनापि विवश्चि- तसूचनं च, दर्शयति- परिहासेत्यादिना । 'अशोच्यान्' इति श्लोकस्यापि उपदेशार्थावधानापाद- नार्थपरिहासच्छायतया शास्त्रावतरणमात्रत्वेन साक्षान्छास्त्रत्वाभावात्---- न त्वेवाहमित्यारभ्येत्युक्तम् । यद्वात्र 'अशोच्यान्' इति श्लोकः प्रहसन्निवेत्यस्य विषयः; 'न त्वेवाहम्' इत्यादिकमिदंशन्दार्थः । अत्र 'माशुच' इत्येतदन्तं भक्तियोगगोचरमिति निर्देशः, सर्वसाधकस्यापि चरमश्लोकोक्तप्रपदनस्य प्रकृतान्वयेन भक्तिविरोधिनिवर्तकतयोदाहरिष्यमाणत्वात् ॥ - 'अशोच्यानन्वोचः' इत्युक्ते केचिदशोच्याः शोचन्ति, तदनन्तरमयमपि शोचतीति प्रान्तिः स्थात् ; तमिवृत्त्यर्थमुक्तम् अशोच्यान्प्रतीति । 'अन्वशोचः' इति लङ्प्रयोगोऽनुपपन्नः शोकस्याद्यतन- त्वात् , 'भाषसे' इति वर्तमानार्थव्यपदेशवैरुप्याच, इत्यत्राह-अनुशोचसीति । अद्यतन एव चिरानुह- तत्वविवक्षया सोपसर्गलप्रयोगः ; यद्वा वर्तमानार्थ एव 'सुप्तिापग्रह' इत्यादिना लकारव्यत्ययः । 'प्रज्ञा- वाद-भाषसे' इत्यत्र 'वर्तमानसामीप्ये वर्तमानवद्वा' इत्यनुशासनाद्भूते लट् । तेन 'तूष्णीं बभूव 'इत्यनेन न विरोधः । अत्र प्रकृष्टशानवाचिना प्रशाशब्देन देहात्मनोः स्वभावशानमुच्यते । प्रशया कृता व्यवहाराः प्रशावादा इति समासार्थव्यञ्जनाय निमित्तशब्दः । देहात्मभेदशाने सति हि पितॄणां तदर्थपिण्डोदकक्रियायास्तलोपनिमित्तप्रत्यवायादेच विश्वासपूर्वको व्यवहार इत्येतत्सूचनाय 'पतन्ति' इत्याग्रुपातम् । फलितमाह-देहात्मेति। 'गतासून् ' इत्यादेविवक्षितं विशेष्यं निर्दिशन् , पण्डितशन्द प्रकृतोपयोगितया ब्याकुर्वमन्वयमाहातासूनिति । यद्यपि गतासूनगतासूनिति शम्दौ निष्प्राणसप्राण- वाचकौ; तथापि तस्यार्थस्य प्रकृतासंगते:--'अविश्रान्तमनालम्बमपाथेयमदेशिकम् । तमःकान्तारमध्वानं कथमेको गमिष्यसि', 'बदवैराणि भूतानि द्वेषं कुर्वन्ति चेत्ततः । शोच्यान्यहोऽतिमोहेन व्यासानीति द्वितीयोऽध्यायः । १३. १ , अतस्त्वयि विप्रतिषिद्धमिदमुपलभ्यते, यदेतान् हनिष्यामीत्यनुशेचनम् , या देहातिरिक्तात्म- मानकृतं धर्माधर्मभाषणम् । अतो देहस्वभावं न जानासि, तदतिरिक्तमात्मानं च नित्यम् । तत्प्रात्युपायभूतं युद्धादिकं धर्म च । इदं च युद्धं फलाभिसंधिरहितमात्मयाथात्म्यावाप्त्युपाय- भूतम् । आत्मा हि न जन्माधीनसद्भावो न मरणाधीनविनाशश्च ; तस्य जन्ममरणयोरभावात् । अत: स न शोकस्थानम्। देहस्त्वचेतनः परिणामस्वभावः, तस्योत्पत्तिविनाशयोगः स्वाभाविक इति सोऽपि न शोकस्थानमित्यभिप्रायः ॥ न त्वेवाहं जातु नासं न त्वं. नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥१२॥ प्रथमं तावदात्मनां स्वभावं शृणु । अहं सर्वेश्वरस्तावत्, अतो वर्तमानापूर्व- 1मनीषिणा'--इत्यादिषु पण्डितानामेव सप्राणनिष्प्राणविषयशोकदर्शनात् , अशोच्यानन्वशोच इत्यस्य वक्ष्यमाणे विस्तरे च, 'अव्यक्तोऽयम्' इत्यादिना 'अथ चैनं ' इत्यादिना च, नित्यस्यात्मनः अनि- त्यस्य शरीरस्य च अशोचनीयत्वेन वक्ष्यमाणत्वादत्रापि तद्विषयतैव युक्तेत्यभिप्रायः। देहास्तावन्न शोचनी- याः नश्वरत्वात् , आत्मानोऽपि तथा अनश्वरत्वात् , इत्यूहापोहक्षमबुद्धिरूपा पण्डा येषां तेऽत्र पण्डिताः। प्रशावादविप्रतिषिद्धशोकेनोनीतांस्तदशानविषयानाह- अतो देहेत्यादिना । शोकस्तु सिद्धः; प्रशा तु वादमात्रस्थेति भावः । को देहस्वभावः, कथमात्मा देहातिरिक्तो नित्यश्च, कथं च अनयोरशोच्यत्वम् , कथं वा घोरं युद्धादिकमात्मप्राप्त्युपायभूतम्, इत्याशङ्कय तदशानविषयतयोक्तं त्रयं बुद्धिस्थक्रमेण वि- वृणोति- इदं चेत्यादिना। इदमेव युद्धं बुद्धिविशेषसंस्कृतत्वादात्मयाथात्म्यप्राप्तिकरमित्यर्थः । उ. पायभूतमित्यत्र विप्रत्ययाप्रयोगादयमेवास्य स्वभावः फलान्तराभिसंधिना तु स 'प्रतिववत इति भावः । आत्मा हीति हिशब्देन 'न जायते' इत्यादिश्रुतिप्रसिद्धिं द्योतयति । आत्मनो देहसंयोग- वियोगलक्षणजन्ममरणसद्भावेऽपि न घुत्पत्तिविनाशरूपे जन्ममरणे इत्यभिप्रायेणाह-तस्येति । देह- स्त्विति तुशब्द आत्मापेक्षया वैलक्षण्यं प्रत्यक्षादिसिद्धं द्योतयति । देहत्वेनोपचयात्मकत्वादचेतन- त्वाच्च घटादिवत्परिणामस्वभाव इत्यर्थः ॥ एवमुपायोपेयनिवर्त्य स्वभावानभिशं प्रति त्रितयोपदेशाय बुभुत्सोत्पादिता। अथ पारलौकिक- फलोपायानुष्ठानाधिकारित्वाय देहातिरिक्तत्वेनावश्यं ज्ञातव्यं पुरुषार्थतयोपेयमात्मानं तत्प्राप्तीच्छामुखेन तदुपायेच्छाजननाय प्रथममेवेोपदिशतीत्यभिप्रायेणाह-प्रथममिति । शृण्वित्यनेन प्रथमश्लोकस्य प्रति. वादिवाक्यवदुपालम्भमात्रार्थताव्युदासाय अवधानापादनार्थत्वं व्यञ्जितम् । जीवेश्वररूपेष्वात्मसु नित्यत्वे शीघ्रसंप्रतिपत्तियोग्यांशं प्रथममाहेत्यभिप्रायेणाह-अहमिति । ईश्वरस्याहंग्रहः सर्वनियन्तृत्वगर्भ इति तत्यपदेशफलितमाह- सर्वेश्वर इति । तावदिति संप्रतिपत्तिसूचनम् । 'अतः परम् ' इत्यत्र अत:- 1. मनीषिणाम. B5 , ३० श्रीमद्भगवद्रीतायां . नासम्- स्मिन् अनादी काले, न गासम्-अपि त्यासम् । त्वन्मुखाश्चैते इंशितव्याः क्षेत्राः न -अपि त्वासनू । अहं च यूयं च सर्वे वयम् , अतः परम् भस्मादनन्तरे काले, न चैव भविष्यामः---अपि तु भविष्याम एव । यथाहं सर्वेश्वरः परमात्मा नित्य इति नाम संशयः, तथैव भवन्तः क्षेत्रमा आत्मानोऽपि नित्या एवेति मन्तव्याः । एवं भगवतः सर्वेश्वरात् । . शब्दार्थम् , तस्य पूर्ववाक्येऽपि यथार्थमनुषङ्गम् , जातुशब्दाभिप्रेतं च, आह -- अत इत्यादिना । अनभिमतपक्षनिषेधाय व्यतिरेकरूपेऽपि वाक्ये तुशब्दद्योतितमन्वयमाह-अपि त्वासमिति । 'न त्वं नेमे' इति भेदनिर्देशेऽपि. क्षेत्रज्ञत्वाकारेण समुदायीकुर्वन् , ईश्वरापेक्षया युष्मदिदंशब्दार्थतया फलितमीशितव्यत्वाकारं च साधारणं दर्शयन् , संनिहितनिदर्शनपराया एकदेशोक्तेस्तात्पर्यतो ब्रह्मादि- सकलक्षेत्रशविषयत्वं चाह-त्वन्मुखा इति । तुशब्दानुषङ्गं क्रियापदे विभक्तिविपरिणामं च दर्शयति- अपि त्वासमिति । 'न त्वं नेमे जनाधिपाः' इत्यत्र न त्वेवेत्येतदनुषज्य, न त्वं नासीः, नेमे जना- धिपा नासन् इत्यन्वयः। 'सर्वे वयम्' इत्यस्य पूर्वोक्तजीवेश्वरसमुदाये संप्रतिपत्तव्यांशं विविनक्ति- अहं चेति । 'त्यदादीनां मिथो योगे यः परः स शिष्यते' इति युष्मदस्मदोरत्रैकशेषः । एवमुत्तरत्र भवन्त इत्यत्रापि मन्तव्यम् । कालानन्त्यात् पर्वतादीनामिवातिस्थिराणामपि कदाचित् नाशः स्यादि- त्युत्प्रेक्षा निवारयति-अपि तु भविष्याम एवेति । अप्रस्तुतस्वनिर्देशस्य दृष्टान्तार्थताम् , तत्राहमिति निर्देशाभिप्रेतसवेश्वरत्वसर्वात्मत्वरूपनित्यत्वोपपत्तिम् , दाान्तिके च नित्यत्वसंभावनामाह-यथेति । सर्वेश्वरः कालत्रयवर्तिनः सर्वस्याधिपतिः कथं न काललयवर्ती, कथं च सर्वेषां नियन्ता केनचित्कदा- चिनिरुद्धयेतेति भावः । परमात्मा-'देशकालस्वरूपानवच्छिन्नव्याप्तिः' इति परमात्मपदनिरुक्तिः । तथा च व्याप्तत्वात् व्याप्यैरस्य न नाशः; सर्वात्मत्वेन सर्वकालवर्तित्वं च सिद्धमिति भावः । ननु यः प्रत्य- क्षयोग्ये देहातिरिक्ते जीवेऽपि संशेते, स कथं ततो व्यतिरिक्तेऽत्यन्तागोचरे परमात्मनि निःसंशयः स्यात् ! उच्यते-न ह्यसावर्जुनः, 'पुरुषं शाश्वतं दिव्यम्' इत्यादेः स्वयं वक्ता, नारदासितदेवलव्यासा- दिपरमर्षिशतवचनविदितपरब्रह्मभूतपरमपुरुषस्वभावः, प्रत्यक्षीकृतपुरन्दरलोकसकलानमन्त्रतपः- प्रभावादिः, निरतिशयगुरुदेवताभक्तिः, अस्खलितसकलवर्णाश्रमाचारः, धर्मलोपभयविहलः, देहातिरि- कमात्मानमीश्वरं चात्यन्ताय नास्तीति भ्राम्यति संशेते वा। तत्प्रकारविशेषानभिज्ञतयैव हि तस्य शोकादिः । ततोऽयमीश्वरं तन्नित्यतां च सर्वेश्वरत्वादिसिद्धां सामान्यतो मन्यते; लोकदृष्या जन्मवि- नाशादिदर्शनात् , 'न प्रेत्य संशास्ति' इत्यादिश्रुत्यर्थापातप्रतीत्या च, जीवप्रकारविशेषांस्तत्त्वतो न जानातीति न कश्चिद्दोषः । क्षेतज्ञा आत्मान इति-- यथा जीवात् परमात्मनो वैलक्षण्येन जीवस्वभावास्तस्मिन्न भवन्ति, तथा क्षेत्राद्विलक्षणत्वेन वक्ष्यमाणेन क्षेत्रगतमनित्यत्वादिकं न तषियन्तरि जीवे शमीयमिति भावः ॥ 2 1. ...संभावनायाह. 2. ब्रह्मरूपपरम . 3. ...सकलशास्त्र द्वितीयोऽध्यायः । .. - आत्मनां परस्परं च भेदः पारमार्थिक इति भगवतैवोक्तमिति प्रतीयते; अहानमोहितं प्रति तंमि- वृत्तये पारमार्थिकनित्यत्वोपदेशसमये अहं त्वम् इमे सर्वे वयमिति व्यपदेशान् । औपाधिका- त्मभेदूवादे हि आत्ममेदस्यातात्त्विकत्वेन तस्वोपदेशसमये भेदनिर्देशी न संगच्छते । भग- अथ कुमतिसौचिकविनिर्मितानामामूलचूडमघटितसंघटितजरत्कर्पटशकलकन्थासगन्धानां प्रबन्धानां दोषान् स्थालीपुलाकन्यायेन निदर्शयन् , प्रथमं शास्त्रोपक्रमविरोधं शास्त्रप्रवृत्यनुपपत्ति चं वदति- एवमित्यादिना; एवं तत्त्वोपदेशप्रवृत्तशास्त्रारम्भोक्तिप्रकारेणेलार्थः । भगवतः सर्वेश्वरादिति, उभयलिङ्गात् सर्वनियन्तुः अहमिति निर्दिष्टादित्यर्थः । यदीश्वराजीवानां भेदः पारमार्थिको न स्यात् , उभयलिङ्गत्वदुःखित्वादिस्वभावसङ्करः स्यात् ; यदि चात्मनां मिथो भेदः सत्यो न स्यात् , बद्धमुक्तशिष्याचार्यादिव्यवस्थानुपपत्तिः स्यादिति भावः । भगव. तैव न तु रथ्यापुरुषकल्पेन केनचित् । यद्वा त्वमेव त्वां वेस्थ', 'योऽसि सोऽसि', 'सो अङ्ग वेद यदि वा न वेद', इत्युक्तेन भगवता स्वेनैव स्वस्य स्वशरीरभूतजीवानां च तत्त्वमुक्तमिति प्रतीयत इत्यभिप्रायः । अज्ञानमोहितमिति- न हि स्वयं बम्भ्रम्यमाणस्याप्तेनापि भ्रान्तिरेवोत्या- दनीयेति भावः । बुद्धाद्यवतारेणासुरादिभ्य इवायमुपदेशः किं न स्यादित्यत्रोक्तं तमिवृत्तय इति । मोहनिवृत्त्यर्था गीतोपनिषदिति भवद्भिरपि स्वीकृत्य व्याख्यानादि च कृतमिति भावः। देहभेदाभिप्रायेण बहुवचनम्, नात्मभेदाभिप्रायेणेति शंकरोक्तं दूषयति-पारमार्थिकेति। न ह्यसौ 'न त्वेवाहम्' इत्या- दिग्रन्थो भ्रान्तिनिवृत्त्यर्थो मन्त्रपाठः, येन भेदनिर्देशस्यान्यपरतां मन्येमहि; किंत्वसौ तत्त्वार्थोपदेशरूप इति भावः । अहमिति–'अहम्' इति प्रत्यक्त्वेन, 'त्वम्' इति स्वाभिमुखचेतनान्तरत्वेन, 'इमे' इति स्वपराङ्मुखानेकचेतनत्वेन, 'सर्वे' इति एकोपाधिसंगृहीतानेकव्यक्तित्वेन, 'वयम्' इति खेन सहात्मतयैकवर्गीकृतानन्तव्यक्तित्वेन इति भावः । इति व्यपदेशादिति-न ह्यत्र नाहमिति किंचिदस्ति न च त्वमिति नाप्यन्य इति प्रत्यादेश: कृत इति भावः । भास्करमते भेदस्य सत्योपाधिप्रयुक्तत्वात् भेदनिर्देश उपपद्यत इति शङ्कायां तत्रापि सामान्यत उक्तं दूषणमपरिहार्यमित्याह- औपाधिकेति । हिशब्द उपाधिभेदोपहितस्य परोक्तघटाकाशायुदाहरणेष्वपि भेदांशातात्त्विकत्वाभ्युपगमपरः । उपाधि- सत्यत्वेऽपि यथैकस्यैव मुखच दादेर्मणिकृपाणसरित्समुद्रादिभिः सत्यैरप्युपाधिभिभेदोऽपारमार्थिकः, यथा चैकस्यैवाकाशादेर्घटमणिकादिसत्योपाधिभिरपि संयोगभेदातिरिक्तो नोपाध्यधीनो भेदः, एवमन्तःकरणा- दिभिः सत्यैरप्युपाधिभिर्निरवयवत्वेन छेदनभेदनाद्ययोग्यस्य सर्वत्र परिपूर्णस्य ब्रह्मणो भेदोऽपारमार्थिक इत्यभ्युपगन्तव्यम्। ततश्च तत्वोपदेशसमये तद्विपरीतोपदेशो हितोपदेशिनो न घटत इति भावः। द्वयोरपि पक्षयोः श्रुतिविरोधोऽपि दूषणम्, स्वपक्षे च श्रुत्यैकार्थ्यान्न बुद्धागमादिवन्मोहनार्थत्वशरेत्यभिप्राये- माह-भगवदिति । यद्वा भास्करपक्षदूषणायैव श्रुतिरुपात्ता; ततश्च कैमुत्येन शंकरपक्षोऽपि दूषितः । अपिधन्दः प्रमाणत्यसमुच्चये। भगवदुक्तात्मभेद इत्यनेन श्रोतवदेव प्रमाणान्तरनरपेक्ष्यं सूच्यते । श्रुतिरपि नित्या तदाशारूपतयैव हि प्रमाणम् । 'नित्यो नित्यानाम्' इत्यत्र 'पवित्राणां पवित्रम्' इत्यादिव- घोजनया जीवानियतपर्यवमितमन्नाभ निरायन नियमलनेननmareramm-A-. " . .
श्रामगवताताया - बदुकात्मभेदः स्वाभाविक इति श्रुतिस्प्याह-'नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विद्धाति कामान्' इति । नित्यानां बहूनां चेतनानां य एको नित्यश्चेतनः, स कामान विदधातीत्यर्थः । अज्ञाभकृतभेददृष्टिवादे तु परमपुरुषस्य परमार्थदृष्टेनिर्विशेषकूटस्थनित्य- चैतन्यात्मयाथात्म्यसाक्षात्काराग्निवृत्ताज्ञानतत्कार्यतया अज्ञानकृतभेददर्शनं तन्मूलोपदेशादि- व्यवहाराश्च न संगच्छन्ते । अथ परमपुरुषस्याधिगताद्वैतझानस्य बाधितानुवृत्तिरूपमिदं भेदज्ञानं दग्धपदादिवन्न बन्धकमित्युच्यते -नैतदुपपद्यते; मरीचिकाजलज्ञानादिकं हि धिकमेवात्मनां बहुत्वं चेतनत्वं चेति प्रदर्शयन् , तत एवात्मानित्यत्ववादिनां सौगतादीनाम् अविद्यादिमू- लभेदवादिनां शंकरादीनाम् आगमापायिचैतन्यवादिनां वैशेषिकादीनां चिच्छक्तिमात्रनित्यत्ववादिना- मन्येषामपि निरासमभिप्रयन् , प्रथमान्तपदचतुष्टयसामानाधिकरण्यबलादीश्वरैक्यं तदैक्यस्य हिरण्यगर्भ- रुद्रेन्द्रादिवत्कालादिभेदाभेद्यत्वेन प्रयाहेश्वरपक्षप्रतिक्षेपं श्रुत्यन्तरादिप्रसिद्धनित्यचैतन्यप्रसरादिकं सूच- यन् , 'यदानेयः' इत्यादिवदनुवादलिङ्गसद्भावेऽप्यप्राप्तत्वबलेन विशिष्टविधित्वं च व्यञ्जयन् , सर्वदा सर्वल सर्वेषां चेतनानामेक एवेश्वरस्तत्तत्कर्मसमाराधितस्तत्तदनुरूपाण्यपेक्षितानि करोतीति श्रुत्यर्थमाह- नित्यानामिति । पुनः सिंहावलोकितेन शंकरमतस्योपदेशानुपपत्तिरूपं शास्त्रारम्भमूलघातमाह- अज्ञानेति । किमयं भगवान् स्वेन ज्ञातमर्थमुपदिशति, अज्ञातं वा ? शातमपि साक्षात्कृतम् , श्रुतमात्र वा ! उभयत्रापि तदशानं निवृत्तम् , अनिवृत्तं वा ? तन्निवृत्तावपि तत्कार्यभेदभ्रमो निवर्तते , न वा ? इति विकल्पमभिप्रेत्य साक्षात्कारादशानतत्कार्यनिवृत्तिपक्षे दूषणमाह-परमपुरुषस्येति । क्षेत्रज्ञस्य हि अपरमार्थदृष्टिः स्यादिति भावः । निर्विशेषेत्यादि-निर्विशेषत्वं सजातीयविजातीयस्वगतभेदराहित्यम् ; कूटस्थत्वं मायानिष्ठत्वम् , साधारण्यम् , निर्विकारत्वं वा-स्वयमविक्रियमाणस्यापि कूटस्य यथा स्वसंसर्गि- णामयःप्रभृतीनां विकारहेतुत्वं तद्वत् ; तत एव नित्यत्वं कालानवच्छिन्नत्वम् । याथात्म्यम् उक्तप्रकारम् ; अयथासाक्षात्कारोऽस्मदादीनामपि परैरभ्युपगत इति तद्युदासाय याथात्म्यसाक्षात्कारोक्तिः । अशानम् अविद्या; तत्कार्यों भेदभ्रमः; आदिशब्देनानुष्ठापनादि गृह्यते । उपदेशादिव्यवहारो हि उपदेश्या- थतद्वाचकाधिकारिशिष्याचार्यप्रयोजनभेदादिनानाविधभेददर्शनमूलः । भेददर्शनं चाशानेनैव कृतमिति त्वन्मतम् । ततश्चाशानतत्कार्यनिवृत्तौ कथं तत्कार्यपरम्परानुवृत्तिरिति व्याघातापसिद्धान्तशास्त्रानार- म्भोपदेशाभावनिष्फलपरिश्रमत्वश्रुतिविरोधादिदोषशतमुन्मिषेदिति भावः ॥ अद्वैतज्ञानादज्ञाननिवृत्तावपि वासनादिवशाद्भेदभ्रमस्यानुवृत्तिं तस्य चाबन्धकत्वमाशङ्कते- अथेवि । दग्धपटादिवदिति-यथा दग्धपटादेः पटादिप्रतिभासविषयत्वेऽपि न पटादिकार्यकरत्वम् , तद्वदत्र भेदभ्रमस्यानुवृत्तस्यापि न संसारहेतुत्वमिति भावः । नैतदुपपद्यत इसि-- दृष्टान्तमात्रमुक्तं न तूपपत्तिः, प्रत्युतानुपपत्तिश्च विद्यत इति भावः । अनुपपत्तिं सोदाहरणमाह-मरीचिकेति । पषमत्र प्रसङ्गः-विप्रतिपनं भेदशानमद्वैतशानबाधिततया मिथ्यार्थमिति निश्चितं चेत्, न स्वविषयानुरूपप्र. वृत्तिहेतुः स्यात् ; यथा बाधितानुवृत्तं मरीचिकाजलज्ञानम्- इति । एवं च बाधितानुवृत्तभेदशानं - द्वितीयोऽध्यायः 16 बाधितमनुवर्तमान न जलाहरणादिप्रवृत्तिहेतुः । एवमलाप्यद्वैतज्ञानेन बाधितं भेदझानमनुष- र्तमानमपि मिध्यार्थविषयत्वनिश्चयानोपदेशादिप्रवृत्तिहेतुर्भवति । न चेश्वरस्य पूर्वमहस्य शास्त्राधिगततत्त्वज्ञानतया बाधितानुवृत्तिः शक्यते वक्तुम् ; 'यः सर्वज्ञः सर्ववित्', 'परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च', 'वेदाह समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन', इति श्रुतिस्मृतिविरोधात् । किंच परमपुरुषश्चेदानीन्तनगुरुपरम्परा च, अद्वितीयासस्वरूपनिश्चये सति अनुवर्तमानेऽपि भेदज्ञाने, स्वनिश्चयानुरूपमद्वितीयात्मज्ञानं कस्मा उपदिशतीति वक्तव्यम् । प्रतिबिम्बवत्त- दग्धपटादिवत् न स्वकार्यकरमिति बाधितानुवृत्तिफलाभावात् स्वेष्टव्याघात इति भावः । श्रुतमात्रपक्षेऽपि निर्विशेषविषयसाक्षात्कारश्रवणयोर्विषयानतिरेकेणाज्ञाननिवृत्तिरनुपपन्नेति कृत्वा सर्वेश्वरे बाधितानुवृत्ति- खरूपं दूषयति-नचेति। ईश्वरत्वादेव पूर्वमज्ञ इति वक्तुं न शक्यते, अनीश्वरत्वप्रसङ्गात् । ईश्वरोऽपि चेत् पूर्वमशः, तस्य शास्त्राधिगमोऽपि न संभवति, तदधिकशानवतोऽन्यस्य शास्त्रोपदेष्टुरभावात् । भावे वा स एवेश्वरोऽनीश्वरो वा सन् कुतश्चित् सिद्धज्ञान इत्यनवस्थादिदोषात् । न च प्रवाहेश्वरपारम्पर्य- मस्ति, तस्य दूषितत्वात् । न चेश्वरः स्वकृतेन शास्त्रेण तत्त्वमवगच्छति, वेदानित्यत्वान्योन्याश्रयादि- प्रसङ्गात् । न चानादीनेव वेदान् स्मृत्वा तैरर्थमधिजगाम; स्मृत्यादिहेतोः पूर्वोपलम्भस्याप्युपदेष्ट्रभावा- दिदुःस्थत्वात् इत्यादिदोषानभिप्रेत्योक्तं पूर्वमझखेत्यादि । ईश्वरस्य पूर्वमज्ञत्वे शास्त्राधीनशानत्वे तदुपदे- ष्ट्रन्तरसद्भावे भ्रान्त्यनुवृत्तौ च श्रुतिस्मृतिविरोधमाह- यः सर्वज्ञ इति । स्वरूपतश्च प्रकारतश्च सर्व जनाति वेत्तीति विवक्षया सर्वज्ञसर्वविच्छब्दयोरपुनरुक्तिः; सर्व विन्दति प्रामोतीति वा सर्ववित् ।। . . एवमुपदेशस्य हेत्वनुपपत्तिरुक्ता । अथोपदेष्टुतापि नोपपद्यत इत्याह-- किं चेति । इदा नीन्तनेति-- न केवलमीश्वरकृतः प्रथम एवोपदेशोऽनुपपन्नः, अपि त्वद्यतनोऽपीति; मठपति- परम्परायाः शिष्यानकुक्षिम्भरेः शिष्याद्यभावात्प्रायोपवेशनं प्रसज्यत इति भावः । अशातोपदेश- पक्षानुपपत्तिमभिप्रेत्याहस्वानेश्चयेति। न घेतेऽनुपलब्धार्थाः, नापि संदिग्धार्थाः, नापि विप्रलम्भकाः, न च परोक्तानुवादिनः, नापि बालोन्मत्तादिवद्यथोपनतं जल्पाकाः, इति भावः । कस्मा इति-स्वस्मै परस्मै वा ? पूर्वत्र भिन्नतया निश्चिताय, अन्यथा वा ? भिन्नतयेत्यत्रापि सत्यतया निर्णीताय, असत्यतया वा १ परस्मा इत्यत्रापि तात्त्विकाय, अतात्त्विकाय वा ? अतात्त्विकत्वेऽपि तथा प्रतीताय, अन्यथा वा ? इति विकल्प्य पृष्टे तदुत्तरं वक्तव्यमित्यर्थः । तत्र स्वस्यैव भिन्नस्य सत्यत्वनिश्चयेऽपसिद्धान्ताशत्वा- दिदोषप्रसङ्गः ; असत्यत्वनिश्चये वन्ध्यातनयादिभ्य इवानुपदेशः । अभिन्नतया निभिताय स्वस्मै चेत् , अर्जुनादिप्रभासमन्तरेण 'सर्वदोपदेशः स्यात् । न च तत्रोपदेशस्य किंचित्प्रयोजनमस्ति । परसै 1. स एवेश्वरः सन् 2. अथ श्रोतापि. 3. त्वद्यतनकुमतिमठ...
