S.P College, Srinagar

The Alankarasarvasva Of Rajanaka Ruyyaka

Dvivedi Girijaprasad · 2013

PDF Proofread

Front matter

GE LIB
o
R
TO THE READER
KINDLY use this book very
carefully If the book is disfigured
or marked or written on while in your
possession the book will have to be
replaced by a new copy or paid for. In
case the book be a volume of set of
which single volumes are not available
the price of the whole set will be realized
no.
H
Class No...... &91.dead.
Book No.......0.9.8.A.
.098.A........
Acc. No.....
14789......

No text on this page.

No text on this page.

KĀVYAMĀLĀ. 35.
THE
ALANKARASARVASVA
ch
OF
RĀJĀNAKA RUYYAKA
With the Commentary of Jayaratha.
Rhetonen
EDITED AND REVISED
CA
WITH A HISTÓRICAL INTRODUCTION
BY
PANDIT GIRIJĀPRASAD DVIVEDI.
PROFESSOR, MAHARAJA SANSKRIT CALLEGE, JAIPUB.
Second Edition,
खस्दा
PUBLISHED BY
PĀNDURANG JĀWAJĪ,
PROPRIETOR ‘NIRŅAYA SĀGAR' PRESS,
BOMBAY
1939.
SAGAN
Price
MUTTA
Pepee
Price
1 2-0
ESS
BC

89112.08
DOBA
14789
[All rights reserved by the publisher.]
Publisher:-Pandurang Jawall,
Printer:-Ramchandra Yesu Shedge,
Nirnaya Sagar Press,
26-28, Kolbbat Street, Bombay.

अलंकारसर्वखम् ।
मूल्यं RS
काव्यमाला ३५.
राजानकरुय्यककृतम् ।
जयरथकृतया टीकया समेतम् ।
जयपुर-राजकीयसंस्कृतपाठशालाध्यापकेन श्रीगिरिजाप्रसादद्विवेदेन
प्रस्तावनादिभिः परिष्कृत्य संशोधितम् ।
द्वितीयं संस्करणम् ।
मुम्बय्यां
पाण्डुरङ्ग जावजी इत्येतैः,
खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा
प्राकाश्यं नीतम् ।
शाकः १८५९, सन १९३९.
Revland
या
2-0

No text on this page.

( प्रस्तावना. अथेदं साहित्यापरपर्यायमलकारशास्त्रं शब्दार्थनिबन्धनस्य कविकर्मणः शा- सकमिति सुप्रतीतं तद्विदाम् । अत एवास्य शब्दानुशासनवत् काव्यानुशास- नमिति नामान्तरव्यवहारोऽपि सार्थकतामापद्यते । एतच्च काव्यानुशासनं प्रा- चीनैरलङ्कारतन्त्रसूत्रधारै महोटप्रभृतिभिरलङ्कारशास्त्रत्वेन तथाचीनैरष्टा- दशविद्यानां सहभावभावानुरूपेण साहित्यशास्त्रत्वेन च व्यवहृतम् । इत्थम- यमलङ्कारशब्दो भाव-करणव्युत्पत्तिमहिम्ना साहित्यशास्त्रे, उपमाद्यलङ्कारेषु च व्यवहारपदवीमारूढ इति स्थेयानां विमर्शः । 'प्रधाने हि व्यपदेशा भवन्तीति न्यायनयेन अलंक्रियतेऽनेन इति करणव्युत्पत्यापि शास्त्रवाचकता निर्बाधैव अथ प्रकृतेऽलङ्कारशास्त्रस्य प्रादुर्भावकाले विचार्यमाणे यद्यपि मौलिकं गवे. षणं दुःशकमेव प्रतीयते तथापि सुदूरमवधारणेन तत्रभवतोभरतमुनेर्नाट्य- शास्त्रमेव प्राथम्येन विवेकपथमवतरति । यत एतदुत्तरमेव यावदुपलभ्यमाना प्राञ्चः साहित्यसंदर्भा लब्धजन्मान इति पुरावृत्तपरीक्षणेन निष्प्रत्यूहं प्रतिष्ठते । भवतु नाम । इदानीं किमिदं नाट्यशास्त्रं, तच्च कथं प्रवृत्तम् ? को वास्य प्रव- तक इति संक्षिप्य विविच्यते, येनात्रोपक्रान्तोऽलङ्कारशास्त्रस्याविर्भावसमयोंs- शतः सुखसाध्यः स्यात् । नाट्यं नाम नटवृत्तम्-तस्य च शासनोपायपरं शास्त्रमेव नाट्यशास्त्रमि- त्युच्यते । यत्र खल्वधिगतविशेषो नटः स्वकर्मणि पटूभवति । नाट्यच नट- धर्मत्वात्तैः स्वतोऽनुष्ठेयं वस्तु, न पुनस्तेषां कश्चिदुपदेष्टा प्रेरको वा, न वा तानु- हिश्य वैदिको लौकिको वा विधिर्विनियुज्यते । एवं तर्हि नाट्यशासनोपदेशे नटस्य को लाभ इति चेत्, केवलं प्रत्युपकारमात्रमनेन निर्वर्यंत इति सह- दयाः। नाट्यस्योत्पत्तिचिन्तायां तु प्रथमतो नाट्यवेद एवाङ्कुरित इत्यवगम्यते । स च लोकहितैषणया स्वयंभुवा भगवते भरतायोपदिष्टः । तेन च महेन्द्रवि. जयोस्सवे स सर्वोऽपि यथायथं प्रयोगभूमिमवतारितः। अथ च प्रश्नप्रतिवच. नभझ्या तदाधारण- 'नाट्यवेदः कथं ब्रह्मन्नुत्पन्नः कस्य वा कृते । कत्यङ्गः किंप्रमाणश्च प्रयोगश्चास्य कीदृशः॥' इत्युक्तरूपं प्रश्नपञ्चकं प्रधानीकृत्य कविप्रयोक्त्रोरुपदेशार्थ नाट्यशास्त्रं निर्मि- २ । तवान् । इदञ्च लक्षणपरीक्षापरं ब्रह्मणो निदेशेन त्रेतायुगे भरतो निरमादिति प्रथमाध्यायारम्भे सार्ववर्णिकस्य नाट्यवेदस्येतिवृत्तं निरूपयतस्तदुक्त्यैव निश्ची- यते । अस्मिन्नेव युगे एतदवतारे त्विदं बीजम्-सत्त्वप्रधाने कृतयुगे स्व- स्वधर्मारूढो मनुष्यवर्गः सुखदुःखे समानधिया व्यवहरति । तत्र युगस्त- भावाभिभूतस्य तस्य सुखदुःखयोहेयोपादेयतां प्रति प्रवृत्तिरेव नोदेतीति न तत्रोन्मुखीभावावसरः। ततो रजोबहुले त्रेतायुगे तु राजसप्रवाहपतितो मान- वनिवहश्चलस्वभावापन्न एकान्ततः सुखलिप्सोन्मुखो दुःखहानेच्छुकश्च भवति । परमसौ राज्ञा नियन्त्रितव्यवहारः शास्त्रीयेषु क्रियाकलापेषु नान्यथात्मानं विसृजति । एवं च तादृशः कश्चन मार्गों बोधनीयो यत्रैते निष्प्रेरिता अपि प्रवर्तेरनिति महेन्द्रप्रमुखैरभ्यर्थितः पितामहस्तदुपायस्वरूपं नाट्यमवतारया- मास । यथैते क्रीडनीयकलुब्धा दुःखासहिष्णवो मा भूवनिति धिया तैर्ना- व्यमभ्यर्थितमित्युत्पत्तिसंक्षेपः । तदित्थमस्य त्रेतायुगीयत्वं सोपपत्तिकमपीति गमकान्तरान्वेषणपरैः पर्यालोच्यम् । ये तु वेदवन्नाट्यस्यानादित्वं मन्वते तेषां मतेऽत्रोपनिबद्धा उत्पत्त्यादिशब्दाः स्मरणादावुपचारकल्पनया कामं संगच्छन्ते । परमेषां दीर्घदीर्घतरानुधावने कोऽयमभिनिवेश इति न वयं विवेक्तुं प्रभवामः। एवमेव कतिपये प्रश्नोत्तर- परेवारम्भश्लोकेषु सङ्गतिवैधुर्यमुद्भाय विसंवादं प्रतिक्षिपन्तो नाट्यवेदो नाट्यशास्त्रमिति परस्परं परस्परस्य पर्यायाविति मन्यन्ते । त एते विरोधाभा. सभीरवोऽभिनवभारत्यां महामाहेश्वरैराचार्याभिनवगुप्तपादैः सम्यक् प्र- १ Gaekwar's oriental series' ग्रन्थावली प्रकाशिता । २ अस्य महतो विद्यावंशप्रवर्तकस्य कश्मीरजन्मनो महात्मनः स्थितिकालस्तु- 'इति नवतितमेऽस्मिन् वत्सरेऽन्त्ये युगांशे तिथि शशिजलधि(४११५)स्थे मार्गशीर्पावसाने ।' इति बृहत्प्रत्यभिज्ञाविमर्शिनीतो शायते । अयं लौकिकाब्दस्सतो गणनया ख्रिस्ता- व्दीयदशमशतकोत्तराधे वर्तमान आसीत् । अस्य च मातापितरौ विमला-नरसिंहगुप्ता- विति तदीयग्रन्थराशिभ्यः स्फुटमेव । तथाचाभिनवभारत्यां दशमाध्यायान्ते-इत्थं दशममध्यायं व्याचष्टे च समाप्तिः । शिवस्मृतिकृतार्थोऽपि परार्थ दुःखलात्मजः ॥ इति पितुर्नामनिर्देशो लेखकप्रमादपतितः। यतः षष्ठाध्याये 'तत्र हास्याभासो यथाऽस्मत्पित. च्यम्य वाननगुप्तस्य' इति निर्देशेनाप्यस्य वंशे गुप्तान्तमेव नामकरणं प्रथितमवसीयते ।

३ "त्युक्ताः । युक्ततरचैतदुत्पश्यामः । अन्यथाकलने तु- 'य इमं शृणुयायोकं नाट्यवेदं स्वयंभुवा । कुर्यात्प्रयोग यश्चैनं तथाधीयीत वा नरः ॥ या गतिर्वेदविदुषां या गतिर्यज्ञवेदिनाम् । या गतिर्दानशीलानां तां गतिं प्राप्नुयात् तु सः ॥' इति शास्त्रान्ते पठ्यमानं कथमिव संगच्छेत ? अस्सिंश्च चतुर्वेदाङ्गसंभवे नाट्यशास्त्रे श्रव्य-दृश्यरूपस्य कविव्यापारस्य नि- रूपणेऽपि विशेषतो दृश्यकाव्यमेव सपरिकरं निरूपितम् । तथा च प्रातिस्वि. कतया दृश्यकाव्यमुद्दिश्य तदुक्ति:- 'जग्राह पाठ्यं ऋग्वेदात्सामभ्यो गीतमेव च । यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥' (अ. १ श्लो. १७) । अयमर्थः-त्रैश्वर्यप्रधानाद् ऋग्वेदादभिनयप्रधाने पाठ्ये प्रथमं त्रिस्वरासञ्जनं, तदुत्तरं सामवेदात्प्रयोगप्राणभूतं गीतं संगृहीतम् , ततश्चाध्वर्यवकर्मप्रधानाद् यजुर्वेदादङ्गाभिनयान् , आथर्वणाच रसान् जग्राह । अत्र च- 'खाति-नारदसंयुक्तो वेदवेदाङ्गकारणम् । उपस्थितोऽहं लोकेशं प्रयोगाथं कृताञ्जलिः ॥' (अ. १ श्लो. ५२) 'यथोक्तं मुनिभिः पूर्व स्वाति-नारद-पुष्करैः ।' (भ. ३४ श्लो. २) इत्येवं परिगणिता अन्येऽपि नाट्याचार्या नामतः श्रूयन्ते । त एते भरतस्य सहयोगिनो भवेयुरिति संभाव्यते । किंच भरतान्तेवासिभिः कोहलादिभिरपि भरतोक्तीः परिष्कृता इत्यायभिनवभारतीतो विज्ञायते। विज्ञायते च नान्य- देवप्रणीतं कश्चिद् भरतभाष्यमपि, यदभिनवगुप्तैः पञ्चमाध्याये प्रमाणत्वेन न्यस्तम् (अभिनवभारती पृ. २५५) । एवमस्य शास्त्रस्य लोकप्रियत्वं भूयसी- भिष्टीकाटिप्पणीभिर्निःसंशयं सिध्यति । अत्रायं निष्कर्षः-नाट्यशास्त्रस्य वेतोत्पत्तेनिःसंदिग्धतया तदेव तावत्पूर्व प्रभवतीति निर्विवादम् । एवमेतदाधारेणैव काव्यालङ्कारविषया भामहाधु- त्तरग्रन्थेषु निबद्धा इत्यपि सुस्पष्टम् । एतदुत्तरं तु भगवतो वेदव्यासस्याग्नि- पुराणात् साहित्यविषया गृहीता इति भामहादिप्राचीनप्रबन्धसंवाददर्शनेन OC सुदृढं प्रतिपत्तुं शक्यमिति किं बहुना। यथा चैतदुपपयते तथा साहित्यदर्प- णभूमिकायामसत्तातपादैविशवीकृत्य निरूपितमेवेति जिज्ञासुभिस्तत एवा- वगन्तव्यम् । इयता नाट्यवृत्तं, तत्कालकलनाञ्च ईषदुन्मील्य, 'न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला । नासौ योगो न तत्कर्म नाट्येऽस्मिन् यन्न दृश्यते ॥' इति भरतोक्ति तथा- 'न स शब्दो न तद् वाच्यं न स न्यायो न सा कला । जायते यन्न काव्याङ्गमहोभारो महान् कवेः॥' इति किंचित्परिवर्तिताकारां तत्सहधर्मिणी भामहोक्किं चोपक्षिप्यातो निवर्तामहे। अथ च श्रव्यदृश्यरूपतया द्विधाभावमापन्ने चमत्कारसारे काव्यशरीरे उत्क- पहेतवो गुणरीत्यलङ्कृतयो मनाक् विविच्यन्ते–यद् व्यतिरेकेण सहृदयाः शब्दार्थयुगलस्य कविकर्मणो रसास्वादसुखाय नालंकर्मीणाः । तत्र तावद्गुणो नाम रीत्यलङ्काराभ्यामन्तरङ्गो रसवृत्तिनैसर्गिकः कश्चन धर्मः । तस्य च परमार्थतो रसैकनिष्टतायामपि तदभिव्यञ्जकशब्दार्थनिष्टतेति सर्ववादिनामभ्युपगमः। अत एव च 'गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता।' इत्यभियुक्तोक्तिः । इतरथा नीयमाने तु 'मधुरः शब्दो मधुरोऽर्थ' इति लोक- यात्रा विपर्यस्ता भवेत् । यच्च वामनः-माधुर्यादयो गुणाः वर्णादिधर्माण इत्य- शिश्रियत् , तदुपचारकोटिप्रवेशनेन नासमञ्जसम् । तदित्थं गुणरहिते कवि. कर्मणि काव्यपदस्य भक्त्या प्रयोगः । नाट्यशास्त्रे- 'श्लेषः प्रसादः समता समाधि माधुर्यमोजः पदसौकुमार्यम् । अर्थस्य च व्यक्तिरुदारता च कान्तिश्च काव्यस्य गुणा दशैते ॥' (अ. १६ श्लो. ९६) इत्येतावन्तो गुणा लक्षिताः । एत एव च दण्डिनः काव्यादर्श वामनस्य काव्यालङ्कारसूत्रेषु च लक्ष्यन्ते । भामहप्रबन्धे तु माधुर्योजःप्रसादातिरिक्ता गुणान्तरसंक्रान्ति धिगम्यते । तन्मन्ये, अत एव शिक्षितैर्मम्मटादिभिर्भरताद् वामनान्ताकलिताः सर्वेऽपि गुणास्त्रिप्वेव क्रोडीकृता भवेयुः। भोजविद्याना- ५ थादयस्तु चतुर्विंशतिगुणानाहुः। तदेतदास्तां तावत् , पूर्वोक्तो माधुर्योजःप्र. सादभेदभिन्ननिविधोऽपि गुणयोगो यथावसरं काव्योत्कर्षघटनायै नोपेक्ष- णीयः । तथा च भोजदेवः- 'अलङ्कृतमपि श्राव्यं न काव्यं गुणवर्जितम् । गुणयोगस्तयोमुख्यो गुणालङ्कारयोगयोः ॥' इति । तत्समानमानो वामनोऽपि- 'युवतेरिव रूपमङ्ग काव्यं स्वदते शुद्धगुणं तदप्यतीव । विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः ॥ यदि भवति वचश्युतं गुणेभ्यो वपुरिव यौवनहीनमङ्गनायाः। अपि जनदयितानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते ॥' एवं सत्यपि गुणविरहे यद्यलकाररीत्योरन्यतरः प्रतिष्ठेत चेत्तदापि स्वभाव. तश्चमत्कृतिस्पर्शे काव्यत्वं जागरूकमेव । किंच गुणरीत्यलङ्कृतीनां मध्ये यस्य कस्यचन प्राधान्यसत्त्वेऽपि स्वभावतया परः संश्लिप्यत एवेत्यपि परीक्ष्यम् । गुणाभिव्यञ्जकपदसंघटना रीतिरित्युच्यते । सा च तत्तद्देशप्रभवनिबन्धना. भिवैदर्भी-गौडी-पाञ्चालीति संज्ञाभिः प्राधान्येन त्रिधा विभज्यते । एता गुणसहचारिण्योरसादीनामुत्कर्षघटयित्र्यश्च भवन्ति । ता इमास्तिस्रोऽपि प्रायेण गुणपरतन्त्रा एव गण्यन्ते, क्वचित्तु स्वातहयेणापि चमत्कारकारिण्यः । उद्भट-मम्मटादिभिस्त्वेता उपनागरिका-परुषा (ग्राम्या) कोमलेति च संज्ञान्तरैराख्याताः। वामनेनासां तत्तद्देशप्रभवमूलिका संज्ञेति प्रतिपन्नम् । तथा च तत्सूत्रम् 'विदर्भादिषु दृष्टत्वात्तत्समाख्या ।' (१ अधिक. २ अध्या. १० सू.) तदन्ये नक्षमन्ते। ततोऽन्यत्राप्यासां प्राचुर्येण दर्शनात् । ततः पूर्वा- चार्यसंज्ञेति मन्यन्ते। एष एव पक्षो युक्तियुक्तः प्रतिभाति । रीतिमधिकृत्य साहित्यमीमांसायां वित्थं मीमांसितम्- 'पाञ्चाली गौडिकामध्ये यथा रीतिं न मन्वते । तथा वैदर्भपाञ्चाल्योः केचिन्मध्यां न शासति ॥ केचिन्मध्यानेच्छन्ति समासाल्पबहुत्वतः (?)। भावाभाववदप्येते मन्यन्ते वृत्तियोगिनि ॥

