Scl

Katiyeshti Dipaka

M.m.p.nitya_nanda_parvatiya

PDF Proofread

Front matter

No text on this page.

श्रीगुरुः शरणम् । श्रीगणेशाय नमः । कातीयेष्टिदीपकः । सर्वस्फूर्ति विधातारं सर्वविघ्नविनाशनम् । सर्वाभीष्टप्रदातारं सद्गुरुं प्रणमाम्यहम् ॥ कर्काचार्योंक्तिमाश्रित्य कातीयेष्टिप्रदीपकः । क्रियते पर्वतीयेन नित्यानन्देन धीमता ॥ अथ पौर्णमासप्रयोगो लिख्यते । तत्र तावत् उपवसथे ( यागात्पूर्वदिवसे ) यजमानः प्रक्षा- लितपाणिपादो गार्हपत्यस्य पश्चादुपविश्य बद्धशिखो यज्ञोपवी- त्याचम्य यज्ञनारायणं स्मृत्वा प्राणानायम्य कुशोपग्रहो देश- कालौ संकीर्त्य अमुकगोत्रोऽमुकशर्माऽहं श्रीपरमेश्वरप्रीत्यर्थ दर्श- पूर्णमासाभ्यां यक्ष्ये, तत्रादौ श्वः ( अध) पूर्णमासेष्ट्या यक्ष्ये इति संकल्पयेत् । (दशेष्टिपूर्वदिवसे तु दर्शष्टया को यक्ष्ये इत्येव संकल्प:) ततः आहवनीयखरे(१). अध्वर्युणा प्रथम पश्च भूसंस्काराः कर्तव्याः । तद्यथा दर्भः खरं प्रासंस्थम् उदक्संस्थं चा त्रि. परिसमुख गोमयेन त्रिरुपलिप्य स्मयेन मागायता उदक्संस्थाः तिस्रो रेखाः खरप्रमाणाः कृत्वा ताभ्यो रेखाभ्यः अनामिका- ङ्गुष्ठेन पांमून् यथाक्रममुद्धृत्य अद्भिस्त्रिरभ्युक्षेत् । एवमेव दक्षिणाग्ने खरे निरुक्ताः संस्काराः कार्याः ।। "६१) मेखलापरिवृतमाहवनीयस्थानमाहवनीयबरः।

२ कातीयेष्टिदीपकः । ततो गाई पत्यादाहवनीयस्योद्धरणम् । तत्र पौर्णमासेष्टध- (१) गाईपत्यादाइपनीयमुरिष्यामि इति पूर्व संकल्प्य गाईप- त्यात्कर्षरेण ज्वलन्तमग्निमादाय आहवनीयखरे स्थापयेत् । ततः पौर्णमासेष्टयर्थ गार्हपत्यादक्षिणाग्निमाहरिष्यामि इति संकल्प गाईपत्याकर्परेणाग्निमादाय दक्षिणाग्निखरे स्थापयेत् ॥ अथाग्न्यन्वाधानम् । तत्र यजमानः षट् समिधो हस्ते गृहीत्वा स्फ्यं सव्यहस्ते धृत्वा आग्निमष्टाकपालेन पुरोडाशेन, (२)अग्नीषोमावन्तराऽऽज्येन उपांशु, अग्नीषोमावकादशकपालेन पुरोडाशेन श्वोऽहं यक्ष्ये इति संकल्प पश्चदशो वजः, व्रीहिभिर्या- गः(३) ममानेपक्षः,वपनम् (४)प्रथमे काले व्रतोपायनम,अन्वाहार्यों (१) दर्शप्रयोगे दर्शष्टयर्थम् इत्युल्लेखः । एवमुत्तरत्रापि । यद्यपि "उद्धरेति यजमाना ब्रूयात्सायंप्रातरग्निहोत्र" इति (का० श्री अ०४॥ १३ ॥ १) सूत्रे अग्निहोत्रग्रहणात् पौर्णमासादिषु सत्यप्युद्ध- रणे प्रैषो नास्तीत्यस्य सर्वसंमतत्वात् तदनुसारि उद्धरामि इति प्रति. वचनं नास्त्येव तथापि सर्वकर्मसाधारणस्य कर्मादौ क्रियमाणस्य प्र. तिज्ञासंकल्पस्य करणे वाधकाभावात् देवयाज्ञिकपद्धतावुल्लेखाच्च उ. द्धरिष्यामीतिसंकल्पोल्लेखः । एवमुत्तरत्र आहरिष्यामीति बोध्यम् । (२) दर्शष्टौ 'विष्णुमन्तराऽऽज्येन' इत्युल्लेखः ऐन्द्राग्नपुगेन शयाजिनः । सानाय्ययाजिनस्तु 'अग्नीषोमावन्तराऽऽज्येन' इत्येव । सानाय्ययाजिन उपांशुयागः केषांचिन्नास्त्येव । सान्नाय्ययागन्तु सोमयाजिनो नियतः, अन्यस्य तु ऐच्छिकः । संप्रदायेतु असोमया- जिनः सान्नाय्ययागो न दृश्यते । दर्शष्टौ सान्नाय्ययाजिनो विशेषा उपरिष्टात्प्रदर्शयिष्यन्ते । एवमुत्तरत्र 'भग्नीषोमावेकादशकपालेन पुरोडाशेन' इत्यस्य स्थाने 'इन्द्राग्नी द्वादशकपालेन पुरोड़ाशेन' इत्युल्लेखोदर्शष्टौ चो (३) बीहिभिर्याग इत्युल्लेखः शारदाग्रयणानन्तरम् । वासन्ता- प्रयणानन्तरं तु यवैर्याग इत्युल्लखः । (४) टिदिने एवान्वाधानाधनुष्ठाने उत्तम काल व्रतोपायने । ।'

कातीयेष्टिदीपकः। ३ दक्षिणा, येकचन वैकल्पिकपदार्थास्त ऋविकास येन मयाऽक धारिताः इसवधार्य-ममाग्ने व्वचों विहवेध्वस्तु व्ययं त्वेधानास्तन्वं पुषेम । मयं नमन्तां प्रदि- शश्चतस्रस्त्वयाऽध्यक्षेण पृतना जयेम -(का. श्री. अ० २।१ । ३)- इति मन्त्रेणाहवनीये एका समिधमादधाति । ततस्तूष्णीं द्वितीयां समिधमादधाति । एवमेव(१) गार्हपत्ये दक्षिणामौ च द्वेवे समिधावादधाति । सपत्नीकस्य यजमानस्य मांसमैथुनवर्जनसं. कल्पः । केवलस्य यजमानस्य शिखावर्ज केशश्मश्रुवपनं नख- कर्तनं च। नखकर्तनं पत्न्या अपि । मध्याह्न पत्नीयजमानो माष- मांसक्षारलवणादि प्रातहोंष्यमाणद्रव्यं च वर्जयित्वा घृतसंयुक्तम- समश्नीतः न तृप्तिपर्यन्तम् । अशनानन्तरं यजमानः स्फ्यमादाय (२)गाईपत्यदक्षिणाग्न्योरन्तरालेन गत्वा आहवनीयस्य पश्चात्स- मीपे पूर्वाभिमुखस्तिष्ठन् आहवनीयमीक्षमाणः अप उपस्पृश्य ॐअग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम्- इति. मन्त्रेण (य० सं० अ० १२५) व्रतमुपैति । अतः प्रभृति फरिष्यमाणकर्माङ्गभूतो यजमानस्य सत्यवदननियमः। रात्रौ . ..:. 'उत्तमे काले व्रतोपायनम्' इत्येव वक्तव्यम् । एवमन्यपक्षेऽप्यूह्यम् । अनन्तरं निर्दक्ष्यमाणो व्रतग्रहणप्रकारश्च तस्मिस्तस्मिन् पक्षे तत्र- तत्रोत्क्रष्टव्यः। (१) पूर्वोक्तमन्त्रेणैका, तूष्णीं द्वितीयां गार्हपत्ये दक्षिणानौच आद्धातीत्यर्थः। (२) "अन्तरेणापराग्नी गत्वा" इति सूत्रात् । ( काय श्रौ०२।१।११) ४ कातीयेष्टिदीपकः। वस्मिन्नेव(१) विहारे स्वयमेवाग्निहोत्रहोमः । सायाशनेच्छायां सत्यां होमानन्तरमारण्यौषधीनां नीवारप्रभृतीनामन्नं वृक्षफलानि वाऽश्नीयात् । रात्रौ आहवनीयागारे गार्हपत्यागारे वा पत्नी. यजमानाभ्यां खरस्थाग्न्यपेक्षया अधः आस्तृतभूमौ शयनं कर्त- व्यं, न खनादौ । प्रातरपि तस्मिन्नेव विहारे स्वयमेवा. मिहोत्रहोपः। अथवाइष्टिदिने एव प्रातः अन्वाधानादिकं सर्व कर्तव्यम्(२)। "सद्यो वा प्रातः" इति सूत्रात् ( का० श्री० २।१।१६)। ततः उदिते सूर्ये(३) ब्रह्मवरणार्थ ब्रह्मयजमानयोर्दै आसने विहारस्योत्तरतो दभैरास्तृते स्थापनीय। ब्रह्मोपवेशनार्थमाहवनी- पस्य दक्षिणतःदर्भास्तृतमेकमासनम् । ब्रह्मासनतः पश्चिमे यजमा- नोपवेशनार्थ दर्भास्तृतं द्वितीयमासनम् । तथा अपां प्रणयनाया- ध्वर्योरुपवेशनाथ गाईपत्यस्योत्तरतः एकम् । तदर्थमेव तस्यैव उप- ..(१) इष्टयर्थ गार्हपत्यादुधृते एवाहवनीयादौ अग्निहोत्रहोमः मतु तदर्थे पुनरुचरणम् । एवं प्रातरग्निहोत्रहोमार्थमपि नोद्ध. रणम् । "प्रतिकर्मोद्धरणमप्रसङ्गे" ( का० श्री. अ. १।३।२७) इति सूत्रे अप्रसङ्गे इत्युक्त्या अन्यार्थमुद्धृतस्य समाप्तावेष तत्क- मणः पुनरुद्धरणबोधनात् । अतः इष्टयर्थमुद्धृते एवाग्निहोत्रहोमः । स्वयमेवेति नियमस्तु "उपवलथे नियमः " ( का० श्रौ० ४ । १५ । ३५) इति सूत्रात् । अन्यदा तु "स्वयं वा जुहुयात् " इति तत्पूर्व सूत्रेण विकल्पः। (२) दर्शष्टौ तु सद्योऽन्वाधानादिकं न,किंतु इष्टिपूर्वदिने एव । "पौर्णमासवदन्यदसद्यः" (का० श्री०४।२।४४) इति सूत्रात् । (३) दर्शष्टिप्रयोगे तु. "उदिते सवितरि पौर्णमासस्थ तन्त्रं प्रक्रमियादनुदितमामावास्यस्य" इति वचनात् अनुदिते सूर्ये एक अग्निहोत्रानन्तरं ब्रह्मवरणम् । अन्वाधानादेस्ता पूर्वदिने एषा. नुष्ठानात्।

कातीयेष्टिदीपकः। ५ वेशनार्थमाहवनीयस्यो चरतः द्वितीयम्। एवं पडासनानि अवेध- विद्धानि वारणादिकाष्ठमयानि कल्पनीयानि । ततो ब्रह्मवरणम् । विहारस्योत्तरतः उदङ्मुखोपविष्टो यज. मानः प्राङ्मुखोपविष्टं ब्रह्माणं साक्षतेन सहिरण्येन दक्षिणहस्तेन ब्रह्मणो दक्षिणं जान्वालभ्य अमुकगोत्रामुकशर्मन् (१)पौर्णमासे- ष्ट्याऽहं यक्ष्ये तत्र "ॐभूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे" इत्यनेन मन्त्रेण (का० श्री० २।१।१७) वृणीते । ततो वृतो ब्रह्मा- "अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य प. तिभूर्भुवः स्वदेवसवितरेतनत्वा वृणते बृहस्पतिं ब्रह्माणं तदहं मनसे प्रब्रवीमि मनो गायत्र्यै गायत्री त्रिष्टुभे त्रिष्टुब् जगत्यै जगत्यनुष्टुभेऽनुष्टुप् प्रजापतये प्रजाप- तिर्विश्वेभ्योदेवेभ्यो बृहस्पतिर्देवानां ब्रह्माऽहं मनु- व्याणाम्" ( का० औ० २११८) इति जपेत् । ततो यजमानः "ॐवाचस्पते यज्ञं गोपाय" (का० औ० २११:१९) इसेवं ब्रह्माणं प्रार्थयेत् (२) । ततो ब्रह्मा 'गोपायामि' इति वदेत् । ततः ब्रह्मा वरणस्थानादुत्थाय आहव. नीयात्पूर्वमार्गेण वेदेर्दक्षिणतः स्थापितं ब्रह्मासनमुपगम्य आस- नात् पश्चिमोत्तरे प्राङ्मुखः स्थित्वा "ॐअहे दैधिषव्योदत. स्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरः" इति मन्त्रेण ( का० श्री० २।१।२१) ब्रह्मसदनमीक्षते । ततो ब्रह्मासनादेक (१) वर्शेष्टौ दर्शष्टयाऽहं यक्ष्ये इत्युल्लेखः। (२) ज्योतिष्टोमगतदक्षिणीयादिषु आधानसंबन्धिनीषु पवमा- नेष्टिषु च धरणाभावेऽगि नियोगार्थत्वात् 'वाचस्पते' इति श्रेष: प्रवर्तते एवेति कर्कभाष्ये स्पष्टम् ।- ६ कातीयेष्टिदीपकः। तृणं गृहीत्वा "ॐनिरस्तः पाप्मा सह तेन यं द्विष्म"इति मन्त्रेण (का. श्री० २।१२२२) नैसा दिशि निरस्य अप उपस्पृश्य "ॐइदमहं बृहस्पतेः सदसि सीदामि प्रस्तो देवेन सवित्रा तदग्नये(१) प्रब्रवीमि तवायवे तत्पृ. धिव्य" ( का० श्रौ० २।२।१) इति मन्त्रेण ब्रह्मसदने आहवनीयाभिमुखः उपविशेत् । ततः ब्रह्मासनतः पश्चिमे वेदिं स्पृशन यजमानः पूर्वकल्पिते स्वासने उपविशेत् । ततः अध्वर्युः गार्हपत्यस्योत्तरतः पूर्वकल्पिते आसने उपविश्य वारणकाष्ठनिर्मितं चतुष्कोणं चमसं सव्यहस्ते कृत्वा दक्षिणहस्तस्थेनोदपात्रेण स्वयं तस्मिन्नुदकमासिच्य दक्षिणह- स्तेन तं गार्हपत्यस्योत्तरतो निधाय "भूतस्त्वा भूत करि- ष्यामि" इति मन्त्रेण ( का० औ० २॥३॥१) चमसमा- लभेत(२) । ततः "ब्रह्मन्नपः प्रणेष्यामि" ( का० औ०. २।३।२) इति ब्रह्माणं पृच्छेत् । “यजमान वाचं यच्छ" ( का० श्री० २।३।२) इति यजमानं च प्रेषयेत् । ततः ब्रह्मा "ॐ प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठ यज- मानोअस्तु । सप्तऋषीणा सुकृतां पत्र लोकस्तत्रेम यज्ञं यजमानं च धेहि" (का० ० २।२१८) इत्यन्तम्- पांशु पठित्वा "ॐप्रणय" इत्युच्चैः अध्वर्योरनुज्ञां दद्यात् , यथाऽध्वर्युः शृणुयात्। (१) सौर्यादिविकृतौ अग्निशब्दो न विपरिणम्यते। वायुना सहोचारणेन प्राकृतानिपरत्वाभावात् । (२)न तु उदकम् । पात्रस्यैव तदुपदेशात् । उदकसंस्कारस्य सहारैव सिद्धः । तेन विकृती उदककार्यापनयोर्दधिपयसात्वेिऽपि पात्रस्यैकत्वात न मन्त्रगतत्वाशब्दस्य विपरिणामः ।

कातीयेष्टिदीपकः। ततः ततोऽध्वर्युः चमसं गृहीत्वा आहवनीयादुत्तरस्यां दिशि पूर्वकल्पिते आसने प्राङ्मुख उपविश्य बहिर्वेदि दर्भेषु प्रणीताचमसं "ॐकस्त्वा युनक्ति स त्वा युनक्ति कस्मै त्वा युनक्ति तस्मै त्वा युनक्ति" ( य० सं० १।६) इति मन्त्रेण स्थापयेत (१)। तत आहवनीयस्य पुरस्तात्मथमम् उदगग्रैः कुशैः स्तरित्वा, ततः दक्षिणतः प्रागप्रैः स्तरित्वा, प- श्चादुगप्रैः स्तरित्वा, उत्तरत्तः प्रागणैः स्तृणुयात् । एवमेव गाई- पत्यस्य परिस्तरणं कृत्वा दक्षिणाग्नेः परिस्तरणं कार्यम् । गार्हपत्यस्पोत्तरतः प्राक्संस्थानि उदगग्राणि पात्राणि(२) द्विशः स्थापयेत् । तद्यथा-शूर्पमग्निहोत्रहवणी चेत्येकं द्विकम् । स्फ्यश्च (१९पौ., २०दर्शे ) कपालानिचेति द्वितीयम् । शम्या कृष्णाजिनंचेति तृतीयम् । उलूखलं मुसलं चेति चतुर्थम् । दृषदुपला चेति पश्चमम् । एवं पञ्च युग्मानि स्थापयित्वा अर्थवन्यन्यान्यपि द्विशः स्था- पयेत् । तद्यथा-पात्री पवित्रच्छेदनानि त्रीणि कुशतरुणानिच, द्वे पवित्रे साने अनन्तर्गर्भ उपवेषश्च ( धृष्टिः ), आज्यस्थाली सोदकमुपसर्जनीपात्रंच,वेदः अन्याहार्यपात्रंच,वेदितृणम् अभ्रिश्च, योक्त्रं त्रुवश्च, जुहः उपभृञ्च, ध्रुवा सन्नहनावच्छादनानिच, त्र- (१) प्रणीता आपः सर्वार्था न तु संयवनमात्रार्या इति कर्क- भाष्ये (का० श्री० २।३।५) स्पष्टम् । (२) "द्विशः पात्राणि ससादयति" (२।३।६) इति पात्र- त्वावच्छेदेन द्वन्द्वताविधानात सर्वेषां पात्राणां द्वन्द्वरूपेण स्थापनम्, नतु शूग्निहोत्रहवण्यादीनामेव । पात्रशब्दश्च साधनमात्रार्थको, नतु खातवद्विषयः । तेन स्फ्यादीनामपि पात्रत्वमुपपद्यते । खातव- न्ति च प्राग्बिलानि स्थापनीयानि । सर्वचैतत् अस्मिन्नेव सूत्रे कर्क- भाष्ये स्पष्टम् ।

८ कातीयेष्टिदीपकः। यः परिधयः विधृनीच, आज्यं पुरोडाशपात्र्यौच, होतृषदनं कुशा- स्तीर्ण शृतावदानंच, ब्रीहियवान्यतररूपम् औषधं प्राशिवहरणेच, अन्वाहार्यतण्डुलाः अन्तर्धानकटश्च, पूर्णपात्रं कर्मापवर्गार्थ समि- वयंच,(१)इध्माबर्हिषोरुपकल्पनं पडवत्तं चेति। एवं पात्राण्यासा- य हविःसहितां स्फ्योपहितां प्रागग्राम् पात्री गाईपत्यस्य पश्चाद्भा गे स्थापयेत् । ततः "ॐकर्मणे वां व्वेषाय वाम्" (२)( आददे) (य० सं० १।६) इति मन्त्रेण अध्वर्युः शूर्पमग्निहोत्रहवीं चाद- धात् । तत आरभ्य हविष्कृदाहानपर्यन्तमध्वर्युः न ब्याहरेत् । व्याहरणे वैष्णवमन्त्रं जपेत् । ततः "ॐप्रत्युष्ट, रक्षः प्रत्युष्टा अरातयः" (य० सं० ११७) इति मन्त्रेण शूर्पमग्नि- होत्रहवीं च तापयेत् । ततः प्रणीतास्थोदकोपस्पर्शनम् । ततः "ॐउर्वन्तरिक्षमन्वेमि" इति मन्त्रेण पात्रीसमीपं गत्वा उपविश्य "धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व में स्वयं धूर्नाम:"। (य० सं० १२८) "दे. धानामसि(३) व्वहितमा सस्नितमं पप्रितमंजुष्टतमं दे. ( १ ) "इध्मं प्रोक्षति विनस्य" इत्युपरिष्टात् (२।७।१६) प्रो. क्षणविधानात् अत्रोपकल्पनमभिहितमिध्मावहिषोः। (२) अयंचाध्याहारः । अस्य संहितावत्प्रयोगो न भवति, एवं मनुषङ्गस्यापि इति "उत्तराधारमाघार्य पशुं पूर्व समनक्ति" (का. श्रौ०६।४।२) इतिसूत्रस्थकर्कभाष्ये स्पष्टम्। (३) अत्र पित्र्येष्टौ पितॄणामास इत्यूहः। एकदेवत्यद्विदेवत्य- योः देवस्यासि देवयोरसि इत्यूहः। अदितीप्टो देव्या असि इत्यूहः । प्रातिपदिकार्थस्य देवत्वस्य, लिङ्गस्य पुंस्त्वस्य, वचनस्य त्रित्वस्य च प्रकृती समवायात्। पितृषु देवत्वस्य, सौर्यादौ देवतात्रित्वस्य, अदि. तीष्टौ अदितेः पुंस्त्वस्य च अभावात् इति कर्कभाष्ये (का० श्रो० २।३।१४) स्पष्टम् ।।

कातीयेष्टिदीपकः। बहूतमम् । अहतमसि हविर्धानं हाहस्व मा हार्माते यज्ञपतिर्वार्षीत्"।(य० सं० १९८-९) "विष्णुस्त्वा क्रम ताम्" (य० सं० २।९) इत्येतान् नि मन्त्रान् पाघ्याः पूर्वा- धमभिमृश्य जपति । पान्याः पश्चात्माङ्मुखोपविष्टोऽध्वर्युः ॐउरु व्वाताय" (य० सं० ११९) (भत्र ) इति मन्त्रेण हवि- रीक्षते । “ॐअपहत: रक्षः" (य० सं० २१९) इत्यनेनापद्रव्यं निरस्य अपद्रव्याभावे हविरभिमृश्यैव अप उपस्पृश्य "ॐ यच्छन्तां पञ्च" (य० सं० ११९) इति मन्त्रेण हविरालभेत । (इविभेदे भेदेनालम्बः संस्कार्यत्वाद )। ततः सव्यहस्ते शूर्पे निधाय तस्योपरि अग्निहोत्रहवणी- मुत्तानां निधाय प्राङ्मुख आसीनः "ॐदेवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । अग्नये जुष्टं गृह्णामि" (य० सं० १११०) इत्यनेन मन्त्रेण त्रिवारं (१)मुष्टिना हविरग्निहोत्रहत्रयां प्रक्षिप्य(२) चतुर्थवारं तूष्णीं प्रक्षिपेत् । ततः चतुर्ग्रहीतं हविः शूर्पमध्ये दक्षिणपाचे प्रक्षेपणीयम् उदक्संस्थ- तासंपत्त्यर्थम् । ततः अग्नीषोमीयपुरोडाशार्थम् “ॐ देवस्यत्वा० हस्ताभ्याम् । अग्नीषोमाभ्यां जुष्टं गृह्णामि" इत्यनेन मन्त्रेण (य० सं० १।१०) पूर्ववत् त्रिः प्रक्षिप्य चतुर्थवारं वृष्णीं प्रक्षिप्य शूर्पमध्ये पूर्वक्षिप्तहविरुत्तरतः प्रक्षिप्य "ॐ भूताय त्वा (१) निर्वापस्य समाख्यया अध्वर्युकर्तृकत्वात् मुंष्टिरध्व- योरेव बोध्या, नतु याजमानः । पदार्थप्राधान्यात् । यजमानपरिमा- णं तु "पञ्चारनिं परिवासयेत्" इत्यादौ ग्राह्यम् । (२) "अग्निहोत्रहवण्यां चतुरो मुष्टीनिर्वपति" इत्यनेन वचने- न निर्वापस्यैव प्राधान्येन विधानात् ग्रहणस्य तदर्थत्वाच प्रक्षेप एव मन्त्रप्रयोगः। ૨ कातीयेष्टिदीपकः। नारातये (परिशेषयामि(१) इति मन्त्रेण(य०सं०१।११)पायां परिशिष्टं हविरभिमशेत् । ततः "ॐ स्वरभिविख्येषम्" इति मन्त्रेण (य०सं०१।११)माचीमीक्षता ततः "ॐाहन्तां दुर्य्याः पृथिव्याम्" इति मन्त्रेण ( य० सं० १२११) तत उत्थाय "ॐ उर्वन्तरिक्षमन्वेमि" इति मन्त्रेण (य० सं० १०११) गाईपत्यस्य उत्तरतो गत्वा गार्हपत्यस्य पश्चाच्छूपे गृहीतं हविः "ॐ पृथिव्यास्त्वा नाभौसादयाम्यदित्या उपस्थेऽग्ने(२) हव्यठ रक्ष" इति मन्त्रेण (य० सं० ११११) आसादयेत् । ततः समप्रमाणौ अनन्तर्गौं अक्षरिताग्रौ कुशौ क्षुरिका- स्थानीयः त्रिभिः कुशैः "ॐ पचित्रे स्थो व्वैष्णव्यौ" इति (य०सं० १.१२) मन्त्रेण(३) छिन्द्यात् । ततः अग्निहोत्रहवण्यां स्वयमेव प्रणीतातः उदकमासिच्य "ॐ सवितुवः प्रसवउ- त्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः" इति मन्त्रेण (य० सं० १२१२) ताभ्यां पवित्राभ्यां ता अपः उत्क्षि- पेत् , पवित्रे च तत्रै व स्थापयेत् । सव्यहस्तेऽग्निहोत्रहवीं निधाय (४)सब्यह- (१) 'परिशेषयामि' इत्येव मन्त्रैकवाक्यताहै, न तु 'अभिमृशा. मि' इति कर्कभाष्ये स्पष्टम् । परिशेषणं च हविष एव संस्कारः। देवदत्तस्येव देवदत्तीयपुष्पमालापनयनम् । शेषिण एव प्रयोजन वत्त्वात्। (२) अयंच अग्निशब्दः सन्निधानात् श्रपणाग्निविषयो, न प्राकृत देवतावचनः । तेन सौर्यादिविकृतौ न विपरिणामः । (३) पवित्रत्रित्वपक्षेऽपि द्विवचनान्तो मन्त्रः प्रवर्तते एव । प्रा- तिपदिकार्यस्य प्रधानस्य समवेतत्वात् । (४) समाचारादेव दक्षिणेनादिङ्गने प्राप्ते सुत्रे दक्षिणग्रहणं सव्ये स्थितानामेव प्रोक्षणीनां दक्षिणेनोदिङ्गनं यथा स्यात् इत्येतदर्थम् । तेन सव्यस्थितानामेव उदिङ्गनं क्रियते इति बोध्यम् ।

कातीयेष्टिदीपकः। ११ स्तस्थाऽग्निहोत्रहवणीस्थिता एव अपः दक्षिणहस्तेन "ॐ देवीरापो अग्रेगुषो अग्रेपुवोऽग्र इममद्य यज्ञन्नयताग्रे (१)यज्ञपति: सुधातुं यज्ञपतिं देवयुवम् । युष्मा इन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतये" इति मन्त्रेण (य० सं० १।१२-१३) उदिङ्गयेत् (ऊर्ध्व चालयेत्)। ततः “ॐ प्राक्षिता स्थ" इति (य० सं० १११३) मन्त्रण (२)प्रणीतास्थजलेनानिहोत्रहवणीस्थाः अपः हस्तेन प्रोक्षेत् । ततः "ॐ ब्रह्मन् हविः प्रोक्षिष्यामि" इति ब्रह्माणं पृच्छत् । ततो ब्रह्मा “ॐ प्रोक्ष यज्ञं देवता वर्धय त्वम्". इत्यादि धेहीत्यन्तमुपांशु पठित्वा "ॐप्रोक्ष" इत्युच्चैः अध्वर्युः मभ्यनुजानीयात् । ततोऽध्वर्युः मोक्षण्याः सकाशादुदकं सपवि. वहस्तेनादाय "ॐ अग्नये त्वा जुष्टं प्रोक्षामि" इति मन्त्रेण (य० सं० २०१३) शूर्पस्थमानेयं हविः प्रोक्ष्य "ॐ अग्नीषोमा. भ्यां त्वा जुष्टं प्रोक्षामि"इति (य० सं० १२१३) मन्त्रेणानी- पोमीयं हविः प्रोक्षेत् । ततः विनियोगक्रमेण सर्वाणि पात्राणि (३)प्रतिपात्रं मन्त्रात्या "ॐ दैव्याय कर्मणे शुन्धध्वं दे. वयज्या योऽशुद्धाः पराजघ्नुरिदं घस्तच्छुन्धामि" (१) यज्ञपतिशब्दश्च अनेकयजमानके विपरिणम्यते । २) "प्रोक्षिता स्थेति तासां प्रोक्षणम्" इति सूत्रकारेण स्प ष्टमेव प्रोक्षणविधानात "इविश्व" इत्युत्तरसूत्रे तदनुकर्षणाच म. न्त्रपाठमात्रपक्षस्य सूत्रस्वरससिद्धत्वाभावातू प्रोक्षणकर्मत्वे च तासां प्रोक्षणसाधनत्यानुपपत्तेः प्रणीतानां सर्वार्थत्वात् ताभिरेव अग्निहोत्रहवणीस्थानामपां प्रोक्षणमित्यभिप्रायेण प्राणीतेन प्रोक्ष. णमभिहितम् । (३) सर्वेषां संस्कार्यत्वेन प्राथान्यात् प्रतिप्रधानं गुणावृत्ति- न्यायेन मन्त्रावृत्या पात्रप्रोक्षणं सिध्यति । मन्त्रे बहुवचनं तु पू.

१२ कातीयेष्टिदीपकः। इति मन्त्रेण (य० सं० १६१३) प्रोक्षेत् । आदौ स्पयं प्रोक्ष्य तं सन्यहस्ते कृत्वा कृष्णाजिन-उलूखल-मुमल-शम्या-दृषद्-उ. पल-पात्री-उपवेष-कपालाष्टक-कपालैकादशकानां प्रोक्षणं कृ. वा आज्यस्थाल्यादीनां यथासादितानां प्रोक्षणं कार्यमिति संप्रदायः । आज्यमोक्षणं तु स्पयं वर्जयित्वा कार्यमिति बोध्य. म्। ततः प्रणीताहवनीयान्तराले प्रोक्षणीनिधाय(१) तासु पवित्रे स्थापयेत् । ततोऽध्वर्युः "ॐ शर्मासि" इति ( २० सं० १३१४) मन्त्रेण (२)कृष्णाजिनं हस्तेन गृहीत्वा आसादितपात्रेभ्यः परतो गत्वा "ॐ अवधूत: रक्षोऽवधूता अरातयः" इति (य० सं० १११४)मन्त्रेण (३)सकृदवधूयोदकमुपस्पृश्य गार्हपत्यमुत्त. रेण "ॐ अदित्यास्त्वगास प्रति त्वा ऽदितिवेत्तु" इति मन्त्रेण ( य० सं० १११४) प्रत्यग्ग्रीवं कृष्णाजिनमास्तृणीया. दुपरिलोमम् । वामहस्तेन स्पृष्टे एव कृष्णाजिने दक्षिणे. न हस्तेन उलखलमाहृत्य तदुपरि "ॐ (४)अद्रिरासि जार्थम् इति भावः । प्रोक्षणमन्त्रे पितृयज्ञ देवशब्दस्य स्थाने प्रधा. नार्थेषु शूर्पादिषु देवशब्दप्रयोगः। अङ्गप्रधानोभयार्थेषु देवापतृश- ब्दप्रयोगः । यत्तु तत्रापि दैवकर्मार्थमेव तत्र नोह इति विवेकः । (१) प्रोक्षणीशब्दश्च यौगिको न संस्कारनिमित्तः। "आज्यप्रो. क्षणीरुद्यम्य" इत्यादौ तेन असंस्कृता एवाप आदीयन्ते । (२) कृष्णस्य मृगस्याजिनमिति षष्ठीतत्पुरुषः । “स कृष्णो भूत्वा चचार तस्थ देवा अनुविद्य त्वचमेवावच्छायाजः" इति लिजाक । कृष्णाजिनादानं चावधातार्थम् । अतस्तदभावे तदभावः। (३) कृष्णाजिनावधूननं च अदृष्टार्थत्वात्सदिति बोध्यम् । (४) उलूखलं पाषाणसदृशदान स्तोतुं तत्र अद्रिशन्दप्रयुज्य. ते, नतु तस्य अश्ममयत्वम् । तत्त्वे च तस्य वानस्पत्यत्वविरोधात् ।

कातीयेष्टिदीपकः। १३ (१)व्वानस्पत्या प्रतित्वाऽदित्यास्त्वग्वेत्तु"इति मन्त्रेण(य० सं०१।१४)निदध्यात् । ततः शूर्पे पृथक् स्थापितं इचियं मिश्री- कृत्य सव्यहस्तस्पृष्ट उलूखले "ॐ अग्नेस्तनूरसि(२) वाचो विसजनं (३)देववीतये त्वा गृह्णामि" इति मन्त्रेण ( य० सं० १२१५) शूर्पणैव हविरावपेत् । ततः "ॐ बृहद्रावासि व्वानस्पत्यः" इति मन्त्रेण ( य० सं १।१५) मुसलं हस्तेन गृहीत्वा "ॐ स इदं (४)देवेभ्यो हविः शमीष्व सुशमि शमीष्व" इति मन्त्रेण ( य० सं० १।१५) उलूखले प्रवेश्य स्वयं कण्डने प्रवृत्त एवाध्वर्युः "ॐ हविष्कृदेहि" इति मन्त्रे- ण ( य० सं० ११५) त्रिः पत्नीमानीधं वा हविष्कण्डनार्थम् आह्वयति । अत्राध्वर्युयजमानयो ग्विसर्ग।। अध्वयौं इविष्कृदेही- त्येवमाहयति सति आनीध्रः "ॐ कुक्कुटोऽसि मधुजिह इषमूर्जमावद त्वया व्वर्ट संघात: संघातं जेष्म" "अभिनिहितमेव सव्येन पाणिना भवति अथ दक्षिणेनोलूखल. माहरति" इति तस्य दक्षिणेनैकेनाहार्यत्वस्य अश्ममयत्वेऽसंगते. श्चेति दिक् । (१) नखनिभिन्नचरौ वानस्पत्यपदस्य स्थाने मानुष इति विपरिणामो न युक्तः । नखानामुलूखलकार्यापनत्वेऽपि तेषाम उलू- खलवत् कृष्णाजिने निधानाभावात् । (२) अत्र अग्निशब्दो ज्वलनविषयः । 'यज्ञो हि तेनाग्नेस्तनू' इतिलिङ्गघटकपक्षशब्दलक्ष्यार्थस्य हविषो ज्वलनशरीरत्वस्यैव संभवात् । तेन शारद्वतावभृथेष्टौ अपांतनूरसि इति विपरिणामः | (३) पितृयज्ञे च पितृवीतये इति विपरिणामः । (४) अत्रापि देवेभ्य इत्यस्य स्थाने पितृभ्य इति पितृयज्ञे विपरिणामः। एकदेवत्ये देवायेति, अदितीष्टौ देव्यै इति विपरिणामः!

