Central Library, University Of Rajasthan

Tatriyopnist

Aapte, Vinayak Ganesh · 2010/06

PDF Proofread

Front matter

No text on this page.

आदर्शपुस्तकोल्लेखपत्रिका। तैतिरीयोपनिषद आदर्शपुस्तकानि येषां मिलितानि सेषां नामानि पुस्तकानां संज्ञानाधोदेशे प्रदर्श्यन्ते-- क. इति संजितम्-तैत्तिरीयोपनिषद्भाष्यम् । वैराजक्षेत्रनिवासिनां वे. शा. सं. " शिवराम वीरेश्वर शास्त्री भट्ट " इत्येतेषाम् । ख. इनि संज्ञितम् ---मूलं सटीकं काश्यां शिलामुद्रितम् । रा. रा. महादेव चिमणाजी आपटे " इत्येतेपाम् । मुद्रणकालः संवत् १९४१ ग. इति सज्ञितम्-मूलं सटीकम् । इन्दूरपुरनिवासिनां किवे इत्युपादानां श्री. रा. रा. " भाऊसाईव बाळासाहेब " इत्येतेषाम् । य. इनि संज्ञितम्-मूलं सभाष्यम्. ! पुण्यपत्तननिवासिनां ' खाजगीवाले ' इत्युपताना श्री. रा. रा. " तात्यासाहेब " इत्येतेषाम् । हः. इनि मंजितम्-- मूलं सभाष्यम् । पुण्यपचननिवासिनां । खाजगीवाले इत्युपादानां श्री. रा. रा. “ तात्यासाहेब " इत्येतेषाम् । . च. इनि संझिनम्-तत्तिरीयोपनिषद्भाष्यं शिक्षाभृगुवल्लीद्वयात्मकं समूलं सटी- कम् । खेडकरोपादानां श्री. रा. रा. आनन्दराव लक्ष्मण ( भाऊसाहेब )" इत्येतेपाम् । छ, इति संज्ञितम्--तैत्तिरीयोपनिषद्भाष्यम् । विंचूरपुरनिवासिना श्री. रा. रा. " रावसाहेब अण्णासाहेब " इत्येतेषाम् । ज. इति संज्ञितम्---मूलं सटीकम् । विंचूरपरनिवासिनां श्री. रा. रा. “ राव. साहेब अण्णासाद्देव" इत्येतेषाम् । अ. इति संन्नित्तम् - मूलं सटीकम् । विंचूरपुरनिवासिना श्री. रा. रा. " साहेव अण्णासाहेब " इत्येतेषाम् । लेखनकाल. शके १६३२ अ. इति संहितम्-मूलं सटीफभाष्योपेतम् । करवीरपुरनिवासिनो श्रीयुताना वे. शा. सं. गुरुमहाराजानाम् । लेखकाल संवत् १८६६ राव- (२) १. यति संहितम-तैत्तिरीयोपनिषद्भाष्यम् । करवीरपुरनिवासिनां द्रविडी- णहाना . शा. सं. रा. रा. नानाशास्त्रिणाम् । १. इनि संज्ञितम-तैत्तिरीयोपनिपद्भाष्यम् । समूलं सटीकम् । कलिकातानगरे मुद्रितं पुण्यपत्तननिवासिनां कै. चे, शा. सं. देवापानबाल- शास्त्रिणाम् । १. नि सहितम्-तैत्तिरीयोपनिपद्भाप्यं सटीकम् । नागपुरनिवासिनां श्री. रा. रा. “ अप्पासाद्देव बुटी" इत्येतेषाम् । अथ शंकरानन्दविरचितीपिकायाः सूचीपत्रम् । क. इति संजिता-तत्तिरीयोपनिषद्दीपिका । पुण्यपत्तननिवासिनां श्री. रा. रा. " भाऊसाहेब नगरकर " इत्येतेषाम् । ख. इति संजिता-तैत्तिरीयोपनिपद्दीपिका । वटोदरनिवासिनां पटवर्धन इत्यु- पाद्वानां रा, रा. “ कृष्णराव भीमाशंकर " इत्येतेषाम् । ग. इति संज्ञिता-तैत्तिरीयोपनिषद्दीपिका शिक्षाध्यायमात्रा । प्रान्तिजसका- शादागता ।। घ. इति संज्ञिता--तैत्तिरीयोपनिषदीपिका । रा. रा. ." महादेव चिमणाजी आपटे” इत्येतैः प्रेपिता है। समाप्तमिदं सूचीपत्रम् । * एतत्स्रामिनो नाम न ज्ञायते । * एतत्पुस्तस्यापि स्वामिनो नाम न ज्ञातम् ।

* तत्सब्रह्मणे नमः। उष्णयजुर्वेदीयतैत्तिरीयारण्यकान्तर्गता तैत्तिरीयोपनिपत आनन्दगिरिकतटीकासंपलिनशांकरभाष्यममंता । . E याप्रकाशसुखाभिरं यन्मन्प्रेण प्रकाशितम् । वित ब्राह्मण तत्स्यामदृश्य प्रम निर्भयम् ॥१॥ यजुर्वेदशास्वाभेदं तैत्तिरीयकोपनिषदं व्याविख्यासुभगवान्भाध्यकारस्तत्प्रतिपाद्य ब्रह्म जगजन्मादिकारण वेन तटस्थलक्षणेन मन्दमती प्रति सामान्येनोएलक्षितं, सत्यज्ञानादिना च स्वरूपलक्षणन विशेषतो विनिश्चितं नमाकोरलेन सक्षपती दर्शयति---- यस्माज्जातं जगत्सर्व यस्मि प्रलीयते । येनेदं धार्यम चैव तस्मै ज्ञानात्मने नमः ॥ १॥ यस्माज्जातमिति । निमित्तोपादानस्वयोः पञ्चम्पाः स धारण्यानुभयविधमपि हेतु :- मविवक्षितम् । कार्यविलयस्य प्रकृतामेव नियतत्याद्विशेषतः प्रकृतित्वमाह- पस्मिन्निति कार्यस धारणस्य निमित्त धर्मादावपि प्रसिद्ध वारसाधारणकारणत्वमाह-~-यनेति । साना- स्मन इति स्वरूपलक्षणसूचनम् ॥ १ ॥ गुरुभक्तर्षिद्यामाप्तावन्तरङ्गमावनत्व पापयितुं गुरुन्प्रणमति- यरिमे गुरुमिः पूर्व पदवाक्यप्रमाणतः । व्याख्याताः सववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम् ॥ २ ॥ थैरिति । पदानि च व स्यानि च प्रमाण चानुमानादि तद्विवेचनेन न्यायासा इति ॥ २ ॥ चिकीर्पितं निर्दिशति-- त्तिरीयकसारस्य मयाऽऽचार्यप्रसादतः । विस्पष्टार्थरुचीनां हि व्याख्येयं संमणीयत ।। ३ ।। १ ख ग. च. ज.म ट. यन्मात्रेण । २ ख. ग च. रबले । ३ अ. ब. च छ. ज. स. 'व विधी । प्र. व पिली । ४ क. ग्व. ग. ज. ४. पि कारणत्व । ५.ख ग.च ज.स. ट. त्वमिहावि । ६ क .. ग च. ज. ट ऽपि ध° । ५ क. स्व. ग च उ. र. मदिौ । ८ व. ग. ज. रणका । ' . म मह । १० क स. ग. ट, समर्थः ॥ २ ॥ ११ ग्ब ग. . नियमीत : ।

मानन्दगिरिकृतीकासंचालितशांकरभावसमेता- [पाश्चाप्यारे - 'तीतरीयकेति । व्युग्पन्नस्य पदेभ्य एव पदार्थस्मृतिसंमत्रा पदस्मारिनपदार्थानां संसर्ग- व बाक्यावा मुत्रकार गोपनियता पर निरू, पिनवाइ व्यर्थः पृथगल्यारम्भ उन्या. गयाऽऽह–विस्पष्टानि । मन्दमनीनां स्वत प्य नियघटायमरणानभवादुपनिष- इतनिःशेषपदार्थाना विशिष् नि मशयं ज्ञान ये रोचयत तपामुपकागयत्ययः ॥ ३ ॥ नित्यान्यधिगतानि कमाण्युपात्तनुरितक्षयार्थानि, काम्यानि च फलार्थिना प्रयस्मिन्नन्थे । कर्मथिचोगियोपनिषदो गतार्थवादुपनियोजनस्य निःश्रेयसम्य कर्मस्य एक संभवान्य- सम्व्याख्यारम्भो न युक्त उन्याशा मानेतु कर्मकाण्वार्थमाइ-नित्यानीति । .. अथानी धर्मजिनामा " इति जैमिनिना धर्मप्रणाम मिद्धवस्तुविचारभ्य पर्युदस्तावानोपनिपटो गतार्थमित्यर्थः । नानि च कर्माणि मचिसरितक्षयानि वर्मण प.पमपनुदति" इति श्रुतेन नि.श्रेयसानि । न यल जीवतोऽवस्यकान्यान्यधिगतानि फलार्थिनां काम्यानि च | न तान्यपि नि:श्रयनार्यानि। " स्वर्गकाम... पशुकामः , इयाविन्मानकामोऽदः कुर्गदित्यप्रवणात् । अत, ममार एव कर्भगा कलमित्यर्थः । इदानी कर्मोपादानहेर्नुपरिहागय द्रमविद्या प्रस्तूबने । कर्मतुः कामः स्थान् । प्रवर्तकत्वात् । आप्तकामानां हि कामाभाये स्व.न्मन्यवम्यानात्मवृत्त्य- तुपपत्तिः । आत्मकार कामन्त्र चाऽप्तकामना | आत्मा हि ग्राम । नद्वितो हि पर. प्रालिं वक्ष्यति । अनोऽपिघानिवृत्ती स्वात्मन्यवस्थानं परवानिः । “ अभयं प्रविष्ठां विन्दते "" एन्मानन्दमयमान्मानमुपसंक्रामति' इत्यादिश्रुतेः । कर्मकाण्ड,र्थमुक्त्वा तत्राविच निमुपनिषदर्थम द्-उदानी मिनि ! क.नुपाढा. मेऽनुष्टाने गे तुम्तनिवृत्वर्थ ब्रह्मविद्य.ऽस्मिन्प्रन्य आरम्ते । अतः सनिदानकर्मोन्म- देनार्थत्वादुपनिषदः कर्मक ण्डविन्वान ग.विभिन्यथैः । कर्मानुष्टाने हेतु योगस्तस्य प्रमाणसिद्धवान्न विद्या विरोध इत्याशङ्कय ऽऽह--कमहेतु:रनि । अस्पेद साधना:- सतावच्छात्रेण बेव्यते । यत्र यत्राभिलप. सतत्र प्रवन कानन एव | अती न निमय प्रवकिब संभावना - मिमयः । नति काने प्रवृत्तिरित्यन्वय उक्तः कानाभ वे न प्रवृत्ति र ने निकाह- अनि । अभिलषितविषयप्राप्तिः कामनिवृत्ती । उ. यमन । क... त्या ! रु. ३. ई. स्न'। 3 F. 'हार्य । ५.यो ५ द. :...इ... 'नानि । ८. 'इतिः । ७ द... तु न्वृिन्यर्थ । द । ८. ३. 'ले-75 1 ९३.. । ननु का । १२. स . . न.स.१.मी. अ. ११ इ. वन !

१ प्रचमाननाकः ] वैचिरीयोपनिषद । ३. हेतुः । न विद्या । अत: कय कर्महसुपरिहाराय विद्यारम्भ इन्यानयाऽह--भान्मका- मत्वे चाते । कामिराविषयमाच्या दाम्य तारालिकोपण गमानं ना हनः । पुनर्षिय- याकाक्षादिदर्शनात | मानकामनाऽपि निरङ्कशाऽऽसय वस्तु नान्यत्ततोऽस्यवरूपाss. मकामत्वे सति भवति कीमितकाभावात् : आमनो घद्वयानन्दरूपमत्रानन्नय व्यतिरिक्त विषयं पश्य कामयते । ततः काम -ISS माडियामटन्याटामिविश्वेष तशित्तिरित्यर्थः । मवस्यात्मविद्या कामविगविनी कह परिहाराय नमविद्या प्रम्ममा प्रियगतं. सपा- आत्मेति । मानन्दम परमात्मानमान र प्रतिहार । । काम्यमतिपिढ्यारनारम्भदायम्य चोपमांगेन क्षयानित्यानुष्ठानेने प्रत्य- पायाभावादयानन पत्र स्वात्मन्यवक्त्यानं योक्षः । अथवा निगतिशयायाः प्रीतः स्वर्ग:न्दवाच्यायाः कहतुत्वाकर्मभ्य एव मोक्ष इति चेन्न । फर्मानेकन्वात् । अनेकानि शान्यफलान्यनारधफलानि चानेकजन्मान्तरङ- तानि विरुद्ध फलानि फर्माणि संभवन्ति । अतस्तेष्वनारख्यफलाना- भेकस्मिञ्जन्मन्युपभोगक्षयासंभवाच्छेपकर्मनिमित्तशरीरारम्मोपपत्तिः फर्मशेष- सद्भावसिद्भिश्च । " न) इह रमणीयचरणाः " "त: शेषेण " इत्यादि- श्रुतिस्मृतिशतेभ्यः । एष्टानिष्टफलानामनारब्धानां पयार्थानि नित्यानीति चेन्न । अकरणे प्रत्यवाय श्रवणात् । प्रन्यवायशब्दो अनिष्टविषयः । निन्याकरण- निमित्तस्य प्रत्यवायम्य दुग्वरूपम्याऽऽगामिनः परिहारार्थानि नित्यानीन्य- भ्युपगमानानारब्धफलक.मक्षयार्थानि । यमि नामानारब्धकर्मक्षयानि नित्या- नि कर्माणि तयाऽप्यशुद्धमेव अपयेयने हद्धम् । विरोधाभावात् । न हीष्ट. फलस्य कर्मणः शुद्धरूपत्वाभिन्दै विरोध उपपद्यते । शुद्धाशुद्धयोहि वि- - रोघो युक्तः । एवं नाककर्मकाण्ड नागतान्यात्कर्मभ्योऽमम,व्यमाननिःश्रेयसप्रयोजनस्वाच्चोपनिषदो न्याख्यारम्भ संभाव्य पुनरनारम्मवादिनोऽभिप्रायमुद्भाययति-काम्यप्रतिषिद्धयोरिति । आत्यन्तिकागामिशरीगनुत्पादे स्वरूपावस्थान नियम, शरीरानुवादश्च हेत्यभावादेव , ग. - नि २ स ग. स. न. प्राप्तो का । ३ क स्व. म च. ज २. 'झाद । ५. स. स. ट. 'मनाऽपि । ५ क स. स.ट कामयितव्या भाषावाऽऽन्मानं च । ६६. भात्यार । ७ ह. 'ब्धयोश्रोर । ८ ग्य, म. द. य. छ. ज. स. भोमक्ष । ९ इ. . °न च । १० क.. स्मात्मा य° । ११ ड. च यमी' । १२ अ. 'घामफ। १३ घ. घसभष । १४ २. यदिह । १५ रु. है अ. 'त. मझें । १६ प्र. 'दिस्मृति' । १७ ७. यस्पामुत्ररू' । १८ ख. ग च शुभम । १९ घ. °नं पुनः शु' । २. स. ग. प. ड. च. छ. अ. द. शुद्धिरू । २१ प. ङ, छ. ४ शुद्धाशुद्धयोहि । २२ २. छ. नरार ।

आनन्दारिताकासंगलिनमांकारमान्य समता- [गीमाभ्याये- सेत्स्यति किं ज्ञानार्थोपनिषदारम्भणन्यर्थः । मतान्तरमाह-अथवेति । यदेव स्वर्गसाधनं ज्योतिष्टोमादि तदेव मोक्षसाधनं निरतिशयप्रीतः । स्वर्गपदार्थस्य मोक्षादन्यत्रासभवात्सति शरीरे क्लेशा श्यंभावादित्यर्थः । ऐकामाविकपक्षमाद्य मतं प्रत्याख्याति-नेत्यादिना । यद्यपि वर्तमाने देहे काम्यं प्रतिषिद्ध च नाऽऽरंभन मुमुक्षुम्तथाऽपि संचितस्थानेकस्य संभ- यात्विभावोऽसिद्ध इत्यर्थः । प्रायेणानभिन्न तानि सर्वाण्येव कर्माणि सभ्यैकं शरीरमारभन्ते, सत्र सर्वेषामुपभोगेन क्षमि(पितत्वात्मदिन कमव नास्तीतिशानिराकरणायोक्तम्-विरु- दफलानीति । स्वर्गनरक.फटाना नोनिष्टोमब्रह्महन्यादीनामेकास्मिन्देहे भोगेन क्षयासं. भवारप्रायेणास्य सर्वामिठा कल्वे प्रमाणाभावालवता प्रतिबद्धस्य दुर्बलस्यावस्थानं संभ- वतीत्यर्थः । संभावनामात्रमेतन्नात्र प्रमाणमस्तीत्याशङ्कघाऽऽह-कर्मशेपेति । स स्वक कर्मनुभूय ततः शेषेण जन्म प्रतिपयन्त इति स्वर्गादवरोहना कर्मशेष(१)सद्भावं दर्शयती- त्यर्थः । स.चतकर्मसद्भाबमङ्ग कृत्य देहान्तरारम्भो न भविष्यतीत्याह-इष्टेति । एद्र (इ)हान सिद्धान्तविरुद्धनित्याह-नेति । मुमुक्षुणाऽनुष्ठितस्य निन्यादेः संचितकर्मक्ष- यार्षस्वाभ्युपगमेऽपि नाभिमतसिद्धिरित्याह-~-याद नामोति । न च कर्महेतूनां कामानां झानाभावे निवृत्त्यसंभवादशेषकर्मक्षयोपपत्तिः । अनात्मविदो दि कामोऽनात्मफलविपयत्वात्स्वात्मनि च कामानुपपत्ति नित्यप्राप्तत्वात्स्वयं चाऽऽत्मा परं ब्रह्मेत्युक्तम् । नित्यानां चाकरणम- भाषस्वनः प्रत्यवायानुपपचिरिति । अतः पूर्वोपचितदुरितेभ्यः प्राप्यमा- णायाः प्रत्यवायक्रियाया नित्याकरणं लक्षणमिति “ अकुर्वन्विहितं कर्म " इति हि शतुर्नानुपपत्तिः। यच्चोळू " मुमुक्षुः काम्यानि वर्जयेत् " इति तदप्यसति विवेकबले दुर्घटम् । सति मुलीज्ञाने कामोद्भवस्य दुर्निवारत्वादित्याह-न च कर्महेतूनामिति । ननु कामो नाज्ञा- नमूलः । आत्मविदामपि कामदर्शनादित्यत आह-स्वात्मान चेति । सर्व आत्मेति पश्यतां तत्त्वतो विषयाभावादेव कामानुपपत्तिः । अशनादिप्रवृत्तिनिमित्तं तु कामा. भास एव । वास्तवाभिनिवेशाभावादित्यर्थः । तेषामप्पर्चिरादिमार्गेण ब्रह्मप्राप्तेः कामनाs. स्तीति नाऽऽशनीयमित्याह-स्वयं चेति । यच्चोक्तमकरणनिमित्तप्रत्ययायपरिहास- नि नित्यानीति तत्राऽऽह-नित्यानां चोति । अग.मि दुखं प्रत्यवाय उच्यते । तस्य भावरूपस्य नाभात्रो निमित्तम् । पापः पापेन " इति श्रुत्रेः । निपिद्धाचरणनि- मिसवाददुःखस्येत्यर्थः । १ रद, यं । एक । २ क स्व. म. च ज.म. ट. स्पर्म कपमनु' । 3 ज. स. 'यत । ४ न, थ, ण त । ५ व इ . तदाता ।

१ प्रथमोऽनुसापा.] नतिरीयोपनिन् । ५ " अनियहि कर्म निन्दिन च समाचरन् । मसजश्वद्रियार्थपू नरः पतनमृति ॥ इति शतृप्रत्ययादकरणस्यापि मन्यवायनिमित्रा वमत्रगनमित्याशङ्कयाऽऽह-अतः पूर्वेति । यदि यथावनित्यनैमित्तिकानुष्ठानमविण्यत्तदा सचितदुरितक्षयोऽभविष्यत् । न चाय विहितमकादिन्यतः प्रत्यवायी भविष्यतीति मिटलक्ष्यते । यी विचिकित्सोत्रिय इति । ननः शतप्रत्ययस्य न्यथा व्युत्पन्न वान तलादकरणे हेतुत्वमवगन्तुं शक्यत इत्यर्थः । अन्यथाऽभावाद्भावोत्तत्तिरिति सर्वप्रमाणव्याकोप इति । अतोऽयत्नतः स्वात्मन्यवस्थानमित्यनुपपन्नम् । ननु-रक्षणह यो: क्रियाया इगि गत्प्रत्ययम्योभयत्र विधाने सात किमिति हेतुत्वमेव न गृह्यते तत्राऽऽह-अन्यथति । भ वरूपम्य कार्यस्य भावरूपमेव कारणमिति प्रत्यक्षा- दिभिरगतं. मतृप्रत्यादभावम्य हेतु मिधाने सर्वप्रमाणविरोवः स्यादित्यर्थः । ननु त्वयाऽयकरणस्य प्रत्यवायलाण वनिष्टम् । भश्वानुपलम्भस्याभावप्रमितिहेतु वमिष्यते । तार्किकश्च प्रतिबन्ध भावस्प तत्तापागमाया च तत्सक र्यव्यवस्थापकत्वमिष्यो । तत्कथं भावस्व कारणत्वम् । दाम्--" भायो यथा तयाऽनावः कारणं कार्यवन्मतम् इति । उच्यते । अमालिस्तावदानस्५ स्वरूपण करण । नेष्टम् । किंतु तज्ज्ञानस्य प्रत्यवारगमकवमिएम । न च रूपेग न प्रर, बायगनकवमिष्यते । नित्याकरणाने प्रत्य- वायीभावप्रसङ्गत् । म हानामपि च पाचिज्ञानस्य योग्यानु लिम्भस्याभावप्रमिरिहतुवंस- तया तु प्रमितिहेतु भावप्रमाया. प्रक्षत्व,पातः । तार्किकाणामपि प्रतिबन्धकामावस्य कारणत्वेऽन्योन्याश्रमत्यप्रसङ्गान प्रामाणिकत्वम् । प्रागभावस्यानि ज्ञातरूपेण अन्यज्ञाप- कत्वमेव । यस्मादिदं प्रान् ।ऽऽसी तस्मादिदाना जातगिति । न तु जनकत्वं प्रागभावस्य नियतप्राग्भावियेन कारणत्वे प्र.कालस्य स्ववत्तितापातः । प्राग्भावित्वमाप चान्यथासिद्ध- मित्युक्तं तत्त्वालोके । यस्मादकरणनिनित्तप्रत्यवायपरिहारायं न नित्यं कर्न किंतु " कर्मणा पितृलोकः । सर्व एते पुण्यले का भवन्ति " इति श्रीः पितृले कातिफलम्, तस्मान्न यथोक्तचरितस्य शरीरानुत्पाद इत्याह-अलत इति १ क. ख ग घ. न स. र 'पि न प्र° । २ क ख ग. व ट. पदा: । ३ क. स्व. ग. घ. स. ट. वायी भ' । ४ स. ग. प थाऽवि । ५ क. म्व ग ज. ट.°थाऽप्यग्पन्न । ६ ख. ग. घ. क. च. छ. अ. 'णको । ७ क. ख. ग. ज ट. वधारित । ८ क मि° । ९ घ. अ. ज. 'रग ने । १० . य सभव । ११ क. स. ग. च. म. ट. तुत्वस सपा । १२ २. म. ग. २ च. ज झ 7. 'ज-मझा । १३ स. विनान्य' । °न्तं कथ- ६ . - आनन्दगिरिकृतीकासंवनितशांकरभाष्रमभना भाभाये- बच्चोतं निरतिशयीनेः स्वर्गशब्दवाच्यायाः कनिमित्तवात्कर्मा- रंभ एव मोक्ष इति । तम । नित्यत्वान्मोमस्य । न हि नित्य किंचिदारभ्यते । लोके यदारन्छ नदनित्यमिति । अती न कर्याच्या मोक्षः । विधासहितानां कर्मणां नित्यारम्यसामर्थ्यमिति चेत् । न । विरोधात् । नित्वं चाऽऽरभ्यत इति विरुद्धम् । दिनरं तदेवं नोत्ययत इति । प्रध्वंसानाववनित्योऽपि मोक्ष आरभ्य स्वेनि चेन । मोसस्य भावरूपन्यात् । प्रध्वंसाभावोऽप्यारभ्यत इत्य- मावस्य विशेषाभावाहिकल्पमात्रमेनत् । भावनियोगी अभावः । द्वितीयमतमन्य दुपयति-याक्तमित्यादिना । विद्यासहिनापि कर्मणाऽऽरभ्य- बेन्मोक्षस्तयनित्य एव | यकृतक नदनियमित व्याप्तिदर्शनायुिनं तत्र व्यातिभनं मन्वानः गो-याविनष्टमिति । भावरूपत्वादिनि । यद्भावमपं कार्य सदनियमिति व्याप्ततव च मोक्षत्य निरतिशयीतीय यादनिन्याय स्यादेवेपर्य. ! प्रचंसाभावस्य कार्य- त्वमभ्युपगम्य यत्प्रवसातिरिक्तका तदनियमित व्याप्तिानिय । वस्तुतस्तु प्रध्वंसस्य कार्यत्वपि नाम्तन्याह-प्रयंसेति । जन्याप्रवत्र ताव प्रध्वंतस्य । न कार्थत्वम् । जनेन- रुक्ते (क्ते मा )यविकारत्वामुपगमात् । नापि प्रागसतः सत्तासमयायादिलक्षणम् ! तद- नभ्युपगमात् । नाप्युत्तरकालयांगः । कालेन सबन्धाभावात् । अबछेदावेदकभावस्य समवायमूलवासंबवान्तरम्लकन्यदर्शनादुत्तरकालय प्रवसा छेदकत्र स्वभावदन्याव. छेदकत्व स्वभावो न स्यात् । तस्मा भावन्य निर्विरोपकवाकाय कल्पनामात्र रमिति भावः । किंच, अमावस्याभावविषम त्रस्वभावाद्भावविविवाघ म भावरूपो धर्म: संमतीत्याह - भावति । यथा अभिभोऽपि भावा घटपटादिविविध्यने । अभिन्न एव घट- भावः पटभाव इत्येवं निर्विशेषों भावाभावः क्रियागुणयोगाव्यादिव- द्विकल यते । न धुभाव उत्पलादिवहिशेषणसभाती । विशेषणवत्त्वे भाव एव स्यात् । । विद्याककनित्यत्वाद्विद्याकर्मसंतानजनितमोभनित्यत्व- मिति चेन्न । गङ्गासोनोवत्कर्तृत्वस्य दुःखड्पत्वात् । कर्तृत्वोपरमे च मोमविच्छदात । तस्मादविद्या कामकाजावान नुनिवृत्ती स्वात्मन्यव- १ ह.र.अ . य । है. त्र... 'रम्मो मो । १. स. न...च अ. 'ति चवि। ४. न. म. यद्धि न । ५२.६५ नो । ६ य. ह. अ. स. हव रे । ७. प. च. ज. म यदि न । ८ ट. म. ज. 'म्तदोक्ष । ९ क. द.म. स. . ट स्य ता ।। १०. स ग. आ.ज.ट. ३ । परमार्थतवस्तु म । ११ क. ल. म. ज. झ ८. 'छेद्याव' । १२ क. म. म. च.. ट. ' संवन्दप । १३ क न ग. २. च. त्र ट. यो भा । ४.३ऽचना' । १५ कृ. व सहभावी जिपणेम दि' । १५ ह. सहतित्वे भा । 13 ६.न. ग. इ. १ १ प्रथमोऽतुवाकः] तैत्तिरीयोपनिषत् । - स्थानं मोक्ष इति । स्वयं चाऽऽत्मा ब्रस तद्विशानादादियानिवृत्तिर्मोक्ष इति समायोपनिपदारभ्यते। न--समा सदाधि । तत्रालि भाग व । प्रभवसादयस्तु नित्याः । ततः कयं निशिपावमित्य शरूयाऽ56----यथा -यथा ही। भावप्रत्ययकाकारत्वादक एवं भाया- भाव(योऽव) छेद दायन व प्रयागते । त्या निषेधप्रत्ययस्यक कारवादक एवाभा- योऽवन्दकर्मददिन व प्रकाशः । जागे नयति चनि क्रियायोगात्संख्यागुणयोगा. द्रव्यदभावो विकल्प्यः । न तु तत्वतः सविशेष इ-यर्थ. । इतश्च न तत्वतः सविशेष इत्याह-न नीति । विशेषण हि विशम्यान्वयि प्रमिद्धम् । प्रतियोगिना च विशेषणेन नाभायस्य सहभावोऽस्ति । घटवतम्य नियवे घटम्यापि नित्यत्वप्रसङ्गात् । घटसहभा- यित्वे च तदभावत्वव्याघाना गायाभाययोः महानवस्थानरूपविर वा धुपगमात् । ततः प्रतियोगिविश सदभायः सपि. कदादिधर्भवानिति विभममात्रमित्यर्थ. । एत्र प्रध्वं. सदृष्टान्तन शक्तिं नित्यत्य परिष्य प्रकारान्तरेण ऽऽगेष्टा निषेति-विद्याकर्मत्या. दिना । विद्यार्मणोः कर्ता नित्य इति मावनसायामध्यसातत्यं न साच्यम् । कर्तृ- त्यस्य नुपरमऽनिर्मोक्षप्रसादपरमे च माधन -नियाभावान्मोअस्य निन्छित्तिः स्पादित्यर्थः । यरमानि.श्रेयस नमज्ञानं विना दुष्प्राप तम्मादित्युपसहार । उपनिषदिति विद्योच्यते । नच्छीलिनां गर्मजन्मजरादिनिशाननाचदवसा- दनाद्वा ब्रह्मणो वोपनिगमयितृत्वादुपनिषण्णं बाऽस्यां परं श्रेय इति । तदर्थ- त्वाद्ग्रन्थोऽप्युपनिषत् । ब्रह्मविद्यायामुपनिषच्छब्दप्रसिदपि विधाया एव नि प्रेयससावनत्व प्रमाणमित्याह-- उपनिषदिनि । निनातनातिथिलीकरणादित्यर्थः । अत्या विद्याया निमित्तभूतायां परं श्रेया ब्रह्म जीवस्योपनिषण्णमामत्योपस्थितं भवतीत्यर्थः । हरिः ॐ। शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्दो बृहस्पतिः । शं नो विष्णुरुरुकमः । नं सुखं प्राणवृत्तेरहवाभिमानी देवतान्मा मित्रो नोऽस्माकं भवतु । १ क. स्व. 1. व. ज. ट. 'ति । मिथिम' । २ क. स. ग ... ट. ६ माको यथा भा' । ३ ग... भेदाभिन । ५ स. ग. र. ट. हा ! ५ क.. ३. ह. ट. शक्य नि । ६+ श. द. 'न सातत्या।

८ आनन्दगिरिकवटीकासंवलितशांकरभाष्यसमेना- [गोमा याये- तथैवापानवृत्ते रात्रेश्वाभिमानी देवतात्मा वरुणः । चक्षुष्यादित्य चाभिमान्यर्यमा । बल इन्द्रः । वाचि बद्धौ च वृहस्पतिः । विष्णुरुरुक्रमो विस्तीर्णक्रमः पादयो- रभिमानी । एर्चमध्यात्मदेवताः । शं नो भवति ति सर्वत्रानुषङ्गः । तास हि सुखकृत्सु विद्याश्रवणधारणोपयोगा अप्रतिबन्धेन भविष्यन्तीति नत्सुखक र्तृत्वं मार्यते--शं नो भवत्विति । एवमुपनिषदा व्याख्यारम्भ संभाव्य प्रतिदव्याख्यामारभने-शं सुखमित्यादिना । शं नो भवत्विति । सुखविन्यर्थः । अध्यात्मप्राणकरणामिमानिनीना देवताना मुखत्यत्व किमिति प्रायते तत्राऽऽह-तासु हीनि । श्रवणं गुरुप दोपसर्पणपुर्वक वेदान्ताना तात्पर्यावधारणम् । धारणं श्रुतस्याप्यविस्मरणम् । उपयोग. शिष्येभ्यो निवेदनम् । नमो ब्रह्मणे । नभन्ने बायो , त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्ष बल वदिष्यामि । ऋतं वदिष्यामि । सत्यं पदिष्यामि । तन्मावतु । तहकार- मवतु । अतु मास् । अतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः ॥ सत्यं वदिष्यामि पञ्च च ॥ इति कृष्णयजुर्वेदी यतैत्तिरीयोपनिषदि शीक्षाध्याये प्रथमोऽनुवाकः ॥ १ ॥ ब्रह्म विविदिषुणा नमस्कारबन्दनक्रिये वायुविषये ब्रह्मविद्योपसर्गशा- न्त्यर्थं क्रियते । सर्वक्रियाफलानां तदधीनत्वाब्रह्म वायुस्तस्मै ब्रह्मणे नमः । प्रतीभावं करोमीति वाक्यशेषः । नमस्ते तुभ्यं हे वायो । नमस्करोमीति परोक्षप्रत्यक्षाभ्यां वायुरेवाभिधीयते । किंच त्वमेव चक्षुराद्यपेक्ष्य बाह्य संनिकृष्टमव्यवहितं प्रत्यक्षं ब्रह्मासि यस्मात्तस्मात्त्वामेच प्रत्यक्षं ब्रह्म वदि- प्यामि । ऋतं यथाशास्त्रं यथाकर्तव्यं बुद्धा सुपरिनिश्चितमर्थ - १ . वेरभि । २ रस. ग. व. 'वमाद्याध्या । ३ ख. ग. च. झ. षदो व्या । ४ क. स्व. ग. १. स. परं व्या' । ५ . ख. ग. ज. ट कृत्व नि। ६ . स. ज. स. अविवापिरिदि।

९ २ द्वितीयोऽनुग्राफः] तैत्तिरीयोपनिषत् । तदपि त्वदधीनत्वात्त्वामेव वदिष्यामि । सत्यमिति वाकायाभ्यां संपाय- मानः सोऽपि त्वदधीन एव संपाद्य इति त्वामेव सत्यं वदिष्यामि । तत्सर्वा- त्मक चायवाख्यं ब्रह्म मयैव स्तुतं सन्मां विद्यार्थिनमवतु विद्यासंयोजनेन । तदेव ब्रहा वक्तारमाचार्य वक्तृत्वसामर्थ्यसंयोजनेनावतु । नामवतु वक्तारमिति पुनर्वचनमादरार्थम् । ॐ शान्तिः शान्तिः शान्तिरिति निर्वचनमाध्यात्मिकाधि- भौतिकाधिदैविकानां विद्यामाप्त्युपसर्गाणां प्रशमार्थम् ।। इति श्रीमत्परमहंसपरिवाजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमन्छंकरभगवतः कृती तैत्तिरीयोपानपन्छीक्षाध्यायभाष्ये प्रथमोऽनुवाकः ॥ १ ॥ अन्यहम वायुश्च न्य इति नाऽऽशकनीयमित्याह---परोक्षेति । ब्रह्मति 'परोक्षण स प्रस्मेत्याचक्षत इनि श्रुतेः । वायुशब्देन च प्रत्यक्षतया निर्देशः । प्राणस्य प्रत्यक्ष- वारियर्थः । यद्यपि सूत्रा-मरूपेण वायुः परोक्षस्तथाऽप्याध्यात्मिकप्राणवायुरूपेण ब्रह्मश- याच्यावेऽप्यपरोक्षत्वमित्याह --किंचेति । बाह्य चक्षुरादि रूपदर्शनाद्यनुमेयत्वान्यव- हितम् । प्राणस्त्रव्यवधानेन साक्षिवेद्यः संनिहितश्च भोक्तरिति चक्षुराद्यपेक्षया प्रयक्ष इत्यर्थः । बृहणाब्रह्म | प्राणकृतेन श्वसनादिना शरीरादेबृंहण प्रसिद्धमन्यर्थः । यथा राज्ञो दौवारिक कश्चिद्राजदिक्षुगह त्वमेष राजेति तथा हादस्य ब्रह्मणो द्वारपं प्राणं हाद ब्रह्म दिदृक्षुर्मुमक्षुराह-त्वामेव प्रत्यक्षं ब्रह्म वदिप्यामाति । ब्रह्मवदनक्रिया प्राण- देवतास्तुत्यर्था । स्तुत्यन्तरमाह-ऋतमित्यादिना ।। इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमच्छकरभगवच्छिष्यानन्दज्ञानविरचिताया तत्ति- रीयोपनिषच्छांकरभाष्यटीकाया शीक्षाध्याये प्रथमोऽनुवाकः ॥ १॥. - 4 अथ ठीक्षाध्याये हित योऽनुवाकः । ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम संतानः । इत्युक्तः शीक्षाध्यायः(१)। शीक्षां पश्च ।। इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये ।। द्वितीयोऽनुवाकः ॥ २॥ -- १ रु. ख न ट. पह्मण इ । २ क. ग्व. ग च, ज, झ ट. गरू" । २ आनन्दगिरिकनटीकासंचलितभांकरभाष्यसमता- [मामात्याये- अर्थशानमधानत्यादुपनिषदो ग्रन्धपाठे यत्नोपरमो मा भदिनि श्रीक्षाध्याय आरभ्यते-शिक्षा शिक्ष्यतेऽनयति वर्णायुश्चारणलक्षणम् । शिष्यन्त इति वा शिक्षा वर्णादयः । शिक्षेव शीक्षा । देध्य छान्दसम् । तां शीक्षा व्याख्या. स्यामो विस्पष्टमा समन्तात्कथयिष्यामः । चक्षिही वा ख्यावादिष्टस्य व्याप- स्य व्यक्तत्वोत्क(बाकण एतद्रूपम् । तत्र वर्णोऽकारादिः । स्वर उदा. तादिः । मात्रा हस्त्रायाः । बलं प्रयत्नविशेषः । साम वर्णानां मध्यम. वृत्त्योच्चारणं समता । संतानः संततिः । संहितेत्यर्थः । एप हि शिक्षितम्यांs. भः । शिक्षा यस्मिन्नध्याये सोऽयं शीक्षाध्याय इत्येवमुक्त उदित उक्त इत्युप- संहार उत्तरार्थः॥ इति श्रीम-परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पुण्यपादशिष्यश्रीमन्छंकर- भगवतः कृतो तत्तिरीयोपनिषच्छीक्षाध्यायभाष्य द्वितीयोऽनुवाकः ॥ २ ॥ यत्नोपरम इति । स्वोमव्यानप्रमादो ना भंटिस्यर्थः । अन्यथा विवक्षिनाथसि- रेिव न स्यात् । तदुक्तम्- "मन्त्रो हीन: स्वरतो वर्णतो वा मिश्याप्रयुक्ती न तमर्थमाह । स वाग्वा यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात"इति ।। लक्षणमिति । लक्षणं गास्त्रम् । अटरयाणा मूर्धा, इचुयनानां साल्वित्यादि । तस्यान्यत्रेय सिद्धत्वादिह कर्मव्युत्पत्तिरव शिक्षाशब्दस्य ग्राह्या । [रूपमिति ] "चक्षितः ख्या" "या लिट" इति सूत्रेण ख्यात्रादिष्टो यस्तस्येदं रूपं न "स्या प्रकर्थन" इत्यस्य सोपसर्गस्य, प्रये.गानभिधानादित्यर्थ. ॥ इति श्रीमत्परमहंसपरिबानकाचार्यश्रीमच्छरभगवच्छिायानन्दगानविरचिताय तैत्तिर- योपनिषठाकरभाष्र्ट,काया शीक्षाध्याये द्वितीयोऽनुवाकः ॥ २ । अथ शीक्षाध्याये तृतीयोऽनुवाकः । सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अधुना संहितोपनिपदुच्यते । तत्र संहिताग्रुपनिषत्परिज्ञाननिमित्तं यद्यशः १. तात्यकल्स ये । २ क. व. ग इ. च ट. वादार्म । ३ ख. ग च. अ.नाई । ५ क. ग. च. ज झ. ट. 'भत । अ 1 ५ ग. २. तदर्थ । ६२. ख ग. प.म.र. यात सो' ।

। ३ तृतीयोऽनुगांकः ] नासिरीयोपनिषत् । ११ मायते तमावाषयोः शिष्याचार्ययोः सहवास्तु । तनिमित्तं च यद्रल- पर्यसं तेजस्तच सहवास्त्विति शिष्यवचनभाशीः । शिष्यस्य हाकतार्यत्वात्मार्थ. नोपपद्यते नाऽचार्यस्य । कृतार्थत्वात् ! कृतार्थो खाचार्यों नाम भवति । संहिता वर्णाना संनिकर्यस्तद्विपयमुपासनं प्रथम कथ्यत इत्याह--अधुनति । संनि- धानाञ्च स्वशाखामहिम प्रहा। शं नो मित्र इत्याशीर्वाद. फत्तोपनिषच्छेष. । संहितो- पनिषदमाग दान्तरमाह --तत्रेति । अथातः सहिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वविकरणेषु । अघिलोकमधिज्यौतिषम- धिविद्यमधिप्रजमध्यात्मम् । ता महासहिता इत्याचक्षते । अांधिलोकम् । पृथिवी पूर्वर- पम् । यौरुत्तररूपम् । आकाशः संधिः ( १ )॥ अथानन्तरमध्ययनलक्षणविधानस्य यतोऽत्यर्थ ग्रन्थभाविता बुदिर्न शक्यते सहसाऽर्थज्ञानविषयेऽवसारयितुमित्यतः संहिताया उपनिषदं संहितारिपयं दर्श- नमित्येतद्वन्थसंनिकृष्टामेव व्याख्यास्यामः । पञ्चस्वधिकरणेष्वाश्रयेषु मानवि- षयेष्वित्यर्थः । कानि तानीत्याह-अधिलोकं लोके घधि यदर्शनं तदपिलो- कम् । तथाऽधिज्यातिपमधिविद्यमधिमनमध्यान्ममिति । ता पताः पविण्या उपनिषदो लोकादिमहावस्तुविषयत्वात्संहिताविषयत्वाच्च महत्यच ताः संहि- ताथै महासंहिता इत्याचक्षते कथयन्ति वेदविदः । अथ तासां यथोपन्यस्वाना- माधिलोकं दर्शनमुच्यते । दर्शनक्रमविवक्षार्थोऽथशब्दः सर्वत्र | पृथिवी पूर्वस्पं पूर्वो वर्णः पूर्वरूपम् । संहितायाः पूर्वे वर्णे पृथिवीदृष्टिः कर्तव्येत्युक्तं भवति । तथा चोत्तररूपणकाशोऽन्तरिक्षलोकः । संधिर्मध्यं पूर्वोत्तररूपयोः संघीयेते अस्मिन्पूर्वोत्तररूपे इति ॥ १ क. स. ग. च. . अ. ट. ड. प्राप्यते। २ च. कल्यत । ३ ख. ग. च. ज. °खाम- निहिते । ४ क. स्व. ग. च. ज. ट. त्याया आगीर्वादाः । ५ ३. व. ग. व. ङ च छ. ज. ट. श्च ताम। ६ व. निदा पनि । छ. ट नि: ब्रह्मवै ।ह दः । दर्शनकमविण्या अधश द. । अ'।

.. १२ आनन्दगिरिकृतटीकासंवलिनशांकरभाष्यसमेता- [ीक्षाभ्याये- वस्तुपासनं हित्वा प्रथमतः शब्दोपासनविधाने हेतुरतःगळेनोक्त इत्याह-यतोऽ. त्यर्थमिति । पञ्चस्थिति सप्तमी तृतीयार्य विपरिणेया। अविकरणमब्दश्च विषयपर्यायः । पञ्चभिः पदार्थविशेषितं ज्ञानं वर्णेषु वक्तव्यम् । यथा विष्णुदर्शन(न प्रतिमायामित्यर्थः । लोकेष्वधीति । लोकानधिकृत्योपादाय ध्येयत्वमित्यर्थः । विद्यागन्दन विद्याप्रतिबद्ध आचार्यादिविक्षितः । तथैव प्रजाशन्देन प्रजाप्रतिवद्धः पित्रादिविवक्षितः । अध्यात्म- मिति । आत्मानं भोक्तारमधिकृत्य यद्वर्तते जिहादि तद्विवक्षितम् । सर्वत्र तत्तदभिमा- निनी देवत्व ग्राह्या। अन्यस्योपास्यत्वासंभवादिति । विधिग समर्थवादमाह-ता पता इति । संहितोपनिषदः कर्तव्या इत्युत्पत्तिविधिरुक्तः । कथं कर्तव्या इत्याकाङ्क्षायां विनियोगविधिमाह-अथ तासामित्यादिना । कर्तुरकत्वादनुष्टेयाना बहुत्वावश्यंभा- विनि मे विशेषनियमार्योऽयान्दः । वायुः संधानम् । इत्यधिलोकम् । अावि- ज्योतिषम् । अनिः पूर्वरूपम् । आदित्य उत्त- ररूपम् । आपः संधिः । पंद्युतः संधानम् । इत्यधिज्यौतिपम् । अथांधिविद्यम् । आचार्यः पूर्वरूपम् (२)। अन्तेवास्युत्तररूपम् । विद्या संधिः । प्रवचन५ संधानम् । इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् । पितोतररू- पम् । प्रजा संधिः। प्रजनन५ संधानम् । इत्य- धिप्रजम् (३)। अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररूपम् । वामंधिः । जिहां संधानम् । इत्यध्यात्मम् । - १ क. ख. ग. न. च.ट. उ कर्तव्यम् । २ क. ख. ग च. ज. ट. तं त्य' । ३. 5. छ.त्र 'त्य यो वतने जिहादिः स विवक्षित. । म° 1 ४ ख. ग घ. ट. जमाव । ५ क. स. म. च. ज ट. °मार्था अयशा । - ३ तृतीयोऽनुवाकः ] तैत्तिरीयोपनिषत् । १३ वायुः संधानम् । संघीयतेऽनेनेति संधानम् । इत्यधिलोकं दर्शनमुक्तम् । अथाधिज्योतिपमित्यादि समानम् । इतीमा महासहिताः । य एवभेता महासहिता व्याख्याता वेद । संधीयते प्रजया पशुभिः। ब्रह्मवर्चसेनानायेन सुवर्येणं लोकेन ( ४ ) । संधिराचार्यः पूर्वरूपमित्यधिमजं लोकेन ।। इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये तृतीयोऽनुवाकः ॥ ३ ॥ इतीमा इत्युक्ता उपप्रदश्यन्ते । यः कश्चिदेवमेता महासंहिता व्याख्याता वेदोपास्ते । वेदेत्युपासनं स्याद्विज्ञानाधिकारात् " इति प्राचीनयोग्योपास्स्त्र " इति च वचनात् । उपासनं च यथाशास्त्रं तुल्यप्रत्ययसंततिरसंकीर्णा चातत्स- त्ययः शास्त्रोक्तालम्बनविषया च । प्रसिद्धश्योपासनशब्दार्थों लोके गुरुमुपासते (स्ते ), राजानमुपास्त इति, यो हि गुर्वादीन्संततमुपचरति स उपास्त इत्यु- च्यते । स च फलमाप्नोत्युपासनस्य । अतोऽत्रापि च य एवं वेद संधीयते प्रजादिभिः स्वान्तः प्रजादिफलान्याप्नोतीत्यर्थः । इति श्रीमत्परमहंसपरिव्राजकाचार्थगोविन्दभगवत्पूज्यपादशिष्यश्रीनच्छंकरभ- गवतः कृता तैत्तिरीयोपनिपन्छीक्षाध्यायभाष्ये तृतीयोऽनुवाकः॥३॥ " हृदयस्याग्रेऽद्यस्यथ जिह्वाया अथ वक्षसः " इतिवदुपप्रदर्थन्ते परामृश्यन्ते । अधिकारविधिप्रदर्शनाय यथा दर्शादयः षड्यागाः समुचिताः फलसाधनमविकाराशेनामे- दात् , तथा पञ्चोपनिषदः समुच्चिताः प्रजादिफलकामस्यानुष्ठेया इत्याह-~यः काश्च दित्यादिना । फलकामिनाऽनुष्टीयमानं सहितोपासनं कामितफलाय भवति । फलान- भिसंधिना वनुष्ठीयमान ब्रह्मविद्यार्य भवति । मेवाहीनेन ब्रह्मणोऽवगन्तुमशक्यत्वान्भेधा- कामस्य जपोऽपि ब्रह्मविद्यार्थो भवति । श्रीविहीनेन सत्त्रशुद्धयर्थं यागाद्यनु. -- १ ज. झ ण च । अतस्तत्व । २ क. ख. ग. °पया सा । ३ ड. सिद्धो युग । ४ प. सा. द. लो। ५ व. १. छ. त्र वत्यथ ।

१४ आनन्दगिरिकनटीकासंवलिनमांकरभाष्यसमेता [क्षाध्याये- छातुं न सक्यत इति श्रीकामस्प होमोऽपि परम्परया ब्रह्मविद्यापयोगनि महत्तात्पर्य विद्या- संनिधिसमानाताना सर्वत्र द्रष्टव्यम् । इति भीमत्परमहसपरिव्राजकाचार्य श्रीमन्टंकरभगवच्छिानन्दमानविधितायां तत्तिरीयोपनि- पकिरभाष्पटीकाया शीक्षाघ्याये तृतीयोऽनुरामः ॥ ३ ॥ अथ शीक्षाध्याय चतुर्थोऽनुवादः । यश्छन्दसामृपो विश्वरूपः । छन्दो- योऽध्यमृतासंबभूव । स मेन्द्रों मेधया स्पृणोतु। अमृतस्य देव धारणो भूयासम् । शरीर में विचर्पणम् । - यश्छदन्सामिति । मेधाकामस्य श्रीकामस्य स तत्माप्तिसाधनं मपहोमा- चुच्यते " स मेन्द्रो मेधया स्पृणोतु "" ततो में श्रियमावह" इति च लिङ्ग- दर्शनात् । यश्छन्दसा दानामृषभ इवर्षभः प्राधान्यात् । विश्वरूपः सर्वरूपः सर्ववाग्व्याप्तेः , " तयथा शकुना " इत्यादिश्रुत्यन्तरात् । अत एवर्षभत्वमों- कारस्य | ओंकारी हात्रोपास्य इति ऋषभादिशः स्तुतियाग्यवोंकारस्य । छन्दोभ्यो वैदेभ्यो वेढा अमृतं नस्मादमृनादविसंबभूव । लोकदेववेदव्यार. तिभ्यः सारिष्ठं जिघृक्षोः प्रजापतेस्तपस्यत ओंकारः सारिष्ठत्वेन प्रत्यभादि. त्यर्थः । न हि नित्यस्योंकार स्याञ्जसवोत्पत्तिरेव कल्पते । स एवंभूत ओंकार इन्द्रः सर्वकामेशः परमेश्वरो मा मां मेधया प्रझया स्पृणोतु मीणयतु बलयतु वा । ममावलं हि प्रायते । अमृतस्यामृतत्वहेतुभूतस्य ब्रह्मज्ञानस्य तदधिका- रान् , हे देव धारणो धारयिता भयासं भवेयम् । किंच शरीरं मे मम विचर्पण विचक्षणं योग्यमित्येतत् । भूयादिति प्रथमपुरुषविपरिणामः । अपान्तरतात्पर्यमभिप्रेत्याऽऽह-यग्छन्दसामित्यादिना । संबभवेनि जन्मवाचके पदे श्रयमाणे किमिति " प्रजापतिर्लोकानभ्यतपत्" इत्यादिश्रयन्तरानुसारेणा:ऽमज्ञा- २ १ क ख. ग च. ज. ट. ठातमरक्यत्वादिति । २ छ. म. इ. 'सिवि । ३ म. स. प्रार्थयते । ४ क. य. ग. च. रण कार्यश्रेष्टनाऽऽन्न ।

५ अनुऽनुनकः ] तैपिरीयोपनिषत् । १५ नयोग्यकार्यश्रवन प्रतिभानं व्याम्त्यायते तत्राऽऽह-नहीति । पुरुषविपरिणाम इति । भ्यासमित्युत्तमपुरुषस्य प्रकृतस्य प्रथमपुरुषान विपरिणामः कर्तव्य इत्यर्थः । जिह्वा में मधुमत्तमा । कर्णीयां भूरि विभुवम् । ब्रह्मणः कोशोऽसि भेधया पिहितः । श्रुतं मे गोपाय । आवहन्ती विनन्वाना(१) । कुर्वाणाऽचीरमात्मनः । निका मे मधुमसमा मधुमत्यतिशयेन मधुरभाषिणीत्यर्थः । कर्णाभ्यां भोत्राभ्यां गरि बहु विश्रुवं व्यश्रव (1) श्रोता भूयासमित्यर्थः । आत्मज्ञानयोग्यः कार्यकारणसंघातोऽस्त्विति वाक्यार्थः । मेधा च तदर्थमेव हि प्रार्थ्यते । ब्रह्मणः परमात्मनः कोशोऽसि । असेरिवोपलव्ध्यधिष्ठानत्वात | त्वं हि ब्रह्मणः प्रतीक त्वयि ग्रामोपलभ्यते । मेधया लौकिकमझया पिहित आच्छादितः स त्वं सामान्यपनेरविदिततत्त्व इत्यर्थः । श्रुतं श्रवणपूर्वकमात्मज्ञानादिकं मे गोपाय रक्ष । तत्माप्त्यविस्मरणादि कुर्वित्यर्थः । जपार्था एते मन्त्रा मेधाकामस्य । झोमार्यास्त्वधुना श्रीकामस्य मन्त्रा उच्यन्ते । आवहन्त्यानयन्ती। वितन्वाना विस्तारयन्ती तनोतम्तत्कर्मत्वात्। कुर्वाणा निवर्तयन्ती । अचीरमचिरं क्षिप्रम । छान्दसो दीर्घः 1 चिरं वा कुर्वाणा । अचेतनशब्दं प्रति प्रार्थना कथं ? कथं चन्द्रशब्देनाभिधानमित्याशङ्कय ब्रह्माभदविवक्ष- येत्यभिप्रेत्याऽऽह-ब्रह्मण इति । ब्रह्माभेदेन प्रार्थितदाने समर्थश्वेदोंकारः किमिति सर्व।पास्यत इत्याशङ्कयाऽऽह – मेधयति । लौकिकप्रज्ञयेति । शालग्रामादिष्वपि देवता,द्धिरित्यर्थः । नतध्यापयादि मृग्यौ । ब्राह्मणोत्पन्नत्वात् । वामांसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह E । ख. ग. च. छ. ट. ° व्यञवामन्याडभाववान्दस । झटिनि भो । २ स्व. ग व. ८. 'तसत्व । ३ . 'त्मविज्ञान मे । ४ ( °दिना क' । ५ क ख. ग. व.स.छ.. ट. 'स्य । होपार्थस्त्विधुनोच्यन्ते मन्त्राः । आ । ६ ड. ना म° । ७ छ. 'यन्त्यात्मनः। अ° । ८ क.. घ. च. छ. अ. ट ६ । चि° । ९ क ग घ. ड. 'दिष्विव । १० के. ख. ग. "बदल्य । १' ग. च ट. 2. म् । अझ ।

. १६ आनन्दगिरिकृतीकासंचलितशकिरभाष्यसमेता- [गाहाच्याये- स्वाहा । आ मां यन्तु ब्रह्मचारिणः स्वाहा । विमाऽऽयन्तु ब्रह्मचारिणः स्वाही । प्रमाऽऽयन्तु ब्रह्मचारिणः स्वाहा । दीयन्तु ब्रह्मचारिणः स्वाहाँ । शायन्तु ब्रह्मचारिणः स्वाहा (२)। आत्मनो मम, किमित्याह-वासांसि वस्त्राणि मम गावश्च गाश्चेति यावत् । अन्नपाने च सर्वदेवमादीनि कुर्वाणा श्रीर्या तां ततो मेधानिर्वर्तनात्परमावहा:s. नय । अमेधसो हि श्रीरनायवेति । किंविशिष्टाम् । लोमशामजाव्यादियुक्ता- मन्येश्च पशुभिः संयुक्तामावहेत्यधिकारादोंकार एवाभिसंबध्यते । स्वाहा, स्वाहाकारो होमार्थमन्त्रान्तज्ञापनार्थः । आयन्तु मामिति व्यवहितेन संवन्धः । ब्रह्मचारिणो वि माऽऽयन्तु प्र माऽऽयन्तु दमायन्तु शमायन्त्वित्यादि । यशो जनेऽसानि स्वाहा । श्रेयान्वस्यसोड- सानि स्वाहा। तं त्वा भग पीवशानि स्वाही। स मा भग प्रशि स्वाहा । तस्मिन्त्सहस्र- शाखे । निगाहं त्वयि मृजे स्वाहा । यथाऽऽपः प्रवताऽऽयन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातराय॑न्तु सर्वतः स्वाहा । प्रतिवेशोऽसि पमा भाहि प्र मा पयस्व (३)॥ वितन्वाना शायन्तु ब्रह्मचारिणः स्वाहा धातरा. यन्तु सर्वतः स्वाहैक च ।। इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ - . १ क. छ. ठ. शिष्टा च श्रियं लो । ख. च °शिष्टां च लोमशा श्रियम | २ क. स. व. च. छ. द. नार्थ इत्यर्थः । ढ. नार्थः स्वाहाकार आ° । ३ ड. आमायन्विति ।

२ 2 चतुर्थोऽनुवाकः ] तत्तिरीयोपनिषत् । १७ यशो यशस्वी जने जनसमूहेऽसानि भवानि । श्रेयान्प्रशस्यतरो वस्यसो वसीयसो वसुतराद्वसुमत्तरादोऽसानीत्यन्ययः । किंच तं ब्रह्मणः कोशभूतं त्वा स्वां हे भग भगवन्पूजावन्म विशानि प्रविश्य चानन्यस्त्वदात्मैव भवानीत्यर्थः । स त्वमपि मा मां भग भगवन्पूजावन्मविशाऽऽवयोरेकत्वमेवास्तु । तस्मिंस्त्वयि सहस्रशाखे बहुभेदे निमजे शोधयाम्यहं पापकृत्याम् । यथा लोक आपः प्रवता प्रवणवता निम्नवता देशेन यन्ति गच्छन्ति । यथा च भासा अहर्जरं संवत्सरोs. हर्जरः । अहोभिः परिवर्तमानो लोकाजरयतीत्यहानि वाऽस्मिञ्जीर्यन्त्यन्तर्भव- न्तीत्यहर्जरः । तं च यथा मासा यन्त्येवं मां ब्रह्मचारिणो हे धातः सर्वस्य विधातः, मामायन्त्वागच्छन्तु सर्वतः सर्वदिग्भ्यः । प्रतिवेशः श्रमापनयनस्थान- मासन्नगृहमित्यर्थः । एवं त्वं प्रतिवेश इव प्रतिवेशस्त्वच्छीलिनां सर्वपापदुःखा- पनयनस्थानमसि, अतो मा मां प्रति प्रभाहि प्रकाशयाऽऽत्मानं प्रपद्यस्व च । मा रसविद्धमिव लोहं त्वन्मयं त्वदात्मानं कुर्वित्यर्थः । श्रीकामोऽस्मिन्विद्याप्रकरणेऽ. भिधीयमानो धनार्थः । धनं च कर्मार्थम् । कर्म चोपात्तदुरितक्षयाय । तत्क्षये हि विद्या प्रकाशते । तथा च स्मृतिः- ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथाऽऽदर्शतले प्रख्ये पश्यन्त्यात्मानमात्मनि " इति । इति श्रीमत्परमहंसपरित्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिपच्छीक्षाध्यायभाष्ये चतुर्थोऽनुवाकः ॥ ४ ॥ वस निवासे, वस आच्छादने ' इति धातुद्वयादुप्रत्ययः शीलेऽथ । वसुर्वसनशीलः । पराच्छादनशीलो वा वसुः । अतिशयेन वसुर्थसीयास्तस्माद्वसीयसः । ईलोपश्चान्दसः । वसुमान्यसुशब्देन लक्ष्यत इत्यभिप्रेत्याऽऽह-वसुमत्तरादेति । पूर्वोक्तस्य प्रयोजनमाह- किंचति । यदुक्तं ' ब्रह्मचारिणो मामायन्तु ' इति तत्र दृष्टान्तमाह-यथेति । इति श्रीमत्परमहंसपरिवाजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचिताया तैत्ति. रीयोपनिषच्छाकरभाष्यटीकाया शीक्षाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ - १ . °दा । अनेकार्थत्वाद्धातूना ल्यजातीयानां विशेषव न्धनवत्स्वजातीयपुरुषादिशेष- पानसा' । २ क. ख. प. च. छ. ट. नीत्यर्थः । किं । ३ क. मासाः संवत्सरमह । ४ क. 'रो ह्यहर्न । ५ ड. °यार्थम् । त° । ६ घ. दरों तनुम । ७ छ. मस्थे । ८ ख. ग. च. थे। स्ववेश्मसु वस । ९ ट. लः वसुः प । ३ १८ आमन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- अथ शीक्षाध्याये पञ्चमोऽनुवाकः । भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः । तासामु ह स्मैतां चतुर्थीम्।माहाँचमस्यः प्रवे- दयते । मह इति । तद्ब्रह्म । स आत्मा । अन्यन्या देवताः। भूरिति वा अयं लोकः। भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः(१)। मह इत्यादित्यः आदित्येन वाव सर्व लोका महीयन्ते । भूरिति वा अग्निः । भुव इति वायुः । सुवरित्याँदित्यः । मह इति चन्दाः । चन्दर्भसा वाव सर्वाणि ज्योती ५षि महीं- यन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि ( २) । संहिताविषयमुपासनमुक्तं तदनु मेधाकामस्य श्रीकामस्य मन्त्रा अनु- क्रान्तास्ते च पारम्पर्येण विद्योपयोगार्था एव । अनन्तरं व्याहृत्यात्मनो ब्रह्मणोऽन्वरुपासनं स्वाराज्यफलं प्रस्तूयवे । भूर्भुवः सुवरित्युक्तोपपद- र्शनार्थः । एतास्तिस्र इति प्रदर्शितानां परामर्शार्थः । परामृष्टाः स्मार्यन्ते वेत्यनेन । तिस एताः प्रसिद्धा व्याहृतयः स्मार्यन्ते तावत् । तासा- मियं चतुर्थी व्याहृतिमह इति । तामेतां चतुर्थी महाचमसस्यापत्यं माहाचमस्यः प्रवेदयते । उ ह स्म, इत्येतेषां वृत्तानुकथनार्थत्वाद्विदित- वान्ददर्शेत्यर्थः । माहाचमस्यग्रहणमार्षानुस्मरणार्थम् । ऋषिस्मरणमप्यु. पासनाङ्गमिति गम्यत इहोपदेशात् । येयं माहाचमस्येन दृष्टा व्याहृ. तिर्मह. इति तद्ब्रह्म महद्धि ब्रह्म । महश्च व्याहृतिः । किं पुनस्तत् । स १ घ. उ.ष्टाः स्मर्य' । २ स्व. म. च. ज. °णमायानु । ३ क. ख. ग. प. उ. च. छ. अ. द. ष्यनुस्म ।

५ पत्रमोऽनुवाकः] तैत्तिरीयोपनिषत् । १९ २ आत्मा । आप्नोतेाप्तिकर्मणः । आत्मेतराश्च व्याहृतयो लोका देवा वेदाः प्राणांश्च मह इत्यनेन व्याहत्यात्मनाऽऽदित्यचन्द्रब्रह्मान्नभूतेन व्याप्यन्ते यतः। अतोऽङ्गान्यवयवा अन्या देवताः । देवताग्रहणमुपलक्षणार्थ लोकादीनाम् । मह इत्येतस्य व्याहत्यात्मनो देवलोकादयः सर्वेऽवयवभूताः । यत आहाऽऽदि- त्यादिभिर्लोकादयो महीयन्त इति । आत्मनो ह्यङ्गानि महीयन्ते महनं वृद्धिरु- पचयो महीयन्ते वर्धन्त इत्यर्थः । * अयं लोकोऽग्निग्वेदः प्राण इति प्रथमा व्याहृतिभूरिति । एवमुत्तरोत्तरकका चतुर्धा भवति । वृत्तानुवादपूर्वकमुत्तरानुवाकस्य सबन्धमाह-संहिताविपयमित्यादिना । व्याहृतीना श्रद्धागृहीतत्वात्परित्यागेनोपदिश्यमानं ब्रह्म न बुद्धिमारोहेदिति ततो व्याहृतिशरीरं हिर- ण्यगर्भात्यं ब्रह्मान्तर्हदये ध्येयत्वेनोपदिश्यत इत्यर्थः । मह इति व्याहृतावहिब्रह्मदृष्टिः कर्तव्या । तत्र किं साम्पमित्यत आह-महद्धीति । यथा देवदत्तस्य पादादीन्यङ्गानि मध्यभागश्वाङ्गीतरेपामझानामात्मा कथ्यते व्यापकत्वात् । तथा महोव्याहृतिहिरण्यगर्भस्य ब्रह्मणो मध्यभाग आत्मेति कल्प्यते । इतराश्च व्याहृतयः पादाद्यवयवत्वेन कल्प्यन्ते। प्रथम. व्याहृतिः पादौ, द्वितीया बाह, तृतीया शिर इत्यर्थः । व्याहृत्यवयवं ब्रह्मोपासीतेत्युत्पत्ति- विधिरुक्तः । इदानीमङ्गविगेपविधिः कथ्यते-भूरिति वा अयं लोक इत्यादिना । तकैका व्याहृतिश्चतुष्प्रकाराऽवगन्तव्येति तात्पर्यमाह-अयं लोक इत्यादिना । मह इति ब्रह्म । ब्रह्मणा वाव सवै वेदा मही- यन्ते । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव से प्राणा महीयन्ते । ता वा एताश्चतस्रवतुर्धा । चतस्रश्चतस्रो व्याहृतयः । शा यो वेद । स - * अब-य हृन्यवयव ब्रह्मोपासीतत्युत्पत्तिविधिरुक्तः । इदानीमङ्गविशेषविधिः कथ्यते' इति घ. पुस्तकेऽधिकं दृश्यते । १ ङ. 'णाश्वेत्य' । २ ग. व. छ. 'ये ज्ञेय ।

२० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाव्याये- वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति (३)॥ असौ लोको यजू पि वेद द्वे च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिपदि शीक्षाध्याये पञ्चमोऽनुवाकः ॥ ५॥ मह इति ब्रह्म । ब्रह्मेत्योंकारः। शब्दाधिकारेऽन्यस्यासंभवात् । उक्तार्थमन्यत् । ता वा एताश्चतस्रश्चतुर्धेति । ता वा एता भूर्भवः सवर्मह इति चतस्र एककश- श्चतुर्धा चतुष्पकाराः । धाशब्दः प्रकारवचनः । चतस्रश्चतस्रः सत्यश्चतुर्धा भव- न्तीत्यर्थः । तासां यथाक्लप्तानां पुनरुपदेशस्तथैवोपासननियमार्थः । ता यथो- क्तव्याहतीयों वेद स वेद विजानाति । किं ब्रह्म । नन-तब्रह्म स आत्मेति ज्ञाते ब्रह्मणि न वक्तव्यमविज्ञातवत्स वेद ब्रह्मेति । न । तद्विशेपविवक्षुत्वाद- दोषः । सत्यं विज्ञातं चतुर्थव्याहृत्यात्मा ब्रह्मेति न तुं तद्विशेपो हृदयान्तरुपल- भ्यत्वं मनोमयत्वादिश्च । ' शान्तिसमृद्धम् । इत्येवमन्तो विशेषणविशेष्यरूपो धर्मपूगो विज्ञायत इति तद्विवक्षुर्हि (क्षु हि! ) शास्त्रमविज्ञातमिव ब्रहा मत्वा स वेद ब्रह्मेत्याह । अतो न दोषः । यो हि वक्ष्यमाणेन धर्मपूगेन (ण) विशिष्टं ब्रह्म चेद स वेद ब्रह्मेत्यभिप्रायः । अतो वक्ष्यमाणानुवाकेनैकवाक्यताऽस्यो- भयो नुवाकयोरेकमुपासनं लिङ्गाच्च । भूरित्यग्नौ प्रतितिष्ठतीत्यादिकं लिङ्ग- मुपासनैकत्वे विधायकाभावाच्च । न हि वेद उपासितव्य इति विधायक: कश्चिच्छब्दोऽस्ति । व्याहृत्यनुवाके ' ता यो वेद ' इति च वक्ष्यमाणार्थत्वा- नोपासनभेदकः । वक्ष्यमाणार्थत्वं च तद्विशेषविवक्षुत्वादित्यादिनोक्तम् । सर्वे देवा अस्मा एवं विदुषेऽङ्गभूता आवहन्त्यानयन्ति बलिं स्वाराज्यप्राप्तौ सत्या- मित्यर्थः॥ इति श्रीमत्परमहंसपरिव्राजकाचार्थगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभ- गवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्ये पञ्चमोऽनुवाकः ॥ ५॥ एकैका व्याहृतयो यदा चतुष्प्रकाराश्चिन्त्यन्ले तदा षोडकल: पुरुष उपासितों भवती- त्यभिप्रेत्य संक्षेपम.ह-ता वा एता इति । स वेद ब्रह्मेति ब्रह्मवेदनं फलत्वेन न संकी- यतेऽविकारविधिवाक्ये । किंतु वक्ष्यमाणानुवाकेनास्मिन्नेव ब्रह्मोपासने गुण- विधानं भविष्यतीति सूचयितुमित्याह-न तद्विशेषविवक्षुत्वादित्यादिना । यदि . १ क. ड. च. छ. इत्यन्तो।

६ पट्रोऽनुवाकः] तैत्तिरीयोपनिषत् । २१ व्याहत्यवयवमेव ब्रमोत्तरत्रोपास्यते तदेवोपासकस्य प्रथमव्याहृयात्मकेऽग्नौ प्रतिष्ठाभिधानं घटेत । तस्मात्माहत्यात्मकदेवनाप्राप्यभिधानम् । उपासनैकत्वे लिङ्गमाह-लिङ्गाचेति । किंकत्र प्रधानविद्याबिधिरपरत्र गुणविधिरियेवमनुवाकभेदे चरितार्थ नानन्यथासिद्धं भेदकं प्रमाणमुपलभ्यत इत्याह-विधायकाभावाचति । किं विधार्थकात्मक इति भिन्नवि- द्यावोधक इत्यर्थः । इति श्रीमत्परमारूपरिचाजकाचार्य श्रीमच्छंकरभगपच्छिायानन्दज्ञानविरचिताया तैत्तिरीयोपनि- पच्चाकरमान्पटीमाया शीक्षाध्याये पञ्चमोऽनुनाक. ॥ ५ ॥ अथ शीक्षाध्याये पटोऽनुवाकः । - भूर्भुवःसुवःस्वरूपा मह इत्येतस्य व्याहृत्यात्मनो ब्रह्मणोऽङ्गान्यन्या देवता इन्युक्तम् । यस्य ता अङ्गभूतास्तस्यैतस्य ब्रह्मणः साक्षादुपलब्ध्यर्थमुपासनार्थं च हृदयाकाशः स्थानमुच्यते शालग्राम इव विष्णोः । तस्मिन्हि तब्रह्मोपास्य- मानं मनोमयत्वादिधर्मविशिष्टं साक्षादुपलभ्यते । पाणाविवाऽऽमलकम् । मार्गच सर्वात्मभावप्रतिपत्तये वक्तव्य इत्यनुवाक आरभ्यते-- स य एपोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुपो मनोमयः । अमृतो हिरण्मयः । अन्तरेण तालुके। य एष स्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो विव- तते । व्यपोह्य शीर्षकपाले । भूरित्यगौ प्रतितिष्ठति । भुव इति वायो ( १ )। स इति व्युत्क्रम्य ' अयं पुरुषः' इत्यनेन संबध्यते । य एषोऽन्तर्हृदये १ ख. र्थेऽनुवाकभेदप्रमाण तु नेपासनाभेदासिध्यतीति वाच्यम् । तस्य गुणपरत्वेनान्य- थासिद्धत्वात् । तस्मादन्यथासिद्धमपासनाभेदेनैव सिद्ध प्रमाणं नोपल । २ क. ख. ग. च. ज. झ. द. यक इ । ३ ड. °लप्स्यत्यपा । ४ ड. शः स स्था। ५ ड. °पासनं ।

