Charan Sahitya Shodh Sansthan, Ajmer
Karikavali
Front matter
(इद पुस्तकं १८६७ अब्दस्य २५ तमराजनियमानुसारेण मुद्रयित्वा अस्य पुनर्मुद्रणादिविषयेऽधिकारः प्रकाशयित्रा स्वाधीनो रक्षित.)
भूमिका ॐनमः श्रीगुरुचरणारविन्दाभ्याम् । इह खलु सर्वेऽपि तन्त्रकारा अभिमतप्रमेयसमर्थनाय तदर्थ परमतनिरासाय च प्र- माणमाश्रयन्ते परीक्षन्ते च, इति प्रमाणतत्परीक्षाप्रकारज्ञानमावश्यक शास्त्रमधिजिगां- सूनाम् । परीक्षणं चात्र प्रमाणस्य गुणदोषविमर्श । तच्च तर्कशास्त्रापरपर्यायप्रमाण- शास्त्राध्ययनसाध्यम् । अतएवास्य शास्त्रस्य सर्वशास्त्रप्रदीपत्वमाचक्षते वृद्धाः- 'प्रदीपः सर्वशास्त्राणामुपाय. सर्वकर्मणाम् । आश्रयः सर्वधर्माणा विद्योद्देशे प्रकीर्तिता' इति । प्रकीर्तितेति स्त्रीत्वमान्वीक्षिक्यपेक्षया। गणितशास्त्रेऽपि प्रतिज्ञादिन्यायावयवो- पन्यासपुर.सरमुपनिवद्धेषु धर्मशास्त्रादिष्विवास्य सुमहानुपयोगः । अभिहितं हि पाट्या सर्वस्यापि गणितजातस्य राशिकात्मकत्वं श्रीभास्कराचार्य.-'यथा भगवता भक्तज- नमनःक्लेशापहारिणा हरिणा निखिलजगज्जननैकवीजन सकलभुवनभवनवनगिरिसरिद- सुरसुरनरनगरादिभिः स्वभेदैरिद जगद्व्याप्त तथेदमखिलंगणितजात त्रैराशिकेन व्याप्तम्' इति । त्रैराशिकं चप्रमाणगणितमित्युच्यते । तच्चानुमानरूपम् । तथाहि--एकेन पणेन पञ्च फलानि क्रीणाति त्रिभिः पणैः कियन्ति क्रीणीयादिति पृष्टः, एकेन पञ्च क्रीणातीति वाक्यादेकपणत्व फलपञ्चकमूल्यत्वव्याप्यमिति व्याप्तिं गृह्णाति। ततश्च 'मूल्यक्रेयतावच्छे दकभावापन्नयोर्ययो. सख्ययोः व्याप्यव्यापकतावच्छेदकभाव. समानसख्यागुणितयोस्त- योरपि तथा' इति नियमसाचिव्येन नित्वविशिष्टपणत्वे पश्चदशफलमूल्यत्वव्याप्तिं गृहीत्वा पणत्रय पक्षीकृत्य त्रित्वविशिष्टपणत्वेन लिङ्गेन पञ्चदशफलमूल्यत्वमनुमिनोतीत्यकामे- नाप्यभ्युपगन्तव्यमस्य प्रमाणशास्त्रस्य सर्वशास्त्रप्रदीपत्वम् । तदेतादृशं सर्वशास्त्रप्र- दीपभूतमान्वीक्षिक्यपरपर्यायं प्रमाणशास्त्र भगवानक्षपादः प्रणिनाय । प्रणिनाय च भगवान्कणादोपि यद्वैशेषिकदर्शनमित्युच्यते । क्वचिद्विरोधिनोरप्यनयो. भूयिष्ठामेक- रूपतामवलोक्य श्रीमहामहोपाध्यायैगंगेशोपाध्याय समावेशितोभयरहस्यस्तत्वचिंताम- णिर्नामाप्रतिरूपः सदर्भः प्रणीतः सचाधुना रघुनाथशिरोमणिप्रणीतदीधितिव्याख्यान- रतिग्रहनै. सूक्ष्मधियामप्यगोचर. साधारणधियांपुनरतिभीषणः संवृत्त इति तदध्येतॄणां वालानामुपचिकीर्षया विद्वद्भिरनेकशः प्रकरणानि प्रणीतान्यथापि कारिकावली सर्वाणि तान्यतिशेत इत्यविच्छिन्नतदध्ययनाध्यापनसप्रदाय एव गमयतीति कृत तद्गुणल्यापना- यासेन । सा च सिद्धान्तमुक्तावलीसहिता दिनकरी-रामदीसाहाय्येन सशोध्य विपमस्थलटिप्पणीनिवेशेन च परिष्कृत्याध्येतृणामुपहारी कृतेति शम् । विदुषामनुचरः वाने इत्युपाटो महादेवशर्मा. - १ ... ... :: ५४ ... स्पर्शनिरू०... १८ पृथक्त्वनि० ... विषयानुक्रमणिका. विषयः पृष्टम्. विषयः पृष्ठम् प्रत्यक्षखण्डम् १-३५ आकाशातात्पर्यनिरू० ५२ मङ्गलवादः १ स्मृतिनि० उद्देशग्रन्थः २. मनोनिरूप० ५३ साधर्म्यनिरूपणम् गुणनिरूपणम् ५४-८३ तत्र मूर्तवृत्तित्वादिभेदनि० कारणत्वनिरूपणम् रूपनिरूपणम् अन्यथासिद्धिनि०... ९ रसनिरूप० वैधर्म्यनिरूपणम् १४ गन्धनिरू० द्रव्येपु पृथिव्यादिप्रत्येकवृत्ति- गुणानां परिगणनम् १४ संख्यानि० पृथ्वीनिरूपणम् १४ परिमाणनिरू० ૨૨ जलनिरूप० तेजोनिरूप० १९ संयोगनि०... ६४ वायुनिरूप० २१ विभागनि० आकाशनिरू २१/ परत्वापरत्वनि० ६५ कालनिरूप० २२ | बुद्धिनिरूप० ६६ दिभिरूप० २३ प्रामाण्यविचारः ६८ आत्मनिरूप० २३ व्याप्तिग्रहोपायनिरू० ६९ प्रासनिक बुद्धिनि० २७ उपाधिविचारः प्रत्यक्ष निरूपणम् २७ वैशेपिकमतखण्डनम् अलौकिकप्रत्यक्षनि० ३३ / अनुमानविभागः अनुमानखण्डम् ... ३५-४५ व्यतिरेकव्याप्तिनिरू. ७२ अनुमितिव्युत्पादनम् ३५ अर्थापत्त्यादीनामतिरिक्तप्रमाणता- परामर्शनि० ७३ पूर्वपक्षव्यातिनि०... ३६ सुखनि० सिद्धान्तव्याप्ति ३७ दुःखनिरू० पक्षतानिरूप० ७४ हेत्वाभासनिरूप० ११/ द्वेपनि उपमानखण्डम् ४५-४६ प्रयत्ननि० उपमितिव्युत्पादक ४५ गुरुत्वनि शब्दखण्डम्... ४६-५२ द्रवत्वनि० ७९ शक्तिविचारः ४६ | स्नेहनि० लक्षणानिरू० ४९ संस्कारनि० आसत्तिनिरू० ५१ | धर्माधर्मनि० योग्यतानि० ५१ शब्दनिरू० ... .. ७१ ७ ... निरासः ... ... ७४ ३९/ इच्छानि० ... ... ... ... ... ८२ श्री। ॥ कारिकावली ॥ नूतनजलधररुचये गोपवधूटीदुकूलचौराय । तस्मै कृष्णाय नमः संसारमहीरुह- स्य बीजाय ॥ १ ॥ द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् । समवायस्तथाऽ- भावः पदार्थाः सप्त कीर्तिताः ॥ २ ॥ क्षित्यतेजोमरुद्वयोमकालदिग्देहिनो मनः । द्रव्याण्यथ गुणा रूपं रसो गन्धस्ततः परम् ॥ ३ ॥ स्पर्शः संख्या परिमितिः पृ. थक्त्वं च ततः परम् । संयोगश्च विभागश्च परत्वं चापरत्वकम् ॥ ४॥ बुद्धिः सुखं दुःखमिच्छा द्वेपो यत्नो गुरुत्वकम् । द्रवत्वं स्नेहसंस्कारावदृष्टं शब्द एव च ॥ ५ ॥ उत्क्षेपणं ततोऽपक्षेपणमाकुञ्चनं तथा । प्रसारणं च गमनं कर्माण्येतानि पञ्च च ॥ ६ ॥ भ्रमणं रेचनं स्यन्दनोज्वलनमेव च । तिर्यग्गमनमप्यन्न गमनादेव लभ्यते ॥ ७ ॥ सामान्यं द्विविधं प्रोक्तं परं चापरमेव च । गव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥ ८॥परभिन्ना तु या जातिः सैवापरतयोच्यते ॥ द्रव्यत्वा- दिकजातिस्तु परापरतयोच्यते ॥९॥ व्यापकत्वात्परापि स्याद्वयाप्यत्वादपरापि च । अन्त्यो नित्यद्व्यवृत्तिविशेषः परिकीर्तितः ।। १० ॥ घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः । तेषु जातेश्च संवन्धः समवायः प्रकीर्तितः॥११॥ अभावस्तु द्विधासं- सर्गान्योन्याभावभेदतः । प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च ॥ १२॥ एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते । सप्तानामपि साधर्म्य ज्ञेयत्वादिकमुच्यते ॥ १३ ॥ द्रव्यादयः पञ्च भावा अनेके समवायिनः । सत्तावन्तस्त्रयस्त्वाचा गुणा- दिनिर्गुणक्रियः ॥ १४ ॥ सामान्यपरिहीनास्तु सर्व जात्यादयो मताः। परिमाण्ड- ल्यभिन्नानां कारणत्वमुदाहृतम् ॥ १५ ॥ अन्यथासिद्धिशून्यस्य नियता पूर्वव- र्तिता । कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥ १६ ॥ समवायिकारणत्वं नेयमथाप्यसमवायिहेतुत्वम् । एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुत्वम्॥१७॥ यत्समवेतं कार्य भवति शेयं तु समवायिजनकं तत् । तत्रासन्नं जनकं द्वितीयमा- भ्यां परं तृतीयं स्यात् ॥ १८ ॥ येन सह पूर्वभावः कारणमादाय वा यस्य । अन्य प्रति पूर्वभावे ज्ञाते यत्पूर्वभावविज्ञानम् ॥ १९ ॥ जनकं प्रति पूर्ववृत्तिता- मपरिज्ञाय न यस्य गृह्यते । अतिरिक्तमथापि यद्भवेनियतावश्यकपूर्वभाविनः ॥ २०॥ एते पञ्चान्यथासिद्धा दण्डत्वादिकमादिमम् । घटादी दण्डरूपादि द्वि- तीयमपि दर्शितम् ॥ २१ ॥ तृतीयं तु भवेद्व्योम कुलालजनकोऽपरः । पञ्चमो रासभादिः स्यादेतेप्यावश्यकस्त्वसौ ॥ २२ ॥ समवायिकारणत्वं द्रव्यस्यैवेति वि. ज्ञेयम् । गुणकर्ममात्रवृत्ति ज्ञेयमथाप्यसमवायिहेतुत्वम्॥२३॥ अन्यत्र नित्यद्व्ये- भ्य आश्रितत्वमिहोच्यते । क्षित्यादीनां नवानां तु द्रव्यत्वं गुणयोगिता ॥ २४ ॥ क्षितिर्जलं तथा तेजः पवनो मन एव च । परापरत्वमूर्तत्वक्रियावेगाश्रया अमी x २ कारिकावली- । ॥ २५॥ कालखात्मदिशां सर्वगतत्वं परमं महत् । क्षित्यादिपञ्च भूतानि चत्वारि स्पर्शवन्ति हि ॥ २६ ॥ द्रव्यारम्भश्चतुर्पु स्यादथाकाशशरीरिणाम् ।भव्याप्यवृत्तिः क्षणिको विशेषगुण इप्यते ॥ २७ ॥ रूपद्रवत्वप्रत्यक्षयोगिनः प्रथमात्रयः । गुरु- णी द्वे रसवती द्वयोनैमित्तिको द्रवः ॥ २८॥ मात्मनो भूतवर्गाश्त्र विशेषगुणयो- गिनः । यदुक्तं यस्य साधये वैधर्म्यमितरस्य तत् ॥ २९ ॥ पादयोऽष्टी वेगा- ख्यः संस्कारो मरुतो गुणाः । सर्शाद्यष्टौ रूपवेगौ द्रवत्वं तेजसो गुणाः ॥ ३० ॥ स्पर्शादयोऽष्टी वेगश्च गुरुवं च द्रवत्वकम् । रूपं रसस्तथा स्नेहो वारिण्येते चतुर्दश ॥ ३१ ॥ स्नेहहीना गन्धयुताः क्षितावेते चतुर्दश । वुझ्यादिपटू संख्यादिपञ्चक भावना तथा ॥ ३२ ॥ धर्माधौं गुणा एत आत्मनः स्युश्चतुर्दश । संख्यादि- पञ्चकं कालदिशोः शब्दश्च ते च खे ॥ ३३ ॥ संख्यादयः पञ्च बुद्धिरिच्छा यतोऽ पिचेश्वरे । परापरत्वे संख्याद्याः पञ्च वेगश्च मानसे ॥३४॥ तत्र क्षितिर्गन्धहे. तुर्नानारूपवती मता । पशिधस्तु रसस्तत्र गन्धस्तु द्विविधो मतः ॥ ३५ ॥ स्प- शस्तस्यास्तु विज्ञेयो झनुष्णाशीतपाकजः । नित्यानित्या च सा द्वेधा नित्या स्थाद्- णुलक्षणा ॥३६ ॥ अनित्या तु तदन्या स्यात्सवावयवयोगिनी । सा च त्रिधाभवे- हेहमिन्द्रयं विपयस्तथा ॥ ३७॥ योनिजादिर्भवेदेह इन्द्रियं घ्राणलक्षणम् । वि- पयो व्यणुकादिश्च ब्रह्माण्डान्त उदाहृतः ॥ ३०॥ वर्णः शुक्लो रसस्पशौजले मधु- रशीतलौ । स्नेहस्तन द्रवत्वं तु सांसिद्धिकमुदाहृतम् ॥३९॥ नित्यतादि प्रथम- वकि तु देहमयोनिजम् । इन्द्रियं रसनं सिन्धुहिमादिविपयो मतः ॥ १० ॥ उष्णस्पर्शस्तेजसस्तु स्याद्रूपं शुक्लभास्वरम् । नैमित्तिकं द्रवत्वं तु नित्यतादि च पू- र्ववत् ॥ ११ ॥ इन्द्रियं नयनं वह्रिस्वर्णादिपियो मतः । अपाकजोऽनुष्णा- शीतः स्पर्शस्तु पवने मतः ॥ ४२ ॥ तिर्यग्गमनवानेप ज्ञेयः स्पर्शादिलि- गकः । पूर्ववन्नित्यतायुक्तं देहव्यापि त्वगिन्द्रियम् ॥ ४३ ॥प्राणादिस्तु महा- वायुपर्यन्तो विषयो मतः । आकाशस्य तु विज्ञेयः शब्दो वैशेपिको गुणः ॥४॥ इन्द्रियं च भवेच्छ्रोत्रमेकः सन्नप्युपाधितः । जन्यानां जनकः कालो जगतामा. श्रयो मतः ॥ ४५ ॥ परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः । दूरान्तिकादिधी- हेतुरेका नित्या दिगुच्यते ॥ १६ ॥ उपाधिभेदादेकापि प्राच्यादि व्यपदेशभाक् । आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् ॥ ४७ ॥शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः । तथात्वं चेदिन्द्रियाणामुपधाते कथं स्मृतिः ॥ ४० ॥ मनोऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेत्। धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगतः ॥१९॥ प्रवृत्त्याद्यनुमयोऽयं स्थगत्येव सारथिः । अहंकारस्याश्रयोऽयं मनोमात्रस्य गोचरः ।। ५० ॥ विभुर्बुद्धयादिगुणवान्बुद्धिस्तु द्विविधा मता । अनुभूतिः स्मृति- श्व स्यादुनुभूतिश्चतुर्विधा ॥ ५१ ॥ प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे । प्राण- जादिप्रभेदेन प्रत्यक्ष पनि, मतम् ॥ ५२ ॥ घ्राणस्य गोचरो गन्धो गन्धत्वादि- रपि स्मृतः । तथा रसो रसज्ञायास्तथा शब्दोऽपि च श्रुतेः ॥५३॥ उद्भूतरूपं न- यनस्य गोचरो द्रव्याणि.तद्वन्ति पृथक्त्वसंख्ये । विभागसंयोगपरापरत्वस्नेहद्वत्वं कारिकावली- ३ परिमाणयुक्तम् ॥५४॥ क्रिया जातिर्योग्यवृत्तिः समवायश्च तादृशः । गृह्णाति च- क्षुःसंबन्धादालोकोद्भूतरूपयोः ॥ ५५ ॥ उद्भूतस्पर्शवद्रव्यं गोचरः सोऽपि च त्व- चः । रूपान्यचक्षुपोयोग्यं रूपमत्रापि कारणम् ॥ ५६ ॥ द्रव्याध्यक्ष त्वचो योगो मनसा ज्ञानकारणम् । मनोग्राह्यं सुख दुःखमिच्छा द्वेपो मति. कृतिः ॥५७॥ ज्ञा- नं यनिर्विकल्पाख्यं तदतीन्द्रियमिप्यते । महत्त्वं पड्विधे हेतुरिन्द्रियं करणं मत- म् ॥ ५४॥ विपयेन्द्रियसंबन्धो व्यापारः सोऽपि पड्विधः। द्रव्यग्रहस्तु संयोगा- संयुक्तसमवायतः ॥५९ ॥ द्रव्येषु समवेतानां तथा तत्समवायतः । तत्रापि सम- वेतानां शब्दस्य समवायतः ॥ ६० ॥ तद्वृत्तीनां समवेतसमवायेन तु ग्रहः । प्रत्य- क्षं समवायस्य विशेषणतया भवेत् ॥६॥ विशेपणतया तद्वदभावानां ग्रहो म- वेत् । यदि स्यादुपलभ्येतेत्येवं यन्त्र प्रसज्यते ॥ ६२ ॥ अलौकिकस्तु व्यापारस्त्रि. विधः परिकीर्तितः । सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा।। ६३ ।। आसत्तिरा. श्रयाणां तु सामान्यज्ञानमिप्यते । तदिन्द्रियजतद्धर्मबोधसामग्र्यपेक्ष्यते ॥ ६ ॥ विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः। योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभे- दतः ॥ ६५॥ युक्तस्य सर्वदा भानं चिन्तासहकृतोऽपरः। व्यापारस्तु परामर्शः करणं व्याप्तिधीभवेत् ।। ६६ ॥ अनुमायां ज्ञायमानं लिङ्गं तु करणं नहि । भना- गतादिलिङ्गेन न स्यादनुमितिस्तदा ॥६७॥ व्याप्यस्य पक्षवृत्तित्वधीः परामर्श उ- च्यते । व्याप्तिः साध्यवदन्यसिन्नसंबन्ध उदाहृतः ॥ ६८ ॥ अथवा हेतुमनिष्ठवि- रहाप्रतियोगिना । साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते ॥ ६९ ॥ सिपाधयि- षया शून्या सिद्धिर्यत्र न विद्यते । सपक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत् ॥७०॥ अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः । कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ।। ७१ ॥ मायः साधारणस्तु स्यादसाधारणकोऽपरः। तथैवानुपसंहारी त्रि- धाऽनैकान्तिको भवेत् ॥७२॥ यः सपक्षे विपक्षे च भवेत्साधारणस्तु सः । यस्तू- भयसायावृत्तः स चासाधारणो मतः॥ ७३ ।। तथैवानुपसंहारी केवलान्वयिप- क्षकः । यः साध्यवति नैवास्ति स विरुद्ध उदाहृतः ॥ ७४ ॥ आश्रयासिद्धिराद्या स्यात्स्वरूपासिद्धिरप्यथ । व्याप्यत्वसिद्धिरपरा स्यादसिद्धिरतस्त्रिधा।।७५॥ पक्षा- सिद्धियंत्र पक्षो भवेन्मणिमयो गिरिः । इदो द्रव्यं धूमवत्वादत्रासिद्धिरथापरा ॥७६॥ व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत् । विरुद्धयोः परामर्शो हेत्वोःस- प्रतिपक्षता ॥ ७७॥ साध्यशून्यो यत्र पक्षस्त्वसौ बाध उदाहृतः । उत्पत्तिकालीन- घटे गन्धादियंत्रसाध्यते ॥७॥ ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् । सा- दृश्यधीर्गवादीनां या स्यात्सा करणं मतम् ॥७९॥ वाक्यार्थस्यातिदेशस्य स्मृति- ापार उच्यते । गवयादिपदानां तु शक्तिधीरुपमाफलम् ॥ ८० ॥ पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः । शाब्दबोधः फलं तत्र शकिधीः सहकारिणी ॥८॥ लक्षणा शक्यसंबन्धस्तात्पर्यानुपपत्तितः । आसत्तिर्योग्यताकासातात्पर्यज्ञानमि- प्यते ॥ ८॥ कारणं संनिधानं तु पदस्यासत्तिरुच्यते। पदार्थे तत्र तद्वत्ता योग्य- ता परिकीर्तिता ॥ ३॥ यत्पदेन विना यस्याननुभावकता भवेत् । आकाङ्क्षाव- ।
४ कारिकावली- - तुरिच्छा तुतात्पर्य परिकीर्तितम् ॥८॥ साक्षात्कारे सुखादीनां करणं मन उच्य- ते । अयोगपद्याज्ञानानां तस्याणुत्वमिहेप्यते ॥ ८५ ॥ अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः । रूपं रसः स्पर्शगन्धौ परत्वमपरत्वकम् ॥ ८६ ॥ द्रवत्वं नेहवेगाश्च मता मूर्तगुणा अमी । धर्माधर्मों भावना च शब्दो बुद्धयादयोऽपि च ॥ ८७ ॥ एतेऽमूर्तगुणाः सर्वे विद्वद्भिः परिकीर्तिताः । संख्यादयो विभागान्ता उभयेपां गुणा मताः ॥४८॥ संयोगश्च विभागश्च संख्या द्वित्वादिकास्तथा । द्वि- पृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता गुणाः ॥८९॥ अतः शेपगुणाः सर्वे मता एकैकवृ- त्तयः । बुद्धयादिपर्दू स्पर्शान्ताः नेहः सांसिद्धिको द्रवः ॥ ९० ॥भदृष्टभावनाश- व्दा अमी वैशेपिका गुणाः । संख्यादिरपरत्वान्तो वोऽसांसिद्धिकस्तथा ॥११॥ गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्तिताः । संख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च ॥ ९२ ॥ एते तु द्वीन्द्रियग्राह्या अथ स्पर्शान्तशब्दकाः । वायैकैकेन्द्रियग्राह्या गुरुत्वादृष्टभावनाः ॥ ९३ ॥ अतीन्द्रिया विभूनां तु ये स्युर्वैशेपिका गुणाः । अ. कारणगुणोत्पन्ना एते तु परिकीर्तिताः ॥ ९४ ॥ अपाकजास्तु स्पर्शान्ता द्रवत्वं च तथाविधम् । स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम् ॥९५॥ स्थितिस्थापक इत्येते स्युः कारणगुणोद्भवाः । संयोगश्च विभागश्च वेगश्चैते तु कर्मजाः ॥ ९६ ।। स्पर्शा- न्तपरिमाणकपृथक्त्वस्नेहशब्दके । भवेदसमवायित्वमथ वैशेपिके गुणे ॥९७ ॥आ. त्मनः स्यानिमित्तत्वमुष्णस्पर्शगुरुत्वयोः । वेगेऽपि च द्वत्वे च संयोगादिद्वये त- था ॥ ९८ ॥ द्विधैव कारणत्वं स्यादथ प्रादेशिको भवेत् । वैशेपिको विभुगुणः संयोगादिद्वयं तथा ॥ ९९ ॥ चक्षुह्यं भवेद्रूपं द्रव्यादेपलम्भकम् । चक्षुपः स. हकारि स्याच्छुक्लादिकमनेकधा ॥ १०० ॥ जलादिपरमाणौ तन्नित्यमन्यत्सहेतुक- म् । रसस्तु रसनाग्राह्यो मधुरादिरनेकधा ॥ १०१ ॥ सहकारी रसज्ञाया नित्यता- दि च पूर्ववत् । घ्राणग्राह्यो भवेद्गन्धो घ्राणस्यैवोपकारकः ॥१०२॥ सौरभश्चासौर- भश्च स द्वेधा परिकीर्तितः। स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः॥ १०३॥ अनुष्णाशीतशीतोष्णभेदात्स विविधो मत. । काठिन्यादि क्षितावेव नित्यतादि च पूर्ववत् ॥१०४ ॥ एतेषां पाकजत्वं तु क्षितौ नान्यत्र कुत्रचित् । तत्रापि पर- माणौ स्यात्पाको वैशेपिके नये ॥ १०५॥ नैयायिकानां तु नये व्यणुकादावपी- प्यते । गणनाव्यहारे तु हेतुः संख्याभिधीयते ॥१०६॥ नित्येपु नित्यमेकत्वमनि- त्येऽनित्यमिप्यते । द्वित्वादयः परार्द्धान्ता अपेक्षाबुद्धिजा मताः॥१०७॥ अनेकाश्र- यपर्याप्ता एते तु परिकीर्तिताः। अपेक्षाबुद्धिनाशाच्च नाशस्तेषां निरूपितः॥१०॥ अनेकैकत्वबुद्धिर्या सापेक्षाबुद्धिरिप्यते । परिमाणं भवेन्मानव्यवहारस्य कारणम् ॥१०९॥ अणु दीर्घ महद्रस्वमिति तद्भेद ईरितः। अनित्ये तदनित्यं स्यान्नित्ये नि- त्यमुदाहृतम् ॥११०॥ संख्यातः परिमाणाञ्च प्रचयादपि जायते। अनित्यं द्वथणुका- दौ तु संख्याजन्यमुदाहृतम् ॥११॥ परिमाणं घटादौ तु परिमाणजमुच्यते । प्र- चयः शिथिलाख्यो यः संयोगस्तेन जन्यते ॥११२॥ परिमाणं तूलकादौ नाशस्त्वा- अयनाशतः । संख्यावत्तु पृथक्त्वं स्यात्पृथक्प्रत्ययकारणम् ॥११३॥ अन्योन्याभा- ।
. कारिकावली- . चतो नास्य चारितार्थत्वमिप्यते । अस्मात्पृथगिदं नेति प्रतीतिर्हि विलक्षणा ॥ ११४ ॥ अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः । कीर्तितत्रिविधस्त्वे- पाद्योऽन्यतरकर्मजः ॥ ११५ ॥ तथोभयक्रियाजन्यो भवेत्संयोगजोऽपरः । मादिमः श्येनशैलादिसंयोगः परिकीर्तितः॥ ११६॥ मेपयोः संनिपातो यः स द्वितीय उदाहृतः । कपालतरुसंयोगात्संयोगस्तरुकुम्भयोः ॥ १७॥ तृतीयः स्यात्कर्मजोऽपि द्विधैव परिकीर्तितः । अभिघातो नोदनं च शब्दहेतुरिहादिमः ॥ ११८॥ शब्दाहेतुर्द्वितीयः स्थाद्विभागोऽपि त्रिधा भवेत् । एककर्मोद्भवस्त्वाद्यो द्वयकोद्भवोऽपरः ॥ ११९ ॥ विभागजस्तृतीयः स्यात्तृतीयोऽपि द्विधा भवेत् । हेतुमात्रविभागोत्यो हेत्वहेतुविभागजः ॥१२०॥ परत्वं चापरत्वं च द्विविध परि- कीर्तितम् । दैशिकं कालिकं चापि मूर्त एव तु दैशिकम् ।।१२१॥ परत्वं मूर्तसंयो- गभूयस्त्वज्ञानतो भवेत् । अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् ॥१२२॥ तयो- रसमवायीतु दिक्संयोगस्तदाश्रये । दिवाकरपरिस्पन्दभूयस्त्वज्ञानतो भवेत्॥१२३॥ परत्वमपरत्वं तु तदीयाल्पत्वबुद्धितः । अत्र त्वसमवायी स्यात्संयोगः कालपिण्ड- योः ॥ १२४ ॥ अपेक्षाबुद्धिनाशेन नाशस्तेषां निरूपितः । बुद्धः प्रपञ्चः प्रागेव प्रायशो विनिरूपितः॥१२५॥ अथावशिष्टोऽप्यपरः प्रकारः परिदश्यते। अप्रमा च प्रमा चेति ज्ञानं द्विविधमिप्यते ॥१२६॥ तच्छून्ये तन्मतिर्या स्यादप्रमा सा नि. रूपिता । तत्प्रपञ्चो विपर्यासः संशयोऽपि प्रकीर्तितः ॥१२७ ॥ आयो देहेप्वात्म- बुद्धिः शङ्खादौ पीततामतिः। भवेनिश्चयरूपा या संशयोऽथ प्रदर्यते ॥ १२८ ॥ किंखिन्नरो वा स्थाणुर्वेत्यादिवृद्धिस्तु संशयः । तदभावाप्रकारा धीस्तत्प्रकारा तु निश्चयः ॥ १२९ ॥ स संशयो मतिर्या स्यादेकत्राभावभावयोः। साधारणादिधर्म- स्य ज्ञानं संशयकारणम् ॥ १३०॥ दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादिरूपो दोपो नानाविधः स्मृतः ॥ १३ ॥ प्रत्यक्षे तु विशेष्येण विशे- पणवता समम् । संनिकर्षों गुणस्तु स्यादथ त्वनुमितौ गुणः ॥ १३२ ॥ पक्षे सा- ध्यविशिष्टे तु परामर्शो गुणो भवेत् । शक्ये सादृश्यबुद्धिस्तु भवेदुपमिती गुणः ॥ १३३ ॥ शाब्दबोधे योग्यतायास्तत्पर्यस्याथवा प्रमा । गुणः स्याद्रममिन्नं तु ज्ञानमत्रोच्यते प्रमा ॥१३॥ अथवा तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम् । तत्प्रमा न प्रमा नापि भ्रमः स्यानिर्विकल्पकम् ॥ १३५॥ प्रकारतादिशून्यं हि संवन्धा- नवगाहि तत् । प्रमात्वं न स्वतो ग्राह्य संशयानुपपत्तितः ॥ १३६ ॥ व्यभिचार- स्याग्रहोऽपि सहचारग्रहस्तथा । हेतुाप्तिग्रहे तर्कः कचिच्छानिवर्तकः ॥१३७॥ साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा । स उपाधिर्भवेत्तस्य निष्कर्पोऽयं प्रद- श्यते ॥ १३८ ॥ सर्वे साध्यसमानाधिकरणाः स्युरुपाधयः । हेतोरेकाश्रये येषां स्व- साध्यव्यभिचारिता ॥ १३९॥ व्यभिचारस्थानुमानमुपास्तु प्रयोजनम् । शब्दो- पमानयोनॆव पृथक्प्रामाण्यमिण्यते ॥ १४० ॥ अनुमानगतार्थत्वादिति वैशेपिकं मतम् । तन्न सम्यग्विना व्याप्तिबोधं शब्दादिबोधतः ॥ १४१ ॥ त्रैविध्यमनुमा- नस्य केवलान्वयिभेदतः । द्वैविध्यं तु भवेद्व्याप्तेरन्वयव्यतिरेकतः ॥ १४२ ॥ अ- ।
कारिकावली- -- न्वयव्याप्तिरुक्कैव व्यतिरेकादिहोच्यते । साध्याभावव्यापकत्वं हेत्वभावस यद्भवेत् ॥ १४३ ॥ अर्थापत्तिस्तु नैवेह प्रमाणान्तरमिष्यते। व्यतिरेकन्याप्तिबुद्धया चरिता- हि सा यतः ॥ १४४॥ सुखं तु जगतामेव काम्यं धर्मेण जायते । अधर्मजन्यं दुःख स्यात्प्रतिकूलं सचेतसाम् ॥ १४५ ॥ निर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते । इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्यदि ॥ १४६ ॥ चिकीर्षा कृतिसा- ध्यत्वप्रकारच्छा च या भवेत् । तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत् ॥ १४७ ॥ बलवद्विष्टहेतुत्वमतिः स्यात्प्रतिबन्धिका । तदहेतुत्वबुद्धेस्तु हेतुत्वं कस्यचिन्मते ॥ १४८॥ द्विष्टसाधनताबुद्धिर्भवेद्वेपस्य कारणम् । प्रवृत्तिश्च निवृत्तिश्च तथा जी. वनकारणम् ॥ १४९ ॥ एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिकीर्तितम्। चिकीकृति- साध्येष्टसाधनत्वमतिस्तथा ॥ १५० ॥ उपादानस्य चाध्यक्ष प्रवृत्तौ जनकं भवेत् । निवृत्तिस्तु भवेदूपाविष्टसाधनता धियः ॥ १५१ ॥ यत्रो जीवनयोनिस्तु सर्वदा. तीन्द्रियो भवेत् । शरीरे प्राणसंचारे कारणं परिकीर्तितः ॥ १५२ ॥ अतीन्द्रियं गुरुत्वं स्यात्पृथिव्यादि द्वये तु तत् । भनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् ॥ १५३ ॥ तदेवासमवायि स्यात्पतनाख्ये तु कर्मणि । सांसिद्धिकं द्रवत्वं स्याने- मित्तिकमथापरम् ॥ १५४ ॥ सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसोः । पर- माणौ जले नित्यमन्यत्रानित्यमुच्यते ॥१५५॥ नैमित्तिकं वह्रियोगात्तपनीयघृतादि- पु। द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत् ॥ १५६॥ स्नेहो जले स नित्योs- णावनित्योऽवयविन्यसौ । तैलान्तरे तत्प्रकर्षादहनस्यानुकूलता ॥ १५७ ॥ संस्का- रभेदो वेगोऽथ स्थितिस्थापकभावने । मूर्तमाने तु वेगः स्यात्कर्मजो वेगजः क्वचि- त् ॥१५॥स्थितिस्थापकसंस्कारः क्षितौ केचिच्चतुर्वपि । अतीन्द्रियोऽसौ विज्ञेयः कचित्स्पन्देऽपि कारणम् ॥ १५९ ॥ भावनाख्यस्तु संस्कारोजीववृत्तिरतीन्द्रियः । उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत् ॥ १६० ॥स्मरणे प्रत्यभिज्ञाया- मप्यसौ हेतुरुच्यते । धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिसाधनम् ॥ १६ ॥ गङ्गासानादियागादिव्यापारः स तु कीर्तितः। कर्मनाशाजलस्पर्शादिना नाश्यस्त्वसौ मतः ॥ १६२ ॥ अधर्मों नरकादीनां हेतुर्निन्दितकर्मजः।प्रायश्चित्तादिनाश्योऽसौ जीववृत्ती विमौ गुणौ ॥ १६३ ॥ इमौ तु वासनाजन्यौ ज्ञानादपि विनश्यतः । शब्दो ध्वनिश्च वर्णश्च मृदगादिभवो ध्वनिः ॥ १६४ ॥ कण्ठसंयोगादिजन्या वर्णास्ते कादयो मताः । सर्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ॥ १६५ ॥ वीचीतरगन्यायेन तदुत्पत्तिस्तु कीर्तिता । कदम्बगोलकन्यायादुत्पत्तिः कस्य- चिन्मते ॥ १६६ ॥ उत्पन्नः को विनष्टः क इति बुद्धरनित्यता। सोऽयं क इति बुद्धिस्तु साजात्यमवलम्बते ॥ १६७ ॥ तदेवौपधमित्यादौ सजातीयेऽपि दर्शनात् । तस्मादनित्या एवेति वर्णाः सर्वे मतं हि नः ॥ १६८॥ ॥ इति श्रीविश्वनाथपञ्चाननभट्टाचार्यकृता कारिकावली समाता ॥
श्रीः। कारिकावली। सिद्धान्तमुक्तावलीसहिता। श्रीगणेशाय नमः। नूतनजलधररुचये गोपवधूटीदुकूलचौराय। तस्मै कृष्णाय नमः संसारमहीरुहस्य वीजाय ॥१॥ चूडामणीकृतविधुर्वलयीकृतवासुकिः । भवो भवतु भव्याय लीलाताण्डवपण्डितः ॥१॥ निजनिर्मितकारिकावलीमतिसंक्षिप्तचिरंतनोतिभिः । विशदीकरवाणि कौतुकान्ननु राजीवदयावशंवदः ॥२॥ सद्व्या गुणगुम्फिता सुकृतिनां सत्कर्मणां ज्ञापिका सत्सामान्यविशेषनित्यमिलिताभावप्रकर्पोज्ज्वला । विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावली विन्यस्ता मनसो मुदं वितनुतां सद्युक्तिरेपा चिरम् ॥ ३ ॥ विप्नविघाताय कृतं मगलं शिप्यशिक्षायै निवनाति-नूतनेत्यादि । ननु मङ्गलं न विन्नध्वंसं प्रति न वा समाप्ति प्रति कारणम्, विनापि मगलं नास्तिका- दीनां ग्रन्थे निर्विघ्नपरिसमाप्तिदर्शनादिति चेत् । न । भविगीतशिष्टाचारविपयत्वेन मङ्गलस्य सफलत्वे सिद्ध तत्र च फलजिज्ञासायां संभवति दृष्टफलकत्वे अदृष्टफल- कल्पनाया भन्याय्यत्वादुपस्थितत्वाञ्च समाप्तिरेव फलंकल्प्यते । इत्थं च यत्र म. १ अत्र भवायेत्यन्तेनैव वाक्यपरिसमाप्त्या लीलेत्यादिविशेपणान्वयार्थ विशेष्यस्थानुसं- धानेऽपि न समाप्तपुनरात्तत्वम् । किमिति चूडामणीकरणं किमर्थं वा वासुकेवलयीफर- णमित्याकाड्या निराकाला प्रतिपत्तिर्न संभवतीति लीलेत्यादिविशेपणानुक्ती विवक्षितान्यययो- धाभावात् । नियताकाहारहितान्वयवोधोत्तरं विशेपणान्तरान्वयार्थ विशेप्यवाचफपदस्य पुनरनुसंधानस्यैव समासपुनरात्तत्वात् । क्रियाकारकपदाना परस्पराकाहा नियता, पुत्रादिप- दानामपि प्रतियोग्याकाङ्क्षा नियता, एवं प्रयोजनाकाहापि नियतैव । प्रयोजनाभावे वाक्या- स्यैवासिद्धिप्रसगात्। नियताकासा-उस्थिताकाहा । २ मुक्तावलीत्वोत्तया निटीपत्व सूचितम् । अत्र द्रव्यादिपदार्थप्रतिपादकत्वप्रदर्शनेन द्रव्याटयो विपया उक्ताः । पदार्थतत्त्वावधारणं य प्रयोजनं सूचितम्। संवन्धश्च प्रतिपाद्यप्रतिपादकभाव । पदार्थतत्त्वावधारणकामोऽधिकारीति । ३चरमवर्णध्वंस । ४ आचार कृति । विषयत्व च विधेयतारूपं तेन फले फलवत्त्वाभावेऽपि न व्यभिचार। चैत्यवन्दने व्यभिचारवारणाय शिष्टेति । शिष्टत्व च फलसाधनत्यांशे भ्रान्तिराहि- त्यम्। श्येनादौ व्यभिचारवारणाय अविगीतेति।तत्त्वंच इष्टोत्पत्तिनान्तरीयकदुम्सातिरिक्तदु-खा- ननुबन्धित्वम् । -- २ कारिकावली [प्रत्यक्षख० १ गलं न दृश्यते तत्रापि जन्मान्तरीयं तत्कल्प्यते, यन्त्र च सत्यपि मगले समाप्ति दृश्यते तत्र बलवत्तरो विघ्नो विघ्नप्राचुर्य वा बोध्यम्, प्रचुरस्यास्यैव बलवत्तरवि- ननिराकरणकारणत्वम् , विघ्नध्वंसस्तु मङ्गलस्य द्वारमित्याहुःप्राश्वः। नव्यास्तु मङ्गलस्य विघ्नध्वंस एव फलम् , समाप्तिस्तु वुद्धिप्रतिभादिकारणकलापात् । नच स्वतःसिद्धविन्तविरहवता कृतस्य मङ्गलस्य निष्फलत्वापत्तिरिति वाच्यम् । इष्टा- पत्तेः, विनशङ्कया तदाचरणात् । तथैव शिष्टाचारात् । नच तस्य निष्फलत्वे त- द्वोधकवेदाप्रामाण्यापत्तिरिति वाच्यम् । सति विन्ने तन्नाशस्यैव वेदबोधितत्वात् । अत एव पापभ्रमेण कृतस्य प्रायश्चित्तस्य निष्फलत्वेऽपि न तद्वोधकवेदाप्रामाण्यम् । मङ्गलं तु विनध्वंसविशेपे कारण विघ्नध्वंसविशेपे च विनायकस्तवपाठादि । क्वचि- च विघ्नात्यन्ताभाव एव समाप्तिसाधनं, प्रतिवन्धकसंसर्गाभावस्यैव कार्यजनकत्वा- त् । इत्थं च नास्तिकादीनां अन्येषु जन्मान्तरीयमङ्गलजन्यदुरितध्वंसः, स्वतः- सिद्धविनात्यन्ताभावो वास्तीति न व्यभिचार इत्याहुः । संसारेति । संसार ए- व महीरहो वृक्षस्तस्य बीजाय । एतेन ईश्वरे प्रमाणमपि दर्शितं भवति । तथाहि यथा घटादिकार्य कर्तृजन्यं तथा क्षित्यङ्कुरादिकमपि । नच तत्कर्तृत्वमस्मदादीनां संभवतीत्यतस्तत्कर्तृत्वेनेश्वरसिद्धिः । नच शरीराजन्यत्वेन कत्रजन्यत्वसाधकेन स. प्रतिपक्ष इति वाच्यम् , अप्रयोजकत्वात् । मम तु कर्तृत्वेन कार्यत्वेन कार्यकारण- भाव एव अनुकूलतकः । 'द्यावाभूमी जनयन्देव एकः' 'विश्वस्य कर्ता भुवनस्य गोता' इत्यादय आगमा अप्यनुसंधेयाः ॥ १॥ पदार्थान्विभजते- द्रव्यं गुणस्तथा कर्म सामान्य सविशेषकम् । समवायस्तथाऽभावः पदार्थाः सप्त कीर्तिताः॥२॥ द्रव्यं गुण इति । अत्र सप्तमस्थाभावत्वकथनादेव पण्णां भावत्वं प्राप्तं तेन भाव- वेन पृथगुपन्यासो न कृतः । एते च पदार्था वैशेपिके प्रसिद्धा नैयायिकानामप्य- १ पाठस्य कण्ठताल्याघभिघातरूपस्य ज्ञानविशेषरूपमद्गलाद्भेद.। २ ननु विनध्वंस एव यदि मङ्गलस्य फलं तदा समाप्तिकामस्य मनले प्रवृत्तिर्न स्यादत. समाप्तिसाधनविनध्वंससा- धनत्यान्मद्गले प्रवृत्तिर्वाच्या,तच नसंभवति स्वत सिद्धविनविरहस्थले व्यभिचारेण विनध्वंसस्य समाप्तिसाधनत्वाभावादिति शङ्का निरस्यति-कचिदिति। तथाच विन्नध्यसात्यन्ताभावयो सं- सर्गाभावत्वेनानुगमान व्यभिचार इति भावः । अथ समाप्तिविन्नध्वंसयोराकाशात्मनिष्ठयो कथं कार्यकारणभाव इति चेदुच्यते। स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्तासंबन्धन चरमवर्णध्वंस- रूपसमाप्ति प्रति विशेपणतासंसर्गेण विनसंसर्गामावत्वेन हेतुत्वम्। ३क्षिति. सकर्तृका, कार्यत्वादि- त्यन्न शितित्वसामानाधिकरण्येन साध्यसिद्धरद्देव्यत्वे घटादावंगत सिद्धसाधनम् । पक्षतावच्छे- दकावच्छेदेन तथात्ये तु परमाणो चाप इत्यतोऽकुरत्वस्य पक्षतावच्छेदकत्यानुधावनम् । तत्र च सा- मानाधिकरण्येन साध्यसिद्धरुद्देश्यत्वे काप्यङ्गुरे जीवीयकृतिसाध्यत्वाभावेन नांशत. सिद्धसाधन न या बापो नित्याकुरस्यामावादिति भाय. । ४ व्यभिचारशङ्कानिवर्तकतर्कशून्यत्वादित्यर्थः । .
-12 - - प्रत्यक्षखं० १] सिद्धान्तमुक्तावलीसहिता। ३ विरुद्धाः । प्रतिपादितं चैवमेव भाष्ये । अत एवोपमानचिन्तामणौ सप्तपदार्यमि- बतया शक्तिसादृश्यादीनामतिरिक्तपदार्थत्वमाशङ्कितम् । ननु कथमेत एव प- दार्थाः शक्तिसादृश्यादीनामप्यतिरिक्तपदार्थत्वात् । तथाहि-मण्यादिसमवहितेन वह्निना दाहो न जन्यते तच्छून्येन तु जन्यते । तत्र मण्यादिना वह्नौ दाहानु- कूला शक्तिनाश्यते उत्तेजकेन मण्याचपसारणेन च जन्यत इति कल्प्यते । एवं सादृश्यमप्यतिरिक्त पदार्थः। तेद्धि न पट्सु भावेष्वन्तर्भवति सामान्येऽपि स- त्त्वात् । यथा गोत्वं नित्यं तथाश्वत्वमपीति सादृश्यप्रतीतः । नाप्यभावे सत्वेन प्रतीयमानत्वादिति चेत् । मण्याद्यभावविशिष्टवतयादेाहादिकं प्रति स्वातन्त्र्येण मण्यभावादेरेव वा हेतुत्वं कल्प्यते । अनेनैव सामञ्जस्ये अनन्तशक्तितत्प्रागभाव- ध्वंसकल्पनानौचित्यात् । न चोत्तेजके सति मणिप्रतिवन्धकसद्भावेऽपि कथं दाह इति वाच्यम् । उत्तेजकाभावविशिष्टमण्यभावस्य हेतुत्वात् । सादृश्यमपि न प- दार्थान्तरं किं तु तद्भिन्नत्वे सति तद्गतभूयोधर्मवचम् । यथा चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादिमत्त्वं मुखे चन्द्रसादृश्यमिति ॥ २॥ द्रव्याणि विभजते- क्षित्यप्तेजोमरुद्भ्योमकालदिग्देहिनो मनः। द्रव्याणि क्षित्यविति । क्षितिः पृथिवी, आपो जलानि, तेजो वह्निः, मरुद वायुः, व्योम आकाशः, कालः समयः, दिक् माशा, देही आत्मा, मनः एतानि नव द्र- व्याणीत्यर्थः । ननु द्रव्यत्वजातौ किं मानम् । नहि तत्र प्रत्यक्ष प्रमाणं, घृतन- तुप्रभृतिपुद्रव्यत्वाग्रहादिति चेत् ।न । कार्यसमवायिकारणतावच्छेदकतया संयो- १ शक्ते क्लृप्तेष्वनन्तर्भावसाधकानुमानप्रयोगश्चेत्थम् । शक्तिर्न द्रव्यात्मिका, गुणादिपत्ति- त्वात् । अत एव न गुणास्मिका कर्मात्मिका वा । न सामान्यायन्यतमरूपा, उत्पत्तिमरवे सति विनाशित्वात् । २ अत्रानुमानप्रयोगस्तु-सादृश्यं पदभावानन्तर्भूतं सामान्येतरवृत्तित्वे सति सामान्यवृत्तित्वात्' इति । अत्र सामान्यत्वे व्यभिचारवारणाय विशेपणम् , रूपाठी व्यभिचा. रवारणाय विशेप्यम् । नच प्रमेयत्वे व्यभिचार , व्यतिरेकित्ये सतीत्यस्य विवक्षणीयत्वात् । ३ उत्तेजकत्वं च प्रतिवन्धकसमानकालीनकार्यार्जकत्वम् । कारणीभूताभावप्रतियोगितावच्छे- दकीभूताभावप्रतियोगित्वमिति निष्कर्पः । ४ उत्तेजकाभावविशिष्टो यो मणिसदभाव इत्यर्थः । विशिष्टामावस्त्रिया-विशेपणाभावप्रयुक्तो विशेष्याभावप्रयुक्तो विशेपणविशेप्योभयाभावप्रयु- तश्चेति । प्रकृते तूत्तेजकसत्त्वेनोत्तेजकामावरूपविशेपणासत्त्वादयं विशिष्टाभावो विशेपणाभाव. प्रयुक्त इति बोध्यम् । ५ समवायसंवन्धावच्छिन्नकार्यत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छे- दकतयेत्यर्थ । कार्यतावच्छेदकीभूतं कार्यत्वं च प्रागभावप्रतियोगित्वविशिष्टसत्त्वं ग्राह्यम् । तेन प्रागभावप्रतियोगित्वस्य ध्वससाधारण्यात्, ध्वंसस्य च द्रव्यत्वावच्छिन्ननिरूपितकार्यत्वाभावाद- तिप्रसक्तत्वेन नोक्तकार्यतावच्छेदकत्वम्, अन्यूनानतिप्रसक्तधर्मस्यैवावच्छेदकत्वादिति परास्तम्। अत्रानुमानप्रयोगश्चेत्थम् कार्यत्वावच्छिन्नकार्यतानिरूपितकारणता अवच्छिन्नत्वसवन्धेन किंचि- धर्मवती, कारणतात्वात् घटनिरूपितदण्डत्वावच्छिन्नकारणतावदिति । एवमग्रेपि। .