aur गुणोत्कर्षातिरेकेऽपि किमन्यत्संभवेदिति । रीतिमेकामपीच्छन्ति न चान्ये भामहादयः ॥' कवयस्तु पुनरेनामत्यन्तं श्रद्दधते । तथा च वैदर्भीमुद्दिश्य वामनस्य काव्यालङ्कारे- 'सति वक्तरि सत्यर्थे सति शब्दानुशासने । अस्ति तन्न विना येन परिश्रवति वाङ्मधु ॥' अन्यत्रापि- 'किं त्वस्ति काचिदपरैव पदानुपूर्वी यस्यां न किंचिदपि किंचिदिवावभाति । आनन्दयत्यथ च कर्णपथं प्रयाता चेतः सताममृतवृष्टिरिव प्रविष्टा ॥ वचसि यमधिगम्य स्पन्दते वाचकश्री- वितथमपि तथात्वं यत्र वस्तु प्रयाति । उदयति हि स तादृक् क्वापि वैदर्भरीती सहृदयहृदयानां रञ्जकः कोऽपि पाकः ॥' आवन्ती-लाट-मागध्यादयस्त्वेतच्छायानुपातिन्य एवेति न ताः पृथ- गुद्दिष्टाः। अलङ्कारोऽपि शब्दार्थशरीरोत्कर्षद्वारेण रसोत्कर्षाधायकः । परमसौ न गुण- वदन्तरङ्गो नियतरसवृत्तिश्चेति ततोऽत्यन्तं भिद्यते । किन्तु तत्स्वरूपप्रति- टाने संभवति शब्दार्थभित्तिकया बाह्यवृत्त्या कदाचिदेवानुप्रासादिभिः शब्दा- लङ्कारैरुपमादिभिरालङ्कारैश्चोपकारकः । तदसंभवे तु, एतेऽलङ्काराः केवलमु- क्तिवैचिथ्यमात्रविश्रान्ताः । तथा च यत्राङ्गिनो रसस्यानुपस्थानं तत्रोपमादि- शब्दप्रयोगो गौणः । एतच्च लोकव्यवहारानुरूपम्-तत्र तावत्कामिन्याः सति सौन्दर्ये हारादयस्तदङ्गे पूत्कर्ष घटयन्ति । तद्राहित्ये कुरूपया परिधीयमानास्तु प्रेक्षकस्य दर्शनवैचित्र्यमात्रभाजो भवन्ति । क्वचित्वमी सतोऽपि रसस्य नोपक- र्तारः । लोकेऽप्यतितरां सुकुमारया वध्वा अलङ्काराश्चेत्परिधीयेरन् तर्हि केवलं ग्राम्यत्वमुपयान्तो वैचित्र्यनिदर्शनात्मनैव परिणमन्ति। औद्भटास्तु-गुणाल- काराणां साम्यत्वमृच्छत इति सर्वस्वप्रारम्भे ग्रन्थकृताऽपि निर्दिष्टमेव । एषां प्रका- रान्तराश्रयणेन सिद्धान्तोदृङ्कने त्वियं वाचोयुक्तिः-लौकिको गुणालङ्कारवर्गः Liliary Sri Pratap College, ७ शौर्यादि-हारादिश्च यथाक्रम समवेत-संयोग-सम्बन्धितया भिसश्चेदवगम्येत, तर्हि न काप्यनुपपत्तिः । परं काव्यान्वयिनो अलौकिका माधुर्यानुप्रासोपमादयो गुणालङ्कारा एकेनैव समवायसम्बन्धेनावतिष्ठन्त इत्यवश्याभ्युपेयम् । यतोऽमी शब्दार्थाभ्यां संश्लिष्टा एव दृश्यन्ते न तु विश्लिष्टा इत्येवमत्र लोकव्यवहारं दृष्टा- न्तीकृत्य संयोगसम्बन्धाख्यानेन वैषम्यारोपणं न न्याय्यम् । तथा च प्राचा गडलिका-प्रवाहसदृशमेवैषां भेदाभिधानव्यापार इति वदन्ति । इदं च प्रका- शकृता निरस्तमेव । वामनेन तु-काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिश- यहेतवस्त्वलङ्कारा इति सूत्रयता केवलं गुणा एव काव्यव्यवहारप्रवर्तकाः, ना- लङ्काराः, सन्तश्चैते गुणाहितशोभातिशयहेतव एव भवन्तीत्युक्तम् । यद्यपीद- मपि तत्रैव सहेतुकं प्रत्युक्तम् । तथाप्युपचारेण निर्वाह्यम् । नाट्यशास्त्र- 'उपमा दीपकं चैव रूपकं यमकं तथा । काव्यस्यैते झलङ्काराश्चत्वारः परिकीर्तिताः ॥' (नाट्यशा. अ. १६, श्लो. ४१) इतीयन्तोऽलङ्काराः । भामहालंकारे तु संभूय संख्यानेन त्रिचत्वारिंशदल- काराः । एत एव दण्डिनापि सलक्ष्यलक्षणं मांसलीकृत्य व्युत्पादिताः । औद्भ- टीये त्वन्या अपि पडलङ्कृतयः कल्प्यन्ते। इतरत्तु समानमेव । रुद्रटेन तु मूलालङ्कारान् यथायथं संगृह्नतापि अवान्तरभेदाः सञ्चार्यन्ते। मम्मटेन तु काव्यप्रदीपसंकलिता एकपष्टिरलङ्काराणां संस्थाप्यते । अलङ्कारसर्वस्वेप्येतदा- सनवालङ्कारस्थितिः । केवलं रसवदाद्यलंकारा अधिकं सनिवेशिताः। एवमिह यथोत्तरमलङ्कारा वृद्धि गमिताः। तेनैवं प्रतिभाति—यदत्र गुणरीतिवत्संको- चाय प्राच्यैदृक्पात एव न कृतः। एतदुत्तरं तु लाघवमलक्षयता कुवलयान- न्दकारेण इतोऽप्यधिकाः संख्यायोपचयं प्रापिताः। किमियता । उपमा तावदनेकप्रकारवैचित्र्येणानेकालङ्कारबीजभूता, सा चैकाप्यात्मानं प्रपञ्चयन्ती बहुव्याकुलीकरोतीति नातिच्छन्नम् । अत्रेऽयमप्पय्यदीक्षितस्य चित्रमीमां- सोक्तिः- १ नात्र वैशेषिकसंमतः समवायोऽभिप्रेतः। किन्तु नित्यसम्बन्धोपलक्षकं सम्बन्धा- म्तरमेव । Srinagar.

८ 'उपमैका शैलूपी संप्राप्ता चित्रभूमिकाभेदान् । रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः॥' एवं सत्यपि ब्याकरणैकव्युत्पत्तिमात्रफलकेष्वनुपयुक्तेष्वपि तद्भेदाख्यानेषु महान् संरम्भः। अलंकारसर्वस्वकारस्तु अत्रानुपयुक्तान् भेदसन्ततीन् न विस्तारयामासेति विलोकयतां स्पष्टमेव । अत्रैतदप्यनुषङ्गायातम्-यथा कवि- कर्मणो घटकतया गुणरीत्यलङ्काराणां समस्तो व्यस्तो वान्तःपातस्तद्विदां लक्ष्य- भूत एवं तद्विघटकतया दोपसन्निधिर्न सह्यते। यद्यप्येकान्ततोऽत्र दोषमुक्ति र्दुरुपपादैवाथापि काव्यत्वोपमर्दकदोषसंक्रमो यथा न भवेत्तथावश्यं सावहि- तेन यतितव्यमित्येव स्थूलत आचार्याणां व्यवस्थापनम्-इतरथोत्कर्षकाणां सन्निपातेऽपि काव्यत्वव्याघातः । परमयमपि क्वचिदुपकारपक्षे गणनाहः । तत एव प्राञ्चः पठन्ति- निवन्धः । इह सर्वेऽप्यलङ्काराः 'दोषश्च सकलोप्येष कदाचित्कविकौशलात् । व्युत्क्रम्य दोपगणनां गुणवीथिं विगाहते ॥' क्वचित्तु पुनरेष न साधको, नापि बाधकः किंतूभयथा निष्क्रिय एव तिष्ठति यद्यपि दोषो निर्लक्षण एव, आनन्त्यात्तथापि तदनुगमो व्यवहारार्थमवश्यं वा- च्यतामहतीति सोऽपि लक्ष्यते । अत एव चैते तत्र तत्र संभवाभिप्रायेणैव संख्यायन्ते । अलमियता प्रसङ्गागतविचारेण । सांप्रतमलङ्कारसर्वस्वतत्कर्तृवि. षय उपन्यस्यते- अलङ्कारसर्वस्वाख्योऽयं प्राचीनेष्वलङ्कारसंदर्भप्वन्यतमः सूत्रवृत्तिरूपःप्रौढो समासतो व्यासतश्च मीमांसिताः। सोऽयं संदर्भो वस्तुत आत्मनोऽलङ्कारसर्वस्वतामुच्चैःप्रमाणयन्नालङ्कारविचारणासु काव्यप्रकाशमप्यतिशेते। बहुत्र तत्पथप्रदर्शकोऽप्यभूदिति तत्तत्प्रसङ्गालोचनेन व्यक्तमवसीयते । अत्र हि पूर्ववर्तिनामालङ्कारिकाणां काव्यस्थानलङ्कारादीनु- दिश्य किंविधो विमर्श इति संक्षिप्य प्रदर्शनार्थमादावुपोद्घातप्रकरणं संदृब्धम् । तत्र 'इह हि भामहोगट प्रभृतयः...' इत्याद्युत्थाप्य 'अलङ्कारा एव कान्ये प्रधानम्' इति प्राचां मतमाविष्कृतम् । ततश्च रुद्रट-वामन-कुन्तकानां मतमालोचितम् । पर्यन्ते च युक्त्यनुगतैः प्रमाणपरिचयैः काव्यपुरुषावतारस्य ध्वनिकारस्य 'व्यङ्गय एव काव्यजीवित'मिति सिद्धान्तं संवादयन् स्वयमपि तदुक्तिपूपारुढगौरवस्तन्मतमेव सिद्धान्तितवान् । महिमभट्टस्तु पार्थक्येनालो- ९ चितः । एवं ध्वनि संस्थाप्य तद्भेदानीपदुन्मील्य चित्रकाव्यभेदो दर्शितः। पुनश्च पुनरुक्तवदाभासादीनां पञ्चानां कक्ष्याविभागार्थ पौनरुत्यविधाः संख्याताः । कतिपयेवलकारेप्वालङ्कारिकाणां शब्दार्थभेदमूलको मतभेद इति तत्र तत्र स्फुटमेव तथापि सर्वस्वकर्तुर्विषयनिरूपणशैलीपरिचयार्थ दिड्याप्रमुच्यते- भयं बहुत्रालङ्कारविचारेषु युक्तायुक्तं परीक्ष्यापि प्राचामनुरोधेनैव सिद्धान्त- यति । यथा पुनरुकवदाभासंशब्दार्थालङ्कारत्वेन सत्यापितमपि शब्दालङ्कारे- ग्वेव परिणामयति । बहुत्र पुना स्वपितुरेव मतं स्वीचकारेति च जयरथो वदति (दृश्यतां विमर्शिनी पृ. १५८)। अस्य प्रणेता उद्भटविवेकाख्यग्रन्थकर्तृराजानकतिलकसूनू रुचकापरनामा रुय्यकाचार्यः स्रिस्ताब्दस्य द्वादशशतकपूर्वभाग आसीत् । एतनिर्मिता ग्रन्था- स्त्वेते-(१) अलङ्कारसर्वस्वम् (२) अलङ्कारानुसारिणी (३) साहित्य- मीमांसा (४) नाटकमीमांसा (५) हर्षचरितवार्तिकम् (६) व्यक्तिवि- वेकव्याख्यानम् (७) सहृदयलीला (८) श्रीकण्ठस्तवश्चेति । एषु अलङ्का- रानुसारिणी काश्मीरकजल्हणकवेः सोमपालविलासकाव्यस्य टीका । अस्य निर्देशो विमर्शिन्यां जयरथेन रूपकालङ्कारे उत्प्रेक्षायां च कृतः (दृश्यतां पृ. ४४, ७१) साहित्यमीमांसाप्येतत्कृतैवेति स्वयमत्रोत्प्रेक्षाविचारे निर्दि- शति (पृ. ७७) जयरथश्च विभावनानिरूपणे तामिमामस्मात् (पृ. १६०) व्यक्तिविवेकव्याख्यानेऽपीयं ग्रन्थकृता मर्यते (त्रिवेन्द्रम-संस्करणं पृ. ३२) एवमुक्तस्थलेषु नाटकमीमांसा-हर्षचरितवार्तिकमिति द्वितयं चापि । अ- नयोरुपलब्धिर्नाद्यापि श्रूयते । श्रीकण्ठस्तवोऽपि नोपलभ्यते । सहृदयलीला तु काव्यमालायां गुम्फितैव । अथ साहित्यमीमांसायाः स्वरूपज्ञयै किञ्चिदुच्यते-इयं भामह- दण्डि-वामनोद्भटप्रभृति-प्राचोऽलङ्कारप्रबन्धोपजीव्या प्रायेण तमयानुवर्तिनी चास्ते । किंच तत्तदलकारवचनानि क्वचित्साक्षादुद्धरन्ती, क्वचिच्च तात्पर्यमनु- रुध्य प्रसरन्ती तदुक्तिभिश्च स्वोक्तिं प्रमाणयन्ती दृश्यते । तदेवंभङ्गया प्रमेयान् संचिन्वती बाढं भावुकानुपरञ्जयति । अयमत्र मङ्गलोपहारः- १ अनन्तशयनग्रन्थावली मुद्रिता ।

१० 'निदानं जगतां वन्दे वस्तुनी वाच्यवाचके । ययोः साहित्यवैचित्र्यात्सतां रसविभूतयः ॥' एवमेषा रस-दोष-गुण-रीत्यलङ्कारादिसाहितीशासनोपयोगिविषयान्विवृ. पवती प्रकरणाष्टकमयी तुरीयां तात्पर्याख्या वृत्तिमाधाय रसास्वादनप्रवणा च । अत्र ग्रन्थकृवृत्त्यलङ्कारस्वरूपप्रस्तावे यथारुचितमौद्भटीयं काव्यालङ्कारसंग्रह, गुणविवेचने च वामनीयं तृतीयमधिकरणं विशेषतो गृहीतवान् । एवं काव्या- दर्शीयाः प्रथमपरिच्छेदोक्तयोऽप्युदाहृताः । अत्रत्यो मूलग्रन्थो बहुत्र प्रक्षेपवि- पर्यस्तः प्रतीयते । तत्र 'केचिदन्तर्भवन्त्येषु' इति 'शक्तिर्निपुणता' इति चोप- लभ्यमाना काव्यप्रकाशकारिकाद्वयी तदुपपत्तौ मानम् । अस्याः के. श्रीसा- म्वशिवशास्त्रिमहाशयानुमितं मङ्खकर्तृकत्वं तु न समीचीनमित्यत्रत्यलेखपर्या- लोचनया, चतुरस्रमेव । यच्च भूमिकायां शास्त्रिभिः–'इह च साहित्यमीमां- सायां बहुत्र-आचार्यपदेन पूजया गृह्यमाणोऽयं प्रामाणिकः स एव गुरुः श्री रुय्यकः संभवी ।' इत्युक्तं तत्सर्वथा भ्रान्तिविलसितम् । नत्राचार्यपदेन कश्चिद् व्यक्तिविशेषो विवक्षितः। अपि तु भट्टोद्भटवामन-प्रतीहारेन्दुराजादीन् गौरवानुरूपमाचार्यपदेन विशिनष्टीति मूलग्रन्थ एव विस्पष्टम् । एवमेतत्कर्तु- जर्जीवितसमयाकलने मम्मटस्यैकादशशतकस्थितिरपि शास्त्रिसंमता प्रमाणदुर्बल- त्वान्नाभिमता भवितुमर्हतीति रुय्यक-मङ्ख्योरस्सदुपदर्शितरीत्या समयोऽव- सेयः । एवं व्यक्तिविवेकव्याख्यानमपि रुय्यककृतमेवेति जयरथोत्या ज्ञायते । (विमर्शिनी पृ. १६)। अद्यावधि ससूत्रस्यालङ्कारसर्वस्वस्य कर्तृकतया रुय्यक एव सर्वसंमत आ- सीत्। परं काव्यमालायामस्य गुम्फनोत्तरमनन्तशयनसंस्कृतग्रन्थावलौ मुद्रि- तस्य भूमिकायां स्वर्यातमहामहोपाध्याय श्रीगणपतिशास्त्रिमहोदयः सूत्र- कारो रुय्यको वृत्तिकारश्च तच्छिप्यो मङ्ख इति निश्चिन्वान उभयोभित्रकर्तृक- त्वममन्यत । तच्चैवम्-अनेन केरलाक्षरलिखितं चतुःशतवर्षवृद्धदेश्यं पुस्त- कत्रयं लब्धम् । तत्र प्रारम्भे 'गुर्वलङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यते' इति गुरुशब्दोपादानात्तदनुमेयो वृत्तिकारस्य गुरुः सूत्रकार इति निर्धारितम् । तथा तत्रैव समाप्तौ—'इति मलको वितेने काश्मीरक्षितिपसांधिविग्रहिकः । सुकविमुखालङ्कारं तदिदमलङ्कारसर्वस्वम् ॥' इत्यनेन ग्रन्थकृदात्मनः कर्तृत्वं ११ वदन् नामापि निर्दिष्टवान् । तद्देशीयस्य समुद्रवन्धस्य च कृतं व्याख्यान. मपि कश्चिल्लब्धमेतेन सह संश्लेषितमास्ते । अयमपि तथा व्याचक्षाणो मङ्ख- मेव वृत्तिकर्तृकत्वेन निर्दिशतिस । शास्त्रिणा चैकान्ततोऽत्र समुद्रबन्धस्यैव प्रामाण्यं स्वीकृतम् । एतट्टीकने च कथमयं प्रावर्तदित्यादिवृत्तमुक्तग्रन्थावलौ प्रकाशितस्य प्रद्युम्नाभ्युदयस्य भूमिकायामुपन्यसता मङ्खोपर्येव सर्वस्वस्य कर्तृस्वभारः प्रक्षिप्तः। तथा च तदुपयुक्तांशोऽप्यत्रानूयते-चन्द्रवंशशाखाभूते यदुवंशे साहित्यसङ्गीतकलाकुशलो जयसिंहसुतः संग्रामधीरापरनामकः कश्चित् रविवर्मा कोलम्बाधिपतिरासीत् । अस्याश्रितया पण्डितपरिषदा सर्वस्वस्य दुरूहतां दृष्ट्वा तद्व्याख्यानायायं प्रार्थितोऽभूत् । ततश्चानेन ग्रन्थप्रमेयं स्वयं- विवृण्वताऽपि लेखकर्मणि समुद्रबन्धो नियुक्त इति स्वीयटीकाप्रारम्भे- अवश्त्यै यदुपतिना विवृतस्य गरीयसस्तदर्थस्य । कश्चिद् व्यधितविपश्चिच्छब्दनिबन्धं समुद्रबन्धाख्यः ॥' इति व्यलिखत् । काव्यमालादर्शभूते 'क' 'ख' संज्ञया व्यवहृते तु 'निजा- लक्कारसूत्राणां वृत्त्या तात्पर्यमुच्यते' इति पाठोपलब्ध्या बहुविचार्य मयापि स एवात्र संस्करणे स्वीकृतः । भवतु नाम । शास्त्रिभिर्यदुक्तं तदखिलमुपपत्तिम- दथापि न स्वीकारार्हम् । केरलादर्शपु तथा पाठेऽपि गुरुशब्दस्यालङ्कारशब्द. सान्निध्यात् स्वारस्याञ्च विशेषणतयैव योगो युक्त आसीत् । सच अन्यथोत्प्रे क्षणयैव विरोधप्रतिक्षेपकोऽभूदिति द्रष्टव्यम् । रुय्यकस्य च सूत्रप्रणयनं सर्व. संमतं, मङ्खश्च तच्छिष्य इत्यपि तदुक्त्यैव सिद्धम् । तथा च श्रीकण्ठचरिते- 'व्याख्यासु यस्य वदनं रदनांशुभिरीक्ष्यते । आकर्षदिव वाग्देव्या धौतक्षौमपटाञ्चलम् ॥ अर्पयन् कमपि स्पन्दं धाम्नः सारस्वतस्य भूः । य एव सर्वशास्त्राणां साकारमिव जीवितम् ॥ विवृतीर्यो लिखत्यात्तलेखन्येकाहुलीतलः। ग्रन्येभ्योऽर्थस्य विश्रान्त्यै सूत्रिकामर्पयन्निव ॥ १ अयं वश्चिमण्टलमहाराजस्य पूर्वजः, प्रद्युम्नाभ्युदयस्य च प्रणेता।

