Asr,melkote

Tarka Sangraha With Suka Praveshini Commentary

Annama~ Bhat't'a · 2004/11/22

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

॥ श्रीः ।
श्रीमदन्नम्भदृविरचितः
तर्कसंगहः॥
तस्य व्याख्याच
सुखप्रवेशिनी ॥
तर्णिवन शिरोमणिना
(उत्तमूर् )
ति. वीरराघवाचार्येण
विरचिता
श्रीतञ्जापुरसन्निकृष्टपञ्चनदस्खे
श्रीनिवासमुद्रणालये
मुद्रौ।
मूल्यम्]
1934
[रू १-०-०
उन

No text on this page.

भमिका॥ एकः-सखे सुन्दर ! क्षोदक्षम सार्वभौमं ते पाण्डित्यमिति सन्तुष्यामि । अन्यः—कि भोः परिहासेन ? अधीतप्रायेऽपि तर्कशास्त्र सन्ति शास्त्रान्त- राणि सामग्रयेणाधिगन्तव्यानि, येषु मे सम्प्रति खल्प एव परिचयः । एक: -प्रकरणग्रन्थाः परिचिताः । इतस्ते कस्तत्र श्रमः । अस्माकं पुनर- धीतमप्यनधीततुल्यम् । अन्यः-कथमेवमेकपदे सर्वथा जाज्यमभिनयसि । एक:-नायमभिनयः; यदस्ति तदुच्यते । यदि पुनर्नाटकादिपठनमेव नः कृत्यमविष्यत् , नूनमयं क्लेशो न व्यज्ञास्यत । अलङ्कारग्रन्थाः पुना रसगङ्गाधरप्रभृतयः परीक्षार्थे परिक्लप्तास्तर्कपद्धतिपरिष्कृता न बुद्धिमा. रोहन्ति ; न पठितुं शक्यन्ते । परः-सत्यमाह मित्रम् । विनैव काव्यानुवचनं सदा शास्त्रग्रन्थानेवाऽऽव- तयतामपि प्रक्रियाभाग एव नः पाण्डित्यम् । मञ्जूषाभूषणसाराद- यस्तु तर्कसरणिमनुसरन्तः प्रायो दुरवगाहाः । का कथा व्युत्पत्तिवाद- विज्ञाने । अन्यः-ईदृशः श्रमो मीमांसाध्यायिनां न भवेदित्यालोचयामि । अपरः--वस्तुतस्तर्कशास्त्र कियानपि प्रवेशो नःप्रवेशपरीक्षासमय एवावश्यकः। अन्यथा मीमांसापठनेऽप्यार्हन्ती न गण्यते । एवमप्यादरेणापठनादल्प- मत्र ज्ञानं न भादृदीपिकादौ तर्कविद्विरचिते धारणप्रवचनपर्यन्तविधा- नाय प्रभवति । न तरी भ्राट्टरहस्से ।

VI अन्यः-(इतरमवलोक्य) सखे ! किमेवमवनतमुखो जोषमासीनो ध्यानपर इव लक्ष्यसे । इतरः-किं ब्रह्म ध्यायामि । सुहृन्मणयो हृदयमुद्घाट्य शोचन्ति । अहं पुनरन्तर्विषण्णोऽस्मि । किं मे वक्तव्यमस्ति । एकतो मीमांसान्यायमेदु- रेषु यत्र कचियाकरणस्पर्शिषु विशेषतस्तकनिकरपरिबृमितेषु सिद्धिब्रह्मा- नन्दीयशतदूषणीन्यायसिद्धाञ्जनादिषु कथं नामानधीततर्कः पिपठिषाम- प्यधिगन्तुमलम् । अन्यः-किमेवं सर्वेऽप्येकमुखं भाषन्ते । सुहृन्मणयः ! यावद्यावतर्कशास्त्रग्रन्थे परिज्ञानम् , तावत्ताबच्छास्त्रान्तरेषु सर्वत्र शोधनक्षमं शेमुषीप्रसरणमिति सत्यम् । अथापि मुक्तावलीपर्यन्तप्रकरणग्रन्थः प्रवेशतः प्रागेवाध्याप्यत इति कथं नु व एतावानायासः ? इतरः-अध्याप्यते । अथापि सुखप्रवेशस्तत्र नेति तदात्वे बुद्धेः परिश्रमं दातु- मनिच्छन्तः उपेक्षितवन्तः स्मः । तदिदं साम्प्रतं क्लेशे पर्यवसितम् । परः-तावान्परिश्रमस्तदैव चेत् क्रियते, किमिति तर्ककक्ष्याप्रवेशं परित्यक्ष्या. मः । अधीते हि तर्के पश्चादश्रमेण सर्वमध्येतुं शक्यम् । अपरः-सत्यम् । अयमत्र क्लेशः । तर्कसंग्रहो हि प्रथममधीयते । स चेत् केवलं प्रतिपदार्थमात्रग्रहणेनाधीयते, नोपरि ग्रन्थेषु सुलभः प्रवेशः । अत एव शाब्दबोधपद्धतिमपि तत्राध्यापकाः प्रदर्शयन्ति । यदि तया पद्धत्याऽधीयते, तत्र न सकृच्छवणमात्रेण सर्व बुद्ध्यत इति चिन्तनाs तत्राध्यापकेनोच्यमानमन्यादृशम् । चिन्तनागुरुसर- णिरन्याशी । पुनः प्रश्न पुनरध्यापको बुद्धिबलेनान्यथा वक्ति । तत्र न किञ्चित् प्रतिष्ठितं भवति । एवमशक्त्या तदा विरतोद्योगाः पेक्षिता ।

VII अन्य:- पश्चाद्दीपिकामुक्तावल्यादिषु कथं पदमहन्ति ? सह व्याख्यामेन संग्रह आवर्तनीयः । इतरः-सन्ति परं व्याख्याः । बोधप्रकारः कुत्रापि न सम्यगदर्शि । पहाभि- रामादयस्तु क्वचिबहु बदन्ति । अन्यत्र जोषं गच्छन्ति । अपरत्र स्ख- लन्ति । न वा संपूर्ण बोधवर्णनं व्याख्यान किञ्चिदस्तीति शृणुमः । एक:-श्रतं मया साम्प्रतमेकं व्याख्यानं सुखप्रवेशिनी नाम प्रचारोन्मुखं, यत्रापेक्षितोंशः प्रायः सर्व समस्तीति । आप दृष्टं सुन्दर ! अन्यः---इदमेवाहमप्यावेदयितु प्रवृत्तः । प्रायेण हि प्रौढग्रन्थकारैः सर्व- मपि शास्त्र तर्कशास्त्रीकृतम् । तदस्याः सुखप्रवेशिन्याः सावधानमध्ययने सर्वत्रापेक्षिते सुखः प्रवेशो भवति । तन्मुखेनोत्साहेनाधीतान्यप्रकरण- ग्रन्थानां मीमांसावेदान्तसाहित्यव्याकरणादिषु तत्र तत्र सुखः प्रवेशः । तदिदं व्याख्यानं सुहृद्भिरादरेण ग्राह्यम् । अवश्यं च प्रचार प्रापणी- यम् । सर्वे-अहो ! भाग्यम् ! महान् लाभः ! तथैव कारष्यामः। सर्वमतः सम्पत्स्यते ।

शोधनिका॥ पुट पंक्तिः पुट पंक्ति w " ६ १० एताः सकला ८ प्रवृत्तः आदौ १९ शब्दार्थस्यामे ७२ ९ १८ विभागवाक्य १२ २४ तात्मत्वरूप ७ गन्धोऽस्था अ १८ १६ प्रतियोगिनि चा १९ १८ तावदिति । ७९ २३ च्छीतजल ८० २१ २१ यार्थ आश्र २४ १७ सर्वेषु अपि श ८२ २६ १८ कालवृत्तीत्यर्थः ३० १७ कारे जीवपदेने ३२ १९ सुख ८८ ३९ २०-२१ वभिन्नसंख्या ११ विशिष्टमुद्दिश्य ७ कारणेऽव्याप्ति ८ निष्ठसम्बन्धः ९८ २१ शब्दस्य सं ९९ २२ तविषायताव १०२ ६१ २४ निष्ठश्रोत्र ६८ १८ कं च महानसाधवच्छि- नं वा य २२ विशिष्टमित्य १२ करणम् ८ सतिसप्तमी २३ यश्च न मिथो १ महानसम् ६ यत्प्रकारवि ८ विशेष्यता १० व्याप्यत्वान्य २४ निरूपण ६ नुमानापमानात ४ क्तप्रत्ययेन ११ निर्धारणम् ३ तने पद ३ वैशिष्ट्यज्ञानं २४ स्मृतिरित्यादिना ३ कुञ्चनम् ५सामान्यम् ८ प्रतियोगिनो या १२ नाशेत्यादिव्यं १ श्यित्वं प्रयोजकत्वरूपं चतुर्थ्य

*
॥ श्री: ॥
तर्कसंगहः॥
सुखप्रवेशिनीसमेतः
-
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः॥
सुखप्रवेशिनी॥
श्रीशैलकृष्णमेघाय श्रितसर्वेष्टवर्षिणे ।
अनवधाय कस्मैचिदस्मै श्रीनिधये नमः ॥ १ ॥
नमो लक्ष्मीहयास्याय शुद्धाय ब्रह्मरक्षिणे ।
कलंघिदेवता एता सकला यत्कलाश्रिताः ॥ २ ॥
सन्त्येव संग्रहव्याख्या बढ्यः संक्षिप्तविस्तृताः ।
सुखप्रवेशिनी सेयमुपकाराय भूयसे ॥ ३ ॥
लक्षणादिपरिष्कारा लक्षिता दीपिकादिभिः।
अतोऽत्रावश्यविज्ञेयमादी संगृह्य दयते ॥ ४ ॥
प्रौढग्रन्थेष्वनायासप्रवेशाऽऽधित्सया पुनः ।
प्रायशोऽन विपश्चिद्भिर्योधवादः प्रशस्यते ॥ ५ ॥
प्राज्ञानां बुद्धिवैचित्र्याद्भिन्ना बोधोक्तिपद्धतिः ।
वैयाकुली विसृज्यादौ बालैराद्रियतामियम् ॥ ६ ॥

२ तर्कसंग्रहः । यदि कचन यत्किञ्चिदन्यथतीह भाव्यते । क्रमेण शाध्यतां नाम को न गच्छन् स्खलत्पदः ॥ ७॥ प्रारम्भे संग्रहः पाठ्यो बालैः प्रायेण काव्यवत् । अथेयं टिप्पणी धार्या सुधीभिरनसूयुभिः ॥ ८॥ तत्रभवानन्नमस्तर्कशास्त्रप्रमेयं न्यायवैशेषिकनिष्णातनिपुणमतिनि- धर्धारितं निरूपयितुं प्रवृत्तो यथाचार मङ्गलमारचयन् चिकीर्षितं प्रतिजानीते निधायेति । प्रेक्षावत्प्रवृत्त्युपयोग्यनुबन्धिचतुष्टयमुत्तरार्धे दर्शितम् । बालानामित्यधिकारी । सुखबोधायेति प्रयोजनम् । तर्केति विषयः । संग्रह इति प्रतिपाद्यप्रतिपादकभावः सम्बन्ध इति । अथ शाब्दबोधप्रक्रियावगमसौकर्यायायमत्यल्प उपोद्धातः क्रियते । १. एकैकस्मिन्नपि पदे प्रकृतिप्रत्ययविभागेनाप्यों विवेचनीयः । २. तत्र प्रत्ययस्य सोऽर्थो वक्तव्यः, योऽर्थ उत्तरत्राश्रयतासम्बन्धेनान्वियात्, यस्मि- श्वार्थ प्रकृत्यर्थः प्रायो निरूपितत्वसम्बन्धेन । यथा भूतले घट इत्यत्रा- धेयत्वं सप्तम्यर्थ इत्येवम् । ३. तथा समस्तपदेषु विगृह्यार्थी विवेक्तव्याः। तत्र विग्रहार्थी बुद्धिवैशधमानोपयोगिनस्तत्पुरुषादौ । लक्षणया प्रतिपा- द्यमानः समासार्थ एव शाब्दबोधाकारे प्रविष्टः । यत्र तु समासे न लक्षणा, तत्र विग्रहार्थसमासार्थयोर्न वैलक्षण्यम् । तत्र तत्पुरुषे प्रायः पूर्वपदे लक्षणा । बहुव्रीहौ च पूर्वपदं तात्पर्यग्राहकम् उत्तरपदे लक्षणा । लक्ष्यश्चार्थस्तत्पुरुषे, पूर्वपदस्य विग्रहे प्रत्ययान्तस्य योऽर्थस्तदाश्रयपर्यन्तः । यथा राजपुरुष इत्यत्र राजपदस्य राज्ञः पुरुष इति विग्रहात् राजखत्वाश्रय- पर्यन्तो लक्ष्यः । तस्याभेदसम्बन्धेन पुरुषेऽन्वयः । बहुव्रीहौ च सम- स्तपदस्य यत्पदविशेषणत्वम् , तत्पदार्थेऽभेदान्वययोग्योऽर्थो लक्ष्यः। यथा पीताम्बरो हरिरित्यत्नाम्बरपदस्य पीतरूपवदम्बरविशिष्टोऽर्थः । ४. तथा सुखप्रवेशिनीसमेतः ३ समानाधिकरणप्रयोग विशेषणविभक्तीनामभेद एवार्थः । अथ वा निरर्थकत्व- मेव । अभेदसम्बन्धेन विशेषणस्य विशेष्येऽन्वयः । ५. एवं सर्वत्र प्र- थमान्तपदार्थस्यैव शाब्दबोधे मुख्यविशेष्यत्वम् । क्वचिदेव त्वन्यथा। ६. एवं बोधे सम्बन्धविघया भासमानानामपि बोधाकारलेखने प्रकारविधया प्रद- र्शनं व्युत्पादनसौकर्याय । ७. तथा आधेयता अधिकरणतेत्यादिराधेया- धिकरणादिनिष्ठो धर्मः । तत्राधेयताधिकरणतयोः, प्रतियोगितानुयोगित- योः, विशेष्यताप्रकारतयोः, विशेष्यतासंसर्गतयोः, संसर्गताप्रकारतयोः, प्रका- रताप्रकारितयोः, विशेष्यताविशेष्यितयोः, संसर्गतासंसर्गितयोः, विषयताविष- यितयोः, अवच्छेदकताऽवच्छिन्नतयोरेवञ्जातीययोमिथः सापेक्षधर्मयोनिरूप्य- निरूपकभावः । आधेयतानिरूपिताऽधिकरणता, अधिकरणतानिरूपिता आधेयतेत्येवम् । विशेष्यिताप्रकारितयोः प्रकारितासंसर्गितयोरेवविधयोध- मयोमिथोऽवच्छेद्यावच्छेदकभावः । विशेष्यित्वावच्छिन्ना प्रकारिता, प्रका- रित्वावच्छिन्ना विशेष्यितेत्येवम् । तत्र धर्मयोरेकनिष्ठत्वेऽवच्छेद्यावच्छेदक- भावः, भिन्ननिष्ठत्वे च निरूप्यनिरूपकभावः । विशेष्यित्वं हि ज्ञाननिष्ठं, प्रकारित्वादिकमपि । आधेयन्त्वन्यत् अधिकरणं चतरादिति । एवं यथा- ऽऽधेयतानिरूपिताधिकरणता भवति, तथाऽऽधेयनिरूपिताऽपि । आधेयं चाधिकरणतां प्रति निरूपकम् । एवमधिकरणनिरूपिताऽऽधैयता, आधे- यतानिरूपकमधिकरणम् । एवमन्यत्र । अत्र न परस्परनिरूप्यनिरूपक- भावः । अपि त्वाधेयत्वादिधर्मस्य निरूपितत्वम् । अधिकरणादिपदार्थस्य निरूपकत्वमेवति । ८. एवमाधेयतादीनामुक्तधर्माणां तत्र तत्रावच्छेदक- मपि किञ्चिद्भवति । यद्धर्मपुरस्कारेण वस्तुन्याधेयत्वादिकं गृह्यत, स धर्म- स्तत्राधेयतादाववच्छेदकः । यथा घट ओषय इत्युक्तौ वटत्वपुरस्कारेण घट आधेयता गृह्यत इति घटत्वमोधयतावच्छेदकम् , घटत्वेनावच्छिन्ना ऽऽधेयतेत्यादिकमवहितचित्तैस्तत्र तत्र विज्ञेयमिति ।। .

8 तर्कसंग्रहः। निधायेत्यादि । विश्वस्येश विश्वेशम् । ईशो नियन्ता नियम- नाश्रयः । नियमनमिच्छाविशेषः । षठ्या विषयित्वमर्थः । तत्र वि- श्वपदार्थस्य निरूपितत्वसम्बन्धेनान्वयः । अथ तस्याश्रयतासम्बन्धेन निय- मने । तथा च विश्वनिरूपितविषयिताश्रयनियमनाश्रयमिति विग्रहार्थः । तत्पुरुषसमासत्वाचान पूर्वपदस्य विश्वनिरूपितविषयितावदिति लक्षणया ऽर्थः । विश्वविषयकर्मिति यावत् । तस्याभेदसम्बन्धेन नियमनेऽन्वयः। विश्व- विषयकाभिन्ननियमनाश्रयमिति विशिष्टार्थः । द्वितीयार्थो विशेष्यित्वं नि. धायेति धात्वर्थेऽन्वेति । तस्य निपूर्वकधाधातोराधेयत्वप्रकारकारोपोऽ थः । हृदीति सप्तम्यर्थो निरूपितत्वम् । हृत्पदार्थस्य हृदयस्य निरू- पितत्वसम्बन्धेन निरूपितत्वेऽन्वयः । निरूपितत्वमपि हृदयमादायैव नि- रूपणीयम् । सप्तम्यर्थस्य धात्वथैकदेशे आधेयत्वे । तथा च विश्वेशनि- रूपितविशेष्यित्वाश्रय , हृदयनिरूपितनिरूपितत्वाश्रयाघयत्वप्रकारकारोपति विशिष्टार्थः । अथ वा हृदि निधाय मनसिकृत्य मनोजन्यबुद्धौ विषयी- कृत्य । ज्ञानसामान्यस्य मनोजन्यत्वेऽपि हृदीत्यभिधानं विषयान्तरतो निरु- द्वेन विशुद्धेन मनसोत्पाद्यत्वाभिप्रायेण । अत एव ग्रन्थकारेणैव दोपिका- यां 'तद्धयानपरो भूत्वे' त्युक्तम् । तथा च हृच्छब्दो विषयान्तरासंवलित- चिन्तनरूपज्ञानविशेषलाक्षणिकः निधायेति घाताविषयीकरणं विषय- तानुकूलव्यापारोऽर्थः । निरूपितत्वमेव सप्तम्यर्थः । अस्य विश्वेशमिति द्वितीयार्थाधेयत्वस्य च विषयतायामन्वयः । तथा च विश्वेशनिरूपिताधेयता- श्रय,ज्ञानविशेषनिरूपितनिरूपितत्वाश्रय, विषयतानुकूलव्यापारात विशिष्टार्थः । ल्यप उत्तरकालिकत्वमर्थः । धात्वर्थस्य तत्र निरूपितत्वसम्बन्धेनान्वयः । तस्य च क्रियत इति कृतावाश्रयतासम्बन्धेन । विधाय गुरुवन्दनम् । गुरोर्वन्दनम् गुरुस्वस्मादुत्कृष्ट इति ज्ञा- सुखप्रवेशिनोसमेतः। ५ नानुकूलो व्यापारः । अतो वन्दन खावधिकोत्कृष्टत्वप्रकारकज्ञानानुकूल- व्यापारः । गुरोरिति षठ्यों विशेष्यित्वं वन्दनपदार्थकदेशे ज्ञानेऽन्वति । समासत्वात्तु गुरुपद गुरुविशेष्यके लाक्षणिकम् । तस्याभेदेन ज्ञानऽन्वयः । ये वेतादृशस्थले एकदेशान्वयं न स्वीकुर्वन्ति, तैीदाधरः पञ्चलक्षण्यादि- ग्रन्थः परिशीलनीयः । वन्दनमिति द्वितीयार्थो विषयित्वं विधायेति धा- त्वर्थेऽन्वति । विधानं कृतिः । ल्यवर्थादिकं पूर्ववत् । सुखबोधाय बालानाम् । वालाः प्रकृतज्ञानकामत्वेऽपि क्लेशा- सहिष्णवः । षष्ठ्यर्थः समवेतत्वम् ; बोधान्वयि । मुखेन बोधः सुख- बोधः । तृतीयेति योगविमागाद्वा कर्तृकरणे कृता बहुलम्' इति बहुलग्रहणा- द्वा समासः । यद्वा सुखसाहतो बोधः सुखबोधः। अथ वा सुखो बोधः सुखबोधः । सुखपदमक्लेशविशिष्टपरम् । वाला हि लोके क्लेशसाध्ये कार्य न प्रवर्तेरन् । अतः प्रकृते बोधे क्लेशः पूर्व नापेक्षितः । अक्लेशे स्थित एव बोधः स्वयंभवतीत्युच्यते सुखबोधेत्यनेन । बोधो ज्ञानम् । उद्देश्यित्वं चतुर्थ्यर्थः कृत्यन्वयि । क्रियत इत्यत्र यकः कर्मत्वं प्रकृते विषयत्वमर्थः । कृतस्तत्रान्वयः । तस्य च तर्कसंग्रहपदार्थे । कर्ताकांक्षायां मयेत्यध्या- हार्यम् । अयमस्मच्छब्दोऽन्नम्भट्टार्थकः । समवेतत्वं तृतीयार्थः कृय- न्वयि । तर्कसंग्रहपदस्य तय॑न्ते प्रतिपाद्यन्त इति तीः पदात्तिषां संग्रहः संक्षेपेण कथनम् संकुचितज्ञानजनकशब्दप्रयोगः । तथा च तर्क- विषयकाभिन्नसंकुचितज्ञानजनकशब्दप्रयोग इति विशिष्टार्थः । तर्कपदस्य हि तर्कविषयके लक्षणा; तस्य च ज्ञानेऽभेदेनान्वय इति । एवंरूपत्वा- देवास्य ग्रन्थस्य तर्कसंग्रह इति नाम । अत्र चेदं पदं ग्रन्थकृत्सङ्केतवशा- द्योगरूढ्या विलक्षणानुपूर्वीप्रकृतग्रन्थपरम् । तथा चायमखण्डवाक्यार्थबोध:-विश्वविषयकाभिन्ननियमनाश्रयनि- तर्फसंग्रहः । द्रव्यगुणकर्मसामान्य विशेषसमवायाभावाः सत पदार्थाः । रूपिताधेयताश्रय, ज्ञान विशेषनिरूपितनिरूपितत्वाश्रय, विषयत्वानुकूलव्या- पारनिरूपितोत्तरकालिकत्वाश्रय, गुरुविशेष्यकाभिन्न- खावधिकोत्कर्षप्रकारक- ज्ञानानुकूलव्यापारनिरूपितविषयित्वाश्रयकृतिनिरूपितोत्तरकालिकत्वाश्रय, क्के- सासहिष्णु (प्रकृतज्ञानकाम) निरूपितसमवेतत्वाश्रयाक्लेशविशिष्टाभिन्नज्ञान- निरूपितोद्देश्यित्वाश्रय, (अन्नम्भट्टनिरूपितसमवेतत्वाश्रय) कृतिनिरूपित- विषयत्वाश्रयस्तर्कसंग्रहग्रन्थ इति । एवं पदार्थानां संग्रहे प्रवृत्ते आदौ तान् सप्तधा विभजते द्रव्येति । ननु 'सामान्यवचनं पूर्व विशेषस्य ततः पर' मिति न्यायात् पदार्थसामान्य- लक्षणं प्रागभिधाय पश्चाद्विभागवचनमेव युक्तम् । न हि पशुखरूपमेवा- जानतः कतिविधः पशुरिति जिज्ञासा सम्भवति । अतो विभाग- जिज्ञासाभावात् तद्वचनं न युक्तमिति चेत् सत्यम् ; तथाऽपि तर्कसंग्रह इत्यत्र तर्कपदार्थपरिशीलनेन तय॑माणत्वं प्रतिपाद्यमानत्वमित्येवरूपं वा तर्कसंग्रहः क्रियत इति वाक्यश्रवणेन प्रकृतग्रन्थप्रतिपाद्यमानत्वरूपं वा सामान्य गृहीतमासीदिति विभागवचनं युक्तम् । यद्यप्युत्तरत्र द्रव्या- दिविभागस्शले कथं सामान्यलक्षणमनभिधाय तद्वचनमिति शङ्कायामियं परिहारगमनिका न भविष्यति ; तथाऽपि द्रव्यगुणकर्मेत्येवमाप्तेन प्रयुक्त- त्वात् द्रव्यादिपदस्य प्रवृत्तिनिमित्तमितरव्यावृत्तं किमपि किमपि स्यादे- वेत्येवं शिष्यस्य ज्ञानसम्भवात् तथाभूतसामान्यधर्मज्ञानमेव विभागवचने पर्याप्तम् । अन्यादृशलक्षणं तु यावत् लक्ष्येयत्ताज्ञानं न भवति तावत् न शक्यं सम्यग्ज्ञातुमित्यभिप्रेत्य विभागारम्भ इति द्रष्टव्यम् । पदार्था इति । पदस्य अर्थः पदार्थः अर्थोऽभिधाविषयः शक्तिविषयः । विग्रहे पदस्येति षष्ठ्यर्थ आधेयत्वं शक्तावन्वति । केन सम्बन्धेनाधेयत्वमिति त्वन्य- सुखप्रवेशिनीसमेतः । त् । समासे च पदशब्दस्य पदगतेति लक्षणयाऽर्थः पदगताभिन्नशक्तिविष- य इति पदार्थशब्दार्थः । पदाथाः पदगतशक्तिविषयाः, वाच्या इति या. वदित्यलम् । अत्र केचिदित्थं बोधं वर्णयन्ति । द्रव्यादिपदानि द्रव्यत्वादिपराणि । सप्तत्यस्य सप्तविधाः सप्तविभाजकधर्मवन्त इत्यर्थः । विभाजकधर्मेत्यत्र द्रव्य- त्वादीनामभेदेनान्वयः । सप्तेति विभक्त्यर्थश्चाभेद एव । तथा च पदा- थी द्रव्यत्वगुणत्वकर्मत्वसामान्यत्वविशेषत्वसमवायत्वाभावत्वाभिन्नसप्तविभान- कधर्मवदभिन्ना इति । नैतद्यक्तम् ; द्रव्यादिपदानां लक्षणाकल्पनस्य क्लि- टत्वात् । एवं लक्षणयार्थबोधनमपेक्ष्य शक्त्या तद्बोधनस्य न्याध्यतया, द्रव्य- त्वगुणत्व.... ....भावत्वानि सप्तपदार्था इति यदि प्रयोगः क्रियेत, स सा- धुः स्यात् । यद्यप्येवमापत्ति केचित् स्थलान्तरे खयमेवोद्भाव्य, विभागवा. क्येषु धर्मिवाचकधमलाक्षणिकशब्दप्रयोगे सत्येव बोधोऽन्यथा नेति नियमः कल्प्यत इति समादधुः ; अथापि नावचकं प्रयोक्तव्यमिति न्यायविरुद्धं लाक्षणिकमेव प्रयोक्तव्यमिति नियमकल्पन न हृदयङ्गमम् । अतो द्रव्यादि- पदे लक्षणाङ्गीकारे सप्तपदे लक्षणां विनैव पदार्था इत्यस्य पदार्थविभाजक. धर्मा इत्यर्थं स्वीकृत्य द्रव्यत्वाद्यभिन्नाः सप्त पदार्थविभाजकधर्मा इति बोधव- णनमितः साधीयः। अन्ये पुनः, इति सप्त पदार्थी इति इतिशब्दमध्याहृत्य सप्तपदस्य सप्तविधार्थकतया तद्धटकविधापदार्थविभाजकघर्मेष्वितिशब्दस्याभेदेनान्वयः। इतिशब्दार्थः प्रकारः, द्रव्यादिपदयथाश्रुतार्थस्य चेतिशब्दार्थे आधेयतास- म्बन्धेन । द्रव्यादिवृत्तिप्रकारश्च द्रव्यत्वादिरूप. इति सम्भवत्यभेदः । तथा च द्रव्यादिनिष्ठप्रकाराभिन्नसप्तविभाजकधर्मवदभिन्नाः पदार्था इति बोधं मन्यन्ते । तदपि न रुचिरम् ; इतिशब्दार्थस्य प्रकारस्योत्तरपदार्थेऽभेदेना- i ८ तर्कसंग्रहः। न्वयस्यादर्शनात् । घट इति द्रव्यमिति हि प्रयुज्यते, न पुनघट इति जा- तिरिति । तत्र च घटनिष्ठप्रकारविशिष्टं द्रव्यमिति बोधः । उक्तं च कैश्चिदन्यत्र 'अव्ययनिपातातिरिक्तनामार्थस्यैव नामार्थेऽभेदसम्बन्धनान्वयस्य व्युत्पत्तिासद्धत्वा' दिति । अतो यदि इतिशब्दाध्याहारः , तहीतिशब्दस्य हतुपरतया प्रयोज्यत्वमर्थमङ्गीकृत्य द्रव्यगुणकाद्यभेदप्रयोज्यसप्तविधत्वविशि- ष्टाभिन्नाः पदार्था इत्यवञ्जातीयकबोधस्वीकारः श्रयान् । किञ्चैवं 'द्रव्यगुण- कर्मसामान्यावशेषसमवायानां षण्णां पदार्थाना' मिति कणादसूत्रभाष्य कथं बाधः । न हि ततिशव्दाध्याहारः सम्भवति । समवायानामित्यस्या- प्रथमान्तत्वात् । तत्र पदार्थानामित्यत्रैवाभेदसम्बन्धेनान्वय इति चेत् अ- लापि तथैवास्तु, अविशेषात् । अध्याहारं विनैवोपपत्तौ तस्यायुक्तत्वाच्च । ननु पदार्थानां सप्तत्वपर्याप्तयधिकरणत्वं न सम्भवति, तेषामनन्त- त्वात् । अतः सप्तपदस्य सप्तविघा इत्येवार्थः । तत्र च विधेत्यनेन केषां विभाजकधर्माणां ग्रहणामिति जिज्ञासायां द्रव्यत्वादिरूपधर्माणामिति लाभार्थ द्रव्यगुणति पदं प्रयुक्तम् । तदत्र यदि तत्पदार्थस्य विधेत्यत्रान्वयो न स्वीक्रियते कथं तर्हि जिज्ञासाशान्तिरिति चेत् ; पदार्थानामनन्तत्वादन्वया- सम्भवात, सप्तपदस्य सप्तविधा इत्यर्थः कामं स्वीक्रियताम् । अथापि न द्रव्यगुणेऽति द्रव्यत्वगुणत्वादिपरत्वं, किं तु यथाश्रुतार्थकत्वमेव । तस्य च पदार्थशब्दार्थ एवान्वयः, न सप्तपदार्थकदेशे । तथाच द्रव्यत्वादिविशिष्टा- भिन्नाः सप्तविघामिन्नाः पदार्थी इत्येव बोधः । एवञ्च अरुणयकहायन्या सोमं क्रीणाती'त्यत्रारुणापदार्थ एकहायनीपदार्थश्च पृथक्पृथक्रियायामेवान्वे. तीति वादिनां मते अरुणया क्रीणाति, एकहायन्या क्रीणातीत्येवार्थलाभात् या एकहायनी सैवारुणति कथं ज्ञायते अरुणापदेनान्यस्यापि ग्रहणसंभवादिति शङ्कायां यथा अरुणयैकहायन्या क्रीणातीत्येकवाक्योपादानबलात्सन्निहितै- सुखप्रवेशिनीसमेतः । कहायन्या एवारुण्यमिति बुद्धयत इति निर्वाहः, तथानाप्येकवाक्योपा- दानबलाये द्रव्यत्वादयस्त एव सप्त विधा इत्यत्र विभाजकधी इति बुद्धयत इति निर्वाहः कार्य इति जिज्ञासाशान्तिसिद्धिः । एवं साब्दबोधे भान- मखीकृत्यार्थसिद्धिर्बहुलं सर्वरङ्गीक्रियत इति भाट्टरहस्यादौ व्यक्तम् । ननु द्रव्याघभिन्नत्वस्य सप्तविधाभिन्नत्वस्य च यदि पदार्था इत्यत्रान्व- यः, तार्ह पदार्थोद्देशेनोभयविधानमिति सिद्धयति । विधेयानेकत्वे च वाक्यभेदो दोष इत्याहुः । स इह स्यादिति चेन्न ; न ह्यभयोरेंकत्रान्वयमात्रेण वाक्य- भेदः । किन्तु विधेयमज्ञाततया ज्ञापनीयं यत्रानेकं तत्र वाक्यभेदः । अत्र तु द्रव्याद्यभेदस्य पदार्थेष्वन्वये तावतैव सप्तविधत्वं ज्ञायत इति सप्ते- त्यस्यानुवादत्वामिति न दोषः । ननु द्रव्याद्यभेदान्वये द्रव्यत्वादयः सप्त धर्मा इत्येतावत् ज्ञायते । ते विभाजकधर्मा इति न ज्ञायते । अतः सप्त- विधत्वमपि विधेयमिति चेत्, सप्तपदस्य सप्तविधेत्यर्थः कथं ज्ञायते, अन्य- थाऽपि यत्किञ्चिदबाधितार्थवर्णनसम्भवात् । यदि द्रव्यत्वादीनां विभाजक- धर्मत्वौचित्यपालोचनया सोर्थों ज्ञायत इत्युच्यते, तर्हि सप्तशब्दार्थनिधार- णात् प्रागेव तेषां विभाजकर्वमत्वं ज्ञातमिति सप्तविवत्वं न विधेयम् । किं च संख्यावाचिपदनिर्देशं विनापि विभागवाक्यलेखन बहुलं दृश्यते । तत्र विभाजकधर्मत्वबोधः कथम् ? तत्रोद्देश्यवाचकपदस्यव तद्विभाजकधर्मवत्- पर्यन्तलाक्षणिकत्वादिति चेत् तर्हि सर्वत्र विभाजकवाक्य ऐकरूप्याय पदा- र्थशब्दस्यैव पदार्थविभाजकधर्मवन्त इत्यर्थोऽस्तु । एवं च सप्तपदं सप्त- त्वविशिष्टार्थकमेव । न च तेषामनन्तत्वात् सप्तत्वविशिष्टाभिन्नत्वं बाधित- मिति वाच्यम् , पदार्थशब्दार्थकदेशे विभाजकधर्म एव तदन्वयखीकारात् । अथवा 'सविशेषणे हि विधिनिषेधौ सति विशेष्ये बाधे विशेषणमुपसंक्रा- मत' इति न्यायेन विभाजकधर्मेषु सप्तत्वे तात्पर्यपर्यवसानसम्भवेनेदृशस्थले , 21 तर्कसंग्रहः । विशिष्टेऽन्वयो न बाधित इति । अथ वा पदार्था द्रव्याघभिन्ना इत्येता- वताऽपि विभागपरता वाक्यस्य लभ्यत एव । तथा हि-पर्यायशब्दप्रयो- गायोगात् द्वन्द्वादिबलाच द्रव्यगुणादीनां परस्परभेदावगमे सात द्रव्यत्वादी- नां परस्परासामानाधिकरण्यं प्रतीयते । पदार्थेषु परस्परविभिन्नबहभे- दोक्त्या पदार्थत्वव्याप्यत्वं द्रव्यत्वादौ सिद्धयति । पदार्थत्वरूपोद्देश्यता- वच्छेदकव्यापकत्वस्य विधेये भानाच्चैषां धर्माणां यावत्त्वं बुद्धयत इति सम. भिव्याहृतपदार्थतावच्छेदकव्याप्यपरस्परासमानाधिकरणयावद्धर्मवचनरूपवि - भागपरत्वं सुगमम् । अतः पदार्थपदं न पदार्थविभाजकधर्मवत्परम् । सप्त- पदस्य तु सप्तत्वविशिष्टार्थकत्वऽनन्वयश्चत् सप्तविधार्थकत्वं काममस्तु । अथापि न तस्य विधेयत्वम्, प्राप्तत्वात् । यद्वा सप्तपदमपि सप्तत्वविशिष्टार्थकमेव । द्रव्यत्वविशिष्टगुणत्व- विशिष्टाद्यभिन्नपदार्थेषु सप्तत्वविशिष्टाभेदान्वयः । सविशेषणंहीति पूर्वोक्त. न्यायेन द्रव्यत्वादीनामेव सप्तत्वे तात्पर्यम् । तथा च यथा 'रामः कृत- धनुर्भङ्गः पर्यणैषीविदेहजाम्' इत्युक्तौ कृतधनुर्भङ्गस्सन् पर्यणैषीदित्यर्थे सति कृतधनुर्भङ्गत्वविशिष्टमुद्दिश्य परिणयकर्तृत्वविधानेऽपि कृतधनुर्भङ्गत्वस्या- प्याद्विधानम्, तद्वत् पदार्थी द्रव्यादयः सन्तस्सप्तेति द्रव्याघभिन्नत्वविशि- ष्टपदार्थद्देशेन सप्ताभिन्नत्वविधानेऽप्यसिद्धवन्निर्देशबलात् द्रव्याघभिन्न- त्वविधानं भवति । एवञ्च द्रव्याघभेदात् सप्त पदार्था इत्यत्रेवात्रापि सप्त- त्ववैशिष्ट्यं प्रति द्रव्याधभिन्नत्वस्य प्रयोजकत्वमपि लभ्यते । उद्देश्यविधेयभाव- स्थलेऽसति बाधके विधेयप्रयोजकत्वमुद्देश्यतावच्छेदके लभ्यत इत्यानुभविक यथा धनवान् सुखीत्यत्र । ननु द्रव्यादिपदार्थान्वय एव सप्तशब्दार्थस्य भवतु । तथा च द्रव्यत्वादीनां सप्तत्वं सुग्रहमिति चेत् सत्यम् । अथापि सप्तति निर्देश- सुखप्रवेशिनीसमेतः । बलादष्टमः पदार्थो नास्तीति ज्ञापितं भवति । तच्च ज्ञापन पदार्थशब्दार्थे- नान्वय एव खरसम् । अतो द्रव्यादिभेदात् सप्त पदार्थी इति वाक्य इव तदन्वयो युक्त इति । अथ वा द्रव्येत्यादि सप्तपदविशेषणम् । पदार्था इति सप्तपद- विशेष्यम् । पदार्थेषु सप्तत्वबाघे सप्तविघा इत्यर्थोऽस्तु । तथा च द्रव्या- घभिन्नसप्तविधाभिन्नाः पदार्थी इति बोधः । वस्तुतस्तु अत्र सप्तत्वं न संख्यारूपम् । गुणादौ तदभावात् । अतोऽपेक्षावुद्धिविशेषविषयत्व- रूपम् । अपेक्षाबुद्धिविशेषश्च द्रव्यमेकं गुण एकः कमकम् -अभाव एक इत्यात्मकः । अत्र चैकत्वस्य स्वाश्रयसमभिव्याहृतपदार्थतावच्छेदक- वत्त्वसम्बन्धेन द्रव्यादावन्वयः । एकत्वं च समवाये वक्ष्यमाणम् । तथा चेदृशापेक्षाबुद्धिविशेष्यत्वं द्रव्यादीनामेवास्तीति न तेषु सप्तत्वासम्भवः । एवं च सप्तपदार्थ सप्तत्वविशिष्टे द्रव्यादिपदार्थस्याभेदेनान्वयः, तस्य च पदार्थशब्दार्थ इति पदार्था द्रव्यत्वावशिष्टाघभिन्नसप्तत्वविशिष्टाभिन्ना इति बोधः । ननु द्रव्यादिसर्वाभिन्नत्वं कस्मिन् पदार्थे सम्भवति । न हि द्रव्ये गुणाधभिन्नत्वम् । एवं गुणादावपि न द्रव्याघभिन्नत्वम् । अतो द्रव्य- स्यादिपदं द्रव्याद्यन्यतमलाक्षणिकमिति चेत् ; क एवमाह एकैकस्य सर्वामि- न्नत्वामति । किं तु विशेषणविभक्त्यर्थोऽभेदः । स चासाधारणधर्मः । तत्र विभक्त्युपात्तष्वसाधारणधर्मेषु यस्मिन्नसाधारणधर्मे द्रव्यादिषु मध्ये यस्यान्वया भवितुमर्हति, तस्यान्वयः । एवमेकैकस्मिन्नसाधारणधर्म एकै- कव्यक्त्यन्वये सति अनन्तरं तस्य तस्यासाधारणधर्मस्य पदार्थशब्दार्थव्यक्ति धु वा सप्तशब्दार्थव्यक्तिषु वा यत्र यत्रान्वय उचितस्तत्र तत्रान्वय इति न कश्चिद्देषः । यथा घटा नीला इत्युक्तौ विभक्त्यर्थाभेदेष्वसाधारणधर्मेषु १२ तर्कसंग्रहः । तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव । रूपरसगन्धस्पर्शसंख्यापारमाणपृथक्त्वसंयोगविभागपरत्वापर - त्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा. यथायोगं तत्तन्नीलव्यक्तीनामन्वये तेषां यथासम्भवं घटव्यक्तिष्वन्वयः । न हि तत्र घटपदस्य घटान्यतमे वा नीलपदस्य नीलान्यतमे वा लक्षणा कैश्चि- दुक्तास्ति । तद्वत् । इयानेव भेदः । तत्र विभक्त्यर्थेऽभेदेऽन्वयिनः पदार्थी नीलत्वपुरस्कारेणैकेन पदेनोपात्ताः । अत्र तु द्रव्यपदादिना भिन्नभिन्ननेति । स च भेदोऽकिञ्चित्करः । न खलु धवखदिरावित्यादौ द्वन्द्व ईदृशानुप- पत्तिः कुत्रापि प्रदर्शिता । न च द्रव्यादिपदे लक्षणाभावेऽपि सप्तपदेऽन्य- तमलक्षणाऽऽवश्यकी सप्तत्वपर्याप्त्यधिकरणधर्मवतः कस्यचिदसम्भवादिति वाच्यम् । सप्तत्वपर्याप्त्युपलक्षितधर्मवत्त्वस्य प्रत्येकं सम्भवेन तलापि लक्षणां विनव निर्वाहादिति । तथा च पदार्था द्रव्याघभिन्नास्सप्ताभिन्ना इति, द्रव्याघभिन्नपदार्थाः सप्ताभिन्ना इति, पदार्था द्रव्याद्यभिन्नसप्ताभिन्ना इति वा बोधः । एवं पदार्थसामान्यं विभज्यावान्तरविभाग दर्शयति तनेत्यादिना । तच्छब्दार्थी द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः । त्रलो घटकत्वमर्थः । द्रव्याणीत्यत्र गुणादिविभागप्रतिपादकवाक्यस्थगुणादिपदार्थेषु चान्वति । एव- कारोऽन्ययोगव्यवच्छेदार्थः, यथा गोविन्दः पण्डितो भवति विनीतश्च, गो. पालस्तु पण्डित एवेत्यादौ। तथा च नवत्वातिरिक्तसंख्यापर्याप्त्यधिकरण- विभाजकधर्मशून्यत्वं तदर्थः द्रव्यान्वयि । न चात्मस्थाने परो जीवश्चति द्वेषा विभज्य दशद्रव्यगणनसम्भवात् कथमीदृशधर्मशून्यत्वमिति वाच्यम्। नवत्वातिरिक्तसंख्यापर्याप्तयधिकरणभूता ये प्रकृतविभाजकधर्मासमानाधि- करणधर्मसहिता विभाजकधर्मास्तच्छून्यत्वमिति विवक्षितत्वात् । परत्वजीवत्व- योश्च प्रकृतात्मस्वरूपविभाजकधर्मसमानाधिकरणत्वमेवोत । तथा च सुखप्रवेशिनीसमेतः । १३ श्चतुर्विशतिर्गुणाः । उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि । परमपरं चेति द्विविधं सामान्यम् । नवत्वातिरिक्तसंख्यापर्याप्त्यनधिकरणविभाजकधर्मवत्त्वमेवकारार्थ इति सि- द्धयति । यद्वा नवत्वपर्याप्त्ययोगव्यवच्छेदस्तदर्थः । अथ वा स्वसम- भिव्याहृतपदार्थस्य यत्पदार्थेन सम्बन्धस्तद्व्यापकत्वमेवकारार्थः । अत्र समभिव्याहृतपदं नवपदम् । तदर्थस्य द्रव्यपदार्थेनान्वय इति द्रव्य- व्यापकत्वमेवकारार्थः । व्याप्यव्यापकभावस्तादात्म्येन ; नवद्रव्यपदार्थयो- स्तादात्म्यात् । व्यापकत्वस्य नवपदार्थेऽन्वयः । तथा च द्रव्यादिनिरू- पितघटकताश्रयद्रव्याणि पृथिवीत्वविशिष्टाघभिन्नानि द्रव्यव्यापकत्वाश्रयनव- त्वविशिष्टाभिन्नानीति रीत्या बोधः । सामान्यमित्यादि । द्वे विधे यस्य तत् द्विविधम् । विधा विभाजकधर्मः । षष्ठ्यर्थ आधेयत्वं विधायामन्वेति । यन्निरूपिताधेय- ताश्रयविभाजकधी द्वित्वविशिष्टाभिन्नाविति विग्रहार्थः । समासे विधापदं लक्षणया द्वित्वविशिष्टविभाजकधर्मवदर्थकम् । द्विपदमीशलक्षणातात्पर्य- ग्राहकम् । तस्याभेदः सामान्ये । चकारार्थः समुच्चयः । स च समु- दायः साहित्यम् । तस्य परापरपदार्थयोरन्वयः । इतिशव्दार्थः प्रकारः । तत्र परापरपदार्थयोराधेयतासम्बन्धेन । परापरपदोत्तरविभक्त्यारा नास्ति । प्रकारस्य च सामान्ये आश्रयतासम्बन्धेन । तथा च समुच्चयाश्रयपरापर- निष्ठप्रकारवत् द्वित्वविशिष्टविभाजकधर्भवदभिन्नं सामान्यमिति बोधः । प्रकारश्च तद्वृत्त्यसाधारणधर्म एव परत्वादिः । इतिशब्दस्य हेतुपरत्वे ज्ञान- ज्ञाप्यत्वमितिशब्दार्थः । परापरपदार्थयोर्विषयतासम्बन्धेन ज्ञानेऽन्वयः । ज्ञाप्य- त्वमाश्रयतासम्बन्धेन द्वित्वविशिष्टविभाजकधर्मान्वयि । परमपरं चेति ज्ञाने सति विधाद्वयवत्त्वज्ञानमुत्पद्यत इति भवति विधाद्वयस्य ज्ञाप्यत्वम् । तथा च समुच्चयाश्रयपरापरविषयकज्ञानज्ञाप्यत्वाश्रय द्वित्वविशिष्टविभाजकधर्मवदभिन्न १४ तर्कसंग्रहः । नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव । समवायस्त्वेक एव । सामान्यमिति । नित्येति । नित्यानि द्रव्याणि तेषु वृत्तिर्येषाम् । सप्तम्य. थों निरूपितत्वम् । वृत्तिराधेयत्वम् । षष्ठ्यर्थ आधेयत्वं वृत्त्यन्वयि । यन्नि- रूपिताधेयत्वाश्रयायता नित्याभिन्नद्रव्यनिरूपितनिरूपितत्वाश्रय इति विग्र- हार्थः । समासे वृत्तिपदस्य नित्यद्रव्यनिरूपिताधेयताश्रये लक्षणा । तात्पर्यग्राहकम् । तुशब्दः पूर्वस्माद्विशेषाणां वैलक्षण्यं वक्ति । अनन्ताः, न अन्तो येषां तेऽनन्ताः । अन्तो नाम परिच्छेदः संख्यावत्त्वं संख्यैवः । तस्य पप्तिसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वयः । येषा- मिति षष्ठ्यीधेयत्वस्य चाभावे । यन्निरूपिताधेयतावदभावः पर्याप्तिस. म्बन्धावच्छिन्नसंख्यानिष्ठप्रतियोगिताक इति विग्रहार्थः । समासेऽन्तपद- स्य निरुक्तसंख्याऽभाववति लक्षणा । नअपदं तात्पर्यग्राहकम् । तदभेदो विशे- षाणाम् । परार्धसंख्याऽपि हि कतिपयमात्रवृत्तिरेव, न पदार्थसामान्ये, न वा विशेषसामान्ये पर्याप्तिसम्बन्धेन वर्तते । नन्वनन्तत्वं द्रव्यादीनामप्यस्ति तत्राह एवेति । अयमेवकारः विभागवाक्येषु दर्शितधर्मव्यवच्छेदार्थः । तथा च किंचित्संख्यापर्याप्त्यधि- करणविभाजकधर्मशून्या इति लभ्यते । तथा च द्रव्यादयाऽनन्ताश्च ता. दृशविभाजकधर्मवन्तश्च । विशेषास्तु केवलमनन्ताः । नैषां तादृशधाः सन्तीति । एवं च नित्यद्रव्यनिरूपितायतावदभिन्ना वैलक्षण्याश्रया वि- शेषाः पर्याप्तिसम्बन्धावच्छिन्नसंख्यानिष्ठप्रतियोगिताकाभाववदभिन्नाः संख्या- पर्याप्त्यधिकरणविभाजकधर्मशून्यत्वाश्रया इति बोधः । ननु विशेषो द्वि- विधः परमाणुवृत्तिविशेषो विभुवृत्तिविशेषश्चेत्येवं विभागः सुकरः इति चेन्न। परमाणुवृत्तिविशेषत्वादेविभाजकधर्मत्वं न युक्तम् । अधिकरणानिरूप्यस्थव धर्मस्य तत्त्वमुचितम् । अयं च धर्मः परमाणुनिरूप्य इत्याशयात् । समवा- सुखप्रवेशिनीसमेतः । १५ अभावश्चतुर्विधः । प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्या- भावश्चेति ॥ तत्र गन्धवती पृथिवी । सा द्विविधा। यस्त्विति । तुशब्दो वैलक्षण्यार्थः । एकपदमेकत्वविशिष्टार्थकम् । एकत्वं चेदं न संख्यारूपम् , तस्य गुणत्वेन द्रव्यमाननिष्ठत्वात् । नापि स्वसजाती- यद्वितीयरहितत्वम् । एवकारपौनरुक्त्यप्रसङ्गात् । अतोऽसाधारणधर्मरूपम् । तच्च भेदविशिष्टान्यधर्मवत्त्वम् । वैशिष्ट्यं खप्रतियोगिवृत्तित्वखानुयोगिवृ- तित्वोभयसम्बन्धेन । स च धर्मस्तब्यक्तित्वम् । न च न तस्य भेदवि- शिष्टान्यत्वम् , तब्यक्त्येतब्यक्त्युभयभेदं प्रति तब्यक्तेः प्रतियोगित्वादनुयोगि. त्वाच्च तत्तवृत्तित्वरूपोभयसम्बन्धेन भेदविशिष्टत्वादिति वाच्यम् , भेदेत्यस्य व्यासज्यवृत्तिधर्मानवच्छिन्नप्रतियोगिताकभेदपरत्वात् । व्यासज्यवृत्तिधर्मो नाम पर्याप्तिसम्बन्धावच्छिन्नाधेयताकधर्मः । उभयत्वादिहि पर्याप्तिसम्ब- न्धेनोभयादौ वर्तत इति । अथ वा धर्मविशिष्टान्यधर्मवत्त्वमेकत्वम् । वै. शिष्ट्यं स्वसामानाधिकरण्य, खावच्छिन्नप्रतियोगिताकस्वाश्रयावृत्तिभेदसामा- नाधिकरण्योभयसम्बन्धेन । अत्र धर्मपदेन तव्यक्तित्वरूपधर्मग्रहणेऽनेकवृ. त्तिधर्मस्य सर्वस्य धर्मविशिष्टत्वमेव । स्वपदेनोभयत्वादिग्रहणेन तद्विशिष्टत्वं तव्यक्तित्वसमवायत्वादौ न सुवचम् । तदवच्छिन्नभेदस्य तदाश्रयवृत्तित्वा- दिति । ननु द्रव्यादीनामपीसैकत्वमस्तीति किं वैलक्षण्यं तत्राह एषेति । अस्यैकत्वातिरिक्तसंख्यापर्याप्त्यधिकरणत्वाभावोऽर्थः समवायान्वयी । संख्या चेयमपेक्षाबुद्धिविशेषविषयत्वात्मकद्वित्वादिरूपा । तथा च समवायो वैलक्ष- पयाश्रय एकत्वविशिष्टामिन्न एकत्वातिरिक्तसंख्यापर्याप्त्यधिकरणत्वाभाववा. निति बोधः । यद्वा पूर्ववद्व्यापकत्वमेवकारार्थः । व्याप्यव्यापकभावस्तादात्म्येन । समवायव्यापकत्वाश्रय एक इत्यर्थः । एकत्वविशिष्टस्य कस्यचिदपि हि न घटादिव्यापकत्वम् । भवति तु समवायव्यापकत्वमिति वैलक्षण्यम् । अभाव इत्यादि । सामान्यविभागवाक्य इव बोधप्रकारः ।