कारिकावली [प्रत्यक्षख०१ गेस्य विभागस्य वा समवायिकारणतावच्छेदकतया तैसिद्धेरिति। ननु दशमं द्रव्यं तमः कुतो नोक्तं, तद्धि प्रत्यक्षेण गृह्यते, तस्य च रूपवत्वात् कर्मवत्वाच द्र- व्यत्वं, तच्च गन्धशून्यत्वात्, न पृथिवी, नीलरूपवत्त्वाच नजलादिक, तत्प्रत्यक्ष चालोकनिरपेक्षं चक्षुः कारणमिति चेत् । न । आवश्यकतेजोभावेनोपपत्तौ द्रव्या- न्तरकल्पनाया अन्याय्यत्वात् । रूपवत्ताप्रतीतिस्तु अमरूपा । कर्मवत्ताप्रतीति- रप्यालोकापसारणौपाधिकी भ्रान्तिरेव । तमसोऽतिरिक्तत्वेऽनन्तावयवादिकल्प. नागौरवं च स्यात् । स्वर्णस्य यथा तेजस्यन्तर्भावस्तथा वक्ष्यते । गुणान्विभजते-- अथ गुणा रूपं रसो गन्धस्ततः परम् ॥ ३ ॥ स्पर्शः संख्या परिनितिः पृथक्त्वं च ततः परम् । संयोगश्च विभागश्च परत्वं चापरत्वकम् ॥४॥ बुद्धिः सुखं दुःखमिच्छा द्वेपो यलो गुरुत्वकम् । द्रवत्वं स्नेहसंस्कारावदृष्टं शब्द एव च ॥५॥ अथ गुणा इति । एते गुणाश्चतुर्विशतिसंख्याकाः कणादेन कण्ठतः चश- ब्देन च दर्शिताः । तत्र गुणत्वादिकजातिसिद्धिरने वक्ष्यते ॥३॥ ४ ॥५॥ कर्माणि विभजते- उत्क्षेपणं ततोऽपक्षेपणमाकुञ्चनं तथा । प्रसारणं च गमनं कर्माण्येतानि पञ्च च ॥६॥ उत्क्षेपणमिति । कर्मत्वजातिस्तु प्रत्यक्षसिद्धा । एवमुक्षेपणत्वादिकमपि॥६॥ नन्वन भ्रमणादिकमपि पञ्चकर्माधिकतया कुतो नोक्तमत आह- भ्रमणं रेचनं स्यन्दनोव॑ज्वलनमेव च । तिर्यग्गमनमप्यत्र गमनादेव लभ्यते ॥७॥ भ्रमणमित्यादि ॥ ७॥ - १ निरक्तकार्यत्वस्य गौरवात् कालिकसंबन्धेन घटत्वाटिकमादाय विनिगमनाविरहाचाह- संयोगस्येति । अनुमानप्रयोगश्च पूर्ववदेव संयोगत्वावच्छिन्नकार्यतानिरूपितकारणतेति विशेष २ विभुदयसयोगाङ्गीकर्तृमते सयोगत्वमप्यतिप्रसक्तं विभुदयसंयोगस्य नित्यतया कार्य- स्वाभावात् । अतस्तन्मतसाधारण्येनाह-विभागस्येति । ३ द्रव्यत्वजातिसिद्धरित्यर्थः । दशि- तानुमानेन किंचिद्धर्मसिद्धिः स च धर्म द्रव्यत्वं तस्य च वक्ष्यमाणावाधकामावाजातित्वमि- ति बोध्यम् । ४ द्रव्यकर्मभिन्नसामान्यवति या कारणता सा किंचिद्वर्भावच्छिन्ना कारणतात्या- दित्यनुमानेनेति भावः।
प्रत्यक्षखं० १ सिद्धान्तनुकावलीसहिता। में सामान्य निरूपयति- सामान्य द्विविधं प्रोक्तं परं चापरमेव च । द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥ ८॥ सामान्यमिति । तल्लक्षणं तु नित्यत्वे सति भनेकसमवेतत्वम् । अनेक- समवेतत्वं संयोगादीनामप्यस्त्यत उक्तं नित्यत्वे सतीति । नित्यत्वे सति समवेतत्वं गगनपरिमाणादीनामप्यस्त्यत उत्तमनेकेति । नित्यत्वे सति अनेकवृत्तित्वमत्यन्ता- भावेऽप्यस्यतो वृत्तित्वसामान्यं विहाय समवेतत्वमित्युक्तम् । एकमात्रव्यक्ति- तिस्तु न जातिः। तथा चोक्तम्-'व्यक्तरभेदस्तुल्यत्वं संकरोऽथानवस्थिति. । रूपहानिरसंबन्धो जातिवाधकंसंग्रहः ॥' द्रव्यादीति । परत्वमधिकदेशवृत्तित्वम् । अपरत्वमल्पदेशवृत्तित्वम् । सकलजात्यपेक्षयाऽधिकदेशवृत्तित्वात् सत्तायाः पर- त्वम् । तदपेक्षया चान्यासां जातीनामपरत्वम् ॥ ८॥ परभिन्ना च या जातिः सैवापरतयोच्यते । द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ॥ ९ ॥ व्यापकत्वात्परापि स्याद्व्याप्यत्वादपरापि च । पृथिवीत्वाद्यपेक्षया व्यापकत्वादधिकदेशवृत्तित्वात् द्रव्यत्वादेः परत्वं, सत्तापेक्ष- या व्याप्यत्वात् अल्पदेशवृत्तित्वाञ्च द्रव्यत्वस्यापरत्वं, तथाच धर्मद्वयसमावेशादु- भयमविरुद्धम् ॥ १ लक्षणप्रयोजन तु इतरभेदस्य व्यवहारस्य वा सिद्धिः । २ व्यक्ते स्याश्रयव्यक्तेरमेट ऐक्य- माकाशत्वादेर्जातित्वे बाधकम् । तुत्यत्वं स्वभिन्नजातिसमनियतत्वं घटत्वफलशरवादीनां जातीना भेटे वाधकम् । संकर परस्परात्यन्तामावसमानाधिकरणधर्मयोरकत्र समावेश ,भूतत्या- देजातित्वे वाधक । भूतत्वं विहाय मनसि वर्तमानस्य भूर्तत्वस्य भूर्तत्वं विहाय गगने वर्तमानस्य भूतत्वस्य च पृथिव्यादिचतुष्टये सत्वात् । नव्यास्तु साकर्यस्य जातिबाधकत्व न सहन्ते । अनवस्था अप्रामाणिकानन्तपदार्थकरपना जाते तिमत्त्वे वाधिका। तथाहि-घटत्वपटत्वादिनिखिलजातिपु अनुगतस्य जातित्वस्य जातिवाङ्गीकारे तत्रापि जातित्वमभ्युपेयमापद्येत तस्य निखिलजातिवृत्ति त्वात् तत्रापि पुनर्जातित्वमेवं जातित्वे जातित्य तत्रापि जातित्यमित्याधाराधेयभाव कुत्राप्यव- स्थिति न लभेत । रूपहानि. स्वतोव्यावर्तकत्वरूपस्य भङ्ग विशेषाणा जातिमत्त्वे बाधक' । एकस्मिन्परमाणो परमाण्वन्तरभेटसाधने 'अयं परमाणु तत्परमाणुतो भिन्न विशेपात्' इत्य- त्र विशेपस्य स्वतः स्वेन (तद्यक्तित्वेन रूपेण यत् व्यावर्तकत्व तत्परमाणुभेदानुमितिरूप- व्यावृत्तिजनकत्वं तादृशानुमितिहेतुत्वमितियावत् । तस्य हानि स्यात् । तत्र (विशेपे) जाति- स्वीकारे तयैव हेतुत्यावश्यकत्वात् । सामान्याश्रयस्य सामान्यरूपेणैव भेदसाधकत्वनियमात् । नच सामान्यरूपेण विशपाणा भेदसाधकत्वं सभवति, व्यभिचारात्। असवन्ध प्रतियोगित्वानु- योगित्वान्यतरसवन्धेन जात्यतिरिक्तप्रतियोगिकसमवायाभाव । यत्र जात्यतिरिक्त पदार्थ समवा- येन विद्यते, तत् अनुयोगितासबन्धेन ताशसमवायवत् । जातिभिन्नं यत्समवायेन विद्यते तत् प्रतियोगितासंवन्धेन तादृशसमवायवत् । तदन्यतरचन्न न तत्र जातिरित्यर्थः । अय समयाया- भावयोजातिमरखे वाधक इति । --- कारिकावली [प्रत्यक्षख०१ -- विशेपं निरूपयति- अन्त्यो नित्यद्रव्यवृत्तिर्विशेषः परिकीर्तितः॥ १०॥ अन्त्य इति । अन्ते अवसाने वर्तत इत्यन्त्यः । यदपेक्षया विशेपो नास्ती- त्यर्थः । घटादीनां व्यणुकपर्यन्तानां तत्तदवयवभेदात्परस्परं भेदः। परमाणूनां पर- स्परभेदको विशेष एव । स तु स्वत एव व्यावृत्तः, तेन तत्र विशेपान्तरापेक्षा नास्तीति भावः ॥ ९॥ १०॥ समवायं दर्शयति- घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः। तेषु जातेश्च संबन्धः समवायः प्रकीर्तितः ॥ ११ ॥ घटादीनामिति । अवयवावयविनोर्जातिव्यक्त्योर्गुणगुणिनोः क्रियाक्रियावतो. नित्यद्रव्यविशेषयोश्च यः संवन्धः स समवायः । समवायत्वं नित्यसंवन्धत्वम् । तत्र प्रमाणं तु गुणक्रियादिविशिष्टबुद्धिर्विशेषणविशेष्यसंबन्धविपया, विशिष्टवु- द्धित्वात्, दण्डी पुरुष इति विशिष्टवुद्धिवदित्यनुमानम् । एतेन संयोगादिवाधा- समवायसिद्धिः। नच स्वरूपसंवन्धेन सिद्धसाधनम, अर्थान्तरं वा, अनन्तस्व- रूपाणां संवन्धत्वकल्पने गौरवालाघवादेकसमवायसिद्धिः । नच समवायस्यैकत्वे वायौ रूपवत्ताबुद्धिप्रसङ्गः, तत्र रूपसमवायसत्त्वेऽपि पाभावात् । न चैत्रमभा- वस्य वैशिष्टयं संबन्धान्तरं सिध्येदिति वाच्यम्, तस्य नित्यत्वे भूतले घटानय- नानन्तरमपि घटाभावबुद्धिप्रसङ्गात् । घटाभावस्य तन सत्त्वात् । तस्य नित्यत्वात्। अन्यथा देशान्तरेऽपि तत्प्रतीतिर्न स्यात् । वैशिष्टयस्य च तत्र सत्त्वात् । मम तु घटे पाकरक्ततादशायां श्यामरूपस्य नष्टत्वान तद्वत्ताबुद्धिः । वैशिष्टयस्यानित्यत्वे त्व- नन्तवैशिष्टयकल्पने तवैव गौरवम् । इत्थं च तत्तत्कालीन तत्तद्भूतलादिकं तत्तद- भावानां संबन्धः ॥ ११ ॥ अभाव विभजते- अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः। १ स्वेतरेण हेतुना जायमानायां स्वसजातीयेतरभेटानुमितौ न विपयो भवतीति भावः । साजासं चात्र पदार्थविभाजकोपाधिरूपेण बोध्यम् । नव्यास्तु विशेपेतिरिक्त मानाभावः। यथैव विपाणां स्ववृत्तिधर्म विना व्यावृत्तत्यं तथैव नित्यद्रव्याणामपीत्याहु । २ अयुतसिद्धयोः स्वरूपसंबन्ध इति वदतः परस्येति शेप.। ३ समवायसाधने प्रवृत्तानां नैयायिकानामिति शेपः। ४ विशिएबुद्धी विशेपणज्ञानस्य संयन्धज्ञानस्य च कारणत्यादिति भावः । ५ वैशिष्टयस्य । ६ घटाभावस्य । ७ घटामावस्यानित्यत्वे घटसामान्याभावस्यैकत्वादिति भावः । ८ तत्तत्कालीनं-पटाभाववद्भूतलमिति ज्ञानकालीनमित्यर्थ । तत्तद्भूतलादिकमिति-पत्र भू- तले घटामावबुद्धिस्तत्तद्भूतलादिकमित्यर्थः । तत्तदभावानामिति-यस्य यस्याभावस्य बुद्धि- स्तस्य तस्येत्यर्थः । तथाच न स्वरूपमात्रं संवन्धः । किंतु ईदृशः स्वरूपविशेष इति बोध्यम् । - TRA प्रत्यक्षख० १] सिद्धान्तमुक्तावलीसहिता। ७ प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च ॥ १२ ॥ एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते । अभावस्त्विति । अभावत्वं द्रव्यादिपट्कान्योन्याभाववत्वम् । संसर्गाभावा- न्योन्याभावभेदादित्यर्थः । अन्योन्याभावस्यैकविधत्वात्तद्विभागाभावात्संसर्गाभावं विभजते-प्रागभाव इति । संसर्गाभावत्वं अन्योन्याभावभिन्नाभावत्वम् । अन्योन्याभावत्वं तादात्स्यसंबन्धावच्छिन्नप्रतियोगिताकाभावत्वम् । विनाश्य- भावत्वं प्रागभावत्वम् । जन्याभावत्वं ध्वंसत्वम् । नित्यसंसर्गाभावत्वं अत्यन्ता- भावत्वम् । यत्र तु भूतलादौ घटादिकमपसारितं पुनरानीतं च तन्न घटकालस्य संबन्धाघटकतया अत्यन्ताभावस्य नित्यत्वेऽपि घटकाले न घटात्यन्ताभावबुद्धिः। तत्र उत्पादविनाशशाली चतुर्थोऽयमभाव इति केचित् । अत्रध्वंसप्रागभावयो- रधिकरणे नात्यन्ताभाव इति प्राचीनमतं, श्यामघटे रको नास्तीति रक्तघटे श्यामो नास्तीति धीश्च प्रागभावं ध्वंसं चावगाहते न तु तदत्यन्ताभावम् । न- व्यास्तु तन विरोधे मानाभावात् सादिकालावच्छेदेनाप्यत्यन्ताभावो वर्तत इति प्राहुः। नन्वस्तु अभावानामधिकरणात्मकत्वं लाघवादिति चेत् ।नाअनन्ता- धिकरणात्मकत्वकल्पनापेक्षयातिरिक्तकल्पनाया एव लघीयस्त्वात् । एवं चमाधा- राधेयभावोऽप्युपपद्यते । एवं च तत्तच्छन्दगन्धरसाद्यभावानां प्रत्यक्षत्वमुपपद्यते। अन्यथा तत्तदधिकरणानां तत्तदिन्द्रियाणामग्राह्यत्वादप्रत्यक्षत्वं स्यात् । एतेन ज्ञानविशेषकालविशेषाद्यात्मकत्वमत्यन्ताभावस्येति प्रत्युक्तमप्रत्यक्षत्वापत्तेः । इदानी पदार्थानां साधये वैधयं च वक्तुं प्रक्रमते- सप्तानामपि साधर्म्य ज्ञेयत्वादिकमुच्यते ॥ १३ ॥ सप्तानामिति । समानोधर्मों येषां ते सधर्माणः, तेपां भाव. साधर्म्य, समा- नो धर्म इति फलितार्थः । एवं विरुद्धो धर्मों येषां ते विधर्माणः, तेपां भावो वैध- य, विरुद्धो धर्म इति फलितार्थः । ज्ञेयत्वं ज्ञानविषयता, सा च सर्वत्रैवास्ति ईश्वरादिज्ञानविषयतायाः केवलान्वयित्वात् । एवमभिधेयत्वप्रमेयत्वादिकं बोध्यम् ॥ १२॥१३॥ द्रव्यादयः पञ्च भावा अनेके समवायिनः। सत्तावन्तस्त्रयस्त्वाद्या गुणादिनिर्गुणक्रियः ॥ १४ ॥ द्रव्येति । द्रव्यगुणकर्मसामान्यविशेपाणां साधर्म्यमनेकत्वं समवायित्वं च । यद्यप्यनेकत्वमभावेऽप्यस्ति तथाप्यनेकत्वे सति भावत्वं पञ्चानां साधर्म्यम् । तथा १ सामयिकाभाव इत्यर्थ ।समयविशेपे प्रतीयमानत्वात्।२ विपयोकरोतीत्यर्थ ।३येनेन्द्रियेण या व्यक्तिखते सद्गता जातिस्तदभावश्च तेनैवेन्द्रियेण गृह्यत इति नियमादितिभाव । ४ एक- जातीयसंबन्धेन सर्वत्र विद्यमानत्वादित्यर्थ ।
कारिकावली। [प्रत्यक्षसं०१ चानकभाववृत्तिपदार्यविभाजकोपाधिमत्त्वमिति फलितार्थः । तेन प्रत्येकं घटादा- वाकाशादौ च नाव्याप्तिः। समवायित्वं च समवायसंवन्धेन संवन्धित्वं न तु स- मवायवत्त्वं सामान्यादावभावात् । सत्तावन्त इति । द्रव्यगुणकर्मणां सत्तावत्त्व- मित्यर्थः । गुणादिरिति । यद्यपि गुणक्रियाशून्यत्वमाद्यक्षणे घटादावतिव्यात, क्रि- याशून्यत्वं च गगनादावतिव्याप्तं, तथापि गुणवदवृत्तिधर्मवत्त्वं कर्मवदवृत्तिपदार्थ- विभाजकोपाधिमत्त्वं तदर्थः। नहि घटत्वादिक द्रव्यत्वं वा गुणवदवृत्ति, कर्मवदवृत्ति वा किंतु गुणत्वादिकं तथा। आकाशत्वादिकं तु न पदार्थविभाजकोपाधिः ॥१४॥ सामान्यपरिहीनास्तु सर्वे जात्यादयो मताः। पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ॥ १५॥ सामान्येति । सामान्यानधिकरणत्वं सामान्यादीनामित्यर्थः । पारिमाण्ड- ल्येति । पारिमाण्डल्यमणुपरिमाणं कारणत्वं तन्निन्नानामित्यर्थः । अणुपरिमाणं "तु न कस्यापि कारणम् । तद्धि स्वाश्रयारब्धव्यपरिमाणारम्भकं भवेत्, तच न संभवति, परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनकत्वनियमान्महदा- रब्धस्य महत्तरत्ववदणुजन्यस्याणुतरत्वप्रसङ्गात् । एवं परममहत्परिमाणमती- न्द्रियसामान्यं विशेपाश्च बोध्याः । इदमपि योगिप्रत्यक्षे विपयस्य न कारणत्वम्, ज्ञायमानसामान्य न प्रत्यासत्तिः, ज्ञायमानं लिझं नानुमितिकरणमित्यभिप्राये- णोक्तम् । आत्ममानसप्रत्यक्षे आत्ममहत्वस्य कारणत्वात्परममहत्परिमाणमाका- शादेोध्यम् । तस्यापि न कारणत्वमित्याचार्याणामाशय इत्यन्ये । तन्न । ज्ञाना- तिरिक्तं प्रत्येवाकारणताया आचार्यरुकत्वात् ॥ १५॥ ननु कारणत्वं किम् , अत आह- अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता । कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥ १६ ॥ १ उत्पन्न द्रव्य क्षणमगुण निष्क्रियं च तिष्ठतीति नियमात् । तद्गतगुणं प्रति तस्य कारणत्वात् कारणस्य च पूर्वक्षणवृत्तित्वावश्यकत्यादिति भाव' ।२ साजात्यमन परिमाणविभाजकोपाधिरू- पेण चोध्यम् । परिमाणविमाजकोपाधयश्च अणुत्वत्वमहत्वत्यदीर्घत्वत्वहस्त्रत्वत्वरूपाः । उत्कृष्टं चाणोरणुतरं महतो महत्तरं दीर्घस्य दीर्घतरं हस्वस्य हस्यतर बोध्यम् । न चाणुजन्यस्याणुतर- त्वमस्तु किं बाधकमिति वाच्यम् । तथा सति श्रुटे (ज्यणुकस्य) अचाक्षुपत्वप्रसङ्ग ।३ अकारणमित्य- र्थ ।४योगिप्रत्यक्ष पारिमाण्डल्यस्यापि विपयतयाज्ञान प्रतिष विपयस्य विपयत्वसंपन्धावच्छिन्न- कार्यतानिरूपिततादात्म्यसंवन्धावच्छिन्नकारणतया, पारिमाण्डल्यभिन्नानामित्ययुक्तमत आह- इदमपीति । यथा योगजधर्मणातीनानागतविपयकं प्रत्यक्ष तथा विद्यमानविपयकमपीत्यर्थः । लौकिक प्रत्यक्ष एव विपयस्य कारणत्वमङ्गीकार्य योगजधर्मस्वलौकिकसनिकर्प इति भावः । ५ ज्ञायमानसामान्यस्य प्रत्यासत्तित्वेन ज्ञायमानहेतोश्चानुमितिकरणत्वेन च पारिमाण्डल्यस्य सामान्यलक्षणाप्रत्यासत्तिजन्यज्ञाने इतरभेदानुमितो च हेतुतया पारिमाण्डल्यभिन्नानामित्ययुक्त- मत माह-मायमानेत्यादि।
प्रत्यक्षख० १] सिद्धान्तमुक्तावलीसहिता। समवायिकारणत्वं ज्ञेयमथाप्यसमवायिहेतुत्वम् । एवं न्यायनयज्ञैस्तृतीयमुक्तं निमित्तहेतुत्वम् ॥ १७ ॥ अन्यथेति । तस्य कारणत्वस्य ॥ १६ ॥ १७ ॥ यत्समवेतं कार्य भवति ज्ञेयं तु समवायिजनकं तत् । तत्रासन्नं जनकं द्वितीयमाभ्यां परं तृतीयं स्यात् ॥१८॥ तत्रेति । समवायिकारणे आसन्नं प्रत्यासन्नं कारणं द्वितीयमसमवायिकारणमि. त्यर्थः । अत्र यद्यपि तुरीतन्तुसंयोगानां पटासमवायिकारणत्वं स्यात् , एवं वे- गादीनामभिघाताद्यसमवायिकारणत्वं स्यात्, एवं ज्ञानादीनामपीच्छाद्यसमवायि- कारणत्व स्यात्, तथापि पटासमवायिकारणलक्षणे तुरीतन्तुसंयोगभिन्नत्वं देयम् । तुरीतन्तुसंयोगस्तु तुरीपटसंयोगं प्रत्यसमवायिकारणं भवत्येव । एवं वेगादिक. मपि वेगस्पन्दाद्यसमवायिकारणं भवत्येवेति, तत्तत्कार्यासमवायिकारणलक्षणे त. त्तभिन्नत्वं देयम् । भात्मविशेषगुणानां तु कुत्राप्यसमवायिकारणत्वं नास्ति तेन तद्भिन्नत्वं सामान्यलक्षणे देयमेव ॥ अन समवायिकारणे प्रात्यासनं द्विविधं कार्यैकार्थप्रत्यासत्या कारणैकार्थप्रत्यासत्त्या च । आद्यं यथा-घटादिकं प्रति क- पालसंयोगादिकमसमवायिकारणम् । तत्र कार्येण घटेन सह कारणस्य कपालसं. योगस्यैकस्मिन्क्रपाले प्रत्यासत्तिरस्ति । द्वितीयं यथा-घटरूपं प्रति कपालरूपम- समवायिकारणम् । तत्र स्वगतरूपादिकं प्रति समवायिकारणं घटः, तेन सह कपालरूपस्यैकस्मिन्कपाले प्रत्यासत्तिरस्ति । तथाच क्वचित्समवायसंबन्धेन छ- चित्स्वसमवायिसमवायसंबन्धेनेति फलितोऽर्थः । इत्थं च कार्यकार्थकारणैकार्था- न्यतरप्रत्यासत्या समवायिकारणे प्रत्यासन्नं कारण ज्ञानादिभिन्नमसमवायिकारण- मिति सामान्यलक्षणं पर्यवसन्नम् । आभ्यां समवायिकारणासमवायिकारणाभ्यां परं भिन्नं कारणं तृतीयं निमित्तकारणमित्यर्थः ॥ १८॥ इदानीमन्यथासिद्धत्वमेव कियतां पदार्थानामत आह-येनेत्यादिना । येन सह पूर्वभावः व: कारणमादाय वा यस्य । अन्यं प्रति पूर्वभावे ज्ञाते यत्पूर्वभावविज्ञानम् ॥ १९ ॥ १ पटसमवायिकारणतन्तुसमवेततन्तुत्वाढायतिव्याप्तिवारणाय कारणमिति । तन्तुत्वस्या- न्यथासिद्धत्वेनानन्यथासिद्धनियतपूर्ववृत्तिताया अभावादिति भाव १२ तुरीतन्तुसयोगस्य पटं प्रति कुतो नासमवायिकारणत्वमिति नाशङ्कनीयम् । तुरीतन्तुसंयोगनाशे पटनाशापत्ते', असमवायिकारणनाशस्य द्रव्यनाशजनकत्वात् । नचासमवायिकारणनाशस्य द्रव्यनाशजनकत्व मानाभाव इति वाच्यम् , ध्यणुकनाशान्यथानुपपत्तेरेव मानत्वात् । ३ वस्तुतस्तु तुरीतन्तुसंयोग- स्वावच्छिन्नप्रतियोगिताकभेद. पटासमवायिकारणलक्षणघटकतया ग्रन्थकर्तुनाभिप्रेतः । अपितु सन्तुभिन्नसमवेतत्वावच्छिन्नप्रतियोगिताकभेद एव । अन्यथा हस्ततन्तुसंयोगादिभेदाना पृथ- निवेशापत्या भेदकूटनिवेशेन गौरवमिति ध्येयम् ।
कारिकावली [प्रत्यक्षख० १ - -- प्यजातिमत्त्वस्य विवक्षितत्वात् । मूर्तत्वमपकृष्टपरिमाणवत्वम् , तच तेपामेव, गगनादिपरिमाणस्य कुतोप्यपकृष्टत्वाभावात् । पूर्ववत् कर्मवत्त्वं कर्मसमाना. धिकरणद्रव्यत्वव्याप्यजातिमत्त्वम् , वेगवत्वं वेगवदृत्तिद्रव्यत्वव्या प्रजातिमनं च बोध्यम् ॥ २४ ॥ २५ ॥ कालखात्मदिशां सर्वगतत्वं परमं महत् । क्षित्यादिपञ्चभूतानि चत्वारि स्पर्शवन्ति हि ॥ २६ ॥ कालेति । कालाकाशात्मदिशां सर्वगतत्वं सर्वमूर्तसंयोगित्वं परममहत्वं च । परममहत्त्वत्वं जातिविरोपः, अपकर्षानाश्रयपरिमाणत्वं वा । क्षित्यादीति । पृ. थिव्यप्तेजोवाय्वाकाशानां भूतत्वम् । तच बहिरिन्द्रियग्राह्यविशेपगुणवत्वम् । अन ग्राह्यत्वं लौकिकप्रत्यक्षस्वरूपयोग्यत्वं बोध्यम् । तेन ज्ञातो घट इत्यादिप्र. त्यक्षे ज्ञानस्याप्युपनीतभानविषयत्वात्तद्वति आत्मनि नातिव्याप्तिः। न वा प्रत्य- क्षाविपयरूपादिमति परमाण्वादावव्याप्तिः । तस्यापि स्वरूपयोग्यत्वात् । महत्व- लक्षणकारणान्तरासन्निधानाच्च न प्रत्यक्षम् । अथवा आत्मावृत्तिविशेपगुणवत्व- भ् । चत्वारीति । पृथिव्यतेजोवायूनां स्पर्शवत्वम् ॥ २६ ॥ द्रव्यारम्भश्चतुषु स्यादथाकाशशरीरिणाम् । अव्याप्यवृत्तिः क्षणिको विशेषगुण इण्यते ॥ २७ ॥ द्रव्यारम्भ इति । पृथिव्यप्तेजोवायुपु चतुर्यु द्वन्यारम्भकत्वम् । नच द्रव्या- नारम्भके घटादावव्याप्तिः, द्रव्यसमवायिकारणवृत्तिद्रव्यत्वव्याप्यजातिमत्वस्य विवक्षितत्वात् । आकाशशरीरिणामिति । आकाशात्मनामव्याप्यवृत्तिक्षणि- कविशेपगुणवत्वं साधर्म्यमित्यर्थः । आकाशस्य विशेषगुणः शब्दः स चाव्याप्य- वृत्तिः । यदा किंचिदवच्छेदेन शब्द उत्पद्यते तदान्यावच्छेदेन तदभावस्यापि सत्वात् । क्षणिकत्वं च तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम् । योग्यविमुविशेपगु- णानां स्वोत्तरवर्तिगुणनाश्यत्वात्प्रथमशब्दस्य द्वितीयशब्देन नाशः। एवं ज्ञानादी- निकृष्ट' इति-कालिकस्य 'अयमस्मादरपकालसबद्धः' इति-देशिकपरत्वस्य च 'अयमस्माद्वि- प्रकृष्ट ' इति-कालिकस्य 'अयमस्माद्वकालसपद्ध' इत्यपेक्षावुद्धिःकारणमिति बोध्यम् । १ घहिरिन्द्रियजन्यलौकिकप्रत्यक्षविपयजातिमदित्यर्थ । यदंश लौकिक संनिकपस्तनिष्टवि- पयता लौकिकविपयतेत्युच्यते।२ज्ञानलक्षणासंनिकर्यजन्यं ज्ञानमुपनीतभानमुच्यते। ज्ञातो घट इति ज्ञाने घटे ज्ञानं विपयतया प्रकारीभूय मासते। तत्र घटाशे चक्षु संयोगो लौकिक संनिकपः। ज्ञानांशे तु ज्ञानलक्षणारूपोग्लौकिक । अतस्तद्वत्तिविपयता न लौकिकविपयता भवितुमर्हति । एवं ज्ञानत्वविपयतापीति बोध्यम् । ३ कारणतावच्छेटकधर्मवत्वं हि स्वरूपयोग्यत्वं, तच्च न परमाणुरूपे तस्यानुद्भूतत्यादित्यत आह-अथवेति । ४ अव्याप्यवृत्तित्व च स्वाभावसामानाधिकर- ग्यम् । स्वप्रतियोगित्व-स्वसामानाधिकरण्योभयसंवन्धनाभावविशिष्टत्वम् । वस्तु सर्वावयवा- बच्छेदेन व्याप्य वर्तते तद्वयाप्यवृत्ति. तदन्यदव्याप्यवृत्तीत्यर्थ । ५ स्वपदं नाश्यत्वाभिमतपरम् । स्वोत्तरवती स्वद्वितीयक्षणवत्तियों विशेषगुणस्खन्नाश्यत्वादिस्यर्थः ।
१ १ प्रत्यक्षख० १] सिद्धान्तमुक्तावलीसहिता। १३ नामपि । ज्ञानादिक यदात्मनि विभौ शरीराद्यवच्छेदेनोत्पद्यते तदा घटाद्यवच्छे. देन तदभावोऽस्त्येव । एवं ज्ञानादिकमपि क्षणहयावस्थायि । इत्यं चाव्याप्यवृत्ति- विशेषगुणवत्वं क्षणिकविशेषगुणवत्त्वं चार्थः । पृथिव्यादी रूपादिविशेषगुणोऽम्नी- त्यतोऽव्याप्यवृत्तीत्युक्तम् । पृथिव्यादावव्याप्यवृत्ति. संयोगादिरस्तीत्यतो विशेषगु- णेत्युक्तम् । नच रूपादीनामपि कदाचित्तृतीयक्षणे नाशसंभवात्क्षणिकविशेषगुणवत्त्वं क्षित्यादावतिव्याप्तमिति वाच्यम्, चतुःक्षणवृत्तिजन्यावृत्तिजातिमद्विशेपगुणवत्त्वस्य तदर्थत्वात् । अपेक्षाबुद्धिः क्षणत्रयं तिष्ठति क्षणचतुष्टयं तु न किमपि जन्यज्ञाना- दिकं तिष्ठति । रूपत्वादिकं तु क्षणचतुष्टयस्थायिन्यपि रूपादौ वर्तत इति तयु. दासः । ईश्वरज्ञानस्य चतु.क्षणवृत्तित्वाज्ज्ञानत्वस्य तद्वृत्तित्वाजन्येत्युक्तम् । यद्या- काशजीवात्मनोः साधर्म्य, तदा जन्येति न देयम् , द्वेपत्वादिकमादाय लक्षणस- मन्वयात् । परममहत्त्वस्य तादृशगुणत्वाच्चतुर्थक्षणे द्वित्वादीनामपि गाशाभ्युप- गमावित्वादीनामपि तथात्वात्तद्वारणाय विशेपेति । त्रिक्षणवृत्तित्वं वा वाच्यम् । द्वेपत्वादिकमादायात्मनि लक्षणसमन्वय. ॥ २७ ॥ रूपद्रवत्वप्रत्यक्षयोगिनः प्रथमास्त्रयः । गुरुणी द्वे रसवती द्वयोनैमित्तिको द्रवः ॥ २८ ॥ रूपेति । पृथिव्यप्तेजसां रूपवत्त्वं द्रवत्ववत्वं प्रत्यक्षविषयत्वं चेत्यर्थः । न- च चक्षुरादीनां भर्जनकपालस्थवढेरूष्मणश्च रूपवत्वे किं मानमिति वाच्यम् , त. त्रापि तेजस्त्वेन रूपानुमानात् । एवं वाय्वानीतपृथिवीजलतेजोभागानामपि पृ. थिवीत्वादिना रूपानुमानं वोध्यम् । नच घटादौ दुतसुवर्णादिभिन्ने तेजसि च द्रवत्वमव्याप्तमिति वाच्यम् , द्रवत्ववद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षित- त्वात् । घृतजतुप्रभृतिषु पृथिवीपु, जलेषु, द्रुतसुवर्णादौ तेजसि च द्रवत्वसत्त्वा- त्तत्र च पृथिवीत्वादिसत्वात्तदादाय सर्वत्र लक्षणसमन्वयः । नच प्रत्यक्षविपयत्वं परमाण्वादावव्याप्तम् , अतिव्याप्तं च रूपादाविति वाच्यम् , चाक्षुपलौकिक- त्यक्षविषयवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । आत्मन्यतिव्याप्तिवा- १ चतु.क्षणवृत्ति यजन्यं रूपादि तवृत्तियां जाति ज्ञानत्वादि तद्वद्विशेषगुणवत्वमित्यर्थ । विशेषगुणास्तु 'बुद्ध्यादिपटू स्पर्शान्ता स्नेह सासिद्धिको द्रव । अदृष्टभावनाराठा अमी वैशेषिका गुणा' ॥ इत्यने निरूपयिष्यन्ते । २ त्रिक्षणवृत्तित्वस्योपेक्षाया प्रयोजनमाह-अपेक्षा. बुद्धिरिति । ३ शरीरिणामित्सत्र मूले शरीरिपदस्य यथाश्रुतार्थकत्वाभिप्रायेणाह-ययाकाश- जीवात्मनोरिति । ४ ननु परममहत्त्वत्व न जाति फित्वपकर्पपरिमाणाप्रयत्वमित्युक्तम् । तथाच कथं तदादायातिप्रसङ्ग इत्यत आह-चतुर्थक्षणे द्वित्वाटीनामिति । यद्वा जन्यपदानु- पादाने परममहत्त्वत्वस्य चतु-क्षणवृत्तिवृत्तित्वान्नपरममहत्त्वमादाय कालादायतिव्याप्तिरत आह- चतुथेति । ५ योगिप्रत्यक्षविपयत्वात्परमाणावव्याप्त्यभावादाह-अतिव्याप्त चेति । ६ घटो वा- युमानिति वावशे उपनीतभानात्मकपटविशेष्यकचाक्षुपविषयवायुवृत्तिद्रव्यत्वव्याप्यवायुत्वजा- तिमति वायावतिव्याप्तिवारणाय लौकिकेति । २ १४ कारिकावली [प्रत्यक्षख०१ - . रणाय चाक्षुपैति । गुरुणी इति । गुरुत्ववत्त्वं रसवत्त्वं पृथिवीजलयोरित्यर्थः । नच घ्राणेन्द्रियादीनां वाय्वानीतपार्थिवादिभागानां च रसादिमत्वे किं मानमिति वाच्यम्, तत्रापि पृथिवीत्वादिना तदनुमानात् । द्वयोरिति । पृथिवीतेजसो- रित्यर्थः । नच नैमित्तिकद्रवत्ववत्त्वं घटादी वहयादी चाव्यासमिति वाच्यम्, ने- मित्तिकद्रवत्वसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् ॥ २८ ॥ आत्मानो भूतवर्गाश्च विशेषगुणयोगिनः। आत्मान इति । पृथिव्यतेजोवारवाकाशात्मनां विशेषगुणवत्वमित्यर्थः । यदुक्तं यस्य साधये वैधर्म्यमितरस्य तत् ॥ २९ ॥ यदुक्तमिति । ज्ञेयत्वादिकं विहायेति बोध्यम् । तत्तु न कस्यापि वैधर्म्यम् , केवलान्वयित्वात् ॥ २९ ॥ स्पर्शादयोऽष्टौ वेगाख्यः संस्कारो मरुतो गुणाः । स्पर्शाद्यष्टौ रूपवेगौ द्रवत्वं तेजसो गुणाः ॥३०॥ स्पर्शादयोऽष्टौ वेगश्च गुरुत्वं च द्रवत्वकम् । रूपं रसस्तथा स्नेहो वारिण्येते चतुर्दश ॥३१॥ स्नेहहीना गन्धयुताः क्षितावेते चतुर्दश । वुद्धयादिपर्टी संख्यादिपञ्चकं भावना तथा ॥ ३२ ॥ धर्माधौं गुणा एते आत्मनः स्युश्चतुर्दश । संख्यादिपञ्चकं कालदिशोः शब्दश्च ते च खे ॥३३ ।। संख्यादयः पञ्च बुद्धिरिच्छा यत्नोऽपि चेश्वरे । परापरत्वे संख्याद्याः पञ्च वेगश्च मानसे ॥ ३४ ॥ ते च खे आकाशे ॥ ३० ॥ ३१ ॥ ३२ ॥ ३३ ॥३४॥ साधर्म्यवैधयें निरूप्य संप्रति प्रत्येकं पृथिव्यादिकं निरूपयति-तत्र क्षिति- रित्यादिना। तत्र क्षितिर्गन्धहेतुर्नानारूपवती मता। पड्डिधस्तु रसस्तत्र गन्धस्तु द्विविधो मतः ॥ ३५ ॥ गन्धहेतुरिति । गन्धसमवायिकारणमित्यर्थः। यद्यपिगन्धवत्वमात्रं लक्षणमु- १ रक्तिकमापकतोलकत्यादि । इदमुपलक्षणम् । पतनववामित्यपि बोध्यम् । पसनत्य गुरुत्वासमवायिकारणकर्मरवम् । उल्का पततीत्यादि प्रयोगस्तु लाक्षणिकः।
प्रत्यक्षखं० १] सिद्धान्तमुक्तावलीसहिता। चितं तथापि पृथिवीत्वजातीप्रमाणोपन्यासाय कारणत्वमुपन्यस्तम् । तथाहि-पृथि- वीत्वं हि गन्धसमवायिकारणतावच्छेदकतया सिद्ध्यति । अन्यथा गन्धत्वावरिछ- नस्याकसिकत्वापत्तेः । नच पापाणादौ गन्धाभावागन्धवत्त्वमव्याप्तमिति वाच्यम्, तत्रापि गन्धसत्वात् । अनुपलब्धिस्त्वनुत्कटत्वेनाप्युपपद्यते । कथमन्यया तदस्मनि गन्ध उपलभ्यते।भस्मनो हि पापाणध्वंसजन्यत्वात्पापाणोपादानोपादेयत्वं सिद्धाति। यद्व्यं यद्न्यध्वंसजन्यं तत्तदुपादानोपादेयमिति व्याप्तः। दृष्टं चैतत्खण्डपटे महाप- टध्वंसजन्ये । इत्यं च पापाणपरमाणोः पृथिवीस्वात्तजन्यस्य पापाणस्यापि पृथि- वीत्वं, तथाच तस्यापि गन्धवत्वे वाधकाभावः । नानारूपेति । शुक्लनीलादि- भेदेन नानाजातीयं रूपं पृथिव्यामेव वर्तते नतु जलादौ, तत्र शुक्लस्यैव सत्वात् । पृथिव्यां तु एकस्मिन्नपि धर्मिणि पाकवशेन नानारूपसंभवात् । नच यत्र नाना- रूपं नोत्पन्नं तत्राव्याप्तिरिति वाच्यम्, रूपद्वयवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् रूपनाशवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्वस्य वा वाच्यत्वात् । वैशे- पिकनये पृथिवीपरमाणौ रूपनाशस्य रूपान्तरस्य च सत्त्वाच्यायनये घटादावपि तत्सत्त्वाल्लक्षणसमन्वयः । षड्विध इति । मधुरादिभेदेन यः पविधो रसः स पृथिव्यामेव । जले मधुर एव रसः । अत्रापि पूर्ववद्रसवद्वृत्तिद्रव्यत्वव्याप्यजा- तिमत्व लक्षणार्थोऽवसेयः ।गन्धस्त्विति । द्विविध इति वस्तुस्थितिमात्रं नतु द्विविधगन्धवत्वं लक्षणं द्विविधस्वस्य व्यर्थत्वात् । द्वैविध्यं च सौरभासौरमभेदेन बोध्यम् ॥ ३५॥ स्पर्शस्तस्यास्तु विज्ञेयो ह्यनुष्णाशीतपाकजः । स्पर्श इति । तस्याः पृथिव्याः । अनुष्णाशीतस्पर्शवत्वं वायोरपि वर्तत इत्यु- तं पाकज इति । इत्थं च पृथिव्याः स्पर्शोऽनुष्णाशीत इति ज्ञापनार्थ तदुक्तम् । वस्तुतस्तु पाकजस्पर्शवत्वमानं लक्षणम्, अधिकस्य वैयर्थ्यात् । यद्यपि पाकजस्प- शः पटादौ नास्ति तथापि पाकजस्पर्शवदृत्तिद्रव्यत्वव्याप्यजातिमत्वमर्थो वोध्यः । नित्यानित्या च सा द्वेधा नित्या स्यादणुलक्षणा ॥३६॥ अनित्या तु तदन्या स्यात्सैवावयवयोगिनी । सा च त्रिधा भवेद्देहमिन्द्रियं विषयस्तथा ॥ ३७॥ नित्येति । सा पृथिवी द्विविधा नित्या अनित्या चेत्यर्थः । अणुलक्षणा परमा- गुरूपा पृथिवी नित्या। तदन्या परमाणुमिन्ना पृथिवी व्यणुकादिरूपा सर्वाप्य- नित्येत्यर्थः । सैवानित्या पृथिव्येवावयववतीत्यर्थः । ननु अवयविनि किमानं पर- माणुपुरेवोपपत्तेः । नच परमाणूनामतीन्द्रियत्वाइटादेः प्रत्यक्षं न स्यादिति वा- च्यम्, एकस्य परमाणोरप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्षत्वात् । यथैकस्य केशस्य दू- रेऽप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्षत्वम्। न चैको घटः स्थूल इति बुद्धरनुपपत्तिरिति - - । -- - - कारिकावली [प्रत्यक्षख० १ वाच्यम्, एको महान्धान्यराशिरितिवदुपपत्ते। मैवम् । परमाणोरतीन्द्रियत्वेन तत्स- मूहस्यापि प्रत्यक्षायोग्यत्वात्। दूरस्थकेशस्तु नातीन्द्रियः, सन्निधाने तस्यैव प्रत्यक्ष- त्वात् । नच तदानी दृश्यपरमाणुपुञ्जस्योत्पन्नत्वान्न प्रत्यक्षत्वेऽपि विरोध इति वाच्यम्, अदृश्यस्य दृश्यानुपादानत्वात् । अन्यथा चक्षुरूमादिसंततेः कदाचिट्ट- श्यत्वप्रसङ्गात् । नचातितप्ततैलादौ कथमदृश्यदहनसंततेश्यदहनोत्पत्तिरिति वा. च्यम्, तत्र तदन्तःपातिभिदृश्यदहनावयवैः स्थूलदहनोत्पत्तेरुपगमात् । न चाह- श्येन व्यणुकेन कथं दृश्यत्रसरेणोरुत्पत्तिरिति वाच्यम् । यतोन दृश्यत्वमदृश्यत्वं वा कस्यचित्स्वभौवादाचक्ष्महे । किंतु महत्त्वोद्भूतरूपादिकारणसमुदायवतो दृश्यत्वंत- दभावे चादृश्यत्वम् । तथाच त्रसरेणोमहत्त्वात्प्रत्यक्षत्वं, न तु व्यणुकादेस्तदभा- वात् । नहि त्वन्मतेऽपि संभवतीदं परमाणो महत्त्वाभावात् । इत्थं चावयवसि- दौ तेपामुत्पादविनाशयोः प्रत्यक्षसिद्धत्वादनित्यत्वम् । तेषां चावयवावयवधा- राया अनन्तत्वे मेरुसर्पपयोरपि साम्यप्रसङ्गः। अतः कचिद्विश्रामो वाच्यः । यत्र तु विश्रामस्तस्यानित्यत्वेऽममवेतकार्योत्पत्तिप्रसङ्गात्तस्य नित्यत्वम् । महत्परिमाण- तारतम्यस्य गगनादौ विश्रान्तत्वमिवाणुपरिमाणतारतम्यस्यापि कचिद्विश्रान्त- स्वमस्तीति तस्य परमाणुत्वसिद्धिः । नच त्रसरेणावेव विश्रामोऽस्त्विति वाच्यम्, त्रसरेणुः सावयवः, चाक्षुपदव्यत्वात्, घटवदित्यनुमानेन तदवयवसिद्धी, सरे- गोरवयवाः सावयवाः, महदारम्भकत्वात्, कपालवदित्यनुमानेन तदवयवसिद्धेः । न चेदमप्रयोजकम्, अपकृष्टमहत्त्वं प्रत्यनेकद्रव्यत्वस्य प्रयोजकत्वात् । न चैवं क- मेण तदवयवधारापि सिद्धयेदिति वाच्यम्, अनवस्थाभयेन तदसिद्धेरिति ॥ सा चेति । सा कार्यरूपा पृथिवी निधेत्यर्थः । शरीरेन्द्रियविषयभेदादित्यर्थः ॥३६॥ ॥३७॥ तत्र देहमुदाहरति- योनिजादिर्भवेद्देह इन्द्रियं प्राणलक्षणम् । विषयो घणुकादिश्च ब्रह्माण्डान्त उदाहृतः ॥ ३८ ॥ योनिजादिरिति । योनिजमयोनिजं चेत्यर्थः । योनिजमपि द्विविधं, जरायु- . - - १ यथा धान्यसमूहस्यैकत्वादेक इति प्रतीतिरेवं संयोगविशेपस्यैव महत्वात्मकतया महानि- ति प्रतीतिस्तथा परमाणुपुञ्जष्वपीति भाव ।२ स्वभावतोऽयोग्यानां परमाणूनां परस्परसंयो- गमात्रेण योग्यत्वं न भवतीत्यर्थः। ३ दूरस्थत्वस्य प्रतिबधकतया तद्दशायामप्रत्यक्षत्वमात्रं त- स्य न तुस्वाभाविकमप्रत्यक्षलमिति भाव.। ४ क्षणभद्गवादिनां मते परमाणूनामुत्पत्तिस्वीकारा- दिति भाव.1५स्वभाव कारणनैरपेक्ष्यम् । तथाच त्वन्मतेऽतीन्द्रियत्वं प्रत्यक्षत्वं च स्यामायिकमि- त्यतीन्द्रियस्यन्द्रियिकपदार्थोत्पादकत्वे चक्षुम्पादौ कदाचिद्दश्यत्वमापादितमस्मन्मते तु कारण- पलाध्यणुकस्य प्रत्यक्षत्वेऽपि तदमावात् ब्यणुकस्यातीन्द्रियत्वसंभवाददृश्यस्य दृश्यकारणत्वेऽपि न क्षतिरिति भावः। - प्रत्यक्षख० १] सिद्धान्तमुक्तावलीसहिता। १७ जमण्डजं च । जरायुजं मानुपादीनाम् । अण्डज सादीनाम् । अयोनिज स्वेद- जोद्भिजादिकम् । स्वेदजाः कृमिदंशाद्याः । उद्भिजास्तरुगुल्माद्या. । नारकिणां शरीरमप्ययोनिजम् । नच मानुपादिशरीराणां पार्थिवत्वे किं मानमिति वाच्यम्, गन्धादिमत्त्वस्यैव प्रमाणत्वात् । नच केदोमादेरुपलम्मादाप्यत्वादिकमपि स्या- दिति वाच्यम्, तथा सति जलत्वपृथिवीत्वादिना संकरप्रसङ्गात् । नच तहि ज- लीयत्वादिकमेवास्तु न तु पार्थिवत्वमिति वाच्यम्, क्लेदादीनां विनाशेऽपि श. रीरत्वेन प्रत्यभिज्ञानाद्गन्धाधुपलब्धेश्व पृथिवीत्वसिद्धेः। तेन पार्थिवादिशरीरे ज- लादीनां निमित्तत्वमानं बोध्यम् । शरीरत्वं तु न जातिः, पृथिवीत्वादिना सांक- र्यात् । किंतु चेष्टाश्रयत्वम् । वृक्षादीनामपि चेष्टासत्त्वान्नाव्याप्तिः । नच वृक्षादे शरीरत्वे किं मानमिति वाच्यम्, आध्यात्मिकवायुसंवन्धस्य प्रमाणत्वात् । तत्रैव किं मानमिति चेनग्नक्षतसंरोहणादिना तदनुमानात् । यदि हस्तादौ शरीरव्यवहारो न भवति तदान्त्यावयवित्वेन विशेपणीयम् । नच यत्र शरीरे चेष्टा न जाता तत्राव्याप्तिरिति वाच्यं, तादृशे प्रमाणाभावात् । अथवा चेष्टावदन्त्यावयविवृत्तिद्रव्य- त्वव्याप्योतिमत्त्वमन्त्यांवयविमात्रवृत्तिचेष्टावद्वृत्तिजातिमत्त्वं वा तत् । मानुप- त्वचैत्रत्वादिजातिमादाय लक्षणसमन्वयः । नच नृसिंहशरीरे कथं लक्षणस- मन्वयः, तत्र नृसिंहत्वस्यैकव्यक्तिवृत्तितया जातित्वाभावाजलीयतैजसशरीरवठ्ठ- त्तितया देवत्वस्यापि जातित्वाभावादिति वाच्यम्, कल्पभेदेन नृसिंहशरीरस्य नानात्वेन नृसिंहत्वजात्या लक्षणसमन्वयात् । इन्द्रियमिति । नाणेन्द्रियं पा- र्थिवमित्यर्थः । पार्थिवत्वं कथमिति चेदित्थम् । घ्राणेन्द्रियं पार्थिव, रूपादिपु मध्ये गन्धस्यैव व्यञ्जकत्वात्, कुङ्कुमगन्धादिव्यञ्जकगोधृतवत् । नच दृष्टान्ते स्वकी- यरूपादिव्यञ्जकत्वादसिद्धिरिति वाच्य, परकीयरूपाद्यव्यञ्जकत्वस्य तदर्थत्वात । नच नवशरावगन्धव्यञ्जकजलेऽनैकान्तिकत्वमिति वाच्यं, तस्य सक्तुरसाभिव्य- १गर्भवेष्टनचर्मपुटकं जरायु । २ क्रिम्यादीनामपि शरीर शुक्रशोणितसमीलनजन्यमेव श रीरमात्रस्य तथात्वादिति नाशकनीयम् । तच्छरीराणामुत्पत्तरधर्मविशेपसहितेभ्योऽणुभ्य एव स्वीकारादिति भावः । आदिना देवादिपरिग्रहः । तच्छरीराणामुत्पत्तेधर्मविशेपसहितेभ्योऽणुभ्य एव स्वीकारादिति भावः । ३ आदिशब्दायूहाकाशपरिग्रह । व्यूह. क्रिया सदागतिमत्त्वरूपा शरीरे वायवीयत्वसाधिका । अवकाश मुखादावन्नादिगत्यप्रतिवन्ध आकाशीयत्वसाधक । ४ पृथिवीत्व विहाय शरीरत्व जलीयशरीरे शरीरत्वं विहाय पृथिवीत्वं घटाटी उभयो समावेश. पार्थिवशरीरे इत्यादिरीत्या । ५ इटानिष्टप्राप्तिपरिहारानुकूलव्यापार । त्वमादाय घटेऽतिव्याप्तिवारणाय चेष्टावदिति । हस्ताटावतिव्याप्तिवारणायान्त्यावयवीति । नच हस्तत्वादिक न जाति पृथिवीत्वादिना संकरादिति वाच्यम्, पृथिवीत्वव्याप्यनानाह स्तत्वाङ्गीकारात् । ७ पृथिवीत्वरूपताशजातिमति घटादावतिव्याप्तिरतो लक्षणान्तर- माह-अन्त्यावयवीति । अन्त्यावयविमात्रवृत्तिरित्यनेन द्रव्यत्वादिजातिव्युदास । चेष्टावदृत्तिरि- त्यनेन घटत्वादिव्युदास । चेष्टा च हिताहितप्राप्तिपरिहारार्था क्रिया ग्राहा । नतु सन्दनमात्र तस घटादावपि सत्त्वात् । ८ व्यभिचार इत्यर्थः । ६फ्ट. WF कारिकावली [प्रत्यक्षस. १ - - - - - अकत्वात् । यद्वा परकीयेति नदेयं, वायूपनीतसुरभिभागस्य दृष्टान्तत्वसंभवात् । नच घ्राणेन्द्रियसन्निकर्पस्य गन्धमात्रव्यञ्जकत्वात् तत्र व्यभिचार इति वाच्यं, द्रव्यत्वे सतीति विशेषणात् । विषय इति । उपभोगसाधनं विपयः । सर्वमेव हि कार्यजातमदृष्टाधीनम् । यत्कार्य यददृष्टाधीनं तत्तदुपभोगं साक्षात्परम्परया वा जनयत्येव । नहि वीजप्रयोजनाभ्यां विना कस्यचिदुत्पत्तिरस्ति । तेन . गुकादिब्रह्माण्डं सर्वमेव विपयो भवति । शरीरेन्द्रिययोपियत्वेऽपि प्रकारान्त- रोपन्यासः शिष्यबुद्धिवेशद्यार्थः ॥ ३० ॥ जलं निरूपयति- वर्णः शुक्लो रसस्पर्शी जले मधुरशीतलौ । स्नेहस्तत्र द्रवत्वं तु सांसिद्धिकमुदाहृतम् ॥ ३९ ॥ वर्णः शुक्ल इति । स्नेहसमवायिकारणतावच्छेदकतया जलत्वजातिःसिद्ध्यति। यद्यपि स्नेहत्वं नित्यानित्यवृत्तितया न कार्यतावच्छेदकं तथापि जन्यनेहत्वं तथा बोध्यम् । अथ परमाणौ जलत्वं न स्यात्तत्र जन्यस्नेहाभावात्तस्य च नित्यस्य स्वरूपयोग्यत्वे फलावश्यंभावनियमादिति चेत् । न । जन्यस्नेहजन- कतावच्छेदिकाया जन्यजलत्वजातेः सिद्धौ तदवच्छिन्नजनकतावच्छेदकतया जल- त्वोतिसिद्धः । शुक्लरूपमेव जलस्येति दर्शयितुमुक्तं वर्णः शुक्ल इति । नतु शुक्लरूपवत्त्वं लक्षणम् । अथवा नैमित्तिकद्रवत्ववदवृत्तिरूपवद्वृत्तिद्रव्यत्वे- साक्षाव्याप्यजातिमत्वम् , अभास्वरशुक्लेतररूपासमानाधिकरणरूपवद्वृत्तिद्रव्यत्व. साक्षाद्वयाप्यजातिमत्त्वं वा तदर्थः । तेन स्फटिकादौ नातिव्याप्तिः । रसस्पर्शा- विति। जलस्य मधुर एव रसः शीत एव स्पर्शः । तिक्तरसवदवृत्तिमधुरवद्वत्ति- द्रव्यत्वसाक्षायाप्यजातिमत्त्वम् । तेन शर्करादौ नातिव्याप्तिः । शीतेतरस्पर्श- वदवृत्तिस्पर्शवद्वत्तिद्रव्यत्वसाक्षायाप्यजातिमत्त्वं तदर्थः । ननु शुक्लरूपमेवेति कुतः कालिन्दीजलादौ नीलिमोपलव्धेरिति चेत् । न । नीलजनकतावच्छेदिका- याः पृथिवीत्वजारभावाजले नीलरूपासंभवात्। कालिन्दीनले नीलप्रतीतिस्त्वा- श्रयौपाधिकी । अत एव वियति विक्षेपे धवलिमोपलब्धिः । अथ जले माधुर्य किं मानम्, नहि प्रत्यक्षेण कोऽपि रसस्तत्रानुभूयते । नच नारिकेलजलादौ माधुर्यमुपलभ्यत एवेति वाच्यम्, तस्याश्रयोपाधिकत्वात् । अन्यथा जम्बीरर- सादावम्लाघुपलव्धेरम्लादिमत्त्वमपि स्यादिति चेत् । न । हरीतक्यादिभक्षणस्य १ नवं जन्यजलान्यावयविनि जलत्वं न स्यादिति वाच्यम्, जलमात्र एव जलान्तर संयोगेन वृहजलजननयोग्यतासरवाजलस्यान्यावयवित्यानुपगमात् । २ व्यत्वव्याप्यवायुत्व- जातिमाठाय यायावतिव्याप्तिवारणाय रूपवदृत्तीति । पृथिवीत्यादिजातिमादाय पृथिव्यादाव- तिघ्यावारणाय नैमित्तिकद्रवत्ववदवृत्तीति । साक्षादिति पटत्यादिवारणाय । द्रव्यत्वसाक्षा- दाप्यत्यं च द्रव्यत्वन्याप्याव्याप्यत्वंनतु द्रव्यत्यच्याप्यत्वस्यापि तत्रान्तर्भावस्पवदृत्तित्वविदोष- नैव रूपत्वादीनां वारणात्तनिवेशे प्रयोजनाभावात् । --- 1 .