१२ यत्कृतिष्ववधानेन मूर्धा कस्य न वीप्सया । सारस्वतरसावर्तवलनेनेव चेष्टते॥ तं श्रीरुय्यकमालोक्य स प्रियं गुरुमग्रहीत् । सौहार्दप्रश्रयरसस्रोतःसंभेदमजनम् ॥ (कुलकम् २५ सर्गः।) परं यत्प्रामाण्येनैतदुक्तं स एव ग्रन्थप्रणेतृविषये भ्रान्तः । यतोऽयं मह्यं काश्मीरभूपतेः सांधिविग्रहिकपदे प्रतिष्ठितं मनुते । एतच्चेतिहासविरुवं किन्त्वस्य ज्यायान् लङ्ककस्तत्पदमविन्दत इति मङ्खसमये सप्रमाणं प्रद- र्शितमेव । अपि च, समुद्रवन्धो मम्मटं रुय्यकात्पूर्वतनं विश्वसिति परं तदपि मम्मटप्रस्तावे निरस्तम् । किंच जयरथव्याख्यामजानलेवायं निजटीकाकरणे प्रवृत्त इति दृढं प्रतिभाति । यतोऽयं वापि तथाविधं विद्यावयो वृद्धं न ससार । टीका चास्य केवलं सूत्रोदाहरणैकयोजनप्रवणा क्षुद्रकाया च । तस्माच्चतुर- स्रपरीक्षया इत्थमत्र पर्यवस्यति यदुय्यक-मङ्खयोर्गुरुशिष्यभावादेकफालि- कत्वादेकदेशीयत्वाच्च लेखकादिप्रमादात् काश्मीरादहुविप्रकृष्टैः केरलीयैः रुय्यकस्थाने मङ्खकोऽवधारित इति युक्तिसबलम् । एवं पूर्वोक्तगुरुवर्णनपद्यैरपि रुय्यकस्य बहुग्रन्थकर्तृकता सिद्ध्यत्येव । अन्यथा यावदुपलब्धग्रन्थानां म- ङ्खकर्तृकत्वेनैव विज्ञापनायां तदीयं गुरुवर्णनं कथं संवदेदिति विमर्शकैः समनोनियोग विभावनीयम् । एतदेव डाक्तर वूलर महोदयोऽपि संमनुते (See Dr. Bubler's Kashmir Report P. 66-68) काव्यमालासंपादकत्वेन सुगृहीतनामधेयरस्मत्पूज्यतमैर्महामहोपाध्याय श्रीदुर्गाप्रसादमहानुभावैः काव्यमालागुम्फितायां सहृदयलीलाभूमिकायां यनिर्णीतं तदप्यत्रानुग्राहकम् । मङ्खः। कविरयं सुस्सलसूनोः काश्मीरकजयसिंहमहीपतेः शासनसमये प्रतिष्ठते । जयसिंहो हि ११२७ निस्ताव्दादारभ्य ११४९ मितवत्सरान्तं यावन्महीं प्रश- शास। तेनास्यापि स एव कालो निश्चितः। दीपशिखा कालिदास-छत्रभारवि- तालरवाकर इत्येवमादितत्तत्कल्पनामूलकमतिशयपरिचायकं महाकवीनां ना.

१३ मान्तरवदस्यापि 'कर्णिकारमङ्ख' इति नामान्तरं प्रसिद्धि प्रापदित्यस्य श्रीकण्ठ- चरितकाव्यस्य व्याख्यात्रा द्वितीयराजतरङ्गिणीकारेण राजानकजोनराजेन (१४१७-१४६७ त्रि.)- 'विवृण्वता सौरभरोरदोषं बन्दिव्रतं वर्णगुणैः स्पृशन्त्या । विकस्वरे कस्य न कर्णिकारे घ्राणेन दृष्टेर्ववृधे विकारः ॥' (श्रीकण्ठच. ६।१३) इति श्लोकव्याख्याने स्पष्टीकृतम् । अस्य ज्यायान् सहोदरोऽलङ्कारापरनामा लङ्ककश्च जयसिंहराज्ञः सामन्तो विख्यातगुणगौरवश्वासीदित्यस्यैव काव्यस्य पञ्चविंशसर्गादवगम्यते । तथाहि- 'यः सामन्तशिखामणेऽत्र भवतालङ्कारनित्यं सता. मानीतोऽनवकाशतां हृदि हृताशेषाद्भुतापद्भियि । तेषां श्रोत्रविलिद्यमानगहनत्वत्सूक्तिचर्वोत्सवै राशीभूत इवाधिशीर्षमधुना कम्पः स संपद्यते ॥ एकं श्रीजयसिंहपार्थिवपतिं काश्मीरमीनध्वज तस्योपासितसन्धिविग्रहमलङ्कारं द्वितीयं स्तुमः । भूभारः प्रथमेन पन्नगपतेः मां रक्षता वारितो नीतोऽन्येन कृतार्थतां प्रवचनैर्भाप्योपदेशश्रमः ॥' इति. (श्रीकण्ठच. २५।४०, ६१) अत्र प्रथमः श्लोको लोप्टकस्येति जोनराजः । आरोहक-भगदत्तस्य सू- क्तिमुक्तावलीसंग्रहे श्लोकान्तरमपि लोप्टकस्य लभ्यते । तेन स एवायं भवेत् । द्वितीयस्तु भागवताचार्यदेवधरस्य । लककस्यालङ्कारेति नाम राजतरङ्गिण्या- मपि दृश्यते । तथाहि- 'अलङ्काराभिधो बाह्यराजस्थानाधिकारभाक् । अप्यो मानुपैयुद्धे विरुद्धान् बहुधावधीत् ॥' (राजत. ८२६, ५८) इयता मङ्क्षवृत्तमनायासेन बोढुं शक्यम् । अस्य श्रीकण्ठचरितमनेकार्थको- शश्चेति कृतिद्वयमेवाद्यावधि ज्ञातम् ॥ अथात्र सर्वस्वे स्मृतानां केषांचनालङ्कारनिवन्धकाराणां प्रसङ्गतः समयः प्रस्तूयते- 2 १४ - भट्टनायकः। अयमानन्दवर्धनाचार्या (८५५-८८४ नि.) दुत्तरत्रैरस्मिन् लोचनकारा- दाचार्याभिनवगुप्तपादात् (९९३-१०१५ त्रि.) पूर्वस्मिन्नासीदिति तत्तन्नि- बन्धनिर्देशतो ज्ञायते । सोऽयं प्राचामलङ्कारगोष्टीपु लब्धप्रसरो हृदयदर्प- णाख्यं ग्रन्थं निर्मितवान् । तच्च ध्वनिप्रतिभटभूतमिति प्रामाणिकाः । यतोऽस्य मतखण्डना ध्वन्यालोकलोचने 'एवं यद्भट्टनायकेन द्विवचनं दूषितं तद्गजनि- मीलिकयैवे'त्यादिना क्रियमाणा जागर्येव । काव्यप्रकाशस्य चतुर्थोल्लासे मम्मटाचारपि रसस्वरूपं परामृशता सम्यगयमालोच्य प्रत्युक्तः। एवं व्यक्तिविवेककारोऽप्येनं संस्मरन्- 'सहसा यशोऽभिसतुं समुद्यतादृष्टदर्पणा मम धीः । स्वालङ्कारविकल्पप्रकल्पने वेत्तिकथमिवावद्यम् ॥ इत्यभिधत्तेस्म । एतेनास्यग्रन्थो ध्वनिविरोधपर एवासीदिति प्रतिभाति । केचित्तु भरतमुनेर्नाट्यशास्त्रस्य व्याख्यानं दर्पणमिति वदन्ति । तत्तु तथाविध- पुस्तिकाबन्धलाभाभावे कथमिव विश्वसनीयं स्यात् । ध्वनिदूषणं तु तत्रापि संभवन्निधिमेव । किंचानेनैव महामनस्विना प्रथमं ध्वनिनिराकरणाय वीजवापः कृतः । तदुत्तरमेव महिमाचार्यैर्ध्वनिकारोक्तिषु पराक्रान्तमिति सुधी- भिर्विभावनीयम् । आचार्यकुन्तकः। राजानकसंज्ञकब्राह्मणकुलोत्पन्नः काश्मीरेषु जनि लेभे । अस्य स्थितिसमय- स्वीशवीयाब्दस्य दशमैकादशशतकयोरन्तरालः । अयं स्वोपज्ञवृत्तिसहितं वक्रो क्तिजीवितनामानमलङ्कारप्रबन्धं निबबन्ध । तत्र च लोकोत्तरप्रतिभेनानेन- 'शब्दाथों सहितौ वक्रकविव्यापारशालिनि । बन्धे व्यवस्थितौ काव्यं तद्विदाह्रादकारिणि ॥' इत्यादिना काव्यजीवितालम्बना स्वतत्रा वक्रोक्तिः प्रतिष्ठापिता । एपाs- पि महिमभट्टेन ध्वनिवदनुमानेऽन्तर्भाविता । अत्र बहूनां काव्य-नाटकाल- कारकर्तृणां श्लोका लभ्यन्ते । परं तेषां नामकृतिपरिचयो दुःसाध्य एव । नाम- १ अयं ग्रन्थः ढाकाविश्वविद्यालयाध्यापकैः डाक्तरश्रीसुशीलकुमारदेमहोदयविंशद- याङ्ग्लभाषाभूमिकया अन्यैश्चोपस्करैः संयोज्य संशोध्य च मुद्रापित इति तेभ्यः सबहु- मानं साधुवादा उपडियन्ते ।

१५ प्राहं तु–कालिदासादयस्तथा आनन्दवर्धन-भामह-रुद्रट-राजशेखरादयो लक्ष्यभूता एव मर्यन्ते । अस्मिन् प्रबन्धे चत्वार उन्मेषाः, तेषु प्रथम-द्वितीयौ मुद्रितो, शिष्टयोर्द्वयोश्च मुद्रणार्थ मद्रासनगरपरिसरवर्ती कश्चन पण्डितो यतत इत्यनुश्रूयते। अस्यैव 'संरम्भः करिकीटमेघ-' इति पद्यं विधेयाविमर्शदुष्टतया व्यक्तिविवेककारेण महत्या आरभट्या दूषितम् । महिमभट्टः। अयं श्मामलशिष्यः श्रीधरसूनू राजानकमहिमाचार्यों लोचनकारात् किंचिदेवोत्तरस्मिन् निस्ताब्दस्य दशमशतके कश्मीरेषु बभूव । ख्रिस्तैकादश- शतकस्थितेन व्यासदासापरनामकेन श्रीक्षेमेन्द्राचार्येणौचित्यविचारचर्चायां 'न तु यथा श्यामलस्य' सुवृत्ततिलेके च 'विपरीता यथा भट्टश्यामलस्य' 'यथा भट्टश्यामलस्य' इत्येवमादिना मर्यमाणः स एवायं श्यामलोऽस्य गुरुपदवीमा- रूढ इति तर्कयामः । एतदप्यस्य दशमशतकस्थितिं लक्षयति । M. T. नर- सिंह अय्याङ्गार पण्डितोऽपि स्वीये व्यक्तिविवेकप्रस्तौवे प्रकृतमेव प्रमाणयति- "We know that Anandavardhan lived in the later half of the 9th century at the time of Avantivarman (855-884 A. D.)Bhatta Nayak was a contemporary of Shankar Varman (884-902 A. D.) and Abhinavagupta Padacharya of Lochankar flourished about 993–1015 A. D. (See Duff's Chronology of India P. 102 ) Thus we may safely conclude that Mahim Bhatta cannot be earliar than 1000 A.D." अयं महिमा ध्वनिनिरासाय विमर्शवयात्मकं व्यक्तिविवेकाख्यं ध्वनिग्रन्थं निरमात् । अस्मिन् सर्वोऽपि ध्वनिप्रपञ्चो महताभिनिवेशेनानुमानशरीरेऽन्त- र्भावितः । अनुमानाद् व्यङ्ग्यप्रतीति निरूपयतोऽस्यैव मतं मम्मटेन नामानि- देशेन पञ्चमोल्लासे दूषितम् । हेमचन्द्रोऽप्यात्मनः काव्यानुशासने व्यक्तिवि- वेकमुद्धरनामनिर्देशं न कृतवान् । व्यक्तिविवेकस्य व्याख्याता च रुय्यक एवेति १ काव्यमालामुद्रितायां पृ. १२५ द्रष्टव्यम् । २ काव्यमालामुद्रिते पृ. २, ४४, ५५ द्रष्टव्यम् । See the Journal of the Royal Asiatic Society, January 1908.

१६ २ दर्शितमेव । किंच 'तत्वोक्तिकोशः' कोऽपि महिमकृत इति व्यक्तिविवेका- ज्ज्ञायते- 'इत्यादि प्रतिभातत्वमस्माभिरुपपादितम् । शास्त्रे तत्वोक्तिकोशाख्य इति नेह प्रपञ्चितम् ॥' (व्यक्तिवि. २ विमर्शः) मम्मटः। इह काव्यप्रकाशकर्तुर्मम्मटाचार्यस्य क्रियमाणा स्थितिकालकलना तावदा- पाततश्चर्वितचर्वणेव प्रतीयते । परमद्यावधि निर्णीतः स्थितिकालः पूर्वापरप्रे- क्षिकया बहु विरुध्यत इत्यस्माकं रुय्यकसमयनिर्णये विरोधापातादुपनतमिति सामञ्जस्यमास्थातुमावश्यकीय विचारणा। काव्यप्रकाशस्य निर्माणकालोऽनुमा- नमन्तरा निर्गतुमशक्य एव । दृढतरप्रमाणानुपलम्भात्। एवमिह विसंवादाधेः संक्रमणं न खल्वाश्चर्यावहम् । तथाचात्र विरोधपरिहारायायमुपक्रमः-सरस्व- तीकण्ठाभरणादिविविधग्रन्थरचयितुर्भोजदेवस्य जीवितकाल (९९६-१०५१ त्रि.) स्तदानपत्रतो व्यक्तः । मम्मटश्च ‘भोजनृपतेस्तत्त्यागलीलायितम् ।' इति पद्यमुदात्तालकार उदाहृतवानिति तत्समयमनुरुध्य मम्मटस्य सत्ता साधनं कैश्चित्-क्रियते । तद् हेत्वाभासमात्रत्वान्न प्रमाणक्षमम् । ततो ज्येष्टेऽल- कारसर्वस्वेऽपि तदुपलम्भात् । एवं प्रकाशटीकासु प्रथमत्वेन संभाविता जैन- माणिक्यचन्द्रस्य 'सङ्केत'नाम्नी टीका १२१६ विक्रमाब्दे निर्मितेति तदन्ते- 'रसवक्रग्रहाधीश(१२१६)वत्सरे मासि माधवे । काव्ये काव्यप्रकाशस्य सङ्केतोऽयं समर्थितः ॥' इति स्वोक्त्या समर्थनात्प्रमाणान्तरनिरपेक्षम् । तथाचानयोरन्तःपातिना मम्मटेनैकादशशतके काव्यप्रकाशो निरमा यित्यनुमानमपि न निर्वाधम् । वस्तु- तस्तु द्वादशशतकस्य पूर्वार्धान्ते तन्निर्माणमभूदिति सयुक्तिकः पन्थाः । रुय्यको हि निस्ताब्दस्य द्वादशशताब्द्याः पूर्वभागवर्तीति समनन्तरमेवोक्तम् । अनेन च संकरालवारं विचारयता- 'राजति तटीयमभिहत दानव-रासातिपति साराव नदा । गजता च यूथमविरत-दानवरा सातिपाति सारा वनदा ॥ (हरविजयं ५ सर्गः।)

नियताः, प्राचीनेषु नवीनेषु च साहितीसन्दर्भेपूदाहियमde, १७ इति रखाकरश्लोकस्थितःप्राचां शब्दालङ्कारसंकरो दूषितः । स च मम्मटेन दशमोल्लासे समर्थितः । अपि च रुय्यकेण यद्यतिरेकालङ्कारे-उपमानादु- पमेयस्याधिक्यमित्यपरो लक्षणप्रकारो लक्षितः, सोऽपि क्षीणः क्षीणोऽपि शशी' इति तदीयोदाहरणमुपदर्य निराकृतः। अन्यच्च 'स्फुटमेकत्र विषये शब्दार्थालकृतिद्वयम्' इत्यादिकारिकाव्याख्यानेऽलकारानुद्दिश्य 'कुतः पुनरेष नियमो यदेतेषां तुल्येऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलङ्कारः शब्दस्य, कश्चिदर्थस्य, कश्चिच्चोभयस्येति चेत्' इति पूर्वपक्षीकृत्य समाधेरुपक्रमे आनु- पङ्गिकतया-'योऽलङ्कारो यदाश्रितः स तदलकार'-इत्यादिना रुय्यक एव प्रत्युक्तः । एतेन नवमोल्लासे श्लेषभेदाख्यानावसरे-'ननु स्वरितादिगुणभेदात्' इत्यारभ्य 'कथमयं शब्दालङ्कारः' इत्यन्तः पूर्वपक्षग्रन्थोऽपि रुय्यकमत निरास- परः संगच्छते । इत्थमन्यैरुपदर्शितः कालक्रमश्चेदास्थीयेत तर्हि कथमिव पूर्व- वर्तिना परवर्तिनो मतमालोच्येत? कथं च तत् श्रद्धेय स्यात् ? अपरं च, प्रका- शटीकाकृद्भिस्तत्र तत्र प्रघट्टकेषु मूलग्रन्थयोजनायां नामग्राहं सर्वस्वकृतोक्ति- विवृता । यत्तु जयरथेन विमर्शिन्यां-'अन्ये, केचित्' इत्यादिमूलप्रतीकमु- पादाय बहुत्र 'काव्यप्रकाशकारः' 'काव्यप्रकाशकारादयः' इत्येवं विवृतं तत्तस्य समयानभिज्ञतया प्रामादिकमित्यवधेयम् । परमत्र दाक्षिणात्यस्य समुद्रबन्ध- स्यैवंविधो भ्रमावर्तपातः कथमिवोपेक्षणीयः प्रेक्षावताम् । इयता चालङ्कार- सर्वस्वस्य मङ्खकर्तृकत्वं च संगमयन् कथमिवासौ नोपालभ्यः । कथं च तदुक्तिपु प्रत्ययोत्पत्तौ कश्चिदप्यात्मनि बहुमानः स्यादिति सुदूरेक्षिकया पर्यालोच्यम् । राजानक-जयरथः। अयं राजराजनृपमन्त्रिप्रवरस्य शृङ्गारकवेः सूनुः हरचरितचिन्तामणेः कर्ता निस्तवर्षस्य द्वादशशतकोत्तरार्धे कश्मीरेषु बभूव । अयमेवालङ्कारसर्वस्वस्य विमर्शिनीनाम व्याख्याकारः । इयं विमर्शिनी ग्रन्थगौरवानुरूपं विवेचयन्ती प्रमेयशय्योपकल्पनासु विदग्धा सर्वाङ्गसुभगेति च न मनागपि संशयः । व्यु- त्पित्सूनां प्रतिभावैशद्याथं पुनरतितरामुपक: । यत्र पुनः सर्वस्वे क्वाप्यलकार- भेदप्रपञ्चः संक्षेपितस्तत्रेयमुदाहरणान्तरैर्विषयजातं प्राञ्जलीकरोति । परं मूलो- द्दिष्टासूदाहृतिषु प्रायेण मौनं भजन्ती प्रौढेतरानध्यापकान् विशेषतोऽध्येतंश्च क्लिनात्येव । यद्यप्यलकारोदाहृतिपु योग्यतां वहन्त्यः काश्चन लक्ष्यव्यक्तयो Library ६ १८ रश्लिष्टा अप्यर्थगत्या परस्परं संवदन्त्यस्तत्र तत्रोपलभ्यन्त एव । अथाप्यत्र ता- सामर्धाधिकानां विभिन्नस्थानवर्तितया बहुत्राननुगमापाताल्लक्षणसङ्गतिरायास- साध्या भवति । क्वचित्तु पुनर्बहुश्रुता अपि व्यामोहभाजो भवन्ति । अथापि सर्वभावेन गुणानां बहुलत्वे प्रसज्यमानोऽसौ दोषो न विचारसहः । अयमे वाचार्याभिनवगुप्तपादानां तन्त्रालोकमहार्णवस्य कर्णधारोऽपिजज्ञे । समुद्रवन्धः। एप जयरथादर्वाचीनः कोलम्बाधीशस्य रविवर्मणः पण्डितसभाग्रणीः १२६५ तमे खिस्ताब्दे तदन्तिके व्यराजत् । राज्ञः प्रेरणया चालङ्कारसर्वस्वं व्याकरोत् । सा चास्य व्याख्या विशेषविचारविकला सङ्कुचिताङ्गा प्रायेण सूत्रोदाहरणे योजयन्ती न तथोपकारिणी यथा विमर्शिनी । मूलोदाहरणेषु यत्र यत्रावान्तरभेदाः सङ्केतिताः, तत्र सर्वत्रायं प्रायेण रविवर्मणः स्तुतिपराण्येव पद्यान्युदाजहार । तान्यस्यैवान्यस्य वेति को निर्णयेत् । अस्य प्रस्तुतं संस्करणं पुस्तकद्वयाधारेण संपादितम् । तत्रैकं १८९३ ईश- वीयाब्दे काव्यमालायां प्रकाशितमपरं १९१५ ईशवीयाव्दे "अनन्तशयनं संस्कृतग्रन्थावलौ” मुद्रितम् । अनयोश्च तत्तत्स्थलीयान् पाठभेदान् सम्यक् पर्यालोच्यान्यतरो विन्यस्तः । उदाहरणश्लोकाश्च यत्रान्यथाकारा आसन् , तत्र तत्तद्ग्रन्थेभ्यः संवाद्य योजिताः। पर्यन्ते च श्लोकानुक्रमेण सह यावदुपल. ब्धानि कवीनां तद्वन्थानाञ्च नामान्यपि-सन्निवेशितानि । इत्थमत्र प्रस्तावनासंपादने आयुप्मता श्रीगङ्गाधरद्विवेदेन पूर्वापरसाहि- त्यविषयान् मूलतः प्रमाणीकृत्यात्मनः साहित्यपरीक्षां ददता बहुभाषाविदामे- कान्ततो निर्णीतविषयान्पर्यालोच्याङ्गीकुर्वता यन्मह्यमुपहृतं, तदस्य नव्य- भावुकतां विमृश्यार्पितं समुदीयादिति निःश्रेयसकामस्तमाशीभिरभियोज्य विश्रम इति शिवम् । 'सरस्वती-पीठम्' जयपुरम् ३।१०।३८ श्रीगिरिजाप्रसादद्विवेदः।