२२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता [गीक्षाप्याये- हृदयस्यान्तर्हृदयमिति पुण्डरीकाकारो मांसपिण्डः प्राणायतनोऽनेकनाडीसुन पिर ऊर्ध्वनालोऽधोमुखो विशस्यमाने पशौ प्रसिद्ध उपलभ्यते । तस्यान्तर्य एप आकाशः प्रसिद्ध एव करकाकाशवत् । तस्मिन्सोऽयं पुरुपः । पुरि शयनात्पूर्णा वा भूरादयो लोका येनेति पुरुपो मनोमयः । मनो विज्ञानम् । मनुतेर्ज्ञानकर्मणस्तन्मयस्तदुपलभ्यत्वात् । मनुतेऽनेनेति वा मनोऽन्तःकरणं तदभिमानी तन्मयस्तल्लिङ्गो वा । अमृतोऽमरणधर्मा हिरण्मयो ज्योतिर्मयः । तस्यैवलक्षणस्य हृदयाकाशे साक्षात्कृतस्य विदुप आत्मभूतस्येन्द्रस्येदृशस्वरूपं- प्रतिपत्तये मार्गोऽभिधीयते । हृदयादूर्वं प्रवत्ता सुपुम्ना नाम नाडी योगशास्त्रेषु च प्रसिद्धा । सा चान्तरेण मध्ये प्रसिद्ध तालुके तालुकयोर्गता । यश्चैप तालु- कयोमध्ये स्तन इचावलम्बते मांसखण्ड स्तस्य चान्तरेणेत्येतत् । यत्र च केशान्तः केशानामन्तोऽवसानं मूलं केशान्तो विवर्तते विभागेन वर्तते pध- प्रदेश इत्यर्थः । तं देशं प्राप्य तत्र विनिःसृता । व्यपोह्य विभज्य विदार्य शीर्षकपाले शिरःकपाले विनिर्गता या सेन्द्रयोनिरिन्द्रस्य ब्रह्मणो योनिर्मार्गः स्वरूपप्रतिपत्तिद्वारमित्यर्थः । तयवं विद्वान्मनोमयात्मदर्शी मूनों विनिष्क्रम्या- स्य लोकस्याधिष्ठाता भूरितिव्याहृतिरूपो योऽग्निर्महतो ब्रह्मणोऽङ्गभूतस्तस्मि- नग्नौ प्रतितिष्ठत्यग्न्यात्मन लोकं व्यामोतीत्यर्थः । तथा भुव इति द्वितीय- व्याहृत्यात्मनि वायौ । प्रतितिष्ठतीत्यनुवर्तते ।। तदुपलभ्यत्वादिति । ज्ञानाकारपरिणामिनि मनस्येवोपलभ्यत्वाद्व्याप्तेरित्यर्थः । तस्य मनसः प्रवृत्तिं दृष्ट्वा तदधिष्ठातृतया हिरण्यनाडी योगशास्त्रे बोध्यते । तस्य शास्त्रे सकल- करणाधिष्ठातृत्वेन प्रसिद्धत्वादिति तहिङ्गत्वमुक्तमित्यर्थः। सुवरित्योदित्ये । मह इति ब्रह्मणि । आमोति स्वाराज्यम् । आमोति मनसस्पतिम् । वास- तिश्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञान पतिः । एत- ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मनआनन्दम् । शान्ति समृद्धम- - . । ४ ख. १ . अ. °स्तत्वायत्वा । २ क. °पस्य ब्रह्मणः स्वरूपम । ३ ड. मनः म १. छ. ट. °प्यमाणा तेनान्तरेग त ५ ख. ग. ङ. च. छ. तथैव । ६ क. ख. ग. च. ट.भ्यमा- नत्वा । ७ क. ख. ड. °स्य जडस्य म'।८ च. छ. ञ, स्ने हिरण्यगर्भोऽनुमीयते । त° ।

६ पष्टोऽनुवाकः ] तैत्तिरीयोपनिपत् । २३ मृतम् । इति प्राचीनयोग्योपास्स्व (२) ॥ वायावमृतमेकं च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये पष्ठोऽनुवाकः ॥ ६ ॥ सुवरिति तृतीयव्याहत्यात्मन्यादित्ये । मह इत्यङ्गिनि चतुर्थव्याहृत्या- स्मनि ब्रह्मणि प्रतितिष्ठति । तेप्यात्मभावेन स्थित्वाऽऽमोति ब्रह्मभूतः स्वाराज्यं स्वराड्भावं स्वयमेव राजाऽधिपतिर्भवति । अङ्गभूतानां देवानां यथा ब्रह्म । देवाश्च सर्वेऽस्मै वलिमावहन्त्यङ्गभूता यथा ब्रह्मणे । आप्नोति मनसस्पतिम् । सर्वेषां हि मनसां पतिः । सर्वात्मकत्वाद्रह्मणः । सर्वहि मनोभि- स्तन्मनुते । तदामोत्येवं विद्वान् । किंच वाक्पतिः सर्वासा वाचां पतिर्भवति तथैव चक्षुप्पतिश्चक्षुपां पतिः । श्रोत्रपतिः श्रोत्राणां पतिः । विज्ञानपतिर्विज्ञानानां च पतिः । सर्वात्मकत्वात्सर्वप्राणिनां करणैस्तद्वान्भवतीत्यर्थः । किंच ततोऽ- प्यधिकतरमेतद्भवति । किं तत् । उच्यते । आकाशशरीरमाकाशः शरीरमस्याऽऽ- काशवद्वा सूक्ष्मं गरीरमस्येत्याकाशशरीरम् । किं तत् । प्रकृतं ब्रह्म । सत्यात्म सत्यं मूर्तामूर्तमवितथं स्वरूपं चाऽऽत्मा स्वभावोऽस्य तदिदं सत्यात्म | प्राणा- रामं प्रोणेप्वा[ राम आ ]रमणमाक्रीडा यस्य तत्प्राणारामम् । प्राणानां वोऽऽ. रामो यस्मिंस्तत्प्राणारामम् । मनआनन्दम् । आनन्दभूतं सुखकृदेव यस्य मन- स्तन्मनआनन्दम् । शान्तिसमृद्धं शान्तिरुपशमः शान्तिश्च तत्समृद्धं च शान्ति- समृद्धम् । शान्त्या वा समृद्धं तदुपलभ्यत इति शान्तिसमृद्धम् । अमृतममरण- धर्मि । एतच्चाधिकतरं विशेपणं तत्रैव मनोमय इत्यादौ द्रष्टव्यमिति । एवं मनो. मयत्वादिधर्मविशिष्टं यथोक्तं ब्रह्म हे प्राचीनयोग्य, उपास्स्वेत्याचार्यवचनो क्तिरादरार्था ।। इति श्रीम-परमहंसपरित्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर. भगवतः कृता तैत्तिरीयोपनिपच्छीक्षाध्यायभाष्ये षष्ठोऽनुवाकः ॥६॥ । , १ प. रागमानन्दभूतमागे । २ क. स्व. च, छ. ञ. ट. माणेष्टा र ।

२४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाध्याये- स्वाराज्यं निरङ्कुशमैश्वर्यं जगत्स्रष्ट्रवादिलक्षणं न भवतीत्याह-अङ्गम्भूतानां देवानामिति । सावधिकमैश्वर्यमवाऽऽह–प्राप्नोतीत्यादिना । इति श्रीम-परमहंसपरिव्राजकाचार्यश्रीमच्छकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरी- योपनिषच्छाकरभाष्यटीकाया शीक्षाध्याय षष्ठोऽनुवाकः ॥ ६॥ अथ शीक्षाध्याये सप्तमोऽनुवाकः । यदेतद्याहृत्यात्मकं ब्रह्मोपास्यमुक्तं तस्यैवेदानीं पृथिव्यादिपाङ्कस्वरूपेणो- पासनमुच्यते । पञ्चसंख्यायोगात्पत्रिच्छन्दःसंपत्तिः । ततः पाङ्गत्वं सर्वस्य । पाइश्च यज्ञः। "पञ्चपदा पङ्किः । पाङ्को यज्ञः" इति श्रुतेः । तेन यत्सर्व लोकाद्यात्मान्तं च पाएं परिकल्पयन्ति(ति) यज्ञमेव तत्परिकल्पयति । तेन यज्ञेन परिकल्पितेन पाङ्घात्मकं प्रजापतिमभिसंपद्यते । तत्कथं पाकुमिदं सर्व- मित्यत आह- पृथिव्यन्तरिक्ष यौर्दिशोऽवान्तरदिशाः । अग्नि- र्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् । पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशा इति लोकपाङ्गम् । अनिर्वायुरादि- त्यश्चन्द्रमा नक्षत्राणीति देवतापाङ्कम् । आप ओपधयो वनस्पतय आकाश आत्मेति भूतपाङ्गम् । आत्मेति विराड्भूताधिकारात् । इत्यधिभूतमित्यधिलो- काधिदैवतपाङ्कद्वयोपलक्षणार्थम् । लोकदेवतापायोश्चाभिहितत्वात् । उत्तरोऽप्यनुवाकः प्रकारान्तरेण हिरण्यगर्भोपासनविषय इत्याह-यदेतदित्यादिना। पृथिव्यादेः कथं पातत्वमित्याकाक्षाया पतयाख्यस्य च्छन्दसः संपादनादित्याह-- पञ्चसंख्यति । न केवलं पञ्चसंख्यायोगात्पड्किच्छन्दःसंपादनं यज्ञवसंपादनमपि कतुं शक्यत इत्याह-पाकश्च यज्ञ इति । पत्नीयजमानपुत्रदेवमानुषवित्तेः पञ्चभिः संपाद्यत इति यज्ञः पात इत्यर्थः । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः १ ग. व. न, तं न पा , ८ अपमाऽनुवाकः ] तैत्तिरीयोपनिपत् । २५ समानः । चक्षुः श्रोत्रं मनो बाक्त्वक् । चम मास५ स्नावास्थि मज्जा । एतधिवि- धाय ऋपिवोचत् । पाङ्क्तं वा इद” सर्थम् । पातेनैव पात५ स्पृणोतीति(१)। सर्वमेकं च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिपदि शीक्षाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अथानन्तरमध्यात्म पाङ्गत्रयमुच्यते--प्राणादि वायुपासम् । चक्षुरादीन्द्रि- यपाङ्गम् । चर्मादि धातुपाङ्गम् । एतावद्धीदं सर्वमध्यात्मम् । बाह्यं च पाक-मे- चेत्येतदेवमधिविधाय परिकल्प्यर्षिर्वेद एतद्दर्शनसंपन्नो वा कश्चिदृपिरवोचदुक्त- चान् । किमित्याह--पाझं वा इदं सर्व पानवाऽऽध्यात्मिकेन संख्यासामा- न्यात्पाझं बाह्यं स्पृणोति वलयति पूरयति । एकात्मतयोपलभ्यत इत्येतदेव । पाकुमिदं सर्वमिति यो वेद स प्राजापत्यात्मैव भवतीत्यर्थः ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोबिन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिपच्छीक्षाध्यायभाष्ये सप्तमोऽनुवाकः ॥ ७ ॥ "उत्कृष्टदृष्टिनिकृष्टे फलवती" इति न्यायाबाह्यपाङ्गरूपेणाऽऽध्यात्मिकपात्र- यमवगन्तव्यमित्यभिप्रेत्याऽऽह--एकात्मतयेति ।। इति श्रीमत्परमहसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दशानविरचितायां तैत्ति- रीयोपनिपच्छारभाण्यटीकाया शीक्षाध्याये सप्तम ऽनुवाकः ।। ७ ।। अथ शीक्षाध्यायेऽष्टमोऽनुवाकः । व्याहृत्यात्मनो ब्रमण उपासनमुक्तम् । अनन्तरं च पास्वरूपेण तस्यै- चोपासनमुक्तम् । इदानीं सर्वोपासनाङ्गभूतस्योंकारस्योपासनं विधित्स्यते । परापरब्रह्मदृष्टया छुपास्यमान ओंकारः शब्दमात्रोऽपि परापरब्रह्मप्राप्तिसाधनं भवति । स घालम्वनं ब्रह्मणः परस्यापरस्य च । प्रतिमेव विष्णोः। " एते. नैवाऽऽयतनेनैकतरमन्वति" इति श्रुतेः । ४ २६ आनन्दगिरिकृतटीकासंवलितशाकरभाष्यसमेता- [गीक्षाध्याये- ओमिति ब्रह्म । ओमितीद५ सर्वम् । ओमिति । इतिशब्दः स्वरूपपरिच्छेदार्थः । ओमित्येतच्छब्दरूपं ब्रह्मेति मनसा धारयेदुपासीत । यत ओमितीदं सर्व हि शब्दरूपोंकारेण व्याप्तम् । " तद्यया शङ्खना इति श्रुत्यन्तरात् । अभिधानतन्त्रं षभिधेयमित्यत इदं सर्वमोंकार इत्युच्यते। वृत्तानुवादपूर्वकमुत्तरानुवाकमवतारयति-व्याहत्यात्मन इत्यादिना । वेदविद, हि सर्वाः क्रिया कारमुच्चार्य प्रवर्तन्त ततस्तस्य श्रद्ध गृहीतत्वात्तत्परिहारेणोपदिष्ट ब्रह्म न बुद्धिमारोहेदतस्तमादाययोपासनं विधीयत इत्यर्थः । नन्वाकारस्य शब्दमात्रस्याचेतन. त्यादहमनेनोपासित इतिज्ञानाभावात्कथं फलदातृत्वं स्यादि.याशकयाऽऽह---परापरेति । प्रतिमाद्यर्चनमिव सर्वश्वर एव फलदातेति भावः । ओकारे ब्रह्मत्वाध्यासे किं सादृश्य- मित्यत आह-ओमितीदमिति । सर्वास्पदत्वमोकारस्य ब्रह्मणा सादृश्यमित्यर्थः । ओमित्येतदनुकृति ह स्म वा अप्पो श्राव- येत्याश्रीवयन्ति । आमिति सामानि गायन्ति ।ओशामिति शस्त्राणि शसन्ति। ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति।ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजा- नाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपामवानीति । बढ्योपानोति ( १ )। . ओं दश इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये:- टमोऽनुवाकः ॥८॥ ओंकारस्तुत्यर्थमुत्तरो ग्रन्थः । उपास्यत्त्वाचस्य । ओमित्येत्तदनुकृति- रनुकरणम् । कोम यास्यामि चेति कृतयुक्तमोमित्यनुकरोत्यन्यः । अत ओंकारोऽनुकृतिः । ह स्म चा इनि प्रसिद्धावद्योतकाः । प्रसिद्ध • नबमोऽनुवाकः] नैत्तिरीयोपनिपत् । २७ गोकारस्यानुकृतित्वम् । अपि च " ओ श्रावय " इति प्रेपपूर्वकमाश्रावयन्ति प्रतिश्रावयन्ति । तथोमिति सामानि गायन्ति सामगाः । ओमिति शस्त्राणि शंसन्ति शस्त्रशंसितारोऽपि । तथोमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । बहाा प्रसौत्य- नुजानाति प्रैपपूर्वकमाश्रावयति । ओमित्यग्निहोत्रमनुजानाति । जुहोमीत्युक्त ओमित्येवानां प्रयच्छति । ओमित्येव ब्राह्मणः प्रवक्ष्यन्मवचनं करिष्यन्नध्य- प्यमाण ओमित्येवाऽऽह । ओमिति प्रतिपद्यतेऽध्यतुमित्यर्थः । ब्रह्म वेदमुपाम- वानीति प्राप्नयां ग्रहीप्यामीति । उपाप्नोत्येव ब्रह्म । अथवा ब्रह्म परमात्मा तमुपाप्नवानीत्यात्मानं प्रवक्ष्यन्प्रापयिप्यन्नोमित्येवाऽऽह । स च नेनोंकारेण ब्रह्म प्राप्नोत्येव । ओंकारपूर्व प्रवृत्तानां क्रियाणां फलवत्वं यस्मात्तस्मादोकार ब्रह्मेत्युपासीतेति वाक्यार्थः ॥ इति श्रीमन्परमहंसपरिवाजकाचार्यगोविन्दभगवत्पुज्यपादशिष्यश्रीमन्छंकर, मगरतः कृता तैत्तिरीयोपनिपन्छीक्षाध्यायभायेऽ. प्टमोऽनुवाकः ॥ ८॥ गम्त्राणि गीतिरहिता ऋच उच्यन्ते । प्रतिगरमिति । ओ थामो दैवेतिशब्दमध्वर्युः प्रतिगृणाति होतुः शंसनं प्रति । प्रतिशंसनमुच्चारयतीत्यर्थः । प्रवक्ष्यन्निति । " बच परिभाषणे" इत्यस्य रूपं प्रथमव्याख्याने । द्वितीये "वह प्रापणे" इत्यस्य द्रष्टव्यम् ॥ इति श्रीमत्परमहसपरिव्राजकाचार्य श्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचिताया तैत्तिरी- योपनिषच्छाकरभाष्यटीकाया शीक्षाध्यायऽष्टमोऽनुवाकः ॥ ८ ॥ + अथ शीक्षाध्याये नवमोऽनुवाकः। ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्याप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायमचने च । अग्नयश्च स्वाध्यायप्र- वचने च । अग्निहोत्रं च साध्यायप्रवचने च । अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च २४ आनन्दगिरिकृतटीकासंवलितशांकरभाप्यसमेना- [ीक्षाध्याये- . स्वाध्यायप्रयंचने च । प्रजा च स्वाध्यायप्रव- चने च । प्रजनश्च स्वाध्यायप्रवचने च । विज्ञानादेवाऽऽप्नोति स्वाराज्यमित्युक्तत्वाच्छ्रातस्मार्तानां कर्मणामानर्थक्यं प्राप्तमित्यतस्तन्मा प्रापदिति कर्मणां पुरुषार्थ :प्रति साधनत्वप्रदर्शनार्यमिहोप. न्यासः । ऋतमिति व्याख्यातम् । स्वाध्यायोऽध्ययनम् । प्रवचनमध्यापनं ब्रह्मयज्ञो वा । एतान्यतादीन्यनुष्ठेयानीति वाक्यशेपः । सत्यं च सत्यवचनं यथाव्याख्यातार्थ वा । तपः कृच्छादि । दमो वामकरणोपनमः । शमोऽन्तः- करणोपशमः । अग्नय आधातव्याः । अग्निहोत्रं च होतव्यम् । अतिथयश्च पूज्याः:। मानुपमिति लौकिकः संव्यवहारः । तच्च यथाप्राप्तमनुष्ठेयम् । प्रजा चोत्पाद्या । प्रजनश.प्रजननमृतौ भार्यागमनमित्यर्थः । व्यवहितानुवाकेन संबन्धमाह-विज्ञानादेवेत्यादिना । अपरविद्यासहकारितया तत्फलेनैव फलबत्त्वसिद्धयर्यमुत्तरानुवाकारम्भ इत्यर्थः । लौकिकसंव्यवहारो विवाहादिः । प्रजातिश्च स्वाध्याय प्रवचने च । सत्यमिति सत्यवच गीतरः। प्रजातिः पात्रोत्पत्तिः पुत्रो निवेशयितव्य इत्येतत् । सर्वैरेतैः फर्मभिर्यु- क्तस्यापि स्वाध्यायप्रवचने यत्नतोऽनुष्ठेये इत्येवमर्थ सर्वेण सह स्वाध्या- यप्रवचनग्रहणम् । स्वाध्यायाधीनं ह्यर्थज्ञानम् । अर्थज्ञानायत्तं च परं श्रेयः । चंचनं च तदविस्मरणार्थं धर्मप्रवृद्धयर्थं च । अतः स्वाध्यायप्रवच- नयोरादरः कार्यः । सत्यमिति सत्यमेवानुष्ठातव्यमिति सत्यवचाः सत्यमेव पचो यस्य सोऽयं सत्यवचा नाम वा तस्य । राथीतरो रथीतरस्य गोत्रो राथीतराचार्यों मन्यते । पुनः पुनः स्वाध्यायप्रवचनग्रहणस्य तात्पर्यमाह-सर्वैरतरित । किमिति यत्नतोऽ- नुष्ठेये तत्राऽऽह-स्वाध्यायाधीनमिति । त्रयाणामृपीणा मतभेदोपन्यासेन स्वाध्याय- प्रवचनयोरेवाऽऽदर विवृणोति-सत्यमित्यादिना । १ ग. च. एतदादीन्यू' । २ क. ख. ग. ल. च. अ. बदन । ३ क. ड. अ. जावो. पायाः । प्र 1 ४ क. र किलो वि' । ५ ह. राधीतरो। : ह. राधीतरा !

- दशमोऽनुवाकः] तत्तिरीयोपनिपत् । २९ तप इति तपानित्यः पौरुशिष्टिः। स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः (१) ॥ प्रजा च स्वाध्यायप्रवचने च पट् च ।। इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये नवमोऽनुवाकः ॥ ९ ॥ तप इति वप एव फर्तव्यमिति तपोनित्यस्तपसि नित्यस्तपःपरस्तपोनित्य इति वा नाम । पौसाशष्टिः पुरुशिष्टस्यापत्यं पौरुशिष्टिराचार्यों मन्यते । स्वा- ध्यायप्रवचने एवानुष्ठेये इति नाको नामतो मुद्गलस्यापत्यं मौद्गल्य आचार्यों मन्यते । तद्धि तपस्तद्धि तपः । हि यस्मात्स्वाध्यायप्रवचने एव तपस्तस्मात्ते एवानुष्ठेये इति । उक्तानामपि सत्यतपःस्वाध्यायप्रवचनानां पुनर्ग्रहणमादरार्थम् ।। इति श्रीमापरमहंसपरिव्राजकाचार्यगोबिन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभ- गवतः कृतौ तैत्तिरीयोपनिपच्छीक्षाध्यायभाध्ये नवमोऽनुवाकः ॥९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवन्छिण्यानन्दज्ञानविरचिताया तैत्ति. रीयोपनिपच्छाकरभाष्यटीकाया शीक्षाध्याय नवमोऽनयाकः ॥ ९ ॥ अथ शीक्षाच्या दशमोऽनुवाकः । अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरे- रिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । . अहं वृक्षस्य रेरिवेति स्वाध्यायार्थो मन्त्राम्नायः । स्वाध्यायश्च विद्योत्पत्तये। प्रकरणात् । विद्यार्थ हीदं प्रकरणम् । न चान्यार्थत्वमवगम्यते । स्वाध्यायेन च विशुद्धसत्त्वस्य विद्योत्पत्तिरवकल्यते । अहं वृक्षस्योच्छेदात्मकस्य संसार- सस्य रेरिवा प्रेरयिताऽन्तर्याम्यात्मना । कीर्तिः ख्यातिगिरेः पृष्ठमिवोच्छ्रिता मम । ऊर्ध्वपवित्र ऊर्चकारणं पविघं पविघं पावनं ज्ञानप्रकाश्यं पवित्रं ३० आनन्दगिरिकृतटीकासंवलितशांकरभाप्यसमेता [शीक्षान्याये- परमं ब्रह्म यस्य सर्वात्मनो मम सोऽमूर्ध्वपवित्रः । वाजिनीव वाजवनीव वाजमन्नं तद्वति सवितरीत्यर्थः । यथा सवितयमृतमात्मतत्त्वं विशुद्धं प्रसिद्धं श्रुतिस्मृतिगतेभ्य एवं स्त्रमृतं शोभनं विगुन्द्रमात्मतत्त्वमस्मि भवामि । स्वाध्यायार्थ इति जपार्थः । “ इपे वेति शास्त्रां छिनत्ति" इतिवन् । अन्यत्र विनियो- जकं श्रुयादिप्रमाणमपि नोपलभ्यत इत्याह --न चान्यार्थत्वमिति । अभितमसीत्यादि- वपासनाविधिविग(धिगे)पत्रं वा वक्तुं न शक्त । मानलाधनक्रियाविधैः प्रक्रान्तत्वादि- त्यर्थः। द्रविण५ सर्वर्चसम् । मुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ( 1 ) ॥ अहः प८॥ - इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिपदि शीक्षाध्याय दशमोऽनुवाकः ॥ १० ॥ द्रविणं धनं सवर्चसं दीप्तिमत्तदेवाऽऽत्मतत्त्वमस्मीत्यनुवर्तते । ब्रह्मज्ञानं वाऽऽत्मतत्त्वप्रकाशकत्वात्सवर्चसम् । द्रविणमिव द्रविणं मोक्षमुखहेतुत्वात् । अस्मिन्पले प्राप्तं मयेत्यध्याहारः कर्तव्यः । मुमेधाः शोभना मेधा सर्वज- लक्षणा यस्य मम सोऽई सुमेधाः । संमारस्थित्युत्पत्त्युपसंहारकांशलयोगात्सु. मेधस्त्वम् । अत एवामृनोऽम 'णधर्माऽभितोऽक्षीणोऽव्ययः । उक्षितो वाऽमृतेन बोक्षितः सिक्तः । “अमृत शितोऽहम्" इत्यादिब्राह्मणम् । इत्येवं त्रिशङ्कगे- पर्ब्रह्मभूतस्य ब्रह्मविदो वेदानुवचनं वेढो वेदनमान्मकत्वविज्ञानं तस्य प्राप्तिमनु वचनं वेढानुवचनम् । आत्मनः कृतकृत्यनाख्यापनार्थ वामदेववत्रिशङ्खनाऽs- पण दर्शनेन दृष्टो मन्त्राम्नाय आत्मविद्याप्रकाशक इत्यर्थः । अस्य च जपो विद्योत्पत्त्यर्थोऽवगम्यत । ऋनं चेत्यादिकोपन्यासादनन्तरं च वेदानुवचन- पाठादेतदवगम्यते । एवं श्रौतस्मातेपु नित्येषु कर्ममु युक्तस्य निष्कामस्य पर ब्रह्म विविदिपोराणि दर्शनानि प्रादुर्भदन्त्यात्मादिविषयाणीति ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पृश्यपादशिष्यश्रीमच्छं- करमगवतः कृतो तत्तिरीयोपनिपछीक्षाध्यायभाष्ये दशमोऽनुवाकः ॥ १० ॥ १. परं । २ . तापण.1 ३ ३. ति गम्यते । इ ।

११ एकादशोऽनुवाकः तैत्तिरीयोपनिपत् । ३१ अहं वृक्षस्येतिमन्नस्यनिस्त्रिशङ्कः, पतिरछन्दः, 'परमात्मा देवता, ब्रह्मविद्यार्थे जपे विनियोगः । न केवलमस्थ जपो विद्यार्थः पूर्वोक्तानि कर्माण्यपीत्याह-ऋतं चेत्यादिना।। इति श्रीमत्परमहसपरिभाजकाचार्यश्रीमच्छकरभगच्छिष्यानन्दज्ञानरिचिताया तैत्तिरी- योपनिषच्छाकरभाष्यटीकायां शीक्षाध्याय दशमोऽनुवाकः ॥ १० ॥ अथ शीक्षाध्याय एकादशोऽनुयाकः । वेदमनूच्याऽऽचार्योऽन्तेवासिनभनुशास्ति । वेदमनूच्येत्येवमादिकर्तव्यतोपदेशारम्भः प्राग्ब्रह्मविज्ञानान्नियमेन कर्त- च्यानि श्रौतस्मातकर्माणीत्येवमर्थः । अनुशासनश्रुतेः पुरुषसंस्कारार्थत्वात् । संस्कृतस्य हि विशुद्धसत्त्वस्याऽऽत्मज्ञानमञ्जसैवोत्पद्यते । “तपसा कल्मषं इन्ति विद्ययाऽमृतमश्नुते " इति स्मृतिः । वक्ष्यति च-तपसा ब्रह्म विजिज्ञा- सस्व " इति । अतो विद्योत्पत्त्यर्थमनुष्ठेयानि कर्माणि । अनुशास्तीत्यनुशासन- शब्दादनशासनातिक्रमे हि दोषोत्पत्तिः । प्रागुपन्यासाच्च कर्मणां केवलब्रह्म- विद्यारम्भाच्च पूर्व कर्माण्युपन्यस्तानि । उदितायां च विद्यायां " अभयं प्रतिष्ठां विदन्ते "" न बिभेति कुतश्चन किमहं साधु नाकरवम् " इत्ये- वमादिना कमनष्किंचन्यं दर्शयिष्यतीत्यतोऽवगम्यते पूर्वोपचितदुरितक्षयद्वारेण विद्योत्पत्त्यर्थानि कर्माणीति । मन्त्रवर्णाच्च-" अविद्यया मृत्यु तीा विद्य- याऽमृतमश्नुते " इति । ऋतादीनां पूर्वत्रोपदेशानर्थक्यपरिहारार्थः । इह तु ज्ञानोत्पत्त्यर्थत्वात्कर्तव्यनियमार्थः । वेदमनूच्याध्याप्याऽऽचार्योऽन्तेवासिनं शिष्यमनुशास्ति ग्रन्थग्रहणादन पश्चाच्छास्ति तदर्थ ग्राहयतीत्यर्थः । अतोऽवग- म्यतेऽधीतवेदस्य धर्मजिज्ञासामकृत्वा गुरुकुलान्न समावर्तितव्यमिति। "बुद्ध्या कर्माणि चाऽऽरभेत् " इति स्मृतेश्च । उत्तरानुवाकस्य तात्पर्थमाह-वेदमनूच्येत्यादिना । विद्योत्पत्त्यर्थ नित्यनैमित्तिका- न्यवश्यान्यनुष्ठेयानीत्येको नियम उक्तः । प्रागेव चानुष्ठयानीति नियमान्तरमाह---प्रागु- पन्यासाच्च कर्मणामिति । सग्रहवाक्यं विवृणोति-केवलेत्यादिना । अविद्यया कर्मणा मृत्युमधर्म तीति मनोऽपि विद्योत्पत्तेः प्रागेव कर्मानुष्ठानं सूचयतीत्यर्थः १ क. घ. ड. ट. 'स्मार्ताति क । २ ख. °ति श्रुतिः । अ° । ३ ड, 'मणिीति । अ" ४ ख, ग, घ. ड. प. उ. ट. 'देश आन ।

- ३२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाच्यापे- " ऋतं च स्वाध्यायप्रवचने च” इत्यादिना पूर्वत्र कर्मानुष्टानमुक्तमेवातः पौनरुक्स. मित्याशङ्कयाऽऽह - ऋतादीनामिति । विचारमकृत्वा गुरुकुलान्न निवर्तितव्यम् । किंव- ध्ययनविधेरर्थावबोधक (न)द्वारेण पुरुषार्थपर्यवसायितासिद्धयर्थमक्षरग्रहणानन्तरमर्थावबोधे प्रयतितव्यमित्याह-ग्रन्थग्रहणादन्विति । वेदमधीत्य स्नायादिति स्मृतिरप्येतन्छतिवि- रुद्धत्याह-अतोऽवगम्यत इति । सत्यं वद । धर्म चर । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमा. हृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । कथमनुशास्तीत्याह--सत्यं वद यथाप्रमाणावगतं वक्तव्यं तद । तद्धिर्म चर । धर्म इत्यनुष्ठेयानां सामान्यवचनं सत्यादिविशेपनिर्देशात् । स्वाध्यायाद- ध्ययनान्मा प्रमदः प्रमादं मा कार्षीः । आचार्यायाऽऽचार्यार्थ प्रियमिष्टं धनमा- हृत्याऽऽनीय दत्त्वा विद्यानिष्क्रयार्थम् । आचार्येण चानुज्ञानोऽनुरूपान्दारानाहृत्य प्रजातन्तुं प्रजासंतानं मा व्यवच्छेत्सीः प्रजासंततेर्विच्छित्तिर्न कर्तव्या । अनु- त्पद्यमानेऽपि पुत्रे पुत्रकाम्यादिकर्मणा तदुत्पत्ता यत्नः कर्तव्य इत्यभिप्रायः । प्रजाप्रजननप्रजातित्रयनिर्देशसामर्थ्यात् । अन्यथा प्रजननश्चेत्येतदेकमेवावक्ष्यत्। वक्तव्यमिति । वचनाहं परस्य हितमित्यर्थः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदि- तव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्र- वचनाभ्यां न प्रमदितव्यम् (१)। सत्यान्न प्रमदितव्यं , प्रम दो न कर्तव्यः । सत्याच प्रमदनमनृतप्रसङ्गः । प्रमादशब्दसामर्थ्यात् । विस्मृत्याप्यनृतं न वक्तव्यमित्यर्थः । * अन्य- अब ख. पुस्तके ' अनृतवदनविषये दोपश्रुतेश्च, “ योऽनृतं यदात स्मूलो वा एष परि- शुष्यति ” इति । “न सत्यात्परमो धर्मो नानृतात्पातकं परम् ” इति स्मृतेः । इत्यविकं दृश्यते । १ ख. ग. च. 'बोवाय । म । २ छ. निविय । ३ य. त्येतावदे ! ५ स. 'देवमे ।

११ एकादशोऽनुवाकः ] तैत्तिरीयोपनिपत् । थाऽसत्यचदनप्रतिपेध एव स्यात् । धर्मान्न ममदितव्यम् । धर्मशब्दस्यानुष्ठेय- विषयत्वादननुष्ठानं प्रमादः स न कर्तव्यः । अनुष्ठातन्य एव धर्म इति यावत् । एवं कुशलादात्मरक्षात्कर्मणो न प्रमदितव्यम् । भूतिर्विभूतिस्तस्यै भूत्यै भूत्यर्थान्मंगलयुक्तात्कर्मणो न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रम- दितव्यम् । स्वाध्यायोऽध्ययनं प्रवचनमध्यापनं ताभ्यां न प्रमदितव्यम् । ते हि नियमेन कर्तव्ये इत्यर्थः । देवपितृकार्यायां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवयानि कर्माणि । तानि सेवितव्यानि । नो इतराणि । यान्य- स्माकर सुचरितानि । तानि त्वयोपास्यानि (२)। नो इतराणि। तथा देवपितृकार्याभ्यां न प्रमदितव्यम् । देवपित्र्ये कर्मणी कर्तव्ये । मातृदेवो माता देवो यस्य स त्वं मातृदेवो भर स्थाः । एवं पितृदेव आचा- र्यदेवोऽतिथिदेवो भव । देवतावदुपास्यों एत इत्यर्थः । यान्यपि चान्यान्यनर- धान्यनिन्दितानि शिष्टाचारलक्षणानि कर्माणि बानि सेवितव्यानि कर्तव्यानि त्वया । नो अकर्तव्यानीतराणि सावयानि शिष्टकृतान्यपि । यान्पस्माकमा- चार्याणां सुचरितानि शोभनचरितान्याम्नायायविरुद्धानि सान्येव त्वयोपा- स्यान्यदृष्टार्थान्यनुष्ठेयानि, नियमेन कर्तव्यानीति यावत् । नो इतराणि विप- रीतान्याचार्यकृतान्यपि । ये के चास्मच्छ्रेयाश्सो ब्राह्मणाः । तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । -- १ ख. च. त् । तथा ध° । २ ख. ग. च. °स्या एवैत । ३ छ. भनानि च । ५ ३४ आनन्दगिरिकृतटीकासंवलितशांकरमाप्यसमेता- [ [मीक्षाध्याये- ये के च विशेपिता आचार्यत्वादिधर्मरस्मदस्मत्तः श्रेयांसः प्रशस्यनरास्ने च ग्रासणा न क्षत्रियादयस्तेपामासनेनाऽऽसनदानादिना त्वया प्रश्वसितव्यम् । प्रश्वसनं प्रश्वासः श्रमापनयः, तेषां श्रमस्त्वयाऽपनंतव्य इत्यर्थः । तेषां चाऽऽसने गोष्ठीनिमित्ते समुदिते तेषु न प्रश्वसितव्यं प्रश्वासोऽपि न कर्तव्यः । कंबलं तदुक्तसारग्राहिणा भवितव्यम् । श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम् । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात (३)। ये तत्र ब्राह्मणाः समर्शिनः। युक्ता आयुक्ताः। अलूशा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः। अथाश्या- ख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ती आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तथाः। किंच यत्किंचिद्देयं तच्छ्रद्धयव दातव्यम् । अश्रद्धयाऽदेश्यं न दातव्यम् । श्रिया विभूत्या देयं दातव्यम् । ह्रिया लज्जया च देयम् । भिया च भयेन देयम् । संविदा च । संविन्मित्रादिकार्यम् । अथैवं वर्तमानस्य यदि कदाचित्ते तव श्रोते स्मार्ते वा कर्मणि वृत्ते वाऽऽचारलक्षणे विचिकित्सा संशयः स्यात् । ये तत्र तस्मिन्देशे काले वा ब्राह्मणास्तत्र कर्मादौ युक्ता इति व्यवहितेन संवन्धः फर्तव्यः । समर्शिनो विचारक्षमाः।युक्ता अभियुक्ताः कर्मणि वृत्ते वा । आयुक्ता अपरप्रयुक्ताः । अलूक्षा अरूक्षा अक्रूरमतयः । धर्मकामा अदृष्टार्थिनोऽ- * ख. पुस्तके टिप्पण्यां " दयमित्यपि विद्यारण्येरुक्तम् ” इति वर्तते । १.न. ग. च. रक्लि । २ स. ग च. 'स्यात् । ३ स्व. 'कामाः स्यावृ । - , . - ११ एकादशोऽनुवाकः] तैत्तिरीयोपनिषत् । ३५ कामहता इत्येतत्त्युभवेयुः । ते यथा येन प्रकारेण ब्राह्मणास्तत्र तस्मिन्कमणि वृत्ते वा वर्तेरंस्तथा त्वमपि वर्तेथाः । अथाभ्याख्यातेष्वभ्युक्ता दोषेण संदिह्य मानेन संयोजिताः केनचित्तेषु च यथोक्तं सर्वमुपनयेथे तत्रेत्यादि । एवं कर्तव्यमर्थमुपदिश्यानुष्ठानकाले समुत्पन्नसंशयनिवृत्त्यर्थ शिष्टाचारः प्रमाणयितव्य इत्याह-अथैवमित्यादिना । अपरप्रयुक्ता इति । स्वतन्त्रा इत्यर्थः । अंम्युक्ता अभिशस्ता इत्यर्थः ॥ एष आदेशः । एष उपदेशः । एषा वेदो- पनिषत् । एतदनुशासनम् । एवमुपासि- तव्यम् । एवमु चैतदुपास्यम् ( ४ ) ॥ स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यं तानि त्वयोपास्यानि स्यालेषु वर्तेरन्त्सप्त च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याय एकादशोऽनुवाकः ॥ ११ ॥ एष आदेशो विधिः । एष उपदेशः पुत्रादिभ्यः पित्रादीनाम् । एषा वेदो- पनिषद्वेदरहस्यं वेदार्थ इत्येतत् । एतदेवानुशासनमीश्वरवचनम् । आदेशवाक्यस्य विधेरुंक्तत्वात्सर्वेषां वा प्रमाणभूतानामनुशासनमेतत् । यस्मादेवं तस्मादेवं ययोक्तं सर्वमुपासितव्यं कर्तव्यम् । एवमु चैतदुपास्यमुपास्यमेव चैतमानुपास्य- मित्यादरार्थं पुनर्वचनम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छ-- करभगवतः कृतौ तैत्तिरीयोपनिषच्छीक्षाध्यायभाष्य एकादशोऽनुवाकः ॥ ११ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छकरभगवच्छिन्त्यानन्दज्ञानविरचिताया तैत्ति-- रीयोपनिषच्छाकरभाष्यटीकाया शीक्षाध्याय एकादशोऽनुवाकः ॥ ११॥ । . । -- १ ट. °देव चानु । २ . 'नशमन !

आनन्दगिरिकतटीकासंवलितशांकरभाष्यसमेता- [शीक्षाभ्याये-/ अथ शीक्षाध्याये दादशोऽनुवाकः। . शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः। शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे। नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि । त्यामेव प्रत्यक्ष ब्रह्मावादिषम् । ऋतमवादिणम् । सत्यमवादिषस् । तन्मामा- पीत् । तद्वक्तारमावीत् । आवीन्माम् । आवी- द्वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः (१) ॥ सत्यमवादिप पञ्च च ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्याये द्वादशोऽनुवाकः ॥ १२॥ + अतीतविद्यामाप्त्युपसर्गशमनार्थं शान्ति पठति-शं नो मित्र इति । व्याख्यातमेतत्पूर्व । शं नो चित्र इति । तदपरं ब्रह्म मामपर विद्यार्थिनमावीदरक्षदित्यर्थः ।। अचिन्त्यते विद्याकर्मणोविवेकार्थ किं कर्मभ्य एव केवलेभ्यः परं श्रेय उत विद्यासन्यपेक्षेभ्व आहोरिवद्विद्याकर्मभ्यां संहताभ्यां विद्याया वा कर्मा- पेक्षागा उन्न केवलाया एवं विद्याया इति । तत्र केवलेभ्य एव कर्मभ्यः स्यात् । समस्तलेदार्थज्ञानवतः कर्माधिकारात् । " वेदः कृत्स्नोऽधिग- न्तन्यः सरहस्यो - द्विजन्मना" इति स्मरणात् । अधिगमश्च सहोपनिषदर्थे- नाऽऽत्मज्ञानादिना । “ विद्वान्यजते " "विद्वान्याजयति" इति च विदुष एव कर्मण्यधिकारः प्रदर्श्यते सर्वत्र । “ज्ञात्वा चानुष्ठानम्" इति च । कृत्स्नश्च वेदः कर्मार्थ इति हि मन्यन्ते केचित् । कर्मभ्यश्चेत्परं श्रेयो नावाप्यते वेदोऽनर्थकः स्यात् । ' । + 'अतीत' इत्यारभ्य 'पूर्वम्' इत्यन्त क. ख. ग. घ. ड. च. छ. . ट. पुस्तकेषु न विद्यते। १ ग. च. °वाप्येत वे १२द्वादशोऽनुवाकः] तेचिरीयोपनिषत् । ३७ आद्यानुवाके केवलाया विद्याया निःश्रेयससाधनत्वमुक्तमपि स्फुटीकतुं कर्मविधिमुपलभ्य प्रसङ्गापुनर्विचारयितुमुपक्रमते-अत्रैतच्चिन्त्यत इत्यादिना । विवेकार्थमिति पृथक्फ- लत्वज्ञापनार्थमित्यर्थः । ' भूतं भव्यायोपदिश्यते ' इति न्यायेनाऽऽत्मज्ञानस्यापि कर्मकर्तृ- संस्कोरतया कर्मविधिशेषत्वाच्छूतस्यापि फलस्यार्थवादमात्रस्वात्कर्मभ्य एव परं श्रेय इति पूर्वः पक्षः। न । नित्यत्वान्मोक्षस्य । नित्यो हि मोक्ष इष्यते । कर्मकार्यस्यानित्यत्वं प्रसिद्ध लोके, कर्मभ्यश्चेच्छेयोऽनित्यं स्यात्तच्चानिष्टम् । “ तद्यथेह कर्मचितो लोकः क्षीयते " इतिन्यायानुगृहीतश्रुतिविरोधात् । काम्यप्रतिषिद्धयोरनार- म्भादारब्धस्य च कर्मण उपभोगेन क्षयान्नित्यानुष्ठानाचे ज्ञाननिरपेक्ष एव मोक्ष इति चेत् । तच्च न । शेषकर्मसंभवात्तन्निमित्तशरीरान्तरोत्पत्तिः प्राप्नो- तीति प्रत्युक्तम् । कर्मशेषस्य च नित्यानुष्ठानेनाविरोधात्क्षयानुपपत्तिरिति च। यदुक्तं समस्तवेदार्थज्ञानवतः कर्माधिकारादित्यादि । तच्च न । श्रुतज्ञानव्य- तिरेकादुपासनस्य । श्रुतज्ञानमात्रेण हि कर्मण्यधिक्रियते नोपासनामपेक्षते । उपासनं च श्रुतज्ञानादर्थान्तरं विधीयते । मोक्षफलमर्थान्तरप्रसिद्धं च स्यात् । " श्रोतव्यः" इत्युक्त्वा तद्व्यतिरेकेण " मन्तव्यो निदिध्यासितव्यः" इति यत्नान्तरविधानान्मनननिदिध्यासनयोश्च प्रसिद्धं श्रवणज्ञानादर्थान्तरत्वम् । सिद्धान्तमाह-न नित्यत्वादित्यादिना । यद्यप्यध्ययनविधिप्रत्युक्या कृत्स्नो वेदार्थ एकेन विचारितव्यस्तथाऽप्यध्ययनविधौ प्रतिवाक्याध्ययनं प्रतिवाक्यार्थविचारं च व्यापा- रभेदात्तत्प्रत्युक्त्याऽभ्युदयकामस्य कर्मोपयोगिवाक्यार्थज्ञानवत्त्वमात्रेण कर्मण्यधिकारसंभवा. ब्रह्मसाक्षात्कारस्य तत्रानुपयोगित्वान्न समस्तवेदार्थज्ञानवतः कर्माधिकारे प्रमाणमस्तीत्याह- तच्च नेति । यद्यपि चाध्ययनविधिप्रयुक्त्या वेदान्तविचारोऽपि कृतो गुरुकुल एव तथाऽपि न समस्तवेदार्थज्ञानवतोऽधिकारः । उपसिनासाध्यस्य ब्रह्मसाक्षात्कारस्य पृथंग्भावादित्याह- श्रुतज्ञानेति । श्रुताद्गुरुकुले विचारिताद्वाक्यात्कर्मानुष्ठानोपयोगि यज्ज्ञानं तावन्मात्रेण - १ क. य. च. अथ अन्यादावाद्या' । ख. अथाऽऽद्य आ । ज. अथाऽऽदावाद्यवाद आ। झ. अथाऽऽदावद्या । २ . °स्कारार्थत° । ३ ख. ग. च. ट. यस्य चानि । ४ ख. ग. च. °च्च तत्पस्यवायानुत्पत्तेशेन । ५ क. ख. ग. च. ट. सनम । ६ ट. 'ते मानाभावात्। उ' । ७ व. ज. झ. प्रयुक्तः । ८ क. ग. च. नाक्यमध्य° । ९ ख. ज. ज्ञ. 'त्प्रयुक्ताभ्यु । १० ख. नत्तमा । ११ ग. °त्वादन स । १२ ख. ज. 'युको १३ ख. य. ज. झ. . °सनसा ।

, ३८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता [शीक्षाध्याय कर्मण्यधिक्रियते न ब्रह्मसाक्षात्कारफलमुपासनमवेक्षते व्यतिरेकभावादित्यर्थः । अध्ययनवि. धिव्यापारोपरमेऽनुष्ठेयं तथाभूतं ब्रह्मोपासनमेव नास्ति, मानाभावादिति न वक्तव्यमित्याह- उपासनं चेति । एतच्च कर्ममीमांसान्यायाङ्गीकारमात्रेणोक्तम्। वस्तुतश्च श्रोतव्यविधिप्रयुक्त एवोपनिषद्विचारारम्भो भिन्नाधिकारः । कर्मकाण्ड डविचारोऽप्युत्तरविधिप्रयुक्त एवेति प्रकटार्थे प्रतिष्ठितम् । • एवं तर्हि विद्यासव्यपेक्षेभ्यः कर्मभ्यः स्यान्मोक्षः । विद्यासहितानां च कर्मणां भवेत्कार्यान्तरारम्भसामर्थ्यम् । यथा स्वतो मरणज्वरादिकार्यारम्भ- सामर्थ्यानामपि विपदध्यादीनां मत्रशर्करादिसंयुक्तानां कार्यान्तरारम्भसामर्थ्यम्, एवं विद्यासहितः कमिर्मोक्ष आरभ्यत इति चेत् । न । आरभ्यस्यानित्यत्वा- दित्युक्तो दोषः । वचनादारभ्योऽपि नित्य एवेति चेत् । न । झापकत्वाद्वचनस्य । वचनं नाम यथाभूतस्यार्थस्य ज्ञापकं विद्यमानस्य कर्तृ । न हि पचनशतेनापि नित्यमारभ्यत आरब्धं वाऽविनाशि भवेत् । केवलं कर्म मोक्षसाधनभिति पक्षं निरस्य विद्यासमुचितं मोक्षसाधनमिति पक्षान्तरमा- शङ्कय निषेधति-एवं तीत्यादिना । न स पुनरावर्तते " इति वचनादारभ्योऽपि मोक्षो नित्य इति न शक्यं वक्तुम् । प्रसिद्धपदार्थयोग्यत्वमुपादाय वचनस्य संसर्गज्ञापक- त्वात् । न चाऽऽरभ्यस्य नित्याचे योग्यत्वं प्रसिद्धम् । अन्यथा वचनस्य कारकत्वप्रसङ्गात्। " अन्धो मणिमविन्दत् ” इत्यादिष्वपि योग्यताकल्पनप्रसङ्गादित्याह-न ज्ञापकत्वा- दित्यादिना। एतेन विद्याकर्मणोः संहतयोर्मोक्षारम्भकत्वं प्रत्युक्तम् । विद्याकर्मणी मोक्ष- प्रतिवन्धहेतुनिवर्तके इति चेत् । न । कर्मणः फलान्तरदर्शनात् । उत्पत्तिसं- स्कारविकाराप्तयो हि फलं कर्मणो दृश्यते । उत्पत्त्यादिफलविपरीतश्च मोक्षः। गतिश्रुतेराप्य इति चेत् । सूर्यद्वारेण “तयोर्ध्वमायन् " इत्येवमादिगतिश्रुतिभ्यः प्राप्यो मोक्ष इति चेत् । न । सर्वगतत्वाद्गन्तृभिश्चानन्यत्वादाकाशादिकारण- स्वात्सर्वगतं ब्रह्म । ब्रह्माव्यतिरिक्ताश्च सर्वे विज्ञानात्मानः । अतो नाऽऽप्यो मोक्षः । गन्तुरन्यविभिन्न देशं प्रति भवति गन्तव्यम् । न हि येनैवाव्यतिरिक्त यत्तत्तेनैव गम्यते तत् । अनन्यत्वप्रसिद्धेश्व, “ तत्सृष्ट्वा तदेवानुप्राविशत् । पंचापि मां विद्धि " इत्येवमादिश्रुतिस्मृतिशतेभ्यः । - २ भ । २ ज. "दित्यत आह । ३ ख. 6. छ. ट. नं, च दे ! ४ ज. ड. छ. ज. ठ. सिद्धिश्च ।

१२ द्वादशोऽनुवाकः] तैत्तिरीयोपनिषत् । ३९ कर्म प्रधानं विद्या चौपसर्जनमिति समुच्चयं निरस्य समसमुच्चयेऽप्यतिदिशति- एतेनेति । अनित्यत्वादिदोषप्रसङ्गेनेत्यर्थः । मोक्षेति । मोक्षस्य प्रतिबन्धहेतुरविद्याधर्मा- दिस्तनिवर्तके विद्याकर्मणी न स्वरूपोत्पादके । ततः स्वरूपावस्थानस्य नित्यत्वम् । प्रध्वं- सस्य च कृतकस्यापि नित्यत्वं प्रसिद्धमित्यर्थः । " भिद्यते हृदयग्रन्थिः " इत्यादिश्रुतेः। केवलविद्यासाध्यैवाविद्यानिवृत्तिः । न तत्र विद्यायाः सहकार्यपेक्षा । कर्मफलं त्वन्यदेव प्रसिद्धमित्याह--न कर्मण इति । उत्पत्तिः पुरोडाशादेः । संस्कारो व्रीह्यादेः । विकारः सोमस्य । आत्तिदस्य । कर्मफलं प्रसिद्धम् । आत्मस्वरूपस्य तु मोक्षस्यानादित्वादनाधेया- तिशयत्वादविकार्यत्वान्नित्याप्तत्वाच्च कर्मफलाद्वैपरीत्यमित्यर्थः । गतिश्रुतेरिति । अचिरादि- गतिश्रवणाद्ब्रह्माण्डाद्वहिस्थितब्रह्मप्राप्तिमोक्षः । ततो नित्याप्तत्वमसिद्धमित्यर्थः । गत्वा प्रातिः किं संयोगलक्षणा तादात्म्यलक्षणा वा, नोभयथाऽपीत्याह-न सर्वगतत्वादिति । गत्यैश्वर्यादिश्रुतिविरोध इति चेत् । अथापि स्याद्यद्यप्राप्यो मोक्षस्तदा गति- श्रुतीनां, " स एकधा " " स यदि पितृलोककामो भवति" "स्त्रीभिर्वा यानैर्वा " इत्यादिश्रुतीनां च कोपः स्यादिति चेत् । न । कार्यब्रह्मविषयत्वा- तासाम् । कार्ये हि ब्रह्मणि ख्यादयः स्युन । कारणे “ एकमेवाद्वितीयं " " यत्र नान्यत्पश्यति " " तत्केन के पश्येत् " इत्यादिश्रुतिभ्यः । विरोधाच्च विद्याकर्मणोः समुच्चयानुपपत्तिः । प्रविलीनकादिकारकविशेषतत्त्वविषया हि. विद्या तद्विपरीतकारासाध्येन कर्मणा विरुध्यते । न ह्येकं वस्तु परमार्थतः कादिविशेषवत्तच्छून्यं चेत्युभयथा द्रष्टुं शक्यते । अवश्यं ह्यन्यतरन्मिथ्या स्यादन्यतरस्य च मिथ्यात्वप्रसङ्गे युक्तं यत्स्वाभाविकाज्ञानविषयस्य द्वैतस्थ मिथ्यात्वम् , यत्र हि द्वैतमिव भवति " "मृन्योः स मृत्युमामोति" " अथ यत्रान्यत्पश्यति तदल्पम् " अन्योऽसावन्योऽहमस्मि" उदरमन्तरं कुरुते " " अथ तस्य भयं भवति" इत्यादिश्रुतिशतेभ्यः । सत्यत्वं चैकत्व स्यैकधैवानुद्रष्टव्यम् । “ एकमेवाद्वितीयम्" " " ब्रह्मैवेदर सर्वम् आत्मैवेद सर्वम् " इत्यादिश्रुतिभ्यः । न च संप्रदानादिकारकभेदादर्शने कर्मोपपद्यते । यत्वदर्शनापवादश्च विद्याविषये सहस्रशः श्रूयते । अतो विरोधो विद्याक- मणोः । अतश्च समुच्चयानुपपत्तिः । १ ग. °बन्धे हे । २ ज. °कार्यापे' । ३ क. °प्तिरपूर्वस्य । ४ झ. गत्या । ५ च. मोक्षोऽस्ति तदा।

आनन्दगिरिकृतीकासंचालितगांकरमाप्यसमेता- [मीक्षायाये- 4 गन्यायिं गहा के दर्शयति-गन्यवयत्यादिना । नमुनयमभ्युर- गप फर्मकार मिक्षि न समायुक्तम् । मोऽपि न संमती पाल-विगंधा- पत्यादिना। तत्र यदुक्तं संदनाभ्यो विद्याकर्मभ्यां मोक्ष इनि | अनुपपन्नं ननु । विहिन- त्वात्कर्मणां श्रुतिविरोध उनि चेत् । यशुपमा कादिकारकविगेपमान्म- कन्वविद्यानं विधीयते । सादिभ्रान्निविज्ञानोपपर्द करज्यादिविषयविज्ञानव. त्माप्तः कर्मविधिथुनीनां निर्विषयत्वाद्विगंधः । विहिनानि च कर्माणि । म च विरोधो न युक्तः। प्रमाणत्वान्छुनीनामिनि चेन्न पुरुषार्योपदेशपरत्वान्टुनीनाम् । यदि कारिकारकम्य मय चाप बाहानगुनियनका निपार्थ चाक- मविधानाममामाग्यं स्यानित्या--विहिनत्वादिनि । महानिनि-यदीन्यादिना । अध्ययनविधिगृहीतानां थुनामा पुमायोणिक गेन प्रारण्यं वयम् । न तु नदस्य सत्यत्वेन । तत: प्रसिमितिकारमागिहामियानमगाटाय नानां प्रामाण्यं न -न पुरुपार्थति । विद्योपदेशपरा तावच्छतिः संसारात्पुरुषो मोक्षायितव्य इति मंसारहेतारविद्याया विद्यया निवृत्तिः कर्तव्यक्ति विद्यामकागकन्येन प्रवृत्तेति न विरोधः । पवमपि फर्नादिकारकसदावमतिपादनपरं शान विरुध्यत एवेति चेन्न । ययामाप्तमेव कारकास्तित्वमुपादायोपात्तदुरितक्षयार्थ कर्माणि विधच्छास्त्रं मुमुक्षूणां फला- थिनां च फलसाधनं न कारकास्तित्वे व्याप्रियते । उपचितदुरितप्रतिवन्धस्य हि विद्योत्पत्ति वकल्पते । तत्क्षये च विद्योत्पत्तिः स्यात्ततश्चाविद्यानित्तिस्तत आत्यन्तिकः संसारोपरमः। संग्रहवाक्यं विवृणोति-विद्योपदेशपरा तावदित्यादिना । अपि चानात्मदर्शिनो हानात्मविपयः कामः। कामयमानश्च करोति कर्माणि। ततस्तत्फलोपभोगाय शरीराद्युपादानलक्षणः संसारः । तद्व्यतिरेकेणाऽऽत्मैक- त्वदर्शिनी विषयाभावात्कामानुत्पत्तिरात्मनि चानन्यत्वात्कामानुत्पत्ती स्वात्म. न्यवस्थानं मोक्ष इत्यतोऽपि विद्याकर्मणोविरोधः । विरुष्पत इत्या १ स. ग. प. उ. प. उ. ञ, ट. 'गुपपनि । २ प. ह. छ. अ. 'नुपपतौ।

१२ द्वादशोऽनुवाकः ] त्तिरीयोपनिपत् । ४१ पूर्व सत्यनिध्याविषयावेन विद्याकर्मणोनिरोधमादाय समुच्चयो निरस्तः । इदानी कौम्य- कामिविपयावेन विरोधमाह--अपि चेत्यादिना । विरोधादेव च विद्या मोक्षं प्रति न कर्माण्यपेक्षते । स्वात्मलाभे तु पूर्वोप- चितप्रतिबन्धापनयद्वारेण विद्याहेतुत्वं प्रतिपद्यन्ते कर्माणि नित्यानीति । अत एवास्मिन्मकरण उपन्यस्तानि कर्माणीत्यवोचाम । एवं चाविरोधः कर्मविधि. श्रुतीनाम् । अतः केवलाया एव विद्यायाः परं श्रेय इति सिद्धम् । समसमुच्चयं निरस्य गुणप्रधानभावेनापि समुचयं निरस्यति--विरोधादेव चेति । विद्या चेत्फर्माणि स्वफले नापेक्षते विरुशवाधिदण्डिधर्मवस्तुगगनं कथं तर्हि विद्यासंनि- धाने कर्मणां पाठ इत्यत आह-स्वात्मलाभे विति । कर्मणा विद्यासाधनत्वं श्रुत्वा गार्हस्थ्यमेवैकमनुष्ठेयमिति प्रत्यवतिष्टन्ते कर्मजडाः । एवं ताश्रमान्तरानुपपत्तिः । फर्मनिमितत्वाद्विद्योत्पतेः । गार्हस्थ्ये च विहितानि कर्माणीत्यकाश्रयमेव । अतथ यावज्जीदादिश्रुतयोऽनुकूलतराः । न | कर्मानेकत्वात् । न ह्यग्निहोत्रादीन्येच कर्माणि । ब्रह्मचर्य तपः सत्यवदनं शमो दमोऽहिंसेत्येवमादीन्यपि कर्माणीतराश्रमप्रसिद्धानि विनोत्पत्ती साधक- तमान्यसंकीर्णत्वाविद्यन्ते ध्यानधारणादिलक्षणानि च । वक्ष्यति च-" तपसा ब्रह्म विजिज्ञासस्व " इति । जन्मान्तरकृतकर्मभ्यश्च प्रागपि गाईस्थयाद्वियोत्प- त्तिसंभवात्कर्मार्थत्वाच गार्हस्थ्यप्रतिपत्तेः कर्मसाध्यायां च विद्यायां सत्यां गाईस्थ्यप्रतिपत्तिरनसिप । लोकार्थत्वाच्च पुत्रादीनाम् । पुत्रादिसाध्येभ्यश्चार्य लोकः पितृलोको देवलोक इत्येतेभ्यो व्यावृत्तकामस्य नित्यसिद्धात्मलोकद- शिनः कर्मणि प्रयोजनमपश्यतः कथं प्रवृत्तिरुपपद्यते । प्रतिपन्नगार्हस्थ्यस्यापि विद्योत्पत्ती विद्यापरिपाकाद्विरक्तस्य कर्मसु प्रयोजनमपश्यतः कर्मभ्यो नि- तिरेव स्यात् । “ प्रव्रजिष्यन्वा अरेऽहमस्मात्स्धानादस्मि " इत्येवमादिश्रुति- लिङ्गदर्शनात् । कर्म प्रति श्रुतेर्यत्नाधिक्यदर्शनादयुक्तमिति चेदाग्निहोत्रादिकर्म प्रति श्रुतेरधिको यत्नो महांश्च कर्मण्यायासोऽनेकसाधनसाध्यत्वादग्निहोत्रादी- नाम् । तपोब्रह्मचर्यादीनां चेतराश्रमकर्मणां गार्हस्थ्येऽपि समानत्वादल्पसाध- नापेक्षत्वाचेतरपां न युक्तस्तुल्यवद्विकल्प आश्रमिभिस्तस्येति चेन्न । जन्मान्त. रकृतानुग्रहात् । १ ख, ग, च. काग्याकाम्यवि' । ६ ४२ भानन्दगिरिकतटीकासंचलितगांकरभाष्यसमेता-[मीक्षाध्याये- एवं तहीति । श्रुतिस्मृतिष्वाश्रमान्तराणामपि विहितत्वाविशेषात्तदीयकर्मसु कर्मत्वावि. नेपाञ्च प्राम्यधर्मरागिणामतवोद्यमित्याह--न कर्मानेकत्वादिति । असंकीर्णत्वा- दिति । हिंसाद्यमिश्रितत्वादित्यर्थः । इतश्च कर्मणो विद्यासाधनोऽपि न गार्हस्थ्यमावश्य- कमित्याह-जन्मान्तरेति | कामिनां गार्हरध्यस्यानुष्टयोऽपि न सरनुष्टेयत्वमित्यत्र हेत्व- न्तरमाह--लोकार्थत्वाच्चेत्यादिना । गार्हस्थ्यस्यानावश्यकन्येन वैकल्पिकमनुष्टानमुक्त तत्रातुल्यबलत्वेन विकल्पमाक्षिपति-कर्म प्रति श्रुनोति । यदुक्तं कर्मणि श्रुतेरधिको यत्न इत्यादि । नासा दोषः । यतो जन्मान्तर कृतमप्यग्निहोत्रादिलक्षणं कर्म ब्रह्मचर्यादिलक्षणं चानुग्राहकं भवति विद्योत्पत्ति प्रति । येन जन्मनैव विरक्ता दृश्यन्ते केचित् । केचित्तु कर्मसु प्रवृत्ता अविरक्ता विद्याद्वेषिणः। तस्माजन्मान्तर कृतसंस्कारेभ्यो विरक्तानामाश्रमान्तरप्रतिपत्तिरवे- प्यने कर्मफलबाहुल्याच पुत्रस्वर्गब्रह्मवर्चसादिलक्षणस्य कर्मफलस्यासंख्येयत्वा- त् । तत्प्रति च पुरुपाणां कामबाहुल्यात्तदर्थः श्रुनेरधिको यत्नः कर्मसूपपद्यते । आशिपां बाहुल्यदर्शनादिदं मे स्यादिदं मे स्वादित्युपायत्वाच । उपायभूतानि हि कर्माणि विद्यां प्रतीत्यवोचाम । उपायऽधिको यत्नः कर्तव्यो नोपये । जन्मान्तरकृतानुग्रहादिति परिहारभा-यं विवृणोति-यदुक्तमित्यादिना । कर्मणि यानाधिक्यस्यान्यथासिद्धत्याद्विकल्पविघातकत्वं न संभवतीत्यर्थः । कर्मनिमित्तत्वाद्विद्याया यत्नान्तरानर्थक्यमिति चेत्कर्मभ्य एवं पूर्वोपचित- दुरितप्रतिबन्धक्षयादेव विद्योत्पद्यते चेत्कर्मभ्यः पृथगुपनिपच्छ्रवणादियत्नोऽन- र्थक इति चेत् । न । नियमाभावात् । न हि प्रतिबन्धक्षयादेव विद्योत्पद्यते न वीश्वरप्रसादतपोध्यानाद्यनुष्ठानादिति नियमोऽस्ति । अहिंसाब्रह्मचर्यादीनां च विद्यां प्रत्युपकारकत्वात्साक्षादेव च कारणत्वाच्छ्वणमनननिदिध्यासना- नाम | अतः सिद्धान्याश्रमान्तराणि । सर्वेपां चाधिकारो विद्यायां परं च श्रेयः केवलाया विद्याया एवेति सिद्धम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतो तत्तिरीयोपनिपच्छीक्षाध्यायभाष्ये द्वादशोऽनुवाकः ॥ १२ ॥ १ क ख. ञ. 'मिअत्तादि।

१२ द्वादशोऽनुवाकः] तैत्तिरीयोपनिषत् । ४३ इदानी गृहस्थाश्रमकर्मणां यहिरङ्गत्वं संन्यासाश्रमकर्मणां त्वन्तरङ्गविद्या साधनत्वमिति विशेष दर्शयितुं चौद्यमुद्भावयति-कर्मनिमित्तत्वादित्यादिना ।। इति श्रीम-परमहंसपरिवाजकाचार्यश्रीमच्छकरभगवच्छिण्यानन्दज्ञानविरचितागं तैत्तिरी- योगनिपच्छाकरभाष्पटीकाया शीक्षाध्याय द्वादशोऽनुवाकः ॥ १२ ॥ शं नः शीक्षा सह नौ यश्छन्दसा भूः स यः पृथिव्योमित्यूतं चाई वेदम- नूच्य शं नो द्वादश ॥ शं नो मह इत्यादित्यो नो इतराणि त्रयोविशतिः ॥ शं नौ मित्रः शं वरुगः । शं नो पावत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुकमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । अतं दि- प्यामि । सत्यं पदिष्यानि । तन्मामवतु तद्वतारमवतु । अवतु माम् । अतु वक्तारम् । ॐ शान्तिः शान्तिः शान्तिः । हरिः इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि शीक्षाध्यायः समाप्तः* ॥ १ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादाशिष्यस्य शंकरभगवतः कृतौ तैत्तिरीयोपनिपद्भाप्ये प्रथमः शीक्षाध्यायः ॥ १॥ इति श्रीमन्परमहंसपरिव्राजकाचार्यश्रीमन्छवानन्दभगव-पूज्यपादशिष्यश्रीमद्भ- गवदानन्दज्ञानविरचितायां तत्तिरीयोपनिपन्छांकरभाष्यटीकाया प्रथमः शीक्षाध्यायः ॥ १ ॥ ॥ * तैत्तिरीयारण्यरक्रमेण सप्तमप्रपाटकस्य समातिरत्र । १ क. 'थिबमोभि ।

अथ तैत्तिरीयोपनिषदि
द्वितीयो ब्रह्मवल्ल्यध्यायः ।
तत्र प्रथमोऽनुवाकः ।
हरिः ॐ।
शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं
न इन्दो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो
ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदि.
प्यामि । सत्यं वदिष्यामि । तन्मामवतु ।
तद्वक्तारमवतु । अवतु माम् । अर्थतु वक्तारम् ॥
सह नामवतु । सह नौ भुनक्तु । सह वीय
करवावहै । तेजस्वि नाव/तमस्तु मा विहि-
पावह । ॐ शान्तिः शान्तिः शान्तिः ॥
शं नो मित्र इत्याद्यतीतविद्याप्राप्त्युपसर्गप्रशमनार्थी शान्तिः पठिता । इदानीं
तु वक्ष्यमाणब्रह्मविद्यामाप्त्युपसर्गोपशमनार्थी शान्तिः पठ्यते-शं नो मित्र इति
सह नायवदिति च । शं नो मित्र इत्यादि पूर्ववत्स्पष्टम् । सह नाववतु नौ
शिष्याचार्यों सहैवावतु रक्षतु । सद्द नौ भुनक्तु भोजयतु । सह वीर्य विद्यादि-
निमित्तं सामथ्र्य करवावहै निर्वतयावहै । तेजस्वि नावावयोस्तेजस्विनोरधीतं
स्वधीतमस्तु । अर्थज्ञानयोग्यमस्त्वित्यर्थः थः । मा विद्विषावहै विद्याग्रहणनिमित्तं
शिष्यस्याऽऽचार्यस्य वा प्रमादकृतादन्यायाद्विद्वेषः प्राप्तस्तच्छमनायेयमाशीर्मा
विद्विषावहा इति । मैवेतरेतरं विद्वेषमापद्यावहै । शान्तिः शान्तिः शान्तिरिति
---
१ क. ग. प. छ अट. 'नसंयोपस्ति ।
-

[१ प्रथमोऽनुवाकः] तैत्तिरीयोपनिषत् । ४५ विवचनमुक्तार्थम् । क्ष्यमाणविद्याविघ्नप्रशमनार्थ चयं शान्तिः । अविनेनाss. स्मविद्याप्राप्सिराशास्यते तन्मूलं हि परं श्रेय इति । शान्तिन्यस्यापीनरुवामाह-शं नो मित्र इति । इदानी परविद्यार्थिनमध्यवतु साधारण्येन मया पूर्व प्रार्थितत्वादित्यर्थः । असाधारण्येन परविद्योपसर्गशान्त्यर्थमाह- सह नाववत्विति । नावावयोस्तेजस्विनोरवीतं तेजस्व्यस्त्विति योजना । ॐ ब्रह्मविदामोति परम् । - संहितादिविपयाणि कर्मभिरविरुद्धान्युपासनान्युक्तानि । अनन्तरं चान्तःसो- पाधिकात्मदर्शनमुक्त व्याहृतिद्वारेण स्वाराज्यफलम् । ननावताऽशेषतः संसार- बीजस्योपमर्दनमस्तीत्यतोऽशेपोपद्रवीजस्याज्ञानस्य निवृत्त्यर्थं विधूतसर्वोपाधि- विशेषात्मदर्शनार्थमिदमारभ्यते-ब्रमविदामोति परमित्यादि । प्रयोजनं चास्या ब्रह्मविद्याया आवद्यानिवृत्तिस्तत आत्यन्तिकः संसाराभावः । वक्ष्यति च- " विद्वान बिभेति कुतश्चन " इति । संसारनिमित्ते च सत्यभयं प्रतिष्ठां च विन्दत इत्यनुपपन्नम् । “ कृताकृते पुण्यपापे न तपतः" इति च । अतोऽवग- म्यतेऽस्माद्विज्ञानात्सर्वात्मनलविषयादात्यन्तिकः संसाराभाव इति । स्वयमेव च प्रयोजनमाह ब्रह्मविदामोति परपित्यादावेव संबन्धप्रयोजनज्ञापनार्थम् । नितियोहि संबन्धमयोजनयोविद्याश्रवणग्रहणधारणाभ्यासार्थ प्रवर्तते । श्रवणा- दिपूर्वकं हि विद्याफलस् "श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इत्यादिश्रु- त्यन्तरेभ्यः । ब्रह्मविब्रह्मति वक्ष्यमाणलक्षणं वृहत्तमत्वाद्रह्म तद्वेत्ति विजाना- तीवि ब्रह्मविदाप्नोति परं निरतिशयं तदेव ब्रह्म परम् । न ह्यन्यस्य विज्ञानाद- न्यस्य प्राप्तिः । रपष्टं च शुत्यन्तरं ब्रह्मप्राप्तियेव ब्रह्मविदो दर्शयति " स यो ह वै तत्परमं ब्रह्म वेद ब्राँव भवति" इत्यादि । वृत्तानुवादपूर्वकमानन्दवल्यास्तापर्थमाह-संहितादीत्यादिना । ननु यथा पूर्व- माप्नोति स्वाराज्यमित्यपरविद्याफलमुक्त ससारगोचरमेव तथा परविद्याफलमपि " सोs- श्रुते सर्वान्कामान् " इति सर्यविपयसाध्यानन्दान्संसारगोचरानेव दर्शयिष्यति कथमात्य न्तिकः ससाराभाव इत्यत आह- प्रयोजनं चास्या इति । सर्वकामशब्देन निरति- शयानन्दाभिव्यक्तिर्विवक्षिता । सा च स्वभावानन्दौनभिव्यक्तिरूपाविद्यानिवृत्तिरेवेति न ससारगोचरं फलमित्यर्थः । आद्यवाक्यस्यावान्तरतात्पर्यमाह-स्वयमेव चेति । १ . ज. °न्दाभिव्यक्ति रूपाऽवि' ।