तर्कसंग्रहः । नित्याऽनित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा । एवमवान्तरविभागमपि विधाय विभक्तान् प्रत्येकं निरूपयति तत्नेत्या- दिना कृस्तन ग्रन्थेन । तत्रशब्दः सर्वलक्षणवाक्यस्थलक्ष्यवाचकपदान्वयी । पृथिव्याद्यन्योन्याभावान्तास्तदर्थाः । घटकत्वं वलर्थः । मतुप् अधिकरण- तावदर्थकः । अधिकरणतायां गन्धस्य निरूपितत्वसम्बन्धनान्वयः । पृथि- व्यादिनिरूपितघटकताश्रयपृथिवी गन्धनिरूपिताधिकरणतावदभिन्नति बोधः। गन्धोऽस्य अस्तीति विग्रहे इदंशब्दार्थः पृथिवी, षष्ठ्यर्थो निरूपितत्वम्, स धात्वर्थाधेयत्वान्वयि , अस्तीति तिबाख्यातार्थ आश्रयत्वमाश्रयतासम्बन्धेन गन्धे अन्वति, तथा च पृथिवीनिरूपितनिरूपित्वाश्रयाधेयतानिरूपिताश्रयता- वान् गन्ध इति बोधः । गन्धवत्त्वं पृथिव्या लक्षणम् । लक्ष्या पृथिवी- लक्ष्यतादिस्तत्तन्निष्ठो धर्मः । अत्र कालिकसम्बन्धेन गन्धवत्त्वं कालेऽस्ती- त्यतिव्याप्तिः । तद्वारणाय समवायेन गन्धवत्त्वं लक्षणम् । न च गन्ध- वत्त्वं गन्धनिष्ठाधेयतानिरूपिताधिकरणतावत्त्वम् , समवायेनेति तृतीयार्थोऽ वच्छिन्नत्वमाघेयतान्वयि । पृथिव्यां समवायेन गन्ध आधयो भवतीति साऽऽधेयता तत्सम्बन्धावच्छिन्ना । तथा च समवायसम्बन्धावच्छिन्नगन्ध- निष्ठाधेयतानिरूपिताधिकरणतावत्त्वं लक्षणं पर्यवसितम् । एवं च काले ऽतिव्याप्तिस्तदवस्था । पृथिव्यां स्वरूपसम्बन्धन प्रसिद्धायास्तादृशाधिकरण- तायाः कालेऽपि कालिकसम्बन्धेन सत्त्वादिति वाच्यम् ; गन्धो लक्षणम् । न तु गन्धवत्त्वम् । समवायस्तु लक्षणतावच्छेदकसम्बन्ध इत्यदोषात् । एवमुत्तरत्र । नित्येति । सेत्यनुषज्यते । एवमग्रेऽपि । परमा- गुरूपेति । रूपं खरूपम्, असाधरणधर्मवत् । परमाणुरूपं यस्याः सा । षष्ठ्यर्थ आधेयत्वमसाधारणधर्मेन्वति । तथा च यन्निरूपिताधेयता- वदसाधारणधर्मवत् परमाणु इत्यर्थः । रूपमित्यस्यासाधारणधर्म इत्यर्थे सुखप्रवशिनीसमेतः । पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरममदादीनाम् । इन्द्रि- परमाणा रूपं यस्या इति विग्रहः । षष्ठ्यर्थ आधेयत्वं । उभयथाऽपि स- मासे रूपपद पृथिवीपरमाणुत्वविशिष्टेत्यर्थलाक्षणिकम् । तदभिन्ना नित्या- भिन्नपृथिवीति बोधः । एवमुत्तरत्र । पृथिव्यादिचतुष्टयं प्रत्येक द्वेधा विभज्यते । प्रथमः प्रकारो जगदुपादानकारणविवेकोपयोगी । द्वितीय आत्मनो भोगसम्पादकत्वप्रकारविज्ञानोपयोगी । तत् प्रथमां विधामुक्त्वा द्वितीयामाह पुनरिति । अस्यार्थः समुच्चयः । त्रिविधेत्यत्र विधाशब्दस्य हि वित्वविशिष्टविभाजकधर्मवतीत्यर्थे लक्षणा । तत्र धर्मे समुच्चयस्याश्रय- तासम्बन्धेनान्वयः । अयं च समुच्चयः पूर्वोक्तद्वित्वविशिष्टविभाजकधर्मप्र- तियोगिकः । सेत्यनुषज्यते । शरीन्द्रियविषयाणां भेदस्तस्मात् । भेदो भेदकोऽसाधारणधर्मः । विग्रहे षष्ठ्यर्थ आधेयत्वम् । समासे विषय- पद पार्थिवशरीरेन्द्रियविषयनिष्ठेत्यर्थकम् । अभेदसम्बन्धन तस्य भेदेऽन्व- यः । ज्ञानज्ञाप्यत्वं पञ्चम्यर्थः । भेदस्य ज्ञान विषयतासम्बन्धेनान्वयः । प्रयोज्यत्वं वा पञ्चम्यर्थः , निविधापदार्थंकदेशे त्रित्वविशिष्टविभाजकधर्मवै- शिष्ट्येऽन्वेति । सम्बन्धस्य हि सम्बन्धिप्रयोज्यत्वमनुभवसिद्धमिति वैशि- प्ट्यस्य भेदरूपधर्मप्रयोज्यत्वमक्षतम् । इत्थमेव पूर्वमितिशब्दघटितविभा- गवाक्येष्वपीतिशब्दार्थस्य प्रकारस्य प्रयोज्यतासम्बन्धन द्विविधेतिपदार्थकदेशे धर्मवैशिष्ट्येऽन्वय इति सुवचम् । प्रायशः पदेषु लक्षणामङ्गीकृत्य बोधनिर्वा- हस्तु तैस्तैः क्रियमाणो यावबलमुपेक्षणीय इत्येतावत्यस्माकं निर्भरः । पार्थि- वशरीरादिकं दर्शयति शरीरमित्यादिना । असदादीनामिति । वय- मादयो येषां ते । अस्सच्छब्दः शब्दप्रयोक्तृपुरुषवाची । अत्र चाय- मन्नम्भट्टोऽस्मत्पदार्थः । यद्वाऽहं च यूयं चेति विग्रहेऽस्मच्छब्दश्शब्दप्र- योक्त्रन्नम्भट्ट, तबुद्धिस्थशिष्यतदीयप्रकृतग्रन्थपठितृवालादिपरः । आ- 3T १८ तर्कसंग्रहः । दिशब्दः प्रथमार्थकः । अत्र चोपस्थितिमादाय प्राथम्यं वक्तव्यम् । अतः पदार्थविशेषापेक्षया प्रथमोपस्थितत्वं प्राथम्यम् । तथा च पदार्थविशेष- विषयकोपस्थितिविशेषानुत्तरोपस्थितिविषय इत्यादिशब्दार्थः । पदार्थविशे- त्यनेन खसमानाधिकरणपदोपस्थाप्यार्थभिन्ना अर्थी गृह्यन्ते । उपस्थिति- विशेषेत्यनेन च स्वघटितवाक्यार्थसम्बन्धित्वप्रकारिका प्रकृतवाक्याधीनोप- स्थितिः । अयं भावः-भूतले घटादिरस्तीत्यादिशब्दघटितवाक्यप्रयोगे आ- दिशब्दसमानाधिकरणं यद्धटपदम् , तदर्थ एव प्रकृतवाक्यार्थभूतलास्तित्व- सम्बन्धोपस्थितिः पूर्व भवति । तद्भिन्नपटादौ विशिष्य तत्सम्बन्धज्ञानं च ताशवाक्याज्झटिति न भवति । अपि त्वादिशब्दग्राह्यः पटादिरेव स्यादि- ति योग्यतालोचनया विलम्बेन । एवं चादिशब्दप्रयोग एवमनुभवादा- दिशब्दस्यायमेवार्थो भवितुमर्हति । यदि तु पटादिरिति प्रयुज्यते तदा पट एवं समभिव्याहृतपदार्थसम्बन्धप्रतीतिः प्रागिति स एवादिः । अत्र च विग्रहे येषामिति षष्ठ्यों घटकत्वम् । तस्यादिशब्दार्थघटके पदार्थ- विशेषे , उपस्थितिविषय इत्यत्र विषये चान्वयः । अथ वेशस्थलेष्वादि- शब्दप्रयोगनिबन्धनमात्रमेतत् । आदिशब्दस्य तु वस्तुनिष्ठभेदप्रतियोगी- त्यर्थः । येषामिति षष्ठ्यर्थघटकत्वं वस्तुषु प्रतियोगित्वे चान्वति। तथा च यद्धटकत्वाश्रय, यद्धटकवस्तुनिष्ठभेदप्रतियोग्यभिन्नावयवमिति विग्रहार्थः । समासे आदिपदमस्मत्तद्भिन्नरूपार्थलाक्षणिकम् । कचिदादिप्रभृतिशब्दाः प्रकारवचना आप भवन्ति । प्रकारः साजात्यम् । तद्हणे तु वयं सजा- तीया येषामित्यर्थः । साजात्यं च पार्थिवलोकवासित्वम् । तदा समास आदिपदमस्मन्निष्ठपार्थिवलोकवासित्वाश्रयलाक्षणिकम् । षष्ठ्यर्थः सम्बन्धः सुखावच्छेदकत्वरूपः । सुख आधेयतासम्बन्धेनाद्यान्वयः । अवच्छे- दकत्वस्याश्रयतासम्बन्धन शरीरे । केवलावच्छेदकत्वं न सम्बन्धः ; आ- सुखप्रवेशिनोसमेतः। १९ थं गन्धग्राहकं घ्राणं नासाग्रवति । विषयो मृत्पाषाणादिः। शीतस्पर्शवत्य आपः । ता द्विविधाः । नित्या अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनस्त्रिविधाः श- स्मनो विभुवेनास्मदाद्यात्मानं प्रति जलीयशरीरादेरप्यवच्छेदकत्वात् । गन्धेति । मन्धस्य ग्राहकम् । षष्ट्या विषयित्वं ग्रहधातो नं ण्वुलो जनकतावदिति चार्थः । विषयिताया ज्ञानेऽन्वयः, ज्ञानस्य च जनकतायां निरूपितत्वसम्बन्धेन । समासे गन्धपदं गन्धविषयक लाक्षणिकम् । अभे- देन ज्ञाने तदन्वयः । पार्थिवेन्द्रियं गन्धग्राहकाभिन्नं घ्राणाभिन्नमिति बोधः । शरीरे घ्राणेन्द्रियस्थानं दर्शयति तच्चेति । तत् पार्थिवेन्द्रियम् । चकारार्थः समुच्चयो नासाग्रवर्तित्वान्वयी। गन्धग्राहकत्वादिना नासाग्रवर्तित्वस्य समु- चयः । नासाया अग्रं तस्मिन् वर्तत इति । षष्ठ्याः समवायित्वम्, सप्तम्या निरूपितत्वम् । वृतुधातोराधेयत्वं चार्थः । समासे अग्रपदस्य नासाग्रनिरूपिते लक्षणा । अभेदेन धात्वर्थे तदन्वयः । यदि पुनीसा- पदस्य नासासमवायिनि लक्षणा , तस्याभेदेनाग्रेऽन्वय इत्युच्यते , तदाऽ अपदस्य धात्वर्थेऽन्वयार्थमग्रनिरूपितेति लक्षणाया आवश्यकतया तदेकदेशे- ग्रेऽन्वयो वाच्यः । एवमेकदेशान्वयक्लेशो मा भूदिति अग्रपद एव लक्ष- णा , नासापदं तात्पर्य ग्राहकमिति स्वीक्रियते । णिनिप्रत्ययार्थोऽधिकरण- तावान् । अधिकरणतायां धात्वर्थो निरूपितत्वसम्बन्धेनान्वेति । समु- चयाश्रय, तादृशाधिकरणतावदभिन्नं पार्थिवेन्द्रियमिति बोधः । मृदिति । आदिपदं मृत्पाषाणतद्भिन्नार्थलाक्षणिकम् । शीतेति । उष्णादिस्पर्शवति तेजआदावतिव्याप्तिवारणाय शी- तेति । स्पर्शेत्यनुक्तौ यद्यपि न कश्चिदोषः , अथापि शीतपदस्य गुणिन्यपि प्रयोगाच्छीतलमादाय, तद्वत्त्वं पृथिव्यादेरपोत्यतिव्याप्तिशङ्का स्यादिति तत्पदं प्रयुक्तम् । समवायेन शीतं लक्षणमिति ध्येयम् । ताश्चेति चकारः , २० तर्कसंग्रहः । रीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहक रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः । उष्णस्पर्शवत्तेजः । तच्च द्विविधम् । नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधम् । शरीरेन्द्रि- यविषयभेदात् । शरीरमादित्यलोके । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराप्रवर्ति । विषयश्चतुर्विधो भौमदिव्योदर्याकरजभे- पृथिवीसमुच्चये । तच्छब्दार्थे तदन्वयः । यथा पृथिवी द्विविधा तथा- ऽऽपोपीति । वरुणलोक इति । वरुणशब्दस्य वरुणखामिके लक्षणा । अभेदेन लोके तदन्वयः । सप्तम्यर्थ आधेयत्वं शरीरान्वयि । रसन- मिति । इदं च सर्वेषाम् । कृष्णेति । कृष्णा तारा । अग्रपदं कृष्ण- तारासमवाय्यग्रनिरूपितार्थलाक्षणिकमित्यादि पूर्ववत् । पार्थिवादिविषये ऽवान्तरविभागप्रदर्शनमशक्यमासीत् । तैजसे तु तच्छक्यमस्तीति विभजते विषय इति । भूमौ भवं भौमम् । दिवि भवं दिव्यम् । उदरे भवं उद- र्यम् । आकरे जायत इत्याकरजम् । सप्तम्यर्थोऽवच्छिन्नत्वम् । भूदे- शाद्यवच्छेदेन तेजो जायत इति । भौमेत्यादौ प्रत्ययार्थो जन्यतावदिति । जन्यतायां भूम्यादेरवच्छिन्नत्वसम्बन्धेनान्वयः । आकरशब्दः खन्यवच्छि- ने लाक्षणिकः , तदभेदो जेत्यत्र जनिधात्वर्थजन्यतायाम् । ननु नित्या- नित्यसाधारण्येन पुनस्त्रिविधमिति तेजोविभागमारभ्य शरीरोन्द्रियविषयभेदा- दित्युक्त्या शरीरेन्द्रिययोः कार्यतेजस्त्वावश्यम्भावाच विषयपदेन शरीरे- न्द्रियभिन्न कार्यतेजो नित्यतेजश्च ग्राह्यमिति निश्चीयते । एवं च भौमादि- विभागस्य कार्यमानविषयकतया कथं सामान्यतो विषयश्चतुर्विध इत्युच्यते ? सत्यम् ; नित्यानित्यविभागप्रदर्शनेन शरीरेन्द्रिययोः कार्यतया च पृथिव्या- दाविव तेजस्यपि विषयो नित्यानित्यभेदेन द्विविध इति ज्ञातप्रायमेव । का- यविषय एव किञ्चिदज्ञापनीयमस्तीत्यभिप्रेत्य विषयश्चतुर्विध इत्युक्तम् । अत इह विषयशब्दः कार्यतैजसविषयपर इति । न च भौमेत्यादौ भूमिस- .. -- सुखप्रवेशिनीसमेतः । २१ दात् । भौमं वह्नयादि । अबिन्धनं दिव्यं विद्यदादि । भुक्तस्य परिणामहेतुरुदर्यम् । आकरजं सुवर्णादि । रूपरहितस्पर्शवान् वायुः । स द्विविधः । नित्योऽनित्यश्च । म्बन्धीत्याद्यर्थविवक्षणाजन्यत्वरूपार्थाविवक्षणाच्च परमाणूनामपि ग्रहणं भवती- ति वाच्यम् , आकरजेति जनिधातुप्रयोगेण सर्वत्र जन्यत्वस्यैव स्वरसग्रा- ह्यत्वात् । परमाणावबिन्धनत्वाद्यसम्भवाच्च । परमाणूनां सर्वत्र सञ्चारि- तया एषां भौमत्वमेषां दिव्यत्वमित्येवं व्यवस्थायाः कर्तुमशक्यत्वाच्च । अतः पूर्वोक्त एवाक्लिष्टः परिहारः । अबिन्धनं अद्भिरिन्धनं प्रकाशो यस्य । तृती. यार्थो जन्यत्वम् । षष्ठ्यर्थ आघयत्वम् । समानाधिकरणबहुव्रीहिरेष वा । इन्धनपदस्याब्जन्यप्रकाशविशिष्टे लक्षणा । आदिनोल्कादिग्रहणम् । भुक्त- स्येति । भोजन गलाघोनयनम् । क्तप्रत्ययस्य कर्मतावदित्यर्थः । तत्र कर्मतायां निरूपितत्वसम्बन्धन नयनान्वयः । परिणामः समवायिकारण- तानिरूपक(कार्य)द्रव्यम् । तस्य हेतुः जनकतावत् । भुक्तस्येति षष्ठ्यर्थः सम्बन्धः समवायिकारणतान्वयी । स च कचित् साक्षात् सम्बन्धः , यथा कपालस्य परिणामो घट इति । कचित् परम्परया तवयवद्वारा , यथा दुग्धस्य परिणामो दधीति । परिणामशब्दस्य समासे परिणामनिरू- पिते लक्षणा । तथा च गलाधोनयननिरूपितकर्मताश्रयवस्तुनिरूपितस- म्बन्धवत्समवायिकारणतानिरूपकद्रव्यनिरूपितजनकतावत् उदरावच्छिन्न- जन्यतावतेज इति । वायुं लक्षयात रूपेति । रह धात्वर्थोऽभावः । तृ- तीयार्थोऽनुयोगित्वम् । रूपाभावस्य हि रूपं प्रतियोगि, अभावोऽनुयोगी । समासे रूपशब्दस्य रूपानुयोगिनि लक्षणा । क्तप्रत्ययार्थी आश्रयतावान् । आ- श्रयतायामभावस्य निरूपितत्वसम्बन्धेनान्वयः । स्पर्शवानिति मतुबर्थोऽप्याश्र- यतावान् । स्पर्शवति रूपराहितस्याभेदेनान्वयः । रूपानुयोग्यभिन्नाभावनिरू- २२ तर्कसंग्रहः । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस्त्रिविधः। शरीरे- न्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुर्वायुः। शरीरान्तःसञ्चारी * पिताश्रयतावदभिन्नस्पर्शनिरूपिताश्रयतावदभिन्नो वायुरिति बोधः । रूपा- भावविशिष्टस्पर्शः समकायेन लक्षणम् । वैशिष्ट्यं सामानाधिकरण्यसम्बन्धेन । कालेऽपि कालिकसम्बन्धेन विशिष्टस्पर्शसत्त्वादतिव्याप्तिरित समवायेनेति । ननु पृथिव्यामतिव्याप्तिः, रूपाभावस्य कालिकसम्बन्धेन तत्र सत्त्वास्प- शंस्य च समवायेन सत्त्वात्तत्रोभयोः सामानाधिकरण्यात् । न च सामाना- धिकरण्यं नामधेयतानिरूपिताधिकरणतावन्निष्ठाधिकरणतानिरूपिताधेयता। तत्र प्रथमाधेयतायां स्वरूपसम्बन्धावच्छिन्नत्वं निवेश्यते । तथा च पृथि- व्यां रूपाभावस्य कालिकसम्बन्धन सत्त्वेऽपि स्वरूपसम्बन्धेनाभावान्न पृथि- व्यां सामानाधिकरण्यमिति वाच्यम् । तन्निवेशेऽप्यतिव्याप्तेः, स्वरूपसम्बन्धा- वच्छिन्नाधेयतानिरूपिताधिकरणता हि वायौ प्रसिद्धा । सा कालिकसं- म्बन्धेन पृथिव्यामस्ति । अतस्तादृशाधिकरणतावती पृथिवी । तन्निष्ठा- धिकरणतानिरूपिताधेयता च स्पर्श इति सामानाधिकरण्यस्याक्षतत्वादिति चेन्न । वस्तुतो रूपाभावस्य स्वरूपसम्बन्धेन यदधिकरणं वस्तुतस्ताहशाधिक- रणनिरूपिता याऽऽधेयता तदेव प्रकृते सामानाधिकरण्यमिति तेन सम्बन्धेन रूपाभावविशिष्टस्पर्शो लक्षणमिति विवक्षणीयम् । अतो न दोषः। सर्व- शरीरवर्तीति । शरीरपदं शरीरावयवपरम् । सर्वेषु शरीरेषु शरीरावयवेषु वर्तत इति विग्रहः । अवच्छिन्नत्वं सप्तम्यर्थः । सर्वशरीरावयवावच्छि. न्नति शरीरपदे लक्षणा । अभेदेन वृतुधात्वर्थ आधेयत्वेऽन्वयः । आश्रयो णिन्यर्थः । वायवीयविषयमाह विषय इत्यादिना प्राणश्चेत्यन्तेन वाक्येन । प्रशस्तपादभाष्ये 'चतुर्विधः शरीरमिन्द्रियं विषयः प्राणः' इति चातुर्विध्य- सुखप्रवेशिनीसमेतः । २३ घायुःप्राणश्च । स चैकोऽप्युपाधिभेदात् प्राणापानादिसंज्ञां लभते । मुक्तम् । इह त्रैविध्याक्तौ तद्विरोध इति शङ्काप्रसक्त्यभावाय शरीरान्तःस- मचारी वायुः प्राणश्चेति विशिष्योक्तम् । तथा च वृक्षादिकम्पनहेतुर्वायुः प्राणश्चेत्युभयमपि विषय एवेत्यर्थः । शरीरोन्द्रियभिन्नत्वमेव विषयत्वमिति प्राणोऽपि विषय एव । भाष्ये पृथगुक्तिस्तु बाह्यवायुविलक्षणकार्यकरत्वप्रदर्श- नाभिप्रायेणोपकारातिशयादरेणेति भावः । वृक्षादीनां कम्पनं तस्य हेतुर्ज- नकतावान् । प्रथमषष्ठ्यर्थ आधेयत्वम् , द्वितीयतदर्थो निरूपितत्वम् । कम्पनपदस्य वृक्षतद्भिन्ननिष्ठक्रियानिरूपितेति लक्ष्यार्थः । जनकतायामभेदे- नान्वयी । शरीरेति । अन्तःशब्दोऽन्तरवयवपरः । शरीरस्य समवायि- स्वसम्बन्धेन तत्रान्वयः । अन्तरवयवस्यावच्छिन्नत्वसम्बन्धेन संपूर्वकचर. धात्वर्थे क्रियायामन्वयः । णिनेरर्थ आश्रयतावान् । आश्रयतायां धा. त्वर्थस्यान्वयः । णिन्यर्थस्य वायौ तस्य प्राणे, तस्य प्रथमवायुपदार्थस्य च विषयेऽभेदेना चार्थसमुच्चयस्य प्रथमवायुपदार्थे प्राणे च । ननु शरीरान्त:- सञ्चारी वायुः प्राण एवेति कथम् ? अपानादेरपि सत्त्वादिति शङ्कायामाह स चेति । सः शरीरान्तःसञ्चारी वायुः । चो वाक्यालङ्कार, ज्ञातत्वप्रसि- द्विद्योतनार्थो वा, प्रकृतवाक्यार्थस्य पूर्ववाक्यार्थसमुच्चये वा । एकः एक- शरीरावच्छेदेनैकदा खसमानद्वितीयरहितः । खाश्रयशरीरावच्छिन्नत्व,ख- समानकालिकत्व,स्वभिन्नत्वरूपसम्बन्धत्रयेण वायुविशिष्टान्यः । अपरवि- रोधित्वमर्थः तच्च सामानाधिकरण्यम् । तस्य लभधात्वर्थेऽन्वयः । एकप- दार्थस्य निरूपितत्वसम्बन्धेन सामानाधिकरण्ये । अभेदेनैकपदार्थो वायौ, तत्र लाभोऽप्यस्तीति तयोस्सामानाधिकरण्यम् । उपाधिभेदात्, उपा- धीनां निमित्तानां शक्यतावच्छेदकानां भेदात् परस्परं भिन्नत्वात् । आ- धेयत्वं षष्ठ्यर्थः । 'हृदि प्राणो गुदेऽपानस्समानो नामिसंस्थितः । उदा- ?