प्रत्यक्षखं० १] सिद्धान्तमुक्तावलीसहिता। १९ -- जलरसव्यञ्जकत्वात् । नच हरीतक्यामेव जलोप्मसंयोगादसान्तरोत्यत्तिरिति वाच्यम्, कल्पनागौरवात् । पृथिवीत्वस्याम्लादिजनकतावच्छेदकत्वाच्च जले ना- म्लादिकम् । जम्बीससादौ त्वाश्रयौपाधिकी तथा प्रतीतिः । एवं जन्यशीतस्पर्श- जनकतावच्छेदकं जन्यजलत्वं तदवच्छिन्नजनकतावच्छेदकं जलत्वं बोध्यम् । घृष्टचन्दनादौ तु शैत्योपलब्धिश्चन्दनान्तर्वर्तिशीततरसलिलस्यैव । तेजःसंयोगा. जले उष्णप्रतीतिरौपाधिकी स्फुटैव । तत्र पाकासंभवात्। स्नेहस्तति । घृतादा- वपि तदन्तर्वर्तिजलस्यैव स्नेहा, जलस्य स्नेहसमवायिकारणत्वात् । तेन जल एव नेह इति मन्तव्यम् । द्रवत्वमिति । सांसिद्धिकद्वत्वत्वं जातिविशेपः प्रत्यक्षसिद्धः, तेदवच्छिन्नजनकतावच्छेदकमपि तदेवेति भावः । तैलादावपि जलस्य द्रवत्वं स्नेहप्रकर्पेण च दहनानुकूल्यमिति वक्ष्यति ॥ ३९ ॥ नित्यतादि प्रथमवत्किंतु देहमयोनिजम् । इन्द्रियं रसनं सिन्धुहिमादिविषयो मतः ॥ ४० ॥ प्रथमवदिति । पृथिव्या इवेत्यर्थः । तथाहि-जलत्वं द्विविधं नित्यमनित्यं च । परमाणुरूपं नित्यं व्यणुकादिकं सर्वमनित्यमवयवसमवेतं च । भनित्यमपि त्रिविधं शरीरेन्द्रियविषयभेदात् । पृथिवीतो यो विशेपस्तमाह-कित्विति । देहमयोनिजम् अयोनिजमेवेत्यर्थः। इन्द्रियमिति। जलीयमित्यर्थः । तथाहि- रसनं जलीय गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् । सक्तुरसाभिव्यञ्जकोद- कवत् । रसनेन्द्रियसंनिक व्यभिचारवारणाय द्रव्युत्वं देयम् । विपयं दर्शयति- सिन्धुहिमादिरिति । सिन्धुः समुद्रः । हिम तुपारः। भादिपदासरित्कासारकर- कादिः सर्वोऽपि ग्राह्यः । नच हिमकरकयोः कठिनत्वात्पार्थिवत्वमिति वाच्यम्, ऊष्मणा विलीनस्य तस्य जलत्वस्य प्रत्यक्षसिद्धत्वात् । यद्रव्यं यद्रव्यध्वंसजन्य- मिति व्यासेजलोपादानोपादेयत्वसिद्धः । अदृष्टविशेषेण वत्वप्रतिरोधात्कर- कादीनां काठिन्यप्रत्ययस्य भ्रान्तत्वात् ॥ ४० ॥ तेजो निरूपयति-उष्णः स्पर्श इत्यादिना । उष्णः स्पर्शस्तेजसस्तु स्याद्रूपं शुक्लभास्वरम् । नैमित्तिकं द्रवत्वं तु नित्यतादि च पूर्ववत् ॥४१॥ १ सांसिद्धिकद्रवत्वत्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकमित्यर्थः । तदेव जन्यजलत्व- मेव तदवच्छिन्नजनकतावच्छेदकं जलत्वमिति भावः । अथैव रीत्या परमाणुव्यावृत्तमायाणुकं जलत्वमेकं, परमाणुसाधारणं द्वितीयमिति जलत्वयोभेदे भेदाग्रह' कुत इति चेत्समनियतयो- ग्यव्यक्तिवृत्तित्वादिति गृहाण । २ यद्रव्यं यद्रव्यध्वंसजन्यं तत्तदुपादानोपादेयमिति घ्याप्त्या करकादिध्वसजन्यजले करकोपादानोपादेयत्वसिद्धावुभयोरुपादानयोरेकत्वग्रहेष जलोपादा- नस्य च जलत्वनिर्णयेन तदुपादेयकरकादेरपि जलत्वनिर्णय इत्यर्थः।
२० कारिकावली [प्रत्यक्षस. १ । उष्णत्वं स्पर्शनिष्ठो जातिविशेपः प्रत्यक्षसिद्धः। इत्थं च जन्योष्णस्पर्शसम. वायिकारणतावच्छेदकं तेजस्वं जातिविशेषः । तस्य परमाणुवृत्तित्वं तु जल. त्वस्येवानुसंधेयम् । नचोष्णस्पर्शवत्वं चन्द्रकिरणादावव्याप्तमिति वाच्यम्, त- त्राप्युष्णत्वस्य सत्त्वात् । किंतु तदन्तःपातिजलस्पर्शेनाभिभवादग्रहः । एवं रत्नकिरणादौ पार्थिवस्पर्शनाभिभवाच्चक्षुरादौ चानुभूतत्वादग्रहः ॥ रूपमित्या- दि । वैश्वानरे मरकतकिरणादौ च पार्थिवरूपेणाभिभवाच्छुक्लरूपाग्रहः ॥ ननु तद्रूपाग्रहे धर्मिणोऽपि चाक्षुपत्वं न स्यादिति चेत् । न । अन्यदीयरूपेणापि धर्मिणो ग्रहसंभवात् । शहस्येव पित्तपीतिना । वह्नस्तु शुक्लं रूपं नाभिभू. तं किंतु तदीयं शुक्लत्वमभिभूतमित्यन्ये ॥ नैमित्तिकमिति । सुवर्णादिरूपे तेजसि तत्सत्त्वात् । नच नैमितिकद्रवत्वं दहनादावव्याप्तं, घृतादावतिव्याप्तं चेति वाच्यम्, पृथिव्यवृत्तिनैमित्तिकद्रवत्ववद्वृत्तिद्रव्यत्वसाक्षाद्वयाप्यजातिमत्त्वस्य विवक्षितत्वात् । पूर्ववदिति । जलस्येवेत्यर्थः । तथाहि-तत् द्विविधं नित्यम- नित्यं च । नित्यं परमाणुरूपं तदन्यदनित्यमवयवि च । तच्च विधा-शरीरे- न्द्रियविषयभेदात् शरीरमयोनिजमेव । तच्च सूर्यलोकादौ प्रसिद्धम् ॥ ११ ॥ अत्र यो विशेपस्तमाह- इन्द्रियं नयनं वह्निस्वर्णादिपियो मतः । इन्द्रियमिति । ननु चक्षुपस्तैजसत्वे किं मानमिति चेत्, चक्षुस्तैजसं, परकी- यस्पर्शाव्यञ्जकत्वे सति परकीयरूपन्यञ्जकत्वात्, प्रदीपवत् । प्रदीपस्य स्त्रीयस्पर्श- व्यञ्जकत्वादन दृष्टान्तेऽव्याप्तिवारणाय प्रथमं परकीयेति । घटादेः स्त्रीयरूपव्या- कत्वाद्यभिचारवारणाय द्वितीयं परकीयेति । अथवा प्रभाया दृष्टान्तत्वसंभवादाचं परकीयेति न देयम् । चक्षुःसंनिक व्यभिचारवारणाय द्रव्यत्वं देयम् । विपयं दर्शयति-वह्नीति । ननु सुवर्णस्य तैजसत्वे किं मानमिति चेत् । न । सुवर्ण तैज- सम्, असति प्रतिवन्धकेऽत्यन्तानलसंयोगेऽप्यनुच्छिद्यमानद्वत्वात् । यन्नैवं तन्नै- वम् । यथा पृथिवीति । न चाप्रयोजकं पृथिवीद्रवत्वस्य जन्यजलद्रवत्वस्यात्यन्ता- निसंयोगनाश्यत्वात् । ननु पीतिमगुरुत्वाश्रयस्य पार्थिवस्यापि तदानीं द्रुतत्वात्तेन व्यभिचार इति चेत् । न जलमध्यस्थमपीक्षोदवत्तस्याद्रुतत्वात्। अपरे-तु पीतिमा- श्रयस्य अत्यन्ताग्निसंयोगेऽपि पूर्वरूपापरावृत्तिदर्शनात्तत्प्रतिवन्धकं विजातीयद्व- द्रव्यं कल्प्यते । तथाहि-अत्यन्ताग्निसंयोगिपीतिमगुरुत्वाश्रयो विजातीयरूपप्रति- वन्धकद्रवद्रव्यसंयुक्तः, अत्यन्ताग्निसंयोगे सत्यपि पूर्वरूपविजातीयरूपानधिक- रणत्वात् । जलमध्यस्थपीतपटवत् । तस्य च पृथिवीजलभिन्नस्य तेजस्त्वनियमात् ॥ १ पृथिव्यां एतादी नैमित्तिकद्रवत्वसत्वेन पृथिवीत्वजातिमादायातिव्यासिवारणाय पृथिव्य- मृतीति । पृथिव्यवृत्तिजलस्वजातिमादाय जले पृथिव्यवृतिवायुत्यादिकमादाय वायौ अतिव्या- तिवारणाय नैमित्तिकद्रवत्ववहृतीति। वायुतेजोन्यतरत्वमादाय वायावतिव्याप्तिवारणाय जातीति।
प्रत्यक्षखं० १] सिद्धान्तमुक्तावलीसहिता। वायु निरूपयति-- अपाकजोऽनुष्णाशीतः स्पर्शस्तु पवने मतः ॥ ४२ ॥ तिर्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः। पूर्ववन्नित्यतायुक्तं देहव्यापि त्वगिन्द्रियम् ॥ ४३ ॥ अपाकज इति । अनुप्णाशीतस्पर्शस्य पृथिव्यामपि सत्वादुक्तमपाकज इति । अपाकजस्पर्शस्य जलादावपि सत्वादुक्तमनुप्णाशीत इति । तेन वायवीयो वि- जातीयः स्पर्शो दर्शितः । तजनकतावच्छेदकं वायुत्वमिति भावः । एप वायुः स्पर्शादिलिगकः। वायुर्हि स्पर्शशब्दधतिकम्पैरनुमीयते विजातीयस्पर्शन विलक्षण- शब्देन तृणादीनां भृत्या शाखादीनां कम्पेन च वायोरनुमानात् । यथाच वायोन प्रत्यक्षं तथाग्रे वक्ष्यते । पूर्ववदिति । वायुर्द्विविधो नित्योऽनित्यश्च । परमाणुरू- पो नित्यस्तदन्योऽनित्योऽवयवसमवेतश्च । सोऽपि विविधः-शरीरेन्द्रियविपयमे. दात् । तत्र शरीरमयोनिज पिशाचादीनाम् । परंतु जलीयतैजसवायवीयशरीराणां पार्थिवभागोपष्टम्भादुपभोगक्षमत्वं जलादीनां प्राधान्याजलीयत्वादिकमिति। मन्त्र यो विशेषस्तमाह-देहव्यापीति । शरीरव्यापकं स्पर्शग्राहकमिन्द्रियं त्वक् । तञ्च वायवीय, रूपादिपु मध्ये स्पर्शस्यैवाभिव्यञ्जकत्वात् । अङ्गसङ्गसलिलशैत्यामि. व्यञ्जकन्यजनपवनवत् ॥ ४२॥४३॥ विषयं दर्शयति- प्राणादिस्तु महावायुपर्यन्तो विषयो मतः। प्राणादिरिति । यद्यप्यनित्यो वायुश्चतुर्विधः । तस्य चतुर्थी विधा प्राणादिरि- त्युकमाकरे । तथापि संक्षेपादन त्रैविध्यमुक्तम् । प्राणस्त्वेक एव हृदादिनाना- स्थानवशान्मुखनिर्गमादिनानाक्रियावशाञ्च नाना संज्ञा लभत इति ॥ आकाशं निरूपयति- आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः ॥ ४४ ॥ आकाशस्येति । भाकाशकालदिशामेकैकव्यक्तित्वादाकाशत्वादिकं नजातिः। किंतु आकाशत्वं शब्दाश्रयत्वम् । वैशेषिक इति कथनं तु विशेपगुणान्तरव्यव- १ योऽय रूपवन्यासमवेत स्पर्श स कचिदाश्रित , स्पर्शत्वात् पृथिवीसमवेतस्पर्मवत् । असति रूपवद्रव्याभिघाते योय पर्णादिपु शब्दसंतान' स स्पर्शवद्वेगवडव्यसंयोगजन्यः, अपि. भाज्यमानावयवद्रव्यसवन्धिशब्दसंतानत्वात् दण्डाभिहतभेरीशन्दसंतानवत् । नभसि तृणतू- लस्तनयिलुविमानादीना धृति स्पर्शवद्वेगवद्र्व्यसयोगहेनुका अस्मदाधनधिष्ठितद्रव्यधृतित्यात् नौकातिवत् । रूपवव्याभिघातमन्तरेण तृणे कर्म स्पर्शवद्वेगवडव्याभिघातजन्यं, विजाती- मकर्मत्वात् नदपराहतकाशादिकर्मवदित्यनुमानानि वोध्यानि । २ गुरुणो द्रव्यस्यापतनम् .
२२ कारिकावली [प्रत्यक्षखं०१ च्छेदाय । एतेन प्रमाणमपि दर्शितम् । तथाहि-शब्दो विशेषगुणः, चक्षुर्ग्रहणा- योग्यवहिरिन्द्रियग्राह्यजातिमत्वात् स्पर्शवत् । शब्दो द्रव्यसमवेतो, गुणत्वात् संयोगवत्, इत्यनुमानेन शब्दस्य द्रव्यसमवेतत्वे सिद्धे शब्दो न स्पर्शवद्वि- शेषगुणः, अग्निसंयोगासमवायिकारणकत्वाभावे सत्यकारणगुणपूर्वकप्रत्यक्षत्वात् सुखवत् । पाकजरूपादौ व्यभिचारवारणाय सत्यन्तम् । पटरूपादौ व्यभिचार- वारणायाकारणगुणपूर्वकेति । जलपरमाणुरूपादौ व्यभिचारवारणाय प्रत्यक्षेति । शब्दो न दिकालमनसां गुणः, विशेपगुणत्वात् । नात्मविशेषगुणो बहिरिन्द्रि- यग्राह्यत्वात् रूपवत् । इत्थंच शब्दाधिकरणं नवमं द्रव्यं गगननामकं सिध्यति । नच वास्ववयवेपु सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्वकः शब्द उत्पद्यतामिति वाच्यम्, अयावद्रव्यभावित्वेन वायुविशेषगुणत्वाभावात् ॥ ४ ॥ तत्र शरीरस्य विपयस्य चाभावादिन्द्रियं दर्शयति- इन्द्रियं तु भवेच्छ्रोत्रमेकः सन्नप्युपाधितः । इन्द्रियमिति । नन्वाकाशं लाघवादेकं सिद्धं श्रोत्रं तु पुरुपभेदेन भिन्न कथ- माकाशं स्यादिति चेत्तत्राह-एकः सन्नपीत्यादि । आकाश एक एव सन्नपि उ- पाधेः कर्णशष्कुलीभेदागिनं श्रोत्रात्मकं भवतीत्यर्थः॥ कालं निरूपयति- जन्यानां जनकः कालो जगतामाश्रयो मतः॥४५॥ जन्यानामिति । तत्र प्रमाण दर्शयितुमाह-जगतामिति । तथाहि- 'इदानी घटः' इत्यादिप्रतीतिः सूर्यपरिस्पन्दादिकं यदा विषयीकरोति तदा सू- यंपरिस्पन्दादिना घटादेः संवन्धो वाच्यः । सच संवन्धः संयोगादिर्न संमें- वतीति काल एव तत्संबन्धघटकः कल्प्यते । इत्थंच तस्याश्रयत्वमेव स. म्यक्॥४५॥ प्रमाणान्तरं दर्शयति- परापरत्वधीहेतुः क्षणादिः स्यादुपाधितः । परापरत्वेति । परत्वापरत्वबुद्धरसाधारणं निमित्तं काल एव । परत्वापर- - -- १ तच शब्दः पृथिव्यायप्टद्रव्यातिरिक्तद्रव्याश्रितः, अपद्रव्यानाश्रितत्वे सति द्रव्याश्रितत्वा- दित्यनुमानरूपं योध्यम् । २ उक्तानुमाने स्वरूपासिद्धि परिहरति-तथाहीत्यादिना रूपवदित्यन्ते- न मन्येन । तत्र 'शब्दो द्रव्यसमवेतो गुणत्यात्' इत्यनुमानेन द्रव्याश्रितत्वल्पविशेग्यासिद्धि. प- रिहियते । विशेपणासिद्धिश्च शब्दो न स्पर्शवद्विशेपगुणः, न दिकालमनसां गुण , नात्मविशेष- गुण इत्याधनुमानत्रयेण । 'शब्दो विशेषगुण'इत्यादिना तु विशेन्यासिद्धिपरिहारकानुमाने हेतोर- सिद्धिर्यत इति विवेकः। ३ यावद्दव्यं स्वाश्रयद्रव्यस्थितिकालपर्यन्तं भवति विद्यते तद्याव. द्रव्यमावि स्वाश्रयध्वंसप्रयोज्यध्वंसप्रतियोगीति यावत् । तद्भिन्नत्वेनेत्यर्थः । ४ इतीत्यनन्तरं स्वाश्रयतपनसंयोग एव संवन्धो वाच्यस्तत्रेति शेपः।
न प्रत्यक्षख० १] सिद्धान्तमुक्तावलीसहिता। त्वयोरसमवायिकारणसंयोगाश्रयो लाघवादतिरिक्तः काल एव कल्प्यत इति भावः । नन्वेकस्य कालस्य सिद्धौ क्षणदिनमासवर्पादिसमयभेदो न स्यादत भा- ह-क्षणादिरिति । कालस्त्वेकोऽपि उपाधिभेदात्क्षणादिव्यवहारविषयः । उपाधिस्तु स्वजन्यविभागमागभावावच्छिन्नं कर्म, पूर्वसंयोगावच्छिन्न विभागो वा, पूर्वसंयोगनाशावच्छिन्नोत्तरसयोगप्रागभावो वा, उत्तरसंयोगावच्छिन्नं कर्म वा। न चोत्तरसंयोगानन्तरं क्षणव्यवहारो न स्यादिति वाच्यं, कर्मान्तरस्यापि सत्वा- दिति । महाप्रलये क्षणव्यवहारो यद्यस्ति तदानायत्या ध्वंसेनोपपादनीय इति । दिनादिव्यवहारस्तु तत्तत्क्षणकूटैरेवेति ॥ दिशं निरूपयति-- दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते ॥ ४६ ॥ दूरान्तिकेति । दूरत्वमन्तिकत्वं च दैशिकं परत्वमपरत्वं बोध्यम् । तद्बुद्धे. रसाधारणं बीजं दिगेव । दैशिकपरत्वापरत्वयोरसमवायिकारणसंयोगाश्रयतया लाघवादेका दिक् सिध्यतीति भावः ॥ १६ ॥ नन्वेकैव दिक् तदा प्राचीप्रतीच्यादिव्यवहारः कथमुपपद्यतामित्यत आह--- उपाधिभेदादेकापि प्राच्यादिव्यपदेशभाक् । उपाधीति । यत्पुरुषस्य उदयगिरिसंनिहिता या दिक् सा तस्य प्राची । एव- मुदयगिरिव्यवहिता या दिक् सा प्रतीची । एवं यत्पुरुषस्य सुमेरुसन्निहिता या दिक् सोदीची। तब्यवहिता त्ववाची । 'सर्वेपामेव वर्षाणां मेरुरुत्तरतः स्थित इति नियमात् ।। आत्मानं निरूपयति- आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् ॥ ४७ ॥ आत्मेन्द्रियेति । आत्मत्वजातिस्तु सुखदुःखादिसमवायिकारणतावच्छेदक- तया सिध्यति । ईश्वरेऽपि सा जातिरस्त्येव । अदृष्टादिरूपकारणाभावान्न सुखदु:- खाद्युत्पत्तिः । नित्यस्य स्वरूपयोग्यस्य फलावश्यंभाव इत्यस्याप्रयोजकत्वात् । परे त्वीश्वरे सा जातिनास्त्येव प्रमाणाभावात् । नच दशमद्रव्यत्वापत्तिः, ज्ञानवत्वे- - १ यसिन्क्षणे वस्तुनि क्रिया जायते तद्वितीयक्षणे तयैव क्रियया वस्तुन पूर्वदेशाद्विभागो भवति, तदुत्तर(तृतीय) क्षणे पूर्वसंयोगनाश , तदुतर(चतुर्थ )क्षणे तयैव क्रिययोत्तरसयोग', तत. पञ्चमक्षणे तक्रियानाश इति नियमाद्वितीयक्षणे विभागस्यावश्यभावात्तत्प्रागभाववैशिष्टय तजनककर्मण. क्षणमात्रं संभवतीति तस्य क्षणोपाधित्वम् । एवं तृतीयक्षणे पूर्वसयोगनाशस्याव. श्यंभावाद्विभागस्य द्वितीयक्षण एव पूर्वसयोगविशिष्टत्वात्तादृशस्य तस्य द्वितीयक्षणोपाधित्वम् । एवं तृतीयचतुर्थयोरपि क्षणिकत्वादाणोपाधित्वं योभ्यम् । प्रतिक्षणं क्रियोत्पत्ती मानाभावाहि- तीयाधुपाधिप्रदर्शनम् ॥
२१ - कारिकावली [प्रत्यक्षख० १ न विभजनादित्याहुः । इन्द्रियादीति । इन्द्रियाणां शरीरस्य च परम्परया चै- तन्यसंपादकः । यद्यप्यात्मनि "अहं जाने अहं सुखी" इत्यादि प्रत्यक्षविषयत्व- मस्त्येव तथापि विप्रतिपन्नं प्रति प्रथमत एव शरीरादिभिन्नस्तत्प्रतीतिगोचर इति प्रतिपादयितुं न शक्यत इत्यतः प्रमाणान्तरं दर्शयति-करणमिति । कुठारा- दीनां छिदाकरणानां कर्तारमन्तरेण फलानुपधानं दृष्टम् । एवं चक्षुरादीनां ज्ञा- नकरणानां फलोपधानमपि कर्तारमन्तरेण नोपपद्यत इत्यतिरिक्तः कर्ता क- ल्प्यते ॥ ४७ ॥ ननु शरीरस्यैव कर्तृत्वमस्त्वत आह- शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः । तथात्वं चेदिन्द्रियाणामुपघाते कथं स्मृतिः ॥ ४८ ॥ शरीरस्येति । ननु चैतन्यं ज्ञानादिकमेव मुक्तात्मनां त्वन्मत इव मृतशरी- राणामपि तदभावे का क्षतिः, प्राणाभावेन ज्ञानाभावस्य सिद्धेरिति चेत् । न। श- रीरस्य चैतन्ये बाल्ये विलोकितस्य स्थाविरे सरणानुपपत्तेः, शरीराणामवयवो. पचयापचयैरुत्पादविनाशशालित्वात् । नच पूर्वशरीरोत्पन्नसंस्कारेण द्वितीयशरीरे संस्कार उपपद्यत इति वाच्यम्, अनन्तसंस्कारकल्पने गौरवात् । एवं शरीरस्य चैतन्ये बालकस्य स्तन्यपाने प्रवृत्तिनं स्यात् इष्टसाधनताज्ञानस्य तद्वेतुत्वात्तदा- नीमिष्टसाधनतासारकाभावात् । मन्मते तु जन्मान्तरानुभूतेष्टसाधनत्वस्य त- दानी सरणादेव प्रवृत्ति. । नच जन्मान्तरानुभूतमन्यदपि मर्यतामिति वाच्यम्, उद्योधकाभावात् । अन्न त्वनायत्या जीवनादृष्टमेवोदोधकं कल्प्यते । इत्थंच संस्कारस्यानादितया आत्मनोऽनादित्वसिद्धावनादिभावस्य नाशासंभवान्नित्यत्वं सिध्यतीति बोध्यम् । ननु चक्षुरादीनामेव ज्ञानादिकं प्रति करणत्वं कर्तृत्वं चास्तु विरोधे साधकाभावादत आह-तथात्वमिति । चैतन्यमित्यर्थः । उप- घाते नाशे सति अर्थाच्चक्षुरादीनामेव कथं स्मृतिः । पूर्व चनुपा साक्षात्कृ- तानां चक्षुपोऽभावे सरणं न स्यात् । अनुभवितुरभावात् । अन्यदृष्टस्यान्येन सरणासंभवात् । अनुभवसरणयोः सामानाधिकरण्येन कार्यकारणभावादिति । भाव: ॥४८॥ ननु चक्षुरादीनां चैतन्यं मास्तु मनसस्तु नित्यस्य चैतन्यं स्यादत आह- मनोपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेत् । धर्माधर्माश्रयोऽध्यक्षो विशेषगुणयोगतः ॥ ४९ ॥ मनोऽपीति।न तथा न चेतनम् । ज्ञानाद्यनध्यक्ष तदा भवेत्। मनसोऽणुत्वा- त्प्रत्येक्ष च महत्त्वस्य हेतुत्वान्मनसि ज्ञानसुखादिसत्वे तत्प्रत्यक्षानुपपत्तेरित्यर्थः । " । प्रत्यक्षखं० १] सिद्धान्तमुक्तावलीसहिता। यथा मनसोऽणुत्वं तथा वक्ष्यते ॥ नन्वस्तु विज्ञानमेवात्मा तस्य स्वतः प्रकाश- रूपत्वाञ्चेतनत्वम् । ज्ञानसुखादिकं तु तस्यैवाकारविशेपः । तस्यापि भावत्वादेव क्षणिकत्वं पूर्वपूर्वविज्ञानस्योत्तरोत्तरविज्ञाने हेतुत्वात् । सुपुप्तावप्यालयविज्ञानधारा निरावाधैव । मृगमदवासनावासितवसन इव पूर्वपूर्वविज्ञानजनितसंस्काराणामुत्त. रोत्तरविज्ञाने संक्रान्तत्वान्नानुपपत्तिः सरणादेरिति चेत् । न । तस्य जगद्विपयकत्वे सर्वज्ञत्वापत्तिः । यत्किचिद्विपयकत्वे विनिगमनाविरहः । सुपुप्तावपि विपयावमा- सप्रसङ्गाच, ज्ञानस्य सविपयत्वात् । तदानीं निराकारा चित्सन्ततिरनुवर्तत इति चेत् ।न। तस्याः स्वप्रकाशत्वे प्रमाणाभावात् ।अन्यथा घटादीनामपिज्ञानत्वापत्तिः। न चेष्टापत्तिर्विज्ञानव्यतिरिक्तवस्तुनोऽभावादिति वाच्यं, घटादेरनुभूयमानस्याप- लपितुमशक्यत्वात् । आकारविशेप एवायं विज्ञानस्येति चेत्, किमयमाकारो- ऽतिरिच्यते विज्ञानात्तर्हि समायातं विज्ञानव्यतिरिक्तन । नातिरिच्यते चे- त्तहि समूहालम्बने नीलाकारोऽपि पीताकारः स्यात् । स्वरूपतो विज्ञानस्या- विशेपात् । पोहरूपो नीलत्वादिविज्ञानधर्म इति चेत् । न । नीलत्वादीनां विरु- द्धानामेकस्मिन्नसमावेशात् । इतरथा विरोधावधारणस्यैव दुरुपपादत्वात् । न वा वासनासंक्रमः संभवति, मातृपुत्रयोरपि वासनासंक्रमप्रसङ्गात् । न चोप- दानोपादेयभावो नियामक इति वाच्यं, वासनायाः संक्रमासंभवात् । उत्त- रस्मिन्नुत्पत्तिरेव संक्रम इति चेत् । न । तदुत्पादकाभावात् । चितामेवोत्पादकत्वे तदानन्त्यप्रसङ्गः । क्षणिकविज्ञानेऽतिशयविशेषः कल्प्यत इति चेत् । न । माना- भावात्कल्पनागौरवाच्च । एतेन क्षणिकशरीरेष्वेव चैतन्यं प्रत्युक्तं गौरवादतिश- ये मानाभावाच्च । बीजादावपि सहकारिसमवधानासमवधानाभ्यामेवोपपत्तेः कु- र्वद्रूपत्वाकल्पनाञ्च । अस्तु तर्हि क्षणिकविज्ञाने गौरवान्नित्यविज्ञानमेवात्मा "भ. विनाशी वारेऽयमात्मा सत्यं ज्ञानमनन्तं ब्रह्म"इत्यादिश्रुतेरिति चेत्।न। तस्य स- विषयत्वासंभवस्य दर्शितत्वानिर्विपयस्य ज्ञानत्वे मानाभावात्सविपयत्वस्याप्यननु- भवात्।भतोविज्ञानादिभिन्नो नित्य आत्मेति सिद्धम्। सत्यं ज्ञानमितिब्रह्मपरंजीवेषु १ आत्मनिरूपणस्य प्रस्तुतत्वादात्मेत्युक्तं वस्तुमात्रस्यैव तन्मते विज्ञानरूपत्वादिति योध्यम्। भत्र विज्ञानत्वं प्रमेयत्वव्यापफ न वेति विप्रतिपत्तिः। अत्र विधिकोटियोंगाचारस्य निषेधकोटि- नैयायिकस्य । द्विविध विज्ञान-प्रवृत्तिविज्ञानमालयविज्ञानं च । तत्र 'अयं घट इत्यादि प्रवृत्ति- विज्ञानं तस्य स्वविपये प्रवृत्तिजनकत्वात् । 'अहम्' इत्याकारकमालयविज्ञानम् । अयमेवारमा । आलीयन्ते कर्मानुभवजन्यवासना यस्मिन्निति व्युत्पत्त्या सकलवासनारूपास आलयविज्ञानमि- त्युच्यते । तदमिन्नाभिन्नस्य तदभिन्नत्वमिति न्यायादिति भाव। विज्ञानस्वरूपस्यैकत्यादित्यः ४ विज्ञानस्याविशेपेप्यपारमार्थिफनीलत्वादिधर्मविशेषादेव तदाश्रयविज्ञान विशेष नीलत्वादे- रपारमार्थिकत्वादेवन पारमार्थिकेन विज्ञानेनैक्यमियभिप्रेत्याह-अपोहरूपति। अपोररूपयंप तद्भिन्नभिन्नत्वम्। ५अनोपादानत्वं नसमवायिकारणत्वम् । विभिन्तकालीनयोःक्षणिकज्ञानप्य- त्योरेकव्यक्ति प्रत्यपरव्यक्तरुक्तसमवायिकारणत्वासंभवात् । किंतु असरकृतं कारणमुपादा- नम् । उत्तरव्यक्तौ पूर्वव्यक्तिमात्रस्यैव कारणत्वाङ्गीकारात् भवत्युत्तरव्यक्तौ पूर्वव्यक्तरुपादान- खम् । माता च पुत्रं प्रति नासहकृतं कारण शुक्रशोणितादेरपि पुत्रकारणत्वात् । ३ कारिकावली [प्रत्यक्षखं०१ " नोपयुज्यते । ज्ञानाज्ञानसुखित्वदुःखित्वादिभिर्जीवानां भेदसिद्धौ सुतरामीश्वरभेदः, अन्यथा बन्धमोक्षव्यवस्थानुपपत्तिः । योऽपीश्वराभेदबोधको वेदः सोऽपि तदभे- देन तदीयत्वं प्रतिपादयन्तौति । अभेदभावनयैव च यतितव्यमिति वदति । मत एव सर्वे आत्मानः समर्पिता' इति श्रूयते । मोक्षदशायामज्ञाननिवृत्तावभे- दो जायत इत्यपि न । भेदस्य नित्यत्वे नाशायोगात् । भेदनाशेऽपि व्यक्ति- द्वयं स्थास्यत्येव । नच द्वित्वमपि नश्यतीति वाच्यं, तव निर्धर्मके ब्रह्मणि सत्यत्वाभावेऽपि सत्यस्वरूपं तदितिवद् द्वित्वाभावेऽपि व्यक्तिद्वयात्मको तावि- ति सुवचत्वात् । मिथ्यावाभावोऽधिकरणात्मकस्तत्र सत्यत्वमिति चेदेकत्वा- भावो व्यक्तिद्वयात्मको द्वित्वमप्युच्यताम् । प्रत्येकमेकत्वेऽपि पृथिवीजलयोन गन्ध इतिवदुभयं नैकमित्यस्य सर्वजनसिद्धत्वात् । योऽपि तदानीमभेदप्रतिपा- दको वेदः सोऽपि निर्दुःखत्वादिना साम्यं प्रतिपादयति । संपदाधिक्ये पुरोहि- तोऽयं राजा संवृत्त इतिवत् । अत एव 'निरअनः परमं साम्यमुपैति' इति श्रूयते । ईश्वरो न ज्ञानसुखात्मा किंतु ज्ञानाद्याश्रयः 'नित्यं विज्ञानमानन्द ब्रह्म' इत्यादी विज्ञानपदेन ज्ञानाश्रय एवोक्तः 'यः सर्वज्ञः स सर्ववित्' इत्याद्य- नुरोधात् । आनन्दमित्यस्याप्यानन्दवदित्यर्थः । अर्शमादित्वान्मत्वर्थीयाप्रत्य- यात् । अन्यथा पुंलिंगत्वापत्तिः । आनन्दोऽपि दुःखाभावे उपचर्यते, भाराद्यपगमे सुखी संवृत्तोऽहमितिवत् दुःखाभावेन सुखित्वप्रत्ययात् । अस्तु वा तस्मिन्नान- न्दो नत्वसावानन्दः 'असुखम्' इति श्रुतेः । न विद्यते सुखं यस्येति कुतो नार्थ इति चेत् । न । क्लिष्टकल्पनापत्तेः प्रकरणविरोधादानन्दमित्यत्र मत्वर्थी- याप्रत्यय विरोधात् 'आनन्दं ब्रह्मणो विद्वान् ' इत्यत्र भेदस्य स्पष्टत्वा- बेति संक्षेपः । एतेन 'प्रकृतिः की पुरुपस्तु पुष्करपलाशवनिर्लेपः, किंतु चेतनः कार्यकारणयोरभेदात् । कार्यनाशे सति कार्यरूपतया तन्नाशो न स्यादि- त्यकारणत्वं तस्य । बुद्धिगतचैतन्याभिमानान्यथानुपपत्त्या तत्कल्पनम् । बुद्धिश्च प्रकृतेः परिणामः । सैव महत्तत्त्वमन्तःकरणमित्युच्यते । तत्सत्त्वासत्वाभ्यां पुरु- पस्य संसारापवौँ । तस्या एवेन्द्रियप्रणालिकया परिणतिर्ज्ञानरूपा घटादिना संबन्धः । पुरुपे कर्तृत्वाभिमानो बुद्धौ चैतन्याभिमानश्च भेदाग्रहात् । ममेदं कर्तव्यमिति मदंशः पुरुपोपरागो बुद्धेः स्वच्छतया चेतनप्रतिबिम्बादतात्त्विको दर्पणस्येव मुखोपरागः। इदमिति विषयोपराग इन्द्रियप्रणालिकया परिणतिभेदस्ता- त्विको निःश्वासाभिहतदर्पणस्येव मलिनिमा । कर्तव्यमिति व्यापारांशः । तेना- शत्रयवती बुद्धिस्तरपरिणामेन ज्ञानेन पुरुपस्यातात्त्विका संबन्धो दर्पणमलिनि- नेव मुखस्योपलब्धिरुच्यते । ज्ञानादिवरसुखदुःखेच्छाद्वेपप्रयत्नधर्माधर्मा अपि बु- ढेरेव, कृतिसामानाधिकरण्येन प्रतीतेः । नच बुद्धिश्चेतना, परिणामित्वात्' इति मतमपास्तं, कृत्यदृष्टभोगानामिव चैतन्यस्यापि सामानाधिकरण्यप्रतीतेस्तगिने मानाभावाच्च । चेतनोऽहं करोमीति प्रतीतिश्चैतन्यांशे भ्रम इति चेत्कृत्यंशेऽपि किं १मा भूदित्यर्थः।
प्रत्यक्षख० १] सिद्धान्तमुक्तावलीसहिता। नेप्यते । अन्यथा बुद्धनित्यत्वे मोक्षाभावोऽनित्यत्वे तत्पूर्वमसंसारापत्तिः । नन्व- चेतनायाः प्रकृतेः कार्यत्वादुद्धरचैतन्य कार्यकारणयोम्तादात्म्यादिति चेत् । न । अ. सिद्धः। कर्जन्यत्वे मानाभावात् । वीतरागजन्मादर्शनादनादित्वम् । अनादेनांशा- संभवान्नित्यत्वम् । तत्किं प्रकृत्यादिकल्पनेन । नच 'प्रकृतेः क्रियमाणानि गुणे. कर्माणि सर्वशः। अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥' इत्यनेन विरोध इति वाच्यं, प्रकृतेरदृष्टस्य गुणैरदृष्टजन्यैरिच्छादिमि. कर्ताहं कर्ताहमेवेत्यस्य तदर्थत्वात्। 'तत्रैवं सति कतारमात्मानं केवलं तु यः' इत्यादि वदता भगवता प्रकटीकृतो- ज्यमुपरिटादाशय इति संक्षेपः । धर्माधर्माश्रय इति । आत्मेत्यनुपज्यते । श- रीरस्य तदाश्रयत्वे देहान्तरकृतकमणां देहान्तरेण भोगानुपपत्तेः । विशेपगुण- योगत इति । योग्यविशेषगुणस्य ज्ञानसुखादेः संवन्धेनारमनः प्रत्यक्षत्वं संभव- ति न त्वन्यथा । अहं जाने अहं करोमीत्यादिप्रतीतेः ॥४९॥ प्रवृत्त्याद्यनुमयोऽयं रथगत्येव सारथिः । अहंकारस्याश्रयोऽयं मनोमात्रस्य गोचरः ॥ ५० ॥ प्रवृत्त्येति । अयमारमा परदेहादी प्रवृत्त्यादिनाऽनुमीयते । प्रवृत्रिरत्र चेष्टा । ज्ञानेच्छाप्रयत्नादीनां देहेऽभावस्योक्तप्रायत्वाचेष्टायाश्च प्रयत्नसाध्यत्वाचेष्टया प्रयत्नवानात्माप्यनुमीयत इति भावः । अत्र दृष्टान्तमाह-रथेति । यद्यपि रथ. कर्म चेष्टा न भवति । तथापि तेन कर्मणा सारथिर्यथाऽनुमीयत तथा चेष्टात्म- केन कर्मणा परात्मापीति भावः । अहंकारस्येति । अहंकारोऽहमिति प्र- त्ययस्तस्याश्रयो विषयः आत्मा न शरीरादिरिति । मन इति । मनोभिले. न्द्रियजन्यप्रत्यक्षाविषयो मानसप्रत्यक्षविषयश्चेत्यर्थः। रूपाद्यभावेनेन्द्रियान्तरायो- ग्यत्वात् ॥ ५० ॥ विभुर्बुद्ध्यादिगुणवान्बुद्धिस्तु द्विविधा मता। अनुभूतिः स्मृतिश्च स्यादनुभूतिश्चतुर्विधा ॥५१॥ विभुरिति । विभुत्वं परममहत्त्वम् । तच्च पूर्वोक्तमपि स्पष्टार्थमुक्तम् । वु. ध्यादीति । बुद्धिसुखदुःखेच्छादिचतुर्दशगुणाः पूर्वोक्ता वेदितव्या. । अत्रैव प्रसङ्गाहुद्धः कतिपयं प्रपञ्चं दर्शयति बुद्धिस्त्विति। द्वैविध्यं व्युत्पादयति- अनुभूतिरिति । अनुभूतिश्चतुर्विधेति । एतासां चतसृणां करणानि चत्वारि 'प्रत्यक्षानुमानोपमानशब्दाः प्रामाणानि' इति सूत्रोक्तानि वेदितव्यानि ॥ ५ ॥ प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे । घ्राणजादिप्रदेभेन प्रत्यक्षं षड्विधं मतम् ॥ ५२ ।। प्रत्यक्षमिति । इन्द्रियजन्यं ज्ञानं प्रत्यक्षम् । यद्यपि मनोरूपेन्द्रियजन्य सर्वमेव ज्ञान तथापीन्द्रियत्वेन रूपेणेन्द्रियाणां यत्र ज्ञाने करणत्वं तत्प्रत्यक्ष- - कारिकावली [प्रत्यक्षख०१ मिति विवक्षितम् । ईश्वरप्रत्यक्षं तु न लक्ष्यम् । 'इन्द्रियार्यसंनिकपोत्पन्नं ज्ञा- नमव्यपदेश्यमव्यभिचारि व्यवसात्मकं प्रत्यक्षम्' इति सूत्रे तथैवोक्तत्वात् । अथवा ज्ञानाकरणकं ज्ञानं प्रत्यक्षम्। अनुमितो व्याप्तिज्ञानस्योपमिती साह- श्यज्ञानस्य शाब्दबोधेपदज्ञानस्य स्मृतावनुभवस्य कारणत्वात्तत्र तत्र नातिव्याप्तिः। इदं लक्षणमीश्वरप्रत्यक्षसाधारणम् । परामर्शजन्यं ज्ञानमनुमितिः । यद्यपि परामर्शप्रत्यक्षादिकं परामर्शजन्यं तथापि परामर्शजन्यं हेत्वविपकं यज्ज्ञानं तदेवानुमितिः । नच कादाचित्कहेतुविषयकानुमितावव्याप्तिरिति वाच्यम्, तादृशज्ञानवृत्त्यनुभवत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । अथवा व्याप्तिज्ञान- करणकं ज्ञामनुमितिः। एवं सादृश्यज्ञानकरणकं ज्ञानमुपमितिः। पदज्ञानकर- णकं ज्ञानं शाब्दबोधः। वस्तुतो यां कांचिदनुमितिव्यक्तिमादाय तव्यक्ति- ति-प्रत्यक्षावृत्ति-जातिमत्त्वमनुमितित्वम् । एवं यत्किचित्प्रत्यक्षादिकमादाय त- द्वयक्तिवृत्त्यनुमित्यवृत्तिजातिमत्त्वं प्रत्यक्षत्वादिकं वाच्यमिति । जन्यप्रत्यक्षं विभजते-घ्राणजादीति । घ्राणनं रासनं चाक्षुपं स्पार्शनं श्रौत्रं मानसमिति पद्धिधं प्रत्यक्षम् । न चेश्वरप्रत्यक्षस्याविभजनान्यूनत्वं जन्यप्रत्यक्षस्यैव निरू- पणीयत्वादुक्तसूत्रानुसारात् ॥ ५२ ॥ घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः। तथा रसो रसज्ञायास्तथा शब्दोऽपि च श्रुतेः ॥ ५३ ॥ घ्राणस्येति । गोचर इति ग्राह्य इत्यर्थः । गन्धत्वादिरिति । आदिप- दात् सुरभित्वासुरभित्वपरिग्रहः । गन्धस्य प्रत्यक्षत्वात्तदृत्तिजातिरपि प्रत्यक्षा । गन्धाश्रयग्रहणे तु घ्राणस्य न सामर्थ्यमिति बोध्यम् । तथा रस इति । रसत्वादिसहित इत्यर्थः । तथा शब्दोऽपि शब्दत्वादिसहितः । गन्धो रसश्च उद्भूनो बोध्यः ॥ ५३॥ उद्भूतरूपं नयनस्य गोचरो द्रव्याणि तद्वन्ति पृथक्त्वसंख्ये। विभागसंयोगपरापरत्वस्नेहद्रवत्वं परिमाणयुक्तम् ॥ ५४॥ १ इन्द्रियार्थसनिकपोत्पन्नमव्यभिचारिज्ञानमव्यपटेश्य व्यवसायात्मकमिति योजना । अन्य था लक्षणयोधकवाक्ये विभागबोधकपदेन व्यवधानादसगत्यापत्ति-अत्रज्ञानान्तं प्रत्यक्षप्रमाया ल णम्। अवशिष्टो विभाग। अव्यभिचारि भ्रमभिन्नम्। व्यपदेश शब्दप्रयोग स च विशिष्टज्ञानादे. वेसव्यपदेश्यत्वेन व्यपदेशानहत्वेन निर्विकल्पफलाभाव्यवसायात्मकमिति। विशिष्टव्यवसायारम के सविकल्पकमित्यर्थगर परामर्शजन्यत्वविपयकम् । ३परामर्शशरीरे पक्षधर्मताया:प्रविष्टत्वेन गौरवात्तदघटितं लक्षणान्तरमाह-अथवेति । ४ नन्वनुमिति प्रत्यापिन व्याप्तिज्ञानत्वेन कारणवं किंतु ज्ञानत्वेन मनस्त्वेनैव था । एवमेवोपमियादावपि मनस्त्वेनैव करणत्वम् । कार्यवलक्षण्यस्य सामग्रीवलक्षण्यादेवोपपत्तिः। प्रमाणविभागस्तु विजातीयप्रमाप्रयुक्त्या स्यादित्युक्तानुमित्यादि लक्षणानामसंभव इत्यत आह-वस्तुत इति ।