श्रीमद्भगवद्गीताबा खेऽपि पूर्वविरोधित्वेन निवर्तकृमिति चेत् , तदाचार्यज्ञानेऽपि समानमिति तदेव निवर्तकं भव- वीत्युपदेशानर्यक्यमेव इति कृतमसमीचीनवादैनिरस्तैः ।। देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्ति(रस्तत्र न मुह्यति ॥ १३ ॥ . एकस्मिन् देहे वर्तमानस्य देहिनः कौमाराद्यवस्थां विहाय यौवनावस्थाप्राप्तौ आत्मनः स्थिरत्वबुद्या यथात्मा नष्ट इति न शोचति, देहादेहान्तरप्राप्तावपि तथैव स्थिर मात्मेति बुद्धिमान शोचति । अत आत्मनां नित्यत्वादात्मानो न शोकस्थानम् । एतावदत्र कर्तव्यम्-आत्मनां नित्यानामेवानादिकर्मवश्यतया तत्तत्कर्मोचितदेहसंसृष्टानां तैरेव देहै- न च शातार्थेऽप्यर्जुनेऽद्य यावत् अमनिवृत्तिदृश्यते । अतः शिष्योऽप्याचार्यवत्समस्तप्रपञ्चस्वमदृशान्येनैव दृष्ट इति चतुर्थ: कल्पः परिशिष्यते । ततश्च शुकवामदेवादिज्ञानवदर्जुनादिज्ञानमपि नाशाननिवर्तक- मिति निष्फल: शिष्याचार्याणां कृष्णार्जुनादीनां त्रिवर्गपरित्यागेनापवर्गार्थप्रयास इति शास्त्रारम्भोऽनु- पपन्नः । अथ परिहासकाकुपूर्वमपच्छेदनयमाशङ्कय परिहरति-कल्पितत्वेऽपीत्यादिना। एवमुपदेशा- नुपपत्तौ तस्य सर्वद्रष्टुरेकस्यापि जीवस्य कदाचिदपि मोक्षायोगात् शास्त्र प्रयोजनमपि नास्तीति ततोऽपि शास्त्रारम्भानुपपत्तिरिति फलितम् । एवं शास्त्रोपदेशस्य तदुपदेष्टुस्तच्छोतुस्तत्प्रयोजनस्य चानुपपत्ती सामान्यतः सर्वस्मिन्नपि परमते दूषिते किमवान्तरदूषणैरित्यन्यपरतयोपसंहरति-इति कृतमिति । कृतम् अलमित्यर्थः; असमीचीनवादैरित्यनेन भास्करादिमतेऽप्येवंविधदूषणशतं शारीरफभाष्यायुक्तं स्मारितम् ॥ आत्मनामशोचनीयत्वाय नित्यत्वमुक्तम् । तत्रात्मनित्यत्वे जन्ममरणादिप्रतीतिव्यवहारौ कथ. मिति शङ्कां दृष्टान्तेन परिहरति-दहिन इति। 'अस्मिन् ' इति निर्देशाभिप्रेतमाह-एकस्मिमिति। देहस्यावस्थात्रयान्वयनिदर्शनादपि देहिन्येव तनिदर्शनमुचितमित्यभिप्रायेणाह-- देहे वर्तमानस्येति । कौमारं यौवनं जरा इति क्रमनिर्देशसूचितार्थस्वभावफलितमुक्तं विहायेति । कौमारयौवनत्यागयोरपि शोकविशेषनिमित्तत्वात्तद्यवच्छेदार्थ यथाशब्दतात्पर्यव्यक्त्यर्थे चोक्तम् आत्मन इत्यादि । बाल्यावस्था निवृत्ताधुप्यात्मनः स्थिरत्वबुद्धिहि तद्विनाशनिमित्तशोकाभावहेतुः ; सोऽत्रापि समान इत्यर्थः । 'देहा- न्तरप्राप्तिः' इत्यत्रान्तरशब्दसूचितं पूर्वदेहत्यागाख्यं शोकप्रसञ्जकं दर्शयति-देहादिति । धीरश: ब्दस्य प्रकरणविशेषितोऽर्थः, स्थिर आत्मेति बुद्धिमानिति । अशोच्यानित्यादिना प्रागुक्तेन संगमयति- भत इति । एवं श्लोकद्वयेन क्रमात् प्राप्यं निवत्यै च व्यक्षितम् । अथात्र हृद्तं प्रापकविषयोत्तरलोक- 1. प्रकाश..
द्वितीयोऽध्यायः । २१.. भनिवृत्तये शाषीयं स्ववर्णोचितं युद्धादिकमनभिसंहितफळ कर्म कुर्षतामवर्जनीयतया इन्द्रियैरिन्द्रियार्थस्पर्शाः शीतोष्णादिप्रयुक्तसुखदुःखदा भवन्ति । ते तु यावच्छानीयकर्मस- माप्ति क्षन्तव्या इति । इममर्थमनन्तरमेवाह ॥ मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तास्तितिक्षख भारत ॥ १४ ॥ शब्दस्पर्शरूपरसगन्धाः साश्रयास्तन्मात्राकार्यत्वान्मात्रा इत्युच्यन्ते ; श्रोत्रादिभि- स्तेषां स्पर्शाः शीतोष्णमृदुपरुषादिरूपाः सुखदुःखदा भवन्ति । शीतोष्णशब्दः प्रदर्शनार्थः । । .. दयफलित संकलय्य संगतिमाह- एतावदिति । बन्धनिवृत्तय इत्यन्तः 'अमृतत्वाय' इत्यस्यार्थः शुद्धस्वभावानां संसारानुपपत्तिपरिहारायोक्तम् अनादीति । कर्मवश्यतया- न त्वनिर्वचनीयाज्ञानादि वश्यतयेति भावः । स्वतोऽत्यन्तसमानानामात्मनां देहभोगादिवैषम्यसिद्ध्यर्थमुक्तं तत्तत्कर्मेति । देहे- न्धनिवृत्तय इति–देहैयों बन्धः तस्य निवृत्तय इत्यर्थः । यद्वा तैरेव देहैः कर्म कुर्वतामित्यन्वयः; तदा तु बन्धका एव देहा मोक्षसाधनौपयिकाः संभवन्तीत्यवधारणाभिप्रायः । शास्त्रीयमिति- अन्यथा ईश्वरशासनातिलखनाद्दण्ड एव स्यादिति भावः । स्ववर्णोचितमिति - न तु त्वया युद्धादिकं परि- त्यज्य भैक्षं चरितुं श्रेय इति भावः । अमृतत्वहेतुत्वायोक्तम् अनभिसंहितेति । प्रतिकूलस्वभावस्य कथं कर्तव्यत्वमिति शङ्कानिवर्तकतुशब्दद्योतितमवर्जनीयत्वं तितिक्षितव्यत्वे हेतुः ; इत्येतावत्कतयमित्य- न्वयः । आत्मनित्यत्वप्रकरणपर्यवसाने वक्तव्योऽप्ययमर्थस्तात्पर्यातिशयात्सहसोच्यत इत्याह--- इमम- र्थमनन्तरमिति ॥ आभिः मीयन्ते शब्दादय इति श्रोत्रादीनीन्द्रियाणि मात्रा इति शंकरायुक्ताप्रसिद्धयोज- नाव्युदासाय मात्राशन्दार्थमाह- शब्देति । साश्रया इति- गुणविशिष्टद्रव्यस्य हि तन्मात्राकार्य- त्वमिति भावः । तन्मात्राकार्यत्वादिति- तन्मात्राणां मात्राशब्दवाच्यत्वे तावन्नास्ति विवादः; शब्दमात्रास्पर्शमात्रेत्यादिप्रयोगाश्च सन्ति; ततश्च तत्कार्यद्रव्यस्यापि तदेकद्रव्यत्वात्तच्छन्दगौचरत्वमु- पपत्रमिति भावः। कर्मव्युत्पत्तेरपि भावव्युत्पत्ते: प्रसिद्धिप्रकर्ष विषयसंबन्धस्यैन साक्षात्सुखादिहेतुत्वं च मत्वा स्पर्शस्य प्रतिसंबन्ध्यन्तरं निर्दिशन् समासार्थमप्याह- श्रोत्रादिभिस्तेषां स्पर्श इति । सीतो- ष्णशन्दयोरुपलक्षणत्वं समासाथै चाह- शीतोष्णमृदुपरुषादिरूपा इति । एवं हेतुफलभावं विहाय शीतोष्णदाः सुखदुःखदाश्चेति योजनायां पृथग्व्यपदेशवैय्यर्थ्यमिति भावः । संग्रामे शीतोष्णयोरप्रसक्त- त्वात् किमर्थमिदमुच्यत इत्यत्राह- शीतोष्णशब्दः प्रदर्शनार्थ इति ; शस्त्रपातादेरिति शेषः । शीतोष्णादिकं तु तेषु तेषु वर्णाश्रमधर्मेषु यथासंभवं ग्राह्यम् । 'धीरम्' इति वक्ष्यमाणं 'धीरस्तत्र B6 श्रीमद्भगवद्गीतायां . तस्मादव- तान् धैर्येण यावयुद्धादिशात्रीयकर्मसमाप्ति तितिक्षस । ते पागमापायित्वात् पता क्षन्तम्याः । अनित्याश्च ते-बन्धहेतुभूतकर्मनाशे सति आगमापावित्वेनापि न पम्प इत्यर्थः ।। तत्क्षमा किमर्थत्यत आह- यं हिन व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥ यं पुरुषं धैर्ययुक्तमवर्जनीयदुःखं सुखवन्मन्यमानममृतत्वसाधनतया खवर्णोचितं युद्धादिकं कर्मानभिसंहितफलं कुर्वाणं तदन्तर्गताः शनपासादिमृदुङ्करस्पर्शा न व्यथयन्ति, स इति पूर्वोक्तं चाकृष्याह-- तान् धैर्येणेति; यद्वा अत्रैव कौन्तेयभारतशब्दाभ्यां क्षत्रियायामुत्पन्नस्य विशिष्टक्षत्रियसांतानिकस्य ते धैर्यमेवोचितमिति सूचितम् | यथा तपश्चर्यायां यागादौ च वातातपक्षु- त्पिपासापश्वालम्भादयो यावत्तत्कर्मसमाप्ति क्षन्तव्याः, तथात्रापि शस्त्रपातशत्रुषधादयः ; जनीयेन्द्रियार्थस्पर्शनिमित्तदुःखानां शोकेन दुष्परिहरत्वानिरर्थके शोके तितिक्षैव युक्तेति भावः । अत्र सुखांशस्थ क्षमा नाम उपेक्षया अनुत्सेकः; तत्रापि हेतुः आगमापायित्वमेव । अनित्यशब्दस्यापौन- रुक्त्यायाह- बन्धेति ; अनित्यशब्दोऽत्र प्रवाहनित्यतानिषेधकः । 'नित्याः' इति पदच्छेदेन नित्या- नुबन्धितया तितिक्षितव्यत्वद्योतनं तु मन्दम् ; आगमापायित्वात् , मुक्तौ तदभावाच । अतश्च प्रवाहतो नित्यत्वं नास्तीति भावः ॥ तत्क्षमा किमर्थेति-- किं दृष्टार्थत्वात् , उत अदृष्टार्थत्वात् , उत, स्वरसवाहित्वेनावर्जनी- यत्वात् ! न प्रथमः, दुःखरूपतयोपलम्भात् ; न द्वितीयः, गुरुवधकुलक्षयादिरूपाधर्मबहुलत्वात् । न तृतीयः, युद्धानिवृत्त्यैव शत्रपाताद्यभावात् ; इति भावः । तितिक्षाहत्वद्योतनाय 'धीरम् इति पदम्। सुखदुःखवैषम्याशत्वभ्रमं तयोः समपरिमाणत्वादिभ्रमं च निरस्यन् किमर्थेति शङ्कां च प्रतिवदति- अवर्जनीयदुःखं सुखवन्मन्यमानमिति । यथा ह्यारोग्यकाम औषधादिक्लेशं सुखसाधनत्वात् सुखवन्म- त्वा प्रवर्हते, यथा चार्थार्थी समुद्रतरणादिक्लेशम् , तथा तापत्रयनिवृत्तिं निरतिशयानन्दं च लिप्सुस्त- दुपायनान्तरीयकदुःखं सुखवदेव मन्येतेति भावः । तस्करादिष्वपि संभावितस्य इन्दतितिक्षामात्रस्य मोशहेतुत्वन्युदासायोक्तम्---अमृतत्वसाधनतयेत्यादि । एते' इत्यस्य तात्पर्यमवर्जनीयत्वं च दयितु- मुकं तदन्तर्गता इति । व्यथयन्ति अप्राप्तत्वधिया परितापेन चालयन्तीत्यर्थः, न तु पीडयन्तीति ; मुंतुङ्करस्पा इति मूदुस्पर्शस्याप्युपादानात् । यत्तच्छन्दरूपपरोक्षनिर्देशन, 'पुरुषर्षभ' इति विपरीत- काका च, फलितमाह-स एवेति । स्वादृशः अस्थामस्लेहाद्याकुलः । अनन्तर श्लोकार्थप्रसहाय, 1. निवर्तन्त '2. तामसयुदेष्वपि. ..
द्वितीयोऽध्यायः । १६ बकासकरवं. साधयति; न खाशो दुःखासहिष्णुरित्यर्थः । आत्मनां नित्यत्वादेतावदा कम्यमित्यर्थः॥ यत्वात्मनां नित्यत्वं देहानां स्वाभाविकं नाशित्वं च शोकानिमित्तमुक्तम्- 'गसासूनगतातूंच नानुसोचन्ति पण्डिताः' इति, तदुपपादयितुमारमते- नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥ . । . असतो देहस्य सद्भावो न विद्यते, सतश्च आत्मनो नासद्भावः ।' उभयोः देहा- मनोरुपलभ्यमानयोः यथोपलब्धि तत्त्वदर्शिभिः अन्तो दृष्टः; निर्णयान्तत्वानिरूपणस्य निर्णय इहान्तशब्देनोच्यते । देहस्याचिद्वस्तुनः असत्त्वमेव स्वरूपम् , आत्मनश्चेतनस्य सस्व- आत्मनाशप्रतीकारनैरपेक्ष्याय च, निगमयति- आत्मनां नित्यत्वादिति। एतावदिति-तितिक्षामात्रम्, न तु शोकादि । अमेति-आगमापायिनां तत्त्वज्ञानेन निवर्तिष्यमाणसंतानानाममृतत्वलक्षणपरमपुरुषा- थोपायानुष्ठाने, अवर्जनीयसंनिधीनां शस्त्रपातादिदुःखानामागतावित्यर्थः । कर्तव्यमिति-अकरणे वप- वर्गरूपफलाभावः, स्वधर्मपरित्यागेन प्रत्यवायः, धैर्याद्यभावनिमित्ताकी,दिप्रसङ्गश्च, स्यादिति भावः ॥ 'नासतः' इति श्लोकं व्यवहितप्रकृतस्थापनोपक्रमतयावतारयति-यस्विति । स्वाभाविक परिणामस्वभावस्यावश्यंभावि, न तु हेतुनिरपेक्षम्। शोकानिमित्तं शोकनिमित्तविरोधि ; शोकाभावनि- मित्तमित्यर्थः । इतः पूर्व स्वभावकथनमात्रत्वात् उपपादयितुमित्युक्तम् ; अस्यापि श्लोकस्योपपादनार्थप्रति- शामात्ररूपत्वात् आरभत इत्युक्तम् । सदसद्भावाभावादिशब्दानां प्रकरणोचितमर्थविशेषं विवृण्वन् ब्या- ख्याति-- असत इति । असतः, सतश्च, इति व्याख्येयं पदम् ; तस्य प्रकरणादिविशेषितार्थप्रतिपादनं देहस्य आत्मनः इति। 'अनयोः' इति निर्देशफलितमुक्तम् उपलभ्यमानयोरिति । तत्त्वदर्शनस्य तुशन्द- योतितामुपलम्भानतिवृत्तिमभिप्रेत्याह... यथोपलब्धि तस्वदर्शिभिरिति । एतेन तत् ब्रह्म तस्य भावः तत्त्वमिति शङ्करोक्तमपहसितम् । सच्छन्दनिर्दिष्टस्य नित्यस्य विनाशायोगात् अन्तशब्दस्य निर्ण- यार्थत्वम् , तत्र शम्दवृत्तिप्रकारम्, इह देहात्मविवेकप्रकरणे तत्त्वदर्शिभिरित्यादिसंनिधौ च तस्यैवी- चित्वं चाह-निर्णयान्तत्वादिति । ननु देहस्य सद्भावो न विद्यत इत्ययुक्तम् ; प्रत्यक्षादि- विरोधात् । आत्मनः असावो न विद्यत इति चायुक्तम् ; 'असदेवेदमन आसीत् ' इत्यादि- सकलनिवेघदशायां तस्याप्यसच्छन्दवाच्यत्वात् । अवस्थाविशेषापेक्षयापि सत्त्वमसस्वं च देहा- स्मनोईयोरपि समानम् । अतो माध्यान्तरवत् सत्कार्यवादादिविषयतया अयं श्लोको व्याख्येय इस्यत्राह- देहत्येति । अचिवस्तुनः, · चेतनस्य, इति पदाभ्यां सत्त्वासत्त्वयोः स्वभावत्वे श्रीमद्भगवद्गीतायां . मेव स्वरूपम् इति निणेयो दृष्ट इत्यर्थः । विनाशस्वभावो असत्त्वम् , अविनाशखभावश्च सत्त्वम् ; यथोकं भगवता पराशरेण-'तस्मान्न विज्ञानमृतेऽस्ति किचिकचिस्कदाचिहिज वस्तुजातम् । सद्भाव एषो भवतो मयोक्तो ज्ञानं यथा, सत्यमसत्यमन्यत्', 'अनाक्षी 'परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्तु नाशि न संदेहो नाशिद्रव्योपपादितम्', 'यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै । परिणामादिसंभूतं तद्वस्तु नृप सच किम्', इति । अत्रापि 'अन्तवन्ह इमे देहाः', 'अविनाशि तु तद्विद्धि', इति मुच्यते। तदेव सत्स्वासस्व- व्यपदेशहेतुरिति गम्यते । अत्र तु सत्कार्यवादस्यासंगतत्वान्न तत्परोऽयं लोकः। देहात्मख- भावाझानमोहितस्य तन्मोहशान्तये धुभयो शित्वानाशित्वरूपस्वभावविवेको वक्तव्यः । स एव 'गतासूनगतासून' इति च प्रस्तुतः। स एव च ‘अविनाशि तु तद्विति', 'अन्तवन्त इमे देहाः', इति अनन्तरमप्युपपाद्यते । अतो यथोक्त एवार्थः ॥ - - हेतुः, चिदचिद्विषयतया सदसच्छन्दयोः प्रयोगश्च, सूचितः । नन्वेवमपि देहात्मनोः सद. सत्त्वचोद्यं न परिहतमित्यत्राह-विनाशेति । हिशब्देन प्रयोगप्रसिद्धियोतिता । तामेव दर्शयति- यथोक्तमिति। दशश्लोक्यां वस्त्ववस्त्वस्तिनास्तिसत्यासत्यशब्दानां शारीरकभाष्ये पुराणोपक्रमोपसंहारा. दिना तत्प्रकरणोपक्रमोपसंहारादीनां मध्ये 'मही घटत्वम् ' इत्यादिना च सविकारत्वेनैवावस्तुतोपपाद- नात् श्रुतिस्मृत्यन्तरप्रत्यक्षाद्यनुरोधाच निर्विकारसविकारतया नित्यानित्यचेतनाचेतनविषयत्वं स्थापितम् । व्यवहाराहत्वानहत्वादिविषयौ सदसच्छन्दौ; तयोः परमार्थापरमार्थविषयसत्यासत्यशब्दाभ्यां कथमैका- यमिति शङ्कायां नाशानाशयोरेव परमार्थापरमार्थादिशब्दयोगहेतुत्वे महर्षिवचनमुपादत्ते---'अनाशी' इति । विनाशोपलक्षितपरिणामवृक्ष्यादिभिः पूर्वावस्थाप्रहाणेन संज्ञान्तरयोगादेगावस्तुशब्दवाच्यत्वम् , तदभावाञ्च वस्तुशब्दवाच्यत्वमित्यस्मिन्नर्थे स्पष्टोक्तिं दर्शयति-'यत्तु' इति । अत्रोत्तरश्लोकद्वयैकार्थ्या- चायमेवार्थ इत्याह-अत्राम्पीति । एतेन कचिचेतनविषयासच्छन्दोऽपि देवादिनामरूपप्रहाणाधव- स्थाविशेषापेक्षयेत्युक्तं भवति; स्वरूपतस्तु निर्विकारत्वात् सच्छन्दवाच्यत्वमेव । श्लोकयोयुक्रमे- णोपादानं 'नासतः' इति क्रमापेक्षया। ततः किमित्यत्राह--- तदेवेति । प्रतिज्ञातस्यार्थस्य हेतुर्थनन्तरं वाच्यः ; तहेतुत्वं चात्र स्वरसतो गम्यमानं परित्यज्यार्थान्तरपरत्वेन व्याख्यातुं न युक्तमिति भावः । कुदृष्टिकल्पितव्याख्यां दूषयति- अत्रेति। न ह्यत्र वैशेषिकादिनिरासः, एकविज्ञानेन सर्वविज्ञानप्रतिशोपपादनम् , सांख्यसिद्धान्तोपन्यासादिर्वा प्रक्रियते ; न च सत्कार्यवादेन देहात्मविवे. कोत्पादनं शोकशान्तिर्वा सिध्येत् ; सर्वस्य नित्यत्वाचेतनानामपि नित्यतेति वर्णनमसिद्धस्यात्यन्तासिद्धेन साधनमिति भावः । उक्तार्थपरत्वे महाप्रकरणसंगतिमाह- देहेति। यदशानान्मोहः, तस्यैव हि शापनं तनिवृत्तये स्यादिति भावः । अत्र तन्मोहशान्तय इति द्वितीयाध्यायार्थसंग्रहश्लोकः सूचितः । सत्कार्यवादे पूर्वोत्तरविरोधमभिप्रयन् , स्वोक्तस्यावान्तरप्रकरणसंगतिमप्याह स एवेति वाक्यायेन । .
द्वितीयोऽध्यायः । . , , भात्मनस्त्वविनाशित्वं कथमवगम्यत इत्यत्राह- अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥१७॥ तत् आत्मतत्त्वम् अविनाशीति विखि, येन आत्मतस्वेन चेतनेन तव्यतिरिक्तम् अनन्तरमपीति-न हि मात्रयाप्यन्यव्यवधानमस्तीति भावः । प्रस्तुतः, उपपाद्यते; इति शन्दाभ्याम- पौनरूस्त्यं दर्शितम् ॥ उपसंहरति- अत इति । यथोक्त एंव इत्यवधारणेनान्येषामपि म्याख्यातॄणामस- प्रतिभासा निवर्त्यन्ते । यतूक्तं यशस्वामिना- असच्छब्देन अशुभं रजस्तमस्तकार्यदुःखादिक गृपते सच्छम्देन तु सत्वतत्कार्यसुखादिकम् ; भावाभावशन्दाभ्यां चाभ्युदयानभ्युदयपर्याय- भूत्यभूती; *उभयोराप दृष्टोऽन्तः' इति च राशिद्वयस्य नश्वरत्वमुच्यते ; ततश्च पूर्वोक्तद्वन्दतितिक्षाहे- तुभूतदुःखात्मकत्वनश्वरत्वयोरेव प्रपञ्चनं कृतं भवतीति-तदयुक्तम् ; रजस्तमःप्रभृतीनामसदादिशन्दै- रुपादाने प्रकरणाबयोगात्। एतदभिप्रायेण च स एव प्रस्तुत इत्युक्तम्। ननु 'मात्रास्पर्शास्तु' इति श्लोके मात्राशन्देन सत्त्वादिगुणा उच्यन्ते । तथा च कपिलासुरीयके गुणाः, गुणमात्राः, गुणलक्षणम् , गुणावयवम् , सत्त्वं रजः तम इति त्रिगुणाः-इत्युच्यन्ते । सत्त्वादीनां गुणाश्च तेषां मात्रा अप- दिश्यन्ते तत्र, तत्त्वदर्शनता भयनाशस्वभावता प्रसन्नेन्द्रियता सुखस्वामबोधतेति सत्त्वमात्रा इत्यादौ । उपकरणेषु च मात्राशन्दः प्रयुज्यते 'लघुमात्रः परिमजेत्' इत्यादिषु । मात्राशन्देन शन्दादिविषय- ग्रहणे तु शीतोष्णशब्दपौनरुक्त्यं च स्यादिति-तदप्यसत् ; मात्राशब्दस्य सत्त्वादिषु मुख्यप्रयोगाभावात् अन्यत्रापि प्रसिख्यभावात् अत्राप्रसिद्धार्थस्वीकारहेत्वभावाच । शीतोष्णशब्दपौनरुक्त्यं तु सामान्यवि. शेषरूपत्वात् प्रदर्शनार्थत्वांच परिहतम् । अस्तु तर्हि प्रस्तुतयोः सुखदुःखयोरेव सदसच्छन्दाभ्यां ग्रह- णम् , मैवंम् ; तयोरेवाभ्युदयानभ्युदयरूपत्वविवक्षायां तहेतुतया व्यतिरेकनिर्देशायोगात् । सुखदुःखयो- दुःखसुखकारणत्वनिषेधम लोकवेदविरुद्धः । सुखादनैश्वर्यनिवृत्त्यादिकथनं च प्रस्तुतानुपयुक्तम् । एवं योजनान्तरेष्वपि दूषणम्यम् । अतो महाप्रकरणपूर्वापरादिसङ्गतेः यथोक एवार्थः ।। अथ प्राप्यविशेषणतया तदनुप्रवेशात् पुरुषार्थभूतस्य सहसैव शोकनिवृत्तिहेतोरात्मनित्य- त्वस्य 'नासतः' इति श्लोके चरमप्रतिज्ञातस्यापि बुद्धिस्थक्रमेण प्रथममुपपादनं क्रियत इत्यभिप्राये. णाह- आत्मनस्त्विति । तुराब्देन जननमरणादेः सर्वलोकसाक्षिकत्वात् , 'एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति' इति देहसमानयोगक्षेमत्वभवणाच, कथमात्मनो देहाविशेष इत्पमि- प्रेतम् ; एवमपि विशेषोऽस्तीति श्लोकस्थतुशब्दार्थः। तच्छम्दार्थम् , नपुंसकतात्पर्यम् , प्रतिशांशम् , तत्राप्याभवसाध्यधर्मयो/दं च, व्यनक्ति--- तत् आत्मतत्वमिति । न विनशीलमस्येति भवि- नाक्षि । हेत्वंशप्रतिपादकं द्वितीयपादं व्याकुर्वन् , सर्वशब्दस्य वाक्यान्वयौचित्यप्राप्तं संकोचम् , . - .