२४ ४ तर्कसंग्रहः । शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यं च । नः कण्ठदेशस्थो व्यानस्सर्वशरीरगः' इत्युक्तरीत्या प्राणादिशब्दा हृदयादि- तत्तद्देशावच्छिन्नवायुवाचिन इति तत्र तत्र शक्यतावच्छेदकभेदः । अथवा क्रियाभेदादिति भाष्य दर्शनात् प्राणादिशब्दाः प्राणनापाननव्याननोदनन- समननरूपक्रियाविशिष्टवाचिनः । तत्तक्रिया च भिन्नेति भावः । विवृतं चेदं कन्दल्याम्, 'मूत्रपुरीषयोरधोनयनादपानः, रसस्य गर्भनाडीवितन- नायानः , अन्नपानादेवं नयनादुदानः , मुखनासिकाभ्यां निष्क्रमणात् प्राणः, आहारेषु पाकार्थमुदयस्य वह्वेस्समं सर्वत्र नयनात् समान' इति । भेदादिति पञ्चम्यर्थः प्रयोज्यत्वं लाभेऽन्वेति । प्राणापानावादी यस्यास्सा । प्राणापानशब्दौ तत्तच्छब्दपरौ, संज्ञापदसामानाधिकरण्यात् । आदिपदं प्राणशब्दापानशब्दतद्भिन्नशब्दपरम् । तदभिन्ना संज्ञा वाचकशब्दः प्राण- शब्दापानशब्दतद्भिन्नशब्दाभिन्नविभिन्नार्थवाचकशब्दमिति यावत् । विमि- नार्थति निवेशाभावे विरोधप्रसक्तिरेव नास्ति । एकस्यैव घटस्य घटकुम्भक- लशादिबहुसंज्ञालाभदर्शनात् । लभते प्राप्नोति । प्राप्तिः सम्बन्धः तच्च वा- च्यत्वम् । संज्ञामित्येकत्वमविवक्षितम् । द्वितीयार्थो निरूपितत्वं वाच्य- त्वरूपसम्बन्धान्वयो । तथा च तत्समभिव्याहृतलभधातुना प्राणशब्दादि- तत्तच्छब्दवाच्यत्वानि सर्वाण्युच्यन्ते । तेषु सर्वेष्वपि शब्दार्थसामानाधि- करण्यान्वयादेकस्यैव सर्वपदवाच्यत्वावगतिः । आश्रयत्वमाख्यातार्थस्स इत्यत्रान्वेति । आकाशं लक्षयति शब्देति । शब्दो गुणो यस्य । षट्यर्थः सम- वेतत्वम् । यन्निरूपितसमवेतत्वाश्रयगुणः शब्दाभिन्नः । शब्दसमवा- योति गुणपदे लक्षणा । कालिकसम्बन्धन शब्दवति कालेऽतिव्याप्तिरिति समवायेति । गुणति न लक्षणप्रविष्टम् । तदुक्तिस्तु शब्दस्य गुणत्वात् सुखप्रवेशिनोसमेतः । २५ अतीतादिव्यवहारहेतुः कालः, सचैको विभुर्नित्यश्च । .. द्रव्यत्वाभावात् किञ्चिदाश्रितत्वस्यावश्यकत्वादाकाशसिाद्धिरिति सूचनाय । तथा च समवायेन शब्दो लक्षणम् । पृथिव्यादाविवान विभागो नास्ती- त्याह तञ्चति । चकारः पृथिव्यादिवलक्षण्यार्थस्तुपर्यायः । एकम् एकत्वा- तिरिक्त संख्यापर्याप्तयधिकरणतानवच्छेदकसमभिव्याहृनपदार्थतावच्छेदकत्र दिति यावत् । नन्वाकाशस्यैकत्वे तस्य काञ्च्यां सत्त्वे कावेरीपरिसरे शब्दो नोत्पद्येत कारणाभावात्तत्राह विभ्विति । सर्वव्यापि, सर्वसम्बन्धीत्यर्थः । रूपादिसम्बन्ध आकाशे बाधित इति सर्वद्रव्यसम्बन्धीति वक्तव्यम् ; विभु- नो विभुना न सम्बन्ध इत्यसम्भवासवमूर्नद्रव्यसम्बन्धीति ; ज्ञानमपि विषय- तया तावत्सम्बन्धीत्यतिव्याप्तया सर्वमूर्तद्रव्यसंयोगीति । तच्च न तत्तन्मू- द्रव्यं विशिष्य गृहीत्वा तन्मूर्तसंयोगित्वे सत्येतन्मूर्नसंयोगित्वे सतीत्येवम् । तथा सर्वग्रहणयाशक्यत्वात् । अतो मूर्तत्वव्यापकसंयोगाश्रयत्वं विभुत्वम् । तत्रापि संयोगत्यनेनैकैकसंयोगग्रहणे न कस्यापि मूर्तत्वव्यापकत्वम् , घटा- काशसंयोगादेः पटादावभावादिति संयोगसम्बन्धेन मूर्तत्वव्यापकत्वं तदिति निष्कर्षः । आकाशस्यैकत्वे यदा तस्य नाशस्तदुत्तरं कथं शब्दोत्पत्तिस्तत्राह नित्यमिति । प्रागभावाप्रतियोगित्वध्वंसाप्रतियोगित्वाभयवदित्यर्थः । चा- समुच्चय एकत्वविभुत्वनित्यत्वेष्वन्वति । अतीतति । अतीतशब्दोऽतीतघटादिवस्तुपरः । अतीत आदि- र्येषां ते । आदिशब्दोऽतीततद्भिन्नवस्तुपरः । तेषां व्यवहारो ज्ञानजनक- शब्दप्रयोगः । षप्ठ्यर्थो विषयित्वं ज्ञानेऽन्वति । समासे आदिपदम- तीततद्भिन्नवस्तुविषयकपरम् । अभेदेन ज्ञाने तदन्वयः । व्यवहारपदस्य ज्ञानजनकशब्दप्रयोगनिरूपिते लक्षणा । हेतुः कारणतावान् । एक- देशे कारणतायामभेदेन तदन्वयः । अतीतादिवस्तुविषयकाभिन्नज्ञानज- र्थः 4 T २६ तर्कसंग्रहः । नकशब्दप्रयोगनिरूपिताभिन्नकारणतावदभिन्न इति बोधः । यद्वा अतीत इत्यादिर्येषां ते । इतिशब्दः प्रकारवाचो सा चेहानुपूर्वी । व्यवहारः प्रयोगः । यदीयादिभूतो व्यवहारोऽतीतशब्दवृत्त्यानुपूर्व्यवच्छिन्नविष- षयक इति विग्रहार्थः । समासे आदिपदमतीततद्भिन्नशब्दविषयकपरम् । भिन्नश्च शब्दोऽनागतादिः । अतीतादयो व्यवहारास्तेषां हेतुरित्यादिपूर्व- वत् । अतोऽतीततद्भिन्नशब्दविषयकव्यवहारनिरूपिताभिन्नकारणतावानि- ति बोधः । अतीतादिव्यवहारो हि कालस्यैव व्यवहारः । तत्र काल: कारणम् । व्यवहर्तव्याभावे व्यवहारासम्भवादिति । ननु व्यवहर्तव्य- ज्ञानमेव कारणम् । न तु व्यवहर्तव्यम् । अतः कारणत्वं कालज्ञानस्यैव, न तु कालस्यत्यसम्भवः । न च कालस्य सर्वकारणत्वान्नासम्भव इति वाच्यम् । ईदृशकारणत्वस्यादृष्टेश्वरयोरपि सत्त्वादतिव्याप्तरिति चेत् हेतुपदं जनकज्ञानविषयपरम् । कालज्ञानस्य तादृशव्यवहारासाधारणजनकत्वा- कालस्य तादृशज्ञान विषयत्वमस्तीति न देोषः । ननु जनकज्ञानेत्यनेन, अतीतः भूतलं च घटवदिति समूहालम्बन- ज्ञानस्यापि ग्रहणसम्भवात्तद्विषयत्वं भूतलादावित्यतिव्याप्तिरिति चेन्न जनक- ज्ञानविषयेत्यस्य जनकतावच्छेदकविषयताबानित्यर्थः । नियमेन यद्विषयक- ज्ञानं जनकम् तन्निष्ठविषयतैव जनकतावच्छेदिकेत्यदोषात् । ननु वर्तमाने- त्यस्य शब्दप्रयोगाधिकरणकालेत्यर्थः । अतीतेत्यस्य तादृशकालवृत्तिध्वंस- प्रतियोगीति । अनागतेत्यस्य तादृशकालवृत्तिप्रागभावप्रतियोगीति । तथा चातीतादिशब्दप्रयोगजनकज्ञानं शब्दप्रयोगाधिकरणकालवृत्ति- ध्वंसप्रतियोगीत्यादिरूपम् । तादृशज्ञानविषयत्वं यथा काले तथा कालवृत्तित्वे ध्वंसे प्रागभावे प्रतियोगिनि चेति तत्र सर्वत्राति- याप्तिः । न च जनकज्ञानविषयत्वं नाम जनकतावच्छेदकविशेष्यता- सुखप्रवेशिनीसमेतः । २७ निरूपितविषयतानिरूपितविषयतानिरूपितविषयतानिरूपितविषयताश्रयत्वम् । विशेष्यता प्रतियोगिघटादिनिष्ठा, तन्निरूपितविषयता प्रतियोगित्वनिष्ठा । तन्निरूपितविषयता ध्वंसप्रागभावनिष्ठा , तन्निरूपितविषयता आघयताख्य- वृत्तिनिष्ठा, तन्निरूपितविषयता काल एव । वर्तमानव्यवहारहेतुत्वं च जन- कतावच्छेदकविशेष्यतानिरूपितविषयतानिरूपितविषयताश्रयत्वमेव । शब्द- प्रयोगाधिकरणकालवृत्तीत्यर्थे कालवृत्तिघटादिनिष्ठा विशेष्यता तन्निरूपितवि. पयता वृत्तिनिष्ठा , तन्निरूपितविषयता काल एवेति । सर्व पृथग्लक्षणम् । अतो न दोष इति वाच्यम् । शब्दप्रयोग प्रति यथा अर्थज्ञानं कारणम् तथा शब्दज्ञानमपि । एवमध्ययनकाले शिष्यीयशब्दप्रयोगं प्रति गुरुप्रयुक्तशब्द- ज्ञानं कारणं दृष्टमेव । तस्मादिदं लक्षणमतीतेत्यादिशब्दान्तर्गतवर्णेऽपि भविष्यतीत्यतिव्याप्तरिति चेन्न ; तादृशजनकतावच्छेदकप्रकारताश्रयाय- तानिरूपकत्वं लक्षणम् । तत्र तत्र शब्दप्रयोगाधिकरणकालवृत्तीत्यत्र वृत्ति- रूपाधेयतानिष्ठप्रकारतामादाय लक्षणसमन्वय इत्यदोषात् । ननु किमत्र लक्षणम् ? किमतीतवस्तुविषयकज्ञानजनकशब्दप्रयोग- जनकतावच्छेदकप्रकारताश्रयाधेयतानिरूपकत्वम् , किं वाऽतीतशब्दप्रयो- गजनकतावच्छेदकप्रकारताश्रयाधेयतानिरूकत्वम् ? नोभयमपि सम्भवति । आत्माश्रयात् । लक्षणघटकं हि जनकत्वं नियतपूर्वकालवृत्तित्वरूपम् । तत्र च कालो घटकः । एवं प्रथमेऽतीतवस्त्वित्यस्य शब्दप्रयोगाधिकरणकाल. वृत्तिध्वंसप्रतियोगीत्यर्थ इति च तत्र काला घटकः । ननु लक्षणे लक्षणस्य घटकत्वे ह्यात्माश्रयः । कालत्वमतीतव्यवहारहेतुत्वमिति नोच्यते । किं तु कालस्येदं लक्षणमिति । लक्षणे तु कालत्वमेव घटकम् । तच्च तव्यक्ति- त्वादिरूपमिति न दोष इति चेत् ; तथाऽपि लक्षणघटकस्य कालत्वस्यैव लक्ष- णत्वसम्भवेन लक्ष्यतावच्छेदकघातलक्षणवर्णनमयुक्तम् । न च लक्ष्य २८ तकसंग्रहः । किञ्चिद्रूपेण बुध्वा तस्य किं लक्षणमिति प्रश्ने प्रष्टुर्यत् लक्ष्येऽन्यूनानतिप्र- सक्तत्वेन न ज्ञातम् , तल्लक्षणं वक्तव्यम् । यथा पृथिवीं घटपटादिकां पृथि- वोत्वेन बुध्वा तल्लक्षणप्रश्ने गन्धो लक्षणमुच्यते तद्वत् । प्रकृते लक्ष्यज्ञाने सति कालत्वं ज्ञातमिति लक्षणप्रश्न ज्ञातस्य तस्यैव कथन न युक्तमिति वा- च्यम् । तथा सत्यतीतव्यवहारहेतुत्वरूपप्रकृतलक्षणस्यापि कथनासम्भवा. त् । पुरुषस्य कालज्ञानं ह्यतीतोऽयं अनागतोऽयमित्येवम् । एव- मतीतत्वादिज्ञाने सत्यतीतत्वादिघटके कालेऽतीतत्वादिज्ञानविषयत्वमपि ज्ञा- यतैव । अतो ज्ञातस्य तस्य न लक्षणत्वमिति । किञ्च पृथिवीति ज्ञा- नमात्रणेतरव्यावृत्ततया न ज्ञातमिति हि गन्धो लक्षणमुच्यते । तद्वत् काल इति ज्ञानमात्रेणेतरव्यावृत्तिज्ञानाभावादिदं लक्षणमिति वक्तव्यम् । न च तत्सम्भवति । एतल्लक्षणमध्येऽपि कालत्वेनैव कालघटनादविशेषात् । किञ्च वर्तमानकालवृत्तिध्वंसप्रतियोगिविषयकज्ञानजनकशब्दप्रयोगजनकज्ञान- विषयत्वापेक्षया वर्तमानकालवृत्तिध्वंसप्रतियोगिविषयकज्ञानविषयत्वमेव लघु- लक्षणं भवितुमर्हति । लघुतरं च कालविषयकज्ञानविषयत्वं , लघुतम च कालत्वमेव । लक्ष्यतावच्छेदकस्य लक्षणकोटिप्रवेशाङ्गीकारवलक्षणत्वमपि युज्यत एव । तस्मादेष शिरोवेष्टनेन नासिकास्पर्शो न युज्यत इति चेत्- सत्यम् । अथापि, काल इति किमर्थमतिरिक्तं द्रव्यं कल्प्यम् । वर्तमान- कालः, अतीतकाल इत्यादेस्तत्तत्सूर्यपरिस्पन्दपरतयैव निर्वाहात् । परि- स्पन्दश्च क्रियेति नातिरिक्तवस्तुकल्पनेत्याशङ्का कस्यचिद्भवेत् । तत्र, अ- तिरिक्तानङ्गीकारेऽतीतादिव्यवहारो नोपपद्यते । अतीत इति हि शब्दप्र- योगाधिकरणकालवृत्तिध्वंसप्रतियोगीत्यर्थकम् । तत्र कालपदेन परिस्पन्दन- हणे तस्य शब्दप्रयोगाधिकरणत्वं न भवति । सूर्यनिष्ठक्रियायाः पुरुषनि- छोच्चारणक्रियाधिकरणत्वायोगात् । एवं घटादिध्वंसस्यापि न तवृत्तित्वम् ।

सुखप्रवशिनीसमेतः। २९ प्राच्यादिव्यवहारहेतुः दिक । सा चैका विभ्वी नित्या च । ज्ञानाधिकरणमात्मा। सद्विविधः, परमात्मा जीवात्मा चेति। तत्रेश्वरः सर्वज्ञः परमात्मा एक एव । अतः शब्दप्रयोगाधिकरणत्वघटादिध्वंसाधाश्रयोऽतिरिक्तकालः । तदाश्र- यत्वेन च स प्रतोतिबलात्स्वीकार्यः । प्रतीतिश्च व्यवहारान्यथाऽनुपपत्त्या सिद्धेत्येवं तत्परिहारायातीतादिव्यवहारहेतुरित्युक्तम् । तथा च परिस्प- न्दादिव्यावृत्ततया कालज्ञानमतीतादिव्यवहारहेतुत्वेन भवतीति तल्लक्षणमि- ति । अन 'अपरस्मिन्नपरं युगपच्चिरं क्षिप्रामिति काललिङ्गानी' ति सूत्रानु- सोर अतीतादिव्यवहारो हेतुः साधकप्रमाणं यस्य स इति विग्रहेणातीता- दिव्यवहारानुमेयत्वं कालस्य विवक्षितमित्यपि वक्तुं शक्यम् । अतीता- दिव्यवहारः सूर्यपरिस्पन्दाद्यतिरिक्तवस्तुविषयकः शब्दप्रयोगाधधिकरणतया किञ्चिद्विषयकत्वादित्येवमनुमानप्रकारः । प्राचीति । विग्रहादिकं पूर्ववत् । तथा च प्राचीविषयकज्ञानजनकशब्द- प्रयोगजनकतावच्छेदकविशेष्यताश्रयत्वमिति प्राचीशब्दप्रयोगजनकतावच्छेद- कविशेष्यताश्रयत्वमिति वा निष्कर्षः । प्राचीशब्दार्थो युदयगिरिसन्निहिता दिगिति । तत्र दिशो विशेष्यत्वमेवेति । ज्ञानेति । ज्ञानस्याधिकरणमाधारतावान् । निरूपितत्वं षष्ठ्यर्थः । ज्ञानपदस्य ज्ञाननिरूपिते लक्षणा । आत्मनि समवायेन ज्ञानमस्तोत्यात्मा ज्ञानाधिकरणम् । न च विषयतासम्बन्धेन घटादौ कालिकसम्बन्धेन का- ले च ज्ञानसत्त्वादतिव्याप्तिरिति वाच्यम् ; समवायेन ज्ञान लक्षणमित्याश- यात् । तत्र परमात्मजीवात्मनोः । घटकत्वं त्रलोऽर्थः । परमात्मेत्यत्रा- न्वति । सर्वज्ञः सर्वपदं सर्वविषयकलाक्षणिकम् । अभेदेन ज्ञाधात्व- र्थज्ञाने तदन्वयः । एकः , एकत्वसंख्याविशिष्टः । एकत्वातिरिक्तसंख्या- पर्याप्त्यनधिकरणत्वमेवकारार्थः । अस्याश्रयतासम्बन्धेन परमात्मन्यन्वयः ।

. तर्कसंग्रहः । जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च । ~~~ अन्यपदार्थानां च तत्राभेदेन । एवकारार्थे ईश्वरत्वं सर्वज्ञत्वं च हेतुः । जीवस्त्विति । तुशब्देन परमात्मापेक्षया वैलक्षण्यमाह । प्रतिशरीरं भि- न इति । जीवः शरीरे शरीरे भिन्नः, जीव एकैकशरीरावच्छिन्नोऽपि श- रीरान्तरावच्छिन्नजीवाद्भिन्न इति भावः । अयमर्थः-भिन्न इत्युक्तौ कस्मा- द्भिन्न इत्याकांक्षायां शरीराद्भिन्न इति तावन्न विवक्षितम् । अतो जीवा- द्भिन्न इति वक्तव्यम् । तत्र यत्किञ्चिज्जीवभेदोक्तौ जीवद्वयमात्रसिद्धिः स्यात् न त्वनन्तजीवसिद्धिः । जीवसामान्यभेदोक्तौ तु जीवे तदसम्भवः । अतः शरीरान्तरावच्छिन्नजीवभेदा वाच्यः । तत्र शरीरान्तरेत्यस्य न खाव- च्छेदकशरीरभिन्नशरीरेत्यर्थः, तथा सति जीवद्वयत्रयाङ्गीकारेऽपि क्षतिविर- हात्; खावच्छेदकशरीराण्येतज्जीवीयानि, तद्भिन्नशरीराण्यन्यजीवीयानि, तद- वच्छिन्नजीवसामान्यभेदो जीवेऽस्तीति । अतस्तस्य यत्किञ्चिच्छरीरभिन्न- शरीरत्यर्थः । तथा च जीवद्वयाङ्गीकारे एकैकस्य बहुशरीरसद्भावेन यत्कि- श्चिच्छरीरपदनैकशरीरग्रहणे तद्भिन्नशरीरेत्यनेन तज्जीवीयशरीरान्तरस्यापि ग्राह्यतया तदवच्छिन्नजीवः स एवेति न तस्मिन् जीवे तादृशजीवसामान्य- भेदसिद्धिः । अतोऽनन्तजीवप्रतिपादकत्वमस्य वाक्यस्य । एवमप्येकस्य जीवस्यैकमेव शरीरमन्यानि शरीराणि सर्वाण्यन्यस्यैकस्येत्यङ्गीकारे शरीरपदेन- कशरीरकजीवपरिग्रहे यत्किञ्चिच्छरीरं तदीयम् , तद्भिन्नशरीरावच्छिन्नजीव- सामान्यभेदस्तस्मिन्नस्तीति वाक्यार्थपर्यवसानान्नानन्तजीवपरत्वसिद्धिः, अतः प्रतिशरीरमित्युक्तम् , तथाँचकैकमपि शरीरं पृथक्पृथग्गृहीत्वा तत्र तत्र यत्किञ्चिच्छरीरभिन्नशरीरावच्छिन्नजीवसामान्यभिन्नत्वं जीव उपपादनीयम् । इदं चैकस्य शरीरद्वयाङ्गीकारेऽपि न भवति, यत्किञ्चिच्छरीरपदेन तद्वया- , .

सुखप्रवेशिनीसमेतः। , न्तर्गतैकशरीरग्रहणे तदन्यशरीरं तवयान्तर्गतमन्यदपीति तदवच्छिन्नजीव- सामान्यभिन्नत्वस्य कचिदपि जीवेऽसम्भवात् । अतः शरीरभेदेन जीवभेद- सिद्धिः । अयमत्र बोषः । प्रतिशब्दार्थोव्यापकत्वमधिकरणनिष्ठाभा- वाप्रतियोगित्वं भेदान्वयि । अधिकरणेऽवच्छिन्नत्वसम्बन्धेन शरीरान्वयः । भिन्न इत्यत्र भेदो यत्किञ्चिच्छरीरभिन्न शरीरावच्छिन्नजीवसामान्यप्रतियोगिक- भेदरूपः , शरीरविशिष्टभेद इति यावत् , वैशिष्ट्यं स्वभिन्नशरीरावच्छिन्न- जीवत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन । तथा च शरीरावच्छिन्नाधिक- रणनिष्ठाभावाप्रतियोगित्वाश्रयशरीरविशिष्टभेदनिरूपिताश्रयतावदभिन्नो जीव इति । यदि तु प्रतिशरीरमित्यस्य शरीरत्वव्यापकत्वरूपार्थविवक्षा, तदा यत्र यत्र शरीरत्वम् , तत्र तत्र तादृशभेद इत्यर्थो वाच्यः । तत्र शरीरत्वं शरोरेऽस्ति , तत्र भेदस्य सम्बन्धः स्वाश्रयावच्छेदकत्वम् । अतो व्याप- कता स्वाश्रयावच्छेदकत्वसम्बन्धावच्छिन्ना ग्राह्या । व्यापकताघटकाभावीय- प्रतियोगिता तत्सम्बन्धावच्छिन्नत्युक्तं भवति । एवं च प्रतिशब्दस्याभावा- प्रतियोगित्वमर्थः । अभावे शरीरस्याधेयतासम्बन्धेनान्वयः । शरीरानिष्ठा- भावाप्रतियोगित्वमेव हि शरीरत्वव्यापकत्वम् । यद्यपि भिन्न इत्यस्य पूर्वो- तार्थकत्वे जीवपदार्थस्योद्देश्यतयोद्देश्यविधेयभावमहिम्नैव जीवः सर्वोऽपि निरुक्तभेदवानित्यर्थलाभे सर्वसिद्धया प्रतिशरीरमित्यस्य वैयमित्याशङ्का प्र. सजति ; अथापि प्रतिशरीरामिति पदप्रयोगवशादेव भिन्नपदस्य शरीरभेदा- तिरिक्ततादृशजीवभेदरूपविवक्षितार्थसिद्धिः । एवं सर्वनोद्देश्यविधेयभाव- स्थले व्याप्यव्यापकभावप्रतीतिनियमाभावाजीवानन्त्यं न निश्चीयेतोते तदु- तमिति समाधानं द्रष्टव्यम् । अत एकैकशरीरावच्छिन्नोऽपि जीवः शरी- रान्तरावच्छिन्नजीवाद्भिन्न इत्यत्र प्रथमपदस्येव प्रतिशरीरमित्यस्य न वैय- र्थ्यम् । अत्र चैकस्यापि जीवस्य जन्मभेदेन शरीरभेदस्येष्टत्वादीदृशभेदो ३२ तर्कसंग्रहः । सुखाद्यपलब्धिसाधनमिन्द्रियं मनः, तच्च प्रत्यात्मनियतत्वा- जोवे दुर्वचः । तथा योगजधर्मबलेन बहुशरीरपरिग्रहस्यापि संमततया योगिनि नोवेऽयं भेदो न भवति । अतः स्वभिन्न शरीरेत्यस्य खभिन्नख- समानकालिकयोगजवर्माजन्यशरीरेत्यर्थ इति बोध्यम् । एवं तावत्प्रतिशरीरमित्यत्र शरीरपदस्य यथाश्रुतार्थरक्षणेन, ततच्छ- रीरे शरीरान्तरावच्छिन्नजीवाद्भिन्न इति प्रयोगसमानार्थकत्वानुभवानुसारेण च बोधो वर्णितः । केचित्तु शरीरपदं यत्किञ्चिच्छरीरभिन्नशररिपरम् । ताशशरीरत्वव्यापकभेदप्रतियोगी जीव इति बोधः । व्यापकता खाश्र- यावच्छेदकत्वसंबन्धनेत्याहुः । तत्र भिन्नशब्दस्य भेदप्रतियोगीत्यर्थवर्णन- मयुक्तम् ; घटः पटाद्भिन्न इत्यादौ भेदानुयोगीत्येवानुभवात् । एवं च खाश्रयावच्छेदकत्वसंबन्धविवक्षगे घटभेदमादायान्यथासिद्धिरिति स्वप्रति- योग्यवच्छेदकत्वं संबन्ध इति वक्तव्यम् । एवमपि जीवस्यैकत्वऽपि जीव- घटोभयभेदमादाय जीवस्य भेदाश्रयत्वं भेदप्रतियोगित्वं चास्तीत्यन्यथा- सिद्धिः । तथा भेदे व्यापकत्वविवक्षामपेक्ष्य यत्किञ्चिच्छरीरभिन्नशरीराव- च्छिन्नात्मत्वावच्छिन्नप्रतियोगिताकत्वरूपलधुधर्मनिवेशेनैव सामञ्जस्यात्तदु- पेक्षणमयुक्तमिति मूलस्य न्यूनता स्यादित्यदिरखरसः । मनो लक्षयति सुखेति । सुखमादिर्येषां तानि सुखादीनामुपलब्धिः । षष्ठ्यर्थो विषयित्वम् । तस्यास्साधनं कारणतावत् । निरूपितत्वं षष्ठ्यर्थः । समास उपलब्धिपदस्य मुखतद्भिन्नविषयकोपलब्धिनिरूपितेति लक्ष्यार्थः । अभेदेन कारणतायामन्वयः। तादृशकारणतावदभिन्नमिन्द्रियाभिन्न मन इति बोधः । सुखप्रत्यक्षकारणत्वे सतीन्द्रियत्वं लक्षणम् । आदिपदं सुखव- दुःखादिकमादायापि लक्षणं सुवचमिति प्रदर्शनाय । चक्षुरादावात्ममनःसं- योगरूपसन्निकर्षे चातिव्याप्तिवारणाय दलद्वयम् । प्रत्यात्मनियतत्वा- सुखप्रवेशिनीसमेतः । ३ दनन्तं परमाणुरूपं नित्यं च । चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्लनीलपोतरक्तहरितकपि- दिति । नियतं व्यवस्थितम् । प्रतिशन्नघटितपदसमभिव्याहृतश्च नि. यतशब्दस्तत्पदार्थीयतत्तव्यक्तिव्यवस्थितपरः । तद्व्यवस्थितत्वं च तदितरा- सम्बन्धित्वे सति तत्सम्बन्धित्वम् । तथा च यत्किञ्चिदात्मभिन्नासम्बन्धित्वे सति तत्सम्बन्धित्वम् । खभिन्नासम्बन्धित्वस्वसम्बन्धित्वामयसम्बन्धेनात्म- विशिष्टत्वं प्रकृते नियतत्वम् । प्रतिशब्दस्य पूर्ववयापकत्वमभावाप्रतियोगि- त्वमर्थो नियतत्वेऽन्वेति । आत्मन आघयतासम्बन्धेनाभावेऽन्वयः । व्या- पकत्वं चेदं निरूपकतासम्बन्धेन । यत्र यतात्मत्वम् , तत्र तत्रात्मनि मनोग- तमात्मविशिष्टत्वं निरूपकतासम्बन्धेनास्तीति । आत्मनिरूपितवैशिष्ट्ये ह्यात्मा निरूपकः । ज्ञानज्ञाप्यत्वं पञ्चम्यर्थोऽनन्तत्वान्वयि । अनन्तमिति बहुव्री- हिरिति अन्तपदस्य पर्याप्तिसम्बन्धावच्छिन्नसंख्यानिष्ठप्रतियोगिताकाभावव- दित्यर्थे , स्वव्यापकसंख्यावत्त्वसम्बन्धावच्छिन्नमनस्त्वनिष्ठप्रतियोगिताकामा- ववदित्यर्थे वा लक्षणा । नत्र तात्पर्यग्राहकः । तथा चात्मनिष्ठाभावीय- निरूपकतासम्बन्धावच्छिन्नप्रतियोगित्वाभावव-दात्मविशिष्टत्व-विषयकज्ञान - ज्ञाप्यत्वाश्रय, स्वव्यापकसंख्यावत्वसम्बन्धावच्छिन्नमनस्त्वनिष्ठप्रतियोगिता काभाववदभिन्नं मन इति बोधः । आत्मानो ह्यनन्ताः । अतः प्रत्या- स्मं व्यवस्थितत्वान्मनोऽप्यनन्तमिति । मनस आत्मसम्बन्धित्वं चात्मनिष्ठ- सुखाद्यत्पादकविलक्षणसंयोगाश्रयत्वं । परमाणुरूपमिति । रूपपदस्य परमाणुत्ववति लक्षणा । पृथिव्यादिपरमाणव इव मनांस्यपि परमाणूनीति भावः। एवं द्रव्याणि न्यरूप्यन्त । अथ गुणा निरूप्यन्ते । तत्र प्रथम रूपं निरूपयन् लक्षयति चक्षुरिति । चक्षुरेव चक्षुर्मात्रम् । तेन ग्राह्यः । - 5T ३४ तर्कसंग्रहः । एवकारस्तावत् स्वसमभिव्याहृतपदार्थस्य येन सम्बन्धेन यस्मिन् पदार्थेऽन्वयः समभिव्याहृततत्पदार्थभिन्नपदार्थप्रतियोगिकतत्सम्बन्धाभावं तस्मिन् पदार्थ प्रतिपादयति । अत्र च चक्षुःपदार्थस्य तृतीयार्थे जन्यत्वे निरूपितत्वस- म्बन्धेनान्वय इति एवकारश्चक्षुभिन्ननिरूपितत्वाभावार्थवाचकः । तस्य तृती- यार्थ एव जन्यत्वेऽन्वयः । य एवकारार्थः स मात्रपदार्थ इति । यद्वा एव. कारसमभिव्याहृतपदार्थे यादृशविशिष्टार्थसम्बन्धी विशिष्टवाक्येन प्रतिपावते, तादृशविशिष्टार्थाभावव्याप्यभेदप्रतियोगित्वमेवकारार्थः । तस्य समभिव्याहृ- तपदार्थेऽन्वयः । यथा जले मधुररस एवेत्युक्तौ मधुररसे जलवृत्तित्वं वा- क्येन प्रतिपाद्यते । एवकारस्य जलवृत्तित्वाभावव्याप्यभेदप्रतियोगित्वमर्थः । तस्य मधुररसेऽन्वयः । यत्र यत्र मधुररसभेदस्तिक्तरसादौ तत्र जलवृत्ति- स्वाभाव इति व्याप्तिः । जले इति सप्तम्या आधेयत्वमर्थो मधुररसेऽन्वति । तथा च जलवृत्तित्वाभावव्याप्यभेदप्रतियोगित्वाश्रयो जलनिरूपिताधेयत्वाश्र- यो मधुररस इति बोधः । अत्र चैवकारार्थे घटको भेदः साजात्यरूपः । साजात्यं च वक्तृबुद्धयनुसारेण तत्र तत्र विलक्षणम् । अतो जले मधुर- रसभिन्नशीतस्पीदेः सत्त्वेऽपि न वाक्यार्थक्षतिः । रसानां मध्ये जल म- धुर एवेत्येव वक्तुम्तात्पर्येण रसान्तर्भूतत्वघाटितसाजात्यस्य भेदपदार्थत्वात् । तथा च प्रकृते चक्षुह्यो गुणो रूपमिति वाक्येन चक्षुषि रूपविषयकग्रह- निष्ठजन्यतानिरूपकत्वस्य बोधात् मात्रपदस्य रूपविषयकग्रहनिष्ठजन्यतानि- रूपकत्वाभावव्याप्यभेदप्रतियोगित्वमर्थः । तस्य चक्षुष्यन्वयः । चक्षुः- पदार्थस्य तृतीयार्थे जन्यत्वे । तस्य ग्रहधात्वर्थे ज्ञाने । समासे च मात्र- पदं तादृशभेदप्रतियोगिचक्षुर्जन्येत्यर्थलाक्षणिकम् । अभेदेन तस्य ग्रहेs न्वयः । ण्यत्प्रत्ययस्य विषयतावानर्थः । ग्रहस्य विषयतायां निरूपितत्वं सम्बन्धः । तथा च तादृशविषयतावदभिन्नगुणामिन्नं रूपमिति बोधः । एव.