१४ कातीयेष्टिदीपकः । इति मन्त्रेण ( य० सं० १११६) शम्यया विषदं मन्त्रात्या समाहत्य उपला सकृन्मन्त्रेणानेनैव (१)समाइन्यात् । तदनन्तरं पत्नी आनीध्रो वा हविषः कण्डनं(२) कुर्यात् । वितुषीभूतेषु व्रीहिषु स एव "ॐ वर्षवृद्धमसि" इति मन्त्रेण ( य० सं० १।१६) हस्तेन शूर्प गृहीत्वा "ॐ प्रति स्वा वर्षवृद्धं वेत्तु" इति मन्त्रेण ( य० सं० २०१६) कण्डितं हविः उलूखलं तिर्यकृस शुईं निदध्यात् । ततः "ॐ परापूत: रक्षः परापूता अरातयः" इति ( य० सं० १२१६) मन्त्रेण शूर्पण निष्पूय तुषान् पृथक्कृत्य अप उपस्पृश्य "ॐवायुवों विविनक्तु" (य० सं० १११६) इति मन्त्रेण (य० सं० १११३) काण्डतानकण्डितांश्च तण्डुलान् विविच्य ( पृथक्कृत्य ) कण्डितानिधाय अकण्डितान्पुनरुलूख- लमध्ये प्रवेश्य कण्डनं कृत्वा पुनानष्कास्य शूर्पे कृत्वा तुषा- पृथक् कुर्यात् । (३)ततोऽध्वर्युः सर्वास्तुषान् “ॐ अपहत रक्षः" इति मन्त्रेण ( य० सं० २०१६ ) उत्करे निरस्येत् । (१) समाहननं च वचनादग्नीकर्तृकम् । तेन अव्यापृतेऽपि अध्वर्यों अग्नीदेव कुर्यात्। समाहननंच अदृष्टोपकारकः पदार्थः । तेन यावदुक्के निवर्तते। (२) "खातलूनच्छिन्नावहतपिष्टदुग्धदग्धेषु यजुक्रिया संभ- वात्" इति सूत्रस्य (का० श्री०१।१०।१३) 'खातादिषु लोकसि. द्वेषु गृहतिध्वपि यजुर्युक्ता क्रिया पुनर्यथाकथंचित् कर्तव्या यथाक- थंचिद्यजुष्क्रियायाः संभवात' इत्यर्थस्य याज्ञिकैः स्वीकारत् अद्यस्वे लोकसिद्धपिष्टोपादानेऽपि यजुषा अवघातादिक्रिया विधीयते इति बोध्यम् । (३) अवघातस्य अग्नीकर्तृकत्वेऽपि तुषनिरसनस्य तच्छे. षत्वाभावान तत्कनुकत्वम् । किंतु अध्वर्युकर्तृकत्वमेवोत्सर्गतः ।

कातीयेष्टिदीपकः। १५ ततः अपः उपस्पृश्य शूर्पस्यास्तण्डुलान् पायां प्रक्षिप्य अनामिकाग्रेण तान्स्पृशन "ॐ देवो वः सविता हिर. ण्यपाणिः प्रतिगृभ्णात्वच्छिद्रेण पाणिना" इति ( य० सं० १।१६) मन्त्रेणाभिमन्त्रयेत् (२) । ततः त्रिः कण्डनेन सूक्ष्मकणिकाभ्यो हविनिरुप्य कण्डनं कृत्वा निष्कास्य शू निष्कृय कणानिधाय एवमेव पुनारद्वयं कुर्यात् । फलीकरणं तूष्णीं पा "देवेभ्यः शुन्धध्वम्" इति मन्त्रेण (का० श्रौ० २४२२) वा कार्यम् । मन्त्रपक्षे प्रतिफलीकरणं मन्त्रा. वृत्तिः कणनिधानं च कर्तव्यम् । कणानां "पुरोडाशकपालेन कणानपास्यति" इत्युत्तरत्र विनियोगस्य वक्ष्यमाणत्वात् । ततः तण्डुलपेषण-कपालोपधाने सह भवतः । उभयक्रि- याकर्तृत्वस्य युगपदेकत्र विरोधात् । अध्वर्युः प्राधान्यात्पेषणं करो- ति, अग्नीच्च कपालोपधानम् । तत्र मूत्रक्रमेण प्रथमं कपालोपधा- नमुच्यते । तत्र अनीत् प्रक्षालितानि कपालानि समादाय गाईपत्यस्य पश्चादानेयपुरोडाशसंवन्धीनि अष्टौ कपालानि द- क्षिणतः प्रथमं संस्थाप्य अग्नीषोमीयपुरोडाशसंबन्धीनि एकादश कपालानि उत्तरतः संस्थाप्य गार्हपत्यस्य पश्चाद्भागे स्वय. य तुषनिरसनस्य श्रुतौ सूत्रे च विविक्तीकरणात्पूर्व निर्देशेऽपि विवि- क्तीकरणमेव तुषनिरसनात्पूर्व प्रतिपत्तव्यम् । अशेषतुषनिरसनस्यै वमेव सिद्धः । तदुचरं विविक्तीकरणे हि पुनरपि तुषा मिश्रिता एव तिष्ठन्निति । उत्करे तुषनिरसनं च प्रतिपत्तिः। अतोऽवघाताभावे तदभावः। अवघातश्च कृष्णाजिनादितुषविप्रमोकान्तः। तत्र नानाबीजेष्टयां हविरावफ्नादीनि मन्त्रवन्ति भेदेन । मन्त्रस्य हविष्परत्वात् । शेषं तन्त्रण। (१) नानाबीजेष्टौ सन्निपातातन्त्रेणानिमन्त्रणम् ।

१६ कातीयेष्टिदीपकः। मुपविश्याकारापोहनसमर्थम् उपवेषापराख्यं काष्ठं धृष्टिसंज्ञ. कम् “ॐधृष्टिरासि" इति (२० सं० १.१७) मन्त्रेणादद्यात् । अथ "ॐअपाग्ने अग्निमामादं जहि निष्क्रव्यादा सेध" इति ( २० सं० २१७) मन्त्रेणोपवेषापरनाम्ना घृष्टिसंज्ञकेन काष्ठेन हस्तास्थतेन गार्हपत्यस्याङ्गारान्स्वस्थानात्याच्या प्रेरयति खरमध्ये एव, येनाङ्गारस्थाने अतितप्तभूमौ कपालान्युपधी- येरन(१)। ततः "ॐआ देवयजं वह" इति (य०सं०१।१७) मन्त्रेणोपवेषेणैव प्राकमेरिताङ्गारमध्यादेकमगारं गार्हपत्यखरस्य पश्चाद्भागे दक्षिणे आग्नेयपुरोडाशार्थ काल्पतस्य स्थानस्य मध्ये स्थापयेत् (२)। ततः “ॐधुवमसि पृथिवीं दृह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि भ्रातृव्यस्य व्वधाय" इति मन्त्रेण (य० सं० १२१७) मध्ये स्थापितस्याङ्गारस्योपरि उत्तानं मध्यमं कपालमुपदध्यात् । ततः (३)वामहस्याङ्गुल्या स्पृष्टे एव मध्यमकपाले एकमङ्गारम् “ॐअग्ने ब्रह्म गृभ्णी- व" इति मन्त्रेण ( य० सं० १११८) निदध्यात्(४) । तत: । (१) अङ्गारापोहनं च देशरेचनार्थम् । रिक्ते हि देशे कपा. लोपधानस्य योग्यत्वात । एवंच चविष्टौ धानाभर्जनेच देशरेचन.. कृतोपकाराभावान्न अङ्गारापोहनम्। अङ्गारेवेवाधिश्रयणस्य तयोा. य्यत्वाता (२) "तं मध्यमेन कपालेनोपदधाति" इति वचनात् मध्यम कपालस्यायं धर्मो न कपालमात्रस्योति बोध्यम् । (३) "अभिनिहितमेव सव्यस्य पाणेरडल्या भवति" इति श्रुतेः। (४) कपालोपरि अङ्गारनिधानं च कपालसंस्कारार्थम् । तेन प्रतिकपालमावर्तते । कपालेशकारं निदधातीत्यत्र गुणविभक्तिनिर्दि- टमपि कपालं प्रयोजनवत्वात् अगारे गावो वास्यन्तामित्यत्रा- कातीयेष्टिदीपकः। १७ मध्यमकपालस्य पश्चाद्भागे "ॐधरुणमस्यन्तरिक्षं हाह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युपदधामि भ्रातः व्यस्थ व्वधाय" इति मन्त्रेण ( य० सं० १ । १८) द्वितीयं कपालमुपधाय वामहस्ताङ्गुल्या स्पृष्टे एवं तस्मिन् “ॐअग्ने ब्रह्मेति" मन्त्रेणाङ्गारं निधाय मध्यमकपालस्य पुरस्ताद्भागे "ॐधमसि दिवं डाह ब्रह्मवनि त्वा क्षत्रपनि सजा- तवन्युपदधामि भ्रातृव्यस्य व्वधाय" इति मन्त्रेण (य. सं० १ । १८) तृतीयकपालमुपधाय पूर्ववत् तस्मिन्नणारं निधाय मध्यमकपालस्य दक्षिणतः ॐविश्वाभ्यस्त्वाशाभ्य उपदधामि" इति मन्त्रेण ( य० सं० १ । १८) चतुर्थ- कपालमुपधाय पूर्ववत तस्मिन्ननारं निधाय दक्षिणत उपहितस्य चतुर्थकपालस्य पूर्वतः "ॐचित स्थोचितः" इति मन्त्रेण (य० सं० १ । १८) पञ्चमं कपालमुपधाय पूर्ववत्तस्मिन्नगारं निधाय दक्षिणतो निहितस्य चतुर्थकपालस्य पश्चाद्भागे "ॐचि. त स्थति" मन्त्रेण षष्ठं कपालमुपधाय पूर्ववत्तस्मिन्नणारं निधाय मध्यमकपालस्य पश्चिमतः स्थापितस्य द्वितीयकपा- लस्य उत्तरतः “ॐचित स्थेति" मन्त्रेण सप्तमकपालमुपधाय पूर्ववत्तस्मिन्नणारं निधाय सप्तमकपालस्य पूर्वतः “ॐचित स्थेति"मन्त्रेण अष्टमं कपालमुपधाय पूर्ववत्तस्मिन्नणारं निदध्यात् । पश्चमादीनामष्टमान्तानां कपालानां पूर्वादिक्रमेण उपधानं प्रादक्षिण्यानुरोधेन बोध्यम् । अग्नीषोमीयपुरोडाशसंबन्धिनाम् एकादशकपालानामुप- धानक्रमश्चैवम् । आग्नेयपुरोडाशार्थमुपहितकपालानां दक्षिणतः मध्ये पूर्व मध्यमं, तस्य पश्चाद्भागे. द्वितीय, तस्य. पूर्वतः छत्तीयं, " ३ कातीयेष्टिदीपकः । मध्यमस्य दक्षिणतः चतुर्थ, चतुर्थस्य पूर्वतः एकस्य कपालस्या. न्तरालं परिशिष्य पञ्चमं, चतुर्थपञ्चमयोरन्तराले षष्ठं, चतु- र्थस्य पश्चिमतः अव्यवधानेन सप्तम, तदव्यधानेन तत्पश्चिमतः अष्टम, सर्वेषामुत्तरतः नवमदशमैकादशानि प्राक्संस्थानि(१)। ततः “ॐभृगूणामाङ्गिरसां तपसा तप्यध्वम्" इत्यनेन (य० सं०१।१८) मन्त्रेण(२) ज्वलद्भिरङ्गारैः सर्वाणि कपालानि आच्छादयेत् । ततः (३)अग्नीदेव प्राणीती: उपसर्जनी (पिष्टसंयवनार्थी अपः) गार्हपत्येऽधिश्रयेत् । आनीधे. कपालानि उपदधाने एव अध्वर्युः पेषणार्थम् "शर्मासि" इति मन्त्रेण (य० सं० १ । १९) कृष्णा- जिनमादाय "ॐअवधूत, रक्षोऽवधूता अरातयः" इति गारवत् प्रावारे कुसुमानि वास्यन्तामित्यत्र प्रावारवञ्च संस्कार्यम् । यथा गवां वासनेन संस्कृतं गृहं देवपित्र्यकर्मोपयोगि, यथावा पुष्प- वासनेन संस्कृतः प्रावारो धारणोपयोगी भवति तथा अङ्गारनिधा- नेन संस्कृतं कपालं पुरोडाशपाकोपयोगि भवति । अतः प्रयो. जनवत्त्वात्तदेव संस्कार्यमिति तदनुरोधेन अङ्गारनिधानावृत्तियु केति भावः। (१) दर्शष्टौ द्वादशकपालानामुपधानमपि एवमेव । तत्र सर्वे षामुत्तरतः नवमदशमैकादशद्वादशानि प्राक्संस्थानि उपधेयानि। (२)एककपाले तप्यस्वेति द्विकपाले तप्यथामिति विपरि. णामः । समवेतार्थत्वात् । (३) अध्वयों: पेषणे व्यापृतत्वात अग्नीध एव तत्कर्तृत्वम् । पेषणेन योगपद्यं च उपसर्जन्यधिश्रयणस्य उपधानेन सह उपक्रा. न्तादषि पेषणात्पूर्वमेव कपालोपधानाध्यवधानेन विधानात सिध्यति। यत्रतु अध्वर्योः कार्यान्तरव्यापृतिनास्ति यथा चविष्टयां तत्रा. ध्वोपसर्जन्यधिश्रयणकर्तृत्वम् । .

कातीयेष्टिदीपकः। १९ मन्त्रेण (य० सं० ११ १९) कृष्णाजिनमवधूय अप उपस्पृश्य कृष्णाजिनम् "अदित्यास्त्वगसि प्रति त्वादितिर्वेत्तु" इसनेन (य० सं० १ । १९) प्रत्यग्नीवमास्तीर्य सव्यहस्ताङ्गु. लिस्पृष्ट एव कृष्णाजिने मागग्रां दृषदं कृष्णाजिनस्योपरि "अधिषणासि पर्वती प्रति स्वाऽदित्यास्त्वग्वेत्तु" इति मन्त्रेण (य० सं० १ । १९) निधाय दृषदः पश्चाद्भागे ऽधस्तात् उदगग्रां शम्यां "ॐदिव स्कभनीरसि" इति मन्त्रेण (य०सं०१११९)तथा प्रेरयेत् यथा दृषदः प्राचीनप्रवणता सम्पये. त । ततः दृषदः उपरि उदगग्रामुपला "धिषणाऽसि पार्व. तेयी प्रति वा पर्वती व्वेत्तु" इति ( य० सं० १ । १९) मन्त्रेण निदध्यात् । ततः ॐधान्यममि धिनुहि देवान्"इति मन्त्रेण (य०सं०१।२०)दृषदि तण्डुलानोप्य "ॐप्राणाय स्वा" (पिनष्मि) "ॐउदानाय स्वा (पिनष्मि) "ॐध्यानाय त्वा" (पिनष्मि)इति मन्त्रैः(य०सं०१।२०)प्रतिमन्त्रं तण्डुलान् पिंष्याव। अध्वर्युणा तण्डुलेषु पिष्यमाणेषु, आग्नीध्रेण कपाळेषु ता. प्यमानेषुच, ब्रह्मा(१) पात्रान्तरादाज्यमाज्यस्थाल्यो “ॐमही. (१) अध्वर्योः पेषणे व्यापृतत्वात अग्नीधश्च कपालोपधाने व्यापृतत्वात् "पिध्यमाणेषु निर्वपत्यन्यो महीनामित्याज्यम्" इत्यः व अन्यशब्देन ब्रह्मैव ग्रहीतुमर्ह इति भावः । “निरुप्याज्यं वेदोऽ. सीति यजमानो वेदं करोति" इति सूत्रात् (का०श्री०१।३।२२)य: जमानस्यैव आज्यनिर्वापकर्तृत्वं केचिद्वदन्ति । तन्न युक्तम् । सर्व. कर्मकरणार्थमृत्विजा परिक्रीतत्वेन अध्वर्युः कर्मसु वेदयोगात" "वचनविरोधाभ्यामन्यः" इति ( का० श्री०१। ८।२९-३०) सूत्र- कारप्रस्थानाच ऋत्विजो ब्रह्मण एव आज्यनिर्वापकरणौचित्यात् । निरुप्यति ल्यप्प्रयोगस्तु स्थिते ब्रह्मणि'इत्यध्याहारेण स्थितिक्रियास. मानकर्तृकत्वोपपादनेनोपपाद्यः । नहि ौतक्रियासमानकर्तृकत्व.

२० कातीयेष्टिदीपकः। नां पयोऽसि" इति मन्त्रेण ( य० सं० ११२०) प्रक्षिपेत् । ब्रह्मणा च आज्ये निरुते सति यजमान: "ॐवेदो. ऽसि येन त्वं देव व्वद देवेभ्यो व्वदो ऽभवस्तेन मह्यं वेदो भूयाः" इति मन्त्रेण (य०सं० २१ २११) कुशमुष्टिं प्रद- क्षिणावृत्तं वत्सजानुसदृशं वेण्याकारं वा प्रादेशमानं वेदं कुर्यात् । अध्वर्युः तण्डुलषु पिष्टेषु दृषद उपरि वर्तमानानि पिष्टानि "ॐदीर्घामनुप्रसितिमायुषे धां देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णास्वच्छिद्रेण पा. णिना"इति मन्त्रेण(य०सं०१।२०)कृष्णाजिने उपलया पातयेत्। ततः "श्चक्षुषे त्वा" ( ईक्षे ) इति मन्त्रेण (य०सं०१।२०) ष्णाजिने पतितानि पिष्टानि विलोकयेत् । ततः पवित्रे पा. ज्यां कृत्वा कृष्णाजिनापिष्टान्यादाय सपवित्रायां पायां "ॐदेवस्य त्वा सवितुः प्रसवे ऽश्विनोबाहुभ्यां पूष्णो हस्ताभ्याम् । संवपामि" इत्यनेन (य०सं०११२१) मन्त्रेणाव- पेत् । तत उत्थाय गार्हपत्यस्य पश्चादुपविशति वेदिमध्ये वा।। तत आनीध्रः स्पयं सव्ये गृहीत्वा अधिश्रिता उपसर्जनी उदगुद्वास्य- अध्वर्योर्दक्षिणेनानीय पिष्टानामुपरि धृतस्य सप- वित्रस्य अध्वर्युहस्तस्योपरि निनयेत् । अध्वर्युश्च आनीधेण निनीयमाना उपसर्जनीः दक्षि- हस्तधृताभ्यां पवित्राभ्यां "ॐसमाप(१) ओषधीभिः मेव ल्यप्प्रयोगे नियतं निमित्तम् । “यदोर्वशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते" इत्यादौ व्यभिचारात् । न वै ब्रह्मा प्रचरति, न स्तुते, न शासति" इति तु अन्यस्य ऋत्विजः कर्तृत्वसंभवे एव बोध्यम् । स्पष्टं चेदमत्रैव कर्कभाष्ये । (१) अयं मन्त्रः अपामभिधायकत्चात् तत्कापन्ने पयसि दध- मि घृते च विपरिणम्यते।

कातीपेष्टिदीपकः। २१ समोषधयो रसेन । सा रेवतीजगतीभिः पृच्यन्ता सं मधुमतीमधुमतीभिः पृच्यन्ताम्" इति मन्त्रेण(य०सं० २॥ २१ प्रतिगृह्णीयात् । अग्नीच तथा निनयनं कुर्याद्यया अध्वर्योर्मन्त्रान्ते ग्रहणं सम्पद्येत । ततः अध्वर्यु: "ॐजनयत्यै त्वा संगौमि"इति मन्त्रेण(य० सं०१।२२)उदकं(१) पिष्टानि च संयोति(मिश्रयति)। समं विभज्य द्वौ पिण्डौ कृत्वा पाच्यामुदक्संस्थौ निधाय "ॐइदमग्ने"(य० सं०१।२२)इति दक्षिणस्थं पिण्डमालभ्य"ॐइदमग्नीषोमयो" इति मन्त्रेण ( य०सं० १॥ २२) उत्तरस्थं पिण्डमालभेत(२)। ततो(३)ब्रह्मा “ॐइषे त्वा" (अधिश्रयामि) इति मन्त्रेण (य०सं०१।२२) गार्हपत्यखरस्य मध्ये एव दक्षिणतः आज्यमधि (१) संयवनं पिण्डार्थत्वाञ्चरौ न भवति । कार्यलोपातू । पिष्ट- चरौ तु एकीकरणकार्यसत्वात् प्रवर्तते एव । पाच्यामावापोऽपि संयवनाभावाचरौ न प्रवर्तते । (२) दर्शष्टौ "इदमिन्द्राग्न्योः" इत्येवमालभेत । आलम्भस्य समविभागपूर्वकत्वात् तस्य च भिन्नभिन्नपुरोडा. शसंपत्तिरूपदृष्टप्रयोजनार्थत्वात् एकके आग्नावैष्णवादी तदभाषेन विभागाभावात् तत्पूर्वक आलम्भोऽपि न प्रवर्तते । तस्यापि "असंहरिष्यन्नालभते" इत्यनेन असंहारार्थतया दृष्टार्थत्वा. वगमात् । विनिगमनाविरहेण उभयोरालम्भस्य दृष्टार्थत्वप्रौव्येण अग्नीषोमीयालम्भस्यादृष्टार्थत्वकल्पने मानाभावात् । समं विभज्यालभते इत्येतावतैव सिद्ध असंहरिष्यन्नितिकथनं यस्य यदा असंहार इष्टस्तस्य तदा आलम्भो यथा स्पादित्येतदर्थ. म् । ततश्च चरूणां फलीकरणान्ते पोष्णस्य ईक्षणान्ते आलभ्मः। (३) अध्वस्त्रग्नीधोः पुरोडाशयोव्यापृतत्वात् । उपसदादौ तु अ- विरोधादध्वर्योरेवाधिश्रयणकर्तृत्वम् ।

२२ कातीयेष्टिदीपकः। श्रयेत् । (अग्नेपरि आज्पस्थाली निदध्यादित्यर्थः)। ब्रह्मणि आज्यस्थाली निदधत्येव सति अध्वर्युः अष्टसु कपालेषु प्रथमं पुरोडाशं स्फ्योपग्रहं कृत्वा "ॐधर्मोऽसि विश्वायुः" इति मन्त्रेण (य०सं०१।२२) अधिश्रयेत् । तस्मिन्नेव काले आग्नीध्रः एकादशसु कपालेषु द्वितीयं पुरोडाशं "ॐघोस विश्वायुः" इति मन्त्रेण अधिश्रयेत्। ततः अध्वर्युरानीध्रश्च यथाधिश्रयणं प्रथमदिनीयौ पुरोडाशी "ॐउरुप्रथा उरु प्रथस्वोम ते यज्ञपतिः प्रथताम्"इति म- न्त्रेण(य०सं०१।२२)यावत्कपालं प्रथयताम्(अतिपृथून कुर्याताम्) एवमेव"ॐअग्निष्टे त्वचं माहिासीत्" इति मन्त्रेण (य०सं०१ २२) स्वस्वपुरोडाशमद्भिरभिमृशेतां सकृत त्रिर्वा । त्रिः पक्षेऽपि मन्त्रः सकदेव । अभिमर्शनं च प्रथने क्रियमाणे यत्रकचन विदीर्ण भवति तत्संधानम् । ततः पाच्या अङ्गुलीनां च पिष्टलेपापनयनं प्रक्षाल- नश्च कार्यम्(१) । ततः अध्वर्युः गार्हपत्यादङ्गारमादाय "ॐअन्तरित रक्षोऽन्तरिता अरातयः"(का.श्री.२।५।२१) इति मन्त्रेण आज्यस्थालीपुरोडाशान् परितः प्रदक्षिणमङ्गारं भ्रम- येत् । ततो ऽङ्गारं गाईपले प्रक्षिप्य हस्तस्यापादक्षिण्येन परिवर्तनं कृत्वा अप उपस्पृश्य "ॐदेवस्त्वा सविता- अपयतु व्वर्षिष्ठेऽधिनाके" इति मन्त्रेण (य०सं०१।२२)दर्भ- (१) “पाध्यङ्गुलिप्रक्षालनमाप्त्येभ्यो निनयति" (का श्रौ० २। ५।२५) इत्यनेन प्रक्षालनोदकस्य "पिष्टलेपान्नुहोति" (का० श्री० ३।८।१) इत्यनेन पिष्टलेपानां च प्रतिपत्तिविधानात् अर्थात् प्राप्तयोस्तयोः क्रमाकाङ्क्षायां योग्यत्वात् अभिमर्शनानन्तरं पर्यग्नि- करणापूर्व तयोरनुष्ठान व्यवस्थापित कर्काचार्यः। .

कातीयेष्टिदीपकः। तृणैवलद्भिः प्रथमं पुरोडाशं श्रपयित्वा एवमेव द्वितीयं श्र- पयेत् ।(२)ततः शृताभृतज्ञानाय "ॐमा भेा संविक्था" इति मन्त्रेण(य०सं०१।२३)क्रमेण पुरोडाशावालभेत। अशृतौ च- त्पुनः श्रपणप्रक्षेपः । शृतौचेत् "ॐअतमेरुयज्ञोऽतमेरुयंज- मानस्य प्रजा भृयात्" इति मन्त्रेण (य०सं०१। २३) वेदेन, उपवेषेण वा तप्ततरेणाङ्गारमिश्रेण भस्मनाऽऽच्छादयेत् । ततः पाव्यङ्गुलिप्रक्षालनजलं पात्रीस्थमेव गाईपसदी- स्तृणैवलद्भिस्तापयित्वा विहारस्योत्तरतः स्फ्थेन त्रीन् गान् प्राक्संस्थान् कृत्वा परस्परं संसर्गम् अप्राप्नुवन प्रत्यक्संस्थं "ॐत्रिताय त्वा" (निनयामि ) "ॐद्विताय स्वा" (निनयामि) "ॐएकताय त्वा" (निनयामि) इति प्रतिमन्त्रं ( य०सं०१॥ २३) क्रमेण निनयेत् । प्रतिनिनयनं च"ॐ इदं त्रितायाप्त्याय न मम" "ॐ इदं द्वि. तायाप्त्याय न मम" "ॐइदमेकतायाप्त्याय न मम"इत्येवं त्यागं क्रमेण यजमानः कुर्यात् । ततः अध्वर्युः अन्वाहार्य (दक्षिणार्थमोदनं ) चतुर्णाम् ऋत्विजां तृप्तिपर्यन्तभोजनसमर्थ दक्षिणानौ श्रपणार्थमधिश्रयेत । जलंचात्र पाणीतं लौकिकं वेति कर्काचार्याः। अत्र वा यजमानस्य व्रतग्रहणम् । (२)ततोऽध्वर्युः आहव. (१) घानानां पक्वताशानस्य दर्शनादेवोपपत्ते लम्भः । (२) अंथ वेद्यादिसाधनप्रकारः। गार्हपत्यमध्यादाहवनीयमध्यपर्यन्तं मध्येऽन्तरम् अष्टौ, एका. दश, द्वादश वा पदानि । गार्हपत्यमध्यत्वन कल्पितं स्थान केन्द्र परिकल्प्य सार्धत्रयोदशाङ्गुलमितत्रिज्यया वृत्च कार्यम् । इदं गाहे- पत्याग्नेः स्थानम् । आवहनीयस्थानमायामतो विस्तारतश्च हस्त- मितम् । गार्हपत्याहवनीयान्तरस्य द्वादशपदपरिमितत्वपक्षे तदन्त- 1 कातीयेष्टिदीपकः। नीयपश्चाद्भागे पश्चात् प्रथमः द्वितीयः तृतीयः चतुर्थः इति, मध्ये प्रथमः द्वितीयः तृतीय इति, प्राग्भागे प्रथम, द्वितीयः तृतीय इति वेदि मिमीत । आहवनीयाग्निमभितः अंसौ मातव्यो । पश्चात् श्रोणि च कल्पयेत । रस्य षड्हस्तात्मकत्वात् षड्हस्तां रज्जु तदीयषष्ठभागेन हस्ता. स्मकेन संयोज्य अर्थात्सप्तहस्तां रज्जु गृहीत्वा तस्या अन्तयोः पाशौ कृत्वा मध्ये च तृतीये तृतीये भागे चिह्न कन्वा एकंपाशं गार्हपत्यमध्यशङ्को आसज्य द्वितीयपाशं आहवनीयमध्यशङ्की आसञ्जयेत् । रज्जुमध्यवर्तिनोईयोश्चिह्नयोः पश्चिमचिह्नस्थाने रज्जु गृहीत्वा दक्षिणत आकर्षयेत् , यत्र तञ्चिद्रं पतति तत्र चिह्नं कृत्वा तस्मात्स्थानात् उत्तरतः सार्धनाङ्गुलव्यवहिते देशे शङ्कुर्देयः । शङ्कस्थान केन्द्रत्वन परिकल्प्य यवाधिकोनविंशत्यङ्गुलमितत्रि. ज्यया वृत्तं कार्यम् । वृत्तमध्ये केन्द्रसंलग्ना परिधिपूर्वभागमारभ्य परिधिपश्चिमं यावत् सरलरेखा कार्या । इयं च व्यासशब्देन व्यः वहियते सांवत्सरैः। रेखात उत्तरभागस्य त्यागः कार्यः । वृत्तस्य दक्षिणा) दक्षिणाग्निस्थानम् । पूर्वोक्तयोश्चिह्नयोः पूर्वचिह्नस्थाने रज्जु गृहीत्वा उत्तरत आकर्षणे यत्र चिह्न पतति तदुत्करस्थानम् । आहवनीयमध्यशङ्कुसकाशात्पश्चिमतस्यरत्निव्यवहिते देशे शङ्क यः । तच्छङ्कुसकाशात् दक्षिणत उत्तरतश्च घरत्निव्यवहिते देशे शङ्कःयः । आहवनीयप्राचीशङ्कुसकाशात्सार्धारनिव्यवहिते देशे दक्षिणत उत्तरतश्च शड्डयः । चतुर्षु कोणस्थशङ्कुषु सूत्रार्पणात विषमचतुरनं भवति । प्राचीशकुमारभ्य पश्चिमशङ्कपर्यन्तं कोण. यवेष्टनेन सूत्रं प्रदेयम् । तत्सूत्रार्धपरिमितेन सूत्रेण प्राचीशङ्कमा रभ्य दक्षिणकोणस्थशङ्कुचेष्टनेन दक्षिणतः, उत्तरकोणस्थशङ्कवेष्ट- नेन उत्तरतश्च शङ्खयः । ताभ्यां शकुभ्यां पूर्वोक्तसूत्रार्धचतुर्थी- शेन वेदिमध्ये संग्रहो कार्यो । द्वादशाङ्गुलं पदम् । अष्टयवमङ्गुलम् । चतुर्विशत्यङ्गुलो हस्तः ॥ इति वेद्यादिसाधनप्रकारः । ।

कातीयेष्टिदीपकः। २५ ततः बेदि परिसमुह्य पूर्ववितृतीये उत्तरतः अग्नीत् उत्करं कुर्यात् । ततोऽध्वर्युः पूर्वमासादितवेदितणसहितं स्फ्यम् "ॐदेवस्य त्वा सवितुः प्रसवेऽश्विनो हुभ्यां पूष्णो हस्ताभ्याम्। आददेऽध्वरकृतं देवेभ्यः(१)" इति (य०सं०१।२४)मन्त्रेणा- दाय सव्यहस्ते सतृणं स्पयं निधाय दक्षिणेन हस्तेन आलभ्य "ॐइन्द्रस्य बाहुरसि दक्षिणः सहस्रभृष्टिः शततेजा व्वायुरासि तिग्मतेजा द्विषतो व्वधः" इति ( य० सं० १। २४) सस्वरं जपति । स्तम्बयजुई रणादाक् हस्तमार्जनेन तीक्ष्णीकृतेन स्फ्येन पृथिव्याः आत्मनश्च स्पर्शो न कर्तव्यः । ततः तत्तृणं "ॐपृथिव्य धर्मासि" (का० श्री० २। ६। ८) इति मन्त्रेण वेद्यामुदगग्रं निधाय "ॐपृथिवि (२)देवयजन्योषध्यास्ते मूलं माहिसिषम्" इति मन्त्रण ( य० सं० १ । २५ ) तृणस्याधस्ताद्भुवि, तृणे एव वा स्फ्येन प्रहरेत् । ततः "ॐव्रजं गच्छ गोष्ठानम्" इति मन्त्रेण(३) ( य० सं० १ । २५) प्रहरणेनोत्खातं पुरीष हस्तेन गृहीत्वा "ॐवर्षतु ते द्यौः" इति मन्त्रेण ( य० सं० १ । २५) वेदेः (१) पितृयज्ञे देवपितृभ्य इति विपरिणामः। (२) पितृयज्ञ देवयजनीत्यस्य स्थाने देवपितृयजनीति प्रयोगः। वेदेरङ्गप्रधानार्थत्वात् । परिसमूहनादीनां वेदिसंस्काराणामेव प्रवृ. तत्वात् वेदेरेवान पृथिविशब्दाभिधेयत्वात् । एवमुत्तरमन्त्रे देवय- जनादित्यस्य स्थाने देवपितृयजनादिति प्रयोगः पितृयक्षे । (३) शाखान्तरे व्रजंगच्छेत्यादीनां पुरीषादानादिषु अवयवशो विनियोगविधानात् अवयवशः पुरीषादानादिषु एषा मन्त्राणां प्र. योगः प्रदर्शितः। नतु प्रहरणशेषत्वमङ्गीकृतम्। कर्काचार्याणामसं. मतत्वात्।

कातीयेष्टिदीपकः। महरणदेशे प्रेक्ष्य गृहीतं पुरीषम् “ॐबधान देव सवितः परमस्यां पृथिव्या शतेन पाशैर्योस्मान्वेष्टि यं च ध्वयं द्विष्मस्तमतोमा मोक्" इति मन्त्रेण (य०सं०२।२५) उत्करे प्रक्षिपेत् । ततः "ॐअपारकं पृथिव्यै देवयजनादध्यासम्"इति मन्त्रेण(य०सं० १ । २६) पूर्वप्रहृतात् उत्तरस्यां तृणस्याधस्तात् तणे वा स्फ्येन द्वितीयवारं प्रहरेत् । उदकोस्पर्शः(१)। ततः पूर्ववत्पुरीपादान-वेदिप्रेक्षण-पुरीषप्रक्षेपणानि कुर्यात् । ततोऽग्नीत् स्पयं गृहीत्वा "अररो दिवं मा पप्त" इति मन्त्रेण ( य० सं० १ । २६ ) पाणिभ्यामुत्करमभि- न्यस्यति ( अधः पातयतीत्यर्थः ) उदकोपस्पर्शः । ततः अध्वर्युः “न्द्रप्सस्ते यां मा स्कन्" इति (य० सं० १ । २६ ) मन्त्रेण . द्वितीयाहृतादुत्तरतः तृण- स्याघस्तात् तृणे वा तृतीयवारं प्रहृय पुरीषादान-वैदिप्रेक्षण- पुरीपनिरसनानि पूर्ववत्कृत्वा तृतीयप्रहृतादुत्तरे तृणस्याध. स्तात्तृणे वा तूष्णीं चतुर्थवारं प्रहृत्य तूष्णीमेव सतृणपुरी- पादानम् , उत्खातप्रदेशप्रेक्षण, सणस्य पुरीषस्य उत्करे प्रक्षे. पणं च कुर्यात् । ततः "ब्रह्मन् 'पूर्व परिग्रहं परिग्रहीष्यामि" इति ब्रह्माणमामन्त्रयेत् । (१) "अररुह नामासुररक्षसमास" इति श्रुतौ अररोः रक्षस्त्वा- मिधानात् मन्त्रस्य रक्षोऽभिधायकत्वात् उदकस्पर्शः। "रौद्र रा. क्षसमासुरमाभिचरणिकं मन्त्रमुरका पियमात्मानं चालभ्योपस्पृशे. दपः” ( का० श्रौ०१ । १० । १४ ) इति सूत्रेण राक्षसादिमन्त्राभि- धाने आत्मालम्भे च उदकोपस्पर्शविधानात् ।