मंग 7. स N स 4. ज - प्रत्यक्षखं० १] सिद्धान्तमुक्तावलीसहिता। २२ क्रिया जातिर्योग्यवृतिः समवायश्च तादृशः ॥ गृह्णाति चक्षुः संयोगादालोकोद्भूतरूपयोः ॥ ५५ ॥ उद्भूतरूपमिति । ग्रीष्मोप्मादावनुद्भूतरूपमिति न तत्प्रत्यक्षम् । तद्वन्ति उद्भूतरूपवन्ति । योग्येति । पृथक्त्वादिकमपि योग्यव्यतिवृत्तितया योध्यम् । तादृशः योग्यव्यक्तिवृत्तिरित्यर्थः । चक्षुर्योग्यत्वमेव कथं तदाह-गृहातीति । आलोकसंयोग उद्भूतरूपं च चाक्षुषप्रत्यक्षे कारणम् । तत्र द्रव्यचाशुपं प्रति तयोः समवायसंबन्धेन कारणत्वम् । द्रव्यसमवेतरूपादिप्रत्यक्षे स्वाश्रयसम- वायसंबन्धेन द्रव्यसमवेतसमवेतस्य रूपत्वादेः प्रत्यक्षे स्वाश्रयसमवेतसमवायसं- बन्धेनेति ॥ ५४॥ ५५ ॥ उद्भूतस्पर्शवव्यं गोचरः सोऽपि च त्वचः। रूपान्यच्चक्षुषो योग्यं रूपमत्रापि कारणम् ।। ५६॥ द्रव्याध्यक्षे- उद्भूतेति । उद्भुतस्पर्शवद्रव्यं त्वचो गोचरः । सोऽपि उद्भूतस्पर्शोऽपि स्प- शत्वादिसहितः। रूपान्यदिति। रूपभिन्नं रूपत्वादिभिन्नं यच्चक्षुपो योग्य तत्त्वगिन्द्रियस्यापि ग्राह्यम् । तथाच पृथक्त्वसंख्यादयो ये चक्षुह्या गुणा उक्ता एवं क्रियाजातयो योग्यवृत्तयश्च ते त्वचो ग्राह्या इत्यर्थः । अत्रापि त्वगिन्द्रियजन्येऽपि रूपं द्रव्यप्रत्यक्षे कारणम् । तथाच बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे रूपं कारणम् । नवीनास्तु बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे न रूपं कारणं प्रमाणा- भावात् । किंतु चाक्षुषप्रत्यक्षे रूपं स्पार्शनप्रत्यक्षे स्पर्शः कारणमन्वयव्यतिरे- कात् । बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे किं कारणमिति चेत्, न किंचित् । आत्मावृत्ति-शब्दभिन्न-विशेपगुणवत्त्वं वा प्रयोजकमस्तु । रूपस्य कारणत्वे लाघव- मिति चेत् । न । वायोस्त्वगिन्द्रियेणाग्रहणप्रसङ्गात् । इप्टापत्तिरिति चेदुद्भुतस्पर्श एव लाघवात्कारणमस्तु । प्रभाया अप्रत्यक्षत्वे विष्टापत्तिरेव किं नेप्यते । त- सात् प्रभां पश्यामीतिवत् वायुं स्पृशामीति प्रत्ययस्य संभवाद्वायोरपि प्रत्यक्षं संभवत्येव । वहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे न रूपस्य न वा स्पर्शस्य हेतुत्वम् वायुप्रभयोरेकत्वं गृह्यत एव । क्वचिद्वित्वादिकमपि । कचित्संख्यापरिमाणायग्रहो दोषादित्याहुः ॥५६॥ १ ननु त्रुटे स्पार्शनानीकारात्तस्पार्शनवारणाय स्पर्शान्यद्रव्यसमवेतसार्शनं प्रति त्वक्रायुक्तस्पा- निद्रव्यसमवायत्वेन हेतुत्वस्य वाच्यतया वायो- स्पार्शनाङ्गीकारोऽनुचितः। अन्यथा घायुप्रभा- गतसंख्यापरिमाणयोस्त्वचा ग्रहणप्रसंगादित्यत आह-वायुप्रभयोरिति । अत्र प्रभोपाटानं टा. न्तार्थम् । तेन वायुगतसंख्यादिप्रत्यक्षापत्तिटोपेणैव वायुप्रभयोरिति ग्रन्थस्यावतारिसत्वेपिन सत्र प्रभागतसख्याप्रत्यक्षे इष्टापत्तिरयुक्तति ध्येयम् । २ सजातीयसंचलनाभाव इत्यर्ष । ३ सजाती- यसंवलनादिरूपदोपादित्यर्थः । --- -- - -- कारिकावली। [प्रत्यक्षखं. १ त्वचोयोगो मनसा ज्ञानकारणम् । त्वचोयोग इति। त्वङ्मनःसंयोगो ज्ञानसामान्य कारणमित्यर्थः । किं तत्र प्रमाण, सुपुप्तिकाले त्वचं त्यक्त्वा पुरीतति वर्तमानेन मनसा ज्ञानाजननमिति । ननु सुपुप्तिकाले किं ज्ञानं भविष्यति अनुभवरूपं वा स्मरणरूपं वा। नायः। अनुभव- सामय्यभावात्। तथाहि-प्रत्यक्षे चक्षुरादिना मनःसंयोगस्य हेतुत्वात्तदभावादेवन चाक्षुपादिप्रत्यक्षम्। ज्ञानादेरभावादेव न मानसं प्रत्यक्षम् ।ज्ञानाद्यभावे चात्मनो- ऽपिन प्रत्यक्षमिति। एवं व्याप्तिज्ञानाभावादेवनानुमितिःसादृश्यज्ञानाभावानोप- मितिः । पदज्ञानाभावान शाब्दबोधः । इत्यनुभवसामय्यभावान्नानुभवः । उदो- धकाभावाच न सरणम् । मैवम् । सुपुप्तिमाकालोत्पनेच्छादिव्यक्तेस्तत्संबन्धेना- त्मनश्च प्रत्यक्षत्वप्रसङ्गात् । तदेतीन्द्रियत्वे मानाभावात् । सुपुप्तिप्राकाले निर्विक- ल्पकमेव नियमेन जायत इत्यत्रापि प्रमाणाभावात् । अथ ज्ञानमात्रे त्वङ्मनःसं- योगस्य यदि कारणत्वं तदा रासनचाक्षुपादिप्रत्यक्षकाले त्वाचप्रत्यक्षं स्यात् । वि. पयत्वक्संयोगस्य त्वानःसंयोगस्य च सत्वात् । परस्परप्रतिबन्धादेकमपि वा न स्यादिति । अत्र केचित्पूर्वोक्तयुक्त्या त्वड्मनोयोगस्य ज्ञानहेतुत्वे सिद्ध चाक्षुपा- दिसामग्र्याः स्पार्शनादिप्रतिबन्धकत्वमनुभवानुरोधात्कल्प्यत इति । अन्ये तु सुपुत्यनुरोधाचर्ममनःसंयोगस्य ज्ञानहेतुत्वं कल्प्यते । चाक्षुपादिप्रत्यक्षकाले त्व- मनःसंयोगाभावान पार्शनप्रत्यक्षमिति वदन्ति ॥ मनोग्राह्यं सुखं दुःखमिच्छाद्वेपो मतिः कृतिः॥ ५७ ॥ मनोग्राह्यभिति । मनोजन्यप्रत्यक्षविषय इत्यर्थः । मतिर्ज्ञानम् । कृतिः प्रयत्नः । एवं सुखत्वादिकमपि मनोग्राह्यम् । एवमात्मापि मनोग्राह्यः किंतु मनो- मात्रस्य गोचर इत्यनेन पूर्वमुक्तत्वादन नोक्तः ॥ ५७ ॥ ज्ञानं यन्निर्विकल्पाख्यं तदतीन्द्रियमिष्यते । ज्ञानमिति । चक्षुःसंयोगाद्यनन्तरं घट इत्याकारकं घटत्वादिविशिष्टं ज्ञानं संभवति पूर्व विशेपणस्य घटत्वादेर्शानाभावात् । विशिष्टबुद्धौ विशेपणज्ञानस्य कारणत्वात् । तथाच प्रथमतो घटघटत्वयोवैशिष्टयानवगायेव ज्ञानं जायते । तदेव निर्विकल्पकम् । तच्च न प्रत्यक्षम् । तथाहि-वैशिष्टयानवगाहिज्ञानस्य प्रत्यक्षं न भवति घटमहं जानामीति प्रत्ययात् । तत्रात्मनि ज्ञानं प्रकारीभूय भासते । ज्ञाने घटस्तत्र घटत्वम् । यः प्रकारः स एव विशेषणमित्युच्यते । विशे. १ इच्छाया आदिरिति घ्युत्पत्त्या ज्ञानमा विवक्षितम् । २ ज्ञानानीन्द्रियत्वे । ३ मिश्रा इत्य. थः। ४ सुपुप्तो ज्ञानानुत्पत्त्यनुरोधेनेत्यर्थः । ५ वैशिष्टयनिष्ठसांसर्गिकविपयताशून्यमेवेत्यर्थः । वैशिष्टयनिष्ठसांसर्गिकविपयतानिरासेनैय घटघटत्वयोपिठोग्यताप्रकारताशून्यत्वं लब्धं तयोः सासनिकविषयतानियतत्वादिति ध्येयम् ।
। - प्रत्यक्षख०१] सिद्धान्तमुक्तावलीसहिता। ३१ पणे यद्विशेपणं तद्विशेपणतावच्छेदकमित्युच्यते । विशेपणतावच्छेदकप्रकारक ज्ञानं विशिष्टवैशिष्टयज्ञाने कारणम् । निर्विकल्पके च घटत्वादिकं न प्रकारम्तेन घटत्वादिविशिष्टघटादिवैशिष्टयभानं ज्ञाने न संभवति । घटत्वाद्यप्रकारकं च घटा- दिविशिष्ट ज्ञानं न संभवति जात्यखण्डोपाध्यतिरिक्तपदार्थज्ञानस्य किंचिद्धर्मप्र- कारकत्वनियमात् ॥ महत्वं षड्विधे हेतुरिन्द्रियं करणं मतम् ॥ ५८ ॥ विषयेन्द्रियसंवन्धो व्यापारः सोऽपि पड्विधः । द्रव्यग्रहस्तु संयोगात्संयुक्तसमवायतः ॥ ५९ ॥ द्रव्येषु समवेतानां तथा तत्समवायतः। तत्रापि समवेतानां शब्दस्य समवायतः॥६०॥ तद्वृत्तीनां समवेतसमवायेन तु ग्रहः । प्रत्यक्षं समवायस्य विशेषणतया भवेत् ॥ ६१ ॥ विशेषणतया तद्वदभावानां ग्रहो भवेत् । यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते ॥ २ ॥ महत्त्वमिति । द्रव्यप्रत्यक्षे महत्वंसमवायसंवन्धेन कारणम् । गुन्यसमवेतानां गुणकर्मसामान्यानां प्रत्यक्ष स्वाश्रयसमवायसंबन्धेन । द्रव्यसमवेतसमवेतानां गुण- त्वकर्मवादीनांप्रत्यक्ष स्वाश्रयसमवेतसमवायसंवन्धेन कारणमिति । इन्द्रियमि- ति।भत्रापिपड्डिध इत्यनुपज्यते । इन्द्रियत्वं तुन जातिः पृथिवीत्वादिना सांकर्य- प्रसङ्गात् । किंतु शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयो- गाश्रयत्वम् । आत्मादिवारणाय सत्यन्तम् । उद्भूतविशेषगुणस्य शब्दस्य श्रोत्रे सत्त्वांच्छब्देतरेति । विशेषगुणस्य रूपादेश्चक्षुरादावपि सत्त्वादुद्भूतेति । उद्भुतत्वं न जातिः शुक्लत्वादिना सांकर्यात् । नच शुक्लत्वादिव्याप्यं नानवोद्भूतत्वमिति वाच्यम्, उद्धृतरूपत्वादिना चाक्षुपादौ जनकत्वानुपपत्तेः । किंतु शुक्लत्वा- दिव्याप्यं नानैवानुद्भूतत्वं तदभावकूटश्चोद्भूतत्वम् । तच्च संयोगादावप्यन्ति । १ किंचिद्धर्मनिष्ठावच्छेदकत्वानिरूपक-विपयत्वनिष्ठसासर्गिकविपयतानिरूपक-घटादिनि- छप्रकारतानिरूपितानुव्यवसायीयविशेष्यतावदित्यर्थः । अनुव्यवसाये घटादेानाशे न स्वस्पत. प्रकारत्वं संभवतीति यावत् । २ जात्यखण्डोपाध्यतिरिक्तपदार्थप्रकारकज्ञानम्य प्रकारीभूनना- दशपदार्थाशे किंचिद्धर्मप्रकारकत्वनियमादित्यर्थः । जात्यखण्डोपाध्यतिरिक्तपदावृत्तिप्रकारला. या. किंचिद्धर्भावच्छिन्नत्वनियमादिति यावत् । ३ अव्याप्तियारणायेति भाव.। ४ भिन्नमित्यर्थः। तथाच शुक्लत्वसमानाधिकरणोद्भूतत्वस्य न शुक्लत्वाभावसामानाधिकरण्यं नीलादिनिष्ठम्य तथापि न शुक्लादिमिणि समावेश इति सांफर्यनिरास । ५ एकैफस्य कारणतायन्टेदकत्वे व्यभिचारात्, कूटस्यैकत्रावृत्तितया कारणतानवच्छेदफत्वादित्यर्थः । ' कारिकावली [प्रत्यक्षखं० १ । तथाच शब्देतरोद्भूतगुणः संयोगादिश्चक्षुरादावप्यत्यतो विशेपेति । कालादि- वारणाय विशेष्यदलम् । इन्द्रियावयवविपयसंयोगस्यापि प्राचां मते प्रत्य- क्षजनकत्वादिन्द्रियावयववारणाय, नवीनमते कालादौ रूपाभावप्रत्यक्षे संनिकर्ष- घटकतया कारणीभूतचक्षुःसंयोगाश्रयस्य कालादेारणाय मन-पदम् । ज्ञानकार- णमित्यपि तद्वारणाय । करणमिति। असाधारणं कारणं करणम् । असाधारणत्वं व्यापारवत्वम् । विपयेन्द्रियसंवन्ध इति । व्यापारः संनिकपः । पडि, संनि- कपमुदाहरणद्वारा दर्शयति-द्रव्यग्रह इति । द्रव्यप्रत्यक्षमिन्द्रियसंयोगज- न्यम् । व्यसमवेतप्रत्यक्षमिन्द्रियसंयुक्तसमवायजन्यम् । एवमग्रेऽपि । वस्तुतस्तु द्रव्यचाक्षुपं प्रति चक्षुःसंयोगः कारणं, द्रव्यसमवेतचाक्षुषं प्रति चक्षुःसंयुक्तसम- वायः कारणं, द्रव्यसमवेतसमवेतचाक्षुपं प्रति चक्षुःसंयुक्तसमवेतसमवायः। एवमन्यत्रापि विशिष्यैव कार्यकारणभावः । परंतु पृथिवीपरमाणुनीले नीलवं पृथिवीत्वं च चक्षुपा कथं न गृह्यते, तत्र परंपरयोद्भूतरूपसंबन्धस्य महत्त्वसंब- न्धस्य च सत्वात् । तथाहि-नीलत्वं जातिरेकैव घटनीले परमाणुनीले च व. तते, तथाच महत्त्वसंबन्धो घटनीलमादाय वर्तते, उद्भूतरूपसंबन्धस्तूभयमादायैव वर्तते । एवं पृथिवीत्वेऽपि घटादिकमादाय महत्त्वसंवन्धो बोध्यः । एवं वायौ तदीयस्पर्शादौ च सत्तायाश्चाक्षुषप्रत्यक्षं स्यात् । तसादुद्भूतरूपावच्छिन्नमहत्वाव- च्छिन्नचक्षुःसंयुक्तसमवायस्य द्रव्यसमवेतचाक्षुपे तादृशचक्षुःसंयुक्तसमवे- तसमवायस्य द्रव्यसमवेतसमवेतचाक्षुपे कारणत्वं वाच्यम् । इत्थंच परमाणुनी- लादौ न नीलत्वादिग्रहः, परमाणौ चक्षुःसंयोगस्य महत्त्वावच्छिन्नत्वाभावात् । एवं वाय्वादौ न सत्तादिचाक्षुपं तत्र चक्षुःसंयोगस्य रूपावच्छिन्नत्वाभावात् । एवं यत्र घटस्य पृष्ठावच्छेदेनालोकसंयोगः चक्षुःसंयोगस्त्वग्रावच्छेदेन तत्र घटप्र- त्यक्षाभावादालोकसंयोगावच्छिन्नत्वं चक्षु. संयोगे विशेपणं देयम् । एवं द्रव्यस्पा- र्शनप्रत्यक्षे त्वक्संयोगः कारणं द्रव्यसमवेतस्पार्शनप्रत्यक्षे त्वक्संयुक्तसमवायः द्व्यसमवेतसमवेतस्पार्शनप्रत्यक्षे त्वक्संयुक्तसमवेतसमवायः कारणम् । अत्रापि महत्त्वावच्छिन्नत्वमुद्भूतस्पर्शावच्छिन्नत्वं च पूर्ववदेव बोध्यम् । एवं गन्धप्रत्यक्षे घ्राणसंयुक्तसमवायः । गन्धसमवेतस्य घ्राणजन्यप्रत्यक्षे घ्राणसंयुक्तसवेतसमवायः । कारणम् । एवं रसप्रत्यक्षे रसनासंयुक्तसमवायः। रससमवेतरासनप्रत्यक्षे रस- नासंयुक्तसमवेतसमवायः कारणम् । शब्दप्रत्यक्षे श्रोत्रावच्छिन्नसमवायः शब्दसम- वेतश्रावणप्रत्यक्ष श्रोत्रावच्छिन्नसमवेतसमवायः कारणम् । अत्र सर्वत्र प्रत्यक्ष लो- किकं बोध्यम् । वक्ष्यमाणमलौकिक प्रत्यक्षमिन्द्रियसंयोगादिकं विनापि भवति । एवमात्मनः प्रत्यक्षे मनःसंयोगः आत्मसमवेतमानसप्रत्यक्षे मनःसंयुक्त- समवायः आत्मसमवेतसमवेतमानसप्रत्यक्षे मनःसंयुक्तसमवेतसमवायः कार- णम् । अभावप्रत्यक्ष समवाय प्रत्यक्षे चेन्द्रियसंवद्धविशेषणता हेतुः । वै- शेपिकमते तु समवायो न प्रत्यक्षः । अत्र यद्यपि विशेपणता नानाविधा तथाहि-भूतलादौ घटाद्यभावः संयुक्तविशेपणतया गृह्यते, संख्यादौ रूपायभावः प्रत्यक्षखं० १] सिद्धान्तमुक्तावलीसहिता । ३३ . संयुक्तसमवेतविशेषणतया, संख्यात्वादी रूपाद्यभावः संयुक्तसमवेतसमवेतवि- शेपणतया, शब्दाभावः केवलश्रोत्रावच्छिन्नविशेषणतया, कादौ खत्वाद्यभावः श्रोत्रावच्छिन्नसमवेतविशेषणतया, एवं कत्वाद्यवच्छिन्नाभावे गत्वामावादिकं श्रोत्रावच्छिन्नविशेषणविशेपणतया, एवं घटाभावादी पटाभावः चक्षुःसंयुक्त विशेषणविशेपणतया । एवमन्यदप्यूह्यम् । तथापि विशेपणतात्वरूपेणकव सा गण्यते । अन्यथा पोढा संनिकर्प इति प्राचां प्रवादी ब्याहन्यतेति। यदि स्यादु- पलभ्यतेति। मात्राभावप्रत्यक्षे योग्यानुपलब्धिः कारणम्।तथाहि-भूतलादी घटा- दिज्ञाने जाते घटाभावादिकं न ज्ञायते । तेनाभावोपलम्भे प्रतियोग्युपलम्भाभाव. कारणम् । तत्र योग्यताप्यपेक्षिता। सा च प्रतियोगिसत्वासानप्रसञ्जितप्रतियो- गिकत्वरूपा । तदर्थश्च प्रतियोगिनो घटादेः सत्वप्रसक्त्या प्रसञ्जित उपलम्भरूप- प्रतियोगी यस्य सोऽभावप्रत्यक्षे हेतुः । तथाहि-यत्रालोकसंयोगादिकं वर्तते तत्र यद्यत्र घटः स्यात्तर्हि उपलभ्यतेत्यापादयितुं शक्यते, तत्र घटाभावादिप्रत्यक्षं भ. वति । अन्धकारे तु नापादयितुं शक्यते । तेन घटाभावादेरन्धकारे न चाक्षुपप्र. त्यक्षम् । स्पार्शनप्रत्यक्षं तु भवत्येव । मालोकसंयोग विनापि स्पार्शनप्रत्यक्षस्यापा- दयितुं शक्यत्वात् । गुरुत्वादिकं यदयोग्यं तदभावस्तु न योग्यस्तत्र गुरुत्वादिप्रः त्यक्षस्यापादयितुमशक्यत्वात् । वायावुद्भूतरूपाभावः, पापाणे सौरभाभावः, गुडे तिकाभावः, वहावनुष्णस्वाभावः, श्रोत्रे शब्दाभावः, भात्मनि सुखाभावः एवमा- दयस्तत्तदिन्द्रियैर्गृह्यन्ते तत्तत्प्रत्यक्षस्यापादयितुं शक्यत्वात् । संसर्गाभावप्रत्यक्ष प्रतियोगिनो योग्यता अन्योन्याभावप्रत्यक्षे त्वधिकरणयोग्यताऽपेक्षिता । अतः स्तम्भादौ पिशाचादिभेदोऽपि चक्षुपा गृह्यत एव ॥५०॥५९॥६०॥६॥२॥ एवं प्रत्यक्षं लौकिकालौकिकभेदेन द्विविधम् । तत्र लौकिकप्रत्यक्षे पोढा संनि- कर्षों वर्णितः । अलौकिकसंनिकर्पस्त्विदानीमुच्यते- अलौकिकस्तु व्यापारस्त्रिविधः परिकीर्तितः। सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा ॥ ६३ ।। अलौकिकस्त्विति । व्यापारः संनिकपः। सामान्यलक्षण इति।सामान्य लक्षणं यस्येत्यर्थः । तत्र लक्षणपदेन यदि स्वरूपमुच्यते तदा सामान्यस्वरूपा प्रत्यासत्तिरित्यर्थो लभ्यते । तच्चेन्द्रियसंबद्धविशेष्यकज्ञानप्रकारीभूतं बोध्यम् । तथाहि-यनेन्द्रियसंयुक्तो धूमादिस्तद्विशेष्यकं धूम इति ज्ञानं जातं तत्र ज्ञाने धूमत्वं प्रकारः । धूमत्वेन च संनिकण धूमा इत्येवंरूपं सकलधूमविषयकं ज्ञानं जायते । अत्र यदीन्द्रियसंबद्धप्रकारीभूतमित्येवोच्यते तदा धूलीपटले धूमत्वभ्र- मानन्तरं सकलधूमविषयकं ज्ञानं न स्यात्, तत्र धूमत्वेन सहेन्द्रियसंवन्धाभा- वात् । मन्मते तु इन्द्रियसंबद्धं धूलीपटलं तद्विशेष्यकं धूम इति ज्ञानम्, तत्र प्रकारीभूतं धूमत्वं प्रत्यासत्तिः । इन्द्रियसंवन्धश्च लौकिको ग्राह्यः । इदं च बहि- रिन्द्रियस्थले । मानसस्थले तु ज्ञानप्रकारीभूतं सामान्यं प्रत्यासत्तिः ॥ ६३ ॥ ।
३१ कारिकावली [प्रत्यक्षखं०१ परंतु समानानां भावः सामान्यं, तच्च क्वचिन्नित्यं धूमात्वादि, क्वचिच्चानित्यं घ- टादि।यत्रैको घटः संयोगेन भूतले समवायेन कपाले वाज्ञातस्तदनन्तरं सर्वेपामेव- तटवतां भूतलादीनां कपालादीनां वा ज्ञानं भवति तत्रेदं बोध्यम् । परंतु सा- मान्यं येन संबन्धेन ज्ञायते तेन संवन्धेनाधिकरणानां प्रत्यासत्तिः । किंतु यन्त्र त. टनाशानन्तरं तटवतः स्मरणं जातं तत्र सामान्यलक्षणया सर्वेपां तहटवतां भानं न स्यात् । सामान्यस्य तदानीमभावात् । किंचेन्द्रियसंबद्ध विशेप्यकं घट इति ज्ञानं यत्र जातं तत्र परदिने इन्द्रियसंवन्धं विनापि तादृशज्ञानप्रकारीभूतसा- मान्यस्य सत्त्वात्ताशज्ञानं कुतो न जायते, तस्मात्सामान्यविषयकं ज्ञानं प्रत्यास- तिन तु सामान्यमित्याह- आसत्तिराश्रयाणां तु सामान्यज्ञानमिष्यते । आसत्तिरित्यादि । आसत्तिः प्रत्यासत्तिरित्यर्थः । तथाच सामान्यलक्षण इत्यत्र लक्षणशब्दस्य विपयोऽर्थः । तेन सामान्यविषयकं ज्ञानं प्रत्यासत्तिरित्यर्थी लभ्यते ॥ ननु चक्षुःसंयोगादिकं विनापि सामान्यज्ञानं यत्र वर्तते तत्र सकलघटादीनां चाक्षुपादिप्रत्यक्ष स्यादत माह- तदिन्द्रियजतद्धर्मवोधसामग्र्यपेक्ष्यते ॥ ६४ ।। तदिन्द्रियजेति । अस्यार्थः । यदा बहिरिन्द्रियेण सामान्यलक्षणया ज्ञानं जननीयं तदा यत्किचिद्धर्मिणि तत्सामान्यस्य तदिन्द्रियजन्यज्ञानस्य सामग्री अ. पेक्षिता । सा च सामग्री चक्षुःसंयोगालोकसंयोगादिकम् । तेनान्धकारादौ चक्षु- रादिना तादृशं ज्ञानं न जायते ॥ ६४ ॥ ननु ज्ञानलक्षणा प्रत्यासत्तिर्यदि ज्ञानरूपा सामान्यलक्षणापि ज्ञानरूपा तदा तयोर्मेदो न स्यादत आह- विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः । विषयोति । सामान्यलक्षणा प्रत्यासत्तिर्हि तदाश्रयस्य ज्ञानं जनयति । शा. नलक्षणा प्रत्यासत्तिस्तु यद्विपयकं ज्ञानं तस्यैव प्रत्यासत्तिरिति । अत्राममर्थः । प्रत्यक्षे संनिक विना भानं न संभवति तथाच सामान्यलक्षणां विना धूमत्वेन सकलधूमानां वह्नित्वेन सकलवहीनां च भानं कयं भवेत्तदर्थं सामान्यलक्षणा स्वीक्रियते । नच सकलवधूिमभानाभावे का क्षतिरिति वाच्यं, प्रत्यक्षधूमे व- हिसंबन्धस्य गृहीतत्वादन्यधूमस्य चानुपस्थितत्वादमो वहिव्याप्यो न वेति संश- १ शायमानसामान्यमित्यत्र जातेरेव सामान्यपदार्थत्वे अनित्यसामान्यस्याप्रसिद्ध्या तत्र टो- पदानानुपपत्त्या तद्वारणार्थ सामान्यमुपेक्ष्य तज्ञानस्य प्रत्यासत्तित्वोपगमवैययमित्यनित्यन्य सामान्यस्वं सामान्यपदस्य यौगिकत्वाङ्गीकारेण व्यवस्थापयनग्रिममूलमवतारयितुं भूमिकामा- रचयति-पगत्वत्यादिना। अनित्यसामान्यस्य प्रत्यासत्तित्वमित्यर्थः । ३ एवंचेत्यर्थ ।
-- " अनुमानख० २] सिद्धान्तमुक्तावलीसहिता। - . यानुपपत्तेः । मन्मते तु सामान्यलक्षणया सकलधूमोपस्थितौ कालान्तरीयदेशान्त- रीयधूमे वहिव्याप्यत्वसंदेहः संभवति । नच सामान्यलक्षणास्वीकारे प्रमेयत्वेन सकलप्रमेयज्ञाने जाते सार्वज्ञापत्तिरिति वाच्यं, प्रमेयत्वेन सकलप्रमेयज्ञाने जातेऽपि विशिष्य सकलपदार्थानामज्ञातत्वेन सार्वज्ञाभावात् । एवं ज्ञानलक्षणाया अस्वीका- रे सुरभि चन्दनमिति ज्ञाने सौरभस्य भानं कैथं स्यात् । यद्यपि सामान्यलक्षण- यापि सौरभभानं संभवति तथापि सौरभत्वस्य भान ज्ञानलक्षणया । एवं पत्र धूमत्वेन धूलीपटलं ज्ञातं तत्र धूलीपटलस्यानुव्यवसाये भानं ज्ञानलक्षणया । योगजो द्विविधः प्रोक्तो युक्तयुञ्जानभेदतः ॥ ६५ ॥ योगजो द्विविध इति । योगाभ्यासजनितो धर्मविशेषः श्रुतिपुराणादिप्रति- पाच इत्यर्थः । युक्तयुञ्जानभेदत इति । युक्तयुञ्जानरूपयोगिद्वविध्याधर्मस्यापि दैविध्यमिति भावः ।। ६५ ॥ युक्तस्य सर्वदा भानं चिन्तासहकृतोऽपरः । युक्तस्य सर्वदा भानमिति । युक्तस्य तावद्योगधर्मसहायेन मनसा भा. काशपरमाण्वादिनिखिलपदार्थगोचरं ज्ञानं सर्वदैव भवितुमर्हति । द्वितीयस्य चिन्ताविशेषोऽपि सहकारीति | इति श्रीविश्वनाथपश्चाननभट्टाचार्यविरचितायां सिद्धान्तमुक्तावल्या प्रत्यक्षखण्डम् ।। अनुमिति व्युत्पादयति- व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत् ॥ ६६ ॥ अनुमायां ज्ञायमानं लिङ्गं तु करणं नहि । अनागतादिलिङ्गेन न स्यादनुमितिस्तदा ॥ ६७ ।। व्यापारस्त्विति । अनुमायामनुमितौ व्याप्तिज्ञानं करणम् । परामर्शो व्यापारः। तथाहि-येन पुरुपेण महानसादौ धूमे वढाप्तिर्गृहीता पश्चात्स एव पुरुपः क- चित्पर्वतादावविच्छिन्नमूलां धूमलेखां पश्यति । तदनन्तरं धूमो वहिव्याप्य इत्येवं रूपं व्याप्तिस्मरणं भवति । पश्चाच वहिव्याप्यधूमवानयमिति ज्ञानं भवति । स एव परामर्श इत्युच्यते । तदनन्तरं पर्वतो वह्निमानित्यनुमितिर्जायते । अत्र प्राची. १ चन्दनखण्डस्य चाक्षुपे जायमाने सौरभस्योपस्थितावपि तत्र चक्षु संनिफर्णभावादिति भाय । २ स्वरूपत सौरभत्वस्य भानमित्यर्थ । ३ सदानी सौरभत्वांशे धर्मान्तरस्यागृहीततया सामा- न्यलक्षणया तद्भानानिर्वाहादिति भावः । ननु धर्मान्तरस्य सौरमत्वाशेऽग्रहेऽपि सौरभत्व- सामान्यलक्षणयैव सौरभादे नमस्तु सौरभत्वप्रकारकसौरभविशेष्यकत्वस्यैव तत्कार्यतावडे- दकत्वादितिचेत् ।मासौरभत्वादिविपयिताप्रयोजकस्य स्वविपयसौरभस्वादिमत्त्यरूपस्य सामा- न्यलक्षणाया संवन्धस्य सौरभत्वेऽभावेन सामान्यलक्षणया सद्भानानिर्वाहादिति ध्येयम् ।४ यत्र ज्ञानलक्षणया स्वविपयमुख्यविशेप्यकं भानं तत्र विशेपणानकारणतयापिन निर्वाह इत्य- भिप्रायेण ज्ञानलक्षणाया आवश्यकत्व-दर्शयति-एवमिति।
कारिकावली [अनुमानखं०२ नास्तु व्याप्यत्वेन ज्ञायमानं लिङ्गमनुमितिकरणमिति वदन्ति तदृपयति-शाय. मानमिति।.लिङ्गस्यानुमित्यकरणत्वे युक्तिमाह-अनागतादीति । यद्यनुमितौ लिङ्गं करणं स्यात्तदाऽनागतेन लिङ्गेन विनष्टेन चानुमितिर्न स्वादनुमितिकरणस्य लिङ्गस्य तदानीमभावात् ॥ ६६ ॥ ६७ ॥ व्याप्यस्य पक्षवृत्तित्वधीः परामर्श उच्यते । व्याप्यस्य पक्षवृत्तित्वधीरिति । व्याप्तिविशिष्टस्य पक्षेण सह वैशिष्टयाव- गाहिज्ञानमनुमितिजनकम् । तच्च पक्षे व्याप्य इति ज्ञानं पक्षो व्याप्यवानिति ज्ञानं वा । अनुमितिस्तु पक्षे व्याप्य इति ज्ञानात्पक्षे साध्यमित्याकारिका, पक्षो व्याप्यवानिति ज्ञानात्पक्षः साध्यवानित्याकारिका । द्विविधादपि पराम- र्शात्पक्षः साध्यवानित्येवानुमितिरित्यन्ये । ननु वह्निन्यायधूमवान्पर्वत इति ज्ञानं विनापि यत्र पर्वतो धूमवानिति प्रत्यक्षं ततो धूमो वहिव्याप्य इति स्मरणं तत्र ज्ञानद्वयादेवानुमितिदर्शनाव्यातिविशिष्टवैशिष्टयावगाहिज्ञानं न सर्वत्र कारणं किंतु व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन कारणत्वस्यावश्यकत्वात्तत्र वि- शिष्टज्ञानकल्पने गौरवाचेतिचेत् । न । व्याप्यतावच्छदेकाज्ञानेऽपि वह्निव्याप्यवा- निति ज्ञानादनुमित्युत्पत्तेः, लाघवाच्च व्याप्तिप्रकारकपक्षधर्मताज्ञानत्वेनैव हेतुत्वम् । किंच धूमवान्पर्वत इति ज्ञानादनुमित्यापत्तिः, व्याप्यतावच्छेदकीभूतधूमत्वप्र- कारकपक्षधर्मताज्ञानस्य सत्वात् । नच तदानींगृह्यमाणव्याप्यतावच्छेदकप्रकारकप- क्षधर्मताज्ञानस्य हेतुत्वमिति वाच्यं, चैत्रस्य व्याप्तिग्रहे मैत्रस्य पक्षधर्मताज्ञाना- दनुमितिः स्यादिति । यदितु तत्पुरुपीयगृह्यमाणन्याप्यतावच्छेदकप्रकारकतत्पुरु- पीयपक्षधर्मताज्ञानं तत्पुरुपीयानुमितौ हेतुरित्युच्यते तदाऽनन्तकार्यकारणभावः। मन्मते तुसमवायसंवन्धेन व्याप्तिप्रकारकपक्षधर्मताज्ञानं समवायसंबन्धेनानुमिति जनयतीति नानन्तकार्यकारणभावः । यदि तु व्याप्तिप्रकारकं ज्ञानं पक्षधर्मताज्ञानं च स्वतन्त्रं कारणमित्युच्यते तदा कार्यकारणभावद्वयम् । वहिव्याप्यो धूम आलोक- वान् पर्वत इति ज्ञानादप्यनुमित्यापत्तिः स्यात् । इत्थं च यत्र ज्ञानद्वयं तत्रापि विशिष्टज्ञानं कल्पनीय फलमुखगौरवस्यादोपत्वात् ॥ व्याप्यो नाम व्याल्याश्रयः । तेत्र का व्याप्तिरित्यत आह- व्याप्तिः साध्यवदन्यस्मिन्नसंवन्ध उदाहृतः ॥ ६८ ॥ व्याप्तिरिति । वह्निमान् धूमादित्यादौ साध्यो वह्निः, साध्यवान्महानसादिः, तदन्यो जलइदादिः, तदवृत्तित्वं धूमस्येति लक्षणसमन्वयः । धूमवान् वढेरि- त्यादौ साध्यवदन्यस्मिस्तप्तायःपिण्डादौ वह्निसत्त्वान्नातिव्याप्तिः । अत्र येन १ मूले परामर्शलक्षणानन्तरं व्याप्तिनिरूपणे सङ्गतिमुपोद्धातं दर्शयन्नाह-व्याप्यो नामेति । २ घटकत्वं सप्तम्यर्थः । ३ अत्र सप्तम्ययों निरूपितत्व संबन्धश्च वृत्तित्वमसंबन्धोऽवृत्तित्वं सेन साध्यवदन्यावृत्तित्वमिति लक्षणं संपन्नम् । ४ अव्यायादिदूपणरहितस्यैव धर्मस्य लक्षणत्वादहि- मान्धूमादित्यादौ लक्षणसमन्वयेनासंभवं परिहत्यातिच्याहिं परिहरति-धूमवान्यहेरित्यादिना ।।
अनुमानखं० २] सिद्धान्तमुक्तावलीसहिता । संबन्धेन साध्यं तेनैव संबन्धेन साध्यवान्बोध्यः अन्यथा समवायसंबन्धेन वह्नि- मान्वह्वेरवयवस्तदन्यो महानसादिः, तत्र धूमस्य विद्यमानत्वादव्याप्तिप्रसगात् । साध्यवदन्यश्च साध्यवत्वावच्छिन्नप्रतियोगिताकमेदवान्बोध्यः । तेन यत्किचिद्वति- मतो महानसादमिन्ने पर्वतादौ धूमस्य सत्त्वेऽपि न क्षतिः । येन संबन्धेन हेतुता तेनैव संवन्धेन साध्यवदन्यवृत्तित्वं बोध्यम् । तेन साध्यवदन्यस्मिन्धूमावयवे धूमस्य समवायसंबन्धेन सत्त्वेऽपि न क्षतिः । साध्यवदन्यावृत्तित्वं च साध्यव- दन्यवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावः । तेन धूमवान् वह्ररित्यत्र साध्यवदन्य- जलहूदादिवृत्तित्वाभावेऽपि नातिव्याप्तिः । अन्न यद्यपि द्रव्यं गुणकर्मान्यत्वविशि- प्टसत्वादित्यादौ विशिष्टसत्तायाः शुद्धसत्तायाश्चक्यात्साध्यवदन्यस्मिन्गुणादाववृ. तित्वं नास्ति तथापि हेतुतावच्छेदकरूपेणावृत्तित्वं वाच्यम् । हेतुतावच्छेदक तादृशवृत्तितानवच्छेदकमिति फैलितोर्थः॥ १८ ॥ ननु केवलान्वयिनि ज्ञेयत्वादौ साध्ये साध्यवदन्यस्याप्रसिद्धत्वादव्याप्ति., किं- च सत्तावान् जातेरित्यादा साध्यवदन्यस्मिन्सामान्यादौ हेतुतावच्छेदकसंबन्धन समवायेन वृत्तेरप्रसिद्धत्वादन्याप्तिश्चात आह- अथवा हेतुमनिष्ठविरहाप्रतियोगिना । साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते ॥ ६९ ॥ अथवा हेतुमनिष्ठेति । हेतुमति निष्ठा वृत्तिर्यस्य स तथा विरहोऽभावः, तथा च हेत्वधिकरणवृत्तिर्योऽभावः तदप्रतियोगिना साध्येन सह हेतोः सामानाधिक- रण्यं व्याप्तिरुच्यते । अत्र यद्यपि वद्विमान् धूमादित्यादी हेत्वधिकरणपर्वतादिव- त्यभावप्रतियोगित्वं तत्तद्वयादेरस्तीत्यव्याप्तिः। नच समानाधिकरणवद्विधूमयो- व व्याप्तिरिति वाच्यं, तत्तद्वयादेरप्युभयाभावसत्त्वादेकसत्वेऽपि द्वयं नास्तीति प्रतीतेः। गुणवान् द्रव्यत्वादित्यादावव्याप्तिश्च, तथापि प्रतियोगितानवच्छेदकं यत्सा- ध्यतावच्छेदकं तदवच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिरिति वाच्यम् । ननुरूपत्व- व्याप्यजातिमत्वान्, पृथिवीत्वादित्यादौ साध्यतावच्छेदिका रूपत्वच्याप्यजातयस्ता- सां च शुक्लत्वादिजातीनां नीलघटादिवृत्त्यभावप्रतियोगितावच्छेदकत्वमस्तीत्यव्या- प्तिरिति चेतानातन परंपरया रूपत्वव्याप्यजातित्वस्यैव साध्यतावच्छेदकत्वात्। नहि ताशधर्मावच्छिन्नाभावः कापिपृथिव्यामस्ति,रूपत्वव्याप्यजातिमानास्तीति वुद्ध्या- पत्ते. साध्यादिभेदेन व्याप्तेभेदात्तादृशस्थले साध्यतावच्छेदकतावच्छेदकं प्रतियोगि- . १ साध्यवनिष्ठप्रतियोगिताकभेदवनिरूपितवृत्तित्वाभावरूपरक्षणपटकप्रतियोगिता साध्यता- वच्छेदकसन्धावच्छिन्नावच्छेदकताकत्वेन विशेपणीयेत्यर्थ । उक्तप्रतियोगितैव साध्यतावच्छेटका- वच्छिनावच्छेदकताफत्वेन विशेपणीयेत्यर्थ । ३वृत्तित्वं हेतुतावच्छेदकसंवन्धावच्छिा ग्रालमित्य- र्थ । ४ साध्यतावच्छेटकसंवन्धावच्छिन्न-साध्यतावच्छेदकावच्छिन्नावच्छेदकताकप्रतियोगिताक- भेदवन्निरूपितहेतुतावच्छेदकसंबन्धावच्छिन्नवृत्तितानवच्छेदकहेतुत्तावच्छेदकवत्यमिति फरिनम्।
कारिकावली [ अनुमानख० २ तावच्छेदकतानवच्छेदकमित्येव लक्षणघटकमित्यपि वदन्तिाहेत्वधिकरणं चहेतुताव- च्छेदकविशिष्टाधिकरणं वाच्यं, तेनद्रव्यं गुणकर्मान्यत्वविशिष्टसत्त्वादित्यादौशुद्धस- ताधिकरणगुणादिनिष्ठाभावप्रतियोगित्वेऽपि द्रव्यत्वस्यनाव्याप्तिःएवं हेतुतावच्छेद- कसंबन्धेन हेत्वधिकरणंबोध्यमातेन समवायेन धूमाधिकरणतदवयवनिष्ठाभावप्रति- योगित्वेऽपि वह व्याप्तिः। अभावश्च प्रतियोगिव्यधिकरणो बोध्यातेन कपिसंयोगी एतदृक्षत्वादित्यत्र मूलावच्छेदेनैव एतदृक्षवृत्तिकपिसंयोगाभावप्रतियोगित्वेऽपि क. पिसंयोगस्य, नाव्याप्तिः । नच प्रतियोगिव्यधिकरणत्वं यदि प्रतियोग्यनधिकरणवृ. त्तित्वंतदा तथैवाव्याप्तिः, प्रतियोगिनः कपिसंयोगस्यानधिकरणे गुणादौ वर्तमानो योऽभावस्तस्यैव वृक्षे मूलावच्छेदेन सत्त्वात् ।यदि तुप्रतियोग्यधिकरणावृत्तित्वं तदा संयोगी सत्त्वादित्यादावतिव्याप्तिः, सत्ताधिकरणे गुणादौ यः संयोगाभावस्तस्य प्रतियोग्यधिकरणद्रव्यवृत्तित्वादिति वाच्यम्, हेत्वधिकरणे प्रतियोग्यनधिकरण- त्तित्वविशिष्टस्य विवक्षितत्वात्, स्वप्रतियोग्यनधिकरणीभूतहेत्वधिकरणवृत्त्यभाव इति निष्कर्षः । प्रतियोग्यनधिकरणत्वं प्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं वाच्यम् । तेन विशिष्टसत्तावान् जातेरित्यादौ जात्यधिकरणगुणादौ विशिष्टसत्ता- भावस्य प्रतियोगिसमानाधिकरणत्वेऽपि न क्षतिः।अन्न साध्यतावच्छेदेकसंबन्धेन प्रतियोग्यनधिकरणत्वं बोध्यम् । तेन ज्ञानवान् सत्वादित्यादौ सत्ताधिकरणघटा- देविपयतया ज्ञानाधिकरणत्वेऽपि न क्षतिः । इत्यं च वह्निमान् धूमादित्यादौ धू- माधिकरणे समवायेन वह्निविरहसत्त्वेऽपि न क्षतिः । ननु प्रतियोगितावच्छेदका- वच्छिन्नस्य यस्य कस्यचित्प्रतियोगिनोऽनधिकरणत्वं तत्सामान्यस्य वा यत्किंचि- प्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं वा विवक्षितम् । आये कपिसंयोगी एतदृक्षत्वादित्यादौ तथैवाव्याप्तिः, कपिसंयोगाभावप्रतियोगितावच्छेदकावच्छिन्नो वृक्षावृत्तिकपिसंयोगोऽपि भवति तदनधिकरणं वृक्ष इति । द्वितीये तु प्रति- योगिव्यधिकरणाभावाप्रसिद्धिः, सर्वस्यैवाभावस्य पूर्वक्षणवृत्तित्वविशिष्टस्वाभावा- स्मकप्रतियोगिसमानाधिकरणत्वात् । नच वह्निमान् धूमादित्यादौ घटाभावादेः पूर्वक्षणवृत्तित्वविशिष्टस्वाभावात्मकप्रतियोग्यधिकरणत्वं यद्यपि पर्वतादेस्तथापि साध्यतावच्छेदकसबन्धेन तत्प्रतियोग्यनधिकरणत्वमस्त्येवेति कथं प्रतियो- गिव्यधिकरणाभावाप्रसिद्धिरिति वाच्यम् । घटाभावे यो वह्नयभावस्तस्य घ- १ अतिव्याप्तिः। • साध्यतावच्छेटकसंबन्धावच्छिन्नप्रतियोगितावच्छेदकावच्छिन्नाधेयतानि- रूपिताधिकरणत्वाभाव इत्यर्थ । ३ अतिव्याप्ति । अव्याप्ति । ५ यत्किचिदिति प्रतियोगितायां विशेपणम् । ६ पूर्वक्षणत्तित्वविशिष्टस्य स्वस्य घटाभायादेयोमावस्तदात्मकेत्यर्थः । नच पूर्व- क्षणवृत्तित्वविशिष्टघटामावाटेरमावः स्वाभावस्य प्रतियोगी न घटाभावादेरिति वाच्यम् । तृती- यामावस्य प्रथमाभावरूपतया पूर्वक्षणवृत्तित्वविशिष्टस्य घटाभावस्य योऽमावस्तदमावस्य पूर्व- क्षणवृत्तित्वविशिष्टघटामावरूपत्वात्तस्य च निधिष्टस्य शुद्धानतिरेकाद्धटाभावरूपत्वात् ।