अलंकारसर्वखस्य विषयानुक्रमणिका । १] निदर्शना १९ व्यतिरेकः २० | सहोतिः २० | विनोक्तिः २४ | समासोतिः २५/परिकरः १०१ १०३ १०५ १०७ १२० २६ / श्लेषः :: १२१ १३२ १३९ १४१ १४२ :: :: १४४ १५४ उपोद्घातः पौनरुक्त्यप्रकाराः .. अर्थपौनरुक्त्यम् पुनरुतवदाभासः छेकानुप्रासः वृत्त्यनुप्रासः यमकम् शब्दार्थपौनरुक्त्यम्... लाटानुप्रासः चित्रम् उपमा अनन्वयः उपमेयोपमा स्मरणम् रूपकम् परिणामः संदेहः भ्रान्तिमान् उल्लेखः अपहुतिः ... उत्प्रेक्षा अतिशयोक्तिः तुल्ययोगिता दीपकम् प्रतिवस्तूपमा दृष्टान्तः :: २७ अप्रस्तुतप्रशंसा २८ अर्थान्तरन्यासः ३० / पर्यायोक्तम् ३१ व्याजस्तुतिः ३७ आक्षेपः ३९ विरोधः विभावना ४० ४३ / विशेषोक्तिः ५१ / अतिशयोक्तिः ५३ / असंगतिः ५५ विषमम् ५८ समम् ६३ | विचित्रम् ६९/ अधिकम् ८३ | अन्योन्यम् ८९/ विशेषः ९१ व्याघातः ९४|कारणमाला ९६ एकावली १५७ १६० १६३ १६३ १६५ १६७ १६८ १६९ :: १७० १७१ १७३ १७६ १७७ २ २१३ २१४ २१६ २१७ २१८ १७८ | तद्गुणः १७९ | अतद्गुणः १८१ | उत्तरम् १८४ | सूक्ष्मम् १८७ | व्याजोक्तिः १८९ | वक्रोक्तिः १९१ | स्वभावोक्तिः १९३ | भाविकम् १९६ | उदात्तम् १९८ | रसवदाद्यलंकाराः २१९ मालादीपकम् उदारः (सारः) काव्यलिङ्गम् अनुमानम् यथासंख्यम् पर्यायः परिवृत्तिः परिसंख्या अर्थापत्तिः विकल्पः समुच्चयः समाधिः प्रत्यनीकम् प्रतीपम् मीलितम् सामान्यम् २१२ २२३ २३० ... २३२ २०० भावोदयः २३८ " २०५ भावसंधिः २०६ भावशवलता २१० | संसृष्टिः २१२ | संकरः २४१ ... २४८ काव्यमाला। श्रीमद्राजानकरुय्यकप्रणीतम् अलंकारसर्वस्वम् । श्रीमद्राजानकजयरथप्रणीतयालंकारविमर्षिणीसमाख्यया व्याख्यया समेतम् नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम् । निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यते ।। मङ्गलकामनया ग्रन्थकृन्निजेष्टदेवताप्रणामपुरःसरमभिधेयं तात्पर्य चैकेनैव वा. क्येन परामृशति-नमस्कृत्येति । परां वाङ्मयाधिदेवतां पराख्यां शब्दब्रह्म- णोऽपृथग्भूतां शक्तिं परां वाचं देवीं त्रिविधविग्रहां वहिरुल्लिलासयिषया पश्यन्ती- मध्यमावैखरीरूपेण प्रकारत्रयेणाधिष्ठितशरीरां नमस्कृत्य निर्विघ्नचिकीर्षितग्रन्थस- माप्तये तां प्रति कायवाङ्मनोभिः प्रह्वीभूय निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति मङ्गलान्वययोजना। तथा चात्रोक्तलक्षणार्थविस्तरः-'येयं विमर्शरूपैव पर- मार्थचमत्कृतिः । सैव सारं पदार्थानां परा वागभिधीयते ॥ नादाख्या सर्वभूतेषु जीवरूपेण संस्थिता। अनादिनिधना सैव सूक्ष्मा वागनपायिनी ॥ अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥ वैखरी शब्द- निष्पत्तिमध्यमा स्मृतिगोचरा। द्योतिकार्थस्य पश्यन्ती सूक्ष्मा ब्रह्मैव केवलम् ॥' इलादिशास्त्रोक्तिक्रमेण सर्वत्र सदोदितायाः सूक्ष्मायाः परायाः शब्दब्रह्मणः शक्ते- बहिरुन्मिपन्त्याः प्रथमो विवर्तः पश्यन्ती नाम । तथा चोक्तम्-'अविभागा तु पश्यन्ती सर्वतः संहृतकमा। खरूपज्योतिरेवान्तःसूक्ष्मा वागनपायिनी ॥' इति । अस्यार्थः-अविभागा स्थानकरणप्रयत्नप्रकारेण वर्णानां विभागहीना अत एव संहृतकमा तथैवान्तःस्वरूपज्योतिः खयंप्रकाशा स्वस्यात्मनो रूपं ज्योतिश्च सर्वत्र हि सर्वविधायिनी शक्तिरेवेति वान्तःसूक्ष्मवीजादङ्गुरमिव बहिरुन्मिषन्ती किंचि. दुच्छूना पराया मध्यमायाश्चावस्थां तटस्था पश्यतीति पश्यन्तीत्युच्यते । ततः परंतु-'अन्तःसंकल्परूपा या क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा २ काव्यमाला। वाक्प्रवर्तते ॥ एतत्कथयामीति विमर्शरूपा अन्तःसंकल्परूपा प्राणवृत्तिमतिक्रम्य श्रोत्रग्राह्यवर्णाभिव्यक्तिरहिता क्रमरूपानुपातिनी मानसिकवर्णोच्चारणक्रमेण द्वितीयो विवर्ती मध्यमारूपो जायते। मध्यमा किल द्वयोर्वाग्विवर्तयोः पश्यन्तीवैखरीसंज्ञ- योर्मध्ये वर्तनान्मध्यमेत्युच्यते । तदनन्तरं च 'स्थानेषु विवृते वायौ कृतवर्णपरि- ग्रहा। वैखरी वाक्प्रयोक्तणां प्राणवृत्तिनिवन्धना ॥' इति लक्षणात्स्थानकरणप्रयत्न- कमव्यज्यमानः श्रोत्रग्राह्यदुन्दुभिवीणादिनादपरिचयो गद्गदाव्यक्तगकारादिविलास- समुच्चयपदवाक्यात्मकतृतीयो विवर्तो वैखरीत्युच्यते । विशिष्टं खमाकाशं मुखरूपं राति गृहातीति विखरः प्राणवायुसंचारविशिष्टो वर्णोच्चारस्तेनाभिव्यक्ता वैखरीति । विखरे शरीरे भवा वैखरीति वा केचित् । सिद्धो मङ्गलार्थः । तथा चात्र पूर्वार्ध एव पुनरावृत्त्याभिधेयपदार्थान्वययोजना-यथा परां वाचमुत्तमकाव्यरूपतया काव्यात्मध्वनिसंज्ञां अभिधातात्पर्यलक्षणोत्तीर्णामुत्कृष्टाम् । देवीम् ‘दिवु क्रीडावि- जिगीपाद्युतिस्तुतिव्यवहारमोदमदकान्तिस्वप्नगतिषु' इति यथायथं धात्वर्थानामनु- स्मरणात् शक्तिमतां कवीनां श्रोतॄणां च स्वभावात्स्वेच्छया समुच्छलन्ती क्रीड- न्तीम् । तथा देवीं विजिगीषु शब्दं तत्संकीर्तितं चार्थमुपसर्जनीकृत्य वर्तमानाम् । नथा देवीं द्योतमानां द्योतनध्वननयोः पर्यायत्वावनिसंज्ञाम् । तथा देवीं स्तुत्यां सर्वैः काव्यात्मत्यादभिवन्द्याम् । तथा देवीं व्यवहरन्ती सर्वत्र प्रचरितां न तु कापि स्खलिताम् । तथा देवीं मोदमानां श्रुतिमात्रेणैव परमानन्ददायिनीम् । तथा देवी माद्यन्ती कवेः सहृदयस्य च यथायथं करणाववोधाभ्यां कमप्यहंकारं जनय- न्तीम् । तथा देवीं कमनीयां सर्वैरभिलषणीयाम् । त्रिविधविग्रहां त्रिविधस्त्रिप्रकारो विग्रहो व्यतिरेकेण ग्रहो व्यतिरेकमूलः प्रमाकरणप्रकारो यस्यास्ताम् । तथा हि 'गङ्गायां घोषः' इत्यादिवाक्येपु घोषस्य यच्छेत्यपावनत्वादिकं प्रतीयते तत्र ना- भिधा। गङ्गादिशब्दानां शेत्याद्यर्थस्यावाचकत्वात् । न तात्पर्यात्मा। तात्पर्यशक्त्या या धाराधेयभावावगमार्थ परस्परमन्वयमात्र एव क्षीणत्वात् । न लक्षणा । मुख्या- वाधादिहेतुत्रितयाभावात् । तस्मादभिधातात्पर्यलक्षणाव्यतिरिक्तचतुर्थकक्ष्यानि- क्षिप्तो व्यञ्जनव्यापार इत्यादि सोऽयमेवाग्रे विमृष्यति विमर्षिणीकारः। अथ च व्यङ्ग्यस्य शब्दार्थोभयमूलत्वेन प्रसिद्धस्त्रिविधो विग्रहो विशेषणानां भेदानां ग्रहो यस्या इति वा । एतादृशीं तां नमस्कृत्य मङ्गलाचरणरूपत्वेन मनागुद्दिश्य न तु सूत्रवृत्तिभ्यां तात्पर्यकथनादिलक्षणपरीक्षाविस्तारेण निर्णीय निजालंकारसूत्राणां वृत्त्या तात्पर्यमुच्यत इति । अस्याभिप्रायः-तथा च ध्वनेर्मनागुद्देशमात्रमेव क- अलंकारसर्वस्वम् । ३ इह हि तावद्भामहोद्भटप्रभृतयश्चिरंतनालंकारकाराः प्रतीयमानमर्थ वाच्योपस्कारकतयालंकारपक्षनिक्षिप्तं मन्यन्ते । तथाहि-पर्यायोक्ता- रोति ‘इह हि तावद्भामह-' इत्यादिना। तदेतत्तावदास्ताम्। निजेति। परकीयाणां सूत्राणां तात्पर्यकथनानवबोधोऽपि स्यादिति भावः । तथा न कैश्चिदपि परैरीटेशि सूत्राणि कृतानीत्यपि ध्वनितम् । तात्पर्यमिति । संक्षिप्तार्थप्रकाशनमित्यर्थः । अन्यथा हि कथनमेषां वहुनापि प्रन्थेन पारं न यायात् । ननु ‘आदिवाक्यं प्रयो- तव्यमभिधेयप्रयोजने । प्रतिपादयितुं श्रोतृवाहोत्साहसिद्धये ॥' इति नीत्या श्रो- तृप्रवृत्त्यर्थ सर्वत्रैवादिवाक्येऽभिधेयप्रयोजनाद्यभिधीयते । तच्चेह नोक्कमिति कथ- मत्र श्रोतॄणां प्रवृत्तिः स्यात् । मैवम् । अलंकारा ह्यत्राभिधेयाः। तेषामत्र साक्षा- देवाभिधानात् । तदभिधायकं चेदमलंकारसर्वस्वाख्यं प्रकरणमित्यभिधानाभिधेय- योनियमगीकारेणार्थाक्षिप्तो वाच्यवाचकभावलक्षणः संवन्धः। नह्येवंविधमेतद- भिधायकं प्रकरणान्तरमस्ति । तस्यान्विष्यमाणस्याप्युपलम्भयोग्यस्यानुपलम्भात् । अत एवात्रान्यालंकारग्रन्थवैलक्षण्योद्घोषणाय 'तात्पर्यमुच्यते' इत्याद्युक्तम् । अभि- धेयाश्चात्रालंकाराः काव्यालंकारा न लौकिका इत्येतेषां काव्योपस्कृतिद्वारेण पार- म्पर्येण 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये का. न्तासंमिततयोपदेशयुजे।' इत्याद्युक्तनीला तदविनाभावस्वभावत्वादाक्षिप्तसर्वपुरु- पार्थसिद्धिरूपा चतुर्वर्गावाप्तिः प्रयोजनम् । तयोश्च साध्यसाधनभावलक्षणः सं- घन्धः। इति स्थितमेवादिवाक्यस्य श्रोतृश्रवणश्रद्धाविर्भावनिवन्धनत्वम् । नेनु यदीहालंकारा अभिधेयास्तर्हि तदलंकार्योऽप्यभिधेयः। 'अलंकारा अलंकार्यापेक्षाः' इति नीत्या स एवेषां को नाम यदुपस्कारकत्वेनैतत्स्वरूपमभिधीयत इत्याशय तंदवतरणिकामेव वक्तुमुपक्रमते—इहेत्यादिना । प्रभृतिना दण्ड्यादयः । ताव- च्छब्दो विप्रतिपत्त्यभावद्योतकः । चिरंतनेत्यादि । ध्वनिकारमतमेभिर्न दृष्टमिति भावः । प्रतीयमानमिति । वाच्यव्यतिरिक्तत्वेन स्वसंवेदनसिद्धमपीत्यर्थः । अर्थमिति । विश्रान्तिस्थानतया परमोपादेयतालक्षणम् । वाच्योपस्कारक- तयेति। वाच्योपस्कारकत्वं ह्यलंकाराणामात्मभूतम् । अलंकारपक्षनिक्षिप्त- १. ख-पुस्तके टीकायां प्रारम्भाप्रभृति आस्तामित्यन्तो ग्रन्थो नास्ति. २. 'प्रवरो- त्साह' ख. ३. 'श्रोतृप्रवृत्तिः' ख. ४. 'युक्त्या' क. ५. 'ननु च' ख. ६. 'तदवताणिकां' क.

30 काव्यमाला। प्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन 'खसिद्धये पराक्षेपः परार्थ खसमर्पणम्' इति यथायोगं द्विविधया भझ्या प्रतिपादितं तैः । मिति । समग्रालंकारान्तर्भूतं न पुनस्तद्वयतिरिक्तमित्यर्थः । मन्यन्त इति । तथात्वेन मन्यन्ते न पुनस्तथा संभवतीत्यर्थः । नह्यभिमननमात्रेणैव भावानाम- न्यथाभावो भवतीति भावः । एतदेव दर्शयति-तथाहीत्यादिना । तैर्वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन प्रतिपादितमिति संबन्धः । वस्तुमात्रं न पुनरलं- कारा रसश्च । स्वसिद्धय इति । 'कुन्ताः प्रविशन्ति' इत्यादौ कुन्तरात्मनः प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते । तैर्विना तेषां प्रवेशासिद्धेः । 'ग. झायां घोषः' इत्यादी तु गङ्गाशब्दः परत्र तटे घोषाधिकरणतासिद्धये स्वात्मान- मर्पयति। स्वयं तस्य घोषाधिकरणत्वासंभवात् । यथायोगमिति । क्वचिद्धि वाच्योऽर्थः स्वसिद्धये परं प्रतीयमानमर्थमाक्षिपति । क्वचिच्च स्वयमनुपपद्यमानः सन्प्रतीयमान एवार्थे खं समर्पयति । तेन यत्र यादृक्तत्र तादृगेव योज्यमित्यर्थः । तत्र पर्यायोक्तं यथा-'अधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतरद्विशल्यां सौमित्रेर- यमुपनिनायौपधिवनात् । इति स्मारं स्मारं त्वदरिवलभीचित्रलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ॥' अत्र राक्षसगणवृत्तान्तो वाच्यः सन् स्वसि- द्धये परं कारणरूपमरिपलायनाद्याक्षिपति । तत्पलायनाद्यन्तरेण राक्षसवृत्तान्त- स्यासंगतेः । अप्रस्तुतप्रशंसा यथा-'प्राणा येन समर्पितास्तव बलायेन त्वमु- स्थापितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्यामपि । तस्यास्य स्मित- मात्रकेण जनयन्प्राणापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताललीला- यसे ॥' अत्र वेतालचरितमप्रस्तुतं प्रकरणादिवशेन खयमनुपपद्यमानं सत्प्रस्तुते कृतघ्नवृत्तान्ते खं समर्पयति । समासोक्तिर्यथा-'दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहै- मुनिभिरप्यवलोकितानि ॥' अत्र बोधिसत्त्वे नायकव्यवहारो न संभवतीति खसि- यर्थ नायकत्वमाक्षिपति । आक्षेपो यथा-किं भणिभो भण्णइ कित्ति अध किं २ १. 'वाच्यसंस्कारकत्वेन' ख. २. 'कि भणामो भण्यते किमिति अथ किं वा अनेन भणितेन । भणिष्यसे तथापि अथवा भणामि किं वा न भणितोऽसि ॥' इति च्छाया.