श्रीमागवडीखाया इदम् अचेतनतस्वं सर्व ततं व्याप्तम् । व्यापकता निरतिशयमूक्ष्मवादात्मनो विनाशानईस्य तपतिरिक्तोन कवित्पदार्थों विनाशं कर्तुमईति, तपाप्यतया तस्मात् स्यूमत्त्वात् । नाशक हि शखजलामिवाय्वादिकं नाश्यं व्याप्य शिथिलीकरोति ; मुद्रादयो हि वेगवत्संयोगेन वायुमुत्पाद्य सहारेण विनाशयन्ति । अत आत्मतत्वमक्निाशि ॥ . %3 तत्र हेतुमाह- देहानां तु विनाशित्वमेव स्वभाव इत्याह- इदंत्वनिर्देशस्वारस्यसूचितं बाह्यानां पराक्त्वम्, तद्विपर्ययेंणात्मनः फलितं चेतनत्यम् , तत एवाचेतने चेतनस्यात्मत्वेन व्याप्तिं च, गमयति-येनेति । चेतनसमुदायेन अचेतनसमुदायः तिलते- लदारुवहयादिवद्यथांशं व्याप्त इत्यर्थः यद्वा सर्वाचेतनानुप्रवेशयोग्यत्वमिह विवक्षितमित्युभयथापि नास्माणुत्वविरोधः । अत्रायं प्रयोग:- आत्मा शस्त्राद्यधीनविनाशो न भवति, तद्यापकत्वेन ततः सूक्ष्मत्वात् , यथाकाशः ; व्यतिरेकेण वा, यो यदधीनविनाशः, स ततः सूक्ष्मो न भवति, यथा वायु- विनाभ्यो दीप:- इति । इमं प्रयोग व्यञ्जयन् प्रयोगान्तरपरतया उत्तरार्धे व्याचष्टे...व्यापकत्वे. नेति । विनाशानहस्येति अव्ययशब्दार्थः । तस्य हेतुः निरतिशयसूक्ष्मत्वादिति । इदं च निरतिशय- सूक्ष्मत्वमचेतनापेक्षया । 'कश्चित् ' इत्यस्य ईश्वरोऽपीति परव्याख्या स्वदर्शनविरुद्धेत्यभिप्रायेणाह.. तयतिरिक्तः कश्चित्पदार्थ इति । धर्मिनिर्देशोऽयम् ; आत्मनो विनाशं कर्तुं नाहतीति साध्यार्थः । -तद्वयाप्यतया तस्मात् स्थूलत्वादिति । तस्मात् स्थूलत्वादित्येव हेतुः; तस्यासिद्धि- परिहारायोकं तद्याप्यतयेति । व्याप्तिपूर्व दृष्टान्तमाह-नाशकमिति । घटादिनाशकमुद्रादावनैकान्त्य- माशङ्कय परिहरति-मुद्रेति । अयमभिप्रायः-न तावन्मुद्रादेः संयोगमात्रं घटादिनाशकम् , मुद्ररो- परि स्थापितघटस्य नाशप्रसङ्गात् ; नापि वेगमात्रम् , असंयोगेऽपि ध्वंसप्रसङ्गात् ; नापि तदुभयमात्रम् , वेगवत्तणसंयोगेऽपि ध्वंसप्रसङ्गात् ; न च वेगवइव्यविशेषसंयोगो नाशकः, तस्यैव पृष्ठभागसंयोगे नाशा- दर्शनात् ; अतो वेगवत्काठिन्यादिविशिष्टद्रव्यविशेषभागविशेषसंयोगविशेष एव नाशक इत्यविवादम् ; सदा च वायुविशेषोत्पत्तिरपि प्रायशः प्रत्यक्षसिद्धत्वादविवादा; वायोश्च तत्तद्रव्यानुप्रवेशेन नाशकत्वं कठिनतरशन्दाभिघातसंशोम्यमाणपदार्थेष्वभ्युपगतम् ; एवं सति क्लसकारणभावस्यात्रापि विद्यमानस्य वायुविशेषस्य नाशहेतुत्वमवश्याभ्युपगमनीयम् ; स च वायुर्घटाद्यपेक्षया सूक्ष्मः ; यत्र तु वेगाभावेऽ- प्याक्रमणादिमात्रेण नाशकत्वम् , तत्र मुद्रावयबनुन्ना घटादिद्रव्यावयवविशेषा भागान्तरं स्वस्मात्स्थू- लतरमनुप्रविश्य भिन्दन्ति आक्रमणमूलान्तरवायुनिःसरणवशात्, वायुपूरितभस्त्रिकाक्रमणादिष्विव- इति । अत इति-उक्तहेतुद्वयेन शस्त्रादेरनाशकत्वात् आत्मभ्योऽपि सूक्ष्मतरस्य तन्नाशकस्यान्य- स्थादर्शनात् , ईश्वरस्यापि तनाशसंकल्पाभावादिति भावः । 'नासतः' इति प्रतिज्ञांशस्योपपादकतयोत्तर-लोकमवतारयति-- देहानामिति । अब- रणेन स्वभावशम्देन च असद्यपदेशकान्त्यं सूचितम् । 'अन्तवन्तः' इति साध्यस्य हेत्वाकाक्षा .. .. . .
द्वितीयोऽध्यायः । ७ . अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्मायुध्यस्व भारत ॥ १८ ॥ 'दिह उपचये' इत्युपचयरूपा इमे देहाः अन्तवन्तः विनाशस्वभावाः । । उपचयात्मका हि घटादयोऽन्तवन्तो दृष्टाः । नित्यस्य शरीरिणः कर्मफलभोगार्थतया भूत- संशतरूपा देहा:, 'पुण्यः पुण्येन' इत्यादिशास्त्रैरुताः, कर्मावसानविनाशिनः । आत्मा त्वविनाशी। कुतः ? अप्रमेयत्वात् । न ह्यात्मा प्रमेयतयोपलभ्यते, अपि तु प्रमातृतया । तथा च वक्ष्यते-'एतयो वेत्ति तं प्राहुः क्षेत्र इति तद्विदः' इति। न चानेकोपचयात्मक आत्मा उपलभ्यते, सर्वत्र देहे अहमिदं जानामीति देहस्य चान्यस्य च प्रमातृतया एकरूपेणो- शमयन्, धर्मिप्रतिपादकमेव देहशब्दं निर्वक्ति--दिह उपचये इति। उपचयरूपाः सावयवा इत्यर्थः । देहशब्दो रूळ्या धर्मिप्रतिपादकः, योगेन हेतुप्रतिपादनपर इति भावः । साध्यनिर्देशे प्रकृतिप्रत्यय- योरर्थमाह-विनाशस्वभावा इति। नात्र निरूपणापेक्षया देशाद्यपेक्षया वा निर्णयपरिमाणादिः अन्तो विवक्षितः ; मतुप् च नित्ययोगादिविषय इत्यर्थः । व्याप्तिदृष्टान्तावाह-उपचयेति। श्रुतितदर्थी- पत्तिभ्यामपि शरीरस्य विनाशस्वभावतामुपपादयतीत्याह-नित्यस्येति । 'नित्यस्य', 'शरीरिणः', इति पदयसूचिते श्रुतितदर्थापत्ती। कथं कैरुक्ता इत्याकाङ्क्षां शमयति-- कर्मेत्यादिना ।.'शरी- रिणः' इति इनिप्रत्ययेन षष्ठया च प्रतीतस्य संबन्धस्य कर्माख्यो हेतुः प्रकृतोपयोगाद्दर्शितः । ईश्वरा- दिशरीराणामकर्माधीनत्वात् तद्यवच्छेदार्थम् ‘इमे' इति निर्देशसूचितमुक्तं-भूतसंघातरूपा इति । अनेकभूतसंघातात्मकत्वमप्यनित्यत्वे हेतुः । कर्मावसानविनाशिन इति शरीरशन्दनिर्वचनफलितम् ; विशरणादि शरीरम् । कैबिच्छास्त्रैस्तावदेहानामुत्पत्तिविनाशौ द्वावप्यभिधीयेते; यैश्च कर्माधीनोत्प- त्तिमात्रमुक्तम् , तैरप्यर्थात्कर्मावसाने विनाशोऽप्युक्त एव स्यादिति भावः । एवं च 'इमे', 'देहाः ', 'शरीरिणः', इति पदत्रयेण सूचितं भूतसंघातरूपत्वसावयवत्वकर्मफलभोगार्थत्वरूपं शरीरानित्यत्वे हेतुत्रयमुक्तम् । 'अनाशिनः 'अप्रमेयस्य', इति पदद्वयम् आत्मनित्यत्वाख्यसाध्यत तुपरतया व्याख्याति-आत्मा विति। नित्यत्वस्य नाशानहत्वेन स्थिरीकरणात् 'नित्यस्य' 'अनाशिन' इत्यनयो- पुनकिः; स्थूलसूक्ष्मनाशविरहाभिप्रायाद्वा । असिद्धो हेतु: आत्मनोऽप्यस्मसिद्धान्ते प्रमाविषय- वादित्यत्राह- न पात्मेति । प्रमेयत्वपर्युदासः प्रमेयतैकस्वभावशरीरादिव्यावर्तनमुखेन प्रमातृत्वपर्य- वरितः, नमोऽत्र तदन्यवाचित्वात् । एवमेव हि क्षेत्रक्षेत्रशयोर्विवेको वक्ष्यत इत्याह-तथा चोति । एतेन ज्ञानाविषयत्वमत्र ब्याकुर्वनिरतः । प्रमेयत्वं चात्र भोग्यत्वपर्यवसितम् ; तव्यतिरेकश्च पूर्वोक्त- कर्मफलभोगार्थत्वरूपहेतुम्यतिरेकरूपो भोस्तृत्वपर्यवसितः ॥ तनमायं पूर्वोकहेत्वन्तररायव्यतिरेकस्यापि प्रदर्शनार्थ इति मत्वा तयोरपि व्यतिरेकमाह- न घेत्यादिना । सावयवत्वे योग्यानुपलब्धिमाह- सर्वत्रेति । सर्वशन्दोऽत्र देहांधकान्यपरः; तेन • . । .. .
८ श्रीमद्भगवद्गीतायां पलब्धेः । न च दहादारव प्रदशभेदे प्रमातुराकारभेद उपलभ्यते । अत एकस्मोन अनुपच- . अणोरप्यात्मनः 'पादे मे वेदना, शिरसि मे सुखम्' इत्यादिसुखदुःखनिमित्ततसदषयवावच्छिमव्य- वहारदशायामपि निरवयवत्वोपलब्धिरक्ता । यदा देवादिरूपेण विचित्रप्रकारेष्वनन्तेषु देहेषु कचिदपि देहे देहिनः सावयवत्वं नोपलन्धमित्यर्थः । अहमित्येकवचनम् एकस्मिन्देहेऽभिमन्तुरात्मन एकत्वं सूचयति । यदि आत्मा सावयवः स्यात् तदा वयमिति कदाचिदुपलभ्येत ; प्रत्येकं तदवयवानामपि चैतन्यस्यावश्याभ्युपगमनीयत्वात् । सावयवत्वे हि अवयवसंघातरूपः अवयविरूपो वा स्यात् ; उभ- यथाप्यवयवगतविशेषगुणमन्तरेण न तत्र विशेषगुणसिद्धिः । किण्वादिष्वपि हि प्रत्येकमसिदापि मदशक्तिः पाकवशाद्रसविशेषादिवत् प्रत्येक जायते । शक्तेश्वापर्यनुयोज्यत्वेऽपि विशेषगुणेष्वयं नियमो दुस्त्यजः । ज्ञानस्य द्रव्यत्वपक्षेऽप्येवमेव, निष्प्रभसमुदाये सप्रभत्वायोगात् । एवं च सति समाजवत् एकस्मिन् देहिनि मिथ: कलहासूयेानिग्रहानुग्रहादयोऽप्युपलभ्येरन् । समुदायावयवि. नोध अतिपीडायामवयवव्यतिरिक्तयोः अभावात् अवयवानामेव अनुभवितृत्वं स्यात् । तथा सति पाण्याहावच्छिन्नात्मावयवानुभूतं तदन्योऽवयवो न प्रतिसंदधीतेति दक्षिणहस्तेन मयैव स्पृष्टं वामहस्तेन पुमः स्पृशामीत्यादिप्रतिसंधानं न स्यात् । न चात्मावयवानाम् आशुतरसंचारात् तदुपपत्तिः, आत्मनः चूर्णपुखकल्पत्यप्रसंगेन संघातविशेषस्यापि असिद्धिप्रसङ्गात् । न च वस्त्रादिषु मृगमदवासने वान्य. वासनासंक्रमः, मात्रानुभूतस्य गर्भस्थेनापि स्मरणप्रसंगात् न च भेदाभेदात्सर्वोपपत्तिः, तस्यैव व्याघातादिदुःस्थत्वस्य शारीरकभाध्यादिषु प्रपञ्चितत्वात् । तदेवम् अहमित्येकत्वेन उपलम्भो निरवषवत्वमन्तरेण नोपपद्यते । एतेन अर्थात् देहेन्द्रियप्राणानामपि आत्मत्वं निरस्सं वेदितव्यम् । वथा हि-न हि पाण्याद्यारब्धोऽवयव्यस्ति, सत्कार्यवादस्थापनात् ; न च पाण्यादय एवात्मानः, प्रत्ये. कमहत्वाद्यभावात् अविवादनियमासंभवाध; न चात्र परस्परोपकार्योपकारकभावाभिमानः सुवचः; अत एव च न तत्समुदायः । एवम् इन्द्रियग्रामे प्राणाख्यसंघातेऽपि- इति । देहस पान्यस चेति- गृहक्षेत्रादितुल्यो ममेदमिति देहस्य इदंग्रहः ; स्थूलोऽहमित्यादिकं तु प्रबुद्धस्य अपृथति अप्रबुद्धस्य तु भान्त्येति' न कश्चिद्दोष इति भावः ॥ प्रमातृतयेति- विमर्शदशायां प्रमेयस्यापि आत्मनः प्रमातृत्वेनैव हि सर्वदा विषयग्रहण- वेलायां स्फुरणम् ; अशासिषमित्येवमादिरूपेण अन्यदापि प्रमातृत्वं परामृष्टम् । आत्मग्रहणेऽपि.मां जानामीति प्रमातृत्वमपि सुस्थितमेवेति भावः । एकरूपेणेति-सावयवत्वे, कस्यचिदवयवस्य कदा चित् प्रमातृत्वेन अन्येषां चाप्रमातृत्वेन स्फुरणं स्यात् । नहानेकेषां चेतनानामवयवानां प्रमाप्रसरयो- गपबनियमोऽस्तीति भावः । अथ पूर्वोक्तमेव मुखभेदेन साधयन् विजातीयसंघातात्मकत्वे योग्यानुपलब्धिं चाह- न चेति । पाञ्चभौतिकेषु देहादिषु तत्तद्भूतांशभूतत्वगसांसादितत्तद्भूतप्रयुक्ताकारभेद उपलभ्यते, नैवं प्रमातरि । तथा च श्रूयते- 'कृत्स्नः प्रशानधन एव' इत्यादि । यहा, आकारभेद 1. पप्रभवत्यायोगात. 2. देहे. ।
द्वितीयोऽध्यायः । ४९ . . . यात्मकत्वात् प्रमातृत्वात् व्यापकस्वाच आत्मा नित्यः । देखतु उपचयात्मकत्वात् शरी- इति पाणिपादसंनिवेशभेदो विवक्षितः ॥ तदेवमात्मनो नित्यत्वे, देहस्य विनाशित्वे च, प्रत्येकं हेतुचतुष्टयं श्लोकस्यसिद्धं सुखग्र- हणाय संकलय्य दर्शयति- अत इति; एकरूपत्वेनाभूतसंघासात्मकत्वादित्यर्थः । अनुपचयात्मक- त्वात् निरवयवत्वादित्यर्थः । नन्विदमखिलमपि हेतुजातमनुपपनम् ; तथाहि-- तत्रासंघातरूपत्वस्थ निरंवयवत्वस्य च रूपरसादिभिर्महदादिभिश्चानैकान्त्यम् । प्रमातृत्वं च ; यदि कमैफलभोक्तृत्वं विव- क्षितम् , तदानीमसाधारणानैकान्तिकत्वम् , सकलसपक्षविपक्षव्यावृत्तेः । तत्र चेश्वरादेरपि पक्षीकरणे भागासिद्धिश्च । यदि प्रमाश्रयत्वमालं विवक्षितम् , तदा सर्वप्रमातृपक्षीकरणे पूर्ववदसाधारण्यम् । जीवमात्रपनीकारे तु ईश्वरनित्यत्वस्यापि दृढाभ्युपगमाभावात् तस्मिन् दृष्टान्ते संदिग्धसाध्यवेकल्या. दिदोषः । व्यापकत्वं च ; यदि सर्वव्यापकत्वं तदा स्वरूपासिद्धिः, प्रत्येक क्षेत्रज्ञानामणूनां तद- भावात् ईश्वरापेक्षया व्याप्यत्वाच्च । यदि कतिपयव्यापकत्वं तदा शस्त्राकाशादिभिरेवानैकान्त्यम् । शरीरानित्यत्वसाधकं सावयवत्वमपि ईश्वरदिव्यविग्रहाभरणायुधादिविशेषैरनैकान्तिकम् । एवं कर्मफल- भोगार्थत्वं च यदि तद्धेतुत्वम् , तद। ईश्वरजीवस्वरूपादिभिः पूर्ववदनैकान्त्यम् । यदि तदर्थमुत्पन्नत्वम्, तदा व्यर्थविशेषणत्वम् , उत्पन्नत्वमालेण व्याप्तिसिद्धेः । संघातरूपत्वमपि सावयवत्ववदेवानैकान्तिकम्। व्याप्यत्वं च यदि सर्वापेक्षया, तदा त्वसिद्धिदोषः ; न हि शरीरादिकं पर्वतादिभिर्व्याप्यते। अप्रसिदत्वं च हेतोः, कुत्रचिदपि तस्याभावात् । यदि कतिपयापेक्षया, तदा ईश्वरव्याप्तैर्जीवदिव्यमालविग्रहादिभि- रनैकान्त्यम् । यदि जीवव्याप्यत्वमिति विशेष्येत, तदा नित्यसूरिविग्रहविशेषादिभिः प्रकृत्यादिभिव प्राग्वद्वयभिचारः। एतेन क्षेत्रशव्याप्यत्वमित्यपि निरस्तम् । यदि पुनरव्यापकत्वं विवक्षितम् , तदा अणि- माद्यैश्वर्यवद्योगिप्रभृतिशरीरेषु स्वरूपासिद्धिः, तच्छरीराणां शिलाद्युन्मजननिमजनादेरपि योग्यत्वात् इति । अत्रोच्यते--- असंघातत्वनिरवयवत्वयोस्तावदर्जुनबुद्धया घातुकतया प्रस्तुतशस्त्राग्न्याद्यधीनविनाशनि- वृत्ते: साध्यत्वात् न महदादिभिरनैकान्त्यम् । द्रव्यत्वेन विशेषणात् नाग्न्यादिनाश्यरूपादिभिरनैका- न्त्यम् । एवं प्रत्यक्षादिसिद्धनगशकनिषेधे महदादिवत्केवलमीश्वरसंकल्पादिना नाशः शङ्कयेत; तदपि श्रुत्यैव प्रतिषियेतेति भावः । प्रमातृत्वस्य भोक्तृत्वपर्यवसाने कर्मफलभोगार्थत्वरूपप्रमेयत्वनिषेधमुखेना. नुत्पत्तिपर्यवसितत्वादनुत्पन्नत्वस्य च नित्यत्वेन व्याप्तिसिद्धरात्मस्वरूपानुत्पत्तेश्च शास्त्रसिदत्वात् न कश्चि- दोषः । प्रमाश्रयत्वमात्रस्य हेतुत्वे त्वीश्वरो दृष्टान्तः । तत्र साध्यसंदेहः 'न त्वेवाहम्' इत्यस्य व्याख्या- नदशायां निराकृतः । व्यापकत्वस्य प्रयोगस्तु पूर्वममदयाख्यातप्रकारेण शस्त्रादिविषयतया पठितव्य इति न तत्रापि दोषः । शरीरानित्यत्वसाधनेषु च सावयवत्वभूतसंघातत्वयोः प्राकृतत्वे सतीति विशेष णान व्यभिचारः । एतदर्थ हि 'इमे देहाः' इत्युक्तम् । कर्मफलभोगार्थत्वमपि गदर्थमुत्पमत्वमेव । न च व्य’ विशेषणम् , मुक्तात्मज्ञानविकासस्य व्यवच्छेद्यत्वात् । नहि सोऽनुत्पनः, प्रागभावात् । निवृत्ते प्रतिबन्धे, करणनिरपेक्षस्वरूपाधीनोत्पत्तित्वमालेण हि स्वाभाविक उच्यते, न त्वनुत्पन्नत्वेन । 'दोषप्र- हाणान्न ज्ञानमात्मनः क्रियते तथा । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हिते- इत्यादिकं त्वब- B7 . . -- ५० श्रीमद्भगवरायां रिणः कर्मफलभोगार्थत्वात् अनेकरूपत्वात् व्याप्यत्वाप विनाशी । तस्मात् , देहस्य विना- , । - . बोधादिस्वरूपस्यानुत्पन्नतामाह, न तु तद्विकासस्य । अथवा अवस्थारूपत्वेन तस्योत्पन्नत्वं 'माभून्नाम, • पृथक् चिन्त्यताम् । तदवंस्थावस्थितव्यवच्छेदाय विशेषणं स्यात् । अस्तु वा विशेषणनैरपेक्ष्यम् , तथा- प्युत्पन्नत्वमात्रेणानित्यत्वं तावत्सिद्धम् । अज्ञातोत्पत्तिषु केषुचिच्छरीरेषु हेत्वसिद्धिशङ्कापरिहार: कर्ममूलल्वप्रदर्शनेन क्रियते । कर्मावसानविनाशित्वस्य वा साध्यत्वात्तदौचित्याय चेदं विशेषणं सार्थकम् । व्याप्यत्वं च शस्त्राद्यपेक्षयाँ विवक्षितम् । साध्यं च तदधीनविनाशत्वमिति न कश्चिद्दोषः । ननु यो यद्वयाप्यः स तदधीनविनाश इति न व्याप्तिः, ईश्वरव्याप्यैः प्रकृतिपुरुषका- लादिभिरनैकान्त्यादिति चेत्, न ; योग्यत्वस्य साध्यत्वात् । तत्रापि तत्सद्भावात् , ईश्वरनित्येच्छाप- रिग्रहादेव हि तनित्यत्वम्। अन्यथा यदीश्वरो जीवादिस्वरूपमपि संजिहीर्षत, कस्तस्य शासिता । तर्हि जीवाकाशादिव्यासस्तदधीननाशरहितैः शरीरादिभिर्व्यभिचार इति चेत् , न; तेषामपि तन्नाश्यत्व. योग्यत्वात् । तन्नाशकर्ता ईश्वरस्तु न तत्र जीवादीन्युपकरणीकरोतीति विशेषः । ततश्चैवं प्रयोग:- शरी रादि शस्त्राद्यधीन विनाशयोग्यं तद्याप्यत्वात् ; यत् यद्याप्यं तत् तदधीनविनाशयोग्यम् --- इति। यद्वा तिष्ठंतु सामान्यव्याप्तिः । शस्त्रादिनाश्यत्वमेव साध्यम्, शस्त्रादिव्याप्यत्वादित्येव च हेतुः ; यत् शस्त्रादिव्याप्यं तत् शस्त्रादिनाश्यम् ; यथा कदलीकाण्डादि । न चाकाशादि शस्त्रादिव्याप्यम् , सूक्ष्मत्वे सत्यनुप्रवेशस्य विवक्षितत्वात् । सूक्ष्मत्वस्य चाल, यत्र यत्प्रतिहन्यते तत्राप्रतिहतत्वं ततः सूक्ष्मत्वम् इति निष्कर्षात् । योगिप्रभृतिशरीराणां तु शस्त्रादिव्याप्यत्वमेव परिणामविशेषादेर्निवृत्तम् । अतस्तदधीननाशाभावः । शस्त्राद्यपेक्षया व्यापकत्वमेव तेषामिति तैर्न व्यभिचार: । ततोऽपि सूक्ष्म तरैरीश्वरसंकल्पस्वसंकल्पादिभिस्तु तन्नाशः। एतेनास्त्रशस्त्रादिप्रतिबन्धकोषधाद्यनुगृहीतशरीरवृत्तान्तोऽपि व्याख्यातः, औषधादिभिस्तत्र प्रवेशप्रतिबन्धात् । तस्मात्सिद्धमष्टावपि हेतवोऽष्टदिग्विजयिन इति । ननु किमर्थमिह लोकसिद्धं शरीरानित्यत्वं प्रसाध्यते; केषुचिच्छरीरेषु प्रत्यक्षत एव नाशो दृष्टः ; अविनष्टेषु भीष्मादिशरीरेष्वपि तत्तुल्यतया नाशित्वं निश्चितमेव ; अन्यथा शत्रून्प्रति शस्त्रादिकमपि न प्रहीयेत, स्वयमपि शत्रुशस्त्रादिकं न निवारयेत् ; अत: शरीरानित्यत्वस्य संप्रतिपन्नत्वात् , संदि. ग्धे च न्यायापेक्षणात् , निरर्थकमिह सावयवत्वाद्यनुमानचतुष्टयमिति । अत्रोच्यते-प्रथमं तावदात्मनि- त्यत्वानुमानानाम् , यत् शस्त्राद्यधीननाशं तत्सावयवं यथा शरीरम्, इति व्यतिरेकव्यातिप्रदर्शनमेकं प्रयोजनम् ; तत एव देहात्मनोविरुद्धधर्मप्रपञ्चनेन भेदस्थापनं द्वितीयम् ; शस्त्रादिनिवारणरसायन- सेवादिभिनित्यत्वमपि किं संभवेदिति संदेहापाकरणं तृतीयम् ; एवं देहानां नाशतःत्वोरवश्यंभावित्व. प्रतिपादनन स्वदेहवैराग्यजननं चतुर्थम् ; परदेहेषु च स्वस्यैकस्यैव नाशहेतुत्वभ्रमनिरसनेन वक्ष्यमाणप्रकारेण स्वट कर्तृत्वाभिमानक्षालनं पञ्चमम् ; नाशहेतौ सत्यवश्यं नश्यतीति प्रतिपादनात् फलाभिसंधिरहितकर्मानुष्ठानादिना अत्यन्तनाशस्यापि संभावनाद्योतनं षष्ठम् ; नश्वरस्वभावत्वाद- , 1. मा नाम प्रपंक्... तत्संभवात् . . काण्डादीति.