म मादा a अनुमानख० २] सिद्धान्तमुक्तावलीसहिता। ३९ टाभावात्मकतया घटाभावस्य वह्निरपि प्रतियोगी तदधिकरणं च पर्वतादिरित्ये- वं क्रमेण प्रतियोगिव्यधिकरणस्याप्रसिद्धत्वात् । यदि च घटाभावादी वहयभा- वादिर्भिन्न इत्युच्यते तथापि धूमाभाववान् वयभावादित्याढावव्याप्तिः । तत्र साध्यतावच्छेदकसंवन्धः स्वरूपसंवन्धः तेन संवन्धेन सर्वस्यैवाभावस्य पूर्वक्षण- वृत्तित्वशिष्टस्वाभावात्मकप्रतियोग्यधिकरणत्वं हेत्वधिकरणस्येति । तृतीये तु कपिसंयोगाभाववान् , आत्मत्वादित्यादावव्याप्तिः । तत्रात्मवृत्तिकपिसंयोगाभा- वाभावः कपिसंयोगस्तस्य च गुणत्वात्प्रतियोगितावच्छेदकं गुणसामान्यामावत्वमपि तदवच्छिन्नानधिकरणत्वं हेत्वधिकरणस्यात्मन इति चेत् । मैवम् । यादृशप्रतियो- गितावच्छेदकावच्छिन्नानधिकरणत्वं हेतुमतस्तादृशप्रतियोगितानवच्छेदकत्वस्य वि- वक्षितत्वात् । ननु कालो घटवान्, कालपरिमाणादित्यत्र प्रतियोगिव्यधिकरणा- भावाप्रसिद्धिः, हेत्वधिकरणस्य महाकालस्य जगदाधारतया सर्वेपामभावानां सा- ध्यतावच्छेदकसंवन्धेन कालिकविशेपणतया प्रतियोग्यधिकरणवृत्तित्वात् । अत्र के- चित् । महाकालभेदविशिष्टघटामावस्तत्र प्रतियोगिन्यधिकरणः । महाकालस्य घटाधारत्वेऽपि महाकालभेदविशिष्टघटानाधारस्वात् । महाकाले महाकालभेदा- भावात् । वस्तुतस्तु प्रतियोगितावच्छेदकसंवन्धेन प्रतियोग्यनधिकरणीभूतहेत्व- धिकरणवृत्त्यभावप्रतियोगितासामान्ये यसंवन्धावच्छिन्नत्वयधर्मावच्छिन्नत्वोभ- याभावस्तेन संबन्धेन तद्धर्मावच्छिन्नस्य तन्द्वेतुव्यापकत्वं चोध्यम् । इत्थंच कालो घटवान् कालपरिमाणादित्यादौ संयोगसंबन्धेन घटाभावप्रतियोगिनो घटस्यान- धिकरणे हेत्वधिकरणे महाकाले वर्तमानः स एव संयोगेन घटाभावस्तस्य प्रति- योगितायां कालिकसंवन्धावच्छिन्नत्वघटत्वावच्छिन्नत्वोभयाभावसत्वान्नाव्याप्तिः । ननु प्रमेयवह्निमान् धूमादित्यादौ प्रमेयवह्नित्वावच्छिन्नत्वमप्रसिद्धं गुरुधर्मस्यानव- च्छेदकत्वादिति चेत् । न । कम्बुग्रीवादिमानास्तीति प्रतीत्या कम्युग्रीवादिम- त्वावच्छिन्नप्रतियोगिताविपयीकरणेन गुरुधर्मस्याप्यवच्छेदकत्वस्वीकारादिति सं. क्षेपः ॥ ६९ ॥ पक्षवृत्तित्वमित्यत्र पक्षत्वं किं तदाह- सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते । स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत् ॥ ७० ॥ सिषाधयिषयेति । सिपाधयिपाविरहविशिष्टसिद्ध्यभावः पक्षता तद्वान्पक्ष इत्यर्थः । सिपाधयिपामात्रं न पक्षता विनापि सिपाधयिपां धनगजितेन मेघानुमानात् । अत एव साध्यसंदेहोऽपि न पक्षता विनापि संदेहं तदनु- १ अभावाधिकरणकाभावस्याधिकरणानतिरिक्तत्वादितिभावार इत्यादीत्यादिपदेनाभायसा- ध्यकसहेतुमात्रपरिग्रहः । ३तृतीयविवक्षानुसारेण समाधत्ते-याशेति। याश्याः प्रतियोगिताया अवच्छेदकावच्छिन्नानधिकरणत्वं हेतुमतस्ताशप्रतियोगितावच्छेदकतानाश्रयत्यमित्यर्थः । - -- कारिकावली [अनुमानख०२ । मानात् । सिद्धौ सत्यामपि सिपाधयिपासत्वेऽनुमितिर्भवत्येव । अतः सि- पाधयिपाविरहविशिष्टत्वं सिद्धौ विशेषणम् । तथाच यत्र च सिद्धिनास्ति तत्र सि. पाधयिपायां सत्यामसत्यामपि पक्षता । यत्र सिपाधयिपाऽस्ति तत्र सिद्धौ सत्या- मसत्यामपि पक्षता । यत्र सिद्धिरस्ति सिपाधयिपा च नास्ति तत्र न पक्षता, सि- पाधयिपाविरह विशिष्टसिद्धेः सत्वात् । ननु यत्र परामर्शानन्तरं सिद्धिस्ततः सि- पाधयिपा तत्र सिपाधयिपाकाले परामर्शनाशान्नानुमितिः । यत्र सिद्धिपरामर्श- सिपाधयिपाः क्रमेण भवन्ति तत्र सिपाधयिपाकाले सिद्धनाशात्प्रतिवन्धकाभा. वादेवानुमितिः। यत्र सिपाधयिपासिद्धिपरामर्शाः सन्ति तत्र परामर्शकाले सिपाध- यिषैव नास्ति । एवमन्यत्रापि सिद्धिकाले परामर्शकाले वा न सिपाधयिपा, योग्य- विभुविशेपगुणानां यौगपद्यनिषेधात्।तत्कथं सिपाधयिपाविरहविशिष्टत्वं सिद्धविशे- पणमिति चेत् । न । यत्र वह्निव्याप्यधूमवान् पर्वतो वह्रिमानिति प्रत्यक्षं सरणं वा ततः सिपाधयिषा तत्र पक्षतासंपत्तये तद्विशेषणस्यावश्यकत्वात् । अत्रेदं बोध्यम् । यादृशयाशसिपाधयिषासत्त्वे सिद्धिसत्वे यल्लिङ्गकानुमितिस्तादृशतादृशसिपाधयि- पाविरह विशिष्टसिद्ध्यभावस्तलिङ्गकानुमितौ पक्षता । तेन सिन्दिपरामर्शसत्त्वेऽपि यत्किचिज्ज्ञानं जायतामितीच्छायामपि नानुमितिः। वहिव्याप्यधूमवान् पर्वतो व. हिमानिति प्रत्यक्षसत्त्वे प्रत्यक्षातिरिक्तं ज्ञानं जायतामितीच्छायां तु भवत्येव । एवं धूमपरामर्शसत्त्वे आलोकेन वह्निमनुमिनुयामितीच्छायामपि नानुमितिः। सिपाध. यिपाविरहकाले यादृशसिद्धिसत्त्वे नानुमितिस्तादृशी सिद्धिर्विशिप्यैव तत्तदनुमितौ प्रतिवन्धिका वक्तव्या । तेन पर्वतस्तेजस्वी, पापाणमयो वह्निमानिति ज्ञानसत्त्वेs. प्यनुमितेर्न विरोधः । परंतु पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धावपि तदवच्छेदेनानुमितिदर्शनात्पक्षतावच्छेदकावच्छेदनानुमिति प्रति पक्षतावच्छेद- कावच्छेदेन साध्यसिद्धिरेव प्रतिवन्धिका । पक्षतावच्छेदकसामानाधिकरण्येनानु- मिति प्रति तु सिद्धिमानं विरोधि । इदं तु बोध्यम् । यत्रायं पुरुपो न वेति सं- शयानन्तरं पुरुपत्वव्याप्यकरादिमानयमिति ज्ञानं तत्रासत्यामनुमित्सायां पुरु- पत्वस्य प्रत्यक्षंभवति न त्वनुमितिरतोऽनुमित्साविरहविशिष्टसमानविषयकप्रत्यक्ष- सामग्री कामिनीजिज्ञासादिवत्स्वांतत्र्येण प्रतिवन्धिका । एवं परामर्शानन्तरं वि- नापि प्रत्यक्षेच्छां पक्षादेः प्रत्यक्षानुत्पत्तेः, प्रत्यक्षेच्छाविरहविशिष्टानुमितिसामग्री- भिन्नविषयकप्रत्यक्षे प्रतिबन्धिका ॥ ७० ॥ १ उपाध्यायास्तु सिपाधयिपाविरहविशिष्टसिद्धिप्रत्यक्षसामग्योरन्यतरम्याभाव' पक्षता तेन सिद्धिविपये समानविपयकप्रत्यक्षसामग्रीकालेपि च नानुमित्यापत्तिरित्याहु । तद्पयितुं प्रत्यक्ष- सामग्यभावस्य पक्षताकुक्ष्यप्रेवेशे प्रत्यक्षसामग्रीकाले कथं नानुमितिरित्युत्कटशिष्यजिज्ञासानु- स्पाटा प्रथमतः स्वसिद्धान्तमाह-इदंतु बोध्यमित्यादिना। संशयोत्तरप्रत्यक्ष प्रति हेतुभूतविशे- पदर्शनस्य सत्वादितिभावः। एतादृशसामग्रीविशेषप्रदर्शनेन प्रत्यक्षविपये अनुमितिसामग्रीसंप- त्तिरपि दर्शिता । २ पक्षताकुक्ष्यप्रविष्टत्वेनेत्यर्थः ।
KEE ith तक अनुमानखं० २] सिद्धान्तमुक्तावलीसहिता। हेतुप्रसङ्गाद्धत्वाभासान्विमजते- अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः । कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ॥ ७१ ॥ आधः साधारणस्तु स्यादसाधारणकोऽपरः। तथैवानुपसंहारी विधानकान्तिको भवेत् ॥ ७२ ॥ अनैकान्त इति । तल्लक्षणं तु यद्विपयकत्वेन ज्ञानस्यानुमितिविरोधित्वं त. त्वम् । तथाहि-व्यभिचारादिविषयकत्वेन ज्ञानस्यानुमितिविरोधित्वात्ते दोपाः । यद्विपयकत्वं च यादृशविशिष्टविपयकत्वम् । तेन बाधश्रमस्यानुमितिविरोधिस्वे. ऽपि न क्षतिः । तत्र पर्वतो वहयभाववानिति विशिष्टस्याप्रसिद्धत्वान्न हेतुदोपः । वह्नयभावव्याप्यपापाणमयत्ववानिति परामर्शकाले वह्विव्याप्यधूमस्यामासत्वं न स्यात्तत्र वयभावव्याप्यवान्पक्ष इति विशिष्टस्याप्रसिद्धत्वादिति वाच्यम् , इ- प्टापत्तेः। अन्यथा बाधस्याप्यनित्यदोपत्वापत्तिः। तस्मात्तत्र वयभावव्याप्यपापाण- मयत्ववानिति परामर्शकाले वहिव्याप्यधूमस्य नाभासत्वम् । भ्रमादनुमितिप्रति- बन्धमात्र हेतुस्तु न दुष्टः । इत्थं च साध्याभाववद्वृत्तिहेत्वादिकं दोपः । तद्वत्वं च हेतौ येन केनापि संबन्धेनेति नव्याः। परे तु यद्विपयकत्वेन ज्ञानस्यानुमिति- विरोधित्वं तद्वत्त्वं हेत्वाभासत्वम् । सत्प्रतिपक्षे विरोधिव्याप्त्यादिकमेव तया । तद्वत्वं च हेतोर्ज्ञानरूपसंबन्धेन । न चैवं वह्निमान् धूमादित्यादौ पक्षे बाधश्रम- स्य साध्याभावविपयकत्वेनानुमितिविरोधित्वाज्ज्ञानरूपसंबन्धेन तद्वत्त्वस्यापि स- वात्सद्धेतोरपि बाधितत्वापत्तिरिति वाच्यं, तत्र ज्ञानस्य संवन्धत्वाकल्पनात् । अत्र सत्प्रतिपक्षित इति व्यवहारेण तत्कल्पनात् । तत्र बाधित इति व्यवहारा- भावादित्याहुः । अनुमितिविरोधित्वं च अनुमितितत्करणान्यतरविरोधित्वम् । लाव बेचन। सार बिपि जीव ।। एवं राध मिती उड नैच हारि च्छेद स्नानु निस 'पुरु पत्रक रवि सामग्री IHERE १ अत्र तृतीयाथोऽवच्छिन्नत्वं ज्ञानपदमनाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयपरं पष्ठयों वृत्तित्व विरोधित्व प्रतिबन्धकत्वंतत्र पाठयन्ताम्य यद्विपयकत्येऽन्वयस्तृतीयान्तार्थस्य पविरोपि- त्वे। तथाच अनाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयवृत्तित्वविशिष्टयद्विपयकत्वावच्छिन्नमनुमि- तिप्रतिवन्धकत्वं तत्व हेत्वाभासत्वमित्यर्थ । २ यद्रूपावच्छिन्नविपयकत्वमित्यर्थः । ३दशाविदोपे सत्प्रतिपक्षासाधारण्ययोदोपत्ववादिमतमाशङ्कय निराकरोति-नवेति । दशाविशेपमेव दर्शयति- वह्नयभावव्याप्यपापाणमयत्ववान्पर्वत इति परामर्शकाल इति । सहेतावपि तादृशपरामादि काले सत्प्रतिपक्षितत्वादिप्रामाणिकव्यवहार एवान मानं वाधादिभ्रमदशाया सद्धेती वाधि- तत्वादिव्यवहारामावान वापादेस्तधात्वमित्याशय । ४ त्वन्मतवासनावासितात्मनामेव तारा- व्यवहारोन सर्वपामित्याशयेन दूपयति-अन्यथेति। दोपभ्रमस्यापि दोपतानियामकत्वे द्वयोरेवदो- पत्वं नेतरेपामित्यत्र विनिगमकाभावादिति भावः । ५ तादृशाश्रमाभावदनायाममायादो- परपस्यानित्यत्वं वोध्यम् । ६ एकज्ञानविपयत्वविशिष्टप्रकृतहेतुतावच्छेदकवत्वसंबन्धेनेत्यर्पः ।
१२ कारिकावली [अनुमानख० २ तेन व्यभिचारिणि नाव्याप्तिः। दोपज्ञानं च यद्धेतुविषयकं तद्धेतुकानुमिती प्र- तिवन्धकम् । तेनैकहेतौ व्यभिचारज्ञाने हेत्वन्तरेणानुमित्युत्पत्तेस्तदभावाद्यनव- गाहित्वाञ्च व्यभिचारज्ञानस्यानुमितिविरोधित्वाभावेऽपि न क्षतिरिति संक्षेपः । यादृशसाध्यपक्षहेतौ यावन्तो दोपास्तावदन्यान्यत्वं तत्र हेत्वाभासत्वम् । पञ्चत्व- कथनं तु तत्संभवस्थलोभिप्रायेण । एवंच साधारणाद्यन्यतमत्वमनैकान्तिकत्वम् । साधारणः साध्यवदन्यवृत्तिः । तेन च व्याप्तिज्ञानप्रतिवन्धः क्रियते । असाधारण: साध्यासमानाधिकरणो हेतुः। तेन साध्यसामानाधिकरण्यग्रहः प्रतिवध्यते । अन्ये तु सपक्षावृत्तिरसाधारणः । सपक्षश्च निश्चितसाध्यवान् । इत्थंच शब्दोऽनित्यः शब्दत्वादित्यादौ यदा पक्षे साध्यनिश्चयस्तदा नासाधारण्यं तत्र हेतोनिश्चयादिति वदन्ति । अनुपसंहारी चात्यन्ताभावाप्रतियोगिसाध्यकादिः । अनेन व्यतिरेक- व्याप्तिज्ञानप्रतिबन्धः क्रियते । विरुद्धस्तु साध्यव्यापकीभूताभावप्रतियोगी । अयं साध्याभावग्रहसामग्रीत्वेन प्रतिबन्धकः । सत्प्रतिपक्षे तु प्रतिहेतुः साध्यामा- वसाधकः । अत्र तु हेतुरेवेति विशेपः । साध्याभावसाधक एव साध्यसाधकत्वेनो- पन्यस्त इत्यशक्तिविशेपोपस्थापकत्वाच्च विशेपः । सत्प्रतिपक्षः साध्याभावव्याप्य- वान्पक्षः। अगृहीताप्रामाण्यकसाध्यव्याप्यवत्वोपस्थितिकालीनागृहीताप्रामाण्य- कतदभावव्याप्यवत्वोपस्थितिविपयस्तथेत्यन्ये । अत्र च परस्पराभावव्याप्यवत्ता- ज्ञानात्परस्परानुमितिप्रतिवन्धः फलम् । अत्र केचित् । यथा घटाभावव्याप्यव- ताज्ञानेऽपि घटचक्षु.संयोगे सति घटवत्ताज्ञानं जायते । यथा च शङ्ख संत्यपि पीतत्वाभावव्याप्यशङ्खत्ववत्तानाने, सति पित्तादिदोपे पीतः शह इति धीर्जा- यते एवं कोटिद्वयव्याप्यदर्शनेऽपि कोटिद्वयस्य प्रत्यक्षरूपः संशयो भवति । तथा सत्प्रतिपक्षस्थले संशयरूपानुमितिर्भवत्येव । यन चैककोटिव्याप्यदर्शन तत्राधिकवलतया द्वितीयकोटिभानप्रतिबन्धान संशयः । फलबलेन चाधि- कसमवलभाव: कल्प्यत इति वदन्ति । तन्न । तदभावव्याप्यवत्ताज्ञाने सति तदुपनीतभानविशेपशाव्दवोधादेरनुदयाल्लौकिकसंनिकर्पाजन्यदोपविशेषाज- न्यज्ञानमात्रे तस्य प्रतिवन्धकता लाघवात् । न तूपनीतभानविशेपे शान्दवोधे च । १ निर्वह्निः पर्वतो वह्निमान्यूमादित्यादी विशिष्टपक्षे साध्यवत्ताज्ञानम्य, स्वविरोधिधर्ममि- तावच्छेदककरवप्रकारकनिश्चयल्पनियताहार्यतया आहार्यपरोक्षज्ञानानभ्युपगमादनुमित्यनात्म- करवादुक्तानुमितिघटितलक्षणाप्रसिद्धया न कोपि हेलाभास' स्यादत आह-यादृशसाध्येति । २ वायुर्गन्धवान् नेहादित्यादौ सर्वहेत्वाभाससंभव इति भावः। सत्प्रतिपक्षस्य संशयजनकत्वं दूपकतावीजं न त्वनुमितिप्रतिवन्धकत्वं तदभावव्याप्यवत्ताज्ञानस्यानुमितिप्रतिवन्धकत्ये मा- नामावादिति रखकोशकारमतं दूपयितुमुपन्यस्यति-अत्र केचिदित्यादिना। ४ पित्तादिदोपसत्ये बाहादौ पीतत्वसाक्षात्कारस्यैवानुभविकतया शुक्लत्वग्रहेपि पित्तरूपदोपस्य प्रतिवन्धकत्वं क- सयित्वा पीतस्यादिसाक्षात्कारसामग्र्या अधिकवलत्वमेवं दुरत्वदोपे सत्यपि स्थाणुत्वपुरूपत्वयोः स्मृती संगयस्ययोदयात्तत्सामच्या समवलत्वमेव करप्यत इति भावः ।
। अनुमानख० २] सिद्धान्तमुक्तावलीसहिता। पृथक्प्रतिवन्धकता गौरवात्।तथाच प्रतिबन्धकसत्त्वात्कथमनुमितिः। नहि लौकि- कसंनिकर्षस्थले प्रत्यक्षमिव सत्प्रतिपक्षस्थले संशयाकारानुमितिः प्रामाणिकी ये- नानुमितिभिनत्वेनापि विशेषणीयम् । यत्र च कोटिद्वयच्याप्यवत्ताज्ञानं तत्रोभय- अप्रामाण्यज्ञानात्संशयो नान्यथा।अगृहीताप्रामाण्यकस्यैव विरोधिज्ञानस्य प्रतिव- न्धकत्वादिति । असिद्धिस्त्वाश्रयासियाद्यन्यतमत्वम् । आश्रयासिद्धिः पक्षे प- क्षतावच्छेदकस्याभावः। यन्न च काञ्चनमयः पर्वतो वह्रिमानिति साध्यते तत्र पर्वतो न काञ्चनमय इति ज्ञाने विद्यमाने काञ्चनमये पर्वते परामर्शप्रतिबन्धः फलम् । स्वरूपासिद्धिस्तु पक्षे व्याप्यत्वाभिमतस्याभावः । तत्र च ह्रदो द्रव्यं धूमादित्यादी पक्षे व्याप्यत्वाभिमतस्य हेतोरभावे ज्ञाते पक्षे साध्यव्याप्यहेतुमत्ताज्ञानरूपस्य परा. मर्शस्य प्रतिबन्धः फलम् । साध्याप्रसिद्धयादयस्तु व्याप्यत्वासिद्धिमध्येऽन्तर्भूताः। साध्ये साध्यतावच्छेदकस्याभावः साध्याप्रसिद्धिः एतज्ज्ञाने जाते काञ्चनमयवतिमा- नित्यादौ साध्यतावच्छेदकविशिष्टसाध्यव्याप्यवत्ताज्ञानरूपपरामर्शप्रतिवन्ध. फल- म्। एव हेतौ हेतुतावच्छेदकाभाव. साधनाप्रसिद्धिः। यथा काञ्चनमयधूमादित्यादी। अन हेतुतावच्छेदकविशिष्टहेतो नाभावात्तद्धेतुकव्याप्तिज्ञानादेरभाव. फलम्। एवं वह्निमान् नीलधूमादित्यादौगुरुतया नीलधूमत्वस्य हेतुतानवच्छेदकत्वमपि व्याप्य- स्वासिद्धिरित्यपिवदन्ति ।बाधस्तु पक्षे साध्याभावादिः। एतस्यानुमितिप्रतिबन्धः फलम् । तद्धर्मिकतदभावनिश्चयो लौकिकसंनिकजन्यदोपविशेपाजन्यतद्धर्मिकत- ज्ज्ञानमात्रे विरोधीतिानतु तत्र संशयसाधारण पक्षे साध्यसंसृष्टत्वज्ञानमनुमितिका- रणं तद्विरोधितया बाधसत्प्रतिपक्षयोर्हेत्वाभासत्वमिति युक्तम् । अग्रसिद्धसाध्य- काजुमित्यनापत्तेः। साध्यसंशयादिकं विनाप्यनुमित्युत्पत्तेश्च । एवं साध्याभावज्ञाने प्रमात्वज्ञानमपि न प्रतिवन्धक प्रमाणाभावाद्वौरवाच । अन्यथा सत्प्रतिपक्षादा- वपि तदभावव्याप्यवत्ताज्ञाने प्रमात्वविषयकत्वेन प्रतिबन्धकतापत्तेः। किंतु भ्रम- त्वज्ञानानास्कन्दितगधादिबुद्धेः प्रतिबन्धकता तत्र भ्रमत्वशङ्काविघटनेन प्रामाण्य- ज्ञानं क्वचिदुपयुज्यते। नच वाधस्थले पक्षे हेतुसत्त्वे व्यभिचारः, पक्षे हेत्वभावे स्व- रूपासिद्धिरेव दोष इति वाच्यं, बाधज्ञानस्य व्यभिचारज्ञानादर्भेदात् । किंच यत्र परामर्शानन्तरं बाधबुद्धिस्तत्र व्यभिचारज्ञानादेरकिंचित्करत्वाद्वाधस्यानुमितिप्रति- वन्धकत्वं वाच्यम् । एवं यत्रोत्पत्तिक्षणावच्छिन्ने घटादौ गन्धव्याप्यपृथिवीत्वव- . A ने १ अनुमितेरपि तत्प्रतिवध्यतावच्छेदकाक्रान्तत्वादिति भाव । २कथत भयव्याप्यवत्तानिश्चयान् प्रात्यक्षिक संशय इत्याशङ्कयन भवत्येव तावद्यावत्तनिश्चये प्रामाण्य न गृह्यत इत्याह-यत्र चेति। ३ परस्परानुमितिप्रतिवन्ध सत्प्रतिपक्षफलमिति मम मते तु न तयो प्रामाण्यग्रहापेक्षा, येन प्रतिबन्धकत्वार्थमपेक्षितेन तेन भवटभिप्रेतं सिध्येटित्यभिप्रेत्याह-अगृहाताप्रामाण्यकस्यैवेति । ४ कस्यचिन्मतं दूपयति-नत्विति इतियुक्तमनेनान्वयि । ५ पूर्वमगृहीतसाध्यविधेयकेत्यर्थ. पृथिवीतरत्वव्याप्याभावप्रतियोगिगन्धवती पृधिवाति व्यतिरोकिपरामर्शजन्यसाध्यविशेषणि- काया पृथिवी इतरमदेवतीत्यनुमितेरमावापत्तरित्यर्थ ।
कारिकावली [ अनुमानख० २ ताज्ञानं तत्र वाधस्यैव प्रतिबन्धकत्वं वाच्यम् । नच पक्षे घटे गन्धसत्वात्कथं वा- ध इति वाच्यं, पक्षतावच्छेदकदेशकालावच्छेदेनानुमित्यनुत्पत्तेरनुभवसिद्धत्वादि. ति । वातद्व्याप्यभिन्ना ये हेत्वाभासास्तद्व्याप्या अपि तन्मध्य एवान्तर्भवन्ति । अन्यथा हेत्वाभासाधिक्यप्रसङ्गात् । बाधव्याप्यसत्प्रतिपक्षो भिन्न एव स्वतन्त्रे- च्छेन मुनिना पृथगुपदेशात् । सत्प्रतिपक्षव्याप्यस्तु न प्रतिबन्धक इति प्रध- हकार्थः ॥ ७१ ॥७२॥ यः सपक्षे विपक्षे च भवेत्साधारणस्तु सः। यः सपक्ष इति । सपक्षविपक्षवृत्तिः साधारण इत्यर्थः । सपक्षो निश्चितसा- ध्यवान् । विपक्षः साध्यवद्भिन्नः । विरुद्धवारणाय सपक्षवृत्तित्वमुक्तम् । वस्तुतो विपक्षवृत्तित्वमेव वाच्यम्, विरुद्धस्य साधारणत्वेऽपि दूपकताबीजस्य भिन्नतया तस्य पार्थक्यात् ॥ यस्तूभयस्माद्यावृत्तः स चासाधारणो मतः॥ ७३ ।। यस्तूभयस्मादिति । सपक्षविपक्षम्यावृत्त इत्यर्थः । सपक्षः साध्यवत्तया नि- श्चितः। विपक्षः साध्यशून्यतया निश्चितः । शब्दोऽनित्यः शब्दत्वादित्यादौ यदा शब्देऽनित्यत्वसंदेहस्तदा सपक्षत्वं घटादीनामेव तद्यावृत्तं च शब्दत्वमिति तदा तदसाधारणम् । यदा तु शब्दे नित्यत्वनिश्चयस्तदा नासाधारणम् । इदं तु प्राची मतम् । नवीनमतं पूर्वमुक्तम् ॥ ७३ ॥ तथैवानुपसंहारी केवलान्वयिपक्षकः। तथैवेति । सर्वमभिधेयं प्रमेयत्वादित्यादौ सर्वस्यैव पक्षत्वात्सामानाधिकर- ण्यग्रहस्थलान्तराभावान्नानुमितिः । इदं तु न सम्यक् । पक्षकदेशे सहचारग्रहेऽपि क्षतेरभावात् । अस्तु वा सहचाराग्रहस्तावताप्यज्ञानरूपासिद्धिरेव न हेत्वाभास- त्वं तस्य तथापि केवलान्वयिसाध्यकत्वं तत्त्वमित्युक्तम् ॥ यः साध्यवति नैवास्ति स विरुद्ध उदाहृतः॥ ७४ ॥ यः साध्यवतीति । एवकारेण साध्यवत्त्वावच्छेदेन हेत्वभावोबोधितः । तथा- च साध्यव्यापकीभूताभावप्रतियोगित्वं तदर्थः ॥ ४ ॥ असिद्धिं विभजते- आश्रयासिद्धिराया स्यात्स्वरूपासिद्धिरण्यथ । व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतस्त्रिधा ॥ ७५ ।। १ साध्याभावव्याप्यव्याप्यवत्ताज्ञानस्य साध्यवत्ताज्ञानविरोधित्व मानाभावादिति भाव । २पक्षेतिभावप्रधानो निर्देशः । तेन आकाशाभावादिपक्षकसद्धती नातिप्रसङ्गः । पक्षता चात्र साध्यसंडायस्पा ग्राह्या । तेन सर्वमभिधेय प्रमेयत्वादित्यादौ यदा सिद्धिः सिपाधीयया च तटा साध्यनिश्चयसंभवेन सामानाधिकरण्यघटितव्याप्तिग्रहसंमवात् तस्य सद्धेतोरलक्ष्यतया सिपाध यिपाविरह विशिष्टसिद्ध्यमावस्य तदा केवलान्वयित्वेऽपि तत्र नातिव्यप्तिः ।
उपमानख०३] सिद्धान्तमुक्तावलीसहिता। - पक्षासिद्धिर्यत्र पक्षो भवेन्मणिमयो गिरिः। हूदो द्रव्यं धूमवत्त्वादत्रासिद्धिरथापरा ॥ ७६ ॥ व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत् । आश्रयासिद्धिरिति पक्षासिद्धिरिति। माश्रयासिद्धिरित्यर्थः । अपरेति। स्वरूपासिद्धिरित्यर्थः । नीलधूमादिक इति । नीलधूमत्वादिकं गुरुतया न हेतुतावच्छेदकं स्वसमानाधिकरणव्याप्यतावच्छेदकधर्मान्तराघटितस्यैव व्याप्य- तावच्छेदकत्वात् । धूमप्रागभावत्वसंग्रहाय स्वसमानाधिकरणेति ॥ विरुद्धयोः परामर्श हेत्वोः सत्प्रतिपक्षता ॥७७॥ विरुद्धयोरिति । कपिसंयोगतदभावव्याप्यवत्तापरामर्शेऽपि न सत्प्रतिपक्षित- स्वमत उक्तम्-विरुद्धयोरिति । तथाच स्वसाध्यविरुद्धसाध्याभावव्याप्यवत्तापरा- मर्शकालीनसाध्यव्याप्यवत्तापरामर्शविषय इत्यर्थः ॥ ७५ ॥ ७६ ॥ ७७ ॥ साध्यशून्यो यत्र पक्षस्त्वसौ बाध उदाहृतः । उत्पत्तिकालीनघटे गन्धादियंत्र साध्यते ॥ ७८॥ साध्यशून्य इति । पक्षः पक्षतावच्छेदकविशिष्ट इत्यर्थः । तेन घटे गन्धसत्त्वे- ऽपि न क्षतिः । एवं मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यत्रापि बोध्यम् ॥ ७८ ॥ इति श्रीविश्वनाथपश्चाननभट्टाचार्यविरचितायां सिद्धान्तमुक्तावल्यामनुमानखण्डम् ॥ उपमिति व्युत्पादयति- ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् । सादृश्यधीवादीनां या स्यात्सा करणं मतम् ॥ ७९ ॥ वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार उच्यते । गवयादिपदानां तु शक्तिधीरुपमाफलम् ॥ ८॥ ग्रामीणस्येति । यत्रारण्यकेन केनचिद्रामीणं प्रत्युक्तं गोसदृशोगवयपदवाच्य इति । पश्चाद्वामीणेन क्वचिदरण्यादौ गवयो दृष्टस्तत्र गोसादृश्यदर्शनं यजातं तदु- पमितिकरणम् । तदनन्तरं गोसदृशोगवयपदवाच्य इत्यतिदेशवाक्यार्थस्मरणं यजा- यते तदेव व्यापारः । तदनन्तरं गवयो गवयपदवाच्य इति ज्ञानं यजायते तदुप- १ स्वपदं व्याप्यतावच्छेदकत्वेनाभिमतपरम् । स्वस्माद्धर्मान्तरत्वं च स्वानवच्छिन्नविषय- तावच्छेदकत्वम् । तेन प्रकृते नीलधूमत्वसमानाधिकरणस्य प्रकृतसाध्यव्याप्यतावच्छेदकस्य धूम- त्वस्य विशिष्टशुद्धयोरैक्येन नीलधूमत्वादभिन्नत्वेपि न क्षति । धूमत्वस्य नीलधूमत्वानवच्छि- नाया धूमवानितिज्ञानीयप्रकारताया अवच्छेदकत्वान्नीलघूमत्वस्य च तद्धटितत्वादिति भावः ।
४६ कारिकावली [शब्दख०४ मितिः । न त्वयं गवयपदवाच्य इत्युपमितिः, गवयान्तरे शक्तिमहाभावप्रसङ्गात् ॥ ७९ ॥ ८.॥ - इति श्रीविश्वनाथपश्चाननभट्टाचार्यविरचितायां सिद्धान्तमुक्तावल्यामुपमानखण्डम् ॥ शाब्दबोधप्रकारं दर्शयति- पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः । शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी ॥ ८१ ॥ पदज्ञानं त्विति । नतु ज्ञायमानं पदं करणं पदाभावेऽपि मौनिश्लोकादौ शाब्दबोधात् । पदार्थधीरिति । पदजन्यपदार्थस्मरणं व्यापारः । अन्यथा पद- ज्ञानवतः प्रत्यक्षादिना पदार्थोपस्थितावपि शाब्दवोधापत्तेः । तत्रापि वृत्या पद- जन्यत्वं बोध्यम् । अन्यथा घटादिपदारसमवायसंबन्धेनाकाशस्मरणे जाते आका- शस्यापि शाब्दबोधापत्तेः । वृत्तिश्च शक्तिलक्षणान्यतरसंवन्धः। अत्रैव शकिज्ञान- स्योपयोगः । पूर्व शक्तिग्रहाभावे पदज्ञानेऽपि तत्संवन्धेन स्मरणानुपपत्तेः । पद- ज्ञानस्य हि एकसंवन्धिज्ञानविधयार्थस्मारक्त्वम् । शक्तिश्च पदेन सह पदार्थस्य संवन्धः । सा चास्माच्छन्दादयमों बोद्धव्य इतीश्वरेच्छारूपा । आधुनिके नानि शक्तिरस्त्येव एकादशेऽहनि पिता नाम कुर्यादितीश्वरेच्छायाः सत्त्वात् । आधुनि- कसंकेतिते तु न शक्तिरिति संप्रदायः । नव्यास्तु ईश्वरेच्छा न शक्तिः किंत्वि- छैच तेनाधुनिकसंकेतितेऽपि शक्तिरस्त्येवेत्याहुः । शक्तिग्रहस्तु व्याकरणादितः । तथाहि-'शक्तिमहं व्याकरणोपमानकोशाप्तवाक्याव्यवहारतश्च । वाक्यस्य शेपा- द्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः ॥ धातुप्रकृतिप्रत्ययादीनां शक्तिग्रहो व्याकरणाद्भवति । कचित्सति बाधके त्यज्यते । यथा वैयाकरणैराख्यातस्य कर्तरि शक्तिरुच्यते । चैत्रः पचतीत्यादौ का सह चैत्रस्याभेदान्वयः। तच्च गौरवात्य- ज्यते किंतु कृतौ शक्तिग्रहो लाघवात् । कृतिश्चैत्रादौ प्रकारीभूय भासते । नच कर्तुरनभिधानाचैत्रादिपदानन्तरं तृतीया स्यादिति वाच्यं, कर्तृसंख्यानभिधानस्य तत्र तत्रत्वात् । संख्यामिधानयोग्यश्च कर्मत्वाधनवरुद्धः प्रथमान्तपदोपस्थाप्यः। कर्मत्वादीत्यस्येतरविशेषणत्वेन तात्पर्याविषयत्वमर्थः । तेन चैत्र इव मैत्रो गच्छती- त्यादौ न चैने संख्यान्वयः । यत्र कर्मादौ न विशेपणत्वेन तात्पर्य तद्वारणाय । १ बोधीयप्रकारतावृत्ति-तात्पर्यायविशेष्यतानिरूपित-निष्ठत्वसंवन्धावच्छिन्न प्रकारतानाश्रय- त्यमित्यर्थ । २ चैन एव पचति चैत्रश्चैत्रं पश्यतीत्यादाववकारार्थेऽन्यस्मिन् कर्मत्वादी च चत्र- स्य विशेपणत्वात् संख्यान्वयानुपपत्त्या विशेपणत्वमाण तात्पर्याविषयत्वं विवक्षणीयम् । इ. त्थच तण्डुलं पचतीत्यादौ यदि विशेपणत्वमुख्यविशेष्यत्वाभ्यां तण्डुलयोघे तात्पर्य तत्र स- ज्यान्वयवारणाय प्रथमान्तयादिरित्यर्थः ।
शब्दखं० ४] सिद्धान्तमुक्तावलीसहिता। प्रथामान्तेति । यहा धात्वर्थातिरिक्ताविशेषणत्वं प्रथमदलार्थः। तेन चैत्र इव मैत्री गच्छत्तीत्यत्र चैत्रादेर्वारणम् । स्तोकं पचतीत्यादौ स्तोकादेवारणाय च द्वितीयदलम् । तस्य द्वितीयान्तोपस्थाप्यत्वाद्वारणमिति । एवं व्यापारेऽपि न शक्तिगौरवात् । र- थो गच्छतीत्यादौ तु व्यापारे आश्रयत्वे वा लक्षणा । जानातीत्यादौ तु आश्रयत्वे नश्यतीत्यादौ प्रतियोगित्वे निरूढलक्षणा । उपमानाद्यथा शक्तिप्रहस्तथोक्तम् । पुर्व कोशादपि शक्तिग्रहः । सति वाधके कचित्यज्यते । यथा नीलादिपदानां नी. लरूपादौ नीलादिविशिष्टे च शक्तिः कोशेने व्युत्पादिता तथापि लाघवानीलादा- वेव शक्तिः । नीलादिरूपविशिष्टे तु लक्षणेति । एवमाप्तवाक्यादपि। यथा कोकि- लः पिकपदवाच्य इत्यादिशब्दापिकादिपदशक्तिग्रहः। एवं व्यवहारादपिायथा प्र- योजकबृद्धन घटमानयेत्युक्तं तच्छ्रुत्वा प्रयोज्यवृद्धन घट आनीतस्तवार्य पार्श्वस्थो बालो घटानयनरूपं कार्य घटमानयेतिशब्दप्रयोज्यमित्यवधारयति । ततश्च घटं नय गामानयेत्यादावावापोद्वापाभ्यां घटादिपदानां कार्यान्वितघटादौ शकिं गृह्णाति । इत्यं च भूतले नीलो घट इत्यादिशब्दान्न शाब्दबोध. । घटादिपदानां कार्यान्वितघटादिबोधे सामर्थ्यावधारणात्कार्यताबोधं प्रति च लिडादीनां सामर्थ्यात्तदभावान्न शाब्दबोध इति केचित् । तन्न । प्रथमतः कार्यान्वित- घटादौ शक्त्यवधारणेऽपि लाघवेन पश्चात्तस्य परित्यागौचित्यात् । अत एव चैत्र पुनस्ते जातः, कन्या ते गर्भिणी जाता इत्यादौ मुखप्रसादमुखमालिन्याभ्यां सुखदुःखे अनुमाय तत्कारणत्वेन परिशेपाच्छाब्दबोधं निर्णीय तहेतुतया तं श- ब्दमवधारयति । तथाच व्यभिचारात्कार्यान्विते न शक्तिः । नच तत्र तं पश्ये- त्यादि शब्दान्तरमध्याहार्य, मानाभावात् । चैत्र पुत्रस्ते जातो मृतथेत्यादौ तद- भावाच । इत्थंच लाघवादन्वितघटेऽपि शक्तिं त्यक्त्वा घटपदस्य घटमाने श- क्तिमवधारयति । एवं वाक्यशेषादपि शकिग्रहः । यथा यवमयश्चर्भवतीत्यत्र यवपदस्य दीर्घशूकविशेपे आर्याणां प्रयोग कगौ च म्लेच्छानाम्, तत्र हि 'भ- थान्या मोषधयो म्लायन्तेऽथैते मोदमाना इवोत्तिष्ठन्ति' इति वाक्यरोपाही शूके शक्तिनिर्णीयते, कगौतु शक्तिनमा प्रयोगो नानाशक्तिकल्पने गौरवात् । ह. योदिपदे तु विनिगमझाभावान्नानाशक्तिकल्पनम् ॥ एवं विवरणादपि शक्तिग्रहः। विवरणं तु तत्समानार्थकपदान्तरेण तदर्थकथनम् । यथा घटोऽस्तीत्यस्य कलशो- ऽस्तीत्यनेन विवरणाइटपदस्य कलशे शक्तिग्रहः। एवं पचतीत्यस्य पाकं करोतीत्यने- १ द्वितीयदलस्य प्रकागन्तरेण फलं वक्तुमन्यथा प्रथमदलार्धमाह-यद्वेति । २रयो गच्छतीत्यत्र गमनानुकूलव्यापारस्य न चोध इति नवीनमतमाश्रित्याह-आत्रयत्वे येति । ३ 'गुणे शुक्लादय' पुंसि गुणिलिद्गास्तु तद्वति' इति कोशेन । ४ 'गुणवचनान्मतुपो लुगिष्ट' इति स्मरणान्मतुपैव विशिष्टार्थयोधसंभवेऽल लक्षणयेत्यपि वदन्ति । ५ साक्षात्परंपरया वा कार्य- त्वान्वितविपयकशादत्वावच्छिन्नं प्रति पटत्वेन कारणतेति कार्यकारणभाव । इयमेव कार्यान्वि- ने पदानामानुभाविकी शक्ति । ६ प्राभाफरा ।
४८ कारिकावली [शब्दख० ४ न विवरणादाख्यातस्य यतार्थकत्वं कल्प्यते ॥ एवं प्रसिद्धपदसांनिध्यादपि शक्ति- ग्रहः । यथा इह सहकारतरौ मधुरं पिको रौतीत्यादौ पिकपदस्य कोकिले शक्ति- ग्रह इति । तत्र जातावेव शतिर्न तु व्यक्तौ व्यभिचारादानन्त्याञ्च । व्यक्तिं विना च जातिभानस्यासंभवाव्यक्तरपि भानमिति केचित् । तन्न । शक्ति विना व्यक्ति- भानानुपपत्तेः । नच व्यक्तौ लक्षणा, अनुपपत्तिप्रतिसन्धान विनापि व्यक्तिबोधा. त् । नच व्यक्तिशक्तावानन्त्यं, सकलव्यक्तावकस्या एव शक्तः स्वीकारात् । न चा- नगमः, गोत्वादेरेवानुममकत्वात् । किंच गौः शक्येति शक्तिग्रहो यदि तदा व्यक्तौ शक्तिः । यदि तु गोत्वं शक्यमिति शक्तिग्रहस्तदा गोत्वप्रकारकपदार्थस्मर- णं शाब्दबोधश्च न स्यात् । समानप्रकारकत्वेन शक्तिज्ञानस्य पदार्थसरणं शाब्द- बोधं प्रति च हेतुत्वात् । किंच गोत्वे यदि शक्तिस्तदा गोत्वत्वं शक्यतावच्छेदक वाच्यम् । गोत्वत्वं तु गवेतरासमवेतत्वे सति सकलगोसमवेतत्वम् । तथाच गो- व्यक्तीनां शक्यतावच्छेदकेऽनुप्रवेशात्तवैव गौरवम् । तसात्तत्तजात्याकृतिविशि- एतत्तव्यक्तिबोधानुपपत्त्या कल्प्यमाना शक्तिर्जात्याकृतिविशिष्टव्यक्तौ विश्राम्यती- ति । शक्तं पदं, तच्चतुर्विधम् , क्वचिद्यौगिक कचिद्रूढं वचिद्योगरूढं कचिद्यौगि- करूढम् । तथाहि-यत्रावयवार्थ एव बुध्यते तद्यौगिकम् । यथा पाचकादिपदम्। यत्रावयवशक्तिनैरपेक्ष्येण समुदायशक्तिमात्रेण बुध्यते तद्रूढम् । यथा गोमण्डला- दिपदम् । यत्र तु अवयवशक्तिविपये समुदायशक्तिरप्यस्ति तद्योगरूढम् । यथा पकजादिपदम्। तथाहि-पङ्कजपदमवयवशत्तया पङ्कजनिकर्तृत्वरूपमर्थ बोधयति। समुदायशतया च पद्मत्वेन रूपेण पनं बोधयति । नच केवलयाऽवयवशत्या कुमुदे प्रयोगः स्यादिति वाच्यं, रूढिज्ञानस्य केवलयौगिकार्थज्ञाने प्रतिबन्धकत्वा- दिति प्राञ्चः। वस्तुतस्तु, समुदायशक्त्युपस्थितपद्मेऽवयवार्थपकजनिकर्तुरन्वयो भ- वति सांनिध्यात् । यत्र तु रूढ्यर्थस्य वाधः प्रतिसंधीयते तत्र लक्षणया कुमुदा- देोधः । यत्र तु कुमुदत्वेन रूपेण बोधे न तात्पर्यज्ञानं पद्मत्वस्य च बाधस्तत्राव- यवशक्तिमात्रेण निर्वाह इत्याहुः । यत्र तु स्थलपद्मादाववयवार्थबाधस्तत्र समुदा- यशक्त्या च पद्मत्वेन रूपेण वोधः । यदि तु स्थलपङ्कजं विजातीयमेव तदा लक्ष- णयैवेति । यत्र तु यौगिकाथरूट्यर्थयोः स्वातन्त्र्येण बोधस्तद्यौगिकरूढम् । । १ आख्यातं यनत्वविशिष्टे शक्त, यत्नत्वविदिशष्टशक्तकरोतिपदप्रतिपादितार्थप्रतिपादकत्या- दित्यनुमानेनेत्यर्थ । २ प्रसिद्धार्थकपदस्येत्यर्थः । ३ यस्यां कस्याचिद्यक्तौ शक्तिः सर्वामु वेति विकरप्य क्रमेण टोपावाह-व्यभिचाराटानन्त्याचेति । तत्र व्यभिचारस्त्वगृहीतगक्तिकन्यक्तायपि शाब्दबोधोदयादानन्यं च व्यक्तिमेदप्रयुक्त्येति बोध्यम् । ४ गोव्यक्तीनामननुगततया विषयना- संवन्धेन शक्तिज्ञाननिष्ठकारणतायामवच्छेदकत्वासंभव इत्यर्थ ।५ स्ट्यर्थतावच्छेदकायच्छिन्नवि- शेप्यत्वानिरूपितयौगिकार्यनिष्ठविपयताकज्ञाने इत्यर्थः । ६ रूख्यर्थस्य संनिहितोपस्थितिकत्वा- दित्यर्थः । ७ रूट्यर्थस्य वाघ इति तु रूढार्थयोगार्थयोः परस्परान्वयबोधसामग्रीविरहस्योपलक्ष- पम् । ८ कुमुदत्वेन च बोधे तात्पर्यज्ञानमिति पूरणीयम् ।