कातीयेष्टिदीपकः। ततो ब्रह्मा "ॐबृहस्पते परिगृहाण वेदि सुगा वो देवाः सदनानि सन्त्वस्यां बर्हिः प्रथता साध्वन्त- रहिना पृथिवी देवी देव्यस्तु"(का श्री०२।२।१०) इति, "देवता वर्धय त्वम्" इत्यादि धेहीत्यन्तं च उपांशु पठित्वा "ॐपरिगृहाण" इत्युच्चैः अध्वर्युम् अनुजानीयात् । ततोऽनुज्ञातोऽध्वर्युः स्फ्येन दक्षिणतः "ॐगायत्रेण त्वा च्छन्दसा परिगृह्णामि" इति मन्त्रेण ( य० सं० १।२७) वेदेः नैर्ऋतकोणादारभ्य आहवनीयखरपर्यन्तां रेखां कृत्वा "ॐत्रैष्टुभेन त्वा च्छन्दसा परिगृह्णामि" इति मन्त्रेण (य० सं० १ । २७) वेदेः पश्चिमपाचे दक्षिणश्रोणिमारभ्य उत्तरश्रोणिपर्यन्तां रेखां कृत्वा “ॐजागतेन त्वा च्छन्दसा परिगृह्णामि" इति मन्त्रेण ( य सं० १ । २७) वेदेरुत्तर- भागे उत्तरश्रोणिमारभ्य आहवनीयखरपर्यन्तां रेखां कुर्यात् । इदं परिग्रहणं च 'इयती वेदिः कर्तव्या' इति ज्ञापनार्थम् । ततोऽध्वर्युः वेद्यां मागायताः उदक्संस्थास्तिस्रो रेखा- स्तुरणी स्क्येन कृत्वा "अहर निः"(१) इति अग्नीधं ब्रूयात् । ततोऽग्नीत् यथोल्लिखिताभ्यो रेखाभ्यः पांनुद्धृत्य उत्करे प्रक्षिप्य ता रेखाः संमृशेत् (मार्जनेन समीकुर्यात् )। ततोऽध्वर्युः अभ्रिमादाय प्रदक्षिणं सर्वतो वेदि सांस व्यङ्गुला खनति(२) । ततो "ब्रह्मन्नुत्तरं परिग्रहं परिग्रही- (१) वरुणप्रघासेषु वेदिद्वित्वेन 'हर निस्त्रिः' इति साभ्यास- स्त्रिशब्दप्रयोगः कर्तव्यः। (२) कात्यायनेन पूर्वमन्वाहार्याधिश्रयणानन्तरं निर्दिष्टस्य वैदिखननस्य "अत्र वेदिकरणं यथोक्तम्” ( का श्री० २।६।२२) इति रेखासंमर्शनानन्तरं विधानात्तथैवानुष्ठानम् । नच तथैव २८ कातीयेष्टिदीपकः। ध्यामि" इति ब्रह्माणमामन्त्रयेत् । ब्रह्मा च पूर्ववत् "बृहस्पते परिगृहाण" इत्यादिम. न्त्रमुपांशु पठित्वा "परिगृहाण" इत्युच्चैः अध्वर्युमनुजानी. यात् । ततः स्फ्येन अध्वर्युः वेदेः दक्षिणपार्चे दक्षिणश्रोणिमार- भ्याहवनीयखरपर्यन्तं “सुक्ष्मा चासि शिवा चासि" इति मन्त्रेण ( य० सं० १ । २७) रेखां कृत्वा पश्चिमपार्थे "अस्पोना चासि सुषदा चासि" इति मन्त्रेण ( य० सं० १ । २७ ) दक्षिणश्रोणिमारभ्य उत्तरश्रोणिपर्यन्तं रेखां कृत्वा उत्तरपाचे उत्तरश्रोणिमारभ्य आहवनीयखरपर्यन्तम् “ऊ. जस्वती चासि पयस्वती च" इति मन्त्रेण ( य० सं० रेखां कुर्यात् । ततः "पुरा करस्य. विसृपो विरपशिन्नुदादाय पृधिवीं जीवदानुम् । यामैरयश्चन्द्रमसि स्वधा- भिस्तामु धीरासो ऽअनुदिश्य यजन्ते" इति मन्त्रेण ( य० सं० १ । २८) पुरस्तादारभ्य प्रतीची दिशं यावत् अनुमृज्यात् (स्फ्येनैव समीकुर्यात् )। प्राक्प्रवणता च वेदेः वेदिमानकरणमप्यत्रवोचितमिति वाच्यम् । खननस्यैव वेदिस्वरूप- प्रकाशकत्वेन स्वरूपनिष्पत्त्यनुकूलव्यापारार्थकेन कृधातुना सम. भिव्यारात् वेदिस्वरूपनिष्यत्यनुकूलव्यापारस्वरूपखननस्यैवाभि- धानेन तावन्मात्रस्यैवाभिधानात् । अत एवोत्तरत्र परिसमूहनादी. नां सिद्धिः। वेदिमानं विना तु स्थलविशेषाज्ञानान किंचिनियत. देशे सिध्येदिति बोध्यम् । अंसयोरपि धेचन्तर्गतत्वात् व्यङ्गुलखवनम् । “अपोह्य बींषि निदधात्य सदेशे" सम- अंसयोः स्तरणसूचना तयोर्वे- धन्तर्गतत्वम् ।

कातीयेष्टिदीपकः। २९ " अत्रैव सम्पादनीया। ततः प्रोक्षणीम्रहीत्वा वेदेरुपरिष्टात्समीपे धारयेत् । प्रोक्षणीषु धार्यमाणासु अनीत् स्फ्यमुद्यम्य "ॐप्रोक्ष. णीरासादयेध्मं वर्हिरुपसादय सुचः संमृढि पत्नी सन्नद्याज्येनोदेहि" इति मन्त्रेण अध्वर्युम् युगपत् सर्वका- र्यार्थम् अध्येषयेव(१) । माक्स्तरणाद्वेदिं कश्चिदपि नावमृशेत् । (१) अत्र प्राधान्यात प्रेषकर्तृत्वमध्वर्यो, भैषार्थकर्तृत्वमग्नीधः निकृष्टत्वादिति जैमिनिः। "स्वयंवाऽविरोधात्" "संप्रैषावचनाच्च" इति कात्यायन- सूत्राभ्याम् ( का श्रौ० २। ६ । २८-२९) अध्वर्योः प्रैषार्थकर्तृ- त्वम् । उत्सर्गतः समाख्यया प्राप्तस्य प्रोक्षण्यासादनादिक- मकर्तृत्वस्य मुख्यस्य विना वचनमपवदितुमशक्यत्वात् । शतपथ- ब्राह्मणे च "स यदि कामयेत ब्रूयादेतद्यधु कामयेतापि नाद्रियेत स्व. यमुह्येवैतद्वेद इदमतः कर्म" इति स्पष्टमेव प्रैषार्थप्रोक्षण्यासादना- दिकर्मकर्तृत्वं श्रयते। प्रैषमात्रकरणे हि न मुख्यं कर्तृत्वमध्वर्योः सि. ध्यति । "तत्प्रयोजको हेतुश्च" इत्यनेन हि पाणिनिसुत्रेण तृतीयादि. कार्यार्थ कर्तृत्वस्व अतिदेशविधानान मुख्यं तसिध्यति । नहि णित्त्व. डित्त्वातिदेशविधानात् मुख्यणकारेत्संकत्वादिकं सिध्यति । तथा- च स्वरसतः प्राप्तस्य मुख्यकर्तृत्वस्य प्रैषमात्रकरणेनानुपपत्तेः प्रैषा. र्थकर्तृत्वमध्वर्योरेव । अग्नीधो निकृष्टत्वेऽपि अध्येषणकर्तृत्वमुप- पद्यते एवेति न काचिदनुपपत्तिरिति कर्काचार्याः । वरुणप्रघासेषु इध्मशब्दो बर्हि शब्दश्च न विपरिणम्यते । अंग्नी- धनत्वस्य बहिष्वजातेश्च न्यूनाधिकसंख्याकेषु अविशेषेणैव वृत्तः । गृहमेधीयादौ उपभृतोऽभावात् सुग्बहुत्वाभावेन यथार्थ विपरिणामः। पत्नीशब्दस्य अनेकपत्नीकेपि अविपरिणामः । एकवचनान्त: स्यैव समाम्नानात् । प्रकृतावूहाभावात् । प्रोक्षणीरासादयेत्यादौ प्रैषार्थकर्तृगतमपि वचनं प्रकृती समवा. यात वरुणप्रघासेषु प्रैषार्थकोंः अध्वर्युप्रतिप्रस्थान द्वित्वात् "प्रो; क्षणीरासादयतम्' इत्येवमादिरूपेण विपरिणामः !

कातीयेष्टिदीपकः। . शृतानि हवी ७षि च प्रधानयागानुष्ठानं यावत् न स्पृशेत् । ततोऽध्वर्युः प्रक्षालनार्थम् उदकमासाद्य "अद्विषतो व्वधोऽसि" इति मन्त्रेण (य० सं० १ ! २८) स्फ्य. मुदगग्रम् उत्करे प्रक्षिपेत् । ततः स्फ्यं गृहीत्वा उत्करे पाणी प्रक्षाल्य प्रणीतानां पश्चाद्भागे प्रागग्रम् उदगग्रं वा स्फ्यं निधाय वेदिमध्ये उदगग्राममिहोत्रहवणीमासाद्य प्रणी. तानां पश्चात्स्फ्यस्योत्तरतः प्रागग्रमिध्ममासाद्य इध्मस्योत्त- रतः प्रागग्रं बर्हिरासादयेत् । ततः खादिरं त्रुवमादाय "ॐप्रत्युष्टा रक्षः प्रत्युष्टा अरातयः" इति मन्त्रेण ( य० सं० १। २९) गाईपसे प्रतप्य अप उपस्पृश्य अग्निसमीपात्माची गत्वा वेदाप्रै- रन्तरतः मूलादारभ्याग्रपर्यन्तं प्रासंस्थम् "ॐ अनि- शितोऽसि सपत्नक्षिवाजिनं त्वा व्वाजेध्यायै समा- मि" इति मन्त्रेण (य० सं० १ । २९) संमृज्य बहिः प्रदेशे सुवपुष्करस्य अधोदेशादारभ्य मूलपर्यन्तं प्रत्यक्संस्थ- मनेनैव मन्त्रेण(१) संमृज्यात् । ततोऽनिमुपगम्य पूर्ववत्मतप्य अप उपस्पृश्य अनीधे समर्पयेत् । ततो जुहूमादाय प्राची गत्वा “ॐअनिशिताऽसि सपत्नक्षिवाजिनीं त्वा व्वाजेध्यायै समामि" इति मन्त्रेण ( य० सं० १।२१) वेदाङ्गः अन्तरतः मूलादार- भ्यानपर्यन्तं संमृज्य वेदमूलैः बहिः प्रदेशे जुहूपुष्करस्य अधोभागादारभ्य मूलपर्यन्तमनेनैव मन्त्रेण प्रयञ्च संमृज्य अ- (१) द्रव्यैक्येऽपि स्थानभेदे मन्त्रावृत्तिः । अग्निसंमार्गे "तूष्णीमु- पहि' का श्री०३१.१ । १४ ) इत्युक्तया सूत्रकारेण स्थान दे मन्त्रावृत्तिबोधनाव। ..

कातीयेष्टिदीपकः। निसमीपं गत्वा पूर्ववत्तप्य अप उपस्पृश्य अग्नीधे समर्पयेत् । एवमेव उपभृतं ध्रुवां च संमृज्य प्रतप्य अप उपस्पृश्य अग्नीधे समर्पयेत् । ततस्तूष्णी माशिवहरणे शृतावदान पुरोडाशपायौ इडापात्री च प्रत्येक प्राङ् उत्क्रम्य तूष्णी- मन्तबहिश्च पूर्ववत्संमृश्य अग्निमुपगम्य तूष्णीं प्रतप्य अप उपस्पृश्य अग्नीधे समर्पयेत् । ततः संमार्जनानि उत्करे प्रक्षिपेद् नाहवनीये । शतपथब्राह्मणे "तदु तथा न कुर्यात्" इति निषेधश्रवणात् । ततः अध्वर्युः मुअमपं त्रिवृत् योक्त्रमादाय गाई- पत्यानन्यां दिशि ईशानाभिमुखीम् ऊर्धजानु पूर्वमेवोपविष्टां यजमानपत्नी परिधानवखाद बहिः तेन योक्त्रेण “ॐअदित्यै रास्नाऽसि" इति मन्त्रेण (य० सं० १ । ३०) प्रदक्षिणं वेष्टयित्वा दक्षिणं पाशमुत्तरे शङ्कुस्थानीये प्रतिमुच्य पुनर्वेष्ट- यित्वा योक्त्रस्यान्तम् "ॐविष्णोर्चष्पोऽसि"(१) इति ( य० सं० १॥ ३० ) मन्त्रेणार्ध्वमुद्गृहेत् । ग्रन्थि न कुर्यात् । ततः "ॐऊज्जै स्वा" (उद्वासयामि) इति मन्त्रेण (य० सं० १ । ३०) आज्यमुदगुद्वास्य पश्चादानीय 'परत्न्या. ज्यमवेक्षस्थ' इति पत्नीमध्वर्युरध्येषयेत् । . (१) 'विष्पोर्वेष्प' इत्यत्र "विष्ल व्याप्तौ" इति धातोः "पानीविषि- भ्यः पः" इत्यौणादिकसूत्रेण तृतीयपादस्थेन पप्रत्यये वेप इति रूपं निष्पद्यते । अत्र वेष्य इतिपाठकल्पवम् पतदोषादिकसूत्राज्ञानमू- लकम् । पवर्गीयघटितपाठस्य आसेतुहिमाचलं संप्रदायसिद्धत्वात् । अन्तस्थघटितलेखस्य लेखकप्रमादेन भाज्यादिपुस्तकेषुसंजातत्या. त् । एतदव्युत्पादनं च लखनऊनगरमुद्रितभा ये स्पष्टमुपलभ्यते इति ततो निरसनीयः संशयः संदिहानैरित्यलम् ।

३२ कातीयेष्टिदीपकः। पत्नी च "ॐअदब्धंन त्वा चक्षुषाऽवपश्यामि । अग्नेर्जिहाऽसि सुहूदेवेभ्यो धाम्ने धाम्नं मे भव यजु. षेयजुषे इति ( य० सं० १।३०) मन्त्रेणाज्यमवेक्षते(१)। ततोऽध्वर्युः पन्या अग्रतः आज्यं गृहीत्वा प्रोक्षणीभ्यः पश्चाद्वदिमध्ये तदासाद्य (२)वेदं गृहीत्वा प्रोक्षणीभ्यः पवित्रे आदाय "ॐसवितुस्त्वा प्रसवउत्पुनाम्यच्छिद्रेण पवि- श्रेण सूर्यस्य रश्मिभिः" इति ( य० सं० १ । ३१) मन्त्रे- णाज्यमुत्पूय स्फ्यं गृहीत्वा आज्यलिप्ताभ्यामेव पवित्राभ्याम् "ॐ सवितुर्वः प्रसवउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्य- स्य रश्मिभिः" इति मन्त्रेण ( य० सं० १ । ३१) मो. क्षणी: पूर्ववत् इध्मावर्हिषोः प्रोक्षणार्थम् उत्पुनीयात् । अतस्त. दभावे न भवति । ततः "ॐतेजोऽसि शुक्रमस्थमृतमसि" इति मन्त्रेण ( य० सं० १ । ३१) आज्यमवेक्षेत । ततः सव्येन जुहूं वेदं च गृहीत्वा दक्षिणेन सुवमादाय तेनाज्यस्थाल्याः सका- शातूष्णीमाज्यमादाय जुडाम् "ॐधामनामासि प्रियं देवा- नामनाधृष्टं देवयजनमसि" ( य० सं० १ । ३१) इति मन्त्रेण (३)सकृनिनीय विस्तूष्णीं निनयेत् । तत उपमृति "ॐधामनामासीति" इति मन्त्रेण सकृन्निनीय सप्तकत्व- स्तूणी निनयेत् । उपभृति चतुर्ग्रहीताज जुहाज्यादल्पमेव गृहीत (१)द्रव्यसंस्कारत्वात् पत्न्या रजस्वलाधवस्थायामध्वर्युरवेक्षते। एकाईब्यसाज्ये घेदेनोपंग्रहणम्" "स्फ्यनान्यत्र" "कुशैर. सत्सुका. श्री. १।१०। ६-७-८ ) इति सूत्रैः आज्यादिस्कन्दन- निवारणार्थ घेदादिमिरुपग्रहविधानात् वेदादिग्रहणमुच्यते । (B) "सकृन्मन्त्र" इति सत्रात । (का० श्रौ०२।७।९) क्रातीयेष्टिदीपकः। पथा स्यात्तथा अष्टकृत्वोऽपि निनयेत् । ततो धुवायाम् "ॐधामनामासीति" मन्त्रेण सकृनिनीय विस्तूष्णीं निन- येत् । ततो वेदिमध्यादाज्यस्थालीमादाय कचित्सुगुप्ते नि- दध्यात् । ततः इध्मं विख्रस्य "ब्रह्मन्निध्मं प्रोक्षिष्यामि" इति ब्रह्माणमामन्त्रयेत् । ततो ब्रह्मा “ॐप्रोक्ष यज्ञम्" इत्यादिमन्त्रमुपांशु पठित्वा "प्रोक्ष" इत्युच्चैरध्वर्युमनुजानीयात् । ततोऽध्वर्युः अग्निहोत्रहवणीस्थाः प्रोक्षणीरादाय "ॐकृ- ष्णोऽस्याखरेष्ठोऽग्नये त्वा जुष्टं प्रोक्षामि" इति ( य० सं० २।१) मन्त्रेण मोक्षणीभिरिध्मम् अग्न्यथै प्रोक्ष्य(१) "ॐवेदिरास बर्हिषे त्वा जुष्टां प्रोक्षामि" इति (य० सं० २।१) मन्त्रेण वेदि बहिःस्तरणार्थ मोक्ष्य अग्नीत्समर्पितं बर्हिः प्रणीताहवनीयान्तरालेन प्रतिगृह्य वेद्यां प्राग्ग्रन्थि उदगग्रम आसाद्य "ब्रह्मन् बहिः प्रोक्षिष्यामि" इति ब्रह्माणमामन्य तेन च "प्रोक्ष यज्ञम्" इत्यादि- मुपांशु पठित्वा "ॐ३मोक्ष" इति उच्चैरनुज्ञातोऽध्वर्युः "ॐबर्हिरसि (२)सग्भ्यत्स्वा जुष्टं प्रोक्षामि" इति मन्त्रेण (य० सं० २ । १) बर्हिः प्रोक्ष्य, प्रोक्षणीशेषं समस्तम् "ॐअदित्यै व्युन्दनमास" इति मन्त्रेण (य० सं० २।२) बहिर्मुलेषु निनयेत् । (शेषस्य नाशदोषादौ बहिर्मूलसेचनं सं. स्कारार्थ लौकिकोदकेन कर्तव्यमेव )। (१) अग्न्यभाषे अवभृथेष्ट्यां परिश्रित्सु च नेमस्य प्रोक्षणम् । एवं गृहमेधीये बर्हि स्तरणाभावेन देन प्रोक्षणम् । (२) घुग्भ्य इति बहुवचनं द्वित्वादौ विपरिणम्यते । ५ ३४ कातीयेष्टिदीपकः। ततः पवित्रे प्रणीतामु निधाय बर्हिर्विसंस्य "ॐवि. ष्णोस्तुपोऽसि" इति मन्त्रेण(१) ( य० सं० २ । २) बर्हि- पूलकस्य पूर्वस्मात्पदेशात् त्रिमुष्टिमितं प्रस्तरं गृह्णीयात् । ततस्तं प्रस्तरं तूष्णीं ब्रह्मणे प्रदाय बर्हिःसन्नहनं विस्रस्य दक्षिणस्यां वेदिश्रीणौ निधाय अन्यैर्वहिस्तृणैराच्छाद्य वेद्यां पतितं तृणपर्णकाष्ठादिकं काष्ठेनैवादाय उत्करे निरस्येत् । ततः स्फ्यं निधाय दर्भपूलकात्तृतीयं भागमादाय “ॐऊ. पर्णम्नदसं त्वा स्तृणामि स्वासस्था (२)देवेभ्यः" इति मन्त्रेण ( य० सं०.२ । २) दक्षिणांसादारभ्योत्तरांसं यावत् प्रागग्राणि बहीषि स्तृणीयात् । ततोऽवशिष्टार्धभागमादाय पूर्व स्तृतस्य बहिषो मूलान्याच्छादयन् ततः पश्चात(३) मन्त्रेणैव स्तृणीयात् । ततः शेषमादाय द्वितीयवारं स्तृतस्य मूलान्याच्छा- दयन् ततः पश्चात् स्तृणीयात् (बर्हिषा आच्छादयेदित्यर्थः) तत इध्मात्सामिधमादाय ब्रह्मणो हस्तात्पस्तरं चादाय आह- वनीयस्योपरि समीषे एव प्रस्तरं धारय समिधा ( समिदाघा. तेन) आहवनीयं समर्थ(४) कुर्यात् । तत आहवनीयादुल्मुकद्वयम- नुपाजामुदुःख(५) प्राञ्चं निनीय सरप्रान्तयोनिदध्यात् । (१) सचायं मन्त्रोऽपच्छेदे प्रयुज्यते । ततश्च पितृयज्ञे परिश- ष्टस्य प्रस्तरमात्रस्य प्रहणे निवर्तते । (२) पितृयो देवपितृभ्य इति विपरिणामः । (३) "न प्रहणलवनस्तरणाज्यग्रहणेषु तु" (का० श्रौ० १।७। ९) इत्यनेन स्तरणादौ मन्त्रावृत्तेर्बोधनात् । एवं तृतीयवारमपि म- न्त्रेणैव स्तरणम् । (४) अग्नेरेव समिधा समर्थीकरणम् । दृष्टार्थत्वात् । अतः अप्सु परिधित्सु च न भवति । (६) अनुयाजाभावेन गृहमेधीवादी नोल्मुकोदहनम् ।

कातीयेष्टिदीपकः। ३५ ततः "ॐगन्धर्वस्त्वा() विश्वावसुः परिदधातु विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्याग्निरिड इंडितः” इति ( य० सं० २। ३) मन्त्रेणाहवनीयस्य पश्चादुदगग्रं स्थूलं मध्यमपरिधि निधाय “ॐइन्द्रस्य बाहुरसि (२)दक्षिणो विश्वस्यारिष्ट्य यजमानस्य परिधिरस्यग्निरिड ईडितः" इति ( य० सं० २।३) मन्त्रेण दक्षिणतः प्रागग्रमणुं द्वितीयं परिधि निधाय "मित्रावरुणौ स्वोत्तरत(३)परिधत्तांधुवेण धर्मणा विश्वस्यारिष्ट्यै यजमानस्य परिधिरस्थग्निरिड ईडितः" इति (२० सं० २।३) मन्त्रेणोत्तरतः प्राग- ग्रम् अणुतरं तृतीयं परिधि निदध्यात् । तत आहवनीयसमीकरणार्थम् इध्माद् गृहीतया स- मिधा प्रथमं परिधिं स्पृष्ट्वा(४) उत्थाय ताम् “ॐवी. तिहोत्रं त्वा कवे गुमन्ता समिधीमहि । अ- ग्ने बृहन्तमध्वरे" इति ( य० सं० २। ४) मन्त्रेणा- हवनीये आदध्यात् । तत इध्मादेव द्वितीयां समिधमादाय परिधिमस्पृष्ट्वैव "ॐसमिदास" इति ( य० सं० २ । ५) मन्त्रण तत्रैवादध्यात् । तत उपविश्याहवनीयमीक्षमाणः (१) त्वाशब्दस्य परिध्येकवाक्यतया परिधिपरत्वात् अवभृथेष्टौ अग्निस्थानापन्नानामपां बोधनाय युष्मानिति न विपरिणामः । (२) नात्र दक्षिणदिक्स्थत्वाहाक्षिणत्वम् । किंतु इन्द्रदक्षिणबाहु. स्वमौपचारिकम् । तेन पितृयज्ञे पश्चिम इत्येवं न विपरिणामः। (३) पितृयज्ञे पूर्वत इत्येवं विपरिणामः । समवेतार्थत्वात् । (४) उपस्पर्शनस्य परिघिसंस्कारत्वात् अवभृथेऽपि प्रवृत्तिः अग्नौ समिदाधानस्य तु दृष्टार्थत्वात् न तत्र प्रवृत्तिः। .

६ कातीयेष्टिदीपका। "सूर्यस्त्वा(१) पुरस्तात्पातु कस्याश्चिदभिशस्त्यै"इति ( य० सं० २१५) मन्त्रं सस्वरं जपेत् । ततः प्रादक्षिण्यन वेदि प्रत्यासागत्य स्तृतबर्हिषोऽन्ये विधृतिसंज्ञके प्रागासादिते द्वे तृणे साग्रे अरस्निमात्रे आदाय वेदिमध्ये"ॐसवितुर्याहू स्था"इति (य० सं० २ । ५) मन्त्रेण उदगग्रे निदध्यात् । ततस्तयो- स्तृणयोपरि मूलभागे प्रागग्रं प्रस्तरम् “ॐऊर्णम्नदसं वा स्तृणामि स्वासस्थं देवेभ्यः"(२) इति (य० सं०२५) मन्त्रेण स्तृणीयात् । ततः "ॐआ त्वा व्वसवो रुद्रा आदित्याःसदन्तु इति(य.सं.२।५)मन्त्रेणोमाभ्यां हस्ताभ्यांप्र. स्तरमभिनिदध्यात् (अधः पीडयेदित्यर्थः)। ततः अग्नीधा समर्पि- तां जुहूं दक्षिणेन पाणिना प्रतिगृह्य सव्यहस्ताधिष्ठिते प्रस्तरे "ॐ(३)घृताच्यास जुहूर्नान्ना सेदं प्रियेण धान्ना प्रिया सद आसीद"इति मन्त्रेण (य०सं०२।६) प्रागनां सादयित्वा ततः सव्येन वेदं गृहीत्वा अग्नीधा समर्पितामुपभृतं दक्षिणेन पाणि- (१) त्वाशब्दोऽग्निपरत्वात् अवभृथे ऽपामर्थे युष्मानित्येवं विप. रिणम्यते । पुरस्ताच्छन्दश्च दक्षिणत इत्येवं पितृयो । (२) अङ्गप्रधानार्थजुहूधारणार्थत्वात् पितृयज्ञे देवपितृभ्य इति विपरिणामः। (३) गृहमेधीये आज्यरहितजुह्वासादने घृताच्यसीति पदद्वयं न प्रयोज्यम् । घृतमच्यते निधीयते यस्यामिति व्युत्पत्त्या घृताचीशब्द- स्य समवेतार्थत्वात् । घामशब्दस्य आज्यार्थत्वात प्रियेण धाम्नत्यस्यापि गृहमेधीये अप्रयोग केचिदिच्छन्ति । तन्न कर्कसंमतम् । “धामानि, याणि भ. पन्ति स्थानामिनि जन्माति' इत्यभियुक्तोपदेशेन धामशब्द. स्य स्थानावित्रितयार्थकत्वावगमेन 'प्रियेण धाम्ना नाम्ना अभिहि- वा सती प्रियं सद आसीद' इत्यर्थस्य गृहमेधीयादौ समवायात अ. प्रयोगकारणाभावात् ।।

कातीयेष्टिदीपकः।
३७
ना आदाय जुहूत्तरतः "ॐघृताच्यस्युपभृन्नाम्ना सेदं प्रियेण
धाम्ना प्रिया सद आसीद"इति मन्त्रेण (य०सं०२।६)वर्हि-
षि सादयित्वा ततः पूर्ववद् ध्रुवामादाय उपभृत उत्तरतः वि.
धृत्यायोरुपरि "ॐ घृताच्यसि
ध्रुवा नाना सेदं
प्रियेण धान्ना प्रिया सद आसीद" इति मन्त्रेण
( य० सं० २।६) तामासादयेव ।
(जुहूमासाद्य तया असंस्पृष्टां ततः पश्चादुपभृतम्
आसादयेत् । उपभृता असंस्स्पृष्टाम् उपभृतः पश्चाटुवामासा.
दयेत् । इदं च सूत्रे अवकृष्टग्रहणात् लभ्यते इति बोध्यम्)।
जुहूं दक्षिणेन, धुवामुत्तरेण वा स्युवमासादयेत् ।
अथ दक्षिणेनाज्यस्थाली बुवं चादाय सव्ये पुरोडाशपात्री
वेदं च आदाय प्रदक्षिणमावत्य प्रत्यगागत्य गाईपत्यस्य पश्चा-
दुपविश्य गार्हपत्यस्योचरत आज्यस्थाली निधाय तस्यो.
तरतः पुरोडाशपाध्यौ उदक्संस्थे स्थापयित्वा वेदेन पुरोडा.
शाभ्यां भस्म पराकृत्य स्थाल्याः सुवेण आज्यमादाय प्रथम
पायोः उपस्वीर्य पथात्पुरोडाशयोरभिधारणं कृत्वा तयोः
पाध्योर्निधानं कर्तव्यम् । तत्र प्रथममामयं पुरोडाशं हस्तेन
अस्पृशन् काष्ठाधुपायेनादाय उत्तरपुरोडाशस्य पूर्वतो नीत्वा
उदगुद्वास्य आज्यस्थाल्याः पश्चिमतो नीत्वा दक्षिणत:
स्थापितायां पायां स्थापयेत् । अग्नीषोमीयं
पुरोडाशं (दशैं ऐन्द्राग्न) पूर्ववदादाय उदगुद्वास्य आज्यस्थाल्याः
प्रथमस्य पुरोडाशस्य च पश्चिमतो नीत्वा तदुचरतः स्थापि.
तायां पायां स्थापयेत् ।
ततः कपालानि गणयित्वा वेदं सव्यहस्ते पादाक सुवेण
आज्यस्थाल्या घृतमादाय “यस्ते प्राणः पशुषु प्रविष्टो

कातीयेष्टिदीपकः। देवानां विष्ठाम नु यो वितस्थे । आत्मन्यान् सोम घृत वान् हि भूत्वाऽग्निं गच्छ स्वर्यजमानाय विन्द" इति मन्त्रेण (का० श्रौ० २।८। १४) आग्नेयं पुरोडाशम् अक्त्वा अग्निपदस्थाने 'अग्नीषोमौ' इति संयोज्य अनेनैव मन्त्रेण अग्नीषोमीयं पुरोडाशम् (दर्श इन्द्राग्नीपदं संयोज्य ऐन्द्राग्नम्) अध्यात् । ततः सुवेण सर्वाणि कपालानि आज्येनोपधानक्रमेण 'प्रथ- ममनज्मि'इत्यादिना प्रयोगेण, "ॐयानि धर्मे कपालान्युप- चिन्वन्ति वेधसः। पूष्णस्तान्यपिव्रत इन्द्रवायू विमुश्च ताम्"इति मन्त्रेण वा ( का० औ० २।८। १६ ) अळ्यात् । मन्त्रपक्षे प्रतिकपालं मन्त्रारत्तिः। ततः स्फ्यमादाय प्रथममुद्रासयामि' इसेवम् आग्नेयस्य प्रथमः कपालम् उत्तरत उद्वास्य द्वितीयं तृतीयं चतुर्थ पञ्चमं षष्ठं सप्तमम् अष्टमम् इत्थमेव क्रमेण उद्वास्य अग्नीषोमीयपुरोडाशस्य प्रथमादी. नि अष्टमान्तानि एवमेवोद्वास्य नवमं दशमम् एकादशमित्येवं त्रीणि उद्वासयेत् । (दर्श द्वादशमधिकम् ) । उद्वासयामीति सर्वत्र शेषो बोध्यः । ततः सर्वाणि हवींषि वेदिसमीपे नीत्वा वेदोपग्रहेण आज्य- स्थाली ध्रुवाया उत्तरतः "प्रियेण धान्ना प्रिया सद आसीद" इति मन्त्रेण (य०सं०२।६)बर्हिष्यासाद्य स्फ्योपग्रहेण तस्या. उत्तरतः आग्नेयपुरोडाशम् “ॐप्रियेण" इत्यनेनैव मन्त्रेण बर्हिष्यासाद्य तदुत्तरतः अग्नीषोमीयपुरोडाशं तेनैव मन्त्रेण बर्हि- प्यासादयेत् । [ दर्शे ऐन्द्राग्नम् ] ततः वेदं गृहीत्वा "ॐधुवा असदन्नृतस्य योनौ ता. विष्णो पाहि पाहि यज्ञं पाहि यज्ञपतिम्" इति कातीयेष्टिदीपकः। ३ ९ पन्त्रेण ( य० सं० २।६) आज्यस्थाल्याज्यमालभ्य ततः अनेनैव मन्त्रेण जौहवमालभ्य तत औपभृतं धौवं च पूर्व बदालभेत । ततो वेदं ध्रुवायाः पुरस्तानिधाय स्फ्योपग्रहेण आग्नेयं पुरो डाशं पूर्वेणैव मन्त्रेण आलभ्य तेनैवाग्नीषोमीयमालभेत । ( दर्श- ऐन्द्राग्नम् ) ततोऽध्वर्युः "ॐपाहि मां यज्ञन्यम्"इति (य०सं०२।६) मन्त्रेणात्मानम् आलभ्य अप उपस्पृशेत् । अत्र वा व्रतग्रहणं यजमानस्य । अयं वनोपायनस्यान्ति- म: कालः । अथाध्वर्युः होतुरासनम् उदगग्रदर्भास्तृतं गाईपत्याह- वनीययोरन्तराले वेदेः पश्चिम भागे बेदिश्रोणेरुत्तरमागे वा स्थापयित्वा होतारम् ‘एहि' इत्यामन्त्रयेत् । ततो हौत्रं करिष्यन् आचम्य प्रणीतोत्करावन्तरेण पविश्य आहवनीयस्य पश्चिमतः प्राङ्मुखः सन् तिष्ठेत् । ततः अध्वर्युः इध्मादेकां समिधमादाय"ॐअग्नये(१)समि- ध्यमानायानुब्रूहि"इति मन्त्रण (का०श्री०३।१११) होतारं प्रेषयेत् । सच 'ब्रह्मन्सामिधेनीरनुवक्ष्यामि' इति ब्रह्माणमा- मन्त्रयेत् । ब्रह्माच "ॐप्रजापतेऽनुब्रूहि यज्ञं (का० श्रौ० २।२।११) देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्त- ऋषीणा सुकृताँ यत्र लोकस्तत्रेमं यज्ञं यजमानं च (१) अत्राग्निशब्दो जात्यपेक्षः । जातेः पदार्थत्वात् । ततश्च वरु- णप्रघासेषु अग्निद्वित्वेऽप्यनूहः ।

४० कात्तीयेष्टिदीपकः। धेहि" इत्युपशु पठित्वा "ॐअनुबहि" इत्युच्चैहोतारं प्रेषयेत् । ततो होता अङ्गुलिपर्वाग्रमांससंहितम् अञ्जलिं हृदयदेशे प्रतिष्ठाप्य दक्षिणं च पादं वेद्याः उत्तरश्रोणिसँल्लग्नं कृत्वा धावापृथिव्योरन्तरमीक्षमाणः- "ॐनमः प्रवक्त्रे नम उपवक्त्रे नमो द्रष्ट्रे न. मोऽनुख्यात्रे । क इदमनुवक्ष्यति स इदमनुवक्ष्यति क आत्विज्यं करिष्यति स आविज्यं करिष्यत्युचः प्रपेद्य यजुः प्रपद्ये साम प्रपद्ये ब्रह्म प्रपद्येऽनाती छन्दसा मातरं प्रपद्ये भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये भूर्भुवः स्वः सर्व प्रपये" इति जपेत् । होतजपान्ते यजमानः स्फवं गृहीत्वा "ॐसन्तन्वन्निव मेऽनुशहि" इति ( का० औ० ३॥ १।६) होतारं प्रेषयेत् । (इतः प्रभृति स्विष्टकृतः माग ऋचः निगदाश्च प्रथमखरेण प्रयोज्याः। स्विष्टकृत आरभ्य इडामार्जनान्तं मध्यमस्वरेण प्रयोज्याः । तदुत्तरं समाप्तिपर्यन्तम् उत्तमस्वरेणति कर्कादयः) । ततो होता उपांशु त्रिहिकृत्य महाव्याहृतिप्रणवोच्चारणपूर्व. कं"प्रबोवाजा" इयाद्याः सामिधेनीः प्रथमस्वरेण अनुब्रूयात् । सर्वासामृचां मध्ये प्रणवं प्रयुञ्जीत । इदमेव प्रणवेन ऋचां संधानमुच्यते । प्रणवश्च ऋचष्टेः स्थाने प्रयोज्यः। विश्रामश्च अर्धचे कर्तव्यो, नतु ऋसमाप्तौ । होत्रा अनुच्यमानासु सामिधेनीषु यजमानः 'इदमहं पञ्चदशेन वज्रेण भ्रातृव्यमवबाधे' इति (का श्री०३२७) पादाङ्गुष्ठाभ्यां भूमिमधः पीडयेत् । अध्वर्युःस्फ्यमादाय तिष्ठन् सामिधेनीनां मणवे प्रणवे एकैक- मिध्मकाष्ठमाहवनीयेऽभ्यादध्यात् । “समिध्यमानोऽध्वरे"इति

कातीयेष्टिदीपकः।
नवम्याः ऋचः (एकादश्याः सामिधेन्याः) अन्ते प्रयुज्यमाने प्रणवे
'समिद्धोऽग्न' इत्यतः प्राग् एकमिटमकाष्ठम् अनुयाजार्थ परि-
शिष्प अवशिष्टानि इध्मकाष्ठनि सहैव प्रक्षिपेत् ।
( अथ सामिधेन्यः कात्यायनहौत्रपरिशिष्टे अध्या. १ क०२)
हिं३ हिं३ हिं३ भूर्भुवः स्वरो३म्-
(१)प्र वो वाजा अभिद्यवोहविष्मन्तो घृताच्या-
देवान् जिगाति सुम्नयो३म्-१
प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या-
देवान् जिगाति सुम्नयो३म्-२
प्र वो वाजा आभिययो हविष्नन्तो घृताच्या-
देवान् जिगाति सुन्नयो३म्-३
(२)अग्नभायाहि वीतये गृणानो हव्यदातये ।
नि होता सत्सि बहिषों३-४
(३)तन्त्वा समिद्भिरङ्गिरो घृतेन व्यर्धयामसि ।
(१) तैत्तिरीयसंहितावितीयकाण्डे ५प्रपाठकसप्तमानुवाफादार
भ्य षष्ठाध्यायस्थ दशमानुवाकपर्यन्तं हौत्रमन्त्राः ।
प्रवोवाजा इति । हेदेवाः वःयुष्मदीयाः ऋत्विग्यजमानाःप्र-प्रव.
र्तन्ते। बाजाः गमनशीलाः मासाः, अभिधवा-अभितः पूर्वपक्षरूपेण
उत्तरपक्षरूपेण च दीप्यमानाः अर्धमासाः, घृताच्या यागसाधनभूः
तघृतप्रदया गवा सह हविष्मन्तः हविर्भाजो देवाश्च प्रवर्तन्ताम् ।
किंच अयं यः देवान् जिगाति प्राप्नोतु, यजमानस्य सुम्नयुः सुम्नं
मुखमिच्छतीति सुम्नयुः सुखच्छुश्च भवतु ।
(२) अग्नआयाहीति । हेअग्ने हव्यदातये यजमानस्य हविना.
य, वीतये-देवानां हविर्भक्षणाय गृणान:-'यजमानो देवानां हवि.
दास्यतीति भवद्भिर्भक्षणीयम्' इति वदन् आयाहि । आगत्य ।
होता आह्वाता सन् बर्हिषि यज्ञे निषत्लि निषीद ।
(३) तन्त्वा समिद्भिरिति । हे अङ्गिरः हे अग्ने तं तारशं देवानामा-
६