द्वितीयोऽध्यायः । शस्वभावत्वात् , आत्मनो नित्यत्वाच, उभावपि न शोकस्थानमिति शसपातादिपरुषस्प- निवर्जनीयान् स्वगतानन्यगतांश्च तान् धैर्येण सोढ़ा अमृतत्वप्राप्तयेऽमभिसंहितफलं युद्धाच्यं कर्मारभस्व ॥ य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । : उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥.१९ ॥ एवमुक्तस्वभावमात्मानं प्रति हन्सारं हूननहेतुं कमपि यो मन्यते; यश्चैनं केनापि ~ शोचनीयत्वं सप्तमम् ; शीघ्र मोक्षसाधने प्रवर्तितव्यमित्यष्टमम् ; एवं यथोचितमन्यदपि भाव्यमिति । तस्माद्युध्यस्व भारत' इत्यत्र तस्मादित्यस्य व्याख्यानम्--- देहस्येत्यादि, न शोकस्थानमित्यन्तम् । मात्रास्पास्तु ' इत्यादि श्लोकद्वयप्रतिपादितेन द्वन्द्वतितिक्षारूपपरिकरेण अमृतत्वरूपफलेन च पूरय- नाह --शखेति । अत्र परगतान्प्रति शोचतः स्वगताभिधानं मर्मोद्धाटनेन मानजननार्थम् । शास्त्रीय- त्वादेव हि स्वगतमपि दुःखं सह्यते। तथा यज्ञपशुशत्रुप्रभृतिगतमपि सोढव्यमिति प्रदर्शनार्थ च । युद्धस्या- नीप्सितराज्यादिक्षुद्रभोगान्तरप्रधानकत्वव्युदासाय प्रकरणारम्भोक्तमेव फलमुचितमिति-- अमृतत्वप्रा- प्रये इत्युक्तम् । धात्वर्थस्य पराभिमतं करणतयान्वयमपाकुर्वन् , युद्धयस्वेत्यत्र प्रकृतिप्रत्ययार्थी विवि- च्याह---- युद्धाख्यं कर्मारभस्वेति; अयमर्थः सेश्वरमीमांसायां प्रपञ्चितोऽस्माभिः ।। - अथ 'अविनाशितु इति श्लोकेनोक्तं 'नैनं छिन्दन्ति' इति प्रपञ्चयिष्यमाणं शस्त्रादीनामा. त्मनश्च हन्तृत्वहन्तव्यत्वायोग्यत्वं तद्विपर्ययवेदिनिन्दया द्रढयति- 'य एनम्' इति । सामानाधिकरण्य. भ्रमनिरासायोक्तम्--प्रति इति । हन्तारमित्यस्य तृन्नन्तत्वादेनमिति द्वितीया, 'न लोकाव्ययनिष्ठाखलर्थ- तृनाम्" इति कृयोगषष्ठीनिषेधात् । हननहेतुमिति; प्रत्ययस्यात्र हेतुमात्रे विवक्षेति भावः । 'न कश्चित्कर्तुमर्हति ' इति पूर्वोक्तवत् पदार्थविवक्षया पुल्लिङ्गत्वोपपत्तिरिति ज्ञापनायोक्तम्- कमपीति; छेदनादिहेतुषु कंचिदपीत्यर्थः । ननुहन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजा- नीतो नायं हन्ति न हन्यते '-इत्यस्य कठवल्लीवाक्यस्योपबृंहणरूपोऽयं श्लोकः । तस्य च वाक्यस्य आत्मनो हन्तृत्वहन्तव्यत्वनिषेधार्थत्वम् , 'कर्ता शस्त्रार्थवत्त्वात् । इत्यधिकरणभाष्ये, पूर्वपक्षिणोक्तम् । सिद्धान्ते च, " यदुक्तं 'हन्ता चेन्मन्यते' इत्यादिना हननक्रियायामकर्तृत्वमात्मनः श्रूयते” इत्येवमनूद्य, " तदात्मनो नित्यत्वेन हन्तव्यत्वाभावादुच्यते'' इति परिहृतम् । तत्कथमत्र एनं हन्तारमिन्यादिना स्वरससिद्धसामानाधिकरण्यादिभङ्गेन हननहेतुं कमपीत्यध्याहृत्य व्याख्यायते ? उच्यते । न तावदत्र शारीरकभाष्यविरोधः, ऐकार्थ्यात् । अत्र हि यस्य कस्यापि हेतोरात्महननहेतुत्वं नास्तीत्युक्तम् । तथा च सति आत्मनोऽप्यात्महननहेतुत्वं नास्तीत्युक्तं भवति । एवं चात्र सामान्योक्तस्य विशेषनिष्ठता. मभ्युपेत्योक्तं शारीरके । न च तत्र सामानाधिकरण्याभ्युपगमः, आत्मनो हन्तामिति वैयधिकरण्येऽपि . - . हेतुना हतं मन्यते ; ताबुभो न विजानीतः । उक्तहेतुमिरत्व नित्यत्वावार्य हननहेतुर्न भवति । अत एव चायमात्मा न हन्यते । हन्तिधातुरप्यात्मकर्मकः शरीरवियोगकरणवाची । 'न हिंस्यात्सर्वा भूतानि', 'ब्राह्मणो न हन्तव्यः', इत्यादीन्यपि शाखाण्यविहितशरीरवि- योगकरणविषयाणि || उक्तैरेव हेतुभिनित्यत्वेनापरिणामित्वादालनो जननमरणादयः सर्व एवाचेतनदे- हधर्मा न सन्तीत्युच्यते- फलितोक्तेः । तत्र ह्यपेक्षितपदान्तरस्य योग्यविभक्त्यन्ततयाध्याहारः । अत्र तु सामानाधिकरण्यादपि क्रियाकर्मणोराकाङ्क्षादिमतो: परस्परान्वय एव स्वारसिकः । सामान्यविषयत्वे च प्रकरणौचित्यम् । आत्मनो हन्तृत्वनिषेधरूपविशेषोपसंहारस्तु 'वेदाविनाशिनम् ' इति श्लोके भविष्यति । तस्मात् 'अयम्' इति शब्दस्य भिनार्थत्वादिकमपि न दोषायेति सिद्धम् । प्रतिज्ञान्तरत्वभ्रमव्युदासायाह- उक्तै- रिति । अस्य नित्यत्वादिति; तत्कार्यशक्तमपि न हि तदयोग्ये प्रवर्तत इति भावः । 'एनम्' इति पूर्ववाक्यादनुषक्तम् । अत एव चेति; अयोग्यतया हेत्वभावे तत्क्रियाविषयत्वरूपफलाभाच इति भावः । अयं हननहेतुरयमात्मेत्युभयत्र अयंशब्दप्रयोगात् , तन्त्रेणोच्चरितोऽयंशब्दो हन्ति हन्यत इत्यनयो- विवक्षाभेदात्कर्तृकर्मसमर्पक इति भावः । कथं तर्हि 'मनुष्यं हन्ति' इत्यादिप्रयोगः ? न ह्यसौ शरीरमात्रहननविषयः, मृतशरीरघातकेषु पितृहामातृहेत्यादिप्रयोगोपक्रोशाद्यभावात् । मनुष्यादिशब्दा- श्रात्मपर्यवसिता इति नः सिद्धान्तः । 'मां जिघांसति' इत्यादिप्रयोगेषु व्यक्तमेव हन्तेरात्मकर्मकत्वम् । अतो हिंसायोग्यश्चेतन एव हन्तिधातोः कर्मभूतः । तथा सति 'नायं हन्ति न हन्यते' इत्यु. क्तमुभयमपि नोपपद्यत इत्याशङ्कयाह-हन्तिधातुरिति । आत्मकर्मक इत्यनेन शङ्कासूचनम् । सत्य- मात्मकर्मक एव स्वतो हन्तिधातुः, न तु तत्स्वरूपप्रच्युतिप्रतिपादकः ; किं तु मरणपरः । तथैव हि लोकवेदयोः प्रयोगः । मरणं च शरीरादिविश्लेषणात्मकम् । 'मृङ् प्राणत्यागे' इति चानु- शिष्यत इति भावः । एवं लोकप्रयोगो नियूंढः । 'न हिंस्यात्सर्वा भूतानि' इति शास्त्रप्रयोगस्य कोऽर्थः ? स चास्तु यः कश्चित् । स तावत्सामान्यतो विशेषतश्च निषिद्धत्वादकर्तव्य इत्याशङ्कयाह- न हिंस्यादिति । पराभिमतप्रक्रिययोत्सर्गापवादन्यायाद्वा स्वमतेन विहितशरीरवियोगकरणस्य पशुश. त्रुप्रभृतीनामपि हिततमत्वेन हिंसात्वस्यैवाभावाद्वेति भावः ॥ अथ--'विपश्चित्' इत्यधीतस्य, अत्र 'कदाचित् इत्येकपदमात्रविशेषितस्य, 'न जायते इति करवल्लीश्लोकस्य पौनरुक्त्यप्रत्यक्षविरोधादिदोषमाशङ्कयाह- उक्तैरेवेति । एतेन प्रतिक्षामात्र- त्वशका परास्ता । नित्यत्वेनापरिणामित्वादिति अविनाशित्वेन विकारमात्रस्यापि निरस्तत्वा- दिलीः । तथा हि- विनाशो नाम पूर्वावस्थाप्रहाणरूपनामान्तरभजनाविस्थान्तरापत्तिः ;. यथा घटाविद्रव्यस्थ कपालायवस्था। तदवस्थोन्मुख्यं च तस्या अपक्षयः । सैव कपालाद्यवस्थस्य तस्यैव द्रव्य. 1. दमुकृष्योत्तम् . 2. न तु तत्र खरूप... 3. विश्लेषणमात्मनः, . . , 3.
द्वितीयोऽध्यायः । . न जायते म्रियते वा कदाचि- नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥ तत्र न जायते म्रियत इति वर्तमानतया सर्वेषु देहेषु सर्वैरनुभूयमाने जननम- रणे कदाचिदप्यात्मानं न स्पृशतः । 'नायं भूत्वा भविता वा न भूयः'- अयं कल्पादौ भूत्वा भूयः कल्पान्ते च न न भविता ; केषुचित्प्रजापतिप्रभृतिषु देहेषु आगमेनोपलभ्यमानं स्योत्पत्तिः । एवं परिणामवृद्धयादिकमुदाहरणीयम् । वश्यति चेममर्थम्-'जातस्य हि ध्रुवो मृत्युः इत्यत्र । अतो विनाशित्वनिराकरणेन जननादिकमप्यर्थतो निरस्तम् । सर्व एव इत्यपौनरुक्त्यार्थभु- क्तम् । एवकारोऽत्र अपिशब्दसमानार्थः ; न केवलं हन्तव्यत्वमात्रमेव नास्ति, अपि तु जन्यत्वादि कमपीत्यपुनरुक्तिरिति भावः । देहधर्मा इति-'हन्यमाने शरीरे - इति सूचितजननमरणादिव्यवहा- रविषय उक्तः । तत्र हेतुः अचेतनेति । जननादयो देहधर्मा आत्मनो न सन्तीत्युच्यत इति, आत्मनि देहधर्मान् प्रत्यक्षादिना अभिमन्यमानाय अर्जुनाय, 'न जायते' इत्युपनिषन्मन्त्रेणैव यथावस्थिताकारो विविच्याभिधीयते; न तु देहसंयोगवियोगलक्षणजनिमरणप्रतिक्षेपः क्रियत इत्यर्थः । 'वा' शब्दश्चार्थः । श्लोकस्थपदानां पौनरुक्त्यपरिहाराय वर्तमानादिनिर्देशसिद्धां व्यवस्था व्यञ्जयन्नाह -- तस्लेति । ननु 'कदाचित् ' इत्यनेन वर्तमानकालविवक्षायां वैयर्थ्यम् , लकारेणैव गतार्थत्वात् । भूतभविष्यतोः संग्रह वर्तमाननिर्देशो न संगच्छत इत्याशङ्कयोक्तम् -- वर्तमानतयेत्यादि । तत्तत्कालीनैः पुरुषैस्तेषु तेषु दहेषु जायते म्रियत इति वर्तमानतयैव हि जननमरणयोरनुभवः । अतस्तदपेक्षया वर्तमाननिर्देशोप- पत्तिः । तेन कल्पाद्यन्तव्यतिरिक्तः समस्तः कालः कदाचिदिति संगृहीत इति भावः । 'भूत्वा' इति पूर्वकालनिर्देशाभिप्रेतमाह-कल्पादाविति । तत्र भूयःशब्दः कल्पान्तपरः । भूत्वा भविता इत्यनयोः क्रिययोः प्रत्येकं नजन्वयभ्रमव्युदासायोक्तम्-न न भवितेति । भूत्वा न भवितेति विशिष्टं नअन्त. रेण प्रतिषिध्यते । ननु नायं भूत्वेत्यादिकं किमर्थमुच्यते, न जायत इत्यादिनैव संग्रहीतुं शक्यत्वादित्या. शङ्कयाह-केषुचिदिति । अयं भावः कालविशेषे देहविशेषेषु सृष्टिप्रलयविशेष: श्रूयते; स च न देहंसम्बन्धतद्वियोगमात्रम् ; 'तोयेन जीवाव्यससर्ज भूम्याम्' इति कण्ठोक्तेः । प्राक् सृष्टरेकत्वावधारणात् एकविशानेन सर्वविज्ञानप्रतिज्ञोपपत्तेः, एकस्यैव बहुभवनसंकल्पादेश्चेति जीवस्वरूपोत्पत्तिनाशावेवाभ्युपगन्तव्याविति जीवानामाप्रलयावस्थायित्ववादशङ्कातिरासाय - 'नायं भू- त्वा'--इत्याधुक्तम् । तत्र चैत्रमुत्तरम् ---जीवानां विसृष्टि म सदेहीकरणेन विक्षेपः ; प्राक्सष्टेरेकत्वा- वधारण नामरूपविभागाभावात् ; एकविज्ञानेन सर्वविज्ञानं च सूक्ष्मचिदचिदस्तुशरीरकस्य ब्रह्मणः स्थूल- चिदचिवस्तुशरीरकतया परिणामात् ; अत एव बहुभवनसंकल्पाद्युपपत्तिश्च ; अतः कल्पाद्यन्तयोरपि . ..
५४४ श्रीमद्भगवद्गीतायां - - , . . कल्पादौ जननं कल्पान्ते च,मरणम् एनमात्मानं न स्पृशतीत्यर्थः । अतः सर्वदेहगत आत्मा अजः; अत एव नित्यः शाश्वतः; प्रकृतिवदविशदसततपरिणामैरपि नान्बीयते; पुराण: पुरापि नवः, सर्वदा अपूर्ववदनुभाव्यत इत्यर्थः । अत: शरीरे हन्यमाने न हन्यतेऽयमात्मा ॥ वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥ : एवमविनाशित्वेन अजत्वेन ब्ययानहत्वेन च नित्यमेनमामानं यः पुरुषो वेद, स पुरुषो देवतिर्यअनुष्यस्थावरशरीरावस्थितेष्वात्मसु कमप्यालानं कथं घातयति । कं वा कथं हन्ति कथं नाशयति, कथं वा तत्प्रयोजको भविष्यतीत्यर्थः । एतानामनो घातयामि, हन्मीत्यनुशोचनमात्मस्वरूपयाथात्म्याज्ञानमूलमेवेत्यभिप्रायः ॥ ज्ञानसंकोचविकासकरदेहविश्लेषसंश्लेपमात्रमेव, न पुनः स्वरूपोत्पत्तिः---- इति । 'अजो नित्यः' इत्य- नयोः पूर्वोक्तार्थस्य संकलय्य निगमनरूपतया, तत्तत्कालेषु जन्मादिनिषेधेन, सर्वदेहगतात्माजत्वादिवि- वक्षया वा', अपौनरुक्त्यमित्यभिप्रायेणाह ---अतः सर्वदेहगत इति, अत एव नित्य इति । उत्पत्ति- रहितत्वान्नाशरहित इत्यर्थः । सृष्टयवस्थागतस्थूलपरिणामानामात्मनि निरस्तत्वात् , प्रलयाद्यवस्थागत- सूक्ष्मपरिणामनिरासपरः शाश्वतशब्द इत्यभिप्रायेणाह - प्रकृतिवदिति । पुराणशब्दमपि 'अक्षरसा- म्यान्निब्रूयात् ' इत्युक्तन्यायेन निर्वक्ति पुरापि नव इति । किमिदं पुरापि नवत्वम् , अनुत्पन्नस्य कदाचिदपि नवत्वायोगात् ? उत्पन्नत्वे हि इदानीमपि नव इति वा, परस्तादपि नव इति वा वक्त- व्यम् । पुरा नवत्वस्याविस्मयनीयत्वादित्याशङ्कयाह - सर्वदेति। पुराशब्दस्य कालत्रयोपलक्षणतया वा, व्यावृत्त्यन्तर्गताभिप्रायकापिशब्दसमुच्चितकालान्तरतात्पर्येण वा, पुरातनोऽपि नव इति विरोधाभि- प्रायेण वा, निर्वाहः । नवृशब्दोऽप्यत्र नवत्वसहचरिताश्चर्यत्वपर: ; वक्ष्यति च 'आश्चर्यवत्' इत्या- दीति भावः । यद्वा सावयवानामवयवाप्यायनादिना नवीकरणं स्यात् ; अयं तु निरवयवत्वेन अनवीका- यतया पुरापि नव इति। उपपादितमर्थमर्जुनस्य शङ्कयमानविषये निगमयतीत्यभिप्रायेणाह-अत इति। 'य एनम् ' इत्युक्तविपर्ययपरे, 'वेद' इत्यादिश्लोके, 'नित्यम् इति परमसाध्यानुवादः 'अविनाशिनम्' इत्यादिकं तु तद्धेतुरित्यभिप्रायेणाह- एवमिति । व्ययशब्देनात्र जन्मनाशव्यति- रिक्तविकारा विवक्षिताः; अपक्षय एव वा, छेदनादियोग्यावयवविश्लेषादिर्वा। 'कम्' इति निर्धारण- स्य अनिर्धारितानेकव्यक्तिसापेक्षत्वादाह--- देवमनुष्येत्यादि । घातयतिहन्त्योः पौनरुक्त्यमाशङ्कय बुद्धिस्थक्रमेणार्थमाह- कथं नाशयतीत्यादि । वेदितुर्विशेषेण हन्तृत्वादिनिषेधो न युज्यते, आत्मनो नित्यत्वे तदवेदितुरपि तदननायोगात् ; इत्याशङ्कापरिहाराय फलितार्थ वदन् प्रकृतेन. संगमयति- , . . , .. . 1. विवक्षया च. .
द्वितीयोऽध्यायः । यद्यपि नित्यानामात्मनां शरीरविश्लेषमानं क्रियते, तथापि रमणीयभोगसाधनेषु शरीरेषु नश्यत्सु तद्वियोगरूपं शोकनिमित्तमस्त्येवेत्यत्राह- वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा-. न्यन्यानि संयाति नवानि देही ॥ २२ ॥ धर्मयुद्धे शरीरं त्यजतां त्यक्तशरीरादधिकतरकल्याणशरीरसंग्रहणं शाबादवगम्यत इति, जीर्णानि वासांसि विहाय नवानि कल्याणानि वासांसि गृहतामिव, हर्षनिमित्तमेवा- प्रोपलभ्यते पुनरपि 'अविनाशि तु तद्विद्धि येन सर्वमिदं ततम' इति पूर्वोक्तमविनाशित्वं सुखग्रहणाय व्य जयन् द्रढयति- नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥ एतानिति । नात्र श्लोके हन्तृत्वादिमात्रं निषिध्यते, किं तु तत्प्रयुक्तं शोचनम् । तदुत्पादकप्रकारप्रति- पेधायैव ह्यत्र कथंशब्द इति भावः ॥ शङ्कापूर्वकं 'वासांसि' इति श्लोकमवतारयति- यद्यपीति । ननु सार्वभौमादिशरीरप रित्यागे तत्तत्कर्मानुरूपनारकितिर्यस्थावरादिशरीरपरिग्रहसम्भावनया प्रलयवदपरिगृहीतशरीरतया. वस्थितिसंभावनया च, अस्:येव शोकनिमित्तम् । न च नूतनत्वमात्रं सुखाय ; चिरन्तननरपतिभवनप- रित्यागेनापि नूतनकारागारप्रवेशादेः, जीर्णाशुकप्रहाणेन नूतनगोणीग्रहणादेश्व, दुःखरूपत्वात् । न च वयमिह मानुषादिशरीरविलयसमनन्तरमभिनववसनपरिधानवदनिमिषदेहादिसंग्रहम् उपलभामह इत्य- त्राह धर्मयुद्ध इति । अधिकतरेति कल्याणविशेषणम् । नवशब्दाभिप्रेतोक्तिः कल्याणानीति । हर्षनिमित्तमेवेति-पुरा शोकाविषयमात्रे शोकः कृतः, : कृतः, इदानीं तु तदिपरीतहर्षविषये क्रियत । इति भावः ॥ पूर्वोक्तेन पुनरुक्ति दाळसुखग्रहणरूपप्रयोजनभेदेन परिहरन् , 'नैनम्' इति श्लोकद्वयमवतारयति-- पुनरपीति । नैनमित्यादौ सार्ध श्लोके वैशद्याय पृथगुक्तं करणासामर्थ्य विषयायोग्यत्वं च परस्परप्रतिः ।
श्रीमद्भगवद्भरतीयां . . . . .. अच्छेद्योऽयमदायोऽयमक्लेयोऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥ शस्त्राग्न्यम्बुवायवः छेदनदहनक्लेदनशोषणान्यात्मानं प्रति कर्तुं न शक्नुवन्ति, सर्वगतत्वादात्मनः । सर्वतत्त्वव्यापनस्वभावतया सर्वेभ्यस्तस्वेभ्यः सूक्ष्मत्वात् , अस्य तैया- त्यनहत्वात् , व्याप्यकर्तव्यत्वाच्छेदनदहनल्लेदनशोषणानाम् अत आत्मा नित्यः । स्थाणुः अचलोऽयं सनातनः स्थिरस्वभावोऽप्रकम्प्यः पुरातनश्च ।। अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वेनं नानुशोचितुमर्हसि ॥ २५ ॥ छेदनादियोग्यानि वस्तूनि यैः प्रमाणैर्व्यज्यन्ते, तैरयमात्मा न व्यज्यत इत्ययम- व्यक्तः; अत: छेद्यादिविजातीयः अचिन्त्यश्च । सर्ववस्तुविजातीयत्वेन तत्तत्स्वभावयुक्ततया योगितया अन्यतरत्र इतरदन्तर्भवतीति भाष्ये पृथगनुपात्तम् । 'अच्छेद्यः' इत्यादौ प्रत्ययोऽहर्थिः तेन 'नैनं छिन्दन्ति' इत्यादिष्वपि तदर्हत्वं शस्त्रादेः प्रतिषिध्यत इति दर्शयति न शक्नुव- न्तीति । सर्वगतपदं पूर्वोक्तहेत्वनुवादतया व्याचष्टे---- सर्वगतत्वादात्मन इति । अणोरात्मनः कथं सर्वगतत्वमित्याशङ्कयाह-सर्वतत्त्वेति । नात्र बहुश्रुत्यादिविरुद्धं जीवविभुत्वं सर्वगतशब्देनोच्यते; किं त्वनुप्रवेशविशेषयोग्यतेति स्वभावशब्दं प्रयुञानस्य भावः । व्यापित्वस्य पूर्वोक्तं हेतुत्वप्रकारं प्रपञ्च- यति--- सर्वेभ्य इति । अत आत्मा नित्य इति ; सूक्ष्मत्वेन च्छेदनाद्ययोग्यत्वादात्मा नाशरहित इत्यर्थः । स्थिरेत्यादि ; 'स्थाणुरचलः' इति पदद्वयं नित्यत्वप्रपञ्चनरूपम् ; नाशायोग्यत्वनाश- काविषयत्वपरं वा, स्वाभाविकोपाधिकाविशदपरिणामराहित्यपरं वेति भावः । पुरातन इति; अत्र नित्यशब्देनानन्तत्वस्योक्तत्वात् सनातनशब्दोऽनादित्वपरतया संकोचनीय इति भावः ॥ पूर्वोक्तानुमानानामुपलम्भयुक्तिविरोधपरिहारमुखेन सर्वदूषणपरिहारपरं प्रकृतोपसंहारपरं च 'अव्यक्तः' इति श्लोक व्याख्याति--- छेदनेति । शरीरादीनि यैः प्रमाणैः छेदनादियोग्यतयाँ प्रत्याय्यन्ते, तैस्तथासौ न प्रत्याय्यते । 'अहं जानामि' इत्यादिरूपेणैव ह्यात्मन उपलम्भः ; शास्त्र तस्तु नित्यत्वादिविशिष्टरूपेणेति न पूर्वोक्तानुमानानां धर्मिग्राहकविरोध इति भावः । निरूपितभ मोक्षधर्मे व्यक्ताव्यक्तशब्दार्थः 'इन्द्रियायते यद्यत्तत्तयक्तमिति स्थितिः । अव्यक्तमिति विशेयं लिमप्राधमतीन्द्रियम् । इति । ननु कुमूलनिहितबीजस्याङ्कुरायोग्यत्वे साध्ये न नावद्य- क्त्यपेक्षया धर्मिग्राहकविरोधः । तथाप्यन्वयव्यतिरेकविषयभूतबीजत्वजात्याक्रान्ततया • सामान्यतो विरोध एव भवति । तदत्रापि दृष्टसजातीयतया विरोधः स्यादित्याशङ्कयाह--- अतश्छे. .