१६ आनन्दगिरिकृनटीकासंवलिन शांकरभाष्यसमता- [२ ब्रह्मवरच्या- विद्ययय कायटया गोसः साधयितुं शक्यते । ब्रह्मविदितिविशेषणासंबन्धनापनस्य पुर. पाकाक्षाविषयतया परमाप्तिः प्रयोजन विद्याया इति ज्ञापनस्य वा कुत्रापयोग इत्या- मामय यज्ञादिपरित्यागेन वेदान्तश्रवणादाय मुमुक्षुणा प्रवर्तिताम यत्रेत्याह- निर्मातयोहीति । परगनोत्कृष्टमुच्यते । फथ ब्रह्मति व्याख्यायते तत्राऽऽह- न हीति । ननु सर्वगतं सर्वस्याऽऽत्मभूतं ब्रह्म वक्ष्यति । अतो नाऽऽप्यं प्राप्तिश्चान्य- स्यान्येन परिच्छिन्नस्य च परिच्छिन्नेन दृष्टा । अपरिच्छिन्नं सर्वात्मकं च ब्रह्मत्यतः परिच्छिन्नवदनात्मवच्च नस्याऽऽप्तिरनुपपन्ना । नायं दोपः । कथम् । दर्शनादर्शनापेक्षत्वाइपण आप्त्यनाप्त्योः । परमार्थतो ब्रह्मरूपस्यापि सतोऽ. स्य जीवस्य भूतमात्राकृतबाह्मपरिच्छिन्नान्नमयाद्यात्पदर्शिनस्तदामक्तचेतसः प्रकृतसंख्यापूरणस्याऽऽन्मनोऽव्यवहितस्यापि बामसंख्येयविषयासक्तचित्तनया स्वरूपाभावदर्शनबन्परमार्थब्रह्मस्वरूपाभावदर्शनलक्षणयाऽविद्ययाऽन्नमयादी- न्याद्याननात्मन आत्मत्वेन प्रतिपन्नत्वादन्नमयायनात्मभ्यो नान्योऽहमस्मीत्यभि- मन्यते । एवमविद्ययाऽऽत्मभूतमपि ब्रह्मानाप्नं स्यात् । तस्यवमविद्ययाऽनाप्तत्र- मस्वरूपस्य प्रकृतसंख्यापूरणस्याऽऽत्मनोऽविद्ययाऽनाप्तस्य सनः केनचित्स्मा- रितस्य पुनस्तस्यैव विद्ययाऽऽप्तियथा तथा श्रुत्युपदिष्टस्य सर्वात्मब्रह्मण आत्म- स्वदर्शनेन विद्यया नदाप्तिम्पपद्यत एव । आप्नोतिशब्दस्य पचारिक दयितु मकमुखेन मुरड्याथै बाधकमाह--ननु सर्व गतमित्यादिना | परमार्थतो ब्रह्मस्वरूपस्यापि सतो जीवस्याविद्यया ब्रह्मानातं स्यादिति संबन्धः । भृतमात्राभि ताशः कृता ये बाह्याः परिच्छिन्नाश्चान्नमयादयम्नदात्म वर्जिन इत्य- विद्याया विक्षेपकत्वं स्वरूपमुक्तम् । परमार्थ ब्रह्मस्वरूपं नास्तीत्यभावदर्शनमावरणलक्षणं लिङ्गं यस्याः सा तथोक्ता । स्वरूपेऽप्यग्रहणविपर्ययो भवत इत्यत्र दृष्टान्तमाह--प्रकृतति । प्रकृतसंख्यापुग्णस्य दशमस्य नव वय वर्तामह इति विपर्ययः स्वरूपादर्शनं च यथे- त्यर्थः । अदर्शननिमित्तामनाप्ति विविच्य दर्शननिमित्तामाप्तिं विवृणाति--तस्यवमिति । ब्रह्मविदामोति परमिति वाक्यं सूत्रभूतं सर्वस्य वल्लयर्थस्य ब्रह्मविदा- मोति परमित्यनेन वाक्येन वेद्यतया सूत्रितस्य ब्रह्मणोऽनिर्धारितस्वरूप- विशेषस्य सर्वतो व्यावृत्तस्वरूपविशेपसमर्पणसमर्थस्य लक्षणस्याभिधानेन स्वरूपनिर्धारणायाविशेषण चोक्तवेदनस्य ब्रह्मणो वक्ष्यमाणलक्षणस्य - १ ख. ग. शास्त्र । २ न. इ. ज्ञानस्य ! ३ ट °मियाह ।

१ प्रथमोऽनुवाकः] तैत्तिरीयोपनिपत् । ४७ विशेपेण प्रत्यगात्मतयाऽनन्यरूपेण विशेयत्वाय ब्रह्मविद्याफलं च ब्रह्मविदो यत्परब्रह्ममाप्तिलक्षणमुक्तं स सर्वात्मभावः सर्वसंसारधर्मातीतब्रह्मस्वरूपत्वमेव नान्यदित्येतत्मदर्शनार्यपगुदाहियते-- तदेपाऽयुक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । तदेपाऽभ्युक्तति । तत्तस्मिन्नेव ब्राह्मणवाक्योक्तेऽर्थ एपर्गभ्युक्ताऽऽन्नाता। सत्यं ज्ञानमनन्तं ब्रह्मति ब्राह्मणो लक्षणार्थ वाक्यम् । सत्यादीनि हि त्रीणि विशेषणानि पदानि विशेष्यस्य ब्रह्मणः । विशेष्यं ब्रह्म विवक्षितत्वावध- तया । विशेपणविशेष्यत्वादेव त्यादीन्येकविभक्त्यन्तानि पदानि समाना धिकरणानि । सत्यादिभित्रिभिविशेपशेप्यमाणं ब्रह्म विशेषयान्तरेभ्यो निर्धार्यते । एवं हि तज्ज्ञानं भवति यदन्येभ्यो निर्धारितम् । यथा लोके नीलं महत्सुगन्ध्युत्पलमिनि । आयं ब्राह्मणवा व्याख्यायोत्तरं मन्नं सक्षेपतोऽर्थकथनेनावतारयति-ब्रह्मवि. दामोतीत्यादिना । सर्वतो व्यावृत्तो यः स्वरूपवित्रास्तत्समर्पणे समर्थस्य लक्षणया- भिधानेन स्वरूपनिर्धारणायवर्गदाहियत इति संबन्ध. । वृहत्वाद्ब्रह्मेति व्युत्पत्तिबलेनास्ति किमपि महद्वस्त्वियविगण प्रतीयते । ततो लपोहेशन लक्षणविधानभिति प्रसिद्धि- रुपपद्यते । अव्याकृतादि ब्रह्मशब्दवान्यतया सजातीयं घटादि विजातीयम् । तस्मात्सजा- तीयविजातीयव्यावर्तकतया सत्यादिलक्ष गस्य लक्षणत्वप्रसिद्धिरुपपद्यते । लक्षणाभिधान- द्वारेण स्वरूपविशेषप्रतिपादने तात्पर्यमिति वाक्यस्य व्यर्थतादोपः परिहृतः । पूर्वत्र ब्रह्म- विदित्यनेनाविशेषेणोक्त वेदनं यस्य ब्रह्मणस्तस्य यो वेद निहितं गुहायामित्यनेन प्रत्य. गात्मतया वेदनं वक्तव्यमित्येवमर्या चर्मुदाहियत इत्य'ह-अविशेषेण चेति । आपात- प्रतिपन्नं विशेषणविशेष्यभावमादाय पदानि विभजते--सत्यादीनि हि त्रीणीति । विशेषणार्थीनीति । व्यावृत्त्यर्थानि । कुतो विशेषणविशेष्यभावप्रतीतिरित्यत आह- विशेषणविशेष्यत्वादेवेति । नीलं महत्सुगन्ध्यु-पलमित्यादौ सत्येव विशेषणविशेष्य. भावे समानाधिकरणतयकविभक्त्यन्तानि प्रसिद्धान्यतान्यपि च तथाभूतानि नानार्थगत. विशेषणविशेष्यभावनिबन्धनानीति गम्यत इत्यर्थः । विगेपणविशेष्यभावस्य फलमाह-. एवं हीति । ननु विशेष्यं विशेपणान्तरं व्यभिचरद्विशेष्यते । यथा नीलं रक्तं चोत्पल- मिति । यदा ह्यनेकानि द्रव्याण्येकजातीयान्यनेकविशेषणयोगीनि तदा विशे- . -- . १ झ. °त्तरमत्र स।

- आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता---[२ब्रह्मवल्ल्यध्याय- पणस्यार्थवत्त्वम् । न ह्येकस्मिन्नेव वस्तुनि विशेषणान्तरायोगाद्यथाऽसावेक आदित्य इति तथैकमेव च ब्रह्म न ब्रह्मान्तराणि येभ्यो विशेष्येत नीलोत्प- लवत् । न । लक्षणार्थत्वाद्विशेषणानाम् । नायं दोपः । कस्मात् । यस्माल्लक्ष- णार्थप्रधानानि विशेषणानि न विशेषणप्रधानान्येव । कः पुनर्लक्षणलक्ष्ययो- विशेषणविशेष्ययोर्वा विशेप इति । उच्यते । समानजातीयेभ्य एव निवर्त- कानि विशेषणानि विशेष्यस्य लक्षणं तु सर्वत एव यथाऽवकाशदात्राकाश. मिति । लक्षणार्थं च वाक्यमित्यवोचाम । विशेषणविशेष्यभावमाक्षिपति---नन्विति । नीलत्वं व्यभिचरदुत्पलं रक्तमपि संभ वतीति नीलं विशेषणं घटते न तथा सत्यत्वादिकं व्यभिचरब्रह्मान्तरं लोके प्रसिद्धम् । तंत: सजातीयव्यवच्छेद्यस्याभावाद्विशेषणविशेष्यभावो न घटत इत्यर्थः । विशेषणविशे- व्यभावस्य तात्पर्येणाप्रतिपाद्यवादब्याकृतादिशास्त्रीयब्रह्मपदार्थव्यवच्छेदेनानिर्वाच्यविशेषण- विशेष्यभावसंभवात्तद्वारेण ब्रह्मलक्षणं विवक्षितमित्याह--नति । संग्रहवाक्यं विवृणोति- नायें दोप इत्यादिना । सर्वत एवेति । सजातीयाद्विजातीयाच यथा महाभूनत्वेन सहशभावापृथिव्यादेविसदृशाच्चाऽऽत्मादेराकाशस्य व्यावर्तकमवकाशदातृत्वमित्यर्थः । एत- दुक्तं भवति-अतिव्याप्यादिरहितो व्यावर्तको धर्मो लक्षणं न्यायविशेष इति मीमासकाः । ब्रह्मपदव्युत्पत्तिबलेन यदविशेषतः प्रतिपन्नं किंचिन्महदस्तीति तत्सत्यं ज्ञानमनन्तमन्तजड- परिच्छेदविरोधिस्वरूपमिति विशेषतः प्रतिपत्तव्यमिति विशेषावगतिशेषभुतं लक्षण प्रमि- तिस्तु प्रमाणादेवेति तार्किकाः । पुनर्लक्षणं केवलव्यतिरेक्यनुमानमाचक्षते तदा लक्षणा- देव स्वभावविशेषामितिः । यथा गुणवद्र्व्यमिति लक्षणाद्गुणाश्रयत्वयोग्यस्वभावविशे- घस्य प्रमितिः सामान्यप्रतिपन्नस्य द्रव्यपदाभिधेयस्य भवति । यद्दा व्यवह रसिद्धिः फलं गुणवद्र्व्यमिति व्यवहर्तव्यं गुणवत्त्वान्न यदेव न तदेव यथा रूप तथा सत्यवादिमद्र- झेति व्यवहर्तव्यं सत्यत्वादिभावान्न यदेवं न तदेवं यथा घट इति । एतच्च खण्डनयु- त्यसहमानमपि व्यवहाराङ्गं भवतीति नातीय संमेक्षिका कार्या । सत्यादिशब्दा न परस्परं संवध्यन्ते परार्थत्वाद्विशेष्यार्था हि ते । अत एकैको विशेषणशब्दः परस्परं निरपेक्षो ब्रह्मशब्देन संवध्यते । सत्यं ब्रह्म ज्ञानं ब्रह्मानन्तं ब्रह्मेति । सत्यमिति यद्रूपेण यनिश्चितं तद्रूपं न व्यभिचरति तत्सत्यं यद्रूपेण निश्चितं यत्तद्रूपं व्यभिचरदऋतमित्युच्यते । अतो विकारोऽ- नृतं " वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ एवं सदेव . १ ञ. ठ सूक्ष्मशहा का।

" १प्रथमोऽनुवाफः ] सत्तिरीयोपनिषत् । सत्यमित्यवधारणादतः सत्पं ब्रह्मेति ब्रह्म विकारान्निवर्तयति । अतः कार- णत्वं प्राप्तं ब्रह्मणः । कारणस्य च फारकत्वं वस्तुत्वान्मृद्वदचिद्रूपना च माताऽन इदमुच्यते ज्ञानं ब्रह्मेति । ज्ञानं ज्ञप्तिरवबोयो भावसाधनो ज्ञानदो ब्रह्मविशे पणत्वात्सत्यानन्ताभ्यां सह । न हि सत्यनाऽनन्तता च ज्ञानकर्तृत्वे सत्त्युपए यते । ज्ञानकर्तृत्वेन हि चिक्रियमाणं कथं सत्यं भवेटनन्तं च । याद न कुतश्चि- त्मविभज्यते तदनन्तम् । शानकर्तृत्वे च शेयज्ञानाभ्यां प्रविभक्तमित्यनन्तता न स्यात् । यत्र नान्यदिनानाति स भूमा अथ पत्रान्पदिमानाति तदल्पम् ॥ इति श्रुत्यन्तरात् । पुनर्विशेषणविशेष्यभावपक्षमालम्याऽऽह-सस्यादिशब्दा इति । सत्यं मले- त्युक्ते जास्यव्यावृत्तिः परिष्छेदच्यावृत्तिश्च यद्यपि लभ्यते जडस्य परिस्छिन्नस्य सर्वस्यामृ. तत्वाऽज्ञानं ब्रह्मत्युक्ते चानृतपरिच्छेदव्यावृत्तिलभ्यते स्वप्रकाशस्य वाधाविषयत्वात्परिच्छे- दाहकममाणाविषयत्वाच्च लक्षणपि चैक वैकल्पिकमदुष्ट तथाऽपि मन्दमतिव्युत्पाद- नाय स्यात्सत्यादिपदार्थव्याख्यानपूर्वकं प्रत्येक व्यावमाह-सत्यमिति यद्रूपेणेत्या- दिना । भावसाधन इति । भावव्युत्पत्तिकः। क्रियासामान्यं यद्यप्यन्यत्र भाव उच्यते निर्विशेष चिन्मानं भावव्युत्पत्या सत्यते सत्यादिशब्दसंनिधानादिति द्रष्टव्यम् । नान्यद्विजानातीति विशेपमतिपेधादात्मानं विज्ञानातीति चेन । भूमल क्ष- णविधिपरत्वाद्वाक्यरय । यत्र नान्यत्पश्यतीत्यादि भूम्नो लक्षणविधिपर वाक्यम् । यथा प्रसिद्धमेवान्योऽन्यत्पश्यतीत्येतदुपादाय यत्र तम्नास्ति स भूमेति भूमस्वरूपं तत्र ज्ञाप्यतेऽन्यग्रहणस्य प्राप्तपत्तिषेधार्थत्वान्न स्वात्मनि क्रिया- स्तित्वपरं वाक्यम् । स्वात्मनि च भेदाभावाद्विज्ञानानुपपत्तिः । आत्मनश्च विज्ञे- यत्वे ज्ञात्रभावमसङ्गः । ज्ञेयत्वेनैव विनियुक्तत्वान् । एक एवाऽऽत्मा ज्ञेयत्वेन ज्ञातृत्वेन चोभयथा भवतीति चेन्न । युगपद शत्वात् । न हि निरवयवस्य युगपज्ज्ञेयज्ञातृत्वोपपत्तिः । आत्मनश्च घटादिवद्विज्ञेयत्वे ज्ञानोपदेशानर्थवयम् । न हि घटादिवत्प्रसिद्धस्य ज्ञानोपदेशोऽर्थवान् । तस्माज्ज्ञातृत्वे सत्यानन्त्यानु- पपत्तिः । सन्मात्रत्वं चानुपपन्नं ज्ञानकर्तृत्वादिविशेपवत्त्वे सति । सन्मात्रत्वं च सत्यत्वम् , तत्सत्यमिति श्रुत्यन्तरात् । तस्मात्सत्यानन्तशब्दाभ्यां सह विशेषणत्वेन ज्ञानशब्दस्य प्रयोगाद्भावसाधनो ज्ञानशब्दः । ज्ञानं ब्रह्मेति तथाऽप्यत्र १ ज. झ. ट. सवयम" । २ ग. झ. 'पि व ५। ३ ख ग. 'दनीय स्या।

L ५० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२ ब्रह्मवल्ल्यध्याये- कर्तृत्वादिकारकनिवृत्त्यर्थं मृदादिवदचिद्रूपतानिवृत्त्यर्थं च प्रयुज्यते । ज्ञान ब्रह्मेतिवचनात्माप्तमन्तवत्त्वम् । लौकिकस्य ज्ञानस्यान्तवत्त्वदर्शनात् । अतस्त- निवृत्त्यर्थमाह-अनन्तमिति । विशेषनिषेधः शेषाभ्यनुज्ञाविषय इति न्यायेन प्रासङ्गिकं स्वज्ञातृत्वे तात्पर्थमाशङ्कय निषेधति-नान्यद्विजानातीत्यादिना । कर्तत्वं कर्मत्वं चैकक्रियावच्छिन्नं धर्मद्वयं भिन्नाधिकरणं प्रसिद्धम् । स्वात्मनि च भेदाभावान्निरुपपत्ति के स्वज्ञातृत्वे तात्पर्य कल्प- यितुं न शक्यत इत्याह-स्वात्मनि चेति । सत्यादीनामनृतादिधर्मनिवृत्तिपरत्वाद्विशेष्यस्य ब्रह्मण उत्पलादिवदप्रसि- द्धत्वात् । मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः । एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः" इतिवच्छून्यार्थतैव प्राप्ता सत्यादिवाक्यस्येति चेन्न लक्षणार्थत्वात् । विशे- षणत्वेऽपि सत्यादीनां लक्षणार्थप्राधान्यमित्यवोचाम । शून्ये हि लक्ष्येऽनर्थक लक्षणवचनं लक्षणार्थत्वान्मन्यामहे न शून्यार्थतेति । विशेषणार्थत्वेऽपि च सत्यादीनां स्वार्थापरित्याग एव । सत्यादीनि व्यावृत्त्यर्थानीत्युक्तं तत्र शङ्कते--सत्यादीनामिति । प्रमाणान्तरसिद्ध- मुत्पलादि विशेष्यं दृष्टं ब्रह्म तु प्रमाणान्तरासिद्धम् । पदमात्रस्याप्रमाणत्वात्सत्यादीना च व्यावृत्त्यर्थत्वादसदर्थं वाक्यं स्यादित्यर्थः । सिद्धत्वमात्रेण विशेष्यत्वे संभवति प्रमाणान्त- रविशेषणमनर्थकं केवलव्यतिरेकाभावान्मिथ्यार्थस्य रज्जुसदेः सदधिष्ठानत्वदर्शनात्प्रप. ध्वस्यापि दृश्यत्वादिहेतुभिर्मिथ्यात्वेनावगतस्य सदधिष्ठानन्वं सभाव्यते तस्य प्रपञ्चाधिष्ठा- नतया संभावितस्य स्वरूपविशेषलक्षणार्थमिदं वाक्यं ततो नासदर्थत्वमित्याहन लक्ष- णार्थत्वादिति । विशेषणार्थत्वमभ्युपगम्याऽऽह--विशेषणार्थत्वेऽपि चेति । नीलं महदित्यादिविशेषणपदानि स्वार्थसमर्पणेन तद्विरुव्यावर्तकानि प्रसिद्धानि, तथा सत्यश- ब्दोऽप्यबाधितसत्त्वे व्युत्पन्नो ज्ञानशब्दः स्वप्रकाशे विषयसंवेदनेऽनन्तोऽयमाकाश इत्या- दावनन्तशब्दो व्यापके । ततः स्वार्थसमर्पणेन विरोधिव्यावर्तकत्यान्न व्यावृत्तिमात्रपर्य- वसोनमित्यर्थः । शून्यार्थत्वे हि सत्यादिशब्दानां विशेष्यनियन्तृत्वानुपपत्तिः । सत्याद्यर्थे- रर्थवत्त्वे तु तद्विपरीतधर्मवद्भयो विशेषेभ्यो ब्रह्मणो विशेष्यस्य नियन्तृत्वमुप- पद्यते, ब्रह्मशब्दोऽपि स्वार्थेनार्थवानेत्र । तत्रानन्तशब्दोऽन्तवत्त्वप्रतिषेधद्वारेण १ ख. °णतमर्थ के । ग. ज, झ. णमसमर्थे के 1२ क. सायीत्य ।

१मयोऽनुमास] नत्तिरीयोपनिपन् । ५१ विशेषणम् । मन्थलानगन्दी तु स्वार्थसमर्पणनव विशेषण भवतः । कि विपणापा ५ मा माई घटोऽनो विशेषणयानुपपत्य सद- चाय या गि-- शून्याय हीनि । म पनि सपनोऽनिति ताऽऽह- ग्रह्मशब्दोऽपीति । " यही नि पानि गन्दी निष्पनी यूनी महत्व प.. माननिय संकोचफमानान्त- समान 41 | तो यमुनादिगदविलक्षणो मा: । नरि-तत्रानन्तति । सम्मादा एनन्यादान्मन इनि वाम 155-मगदप्रयोगादितुरात्मा ब्राम । एनमानन्दमयमान्मानमुपसंग्रामनानि च नन्ययेशाग | तन्मृष्वा तदेवानुमानिश दिनि च नस्वर जीवपण शरीरमां दर्शयति । अनी योदितः स्वरूपं ब्राम । एवं नन्मिन्यामानकतन्यमामा माननि हि प्रसिद्धम् । सोऽकामयतेति च कामिनी जान का मिति: । अनी शान मत बाप्तिप्रायत्ययुक्तमनित्यत्वप्रस- जान्छ । यदि नाम सहितानमिनि भावरूपता ब्रह्मणस्तथाऽप्यनित्यत्वं प्रस ज्यन पारतम्यं च । धान्यर्थानां कारकापक्षवान् । शानं च धात्वर्थोऽतोऽस्या- नियन्वं पग्नन्त्रना च । न, स्वरूपाव्यनिर कण कार्यत्वोपचारात् । आत्मनः स्वरूपं जमिन नना व्यनिरिच्यांना निव तथाऽपि बुद्धरुपाधिलक्षणाया- शक्षुगहिरिविषयाकाण परिणामिन्या ये शब्दाद्याकागवभासास्त आत्म- विज्ञानस्य विषयभूना उत्पद्यमाना पवाऽऽत्मविज्ञानेन व्याप्ता उत्पद्यन्ते । तस्मा- दात्मनिशानायभागाश्च तं विज्ञानशब्दयाच्याश्च धात्वर्थभूता आत्मन एव धर्मा विभिन्यारूपा इत्यविवकिभिः परिकल्पयन्ते । अनामिन्यनेन चाड ३५ प्रामण उनियमिप्रवक्थे शाततात्पर्य दर्शयति-- तस्माद्दा इत्यादिना । ब्रह्मण आमेक्यं चेशिवक्षितं तर्हि ज्ञानशब्दस्य भावसाधनत्व. व्याख्यान हयितन्याह-एवं तहति । इतश्च भावव्युत्पत्तिरसंगतेत्याह--अनित्यत्व- प्रसङ्गाच्चेति । वृत्तिमटन्तःकरणोपहियेनाऽऽत्मनो ज्ञानृत्वं न स्वतः कार्यत्वं च ज्ञानस्यान्तःकरणवृत्त्युपहितावेन तत आत्मामिन्नत्वेऽपि ब्रमणो न ज्ञानकर्तृत्वं नापि कार्यत्वं प्रसज्यत इत्याह-न स्वरूपेति । -- यत्त त (य) हामणो विज्ञानं तत्सवितृप्रकाशवदग्न्युप्गवच्च ब्रह्मस्वरूपा- १ ख. नि चाडमा यति त । २. उत्पाय। ३ ठ. उपय।

५२ भानन्दगिरिकृतटीकासंवलितशांकरभावसमेता-- [ब्रह्मवल्ल्यध्याये- व्यतिरिक्त स्वरूपमेव तन्न तत्कारणान्तरसव्यपेक्षम् । नित्यस्वरूपत्वात् । सर्व- भावानां च तेनाविभक्तदेशकालत्वात्कालाकाशादिकारणत्वाच्च निरतिशय- सूक्ष्मत्वाच्च न तस्यान्यदविज्ञेयं सूक्ष्मं व्यवहितं विप्रकृष्टं भूतं भवद्भविष्यद्वाऽ. स्ति तस्मात्सर्वज्ञ तहह्म । मन्त्रवर्णाच्च- " अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरश्यं पुरुषं महान्तम् " इति । न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वा तु तद्वितीयमस्ति इत्यादिश्रुतेश्च । नित्यं चेज्ञानं नर्हि तत्र ब्रह्मणः कर्तस्वाभावे कयं सर्वज्ञ वमित्यत आह-सर्व भावानां चेति । सवितव्यवधानमेय हि विषयस्य सिद्धिः सर्व च संविस्वभावेन ब्रह्म- णाऽव्यवहितमिति सर्वज्ञ ब्रह्मोपचर्यत इत्यर्थः । नित्यं ज्ञानं ब्रह्माण विद्यत इत्यत्र मन्त्रसमतिमाह-मन्त्रवर्णाच्चति । विज्ञातृस्वरूपास्यव्यतिरेकात्करणादिनिमित्तानपेक्षत्त्वाच्च ब्रह्मणो ज्ञान- स्वरूपत्वेऽपि नित्यत्वप्रसिद्धिरतो नव धात्वर्थस्तदक्रियारूपत्वात् । अत एव च न ज्ञानकर्तृ, तस्मादेव च न ज्ञानशब्दवाच्यमपि तंद्रह्म । तथापि तदाभा- सवाचकेन बुद्धिधर्मविषयेण ज्ञानशब्देन तल्लक्ष्यते न तूच्यते, शब्दप्रवृत्तिहेतु- जात्यादिधर्मरहितत्वात् । तथा सत्यशब्देनापि सर्वविशेषप्रत्यस्तमितस्वरूप. वाह्मणो बाह्यसत्तासामान्यविषयेण सत्यशब्देन लक्ष्यते सत्यं ब्रह्मेति न तु सत्यशब्दवाच्यनेत्र ब्रह्म । एवं सत्यादिशब्दा इतरेतरसंनियावन्योन्यनियम्यनि- यामका सन्तः सत्यादिशब्दांच्यात्तनिवर्तका ब्रह्मणो लक्षणार्थाश्च भवन्ती- त्यतः सिद्ध " यतो वाचो निवर्तन्ते । अप्राध्य मनसा सह" "अनिरुक्तेऽनि- लयने" इति चावाच्यत्वं नीलोत्पल बदवाक्यार्थत्वं च ब्रह्मणः । । ब्रह्मानिय ज्ञानवाढकिक ज्ञानवदित्यादि चौद्यमप्युक्तन्यायेन निरस्तमित्याह-- विज्ञातृत्वस्वरूपति । लौकिकदानस्य करण दिनापेक्षत्वादनित्यत्वम् । आमस्वरूपं तु ज्ञान न करणादिसापेक्ष सकलकरणव्यापारीपरमेऽवि सुपुते .भावादन्यया मुपुतिसिद्धय- नुपपत्तेः परामर्शातभवप्रसङ्गादतः श्रुतिता-पर्यगम्मेऽयं न सामान्यतो दृष्टस्य प्रवेश इति भावः । आत्मनः स्वरूपभूत ब्रानं फार कमाध्यं धात्वर्थत्वादिति चासिद्धमि- -- ११. स्यात्सत्यानन्तसामानाधिकरण्यात्तथा । ड. ट. वात्सत्यानन्तशब्दाभ्या सामा. नाधिकर बाधा । २ ग्व. ट. वाणनि° । ग. ब. डा. ट. पाच्यत्वानि । ३ ग्य, करगमाध्य।

१ पथमोऽनुवाकर तैत्तिरीयोपनिपत् । ५३ त्याह-अत इति । नित्यात्मस्वरूपत्वादेवेत्यर्थः । अत एव चेति । नित्यत्वादेव ज्ञानस्य न तत्र कर्तृत्वमपि ब्रह्मण आपादयितुं शक्यते । लौकिकानित्यज्ञानविलक्षणत्वादेव च ज्ञानगब्दवाच्यमपि बहा न भवतीलाह-तस्मादेव चेति । कथं तर्हि विज्ञानं ब्रह्मेति प्रयोगस्तत्राऽऽह-तथाऽपीति । शब्दस्य प्रवृत्तिहेतवो जात्यादिधर्मा पौः शुग्ल इत्यादी नदभावाच्छब्दान्तरेणापि वाच्यं न भवतीयाह-तथेति । तथा सत्यशब्दे- नापि न वान्ये ब्रामेति शेषः । एनारफुटयति-सर्वविशेति । सत्ता यस्यास्ति तत्सत्य- मिति लोकरू दि. । सत्ता चानुगतरूपं सामान्य व्यावृत्ताः सत्ताविशेषाः । स चयमनु- मृत्तव्यावृत्तभायो न वस्तु परस्परपेक्षतिद्धत्वादतो यस्मिन्नयं व्यावृत्तानुवृत्तभायः करिपत- स्तदव्यावृत्ताननुगतं ब्रह्म उक्ष्यत इत्यर्थः । एवमैफेवास्य शब्दस्यार्थमुक्त्या वाक्यार्थमाह- एवं सत्यादीति । यद्यपि सत्यादिशब्दानां ब्रह्मणा मुख्योऽन्वयस्तयाऽप्यरुणयकहायन्या- दिवत्पणिका क्यनतरेतरसैनिधावन्योन्यस्य वृत्तिनियामका भवन्ति । ज्ञानेन विरोपणास- त्यशब्दो न जडे कारणे वर्तते । सत्येन विशेषणाज्ज्ञानशब्दो न विषयसापेक्ष ज्ञाने वर्तते । ज्ञानेन विशेषणान्नानन्तमन्दो ज्ञातृव्यतिरिक्त वर्तते । ततश्च सत्यादिशब्देन यौकिकं चाच्यं तद्विलक्षणेन भवितव्यमिति संभावयन्तः सकललौकिकाध्यासाधिष्टानं ब्रह्म चेन लक्षयन्तीत्यर्थः । ततः किं फलतीत्यत आह--अतः सिद्धमिति । वाचक. शक्या बोधवानगीकारादवाच्या सकलानिष्टव्यवच्छेदेनकस्यैव लक्ष्यत्वाभ्युपगमाच गुणगुण्यादिसभेदरूपवाक्यार्थलक्षण्यं च ब्रह्मणः सिद्धमित्यर्थः । यो पैद निहितं गुहायां परमे व्योमन् । सद्यथाव्याख्यातं ब्रह्म यो घेद विजानाति निहितं स्थितं गुहायाम् | गृहतः संवरणार्थत्य निगूढा अस्यां ज्ञानज्ञेयज्ञातृपदार्था इति गुहा बुद्धिः । गूढावस्यां भोगापवर्गी पुरुपार्थाविति वा तस्यां परमे प्रकृष्टे व्योमन्व्योम्न्याकाशेऽव्याकृ. ताख्ये । रद्धि परमं व्योम " एतस्मिन्खल्वक्षरे गायकाशः” इत्यक्षरसं- निकर्षात् । गुहायां च्योन्नीति वा सामानाधिकरण्यादव्याकृताकाशमेव, गुहा, तत्रापि निगूढाः सर्वे पदार्थास्त्रिषु कालेषु कारणत्वात्सूक्ष्मतरत्वाच्च । तस्मि- नन्तर्निहितं ब्रह्म । हार्दमेव तु परमं व्योमेति न्याय्य विज्ञानाङ्गत्वेनोपासना- गन्त्वेन ब्योनो विवक्षितत्वात् । बुद्धी कार्य यदनुगतं परमं व्योमाव्याकृताख्यं तस्मिन्निहितमिति सप्तमीद्वयं वैयधि. - १ ख ट. त्पाष्टिका । २ . द. 'न्य या । ३ व. ग. °फशब्दान' ।

-५४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-२ब्रह्मवल्ल्यध्याये- करण्येन व्याख्यातम् । व्योमशब्दस्य भूताकाशे रूढिं परित्यज्य किमित्यन्याकृतविपयत्वं व्याख्यातं तत्राऽऽह-तद्धीति । भूताकागस्य कार्यत्वेनापरत्वादव्याकृताकाशस्य कारण- वेन परमत्वविशेपणसंभवाच्छाखान्तरे शतपथे चाक्षरेण ब्रह्मणा सामीप्यावगमादव्याकृत व्योमशब्देन लक्ष्यत इत्यर्थः । एवं पराभिप्रायेण व्याख्याय स्वाभिप्रायं व्याचष्टे- हार्दमेव त्विति । हृदयावच्छिन्ने भृताकाशे या गुहा तस्यां वुद्धौ साक्षितया निहितम- भिव्यक्तं ब्रह्मेति व्याख्यानं युक्तम् । द्रष्टुभेदेन ब्रह्मण आपरोक्ष्यलामात् । अन्यथा सम• टिरूपेऽन्याकृते मायातत्त्वेऽवस्थितं ब्रह्मत्युक्ते ब्रह्मणः पारोह्यं प्रसज्येत, पारोक्ष्येण च ज्ञानं नापरोक्षसंसाराभ्यासनिवर्तकम् । तस्मादपरोक्षद्रष्टचैतन्याभेदेन ब्रह्मणः स्वहृदये प्रत्यक्षताया विवक्षितत्वाद्धृदयाकाशमेव विज्ञानशेपभूतं विवक्षितमित्यर्थः । " यो चै स बहिर्धा पुरुपादाकाशो यो चै सोऽन्तः पुरुष आकाशो योऽयमन्तहृदय आकाशः" इति श्रुत्यन्तरात्प्रसिद्धं हार्दस्य व्योम्नः परमत्वम् । तस्मिन्हार्दे व्योन्नि या बुद्धि हा तस्यां निहितं ब्रह्म तद्वृत्त्या विविक्ततयो- पलभ्यत इति । न ह्यन्यथा विशिष्टदेशकालसंबन्धोऽस्ति ब्रह्मणः सर्वगतत्वा- निर्विशेषत्वाच्च । यदुक्तं भूताकाशस्य परमत्वानुपपत्तिरिति तत्राऽऽह-यो वा इति । ननु निहित- शब्दः स्थिति ब्रूते कथं विविक्ततया स्फुटतयोपलम्भाभिप्रायेण व्याख्यायते तत्राऽऽह-न हीति । अन्यथेति । उपलम्भव्यतिरेकेणाविद्यावस्थायाम् । सोऽश्नुते सर्वान्कामान्सह । ब्रह्मणा विपश्चितेति । स एवं ब्रह्म विजानन्किमिन्याह--अश्नुते भुढे सर्वानिरवशिष्टान्कामा- न्भोगानित्यर्थः । किमस्मदादिवत्पुत्रस्वर्गादीन्पर्यायेण नेत्याह । सह युगपदेक- क्षणोपारूढानेवैकयोपलब्ध्या सवितप्रकाशवन्नित्यया ब्रह्मस्वरूपाव्यतिरिक्तया यामबोचाम सत्यं ज्ञानमनन्तमिति । एतत्तदुच्यते--ब्रह्मणा सहेति । ब्रह्मभूतो विद्वान्ब्रह्मस्वरूपेणैव सर्वान्कामान्सहाश्नुते, न यथोपाधिकृतेन स्वरूपेणाऽऽत्मना जलसूर्यकादिवत्प्रतिविम्बभूतेन सांसारिकेण धर्मादिनिमित्तापेक्षांश्चक्षुरादिकर- णापेक्षांश्च कामान्पर्यायेणानते लोकः । कथं तर्हि यथोक्तन प्रकारेण सर्वज्ञेन सर्वगतेन सर्वात्मना नित्यब्रह्मात्मस्वरूपेण धर्मादिनिमित्तानपेक्षांश्चक्षुरादि- करणनिरपेक्षांश्च सर्वान्कामान्सहैवाश्नुत इत्यर्थः । विपश्चिता मेधाविना सर्वज्ञेन १ स. ग. 'तनयेत्यवो ।

१ प्रथमोऽनुवाकः] तैत्तिरीयोपनिषत् । ५५ तद्धि वपश्चित्यं यत्सर्वतत्वं तेन सर्वज्ञस्वरूपेण ब्राह्मणाऽश्नुत इति । इतिशब्दो मन्त्रपरिसमात्यर्थः । ये मुवर्षिापा निर्माधिए भाग्य नाभिमनाया सपा ब्रह्मानन्द्राव्यनि- कारलीशी विधामनिवाउनदानधन युपचोरण बचनमित्सर्यः । सर्व एव वल्लयों ब्रामचिदानानि परमिति ब्रामणवाक्येन मूत्रितः । स च सूत्रितोऽर्थः संक्षेपतो मन्त्रेण व्याख्यातः । पुनम्नस्यव विस्तरेणार्थनिर्णयः कर्तव्य टन्यत्तरम्नवृत्तिस्थानीयो ग्रन्थ आरभ्यते नरमादा एतस्मादित्यादिः । तत्र च सत्यं ज्ञानमनन्तं ब्रामेत्युक्त मन्त्रादा तत्कयं सत्यं ज्ञानमनन्तं चेत्यत आह । तत्र त्रिविधं मानन्त्यं देशतः कालतो वस्तुतश्रेति । तद्यथा देगतोऽनन्त आकागो न हि देगतम्नस्य परिन्दोऽस्ति । न तु कालनधाऽऽनन्त्यं वस्तुत. थाऽऽकागम्य । कस्मान्कार्यत्वात् । नवं ब्रामण आकागवत्कालतोऽप्यन्तवत्त्वमका- यत्वात् । कार्य हि वस्तु कालेन परिन्छियने । अकार्य च ब्राम । तस्मात्का- लतोऽप्यनन्तम् । तथा वस्तुनः । कथं पुनर्वस्तुत आनन्त्यं सर्वानन्यत्वात् । भिन्नं हि वस्तु वस्त्वन्तरस्यान्तो भवनि । वस्त्वन्तर बुद्धिार्ह प्रसक्ता वस्त्व- न्तगनिवर्तते । यतो यस्य बुद्धविनिवृत्तिः स तस्यान्तः । तद्यथा गोत्वबुद्धिर- श्वत्वाहिनिवर्तत इत्यश्वत्वान्तं गोन्वमित्यन्तयदेव भवति । स चान्तो भिन्नेषु वस्तुपु दृष्टो नवं ब्रामणी भेदः । अतो वस्तुनोऽप्यानन्त्यम् । कथं पुनः सर्वा- नन्यत्वं ब्रामण इत्युच्यते, सर्ववस्तुकारणत्वात् । सर्वपां हि वस्तूनां काला- कागादीनां कारणं ब्रह्म । कार्यापेक्षया वस्तुतोऽन्तवत्त्वमिति चेन्न । अनृतत्वा- कार्यवस्तुनः । न हि कारणच्यतिरेकेण कार्यं नाम वस्तुतोऽस्ति । यतः कार- णबुद्धिर्विनिवर्तेत । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमेवं सदेव सत्यमिति श्रुत्यन्तरात् । तस्मादाकाशादिकारणत्वाद्देशतस्तावदनन्तं ब्रह्म । आकाशो हनन्त इति प्रसिद्धं देशतस्तस्य चायं कारणं तस्मात्सिद्धं देशत आत्मन आनन्त्यम् । न ह्यसर्वगतात्सर्वगतमुत्पद्यमानं लोके किंचिदृश्यते । अतो निरतिशयमात्मन आनन्त्यं देशतस्तथाऽकार्यत्वात्कालतस्तद्भिन्नवस्त्व- न्तराभावाच वस्तुतोऽत एव निरतिशयसत्यत्वम् । वृत्तमनुवदत्युत्तरग्रन्थावतारणाय-सर्व एवेत्यादिना । आकासादिकारणत्वाभिधाने- ५६ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता- [२ ब्रह्मवल्लषयावे- नाऽऽनन्त्यप्रपञ्चः क्रियत इति समैनन्तरग्रन्थतात्पर्य दर्शयितुं पूर्वोक्तष्वर्थविशेपमनुवदति- तत्र चेति । वस्तुत आनन्यं व्याख्यातुं वस्तुनोऽन्तवत्वं तावदाह-भिन्नं हीत्यादिना। विस्तरेणोक्तमानन्त्यं संक्षिप्याऽऽह--तस्मात्सिद्धमिनि । देशतोऽनवच्छिन्नस्याऽऽकाशस्थ कारणत्वाद्व्यापकवान्निरतिशयमात्मनो देशत आनन्त्यमकार्यत्वाच्च कालत आनन्यं तद्यतो व्यावर्तेत तस्य पृथगसत्त्वात्कार्यस्योपादानादन्यत्र सत्त्वायोगाद्वस्तुतोऽप्यानन्त्य सिद्धमि. त्यर्थः । अत इति । निरतिशयानन्यादेव सत्यत्वमपि सिद्धमन्तवत एव रज्जुसदिबद- सत्यत्वादित्यर्थः । -- तस्माद्वा एतस्मादात्मन एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अनेरापः । अद्भयः पृथिवी । पृथिव्या ओषधयः । ओषधीयोऽन्नम् । अन्नात्पुरुपः । स वा एष पुरुषोऽनरसमयः । तस्मादिति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते । एतस्मादितिमन्त्रवाक्येणा- नन्तरं यथालक्षितम् । यद्ब्रह्माऽऽदौ ब्राह्मणवाक्येन सूत्रिनं यच्च सत्यं ज्ञानम- नन्तं ब्रह्मेत्यनन्तरमेव लक्षितं तस्मादेतस्माद्ब्रह्मण आत्मन आत्मशब्दवांच्यात् । आत्मा हि तत्सर्वस्य तत्सत्यं स आत्मेति श्रुत्यन्तरादतो ब्रह्माऽऽत्मा । तस्मा- देतस्माद्ब्रह्मण आत्मस्वरूपादाकाशः संभूतः समुत्पन्नः । आकाशो नाम शब्द- गुणोऽवकाशकरो मूर्तद्रव्याणाम् । तस्मादाकाशात्स्वेन स्पर्शगुणेन पूर्वेण च . कारणगुणेन शब्देन द्विगुणो वायुः । संभूत इत्यनुवर्तते । वायोश्च स्वेन रूपगु- णेन पूर्वाभ्यां च त्रिगुणोऽग्निः संभूतः ! अग्नेः स्वेन रसगुणेन पूर्वैश्च त्रिभिश्च. तुर्गुणा आपः संधूताः। अद्भ्यः स्वेन गन्धगुणेन पूर्वेश्चतुर्भिः पञ्चगुणा पृथिवी संभूता । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नाद्रेतोरूपेण परिणतात्पुरुपः शिरःपाण्याद्याकृतिमान् । स वा एप पुरुपोऽन्नरसमयोऽन्नर- सविकारः । पुरुपाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतं रेतो वीज तस्माद्यो जायते सोऽपि तथा पुरुपाकृतिरेव स्यात् । सर्वजातिषु जायमानानां जनकाकृतिनियमदर्शनात् । १ स. ग. °ममयन्यस्य ता । २ ड. ठ. पाच्यत्वात् ।

१ प्रथमोऽनुवाकः ] तसिरीयोपनिषत् । एवं सृष्टिवाक्यतात्पर्यमुक्त्वा पदानि विभजते-तस्मादित्यादिना। अन्त्यकार्य- पर्यन्तं परमात्मनः सर्वनोपादानत्वादाकाशभावापन्नात्परमात्मन एव वायुः संभृतोऽत एव तद्गुणस्योत्तरत्रानुवृत्तिर्गुणशब्दप्रयोगोऽपि भेदकल्पनया सत्तचत्वाभिमायेण न वैशेषिकपक्ष- पत्तत्त्रभेदाभिप्रायेण तत्त्वतो भेदे प्रमाणाभावादिति द्रष्टव्यम् । सर्वेपामप्यन्नरसविकारत्वे ब्रह्मवंश्यत्वे चाविशिष्टे, कस्मात्पुरुष एवं गृह्यते प्राधान्यात् । किं पुनः प्राधान्यम् । कर्मज्ञानाधिकारः । पुरुष एव हि शक्तत्वा. दर्थित्वादपर्युदस्तत्वाच्यार्थी विद्वान्समर्थः कर्मज्ञानयोरधिक्रियते-"पुरुषे स्वेचाऽs. विस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोको मत्र्येनामृतमीप्सति" इत्येवं संपन्नः, अथेतरेषां पशूना- मशनापिपासे एवाभिविज्ञानमित्यादिश्रुत्यन्तरदर्शनात् । पुरुषग्रहणस्य तात्पर्यमाह-सर्वेषामपीति । शक्तत्वादिति विधिनिषेधविवेकसामयो- पेतत्त्वादिरयुक्तं तत्रैतरेयकश्रुतिसमतिमाह-पुरुषे त्वेवेति । ब्राह्मण्यादिजातिमति मनु प्यादिदेह आविस्तरामतिशयेन प्रकट आत्मा ज्ञानातिशयदर्शनादित्यर्थः । मयेन ज्ञान. कर्मादिसाधनेनाक्षयफलं प्राप्तुमिच्छतीत्यर्थः । येन विवेकज्ञानेन पुरुषस्य प्राधान्यं विव. क्षितं तत्पश्चादीना नास्तीत्याह--अथेतरेपामिति । तस्येदमेव शिरः । अयं दक्षिणः पक्षः अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छे प्रतिष्ठा । तदप्येष श्लोको भवति ।। इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये प्रथमोऽनुवाकः ॥ १ ॥ स हि पुरुष इह विद्ययाऽन्तरतमं ब्रह्म संक्रामयितुमिष्टस्तस्य च बाह्याकार- विशेषेवनात्मस्वात्मभाविता बुद्धिरनालम्ब्य विशेष कंचित्सहसाऽन्तरतमप्रत्य- गात्मविपया निरालम्बना च कर्तुमशक्येति दृष्टशरीरात्मसामान्यकल्पनया शाखाचन्द्रनिदर्शनवदन्तः प्रवेशयन्नाह-तस्येदमेव शिरः । तस्यास्य पुरुषस्या- नरसमयस्येदमेव शिरः प्रसिद्धम् । प्राणमयादिष्वशिरसां शिरस्त्वदर्शनादिहापि १ ख, ग. ब्रह्माशत्वे । २ व. ट. 'रूपत्वे वा ।

५८ आनन्दगिरिकृतटीकासंवलितशोकरभाष्यसमेता-[२ ब्रह्मवल्ल्पध्याये- तत्प्रसङ्गो मा भूदितीदमेवः:शिर इत्युच्यते । एवं पक्षादिपु योजना । अयं दक्षिणो बाहुः पूर्वाभिमुखस्य दक्षिणः पक्षः । अयं सव्यो वाहुरुत्तरः पक्षः । अयं मध्यमो देहभाग आत्माऽङ्गानाम् । “ मध्यं ह्येषामङ्गानामात्मा" इति श्रुतेः । इदमिति नाभेरधस्ताद्यदङ्गं तत्पुच्छं प्रतिष्ठा । प्रतितिष्ठत्यनयति प्रतिष्ठा पुच्छमिव पुच्छमधोलम्बनसामान्यायथा गोः पुच्छम् । एतत्पकृत्योत्तरेषां माणमयादीनां रूपकत्वसिद्धिः । मूषानिषिक्तद्रुतताम्रप्रतिमावत् । तदप्येप श्लोको भवति । तत्तस्मिन्नेवार्थे ब्राह्मणोक्तेऽन्नमयात्मप्रकाशक एष श्लोको मन्त्रो भवति। *इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंक- रभगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीयब्रह्मवल्ल्यध्यायभाष्ये प्रथमोऽनुवाकः ॥ १॥ कोशपञ्चकोपन्यासस्य तात्पर्यमाह-स हीत्यादिना । पक्षपुच्छशब्दप्रयोगात्सुपर्णा- कारक्लति दर्शयति । उत्तरत्र तत्कल्पनया बाह्यविषयासङ्गव्यपोहेन बुद्धरात्मनि स्थिरी- करणार्थ नोपासन विधानमिह विवक्षितम् । उपक्रमोपसंहारयोर्ब्रह्मात्मैकत्वप्रतिपादनेनैवो- पक्षयान्मध्ये ग्रन्थस्योपासनविधी तात्पर्ये च वाक्यभेदप्रसङ्गादत एवाङ्गे स्तुतिः परार्थत्वा. दितिन्यायेन यथा प्रयाजादिषु फलश्रवणमर्थवादस्तथाऽन्नमयादिप्रतिपत्तेरपि फलश्रवण. मर्थवाद एव तत्तद्बुद्धिस्थिरीकारस्य पूर्वपूर्वबुद्धिविलापनेनाऽऽस्मनः प्रतिपत्तिशेषत्वादिति द्रष्टव्यम् । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यामन्दज्ञानविरचिताया तैत्ति- रीयोपनिषच्छाकरभाष्यदीकाया दितीयब्रह्मपल्ल्यध्याये प्रथमोऽनुवाकः ॥१॥ अथ ब्रह्मवल्ल्यध्याये, द्वितीयोऽनुवाकः । अन्नाद्वै प्रजाः ,प्रजायन्ते । याः काच पृथिवी५ श्रिताः । अथो अन्नेनैव जीवन्ति। अथैनाप यन्त्यन्ततः । अन्न हि भूताना ज्येष्ठम् । तस्मात्सर्वोषधर्मुच्यते । - . * अब भाष्ये टीकाया च वैदिकपाठ'नुसारिमूलानुरोधेनैगनुगकसमाप्तिर्मथिता । एवमेव पुरतोऽपि ब्रह्मवल्लीसमातिपर्यन्तं ज्ञेयम् ।

२ द्वितीयोऽनुवाकः ] तैत्तिरीयोपनिषत् । अन्नाद्रसादिभावपरिणतात् । वा इति स्मरणार्थः । प्रजाः स्थावरजङ्गमाः मजायन्ते । याः काश्चाविशिष्टाः पृथिवीं श्रिताः पृथिवीमाश्रितास्ताः सर्वा अन्नादेव प्रजायन्ते । अथो अपि जाता अनेनैव जीवन्ति माणान्धारयन्ति वर्धन्त इत्यर्थः । अथाप्येनदन्नमपि यन्त्यपि गच्छन्ति । अपिशब्दः प्रतिश- दार्थे । अन्नं प्रति प्रलीयन्त इत्यर्थः । अन्ततोऽन्ते जीवनलक्षणाया वृद्धः परिसमाप्तौ । कस्मात् । अन्नं हि यस्माद्भूतानां प्राणिनां ज्येष्ठं प्रथमजम् । अन्नमयादीनां हीतरेप भूतानां कारणमन्नमतोऽन्नप्रभवा अनजीवना अन्नप्र- लयाश्च सर्वाः प्रजाः । यस्माच्चैवं तस्मात्सर्वोपधं सर्वप्राणिनां देहदाहप्रशमन- मन्त्रमुच्यते । सर्व पै तेऽनमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते । अन्न हि भूतानां ज्येष्ठम्। तस्मात्सर्वोषधर्मुच्यते । अन्नाद्भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति । अन्नब्रह्मविदः फलमुच्यते । सर्वं चै ते समस्तमन्नजातमाप्नुवन्ति । के । येऽन्नं ब्रह्म यथोक्तमुपासते । कथमन्नजोऽन्नात्माऽनप्रलयोऽहं तस्मादग्नं ब्रह्मति । कृतः पुनः सन्निप्राप्तिफलमन्नात्मोपासनमित्युच्यते । अन्नं हि भूतानां ज्येष्ठम् । भूतेभ्यः पूर्व निष्पन्नत्वाजत्येष्ठं हि यस्मात्तस्मात्सवौषधमुच्यते । तस्मादुपपन्ना सर्वानात्मोपासकस्य सर्वानप्राप्तिः । अन्नाद्भूतानि जायन्ते । जातान्यनेन वर्धन्त इत्युपसंहारार्थ पुनर्वचनम् । इदानीमन्ननिर्वचनमुच्यते । अद्यते भुज्यते चैव यद्भूतैरन्नमत्ति च भूतानि स्वयं तस्माद्भूतैर्भुज्यमानत्वाद्भूतभोक्तृत्वाचान्नं, तदुच्यते । इतिशब्दः प्रथमकोशपरिसमाप्त्यर्थः । तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । अन्नमयादिभ्य आनन्दमयान्तेभ्य आत्मभ्योऽभ्यन्तरतमं ब्रह्म विद्यया प्रत्य- गात्मत्वेन दिदर्शयिषु शास्त्रमविद्याकृतपञ्चकोशापनयनेनानेकतुषकोंद्रववितुषी. १ छ. °च । भूतानि स्वयं य मा नस्माइन्न तद्न्यते । इनि श ।

६० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-२ ब्रह्मवल्यन्याये- करणेनेव तदन्तर्गततण्डुलान्यस्तौति तस्माद्वा एतस्मादन्नरसमयादित्यादि । तस्मादेतस्माद्यथोक्तादम्बरसमयात्पिण्डादन्यो व्यतिरिक्तोऽन्तरोऽभ्यन्तर आत्मा पिण्डवदेव मिथ्यापरिकल्पित आत्मत्वेन प्राणमयः प्राणो वायुस्तन्म- यस्तत्प्रायः । तेन प्राणमयेनान्नरसमय आत्मैप पूर्णो वायुनेव दृतिः । स वा एप पुरुषविध एव । तस्य पुरुषविध- ताम् । अन्वये पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकांश आत्मा । पृथिवी पुच्छे प्रतिष्ठा । तदप्येष श्लोको भवति । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये द्वितीयोऽनुवाकः ॥ २॥ स वा पप प्राणमय आत्मा पुरुषविध एव पुरुषाकार एव । शिरःपक्षा- दिभिः किं स्वत एव, नेत्याह । प्रसिद्धं तावदन्नरसमयस्याऽऽत्मनः पुरुपवि. धत्वम् । तस्यान्नरसमयस्य पुरुषविधतां पुरुषाकारताम् । अन्वयं प्राणमय: पुरुपविधो मूषानिपिक्तप्रतिमावन्न स्वत एव । एवं पूर्वस्य पूर्वस्य पुरुषविध- तामनूत्तरोत्तरः पुरुषविधो भवति. पूर्वः पूर्वोत्तरोत्तरेण पूर्णः । कथं पुनः पुरु- पविधताऽस्येत्युच्यते । तस्य प्राणमयस्य प्राण एवं शिरः प्राणमयस्य वायु- विकारस्य माणो मुखनासिकानिःसरणो वृत्तिविशेषः शिर एव परिकल्प्यते वंचनात् । सर्वत्र वचनादेव पक्षादिकल्पना । व्यानो व्यानवृत्तिर्दक्षिणः पक्षः । अपान उचरः पक्षः । आकाश आत्मा य आकाशस्थो वृत्तिविशेषः समा- नाख्यः स आत्मेवाऽऽत्मा प्राणवृत्त्यधिकारान्मध्यस्थत्वादितराः पर्यन्ता वृत्ती- रपेक्ष्याऽऽत्मा । “ मध्यं ह्येषामङ्गानामात्मा इतिश्रुतिप्रसिद्धं मध्यमस्थ. स्याऽऽत्मत्वम् । पृथिवी- पुच्छं प्रतिष्ठा । पृथिवीति पृथिवी देवताऽऽध्या- त्मिकस्य प्राणस्य धारयित्री स्थितिहेतुत्वात् । " सैषा पुरुषस्यापानमव- एभ्य " इति हि श्रुत्यन्नम्म् । अन्यथोदानवृत्त्योर्ध्वगमनं गुरुत्वाच पतनं - १च. °न्प्रसौति । , L- .

३ तृतीयोऽनुनाकः] तैत्तिरीयोपनिषत् । वा स्याच्छरीरस्य तस्मात्पृथिवी देवता पुच्छं प्रतिष्ठा प्राणमयस्याऽऽत्मनः । वत्तस्मिन्नेवार्थे प्राणमयात्मविषय एष श्लोको भवति । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीयब्रह्मवल्लयध्यायभाष्ये द्वितीयोऽनुवाकः ॥ २॥ शते कीमत्परमहंसपरिवानकाचार्यश्रीमच्छकरभगवच्छिण्यानन्दज्ञानचिरवितायां तैत्ति. रायोपनिषरिभाष्यीकाय ब्रह्मवल्यध्याय दिनीयोऽनुवाकः ॥ २ ॥ अथ ब्रह्मवढ्यध्याये तृतीयोऽनुवाकः । प्राणं देवा अन प्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः। तस्मात्सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । माणं देवा अनु प्राणन्ति । देवा अग्न्यादयः प्राणं वाय्वात्मानं प्राणनश- तिमन्तमनु तदात्मभूताः सन्तः प्राणन्ति प्राणनकर्म कुर्वन्ति प्राणनक्रियया क्रियावन्तो भवन्ति । अध्यात्माधिकाराद्देवा इन्द्रियाणि प्राणमनु प्राणन्ति मुख्यप्राणमनु चेष्टन्त इति वा । तथा मनुष्याः पशवश्च ये ते प्राणनकर्मणैव चेष्टावन्तो भवन्ति । अतश्च नान्नमयेनैव परिच्छिन्नेनाऽऽत्मनाऽऽत्मवन्तः प्राणिनः। किं तर्हि तदन्तर्गतेन प्राणमयेनापि साधारणेनैव सर्वपिण्डव्यापिनाऽऽत्मवन्तो मनुष्यादयः । एवं मनोमयादिभिः पूर्वपूर्वव्यापिभिरुत्तरोत्तरैः सूक्ष्मैरानन्दमया- वैराकाशादिभूतारब्धैरविद्याकृतैरात्मवन्तः सर्वे प्राणिनः । तथा स्वाभाविके- नाप्याकाशादिकारणेन नित्येनाविकृतेन सर्वगतेन सत्यज्ञानानन्तलक्षणेन पञ्चकोशातिगेन सर्वात्मनाऽऽत्मवन्तः । स हि परमार्थत आत्मा सर्वेषामित्येतद- प्यर्शदुक्तं भवति । प्राणं देवा अनु प्राणन्तीत्युक्तं तत्कस्मादित्याह । प्राणो हि १ ख. ग. ड. °णिनो यथाऽनेमास्तुषकोवास्तथा ।

६२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२ब्रह्मवल्ल्यध्याये- यस्माद्भूतानां प्राणिनामायुजीवनम् । " यावद्धद्यस्मिञ्शरीरे प्राणो, वसति तावदायुः इति श्रुत्यन्तरात् । तस्मात्सर्वायुषम् । सर्वेषामायुः सर्वायुः सर्वायुरेव सर्वायुपमित्युच्यते प्राणापगमे मरणप्रसिद्धः। प्रसिद्धं हि लोके सर्वायुष्टं प्राणस्य । अतोऽस्माद्वाह्यादसाधारणादन्नमयादात्मनोऽपक्रम्यान्तः साधारणं प्राणमयमात्मानं ग्रह्मोपासते येऽहमस्मि प्राणः सर्वभूतानामात्माऽऽ. युीवनहेतुत्वादिति ते सर्वमेवाऽऽयुरस्मिल्लोके यन्ति नापमृत्युना म्रियन्ते *पाक्साप्तादायुष इत्यर्थः । शतं वर्षाणीति तु युक्तं सर्वमायुरिति श्रुतिप्रसिद्धः। किं कारणं प्राणो हि भूतानामायुस्तस्मात्सर्वायुपमुच्यत इति । यो यद्गुणक ब्रह्मोपास्ते स तद्गुणभाग्भवतीति विद्याफलप्राप्तेहेत्वर्थं पुनर्वचनं प्राणो हीत्यादि । तस्य पूर्वस्यान्नमयस्यैष एव शरीरेऽन्नमये भवः शारीर आत्मा । कः । य एष प्राणमयः । पूर्वपूर्वकोशस्योत्तरोत्तरः कोश एवाऽऽत्मेति व्याख्यातमापातदर्शनेन,, तदसत् । आत्मशब्दस्यामुख्यार्थत्वप्रसङ्गात्प्रकृतपरामर्शकैतच्छब्दकोपाच्च । अतः सर्वकोशाध्या- साधिष्ठानभूतश्चिदात्मैवात्राऽऽमशब्देन विवक्षित इति तात्पर्यमाह-तथा स्वाभावि. केनेति । अर्थादिति । आत्मशब्दसामर्थ्यात्कल्पितस्याधिष्ठानत्वानुपपत्तेश्चेत्यर्थः । असाधारणादिति । व्यावृत्तस्वरूपात् । अपक्रम्य तत्राऽऽत्मबुद्धिं हित्वेत्यर्थः । साधा- रणमिति । सर्वेन्द्रियसाधारणम् । प्राणकृतेनाशनादिना सर्वेपा पुष्टयादिदर्शनादित्यर्थः । सर्वभूतानामात्मेति ! सूत्रात्मना पूर्वस्य य आत्मा चिद्धातुरेप एव तस्य प्राणमयस्याऽऽ. स्मेति योजना । तस्माद्वा एतस्मात्माणमयात् । अन्योऽन्सर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वय पुरुषविधः । तस्य यजुरेव शिरः । सामोत्तरः पक्षः। ऋग्दक्षिणः पक्षः । - * प्राप्तादायुषः पागपमृत्युना न मियन्त इति योजना । १ न पाक्शतादा।

३ तृतीयोऽनुवाफः तैत्तिरीयोपनिषत् । ६३ तस्माद्वा एतस्मादित्युक्तार्थमन्यत् । अन्योऽन्तर आत्मा मनोमयः । मन इति संकल्पाद्यात्मकमन्तःकरणं तन्मयो मनोमयो यथाऽनमयः । सोऽयं माणमयस्याऽऽभ्यन्तर आत्मा । तस्य यजुरेव शिरः । यजुरित्यनियताक्षरपा- दावसानो मन्त्रविशेपस्तज्जातीयवचनो यजुःशब्दस्तस्य शिरस्त्वं प्राधान्यात् । प्राधान्यं च यागादौ संनिपत्योपकारात् । यजुपा हि हविर्दीयते 'स्वाहाकारा- दिना । वाचनिकी वा शिरआदिकल्पना सर्वत्र । मनसो हि स्थानप्रयत्न- नादस्वरवर्णपदवाक्यविपया तत्संकल्पात्मिका तद्भाविता वृत्तिः श्रोत्रादिकरण- द्वारा यजुःसंकेतविशिष्टा यजुरित्युच्यते । एवमृगेवं साम च । एवं च मनोवृत्तित्वे मन्त्राणां वृत्तिरेवाऽऽवर्त्यत इति मानसो जप उपपद्यते । अन्यथाऽविषयत्वा. न्मन्त्रों नाऽऽवर्तयितुं शक्यो घटादिवदिति मानसो जपो नोपपद्यते । मन्त्रा. त्तिश्च चोद्यते बहुशः कर्मसु । अक्षरविषयस्मृत्यावृत्त्या मन्त्रावृत्तिः स्यादिति चेन्न । मुख्यार्थासंभवात् । “ त्रिः प्रथमामन्वाह त्रिरुत्तमाम् " इति ऋगावृत्तिः भूयते । तत्र!ऽविषयत्वे तद्विपयस्मृत्यावृत्तौ च क्रियमाणायां त्रिः प्रथमा- नन्वाहेति ऋगावृत्तिर्मुख्योऽर्थचोदितः परित्यक्तः स्यात् । तस्मान्मनोवृत्त्युपा- धिपरिच्छिन्नं मनोवृत्तिनिष्ठमात्मचैतन्यमनादिनिधनं यजुःशब्दवाच्यमात्मविज्ञानं मन्त्रा इति । एवं च नित्यत्वोपपत्तिर्वेदानाम् । अन्यथा विषयत्वे रूपादिवद- नित्यत्वं च स्यान्नैतद्युक्तम् । “ सर्वे वेदा यत्रैकं भवन्ति स मानसीन आत्मा इति च श्रुतिनित्यात्मनकन्वं ब्रुवत्यृगादीनां नित्यत्वे समञ्जसा स्यात् । “ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः" इति च मन्त्रवर्णः । यजुःशब्देन बाह्यो यजुर्वेद उच्यते । तस्य कथमान्तरं मनोमयं प्रति शिरस्त्वमि- त्याशङ्कयाऽऽह-मनसो हीति । यद्यपि यजुःशब्दो बाह्य शब्दराशौ रूढस्तथाऽपि श्रुतेरनतिशकनीयत्वात्ताप्रामाण्याद्विशिष्टमनोवृत्तिर्यजु:संकेतविषयभूता यजुर्वेदमधीमह एत- स्क्रमका वर्णा यजुर्वेदतयाऽध्येतव्या इत्येवं संकल्परूपा ग्राह्येत्यर्थः । श्रुत्यनुग्रा. हिकां युक्तिमप्याह-. एवं चेति । अन्यथेति । शब्दाना घटादिवद्वाह्यद्रव्यत्वे मनो- विषयत्वासंभवान्मनसो बोऽर्थेऽस्वातत्रयान्मानसो जपो न स्यादित्यर्थः । इतश्च मनो- वृत्तित्वं मत्राणां वाच्यमित्याह--मन्त्रावृत्तिश्चेति । शब्दाना घटादिवा व्यत्वे मत्राणां घटादिवदावृत्तिर्नोपपद्यते क्रियैव ह्यावर्त्यते । आवृत्तिसिद्धयनुपपरया क्रियास्त्र याच्यमित्युक्तं तत्रान्यथाऽप्युपपत्तिमाशङ्कते--अक्षरविषयेति । मन्त्रेभ्यः स्मृते- १ ख. ग. तिविध्यनु ।

आनन्दगिरिकृतटीकासवलितशांकरभाष्यसमेता-[ ब्रह्मलल्पध्याय-
।
रन्यत्वादन्याऽऽवृत्तिौणी प्रसंज्यतेऽतो नान्यथाऽप्युपपत्तिरित्युक्तमेतरस्फुटयति-त्रिः
प्रथमामित्यादिना । सामिधेन्यः समिधो यदाऽध्वर्युणा हृयन्ते तदा “प्रवो वाजा अभि-
द्यवः" इत्यष्टादशचं सुकं होता शंसति तासां चची मध्ये प्रथमाचं सूक्तस्यान्त्यां चर्च
होता त्रिरनुयादित्यावृत्तिः श्रूयत इत्यर्थः । मन्त्राणा मनोवृत्तित्वमुक्त्वा मनोवृत्तीना सदा
चिद्व्याप्तत्वेनैव सिद्धेश्चिदात्मतामाह-तस्मादिति । मन्त्राणा मने वृत्तिवेनाऽऽवृत्तिर्बटन
इत्युक्तम् । परम्परया चिदात्मत्वेन नित्यत्वमपि घटत इत्याह-एवं चेति । चैतन्यल.
पत्वे सति । अन्यथेति । स्वप्रकाशचिदात्मत्वानगीकारे रूपादिवद्विषयवादनित्यत्वमपि
प्रसज्येत । कालिदासादिवाक्यानामप्येतेन न्यायेन नित्यत्वापातायुक्याभासमेतत् । अस्त्र-
नित्यत्वमिति न वाच्यमित्याह-नयुक्तमिति । वाचा विरूप नित्ययेति श्रुत्या नित्यत्र.
स्याऽऽवेदितत्वाद्वेदानित्यत्वं युक्तं न भवतीत्यर्थः । वेदाना जडत्रे स्वप्रकाशनाऽऽन्मनकवं
न संभवति जडाजडयोविरोधादतो मनोवृत्तिव्यापकचिदात्मत्वं सूचितमित्यर्थः । साक्षि-
तया मनसि भवो मानसीनोऽक्षरे परमे व्योमकल्ले ब्रह्मणि ऋची विधिनिषेधलपा निपेदु-
स्तादात्म्येन व्यवस्थिता इति च मन्त्रवर्ण एकत्वं दर्शयतीत्यर्थः ।
ओदेश आत्मा । अथर्वाङ्गिरसः पुच्छे
प्रतिष्ठा । तदप्येष श्लोको भवति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये
तृतीयोऽनुवाकः ॥ ३ ॥
आदेशोऽत्र ब्राह्मणमतिदेष्टव्यविशेपानतिदिशतीति । अथर्वाङ्गिरसा च दृष्टा
मन्त्रा ब्राह्मणं च शान्तिकपौष्टिकादिप्रतिष्ठाहेतुकर्मप्रधानत्वात्पुच्छं प्रतिष्ठा ।
तदप्येप श्लोको भवति मनोमयात्मप्रकाशकः पूर्ववत् ।
इति श्रीमन्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर-
भगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीयब्रह्मवल्ल्यन्यायभाष्ये
तृतीयोऽनुवाकः ॥३॥
अतिदेष्टव्यविशेपान्कर्तव्यविशेपानिदमेवं कर्तव्यमित्युपदिशतीत्यर्थः ।
इति श्रीम-परमहंसपरिव्राजकाचार्यश्रीमच्छकरभगवच्छिष्यानन्दज्ञानविरचिताया तैत्तिरी
योपनिपच्छांकरभाष्यटीकाया ब्रह्मवल्ल्यव्याये तृतीयोऽनुवाकः ॥ ३ ॥

१ पार्योऽनुवाकः] तैत्तिरीयोपनिषत् । ६५ अब बामपस्त्यध्याये बतयोऽनुयाकः । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मगो विद्वान् । न बिभेति कदा- चनेति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैप पूर्णः । स वा एप पुरुपविध एव । तस्य पुरुपविधताम् । अन्वय पुरुषविधः । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सहेत्यादि । तस्य पूर्वस्य माणम- यस्वैप एवाऽऽत्मा शारीरः शरीरे प्राणमये भवः शारीरः । कः । य एप मनोमयः । तस्माता एतस्मादित्यादि पूर्ववत् । अन्योऽन्तर आत्मा विज्ञानमयो मनोमयस्याऽऽभ्यन्तरो विज्ञा मयो मनोमयो वेदात्मोक्तः । वेदार्थविपया बुद्धिनिश्चयात्मिका विज्ञानं तचाध्यवसायलक्षणमन्तःकरणस्य धर्मः । तन्मयो निश्चयविज्ञानः प्रमाणस्वरूपनिव(न)र्तित आत्मा विज्ञानमयः। प्रमाणविज्ञा- नपूर्वको हि यज्ञादिरतायते । यज्ञादिहेतुत्वं च वक्ष्यति श्लोकेन । वाङ्मनसोङ्मनसगोचरत्वं नो पद्यते स्वात्मनि वृत्तिविरोधादतो वाङ्मनोविशिष्टा. न्मनोमयाहांचो मनसा सह निवर्तन्त इत्यर्थः । तस्य च मनोमयस्य ब्रह्मण उणसनफल. भूतमाधिदैविकमानन्दं विद्वान्न विभेति गर्भवासादिदुःखादित्यर्थः । ताऽध्यवसायलक्षणं लौकिकमपि विज्ञानं ग्राह्यमित्यर्थः । तस्य श्रद्धव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः १ ख. ह. च. त्यादिः । त' । २ क. ख. ग. छ. शादिः स्तूयौं । अ. द. दिर्जा- यते । , दिसायसे । ३ ८. "त्यर्थः । वेदायेति । त°1 ४ ज. अ. °था व्यवः । .