अलंकारसर्वस्वम् । ५ वा इमेण भणिएण । भणिहिसि तहवि अहवा भणामि किं वा ण भणिओसि ॥' अत्र वक्ष्यमाणविषयो भणननिषेधो वाच्यः सन्वक्तुमेवोपक्रान्तस्य निषेधानुपपत्तेः खयम विश्राम्यन्वात्मसमर्पणेन त्वां प्रति मरिष्यामि अथवा म्रिये यद्वा मृता याव- दहमिति विधित्रयमर्थान्तरमाक्षिपति । यत्त्वत्रान्यैः ‘वाच्योऽर्थः खसिद्धयेऽर्थान्त- रमाक्षिपति' इत्युक्तं तदेयुक्तमेव । तथात्वे हि निषेध एव पर्यवसितः स्यान्च निषे- धाभास इत्याक्षेपालंकार एव न स्यात् । आमुखावभासमानो हि निषेध आक्षेप- लक्षणम् । न च विधिनिषेधयोर्विरोधात्साध्यसाधनभावो युक्तः । व्याजस्तुति- र्यथा-'इंहिणं पहुणोपहुणो पहुत्तणं किं चिरंतनपहूण । गुणदोसा दोसगुणा एहिँ कआ णहु कआ तेहिं ॥' अत्र चिरंतनानां निन्दा वाच्या सती खयमनुपपद्य- माना स्तुतावात्मानमर्पयति । तद्गतत्वेन वस्तुदर्शिताया निन्दाया असंभवात् । एवमद्यतनानामपि स्तुतिर्निन्दायामात्मानमर्पयति । तस्या अपि विपरीततया तद्- तत्वेनासंभवात् । यत्पुनरत्रान्यैः खसिद्धये पराक्षेपो व्याख्यातस्तदुपेक्ष्यमेव । यतोऽत्र चिरंतनानां स्तुत्याक्षेपेण निषिद्धा निन्दैव प्रतीयेत, अद्यतनानां च निन्दा- क्षेपेण निषिद्धा स्तुतिरेवेति वाक्यार्थविप्रलोप एव पर्यवसितः स्यादिति नैतद्युक्तम् । किं च लक्षणायामपि खसिद्धये पराक्षेपो न युक्तः । तथात्वे हि लक्षणायाः स्वरू- पहानिः स्यात् । वाच्यलक्षणस्यैव खस्य सिद्धत्वान्मुख्यार्थबाधाभावात् । न चैकदा एकस्य बाधः सिद्धिश्चेति वक्तुं युक्तम् । विप्रतिषिद्धं घेतत् । वाच्यस्यैव यद्यत्र सिद्धिस्तदभिधैव स्यान्न लक्षणा । तस्या हि मुख्यार्थवाध एव जीवितम् । 'कुन्ताः प्रविशन्ति' इत्यादौ च कुन्तानां स्वयं प्रवेष्टुमसंभवान्मुख्यार्थवाध एवेति परस्य कुन्तवद्रूपस्य लक्ष्यस्यैवार्थस्य प्राधान्यम् । अतश्च लक्षणायां याधितः सन्मुख्योऽर्थः परत्र लक्ष्य एव स्खं समर्पयतीत्येव युक्तम् । ननु यद्येवं तत्पर्यायोक्तादौ वाच्य- सिद्ध्यर्थ परस्य लक्ष्यस्याक्षेपः प्रतीयत इति तत्र किं प्रतिपत्तव्यम् । इदं प्रतिप- त्तव्यम्-अत्र हि लक्षणाया एव नावकाशः । तत्र हि कथमहं स्यामिति वाच्यं सत्कार्य तदविनाभावात्परं कारणमाक्षिपतीत्याक्षेपेणैव सिद्धेस्तस्या अनुपयोगः। 'गौरनुवन्ध्यः' इत्यत्र यथा कयं मे श्रुतिचोदितमनुवन्धनं स्यादिति जात्या व्यक्त्यविनाभावाद्व्यक्तिराक्षिप्यते न तु लक्ष्यते तथैवात्रापि कार्यकारणयोर्जेयम् । १. 'विधिरूपं ख. २. 'तदयुक्तमेव । अत्र सम्यङिपेयोः न निषेधाभासः' ख. ३. 'अधुना प्रभवः प्रभवः प्रभुत्वं किं चिरंतनप्रभूणाम् । गुणदोपा दोपगुणा एमिः कृता न खलु कृता तैः ॥' इति च्छाया.

ur काव्यमाला। रुद्रटेन तु भावालंकारो द्विधैवोक्तः । रूपकपकापदीडुतितुल्ययोगि- एवं समासोक्तावपि नायकव्यवहारस्तदविनाभावित्वादेव नायकत्वमाक्षिपतीत्य- त्रापि लक्षणामूलत्वं नाशङ्कनीयम् । ग्रन्थकृता पुनरेतच्चिरंतनमतानुवादपरतयो- क्तम् । अस्माभिस्तु प्रसङ्गाद्वस्तु पर्यालोचितमित्यलं बहुना । उपमेयोपमा यथा-'रजोभिः स्यन्दनोद्धृतैगजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्यो- मेव भूतलम् ॥' अत्र द्वयोः परस्परमपमानोपमेयत्वं वाच्यं सत्खयमनुपपद्यमानमुप- मान्तरविरहलक्षणे परत्र वस्त्वन्तरे खं समर्पयति अनन्वयो यथा-'भवानिव भवानेव भवेद्यदि परं भव । खशक्तिव्यूहसंव्यूडत्रैलोक्यारम्भसंहृतिः ॥' अत्रै- कस्येवोपमानोपमेयभावो वाच्यः सन्द्वितीयसब्रह्मचार्यभावे परत्र वस्त्वन्तरे खं समर्पयति । आदिशब्दः प्रकारे। तेनानिष्टविध्याभासाक्षेपाग्रहणम् । यथा- 'भवतु विदितं व्यर्थालापेरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः । तव यदि तथा रूढं प्रेम प्रपन्नमिमां दशां प्रकृतितरले का नो व्रीडा गते हतजीविते ॥' अत्र कान्तप्रस्थानविधिर्वाच्यः सन्निषेढुमेवोपक्रान्तस्य विधा- नानुपपत्तेः खयमविश्रान्तः खसमर्पणेन निषेधमाक्षिपति । एवं द्विविधया भगया गम्यमानं वस्तुमात्रं वाच्योपस्कारकमेवेत्युक्तम् । एवमपि प्रतीयमानस्यार्थस्य विविक्तविषयान्तरोपालम्भादलंकारान्तर्भावो न सिध्यतीत्याशङ्कयाह-रुद्रटेनेत्यादि । द्विधेति । गुणीभूतागुणीभूतवस्तु- विषयत्वेनेत्यर्थः । यदाह-'यस्य विकारः प्रभवन्न प्रतिवद्धन हेतुना येन। गमयति तदभिप्रायं तत्प्रतिवद्धं च भावोऽसौ ॥ ग्रामतरुणं तरुण्या नववजुलमजरीसना- थकरम् । पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ अभिधेयमभिदधानं तदेव तदसदृशगुणदोषम् । अर्थान्तरमवगमयति यद्वाक्यं सोऽपरो भावः ॥ एका- किनी यदवला तरुणी तथाहमस्मद्गृहे गृहपतिः स गतो विदेशम् । कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धवधिरा ननु मूढ़ पान्थ ॥' इति । यद्वा द्विधेर्ति पूर्ववदेव लक्षणाद्वयाश्रयेण व्याख्येयम् । तेनाये स्वसिद्धये पराक्षेपः, परत्र तु अपरार्थ खसमर्पणम् । यत्त्ववान्यैर्भावनिर्वेदादिभिरुपलक्षितो वाच्यप्रतीयमान- त्वेन द्विविधो भावालंकारो व्याख्यातस्तदुत्सूत्रमेव । रुद्रटेन तथात्वेन तस्याप्र- तिपादनात् । तत्रापि च वस्तुमात्रस्य वाच्योपस्कारकत्वाभिधानसमये वक्तुमु. चितत्वात् । तदेवं गुणीभूतागुणीभूतत्वेन द्विप्रकारं वस्तु तावद्वाच्योपस्कारक- अलंकारसर्वस्वम् । तादावुपमाद्यलंकारो वाच्योपस्कारकत्वेनोक्तः । उत्प्रेक्षा तु खयमेव प्र- त्वेन प्रतिपादितम् । इदानीमलंकारस्यापि प्रतीयमानस्य वाच्योपस्कारकत्वं प्रति- पादयति-रूपकेत्यादिना । तत्र रूपकं यथा-'भीमभ्रूकुटिपन्नगीफणमणिः कामस्य चण्डं चिताकुण्डं कुण्डलितेन्दुनालवलयप्रभ्रंशिरक्तोत्पलम् । घ्राणस्फाटि- कमल्लिकापरिचिते भालाग्रशालाजिरे दीपा दीपशिखा शिवस्य नयनं कार्शानवं पातु नः ॥' अत्र नयनादीनां मणिप्रभृतीनां चोपमा वाच्योपस्कारायावगम्यते। तां विना सादृश्याप्रतिपत्तेः। दीपकं यथा दीपकं यथा-'पोउअबंधं पढिउं बंधेउं तह अ कुजकुसुमाइं। पोढमहिलं अ रमिउं विरलचिअ के वि जाणन्ति ॥' अत्र प्राकृ तबन्धपाठादेरुपमा वाच्योपस्कारायावगम्यते । प्रकृतस्य प्रौढमहिलारमणादेः सादृश्योपादानायेवोभयोरुपनिवन्धनात् । अपह्नुतिर्यथा-'अवाप्तः प्रागल्भ्यं परि- णतरुचः शैलतनये कलको नैवायं विलसति शशाङ्कस्य वपुषि। अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाठमुरसि ॥' अत्र कल- कुस्य रजनिसादृश्यप्रतीतेरुपमा वाच्योपस्कारायावगम्यत एव । तुल्ययोगिता यथा-'द्विगुणितादुपधानभुजाच्छिरः पुलकितादुरसः स्तनमण्डलम् । अधरमर्ध- समर्पितमाननाद्वयघटयन्त कथंचन योषितः॥' अत्र भुजादीनां सादृश्यावगमादुपमा वाच्योपस्कारायावगम्यते । तुल्ययोगितादावित्यादिशब्दान्निदर्शनादेर्ग्रहणम् । उप- मादीत्यादिशब्दादुपमेयोपमादीनाम् । तत्तु यथा-'प्रवातनीलोत्पलनिर्विशेषमधी. रविप्रेक्षितमायताश्याः । तया गृहीतं नु मृगागनाभ्यस्ततो गृहीतं नु मृगागनाभिः ॥' अत्र वाच्याया निदर्शनाया उपस्कारकत्वेनोपमेयोपमा गम्यते । तामन्तरे- णासंभवद्वस्तुसंबन्धत्वेन वाच्यस्या विश्रान्तेः । अतश्चात्रालंकारो गम्यमानः स्थितो न वस्तुमात्रम् । तेन पूर्वत्र यदादिग्रहणं सफलयितुमन्यैरेतदुदाहृतं तदयुक्तमेव । तत्र वस्तुमात्रस्य वाच्योपस्कारकत्वेन प्रतिपिपादयिषितत्वात् । वाच्योपस्कारकत्वेनेत्युत्तरत्रापि योजनीयम् । तेन वाच्योपस्कारकत्वेनोत्प्रेक्षा कथितेति समन्वयः। सा तु-'महिलासहस्सभरिए तुय हिअए सुहअ सा १. मल्लिका दीपाधारदण्डः. २. 'प्राकृतबन्धं पठितुं बर्बु तथा च कुजकुसुमानि । प्रौढमहिलां च रन्तुं विरला एव केऽपि जानन्ति ॥' इति च्छाया.. ३. 'महिलासहस्रम रिते तव हृदये सुभग सा अमान्ती। दिवसमनन्यकर्मा अङ्गं तनुकमपि तनूकरोति ।।' इति च्छाया. Library Sri Pratop Collosa, ८ काव्यमाला। तीयमाना कथिता । रसवत्प्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वे. नोक्तः । तदित्थं द्विविधमपि प्रतीयमानमलंकारतया ख्यापितमेव । वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलंकारत्वं ब्रुवता अमायन्ती । दिअहं अणण्णअम्मा अङ्गं तणुअं पि तणुएइ ॥' इति । तदित्यमलं- कारोऽपि प्रतीयमानो वाच्यशोभाहेतुत्वेनोक्तः । अधुना रसस्यापि वाच्योपस्कार- कत्वं दर्शयितुमाह-रसवदित्यादि । प्रभृतिशब्दादूर्जस्व्यादयः । आदिशब्दाच्च तदाभासादयः । तत्र रसवदलंकारो यथा-'कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निस्पन्दतामागता। मदृष्टिस्तृ- पितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साकाहं मुहुरीक्षते जललवप्रस्यन्दिनी लो- चने ॥' अत्र वत्सराजस्य परस्परास्थाबन्धरूपो रत्याख्यः स्थायिभावो विभावा- नुभावव्यभिचारिसंयोगाद्रसीभूतः सन्वाच्योपस्कारकः । तत्संवलितत्वेन वाच्यस्य सचमत्कारं प्रतिपत्तेः । प्रेयोलंकारो यथा-'तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घ न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावामस्या मनः । तां हर्तु विबुध- द्विषोऽपि न च मे शक्ताः पुरोवर्तिनी सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥' अत्र वितर्काख्यो व्यभिचारिभावो वाच्यशोभाधायक एव । ऊर्जस्व्यलं- कारो यथा—'दृग्लीलासु सकौतुकं यदि मनस्तन्मे दृशां विंशतिनिःसंधौ परिर- म्भणे रतिरथो दोर्मण्डली दृश्यताम् । प्रीतिश्चेत्परिचुम्बने दशमुखी वैदेहि सजा पुरः पौलस्त्यस्य च राघवस्य च महत्पश्योपचारान्तरम् ॥' अत्र सीतां प्रति राव- णस्य रतिरनौचित्येन प्रवृतेति रसाभासो वाच्योपस्कारकः । अन्यत्तु स्वयमभ्यू- ह्यम् । एतदेवोपसंहरति-तदित्थमित्यादिना । त्रिविधमिति । पर्यायो- कादौ वस्तु, रूपकादावलंकारः, रसवदादौ रसः। तदेवं चिरंतनैः प्रतीयमान- स्यालंकारान्तर्भाव एव तावदुक्तः । तदुपस्कार्यः । पुनरात्मा कैश्चिदपि नाभ्युप- गतः । वामनेन प्रतीयमानस्यालंकारान्तर्भावमभिदधतापि तदुपस्कार्य आत्मा क- श्चिदुक्त इत्याह-वामनेनेत्यादि । तुशब्दः पूर्वेभ्यो व्यतिरेकद्योतकः । आत्म- नोऽपि प्रतिपादकत्वात् । ब्रुवतेति । यदाह-'सादृश्याल्लक्षणा वक्रोक्तिः' इति । १. 'विभावादीनां पर्ययेन तस्संवलितत्वेन' ख. २. 'दायकः' क. ३. 'राध. यस्य' ख.

अलंकारसर्वस्वम् । ९ कश्चिद्धनिभेदोऽलंकारतयैवोक्तः । केवलं गुणविशिष्टपदरचनामिका रीतिः काव्यात्मकत्वेनोक्ता । उद्भटादिभिस्तु गुणालंकाराणां प्रायशः साम्यमेव सूचितम् । वि. षयमात्रेण भेदप्रतिपादनात् । संघटनाधर्मत्वेन चेष्टेः । तदेवमलंकारा एव काव्ये प्रधानमिति प्राच्यानां मतम् । वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गीभणितिस्वभावां बहुविधां वक्रोक्तिमेव प्राधान्यात्काव्यजीवितमुक्तवान् । व्यापारस्य प्राधान्यं च काव्यस्य प्रतिपेदे । अभिधानप्रकारविशेषा एव चालंकाराः । एतदेवोदाजहार च–'उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तम्' इति । कश्चिवनिमेद इति । 'अविवक्षितवाच्यादिः' । केवलमिति। यदि परमित्यर्थः । गुणेति । यदाह-'विशिष्टा पदरचना रीतिः' इति । काव्या- त्मकत्वेनेति । यदाह-रीतिरात्मा काव्यस्य' इति। तदेवं विशिष्ट पदरचना- त्मिकायाः काव्यात्मत्वेनाभ्युपगताया रीतेः 'तदतिशयहेतवस्त्वलंकाराः' इत्याधु- क्त्यान्तर्भावितध्वनयोऽलंकारा उपस्कारका इत्येतन्मतम् । अन्यैः पुनरेतदपि प्र- त्युक्तमित्याह-उद्भटादिभिरित्यादिना । प्रायश इति । बाहुल्येनेत्यर्थः । विषयमात्रेणेति । भिन्नकक्ष्याणां घुपस्कार्योपस्कारकत्वस्यानुपपत्तेः । तथात्वे चालंकाराणामपि गुणोपस्कार्यत्वं प्रसज्यते । समानन्यायत्वात् । तद्गुणालंकाराणां तुल्यत्ववादिन एवौद्भटाः । इत्थमनेन वाच्याश्रयाणामलंकाराणां मध्य एव ध्वने- रन्त वादभिधाव्यापारगोचर एव ध्वनिर्न पुनस्तद्यतिरिक्तः कश्चिद्धवनिर्नामेति चिरं- तनानां मतमित्युक्तम् । इदानीं यदप्यन्यैरस्य भक्त्यन्तर्भूतत्वमुक्तं तदपि दर्शयि- तुमाह-'वक्रोक्तीत्यादि । वैदग्ध्येत्यनेन वक्रोक्तेः स्वरूपमुक्तम् । यदाह- 'वक्रोक्तिरेव वैदग्ध्यभनीभणितिरुच्यते' इति । एवकारोऽन्यस्य काव्यजीवितत्व- व्यवच्छेदकः। काव्यजीवितमिति काव्यस्यानुप्राणकम् । तां विना काव्यमेव न स्यादित्यर्थः । यदाह-विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायते' इति । व्यापा- रस्येति कविप्रतिभोल्लिखितस्य कर्मणः । कविप्रतिभानिर्वर्तितत्वमन्तरेण हि वक्रो- क्तिरेव न स्यादिति कस्य जीवितत्वं घटत इति तदनुषक्तमेवान्वास्यात्र प्राधान्यं विव- क्षितम् । अतश्च द्वयोः प्राधान्यस्य दुर्योजत्वमत्र नाशहनीयम् । अलंकारा १० काव्यमाला। सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः। उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः। केवलमुक्तिवैचित्र्य जीवितं काव्यं, न व्यङ्ग्यार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम् । भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यांशत्र इति । तेनोक्ता इति शेषः । एवकारश्चिरंतनोक्तध्वनिप्रकारविशेषव्यवच्छेदकः । सत्यपीति । सदपि प्रतीयमानमनादृत्येत्यर्थः । व्यापाररूपेति वक्रखभावेत्यर्थः । भणितिरित्युक्तिः । कवीति । तत्रैव कविः संरब्ध इत्यर्थः। तत्संरम्भमन्तरेण हि वक्रोक्तिरेव न स्यात् । ननु च प्रतीयमानस्यानादरः किमभावमुखेनान्यथा वा कृत इत्याशङ्ख्याह-उपचारेत्यादि । उपचारवक्रतादीनामेव मध्ये ध्वनिरन्त- भूत इति तात्पर्यार्थः । यदाह-'यत्र दूरान्तरेऽन्यस्मात्सामान्यमुपचर्यते । लेशे- नापि भवेत्कर्तुं किंचिदुद्रिक्तवृत्तिता ॥ यन्मूला सरसोल्लेखा रूपकादिरलंकृतिः । उपचारप्रधानासौ वक्रता काचिदिष्यते ॥' इति । एतामेवोदाजहार च–'गैअणं च मत्तमेहं धारालुलिअजुणाई अ वणाई। निरहंकारमिअङ्को हरन्ति नीलाओ' अ णिसाओ ॥' अत्र मदनिरहंकारत्वे औपचारिके इत्युपचारवक्रतादीनामपि ग्रह- णम् । एवं सोऽपि ध्वनिप्रपञ्चो वक्रोक्तिभिरेव स्वीकृतः सन्स्थित एव । यदि परं तस्य प्राधान्यमेव नास्तीत्याह-केवलमित्यादि । तदीयमिति । वक्रोक्ति- जीवितकारसंबन्धीत्यर्थः । तदित्थं लक्षणामूलवक्रोक्तिमध्यान्तर्भावावनेरेव तत्त्वं प्रतिपादितम् । कैश्चिदप्यस्यवागविषयत्वादलक्षणीयत्वमुक्तमित्याह-भट्टनायके. त्यादि प्रौढोक्त्येति । न पुनर्लक्षणकरणेन । अत एवोक्तेः प्रौढत्वं यल्लक्षयि- तुमशक्यं तस्याप्यभ्युपगमः काव्यांशत्वमिति न पुनः काव्यात्मत्वम् । यदाह- 'ध्वनिर्नामापरो योऽपि व्यापारो व्यजनात्मकः । तस्य सिद्धेऽपि भेदे स्यात्काव्यां- शत्वं न रूपिता ॥' इति । व्यापारस्येति कविकर्मणः । अन्यथा शब्दप्रधानेभ्यो वेदादिभ्योऽर्थप्रधानेभ्यश्चतिहासादिभ्यः काव्यस्य वैलक्षण्यं न स्यात् । यदुक्तम्- 'शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । अर्धतत्त्वेन युक्तं तु वदन्त्याख्या- । १. 'किंचित्कर्तु' क. २. 'गगनं च मत्तमेषं धारालुलितार्जुनानि च वनानि । निर- इंकारमृगाका हरन्ति नीलाश्च निशाः ॥' इति च्छाया. ३ 'आइत्य' स.