४२ कातीयेष्टिदीपक। . . बृहच्छोचा यविष्ठयो३७-५ (३)स नः पृथु वाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्यो३म्-६ (२)ईडेन्यो नमस्यास्तिरस्तमासि दर्शतः। समनिरिध्यते कृषों३- (३)वृषो अग्निः समिध्यतेऽश्वो न देववाहनः । त: हविष्मन्त ईडतों३-८ (४)वृषणं त्वा व्वयं पृषन् वृषणः समिधीमहि । अग्ने दीयतं बृहो३म्-९ हातारं स्वा त्वां सामद्भिः धृतेन च वर्धयामास वर्धयामः। हेय- विष्ठप युवतम बृहत-ज्वालाधिक्यं यथा भवति तथा शोचा-शोच दीप्यस्व। (१) स नः पृथ्विति । हे देव अग्ने सः त्वं नः अस्मदर्थ पृथु वि. स्तीर्ण श्रवाय्यं देवैः श्रोतुं योग्यम् इदं कर्म अच्छा-अच्छ अभिमुखी- कृत्य बृहत् सुवीर्य च यथा भवति तथा विवासास-विवासयविभातं कुरु । प्रकाशयेत्यर्थः। विवासयते प्रकाशनार्थत्वात् । छान्दसत्वेन शप आर्धधातुकत्वाणिलोपे सेहित्वाभावे च 'विवाससि' इति लोण्मध्यमस्य रूपम् । बृहच्छब्देन ज्वालाधिक्यं विवक्षितम् । सुवी. यशब्देन हूयमानस्य हविषः सम्यग्दहनसामर्थ्यमुच्यते । (२) ईडेन्य इति । ईडेन्यः ( कृत्यार्थे केन्यप्रत्ययः ) स्तोतुं योग्यः नमस्यः नमस्कारयोग्यः तमांसि तिर:-तिरस्कुर्वन् दर्शतः पदार्था. नामादर्शयिता वृषा कामा नां वर्षयिता अयमग्निः समिध्यते सम्य. ग् दीप्यते। (३) वृषो अग्निरिति। वृषः कामानां वर्षयिता अश्वो न-अश्व इव (इधार्थे 'न' शब्दः) देववाहनः देवार्थस्य हविषो वोढा अयमग्निः समिध्यते । तमिमम् अग्नि हविष्मन्तो यजमानाः ईडते स्तुवते । (४) वृषणं त्वति । हेवृषन् कामानां वर्षक अग्ने वृषणं कामानां वर्षयितारं बृहहीद्यतं प्रौढज्वालं यथा भवति तथा दीप्यमानं त्वां अषणः माइतिवृष्टिं कुर्वन्तः वयं समिधीमहि सम्यक् प्रकाशयामः । । .५ कातीयेष्टिदीपकः। ४३ - - (१)अग्निन्दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रता३७-१० (२)समिध्यमानो अध्वरेऽग्निः पावक ईडयः। शोचिषकेशस्तमीमहो३-११ (३)समिद्धोऽअग्न आहुन देवान्यक्षि स्वध्वर । स्व हि हव्यवाउसो३म्-१२ (४)आजुहोता दुवस्यताग्निं प्रयत्यध्वरे घृणीध्वा हव्यवाहनोरम्-१३ आजुहोता दुषस्यताग्नि प्रयत्यध्वरे- वृणीचा हव्यवाहनो३म्-१४ (१) अग्निं दूतामिति । अयं दृतं देवान् प्रति प्रेषणार्ह होतारम् आह्वातारं विश्ववेदसं विश्वान् सर्वान् देवान् वेचीति विश्ववेदाः सादृशम् । अस्य यज्ञस्य सम्बन्धिनं सुक्रतुं शोभनकर्माणम् इमम् अग्निं वृणीमहे प्रार्थयामहे । (२) समिध्यमान इति । योऽग्निः अध्वरे अस्मिन् कर्मणि समि- ध्यमानः पावकः शुद्धिहेतुः ईडयः स्तुत्यः शोचिकेशः शोचीषि दीप्तयः केशाः केशस्थानीयाः यस्यासौ शचिकेशः तं निम् ईम. हे प्राप्नुमः। * एकमिध्मकाष्टमनुयाजाथै परिशिष्य अवशिष्टानि सर्वाणि धमकाष्ठास्यध्वर्युरस्मिन्नेवायसरे अग्नौ प्रक्षिपेत् । (३) समिद्धो अनाति । हे आहुन आहुत्याराधिन अग्ने स्वं समिशः सन् देवान् यक्षि यजसि । हेस्वध्वर सुष्ठु निष्पादितयाग हि यस्मात् त्वं हव्यवाडसि तस्माघज । (४) आजुहोतेति । हेयजमाना: इममग्निम् आहुतिभिः आ. जुहोत-आजुहुन प्रीणयत, दुवस्यत परिचरत । प्रयति प्रयत्नेन वर्तमाने अस्मिन् अध्वरे यागे हव्यवाहनम् अग्निं पूर्णाध्वं प्रार्थय- स्वम् । इयं अक् परिधानीया। अनया सामिधेनीनां परिसमाप्यमा. नत्वात्।

४४ कातीयेष्टिदीपकः। आजुहोता दुषस्यताग्निं प्रयत्यध्वरे- वृणीध्वा हव्यवाहनोइम्-१५ इति होता सामिधेनरिनूच्य(१) "अग्ने महां असि ब्राह्मण भारत" इति संततं पठेत् । आजुहोतेत्यादिकामन्त्यां प्रयोवाजा इत्यादिकामायां च ऋचं त्रिवारमनवानन् अनुब्रूयात् । अनवानन् अनुच्छ्वसन इत्यर्थः। अशक्तौ तु प्रथमयोयोरा- वृत्त्योः ऋगन्ते ऋगन्तेऽपि विरमेत् । ततोऽध्वर्युः उत्तरत उपविश्य दक्षिणं जान्याच्य होत्रा 'अग्ने महा २॥ असि ब्राह्मण भारत' (का० हौ० ५० १।२) इत्युपक्रान्ते वेदेनाहवनीयं त्रिरुपवाज्य(२) (चालयित्वा) वेदोपग्रहः वेण आज्यं गृहीत्वा उत्तरं परिधिसंधिम् अन्ववहत्य प्रजापति मनसा ध्यायन अग्नरुत्तरप्रदेशे ऋजं दीर्घ संततं पाश्चं पूर्वम् आधार ( आधारसंज्ञकं कर्म ) कुर्यात् (३)। अध्वर्यो अग्नौ द्रव्यं प्रक्षिपति प्रक्षेपादव्यवहितमाग्वा यजमान: 'ॐ इदं प्रजापतये न मम' इति त्यागात्मकं यागं कुर्यात् । तत्र 'प्रजापतये' इत्यंशं मनसैवोच्चारयेत् । (प्रवरमन्त्रार्थः) (१) अग्ने महाँअसीति । अग्निरिति यत् एष पस्मात्सर्याहुत्याधा- रत्वेन महान् तस्मान्मन्ने महानसीत्युच्यते। यस्माद् ब्राह्मणवर्णाभि- मानी तस्माद् ब्राह्मणेति सम्बोध्यते । यस्मादेष देवेभ्यो हव्यं भरति धारयति तस्मान्दारतेति संबोध्यते । (२) वेदेन त्रिरुपवाजनमाहनीयस्यादृष्टार्थम् । वेदकरणकत्रिरुप. बाजनमात्रेण एष्टार्थाभिनिवृत्तेरभावात् । अतः अधादिष्वपि भवति । संस्कारत्वाच्च उपवाजनं यावदुक्ते प्रवर्तते एव । (३)प्रधानकर्मवादाधारकर्म यावदुक्ते न भवति । परिभाषितों ऽपि स्वाहाकारोऽत्र न भवति । "न स्वाहा" इति निषेधात् ।

कातीयेष्टिदीपकः। ४५ ततोऽध्वर्युः अग्नीधे स्फ्यम् इध्मसन्नहनं च समर्पयन् "ॐ अग्निमनीत समृड्ढि" इति ( का० श्री० ३ । १ । १२) तं प्रेषयेत् । ततोऽग्रीव स्यं सव्ये गृहीत्वा अग्निं प्रदक्षिणीकृत्य दक्षिणपरिधिसन्निधौ स्थित्वा इध्मसन्नहनैर्दक्षिणपरिधिसमी. पपार्वेऽग्निं प्रासंस्थम् "ॐ अग्ने व्वाजजिद्वाजं त्वा सरिष्यन्तं वाजजिता संमामि" इति मन्त्रेण ( य० सं० २। ७) सकृत् संमार्य द्विस्तूष्णीं तथैव संमार्जयेत् । तत्रैवाव- स्थितो मध्यमपरिधिसन्निहितपार्ने अग्निम् उदक्संस्थम् "ॐ अग्ने वाजजिदिति" पूर्वोक्तमन्त्रेण सकृत् समाज्यं द्विस्तूणी तथैव संमार्जयेत् । ततो दक्षिणपादुत्तरपाश्र्व गत्वा उत्तरप- रिधिसन्निहितपार्वेऽग्निं पूर्ववन्मन्त्रेण सकृत माक्संस्थं समाये द्विस्तूष्णीं तथैव संमार्जयेत् । ततस्तत्रैवावास्थितोऽग्निमध्ये माक्सं- स्थं तूष्णीं त्रिः संमृज्यात् । वस्तुतस्तु अग्नीत् स्पय सव्ये गृहीत्वा उत्तरपार्वादक्षि. णपाई गत्वा दक्षिणपरिधिसनिधी अग्नि पूर्वोत्तरीत्या संमृज्य दक्षिणत उत्तरपार्श्व गत्वा मध्यमपरिधिसनिधावमि तथैव संमृज्य पुनः प्रदक्षिणं परिक्रम्य उत्तरपार्वे स्थित्वा उत्तर- परिधिसन्निधावग्निं तथैव संमृज्य पुनरमादक्षिण्येन परिक्रम्य उत्तरतः स्थित्वा मध्ये तूष्णीं त्रिः संमार्ग तथैव कुर्यात् । कर्का- चार्यस्वरसस्यात्रैव सत्वादिति बोध्यम्(१)। ततोऽध्वर्युः जुहुपमृतोः पुरस्तादाहवनीयमपरेण भूमौ पुटा- (१) "तूष्णीमुपरि" इति सूत्रे (का० श्री०३।१।१४। ) "प- रिकामम्” इति णमुल्वचनानुवृत्तिसामर्थ्यात् परिक्रम्येत्यत्रापि भवति" इति कर्कोक्त्या त्रिवार परिक्रमणं बोध्यते ।

४३ कातीयेष्टिदीपकः। भलिम् “ॐ नमो देवेभ्यः" इति मन्त्रेण ( य० सं० २१७) निदधाति । ततस्तदालिकरणस्थानादक्षिणस्यां दिशि "ॐ स्वधा पितृभ्यः" इति मन्त्रेण ( य० सं० २ । ७) उत्तान. मअलि (१)सव्येनैव प्राङ्मुख एवं करोति । ततोऽप उपस्पृश्य उभाभ्यां पाणिभ्यां जुहूमादाय उपभृतोऽग्रस्य उपरिमार्गेण आनीय उपभृत उपरि निधाय "ॐ सुयमे मे भूयास्त. मस्कन्नमद्य देवेभ्य आज्य, संभ्रियासम्" इति (२)मन्त्रे. ण ( ५० सं० २ । ७-८ ) जुहूपमृतौ सहैवादाय उत्थाय "ॐ अघ्रिणा विष्णो मा त्वाऽवक्रामिषम्" इति मन्त्रेण (य० सं० २।८) वेद्युत्तरभागात् यजतिदेशं यास्यन् सव्यं पादं पूर्व चालयन् दक्षिणां गच्छेत् । गत्वा च वेदेर्दक्षिणभागे "ॐ व्वसुमतीमग्ने ते च्छायामुपस्थेषं विष्णो स्थान- मसि" इति मन्त्रेण (य० सं० २ । ८) ईशानाभिमुखोऽ- पतिष्ठेत । (सर्वत्रैव यजतिदेशं गमिष्यतः अध्वर्योः परिधीन अपरेण बुचां पूर्वेण गमनागनमार्गो ज्ञातव्यः । जुहमुपमृतोऽग्रस्य उपरिमार्गेण प्राचीमेवावतार्य दक्षिणप. रिधिसन्निधावन्ववहत्य "ॐ इत इन्द्रो वर्यिमकृणोदू (१) पित्र्यत्वादेव प्राप्तस्य अपामुपस्पर्शनस्य विधानमपस. व्यादिनिवृत्त्यर्थम् । तेन पित्र्याञ्जलिकरणं सव्यादिनैव भवति । अशालिकरणोभयमुत्तराधारार्थम्। तेन तदभावे न भवति । (२) "सुयमे मे" इति मन्त्रेण चुगादानम् उत्तराधारावान्तरप्रक- रणासवर्थमेष । एवम् "अघ्रिणा विष्णो" इति मन्त्रेण दक्षिणाs. तिक्रमणं “वसुमतीम्" इत्यनेनावस्थानं च उत्तराधारार्थमेव । त. दयावान्तरप्रकरणात् । ततश्च अन्यकर्मणि भुगादानं, दक्षिणातिक- मणम्, अवस्थानं च. अमत्रमेव भवति इति बोध्यम् ।

कातीयेष्टिदीपकः। ोऽध्वर आस्थात् । अग्ने व्वेर्होत्रं व्धेर्दूत्यमवतां त्वां द्यावापृथिवी अथ त्वं द्यावापृथिवी स्विष्टकृद्देवेभ्य इन्द्र आज्येन हविषाऽभूत्स्वाहा" इति मन्त्रेण (य. सं० २।८-९) आमेयकोणे ऋजु दीर्घ सन्ततं माक्संस्थम् उत्तराधारं तिष्ठन्नेव प्रयाजार्थद्रव्यचतुर्थाशेन जुहुयात् (१)। तदैव "ॐ इदम् इन्द्राय न मम" इति यजमानस्त्यागं कुर्यात्। ततः अध्वर्युः खुचोः परस्परं स्पर्शमकुर्वन्नेव दक्षिणं पादं पूर्व चालयन यजतिदेशात्मत्यागस जुहूस्थेनाज्येन ध्रुवा- स्थमाज्यं "ॐ सं ज्योतिषा ज्योतिः" इति मन्त्रेण ( य० सं० २ १९) जुदैव समज्ज्याव(२) । (धौवाज्यमध्ये जुबाज्य- बिन्दु पातयोदित्यर्थः) तत उपभृतं सव्ये धारयन्नेव दक्षिणेन जुहूं प्रस्तरस्योपरि नि. धाय वेदं सव्ये गृहीत्वा उपभृतं जुहा उत्तरतः स्वस्थाने निद. ध्यात् । ततः होतारं दक्षिणं कुर्वन् उत्करपश्चाद्भागे प्रामुखः स्थितोऽध्वर्युःइध्मसन्नहनान्यादाय 'ओ३श्राइवय'इति ब्रूयात् । ततोऽनीत् दक्षिणामुखः अध्वर्योरुत्तरतः स्थितः स्फ्य- सन्नहने पाणौ गृहीत्वैव 'अस्तु औषद्' इति प्रतिभूयात् । होताच सामिधेन्यनुवचनानन्तरं यजमानस्य आर्षेयाणि (३) काश्यपावत्सार नैध्रुव' इति वृता- । (१) प्रयाजद्रव्याभावे दर्विहोमेषु तु स्थाल्याज्यादेव क्रियते। भवश्यकर्तव्यत्वात् । अयमपि पदार्थत्वाद् यावदुक्के न भवति । (२) सचायं ध्रुवासंस्कार उत्तराधारे सत्येव प्रवर्तते। "शिरो वै यज्ञस्योत्तर आधार आत्मा वै ध्रुवा तदात्माऽऽत्मन्येवैतद्यक्षस्य शिरः प्रतिदधाति" इति श्रुतेः । (३) काश्यपेत्यादीनि घरणपदानि संबुचन्तानि आहवनी वसंबोधनार्थानि । आहवनीयाग्नेर्यजमानोत्पादितत्वेन यजमान- कातीयेष्टिदीपकः । (१)"ॐ देवेद्धो मन्विद्ध ऋषिष्टुतो विप्रानुमदितः कविशस्तो ब्रह्मसाशितो घृताहवनः प्रणीर्यज्ञाना रथीरध्वराणामतूतों होना तूर्णिहव्यवाडास्पात्रं जुहूर्देवानां चमसो देवपानो ऽस् इवाग्ने नेमिर्देवास्त्वं परिभूरस्यावह देवान्यजमानाय" ( का० हौ०प०१३) इति पञ्चदश निविदः सम्पादयन्, सन्ततं वाऽनुवूयात् । "पञ्चदश निविदः संपादयन्" इति सूत्रे 'अनुबयाद'इति शेषः इति कर्कोतया संततपक्षापेक्षया पञ्चदशनिवित्संपादनपक्ष- द्वारा तत्तदृष्यपत्यत्धेन संबोध्यत्वोपपत्तेः । “अग्ने महाँसि"इति पूर्वत्र "देवेद्धो मन्विद्ध"इत्युत्तरत्र च आहवनीयाग्नरेव प्रस्तुयमान- त्वेन मध्येऽपि तस्यैव संबोध्यत्वस्योचितत्वात् । सष्टं चेदं वीरमित्रो- दयस्य संस्कारप्रकाशे इति तत एवाधिकं बोद्धव्यम् । ) देवेद्ध' इत्यादीनां निवित्पदानामर्थः। यस्माद्देवाः स्वकीयेषु पागेषु एतम् अग्निमैन्धत प्रज्वलितवन्तः तस्माहेवेद्ध इत्युच्यते । देवैः इन्धनादूर्घ मनुः स्वकीययागे एतम- ग्निम् ऐन्ध प्रज्वलितवान् तस्मान्मषिद्ध इत्युच्यते । ऋषिभिः स्तुत. त्वात् ऋषिष्टुत इत्युच्यते । विप्रैः श्रुताध्ययनसंपन्नैः अनुमदितस्तोषि- तः तस्माद्विप्रानुदितः । कविभिः व्यवहितविप्रकृष्टदर्शिभिः स्तुत- त्वात् कविशस्तः। ब्रह्मणा मन्त्रेण तीक्षणीकृतत्वात् ब्रह्मसंशितः । घृ. तरूपाहुतिमत्त्वात् घृताहवनः। यज्ञानां प्रणीः नायकः । देवानां हवि. पहनाय अध्वराणां सम्बन्धी रथः अयमग्निः । यस्मादाह्वातारमेतम- ग्निं कोऽपि देवो न तरति नातिकामति तस्मादयम् अतूर्ती होता इत्युच्यते । यस्मात्सर्वमपि देवम् अर्थ हविर्वहनात्तरति प्राप्नोति त. स्मातर्णिहव्यवाट् । अयमग्निः देवानां जूहूः जुहूसदृशः जुह्वामिव मस्मिन् हविप्रक्षेपात, किंच आस्पात्रम् आयसपात्रमिव दृढम् । देवाना 'चमसः पात्रं पानसाधनपात्रं पानसांधनचमसस्था- नीयत्वात् । हेअग्ने त्वं यथा शकटचक्रास्थतान् तिर्यक् कीलरूपान् अरान् नेमिः परितो व्याप्नोति तथा देवानां परिभूः परितो व्याप्त- पानसि । यजमानाय देवानावह ।

कातीयष्टिदीपकः। ४ ९ स्य पार्थक्यमूचनात् । तेनास्मिन्पक्षे विभागो लभ्यते । ततः यथादेवतम्- "अग्निमग्नआश्वह सोममा३वह अग्निमा३वह (उपांशु) (१)अग्नीषोमावा३वह ( उच्चैः ) अग्नीषोमावा वह देवाँ२॥ आज्यपाँ२॥ आ३वह अग्निहोत्राया३. वह स्वं महिमानमा३वह आच वह जातवेदः । सुयजा च यज" ( का० हौ० ५० १।३) इत्यनुच्य अध्वर्युकर्तृकं स्ववरणम् आकासन् अवतिष्ठेत । अध्वर्युणा(२) ॐ अग्निर्देवो दैव्यो होता देवान्य- क्षविहाँश्चिकित्वान् मनुष्वद् भरतवत्" ( का० औ० ३।२।७) इत्युक्त्वा यजमानस्य प्रवरनामधेयानि 'कश्यपवत् अवस्सारवत् निधुववत्' (का० श्री० ३ (१) दशैष्टौ विष्णुमा३वह' इति देवतापदमुपांशु उत्का उच्चैः 'इन्द्राग्नी आ३वह' इत्यादि वाच्यम् । एवं यजमानः त्यागवा- क्ये 'विष्णवे' इत्युपांशु उत्क्वा 'इन्द्राग्निम्याम्' इत्याधुच्चैर्वदेत् । शतपथब्राह्मणप्रथमकाण्डपञ्चमाध्यायप्रथमघ्राह्मणम् । (२) अध्वर्युकर्तृकं होतृवरणम् । अग्निदेव इति । अग्निः तन्नामकः देवः दैव्यः देवानां होता देवान् विहान् देवस्वरूपज्ञानवान् चिकित्वान् तद्विषयकस्मृतिमान् यक्षत् पजतु । मनुष्वत् मनुना तुल्यं, भरतवत् भरतेन तुल्यम्। यथा मनुः भरतो वा पुरा अयजत तथैव यजतु इत्यर्थः । आर्षेयमुक्त्वा अध्वर्युः ब्रह्मण्वत इत्यादिमन्त्रं पठति। ब्रह्मण्वत ब्रह्म अग्निः स यथा आवहति तहत आचवक्षत आवहतु च। भरतक्तब्रह्मण्वत इति अग्निष्टा. तोपादानेन “अग्निदेवो दैव्यो होता" इत्यत्र मानुषस्यैव होतुः स्तु. तये अग्निदेवत्वारोपः । नतु प्रधानाने स्विष्टकृदग्नेर्वा तत्रोपादानम् । यष्टुः अग्नेरग्निसादृश्यासंभवात् । ततश्च सौर्यादौ अवभृथेष्टौ च भ. विकृतस्यैवास्य पाठः। कश्यपवत् इत्यादिषुच कश्यपादिः सप्तयन्य एव प्रवरभूतो बोध्यः । ब्राह्मणाः अस्य यशस्य प्राषितार रक्षितार।

५० कातीयेष्टिदीपकः। घरणं श्रुत्वा- । २ । ८) इत्येवमुच्चार्य "ब्रह्मण्वदाच वक्षद् ब्राह्मणा अस्प यज्ञस्य प्रावितारो (३)जगन्नाथशर्मा होता मानुषः" ( का० श्री ३ । १ । १३) इत्युच्यमानं स्व- होता (२) ॐ एतत् त्वा देव सवितणतेऽग्निहो. (१) नामग्रहणमुपांशु कर्तव्यम् । (२) पतरवा देवसवितरिति वृतजपः। अतः पितृयज्ञे "न होतारं वृणीत" इति निषेधावरणाभावेन न प्रवर्तते । हेसवितः सकलकर्मानु. शातः देव एतत् एतेन मम वरणेन मधाजेन त्वा त्वामेव वृणते अध्व र्यवः।होतुः कर्म होत्रं स्वस्वमन्त्रपाठादि।तत् होत्रं कर्तुम् अग्निं वृणते न तु मामित्यर्थः। विश्वे च ते नराश्च विश्वनराः तेषां सम्बन्धी वैश्वानरा। स च पालनात् पिता उच्यते । वैश्वानरेण पित्रा सह अग्निं पूर्णते इति पूर्वत्र संबन्धः । वैश्वानरात्मकं देवम् अग्निं च घृणते । होता हि अनुवाक्याः पठिष्यन् याज्याभिर्यक्ष्यश्च भवति । तदेतदनुवचनं यजनं च अस्यैव( होतुरेव )एताभ्यः अग्निपूषबृहस्प. तिदेवताभ्यः निहवाय भवति । प्रच वद प्रच यजेति प्रवचनयज- नयोः स्वकर्तृकयोरेव निहवाय अग्न्यादिदेवेषु आरोपः होत्रा क्रि. यते । वसूना रातो दाने भवेम । धनं लभेमहीत्यर्थः। रुद्राणाम् उर्ध्या- याम उरुत्वे महत्त्वे स्याम । रुद्रप्रतिष्ठां लभेमहीत्यर्थः । स्वादित्याः सुप्रीता आदित्याः स्वादित्याः। सुप्रीतत्वं च तेषाम् उपसदनेनैवावा. इशा आदित्या क्यम् अदितये देवमात्रे अनेहसः अपापिनः अनपरा. धिनो भवेम । अथवा दितेः खण्डनस्य नाशस्य अभावाय, चिरका. लजीवनाय भवेमत्यर्थः । अद्य देवेभ्यः जुष्टां जुष्टं प्रीतं यथा स्यात्तथा पाचम् उद्यासम् उच्चारयेयम् । ब्रह्मभ्यः ब्राह्मणेभ्यः जुष्टां जुष्टं, वाचम् उद्यासमिति पूर्वेण संबन्धः । नराशंसाय नराणां सर्वेषां मनुष्याणाम् आ सर्वतः शंसनाय जुष्टां प्रियां, वाचमुद्यासमिति पूर्वेण संबन्धः । होतृवर्ये होतृवरणे निमित्तभूते सति यश्चक्षुः अहं जिलम् अंशो. पराधेन कुटिलं परापतत् सनिपतेत तत् विचर्षणिः विशषण द्रष्टा जातवेदा अग्निः पुनराम्रियात् आभरतु । चक्षुर्व प्रधानं यत् होन- कातीयेष्टिदीपकः। ५१ बाय सह पित्रा वैश्वानरंणाने पूषन् बृहस्पते प्रच पद प्रच यज वसूना रातो स्याम रुद्राणामुख्या स्वादि- त्या अदितये स्यामानेहसो जुष्टामद्य देवेभ्यो वाच. मुद्यासं जुष्टां ब्रह्मभ्यो जुष्टां नराशासाय,यदद्य होत. वर्ये जिलं चक्षुः परापतत् । अग्निष्टत् पुनराभ्रियाजा. तवेदा विचर्षणिः" (का० हौ० ५० १। ४) इति उपांशु पठित्वा(१) ॐ षण्मोरिगृहसस्पान्त्व निश्च पृथिवी चापश्च वातश्चाहश्च रात्रिश्चेत्येता मा देवता आतापायन्तु" (का० हौ० ५० १ । ४ ) इत्यात्मानमालभ्य उदकमुपस्पृश्य- (२) ॐइन्द्रमन्वारभामहे होतृवर्ये पुरोहितम् । येना- यन्नुत्तम स्वदेषा अङ्गिरसो दिवम्"(काही०प०१४) इति उपांशु पठित्वा पुरः स्थितस्याध्वर्योः तत्पुरतः स्थितस्यानीधश्च दक्षिणयोरंसयोः पादेशेन संमृशेत् । ततस्तो होत्रा संमृष्टौ सन्तावुपविशतावरणानन्तरमेतावत्का. लपर्यन्तं तौ तिष्ठेतामेव । स्याङ्गं परिभ्रष्टमभूत् तदग्निः समादधातु इति तात्पर्यार्थः । इति वृतस्य होतुर्जपः । (१)षण्मोर्वीरिति । उर्वीः-उlः महत्यः अग्निः पृथ्वी आपः वातः अहः रात्रिश्च इत्येताः षड् देवताःमा माम् अंहसः दुरितात् पान्तु रक्षन्तु । वरणाभावेऽपि संस्कारार्थमात्मालम्भो भवत्येव । (२' इन्द्रमन्वारभामहति । होतृवर्षे होतृवरणे इन्द्रम्-ऐश्वर्य- घन्तमग्निं पुरः अग्रतः सर्वदेवैः कार्यक्षमत्वेन हेतुना हितं निहितं स्थापितं वयमन्वारभामहे अन्वारब्धाः । निर्वाहकमवष्टम्भं ज्ञात्वा संश्रिता इत्यर्थः । येन अग्निना आहितेन देवा आदित्याः पूर्व यज- मानाः उत्तम स्वः उत्कृष्टमादित्यम आयन प्राप्ताः, अङ्गिरसश्च दिवं स्वलोकं प्राप्ता इत्यर्थः।

कातीयेष्टिदीपकः। ततो होता इध्मसन्नहनान्यादाय से:-(१) ॐसंमागों सि सं मा प्रजया पशुभिब्रह्मवर्चसेन च मृड्ढि" ( का० हौ० ५० १।४) इति उपांशु पठितेन मन्त्रेण मुखं सकर प्रदक्षिणं संमृज्य द्विस्तथैव तूणी संमृज्य(२) ॐ अपमार्गोऽस्यप मा पाप्मना पापेन च मृढि" इत्यनेन मन्त्रेण (का० हौ० ५० १ । ४) सकृत् अप्रदक्षिणं तैरेव मुखमपमृज्य विस्तथैव तूष्णीमपमृज्य अप उपस्पृश्य (३) "ॐ ऐन्द्रीमावृतमन्वावर्त" इति (का० हौ० ५० १॥ ४ ) प्रदक्षिणमावृत्य होतृपदनात्तृणम् अङ्गुष्ठो- पकनिष्ठिकाभ्यामादाय "(४)ॐ निरस्तः परावसुः सह तेन यं द्विष्मः" इति मन्त्रेग ( का० हौ० ५० १ । ४ ) नैर्ऋत्यां दिशि निरस्य अप उपस्पृश्य "ॐइदमहमर्वावसो सदने सीदामि" इति मन्त्रेण ( का० हौ० ५० १ । ४) पूर्वास्तीर्णे होतृषदने उपविश्य (५) ॐ विश्वकर्म स्तनपा (१) संमार्गोऽसीति । हेदर्भतृणाधिष्ठातृदेव त्वं समार्गोऽसि सं शोधकोऽसि अतः मा मां प्रजया पशुभिश्च संमृड्ढि संशुद्धतया संयोजय । धर्मार्थाः प्रजाः यज्ञार्थाः पशवश्च संपद्यन्तामित्यर्थः । (२) अपमार्गोऽसीति । हेदर्भाधिष्ठातः त्वम् अपमार्गोऽसि अतः मा माम् पाप्मना पापकर्मणा पापेन तत्फलेन कष्टेन च अपमृड्ढि वियोजयेत्यर्थः। (३) ऐन्द्रीमावृतमिति । ऐन्द्री पूर्वी दिशमनुलक्ष्य आवृतमाव. तते परिक्रमणं करोतीत्यर्थः । (४) परावसुनाम असुराणां होता सः निरस्तः । इदमिति अहम् अर्वावसोः होतुः सदने आसने सीदामि उपवि. शामीत्यर्थः। (६) उपविष्टस्य होतुर्जपः विश्वकर्मन् इति । हेविश्वकर्मन कस्नविषयव्यापारस्य कर्तः त्वं तनूपाः 'तनोः पाता असि । मामोदोषिष्टमिति । हे उभावनी युवा मा माम् उत् भाषिक्येन । .

कातीयेष्टिदीपकः। ५३ असि मा मोदोषिष्टं मा माहिसिष्टमेष वां लोक" इति(का० हौ० १० १ । ४) उपांशु पठन् किंश्चिदुत्तरतश्चलेत् । अथ अग्निमीक्षमाणः (१) ॐविश्वे देवाः शास्तन मा यथेह होता तो मनवै पनिषद्य । प्र में ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि" इति (का. हौ० ०प०१।४) उपांशु पठित्वा- (२)"ॐ अग्निहींता व्वेवग्नेर्होत्रं धत्तु प्रावित्र - मोषिष्टम् दाहं मा कार्टम् माच हिंसिष्टम् । यतः एषः लोकः वां युवयोः स्थानम् अतो हेतोर्मा माहिसिएमिति प्रार्थना युक्ता । (१) अग्निमीक्षमाणस्य जपः विश्वेदेवा इति । होवश्वेदे. वाः इह यो वृतः होतृत्वेनाहं निषध उपविश्य स्तोतव्यं यत् तत् यथा-येन प्रकारेण मनवै जानीयां तथा शास्तन शिष्ट । मध्यमबहुवचनस्य तनबादेशे पित्त्वात् इत्वं न । किंच यथा येन प्रकारेण वः युष्माकं भागः कल्पितः तं भागं मे मां प्रब्रूत प्रकर्षेण कथयत । येन च पथा मार्गेण वः युष्माकं हव्यं हविर्द्रव्यम् आवहानि समन्तात् प्रापयाणि तं मार्ग व कथयत । स्तवनप्रकार हविराहरणप्रकार परिवेषणप्रकारं च कथयतेत्यर्थः। (२) अग्निहोता वेत्त्वग्नेरिति । अयमग्निः होता होमस्य कर्ता अतः अयमग्निः वेत्तु होमक्रमं जानातु । प्रकृष्टम अवित्रं फलदानरूपम् अस्मद्रक्षणं यस्मिन्होमानुष्ठाने तत्प्रावित्रं होनं होमानुष्ठानं वेतु जानातु । हेयजमान ते तव हविःस्वाकी देवता साधु फलं, ददा. त्विति शेषः । हेअध्वर्यों घृतवर्ती घृतपूर्णी मुचं जूहूम् आऽस्यस्व आक्षिप (आङ्पूर्वादस्यतेः “उपसर्गादस्यत्यूह्योति वाच्यम्" इत्यात्मनेपदम् ). स्वीकुरु । नुवं विशेषयति देवयुवम्-देवान् यौति मिश्रयतीति देवयुःतादशी, विश्ववारां-विश्वान् राक्षसकृतान् विघ्नान वारयतीति विश्ववारा तादृशीम् । ईडेन्यान स्तुतिप्रियान् देवान् मनुष्यान् वयं ईडामहै स्तुमः । नमस्थान् नमस्कारप्रियान् पितृन नमस्याम नम. स्कुर्मः। यझियान् यक्षमियान देवान यजामः । “भनिहोता वेत्तु" " ५४ कातीयेष्टिदीपकः। साधु ते यजमान देवता" इत्युच्चैः पठित्वा- अयोऽग्नि होतारमवृथाः" इति उपांशु पठित्वा- पुनरुच्चैः "ॐघृतवतीमध्वयों सुचमोऽस्यस्व देवयुवं विश्ववाराभीडामहै देवा ईडेन्यान् नमस्याम नमस्या. न्यजाम यज्ञियान्"(का०हौ०१०१।४)इति त्रुगादापनं पठेत् । 'अग्निहॊता वेत्तु' इति चुगादापनं पठति होतरि अध्वर्युः उभाभ्यां पाणिभ्यां जुहूमादाय उपभृतोऽग्रस्य उपरि निधाय 'घृतवतीम्' इति शब्दे होत्रा उक्त जुहूपभृतावादाय हवींष्युत्तरे- ण परिधीनपरेण सम्येन पादेन वेदेर्दक्षिणभागं गत्वा ईशाना- भिमुखो ऽवस्थाय 'ओ३श्राश्वय' इति अग्नीधं प्रेष्य- 'अस्तु श्री३षद्' इति तेनोक्त-- "ॐ समिधो यज" इति होतारं प्रेषयेत् । आश्रावणकाले च अध्वर्युः स्वनाभिसमीपे चोर्धारणं कुर्यात् । ततो जुहूं पा. चीमवतार्य"येश्यजामहे (१)समिधः समिधोअग्नआ. ज्यस्य व्यन्तु३वौषट् इति(का०हौ ०१०१।४)होत्रा वषट्कारे कृते सति समिद्धतमे वहेः प्रदेशे जुहूस्थाज्यतृतीयांशं प्रक्षिपेत् । यजमानश्च "ॐइद: समिभ्यो न मम" इति त्यागं कृत्वा "एको ममैका तस्य योऽस्मान् देष्टि यं च व्षयं द्विष्मः विषिमान भूयासम्" (का श्री०३।३।२-५) इति यदेव । 'द्विष्मः त्विषिमान्' इत्यत्र अनुमन्त्रणभेदान सन्धिः । ततोऽध्वर्युः पुनराश्राव्य "अस्तु श्रौषट्" इति अग्नीधा इत्यादिः "यजाम यक्षियान्" इत्यन्तः सुगादापनमन्त्रः प्रयाजार्थ- गादान प्रेरणार्थमेव होत्रा प्रयोज्यः । प्रयाजावान्तरप्रकरणादिति बोध्यम् । (१) प्रयाजमन्त्रार्थः। हेअग्नेसमिधः समिधः सर्वाः समिध्यमा. नास्तव मूर्तयः आज्यस्य व्यन्तु हूयमानमाज्यमनन्तु ।