आनन्दगिरिकृतटीकासंवलितशाकरभाष्यसमेता---[२ब्रह्मवल्ल्यध्याये- . पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये चतुर्थोऽनुवाकः ॥ ४॥ निश्चयविज्ञानवतो हि कर्तव्येष्वर्थेषु पूर्व श्रद्धोत्पद्यते । सा सर्वकर्तव्यानां प्राथम्याच्छिर इव शिरः । ऋनसत्ये यथाव्याख्याते एव । योगो यक्तिः समाधानम् । आत्मेवाऽऽत्मा । आत्मवतो हि युक्तस्य समाधानवत्तोऽङ्गानीव श्रद्धादीनि यथार्थप्रतिपत्तिक्षमाणि भवन्ति, तस्मात्समाधानं योग आत्मा विज्ञानमयस्य । महः पुच्छे प्रतिष्ठा । मह इति महत्तत्त्वं प्रथमनम् । महद्यक्षं प्रथमजम् " इति श्रुत्यन्तरात् । पुच्छं प्रतिष्ठाकारणत्वात् । कारणं हि कार्याणां प्रतिष्ठा । यथा वृक्षवीरुधां पृथिवी । सर्वबुद्धिविज्ञानानां च महत्तत्त्वं कारणम् । तेन तद्विज्ञानमयस्याऽऽत्मनः प्रतिष्ठा । तदप्येप श्लोको भवति पूर्व- वत् । यथाऽन्नमयादीनां ब्राह्मणोक्तानां प्रकाशकाः श्लोका एवं विज्ञानमय- स्यापि॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्यायभाष्ये चतुर्थोऽनुवाकः ॥ ४ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचिताया तैत्तिरीयो. पनिपच्छाकरभाष्यदीकाया द्वितीये ब्रह्मवल्ल्यध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ - . , - 1 अथ ब्रह्मवैल्या - पञ्चमोऽनुवाकः । विज्ञान यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः स । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद । तस्माचेन्न प्रमायति । * शरीरे पाप्मनो हित्वा । सन्किामान्समश्नुत इति । विज्ञानं यई तनुते । विज्ञानवान्हि यज्ञं तनोति श्रद्धादिपूर्वकम् । अतो विज्ञानस्य कर्तृत्वं तनुत इति कर्माणि च तनुते । यस्मावि- * अब शकाराकारस्य सानुमातः पाठोऽपि वैदिकेषु प्रसिद्ध । - ५ नगगोऽनुवाकः] नैत्तिरीयोपनिपन् । ६७ जानकर्तृकं सर्वं तस्मायुक्तं विज्ञानमय आन्मा ब्रह्मति । किंच विज्ञानं ब्रह्म सर्व देवा इन्द्रादयो ज्येष्ठं प्रथमजत्वात्सर्वप्रवृत्तीनां वा तत्पूर्वकत्वात्प्रथम विज्ञानं ब्रह्मोपासते ध्यायन्ति तस्मिन्विज्ञानमये ब्रह्मण्यभिमानं कृत्वोपासत इत्यर्थः । तस्मात्त महतो ब्राह्मण उपासनाज्ञानश्चर्यवन्ता भवन्ति । तच्च विज्ञानं ब्रह्म द्यदि वेद विजानाति न केवलं पर्दव तस्माद्रह्मणश्चन्न प्रमाद्यति । वाह्येष्वेवाना- स्मस्वात्मभावितत्वात्प्राप्त विज्ञानमये ब्रह्मण्यात्मभावनायाः प्रमदनं, तन्निवृत्त्य- चमच्यने नम्मान्चन्न प्रमाद्यतीति । अन्नमयादिप्वात्मभावं हित्वा कवले विज्ञा- नमय ब्रह्मण्यात्मत्वं भावयन्नास्त चेदित्यर्थः । नतः किं स्यादित्युच्यते- शरीर पाप्मना हित्वा । शरीगाभिमाननिमित्ता हि सर्व पाप्मानस्तेपां च विज्ञा- नमय ब्रमण्यात्माभिमानानिमित्तापाये हानमुपपद्यते । छत्रापाय इव च्छाया- प्रायः । तम्मान्डरीगभिमाननिमित्तान्सर्वाम्पाप्मनः शरीरमभवाञ्शरीर एव हित्वा विज्ञानमयग्रामस्वरूपापन्नस्तस्थान्सर्वान्कामान्विज्ञानमयेनैवाऽऽत्मना समश्नुत सम्यग्भु इत्यर्थः । प्रथमजत्वादिति । हिरण्यगर्भामटेनत्यर्थ. । तस्यैप एव शागर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्मादिज्ञानमयात् अन्योऽन्तर आत्माऽऽनन्दमयः । तेनैप पूर्णः । स वा एप पुरुषविध, एव । तस्य पुरुपविधताम् । अन्य पुरुषविधः । तस्य पूर्वस्य मनोमयस्याऽऽन्मप एव शरीरे मनोपये भवः शारीरः । का। य एप विज्ञानमयः । तस्मादा. एतस्मादित्युक्तार्थम् । आनन्दमय इति कार्यात्मप्रतीतिरधिकारान्मयशब्दाच । अन्नादिमया हि कार्यात्मानो भौतिका इहाधिकृताः । तदधिकारपतितश्चायमानन्दमयः । मयट्चात्र विकासर्थे दृष्टो यथाऽन्नमय इत्यत्र । तस्मात्कार्यात्माऽऽनन्दमयः प्रत्येतव्यः । संक्रमणाच्च, आनन्दमयमात्मानमुपसंक्रामतीति वक्ष्यति । कार्यात्मनां च संक्रमणमनात्मनां दृष्टम् । संक्रमणकर्मत्वेन चाऽऽनन्दमय आत्मा श्रूयते । यथाऽसमयमात्मानमुपसंक्रामतीनि । न चाऽऽत्मन एवोपसंक्रमणम् । अधिकार- -- :

६८ आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता- [२ब्रह्मवलवथ्याये- विरोधादसंभवाच्च । न ह्यात्मनवाऽऽत्मन उपसंक्रमणं संभवति । स्वात्मनि भेदाभावात् । आत्मभूतं च ब्रा । संक्रमितुः शिरआदिकल्पनानुपपत्तेश्च । न हि यथोक्तलक्षण आकाशादिकारणेऽकार्यपतिते शिरआयवयवरूपकल्पनोपप- द्यते । अदृश्येऽनात्म्येऽनिलयनेऽनिरुक्तेऽस्थूलमनणु नेति नेत्यात्मेत्यादिविशे. पापोहश्रुतिभ्यश्च । मन्त्रोदाहरणानुपपत्तेश्च । न हि प्रियशिरआद्यवयवविशिष्टे प्रत्यक्षतोऽनुभूयमान आनन्दमय आत्मनि ब्रह्मणि नास्ति ब्रह्मेत्याशङ्काभावात् " असन्नेव स भवति । असब्रह्मति वेद चेत् इति मन्त्रोदाहरणमुपपद्यते। ब्रह्म पुच्छं प्रतिष्ठेत्यपि चानुपपन्नं पृथग्ब्रह्मणः प्रतिष्ठात्वेन ग्रहणम् । तस्मात्का- र्यपतित एवाऽऽनन्दमयो न पर एवाऽऽत्माऽऽनन्द इति विद्याकर्मणोः फलम् । तद्विकार आनन्दमयः । स च विज्ञानमयादन्तरः । यज्ञादिहेतोविज्ञानमयस्या- न्तर [ त्व ? ] श्रुतेः । ज्ञानकर्मणोहि फलं भोक्त्रर्थत्वादन्तरतमं स्यात् । अन्त- रतमथाऽऽनन्दमय आत्मा पूर्वेभ्यः । विद्याकर्मणोः प्रियाद्यर्थत्वाच्च। मियादि- प्रयुक्ते हि विद्याकर्मणी । तस्मात्मियादीनां फलरूपाणामात्मसंनिक विज्ञानम. यस्याऽऽभ्यन्तरत्वमुपपद्यते प्रियादिवासनानित्तो ह्यान दमयो विज्ञानमयाश्रितः स्वप्न उपलभ्यते । आनन्दमयः परमात्मेति वृत्तिकारैरुक्तं तनिषेधेन व्याचष्टे-कार्यात्मप्रतीतिरित्या- दिना । संक्रामतीत्येतदतिक्रामतीत्यभिप्रायेण व्याख्यातम् । प्रायभिप्रायं कस्मान व्याख्यायत इत्यतं आह-नं चाऽऽत्मन एवेति । अन्नमयादीनामतिक्रमणी तया प्रक- तत्वादेकस्य कर्तृत्वकर्मत्वासंभवाच प्राप्तिः संक्रमणं न भवतीत्यर्थः । आनन्दमयस्य परमा- त्मत्वासंभव हेत्वन्तराण्याह-शिरआदीत्यादिना । आनन्दमयस्य परमात्मत्यविवक्षायां मन्त्रे तस्यैवासत्त्वांशङ्का वक्तव्या । तदसंभवाच्च नाऽऽनन्दमयः परमात्मतया प्रतिपाद्यत इत्याह-मन्त्रोदाहरणानुपपत्तेश्चेति । न हि मन्त्रोदाहणमुपपद्यत इति संवन्धः । विशि- टस्य विशेषणकार्यत्वात्सुख्यहमित्युपलभ्यमानो भोक्ताऽऽनन्दमय इत्युक्तम् । कथं तस्य विज्ञानमयादान्तरत्वमित्यत आह--स चेति । कत्र पेक्षयों भोक्तृत्वस्योत्तरभावित्वं प्रसिद्ध- मेव श्रुत्पोक्तमित्यर्थः । एतत्स्फुटयति--ज्ञानकर्मणोहीति । शरीरादिभ्य आनन्दसाधनेभ्यः सकाशा सानाऽऽनन्देन विशिष्टोऽन्तरतमः प्रसिध्यतीत्यर्थः । किंच प्रियं च तसाधनं चोद्दिश्य कर्ता विज्ञानकर्मणी अनुतिष्ठति । तत उद्देश्यत्वादस्याऽऽन्तयं सिद्धमित्याह-- विद्याकर्मणोति । प्रियादिविशिष्टस्य स्वप्ने साक्षिणोपलभ्यत्वाच न मुख्यात्मत्वमित्याह- प्रियादिवासनेति । १ क, न ह्यात्मने । २ ख. ग. °या फलस्यो । ३ ख. ग. °दप्यानन्त- ५ पामोऽनुताफ.] तत्तिरीयोपनिषत् । ६९ - तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छे प्रतिः । तदप्येष श्लोको भवति । इति छष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीय ब्रह्मबल्ल्यध्याये पञ्चमोऽनुवाकः ।। ५ ।। तस्याऽनन्दमयस्वाऽऽत्मन इष्टपुत्रादिदर्शननं भियं शिर इव शिरः प्राधा- न्यात् । मोद इति मियलाभनिमित्तो हर्पः । स एव च नकृष्टो : प्रमोदः । सानन्द इति रखतामान्यमात्मा मियादीनां सुखावयवाना तेवनर यूतत्वादा- मन्द इति पर बल्ल । तद्धि शुभकर्मणा प्रत्युपस्थाप्यमाने पुत्रमित्राविपिय- विपोपाधावन्तःकरणवृत्तिविशेपे तमसा छाद्यमाने प्रसन्नेऽभिव्यज्यते । तद्विपय सुखमिनि प्रसिद्धं लोके । तद्वृत्तिविशेपमत्युपस्थापकस्य कर्मणोऽनव- स्थितत्वात्सुखस्य क्षणिकत्वम् । तद्यदाऽन्तःकरणं तपसा तमोमेन विद्यया ब्रह्मचर्येण श्रद्धया च निर्मलत्वमापद्यते यावद्यावत्तावत्तावद्विविक्ते प्रसन्नेऽन्तः- करण आनन्दविशेष उत्कृप्यते विपली भवति । वक्ष्यति च-"रसो वै सः । रस होवायं लब्ध्वाऽऽनन्दी भवति । एप होवाऽऽनन्दयाति । एतस्यैवाऽऽन- न्दस्यान्यानि भूनानि मात्रामुपजीवन्ति " इनि च श्रुत्यन्तरात् । एवं च कामोपगमोत्कर्षापेक्षया शतगुणोत्तरोत्तरोत्कर्ष आनन्दस्य वक्ष्यते । एवं चोत्कृ. प्यमाणस्याऽऽनन्दमयस्याऽऽत्मनः परमार्थब्रह्मविज्ञानापेक्षया ब्रह्म परमेव यत्मकृतं सत्यज्ञानानन्तलक्षणं यस्य च प्रतिपत्त्यर्थं पञ्चान्नादिमयाः कोशा उपन्यस्ताः । यच तेभ्योऽभ्यन्तरं येन च ते सर्व आत्मवन्तस्तद्ब्रह्म पुच्छं प्रतिष्ठा । तदेव च सर्वस्याविद्यापरिकल्पितस्य द्वैतस्यावसानभूतमद्वैतं ब्रह्म प्रतिष्ठा | आनन्दमयस्यैकत्वावसानत्वात् । अस्ति तदेकमविद्याकल्पितस्य दैतस्यावसानभूतमद्वैतं ब्रह्म प्रतिष्ठा पुच्छं तदेतस्मिन्नप्यर्थ एष श्लोको भवति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्थोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतो तत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये पञ्चमोऽनुवाकः ॥ ५॥ १ क, तद्यथाऽन्तः । ख. च. तबदन्तः ।

७०, आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता- [२ ब्रह्मवल्ल्यध्याय - । यदुक्त ज्ञानकर्मणोः फलभूत आनन्दमय इति तस्य साध्यत्वमापाधिकं स्त्रमतानुसार रेणाऽऽह-आनन्द इति । परमिति । कथं तर्हि विषयसुखस्य क्षणिकत्वं सातिशन. यत्वं च व्यखकवृत्तिनिवन्धनमित्याह-तद्वत्तिविशेषेति । ब्रह्मण आनन्दस्वभा- वत्त्व एव किं प्रमाणमित्यत आह-वक्ष्यति चेति । अन्तःकरणशुद्धयुत्कर्षादेवाऽs. नन्दस्य सातिशयत्वमित्यत्र लिङ्गमाह-एवं चेति । यदि विषयविशेषजन्यत्वेनाऽऽनन्दो. कर्पस्तदा निष्कामस्य विषयविशेषोपभोगासंभवादानन्दोत्क न श्राव्येत । आत्मस्वभावस्यै- वाऽऽनन्दस्य व्यश्वकान्तःकरणशुद्धयुत्कर्षादेवोत्कर्ष इत्येवं तु सत्यकामहतत्वोत्कर्षादुत्कर्षः संभाव्यत्न इत्यर्थः । उक्तप्रकारेण विषयानन्दस्य सातिशयत्वे सति तद्विशिष्टस्याऽऽनन्द. मयस्याब्रह्मत्वं सिद्धम् । सातिगयत्वेन प्रतिशरीरं भिन्नत्वात् । ब्रह्म तु तदध्यासाधिष्ठा- नमद्वितीयमित्याह--एवं चेति । एतस्मिन्नप्यर्थ इति । आनन्दमयस्य प्रतिष्ठाभूते- ब्रह्मप्रकाशनपर इत्यर्थः । इति श्रीमत्परमहसपरिवाजकाचार्यश्रीमच्छकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्ति- रीयोपनिषच्छाकरभाष्यटीकायां द्वितीये ब्रह्मवलयव्याये पञ्चमोऽनुवाकः ॥ ५॥ 1 अथ ब्रह्मवल्ल्यध्याये षष्टोऽनुवाकः । असंन्नेव से भवति । असद्ब्रह्मेति वेद चेत् । आस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति असन्नेवासत्सम एव यथाऽसन्न पुरुषार्थसंवन्ध्यव स भवति अपुरुषार्थ- संवन्धी । कोऽसौ । योऽसदविद्यमानं ब्रह्मेति वेद विजानाति चेद्यदि । तद्वि- पर्ययेण यत्सर्वविकल्पास्पदं सर्वप्रवृत्तिवीजं सर्वविशेषप्रत्यस्तमितमप्यस्ति तद्र- होत वेद चेत् । कुतः 'पुनराशङ्का तन्नास्तित्वे, व्यवहारातीतत्वं ब्रह्मण इति ब्रूमः। व्यवहारविषये हि' वाचारम्भणमात्रेऽस्तित्वभाविता बुद्धिस्तद्विपरीते व्यवहारातीते नास्तित्वमपि प्रतिपद्यते । यथा घटादिर्व्यवहारविषयतयोपपन्नः संस्तद्विपरीतोऽसमिति प्रसिद्धम् । एवं तत्सामान्यादिहापि स्याब्रह्मणो नास्ति- त्वप्रत्याशङ्का । तस्मादुच्यते-अस्ति ब्रह्मेति चेद्वेदेति । किं पुनः स्यात्तदस्तीति विजानतस्तदाह-सन्तं विद्यमानब्रह्मस्वरूपेण परमार्थसदात्मापन्नमेनमेवंविदं . १ के. ज. झ. न.ट. गवृत्त्यन्क ।

६ षष्ठोऽनुवाकः] तैत्तिरीयोपनिषत् । ७१ . विदुर्ब्रह्मविदस्ततस्तस्मादस्तित्ववेदनात्सोऽन्येषां ब्रह्मवद्विज्ञेयो भवतीत्यर्थः । अथवा यो नास्ति ब्रह्मेति मन्यते स सर्वस्यैव सन्मार्गस्य वर्णाश्रमादिव्यवस्था- लक्षणस्याश्रद्दधानतया नास्तित्वं प्रतिपद्यतेऽब्रह्मप्रतिपत्त्यर्थत्वात्तस्य । अतो नास्तिकः सोऽसन्नसाधुरुच्यते लोके । तद्विपरीतः सन्योऽस्ति ब्रह्मोति चेद्वेद स तद्ब्रह्मपतिपत्तिहेतुं सन्मार्ग वर्णाश्रमादिव्यवस्थालक्षणं श्रद्दधानतया यथा- वत्प्रतिपद्यते यस्मात्ततस्तस्मात्सन्तं साधुमार्गस्थमेनं विदुः साधवः । तस्मा- दस्तीत्येव ब्रह्म प्रतिपत्तव्यमिति वाक्यार्थः । तस्यैष एव शारीर आत्मा । m यः पूर्वस्य । अथातोऽनुप्रश्नाः। तस्य पूर्वस्य विज्ञानमयस्यैष एव शरीरे विज्ञानमये भवः शारीर आत्मा । कोऽसौ । य एष आनन्दमयः । तं प्रति नास्त्याशङ्का नास्तित्वे, अपोढसर्व- विशेषत्वात्तु ब्रह्मणो नास्तित्वं प्रत्याशङ्का युक्ता । सर्वसामान्याच्च ब्रह्मणो यस्मादेवमतस्तस्मात् । अथानन्तरं श्रोतुः शिष्यस्यानुप्रश्ना आचार्योक्तिमन्वेते प्रश्ना अनुप्रश्नाः। आनन्दमयस्य प्रकाशकोऽयं श्लोक इति केचन तान्प्रत्याह--तं प्रतीति । सविशेष. तया प्रत्यक्षत्वादित्यर्थः । सर्वेषा साधारणत्वाच्च ब्रह्मणो व्यवहार्यत्वं सर्वान्प्रति भवेन्न च दृश्यते ततोऽपि नास्तित्वाशङ्का जायत इत्यर्थः । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती३ । आहो विद्वान, लोकं प्रेत्य । कश्चित्सम॑श्नुता३ उ ! सामान्यं हि ब्रह्माऽऽकाशादिकारणत्वाद्विदुषोऽविदुषश्च । तस्मादविदुषोऽपि ब्रह्मप्राप्तिराशङ्कन्यते । उतापि । अविद्वानमुं लोकं परमात्मानमितः प्रेत्य कश्चन । चनशब्दोऽप्यर्थे । अविद्वानपि गच्छति प्रामोति किंवा न गच्छतीति द्विती- योऽपि प्रश्नो द्रष्टव्योऽनुप्रश्ना इति बहुवचनाद्विद्वांसं प्रत्यन्यौ प्रश्नौ । यद्यविद्वा- सामान्य कारणमपि ब्रह्म न,गच्छति ततो विदुषोऽपि ब्रह्मागमनमाशङ्कयते । अतस्तं प्रति प्रश्न आहो विद्वानिति । विद्वान्ब्रह्मविदपि कश्चिदितः प्रेत्यामु लोकं समश्नुते उ इत्येवं स्थितेऽयादेशे यलोपे च कृतेऽकारस्य प्लुतिः समश्नुता ७२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२ ब्रह्मबल्ल्यन्याये- 'उ इत्युकारं च वक्ष्यमाणमधस्तादपकृष्य तकारं च पूर्वस्मादुतशब्दावयास- ज्याऽऽहो इत्येतस्मात्पूर्वमुतशब्दं संयोज्य पृच्छयत उताऽऽहो विद्वानिति । विद्वान्समश्नुतेऽमुं लोकम् । आकाशादिकारणत्वादिति । भूतविशिष्टसर्वजीवकारणत्वादित्यर्थः । किंवा यथाऽविद्वानेव विद्वानपि न समश्नुत इत्यपरः प्रश्नः । द्वावेव वा प्रश्नी विद्वदविद्वद्विषयौ । बहुवचनं तु सामर्थ्यप्राप्तमश्नान्तरापेक्षया घटते । " असह्रोति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद " इति श्रवणादस्ति नास्तीति संशयस्ततोऽर्थप्राप्तः किमस्ति नास्तीति प्रथमोऽनुप्रश्नः । ब्रह्मणोऽपक्षपातिवाद- विद्वान्गच्छति न गच्छतीति द्वितीयः । ब्रह्मणः समत्वेऽप्यविदुष इव विदुषोऽ- प्यगमनमाशङ्कयते । किं विद्वान्समश्नुते न समश्नुत इति तृतीयोऽनुप्रश्नः । एतेषां प्रतिवचनार्थमुत्तरग्रन्थ आरभ्यते तत्रास्तित्वमेव तावदुच्यते । यचोक्तं "सत्यं ज्ञानमनन्तं ब्रह्म " इति, तच्च कथं सत्यत्वमित्येतद्वक्तव्यमितीदमुच्यते सत्त्वोक्त्यैव सत्यत्वमुच्यते । उक्तं हि " सदेव सत्यम् " इति । तस्मात्स- चोक्त्यैव सत्यत्वमुच्यते । कथमेचमर्थताऽवगम्यतेऽस्य ग्रन्थस्य शब्दानुगमा. दनेनैव ह्यर्थनान्दितान्युत्तराणि वाक्यानि । तत्सत्यमित्याचक्षते " " यदेष आकाश आनन्दो न स्यात् ” इत्यादीनि । कस्य सामर्थेन प्राप्त प्रश्नान्तरमित्यत आह असहमेतीति । पेच्छदात्याक्षिक. सत्त्वावगमस.मर्यादित्यर्थः । सत्त्वं चेदुपपन्नं ब्रह्मणस्तावतैव सत्यत्वं सिध्यति सनो बाधा. संभवादित्यर्थः । एवमर्थतेति । सत्त्वोपपादनेन सत्यवस्तुविषयतेत्यर्थः । तत्रासदेव ब्रह्मेत्याशङ्कयते । कस्मात् । यदस्ति तद्विशेपतो गृह्यते यथा घटादि । यन्नास्ति तन्नोपलभ्यते यथा शशविपाणादि । तथा नोपल- भ्यते ब्रह्म । तस्माद्विशेपतोऽग्रहणान्नास्तीति । तन्न । आकाशादिकार- णत्वाद्रह्मणः । न नास्ति ब्रह्म कस्मादाकाशादि हि सर्व कार्य ब्रह्मणो जातं गृह्यते । यस्माच्च जायते किंचित्तदस्तीति दृष्टं लोके यथा घटा- हदरादिकारणं मृद्धीजादि । तस्मादाकाशादिकारणत्वादस्ति ब्रह्म । न चासतो जातं किंचिद्गृह्यते लोके कार्यम् । असतश्चेन्नामरूपा.देकार्य नि- रात्मकत्वान्नोपलभ्येत । उपलभ्यते तु, तस्मादस्ति ब्रह्म । असतश्चे. स्कार्य गृह्यमाणमप्यसदन्वितमेव तत्स्यात् । न चैवं तस्मादस्ति ब्रह्म । १ स. ग. 'निता की।

.६ पष्ठोऽनुषाकः] तैत्तिरीयोपनिषत् । (. । ब्रह्मणः सत्त्वसाधनं नामासत्त्वव्यावृत्तिरेवेत्यभिप्रेत्यासत्त्वशङ्कामुद्भावयति-तत्रासदे. चति । विप्रतिपन्नमाकाशादि सत्पूर्वक कार्यत्वाद्घटवदिति लौकिकव्याप्त्यबष्टम्भेन सत्कारणे तावसिद्धम् । तस्य च देशादिकारणत्वेन देशाधनवच्छिन्नत्वाद्ब्रह्मपदवाच्यत्वं सिद्धम् । तस्य विशेषतोऽनुपलम्भेनासच्छङ्का जायते सा कारणवेन व्यावर्त्यतेऽनेन तु कारणवा- सत्त्वं साध्यत आश्रयासिद्धिप्रसङ्गादिति भावः । इतोऽपि जगदुपादाने नासत्वासका कार्येत्याह--न चासत इति । तंत्र कथमसतः सज्जायतेति श्रुत्यन्तरमसतः सज्जन्मासंभवमन्बाचष्टे न्यायतः। तस्मात्सदेव ब्रह्मति युक्तम् । तयदि मदीजादिवत्कारणं स्पादचेतनं तर्हि, न, कामयितृत्वात् । न हि कामयित्रचेतनमस्ति लोके । सर्वशं हि ब्रह्मेत्यवोचाम । अतः कामयितृत्वोपपत्तिः । कामयितृत्वादस्मदादिवदनासकामं चेत् , न । स्वातन्त्र्यात् , यथाऽन्यान्परवशीकृत्य कामादिदोषाः प्रवर्तयन्ति न तथा ब्रह्मणः प्रवर्तकाः कामाः । कथं तर्हि, सत्यज्ञानलक्षणाः स्वात्मभूतत्वाद्विशुद्धा न तैर्ब्रह्म प्रवर्त्यते । तेषां तु तत्प्रवर्तकं ब्रह्म प्राणिकर्मापेक्षया । तस्मात्स्वातन्त्र्यं कामेषु ब्रह्मणः । अतो नानाप्तकामं ब्रह्म साधनान्तरानपेक्षत्वाच्च । न्यायत इति । असदन्वयादर्शनादिति युक्तित इत्यर्थः । एवमसत्त्वाशङ्को निरस्याचे- तनत्वाशक्षा प्रधानवादिनः प्रसङ्गान्निराचष्टे--तथदीति । यद्यपि सांख्यमते चेतनस्य निर्विकारत्वात्कामयितृत्वमसिद्धं तथाऽपि लौकिकव्याप्तिबलेन कामपितृत्वादचेतनत्वशङ्का निवर्त्यत इत्याह--न हीति । तर्हि लौकिकव्याप्तिबलेनैवानाप्तकामत्वमपि प्राप्तमित्याश- इयाऽऽह-कामयितृत्वादित्यादिना । जीनानामनाप्तानन्दत्वं परवशत्वान्न तदस्ति ब्रह्मण इत्यर्थः । कथंभूतास्तर्हि ब्रह्मणः कामा इत्याशङ्कायामाह--सत्यज्ञानलक्षणा इति । सत्यज्ञान (नं ) लक्षणं स्वरूपं येषां ते तथोक्ताः । एतदुक्तं भवति, मायाप्र- तिविम्बितं हि ब्रह्म जगतः कारणं मायापरिणाभैरेव कामः कामयितृ । तेषा च परिणा- मानामविद्याद्यनभिभूतचिन्याप्तत्वात्सत्यज्ञानात्मकत्वं ब्रह्म तादात्म्याचाधर्माद्यननुस्पृष्टत्वेन शुद्ध- त्वम् । ततो जीवकामवैलक्षण्यं सिद्धमिति । तर्हि ब्रह्मणः कामाः पुग्यकारिणामप्यनिष्ट. फलमाप्त्यनुकूलाः स्युः स्वातन्त्र्यादित्याशङ्कयाऽऽह -तेषां त्विति । कामस्थ शरीरा. दिसंबन्धजन्यत्वप्रसिद्धेब्रह्मणः शरीरादिमत्त्वप्रसङ्ग इति नाऽऽशङ्कनीयमित्याह-साधना- न्तरानपेक्षत्वाचेति । कामसंस्कारवत्या मायाया ब्रह्मतादात्म्यात्तत्परिणामानां कामानां ब्रह्मतादात्म्यान्न शरीरादिनिमित्तापेक्षाऽस्तीत्यर्थः । .. : १२. ठ. तत्कथ। १० t. ७४ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता- [२ब्रह्मवल्ल्यध्याये- किंच यथाऽन्येषामनात्मभूता धर्मादिनिमित्तापेक्षाः कामाः स्वात्मव्यतिरि- क्तकार्यकरणसाधनान्तरापेक्षाश्च न तथा ब्रह्मणो निमित्ताद्यपेक्षत्वं किं तर्हि स्वात्मनोऽनन्यास्तदेतदाह- सोऽकामयत । बहु स्यां प्रजायेथेति । स तपोऽ- तप्यत । स तस्तप्त्वा । इद५ समसृजत । सोऽकामयत स आत्मा यस्मादाकाशः संभूतोऽकामयत कामितवान् । कथं, बहु स्यां बहु प्रभूतं स्यां भवेयम् । कथमेकस्यार्थान्तराननुप्रवेशे वहुत्वं स्यादि- त्युच्यते । प्रजायेयोत्पद्येय । न हि पुत्रोत्पत्त्येवार्थान्तरविषयं बहुभवनं कथं तात्मस्थानभिव्यक्तनामरूपाभिव्यक्त्या। यदाऽऽत्मस्थे अनभिव्यक्ते नाम- रूपे व्याक्रियेते तदा नामरूपे आत्मस्वरूपापरित्यागेनैव ब्रह्मणाऽपविभक्तदे- शकाले सर्वावस्थासु व्याक्रियेते तदा तनामरूपव्याकरणं ब्रह्मणो बहुभवनम् । नान्यथा निरवयवस्य ब्रह्मणो बहुत्वापत्तिरुपपद्यतेऽल्पत्वं वा । यथाऽऽकाश- स्याल्पत्वं बहुत्वं च वस्त्वन्तरकृतमेव । अतस्तद्द्वारेणैवाऽऽत्मा बहु भवति । न ह्यात्मनोऽन्यदनात्मभूतं तत्मविभक्तदेशकालं सूक्ष्म व्यवहितं विप्रकृष्टं भूतं भव- द्भविष्यद्वा वस्तु विद्यते । अतो नामरूपे सर्वावस्थे ब्रह्मणैवाऽऽत्मवती, न ब्रह्म तदात्मकम् । ते तत्प्रत्याख्याने न स्त एवेति तदात्मके उच्यते । ताभ्यां चोपा- धिभ्यां ज्ञातृज्ञेयज्ञानशब्दार्थादिसर्वसंव्यवहारभारब्रह्म । स आत्मवंकामः संस्त- पोऽतप्यत । तप इति ज्ञानमुच्यते । “ यस्य ज्ञानमयं तपः" इतिश्रुत्यन्तरादा- सकामत्वाचेतरस्यासंभव एव तपसः । तत्तपोऽतप्यत तप्तवान् । सृज्यमानजग- द्रचनादिविषयामालोचनामकरोदात्मेत्यर्थः। स एवमालोच्य तपस्तप्त्वा प्राणि- कर्मादिनिमित्तानुरूपमिदं सर्वं जगद्देशतः कालतो नाम्ना रूपेण च यथानुभवं सर्वैः प्राणिभिः सर्वावस्थैरनुभूयमानममृजत सृष्टवान् । तवारेणैवेति । नामरूपशक्त्यात्मकमायापरिणामबारेणैव । नामरूपशक्त्यामिका जडरूपा मायाऽङ्गीकृता चेत्तर्हि सा प्रयानवत्पृथक्सतीत्यद्वैतहानिरित्याशङ्कयाऽऽह- न हीति | आरमातिरिक्तं कि स्वतः सिध्यति परतो वा । नाऽऽद्यः । जाड्यहानेर- तिरेकहानेश्व | न द्वितीयः । प्रमासंसर्गानिरूपणात् । न च भिन्नदेशकालयोः संयो- १. ग. घ. 'रिकाः कार्यकार' । २ स. ग, घ, ८, ठ, °: 1 स तपोऽ ।

६ षष्ठोऽनुवाकः] तैत्तिरीयोपनिषत् । ७५ गादि संभवति विषयविषयिभावो वा । नियामकगवेषणात् । न च स्वभाव एव संबन्धः। द्वयोः स्वभावयोः संबन्धत्वनैवोपक्षये संबन्ध्यभावप्रसङ्गात् । न हि स्वात्मानं प्रति स्वस्यैव संबन्धित्वमात्माश्रयापातात् । तथाविधार्थाभावे व्यवहारमात्रप्रवर्तकत्वे च मिथ्याव्यवहारापातादनिर्वचनीयवाद एव पर्यवस्यतीति भावः । यस्मादात्मातिरिक्त वस्तु न सभाव्यते तस्मादात्मतादात्म्येनैव नामरूपयोः सिद्धिरित्याह--अत इति । तहि ब्रह्मणः सप्रपञ्चताप्रसङ्ग इति न वाच्यमित्याह-न ब्रह्मोति । न ब्रह्म तदात्म- कमजडत्वात्तत्परिहारेणापि सिद्धिसंभवादित्यर्थः । कथं तर्हि ते ब्रह्मात्मके तत्राऽऽह- ते तदिति । स्वभावबुद्धनभोभक्षणवदारोपितस्यानुभवप्रत्याख्यानेन सिद्धयसंभवाद- नुभाव्ये नामरूपे अनुभवात्मकब्रह्मात्मके कथ्यते न वैक्याभिप्रायेणेत्यर्थः । न केवलं ब्रह्मणो बहुरूपत्वं मायोपाधिकं सर्वव्यवहारास्पदत्वं चेत्याह-ताभ्यामिति । यदिदं किचे । तत्सृष्ट्वा । तदेवानुप्राविशत् । यदिदं किंच यत्किचेदमविशिष्टम् । तदिदं जगत्सृष्ट्वा किमकरोदित्युच्यते- तदेव सृष्टं जगदनुपाविशदिति । तत्रैतच्चिन्त्यं कथमनुप्राविशदिति । किं यः स्रष्टा स तेनैवाऽऽत्मनाऽनुमाविशदुतान्येनेति, किं तावद्युक्तम् । क्त्वाप्रत्ययश्रव- णायः स्रष्टा स एवानुमाविशदिति । प्रवेशस्यानिर्वाच्यताधोतनेन जीवस्य ब्रह्मात्मतायां प्रवेशवाक्यस्य तात्पर्य दर्शयितुं विचारमारभते--तत्रैतच्चिन्त्यमित्यादिना । विमर्श सति क्वाश्रुत्यनुरोधात्स्रष्टुरेव प्रवेश इत्युक्तं सिद्धान्तिना। ननु न युक्तं मृवच्चेत्कारणं ब्रह्म तदात्मकत्वात्कार्यस्य । कारणमेव हि कार्यात्मना परिणतभित्यतोऽप्रविष्ट इव कार्योत्पत्तेरूधं पृथक्कारणस्य पुनः प्रो- शोऽनुपपन्नः । न हि घटपरिणामव्यतिरेकेण मृदो घटे प्रवेशोऽस्ति । यथा घटे चूर्णात्मना मृदोऽनुप्रवेश एवमन्येनाऽऽत्मना नामरूपकार्थेऽनुपवेश आत्मन इति चेच्छ्रुत्यन्तराच्च “ अनेन जीवेनाऽऽत्मनाऽनप्रविश्य” इति । नैवं युक्तमेकत्वा- ब्रह्मणः । मृदात्मनस्त्वनेकत्वात्सावयवत्वाच्च युक्तो घटे मृदश्चूर्णात्मनाऽनुम- वेश । मृदचूर्णस्यामविष्टदेशवत्त्वाच्च । न त्वात्मन एकत्वे सति निरवयवत्वाद प्रविष्टदेशाभावाच्च प्रवेश उपपद्यते । कथं तर्हि प्रवेशः स्यात् । युक्तश्च प्रवेशः श्रुतत्वात्तदेवानमाविशदिति । सावयवमेवास्तु तर्हि सावयवत्वान्मुखे हस्तप्रवेश- वन्नामरूपकायें जीवात्मनाऽनुप्रवेशो युक्त एवेति चेन्नाशून्यत्वात् । न हि १ झ. उ. त्मनया प्र'।

७६ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[२ब्रह्मवल्ल्पध्यान- कार्यात्मना परिणतस्य नामरूपकार्यदेशव्यतिरेकेणाऽऽत्मशून्यः प्रदेशोऽस्ति यं प्रविशेज्जीवात्मना । कारणमेव चेत्मविशेज्जीवात्मत्वं जह्याद्यया घटो मृत्सवेशे घटत्वं जहाति । तदेवानुमाविशदिति च श्रुतेर्न कारणानुप्रवेशो युक्तः । पूर्ववाद्याह-ननु न युक्तमिति । सष्टिप्रवेशक्रिययोः पूर्वापरकालीनत्वसंभवे सति कत्रक्यं क्वाश्रुत्या बोधेत न तु प्रवेशस्योत्तरकालता संभवति । सृष्टिसमय एवोपा- दानस्य कार्यात्मनाऽवस्थितत्वादित्यर्थः । एतदेव विवृणोति-कारणमेव हीति । अप्रविष्टे यथा मठाटी देवदत्तस्य प्रवेशो, दृष्टस्तथा कार्योत्पत्तेरूद पृथक्प्रवेशो न संभवतीत्यर्थ. । सिद्धान्येकदेशिनां मतमुद्भाव्य पूर्ववादी दृषयति—यथा घट इत्या. दिना । स्रष्टुरन्यस्य वा प्रवेशो न संभवतीति चेत्कथं तर्हि प्रवेशो वाच्य इति सिद्धा- न्येकदेश्याह--कथमिति । नास्त्येवेति न वक्तव्यमित्याह-युक्तश्चेति । स एवाऽऽह गति–सावयवमेवोत । पूर्ववादी घयति-नाशून्यत्वादिति । कार्या- रमना परिणतस्य ब्रह्मणो नामरूपात्मकं कार्यमेव देशस्तद्वयतिरेकेण न झान्यः प्रदे- शोऽस्ति । यत्कारणमेव कार्याकारण परिणतं तत्पति कार्यविशेषो जीवात्मा प्रवेक्ष्य- तीति न शङ्कनीयमित्माह-कारणमेव चेदिति । कार्यविशेषस्य प्रवेशमङ्गीकृत्य दूप- णमुक्तं स न संभवति श्रुतिविरोधादित्याह-तदेवेति । कार्यान्तरमेव स्यादिति चेत् । तदेवानुप्राविशदिति जीवात्मरूपं कार्य नाम- रूपपरिणतं कार्यान्तरमेवाऽऽपद्यत इति चेन्न । विरोधात् । न हि घटो घटान्त- रमापद्यते व्यतिरेकथतिविरोधाच्च । जीवस्य नामरूपकार्यव्यतिरेकानुवादिन्यः श्रुतयो विरुध्येरन् । तदापत्तौ मोक्षासंभवाच्च । न हि यतो मुच्यमानस्तदेवा- ऽऽपद्यते । न हि शृङ्खलापत्तिर्वद्धस्य तस्करादेः । कारणपरामर्शकेन तन्छब्देन कार्यमुपलक्ष्य कार्यान्तरस्य तत्र प्रवेशो विधीयतेऽप्रा- प्तदेशसंभवात् । अतो न श्रुतिविरोध इति सिद्धान्तकोशिमतमुद्भाव्य दूषयति- कार्यान्तरमेवेत्यादिना। वाह्यान्तमैदेन परिणतमिति चेचदेव कारणं ब्रह्म शरीराद्याधारत्वेन तदन्तर्जीवात्मनाऽऽधेयत्वेन च परिणतमिति चेन्न, वहिष्टस्य प्रवेशोप- पतेः । न हि यो यस्यान्तःस्थः स एव तत्पविष्ट उच्यते । वहिष्ट- स्यानुप्रवेशः स्यात्प्रवेशशब्दार्थस्यैवं दृष्टत्वात् । यथा गृहं कृत्वा प्राविशदिति । जलसूर्यकादिप्रतिविम्ववत्मवेशः स्यादिति चेन्न । अपरिच्छिन्नत्वादमूर्तत्वाच्च । 4 1 १ झ ट. "वात्मना ।

७७ १.ऽनुवाका.] तत्तिरीयोपनिषत् । परिच्छिन्नस्य मूर्नस्यान्यस्यान्यत्र प्रसादस्वभावके जलादी सूर्यकादिप्रति- विम्बोदयः : स्यात् । न त्वात्मनः, अमूर्तत्वादाकाशादिकारणस्याऽऽत्मनः, अव्यापकत्वात् । तद्विमकृष्टदेशप्रतिविम्बाधारवस्त्वन्तराभावाच्च प्रतिबिम्बवत्स- वशो न युक्तः । कारणवाचन तच्छन्दन कार्यलक्षणायामविवक्षितलक्षणा चे.प्रसज्येत तार्ह कारणपर एत्र नन्दोऽस्त्रियाहरायः सिद्धान्तकदेशी-वाद्येति । अस्मिन्पक्षे प्रवेशश्रुतेर्मुख्यार्थी न लभ्येते त्याह-न वहिष्ठेति । अन्यस्य वेदान्तिनो मतमुद्भाव्य दपयति-जल इत्यादिना। एवं नई नवास्ति प्रवेशा न च गत्यन्तरमुपलभामहे | " तदेवानुपाविशत् " इति च श्रुतेः । श्रुतिश्च नोऽतीन्द्रियविषये विज्ञानोत्पत्ती निमित्तम् । न चास्मा- द्वाक्यायनवतामपि विज्ञानमुत्पद्यते। हन्त तीनर्थकत्वादपोह्यमेतद्वाक्यं " तत्सृष्ट्वा तदेवानुमाविशत् " इति । न । अन्यार्थत्वात् । किमर्थमस्थाने चर्चा | प्रकृतो खन्यो विवक्षितोऽस्य वाक्यस्यार्थोऽस्ति स स्मर्तव्यः । " ब्रमविदाप्नोति परम् " सत्यं ज्ञानमनन्तं ब्रह्म " " यो वेद निहितं गुहायाम् " इति । तद्विज्ञानं च विवक्षितं प्रकृतं च तत् । ब्रह्मस्वरूपानुगमाय चाऽऽकाशाद्यन्नमयान्तं कार्य प्रदर्शितं ब्रह्मानुगमश्वाऽऽरव्धः । तत्रान्नमयादात्मनोऽन्योऽन्तर आत्मा प्राणम- यस्तदन्तर्मनोमयो विज्ञानमय इति । विज्ञानगुहायां प्रवेशितस्तत्र चाऽऽनन्दमयो विशिष्ट आत्मा प्रदर्शितः । अतः परमानन्दमयलिङ्गाधिगमद्वारेणाऽऽनन्दवित्र- दयवसान आत्मा । ब्रह्म पुच्छं प्रतिष्ठा सर्वविकल्पास्पदो निर्विकल्पोऽस्यामेव गुहायामधिगन्तव्य इनि तत्मवेशः प्रकल्प्यते । एवं सिद्धान्तकदेशीय निरस्य पूर्ववाद्युपसंहरति-~-एवं तहीति । नवास्ति प्रवेशो ब्रह्मणस्ततोऽन्यस्यापि प्रवेशो न संभवतीत्युक्तमित्याह-न चति । इतरस्यापि प्रवेशः कल्पयितुं न शक्यत इत्याह-तदेवानुप्राविशदिति । सा च श्रुतिः स्रष्टः प्रवेशमाह । सा चास्माकं मीमांसकाना प्रमाणं ततस्तद्विरोवेनान्यस्य प्रवेशकल्पनाऽयुक्तेति भावः । तर्हि श्रुतिमरणतयैव ब्रह्मण एवं प्रवेश उच्यतामित्याशङ्कयाऽऽहन चेति । तस्मा- दन्यो मणिमविन्ददितिवदर्थशून्यमेवेदं वाक्यमिति निगमयति–इन्तेति । शक्तिगोचर- स्यार्थस्यासंभवादर्थशून्यत्वं तात्पर्यगोचरस्य वा । नाऽऽयः । आकाशादेरविप्रकृष्टदेशेऽपि - १ के. ट. ठ. °तोऽप्यन्यो ।

- आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२ब्रह्मवल्ल्यध्याये- जलेऽमूर्तस्य प्रतिबिम्बभाववदमूर्तस्यापि ब्रह्मणोऽनिर्वाच्याविद्यासु प्रतिबिम्बितस्य सृष्टयुत्तर- कालमन्तःकरणादिषु प्रतिबिम्बभावसंभवादित्याह-नेति । न द्वितीय इत्याह- अन्यार्थत्वादिति । एतत्स्फुटयति- किमर्थमित्यादिना । अतः परमिति । बुद्धिगु. हाप्रवेशादनन्तरमानन्दमय एव विशिष्टोऽर्थो विशेष्यस्य चिद्धातोलिङ्गं विशिष्टस्य विशेष्या- व्यभिचारदर्शनात्तदधिगमद्वारेणाऽऽनन्दविवृद्धयवसान आत्मा ब्रह्मरूपोऽस्यामेव गुहायामधि- गन्तव्य इत्यभिप्रेत्य जले सूर्यप्रवेशवदनिर्वाच्यः प्रवेशोऽभिवीयत इत्यर्थः । न ह्यन्यत्रोपलभ्यते ब्रह्म निर्विशेषत्वाद्विशेपसंबन्धो ह्युपलब्धिहेतुर्दृष्टः । यथा राहोश्चन्द्रार्कविशिष्टसंबन्धः। एवमन्तःकरणगुहात्मसंवन्धो ब्रह्मण उपलब्धिहेतुः । संनिकर्षादवभासात्मकत्वाच्चान्तःकरणस्य । यथा चाऽऽलोकविशिष्टा घटाग्रुप. लब्धिरेवं बुद्धिप्रत्ययालोकविशिष्टात्मोपलब्धिः स्यात्तस्मादुपलब्धिहेतो गुहायां निहितमिति प्रकृतमेव । तत्तिस्थानीये त्विह पुनस्तत्सृष्टा तदेवानुमाविश- दित्युच्यते । बुद्धिगुहायामेव ब्रह्मण उपलब्धिसंभवात्तत्रैव प्रवेशोऽभिधिसित इत्याह-न हीति नन्वन्यत्रोपलब्ध्यनहं ब्रह्म बुद्धौ वा कथमुपलभ्यत इत्याशङ्कयोपाधेर्योग्यताविशेषासभवा- दित्याह-विशेषेति । संनिकर्षादिति । अन्तःकरणसंसर्गादेव देहघटादिषु चैतन्याभि- व्यक्तिर्न स्वतः । अन्तःकरणं चाव्यवधानेनैव चैतन्याभिव्यञ्जकमन्वयव्यतिरेकाभ्यामित्यर्थः । यथा चास्वच्छस्वभावके घटादौ मुखं न प्रतिबिम्बते जलादौ स्वच्छस्वभावके प्रतिबिम्बते तथा सत्त्वप्रधानस्यान्तःकरणस्य प्रसादस्वाभाव्याद्घटते तत्र ब्रह्मोपलब्धिरित्याह-अव- भासात्मकत्वाच्चेति । किंच यथा जाडयसाम्येऽपि तमोलक्षणावरणाभिभवसमर्थ आलोकोऽङ्गी क्रियते तथा जाडयसाम्मेऽप्यन्तःकरणस्यैव प्रत्ययाक.रपरिणतस्याज्ञानलक्ष- णावरणाभिभवसामर्थमङ्गीकर्तव्यमित्याह-यथा चेति । तदनुपविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयन चानिलयनं च । विज्ञानं चाविज्ञान च । सत्यं चानृतं च सत्यमभवत् । यदि किंच । तदेवेदमाकाशादिकारणं कार्य सृष्ट्वा तदनुपविष्टमिवान्तर्गुहायां बुद्धौ द्रष्ट्र श्रोतृ मन्त्र विज्ञात्रित्येवं विशेपवदुपलभ्यते । स एव तस्य प्रवेशस्तस्मा- १ ज.त्र ट. लिपि' । २ ख. ग. 'शेण्यस्याव्य' ।

७९ ६ षष्ठोऽनुवाकः] तैत्तिरीयोपनिपत् । दस्ति तत्कारणं ब्रह्म । अतोऽस्तित्वादस्तीत्येवोपलब्धव्यं तत् । तत्कार्यमनु- प्रविश्य, किं, सच्च मूर्त त्यच्चामूर्तमभवत् । मूर्तामूर्ते ह्यव्याकृतनामरूपे आत्मस्थे अन्तर्गतेनाऽऽत्मना व्याक्रियेते व्याकृते च मूर्तामूर्तशब्दवाच्ये ते आत्मना त्वमविभक्तदेशकाले इति कृत्वाऽऽत्मा ते अभवदित्युच्यते । किंच निरुक्तं चानिरुक्तं च निरुक्तं नाम निष्कृष्य समानासमानजातीयेभ्यो देशकाल- विशिष्टतयेदं तदित्युक्तमनिरुक्तं तद्विपरीतं निरुक्तानिरुक्ते अपि मूर्तामूर्तयोरेव विशेषणे । यथा सच्च त्यच्च प्रत्यक्षपरोक्षे, तथा निलयनं चानिलयनं च । निलयनं नीडमाश्रयो मूर्तस्यैव धर्मः । अनिलयनं तद्विपरीतममूर्तस्यैव धर्मः । त्यदनिरुक्तानिलयनान्यमूर्तधर्मत्वेऽपि व्याकृतविषयाण्येव । सर्गोत्तरकालभाव- श्रवणात् । त्यदिति प्राणाद्यनिरुक्तं तदेवानिलयनं च । अतो विशेषणान्यमू तस्य व्याकृतविपयाण्येवैतानि । विज्ञानं चेतनमविज्ञानं तद्रहितमचेतनं पापा. णादि सत्यं च व्यवहारविषयमधिकारान्न परमार्थसत्यमेकमेव हि परमार्थसत्यं ब्रह्म । इह पुनर्व्यवहारविषयमापेक्षिकं सत्यं मृगतृष्णिकाद्यनृतापेक्षयोदकादि सत्यमुच्यते । अनृतं च तद्विपरीतम् । किं पुनरेतत्सर्वमभवत्परमार्थसत्यं किं पुनस्तद्ब्रह्म । सत्यं ज्ञानमनन्तं ब्रह्मेति प्रकृतत्वात् । निलयनं गृहप्रासादादिमूर्तसंनिवेशविशेषोऽवययसंस्थानविशेपराहिल्पमनिलयनम् । अनिरुक्तत्वाद्यमूर्तधर्मश्चेद्ब्रह्मण एव न स्यादित्यत आह-त्यदनिरुक्तानिलय. नानीति । तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये षष्ठोऽनुवाकः ॥ ६ ॥ यस्मात्सत्त्यदादिकं मूर्तामूर्तधर्मजातं यत्किंचेदं सर्वमविशिष्टं विकारजातमेक- मेव सच्छब्दवाच्यं ब्रह्माभवत्तद्वयतिरेकेणाभावान्नामरूपविकारस्य, तस्मात्तब्रह्म सत्यमित्याचक्षते । ब्रह्मविदोऽस्ति नास्तीत्यनुप्रश्नः प्रकृतस्तस्य प्रतिवचनवि- षय एतदुक्तमात्माऽकामयत बहु स्यामिति । स यथाकामं चाऽऽकाशादिकार्य सत्त्यदादिलक्षणं सृष्ट्वा तदनु प्रविश्य पश्यञ्शृण्वन्मन्वानो विजानन्बहभव- चस्मात्तदेवेदमाकाशादिकारणं कार्यस्थं परमे व्योमन्हृदयगुहायां निहितं तत्म- - १ क. घ. छ. न. र. उ. °ते मू। २ ख. ग. ह. अ. मूर्त सं ।

८. आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-२ ब्रह्मवल्ल्यच्या- त्ययावभासविशेपेणोपलभ्यमानमस्तीत्येवं विजानीयादित्युक्तं भवति । तदेव- स्मिन्नर्थे ब्राह्मणोक्त एप श्लोको मन्त्रो भवति । यथा पूर्वेप्वन्नमयाद्यात्मप्रका- शकाः पश्चस्वप्येवं सर्वान्तरतमात्मास्तित्वप्रकाशकोऽपि मन्त्रः कार्यद्वारण भवति ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपाढशिष्यश्रीमच्छंकर- भगवतः कृता तैत्तिरीयोपनिषदि द्वितीय ब्रह्मवल्यध्यायभाष्ये षष्ठोऽनुवाक. ॥ ६॥ तत्सत्यमित्याचक्षत इत्यस्योपपत्तिमाह-यस्मादिति । पदानि ब्याख्याय प्रकृता. नुप्रश्ननिराकरणे प्रकरणस्य तात्पर्य सोऽकामयतेत्यादेर्दर्शयति-अस्ति नास्तीत्या- दिना । तस्या बुद्धिगुहायाः प्रत्यया अहं कर्ता भोक्तेल्यादयस्त एवावभासविशेपास्तैर्व्य- ज्यमानं विशिष्टस्य विषयत्वेऽपि स्वरूपस्याविषयत्वादित्यर्थः ॥ इति श्रीमत्परमहंसपरिव्राजकाचर्यश्रीमच्छंकरभगवच्छिप्यानन्दज्ञानविरचिताय तनि- रायोपनिपच्छकरभाष्यटीकाया दितीये ब्रह्मवल्ल्यध्याये षष्ठोऽनुयाकः ॥ ६ ॥ अथ ब्रह्मवल्ल्यध्याये सप्तमोऽनुवाकः । असदा इदमय आसीत् । ततो वै सदजायत । तदा- स्मान५ स्वयंमकुरुत । वस्मात्तत्सुकृतमुच्यत इति । असदा इदमग्र आसीत् । असदिति व्याकृतनामरूपविशेषविपरीतरूपमविकृत ब्रह्मोच्यते । न पुनरत्यन्तमेवासत् । न ह्यसतः सज्जन्मास्ति । इदमिति नामरू- पविशेषवद्याकृतं जगदग्रे पूर्व प्रागुत्पत्तेर्ब्रीवासच्छन्दवाच्यमासीत् । ततोs- सतो व सत्मविभक्तनामरूपविशेपमजायतोत्पन्नम् । किं ततः प्रविभक्तं कार्यमिति पितुरिव पुत्रो नेत्याह । तदसच्छब्दवाच्यं स्वयमेवाऽऽत्मानमेवाकुरुत कृतवत् । यस्मादेवं तस्मात्तद्ब्रह्मैव सुकृतं स्वयं कषुच्यते । स्वयं कर्तृ ब्रह्मेति प्रसिद्धं लोके सर्वकारणत्वात् । यस्माद्वा स्वयमकरोत्सर्व सर्वात्मना तस्मात्पुण्यरूपेणापि तदेव ब्रह्म कारणं सुकृतमुच्यते । सर्वथाऽपि तु फलसंवन्धादिकारणं सुकृतशब्दवाच्य प्रसिद्ध लोके । यदि पुण्यं यदि वाऽन्यत्सा प्रसिद्धिनित्ये चेतनवत्कारणे सत्युपपद्यते । तस्मादस्ति तद्ब्रह्म सुकृतप्रसिद्धः । १ज, झ.. धर्मस्य । ।

७ सप्तमाऽनुवाकः ] तत्तिरीयोपनिषत्। ८१ सुकृतमिति । क्तप्रत्ययः मुटु क्रियत इति कर्माभिधायकोऽपि ग्यान्दस्या प्रक्रियया सु करोतीति कर्तरि व्याख्यातः । इतश्चास्ति । कुतः । रसत्वात् । कुतो रसत्वप्रसिद्धिर्धह्मण इत्यत आह- यदै तत्सुकतम् । सो वै सः ।रस५ ह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येवान्यात्कः प्राण्यात् । यदेप आकाश आनन्दो न स्यात् । एष ह्येबाऽऽनन्दयाति । यदै तत्सुकृतम् । रसो वे सः। रसो नाम तृप्तिहेतुरानन्दकरो मधुरम्लादिः मसिद्धो लोके । रसमेवायं लब्ध्वा माप्याऽऽनन्दी सुखी भवति । नासत आन- न्दहेतुत्वं दृष्ट लोके । वाह्यानन्दसाधनरहिता अप्यनीहा निरेपणा ब्राह्मणा वाारसलाभादिवसानन्दा दृश्यन्ते विद्वांसो नूनं ब्रह्मैव रसस्तेपाम् । तस्मादस्ति तत्तेषामानन्दकारणं रसवद्ब्रह्म । इतश्चास्ति । कुतः । प्राणनादिक्रियादर्शनात् । अयमपि हि पिण्डो जीवतः प्राणेन प्राणित्यपानेनापानिति । एनं बायवीया ऐन्द्रियकाश्च चेष्टाः संहतैः कार्यकरणनिर्वय॑माना दृश्यन्ते । तच्चैकार्थवृत्तित्वेन संहननं नान्तरेण चेतनमसंहतं संभवति । अन्यत्रादर्शनात् । तदाह---यद्यदि । एप आकाशे परमे व्योम्नि गुहायां निहित आनन्दो न स्यान्न भवेत्को ह्येव लोकेऽन्यादपानचेष्टां कुर्यादित्यर्थः । कः प्राण्यात्माणनं वा कुर्यात्तस्मादस्ति तब्रह्म । यदर्थाः कार्यकरणप्राणनादिचेष्टास्तत्कृत एव चाऽऽनन्दो लोकस्य । कुतः । एप ह्येव पर आत्माऽऽनन्दयात्यानन्दयति सुखयति लोकं धर्मानुरूपम् । स एकाऽऽत्माऽऽनन्दरूपोऽविद्यया परिच्छिन्नो विभाव्यते प्राणिभिरित्यर्थः । भयाभयहेतुत्वाद्विद्वदविदुषोरस्ति तहह्म । सतस्त्वाश्रयणेन ह्यभयं भवति । नासद्वस्त्वाश्रयणेन भयनिवृत्तिरुपपद्यते । एकार्थवृत्तित्वेनेति । एकप्रयोजनसाधनत्वेन परस्परायत्ततेत्यर्थः । अन्यत्रेति । गृहप्रासादादिपु स्वतन्त्रं गृहाद्यनारभ्यं स्वामिनमन्तरेण संहननस्यादर्शनात्कार्यकरणसबर १ १ ग. ब. ट. ट. यकार । २ छ. ग. झ. ट र्यकार' । ३ ख ग घ.छ.ट. कार्यकार। ११ - ८२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- २ ब्रह्मवल्लयध्याये- तेऽपि विलक्षणः स्वामी शरीरोपचयादिभिरुपचयादिरहितोऽवगम्यते । स च चेतनत्वेन भेदाभावाद्ब्रह्मैवेति तदस्तित्त्वसिद्धिरित्यर्थः । कथमभयहेतुत्वमित्युच्यते- यदा है वैप एतस्मिन्नदृश्येऽनात्म्येऽनि- रुक्तेऽनिलयनेऽअयं प्रतिष्ठां विन्दते । अथ सोऽयं गतो भवति । यदा यैप एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । तत्व भयं विदु- षोऽभन्यानस्य। तदप्येष श्लोकोभवति इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये सप्तमोऽनुवाकः ॥ ७ ॥ यदा ह्येव यस्मादेष साधक एतस्मिन्ब्रह्मणि किंविशिष्टेऽदृश्ये दृश्यं नाम द्रष्टव्यं विकारो दर्शनार्थत्वाद्विकारस्य । न दृश्यमदृश्यमविकार इत्यर्थः। एतस्मिः बदृश्येऽविकारेऽविषयभूतेऽनात्म्येऽशरीरे यस्माददृश्यं तस्मादनात्म्यं यस्माद. नात्म्यं तस्मादनिरुक्तम् । विशेषो हि निरुच्यते । विशेषश्च विकारः । अविन कारं च ब्रह्म । सर्वविकारहेतुत्वात्तस्मादनिरुक्तम् । यत एवं तस्मादनिलयन निलयनं नीड आश्रयो न निलयनमनिलयनमनाधारं तस्मिन्नेतस्मिन्नदृश्येऽना. त्म्येऽनिरुक्तेऽनिलयने सर्वकार्यधर्मविलक्षणे ग्रामणीति वाक्यार्थः । अभयमिति क्रियाविशेषणम् । अभयामिति वा लिङ्गान्तरं परिणम्यते । प्रतिष्ठां स्थितिमा- त्मभावं विन्दते लभते । अथ तदा स तस्मिन्नानात्वस्य भयहेतोरविद्याकृतस्या. दर्शनादमयं गतो भवति । स्वरूपप्रतिष्ठो ह्यसौ यदा भवति तदा नान्य- पश्यति नान्यच्छृणोति नान्यद्विजानाति । अन्यस्य ह्यन्यतो भयं भवति नाऽऽत्मन एचाऽऽत्मनो भयं युक्तं तस्मादात्मैवाऽऽत्मनोऽभयकारणम् । सर्वतो हि निर्भया ब्राह्मणा दृश्यन्ने सत्सु भयहेतुषु तच्चायुक्तमसति ७ सप्तमोऽनुवाक] नत्तिरीयोपनिषत् । ८३ भयत्राणे ब्रह्मणि । तस्मात्तेपामभयदर्शनादस्ति तदभयकारणं ब्रह्मेति । कदाऽसा- चभयं गतो भवति साधको यदा नान्यत्पश्यत्यात्मनि चान्तरं भेदं न कुरुते तदाऽभयं गतो भवतीत्यभिप्रायः । यदा पुनरविद्यावस्थायां हि यस्मादेषोऽवि- द्यावान विद्यया प्रत्युपस्थापित वस्तु तमिरिकद्वितीयचन्द्रवत्पश्यत्यात्मनि चैत. स्मिन्ब्रह्मणि उदपि, अरमल्पमप्यन्तरं छिद्रं भेददर्शनं कुरुते । भेददर्शनमेव ह्यन्तरकरणमल्पमपि भेदं पश्यतीत्यर्थः । अथ तस्माद्भेददर्शनाद्धेतोरस्य भेदद- शिन आत्मनो भयं भवति । तस्मादात्मैवाऽऽत्मनो भयकारणमविदुपस्तदेतदाह । तद्ब्रह्म त्वेव भयं भेददर्शिनो :पिदुप ईश्वरोऽन्यो मत्तोऽहमन्यः संसारीत्येवं विदुपो भेददृष्टमीश्वराख्यं तदेव ब्रह्माल्पमप्यन्तरं कुर्वतो भयं भवत्येकत्वेनाम- न्वानस्य । तस्माद्विद्वानप्यविद्वानेवासा योऽयमेकमभिन्नमात्मतत्त्वं न पश्यत्युच्छे- दहेतुदर्शनाद्धयुच्छेद्याभिमतस्य भयं भवति । अनुच्छेद्यो ह्युच्छेदहेतुस्तंत्रासत्य- च्छेदहेतांबुच्छेद्ये न तदर्शनकार्य भयं युक्तम् । सर्वं च जगद्भयवदृश्यते । तस्माज्जगतो भयदर्शनाद्गम्यते नूनं सदस्ति भयकारणमुच्छेदहेतुस्नुच्छेद्यात्मक यतो जगद्विभेतीति । तदेतस्मिन्नप्यर्थ एप श्लोको भवति । इति श्रीमापरमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतौ तैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्यध्याये सप्तमोऽनुवाकः ।। ७॥ दासोऽहं तस्य देवस्य ममाऽऽराध्यः परमेश्वर इति भेदं विद्वान्कथमज्ञ इत्युच्यते तत्राऽऽह-असो योऽयमिति । यथा चन्द्रभेदं पश्यन्नप्पविद्वानुच्यतेऽतत्त्वदर्शित्वा- त्तथेत्यर्थः । कथं तर्हि तस्य भयसंभावनेत्यत आह-उच्छेदति । संहर्ता हि परमेश्वरों मा संहरिष्यति नरके वा निक्षेप्स्यतीति पश्यतो भयं भवतीत्यर्थः । ब्रह्मैवोच्छेदहेतुः कुत इत्यत आह-अनुच्छेद्यो हीति । उच्छदहतोरप्युच्छेद्यन्वेऽनवस्थाप्रसङ्गान्नित्यत्वं वक्तव्यं तच्च ब्रह्मणो नान्यस्य संभाव्यत इत्यर्थः ।। इति श्रीमत्परमहसपरिव्राजकाचार्यश्रीमच्छकरभगवच्छिप्यानन्दज्ञानविरचिताया तैत्ति- रीयोपनिषच्छाकरभाष्यटीकाया द्वितीये ब्रह्मवलय व्याये. सप्तमोऽनुवाकः ॥७॥ १ क ख. ग. 'स्तकास । २ क स. ग. व ८. ट. ठ. 'तावनुच्छेद्ये त°। ३.ज. झ. ञ ट 'न्यत्सभा । , ८४ आनन्दगिरिकृतटीकासंबंलितगांकरभाप्यसमेता- [२ ब्रह्मवल्ल्यच्याथे- - अय ब्रह्मग्ल्यध्ययेऽमोऽनुवाकः । भीषाऽस्माद्वांतः पवते । कीपो- दति मूर्यः । भीषाऽस्मादग्निश्चे- न्द्रश्च । मृत्युर्धावति पञ्चम इति । भीषा:भयनास्माद्वानः पवतेः। भीपादति सूर्यः। भीपाऽस्मादग्निश्चन्द्रश्च । मृत्युर्धावति पञ्चम इनि । वातादयो हि महाहीः स्वयमीश्वराः सन्तः पवनादि- कार्यप्वायासबहुलेषु नियताः प्रवर्तन्ते । तद्युक्तं प्रशास्तरि सन्यन्यस्मिन्नियमेन नपा प्रवर्तनं तस्मादस्ति भयकारणं तेषां प्रशास्तृ ब्रह्म। यतस्ते भृत्या इव राज्ञोऽस्माद्ब्रह्मणो भयेन प्रवर्तन्ते । तच्च भयकारणमानन्दं ब्रह्मः। सैषाऽऽनन्दस्य मीमांसा भवति । तस्यास्य ब्रह्मण आनन्दस्यैपा मीमांसा विचारणा भवति । किमानन्दस्य मीमाम्यमित्युच्यने । किमानन्दो विषयविषयिसंबन्धजनितो लौकिकानन्दवदा- हास्वित्स्वाभाविक इत्येवमेपाऽऽनन्दस्य मीमांसा । तच भयकारणं ब्रह्माऽऽनन्दरूपमुक्त यदेष आकाश आनन्दो न स्यादिति । तत्राऽs. नन्दश्व लोके जन्यः प्रसिद्धस्ततो विचारमारभते--तस्यास्येत्यादिना । नत्र लौकिक आनन्दो बाह्याध्यात्मिकसाधनसंपत्तिनिमित्त उत्कृष्टः । स य एष निर्दिव्यने ब्रह्मानन्दानुगमार्थम् | अनेन हि प्रसिद्धनाऽऽनन्देन व्यास त्तविषयबुद्धिगम्य आनन्दोऽनुगन्तुं शक्यते । लौकिकोऽप्यानन्दो ब्रह्मानन्द- स्वैव मात्राऽविद्यया निगस्क्रियमाणे विज्ञान उत्कृष्यमाणायां चाविद्यायां ब्रह्मा. दिभिः कर्मवशायथाविज्ञानं विपयादिसाधनसंवन्धचशाच्च विभाव्यमानश्च लोकेऽ- नवस्थिना लौकिकः संपद्यते स एवाविद्याकामकर्मापकर्पण मनुष्यगन्धर्वाद्युत्त- गनरभूमिप्वकामहनविदच्छात्रियप्रत्यक्षो विभाव्यने शुनगुणोत्तरोतर्पण याव- विरण्यगर्भस्य ब्रह्मण आनन्द इनि । ब्रह्मानन्दम्य चेन्नमामा प्रस्तुता किमर्थस्तर्हि सार्वभौमानन्द चुन्यामस्तत्राऽऽह- नत्र लौकिक इत्यादिना । लोकिक आनन्दः कचित्काष्टां प्रातः सानियत्वात्परि- माणवदिति मन न दानुमानार्थ लौकिकोपन्यान इन्यर्थः । विपन्यो व्यानुता व्या - ८अटमोऽनुवाकः) तैत्तिरीयोपनिपत् । ८५ तविषया अविषयनमा कत्वदर्शिनस्तबुद्धिगोचर इत्यर्थः । प्रकारान्तरेण ब्रह्मानन्दानुग- मनाह-लौकिकोऽपीत्यादिना । निरस्ते त्वविद्याकृते विपयविपथिविभागे विद्यया स्वाभाविकः परिपूर्ण एक आनन्दोऽतो भवतीत्येतमर्थ विभावयिष्यन्नाह- युवा स्यात्साधुयुवाऽध्यायकः । आशिष्ठो दृढिष्ठ बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः ( १ ) । स एको मनुष्यगन्धर्वाणांमा- नन्दः । श्रोत्रियस्य चाकामहतस्य । ते ५ शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वा- मानन्दाः । स एकः पितृणां चिरलो- कलोकानामानन्दः । श्रोत्रियस्य चाकाम- हतस्याने ये शतं पितृणाचिरलोकलोका- नामानन्दाः।सएक आजानजानांदेवाना- मानन्दः(२)। श्रोत्रियस्य चाकामहतस्य । युवा प्रथमवयाः । साधुयुवेनि साधुश्चासौ युवा चेति यूनो विशेषणम् । युवाऽप्यसाधुर्भवति साधुरप्ययुवाऽतो विशेषणं युवा स्यात्साधुयुवेति । अध्या- यकोऽधीतवेदः । आशिष्ठ आशास्ततमः । दृहिष्टो दृढतमः । बलिष्ठो बलवत्तमः । एचमाध्यात्मिकसाधनसंपन्नः । तस्येयं पृथिव्युर्वी सर्वा वित्तस्य वित्तेनोपभोग- -- १ रु छ आशुनमः । २ ख. 'तमः क्षिप्रसारिष मध्ये स्वयमतिशयत्वा दित्यर्थः । इ ।