द्वितीयोऽध्यायः । .५७ . चिन्तयितुमपि नाहः। अतश्च अविकार्यः विकारानहः । तस्मादुक्तलक्षणमेनमात्मानं वि- दित्वा तत्कृते नानुशोचितुमर्हसि ॥ अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २६ ॥ . अथ नित्यजातं नित्यमृतं देहमेव एनमात्मानं मनुषे, न देहातिरिक्तमुक्तलक्षणम् । तथाप्येवमतिमात्रं न शोचितुमर्हसि, परिणामस्वभावस्य देहस्योत्पत्तिविनाशयोरवर्जनीय- त्वात् ॥ द्यादिविजातीय इति; साजात्यग्राहकाभावाद्वैजात्यग्रहाचेति भावः । सहेतुकं सप्रकारं च अचिन्त्य- शब्दार्थमाह- सर्वेति । एतेन सौगताद्यभिमतानामात्मानित्यत्वसाधनानां सत्वादीनां तदनुग्राहक- तर्काणां चोपलम्भागमादिविरोधान्मूलशैथिल्यमुक्तं भवति । अतश्चेति- पूर्वोक्तप्रमाणानां बाधकामा- वादपीत्यर्थः । यद्वा अनुमानान्तरमिदमुच्यते । तथाहि- आत्मा विकारानहः, विकारित्वग्राहकप्र- माणशून्यत्वात् ; यथा ईश्वरस्वरूपमित्यन्वयदृष्टान्त:, यथा घटादीनीति व्यतिरेकः । यद्वा सामान्येन व्याप्तिः---- यत् यादृशाकारग्राहकप्रमाणशून्यम् , तत् तादृशाकारं न भवति, यथा नीलं न पीताका- रमिति । 'अविकारः' इत्येतावति निर्दिष्टे कादाचित्कविकाराभावमात्रेण सिद्धसाधनताशङ्कां स्यादिति तत्परिहारपरं प्रत्ययाथै विवृणोति-- विकारानह इति । निषेधापेक्षया वेदनस्य पूर्वकालत्सत् क्त्वा- निर्देशः, न तु शोकापेक्षया । तेन आत्मवेदनस्य शोकाभावहेतुत्वमुक्तं भवति । अर्हसि-आत्मवेदि- नस्ते शोकयोग्यतैव न स्यादिति भावः ॥ . एवं देहातिरिक्तात्माभ्युपगमे शोकनिमित्ताभाव उक्तः । अथ नास्तिकदृष्टया देहात्मवादेऽपि शोकनिमित्तं नास्तीत्युच्यते--- 'अथ च' इत्यादिना श्लोकत्रयेण । . अथेति पक्षान्तरारम्भार्थः, प्रश्नाथों वा, अभ्युपगमार्थो वा । वाशब्दो विशेषणद्वयसमुच्चयार्थः । नित्यजातं नित्यमृतं नियतो- त्पत्तिनाशमित्यर्थः । उत्तरश्लोके चेममर्थ प्रपञ्चयिष्यति । न हि नित्यस्य जातत्वमृतत्वसंभवः; न च जन्ममरणक्रियास्वरूपं नित्यत्वेन विशेषयितुं शक्यम् ; व्यस्तस्य नित्यशब्दस्यात्मविशेषणत्वभ्रमव्युदासाय नित्यजातमितिवत् नित्यमृतमिति समस्योक्तम् । देहमिति विशेषणादिसामर्थ्यफलितमुक्तम् । एवेति चशब्दार्थः । अवधारणफलितमाह- न देहेति । पूर्वमात्मनो नाशाभावाच्छोकप्रसङ्ग एव नास्तीत्यु. क्तम् ; इदानीं देहतयाभिमतस्यात्मनो नाशे सत्यपि दुष्परिहरत्वान्महाबाहुस्त्वं नातीव शोचितुमर्हसी- त्यभिप्रायेण एवंशब्दः । यद्वा पूर्व देहातिरिक्तात्माभ्युपगमात् परलोकादिभयेनातिमात्रशोकोऽपि युज्येत ; इदानीं तु संसारमोचकादिवन्महाबाहोस्तवातिमात्रप्रीतिस्थाने कथमतिमात्रशोक इति भावः । 1. बैजात्यग्राहकाच्चेति... B.
१८. श्रीमद्भगवद्गीता जातस्य हि ध्रुवो मृत्युभ्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥ उत्पन्नस्य विनाशो ध्रुव: अवर्जनीय उपलभ्यते ; तथा विनष्टस्यापि जन्म अवर्ज- गोयम् । कथमिदमुपपद्यते- नष्टस्योत्पत्तिरिति ? सत एवोत्पत्त्युपलब्धेरसतश्चानुपलब्धेः । त्पत्तिविनाशादयः ..सतो द्रव्यस्यावस्थाविशेषाः । तन्तुप्रभृतीनि हि द्रव्याणि सन्त्येवं चनाविशेषसंयुक्तानि पटादीन्युच्यन्ते । असत्कार्यवादिनाप्येतावदेवोपलभ्यते । नंहि तन्तु- स्थानविशेषातिरेकेण द्रव्यान्तरं प्रतीयते । कारकव्यापारनामान्तरभजनव्यवहारविशेषाणा- वं महाबाहो इति शूरस्य ते स्वपरमरणोद्वेगो न युक्त इत्याकूतम् । प्रतिज्ञाया हेतुसाकाङ्क्षत्वादुत्तर- लोकस्थं वा विशेषणद्वयसूचितं वा हेतुं निष्कृष्याह- परिणामेति ॥ ध्रुवमृत्युमृतादिशब्दानामर्थान्तरत्वव्युदासाय प्रकृतोपपादकं 'जातस्य' इत्यादिकं व्या- व्याति उत्पन्नस्येत्यादि । उपलभ्यते इति हिशब्दसूचितप्रमाणप्रसिद्धिरुच्यते । हेतुपरत्वेऽपि हि- ब्दस्य अर्थात्तत्सिद्धिः। मृतस्य जन्मव्याघाताभिप्रायेण चोदयति- कथमिति। यदि केवलमौ- देशिकोऽयमर्थः स्यात्, तदा अभ्युपगम्येत ; अत्र तु 'जातस्य हि इति लोकसिद्धानुवादेन पुच्यते । लोके च मागसत एवोत्पत्तिदृष्टा, न तु कदाचिदुत्पद्य निरुद्धस्य । यदि च नष्टं पुनर्जायेत, दा दुःखात्यन्तनिवृत्तेरशक्यत्वादपवर्गशास्त्रमखिलमप्रमाणं स्यात् ; व्याधिशत्रविजयादिप्रयासश्च निर- पंकः स्यात्; पुत्रादिमरणे च न शोचनीयम् । अतो नेदमुपपत्तिमदिति भावः । परिहरति- सत एवेति । नन्विदमुभयमप्ययुक्तम् , सत उत्पत्तिनैरपेक्ष्यात् , प्रागसतामेव च घटादीनामुत्पत्ति- दर्शनात् इत्याशङ्कयाह- उत्पत्तीति। निदर्शयति- तन्तुप्रभृतीनि होति । भन्त्यतन्तुसंयोगात्पूर्व दीर्धेकतन्त्वारब्धे च त्वयाप्येवमिष्यत इति भावः । उक्तं च नारायणाचार्यैः- 'एकस्माद्दीर्घतमा- तन्तोः पटादेरुत्पत्तिदृष्टा' इति । असत्कार्यवादिनं प्रति, किम् अवयवीति कश्चिदवयवसमुदायातिरिक्तः पदार्थों दृश्यते कल्प्यते वा, इति विकल्पमभिप्रेत्य प्रथमकल्पे दूषणमाह--- असदिति । एतावत्- रचनाविशेषयुक्तत्वमात्रमित्यर्थः। वादिना उपलभ्यत इति पदाभ्यां वाङ्मनसविसंवादमभिप्रैति । एताव- देवेत्युक्तमर्थ प्रपञ्चयति- नहीति । द्वितीयकल्पं दूषयति- कारकेति । यदि साङ्ख्यवत् वयमपि सर्वस्यायनागन्तुकत्वं वदामः, तदा भवेदेव कारकव्यापारादिनैरर्थक्यादिदोषः । वयं हि द्रव्याणां सर्वेषा- मनागन्तुकत्वं तदवस्थानां चागन्तुकत्वं ब्रूमः । घटादिवत् प्रदीपादिष्वपि अवस्थान्तरापत्तिरनुमीयते; चूर्णितविशीर्णघटस्येव तु सूक्ष्मालस्थाप्राप्त्या अनुपलम्भः । अतो न कश्चिद्दोष इति भावः । व्यवहार- विशेषोऽलोदकाहरणादिरंभिमतः, नामान्तरभजनस्य पृथगुक्तत्वात् । एतेन कारणसङ्ख्यापरिमाणबुद्धि- संस्थानांदिभेदः, पूर्वत्वोत्तरत्वनष्टत्वानष्टत्वादिरपि नियूढः । द्रव्यान्तरकल्पनायां गुरुत्वान्तरकार्यादि. 1 न्युत्पद्यन्ते. 2. अन्य. । . । - .
द्वितीयोऽध्यायः । मेतावतैवोपपत्तेर्न द्रव्यान्तरकल्पना युक्ता । अत उत्पत्तिविनाशादयः सतो द्रव्यस्यावस्था- विशेषाः । उत्पत्त्याख्यामवस्थामुपयातस्य द्रव्यस्य तद्विरोध्यवस्थान्तरप्राप्तिर्विजाश इत्युच्यते । न द्रव्या, प्रसङ्गस्य अवयवावयविगुरुत्वयोरन्यतरप्रतिबन्धादिना निर्वाहश्वातिक्लिष्ट इत्यभिप्रायेणा- न्तरेति । आहुश्च-- 'यदि द्रव्यान्तरं कार्य कारणेभ्यो भवेदिह । गुरुत्वमतिरिच्येत कायें तच्च न दृश्यते । द्विपलं घट इत्येतद्यपदेशो न युज्यते' इति ॥ . निगमयति- अत इति; तावत एवोपलम्भात् अन्यस्याप्यनुपलम्भात् कल्पकानां चान्यथैवोपपन्नत्वादित्यर्थः । ननु भवतु नामोत्पत्तिव्यस्यावस्थाविशेषः । विनाशस्त्वभावरूप- स्तद्विरुद्धश्च कथं तदवस्थेत्युच्यते इत्यत्राह- उत्पत्त्याख्यामिति । अयमभिप्रायः- न तावदभावाख्यं किंचित्पदार्थान्तरं विविच्योपलभामहे ; नापि नास्तिव्यवहारादिना कल्पयितुं युक्तम् , उभयसंप्रतिपन्नावस्थान्तरादिनैव तन्निर्वाहात् । न च श्यामावस्थाप्रहाणेन रक्तावस्थापरिग्रहे घट- विनाशव्यवहारप्रसङ्गः, कपालाद्यवस्थावत् रक्तावस्थाया घटावस्थाविरोधित्वस्य भवताप्यनभ्युप- गमात् । न च भावत्वेनैकराश्यनुप्रविष्टानां विरोधो न युज्यते इति वाच्यम् ; तेजस्तिमि- रशीतोष्णतृणदहनादीनां भावानामेव सहानवस्थानवध्यधातुकत्वलक्षण विरोधदर्शनात् , अभावाभावस्य च भावत्वस्वीकारात् । अन्यथा पदार्थत्वेनैकराशेरभावस्यापि भावविरोधो न कथंचिदुपपद्येत । तदेवं विरोध्युत्तरावस्था प्रध्वंसः, विरोधिपूर्वावस्था प्रागभावः, वस्त्वन्तरगतासाधारणविरोधिमं एव समानाधि- करणव्यधिकरणनिषेधभेदेन अन्योन्याभावोऽत्यन्ताभावश्च । देशकालसंभेदविशेषस्तत्कृतावस्थाविशेषो वा संसर्गाभावः। प्रतियोग्यादिभेदाच पितृत्वपुत्रत्वादिव्यवहारवत् अस्तिनास्तीत्यादिव्यवहारवैचित्र्यम्- इति । ननु यदि कपालत्वाद्युत्तरावस्थाप्राप्तिर्विनाशः, तर्हि कपालविनाशे घटविनाश एव विनष्टः स्या- दिति चूर्णावस्थायां पटोन्मजनप्रसङ्गः; यदि च पिण्डावस्था घटप्रागभावः, तूदा पिण्डीकरणात्पूर्व प्रागभावाभावात् घटसिद्धिर्घटात्यन्ताभावो वा स्यादित्यत्राह- मृव्यस्येति । अयमभिप्राय:- न ताव- देकैव कपालत्वावस्था घटत्वावस्थाविरोधिनी, चूर्णत्वाद्यवस्थानामपि तद्विरोभित्वात् । अभावरूपं प्रध्वं- समभ्युपगच्छतोऽपि विरोध्यवस्थापरम्परा अवर्जनीया । ततः कपालत्वचूर्णत्वादीनां विरोध्युत्तरावस्था- त्वाविशेषात् , तासु सर्वास्ववस्थासु घटविनाशव्यवहारोपपत्तिः । एवं प्रागभावेऽपि विरोधिपूर्वा- " वस्थापरम्परया निर्वाहः । एवमनभ्युपगमे अतिरिक्ताभावपक्षेऽप्युक्तदोषो दुर्वारः । तत्रापि हि यदि 'घटाख्यं द्रव्यं घटप्रागभावनिवृत्तिः, तर्हि घटनिवृत्तौ घटप्रागभावनिवृत्तिरेव निवृत्तेति पुन- घंटप्रागभावोन्मजनप्रसङ्गः । तथा च सति मध्ये प्रागभावस्य विच्छेदायोगात् घट एव न स्यात् । प्रागभावस्य च सामग्रीसंपत्तौ भावशिरस्कत्वान्नष्टाया एव घटव्यक्तेः पुनरुन्मजनं स्यात् । एवं यदि ,प्रध्वंसस्य घट एव प्रागभावः, तदा घटोत्पत्तेः पूर्व प्रध्वंसप्रागभावाभावात् पिण्डावस्थायां घटप्रध्वंसः स्यात् । तथा च सति घट एव कदाचिदपि नोत्पद्येत, स्वप्रध्वंसे वर्तमाने खोत्प- त्ययोगात्; अन्यथा कपालाद्यवस्थायामपि तदुन्मजनप्रसङ्गात् । एवं च षण्डावस्थायां घटविना-. . .
. . ६० श्रीमद्भगवद्गीतावा . . । मृद्रव्यस्य पिण्डत्वघटत्वक्पालत्वचूर्णत्वादिवत्परिणामिद्रव्यस्य परिणामपरम्परा अवर्जनीया। तत्र पूर्वावस्थस्थ द्रव्यस्य उत्तरावस्थाप्राप्तिर्विनाशः । सैव तदवस्थस्य चोत्पत्तिः । एवमुत्प- त्तिविनाशाख्यपरिणामपरम्परा परिणामिनो द्रव्यस्य अपरिहार्येति न तत्र शोचितुमर्हति ॥ सतो द्रव्यस्य पूर्वावस्थाविरोध्यवस्थान्तरप्राप्तिदर्शनेन योऽल्पीयान् शोकः, सोऽपि मनुष्यादिभूतेषु न संभवतीत्याह- अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥ मनुष्यादीनि भूतानि सन्त्येव द्रव्याणि अनुपलब्धपूर्वावस्थानि उपलब्धमनुष्य- शप्रसङ्गे, विनाशस्य भावोत्तरकालीनत्वात् , पिण्डात्मामेव घटसिद्धिः स्यात् । ततश्च तत्सिद्धिनाश- कालयोयोरपि कारकव्यापारानर्थक्यं स्यात् इत्यादिदूषणशतं देयम्। अतः सुष्ठूक्तम्- विरोध्यवस्था- परम्परैव प्रागभावप्रध्वंसाविति । पिण्डत्वघटत्वेत्यादिना 'मही घटत्वं घटतः कपालः कपालिका चूर्णरजस्ततोऽणुः' इति भगवत्पराशरवचनं स्मारयति । तत्र हि प्रकरणे नास्त्यवस्त्वसत्यादिशब्दानाम- वस्थान्तरापत्तिनिबन्धनत्वं स्पष्टम् । व्याख्यातं च शारीरकभाष्ये ।। नन्वेवमपि 'जातस्य हि ध्रुवो मृत्युः' इत्येतावदुपपद्यताम् , उत्पन्नस्य घटादे शदर्शनात् ; 'ध्रुवं जन्म मृतस्य च' इति तु नोपपद्यते, नष्टस्य घटादेः पुनरुत्पत्त्यदर्शनात् ; न च पुनरुत्पत्तिरस्य शोकनिमित्तम् , येन तस्यावर्जनीयत्वं प्रतिपाद्यतेत्यत्राह- तवेति । अयमभिप्राय:---- यदवस्थस्य द्रव्यस्य विनाशः, न तदवस्थस्यैव पुनरुत्पत्तिरुच्यते ; किंतु तस्यैव द्रव्यस्यावस्थान्तरविशिष्टस्य । एकमेव हि द्रव्यं घटाकारेण नष्टं कपालाकारेणोत्पद्यते । एकैव हि कपालावस्था घटावस्थस्य द्रव्यस्य नाशः, कपालावस्थस्य तस्यैवोत्पत्तिः । अत एवमुपपन्नं नष्टस्योत्पत्तिरिति । सैव- उत्तरावस्थाप्राप्ति- रित्यर्थः । अत्र प्राप्तिशब्देन प्रथमक्षणागमस्य विवक्षितत्वादुत्तरेषु क्षणेषु उत्पत्तिशब्दप्रयोगाभाव उपपन्न इति सूचितम् । एवं सति पुनरुत्पत्तेरवर्जनीयत्वप्रतिपादनं च नाशावर्जनीयत्वप्रतिपादनमेव । तत एव शोकापनोदनार्थतापि युक्ता । यद्वा, यदि इदमचिद्रव्यं नष्टमिति शोचसि, तर्हि तदेव द्रव्यं - तदुत्तरावस्थतयोत्पन्नमिति किं न प्रीयस इति भावः । एकस्यैव परिणामस्य निरूपणभेदात् उत्पत्त्या- ख्या विनाशाख्या चेति उत्पत्तिविनाशाख्यपरिणामेत्युक्तम् । एवं प्रलयापेक्षया सृष्टेविनाशत्वेऽपि पुरुषार्थयोगायोगादिविवक्षया व्यवहारव्यवस्था । परिणामिन इति अपरिहार्यत्वकारणं तत्स्वभावत्व- मुक्तम् । इतिशब्देन अपरिहार्यपदं हेत्वभिप्रायमिति व्यञ्जयति ।। एवमपरिहार्यत्वेन अशोचनीयत्वमुक्तम् । अथ तत्तद्वस्तूनां प्रतिनियतस्वभावत्वेन पूर्वोत्तरावस्थायां "सुखरूपत्वदुःखरूपत्वयोरन्यतरविवेकानर्हानुपलभ्यदशापत्त्या च अशोचनीयत्वमुच्यते- 'अव्यक्तादीनि' .. . - द्वितीयोऽध्यायः । ६१ त्वादिमध्यावस्थानि अनुपलब्धोत्तरावस्थानि स्वेषु स्वभावेषु वर्तन्त इति न तत्र परिदेवना- , निमित्तमस्ति ।। एवं शरीरात्मवादेऽपि नास्ति शोकनिमित्तमित्युक्त्वा, शरीरातिरिक्ते आश्चर्य- स्वरूपे आत्मनि द्रष्टा वक्ता श्रोता श्रवणायत्तात्मनिश्चयश्च दुर्लभ इत्याह- आश्चर्यवत्पश्यति कश्चिदेन , माश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥ इति । भूतशब्दस्यात्र देहपरत्वार्थमुक्तम्-मनुष्यादीनीति । अव्यक्तव्यक्तादिशब्दानां प्रकृत्यवस्थाविशेषादि- परत्वभ्रमव्युदासाय, यादवप्रकाशोक्तसद्ब्रह्मादिपरत्वस्य च प्रकृतानुपयोगज्ञापनाय उक्तम्-अनुपलब्धेत्या- दि। 'अदर्शनादिहायात: पुनश्चादर्शनं गतः । नासौ तव न तस्य त्वं वृथा किमनुशोचसि' इति ह्यन्यत्राप्यु. च्यते । स्वभावेषु वर्तन्त इति । अयमभिप्राय:--न तावदेषां द्रव्याणां मनुष्यत्वादिव्यक्तावस्था स्वभावः, संहतिविशेषादिसाध्यत्वात् । नाप्यव्यक्तपूर्वोत्तरावस्था, तस्या अपि विभागादिसाध्यत्वात् । अतः सामा- न्यतः परिणामित्वमात्रं स्वभावः । ततश्च यथा परिणामिनो द्रव्यस्याव्यक्तपूर्वावस्था व्यक्तमध्यमावस्था च न शोकनिमित्तम् , एवमुत्तरावस्थापिं । एवकारोऽत्रावर्जनीयत्वपरः, स्वभावप्राप्तिपरो वा। यद्यव्यक्तावस्थैव स्वभाव इति मनुषे, तदा स्वभावपरित्यागलक्षणमनुष्यत्वाद्यवस्थैव शोचनीया । यदि पुनर्मनुष्यत्वाद्यव- स्थैव स्वभावः प्रतिबन्धकवशादव्यक्तावस्थेति मन्वीथाः, तदापि प्रतिबन्धकस्यावर्जवीयत्वात् आगन्तु- कस्य तस्य कदाचिदपगमे पुनर्मनुष्यत्वादिसिद्धेश्वायत्नलभ्यत्वात् न कथंचिदपि शोचनीयम् । यदि तु स्वभाव एव वस्तूनां सामान्यतः शोकनिमित्तम् , तर्हि प्रतिनियतविचित्रस्वभावानन्तवस्तुसंतते जगति सर्वस्य सर्वदा दुःखजलनिधावेव मजनमिति नेदानीं विशेषतः शोकनिमित्तमस्ति । अथोपाधिकस्यापि सुखहेतोर्वियोगाच्छोकः, तदा दुःखहेतूनां शत्रुप्रभृतीनां भैक्षचर्यादेश्च परमार्थतः शोकनिमित्तत्वम् , "न तु सुखहेतो: शत्रुनिरसनस्य सार्वभौमत्वादेर्वा । अथ सुखहेतोः स्वशरीरादे शाद्विभेषि, तर्हि महा- बाहुना भारतेन त्वया जिघांसूनां संनिधौ यथाशक्तिव्यापारेण स्वशरीरादिरक्षणं कार्यम् । यदि च बन्धुवधादिनिमित्तलोकापवादादेीतिः, तदा समर्थस्य ते बन्धुसंरक्षणाद्यभावनिमित्तो महीयारपवादः स्यात् ; भीरुत्वादिनिमित्ता मरणातिरिक्ता चाकीर्तिः स्यात् । न चायं दुस्त्यजः शीतातपादिसांस्पर्शिक- दुःखचतू शोकः; किंत्वविचारितरमणीयाभिमानमूलतया तन्निवृत्त्या परिहार्यः। अत एवं देहात्म- मोहमहाग्रहगृहीतस्त्वं लोकायतसमयरहस्यतत्त्वविचारेणापि न कथंचिदपि शोचितुमर्हसि-- इति । 'परिदेवना का' किंनिमित्तेत्यर्थः । तदिदमुक्तम्-- न तत्र परिदेवनानिमित्तमस्तीति ।। . ..
. श्रीमद्भगवद्गीतायां , एवमुक्तस्वभावं स्वेतरसमस्तवस्तुविसजातीयतया आश्चर्यवदवस्थितम् अनन्तेषु जन्तुषु महता तपसा क्षीणपाप उपचितपुण्यः कश्चित् पश्यति । तथाविधः कश्चित्परस्मै वदति । एनं कश्चिदेव शृणोति । श्रुत्वाप्येनं यथावदवस्थितं तत्त्वतो न कश्चिद्वेद । चका- सत् द्रष्टवक्तृश्रोतृषपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतः श्रवणं दुर्लभमित्युक्तं भवति ।। देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३० ॥ सर्वस्य देवादिदेहिनो देहे वध्यमानेऽप्ययं देही नित्यमवध्यो मन्तव्यः । तस्मात् सर्वाणि देवादिस्थावरान्तानि भूतानि विषमाकाराण्यप्युक्तेन स्वभावेन स्वरूपतः समानानि' एवमन्वारुह्यवादपरिसमापनेन पूर्वोक्तं स्वसिद्धान्तमेव देहात्ममोहमूलदुरिताबलीमलीमसे जगति तदधिकारिदुर्लभत्वादिकथनेन प्रशंसतीत्याह-एवमिति । कतिपयपदविशेषितोऽयमोपनिषद एव 'आश्चर्यवत्' इत्यादिश्लोकः । एवमुक्तस्वभावमिति 'एनम्' इत्यस्यार्थः । 'अव्यक्तोऽयम्' इत्यादिनोक्तं वैजात्रामाश्चर्यत्वहेतुतयाह-स्वेतरेति । आश्चर्यवच्छब्दस्य पश्यत्यादिक्रियाविशेषणत्व- भ्रमव्युदासायोक्तम् - आश्चर्यवदवस्थितमिति; आत्मनो वैलक्षण्यकथनमेवात्रोचितमिति भावः । एतेन कर्तृदृष्टान्सतया शङ्करोक्तं योजनान्तरमपि दूषितम् । कश्चिदिति निर्धारणार्थमाह-- अनन्ते. विति । शानेन हीनानां नराणामपि पशुभिः समत्वदर्शनायोक्तम्- जन्तुष्विति । कश्चिदित्यस्य तात्पर्यार्थमाह-- महतेति । यथा चोच्यते--- 'कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते' इति । अन्य- शब्दोऽत्र पूर्वोत्तरवाक्यगतकश्चिच्छब्दसमानार्थ: । परस्मै इति अर्थलब्धोक्तिः । श्रुत्वापि न वेदेत्युक्ते व्याघातशास्त्रानारम्भादिदोषः स्यादित्याशङ्कयोक्तम् -- यथावदवस्थितं तत्त्वत इति ; प्रामाणिकसम- स्ताकारयुक्तम् अनारोपितेन प्रकारेणेत्यर्थः । तत्त्ववेदिनोऽत्र दुर्लभत्वमात्रे तात्पर्यम् । 'श्रुत्वापि' इत्यादिवाक्यस्थचकारस्य अनुक्तसमुच्चयार्थत्वं तत्समुच्चेतव्यानि चाह--- चकारादिति । देहाति- रिक्तस्यात्मनो द्रष्टैव तावदुर्लभः, किमुत यथावस्थितद्रष्टा ? तथाविधेषु सत्स्वपि वक्तैव दुर्लभः, किमुत सकलरहस्यवक्ता ? तादृशेषु सत्स्वपि श्रोतैव दुर्लभः, किं पुनर्बाह्यान्तरसकलशिष्यगुणसंपन्नतया यथा. वस्थितश्नोता त्वादृशः? इत्यभिप्रायः । प्रथम श्रवणम् , ततो मननाच्छ्रवणायत्तात्मनिश्चयः, ततश्च वच-- नयोग्यता, तत्रापि चिराभ्यासादिना यथावस्थितवचनयोग्यता, ततश्च निदिध्यासनाद्दर्शनम् , ततोऽपि रतत्त्ववश्चिरनिरीक्षणसंस्कासत्सविशेषदर्शन मिति वा क्रमः । अत्र देहातिरिक्तश्वेदात्मा, किं तथा नोप- लभ्यत इति शङ्कापाकरणाय दुसनत्वकथनमः सर्वैतुमशक्ये वस्तुनि किं त्वामेकमुपालभे इति । , . यथा देवाविस्थावरान्तेषु भूतेषु देहाशे जातिगुणदेशकालदुर्भेदत्वसुभेदत्वादिवैषम्य- • मुघलय जान देहिन्यपि सखित्वदुःखित्वादिवैवम्यं दृश्यते । देवादिशब्दाच देवत्वादिविशिष्टात्मप- द्वितीयोऽध्यायः । ६ . नित्यानि च । देहगतं तु वैषम्यमनित्यत्वं च । ततो देवादीनि सनोणि भूतानि अविश्य न शोचितुमर्हसि, न केवलं भीष्मादीन्प्रति । खधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धाद्धि युद्धाच्छ्योऽन्यत् क्षत्रियस्य न विद्यते ॥ ३१ ॥ अपि चेदं युद्धं प्रारब्धं प्राणिमारणमपि अग्नीषोमीयादिवत् स्वधर्ममवेक्ष्य न विकम्पितुमर्हसि । धात् न्यायतः प्रवृत्तात् युद्धात् अन्यमहि क्षत्रियस्य श्रेयो विद्यते । शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् यन्ताः। एवं नित्यत्वानित्यत्वादिलक्षणवैषम्यमपि संभाव्यतेति शङ्कानिराकरणायोच्यते--'देही' इति । वध्यमानेऽपीति सामर्थ्यानीतमुक्तम्, 'हन्यमाने शरीरे' इतिवत् । अन्यथा 'देहे सर्वस्य ' इत्यस्य नैरर्थक्यम् , देहीत्येतावतैव देहवर्तित्वसिद्धेः । भूतशब्दोऽत्र क्षेत्रशपर्यन्तः । सर्वाणीत्यादिसूचितः शङ्काहेतुः विषमाकाराण्यपि इत्यनूदितः । देवादिभेदात् तत्प्रयुक्तसुखादिभेदाच्चेति शेषः । उक्तन स्वभावेनेति-पूर्वोक्तसूक्ष्मत्वाच्छेद्यत्वादिनेत्यर्थः । नित्यानि चेति--न तु नित्यत्वानित्यत्वलक्षणवैषम्यं शङ्कनीयमित्यर्थः । देहगतं तु वैषम्यमिति–देहमात्रगतं देवादिसंनिवेशवैषम्यम्, सुखादिवैषम्यं त्या- त्मगतमपि तत्तदेहोपाधिकधर्मभूतज्ञानावस्थाविशेषतारतम्यात्मकम् । चेतनानां देवादिशब्दैर्व्यपदेशस्तु शरीरस्यापृथक्सिद्धिमात्रनिबन्धन इति भावः । प्रकृतसंगतिज्ञापनाय सर्वाणीत्यस्य व्यवच्छेद्यमाह केवलं भीष्मादीन्प्रतीति । एवम् 'अशोच्यानन्वशोचस्त्वम्' इत्यादिना, 'न त्वं शोचितुमर्हसि इत्यन्तेन, अस्थान- कारुण्यमपोदितम् । अथ 'स्वधर्मम् ' इत्यादिना, 'मरणादतिरिच्यते' इत्यन्तेन, धर्माधर्मधीरपोद्यते । 'अपि च' इति समुचेतव्यहेत्वन्तरपरप्रकरणभेदद्योतनार्थः । 'धाद्धि युद्धात् 'इति वाक्यशेषप्रदर्शितं खधर्ममित्यस्य विशेष्यमाह- इदं युद्धमिति । स्वो धर्मः स्वस्य वा धर्मः स्वधर्मः । विकम्पितुमित्ये- तत्सामर्थ्यसिद्धमुक्तम्-प्रारब्धमिति । अधर्मधीहेतुं सामान्यनिषेधविषयमनुवदति-प्राणिमारण- भपीति । प्रबलं विशेषशास्त्रं निषेधशास्त्रानिषेधस्याप्रसक्ति वा स्मारयति- अनीषोमीयादिवदिति । धर्मयुद्धव्यतिरिक्तस्य कस्यचिदन्यस्य श्रेयसः क्षत्रिये स्वरूपनिषेधभ्रमं व्युदस्यन् , क्षत्रियस्य प्रशस्यतरं धर्म्ययुद्धादन्यत् नास्तीत्येतदर्थमन्वयमाह-- धादिति । धर्म्यत्वं धर्मादनपेतत्वम् , तहेतुः न्यायतः प्रवृत्तत्वम् ; तञ्च निरायुधनिवृत्तशरणागतादिषु शस्त्रप्रयोगाद्यभावात् । हिशब्दसूचितं वक्ष्यमाणमाह- शौर्यमिति। नन्वमीषोमीयादिवदित्येतदेव न संप्रतिपन्नम् , तस्यापि हिंसात्वेनाधर्मत्वस्यावर्जनीयत्वात् । न च निषिद्धत्व पाधिः, 'न हिंस्यात्' इति सामान्यनिषेधेन तस्य साधनव्यापकत्वात् । नापि विहिते- तरत्वमुपाधिः, अविहिताप्रतिषिदेष्वपि तस्य विद्यमानत्वेन साध्यव्यभिचारात् । न च सामान्यनिषेधो न .