कातीयेष्टिदीपकः। ५५ उक्ते यजेति होतारं मेष्यति । ततो होता "ॐये३ यजामहे(१)ननूनपादग्नआज्य- स्य वेतु३ वौषट्" इति ( का० हौ०प० ११४ )पठेत् । अध्वर्युः जुहूं प्राचीमवतार्य वषट्कारान्ते समिद्धतमे बड़े प्रदेशे अवशिष्टाज्यद्वितीगंशं जुहुयात् । यजमानश्च इदं तनूनपाते न मम" इति त्यागं वि. घाय "दौ मम हे तस्य योऽस्मान् देष्टि यं च व्वयं द्वि. मः अपचितिमान भूयासम्" इति वदेत् । वमिष्ठशुनकात्रिवधयश्वकण्वकश्यपसंकृतिराजन्यवैश्यप्रजाप- शुकामानां तनूनपातस्थाने नराशठ समयाजो ज्ञेयः । तत्र होता "नराशासो अग्नआज्यस्य वेतु" इति याज्यां पठेत् । "ॐ इदं नराशसाय न मम" इति यजमानस्त्यागं कुर्यात् । अन्यत्सर्वं पूर्ववत् । ततोऽध्वर्युः पुनरपि जुहूमध्युह्य आश्राव्य यजेति होतारं प्रे- षयेत् । ततो. जुहूं प्राचीमवतार्य "ॐये यजामह इडो(२) अग्नआज्यस्य व्यन्तु वौषट्" (का हौ०प०११४) इति होत्रा उक्त सर्व घृतं जुहोति । यजमानश्च "ॐ इदमिड्भ्यो न मम" इति त्यागं विधाय "त्रयो मम तिम्रस्तस्य योऽस्मान् देष्टि यं च व्वयं द्विष्मः यशस्वी भूपासम्" इत्यनुमन्त्रयेत् । (१) हे अग्ने तनूनपात द्वितीया तव मूर्तिः आज्यस्य वेतु : मानमाज्यं पिबतु। (२)हे अग्ने इडः ईड्याः स्तुत्याः तव मूर्तयः भाज्यस्य व्यन्तु हू- यमानमाज्यं पिबन्तु।

कातीयेष्टिदीपकः । ततोऽध्वर्युः जुहूमध्युह्य सव्येन जुहूं गृहीत्वा दक्षिणहस्तेन उपभृतमघोविद्यमानजुग्रमार्गेण उपरिष्टादानीय उपभृता जुहाः स्पर्शमकुर्वन् उपभृतः सकाशात् अर्धमाज्यं जुहां निन· येत् । ततः पुनरुपभृतम् अपस्तात् कृत्वा पुनरप्याश्राव्य अस्तु श्रौषडिति अग्नीधा उक्ते यजेति होतारं प्रेषयेत् । होताच"ॐये३ यजामहे(१)बर्हिरग्नाज्यस्य वेतु वौषट्" इति( का० हौ० ५० १ । ४) पठेत् । अध्वर्युश्च पूर्ववत् जुहूमवतार्य वषट्कारान्ते अधर्माज्यं जुहुयाद । यजमानश्च "ॐ इदं बर्हिषे न मम"इति त्यागं विधाय, "चत्वारो मम चतसूस्तस्य योऽस्मान् द्रष्टि यं च व्ययं द्विष्मः ब्रह्मवर्चसी भूयासम्"इति वदेत् । ततोऽध्वर्युः पुनर्जुहुपपुहा आश्राव्य 'अस्तु औषद्' इनि अग्नीधा उक्त यजेति होतारं प्रेषयेत् । होता च "ॐयेयजाहे (२)स्वाहाऽग्नि स्वाहा सो म स्वाहाऽग्नि स्वाहा(उपांशु)ऽग्नीषोमौ (उच्चैः)स्वा- हारनीषोमौ स्वाहा देवा आज्यपा जुषाणा अग्न- आज्यस्य व्यन्तु वौषट्" (का०हौ०प०११४) इति पठेत् । अध्वर्युश्च पूर्ववत जुहूं प्राचीमवतार्य अवशिष्टमाज्यं सशेषं जु- हुयात् । यजमानश्च ॐइदमग्नये मोमायाग्नये (उपांशु) अग्नी. (१) हे अग्ने बर्हिः-फलं बृहयन्ती तव मूर्तिः आज्यं पिबतु । (२) अग्निं प्रथमाज्यभागदवं प्रति स्वाहा मुंहुतमस्तु । एवमुत्तर. सर्वत्रबोध्यम् । हे अग्ने आज्यपाः सर्वे देवाः जुषाणाः प्रीयमाणा: सन्तः इदानीं त्वन्मुखेन आज्यं पिबन्तु । “अथ यदपुरोऽनुवाक्यकाः प्रयाजा भवन्ति" इति श्रुतेः प्रयाजेषु पुरोऽनुवाक्याऽभावः।

कातीयेष्टिदीपकः। ५७ षोमाभ्याम् (उच्चैः) अग्नीषोमाभ्यां देवेभ्य आज्यपे. भ्योऽग्नये स्विष्टकृते च न मम" इति त्यागं विधाय "पश्च मम न तस्य किञ्चन योस्मान् देष्टि यं च व्वयं द्विष्मः अन्नादो भूयासम्" इति वदेत् । पश्चापि प्रयाजान एकस्मिन्नेव स्थाने स्थितोऽध्वर्युः जुहु- यात् । तैत्तिरीयास्तु अभिक्रम्याभिक्रम्य जुहुयादिति वदन्ति । ततोऽध्वर्युः दक्षिणपादेन हविःसमीपं प्रत्यागत्य उपवि. श्य जुहस्थेन प्रयाजशेषेण जुदैव ध्रुवायाः, (१)आग्नेयानीषोमी. ययोः पुरोडाशयोः, उपभृतश्च क्रमेणाभिधारणं कुर्यात् । तत उपविष्ट एव 'अग्नयेऽनु३हि' इति होतारं प्रेषयेत् । होता च "ॐअग्निवृत्राणि जङ्घनद् द्रविणस्युर्विप- न्यया । समिद्धः शुक्र आहुताम्(ि२)" इति (य० सं० ३३ । ९) पुरोऽनुवाक्यां पठेत् । (१) मुख्यक्रमेण पूर्वम् आग्नेयस्य पुरोडाशस्याभिधारणं, ततः अग्नीषोमीयस्य । दर्शे तु ऐन्द्रामस्य । "ध्रुवाया हविष उपभृतश्च" इति ( का० श्री० ३।३।९) सूत्रे ध्रुवादीनामुपादानं स्थालीन्यु. दासार्थम् । तेन स्थाल्याज्यस्यानभिधारणम् । अभिघारणं च प्रया- जशेषप्रतिपत्तिः । आज्यभागार्थ जुह्वा रिक्तीकरणरूपदृष्टार्थत्वात् । हविःसंस्कारार्थत्वे अदृष्टार्थत्वप्रसङ्गात् । अदृष्टार्थत्वं च सति दृष्टार्थे न युक्तम् । एवं च प्रयाजशेषेणेति तृतीया द्वितीयाथै, हवींषीति द्वि- तीया च सप्तम्यर्थे । दृष्टार्थत्वानुरोधात्। ततश्च असन्निहितपशु- पुरोडाशाभिघारणार्थ न प्रयाजशेषः स्थापनीयः। (२) प्रथमाज्यभागपुरोऽनुवाक्यामन्त्रार्थः। अग्निव॒त्राणीति । वृ. त्राणि कर्मानुष्ठाननिवारकाणि पापानि जङ्घनत् अतिशयेन हतवान्, विपन्यया विशिष्टया अस्मत्कृतया स्तुत्या द्रविणस्युः अस्मदर्थ धने. च्छुः, समिद्धः सम्यक् ज्वालितः, शुक्रः शोचमानः, आहुतः समन्ता- दस्माभिराकारितः अयमग्निः--अस्माननुगृह्णात्विति शेषः। पौर्णमासी.

५८ कातीयेष्टिदीपकः। ततोऽध्वर्युः धुवाया: वेणाज्यं जुहां सकर तूष्णीमव- घेत् । तत आज्यस्थाल्यास्तूष्णीं खुवेणाज्यं गृहीत्वा “ॐआ- प्यायतां ध्रुवा हविषा घृतेन यज्ञं यज्ञं प्रति देवयड्भ्यः। सांया ऊधो अदित्या उपस्थउरुधारा पृथिवी यज्ञे अस्मिन्" इति मन्त्रेण(का०ौ०३।३।१२)भुवामभिधारयेत् । एवं चतुर्वारं चतुरवत्तिनः ( पञ्चवारं पञ्चावत्तिनः ) जुबां धूवायाः रुण आज्यमवदाय आज्यस्थाल्यास्तूष्णीमाज्यं गृहीत्वा "ॐआप्यायताम्" इति मन्त्रेण चतुर्वारं ध्रुवामभिधारयेत् । एवं जुह्वां चतुरवत्तं कृत्वा उत्थाय सव्येनातिक्रम्य 'ओ३ श्रावय' इति अग्नी प्रेष्य 'अस्तु औ३षट् ' इति तेन प्रत्याश्राविते 'अग्निं यज' इति होतारमध्वर्युः प्रेषयेत । होता च "ध्ये३ यजामहे(१) ऽग्निं जुषाणो अग्नि याज्यभागपुरोऽनुवाक्येयम् । दशैतु- ॐअग्निः प्रत्नेन जन्मना शुम्भानस्तन्व स्वाम् । कवित्रण वावृधोम् ॥ [ का हौ० ५० १३१२] इति प्रथमाज्यभागपुरोऽनुवाक्यां पठेत् । यज्ञकर्मणि टेः स्थान त्रिमात्रिक ॐकारः "प्रणवष्टः" इति पाणि- नीयसूत्रेण (१२८९)विधीयते । अस्या अर्थः । अयमग्निः प्रत्नेन पुरातनेन स्वजन्मना स्वां. तन्वं तनुं शुम्भानः शोधयन् कविः विपश्चित् पराभिप्रायः विप्रेण ऋत्विजा कृतां स्तुर्ति ज्ञात्वा वावृधे वृद्धि प्राप्तः । (१) प्रथमाज्यभागयाज्यार्थः । जुषाणोअग्निरिति । जुषाणः प्रयिमाणः अयमग्निः आज्यस्य तु अस्म इत्तमिदमाज्यमश्नातु । दशेऽपि इयमेव प्रथमाज्यभागयाज्या। याज्यामन्त्राणामन्त्यस्य टेः “याज्यान्तः” इति (पा० ८।२।९०) सुत्रेण प्लुनः । एवं "हिप्रेष्यश्रौषड्वौषडावहानामादः"(८।२।९१) "अमीत्प्रेषणे परस्य च" (८।२।९२) इति पा सुत्राभ्यां ब्रह्मादीनामादेः कातीयेष्टिदीपकः। राज्यस्य वेतु३ चौरषद् (का.हौ.प.१.१४) इति याज्यां पठेत् । घषट्कारान्ते ऽध्वर्युः भाग्नेयमाज्यभागमुत्तरपूर्वार्धे ( ईशा- नभागे ) जुहुयात् । यजमानश्च "ॐ इदमग्नये न मम"इति खागं कुर्यात् । ततोऽध्वर्युः दक्षिणेन पादेन हविःसमीपमागत्य उपविश्य रुचौ अनिधायैव 'सोमायानु३हि' इति होतारं प्रेष्य- (१) ॐवट सोमासि सत्पतिस्त्व: राजोत वृत्रहा। त्वं भद्रो असि तो३म्"इति(का हौ०प०१४) होत्रा पुरोऽनुवाक्यायां पठितायां- ध्रुवायाः सुवेणाज्यं जुहां तुष्णीं प्रथममवदाय आज्यस्था- ओश्रावये आदेः तस्मात्परस्य च प्लुतः। सपुरोऽनुवाक्याकयाज्यात: पूर्व"येयजामहे"इतिनिगदोत्तरं द्विती- यान्तत्वेन देवतादेशः । प्रयाजेषु तु पुरोऽनुवाक्याऽभावान्न तत्र या ज्यायाः पूर्व देवतादेशः। एवमनुयाजेष्वपि नादेश इति बोध्यम् । "येयजामहे" इति निगदश्च “यजतिषु येयजामहं करोति नानुया. जेषु"इत्यनेन अनुयाजव्यतिरिक्तेषु यजतिषु विधीयते । (१) द्वितीयाज्यभागपुरोऽनुवाक्यामन्त्रार्थः । त्वंसोमासीति । हे सोम त्वं सतां साद्भिरनुष्ठितानां कर्मणां पतिरास।किंच त्वं राजा दी. प्तिमान , वृत्रहा पापघाती, किंच भद्रः फलप्रदत्वेन मङ्गलरूपः क्रतुर. सि । क्रतोर्निष्पादकत्वात् । - ॐसोम गीर्भिष्ट्रा व्वयं वर्धयामो ब्वचोविदः । सुमृडीको न आविशो३म् ॥ [ का हौ० ५० १।१२] इति द्वितीयाज्यभागपुरोऽनुवाक्यं पठेत् । अस्या अर्थ:- सोमगीभिरिति। हेसोम वचोविदः वाक्यताप्तर्याभिज्ञाः वयं गी. भिः स्तुतिरूपाभिर्वाग्भिः त्वां वर्धयामः। त्वं तु सुमृडीकः सम्यक् सुः खयन् नः अस्मान् आविश प्रविश। द्वितीयाज्यभागयाज्यामन्त्रार्थः।

६० कातीयेष्टिदीपकः। - ल्यास्तूष्णी स्रुषेणाज्यं गृहीत्वा "ॐआप्यायताम्" इति मन्त्रेण धुवापभिधार्य एवं द्वितीयवारं तृतीयवारं चतुर्थचारं च कृत्वा जुहां चतुरवत्तं सम्पाद्य उत्थाय सव्येनातिक्रम्य "ओ३श्रा३. वय"इति' अग्नीधं प्रेष्य 'अस्तु औ३षद्' इति तेनोक्ते 'सोम यज' इति होतारं प्रेष्य- (१) ॐयेयजामहे सोमं (का०हौ०प०१।४) जुषाणः सो. मआज्यस्य हविषो वेतु३ वौ३षट्' इति होवा याज्यायां पठि. तायां दक्षिणपूर्वार्धे (आग्नेये) सौम्यमाज्यभागं जुहुयात् यजमानश्च "ॐइदा सोमाय न मम"इति त्यागं कुर्यात् । ( अथ प्रधानयागः) अथाध्वर्युः दक्षिणेन पादेन हतिःसमीपमागस उपवि. श्य 'अग्नऽयेनुहि' इति होतारं प्रेष्य- (२) ॐ अग्निमूर्धा दिवः ककुत् पतिः पृथिव्या अ. यम् । अपा रेतासि जिन्वतो३म् इति (य०सं०३।१२) होत्रा पुरोऽनुवाक्यायां पठितायां- (३)स्थालीतो जुहां वेण सकृदुपस्तीर्य आग्नेयपुरोडाशस्य (१)जुषाणः सोम आज्यस्य हविषो वेतु । जुषाणःप्रीयमाणःसोमः इदमाज्यं हविः अश्नातु। इयमेव दर्शेऽपि। (२) प्रधानाग्नेययागपुरोनुवाक्यामन्त्रार्थः। अग्निमूर्धेति । अय- मग्निः आदित्यरूपेण दिवो धुलोकस्य ककुतू उच्छ्रितो मूर्धा घुलो- कस्य शिरस्थानीयः, पृथिव्याः पतिः दाहकारित्वेन पालकोऽप्य: यम् । किञ्च अपां रेतांसि उदककार्याणि स्थावरजङ्गमात्मकानि शरीराणि जिन्वति जाठराग्निरूपेण प्रीणयति । इयं पुरोऽनुवाक्या दशपूर्णमाससाधारणी। (३) उपस्ताराभिघारौ स्थाल्याज्येनैव नतु ध्रुवाया इति “आह. धनीययजतयो ध्रुवायाः" इति सूत्रे (का० श्री०१।८।३९) कर्कभा. प्ये स्पष्टम् ।

कातीयेष्टिदीपकः। मध्यात् पूर्वार्धाचेत्येवं द्विः शृतावदानेन अबदाय पुनः स्था- लीतः स्रुषेण प्रत्युपस्तीर्य क्षतयोरभ्यङ्गं कृत्वा सव्येनातिक्र. भ्य यजतिदेशं गत्वा आश्राव्य "अस्तु औ३षट् इति अ. नीधा उक्ते 'अग्नि यज' इति होतारं प्रेष्य- (१)"ॐयत्यजामहे ऽग्निं भुवो यज्ञस्य रजसंश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे स्वर्षी जिह्वामग्ने चकृषे हव्यवाहां३-वौषट्" इति (य० सं० १५।२३) होत्रा याज्यायां पठितायां समिद्धतमे जुहुयात् । "ॐ इदमग्नये न मम" इति यजमानस्त्यागं कुर्यात् । अथाध्वर्युः दक्षिणेन पादेन हविःसमीपमागस उपविश्य "अग्नीषोमाभ्याम्" इति (दर्श विष्णवे इति)उपांशु उत्का 'अनुबू३. हि' इति प्रथमस्वरेण होतारं प्रेष्य- "ॐ (उपांशु) (२)अग्नीषोमाविम: सु मे शृणुतं वृष (१) प्रधानाग्नेययाज्यामन्त्रार्थः। भुवोयज्ञस्येति । अयमग्निः भुवः भूलोकस्य, तत्रानुष्ठेयस्य यशस्य, तस्मिन् यो प्रवर्तकस्य रजोगुणस्य च नेता प्रवर्तको निर्वाहकः । तादृश हे अग्ने त्वं यत्रा-यत्र यस्यां दिवि सूर्यरूपो भूत्वा नियुद्भिः रथे नितरां यो- ज्यमानाभिः शिवाभिः उत्तमाभिः अश्वजातिभिः सचसे समषि तस्यां दिवि मुधीनं शिरोवदुन्नतस्थिति दधिषेधारयसि।मर्धानं वि. शिनाष्ट-स्वर्षा स्वः स्वलॊके स्यति सर्वदा तिष्ठतांति स्वर्षाः ता- रशम् । हे अग्ने त्वमस्मिन् यज्ञे हव्यवाहं हविषः प्रापिका जिह्वां ज्वाला चषे करोषि । इयं याज्यापि दर्शपूर्णमाससाधारणी । (२) पौर्णमासीयोपांशुयागपुरोऽनुवाक्यामन्त्रार्थः । अग्नीषोमाविति । हे अग्नीषोमो वृषणा=वृषणौ कामानां वर्षयि- तारौ युवां मे मदीयम् इमं हवमाह्वानं सुशृणुतं सुष्ठु आकर्णयतम् । मुक्तानि अस्मदीयानि प्रतिहर्यतं मनसा प्रतिगृह्णीतम् । दाशुषे हवि.

कातीयेष्टिदीपकः। - णा हवम् । प्रतिसूक्तानि हर्यतं भवतं दाशुषे मयः [उच्चैः] ओ३म्" इति (का०है।०१० ११११) होत्रा पुरोऽनुवाक्या- यामुपांशु पठितायां- ध्रुवायाः स्रुवेण जुह्वाम् आज्यं सकृत् तूष्णीमवदाय तत आज्यस्थाल्यास्तूष्णीमाज्यं स्वेण गृहीत्वा "ॐआप्यायता. म"इति मन्त्रेण धुवामभिधार्य एवं द्वितीयवारं तृतीयवारं चतु. र्थवारं च कृत्वा जुहां चतुरवत्तं संपाद्य सव्येनातिक्र- म्य यजतिदेशं गत्वा आश्राव्य “अस्तु औरषद"ति अग्नी- धोक्त 'अग्नीषोमौ'इत्युपांशु (दर्श विष्णुमिति) उक्त्वा यजेति प्रथमस्वरेण होतारं प्रेष्य- "ॐ३ यजामहे (उपांशु) (१)अग्नीषोमौ जुषाणाव. दत्तवते यजमानाय मयः सुखं भवतंम्भावयतं संपादयतम् । ॐ-इदं विष्णुर्विचक्रमे प्रेधा निदधे पदम् । समूढमस्यपासुरे- ओम् । य० सं०५।१५] इति दार्शिकोपोशुयागस्य पुरोऽनुवाक्या। अस्या अर्थः । घेवेष्टि सर्वे व्य मोति भूतेन्द्रियमनोजीवभावेन सर्वान् प्राणिनः आ. विशतीति विष्णुः इदं जगत् विचक्रमे विक्रान्तवान् । पद्यते ज्ञायते अने- नेति पदं विधा अग्निवायुसूर्यरूपेण क्रमात भूम्यन्तरिक्षधुलोकेषु निदधे निहितवान् । भूमौ अग्निरूपेण अन्तरिक्षे वायुरूपेण दिवि सू. यरूपेणेत्यर्थः। पांसपो भूम्यादिलोकरूपा विद्यन्ते यस्य तत् पांसुरं तस्मिन् पांसुरे अस्य विष्णोः पदे समूढं सम्यगन्तर्भूतं, विश्वमिति शेषः। यद्वा अस्य विष्णोः पदम् अहैताख्यं स्वरूपं समूढम् अन्तर्हितम् अकृतात्मभिरज्ञातं, पांसुरे रजस्वले प्रेदेशे निहितमिव । यथा रजस्व. ले प्रदेशे निहितं किंचिद्वस्तु अकृतात्मभिः न ज्ञायते तथा अहैतस्व रूपमंपि । कृतात्मभिस्तु विविच्य आत्मत्वेन ज्ञायते एव । तदुक्तं ष. ठाध्याये पञ्चमकण्डिकायां "तद्विष्णोः परमं पदम्" इति । (१) पौर्णमासीयोपांशुयागयाज्यार्थः-अग्नीषोमाविति । हे अमीषोमो जुषाणौ प्रीयमाणो अग्नीषोमो आज्यस्य वीताम् कातीयेष्टिदीपकः। ६३ - ग्नीषोमावाज्यस्य वीता३म् [उच्चैः] वौषट्" इति (का० हौ० ०प०१।११) होत्रा याज्यायां पठिताया- समिद्धतमे जुहुपाद । "ॐ इदम् (उपांशु) अग्नीषोमाभ्यां (दर्श विष्णवे इति) ( उच्चैः ) न मम" इति यजमानस्त्यागं कुर्यात् । अथाध्वर्युः पुनः दक्षिणेन पादेन प्रत्यागत्य उपविश्य 'अग्नीषोमाश्या- मनुवाहि' इति (दर्श इन्द्राग्निभ्यामनुव्हीति) होतारं प्रेष्य- (१) ॐ अग्नीषोमा सवेदसा सहूती वनतं गिरः । आज्यं पिबताम् । ॐ तद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः। यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥ इति दार्शिकोपांशुयागयाज्या । (य० सं०५।२०) अस्या अर्थः । यस्य विष्णोः पुरुषु महत्सु त्रिषु विक्रमणेषु लोकेषु विश्वानि सर्वाणि भुवनानि भूतजातानि अधिक्षियन्ति उपरि निवसन्ति तद्विष्णुः वीर्येण वारकर्मणा प्रस्तवते प्रकर्षेण स्तूयते। मृगः शुद्धः अपहतपाप्मा, भीमः असुराणांभयप्रदत्वाद्भीषणः, कुचरः कायं चरतीति कुचरः छान्दसं संप्रसारणम् । गिरिष्ठाः गिरिर्मेघः तत्र वृष्ट्यर्थ तिष्ठतीतिगिरिष्ठाः । इन्द्र इति विशेष्यमध्याहार्यम् । 'न' शब्द इचार्थे । स इव विष्णुः स्तूयते । यद्वा नशब्दः पादपूरणः । मृग इत्यादिभिः पदैः विष्णुरेव विशेष्यते । अपहतपाप्मत्वादी- नामाञ्जस्येन तत्रैव सम्भवात् । कुचर इत्यस्य व्याख्यान्तरम्-कौ पृथिव्यां मत्स्यकूर्मादिरूपेण चरतीति । गिरिष्ठा इत्यस्य च गिरौ वेदवाक्ये देहे वा आत्मत्वेन तिष्ठतीति । (१) अग्नीषामीयपुरोडाशयागस्य पुरोऽनुवाक्यार्थः । अग्नीषोमेति । हे अग्नीषोमा अग्नीषोमौ गिरः अस्मदीयाः स्तुतीः वनतं भजतम्। तौ विशिष्टि सवेदसेत्यादिना। सवेदसा-संवेदसौ समानज्ञान. युक्तौ सहूनी समानाह्वानयुक्तौ । हे अग्नीषोमो युवां देवत्रा देवानां कातीयेष्टिदीपकः । सन्देवत्राबभूवथो३म्"इति(का० हौ०५०१।११) पुरोऽनुवा- क्यायां पठितायाम- स्थालीतो जुहा रुवेण सदुपस्तीर्य अग्नीषोमीयपुरोडाश- स्य मध्यात्पूर्वार्धाच्चे येवं शतावदानेन द्विरवदाय पुनः स्थाली- तः अवत्ते सकृत्मत्युपस्तीर्य अवदानक्षतयोः घृतेनाभ्यङ्गं कृत्वा सव्येनातिक्रम्य यजतिदेशं गत्वा ओश्रिाश्वयेत्यग्नीधं प्रेष्य अस्तुश्रौषडिति तेनोक्ते 'अग्नीषोमौ यज'इति (दर्श इन्द्रामी यजेति) होतारं प्रेष्य "ॐयेयजामहे ऽग्नीषोमो (१).युव मेतानि दिवि रोच. मध्ये सम्बभूवथुः सम्भूयैव स्थितौ न कदाचिदपि अन्योन्यवियुक्ता- वित्यर्थः। ॐइन्द्राग्नी अवसाऽऽगतमस्मभ्यं चर्षणी सह । मा नो दुःशंस ईशतो३म् ॥ [ का हौ० ५० १०१२] इति दार्शिकैन्द्राग्नपुरोडाशयागपुरोऽनुवाक्या । ऋ०सं०५-६- १८]अस्या अर्थः इन्द्राग्नी अवसागतमिति । चर्षणासहा-चर्षणीसही चर्षणीनां मनुष्याणां शत्रुभूतानां सही अभिभवितारौ हे इन्द्राग्नी अस्मभ्यं स्तोतृभ्यः देयेन अवसा अन्नेन सह आगतम् आगच्छतम् । दुःशंसः दुष्टाभिशंसनः पारुष्यवादी शत्रुश्च नोऽस्मान् मा ईशत मा ईशिष्ट । अस्मान् बाधितुं मा शक्नोतु । (१) अग्नीषोमीयपुरोडाशयाज्यार्थः । युवमेतानीति । हेसोम त्वम् अग्निश्चेत्येतौ युवं युवां सक्रतू समानसंकल्पी सन्तौ दिवि धुलोके एतानि रोचनानि नक्षत्राणि अधत्तम् अस्था- पयतम् । हेअग्नीषोमौ युवं युवां गृभीतान् गृहीतान् सिन्धून् रथ्योदकादिनिमित्तेन अपूतत्वापदादेन पङ्कादिरूपेण अवद्येन दो. षेण च गृहीताः सर्वा नदीः अभिशस्तेः पूर्वोक्तादपवादात् अवद्यात् पूर्वोक्ताहोषाच्च अमुञ्चतं मोचितवन्तौ । “गृभीतान्" इति आ. श्वलायनानां पाठः । “गृभीताम्" इति कात्यायनहौत्रपरिशिष्टपाठे तु अस्मानिति अध्याहार्यम् । तथाच 'अस्मान् गृभीतां-गृह्णीतामि.

कातीयेष्टिदीपकः। । - नान्यग्निश्च सोम सक्रतू अधत्तम् । युवा सिन्यूँ रक्षिशस्ते. रवद्यादग्नीषोमावमुञ्चतं गृभीतां३ वौपट्" इति (का० हौ० ५०१०११) होत्रा याज्यायां पठितायां समिद्धतमे जुहुयात् । "ॐ इदमग्नीषोमाभ्यां न मम" (दर्शे ॐइदामिन्द्राभ्यां न ममति) इति यजमानस्त्यागं कुर्यात् । अथाध्वर्युः पुनः दक्षिणेन पादेन हविस्थानमागत्य उप- विश्य 'अग्नये स्विष्टकृतेऽनु३हि' इति होतारं प्रेष्य- (१)"ॐ प्रेडो अग्ने दीदिहि पुरो नो ऽजस्रया वा ति अनुगृहीतामित्यर्थः । यद्यप्येतत्सर्वम् ईश्वरकृतं तथापि तद्रूप- त्वेन एतौ स्तूयेते। गोभिर्विप्रः प्रमतिमिच्छमान ईहे रयिं यशसं पूर्वभाजम् । इन्द्राग्नी वृत्रहणा सुवजा प्रनो नव्यभिस्तिरतं देणैः ॥ इति अमावास्यायाम् ऐन्द्राग्नयागयाज्या । ऋ० सं०५-६-१५ । अस्या अर्थः गाभिरिति । हे इन्दाग्नी प्रमति युवयोरनुग्रहबुद्धिम् इच्छमानः इच्छन् विप्रो मेधावी (वसिष्ठः) यशसं यशसा युक्तं पूर्व भाजं पूर्वमेव सम्भजनीयं रयिं धनमुद्दिश्य गीर्भिः स्तुतिभिः ईट्टे युधां स्तौतिः । हे वृत्रहणा-वृत्रहणौ सुवज्रा-सुवज्रौ शोभनायुधौ नध्यभिः नव्यैः प्रशस्तैः देष्णैः दातव्यैः धनैः नोऽस्मान् प्रतिरतं प्रवर्धयतम्। (१) पौर्णमासे स्विष्टकृत्पुरोऽनुवाक्या ! य० सं०१७ अ.७६ मं.। अस्या अर्थः प्रेद्धो अग्ने इति । प्रकर्षेणेद्धः दीप्तः सन् हे अग्ने नोऽस्माकं पुरोऽग्रतो व्यवस्थितः एतया अजस्रयाऽनुपक्षीणया सूा समित्काष्ठिकया भूयोऽपि दीदिहि दीप्यस्व, हे यविष्ठ युवतम यतः त्वामेव शश्वन्तः शाश्वतिकाः वाजा अन्नानि उपयन्ति उपगच्छन्ति अतः त्वमेव दीदिहि इति पूर्वेण सम्बन्धः । ॐपिप्रीहि देवा२॥ उशतो यविष्ठ विद्वा२॥ ऋतू२॥ ऋतुपते यजेह । ये दैव्या ऋत्विजस्तेभिरग्ने त्व होतॄणामस्यायजिष्ठो३म् ॥ इति ( का० हौ० ५० ११ १२) दार्शिकस्विष्टकापुराऽनुषाक्या।

६६ कातीयेष्टिदीपकः। - ३ प्रविष्ठ । स्वा शश्वन्त उपयन्ति पाजो३म्" इति (य. सं० १७ । ७६ ) होत्रा पुरोऽनुवाक्यायां पठितायां- स्थालीत: जुहां त्रुवेण सकृदुपस्तीय आग्नेयस्य अग्नी- षोमीयस्य ( दशैं ऐन्द्रामस्य ) च पुरोडाशस्य उत्तरार्धात् इत्येवं शृतावदानेन द्विरवदाय स्थालीतः सुवेण द्विरभिघार्य अवदानक्ष- तयोरभ्यङ्गमकत्वा उत्थाय सव्येन अतिक्रम्य यजतिदेशं गत्या ईशानाभिमुखोऽवस्थाय'ओ३श्राश्वय' इति अमीचं प्रेष्य'अस्तु श्री ३षट् इति तेनोक्त 'अग्निस्विष्टकृतं यज"इति होतारं प्रेष्य- (१)येश्यजामहे ऽग्नि स्विष्टकृतमयाडग्निरने प्रि- अस्या अर्थः पिप्रीहि देवानिति । हेयविष्ठ अग्ने उशतः काम- यमानान् देवान् पिप्रीहि अतिशयेन प्रीणय। हेऋतुपते सूर्यात्मना कालपरिपालक अग्ने त्वम् ऋतून यागकालविशेषान् विहान् जानन तसे तस्मात् हह उचिते काले यज । देवेषु भवा दैव्या ये ऋत्विजः सन्ति "अग्निहोता, अश्विनाऽध्वयूं, स्वष्टाऽग्नीत्" इत्यादि. नाSSनाता तेभिः तैः दैव्यैः सह त्वम् अस्य यजमानस्य सम्ब. न्धिनां होतृणाम् ऋत्विजां मध्ये आयजिष्ठः सर्वतो यष्तृतमोऽसि । (१)स्विष्टकृन्निगदः । अयाडग्निरिति । प्रथमाज्यभागदेवस्याः यानि प्रिया प्रियाणि धामानि स्थानानि तेषु सर्वेषु दैव्यहोतृरूपो- ऽग्निः अयाट्-अयाक्षीत इष्टवान् । एवम् अयाट् सोमस्येत्यादिषु योज्यम् । होतुरग्नेः होमस्य स्विष्टकृत्त्वसंपादकस्याग्नेः यानि प्रियाणि स्थानानि सन्ति तेषु दैव्यो होता स्विकृदग्निः यक्षत् रजतु । स्विष्टकदामि आत्मनः प्रियाणि धामानि यजतु-स्वस्थानेषु स्वं भा. गमपि प्रापयत्वित्यर्थः । यद्वा स्वानेव मूर्तिविशेषान् तैजसान् यज- स्वित्यर्थः । उत्तरकालं यष्टव्यत्वात् यक्षत् इति विध्यर्थत्वेन स्विष्टः कृतो निर्देशः । उक्तानां सर्वेषां देवानां स्वकीयो महिमा योऽस्ति तमुद्दिश्य दैव्यो होता यक्षत् यजतु । आयजताम् आभिमु. ख्येन यागं कुर्वतां यजमानानाम् एज्याः आभिमुख्येन यष्टव्याः इषः अमीष्टा या देवताः सन्ति ताः सर्वाः अध्यरा=अध्वरे अस्मिन् यज्ञे कातीयेष्टिदीपकः। ६७ या धामान्ययाट् सोमस्य प्रिया धामान्ययाडने। प्रिया धामान्ययाद् ( उपांशु ) अग्नीषोमयोः (दर्श वि. ष्णोः) ( उच्चैः) प्रिया धामान्ययाडग्नीषोमयोः (दर्श इन्द्राग्न्योः) प्रिया धामान्ययाड् देवानामाज्यपानां प्रिया धामानि । यक्षदग्ने:तुः प्रिया धामानि यक्षत् स्वं महिमानमायजतामेज्या इषः कृणोतु सो अध्वरा जातवेदा जुषता हविरिमो(१) अग्ने धीततमानि हव्या ऽजस्रो वक्षि देवतातिमच्छ% स जातवेदाः स्विष्टकृत् अग्निः कृणोतु स्विष्टाः करोतु । तदर्थम् अयं स्विष्टकृदग्निः इह हविर्जुषताम् । (१) पौर्णसासीयस्विष्टवद्याज्या ऋ. सं. ५-१-[२६] । इमो अग्ने वीततमानीति । हे अग्ने स्वम् अजस्त्रः अनवरतः सन् इमो-इमानि पीततमानि अतिशयेन कान्तानि हव्या हव्यानि देव- तातिं देवानां समूह वक्षि वह अच्छ गच्छच । नः अस्मदी. यानि सुरभीणि शोभनानि ईम् एतानि हव्यानि देवाः प्रतिव्यन्तु प्रत्येक कामयन्ताम् । * “सर्वत्र गायत्रीभिरनवानं वषट् करोति विराभिश्च संया. ज्यासु" इति कात्यायनसूत्रात् ( का० हौ०५० २।३) अच्छेत्यर्धचे विरामाभावः। अग्ने यदद्य विशो अध्वरस्य होतः पावक शोचे वेष्ट्वा हि यज्वा । ऋता यजासिं महिना वियद हव्या यह यविष्ठ या ते अद्य ॥ इति दार्शिकस्विष्टकद्याज्या(ऋ०सं०४।५१९)। अस्या अर्थः। हेहोतः होमकर्तः पावक शोधक शोचे दीप्यमान स्विष्टकृदने विशः प्रविष्टः स्य अनुष्ठितस्य अध्वरस्य सम्बन्धि यद्धविरस्ति तद् अघवे वीहि अशान भक्षय। हि यस्मात् त्वं यज्वा यागस्य कर्ता तस्मात् ऋता- ते अस्मदीये यो महिना महिम्ना देवान् यजासि प्रीणयसि । यद् यस्मात् कारणात् विभूः विशिष्टो भवास तस्मात् कारणात् हेयवि- ष्ठ युवतम अद्य ते तष या हव्या यानि हव्यानि अस्माभिर्दीयन्ते तानि सर्वाणि वह स्वीकुरु (कार हो०५०१।१२)।