८६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता- [२ ब्रह्मवल्यध्यायें- साधनेन दृष्टार्थनादृष्टार्थेन च कर्मसाधनेन संपन्ना पूर्णा राजा पृथिवीपतिरि- त्यर्थः । तस्य च य आनन्दः स एको मानुपो मनुष्याणां प्रकृष्ट एक आनन्दः। ते ये शतं मानुपा आनन्दाः । स एको मनुष्यगन्धर्वाणामानन्दः । मानुपानन्दा- च्छतगुणेनोत्कृष्टो मनुष्यगधर्वाणामानन्दो भवति । मनुप्याः सन्तः कर्मविद्या- विशेषाद्गन्धर्वत्वं माता मनुष्यगन्धर्वाः । ते ह्यन्तर्धानादिशक्तिसंपन्नाः सूक्ष्मकार्य- करणाः । तस्मात्मतिघाताल्पत्वं तेपो द्वंद्वमतिघातशक्तिसाधनसंपत्तिश्च । ततोऽ. प्रतिहन्यमानस्य प्रतीकारवतो मनुष्यगन्धर्वस्य स्याञ्चित्तप्रसादः । तत्मसादवि. शेपात्सुखविशेपाभिव्यक्तिः । एवं पूर्वस्याः पूर्वस्या भूमेरुत्तरस्यामुत्तरस्या भूमौ प्रसादविशेषतः शतगुणेनाऽऽनन्दोत्कर्ष उपपद्यते । प्रथमं त्वकामहताग्रहणं मनुष्यविषयभोगकामानभिहतस्य भोत्रियस्य मनुष्यानन्दाच्छतगुणेनाऽऽनन्दो- कर्पो मनुष्यगन्धर्वेण तुल्यो वक्तव्य इत्येवमर्थम् । साधुयुवाऽध्यायक इति श्रोत्रियत्वावृजिनत्वे गृह्यते । ते हा विशिष्टे सर्वत्र । अकामहतत्वं तु विषयोत्क- पीपकर्पतः मुखोत्कर्पापकर्षाय विशेष्यते । अतोऽकामहतग्रहणम् , तद्विशेषतः शतगुणसुखोत्कर्पोपलब्धेरकामहतत्वस्य परमानन्दप्राप्तिसाधनत्वविधानार्थम् । व्याख्यातमन्यत् । देवगन्धर्वा जातित एव । चिरलोकलोकानापिति पितृणां विशेपणम् । चिरकालस्थायी लोको येषां पितणां ते चिरलोकलोका इति । आजान इति देवलोकस्तस्मिन्नाजाने जाता आजानजा देवाः स्मातकर्मविशेषतो देवस्थानेषु जाताः। मनुष्यगन्धर्वानन्दस्योत्कृष्ट निमित्तमाह-ते ह्यन्तर्धानादीति । प्रथममकामहता. ग्रहणस्य तात्पर्यमाह-प्रथममिति । यदि प्रथमपर्याय एवाकामहतो गृह्येत तदा तस्यैव सार्वभौमानन्देन तुल्य आनन्दः स्यात्तदा च व्याघातो भवेत् । मानुपानन्दे निस्पृहो मानुपानन्दभोगभागी चेति । ततो मनुष्यगन्धर्वानन्देन तुल्यमानन्दं तस्य दर्शयितुं प्रथम- पर्याये तदग्रहणमित्यर्थः । अवृजिनत्वमपापत्वं यथोक्तकारित्वं तत्साधुपदालभ्यत इत्यर्थः । ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानां देवानामानन्दः । ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य । ते ये शतं कर्मदेवानां देवानामानन्दाः । स . १ अ. न्दविरोधागोग।

स . . ८ अष्टमोऽनुवाकः] तैत्तिरीयोपनिपत् । ८७ एको देवानामानन्दः । श्रोत्रियस्य चाकाम- हतस्य । ते ये शतं देवानामानन्दाः । एक इन्दस्याऽऽनन्दः ( ३)। श्रोत्रियस्य चाकामह- तस्य । ते ये शतमिन्दस्याऽऽनन्दाः । स एको बृहस्पतेरानन्दः श्रोत्रियस्य चाकामह- तस्य । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य (४) । कर्मदेवा ये वैदिकेन कर्मणाऽग्निहोत्रादिना केवलेन देवानपियन्ति । देवा इति त्रयस्त्रिंशद्धविर्भुजः । इन्द्रस्तेषां स्वामी 1 तस्याऽऽचार्यो वृहस्पतिः । प्रजा- पतिविरात्रैलोक्यशरीरो ब्रह्मा समष्टिव्यष्टिरूपः संसारमण्डलव्यापी । यत्रत आनन्दभेदा एकतां गच्छन्ति। धर्मश्च तन्निमित्तो ज्ञानं च तद्विषयमकामहतत्वं च निरतिशयं यत्र स एष हिरण्यगर्भो ब्रह्मा, तस्यैष आनन्दः श्रोत्रियेणावृजि- नेनाकामहतेन च सर्वतः प्रत्यक्षमुपलभ्यते । तस्मादेतानि त्रीणि साधनानी- त्यवगम्यते । तत्र श्रोत्रियत्वावृजिनत्वे नियते अकामहतत्वं तूत्कृष्यत इति प्रकृष्टसाधनताऽवगम्यते । तस्याकामहतत्वप्रकर्षतश्चोपलभ्यमानः श्रोत्रियप्रत्यक्षो ब्रह्मण आनन्दो यस्य परमानन्दस्य मात्रैकदेशः । एतस्यैवाऽऽनन्दस्या- न्यानि भूतानि मात्रामुपजीवन्ति " इति श्रुत्यन्तरात् । स एष आनन्दो यस्य मात्रा समुद्राभस इव विभुषः प्रविभक्ता यत्रैकतां गता स एप परमानन्दः स्वाभाविकोऽद्वैतत्वादानन्दानन्दिनोश्चाविभागोऽत्र । त्रयस्त्रिंशत्-अष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्या इन्द्रः प्रजापतिश्चेति । १ञ. °ष्टिरू । २ ङ. रूपसं° ।

८८ आनन्दगिरिकृतटीकासंवलितशांकरभाप्यसमना-२ब्रह्मवल्ल्यध्याये- यदयं मीमासोऽऽच्या तस्य निरतिगयानन्दम्य मिद्धो वाक्यतात्पर्य दर्शयितुमाह- तस्याकामहतत्वेति । तस्य ब्रह्मणो हिरण्यगर्भस्याऽऽनन्दस्तदुपासकपत्यक्षा यस्य मात्रा स एप परमानन्द: स्वाभाविक इति संबन्धः । हिरण्यगर्भानन्दस्य मात्रात्ये श्रुत्यन्तर प्रमा- णयति--एतस्यैवेति । न केवलं हिरण्यगर्भानन्द एव मात्रा यश्च प्रागुपन्यस्तः सार्व- भौमाद्यानन्दः स एप यस्य मात्रा प्रविभक्ता नानात्वमापन्ना सती यत्र निरतिगयानन्देऽ. कामहतब्रह्मवित्प्रत्यक्षे कैवल्य एकता गतेति योजना । अकामहतप्रत्यक्षत्वाभिधानाद- प्राति निरस्यति--आनन्दानन्दिनोश्चेति । प्रत्यक्षत्वाभिधानमज्ञानसंशयादिव्यवधाना- भावाभिप्रायं न तु विषयविपथिभावाभिप्रायम् । अदृश्येऽनात्म्य उदरमन्तर कुल्त इत्या. दिना निषेधादित्यर्थः । तदेतन्मीमांसाफलमुपसंहियते- स यश्चायं पुरुषे । यश्चा- सावादित्ये । स एकः। स यश्चायं पुरुप इति । यो गुहायां निहितः परमे व्योम्न्याकाशादिकाय सृष्वाऽन्नमयान्तं तदेवानुमविष्टः स य इति निर्दिश्यते । कोऽसावयं पुरुपे । यश्चासावादित्ये य. परमानन्दः श्रोत्रिय प्रत्यक्षो निर्दियो यस्यैकदेशं ब्रह्मादीनि भूतानि सुखााण्युपजीवन्ति स यश्चासावादित्य इति निर्दिश्यते । स एको भिन्नप्रदेशस्थघटाकाशाकाशैकत्ववत् । ननु तन्निर्देशे स यश्चायं पुरुष इत्य. विशेपतोऽध्यात्म न युक्तो निर्देशो यश्चायं दक्षिणेऽक्षनिति तु युक्तः प्रसि- द्धत्वात् । न पराधिकारात् । परो ह्यात्माऽत्राधिकृतोऽदृश्येऽनात्म्ये भीपाऽस्मा- द्वातः परते सैपाऽऽनन्दस्य मीमांसेति । न ह्यकस्मादप्रकृतो युक्तो निर्देष्टुं पर- मात्मविज्ञानं च विवक्षितम् । तस्मात्पर एव निर्दिश्यते स एक इति । नन्वा- नन्दस्य मीमांसा प्रकृता तस्या अपि फलमुपसंहर्तव्यम् । अभिन्नः स्वाभाविक आनन्दः परमात्मैव न विषयविपयिसंवन्धजनित इति । ननु तदनुरूप एवायं निर्देशः स यश्चायं पुरुपे यश्चासावादित्ये स एक इति भिन्नाधिकरणस्थाविशे- पोपमर्दैन । नन्वेवमप्यादित्यविशेषग्रहणमनर्थकम् । उत्कर्षांपकपोहार्थत्वात् । द्वैतस्य हि मूर्तामूर्तलक्षणस्य पर उत्कर्पः सवित्रभ्यन्तर्गतः स चेत्पुरुपगतविशे- पोपमर्देन परमानन्दमपेक्ष्य समो भवति न कश्चिदुत्कर्पोऽपको वा तां गतिं गतस्थेत्यभयं प्रतिष्ठां विन्दत्त इत्युपपन्नम् ।

८९ ८ अष्टमोऽनुवाकः तैत्तिरीयोपनिषत् । भीमासया निरतिशयानन्दं ब्रह्मास्तीति निर्धारितम् । तस्याकामहतप्रत्यक्षत्वाभिधानाद- भेदसिद्धिः । न हि परानन्दः परस्य प्रत्यक्षो भवति । तस्मानिरतिशयानन्दब्रह्मैकत्वं जीवस्य ब्रह्मविदामोति परमित्युपक्रान्तं मीमासया च सिद्धमुपसंहियत इत्यर्थः । आदित्य. ग्रहणस्याऽऽधिदैविकोपाधिलक्षणार्थस्याविवक्षितस्वं दर्शयितुं चोद्यमुद्धावयति-नन्विति । “य एप एतस्मिन्मण्डले पुरुपो यश्चायं दक्षिणेऽक्षन्पुरुषः" इत्यादौ श्रुत्यन्तरे मण्डलस्थस्य दक्षिणाक्षिस्थेनैक्यस्य प्रसिद्धत्वादिहाप्यादित्यस्थेनैक्यनिर्देशे दक्षिणाक्षिग्रहणं युक्तमित्यर्थः । अध्यात्ममधिदैवतं च लिङ्गात्मोपासनविवक्षाया तथा स्यान्नेह तद्विवक्षितमित्याह-न परेति । य एंव चिद्धातुनिरतिशयानन्द उत्कृष्टोपाधौ प्रतिविम्बितः स एव निकृष्टोपाधौ शिरःपाण्यादिमति पुरुषे प्रतिविम्बित इति परमानन्दमपेक्ष्य समत्वं विशिष्टयोः स्वभावैक्यं विवक्षितमित्यर्थः । अस्ति नास्तीत्यनुप्रश्नो व्याख्यातः । कार्यरसलाभप्राणनाभयप्रतिष्ठाभयं- दर्शनोपपत्तिभ्योऽस्त्येव तदाकाशादिकारणं ब्रह्मेत्यपाकृतोऽनुप्रश्न एकः, द्वाव- न्यावनुमश्नौ विद्वदविदुपोर्ब्रह्मप्राप्त्यप्राप्तिविषयौ तत्र विद्वान्समश्नुते न समश्नुत इत्यनुप्रश्नोऽन्त्यस्तदपाकरणायोच्यते । मध्यमोऽनुप्रश्नोऽन्त्यापाकरणादेवापाकृत इति तदपाकरणाय न यत्यते । वृत्तानुवादपूर्वकमुत्तरग्रन्थमवतारयति-अस्ति नास्तीति । संदिग्धं सप्रयोजन च विचारमर्हति । स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्न- मयमात्मानमुपसंक्रामति । एतं प्राणमयमा- त्मानमुपसंकामति । एतं मनोमयमात्मानमुपं- संक्रामति । एतं विज्ञानमयमात्मानमुपसंका- मति । एतमानन्दमयमात्मानमुपसंक्रामति स यः कश्चिदेवं यथोक्तं ब्रह्मोत्सृज्योत्कर्षापकर्षमद्वैतं सत्यं ज्ञानमनन्तम- स्मीत्येवं वेत्तीत्येवंवित । एवंशब्दस्य प्रकृतपरामर्शार्थत्वात् । स किम् , अस्मा- ल्लोकात्मेत्य दृष्टादृष्टेष्टविषयसमुदायो ह्ययं लोकस्तस्मादस्माल्लोकात्मेत्य प्रत्यावृत्य निरपेक्षो भूत्वैतं यथाव्याख्यातमन्नमयमात्मानमुपसंक्रामति विषयजातमन्नमया- त्पिडात्मनो व्यतिरिक्तं न पश्यति सर्व स्थूलभूतमन्नमयमात्मानं पश्यतीत्यर्थः । १ ख. . ठ, “ह्मास्मीति । २ न. उ. एव विवानिर । ३ ख. छ. ञ. यहेतुद। १२ ९० आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२ब्रह्मबल्ल्यध्याये- म तत्सृष्ट्वा तदे- ततोऽभ्यन्तरभेतं प्राणमयं सर्वान्नमयात्मस्थमविभक्तम् । अथैतं मनोमयं विज्ञा- नमयमानन्दमयमात्मानमुपसंक्रामति । अथाश्येऽनाम्येऽनिरुक्तऽनिलयनेऽभयं प्रतिष्ठा विन्दते । तत्रैतच्चिन्त्यम् । कोऽयमेवंवित्कथं वा संक्रामतीति । किं परस्मादात्मनोऽन्यः संक्रमणकर्ता प्रवि- भक्त उत स एवेति । किं ततः, यद्यन्यः स्याच्छृतिविरोधः । वानुमाविशत् " " अन्योऽसावन्योऽहमस्मीति । न स वेद " " एकमेवाद्वि- तीयम् " " तत्त्वमसि " इति । अथ स एवाऽऽनन्दमयमात्मानमुपसंक्रामतीति, कर्यकर्तृत्वानुपपत्तिः । परस्यैव च संसारित्वं पराभावो वा । यद्युभयथा प्राप्तो दोपो न परिहतु शक्यत इति व्यर्था चिन्ता । अथान्यतरस्मिन्पले दोषाप्राप्ति- स्तृतीये वा पक्षेऽदुष्टे स एव शास्त्रार्थ इति व्यथैव चिन्ता न तन्निर्धारणार्थत्वा- त्सत्यं प्राप्तो दोषो न शक्यः परिहर्तुमन्यतरस्मिंस्तृतीये वा पक्षेऽदुष्टेऽवधृते व्यर्था चिन्ता स्यान्न तु सोऽवधृत इति तदवधारणार्थत्वादर्थवत्येवैषा चिन्ता । सत्यमर्थवती चिन्ता । शास्त्रार्थावधारणार्थत्वात् । चिन्तयसि च त्वं न तु निर्णेष्यसि, किं न निर्णतव्यमिति वेदवचनं, न, कथं तर्हि बहुप्रतिपक्षत्वादे- फत्ववादी त्वं, वेदार्थपरत्वादहवो हि नानात्ववादिनो वेदवाह्यास्त्वत्प्रतिपक्षा अतो ममाऽऽशङ्का न निर्णेष्यसीत्येतदेव मे स्वस्त्ययनं यन्मामेकयोगिनमने कयोगिबहुप्रतिपक्षमात्थ । अतो जेष्यामि सर्वानारभे च चिन्ताम् । अत्र च कस्मिन्पक्षे को दोपः को वा लाभ इत्याह-किं तत इति । उभय. त्रानुपपत्ति सशंयकारणमाह-यद्यन्यः स्यादिति । चोद्यमुखेन संशयव्यावृत्तिं प्रयो. जनमाह-याभयथेत्यादिना । एतदेव मम विचारारम्भकस्य स्वस्त्ययनं कल्याणं यन्मामेकत्ववादिनं त्वमात्थ पेऽप्रतिपन्नवस्तुवादित्वादनेकत्ववादिनोऽप्येकस्य वस्तुनः संमतत्वादनेकवस्तुवादिनश्च बहवः प्रतिपक्ष : सन्ति समेत्यर्थतोऽपि कल्याणमनेकत्वस्या- न्योन्याश्रयादिदोपदुष्टत्वात्पूर्वपक्षनिराकरणेन सिद्धान्तोपपत्तेश्चेत्यर्थः । स एव तु स्यात्तद्भावस्य विवक्षितत्वात् । तद्विज्ञानेन परमात्मभावो ह्यत्र विवक्षितो ब्रह्मविदामोति परमिति । न ह्यन्यस्यान्यभावापत्तिरुपपद्यते । ननु तस्यापि तद्भादापत्तिरनुपपन्नैव । न । अविद्याकृततादात्म्यापोहार्थत्वात् । या हि ब्रह्मविद्यया स्वात्मप्राप्तिरुपदिश्यते साऽविद्याकृतस्यान्नादिविशेपात्मन आत्म- खेनाध्यारोपितस्यानात्मनोऽपोहार्थी । कथमेवमर्थताऽवगम्यते विद्यामात्रोपदे- शान् । विद्यायाच दृष्ट कार्यमविद्यानिवृत्तिस्तच्चेह विधामात्रमात्मप्राप्तौ साधन. .

८ अष्टमोऽनुवाकः] तैत्तिरीयोपनिपत् । ९१ मुपदिश्यते । मार्गविज्ञानोपदेशवदिति चेत्तदात्मत्वे विद्यामात्रसाधनोपदेशोऽहेतुः । कस्मात् । देशान्तरमाप्तौ मार्गविज्ञानोपदेशदर्शनात् । न हि ग्राम एव गन्तेति चेत् । न । वैधात् । तत्र हि ग्रामविपर्य विज्ञान नोपदिश्यते तत्प्राप्तिमार्गविषय- मेवोपदिश्यते विज्ञानं न तथेह ब्रह्मविज्ञानव्यतिरेकेण साधनान्तरविषयं विज्ञान- मुपदिश्यते । उक्तकर्मादिसाधनापेक्षं ब्रह्मविज्ञानं परप्राप्तौ साधनमुपदिश्यत इति चेत् । न । नित्यत्वान्मोक्षस्येत्यादिना प्रत्युक्तत्वात् । श्रुतिश्च तत्सृष्ट्वा तदे- चानुमाविशदिति कार्यस्थस्य तदात्मत्वं दर्शयति । अभयप्रतिष्ठोपपत्तेश्च । यदि वि विद्यावान्स्वात्मनोऽन्यन्न पश्यति ततोऽभयं प्रतिष्ठा विन्दत इति स्याद्भय- हेतोः परस्यान्यस्याभावात् । भिचारारम्भमुपपाद्य सिद्धान्तमुपक्रमते-स एव तु स्यादिति । औपाधिकभेदभि- न्नोऽप्येवंवित्स्वतः पर एव स्थादित्यर्थः । अविद्याध्यारोपिताब्रह्मत्वव्यावृत्तिरेव ब्रह्मप्राप्ति विवक्षितेति फलवाक्यस्यैवमर्थता कथमवगम्यते न पुनरप्राप्तप्राप्तिरित्याह-कथमिति । परिहरति-विद्यामात्रेति । अन्यथाऽप्युपपत्तिं शङ्कते- मार्गेति । गन्तुः स्वतो ग्राम- स्वाभावेऽपि यथा मार्गज्ञानोपदेशः सार्यकस्तथा जीवस्य स्वतों ब्रह्मत्वाभावेऽपि विद्यो- पदेशोऽभ्यासद्वारेण ब्रह्मप्राप्तिहेतुत्वादित्यर्थः । त्वं प्र.मोऽसीति न तत्रोपदेशः । अत्रा- भेदोपदेशः प्रतीयतेऽत उपदेशवैषम्यान्न दृष्टान्तो युक्त इत्याह-न वैधादिति । अन्यस्य चाविद्याकृतत्वे विद्ययाऽवस्तुत्वदर्शनोपपत्तिस्तद्धि द्वितीयस्य चन्द्रस्य सत्त्वं यदतैमिरिकेण चक्षुश्मता न गृह्यते नैवं न गृह्यत इति चेन सुप्तसमाहितयोरग्रहणात् । सुषुप्तेऽग्रहणमन्यासक्तवदिति चेत् । न । सर्वाग्रह- णात् । जाग्रत्स्वमयोरन्यस्य ग्रहणात्सत्त्वमेवेति चेत् । न । अविद्याकृतत्वाज्जा- ग्रत्स्वप्नयोर्यदन्यग्रहणं जाग्रत्स्वप्नयोस्तदविद्याकृतमविद्याभावेऽभावात् । यदि विदुषः सकाशादन्य ईश्वरों भयहेतुर्नास्ति का तर्हि गतिव्यतिरिक्तेश्वरदर्शनस्थे. त्याशङ्कयाऽऽह-अन्यस्य चेति । कलितभेदविशिष्टरूपेणेश्वरस्याविद्याकृतत्वे मिथ्यात्वे सति विद्यया तत्रावस्तुत्वदर्शनमुपपद्यते । ईश्वरों मम प्रशास्तति मिध्येतद्यतस्तस्य मम पैकात्म्यमेव परमार्थमिति विद्वदृष्ट्या विशिष्टस्वासत्त्वमित्यर्थः । दृष्टान्तेन वैषम्यं शङ्कते-नैवमिति । यथा चन्द्रैकत्वदर्शनाट्विीयश्चन्द्रो न गृह्यते नैवं ब्रह्म विदा न गृह्यते व्यतिरिक्तेश्वरः । प्रतिनियतप्रपञ्चावभासस्व भोजनादिप्रवृत्त्यनुप- . १ क. अ. °न्द्रस्यास' । २ क. यदा समिति ते' । त्र बदाडौ। ३ ख. ग. ङ. त. सुषुप्त' । ४ ख. ग. झ. 'दर्शिना किती ।

९२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[२ब्रह्मवल्ल्यध्याय- पत्त्या जीवन्मुक्तस्याप्यभ्युपगमात्प्रपञ्चप्रतिनियमस्य चेश्वराचीनत्वाभ्युपगमादित्यर्थः । यद्यपि जागरे व्यतिरकाभासदर्शनं विदुषस्तथाऽपि न तद्भयकारणं न हिं मायावी स्वविरचित- व्याघ्राभासादिभेति । अघिदुपाऽपि व्यतिरेकदर्शनं न सदातनमित्याह-न सुप्तेति । मुपप्ते ब्यतिरेकाग्रहणमसत्वसाधकं न भवतीत्याह-सुपुप्त इति । यये कार इष्वा- सक्तमनस्तया तव्यतिरिक्त विद्यमानमपि न पश्यति तथा मुगुऽपि निरायास. मुग्वासक्ततया सदपि द्वितीयं न पश्यति न त्वभावादित्यर्थः । अन्यासक्तस्य तद्व्य- तिरिक्तादर्शनेऽपि नदर्शनभेवास्ति सुषुप्ते तु न किंचिदज्ञासिपमिति प्रत्ययात्मुखस्याप्यात्मता- दाम्पादज्ञानस्य च व्यतिरिक्तत्वानिर्वचनादतस्ताविकद्वितीयाभावादेवाग्रहणमित्याह-न मर्वाग्रहणादिति । मुषप्ते चेदनुपलम्भादसत्त्वं तहि जाग्रत्स्वप्नयोरुपलम्भातस्य सत्त्वं किं न स्यादिल्याह-जाग्रदिनि । अनात्मादावात्मत्वादिबुद्धिरविद्या रद्भाव एव द्वैतोप- रम्भानापलम्भमात्र सत्तमाधकमन्यथा शुक्तिरूप्यारिपि सत्वप्रसङ्गादित्याह-नाविद्येति । मुफ्तेऽग्रहणमप्यविद्याकृतमिति चेत् । न । स्वाभाविकत्वात् । द्रव्यस्य हि तत्त्वमविक्रिया परानपेक्षत्वाद्विक्रिया न तत्त्वं परापेक्षत्वात् । न हि कारका- पेक्षं वस्तुनस्तत्त्वं सतो विशेषः कारकापेक्षो विशेपश्च विक्रिया । जाग्नत्स्वभयोथ ग्रहणं विशेषः । यद्धिः यस्य नान्यापेक्षं स्वरूपं तत्तस्य तत्त्वं यदन्यापेक्षं न तत्तत्त्वम् ।। अन्याभावेऽभावात् । तस्मात्स्वाभाविकत्वाज्जामत्स्वमवन्न मुषप्ते विशपः । पूर्ववाद्याह-सुपुप्त इति । सुपुते द्वितीयस्याग्रहणमपि लयरूपाविद्याकृतं न तु भेदाभावनिबन्धनमती यदु मुपुते सर्वात्मकब्रह्मभृतो जीवः स्वव्यतिरिक्तमभावादेव न पश्यतीति तदमदिव्यर्थः । सतोऽपि द्वितीयस्याविद्यावशादग्रहणमिति कोऽर्थः । कि ग्रहणप्रागभावो जायत उताप्रकाशारोपः विवाऽग्रहणाकाराविकृतस्वरूपावस्थानम् । नाऽऽद्यः । प्रागभावम्यानादित्वाभ्युपगमात् । न द्वितीयः । पद्धितीयस्यास्वप्रकागता- स्वाभाव्याभ्युपगमैनामकामारोपानभ्युपगमादप्रकागारोपे च सर्वस्य स्वप्रकायब्रह्मात्म- ताया अभ्युपगन्तव्यत्वेनास्मस्ममीहितमिद्धिप्रमङ्गात् । न तृतीय इत्याह-न स्वाभा- विकन्वादितिः। भविकृतस्वरूपावस्थान नाविद्याकार्यमनागन्तुकत्वादित्यर्थः । एतत्स्फुट- यति-द्रव्यस्य हीत्यादिना ।.सन्मानं द्रव्यमुच्यते स्वातन्त्र्यसिद्धयभिप्रायेण न वैगे- पिकाभिप्रायेण क्रियावद्गवत्समवाथिकारणं द्रव्यं मानाभावादितिं द्रष्टव्यम् । अवि- क्रियेति । निक्रियाभायोपलक्ष्य स्वरूपमनपेक्ष्य सिद्धवादित्यर्थः । ग्रहणादिविक्रिया न १ क. प. छ. ज. स. पगारे !

८ अमे.ऽनुवाकः] तत्तिरीयोपनिपत् । ९३ स्वाभाविकी परापेक्षयारफटिकलौहित्यवादित्यर्थः । यदुक्तमनपेक्ष्य सिद्धत्वादविक्रियत्वमिति तारपुटयति- यदीति । थेपा पुनरीश्वरोऽन्य आत्मनः कार्य चान्यत्तेपां भयानिवृत्तिर्भयस्यान्यनि- मित्तत्वात्सतश्चान्यस्याऽऽत्महानानुपपत्तिः । न चासत आत्मलामः । सापेक्षस्या- न्यस्य भयहेतुत्वमिति चेन्न तस्यापि तुल्यत्वात् । यदधर्माद्यनुसहायीभूतं नित्यमनित्यं वा निमित्तमपेक्ष्यान्यद्भयकारणं स्यात्त (त्, न, त ) स्यापि तयाभूतस्याऽऽत्महानाभावाद्यानिवृत्तिरोत्महाने वा सदसतोरितरेतरापत्तों सर्व- त्रानाम्वास एव। एवं स्वमते चित्सत्ताव्यतिरिक्त वरस्य भयहेतोरभावादभयं विदुपः संभवती युपपाद्य हेतीयपक्ष तदभवमाह -येपामिति । सतोऽन्यस्य स्वरूपे स्थिते नष्ट वा मा भद्र ध्यसो व्याघातादनवस्थानाच्च । तसत एंव (?) भयस्तोपादेऽभयप्राप्तिर्भविष्यतीत्याश- पाऽऽदन चासत इति । व्यतिरिक्तश्वरस्य सत्तामात्रेण न भयहेतु वं किंतु प्राणिकृत- धर्माधर्म.यपेक्षस्य मुक्तस्य तु तदभावाटभय भविष्यतीत्यागम्य नैतासांख्येन वाच्यम् । अधर्मादरपि सतस्तनासन्तासत्वानीवारानगायिकादिमतेऽपि सति तो कार्यात्यन्ताभा- वस्य दुरवधारणत्वात्तनापि न वायमित्याह-न तस्यापीति । किंच सच्चेदसत्त्वमापद्यतेऽध- मादिक तर्यामन्यपि क. प्रश्वासस्तस्मात्स्त्रगावपरीत्य सतोऽसत्त्वगमनं कस्यापि मते न घटत इत्याह-सदसतोरिति । एकत्वपक्षे पुनः सनिमित्तस्य संसारस्याविद्याकल्पितत्वाददोपः । तैमिरि- कदृष्टस्य हि द्विनी यचन्द्रस्य नाऽऽत्मलाभो नाशो वाऽस्ति । विद्याविद्ययोस्तद्धर्म- त्वमिति चेन्न प्रत्यक्षत्वात् । विवेकाविवेकौ रूपादिवत्प्रत्यक्षावुपलभ्येते अन्त:- करणस्था । न हि रूपस्य प्रत्यक्षस्य सतो द्रष्ट्रधर्मत्वम् । अविद्या च स्वानुभ वेन रूप्यते मोऽहमविविक्तं मम विज्ञानमिति । तथा विद्याविवेकोऽनुभूयते । उपदिशन्ति चान्येभ्य आत्मनो विद्यां बँधाः । तथा चान्येऽवधारयन्ति । नस्मानामरूपपक्षस्येव विद्या विद्ये नामरूपे च नाऽऽत्मधौं । "नामरूपयोनिहिता ते यदन्तरा तब्रह्म ” इति श्रुत्यन्तरात् । ते च पुनर्नामरूपे सवितर्यहोरात्रे इव कल्पिते न परमार्थतो विद्यमाने । अभेदे " एतमानन्दमयमात्मानमुपसक्रा- मति" इति कर्मकर्तत्वानुपपत्तिरिति चेन्न । विज्ञानमात्रत्वात्संक्रमणस्य । न जलू कादिवत्संक्रमणमिहोपदिश्यते कि तर्हि विज्ञानमा संक्रमणश्रुतेरर्थः । १ ख. ग. रात्नानात्मनोः स । २ क. ख. एवाभ' । ३ क. ड. . °न निरू° । ४ व. ह. 3 बुद्रा । ': ब. मी । "शो ह वे नाम ना ।

-- आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-२ ब्रह्मवल्ल्यच्याथे- स्वमतं निगमयति--एकत्वपक्ष इति । अविद्याकल्पितं भयं विद्यया निवर्तत इति वदता विद्याविद्ययोरात्मधर्मत्रमिष्टं ततो धर्मोत्पादविनाशयोर्विकारित्वमानिन्यत्वं च प्रसज्यतेति शकते-विद्याविद्ययोरिति । कलितयोपिद्याविद्यपोरान्मनि भवभयहेतुत्वसंभवान्नाऽऽत्म- धर्मत्वे प्रमाणमस्ति प्रत्युत वेद्यत्वाद्र्पादिवदात्मवर्मत्व नास्तीत्यनुमातुं शक्यत इत्याह-न प्रत्यक्षत्वादिति । चिन्मात्रतत्राऽनादिरनिर्वाच्याऽविद्याऽन्तःकरणरूपेण परिणमते तच्चा- न्तःकरणं तामससात्त्विकावस्थाभेदेन भ्रान्तिसम्यग्ज्ञानाकारेण परिणमते तस्मिन्प्रतिविम्बित- श्चिद्धातुः स्वोपाविधर्मेणैव भ्रान्तः सम्यग्दीति च व्यवहियते न तत्वतो विद्या विद्यावत्त्व- मित्याह-ते च पुनरिति । उक्तन्यावेन ब्रह्मवित्तत्त्वतो ब्रह्माभिन्न इत्युक्तम् । तत्र परो. क्तमुद्भाव्य निरस्यति--अभेदे, एतमित्यादिना । नाऽऽनन्दमयः परमात्मा न च तत्र प्रवेगः संक्रमणं किंत्यविषयब्रह्मात्मताज्ञाननाऽऽनन्दमयस्याऽऽमतया भ्रान्तिगृहीतस्य ति. क्रमणं वाधोऽत्र विवक्षित इत्यर्थः । ननु मुख्यमेव संक्रमणं श्रूयत उपसंक्रामती [ ती ] ति चेत् । न । अन्नम येऽदर्शनात् । न ह्यन्नमयमुपसंक्रामतो वाह्यादस्माल्लोकाजलूकावत्संक्रमणं दृश्य- तेऽन्यथा वा । मनोमयस्य वहिनिर्गतस्य विज्ञानमयस्य वा पुनः प्रत्यावृत्त्याऽऽ- त्मसंक्रमणमिति चेत् । न । स्वात्मनि क्रियाविरोधादन्योऽन्नमयमन्यमुपसंक्रा- मतीति प्रकृत्य मनोमयो विज्ञानमयो वा स्वात्मानमेवोपसंक्रामतीति विरोधः स्यात् । तथा नाऽऽनन्दमयस्याऽऽत्मसंक्रमणमुपपद्यते । तस्मान्न प्राप्तिः संक्र. मणं नाप्यन्नमयादीनामन्यतमकर्तृकं पारिशेष्यादन्नमयाद्यानन्दमयान्तात्मव्य- तिरिक्तकर्तृकं ज्ञानमात्रं च संक्रमणमुपपद्यते । ज्ञानमात्रत्वे चाऽऽनन्दमयान्न:- स्थस्यैव सर्वान्तरस्याऽऽकाशाद्यन्नमयान्तं कार्य सृष्टाऽनुप्रविष्टस्य हृदयगुहाभि- संबन्धादन्नमयादिष्वनात्मस्वात्मविभ्रमः संक्रमणेनाऽऽत्मविवेकविज्ञानोत्पत्त्या विनश्यति । तदेतस्मिन्नविद्याविभ्रमनागे संक्रमणशब्द उपचर्यते न ह्यन्यथा सर्वगतस्याऽऽत्लनः संक्रमणमुपपद्यते । वस्त्वन्तराभावाच्च स्वात्मन एव संक्रमपन् । न हि जलूकाऽऽत्मानमेव संक्रामति । तस्मात्सत्यं, ज्ञानमनन्तं ब्रह्मेति यथोक्तलक्षणात्मप्रतिपत्त्यर्थमेव बहुभवनसर्गप्रवेशरैसलाभा- भयसंक्रमणादि परिकल्प्यने ब्रह्मणि सर्वव्यवहारविषये न तु परमार्थना निर्वि कल्पे ब्रह्मणि कश्चिदाप विकल्प उपपद्यते । न च ru १ क. 'रमाभ' । द. समयाभ ।

९नमोऽनुवाक.) तत्तिरीयोपनिषत् । अन्यथा वेति । नीडे पक्षिप्रवेशववेयर्थः । यद्यप्यन्नमये मुख्यं संक्रमणं न संभ. वति तथाऽपि मनोबुभयोधरि विषये प्रवृत्तयोस्ततो व्यावृत्य स्वरूपेऽवस्थानं संक्रमणं दृएं तथा दु.ग्विन आनन्दमयस्य स्वरूपऽवस्थानं सक्रमणं भविष्यतीत्याह-मनोमय- स्यति । स्वरूपाचम्यानस्यानागन्तुक वा प्रक्रमविरोधान्च न तन्मुख्यं सक्रमणमित्याह- नति । तानमात्रत्वे यासक्रमणस्य किं फलतीत्यत आह-ज्ञानमात्रत्वे चेति । मुख्यासं- भवे गौणार्थग्रहणं न्यायमेवातोऽधिष्टानयाधात्म्यातिपत्त्या विशिष्टस्याध्यस्तस्य वाधनमेव संक्रमणं फलतीति भावः । उतश्च न मुख्यं संक्रमणमन्येषणीयमित्याह-वस्त्वन्तरा- भावाचेति । संक्रमणस्यौपचारिकत्व व्याख्याय प्रकरणस्य महत्तात्पर्यमुपसहारच्छले. नाऽऽह---तस्मादिति ॥ तदप्येप श्लोको भवति । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि द्वितीये ब्रह्मवल्ल्य- ध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ तमेतं निर्विकल्पमात्मानमेवं क्रमेणोपसंक्रम्य विदित्वा न विभति कुतश्चना- भयं प्रतिष्ठा विदन्न इत्येतस्मिन्नर्थेऽप्येप शोको भवति । सर्वस्यैवास्य प्रकर- णस्याऽऽनन्द वल्ल्यर्थस्य संक्षेपतः प्रकाशनार्यप मन्त्रो भवति । इति श्रीमत्परमहसपरिव्राजकाचार्थगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तत्तिरीयोपनिपदि द्वितीये ब्रह्मवल्ल्यध्याये- ऽष्टमोऽनुवाकः ।। ८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तेत्ति- रीयोपनिपच्छाकरभाष्यटीसया दितीय ब्रह्मवल्ल्यध्यायेऽष्टमोऽनुवाकः ।। ८ ।। अथ ब्रह्मवल्ल्यध्याये नवमोऽनवाकः । यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न विशेति कुतश्चनेति । १ ज. ठ. वृत्तस्व । २ क, झ, यस्व ।

- ९६ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-२ब्रह्मवल्ल्यध्याये- . यतो यस्मानिर्विकल्पायथोक्तलक्षणादद्वयानन्दादात्मनो वाचोऽभिधानानि द्रव्यादिसविकल्पवस्तुविषयाणि वस्तुसामान्यान्निर्विकल्पेऽद्वयेऽपि ब्रह्मणि प्रयो. तृभिः प्रकाशनाय प्रयुज्यमानान्यप्राप्याप्रकाश्यैव निवर्तन्ते स्वसामर्थ्याद्धी. यन्ते । मन इति प्रत्ययो विज्ञानम् । तच्च यत्राभिधानं प्रवृत्तमतीन्द्रियेऽप्यर्थे तदर्थे च प्रवर्तते प्रकाशनाय । यत्र च विज्ञानं तत्र वाचः प्रवृत्तिः । तस्मात्स- हैव वामनसयोरभिधानमत्यययोः प्रवृत्तिः सर्वत्र । तस्माद्ब्रह्मप्रकाशनाय सर्वथा प्रयोक्तृभिः प्रयुज्यमाना अपि वाचो यस्मादप्रत्ययविषयादनभिधेयाददृश्यादि- विशेषणात्सहैव मनसा विज्ञानेन सर्वप्रकाशनसमर्थेन निवर्तन्ते तं ब्रह्मण आनन्दं श्रोत्रियस्याजिनस्याकामहतस्य सर्वैपणाविनिर्मुक्तस्याऽऽत्मभूतं विषय- विपयिसंवन्धविनिर्मुक्तं स्वाभाविक नित्यमविभक्तं परमानन्दं ब्रह्मणो विद्वा- न्यथोक्तेन विधिना न विभति कुतश्चन निमित्ताभावात् । न हि तस्माद्विदुषोऽन्यद्वस्त्वन्तरमस्ति भिन्नं यतो विभेति । अविद्यया यदोदरमन्तरं कुरुते । अथ तस्य भयं भवतीति युक्तम् । विदुपश्चाविद्याकार्यस्य तैमिरिकदृष्ट. द्वितीयचन्द्रवन्नाशाद्भयनिमित्तस्य न विभेति कुतश्चनति युज्यते । मनोमये चोदाहृतो मन्त्रो मनसो ब्रह्मविज्ञानसाधनत्वात् । तत्र ब्रह्मत्वमध्यारोप्य तत्स्तु- त्यर्थ न विभेति कदाचनेति भयमानं प्रतिपिद्धमिहाद्वैतविषये न बिभेति कुतश्च - नेति भयनिमित्तमेव प्रतिषिध्यते । नन्वस्ति भयनिमित्तं साध्वकरणं पापक्रिया च । नैवम् । कथमित्युच्यते- एत५ ह वाव न तपति। किमह साधु नाकरवम् । किमहं पापमकरवमिति । एतं यथोक्तमेवंविदम् । ह वावेत्यवधारणाएँ। न तपति नोद्वेजयति न संता- पयति । कथं पुनः साध्वकरणं पापक्रिया च न तपतीत्युच्यते । किं कस्मात्साधु शोभनं कर्मनाकरवं न कृतवानस्मीति पश्चात्संतापो भवत्यासन्ने मरणकाले । तथा किं कस्मात्पापं प्रतिपिद्धं कर्माकरवं कृतवानस्मीति च नरकपतनादिदुःखभया- १ क. ञ, ट. ति यस्मात्सं ।

- वेद । ९ नवमोऽनुवाकः] नत्तिरीयोपनिषत् । ९७ तापो भवति । ते एते मावकरणपापक्रिये एवमेनं न तपतो यथाऽविद्वांसं तपतः ॥ कस्मात्पुनर्विद्वांसं न तपत इत्युच्यते- स य एवं विद्वानते आत्मान५ स्पृणुते । उभे येवेष एते आत्मनिर स्पृणुते । य एवं इत्युपनिषत् ॥ इति कृष्णयजुर्वेदीयतत्तिरीयोपनिषदि द्वितीय ब्रह्मवल्ल्यध्याये नवमोऽनुवाकः ॥ ९ ॥ स य एवंविद्वानेते साध्वसाधुनी तापहेतू इत्यात्मानं स्पृणुने मीणयति बलयति वा परमात्मभावेनोभे पश्यत्तीत्यर्थः । उभे पुण्यपापे हि यस्मादेवमेष विद्वानेते आत्मानमात्मरूपेणैव पुण्यपापे स्वेन विशेषरूपेण शून्ये कृत्वाऽऽत्मानं स्पृणुत एव । को य एवं वेद यथोक्तमद्वैतमानन्दं ब्रह्म वेद तस्याऽऽत्मभावेन दृष्टे पुण्यपापे निर्वीर्ये अतापके जन्मान्तरारम्भके न भवत इत्तीयमेवं ययो- ताऽस्यां वल्लयां ब्रह्मविद्योपनिपल्सर्वाभ्यो विद्याभ्यः परमरहस्यं दर्शितमि- त्यर्थः। परं श्रेयोऽस्यां निषण्णमिति ।। इति श्रीमत्वरमहंसपरित्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये द्वितीये ब्रह्मवल्ल्यध्याये नवमोऽनुषाकः ॥९॥ साध्वसाधुनी स्तः प्रकागेते चेति सत्प्रकाशमात्रमात्मतत्त्वमेव तयोः स्वरूपं ततोs- तिरिक्तं यदर्थानर्थहेतुत्वं नामविशेषरूपं तन्न वस्तु सत्प्रकाशान्यत्वेनासत्वादप्रकाशमान- स्वाचेत्यभिप्रेत्याऽऽह--स्वेन विशेषरूपेणेति । आत्मैवाविद्यया साध्वसाधुरूपेण प्रति- पन्न आसीत् । इदानीं ये साध्वसाधुनी ममार्थानर्थहेतू वभूवतुस्ते आत्मैवेति ज्ञानेन स्वात्मानं साध्वसाधुकरणेन प्रीणयत्येव लोकदृष्टया निष्पद्यमाने पुण्यपापे दृष्ट्वा हृष्यते (ति ) च विद्वान बितीत्साह - स्पृणुत एवेति ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां तैत्तिरीयोप- निषच्छाकरभाष्यटीकाया द्वितीये ब्रह्मवल्ल्यध्याये नवमोऽनुवाकः ॥ ९ ॥ १ ज. झ न उ. दृश्यने ।

९८ आनन्दगिरिकृतीकासंवलिवशांकरभाष्यसमेता- [२ ब्रह्म अनु०९] ब्रह्मविदिदमेकविशतिरन्नादन्नरसमयात्माणो व्यानोऽपान आकाशः - पृथिवी पुच्छ५ षड्विशतिः प्राणं यजुर्ऋक्सामाऽऽदेशोऽथ गिरसः पुच्छं द्वाविशतिर्यतः श्रद्धर्त५ सत्यं योगो महोऽष्टादश विज्ञानं प्रियं मोदः प्रमोद आनन्दो ब्रह्म पुच्छं द्वावि शतिरसन्नेवाष्टाविशतिरस- षोडश भीषाऽस्मादेकपञ्चाशद्यतः कुतश्चैकादश ॥ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ। इति कृष्णयजुर्वेदीयतेचिरीयोपनिषदि द्वितीयो ब्रह्मवल्ल्यन ध्यायः समाप्तः ॥ २ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य शंकरभमवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये द्वितीयो ब्रह्मवल्ल्यध्यायः समाप्तः ॥ २ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दभगवत्पूज्यपादशिष्यश्रीमद्भगवदा- नन्दज्ञानविरचिताया तैत्तिरीयोपनिषच्छाकरभाष्यटीकाया द्वितीयो ब्रह्मवल्ल्यध्यायः समाप्तः ॥ २॥ .

अथ निर्गयोपनिषदि गीयो भूगुवर यायः । . गा। हरि: । -. नह नाववतु । मह नौ भुननु मह वीर्य करवाह । तेजस्वि नावधीतमस्तु मा विद्विपावह । ॐ शान्तिः शान्तिः शान्तिः । इति सामः। सत्यं ज्ञानपनन्नं आमाऽऽकामादिकार्यमन्नमयान्तं सृष्टा तदेवानुपविष्टं विशे- पन दिवोपलभ्यमानं यरमाचस्मात्सर्वकार्यविलक्षणमदृश्यादिधर्मकमेवाऽऽनन्द तदेवामिति विजानीयादनुप्रवेशस्य तदर्थत्वात्तस्यवं विजानतः शुभाशुभे कर्मणी जन्मान्तरारम्भके न भवन इत्येवमानन्दवल्ल्यां विवक्षितोऽर्थः । परि- समाप्ता च ब्रामविद्या । अतः परं ब्रामविद्यासाधनं तपो वक्तव्यमन्नादिविष- याणि चोपासनान्यनुक्तानीत्यत इदमारभ्यते-- भृगुर्थे वारुणिः । वरुणं पितरमुप॑ससार । अधीहि भगयो ब्रह्मेति । तस्मा एतत्मोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । त५ होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातांनि जीवन्ति । यत्प्रयन्त्यभिसंवि- शन्ति । तद्विजिज्ञासस । तद्ब्रह्मेति । आख्यायिका विद्यारतुतये, प्रियाय पुत्राय पित्रोक्तेति--भृगुवं वारुणः । . ५ . 'गन्नमयाना'।

९८ आनन्दगिरिकृतटीकासंबलिवशांकरभाष्यसमेता- [२ ब्रह्म अनु०९] ब्रह्मविदिदमेकविशतिरन्नादन्नेरसमयात्प्राणो व्यानोऽपान आकाशा पृथिवी पुच्छ५ पड्विशतिः प्राणं यजुर्ऋक्सामाऽऽदेशोऽथ ङ्गिरसः पुच्छं द्वाविंशतिर्यतः श्रद्धर्त५ सत्यं योगो महोऽष्टादश विज्ञानं प्रियं मोदः प्रमोद आनेन्दो ब्रह्म पुच्छं द्वाविशतिरसन्नेवाष्टाविंशतिरस- पोडश भीषाऽस्मादेकपञ्चाशयतः कुतश्चैकादश ।। सह नाववतु । सह नौ भुनक्तु । सह वीर्य करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ। इति कृष्णयजुर्वेदीयतेचिरीयोपनिषदि द्वितीयो ब्रह्मवल्ल्य, ध्यायः समाप्तः ॥ २ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमगोविन्दभगवत्पूज्यपादशिष्यस्य शंकरभगवतः कृतो तैत्तिरीयोपनिषद्भाष्ये द्वितीयो ब्रह्मवल्ल्यध्यायः समाप्तः॥२॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दभरावत्पूज्यपादशिष्यश्रीमद्भगवदा- नन्दज्ञानविरचिताया तैत्तिरीयोपनिषच्छाकरभाष्यटीकाया द्वितीयो ब्रह्मवल्ल्यध्यायः समाप्तः ॥२॥ ५ अब निगयोपनिषदि जो गायः । 1.1.. मा नाययन् । नद नौ जनन् । नापी करवावह । जम्बि नावधीतमस्तु गा विद्विपा? । ॐ शान्तिः शान्तिः शान्तिः । । मन्य हानमनन्तं पायाफामादि कार्यपन्नमयान्नं सट्टा नदेवानुमविष्टं विशे- परदियापर यमानं यम्माजम्मा गर्वकार्यविरक्षणमदृष्ट्यादिधर्म कमेवाऽऽनन्द नवामिनि विजानीयाद नुमगन्य नदत्यात्तन्य विजानतः शुभाशुभे फर्मणी जनमान्नरारम्भक न भवन रत्येवमानन्दवल्ल्यां विवक्षिनोऽर्थः । परि- समाप्ता च नाविधा प्रा. परं ब्रानियायाधनं तपो वक्तव्यमन्त्रादिविप- चाणि चोपासनान्यन नानीयन रनमारभ्यने---- । वरुणं पितरमुप॑ससार । अधीहि गयो बामति । तस्मा एतत्मोवाच । अन्ने प्राणं चक्षः श्रोत्रं मना वाचमिति । त५ होवाच । यता या इमानि भूतानि जायन्ते । थन जातानि जीवन्ति । यत्प्रयन्त्यभिसंवि- शन्ति । तद्विजिजाम । तद्वति । पाण्यायिका विद्याग्नुनये. प्रियाय पुत्राय पित्रोक्तेति--भृगुवं वारुणः । भृगवं वाणिः . . ५. मनमयाना।

१०० आनन्दगिरिकृतटीकासंवलिनशांकरभाष्यसमेता-३ भृगुवल्ल्यध्याये- वैभन्दा प्रसिद्धानुस्मारको भूगुरित्येवंनामा प्रसिद्धोऽनुस्मर्यंत । वारुणिरुण- म्यापत्यं वारुणिवरुणं पितरं ब्रह्म विजिज्ञासुरुषससारांपगतवान् । अधीहि भगवो ब्रह्मत्यनेन मन्त्रेण । स च पिता विधिवदुपसन्नाय तस्मै पुत्रायतद्वचनं मोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । अन्नं शरीरं तदभ्यन्तरं च प्राणमत्तारमुपलब्धिसाधनानि चक्षुः श्रोत्रं मनो वाचमित्येतानि ब्रह्मोपलब्धों द्वाराण्युक्तवान् । उक्त्वा च द्वारभूतान्येतान्यन्नादीनि नं भृगु होवाच ब्रह्मणो लक्षणम् । किं तत् । यतो यस्माद्वा इमानि ब्रह्मादीनि स्तम्बपर्यन्तानि भूतानि जायन्ते । येन जातानि जीवन्ति प्राणान्धारयन्ति वर्धन्ते । विनाशकाले च यत्पयन्ति यड्रह्म प्रतिगच्छन्ति, अभिसंविशन्ति तादात्म्यमेव प्रतिपद्यन्ते । उत्पत्तिस्थितिलयकालेषु यदात्मतां न जहति भूनानि तदेतहह्मणो लक्षणम् । तद्रह्म विजिज्ञासस्त्र विशेषेण ज्ञातुमिच्छस्व । यदेवलक्षणं ब्रह्म तदन्नादिद्वारेण प्रतिपद्यस्वत्यर्थः । श्रुत्यन्तरं च-" प्राणम्य प्राणमुत चक्षुपश्चक्षुरुत भोत्रस्य श्रोत्रमन्नस्यान्नं मनसो ये मनो विदुस्ते निचिक्युब्रह्मपुराणमय्यम्" इति ब्रह्मोपलब्धों द्वाराण्यतानीति दर्शयति देतीय वृत्तानुवादपूर्वकमुत्तरव.xi प इति । पदा- धविवरणं वाक्या............. 1.... - ', ... है . न्यपाद । उस्मरणे" ރަނަހަ ޚިދރި. ނޭ यो णि शरीरादि. . v, " --- पद्ध މިއީ ޕީ.. .ބީއާރ च्याये 2,14 hi-मः -- MAHAN in maiच बनुन झारलब्धि- 1887111,111.5 1 पुरनदियन नश्यः भावनचनिपत्ति- १५१, 44117-18 22,4silpera: भागमा द्वार लक्षणं च यता वा इम्पनी- 1111 1111 1 44. TATATE निर्देशान । अन्यथा हि स्वरुप up tips intum (AARAK पापिम्प बयनि । न च निरदिशकि t, , ' ५५ अर्थयार्थः । म । ३. ण°। min, "||110 MEIN || २माउनुस । नगिरीयोपनिषत् । १०१ नहि मावशेषमानवान । अनावगम्यने ननं माधनान्तरमप्यपेक्षते पिता प्रायविज्ञान प्रनीनि । तपःविशेषानिपत्तिस्तु सर्वसाधकतमत्वात, सर्वेषां हि नियतसायविषयाणां सारनानां ना पर माधकनमं मायनमिनि हि प्रसिद्ध लोके । नम्मारिपत्राऽनुपदिष्मपि ब्रमविज्ञान माधनन्यन तपः प्रनिपेदे भृगुः । तब तपो चाहान्तःकरणममाधानं तदवारकन्वाइमानिपतेः । " मनमधेन्द्रियाणां च काध्यं परमं नपः । नव्यायः सर्वधर्मभ्यः स धर्मः पर उच्यते " इति स्मृते. । सच नपस्तात्वा । नि श्रीमत्परमा परिमाजकाचार्यगोविन्द भगवायपादशियधीर-छंकरभगवतः ती तात्तरीयोपनिषदि तृतीयभृगुवल्यध्यायभाष्ये प्रथमोऽनुवापाः ।। १ ॥ न केवल यमज्ञानं वाक्याजाननाधन किंतु पदार्थज्ञानमपीत्यभिप्रेत्य तदर्थ प्रह्मणो लक्षणमुक्तवानियः । सावशेपोक्तगिनि । पदार्थोपटक्षणस्यैवाभिवानादखण्ड. वास्यास्यापतिपादनापदाभेदज्ञानाञ्च पुरुषार्थासंभवादरमन्तरं कुरुत इति निन्दित- बादतो वाक्यार्यावनिपर्य-तं तात्पर्येग लक्ष्यपदार्थविचारणमावृत्याऽनुष्टितवानित्यर्थः ।। इति श्रीमत्पर मदनपरिमान सागर्भश्रीमच्छर- गठिप्यानन्दशानविरचिताग तैत्तिरीयोपनि. पच्चारभाष्यवीकाया भगन्न्यध्याये प्रथमोऽनपाकः ॥ १ ॥ - जय भृगयल्या द्विीयोऽनुवाकः । अन्नं ब्रह्मति जानात् । अन्नाद्धथैव खल्वि- मानि भूतानि जायन्ते । अन्नन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति तद्वि- ज्ञार्य । पुर्नग्य पुर्नव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त५ होवाच । १. ध ग घ. ललय ३° ।

१०२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेना- [३ भृगुवल्ल्यध्याये- तपसा ब्रह्म विजिज्ञासस्वं । तपो ब्रह्मेति । स तपोऽप्यत । स तपस्तप्त्वा । इति कृष्णयजुर्वेदीयतेत्तिरीयोपनिपदि तृतीये भृगुवल्ल्यध्याये द्वितीयोऽनुवाकः ॥ २॥ अन्नं ब्रह्मेति व्यजानाद्विज्ञातवान् । तद्धि यथाक्तलक्षणोपेतम् । कथम् । अन्नाद्धयेवं खल्विमानि भूतानि जायन्ते । अनेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तस्माद्युक्तमन्नस्य ब्रह्मत्वमित्यभिप्रायः । स एवं तपस्तप्त्वाऽन्नं ब्रह्मेति विज्ञाय लक्षणेनोपपत्त्या च पुनरेव संशयमापन्नो वरुण पितरमुपससार । अधीहि भगवो ब्रह्मेति । कः पुनः संशयहेतुरस्येत्युच्यते । अन्नस्योत्पत्तिदर्शनात् । तपसः पुनः पुनरुपदेशः साधनातिशयत्वावधारणार्थः । यावहह्मणो लक्षणं निरतिशयं न भवति यावच्च जिज्ञासा न निवर्तते तावत्तेप एव ते साधनम् । तपसव ब्रह्म विजिज्ञासस्वेत्यर्थः । ऋज्वन्यत् । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छं- करभगवतः कृतौ तैत्तिरीयोपनिपदि तृतीयभृगुवल्ल्यध्यायभाष्ये द्वितीयोऽनुवाकः ॥२॥ स च तपस्तप्त्वति । कुवेदं पित्रोक्तं लक्षणं केदं लक्षणं वर्तते परिपूर्ण भवतीत्ये- काग्रेग चेतसा पर्यालोच्यान्नं ब्रह्मेति व्यजानात् । अद्यते भुज्यत उपलभ्यते सबैरिति सर्वप्रतिपत्तृसाधारणं स्थूलदेहकारणं भृतपञ्चकं विराट्संज्ञकमन्नशब्देनोच्यते । तस्य स्थलमैतिककारणत्वात् । यतो वा इमानि भुतानीतिलक्षणस्य तत्र योजयितुं शक्यत्वात्त- ब्रह्मेति प्रतिपन्नवानित्यर्थः । इति श्रीमत्परमहसपरिव्राजकाचार्यश्रीमच्छकरभगवच्छिष्यानन्दज्ञानविरचिताया तैत्ति- रीयोपनिनच्छाकरभाष्यटीकाया तृतीये भृगुवढ्यध्याये द्वितीयोऽनुवाकः ॥२॥ अथ भृगुवल्ल्यां तृतीयोऽनुवाकः । प्राणो ब्रह्मेति जानात् । प्राणाद्धयेव खल्वि- मानि भूतानि जायन्ते । प्राणेन जातानि १च. इ. च. ववित्ये' ।

४ चतुऽनुवाकः तत्तिरीयोपनिषत् १०३ जीवन्ति । पाणं प्रयन्त्यभिसंविशन्तीति । तद्विजाय । पुर्नरय वरुणं पितरमुपंससार । अधीहि गयो ब्रह्मेति । त५ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मति । स तपाऽतप्यत स तपस्तप्त्वा । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्याये तृतीयोऽनुवाकः ॥ ३ ॥ इति धीमत्परमहसपरिमाजकाचार्यगोविन्दभगवाज्यपाटशिप्यश्रीमच्छंकर- भगवतः कृती तैत्तिरीयोपनिषद्धाष्ये तृतीये भृगुवल्ल्यध्याये तृतीयोऽनुवाकः ॥ ३ ॥ विराज उत्पत्तिदर्शनाच्छ्रुतिस्मृतिपु लक्षणं तत्र सपूर्ण न भवतीति पुनस्तपोऽतप्यत । विचार्य च तत्कारणं क्रियाशक्तिविशिष्टतया प्राणदलक्ष्यं हिरण्यगर्भ संकल्पाध्यवसाय- शक्तिविशिष्टतया च मनोविज्ञानशब्दलक्ष्य ब्रह्मति व्यजानात् । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचिताया तैत्तिरी- योपनिपच्छाकरभाष्यटीकाया भृगुवल्ल्यध्याये तृतीयोऽनुयाकः ॥ ३ ॥ अथ भृगुवल्ल्यां चतुर्थोऽनुवाकः । मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्वि- मानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त५ होवाच । १स, ञ, ट. विषयत' । २ ख. ग. च. शक्तिल° । " १०४ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[३भृगुवल्यध्याये- तपसा ब्रह्म विजिज्ञासस्व । तपो. ब्रह्मेति । स तपेोऽतप्यत । स तपस्तप्त्वा । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीय भृगुवल्ल्यध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ - . अथ भृगुवल्या पञ्चमोऽनुवाकः । विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्यैव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसं-- विशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपंससार । अधीहि भगवो ब्रह्मेति । त होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोडतप्यत । स तस्तप्त्वा । इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्याय पञ्चमोऽनुवाकः ॥ ५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमन्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये तृतीये भृगुवल्ल्यध्याये चतुर्थपञ्चमावनुवाको समाप्तौ ॥ ४ ॥ ५ ॥ इति श्रीमत्परमहसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचिताग तैत्तिरीयोप- निषच्छांकरभाष्यटीकाया तृतीये भृगुवल्ल्यध्याये चतुर्थपञ्चमावनुवाको समाप्तौ ॥ ४ ॥ ५ ॥ - अथ भृगुवल्ल्यध्याये षष्ठोऽनुवाकः । आनन्दो ब्रह्मेति व्यजानात् । आन- न्दायेव खल्पिमानि भूतानि जाय- 1 - ६पने गुजर ननिर्गियोपनिषत् । न्त । आनन्दन जानानि जीवन्ति । आनन्ः प्रत्याशिमविशन्तीति एवं नपना विमुलान्मा पाणादिप साफल्येन ब्रह्मलक्षणमपश्यञ्शनैः अनग्न्तग्न मक्विान्नमामानन्द बाल विज्ञानवांतपसव साधनेन भृगुस्त- स्मानाय विनितानना कमान्तःकरणसमा शनलक्षणं परमं तपःसाधनगनुष्य- मिति प्रकरणायः। तस्यापि पाववादमण परिपूर्ण न भवतीति विचार्य ताकारण स्वातयण निधित्य नः प्रायमानतयाऽननादयामागवि ब्रमनि विहाय विशिष्टस्य विशि. धान्तराम जानुपपने कारण पनि शुहान र प्रगति विज्ञानवानित्यर्थः । अधुमाऽऽरच्यायिकातोऽपसृत्य श्रुतिः स्खेन वचनेनाऽऽख्यायिकानित्त- मर्थमाच- सपा सर्मिवी वारुणी विद्या । परम धामन्प्रतिष्ठिता । स य एवं वेद प्रतितिष्ठति । सपा भार्गवी भूगुणा विदिता वरुणेन मोक्ता वारुणी विद्या परमे व्योमन्हृदयाकाशगुहायां परम आनन्देऽद्वैते प्रतिष्ठिता परिसमाप्ताऽन्नमयादा- स्मनोऽधिप्रवृत्ता । य एवमन्योऽपि तपसैव साधनेनानेनैव क्रमेणानुपवि- श्याऽऽनन्दं ब्रह्म वेद स एवं विद्याप्रतिष्ठानात्मतितिष्ठत्यानन्दे परमे ब्रह्मणि, ग्रीव भवतीत्यर्थः । दृष्टं च फलं तस्यांच्यते- अन्नवानन्नादो भवति । महानावति । प्रजयां पशुभिर्बह्मवर्चसेन । महान्कीर्त्या ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीय भृगुवल्लयध्याये पष्ठोऽनुवाकः ।। ६ ॥ . १ ख. ग. च. 'तन्त्र्ये सात स । २ ख. ग. ब. स. ट. 'टस्मवि । ३ ख. ग.च. "यिका चोपसंहत्य।

१८ ६ आनन्दगिरिकृतटीकासंवलिनशांकरभाष्यसमेता-३ भृगुवल्लपण्याये- अन्नवान्मभूनमन्नमस्य विद्यत इत्यभवान् । सत्तामात्रेण तु सर्वो खन्नवानिति विद्याया विशेषो न स्यात् । एवमन्नमत्तीत्यभादो दीप्ताग्निर्भवतीत्यर्थः । महा. न्भवति । केन महत्त्वमित्यत आह---प्रजया पुत्रादिना पशुभिर्गवाश्वादिभिम्रह्म- वर्षसेन अमदमज्ञानादिनिमित्तेन तेजसा । महान्भवति कीर्त्या ख्यात्या शुभ- प्रचारनिमित्तया ॥ इति श्रीमत्परमहंमपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवतः कृतौ तैत्तिरीयोपनिषदि तृतीय भृगुवल्यध्यायभाष्य घष्टोऽनुवाकः ॥ ६॥ प्रभूतत्वविशेषणमश्रुतं कथं निक्षिप्यत इत्याशङ्कयाऽऽह-सत्तामात्रेणेति । अत्र सत्ता. मात्रे विवाक्षते श्वसूकरादिरपि शरीर स्थित्याक्षिप्तानेनान्नवानिति विद्यायाः फलविशेषो नोक्तः स्यादतस्तबलात्प्रभृतत्वविशेषणं निक्षिप्तमित्यर्थः । एतच्च दृष्टफलं ब्रह्मविदो जीवन्मुक्तस्या- प्यविद्यालेशवशाव्ताभासं पश्यतो नानुपपन्नं यस्येश्वरस्यानुग्रह.दविदुषामप्यन्नादिसमृद्धि- ईश्यते किमुत तदात्मतत्त्वं साक्षादनुभवतामिति । इनि भीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्तिरीयोप. निषच्छाकरभाष्यटीकाया तृतीये भृगुवढयध्याये पष्ठोऽनुवाकः ॥ ६ ॥ अथ भृगुवढचव्याये सप्तमोऽनुवारः। अग्नं न निन्द्यात् । तद्वतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीर प्रतिष्ठितम् । शरीरे प्राणः प्रति ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । किंचाग्नेन द्वारभूवेन ब्रह्म विज्ञातं यस्मात्तस्माद्गुमिवान्नं न निन्या. सदस्यैवं ब्रह्मविदो व्रतमुपदिश्यते । अनोपदेशोऽन्नस्तुतये, स्तुतिभाक्त्वं चानस्य ब्रह्मोपलब्ध्युपायत्वात् । प्राणो वा अन्नम् । शरीरान्तर्भावा- माणस्य । यद्यस्यान्तः प्रतिष्ठितं भवति तत्तस्यान्नं भवतीति । गरीर च प्राणः प्रतिष्टितम्तम्मात्प्राणोऽनं शर्गमन्न.ढम् । तथा शरीरमप्यन प्राणोऽनादः । कस्मात्माण शरीरं प्रतिष्टितम् । तन्निमित्तत्वाच्छरीरस्थितेः । १ स. ग.च. अजय ।

८ भटनोऽनुवाकः] तैत्तिरीयोपनिषत् । १०७ तस्मात्तदेतदभयं भरीरं प्राणश्राममनादश्र । येनान्योन्यस्मिन्प्रतिष्ठितं तेनामम्। येनान्योन्यस्य प्रतिष्ठा देनानादः । तस्मात्माणः शरीरं चोभयमनमनादं च । भन्नमपसृष्टं मात न निन्द्यात् । यदृग्छया चोपपन्नमद्याच्छेष्टमुनावरम् इत्युक्त. त्यात् । ब्रह्मविदो नियमाभिधानं साधकस्यानुष्टानार्थम् । एवं वाक्यार्थज्ञाने लक्ष्यपदा. र्थानुसंधान मुख्यं साधनं तत्फलं चोपसंहृयाधुना विचारासमर्थस्य मन्दाधिकारिणोऽना- म्नादरूपेण प्राणायुपासनं गौण साधनं विधत्ते-पाणो वा अनमित्यादिना । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतिति- ठति। अन्नवानन्नादो भवति । महानवति प्रजयां पशुभिब्रह्मवर्चसन महान्कीया। इति कष्णय दायतत्तिरीयोपनिषदि तृतीय भृगुवल्ल्यध्याये सप्तमोऽनुवाकः ।। ७ ॥ स य एवमेतदमममे प्रतिष्ठितं वेद प्रतितिष्ठत्यन्नानादात्मने । किंचाममान- भादो भवतीत्यादि पूचित् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्यायभाष्ये सप्तमोऽनुवाकः ॥ ७ ॥ इति भीमत्परमहंसपरिमाजकाचार्यश्रीमच्छकग्भगवच्छिष्यानन्दज्ञाननिरचितायां तैत्ति- रीयोपनिषच्छोकरभाष्यटीकाय तृतीये भृगुवल्यध्याये सप्तमोऽनुवाकः ॥ ७ ॥ । अथ भृगवल्ल्यध्यायेऽष्टमोऽनुवाक। अन्नं न परिचक्षात । लद्वतम् । आपो वा अन्नम् । ज्योतिरनादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन १०८ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेना-- [३भृगुवल्ल्यध्याये, मन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्न- वानन्नादो जवति । महान्भवति प्रजयां पशुभिब्रह्मवर्चसेन । महान्कीया ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्य- ध्यायेऽष्टमोऽनुवाकः ॥ ८॥ अनं न परिचक्षीत न च परिहरेत् । तद्वतं पूर्ववत्स्तुत्यर्थम् । तदेवं शुभाशुभ: ल्पनयाऽपरिग्रयमाणं स्तुतं महीकृतमन्नं स्यादेवं यथोक्तमुत्तरेष्वप्यापो वा अनमित्यादिषु योजयेत् । अप्सु ज्योतिरित्यज्योतिपोरन्नान्नादगुणत्वेनो. पासकस्यानस्य बहुकरणं व्रतम् । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादशिष्यश्रीमन्छंकर- भगवतः कृतौ तैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्य- ध्यायभाष्येऽष्टमोऽनुवाकः ।। ८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छकरभगवच्छिष्यानन्दज्ञानविरचितायां तैत्ति- रायोपनिषच्छाकरभाष्यटीमाया तृतीये भृगुवल्ल्यध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ अथ भृगवल्ल्यध्याये नवमोऽनुवाकः । अन्न बहु कुर्वीत । तद्बतम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः । पृथि- व्यामांकाशः प्रतिष्ठितः । आकारो पृथिवी.प्रतिष्ठिता । तदेतदन्नमन्ने प्रति- ष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं, वेद - प्रतितिष्ठति । अन्नवानन्नादो भवति । -महानमवति प्रजयो पशु- .