- शब्दख० ४] सिद्धान्तमुक्तावलीसहिता। ४९ यथोगिदादिपदम् । तत्र हि उद्भेदनकर्ता तरुगुल्मादिरपि बुध्यते यागवि- शेपोऽपीति ॥ ८१ ॥ लक्षणा शक्यसंवन्धस्तात्पर्यानुपपत्तितः। लक्षणेति । गङ्गायां घोप इत्यादी गङ्गापदस्य शक्याथै प्रवाहरूपे घोपल्यान्व- यानुपपत्तिस्तात्पर्यानुपपत्तिा यत्र प्रतिसंधीयते तत्र लक्षणया तीरस्य बोध इति । साच शक्यसंबन्धरूपा। तथाहि-प्रवाहरूपशक्यार्थसंवन्धस्य तीरे गृहीतत्वात्तीरस्य सरणम्।ततः शाब्दबोधः।परंतु यद्यन्वयानुपपत्तिलक्षणावीजं स्यात्तदा यष्टी. प्रवे- शयेत्यन्न लक्षणा न स्याद्यष्टिपुप्रवेशान्वयस्यानुपपत्तेरभावात् । तेन यष्टिप्रवेशे भोज- नतात्पर्यानुपपत्त्या यष्टिधरेपुलक्षणा। एवं काकेभ्यो दधि रक्ष्यतामित्यादौ काकपदस्य दध्युपघातके लक्षणा सर्वतो दधिरक्षायास्तात्पर्यविपयत्वात् । एवं छत्रिणो यान्ती- त्यादौ छत्रिपदस्यैकसार्थवाहित्वे लक्षणा। इयमेवाजहत्स्वार्था लक्षणेत्युच्यते। एकसा- थवाहित्वेन रूपेण छत्रितदन्ययोर्वाधात् । यदिचान्वयानुपपत्तिलक्षणावीजं स्यात्त- दावचिद्गगापदस्य तीरे कचिद्रोपपदस्य मत्स्यादी लक्षणेति नियमो न स्यात् । इदं तु बोध्यम् । शक्याथसंबन्धो यदि तीरत्वेन रूपेण गृहीतस्तदातीरत्वेन तीरवोधः। यदि तु गङ्गातीरत्वेन रूपेण गृहीतस्तदा तेनैव रूपेण स्मरणम् ।भत एव लक्ष्यता- वच्छेदके न लक्षणा तत्प्रकारकबोधस्य तत्र लक्षणां विनाप्युपपत्तेः। परंतु एवं क्र- मेण शक्यतावच्छेदकेऽपि शक्तिर्न स्यात्तत्प्रकारकाक्यार्थस्मरणं प्रति तत्पदस्यसा- मर्थ्यमित्यस्य सुवचत्वादिति विभावनीयम् । यत्र तु शक्यार्थस्य परंपरासंबंन्धरूपा लक्षणा सा लक्षितलक्षणेत्युच्यते । यथा द्विरेफादिपदे । रेफद्वयसंवन्धो अमरपदे ज्ञायते नमरपदस्य च संबन्धो भ्रमरे ज्ञायते इति तत्र लक्षितलक्षणा । किंतु लाक्षणिकं पदं नानुभावकम् । लाक्षणिकार्थस्य शान्दबोधे तु पदान्तरं कारणम् । शक्तिलक्षणान्यतरसंबन्धेनेतरपदार्थान्वितस्वशक्यार्थशाब्दबोधं प्रति पदानां सा. मर्थ्यावधारणात् । वाक्ये तु शक्तेरभावाच्छक्यसंबन्धरूपा लक्षणापि नास्ति । यत्र गभीरायां नद्यां घोप इत्युक्तं तत्र नदीपदस्य नदीतीरे लक्षणा । गभीरपदार्थस्य नद्या सहाभेदेनान्वयः, क्वचिदेकदेशान्वयस्यापि स्वीकृतत्वात् । यदि तत्रैकदेशा- न्वयोऽपि न स्वीक्रियते तदा नदीपदस्य गभीरनदीतीरे लक्षणा । गभीरपदं तात्प- यग्राहकम् ॥ बहुव्रीहावप्येवम्, तत्र हि चित्रगुपदादौ यद्येकदेशान्वयःस्वीक्रियते तदा गोपदस्य गोस्वामिनि लक्षणा गवि चित्राभेदान्त्रयः। यदि त्देकदेशान्वयो न स्वीक्रियते तदा गोपदस्य चित्रगोमति लक्षणा चित्रपदं तात्पर्यग्राहकम् । एव- मारूढवानरो वृक्ष इत्यत्र वानरपदे वानरारोहणकर्मणि लक्षणा । आरूढपदंतात्प- र्यग्राहकम् । एवमन्यत्रापि बोध्यम् । तत्पुरुपे तु पूर्वपदे लक्षणा । तथाहि-रा. १ लक्षितलक्षणाया आधिक्यमाशङ्कय जहत्स्वार्थायामन्तर्भावमाह-योति । २ स्ववाच्य- रेफद्वयघटितपदवाच्यत्वादिरूपेत्यर्थः ।
- कारिकावली [शब्दख०४ जपुरुष इत्यादौ राजपदार्थेन पुरुषपदार्थस्य साक्षान्नान्वयो निपातातिरिक्तनामार्थ- यो देनान्वयवोधस्याव्युत्पन्नत्वात् । अन्यथा राजा पुरुप इत्यत्रापि तथान्वयबोधः स्यात् । घटो न पट इत्यादौ घटपटाभ्यां नमः साक्षादेवान्वयान्निपातातिरिक्तेति। नीलो घट इत्यादौ नामार्थयोरभेदसंबन्धेनान्वयानेदेनेति । नच राजपुरुष इत्यादौ लुप्तविभक्तेः स्मरणं कल्प्यमिति वाच्यम्, अस्मृतविभक्तेरपि ततो बोधोदयात् । तस्माद्राजपदादौ राजसंबन्धिनि लक्षणा। तस्य पुरुषेण सहाभेदान्वयः। द्वन्द्वे तु, धवखदिरौ छिन्धीत्यादौ धवः खदिरश्च विभक्त्यर्थद्वित्वप्रकारेण बुध्यते, तत्र नल- क्षणा। नच साहित्ये लक्षणेति वाच्य, साहित्यशून्ययोरपि द्वन्द्वदर्शनात् । न चैक- क्रियान्वयित्वरूपं साहित्यमस्तीति वाच्यं, क्रियाभेदेऽपि धवखदिरौ पश्य छिन्धी. त्यादौ तदर्शनात्साहित्यस्याननुभवाच्च। अत एव राजपुरोहितौ सायुज्यकामौ यजे- यातामित्यत्र लक्षणाभावाद्वन्द्व आश्रीयते। तस्मात्साहित्यं नार्थः, किंतु वास्तवभेदो यत्र तत्र द्वन्द्वः । नच नीलघटयोरभेद इत्यादौ कथमिति वाच्यं, तत्र नीलपदस्य नीलत्वे घटपदस्य घटत्वे लक्षणा। अभेद इत्यस्य चाश्रयभेद इत्यर्थात् । समाहारद्व- न्द्वे तु यदि समाहारोऽप्यनुभूयत इत्युच्यते तदाऽहिनकुलमित्यादौ परपदेऽहिनकु- लसमाहारे लक्षणा । पूर्वपदं तु तात्पर्यग्राहकम् । नच भेरीमृदगं वादयेत्यत्र कथं समाहारस्यान्वयस्तस्यापेक्षाबुद्धिविशेषरूपस्य वादनासंभवादिति वाच्यं, परंपरा- संबन्धेन तदन्वयात् । एवं पञ्चमूलीत्यादावपि । परे तु महिनकुलमित्यादौ अहि. नकुलश्च बुध्यते प्रत्येकमेकत्वान्वयः । समाहारसंज्ञा च यत्रैकत्वं नपुंसकत्वं 'द्वन्द्वश्च प्राणितूर्य' इत्यादिसूत्रेणोकं तत्रैव, अन्यत्रैकवचनमसाध्वित्याहुः। पितरौ श्वशुरावि- त्यादी पितृपदे जनकदम्पत्योः श्वशुरपदे स्त्रीजनकदम्पत्योर्लक्षणा । एवमन्यत्रापि । घटा इत्यादौ न लक्षणा घटत्वेन रूपेण नानाघटोपस्थितिसंभवात् । कर्मधारयस्थले तु, नीलोत्पलमित्यादावभेदसंबन्धेन नीलपदार्थ उत्पलपदार्थे प्रकारः । तन न ल- क्षणा । अत एव निपादस्थपति याजयेदित्यत्र न तत्पुरुपो लक्षणापत्तेः । किंतु कर्म- धारयो लक्षणाभावात् । नच निपादस्य संकरजातिविशेपस्य वेदानधिकाराद्याज- नासंभव इति वाच्यं, निपादस्य विद्याप्रयुक्तेस्तत एव कल्पनीयत्वात् । लाघवेन मुख्यार्थस्यान्वये तदनुपपत्त्या कल्पनायाः फलमुखगौरवतयाऽदोपत्वादिति । उप- मुम्भमर्धपिप्पलीत्यादौ परपदे तत्संबन्धिनि लक्षणा पूर्वपदार्थप्रधानतया चान्वय- बोध इति । इत्थंच समासे न कापि शक्तिः पदशक्त्यैव निर्वाहादिति ॥ १ आकाशावित्या प्रामाण्यवारणाय सुपामुद्देश्यतावच्छेदकव्याप्यसंख्यावोधकत्वं करप्यते। इत्थंच घवत्यस्य सदिरत्वस्य वा न प्रत्येकमुद्देश्यतावच्छेदकत्व संभवति, धवद्वयस्य सदिरद्व- यस्य च चोघापत्ते । अतो धवखदिरसाहित्याश्रये लक्षणाभ्युपेया। एवं चोद्देश्यतावच्छेदकसा- हित्यन्याप्यत्व न धवस्यवर्तिन खदिरद्वयवर्तिनो या द्वित्वस्येति मीमासकमतमाशङ्कते-नच साहित्येति । • सहवृत्तित्वरूप साहित्य लक्ष्यमुतैकक्रियान्वयित्वमिति विकरप्याद्य दूपयति-सा- हित्यशन्ययोग्पीति । ३ स्वरूपत सत्वेऽप्येकक्रियान्वयित्वस्य शाब्दबोधाविपयत्वादित्यर्थः ।
शब्दखं० ४] सिद्धान्तमुक्तावलीसहिता। ५१ आसत्तिर्योग्यताकाडातात्पर्यज्ञानमिप्यते ॥ ८२ ॥ कारणं संनिधानं तु पदस्यासत्तिरुच्यते । आसत्तिरिति आसत्तिज्ञानं योग्यताज्ञानमाकाद्धाज्ञानं तात्पर्यज्ञानं च शाब्द. बोधे कारणम् । तत्रासत्तिपदार्थमाह-संनिधानं त्विति । यत्पदार्थेन यत्पनार्थ- स्यान्वयोऽपेक्षितस्तयोरव्यवधानेनोपस्थितिः शाब्दबोधे कारणम् । तेन गिरिभुक्तम- ग्निमान्देवदत्तनेत्यादौ न शाब्दवोधः । नीलो घटो द्रुव्यं पट इत्यादावासत्तिभ्रमा- च्छाब्दबोधः। आसत्तिभ्रमाच्छाब्दभ्रमाभावेऽपि न क्षतिः। ननु यत्र छत्री कुण्डली वासस्वी देवदत्त इत्याद्युक्तं तत्रोत्तरपदस्मरणेन पूर्वपदस्मरणस्य नाशादव्यवधाने- न तदुत्तरपदस्मरणासंभव इति चेत् । न।प्रत्येकपदानुभवजन्यसंस्कारैश्चरमस्य ता- वत्पदविषयकसरणस्याव्यवधानेनोत्पत्तेः। नानासंनिकरेकप्रत्यक्षस्येव नानासंस्कार- रेकस्मरणोत्पत्तेरपि संभवात् । तावत्पदसंस्कारसहितचरमवर्णज्ञानस्योद्बोधकत्वात्। कथमन्यथा नानावणैरेकपदस्मरणम् । परंतु तावत्पदार्थानां स्मरणादेकदेव खले कपोतन्यायेनं तावत्पदार्थानां क्रियाकर्मभावेनान्वयरूपः शाब्दबोधो भवतीति केचित् । 'वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत्पतन्ति । तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति।' परेतु 'यद्यदाकासितं योग्यं संनिधान प्रपद्यते। तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते॥' तथाच खण्डवाक्यार्थबोधानन्तरं तथैव पदार्थस्मृत्या महावाक्यार्थबोध इत्यप्याहुः । एतेन तावद्वर्णाभिव्यगयः पद- स्फोटोऽपि निरस्तः । तत्तद्वर्णसंस्कारसहितचरमवर्णोपलम्भेन तव्यजकैनैवोपपत्ते- रिति । इदंतु बोध्यम् । यत्र द्वारमित्युक्तं तत्र पिधेहीत्यादिपदस्य ज्ञानादेव बोधो न तु पिधानादिरूपार्थज्ञानात् । पदजन्यतत्तत्पदार्थोपस्थितेस्तत्तच्छाब्दबोधे हेतुत्वात् । किच क्रियाकर्मपदानां तेन तेनैव रूपेणाकासितत्वात् । तेन क्रियापदं विना कथं शाब्दबोधः स्यात् । तथा पुप्पेभ्य इत्यादौ स्पृहयतीत्यादिपदाध्याहार विना चतुर्थ्यनुपपत्तेः पदाध्याहार आवश्यक. ॥ योग्यतां निर्वक्ति-पदार्थ इत्यादिना । पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता॥ ८३ ॥ एकपदार्थेऽपरपदार्थसंबन्धो योग्यतेत्यर्थः तज्ज्ञानाभावाच्च वह्निना सिञ्चतीत्यादी १ अव्यवधानमासत्ति , तदुपस्थिति कारणमित्यर्थः । एतादृशयत्तत्पदगर्भासत्तिनियंच- नेन । ३ पटे नीलान्वयतात्पर्यकत्यादि। ४ आसत्तिभ्रमाच्छाब्दभ्रम इति प्राचा प्रवादो नियु. क्तिस्वादश्रद्धेय इति भावः । ५ स्वार्थाकाहित स्वार्थयोग्य यत्सनिधान प्रपद्यते स्वार्थीपस्थिति विपयो भवति तेन तेनैवान्वित स्वार्थ पटै प्रयममनुभाव्यतेऽनतरं च महावाक्यार्धवोध इत्यर्थ । एवंच पूर्वोक्तसमूहालम्बनात्मकं पदार्थस्मरणं विनापि निर्वाह इति भाव । एतन्मते पटजन्यपदार्थस्मृतित्वेन न शान्दचोघहेतुत्वमपितु शाब्दवोधसाधारणपदजन्यपदाधापस्थितित्वे. नैव । तेन चरमपदार्थस्मृतिकाले घटाढिपदार्थस्मृतेन शेपि न शाब्दवोधानुपपत्ति । 17 ५२ कारिकावली। [शब्दख०४ - न शाब्दबोधः। नन्वेतस्या योग्यताया ज्ञानं शाब्दबोधात्यासर्वत्र न संभ- वति वाक्यार्थस्यापूर्वत्वादिति चेत्। न ।तत्तत्पदार्थसरणे सति कचिरसंशयरूपस्य क्वचिन्निश्चयरूपस्यापि योग्यताया ज्ञानस्य संभवात् । नव्यास्तु, योग्यताज्ञानं न शाब्दज्ञानकारणम्। वह्निना सिञ्चतीत्यादौ सेके वहिकरणत्वाभावरूपायोग्यतानिश्च- येन प्रतिबन्धान शाब्दबोध । तदभावनिश्चयस्य लौकिकसंनिकजन्यदोपविशेपा- जन्यतझानमात्रे प्रतिबन्धकत्वाच्छाब्दबोधं प्रत्यपि प्रतिवन्धकत्वं सिद्धम् । योग्य- ताज्ञानविलम्बाच्च शाब्दवोधविलम्बोऽसिद्ध इति वदन्ति ॥ ८२ ॥ ३ ॥ आकाङ्क्षां निर्वक्ति- यत्पदेन विना यस्याननुभावकता भवेत् । आकाङ्क्षा वक्तुरिच्छा तु तात्पर्य परिकीर्तितम् ॥ ८४॥ यत्पदेनेति । येन पदेन विना यत्पदस्यान्वयाननुभावकत्वं तेन पदेन सह त- स्याकाङ्केत्यर्थः। क्रियापदं विना कारकपदं नान्वयबोधं जनयतीति तेन तस्याकाङ्क्षा। वस्तुतस्तु क्रियाकारकपदानां संनिधानमासत्या चरितार्थम् । परंतु घटकर्मतायो- धं प्रति घटपदोत्तरद्वितीयारूपाकाङ्क्षाज्ञानं कारणम् । तेन घटः कर्मत्वमानयनं कृतिरित्यादौ न शाब्दवोधः । अयमेति पुत्रो राज्ञः पुरुपोऽपसार्यतामित्यादौ तु पुत्रेण सह राजपदस्य तात्पर्यग्रहसत्त्वात्तेनैवान्वयवोधः । पुरुपेण सह तात्पर्यग्रहे तु तेन सहान्वयवोधः स्यादेव ॥ तात्पर्य निर्वक्ति-वक्तुरिच्छेति । यदि तात्प. यज्ञानं कारणं न स्यात्तदा सैन्धवमानयेत्यादौ क्वचिदश्वस्य कचिल्लवणस्य बोध इति न स्यात् । नच तात्पर्यग्राहकप्रकरणादीनां शाब्दबोधे कारणत्वमस्त्विति वाच्यं, तेपामननुगमात् । तात्पर्यज्ञानजनकत्वेन तेपामनुगमे तु तात्पर्यज्ञानमेव लाघवात्कारणमस्तु । इत्थं च वेदस्थलेऽपि तात्पर्यज्ञानार्थमीश्वरः कल्प्यते । नच तत्राध्यापकतात्पर्यज्ञानं कारणमिति वाच्यं, सर्गादावध्यापकाभावात् । नच प्रल- य एवं नास्तीति कुतः सर्गादिरिति वाच्यं, प्रेलयस्यागमेपु प्रतिपाद्यत्वात् । इत्थं च शुकवाक्येऽपीश्वरीयतात्पर्यज्ञानं कारणम् । विसंवादिशुकवाक्ये तु शिक्षयितुरे- व तात्पर्यज्ञानं कारणम् । अन्ये तु नानार्थादौ कचिदेव तात्पर्यज्ञानं कारणम् । तथाच शुकवाक्ये विनैव तात्पर्यज्ञानं शाब्दवोधः । वेदे त्वनादिमीमांसापरिशो- धिततकरावधारणमित्याहुः ॥ ८४ ॥ इति श्रीविश्वनाथपञ्चाननभट्टाचार्यविरचितायां सिद्धान्तमुक्तावल्यां शब्दखण्ड समाप्तम् । : १ कार्यद्रव्यानधिकरणकालविशेपात्मकस्य प्रलयस्य 'नाहो न रात्रिन नमो न भूमि सीत- मो ज्योतिरभून चान्यत्' इत्यादिप्वागवित्यर्थः। २ मीमांसा लाघवज्ञानात्मकस्तर्कतेन ए. रिशोधितैः सहकृतस्तरनुमानरित्यर्थः।
मनोनिरू.] सिद्धान्तमुक्तावलीसहिता। पूर्वमनुभवसरणभेदादुद्धेद्वैविध्यमुक्तम् । तत्रानुभवप्रकारा दर्शिताः । सुगम- तया सरणं न दर्शितम् । तत्र हि पूर्वानुभवः कारणम् । अत्र केचित् । अनुभव- त्वेन न कारणत्वं किंतु ज्ञानत्वेनैव । अन्यथा सरणानन्तरं सरणं न स्यात्समानप्र- कारकस्मरणेन पूर्वसंस्कारस्य विनष्टत्वात् । मन्मते तु तेनैव स्मरणेन संस्कारान्तर- द्वारा स्मरणान्तरं जन्यत इत्याहुः। तन्न । यत्र समूहालम्बनोत्तरं घटपटादीनां क्रमे- ण स्मरणमजनिष्ट सकलविषयकस्मरणं तु नाभूत्तत्र फलस्य संस्कारनाशकत्वाभा- वात्कालस्य रोगस्य वा चरमफलस्य वा संस्कारनाशकत्वं वाच्यम् । तथाच न क्रमिकस्मरणानुपपत्तिः । नच पुनःपुनः स्मरणाद् दृढतरसंस्कारानुपपत्तिरिति वाच्यं, झटित्युद्वोधकसमवधानस्य दाढ्यपदार्थत्वात् । नच विनिगमनाविरहादेव ज्ञानत्वेनापि जनकत्वं स्यादिति वाच्यं, विशेषधर्मेण व्यभिचाराज्ञाने सामान्यधर्म- णान्यथासिद्धत्वात् । कथमन्यथा दण्डस्य अमिद्वारा द्रव्यत्वेन रूपेण न कारणत्व- मनचान्तरालिकस्मरणानां संस्कारनाशकत्वसंशयान्यभिचारसंशय इति वाच्यम्। अनन्तसंस्कारतन्नाशकल्पनापेक्षया चरमस्मरणस्यैव लाघवात्संस्कारनाशकत्वक- ल्पनेन व्यभिचारसशयाभावात् ॥ इति स्मृतिप्रक्रिया ॥ इदानी क्रमप्राप्तं मनो निरूपयितुमाह- साक्षात्कारे सुखादीनां करणं मन उच्यते । अयोगपद्याज्ज्ञानानां तस्याणुत्वमिहेष्यते ॥ ८५॥ साक्षात्कार इति । एतेन मनसि प्रमाणं दर्शितम् । तथाहि-सुखसाक्षा- कारः सकरणका, जन्यसाक्षात्कारस्वात् चाक्षुपसाक्षात्कारवत् । इत्यनुमानेन मन- सः करणत्वसिद्धिः । नचैवंदुःखादिसाक्षात्काराणामपि करणान्तराणि स्युरिति वा च्य,लाघवादेकस्यैव तादृशसकलसाक्षात्कारकरणतया सिद्धेः। एवं सुखादीनामसम- वायिकारणसंयोगाश्रयतया मनसः सिद्धिर्वोद्धव्या। तत्रमनसोऽणुत्वेप्रमाणमाह- अयोगपद्यादिति । ज्ञानानां चाक्षुषरासनादीनामयोगपचमेककालोत्पत्ति- नास्तीत्यनुभवसिद्धम् । तत्र ज्ञानेन्द्रियाणां सत्यपि विपयसंनिधाने यत्संबन्धादे- केनेन्द्रियेण ज्ञानमुत्पद्यते यदसंबन्धाच्च परैर्ज्ञानं नोत्पद्यते तन्मनसो विभुत्वे चासंनिधानं न संभवतीति न विभु मनः । नच तदानीमदृष्टविशेपोरोधकविल- म्बादेव तज्ज्ञानविलम्ब इति वाच्यं, तथा सति चक्षुरादीनामप्यकल्पनापत्तेः । नच दीर्घशष्कुलीभक्षणादौ नानावधानभाजां च कथमेकदाऽनेकेन्द्रियजन्यज्ञान- मिति वाच्यं, मनसोऽतिलाघवात्त्वरया ज्ञानेन्द्रियसंबन्धानानाज्ञानोत्पत्तेः। उत्पल- - १ चरमफले वैजायं कल्पयित्वा तेन रूपेण नाशकत्वं वाध्यमित्यर्थः । २ नन्वति. लाघवात्त्वगिन्द्रियस्य प्राणस्य वा करणत्वमस्त्वत आह-एवमिति । ३ भावकार्यस्यासमवा. यिकारणकत्वादित्यर्थः । ४ ततू असंनिधानं मनसो विभुत्वेन संभवतीति योजना।
कारिकावली [गुणनिरू. . - शतपत्रभेदादिव योगपद्यप्रत्ययस्य भ्रान्तत्वात् । नच मनसःसंकोचविकाशशालि- स्वादुभयोपपत्तिरस्त्विति वाच्यं,नानावयवतन्नाशादिकल्पने गौरवालाघवानिरवय- वस्याणुरूपस्यैव मनसः कल्पनादिति संक्षेपः ॥ ८५॥ इति द्रव्यपदार्थो व्याख्यातः॥ द्रव्यं निरूप्य गुणान्निरूपयति- अथेत्यादिना । अथ द्रव्याश्रिता ज्ञेया निर्गुणा निष्क्रिया गुणाः। गुणत्वजातौ किं मानमिति चेत्, द्वैव्यकर्मभिन्ने सामान्यवति या कारणता सा किंचिद्धर्मावच्छिन्ना निरवच्छिन्नकारणताया असंभवात् । नहि रूपत्वादिकं स- त्ता वा तत्रावच्छेदिका न्यूनाधिकदेशवृत्तित्वात् । अतश्चतुर्विशत्यनुगतं किंचिद्वा- च्यं तदेव गुणत्वमिति । द्रव्याथिता इति । यद्यपि द्रव्याश्रितत्वं न लक्षणं कर्मादावतिव्याप्तस्तथापि द्रव्यत्वव्यापकतावच्छेदकसत्ताभिन्नजातिमत्त्वं त- दर्थः । भवति हि गुणत्वं द्रव्यत्वव्यापकतावच्छेदकं तद्वत्ता च गुणानामिति । द- व्यत्वं कर्मत्वं वा न व्यत्वव्यापकतावच्छेदकं गगनादौ द्रव्यकर्मणोरभावात् । द्र- व्यत्वत्वं सामान्यत्वादिकं वा न जातिरिति तयुदासः । निर्गुणा इति । यद्यपि निर्गुणत्वं कर्मादावपि तथापि सामान्यवत्त्वे सति कर्मान्यत्वे च सति निर्गुणत्वं वोध्यम् । जात्यादीनां न सामान्यवत्त्वं कर्मणो न कर्मान्यत्वं द्रव्यस्य न निर्गुण- त्वमिति तत्र नातिव्याप्तिः । निष्क्रिया इति स्वरूपकथनं न तु लक्षणं गगनादाव- तिव्याप्तः ॥ रूपं रसः स्पर्शगन्धौ परत्वमपरत्वकम् ॥ ८६ ॥ द्रवत्वस्नेहवेगाश्च मता मूर्तगुणा अमी। वेगा इति । वेगेन स्थितिस्थापकोऽप्युपलक्षणीयः। मूर्तगुणा इति । अमूर्तेपु न वर्तन्त इत्यर्थः । लक्षणं तु तावदन्यान्यत्वम् । एवमग्रेऽपि ।। धर्माधौं भावना च शब्दो वुद्धयादयोऽपिच ॥ ८७ ॥ एतेऽमूर्तगुणाः सर्वे विद्वद्भिः परिकीर्तिताः । अमूर्तगुणा इति । मूर्तेपु न वर्तन्त इत्यर्थः । संख्यादयो विभागान्ता उभयेपां गुणा मताः ॥ ८८ ॥ उभयेषामिति । मूर्तीमूर्तगुणा इत्यर्थः ॥ ८६ ॥ ८७ ॥ ८८ ॥ १ अव्यवहितकालोत्पत्तिकत्वस्य दोपत्यादित्यर्थः । २ मनस. संकोचे एकेन्द्रियमात्रसंवन्धा- देकमेव ज्ञानं विकाशे तु नानेन्द्रियः संबन्धायुगपन्नानाज्ञानानामुत्पत्तिरिति भावः । ३ यद्यपि गुणत्यजाती प्रत्यक्षमेव प्रमाण रूपादिपु संयुक्तसमवेतसमवायेन गुणत्वप्रत्यक्षत्वसंभवात् , तथाप्यतीन्द्रियरूपादी तत्प्रत्यक्षासंभवेन तत्साधारण्यं गुणत्वस्य न घटत इत्यनुमानप्रदानम् । रूपादावप्यापामरसाधारण-गुण' इति प्रत्यक्षासिद्धेश्चत्यपि योध्यम् । ४ चकारेणानुक्त- समुच्चायकेन गुरुत्यस्य संग्रहः । - गुणनिरू.] सिद्धान्तमुक्तावलीसहिता। संयोगश्च विभागश्च संख्या द्वित्वादिकास्तथा । द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता गुणाः ॥ ८९ ।। अनेकाश्रिता इति । संयोगविभागद्वित्वादीनि द्विवृत्तीनि । त्रित्वचतुष्टवादिक निचतुरादिवृत्तीति बोध्यम् ॥ ८९॥ अतः शेषगुणाः सर्वे मता एकैकवृत्तयः। अत इति । रूपरसगन्धस्पर्शकत्वपरिमाणकपृथक्त्वपरत्वापरत्वबुद्धिसुखदुःखे- च्छाद्वेषप्रयतगुरुत्वद्वत्वनेहसंस्कारादृष्टशब्दा इत्यर्थः ।। बुद्ध्यादिषटुं स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः॥९॥ अदृष्टभावनाशब्दा अमी वैशेषिका गुणाः। बुयादीति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्ना इत्यर्थः । स्पर्शान्ता. रूपरसगन्ध- स्पर्शा इत्यर्थः । द्रवो द्रवत्वम् । वैशेपिकाः विशेषा एवं वैशेपिकाः। स्वार्थे उछ। विशेगुणा इत्यर्थः ॥ संख्यादिरपरत्वान्तो द्रवोऽसांसिद्धिकस्तथा ॥ ९१ ॥ गुरुत्ववेगौ सामान्यगुणा एते प्रकीर्तिताः। संख्येति । संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वानीत्यर्थः ।। संख्यादिरपरत्वान्तो द्रवत्वं स्नेह एव च ॥ ९२ ॥ एते तु द्वीन्द्रियग्राह्याः द्वीन्द्रियेति । चक्षुपा त्वचापि ग्रहणयोग्यत्वात् । अथ स्पर्शान्तशब्दकाः। बायैकैकेन्द्रियग्राह्याः वाोति । रूपादीनां चक्षुरादिग्राह्यत्वात् । गुणत्वादृष्टभावनाः॥९३॥ अतीन्द्रिया विभूनां तु ये स्युर्वैशेषिका गुणाः । अकारणगुणोत्पन्ना एते तु परिकीर्तिताः ॥ ९४ ॥ १ स्वाश्रयान्योन्याभावव्यापकात्यन्ताभावप्रतियोगिन इत्यर्थः। २ विशेषगुणत्व च भावना. न्योयो वायुपृत्तिवृत्तिपावृत्तिधर्मसमवायी तदन्यत्वे सति गुरुत्वाजलद्रवत्वान्यगुणत्वम् । अ. प्रजात्यादावतिव्याप्तिवारणाय विशेप्यम् । गुरुत्वनैमित्तिकद्रवत्वयोरणाय गुरुत्वेत्यादि । सासिद्धिकद्रवत्वसंग्रहाय अजलेति । संयोगादिवारणाय सत्यन्तम् । भावनायामच्याप्तिवारणाया- पमन्यान्तं सत्यन्तघटकसमवायिविशेषणम् । सत्तादिकमादायासंभववारणाय स्पर्शसग्रहाय , स्पर्शावृत्तीति।
कारिकावली [गुणनिरू० विभूनामिति। बुद्धिसुखदुःखेच्छाद्वैपप्रयत्नधर्माधर्मभावनाशब्दा इत्यर्थः।अका- रणेति। कारणगुणेन कार्ये ये गुणा उत्पद्यन्ते ते कारणगुणपूर्वका रूपादयो वक्ष्यन्ते । बुद्धयादयस्तु न तादृशा आत्मादेः कारणाभावात् ॥ ९०॥९॥९२॥१३॥९४ ॥ अपाकजास्तु स्पर्शान्ता द्रवत्वं च तथाविधम् । स्नेहवेगगुरुत्वैकपृथक्त्वपरिमाणकम् ।। ९५॥ स्थितिस्थापक इत्येते स्युः कारणगुणोद्भवाः। अपाकजास्त्विति । पाकजरूपादीनां कारणगुणपूर्वकत्वाभावात् अपाकजा इत्युक्तम् । तथाविधमपाकजम् । तथैकत्वमपि बोध्यम् । संयोगश्च विभागश्च वेगश्चैते तु कर्मजाः॥९६ ॥ संयोगश्चेति । कर्मजन्यत्वं यद्यपि न साधर्म्य घटादावतिव्याः, संयोगज- संयोगेऽच्याश्च तथापि कर्मजन्यवृत्तिगुणत्वव्याप्यजातिमत्वं बोध्यम् । एवमन्य- त्राप्यूह्यम् ॥ ९५ ॥ ९६ ॥ स्पर्शान्तपरिमाणैकपृथक्त्वस्नेहशब्दके । भवेदसमवायित्वम्- स्पर्शान्तेति । एकपृथक्त्वमित्यन्न त्वप्रत्ययस्य प्रत्येकमन्वयादेकत्वं पृथक्त्वं च ग्राह्यम् । पृथक्त्वपदेन चैकपृथक्त्वम् । भवेदसमवायित्वमिति । घटादिरूपर- सगन्धस्पर्शाः कपालादिरूपरसगन्धस्पर्शेभ्यो भवन्ति । एवं कपालादिपरिमाणा- दीनां घटादिपरिमाणाद्यसमवायिकारणत्वम् । शब्दस्यापि द्वितीयशब्द प्रति । एवं स्थितिस्थापकैकपृथक्त्वयोरपि ज्ञेयम् ॥ अथ वैशेषिके गुणे ॥ ९७॥ आत्मनः स्यानिमित्तत्वम् निमित्तत्वमिति । बुद्धयादीनामिच्छादिनिमित्तत्वादिति भावः । उष्णस्पर्शगुरुत्वयोः। वेगेऽपि च द्रवत्वे च संयोगादिद्वये तथा ॥ ९८ ॥ द्विधैव कारणत्वं स्याद् द्विधैवेति । असमवायिकारणत्वं निमित्तकारणत्वं च । तथाहि-उष्णस्पर्श उप्णस्पर्शस्यासमवायिकारणं पाकजे निमित्तम् । गुरुत्वं गुरुत्वपतनयोरसमवायि- कारणं प्रतिघाते निमित्तम् । वेगो वेगस्पन्दनयोरसमवायि अभिघाते निमित्तम् । गवत्वं गवत्वस्पन्दनयोरसमवायि संग्रहे निमित्तम् । भेरीदण्डसंयोगः शब्दे नि- मित्तम् । भेर्याकाशसंयोगेऽसमवायी। वंशदलद्वयविभागः शन्दे निमित्तं वंश- दुलाकाशविभागेऽसमवायीति । - गुणनिरू.] सिद्धान्तमुक्तावलीसहिता। अथ प्रादेशिको भवेत् । वैशेषिको विभुगुणः संयोगादिद्वयं तथा ।। ९९ ।। प्रादेशिकोऽव्याप्यवृत्तिः ॥ ९७ ॥ ९८ ॥ ९९ ॥ चक्षुह्यं भवेद्रूपं द्रव्यादेरुपलम्भकम् । चक्षुषः सहकारि स्याच्छुल्लादिकमनेकधा ॥ १० ॥ चक्षुरिति । रूपत्वजातिस्तु प्रत्यक्षसिद्धा । रूपशब्दोल्लेखिनी प्रतीतिर्नास्तीति चेन्मास्तु रूपशब्दप्रयोगस्तथापि नीलपीतादिप्वनुगतजातिविशेषोऽनुभवसिद्ध एव । रूपशब्दाप्रयोगेऽपि नीलो वर्णः पीतो वर्ण इति वर्णशब्दोल्लेखिनी प्रती- तिरस्त्येव । एवं नीलत्वादिकमपि प्रत्यक्षसिद्धम् । न चैकैका एव नीलरूपादिव्य- क्तय इत्येकव्यक्तिवृत्तित्वान्नीलत्वादिकंन जातिरिति वाच्यं, नीलो नष्टो रक्त उत्पन्न इत्यादिप्रतीतेलादेरुत्पादविनाशशालितया नानात्वात् । अन्यथा एकनीलनाशे जगदनीलमापद्येत । नच नीलसमवायरक्तसमवाययोरेवोत्पादविनाशविषयकोऽसौ प्रत्यय इति वाच्यं, प्रतीत्या समवायानुल्लेखात् । नच स एवायं नील इति प्रत्य- यालाघवाच्चैक्यमिति वाच्यं, प्रत्यक्षस्य तज्जातीयविपयकत्वात् । सैवेयं गुर्जरीति- वल्लाघवं तु प्रत्यक्षवाधितम् । अन्यथा घटादीनामप्यैक्यप्रसङ्गादुत्पादविनाशबुद्धेः समवायालम्बनत्वापत्तेरिति । एतेन रसादिकमपि व्याख्यातम् । चक्षुादा- मिति चक्षुह्यविशेषगुण इत्यर्थः । एवमग्रेऽपि । द्रव्यादेरिति । उपलम्भ- कमुपलब्धिकारणम् । इदमेव विवृणोति-चक्षुष इति । द्रव्यगुणकर्मसामा- न्यानां चाक्षुपप्रत्यक्षं प्रति उद्भूतरूपं कारणम् । शुक्लादिकमनेकधेति । तच रूप शुक्लनीलपीतरक्कहरितकपिशकर्बुरादिभेदादनेकप्रकारकं भवति । ननु कथं चरमतिरिक्तरूपं भवति । इत्थं नीलपीताद्यवयवारब्धोऽवयवी न तावन्नीलरू- पोऽप्रत्यक्षप्रसङ्गात् । नापि व्याप्यवृत्तिनीलादिरूपमुत्पद्यते पीतावच्छेदेनापि नी- लोपलब्धिप्रसङ्गात् । नाप्यव्याप्यवृत्तिनीलादिकमुत्पद्यते व्याप्यवृत्तिजातीयगुणा- नामव्याप्यवृत्तित्वे विरोधात् । तस्मान्नानाजातीयरूपैरवयविनि विजातीय चित्रं रूपमारभ्यते। अत एव 'एकं चिन्नम्' इत्यनुभवोऽपि । नानारूपकल्पने गौरवात्। इत्यंच नीलादीनां पीताद्यारम्भे प्रतिबन्धकत्वकल्पनादवयविनि न पीताद्युत्पत्तिः । एतेन स्पीऽपि व्याख्यातः । रसादिकमपि नाव्याप्यवृत्ति किंतु नानाजातीयरस- बदवयवैरारब्धेऽवयविनि रसाभावेऽपि न क्षतिः। तत्र रसनयाऽवयवरस एव गृ- झते रसनेन्द्रियादीनां द्रव्यग्रहे सामर्थ्याभावादवयविनो नीरसत्वेऽपि क्षतेरभा- वात् । नव्यास्तु, तनाव्याप्यवृत्त्येव नाना रूपं नीलादेः पीतादिप्रतिबन्धकत्वकल्पने गौरवात् । भत एव-लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः खुरवि- १ चचायामित्यस्पेत्यर्थः । तेन चक्षुरिति प्राक्प्रतीकधारणेपि न पौनरुक्त्यम् ।
कारिकावली [गुणनिरू० पाणाभ्यां स नीलो वृप उच्यते ॥ इत्यादिशास्त्रमप्युपपद्यते । नच व्याप्याव्याप्य- वृत्तिजातीययोयोर्विरोधः, मानाभावात् । नच लाघवादेक रूपम् , अनुभवविरो- धात् । अन्यथा घटादेरपि लाघवादैक्यं स्यात् । एतेन स्पर्शादिकमपि व्याख्यात- मिति वदन्ति ॥ १०॥ जलादिपरमाणौ तन्नित्यमन्यत्सहेतुकम् । जलादीति । जलपरमाणौ तेजःपरमाणौ च रूपं नित्यम् । पृथिवीपरमाणु- रूपं तु न नित्यं तत्र पाकेन रूपान्तरोत्पत्तेः । नहि घटस्य पाकानन्तरं तदवयवो- उपक उपलभ्यते । नहि रक्तकपालस्य कपालिका नीलावयवा भवति । एवं क्रमेण परमाणावपि पाकसिद्धेः । अन्यज्जलतेजःपरमाणुरूपभिन्नं रूपं सहेतुकं जन्यम् ॥ रसं निरूपयति- रसस्तु रसनाग्राह्यो मधुरादिरनेकधा ॥ १०१॥ सहकारी रसज्ञाया नित्यतादि च पूर्ववत् । रसस्त्विति । सहकारीति । रासनज्ञाने रसः कारणमित्यर्थः । पूर्ववदि- ति । जलपरमाणा रसो नित्योऽन्यः सर्वोऽपि रसोऽनित्य इत्यर्थः ॥ गन्धं निरूपयति- घ्राणग्राह्यो भवेद्गन्धो घ्राणस्यैवोपकारकः ॥ १०२ ॥ घ्राणग्राह्य इति । उपकारक इति । घ्राणजन्यज्ञाने कारणमित्यर्थः । स- वो गन्धोऽनित्य एव ॥१०१॥ १०२ ॥ सौरभश्चासौरभश्च स द्वेधा परिकीर्तितः । स्पर्श निरूपयति- स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः ॥ १०३ ॥ स्पर्श इति । उपकारक इति । स्पार्शनप्रत्यक्षे स्पर्शः कारणमित्यर्थः ।। अनुष्णाशीतशीतोष्णभेदात्स त्रिविधो मतः । काठिन्यादि क्षितावेव नित्यतादि च पूर्ववत् ॥ १०४ ॥ अनुष्णाशीतेति। पृथिव्यां वायौ च स्पर्शोऽनुप्णाशीतः ।जले शीतः । तेज- स्युष्णः। काठिन्येति।कठिनसुकुमारस्पी पृथिव्यामेवेत्यर्थः । कठिनत्वादिकं तु न संयोगनिष्ठो जातिविशेषः, चक्षुर्लाह्यत्वापत्ते. । पूर्ववदिति।जलतेजोवायुपरमाणु- स्पर्शा नित्यास्तद्भिन्नास्त्वनित्या इत्यर्थः ॥ १०४ ॥ एतेषां पाकजत्वं तु क्षितौ नान्यत्र कुत्रचित् । तत्रापि परमाणौ स्यात्पाको वैशेषिके नये ॥ १०५॥ -- - - गुणनिरू.] सिद्धान्तमुक्तावलीसहिता। एतेपामिति । एतेषां रूपरसगन्धस्पर्शानाम् । नान्यत्रेति । पृथिव्यां हि रूपरसगन्धस्पर्शपरावृत्तिरग्निसंयोगादुपलभ्यते । नहि शतघापि ध्मायमाने जले रूपादिकं परिवर्तते । नीरे सौरभमौप्ण्यं चान्वयव्यतिरेकाभ्यामोपाधिकमेवेति निर्णीयते । पवनपृथिव्योः शीतस्पर्शादिवत् । तत्रापि पृथिवीप्वपि मध्ये परमा- णावेव रूपादीनां पाक इति वैशेपिका वदन्ति । तेपामयमाशयः । भवयविना. वष्टब्धेववयवेषु पाको न संभवति परंतु वह्निसंयोगेनावयविपु विनप्टेपु स्वतन्त्रेषु परमाणुपु पाकः । पुनश्च पक्कपरमाणुसंयोगायणुकादिक्रमेण पुनर्महावयविपर्य- न्तमुत्पत्तिः । तेजसामतिशयितवेगवशात्पूर्वव्यूहनाशो झटिति व्यूहान्तरोत्पत्ति- श्चेति । अत्र द्वयणुकादिविनाशमारभ्य कतिभिः क्षणैः पुनरुत्पत्त्या रूपादिमद्भव- तीति शिष्यबुद्धिवैशद्यार्थ क्षणप्रक्रिया। तत्र विभागजविभागानगीकारे नवक्षणा । तदगीकारे तु विभागः किंचित्सापेक्षो विभागं जनयेत् । निरपेक्षस्य तत्त्वे कर्मन्वं स्यात् । संयोगविभागयोरनपेक्षं कारणं कर्मेति वैशेषिकसूत्रम् । स्वोत्तरोत्पन्नभा- वान्तरानपेक्षत्वं तस्यार्थः । अन्यथा कर्मणोऽप्युत्तरसंयोगोत्पत्तौ पूर्वसंयोगनाशा- पेक्षणादव्याप्तिः स्यात् । तत्र यदि द्रव्यारम्भकसंयोगविनाशविशिष्टं कालमपेक्ष्य विभागजविभागः स्यात्तदा दशक्षणा । अथ द्रव्यनाशविशिष्टं कालमपेक्ष्य विमा- गजविभाग. स्यात्तदैकादशक्षणा । तथाहि अथ नवक्षणा-वहिसंयोगात्परमाणी कर्म । ततः परमाण्वन्तरेण विभागः । तत आरम्भकसंयोगनाशः । ततो द्वयणु- कनाशः ॥ १॥ ततः परमाणौ श्यामादिनाश. । २ । ततो रक्ताद्युत्पत्तिः । ३ ततो द्रव्यारम्भानुगुणा क्रिया । ४ । ततो विभाग. । ५ । ततः पूर्वसंयोगनाश. । ६ । तत आरम्भकसंयोग.। ७ । ततो द्वयणुकोत्पत्तिः। ८। ततो रक्ताद्युत्पत्तिः १९। ननुश्यामादिनाशक्षणे रक्तोत्पत्तिक्षणे वा परमाणौ द्रव्यारम्भानुगुणा क्रिया:- स्त्विति चेत्।न। अग्निसंयुक्त परमाणौ यत्कर्म तद्विनाशमन्तरेण गुणोत्पत्तिमन्तरण- च परमाणौ क्रियान्तराभावात्कर्मवति कर्मान्तरानुत्पत्तेनिर्गुणे द्रव्ये गुन्यारम्भानु- गुणक्रियानुपपत्तेश्च। तथापि परमाणौ श्यामादिनिवृत्तिसमकालं रक्ताद्युत्पत्तिः स्या- दिति चेत् । न । पूर्वरादिध्वंसस्यापि रूपान्तरे हेतुत्वात् । इति नवक्षणा ॥ अथ दशक्षणा । सा च आरम्भकसंयोगविनाश विशिष्टं कालमपेक्ष्य विभागेन विभाग- जनने सति स्यात् । तथाहि-वह्निसंयोगाथणुकारम्भके परमाणो कर्म । ततो विभाग. । तत आरम्भकसंयोगनाश. । ततो द्वयणुकनाशविभागजविभागौ । १ । ततः श्यामनारापूर्वसंयोगनाशौ । २ । ततो रक्तोत्पत्त्युत्तरसंयोगौ । ३ । ततो वह्निनोदनजन्यपरमाणुकर्मणो नाश ततोऽदृष्टवदात्मसंयोगान्यारम्भानु- १ कारणाकारणविभात् कार्याकार्यविभागवत्कारणमात्रविभागात् कारणाकारणविभागा- नङ्गीकारे इत्यर्थ । द्रव्यारम्भकसयोगप्रतिद्वन्द्विविभागजनकक्रियायास्तदनारम्भकसयोगप्रति- द्वन्द्विविभागाजनकत्वनियमे मानाभावादिति भाव । आरम्भसंयोगनाशस्य तृतीयक्षण एवोत्पन्नतया चतुर्थक्षणे परमाण्याकाशविभाग सभवतीति भाव । -- कारिकावली [गुणनिल. । गुणा क्रिया ।५। ततो विभागाततः पूर्वसंयोगनाश तत आरम्भकसंयोगा। ततो घणुकोत्पत्तिः ।९। ततो रक्तोत्पत्तिः । १० । अथैकादशक्षणा। वहिसंयोगा- सरमाणौ कर्म । ततो विभागः । ततो द्रव्यारम्भकसंयोगनाशः । ततो द्वथणुक- नाशः । । ततो द्वथणुकनाशविशिष्टं कालमपेक्ष्य विभागजविभागश्यामनाशी । २ । ततः पूर्वसंयोगनाशरकोत्पत्ती । ३ । तत उत्तरसंयोगः। ततो वह्निनो- दनजन्यः परमाणो कर्मनाशः।५। ततोऽदृष्टवदात्मसंयोगाद्रव्यारम्भानुगुणा क्रिया ।६। ततो विभागः । ७ । ततः पूर्वसंयोगनाशः। । ततो द्रव्यारम्भकोत्तर. संयोगः।९। ततो द्वथणुकोत्पत्तिः।१०।ततो रक्तायुत्पत्तिः ॥११॥इति। मध्यम- शब्दवदेकरसादग्निसंयोगान रूपनाशोत्पादौ तावत्कालमेकस्याग्नरस्थिरत्वात् । कि- च नाशक एव यद्युत्पादकस्तदा नप्टे रूपादावग्निनाशे नीरूपश्चिरं परमाणुः स्यात् । उत्पादकश्चेन्नाशकस्तदारतोत्पत्तीतदग्निनाशे रक्ततरतान स्यात् । अथ परमाण्वन्तरे कर्मचिन्तनात्पञ्चमादिक्षणेऽपि गुणोत्पत्तिः । तथाहि-एकत्र परमाणौ कर्म । त- तो विभागः । तत भारम्भकसंयोगनाशपरमाण्वन्तरकर्मणी । ततस्तु द्वथणुकना- शः । परमाण्वन्तरकर्मजन्यविभाग इत्येकः कालः। १ । ततः श्यामादिनाशः । विभागाच पूर्वसंयोगनाशश्चेत्येकः कालः । २ । ततो रक्तोत्पत्तिद्रव्यारम्भकसंयो- गश्चेत्येकः कालः । ३ । अथ द्वयणुकोत्पत्तिः । ४ । ततो रक्तोत्पत्तिः। ५ । इति पञ्चक्षणा ॥ द्रव्यनाशसमकालं परमाण्वन्तरे कर्मचिन्तनात्पठे गुणोत्पत्तिः । तथा- हि-परमाणुकर्मणा परमाण्वन्तरविभागः । तत आरम्भकसंयोगनाशः । अथ द्वयणुकनाशपरमाण्वन्तरकर्मणी। १ । अथ श्यामादिनाशः । परमाण्वन्तरकर्म- जश्व विभागः । २ । ततो रक्तोत्पत्तिः परमाण्वन्तरे पूर्वसंयोगनाशश्च । ३ । ततः परमाण्वन्तरसंयोगः । ४ । ततो द्वयणुकोत्पत्तिः। ५। अथ रक्तोत्पत्तिः। ६ । इति पक्षणा ॥ एवं श्यामनाशक्षणे परमाण्वन्तरे कर्मचिन्तनात्सप्तक्षणा। तथाहि-पर- माणौ कर्म। ततः परमाण्वन्तरेण विभागः। तत आरम्भकसंयोगनाशाततो द्वयणु- कनाशः।। ततः श्यामादिनाशपरमाण्वन्तरकर्मणी । ततो रक्तोत्पत्तिः पर- माण्वन्तरे कर्मजविभागश्च । ३ । ततः परमाण्वन्तरेण पूर्वसंयोगनाशः । ४ । ततः परमाण्वन्तरेण संयोगः । ५। ततो व्यणुकोत्पत्तिः । ६ । ततो रक्तोत्पत्तिः । ७॥ इति सप्तक्षणा ॥ एवं रक्तोत्पत्तिसमकालं परमाण्वन्तरे कर्मचिन्तनादष्ट- क्षणा । तथाहि-परमाणौ कर्म । ततः परमाण्वन्तरविभागः । तत आरम्भकसं- योगनाशः । ततो यणुकनाशः।। ततः श्यामनाशः।२। ततो रक्तोत्पत्ति- परमाण्वन्तरकर्मणी । ३ । ततः परमाण्वन्तरकर्मजविभागः । ४ । ततः परमा- १ अयं भावः। रूपनाशकतावच्छेदकं विलक्षणाग्निसंयोगत्यं तदेव यदि उत्पादकतावच्छेदक तवा कार्यतावच्छेदकमपि सामान्यतः पृथिवीपरमाणुरूपत्वं त्वया वाच्यम् । तथा सति कचिद्र- ततरता कचिच्च रक्ततमता परमाणो न स्यात् । कार्यवैचित्र्यस्य कारणतावच्छेदकभेदाधीनत्वात् ।