६८ कातीयष्टिदीपकः। प्रति न ई सुरभीणि व्यन्तु३ वौषिद"-इति ( का० हौ० ५० १।४) होत्रा निगदसहितायां याज्यायां पठितायाम्- अन्याभिराहुतिभिरसंमृष्टां स्विष्टकदाहुतिं जुहुयात् । "ॐइदमग्नये स्विष्टकृते न मम" इति यजमानस्त्यागं कुर्यात् । (अवदानानेकत्वेऽपि संप्रतिपन्नदेवतैकत्वात्सकृत्प्रक्षेपः । प्रतिपत्त्यर्थकर्मत्वात् यावदुक्तेऽपि स्विष्टकृतः प्रत्तिः )। (ततः सर्वेषां प्रणीतोदकस्पर्शनम् । स्विष्टकृतो रुद्रि- यत्वात् इति देवः ।) अथाध्वर्युः स्फ्योपग्रहेण जुहूं प्रस्तरे निधाय वेदोपग्रहेण उपभृतं ततः पश्चानिधाय स्फ्यं गृहीत्वा प्रणीताद्भिः अनुयाजा- थ संचरं (होमार्थगमनागमनमार्गम् ) अभ्युक्ष्य प्राशिवहरणपात्रे पाशित्रमवयेत् । तद्यथा प्राशिवहरणपात्रं सव्यहस्ते गृहीत्वा आज्यस्थाल्या आज्येन उपस्तीर्य आग्नेयपुरोडाशस्य मस्तकात् यवमानं द्विरवदाय तथा अग्नीषोमीय पुरोडाशात् (ऐन्द्राग्नपु. रोडाशात् ) यवमानं द्विरवदाय आज्यस्थाल्पाः सुवेण उप- रिष्टादभिधारयेत् । ततः प्राशिवं द्वितीयेन पात्रेण अपिधाय पोक्षितेन होमसंचरेणैव तत्पाशिवं ब्रह्मणे प्रदाय अप उपस्पृ. शेन । माशित्रस्य रुद्रियत्वात् । ब्रह्मा चाध्वर्युणा समर्प्यमाणं पाशित्रं "ॐमित्रस्य त्वा चक्षुषा प्रतीक्षे” इति ( का० औ० २।२।१३ ) मन्त्रेण अवलोक्य-- "ॐ देवस्य त्वा सवितुःप्रसवेऽश्विनोबाहुभ्यां पू. ष्णो हस्ताभ्याम् प्रतिगृह्णामि" इति(य०सं०२।११)मन्त्रेण अञ्जलिना प्रतिगृह्य "ॐदेवस्य त्वा० भ्याम्" (आददे) इति मन्त्रेण अनामिकाङ्गुष्ठाभ्यां पात्रात् प्राशिवभागमादाय

कातीयेष्टिदीपकः।
प्रक्षाल्प
“ॐ अग्नेष्ट्वाऽऽस्येन प्राश्नामि" इति ( य० सं०२। ११)
मन्त्रेण दन्तैरनुपस्पृशन् प्राशिवं प्राश्नीयात् ।
अत्र प्राशनाभावपक्षे वेदेर्दक्षिणांसे स्तृतानि बहीषि
अपोछ “ॐपृथिव्यास्त्वा नाभौ सादयाम्यदित्या
उपस्थेऽग्ने हव्य: रक्ष" इति मन्त्रेण अनास्तृतभूमौ प्राग्दण्डं
तत्पात्रं सादयित्वा अन्यभागप्राशनावसरे उक्तप्रकारेण
तद्भक्षयेत् । आचम्य प्राशिवहरणपात्रे अद्भिः उत्करे
या अप्स्वन्तर्देवतास्ता इद: शमयन्तु
स्वाहाकृतं जठरमिन्द्रस्य गच्छ। घसिना मे मा संपृक्था
ऊर्ध्व मे नालेः सीदेन्द्रस्य त्वा जठरे सादयामि"
इति ( का० श्री० २।२।१८) मन्त्रेण नाभिमालभ्य अप
उपस्पृशेत् ।
ततोऽध्वर्युः इडापाव्यां
इडापाव्यां स्थाल्याज्येनोपस्तीर्य पुरो-
डाशयोः दक्षिणतो मध्याच अवदाय स्थाल्याज्येन द्विरभिघार्य
एवमिडां पञ्चावत्ता सम्पाद्य ततः षडवत्तपात्रे उभयोः पुरोडा.
शयोः यतः कुतश्चित्मदेशात् आग्नीध्रभागमवदाय ततः कस्मि.
श्चित् यज्ञियकाष्ठपात्रे उभयोः पुरोडाशयो। यतः कुतश्चित् प्रदे-
शात् ब्रह्मभागमत्रदाय ध्रुवायाः चञ्चुभागे निदध्यात् ।
ततः कस्मिंश्चित् यज्ञियकाष्ठपात्रे धातुपात्रे वा पुरोडाशयोः
पूर्वार्धात यजमानभागं दीर्घ प्रशीर्य ( त्रोटयित्वा) ध्रुवायाः
पुरस्तात् ( बर्हिषासुपरि ) निदध्यात् ।
अङ्गुष्ठपर्वमात्रं प्रधानावदान, ततो महत् स्विष्टकदवदानं,
ततो महत् इडावदानं,
ततो महत् चातुर्धाकरणिकानाम् ।
'दैवतसौविष्टकृतैडचातुर्धाकरणिकानामुत्तरोत्तरं ज्यायः' इति
वचनात् ।

कातीयेष्टिदीपकः। . - सतः प्रत्यङ्मुखो भूत्वा इडा होभदाय इडां ह- स्तेनाविमुश्चन् होतारं प्रदक्षिणीकृत्य होतुरग्रे प्रत्यङ्मुख उप- विश्य होत्रा समर्पितामिडां प्रतिगृह्य इडात एव हवेणाज्य- मादाय होतुस्तजन्या उत्तमे मध्यमे च पर्वणि स्रुवण अ. ज्यात् । होता च अधरपर्वस्थितेनाज्येन अधरोष्ठे-- (१)"ॐ मनसस्पतिना ते हुतस्याइनामीषे प्राणाय" इति ( का० हौ० ५० १।५) मन्त्रेण निलिप्य उत्तमपर्व- स्थितेनाज्येन उत्तरोष्ठे- (२) पाचस्पतिना ते छुतस्याश्नाम्यूर्जउदा. नाय" इति ( का० हौ० ५० १ । ५) मन्त्रेण निलिम्पेत् । तत उदकोपस्पर्श कुर्यात् । ततो होतुईस्ते इडास्थपुरोडाशाचदानादेव अध्वर्युणा च- तुरवदाने कृते पञ्चममवदान होता स्वयमेव गृहीयात् । ततोऽध्वर्युः इडा होने समर्पयेत् । उपहूयमानायामिडायां होतारं सर्वेऽन्वारभेरन् । होताच अध्वर्युणा समर्पितामिडा प्रतिगृह्य अप्रसारिताभिर- मुष्टिकृताभिरङ्गुलिभिः मुखमात्र प्रदेशे धारयित्वा- (३)( उपांशु ) उपहूता रथन्तरः सह पृथि- (१) मनसस्पतिश्चन्द्रः । तेन हुतस्य हविष्टेन प्रक्षिप्तस्य ते तव अंशम् इषे अन्नलाभाय, प्राणाय स्वदेहे चिरं प्राणावस्थानाय च प्राश्नामि भक्षयामि । भाज्येति संबोध्यमध्याहार्यम् । (२) वाचस्पतिना वाचोऽधिदेवतया अग्निता हुतस्य ते अंशम ऊर्जे अन्नरसाय उदानाय अधोवायोः सम्यग् निर्गमनायच भक्षया- मि। शेषं प्राग्वत्। (३)डोपहानमन्त्रार्थः । उपहूतं रथन्तरमिति ।

७१ कातीयेष्टिदीपकः। व्योप मा रथन्तर सह पृथिव्या हयतामुपहूतं वामदेव्य: सहान्तरिक्षणोप मां वामदेव्या सहा- न्तरिक्षेण यतामुपहतं बृहत सह दिवोप मां बृहत् सह दिवा हयतामुपहूता गावः सहर्षमा उप मां गावः सहर्षभा हयन्तामुपह्नता स. प्सहोत्रा सौम्येनाध्वरेणोप मा सप्तहोत्रा सौम्ये. नाध्वरेण हयतामुपहूतेडा ततुरिरुप मामिडा ततुरि- हूंयनामुपहूतः सखा भक्ष रुप मा सखा भक्षो हृयतामुपहूत हेगुप मा हेर हयतामुपह्नतोऽग्निरुप- हूतः (का० हौ० ५० १ । ५) इति पठित्वा- रथंतरं साम तत पृथिव्या सह मया उपहूतं समीपे यथा तिष्ठति तथा आह्वानं कृतमित्यर्थः । एतन्मन्त्रगतर- थन्तरशब्देन भूमिरुपलक्ष्यते । यथा षट्सु पृष्ठस्तोत्रेषु रथन्त- रं साम आद्यं तथा त्रिषु लोकेषु भूमिराद्या । मन्त्रगतेन पृथ्वीशब्देन तत्कार्यमन्नाद्यम् उपलक्ष्यते। तथा सति अन्नाद्येन सह भूमिरु- पहूता इत्येवं मन्त्रवाक्यस्यार्थः । एवम् उत्तरेऽपि मन्त्रा अनूद्य व्या. ख्येयाः । सामविशेषवाचिना वामदेव्यशब्देन ततसामसाध्या: पशव उपलक्ष्यन्ते । बृहच्छब्देन तत्सामसाध्यत्वात् वृष्टिलक्ष्यते । सकार्याः पृथिव्यादिलोका उपहूता इत्यर्थः। होता१ प्रशास्तार बाह्मणाच्छंसी३ पोता नेष्टा आग्नीध्रः अच्छावाक ७ इत्येते सप्त होतारः। एते सप्त होतारो य. स्मिन्नध्वरे तेन सप्तहोत्रा सौम्येनाध्वरेण सह उपहूता, इडेति शेषः । एवमुत्तरवाक्येऽपि इडापदमध्याहृत्य सप्तहोत्रा सौम्येनाध्वरेण सह इडा मामुपह्वयतामिति व्याख्येयम् । "तदेना सप्तहोत्रा सौम्य नाध्वरेणोपह्वयते" (शब्रा० १।८।१।२०) इति वाक्येन ईशार्थ- स्यैवावगमात् । सर्वत्र मामिति ऋत्विग्यजमानसाधारणम् । भक्षशब्देन सूत्रात्मा प्राणो गृह्यते । स च क्षेत्रमस्थ सखा। हेगशब्दः शरीरवाची। उपहूतं हेग् इति शरीरमेष उपह्वयते । तत्

७२
कातीयेष्टिदीपकः।
(उच्चैः) *इडोपहतोपडतेडोपो अस्माँ इडा यता
मिडोपहूता ( का० हौ० ५० १ । ६) इति पठेत् ।
होत्रा "इडोपहूता" इत्युच्यमाने यजमानः (१)आग्नेयं पुरो-
डाशं चतुर्धा कृत्वा "ॐ ब्रन पिन्वस्वायुमै धुक्ष्व प्रजा
मे धुक्ष्व पशुन् मे धुक्ष्व ब्रह्म मे धुक्ष्व क्षत्रं मे धुत्व
विंशो मे धुक्ष्व योऽस्मान् वेष्टि यं च व्वयं द्विष्मस्तस्य
प्रजया पशुभिराप्यायस्व' " इति (का० औ० ३।
४।१०) मन्त्रेण बर्हिषि निधाय आग्नेय्यादिविदिक्षु चतुरो
भागानिधाय प्रदक्षिणम् आग्नेयस्थानादारभ्य 'इदं ब्रह्मणः'
'इदा होतुः' 'इदमध्वर्यो।' 'इदमग्नीधः' इत्येवम्
ऋत्विक्सम्बधित्वेन प्रकाशयेत् । ततो भागानालभ्य "ॐ
अत्र पितरो मादयध्वं यथाभागमावृषायध्वम्" इति
(य० सं० २ । ३१) मन्त्रं सस्वरं जपेत् । ततो भागा-
न विसृज्य "ॐ. अमीमदन्त पितरो यथाभागमा.
पायिषत" इति (य० सं० २ । ३१ ) मन्त्रं सस्वरं जपेत् ।
सर्वामवेडामुपह्वयते । शरीरस्य सर्वात्मकत्वात् ।
*"इडोपहूनोपहूतेडा"इत्यादौ इडाशब्देन पशवो गृह्यन्ते । तेषां
चतुष्पात्वात् चतुरुपह्वयते । इडायाः प्रथमं मनुना दृश्यमान.
स्वात् इडा मानवीत्युच्यते। इडायाः पदात् घृतमपीड्यत तस्मात्
घृतपदीत्युच्यते । पुरा मित्रावरुणौ इडां समैरयताम् तस्मात मैत्रा-
वरुणीत्युच्यते । देवेन ईश्वरेण पुरा सृष्टा ब्रह्मा प्रजापतिरूपा
इडा उपहूता।
(१) "आग्नेयं चतुर्धा करोति" इतिशाखान्तरैकवाक्यतया
आग्रेयस्यैव चतुर्धाकरणं न अग्नीषोमीयस्य । प्राशिवायदानम् आ.
ग्नीध्र-ब्रह्म-यजमानभागाचदानं च उभाभ्यां पुरोडाशाभ्यामविशे.
पादिति "उभौ वा ऽविशेषात्" इति सूत्रे (का. श्री० ३।४।१२)
कर्कभाध्ये स्पष्टम् ।
।

कातीयेष्टिदीपकः। - ( अत्रापसव्यं दक्षिणाभिमुखत्वंचेति देवमतम् ) । ततः (अप उपस्पृश्य) 'इदं ब्रह्मणे' इत्युक्त्वा ब्रह्मणे समर्प, 'इदर्द होने इति हो। समप्ये, 'इदमध्वर्यव' इति अध्वर्यवे समय, 'इदमग्नीधे' इति अग्रीधे समर्य, 'उपहूते द्यावापृथिवी' इति होत्रा पठ्यमाने अग्नीधे षडवत्तं समर्प्य 'उपहूतोऽयं यजमानः' इति होत्रा पठ्यमाने- "ॐ मयादमिन्द्र इन्द्रियं दधात्वस्मान् रायो म. घवानः सचन्ताम् । अस्मार्ट सन्त्वाशिषः सत्या नः सन्त्वाशिषः" इति ( य० सं० २। १०) मन्त्रं सस्वरं पठेत् । होता च उच्चैः *"मानवी घृतपद्युत मैत्रावरुणी ब्र- मा देवकृतोपहूतोपहूता दैव्या अध्वर्यव उपहूता मनु- *दैव्याः "अश्विनौ हि देवानाम् अव! आस्ताम्" इत्यादिश्रुतिषु श्रुताः ये अध्वर्यवः, ये च दृश्यमाना मानुषाः तेषाम् उपहानं दैव्या अध्वर्यव इत्यादिना प्रदर्शितम् । पूर्वोक्ता दैव्या मानुषाश्च ये अध्व- र्यवः ते सर्वेऽपि इमं यज्ञम् अवान् अवन्तु, यशपति च वर्धान् वर्धयन्तु इति आशिषः प्रार्थना । धावापृथिवी-द्यावापृथिव्यौ देवाद्युत्पत्तेः पूर्वमेव उत्पन्ने अतः पूर्वजे इत्युच्यते। ऋतशब्दवा- च्यो यज्ञोऽनयोर्वर्तते इति ऋतावरी ऋतावणे। नैते केवलम् ऋ. विगादिरूपे किन्तु देवी-देव्यौ । देवाः पुत्रा ययोस्ते देवपुत्रे । जीवनं विना उत्तरदेवयज्याया असंभवात् तत्रोपह्वानेन यजमानस्य जीवन प्रार्थ्यते । यस्य प्रजा भवति तस्य दशधा प्रजया हविष्क्रियते, एवं य. स्य पशवो भवति स भूयोभूयो हविस्करोति अतः प्रजा पशवश्व हविष्करणम् । तत्रोपलानेन प्रजापशुसमृद्धिः प्रार्थ्यते । देवाः दी. व्यन्ते इति ऋत्विगादिप्राणाः इदमिडालक्षणं मे मम यजमानस्य हवि. र्जुषन्तां सेवन्तामित्येवं यस्मिन् महाक्रतो तत्रोपतानेन महाक्रतुस- मृद्धिः प्रार्थ्यते । १० ७४ कातीयेष्टिदीपकः। ष्याः। य इमं यज्ञमवान् ये च यज्ञपति वर्धानुपहूते द्यावापृथिवी पूर्वजे ऽऋतावरी देवी देवपुत्रे । उपहतो. ऽयं यजमान उत्तरस्यां देवयज्यायामुपहूतो भूयसि हविष्करणउपहूतो देवा मइ हविर्जुषन्तामिति तस्मिन्नुपहूतः" इति पठेत् ( का० हौ० ५० १ । ६)। ततः सर्वे प्रणीतोत्करावन्तरेण(१) निष्क्रम्य कचित् पवित्रस्थले उपविश्य यजमानसमर्पितं स्वस्वम् इडाभागादिकं (२)समर्पणक्रमेण भक्षयेयुः। तत्र प्रथममग्रीचतुर्षाकरणभागं माश्य उपता पृथिवी मातोप मां पृथिवी माता हृयतामग्निराग्नीध्रात् स्वाहा" इति (य० सं० २ । १०) मन्त्रेण प्रथमावत्तं षडवत्तभागं प्राश्य आचम्य द्वितीयावत्तं षडवत्तभागम् “ॐ उपहूतो द्यौष्पितोप मां धौष्पिता "हयतामग्निराग्नीध्रात् स्वाहा" इति मन्त्रेण ( य० सं०. २।११) प्राश्य इडामागं भक्षयेत् । तत आचामेत् । (३)ब्रह्मादयोऽपि सर्वे प्रथमं चतुर्धाकरणभागं प्राश्य इडा- भागं प्राश्नीयुः। (४)यजमानश्च इडायामवत्तस्य पञ्चमं भागं मा- आचम्य (१) "प्रणांतोत्कराविष्टिषु" इति सूत्रेण (का श्रौ० १।४। ४२) प्रणीतोत्करावन्तरेण इष्टिषु ऋत्विजां गमनागमनमार्गबोधनात् त. मार्गेण निष्क्रमणम् । (२) तत्र पूर्व चतुर्धाकरणभागस्य समर्पणात् तद्भक्षणं पूर्वम् , अनन्तरं षडवत्तभागस्य द्यावापृथिव्योरुपह्वाने समर्पणात् तद्भागं तदनन्तरं, तत इडाभागमग्नीद्भक्षयेत् । (३) षडवत्तभागसहचरितो ध्रुवापुष्करभागोपरिस्थापितो ब्रह्म- भागस्तु अद्यापि न समर्पित इति न तस्यात्र भक्षणम्.! किंतु चतु. र्धाकरणभागेडाभागयोरेव ब्रह्मणाऽत्र भक्षणम् । (४) षडवत्तभागसहचारितयजमानभागस्य च भक्षणं "संयक्षपः कातीयेष्टिदीपकः। श्नीयात्। ततः सर्वे यजमानसहिता ऋत्विजः आचम्य यथागत प्रत्यागत्य वेदेः पश्चादुपविश्य "ॐ सुमित्रियान आप ओ. धयः सन्तु" इति मन्त्रेण (य० सं० ३६।२३) ब्रह्मादिक्रमेण पवित्राभ्यां मार्जयेयुः । (पवित्रयोरेव मार्जनकरणत्वमिति कर्कभाष्ये स्पष्टम् ) ततोऽध्वर्युः "ॐ यजमानस्य प्राणापानौ पातम्" इति मन्त्रेण(का० औ० ३४॥२२) पवित्रे प्रस्तरे निदध्यात् । (अत्र वा प्राशिवभक्षणं ब्रह्मणः)। ततः षडवचादिभागत्रयान्तर्गतं पूर्वनिर्दिष्ट ब्रह्मभागं ध्रु. वापुष्करभागस्य उपरि स्थापितम् आहवनीयस्य पूर्वेण ब्रह्मणे, धुवाग्रस्य पुरस्तादर्हिषि स्थापितं यजमानभागम् अपरेण गाई- पत्यं यजमानाय च समर्पयेत् । (प्रोषिते यजमाने यजमानभागः ध्रुवायामेव अवस्थितो भवति । ब्रह्माच तं भागं प्रतिगृह्य प्राशित्रपात्रे निदधाति । भक्षणकाले एव यजमानभागो हृयते । ) ततो यजमानः स्वभागं बर्हिध्येव निदध्यात् । व्रतविसर्गान्तेच भक्षयेत् । तत्रैव भक्षणविधानात् । ब्रह्माच यजमानभागसहचरितं स्वभागं तदैव भक्षयेत् । कालान्तराविधानात् । ततोऽध्वर्युः अन्वाहार्य दक्षिणानौ स्थितं स्थाल्या- ज्येनाभिघार्य उदक उद्वास्य गार्हपत्यदक्षिणाग्न्योरन्तरालेन प्रत्यङ् मीत्वा दक्षिणा दक्षिणेन ब्रह्मयजमानावन्तरेण तिराशिषेति भागं प्राश्नाति" इति सूत्रेण (का० श्री०३।८।२६ ) इष्ट्यन्ते विहितमिति यजमानेन इडाभागस्यैवात्र भक्षणम् । प्राशिवम्, इडा, षडवत्तादिभागाश्च यावदुक्तेऽपि प्रवर्तन्त । द्रव्यसंस्कारत्वात् ।

७६ कातीयेष्टिदीपकः। - आहवनीयस्य पूर्वेण प्रणीतोत्करावन्तरेण च हत्वा यां निधाय उपविश्य- (१) ॐ प्रजापतेर्भागोस्यूर्जस्वान् पयस्वान् प्रा- णापानौ मे पाहि समानव्यानौ मे पाादानव्यानी मे पायूर्गस्यूज मयि धेह्यक्षितिरसि मा में क्षेष्ठा अ- मुत्रामुष्मिन् लोक इह च" इति मन्त्रेण (का० श्री. ३।४।२७) आलभेत(२)। ततो यजमानः अस्याः पौर्णमासष्टेः (दशॆष्टेः) समृद्ध्यर्थम् इमाम् अन्वाहार्यदक्षिणां ब्रह्मादिभ्य ऋत्विग्भ्यः समविभागेनाई संपददे इति सङ्कल्प्य 'ब्रह्मन् यस्ते भागः स प्रतिगृह्यताम् ,होतः यस्ते भागः स प्रतिगृह्यताम् , अध्वर्यो यस्ते भागः स प्रतिगृह्य- ताम् , अग्नीयस्ते भागः स प्रतिगृह्यताम्' इत्येवं समर्पयेत् ब्रह्मादयश्च "ॐ द्यौस्त्वा ददातु पृथिवी त्वा प्रति- गृह्णातु" इति गृह्यसूत्रोक्तेन मन्त्रेण(पागृ०३।१५।२१) प्रतिगृ- हीयुः । तमन्वाहार्य पाच्यादिस्थमवशिष्टं हविश्व उदग् उद्वासयेत् । (१) अस्मिन्मन्त्रे ऊर्गसीति पदजातं गवादिदक्षिणायां विपरि- णम्यते । "ऊर्जे मयि धेहि" इति तु न विपरिणम्यते । दीयमानान- सारभूतोर्गन्योर्ज एव भोग्यत्वेनाकाङ्क्षयमाणत्वात् । अभिघारणं तु ग. पादौ न प्रवर्तते । अर्थलोपात् । भुज्यमनौदनादिनिष्टस्वादुतासंप. तिहि अभिधारणस्य प्रयोजनम् । ब्रह्मयजमानयोरन्तराले हरणं गो. दक्षिणाया न भवति, विरोधात् । वस्त्रदक्षिणायास्तु भवत्येवेति बोध्यम् । (२) आलम्भस्याध्वर्युकर्तृकत्वेन मन्त्रपाठोऽपि तस्यैव । आशीस्तु यजमानगतैया“यां वै काश्च यज्ञऋत्विज आशिषमाशासते यजमान- स्यैव सा" इति लिङ्गात् । एवं च भन्ने लक्षणया यजमानाभिधान- माश्रयणीयम् । ।

कातीयेष्टिदीपकः।
• -
"
ततोऽध्वर्युः पूर्वमाहवनीयादेवोधृते उल्मुके आहवनीये एवा.
नुयाजार्थं प्रक्षिप्य अष्टादशेध्मकाष्ठान्तर्गताम् अनुगाजार्थ परिशेषि-
तां समिधं समिदाधानार्थ गृहीत्वा 'ब्रह्मन प्रस्थास्यामि' इति
ब्रह्माणम् आपृच्छय समिधमाधाया निमग्नीत् संमृद्धि"
इति आग्नीध्र प्रेषयेत् । ( अवभृथेष्टौ अप इति विपरिणामः )
ततो ब्रह्मा "ॐ "उपांशु" एतं ते देव सवितर्य
झं प्राहुबृहस्पतये ब्रह्मणे । तेन यज्ञमव तेन यज्ञपति
तेन मामव । मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञ
मिमं तनोत्वरिष्टं यज्ञर्ड' समिमं धातु । विश्वे देवा-
स इह मादयन्ताम्" इति (य० सं० २।१२-१३) जपित्वा
"ॐप्रतिष्ठ? इत्युच्चैः पठेत् । ..
ततो ऽग्नीदध्वर्युसमर्पिता समिधं गृहीत्वा आहवनीये
आदध्यात् । ततः "ॐ एषा ते अग्ने समित्तया व्वर्धस्व
चाच प्यायस्व । वर्धिषीमहि च व्वयमाचप्यासिषीम.
हि" इति मन्त्रेण (य० सं० २।१४) होता अनुमन्त्रयेत् ।
ततो ऽग्नीत् उत्तरपाचे स्थित एच"ॐ.अग्ने ध्वाजाज.
द्वाजं त्वा समृवावसं वाजजित: समामि"
इति मन्त्रेण(य०सं०२।१४) अनुपरिषि दक्षिणपश्चिमोत्तरपार्वेषु
क्रमेण अग्नि सकव सकृत् प्रतिदिशं मन्त्राच्या संमृज्य
उपरिष्टातूष्णी सकृत् संमृज्यात् ।
ततोऽध्वर्युः ब्रह्मणा प्रतिष्ठ' इत्यनुज्ञात: किंचित् क्षेषयि-
स्वा औपभृतं शेषमाज्यं जुहां समानीय पूर्ववत् सुचावादाय स.
व्येनातिक्रम्य यजविदेशं गत्का 'ओ३ श्राश्वय' इति अग्नी-
धं प्रेष्य 'अस्तु श्री३षद्' इति तेनोक्ते 'देवान यज' इति हो-

७८ कातीयष्टिदीपक सारं प्रेषयेत् । ततो जुहूं प्राचीमवतार्य अवतिष्ठेत । (१) होता च "ॐदेवं बहिर्वसुवने वसुधेयस्य वेतु वौषट्" इति (का० हौ० ५० १७) याज्यां पठेत् । ततोऽध्वर्युः वषट्कारान्ते प्रदीप्तायाः समिधः पूर्वार्धे जुहस्थाज्यतृतीयभार्ग प्रथमं जुहुयात् । "ॐ इदं देवाय बहिषे न मम" इति यजमानस्त्या- गं कुर्यात् । अध्वर्युः पुनर्जुहूमध्युध 'भो३ श्राश्वय' इति अग्नीचं प्रेष्य "अस्तु श्रौषट्' इति तेनोक्ते "देवान्यज" इति होतारं प्रेष्य जूहमवतार्य अवस्थाय- (२) ॐदेवो नराशठ सो वसुवने वसुधेयस्य घेतु३ बौषिद" इति तेन याज्यायां (काही०प०१७) पठिताया- पूर्वहोमस्थानामतीच्या समिध उपरि मध्यभागे जुहूस्था- ज्या जुहुर्यात् । (१) अनुयाजमन्त्रार्थः । देवं बर्हिरिति । देव द्योतनशीलं बर्हिनामकं यदग्निस्वरूपं तद्वसुधेयस्य वसु. रूपं यत् अग्नौ आधेयम् आज्यं तद्, वसुवने वसुनो धनस्य धननं भजनं धमुव तस्मै वसुन्ने यजमानस्य धनप्राप्त्यर्थं वेतु भक्षयतु । (२) नराशंसनामकोपि अग्निदेवः यजमानस्य धनप्राप्त्यर्थम भाज्यं भक्षयतु।

कातीयेष्टिदीपकः। ७९ "ॐ इदं देवाय नराशठ'साय न मम"इति यजमान- स्त्यागं कुर्यात् । अध्वर्युः पुनर्जुहूमध्युह्य "ओश्श्राश्वय" इति अग्नी प्रेष्य 'अस्तु श्रौषट्' इति तेनोक्ते 'देवान यज' इति होतारं प्रेष्य जुहूपवतार्य अवस्थाय- (१) "ॐदेवो अग्नि: स्विष्टकृत सुद्रविणा मन्द्रः कविः सत्यमन्मा ऽऽयजी होता होतु)तुरायजीयान ने यान् देवानयाख्याँ अपिप्रे ते हो। अमत्सत । ता ससनुपी होत्रां देवंगमां दिवि देवेषु यज्ञमे. रयेम स्विष्टकृच्चाग्ने होताऽभूर्वसुवने वसुधेयस्य न- मोवाके वीहि ३ वौ३षद्” इति तेन याज्यायां (का० हौ. प० ११७) पठितायां- - (१) स्विष्टकृन्नामको ऽग्निः सुद्रविणाः शोभनधनः मन्द्रो हर्षण. शीलः कविर्विद्वान् सत्यमन्मा सत्यमननः आयजी शास्त्रीयमर्यादया यष्टा होता देवानामाह्वाता होतुझेतुरायजीयान् लोके यो यो होता तस्मात्सर्वस्मात् अतिशयेन शास्त्रीयमर्यादाऽनुल्लबनेन यष्टा एता. इश हेअग्ने यान् देवान् अयाट् इष्टवानसि याँश्च देवानपिप्रेः प्रीणित. वानसि ये च देवाः ते तव होने होतृकत्ये अमत्सत यजने अमाद्यन् दिवि स्थितेषु तेषु देवेष्टु ससनुषर्षी हविर्दत्तवती देवंगमा देवानेव गच्छन्ती तां होत्रां होतृक्रियाम् इमम् अस्मदीयं यशम् एरय आ. भिमुख्थेन प्रापय । अस्मदीये यो सर्वदेवतुष्टिकरी होतृक्रियां त्वमा नुतिष्ठेत्यर्थः । हेअग्ने त्वं स्विष्टकृद्धोता चाभूः यदस्याक्षारिष्टं तच्छो- भनं त्वया कृतं तादृशस्सन होमस्य कर्ताऽभूः अतो नमोवाके यजमा. नस्य नमस्कारोक्तौ सत्यां वसुवने धनस्य संभजनाय वसुधेयस्य अग्नौ आधीयमानम् इदमाज्यं काहि भक्षय ।

कातीयेष्टिदीपकः। द्वितीयवारहोमस्थानात् प्रतीच्या समिध उपरि मूलभागे जुहुयात् । "ॐइदं देवायाग्नये स्विष्टकृते न मम"इति यजमान- स्त्यागं कुर्यात् । (ध्रुवस्थितेनैवाणा अनुयाजाः प्रत्यक्संस्थाः होतव्याः) ततो यजतिदेशादक्षिणेन पादेन प्रत्यागत्य उत्तरत उपवि- श्य औपभृतं सर्व शेषं जुहां समानीय “ॐदेवेभ्यः स्वाहा" इति प्राक्संस्थामाहुतिम् आसीन एव जुहुयात् । ॐ इदं देवेभ्यो न मम इति यजमानस्त्यानं कुर्यात् । ततोऽध्वर्युः हविस्थानमागत्य घुचौ स्वस्थाने निदध्यात् । ततोऽध्वर्युः सव्येन पाणिना वेदं गृहीत्वादक्षिणेन पाणिना उत्तानेन जुहम् प्रस्तरात्माचीम् "ॐ(१)अग्नेरग्नीषोमयो- रुजितिमनूजयत्वयं यजमानो वाजस्यैनं प्रसवेन प्रोहा- मि" इति मन्त्रेण (का० श्री० ३।५।१७-१८-१९) प्रेरयेत् । "ॐअग्निरग्नीषोमो तमपनुदन्तु यमयं यजमानो देष्टि यश्चैनं देष्टि व्वाजस्यैनं प्रसवेनापोहामि"इति म- न्त्रेण सन्यहस्तेन · अधोमुखेन प्राङ्मुखीमेवोपमृतं प्रती. ची दिशं प्रेरयेत् दक्षिणेन पाणिना वेदोपग्रहपूर्वकम् । ततोऽध्वर्युः जुहमभ्युक्ष्य तत्स्थेनाज्येन पश्चिमदक्षिणोत्त. रपरिधीन क्रमेण "ॐवसुभ्यस्त्वा" (अनज्मि ) "ॐरुद्र भ्यस्त्वा" (अनज्मि) "ॐ आदित्येभ्यस्त्वा" (अनज्मि) इति मन्वैरज्ज्यात् । (१) दर्श अग्नीषोमयोरित्यस्य स्थाने "इन्द्राग्न्योः" इति वा- व्यम् । एवमुत्तरत्र "अग्नीषोमौ" इत्यत्र “इन्द्रानी" इति वाच्यम् ।