१० दशमोऽनुवाक.] तत्तिरीयोपनिषत् । मिब्रह्मवर्चमेन । महान्की वा ।। इति रुष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगु- वल्ल्यध्याय नवोऽनुवाकः ॥ ९ ॥ इति श्रीमापरमहंसपरिमाजकाचार्यगोविन्दभगव-पुज्यप.दशिष्यश्रीमच्छं- करभगवतः कृतौ त्तिरीयोपनिषदि तृतीय भृगुवल्यध्यायभाष्ये नवमोऽनुवाकः ॥ ९ ॥ इति श्रीमत्प महंसपरिवाजकाचार्य श्रीमच्छक भगवाञ्छण्यानन्दज्ञानविरचिः ारा तेत्तिरी. योपनिषच्छाकरभाष्यटीकाया तृतीय भृगवल्यध्याने नवाऽनुवारः ॥ ९ ॥ अथ भृगवल्ल्यध्याय दशमोऽनुवाकः । न कंचन वसतो प्रत्याचक्षीत । तद्व- तम् । तस्माद्यया कया च विधया बन्न प्रामयात् । अराध्यस्मा अन्नमित्याचक्षते । तथा पृथिव्याकाशोपासकस्य वसती वसतिनिमित्तं कंचन कंचिदपि न पत्याचक्षीत वसत्यर्थमागतं न निवारयेदित्यर्थः । वासे च दत्तेऽवश्य ह्यश दातव्यम् । तस्माद्यया कया च विधया येन केन च प्रकारेण बन्नं प्राप्नुया- दबन्नसंग्रहं कुर्यादित्यर्थः । यस्मादन्नवन्तो विद्वांसोऽभ्यागतायान्नार्थिन्नेऽराधि, संसिद्धमस्मा अन्नमित्याचक्षते न नास्तीति प्रत्याख्यानं कुर्वन्ति तस्माच्च हेतोर्चनं माप्नुयादिति पूर्वेण संवन्धः । अपि चान्नदानस्य माहात्म्यमुच्यते । यथा यत्कालं प्रयच्छत्यन्नं तथा तत्कालमेव प्रत्युपनमते । कथमिति तदेतदाह एतद्वै मुखतेोऽन्न५ राद्धम् । मुखतोऽस्या अन्न५ राध्यते । एतदै मध्यतोऽन्न राद्ध । मध्यतोऽस्मा अन्न५ राध्यते । एतद्वा अन्ततोऽन्न५ राद्धम् । अन्ततोऽम्मा अन्न५५ - ११. आनन्दगिनिसकामंरचिनयांकरमाप्यममेना- [३ गुठस्पध्याय- गध्यंत (१) । य एवं एवं वेद । एनदा अग्नं मुखतो मुख्ये प्रथमे बयान मुख्यया वा वृत्त्या पूजापुरःस मभ्यागनायानाथिने राद्धं संसिद्धं प्रयच्छतीनि वाक्यपः । नम्ब किए स्यादित्युच्यते-मुखतः पूर्व वयसि मुरत्यया वा वृत्त्याऽस्मा अन्नदाया राध्यते यथादत्तमुपतिष्ठन इत्यर्थः। एवं मध्यतो मध्यम वयसि मध्यमे चोपचारण | नयाऽन्ननोऽन्त वयमि जयन्यन चोपचारेण परिभवेन तथंवार गध्यने मंमिध्यन्यन्त्रम् । य एवं वेद य पवमन्नम्य यातं माहात्म्यं ई. नहानस्य यथोक्तं फलमुपनयेन् । उदानी ब्रमण उपासनप्रकार उच्चत- श्रेम इति वाचि । योगक्षम इति प्राणापानयोः । कर्मति हस्तयोः । गतिरिति पादयोः । विमुक्तिरित पायौं । इति मानुपीः समाजाः । क्षेम इति वाचि । क्षेमो नामोपात्तपरिरक्षणम् । ब्रह्म वात्रि क्षेमरुपेण प्रति. छिनमित्युपास्यम् । योगक्षेम इनि, योगोऽनुपात्तस्योपादानम् । नां हि योगक्षेमा माणापानयोः सतोभवनो यद्यपि नथाऽपि न प्राणापाननिमित्तावेव किं तर्हि ब्रह्मनिमिचौ । तस्मात्म योगक्षेमान्मना प्राणापानयोः प्रतिष्ठिनमित्युपास्यम् । एवमुत्तरेप्वन्येषु नेन नेनाऽऽत्मना ब्रह्मबोपास्यम् । कर्मणो ब्रह्मनिर्वय॑त्वाद्धस्तयोः कर्माऽऽत्मना ब्रह्म प्रतिष्ठितमिन्युपास्यम् । गनिरिनि पादयोः। विमुक्तिमिति पायो । इत्येता मानुषीर्मनुष्येषु भवा मानुष्यः समाज्ञाः, आध्यात्मिक्यः समाजा ज्ञानानि विज्ञानान्युपासनानीत्यर्थः । अथ देवीः । तृतिरिति वृष्टी । बलमिति विद्युति ( २ )। यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमा- नन्द ईत्युपस्थे । सर्वमिन्याकागे ।

१०दशमोऽनुवाकः] तत्तिरीयोपनिषत् । १११ तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान्भवति । अथानन्तरं देवीदेव्यो देवेषु भवाः समाना उच्यन्ते । तृप्तिरिति वृष्टौ । वृष्टेरमादिद्वारेण तृप्तिहेतुत्वाहव नृप्त्यात्मना वृष्टी व्यवस्थितमित्युपास्यम् । तथाऽन्येषु तेन तेनाऽऽत्मना ब्रही वोपास्यम् । तथा वलरूपेण विद्युति । यशो. रूपेण पशुपु । ज्योतीरूपेण नक्षत्रेषु । प्रजातिरमृनम मृतत्वप्राप्तिः पुत्रेण ऋण. विमोक्षद्वारेणाऽऽनन्दः सुखमित्येतत्सर्वमुपस्थनिमित्त ब्रह्मेवानेनाऽऽत्मनोपस्थे प्रतिष्ठितमित्युपास्यम् । सर्व ह्याका प्रतिष्ठितमतो यत्सर्वमाकाशे तह्मवेत्यु. पास्यम् । तचाऽऽकाशं ब्रह्मव । तस्मात्त त्तित्सर्वस्य प्रतिष्ठत्युपासीत । प्रतिष्ठागुणो. पासनात्मतिष्ठावान्भवति । एवं पूर्वेष्वपि यद्यत्तदधीनं फलं तझैव तदुपासना- सद्वान्भवतीति द्रष्टव्यम् । श्रुत्यन्तराच--" तं यथा यथोपासते तदेव अवति" इति । उपासनमपि फलानभिसंधिनाऽनुष्ठित बुद्धिशुद्धिद्वारेण ब्रह्मज्ञानायोपकरोतीत्युक्तं मुख्या- धिकारिणस्त्वपवादायोपकरिष्यति । यत्र वागादौ यत्फलं कार्य क्षमादीत्यर्थः । तन्मह इत्युपासीत । महान्भवति । तन्मन इत्युपासीत । मानवान्भवति (३) । तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः । तद्ब्रह्म- त्युपासीत । ब्रह्मवान्भवति । तद्ब्रह्मणः परि- मर इत्युपासीत । पर्येणं म्रियन्ते द्विषन्तः सपत्नाः । परि प्रिया मातृव्याः तन्मह इत्युपासीत । महो महत्त्वगुणवत्तदुपासीत । महान्भवति । तन्मन इत्युपासीत । मननं मनः । मानवान्भवति मननसमर्थो भवति । तन्नम इत्यु- पासीत । नमनं नमो नमनगुणवत्तदुपासीत । नम्यन्ते प्रही भवन्त्यस्मा उपा- सित्रे कामाः काम्यन्त इति भोग्या विषया इत्यर्थः । तद्ब्रह्मेत्युपासीत । ब्रह्म परिदृढतममित्युपासीत । ब्रह्मवांस्तद्गुणो भवति । तद्ब्रह्मणः परिमर इत्युपा- सीत । ब्रह्मणः परिमरः परिम्रियन्तेऽस्मिन्पश्च देवता विद्युदृष्टिश्चन्द्रमा आदि- - १ क. है छ. भंम्यति ।

•. -- ११२ आनन्दगिरिकृतटीकासंबलितशांकरभाष्यसमेता-[३भृगुवल्यध्याये- त्योऽनिरित्येनाः । अतो वायुः पग्मिरः श्रुत्यन्तरप्रसिद्धेः । स एप एवार्य व.युराकागेनानन्य इत्याकाशी ब्रह्मणः परिमरस्तमाकाशं वाय्वात्मानं ब्रह्मणः परिमर इत्युपासीन । पर्येनमेवंविदं प्रतिस्पचिनो द्विपन्तोऽट्रिपन्तोऽपि सपत्ना यनो भवन्त्वनो विशेष्यन्ते दिपन्तः सपन्ना इति । य एनं द्विषन्तः सपत्नास्ते परिनिगन्त प्राणाञ्जति । किंच यं चाप्रिया अन्य भातृव्या अद्विषन्तोऽपि ते च परिनियन्ते। महानिनि । प्रजादिभिः । ब्रह्मवानिति । स्थूलमंगलाबनवान्विरावित्यर्थः । श्रुत्यन्तरमसिद्धेरिति । य एवमेनाः पञ्च देवना वायुवि संवर्ग इत्यादिश्रुत्यन्तराट्रह्मणः संहर्तृवं वायुद्धारकमिनि वायुमणः परिमरः | /संहारमाधनमित्यर्थः । तत्कथं परिमर- गुणतयाऽऽकागापासनं सिध्यतीत्यत आह-स/ एप इति । प्राणो वा अन्नं गरीरमन्नादमित्यारभ्योऽऽकाशान्तस्य कार्यस्यैवान्नान्नादत्व- मुक्तम् । उक्तं नाम किं तेन, तनतसिद्धं भावति, कार्यविषय एव भाज्यमोक्तृत्व- कृतः संसारो न त्वात्मनीति । आत्मनितु भ्रान्त्योपचर्यते । एवं मन्दाधिकारिगोचरमुपासनजातमध्यारोपप्रस्थायामुपदिश्यपवाददृष्टिमभिप्रेयाऽऽह- प्राणो वा अन्नमित्यादिना । नन्वात्माऽपि परमात्मनः कार्य ततो युक्षणम् त्य संसार इति । न । असं- सारिण एव प्रवेशश्रुतेः । “ तत्सृष्टा तदेवानुपातम्या - " इत्याकाशादिकारणस्य ह्यसंसारिण एव परमात्मनः कार्येऽनुप्रवेशः शूराणा। तस्मात्कार्यानुप्रविष्टो जीव आन्मा पर एवासंसारी । सृष्ट्वाऽनुप्राविदिति मानकर्तृक]त्वोपपत्तेश्च । सर्गप्रवेशक्रिययोश्चकश्चेत्कर्ता तनः क्त्वाप्रन्ययो युक्तः । प्रविष्टस्य तु भावान्त- रापत्तिरिति चेत् । न । प्रवेशस्याल्यार्थत्वेन प्रत्याख्यातत्वात । अनेन जीवेनेनि विशेपश्रुतेधर्मान्तरणानुप्रवेश इति चेत् । न । तत्त्वमसीति । परस्तद्भावोक्तेः । भावान्तरापन्नस्यैव तदपोहार्थी संपदिति चेत् । न । तत्सत्यं स आत्मा तत्त्व- मसीति सामानाधिकरण्यात् । दृष्टं जीवस्य संसारित्वमिति चेत् । न । उपल- धुरनुपलभ्यत्वात् । संसारधर्मविशिष्ट आत्मोपलभ्यन इति चेत् । न धर्माणां धर्मिणोऽव्यतिरेकात्कर्मत्वानुपपत्तेः । उप्णप्रकाशयोर्दाह्यप्रकाश्यत्वानुपपत्तिवना- सादिदर्शनाद्दुःखित्दाद्यनुमीयत इति चेत् । न । त्रासादेर्दुःखस्य चोपलभ्य मान- : - १२. काम।

१० टनमोऽनुवारः] निगयोपनिषत् । ११३ त्वामोपलब्धृधर्मन्यम् । कापिरमाणादादितर्क गाखविरोध इति चेत् । न। तेपा पूराभाचे वेदविगंधे च भ्रान्तन्वोपपत्रः । श्रुत्युपपत्तिभ्यां च सिद्धमात्मनोऽसंसा- रित्वमेकत्वान। मौत लाविलक्षणः समार: मामाचर इति यदैतव जीवस्यानोपाधिकं संसारिस्वमिष्टं तस्यापि कार्यवादिति भागवताना मतमुहाव्य ट्प्पयति-नन्वात्माऽपीत्यादिना । चान्दे ग्यवचनुमारण विकागामना प्रवेशमागम वाक्योपविरोधमाह-अनेन जीये- नेत्यादिना | सान्या देहादिभावमापनस्य जीवस्य ब्रह्मव्यतिरिक्तस्यैव ब्रह्मदृष्टिरुपदिश्यते संसारित्यापोहा । मातृवुद्धिरिव परयोपिति रागापोहार्था । अतस्तत्त्वमसीत्युपदेशस्यान्या- त्यान्न जीयस्य पारमार्थिकमससारित्रामामायमित्याशक्य तड्पयति-भावान्तरापन्नस्ये- त्यादिना । अबाधिततत्पर मुस्यसामानाधिकरणपविरोधादब्रह्माणि जीवे ब्रह्मत्वसंपादनार्थत्वं कल्पयितुं न मयत इत्यर्थः । संसारित्यत्राहकप्रत्यक्षविरोधादबाधितत्वमसिद्धमित्याह दृष्टमिति सर्वप्रमाणानामनुप्राहकस्तर्क इष्यते । आत्मनश्च संसारधर्मवत्त्वस्य तर्कापरिशुद्ध- त्वात्तत्प्रत्यक्षस्य भ्रान्तस्वान्न शास्त्रज्ञानबाधकत्वं सभवतीत्याह-नेति । सुखादेरुपलभ्यत्वा- नोपलब्धृधर्मत्वं संभवति रूपादिवदित्यर्थः । संसारित्वग्राहक यद्यपि प्रत्यक्षप्रमाणं न भवति तथाऽपि संसारधर्मविशिष्ट आत्मा स्वचैतन्येनोपलम्बन इनि स्वानुभवविरोधान शाब्दम- संसारित्वज्ञानं प्रमाणमिति चेन्नैतदपि युक्तं कर्मत्वकर्तृत्वविरोधादित्यर्थः । प्रत्यक्षविरोधा- भावेऽप्यनुमानविरोधो भविष्यतीत्याह-त्रासादीति । त्रासादि साभयं कार्यत्वावदन्य- स्याऽऽश्रयस्यासंभवादात्मैव तदाश्रयोऽनुमीयत इति न वाच्यमुपलेभ्यो नोपलब्धुर्धर्मो रूपादिवदिति व्याप्त्यन्तरविरोधादध्यातादपि कार्यदर्शनसंभवादित्यर्थः । जीवस्य ब्रह्मा- स्मत्वं प्रतिपादयतः शास्त्रस्य तर्कशास्त्रविरोधादप्रामाग्यमाशङ्कय दूषयति---कापिलेत्या- दिना । तर्कशास्त्रस्य श्रुतेश्च विरुद्धाव्यभिचारित्रेन प्रामाण्यसंशयोऽपि नाऽऽशङ्कनीय इत्याह-श्रुत्युपपत्तिभ्यां चेति । किंच तार्किकेणापीश्वराचीनं जीवस्य सुखित्वं खित्वं च निरूपणीयं न तनिरूपयितुं शक्यते । स्वात्मनीश्वरस्य सुखदु.खहेतुत्वासंभ- वादित्यभिप्रेत्याऽऽह---एकत्वाचेति । . १ क. अ. दतस्तव । २ ख. ग. च. त्र. ठ. °लभ्य नो ।

. - ११४ आनन्दगिरिकृतटीकासंचलितशाकरभाष्यसमेता-[ ३भृगुवल्ल्यध्याये- कथमेकत्वमित्युच्यते-- स यश्चायं पुरुषे । यश्चासीवादित्ये। स एकः (४)। स य एवंवित् । अस्माल्लोका- स्पेत्य । एतमन्नमयमात्मानमुपसंक्रम्य । एतं प्राणमयमात्मानमुपसंक्रम्य । एतं मनोमय- मात्मानमुपसंक्रम्य । एतं विज्ञानमयमात्मा- नमुपसंक्रम्य । एतमानन्दमयमात्मानमुपसं- कम्य । इमाल्लोकान्कामानी कामरूप्य- नुसंचरन् । एतत्साम गायनास्ते । स यश्चायं पुरुषे यश्चासावादित्ये स एक इत्येवमादि पूर्ववत्सर्वम् । अन्न- मयादिक्रमेणाऽऽनन्दमयमात्मानमुपसंक्रम्यैतत्साम गायन्नास्ते । सत्यं ज्ञानमि- त्यस्या ऋचोऽर्थो व्याख्यातो विस्तरेण तद्विवरणभूतयाऽऽनन्दवल्ल्या सोऽश्नुते सर्वान्फामान्सह ब्रह्मणा विपश्चितेति तस्य फलवचनस्यार्थविस्तारो नोक्तः । के से किंविषया वा सर्वे कामाः कथं वा ब्रह्मणा सह समश्नुत इत्येतद्वक्तव्यमिती- दमिदानीमारभ्यते । तत्र पितापुत्राख्यायिकायां पूर्वविद्याशेषभूतायां तपो ब्रह्म विद्यासाधनमुक्तम् । प्राणादेराकाशान्तस्य च कार्यस्यान्नान्नादत्वेन विनियोग- धोक्तः । ब्रह्मविषयोपासनानि च । ये च सर्वे कामाः प्रतिनियतानेकसाधन- साध्या आकाशादिकार्यभेदविषया एते दर्शिताः । एकत्वे पुनः कामकामि- त्वानुपपत्तिः । भेदजातस्य सर्वस्याऽऽत्मभूतत्वात् । तत्र कथं युगपद्ब्रह्मस्वरूपेण सर्वान्कामानेववित्समश्नुत इत्युच्यते । सर्वात्मत्वापत्तेः । कथं सर्वात्मत्वापत्ति- रित्याह । पुरुषादित्यस्थात्मकत्वविज्ञानेनापोह्योत्कर्षापकर्षावन्नमयाद्यात्मनोऽवि- द्याकल्पितान्क्रमेण संक्रम्याऽऽनन्दमयान्तान्सत्यं ज्ञानमनन्तं ब्रह्मादृश्यादिधर्मक स्वाभाविकमानन्दमजममृतमभयमद्वैतं फलभूतमापन्न इमाल्लोकान्भूरादीननुसंच- रनिति व्यवहितेन संबन्धः । कथमनुसंचरन् । कामानी कामतोऽन्नमस्येति कामानी । तथा कामतो रूपाण्यस्यति कामरूपी । अनुसंचरन्सर्वात्मनेमाल्ली- कानात्मत्वेनानुभवन् । किम् , एतत्साम गायन्नास्ते । समत्वाब्रह्मैव साम सर्वा- नन्यरूपं गायञ्शब्दयन्नात्मकत्वं प्रख्यापयल्लोकानुग्रहार्थं तद्विज्ञानफलं चातीच कृतार्थत्वं गायनास्ते तिष्ठति । १ ख. ठ, त्मनोपप । २ ख. ठ. त्मत्वोपप । , १०.७. नेविगयोपनिन् । ११५ र ६ मगणनामगानयारेकाकर्तृ [क] धमन्ययमदर्शनेन दर्मित निदानी बालिका वृत्तकीर्तननाऽऽह-सत्यं ज्ञान- मित्यादिना । नियमानगनुभवविहान्नस्याऽऽन्माऽहमिति मन्य- मानोऽनिनामिना सामान कामरूप वं च ममेरोसि पश्यन्युगपत्सर्यान्वि- पचानन्दानगुन : माइगर - सर्वान्मन्वापचेरिति । फयम्- हाइव हाय हाउ (५) । अहमन्नमहम- नमहमन्नम् । अहमन्नादोऽऽहमन्नादोऽ३ह- मन्नादः । अहः श्लोकरुदश्लोककृदहर- लाककृत् । अहमस्मि प्रथमजा ऋता३स्य । पूर्व वयो अमृतस्य ना३शायि । हा३७ हाश्च दा३७ । अहो इत्येतम्मिन्नर्थेऽत्यन्तविस्मयख्यापनार्थम् । कः पुनरसौ विस्मय उत्युच्यते-अद्वैत आय एजनोऽपि सन्नहमेवान्नमन्नादश्च । किंचाहमेव लोककृत् । श्लोको नामा... योः संघातस्तस्य कर्ता चेतनावान् । अन्नस्यैव वा पार्थस्यान्नादास्प सतोऽनकात्मकस्य पारायन हेतुना संघात छन् । निगरि विरमयत्वख्यापनार्था- अहमस्मि भवामि । प्रथमजाः प्रथमजः प्रथमोत्पन्नः । ऋतस्य सत्यस्य मूर्तामूर्तस्यास्य जगतो देवेभ्यश्च पूर्वममृतस्य नाभिरमन-चस्य नाभिर्मध्यं मत्संस्थममृतत्यं प्राणिनामित्यर्थः । प्रथम हिरण्यगर्भोऽप्यहम् । प्लुतिस्तावंगानार्थ । देवेभ्यः स्वव्यष्टिरूपेभ्य: पूर्व - विराट्रम्प भिवेत्यर्थः । यो मा ददाति स इदेव मा३ऽऽ- वाः । अहमन्नमन्नमदन्तमानि । अहं विश्वं भुवनमायभवा३म् । यः कश्चिन्मा मामन्त्रमन्नायिभ्यो ददाति प्रयच्छत्यन्नात्मना ब्रवीति स इदि- १ ज, ट. °वद् दरार्था । त्र. °वदनादरार्था ।

११६ आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[२ त्यमेवमविनष्टं यथाभूतमावा अवतीत्यर्थः । यः पुनरन्यो मार काले मातेऽवमसि तमजमदन्तं भक्षयन्तं पुरुषमहमन्नमेव संप्रया अत्राऽऽहवं तहिं विभेमि सर्वात्मत्वमाशोभादस्तु संसार एव य मनभूत आद्यः स्यामन्नस्यैवं मा भैपीः संध्यवहारविषयत्वासर्वच त्यायं संव्यवहारविषयमन्नान्नादादिलक्षणमविद्याकृतं विद्यया लखमापन्नो विद्वांस्तस्य नैव द्वितीयं यस्त्वन्तरमस्ति यतो विभेत्यतो न भेतव्यं मोक्षात् । एवं ताई किमिदमाह-अहम नमहमन्माद इत्युच्यते । योऽयमन्नान्नादादिलक्षणः संव्यवहारः कार्ययुतः स संव्यवहारमात्रमेव न परमार्थवस्तु । स एवंभूतोऽपि ब्रह्मनिमित्तो ब्रह्मव्यतिरकेणासन्निति कृत्वा ब्रह्मविद्याकार्यस्य ब्रह्मभावस्य स्तुत्यर्थबुच्यते। अहमन्नमहमन्नमहमन्नम् । अहमन्नादोऽहमन्नादोऽहमन्नाद इत्यादि अतो भयादिदोपगन्धोऽप्यविद्यानिमित्तोऽविद्योच्छेदाह्मभूतस्य नास्तीत्यई विश्वं समस्तं भुवनं भूतैः संभजनीयं ब्रह्मादिभिर्भवन्तीति वाऽस्मिन्भूतानीति भुवनम- भ्यभवामभिभवामि परेणेश्वरेण स्वरूपेण । आवा इति । लोण्मध्यमपुत्पैकवचनम् । पौनःपुन्येनेत्येवं मत्त्वाऽऽल्यातेषु निपात्यात इत्यवतीति व्याख्यातम् । अभिभवामि, यिक रामीत्यर्थः । ईश्वरात्मताज्ञाने नाहंबाधेऽद्वैतं ततो नास्ति भयकारणमित्यर्थः । स्य सुवन ज्योतीः । य एवं वेद । इत्युपनिषत् (६)॥ इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीये भृगुवल्ल्याध्याये दशमोऽनुवाकः ॥ १० ॥ सुवर्न ज्योतीः सुवरादित्यो नकार उपमार्थे । आदित्य इव संकृद्वि- भातमस्मदीयं ज्योतियोतिः प्रकाश इत्यर्थः । इति वल्लीद्वयविहितोप- निषत्परमात्मज्ञानं तामेतां यथोक्तामुपनिषदं शान्तो दान्त उपरत- १२.स. ग. च. 'वं सख्या ।ज. सत्त्वाख्या'।

. १० दशमोऽनुवाकः ] तैत्तिरीयोपनिषत् । ११७ स्तितिक्षुः समाहितो भूत्वा भृगुवत्तपो महदास्थाय य एवं वेद तस्येदं फलं यथोत्तमोमिति ॥ इति धीमावरमहनपरिमाजकाचार्यगोविन्दभगवत्पुज्यपाद शिष्यश्रीमाई- करभगवतः फतौ रात्तिरीयोपनिषदि तृतीये भृगुवल्ल्यध्यायभाष्ये दशमोऽनुवाकः ॥ १० ॥ नकार इवार्थे ।। इति भीमत्परमहसपग्निाजकाचार्यश्रीमच्छंकरभगवटिप्यानन्दशानविरचिताया तैत्तिरी- योपनिषच्छोकरभाष्यटीका तृतीये भृगुवल्ल्यध्याये दशमोऽनुयाकः ॥ १० ॥ [*भृगुस्तस्मै यतो विशन्ति तद्विजिज्ञासस्व त्रयों- दशानं प्राणो मनो विज्ञानं द्वादश द्वादशाऽऽ. नन्दो दशाभं न निन्द्यादन्नं न परिचक्षीतान्न वहु कुर्यात कादशैकादश ] न कंचनैकपष्टिदर्श ।। सह नाववतु । सह भुनक्तु । सह वीर्य करवा- वहै । तेजस्वि नावधीतमस्तु मा विद्विपावहै । ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ। इति कृष्णयजुर्वेदीयतैत्तिरीयोपनिषदि तृतीयो भृगुवल्ल्यध्यायः समाप्तः ॥३॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पूज्यपादशिष्यस्य शंकरभगवतः कृतौ तैत्तिरीयोपनिषद्भाष्ये तृतीयो भृगुवल्ल्यध्यायः ॥३॥ * एतच्चिद्वान्तर्गतम्रन्थस्थाने क्वचित्पुस्तकेऽन्यथा पाठः, स यथा-"भृगुस्तस्मै यते वै विशन्ति तद्विजिज्ञासस्व तत्रयोदशानं प्राणो मने विज्ञानं तद्विज्ञाय तं तपसा द्वादश द्वादशाऽऽनन्द इति सैपा दशान्नं न निन्द्यात्प्राणः शरीरमन्नं न परिचक्षीताऽऽपो ज्योतिरन्न बह कुर्वीत पृथिव्यामाकाम एकादशैकादश" इति । नौ - - - ११८ . तैचिरीयोपनिषत् । तेचिरीयफभाष्यस्य शांकरस्य द्रदीयसः । स्फुटार्थवेधकामम्यो निरमापि सुटिप्पणम् ॥१॥ इति श्रीमापरमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दभगवत्पूज्यपादशिष्यत्रीमद्भगवदा- नम्दवानविरचितायां तैत्तिरीयोपनिषष्ठांकरभाष्यटीकायां तदीयो मृगपत्यवानः समाप्तः ॥३॥ समाप्नेयं कृष्णयजुर्वेदीया सैत्तिरीयोपनिषत् ।

1,

No text on this page.

* तत्सब्रह्मणे नमः। अथ शंकरानन्दकता तैत्तिरीयोपनिपद्दीपिका । वक्ष्यऽधुना भंकरविश्वरूपयाचा विनितसमस्तवाक्यम् । कृष्णं यजुस्तित्तिरिनामचिहं पदार्यशुद्धयर्थमतीव सार्थम् ॥ १ ॥ कर्माणि विचित्राणि नित्यादिलक्षणानि पूर्वमुक्तानि, तेनिःश्रेयसमपश्यन्ब्रह्मज्ञानायो- पनिषदमारममाणो दो नामज्ञाने च महतामपि देवैः क्रियमाणान्वितानवलोक्य तत्म- शान्तये नमविद्यार्थिनेदं पठनीयमित्यभिप्रायेण प्रथमं पठति--शं मुखं नोऽस्मभ्यं मित्रः प्राणवृत्तेरहश्चाभिमानिनी देवता शं सुख वरुणोऽपानवृत्ते रात्रेश्वाभिमानिनी देवता न इत्यनुपङ्गः । शं नो व्याख्यातम् । भवतु भूयात् । इदं पदं शंपदेन सर्वत्र संबध्यते । अर्यमा चक्षुप आदिन्यमण्डलस्य चामिमानिनी देवता । शं नो व्याख्यातम् । इन्द्रो चाहोलस्य चाभिमानिनी देवता । वृहस्पतिर्वाचि बुद्वौ चाभिमानिनी देवता शं न इत्य. नुपङ्गः । शं नो व्याख्यातम् । विष्णुः पाटाभिमानिनी देवता तद्विशेषणमुरुक्रमः, उरु प्रचुर क्रमणं यस्य स उरुक्रमः सर्वव्यापीत्यर्थः । अथवा स्वतन्त्रमिदं पदमुरुक्रमो विराट- सर्वान्नाभिमानिनी देवता । शं न इत्यनुषगः । एवं स्थूलसूक्ष्माभिमानिनीर्देवताः प्रायेदानीमव्याकृतज्ञानक्रियाशक्त्यभिमानिनी देवता नमस्करोति-नमो नमस्कारः । ब्रह्मणेऽव्याकृतामिमानिने । तस्यानुत्पादिताकार्यस्या- किंचित्करत्वात्कार्याभिमानिन तदभिन्नं पुनर्नमस्करोति-नमो नमस्कारः । ते तुभ्यं वायो हे क्रियाशक्तिप्रधानज्ञानक्रियाशते । ननु प्रतिपाद्यस्यैव नमस्कारः करणीयो न चाहं प्रतिपाद्य इत्यत आह-त्वमेव ज्ञानक्रियागक्त्यमिमान्येव न त्वन्यत् । प्रत्यक्ष शास्त्रस्य प्रत्यक्षं स्वयं प्रकाशमानत्वेन बुद्ध्यादेः साक्षित्वेन वा ब्रह्माव्याकृताभिमानिदेशकालवस्तुपरिच्छेदशून्यस्वरूपम् । असि भवसि । ननु यद्यहं ब्रह्म कि तवेत्यत आह -त्वामेव प्रत्यक्षं ब्रह्म कार्याभिमानिनमेव भवन्तं स्वयंप्रकाशं कारणाभिमानिस्वरूपं वदिष्यामि त्वं ब्रह्मासीति गुरुणोक्त कार्यकर- णाभिमानिचैतन्ययोरैक्यमवगत्याहं ब्रह्मास्मीति वदिष्यामि कथयिष्यामि । नन्विदमुपचरितं मा प्रति भवतोच्यत इत्यत आह-ऋतमनुपचरितं वदिष्यामि कथयिष्यामि । १ ख. ग. कृत्त । २ ख. °णो का । १६ , १२२ शंकरानन्दकृता [ शीक्षाध्याये, अ० १] ननु भवताऽनुपरिनेऽप्युन्यमाने नेतादृशं वस्तु वृत्तमित्यत आह-सत्यम् । " इदं सर्व यदयमात्मा" "एकमेवाद्वितीयम्।" "नेह नानाऽस्ति किंचन" "तत्त्वमसि' " अहं ब्रह्मास्मि" इत्यादिशास्त्रेभ्य ऐक्यम(क्यना)वगम्यमानमवाधितं वन्तुस्वरूपमुलूकनिशावन्न ममैवेदमृतं किंतु सर्वप्रमाणसिद्धमबाधितस्वरूपमित्यर्थः । वदिष्यामि कथयिष्यामि यस्मा- चत्तस्मान्मा भवन्तं ब्रह्मरूपेण प्रतिणदयन्तमवतु कार्यकारणोपाधिर्भवान्पालयतु । ननुभवतः शिष्यस्य वाक्कायमनसा प्रसन्नानामध्यात्मादिदुःखैरनुपघातोऽस्तु गुरोश्च विप- येयो मङ्गलाचरणे तात्पर्यहीनत्व दित्याशङ्कय गुरुविषयेऽपि स्वयं प्रार्थयते । यस्माद्गुरु- मन्तेरण न विद्या लभ्या शिष्येण तत्तस्माद्वक्तार वा विद्यायाः कथयितारं गुरुमित्यर्थः । अवतु पालयतु । यस्मादनन्तरं तस्मादिति पठिन्या श्रौतं तच्छब्दद्वयमपि ब्रह्मपरं वा च्यारूनेयम् । तच्छन्दरहित वाक्यद्वय गुर्वात्मनो रक्षायामादरार्थमुपक्रमविपर्ययेणाध्येति- अवतु मामवतु वक्तारं व्याख्यातम् । यद्यपि गुरुर्ब्रह्मावबोधेन ब्रह्मैव शिष्यश्च साधन- चतुष्टयसंपन्नः स्वयमप्रमत्तस्तथाऽपि दैवकृतान'मतिसूक्ष्माणामपराधाना भूयसा सत्त्वेनाऽऽ- भ्यात्मिकाधिभौतिकाविदैविकदुःखागमनाद्ब्रह्मविद्योत्पादस्य विधातः स्याच्छिष्यस्य । ततो दु.खत्रयविघातार्थ त्रिः शान्तिपदं पठति-ॐ शान्तिः शान्तिः शान्तिः, मनसामन्येन्द्रियाणां त्रिविधमपि दुःखमुफ्रति गच्छतु ब्रह्मविद्याधिकारिणो ममेत्यर्थः । वाकाय. यद्यपीतः परम् " ब्रह्मविदाप्नोति परम्” इत्येवोपक्रमगीय तथाऽप्यत्यन्तबहिर्मुखस्य नाऽऽत्मावगतिरित्यन्तर्मुखत्वं संपादयितु फलेन प्रलोभ्य कानिचिदुपासनानि प्रथमत उच्यन्ते । नन्वेवं चेदथातः संहिताया इत्याद्यारम्भणीयं न पुनः शीक्षामित्यादि- कम् । सत्यम् । तथाऽप्युपनिषदामर्थज्ञानप्राधान्याद्यथाकथंचित्पाठेनार्थज्ञानं करणीयमिति- शङ्कानिवारणार्य शीक्षामित्यादिक प्रथम पठ्यते । न पुनरन्यः कश्चनोपयोगः । शीक्षां यथाऽस्मिन्नेव पदे शिक्षामित्येवं शिकार एकमात्रमु(त्र उ)चार्यमाणेऽर्थाधिपतिर्न पुनर्वैदिकी पाठशुद्धिः । न च वेदे तत्तद्वर्णस्वरादिहीनस्य पदस्य वाक्यस्य वोपादेयार्थों भवति प्रत्युत दृष्टीयविनाशस्तत्तदुपनिषदामपि वेदत्वात्तत्तच्छाखापाठकप्रसिद्धवर्णस्वरा- दियुक्तपदाद्युच्चारणेनार्थज्ञानं करणीयमित्येतदर्थ छान्दस्या प्रक्रियया शीक्षामिति पाठः । शिक्ष्यन्तेऽनया वर्णादयः शिक्ष्यन्त इति वर्णादय एव वा शिक्षा तां शिक्षा व्याख्या स्यामो विविधमा समन्ताव्यक्तं कथयिष्यामः । वर्णोऽकारादिः । स्वर उदात्तादिः । मात्रा हस्वादिः । वलं प्राणस्थानप्रयत्नेः । साम समता द्रुतविलम्बितात्यविकातिन्यू- १ ख. दनस्य । २ ग. यादिवि' ।

[नाशापाये, अ० २] तत्तिरीयोपनिपहीपिका । १२३ नादिवजनिकस्यतयोचारण यात्रीपुत्रहरणयदपीडनमित्यर्थः । संतानः संततिः संहि- ताया नियनका पद चान्यं वेत्यर्थः । इतिः समाप्ता शिक्षायाः । उक्तः कथितः शीक्षाध्यायः साक्षाऽधीयते गम्यतेऽनेनेति शीक्षाध्यायः ॥ इति श्रीमत्यरम सपनिमा पाचार्य श्रीमर रानन्दविरचिताया पदार्थबोधिन्या तेत्ति- चिपनिषदीपिकाया शीक्षावार प्रथमोऽनाकः ॥ १ ॥ अथ शीक्षाध्याये क्तिीयोऽनुशकः । इदानी + देहलीप्रदीपन्यायेनोक्तवक्ष्यमाणयोः साधारणं मङ्गलाचरणं करोति शिष्य- रूपो वेदः शिष्यशिक्षार्थम् । सह नौ नावावयोर्गुरुशिष्ययोः । यश', अस्यायं शिष्योऽ- स्यायं गुरुरित्यध्यापनाध्ययनजन्या कीर्तिरस्थिति शेपो वक्ष्यमाणे च । सह नौ व्याख्या- तम् । ब्रह्मवर्चसं ब्रह्म नालगत्वजाति , तदीयं जो ब्रह्मवर्चसं स्वाश्रमानुष्ठानपरौ दी. युष्मन्तावावा भयारवेत्यर्थः । अथ क्षाव्यायकथनानन्तरम् । अतः कृतमङ्गलानामपि नान्तर्मुखत्वमन्तरेण ब्रह्मज्ञानोत्पचिरस्माकारणात् । संहिताया नियतक्रमपदवाक्यरू- पायाः । उपनिपदं सामीप्पन तिरामिष्टायगमकत्वादनिष्टस्य शिथिलीकृत्य विनाश- कारित्याच तद्विपया बुद्धिरुपनिपत्ताम् । व्याख्यास्यामो व्याख्यातम् । पञ्चसु पञ्चसं- ख्याक्रान्तेषु। अधिकरणेष्वापारेषु । अधिकरणान्याह-अधिलोकं लोकमविकृत्य । अवि- ज्योतिपं ज्योतिरधिकृत्याधिज्योतिरधिज्योतिरेवाविज्योतिपम् । अधिविद्यं विद्यामविकृत्य । अधिमज प्रजां पुत्रादिसंततिमविकृय । अध्यात्ममात्मान शरीरमधिकृत्य । ता अधि- लोकाद्याः । महासंहिताः पदवाक्यसंहितासु चिन्त्यमाना महत्यः सहिता महासहिताः । इति, अनेन प्रकारेण आचक्षत आ समन्ताव्यतं कथयन्ति सहिताविदः । अथ तासा महासंहितावकथनानन्तरम् । अघिलोकं व्याख्यातम् । सहिताया उपनिषदं व्याख्यास्याम इतीढमत्र वक्ष्यमाणेष्वपि चतुर्पु पर्यायेष्वनुवर्तते । पृथिवी प्रसिद्धा भः । पूर्वरूपं पूर्वस्य पूर्ववर्णस्य रूपं स्वरूप पूर्ववर्णे पृथिवीदृष्टिः करणीयेत्यर्थः । द्यौः स्वर्गलोक उत्तररूपमुत्तरवर्णस्य स्वरूपमुत्तरवणे स्वर्गलोकदृष्टिः करणीयेत्यर्थः । आका- शोऽन्तरिक्षलोकः संधि स्वर्गलोको संघीयते अस्मिन्निति संधिर्मव्यं पूर्वोत्तरवर्णयोरन्तरा- * वर्णानामिति रोपः । यथा त्याची स्वापत्यानि मुखे धृ-वा दशनाभिवातब गायकृत्वैव स्थलात्स्थलान्तर नयति तथा स्थानादिषु पीडनमक वैव वर्णाच्चारणं सामशब्देन गृह्यत इति भावः । + देहली गृहद्वारासनप्रदेशः । तत्र निहितो दीपो द्वारान्त प्रदेश तदहिभूतं चत्वर च प्रकाशयति तथेद मङ्गलमुक्तवाणयोः साधारणं शेयमिति तात्पर्यम् ।

१२४ शंकरानन्दकृता [ शीक्षाध्याये, अ० ३] लेऽन्तरिक्षष्टिः करणीयेत्यर्थः । वायुर्जगन्प्राणस्त्रिलोक्युदरवर्ती संधानं संघीयेते पूर्वोत्तरे रूपे अनेनेति, संधान संबन्ध इत्यर्थः । पूर्वोत्तरवर्णयोः संबन्धे वायुदृष्टिः करणीयेत्यर्थः । यथा--इये त्वेत्यत्र पकारस्योपरि योऽयमेकारः सोऽयं पृथिवीरूपो यश्चौपरितनस्तकारोऽसौ धुलोकात्मकस्तयोर्वणयोर्मध्यदेश आकाशात्मकस्तस्मिन्देशे संहितानिमित्तो द्विर्भावनाऽऽपा- दितो योऽन्यस्तकारः स वाय्वात्मक इति ध्यायेत् । एवमुत्तरेष्वप्युपास्यावयवेषु चतुर्यु योज्यम् । इतिः समाप्त्यर्थः प्रकृतोपनिषदः । प्रकृतामुपनिषदमाह--अधिलोकं व्याख्यातम् । अथ चतुष्टयमपि स्वापेक्षया पूर्वोपासनानन्तर्यमाह | अग्निीमः | आदित्यश्चन्द्र- (त्यः सूर्य ? ) मण्डलम् | आपो नीराणि । विद्युत एव वैद्युतोऽचिरप्रभवः । आचार्यो गुरुः । अन्तेवासी शिष्यः । विद्याऽऽचार्येणोच्यमाना। प्रवचनं गुरु- शिष्ययोः प्रकर्षणोच्चारणं विद्यायाः । माता जननी। पिता जनकः । प्रजा पुत्रादिः । प्रजननमुत्पत्तिः प्रजायाः । अधरा हनुरधरोष्टमारभ्य चिवुकफलंकाक्रान्ता । उत्तरा हनुरुत्तरोष्टमारभ्याऽऽनासामूलम् । वाग्वर्णोच्चारणशक्तं तालादिस्थमिन्द्रियम् । जिला प्रसिद्धा । अन्यत्पर्यायचतुष्टयेऽप्यन्त्य पदं मुक्त्वा समानपाठं पूर्ववव्याख्येयम् । इतिर्म- हासंहितापरिसमाप्त्यर्थः । इमा अधिलोकाद्या महासंहिता व्याख्याताः । इदानी पञ्चानामपि फलमाह--योऽधिकारी । एवं पूर्वोत्तररूपेणेता अधिलोकाद्या महासंहिता व्याख्याता विविधमा समन्ताद्व्यक्तं कथिता वेद जान.त्युपासीतेत्यर्थः । संधीयते संबध्यते । प्रजया पुत्रादिलक्षणया पशुभिर्गवादिभिः । ब्रह्मवर्चसेन ब्राह्म- णजान्युचितेन तेजसा । अन्नाघेन, अन्नं च तदाध चान्नाद्य तेन ब्रीहियवादिनत्यर्थः । सुवर्गेण स्वर्गेण लोकेन कर्मफलेन । प्रजादिभिः संपन्नो भवतीत्यर्थः ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीनच्छंकरानन्दविरचितायां पदार्थबोधिन्या तैत्ति. रीगेपनिपच्छाकरभाष्यटीकाया शीक्षाध्याय द्वितीयोऽनुवाकः ॥२॥ अथ शीक्षाध्याये तृतीयोऽनुवाकः । अथ यः कश्चन दुर्मेधा नासौ मेधे,त्पादनमन्तरेण ब्रह्म बोर्बु शक्त इति मेवाकामस्य मेधाकराअपमन्त्रानाह-यः प्रसिद्ध ओंकारश्छन्दसां गायत्र्यादिच्छन्दस्विनामृगादिभेदा- नामृषभः श्रेष्ठः । विश्वरूपः सर्वरूपः पर्णेष्विव शकुः सर्वस्मिजगति व्यवस्थित इत्यर्थः । छन्दोभ्य उक्तेभ्य ऋगादिभ्यः । अधि, अविकः सर्वव्यापकत्वात् । अमृतास्वयं [ प्रकाशमानादात्मनः । संवभूवोत्पत्तिमकरोत् । छन्दोभ्योऽमृता- १ क. ग. लाका ।

-- [क्षिाध्याय, अ० ३] तत्तिरीयोपनिषद्दीपिका । १२५ दिभिः सामानाधिकरण्यालीकारेणाधिकः सम्यवर्तत इति व्याख्येयम् । सोऽमृतज- उन्दःसारभूतः । मा माम् । इन्द्र इन्द्रस्य परमात्मनो वाचकत्यादिन्द्रः । मेधया चुनधारणगया । स्पृणीत प्रीणयतु मेधासंपन्नं करोस्थित्यर्थः । मेधासंपत्तेः फलमतामाशिपमाह-अमृतस्य तज्जनकस्य ब्रह्मणोऽहं तदस्मीति तादात्म्यन । देव हे देव । स्वयंप्रकाशस्याऽऽमनः प्रकाशकायेन धारणो धारयिता भूयासं, भवानि । मेधाप्राप्तेरपि शरीरारोग्यादिकमन्तरेणाभावादत( वोऽत )स्तदपि प्रार्थयतेशरीरं रधुलो विनामी देहः । मे ममाधिकारिणः । विचर्पणं विचक्षणं नीरोगमित्यर्थः । भ्यादिति पुरुष( वि )परिणामेनात्र वक्ष्यमाणे चानुपङ्गः । जिह्ना वागिन्द्रियाध र मृता मे गगाधिक रिणः । मधुमत्तमा जिहाया मधुत्वं प्रियहितसत्यभापित्वं चेदायतन तद्यस्या अस्ति सा मधुमती । अतिशयेन मधुमती मधुमत्तमा कर्णाभ्यां श्रोतानाम् । भूरि बहु । विश्रुवं व्यशृणवमात्मसाक्षात्कारार्थ न श्रवणमस्तीत्यर्थः । इदानीमोंकारस्यात्यन्तं ब्रह्मनामीप्यमाह-ब्रह्मणः सन्यज्ञानादिलक्षणस्य कोशः खड्गस्येव व्याप्य व्यवस्थित आवरणविगेपः । यथा कोशः खड्गेन संभृत एवं ब्रह्मणा संभृतः प्रणवः । असि भवति । एवंभृतोऽप्यविद्यादृष्टिभिर्नावगन्तुं शक्यत इत्याह-- मेधया लौकिकश्रुतधारणया बुद्धया । पिहित आवृतः । यस्मादेवंगुणकस्ततस्त्वं श्रुतम् इद सर्व यदयमात्मा " " अहं ब्रह्मास्मि' इत्यादिश्रवणपथमागतम् । मे ममाधि. कारिणः । गोपाय रक्षा कुरु । आत्मसाक्षात्कारफलावसानं कुत्यिर्थः । धाविषयेऽर्थानुसंधानपुरःसरं मनजपमुक्त्वा मेवावतोऽदि बहिर्मुखस्य निःश्रीकस्य न प्रत्यक्प्रवणता । ततः श्रीकामस्य श्रीकरान्मन्त्रान्प्रणवप्रतिपादकान्सहोमलिङ्गानाह-आव. हन्ती । समन्तात्प्रापयन्ती । वितन्वाना विविधं विस्तारयन्ती । कुर्वाणा कुर्वती चीरमनेककालम् । अचीरमितिपदच्छेदे क्षिप्रमिति व्याख्येयम् । आत्मनः स्वस्याः श्रियोऽवस्थानमिति शेषः । वासासि वस्त्राणि । ममास्यार्थिनः । गावश्व प्रसिद्धाः । चकारोऽश्वादीनामनु काना समुन्वयार्थः । अन्नपाने च, अद्यत इत्यन्नं पीयत इति पानमन्नं च पान चानपाने । चकार उक्तवासोगवानपानसमुच्चयार्थः । सर्वदाऽद्यारभ्याऽऽत्मसा- क्षात्कारम् । आत्मनश्चिरं कुर्वाणा वास आदिकं सर्वदा वहन्ती वितन्वाना च मम गृहेऽ- वस्थानं करोत्विति शेपं पूरयित्वा व्याख्येयम् । नन्वहं भेवाया दाता कयं श्रियो दातेत्यत आह-तत इति । यतो मेधाया दाता तस्मात् । अयं भावः-श्रीः प्राकृतैरपि राजादिभिर्दातुं शक्या मेधा तु भगवन्तमन्तरेण ब्रह्मणः कोशं न फेनचिदातु शक्या । ततोऽतिदुर्लभस्य मेधादेर्दातुब्रह्मणः कोशस्योंकारस्य किया श्रीदानार्थमुद्यमः । मे मम श्रीकामस्य । श्रियं मद्गृहे यामात्मनश्चिरमवस्थानं कुर्वाणामन्न मानवस्वादीन्प्रापयन्ती तामेव विस्तारयन्तीमावह प्रापय । लोमशामजादिलोम- शंकरानन्दकृता- १२६ [क्षिाध्याये, अ०३] मि.मवती चेतनमण्डलबहुलामित्यर्थः । पशुभिर्गवाश्वादिभिः सह समम् | स्वाहा मदीया वावशब्दवाच्या श्रियमावहेति यामाह ता स्वाहैव स्वाहा । स्वाहेतिदर्श नाद्धोमार्थताऽस्य मन्त्रस्य वक्ष्यमाणाना चावगम्यते । होमद्रव्याणि च स्वस्वगृह्येष्ववगन्त- व्यानि । मन्त्रेण स्वस्थानि ( ? ) क्षीराज्यविल्लादीनि वा । प्रणवात्मा च देवताऽन्यादिकं तु यथायोगमवगन्तव्यम् । आ मा मां श्रीकामं यन्त्वायन्त्वनाऽऽगच्छन्तु । ब्रह्मचारिणोऽध्ययनार्थिनो माण- वकाः सर्वासु दिववस्थिताः । स्वाहा व्याख्यातम् । ब्रह्मचारिणामागमने प्रयोजनमाह- यशः । अत्र धर्मशब्देन धर्मी लक्षितो भवति । यशस्वी । जने लोके । असानि भवानि । स्वाहा न्याख्यातम् । अत्रापि प्रयोजनमाह-श्रेयानतिशयेन प्रशस्यः । वस्यसो वस्युमन्त(सुमत्त) रात्सकाशात् । वसु चात्र दैवं मानुषं वित्तम् । असानि भवानि | स्वाहा व्याख्यातम् । तत्रापि प्रयोजनमाह-तं ब्रह्मणः कोशभूतम् । त्वा त्वामोंकारम् । भग समग्रधर्मज्ञानवैराग्यैश्वर्ययशःश्रीणां निवासभूत ओंकारो ब्रह्मकोशो भगस्तत्संबोधनं हे भग प्रविशानि प्रवेशं करवाणि । स्वाहा व्याख्यातम् । ननु यदि मत्प्रविष्टस्त्वं तर्हि मत्तो भिन्नः समुद्रं प्रविष्टः समुद्रादिव भिन्नो मत्स्यस्तथा च तद्वदेव भवतो न कोऽपि पुरुषार्थ इत्यत आह-स मया प्रवेष्टव्यो ब्रह्मणः कोशभूतो भवानोकारः । मा मा तादात्म्येन त्वदुपासकम् । भग प्रविश स्वाहा प्रवेश कुरु । आवयोरनुपचरितं तादात्म्यमस्वित्यर्थः । व्याख्यातमन्यत् । ननु--त्वं कर्ता भोक्तेत्यादिससारवर्मवान्मयेश्वरेण कथमभिन्नः स्या इत्यत आह- तस्मिन्मदभिन्न आकार ईश्वरे । सहस्रशाखे सहस्रमनन्ता: शब्दार्थात्मनो वृक्षस्य भवतः शब्दार्थविवर्तरूपाः शाखा यस्य स सहस्रशाखस्तस्मिन् । निभग हे भग । नेजिना संवन्धः । अहं वस्तुतस्त्वदभिन्न इदानीमविद्यापटलपिनद्धाक्ष उपासकः । त्वाय शब्दार्थरहित ओकारे ब्रह्मणि " अहं ब्रह्मास्मि” इति बोधेन मजे निमामि कर्तृत्वादिकमविद्या कृतं न वस्तुन इति ज्ञानेनाऽऽत्मानं परिशोधयामीत्यर्थः । स्वाहा व्याख्यातम् । तथा च ब्रह्म वारिणाम.गमनं परम्परया मोक्षहेतुरित्युक्त्वेदानी तदेव दृष्टान्ताभ्या मन्त्रान्तरेण विशिनष्टि-यथा येन प्रकारेण । आपो नीरवाराः । प्रवता, द्देशात्पतन्त्यो निम्नशिगामिन्य इत्यर्थः। प्रवतेतितृतीयापक्षे णेति व्याख्येयम् । यन्ति निम्नदेश गन्छन्ति । अपा सेवादिना प्रतिबन्धो उच्चा- प्ररणवता मार्ग- १ ग. योग्यम।

शीक्षाध्याये, ज० ४] तत्तिरीयोपनिषद्दीपिका। १२७ दृष्टस्ततो दृष्टान्तान्तरमाह-यथा दृष्टान्ते । मासाः पक्षद्वयात्मकाश्चैत्रादयः । अह- जरमहानि जरयति स्वकुक्षिनिक्षेपेण यः संवत्सरस्तम् । यन्तीत्यनुवर्तते । एवं दाटी. न्तिके मां श्रीकामम् । ब्रह्मचारिणश्छात्राः । धातः, हे धात: सर्वस्रष्टत्वात्प्रणवस्य धातृत्वम् । आयन्त्वागन्छन्तु । सर्वतः सर्वाभ्यो दिग्भ्यः । स्वाहा व्याख्यातम् । नन्विदं सर्व मत्तादात्म्याय मम तच कः संवन्ध इत्यत आह–प्रतिवेशः स्वगृह समीपस्थं गृहं प्रतिवेशः । तद्वचैतन्यरूपेण जीवोपाधेरतिसनिहितत्वात्प्रणवश्चैतन्यात्मा प्रतिवेशः । असि भवास । यतस्ततः प्र मा मां त्वदुपासकम् । भाहि प्रभाहि मकाशयाऽऽत्मानम् । म मा पद्यस्व प्रपद्यस्व । अह ब्रह्मास्मीति साक्षात्कारबोवेन मद्रूपमागच्छेत्यर्थः । अत्र स्वाहान्ता अष्टौ मन्ततः । एतैः सर्वमन्त्रैरेकादशसख्याकैरष्टभिः पाठ एव । स्वाहान्तस्त्रिभिश्च होमार्थ स्वाहान्तत्वेन पठित्वा होमः करणीयः । जपस्तु यथापाठपठितरित्यवगन्तव्यम् ॥ इति श्रीममरमहंसपरिव्राजकार्यश्रीमच्छंकरानन्दविरचिताया कृष्णयजुर्वेदीयतैत्तिरीयोपनिष- दीपिकाया शीक्षाध्याये तृतीयोऽनुवाकः ॥ ३ ॥ .. अथ शीक्षाध्याये चतुर्थोऽनुवाकः । पूर्वमोंकारस्थ सहस्रशाखत्वमुक्तं तदेतत्मधानशाखासु सिद्धासु प्राधान्यं च भूरादि. च्याहृतीनामस्मिन्प्रपञ्चे । ततो व्याहृतयो हृदिस्थाः । तासूपासनं स्वाराज्यफलमाह- भूर्भूर्लोकः, तत्स्थः प्रपञ्चो भूरितिशब्दाभिधयः । भुवोऽन्तरिक्षलोकः । तत्स्थः प्रपञ्चो भुव इत्युच्यते । सुवः स्वर्गः, तत्स्थः प्रपश्वः सुवरित्युच्यते । इत्यनेन प्रकारेण । वै स्मर्यमाणाः । एता इदानीमुक्ताः । तिस्रस्त्रिसंख्याका वेदत्रयात्मिकाः । व्याहृतयः, अधिकारीष्टं विविधमा समन्ताद्धरन्ति प्रयच्छन्त्यधिकार्यनिष्ट चा विविधमा समन्ताद्धरन्ति विनाशयन्तीति व्याहृत्यः । तासां भूर्भुवः सुवरितितिसृणाम् । उ अपि स्म प्रवेदयत इत्यनेन संबध्यते । एतां वक्ष्यमाणा चतुर्थी चतुःसंख्यापूरणीम् । माहा- चमस्यो महाश्चासौ चमसोपलक्षितानेकयागसंपन्नश्च महाचमसस्तस्यापत्यं माहाचमस्यः । प्रवेदयते प्रकर्षेण निवेदितवाज्ञाचोक्तवानित्यर्थः । परेनुस्मरणमुपासनार्थमिति संप्रदा- यविदः । तामाह-महस्तेजः स्वयंप्रकाशम् । इत्यनेन प्रकारेण । आवेदने कः प्रकर्ष इत्यत आह--तन्महः । ब्रह्म देशकालवस्तुपरिच्छेदशून्यं तस्मिन्नियं दृष्टिः करणीये- त्यर्थः । यद्ब्रह्मेत्युक्तं स प्रसिद्धो वक्ष्यमाण आत्माऽस्मत्प्रत्ययालम्बनः प्रधानभूत ho किल। १ ग, सर्वमेतत्ता' । २ ग. ऋषेः स्म ।

शंकरानन्दता [ गीक्षाव्याये, अ०४] 301 अहा गुमनागनानि । अन्या मगद्या देवता व्यायधिष्ठात्र्यः । अहं Hirant मग भगवा न्यातिदेवता अहानायुपासनं करणीयमित्यर्थः । मन मानस का देवता इत्यागह,य न्याहानामर्थमाह-भूः प्रथमा व्याहृतिः । एनिमयायः । वे मारणार्थम् । अयं प्रपती लोको भूकः । भुव इत्यन्तरि- सम् । नुवाग्न्यिसा लोकः । अन्तरिक्षं द्यावाभूम्यारन्तगलायी लोकः । असी परोक्षो तः । गुः स्व(सुब) रतिव्याविपर्यायद्येऽनिशब्दावनुकरणाय । मामाची पारनिः । इनिग्नुकरणार्थः । आदित्यचन्द्र (न्यः मुर) मण्डलाभिमानी जग माणः, भरियाय माया मनापास्यमानस्य महत्वगुणपादयनि । आदित्येन चावाद । सर्व गिगिलाः । लोका भगदयः । महीयन्ते पत्यन्त सर्वव्यवहा. रक्षामा भयन्तीयर्थः । इबानी यानाना योगिया युवपनामाह-भूरिति या अभिः । भुव इति वायुः । मुवरित्यादित्यः । मह इति चन्द्रमाः । चन्द्रमसा वाव माणि ज्योतीपि महीयन्ते । अनिवाग्वादिन्यचन्द्रमस: प्रमिता. । मनेन्या व्यनिरिक्तानि माणि योनीषि नक्षत्रादीनि । अग्न्यादीना सर्वगन्दान्तःपातियनवा देयम्पन चन्द्रगर उपभोगेन तेन महीयमानत्वगविलम् । वायोत्र तेजःसाकारणत्यायोतिन्त्रमनाहिन्येन पाटले न विगतः । अन्य पर्यायचतुष्टयेऽपि पर्वबयास्यम् । इदानी व्यागीना अब्दप्रपशामक यमाह-~भूगिति वा ऋचः । भुव इति सामानि । मुवरिति यजूपि । मह इति ब्रम । ब्रमणा वाव सर्वे वेदा महीयन्ते । अर्थानुसारेण पादवद्धाक्षरा ऋचः । सामानि च एव गोनिमयः । यजूं. ध्यविवक्षितन्छन्दोरूपाणि गद्यानि । अत्र मानो द्वितीय यजुप नृतीयाचे व वाचनिक कारणमास्येयम् । अथवाऽन्तरिक्षे गन्धर्वाणा निवास बन गीतिप्राधान्यात नाम्न सानो द्वितीयत्वं यजुःस्थितकर्मसाध्यत्वात्म्बर्गस्य ताक संबन्धाद्यवस्तृतीय वं चेनि । ब्रह्मों- कारो ब्रतकोशत्वात्तेनैव सर्व ऋगादयः पूज्यमाना दृष्टाः । शपं पर्यायचतुष्टयेऽपि पूर्ववदया- स्येयम् । इदानी व्याहृतीना क्रियात्मकत्वमाह --भूरिति में प्राणः । भुव इत्यपानः । मुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते । प्राण उच्छासकर्मा । अपानो निःश्वासकर्मा । व्यानः माणापानसंधिस्यो वीर्यवत्कर्भहेतुः । अन्नमदनीयम् । अनेन प्राणा उक्ताश्चक्षुरादयश्च । शेपं पर्यायचतुष्टयेऽपि पूर्ववद्व्याख्ये- यम् । अयं लोक इत्यादिकमुक्तं व्याहृतिचतुष्टयपर्यायचतुष्टयेऽपि पाठस्य चैपम्या- भावात् । तत्राऽऽद्येन पर्यायेण रूपनामकर्मात्मकं जगवा विभज्य रूपनामकर्मणाम- १ ख. शब्दात्म । २ ग. °सेन च स ।

[शक्षिाध्याय, अ०५] तत्तिरीयोपनिषदीपिका । १२९ विभक्तानामादिन्यः कारणमित्युक्तम् । नामनियारहितस्य रूपस्य त्रेधा विभक्तस्य चन्द्रः कारणमिति द्वितीयेनीनाम् । रूपक्रियारहितस्य नानवेधा त्रिभक्तस्य प्रणवः कारणमिति तृतीयनोक्तम् । रूपनामरहितस्य कर्मणोधा विभक्तस्यानं कारणमिति चतुर्थेनोक्तम् । तेन व्याहतीना सहकार्य सिद्धम् । तदिदानी संक्षेषणाऽऽह -- ताः प्रसिद्धा । व स्मर्यमाणाः । एताः पूर्वोक्ता व्याह- तयः । चतस्रो भवः नुवर्मह इति चतुःसंग्ख्याकाः । चतुर्धाऽयं लोकोऽग्निर्वाचः प्राण इति चतुष्प्रकारा भव्याहतः । अन्तरिक्ष वायुः सामान्यपान इति चतुष्प्रकाग भुवोव्याहृतिः । असौ लोक आदित्यो यपि न्यान इति चतुष्प्रकारा मुवाहतिः । आदित्यश्चन्द्रमा ब्रह्मान- मिति चतुष्प्रकारा महोयातिरिति चतस्त्रश्चतुष्प्रकाराः । तदेतदाह-चतस्रश्वतस्रो भूरा- चाश्चतस्रश्चतुःसख्याकाः । पुनरप्यं लोक इत्यादिनेकेकाऽप्यवान्तरभेदाच्चतुःसख्याकाः । व्याहृतयो व्याख्याताः । ता एकैकाश्चतुष्प्रकारा इत्युक्ता भृराद्या नियतप्रकारा य उपा- सको वेद जानात्युपासीतेत्यर्थः । स प्रत्येकं नियमेन च तुर्विध्येन चतसृणामात्मागभा- वेनोपासको वेद जानात्युपास्त इत्यर्थः । ब्रह्म देशक'लवस्तुपरिच्छेदशन्यं महाव्याहत्या- रमोनोक्तम् । ब्रह्मणि ज्ञाते को लाभ इत्यत आह-सर्वे निखिला अस्मै महो ब्रह्मा- हमादित्यश्चन्द्रमा ब्रह्मान्नमलीभतो महीयान्यङ्गानि भुराद्यास्तिस्रो व्याहतय इत्युपासकाय देवास्तदद्गभूता अग्न्यादयो वागादयश्च विश इव राज्ञे प्रधानाय बलिं तदभीष्टरूपरसा- दिकम् । आवहन्त्यानीय प्रापयन्ति । ननु महो ब्रह्म मा कुत्र कयमुप.स्थत उपासनातः केन द्वारेण निर्गच्छति निर्गतो वा केन रूपेण कुत्र स्थित्वा देवदत्तं बलिं गृह्णातीत्याशङ्कय तदेतत्सर्वं दर्शयति-स परोक्षः यः प्रसिद्धः । एप प्रत्यक्षः । अन्तर्हृदये हृदयस्य पद्माकारम्य मासखण्डस्याधोमुख. स्योर्धनालस्य पञ्चच्छिद्रस्य कदम्बकुमुमफेसरैरिव सर्वतो नाडीभिः परिवृतस्य मध्य आकाशोऽवकाशः । तस्मिन्नाकाशऽय प्रत्यक्षः स्वयंप्रकाशमानो महाव्यात्यात्मकः । पुरुपः पुरिशयोऽपि । परिपूर्णब्रह्मरूपो मनोमयो मनःप्रधानः । अमृतो मरणशन्यः । हिरण्मयो भास्करः सर्वज्ञ इत्यर्थः । कुत्र कथमुपास्य इत्यनयोरुत्तरं जातम् । अय केन द्वारेण निर्गच्छतीत्यस्योत्तरमाह- अन्तरेण तालुके तालुकयोर्मधे । मुखविलस्यान्तर्जिह्वामूलस्योपरि स्थितौ वामदक्षिण- भागौ तालुके इत्युच्येते । यः प्रसिद्धो योगशास्त्र । एष प्रलम्बिकाकरणप्रवीणजिह्व ग्रस्प- र्शनप्रत्यक्षः परमुखे चक्षुष्प्रत्यक्षो वा । स्तन इव वत्सतरीपयोधरो यथा । अवलम्वतेऽ- १ ग. स्यमानः के। १७ - १३० शंकरानन्दकृता- |शीक्षाच्या, अ०५) बलम्बनं कुरुते टम्बमानसिनीत्यर्थः । सा तालुकयोरन्तस्थस्तनमध्यवर्तिनी । इन्द्रयो. निरिन्द्रस्याऽऽनन्दामना योगिरुपलब्धिस्थानम् । कार्यक्रमप्राप्तौ निर्गमनकारणं चेन्द्रपोनिः। शन यस्मिन्प्रदेश । असी प्रसिद्धः । केशान्तो मूर्धानमारभ्योपरिष्टादशाङ्गुलपरिमितो देशः । केशान्तः, कश्चाश्वेशश्च केशा ब्रह्मविष्णुमहेश्वरास्तेषामन्तो विन शकारणमित्यर्थः केशान्तः पौरुषो बोध इत्यर्थः । विवर्तते बोधरूपापरित्यागेनासत्यस्य नानाकारस्य शरीरत्रयस्य साधिदेवादेस्तदमिमानादेश्वाऽऽकारेण परिणमते । अथवा केशाना पसिद्धाना- मन्तो न भावो(?) मूलमित्ययः । यस्मिन्देशे विशेषणे वर्तते व्यपोद्य मिरवा । शीर्षक- पाले शीष्णो मः कपाले शकले । विनिर्गता या मासि शेय. । य एप स्तन इयाव- लम्बते सम्मध्यवर्तिनी यत्रासी कशान्तो विवर्तते तत्र प्रतिष्टिनाप्रति शेषः । तत्रोपपत्तिर्य- पोध शीर्षकपाले विनिर्गता या पेन्द्रयोनिरिलन्ययः । अनया का ब्रह्म गच्छन्गच्छती- त्यर्थः । अनेन गमने मार्ग उक्तः । इदानी तत्तद्व्याहृत्यात्मकस्तेपु तेषु च्यायतिप्रकारेपू स्थित्वा देवदत्तं गहन्नध्यात्मपरिच्छे. दशून्यः स्वाराज्यं करोतीत्याह--भूरिति, उक्तोऽय व्याहतः । इतिशब्दश्च व्याय. त्यनुकरणार्थः । अग्नौ प्रथमव्यायत्यात्मके । प्रतितिष्ठति प्रतिष्ठा प्रामोति । इदं पद वक्ष्यमाणेष्वपि त्रिषु प्रर्यायेषु योजनीयम् । भुव इति व्याख्यातम् | बाय द्वितीय. च्यायतिरूपे । सुवरिति । व्याख्यातम् । आदित्ये तृतीयव्यायतिरूपे । मह इति व्याख्यातम् | ब्रह्मणि कार्ये ब्रह्मण्यन्तःकरणशुद्धौ ब्रह्मज्ञानोत्पादात्परे ब्रह्मणि वा । अत्र यद्यपि मह इति चन्द्रमसीति वक्तव्यं प्रायःपाठात्तथाऽप्युपास्याङ्गारिजातं स व्यानो- तीत्येतदर्शयितुमनास्थाबादन चन्द्रमसं परित्यज्य मह इति ब्रह्म सहीति बोररीकृत्यं मह इति ब्रह्मणीत्याह । व्यायुपासनामात्रान्निर्गुणब्रह्म नातिरितिशङ्कानिवारगार्यमाह--आप्नोति प्राप्नोति । स्वाराज्यं स्वयमेव राजते दीप्यत इति स्वराट् तस्य भावः स्वाराज्यम् । ननु केवलब्रह्ममा. तिरप्येतादृश्येवेत्यत आह-आप्नोति प्राप्नोति । मनसस्पतिं मनःशब्दोपलक्षितस्य ज्ञानक्रियाशक्तेरन्तःकरणस्य पति पालयितारम् । स्वोपाधिकत्वाभिमानेन हिरण्यगर्भमित्यर्थः । तं प्राप्य क्रियाज्ञानकरणाना तद्व प्रभभवतीत्याह---वाक्पतिर्वा:गति कर्मेन्द्रियमात्रस्योप- लक्षणम् । वाचः पतिर्वा मतिः । चक्षुष्पतिः श्रोत्रपतिः स्पष्टम् । चक्षुःश्रोत्रयोर्ग्रहणं स्वग्घ्राणरसनानामुपलक्षणार्थम् । विज्ञानपतिर्विज्ञानं बुद्धिस्तस्य पतिविज्ञानपतिः । विज्ञा. नशब्दोऽव्याकृतव्यतिरिक्तस्य सर्वस्योपलक्षणार्थः । १ ख. °र्थ. । केशात नि । २ ग. 'ण पत्र । ३ ग. प. । यः स्त' । ४ ख. °त्पाद- दात । ५ य. ति चौर।

[शीक्षाघाये, अ०६] वत्तिरीयोपनिषदीपिका। १३१ अपेक्षितं सर्वमप्युक्त् वेदानी ‘मो ब्रम तस्मिनयं पुरुषः' इत्यादिनीपास्यत्वेनोक्तं यदुरपन्नग्रहमज्ञान: प्राप्यमाभत वक्तमारमते संक्षेपेण प्राचीनयोगस्य पितरूपा श्रुतिः स्वपुत्रस्योगासनार्थम् । एतदेतस्मिन्याह युपासने प्रध नभतम् । ततो भवति तस्मात्का- रणाद्भवति । उक्तमिति शेषः । आकाशशरीरमाकाशोऽव्याकृतं शरीरमिव स्वं यस्य तदाक शरीरम । व्राम सद्रमति, महाव्य हत्यभिन्नं यदुक्तं देशकालवस्तुपरिन्छे- दशन्यम् । सत्यात्म सत्यो योधरहिन आत्मा चिदानन्दस्वभावो यस्य सत्सत्यात्म । प्राणारामं प्राणेष्वारमत इति प्राणार,म सर्वप्राणिस्थितमित्यर्थः । तटस्थत्वशङ्का वारयति- मनभानन्दं मनस आनन्दो यस्य तन्मनआनन्दम् । तर्हि दुःखीत्यागयाऽऽह- शान्तिसमृदं शान्तिर्दुःखोपरतिस्तया समृद्ध संन्न सर्वदुःखशून्यमित्यर्थः । नन्वरतु सर्व रिकृष्ट तथ ऽपि सर्वभदा-मरणमप्यस्वेत्यन आह---अमृतं. मरणशू- न्यम् । यदभेदादन्यस्यापि मरणमपग छति कुतोऽस्य कालैकालस्य मरणमित्यर्थः । इत्यनेन प्रकारेण तदहमस्मीत्यवगन्तुमशक्तश्चेत्माचीनयोग्य प्राचीनेषु पुरातनेषु काश्यपादिषु योग्योऽधिकः प्राचीनयोग्यः सर्पन उत्कृष्ट इत्यर्थः । तस्य संबोधनं प्राचीनयोग्य । उपास्स्व " महोव्याहृतिरूपमिदमहमस्मि ममाङ्गानीकरा यथोक्ता व्याहृतयः शाखान्तरमसिद्धं या "मनोमयः पाणशरीरः" इत्यादिरूपं व्याहृत्युपासनाव्यतिरि- तमुपास्व विजातीयमत्ययशन्येन सजातीयप्रत्ययप्रवाहण यथोक्तय साक्षात्कुपित्यर्थः । अथवा को हिरण्यगर्भप्राप्तो पुरुषार्थ इत्याशङ्कय व्याख्नेयम् । ततो हिरण्यगर्भ- प्रातरनन्तरमुत्पन्नब्रह्मज्ञान एतद्वक्ष्यमाणं ब्रह्म भवति । अस्मिन्पक्ष इत्यारभ्य प्राचीनयोग्यपि. ४ " इति तुक्यं द्रष्टव्यम् ॥ इति श्रीमत्वरमसपरिवाजकाचार्यश्रीमच्छंकरानन्दविरचिताया पद र्थबोधिन्यां तैसि- रीयोगपद्दीपितारा शीक्षध्याय पञ्चमोऽनुवाकः ॥ ५ ॥ अब शीक्षाये षष्ठोऽनुवाक । चतसृणा व्याहृतीनामुपासन उक्ते तदनन्तरभाविनी पञ्चसख्यामुररीकृत्य पञ्चभूतात्म- कविरामाप्तिफलं पासमुपासनमाह--पृथिव्यन्तरिक्ष द्यौर्दिशोऽवान्तरदिशः,, स्पष्टाः पृथिव्यादयः पञ्च पदार्थाः। त्रिलोकी प्राच्यादयश्चमस्र आग्नेय्यादयश्चेति पञ्चक लोकपतम्। अनिर्वायुरादित्यश्चन्द्रमा नक्षत्राणि, स्पष्टा अग्न्यादयः पञ्चा पदार्थाः । इदं देवतापानम् । आपो नीराणि । ओषधयो ब्रीह्याद्यांः । वनस्पत- - १ ग. °व य° । २ ख च भार । ' क 'लस्" । ५ग 'तिपढ़ामि ।