श्रीमद्भगवद्गीतायां . - - . इति.हि वक्ष्यते । अग्नीषोमीयादिषु च न हिंसा पशोः, निहीनतरच्छागादिदेहपरित्यागपूर्वक- कल्याणदेहस्वर्गादिप्रापकत्वश्रुतेः संज्ञपनस्य । 'न वा उवेतन्नियसे न रिष्यसि । देवा ५ इदेषि पथिभिः सुगेभिः। यत्र यन्ति सुकृतो नापि दुष्कृतः । तत्र त्वा देवः सविता धातु इति हि श्रूयते । इह च युद्धे मृतानां कल्याणतरदेहादिप्राप्तिरुक्ता- 'वासांसि जीर्णानि यथा विहाय नवानि' इत्यादिना । अतश्चिकित्सकशल्यादिकर्म आतुरस्येवास्य रक्षणमेवानी- पोमीयादिकर्मसु संज्ञपनम् ॥ यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥ विशेषविधिवाक्यविरोधात् संकुचितविषयः ; संकोचहेतोर्विरोधस्यैवाभावात् , संकोचहेतोर्विरोधस्यैवाभावात् , सामान्यविशेषवाक्ययोः प्रत्यवायक्रतुसाधनपरत्वादेकस्यैव ऋतुप्रत्यवायसाधनत्वाविरोधात् । न च प्रत्यवायसाधनं न विधीयेतेति वाच्यम् , हरीतकीभक्षणादिष्विव क्रत्यनुप्रविष्टप्रायश्चित्ताईहिंसासाध्यदुःखस्याल्पतया क्रतुसाध्यसुखस्य च भूयस्तया तदुपपत्तेः । उक्तं च सालथैः 'सा हि पुरुषस्य दोषमावक्ष्यति, क्रतोश्वोपकरिष्यति' इत्यादि । आह च पञ्चशिखाचार्यः- 'स्वल्पः सङ्करः सुपरिहरः सप्रत्यवमर्शः' इति । अतोऽग्रीषो- मीयवदित्यसिद्धस्यासिद्धमेव निदर्शनमुक्तमित्यत्राह- अग्नीषोमीयादिषु चेति । अधर्मसाधको हिंसा- त्वहेतुरसिद्धः ; उपाधिश्च न पक्षव्यापकः, पक्षस्य अहिंसारूपत्वात् तत एव निषेधाभावाच्चेति भावः । अहिंसात्वमेवोपपादयति- निहीनतरेति । अनर्थप्रापकव्यापारत्वं हि हिंसालक्षणम् ; अत्र तु तद्वि- परीतत्वेन रक्षणत्वमेव युक्तमिति मन्त्रलिङ्गेन ज्ञापयति- न वा इति । एतदिति क्रियाविशेषणम् । सुगेभिः सुगैरित्यथैः । पिष्टपश्वादिविधिस्तु कार्तयुगधर्मनिष्ठाधिकारिविशेषनियतः । 'पशुयशैः कथं हिंसैर्मादृशो यष्टुमर्हति' इति वचनादिति भावः । अस्त्वग्नीषोमीयादौ श्रुतिबलादहिंसात्वम् । इह तु कथमित्यत्राह- इह चेति ; अयमप्यर्थः श्रुतिस्मृतिसिद्ध इति भावः । ननु ‘अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः' इत्यादिना अमीषोमीयादेरपि हिंसात्वं प्रतीयते; अन्यथा अन्यत्रेति तद्यवच्छेदानुपपत्तेरि- त्यत्राह--- अत इति । अयमभिप्राय:- न तावदिह दुःखजननमात्र हिंसा, रक्षणरूपेषु चिकित्सक- शल्यप्रयोगादिष्वपि प्रसङ्गात् । नापि प्राणवियोजनमात्रम् , अतद्रूपेषु सर्वस्वहरणनारकपीडादिषु हिंसाशब्दप्रयोगदर्शनात् । न चायमुपचारः, नियामकाभावात् , विपरिवर्तस्यापि दुर्वारत्वात् ! अतः अनपर्यवसितस्तादात्विकदुःखजनको व्यापारो हिंसेत्येव तत्वम्-- इति । ततश्च 'अन्यत्र तीर्थेभ्यः' इत्येतत् पश्वादेर्भाषिपुरुषार्थविशेषानभिज्ञपामरदृष्टयोक्तम् ; तस्मिन्नपि वाक्ये हिंसात्वं नास्तीत्येव तात्प. यम्। उक्तं च मनुना-'तस्माद्यज्ञे वधोऽवधः' इति । तत्रापि वध इति पामरदृष्टयानुवादः, अवध इति तत्त्वकथनम् । पद्यपि क्रत्वनुप्रविष्टानां सोमोच्छिष्टभक्षणप्रभृतीनां हिंसालक्षणवत् न लक्षणान्तरेण व्यवच्छेदः शक्यः, तथापि तेषां प्रत्यवायानाधायकत्ववचनबलादेव तथात्वमङ्गीकुर्मः ; न पुनः क्रत्वर्थ- - - ..
द्वितीयोऽध्यायः । ६५ .. अयनोपनतमिदं निरतिशयसुखोपायभूतं निर्विघ्नमीर युद्धं सुखिन: पुण्य- वन्तः क्षत्रिया लभन्ते ॥ अथ चेत्त्वं 'धर्ममिमं संग्रामं न करिष्यसि ततः स्वधर्म कीर्ति च हित्वा पापमवाप्स्यसि ॥ ३३ ॥ अथ क्षत्रियस्य स्वधर्मभूतमिममारब्धं संग्राम मोहान करिष्यसि चेत्, तत: प्रारब्धस्य खधर्मस्य अकरणात् स्वधर्मफलं निरतिशयसुखं विजयेन निरतिशयां कीर्ति च हित्वा पापं निरतिशयमवाप्स्यसि ।। अकीर्ति चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । संभावितस्य चाकीर्तिमरणादतिरिच्यते ॥ ३४ ॥ तया विधानमात्रेण । नन्वेवमुत्सर्गापवादन्यायस्य कीदृशो विषयः ? तादृश एव, यत्र निरवकाश- विशेषवाक्यविरोधादेव सावकाशसामान्यशब्दसंकोच इति निस्तरङ्गमेतत् ।। पुनरपि प्राणिमारणस्यापि युद्धस्य प्रशंसामुखेनाधर्मभ्रममुन्मूलयति- यदृच्छयेति । 'यदृच्छ- योपपन्नम् ' इत्यत्राहेतुकत्वादिभ्रमव्युदासायाह-- अयत्नोपनतमिति । प्राक्तननिरतिशयपुण्यविपाक- लभ्यत्वादिदानीमयत्नोपनतत्वम् । निरतिशयसुखोपायभूतमिति- स्वर्गशब्दो हि 'यस्मिन्नोष्णं न शीतम्', 'दुःखेन यन्न संभिन्नं नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं तत्सुखं स्वर्गपदास्पदम्, इति निरतिशयसुखविशेषे व्युत्पन्नः ; देशविशेषस्तु तादृशसुखभोगस्थानतया स्वर्गः ; धर्माणां च स्वतो निरतिशयसुखसाधनत्वं स्वभावः; फलाभिसंध्यादिलक्षणप्रतिबन्धकवशादन्यथात्वमिति चिप्रत्ययमप्र- युञ्जानस्य भावः; अपावृतशब्दाभिप्रेतं निर्विनत्वम् । सुखिन इत्यस्य पुण्यवन्त इति प्रतिपदम् । नहि सुखमेवेशयुद्धलाभे हेतुः; अतोऽत्र सुखशब्देन सुखसाधनं लक्ष्यत इति भावः । यद्वा भत्र सुखिशन्दः सुखयोग्यत्वलक्षणसंबन्धपरः; तद्योग्यत्वं च पुण्यवत्त्वमेवेति भावः ॥ एवं युद्धस्य धर्म्यत्वेन निरतिशयसुखसाधनत्वमुक्तम् । अथ तदकरणे प्रत्यवायमाह--- अथ चेदिति । युद्धाकरणस्य ब्राह्मणादीनां पापहेतुत्वाभावात् त्वंशब्दः क्षत्रियपर इत्यभिप्रायेणोक्तम् क्षत्रि- यस्य स्वधर्मभूतमिति । इममिति निर्देशाभिप्रेतमुक्तम्-आरब्धमिति। मोहात्-धर्मेऽप्यधर्मत्वभ्र- मादित्यर्थः । नहि युद्धस्याकरणमानं क्षत्रियस्यापि प्रत्यवायहेतुः सर्वथा युद्धकरणप्रसङ्गादित्यत उक्तम्- प्रारब्धस्योति । स्वधर्मफलमिति- धर्मशब्दोऽत्र फलपरः; अन्यथा पौनरुक्त्यात् , अनुवादमात्रत्वे अनिष्टप्रसङ्गापर्यवसानाभावाचेति भावः । आगामिकीर्तिविषयत्वायोक्तम् - विजयेनेति। न केवलं दृष्टादृष्टरूपनिरतिशयपुरुषार्थहानमात्रम् , निरतिशयदुःखहेतुभूतं पापमप्यवाप्स्यसीति वाक्यार्थः ॥ 1. धमिमं 2. निरयमबाप्स्यसि. B9 . . .
श्रीमद्भगवद्गीतायां न ते केवलं 'निरतिशयसुखकीर्तिहानिमात्रम् ; पार्थो युद्धे प्रारब्धे 'पलायत इति अव्ययां सर्वदेशसर्वकालव्यापिनीमकीर्ति च समर्थान्यसमर्थान्यपि सर्वाणि भूतानि कथयि- ध्यन्ति । तत: किमिति चेत्, शौर्यवीर्यपराक्रमादिभिः सर्वसंभावितस्य तद्विपर्ययवादो कीर्तिमरणादतिरिच्यते । एवंविधाया अकीर्तेर्मरणमेव तव श्रेय इत्यर्थः ।। . . , बन्धुस्नेहात्कारुण्याञ्च युद्धानिवृत्तस्य शूरस्य ममाकीर्तिः कथमागमिष्यतीत्यत्राह- भयाद्रणादुपरतं मन्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥ एवं दृष्टादृष्टरूपफलहानिः, अदृष्टप्रत्यवायश्चोक्तः; अथ दृष्टप्रत्यवायमाह- अकीर्ति चेति । अकीर्तिरिह दुष्कीर्तिः । न ते केवलमित्यादौ, नापि पारलौकिकनिरतिशयपापमात्रमित्यप्यनुसंधेयम् । प्रारब्धे पलायत इति- कान्दिशीकतया प्रथमव्यापारमप्यकृत्वेति भावः । अव्ययशन्देन अवि. नाशित्वाभिधानात् सर्वकालव्यापित्वमुच्यताम् ; सर्वदेशव्यापित्वं तु कथमुच्यते? इत्थम् -- यद्यकीर्तिः सर्वदेशव्यापिनी न स्यात् ; सर्वकालव्यापिन्यपि न स्यात् , कालक्रमेण संकोचाद्विच्छेदोपपत्तेः- इति । यद्वा देशतः कालतश्चान्यूनत्वमेवात्राव्ययत्वं विवक्षितम् । भूतान्यपीति अपिशब्दान्वयः। 'चापि' इत्यनतिरिक्तार्थत्वे निष्प्रयोजनत्वम् । ततः 'भूतानि' इति सामान्यनिर्देशात् अपिशब्दान्वयबला. चोक्तम्- समर्थान्यसमर्थान्यपीत्यादि। अकीरिष्टत्वमाशङ्कय उत्तरार्धमुच्यत इत्याह-- ततः किमिति । 'चः' शङ्कानिराकरणार्थः । अर्जुनस्य संभावितत्वहेतूनाह- शौर्येति । सर्वसंभावितस्येति- पूर्वनिर्दिष्टैः समथैरसमथैश्च भूतैः संभावितस्येत्यर्थः । ननु मरणादतिरेकः किं हेयतया, उपादेयतया वा? न प्रथमः; 'जीवन् भद्राणि पश्यति', 'आत्मार्थे पृथिवीं त्यजेत् इत्यादिवचनात् । न द्वितीयः; प्रकरणविरोधादित्यत्राह– एवंविधाया इति । 'जीवन् भद्राणि' इत्यादिकं तु क्षत्रियापुत्रस्य तेऽद्य नोपादेयम् । न चेयमकीर्तिर्लघीयसी, येन मरणाच्छ्रेयसी स्यात् । किंत्वेवंविधा सर्वदेशकालव्यापिनी इयं च नरकायापि स्यात् , तथैव स्मृत्यादिसिद्धत्वात् । तथाचोत्तरस्मिन् रामायणे रघुनाथवाक्यम्- 'अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्य चित् । पतत्येवाधमान्लोकान्यावच्छब्दः स कीर्त्यते'-- इति । युद्धे मरणं तु तत एव स्वर्गाय स्यादिति भावः ॥ एवं धर्माधर्मभ्रमो निवारितः ; अथ अस्थानस्नेहः क्षिप्यते---- भयादित्यादिना । बन्धु- स्नेहादित्यादि-- शूरस्य सतः स्नेहकारुण्याभ्यां निवृत्तस्य मे कीर्तिरेव स्यादिति भावः । इत्यतिप्रसिद्धपरामर्शात् कर्णदुर्योधनादीनामित्युक्तम् । तेनापकारवर्ग स्मारयति । यद्यपि भीष्मायो याथाय जानीयुः, तथापि कर्णादयो न तथेति भावः । 'भूत्वा' इत्यस्य यास्यसि ' इत्युत्तरक्रियैक. • 1. पलायितः। .
द्वितीयोऽध्यायः । ६४ येषां कर्णदुर्योधनादीनां महारथानामित: पूर्व त्वं शुरो वैरीति बहुमतो भूत्वा, इदानी युद्धे समुपस्थिते निवृत्तव्यापारतया लाघवं सुमहतां थास्यसि । से. महारथास्त्वां भयात् युद्धादुपरतं मस्यन्ते । शूराणां हि वैरिणाम् , शत्रुभयात् ऋते, बन्धुस्नेहादिना युद्धा- दुपरतिर्नोपपद्यते ॥ अवाच्यवादांश्च बहुन्वदिष्यन्ति तवाहिताः। .. निन्दन्तस्तव सामर्थ्य ततो दुःखतरं नु किम् ॥ ३६ ॥ शूराणामस्माकं संनिधौ कथमयं पार्थः क्षणमपि स्थातुं शक्नुयात् ? अस्मत्समि- धानादन्यत्र ह्यस्य सामर्थ्यम् --- इति तव सामर्थ्य निन्दन्तः शूराणामवाच्यवादांश्च बहून्व- दिष्यन्ति तव शत्रवो धार्तराष्ट्राः । ततोऽधिकतरं दुःखं किम् ! तप एवंविधावाच्यश्रवणान्मर- णमेव श्रेय इति त्वमेव मंस्यसे ।। रस्येन, 'स्नात्वा होज्यामि' इत्यादिग्विव, क्रियापेक्षया पूर्वेणापि भविष्यता कालेन संबन्धभ्रमव्युदासा. योक्तम्- पूर्वमिति । बहुभिर्गुणैर्बहुत्वेन मतो हि बहुमतः इत्यभिप्रायेणाह-- शूरो वैरीति । यदि शूरस्त्वं प्रागपि निर्वैरः, यदि च वैरी त्वं शौर्यरहितः, तदा महारथा न त्वां गणयेयुरिति भावः । तत्क्षणावधिवैरानुवृत्तिसूचनायोक्तम्--- इदानीमिति । लाघवफलं सुग्रहता लाघवशब्देन उपचरिता; सुग्रहत्वं चात्र सुग्रहत्वाभिमानविषयत्वम् । बन्धुस्नेहादित्यायुक्तां शङ्कां निराकरोति- शूराणां होति। यदि शूरत्ववैरित्वयोरन्यतरन्न स्यात्, तदा युज्येताप्यन्यथासिद्धिरिति भावः ॥ एवं प्राचीनमपकारं भविष्यलाघवारोपं च अभिधाय, पुनरागामिनाप्यपकारेण अस्था. नस्नेहत्वं द्रढयतीत्यभिप्रायेणाह-किंचेति । प्रस्तुतोदन्तफलितं सामर्थ्यनिन्दाप्रकारमाह---- शूराणा. मस्माकमित्यादिना । शूराणामवाच्यवादानिति- शूरान् प्रति ये न वाच्याः, किंतु कान्दिशीकान् प्रति, तान् पारुष्याश्लीलपरिहासादिवादानित्यर्थः । अहितशब्दोऽत्रावाच्यवादहेतुपर इत्यभिप्रायेणाह-शत्र- वो धार्तराष्ट्रा इति । यदि च भीष्मद्रोणकृपशल्यादयः किंचिद्वदेयुः, तदा शौर्यगौरवादिना सह्येतापि ; कथं पुनरशूरैः शूराभिमानिभिर्महापकारिभिः कृतान् बहूनवाच्यवादान् सहेथाः?-- इति भावः । ननु गुणविशिष्टवाचिशब्देषु हि तरबाद्यौचित्यम् , न जात्यादिशब्देषु ; न हि घटतर इत्यादिकं प्रयुज्यत इत्यत्राह-- तत इति। ततः अवाच्यवादात् , तच्छ्रवणादिति फलितम् । दुःखशब्दः प्रातिकूल्य- विशिष्टवाची, प्रतिकूलतरमितिवत् 'दुःखतरम् ' इत्युक्तमिति अधिकतरशब्देन प्रत्ययार्थ निष्कृष्य करतो.भावः । तवेति-नहि त्वं रथ्यापुरुषः, न च समाध्यादिनिष्ठः, येनात्र दुःखिता न स्यादिति भावः। किंशब्दः पूर्व श्लोकोक्तदुःखतरमरणतत्पर इत्याह-एवमिति। त्वमेव संस्यस इति--गाण्डीव 1. भोक्ष्यामि. । . . . . . 0 ६८ श्रीमद्भगवदीतायां अत: शूरस्यात्मना परेषां हननम् , आत्मनो वा परैर्हननम् , उभवमपि श्रेयसे भवतीत्याह- हतो वा प्राप्स्यसे स्वर्ग जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥ धर्मयुद्धे परैर्हन्यसे चेत्, 'तत एव परमनिःश्रेयसं प्राप्स्यसि; परान्वा हत्वा अकण्टकं राज्यं भोक्ष्यसे । अनभिसंहितफलस्य युद्धास्यस्य धर्मस्य परमनिःश्रेयसोपाय- त्वात् तच्च परमनिःश्रेयसं प्राप्स्यसि । तस्माद्युद्धायोद्योगः परमपुरुषार्थलक्षणमोक्षसाधनामिति निश्चित्य तदर्थमुत्तिष्ठ । कुन्तीपुत्रस्य तवैतदेव युक्तमित्यभिप्रायः ॥ मुमुक्षोयुखानुष्ठानप्रकारमाह- . . सामर्थ्यादिनिन्दाप्रसङ्गे धर्मपुत्रमपि हि त्वं हन्तुमुद्योश्यसे; किं पुनः कर्णादीन् ? अत इदानीं निवृत्तोऽपि तदा दुःसहतरदुःखप्रेरितो युद्धं करिष्यसीति हृदयम् । 'हतो वा' इति श्लोकं पूर्वश्लोकवाक्यशेषतयावतारयति- अत इति । उभयथापि तव लाभ इति भावः । 'प्राप्स्यसे' 'भोक्ष्यसे' इत्यर्जुनं प्रत्यभिधानेऽपि, 'शूरस्य' इत्यादिसाधारणाभि- धानं भीष्मादिहननस्य तच्छ्रेयोहेतुतया शोकहेतुत्वं नास्तीति ज्ञापनार्थम् । श्रेयसे इति- अनेन यथे. च्छं स्वर्गराज्यादिसुखापवर्गान् संगृह्णाति। नहि हतत्वमात्रात् पुरुषार्थ इत्यत उक्तम्-धर्मयुद्ध इति । तत एवेति--श्रेयःसाधनतया शास्त्रसिद्धहननादेवेत्यर्थः । परमनिःश्रेयसमिति--स्वर्गशब्दोऽत्रामृत- त्वप्रकरणात् परमनिःश्रेयसपरः तत्स्थानपरो वा; यथा-- ‘स एतेन प्राज्ञेनात्मनामुष्मिन् स्वर्ग लोके सर्वान् कामानाप्त्वामृतः समभवत् ', 'अनन्ते स्वर्ग लोकेऽज्येये प्रतितिष्ठति', 'स्वर्गलोका अमृतत्वं भजन्ते' इति । 'राज्यं सुराणामपि चाधिपत्यम्' इति क्षुद्रस्वर्गापेक्षकार्जुनोद्देशेन वचनाच अयमेवार्थ इति भावः । परान्वा हत्वेति-- महारथानां भीष्मद्रोणकर्णादीनां जयो हि हननमन्तरेण न युज्यत इति भावः । 'जित्वा' 'भोश्यसे' इत्युभाभ्यां फलितमुक्तम्-- अकण्टकमिति । प्रतिकूलेषु जाग्रत्सु राज्यं सिद्धमपि हि न भोगाय स्यादिति भावः । अर्जुनानाहतराज्यभोगमात्रपर्यवसानव्युदासागाह- अनभिसंहितेति; मुमुक्षोहि राज्यभोगादिरानुषङ्गिकः । संबुद्धितात्पर्यमाह- कुन्तीपुत्रस्येति; 'मृतं सूते क्षत्रिया राजपुत्री' इति हि प्रसिद्धम् ; न हि सिंहीसुतेन हरिणीकुमारचरितमनुसरणीयम् ; न च शुरक्षेत्रजन्मना त्वया महीयसो धर्मस्य विच्छेदः कार्य इति भावः ॥ एवमस्थानहकारुण्यधर्माधर्मचियाकुलत्वमुपशमितम् । अथ धर्मत्वेन स्थापितस्य. मुमुक्षुविष- यानुष्ठानप्रकारं वदतीलाह-मुमुक्षोरिति । नहि राज्यादिकामानामीदृशी बुद्धिरपेक्षिता ; अतोऽल्पा- .. .