गुणनिरू.] सिद्धान्तमुक्तावलीसहिता। ण्वन्तरे पूर्वसंयोगनाशः। ५। ततः परमाण्वन्तरसंयोगः । ६। ततो द्वयणुको- त्पत्तिः । ७ । अथ रक्कोत्पत्तिरित्यष्टक्षणा ॥ १०५॥ नैयायिकानां तु नये द्वयणुकादावपीप्यते। नैयायिकानामिति । नैयायिकानां मते द्यणुकादाववयविन्यपि पाको भव- ति । तेपामयमाशयः । अवयविनां सच्छिद्रत्वाद्वहः सूक्ष्मावयवैरन्तःप्रविष्टरवय- वेववष्टव्धेप्वपि पाको न विरुद्धयते । अनन्तावयवितन्नाशकल्पने गौरवात् । इत्थं च सोऽयं घट इत्यादिप्रत्यभिज्ञापि संगच्छते । यत्र तु न प्रत्यभिज्ञा तनाव- यविनाशोऽपि स्वीक्रियत इति ॥ संख्यां निरूपयितुमाह- गणनाव्यवहारे तु हेतुः संख्याभिधीयते ॥ १०६ ॥ गणनेति । गणनाव्यवहारासाधारणकारणं संख्येत्यर्थः ॥ १०६ ।। नित्येषु नित्यमेकत्वमनित्येऽनित्यमिष्यते । द्वित्वादयः परार्धान्ता अपेक्षावुद्धिजा मताः ॥ १०७ ।। नित्येग्विति । नित्येपु परमाण्वादिपु, एकत्वं नित्यम् । अनित्ये घटादावेक- त्वमनित्यमित्यर्थः । द्वित्वादयो व्यासज्यवृत्तिसंख्या अपेक्षाबुद्धिजन्याः॥ १०७ ॥ अनेकाश्रयपर्याप्ता एते तु परिकीर्तिताः। अपेक्षाबुद्धिनाशाच्च नाशस्तेषां निरूपितः ॥ १०८ ॥ अनेकेति । यद्यपि द्वित्वादिसमवायः प्रत्येक घटादावपि वर्तते तथाप्येको द्वाविति प्रत्ययाभावात्, एकोन द्वाविति प्रत्ययसंभवाच्च द्वित्वादीनां पर्याप्तिलक्षणः कश्चन संबन्धोऽनेकाश्रयोऽभ्युपगम्यते । प्रथममपेक्षावुद्धिः ततो द्विरवोत्पत्तिः । ततो विशेपणज्ञानं द्वित्वत्वनिर्विकल्पात्मकम् । ततो द्वित्वत्वविशिष्टप्रत्यक्षम् । अपे- क्षाबुद्धिनाशश्च । ततो द्वित्वनाश इति । यद्यपि ज्ञानानां द्विक्षणमात्रस्थायित्वं यो- ग्यविभुविशेषगुणानां स्वोत्तरवर्तिगुणनाश्यत्वात् । तथाप्यपेक्षाबुद्धेस्त्रिक्षणावस्था- यित्वं कल्प्यते । अन्यथानिर्विकल्पककालेऽपेक्षाबुद्धिनाशानन्तरं द्वित्वस्यैव नाशः स्यात् । न तु द्वित्वप्रत्यक्षं, तदानीं विषयाभावात् । विद्यमानस्यैव चक्षुरादिना ज्ञानजननोपगमात् । तस्माद्वित्वप्रत्यक्षादिकमपेक्षाबुद्धे शकं कल्प्यते । न चापे- क्षाबुद्धिनाशात्कथं द्वित्वनाश इति वाच्यं, कालान्तरे द्वित्वप्रत्यक्षाभावात् । नपे- क्षावुद्धिस्तदुत्पादिका तन्नाशात्तन्नाश इति कल्पनात् । अत एव तत्पुरुपीयापेक्षा- १ असमवायिकारण तु द्वित्वादिक प्रति समवायिकारणगतयावदेकत्वम् । २ ननु तदानी द्वि- स्वाभावेऽपि तत्पूर्वक्षणे द्वित्वसत्वान्न द्वित्वप्रत्यक्षानुपपत्तिरत आह-विद्यमानस्यवेति । 'सबद्ध वर्तमानं च गृह्यते चक्षुरादिना' इत्यनुरोधाझौकिकप्रत्यक्ष प्रति द्वित्वादेविपयस्य कार्यसहभा- वेन हेतुत्वादिति भावः। ६ ૨ कारिकावली [गुणनिरू० बुद्धिजन्यद्वित्वादिकं तेनैव गृह्यत इति कल्प्यते । न चापेक्षाबुद्धद्वित्वप्रत्यक्षे का- रणत्वमस्त्विति वाच्यं, लाघवेन द्वित्वं प्रत्येव कारणत्वस्यैवोचितत्वात् । अती- न्द्रिये घ्यणुकादावपेक्षाबुद्धिर्योगिनाम् । सर्गादिकालीनपरमाण्वादावीश्वरीयापेक्षा- बुद्धिब्रह्माण्डान्तरवर्तियोगिनामपेक्षाबुद्धिर्वा द्वित्वादिकारणमिति ॥ १०८॥ अपेक्षाबुद्धिः केत्यत आह- अनेकैकत्ववुद्धिर्या सापेक्षावुद्धिरिष्यते । अनेकेति । अयमेकोऽयमेक इत्याकारिका इत्यर्थः । इदं तु योध्यम् । यत्रानि- यतैकत्वज्ञानं तत्र त्रित्वादिभिन्ना बहुत्वसंख्योत्पद्यते यथा सेनावनादाविति कन्द- लीकारः । आचार्यास्तु त्रित्वादिकमेव बहुत्वं मन्यन्ते । तथाच त्रित्वत्वादिव्यापिका बहुत्वत्वजाति तिरिच्यते।सेनावनादावुत्पन्नेपि त्रित्वादौ त्रित्वत्वाद्यग्रहो दोपात् । इत्थं चेतो बहुतरेयं सेनेति प्रतीतिरुपपद्यते । बहुत्वस्य संख्यान्तरत्वे तु तत्तारत- म्याभावान्नोपपद्येदित्यवधेयम् ।। परिमाणं निरूपयति- परिमाणं भवेन्मानव्यवहारस्य कारणम् ॥ १०९ ॥ परिमाणमिति । परिमितिव्यवहारासाधारणं कारणं परिमाणमित्यर्थः ॥१०९॥ अणु दीर्घ महद्रस्वमिति तद्भेद ईरितः। तच्चतुर्विधं अणु महदू दीर्घ इस्वं चेति । अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् ॥ ११ ॥ संख्यातः परिमाणाच्च प्रचयादपि जायते । तत् तत्परिमाणम् । नित्यमित्यत्र परिमाणमित्यनुपज्यते । जायत इत्यत्रापि परिमाणमित्यनुवर्तते । अनित्यमिति पूर्वणान्वितम् । तथा चानित्यपरिमाणं सं- ख्याजन्यं परिमाणजन्यं प्रचयजन्यं चेत्यर्थः ॥ तत्र संख्याजन्यमुदाहरति- अनित्यं व्यणुकादौ तु संख्याजन्यमुदाहृतम् ॥ १११ ।। अनित्यमिति । अणुकस्य त्रसरेणोश्च परिमाणं प्रति परमाणुपरिमाणं ब- णुकपरिमाणं वा न कारणं परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनक- त्वात् । द्वयणुकस्याणुपरिमाणं तु परमाण्वणुत्वापेक्षया नोत्कृष्टम् । सरेणुपरिमा- णं तु न सजातीयम् । अतः परमाणौ द्वित्वसंख्या द्वयणुकपरिमाणस्य, द्वयणुके नित्वसंख्या च सरेणुपरिमाणस्यासमवायिकारणमित्यर्थः ॥ ११०॥ १११ ॥ १ नियतानेकैकत्वज्ञानामावादित्यर्थः । नियतानेकैकत्वज्ञानस्य नित्वापुत्पत्तावनपक्षितत्वेऽपि तस्मित्रित्वत्यादिप्रकारकप्रत्यक्षं प्रत्यपेक्षितत्वादिति भावः ।
गुणनिरु.] सिद्धान्तमुक्तावलीसहिता। ३ -- परिमाणजन्यं परिमाणमुदाहरति- परिमाणं घटादौ तु परिमाणजमुच्यते । प्रचयजन्यमुदाहर्तु प्रचयं निर्वक्ति- प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते ॥११२॥ परिमाणं तूलकादौ परिमाणं घटादाविति । घटादिपरिमाणं कपालादिपरिमाणजन्यम् ॥ प्रचय इति ॥ ११२॥ परिमाणं चाश्रयनाशादेव नश्यतीत्याह- नाशस्त्वाश्रयनाशतः। नाश इति । अर्थात्परिमाणस्यैव । न चावयविनाशः कथं परिमाणनाशकः सत्यप्यवयविनि त्रिचतुरादिपरमाणुविश्लेपे तदुपचये चावयविनः प्रत्यभिज्ञानेऽपि परिमाणान्तरस्य प्रत्यक्षसिद्धत्वादिति वाच्यम्, परमाणुविश्लेपे हि व्यणुकस्य नाशोऽवश्यमभ्युपेयस्तन्नाशे च सरेणुनाश एवं क्रमेण महावयविनो नाश- सावश्यकत्वात् । सति च नाशकेऽनभ्युपगममात्रेण नाशस्यापलपितुमशक्यत्वात् । शरीरादाववयवोपचयेऽसमवायिकारणनाशस्यावश्यकरवादवयविनाश आवश्यकः । नच पटाद्यविनाशेऽपि तन्त्वन्तरसंयोगात्परिमाणाधिक्यं न स्यादिति वाच्यं, त- त्रापि वेमाद्यभिघातेनासमवायिकारणतन्तुसंयोगनाशात्पटनाशस्यावश्यकत्वात् । किंच तन्त्वन्तरस्य तत्पटावयवत्वे पूर्व तत्पट एव न स्यात्तन्वन्तररूपकारणाभा. वात् । तन्त्वन्तरस्यावयवत्वाभावे च न तेन परिमाणाधिक्यं संयुक्तद्रव्यान्तरव- त् । तसात्तत्र तन्त्वन्तरसंयोगे सति पूर्वपटनाशस्ततः पटान्तरोत्पत्तिरित्यवश्यं स्वीकार्यम् । अवयविनः प्रत्यभिज्ञानं तु साजात्येन दीपकलिकादिवत् । नच पूर्वतन्तव एव तन्वन्तरसहकारात्पूर्वपटे सत्येव पटान्तरमारभन्तामिति वाच्यं, मूर्तयोः समानदेशताविरोधात्तत्र पटद्वयासंभवादेकदा नानाव्यस्य तत्रोपलम्भ- स्य बाधितत्वाच्च । तस्मात्पूर्वद्रव्यस्य प्रतिवन्धकस्य विनाशे द्रव्यान्तरोत्पत्तिरित्य- स्यावश्यमभ्युपेयत्वात् ॥ पृथक्त्वं निरूपयति- संख्यावत्तु पृथक्त्वं स्यात्पृथक्प्रत्ययकारणम् ॥ ११३ ॥ अन्योन्याभावतो नास्य चरितार्थत्वमिष्यते । अस्मात्पृथगिदं नेति प्रतीतिर्हि विलक्षणा ॥ ११४ ॥ संख्यावदिति । पृथक्प्रत्ययासाधारणं कारणं पृथक्त्वम् । तन्नित्यतादिक संख्यावत् । तथाहि-नित्येप्चेकत्वं नित्यम् । अनित्येप्वनित्यम् । भनित्यमेकत्वं तु आश्रयद्वितीयक्षणे चोत्पद्यते आश्रयनाशानश्यति । तथैकपृथक्त्वमपि । द्वि- १ अत्र स्वाश्रयावयवगतैकत्वासमवायिकारणकं चेति पूरणीयम् ।
कारिकावली [गुणनिरू. . - त्वादिवच द्विपृथक्त्वादिकमपीत्यर्थः । नन्वयमस्मात्पृथगित्यादावन्योन्याभावो भासते तत्कथं पृथक्त्वं गुणान्तरं स्वीक्रियते, न चास्तु पृथक्त्वं न त्वन्योन्याभाव इति वाच्यं, रूपं न घट इति प्रतीत्यनापतेः । नहि रूपे घटावधिकं पृथक्त्वं गु- णान्तरमस्ति न वा घटे घटावधिकं पृथक्त्वमस्ति येन परंपरासंबन्धः कल्प्यत इत्यत आह-अस्मादिति ननु शब्दवैलक्षण्यमेव नत्वर्थवैलक्षण्यमिति चेत् । न। विनार्थभेदं घटात्पृथगितिवद्भटो न पट इत्यत्रापि पञ्चमीप्रसंगात् । तस्माद्यदर्थ- योगे पञ्चमी सोऽर्थो नजान्योन्याभावतो भिन्नो गुणान्तरं कल्प्यत इति ॥ ११३ ॥ ११४॥ संयोग निरूपयति- अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः कीर्तितस्त्रिविधस्त्वेप आद्योऽन्यतरकर्मजः॥ ११५॥ अप्राप्तयोरिति । तं विभजते-कीर्तित इति । एप संयोगः ॥ ११५॥ तथोभयक्रियाजन्यो भवेत्संयोगजोऽपरः। आदिमः श्येनशैलादिसंयोगः परिकीर्तितः ॥ ११६ ॥ मेषयोः संनिपातो यः स द्वितीय उदाहृतः। संनिपातः संयोगः। द्वितीय उभयकर्मजः ॥ कपालतरुसंयोगात्संयोगस्तरुकुम्भयोः ॥ ११७ ॥ तृतीयः स्यात्कर्मजोऽपि द्विधैव परिकीर्तितः । अभिघातो नोदनं च शब्दहेतुरिहादिमः ॥ ११८ ॥ शब्दाहेतुर्द्वितीयः स्यादू तृतीय इति । संयोगजसंयोग इत्यर्थः । तृतीयः स्यादिति पूर्वेणान्वितम् । आदिमः अभिघातः । द्वितीयो नोदनाख्यः संयोग इति ॥ विभक्तप्रत्ययकारणं विभागं निरूपयति- विभागोऽपि त्रिधा भवेत्। एककर्मोद्भवस्त्वाद्यो द्वयकर्मोद्भवोऽपरः ॥ ११९ ॥ विभागजस्तृतीयः स्यात्तृतीयोऽपि द्विधा भवेत्। हेतुमानविभागोत्थो हेत्वहेतुविभागजः ॥ १२० ॥ विभाग इति । एककर्मेति । तदुदाहरणं तु श्येनशैलविभागादिकं पूर्ववद्वो- ध्यम् । तृतीयोऽपि विभागजविभागः कारणमानविभागजन्यः कारणाकारणवि- भागजन्यश्चेति । आद्यस्तावत् । यत्र कपाले कर्म ततः कपालद्वयविभागः । - गुणनिरू.] सिद्धान्तमुक्तावलीसहिता। ६५ । । ततो घटारम्भकसंयोगनाशः । ततो घटनाश. । ततस्तेनैव कपालविभागेन सक- मणः कपालस्याकाशविभागो जन्यते । तत आकाशसंयोगनाशः । तत उत्तर- देशसंयोगः । ततः कर्मनाश इति । नच तेन कर्मणव कथं देशान्तरविभागो न जन्यत इति वाच्यम्, एकस्य कर्मण आरम्भकसंयोगप्रतिद्वन्द्विविभागजनकत्व. स्यानारम्भकसंयोगप्रतिद्वन्द्विविभागजनकत्वस्य च विरोधात् । अन्यथा विकस- कमलकुमलभङ्गप्रसङ्गात् । तस्माद् यदीदमनारम्भकसंयोगप्रतिद्वन्द्विविभाग जनयेत्तदारम्भकसंयोगप्रतिद्वन्द्विविभागं न जनयेत् । नच कारणविभागेनैव व्यनाशात्पूर्व कुतो देशान्तरविभागो न जन्यत इति वाच्यम् , आरम्भकसं- योगप्रतिद्वन्द्विविभागवतोऽवयवस्य सति द्रव्ये देशान्तरविभागासंभवात् । द्विती- यस्तावत् । यत्र हस्तक्रियया हस्ततरुविभागस्ततः शरीरेऽपि विभक्तप्रत्ययो भवति तत्र शरीरतरुविभागे हस्तक्रिया न कारणं व्यधिकरणत्वात् । शरीरे तु क्रिया ना- स्त्येव अवयविकर्मणो यावदवयवकर्मनियतत्वात् । अतस्तन्न कारणाकारणविभागे- न कार्याकार्यविभागो जन्यत इति । अत एव विभागो गुणान्तरम् । अन्यथा शरीरे विभक्तप्रत्ययो न स्यात् । अतः संयोगनाशेन विभागो नान्यथासिद्धो भव- ति॥ ११६॥ ११७॥ ११८॥ ११९॥ १२०॥ परापरव्यवहारनिमित्ते परत्वापरत्वे निरूपयति- परत्वं चापरत्वं च द्विविधं परिकीर्तितम् । दैशिकं कालिकं चापि मूर्त एव तु दैशिकम् ॥ १२१ ॥ परत्वं मूर्तसंयोगभूयस्त्वज्ञानतो भवेत् । अपरत्वं तदल्पत्ववुद्धितः स्यादितीरितम् ॥ १२२ ॥ परत्वं चेति । दैशिकमिति । दैशिकपरत्वं बहुतरमूर्तसंयोगान्तरितत्वज्ञा- नादुत्पद्यते । एवं तदल्पीयस्त्वज्ञानादपरत्वमुत्पद्यते । अत्रावधित्वार्थ पञ्चम्यपेक्षा। यथा पाटलिपुत्रात्काशीमपेक्ष्य प्रयागः परः। पाटलिपुत्रात्कुरुक्षेत्रमपेक्ष्य प्रयागो- ऽपर इति ॥ १२१ ॥ १२२ ॥ तयोरसमवायी तु दिक्संयोगस्तदाश्रये । तयोदेशिकपरत्वापरत्वयोः । असमवायी असमवायिकारणम् । तदाश्रये दैशि- कपरत्वापरत्वाश्रये ॥ दिवाकरपरिस्पन्दभूयस्त्वज्ञानतो भवेत् ॥ १२३ ॥ परत्वमपरत्वं तु तदीयाल्पत्वबुद्धितः । अत्र त्वसमवायी स्यात्संयोगः कालपिण्डयोः॥१२४॥ दिवाकरेति । भत्र परत्वमपरत्वं कालिक ग्राह्यम्। यस्य सूर्यपरिस्पन्दापेक्षया ।
६६ - कारिकावली [गुणनिरू० यस्य सूर्यपरिस्पन्दोऽधिकः स ज्येष्ठः। यस्य न्यूनः स कनिष्ठः। कालिकपरत्वापरत्वे जन्यद्रव्य एव । अत्र कालिकपरत्वापरत्वयोः ॥ १२३ ॥ १२४ ॥ अपेक्षावुद्धिनाशेन नाशस्तेपां निरूपितः। तेपां कालिकदेशिकपरत्वापरत्वानाम् ।। क्रमप्राप्तां बुद्धि निरूपयितुमाह- बुद्धेः प्रपञ्चः प्रागेव प्रायशो विनिरूपितः ॥ १२५ ॥ अथावशिष्टोऽप्यपरः प्रकारः परिदर्श्यते। अप्रमा च प्रमा चेति ज्ञानं द्विविधमिष्यते ॥ १२६ ॥ तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता। तत्प्रपञ्चो विपर्यासः संशयोऽपि प्रकीर्तितः ॥ १२७ ॥ वुद्धरिति । तत्राप्रमां निरूपयति- तच्छून्य इति । तदभाववति तत्प्रका- रकं ज्ञानं श्रम इत्यर्थः । तत्प्रपञ्चोप्रमाप्रपञ्चः ।। १२५ ॥ १२६ ॥ १२७ ॥ आद्यो देहेप्यात्मबुद्धिः शङ्खादौ पीततामतिः । भवेन्निश्चयरूपा या संशयोऽथ प्रदर्श्यते ॥१२८॥ आद्य इति । विपर्यास इत्यर्थः । शरीरादौ निश्चयरूपं यदात्मत्वप्रकारकं ज्ञानं गौरोऽहमित्याकारकम् । एवं शङ्खादौ पीतः शङ्ख इत्याकारकं यज्ज्ञानं निश्चयरूपं तद्रम इति ॥ १२८॥ किंस्विन्नरो वा स्थाणुर्वेत्यादिवुद्धिस्तु संशयः। तदभावाप्रकारा धीस्तत्प्रकारा तु निश्चयः ॥ १२९ ॥ किंस्विदिति । किंस्विदिति वितर्के । निश्चयस्य लक्षणमाह-तदभावेति। तदभावाप्रकारकं तत्प्रकारकं ज्ञानं निश्चयः ॥ १२९ ॥ संशयं लक्षयति- स संशयो मतिर्या स्यादेकनाभावभावयोः । साधारणादिधर्मस्य ज्ञानं संशयकारणम् ॥ १३० ॥ स संशय इति । एकर्मिकविरुद्धभावाभावप्रकारकं ज्ञानं संशय इत्यर्थः । साधारणेति । उभयसाधारणो यो धर्मस्तज्ज्ञानं संशयकारणम् । यथोच्चस्तरत्वं स्थाणुपुरुपसाधारणं ज्ञात्वायं स्थाणुन वेति संदिग्धे । एवमसाधारणधर्मज्ञानमपि कारणम् । यथा शब्दत्वस्य नित्यानित्यव्यावृत्तत्वेन शब्दे गृहीतत्वाच्छन्दो नित्योन वेति संदिग्धे । विप्रतिपत्तिस्तु शब्दो नित्यो न वेत्यादिशब्दात्मिका न संशयका- पणं शब्दव्यासिज्ञानादीनां निश्चयमात्रजनकत्वस्वभावात् । किंतु तत्र शब्देन को- पारब दिल ६७ गुणनिरु.] सिद्धान्तमुक्तावलीसहिता। टिद्वयज्ञानं जन्यते संशयस्तु मानस एवेति। एवं ज्ञाने प्रामाण्यसंशयाविषयसंशय इति । एवं व्याप्यसंशयादपि व्यापकसंशय इत्यादिकं बोध्यम् । किंतु सगये धमि- ज्ञानं धर्मीन्द्रियसंनिकों का कारणमिति ॥ १३० ॥ दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् । पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृतः ॥ १३१ ।। दोष इति । अप्रमा प्रति दोप. कारणम् । प्रमा प्रति गुण. कारणम् । तत्रापि पित्तादिरूपा दोपा भननुगताः । तेषां कारणत्वमन्वयव्यतिरेकाभ्यां सिद्धम् । गुणस्य प्रमाजनकत्वं तु अनुमानासिद्धम् । यथा प्रमा ज्ञानसाधारणकारणभिन्नकार- णजन्यान्यज्ञानत्वात् अप्रमावत् । नच दोपाभाव एव कारणमस्त्विति वाच्यं, पीत: शङ्ख इति ज्ञानस्थले पित्तदोपसत्त्वाच्छहत्वप्रमानुत्पत्तिप्रसङ्गात् । विनिगमनाविर- हादनन्तदोषाभावकारणत्वसपेक्ष्य गुणस्य कारणताया न्याय्यत्वात् । नच गुणसत्त्वे- ऽपि पित्तेन प्रतिबन्धाच्छड्के न श्वैत्यज्ञानमतः पित्तादिदोपाभावानां कारणत्वमवश्यं वाच्यं तथाच किं गुणस्य हेतुत्वकल्पनयेति वाच्यं, तथाप्यन्वयव्यतिरेकाम्यां गुण- स्यापि हेतुत्वसिद्धेः । एवं भ्रमं प्रति गुणाभाव. कारणमित्यस्यापि सुवचत्वम् । तत्र दोपाः के इत्याकाङ्क्षायामाह-पित्तेति । कचित्पीतादिभ्रमे पित्तं दोपः । क्वचिञ्चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वं दोप. । कचिच्च वंशोरगभ्रमे मण्डूकवसा. अनमित्येवंरूपा दोपा अननुगता भ्रान्तिजनका इत्यर्थः ॥ १३१ ॥ अथ के गुणा इत्याकाणायां प्रत्यक्षादौ क्रमशो गुणान्दर्शयति- प्रत्यक्षे तु विशेष्येण विशेषणवता समम् । संनिकर्षो गुणस्तु स्यादथ त्वनुमितौ पुनः ॥ १३२ ।। पक्षे साध्यविशिष्टे तु परामर्शो गुणो भवेत् । शक्ये सादृश्यबुद्धिस्तु भवेदुपमितौ गुणः ॥ १३३ ॥ शाब्दबोधे योग्यतायास्तात्पर्यस्याथ वा प्रमा। गुणः स्यानमभिन्नं तु ज्ञानमत्रोच्यते प्रमा ॥ १३४ ॥ प्रत्यक्षे विति । प्रत्यक्षे विशेपणवद्विशेष्यसंनिको गुणः । अनुमितौ साध्य वति साध्यव्याप्यवैशिष्टयज्ञानं गुणः। एवमग्रेऽप्यूह्यम् । प्रमां निरूपयति--भ्रम भिन्नमिति ॥ १३२ ॥ १३३ ॥ १३४ ॥ १ धमिज्ञानस्यापि संशयहेतुत्वात्तस्कृत सशयविभाग कथ न प्रदर्शित इत्याह-संदायेति । संशये तशयमाने । तथाच धर्मिज्ञानजन्यतावच्छेदकस्य संशयत्वसमव्याप्तत्वान्न तत् विभाज- कतावच्छेदकमित्यर्थ । २ आदिपटेन मण्डूकवसादिपरिग्रह । ३ भगवज्ञाने व्यभिचारवार- णायजन्यति । ४ दोपाभावसत्वेऽपिगुणाभावाच्छवादी न पीतत्वादिप्रमा इति न गुणस्यान्यधा- सिद्धत्वमिति भाव । ५ अन्वयव्यतिरेकसत्वेपि यधन्यथासिद्धत्वं तदेत्यर्थः । - कारिकावली ६८ [गुणनिरू० ननु यत्र शुक्तिरजतयोरिमे रजते इति ज्ञानं जातं तत्र रजतांशेऽपि प्रमा न स्यात्, तज्ज्ञानस्य भ्रमभिन्नत्वाभावादत आह- अथ वा तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम् । तत्पमा न प्रमा नापि भ्रमः स्यान्निर्विकल्पकम् ॥ १३५ ॥ प्रकारतादिशून्यं हि संबन्धानवगाहि तत् । अथवेति। तद्वद्विशेप्यकं तत्प्रकारकं ज्ञान प्रमेत्यर्थः । अथैवं स्मृतेरपि प्रमात्वं स्यात् । ततः किमितिचेत्तथा सति तत्करणस्यापि प्रमाणान्तरत्वं स्यादितिचेत् ।न। यथार्थानुभवकरणस्यैव प्रमाणत्वेन विवक्षितत्वात् । इदं तु बोध्यम् । येन संबन्धेन यद्वत्ता तेन संवन्धेन तद्वद्विशेष्यकत्वं तेन संबन्धेन तत्प्रकारकत्वं वाच्यम् । तेन कपालादौ संयोगादिना घटादिज्ञाने नातिव्याप्तिः । एवं सति निर्विकल्पकं प्रमा न स्यात्तस्य सप्रकारकत्वाभावादत माह-न प्रमेति । ननु वृक्षे कपिसंयोगज्ञानं अमः प्रमा च स्यादिति चेत् । न । प्रतियोगिव्यधिकरणसंयोगाभाववति संयोग- ज्ञानस्य भ्रमत्वात् । नच वृक्षे संयोगाभावावच्छेदेन संयोगज्ञान भ्रमो न स्या- तत्र संयोगाभावस्य प्रतियोगिसमानाधिकरणत्वादिति वाच्यं, तत्र संयोगाभावाव. च्छेदेन संयोगज्ञानस्य भ्रमत्वात् । लक्ष्यस्याननुगमालक्षणाननुगमेऽपि न क्षतिः ॥ प्रमात्वं न स्वतो ग्राह्यं संशयानुपपत्तितः ॥ १३६ ।। प्रमात्वमिति । मीमांसका हि प्रमात्वं स्वतो ग्राह्यमिति वदन्ति । तत्र गुरू- णां मते ज्ञानस्य स्वप्रकाशरूपत्वात्तज्ज्ञानप्रामाण्यं तेनैव गृह्यत इति । भट्टानां मते ज्ञानमतीन्द्रियम् । ज्ञानजन्या ज्ञातता प्रत्यक्षा तया च ज्ञानमनुमीयते । मुरारिमिश्राणां मतेऽनुव्यवसायेन ज्ञानं गृह्यते । सर्वेपामपि मते तज्ज्ञानविषयक- ज्ञानेन तज्ज्ञानप्रामाण्यं गृह्यते । विषयनिरूप्यं हि ज्ञानमतो ज्ञानवित्तिवेद्यो विषयः । तन्मतं दूपयति-न स्वतो ग्राह्यमिति । संशयेति । यदि ज्ञानस्य प्रामाण्यं स्वतो ग्राह्यं स्यात्तदाऽनभ्यासदशापन्नज्ञाने प्रामाण्यसंशयो न स्यात् । तत्र हि यदि ज्ञानं ज्ञातं तदा त्वन्मते प्रामाण्यं ज्ञातमेवेति कथं संशयः । यदि तु ज्ञानं न ज्ञातं तदा धर्मिज्ञानाभावात्कथं संशयः। तस्माज्ज्ञाने प्रामाण्यमनुमे- यम् । तथाहि-इदं ज्ञान प्रमा संवादिप्रवृत्तिजनकत्वात् , यन्नैवं तन्नैवं यथा- प्रमा। इदं पृथिवीत्वप्रकारकं ज्ञानं प्रमा, गन्धवति पृथिवीत्वप्रकारकज्ञानत्वात् । एवमिदं जलत्वप्रकारकं ज्ञानं प्रमा स्नेहवति जलत्वप्रकारकज्ञानत्वात् । नच हेतु. १ स्वविपयकत्वादित्यर्थः । २विपयघटितं हि प्रामाण्यं कयं ज्ञानज्ञाने विपय इत्याशयां निराचष्टे-विपयनिरूप्यमिति । विपयाकारणाकारवदित्यर्थ । विपयाविपयकप्रत्यक्षाविपय इति यावत् । ३ वित्तिाम्ज्ञानम् । ४ अवधृतप्रामाण्यसजातीयेतरेत्यादि । यस्मिन्प्रामाण्यमयधृतं तत्सजातीये साजात्सेन लिङ्गेन प्रामाण्यानुमानान्न संशय इति भावः ।
मानव ॥ -- गनिरू.] सिद्धान्तमुक्तावलीसहिता। ६९ नं कथं जातमिति वाच्यं, पृथिवीत्वप्रकारकत्वस्य स्वतो ग्राह्यत्वात् । तत्र ग. धिग्रहेण गन्धवद्विशेप्यकत्वस्यापि सुग्रहत्वात् । तत्प्रकारकत्वावच्छिन्नतद्वद्विशे- प्यकत्वं परं न गृह्यते, संशयानुरोधात् । ननु सर्वेपा ज्ञानानां यथार्थत्वात्प्रमा- लक्षणे तद्वद्विशेष्यकत्वं विशेषणं व्यर्थम्, नच रङ्गे रजतार्थिनः प्रवृत्तिभ्रंमजन्या न स्यात् तव मते भ्रमस्याभावादिति वाच्यं, तत्र हि दोपाधीनस्य पुरोवर्तिनि स्वतन्त्रोपस्थितरजतभेदाग्रहस्य हेतुत्वात् । सत्यरजतस्थले तु विशिष्टज्ञानस्य सवा- तदेव कारणम् , अस्तु वा तत्रापि भेदाग्रहः, स एव कारणमिति । न चान्यथा- ख्यातिः संभवति, रजतप्रत्यक्षकारणस्य रजतसंनिकर्पस्याभावात्, रङ्गे रजतबुद्धर- नुपपत्तेरिति चेत् । न । सत्यरजतस्थले प्रवृत्तिं प्रति विशिष्टज्ञानस्य हेतुतायाः कृतत्वादन्यत्रापि तत्कल्पनात् । नच संवादिप्रवृत्तौ तत्कारणं विसंवादिप्रवृत्ती चभेदाग्रहः कारणमिति वाच्यं, लाघवेन प्रवृत्तिमात्रे तस्य हेतुत्वकल्पनात् । इत्यं चरङ्गे रजतत्वविशिष्टबुद्ध्यनुरोधेन ज्ञानलक्षणप्रत्यासत्तिकल्पनेऽपि न क्षतिः, फल- मुखगौरवस्यादोपत्वात् । किंच यत्र रङ्गरजतयोरिमे रजते रङ्गे वेति ज्ञानं जातं तत्र न कारणबाधोऽपि । अपिच यन्त्र रङ्गरजतयोरिमे रजतरङ्गे इति ज्ञानं तत्रोभ- यत्र युगपत्प्रवृत्तिनिवृत्ती स्यातां रङ्गे रङ्गभेदग्रहे रजते रजतभेदग्रहे चान्यथाख्या- तिभयात् । त्वन्मते दोपादेव रङ्गे रजतभेदाग्रहस्य रजते रङ्गभेदाग्रहस्य च सत्त्वात् । किंचानुमिति प्रति भेदाग्रहस्य हेतुत्वे जलहदे वहिव्याप्यधूमवद्वेदान- हादनुमितिनिराबाधा । यदि च विशिष्टज्ञानं कारणं तदाऽयोगोलके वहिव्याप्य- धूमज्ञानमनुमित्यनुरोधादापतितम् । सेयमुभयतःपाशा रज्जु. । इत्थंचान्यथाख्या तौ प्रत्यक्षमेव प्रमाणं रॉ रजततयाऽवेदिपमित्यनुभवादिति संक्षेपः॥१३५॥१३६ पूर्व व्याप्तिरुक्ता तनहोपायस्तु न दर्शित इत्यतस्तं दर्शयति- व्यभिचारस्याग्रहोऽपि सहचारग्रहस्तथा । हेतुर्व्याप्तिग्रहे तर्कः क्वचिच्छङ्कानिवर्तकः ॥ १३७ ॥ १ संशयजनकदोपस्य प्रामाण्यग्रहप्रतिवन्धकत्वकरपनादिति भावः । • रजतत्वविशिष्ट विपयकत्वेन प्रवृत्त्यनुमिती प्रति रजतभेदाग्रहत्वेन हेतुत्वं लाघवात्, नतु प्रवृत्ति प्रति विशिष्टज्ञानत्वेन पृथकारणत्वं गौरवात् । इत्थं च न तदनुरोधेन कल्पनीयभ्रमात्मकरजत. ज्ञानार्थ ज्ञानलक्षणाप्रत्यासत्यादर इति कारणवाधाद्वा धितमेव मिध्याज्ञानमित्याशा मनसि निधाय स्थलविशेपे कारणवाधामावादनिवार्यमेव मिथ्याज्ञानमित्याह-फिंचेति । ३ रङ्ग रङ्गभेटाग्रहस्य रजते रजतभेदाग्रहस्योति पूरितस्य सरवादित्यनेनान्वयः । अनेन रनेशनि. एभेदाग्रहरूपा निवृत्तिसामग्री रजते इप्टभेदाग्रहरूपा प्रवृत्तिसामग्री चदर्शिता । रहे रज- तभेदाग्रहस्येत्यादिना च रङ्के इष्टभेटानहरूपा प्रवृत्तिसामग्री रजतेऽनिष्टमेदाग्रहरूपा निवृ- त्तिसामग्री च दर्शिता। ४ त्वन्मते न्यायाभिमतश्रमस्थलाभिषिक्तमेटाग्रहं प्रनि दोपस्य हेतुत्या. दिति भावः। ५ ननु रङ्गे रजतभेदाग्रहप्रयोजकदोपस्य प्रतिवन्धकत्वान्न रहे निवृत्तिरेय रजते रद्गभेदासंसर्गग्रहप्रयोजकदोपस्य प्रतिवन्धकत्वान्न रजते प्रवृत्तिरिति कथं युगपत्प्रवृत्ति निवृत्योरापाटनमित्यत आह-किचेति । . . प्र कारिकावली [गुणनिरू० व्यभिचारस्येति । व्यभिचाराग्रहः सहचारग्रहश्च व्याप्तिग्रहे कारणम् । व्यभिचारग्रहस्य व्याप्तिग्रहे प्रतिबन्धकत्वात्तदभावः कारणमित्यर्थः । एवमन्वय- व्यतिरेकाभ्यां सहचारग्रहस्यापि हेतुता । भूयोदर्शनं तु न कारणं व्यभिचारा- स्फूतौ सकृर्शनेऽपि क्वचिद्वयाप्तिग्रहात् । कचियभिचारशङ्काविधूननद्वारा भूयो- दर्शनमुपयुज्यते । यत्र तु भूयोदर्शनादपि शङ्का नापति तत्र विपक्षबाधकतर्को ऽपेक्षितः । तथाहि-वह्निविरहिण्यपि धूमः स्यादिति यद्याशङ्का भवति तदा सा वह्निधूमयोः कार्यकारणभावस्य प्रतिसंधानान्निवर्तते । यद्ययं वह्निमान स्यात्तदा धूमेवान्न स्यात्कारणं विना कार्यानुत्पत्तेः । यदि च क्वचित्कारणं विना कार्य भविष्यति तदाऽहेतुक एवं भविष्यतीति तत्राप्याशङ्का भवेत्तदा सा व्याघाता- दपसारणीया । यदि हि कारणं विना कार्य स्यात्तदा धूमार्थ वढेस्तृयथै भोजनस्य वा नियमत उपादानं तवैव न स्यादिति। यत्रे खैत एव शङ्का नावतरति तत्र न तर्कापेक्षापीति तदिदमुक्तम्-तर्कः कचिच्छङ्कानिवर्तक इति ॥ १३७ ॥ इदानी परकीयव्याप्तिग्रहप्रतिवन्धार्थमुपाधि निरूपयति- साध्यस्य व्यापको यस्तु हेतोरव्यापकस्तथा । स उपाधिर्भवेत्तस्य निष्कर्षोऽयं प्रदर्यते ॥ १३८ ॥ साध्यस्यति । साध्यत्वाभिमतव्यापकत्वे सति साधनत्वाभिमताव्यापकत्वमु- पाधिरित्यर्थः । ननु से श्यामो मित्रातनयत्वादित्यत्र शाकपाकजन्यत्वं नोपाधि- स्यात्तस्य साध्यव्यापकत्वाभावाच्छयामत्वस्य घटादावपि सत्त्वात्, एवं वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्त्वं नोपाधिः स्यात्प्रत्यक्षत्वस्यात्मा- दिषु सत्त्वात्तन च रूपाभावात्, एवं ध्वंसो विनाशी जन्यत्वादित्यत्र भावत्वं नोपाधिः स्याद्विनाशित्वस्य प्रागभावेऽपि सत्त्वात्तत्र च भावत्वाभावादिति चेत् । न । यद्धर्मावच्छिन्नसाध्यव्यापकत्वं तद्धर्मावच्छिन्नसाधनाव्यापकत्वमित्यर्थे तात्प- र्यात् । मित्रातनयत्वावच्छिन्नश्यामत्वस्य व्यापकं शाकपाकजत्वं तदवच्छिन्नसाध- नाव्यापकं च । एवं पक्षधर्मवहिव्यत्वावच्छिन्न प्रत्यक्षत्वस्य व्यापकमुद्भूतरूपव- त्वम् । एवं बहिर्द्रव्यत्वावच्छिन्नसाधनस्याव्यापकं च । एवं ध्वंसो विनाशी जन्य- वादित्यत्र जन्यत्वावच्छिन्नसाध्यव्यापकं भावत्वम् । सद्धेतौ तु एतादृशो धर्मों नास्ति यदवच्छिन्नस्य साध्यस्य व्यापकं तदवच्छिन्नस्य साधनस्य चाव्यापकं किंचि- १ ताहशतककारणीभूनकार्यकारणभावग्रहेऽपीत्यर्थ । पक्षे आपाधाभाववत्तानिश्चयस्य तर्क- कारणत्वात् । २ ननु तकेपि आपाद्यव्याप्यापादकवत्ताज्ञानं कारणं तत्र व्याप्तिज्ञानप्रतिवन्धक- व्यभिचारशहानियनकस्नकोऽपेक्षित एवमग्रेपोत्यनवस्थत्यत आह-यत्रेति । ३शवासामग्रीविर- हादेव । ४ काक याम मित्रातनयत्वादित्यर्थः । तेन वक्ष्यमाणेन ध्वंसो विनागी, अन्यत्वा- दित्यनेन न पौनरस्त्यम् । अस्य साधनावच्छिन्नसाध्यव्यापकत्वादग्रिमस्य साधनरूपपक्षधर्माव- च्छिन्नसाध्यव्यापकत्वात् । ५ उपाधे साध्यव्यापकरवे कार्यकारणभावलक्षणानुकृलतर्कप्रदर्श- नार्थमुद्भूतपढम् ।
गुणनिरू.] सिद्धान्तमुक्तावलीसहिता । - - त्यात् । व्यभिचारिणि तूपाध्यधिकरणं यत्साध्याधिकरणं यच्चोपाधिशून्यं साध्य- व्यभिचाराधिकरणं तदन्यतरत्वावच्छिन्नस्य साध्यस्य व्यापकत्वं साधनस्य चाचा- पकत्वमुपारन्ततः संभवतीति ॥ १३८ ॥ अतएव लक्ष्यमप्युपाधिस्वरूपमेतदनुसारेण दर्शयति-सर्व इत्यादिना । सर्वे साध्यसमानाधिकरणाः स्युरुपाधयः । हेतोरेकाश्रये येषां स्वसाध्यव्यभिचारिता ॥ १३९ ।। स्वसाध्यति । स्वं च साध्य च स्वसाध्ये तयोयभिचारितेत्यर्थ ॥१३९॥ उपाधे पकताबीजमाह- व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम् । व्यभिचारस्येति । उपाधिव्यभिचारेण हेतौ साध्यव्यभिचारानुमानमुपाधैः प्रयोजनमित्यर्थः। तथाहि-यत्र शुद्धसाध्यव्यापक उपाधिस्तत्र शुद्धेनैवोपाधिव्यभि- चारेण साध्यव्यभिचारानुमानम्।यथाधूमवान्वह्ररित्यादौ वहिषूमव्यभिचारी,तया- पकान्धनसंयोगव्यभिचारित्वादितिाव्यापकव्यभिचारिणो व्याप्यव्यभिचारावश्य- कत्वातायन तु किंचिद्धर्मावच्छिन्नसाध्यव्यापक उपाधिस्तत्र तद्धर्मवति उपाधिव्यभि- चौरेण साध्यव्यभिचारानुमानम् । यथा स श्यामो मिन्नातनयत्वादित्यादौ मित्रातन- यत्वं श्यामत्वव्यभिचारि मित्रातनये शाकपाकजत्वव्यभिचारित्वादिति । वाधानु- नीतपक्षेतरस्तु साध्यव्यापकताग्राहकाप्रमाणाभावात्स्वव्याघातकत्वाच नोपाधिः । बाधोनीतस्तूपाधिर्भवत्येव । यथा वहिरनुप्णः कृतकत्वादित्यादौ प्रत्यक्षेण वह्या- वुष्णत्वग्रहे वहीतरत्वमुपाधिः । यत्र तूपाधेः साध्यव्यापकता संदियते स संदि- ग्धोपाधिः। पक्षेतरस्तु संदिग्धोपाधिरपि नोडावनीयः कथकसंप्रदायानुरोधादिति । केचित्तु सत्प्रतिपक्षोत्थापनमुपाधिफलम् । तथाहि-अयोगोलकं धूमवद्वहेरित्या- दावयोगोलकं धूमाभाववदान्धनाभावादिति सत्प्रतिपक्षसंभवात् । इत्थं च सा- धनव्यापकोऽपि क्वचिदुपाधिः। यथा करका पृथिवी कठिनसंयोगववादित्या- दावनुप्णाशीतस्पर्शवत्त्वम् । न चान स्वरूपासिद्धिरेव दूपणमिति वाच्यं, सर्व- त्रोपाधेर्दूपणान्तरसांकर्यात् । भन्न च साध्यव्यापकः पक्षावृत्तिरुपाधिरित्याहुः ।। शब्दोपमानयोनॆव पृथक्प्रामाण्यमिष्यते ॥ १४० ॥ अनुमानगतार्थत्वादिति वैशेषिकं मतम् । तन्न सम्यग्विना व्याप्तिवोधं शब्दादिवोधतः॥१४१॥ १ स्फूर्तावित्यर्थ । यद्धर्मावच्छिन्नत्वघटितनिरुक्तलक्षणस्य तात्पर्यविपयत्वादेव । ३ नि. रक्तालक्षणानुसारेणेत्यर्थ । ४ तद्धर्माधिकरण यदुपाध्यभायाधिकरण तहृत्तित्वेनेत्यर्थ । ५ दूप. कताव्याघातकरवादित्यर्थ । दूपकत्वं सस्य व्यभिचारानुमानाधीनम् । तापक्षेतरन्यो- पाधित्वे चानुमानमात्रोच्छेदप्रसद् इति ।