- १३२ शंकरा नन्दकृता [शीक्षाध्याये, अ०७] योऽपुष्पाः फलवन्तोऽश्वत्थादयः । आकाशो भूताकाशः । आत्मा भौतिको देहोऽधि- देवादिः। इतिः समाप्तौं। अधिभूतं भूतानि पृथिव्यादीन्यधिकृत्योच्यमानमधिभूतम् । लोके देवानामपि भूतविकार वेन भूततत्त्वमङ्गीकृत्याथिभूतमित्युपसंहारः । अयाधिभूतपाङ्ककथनानन्तरम् । अध्यात्ममात्मानमिमं स्थूलदेहमधिकृत्य । पाश्रम- श्यत इति शेषः । प्राण उच्छासकर्मा क्षुत्तृडधिकारी । व्यानः प्राणापानयोः संधिस्थो वीर्यवत्कर्महेतुः। अपानो नि.श्वासकर्मा मलमूत्रादिविसर्गहेतुः। उदानः सर्वसंधिषु कालवदवस्थितः । यच्चलने हिक्कादिः प्राणापानादीनामप्यनवस्थितिः सर्वप्राणबन्धनमूर्ध्व- गामी मरणहेतुः । समानोऽशितस्य पीतस्य चाऽऽपादमस्तकं समं यथायोगं नयनं करातीति समानः । इद प्राणादिपञ्चकं वायुपातम् । चक्षू रूपग्राहकमिन्द्रियम् । श्रोत्रं शब्दग्राहकमिन्द्रियम् । मनः साधारणज्ञानकारणम् । वाग्वागिन्द्रियमभिवदनका- रणम् | त्वक्स्पशॉपलब्धिकारणमिन्द्रियम् । इदं चक्षुरादिपञ्चकमिन्द्रियपाङ्गम् । चर्म त्वगिन्द्रियाधिष्ठानमापादमस्तकं व्याप्य व्यवस्थितम् । मांसमन्नस्य मध्यमः परिणामो मृदुलो घनीभूतः । स्त्रावा धमनिः, जातावेकवचनत्वान्नाड्य इत्यर्थः । अस्थि प्रसिद्ध श्वेतं शरीरशालावंशस्तम्भादिरूपम् । मज्जा रुधिरमांसयोरन्तरावस्थोष्णकालीनशीतलप्रदे- शस्थघृताकाराऽरध्नोऽन्तर्गता । इदं चर्मादिपञ्चकं धातुपातम् । एतदुक्तं पृथिव्यादिकं मज्जान्तम् । अधिविधायाधिकृत्य पञ्चकमुपलभ्येत्यर्थः । ऋषिउँदो वेदार्थद्रष्टा वा। अवोचदुक्तवान् । पाझं पञ्चाक्षरं ( र ) पङ्किच्छन्द रूपम् । वै प्रसिद्ध पञ्चसंख्यात्येन । इर्द पृथिव्यादिकम् । सर्व निखिलम् । पाझेनैव पञ्चसंख्याक्रान्तेनैव पाई पञ्चसं- ख्याक्रान्तम् । स्पृणोति प्रीणयति । पोपेपणादिकं सर्वं पातमित्यर्थः । पार्ने वा इदं सर्व यतस्ततः पालेनैव पत स्पृणोतीति योजनीयम् । इत्यनेन प्रकारेण । स्वयं पञ्चा- रमको विश्व चे पञ्च मकं सर्पणाभिन्न पञ्चात्मकं स्वत्मानं जानतस्ताविराटप्राप्तिफलमर्थ- सिद्धमिति श्रुति!क्तवती । इति श्रीमत्परम्हसपरिव्राजकाचार्यश्री च्छंक्रानन्दविरचिताया पदार्थबोधिन्या तेत्ति- री पनिपच्छाकरभाष्यटीका शीक्षाव्याये पष्ठोऽनुवाक. ॥ ८ ॥ अथ शीक्षाध्याये सप्तमोऽनुवाः । पञ्चसंख्यासामान्यापाङ्गमिदं सर्वमित्युक्तं तेन सर्वात्मकं ब्रह्म हदिस्थं ब्रह्मणश्च कोशभत ओंकारः पूर्वमुक्तः । इदानी तत्कोगत्वोपपादनार्य पुनरोंक रस्योपासन- १ क. ग. "रणं का । २ क. ग. व्याप्याव । ३ ग. त्वोपासना ।

[ शीक्षाध्याये, अ०७] तैत्तिरीयोपनिपद्दीपिका। १३३ माह--ॐ ब्रह्मवाचकः । इतिरोंकारानुकरणार्थः । ब्रह्म वाच्यम् । अभिधानाभिधेययो. स्तादात्म्यावाचके वान्यस्य दृष्टिः करणीया । शालग्राम इव विष्णोरित्यर्थः । ननु सति साम्य ओकारब्रह्मणोरोंकार तदृष्टिः क्रियमाणोचिता स्यादन्यथाऽन्धगोला*शलन्यायमा- त्रमित्यत आह-ओमिति, व्याख्यातम् । इद- सर्व विविधप्रत्ययगम्यं कार्यकारणादि निखिलम् । अयमर्थः- शब्दप्रपञ्चः सर्वोऽप्योकारेण व्याप्त इति नात्रोपपादनीयं किंाच दस्ति । शब्दार्थयोस्तादात्म्ये विप्रतिपत्तावपि वाचकवलक्षणऽविनाभावे न विवादः यद्येनाविनाभूतं तत्तस्य कार्यम् । यथा धूमान्योः कार्यकारणयोः साम्यं यथा मृद्घटयोः । तत ओंकारस्याऽऽत्मनश्च सर्वाभिन्नत्व दस्ति साम्यमियोकारोपासनार्थमोकारो लौकिक. वैदिकव्यवहारकारणत्वेन स्तूयते । ओमिति व्याख् ।तम् । एतकाराभिधानम् । अनुकृति गन्छ पिब पठेयादिवचन मनु भृत्यादेरङ्गीकारवचनमोभिति करणमनुकृतिराह । ह किल । स्म प्रसिद्धम् । वै स्मर्यमाणम् । अपिरभ्युच्चये । न केवलं लौकिकव्यवहारकारणमोकारः, किंतु वैदिकस्यापि ओ' ओमित्यर्थः । श्रावय हविषः परित्यागार्थ मन्त्रं देवाश्रावय । इति, अनेन प्रकारेण । उक्त वैदिके कर्मण्यत्विज आश्रावयन्ति समन्तादेवान्मन्त्रश्रवणं कारयन्ति । ओमिति व्याख्यातम् । सामानि गीतिसहिता ऋचः । गायन्ति यज्ञकर्मण्यन्यत्र चे पठन्ति । ओं व्याख्यातम् । शो शं सुखं तदेशे शोमित्यनुकरणार्थः । शस्त्राणि शस्त्रशब्दाभिधयानृग्विशेषान् । शसन्ति पठन्ति यज्ञकर्मण्यन्यत्र चै । ओमिति व्याख्यातम् । अध्वर्युर्याजुप ऋत्विक् । प्रतिगरं गस्णम् । वामनःकायाना विहितं व्यापारमात्र गरः, तेन संबद्धं प्रतिगरः कर्म, तं प्रति कर्मणि कर्मणीत्यर्थः । गृणाति शब्द करोति । प्रतिगरं यजुर्विशेष वा प्रतिगृणाति पठति । अस्मिन्पक्ष ओमित्यु- वाति शेषः । ओमिति व्याख्यातम् । ब्रह्मा, ऋत्विग्विशेषः । प्रसौत्यनुजानाति ओमिति व्याख्यातम् । अग्निहोत्रं जुहोतीत्युक्ते हो.दिना समीपस्थोऽग्निहोत्रं नित्यं काम्यं वा कर्भानजानाति जुहुधी.त्यनुज्ञा प्रयच्छति । ओमिति व्याख्यातम् । ब्राह्म- णोऽध्येष्यमाणः । प्रवक्ष्यन्पाठायं प्रकर्षण वचनं करिष्मन् । आह ब्रूते । ओंकारवदने कारणमाह--ब्रह्म वेदम् । उपाभवानि । स्वाधीनत्वलक्षणेन सामी. * यथा कस्यचिदन्धस् । स्वेतिस्थलं गन्तुमशनुवानस्य हस्ते कनचिदुष्टेन बलीवर्दस्य लागूल दत्त्वैष त्वाम प्सितस्थल भापयिष्यतीत्युक्त्वा प्रस्थापितोऽन्धो मोक्षभ गद्गोपुच्छ दृढ गृहन्, लाङ्गलग्रह ममहमनेन ३र्कराक: कोपलादिषु जवा प्रधावमानेन गवा व्यापाद्यते स एष गोला- लन्यायः । १ क. ग. 'स्याप्योमोमि । २ ग. वा । ३ ग. व ४ ख. म् । ब्रह्मणः । । ५ग. °णे म.मान्येन सा ।

शंकर.नन्दकृता [ शांक्षाध्याये, अ० ८ प्येन प्रामवानि । इति, अनेनाभिप्रायेण । ननु किमभिमायमात्रमिन्याशङ्कय नेत्याह-- ग्रह्म वेदमेव । उपामोति स्वाधीनत्वसामीप्येन प्रामोत्येव न त्वभिप्रायमात्रम् । अत्र फलं च ब्रह्मज्ञानोत्पादद्वारेण सर्वात्मत्वप्राप्तिरनुक्ताऽपि द्रष्टव्या । अथवा ' ऑमिति ब्राह्मणः इत्यादिकं फलवचनम् । अस्मिन्पक्षे..ब्राह्मणः साधनचतुष्टयसंपन्नः संन्यासी प्रवक्ष्यन्प्रक- यण ' तत्वमसि । 'अहं ब्रह्मास्मि । इत्यादिवचनजातं वक्ष्यन्ब्रह्म सत्यज्ञानादिलक्षणम् ॥ इति श्रीमत्परमहसगरिबाजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थयोपियां तैत्तिरीयोपनिषद्दीपिकाया शीक्षाध्याये सप्तमोऽनुवाकः । ७ ॥ . अथ श्रीक्षाध्यायेऽयमाऽनुवाकः । ननु--एवमप्युपासनस्यान्तर्मुखता न स्यादस्ति च मुमुक्षा किं तेन करणीयमित्या- शङ्कय क व तेन करणीयमित्याह--ऋतं च यथाशास्त्रकर्मविष्यं ज्ञानम् | चकारः स्वाध्यायप्रवचनाभ्यां समुच्चयार्थः । स्वाध्यायप्रवचने च स्वाध्यायोऽध्ययनं प्रवचन ब्रह्म यज्ञ,ऽध्यापनं वो । चकारोऽनयोरुकेन समुच्चयार्थः । सत्यं मनःकायाभ्यामनु- ष्ठीयम नं. कर्म सत्यवचनं वो । तपः कृन्छ्चान्द्रायणादिरूपं स्वधर्भवृत्तिवं वा । दमो बाह्येन्द्रियनिग्रहः । शमोऽन्तःकरणोपशमः । अग्नयस्त्रयः पञ्च वा । अनि होत्रं नित्यं श्रौतं कर्म सायं प्रातहोमोपलक्षितम् । अतिथयोऽज्ञातकुलगोत्रा ब्राह्मणा- दयोऽशनाद्यर्थ दर्शादितिथिमन्तरणापि गृहान्समागताः । अतिथिशब्दितसोमोपलक्षितयागा वा । मानुषं पुत्रादिविवाहादौ ब ध्यादीनां यथोचितं पूजनम् । प्रजा पुत्रादिका । प्रजनः प्रजननमृतौ भार्यागमननित्यर्थः । प्रजातिः पौत्राद्युत्पत्तिः पुत्रायानुरूपा प्रिया च भार्या तादृशश्च वरः कन्यायै । एवं पौत्रपौत्र्यादेरपि संपादनीयमित्यर्थः । अत्रोमित्यादौ संपादनीयमिति द्वादशस्वपि पर्यायेष्वेकवचनद्विवचनबहुवचनानुसारेणाध्याहरणीयम् । सर्वत्र च स्वाध्यायप्रवचनयोः पाठस्तत्रात्यन्तमादरदर्शनार्थः । शेपमेकादशस्वपि पर्यायेषु समानपाठ. मृतमिति पर्यायवयाख्येयम् । इदानीमृषीणा मतान्यत्रोपन्यस्यति--सत्यमुक्तम् । इति, एव । सत्यवचाः सन्य. वादी, नामधेयं वा राथीतरो रथीतरगोत्रः । अनुष्ठेयं मनुत इति, अत्र वक्षमाणेऽपि यथायोगमव्याहरणीयम् । तप इति तप एव । तपोनित्यस्तपसि नित्यं वर्तत इति तपोनियो नामधेयं वा । पौरुशिष्टिः पुरु बहुवेलं मातृपित्राचार्यः शिष्टः पुरुशिष्टस्तस्यापत्यं पौरशिक्षिः। १ ग. च । २ ग. च । ३ ग. तय गो वा । ४ ग. योग्यम् ।

{शीक्षाप्यस्ये, अ००.] तत्तिरीयोपनिषदीपिका। १३५ पूर्वपक्षमुस्वर सिद्धान्तमाह-स्वाध्यायप्रवचने व्याम्यातम् । एव न त्वन्य- सत्यं तपो वा । इती यम् । नाको नामतः । मौद्गल्यो मुदं शास्त्रार्थनिर्णयरूपा गलति स्रवतीति मुद्गलः, तस्थापन्यं मौद्गल्यः । अन्य पक्षस्य सिद्धान्तत्यमुपपादयति-तत्स्वाध्यायप्रा- चनानुष्ठानम् । हि यस्मात् । तप उक्तमुपलक्षणमिदं सत्यस्यापि । तस्मादिदमेवाधिक- मिति शेपः । अस्य पक्षस्याऽऽदराय द्विवचनम् । तद्धि सपा व्याख्यातम् ॥ इति में म.परमहंसपरिमाज कार्यभीमरच्छंकरानन्द पिरचिनाया कृष्णयजुदिीयत्तिरीयोपनिष- ६.पाणं सी.सा.येऽप्रमोऽनगमः ॥ ८ ॥ अप शीक्षाध्याये मामोऽनुवारः । ननु---अध्ययनत्य मालण्यजातिप्रयुक्तत्वेन कर्तव्यतया सिद्धत्याद्वतस्य करणीय- ताऽध्यापनस्य या (१)। नित्यत्वान्न तस्यापि नित्यः स्वाध्यायः स्वाध्यायप्रवचनशब्दाभ्यां प्रतिपायोऽतः शिप्यते । न चासाबपि कुतः सक्योऽनेककार्यव्यप्रत्वात् । न चाशक्य विदधाति विधिः । ततः स्वाध्यायप्रवचने एवेति यत्किचिदेतदित्याशङ्कयैतन्मन्त्रमात्रं नित्यं जपनीयम् । अन्यत्तु यथासक्त । ताताऽशक्यत्वाभावादित्यभिप्रायवानाह- अहं नित्यस्वाध्यायस्य कर्ता । वृक्षस्योर्ध्वमूलस्यावाक्शाखस्य वनस्पतेरधिदैवादिभि- म्नस्प स्थूलसूक्ष्मशरीरस्येत्यर्थः । रेरिवा प्रेयिता । कीर्तिः स्ववर्णाश्रमोचितानुष्ठान- कारित्वेन विद्यया चेहामुत्र पुग्यं यशः । पृष्ठमयुच्छ्रितं शृङ्ग लोकद्वयदर्शनस्य विषयः । गिरेरिव पर्वतस्य मेरोया तथा । मम स्यादिति शेषः । ऊ पवित्र ऊर्व कारणं पवित्रं ब्रह्म यस्य मम देहादिसघातस्य सोऽहमूर्धपवित्रो वृक्षोऽप्यहमेवेत्यर्थः । वाजिनीव चाजोऽल देवानां रोहितादिरूपं प्रसिद्वमस्मदादीना चास्यास्तीति वाजी सविता तस्मिन्यथा । स्वमृतं सुष्ट्वमृतं रोहितादिरूपमानन्दात्मस्वरूपं वाऽस्मि । द्रविणं धनं हिरण्यादिरि (क)बाऽऽनन्दात्मस्वरूपम् । रुवर्चसं वर्चस्तेजो ब्रह्मसाक्षात्कार- स्तेन सह वर्तत इति सयर्चः, सर्च एव सवर्चसम् । सुमेधाः सुष्ठु मेधा 'तस्वमसि' 'अहं ब्रह्मास्मि' इत्यादिश्रुतधारणरूपा यस्य स सुमेधाः । अमृतोक्षितः, अमृतेन गुरुकटाक्षेणोक्षितः सेचितः, अमृतो मरणशुन्योऽक्षितो विकारान्तरहीनो वा । तथा मम स्यादिति । अध्याहाराभावे सात्म्यज्ञ न कीर्तिरप्यहमस्मीति व्याख्येयम् । श्रुतिराह–इति अनेन प्रकारेण । स्वधर्मनिष्ठस्याऽऽHदर्शनसंपन्नस्य त्रिशङ्कोराध्यामिकाधिभौतिकाधि- दैविका दुःखस्वरूपाः शक्कयो यस्य स शिकुः । सस्य भृशं संसारतापैः संतप्तस्य परम- . १ १ ग. °१ सर्वात्मज्ञा। .

शंकरानन्दकृता [शीक्षाध्याये, अ. १०] वैराग्यं प्राप्तस्येत्यर्थः । त्रिशड्कुनाम्नी वा । वेदानुवचनमई संसारस्य प्रेरयिता प्रायशः संसारोऽविद्यया, वस्तुतस्त्वानन्दात्मस्वरूपो ब्रह्मसाक्षात्कारवान्गुरुकटाक्षपातेनेति वेदन वेदः । तमनु पश्चाद्वचनम् ' अहं वृक्षस्य ' इत्यारभ्य अमृतोक्षितः । इत्यन्तं वेदानुवचनम् ॥ इति श्रीमत्यरमहंसपरिव्राजकाचार्य श्रीमच्छ करानन्दविरचिताया पदार्थबोधिन्या तैत्तिरी- योपनिषद्दीपिकाण शीक्षाध्याये नवमोऽनुवाक. ॥ ९ ॥ . -- अथ शीक्षाध्याये दशमोऽनुपाः । सत्यादीन्यनुष्ठेयान्यन्तर्मुखेन ण) मुमुक्षुणा । तानि कि सति मुमुक्षुत्व एवानुष्टेयानि नेतरथेत्याशङ्कय मुमुक्षुत्वेऽमुमुक्षुत्व वोपनयनम रभ्याऽऽब्रह्मसाक्षात्कारमाश्मशानं वा स्ववर्णा- श्रमोचितानि कोणि करणीयानीत्येतदर्थं गुरुकुलात्प्रवसतो ब्रह्मचारिण इमुपदेश्यमाचार्य- गेल्यभिप्रायेणाऽऽह-वेदमृगाद्यन्यतमं, स्वशाखामात्रं वा । आदरो नैकवचने द्वौ त्रीश्च- तुरो वा माङ्गविद्योपविद्या(वेदोपवेदा) न् । अनूच्य तदुपनयनमनूक्त्वा । आचार्य: शिष्यमुपनीय कल्परहस्यादिसहितस्य वेदस्य वक्तः । अन्तेवासिनं छायावदपरित्यागि- नमाजानेनाध्ययनस्य कर्तारमित्यादिशिष्यलक्षणसंपन्नं शिष्यमनुशास्ति वेदवचनमनुशा- सनं करोति अनुशासनं कुर्यादित्यर्थः । सत्यं यथाप्रमाणदृष्टं हितं प्रियं च वचनम् , पदोचारय । धर्म स्ववर्णाश्रमविहितं कर्म चर, आचर । स्वाध्यायोन्नित्यस्वाध्यायात् मा प्रमदः प्रमादं मा कार्षीः । आचार्याय मह्य, प्रियमिष्टं, धनं गोधनादि, आहृत्य समस्तविद्यानिष्क्रयाथ, सदृशान्दारान्स्वीकृत्य प्रजातन्तुं पुत्रपौत्रादिसंतति, मा व्यव. च्छेत्सीय॑वच्छेदं मा कार्षीः । पुत्रपौत्राद्यर्थ दृष्टार्थोऽदृष्टार्थश्चौद्यमः करणीय इत्यर्थः । सत्यादीनां कर्तव्यतोक्ता, तेषामन्येपा च करणीयता, तेपामेव कदाचिद्वारणीयतेति बुद्धिं वारयितुमाह-~-सत्याद्रुक्तान्न प्रमदितव्यं प्रमादो न करणीयः । निरन्तरं तदेवानुष्ठेयमित्यर्थः । धर्मादुक्तान प्रमदितव्यं व्याख्यातम् । कुशलाक्षेमकराकर्म- जोऽदृष्टार्थान्न प्रमदितव्यं व्याख्यातम् । भूत्यै भुतेरैश्वर्यात् । न प्रमदितव्यं व्याख्यातम् । स्वाध्यायप्रवचनाभ्यां नित्यस्वाध्यायाधीताविस्मृती दृष्टार्थाध्यापना. र्थाभ्याम् | न प्रमदितव्यं व्याख्यातम् । यद्यपि ' स्वाध्यायान्मा प्रमदः इत्य. नेनैव स्वाध्याये प्रमादराहित्यं प्राप्तं तथाऽपि सर्वेभ्यः कर्तव्येभ्यः स्वाध्याये महा- न्यत्नः करणीय इत्येतदर्थ पुनः स्वाध्यायेत्याह । देवपितृकार्याभ्यां देवकार्य दर्श पौर्णमासादि पितृकार्य पिण्डपितृयज्ञादि, अथवा देवकार्य वृद्धिश्राद्धादि पितृकार्य , , चा १ ग. °नमुक्त्वा । २ ख, ग. °यात् । मा11) 'णा दर्शायान्न । ४ ख. स्मृतिट्ट।

[शीक्षाध्याये, अ० १०] तैत्तिरीयोपनिपद्दीपिका। १३७ मृतश्राद्धादि ताभ्याम् । न प्रमदितव्यं व्याख्यातम् । मातृदेवो माता देवो यस्य स मातृदेवो भव भयाः । पितृदेवः पिता देवो यस्य स पितृदेवो भव भूयाः । आचा- र्यदेव आचार्यों देवो यस्य स आचार्यदेवो भव भृयाः । अतिथिदेवोऽतिथिदेवो यस्य नोऽतिथिदेवो भव भृयाः । जननीजनकाचार्यातिथीनामभीष्टदेवतावत्परिचयां कुस्तदुत्ताकारी कर्मणा मनसा चाचा तदिष्टमित्र चेष्टा कुरु, मा प्रमादेनापि तदनिष्ट- चेष्टामित्यर्थः । ननु यत्पूर्वः कृतं तत्करणीयम् । तथा च जामदग्न्यः स्वजननी जघान, शुन:- शेपः स्वजनकं तत्याज, याज्ञवल्क्यस्त्वाचार्य, गौतम इन्द्रमतिथि, ब्रह्मा स्वसुतां जगाम, इन्द्रनिगार वालणं जघान, क्षत्रियो वलदेवः मुरां पपौ, सोमो गुरोर्भायर्यां जहार, इत्यादि महतामाचारानुसारादहमप्यनुष्टास्यामीत्यत आह-यानि प्रसिद्धानि । अनवद्यानि, अदुष्टानि महतामप्याचरितानि शास्त्रे लोके वा निन्दारहितानीत्यर्थः । कर्माणि लौकिकानि वैदिकानि वा कर्तव्यानि । तान्युक्तान्यनिन्दितानि महतामपि । यधा जामदग्न्यः पितृवचनं चकार, शुनःशेपो विश्वामित्रस्योपकारं न विसस्मार, याज्ञ- वल्यस्तपसाऽऽदित्यमवाप्य शुक्लानि यजूपि प्रतिपेदे, गौतमः स्वभार्याजारायापीन्द्राय प्राणपर्यन्तं कोपं न चकार, ब्रह्मा पुत्रोत्पत्यथं महान्तमुद्यमं चकार, इन्द्रश्च त्रिलोकी- स्वास्थ्याय निन्दितां हत्यामपि स्वीचकार, बलदेवश्च शेषोऽपि देवब्राह्मणकार्यार्थ शुक्रशो- णितशरीरमपि स्वी चकार, सोमो गुरोगरीयसी कीर्ति चकार, इत्यादीनि त्वया सेवितव्यानि, अनुष्टयानि । ननु–पितु(तृय)चनकरणादीन्यनुष्ठास्यामि महरिः कृतत्वान्मातु(तृव)धादीनि चेत्यत माह--नो निषेधार्थः, इतराणि मातुर्व(तृव)वादीनि सेवितव्यानीत्यनुषङ्गः । ननु तर्सन्यैः कृतान्यवद्यानि कर्माणि नानुष्ठास्यामि किन्तु मद्गुरुभिर्भवद्भिः सेवितानि सर्वा- ण्यपि वेदोक्तानि " अग्निहोत्रं जुहोति " " न काचन परिहरेत् " इत्यादीन्यनुष्ठास्या- मीत्यत आह-यानि प्रसिद्धानि, अस्माकमाचार्याणां वेदानां वा सुचरितानि विहि- तानि कर्माण्यस्माभिरनुष्ठीयमानानि " इत्यादीनि वेदैरुक्तानि वा शोभनानि लोकळ्यश्रेयस्करत्वेन । तानि, उक्तानि सुचरितानि । त्वया शिष्येणोपा- स्यानि निरन्तरमनुष्ठेयानि । निन्दितानामाचार्यः कृतानां वेदैरुक्ताना वाऽननुष्टेयत्वमाह-नो इतराणि । न परदारगमनादीन्युपास्यानीत्यनुपनः । ये के च संवन्धिनोऽसंबन्धिनो वा तव । ये. के चास्मदस्मत्तस्त्वदाचार्येभ्यः । श्रेया सोऽतिशयेन प्रशस्याः केचने । तर्हि किं क्षत्रियादय इत्यत्र आह-ब्राह्मणा ब्राह्मणत्वजात्याऽऽक्रान्ताः । तेषामुक्ताना ब्राह्म- .. " अग्निहोत्रं जुहुयात् १ ग. महद्ग । २ क, ख. °न क्ष। - शंकरानन्दकृता- ܝ १३८ शिक्षिाध्याय, अ० १.] णानाम् । स्वयाऽस्मन्छिष्येण । आसनेनाऽऽसनोपलक्षितसत्कारकरणेन । प्रश्व- सितव्यमासनदानादिना स्वगृहमागतानां प्रश्वासः श्रमापनयः करणीयः । अथवा तेषामामन उपवेशने सभायामित्यर्थः । न प्रश्वसितव्यं प्रश्वासोऽपि न करणीयः किमुत वार्तादिकम् । केलं तदुक्तमाहितया स्थेयमित्यर्थः । श्रद्धयाऽऽस्तिक्यबुद्ध्या । देशका. लपात्रसंपत्तौ सत्यां विभवानुसारेण गोभूहिरण्याशनपानादिकं यथोचितं देयं दातव्यम् । न विपर्यय इत्याह--अश्रद्धया नास्तिक्यबुद्धया । अदेयं न देयम् । श्रिया विभूत्या । देयं दातव्यम् । ह्रिया लज्जयां । देयं दातव्यम् । भिया भीत्या । देयं दातव्यम् । संविदा मब्यादिकरणेन । देयं दातव्यम् । श्रियादिनिमित्तेषु दानेष्वास्तिक्यबुद्धिपुरःसरभेव देयं, न तु नास्तिक्यबुद्धयति तात्पर्यार्थः । अथ महदुपदेशानन्तरम् । यदि पक्षान्तरे । कथंचित्ते तव शिष्यस्य मदुक्तं कर्म- जातमनुतिष्ठतः । कर्मविचिकित्सा वा कर्मस्वग्निहोत्रादिषु संध्यावन्दनादिषु वा श्रौतेषु स्मार्तेषु "उदिते जुहोति" "अनुदिते जुहोति" " सावित्री स्त्रीदेवतां पुरुषदेवतां वा" इत्यादिवाक्यम्पो विचिकित्सा संशयः । वाशब्दो विपर्ययार्थो विपर्ययो वा । वृत्तविचिकित्सा वा वृत्तमाचारः कुलपरम्परागतस्तस्मिन्विचिकित्सा संशयः । यथा केघांचिन्मातुलसुताविवाहमांसभक्षणादिकं किंचिदपरेषां नेत्यादिदर्शनेन । वाशब्दो विपर्ययार्थः । वैदिके लौकिके च कर्मणि संशयोपोदे विपरीतप्रवृत्तिा पण्डितमन्य- वेनेत्यर्थः । स्यात् । तदा ये प्रसिद्धा नीरागद्वेषा यथाशास्त्रानुयायिनः । तत्र सस्मिन्देशे, यत्र भवतो निवासः । ब्राह्मणा ब्राह्मणत्वजात्याऽऽक्रान्ताः । संमर्शिनः समशॉ रागद्वेपौत्सुक्यरहित्येन शास्त्रार्थनिर्णयः, स येषां नित्यमस्ति ते संमर्शिनः । युक्ताः कर्मनुष्ठानयोगरता नित्यनैमित्तिकानुष्ठानशीला इत्यर्थः । आयुक्ता अपर- प्रयुक्ताः शास्त्रार्थस्य वचनेऽनुष्ठाने चान्यभीतिरहिता इत्यर्थः । अलूक्षा आरूक्षाः कर्ण- कठोरवचनपरानिष्टकारिबुद्धिरहिता इत्यर्थः । धर्मकामा धर्म एव कामोऽभिलाषो येषा ते धर्मकामाः । स्युर्भीयुः । यथा येन प्रकारेण । ते यथोक्तविशेषणविशिष्टा ब्राह्मणाः । तत्र. तस्मिन्कर्मणि वृत्ते वा । बर्तेरन्वृत्ति कुरिन्यथाऽनुतिष्ठन्तीत्यर्थः । तथा तेन प्रका- रेण । त्वमपि तत्र कणि वृत्ते वा । वर्तथा वृत्तिं कुरु तद्वत्तदनुतिष्ठे यर्थः । अय, अथवा तेष्वभ्याख्यातेष्वभ्युक्ता दोषेण संदिह्यमानेन संयोजिताः केनचित्तेषु । व्याख्यातमन्यत् । एप- 'सत्यं वद ' इत्यारभ्य ' तथा तेषु वर्तथाः' इत्यन्त आदेशः कर्त. न्यार्थः सत्यादिलक्षण. । तत्कथनेनैव उतार्थो वाक्यसंदर्भ उपदेशः पित्रादिवचनरूपः । १ ग, त्सा क° । २.ग. त्पादपि । ३ ग. °णजा ।

[पाये, ग. १] चिरीयोपनि गीपिका । एपोत कारन बटोपनिषसम्म । एनदृता यायजातम् । अनुशासनं राममि गिनु ने मानो वा नसर्विधीयमान न सस्नेहपुग्यमा- मायामाकारणे मामलेगर्थः । या ५ तत एवमुक्त प्रकार सन्यादिकम् । उपामिनयंनि निमा बहानाला MISनुपातव्यम् । एनदेव न सन्य- दयो र पतार्थ गुनगा-एवमु च, मेन । चकारोऽवगासमुघयार्थः । अवगत्य चैत नयटनावमा मनान्तम् । उपास्यम्पसनीयं नियमनुष्टेयमित्यर्थः ।। तिमममाम कारीगर नन्दविरचिताग तैत्तिरीयोपनिषदीपि- पास पदावधि कोशीमाये दगमोऽनुपारु.॥ १० ॥ अपाटमोऽनुपारः। अपयनम्यास्यानोपक्रमोपसंहारयोः शान्तिः पटनायेति शिष्याशिक्षयितुं प्रपाठकान्ते पक्ष्यमाणपियोपमार्गमा पर्थमपि यतायाः मान्नेः फलं दर्शयन्नुकामेव शान्तिमनुपाकेन पुनः पठति कानिषि पदान्यन्ययिता--शं नो मित्रः शं वरुणः । शं नो भवत्व- यमा । शं न इन्द्रो वृहस्पतिः । शं नो विष्णुहरुक्रमः । नमो ब्रह्मणे । नमस्ते चायो । त्वमेव प्रत्यक्षं ब्रम्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिपम् । ऋनमवादि- पम् । सत्यमवादिपम् । तन्मापावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद- तारम् । ॐ शान्तिः शान्तिः शान्तिः । वदिष्यामीतिपदस्यलेऽमादिपमवविति पदस्थल आवीदिति विशेषः । गे समित्यारभ्य शान्तिरित्यन्तं समानपाठं समानार्थम् । अयाटिपमुक्तवानस्मि | आगीपालनमकरोत् । रनि श्रीमत्परमा सपरिमाजकाचार्य श्रीमउरानन्दविरचिताय तत्तिरीयोपनिषद्दीपिकाया. पदार्थयोधि-या शीक्षाध्याय एकादशोऽनुवाकः ॥ ११ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरानन्दस्य कृता तैत्तिरीयोपनिपद्दीपिकायां पदार्थबोधिन्यां प्रथमः मीक्षाध्यायः समाप्तः ॥१॥ १ अथ द्वितीयो ब्रह्मवल्ल्यध्यायः । तत्र प्रथमोऽनुवाकः । पदर्थ पूर्वः प्रपाठकः प्रवृत्तस्ता अलविद्या चित्रास्तत्वामयन्तमादरा प्रकारान्तरेण १ ग. पोत्या । २ क, ग. 'ज्ञामाला । ३ ग. प्यम् ।

१४० शंकरानन्दकृता [ ब्रह्मवल्ल्यच्याथे, अ०१] पुनः शान्ति पठति-सह समम् । नावाकाम् । अवतु साधनज्ञानेन ब्रह्म रक्षतु । सह नौ व्याख्यातम् । भुनक्तु फलज्ञानेन पालयतु । सह समं वीर्य विद्यातेजोतिशयो जीवन्मु. क्तिलक्षणस्तं करवावहै करवाव । तेजस्वि वीर्यवत्तमं नावावयोः । अधीतं गुरुमुखाद. वगतम् । अस्तु भवतु | अथवा तेजस्विनावावा भवावेति शेषः । तेजस्विनोरिति वा व्याख्येयम् । अधीतमस्तु तेजस्वीति शेपः । किं बहुना मा विद्विपावहै प्राणिभिः परस्परं या विद्वेषं मा करवावहै । ॐ शान्तिः शान्तिः शान्सिः, व्याख्यातम् । पूर्वप्रपाठकारम्ने सूचितब्रह्मविद्याया इदानी सूत्रेण फलमाहाधिकारिप्रवृत्तिसिद्धये- ब्रह्मविद्ब्रह्मसाक्षात्कारवान् । आप्नोति । मोक्ष प्राप्तकण्ठस्थाभरणवत्प्राप्नोति । परं ब्रह्मेदभैस्मीत्यविद्यातत्संस्कारशून्यत्वेनाखण्डैकरसमात्मानमवगत्य स एव भवतीत्यर्थः । तत्तत्र ब्रह्मणि ब्रह्मविदः परप्राप्तौ च । एषा वक्ष्यमाणमन्त्रभूता । अभ्युक्ता सर्वतः सर्वार्थप्रका- शकत्वेन कथिता । वेदपुरुषेणेति शेषः । सत्यमन्तनकारार्थविलक्षणम् । तर्हि भावरूप जडमित्यत आह-ज्ञानं जडविलक्षणम् । यद्यभावभावविलक्षणो भावविशेषस्तर्हि घटा. दिकमपि तथेत्यत आह-अनन्तं देशकालवस्तुपरिच्छेदघून्यम् । एतावत्येयोच्यमानेऽभावः स्यात्ततोऽस्य व्यवस्छेदार्थमाह-सत्यमिति । सत्यमनन्तमित्युच्यमाने जडमपि स्यात्तद्व्या- वृत्त्यर्थ ज्ञानमित्याह । यद्यपि ज्ञानमनन्तमित्युच्यमाने न सत्यपदस्य कृत्यं ज्ञानस्यासद्विलक्ष- णत्वात् । तथाऽपि ज्ञानमप्यसदिति सर्वासद्वादिनः संगिरन्ते । तत्पक्षाधिक्षेपार्थ सत्यमित्याह । अयं भावः-येनापि सर्वासत्त्वमङ्गी क्रियते तेनाप्यङ्गी कियत एव सत्त्वम् । अन्यथाऽ- सत्त्वस्याप्यनुपपत्तेः । तयोनिरपेक्षवादिभ्यो हेतुभ्यः सत्त्वस्यैवाङ्गीकारः करणीयो नास- त्त्वस्येति । जडवैलक्षण्यं च स्वयंप्रकाशमानानन्दात्मन एवाविद्यायाः सकार्याया जाये सति दुःखानात्मत्वदर्शनात् । एवं चेञ्ज्ञानमित्येवास्तु, कृतमनन्तपदेनापीति न मन्तव्यम् । अन्तःकरणाविद्यावृत्त्योरपि ज्ञानशब्दाभिधेयत्वानदेव ज्ञानमिदमपीतिवुद्धिनिवारणार्थमन- न्तपदस्योपयोगात्वदत्रयमिदं स्वरूपलक्षणमखण्डैकरसार्थ प्रकृष्टप्रकाशश्चन्द्र इत्यादिवत् । इदानी लक्ष्यपदमाह लक्षणार्थसमर्थकम् । ब्रह्म बुर्धातोरर्थभूतमभ्यधिकम् । आधिक्यं चासज्जडान्तबद्वैलक्षण्यम सरेण मोपपद्यते । तत इदं सत्यं ज्ञानमनन्तं योऽधि. फारी । वेद जानाति । निहितं निक्षिप्त गुहायां बुद्धावधिदेवाधिभृताध्यात्मभेदेन व्यवस्थितायाम् । सा च कुत्रेत्यत आह-परम अष्टे भूताकाशात् , व्योमन्व्यो- म्न्यव्याकृते बुद्धिकारणेऽविद्याकार्यन्तःकरणवृत्ताबभिव्यक्तमेवोक्तलक्षणं ब्रह्म सर्वोs- प्यधिकार्यहमस्मीत्यवगच्छतीत्यर्थः । स ब्रह्मज्ञानी । अश्नुते तादात्म्येन प्राप्नोति । सर्वान्कामानिखिलान्कामनाविषयान् । सह युगपत्क्रममन्तरेणेत्यर्थः । केन रूपेण १. क. पाठाविकारभेदानां सूत्रे 1, २ स्व. °मइमस्मी ।

[ब्रह्मवल्ल्यध्याये, अ० २] तैत्तिरीयोपनिपद्दीपिका । १४१ युगपत्सर्वान्कामान्प्रामोतीत्यत आह--ब्रह्मणा ब्रह्मतादात्म्यरूपेण । ब्रह्मणोऽपि किं रूपमित्यत आह-विपश्चिता स्वयंप्रकाशमानज्ञानकरूपेण । इतिर्मनपरिसमाप्तौ । ब्रह्मणः स्वरूपलक्षणमुक्वेदानी जगज्जम्मादितटस्थलक्षणं हृदि कृत्वा मत्रेण संक्षे- पेण व्याख्यातं सूत्र विस्तरेण व्याकरिष्यस्तत्त्वंपदार्थयोरक्येनाऽऽत्मनो जगत्कारणत्व- माह-तस्मात्सत्यज्ञानानन्तलक्षणाद्ब्रह्मणः । वा आत्मत्वेन स्मर्यमाणात्मसिद्धात् । एतस्माद्बुद्धेष्टुः स्वयंप्रकाशमानात् । आत्मनोऽस्मच्छब्दप्रत्ययव्यवहारालम्बनात् । आकाशः शब्दगुणत्वेन प्रसिद्धोऽवकाशः संभूत उत्पन्नः । इदं पदं यथालिङ्गं यथा- वचनं पुरुषान्तेष्वनुवर्तते । आकाशादुक्तात् । वायुः शब्दस्पर्शगुणो नभस्वान् । -वायोस्तादागिः शब्दस्पर्शरूपगुणस्तेजोधातुः । अग्नरुक्तादापः शब्दस्पर्शरूपरस- गन्धगुणा द्रवात्मिकाः । अद्य उक्ताभ्यः पृथिवी शब्दस्पर्शरूपरसगन्धगुणा कठिना भूमिः । पृथिव्या उक्ताया ओपधयः फलपाकान्ताः । ओषधीभ्य उक्ताभ्योऽन्नम. दनीयं प्रसिद्धम् । अन्नादुक्तात्पुरुषः स्थूलदेहः पुरुपशब्दाभिधेयः । इदानीमेवं पुरुषमुररीकृत्याऽऽत्मनः कोशपञ्चकातीतं रूपं विवक्षन्प्रथमं कोशानाह- स उक्तः पुरुषः । वै प्रसिद्धो हस्तपादादिमानेष प्रत्यक्षः । पुरुषो व्याख्यातम् । अन्नरसमयः, अन्नस्याद्यमानस्य यो रसः सारभृतः शुक्रशोणितरूपस्तस्य विकारोऽन्नर- समयः । तस्य पुरुषस्य पक्षिणः । इदमेव प्रसिद्ध मस्तकमेव । शिरो मस्तकम् । अयं दक्षिणो भुजः । दक्षिणो दक्षिणभागस्थः । पक्षः पत्रम् । अयं वामो भुजः । उचरो यामभागस्थः । पक्षः पत्रम् । अयं गलमारभ्याऽऽकटिस्थलं देशः । आत्माऽऽ- न्तराधीः । इदं कटिस्थलादधः स्थितं पादद्वयम् । पुच्छं लागूलम् । लागूलस्य पुन्छत्व उपपत्तिः प्रतिष्ठा प्रतितिष्ठत्यस्मिन्निति प्रतिष्ठाऽऽधार इत्यर्थः । पक्षिणोऽपि पुच्छाधारत्वमस्माभिरदृष्टमपि प्रतिष्ठेति वचनसामर्थ्यात्कल्पनीयम् । तदपि तस्मिनुक्तेऽप्यर्थे पक्षिण्येप वक्ष्यमाणः । श्लोको मन्त्रः । भवति स्पष्टम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छकरानन्दविरचिताया तैत्तिरीयोपनिषद्दीपिकायां पदार्थबोधिन्यां द्वितीये ब्रह्मवल्ल्यध्याये प्रथमोऽनुवाकः ॥ १ ॥ .. अथ द्वितीयोऽनुवाकः। । अन्नाददनीयात् । वै प्रसिद्धात् । प्रजा जन्तवः । प्रजायन्ते स्पष्टम् । याः काश्च याः काश्चन निखिलाः, स्वेदजाण्डजजरायुजोद्भिज्जा इत्यर्थः । पृथिवीं ब्रह्माण्डान्त- बहिवर्तिनी भूमिं श्रिताः। अथो अपि । अन्नजाः सत्योऽननवादनीयेनैव । अद्य- मानेन जीवन्ति प्राणान्धारयन्ति । अथ जीवेकर्भक्षयानन्तरम् । एनदन्नमग्निभूमिश्व- १ क. मात्पु । २ ख. °वनक । ३ ख. °श्व पट्की ।

है १४२ शंकरानन्दकता । प्रबन्पत्यावे, अ २] कीटादिरूपम् । अपियन्स्यपिंगच्छन्त्यन्ने बिलीयन्त इत्यर्थः । अन्ततोऽन्ते । तथा च न प्रत्यक्षविराधोऽपि । सति शरीरेऽन्नऽप्ययस्यानभिधानात् । अन्नं चतुर्विधप्राणिजात- शरीरस्योत्पत्तिस्थितिलयकारणमदनीयम् । हि यस्मात् । भूतानां चतुर्विधाना प्राणिनाम् । ज्येष्ठमतिशयेन वृद्धं कारणमित्यर्थः । तस्मात्ततः । सर्वषिधं सर्वस्य प्राणिजातस्योप क्षुत्तडोगस्य वारणम् । उच्यते कथ्यते । इदानीमन्नमयस्य पक्षिवत्कालव्याधकदींकृतस्य कारणान्नप्रशंसाप्रसङ्गेनाऽऽत्मज्ञानाभि- मुखत्वाय फलेन प्रलोभ्यान्मोपासनमाह-सर्व निखिलं वै प्रसिद्धं ते वक्ष्यमाणाः । अम- मदनीयम् । आप्नुवन्ति प्राप्नुवन्ति । य उपासकाः । अन्नमदनीयं ब्रह्म सर्वस्मादधिकं ब्रह्मज्ञानेनेत्यर्थः । उपासत एकरूपेण प्रत्ययप्रवाहेण साक्षात्कुर्वते । पूर्वमन्नस्य सर्वभूतकार- णत्वार्थमुक्तमिदानीं तदेव ब्रह्मतादात्म्योपासनोपपत्तये ब्रह्मसमानधर्मत्वं दर्शयितुं पुनः पठति--अन्न हि भूतानां ज्येष्ठम् । तस्मात्सर्वोषधमुच्यते । यथा ब्रह्म भूताना व्येष्ठमवगतं सद्भवरोगीपधमुच्यते, तथा यस्मादन्नं भूतानां ज्येष्ठं तस्मात्सोंपधमुस्पते । व्याख्यातश्च पदार्थः । अपि च यथा ब्रह्मणो भूतानि जायन्ते ब्रह्मणि तिष्ठन्ति च, तथाऽन्नाददनीयात् , भूतानि चतुर्विधान्यण्डजादीनि । जायन्त उत्पद्यन्ते । जातान्यु- त्पन्नानि । अन्नेनादनीयन । वर्धन्ते वृद्धि गच्छन्ति । ततो ब्रह्मणा समत्वाद्युक्तमन्नस्य ब्रह्मणा तादात्म्येनोपासनमिति भावः । इदानीमन्नशब्दार्थमाह-अद्यते भक्ष्यते । भरिति शेषः । अत्ति च भक्षयत्यपि । चकारः कर्मकर्तृव्युत्पत्त्योरनशब्दे समुच्चयार्थः । भूतान्यण्डजादीनि । तस्माद्यतोऽद्यतेऽत्ति च भूतानि ततः । अन्नमन्नशब्दं तदनमुच्यते कथ्यते। इतिः प्रथमकोश परिसमाप्त्यर्थः । तस्मादुक्तात् । वै प्रसिद्धात् । एतस्मात्प्रत्यक्षात् । अन्नरसमयादन्नरसविकारा. स्थूलदेहात् । अन्यः पृथाभूतः । अन्तरोऽभ्यन्तरः । आत्माऽऽमशब्दाभिधेयः । प्राणमयः प्राणविकारः । तेन प्राणमयेन । एष प्रत्यक्षः स्थूलो देहः । पूर्णः परि- पूर्णः । स प्रसिद्धः । * स्मर्थमाणः । एष साक्षिप्रत्यक्षः प्राणमयः । पुरुषविध एव पुरुषाकार एव । मूषानिषिक्तद्रुतताम्ररसो यथा तादृगेव न त्वन्यादृशः । तर्हि किं पुरुषः पुरुपान्तरसदृश इति चोभयमपि स्वतन्त्रमित्याशङ्कय नेत्याह- तस्य पूर्वस्य पुरुषविधतां पुरुषसदृशताम् । अनु पश्चात् । अयं तस्मादुत्तरः । पुरुषविधः पुरुपसदृशो न तु स्वतन्त्र इत्यर्थः । ततः पूर्ववदस्मिन्नपि कल्पना कर्तुं सुक- रेति भावः । तस्य प्राणमयस्य । प्राण एवोच्छासकारिणी प्राणवृत्तिरेव न त्वन्यत् । शिरो मूर्धा । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । . -- A १ ख. णः ।। ।

[अालमत्मवि.भ०३] नत्तिरीयोपनिषद पिका। १४३ पृथिनी पुई मनिहा। ताप्येग कोको भवनि । मनापानी पूर्वप्रपाठके व्याख्याती। भाका साकारयः समनः । विकी पृथिवीय सर्वप्राणकालभूत ऊर्धगम्युदानः । भनन हि न पाणा धिा स्वाचन । बार निकारााकामविवाशब्दयथाक- यधिलमानीटाविषयों नाता । अथवा मुन्यातय नयोः शब्दयोरस्तु । तथा च श्रुतेः कौशवनास्थति कायम । पारपातमा त् ।। इति भीमावरमःमपरिया पाश्रमपरानन्दापिराजिताय पद योधिन्या तैशि- योनिपलपिक पध्याये रितीयोऽनुयाकः ॥ २ ॥ अप तृतीयोऽनुगमः। प्राणं मुल्यमाण देवाचक्षुरादयोऽन्यादयः । अनु प्राणमनु | प्राणन्ति पटन्ते । मनप्या मनुजाः । पशवश्र गवाया: । चकारः सर्वशरीरमंग्रहार्यः । ये प्रसिद्धार्थाः माणो मुख्यप्राणः । हि यस्मात् । भूतानामण्डजादीनाम् । आयुर्जीवनकारणम् । भनेन देहेन्द्रियामयादो निराकृतः । तस्माद्यस्मादायुस्ततः सर्वायुपं सर्वायुरेव सर्वायुषम् । उच्यते कध्यते । इदानी मोपासनवप्राणोपासनाफलं प्राणोपासनं चाऽऽह-सर्व. मेव निखिटमेव । ते यक्ष्यमाणाः । आयु वनकारणं शतसंवत्सररूपम् । यन्ति गग्छन्ति । ये प्राणं ब्रामोपासते । प्राणं मुख्यप्राणम् । व्याख्यातमन्यत् । अन्नवत्मा- गस्यापि ब्रह्मसमानता वक्तुं पुनरुक्तस्याभिधानम्-प्राणो हि भूतानामायुः । तस्मा- सर्वायुषमुच्यते । व्याख्यातम् । ब्रह्मणो यथा सर्वायुष्टं तद्वत्प्राणस्यापीत्यर्थः । इतिः प्राणकोश परिसमाप्यर्थः । तस्यैप एव शारीर आत्मा यः पूर्वस्य एतदनन्तरं यद्यपीतिशयः पठीयः प्राणकोशस्यात्र परिसमाप्तेः, तथाऽप्यस्य वाक्यस्या- ममयादधिकत्वान्टकोत्तरत्याश्चतस्म पूर्वप ठ इतिशब्दस्य । अथवा पाठ रुमादर्थक्रमस्य वटीयस्त्वादत्र पठितस्यापि तदनन्तरं संगतिरवगन्तव्या । ननु-पूर्वस्मात्पुरुषादनन्यः प्राणमयस्तस्य तदन्तःपातित्वाद्धस्तपादादिवदित्यत आह- तस्यानमयस्य । एप एव समनन्तरोक्तः प्राणमय एव । शारीरः शरीरे भनः । आत्मा सर्वव्यवहारकारणत्येनाऽऽत्मा । यः प्राणमयः । पूर्वस्य प्राणमयात्पूर्वस्य । तस्य पूर्यस्य यः प्राणमय एष एव शारीर आत्मेत्यन्वयः । अयं भावः-प्राणो न च स्थलशरीरान्त.पाती । तथा च सति नासापुटनिर्गतस्तद्वदेव चाक्षुषः स्यादिति । तस्मादा एतस्मात्माणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैप पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुपविधताम् । अन्वयं पुरुपविधः । तस्य यजुरेव शिरः । १ ख, ‘स्य पठितत्वात् । अ १४४ शंकरानन्दकृता [ब्रह्मवल्ल्यध्याये, अ०४] ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा । तदप्येप श्लोको भवति । प्राणमयादुक्तात् । मनोमयो मनोविकारः । तस्य यजुर्यजुर्विषया वृत्तिः । ऋगृग्विषया वृत्तिः । साम सामविषया वृत्तिः । आदेशो यनुक्र. क्सामसु ब्राह्मणमादेशस्तद्विपया वृत्तिः । अथर्वाङ्गिरसोऽथर्वणाऽङ्गिरसा च दृष्टा मन्त्रा ब्राह्मणानि च तद्विषया वृत्तिः । अन्यत्पूर्वेण समानघाठम् । अन्नमयार्थस्थले प्राणमय प्रागमयार्थस्थले मनोमयं चौक्त्वा पूर्ववयाख्येयम् ।। इति श्रीम-परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां पदार्थबोधिन्या तैत्ति- रीयोपनिषद्दीपिकाया ब्रह्मवल्ल्यध्याये तृतीयोऽनुवाकः ॥ ३ ॥ -- अथ चतुर्थोऽनुवाकः। अत्र हि मनोमयस्य चतुर्वेदवृत्तिप्राधान्यमुक्तम् । वेदाश्च ब्रह्मप्रकाशकत्वान ब्रह्मणों भिन्नाः । ततो वेदेभ्योऽभिन्नं सर्वस्य जगतः कारणं विशेषतश्च मनस: " तन्मनोऽकुरुत" इतिवचनान्मनसाऽप्यगम्यरूपं ब्रह्म वदन्मनोमयं स्तौति-यतः सर्वस्य जगतः कारणा- द्विशेषतश्च मनसः सत्यज्ञानानन्दरूपाब्रह्मणः । वाचो यजुर्ऋक्सामादेशाथर्वाङ्गिरसरूपा अन्याश्च । निवर्तन्ते ब्रह्म वक्ष्याम इति संकल्प्य प्रवृत्तास्तस्मिन्ब्रह्मणि प्रवेशमल- भमाना नेति वदन्त्यो वाराङ्गना इव राजगृहाभ्याशाद्यथागतं निवृत्य भ्रष्टसंकल्पा भवन्ति । निवृत्तिस्तु प्राप्तावप्राप्तौ च संकल्पितस्य दृष्टा । तथा च. किं प्राप्य निवर्तन्त इत्याशङ्कय नेत्याह-अप्राप्यालब्ध्वाऽऽनन्दमित्यन्वयः । ननु वागगम्यानामपि जातीचम्पकके- तकीकुसुमादिगन्धभेदाना मनसाऽवगतिर्यथा तथाऽस्वित्यत आह-मनसा यजुरादिप- श्ववृत्तिमता । सह समम् ।आनन्दं हिरण्यगर्भस्याऽऽनन्दादप्यतिशयमनन्तमानन्दं ब्रह्मणः सत्यज्ञानादिलक्षणस्य । पष्ठीयं शिलापुत्रकस्य शरीरम् । इतिवव्याख्येया । विद्वान्सा- क्षात्कारवान् । साक्षात्कारेणापगताविद्यो द्वितीयाभावान्न विभेति भयं न गच्छति । कदाचन कदाऽपि । यस्मादेतादृशं ब्रह्मास्य कारणं तस्मादतिश्रेष्ठो मनोमय इति भावः । इतिर्मनसमाप्तौ । अथवा मनोमयकोशपरिसमाप्तौ पूर्ववदवगन्तव्यम् । प्राणस्यैवैकदेशो मन इति शङ्का वारयति-तस्यप एव शारीर आत्मा यः पूर्वस्य । पूर्वस्य प्राणमयस्य । यः प्रसिद्धो मनोमय एप एव शारीर आत्मेत्यन्वयः व्याख्यातः पदार्थः । अनेन प्राणस्याऽऽत्मत्वं निवारितम् । तस्माद्वा एतस्मान्मनो- मयात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैप पूर्णः । स वा एप पुरुपविध एव । तस्य पुरुपविधताम् । अन्वयं पुरुपविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा । सद;

[सया २० नतिरीयोपनिषडीपिका । १२५ रणेष प्रोमो भवनि | मनोगमादान । विज्ञानमयो बुद्धिविकारः । सदाऽऽस्तिस्य- संपन्नतानि. पा. मात्र नापारविषमा यत्तिः । मयं तस्मिन्नेर पाताया- मनु नपवा निः । ग. भाम्बाविप नदेहविपर्ययरहिता पृत्तिः । म:, अनाहियरपटाने मनोभास्वरबुमिनाक प्रथमजे महत्तस्त्रास्यम् । प्राणमया- यस्य मनोमवाव निमय पठि या शेपं समानपाट पर्यवद्वयायियम् । दति भीमरयासमा भीमकानन्दविगायताया पदार्थवाधिन्या लैतिरी- चालम्पिापित अनपध्याये पता नपार. ॥ ४ ।। - अथ पशमोऽनुवारः। विज्ञान बुद्धिः । यज्ञ दर्मादिकं तनुते विस्तार पति { कर्माणि वैदिकानि स्मार्ता. न्यनिहाय चायन्दनादीनि लीफिकानि च फरिवाणिपादीनि । तनुते विस्तारयति । अपि च विस्तारणा-युच्याविपि की । विज्ञाने कर्मविस्तारादेविज्ञानं वुद्धि देवा वागाटयो:रम्यादयस । सर्वे निखिकाः । वाम नवज्ञानादिलक्षणं ज्येष्ठमतिशयेन वृद्ध कारणमित्यर्थः । ज्येष्ट ५ विज्ञानस्य बामणश साम्यं तयोस्तादाम्योपासनार्यमुक्तमित्यवग. न्तव्यम् । उपासते नाम नादात्म्येनोपासनं कुर्तते । विज्ञानं ब्रह्म व्याख्यानम् । चेद्यदि । चेद् घेदयतिरिक्तोऽपि जानापानीतेन्यर्थः । तस्माद्विज्ञानमलोपासनात् । चेयदि । न प्रमाद्यति प्रमाद न गन्छति बहिर्मुवा न भवतीत्यर्थः । शरीरे स्थूलगरीरे । पाप्मनो हिरण्यगर्भमातिप्रतिवन्ध कारणानि । हित्वा परित्यज्य । सर्वान्निखिलान् । कामान्कामना. विषयान् । हिरण्यगर्भतादाम्मेन समश्नुते । सम्यक्प्रामेति । इतिर्मनसमाप्ती विज्ञानमय- कोगसमाप्ती वा पूर्ववत् । तस्यप एव शारीर आत्मा । यः पूर्वस्य । तस्य पूर्वस्य मनोमयस्य यो विज्ञानमय एष एव नारीर अत्यन्वयः । व्याख्यातः पदार्थः । मनेन मनस आत्मत्वं निवारितम् । तस्माद्वा एतस्मादिज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमयः । तेनैप पूर्णः । स वा एप पुरुपविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोटो दक्षिणः पक्षः । आनन्द आत्मा । ब्रह्मपुच्छं प्रतिष्ठा तदप्येप श्लोको भवति । विज्ञानमयादुक्तात् । आनन्दमय आनन्दविकारः सोपाधिका- नन्द इत्यर्थः । प्रियं पुत्रादिदर्शनजन्यं सुखम् । मोदः पुत्रादिसंभाषणसहासनादिजन्य सुखम् । प्रमोदः सहाऽऽसनादौ स्थितानामपि पुत्रादीनामन्यानुविधेयत्वजन्यं सुखम् । अभीएविषयस्य दर्शन लाभो भोगश्च प्रियमोदप्रमोटा इत्यर्थः । आनन्दः सुखसामान्य १ ख. को जा। १९ शंकरानन्दकृता [ अक्षवल्ल्यध्याप, म०६] प्रियमोदप्रमोदेष्वनुगतं सुखं ब्रह्म निरतिशय अ नन्दो यस्य मात्रामुाजीवन्ति ब्रह्मादयः । यथा देहावयत्राः पादयोः प्राणभेदाः पृथिव्यामुदान वा वेदाश्च त्रयोऽपि मनवाम गरूपा अथवाङ्गिरःसु दृष्टकर्मसाधनत्वेन, यथा बद्धिभेदाः प्रथमजायां हिरण्यगर्भवुद्धौ च प्रतिष्ठि. तास्तद्वत्सुखसामान्यविशेषा निरतिशयसुखकस्वभावे सत्यज्ञानादिरूपे ब्रह्मणि सर्वाधारे प्रतिष्ठिताः । स्थूलस्य देहम्याध्या माधिभूताधिदैवभेदभिन्नस्य ब्रह्मणः प्रधमकोशत्वम् । सूक्ष्मस्य स्थूलात्मभृतरयाज्ञानकायस्य क्रियाज्ञानशक्तश्चतुर्धा भिन्नस्य सकारणस्य कोशचतु. ष्टयत्वं च । मूक्ष्मोऽपि विभागः स्वयं प्र णनिमित्तं हि स्थूलशरीरस्य सर्वव्यवहारं मत्वा स्थूलभरीरात्मभूतः प्राणः क्रियाशक्तिद्धितीयः कोशः । प्राणस्यापि मनसेतस्ततो नीयमानत्वाद लेनेव मृत्सेभवलीवस्य । ततोऽनिश्चयामिका ज्ञानशक्तिः प्राणात्मभूता मनआख्या तृतीयः कोशः । मनसोऽप्यनिश्चय.त्मनो निश्चयपरतत्रत्वान्निश्चयामिका बुद्धिर्मन- आत्मभूता चतुर्थः कोशः । बुद्धरपि मुखपरतन्त्रत्वादवस्थात्रये कार्यकारणोपाध्यवच्छिन्न - सुखं पञ्चमः कोगः । तत्रापि प्रियमोदप्रमोदा जागरणस्वप्नज आनन्दः सौषु व्याकृतो- पोधिः । इतः परं भृतभातिककार्यस्य कारणस्य चाभावादकार्यकारणं ब्रह्म सर्वस्याऽऽधा- रभृतं गोशपञ्चकवाक्प्रवृत्तिकारण नमित्तं प्रथमसूत्रेण चितम् । मन्त्रेण च व्याख्यातमुक्त- वती श्रुतिरित्यर्थः । मनोमयार्थस्थले विज्ञानमयं विज्ञानमयार्थस्थल आनन्दमयं च पठित्रा शेष समानपाठं पूर्ववय ख्ययम् । इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीनन्छंकरानन्दविरचितायां पदार्थबोधिन्यां तैत्तिरीयोपानेपद्दीपिकाया ब्रह्मवल्यध्याये पञ्चमोऽनुवाकः॥ ५ ॥ अथ पष्टेोऽनुवाकः। नन्दब्रह्मणोरभेदाब्रह्म भिधानमेवाऽऽनन्दाभिधानमिति मन्यानः पठति-असम्मेवा- विद्यमान एव जनैरज्ञातोऽभिभृतश्चैयर्थः । स वक्ष्यमाणः । भवति स्पष्टम् । असद- विद्यमानं 'खर विपाणसममित्यर्थः । ब्रह्माऽऽनन्दमयस्य पुन्छ कारणं चेत्युक्ते. नासत्त्वप्रकारेण । वेद जानाति । चेद्यदि । असत्त्वज्ञानादनमुक्त्वा सत्त्वज्ञानाद- र्थमाह-अस्ति विद्यते सर्वस्य क रणायेन सर्वात्मत्वेन च । ब्रह्मोक्तम् । इत्युक्तेन सवप्रकारेण । चंद्यद । वेद जानाति । सन्तं विद्यमानं वाचा मनसा कायेन च पज्यमिलार्थः । एनं अझ स्तित्वज्ञानिनम् । ततो ब्रह्मास्तित्वज्ञानान्कारणात् । विदुर्जा- नन्ति । सर्वे जना इति शेषः । इतिर्मन्त्रसम.प्यर्थमानन्दमय किं.ग] परिममाप्ययं वा पूर्व- १ क ग. 'मना आ' । २२ ग, ‘यम मू।

[प्रहारयप्पापे,०५] नतिरीयोपनिषदीपिका । १४७ वत् । तस्यैष एव शारीर आत्मा । यः पूर्वम्य । तस्य पूर्वस्य विज्ञानमयत्य य मानन्द- मप एप ए नारीर मामयनयोख्यिातः पदार्थः अय कौशपमकाधारबमास्तित्वनास्तित्वविज्ञानफटकथनानन्तरम् । अतो ब्रह्मणः सीम यतोऽस्तिनास्तिप्रत्ययौ च कतुं मुगकावस्मात्कारणात् । अनुप्रश्ना ग्रह्मणोऽ. सिय नालिये च तानिनो ब्रमप्राप्तावप्र.ती च सदेहमनु प्रश्नाः प्रष्टच्या ईप्सितार्थ. विपराः शममंदर्माः । पदयन्त इति शेषः । उतापि । अविद्वान्नमणि संदेहविपर्ययज्ञान. वान् । अमुमानन्दमयकारणभूत पुरयरूपं चास्तिनातियाभ्यामनिधितं वस्तुवृत्तेन । लोकं लोक्यमानं स्वयंप्रकाशयेन तज्ज्ञानिभिः । मेत्य परलोकमागत्य शरीरं परित्यज्ये. सर्थः । कश्चन कोऽपि । गच्छति प्रामाति । प्लुतिर्विचारार्था । आहो पक्षान्तरे, विद्वान्यामणि सदेहविपर्ययरहितज्ञानवान् । अमुं लोकं प्रेत्य व्याख्यातम् | कश्चित्कोऽपि । समश्नुता ३ समते व्यानोति । प्युतिर्विचारार्था । उ अपि । अयं भावः-यद्यस्ति सत्यज्ञानादिलक्षणं व ताई प्राप्तव्यमविदुराऽपि । न ह्यज्ञानसंशयविपर्यय-स्तनोऽन्यथा- त्वम् । समिकं चेदविद्वान प्राप्नोति विद्वानपि न प्रामुयानियामकाभावात् । अथ नाति तत्तर्हि विदुपाऽपि न प्राप्तव्यम् । न हि नरविषाणादिकं तस्मिन्संदेहविपर्य-रहितज्ञानि- नाऽपि प्राप्तुं शक्यम् । अधाशेषविशेषशून्यमप्यनेन प्राप्यते तविदुपा न प्राप्यत इति न नियामक पक्ष्याम इति । अनेनोक्तश्लोकार्थस्याऽऽक्षेपः कृतः | मारता विद्वदविदुषोः प्राप्यप्राप्ती । प्रमणोऽविद्वदमास्या यत्तस्य नास्तित्वमापादयितु निष्ट तज्जग कारणत्वकथनेन पक्तिन पुनः केनचिद्विशेषेणाभिधीयमानेन निराकुर्वन्सत्त्व- पक्षमर्यादाटत्ते--स सूत्रमघ्राभ्यां ब्रह्मत्वेनोक्त आत्माऽऽनन्दमयस्य कारणभृतः पुच्छभू- तश्व प्रसिद्धः । कथमसौ नास्तीत्यर्थः । ननु सता चेतनाना किंचित्कारित्वं दृष्टमस्य तस्मिन्सन्यस्तित्वं श्रद्दधामीत्यत आह---अकामयत कामनामकुरुत । कामनाविषयमाह- बहु स्यां नाना भवयम् । नानाभवनेऽप्युपायमाह-- प्रजायेयोत्सद्येय । इत्यनेन प्रकारे- णमा कामना कृत्वा । स कामी तपः पर्यालोचनमिदमनने थम यादिरूपम् । अतप्यत सृज्यविषयमकरोत् । स कामुकस्तापसः । तप उक्तन् । तप्योक्तविषयं कृत्या कार्यकार- रणादिकं प्रथम विचार्य निश्चिय चेत्यर्थः । अनन्तरमिदं विविधपत्ययगम्यं कार्य जातं भूतभौतिक चेतनाचेतनात्मकम् । सर्व निखिलम् । असृजतोत्पादितवान् ।. सर्व शब्दार्थ- माह--यदिदं किंच । यत्किचेदं प्रसिद्धमस्तिनास्तीत्यादिप्रत्ययगम्यं यक्किमपि । तर माजातम् । सृष्ट्वोत्याद्य । तदेव स्वसृटमेव । अयमेवकारो देहलीप्रदीपन्यायेन तद- मुना प्रविशदिन्यनेन च संबध्यते । अनु कार्यसृष्टिमन्येवाप्रविष्टोऽपि तु सर्वत्रावस्था- नादाक रावत्माविशत्प्रवेशमकरोदेव । प्रविष्टशब्दप्रत्ययविषयोऽभूदित्यर्थः । - १ ख. °त्य वेत्य । २ ख. 'पि स ।

tunut १२८ शंकरानन्दकृता [ झवल्यवाये,०६ नदन कार्य सृष्टमनु प्रविश्य प्रवेशं कृत्वा । किं तटस्थ एवायं सूत्रधारिवद्गृहं निय तत्र प्रविन स्थितः । तथा चाऽऽनने बहुभवनोश्यः प्रजाति दृष्ट्ये विस- रात इत्याशङ्कय नेवाह-सच तेजोवनलपमपि त्यच्च वाय्याकागलपमपि । चारी तबुद्धिं समुचिनुतः । अभवत्यष्टम् । इदं क्रिया क्यमाणेष्वपि चतुर्यु पर्यापधु संवध्यते । निरुक्तं चानिरुक्तं च । निःशेषमुकं निरुक्तं, घटः पृथुवुध्नोद- राकार इत्यादि । विपरीतनानन्तं., जातचिम्पककेतकीकुमुमगन्धभेदादि । चकारी पूर्व- वत् । निलयनं चालिनवनं च, अश्रयोऽनाश्रयश्च । चकारी पूर्ववत् । विज्ञानं चाविज्ञानं च ! स्मृतिसंशयविपर्ययनिश्वयादि विननं तत्कारण वा चिन्नात्रं वा । तदि. परीतमविज्ञानम् । चकारी पूर्ववत् । सत्यं चानृतं च, भावात्मकले सति कश्चिद्धन चिकचिकेनचिदपि वावरहितं सत्यं व्यवहारतो वा वावरहितम् । तद्विपरीतमन्तम् । चकारी पूर्ववत् । अस्तिनास्तीतिप्रत्ययविषयः सर्वः कार्यकारणवर्गो ब्रह्म च ब्रादि- त्यर्थः । ननु त सर्वकारणं सर्वनवितावप्रतीयते न तु तदनत्यं नेति बचनादित्यत आह-सत्यं सर्वबावजन्यं भावल्पं ब्रा । अभवदुक्तं मादिकमभवत् । असतः सर्वात्मने उर्वमिदं सर्वः प्रत्ययस्सदिति प्रीयेत नरविपाणवन्यापुत्रादिवत् । ततो नान- सर्वामिकं किंतु सदेव | प्रतीतरविश्व जीवनादिव्यवहारस्यापि दुर्लभत्रमियर्थः । मि सदादिकं दगविध तबुद्धयश्चेत्येतावदेव सत्यमभवदियागय नेत्याह-यदिई किंच, उक्तमनुक्तं चोत्प्रेक्ष्यमाणं यत्किंचेदं निखिल्मपीत्यर्थः । तनिखिलमपि सत्यार झणोऽभिन्न तस्मिन्नध्यस्तत्वेन प्रायनानं प्रसिद्धम् । सत्यं सत्यगन्दाह व्यवहा- रक्षमवन मामूर्त वेन च । मृतम विभागो भूतपश्चक एव । तेजोवनानि मानि । वायाकागावमृता । कार्यकारगयोरपि मृर्तामृतत्वे एवमत्रगन्तव्ये। कार्य सर्वः प्रपञ्चो भूतभौतिकरूपो मूर्त स्थुष्टन्त्रास्कारणतः । विद्या वमन तद्विपवादप्रतीयमानन्वेन वा । इति, अनेन प्रचारेण । आचलते कथयन्ति ब्रह्माबेदः । तत्र सर्वकार्यशून्य ब्रापि युक्त्यन्युच्चयार्थस्तच्छब्दः । ब्रह्मगः सत्यवेऽन्यस्य चासत्यावे युक्तिश्चयम् । ब्रह्मव्यतिरिक्तं यत्सत्यं तन्निसमनित्यं या निल्यो कार्यता कार्यले चालत्यनमनिच्छनोऽपि प्रामादिकस्वजिहाचर्वणवढागतन्। निन्यत्रेऽनर्वगतचे सदगतवेऽपि जाड्यन्वेऽपि भेदै स एव दोषः । तल्ल अत्र सायं न अन्यत् । ब्रह्मण्यात जन्नयात्राहम् । यथेर्दनाया- १०. गर । २ . निनाई। ३ क. स. ६२ । ४ ब. ते पा । ५ख, "गद सत्य' [प्रमाणे. ५०७] तगिरीयोपनिपीपिका । ११९ जमिन । पप लोको भवति व्याख्यानम् ॥ "मी आनन्दामिपिताया पदार्थचोधिन्या तसि. दीपाय पठानुवाकः ॥ ६ ॥ - 12 अप समाऽनपारः। यस, व पास मयममा सन्नामरूपकमिकयन स्थवीयां बुद्धियिषय- माते । स 11 नादिलक्षणं बाहर मात्र प्रसिद्धं विद्वत्प्रसिद्धं वा नामरूप- कियाहीन जगाकारण महा इन पक्तव्ये नरभ्रमस्य नामरूपक्रियाहीनत्वेनोत्पादादिति कथनार्थमसता त्याह । रदं विविधप्रन्ययगम्यं विश्वम् । अग्रे विश्वोत्पत्तेः प्राक् । आसमय । अविवागव- दा जगत्कारणमाऽऽसीन्न तु कार्यजातमित्यर्थः । ततोऽ. मन्दानिधेयाकारणात् । , एवं प्रनिर वा । सत्तच्छन्दाभिधेय स्पष्टनामरूप- फर्म । अजायतोटपचन | नव गावट जग कारणम् । अविवात्माननेक चिदान- न्दस्वभारम् । स्वयमामाऽविद्याया आश्रयो विषयश्च । अकुरुत बहुधा कृतवान् । तस्मादात्मानमा (गन आ ) मनत्र बटुवा करणात्ततोऽविद्याश्रयविषयभूतमानन्दात्मस्व- रूपं सुकृतम् । स्वार्थऽय सोः प्रयोगः । स्वेन कृतवःस्व (कृतं स्व) कृत स्वकृतमेव परोक्षण मुकृतं पुण्यमुच्यते कथ्यते देवैः । इतिर्मन्त्रसमाप्ती । ननु- "ब्रह्मविदामीति परम्' इत्युपक्रान्त तत्र किं ब्रह्मत्याशङ्कायां सत्यादिलक्षणं तस्वरूपमभिधाय त.प्रतिपत्त्ययं च तस्याऽऽकाशादिकारणत्वाभिधानप्रसङ्गेन कोश- पन कमवतार्य पचमकोशावारब्रह्मास्तिःवनास्तित्वज्ञानाभ्यामर्यानर्थयारमिवानेन মধ্বস্ব समागतेषु सन्निर्णयार्थमिदं 'सोऽकामयत' इत्यारभ्य सुकृतम्' इत्यन्तमुक्तमस्तु तत्तथाऽपि सर्वकारणवत्मावाप्ती न पुरुषार्थ आनन्दावाप्तेरेव तथात्वादित्यत आह- यत्मसिद्ध जगत्कारणम् । वै स्मर्यमाणं तद्ब्रह्म । सुकृतमविद्य याः स्वात्मरूपमेव कर्म कर्तृभाषेन कृतवत् । रस आनन्दद्रवः स्वयंप्रकाशमानानन्द इत्यर्थः । वे प्रसिद्धो वैष- थिकसुखरूपेण सर्वप्रियतमत्येन वा स्मर्यमाणो वा । स मोक्षे भावीदाना परोक्ष एव प्राणिना रमः । रसं सुकृताभिन्नमानन्दात्मस्वरूपम् । हि यस्मादेव । रसं लब्धेति द्वाभ्या शृङ्खलान्यायेन संबध्यते । रसभेव न त्वन्यत् । अयमविकारी । लब्ध्वा प्राप्यैव नत्यन्यथा । आनन्दी प्रत्यक्प्रकाशमानानन्दात्मस्वरूपः । भवति स्पष्टम् । तस्मात्पुरुषार्थो ब्रह्मप्राप्तिरित्यर्थः । ननु-मुकृतस्य ब्रह्मण आत्म मिन्नस्याऽऽनन्दनं भवतोच्यते । प्रतीतिश्च विपरीते- . । १ घ. न् । तत्सहि। २ ख. °स्तु तथापि ।