द्वितीयोऽध्यायः । . .. सुखदुःखे समे कृत्वा लाभालाभौ जयाजयो। ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥ एवं देहातिरिक्तमस्पृष्टसमस्तहेयस्वभावं' नित्यमात्मानं ज्ञात्वा युद्ध चावर्जनीय-- शस्त्रपातादिनिमित्तसुखदुःखार्थलाभालाभजयपराजयेषु अविकृतबुद्धिः स्वर्गादिफलाभिसंधि- रहित: केवलकार्यबुद्ध्या युद्धमारभख । एवं कुर्वाणो न पापमवाप्स्यमि पापं दुःखरूपं संसार नावाप्स्यसि ; संसारबन्धान्मोक्ष्यस इत्यर्थः । एवमात्मयाथात्म्यज्ञानमुपदिश्य तत्पूर्वकं मोक्षसाधनभूतं कर्मयोगं वक्तुमारभते- एषा तेऽभिहिता सांख्ये बुद्धिोंगे विमां शृणु । 'बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥ स्थिरदुःखमिश्रयुद्धसाध्यफलेन किं ममेति नाशङ्कनीयमिति भावः । पूर्वोक्तमात्मतत्त्वज्ञानमनुष्ठान- दशायामनुवर्तनीयतया दर्शयति- एवमिति । देहातिरिक्तमिति--सति धर्मिणि हेयविरहादिधर्मचि. न्तेति भावः । पौनरुक्त्यभ्रमपरिहाराय लाभालाभयोर्धनादिविषयत्वमुक्तम् । विषमयोः सुखदुःखप्रवाह योः समीकरणं कथमित्यत्रोक्तम्--- अविकृतबुद्धिरिति । विकारो हर्षशोकादिरूपः । तदभावकथनेन विवेकादिसप्तकान्तर्गतानवसादानुद्धर्षयोर्ग्रहणम्। 'युद्धाय' इति तादर्थ्यविभक्तिसूचितान्यार्थत्यनिवृत्ति- रुच्यते--- स्वर्गादीति । ‘मा फलेषु कदाचन', 'एतान्यपि च', इत्यादि वक्ष्यमाणमत्रानुसहितम् । 'ततः' इत्यस्योपयुक्तहेतुविशेषपरत्वमेवोचितम् ; आनन्तर्यादिपरत्वं त्वनुपयुक्तमित्यभिप्रायेणाह-- के. वलकार्यबुद्धयेति । पापशब्दोऽत्र न गुरुवधादिशङ्कितपापपरः ; युद्धस्य स्वधर्मतामात्रेण तन्निवृत्ती सुखदुःखसाम्यादिबुद्धिविशेषस्य एवम्' इत्यनूदितस्य नैरर्थक्यप्रसङ्गात् । न च कृतपापपरः, नावा- प्स्यसीत्यनन्वयात् । करिष्यमाणे च न प्रायश्चित्तम् । न च विद्याव्यतिरिक्तेषु उत्तराघाश्लेषः । अतो- ऽत्र अमृतत्वप्रकरणात् मुमुक्ष्यपेक्षया अनिष्टफलत्वाविशेषेण पुण्यपापरूपसकलसांसारिकधर्मपरः । ततश्च तत्फलभूतः संसारोऽत्र लक्ष्यत इत्यभिप्रायेणाह---दुःखरूपं संसारमिति। नैवं पापमवाप्स्यसि' इत्युक्ते पापहेतुत्वाभावमात्र प्रतिभातीत्यत्राह-संसारबन्धादिति । परम्परयेति शेषः। 'सोऽमृतत्वाय कल्पते' इति पूर्वोक्तमिह स्मारितम् ॥ अब पूर्वप्रकरणोक्तशोकापनादनहेतुषु प्रधानार्थेनोत्तरप्रकरणारम्भं संगमयति- एवमिति । तत्पूर्वकशब्देनात्मज्ञानकर्मयोगयोः क्रमाभिधानौचित्यमुक्तम् । आत्मयाथात्म्यज्ञानोपदेशानन्तरं तश्चि न्तनरूपज्ञानयोगाभिधानस्यौचित्येऽपि तस्य कर्मयोगसाध्यत्वात् प्रथमं कर्मयोग उच्यते ; पश्चात्तु तत्फ- लतया 'प्रजहाति यदा कामान् ' इत्यादिना ज्ञानयोगो वक्ष्यते । वक्तुमिति- प्रसक्तं प्राधान्येनप्रप. 1. ...देहखभावं. । . .
श्रीमद्भगवद्गीतायां - संख्या बुद्धिः; बुदयावधारणीयमात्मतत्त्वं सांख्यम् । ज्ञातव्ये आत्मतस्थे तज्ज्ञा- नाय या बुद्धिरभिधेया, 'नत्वेवाहम्' इत्यारभ्य ‘तस्मात्सर्वाणि भूताणि न त्वं शोचितु- महसि' इत्यन्तेन सैषां अभिहिता। आत्मज्ञानपूर्वकमोक्षसाधनभूतकर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः, स इह योगशब्देनोच्यते; 'दूरेण प्रवरं कर्म बुद्धियोगाधनलय' इति हि वक्ष्यते । तत्र योगे या बुद्धिर्वक्तव्या, तामिमामभिधीयमानां शृणु, यया बुद्धया युक्तः कर्मबन्धं प्रहास्यसि । कर्मणा बन्धः कर्मबन्धः, 'संसारबन्ध इत्यर्थः । वक्ष्यमाणबुद्धियुक्तस्य कर्मणो माहात्म्यमाह- नेहाभिकमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥ . - चयितुमित्यर्थः । सांख्ययोगाख्यवेदविरोधितन्त्राभिधानभ्रमम् , सांख्यशब्दस्यात्र 'ज्ञानयोगेन सां ख्यानाम्' इति वश्यमाणज्ञानयोगविषयत्वभ्रमं च व्युदस्यन्नाह-- संख्येति । 'बुद्धिर्मतिश्च मेधा संख्या संवित्तिरुपलब्धिः' इति नैघण्टुकाः । 'पुरुषं निर्गुणं सांख्यम्' इत्याद्यौपनिषदप्रसिद्ध्या पर- मात्मवदात्मन्यपि. सांख्यशब्द उपपन्नः । न च 'शानयोगेन सांख्यानाम्' इत्यादिष्वर्थवैरूप्यप्रसङ्गः, तबुद्धियोगेन सर्वत्र तच्छन्दप्रयोगात् । सदपि च वैरूप्यं प्रकरणाद्यानुगुण्येन सर्वत्र सह्यते । एक- वचनस्य जात्यभिप्रायत्वज्ञापनाय आत्मतत्त्वमित्युक्तम् । तज्ज्ञानायेति- अनेन तन्निर्णयमात्रमव्यव. हितफलमिति दर्शितम् । बुद्धिरिति-- निर्णयफला वाक्ययुक्तिपरामर्शगर्भा बुद्धिर्विवक्षितेति न साध्य- साधनभावविरोधः ।, अथवा बुद्धिरिह शास्त्रनिष्पाद्यो निर्णयः ; तज्ज्ञानायेति साक्षात्कारादिपरः । आत्मतत्त्वाभिधानप्रदेशमवच्छिद्याह-- न त्वेवेति । ततः परस्तात्तु 'स्वधर्मम्' इत्यादिना धर्माधर्म भ्रमास्थानस्नेहयोराक्षेपो हि क्रियत इति भावः। योगशब्दस्यात्र प्रकरणादिविशेषितमर्थमाह--- आत्मज्ञानेत्यादिना । इहेत्यभिप्रेतं विवृणोति --- दूरेणेति । 'इमाम्' इति निर्देशसूचितमविलम्बि- ताभिधानमाह -- अभिधीयमानामिति । एतेन अनुष्ठानानुप्रविष्टबुद्धेः, तद्विषयाभिधीयमानबुद्धेश्च भेदोऽपि दर्शितः । यद्वा अनुष्ठानप्रकारविषयबुद्धिजनकमभिधानं शृण्वित्यर्थः । एतेन कर्मयोगशब्दोऽ प्यत्र बुद्धिविशेषयोगमूल इति दर्शितम् । 'बुद्धया' 'यया' इत्यनयोर्वैयधिकरण्येन क्रियाद्वयान्वय भ्रमं निरस्यति- यया बुद्धया युक्त इति । कर्मबन्धशब्दस्यानतिशयितार्थसमासान्तरमपाकरोति- कर्मणा बन्ध इति । ' तृतीया तत्कृतार्थेन गुणवचनेन' इति तत्पुरुषः । बन्धशब्दस्यात्र मुख्यार्था- संभवादभिप्रेतमाह--'संसारेति । एतेन अनुष्ठीयमानकर्मसंबन्धहानभ्रमोऽपि निरस्तः ॥ ननु 'इमां शृणु'इत्युक्ते अनन्तरम् 'व्यवसाय...' इत्यादि वक्तव्यम् ; मध्ये 'नेहाभिक्रम...' इत्येतन्न संगच्छत हत्यत्राह-वक्ष्यमाणेति। उपक्रमे माहात्म्यकथनेन बुभुत्सातिशय जननाय प्ररोचना . . .
द्वितीयोऽध्यायः । " - इह कर्मयोगे नाभिकमनाशोऽस्ति- अभिक्रम आरम्भः, नाशः फलसाधनभाव- नाश: ; आरब्धस्यासमाप्तस्य विच्छिन्नस्यापि न निष्फलत्वम् । आरब्धस्य विच्छेदे प्रत्यवा- योऽपि न विद्यते । अस्य कर्मयोगाख्यस्य धर्मस्य स्वल्पांशोऽपि महती भयात् संसारभयान त्रायते । अयमर्थ:- 'पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यत' इत्युत्तरत्र प्रपथयिष्यते; अन्यानि हि लौकिकानि वैदिकानि च साधनानि विच्छिन्नानि न फलाय भवन्ति, प्रत्यवा- याय च भवन्ति ।। 'काम्यकर्मविषयाया बुद्धर्मोक्षसाधनभूतकर्मविषयां बुद्धिं विशिनष्टि- व्यवसायात्मिका बुद्धिरेकेह'कुरुनन्दन । बहुशाखा घनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥ इह शास्त्रीये सर्वस्मिन् कर्मणि व्यवसायामिका बुद्धिरेका । मुमुक्षुणानुष्ठेये क- क्रियत इति भावः । 'इह ' इत्यनेन सूचित कर्मान्तरेभ्यो वैलक्षण्यमाह--- कर्मयोग इति । अभि- मुखक्रमणशङ्का व्युदस्यति-- अभिक्रम आरम्भ इति । उपक्रमशब्दवदयमिति भावः। क्रियारूप- स्याभिक्रमस्य कथमविनाशित्वमित्यत्राह-- नाशः फलसाधनभावनाश इति । तात्पर्यमाह-- आरब्धस्येति । प्रत्यवायशङ्काहेतुं दर्शयन् द्वितीयं पादं व्याकरोति- आरब्धस्य विच्छेद इति । उक्तविवरणरूपमुत्तरार्धे व्याख्याति-अस्येति । संसारभयादिति- महत्त्वविशेषितं भयं संसारभय- मेव हीति भावः । स्वल्पांशस्यापि संसारनिवृत्तिहेतुत्वं देशकालादिवैगुण्यात् प्रामादिकाकृत्यकरणादिना च विच्छिन्नस्याप्यवश्यं पुनः संधानादिति दर्शयन्नस्य श्लोकस्योक्तार्थकपरत्वं संग्रहविस्तररूपत्वेन वक्ष्य अयमर्थ इति । कृतांशस्य कथं नाशप्रसङ्ग इति शङ्कायाम् 'इह' इत्यस्य व्यवच्छेद्यं दर्शयति- अन्यानि हीति । लौकिकानीति अतिशङ्काहेतुर्दृष्टान्त उक्तः । वैदिकानीति मामान्यनिर्देशस्यायं भावः- नित्यनैमित्तिकान्यपि विच्छेदे सति न फलाय स्युः, प्रत्यवायाय च भवेयुः, अशक्त्यादिमूलमीपद्वैकल्यमानं हि तत्र सह्यम् ; काम्येषु तु अङ्गवैकल्येऽपि नैष्फल्यमिति विशेष:-- इति। प्रत्यवायाय च भवन्तीति- न केवलं स्वर्गादेरलाभमानम् , ब्रह्मराक्षसत्वप्राप्त्या दिरपि स्यादिति भावः॥ एवं माहात्म्याभिधानव्याजेनास्य कर्मणः सर्वकर्मभ्यो वैषम्यमुक्तम् । अथोपदेष्टव्यतया प्रतिज्ञातां तद्विषयबुद्धिं काम्यकर्मविषयबुद्धिभ्यो हेतुफलवैषम्येण विशिंषन्नुपदिशतीत्याह-काम्येति । 'इह' इति संगृहीतमाह- शास्त्रीये सर्वस्मिन् कर्मणीति। अविहिताप्रतिषिद्धलौकिककर्मणामभिन्नफलत्वात्। तनिष्यत्वेऽप्यैक्यं माभूदित्यत उक्तम्- शास्त्रीय इति । यद्वा संग्राहकोपाधिकथममिदम् ; प्रस्तुतयुद्धा- दिमात्रव्युदासाय सर्वस्मिन्निति नित्यनैमित्तिककाम्यतदवान्तरविधाभेदसंग्रहः । नानाकर्मविषयना- 1. कर्मणा भिमफलत्वात् । माणापौनरुक्त्यं चाह--- श्रीमद्भगवदीत मणि बुद्धिः व्यवसायात्मिका बुद्धिः। व्यवसायो निश्चयः । सा हि बुद्धिरात्मयाथात्म्यनिश्चय- पूर्विका ; काम्गकर्मविषयां तु बुद्धिरव्यवसायात्मिका । तत्र हि कामाधिकारे देहातिरिका- मालित्वमात्रमपेक्षितम, नात्मस्वरूपयाथात्म्यनिश्चयः; स्वरूपयाथात्म्यानिश्चयेऽपि स्वर्गा- 'विफलार्थित्वतत्साधनानुष्ठानतत्फलानुभवानां संभवादविरोधाच । सेयं व्यवसायात्मिका नाबुद्धेः कथमेकत्वमिति शङ्कायां विशेषणप्रकरणसामर्थ्यफलितेन विषयेण बुद्धि विशिनष्टि--मुमुक्षुणे- ति । व्यवसायशब्देन कृत्यध्यवसायभ्रमं निरस्यति- निश्चय इति । पौनरुक्त्यव्युदासाय व्यवसाय- विषयं समासांशोत्तरपदलक्ष्यं च वदन् मुमुक्षुणेत्युक्तमुपपादयति- सा हीति । 'व्यवसायात्मिका' इत्येतद्यवच्छेद्यमाह-काम्येति । ननु देहातिरिक्तपारलौकिकात्मज्ञानमन्तरेण कथं देहान्तरानुभाव्य- स्वर्गादिसाधनयागादिमहाप्रयासानुष्ठानमित्यत्राह-तब हीति । कामनया अधिक्रियत इति वा, कामे. नाधिकारो यति वा, कामाधिकारः काम्यकर्म; तदधिकारित्वं वा; यद्वा तच्छास्त्रम् । अधिकारश्र भदभिलषितसाधनत्वान्मदर्थमिदं कर्मेत्यभिमानः। देहातिरिक्तात्मशब्देन देहान्तरपरिग्रहाईस्थिरत्वमभि- प्रेतम्, अन्यथा अतिरेकमात्रनिर्णयेऽपि देहसमकालनाशिवभ्रमे सति पारलौकिककाम्यकर्माननुष्ठान- प्रसङ्गात् । मात्रशब्दाभिप्रेतं विवृणोति--नात्मेति । आत्मस्वरूपयाथात्म्यं चात्र नित्यत्वस्वयंप्रकाश- त्वानन्दत्वभगवाकारत्वस्वाभाविकापहतपाप्मत्वादिरूपमभिप्रेतम् । ननु देहोत्तरकालमनुभाव्ययोः स्व- र्गापवर्गयोः, कचिदात्मास्तित्वज्ञानमात्रमपेक्षितम् । कचित्तद्याथात्म्यनिश्चयः, इति कुतोऽयं विवेक इत्य- त्राह- स्वरूपेति । अयमभिप्रायः-- कामाधिकारे याथात्म्यनिश्चयः अनुपपत्त्या वा शास्त्रबलाद्वा अपेक्ष्यते । पूर्वत्रापि याथात्म्यनिश्चयाभावे किं स्वर्गादिफलेच्छैव न स्यात्, उत तत्साधनानुष्ठानम् , उत तत्फलानुभवः ? न प्रथमः, सुखरूपतया प्रमाणसिद्धेषु स्वरसत इच्छासिद्धेः । द्वितीयः, तदर्थिनस्तदनुकूलकरणकलेबरादिमतः स्वस्य तत्फलकालेऽप्यवस्थानं निश्चिन्वतः पामर- कृष्यादिन्यायेनानुष्ठानोपपत्तेः । न तृतीयः, अविकलानुष्ठितोपायस्य फलोत्पत्तेरन्यनिरपेक्षत्वात् अनुभवार्थमेवोत्पन्नतया च तदनुभवसिद्धौ सार्वभौमादिभोगेष्विव स्वर्गादिभोगेष्वनुभववेलायाम प्यात्मयाथात्म्यानुभवनरपेक्ष्यात् । तदेतदखिलमुक्तम्- संभवादित्यन्तेन । अनुपपत्त्यभावोऽत्र संभवः । नापि शास्त्रबलादिति वक्तुं युक्तम् । शास्त्रमपि दृष्टार्थे वा विदधीत, अदृष्टार्थ वा । तत्र केवलधार्थत्वं दत्तोत्तरम् । अन्यत्रापि न तावद्यागादिकरणशरीरनिर्वर्तकत्वम्, तदनालोचनात् । नापि कर्तुरात्मनः संस्कारतयानुप्रवेशः, कामाधिकारप्रकरणेषु प्रोक्षणादिविधिवत् 'आत्मानं तत्त्वतो जानीयात ' इति विध्यभावात् , वेदान्तविहितविज्ञानस्य अतिशयितफलान्तरार्थत्वादिना कर्मशेषत्वाभा- वस्य शारीरके समर्थितत्वात् । आत्मतत्त्वानभिज्ञानामपि च स्वर्गादिफलं प्रतिपादयन्ति हि- 'प्लवा होते अहदा यज्ञरूपाः अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढाः' इत्याद्याः श्रुतः। 'यामिमा पुष्पितां वाचं प्रवदन्त्यविपश्चितः' इत्यादि चानन्तरमेवोच्यते । अविदुषां धूमादिमागेंण स्वर्गारोहणादिकं चोपनिषत्सु जोधुष्यते । अतो विध्यभावादेवारादुपकारकत्वमपि निरस्तम् । तदेतद- न . - . । ।
द्वितीयोऽध्यायः । इतिः एकफलसाधनाविषयतया एका; एकस्मै मोक्षास्यफलाय हि मुमुक्षोः सर्वाणि कर्माणि विधीयन्ते । अतः शास्वार्थस्यैकत्वात् सर्वकर्मविषया बुद्धिरेकैव ; यथा एकफलसाधनतया आ- प्रेयादीनां षण्णां सेतिकर्तव्यताकामामेकशास्त्रार्थतया तद्विषया बुद्धिरेका, तद्वदित्यर्थः । अव्य- वसायिनां तु स्वर्गपुत्रपश्वमादिफलसाधनकर्माधिकृतानां बुद्धयः फलानन्त्यादनन्ताः, तत्रापि बहुशाखाः । एकस्मै फलाय चोदितेऽपि दर्शपूर्णमासादौ कर्मणि 'आयुराशास्ते सुप्रजास्त्वमा- खिलमुक्तम्- अविरोधाश्चेति ; शास्त्रादिविरोधाभावादित्यर्थः । पक्षान्तरे च शास्त्रविरोधः स्यादिति च भावः। मोक्षाधिकारे तु निखिलमिदमन्यथा । तथा हि- यथावस्थितस्वरूपप्राप्तिरेव हि मोक्ष- पुरुषार्थः । स कथमनिश्चीयमान इष्येत ! कथं च तज्ज्ञानं तदिच्छामप्यन्तरेण तत्साधनमनुष्ठीयेत ? स्वरूपयाथात्म्यज्ञानं च विहिततया साधनानुप्रवेशीति कथं तद्यतिरेकेण साधनं पुष्कलमनुष्ठितं स्यात् ? कथं च स्वरूपाविर्भावलक्षणफलानुभवः स्वनिश्चयशून्यस्य स्यात् ?-- इति युक्तिविरोधः । चोदयन्ति च शास्त्राणि मोक्षस्य सर्वविधोपकारकतया आत्मतत्त्वज्ञानम् । अतस्तदभावे शास्त्रविरोधोऽपि स्यादिति ॥ ननु व्यवसायात्मिकाया बुद्धेः किमिदमेकत्वम् ? न तावद्यक्त्यैक्यम्, तथाविधबुद्धिसंतानासंभ वात् ; नापि विषयैस्यादेकरूपत्वम् , अङ्गप्रधानाद्यवान्तरविषयभेदेन तदयोगात् ; नापि समुदायगो- चरत्वात्तद्योगः, काम्यकर्मस्वपि तत्साम्यात् ; इत्यत उक्तम्- एकफलसाधनविषयवयेति। तदेबोप. पादयति- एकस्मै इति । सर्वाणीति- नित्यनैमित्तिककाम्यानां सर्वेषां कर्मणां मुमुक्षुणानुष्ठितानां साक्षात् परम्परया वा मोक्षसाधनोपकारित्वेन मोक्ष एक एव प्रधानं फलम् ; 'सर्वमायुरेति' इत्याद्य- बान्तरफलाभिधानमपि तदुपयोगित्वमात्रादिति भावः । अस्तु सर्वेषामेकफलसाधनत्वम् ; तथापि क्रमभाविकर्मस्वरूपनानात्वे कथं तदुदेरैक्यमित्यत्राह- अत इति। एकफलसाधनतया सर्वेषां कर्म- णामेकविधिगृहीतत्वेनैकशास्त्रार्थत्वात् तद्गोचरा बुद्धिवान्तरकर्मभेदसद्भावेऽपि एकशास्त्रार्थगोचरत्वादे- केत्युच्यत इत्यर्थः । पृथग्विधिसिद्धानां पृथग्वास्यसिद्धेतिकर्तव्यताकानां कथमेकशास्त्रार्थत्वमिति अत्रो- कप्रकारेणैकत्वे दृष्टान्तमाह- यथेति । आमेयादयो हि सेतिकर्तव्यताकाः षड्यागा उत्पत्तिवाक्यैः पृथगुत्पन्नाः समुदायानुवादिवाक्यद्वयेन समुदायद्यत्वमापन्नाः कामाधिकारे पुनरेकफलसाधनत्ववेषेण एकतया विधीयन्ते । यथा चैकशास्त्रार्यगोचरतया तशुद्धिरप्येकैव, तदित्यर्थः । 'अव्यवसायिनाम् ' इति हेतुपरमिस्याह--- स्वर्गपुत्रेत्यादिना फलानन्यादनन्ता इति । फलबाहुल्यात् बहुलाः; स्वर्गायनन्तफलमेदेन तत्साधनानामपि कर्मणां भिन्नशास्त्रार्थत्वात् तद्विषया बुद्धयोऽपि यावत्फलभेद भेदिन्य इत्यर्थः । अनन्त-बहुशाख-शन्दयोः प्रधानाप्रधानस्वरूपभेदप्रकारभेदविषयतया पौनरुक्त्य पुरिहरन् कर्मभेदापादकत्वाभावेऽपि वैषम्यान्तरपरं बहुशाखशन्दं व्याचष्टे-तत्रापीति । एकैकस्यैव बहुशासत्वमुपपादयति- एकस्मै इति । एकैकमपि काम्यकर्म प्रधानफलावच्छिन्नवेषेण एकपादपस्या- नीयम् अविरोधिगुणफलाद्यवच्छिन्नतत्तदंशभेदेन बहुशाखं भवति । मोषशास्त्रे व सर्वायुःप्राप्त्यादिकमपि . . । B 10 श्रीमद्भगवद्गीतायां शास्ते' इत्याचवान्तरफलभेदेन बहुशाखत्वं च विद्यते । अतोऽव्यवसायिनां बुद्धयोऽन- न्ता बहुशाखाश्च । एतदुक्तं भवति-नित्येषु नैमित्तिकेषु च कर्मसु प्रधानफलानि अवान्तर- फलानि च यानि श्रूयमाणानि, तानि सर्वाणि परित्यज्य, मोक्षैकफलतया सर्वाणि कर्माण्येक- शास्त्रार्थतयानुष्ठेयानि ; काम्यानि च कर्माणि स्ववर्णाश्रमोचितानि, तत्तत्फलानि परित्यज्य, मोक्षसाधनतया नित्यनैमित्तिकैरेकीकृत्य यथावलमनुष्ठेयानि- इति ।। . साधनानुष्ठानाद्यर्थत्वेन मोक्षोपयोगितया तदेकफलान्तर्भूतमित्युक्तम् । वैषम्यद्वयोपपत्तिस्थैर्याभिप्रायेण निगमयति- अत इति; प्रधानावान्तरफलभेदादित्यर्थः । आकाङ्क्षाक्रमेणान्वयप्रदर्शनाय अनन्ता बहुशाखा इति व्युत्क्रमेण व्याख्यातम् ।। .. ननु कथं भिन्नप्रधानावान्तरफलसाधनतयैव विहितानां नित्यनैमित्तिककाम्यकर्मणामेकमेव फलं स्यात् ! तत् कथंतरामेकशास्त्रार्थत्वम् ! काम्यानां च कर्मणां निष्कामेन कथमनुष्ठानम् ? यदि च तत्तत्काम्यफलाभावेऽपि तत्तत्काम्यकर्मानुष्ठानम् , तर्हि तत्तदधिकाराभावेऽपि ब्राह्मणादेः क्षत्रियादि- धर्मानुष्ठानप्रसङ्गः; सर्वकाम्यकर्मोपसंहारः फलादिविरोधाद्याहतो दुष्करश्च । कतिपयोपसंहारे तु किं कियदनुष्ठेयमित्यत्र किं नियामकम् ? इत्यादिशङ्कापरिहाराय बुद्धयेकत्वबहुत्वोक्तेः प्रयोजनमाह-एतदुक्त- मिति । नित्यनैमित्तिकयोः प्रधानफलानि अवान्तरफलानि च प्राजापत्यलोकादिप्राप्त्युपात्तदुरितक्षया- करणनिमित्तप्रत्यवायपरिहाररूपाणि'; संवलितनित्यनैमित्तिकयोरप्यन नित्यनैमित्तिकशब्देन संग्रहः । काम्यशब्दः केवलकाम्यपरः । ननु तानि सर्वाणि परित्यज्यत्ययुक्तम् , मुमुक्षोरप्युपात्तदुरितक्षयादेर- वश्यापेक्षितत्वादित्यत उक्तम्- मोक्षकफलतयेति । दुरितक्षयादेरप्यन्तःकरणशुद्धिद्वारेणोपकारक- त्वान्न पृथक्फलत्वमिति भावः । एकशास्त्रार्थतयानुष्ठेयानीति- विनियोगभेदादन्यत्र भिन्नफलत्वं भिन्नशास्त्रार्थत्वं च ; अत्र तु सर्वेषामप्येकत्र विनियुक्तानां फलैक्यं शास्त्रैक्यं च युज्यते । सिद्धं च नित्यकाम्यज्योतिष्टोमादावपि विनियोगपृथक्त्वमिति भावः । स्ववर्णाश्रमोचितानीति- कस्यचिद्धि किंचित्फलमुद्दिश्य कानिचित्कर्माणि विधीयन्ते; तेषामेव कर्मणां फलान्तरार्थतया विनियोगेऽपि स एवाधिकारी भवितुमर्हति, 'क्लप्तकल्प्यविरोधे तु युक्तः क्लप्तपरिग्रहः' इति न्यायादधिकार्यन्तरक- ल्पने प्रमाणाभावात् ; यथा नित्यकाम्यज्योतिष्टोमादौ, यथा चाध्ययनस्य जपादाविति भावः । निष्कामस्य काम्यकर्मानुष्ठानोपपादनायोक्तम्- तत्तत्फलानि परित्यज्य मोक्षसाधनतयेति । नित्यने- मित्तिकैरेकीकृत्येति-- एकफलसाधनतर्यकशास्त्रार्थीकृत्येत्यर्थः । यथाबलमिति- शक्त्यनुरोधेन हि शास्ति शास्त्रम् । आह च मनु:-'तरि कुर्वन्यथाशक्ति प्राप्नोति परमां गतिम्' इति । एवं नित्य- नैमित्तकयोरिव काम्येयपि मुमुक्षोः कतिपयाङ्गवैकल्येऽपि न दोष इत्युक्तं भवति । एतेन विकेटे प्रत्यवायाभावकथनमपि न ज्योतिष्टोमाद्येकैकान्तर्विच्छेदपरम् , अपि त्वा मोक्षादनुष्ठेयैकशास्त्रार्थभूतकर्म- 1. परिहारादिवाणि, ।
द्वितीयोऽध्यायः । ७५ भय काम्यकर्माधिकृतानिन्दति- यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ ४२ ॥ कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुला भोगैश्वर्यगति प्रति ॥ ४३ ॥ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४४ ॥ यामिमां पुष्पितां पुष्पमात्रफलाम् आपातरमणीयाम् , वाचम् अविपश्चितोऽल्प- ज्ञा भोगैश्वर्यगति प्रति वर्तमानां प्रवदन्ति ; वेदवादरता: वेदेषु ये स्वर्गादिफलवादा:, तेषु सक्ताः; नान्यदस्तीति वादिनः तत्सनातिरेकेण स्वर्गादेरधिकं फलं नान्यदस्तीति व- कलापे प्रयाजादिवत् इतिकर्तव्यतास्थानीयैकैककर्मानुष्ठानेऽपि देशादिवैगुण्यकृतोत्तराननुष्ठानपरमिति च दर्शितम् ॥ एवं काम्यकर्मविषयबुद्धितो मोक्षसाधनभूतकर्मविषयाया बुद्धेलक्षण्यमुपपाद्य अनन्तरं मोक्ष- साधने प्रवृत्तिशैघ्रयार्थमितरफलवैतृष्ण्यजननाय तत्तत्कलसाधनकर्माधिकृतान्निन्दतीत्युपरितनश्लोकत्रय- मवतारयति- अथेति । काम्यकर्माधिकृतानिति--काम्यकर्मसु स्वर्गादिस्वाभिलषितसाधनत्वस्वार्थ- ताबुद्धियुक्तानित्यर्थः । 'पुष्पिताम्' इत्येतत् फलव्यवच्छेदमुखेन असुखोदकत्वपरमित्यभिप्रायेणाह आपातरमणीयामिति । अल्पज्ञा इति--विविधं पश्यश्चित्त्वं हि विपश्चित्त्वम् ; 'पृषोदरादीनि यथो- पदिष्टम्' इति पश्यच्छन्दावयवस्य यच्छन्दस्य लोपः; तश्च बहुशत्वम् ; तद्यतिरेकश्वात्रोपनिषत्सा- ध्यस्थिरास्थिरादिविवेकाभावादल्पशत्वमिति भावः । 'जन्मकर्म-' इत्यादेर्गतिविशेषणत्वभ्रमव्यु दासाय, 'गति प्रति' इत्यस्यापेक्षितपूरणाय च, क्रममुल्लङ्गय प्रागेवोपात्तम्- भोगैश्वर्यगति प्रति वर्त- मानामिति । एतेन वाचमित्येतस्य काम्यविधिभागपरत्वमुक्तं भवति ; सामान्येन वैदिकनिन्दाभ्रमम- पाकरोति- स्वर्गादिफलवादा इति। वेदशन्दोऽत्र 'वेदेषु वेदान्तेषु च गीयते' इत्यादाविव कर्म- भागपरः । तत्रापि विधिभागफलभागविषयतया, पुरुषवाक्यवेदवाक्यविषयतया वा, 'वाचम् ' 'वेद- वाद:' इत्यनयोरपौनरुक्त्यमिति भावः । नान्यदस्तीति वादे पूर्वोत्तरपदानामर्थ हेतुतयोपादत्ते-- तत्सङ्गातिरेकेणेति । अपवर्गस्वरूपनिषेधोऽशक्य इत्यभिप्रायणोक्तम्-- अधिक फलमिति। 'वादि- 1. विधिमामफलार्थवादभाग...; विधिभागफलार्थवादाविषयतया । - সৰুৰো दन्तः ; कामात्मानः कामप्रवणमनसः ; स्वर्गपराः स्वर्गपरायणाः; स्वर्गादिफलावसाने पु- नर्जन्मकर्माख्यफलप्रदां क्रियाविशेषबहुला तत्त्वज्ञानरहिततया क्रियाविशेषप्रचुरां तेषां भोगै- श्वर्यगति प्रति वर्तमानां यामिमां वाचं ये प्रवदन्तीति संबन्धः । तेषां भोगैश्वर्यप्रसक्तान तया 'वाचा भोगैश्वर्यविषयया अपहतात्मज्ञानानां यथोदितव्यवसायात्मिका बुद्धिः, समाधौ मनास, . नः' इत्यनेन तथावदनशीलत्वविवक्षाव्यसनाय बदन्तः इति वर्तमानप्रत्ययान्तेन व्याख्यातम् । काम- प्रवणमनस इति— कामेष्वात्मा मनो येषां ते कामात्मान इति ब्यधिकरणबहुव्रीहिरिति भावः । स्वर्गपरायणा इति--- स्वर्गः परायणं परमप्राप्यं येषां ते स्वर्गपरायणाः, मोक्षे विमुखा इति भावः । कामात्मानः स्वर्गपराः' इति पदद्वयस्य सामान्यविशेषविषयतया दृष्टादृष्टविषयतया या हेतुसाध्य. विषयतया वा कामोन्मुख्यान्यवैमुख्यपरतया वा पुनरुक्तिपरिहारः । स्वर्गादिफलभोगमध्ये जन्मादि. भ्रमं व्युदस्यति- स्वर्गादिफलावसान इति । 'यावत्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते' 'प्राप्यान्तं कर्मणस्तस्य यत्किंचेह करोत्ययम् । तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे' 'आ ब्रह्मभु- बनालोकाः पुनरावर्तिनोऽर्जुन' 'स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः' इत्यादिश्रुति- स्मृतय इह द्रष्टव्याः । जन्मवत् कर्मणोऽप्यनुशयाख्यकर्मशेषफलत्वख्यापनाय समानाधिकरणसमासतां दर्शयति- जन्मकर्माख्यफलप्रदामिति । कर्मशेषेण पुनरुत्कृष्टापकृष्टजन्मप्राप्तौ श्रुतिस्तावत्- 'लवा ह्येते अदृढा यशरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापि यन्ति' 'तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापोरन् ब्राह्मणयोनि वा क्षत्रिययोनि वा वैश्ययोनि वा ; अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्व- योनि वा सूकरयोनि वा चण्डालयोनि वा' इत्यादिः । जन्मकर्मादेः सर्वस्य कर्मशेषमूलत्वे स्मृतयश्च- 'वार्णा आश्रमाच; स्वकर्मनिष्ठाः प्रेत्य स्वकर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुत- वित्तवृत्तसुखमेधसो जन्म प्रतिपद्यन्ते, विष्वञ्चो विपरीता नश्यन्ति' इति । तथा 'ततः परिवृसौ कर्म- फलशेषेण जाति रूपं वर्ण, बलं मेधां प्रज्ञा द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यते ; तश्चक्रवदुभयोलों कयोः सुख एव वर्तते' इत्यादयः । वैराग्यपादे चायमों व्यक्तमनुसंधेयः । अत्र जन्माख्यकर्मफल प्रदामिति केषुचित्कोशेषु पाठः । ननु ज्योतिष्टोमादिक्रियाविशेषस्वरूपमात्र कामिनो शानिनच समा- नम् ; तत्कथं - क्रियाविशेषबहुलाम्' इति कामिनो विशिष्याभिधीयते ? तत्रोक्तम्-तस्वज्ञानरहित तयेति । शानिनो हि सर्वे कर्म क्रियमाणमपि ज्ञानप्रचुरमेव ; तजैकफलसाधनतया एकशास्त्रार्थरूपम् ; न च मोक्षानुपयुक्ताः सर्वे क्रियाविशेषास्तेन क्रियन्ते । अतः प्रयासबहुलं परिमितनश्वरफलं च अमुमुक्षोः कर्मेति भावः । अन्येषां वाचा अन्येषामपहृतचित्तत्वभ्रमं ब्युदस्वन् , षष्ठयन्तपदयोरराष्टविशेष्ययोः प्रस्तुतविशेष्यविषयत्वं चाह--तेषामिति । तयेति- यदृत्तप्रतिनिर्देशलपव्याख्येयोपादानं तत्परा टिन् : प्रकृतं चतोऽपहरणहेतुमा - भोगैश्वर्यविषययेति । 'अपहृतचेतताम् ' इत्यस्य पूर्वपदेनार्यनक- किपरिहाराय तदर्थ प्रकृतव्यवसायात्मकबुद्धयभावहेतुत्वाय च उक्तम्-- अपहलवामानामिति । , .. .