सुखप्रवेशिनीसमेतः । ३५ कारार्थघटकव्याप्यव्यापकभावनिवेशे गौरवमिति लाघवाच्चक्षुर्भिन्नाग्राह्यत्वे सति चक्षुग्राह्यत्वे सति गुणत्वमिति रूपलक्षणं फलति । अथ वा एव- कारसमभिव्याहृतपदार्थे यादृशविशिष्टवाक्यार्थसम्बन्धो वाक्येन बोध्यते, तादृशविशिष्टार्थव्यापकत्वमेवकारार्थः । जले मधुररस एवेति वाक्यस्य रसमध्ये जले मधुर एवेत्यत्र तात्पर्यात् जलवृत्तिरसत्वव्यापकत्वं मधुररसे बो- ध्यते । व्यापकत्वमभेदसम्बन्धेन । प्रकृतवाक्यस्य चेन्द्रियेषु मध्ये चक्षु- पैव प्राचं रूपमित्यर्थे तात्पर्यात् चक्षुषीन्द्रियान्तर्गतत्त्वविशिष्टं गुणविशेष- विषयकाहनिष्ठजन्यलानिरूपकत्वं वाक्येन बाध्यत इति मात्रपदस्य तादृश- बोध्यमानधर्मव्यापकत्वमर्थः । अथ वा एवकारसमभिव्याहृतपदार्थस्य यादृ- शविशिष्टार्थेन यः सम्बन्धः प्रकृतवाक्यसिद्धः , तस्मिन् तादृशपदार्थ प्रति तेन सम्बन्धेन व्यापकत्वमेवकारार्थः । तादृशविशिष्टार्थव्यापकत्वं च ताह. शविशिष्टार्थनिष्ठाभावाप्रतियोगित्वमात्रम् । प्रकृते च चक्षुषि रूपात्मकगु- णविशेषविषयकग्रहनिष्ठजन्यत्वं प्रति निरूप्यनिरूपकभावसम्बन्धेन व्यापक- त्वमेवकारावगम्यम् । तस्य चक्षुष्याश्रयतासम्बन्धेनान्वयः । एवं चक्षु- पि गुणविशेषग्रहजननव्यापकत्वोक्तौ रूपे चक्षुरितराग्राह्यत्वं फलति । इदं च संख्यावारणाय । गुरुत्ववारणाय चक्षुप्रीयत्वदलम् । यद्वस्तु यदि- न्द्रियग्राह्य तनिष्ठा जातिस्तदभावोऽपि तदिन्द्रियग्राह्याविति न्यायेन रूपत्वा- दावतिव्याप्तिरिति गुणत्वनिवेशः । अत्र चक्षुर्भिन्नेन मनसा रूपस्य प्रा- ह्यत्वादसम्भवः । अतो बहिरिन्द्रियेषु मध्ये चक्षुषव ग्राह्य मित्यत्र वाक्य- तात्पर्यात् चक्षुभिन्नबहिरिन्द्रियाग्राह्यत्वे सतीति प्रथमदलार्थः । एतावतो गुरुत्वात् त्वगग्राह्यत्वे सतीत्येव निवेश्यम् । तथा च त्वगग्राह्या चक्षुर्मा- ह्या च या जातिस्तद्वद्गुणत्त्वं लक्षणम् । एवं च न परमाणुरूपेऽव्या- प्तिः । त्वगग्राह्यत्वे सतीति पृथपविशेषणत्वेनानिवेश्य जातौ तन्निवेशा- २० तर्कसंग्रहः । शचित्रभेदात् सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्त- विधम्, अभास्वरशुक्लं जले, भास्वरशुक्लं तेजसि। रसनग्राह्यो गुणों रसः । स च मधुराम्ललवणकटुकषायतिक्त- भेदात् षट्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः, जले तु मधुर एव। घ्राणग्राह्यो गुणो गन्धः । स द्विविधः सुराभिरसुराभिश्चेति । पृथिवीमात्रवृत्तिः । त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स त्रिविधः शीतोष्णानु- ष्णाशीतभेदात् । पृथिवीजलतेजोवायुवृत्तिः । तत्र शीतं जले, उष्ण- न्नातीन्द्रियसंख्यायामतिव्याप्तिः । प्रभात्वजातिमादाय प्रभायामतिव्याप्ति- वारणाय गुणत्वम् । तञ्चेत्यादि । पूर्ववदर्थः । शुक्लति । शुक्लादिशब्दाः पुसि, चित्रशब्दः क्लीबे । पृथिवीजलतेजोवृत्तीति । तेषु वृत्तिर्यस्ये- ति विग्रहः । वृत्तिपदं पृथिवीजलतेजोनिरूपिताधेयतावल्लाक्षणिकम् । तत्र पृथिवीजलेतजस्सु । घटकत्वं सप्तम्यर्थः पृथिव्यामन्वेति । तदित्यनु- षज्यते । तद्धटकपृथिवीवृत्ति रूपं सप्तविधमिति । अभास्वरशुक्लमिति । तदित्यनुषङ्गाज्जलनिरूपिताधेयतावद्रूपमभास्वरशुक्लाभिन्नमिति बोधः । नात्रा- भास्वरशुक्लोद्देशेन जलवृत्तित्वं विधेयम् । अभास्वरशुक्लत्वस्य पूर्वमज्ञात- त्वात् , तस्य पृथिव्यामपि सत्त्वाच्च । अतस्तदित्यनुषङ्गाजलवृत्तिरूपोहे- शेनाभास्वरशुक्लविधानम् । भास्वरत्वं परप्रकाशकत्वम् , तेजोरूपमात्रवृ- तिजातिरेव वा । असुरभिरिति । सुरभिभिन्न इत्यर्थः । स च द्वि- विधो दुर्गन्ध उपेक्षणीयगन्वश्चीत । पृथिवीमात्रवृत्तिरिति । गन्धनिष्ठा- धेयतानिरूपकत्वव्यापकत्वं मानपदार्थः । समासे वृत्तिपदं पृथिवीतरावृत्ति- त्वविशिष्टपृथिवीवृत्तित्वविशिष्टे लाक्षणिकम् । त्वगित्यादि । रूपलक्ष. णपाक्योक्तरीत्या सर्वमनुसन्धेयम् । एवञ्च गुणपदं वायोः प्रत्यक्षत्वमते तत्रातिव्याप्तिवारणाय । उष्ण इति । ननु 'गुणे शुक्लादयः पुंसी ति शुक्लादिशब्दानां गुणवाचित्वे पुंल्लिङ्गमेव युक्तमिति प्रतीयते । अथाप्य- सुखप्रवेशिनीसमेतः । . .. स्तेजसि , अनुष्णाशीतः पृथिवीवाय्वोः । रूपादिचतुष्टयं पृथिव्यां भास्वरशुक्लमित्यादिः प्रयोगस्तच्छब्दानुषङ्गेण समर्थनीयः ; शुक्लादिशब्दानां सर्वत्र विशेष्यसमानलिङ्गत्वमेव । एवञ्च विशेष्यानुपादाने 'सामान्ये नपुं- सक'मिति क्लीबप्राप्तौ गुणवाचित्वे तदपवादार्थ 'गुणे शुक्लादयः पुंसी'त्युक्त- मिति कोशस्यान्यतात्पर्यस्थापनात् । शीतं जल इति क्लीवनिर्देशश्च शीतं गुण' इति कोशागुणवाचित्वे क्लीबावश्यकतया सम्यगेव । उष्ण इति तु कथम् ? 'उष्णो ग्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गक' इति गुणिवाचित्वे विशेष्यलिङ्गत्वेऽपि 'शीतोष्णमांसरुधिरमुखाझिद्रविणं जल'मिति क्लीबसङ्गहे पठितत्वेन गुणवाचित्वे क्लीबस्यावश्यकत्वात् । न च स इति स्पर्शवा- चिविशेष्यपदानुषङ्गात् विशेष्यानुपादानाभावात्पुंल्लिङ्गमिति वाच्यम् । शीत- मिति पूर्व प्रयुक्ततयाऽनुषङ्गाभावदर्शनात् । न चानुषङ्गेऽननुषङ्गे वा शी- तमिति क्लीब एव । अन्यथा शीतं गुण इति कोशवैयादिति वाच्यम् । वहिं शीतोष्णेति कोशावैयर्थ्या योष्णशब्देऽपि क्लीवस्यैव युक्तत्वादिति चेत्, सत्यम् शीतमित्यत्रानुषङ्गाभावेऽप्यत्रानुषङ्गस्याध्याहारस्य वाऽजीकोरणव पुं- ल्लिङ्गोपपत्तिः । अत एवोपर्यनुष्णाशीत इत्यप्युपपन्नम् । कोशस्तु वि- शेष्यानुपादाने सामान्ये नपुंसकस्य प्राप्तस्यानुवादमात्रमिति बहुलप्रयोगानु- सारेण कोशस्यान्यथा नयनमिति । अथ वा सुरभ्यादिशब्दवद्धर्मिपर्यन्त- वाचिन उष्णादिशब्दस्योष्णानिष्ठेत्येवं लक्षणयाऽर्थः । द्रव्येष्विव गुणादि- प्वाप नित्यानित्यविवेको व्युत्पादनीयः । तत्र रूपरसगन्धस्पर्शेषु विवेक एकरूप इति तत्र तत्र पृथगनुक्त्वा चतुष्टयनिरूपणानन्तरमेकदैव तं व्युत्पा- दयति रूपादीति । रूपमादिर्येषां रूपरसगन्धस्पर्शानां ते रूपादयः। तेषां चतुष्टयम् । षष्ठ्यर्थो घटितत्वम् । आदिपदे बहुव्रीहिप्रयुक्ता चतुष्टय- पदेन सह तत्पुरुषप्रयुक्ता च लक्षणा । अतो रूपतद्भिन्नघटितेत्यर्थः चतुरो अवयवा यस्य तच्चतुष्टयम् । यच्छब्दः समुदायपरः । अव- तर्कसंग्रहः । . पाकजमनित्यं च, अन्यत्नापाकंजं नित्यमनित्यं च, नित्यगतं नित्यम्, अनित्यगतमनित्यम् । यवाः घटकाः । षष्ठ्यर्थो निरूपितत्वम् । तथा च ग्रन्निरूपितनिरूपि- तत्वाश्रयघटकताश्रयाश्चत्वारः । चतुर्घटितसमुदाय इति समासार्थः । रूप- तद्भिन्नघटिताभिन्न-चतुर्घटितसमुदाय इति विशिष्टार्थः । अर्थाद्रूपादय एवं चत्वार इति सिद्धयति । पृथिव्यां रूपादिचतुष्टयं पृथिवीनिरूपिता- धेयत्वाश्रयतच्चतुष्टयम् । पाकजं पाकाजायत इति । पाकपदं पाकनि- रूपिते लाक्षणिकम् । अभेदेन जनिधात्वर्थजन्यतायामन्वयः । पाको वि- लक्षणतेजःसंयोगः । पाकनिरूपिताभिन्नजन्यताश्रयाभिन्नमिति विशिष्टार्थः । चार्थसमुच्चयस्यात्रानित्यमित्यत्र चान्वयः । पाकजत्वादनित्यमिति तात्पर्यम् । नात्र सर्व पाकजमित्युच्यते , अपाकजस्याप्यवयवरूपादिजन्यस्य रूपादेः पष्टादौ सत्त्वति । किं तु 'अनित्यगतमनित्यमित्यत्र न विवादः । नित्य- गतविषये विवेचने जलपरमाण्वादौ पाकाभावान्नित्यम् । पाकसत्त्वात्तु प्रथिवीपरमाणुगतमप्यनित्य'मितीहाभिसन्धिः । अथ वा पाकजमिति । साक्षात् परम्परया वा पाकप्रयोज्यमित्यर्थः । अन्यत्र पृथिवीमिन्ने । आ- धेयत्वं सप्तम्यर्थः । रूपादीत्यनुषज्यते । न तु रूपादिचतुष्टयमिति, ज- लादौ गन्धाभावेन चतुष्टयासम्भवात् । पृथिवीभिन्ननिरूपिताधयतावत् रूपतद्भिन्नमित्यर्थः । पूर्व रूपादीति पृथक्पदमपि चतुष्टयविशेषणं कर्तु शंक्यम् । तदा रूपमादिर्यस्मिन्निति विग्रहः । चेत्यपाकजसमुच्चये । ननु पाकजत्वादनित्यत्वेऽपाकजत्वान्नित्यत्वमेवेति कथमनित्यत्वमाप । एवमे- कस्य नित्यत्वमनित्यत्वं चायुक्तम् । यदि कचिन्नित्यत्वमन्यत्रानित्यत्वं च विवक्षितम् । तर्हि कुत्रेत्यत्राह नित्येति । नित्यं गतम् । गतं प्राप्तमाघय- मित्यर्थः । नित्यमिति । द्वितीया निरूपितत्वं । नित्यपदस्य नित्यनि- रुपिते लक्षणा । आधेयतायामभेदेन तदन्वयः । अनित्यगतमाश्रयोत्प- सुखप्रेवशिनीसमेतः । एकादिव्यवहारहेतुःसंख्या। नवद्रव्यवृत्तिः। एकत्वादिपरार्ध: पर्यन्ता । एकत्वं द्विविधं निरामनित्यं चेति । नित्यगत नित्यम् , अनित्यगतमनित्यम् , द्वित्वादिकं तु सर्वत्रानित्यमेव । तावुत्पद्यते आश्रयनाशे नश्यति । नित्यगतं त्वनादित्वान्नोत्पद्यते , नाश- काभावाच न नश्यतीति भावः । संख्यां लक्षयति एकेति । एक इत्यादिर्येषां ते । एकादयश्च ते व्यवहाराश्च तेषां हेतुः । व्यवहारपदमेकतद्भिन्नशब्दप्रयोगनिरूपितेत्यर्थकम् । हेतुः जनकज्ञानविषयः । जनकत्वे तदन्वयः । तथा चैकशब्दादिप्रयोग- ननकतावच्छेदकप्रकारताश्रयः संख्येत्युक्तं भवति । एकत्वादिव्यवहारहेतु- रिति पाठे तु जनकतावच्छेदकविशेष्यताश्रयत्वमेव लक्षणम् , न तु प्रका- रताश्रयत्वम् । ननु किमेकव्यवहारहेतुत्वं द्विव्यवहारहेतुत्वमित्यादि पृथग्ल- क्षणम् , उत तत्तव्यवहारान्यतमहेतुत्वमित्येकं लक्षगम् । नाद्यः, पृथग्ल- क्षणस्य संख्यायामेकैकस्यामेव सम्भवेन संख्यान्तरेष्वव्याप्तेः । नान्त्यः, विशिष्य परार्धपर्यन्तसंख्याज्ञानस्य युगपदुर्लभत्वादिति चेदुच्यते। संख्या- शब्दप्रयोगजनकतावच्छेदकविशेष्यताश्रयत्वमेव संख्यालक्षणम् । एकादी- त्येतत्तु प्रत्येकसंख्यालक्षणमिति । एकत्वमादिर्यस्याः सा । पराध पर्य- न्तः पर्यन्ते वा यस्याः सा । एकत्वादिश्च सा परार्धपर्यन्ता चेति कर्मधारयः । षष्ठ्या घटकत्वमर्थ एकत्वे परार्धे चान्वेति । एकत्वस्यादिवं प्राथम्यं स्व. स्मात् पूर्व संख्यान्तरराहित्यं खव्याप्यसंख्याशून्यत्वं खभिन्नसंख्याव्यापक- स्वाभाव इति यावत् । पर्यन्तश्च स्वस्मादूवं संख्यान्तरराहित्यं वसंख्या- भिन्नसंख्याव्याप्यत्वाभावः । पर्यन्त इति सप्तम्याः सम्बन्धो वैशिष्ट्यमर्थः । बहुव्रीहौ लक्षणया खभिन्नसंख्याव्यापकत्वाभाववदेकत्वघटिताभिन्न, संख्या- न्तरव्याप्यत्वाभाववत्परार्धघटिताभिन्नेत्यर्थः । द्वित्वादिकमिति । द्वित्वमा- दिर्यस्य तत् । आदित्वं खभिन्न- यत्पदार्थघटकसंख्याव्यापकत्वाभावः ।

तर्कसंग्रहः । - मानव्यवहाराऽसाधारणकारणं परिमाणम् । नवद्रव्यवृत्ति। द्वित्वस्यैकत्वव्यापकत्वेऽपि यत्पदार्थघटकत्वेनाभिमता याः संख्यास्तद्धटकसं- ख्यान्तराव्यापकत्वमस्त्येव । समासार्थस्तु द्वित्वव्याप्यत्वाभाववसंख्योति । सर्वोत्यस्य पूर्वेणान्वयः । सर्व नित्यमनित्यं च । नित्यानित्यवृत्तिता- दृशसंख्येत्यर्थः । एवकारार्थो व्यापकत्वमभेदसम्बन्धेन । द्वित्वादिव्याप- कताश्रयानित्याभिन्नमित्यर्थः । द्वित्वादिकं वस्तुनि न सर्वदा वर्तते । इदमेकमिदमेकामित्यपेक्षाबुद्धौ सत्यामुत्पद्यते । अपेक्षाबुद्धिनाशे च नश्य- तीत्यनित्यमेवेति भावः । पराधसंख्या नामाष्टादशभिवोरैर्दशगुणोत्तरैकत्व- संख्योति क्वचित् । मानेति । मानमिति व्यवहारः शब्दप्रयोगस्तस्यासाधारणं कारणं कारणतावत् । साधारणमित्यस्य तत्सम्बन्धित्वे सति तद्भिन्नसम्बन्धीत्यर्थः । प्रकृते च मानव्यवहारतद्भिन्नसम्बन्धीत्यर्थः । सम्बन्धित्वं प्रकृते निरूपि- तत्वम् । तथा च मानव्यवहारतद्भिन्नोभयनिरूपितभिन्नमसाधारणम् । मानव्यवहारभिन्नानिरूपितमानव्यवहारनिरूपितकारणताश्रयः परिमाणमिति फलितम् । मानव्यवहारतद्भिन्नेोभयनिरूपितकारणता हि नाम तदुभय- निष्ठकार्यतानिरूपितकारणतैव । उभयनिष्ठकार्यतायामुभयनिष्ठ एव धर्मोऽ वच्छेदकः । स च धर्मः कार्यत्वम् । अतः 'कार्यत्वावच्छिन्नकार्यता- निरूपितकारणता साधारणकारणता', 'कार्यत्वानवच्छिन्नकार्यतानिरूपित- कारणत्वमसाधारणकारणते ति व्यवहारः । कार्यसामान्यकारणे कालादृष्टा- दौ मानव्यवहार प्रत्यपि कारणत्वसत्त्वादतिव्याप्तिरतोऽसाधारणेति । वस्तु- तस्तु व्यवहारे व्यवहर्तव्यज्ञानमेव कारणम् । न तु व्यवहर्तव्यमिति प्रकृ. तलक्षणस्य कारणत्वरूपस्यासम्भवः स्यात् । अतो मानव्यवहारकारणी- भूतज्ञानविशेष्यत्वमेव पूर्ववद्वक्तव्यम् । मानव्यवहारकारणतावच्छेदकविशे- प्यताश्रयत्वमिति यावत् । इदं च न कालादृष्टादौ । तस्य हि स्वरूपत सुखप्रवेशिनीसमेतः । ४१ तञ्चतुर्विधम् , अणु महत् दीर्घ हवं चेति । पृथग्व्यवहारासाधारणकारणं पृथक्त्वं, सर्वव्यवृत्ति। संयुक्तव्यवहारहेतुः संयोगः, सर्वद्रव्यवृत्तिः । संयोगनाशको गुणो विभागः, सर्वद्रव्यवृत्तिः । एव कारणत्वम् , न तु ज्ञानद्वारा । एवं चैवं परिष्कारसुचनायैवासाधा- रणेत्युक्तमिति । अणु महद्दीर्घ हस्खमिति अणुत्वं महत्त्वं दीर्घत्वं हख- त्वमित्यर्थः । यथाश्रुते तेषां परिमाणविशिष्टवाचित्वमेव, न परिमाणमा- सवाचित्वमिति । यद्यपि परिमाणादारभ्य नित्यानित्यविवेको ग्रन्थकृता न प्रादर्शि, अथापि स यथायथं परिशीलनीयः । पृथगिति । सर्व पूर्ववत् । संयुक्तेति । संयुक्ते इति व्यवहारः । संयोगस्य द्विनिष्ठत्वात् द्विवचनं युक्तमिति । संयुक्तशब्दजनकतावच्छेदक- प्रकारताश्रयत्वं लक्षणम् । संयोगेति । नश धाताव॑सोऽर्थः । संयोगस्ये- ति षष्ठ्यर्थोऽनुयोगित्वम् । यस्याभावः स प्रतियोगी । अभावोऽनुयोगी । समासे संयोगपदस्य संयोगानुयोगिनि लक्षणा । ण्वुलो जनकतावानर्थः। संयोगानुयोग्यभिन्नध्वंसनिरूपितजनकतावदभिन्नो गुणाभिन्न इति । संयोग- नाशजनकत्वे सति गुणत्वं लक्षणम् । क्रिया, क्रियातो विभागः, विभागात् पूर्वसंयोगनाशः, उत्तरसंयोगोत्पत्तिः, क्रियानाश इति क्रमः । एवं संयोगना- शकत्वं विभागस्य । इदं च कर्मणोऽप्यस्ति । क्रियाभावे संयोगनाशोत्पत्य- सम्भवात् । पूर्वजातविभाग प्रति अनन्तरजनिष्यमाणोत्तरसंयोगं च प्रतीव मध्ये जायमानं संयोगनाशं प्रत्यपि हेतुत्वस्य युक्तत्वाच्च । अतो गुणत्वनिवे- शः । एवमप्यदृष्टेऽतिव्याप्तिः । अतः संयोगनाशत्वावच्छिन्नजन्यतानिरू- पितजनकतावत्त्वे सतीति पूर्वदलं परिष्कार्यम् । अदृष्टे कार्यत्वावच्छिन्न- जन्यतानिरूपितजनकतैवाम्ति, न त्वियम् । 6T ४२ तर्कसंग्रहः। परापरव्यवहारासाधारणकारणे परत्वापरत्वे । ते द्विविधे, दिक्कृते कालकृते चेति । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्क. तमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् । आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति । आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिवीजलतजोवृत्ति। परेत । परं चापरं चेति परापरे । ते इति व्यवहारौ तयारसा- धारणकारणे। परव्यवहारासाधारणकारणत्वं परत्वलक्षणम् , अपरव्यवहा- रासाधारणकारणत्वमपरत्वस्य । अन्यत् पूर्ववत् । दिक्कृते दिशा कृते । कृत्र उत्पत्त्यनुकूलव्यापारोऽर्थः । क्तप्रत्ययस्य फलवदित्यर्थः । आधयत्वं तृतीयार्थः । समासे दिक्पंदस्य दिनिष्ठे लक्षणा । दिनिष्ठाभिन्नो य उत्पत्त्यनुकूलव्यापारस्तज्जन्यफलवती इत्यर्थः । यत्र देशमादाय परत्वादि- वर्णनम् , तत्र दिक्कृतत्वम् । कालमादाय, कालकृतत्वमिति दर्शयति दूरोति । दूरशब्दस्याधिकसंयुक्तसंयोगपरम्परावदित्यर्थः । दूरे तिष्ठतीति दूर- स्थम् । सप्तम्या निरूपितत्वं स्थाधातोराधेयत्वं प्रत्ययस्याश्रयतावच्चार्थः । अधिकसंयुक्त संयोगपरम्परावन्निरूपिताभिन्नाधेयताश्रयनिरूपिताधेयतावत्परत्वं दिक्कृताभिन्नमिति बोधः । समीपशब्दो न्यूनसंयुक्तसंयोगपरम्परावदर्थकः । ज्येष्ठोऽधिकक्षणवान् । कनिष्ठो न्यूनक्षणवान् । आधेति । आधु पतनं तस्यासमवायिकारणमसमवायिकारणता- वत् । असमवायिकारणत्वान्वयि निरूपितत्वं षष्ठ्यर्थः । पतनपदस्याद्यपतन- निरूपिते लक्षणा । आद्यत्वं प्राथम्यं प्रथमोत्पन्नत्वम् । तच्च लाघवात् प- वनध्वंसासमानकालिकत्वम् । प्रकृताद्यपतनात् पूर्वमपि कुत्रापि पतनस्य जनिध्रौव्यादिदमसम्भवीति पतने खसमानाधिकरणति विशेषणं देयम् । नन्वेकमेव वस्तु प्रथमतः पतितं पुनरुत्क्षिप्तं पुनः पतति । तत्र द्वितीय- वारपतनक्रियाखप्याद्यपतनमस्तीति वक्तव्यम् । तत्रेदं खसमानाधिकरण- सुखप्रवेशिनीसमेतः । तत् द्विविधम् , सांसिद्धिकं नैमित्तिकं चेति । सांसिद्धिकं जले। पतनध्वंसासमानकालिकत्वं न भवति । तस्य प्रथमवारीयपतनध्वंसकालि- स्वादिति चेन्मा भूदाद्यत्वं । तद्वस्तुनिष्ठगुरुत्वे प्रथमवारीयाद्यपतनमादाय लक्षण समन्वितमेवेति । अथापि तत्राद्यत्वव्यवहारस्य क्रियमाणतया तदनुगुणं वक्तव्यमिति चेत् खसमानाधिकरणपतनध्वंसोत्पत्त्यसमानकालिक- त्वमाधत्वमित्युच्यताम् । द्वितीयवारीयाद्यपतनमपि न प्रथमवारीयपतन- ध्वंसात्पत्तिकालिकम् । तदध्वंसानां प्रागेवोत्पन्नत्वादिति । द्वितीयादि- पतनं प्रति वेगोसमवायिकारणम् । तत्रातिव्याप्तिरित्यायेति । द्रवत्वेऽतिव्याप्ति- वारणाय पतनेति । प्रस्तरादौ समवायिकारणेऽतिव्याप्तिरित्यसमवायीति । पतनमधोदेशसंयोगानुकूलक्रिया । स्यन्दनं निम्नदेशसंयोगानुकूलक्रिया । सांसिद्धिकमिति संसिद्धौ भवं सांसिद्धिकम् । संसिद्धिस्वभाव आश्रय- सत्ता। भवं सत्तावत् । सप्तम्यर्थः प्रयोज्यत्वम् । प्रत्ययार्थेकदेशसत्तायां संसि- द्वैः प्रयोज्यतासम्बन्धनान्वयः । आश्रयसत्ताप्रयोज्यसत्तावत् । आश्रयस- तामात्रप्रयोज्यसत्ताकम् । अमिसंयोगानधीनमिति यावत् । नैमित्तिक- मिति । निमित्तमवयवगुणातिरिक्तासमवायिकारणम् । घटपटादौ द- हनतपनादौ च द्रवत्वादर्शनास्थलं विशिष्य दर्शयस्तत्रासाधारणकारणमपि विशिष्य निर्दिशति पृथिव्यामित्यादिना । पृथिव्यामिति सप्तम्यर्थो घट- कत्वं घृताद्यन्वयि । पृथिव्यामित्यस्य घृतादाविति विशेषणं वा । तदा सप्तम्यर्थ आधयत्वं द्रवत्वान्वयि । घृतमादिर्यस्याः सा । आदिना जतुप्रभृतिपरिग्रहः । घृततद्भिन्नाभिन्नपृथिवीनिरूपिताधेयतावत् द्रवत्व- ममिप्रतियोगिकसंयोगनिरूपिताभिन्नजन्यतावत् । संयोगपदेऽमिप्रतियोगि- कसंयोगनिरूपिते लक्षणा । पृथिव्यां द्रवत्वं घृतादिवृत्ति अभिसंयोगजं चेत्यर्थेऽनेकविधानाद्वाक्यभेदस्स्यात् । 'घृतादावमिसंयोगजं द्रवत्वं पृथिवीवृत्ति' पृथिवीवृत्तिद्रवत्वं घृताधमिसंयोगजन्य'मित्येवमपि सुवचम् । अथापि घृता- तर्कसंग्रहः । नैमित्तिकं पृथिवीतेजसोः। पृथिव्यां घृतादावग्निसंयोगजं द्रवत्यम् । तेजास सुवर्णादौ । चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः। दिः पृथिवीति स्पष्टप्रतिपत्तिः पूर्वरीतौ । अग्निसंयोगजद्रवत्वं घृतादिपृथि- वीवृत्तीत्यन्बये तु तादृशद्रवत्वसामान्यस्योद्देश्यत्वं न भवतीति विशेषस्यैवोद्दे- श्यत्वं खीकर्तव्यम् । सुवर्णादाविति । द्रवत्वमग्निसंयोगजमित्यनुष- ज्यते । आदिना रजतादिग्रहणम् । अत्र 'सर्जितुमधूच्छिष्टानां * पार्थि- वानामनिसंयोगात् द्रवत्वमद्भिः सामान्यम्', 'त्रपुसीसलोहरजतसुवर्णानाम- मिसंयोगात् द्रवत्वमद्भिः सामान्यम्” इति सूत्रे अनुसन्धये । चूर्णेति । आदिना गुडपरिग्रहः । अपिण्डस्य पिण्डस्य भावः पि- ण्डीभावः । अपिण्डस्य पूर्वकालिकपिण्डत्वाभाववतः । पिण्डशब्दो विलक्ष. णसंयोगविशिष्टवाची। भावस्सत्ता । अपिण्डाभिन्नपिण्डवृत्तिसत्तेति विग्रहा- थः । समासे च्चिप्रत्ययार्थः समभिव्याहृतपदार्थतावच्छेदकपिण्डत्वादि- धर्मः । तत्र पिण्डपदार्थस्याधेयत्वपूर्वकालावच्छिन्नखनिष्ठाभावप्रतियोगित्वो- भयसम्बन्धेनान्वयः । विप्रत्ययापिण्डत्वस्य भावपदार्थे सत्तायां सामाना- धिकरण्यसम्बन्धेन । तथा च पिण्डनिरूपिता या पूर्वकालावच्छिन्नाभाव- प्रतियोगित्वविशिष्टाघेयता तद्वद्धर्मविशिष्टसत्तेति पिण्डीभावशब्दार्थः । प्रकृ- ते विलक्षणसंयोग इत्येतावदेव विवक्षितम् । तस्य हेतुः कारणतावान् । समासे पिण्डीभावशब्दे चूर्णतद्भिन्नवृत्तिविलक्षणसंयोगनिरूपितेत्यर्थलक्षणा। अभेदेन कारणतायामन्वयः । स्नेहो जले वर्तमानः खाश्रयसंयुक्तत्वसम्ब- न्धेन चूर्णादौ सम्बद्धय तत्र समवायेन विलक्षणसंयोगमुत्पादयतीति तदसा- धारणं निमित्तकारणम् । चूर्णादीति न लक्षणघटकम् । किं तु पिण्डीभावः कस्येत्यत्र सम्बन्धिप्रदर्शनार्थम् । विलक्षणसंयोगत्वावच्छिन्नकार्यतानिरूपि. * अस्मदीये वैशेषिकदर्शनविमर्श इदं द्रष्टव्यम् ।