दुःखाभाव १५० शंकरानन्दता [ब्रह्मवल्ल्यध्याये, भ. त्याशङ्कय तदुत्तरत्वेनान्यथानुपपत्तिमाह-क आत्मनोऽनानन्दत्व आनन्दात्मव्यतिरिक्तः । हिहेत्वर्थः । एव नाम । कस्तु नामोन्यादपानचेष्टां कुर्यात् । को व्याख्यातम् । प्राण्या- प्राणचेष्टां कुर्यात् । यद्यद्येष स्वयंप्रकाशमानः । आकाशः आकाशवत्सर्वगत आकाशश- म्दाभियो वा । देशकालवस्तुपरिच्छेदशून्य इयर्थः । आकाश इति सप्तम्यन्तत्वपक्षे हार्दाकाशेऽविद्याशबालत इति व्याख्येयम् । आनन्दः परप्रेमालम्बनत्येनोपलक्षित आन- न्दात्मा । न स्यान भवेत् । अयमर्थः -आत्मकामाय सर्वा लौकिक्यो वैदिक्यश्वेष्यः । प्राणधारणमपि । आत्मा चेहु.खं दुःखसाधनं वा स्यात्तदानी वृश्चिकतग्जन्यदुःखवद्धयः स्यात् । दुःखसाधनवे वाऽऽत्मार्थ भार्यादिकं प्रियं न स्यात् । ततः सुखत्वं परिशिष्यते । अभावस्यासत्वे नामाऽऽत्मनो प्रतीतिविरुद्धम् । सुवस्यापि जायमानस्य वेद्यस्याऽऽरमार्थत्वेन प्रियता दृष्टा । न तु स्वरूपेण । अन्यथा वैर्यादिगत- स्यापि तस्य प्रियता स्यात् । तेनं नित्य स्वयंप्रकाशमानानन्दात्मा परप्रेमालम्बनत्वेनाङ्गीक. रणीयः । परप्रेमालम्बनत्वं च तदर्थलौकिकवैदिकजीवनचेष्टान्यथानुपंपल्या कल्यते। आत्मनोऽनानन्दत्वे न काऽपि चेष्टा स्यादिति । ननु-यद्ययमानन्दरूपस्तहि किमर्थ. 'मयमानन्दायं लोकः साधनमादत्त इत्यत आह--एष आकाश आनन्दात्मा स्वयंप्रकाश. मानोऽप्यनाद्यविद्यावृतः । साधनेंसाध्यादिभावेन व्यवस्थितो हि यस्मात्तस्मादिति शेषः । एवेषशब्देन संबध्यते । एष एव साधनं साध्यं च वस्तुतोऽज्ञातात्मयाथात्म्यसाधनतारतम्ये- नापसारिताविद्यातारतम्यादाविर्भूतात्मसुर्खतारतम्यरूपः । अविद्यादशायामानन्दयति, भाकीटपतङ्गमाब्रह्म च निखिलं जगदा योनिप्रादुर्भावादा मोक्षसाक्षात्काराचाऽऽनन्दयति । आनन्दात्मनि साक्षात्कृते न साध्यसाधनादि(दी)ति भावः । तत्साक्षात्करणात्प्राक्साध्यसा- धन देरपि वस्तुतस्तदात्मकत्वात्तस्यैव सुखदातृत्वमविरुद्धमित्यर्थः । ननु--आत्मनोऽस्तित्वे स्थिते विद्वानेव कदा कथं प्राप्नोतीत्यत आह--यदा यस्मि- म्काले । हि यस्माद्विदुषो ब्रह्मप्राप्तौ नियामको हेतुहिनोच्यते । ब्रह्मसाक्षात्कारवत्त्वेनापग- ताविद्यत्वादित्यर्थः । एव, अयं पार्थसारथिवत्कालवाचिना विद्वद्वाचिना लाभवाचिना च संबध्यते । यदैव न त्वन्यदा । एष विद्वानेव न त्वन्यः । एतस्मिन्नात्मनो भेदरहिते सत्ये रसे । अदृश्ये बाह्यान्तरेन्द्रियज्ञानाविषये । अना.म्य आत्मन इदमात्म्यं त्रिविध शरीर न यस्यासावनात्म्पस्तास्मन् । ननु-सर्वज्ञानाविषयोऽगरी रोऽपि वाग्गोचरः पदार्थो नरविपाणादिदृश्यत इत्यत आह-अनिरुक्त निरक्तिगन्ये वाचामगोचर इत्यर्थः । ननु-वाचामगोचरोऽपि साश्रपः पदार्थो दृष्टो यथाऽविद्या सदसधुक्यविपत्यत आह-अनिलयने निल- १ व. मान्या पथा। २ व विविध ।

[परम्प ० ८) नानगयोपनिपदीपिका। १५१ नममतदान । न- पाय तनय पति नोऽपि बिन्दन इत्यत आह- अयं मार प्राविका करा: प्रतिष भयानयानमार गुवाशस्यमभयमित्यर्थः । समय यया पति स्याध्ययम । प्रनिष्ठामितमामाति नादान प्रतिकात रिकार- गहिणेन प्रकार्पण स्थितिम् । विन्दते लभत एव । अथ तदा सोऽस्मिन्प्रतिष्ठा मामी विधान । अभयं गतः, भयमविद्यातास काग तक रास्तन्यमभयं स्वयंप्रकाश- मानानमवसायी गतः भाप्तः । भवानि माम् । जीवन्मुक्तः सर्वदा भवताय. मनु-कावतानवि प्रमाग प्रतिदिन एक तस्य मर्याचारयात्ततोऽविदुपोऽपि मनस्य नाम स्थायित आर. यदा मिशाल । हिहती । यामामणि प्रति, हितोऽप्यनिदानामा मज नाम न प्रतिपाते निविण्य इत्र जान्यन्वो निधिम् । एव पूर्ववत् । एप पसिन' मंदिहानी विपर्यस्तो ऽज्ञानी च । एतस्मिन्स्वा माभिन्न ब्रह्मणि, उदपि । अग्गरम् । अन्तरं भदम् । कुरुने सम् । अथ तदा तत्तस्य संदिग्यस्य विपर्ययस्थस्याहानिनक्ष । भयमपातकार्यतारकारजन्यमध्यात्माधिभूताधिदेवभेदभिन्न चाचि मनसि कायऽनादुःयकारणं जन्मादि । भवति प्रमैन संदहविपर्ययाज्ञानरुक्त- भयरूपं भवनि । गित सायाकारैः । ननु-अविदुपस्तथाऽस्तु यस्तु शास्त्रीये कर्भ- ण्यधिकृतो विद्वात्तस्य ब्रह्मविद इय ब्रममाप्तिरिन्यत आह-तत्तूक्त ब्रह्म भयरूपम् । तुशलः गवानिवारणार्थः । शास्त्रीय कर्मण्यधिकृतस्य विदुषो ब्रह्मविदश्च न साम्पं भिन्नामिन्नवुद्धिवेन विरुदयात् । एव तदेव न यन्यत् । भयं व्याख्यातम् । विदुपः कर्मविद्याविदः । अमन्वानस्याहं ब्र मास्मीत्यमेटेन मननरहितस्य । इदमेव वैषम्यं कर्मब्रह्म. विदोः । तत्तत्राऽऽ मत्येनाज्ञात व्रमणि भयकरेऽपि । एप श्लोको भवति व्याख्यातम् । अपिशब्दसृचिता युक्तिः संक्षेपणेयम् । अमृतं माता पिता बन्ध्यादि वाऽविपरीतरूपमपि स्वस्येप्टकारित्वेन स्वयं विपरीतगृहीतं तदनिष्टमकुर्वदपि स्वस्यानिष्टकारि दृष्टं यथा तबलापि ॥ इति श्रीमत्वरमहमपरिमाजकाचार्यश्रीमच्छ करानन्दविरचिताया पदार्थबोधिन्यां तैत्ति- रायोपनिषदी पकाया ब्रह्मयलयध्याये सप्तमोऽनुवाकः ॥ ७ ॥ 1 अथाष्टमोऽनुवाकः। भीपा भान्या । अम्माब्रह्मण आत्मत्वेनाज्ञानात् । वातो वायुः । पवते याति । भीपा भीत्या । उदेत्युदयं गच्छति । सूर्य आदित्यः । अस्मादित्यनुवर्तते । भीषाs- स्माघाख्यातम् । अग्निश्च वह्निरपि दहनादि के करोतीति शेषः । इन्द्रश्च त्रिलोकीना- १ ख. 'यस्तरया। .

१५२ - शंकरानन्दकृता [नकवल्मव्याये, १०८] थोऽपि त्रिलोकीमवतीति शेष । आद्यश्चकारोऽनुक्त नां सपा महता व्यापारसमुनयार्थः । द्वितीयो भीपाऽस्मादिति संबन्धार्थः । मृत्युः स्थावर जङ्गमविनाशकारी । धावति सर्वेषामभावाय सर्वान्प्रतिगच्छति। पञ्चमः पञ्चसंख्यापूरणो भीपाऽस्मादित्यनुपनः । इतिः लोकसमासी । ननु प्रकृता ब्रह्माना व्याख्यातास्तत्रैव ब्रह्मप्राप्तेरपुरु गर्यो शकित प्रसहारमण मानन्दरूपत्वमुक्तं सोऽयमानन्दो दुःखाभावो भायो वा सातिशयस्ततोऽपुरुषार्थ इस्पा. शङ्कयाऽऽह-सा प्रसिद्धा । एपा वक्ष्यमाणा | आनन्दस्य भावरूपस्य सुखस्य । मीमासा ब्रह्मविंदा मुखकारित्वेन पूजितो विचार आनन्दस्योत्कर्पयत्वेनाभावत्वब्यावृशि- फलो ब्रह्मानन्दस्य सर्वस्मादपिकावेनापुरुषधित्यव्यावृत्तिफलः । भवति स्परम् । युवा पोडशवर्यमारभ्याऽऽपलि दर्शनमुपघातमन्तरेण मध्यमं वयो यौवनं तद्वान- क्षीणेन्द्रियशक्तिरित्यर्थः । स्याद्भवेत् । यौवनेऽपि स्वभावतः शरीरस्येन्द्रियाणां वा परूप्यं संभावितं रोगादिनिमित्तं वा तनिवारणार्थमाह—साधुयुवा कन्दर्पसमान- रूपः सन्यौवनसपनः । तादृशोऽपि मृर्यो मा भूदित्याह-अध्यायकोऽवीतसा- लोपावेदः सर्वज्ञ इत्यर्थः । तादृशोऽपि केवलं स्वोदरंभरिरतिमन्दो वा तयं तघेण वारयति--आशिष्ठोऽतिगयेनाऽऽगास्ताऽतिशयेनाऽऽशुकारी च । अथाप्यतिमन्दत्ता. व्यर्थजीवित एवेत्यत आह--दृढिष्ठोऽतिमयेन दृढोऽविकृतवाक यमना इत्यर्थः । तादृशोऽपि बलहीनः स्यादित्यत आह-बलिष्ठोऽतिगयेन वलसंपन्नः । एभनोऽपि वित्तहीनः स्यादित्यत बाह-तन्योक्तविशेषणविभिटम्य । इयं सनदीपाविवलय. लोकमेखला । पृथिवी भूमि. । सर्या निखिला । वित्तस्य वित्तेन दृष्टादृष्टसुख कारण गोहिरण्यादिना । पूर्णा परिपूर्णा । स्याद्भवेत्स लिक्षणसंपन्नस्य चक्रवर्तिन इत्यर्थः । स सर्वलक्षणसंपन्नस्य चक्रवर्तिनी जायमान आनन्दः । एकः एकवसंग्ड्याक्रान्तः । मानुपो मनुष्येषु भवः । आनन्दो भावम्पः मुखामा । नातः परं मनुष्याणा मुग्व. मित्यर्थः । ते परीक्षा । ये प्रसिद्ध । शतं गतसंख्याका मानुपा आनन्दाः । व्याख्यानम् । वचनं तु विगेप । स परोक्षः ममिव । एक एकत्वमस्याकान्तः । मनुष्यगन्धर्वाणां मनुष्याः माग जन्मानो गन्ध में प्राप्ता मनुष्यगन्ध अन्तरिक्षलोकनिवामितान्तर्धानादिसति मन्नतपम् । आनन्दः मुखना । अम्माक चक्रवर्तिनां यथोक्तगुप्रिमिष्टाना गन. गुणमुपं मनःपगन्धर्वाणा पमं मुन्वमि यर्थ । श्रोत्रियम्य चान दिल्याप्याजिना चात्राभिननितिन पाटनम् । श्रीमिययं च चनापतिनाऽस्य च मम.नम् । चकारी मनु मनिन्दननुनपार्थः । मन पगम्यमान दनामी करणा-का- मरनम्य दशगणनामा पनि नमिउपहनापर्यः ।

[नामग्याचे, ०८] तत्तिरीयोपनिषदीपिका । १५३ कोहि त्रामिलापहिलातरम नपियाराक्षः गतगुणं मुग्यं भवतीत्यत एव प्रथमे पर्याये सोरिकस्य नाकामा तिन पठिना। ने ये गनं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । न ये गतं देवगन्धर्वाणामानन्दाः । स एकः पितृणां पिरलोकलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं पितणां भिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये गतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानां देवानामानन्दः । ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाका- महतस्य । ने ये शतं कर्भदेवानां देवानामानन्दाः । स एको देवानामानन्दः। श्रोत्रियस्य चाकामहतस्य । ते ये शत देवानामानन्दाः । स एक इन्द्रस्याऽऽनन्दः। श्रोत्रियस्य चाकामहनस्य । ते ये शतमिन्द्रस्याऽऽनन्दाः । स एको वृहस्पतेरा. नन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजा- पनेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रामण आनन्दः । श्रोत्रियस्य चाकामहतस्य । देवगन्धर्वाणा देवाश्च ते गन्धर्वाश्च देव- गन्धर्यारतेपा चाऽऽफाल्गन्धर्वशरीरमाप्तिहेतुभूतकर्मणामित्यर्थः । पितृणां, पितृविशेषणं चिरलोकलोकाना चिरापिस्यायिनो लोकाः कर्मफलबिनेपाते येषां लोकास्तस्था- नानि च चिरलोकलोकास्तेपामनेककालस्थायिनामित्यर्थः । आजानजानी कल्पादावु- सन्नानामाजाने देवलोके जाता आजानजास्तेषां, विशेषणमिदम् । विशेष्यमाह- देवानां द्योतनात्मकानाम् । कर्मदेवानाम् । इदं श्रुतिरेव व्याकरिष्यति । पूर्ववद्विशेषण.. मुक्त्वा विशेष्यमाह--देवानामाजानेभ्य उत्कृष्टाना द्योतनात्मकानाम् । कर्मदेवाना- मित्येतद्वषाकरोति । ये प्रसिद्धा याज्ञिकाः । कर्मणाऽग्निहोत्राद्यश्वमेवान्तेन । देवा- न्योतनामकानपियन्ति प्राप्नुवन्ति देवावमुपगता इत्यर्थः । देवाना त्रयस्त्रिंगत्संख्याकानां हविर्भुजामग्न्यादीनाम् । इन्द्रस्य त्रिलोकीपत्युः (तेः ) शक्रस्य । बृहस्पतेर्देवगुरोः । प्रजा- पतेविराजः । ब्रह्मणो हिरण्यगर्भस्य । नवसु पर्यायेषु प्रायः समानपाठम् । शेषं पूर्व पूर्व तदाद्यर्थत्वेन व्याकृत्य यथोचितं गन्धर्वादिपर्योजनीयम् । अकामहतत्वं च पूर्वपूर्वविष. यत्वेन हिरण्यगर्भस्य यावानानन्दस्तावानानन्दो निरतिशयवैराग्य इ ( ग्यमि ) ति तात्प. यर्थिः । हिरण्यगर्भादुत्कृष्टस्य ब्रह्मानन्दस्य वामनसयोरगोचरत्वाद्धिरण्यगर्भानन्दमेव ब्रह्मा- नन्दस्य समुद्रस्योदबिन्दुसम दिड्मात्रमुक्त्वोपरराम श्रुतिः । अतः परं स्वयंप्रकाशानन्दा- स्मैव प्रमाणं नाहमिति श्रुतेरभिप्रायः । १ क. 'विशिष्टास्ने । २ ख. °लोकाः स्मार्तक मानुष्टानपरा देवलोक प्राप्तास्ते । ३ ख. 'ना श्रौतर्कमानुष्टातारोऽविदासो देवत्वं प्राप्ताः क° । ४ ख. उत्कटानां । ५ ख. यः । देवाः समुच्चयकारिणो देवयानमार्गगामिनो देवाः । देवाना। २० १५४, शंकरानन्दकृता [ब्रह्मवल्ल्यध्याये, अ०९] अनेन भावरूपो निरतिशयश्च ब्रह्मानन्द उक्तः । तथाऽपि स तु हिरण्यगर्भादपि परतो देहायुपाधिस्थो वा नास्मदादिरूप इत्यत आह-स परोक्षो हिरण्यगर्भावुत्कृष्ट आनन्दः । यश्च प्रसिद्धोऽपि, अयं स्वय प्रकाशमानः । पुरुषे पञ्चकोशात्मके पुरुष- शब्दाभिधेये ब्रह्मपुच्छत्वेनोक्तः । यश्च प्रसिद्धोऽपि असौ परक्षोऽस्मदादीनां प्रत्य- क्षश्च विदुपः । आदित्य आदित्यमण्डले । चकारौ पुरुषादित्ययोर्वाचारम्भणमाहतुर्वा- क्यद्वयगतौ । स आदित्ये पुरुषे च वर्तमानः । एको भेदरहितः । विदुषो ब्रह्मप्रा- प्तिरुक्ता यदेत्यादिना यद्यपि तथाऽपि त्वमसीति नोक्तं तदर्थं प्रासङ्गिकमैक्यमभिधाय पुनस्तत्प्राप्तिमाह--सोऽविकारी । यो यः कश्चन । एवंविदादित्ये पुरुषे च ब्रह्मान- न्दमभेदेन विद्वान् । अस्माप्रत्यक्षात् । लोकादृष्टादृष्टसाधनफलात्मकात् । प्रेत्य प्रक- र्षेणाऽऽगत्य मृतवदत्राभिलापशून्य इत्यर्थः । एतदु(मुक्तमन्नमयमनबिकारम् । आत्मान- मिन्द्रियद्वारा विषयप्रापकम् । उपसंक्रामति, अन्नमयमध्यात्माधिभूताधिदैवभेदभि- नमप्यध्यस्तं वस्तुतस्त्वहमेवेदमिति सामीप्येन सम्यगवगच्छति । एतं प्राणमयमात्मा- नमुपसंक्रामति । एतं मनोमयमात्मानमुपसंक्रामति । एतं विज्ञानमयमात्मा- नमुपसंक्रामति । एतमानन्दमयमात्मानमुपसंक्रामति । स्पष्टम् । पर्यायचतुष्टयमन्न- मयवद्व्याख्येयम् । सर्वात्मत्वज्ञानेनाऽऽनन्दं ब्रह्म प्राप्नोतीत्यर्थः । तदापि तस्मिन्पञ्चकोशा- विष्ठाने पुच्छरूपे ब्रह्माणि रसे। सर्वानन्दातिशायिन्यधिदेवादिभेदशून्येऽहमस्मीत्यवगतेऽपि- शब्दाद्यो हि यदात्मा भवति सोऽसौ तस्मान्न बिभेति । न च ब्रह्मणोऽन्यदत्रारित किंचि- ब्रह्माऽऽत्मा चायं ततो नास्य भीतिः कुतश्चिदिति युक्तिरुक्ता । एप श्लोको भवति व्याख्यातम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचिताय तैत्तिरीयोपनिषदीपिकाया पदार्थोपिन्या द्वितीये ब्रह्मवल्ल्य व्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ अथ नवमोऽनुवाकः। यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न विमति कुतश्चनोति । कुतश्चन करमादपि । शेपं समानपाठं मनोमयपर्यायवयाख्ये- यम् । पूर्व यतो मनसः कारणादिति व्याख्यात मनोमयपर्यायप्रसङ्गात् । इदानी संकोच कारणाभावात्सर्वकारणादानन्दात्मन इति व्याख्येयम् । ननु-भीतिरहिताः सन्ति सहस्रशः पुण्यात्मानः संसारण इत्यत त्याह--एतं ब्रह्मविदं ह प्रसिद्ध वावैव न तपति संतापं न कुरुते न सतापयतीत्यर्थः । मानसप्रत्यय इति शेषः । कुप्रेत्यय- १ ख. 'पि तत्वम।

[ भृगुवल्ल्यध्याये, अ० १] तैत्तिरीयोपनिषदीपिका । १५५ १ मभिनयेनाऽऽह-वृद्धादेः शोकजे विचारे किमहं क्षीणशक्तिः । साधु शोभनं पुण्यात्मकं कर्म । नाकरवं न कृतवान् । आः कष्टमिति शेषः । किमहं व्याख्यातम् । पापं श्रुत्यादिनिन्दितं कर्म । अकरवं कृतवान् । आः कप्टमिति शेषः । इत्यभिन- यार्थः । अनेन प्रकारेण भयरहितानामपि संसारिणां पुण्यपापाभ्यां भीति स्य स्पृष्टे- त्यभिमायः । ननु-तर्हि किं लोकायतिक इत्याशङ्कय नेत्याह-सोऽधिकारी । यः प्रसिद्धः । एवं विद्वानहमेव निरतिशयज्ञानानन्दो न मत्तोऽन्यस्किचिद्वस्तुभूतमस्तीतिज्ञानवान् । एते पुण्यपापे । आत्मानमानन्दात्मरूपं नजं स्पृणुते मीणयति । सुकृतदुष्कृते अहमेवास्मीत्यवगन्छत्तीत्यर्थः । ततो न लोकायतिकसम इत्याह--उभे पुण्यपा। हि यस्मादेवैष विद्वानेवैते आत्मानं स्पृणुते व्याख्यातम् । सर्वात्मत्वात्पुण्यपापानु- ष्ठानाननुष्ठानजन्यः संतापो न तु लोकायतिकवन्नास्तिक्येनेत्यर्थः । तदेतदाह--य एवं वेद प्रसिद्धोऽधिकार्युक्तमानन्दरूपं निर्भेदमात्मत्वेन जानाति । य एवं वेदेष एवैते उभे आत्मानं स्पृणुते हीत्यन्वयः । ततो ले कायतिकाद्विलक्षण इति शेपः । इतिरानन्दवल्लीस- माप्तावुक्तात्मज्ञानानुकरणार्थो वा । उपनिषत्सर्वकारणं सर्वाधारभूतं निरतिशयानन्दैकस्व- भावं निर्भेदमपगतसमस्तप्रपञ्च ब्रह्माहमस्मीति सामीप्पन नितरां गमयित्वाऽहंममादि- वन्धनानि शिथिलीकृत्याविद्या सकायां ससंस्कारा सादयति विनाशयतीत्युपनिवह्मविद्या- प्रतिपादको ग्रन्थो वोपनिषत् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां तैत्तिरीयोपनिषद्दीपिकाया पदार्थबोधिन्या द्वितीये ब्रह्मवट्यव्याने नवमोऽनुवाकः ॥ ९ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरानन्दस्य कृतौ तैत्तिरीयोपनिषद्दीपिकायां द्वितीयो ब्रह्मवल्ल्यध्यायः समाप्तः ॥ २ ॥ अथ तृतीयो भृगुवल्ल्यध्यायः तत्र प्रथमोऽनुवाकः । उक्ता ब्रह्मविद्या । ब्रह्मावगतो चे.पाया अन्नमयादयः पञ्च. कोशाः । ताश्चत्तथाऽवग- न्तुमशक्तः कुतश्चित्प्रतिबन्धात्, तस्य श्चित्प्रतिबन्धात्, तस्य तत्प्रतिबन्धकारणापाकरणभूतानि तरआदीनि । तपसि कारणे च ब्रह्मदृष्टिं विवातु प्रसङ्गादुपासनान्तरार्थमपीयं वल्ल्यारभ्यते । तत्राऽऽ. ख्यायिका गुरूपदेशादेब्रह्मविद्याङ्ग दर्शयितु विद्या स्तोतु च । भृगुर्नामतः । वै १ ख. नन स्पृ'।

--- । १५६ शंकरानन्दकृता [भृगुवल्ल्यच्याये, अ०२] प्रसिद्धः । वारुणिरुणस्यापत्यं वामणिः । वरुणं वरुणनामानं पितरं भृगोर्जनकमुप- मसार मात्रदृष्टेन मार्गेण विद्यार्थं समीपमागतवान् । आगत्य चेदमूचे--अधीह्यथ्य- यनं कुरु । अयमर्थ:--मरसि त्वं ब्रह्म, ततो मह्यं वद | भगवो भगवन्हे पूजावन् । ब्रह्मातिगयन वृद्ध जगजन्मादिकारणमित्यनेन मन्त्रेणोपससार | अनन्तरं पिता तस्मै. भृगय एतदक्ष्यमाणं प्रोवाच प्रकणोक्तवान् । अन्नमद्यतेऽत्ति च शरीरमध्यात्मादि- भेदभिन्नम् । प्राणं शरीरान्तर्बतियन वायुमत्तारमेर क्रियाक्तिम् । इटानी ज्ञानक्रिया- शक्तीनि भोगसाधनान्याह-~-चल रूपग्रहणकारणम् । श्रोत्रं शब्दोपलब्धिकारणम् । उपलक्षणमिदं त्वासनघ्र णानाम् । मनः सर्वकरणसाधारणमन्तःकरणं ज्ञानशक्ति: (तिम् ) । वाचं वक्तव्यकारणभूताम् । उपलक्षणमिदं पाणिपादपाययस्थानाम् । इत्यनेन प्रकारेण । अयमर्थः-भोग्यं भोक्ता भोगसाधनं चेति समग्रोऽपि प्रपञ्चस्तं ब्रह्मलक्षणं च कथयिष्यामि । यावचास्याऽऽन्मज्ञानं न भविष्यति तावत्पण्डितमन्यः कचित्कचिद्र- सोपासनं करोतु । तेनोपासनेन क्षीणपापो ब्रह्माबगन्तुं शक्यते न वन्यथेति । तद- भिप्रायेण श्रुतिराह--तमुपदिष्टप्रपञ्चम् । ह किल । उवाचोक्तवान्बरुणः । यतोऽ- भिन्ननिमित्तोपाढानात् । चे प्रसिद्धानि । इमानि विविधप्रत्ययगम्यानि । भूतान्या- काशादीनि स्वेदजादीनि च । जायन्त उत्पद्यन्ते । येन जीवनकारणेन जातान्युत्प- नानि सन्ति जीवन्ति प्राणधारणोपलाक्षता स्थिति कुर्वन्ति । यल्लपस्थान घटस्थेव मृत् । प्रयन्ति गच्छन्ति स्वस्वकार्यस्वभाव परित्यजन्ति सन्तीत्यर्थः । अभिसंविशन्ति सर्वतः सम्यक्प्रवेशं कुर्वन्ति । तदुक्तलक्षणं जगजन्मस्थितिध्वंसकारणम् । विजिज्ञा- सस्त्र विशेपेग ' अह तदस्मि' इति ज्ञातुमिन्छा कुरु जानीहीत्यर्थः । ननु मया ब्रह्म पृष्टं, भवताऽन्यदुच्यत इत्यत आह--तदुक्तलक्षण ब्रह्म ब्रह्मशब्दाभिधेयं नान्यदित्यर्थः । इतिः पितुर्वचनसमाप्तौ । स श्रुतपितृवाक्यो भृगुः । तपः पर्यालोचनमन्नादिक्तेषु लक्षणाक्रान्त कतमदि- त्येवरूपम् । अतप्यत कृतवान् । अथवा स्वधर्मवृत्तित्वं तपः कृन्छ्चान्द्रायणादि वा । अस्मिन्पक्षे तपसा शुद्धान्तःकरणस्य मनस इन्द्रियाणा चैकाय जायत इति व्याख्ययम् । भृगुः । तप उक्तरूपम् । तप्त्वा संपाद्य ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितागं पदार्थबोधिन्यां तैत्तिरीयोपनिषद्दीपिकाया तृतीरे भृगुवल्यध्याये प्रथमोऽनुवाक ॥ १ ॥ स तापसी . अथ दितीय ऽनुवाकः । अतिस्थवीय(यो)बुद्धिवेनानं ब्रह्मानमेव ब्रह्मलक्षणाकान्तं ब्रह्मशब्दाभिधेयम् । इत्य- नेन प्रकारेण व्यजानाविशेषेणावगतवान् ।

{ भृगुवल्ल्याये, अ० ३-४ तत्तिरीयोपनि पद्दीपिका । १५७ तद्विज्ञानप्रकार श्रुतिराह--अन्नादुक्तात् । हि यस्मात् । एवान्नादेव न त्वन्य- स्मात् । खलु निश्चितम् । इमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्ति. व्याख्यातम् । यत्पदस्थलेऽनपदमिति विशेषः । इत्य- नेन प्रकारेण । तदन्न नमरूपं विज्ञायावगत्य प्रत्यक्षेणोपपत्या चान्नस्य नाशमत्रलोक्या. लताबमलक्षणाभ्या सगयाविष्टहृदयः । पुन य एवं वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । त५ होवाच । व्याख्यातम् । वरुण पितरमुपससारयेत्यन्वयः । तपसा व्याख्यातेन त्वया स्वयं ज्ञानेनोपायेनेत्यर्थः । ब्रह्म विजिज्ञासस्व पर्यालोचनेन ब्रह्मणोऽ- चगति कुरु । इदानीमुपेयदृष्टया स्तौति-तपो ब्रह्म ब्रह्मप्रतिपत्त्युपायभूतं तपो प्रझोपेयमित्पनेना- दिदमुक्तं ब्रह्मज्ञानार्थिना नित्यानित्यवस्तुविवेकादिक साधन संपादनीयम् । तत्संपादयि- तुमशक्तश्चेत्तस्मिन्ब्रमदृष्टिं कुर्यादिति । अन्यथाऽत्र वक्ष्यमाणपर्यायत्रये च तपो ब्रह्मेत्यभि- धानं व्यर्थ स्यात् । स तपोऽतप्यत । स तपस्तप्त्वा । [ व्याख्यातम् ॥ इति श्रीमत्परमहसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचिताया पदार्थबोधिन्या तैत्ति- रीयोपनिपीपिकाया भृगुवल्ल्यध्याये द्वितीयोऽनुवाक. ॥ २ ॥ अथ तृतीयोऽनुवाकः । माणो ब्रह्मेति व्यजानात् । प्राणाद्धथेव. खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तर होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा । इति श्रीम परमहंसपरिव्राजकाचार्यश्रीमच्छकरानन्दविरचितायां पदार्थबोधिन्यां तैत्ति- योपनिषद्दीपिकाया भृगुवल्ल्यध्याये तृतीयोऽनुवाकः ॥ ३ ॥ अथ चतर्थोऽनुवाकः। मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । सनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तर होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ इति श्रीमत्परमहसपरिव्राजकाचार्यश्रीमच्छकरानन्दविरचिताया तैत्तिरीयोपनिष- ई पिकायां पदार्थबोधिन्या भृगुवल्ल्यध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ -- १ ख. दिनाऽनुसंवानं ।

किरानन्दकृता- [भृगुवल्ल्यध्याये, अ०५-६] - अथ पञ्चमोऽनुवाकः। • विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्धयेव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार | अधीहि भगवो ब्रह्मोति । त होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्करानन्दविरचितायां तैत्तिरीयोपनिषदीपि- कायां पदार्थबोविन्या भृगुवल्ल्यध्याये पञ्चमोऽनुवाकः ॥ ५ ॥ अथ षष्ठोऽनुवाकः। आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्धयेव खरिखमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंवशन्तीति । यथाऽन्नस्य विनाशित्वं दोषो ब्रह्मत्वे तथाऽचेतनत्वं प्राणस्य, अनिश्चयात्मक मनसः, सुखदुःखभोक्तृत्वं विज्ञानस्य च दोषः । यद्यपि चक्षुः श्रोत्रं मनो वाचमित्युप- दिष्टं न विज्ञानमिति तथाऽपि क्रियाशक्तीना वागादीनां ज्ञानशक्तीनां च चक्षुरादीनां प्राणमनःसमानयोगक्षेमत्वात्पृथक्तद्विज्ञानं च नोक्तम् । मनसोऽपि विज्ञानतनवान्मनसाऽ. भिधीयमानत्वेन विज्ञानमप्यर्थादुक्तमेव । ततस्तद्दर्शनं दोषदृष्टया पितरं प्रत्यागमनं चेत्य- विरुद्धम् । प्राणमनोविज्ञानानि प्राणमयमनोमयविज्ञानमयकारणान्यानन्दश्चाऽऽनन्दमयकार- णम् । पुच्छं च तस्य ब्रह्मशब्दाभिवेयो मुख्यः । ततोऽस्य दर्शनानन्तरं पितरं प्रत्याप्णूम- नाभावः । स तप इत्यारभ्येतीत्यन्ताः प्राणमनोविज्ञानानन्दपर्यायाश्चत्वारोऽपि समानपाठा अन्नपर्यायवळ्याख्येयाः । इदानीमाख्यायिकासिद्धमर्थ श्रुतिराह विद्यास्तुतये—सा प्रसिद्धा । एपेदानीमुक्ता । भार्गवी भृगुणाऽवगता भार्गवी । वारुणी वरुणेन प्रोक्ता वारुणी । विद्या ब्रह्मविद्या । परम उत्कृष्टे । व्योमन्व्योम्न्यानन्दात्मनि । प्रतिष्ठिताऽवस्थान प्राप्ताऽऽनन्दात्मन्येय पर्य- वसितेत्यर्थः । इदानीमानन्दात्मविज्ञानोक्तं फलमाह-[स प्रसिद्धः । ] योऽधिकारी । एवमन्न- प्राणमनोविज्ञानेभ्योऽन्तरतम आनन्दोऽहमस्मीति । वेद जानाति साक्षात्करोतीत्यर्थः । प्रतितिष्ठति, एव ज्ञानवान्सोऽयमविद्यासंस्कारशून्यो ब्रह्मण्येवावतिष्ठते । अत्रैवं प्रतिपत्तु- मशक्तोऽन्नादिकोशपञ्चककारणे ब्रह्मदृष्टिं कुर्यात् । सोऽप्यन्तःकरणशुद्धिद्वाराऽस्मिञ्शरीरे शरीरान्तरे वा प्रतितिष्ठति । .. १ स्व. अथ चैत्र । घ. अथवं ।

[भृगुवल्ल्यध्याये, अ०७-८] तैत्तिरीयोपनिषदीपिका । य एवं वेदेत्यनेनानादिषु ब्रह्मदृष्टेरप्याभिधातुं शक्यत्वात्तादृशस्य प्रलोभनाथं दृष्टं फलान्तरमप्याह-अन्नवान्नित्यमन्नसंपन्नः । अन्नादोऽन्नभक्षको नीरोग इत्यर्थः । भवति स्पष्टम् । महानधिकः । भवति स्पष्टम् । कथं-प्रजया पुत्रादिसंतत्या । पशुभिर्गवादिभिः । ब्रह्मवर्चसेन ब्राह्मणजात्युचिततेजसा । न केवलमे किंतु महा- नधिकः । कथ-कीर्त्या यशसा | प्रथमो महन्छब्दस्तस्मिन्विद्याधिक्यमाह । द्वितीयस्तु प्रजादीनां कार्यन्तानाम् ॥ इति श्रीम-परमहंसपरिव्राजकाचार्यश्रीमच्छंक्रानन्दविरचिताया तैत्तिरीयोपनिष- दीपिका पदार्थघोधिन्या तृतीये भृगुवल्ल्यध्याये पष्ठोऽनुवाकः ॥ ६ ॥ १ अथ सप्तमोऽनुवाकः । इदानीमस्यान्नब्रह्मोपासकस्य व्रतमाह-अन्नमदनीयं न निन्द्यानिन्दां न कुर्यात् । तदनानिन्दनं व्रतं व्रतधारणम् । पूर्वमन्नमन्नादश्च यथास्थितमुपासनीयमिति सिद्धवत्कृत्ये- दानी वैपरीत्यमाह-प्राणो वै पञ्चवृत्तिरेव । अन्नमदनीयम् । शरीरं स्थूलो देहः । अन्नादमनभक्षकम् , अन्नाश्रयत्वात् । प्राणे पञ्चवृत्तौ शरीरमुक्तं तदधीनस्थितित्वेन प्रतिष्ठितं प्रतिष्ठा प्राप्तम् । इदानी वैपरीत्यमाह-शरीरे प्राणः प्रतिष्ठितः । स्पष्टम् । तदुक्तम् । एतच्छरीर प्राणरूपं प्रत्यक्षम् । अन्नमदनीयम् । शरीरं प्राणश्च । अन्ने शरीरे प्राणे च प्रतिष्ठितम- वस्थितं वंशतृणादिष्विव गृहं, गृहे च वंशतृणादि । स प्रसिद्धः । यो यः कश्चनो- सिकः । एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महा- न्भवति । प्रजया पशुभिर्ब्रह्मवर्चसेन | महान्की] । एतदन्नमन्ने प्रतिष्ठितं वेद जानाति जानीयादित्यर्थः । व्याख्यातमेतत् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छकरानन्दविरचिताया तैत्तिरीयोप- निषद्दीपिकाया पदार्थवोधिन्या तृतीय भृगुवल्यध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अथाष्टमोऽनुवाकः। अन्नमुक्तं न परिचक्षीत दीयमानमन्नं न निराकुर्यात्पात्रस्थं वा न परित्यजेत् । तदन्नापरित्यागलक्षणं व्रतं व्रतधारणम् । इतः परं मनो विज्ञानं चेति वक्तव्यं यद्यपि- तथाऽपि तयोरपि भूतकार्यवात्प्राणशब्देन वायुभूतमङ्गीकृत्यानशब्देन भौतिक भूतप्र- सङ्गं प्रस्तानयति-आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रति- १ ख.,°रं प्रत्यक्षं प्रा। - शंकरानन्दकृता- १६० [भृगुवल्यध्याय, अ०९-१०] ष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्न- मन्ने मतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति । प्रजया पशुभिर्ब्रह्मवर्चसेन | महान्कीर्त्या । आपो वात्मिकाश्चतुर्गुणाः । ज्योतिः प्रकाशा त्मकं त्रिगुणम् । शेपं प्राणशरीरंपर्यायवत्समानपाठं व्याख्येयम् । इति श्रीम-परमहंसपरिव्राजकाचार्यश्रीमच्छंक रानन्दविरचिताया तत्तिरीयोप- निषद्दीपिकाया पदार्थवोविन्या तृतीये भृगुवल्ल्यध्यायेऽष्टमोऽनुवाकः॥ ८ ॥ -- अथ नवमोऽनुवाकः। अन्नमुक्तं वह्वविकं शास्त्रोक्तैरुपायैर्याजनादिभिः कुर्वीत स्पष्टम् । तदन्नबहुकरणं व्रतं व्रतधारणम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः । पृथिव्यामाकाशः प्रति- प्ठितः । आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्न मन्ने प्रतिष्ठित वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति । प्रजया पशुभिर्ब्रह्मवर्चसेन । महान्कीर्त्या । पृथिवी कठिना पञ्चगुणा । आकाशश्छिद्रात्मा शब्दगुणः । शषं समानपाठमज्योतिःपर्यायवयाख्येयम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरानन्दविरचितायां तैत्तिरीयोप- निपद्दीपिकाया पदार्थबोधिन्या तृतीये भृगुवल्ल्यध्याये नमोऽनुवाकः ॥ ९ ॥ अथ दशमोऽनुवाकः। न कंचन कमपि चण्डालान्तं ब्राह्मणादिकं वसतावद्य रात्रौ त्वद्गृहे वास करि- ध्यामीति वसतिनिमित्तं समागतम् । प्रत्याचक्षीत न निराकुर्वीत । तद्वसतिनिमित्तं समागतानिवारणं व्रतं व्रतधारणम् । एवमेतान्युपासनानि सत्रतानि समानफलबादिच्छावि- कल्पार्थानि । उक्तफलकाम उक्तेश्चन्यतममुपासनं कुर्यादित्यवगम्यते । अत्र च भूतपञ्च- कस्य भौतिकस्य च परस्परमुपकार्योपकारकभावकथनेन सर्वाद्वैते पर्यवसानं तद्दर्शितमिति तात्पर्यार्थः । इदानी ब्रह्मज्ञानोत्पादे सश्रद्धमन्नदानं कारणं तथाऽनमन्तरेण कर्तुमशक्यं वसता. वप्यप्रत्याख्यानं नान्नमन्तरेण स्यात् । न हि पूर्णोदरा अप्रार्थितान्ना वसत्ययं गृहस्यस्य गृहेष्वागच्छन्तो दृश्यन्ते । किंतु शुधार्ता एव । ततोऽन्नसंपादनार्य गृहस्थाश्रमवा- सिना मुमुक्षुणाऽपि महान्यत्नः करणीय इत्याह-तस्माद्यस्मादन्नमन्तरेण न पुरुषा-' र्थसिद्धिगृहस्थस्य ततो यया कया च येन केनापि विधया, उपायप्रकारेण याज- . १ ख. रीरं ।

[मृगुषल्स्पष्माये, म०१०] तैत्तिरीयोपनिपछीपिका । नापन्यतमेनेत्यर्थः । यहधिकमन्नं त्रीयादिकं प्राप्नुयाद्भवेत् । यद्यप्यन्नं कुर्वीतेत्यनेनैव तदुक्तं तथाऽपि तद्वतरित्यभिधानादुपासनाझोऽयं नियमविधिरितिबुद्धिनिवारणार्थ स्वात- व्येण पुरुषार्थत्वं दर्शयितुं पुनराह । ननु अन्नं स्वोपभोगायैव संपःयं न त्वन्यस्मै दानाय, प्रमाणाभावात् , इत्यत आह-अराधि । सांसद्धम् । अस्मै गृहे समागतायातिथये । अन्नमदनीयम् । इत्यनेन प्रकारेण स्वभार्यादीन्पति । आचक्षते । कश्चयन्ति । विद्वांसो गृहस्थाः । भनेन गृहस्थसिदि. प्रमाणमन्नदाने कथिता । इदानी दीयमानेऽने देशकालपात्रश्रद्धासत्कारादिसंपत्तिरङ्गमित्येतदर्थं यथा दतं तथैव फलं भवतीत्याह-एतदै प्रसिद्धम् । मुखतो मुखे मुख्ये देशे काले पात्रे च मुख्यया मदाप्रणिपातसत्कारादिरूपया वृत्या मुख्यमनमदनीयम् । राद्धं ससिद्ध दसमित्यर्थः । यदि तदा मुखतो मुख्ये देशे काले मुख्यया वृत्या मुख्यं मुख्याय । अस्मा अन्नस्य दात्रे । अन्नमदनीयम् । राध्यते । संसिद्धं भवति । एतद्वै मध्यतोऽन्न राधम् । मध्यतोऽस्मा अन्न राध्यते । एतद्वा अन्ततोऽन्न राद्धम् । अन्ततोऽस्मा अन्नर राध्यते । मध्यतो मध्यमदेशे काले पाने च मध्यमया वृत्या मध्यमम् । अन्ततोऽन्ते जघ- म्यदेशे काले पात्रे च जघन्यया वृत्त्या तिरस्कारादिरूपया जघन्यम् । व्याख्यातमन्यत्पर्या- यद्वयेऽपि । यत्र देशे यस्मिन्काले यद्वर्णाश्रमिणे यादृशाचाराय यस्मिन्वयसि वदत्तमन्नम- न्यद्वा दातुरपि तस्मिन्देशे तस्मिन्काले तवर्णाश्रमिणस्तादृशाचारस्य तस्मिन्वयसि साशं तदनमन्यद्वा संपद्यत इत्यर्थः । इदानी यथोक्तविशेषणविशिष्टस्य दाने यत्फलमुत्कृष्टं सदेव तहानज्ञानेऽपीत्याह-योऽन- दानस्य फलाभिज्ञः । एवमुक्तेन प्रकारेण । वेदानदानफलमुत्तममुपास्ते । सोऽपि मुख्य- (ख) तोऽनं लभत इति शेषः । तस्मान्मुखतोऽनं देयमिति संदर्भार्थः । एवमन्नमाणमनोविज्ञा- नानां कार्यरूपेण केनचित्कारणरूपेण चौपासनान्युक्त्रेदानीमानन्दस्य ब्रह्मण उपासना. न्याह-क्षेम प्राप्तस्य रक्षणम् । इत्यनेन प्रकारेण । वाचि वागिन्द्रिये मदीया वाग्ब्रह्म- रूपेत्युपासीत । तदुपासनाच क्षेमरूपं फलमिति तात्पर्यार्थः । अत्र क्रियापदादर्शन उपा. सीतेत्यध्याहारः । फलादर्शने च गुणानुरूपं फलमिति सर्वत्रावगन्तव्यम् । । योगक्षेमः, अप्राप्तस्य प्राप्तिर्हि योगः, प्राप्तस्य परिरक्षणं क्षेमः । तदुभयरूप १ ख. गृहस । २ ख. प्राह्मणाः । ३ ख. हस्थान्यानि प्रमा'। ४ ख. कषितम् । ५ ख, मुख्यायास्मा अमदावेऽम । ६ ख. वाक्षेमाझ । २१ ११२ अंकरानन्दकता [भृगुवत्पन्पाये, १० १.] आनन्दो पोगक्षेमः । इत्यनेन प्रकारेण | प्राणापानयोः स्पष्टम् । कर्म व्यापाररूपं प्रम। इत्यनेन प्रकारण । हस्तयोः स्पष्टम् । गतिर्गमनन्यापाररूपं ब्रह्म । इत्यनेन प्रकारेण । पादयोः स्पष्टन् । विमुक्तिर्मलविमोचनव्यापार ब्रह्म । इत्यनेन प्रकारेण । पायो गुदेन्द्रिये । इत्यध्यात्मोपासनासमाप्त्यर्थः । मानुपीमनुष्यसंबन्धिनीः । समानाः सम्य- गाहा उपासनाः । जानीयादिति शेषः । अय मानुष्युपासनाकथनसमनन्तरम् । देवीर्देवसंबन्धिनीः । समाहा इत्यनुषतः । कथयामीति शेषः । तृप्तिब्रह्माशनपानजा तुष्टिः । इत्यनेन प्रकारेण । वृष्टी' वर्षकरकासु मेघोदरान्निर्गतामु नीरधारासु । वलं ब्रह्मभूयसामप्यभिभवकारणं सत्त्वम् । इत्यनेन प्रकारेण । विद्युत्यचिरप्रभायाम् । यशः कीर्तिरूपं ब्रह्म । इत्यनेन प्रकारेण । पशुषु गवादिषु । क्योतिः प्रकाशरूपं ब्रह्म । इत्यनेन प्रकारेण । नक्षत्रे डयु । प्रजातिझ प्रजननरूपम्। अमृतं ब्रह्म प्रियालिङ्गनदर्शनादिरूपं मैथुनं क्षुद्रसुखरूपम् । आनन्दो ब्रह्म मैथुनक्रिया- निवृ()त्तिजं सुखं पुत्रफलम् । इत्यनेन प्रकारेण । उपस्य उपस्थेन्द्रिये । सर्व निखिल- मानाशादिवाकायजातं ब्रह्म । इत्यनेन प्रकारेण । आकाशे भूताकाशेऽव्याकृते वा । तद्ब्रह्म । प्रतिष्ठा प्रतितिष्ठस्यस्मिन्कार्यकारणजातमिति प्रतिष्टा सर्वागर इत्यर्थः । इत्यनेन प्रकारेण। उपासीतोपासनं कुर्यात् । - तत्र फलमाह-प्रतिष्ठावानाधारवान्भवति स्पष्टम् । तन्मई इत्युपासीत । महान्भवति । महो व्याहतिरूपं तेजो वा । महान्सर्वस्मादन्यधिकः । व्याख्यातमन्यत् । तन्मन इत्युपासीत । मानवान्भवति । मनः संकल्पविकल्यात्मकम् । मानोऽभिमानो मननं वा तद्दान् । अभिमानपक्षेऽखण्डिताभिमान इत्यर्थः । व्याख्यातमन्यत् । तन्नम इत्यु- पासीत । नमो नमनगुणवत् । च्यायातमन्यत् । तत्र फलमाह-नम्यन्ते नता भवन्ति प्राप्नुवन्तीत्यर्थः । अस्म ब्रह्म नम इत्युपास- काय । कामाः : कामनाविषयाः पुत्रादयः । तद्ब्रह्मेत्युपासीत । ब्रह्मवान्भवति । ब्रह्म परिदृढं - वेदरूपं वा । तद्वान्ब्रह्मवान् । पारदपक्षे स्वयं परिदृढो मवतीत्यर्यः । व्यास्त्यातमन्यत् । तद्ब्रह्म ब्रह्मणोऽसङ्गोदासीनस्य । परिमरः परित्रियन्ते विद्युत्- वृष्टिचन्द्रमा आदित्योऽग्नी रश्मिरिति वायुः परिमरस्तजनक आकाशोऽपि परिमरः अथवा सर्वविनाशकः कालः परिमरः । ब्रह्मणा संबद्धश्च स इत्याकाशः । परिम- रगुणविशिष्टः काल एंव, वा । सर्वोपसंहारकार्ये । इति, अनेन प्रकारेण । उपासी- तोपासनं कुर्यात् । पर्येणं सर्वत उपासकं नियन्ते विनश्यन्ति । द्विषन्तो देयं 1 १ स. वोधिस्मिन्निति।

- . [ भृगुवल्ल्यध्याये, अ० १०] तैत्तिरीयोपनिषद्दीपिका। १६३. कुर्वन्तः । सपत्नाः कामादयो बाह्या वा वैरिणः। सपनीमातृजा वा । स्वस्य प्रिया अप्यसाधुत्वादज्ञानाद्वा । परि सर्वतः । ये प्रसिद्धाः । अप्रियाः कर्णनेत्रमनादाहकाः । स्वस्य भ्रातृव्या वैरिणो द्विषन्तोऽपि, अयमस्माकं वैरी, अस्यानिष्टमस्माभिः कर णीयमित्युपासके संकल्पयन्त उपासको वैते मयि रिण इति संकल्पं करोति येषु बैर- मकुर्वाणष्वपि ते सर्वे विनश्यन्तीत्यर्थः । एवमानन्दे ब्रह्मण्युपासनान्युक्त्वेदानी स्थिरचेतसमधिकारिणमुपलभ्य पूर्ववल्लयुक्त- भेवाधिदेवादिभेदरहितमानन्दात्मानमाह-स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः । स य एवं वित् । अस्माल्लोकात्मेत्य । एतमन्नमयमात्मानमुपसं- क्रम्य । एतं प्राणमयमात्मानमुपसंक्रम्य । एतं मनोमयमात्मानमुपसंक्रम्य । एतं विज्ञानमयमात्मानमुपसंक्रम्य । एतमानन्दमयमात्मानमुपसंक्रम्य । व्याख्यातं पूर्ववल्लयाम् । इयांस्तु विशेषः-पूर्व विदेहकैवल्यस्याभिधानात्पञ्चकोशेषु लटः प्रयोगः । इदानीं तु जीवन्मुक्तेरभिधानात्तेष्वेव ल्यपः प्रयोगः । इमान्भूरादील्लोकान्कर्मफलभूतान् । कामानी कामं यथाभिलाषमन्नमदनीयम- स्यास्तीति कामानी । कामरूपी कामं यथाभिलाष रूपमस्यास्तीति कामरूपी । अनु; संचरनात्मसाक्षात्कारमनु, इमॉल्लोकान्सम्यक्चरन्पर्यटन्मानुषेण शरीरेणाऽऽधिकारिकेण चा । एतद्वक्ष्यमाणं लोकानुग्रह थम् । साम समत्वप्रतिपादकं वचनं संसारशूलार्वि- तान्प्राणिनो निरीक्ष्य भृशं करुणाक्रान्तमना गायन्नत्युन्नताशब्दान्कुर्वन् । दग्धपटन्यायेन *शरीरं गृहीत्वाऽऽस्ते तिष्ठति । अतः संगच्छत हे जना मा संसारशूले पततेति श्रुतेः करुणावत्या मातुरिवाभिमायः। हा३७ । हा३७ । हा३७ । लोकत्रयीस्थान्संबोधयति वचनत्रयेण । अहो अहो अहो इति प्लुतिः पदत्रयेऽप्योश्चर्यार्था । अहम्, आनन्दात्माऽ: सङ्गोदासीनोऽनाद्यनिर्वाच्याविद्यया । अन्नमदनीयमुपभोग्यमित्यर्थः । इदं भुलॊकस्थान्प्रति । अहमनमहमन्नं व्याख्यातम् । अन्तरिक्षस्वर्लोकस्थान्प्रति वचनद्वयम् । अहं व्याख्यातम् । अन्नादोऽन्नमत्तीत्यन्नादो भोक्ता । इदं भू.कस्थान्पत्तिः । अहमन्नादोऽ३हमन्नादः, व्याख्यातम् । इदमन्तरिक्षस्वर्लोकद्वयस्थान्प्रति । इदानीं कीर्तिकारित्वमपि स्वस्यैवेति लोकत्रयीस्थान्प्रति पूर्ववत्कथयति-अहः५ * यथा दग्धोऽपि पटः किंचित्कालपर्यन्तं स्वाकारं न जहाति तथा ज्ञानामिदग्धमा वास- नामयण नष्टमपि शरीरं धृत्वा करुणाकान्तो गायनास्त इति भावः। १ क. य. अनि सा | २ क ग. नपवणः । अ।

- - १६४ शंकरानन्दकृता [ भृगुवल्यध्याये, अ०१०] श्लोकदह श्लोककृदहर श्लोककृत् । श्लोकः कीर्तिस्तां करोतीति श्लोककृत् । व्याख्यातमन्यत् । पूर्व वाक्यत्रयेण संवोधननान्नान्नादश्लोककृत्वमात्मन उकवा लोक- त्रयी प्रति विभागेन कार्यकारणरूपत्वमात्मन आह-अहमानन्दात्मा । अस्मि भवामि । प्रथमजाः प्रथमजो हिरण्यगर्भ इत्यर्थः । ऋता३स्य, अतस्य मूर्तामूर्तात्मकस्य सत्यस्य प्रपञ्चस्य कर्ता प्रथमत इत्यर्थः । ऋता इति प्लुतिराश्चर्यार्थी । ननु-संसारात्पूर्व देवाः प्रसिद्धा इत्यत आह-पूर्व प्रथमः । देवेभ्यो विराडवय- बभूतेभ्योऽग्न्यादिभ्यः । अमृतस्यामरणधर्मिणो वेदस्य । ना३भायि नाभिर्मव्यं वेदर- हस्यमित्यर्थः । अत्रापि नकारे प्लुतिराश्चर्या । कार्यकारणहीनोऽसङ्गोदासीनोऽहं वेदगर्भ इत्येवंरूप इति योऽनस्य दाताऽऽमनो वा सर्वाभिन्नस्य तत्वमसीत्यादिवाक्येभ्यो दाता क्षुधार्तेभ्यः संसारतापतप्तेभ्यो वा । मा माम् । अन्नमानन्दात्मरूपं वा ददाति प्रयच्छति । स उक्तो दाता । इदित्यं दानं कुर्वन् । एवमनेन दानेन । आश्वा, अवोऽवतीत्यर्थः । अकारप्लुतिराश्चर्यार्था । मां सर्वाभिन्नमपि रक्षयतीति । ननु-अन्ने दीयमाने कथं भवान्दत्त इत्यत आह-अहमन्नं व्याख्यातम् । ननु- अन्नस्य दानेनाऽऽत्मनो वा त्वद्रक्षणजे सुकृतं भवतु दातर्थस्य तु तस्मिन्नाभिलापः स तु त्यामन्नमात्मानं वा परस्मै मा प्रयच्छतु । भक्षयतु स्वयं काममन्नं कोऽस्यानर्थ इत्यत आइ-~अन्नमदनीयं मां तद्रूपमात्मानं वाऽदत्त्वा । अदन्तं भक्षयन्तम् । आइभि, अभि भक्षयाम्यन्नभक्षकम् । अकारे प्लुतिराश्चर्यार्था । सर्वाभिन्नोऽप्येवं भक्षयामीति । ननु- यथा त्वमेनं मक्षयसि तथा त्यामप्यन्यः । यथा मण्डूकः क्षुद्रं जीवं तं सर्पः म मकरो विश्वस्य विचि शक्तिभूताक्रान्तत्वात्ततो न भवतः प्राप्तिः पुरुषार्थ इत्यत आह-अहमानन्दात्मा विश्वं निखिलं भुवनं भवन्त्यस्मिन्भूतानीति भवनं भवनमेव भुवनम् । अविद्या तत्कार्यतत्संस्कारजातं कार्यकारणरूपमित्यर्थः । अभ्यभवामभ्य- भवं स्वकीयेनाऽऽनन्दात्मरूपेण देशकालवस्तुपारच्छेदशन्येन चरमवृत्तिसाक्षात्कारविपयेण निस्विलमिदमात्मरूपकारणेन परिभवामि । अतो न मम कश्चन भक्षकः कित्वमेव सर्वस्य ततो न मत्प्राप्तिरपुरुषार्थ इत्यर्थः । ननु-सर्वाभेदेऽन्येभ्यः कस्वैय्यतिशय इत्यत आहे-सुवर्न, मुवर्णस्तत्समानवर्ण आदित्य इव मुवर्णः । ज्योतीयोतिः प्रकाशः स्वयंप्रकाशानन्दरूपोऽहं ततो मध्य- तिशय इत्यर्थः । इदानीं श्रुतिराह-योऽधिकारी । एवमुक्तप्रकारमानन्दात्मानम् । १ क. मग इ। २ ग्व. °मन्व: । ३ क. ग. स्त्पति । १ ख. 'इ-सुवर्णस्त । ५ ख. समस्यति । । - -- -- { भृगुवल्स्पध्याये, भ. १०] तैत्तिरीयोपनिषद्दीपिका। १६५ वेद जानाति साक्षात्करोतीत्यर्थः । सोऽपीमाल्लोकानित्यादिनोक्तं फलं प्राप्नोतीत्यभिप्रायः । इत्युपनिषत् । व्याख्यातं पूर्ववल्ल्याम् ।। इति भीमत्परमहंसपरिवाजकाचार्यमीमच्छंकरानन्दविरचितार्या पदार्थमोधिम्यां तैत्ति- रीयोपनिषद्दीपिकायां भृगुवलयध्याये दशमोऽनुवाकः ॥ १० ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदानन्दात्मपूज्यपादशिष्यस्य श्रीशंकरानन्दभगवतः कृतौ तैत्तिरीयोपनिषद्दीपिकायां तृतीयो भृगुवल्ल्यध्यायः समाप्तः ॥३॥ समाप्तेयं शंकरानन्दी तैत्तिरीयोपनिषद्दीपिका । ३

No text on this page.

[४] .. ह ४ ८ ८ २ ८ ३ . १ ८ ९ 20 or ... १ . .... .... ८९ काव्यप्रकाश:- संकेताख्यटीकासमेतः । ९० शाखायनारण्यकम्-ऋग्वेदान्तर्गतवाप्कलशाखीयम् । ९ ९१ गौतमप्रणीतन्यायसूत्राणि-भाष्यवृत्तिम्यां समेतानि । ९२ श्रीमद्भगवद्गीता-सटीकरामानुजभाष्ययुता । ९३ दर्शपूर्णमासप्रकाश:- श्रीवामनशास्त्रिकृतः प्रथमो मागः । .... १२ ९४ संस्कारपद्धतिः-~-अभ्यंकरोपाहृभास्करशास्त्रिविरचिता । ९५ काश्यपशिल्पम्-महेश्वरोपदिष्टम् । ... ९६ करणकौस्तुभः-कृष्णदेवज्ञविरचितः । ९७ मीमांसादर्शनम्---सतन्त्रवार्तिकशावरभाष्योपेतं प्रथमो भागः । ९८ धर्मतत्त्वनिर्णयः-अभ्यंकरोपाहवासुदेवशास्त्रिप्रणीतः । श्रीमत्पमपुराणम्- -महापुराणान्तर्गतं चतुर्मागात्मकम् । २० सिद्धान्तदर्शनम् ---महर्पिवेदव्यासप्रणीतं निरञ्जनमाप्ययुतम् । .... आधानपद्धतिः----श्रीवामनशास्त्रिभिः कृता । पश्वालम्भमीमांसा-श्रीवामनशास्त्रिविरचिता। १० शिवभारतम्- कपीन्द्रपरमानन्दविरचितम् । विषयानुसारेण ग्रन्थानां सूचीपत्रम् । विषयः ग्रन्धाङ्कनः २ अलंकारः ६६, ८९. ११ श्रुतिः १-३, ३२, ३६,-३८, र धर्मशास्त्रम् ५५, ५७, ५८, ४२, ६५, ८८,९०. ६०, ६१, ७८, ६ वैद्यकम् ४, १९, २६, २७. ८६, ९८. ३३, ७१, ९ पुराणम् १८, २५, २८, ४१, २ व्याकरणम् ४३, ७२, ४९, ५२, ५४, ६८, ६ श्रीतम् ५३,७४, ८१,८७, ९३, परमपुराणम् । आधानपद्धतिः। ३८ वेदान्तः ५-१७, २०, २१, २३, १३ संकीर्णम् २२, २४, ३१, ४७, २९, ३०, ३१, ३४, ५६, ६९, ८५, ९१, ४४, ४५, ५०, ५१, ९५-९७, पश्वालंममी ६२,६३, ६४, ६७, शिवभारतम् । ७५, ७७, ७९, ८०, ५ स्मार्तयाज्ञिकम् ३९, ४०, १९, ८२, ८३, ८४, ६२, ७३, ९४. सिद्धान्तदर्शनम् । ३ स्मृतिः विषयः ग्रन्थाङ्कार 9 - १६, ४८, - - आनन्दाश्रममुद्रणालयमुदितग्रन्थावल्या अकारादिवर्णानुक्रमेण ग्रन्थाङ्केन मूल्याङ्केन च सहितं सूचीपत्रम् । आ. रू० ५ २ ३ ४ २० ४ ९ . 1 १ ३ प्रन्याङ्क: मूल्यम् ग्रन्थाङ्कः मूल्यम् आ० ११ अग्निपुराणम् ४ ७९ छाग्दोग्योप० [मिताक्षरा०२ ८७ अग्निहोत्रचन्द्रिका १४ | २० जीवन्मुक्तिविवेकः १२. ८४ अद्वेतामोदः २ २४ जैमिनीयन्यायमालाविस्तरः। ५७ आचारभूषणम् ६९ ज्ञानार्णवतन्त्रम् ५८ आचारेन्दुः ८५ ज्योतिर्निबन्धः आघानपद्धतिः १५ १४ ३७ तैत्तिरीयब्राह्मणम् १४ ८ ८१ आश्वलायनश्रौतसूत्रम् ११ १२ ईशकेनकठाद्युप ० (रामा.)२ ४२ तैत्तिरीयसंहिता ८ १० ७६ ईशकेनकठोपनिषदः, ३६ तैत्तिरीयारण्यकम् ५ ईशावास्योपनिषद् १४ १२ तैत्तिरीयोपनिषद् १२ २९ उपनिषदां समुच्चयः १ १२ १३ तैत्तिरीयोपनिषद्भाष्यवाति २ .२ ३२ ऐतरेयब्राह्मणम् १० १० ७८ त्रिस्थलीसेतुः १२ ३८ ऐतरेयारण्यकम् ९३-१ दर्शपूर्णमासप्रकाशः ६ १२ ११ ऐतरेयोपनिषद् ४ ७४ द्राह्यायणगृह्यसूत्रवृत्तिः ९६ करणकौस्तुभः ९ ३३ धन्वन्तरीयनिघण्टु रा ० स० ७ काठकोपनिपद् ९८ धर्मतत्त्वनिर्णयः e ६६ काव्यप्रकाशः ५६ नित्यापोडशिकार्णवः ८ ८९ काव्यप्रकाशः ८८ निरुक्तम् (मा०१-२) १६ ९५ काश्यपशिल्पम् १२ ६ केनोपनिषद ३० नृसिहपूर्वोत्तरतापनीयो० १ ५२ गणेशगीता ९१ न्यायसूत्राणि । १ गणेशाथर्वशीर्षम् पद्मपुराणम् २० ७३ गायत्रीपुरश्चरणपद्धतिः १ पश्वालम्मीमांसा १० ६१ गौतमसूत्रम् ७२ परिभापेन्दुशेखरः ११ छान्दोग्योपनिषद् (शां०) ४७ पातञ्जलयोगसूत्राणि ६३ छान्दोग्योपनिषद् (रामा.) ३ १२. ३ पुरुपसूक्तम् ३ . १ or ४ Aur ४ ४ mo १ ४ २ . - cur २ . P 1. २] - मन्थाका मूल्यम् ग्रन्धाङ्क: ४ ८ oC ४ , ao co os १ ६ 10 ९ २ मूल्यम् रू. आ. મા૦ २ रुद्राध्यायः ८. गक्यवृत्तिः ८९ वायुपुराणम् १२ ४ ८६ विधानमाला १२ २७ वृन्दमाधवः ६. १२ ८७७ वेदान्तसूत्रमुक्तावलिः १२ १३ वैयाकरणसिद्धान्तकारिकाः० १२ १२ २३ वैयासकन्यायमालाविस्तरः १ ४ २२ शंकरदिग्विजयः ६५ शाखायनब्राह्मणम् ९० शाखायनारण्यकम् शिवभारतम् २९ श्राद्धमञ्जरी १७ श्वेताश्वतरोपनिषद् ९४ संस्कारपद्धतिः । ८ '८३ संक्षेपशारीरकम् ३५ संगीतरत्नाकरः १० ४ ५३ सत्याषाढश्रौतसूत्रम् २४ ५१ सर्वदर्शनसंग्रहः ४० संध्यामाध्यसमुच्चयः १२ ८ ३९ संस्काररत्नमाला १२. १० सिद्धान्तदर्शनम् ।१ १२ २५ सूतसंहिता ११ ४ | १८ सौरपुराणम् '३ ४८ स्मृतीनां समुच्चयः ५' स्मृत्यर्थसारः १ - १० १२ २६ हस्त्यायुर्वेदः ५५ पुरुषार्थचिन्तामणिः ८ प्रश्नोपनिषद १५ वृहदारण्यकोपनिषद् ६४ (रामानुमटी०)३ ३१ , (मिताक्षरा) . २ १६ बृहदारण्यकोपनिषद्भा ०२२ ७१ बृहद्योगतरङ्गिणी १० ६८ बृहहह्मसंहिता २८ ब्रह्मपुराण २१ ब्रह्मसूत्राणि (शां०) १२ ब्रह्मामृतवर्षिणी- दीपिकासमेतानि (२ ब्रह्मसूत्रवृत्तिः ३४ भगवद्गीता (शां०) (सटीक शां०), ४४ , (पैशाचभाष्य०) १ ४५ " (मधुसूदन श्रीधरीटी०५ ९२ (रामानुजीया ) ७५ भाष्यार्थरत्नमाला ५४ मत्स्यपुराणम् १० माण्डूक्योपनिषद् ९७ मीमांसादर्शनम् ९.मुण्डकोपनिषद् ६. यतिधर्मसंग्रहः ५० यतीन्द्रमतदीपिका ४६ याज्ञवल्क्यस्मृतिः ४ योगरत्नाकरः १९ रसरत्नसमुच्चयः ० २ २ ६ ४ " १ ७ . ५ ४ ५ - M ७ ४ . ५ ७० ३ ७

Tatriyopnist

Author
Aapte, Vinayak Ganesh
Title
Tatriyopnist
File name
Tatriyopnist
Text
OCR done
Citation
1844
Published
2010/06
Publisher
Punne, Aanadsharm Press.
Language
Sanskrit
Pages
174
Library
Central Library, University Of Rajasthan
DLI number
325583
Barcode
99999990003471.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
8w7n9BiaWxA
Download PDF

Tatriyopnist