द्वितीयोऽध्यायः । y नविधीवते नोल्पते। समाधीयतेऽस्मिन् आत्मज्ञानमिति समाधि ममः । तेषां ममसि आत्म- यावावनिश्चयपूर्वकमोक्षसाधनभूतकर्मविश्वा पुद्धिः कदाचिपि मोत्पात इत्यर्थः । अत: काम्बे कर्मसु मुमुक्षुणा म सनः कर्तव्यः ।। एवमत्यल्पफलानि पुनर्जन्मप्रसवानि कर्माणि मातापितृसहस्त्रेभ्योऽपि वत्सलतरतया आत्मोजीवने प्रवृत्ता वेदाः किमर्थं वदन्ति, कथं वा वेदोदितं त्याज्यतयोच्यते, इत्यत आह- प्रैगुण्यविषया वेदा निस्वैगुण्यो भवार्जुन । निन्दो नित्यसत्त्वस्थो नियोगक्षेम आत्मवान् ॥ ४५ ॥ यावानर्थ उदपाने सर्वतः संप्लुतोदके। तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ।। यथोदितेति- प्रागुक्तप्रकारेत्यर्थः । 'न विधीयते' केनचि तुना न क्रियते इत्यर्थः । ततस्तत्कलितमु च्यते-नोत्पद्यत उति । समाधिशब्दस्य बुद्धिविशेषविवक्षायामसानन्धयात् मनोविषयत्वे व्युत्पति- माह--समाधीयतेऽस्मिमिति ; निधीयतेस्मिमिति निधिरितिवदिति भावः । यथोदितेत्यायुक्तं प्रकार विवृणोति तेषां मनसीत्यादिना । 'विधीयते' इति वर्तमाननिर्देशतात्पर्यसिद्धमुक्तम्--- कदा- चिदपीति । एषां निन्दा किमर्थेत्यत आह- अत इति; व्यवसायात्मकबुदिविरोधित्वादिस्यर्थः । मुमुक्षुणा न सङ्गः कर्तव्य इति–निःसङ्गेन काम्यानामपि करणमनुमन्यते ; स्वरूपमात्रस्य मोक्ष- विरोषित्वाभावात् । मोक्षेम्छा अस्तिचेत् बन्धकेन्छा न कायेंत्युक्तं भयंति ॥ अथैवं काम्यकर्मसु तदधिकृतेषु च निन्दितेषु हिततमोपदेशिनः शास्त्रस्य ईदृशकर्मविधानमनुपप. मम् । विहितस्य चात्र त्याज्यतयोपदेशो व्याहतः । कर्मविधिशास्त्राणामप्रामाण्यं ना, तत्प्रामाण्ये वा तनिषेधोपदेशस्याप्रामाण्यं प्रसज्यत इति शङ्कामुत्तर श्लोकहयेन परिहरतीत्याह-एवमत्यल्पेत्यादिना । पुनर्जन्म येषां प्रसवभूतं सानि पुनर्जन्मप्रसवानि । संसारविपिनवानस्पत्यानां हि कर्मणां परिणिनंसोः फलस्य नियतपूर्वत्वसूचकत्वादिभिर्देहविशेषपरिग्रहः प्रसूनस्थानीयः । प्रियहितोपदेशितया मातापि- त्रोरुपादानम् । सर्वजन्मानुत्तिदूचनाय सहस्रशन्दः । सर्वात्मसाधारणतया चतुर्विधपुरुषार्थसकला. पुरुषार्थनिवृत्तितत्साधनाभिधायितया कदाचिदप्यनुपरमादिना च वत्सलतरत्वोक्तिः । अतिशबहेतुत्रयम् 'आत्मोजीवने प्रवृत्ताः' इति त्रिभिः सूचितम् । नहि देहारोग्यादिमात्रे कदाचिदेव म्यापूता इति क्रमात् त्रयाणां भावः । किमर्थ बदन्तीति न तावत्प्रतारणार्थम् , हितोपदेशित्वात् ; नापि हिता- न्तरपर्यवसितोपच्छन्दनार्थम्, प्रतिप्रकरण तत्तत्कलमालपर्ववसितत्वात् । अत. अनायातिशयपरमकार- णिकपुरुषोत्तमामालपाणां रानाम् आमूलपयक्तानमपरिमितदुःखदुर्दिनानुवनिलकणल्मबोतला. %3 श्रीमद्भगवदीवाना .. । . . . यो गुणास्त्रैमुण्यं सस्वरजस्तमासि, सस्वरजस्तमःप्रचुराः पुरुषाः गुण्यश- ब्देनोच्यन्ते सद्विषया वेदाः १ तमःप्रचुराणां रजःप्रधुराणां सतप्रचुराणां च वत्सलतर- तयैव हितमवबोधयन्ति वेदाः । यथेषां स्वगुणानुगुण्येन स्वर्गादिसाधनमेव हितं नावनोध- यन्ति, तदेते रजस्तमःप्रचुरतया सात्त्विकफलमोक्षविमुखाः स्वापेक्षितफलसाधनमजानन्तः कामप्रावण्यविवशा अनुपायेषूपायभ्रान्त्या प्रविष्टाः प्रणष्टा भवेयुः । अतस्त्रैगुण्यविषया वेदाः । त्वं तु निस्त्रैगुण्यो भव, इदानीं सस्वप्रखुरस्त्वं तदेव वर्धय ; नान्योन्यसंकीर्णगुणत्रयप्रचुरो नोपदेशो विषसंपृक्तमधुभोजनोपदेशवदयुक्तः, निषेध एव तु तत्र कर्तव्यः । यद्वा न सोऽपि, प्रत्यक्षादेस्तत्प्रसञ्जकत्वाभावात् ; स्वयं प्रसज्यप्रतिषेधस्य जम्बालमजनक्षालनसमत्वादित्यभिप्रायः। कथं वेति- वेदविरुद्धं हि त्याज्यतयोपदेश्यम् , न तु वेदविहितमिति भावः । बयो गुणालैगुण्यमिति-- अत्र अर्थान्तरासंभवात् चातुर्वर्णादीनां स्वार्थे उपसंख्यानात् स्वार्थिकः प्रत्ययः । गुणशब्दस्य प्रयोगप्राचुर्यात् , संख्याविशेषान्वयबलात्, वक्ष्यमाणपर्यालोचनाञ्च, सिद्धमर्थविशेषं निर्दिशति-- सस्वरजस्तमांसीति । स्वर्गादिफलकरणेतिकर्तव्यताधिकारिविशेषादिविषया हि वेदाः; न पुनः सत्त्वरजस्तमोविषया दृश्यन्त इत्यत आह- सत्वरजस्तमःप्रघुरा इति । तत्तगुणप्राचुर्यात् पुरु- पास्तत्तच्छन्देनोपचर्यन्ते; भाष्यान्तरोक्ता तु फललक्षणा मन्दा; अधिकारिव्यवस्थापनं त्वत्रोपयुक्तत- ममिति भावः । अस्त्वेवं गुणत्रयप्रचुरपुरुषविषया वेदाः; चोद्यस्य किमायातमित्यत्राह- तम इति । एकस्मिन्नेवाधिकारिणि गुणत्रयप्राचुर्यभ्रमनिरासेन तत्तद्विधिनिषेधविषयाधिकारिवैचित्र्या- भिव्यक्त्यर्थम् - तमःप्रचुराणामित्यादिपृथनिर्देशः । तामसाद्यधिकारिबाहुल्याल्पत्याल्पतरत्वप्रकाश- नाय सत्त्वरजस्तमसामत्र व्युत्क्रमपाठः; ततश्च क्रमादैहिकामुष्मिकापवर्गाभिलाषिण उपलक्ष्यन्ते । सत्त्वप्रचुराणामिति दृष्टान्ताभिप्रायम् ; अत एव घुपपादनग्रन्थे यथेषाम् इत्यादिना रजस्तमःप्रचुरा. णामेव ग्रहणम् । स्वगुणानुगुण्येनेति-यथा वातपित्तकफायत्तशुद्धसमसंकीर्णप्रकृतीन् पुरुषानालोच्य हितोपदेशिनो वैद्याः तत्तत्प्रकृत्यनुकूल भोजनभैषजादि विदधति, असाम्यादीनि च निषेधन्ति -तद- भावे च यथा दुरुपदेशादिमूढचेतसः प्राणिनः अपथ्यगरलादिसेवया प्रणश्यन्ति-यथा च ताम्बूला- द्यार्थिनः पुत्राः पित्रादिभिस्तत्प्रदानाभावे चौर्यादिना प्रणश्यन्ति-- तथात्रापीति भावः । स्वर्गादि- साधनमेवेति-न हि पिपासादिपीडितानां तदानी रसायनादिकं विधेयमिति भाषः । मोक्षवैमुख्यं स्वापेक्षितफलसाधनाशानं च तमःकृत्यम् ; कामप्रावण्यादिकं तु यथांशं रजस्तमःकृत्यम् । काममाव- ज्यविवशाः काम्यफलाभिसंधिवलेनात्मानं नियन्तुमशक्काः । अनुपायेष्वित्यादि-- यथा बौद्धादय इति भाव्यम् । प्रणष्टा भवेयुरिति-- दुष्कर्मविपाकेन स्थावरादिभावमाश्रित्याचित्कल्पतया पुरुषार्थ- योग्यतागन्धरहिता भवेयुरित्यर्थः ।। अव इति--उक्तप्रकारेण काम्योपदेशस्य हिततमत्वादित्यर्थः । त्वं विति--तुशब्दोऽधिका- रिवैषम्यं बोतयति । किमत्याधिकारिणो वैषम्यम् १ कथं च संसारिणस्त्रैगुण्यनिषेधः! तथा सति 'नित्य- रितीयोऽध्यायः । भव; न तत्प्राचुर्य वर्धयेत्यर्थः । निन्द्रः निर्गतसकलसांसारिकस्वभावः, नित्यसस्वस्थः गुणद्वयरहितनित्यप्रवृद्धसत्त्वस्थो भव । कथमिति चेत्-निर्योगक्षेमः आत्मस्वरूपतत्प्राप्त्यु- पायनाहिभूतानामर्थानां योगम् , प्राप्तानां च क्षेमम् , परित्यज्य, आत्मवान भव आत्मस्वरूपान्वेष णपरो भव। अप्राप्तस्य प्राप्तियोगः, प्राप्तस्य परिरक्षणं क्षेमः । एवं वर्तमानस्य ते रजस्तमः- प्रचुरता नश्यति; सस्वं च वर्धते । न च वेदोदितं सर्व सर्वस्योपादेयम् । यथा सर्वार्थप- - सत्त्वस्थः' इत्यनेन विरोधश्च स्थादित्यत्राह- इदानीं सत्त्वप्रचुर इति । 'शिष्यस्तेऽहम्' इत्यादि. वचनपरामर्शादिदमुक्तम् ; अर्जुनशब्दसंबुद्धितात्पर्यलन्धो विशेषोऽस्य सत्त्वप्राचुर्यम् ; अर्जुनशब्दस्याव- दातपर्यायत्वात् सत्त्वस्यापि शुक्लशन्दव्यपदेशात् अधिकारिवैषम्यस्य चापेक्षितत्वात् तथा प्रसिद्धयादि. बलाबेदमेवात्र तात्पर्यम् । तदेव वर्धयेति-न तु सिद्धं सत्त्वप्राचुर्य परित्यज्य, विहिताकरणनिषिदक- रणादिना रजस्तमसी वर्धयेत्यर्थः । 'निस्वैगुण्यो भव' इति निषेधे गुणत्रयसाधारणे सति, कथं सत्त्वं वर्धयेत्युच्यत इत्यत्राह- नान्योन्येति । सत्यम् , गुणत्रयसाधारणो निषेधः । स तु संकीर्ण- विषयः ; अन्यथा 'नित्यसत्त्वस्थः' इति वक्ष्यमाणानुपपत्तरिति भावः । निस्वैगुण्यो भव' इत्येतत् 'अरोगो भव' इत्यादिवत् पुरुषव्यापारासाध्यत्वेन प्रेषणानुपपत्तेः आशीरूपमिव दृश्यत इत्यत्राह- न तदिति । रजस्तमःप्राचुर्यहेतुभूताहारादिकं परित्यजेत्युक्तं भवति । निर्गतेत्यादि इन्दशन्दः पुण्यपापमूलसकल सांसारिकस्वभाववर्गद्वयपर इति भावः । एतेन फलस्वरूप वा, साधना- नुष्ठानदशासमकालीनस्वास्थ्यं वा, द्वन्दतितिक्षारूपेतिकर्तव्यता वा, विवक्षिता । गुणद्वयरहितेति-- नित्यसत्त्वस्थपदम् अन्भक्षादिवदवधारणगर्भमिति भावः । यदा, नित्यपदेन कदाचिदपि गुणान्तरान- भिभूतत्वमिहाभिप्रेतम् ; अत एव च प्रवृद्धत्वम् ; गुणान्तराभिभवे हि नित्यप्रवृद्धिर्न स्यादिति भावः । सत्त्वसंबन्धमात्रस्य सर्वक्षेत्र शसाधारणत्वात् नित्यप्रवृद्धत्युक्तम् । ननु रजस्तमःप्राचुर्य न वर्धयेति निषेधः, सत्त्वप्राचुर्य वर्धयेति विधिव, नोपपद्यते। न ह्यसौ 'एतद्रजः, इदं च तमः, इदमहं वर्धयामि' इति बुख्या प्रवर्तते, यतो निषिध्येत, यतश्च सिद्धे रजस्तमसी शमयेत् ; न चासौं सत्त्वतदुपायौ जानाति, येन तत्र प्रवर्तेत । अतः किमसौ कथं कुर्यादित्यभिप्रायेण शकते- कथमिति चेदिति । तत्र निषेधस्य विधेश्च उपपादकतया 'नियोगक्षेमः''आत्मवान्' इति पदवयं क्रमाद्याचष्टे-आत्मखरू- पत्यादिना । 'नियोगक्षेमः' इति सामान्येन निषेधो मुमुचोविहितव्यतिरिक्तविषय इति 'ज्ञापनाय बहिर्भूतानामित्यन्तमुक्तम् । 'आत्मवान् भव' इत्यत्र मत्वर्थानुपपत्तिमाशङ्कयाह-- आत्मस्वरूपा. न्वेषणपर इति । स्वस्यैवाप्रमत्ततागर्भस्वबुद्धिविशेषतः प्राप्त्यपेक्षया संबन्धविषयः प्रत्ययः । यदा स्वरूपान्वेषणादेव ह्ययमात्मानं लभते, अन्यथा त्वात्महानिरेव स्यादिति भावः । एवं निषेधस्य विधेश्वानुष्ठानाय विषय उक्तः । ततः किम् इत्यत्र तदुभयाधीनं फलयमाह-एवमिति । न साक्षागु- णाविषयीकृत्य तव किंचित्कर्तव्यम् । तेषां तु नियोगक्षेमत्वात्मवत्ताभ्याम् 3 देवभ्यां स्वयमेव यथाई नाशोन्मेषौ स्यातामिति भावः ॥ .
NRISHNA MISSION INSTITUTER श्रीमद्भगवद्गीतानां .. रिकल्पिते सर्वतः संप्नुवोदो उदपाने पिपासोवानर्थः याबदेव प्रयोजनम् ; सावदेव तेनो- पादीवते, न सर्वम्। एवं सर्वेपुच वेदेषु विजानतो ब्राह्मणस्य वैदिकस्य मुमुक्षोर्यावदेव मोक्षमा- धनम् , तावदेवोपादेयम् ; नान्यत् ।। अत: सत्त्वस्थस्य मुमुक्षोरेतावदेवोपादेयमित्याह- कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ १७ ॥ अथ सनिदर्शनमधिकारिभेदं प्रतिपादयन्तम् 'यावनर्थः' इति श्लोक म्याचो-न ति। वर्णाश्रमप्रवरचरणादिभेदेन प्रतिनियताधिकारिविषया हि वेदोदिता धर्माः इति भावः । सर्वार्षपरि- कल्पित इति-तत्तत्प्रयोजनाभिलाषिसर्वाधिकार्यर्थे परिकल्पिते ; यदा, सर्वशन्दः प्रयोजनकाळपरः, स्नानपानादिनानाप्रयोजनार्थ परिकल्पिते । एतच 'सर्वतः संप्लुतोदके' इत्यनेनार्थसिदमुक्तम् । उद. पानं पतटाकादि । पिपासोरिति दार्शन्तिकप्रस्थानानुरोधेनाध्याहारः। नन्वत्र दृष्टान्तदान्तिकयोः का संगतिः १ न हि पिपासोरुदपाने यावत्प्रयोजनम् , तावदेव विजानतः सर्वेषु वेदेवित्याशङ्कां परिहर्तु वास्यपूरणायाध्याहृत्योक्तम्--- तावदेव तेनोपादीयत इत्यादि । सर्वेषु चेति चकारः उपादेयानुपादे- यांशसंकलनद्योतनार्थः । ननु ब्राह्मणस्येत्येतत् प्रकरणासंगतम् ; क्षत्रियायैव घुपदिश्यते । कमात्र ब्राम- णस्य विशेषः, ब्रमविद्याया अपि त्रैवर्णिकसाधारणत्वात् ? 'विजानतः' इति चायुक्तम् ; विजानमेव हि कामाधिकारादिष्वपि प्रवर्तते । ब्राह्मणशन्दधात्र न 'तदधीते' इत्याग्रर्थान्तरपरः; 'ब्रामोऽजातो' इति निपातनेन जातिव्यतिरिक्तार्थेषु ब्रामइत्येव वक्तव्यत्वात् । तत्राह -वैदिकस मुमुक्षोरिति । ब्रम भणतीति निरुक्त्या ब्रामणः । 'शकन्वादिषु पररूपं वक्तव्यम्' इति पररूपे कृते, प्रशादित्वादणम त्यये च, ब्राह्मण इति रूपं भवति । ब्रह्म चात्र वेदः ; 'वेदेषु' इति अत्रैव प्रसक्तत्वात् । मतोऽत्र ब्रामणशन्दो वैदिकमात्रपरः इति न क्षत्रियार्थोपदेशाद्यनुपपत्तिः । बामणशन्दस्यात्र संन्यासिपरत्वेट शंकरव्याख्या त्वतिमन्दा; 'अमौनं च मौनं च निर्विग्राथ ब्रामणः' इति श्रुतिस्तु योगिनः प्रकृतरा- न्तरसत्त्वमवस्थाविशेषमाह । 'विजानतः' इति च विशिष्टज्ञानवत्त्वमुच्यते; विशिष्टत्वं च हेयोपादेव. विभागविषयतया ; तथाविधज्ञानवांश्च मुमुक्षुरेष स्यात् इति । 'तावान्' इत्यस्य व्यवनेयमाह- नान्यदिति । वेदोदितमपि न मोक्षसाधनव्यतिरिक्तमुपादेयम्, अनधिकृतत्वात् । न अन्यवर्णाश्रमा- न्यफलकामुकादिधर्मोऽन्यस्योपादेय इति भावः ॥ एवं तर्हि मोक्षसाधनेतरसकलपरित्यागे नित्यनैमित्तिकनिषेधशास्त्रातिलानेन कामचारदोष स्वात्, तावानिति च कियानुच्यते, इति शङ्कायाम् उत्तर श्लोकमवतारयति-श्रव इति । न कामचार- दोषः, पता बारा नाप्यन्येन्छोरम्योपायप्रतिरोषः, तत्तत्सवपरित्यागेन साधारणस्वरूप OF LIBRARY
No text on this page.
No text on this page.
No text on this page.
No text on this page.