४५ सुखप्रवशिनीसमेतः । श्रोत्रग्राह्यो गुणः शब्दः। स द्विविधा , ध्वन्यात्मको वर्णात्म- कश्चेति । ध्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः । सर्वव्यवहारहेतुः ज्ञानं बुद्धिः। सा द्विविधा, स्मृतिरनुभवश्चेति । तकारणतावत्त्वे सति गुणत्वं लक्षणम् । चूर्णादावतिव्याप्तिवारकं गुणत्वम् । ध्वनीति। ध्वानरात्मा यस्य । आत्मा स्वरूपमसाधारणधर्मविशिष्ट- व्यक्तिः । षष्ठ्यर्थ आघयत्वं धर्मेऽन्वति । समास आत्मशब्दस्य ध्वनि- त्वविशिष्टे लक्षणा । भेर्यादाविति सप्तम्यर्थोऽवच्छेद्यत्वम् । मेरीतद्भि- ननिरूपिताधेयतावान् ध्वनित्वविशिष्टाभिन्नशब्दः । भेर्याद्यवच्छेदेन हि ध्वनिराकाशे जायते । संस्कृतेति । आदिना संस्कृतभाषाव्यतिरिक्तानां सर्वासामपभ्रंशभाषाणां ग्रहणम् । संस्कृतभाषादिषु रूपं यस्येति विग्रहः । भाषा हि ज्ञानजनकवर्णसमुदायः । तद्धटकं वर्णस्वरूपमिति । सर्वेति । सर्वश्चासौ व्यवहारश्च तस्य हेतुः । संवत्वं समभिव्याहृतपदार्थतावच्छेदकव्या- पकं बुद्धिविशेषविषयत्वम् । तत्पर्याप्त्यधिकरणं सर्वशब्दार्थः । व्यवहा- रपदस्य तादृशबुद्धिविशेषविषयतापर्याप्त्यधिकरणव्यवहारनिरूपितेति लक्ष्या- र्थोऽभेदेन हेतुत्वेऽन्वेति । तादृशहेतुत्ववदभिन्ना ज्ञानाभिन्ना बुद्धिरिति बोधः ननु संख्यादीनामपि यत्किश्चिद्यवहारहेतुत्वस्य प्रागुक्तत्वात्तत्रातिव्याप्ति- वारणाय सर्वपदमिति वक्तव्यम् । नैतच्छक्यम् । अत्र हि हेतुत्वं जन- कत्वमेव, न तु जनकज्ञानविषयत्वम् । ज्ञानस्य साक्षादेव कारणत्वात् । संख्यादीनां च न साक्षाज्जनकत्वमिति । तत्कुतःसर्वपदमिति चेत् सत्यम् । संख्यापरिमाणादिलक्षणे व्यवहारविशेषणतया संख्या मानेत्यादि निवेश- नोयमासीत् । अन्यथाऽतिव्याप्तेः । तद्वदत्र किमपि विशेषणं व्यवहारे न देयम् । अस्वैतव्यवहार प्रत्येव कारणत्वं न त्वन्यव्यवहार प्रतीत्यस्या- भावाद्यवहारसामान्यकारणत्वादिति बोधनार्थमेव सर्वेत्युक्तम् । अतो व्य- तर्कसंग्रहः । । संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिनं ज्ञानं अनुभवः । स द्विविधः , यथार्थोऽयथार्थश्च । वहारहेतुत्वमेव लक्षणम् । अदृष्टऽतिव्याप्तिवारणाय व्यवहारत्वावच्छिन्न- कार्यतानिरूपितकारणतावत्त्वमिति निष्कर्षः । ज्ञानमिति पर्यायपदं बुद्धि- शब्देनान्तःकरणादि विवक्षितमिति भ्रमव्युदासाय । संस्कारेति । संस्कारबाहिरिन्द्रियमध्ये संस्कारमात्रजन्य ज्ञान स्मृतिरित वक्त्रभिप्रायः । अतो मात्रपदं संस्कारबाहिरिन्द्रियमध्यघटकवृत्ति यत् स्मृ- तिनिष्ठजन्यतानिरूपकत्वं तद्व्यापकत्वार्थकम् । व्यापकत्वमभेदसम्बन्धेन । तस्याश्रयः संस्कारः। तथा च समासे मात्रपदं संस्कारबहिरिन्द्रियमध्यघट- कवृत्ति-स्मृतिनिष्ठजन्यतानिरूपकत्वव्यापकसंस्कारनिरूपितार्थकम् । तस्य जन्यतायामभेदेनान्वयः । तथा च बहिरिन्द्रियाजन्यत्वे सति संस्कारज- न्यत्वे सति ज्ञानत्वं लक्षणं फलितम् । सेयं गौरित्यादिप्रत्यभिज्ञायां, अनु- मित्यादौ, संस्कारध्वंसे चातिव्याप्तवारणाय क्रमेण दलानि । स्मृतेरापि मनो- नन्यवादसम्भवः स्यादिति बहिरिति । अत एव संस्कारेतराजन्यत्वे सतीति सामान्यरूपेण नोक्तम् । ननु सोऽयमहमिति मानसप्रत्यभिज्ञाप्रत्यक्षेऽति- व्याप्तिः । अस्य स इत्यंशे संस्कारजन्यत्वात्, अन्यांशस्य चात्मादेवहिरिन्द्र- याग्राह्यतया बहिरिन्द्रियाजन्यत्वात् । न चास्य स्मृतित्वमिष्टमिति वाच्य- म् । तथा सति तुल्यन्यायेन सेयं गौरित्यस्यापि स्मृतित्वस्यैष्टव्यतया प्रथम- दलं नापेक्षितमिति मात्रपदवैयर्थ्यात् । न च प्रत्यभिज्ञायामशत एव स्मृ- तित्वमस्ति, अंशान्तरे त्वन्यथेति तत्त्वबोधनाय मात्रपदम् । न तु लक्षण किञ्चिन्निवेशनोयमिति वाच्यम् । तथा सति स्मृतिभिन्नं ज्ञानमनुभव इत्य- नुभवलक्षणस्य तताव्याप्तयापत्तेः । तत्रानुभवत्वस्येष्टत्वादिति चेत् लौकिक- विषयताशून्यत्वे सति संस्कारजन्यत्वे सति ज्ञानत्वं स्मृतिलक्षणम् । एतत्सू- चनाय मानपदमिति दिक् । तद्भिन्नम् स्मृतिभिन्न संस्कारमात्रजन्यभि- ४७ सुखप्रवेशिनोसमेतः । तद्वति तत्प्रकारकानुभवो यथार्थः । सैव प्रमेत्युच्यते । यथा रजते इदं रजतमिति । नम् । तस्माद्भिन्नमिति पञ्चम्यर्थोऽनुयोगित्वं भेदेऽन्वति । तच्छब्दस्य संस्कारमात्रजन्यानुयोगिनि लक्षणा। क्तप्रत्ययार्थ आश्रयतावत् । तद्भिन्नत्वं घटादावपि, ज्ञानत्वं स्मृतावपोति दलद्वयम् । यथाभूतोऽर्थो यस्मिन्ननुभवे स यथार्थः । यथाभूत इत्यस्य प्रकार- विशिष्ट इत्यर्थः । अयथेत्यस्य प्रकारशून्य इत्यर्थः । प्रकाराविशिष्टवस्तु- विषयको यथार्थः प्रकारशून्यवस्तुविषयकोऽयथार्थ इत्युक्तं भवति । इद- मनुसृत्य तयोलक्षणं स्मृतिव्यावर्तकदलघटितमाह तद्वतीत्यादिना । सो. ऽस्यास्तीति तद्वान् । मतुबर्थः सम्बन्धी । सम्बन्धे तच्छब्दार्थः खप्रतियोगि- त्वसम्बन्धेनान्वेति । विशेष्यत्वं च सप्तम्यर्थ आश्रयतासम्बन्धेनानुभवे । स प्रकारो यस्य स तत्प्रकारकः । प्रकारः प्रकारतावान् । षष्ठ्यर्थो निरूपि. तत्वं प्रकारतान्वयि । प्रकारशब्दस्य समासे तन्निष्ठप्रकारतानिरूपके लक्ष- णा । यथार्थः यथार्थशब्दवाच्यः । तथा च तत्प्रतियोगिकसम्बन्धवन्नि- रूपितविशेष्यिताविशिष्ट-तन्निष्ठप्रकारतानिरूपकानुभवाभिन्नो यथार्थशब्दवा- च्याभिन्न इति बोधः । रजते इन्द्रियसन्निकर्षे सति 'इदं रजत मिति यो- ऽनुभवः स यथार्थः । तत्र रजतत्वं प्रकारः तत्सम्बन्धि रजतं विशेष्यमि- ति, विशेष्यता रजतनिष्ठा । तन्निष्ठविशेष्यतानिरूपितविशष्यिता ज्ञान स्ति । प्रकारता रजतत्वनिष्ठा । तादृशप्रकारतानिरूपितप्रकारिताऽपि ज्ञान इति तादृशप्रकारतानिरूपकत्वमपि ततेति लक्षणसमन्वयः । इदं. रजतमित्यनुभवानन्तरं या कदाचित् 'तद्जत मिति यथार्थस्मृतिस्तत्राति- व्याप्तिवारणायानुभवत्वनिवेशः । तद्वतीत्यनिवेशे किञ्चित्प्रकारकत्वे सत्य- नुभवत्वमित्युक्तं भवति । इदमयथार्थानुभवेऽप्यस्ति , तत्रापि कस्यचि- सकारत्वात् । अतस्तद्वतीत्युक्तम् । किञ्चिद्विशेष्यकत्वमात्रोक्तावपि तत्रैवा- ४८ तर्कसंग्रहः । , तिव्याप्तिः तदज्ञानविशेष्ये शुक्तयादावपि कस्यचिद्धर्मस्य वर्तमानत्वात् । अतस्तत्प्रकारकत्युक्तम् । किश्चिद्वति किञ्चित्प्रकारक इत्युक्तावपि तत्राति- व्याप्तिरेष । तस्य शुक्तित्वरूपकिञ्चिद्वति रजतत्वरूपकिञ्चित्प्रकारकत्वात् । अतः प्रथमकिञ्चित्पदेन यत् गृह्यते तदेव द्वितीयकिञ्चित्पदेन ग्राह्यमिति ज्ञापनायोभयत्र तच्छब्दप्रयोगः । नन्वेवमपि कदाचिद्रजते शुक्तौ चन्द्रिय- सन्निकर्षे सति 'इमे शुक्तिरजते इति विपरीतज्ञानमुदति,तत्र ज्ञानऽतिव्याप्तिः, रजतत्वप्रकारकत्वस्य रजतत्ववद्विशेष्यकत्वस्य च सत्त्वादिति चेदुच्यते । अत्र हि विपरीतज्ञान रजतांशे शुक्तित्वं प्रकारः , शुक्तयंशे च रजतत्वम् । अतो रजतत्ववन्निष्ठविशेष्यतानिरूपिता शुक्तित्वनिष्ठप्रकारतैव । शुक्तित्व- वन्निष्ठविशेष्यतानिरूपिता च रजतत्वनिष्ठप्रकारतैव । अतो रजतत्वनिष्ठ- प्रकारतानिरूपकत्वस्य शुक्तित्ववद्विशेष्यकत्वस्य चावच्छेद्यावच्छेदकभावः । ययाविषयतयोनिरूप्यनिरूपकभावस्तन्निरूपितविषयितयोरवच्छेचावच्छेदक - भाव इत्यङ्गीकारात् । एवं शुक्तित्वनिष्ठप्रकारतानिरूपकत्वस्य रजतत्ववद्वि- शेष्यकत्वस्य चावच्छेद्यावच्छेदकभावः । अतो रजतत्ववन्निरूपितविशेष्यित्वा- वच्छिन्ना रजतत्वनिष्ठप्रकारतानिरूपकता तत्र नास्ति । प्रकृते च तद्वति तत्प्रकारक इत्यनेन तद्वन्निरूपितविशेष्यित्वावच्छिन्नतन्निष्ठप्रकारतानिरूपक- ताशालित्वे सत्यनुभवत्वमिति लक्षणं विवक्षितम् । अतो न दोषः । सैवे. त्येवकारेणायथार्थानुभवव्यवच्छेदः । अथ वा तद्वति तत्प्रकारकत्वेनानुभ- वसजातीयायथार्थस्मृतिय॑वच्छिद्यते । स्मृतेर्यथार्थत्वेऽपि न प्रमात्वमङ्गी- क्रियत इति । सा यथार्थानुभवः । इतिशब्दस्यानुपूर्वीरूपप्रकारोऽर्थः । प्रमापदं प्रमाशब्दार्थकम् । तस्यानुपूर्व्यामाधेयतासम्बन्धेनान्वयः । उच्यत इति धात्वर्थो ज्ञानजनकशब्दः । तत्रतिशब्दार्थस्याश्रयतासम्बन्धेनान्वयः । तस्य कर्मप्रत्ययार्थे फले । तस्याश्रयतया सेतिपदार्थे । अथ वा प्रमेति सुखप्रवेशिनीसमेतः । ४९ तदभावधति तत्प्रकारकानुभवोऽयथार्थः, स एव भ्रम इत्युच्य- ते, यथा शुक्तौ इदं रजतमिति । यशार्थानुभवश्चतुर्विधः, प्रत्यक्षानुमित्युपमितिशाब्दभेदात् तत्करणमपि चतुर्विधम् , प्रत्यक्षानुमानोपमानशब्दभेदात् । प्रमतिपदेन उच्यते शक्तयोपस्थाप्यत इत्यर्थः । ननु सति स्त्रीलिङ्गनिर्देशः कथं ? पूर्व पुल्लिङ्गनिर्देशात् । न च शैत्यं हि यत् सा प्रकृतिलस्य' इति पूर्व नपुंसकनिर्दिष्टमपि स्त्रीलिङ्गशब्देन परामृश्यते , कुतः विधेयप्राधान्यात् । तद्वदिहापीति वाच्यम् । अत्र प्रमाशब्दार्थस्य विधेयत्वाभावात् । प्रमेत्यु- च्यत इति उच्यमानत्वं ह्यन विधेयम् । तत्कथं स्त्रीलिङ्गमिति । सत्यम् । उच्यमानत्वस्य विधेयत्वेऽप्यन्ततः प्रमात्वविधान एवं पर्यवसानमिति तदनुरोधेन तथेति । यद्वा सैव प्रमा' इति इतीदं उच्यत इत्यर्थः । अत्र इतिशब्द आनुपूर्व्यवच्छिन्नशब्दप्रतिपाद्यार्थपरः । सैव प्रति वर्ण- समुदायस्याधेयतासम्बन्धेनानुपूामन्वयः । ईदृशवर्णसमुदायनिष्ठानुपूर्व्य- वच्छिन्नशब्दप्रतिपाद्यार्थ उच्यते तार्किकैः कथ्यत इति वाक्यार्थः । एवं च सेत्यत्र प्रमाशब्दार्थ एव विधेय इति न स्त्रीलिङ्गानुपपत्तिः । तदभाववति तस्याभावस्तद्वति । षष्ठ्या अनुयोगित्वमर्थः । समासे तच्छब्दे प्रकृतप्रकारानुयोगिनि लक्षणा । अभेदेनाभावेऽन्वति । तदभावाश्रयनिरूपितविशेष्यित्वावच्छिन्नतन्निष्ठप्रकारतानिरूपकत्वविशिष्टानु- भवत्वमयथार्थानुभवलक्षणम् । शुक्ताविन्द्रियसन्निकर्षे यो विपरीतानुभव इदं रजतमिति, सोऽयथार्थः । अयथार्थस्मृतावतिव्याप्तिवारणायानुभवत्वम् । शिष्टं यथार्थानुभववारणाय । रङ्गरजतयोरिन्द्रियसन्निकर्षे सति जायमाने इमे रङ्गरजते इति यथार्थानुभवेऽतिव्याप्तिवारणायावच्छिन्नत्वघटितपरिष्कारः । शाब्देति । शाब्दत्वं शब्दजन्यबोधमात्रवृत्तिजातिविशेषः । तत्करणं करणं । करणतावत् । तच्छब्दो यथार्थानुभववाची यथार्थानुभवनिरूपित- 7 T ५० तर्कसंग्रहः । w करण- असाधारणकारणं करणम् । लाक्षणिकः । अपिशब्दः यथार्थानुभवसमुच्चये । तत्करणमित्यत्र करण- शब्दार्थः क इत्यत्राहासाधारणति । साधारण तत्सम्बन्धित्वे सति तदन्यसम्बन्धि । सम्बन्धश्च प्रकृते प्रमायाः करणमित्यत्र प्रमायाः करणत्वे निरूपितत्वसम्बन्धेनान्वयात् निरूपितत्वरूपः । अतः साधारणपदं प्रकृते प्रकृतकार्यभिन्नकार्यनिरूपितार्थकम् । असाधारण प्रकृतकार्यभिन्नकार्या- निरूपितम् । अस्य कारणपदार्थकदेशकारणतायामन्वयः । मित्यस्य प्रकृतकरणशब्दवाच्यमित्यर्थः । एवञ्च तत्तत्कार्यभिन्नकार्यानिरू- पितकारणतावत् तत्र तत्र करणमिति भावः । इदमत्राकूतम् । केचि- व्यापारवदसाधारणकारणं करणम् , यथा घटं प्रति दण्डः । तत्र दण्डेन घटे जननीये मध्ये भ्रमणं हि व्यापार इत्याहुः । अनेन तादृशकारणे करणशब्दप्रयोगः सिद्धः । अन्ये तु, यदव्यवहितोत्तरक्षणे कार्य भवति तत्करणम् । यथा कपालद्वयसंयोगो घटं प्रतीत्याहुः । अनेन व्यापारे ऽपि करणशब्दप्रयोगः सिद्धः । दण्डभ्रमणादिकमपि चक्रभ्रमणमृत्पिण्ड- भ्रमणतदीयसंयोगविशेषादिकं क्रमेणोत्पादयत् व्यापारवत् कारणमेव । अतो ऽस्माभिरुभयत्न करणशब्दप्रयोगस्य प्रामाणिकत्वं स्वीकृत्योभयानुगतलक्षण- वर्णनमेवोचितम् । तच्च लक्षणमसाधारणकारणत्वम् । कालादृष्टादिक तु साधारणत्वान्न करणम् । ननु प्रमातुः प्रमेयस्य च प्रमाणत्वं स्यादिति चेत् तदेतद्व्यापारवत्कारणं करणमिति मतेऽपि तुल्यम् । तयोर्मनःसंयो- गेन्द्रियसंयोगद्वारा कारणत्वात् । अतो व्यापारस्य व्यापारवतश्च करण- त्वमिष्टमिति । अत एव ग्रन्थकार इन्द्रिये प्रत्यक्षकरणत्वं लिङ्गपरामर्शस्या- नुमितिकरणत्वं च वक्ष्यति । दर्शयिष्यति चानुमानदीपिकायां, 'व्यापा- खदसाधारणकारणं करणमिति मते' इति निर्देशेन मूले तस्यानभिमतत्वम् । 'तदेतततिविधकारणमध्ये यदसाधारणकारणं तदेव करण' मित्युपरि वा- सुखप्रवेशिनीसमेतः । कार्यानयतपूर्ववृत्ति कारणम् । यथा, घटादिकं प्रति दण्डा- दिः । कार्य प्रागभावप्रतियोगि। क्यमपि करणत्वस्य सव्यापारनिर्व्यापारसाधारण्य व्यनक्ति । ७ करणपदार्थघटकः कारणपदार्थः क इत्यत्राह कार्येति । नियतं व्यापकम् । पूर्वा वृत्तिर्यस्य तत् । षष्ठ्यर्थ आधेयत्वम् । पूर्वा पूर्वकालनिरूपिता यनिष्ठाधेयता पूर्वकालनिरूपिताभिन्ना । पूर्वका- लनिरूपिताधेयतावदिति समासाथः । नियतं च तत्पूर्ववृत्ति च । कार्यस्य नियतपूर्ववृत्ति । षष्ठ्यों निरूपितत्वं व्यापकत्वे पूर्वत्वे चान्वेति। कार्यनिरूपिताभिन्नव्यापकत्वाश्रय,कार्यनिरूपिताभिन्नपूर्वत्वाश्रय- कालनिरूपिताधेयतावत् कारणशब्दवाच्यमिति बोधः । कार्यव्यापकत्वे सति कार्यपूर्वकालवृत्तित्वं कारणत्वम् । यत् प्रकृतकार्योत्पत्तिस्थले सर्वत्रास्ति कार्योत्पत्तिप्राकाले , तत् प्रकृतकार्यकारणम् । यत्प्रति कारणत्वं वक्तव्यम् तद्वस्तुपरिचायकं कार्यपदम् । न तु लक्षणे निवेश्यम् । स्वस्यापि स्वव्यापकत्वात् खं प्रति कारणत्वापत्चिरित्युत्तरदलम् । घटपूर्ववृत्तौ रासभे घटकारणत्ववारणाय पूर्वदलम् । ननु दण्डत्वदण्डरूपादीनां घटं प्रति कारणत्वापत्तिः , नियतपूर्ववृत्तित्वादिति चेत् तत्तद्भिन्नत्वनिवेशेन तत्त- द्वारणीयम् । इदमेवानन्यथासिद्धत्वमिति ध्येयम् । कारणशब्दार्थनि- रूपणे निर्दिष्ट कार्य नाम किमित्यनाह कार्यमिति । प्रागभावस्य प्रतियोगि । षष्ठ्यों निरूपितत्वं प्रतियोगित्वान्वयि । यत् प्रागभूत्वा पश्चाद्भवति तत्कायम् । अयं भावः–कारणलक्षण पूर्ववृत्तीत्यस्य प्रागभावाधिकरण- कालवृत्तीत्यर्थः । तत्र प्रागभावपदेन यत्प्रागभावो गृह्यते तत् कार्यम् । तत्प्रागभावाधिकरणकालवृत्ति सत् यत् तन्नियतं तत्कारणमिति । एवं कारणं लक्षयित्वा प्रतिकार्य कारणं वा करणं वा नैकमेव कि तर्कसंग्रहः । कारणं त्रिविधम् , समवाय्यसमवायिनिमित्तभेदात् । यत्स- तु यथासम्भवमनेक' मिति व्युत्पादनाय तद्विभजते कारणमिति । लम- वाय्यसमवायिनिमित्तभेदात् समवायिकारणासमवायिकारणनिमित्तका- रणभेदात् । आघं निक्ति यदिति । यस्मिन् समवेतम् । समवेत समवायप्रतियोगि। सप्तम्यर्थ आधेयत्वं । तदाधेयत्वम् च तदनुयोगिक- कत्वम् । उत्पूर्वक पद्ल धातोर्जन्यत्वमाख्यातस्याश्रयत्वमर्थः । यदनु. योगिकसमवायप्रतियोग्यभिन्न कार्य जन्यतानिरूपिताश्रयत्वाश्रय इति बोधः । यच्छब्दघटितवाक्यात् यच्छब्दार्थ यादृशवाक्यार्थसम्बन्धोऽवगम्यते तादृश- वाक्यार्थसम्बन्धविशिष्टयच्छब्दार्थ एव तच्छब्दात्वरसतः प्रतोयते । यथा पीतमम्बरं यस्य स इत्युक्तौ स इत्यतः पीतरूपाम्बरविशिष्ट इत्यर्थः प्रतीय- ते । अत इह तच्छब्द उत्पद्यमानकार्यप्रतियोगिकसमवायानुयोगीत्यर्थकः । तत् समवायिकारणशब्दवाच्यम् । अत्रेदं बोध्यम् -- समवायिकारण- पदस्य समवायि च तत्कारणं चेति विग्रहः । समवायानुयोगि सत् कारणम् समवायिकारणम् । घटस्य समवायिकारणमित्युक्तौ घटपदा- थस्य समवाये कारणत्वे चान्वयात् घटप्रतियोगिकसमवायानुयोगि सत् घटकारणमित्यर्थो लभ्यते । इत्थं च तत्समवायानुयोगित्वे सति तत्कारणत्वं तत्समवायिकारणत्वमित्युक्तं भवति । असमवायिकारणादेरपि समवायि- कारणत्वापत्तिरित प्रथमदलम् । परमाण्वेकत्वं प्रति परमाणोः कारणत्वा- पचिरिति द्वितीयम् । एवञ्च गुणादौ 'अयमस्य समवायिकारण' मिति विशेषव्यवहारस्य नापत्तिः । अर्थानन्वयात् । अथापि सामान्यतो गुणः समवायिकारणामिति व्यवहारापत्तिः ; गुणस्यापि रूपादे रूपत्वादिजातिस- मवायानुयोगित्वात् घटरूपादिकं प्रति कारणत्वाच्च । अतः कार्यसमवा- यानुयोगि सत् कारणं समवायिकारणशब्दार्थ इति वक्तव्यम् । एवञ्च का- सुखप्रवेशिनीसमेतः। ५३ मवेतं कार्यमुत्पद्यते तत् समवायिकारणम् , यथा, तन्तवः पटस्या रणमिति व्यर्थम् । तथा च कार्यसमवायानुयोगित्वमेव समवायिकारणत्वमि- ति यत् समवेत कार्य तत् समवायिकारण' मित्येतावदेवालमिति मूले उ. स्पद्यत इति पदं व्यर्थमित्याशंक्यत-अनोच्यते । कारणताविशेषस्य समवायिकारणत्वस्य कारणताघाटतत्वं युक्तम् । समवायिकारणमिति पदाच कारणत्वं स्फुटं प्रतीयते । अतः कारणत्वघटित एव तदर्थः, न त्वघटितः कार्यसमवायानुयोगीत्यर्थः । तत्र चार्थे समवायोति पदलब्धसमवायसम्बन्धोड पि घटनोयः । एवञ्च समवायसम्बन्धावच्छिन्नकार्यतानिरूपितकारणताव- दित्यर्थो वक्तव्यः सिद्धयति । एतल्लाभायोत्पद्यत इत्युक्तम् । लाभप्र. कारश्चायम् -- यत्समवेतं कार्यमुत्पद्यत इत्यस्य कार्य यत्समवेतं सदुत्पद्यते इत्यर्थः । तत्र यत्समवेतत्वविशिष्टकार्यमित्युद्दिश्य जन्यत्वं विधीयते । उद्दे- श्यतावच्छेदकं यत्समवेतत्वपदबोध्यम् । उद्देश्यविधेयभावस्थले चासति बाधक उद्देश्यतावच्छेदकावच्छिन्नत्वं विधेये भासत इति नियमः । अतोऽन विधेयभूतजन्यतायां समवेतत्वावच्छिन्नत्वं भासते । समवेतत्वावच्छिन्नत्वं च समवायप्रतियोगित्वावच्छिन्नत्वं समवायसम्बन्धावच्छिन्नत्वमेव । तथा च समवायसम्बन्धावच्छिन्नकार्यतानिरूपितकारणतावत्त्वमिति सिद्धम् । यध- पीदमसमवायिकारणेऽतिव्याप्तम् । अथापि कारणतायां तादात्म्यसम्बन्धाव- च्छिन्नत्वनिवेशान्न दोषः । कार्यतायां समवायसम्बन्धावच्छिन्नत्वनिवेशप्र- योजनं तु, प्रत्यक्षे विषयस्य घटादेः कारणतया तत्र तस्य समवायिकारण- त्वापत्तिः विषयतासम्बन्धेन प्रत्यक्षं प्रति तादात्म्यसम्बन्धेनैव विषयस्य कार- णत्वादिति तद्वारणमेव । एवं सर्वसम्मतसमवायिकारणलक्षणसिद्धिरिति । यथेत्यस्योदाहरण लक्ष्यप्रदर्शनमर्थो विषयतासम्बन्धेन तन्तुष्वन्वेति । पटस्येति समवायिकारणमिति शेषः । निरूपितत्वं षष्ठ्यर्थः समवायि- तर्कसंग्रहः । पटश्च खगतरूपादेः । कार्येण कारणेन वा सहकस्मिन्नर्थे समवेतं सत् कारणं असमवायि- कारणम् , यथा तन्तुसंयोगः पटस्थ तन्तुरूपं पटगतरूपस्य च। कारणत्वेऽन्वति । यद्वा यथा यत्प्रकारविशिष्टम् । पटसमवायिकारण- भूतास्तन्तव उक्तसमवायिकारणलक्षणरूपप्रकारविशिष्टा इत्यर्थः । रूपादे- रित्यादिना क्रियादिपरिग्रहः । असमवायीत्यस्य न समवाय असमवायोति विग्रहः । समवायी- त्यस्य हि समवायानुयोगीत्यर्थः तद्भिन्नमसमवायि समवायप्रतियोगि । समवेतं कारणमसमवायिकारणमिति लब्धम् । तत्र च कुत्र समवेत- मित्याकांक्षायां कार्य समवेतमिति तावद्वक्तुं न शक्यते, कायें सम- वेतस्य कार्योत्पत्त्यनन्तरभावितया कार्य प्रति कारणत्वासम्भवात् । अत औचित्यात् कार्यकारणे तत्कारणे वा समवेतं कारणमसमवायिकारण- मिति वक्तव्यमित्यभिसन्धाय तल्लक्षणमाह कार्येणेति । अत्र सहेत्यस्य समवेतमित्यत्र धात्वर्थे समवायेऽन्वयात्समवायाधिकरणमित्यर्थः । तृतीया- थः प्रतियोगितानिरूपकत्वं सहशब्दार्थघटकसमवायेऽन्वेति । वाशब्दस्य खसमभिव्याहृतपदार्थस्य यत्रान्वयस्तन्निष्ठोऽभावोऽर्थः । प्रकृते समभिव्या- हृतस्य कार्येणेत्यस्य सहशब्दार्थकदेशे समवायेऽन्वयात समवायनिष्ठाऽभावो वाशब्दार्थः । तस्य प्रतियोगितासम्बन्धन कार्येण कारणेनेति तृतीया- र्थयोरन्वयः । तथा च समवायनिष्ठाभावप्रतियोगि यत् कार्यप्रतियो- गिकत्वं यच्च समवायनिष्ठाभावप्रतियोगि कारणप्रतियोगिकत्वम् , तद्वि- शिष्टसमवायाधिकरणेति सहान्तार्थः । सहशब्दार्थाधिकरणस्य खानु- योगिकत्वसम्बन्धेन समवतमित्यत्र समवायेऽन्वयः । अर्थ इति सप्तम्य- र्थश्चानुयोगितानिरूपकत्वं तत्रैवान्वेति । सदित्यस्यासाधारणधर्मावशिष्टाम- सुखप्रवेशिनीसमेतः। ५५ यादृशः त्यर्थः । समवेतपदार्थस्यासाधारणधर्म आधेयतासम्बन्धेनान्वयः । सम- वैतनिष्ठासाधारणधर्मश्च समवेतत्वमेव । तथा च प्रकृतवाक्यप्रतिपायो सहशब्दार्थघटकसमवायस्तनिष्ठाभावप्रतियोगिकार्यप्रतियोगिकत्व. विशिष्ट-ताशसमवायनिष्ठाभावप्रतियोगिकारणप्रतियोगिकत्वविशिष्टसमवाया- धिकरणानुयोगिक- एकाभिन्नार्थानुयोगिक-समवायप्रतियोगिनिष्ठासाधारणधर्म- विशिष्टाभिन्नकारणमसमवायिकारणमिति वाक्यार्थः । तन्तुद्वयसंयोगः पटा- समवायिकारणम् । तन्तुरूपं च पटरूपस्य । तत्र कार्येण पटेन सहकस्मिन्नर्थे तन्तौ समवेतं कारणं तन्तुद्वयसंयोगः । कार्यस्य पटगतरूपस्य कारणेन समवायिकारणेन पटेन सहैकस्मिन्नर्थे तन्तौ समवेत कारणं तन्तुगतरूपमिति द्विविधमसमवायिकारणम् । तत्र प्रथमे कार्येण सह समवेतत्वमादाय समन्वयात्सहशब्दार्थघटकः समवायः कार्यप्रतियोगि- कः , न तु कारणप्रतियोगिकः । द्वितीये कारणेन सह समवेतत्वमिति स समवायः कारणप्रतियोगिक एव । एवञ्चकैकसमवायेऽप्यपरप्रतियोगि- कत्वाभावसत्त्वाद्वाशब्दप्रयोगः । अत्र समवेतं सत्कारणमित्यनेन समवेत. त्वविशिष्ट कारणतोक्तया समवेतत्वावच्छिन्ना कारणतेति लभ्येत । सम- वेतत्वं च समवाय एव । तथा च कार्यसमवायाधिकरणानुयोगिकसमवा- यावच्छिन्ना कार्यसमवायिकारणसमवायाधिकरणानुयोगिकसमवायावच्छिन्ना वा कारणोत लब्धम् । तत्र च, यत्र कार्यमुत्पद्यते तत्र कारणमस्तीत्य- स्यैव वक्तव्यतया प्रकृते कार्यः पटः समवायनोत्पद्यते तन्ताविति तत्रैव तन्तुद्वयसंयोग उपपादनीयः । एवं कार्य पटरूपं पटे उत्पद्यत इति तत्रैव तन्तुरूपमुपपाद्यम् । अतोऽत्र कार्यसमवायाधिकरणत्वान्तं प्रथमदले कार्यसमवायिकारणत्वान्तं द्वितीयदले चोपलक्षणम् । अवशिष्टांशे कारण- तावच्छेदकसम्बन्ध उपलक्षणांशे च समवायरूपकार्यतावच्छेदकसम्बन्धो . .

तर्कसंग्रहः। दर्शितः । तथा च समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायवस- मवायिसमवेतत्वान्यतरसम्बन्धावच्छिन्नकारणत्वमसमवायिकारणत्वमिति फ- लितम् । अत्र कार्यतावच्छेदकसम्बन्धमात्रनिवेशे समवायिकारणेऽतिव्या- प्तिः । कारणतावच्छेदकसम्बन्धमाननिवेशे रूपस्य द्रव्यप्रत्यक्ष समवायन द्रव्यसमवेतप्रत्यक्षे खसमवायिसमवेतत्वसम्बन्धेन च कारणतया प्रत्यक्ष प्रति पटरूपादेरसमवायिकारणत्वापत्तिः कारणतावच्छेदकसम्बन्धयोरेकतरनिवेशे चान्यतरस्मिन्नसमवायिकारणेऽतिव्याप्तिरितीत्थं निवेशः । नन्वेवं कार्येण कारणेन वा सह समवेतमित्यनेनैव सर्वसिद्धावेकस्मिन्नर्थ इति व्यमिति चेदुच्यते । सहशब्दार्थोऽधिकरणं कालरूपं वा देशरूपं वा भवति । तत्र कालः प्रकृते न गृह्यत ति स्पष्टप्रतीतये तदुक्तिः । वस्तुतः कार्यप्रतियोगिकसमवायस्य कारणप्रतियोगिकसमवायस्य वाऽधिकरणं यावद्वस्तु भवति तावत्समवेतमेव कारणामति न । किं तु तत्रैकस्मि- न्समवेतमपि कारणम् । यथा हस्तपुस्तकसंयोगः कायपुस्तकसंयोगकारणम् । तत्र कार्यसमवायाधिकरणं कायः पुस्तकं च । हस्तपुस्तकसंयोगरूपं कारणं तु न तावत्समवेतम् । किं तु पुस्तकमात्रे । तथाऽपि तत्कारणमेव । एवं तन्तुरूपाणि पटरूपं प्रति कारणम् । तत्र पटरूपात्मककार्यस्य कारणं पटस्तत्समवायिकारणं बहवस्तन्तवः । तावत्सु समवेतमेकं रूप नास्ति । एकैकरूपस्यैकैकवृत्तित्वात् । एवं पटीयचित्ररूपकारणस्य तन्तुगतनीलादि- विभिन्नरूपस्यापि यावत्तन्त्ववृत्तित्वं द्रष्टव्यम् । तस्मादेकवृत्तित्वेऽप्यसमवा- यिकारणत्वं भवतीति ज्ञापनायैकस्मिन्नर्थ इत्युक्तम् । एवमेतदुक्तया काचिदाशङ्काऽपि परिहृता । सा तावत् 'असमवायिकारणत्वं हि समवेत- कारणत्वम् । अतः कारणतायां द्विविधासमवायिकारणलक्षणेऽपि समवा- यसम्बन्धावच्छिन्नत्वमेव निवेश्यताम् । कार्यवायामेव तु समवाय, खसम- सुखप्रवेशिनीसमेतः । तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य । चायिसमवायान्यतरसम्बन्धावच्छिन्नत्वमित्येवंरूपा । परिहारप्रकारश्च- कायपुस्तकसंयोगः समवायेन काये पुस्तके चास्ति । हस्तपुस्तकसंयोगरूप- कारणं तु पुस्तक एकस्मिन्नेव न तु कायऽपि । तथा स एव कायपुस्त- कसंयोगःस्वसमवायिसमवायसम्बन्धन कायावयवेषु हस्तपादादिषु पुस्तका- वयवेषु पत्रादिषु चास्ति । हस्तपुस्तकसंयोगस्तु हस्त एकस्मिन्नवावयवे नान्यत्रति तस्य कारणत्वं न स्यात् । अत एकस्मिन्नर्थे समवेतस्यापि का- रणत्वात्कारणतायामेव सम्बन्धद्वयं पूर्वोक्तरीत्या विवक्षणीयम् । न तु कार्यतायाम् । एवञ्च कायपुस्तकसंयोगः काये पुस्तके च । हस्तपुस्त- कसंयोगोऽपि पुस्तके समवायेन , काये स्वसमवायिहस्तसमवेतत्वसम्बन्धनति न दोष इति । एवं घटः समवायिसमवायसम्बन्धन कपालावयवेऽस्ति,तत्र कपालद्वयसंयोगः समवायेन नास्तीत्येवं सर्वत्र व्यभिचारादपि कार्यतायां सम्बन्धभेदं विहाय कारणतायामेव स ग्राह्य इति ध्येयम् । तन्तुसंयोगः तन्वोः संयोगः । पटस्येति । असमवायिकारणामिति शेषः । एवमग्रेऽपि । चस्तन्तुसंयोगसमुच्चये तन्तुरूपस्थे । तदिति । तयोरुभयं तस्माद्भिन्नम् । घटितत्वं षष्ट्यर्थः । पञ्चम्य- र्थोऽनुयोगित्वं भेदेऽन्वेति । तथा चोभयपदं समवायिकारणप्रतियोगिका- समवायिकारणप्रतियोगिकपरम् । अभेदेन भेदे तदन्वयः । निमित्त- कारण निमित्तकारणशब्दवाच्यम् । तथा च समवायिकारणप्रतियोगिकभेद- वत्त्वे सत्यसमवायिकारणप्रतियोगिकभेदवत्त्वे सति कारणत्वं निमित्तलक्षण- म् । समवायिकारणे, असमवायिकारणे, पारिमाण्डल्यादौ चातिव्याप्ति- वारणाय क्रमेण दलनिवेशः । अदृष्ट लक्षणसमन्वयः । उदाहरति यथेति । ST ५८ तर्कसंग्रहः । तदेतत्निविधकारणमध्ये यदसाधारणकारणं तदेव करणम् । तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । ननु तुर्यादीनां तुर्यादिनिष्ठरूपादिकं प्रति समवायिकारणत्वादिसद्भावात् समवायिकारणभिन्नत्वादिदलाभावादव्याप्तिः । न च समवायिकारणता- भिन्नाऽसमवायिकारणताभिन्ना च या कारणता तद्वत्त्वमेव निमित्त- कारणत्वम् । अत्रैव ग्रन्थतात्पर्यम् । एवं च यथा तुर्यादौ तत्तद्रूपादि. समवायिकारणता तथा तद्भिन्ना पटादि प्रति कारणताऽप्यस्तीति लक्षणसम- न्वय इति वाच्यम् । एवं तार्ह कारणत्वं निमित्तकारणत्वमित्येव सुवच- त्वात् कचिदप्यतिव्याप्त्यभावादिति चेन्न । कारणत्वमात्रस्य निमित्तल- क्षणत्वे परमाणावतिव्याप्तः तस्य समवायिकारणत्वेऽपि किंचित्प्रति निमित्त- कारणत्वाभावात् । एवं जलपरमाणुरूपादावसमवायिकारणेऽतिव्याप्तिः । अतो दलद्वयनिवेशः । किं च निमित्तकारणतास्वरूपं किमिति प्रश्ने सम- वायिकारणत्वादिभिन्न कारणत्वमित्येव वक्तव्यम् । अन्यथा समवायिका- रणत्वादेरापि निमित्तकारणताखरूपत्वप्रसङ्गात् घटं प्रति कपालस्यापि निमि- तकारणत्वापातादिति । तुरीति । तुरीवेमानौ आदी यस्य तत् । यस्य करणशब्दार्थस्य निरूपणाय कारणशब्दार्थ सामान्यतो विशे- षतश्च निरूपितवान् तं करणशब्दार्थमुपसंहरति तदिति । तेषां सामान्य- तो लक्षितानामेतेषां विशेषतो लक्षितानां त्रिविधानां कारणानां मध्ये । घटितत्वं मध्यशब्दार्थः । षष्ठ्यर्थ आधेयत्वम् । निरूपकत्वं सप्तम्यर्थः । घटितत्वस्य निरूपितत्वसम्बन्धेनान्वयः । निरूपकत्वस्य कारणऽन्वयः । एवं करणशब्दार्थव्युत्पादनेन तत्करणमपि चतुर्विधमिति वाक्यस्यार्थमवगमि- तवान् । तदुपर्येवमाशङ्का — यथार्थानुभवविभागेऽपि प्रत्यक्षानुमितीत्येवं प्रत्यक्ष प्रवेशितम् । तत्करणविभागऽपि । तत् कथम् ? न टेकस्यैव कार्यत्वं कारणत्वं च सम्भवतीति । इमामाशङ्कां परिहरति । तत्रे- ति । तत्न प्रत्यक्षानुमानापमानशब्देषु प्रत्यक्ष प्रत्यक्षपदवाच्यं प्रत्यक्ष.

सुखप्रवेशिनीसमेतः । । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तत् द्विविधम्, निर्वि- कल्पकं सविकल्पकं चति । तत्न निष्प्रकारकं ज्ञानं निर्विकल्पकम् । Trademar... ज्ञाननिरूपितासाधारणकारणतावदभिन्नामिति । तथा चानुभवविभागे प्रत्य- क्षपदं प्रत्यक्षज्ञानपरं करणविभागे च तत्पदं तत्करणपरमिति न दोष इति । ननु प्रत्यक्षज्ञानकरणमित्यत्र प्रत्यक्षज्ञानं नाम किम् ? तदाहेन्द्रियेति । एवं चेश्वरीयप्रत्यक्ष नित्ये एतल्लक्षणाभावेऽपि न क्षतिः । अस्य ग्रन्थस्यो- तप्रश्नसमाधानार्थत्वात् । अर्थेन घटपटादिना सह सन्निकर्षः सम्बन्धः । तृतीयार्थः साहित्यं वैशिष्ट्यमाघाराधेयभावरूपम् । अर्थनिष्ठसम्बन्धस्या इति यावत् । अर्थे सन्निकर्ष इत्येव वा विग्रहः । इन्द्रियस्यार्थसन्निकर्षः । षष्ट्यों निरूपितत्वम् । एतेनेन्द्रियार्थसनिकषैत्यस्येन्द्रियप्रतियोगिका- थानुयोगिकसम्बन्धेत्यर्थकत्वे श्रोत्रेन्द्रियशब्दसन्निकर्षस्याग्रहणम् । श्रोत्रे- न्द्रियस्याकाशत्वात् शब्दस्य तत्राधेयत्वात् सन्निकर्षस्य समवायस्याकाशप्रति- योगिकत्वशब्दानुयोगिकत्वयोरभावात् आधारो ह्यनुयोगी ; आधेयः प्रतियोगी- ति । तस्येन्द्रियानुयोगिकार्थप्रतियोगिकसम्बन्धपरत्वे चक्षुर्घटसंयोगाद्यग्रह- गम् , घटस्यानुयोगिताया एव स्वरसत्वादित्यपास्तम् । अन्यविधार्थस्यो- तस्य सर्वानुगतत्वात् । सन्निकर्षाजन्यम् । पञ्चम्यर्थो निरूपितत्वम् । निष्प्रकारकमिति । निष्क्रान्तं प्रकारात् । निष्क्रान्तं सम्बन्धशून्यं । सम्बन्धश्च प्रकारिता । प्रकारनिरूपितप्रकारिताशून्यमिति यावत् । तथा च प्रकारिताशून्यत्वे सति ज्ञानत्वं लक्षणम् । घटादिवारणाय द्वितीयदल- म् । निर्विकल्पकमित्यत्र विकल्पो नाम भेदः । स च प्रकारित्वविशे- यित्वसंसर्गित्वाख्यविषयितारूपः । तच्छून्यमित्यर्थो लभ्यते । तत्र निष्प्र- कारकमित्यनेन प्रकारिताशून्यत्वमात्रमुक्तं, तावदेव लक्षणं पर्याप्तमिति । एवं विशेप्यिताशून्यत्वं संसर्गिताशून्यत्वमपि पृथग्लक्षणं संभवति । इद. मत्र बोध्यम्-अयं मनुष्यः, अयं पशुरित्यादिज्ञानं तावदनुभवसिद्धम् । , ६० तर्कसंग्रहः । सप्रकारकं ज्ञानं सविकल्पकम् । यथा, डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयं पाचकोऽयं इति । प्रत्यक्षशानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः । संयोगः, तत्रायमर्थों विशेष्यः, मनुष्यत्वादि विशेषणम् । एवं विशेषणविशेष्यविषय- कत्वात्तद् ज्ञान सविकल्पकं विशिष्टज्ञानमित्युच्यते । विशिष्टज्ञाने च वि- शेषणज्ञानं कारणम् । न हि दण्डस्य ज्ञानाभावे दण्डी पुरुष इति ज्ञान भवति । तदत्र मनुष्यत्वादिकं विषयीकृय प्रथमत एकं ज्ञानं भवतीति स्वीकार्यम् । तच्च न विशिष्टज्ञानम् , तत्पूर्व कस्यचिद्विशेषणस्य ज्ञानाभा- वात् । तत्र च मनुष्यत्वज्ञाने मनुष्यत्वमनुष्यव्यक्त्योः संसर्गों भासतां मा वा । प्रकारस्तावद्विषयी भवति । परं तु न प्रकारतया विषयी भवति । कस्यचिद्विशेष्यतया भानाभावेऽस्य प्रकारतया भानस्य दुर्वचत्वात् । अत एवं प्रकारज्ञानतया कल्प्यमानस्य, प्रकारज्ञानान्तरापेक्षा नास्तीति प्रदर्शनाय निष्प्रकारकमित्येव निर्विकल्पकं लक्षितवान् ग्रन्थकारः, न तु निर्विशेष्यकं निःसंसर्गकमित्येवम् । निर्विकल्पकस्य चाकारो न प्रदर्शितः, तस्यातीन्द्रि- यत्वात् । ननु यथार्थानुभवान्तभूते प्रत्यक्षे निर्विकल्पकमन्तर्भूतम् । अत्र यथार्थानुभवसामान्यलक्षणस्याव्याप्तिः , किञ्चित्प्रकारकत्वाभावादिति चेन्न । अयथार्थभिन्नत्वे सत्यनुभवत्वं निर्विकल्पकसाधारणयथार्थानुभवलक्षणमित्याश- यादिति दिक् । लोके नामजातिगुणक्रियाभिर्वस्तुपारच्छेदो भवति । तदभिसन्धाय क्रमेण चत्वायुदाहरणानि दर्शयति यथेति । सर्वत्रायम्पदोत्तरमन्ते नि- दिष्टस्येतिशब्दः सम्बन्धः । डित्थः डित्थनामविशिष्टः । इतिशब्दार्थो विषयित्वम् डित्थाभिन्नदमर्थनिरूपितविषयतावदित्यर्थः । ज्ञानमित्यनुषङ्गः । , सुखप्रवेशिनीसमेतः । ६१ संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसम. घायः, विशेषणविशेध्यभावश्चति । चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घटरूपप्रत्यक्षे संयुक्तलमवायः, चक्षुःसंयुक्ते घटे रूपस्य समवायात् । रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवा- यः सन्निकर्षः, चक्षुःसंयुक्ते घटे रूपं समवेतम् , तत्र रूपत्वस्य स- मवायात् । श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः, कर्ण- विवरवृत्त्याकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वात् गुणगुणिनोः समवायात् । शब्दत्वसाक्षात्कारे समवेतलमवायः सन्निकर्षः, . चक्षुषेति प्रयोज्यत्वं तृतीयार्थः । घटेति । द्रव्यसामान्योपलक्षणम् । जनन इति सप्तम्यर्थः प्रयोजकत्वम् । चक्षुनिरूपितप्रयोज्यत्वाश्रयद्रव्यप्र- त्यक्षोत्पत्तिप्रयोजकत्वाश्रयसन्निकर्षः संयोग इत्यर्थः । घटरूपप्रत्यक्ष इति । चक्षुषेत्यनुषङ्गः । घटसमवेतरूपविषयकप्रत्यक्ष इत्यर्थः । द्रव्यसमवेत. विषयकचाक्षुषप्रत्यक्ष इति यावत् । सप्तम्यर्थः प्रयोजकत्वमनुषक्तसन्निकर्ष. पदार्थेऽन्वति । एवमग्रऽपि । उपपादयति चक्षुरिति । रूपस्य सन्नि- कर्षजन्यप्रत्यक्षविषयरूपस्य । ज्ञानज्ञाप्यत्वं पञ्चम्यर्थः । तस्य संयुक्त- समवायत्वे संयुक्तसमवाय एव वाऽन्वयः । तथा च घटरूपप्रत्यक्षजनक. सन्निकर्षः खजन्यप्रत्यक्षविषयरूपप्रतियोगिक, चक्षुःसंयुक्तघटानुयोगिकसम- वायविषयकज्ञानज्ञाप्यसंयुक्तसमवायाभेदाश्रयः इति समुदायार्थः । घटस्य चक्षुःसंयुक्तत्वं रूपस्य तत्समवेतत्वं च यदि ज्ञायते तदा रूपप्रत्यक्ष सन्नि- कर्षः संयुक्तसमवाय इति ज्ञायते । एवमुत्तरत्र । रूपत्वसामान्यप्रत्यक्ष द्रव्यसमवेतसमवेतविषयकचाक्षुष । कर्णविवरेति । विवरं सन्निवेश- विशेषः कर्णविवरे वृत्तिर्यस्य तस्याकाशस्य । वृत्तिरवच्छिन्नत्वम् । विवर इति सप्तम्यर्थो निरूपितत्वम् । तथा च कर्णसम्बन्धिसन्निवेशविशेषावच्छिन्ना- काशनिष्ठाश्रोत्रत्वज्ञानज्ञाप्यत्व, शब्दनिष्ठाकाशगुणत्वज्ञानज्ञाप्यत्व, गुणगुणि- ६२ तर्कसंग्रहः। , श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । अभावप्रत्यक्षे विशेष. णविशेष्यभावः सन्निकर्षः , भूतलं घटाभाववत् इत्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात् । एवं सन्निकर्षजन्य ज्ञान प्रत्य- क्षम्। तत्करणमिन्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् । सम्बन्धित्वविशिष्टसमवायज्ञानज्ञाप्यत्वाश्रयसमवायाभेदाश्रयः श्रोत्रजन्यशब्द- साक्षात्कारजनकसन्निकर्ष इति । पञ्चम्यन्तत्रयार्थविषयकज्ञानं समवायज्ञाने कारणम् । इत्यनेति । इतिशब्दार्थः विषयित्वरूपधर्मः अत्रेतीदंशब्दार्थों बुद्धिस्थं ज्ञानम् । सप्तम्यर्थो निरूपितत्वं विशेषणत्वेऽन्वति । ज्ञाने भूत- लस्य विशेषणत्वात् भूतलनिरूपिता घटाभावनिष्ठा विशेषणता । तथा च घटाभाववद्भतलनिरूपितविषयिताश्रयज्ञाननिरूपितत्वाश्रय, चक्षुःसंयुक्तभूत- लनिरूपितत्वाश्रय, घटाभावनिरूपिताधेयताश्रयविशेषणत्वविषयकज्ञानज्ञा- प्यत्वाश्रयविशेषणविशेष्यभावाभेदाश्रयस्तादृशसन्निकर्ष इति । विशेषणवि- शेष्यभाव इत्यनेन प्रकृते विशेषणत्वं विवक्षितम् । ननु सन्निकर्षः प्रत्य- क्षे कारणम् । कारणं च कार्यनियतपूर्ववर्ति । विशेषणत्वं तु घटाभा- वस्य प्रत्यक्षजननान्तरं भविष्यति । न पूर्वम् । स कथं सन्निकर्ष इति चेत् ; सत्यम् न विशेषणत्वं सन्निकर्षः । किं तु प्रत्यक्षेऽभावस्य विशेषण- ताप्रयोजको भूतलस्य घटाभावस्य च यः सम्बन्धः स एव सन्निकर्षः । एवं च संयुक्तविशषणतेत्यस्य संयुक्तीयखरूपसम्बन्ध इत्यर्थ इत्यन्यत्र विस्तरः । पूर्वमिन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षमित्यत्रेन्द्रियार्थसन्निकर्षजन्यत्वं कथामति प्रश्ने तन्निरूपणमेतावता विधायोपसंहरति एवमिति । एवं प्रत्यक्षानुमानति विभागवाक्ये प्रत्यक्षपदस्य प्रत्यक्षज्ञानकरणेत्यर्थमुक्त्वा प्रत्य- क्षज्ञानमुपपाद्य तत्करणमेव प्रत्यक्षपदवाच्यमिति व्युत्पाद्य तत्करणं किमित्य- व विशिष्य तदर्शयति तत्करणमिति । तस्मादिति । अयं भावः-प्रत्यक्षा- सुखप्रवेशिनीसमेतः। नुमानोपमानशब्दभेदादित्यस्य प्रत्यक्षज्ञानकरणानुमितिकरणोपमितिकरणश- ब्दभेदादित्यर्थः सिद्धयति । न तथैव विभजने तात्पर्यम् , तत्र प्रत्यक्ष- ज्ञानत्यादेरिन्द्रियार्थसन्निकर्षजन्यज्ञा नेत्येवमर्थकतया तत्तदर्थघटकेन्द्रियादिमा- त्रेण विभजनस्य सुकरत्वेन शिरोवेष्टनस्यायुक्तत्वात् । तथा चेन्द्रियपराम- शसादृश्यज्ञानशब्दभेदादित्येव विभागे तात्पर्यम् । अत एवेन्द्रियार्थसन्नि- करेत्यपि न विभागवाक्ये निवेशनीयम् । इन्द्रियार्थसन्निकर्षस्येवेन्द्रियस्या- प्यसाधारणकारणत्वप्रसिद्धिसद्भावेन तावन्मात्रोक्त्यैव सामञ्जस्यात् । न च तर्हि परामर्शेत्यपि न वक्तव्यम् । परामर्शपदस्य व्याप्तिविशिष्ट पक्षधर्म- ताज्ञानेत्यर्थकतया तद्धटकस्य व्याप्तिज्ञानस्य करणतया निर्देशस्य युक्तत्वा- दिति वाच्यं व्याप्तिविशिष्ट पक्षधर्मताज्ञानमित्यस्य शोधने व्याप्तिज्ञानति वि- शिष्टांशस्य तत्र घटकत्वाभावात् । घटकोक्त्यैव सामञ्जस्ये घटितं न वक्त- व्यमित्येतावत एव प्रकृते विवक्षितत्वात् । व्याप्तिज्ञानं वा वक्तव्यं पक्ष- धर्मताज्ञान वेति विनिगमनाविरहाच्च । अत एव 'तस्माल्लिङ्गपरामर्शोऽनु- मान'मिति वक्ष्यतीति । इति प्रत्यक्षपरिच्छेदः।