कातीयेष्टिदीपकः। ८१ (नात्रोदकस्पर्शः । रुद्रस्य अत्र संपदानचतुर्थ्यादिनिर्दिष्टत्वा- भावाद् देवतात्वाभावेन मन्त्रस्य रौद्रत्वाभावादिति कर्कः)। ततो जुहूं प्रस्तरादुत्तरतः सादयेत् । ततः प्रथम परिधि गृहीत्वा 'ओ३ श्राश्चय' इति अग्नी प्रेष्य 'अस्तु श्रौषट्' इति तेनोक्ते- (१) "इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः मुक्तवाकाय सूक्ता शहि" इति होतारं प्रेष्य- " संजानाथां द्यावापृथिवी मित्रावरुणौ त्वा वृष्ट्याऽवताम्" इति मन्त्रेण(य०सं०२ । १६) प्रस्तरमादाय विधृती आहवनीये प्रक्षिप्य प्रस्तरस्याग्रम् “ॐ व्यन्तु षयोक्ता रिहाणा:" मन्त्रेण (य०सं०२।१६) जुहामञ्जित्वा तस्य मध्यं तेनैव मन्त्रेण (२)उपभृति अञ्जित्वा तस्य मूलं तेनैव मन्त्रेण ध्रुवायामाजिवा- “ॐ मरुतां पृषतीगच्छ व्वशा पृश्निभूत्वा दिवं गच्छ ततो नो वृष्टिमावह'इति मन्त्रेण(य०सं०२।१६)प्रस्तरं बुचोर्दक्षिणेनानीय भूमिलग्नमिव होमार्थमाहवनीय प्रति नयेत् । होता च- (३)ॐइदं चावापृथिवीभद्रमभूदार्म सूक्तवाक- (१) दैव्या होतारः परिधयोऽग्नयः भद्रवाच्याय शुभवदनाय इ. पिता गताः स्वयं युक्ताः, मानुषो होता सूक्तवाकाय प्रेषितः 'सुक्ता सुक्तानि ब्रूहि' इत्येवम् । (२) उपभृदाद्यभावेऽपि प्रस्तरः स्थल्याज्येनाज्यते एव । संस्कार रत्वात् । (३) सूक्तवाकमन्त्रार्थः। इदं द्यावापृथिवीति । हेद्यावापृथिवी द्यावापृथिव्यौ इदम् ईदृशं भद्रं कल्याणमभूत्। ईदृग्रूपमेव विशदयति । तेवयं सूक्तवाकमा 'श्रद्धा. ११ ८२ कातीयेष्टिदीपकः। , . लुरयं यजमानः सम्यगनेन हविर्दत्तम्'इत्यादिवाक्यानि सूक्तानि, तेषां देवैर्मनुष्यैवी वचनं वाकः, तद्यथा भवति तथा समृद्धि गताः स्म । अथवा 'अमिरिदं हविरजुषत अवीवृधत महो ज्यायोऽकृत'इत्यादीनि सूक्तानि । तेषां धचनम् अत्र यथा भवति तथा वयमृद्धिं गताः। किं च 'नमो देवेभ्यः' इत्युक्तिर्नमोवाकः, स यथा भवति तथावयम ऋद्धिं प्राप्ताः । हेअग्ने त्वया सूक्तोच्यं यजमानः समृद्धं हविदत्तवान्' इत्येता. दशं सुक्तं वक्तव्यं तेन वयम् ऋध्यास्म समृद्धि प्राप्ता भूयास्म । यतः त्वं दिवस्पृथिव्योः उपशृण्वत्योः अवस्थितो भूत्वा सूक्तवागसि सूक्तं वक्तुं क्षमोऽसि । हेयजमान ते तव अस्मिन्यज्ञे चावापृथिवी द्या. वापृथिव्यौ ओमवती ओमन्वत्यौ रक्षणवत्यौ स्ताम् । ते एव वि. शिनष्टि । शङ्गवी सुखस्य प्रापयियो, जीवदानू वृष्ट्यादिद्वारेण जीवनप्रदाच्यो, अत्रस्नू भयरहिते, अप्रवेदे अस्मदीयानां दोषाणाम् अकथयित्र्यौ,उरुगव्यूती प्रभूततृणोदकयुक्तत्वेन विस्तीर्णगोप्रचारेण च,अभयंकृतौ अस्मासु अभयकत्र्यों, वृष्टिद्यावा वृष्टेः प्रकाशयियौ री. त्यापारीतेः सन्मार्गवृत्तिप्रकारस्य प्रापयियो. शम्भुवी रोगायनि- प्रशान्तेः प्रापयियो, मयोभुवौ अन्नपानादिसुखस्य प्रापयित्र्यो, युव. योर्मध्ये द्यौरियम् ऊर्जस्वती वृष्टिरूपरसवती पृथ्वीच पयस्वती तृणो. दकद्वारा बहुलक्षीरादियुक्ता, तथा इयं द्यौः सूपचरणा देवताधिका- सस्थानत्वेन सुष्ठूपचरितव्या इयं पृथ्वी स्वधिचरणा सुखेन आ. श्रयितुं शक्या। तयोः द्यावापृथिव्योः आविदि आक्षायां सत्याम्- आज्यभागदेवोऽयमग्निः दत्तं हधिरजुषत असेवत, सेवित्वा च अवीवृधत यजमान वर्धितवान् , तस्य यजमानस्य ज्यायोऽधिकं. महः तेजः अकृत कृतवान । सर्व सोमादिषु स्विष्ठकदाग्निपर्यन्तेषु योज्यम् ।...देवताक्रमश्चाचाहननिगदवत् । “निगमनमावाहने उत्तमे प्रयाजे स्विष्टकृति सूक्तवाके च" इति (का हौ० ५० १ । ३) सूत्रात् आवाहनादिचतुष्टये निगमनं विधीयते । निगमनं च इज्यमानदेवता. भिधानम् । तच्च आवाहने उत्तमे प्रयाजेच द्वितीयान्तेन स्विष्टकृति षष्टयन्तेन सूक्तवाके तु प्रथमान्तेनेति विशेषः । इज्यमानदेवतानां प्रक्षेपश्च आज्यभागस्विष्टकृदन्तरे कार्यः । "आज्यभागस्विष्टकृदन्त- रेऽभीज्यानामावापः" इति कातीयपरिशिष्टसूत्रात् ( का हौ० ५० कातीयेष्टिदीपक ८३ मुत नमोवाकमृध्यात्म सक्तोच्यमग्ने त्व: सूक्तवाग- सि उपश्रुती दिवस्पृथिव्योरोमन्वती ते ऽस्मिन् यज्ञे यजमान द्यावापृथिवी स्ता शङ्गवी जीवदान अत्र. स्नू अप्रवेदे उरुगब्यूनी अभयकृती । वृष्टिद्यावा री- त्यापा शंभुवौ मयोभुवा ऊर्जस्वती च पयस्वती च १।३)। तत्र होत्रेण इत्यस्य होमनिमित्तेनत्यर्थः । होमस्य स्विष्ट. कृत्त्वं कर्तुमुद्यतोऽग्निरिति यावत् । अस्यां स्तोत्रपाठपूर्विकायां होत्रायां प्रस्तरप्रहरणरूपायां होमकि यायां देवंगमायां देवान प्राप्नुवत्यां सत्याम्क्रयेत् ऋध्नोतु यजमानः समृद्धि प्राप्नोतु । असौ विष्ण्वादिशर्मा यजमानः । सजातवनस्यां समानजातीयैः वननं सेव्यत्वं तस्य आत्मसम्बन्धित्वेन इच्छा सजा. तवनस्या ताम् । उत्तरा देवयज्या कालान्तरभाविनीयमिष्टिः ताम् । हविष्करणं प्रभूतसोमयागादिरूपम् । दिव्यं धाम स्वर्गादिरूपम् । यद्यात्सर्वमात्मनोऽनेन हविषा प्रस्तराख्येन यजमानः फलमाशास्ते तदश्यात् तत्फलम् भुताम् । तच फलम ऋध्यात् अस्य यजमानस्य समृद्धं भवतु । तत्सर्वम अस्मै यजमानायाग्न्यादयो देवता रासन्तां साधयन्ताम् । तत्फलम् अग्निर्देवो देवेभ्यः सर्वेभ्यः आनीय वनुतां यजमानं तद्भागिनं करोतु, वयं च होत्रादयो मानुषाः सन्तोऽग्ने, प्रसादात्सम्भावितफलं मनुष्येभ्य आनयाम इतिशेषः । इष्टं च वित्तं चेत्यस्यायमर्थःन्यमेतं यशमृत्विग्यजमाना ऐषिषुः प्रार्थितवन्तः तम अविदन् लब्धवन्त इति । समीहितसिद्धिरनूद्यते एतेनेति। किञ्चैते द्यावापृथिवी उभे अपि नोऽस्मान् अंहसः पापात्फलप्रतिबन्धका पातक्षताम् हास्मिन्कर्मणि वामस्य कमनीयस्य धनस्य गतिः प्राप्तिरस्तु । इदं च हविः, देवैः स्वीक्रियतामिति शेषः। नमो देवेभ्यः सर्वेभ्यो देवेभ्यो नमोऽस्तु । अत्र "तस्मानातो भूयसीः कुर्यात्" इति (श० ब्रा० कां० १।९।१। १८) श. ब्राह्मणे आश्वलायनायधीतानामधि- काशिषां प्रतिषेधात् कातीयानामाश्वलायनायुक्तहौवानादरः स्पष्टमेव गम्यते इति सुधियो विदांकुर्वन्तु ।

कातीयेष्टिदीपकः। सूपचरणा च स्वधिचरणा च तयोराविदि । अग्नि- रिदई हविरजुषतावीवृधत महो ज्यायोऽकृत । सोम इद: हविरजुषतावीवृधत महो ज्यायोऽकृत । अग्निरिदर्ड' हविरजुषतावीवृधत महो ज्यायोऽकृत । (उपांशु) अग्नीषोमौ (उच्चैः) इद हविः (उपांशु) अजुषेतामवीवृधेताम् (उच्चैः) महो ज्यायः (उपांशु) अक्राताम्। ((उच्चैः) अग्नीषामाविदई हविरजुषेतामवीवृधे- तां महो ज्यायोऽक्राताम् । देवा आज्यपा आज्यमजु- पन्तावीवृधन्त महो ज्यायोऽक्रत। अग्निहोत्रेणे? हघिरजुषतावीवृधत महो ज्यायोऽकृत । अस्यामृद्धोत्रायां देवंगमायामाशास्तेऽयं यज- अमुकशर्मा। उत्तरां देवयज्यामाशास्ते भूयोहविष्करणमाशास्ते सजातवनस्यामाशास्ते दि. व्यं घामाशास्ते यदनेन हविषाऽऽशास्ते तदश्यात् तद् ऋध्यात् तदस्मै देवा रासन्तां तदग्निर्देवो देवेश्यो वनुतां वयमग्नेः परिमानुषाः । इष्टं च वित्तं चोभे चैनं चावापृथिवी अहसस्पातामिह गतिर्वा- मस्येदं च नमो देवेभ्यः" इति सूक्तवाकं (का० हौ० ५० (१) दर्श (उपांशु) विष्णुः (उच्चैः) इदहविः ( उपांशु) मानुषतावीवृधत (उच्चैः) महो ज्यायः (उपांशु) अकृतेति प्रयोगः। "उपाशु काम्यदेवतायाज्यानुवाक्या, अजुषतावीवृधताकतेतिच, उचैरन्यत् , उपाशुप्रयोगिणां चैवम्" इति ( का हौ० प०२१३) सूत्रेण उपांशुप्रयोगाणां याज्यानुवाझ्ययोः सूक्तवाकघटकानाम् अजुषत अवीवृधत अकृत इति शब्दानां च उपांशुप्रयोगस्य अन्येषां च उधः प्रयोगस्य विधानात्तथा प्रयोगोल्लेख इति बोध्यम् । मानः कातीष्टिदीपकः। १। ८) पठेत् । अध्वर्युः प्रस्तरस्यैकं तृणं परिशेष्य सूक्तवाकान्ते प्रस्तरं मागग्रम् आहवनीये प्रक्षिपेत्(१)। ततोऽध्वर्युः हुतं प्रस्तरं हस्ताङ्गुलिभिः प्रदीसामिप्रदेशे में- रयेत् । ततोऽग्नीत् 'अनुमहर' इति अध्वर्युमुच्चैरध्येषयेत् । ततोऽध्वर्युः प्रस्तराद् गृहीतं तृणमनावनुपहृत्य "ॐचक्षु- पा अग्नेऽसि चक्षुम पाहि" इति (य० सं० २०१६) आत्मानम् आलभ्य अप उपस्पृशेत् । ततोऽनीत् "संवदस्व"इति श्रूयात् । (शंयुवाकप्रैषा सं- पादं कुर्वित्यर्थः) ततोऽध्वर्युः "अगानग्नीत्" इति । (प्रस्तरशरीरो यज. मानः किं स्वर्गमगमत् इत्यर्थः । किं प्रस्तरो दग्ध इति यावत् ) ततोऽमीत् “अगन्" इति । ( अगमत् दग्धः प्रस्तर इत्यर्थः) ततोऽध्वर्युः "श्राश्वय" इति । ( होतारमाकर्णयसर्थः) ततोऽनीत् "श्रौषट्" इति । ( शृणोत्येव होतेत्यर्थः) ततोऽध्वर्युः "स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषे भ्यः शंयोब्रूहि" इति होतारं प्रेषयेत् । (दैवहोतभ्यः परि- (१) सूतवाकप्रस्तरप्रहरणयोः कालार्थः संयोगो, नाङ्गाङ्गिल- क्षणः । प्रस्तरस्य चुग्धारणार्थतयां सुतवाकस्यचेष्टदेवतासंकीर्तना. र्थतया उभयोरपि परार्थत्वेन परस्परमजाझिलक्षणासंबन्धस्य इम क्षेपलामिधेन्यनुवचनयोरिवासंभवात् । ततश्च आतिथ्यादौ प्रस्तर प्रहरणाभावेऽपि सूक्तवाकः प्रयुज्यते एवेति कर्कभाष्ये विस्तरः । अतएवात्र यजमानकर्तृकस्त्यागो नोल्लिखितः। होमवाभावात् इति घोध्यम् ।

कातीयेष्टिदीपकः। ध्यनिरूपेभ्यः स्वगा-स्त्रस्थानगमनमस्तु मानुषेभ्यः मानुषाय होत्र स्वस्तिरविनाशोऽस्तु इत्यर्थः) होताच- (१)तच्छंय्योरावृणीमहे गातुं यज्ञाय गातुं यज्ञ पतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः । ऊर्च जिगातु भेषज शन्नो अस्तु विपदे शं चतुष्पदे" इति (का० है।०१०११९) युवाकं पठित्वा "अनया" इतिमन्त्रेण (का.हौ.प.११९) प्रादेशं वेदिश्रोणी निदध्यात् । (शंयुवाकश्च अर्थकर्मत्वाचावदुक्ते निवर्तते । वनिवृत्तौ च संवदरपत्यादीनां नितिः। तेषां तदर्थत्वात्) । वतोऽध्वर्युः पश्चिमं ( प्रथमं ) परिधिम्- "ॐ परिधि पर्यवत्या अग्ने देव पणिभिर्गु- ह्यमानः । तन्त एतमनुजोषं भराम्येष नेत्त्वदपचे. तयात"इति मन्त्रेण( य० सं० २।१७) हस्तेनैव आहवनीये अनुप्रय दक्षिणोचरौ परिधी "ॐअग्नेः प्रियं पायो. (१)शंयुवाकमन्त्रार्थः। तच्छयोसवृणीमहे इति तिवादशं प्रशस्तं फलं शंयोहिस्पत्यात आवृणीमहे प्रार्थयामहे । तफलमेयोच्यते । यज्ञाय गातुंन्यास्य दे. धान प्रति गमनं, यापतये गातुं यजमानस्य देवान् प्रति गमनं च भावृणीमहे । अत्र यजमानस्य आयुषः प्राक् देवान्प्रति गमनं न प्रार्थनाविषयः किंतु प्रस्तरशरीरेणैव तद्रमनं प्रार्थ्यमिति धनना. याह देवीति । नोऽस्माकं दैवी स्वस्तिः देवनिमित्तं विनोपशमनं, मानुषेभ्यः स्वस्तिः मनुष्यनिमित्तकं. विघ्नोपशमनं चास्तु । भेषजं सर्वपमानामौषधमिदं कर्म ऊवं जिगातु-अविनेन · समाप्ति प्राः मोतु नोऽस्माकं द्विपढ़े मनुष्याय चतुष्पदे पशवे च शं सुखमस्तु । इदानीमेव देवान्प्रति गमनप्रार्थने हि एतत्मार्थनं नोपपद्यतेति भावः ।

कातीयेष्टिदीपकः। ८७ ऽपीतम्" (२० सं० २ । १७) इसनेन युगपत् तथैव अनुपहरेत् । (परिधिमहरणमन्त्रयोरग्न्यभिधायकत्वात् अवभृथे विपरिणामः । परिधिमहरणस्य च प्रतिपत्तिकर्मत्वात् यावदु. कान्तापच्छिन्नयोरपि प्रवृत्तिः)। ततो जुहूपमृतावादाय "ॐ संवभागा स्थेषा बृहन्तः प्रस्तरेष्ठाः परिधेयाश्च देवाः । इमां वाचमभि विश्वे गृणन्त आसयास्मिन् बर्हिषि मादयध्व स्वाहा व्वाद" इति मन्त्रेण (य.०सं०२।१८) उभाभ्यां चुग्भ्यां संसवान ( हविलेपान् ) उत्तरत उपविश्य जुहुयात् । ( संखव. होमस्य प्रतिपत्त्यर्थकर्मत्वादन्तापच्छिन्नेऽपि प्रवृत्तिः )। "ॐ इदं विश्त्रेभ्यो देवेभ्यो न मम" इति यजमानस्त्या. गं कुर्यात् ततोऽवयुः वेद्या उत्तरांसे उदगग्रं स्फ्यं निधाय तत्र भागने जुहपभृती- "ॐ घृताची स्थो धुय्यौं पाता सुन्ने स्था सुन्ने मा धत्तम्" इति मन्त्रेण (प० सं० २। १९) निदध्याव । ततः "ॐयज्ञ नमश्च त उप च यज्ञस्य शिवे सन्तिष्टस्व स्विष्टे में सन्तिष्ठस्व" इति मन्त्रेण (य० सं० २ । १९) स्फ्योपग्रहपूर्वकं वेदिमालभेत । ततो होता वेदमादाय, अध्वर्युः जुहू नुवं च आदाय, अग्नीदाज्यस्थालीमादाय, आग्नीध्रमयमा प्रत्यङ्मुखाः प. बीसयाजाथै गार्हपत्यमुपगम्य गाईपत्यस्य पश्चिमे मागे ऊर्जाव आसीरन् । तत्र दक्षिणतः अध्वर्युः, उत्तरत आग्नीध्रः, तयो मध्ये होता, उपविशेत् । तत्रापि अध्वर्युः गाईपल्यदक्षिणान्यो: रन्तरेण गला, गाईपत्यस्य दक्षिणतः पल्या अग्रे ईशाना:

कातीयेष्टिदीपकः। भिमुख उपविशेत् , गार्हपत्त्यस्य पश्चात होता उपविशेत , सस्योत्तरतः दक्षिणाभिमुखोऽग्नीदुपविशेत् । (पनीसंयाजाख्यं कर्मच सर्वमुपांशु भवति । “उपाशु चरन्ति,चरणशब्दे सर्वम्" इति सूत्राभ्यां (का० श्रौ० ३।७४५-६ ) तथैव विधानाद)। ततो ऽध्वर्युः वेद गृहीत्वा दक्षिणं जान्वाच्य 'सोमाया- नुशहि" इति होतारं प्रेष्य आज्यग्रहणादिकं कुर्यात् । ततो होता- (७) ॐआप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा व्याजस्य सङ्गयो३म्" इति पुरोऽनुवाक्यां (य० सं० १२ । ११२) पठेत् । अध्वर्युश्च स्रुवेण आज्यस्थाल्याश्चतुरिमाज्यं जुबां गृहीत्वा 'ओ३ श्राश्चय' इति अग्नीधं प्रेष्य 'अस्तु औरषद्'इति अ. ग्नीधा उक्त 'सोमं यज' इति होतारं प्रेष्य- (८)ॐ येयजामहे सोम: सन्ते पयासि समुयन्तु (७) पत्नीसंयाजमन्त्रार्थः। तत्रादौ सोमदेवतापुरोऽनुवाक्यामन्त्रार्थः । आप्यायस्वेति । हेसोम विश्वतः सर्वस्मात् वृष्ण्यं धीर्य सर्वभूतोत्पत्तिकद्वीजं ते तव समेतु समागच्छतु तेत.च वीर्येण-त्वम् आप्यायस्व सर्वतो वर्धस्व । किञ्च वाजस्यान्नस्य सङ्गथे सङ्गमनाय भवा-भव, अन्नमस्मासु सङ्ग- मयेत्यर्थः। (८)सोमदेवतायाज्यामन्त्रार्थः । : सन्ते पयांसीति । हे सोम पयांसि पातव्या रसाः ते तव अभि. मातिषाहः अभिमातिं पाप्मानं सहते अभिभवतीति अभिमातिसाद तस्याभिमातिषाहः । छान्दसं षत्वम् । संयन्तु संगच्छन्तु । उ अपिच वाजा अनानि संयन्तु । वृष्ण्यानिरेतांसि च संयन्तु। हेसोम पयोऽन. वृष्ण्यैः आप्यायमानो वर्धमानः सन् त्वम् अमृताय अमरणधर्मिण्यै प्रजायै ( पुत्रादिवृद्ध्यै) यजमानस्य भवेति शेषः। किञ्च दिवि द्य.

कातीयष्टिदीपकः। - गजाः संवृष्ण्यान्यभिमातिषाहः । आप्यायमानो अ. मृताय सोम दिवि अवास्युत्तमानि धिष्व३ गैषट्" इति ( य० सं० १२।११३) होत्रा याज्यायां पठितायाम्- "ॐ इदा सोमाय न मम"इति यजमानेन त्यागे कृते सति गाहपत्ये जुहुयात् । ततः “त्वष्ट्रे ऽनुबहि" इति होतारं प्रेषयेत् । होता च- (१)"ॐ इह त्वष्टारमग्न्यं विश्वरूपमुपह्वये। अ. स्माकमस्तु केवलो३म्" इति पुरोऽनुवाक्यां (काही०प० १। १०) पठेत् । अध्वर्युश्च स्रुवेण आज्यस्थाल्याश्चतुरिमाज्यं जुहां गृही- त्वा 'ओ३ श्रा३वय' इति अग्नीधं प्रेष्य 'अस्तु औरषद्' इति अग्नीधोक्ते 'त्वष्टारं यज' इति होतारं प्रेष्य-- (२)"ॐ येयजामहे त्वष्टारं तन्नस्तुरीपमध पोष. लोके उत्तमानि उत्कृष्टानि श्रवांसि अन्नानि आहुतिपरिणामजनिता. निधिष्व धारय संपादय । (१) त्वष्टुः पुरोऽनुवाक्यामन्त्रार्थः । इह त्वष्टारमिति । इह अस्मिन्कर्मणि अग्न्यं मुख्यं, विश्वरूपं विश्वानि रूपाणि गर्भे विकतु योग्यानि यस्यासौ विश्वरूपः तम्, त्वष्टारं देवम् उपह्वये आह्वयामि । स च त्वष्टा अस्माकं केवलोऽस्तु असाधारणत्वेन पालकोऽस्तु । (ऋ० सं० १ । १ । २५) (२) त्वष्टुर्याज्यामन्त्रार्थः ।। तन्नस्तुरीपमिति.। हेत्वष्टः देव तुरीपं तूणे प्राप्नोतीति तुरीपम् अध=अपिच पोषयित्नु पोषयित तत् धनं नोऽस्मभ्यं विस्यस्व वि. शेषेण समर्पय । त्वंच रराणः दानशीलः । यतो यस्माद्धनादस्माभिः लब्धात् वीरः शुरः पुत्रो जायते । शूरत्वं विशदयति कर्मण्य इत्या. दिना-कर्मण्यो, लौकिके वैदिके च, कर्मणि कुशल, सुरक्षः सम्यगु- - १२ ९० कातीयेष्टिदीपकः। यित्नु देव त्वष्टर्वि रराणः स्यस्व । यतो धीरः कर्मण्यः सुदक्षो युक्तयावा जायते दे. धकामा३ वौषट्" इति याज्यायां (का० हौ० ५० ११०) होत्रा पठितायाम्- "ॐ इदं त्वष्ट्रे न मम"इति यजमानेन त्यागे कृते जु. हुयात् । ततोऽन्तर्धानकटं गार्हपत्यस्य पुरस्ताद्धारयित्वा पल्यन्वा- रब्धोऽश्वर्युः 'देवानांपत्नीभ्योऽनुरेहि'इति होतारं प्रेषयेत्। सतो होता- (१) "ॐ देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु न. स्तुजयेष्वाजसातये। याः पार्थिवासोया अपामपिव्रते ता नो देवीः सुहवाः शर्म यच्छतो३म्" इति पुरोऽनुवा. क्यां (का हौ०१०१।१०) पठेत् । अध्वर्युश्च पूर्ववत्स्थालीत आज्यं गृहीत्वा 'ओ३ श्राश्व- लाही शीघकारी, युक्तप्रावा युक्ताः सोमाभिषवार्थ प्रयुक्ता प्रावा. णो यस्यासौ युक्तमावा सर्वदा सोमयागस्यानुष्ठाता, देवकाम: देवैरीदृशः सेवकोऽस्माकं भूयादिति काम्यमानः, देवान् सेषितुं स्वयं कामयमानो वा । (ऋ० सं०२।८।२३) (१) देवपत्नीपुरोऽनुवाक्यामन्त्रार्थः । देवानांपत्नोरिति । देवानां पत्नीः इन्द्राण्यादयो देवपत्न्यो याः सन्ति ताः उशती: उशत्यः, अस्मद्धितं कामयमानाः नोऽस्मान् अ. वन्तु रक्षन्तु । परैरापादितमरिष्टं वारयन्त्वित्यर्थः । किञ्च तुजयेऽप. स्याय वाजसातये द्रव्यलाभाय नोऽस्मान् प्रावन्तु प्रकर्षेण रक्षन्तु । न केवलं दिवि सिधवा इन्द्राण्याद्याः किन्तु या पार्थिवासः पृथि. 'व्या स्थिता देवाल्या या अपि अन्याः अपांबते वृष्ट्युदकस्थानत्वे. नोपलक्षित तरिक्षे वर्तन्ते ताः सर्वा देवी देव्यः सुहवाः सुखेना- होतुं शक्या यूयं नोऽस्मभ्यं शर्म सुखं यच्छत दत्त। (ऋ०सं०४।२।२८) ग कातीपेष्टिदीपका। -- य' इति प्रेष्य 'अस्तु श्रौ३षद्' इति अग्नीधा उक्त 'देवानां पनीर्यज' इति होतारं प्रेष्य-- (१) ॐ यजामहे देवानांपस्नीरुतमा व्यन्तु देव- पत्नीरिन्द्राण्यग्नाय्यश्विनी राट्। आरोदसी व्यरुणा- नी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनां वौषट्" इति होत्रा याज्यायां (का० हौ० ५० १।१०) पठितायाम् - "ॐ इदं देवानां पत्नीभ्यो न मम" इति यजमानेन स्यागे कृते जुहुयात् । ततः अन्तर्धानकटं हस्तनापनीय त्यक्तान्वारम्भा अधयुः 'अग्नये गृहपतयेऽनुहि' इति होतारं मेषयेत् । ततो होता- १२) ॐ अग्निहोतागृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः। देवानामुत यो मानां यजिष्ठास प्रयजतामृतावोयम्" इति पुरोऽनुवाक्यां (का० हौ० ५० १।१०) पठेत् । (१) देवपत्नीयाज्यामन्त्रार्थः । उत ग्ना व्यन्विति । उत अपिच ग्नाः छन्दोदेवता गायध्यादयो देवपक्षी देवपल्या व्यन्तु इदं हविरश्नन्तु । इन्द्रस्य पनीन्द्राणी, अग्ने पत्न्यग्नायी, अश्विनोः परत्यश्विनी, राक्षः सोमस्य पनी राट् , रुद्रस्य पत्नी रोदसी, वरुणस्य पत्नी वरुणानी, एतासामेकैका विक्षा- पनामस्मदीयाम् आशृणोतु । जनीनामिन्द्राण्यादीनां य ऋतुः काल- विशेषो भोजनायोचितस्तस्मिन् काले व्यन्तु अइनन्तु । सोमत्वष्ट्रोः पुरुषयांमुळवतो सतो पश्चाद भुखतामित्यर्थः । (ऋ०सं०४ श२८) (२) गृहपतेरमेः पुरोऽनुवाक्यामन्त्रार्थः । अग्निहोंतेति । अयमग्निः होता देवानामाहाता गृहपतिःगृहाणी पालका सच राजा दीप्यमानः ताशो जातवेदाः देवतानां विश्वा विश्वानि जनिमा जन्मानि वेद । उत भपिच यो जातघेदा मानां अन्मानि वेदसःप्रयजतां प्रकर्षण यागं कुर्वतां मध्ये यजिष्ठः अतिश. घेन यादृतमा, ऋतावा सत्यवाक् च । (सं० ४।५।१९) ९२ कातीयेष्टिदीपकः। . अध्वर्युश्च पूर्ववत्स्थालीतः आज्यं गृहीत्वा 'ओ३ श्रा३. वय' इति प्रेष्य 'अस्तु श्रौषट्' इति अग्नीधा उक्ते 'अग्निं गृहपतिं यज' इति होतारं प्रेष्य- (१) ध्येयजामहेऽग्निं गृहपतिठ हव्यवाडग्नि- रजरः पिता नो विभुर्विभावासुदृशीको अस्म । सुगा. हपत्याः समिषो दिदीयस्मद्र्य समिमीहि अवा- सि३ धौषद"इति होत्रा याज्यायां पठितायाम्- 'ॐ इदमग्नये गृहपतये न मम' इति यजमानेन त्यागे कृते किञ्चित् जुहां शेषयन् हुत्वा च भूमौ निदध्यात् । ततः इडापाव्यां स्वेण पञ्चकृत्वः स्थालीत आज्यमवदाय प्राङ्मुखो हो। इडां प्रदाय इडां हस्तेन स्पृशन्नेव होतारं पत्नी वा प्रदक्षिणीकृत्य होतुः पुरस्तात् प्रत्यङ्मुख उपविश्य होत्रा अर्पितामिडां प्रतिगृह्य इडायाः सकाशात् सुवेणाज्यमवदाय होतुरङ्गुलिपर्वणी उत्तममध्यमे वेण अङ्ग्यात् । होता च उत्तरपर्वणोत्तरोष्ठम् अधरपर्वणाऽधरोष्ठं पूर्ववत्समन्त्रं निलिम्पेत् । ततो होतुर्हस्तेऽध्वर्युः इदात एव चुवेण आज्यं चतुर्वारमव (१) गृहपतेरग्नेर्याज्यामन्त्रार्थः । हत्यवाडग्निरिति । अयमग्निः हव्यं वहनीति हव्यवाट् अजरः जरा. रहितः नः अस्माकं पिता पालयिता विभुः व्यापकः विभावा विशे. पंण भानशीलः सुदशीकः सुखदर्शनः ईदृशो योऽग्निः स त्वम् अस्मे अस्मभ्यम् इषः अन्नानि संदिदीहि सम्यक् प्रयच्छ। कथंभूताः इषः। सुगाईपत्याः शोभनगृहपतित्वहेतुभूताकिञ्च अस्मयक् अस्मदाभि. मुख्येन आगतः सन् श्रवांसि श्रोतव्यानि यशांसि समिमीहि सम्य. कनिष्पादय । (ऋय सं०३1८1१८.) पतीसंयाजाश्च यावदुक्तं निवर्तन्ते अर्थकर्मत्वात् ।

कातीष्टिदीपकः। घेत् । पञ्चमं च होता स्वयमेव गृहीत्वा अप्रसारिताभिरमुष्टिक- ताभिरङ्गुलिभिरिडां मुखमात्रे देशे धारयित्वा सर्वविग्भिः यजमानेन च अन्चारधा इडामुपक्षपेत् । तत्र- "उपहूतोऽयं यजमाना" इत्याद्यस्य स्थाने "उपहूतेयं पत्न्युत्तरस्यां देवयज्यायामुपहूता भूयसि हविष्कर- णउपहूता देवा मइद हविर्जुषन्तामिति तस्मिन्नु पहूता" इति पठेत् । अस्मिन्नेवावसरे 'मयीदम्' इति मन्त्रं सस्वरं यजमानो जपेत् । ततस्सर्वे प्रणीतोत्करावन्तरेण निष्क्रम्य इडां भक्षयित्वा पुनस्तथैवागत्य वेदेः पश्चिमभागे उपविश्य ब्रह्मादिक्रमेण द.- रुदकमादाय "असुमिनिया.न. आप ओषधयः सन्तु" इति मार्जयेरन् । ततस्सर्वे यथास्थानमुपविज्ञेयुः ।। अध्वर्युः गार्हपत्यस्य उत्तरत उपविश्य सुक्नुवं प्रगृह्य- "ॐ अग्नेऽदब्धायोऽशीतम पाहि मा दिद्योपाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरमन्या आविषं ना पितुं कृणु । सुषदा योनौ स्वाहा व्वाट्' इति- मन्त्रेण ( य० सं० २ । २०.) ॐ इमग्नयेऽदव्यायवेऽशीतमाय न मम इति यम- मानेन त्यागे कृते नुनुवाभ्यां संस्रतान् गाईपत्ये जुहुयात्(१x IN हो जाईपत्यदक्षिशारन्योरन्तरतो बहिनिष्क्रम्य अपदक्षिणं गाईपत्वं परीत्य दक्षिणायेरुत्तस्त उसाविश्य घुलेण, सकुज्जुहामा. (१) संस्रबहोमस्य पत्नीसंयाजशेषत्वात् थावदुक्ते पत्नीसंया- जविवृत्तौ अस्यापि निवृत्तिः। पशौ पत्नीसंयाजानां जाघनीकरण- कत्वात्तत्र संमत्ररूपप्रतिपाद्यद्रव्याभावाचास्य प्रवृत्तिः । प्रतिपति- कर्मत्वात् ।

कातीयेष्टिदीपकः। ज्यं गृहीत्वा वेदोपग्रहपूर्वकम् “ॐ अग्नये संवेशपतय स्वा. हा" इति मन्त्रेण ( य० सं० २।२९) "ॐ इदमग्नये संवेशपतये न मम" इति यजमानक कत्यागान्ते दक्षिणामौ जुहूयात् । पुनस्तथैवाज्यं गृहीत्वा "ॐ सरस्वत्यै यशोभगिन्यै स्वाहा" इति मन्त्रेण-(य० सं० २।२०) 'ॐ इदा सरस्वत्यै यशोभगिन्यै न मम' इति त्यागान्ते तत्रैव जुहुयात्(१)। ततः पिष्टलेपान जुहां गृहीत्वा स्फ्पोपग्रहपूर्वकम् - " उलूखले मुसले यच्च शूर्पआशिश्लेष दृषदि यस्कपाले। उत्प्रुषो विभुषः संजुहोमि सत्याः सन्तु यजमानस्य कामाः स्वाहा" इति मन्त्रेण (का० श्री० ३। ७।१६)तान- 'ॐ इदमग्नये न मम' इति त्यागान्ते दक्षिणामावेव जुहुयात(२)। ततः पत्री "ॐ वेदोऽसि येन त्वं देव व्वेद देवेभ्यो व्वेदो भवस्तेन मह्यं वेदो भूयाः" इति मन्त्रण (य० सं०२।२१) वेदं मुश्चेत् । ततः योक्त्रम्: "ॐ प्र मा मुश्वामि वरुणस्य पाशाधन मानारसविता सुशेवः। तस्य नौ सुकृतस्य लोकेऽरिष्टां मा सह पत्या दधातु" इति मन्त्रेण ( का० श्री० ३।८।२) (१) अस्यार्थकर्मत्वाचावदुलातापच्छिन्नयोरप्रवृतिः। (२) पिटलेपानां प्रतिपाद्यत्वादस्य, प्रतिपत्तिमत्वात हसते. पिप्रवृत्तिः । अस्मिन् होमे भर्देवतात्वं प्रकृती विकृती चेति लि. द्धान्तितं कर्माचार्यः। .