अलंकारसर्वस्वम् । ११ ध्रुवता न्यग्भावितशब्दार्थखरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् । तत्रा- प्यमिधाभावकत्वलक्षणव्यापारद्वयोत्तीणों रसचर्वणात्मा भोगापरपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः । ध्वनिकारः पुनरभिघातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वनन· नमेतयोः । द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यधीर्भवेत् ।' इति । तत्रापीति । कविकर्मरूपस्य व्यापारस्य प्राधान्ये सत्यपीत्यर्थः । 'अभिधा भावना चान्या तद्भोगीकृतिरेव च' इति काव्यं तावत्यंशं तेनोक्तम् । तत्रापि 'अभिधाधामता याते शब्दार्थालंकृती ततः । भावनाभाव्य एषोऽपि शनारादिगणो मतः ॥' इत्यं- शद्वयस्य विषयं प्रतिपाद्य 'तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमान्नरः' इति तृती- योऽशः सहृदयगतस्तदंशद्वयचर्वणात्मा 'दृश्यमानाथवा मोक्षे यात्यङ्गत्वमियं स्फुटम्' इत्युक्त्या परब्रह्मास्वादसविधवती विश्रान्तिधामतयाभ्युपगतः । तदेवं यद्यपि 'तात्पर्याशक्तिरभिधालक्षणानुमिती द्विधा । अर्थापत्तिः क्वचित्तत्रं समा- सोक्त्याद्यलंकृतिः ॥ रसस्य कार्यता भोगो व्यापारान्तरबाधनम् । द्वादशेत्यं ध्वने- रस्य स्थिता विप्रतिपत्तयः ॥' इति नीत्या बहवो विप्रतिपत्तिप्रकाराः संभवन्ति, तथापि 'काव्यस्यात्मा ध्वनिरिति वुधैर्यः समानातपूर्वस्तस्याभावं जगदुरपरे भाक्त- माहुस्तमन्ये । केचिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयं' इत्युक्तनीत्यैव ध्वनेवि प्रतिपत्तिप्रकारत्रयमिह प्राधान्येनोक्तम् । एवमिदानीमेतद्विप्रतिपत्तिप्रकारत्रयं निरा- कुर्वन्ध्वनेरेव काव्यात्मत्वं साधयति-ध्वनिकार इत्यादिना । समयापेक्षा र्थावगमशक्तिरभिधा । सामान्यानां परस्परान्वितत्वेन विशेषार्थावबोधनशैक्तिस्ता- त्पर्यम् । मुख्यार्थवाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिलक्षणा। एतद्व्यापारत्रया- दुत्तीर्णस्य । तदतिरिक्तस्येत्यर्थः । तथा च 'गङ्गायां घोषः' इत्यत्र गङ्गाशब्दो घोषशब्दश्च सामान्यात्मके जलप्रवाहे गृह निकुरम्बे च संकेतितौ । सामान्य एवोद्योगात् । विशेषस्य हि संकेतकरणे आनन्त्यं व्यभिचारश्च स्यात् । ततश्चा- १. 'इत्येतदयस्य' ख. २. ख-पुस्तके 'तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम्' इति तुरीयपादोऽपि गृहीतः. ३. 'समयादांवगमन' ख. ४'गति: ख. ५. 'पादन' क.

१२ काव्यमाला। द्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वाद्यापारस्य भिधया जलप्रवाहमानं गृहनिकुरम्बमात्रं च प्रतीतमित्येका कश्या । एतत्प्रति- पाद्यान्यप्रतिपादनायाप्यभिधा न समर्था । 'विशेष्यं नाभिधा गच्छेत्क्षीणशक्ति- विशेषणे' इत्याधुक्तयुक्त्या तस्या विरम्य व्यापारासंभवात् । 'सामान्यान्यन्य- थासिद्धेविशेषं गमयन्ति हि' इति न्यायात्तात्पर्यशक्त्या सामान्यान्याधाराधेय- भावेनावस्थितं विशिष्टं गङ्गाघोषाद्यागूरयन्तीति तात्पर्येण परस्परान्वितत्वमा- त्रमेव प्रतीयत इति द्वितीया । जलप्रवाहस्य च घोषाधिकरणत्वमयुक्तमिति प्रमा- णान्तरवाधितः सेन्गङ्गाशब्दस्तदधिकरणयोग्यतटं लक्षयतीति तृतीया। तत्र तावत् , 'मुख्यार्थवाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥' इति नीत्या लक्षणा त्रितयसंनिधावेव भवति । तत्र मुख्यार्थबाधा तावत्प्रत्यक्षादिप्रमाणान्तरमूला। यश्च सामीप्यादिसंबन्धः स च प्रमाणान्तरावगम्य एव । यत्पुनरिदं घोषस्य शैत्यपावनत्वादिलक्षणं प्रयोजनं प्रतीयते तच्छब्दान्तरानुक्तं प्रमाणान्तराप्रतिपन्नं च कुत आगतम् । न तावत्प्रत्य- क्षादेतत्प्रतीतिः । अस्मादेव शब्दादवगमासिद्धेः । शब्दार्थे च तस्याप्रवृत्तेः नाप्यनुमानात् । सामीप्येऽपि शैत्यपावनत्वादेरसंभवादनैकान्तिकत्वात् । न स्मृतिः । तदनुभवाभावात् । सल्यामपि वा तस्यां नियतस्मरणं न स्यात् । अस्मा- देव च शब्दादेतदेव वुध्यत इति को हेतुः । तस्मादस्यैव शब्दस्यैष व्यापारोऽ- भ्युपगन्तव्यः । निर्व्यापारस्यार्थप्रतीतिकारित्वाभावात् । स तावन्नाभिधात्मा । समयाभावात् । न तात्पर्यात्मा । तस्यान्वयप्रतीतावेव परिक्षयात् । न लक्षणात्मा। मुख्यार्थवाधाद्यभावात् । तस्मादभिधातात्पर्यलक्षणाव्यक्तिरिक्तश्चतुर्थकक्ष्यानिक्षिप्तो व्यङ्ग्यनिष्टो व्यञ्जनाव्यापारोऽभिहितान्वयवादिनावश्याभ्युपगन्तव्यः । अन्विता- भिधानवादिनापि यत्परः शब्दः स शब्दार्थ इति शरवदभिधाव्यापारमेव दीर्घ- दीर्घमिच्छतापि नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्त इति निमित्तपरिकल्प- नेऽपि समवेयं प्रक्रियानुसरणीयवेत्युभयथापि सिद्ध एव व्यसनव्यापारः । एतच्च गहनगहनमिति मनागेव सिद्धरसन्यायेनेहोक्तम्। आदिशब्दात्प्रत्यायनावगमना- दीनामपि ग्रहणम् । अवश्येति । तेन विना व्यङ्ग्यस्यार्थस्यासंग्रहणात् । व्यापार- स्येति । व्यञ्जनात्मिकायाःक्रियाया इत्यर्थः । सा खलु साध्यमानत्वेन पूर्वापरीभूता- १. 'प्रतीतमेवेत्येका' इ. २. स च गहाशब्दार्थादधिकरण' ख. ३. 'शारदेऽथें' क.

अलंकारसर्वस्वम् । १३ च वाक्यार्थत्वाभावाद्वाक्यार्थस्यैव च व्यङ्गयरूपस्य गुणालंकारोपस्कर्त- व्यत्वेन प्राधान्याद्विश्रान्तिधामत्वादात्मत्वं सिद्धान्तितवान् । व्यापारस्य विषयमुखेन खरूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्व- रूपेण विदितत्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम् । तस्माद्विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः । यस्य गुणालंकारकृतचारुत्व वयवत्वान्न खरूपेणोपलभ्यत इति विचारपदवीमेव स्वयमुपारोढुंनोत्सहत इति कथं नाम तस्या वाक्यार्थत्वं स्यादिति भावः। यद्वक्ष्यति–'व्यापारस्य विषयमुखेण स्व- रूपप्रतिलम्भात्तत्प्राधान्येन प्राधान्यात्खरूपेण विचार्य(विदित)त्वाभावाद्विषयस्यैव समग्रभरसहिष्णुत्वम्' इति । उपस्कर्तव्यत्वेनेति । तत्परतयावस्थानेनेत्यर्थः । यदुक्तम्-'वाच्यवाचकचारुत्वहेतूनां विविधात्मनाम् । रसादिपरता यत्र स ध्वनेविषयो मतः ॥' इति । अत एव विश्रान्तिधामत्वादित्युक्तम् । आत्मत्व- मिति । सारभूतत्वमित्यर्थः । अतश्च तेन विना काव्यमेव न स्यादिति तात्पर्यम् । नहि निर्जीवं शरीरं क्वाप्युपयुक्तम् । ननु यद्येवं तर्हि 'गङ्गायां घोषः' इत्यत्रापि व्यङ्ग्यस्य सद्भावात्काव्यत्वं प्रसज्यते । नैतत् । इह यद्वदात्मनो व्यापकत्वाच्छरीरे घटादौ (च) वर्तमानत्वेऽपि करणादिविशिष्टे शरीर एव जीवव्यवहारो न घटादौ तद्वदस्यापि विविधगुणालंकारौचित्यचारुशब्दार्थशरीरगतत्वेनैवात्मत्वव्यवहारो ना- न्यत्रेति न कश्चिद्दोषः। ननु च सर्वत्र क्रियाया एव प्राधान्यं प्रसिद्धमिह पुनर्वि- षयस्योक्तमिति किमेतदित्याशयाह-व्यापारस्येत्यादि । विषयमुखेनेति । यथा ह्योदनादेविक्लित्त्यादिमुखेन पाकादेः क्रियायाः वरूपोपलम्भः । तत्प्राधा- न्येनेति । विषयप्रधानत्वेनेत्यर्थः । तेन व्यापारस्य प्राधान्यमुपचरितमिति भावः । स्वरूपेणेति । स्वरूपं हि तस्य साध्यमानत्वाद्विचारयितुमशक्यम् । सिद्धस्य हि विचारो भवतीति भावः । एवकारो व्यअनव्यापारव्यवच्छेदकः । समग्रेति । समग्रस्य भरस्यात्मेति व्यवहारादेः सहनशीलत्वमित्यर्थः । एतदे- वोपसंहरति-तस्मादित्यादिना । यस्येति । व्यङ्ग्यनानो रसाद्यात्मनो विष- यस्य । गुणालंकारकृतचारुत्वेति । गुणानां 'ये रसस्यासिनो धर्माः शौर्यादय इवात्मनः। उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥' इत्यादिनीत्या साक्षादेव १. 'कृतं' क. २. 'काव्यं काव्यमेव न भवतीति तात्पर्यम्' क.

काव्यमाला। परिग्रहसाम्राज्यम् । रसादयस्तु जीवितभूता नालंकारत्वेन वाच्याः । अलंकाराणामुपस्कारकत्वाद्रसादीनां च प्राधान्येनोपस्कार्यत्वात् । तस्मा. व्यङ्ग्य एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः । व्यञ्जनव्यापारस्य सर्वैरनपहृतत्वात्तदाश्रयेण च पक्षान्तरस्याप्रतिष्ठानात् । तद्धर्मत्वात् । अलंकाराणामपि 'उपकुर्वन्ति तं सन्तं येऽजद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥' इत्यादिनीत्या शब्दार्थलक्षणाझातिशय- द्वारेण तदुपस्कारकत्वात् । अलंकाराणां च रसादिरूपं व्यङ्ग्यमर्थमलंकुर्वतां मुख्यया वृत्त्यालंकारत्वम् । अलंकार्यसद्भावनिवन्धनत्वात्तस्य रसाद्यात्मन एव च व्यङ्ग्यस्यालंकार्यत्वेन प्रतिष्टानात् । अत एव च यत्र स्फुटव्यङ्ग्यार्थरहितत्वं तत्र 'गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता' इत्यादिनीत्या शब्दार्थमात्रनिव- न्धनत्वेनोक्तिवैचिच्यमात्रपर्यवसितत्वादेषां गौणमलंकारत्वम् । यदभिप्रायेणैव च चित्राख्यकाव्यभेदप्रकारत्वमलंकाराणां निरूपयिष्यते । अत एवानुप्रासादयोऽ- लंकाराश्चित्रमित्याद्यन्यैरुक्तम् । स च प्रतीयमानोऽर्थो यद्यपि वस्त्वलंकाररसत्वेन त्रिविधस्तथापि तेन विना काव्यात्मत्वाभावान्मुख्यत्वेन रसस्यैवात्मत्वं युक्तम् । अतश्च वस्त्वलंकारयोर्यदलंकारपक्षनिक्षिप्तत्वमन्यैरुक्तं तत्तावदास्ताम् , काव्यात्मनो रसस्य पुनरलंकारत्वमवन्तमेवावाच्यमित्याह-रसादय इत्यादि । आदिन- हणाद्भावतदाभासादीनां ग्रहणम् । न वाच्या इति । वक्तुमयुक्ता एवेत्यर्थः । अलंकार्यस्यालंकारत्वानुपपत्तेः । तस्य चालंकारत्वकथनेऽलंकार्यान्तरं प्रसज्यते । तेन विनालंकाराणामनुपपत्तेः । एतदेवोपसंहरति-तस्मादित्यादिना । व्यङ्ग्य इति रसादिरूपः । तस्यैवोपक्रान्तत्वात् । वाक्यार्थीभूत इति । अवाक्यार्थी- भूतस्तु रसादिरलंकारोऽपि स्यात् । यदुक्तम्-'प्रधानेऽन्यत्र वाक्यार्थे यत्रानं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥' इति । एतच्च रसवदाद्यलंकारप्रस्ताव एव निर्णेष्यामः । इतिशब्दः प्रमेयपरिसमाप्तौ । एतदेव युक्तमित्याह-एप एवेत्यादि । सर्वैरिति । अवाक्यार्थविद्भिरसहृदयप्रायैरि- त्यर्थः । पक्षान्तरस्येति । तत्र तावद्वाच्यवाचकमात्राधयिणामलंकाराणां मध्ये व्यायव्यञ्जकभावसमाश्रयेण व्यवस्थितत्वादस्यान्तर्भावो न युक्तः । यदुक्तम्-व्यङ्ग्य अलंकारसर्वस्वम् । १५ व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गितया व्य- यतु अनस्यानुमानान्तर्भावमाख्यत् तद्वाच्यस्य प्रतीयमानेन सह तादात्म्य- 'व्यञ्जकसंबन्धनिवन्धनतया ध्वनेः । वाच्यवाचकचारुत्वहेत्वन्तःपतिता कुतः ॥' इति । लक्षणायामप्यस्यान्तर्भावो न युक्तः । तदसद्भावेऽस्य सद्भावात्तत्सद्भावे चास्यासद्भावात् । यदुक्तम्-'अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया' इति । नाप्यस्यालक्षणीयत्वं युक्तम् । 'यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतवार्थो । व्यक्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥' इति । तदित्यमेतद्विप्र- तिपत्तित्रयस्याप्रतिष्ठानमुपपादितम् । इदानीमन्योऽपि यः कश्चिद्विप्रतिपत्तिप्रकारः कैश्चिदुक्तः सोऽपि नोपपद्यत इत्याह—यत्त्वित्यादि । ध्वनिकारानन्तरभावी व्यक्तिविवेककार इति । तन्मतमिह पश्चानिर्दिष्टं यद्यपि वक्रोक्तिजीवितहृदयदर्प- णकारावपि ध्वनिकारानन्तरभाविनावेव । तथापि तो चिरन्तरमतानुयायिनावेवेति तन्मतं पूर्वमेवोद्दिष्टम् । अनेन पुनरेतत्वोपज्ञमेवोक्तम् । अनुमानान्तर्भाव- मिति । अनुमानरूपत्वमेवेत्यर्थः । आख्यदिति । यदाह-'वाच्यस्तदनुमितो वा यत्रार्थोऽर्थान्तरं प्रकाशयति। संवन्धतः कुतश्चित्सा काव्यानुमितिरित्युक्ता' ॥ इति । अविचारिताभिधानमिति । इह लिङ्ग लिङ्गिनोस्तादात्म्यतदुत्पत्तिभ्या- मेव तावत्प्रतिवन्धो निश्चीयते । तन्निश्चयेनैव च साध्यसिद्धिः । अन्यथा हि साध्यसिद्धिर्न स्याद्यभिचारात् । तत्र तादात्म्यं यथा कृतकत्वानित्यत्वयोः । तदु- त्पत्तिर्यथा वहिधूमयोः । वाच्यप्रतीयमानयोः पुनस्तादात्म्यतदुत्पत्ती न स्तः । तथाहि-'निःशेषच्युतचन्दनं स्तनतटं निम॒ष्टरागोऽधरो नेत्रे दूरमनजने पुल- किता तन्वी तथेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापी स्त्रातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥' इत्यत्र विधिना निषेधो निषेधेन वा विधिः प्रतीयते । न तस्य वाच्येन सह तादात्म्यम् । विरुद्धत्वात् । नह्यभावो मावात्मा भावोऽप्यभावात्मा। नापि तदुत्पत्तिः । अभावस्य जन्यजनकत्वानुपपत्तेः नापि निःशेषच्युतचन्दनादीनां विशेषणानां तदन्तिकगमनानुमापकत्वं युक्तम् । तेषां स्नानादावपि सद्भावादनकान्तिकत्वात् । एतच्च ध्वनिकारेणादूषितत्वाद्न्य- कृता खकण्ठेन दूषितम् । अत एवानेनान्या विप्रतिपत्तयो न दूषिताः । १. 'तद्भावे चास्य चासंभवात्' क. २. 'निषेधेनैव वा विधिर्यः' ख.