६४ तर्कसंग्रहः । अनुमानपरिच्छेदः। अनुमितिकरणं अनुमानम् । परामर्शजन्यं ज्ञानं अनुमितिः । व्यतिविशिष्टपक्षधर्मताज्ञानं परामर्शः । mory प्रत्यक्षानुमानति करणविभागवाक्य प्रत्यक्षशब्दार्थ उक्तः । अनुमा- नशब्दार्थः क इत्यत्राह अनुमितीति । अनुमितिनिरूपितकरणतावदनुमान- शब्दवाच्यमिति बोधः । तद्धटकानुमितिशब्दार्थमाह परामर्शत । परा- मशध्वंसऽतिव्याप्तिवारणाय ज्ञानत्वम् । परामर्शशब्दार्थमाह व्याप्तीति । व्याप्तया विशिष्टम् । पक्षस्य धर्मः धर्म आधयतावान् षष्ठ्यर्थो निरूपितत्वं धर्मस्य भावो धर्मता । असाधारणधर्मस्तत्प्रत्ययार्थः । एवं च पक्ष- निरूपितनिरूपितत्वाश्रयाधेयतावन्निष्ठासाधारणधर्म इति पक्षधर्मताशब्दार्थः । सं चासाधारणधर्मस्तत्प्रत्ययप्रकृत्यर्थतावच्छेदक एव । तथा च पक्षधर्मते- त्यस्य पक्षनिरूपिताधयतेति निष्कृष्टार्थः । तस्या ज्ञानम् । षष्ट्या विष- यित्वमर्थः । व्याप्तिविशिष्टस्य पक्षधर्मताज्ञानम् व्याप्तिविशिष्ट पक्षधर्मताज्ञानम्। व्याप्तिविशिष्टवस्तुविषयकपक्षनिरूपिताधेयताविषयकज्ञान परामर्शपदवाच्य- मिति विशिष्टार्थः । अथ वा व्याप्तिविशिष्टा च सा पक्षधर्मता च तस्या ज्ञान- मिति विग्रहः । वैशिष्ट्यं सामानाधिकरण्यसंम्बन्धेन । यद्वा व्याप्तिविशिष्ट- स्य पक्षधर्मता तस्या ज्ञानमिति । अत्र व्याप्तिविशिष्टं च तत् पक्षधर्मता- ज्ञानं चति विग्रहं व्याप्तिविशिष्टमित्यस्य व्याप्तिविषयकमित्यर्थं च प्रायो वर्ण- यन्ति । तत्र हेतुं चाहुः व्याप्तिविशिष्टस्यति षष्ठीसमासे व्यभिचारिलिङ्ग- कपरामर्शेऽव्याप्तिरिति । तत्रेदं वक्तव्यम् विशिष्टपदस्य तद्विषयकेत्यर्थवर्णन बालव्युत्पादनार्थे ग्रन्थे न खरसम् । न चाव्याप्तिपरिहारार्थ तथा वर्णनामति वाच्यम् । कर्मधारयविग्रहेऽप्यव्याप्तितादवस्थ्यात् । धूमवान् सुखप्रवेशिनीसमेतः । ६५ यथा, वह्निव्याप्यधूमवान् अयं पर्वतः इति ज्ञानं परामर्शः । तज- न्य पर्वतो वह्निमान् इति ज्ञानं अनुमितिः । यत्र यत्र धूमः वढेरित्यत्र व्याप्तरेवाप्रसिद्ध्या व्याप्तिविशिष्टत्वस्य ज्ञाने दुर्वचत्वात् । हेतुव्यापकसाध्यसामानाधिकरण्यं हि दीपिकोक्ता व्याप्तिः । न च तत्र व- ह्रिरूपहेतुव्यापकत्वं धूमरूपसाध्यस्य सम्भवति । तर्हि का गतिरिति चेन्न कश्चिक्लेशः । पूर्व यथार्थानुभवस्य प्रत्यक्षानुमितीति विभाग विधाय तत्कर- णस्यैव प्रत्यक्षानुमानेति विभजनात् यथार्थानुमितिकरणस्यैव प्रकृते व्युत्पाद- नीयतया तादृशपरामर्शः सद्धेतुपरामर्श एवेति न व्याप्तिविशिष्टस्य पक्षधर्म- ताया ज्ञानमिति स्वरसार्थो भञ्जनीय इति । न च दीपिकाविरोधः, वस्तु- गत्या व्याप्तिमान् यस्तस्य पक्षधर्मताज्ञानमिति न मन्तव्यम् ज्ञाने व्याप्तिवि- षयकत्वमपि विवक्षितमिति विशिष्टपदवारस्यप्रदर्शनार्थत्वात्तद्न्यस्येति । परामर्श व्याप्तिविशिष्टपक्षधर्मताज्ञानत्वं ज्ञानाकारप्रदर्शनेन व्युत्पादयति यथेति । थाल्प्रत्ययार्थः प्रकारः । इतिशब्दस्य विषयित्वमर्थः । अथ वा इतिशब्दः प्रकारवचनः । वह्निव्याप्यविशिष्टपर्वतत्वार्थकः । स्वावच्छिन्न- विषयकत्वसम्बन्धेन तस्य ज्ञानेऽन्वयः । तथा च परामर्शपदवाच्यवाहिव्या- प्यविशिष्टपुरोवर्ति पर्वतत्वावच्छिन्नविषयकज्ञानं व्याप्तिविशिष्टपक्षधर्मताज्ञान- स्वरूपयादृशप्रकारविशिष्टमिति वाक्यार्थः । अथानुमित्याकारं दर्शयति तज. न्यमिति । व्याप्तिविशिष्ट पक्षधर्मताज्ञानमित्यत्र व्याप्तिशब्दार्थमाह यत्रेति । यत्र धूमस्तनाग्निरितिपर्यन्तं प्रकृते वाक्यपरम् । इतिशब्द आनुपूर्वी- रूपधर्मपरः । तस्य स्वावच्छिन्नवाक्यबोध्यत्वसम्बन्धेन साहचर्यनियमेऽन्वयः । एवं च यत्नपदाद्यग्निपदान्तनिष्ठानुपूर्व्यवच्छिन्नवाक्यबोध्यसाहचर्यनियमो व्याप्तिशब्दार्थ इति । अत्र यच्छब्दो महानसादिपरः । यन्निरूपिताघेयता- वान् धूमः तन्निरूपिताधेयतावाननिरित्यर्थः । तथा च साहचर्यनियमः कथं 9T तर्कसंग्रहः। तनाग्निः इति साहचर्यनियमो व्याप्तिः । बोद्धयत इति चेदुच्यते । यत्न धूम इति वाक्यानुसारेण तनेत्यस्य धू- मवतोत्यर्थः प्रतीयते । यच्छब्दघटितवाक्येन यच्छब्दार्थे यादृशाविशिष्टा- र्थसम्बन्धो बोद्धयते , तच्छब्देन तादृशविशिष्टार्थसम्बन्धित्वेन तादृशय- च्छब्दार्थप्रतीतेरानुभविकत्वात् । एवञ्च तत्राग्निरित्यनेन धूमववृत्तिरग्नि- रित्युक्तं भवति । उद्देश्यतावच्छेदकव्यापकत्वस्य विधेये भानं चानुभवसि- द्धम् । एवञ्च धूमवदुद्देशेनाग्निविधाने वाक्यतात्पर्यमिति धूमवत्त्वव्याप- कत्वमग्नौ भासते । अतो हेतुव्यापकसाध्यभान सिद्धयति । अग्नौ धूमव- दृत्तित्वभानामेऽपि हेतौ तुल्यवित्तिवेद्यतया साध्यसामानाधिकरण्यभानं सिद्धमिति वक्ष्यमाणसाहचनियमस्य वाक्यादवगतिरस्त्येव । अत्र 'तत्राग्नि' रित्यत्राग्निपदं धूमव्यापकामीत्यर्थलाक्षणिकम् । अतो व्यापकत्वभानमित्य- प्याहुः । साहचर्यनियम इति । सह चरतीति सहचरः तस्य भावः साहचर्यम् । चरतीत्यस्य प्रकृते वर्तत इत्यर्थः । अग्निना सह वर्तते धूमः । सहशब्दार्थोऽधिकरणम् । अग्न्यधिकरणवृत्तिम इति, अग्निसाहचर्यमग्नि- सामानाधिकरण्यं धूमे । अग्निसाहचर्यस्य धूमे नियमः। षष्ठ्यर्थ आधे- यत्वम् । सप्तम्यर्थों निरूपितत्वं । नियमो व्यापकत्वम् । तथा चाग्निसामा- नाधिकरण्यनिष्ठं धूमनिरूपितव्यापकत्वम् । व्यापकत्वं चाभावाप्रतियोगित्वं, जगद्व्यापको विष्णुरित्युक्तौ जगन्निष्ठाभावाप्रतियोगी विष्णुरिति बोधात् । धूम- निरूपितव्यापकत्वं च धूमनिष्ठाभावाप्रतियोगित्वम् । एवञ्च यत्र यत्र धूमत्वम्, तत्र तत्राग्निसामानाधिकरण्यमिति धूमनिष्ठाभावाप्रतियोगि भवत्यग्निसामाना- धिकरण्यम् । यद्यप्ययं नियमः साहचर्यनिष्ठः । व्याप्तिश्च हेतुनिष्ठा वक्त- व्या । अथापि नियमविशिष्टं साहचर्य धूमनिष्ठामावाप्रतियोगिभूतमग्निसामा- नाधिकरण्यं व्याप्तिरित्यत्न तात्पर्यम् । इत्थमेवार्थ मनसि निधाय मणिकारः, सुखप्रवेशिनीसमेतः । व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता । साध्यसामानाधिकरण्यावच्छेदकहेतुतावच्छेदकवत्त्वं व्याप्तिरित्युक्तवान् । तस्य हि खव्यापकसाध्यसामानाधिकरण्यकहेतुतावच्छेदकवत्त्वमित्यर्थः । परन्त्ववं धूमत्वव्यापकत्वस्य वाहसामानाधिकरण्ये विवक्षणापेक्षया वह्नौ धूमव्यापकत्व- विवक्षणे लाघवमस्तीति परिचिन्तनया धूमव्यापकवह्निसामानाधिकरण्यं व्याप्ति- रिति निष्कर्षः क्रियत इति ध्येयम् । यद्वा धूमनिष्ठाग्निसामानाधिकरण्यस्य नियमो व्यवस्थितत्वम् अनीतरासम्बन्धित्वे सत्यग्निसम्बन्धित्वम् ; अग्नीतरा- निरूपितत्वे सत्यग्निनिरूपितत्वम् । इतरेत्यनेन च प्रकृतेऽग्न्यभावो विवक्षि- तः । धूमनिष्ठसामानाधिकरण्यस्याग्न्यभावानिरूपितत्वे सत्यमिनिरूपितत्व- मस्तीत्युक्तौ पूर्ववदस्य नियमस्य साहचर्यनिष्ठत्वात् व्याप्तहेतुनिष्ठत्वस्यावश्य- कत्वात् नियमविशिष्टं सामानाधिकरण्यं व्याप्तिरिति वक्तव्यम् । धूम निष्ठ. सामानाधिकरण्येऽन्यभावानिरूपितत्वोक्तौ धूमेऽग्न्यभावनिरूपितसामानाधि- करण्याभावो लभ्यते । तथा चाम्न्यभावासमानाधिकरणत्वे सत्यग्निसामा- नाधिकरण्यं साध्याभाववदवृत्तित्वे सति साध्यबद्धृत्तित्वं व्याप्तिरिति सिद्धय- ति । अस्या व्याप्तेः केवलान्वयिन्यव्याप्त्या हेतुव्यापकसाध्यसामानाधिकरण्य- मिति निष्कर्षकरणमिति । पक्षधर्मताशब्दार्थमाह व्याप्यस्येति । वस्तुतो यो व्याप्यो धूमादिस्तन्निष्ठपर्वतादिवृत्तित्वमिति । पर्वतवदन्यस्यापि कदाचित्पक्षत्वं भवतीत्यादिपदम् । यदज्ञातमनुमीयते तत्साध्यम् ; येन साध्यते स हेतुः यत्र साध्यते स पक्षः ; हेतोः पक्षे सत्त्वं पक्षधर्मतति । प्रत्यक्षानुमानेत्यत्रानुमानपदेन परामर्शो विवक्षणीय इति वक्ष्यति । खानुमानस्थले परामर्शस्यानुमानत्वेऽपि परार्थीनुमानस्थले वाक्यस्यैवानुमा- नत्वात् कथं सर्वत्र परामर्शोऽनुमानमिति शङ्का मा भूदिति, खयमेवानुमान- द्वैविध्यमुपपाद्यानुमानपदेन परामर्शमात्रग्रहणस्य युक्ततां गमयितुमारभते .. ..

६८ तर्कसंग्रहः। अनुमानं द्विविधम् , स्वार्थ परार्थ चेति , स्वार्थ खानुमिति- हेतुः । तथा हि , स्वयमेव भूयो दर्शनेन यत्र धूमस्तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः पर्वते धूमं पश्यन् तद्गते चाग्नौ सन्दिहानः व्याप्तिं स्मरति यत्र धूमः तत्राग्निरिति । अनुमानमित्यादिना । अनुमानं तार्किकैरनुमानपदेन व्यवाहियमाणम् । खार्थमिति स्वस्यार्थः प्रयोजन यस्मात्तत् । परार्थ परस्यार्थः प्रयोजन यस्मा- तत् । प्रयोजनं च प्रकृतेऽनुमितिरित्याशयेन समासाथमेकस्याह खानुमि- तिहेतुरिति । स्वपदेन यस्मिन्ननुमानमस्ति स पुरुषो ग्राह्यः । उपपाद- दयितुमाह तथा हृीति । सर्वत्र तथा होत्यारभ्योपपादकवाक्यं यावत्प्रयु- ज्यते तावद्वाक्यप्रतिपाद्यार्थनिष्ठं हेतुत्वं हिशब्देनोच्यते । तथेत्यत्र थाल्प- त्ययार्थप्रकारे हेतुत्वस्य निरूपकतासम्बन्धनान्वयः । तथा च पूर्वोक्तार्थः वक्ष्यमाणार्थनिष्ठहेतुतानिरूपकपूर्वोक्तप्रकारविशिष्ट इति तथा हीत्यस्यार्थः । उपपादयति स्वयमेवेति । एवकारः पञ्चावयववाक्यप्रयोक्तपुरुषान्तरव्य- वच्छेदार्थः । 'तत्र धूमं पश्यन्नित्युक्तौ तत्रेत्यस्य पर्वतसमीप इत्येवार्थः प्रतीयेत , पर्वतसमीपमित्येव प्रागुक्तत्वात् । अतः पुनः पर्वत इत्युक्तम् । तद्गते पर्वतं गते तन्निष्ठे । खतरानधीनं खाधीनं भूयोदर्शनजन्यं यत्र धूमस्तत्राग्निरित्यानुपूर्वीकशब्दगम्यव्याप्तिविषयकं महानसाधवच्छिन्नत्वविषय- कं च यद्गहणं तदुत्तरकालिकपर्वतसमोपवृत्तिसंयोगानुकूलव्यापाराश्रयाभिन्नः पर्वतविषयकधूमविषयकदर्शनाश्रयः समुच्चयाश्रयपर्वतनिष्ठामिविषयकसन्दे- हाश्रयः 'यत्र धूमस्तत्राग्नि'रित शब्दगम्यव्याप्तिविषयकस्मरणाश्रयत्ववानि- त्यवं बोधः । प्रथमतोऽमिधूमयोः सहचरितयोमहानसादौ भूयोदर्शनम् । ततो धूमसामान्यस्याग्निसामान्येन व्याप्तिरूपसम्बन्धज्ञानम् । अथ कदाचित् पर्वते धूमदर्शनम् । ततः पूर्वानुभूतव्याप्तिरूपसम्बन्धस्मरणम् । पश्चाद्वि- शिष्ट परामर्शः। ततोऽनुमितिरिति स्वार्थानुमानस्थले क्रमः । सकृद्धेतु- सुखप्रवेशिनोसमेतः । तदनन्तरं वह्निव्याप्यधूमधानयं पर्वतः इति ज्ञानमुत्पद्यते । अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात् पर्वतो वह्निमानित्यनुमितिरुत्पद्यते। तदेतत् स्वार्थानुमानम् । यत्तु खयमेव धूमादग्निमनुमाय परप्रतिपत्त्यर्थ पञ्चावयववा- क्यं प्रयुक्त तत्परार्थानुमानम् । यथा , पर्वतो वह्निमान , धूमवत्त्वा त्, यो यो धूमवान् स सोऽग्निमान् यथा महानसम् , तथा चायम् , साध्यदर्शने साध्यसामान्यस्य हेतुसामान्यस्य च व्याप्तिग्रहो नोदेति । भूयोदशेने तु तथेति प्रायिकस्थितिपयर्यालोचनेन भूयोदर्शनं व्या- प्तिग्रहकारणमुक्तम् । तदनन्तरामिति । न विद्यते अन्तरं व्यवधानं यत्र तत् अनन्तरम् अव्यवहितम् । प्रकृते चाव्यवहितोत्तरमित्यर्थः । व्याप्ति- स्मरणनिरूपिताव्यवहितोत्तरत्वाश्रयोत्पत्त्याश्रयत्ववद् ज्ञानमिति । अयमेवेत्ये- वकारेण धूमदर्शनव्याप्तिस्मरणव्यवच्छेदः । परामर्शपदस्य ज्ञानमात्रार्थकतया लिङ्गपरामर्श इत्यस्य लिङ्गविषयकज्ञानमित्यर्थ इति यद्यपि पर्वतो धूमवान् बहिव्याप्यो धूम इति ज्ञानयोराप लिङ्गपरामर्शत्वं शक्यशङ्कम् , अथापि व्याप्तिविशिष्टपक्षधर्मताज्ञान एव लिङ्गपरामर्शपदं पारिभाषिकमिति भावः । तस्मादिति परामर्शादित्यर्थः । पञ्चम्यर्थो निरूपितत्वमुत्पत्तावन्वेति । तत् खाधीनम् एतत् लिङ्गपरामर्शरूपं ज्ञानम् । परार्थानुमानं व्युत्पादयति यत्त्विति । यत् पञ्चावयववाक्यमित्यन्वयः। खयमेव धूमादग्निमनु- मायेति । स्वस्य ज्ञानाभावे परं प्रति प्रतिपादनमशक्यमित्यभिप्रेत्येद- मुक्तम् । खयमेवेत्यविवक्षितम् । तत् पञ्चावयवाक्यम् । पञ्च अवयवा यस्य तत् पञ्चावयववाक्यम् । पञ्चावयवान् प्रकृते विशिष्य दर्शयति यथेति । यादृशपञ्चावयववाक्यत्वरूपप्रकारविशिष्टमित्यर्थः । धूमवत्वादिति द्विती- योऽवयवः । तथा चायमिति चतुर्थोऽवयवः । इतीति उक्तशब्दसमुदा- तर्कसंग्रहः । तस्मात्तथेति । अनेन वाक्येन प्रतिपादितात् लिङ्गात् परोऽप्यनि प्रतिपद्यते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्च अवयवाः। पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्त्वादिति हेतुः । यो यो धूम- वान् सोऽग्निमान् यथा महानसमित्युदाहरणम् । तथा चायमित्यु- यनिष्ठानुपूर्व्यवच्छिन्नमित्यर्थः । अस्य वाक्यस्य परार्थानुमानत्वं कथमित्यत्र तस्यानुमितिप्रयोजकत्वं विद्यमानं दर्शयति अनेनेति । प्रतिपादितात् ज्ञापितात् प्रतिपादनं ज्ञानानुकूलव्यापारः । स चैतद्वाक्यमेव । तथा चै- तद्वाक्याभिन्नव्यापारजन्यज्ञानविषयीभूतादित्यर्थः । क्तप्रत्यस्य फलाश्रय इत्यर्थः । फलाश्रयत्वं च प्रकृते ज्ञानविषयत्वमिति । प्रतिपयत इति । तथा च परो वाक्यं श्रुत्वा तदर्थ बुद्धयते । ततो व्याप्तिविशिष्टपक्षध- मता प्रकृतेऽस्तीति परामृशति । ततोऽनुमितिमान् भवतीति भावः । पञ्चावयववाक्यमित्युक्तम् । तत्रावयवानां पारिभाषिकं नाम ग्राहयति प्रतिक्षेति । कस्य भागस्य किं नामेत्यत्र विशदयति पर्वत इति । पर्वतः पक्षः वहिस्साध्यः । तथा च साध्यविशिष्टपक्षप्रतिपादकवाक्यं प्रतिज्ञेत्य- थः । धूमवत्त्वादिति धूमादिति यावत् । ज्ञानज्ञाप्यत्वं पञ्चम्यर्थः । ज्ञाने धूमस्य विषयितासम्बन्धेनान्वयः । धूमश्च हेतुः । तथा च हेतु- विषयकज्ञानज्ञाप्यत्वबोधकवाक्यं हेतुवाक्यमित्यर्थः । उदाहरणे वाक्यत्रय- म् । यो यो धूमवानिति प्रथमम् । सोऽमिमानिति द्वितीयम् । यथा महानसमिति तृतीयम् । प्रथमयच्छन्दः प्रकृते धूमवदेकव्यक्तिपरः । द्वितीययच्छब्दो व्यक्त्यन्तरपरः । स इति यच्छब्दद्वयोपात्तसर्वव्यक्तिपरः । अथ वा स इत्यस्य पूर्ववाक्यानुसारात् धूमवयक्तिरित्यर्थः । यथेति धूम- वत्त्वानिमत्त्वरूपयादृशप्रकारद्वयविशिष्ट इत्यर्थः । अत्रोदाहरणे धूमवद्य- तौ वाहमत्त्वबोधके धूमवत्त्वव्यापकवाहमत्त्वबोधकत्वमप्यस्ति । उद्देश्य- सुखप्रवेशिनीसमेतः । ७१ पनयः । तस्मात्तथेति निगमनम् । स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणं, तस्माल्लिङ्गपरामर्शोऽनुमानम् ॥ लिङ्गं त्रिविधं, अन्वयव्यतिरोक, केवलान्वयि, केवल बतिरे. किं चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमत् अन्वयव्यतिरोकि, यथा, तावच्छेदकव्यापकत्वस्य विधेये भानसम्भवात् । वीप्साबलाच्च तादृशमान खरसम् । तथा च व्याप्तिप्रतिपादकवाक्यमुदाहरणमित्युक्तं भवति । तथा चायम् वहिव्याप्यधूमवान् पर्वतः । साध्यव्याप्यहेतुमत्पक्षप्रतिपादकवा- क्यमुपनय इत्यर्थः । तस्मात्तथा वहिव्याप्यधूमवत्त्वाद्वह्निमान् ज्ञानज्ञाप्यत्वं पञ्चम्यर्थः। तथा च साध्यव्याप्यहेतुज्ञानज्ञाप्यसाध्यवत्प्रतिपादकवाक्यं निगम- नमिति सिद्धम् । एवं चेदृशसमुदायरूपाद्वाक्याच्याप्तिपक्षधर्म ताविशिष्ट- ज्ञानोत्पत्तेः प्रागुक्तत्वात् स्वार्थानुमिताविव परार्थानुमितावपि परामर्श एव कारणम् । वाक्यस्य तदुपयोगित्वेनान्यथासिद्धत्वान्न करणत्वम् । केवलमनुमि- तिप्रयोजकत्वमात्रेण तत्र परार्थानुमानव्यवहार इति दर्शयति स्वार्थेति । तथा च प्रत्यक्षानुमानति विभागवाक्येऽनुमानपदेन परामर्श एव विवक्षित इति दर्शयति तस्मादिति । व्याप्तिविशिष्ट पक्षधर्मताज्ञानमित्यत्र व्याप्तिः सर्वत्र नै- करूपा। किं तु क्वचिदन्वयव्याप्तिरूपा कचियातिरेकव्याप्तिरूपा चेति व्युत्पा- दयितुं लिङ्गत्रैविध्यं पूर्वैरुक्तं दर्शयति लिङ्गमिति । अन्वयश्च व्यतिरेकश्च तावस्य स्त इत्यन्वयव्यतिरेकि । केवलो व्यतिरेकामावविशिष्टोऽन्वयोऽ स्यास्तीति केवलान्वयि । केवलोऽन्वयाभावविशिष्टो व्यतिरेकोऽस्यास्ती- ति केवलव्यतिरेकि । अत्र कस्यान्वयः कस्य व्यतिरेकश्च विवक्षितः ? अन्वयवत्त्वं व्यतिरेकवत्त्वं च केन सम्बन्धेनेत्यत्र विशदयति अन्वयेनेति । तृतीयार्थी निरूपितत्वं व्याप्तावन्वति । तथा च व्याप्तौ साध्यादिनिरूपि- तत्वस्यैव सम्भवादन्वयपदस्य साध्यान्वयः साध्यसम्बन्धः साध्यवत्त्वमित्यर्थः ।

७२ तर्कसंग्रहः । वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमः तत्राग्निः यथा महानस इत्यन्वय व्याप्तिः। यत्र वह्निम्नास्ति तत्र धूमोऽपि नास्ति यथा महाहद इति व्यतिरेकव्यप्तिः ॥ साध्यवत्त्वं च साध्यमेव । व्यतिरेकपदस्य साध्यव्यतिरेकः साध्याभाव इत्य- थ इति सूचितम् । एवञ्च साध्यनिरूपितव्याप्तिमत्वे सति साध्याभावनि- रूपितव्याप्तिमत्त्वमन्वयव्यतिरेकित्वम् । अन्वयव्यतिरेकीत्यत्रेनिप्रत्ययेन ख- निरूपितव्याप्तिमत्त्वरूपसम्बन्धेनान्वयव्यतिरेकवान् विवक्षित इत्युक्तं भवति । साध्ये सिद्धिविषये,अनुमितिविषये । इयं सति सप्तमी। ईदृशस्थले सप्तम्याः समभिव्याहृतधात्वर्य एवार्थः । अतोऽत्र वह्राविति सप्तम्याः साध्य हत्यत सिद्धिरूपधात्वर्थोऽर्थः । तस्य समानकालिकत्वसम्बन्धन भवनक्रियायाम- न्वयः । भवतीत्यध्याहारः । तथा च साध्याभिन्नवहिविषयकसिद्धिसमान- कालिकयादृशान्वयव्यतिरेकित्वरूपप्रकारविशिष्टभवनायो धूमवत्त्वमिति बोधः । ननु लिङ्गस्य साध्यव्याप्तिः साध्याभावव्याप्तिश्चेत्युमयं कथं स्यात्, मिथो विरोधादित्याशङ्कायां साध्याभावव्याप्तिरित्युक्तौ साध्याभावेन साहच. यनियम इति न मन्तव्यम् । अपि वन्यविधैव सा व्याप्तिरिति बोधयि- तुमाह यत्रेति । महानस इति महाह्रद इति च सप्तम्यन्तम् । तत्र धूमोऽपि नास्तीति । वयभाववद्धदादिनिरूपिताधेयत्वामाववान् घूम इत्यर्थः । इति व्यतिरेकव्याप्तिः एतदानुपूर्वीकशब्दगम्या व्यतिरेकव्याप्तिः । अन्न वयभाववन्तमुद्दिश्य धूमामावविधाने तात्पर्यात् तयोयाप्यव्यापक- भावो भासते। तथा च वयभावव्यापकीभूताभावप्रतियोगी धूम इत्युदाहर- णालभ्यते । एवञ्च साध्यनिरूपितव्याप्तिर्नाम साध्येन साहचर्यनियमः, साध्य- व्यतिरेकनिरूपितव्याप्ति म साध्याभावव्यापकीभूताभावप्रतियोगित्वम् । तदुभयञ्च मिथो विरुद्धमिति भावः । नन्विदमन्वयव्यतिरोकिलक्षणं केवल- व्यतिरेकिण्यतिव्याप्तम् , तस्यापि वस्तुतोऽन्वयव्याप्तिमत्त्वादिति चेन्न ।

सुखप्रवेशिनीसमैतः। अन्वयमालव्याप्तिकं केवलान्वयि । यथा, घटोऽभिधेयः प्रमे- यत्वात् पटवत् इत्यत्त प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्ति स्ति, सर्वस्यापि प्रमेयत्वात् अभिधेयत्वाच्च । प्रकृतलक्षणघटकमन्वयव्याप्तिमत्त्वं नाम प्रकृतपक्षभिन्नपदार्थावच्छिन्नसाध्य- व्याप्तिमत्त्वम् । साध्यसामानाधिकरण्यं हि व्याप्तिः । तच्च प्रकृतपर्व: तादिपक्षभिन्नमहानसाद्यवच्छेदेनापि हेतावस्तीति लक्षणसमन्ययः । तत्र तु पृथिवीसामान्यस्य पक्षत्वात्तद्भिन्ने कुत्रापि हेतुसाध्याभावान्न दोष इति । केवलान्वयि लक्षयति अन्वयेति । अन्वयमात्रेण व्याप्तिर्यस्य, प्रकृतहेतुनिष्ठ- व्याप्तित्वव्यापकं यत् अन्वयनिरूपितत्वं तदन्वयनिरूपितत्वविशिष्टव्याप्तिम- स्केवलान्वयिशब्दवाच्यामिति । यत्र हि व्याप्तिद्वयमप्यस्ति तत्र व्याप्तित्व- स्य व्यतिरेकव्याप्तावपि सत्त्वात् तत्र साध्यनिरूपितत्वाभावात् खनिष्ठव्याप्ति- स्वव्यापकान्वयनिरूपितत्वकत्वरूपमिदं लक्षण न वर्तते । उदाहरति यथे- ति। घटोऽभिधेयः प्रमेयत्वात्पटव' दिल्यानुपूर्वीकशब्दगम्यहेतुरुक्तकेवलान्व- यित्वरूपप्रकारविशिष्ट इति बोधः । पञ्चावयवप्रयोगे कर्तव्येपि तत्र पक्ष- साध्यहेतुदृष्टान्तभेदानां प्रदर्शनेऽन्यत्सर्व खयमेव पूरयितुं शक्यमिति घटो. ऽभिधेयः प्रमेयत्वात् पटवादित्येतावन्मानमुक्तम् । उपपादयति अले. ति । अल अस्मिन् प्रयोगे 'घटोऽभिधेयः प्रमेयत्वात्पटव'दिति शब्दराशौ । ज्ञाप्यत्वं नलोऽर्थः । तादृशशब्दराशिगम्यार्थपर्यन्तो वेदंशब्दार्थः । घट- कत्वं वलर्थः प्रमेयत्वाभिधेयत्वान्वयि । षष्ठ्यों निरूपितत्वं धात्वर्थे स- म्बन्धित्वेऽन्वति । तस्याख्याता आश्रयत्वे, तस्य प्रतियोगितानिरूपकत्व- सम्बन्धेन नबर्थेऽभावे, तलाश्रयतासम्बन्धेन व्यतिरेकव्याप्तौ । तथा च व्यतिरेकव्याप्तः प्रमेयत्वनिष्ठत्वमभिधेयत्वनिरूपितलं च नास्तीत्यर्थः । कुत इत्यत्राह सर्वस्येति । ज्ञानज्ञाप्यत्वं पञ्चम्यर्थो नअर्थाभावान्वयि । व्यतिरेकन्या- तिर्ह अभावव्यापकीभूताभावप्रतियोगित्वम् । अभिधेयत्वरूपसाध्यस्य 107 ७४ तर्कसंग्रहः। व्यतिरेकमानव्याप्तिकं केवलव्यतिरेकि । यथा, पृथिवी इतरे- भ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न तत् गन्धवत्, यथा, जलम् । न चेयं तथा । तस्मान्न तथेति । अन्न यत् गन्धवत् सर्वनिष्ठतयाऽभिधेयत्वाभावस्य कुत्रापि वक्तुमशक्यत्वात् साध्याभावेत्यप्रसि- द्धम् । प्रमेयत्वरूपहेतोरपि सर्वनिष्ठतया हेतावमावप्रतियोगित्वरूपव्याप्ति- वचा । अतो व्यतिरेकव्याप्तिनात्र सम्भवतीति भावः । अत्र सर्व- निष्ठत्वोपपादनं साध्यमात्रस्यैवापेक्षितम् । हेतौ तदुपपादनं तु वस्तुतः प्रकृतहेतोरपि तादृशत्वात् । असर्वनिष्ठोऽपि केवलान्वयिहेतुर्भवति यथा घटोऽभिधेयो द्रव्यत्वादिति । असर्वनिष्ठं साध्यं सर्वनिष्ठश्च हेतुर्यदि विव- क्ष्यते, स हेतुरसद्धेतुरेव स्यादिति न तादृशस्य लक्ष्यत्वम् । तथा च केव- लान्वयिसाध्यनिरूपितव्याप्तिमत्त्वं केवलान्वयिलिङ्गलक्षणम् । अत्र केव- लान्वयित्वमत्यन्ताभावाप्रतियोगित्वम् । न च गगनाभावस्य केवलान्वयित्वं न स्यात् गगनं प्रति प्रतियोगित्वादिति वाच्यम् । गगनाभावाभावस्य गगनरू- पतया हि गगनामावस्य गगनात्मकात्यन्ताभावप्रतियोगित्वम् वक्तव्यम् । गगनाभावाभावश्चाप्रसिद्ध इति कुतो गगनरूपत्वं तस्य ? कुतस्तरां च गग- नाभावस्य प्रतियोगित्वमिति । पूर्वमन्वयिस्थलीयोदाहरणोपनयनिगमनप्र- योगरीतेंदर्शितत्वात्केवलान्वयिनिरूपणावसरे तद्विशदमनुक्त्वा घटोऽभिधेयः प्रमेयत्वात् पटव'दित्येतावदुक्तवान् । व्यतिरोकिस्थले तद्रीतेरप्रदर्शितत्वा- दत्रैव विशदमाह यथेत्यादिना । इतरेभ्यो न भिद्यते इतरप्रतियोगिक- भेदाश्रयत्वाभाववत् । न गन्धवत् गन्धवत्प्रतियोगिकभेदवत् । अत्रेतर- भेदाभाववद्रूपतच्छब्दार्थमुद्दिश्य गन्धवद्भेदविधाने इतरभेदाभावव्यापको गन्धवद्भेद इति लभ्यते । गन्धवद्भेदश्च गन्धाभाव एव । अतः प्रकृतव्यतिरेकव्याप्तिलाभः । न चेयं तथा पृथिवी गन्धाभाववती न । तस्मान्न तथेति । (गन्धाभाववद्भिन्नत्वात्) गन्धवत्त्वादितरभेदाभावक- सुखप्रवेशिनीसमेतः । तदितरभिन्न इत्यन्वयदृष्टान्तो नास्ति । पृथिवीमानस्य पक्षत्वात् । सन्दिग्धसाध्यवान् पक्षः, यथा धूमवत्त्वे हेतौ पर्वतः । ती नेत्यर्थः । ननु ‘हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमन मिति सूत्रे (न्या १--१-.३९) उदाहरणोपनयद्वैविध्येऽपि निगमनद्वैविध्यं नास्ती- ति भाषितत्वादन्वयव्याप्तिस्थल इव तस्मात्तथेत्येतावदेव निगमनं वक्तुमुचि- तमिति चेदुच्यते हेतुनिर्देशपुरस्सरं प्रतिज्ञावाक्यं तादृशानुपूर्वीकमेव निगम- नेऽपि घटनीयमित्येव भाष्याशयः । यदि तु प्रतिज्ञागतानुपूर्वीमुपेक्ष्य प्रतिज्ञार्थ- बोधकशब्दान्तरघटनेऽपि नातीव बाधकमिति तस्मात्तथेति तथाशब्दघटनेना- न्वयिनिगमनमुच्यते, तर्हि व्यतिरेकिनिगमनेऽर्थस्पष्टत्वाय 'न तथेति प्रयोगे ऽपि न किञ्चिद्बाधकमिति ग्रन्थकाराशयः । नन्वन्वयव्याप्तिरहितत्वे सति व्यतिरेकव्याप्तिमत्त्वरूपं केवलव्यतिरेकिलक्षणमसम्भवि । वस्तुतो गन्ध- वत्त्वं यत्र तत्रेतरभेदसत्त्वेनान्वयव्याप्तेरक्षतत्वादित्यत्राह अनेति । अयं भावः यद्यप्यन्वयव्याप्तिरस्ति, अथाप्यनुमितेः पूर्वं तद्ज्ञानं न भवति । दृष्टा- न्ताभावे व्याप्तिानश्चयासम्भवात् । प्रकृते गन्धवतः सर्वस्य पक्षत्वेन पक्षा- तिरिक्तस्य हेतुसाध्याधिकरणस्यामावान्न व्याप्तिनिश्चयः । अतोऽन्वयव्या- तिशून्यत्वस्थाने निश्चितान्वयव्याप्तिशून्यत्वेति निवेशः कार्यः । यद्वा प्रकृ- तपक्षतिरिक्तावृत्तिसाध्यनिरूपितव्यातरेकव्याप्तिमत्त्वं केवलव्यतिरेकिलक्षणं वाच्यमिति । पृथिवीमात्रस्य सर्वस्या अपि पृथिव्याः । ननु पृथिव्याः पक्षत्वमप्यस्तु , तथा दृष्टान्तत्वमाप । तत् कथमन्वयदृष्टान्तो नास्तीत्यु- च्यत इत्याशङ्कायां दृष्टान्तो हि सपक्षः । स कथं पक्ष' इति बोधयितुं पक्षा- दिकं विविच्य दर्शयति सन्दिग्धेति । सन्देहप्रकारीभूतं साध्यं प्रकारतया ऽस्यास्तीति सन्दिग्धसाध्यवान् । मतुबर्थः सम्बन्धी प्रकृते विशेष्यतावान् सन्देहप्रकारत्वविशिष्टसाध्यनिरूपितविशेष्यतावान् साध्यनिष्ठसन्देहप्रकारता- निरूपितविशेष्यतावानिति यावत् । तत्त्वं पक्षलक्षणम् । धूमवत्वे हेतौ तर्कसंग्रहः । निश्चितसाध्यवान् सपक्षः । यथा, तत्रैव महानसः । निश्चितसाध्याभाववान् विपक्षः । यथा, अवैवा महाहदः । एवं सद्धेतवो निरूपिताः । पर्वतः धूमवत्त्वहेतुस्थलीयपर्वतः । तत्स्थलीयत्वं च तद्ज्ञानविषयत्वम् । तथा च देताविति सप्तम्या ज्ञानविषयत्वरूपसम्बन्धोऽर्थ आश्रयतया पर्वते ऽन्वेति । धूमवत्त्वाभिन्नहेतुविषयकज्ञानविषयताश्रयपर्वतो यत्प्रकारकवि- शिष्ट इति बोधः । निश्चितेति निश्चयप्रकारेत्यर्थः । मतुबर्थो विशे- ष्यः । पूर्ववत् साध्यनिष्ठनिश्चयप्रकारतानिरूपितविशेष्यितावत्त्वं सपक्ष- लक्षणम् । तन धूमरूपहेतौ । तथा च तादृशसन्देहस्थलं निश्चयस्थल च न युगपदेकं भवितुमर्हतोति भावः । एवं पक्षदृष्टान्तभेदं प्रदर्य प्र. सङ्गायतिरेकदृष्टान्तरूपविपक्षमपि व्युत्पादयति निश्चितेति । निश्चयप्रका- रोति साध्याभावान्वयि । एवं लिविध्यनिरूपणेन व्याप्तिभेदत्तधीन- परामर्शभेदश्च दर्शितः । तथा चेदृशव्यातिविशिष्टलिङ्गपरामर्शोऽनुमिति- करणमिति सिद्धम् । अथास्य, न वस्तुतस्साध्यनिरूपिता या व्याप्तिर्वस्तुतस्तद्वान् यो हेतु- वस्तुतस्तद्वत्पक्षविषयकज्ञानत्वेन रूपेण, परामर्शस्य कारणत्वम् । तथा सति ह्दो धूमव्याप्यवाहिमानिति भ्रमात्मकपरामर्शात् हृदो धूमवानिति भ्रमा- मकानुमितेरनुत्पत्तिप्रसङ्गात् । अतः परामर्शे यस्य यस्य यद्यदंशे प्रका- रत्वं, तत्तन्निष्ठप्रकारतानिरूपिततचन्निष्ठप्रकारतेति रीत्या विशेषितहेतुनिष्ठ- प्रकारतानिरूपितपक्षनिष्ठविशेष्यताशालिनिश्चयत्वेन कारणत्वम् । तत्र च स्थले वस्तुतस्तस्य तस्य पदार्थस्य सम्बन्धाभावेऽपि भ्रमात्मकज्ञानेन तस्य तस्य तत्तदेशे प्रकारतया ग्रहणान्न तत्र कारणवहानिरिति कारणतावच्छेद- करूपशिक्षाप्रदर्शनमभिसंधाय वस्तुतो व्याप्तिपक्षधर्मतावैशिष्ट्यशून्यान् अ- १ सुखप्रवेशिनीसमेतः । सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धवाधिताः पञ्च हेत्वाभासा सव्यभिचारोऽनैकान्तिकः । स त्रिविधः, साधारणासाधा- रणानुपसंहारिभेदात् । तत्न साध्याभाववत्तिः साधारणः । यथा पर्वतो वह्निमान् प्रमेयत्वात् , अन प्रमेयत्वस्य वह्नयभाववति हृदे विद्यमानत्वात् । सर्वसपक्षविपक्षव्यावृत्तो हेतुः असाधारणः । यथा, शब्दो - सद्धेतूनपि निरूपयति सव्यभिचारेत्यादिना । हेत्वाभासा इति । आ- भासन्त इत्याभासा ईषद्धासमानास्वगतयथावस्थितधर्म विना भासमाना भ्रमविषयाः । हेतव आभासाः, अभेदसम्बन्धेन हेतुप्रकारकभ्रमविषयाः ध्याप्तिपक्षधर्मताविशिष्टत्वरूपहेतुत्वश्रान्तिविषया इति यावत् । व्यभिचारेण सह वर्तत इति लयभिचारः, व्यभिचारोऽन्यत्रापि सम्बन्धः प्रकृतसाध्य- वदन्यवृत्तित्वं, तद्विशिष्ट इत्यर्थः । इत्थं च साधारण एव सव्यभिचारः स्यात् । अतस्तदर्थमाह सव्यभिचार इति । अनैकान्तिक इति । एक- श्वासावन्तश्चैकान्तः नित्यत्वमध्येकोऽन्तः, अनित्यत्वमप्येकोऽन्त' इति भा- प्यानुसारात् । अन्तो निश्चेतव्यो धर्मः कोटिः । एकान्ते भव. एक- कोटिस्थः एककोटिसमानाधिकरणः एकधनिश्चयप्रयोजक इति यावत् । न ऐकान्तिक एकधर्मनिश्चमाप्रयोजकोऽनेकधर्मज्ञानप्रयोजकः संशयप्रयोजक इति यावत् । तथा च साध्यतदभावसंशयप्रयोजकत्वमनैकान्तिकत्वमित्य- लम् । साधारणः साध्यतदितरसम्बन्धी साध्यवद्वृत्तिः साध्याभावववृत्ति- श्वेत्यर्थः । तत्र साध्यवद्धृत्तित्वांश व्यर्थ परित्यज्याह साध्येति । प्रमेय- त्वादिति । 'इत्यत्र प्रमेयत्व'मिति शेषः । अत्र अस्मिन् प्रयोगे। असा- धारणः पक्षासाधारणः पक्षेतरावृत्तिः सन् पक्षवृत्तिः पक्षेतरश्च सपक्षो विपक्ष- श्चेत्यभिसन्धाय निष्कृष्टमाह सर्वेति । सर्वेभ्यः सपक्षेभ्यो विपक्षेभ्यश्च व्यावृत्तः । सपक्षविपक्षशब्दार्थो प्रामुक्तौ । व्यावृत्तोऽभावप्रतियोगी ।