कातीयेष्टिदीपकः। सैव मुश्शेत् । ततो होता माईपत्यस्य उत्तरत भारभ्य वेदेः पूर्वान्तं यावत् वेदं स्तृणीयात् । तत आहवनीये समिधमाधाय प्र. णीतोत्करावन्तरेण बहिनिष्क्रामेत् । ततोऽध्वर्युः धौवमाज्यं विलाप्य जुहां गृहीत्वा स्कृत. बर्हिषः सकाशात् सव्ये पाणौ कुशमुष्टिं गृहीत्वा उपविश्यैव "ॐदेवा गातुविदो गातुं विवा गातुमित । मनस- स्पतऽइमं देव यज्ञ स्वाहा ब्वाते धाः" इति मन्त्रेण (ये० सं० २ । २१ ) समिष्टयजुःसंज्ञकं होमम्- "ॐइदं वाताय न मम"इति त्यागान्ते आहवनीये कुर्या- (१) । ततः सर्वाणि बहीषि जुहामवधाय "असं बर्हिरक्षा हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः। समि- न्द्रो विश्वदेवेभिरकां दिव्यं नभोगच्छतु यत् स्वाहा" इति मन्त्रेण (य० सं० २ । २२) "ॐइदं दिव्याय नमसे न मम"इति त्यागान्ते तत्रैव जु. : हुवात(२) ततः आमीधः इध्मसनहनान्यादाय स्फ्योपग्रहपूर्वकम् "रुद्रायं पशुपतये स्वाहा" इति मन्त्रेण "ॐ इदा रुद्राय पशुपतये न मम" इतित्यागान्ते तत्रैव जुहुयात् । ताअायुमणीला वेदिमध्ये आसाच आहवनीयं प्रदक्षिणी- कृस वेदिमध्ये उदङ्मुख उपविष्टः प्रणीताः अपवेषाम् "ॐक- (१) अर्थकर्मत्वादस्य अन्तापच्छिन्नादौ अप्रवृत्तिः। अत्र होमे घातस्य देवतात्वमिति कर्कभाष्ये स्पष्टम् । (२) बर्हिषां चरितार्थत्वात् बहिहोमः प्रतिपत्तिः। ततश्च अन्ता. पग्विन प्रवृतिभवस्येव ।

९६ कातीयेष्टिदीपकः। स्त्वा विमुञ्चति स त्वा विमुञ्चति कस्मै त्वा विमुञ्च- ति तस्मै त्वा विमुञ्चति । पोषाय"(य०सं० २ । २३)- (निनयामि) इति मन्त्रेण निनयेत् । (अधः पातयेदित्यर्थः) । ( एप दार्शपौर्णमासिकोऽवभृथः ) । (प्रणीतानिनयनं प्रतिपत्तिः श्चरितार्थत्वात् ) ततः अप्रदक्षिणं प्रत्यागच्छति । ततः फलीकरणानन्तरं स्थापितान् कणान् प्रथमकपाले निधाय उत्करस्योपरि "समीपे एव कृष्णाजिनं सव्येन धारयन् कृष्णाजिनस्याधस्तात् उत्करे कपालेनैव "ॐरक्षसां भागोऽसि" इति मन्त्रेण( य० सं० २ । २३ ) प्रक्षिपेत् । (नात्रोदकस्पर्शः । चतुर्थीनिर्देशाभावेन रक्षसां देवतात्वाभावात् , जुहोत्युपदेशाभावाच्च) । (चर्चिष्टौ पुरोडाशकपालाभावेऽपि कपालमात्रमुपादेयम् । कणोपासने करणत्वश्रवणात् इति बोध्यम् ) ततोऽध्वर्युः आहवनीयं प्रदक्षिणीकृत्य पूर्णपात्रमादाय द. क्षिणत उपविष्ट उत्तराभिमुखः यजमानस्याञ्जलो पूर्णपात्रं नि. नवेत् ( तत्स्थं जलमजलौ क्षिपेदित्यर्थः )। अञ्जली प्रक्षेपश्च त- था कार्यः यथा यजमानस्य "संवर्चसा' इतिमन्त्रमठान्ते भवेत् । ततोऽव्वर्गुणाः निनीयमानं पूर्णपात्रं : यजमानोऽञ्जलिना "ॐ संवर्चसा पयसा सन्तनूभिरगन्महिं मनसा सर्ट शिवेन । त्वष्टा सुत्रो विद्धातु रायोऽनुमाष्टुं त- न्वो यदिलिष्टम्"( य० सं० २।२४) इति मन्त्रेण (१)पातिगृह्य तूष्णीं मुखं विमृज्याव(शोधयेदित्यर्थः)। (१) पूर्णपात्रजलग्रहणस्य यजमानकर्तृकस्य प्राधान्यात् द्वा. दयाहे सर्वेयजमानप्राशत्वम् । अस्य पदार्थत्वात् अन्तापच्छिन्ने नि. - :

कातीयेष्टिदीपकः। ९७ ततो यजमान उत्थाय दक्षिणवेदिश्रोणेरारभ्य आहवनी. यादवाक् 'दिवि विष्णुः' इत्यादिभिः प्रतिमन्त्रं विष्णुक्रमान प्राचः क्रमते । तत्र पूर्व दक्षिणपादेन- "अदिवि विष्णुर्व्यस्त जागतेन च्छन्दसा त- तो निर्भक्तो योऽस्मान् देष्टि यं च व्वयं द्विष्मः" इति मन्त्रेण ( य० सं० २ । २५) दक्षिणे वेद्यन्ते प्राच्या कामेत् , सव्यं पादं ततोऽर्चागेव स्थापयेत । ततः "ॐ अन्तरिक्ष विष्णुयक्रस्त त्रैष्टुभेन च्छन्दसा ततो निर्भक्तो योऽस्मान देष्टि यं च व्वयं विष्मः" इति मन्त्रण (य० सं०२ । २५)नतः प्राच्या दक्षिणपादेनैव द्वितीय क्रामेत् । ततः "ॐपृथिव्यां विष्णुर्व्यस्त गायत्रेण च्छन्द- सा ततो निर्भक्तो योऽस्मान् द्रष्टि यं च व्ययं द्विष्मः" इति मन्त्रेण(य०सं०२।२५)ततोऽपि प्राच्यां तृतीयं तथैव कामेत् । कामता आहवनीयस्यातिक्रमणं न कर्तव्यम् । (विष्णुक्रमणं च पदार्थः । अतोऽन्तापच्छिन्ने निवृत्तिः ) ततः अस्मादनानिर्भक्तो योऽस्मान् देष्टि यं च व्वयं द्विष्मः" इति मन्त्रेण (य० सं० २१ २५) यजमान: खं भागमवेक्षेत(१) । ततः “ॐअस्यै प्रतिष्ठायास्त- (१) भागसंस्कारत्वाञ्चान्तलुप्तऽपि भागक्षणस्य प्रवृत्तिः । 'अस्मादनात्' इति भागेक्षणमन्त्रे निर्भत इत्यादि "अस्यै प्रतिष्ठा- याः" इति भूमीक्षणमन्त्रं च ततोनिर्भक्त इत्यादि अनुषज्यते , "कस्त्वा विमुञ्चति" इत्यादिप्रणीतानिनयनमन्त्रेतु 'निनयामि' इति लौकिकमध्याट्ठियते । यत्रानुषङ्गस्तत्राव्यधानेन प्रयोगः । यत्र तु अध्याहारस्तत्र व्यवधानेन । किंच अनुषङ्गावनाशे श्रोतं प्रायश्चि. सम् अध्याहारविनाशेतु स्मार्तम् । इदं च "उत्तराधारमाधार्य पशुं पूर्व समनक्ति" (का० श्री० ६ । ४ । २) इति सूत्रे कर्कभाष्ये स्पष्टम् । १३ * २८ कातीयेष्टिदीपकः। तो निर्भक्तो योऽस्मान् वेष्टि यं च व्वयं द्विष्मः" इति मन्त्रेण ( य० सं० २ । २५) भूमिमवेक्षेत । ततः "ॐअगन्म स्वः" इति मन्त्रेण ( य० सं० २ । २५) प्राची दिशमवेक्षेत(१) । ततः "ॐसं ज्योतिषाऽभूम" इति मन्त्रेणं ( य० सं० २ । २५ ) आहवनीयमीक्षेत । ततः “ॐस्वयं भूरसि श्रेष्ठो रहिमत्रोंदा असि बच्चों मे देहि" इति मन्त्रेण(य०सं०२।२६) सूर्यमीक्षेत । ततः “असूर्यस्यावृतमा न्वावर्ते" इति मन्त्रेण ( य० सं० २ । २६ ) प्रदक्षिणमावर्तेत (भ्राम्येत् ) । (नात्रेतरथाऽऽवृत्तिः । सूत्रे प्रदक्षिणग्रहणात् .)। तत: “ॐअग्ने गृहपते सुगृहपतिस्त्वयाऽग्नेऽहं गृ- हपतिना भूयास: सुगृहपतिस्त्वं मयाऽग्ने गृहपतिना भृयाः । अस्थूरि णौ गार्हपत्यानि सन्तु शत: हिमा:" इति मन्त्रेण(य०सं०२।२७) गार्हपत्यमुपतिष्ठेत । (इदमप्यर्थकर्म) ततः “सूर्यस्यावृतमन्वावत" इति मन्त्रेण (२० सं० २ । २७) प्रदक्षिणमावर्तेत । ततः "अउरु विष्णो विक्रमस्वोरुक्षयाय नस्कृधि । घृतं घृतयोने पिव प्रप्र यज्ञपति तिर स्वाहा" इति मन त्रेण ( य० सं० ५ । ३८ ) गाईपत्यात्माच्या गच्छन् । सतो वेदिमध्ये उपविष्टः यजमानः “ततोऽसि तन्तुर- स्यनुमा तनुशास्मिन्यज्ञे स्थाई साधुकृत्यायामास्म- नन्ने ऽस्मिल्लोक इदं मे कर्मेदं वीर्य ( पुत्रनाम गृहीत्वा) अमुकशर्मा पुत्रोऽनुसंतनोतु" इति (का० श्री० ३ । ८ । २२) (१) प्राचीक्षणमर्थकर्म । अतोऽन्तापच्छिन्ने निवृत्तिः। एवमाहव- नीयेश्रणं सर्यावक्षणं च अर्थकमैव । अतस्तयोरपि अन्तलोपे नि कातीयेष्टिदीपकः। आशिषः पार्थयेत् । पुत्राभावे आत्मनाम निर्दिश्यैव आशिषः प्रार्थयेत अमुक शर्मत्येवम् । ( 'अमुकशर्माऽहमनुसंतनवानि इत्येवं प्रार्थनमिति हरि- स्वामिनः) तत उत्थाय तुष्णीमाहवनीयमुपस्थाय “ॐअग्ने व्रतप- ते व्रतमचारिषं तदशकं तन्मेऽराधि" इति मन्त्रण व्रत विसृजेत् । तदनन्तरं पूर्वेणाहवनीयं गत्वा दक्षिणाग्नेरुत्तरण गत्वा गाईपत्यदक्षिणाग्न्योरन्तरालन निष्क्रामेत् । ततः 'ॐसं- यज्ञपतिराशिषा" इति मन्त्रेण स्वं भागं प्राश्नीयात् । (व्रत- विसर्ग-भागप्राशनयोरन्तापच्छिन्नंऽपि प्रवृत्तिः प्रतिपत्तिरूपत्वात प्रोषिते यजमाने "ॐअहं त्वदास्मि मदसि स्वमेत. न्मम त्वं योनिस्तव योनिरस्मि । ममैव सन्दिवि दे. वेष्वधि पुत्रः पिश्ये लोककृज्जातवेदः स्वाहा" (का० औ० ० ३ । ६ । ११) इदं जातवेदसे न मम इति मन्त्रेण अध्वर्युः यजमानभागं हस्तेन आहवनीये जुहुयात् । ततोऽध्वगुणा स्फ्यं हस्ते गृहीत्वा "ब्राह्मणं तर्पयितवै" इत्युक्ते यजमानः 'अस्याः पौर्णमासेष्टेः ( दर्शष्टेः ) समृद्ध्यर्थ श्रुत्युक्तमेकं ब्राह्मणं भोजयिष्ये । तेन श्रीयज्ञपुरुषः प्रीयतां न मम' इति संकल्पयेत् । ततो ब्रह्मा "ॐनमः कृताय कर्मणे अकृताय कर्मणे नमः । अयाड् यज्ञं जातवेदा अन्तरः पूर्वो अस्मिन्नि- षद्य सन्का सनि, सुविमुञ्चाविमुश्च धेह्यस्मभ्यं द्र- विणं जातवेदः स्वाहा" इति मन्त्रेण (का० श्रौ० २ २ । २१) आइंचनीये कमापवर्गसमिधमादधाति । ( समिदाधान पदार्थः । अतः यावदुक्तादिषु निवर्तते ।)

१०० कातीयेष्टिदीपकः। ततो यजमानः 'यथाशक्ति ब्राह्मणान् भोजयिष्ये तेन श्रीयज्ञपुरुषः प्रीयतां न मम' इति ब्रूयात् । ॐनहैष यज्ञ उवाच नग्नताया वै विभेमीति का ते नग्नतेति अभित एव मा परिस्तृणीयुरिति तस्मादे- तदग्निमभितः परिस्तृणन्ति तृष्णाया वै विभेमीति का ते तृप्तिरिति ब्राह्मणस्य वै तृप्ति अनुतृप्येयमिति । तस्मात्सस्थिते यज्ञे ब्राह्मणं तर्पयितवै ब्रूयाद्यज्ञ- मेवैतत्तर्पयति । यत्कर्मणाऽत्यरीरिचं यदा न्यूनमि- हाकरम् । आग्निष्टत् स्विष्टकृविद्वान् स्विष्टः सुहृतं करोतु स्वाहा । चतुर्भिश्च चतुर्भिश्च । प्रमादात्कुर्वतां कर्मः । नमस्ते गाईपत्याय नमस्ते दक्षिणामये । नम आहवनीयाय महावयै नमोनमः ।। नमः सभ्यावसथ्याभ्यां नमस्ते यज्ञमूर्तये । यस्यस्मृत्येति० कायेनवाचेति च पठित्वा अनेन यथाज्ञान- कृतेन पौर्णमासेष्टयाख्यन (दशॆष्ट्याख्पेन ) कर्मणा श्रीभगवान् यज्ञपुरुषः प्रीयतां न मम ॐतत्सत् नारायणार्पणमस्तु इति वदेत इति कर्कानुसारी दर्शपूर्णमासमयोगः । अथ सोमयाजिनो नियमेन सानाय्यवती दर्शष्टिः । तत्र चतुर्दश्यां सायं पयसाऽग्निहोत्रहोमं कृत्वा शेषभूतं पयः दध्यादिना संयोज्य उत्तरेयुः आतञ्चनार्थं स्थापयेत् । "उदास्यातनक्ति प्राग्घुतशेषेण" इतिसूत्रस्वरसाव ( १ )। ( का..श्री०.४।२।३३) ( १) कर्कोपाध्यायो हि "उद्वास्यातनक्ति प्राग्घुतशेषेण" इति सूत्र "मात तशेषेणेति संप्रदायः । नेत्यपरे। तदा प्रति तशेषेणेत्ये.

कातीष्टिदीपकः। १०१ किंच तत्र इष्टेिपूर्वदिवसे सान्नायवद्दशॆष्टया श्वो यक्ष्ये इति यजमानस्य संकल्पः । आहवनीयदक्षिणायोचिंहरणा- नन्तरं यजमानः षट् समिधो गृहीत्वा स्फ्यं सपहस्ते धृत्वा अग्निमष्टाकपालेन पुरोडाशेन, अग्नीषोमावन्तराऽऽज्येन उपांशु, इन्द्रं सान्नाय्यन (दध्ना पयसा च ) श्वोऽहं यक्ष्ये इति सं- कल्प्य 'पञ्चदशो वज्र' इत्यादि व्रतोपायनीयाशनान्तं कुर्यात् । अनन्तरमध्वर्युः प्राचीमुदीची भागुदीची चा पलाशशाखा शमीशाखां वा अशुष्काग्राम् “ॐ इषे त्वा" (य० सं१ । १) (छिनमि) इति मन्त्रेण छिनत्ति। "ॐ ऊर्जे स्वा" (य० सं० १। १) (सनमयामि) इति मन्त्रेण अनुमाष्टिं । ( अनुमार्जनं च शाखास्थपर्णादिपातनम् ) । अनन्तरमस्मिन्नेवावसरे यजमान: "अग्ने व्रतपते" इति व्रतमुपेयात् कालान्तरे वा । वतः अध्वर्युः शाखामादाय यजमानस्य षभिगोभिः सह षड्वत्सान् संसृज्य तान वत्सान् प्रत्येकं "वायव स्थ"(य०सं० २११) इति मन्त्रेण तया शाखया उपस्पृश्य गोभ्यो वियोजयेत् । वावक्ष्यत् । अतः प्राक्शब्दस्य पूर्वकालवाचित्वात्पूर्व यधुतशेषं सायहोमशेषमित्यर्थः" इति व्याख्याय सायंहोमशेषग्रहणस्य दृढीक. रणाय पुनराह "आतनतीति आतञ्चे रूपम् । स च संकोचनार्थः। सं. कोचः काठिन्यं, तत् सायंहोमशेषेण सुकरमिति"। सायहोमशेषभूतं हि पयः दध्यादियुक्तं सत अहोरात्रात्मकेन कालेन कठिनीभावमापन्नम् अन्यस्य पयसः शीघ्रं कठिनीकरणाय प्रभवति । नतु प्रात तशेषभूत पयः दध्यादियुक्तं सत् यामचतुष्टयमात्रेण सम्यक् कठिनीभावमापद्य- ते । येन तत् अन्यस्य शीघ्रं कठिनीकरणे समर्थ भवेत् । अतः सायं. होमशेषस्यैव ग्रहणमिति कर्काशयः । चतुर्दश्यां दध्नाऽग्निहोत्र- होमस्तु न कर्कसंमतः । नहि प्रात तशेषदध्यपेक्षया सायंहुतशेष- दध्नः कठिनीकरणाय विशेषो भवितुमर्हति । येन दधिहोमाजीकारे कर्कोक्तिः सङ्गच्छेतेति दिक् ।

कातीयेष्टिदीपकः। Amema- तनो मातॄणां गवां मध्ये एकां गाम्- "ॐ देवा वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमन्या इन्द्राय(महेन्द्राय) भार्ग प्रजावती- रनमीवा अयक्षमा मा व स्तेन ईशत माऽघशर्टसो ध्रुवा अस्मिन् गोपतौ स्यात बह्वाः" इति मन्त्रेण (य. सं० १ । १) शाखयोपस्पृशति । ततः अग्रे शाखाथै प्रादेशमात्रं परियज्य शाखाया मूलदेशात्- "ॐ वेषोऽस्युपवेषो द्विषतो ग्रीचा उपवेविहित वे. शाँ २॥ अग्ने सुभग धारयेह । ऋद्धाः कर्मण्या अनपा- यिनो यथाऽसन्" इति मन्त्रेण(१) (का०श्री० ४ । २१ १२) छित्त्वा उपवेषं करोति । ततः "ॐ वसोः पवित्रमसि" इति मन्त्रेण ( य० सं० १।२) शाखायां कुशद्वयरूपं पवित्रं बध्नाति । ततः "ॐ यजमानस्य पशून् पाहि" इति म. न्त्रेण (२० सं० १ । १) अग्न्यगारस्य पुरस्तात् शाखामुक- गृहति । ततः सायं यजमानस्य यवाग्वा स्वयम् अग्निहोत्रहोमः । ततः अध्वर्युः त्रैवर्णिकं दोग्धारम् "उपसृष्टां प्रब्रूतात्" इति 4. प्रेष्यति । ततो वत्सं संसृज्य 'उपसृष्टा' इति दोग्ध्रा प्रोक्ते अध्वर्युः "ॐ द्यौरसि पृथिव्यास" इति मन्त्रेण ( य० सं० १ । २) उखाम् ( स्थालीम् ) आददाति । ततः "ॐ मातरिश्वनो धर्मोऽसि विश्वधा असि। (१) अत्र मुद्रितसभाध्यश्रौतसूत्रपुस्तकेषु प्रमादात्-"वेषोऽसिं". इत्यादिमन्त्रः संपूर्णो न धृतः । लिखितसूत्रपुस्तकपर्यालोचनेन तु भस्माभिः का० श्रौतसूत्रस्थत्वेनोल्लिखितः इति बोध्यम् ।

कातीयेष्टिदीपकः। परमेण धाम्ना दृठहस्व मा हार्मा ने यज्ञपतिर्षीित्-" इति मन्त्रेण ( य० सं०१।२) गाईपत्ये स्थालीमाधिश्रयति । ततः "ॐ वसोः पवित्रमसि शतधारं वसोः पवित्र मसि सहस्रधारम" इति मन्त्रेण ( य० सं० १ । ३) शा- खापत्रित्रं स्थाल्पामुदगग्रं मागग्रं वा स्थापयति । ततो दोग्धारं 'गां धुक्ष्व' इति प्रेष्य वापतोऽध्वर्युरवतिष्ठते । ततः स्थाली- मन्वारब्धे यजमाने दोग्ध्रा काष्ठमयादिपात्रे गां दुग्ध्वा स्थापयामा- सिच्यमाने पयसि अध्वर्युः "ॐ देवस्त्वा सविता पुनातु व्वसाः पवित्रेण शतधारण सुप्वा" इति मन्त्रं (य० सं० १ । ३) जपति । ततः "ॐकामधुक्षा" ( य० सं०१३) इति पृच्छति दोग्धारम् । 'गङ्गाम्' इति दोग्ध्रा प्रोक्त "ॐसा विश्वायुः" इति ( य० सं १ । ४) अध्वर्युः प्राह । पुनरध्वर्युः 'गां धुत्व' इति प्रेषयति । ततो दोग्या द्वि. तीयां गां दुग्ध्वा यजमानेनान्वारब्धायां स्थाल्यां पवित्रस्योपरि दुग्धमासिञ्चति । तदाऽध्वर्युः “देवस्त्वा" इति जपति । । ततः"कामधुक्षः" इति पृच्छति । ततः 'यमुनाम्' इति दोग्ध्रा प्रोक्ते "ॐसा विश्वकर्मा" इति ( य० सं० १॥ ४) अध्वर्युराह । पुनः 'गां धुक्ष्व' इति श्रेषः । तृतीयां गां दुग्ध्वा पूर्ववत् पया स्थाल्यामाविञ्चति दोग्धाः । “देवस्त्वा" इति अध्वर्युः जपति । ततः "कामधुनः" इति पृच्छति । 'सरस्वतीम्' इति दोग्धा प्रत्याह । तदा “ॐसा विश्वधायाः" इति (य०सं० १।४) अध्वर्युराह । अनन्तरं तिमृणां गवां दोहनं नित्यम् । त्र्यधिकानां पाक्षिकम् । अन्यास तिसृणामधिकानां वा दोहने तु अध्वर्योाग्यमः, यजमानस्य स्थाल्यन्वारम्भश्च न भवतः ।

१०४ कातीयेष्टिदीपकः। । 8 सर्वदोहान्ते दोहनपात्र किंचिजलं प्रक्षिप्य पात्रं प्रक्षाल्य तज्जलं स्थाल्यां दुग्धमध्ये-"ॐ संपृच्यध्वमृतावरीरूमि- णा मधुमत्तमाः। पृश्चतीमधुना पयो मन्द्रा धनस्य सा- तये"इति मन्त्रेण (का० श्री० ४।२।३२) अध्वर्युरासिञ्चति । ततः पयः श्रपयित्वा उदास्य चतुर्दश्यां सायंहुतशेषेण दधिभावमाषा- दितेन"ॐ इन्द्रस्य त्या भागढ़ सोमेनातनमि"इति मन्त्रे- ण(१) (य० सं० ५। ४) आतनाक्त । (काठनीभवनार्थ तत्र प्र. क्षिपतीत्यर्थः ) ततः सोदकेन अमृन्मयेन पात्रेण उत्तानेन अपि- दधाति "ॐ विष्णो हव्य: रक्ष" इति मन्त्रेण ( य० सं० १। ४) । ततस्तूष्णीं शिक्यादौ तां स्थाली निदधाति । ततः शाखया पूर्ववत् वत्सापाकरणं प्रातःहार्थम् । अग्न्यगारस्य पुरस्ताच्छाखोपगृहनम् । यजमानस्य अग्न्यगारे शयनम् । प्रातर्यजमानः स्वयमेव यवाग्वां अग्निहोत्रं हुत्वा सूर्ये अनुदिते एव ब्रह्मवरणं कुर्यात् । तत्र विशेषः-अमुकशर्मन् सा. नाग्यवत्या दर्शष्टयाऽहं यक्ष्ये इति । पात्रासादने विशेषः- अष्टावेव कपालानि । पवित्रामादनानन्तरं शाखोपवेषः । वेदान- न्तरं (कुशमुष्टयनन्तरं) दोहनचतुष्टयम् । तच्च बन्धनरज्जुः, दो- हनपात्रं, शाखापवित्रम् , उखाचेति । आज्यानन्तरं पुरोडाश- पात्री एका। देवस्यत्वेत्यनेन आग्नेयस्यैव हविषो निर्वापः । आज्यनिर्वापवेदसंस्कारानन्तरम्, 'उपसृष्टां प्रबूतात्'इया. दिः पयसि प्रक्षालनजलपक्षेपान्तो दोहः । प्रातर्दोहश्च सायं. (१) "तट्टैके महेन्द्रायेतिं कुर्वन्ति" इति श्रुतेः पक्षे महेन्द्रस्य भावात् तदाश्रयणे "महन्द्रस्य त्वा भाग: सोमेनातनमि" इति ", कातीयेष्टिदीपकः। दोहपात्रादन्यपात्रे कर्तव्यः । सायंदोहमाहृत्य तस्य गार्हपयस्य पश्चिमतः स्थापनम् । आग्नेयपुरोडाशस्यैकत्वाद्विभागाभा- वेन तत्पूर्वकः "इदमग्नेः" इत्यालम्भोऽपि न प्रवर्तते । पु- रोडाशाधिश्रयणानन्तरं तदुत्तरतः पयोऽधियणम् । पर्यग्निकरण- स्य आज्यपुरोडाशसंयोगेन विधानात् पयसः पर्यग्निकरणाभावः । पुरोडाशं प्रातःहे च अपयित्वा पुरोडाशविभस्मीकरणान्ते पात्री स्थापयित्वा तस्यामुपस्तीर्य अग्निष्ठं पुरोडाशं पयश्च अभिघार्य माईपसस्योत्तरतो निहितायां पात्र्यां पुरोडाशमुद्दास्य तदुत्तरतो दधि निधाय तदुत्तरतः पय उदासयेत् । सतः आग्नेयपुरोडाश- दधि-पयसां प्राणदानम् । प्राणदानमन्त्रेच दन्नि पयसि च "इन्द्रं ( महेन्द्रपक्षे महेन्द्रं ) मच्छ"इति विशेषः । ततः कपालान्यभ्यज्योद्वास्य आज्यस्थाली-पुरोडाश-द- धि-पयसां "प्रियेण धाम्ना" इति मन्त्रेण क्रमेणासादनम् । "धुवा असदन" इति मन्त्रेण आज्यस्थाल्यादीनामालम्भ- नम् । तब आत्मालम्भे उदकस्पर्शः । होता आवाहने "अग्नीषोमों" इत्युपांशु उल्का "आश्व- ह इन्द्रमा३वह"इयादि ब्रूयात् । उत्तमे प्रयाजे "स्वाहाऽग्नि- स्वाहा"इत्यनन्तरम् “अग्नीषोमौ" इत्युपांशु उल्का उच्चैः "स्वाहेन्द्र स्वाहा"इत्यादि ब्रूयात् । उत्तमप्रयाजे त्यागश्च "ॐइदमाये सोमायामयेऽभीषोमाभ्या. मिन्द्राय देवेभ्य आज्यपेभ्यो न मम"इति यजमानेन कार्यः। आमेययागानन्तरमग्नीषोमीय उपांशुयागः। ततोऽध्वर्युः 'इन्द्रायानुबहि' इति होतारं प्रेषयेत् ।

कातीयेष्टिदीपकः। सतो होता(१) "ॐएन्द्र सानासा रयि: सजित्वान: सदासहम् । वर्षिष्ठमूतये भरो३म्" इत्यनुवाक्यां पठेत् (का० हौ०प०२।९)। ततोऽध्वर्युः जुहामुपस्तीर्य प्रथमं पयसो मध्यात्पूर्वार्धाच्च द्विरवदाय ततो दनस्तथैव विरवदाय उपरि सकृदभिघार्य दधिपयसोः प्रत्यभिधारणं कृत्वा अतिक्रम्याश्राव्य 'इन्द्रं यज' इति होतारं प्रेषयेत् । होत्राच "येयजामहइन्द्र(२) प्रससाहिषे पुरुहूत शत्रून ज्येष्ठस्ते शुष्म इह रातिरस्तु। इन्द्राभर दक्षि. णेना वसूनि पतिः सिन्धूनामप्ति रेवतीनां३ वौषट्। इति याज्यायां पठितायाम् अध्वर्युर्जुहुयात्तन्त्रेण । (१)ऋ० सं० १।१।१५ अस्या अर्थः । हे इन्द्र ऊतये अस्म- द्रक्षार्थ सानसिं सम्भजनीयं सजित्वानं समानशत्रुजयशीलं. सदा- सहं सर्वदा शबूणामभिभवहेतुं वर्षिष्ठम् अतिशयेन वृद्धं प्रभूतं रयिं धनम् आभर आहरेति । एन्द्रेत्याङः भरेत्यत्र सम्बन्धः । महेन्द्रपक्षे "महाँ २॥ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ २॥ इव । स्तोमैवत्सस्य वावृधो३म्" इत्यनुवाक्यां (य०सं०७। ४०) पठेत् । (२) ऋक्सं०८ । ८। ३८ अस्या अर्थः। हेपुरुहूत बहुभिराहूतेन्द्र शवून वैरिणः प्रससाहिषे प्रकर्षण अभिभवसि । ते तव शुष्मः शोष. के बलं ज्येष्ठः प्रशस्यतमं वृद्धतम वा भवति । इह अस्मिन् कर्मणि रातिस्तव दानम् अस्तु अस्मभ्यं भवतु । तदर्थ हेइन्द्र दक्षिणेना-द. क्षिणेन हस्तेन वसूनि धनानि आभर आहर आनय । त्वं रेवतीनां र. यिमतीनां बहुधनानां सिन्धूनां स्यन्दनशीलानां नदीनां पतिरसि स्वामी भवसि॥ महेन्द्रपक्षे "महां २॥ इन्द्रो नृवदाचर्षणिप्रा उत द्विबहीं अमिनः सहोमिः । अस्मद्रयग्वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिभूत" इति याज्या बोध्या। (य० सं०७ । ३९) कातीयेष्टिदीपकः। ॐइदमिन्द्राय न ममेति यजमानस्त्यागं कुर्यात् । होता स्विष्टकृन्निगदे "अग्नेः प्रिया धामान्ययाद' इत्यनन्तरम् "अग्नीषोमयोः" इत्युपांशूक्त्वा उच्चैः "प्रिया धामान्ययाडिन्द्रस्य प्रिया धामानि" इत्यादि ब्रूयात् । (प्राशिवमिडा च दधिपयसोः प्रवर्तते । द्रव्यसंस्कारत्वात् । पड़वत्तादिभागाश्चतुर्धाकरणं च पुरोडाशसंयोगेन श्रवणात न दधिपयसोर्भवन्ति ।) शाखापवित्रेण समस्य ऐष्टिकपवित्राभ्यां मार्जनम् । ततः शाखापवित्रं शाखायामेव स्थापनीयं, न तु प्रस्तरे । मार्जनमात्रे एव श्रवणात् । स्रुग्व्यूहने "अग्नेरग्नीषोमयोरिन्द्रस्यो- जितिमनूजयत्वयं यजमान" इति “आग्निरग्नीषोमावि. न्द्रस्तमपनुदन्तु यमयं यजमान' इति च अवयुब्रूयात् सूक्तवाके होता "अग्निरिद: हविरजुषतावीत महो ज्यायोऽकृत" इत्यनन्तरम् "अग्नीषोमौ" इत्युपांशूक्त्वा "इदा हविरजुषेताम्" इत्यादि पौर्णमासवदुक्त्वा उच्चैः "इन्द्र इद: हविरजुषत" इत्यादि पठेत् । सह शाखया प्रस्तरानुपहरणमाहवनीये । अध्वर्युणा परिधिषु हूयमानेषु अग्नीत् “ॐजुहोमि त्वा सुभग सौभगाय पुरुतमं पुरुहूत श्रवस्यन्त्स्वाहा" इति म- न्त्रेण ( का० श्री० ४ । २ । ४३ ) उपविश्योपवेषं जुहुयात् । "ॐइद: सौभगाय न मम" इति यजमानस्त्यागं कुर्यात् । .. इति सानाय्यवद्दर्शष्टिप्रयोगः ।

१०८ कातीयेष्टिदीपकः। यजमानः अथ सन्मयतोऽसन्नयतश्च अमायाम् अपराहे- पिण्डपितृयज्ञः। तत्र देशकालकीर्तनान्ते कृताऽपसव्यो नीवीं बध्वा दक्षिणाऽभिमुखः परमेश्वरप्रीतये पिण्डपि- यज्ञेनाऽहं यक्ष्ये इति संकल्पयेत् । ततोऽग्निमपरेण उत्तरेण वा पात्रासादनम् । अपरेण रेखाकरणम् । “एतत्ते" इति पिण्डदानम् । सूत्राण्याच्छादनानि । एतान्वैकल्पिकपदार्थानहं करिष्ये इति वैकल्पिकावधारणम् । ततोऽध्वर्युः अग्निं कव्य- चाहनं सोमं पितृमन्तं चरुणा, अमुकगोत्रम् अमुकशर्माण यजमानापतरम् अमुकशाणं यजमानपितामहम् अमुकशर्माणम् यजमानप्रपितामहं चरुशेषपिण्डैरहं यक्ष्यामि (यक्ष्ये) इत्युल्लिखेत् । ( यजमानस्य स्वयं कर्तृत्वे तु अस्मत्पितरम् अस्मपितामहम् अस्मत्मपितामहम् इति प्रयोगः। सति संभवे अध्वर्युकर्तृकत्वमेव "यजमानस्य पितृमभृतित्रीन" ( का श्री.० ४ ११.३०) इतिसूत्रस्वरससिद्धम् )। ततोऽध्वर्युर्यजमानो वा दक्षिणानिमानेयकोणादक्षिण- संस्थमप्रदक्षिणं दक्षिणात्रैर्दर्भः परिस्तीर्य पात्रासादनमेकशः कुर्याद-दक्षिणाभिमपरेण मागग्रं दक्षिणबिलं दक्षिणसंस्थं पात्रं सुचवा, उलूखलं, मुसलं, शूर्प, चरुपात्रम् , उदकम् , ज्य, सेक्षणं, सयम् , उदपात्रं, सकृदाच्छिन्नानि, ब्रीहीन, सूत्राणि चेति । ततो गाईपत्यमपरेण दक्षिणाभिमुखः उपविश्य सुचि स्था- ल्यो वा अपूर्ण ब्राहीन तूष्णीं गृहीत्वा दक्षिणानिमुत्तरेणोलू- खले दक्षिणाभिमुखस्तिष्ठचाहन्तिः । शूर्फ कृत्वा निष्पूय सकृत्फ. लीकृत्प चरुस्थाल्यामुदकमासिच्य सारतण्डुलान्पितृतीर्थेनोप्य कातीयेष्टिदीपकः। १०९ दक्षिणायावधिश्रित्येषच्छृतमभिधार्य दक्षिणत उदास्याप्रदक्षि. णमाहृत्य अध्वयुर्मेक्षणेन “ॐअग्नये कव्यवाहनाय स्वा- हा" इति ( य० सं० २ । २९) जुहोति । यजमानः-“इइमनये कव्यवाहनाय न मम" इति त्यागं कुर्यात् । पुनरध्वर्युः तदक्षिणे "ॐसोमाय पितृमते स्वाहा" (५० सं० २१ २९) इति जुहोति । यजमान:-"ॐइदा सोमाय पितृमते न मम" अध्वर्यु: मेक्षणं इतस्व वामे प्रास्पति । ततः स्मयेन दक्षिणाभिमपरेण “ॐअपहता असुरा. रक्षासि वेदिषद" इतिः (य० सं० २१ २९) दक्षिणायां रेखामुल्लिखति । अब उपस्पृश्य दक्षिणानेरुल्मुकमादाय ॐ... ये रूपाणि प्रतिमुश्चमाना असुराः सन्तः स्वधया च. रन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टॉल्लोकात्प्रणुदा- त्यस्मात्" इति ( य० सं० २।३०) रेखाने निदधाति । अब उफ्स्पृश्य. उदपावमादाय अमुकगोत्र यजमानस्य पिता अमुकशर्मन् अवननिक्ष्व इति पितृतीर्थेन रेखाम्लेऽवनेजयति । रेखामध्ये अमुकगोत्र यजमानस्य पितामह अमुकवर्मन् अवनेनिक्षत इति । अथ रेखाग्रे अमुकगोत्र यजमानस्य प्रपितामह अमुफशर्मन् अस्मेनिक्ष्व इति । सकदाच्छिनानि रेखायां कृत्वा यथाऽ- वनिक्तं पिण्डान् ददाति त्रीन् । चरुं बेधा विभज्य पिण्डान कृत्वैकमादाय अमुकगोत्र यजमानस्य पिता अमुकशन् "एतत्तेऽस्वधा" इति दद्यात् । यजमानः ॐइदम् अमुकगोत्रायाऽस्मत्पित्रे अमुकभर्मणे नषभ.

११० कातीयेष्ठिदीपकः। पुनरध्वर्युः द्वितीयमादाय अमुकगोत्र यजमानस्य पितामह अमुकशर्मन् "एतत्तेऽन स्वधा” इति दद्यात् । यजमाना-ॐइदम् अमुकगोत्रायाऽस्मपितामहायामुकश- मणे नमः। अध्वर्युः-तृतीयमादाय अमुकगोत्र यजमानस्य प्रपितामह अमुकशर्मन् “एतचेऽन्न स्वधा" इति दद्यात् । यजमान:-ॐइदम् अमुकगोत्रायास्मत्मपितामहायामुक. शर्मणे न मम इति त्यजति । . अध्वर्युः हस्तं प्रक्षाल्य "*अत्र पितरो मादयध्वं यथाभागमावृषायध्वम् इति (य०सं०२।३१)जपति । अपस. व्यमायोदडास्ते आतमनात् । (आतमनात् उच्छासावसानं या• वत् ) । पुनस्तथैव आवस्य दक्षिणाभिमुखो भूत्वा “ॐअमीम- दन्त पितरोयथाभागमावृषाविषत" इति (य०सं०२॥३१). जपति,। पिण्डमूले चोपरि पूर्ववदवनेजनम् । नीवी विस्खा पडअलीन् करोति प्रतिमन्त्रम्-"ॐनमो ना पितरो रसाय", "ॐनमो वः पितरः शोषाय" २"ॐन- मोवः पितरो जीवाय" ३ "ॐनमो वः पितरः स्वधा- यै ४ "ॐनमो वः पितरो घोराय"५ "ॐनमो वः प्रितरो मन्यवे नमो का पिता पिताले समो- ६.इति (य० सं० २१ गृहान्नः पितरो दत्त सतो पितरो देष्म" इति ( य० सं० २ । ३२) जपतिंच। ततः "ॐएतः पितरो बास" इति ( य० सं०सार) श्रीणि श्रीणि सूत्राणि प्रतिपिण्डं ददाति । उदपावजलशेषम् "*अर्ज वहन्तीस्मृतं घृतं प्रयः कीलालं परितम् ।। स्वधा स्थ तर्पयत मे पितृन्" इति ( य० सं० २ । ३४) कातीयेष्टिदीपकः। १११ पिण्डेषु निषिञ्चति । पिण्डानुवृत्य यजमानाय प्रयच्छति । स चावजिघ्रति । अध्वर्युः सकदाच्छिन्नान्यग्नौ प्रहृयोल्मुकं च, सव्येनापः स्पृशेत् । पत्नी पुत्रकामा चेत् तस्यै यजमानः अनव- घ्रातं मध्यमपिण्डं प्रयच्छेत् । सा च करिष्यमाणपार्वणमध्यमपि- ण्डेन सह "ॐआधत्त पितरो गर्भ कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसत्" इति (य० सं० २ । ३३) मन्त्रेण माश्नाति। ततो दर्शश्राद्धम् । जीवपितृकस्य पिण्डपितृयज्ञाभावः । इति पिण्डपितृयज्ञप्रयोगः। नाई औतार्थनिष्णातः श्रीगौरीनाथसंश्रयात् । तथापि व्यलिखं किश्चित् प्रीयतां तेन सद्गुरुः ।। चन्द्रनागाङ्कभूवर्षे भाद्रमासासिते दले । कृष्णाष्टम्यां गतः पूर्ति कातीयेष्टिमदीपकः ।। इति श्रीनित्यानन्दपर्वतीयविरचितः कातीयेष्टिदीपकः समाप्तः। संवत् १९८१ भाद्र कृष्ण ८ शुक्रे । शम् ।

Katiyeshti Dipaka

Author
M.m.p.nitya_nanda_parvatiya
Other authors
Ccl
Title
Katiyeshti Dipaka
File name
Katiyeshti Dipaka
Text
OCR done
Citation
1924
Publisher
Jai_krishna_dass_gupta
Language
Sanskrit
Pages
112
Library
Scl
DLI number
326250
Barcode
2020010005747.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
9DVA1vbutIY
Download PDF

Katiyeshti Dipaka