। कारिकावली [गुणनिरू० शब्दोपमानयोरिति । वैशेषिकाणां मते प्रत्यक्षमनुमानं च प्रमाणम् । श- ब्दोपमानयोस्त्वनुमानविधयैव प्रामाण्यम् । तथाहि-दण्डेन गामानयेत्यादिलो- किकपदानि यजेतेत्यादि वैदिकपदानि वा तात्पर्यविपयस्मारितपदार्थसंसर्गप्रमा- पूर्वकाणि, आकाङ्क्षादिमत्पदकदम्बत्वादटमानयेति पदकदम्बवत् । यद्वा एते प- दार्था मिथःसंसर्गवन्तः, योग्यतादिमत्पदोपस्थापितत्वात्, तादृशपदार्थवत् । दृष्टान्तेऽपि दृष्टान्तान्तरेण साध्यसिद्धिरिति । एवं गवयव्यक्तिप्रत्यक्षानन्तरं ग. वयपदं गवयत्वप्रवृत्तिनिमित्तकम् , असति वृत्यन्तरे वृद्धस्तत्र प्रयुज्यमानत्वात् । असति च वृत्त्यन्तरे वृद्धैर्यत्र यत्प्रयुज्यते तत्र तत्तत्प्रवृत्तिनिमित्तकम् । यथा गोपदं गोत्वप्रवृत्तिनिमित्तकम् । यद्वा गवयपद सप्रवृत्तिनिमित्तकं साधुपदत्वादि- त्यनुमानेन पक्षधर्मताबलाद्वयत्वप्रवृत्तिनिमित्तकत्वं सिद्ध्यति। तन्मतं दूपयति- तन्न सम्यगिति । व्याप्तिज्ञानं विनापि शाब्दबोधस्यानुभवसिद्धत्वात् । न हि सर्वत्र शब्दश्रवणानन्तरं व्याप्तिज्ञाने प्रमाणमस्तीति। किंच सर्वत्र शाब्दस्यले यदि व्याप्तिज्ञानं कल्प्यते तदा सर्वत्रानुमितिस्थले पदज्ञानं कल्पयित्वा शाब्दबोध एव किं न स्वीक्रियतामिति ध्येयम् ॥ १४० ॥ ११ ॥ त्रैविध्यमनुमानस्य केवलान्वयिभेदतः। द्वैविध्यं तु भवेद्याप्तेरन्वयव्यतिरेकतः ॥ १४२ ॥ अन्वयव्याप्तिरुक्तैव व्यतिरेकादिहोच्यते । त्रैविध्यमिति । भनुमानं हि त्रिविधं केवलान्वयिकेवलव्यतिरेक्यन्वयव्यति- रेकिभेदात् । तत्रासद्विपक्षः केवलान्वयी । यथा घटोऽभिधेयः प्रमेयत्वादित्यादौ। तन हि सर्वस्यैवाभिधेयत्वाद्विपक्षासत्त्वम् । असत्सैपक्षः केवलव्यतिरेकी । यथा पृथिवी इतरेभ्यो भिद्यते, गन्धववादित्यादौ। तत्र हि जलादित्रयोदशभेदस्य पूर्वमनिश्चिततया निश्चितसाध्यवतः सपक्षस्याभावात् । ससपक्षविपक्षोऽन्वय- व्यतिरेकी । यथा वह्निमान्धूमादित्यादौ । तत्र सपक्षस्य महानसादेविपक्षस्य जलहूदादेश्च सत्वादिति ॥ तत्र व्यतिरेकिणि व्यतिरेकव्याप्तिज्ञान कारणं तदर्थ व्यतिरेकव्याप्ति निर्वक्ति- साध्याभावव्यापकत्वं हेत्वभावस्य यद्भवेत् ॥ १४३ ॥ १ तात्पर्यविपयो यः सारितपदार्थानां संसर्ग इत्यर्थः । २ अत्यन्ताभावाप्रतियोगिसा. ध्यक इत्यर्थ । तेन न सिद्धयसिद्धिव्याघात । प्रसिद्धानां घटायत्यन्ताभावानां प्रतियो- गित्वस्य घटादावेव सत्वात्, अभिधेयत्वादीनां च सर्वत्र विद्यमानतयाऽसन्ताभावाप्रसि. द्धरत्यन्तामावाप्रतियोगित्वस्याक्षततया घटोऽभिधेयप्रमेयत्वादित्यादौ तादृगसाध्यके प्र. मेयत्वादी लक्षणसमन्ययः । ३ सिद्धयसिदिव्याघातादत्राप्यगृहीतहेतुसहचारं यद्वयतिरे- कि साध्यं तत्कत्यमित्यर्थः । साध्ये व्यतिरेकित्वं चात्यन्ताभावप्रतियोगित्वं बोध्यम् । ४ गृहीतान्वयन्यतिरेकसाध्यकमित्यर्थः ।
गुणनिरू.] सिद्धान्तमुक्तावलीसहिता। साध्याभावेति । साध्याभावव्यापकीभूताभावप्रतियोगित्वमित्यर्थः । अत्रेदं बोध्यम् । यत्संवन्धेन यदवच्छिन्न प्रति येन संबन्धेन येन रूपेण व्यापकता गृह्यते तत्संवन्धावच्छिन्नप्रतियोगिताकतधर्मावच्छिन्नाभाववत्ताज्ञानात्तसंयन्धाव- च्छिन्नप्रतियोगिताकतद्धर्मावच्छिन्नाभावस्य सिद्धिरिति । इत्थं च यत्र विशेपण- तादिसंवन्धेनेतरत्वव्यापकत्वं गन्धाभावे गृह्यते तत्र गन्धाभावाभावेनेतरत्वात्य- न्ताभावः सिध्यति । यत्र तु तादात्म्यसंवन्धेनेतरव्यापकत्वं गन्धाभावस्य गृह्यते तत्र तादात्म्यसंवन्धेनेतरस्याभावः सिध्यति । स एवान्योन्याभावः । एवं यत्र संयोगसंबन्धेन धूमं प्रति संयोगसंवन्धेन वापकता गृह्यते तत्र संयोगसंव- न्धावच्छिन्नप्रतियोगिताकवयभावेन जलहदे संयोगसंवन्धावच्छिन्नप्रतियोगिता- कधूमाभावः सिध्यति । अत्र च व्यतिरेकव्याप्तिग्रहे व्यतिरेकसहचारज्ञानं कार- णम् । केचित्तु व्यतिरेकसहचारेणान्वयव्याप्तिरेव गृह्यते न तु व्यतिरेकव्याप्तिज्ञानं कारणम् । यत्र व्यतिरेकसहचारादथाप्तिग्रहस्तत्र व्यतिरेकीत्युच्यते । साध्यप्रसि. द्धिस्तु घटादावेव जाता पैश्चात्पृथिवीत्वावच्छेदेन साध्यत इति वदन्ति ॥ १४२॥ - अर्थापत्तिस्तु नैवेह प्रमाणान्तरमिष्यते । व्यतिरेकव्याप्तिवुद्ध्या चरितार्था हि सा यतः ॥ १४४ ॥ अर्थापत्तिरिति।अर्थापत्तिःप्रमाणान्तरमिति केचन मन्यन्ते । तथाहि-यत्र देवदत्तस्य शतवर्पजीवित्वं ज्योतिःशास्त्रादवगत जीविनो गृहासत्वं च प्रत्यक्षा- दवगतं तत्र शतवर्पजीविनो गृहासत्त्वं बहिःसत्त्वं विनाऽनुपपन्नमिति बहि.सत्वं कल्प्यत इति । तदनुमानेन गतार्थत्वान्नेप्यते। तथाहि-यत्र जीवित्वस्य वहिःस. स्वगृहसत्त्वान्यतरव्याप्यत्वं गृहीतं तत्रान्यतरसिद्धी जायमानायां गृहसत्त्रवाधा- द्वहिःसत्त्वमनुमितौ भासते । एवं पीनो देवदत्तो दिवा न भुङ्ग इत्यादी पीनत्वत्य भोजनव्याप्यत्वावगमाद्भोजनसिद्धौ दिवाभोजनवाधे रात्रिभोजनं सिध्यतीति । . अभावप्रत्यक्षस्यानुभविकत्वादनुपलम्भोऽपि न प्रमाणान्तरम् । किंचानुपलम्भ- स्याज्ञातस्य हेतुत्वे ज्ञानाकरणकत्वात्प्रत्यक्षत्वम् । ज्ञातस्य हेतुत्वे तु तत्राप्यनुपल- म्भान्तरापेक्षेत्यनवस्था । एवं चेष्टापि न प्रमाणान्तरं तस्याः संकेतग्राहकशब्दस्मार- कत्वेन लिप्यादिसमशीलत्वाच्छन्द एवान्तर्भावात् । यत्र च व्यायादिग्रहन्तत्रा. नुमितिरेवेति ॥ १४४ ॥ १ यत्सबन्धावच्छिन्न-यद्रूपावच्छिन्न-च्याप्यतानिरूपितव्यापकता गृह्यत इत्यर्थः । २ ताटा- त्यसंबन्धावच्छिन्ना या इतरनिष्ठव्याप्यता तन्निरूपितव्यापकतेत्यर्थः। अवच्छेटकावच्छे. देनानुमिती सामानाधिकरण्येन साध्यसिद्धरप्रतिवन्धकत्वादिति भावः । ४ मीमांसका। ५ 'यत्र यत्र जीवित्वं तत्र तत्र वहि सत्त्वगृहसत्त्यान्यतरत्' इति व्याप्तिग्रहेण, अन्यनरत्वेन स्पेण बहि सत्वभानमित्यर्थ ।
कारिकावली [गुणनिरू० - सुखं निरूपयति- सुखं तु जगतामेव काम्यं धर्मेण जायते । सुखं त्विति । काम्यममिलापविषयः। धर्मेणेति । धर्मत्वेन सुखत्वेन कार्य- कारणभाव इत्यर्थः॥ दुःखं निरूपयति- अधर्मजन्यं दुःखं स्यात्प्रतिकूलं सचेतसाम् ॥ १४५ ॥ अधर्मेति । अधर्मत्वेन दुःखत्वेन कार्यकारणभाव इत्यर्थः। प्रतिकूलमिति । दुःखत्वज्ञानादेव सर्वेषां स्वाभाविकद्वैपविपय इत्यर्थः ॥ १४५ ॥ इच्छां निरूपयति- निर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते । इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्यदि ॥ १४६ ॥ निर्दुःखत्व इति । इच्छा द्विविधा फलविपयिणी उपायविपयिणी च । फलं तु सुखं दुःखाभावश्च । तत्र फलेच्छां प्रति फलज्ञानं कारणम् । अत एव पुरुपार्थः संभवति । यज्ज्ञातं सत्स्ववृत्तितयेष्यते स पुरुषार्थ इति तल्लक्षणात् । इतरेच्छान- धीनेच्छाविषयत्वं फलितोऽर्थः। उपायेच्छांप्रतीष्टसाधनताज्ञानं कारणम् ॥१४६॥ चिकीर्षा कृतिसाध्यत्वप्रकारेच्छा च या भवेत् । तद्धेतुः कृतिसाध्येष्टसाधनत्वमतिर्भवेत् ॥ १४७ ॥ चिकीर्षति । कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविपयिणीच्छा चिकी. पी, पाकं कृत्या साधयामीति तदनुभवात् । चिकीपी प्रति कृतिसाध्यताज्ञानमि- टसाधनताज्ञानं च कारणम् । तद्धेतुरिति । अत एव वृष्टयादौ कृतिसाध्यता- ज्ञानाभावान चिकीर्पा ॥ १४७ ॥ बलवद्विष्टहेतुत्वमतिः स्यात्प्रतिवन्धिका । बलवदिति । बलवद्विष्टसाधनताज्ञानं प्रतिबन्धकम् । अतो मधुविपसंपृक्का- नभोजने न चिकीर्पा । बलवद्वेपः प्रतिवन्धक इत्यन्ये । १ ननु कृतिसाध्यताज्ञानस्य स्वातध्येण चिफीपी प्रति हेतुत्वे मानाभावः । तद्धर्भावच्छिन्न- विशेष्यकेप्टसाधनताज्ञानस्य तद्धर्मप्रकारकेच्छां प्रति हेतुतायाः कृप्तत्वात्कृतिसाध्यपाकत्वावच्छि- भविशेप्यकेष्टसाधनताहानादेव चिकीर्यायाः संभवादितिचेत् । न । यत्र कृतिसाध्यपाकत्वेनेष्टसा- धनत्यं न गृहीतमपि तु शुद्धपाकत्वेन कृतिसाध्यत्वं शुद्धपाकत्वेन चेष्टसाधनत्वं गृहीतं तत्रापि पाकगोचरप्रवृत्तेरानुमविकतया तदनुरोधेन चिकीर्षाया अप्यावश्यकत्वेन तन्निर्वाहाय कृति- साध्यतामानस्य स्वातन्येण हेतुताया आवश्यकत्वात् ।
गुणनिरु.] सिद्धान्तमुक्तावलीसहिता। - .. । तदहेतुत्ववुद्धेस्तु हेतुत्वं कस्यचिन्मते ॥ १४८॥ तदहेतुत्वेति । बलवदनिष्टाजनकत्वज्ञानं कारणमित्ययः ।। १४८ ॥ द्वेषं निरूपयति- द्विष्टसाधनतावुद्धिर्भवेद्वेपस्य कारणम् । द्विष्टसाधनतेति । दुःखोपायविषयक द्वेष प्रति बलवद्विष्टसाधनताज्ञानं कारणमित्यर्थः । वलवदिष्टसाधनताज्ञान प्रतिवन्धकम् । तेन नान्तरीयकदु खज. नके पाकादौ न द्वपः ॥ प्रयतं निरूपयति- प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् ॥ १४९ ॥ एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिकीर्तितम् । प्रवृत्तिश्चेति । प्रवृत्ति-निवृत्ति-जीवनयोनियनभेदात्मयत्नस्त्रिविध इत्यर्थः । चिकीर्षा कृतिसाध्येप्टसाधनत्वमतिस्तथा ॥ १५० ॥ उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् । चिकीर्षेत्यादि। मधुविपसंपृक्तान्नभोजनादौ बलवदनिष्टानुवन्धित्वेन चिकीर्षा- भावान प्रवृत्तिरिति भावः। कृतिसाध्यताज्ञानादिवद्वलवदनिष्टाननुवन्धित्वज्ञानमपि खतन्त्रान्वयव्यतिरेकाभ्यांप्रवृत्तौ कारणमित्यपि वदन्ति। कार्यताज्ञानं प्रवर्तकमिति गुरवः। तथाहि-ज्ञानस्य प्रवृत्तौ जननीयायांचिकीतिरिक्तं नापेक्षितमस्ति । सोच कृतिसाध्यताज्ञानसाध्या इच्छाया: स्वप्रकारप्रकारकधीसाध्यत्वनियमात् । चिकीपी हि कृतिसाध्यत्वप्रकारिकेच्छा । तत्र कृतिसाध्यत्वं प्रकारस्तत्प्रकारकज्ञानं चिकीपीयां तद्वारा च प्रवृत्तौ हेतुर्न त्विष्टसाधनताज्ञानं तत्र हेतुः । कृत्यसाध्येऽपि चन्द्रमण्ड- लानयनादौ प्रवृत्त्यापत्तेः। ननु कृत्यसाध्यताज्ञानं प्रतिबन्धकमिति चेत्।न।तभा- वापेक्षया कृतिसाध्यताज्ञानस्य लघुत्वात् । नच द्वयोरपि हेतुत्वं, गौरवात् । ननु त्वन्मतेऽपि मधुविपसंपृक्तान्नभोजने चैत्यवन्दने च प्रवृत्त्यापत्ति. कार्यताज्ञानस्य सत्त्वादिति चेत् ।न। स्वविशेषणवत्ताप्रतिसंधानजन्यकार्यताज्ञानस्य प्रवर्तकत्वात् । काम्ये हि यागपाकादौ कामना स्वविशेपणम् । ततश्च वलवदनिष्टाननुवन्धिका. । १ चिकीत्यर्थ । २ स्व प्रवर्तमानः पुरुपस्तद्विशेपणं काम्ये कामना नित्ये कालशौचादि तद्वत्ता पक्षे तत्संवन्धः । तस्य प्रतिसंघानं ज्ञानमित्यर्थः । तस्य कार्यताज्ञानहेतुता लिजज्ञान. विधया। तथाहि-पाको मकृतिसाध्य मत्कृति विनाऽसत्त्वे सति नदिष्टसाधनत्यादित्यनु मानम् ।
कारिकावली [गुणनिरू. म्यसाधनताज्ञानेन कार्यताज्ञानम् । ततः प्रवृत्तिः । तृप्तश्च भोजने न प्रवर्तते त- दानी कामनायाः पुरुषविशेषणत्वाभावात् । नित्ये च शौचादिकं पुरुपविशेप- णम् । तेन शौचादिज्ञानाधीनकृतिसाध्यताज्ञानात्तत्र प्रवृत्तिः । ननु तदपेक्षया लाघवेन बलवदनिष्टाननुवन्धीष्टसाधनताविषयककार्यताज्ञानत्वेनैव हेतुत्वमस्तु बलवदनिष्टाननुवन्धित्वं चेष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनकत्वं बलवटेप- विपयदुःखाजनकत्वं वेति चेत् । न । इष्टसाधनत्वकृतिसाध्यत्वयोयुगपज्ज्ञातुमशक्य- त्वात्साध्यत्वसाधनत्वयोर्विरोधात् । असिद्धस्य हि साध्यत्वं सिद्धस्य च साधनत्व- म् । न चैकमेकेनेकदा सिद्धमसिद्धं चेति ज्ञायते तस्मात्कालभेदादुभयं ज्ञायत इति । मैवं । लाघवेन बलवदनिष्टाननुवन्धीष्टसाधनत्वे सति कृतिसाध्यताज्ञानस्य हेतुत्वात् । नच साध्यत्वसाधनत्वयोर्विरोधो यदा कदाचित्साध्यत्वसाधनत्वयो- रविरोधादेकदासाध्यत्वसाधनत्वयोश्च ज्ञानात् । नव्यास्तु ममेदं कृतिसाध्यमिति ज्ञानं न प्रवर्तकमनागते तस्य ज्ञातुमशक्यत्वात् । किंतु यादृशस्य पुंसः कृतिसा- ध्यं यदृष्टं तादृशत्वं स्वस्य प्रतिसंधाय तत्र प्रवर्तते । तेनौदनकामस्य तत्साधन- ताज्ञानवतस्तदुपकरणवतः पाकः कृतिसाध्यस्तादृशश्चाहमिति प्रतिसंधाय पाके प्रवर्तत इत्याहुः । तन्न। स्वकल्पितलिप्यादिप्रवृत्तौ यौवने कामोद्भेदादिना संभोगा- दौ च तदभावात् । इदं तु बोध्यम् । इदानींतनेष्टसाधनत्वादिज्ञानं प्रवर्तकं तेन भावियौवराज्ये वालस्य न प्रवृत्तिः, तदानींकृतिसाध्यत्वाज्ञानात् । एवं तृप्तश्च भोजने न प्रवर्तते तदानीमिष्टसाधनत्वाज्ञानात् । प्रवर्तते च रोगदूपितचित्तो वि. पादिमक्षणे तदानीबलवदनिष्टानुवन्धित्वाज्ञानात् । न चास्तिकस्यागम्यागमन- शत्रुवधादिप्रवृत्ती कथं वलवदनिष्टाननुवन्धित्वबुद्धिर्नरकसाधनत्वज्ञानादिति वा- च्यम् , उत्कटरागादिना नरकसाधनताधीतिरोधानात् । वृष्टयादौ तु कृतिसाध्यता- ज्ञानाभावान्न चिकीप्रिवृत्ती किंस्विष्टसाधनताज्ञानादिच्छामात्रम् । कृतिश्च प्रवृ- तिरूपा बोध्या । तेन जीवनयोनियलसाध्ये प्राणपञ्चकसंचारे न प्रवृत्तिः । इत्थंच प्रवर्तकत्वानुरोधाद्विधेरपीष्टसाधनत्वादिकमेवार्थः । इत्थंच 'विश्वजिता यजेत' इत्या. दौ यत्र फलं न श्रूयते तत्रापि स्वर्गः फलं कल्प्यते । ननु 'अहरहः संध्यामुपासीत' इत्यादाविष्टानुत्पत्तेः प्रवृत्तिः कथम्, न चार्थवादिकं ब्रह्मलोकादि प्रत्यवायाभावो वा फलमिति वाच्यं, तथा सति काम्यत्वेन नित्यत्वहान्यापत्तेः । कामनाभावे चाकरणापत्तेः। इत्थंच यत्र फलश्रुतिस्तत्रार्थवादमात्रमिति चेत् ।न।ग्रहणश्रादादौ नित्यत्वनैमित्तिक्त्वयोरिव नित्यत्वकाम्यत्वयोरप्यविरोधात् । नच कामनाभावे- १ ननु बलवदनिष्टाजनकत्वज्ञानं न हेतुः, कचिद्वरायाससाध्ये बहुतरस्यापि दुःखस्यावल- वत्त्वात्, कचिदल्पस्य बलवत्यानुगतस्याबलवत्वस्य बलवश्वस्य दुयंचत्यादतआह-बल- वदनिष्टाननुबन्धित्वं चेति । २ नन्येवंसति नरकसाधनत्वेन प्रमिते परदाराधिगमनादी रागौ. कन्या प्रयतन, इष्टोत्पत्यनान्तरीयकदुःसजनकत्वेन तस्य निश्श्रयादत आह-बलबहेपेति ।
E JEL... ग गुणनिरू.] सिद्धान्तमुक्तावलीसहिता। sकरणतापत्तिः, त्रिकालस्तवपाठादाविव कामनासद्भावस्यैव कल्पनात्, न नु वेदबो- धितकार्यताज्ञानात्प्रवृत्तिरिति संभवति। स्वष्टसाधनत्वमविज्ञाय तादृशकार्यताज्ञा. नसहस्रेणापि प्रवृत्तरसंभवात् । यदपि पण्डापूर्व फलमिति तदपि न। कामनामा. वेऽकरणापत्तेस्तौल्यात् । कामनाकल्पने त्वार्थवादिकफलमेव रात्रिसत्रन्यायात्क- प्यताम् । अन्यथा प्रवृत्त्यनुपपत्तेः। तेनानुत्पत्ति प्रत्यवायस्यान्ये मन्यन्ते । एवम्- 'सन्ध्यामुपासते ये तु सततं शंसितव्रताः। विधूतपापास्ते यान्ति ब्रह्मलोकमनाम- यम्॥'एवम्-~-'दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन् ' इति प्रीत्यात्मकमेव फलमस्तु । नच पितृप्रीतिः कथं फलं व्यधिकरणत्वादिति वाच्यं, गयाश्राद्धादावि- वोद्देश्यत्वसंवन्धेनैव फलजनकत्वस्य क्वचित्कल्पनात् । अत एवोक्तं शास्त्रदर्शितफ- लमनुष्ठानकर्तरीत्युत्सर्ग इति । पितॄणां मुक्तत्वे तु स्वस्य स्वर्गादिफलं, यावग्नि- त्यनैमित्तिकानुष्ठानस्य सामान्यतः स्वर्गजनकत्वात् । पण्डापूर्वीथै प्रवृत्तिश्च न सं- भवति । नहि तत्सुखदुःखाभाववत्स्वतः पुरुषार्थो न वा तत्साधनम् , प्रत्यवाया- नुत्पत्तौ कथं प्रवृत्तिरिति चेदित्यम् , यथा हि नित्ये कृते प्रत्यवायाभावम्तिष्ठति तदभावे तदभावः । एवं प्रत्यवायाभावसत्त्वे दुःसमागभावसत्वं तदभावे तदभा- व इति योगक्षेमसाधारणकारणताया दुःखप्रागभावं प्रत्यपि सुवचत्वात् । एवमेव प्रायश्चित्तस्यापि दुःखप्रागभावहेतुत्वमिति । ननु न कलों भक्षयेदित्यत्र विध्य. थे कथं नमर्थान्वयः, इष्टसाधनत्वाभावस्य कृतिसाध्यत्वाभावस्य च बोधयितुमश- क्यत्वादिति चेत् ।नातन बाधादिष्टसाधनत्वं कृतिसाध्यत्वं च न विध्यर्थः किंतु बलवदनिष्टाननुबन्धित्वमात्रं तदभावश्च नना बोध्यते । अथवा बलवदनिष्टाननु- बन्धित्वविशिष्टेष्टसाधनत्वे सति कृतिसाध्यत्वं विध्यर्थः। तदभावश्च नजा बोध्य- मानो विशिष्टाभावो विशेष्यवति विशेपणाभावे विश्राम्यति । ननु श्येनेनाभिच- रन् यजेतेत्यादौ कथं बलवदनिष्टाननुबन्धित्वमर्थः, श्येनस्य मरणानुकूलव्यापारस्य हिंसात्वेन नरकसाधनत्वात्, नच वैधत्वान्न निषेध इति वाच्यम् , अभिचारे मा. यश्चित्तोपदेशात्, नच मरणानुकूलव्यापारमानं यदि हिंसा तदा खगकारस्य - -- न्य न br , । r 7 वो माई नई. १ ननु नित्यगोचरप्रवृत्ती इष्टसाधनताज्ञानं कारणमेव नेत्यनेनैवोपपत्ती किमर्थ नि- त्यस्यापि काम्यत्वं कल्पनीयमत आह-नस्विति । २ अन्वयव्यतिरेकाभ्या प्रवृत्तित्यापछि- न प्रति इष्टसाधनताज्ञानस्य हेतुत्वादिति भाव' । ३ यपाहि रात्रिसपाटयाच्यानां ज्योतिर्गौरित्यादिवाक्योत्पन्नकर्मणां फलजिज्ञासायामत्यन्ता तस्वर्गादिकल्पने गौरवान् । विश्वजिन्यायापवादेन 'प्रतितिष्ठन्ति ह वा य एता रात्रीरपयन्ति' इत्यर्थवादश्रुती प्रतिष्ठेय फलमिति सिद्धान्तितं तथानाप्यार्थवादिकं ब्रह्मलोक एव फल लाययादित्य । ४ प्रवृत्ति प्रति कृतिसाध्यत्वविशिष्टबलवदनिष्टाननुवन्धित्वविशिष्टेष्टसाधनत्वज्ञानत्यनैकस्यैव हेतुत्वं लाघवान्नतु कृतिसाध्यत्वादिप्रत्येकविपयकज्ञानत्वेन गौरवादतो विधेरपि विशिष्टमे- व शक्यं वाच्यम् । एवंच निषेधस्थले विशिष्टाभावो विधिसममिव्याहतनमा चोध्यन इत्यभिप्रायवानाह-अथवेति । ५ एवंच इष्टसाधनत्वादिमति फलामक्षणादौ निशिष्टामावो योध्यमानो बलवदनिष्टाननुवन्धित्वाभावे पर्यवस्यतीति भावः। EPTE कारिकावली [गुणनिरू० पकर्तुश्च हिंसकत्वापत्तिर्गललमानभक्षणजन्यमरणे स्वात्मवधत्वापत्तिश्चेति वाच्यं, मरणोद्देश्यकत्वस्यापि विशेषणत्वात्, अन्योद्देश्यकक्षिप्तनाराचहतग्राह्मणस्य तु वाचनिकं प्रायश्चित्तमिति चेत् ।नाश्येनवारणायादृष्टद्वारकत्वेन विशेपणात् । भत एव काशीमरणार्थ कृतशिवपूजादेरपि न हिंसात्वम् । नच साक्षान्मरणजनकस्यैव हि हिंसात्वं श्येनस्तु न तथा किंतु तजन्यापूर्वमिति वाच्यं, खगाघातेन ब्राह्मणे व्रणपाकपरंपरया मृते हिंसात्वानापत्तेः । केचित्तु श्येनस्य हिंसाफलं न तु मरणम् । तेन श्येनजन्यखड्गघातादिरूपा हिंसाऽभिचारपदार्थः । तस्य च पापजनकत्वम् । अतः श्येनस्य वैधत्वात्पापाजनकत्वेऽपि अग्रिमपापं प्रतिसंधाय सत्तो न प्रवर्तन्त इत्याहुः । आचार्यास्तु माताभिप्रायो विध्यर्थः। 'पाकं कुर्याः' इत्यादावाज्ञादिरूपे. च्छावाचित्ववल्लिङ्मात्रस्येच्छावाचित्वं लाघवात् । एवंच 'स्वर्गकामो यजेत इत्यादी यागः स्वर्गकामकृतिसाध्यतया आप्तेष्ट इत्यर्थः । ततश्चाप्लेष्टत्वेनेष्टसाधनत्वादिकम- नुमाय प्रवर्तते । कलाभक्षणे तदभावान प्रवर्तते । यस्तु वेदे पौरुषेयत्वं नाभ्यु. पैति तं प्रति विधिरेव तावद्गर्भ इव श्रुतिकुमार्याः पुयोगे मानम् । नच कर्चस्मरणं बाधक, कपिलकणादादिभिरथपर्यन्तं कर्तृस्मरणस्यैव प्रतीयमानत्वात् । अन्यथा स्मृतीनामप्यकर्तृकत्वापत्तेः । तत्रैव कर्तृस्मरणमस्तीति चेद्वदेऽपि 'छन्दांसि जज्ञिरे तस्मात्' इदित्यादिकर्तृस्मरणमस्त्येव । एवं 'प्रतिमन्वन्तरं चैपा श्रुतिरन्या विधीयते' इत्यपि द्रष्टव्यम् । 'स्वयंभूरेप भगवान्वेदो गीतस्त्वया पुरा । शिवा- दिऋपिपर्यन्ताः स्मारोऽस्य न कारकाः ॥' इति तु वेदस्य स्तुतिमात्रम् । नच पौरुपेयत्वे भ्रमादिसंभवादप्रामाण्यं स्यादिति वाच्यं, नित्यसर्वज्ञत्वेन निर्दोपत्वात् । अत एव पुरुपान्तरस्य भ्रमादिसंभवान्न कपिलादेरपि कर्तृत्वं वेदस्य । किंच वर्णानामेवानित्यत्वस्य वक्ष्यमाणत्वात्सुतरां तत्संदर्भस्य वेदस्या- 'नित्यत्वमिति संक्षेपः ॥ उपादानस्येति । उपादानस्य समवायिकारणस्याध्यक्ष च प्रत्यक्ष प्रवृत्ती कारणमिति ॥ निवृत्तिस्तु भवेवपाविष्टसाधनता धियः ॥१५१॥ निवृत्तिरिति । द्विष्टसाधनताज्ञानस्य निवृत्ति प्रति जनकत्वमन्वयव्यतिरेका. भ्यामवधारितमिति भावः ॥ १४९ ॥ १५० ॥ १५१ ॥ यतो जीवनयोनिस्तु सर्वदातीन्द्रियो भवेत् । यत्न इति । जीवनयोनियतो यावजीवनमनुवर्तते । स चातीन्द्रियः । १ वकृमिन्नेच्छाया बोधने विधेः सामांमावाद्विघिरेव वेटवक्तरीश्वरे मानम् । २ वेदो. पारुपेया, अस्मयमाणकर्तृकत्यादित्यनुमानमेव बाधकमित्यर्थः । ३ वेदस्य नित्यत्वयोधक भारतायेव तस्याकर्तृत्वे प्रमाणं भविष्यतीत्याशहते-स्वयंमूरिति । ४ नव्यास्तु जीवनयोनि- यो मानामावः, प्राणक्रियाया अदृष्टविशेषप्रयोज्यात्ममनोयोगरूपाजीवनात्तत्प्रयोजकाSerद्वा संभवादित्याहुः।
गुणनिरू०] सिद्धान्तमुक्तावलीसहिता। . तत्र प्रमाणमाह शरीरे प्राणसंचारे कारणं परिकीर्तितः॥ १५२ ॥ शरीर इति । प्राणसंचारो हि अधिकश्वासादिःयवसाध्य.। इत्थं च प्राणसं- चारस्य सर्वस्य यत्रसाध्यत्वानुमानात्प्रत्यक्षयनवाधाच्चातीन्द्रिययनसिद्धिः । स एव जीवनयोनियतः ॥ १५२ ॥ गुरुत्वं निरूपयति- अतीन्द्रियं गुरुत्वं स्यात्पृथिव्यादिद्वये तु तत् । अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम् ॥ १५३ ।। तदेवासमवायि स्यात्पतनाख्ये तु कर्मणि । अतीन्द्रियमिति । अचित्य इति । अनित्ये घ्यणुकादी तद्गुरुत्वमनित्यम् । नित्ये परमाणौ नित्यम् । गुरुत्वमित्यनुवर्तते । तद्गुरूवमसमवायि, असमवायि. कारणम् । पतनाख्य इति । आद्यपतन इत्यर्थः ॥ द्वत्वं निरूपयति- सांसिद्धिक द्रवत्वं स्यान्नैमित्तिकमथापरम् ॥१५४ ॥ सांसिद्धिकं तु सलिले द्वितीयं क्षितितेजसोः। सांसिद्धिकमिति । द्रवत्वं द्विविधं सांसिद्धिकं नैमित्तिकं चेति । द्वितीय नैमित्तिकम् ॥ परमाणौ जले नित्यमन्यत्रानित्यमुच्यते ॥ १५५ ॥ परमाणाविति । जलपरमाणौ द्रवत्वं नित्यमित्यर्थः । अन्यत्र पृथिवीपरमा- पवादौ जलक्ष्यणुकादौ च द्वत्वमनित्यम् । कुत्रचित्तेजसि कुत्रचित्पृथिव्यां च नैमित्तिकं द्रवत्वम् ॥ १५३ ॥ १५४ ॥ १५५ ॥ तत्र को वा नैमित्तिकार्थस्तदर्शयति- नैमित्तिकं वह्नियोगात्तपनीयघृतादिषु । नैमित्तिकमिति । वहीति । अग्निसंयोगजन्यं नैमित्तिक गवत्वम् । तच्च सुवर्णादिरूपे तेजलि धृतजतुप्रभृतिथिव्यां च वर्तत इत्यर्थः ॥ द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत् ॥ १५६ ॥ द्रवत्वमिति । हेतुरिति । असम्गायिकारणमित्यर्थः । संग्रहे सक्तुकादिसयो- गविशेपे तत् द्रवत्वं मेहसहितमिति बोद्धव्यम् । तेन द्रुतसुवर्णादीनां न संग्रहः। ॥ १५६॥ १ द्वितीयादिपतनस्य वेगासमवायिकारणकत्वादाह-आये इति । एवंच संयोगासमय- पानकालीना क्रिया गुणासमवायिकारणिका, क्रियात्वात्, संयोगजन्यक्रियावदित्यनुमानेन क्रियासिद्धिरिति भावः। २ अग्निसंयोगासमवायिकारणकमित्यर्थः । ३ सासिदिकमित्यर्थः । तथाच सांसिद्धिकद्वत्वत्वेन हेतुत्वान सुवर्णादिद्रवत्वसंग्रहः । .
कारिकावली [गुणनिरू. --- । । स्नेहं निरूपयति-- स्नेहो जले स नित्योऽणावनित्योऽवयविन्यसौ । तैलान्तरे तत्प्रकर्षाद्दहनस्यानुकूलता ॥ १५७ ॥ स्नेह इति । जले इति । जल एवेत्यर्थः । असौ स्नेहः । ननु पृथिव्यामपितै- ले स्नेह उपलभ्यते, न चासौ जलीयः, तो सति दहनप्रातिकूल्यं स्यादत आह- तैलान्तर इति । तत्प्रकोत्स्नेहप्रकर्षात् । तैले उपलभ्यमानः स्नेहोऽपि जलीय एव तस्य प्रकृष्टत्वादग्नरानुकूल्यम् । अपकृष्टस्नेहं हि जलं वह्नि नाशयतीति भावः ॥ १५७ ॥ संस्कारं निरूपयति- संस्कारभेदो वेगोऽथ स्थितिस्थापकभावने । संस्कारेति । वेगस्थितिस्थापकभावनाभेदारसंस्कारस्त्रिविध इत्यर्थः ।। मूर्तमात्रे तु वेगास्यात्कर्मजो वेगजः क्वचित् ॥ १५८ ॥ मूर्तमात्र इति । कर्मजवेगजभेदाद्वेगो द्विविध इत्यर्थः । शरीरादौ हि नो- दनजनितेन कर्मणा वेगो जन्यते । तेन च पूर्वकर्मनाशस्तत उत्तरं कर्म । एवमग्रे. ऽपि । विना च वेगं कर्मणः कर्मप्रतिबन्धकत्वात्पूर्वकर्मनाश उत्तरकोत्पत्तिश्च न स्यात् । यत्र वेगवता कपालेन जनिते घटे वेगोजन्यते स वेगजो वेगः ॥ १५८॥ स्थितिस्थापकसंस्कारः क्षितौ केचिच्चतुर्वपि । अतीन्द्रियोऽसौ विज्ञेयः क्वचित्स्पन्देऽपि कारणम् ॥ १५९ ॥ स्थितिस्थापकेति । आकृष्टशाखादीनां परित्यागे पुनर्गमनस्य स्थि- तिस्थापकैसाध्यत्वात् । केचिदिति । चतुर्पु क्षित्यादिपु स्थितिस्थापक केचिन्म- न्यन्ते तदप्रमाणमिति भावः । असौ स्थितिस्थापकः । कचिदाकृष्टशाखादौ ॥१५९॥ भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः। उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत्॥१६०॥ भावानाख्य इति । तस्य संस्कारस्य । उपेक्षात्मकज्ञानासंस्कारानुत्पत्तरुपेक्षा- नात्मक इत्युक्तम् । तत्संशयात्तस्यानुत्पत्तेनिश्चय इत्युक्तम्। तेनोपेक्षान्यनिश्चयत्वेन संस्कारं प्रति हेतुतेति भावः ॥ १६०॥ ननु स्मरण प्रत्युपेक्षान्यनिश्चयत्वेन हेतुत्वं, तेनोपेक्षादिस्थले न सरणम् । इत्थं च संस्कार प्रति ज्ञानत्वेनैव हेतुतास्त्विति चेत् ।न। विनिगमनाविरहेणापि संस्कार १ लान्तः जलमागस्वीकारे । २ कर्मनाशस्योत्तरसंयोगस्य तदानीमभावाद्वेगस्यैय कर्म- नाशकत्वं कल्प्यत इति भावः। ३ येगस्य सूत्तरसंयोगजनकक्रियाजनकत्वं नतु यथापूर्वसंयो- गजनकक्रियाजनकत्वमिति न वेगेन स्थितिस्थापकस्यान्यथासिद्धिरिति भावः ।
गुणनिरू.] सिद्धान्तमुक्तावलीसहिता। प्रति उपेक्षान्यनिश्चयत्वेन हेतुतायाः सिद्धत्वात् । किंचीपेक्षास्थले संस्कारकल्पना- या गुरुत्वात्संस्कार प्रति चोपेक्षान्यनिश्चयत्वेन हेतुतायाः सिद्धत्वात्। असौ संस्का- रः। तत्र प्रमाणं दर्शयति- स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते । स्मरण इति । यतः सरणं प्रत्यभिज्ञानं चजनयत्यतः संस्कारः कल्प्यते। विना व्यापरं पूर्वानुभवस्य सरणादिजननासामर्थ्यात्स्व-स्वव्यापारान्यतराभावे कारणत्वा- सभवात् । नच प्रत्यभिज्ञा प्रति तत्तत्संस्कारस्य हेतुत्वे प्रत्यभिज्ञायाः संस्कारज- न्यत्वेन स्मृतित्वापत्तिरिति वाच्यम्, अप्रयोजकत्वात् । पैरे त्वनुदुद्धसंस्कारात्प्रत्य- भिज्ञानुदयादुदुद्धसंस्कारस्य हेतुत्वापेक्षया तत्तत्मरणस्यैव प्रत्यभिज्ञा प्रति हेतुत्वं कल्प्यत इत्याहुः॥ अदृष्टं निरूपयति- धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिसाधनम् ॥ १६१ ॥ गङ्गास्नानादियागादिव्यापारः स तु कीर्तितः। धर्माधर्माविति । स्वर्गादीति।स्वर्गादिसकलसुखानां स्वर्गसाधनीभूतशरी- रादीनां च साधनं धर्म इत्यर्थः । तत्रे प्रमाण दर्शयितुमाह-यागादीतिायागों- दिव्यापारतया धर्मः कल्प्यते । अन्यथा यागादीनां चिरविनष्टतया निर्व्यापारतया च कालान्तरमाविस्वर्गजनकत्वं न स्यात् । तदुक्तमाचार्य:-'चिरध्वस्तं फलायालं न कर्मातिर्शयं विना' इति । ननु यागध्वंस एव व्यापारः स्यात् , नच प्रतियोगि' तवंसयोरेकनाजनकत्वं, सर्वत्र तथात्वे मानाभावात् ,नच त्वन्मते फलानन्त्यं मन्म- ते चरमफलस्यापूर्वनाशकत्वान्न तथात्वमिति वाच्यं, कालविशेषस्य सहकारित्वा- दित्यत आह-गगास्नानेति । गङ्गास्नानस्य हि स्वर्गजनकत्वेऽनन्तानां जलसंयोग- ध्वंसानां व्यापारत्वमपेक्ष्यैकमपूर्वमेव कल्प्यते लाघवादिति भावः ॥ ननु ध्वंसोऽपि न व्यापारोस्तु, नच निर्व्यापारस्य चिरध्वस्तस्य कथं कारणत्व- मिति वाच्यम् , अनन्यथासिद्धनियतपूर्ववर्तित्वस्य तत्रापि सत्त्वात् , अव्यवहितपू. र्ववर्तित्वं हि चक्षुःसंयोगादेः कारणवे न तु सर्वत्र कार्यकालवृत्तित्वमिव समवा- यिकारणस्य कारणत्वे इत्यत आह- कर्मनाशाजलस्पर्शादिना नाश्यस्त्वसौ मतः ॥ १६२ ।। १ उद्देश्यवाचकपदस्य प्रागपेक्षितत्वात्तथाऽन्वयप्रदर्शनार्थमुदीच्यस्याप्यसावित्यम्य प्राग्धा- रणमिति बोध्यम् । २ कार्याव्यवहितप्राक्क्षणवृत्तिस्व-स्वव्यापारान्यतरकत्वस्यैव कारणताप. दार्थत्वादित्यर्थ । ३ मणिकृन्मत प्रदर्शयति-परे विति । ४ धौ। ५ आदिना होमदानपरि- ग्रह'। यागत्वं च देवतोद्देश्यकस्वस्वत्वध्वंसवद्रव्यविशेप्यकेच्छावत्त्वम् । देवतोद्देश्यकत्व घटे- वतास्वत्ववद्विशेप्यकत्वम् । शब्दमयीदेवतेति पक्षे तु तस्या इदमित्यारोपज्ञानविपयत्वमुद्देश्यत्वम्। होमत्वं चाग्निसंयोगानुकूलक्रियानुकूलतादिवृत्तिनोदनादिव्यापारवत्त्वम् । दानत्वं च मूल्य- । ग्रहणं विना स्वस्वत्वध्वसपरस्वत्वजनकत्यागत्वमिति संप्रदायः। ६ अपूर्वम् । - ८२ कारिकावली [गुणनिल कर्मनाशेति । यदि ह्यपूर्व न स्यात्तदा कर्मनाशाजलस्पर्शादिना नाश्यत्वं ध. मस्य न स्यात्, नहि तेन यागादेनाशः प्रतिबन्धो वा कर्तुं शक्यते तस्य पूर्वमेव वृत्तत्वादिति भावः। एतेन देवतापीतेरवे फलत्वमित्यपास्तम् । गङ्गास्रानादौ सर्वत्र देवताप्रीतेरसंभवाच्च । देवतायाश्चेतनत्वेऽपि तत्प्रीतेरनुद्देश्यत्वात् । प्रीतेः सुखस्व. रूपत्वेन विष्णुप्रीत्यादौ तदसंभवात् । जन्यसुखादेस्तनाभावात् । तेन विष्णुप्री- तिजन्यत्वेन पराभिमतस्वर्गादिरेव विष्णुप्रीतिशब्देन लक्ष्यते ॥ १६१ ॥ १६२ ॥ अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः। अधर्म इति । नरकादिसकलदुःखानां नारकीयशरीरादीनां च साधनमधर्म इत्यर्थः ॥ तत्र प्रमाणमाह- प्रायश्चित्तादिनाश्योऽसौ जीववृत्ती विमौ गुणौ ॥१६॥ प्रायश्चित्तेति । यदि ह्यधर्मों न स्यात्तदा प्रायश्चित्तादिनाश्यत्वं न स्यात् । नहि तेन ब्रह्महननादीनां नाशः प्रतिवन्धो वा विधातुं शक्यते । तस्य पूर्वमेव विनष्टत्वादिति भावः ॥ जीवेति । ईश्वरस्य धर्माधर्माभावादिति भावः ॥१३॥ इमौ तु वासनाजन्यौ ज्ञानादपि विनश्यतः। इमौ धर्माधौं । वासनेति । अतो ज्ञानिना कृते अपि सुकृतदुष्कृतकर्मणी न फलायालमिति भावः ॥ ज्ञानादपीति । अपिना भोगपरिग्रहः । ननु तत्वज्ञानस्य कथं धर्माधर्मनाशकत्वं 'नामुक्तं क्षीयते कर्म कल्पकोटिशतैरपि' इति वचनविरो- धात् , इत्यं च तत्त्वज्ञानिनां झटिति कायव्यूहन सकलकर्मणां भोगेन क्षय इति चेत् । न । तत्र भोगस्य वेदवोधितनाशकोपलक्षकत्वात् । कथमन्यथा प्रायश्चित्ता- दिना कर्मणां नाशा तदुक्तम्-'ज्ञानाग्निः सर्वकर्माणि' इत्यादिना। 'क्षीयन्ते चास्य कर्माणि तस्सिन्दृष्टे परावरे ।' इति । ननु तत्वज्ञानिनस्तर्हि शरीरावस्थानं सुख- दुःखादि च न स्याज्ज्ञानेन च सर्वेपां कर्मणां नाशादिति चेत् । न । प्रारब्धे- तरकर्मणामेव नाशात् । तत्तच्छरीरभोगजनकं हि यत्कर्म तत्प्रारब्धं तदभिप्रायमेव नामुक्तमिति वचनमिति ॥ शब्दं निरूपयति- शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः ॥ १६४ ॥ कण्ठसंयोगादिजन्या वर्णास्ते कादयो मताः । सर्वः शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते ॥ १६५ ॥ १ ननु गद्गादिदर्शनादिना ईश्वरे कुतो न धर्मादेरत्पत्तिरत आह-वासनाजन्याविति । ईश्वर मिथ्याज्ञानजन्यवासनाविरहान धर्मादरसत्तिरिति भाव। २ कर्मजन्याऽदृष्टानीत्यर्थः । ३ स्मृति दायित्या श्रुति दर्शयति-क्षीयन्त इति ।