तर्कसंग्रहः । नित्या शब्दत्वात् , अत्र शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यो व्यावृत्तम् , शब्दमात्रवृत्ति। अन्वयव्यतिरेकडशन्तरहितोऽनुपसंहारी। यथा सर्व अनित्यं प्रमेयत्वात् । अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तो नास्ति । साध्याभावव्याप्तो हेतुः विरुद्धः । यथा , शब्दो नित्यः कार्य- स्वात् , अन कार्यत्वं नित्यत्वाभावेनानित्यत्वेन व्याप्तम् । यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते सः सत्प्रतिपक्षः। सद्धेतुवारणाय सपक्षव्यावृत्तत्वम् विरुद्धवारणाय सर्वविपक्षव्यावृत्तत्वम् । सर्व- सपक्षव्यावृत्तत्वमेवालम् , दुष्टसङ्करेऽपि दोषासकरात् । अनुपसंहारीत्य- स्योपसंहारकभिन्न इत्यर्थः । उपसंहारकत्वं दृष्टान्तबलेन साध्यस्य पक्षे सम्पादकत्वम् । तथा च दृष्ठान्तप्रयुक्तसाध्यानुमितिजनकताशून्योऽनुप- संहारीत्यर्थः । तत्र लाघवादृष्टान्तरहित इत्येवालम् । परं तु केवला- न्वयिनि केवलव्यतिरेकिणि चातिव्याप्तिवारणाय दृष्टान्तसामान्यराहित्यं वि- वक्षणीयमिति दर्शयति अन्वयेति । दृष्टान्तो निश्चितस्थलं निश्चयविशेष्य इति यावत् । तथा च साध्यान्वयप्रकारकनिश्चयविशेष्यरहितत्वे सति साध्यव्यतिरेकप्रकारकनिश्चयविशेष्यराहित इत्यर्थः । दृष्टान्तराहित्यं चैक- ज्ञानविषयत्वसम्बन्धेन दृष्टान्ताभाववत्त्वम् । तच्च साध्यादिप्रकारकनिश्चय. विषयविषयकज्ञानाविषयत्वम् । तथा च लाघवात् साध्यप्रकारकनिश्चया- विषयत्वे सति साध्याभावप्रकारकनिश्चयाविषयत्वमनुपसंहारित्वम् । केवला. न्वयिस्थले केवलव्यतिरेकिस्थले च प्राध्यतदभावप्रकारकनिश्चयविषयत्वं हेतोः परामर्शदशायामस्ति । तद्वदन नास्तीति लक्षणसमन्वयः । हेतुः हेतुत्वेनाभिमत इत्यर्थः तस्य सद्धेतुत्वाभावात् । इदं च वरूपकीर्तनम् । न लक्षणघटकम् । सत्प्रतिपक्ष इत्यस्य सन् प्रतिपक्षो यस्येति विग्रहः । प्रतिपक्षपदस्य साध्याभावसाधकहेत्वन्तरमित्यर्थः । तदाह ययेति । अ- सुखप्रवेशिनीसमेतः। यथा, शब्दो नित्यः श्रावणत्वात् , शब्दोऽनित्यः कार्यत्वात् घटवत्। असिद्धस्त्रिविधः , आश्रयासिद्धः स्वरूपासिद्धः व्याप्यत्वासि- द्धश्चेति । आश्रयासिद्धो यथा, गगनारविन्द सुरभि अरविन्दत्वा. त् सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः, सच नास्त्येव ! स्वरूपासिद्धो यथा, शब्दो गुणः चाक्षुषत्वात् रूपवत् । अन चाक्षुषत्वं शब्दे नास्ति , शब्दस्य श्रावणत्वात् । सोपाधिको व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साघ- नाव्यापकत्वं उपाधित्वम् । साध्यसमानाधिकरणात्यन्ताभावाप्रति सिद्धत्वमसिद्धयाश्रयत्वममावाश्रयत्वम् | अभावनिरूपिताश्रयत्वं चैकज्ञान- विषयत्वसम्बन्धेन । अभावश्चाश्रय-स्वरूप-व्यापकत्वान्यतमप्रतियोगिकः । आश्रयासिद्ध इति । आश्रयण खाश्रयेण प्रकृतहेत्वाश्रयेण पक्षणासिद्ध इति । गगनारविन्दम् गगनजन्यारविन्दम् । सरोजेति सरोजन्येत्य- थः । सोपाधिक इति उपाधिविशिष्ट इत्यथः । वैशिष्ट्यं च व्यभि- चारित्वसम्बन्धेन । कः पुनरुपाधिरित्यलाह साध्येति । सतीति समभि- व्याहृतपदघटकघात्वर्थसत्ता सप्तम्यर्थः । साधनाव्यापकत्वविशेषणतया सदि- त्येकं पदमध्याहार्यम् । सप्तम्यर्थसत्तायाः सामानाधिकरण्यसम्बन्धेन सदि. त्यत्र सत्तायामन्वयः । सामानाधिकरण्यं चोभयोनिरूपकतासम्बन्धेन । तथा च साध्यव्यापकत्वविशिष्टं साधनाव्यापकत्वमुपाधित्वम् । साध्य. समानाधिकरणेति । साध्यपदं साध्याधिकरणलाक्षणिकम् । समा- नपदमभिन्नार्थकम् । समानमधिकरणं यस्य । तथा चाधिकरणपदं साध्या- धिकरणवृत्तौ लाक्षणिकम् । पूर्वपदं तात्पर्यग्राहकम् । तादृशा योऽत्य- न्ताभावस्तदप्रतियोगित्वं तं प्रति प्रतियोगित्वाभावः । साधनाव्यापकत्व- मित्यताव्यापकत्वं तादृशात्यन्ताभावप्रतियोगित्वाभावाभावः । तथा निवेशे 20 तकसंग्रहः । योगित्वं साध्यव्यापकत्वम् । साधनवनिष्ठात्यन्ताभावप्रतियोगि- त्वं साधनाव्यापकत्वम् । यथा, पर्वतो धूमवान् वतरित्यनार्दैन्धन. संयोगः उपाधिः । यत्न धूमः तना धनसंयोग इति साध्यव्याप- कता । यत्र वह्निः तवाट्टैन्धनसंयोग इति नास्ति, अयोगोलके आर्दै. न्धनसंयोगाभावात् । एवं साध्यव्यापकत्वे सति साधनाव्यापक- स्वादान्धनसंयोगः उपाधिः। सोपाधिकत्वात् वह्निमत्वं व्याप्य- स्वासिद्धम् ॥ यस्य साध्याभावः प्रमाणान्तरेण निश्चितः सः बाधितः । यथा, वह्निः अनुष्णः पदार्थत्वात् जलवत् । अत्रानुष्णत्वं साध्यं, तदभावः उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यते इति बोध्यम् ॥ व्याख्यातसनुमानम् ॥ गौरवादाह साधनेति । यत्र यावत्स्वधिकरणेषु । इति नास्ति एतदानुपूर्वी- कशब्दगम्यं वहिव्यापकत्वं नास्ति । कस्मादित्यत्राहायोगोलक इति । वह्निमतीत्यादिः । उपाधिः उपाधिशब्दवाच्यः । यस्येति । साध्य एत- दन्वयः । प्रमाणान्तरेण प्रत्यक्षादिना निश्चितः पक्ष इति शेषः । यदीयसाध्यप्रतियोगिकाभावः प्रत्यक्षादिजन्यपक्षविशेष्यकनिश्चयविषय इत्य- थः । प्रमाणान्तरेण निश्चित इतीदमविवक्षितम् । साध्याभाव- वपक्षको बाधित इत्येतावदेव विवक्षितम् । स्पार्शनप्रत्यक्षेणेति । नेद प्रमाणान्तरपदसमानार्थकम् , तस्य प्रमितिकरणत्वगिन्द्रियादिपरत्वात् । गृह्यते विषयीक्रियते । इति चोध्यामिति । उष्णत्वं स्पार्शनप्रत्यक्षप्रयो- ज्यविषयताश्रयत्वनिरूपितप्रकारिताश्रयवोपविषय इत्यर्थः । एवं हेत्वाभास- निरूपणेन परामर्शस्य निरूप्यनिरूपकभावापन्नविषयताशालित्वेन कारणत्व- मिति कारणतावच्छेदकखरूपं शोधितम् । निगमयति व्याख्यातमिति । प्रत्यक्षानुमानेत्येतद्धटकमनुमानं खरूपकारणादिनिरूपणेन वृत्तविशदनिरूणप- विषय इत्यर्थः । इत्यनुमानपरिच्छेदः ।

सुखप्रवशिनीसमेतः । ८१ उपमितिकरणमुपमानम् । संज्ञासंशिसम्बन्धशानमुपमितिः। तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणं व्यापारः । तथा हि । कश्चित् गवयपदार्थमजानन् कुतश्चिदारण्यक- पुरुषात् गोसदृशो गवयः इति श्रुत्वा वनं गतो वाक्यार्थ स्मरन् गोसदृशपिण्डं पश्यति । अथ प्रत्यक्षानुमानोपमानोपमानति वाक्ये उपमानपदग्राह्य दर्शयितु- मुपमानं निरूपयति उपमितीति । उपमानमुपमानपदवाच्यम् । उप- मितिः कत्यत्राह संक्षेति । अननोपामातस्तुल्यत्वज्ञानं न प्रकृत विवक्षि- तामिति सूचितन् । संज्ञा वाचकशब्दः । संशि वाच्यार्थः । संज्ञासज्ञिनाः सम्बन्धा वाच्यवाचकभावरूपस्तस्य ज्ञानम् । तथा च पदवाच्यत्वप्रकार- कज्ञानविशेष उपमितिशब्दवाच्य इति भावः । तत्करणम् तस्याः करणम् । सादृश्यज्ञानमिति । काचसादृश्यविशिष्टपिण्डदर्शनं करणमित्याहुः । अन्येऽतिदेशवाक्यार्थशाब्दबोधः करणामिति । अपरेऽतिदेशवाक्यार्थस्मरणम- व्यवहितपूर्ववर्तित्वात्करणमिति । सर्वसाधारण्याय ज्ञानमिति । उपपादयति तथा हीति । तथा करणत्वरूपप्रकारविशिष्टम् । हिशब्दार्थो हेतुत्वम् । तथा च सादृश्यज्ञान वक्ष्यमाणानिष्ठहतुतानिरूपकतत्करणत्वरूपप्रकारशा- लाति बोधः । कश्चित् ग्रामीणः । कुतश्चित् कस्मादपि । आरण्यक- पुरुषविशेषणमेतत् । चिदादिशब्दसमभिव्याहृतः किंशब्दो बुद्धिस्थव्यक्ति- वचनः । चिदादिपदं तात्पर्यग्राहकम् । श्रुत्वेति । गोसदृशो गवय- शब्दवाच्य इति तदर्थ बुद्धवति शषः । क्त्वाप्रत्ययस्योत्तरकालिकत्वमर्थः । तथा च ध्वंसः क्त्वाप्रत्ययार्थः श्रवणस्य स्वप्रतियोगिकत्वसम्बन्धेन तत्रान्वयः । ध्वंसस्य कालिकसम्बन्धेन बोधेऽन्वय इत्युक्तं भवति । एवं क्त्वाल्यप्प्र- योग संवत्रानुसन्धेयम् । अत्र 'गोलदृशं पिण्डं पश्यन् वाक्यार्थ स्म- रतीति ऋजुः पाठः । अनाजानन् श्रुत्वति निर्देशादज्ञानश्रवणयोः 11 T ८२ तर्कसंग्रहः। तदनन्तरं अयं गवयपदवाच्यः इत्युपमितिरुत्पद्यते । व्याख्यातमुपमानम् । समानकालिकत्वं, श्रुत्वा वनं गत इति क्त्वाप्रत्ययेन श्रवणोत्तरगमनम्, वनं गतः पश्यन्निति काप्रत्ययेन पिण्डदर्शने वनगमनानन्तर्य, पश्यन् सर- तीति शत्रा दर्शनस्मरणयोः समानकालिकत्वं च दर्शयति । तथा चायं भावः-पिण्डदर्शनबलाधदि वाक्यार्थस्मरणम् , तदा तदपि कारणम् । यदि गवयबुभुत्सया वनं प्रति गच्छतो दर्शनात् प्रागेव वाक्यार्थस्मरणं तद- नन्तरक्षणे च पिण्डदर्शनं भवति, तदा तयोर्युगपदेकास्मिन् क्षणे वर्तमानत्वात् कारणत्वमक्षतमिति । तदनन्तरमिति पिण्डदर्शनवाक्यार्थस्मरणानन्तरक्षण इत्यर्थः । अयमिति न पुरोवर्तिव्यक्तिमात्रपरम्, तथा सति गवयव्यक्तय- न्तरेषु गवयपदवाच्यत्वग्रहासम्भवप्रसङ्गात् । अतः पुरोदृष्टं यद्वयत्वं तवच्छिन्नसामान्यपरमिति ध्येयम् । इत्युपमानपरिच्छेदः ।

सुखप्रवेशिनीसमेतः । आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं तु पदसमूहः। शक्तं पदम् । अस्मात् पदादयमों बोद्धव्य इतीश्वरसङ्केतः शान्तिः । - प्रत्यक्षानुमानोपमानशब्देत्यत्र शब्दपदेन न ध्वन्यात्मकशब्दः, न केवलवर्णात्मकः, न केवलपदरूपोऽपि शब्दो प्रायः तेषां शाब्दबोधाजनक- त्वात् । नाप्याप्तानाप्तसाधारणं वाक्यमानम् , अनाप्तवाक्येऽपि शाब्दप्रमा- जनकत्वाभावात् , प्रमाकरणस्यैव विभजनादित्यभिप्रेत्याहाप्तवाक्यमिति । आप्तस्य वाक्यम् । षष्ट्यर्थ उच्चरितत्वरूपः सम्बन्धः । नायमाप्तशब्दः सामान्यतः सखिमात्रवचनः , नापि यथार्थदृष्टमात्रवचनः, तदुक्तवाक्यस्या- मि विप्रलम्भनदशायामविश्वसनीयत्वादित्याशयेनाह आप्तस्त्विति । यथा- थेति । यथाभूतोों यथार्थोऽबाधितोऽर्यो मिथःसम्बन्ध्यर्थः, तस्य वक्ता । षष्ठ्यर्थो विषयित्वं ज्ञानान्वयि । वक्ता शनानुकूलशब्दप्रयोगाश्रयः । वाक्यं नाम नावश्यं तिङन्तसहितसुबन्तमेव, किं तर्हि सुबन्तसमुदायमात- मपि । नीलो घट इत्येतावतोऽपि वाक्यत्वादित्यभिप्रेत्याह वाक्यन्त्विति । यद्यप्यनाकांक्षितासन्निहितानन्वितार्थकपदसमुदायो वाक्यं न भवति । अतः पदसमूहत्वमानं न लक्षणम् । अथाप्याप्तसम्बन्धोक्त्यैव तादृशपदसमूह- वारणात्प्रकृते वाक्यपदस्तावानर्थः पर्याप्त इत्याशयः । अत्र पदशब्दन न 'सुप्तिङन्तं पदमिति परिभाषितस्य ग्रहणम् । किं तु पयते गम्यतेऽनेनार्थ इति पदमित्याशयेनाह शक्तमिति । का पुनरियं शक्तिः अत्राह अस्मा- दिति । पदादिति पञ्चम्यर्थो जन्यत्वं बोधेऽन्वेति । अयमर्थ इदम्पद- जन्यबोधविषय इत्यर्थः । इति शब्दार्थो विषयित्वम् । अर्थपदार्थस्य विषयितायामन्वयः । तस्याः सकते इच्छायामन्वयः । इदम्पदजन्य- बोधविषयत्वविशिष्टेदमर्थनिरूपितविषयितावदीश्वरीयेच्छा शक्तिपदवाच्यति । घटपदाद्धटत्वरूपजातिविशिष्टोऽयों बोद्धयः पटपदात् पटत्वरूपजात्यवच्छि- तर्कसंग्रहः । आकांक्षा योग्यता सन्निधिश्च वाफ्यार्थज्ञानहेतुः । नं बोद्धव्यमित्येवं तत्तत्पदबोद्धव्यत्वेन तत्तदर्थविषयिणीच्छैव तत्तत्पदस्य तत्त- दर्थे शक्तिरित्यर्थः । घटपदस्य घटे शक्तिरित्यत्र शक्तिपदं बोद्धव्यत्वप्रका- रकेच्छार्थकम् । घटपदस्येति षष्ठ्या जन्यत्वरूपसम्बन्धोऽर्थः । तस्य बोधेऽन्वयः । घट इत्यत्र सप्तम्यर्थो विशेष्यत्वमिच्छान्वयि । तथा चा. ऽऽसृष्टरुपयुज्यमानेप्वर्येषु प्रयुज्यमानाश्शब्दा नावाचीनपुरुषसङ्केतवशो- त्पन्ना भवितुमर्हन्तीतोश्वरसङ्कत एव तस्य तस्य शब्दस्य तत्तदर्थबोधकत्वे निमित्तम् । अर्वाचानेच्छाग्रहण इच्छाप्रकारस्य नियन्त्रणासम्भवेन यस्मात्क- स्मादपि पदाधं कमप्यर्थ लोको बोधयितुमिच्छेत् । योगिनो महयोऽपि मिथः समबलाः खाच्छन्धेन शब्दान् प्रयुञ्जानाः प्रबन्धान प्रणीतवन्तः स्युः, येष्व- स्माकमैदमर्थ्यमशक्यानधारणम् । किञ्च वेदशब्देभ्य एव विशिष्ट स्याप्यर्थस्य सृष्टतया वेदस्य चेश्वरकृततया तत्र तत्रार्थ प्रयुज्यमानास्त एव वैदिकशब्दा ईश्वरसङ्केतिता इतोश्वरसङ्केत एव शक्तिर्वक्तुमुचितेत्यभिप्रेत्येश्वरेत्युक्तम् । अत्र यधप्याप्तवाक्यमेव प्रमाणम् । अथाप्याप्तसम्बन्धित्वेन ज्ञायमानतया न शाब्दबोधकरणत्वं शब्दस्य । अपि तु केवलं तत्तच्छब्दरूपेणैव । ननु कथं तार्ह गौरश्वः' 'अमिना सिञ्चदित्यादिश्रवणे प्रायशो बोधो न जायत इति चेन्न, शब्दस्य केवलं कारणस्वाभावात् आकाङ्क्षादीनामपि सहकारि- वादित्याशयान आकाङ्क्षादिसहकारि दर्शयति आकाङ्क्षति । हेतुः प्रयोजको जनकज्ञानविषय इत्यर्थः । आकाङ्क्षाज्ञानं योग्यताज्ञानं सन्निधि- ज्ञानं च शाब्दबोधे सहकारिकारणमित्युक्तं भवति । शाब्दप्रमास्थले वस्तुत आकांक्षादेः सद्भावेऽपि तद्भमस्थले तदभावात् तत्राकांक्षादिज्ञानस्यैव भ्रमा- त्मकस्य कारणत्वमावश्यकमित्यविशेषात् सर्वत्र तद्ज्ञानमेव कारणमिति । अत्राकांक्षा नाम नेच्छा, पदस्य पदान्तराकक्षित्यत्रेच्छाया दुर्वचत्वात्, अ- सुखप्रवेशिनीसमेतः । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभाषकत्वं आकांक्षा। अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारणं सनिधिः। i चेतनपद इच्छाया अभावात् । अतोऽन्यैयमित्याह पदस्येति । षष्ठ्य- 2 आधेयत्वमननुभावकत्वान्वयि । अन्यत् पदं पदान्तरम् । प्रकृतपद- भिन्नपदमित्यर्थः । व्यतिरेकोऽमावः । प्रयुक्तं प्रयोज्यम् , अधीनमि- ति । प्रयुक्तपदमिह समासे प्रकृतपदभिन्नपदप्रतियोगिकाभावप्रयोज्यरूपा- थलाक्षणिकम् । पूर्व तात्पर्यप्राहकम् । अस्याननुभावकत्वेऽन्वयः । अन्व- यस्यानुभावकत्वं पदार्थस्य पदार्थान्तरेणान्वयविषयको योऽनुभवः शाब्द- बोध इति यावत् तज्जनकत्वम् । तदभावोऽन्वयाननुभावकत्वम् । पदं ह्येक पदान्तराभावे शाब्दबोधं न जनयति । यथा घटमानयेत्यत्राम्पदाभावे घटपदं बोधं न जनयति । आकांक्षा आकांक्षापरवाच्यम् । अत्रे- दमवधेयम्-घटः कर्मत्वमानयनं कृतिरित्युक्तौ बोधो न भवति । घट- मानयेत्युत्कौ भवति । तत् कस्मात् ? पूर्वत्राकांक्षाया अभावात् परत्र भा- वादिति वक्तव्यम् । तन्न शक्यते । पूर्वत्राम्पदाश्रवणादम्पदामावाधीनमन- नुभावकत्वं घटपदस्य वर्तत इति तत्रैवाकांक्षा वर्तते । परनाम्पदसद्भावा- द्वोधस्य जायमानतयाऽननुभावकत्वरूपाकांक्षा नास्तीति । तस्मादुक्तस्या- कांक्षात्वासम्भवादेवं तात्पर्य वर्णनीयम् । यत्पदस्य यत्पदाभावेऽन्वयाननु- भावकत्वं भवेत् तत्पदस्य तत्पदमिलितत्वमाकांक्षा । यथा घटपदस्याम्प- दावशिष्टत्वम् । इदं च घटमानयेत्यत्रास्ति, घटः कर्मत्वमित्यत्र नास्तीति न दोष इति । अथेति । अर्थस्यावाधोऽसम्बन्धाभावः अर्थसम्बन्ध इति यावत् । पदार्थस्य पदार्थान्तरसम्बन्धो योग्यता । अयमनिष्ठो धर्मः । प्रथमतृतीयौ तु शब्दनिष्ठाविति विवेकः । पदानामिति । इदमुच्चारणान्वयि । अविलम्बन अव्यवहितत्वविशिष्टमित्यर्थः । पदस्य पदान्तराव्यवधानं सन्नि- ।