१६ काव्यमाला। तदुत्पत्त्यभावादविचारिताभिधानम् । तदेतत्कुशाग्रधिषणैः क्षोदनीय- मतिगहनगहनमिति नेह प्रतन्यते । अस्ति तावद्यङ्ग्यनिष्ठो व्यञ्जनव्यापारः । तत्र व्यङ्ग्यस्य प्राधान्याप्रा- धान्याभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ द्वौ काव्यभेदौ । व्यङ्ग्यस्यास्फुटत्वे. ऽलंकारवत्त्वेन चित्राख्यः काव्यभेदस्तृतीयः । तत्रोत्तमो ध्वनिः। तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदो। आद्योऽप्यर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृतवाच्यत्वेन द्विविधः। द्वि. तीयोऽप्यसंलक्ष्यक्रमसंलक्ष्यक्रमव्यङ्ग्यतया द्विविधः । लक्षणमूलशब्द- एतदिति । वाच्यस्य प्रतीयमानेन तादात्म्यतदुत्पत्त्यभावादि नेह प्रतन्यत इति व्यक्तिविवेकविचारे हि मयैवैतद्वितत्य निीतमिति भावः । तदित्थं परपरिकल्पितसमारोपापसारप्रत्याख्यानेन प्राप्तप्रतिष्टानो ध्वनिरित्याह-अस्ती- त्यादि । तावच्छब्दो विप्रतिपत्त्यभावद्योतकः । अस्यैव भेदनिर्देशं कर्तुमाह- तत्रेत्यादि । व्यङ्गयनिष्ठे व्यजनव्यापारे सत्यपीत्यर्थः । प्राधान्याप्राधा- न्येति । यदुक्तम्-'तत्परावेव शब्दार्थों यत्र व्यङ्ग्यं प्रति स्थितौ। ध्वनेः स एव विषयो मन्तव्यः संकरोज्झितः ॥' इति । तथा-'प्रकारोऽन्यो गुणी- भूतव्यङ्ग्यः काव्य स्य दृश्यते। तत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् ॥' इति । अस्फुटत्व इति । व्यङ्ग्यस्याविवक्षितत्वे सतीत्यर्थः । यदुक्तम्-‘रस- भावादिविषयविवक्षाविरहे सति । अलंकारनिवन्धो यः स चित्रविषयो मतः ॥' इति । तत्रेति त्रयनिर्धारणे । तस्येत्युत्तमस्य वनेः । आद्य इत्यविवक्षितवाच्यः । न केवलं ध्वनिद्विविधः यावत्तत्प्रभेदोऽप्ययं द्विविध इत्यपिशब्दार्थः । यदुक्तम्- 'अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् । अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् ॥' इति । द्वितीय इति विवक्षितान्यपरवाच्यः । यदुक्तम्-'असंलक्ष्यक- मोद्दयोतः क्रमेण द्योतितः परः । विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः॥' इति । अत्रैव वस्तुरसालंकाराणां ध्वन्यमानत्वं दर्शयितुमाह-लक्षणेत्यादि । लक्षणामूल इत्यविवक्षितवाच्यः । शब्दशक्तिमूल इति न पुनरर्थशक्तिमूलः । यद्यपि शब्दशक्तिमू शक्तिरप्यस्ति तथापि तत्र तस्याः सहकारितया व्यवस्था- अलंकारसर्वस्वम् । १७ शक्तिमूलो वस्तुध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः। अर्थशक्तिमूलो वस्तु(रसादि)- नमिति प्राधान्याच्छब्दशक्तिमूलत्वमुक्तम् । एवमर्थशक्तिमूलत्वेऽपि ज्ञेयम् । वस्तुध्वनिरिति । रसालंकारव्यतिरिक्तस्य वस्तुमात्रस्य वन्यमानत्वात् । तत्रार्थान्तरसंक्रमितवाच्यो वस्तुध्वनिर्यथा-'स्निग्धश्यामलकान्तिलिप्तवियतो वेल- द्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः। काम सन्तु रढं कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥' अत्र रामशब्दो राज्यनिर्वासनाद्यसंख्येयदुःखभाजनत्वखरूपं वस्तु ध्वनति । अत्यन्ततिरस्कृतवाच्योऽपि यथा-'रविसंक्रान्तसौभाग्यस्तुषारावृत- मण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥ अत्रान्धशब्दः स्वार्थ निमित्तीकृत्यादर्शनसाधारणविच्छायत्वादिधर्मजातं वस्तुरूपं व्यनक्ति । रसा- दीति । आदिशब्दाद्भावतदाभासादयः । तत्र रसध्वनिर्यथा—'त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्तावन्मुहुरुपचितैदृष्टिरालिप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥' अत्र विभावानुभावव्यभिचारिभिरभिव्यक्त एव रसः । भावध्वनि- र्यथा-'जाने कोपपरामुखी प्रियतमा स्वप्नेऽद्य दृष्टया मया मा मा संस्पृश पाणि- नेति रुदती गन्तुं प्रवृत्ता ततः। नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥' अत्र विधि प्रत्यसूयाख्यो व्यभि- चारिभावः । रसाभासध्वनिर्यथा-'स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान्रणमखमुखे यं मृगयसे । सुलमे को जातः शशिमुखि यमालि- प्रसि बलात्तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥' अत्रानेककामुकवि- षयोऽभिलाष इति रसाभासः । भावाभासध्वनिर्यथा-'राकासुधाकरमुखी तर- लायताक्षी सा स्मेरयौवनतरमितविभ्रमाङ्गी। तत्किं करोमि विदधे कथमत्र मैत्री तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥' अत्रानौचित्यप्रवृत्ता चिन्तेति भावाभासः । मावप्रशमो यथा-'एकस्मिञ्शयने परायुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदयास्यतेऽप्यनुनये संरक्षतोर्गौरवम् । दंपत्योः शनकैरपागवलनामिश्रीभवच्चक्षुषो- भेमो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥' अत्रासूयायाः प्रशम इति भाव- प्रशमध्वनिः । वस्तुध्वनिरलंकारध्वनिश्चेति । तत्र शब्दशक्तिमूलो वस्तुध्वनि- यथा-'निर्वाणवरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन। रक- २ अ. स.

१८ काव्यमाला। ध्वनिः संलक्ष्यक्रमव्यङ्ग्यः । शब्दार्थोभयशक्तिमूलो वस्तुध्वनिरलंका- रध्वनिश्चेति । तत्र रसादिध्वनिरलंकारमञ्जयों दर्शितः काव्यस्य शृङ्गा- रप्रधानत्वात् । शिष्टस्तु यथावसरं तत्रैव विभक्तः। गुणीभूतव्यङ्ग्यो २ प्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥' अत्र कौरवाणां क्षतशरीरादिकत्वं वस्तुरूपं शब्दशक्त्यैव प्रतीयते । स एवार्थशक्तिमूलो यथा-'अरससिरोमणि धुत्ताण अग्गिमो पुत्ति धणसमिद्धिमओ । इइ भणिएण णअंगी पप्फुल्लविलोअणा जाआ ॥' अत्रार्थशक्त्या ममैवोपभोग्योऽयमिति वस्तु व्यज्यते । स एवोभयशक्तिमूलो यथा-पंथिअ ण एत्थ सत्थरमत्यि मणं पत्य- रत्थले ग्गामे । उग्गअपओहरं पेक्सिऊण जइ वससि ता वससु ॥' अत्र यद्यु- पभोगक्षमोऽसि तदा आस्वेति वस्तु वक्रौचित्यमाश्रित्य शब्दार्थशक्त्याभिव्यज्यत इत्युभयशक्तिमूलत्वम् । शब्दशक्तिमूलोऽलंकारध्वनिर्यथा-'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः । पयोधरभरस्तन्व्याः कं न चक्रेऽभिलाषिणम् ॥' अत्र शब्द- शक्त्या मेघलक्षणमर्थान्तरं प्रतीयते । प्रकृताप्रकृतयोश्वार्थयोरसंबद्धाभिधायित्वं मा प्रसाहीदिति तयोरौपम्यं कल्प्यत इत्यलंकारध्वनिः । स एवार्थशक्तिमूलो यथा-'त ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसं । बिवाहरे पिआणं णिवेसिधे कुसुमवाणेन ॥' अत्र कौस्तुभबिम्बाधरयोः केवलयैवार्थश- क्त्यौपम्यं गम्यत इत्यर्थशक्तिमूलोऽलंकारध्वनिः । उभयशक्तिमूलो यथा- 'जेण- हिअअविदारणए धारासलिललुलिए ण रमइ तहा । तव दिट्ठी चिउरभरे पिआण जह वैरिखग्गम्मि ॥' अत्रोभयशक्त्या चिकुरभरखड्गयोरौपम्यं गम्यते। इति- शब्दः प्रमेयपरिसमाप्तौ । एवं ध्वनेः प्रमेदजातं प्रदर्य क्रमप्राप्तं गुणीभूतव्यङ्ग्य- स्यान्यतो योजयति-गुणीभूतेत्यादिना । दर्शित इति ध्वनिकारेण । यदाह १. 'अलसशिरोमणिधूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः । इति भणितेन नताङ्गी प्रफुल्लविलोचना जाता ॥' इति च्छाया. २. 'पथिक नात्र स्रस्तरमस्ति मनाक् प्रस्तर- सले ग्रामे । उद्तपयोधरं प्रेक्ष्य यदि वससि तद्वस ॥' इति च्छाया. ३. 'तत्तेषां श्री. सहोदररत्नाहरणे हृदयमेकरसम् । विम्बाधरे प्रियाणां निवेशितं कुसुमवाणेन ॥' इति च्छाया. ४. 'जनहृदयविदारणके धारासलिललुलिते न रमति तथा । तव दृष्टिश्चिकुर- भरे प्रियाणां यथा वैरिखते ॥' इति च्छाया.

अलंकारसर्वस्वम् । १९ वाच्याङ्गत्वादिभेदैर्यथासंभवं समासोक्त्यादौ दर्शितः। चित्रं तु शब्दा- र्थालंकारखभावतया बहुतरप्रभेदम् । तथा हि- इहार्थपौनरुक्त्वं शब्दपौनरुक्त्यं शब्दार्थपौनरुत्यं चेति त्रयः पौनरुक्त्यप्रकाराः॥ आदौ पौनरुक्त्यप्रकारवचनं वक्ष्यमाणालंकाराणां कक्षाविभागघ- टनार्थम् । अर्थापेक्षया शब्दस्याप्रतीतावन्तरङ्गत्वेऽपि प्रथममर्थगतधर्म. निर्देशश्चिरंतनप्रसिद्ध्या पुनरुक्तवदाभासस्य पूर्व लक्षणार्थः । इहेति शाब्दप्रस्तावे । इतिशब्दः प्रकारे । त्रिशब्दादेव संख्यापरिसमा- प्तिसिद्धेः । -'व्यङ्गस्य यत्र प्राधान्यं वाच्यमात्रानुयायिनः । समासोक्त्यादयस्तत्र वाच्या- लंकृतयः स्फुटाः ॥' इति । एवं गुणीभूतव्यङ्ग्यस्याप्यन्यतो मेदजातं योजयित्वा चित्रस्यापि प्रभेदजातं दर्शयितुमाह-चित्रमित्यादि । तुशब्दः काव्यप्रका- रद्वयादस्य वैलक्षण्यद्योतकः । अत एव बहुतरप्रभेदमित्युक्तम् । शब्दार्थेत्येक- शेषः । तेनोभयालंकाराणामपि ग्रहणम् । तदेव दर्शयितुमाह-तथाहीत्यादि। चित्राख्यकाव्यभेदनिरूपणावसरे किं पौनरुक्त्यप्रकारवचनेनेत्याशङ्कयाह-आ- दावित्यादि । वक्ष्यमाणालंकाराः पुनरुक्तवदाभासादयः पञ्च । शब्दप्रतीतिपुरः- सरीकारेणार्थप्रतीतिरिति प्रथमं शब्दगत एव धर्मनिर्देशो न्याय्यो नार्थगत इत्या- शङ्कयाह-अर्थत्यादि । चिरंतनप्रसिद्ध्येति । न पुनयुज्यमानतयेति भावः । 'पुनरुक्तवदाभासं छेकानुप्रास एव च' इति चिरंतनप्रसिद्धिः । अर्थालंकारत्वा- दर्थालंकारप्रकरणे पुनरस्य युज्यमानत्वम् । नन्वादौ शब्दगतो धर्मनिर्देशः कार्यः पश्चादर्थगत इति क्रमस्य न किंचित्प्रयोजनमुत्पश्याम इति किं तेनेति यदन्यैरुकं तदयुक्तम् । शब्दार्थयोः क्रमेणैव प्रतीताववभासनात्तथात्वेनैव धर्मनिर्देशस्यो- पपत्तेः किं च 'वर्धमानोत्कर्षाणि शास्त्राणि प्रथन्ते' इति नीत्या परिमितचमत्का. राणामर्थालंकाराणां पश्चानिर्देशः कार्य इति सप्रयोजन एव क्रमः । चिरंतनमैता- १. 'लक्ष्यमाण' क. २. 'उक्तं पश्यामः' क. ३. 'मतोछवनेनैव' क.

२० काव्यमाला। तत्रार्थपौनरुक्त्यं प्ररूढं दोषः। प्ररूढापरूढत्वेन द्वैविध्यम् । प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम् । तत्रेति त्रयनिर्धारणे । यथावभासनविश्रान्तिः प्ररोहः । आमुखावभासनं पुनरुक्तवदाभासम् ॥ आमुखग्रहणं पर्यवसानेऽन्यथात्वप्रतिपत्त्यर्थम् । लक्ष्यनिर्देशे नापुं- सकः संस्कारो लौकिकालंकारवैधम्र्येण काव्यालंकाराणामलंकार्यपार- नुल्लङ्घनेन च वयं प्रवृत्ता इत्ययुक्तमपि ग्रन्थकृता तन्मतमाश्रितम् । अग्रेऽप्यने. नाशयेन तन्मताश्रयणं करिष्यत्येव । तेन वयं यचिरंतनमताश्रयणं व्याख्यास्या- मस्तद्युक्तमेव । एतदेव यथोद्देशं निर्णेतुमाह-तत्रेत्यादि । किमलंकारप्रस्तावे दोषकथनेनेत्याशङ्कयाह-प्रथममित्यादि । उपादेय इत्यलंकारस्वरूपे । य- थेति। यथैव दृष्टस्तथैव पर्यवसित इत्यर्थः । यथा-'हरिणनयनां सारङ्गाक्षी कुर- गविलोचनां कमलवदनां राजीवास्यां सरोजसमाननाम् । विलुलितकचां चच्चत्केशी चलचिकुरोत्करां सुरतविरतो संभोगान्ते विलोकय कामिनीम् ॥' अत्र सारना. क्षीमित्यादिषु पुनर्वचनं प्ररूढम् । अप्ररूढं पुनरलंकारः । चैतावतैव दोषाभाव- मात्रेणालंकारत्वमस्याशङ्कयम् । वक्ष्यमाणनीत्यालंकारत्वोचितस्य विच्छित्तिविशेष- स्यापि भावात् । तदेवाह-आमुखेत्यादि । अन्यथात्वेति । यथावभातस्या- र्थस्य पर्यवसाने तथात्वेनेवाविश्रान्तिरित्यर्थः । अन्यथा युक्तनीत्या दोषः स्यात् । ननु पुनरुक्तवदाभासशब्दस्यालंकारशब्दसामानाधिकरण्यादुपमादिवदजहल्लिङ्गत्व- योगाच्च पुंलिङ्गत्वे किमितीह नासकः संस्कारः कृत इत्याशङ्कयाह-लक्ष्ये- त्यादि । लक्ष्यस्य लक्षणीयस्य पुनरुक्तवदाभासस्य पुनः शब्दापेक्षया निर्देशे वचन मित्यर्थः । अलंकार्यपारतव्येति । काव्यसामानाधिकरण्येन निर्देशात् । लोकिका हारादयः । एषां ह्यलंकार्येण सह संयोगः संवन्धः । अत एवैपां तत्पर- तत्रतापि न स्यात् । काव्यालंकाराणां पुनरलंकार्येण सह समवायः संबन्धः । अत एवेषामयुतसिद्धत्वादलंकार्यपारतन्यमेवेति लौकिकालंकारवैधर्म्यमेव न्याय्यम् । आश्रयाश्रयिभावेनालंकार्यालंकरणभावोपपत्तेः किमाश्रयमस्यालंकारत्वमित्याश- १. 'प्रारुढदोपः' स.. २. 'पर्यवसानान्यथात्व' स्व..

अलंकारसर्वस्वम् । २१ तध्यध्वननार्थः । अर्थपौनरुक्त्यादेवार्थाश्रितस्वादर्थालंकारत्वं ज्ञेयम् । झ्याह-अर्थेत्यादि । एवकारः शब्दपीनरुक्त्यावच्छेदद्योतकः । तेन शब्दस्या- पौनरुक्त्यान्न शब्दालंकारो नाप्युभयालंकारोऽयमित्यर्थः । पर्यवसाने वस्तुतोऽर्थ- स्यासत्त्वात् । धर्म्यभावे च धर्मस्य निर्विषयत्वात्पौनरुक्त्यं कस्य धर्मः स्यादिति न वाच्यम् । आमुखेऽर्थस्यावभासमानत्वेन सत्त्वाद्धर्मिधर्मभावस्य नैवानिष्टेरर्थग- तयोः सत्त्वासत्त्वयोरनुपयोगात् । आमुखावगतैव च प्रतीतिरलंकारबीजं न पार्य- वसानिकी। तथात्वे ह्युपमारूपकादीनामप्यविशेषः स्यात् । पर्यवसानेऽप्यर्थस्य 'दारुणः काष्ठतो जातः' इत्यादाविन्धनार्थस्य सत्त्वादनकान्तिकत्वाभावाच्छशश- अवदभावो न वाच्यः । पर्यवसानेऽप्यन्धनार्थः सन्नपि नालंकारत्वप्रयोजक इति 'अरिवधदेहशरीरः' इत्यादावप्यसता कार्यानाविशेषात्समानः। किं च इतो न पर्थ- वसानेऽर्थस्यासत्त्वम् । इह हि प्रतीतिमात्रसारत्वात्काव्यस्य यद्यथैव प्रतीयते तत्तथैव भवतीत्यविवादः । तद्बाधोत्पत्तावपि तैमिरिकद्विचन्द्रप्रतीतिवत् पुनरुक्ततयावभा- तस्यार्थस्यावभासमानत्वात्सत्त्वमेव । नहि शतशोपि क्रूराद्यर्थोपलम्मे काष्ठादेरर्थ- स्यापुनरुक्ततया भानमस्ति । वाधोत्पत्तेः पुनर्द्विचन्द्रप्रतीतिवत्पौनरुक्त्यप्रतीतेरनु- पपद्यमानत्वं भवति । नतु शुक्तिकायामिव रजतप्रत्ययस्य स्वरूपत एवाभावः। अत एवाभातपौनरुक्त्यापि प्रतीतिरपौनरुक्त्यपर्यवसायिन्यस्य स्वरूपम् । एवमपि वस्तुतः कार्याद्यर्थाभावस्तदवस्थ इति चेत् , सत्यम् । किं तु यथा वस्तुतो बहिर- संभवन्नपि द्वितीयश्चन्द्रः प्रतीतो कंचन विशेषमाधातुं नोत्सहते तथेहापि वस्तु- वृत्तेन कायादेरर्थस्यासंभवेऽपि प्रतीतो न कश्चिद्विशेष इति दिण्डिकाराग एव वास्तवत्वान्वेषणम्। तस्मादत्रावभासमानत्वमेवार्थस्य सत्त्वप्रतिष्ठापकं प्रमाणम् न त्ववभासमानत्वं प्रमातृधर्म इति कथं तदाश्रयो धर्मः काव्यालंकार इति चेत्, असदेतत् । अवभासमानत्वस्यावभास्यनिष्टतया प्रतीतेरर्थधर्मत्वात् । तथा हि केषांचन प्रतीतिवादिनां 'तथाहि वेद्यता नाम भावस्यैव निजं वपुः । चैत्रेण वेयं वेग्रीति किं यत्र प्रतिभासते ॥' इत्याधुक्तयुक्त्या कौमारिलवन्नीलताया इव वेद्यताया अप्यर्थधर्मत्वमेवेष्टम् । इह च तदुपक्रम एवेति न वस्तुवादसंस्प न्याय्यः । आमुखतुल्यार्थत्वस्य च शब्दधर्मत्वेन शब्दाश्रयत्वात् शब्दालंकारत्वं १. 'अथ' ख. २. 'दृष्टं' ख.