८६ तर्कसंग्रहः । आकांक्षादिरहितं वाक्यं न प्रमाणम् । यथा, गौरश्वः पुरुषो हस्तीति वाक्यं न प्रमाणम्, आकांक्षाविरहात् । अग्निना सिञ्चतीति वाक्यं न प्रमाणम्, योग्यताविरहात् । प्रहरे प्रहरेऽसहोचरितानि धिरिति यावत् । अव्यवधानं च पूर्व प्रयोगेण वा पश्चात्प्रयोगेण वोभय- थाऽपि ग्राह्यम् । आकांक्षादीनां शाब्दबोघहेतुत्वं तत्तदभावे शाब्दबोधा- भावप्रदर्शनेन व्यतिरेकमुखेन साधयति आकांक्षेति । यथेति उदाहियत इत्यर्थः । अकांक्षाविरहादिति । पञ्चम्यर्थः प्रयोज्यत्वं प्रमाणप्रतियोगिक- भेदरूपे नार्थेऽन्वेति । ननु गौरश्व इत्यत्र गवादिपदार्थस्य किमनुच्चारित- तिष्ठत्यादिपदार्थान्वयेऽप्रमाणत्वमुच्यते उताश्वादिपदार्थान्वये । नायः, तिष्ठ- त्यादिपदसन्निध्यभावेन सन्निधिरूपकारणाभावादेवाप्रमाणत्वनिर्वाहात् । नान्त्यः, गवाभेदस्याश्वे बाधितत्वेन योग्यतारूपकारणाभावादेव निवाहात् । अत आकांक्षा किमर्थमतिरिक्तं कारणमिति चेन्न ; नोदाहरणमादर्तव्यमिति न्यायेन 'घटः कर्मत्वमानयनं कृति'रित्युदाहरणान्तरस्यैवाभिप्रेतत्वेनादोषात् । अत्र हि, षटमानयति वाक्ये यः प्रातिपदिकार्थो घटः यो द्वितीयार्थः क- मत्वं यो धात्वर्थ आनयनं य आख्यातार्थः कृतिस्ते सर्वे उपस्थाप्यन्ते । सन्नि- वियोग्यता च स्तः । तथाऽपि न कथं बोध इति चेदाकांक्षा नास्तीत्ये- वात्तरम् । घटपदस्यान्वयाननुभावकत्वं न कर्मत्वपदव्यतिरेकात् , किंतु अम्पदव्यतिरेकादिति । सन्निधौ पदनियमः पौर्वीपयनियमो वा नास्ति । यथा गिरिरग्निमान् , पर्वतोऽमिमान् , अग्निमान् गिरिरिति । आकांक्षा- यां तु नियमोऽस्ति । यथा घटपदोत्तरमम्पदमेव प्रयोक्तव्यम् , न कर्म- त्वपदम् । तथा तत्पदमुत्तरत्रैव प्रयोक्तव्यम् , न पूर्वप्रेति । असहोचरि. तानि असह परस्परानधिकरणकाले । अयमेव कालो व्यक्तं दर्शितः प्रह- रे प्रहर इति । यामे याम इत्यर्थः । अत्र व्यापकत्वगमकवोप्सा नेष्टा । . , सुखप्रवेशिनीसमेतः। गामानयेत्यादिपदानि न प्रमाणम्, सान्निध्याभावात् । वाक्यं द्विवि- धम्, वैदिकं लौकिकं चति । वैदिकमीश्वरोक्तत्वात् सर्वमाप प्रमा. णम् । लौकिकं तु आप्तवाक्यं प्रमाणम् । अन्यदप्रमाणम् । वाक्या- थज्ञानं शाब्दज्ञानम् । तत्करणं शब्दः । इति शब्दपरिच्छेदः । , किं त्वकैकाहरवृत्तित्वमककस्य पदस्य विवक्षितम् । तथा चैकप्रहरवृत्ति- तद्भिन्नाहरवृत्तिविभिन्न कालिकाच्चारणविषयीभूतानोत्यथः । इत्यादीत्या- दिपदेन सवत्सामिति पदग्रहणम् । नन्वाप्तवाक्यस्यैव प्रमाणत्वे वेदस्य कथं प्रामाण्यम् । न खल्वसावाप्ताक्तः, अपौरुषेयत्वादिति शङ्कापारीजही- घया, वदस्य कात्स्न्येन प्रामाण्यानरुरूपयिषया, शाब्दबोधजनकत्वं वदस्य- वात मतान्तरमनिष्टमित्यवजिगमयिषया च वाक्यं विभजते वाक्यामिति । वैदिकामात वेदघटकामत्यर्थः । लौकिकं लोकखतन्त्रोच्चरितम् । ईश्व. रोक्तत्वादात । तस्य सर्वज्ञस्य परमकााणकस्य पुरुषोत्तमस्याप्तत्वादि- ति भावः । नन्वकैकजन्यबाघोडाप शब्दजन्यत्वाच्छाब्दबोध एव । तत् कथं वाक्यमेव प्रमाणामति शङ्कां पारहति वाक्यति । अयं भावः-प्रथ- मतस्तावदस्य पदस्यायमर्थ इति व्यवहारादिना शक्त्यवधारणमावश्यकम् । एवं पदपदार्थयावीच्यवाचकभावसम्बन्वज्ञान सति कदाचित्पदज्ञाने जाते एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकामात न्यायात् पदाथस्मरणम् । इदं च पदार्थस्मरणं स्मृतिरूपत्वान्नानुभवः, नापि तदन्तर्गतः शाब्दबोधः । यत्पुन- स्वमनेकपदार्थस्मरणानन्तरं तेषां परस्परसम्बन्धावगााहे ज्ञानम् शाब्दबोधः । तत्र च पदसमुदाय एव करणमिति । शब्द इति इदमेवा- सवाक्यं शाब्दबावत्यत्र शब्दपदग्राह्यमिति भावः । एवं प्रत्यक्षानाशा मानशब्दपदार्था निरूपिताः । एवं च 'तत्करणमाप. चतुर्विधामात वाक्यार्थज्ञानं निष्पादितम् । इति शब्दपरिच्छेदः। स एवं तकसंग्रहः । एवं यथार्थानुभवो निरूपितः । अयथार्थानुभव: विविधः; संशयविपर्ययतभेदात् । एकस्मिन् धमिर्माण विरुद्धनानाधर्म- प्रकारकशानं संशयः । यथा, स्थाणुवा पुरुषो वेति । एवमादौ विभक्तानां द्रव्यादिविशेषाणां क्रमेण निरूपणमारभ्य द्रव्यनिरूपण समाप्य गुणानरूपणावसेर बुद्धि विभज्य तत्र यथार्थानुभव- निरूपणावसर तच्चातुर्विध्यस्थापनाय तत्करणचातुविध्यप्रपञ्च विधायावसर- प्राप्तं पाराशष्टबुद्ध्यादिनिरूपणमारप्स्यमानो यथाथानुभवानरूपण निगम- यति एवमिति । एवम् उक्तप्रकारेण । निरूपितः निरूपणं ज्ञानानुकूल- व्यापारः । यथार्थानुभव उक्तप्रकारप्रकारकज्ञानानुकूलव्यापारजन्यफलाश्रय- इति बाधः । विपर्ययेति । तकान्यविपर्ययेत्यथः । संशयं लक्षयात एकस्मिन्निति । धामणीति विशाष्यत्वं सप्तम्या ज्ञाना- न्वयि । विरुद्धा नाना धर्मा विरुद्धौ नानाधर्मी वा तद्वैशिष्ट्य तत्सम्बन्ध- स्तस्य ज्ञानम् । षष्ठ्यर्थः संसर्गित्वम् । एकधामनिरूपंतावशाष्यता- श्रय-विरोधविशिष्टानकधर्मप्रतियागिकसंसगानरूपितसंसर्गिताश्रयज्ञान संशय- पदवाच्यामिति बोधः । एकमिविशष्यकविरोधावाशष्टानकधर्मप्रकारक- ज्ञानत्वं संशयत्वम् । स्थाणुर्वेत्यादि । अयामात पूरणीयम् । इतीति । ज्ञानमिति शेषः । इतिशब्दार्थो विषायत्वरूपो धर्मः । वाशब्दः सम- भिव्याहृतपदाथावरोधार्थकः 1 इदमर्थस्य, स्थाणाः पुरुषस्य च विषयिता- रूपातशब्दार्थेऽन्वयः । तथा चाभेदसम्बन्धन पुरुषविरोधाश्रयस्थाणुनिरू- पितविषयित्वं यत्, यच्चाभेदसम्बन्धन स्थाणुावरोधाश्रयपुरुषानरूपितावेष- यित्वम् , यच्चदमानरूपितविषयित्वं तदाश्रयसंशय इत्यथः । अथ- वतिशब्द आनुपूव्यर्थकः, तस्य संशय खावच्छिन्नशब्दज्ञानप्रयाज्यत्वसम्ब- न्धेनान्वयः । इदमविशेष्यक-स्थाणुत्वविरुद्धपुरुषत्व,पुरुषत्वविरुद्धस्थाणु- सुखप्रवाशनीसमतः । ८९ मिथ्याज्ञानं विपर्ययः । यथा, शुक्तौ इदं रजतं इति । त्वप्रकारकसंशय इति यावत् । अयं भावद्वयकोटिकसंशयः । एवं भावा- भावकोटिकसशयोऽपि भवति, यथा स्थाणुन वति । पर्वतो वाहमान हृदश्च वयभाववानिति ज्ञानऽतिव्याप्तिरित्यकमिविशेष्यकत्वानिवेशः । रामः श्यामोऽभिरामश्चति निश्चयऽतिप्रसङ्ग इति विरोधविशिष्टति । पर्वतो वह्निमानिति निश्चयवारणाय नानति । घटो नीलो वा रक्तो वा भवात्वती- च्छावारणाय ज्ञानात | विपर्ययं लक्षयति मिथ्यति । विपर्ययः तकान्यो विपर्ययशब्दवाच्यः मिथ्याशानं तान्यमिथ्याज्ञानामय॑थः । मिथ्यात्वं वस्तु- नि वचन ज्ञान च भवति । तत्र वस्तुनि मिथ्यात्वं स्वाभावाधिकरणे भासमा- नत्वम् ; मिथ्या वचनमित्यादौ वचन मिथ्यात्वं तदभावबति तत्प्रकारकज्ञा- नानुकूलशब्दत्वम् ; ज्ञान मिथ्यात्वं च तदभाववति तत्प्रकारकत्वम् । अतस्तदभाववति तत्प्रकारकत्वं मिथ्यापदार्थः । इदं तर्केप्यस्तीति तर्का- न्यत्वनिवेशः । यद्यपि तकस्य विपर्ययत्वमिष्टमेव । अथाप्यत्र पार्थक्यन तद्विभजनात् प्रकृतविपर्ययपदनैव विवक्षितमिति । तस्य पृथग्विभज्य दर्शन कुत इति चेत् विपरीतज्ञानत्वेऽपि तस्य प्रमाणनाथनिर्णये सम्पादनीये क्वचिदुपकारकत्वमस्तीति विशेषाध्यवसायन तत्राऽऽदरातिशयादिति । यद्य- पीदं. लक्षणं संशयेऽप्यस्ति, स्थाणौ अयं स्थाणुवी पुरुषो वेति संशयस्य पुरुषत्वामाववति पुरुषत्वप्रकारकत्वात् तर्कान्यत्वाच्च, अथापि संशयान्यत्व- स्यापि निवेशान्न दोषः । तथा च तदभाववति तद्विरुद्धधर्माप्रकारक- तत्प्रकारक-तर्कान्य-ज्ञानत्वं प्रकृते विपर्ययत्वम् । एवमेव पूर्व यथार्थानु- भवलक्षणेऽपि संशयवारणाय तद्विरुद्धधर्माप्रकारकत्वं विशेषणं देयमिति ध्ये- यम् । उदाहरति यथेति । इतोत्यनन्तरं विपर्यय इति शेषः । तत्र शुक्ता- विति सप्तम्यर्थविशेष्यिताया अन्वयः । शुक्तिविशेष्यकमपि ज्ञानं न शुक्ति- 12T ९० तर्कसंग्रहः । व्याप्यारोपेण व्यापकारोपः तर्कः। यथा, यदि वह्निः न स्यात् तर्हि धूमोऽपि न स्यादिति । त्वन शुक्तिं गृह्णाति, तथा सति रजताभेदग्रहणासम्भवात् । अपि त्विदंत्वेन पुरोवर्तित्वेन तां गृह्णातीतीदभित्यनेन दर्शितम् । इदमित्यनन वास्तवरजतं न ग्राह्यम् । तथा सति विपर्ययत्वाभावप्रसंगादिति ज्ञापनाय शुक्तावि- त्युक्तम् । तर्फ लक्षयति व्याप्येति । व्याप्यस्यारोपस्तेन । आरोप आहार्य- ज्ञानम् । आहार्यज्ञानं नाम बाधज्ञाने सत्यवच्छयोत्पादित विपरीतज्ञानम् । यथा मुखे चन्द्रत्वारोपोऽचन्द्रत्वज्ञानकालिकेच्छाजनितः । आरोपेणेति तृतीयार्थो जन्यत्वं व्यापकारोपेऽन्वति । वस्तुतो व्याप्यं यत् तत्प्रकारका- हार्यज्ञानजन्यत्वे सति वस्तुतो ययापकं तद्विषयकाहार्यज्ञानत्वं तर्कत्वम् । यदि वहिन स्यातहि धूमोऽपि न स्यादिति वयभावारोपजन्ये धूमामा- वारोपे लक्षणमस्ति । वयमावस्य व्याप्यत्वाद्धमाभावस्य व्यापकत्वात्, यो वयभाववान् स धूमाभाववानिति व्याप्तः । व्यापकविषयकाहार्यज्ञा- नत्वमात्रस्य लक्षणत्वे मुख चन्द्रत्वारोपाद्यात्मके सर्वत्राहायज्ञानेऽतिव्याप्तिः । चन्द्रत्वादपि यत्किञ्चिव्यापकत्वात्तदारोपस्यापि व्यापकारोपत्वात् । अतो चाप्यारोपजन्यत्वनिवेशः । चन्द्रत्वारोपस्तु केवलेच्छाजनितः, न पुनरारो- पान्तरजन्य इति । व्याप्यविषयकाहार्यज्ञानजन्येत्यत्राहार्यत्यनिवेश्य व्याप्य- विषयकज्ञानजन्येत्येतावदुक्तौ, स्थाणौ कदाचिन्नायं. पुरुष इति बाधज्ञाने सत्येव यदा तन्निष्ठशाखादौ करादिभ्रमो भवति, करादिश्च पुरुषत्वव्याप्य इति, तादृशव्याप्यभ्रमादयं पुरुष इत्याहार्यज्ञानं जायते, तत्रातिव्याप्तिः । तन्निवेशे च करादिभ्रमस्याहार्यत्वाभावान्न दोषः । व्यापकारोप इत्यस्य व्यापकविषयकाहार्यज्ञानमित्यर्थकतया तत्राहार्यत्वानिवेशे शंखे पीतत्वव्या- प्याभावरूपवाधज्ञाने सत्येव पीतत्वव्याप्यवान् शंख इत्याहार्यज्ञानम्, तज्जन्य- सुखप्रवेशिनीसमेतः । स्मृतिरपि द्विविधा, यथार्थाऽयथार्था चेति । प्रमाजन्या यथा- श्शंखः पीत इति भ्रमस्तनातिव्याप्तिः । इदं च नाहार्यज्ञानम्, तदा पोत- त्वाभाववान् शंख इति बाघकज्ञानाभावात् । अतस्तन्निवेशः । उदाहरति यथेति । यदि वह्निन स्यादिति । अत्रेति शेषः । निरूपितत्वं त्रलों धात्वर्थ सत्तायामन्वति । तस्य नार्थाभावे स्वप्रतियोगिकत्वसंबन्धेनान्वयः । वहे. राधेयतासम्बन्धेन नार्थेऽन्वयः । यदिशब्दार्थः प्रयोजकत्वम् । तत्राभाव- स्याधेयतासम्बन्धेनान्वयः । स्यादिति लिङ्प्रयोगस्तु हेतुहेतुमतोर्लिङ्' इत्य- नुशासनसिद्धो यदिपदस्य प्रयोजकत्वरूपार्थतात्तर्यग्राहकः । प्रयोजकत्वस्य धूमोऽपि न स्यादित्यत्र नार्थाभावे निरूपकत्वसम्बन्धेनान्वयः । यदिशब्दा- र्थः प्रयोज्यत्वमेव वा । तीत्यस्यापि पूर्वोक्तार्थप्रयोज्यत्वमेवार्थः । तच्च स्पष्ट- वाय पुनरुक्तम् । अत एव तहाँतिपदं विनापि वाक्यप्रयोगः । यदि- शब्दस्य तात्पर्यग्राहकत्वमङ्गीकृत्य प्रथमस्यात्पदस्थाख्यातस्य प्रयोज्यत्वमर्थ- स्वीक्रियतामिति चेत् काममस्तु । परं तु क्रियापदं स्यात्प्रभृति विना- पीदृशः प्रयोगो भवतीति तथोक्तम् । तथा चेदमर्थपर्वतादिनिरूपितसत्ता- प्रतियोगिकवयनुयोगिकाभावप्रयोज्य इदमनिरूपितसत्ताप्रतियोगिकधूमा- नुयोगिकाभाव इति बोधः । इतिशब्दार्थो विषयित्वम् । अभावस्य तत्रा- न्वयः । आरोप इत्यध्याहारः । तत्रैतदन्वयः । अत्र 'यदि पहिर्न स्या' दित्यन्तं व्याप्यारोपनन्यत्वरूपदलोपपादनार्थम् । प्रकृततर्कस्य लक्ष्यभू- तस्याकारस्तु धूमोऽपि न स्यादित्येतावानेव । तथा च 'यथा यदि वहिन- स्यादित्यारोपजन्यो धूमोऽपि न स्यादित्यारोप' इति लेखनमेव चिकीर्षित- मिति ध्येयम् । पूर्वमनुभवलक्षणस्य स्मृतिघटितत्वात् स्मृतिरनुभवश्चति विभज्य स्मृतिलक्षणं प्रथमत उक्तम् । अथ स्मृतिनिष्ठयथार्थत्वायथार्थत्व- योरनुभवनिष्ठयाथार्थ्यायाथार्थ्यनिबन्धनत्वाद्यथार्थायथार्थानुभवौ निरूप्य स्मृ- तावपि तं विभाग दर्शयति प्रमेत्यादिना । यथार्थस्मृत्यादिलक्षणं तु ९२ लकसंग्रहः। । अप्रमाजन्याऽयथार्था। सर्वेषामनुकूलतया वेदनीयं सुखम् । सर्वेषां प्रतिकूलतया वेदनीय दुःखम् । इच्छा कामः, क्रोधो द्वेषः, कृतिःप्रयत्नः। विहितकर्मजन्यो धर्मः। तद्वति तत्प्रकारकस्मृतित्वादिकमेवेति मन्तव्यम् सर्वेषामिति षष्ठ्यर्थः समवेतत्वं वेदनेऽन्वेति । अनुकूलत्वमिच्छावि- षयत्वम् । तथा चेच्छाविषयत्वप्रकारकसर्वसमवेतवेदनविषयस्सुखम् । पशु- पुत्रादिवारणाय सर्वेषामिति । सुखसाधन पशुपुत्रादि चानुकूलतया वेद- नीयं न सर्वेषाम् । केषाचित्तत्र द्वेषदर्शनात् । सर्वसमवेतवेदनविषयत्वं दुःखादावप्यस्तोति अनुकूलतयेति । वेदनीयमित्युक्तिस्तु सर्वेषामनुकूलत्वम- नुभवसिद्धमिति प्रदर्शनार्थम् । न तु तदर्थस्य लक्षणे प्रवेशः । तथा च सर्वसमवेतेच्छाविषयत्वं लक्षणम् । अथ वेदं स्वरूपकथनम् । सुखत्वजा- तिरेव लक्षणमिति । प्रतिकूलतयेति । सर्वेषामित्यनुषनः । आहकण्टकादौ केषांचित्प्रतिकूलतया वेदनीयत्वमस्ति । सर्वसमवेतद्वेषविषयत्वं लक्षणमि- त्यादि पूर्ववत् । इच्छादीनां ततजातिमत्त्वमेवानुभवसिद्धं लक्षणमिति सूचयितुं पर्यायपदेन तानुत्कीर्तयति इच्छेत्यादिना । धर्मः पुण्यम् ; अधर्मः पापम् । तयोर्लक्षणमाह विहितेत्यादिना । यागादयः फलसाध- नत्वेन शास्त्रे चोदिताः । फलस्य बहुकालानन्तरभावित्वाद्यागादीनां चा- नुष्ठानसमय एवं विनाशित्वान्न तेषां साक्षात्फलजनकत्वसंभव इति विधि- बलान्मध्ये व्यापारः करप्यत इति स एव धर्मः । एवं निषेधस्थले निषि- ध्यमानस्य कलञ्जभक्षणादेः कालान्तरभाविदुःखजनकत्वस्य साक्षादसम्भ- वान्निषेधबलान्मध्ये व्यापारः कश्चिदनुमीयत इति स एवाधर्मः । न च सुखप्रवेशिनीसमेतः । '९३ निषिद्धकर्मजन्योऽधर्मः। बुद्धयादयोऽष्टात्ममात्रवृत्तिगुणाः । बुद्धीच्छाप्रयत्ना नित्या अ- नित्याश्च । नित्या ईश्वरस्य, अनित्या जीवस्य । संस्कारस्त्रिविधः, , वेदविहितकर्मजन्यत्वमेव धर्मलक्षणं वक्तव्यम्, अन्यथा बुद्धादिविहितकर्म- जन्येऽतिव्याप्तिरिति वाच्यम् ; बुद्धादिभिः कर्मविधानेऽपि तस्य निष्फल- खेन तज्जन्यस्यैवाप्रसिद्धयाऽतिव्याप्त्यभावेन वेदेत्यस्यानावश्यकत्वात् । अत्र कर्मेत्यविवक्षितम्, विधिविषयजन्यत्वस्यैव पर्याप्तत्वात् । कर्मभिन्नेन द्रव्या- दिना दनेन्द्रियकामस्य जुहुया'दित्यादौ धोत्पादनस्य वीकृतत्वेन तत्रा- व्याप्तिप्रसङ्गाच्च । ननु विहितजन्यत्वं तदध्वंसेऽप्यस्ति । न च विधिविषय- जन्यत्वे सति विध्युद्देश्यजनकत्वं धर्मत्वम् ; ध्वंसस्य च फलजनकत्वाभा- वान्नातिप्रसङ्ग इति वाच्यम् , ब्रीहीनवहन्तीत्यादिविहितावहननादिजन्ये यागोपयोगिपुरोडाशाद्यर्थतण्डुलनिष्पत्त्यादिफलजनके बैतुष्यादावतिव्याप्ते- रित चेन्न । यत्साक्षादवहननादितस्सम्भवति, तस्यैव विध्युद्दश्यत्वात्तण्डु- लनिष्पत्तेरनुद्देश्यत्वात् । वस्तुतो विध्यनुमितविहितनिरूपितजन्यतावत्वं धर्म- लक्षणमिति न कश्चिदोषः । पैतुष्यादेरवहननादिजन्यत्वस्य लोकसिद्धत्वेन विधिबोधितत्वाभावात् । शब्दान्तगुणानां तत्तन्निरूपणावसर एव तत्त. दाश्रयप्रदर्शनं कृतम् । बुद्ध्यादीनामधर्मान्तानां त्वेकवृत्तित्वेन वचन- लाघवाय पृथक्पृथगनुक्त्वा तावन्निरूपणानन्तरं तं प्रदर्शयति बुद्धधादय इति । सुखदुःखद्वेषधर्माधर्माणामीश्वरेऽनङ्गोकर्तव्यत्वात्तेषां जीवमात्रनिष्ठा- नां कर्मायत्तानामनित्यत्वमेवेत्यमिसन्धाय ज्ञानेच्छाप्रयत्नानामुभयरूपत्वं दर्शयति बुद्धीति । ईश्वरस्येति । तस्य करणकलेबररहितत्वात्तदीयज्ञाना- देः शरीरादिनिरपेक्षत्वादिति भावः । संस्कारत्वजातिमत्त्वं संस्कारलक्षण- म् । विभजते संस्कार इति । वेगः इप्वादिषु जायमानया प्रथमक्रि- तर्कसंग्रहः । बेगो भावना स्थितस्थापकश्चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः। अनुभवजन्या स्मृतिहेतुः भावना । आत्ममात्रवृत्तिः । ययोत्पाद्यते, क्रियान्तरं च जनयति दूरपातार्थ यस्स वेगः । पृथिव्यादिचतु- ष्टयं च मनश्च चतुष्टयमनसी तत्र वृत्तिर्यस्येति । भावनां लक्षयति अनुभवे- ति । अनुभूतमेव मयत इत्यनुभवसिद्धम् । तदनुमवस्य स्मृतिकारणत्वम- न्वयव्यतिरेकसिद्धं साक्षान्न भवति ; अनुभवे नष्टे बहुकालव्यवधानेन स्मृ- तेर्जायमानत्वात् । अतोऽत्र यागाद्धर्म इव मध्ये व्यापारः कश्चन कल्प्यते । सा भावना। अनुभवजन्यत्वमात्रोक्तावनुभवध्वंसेऽतिव्याप्तिः; स्मृतिहेतुत्वमा- त्रोक्तावात्मादावतिव्याप्तिरित्युभयनिवेशः । न चानुभवत्वावच्छिन्नजनकता- निरूपितजन्यतानिवेशान्नानुभवध्वंसेऽतिव्याप्तिः, ध्वंसं प्रति प्रतियोगिनस्त- तव्यक्तित्वेन कारणत्वात् , अनुभवध्वंसं प्रत्यनुभवत्वेन कारणत्वमिति कार्य- कारणभावानङ्गोकारादिति वाच्यम् । तथाऽपि स्मृतावनुभवजन्यत्व- सत्त्वेनातिव्यातिवारणाय द्वितीयदलावश्यकत्वात् । ननु पूर्व स्मृतिलक्षणे संस्कारमात्रजन्यत्वं निवेशितम् । तदन संस्कारलक्षणे स्मृतिहेतुत्वं निवे- श्यंत इत्यन्योन्याश्रय इति चेन्न ; तत्र संस्कारपदेन संस्कारत्वजातिमत एवोक्तत्वात्, भावनेत्यनुतत्वात्, अत्र संस्कारविशेषभावनालक्षण एवं स्मृ- विघटनाचादोषात् । यद्वाऽनुभवत्वावच्छिन्नजनकतानिरूपितजन्यतावत्व- मित्यत्र जन्यत्वमव्यवहितोत्तरक्षणावच्छिन्न ग्राह्यम् । एतत्सुचनाय स्मृतिहेतु- रित्युक्तम् । स्मृतेश्च संस्कारव्यवधानेनैव जायमानतया नातिव्याप्तिः । न चैवमनुभवत्वावच्छिन्नति निवेशो व्यर्थः अनुभवनिष्ठति निवेश एवालम् । अनुभवध्वंसेऽतिव्याप्त्यभावात् । अनुभवस्य द्विक्षणावस्थायितया तृतीय- क्षण एव ध्वंसस्योत्पद्यमानतया तत्राव्यवाहतोत्तरक्षणावच्छिन्नजन्यत्वाभावा- दिति वाच्यम् । परामर्शमकानुभवजन्यायामनुमितावतिव्याप्तिवारणायानु- सुखप्रवशिनीसमेतः । अन्यथा कृतस्य पुनस्तादवस्थ्यापादकः स्थितस्थापकः। भवत्वावच्छिन्नत्वस्यावश्यकत्वात् । अस्य च लक्षणस्य प्राचीनमते सङ्ग- तत्वऽपि नव्यमते न सामञ्जस्यम् ; तन्मते स्मृतितोऽपि स्मृत्युत्पत्तस्संस्का- रात्पत्तश्च स्वीकृतत्वेन संस्कारजनकतायास्स्मृतावपि वर्तमानतयाऽनुभव- त्वावच्छिन्नत्वासम्भवात् । अतः स्मृत्यनुभवसाधारण्येन ज्ञानत्वेनैव कार- णत्वम् । न च तार्ह ज्ञानत्वावच्छिन्नजनकतानिरूपितजन्यतावत्त्वमित्येव लक्षणमुच्यतामिति वाच्यम् ; ज्ञानस्येच्छां प्रत्यपि कारणतया तत्राति- व्याप्तः । अतो नव्यमतानुसार स्मृतिहेतुरिति लक्षणपरम् । स्मृ- तिहेतुत्वं कालादेरपीति स्मृतित्वावच्छिन्नजन्यतानिरूपितजनकताव- त्वमिति वक्तव्यम् । संस्कारद्वारा ज्ञानस्यापि स्मृति प्रतिकारण- त्वादतिव्याप्तिरित्यव्यवहितपूर्वक्षणावच्छिन्ना जनकता विवक्षणीया। ज्ञानस्य संस्कारव्यवधानेन कारणत्वाददोषः । अस्याव्यवहितपूर्वक्षणावच्छिन्नत्वस्य लाभायैवानुभवजन्येत्युक्तम् । अतो मतभेदेन लक्षणभेदमन्तरभिसंघाया- नुभवजन्या स्मृतिहेतुरिति भङ्ग्या निर्देशः। स्थितस्थापकं लक्षयति अन्यथे- ति। स्थितस्य पूर्वकालसम्बन्धिविलक्षणसंस्थानजातीयस्य स्थापकः पुनरुत्प- त्तिजनक इति शब्दार्थ एवात्र विवृतः । अन्यथा पूर्वसंयोगविलक्षणसं- योगवत्तया कृतस्य तादृशसंयोगवत्त्वप्रकारककृतिविषयस्य । आधेयत्वं षष्ठ्य- र्थस्तादवस्थयान्वयि । साऽवस्था संस्थान विलक्षणसंयोगो यस्य तत् तद- वस्थम् । तस्य भावस्तादवस्थ्यम् । तदापादक उत्पादकः । धात्वर्थ उत्प- तौ पुनरित्यस्यान्वयः । पुनःशब्दःपूर्वकालिकसत्त्वप्रतियोगिकाभावाधिकरण- कालानन्तरकालवृत्तित्वार्थकः । तथा च पूर्वसंयोगविजातीयसंयोगवद्वस्तु- निष्ठपूर्वसंयोगसजातीयसंयोगप्रयोजकः स्थितस्थापक इत्यर्थः । अत्र नायं साक्षात् तादृशसंयोगजनकः ; अपि तु वेग इव कटादौ तादृशसंयोगानुकूल- तर्कसंग्रहः । कटादिपृथिवीमात्रवृत्तिः। चलनात्मकं कर्म । ऊध्वंदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेश- संयोगहेतुरवक्षेपणम् । शरीरसन्निकृष्टसंयोगहतुराकुञ्जनम् । शरी- रविप्रकृष्टसंयोगहेतुःप्रसारणम्। अन्यत्सर्वं गमनम् ॥ नित्यमेकमनेकानुगतं सामान्म् । द्रव्यगुणकर्मवृत्ति। परं सत्ता। अपरं द्रब्यत्वादि॥ क्रियाजनकः । सा च क्रिया विद्यमानं संयोगावशेषं विनाश्य पूर्वस्थित- जातीय संयोगमुत्पादयतीति ध्येयम् । कटादीति । तालकृतो हि कट आकुञ्चित एव राक्षतः कदा- चित् प्रसारितोऽपि संस्कारविशेषात् पुनर्वेष्टनमेव लभत इति । आदिना शाखादिपरिग्रहः । शाखादिकं ह्यवनमितं विसृज्यमानं पुनः पूर्वदेशाव- च्छेदेन संस्कारवशात् संयोग लभत इति । एवं गुणा निरूपिताः । कर्म निरूपयति चलनेति । चलतीति प्रतीतिसाक्षिकं कर्मत्वं जातिविशेषः । हेतुरित । कति शेषः । कन्तुक- मुत्क्षिपति , नारिकेलमवक्षिपतीत्यादौ प्रतीयमानमिदं कर्म । प्रसारितस्य शरीरावयवस्य पुनः सन्निकृष्टदेशे संयोग आकुञ्चनेन भवति । खाश्रया- वयवभिन्नभूयोऽवयवसन्निकृष्टदेशावच्छिन्नखाश्रयसंयोगहेतुः क्रिया आकुञ्च- नम् । एवं प्रसारणमपि विप्रकृष्टघटितम् । अन्यत् उक्तचतुष्टयभिन्नम् । सर्व भ्रमणरेचनस्पन्दनादि । सामान्य लक्षयति नित्यमिति । अनुगतम् समवेतम् । एकमिति न लक्षणघटकम् । नित्यत्वे सत्यनकसमवेतत्वं लक्षणम् । संयोगवारणाय नित्यत्वम् । आकाशादिवारणाय द्वितीयम् । परमावकत्वादिवारणायानेकेति । घटाभावादिवारणाय समवायसंबन्धनि- बेशः । परमिति जातित्वावच्छिन्नव्यापकजातिरित्यर्थः । , अपर- सुखप्रवेशिनीसमेतः । नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः । नित्यसम्बन्धः समवायः । अयुतसिद्धवृत्तिः। ययोर्मध्ये एक- मिति । किश्चिज्जातिव्याप्यजातिरित्यर्थः । आदिना घटत्वादिग्रहणम् । विशेष लक्षयति नित्येति । ब्यावर्तका: व्यावृत्तिबुद्धिजनका इतरमि- नत्वानुमितिजनकाः । नित्यद्व्यवृत्तयो व्यावर्तका इत्यनेन नित्यद्र- व्येषु व्यावृत्तिबुद्धिजनकाः परमाणुविशेष्यकपरस्परच्यावृत्त्यनुमितिजनका इत्युक्तं भवति । तथा हि-~-लोके घटपटादीनां व्यावृत्तिबुद्धिराकार- वैषम्यादिना मवति, न तथा परमाणुषु ; तत्र रूपरसादिगुणादरैकरूप्यात् कृशत्वस्थूलत्वाधभावात् अनाश्रितानां तेषामाश्रयवैलक्षण्यस्यापि दुर्वचत्वात् । अतस्तत्र पारस्परिकव्यावृत्तिबोधो यस्माद्भवति , स कश्चिदतिरिक्तः प्रति- परमाणु भिन्नो विशेषकत्वेनैव सिद्धयन् विशेष इत्युच्यते । ननु विशेषेषु परस्परव्यावृत्तिज्ञानं कथमिति चेत् , अनवस्थाभयाते परं स्वात्मनैव स्वव्या- वर्तका इष्यन्त इति खतो व्यावृत्ता इति । गन्धवत्त्वादरपि पृथिव्यादौ व्यावृत्त्यनुमितिजनकत्वादतिव्याप्तिरिति परमाणुविशेष्यकेति । परमाणुः स्प- शवान् स्पर्शवत्समवायिकारणत्वादित्यत्र हेतोः परमाणुविशेष्यकानुमितिजन- कत्वाचन हेतावतिव्याप्तिरिति परस्परल्यावृत्तीति । पूर्व ग्रन्थारम्भे नित्य- द्रव्यवृत्तय इत्युक्तिर्नित्यद्रव्याणां परमाणूनामनन्तत्वात् विशेषाणामनन्तत्व- मिति बोधनार्थम् ; अधुना तु लक्षण परमाणुविशेष्यकत्वरूपविशेषणलामा- र्थम् । नित्येति । नित्यत्वे सति सम्बन्धत्वं लक्षणम् । संयोगसम्ब. न्धचारणायाद्यम् । गगनादिवारणायान्त्यम् । यु-मिश्रणामिश्रणयोरिति युतौ अमिश्रितौ सिद्धौ युतसिद्धौ पृथक्सिद्धावित्यर्थः । अयुतसिद्धावपृ- थक्सिद्धौ सम्बद्धोवेव सिद्धाविति व्युत्पत्तिलभ्यमयुतसिद्धशब्दार्थमाह ययो- रित । ययोघंटादिकपालायोः । एकं घटादि । अपराश्तिं अन्या- 13T तर्कसंग्रहः। मविनश्यदवस्थमपराश्रितमेवावतिष्ठते तावयुतसिद्धौ। यथा, अव. बवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्य- द्रव्ये चेति । श्रितं कपालादिनिष्ठम् । यथोरिति षष्ठ्यर्थ आधेयत्वम् । मध्यशब्दा र्थो घटितत्वम् । निरूपकत्वं सप्तम्यर्थ एकापरपदार्थान्वयि । अवि. नश्यवस्थम् विनश्यतोऽवस्था यस्य तद्विनश्यदवस्थम् । विनश्यदिति वर्तमानसामीप्ये वर्तमाननिर्देशः । तथा चाव्यवहितोचरक्षणावच्छिन्नना- सप्रतियोगिना याऽवस्था दशा यावत्खनाशकारणसामग्रीमिलितत्वं नाशो- त्पत्त्यव्यवहितपूर्वक्षणवृत्तित्वं वा तद्विशिष्टम् । एवं च स्वनाशोत्पत्त्यव्य. चहितपूर्वक्षणावच्छिन्नं विनश्यदवस्थम् । तद्भिन्नमविनश्यदवस्थम् । एव- कारार्थो व्यापकत्वम् । अविनश्यदवस्थैकनिष्ठसत्ताव्यापकत्वं अपराश्रितस्य तादात्म्यसम्बन्धेन । तथा च ययोर्मध्यविनश्यदवस्थैकनिष्ठसत्ताव्यापका- पराश्रितनिष्ठसत्तावदविनश्यदवस्थमेकम् , तावयुतसिद्धाविति बोधः । इत्थं च स्व, स्वनाशाव्यवहितप्राक्क्षणीयभिन्नस्वसत्ताव्यापकस्वनिष्ठाधेयतानिरूपको- भयमयुतसिद्धमिति । घटनाशाव्यवहितपूर्वक्षणीयभिन्ना तदितरक्षणनिरू- पिता या घटसत्ता तयापिकैव घटस्य कपालनिरूपिताधयतेति तदुभय- भयुतसिद्धम् । अत्र व्याप्यव्यापकभावः कालिकसम्बन्धेन । आश्रय- नाशाद्धटनाशस्याङ्गीकर्तव्यतयाऽऽश्रयभूतकपालनाशकालेऽपि घटसत्ताऽस्ति ; तत्र च न कपालनिष्ठतेति व्यापकत्वमङ्ग इति स्वनाशाव्यवहितपूर्वक्षणीय- भिन्नत्वनिवेशः । नन्वाश्रयनाशानन्तरमसमवायिकारणनाशस्ततो घटनाश इत्येव सिद्धान्त इति घटनाशाव्यवहितपूर्वक्षणीयाभिन्ना घटसत्ता आश्रयनाश- कालिकसत्ताऽपि भवति ? तत्र कपालसत्ता नास्तीति व्यापकत्वभङ्ग इति चेन्न, अव्यवहितपूर्वक्षणेत्यनेन तादृशक्षणद्वयमपि विवक्षितमित्यदोषात् । ननु जातिव्यक्त्यादिष्वयुतसिद्धत्वं न सिद्धयति, तत्र खपदेन जातिपरिग्रहे तन्ना- , .

सुखप्रवेशिनीसमेतः । शाप्रसिद्ध्या लक्षणसङ्गमनासम्भवात् । तथा नात्यादिसत्ताव्यापकत्वमपि घटादिनिरूपिताधेयतायां न भवति । जात्यादेः सर्वदा सत्त्वात् कस्यापि घटस्य तावत्कालवृत्तित्वाभावादिति चेन्न ; विनाश्याधेयघटितायुतसिद्धयो- रेवेदं लक्षणम् । नित्याधेयघटितायुतासिद्धयोऽस्तु, ख, खसत्ताव्यापक- खनिष्ठाधिकरणतानिरूपकोभयत्वमेव लक्षणम् । यदा घटसत्ता तदा घट- निष्ठा घटत्वादिजातिनिरूपिताधिकरणतेति समन्वयः । तथा च तादृशो- भयत्वैतादृशोभयत्वान्यतरवत्त्वमयुतसिद्धत्वम् । अथ वा नाशाव्यवहितप्रा- वक्षणीयत्वसम्बन्धन खाभाववत्वसत्ताव्यापकखनिष्ठाधयत्वाधिकरणत्वान्यतर. निरूपकं यत् यच्च खं तदुभयत्वमयुतसिद्धत्वम् । स्वपदेनाधिकरणग्रहणा- तन्निष्ठाधिकरणतानिरूपकजातेस्तस्य चायुतसिद्धत्वम् । खपदेनाधेयग्रहणा- त्तनिष्ठाधेयतानिरूपककपालस्य तस्य चायुतसिद्धत्वम् । परमाणुतद्विशेषयो- लक्षणसमन्वये च नाशेत्यादिव्यधिकरणसम्बन्ध इति । अत्र चाधेयताधिक- रणता च कालिकसम्बन्धानवच्छिन्ना ग्राह्या । तेन रूपादेर्महाकालस्य च कालिकसम्बन्धेन सम्बद्धयोरपि नायुतसिद्धत्वम् । न चेश्वरज्ञाने विषयि- तासम्बन्धेन सर्वस्य सत्त्वात् सर्वस्य तस्य चायुतसिद्धत्वापत्तिरिति वाच्यम् ; विषयितासम्बन्धस्य वृत्त्यनियामकतया लक्षणघटकमुख्याधाराधेयभावस्य त- नाभावात् । ननु सामान्यत्व विशेषत्वसमवायत्वादीनां तत्तदाश्रयाणां चायुतसिद्धत्वात् तत्रापि समवायसम्बन्धः स्यादिति चेन्न । सप्तपदा- थीतिरिक्तपदार्थानङ्गीकारात् सामान्यत्वादोनां धर्म्यपेक्षयाऽतिरिक्तत्वाभावा- त् सर्वथा तत्र परस्परं मुख्याधाराघयभावाखाकारणायुतसिद्धत्वस्यैवानुपगमे- न तत्र समवायसम्बन्धाप्रसक्तेः । तावयुतसिद्धाविति । सिद्धिर्नामा- विनश्यदवस्थीया सत्ता । अयुतत्वं चाधेयत्वाधिकरणत्वान्यतरनिरूपकत्व- म् । मिश्रितसिद्धावित्यनुक्त्वा अयुतसिद्धावित्यनेन नामिश्रितसिद्धाविति १०० तर्कसंग्रहः। अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्व कार्यस्य । सादिरनन्तःप्रध्वंसाभावः । उत्पत्तेरनन्तरं कार्यस्य । कालिकसंसर्गाभावोऽत्यन्ताभावः। यथा, भूतले घटो नास्तीति। तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावोऽन्योन्याभावः यथा, घटः पटोन भवतीति । नद्धयार्थवचनं लक्षणघटकव्यापकत्वज्ञापनायेति भावः । यद्यप्येकमिति क्लीवनिर्देशानुसारेण ते अयुतसिद्धे' इति वक्तुं युक्तम्, अथापि पटाद्यमि- प्रायेण पुंल्लिङ्गोक्तिः । अन्तिम पदार्थ निरूपयति अनादिरित्यादिना । आदिः कार- णम् , अथ वाऽऽरम्भ उत्पत्तिरिति यावत् । सान्त इत्यन्तो ध्वंसः । साहित्य प्रतियोगितासम्बन्धेन । तथा चोत्पत्त्यभाववत्त्वे सति ध्वंसप्रति- योगित्वं प्रागभावलक्षणम् । घटगगनवारणाय दलद्वयम् । कार्यस्येति। अभाव इति शेषः । सादिः उत्पत्त्याश्रयः । अनन्तः ध्वंसाप्रतियोगी । न च ध्वंसलक्षणे ध्वंसप्रवेश आत्माश्रय इति वाच्यम्, उत्तरदलस्य लक्षणा- घटकत्वात् । उत्पत्त्याश्रयत्वे सत्यभावत्वमित्येव लक्षणे तात्पर्यात् । घटा- दिवारणाय द्वितीयदलम् । नैकालिकः त्रिषु कालेषु वर्तत इति । कालत्रयवर्तित्वं प्रागभावेऽप्यास्ति ; श्वो जनिष्यमाणस्य घटस्य प्रागभावो वर्तमानक्षण तत्पूर्वकाल उत्तरकाले चास्तीति । अतः कालिकसम्बन्धन कालत्वव्यापकत्वं वक्तव्यम् । अथ वा प्रागभावाप्रतियोगित्वे सति ध्वं- साप्रतियोगित्वं तत् । संसर्गाभाव इत्यन्योन्याभावभिन्नाभावे परिभाषा । तथा च तादात्म्यसम्बन्धानवच्छिन्नप्रतियोगिताकाभावत्वं संसर्गाभावत्वम् । तादात्म्यसम्बन्धातिरिक्तसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वमत्यन्ताभावस्य लक्षणम् । ध्वंसप्रागभावयोः सम्बन्धावच्छिन्नप्रतियोगिताकत्वं नाङ्गीक्रियते । इतीति, उक्तशब्दगम्य इत्यर्थः ।

सुखप्रवशिनीसमेतः । १०१ सर्वेषामपि पदार्थानामुक्तेष्वेवान्तर्भावात् सप्तैव पदार्था इति सिद्धम् । काणादन्यायमतयोर्वालव्युत्पत्तिसिद्धये । अन्नम्भट्टेन विदुषा चितस्तर्कसंग्रहः ॥ इति तर्कसंग्रहः समाप्तः। एवं सप्त पदार्थी विभज्य संग्रहेण निरूपिताः । अथ शक्तयादि- रन्यैः पार्थक्येन स्वीकृतोऽपि यथायथमत्रैवान्तर्भवति , एवं न्यायदर्शनोक्ताः षोडश पदार्थी अपीति न सप्तधा विभजनमयुक्तमित्याह सर्वेषामिति । अंन्तीवो घटकत्वमसाधारणधर्मवत्त्वम् । उक्तवृत्त्यसाधारणधर्मवत्त्वात् । इतीति । उक्तानुपूर्व्यवच्छिन्नशब्दप्रमेयमित्यर्थः । सिद्धमबाधितम् । ज्ञानज्ञाप्यत्वमन्तर्भावादिति पञ्चम्यर्थः । अथ वा सिद्धमबाधितत्वप्र- कारकानुमितिविषयः । तदा पञ्चम्यनुमित्यन्वयि प्रयोज्यत्वम् । यद्वा सप्तैव पदार्था इतीति । एतदानुपूर्वीकवाक्यमित्यर्थः । सिद्धमबा- धितार्थकम् । पञ्चम्यर्थो ज्ञानज्ञाप्यत्वम् । तथा च सप्तैव पदार्था इति वाक्यमबाधितार्थकं पदार्थत्वव्यापकखप्रतिपाद्यार्थघटकताकत्वादित्यनु- नुमानम् । नन्विदं किं कणाददर्शनमनुरुध्य, किंवा गौतमदर्शनं ? नायः तत्र प्रत्यक्षमनुमानमिति प्रमाणद्वयमेव न्यरूपि । शब्दोपमानयोश्चानुमान एवा- न्तीवोऽभिसंहितः । अत्र पुनस्तयोः पार्थक्यं प्रादर्शीति विरोधात् । नान्त्यः, तत्र सप्तानां पदार्थानां निरूपणक्रमानुपलम्भादित्युभयदर्शिनामाश- कां परिहरन् ग्रन्थं समापयति काणादेति । काणादे न्यायमते च । व्युत्पत्तावेतदन्वयः । व्युत्पत्तिश्शब्दार्थज्ञानम् । सिद्धये निष्पत्तये । उद्दे-

१०२
तर्कसंग्रहः ।
-
.
श्यत्वं चतुर्थ्यर्थी रचनान्वयि । अन्नम्भट्टेनेति तृतीयार्थः कर्तृत्वम् । तथा
च बालसमवेतकाणादन्यायमतविषयकज्ञानोत्पत्त्युद्देश्यकविद्वदभिन्नान्नम्भट्ट-
निष्ठकृतिजन्यरचनाजन्यफलाश्रयस्तर्कसंग्रह इति बोधः । अयं भावः-प्रन्थोऽ
यं न केवलं कणादमतमनुसृत्य , न वा केवलं न्यायमतम् । कणादो मह-
र्षिः प्रमेयस्य निरूपण एवैदम्पर्यमुवाह ; गौतमश्च महर्षिः प्रमाणस्य । प्रथ-
मः स्वयमतत्परतया शब्दापमानयोरुपमानस्यात्यन्तोपयोगविरहमाकलयमानो
न तन्नयरूपयत् । शब्दस्य चानुमानादपार्थक्येऽपि न कथञ्चिदानाय-
प्रामाण्यावभीष्टविहतिप्रसक्तिरित्यभिसन्धाय न तदतिरेकसाधने प्रावर्तिष्ट ।
अनन्तरः पुनःप्रमाणविवेचनव्यग्रो वस्तुतत्त्वव्युत्पिपादयिषया शब्दापमानयोः
प्रमाणान्तरतां प्रादर्शयत् । सप्तधा पदार्थविभजनमनिष्टममन्वानोऽयनुमानप्र-
माणं सप्रपञ्च बुबोधयिषुस्तदर्थे षोडशधा पदार्थान् पर्यजगणतेति न सर्वथा
विरोधप्रदर्शने यतितव्यम् । दृश्यते च परस्परसिद्धानामर्थानामुपजीवनं
प्रायश उभयोरपि । तदिदमुभयं समानतन्त्रमेवेति व्याख्यातारस्तत्तदुक्तो-
पपन्नप्रमाणप्रमेयग्रहणेनैकतन्त्र्यमेवोभयोः समपीपदन्निति, तदनुरुध्य ग्रन्थो.
ऽयं प्राणीयतेति नात्र मात्रयाऽपि विदुषः प्रबन्ध प्रामादिकं मन्तव्यम् ।
अपि तु विश्वस्य यथोक्तमुपपन्नमध्यवसाय सर्वदर्शनोपयोगीदं समादर्तव्यमिति ।
श्रीमत्कस्तूरिरङ्गार्यप्रसिद्धाचार्यशिष्यतः ।
खच्छन्दश्रीनिवासार्यगुरोः प्रज्ञादयानिधेः ॥ १॥
अधीततर्कशास्त्रो यः शिरोमणिरिति श्रतः ।
यो मीमांसासुधाखादं बालप्रौढमनोहरम् ॥ २ ॥
व्याख्यानमापदेवीयप्रकाशस्य प्रणीतवान् ।
वेदान्ते च कृतोः काश्चिदन्यदप्युपकारकम् ॥ ३ ॥

...1070 0.000000@easeOA0008mmer Accn. No. सुखप्रवेशिनीसमेतः । १०३ वीरराघवसंज्ञेन वात्स्येनतेन धीमता। तर्कार्णवेन 'सौकर्य स्यादध्यापयतामिति ।। ४ ।। 'वर्धतां पठतामत्र व्युत्पत्तिरिति चादरम् । वहता विहिता सेयं तर्कसंग्रहटिप्पणी ॥ ५ ॥ अयमञ्जनशैलशृङ्गधामा गुणधामाऽञ्जनवर्णदिव्यधामा । परितुष्यति पद्मया किमन्यैरथ वा तोषयतु स्वयं स सर्वम् ॥ ६ ॥ श्रीरस्तु॥ (HE ACADEMY OF SAVET RESEARCH IKARNATAK OTATE)

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Tarka Sangraha With Suka Praveshini Commentary

Author
Annama~ Bhat't'a
Title
Tarka San'graha
File name
Tarka Sangraha With Suka Praveshini Commentary
Text
OCR done
Citation
1934
Published
2004/11/22
Publisher
Srinivasa Press,tanjore
Language
Sanskrit
Pages
116
Library
Asr,melkote
Classification
Logic. Epistemology
Keywords
Indology
DLI number
383277
Barcode
1990020047559.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
9BIiuVzflb3
Download PDF

Tarka Sangraha With Suka Praveshini Commentary