२२ : काव्यमाला। यद्यस्योच्यते तथापि पर्यवसाने वस्तुतस्तुल्यार्थत्वस्यासंभवात् शशशावद्धर्मधर्मि- भावो दुष्टः स्यात् । सत्त्वेऽपि दोष एवेत्यस्मत्पक्षोक्तसमग्रचोद्यावकाशः । अत्रापि यद्यामुख एवैकार्थत्वेनावभासनं समाधिस्तदास्मत्पक्षेण किमपराद्धम् । एवं च विरोघेऽपि वस्तुतो विरुद्धस्यार्थस्यासंभवाविरुद्धार्थस्य च शब्दधर्मत्वात् शब्दालं कारत्वं प्रसज्यते । अत्र विरुद्धस्यार्थस्यासंभवेऽपि कादिभिर्वाच्यतयाध्यवसायः । इह तु पौनरुक्त्याश्रयस्यानन्वितत्वेन न वाच्यतेति चेत् , नैतत् । यतः 'दारुणः काष्ठतो जातः' इत्यादौ तावत्पौनरुक्त्याश्रयस्य काष्टादेरर्यस्य जातत्वादिना सहा- न्वितत्वावगमादस्त्येव मुख्यया वृत्त्या वाच्यत्वम् । 'अरिवधदेहशरीरः' इत्यादी तु वस्तुतः कायादेरवाच्यत्वेऽप्यवभातपौनरुक्त्याश्रयत्वादकृत्रिमार्थशोभापर्यवसा- यित्वेन वाच्यतयास्त्येव विवक्षितत्वम् । अत्र ह्यकृत्रिमोऽर्थोऽलंकृतकृत्रिमार्थोप- स्कृतो यथा चमत्कारकृत तथा तदुपस्कृततयोच्यमानः स्यात् । 'स्त्रीणां हि कण्ठाभरणानि हाराः पयोधरानप्यभिभूषयन्ति' इत्यादि दृशा च हारस्य कण्ठालं- कारत्वेऽपि सामीप्यात्तावतिशोभातिशयाधायकत्वाद्यथा पयोधरादावप्यलंकारत्वं तथैव कृत्रिमार्थाश्रयत्वेऽप्यवभासमानस्य पौनरुक्तस्याकृत्रिमार्थोपस्कारकत्वमपि प्रतीयत एवेति नानुभवापहवः कार्यः । एवं च पौनरुक्त्याश्रयस्यार्थस्य यत्रैव पाच्यत्वेन विवक्षितत्वं तत्रैवास्यालंकारत्वं नान्यत्र । 'अकृष्णपक्षेन्दुमुखी बन्धु- जीवाधरद्युतिः । इयं विलासिनी कस्य न नेत्रोत्सवकारिणी ॥' अत्राकृष्णेत्यर्थपौ- नरुक्त्यस्य संभवेऽपि वाच्यत्वेनाविवक्षितत्वान्नायमलंकारः । एवं वक्ष्यमाणानाम- प्यलंकाराणां कविविवक्षैव स्वरूपप्रतिष्ठापकं प्रमाणं ज्ञेयम् । किं वहुना, सर्वेषामप्यलंकाराणामुपमितार्थत्वादेः शब्दधर्मत्वाच्छब्दालंकारत्वं स्यात् । तदर्था- लंकारत्वमस्य ज्यायः । यावता ह्यर्थस्यामुक्त एव पुनरुक्ततयावभासोऽस्य जीवितम्। अत एव पुनरुक्तवदाभासमित्यन्वर्थसंज्ञा । अर्थस्य च पौनरुक्त्यप्रतीतो न कस्य- चिद्विवादः तामेवाश्रित्य शब्दालंकारस्य भवद्भिरक्तत्वात् । एवं च प्रत्यासत्तेस्त- दाश्रयत्वमेवास्यालंकारत्वं युक्तम् । अन्यथा तुल्यार्थशब्दतापि वाक्यधर्म इति तदाश्रयोऽपि स्यादित्यनवस्थाप्रसङ्गः । अथात्र शब्दस्वरूपवैशिष्ट्यनिवन्धनं चम. स्कारकारित्वमिति तदलंकारत्वमिति चेत् , कि नाम शब्दस्य स्वरूपे वैशिष्टयम् । किं पौनरुक्त्यम् , उत पुनरुक्तार्थवाचित्वम् , उत समझाभङ्गपदेन श्लिष्टत्वम् । तत्र न तावदाद्यः पक्षः । शब्दस्य द्विरुवारणाभावात्तधात्वाप्रतिभासनात्। नापि द्वितीयः। १. 'विरुद्धार्थत्वस्य शब्द' स्व.

अलंकारसर्वस्वम् । २३ प्रमेदास्तु विस्तरभयानोच्यन्ते। उदाहरणं मदीये श्रीकण्ठस्तवे यथा- 'अहीनभुजगाधीशवपुर्वलयकङ्कणम् । शैलादिनन्दिचरितं क्षतकंदर्पदर्पकम् ।। वृषपुंगवलक्ष्माणं शिखिपावकलोचनम् । ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् ॥' 'दारुणः काष्ठतो जातो भस्ममूतिकरः परः । रक्तशोणार्चिरुच्चण्डः पातु वः पावकः शिखी ॥' एतच्च सुबन्तापेक्षया । तिङन्तापेक्षया च तथा तत्रैव- 'भुजंगकुण्डली व्यक्तशशिशुम्रांशुशीतगुः । जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ॥' वाच्यवाचकभावेनालंकार्यालंकरणभावात्तस्याश्रयाश्रयिभावेनोपपत्तेः। अत एव सर्वे- षामेवार्थालंकाराणामुपमितार्थादिवादित्वाच्छब्दस्य तदलंकारत्वं स्यादित्युक्तम्। नापि तृतीयः । पुनरुक्तवदाभासमित्यन्वर्थसंज्ञाश्रयणात् । पौनरुक्त्याख्यधर्मप्रयोजकी- कारेणालंकारस्योपक्रान्तत्वात् श्लिष्टत्वस्येहानौपयिकत्वात् । तत्पुनरत्रार्थपौनरु- क्यावगमे निमित्तमात्रम् । निमित्तनिमित्तिभावश्च नालंकारत्वप्रयोजक इत्य- विवादः । तस्मादाश्रयत्वात्पीनरुक्त्यस्य तदलंकारत्वमेवेति युक्तम् । एवं वफलं- कारतापि निरस्ता । सर्वेषामपि वझतिशयरूपत्वात्तथात्वानुपपत्तेः । विस्तरभया- दिति । न तु चित्रत्वाभावात् । नोच्यन्त इति । वस्तुतस्तु संभवन्त्येवेत्यर्थः। अतश्चायं प्रायो वाक्यार्थपदार्थाश्रयत्वात्प्रथम द्विधाभवन्समस्तासमस्तपदत्वेन चतुर्विधः । क्रमेण यथा-'तुहिनक्षितिमृद्युष्मान्पातात्सर्वत्र सर्वदा ख्यातः । हिमवानवतु सदा वो विश्वत्र समागतः ख्यातिम् ॥' 'नदीप्रकरमुल्लिङ्गितवन्तं मनोहरहस्तमत्यजन्तं च, सपर्याणां रुचिं वहन्तं सर्वत्र पूजनीयं च, सकुम्भ सकलशंचरन्तं च, सदानदन्तं मदपर्याविलदशनं च, करटं कमपि विभ्रतं कवाटविभ्रमममुञ्चन्तं च, कुञ्जराजिवर्धितरुचिं वारणरणरणिकाकुलितं च, राजमा- १. 'तथात्वोपपत्तेः.' ख.

२४ काव्यमाला। शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं खरव्यञ्जनसमुदायपौनरुक्त्यं च । अलंकारप्रस्तावे केवलं खरपौनरुक्त्यमचारुत्वान्न गण्यते । इति द्वैविध्यमेव खरव्यञ्जनसमुदायपौनरुक्त्यं च । संख्यानियमे पूर्व छेकानुप्रासः ।। द्वयोर्व्यञ्जनसमुदाययोः परस्परमनेकधा सादृश्यं संख्यानियमः। पूर्व व्यञ्जनसमुदायाश्रितं यथा- 'किं नाम दर्दुर कायं निपीड्य निनदं कुरुषे रुषेव । एतानि केलिरसितानि सितच्छदाना- माकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥' अत्र सायंशब्देनास्यालंकारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनु- प्रासेन सहैकाभिधानलक्षणः संकरः । छेका विदग्धाः । दुरध्यवसाय सायं नविसंधायिनं विराजमानं च, शारीभूतं मदसलिलेन शवलीभूतं च, इति पुनरुक्ता- श्रयम्' इत्यनङ्गलेखायां हस्तिवर्णने। 'वतहन्तासितः कालो गोविभावसुदीधितीः । क्षिपास्य रक्षावसितश्वेतराजयशोभय ॥' असमस्तपदं तु प्रन्यकृतैवोदाहृतम् । के- वलखरपौनरुक्त्यं किं न गणितमित्याशझ्याह-अलंकारेत्यादि । यथा-'इंदी- वरम्मि इंदम्मि इंदआलम्मि इंदिअगणम्मि इदिदिरम्मि इंदमि जोइण्णो सरिससंकप्पो ॥' अत्र स्वरपौनरुक्त्यस्य चारुत्वाभावान्नालंकारत्वम् । अत्र केवल- व्यजनस्वरव्यजनसमुदायाश्रितमलंकारद्वयं लक्षयति-संख्येत्यादिना। एक- वचनस्य जाल्या वहुत्वप्रसङ्गाहुवचनस्य च त्र्यादीनां खयमेव बहुत्वात्संख्या- नियमो द्वित्व एव संभवतीति द्वयोरित्युक्तम् । द्वयोरप्येकधा सादृश्यं वृत्त्यनुप्रास एवेत्याशझ्याह--अनेकघेति । यकारमात्रेत्यनेन द्वयोरेव सादृश्यमस्य जीवित- मिति ध्वनितम् । यद्यपि चायं व्यञ्जनमात्रपौनरुक्त्याख्यस्य सामान्यलक्षणस्य संभवादनुप्रास एवान्येरन्तर्भावितः तथाप्यस्य ग्रन्थकृता उद्भटमतानुरोधादिह १. 'संकम्मा' क. २. 'तत्र' ख.

अलंकारसर्वस्वम् । २५ अन्यथा तु वृत्त्यनुप्रासः॥ केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं ज्यादीनां च पर- स्परसादृश्यमन्यथाभावः । वृत्तिस्तु रसविषयो व्यापारः । तद्वती पुन- वर्णरचनेहवृत्तिः । सा च परुषकोमलमध्यमवर्णारब्धत्वात्रिधा । तदुप- लक्षितोऽयमनुप्रासः । यथा- 'आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथते तथापि कुरुते नो मन्मनोरञ्जनम् । न स्याद्यावदमन्दसुन्दरगुणालंकारझंकारितः सप्रस्यन्दिलसद्रसायनरसासारानुसारी रसः ॥ लक्षणं कृतम्-अन्यथेत्यादि । एतदेव मेदनिर्देशं कुर्वन्व्याचष्टे-केवलेत्या दि । समुदायः पौरिशेप्याद्यजनद्वयरूपः । ऐकधेति चात्रैव संवद्धव्यम् । केवलस्य त्र्यादीनां चानेकधापि सादृश्यस्यानेन व्याप्तत्वात् । एतच्च समस्तासमस्ताक्षरत्वेन संभवतीत्यस्य प्रायः षद प्रकाराः क्रमेण यथा-'यया यायाय्यया यूयं यो यो यं येययायया । ययुयायि ययेयाय ययेयायाय याययुक् ॥' असमस्वाक्षरंतु ग्रन्थ. कृतैवोदाहृतम् । 'दीनादीनां ददौ दानं निननाद दिने दिने । निन्दिन्द नन्दनान- न्दानदुनोदिननन्दनम् ॥' 'रुच्याभिः प्रचुराभिस्तरुशिखरापाचिताभिरुचिताभिः । अचिररुचिरुचिररुचिभिश्चिराचिराभिश्चमत्कृतं चेतः॥ 'ततः सोमसिते मासि सततं संमतं सताम्। अतामसोत्तममतिः सती सुतमसूत सा ॥' 'कमलदृशः कमलामल- कोमलकमनीयकान्तिवपुरमलम् । कमलं कुरुते तावत्कमलापतितोऽपि यो विमलः॥' आदिशब्दाचतुरक्षरादेर्ग्रहणम् । यथा-'स ददातु वासवादिदेवतासंस्तवस्तुतः। सदा सदसतिं देवः सविता विततां सताम् ॥' वर्गरचनेह वृत्तिरिति । उपचारा. दिति भावः। विधेति । यदुक्तम्-'शषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता। परुषा नाम वृत्तिः स्याद्हह्वह्याद्यैश्च संयुता ॥ सरूपसंयोगतां मूर्धवर्गान्त्ययोगिभिः। स्पर्शेर्युतां च मन्यन्ते उपनागरिकां बुधाः ॥' शेषवर्णैर्यथायोगं रचितां कोमला- १. 'वल्गन्ती' ख. २. 'पारिशेषात्' क. ३. 'अनेकधेति' क. ४. 'खूबानि' इति नाम्ना कश्मीरादिषु प्रसिद्धैः फलविशेषैः. ५. 'पूर्व' ख.

२६ काव्यमाला। यथा वा- 'सह्याः पन्नगफूत्कृतानलशिखा नाराचपाल्योऽपि वा राकेन्दोः किरणाविषद्रवमुचो वर्षासु वा वायवः । न त्वेताः सरलाः सितासितरुचः साचीकृताः सालसाः साकूताः समदाः कुरङ्गकदृशां मानानुविधा दृशः ॥ खरव्यञ्जनसमुदायपौनरुक्त्यं यमकम् ।। अत्र क्वचिद्भिन्नार्थत्वं क्वचिदभिन्नार्थत्वं कचिदेकस्यानर्थकत्वमप- रस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम् । यथा- 'यो यः पश्यति तन्नेत्रे रुचिरे वनजायते । तस्य तस्यान्यनेत्रेषु रुचिरेव न जायते ॥' इदं सार्थकत्वे । एवमन्यज्ज्ञेयम् । ख्यया । ग्राम्यां वृति प्रशंसन्ति काव्येष्वादृतवुद्धयः ॥' यथा-'निरर्गलाविनिर्ग- लद्गुलगुलाकरालैर्गलैरमी तडिति ताडितोडमरडिण्डिमोडामराः । मदाचमनचक्षुर- प्रचुरचञ्चरीकोचयाः पणः परिणतिक्षणक्षततटान्तरा दन्तिनः ॥' अत्र लकाराद्या- वृत्त्या मध्यमत्वमिति वृत्तित्रैविध्यम् । एवं व्यञ्जनमात्राश्रयमलंकारद्वयं लक्षयित्वा खरव्यञ्जनाश्रयं यमकं लक्षयति-स्वरेत्यादि । एकस्येत्याद्युपलक्षणपरम् । अतो बहूनां यमकानां कचित्सार्थकत्वं निरर्थकत्वं च स्थितं संगृहीतमेव । 'क्वचि- सार्थकत्वं क्वचिन्निरर्थकत्वं' इति तु पाठे प्रथममेव भेदद्वयमुकं स्यान्न तृतीयः प्रकारः । अतश्च भेदनिर्देशग्रन्थो यथास्थित एव ज्यायान् । संक्षेपत इति । एतच्च काव्यात्मभूतरसचर्वणाप्रत्यूहकारित्वात्प्रपञ्चयितुं न योग्यमिति चिरंतनालं- कारवन्न विभज्य लक्षितमिति भावः । एवं चित्रेऽपि ज्ञेयम् । अन्यदिति प्रका- रद्वयम् । तत्रानर्थकं यथा-'सरसमन्धरतामरसादरभ्रमरसजलया नलिनी मधौ । जलधिदेवतया सदृशीं श्रियं फुटतरागतरागरुचिर्दधौ ॥' अत्र तरागेत्य- नर्थकम् । अनर्थकत्वसार्थकत्वयोर्यथा-'साहारं साहारं साहारं मुणइ सज्ज- . (ोता:' ख.

अलंकारसर्वस्वम् । २७ शब्दार्थपौनरुक्त्यं प्ररूढं दोषः ॥ प्ररूढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थम् । यदाहुः-शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ।' इति । साहारम् । सं ताणं संताणं संताणं मोहसंताणम् ॥' अत्र सजसाहारमित्यनर्थ- कम् । अन्यानि तु सार्थकानीति न कश्चिद्दोषः । इदं च स्थाननियममन्तरेण न भवति । यदुक्तम्-‘पदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम्' इति । अत एव स्थाननियमाद्यमकमित्यस्यान्वर्थमभिधानम् । स च स्थाननियमो वैवक्षिको न वास्तवः । यथा-'मधुपराजिपराजितमानिनीजनमनःसुमनःसुरभि श्रियम् । अमृत वारितवारिदविप्लवां स्फुटितताम्रतताम्रवणं जगत् ॥' अत्राक्ष- रद्वयानन्तरं यमकविन्यासात्स्थानस्य नियतत्वम् । यथा वा-'छिन्द्याद्भयाति तव कार्तिकेयः शशी जितो येन स कार्तिकेयः। उत्खातदन्तो गणनायकस्य खामी यदन्यो गणनाय कस्य ॥' अत्र चार्थद्वये यमकद्वयमिति स्थाननियमो द्विधैवेति नास्यालंकारस्य क्षतिः काचित् । अतश्च 'श्रृंतरसिकलितरुकतरसिकलितरुजाल- हरिजालहरिणतमः (१)। हरिणतमश्च ततस्तव ततस्तवः स्याद्यशोराशिः॥' इत्यत्र सत्त्वेऽपि खरव्यजनसमुदायपौनरुक्त्यस्य स्थाननियमाभावाद्यमकाभासोऽयं वृत्त्य- नुप्रासः । प्राढमिति । यथाभासनं विश्रान्तेः। यथा-तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तमः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥' अत्रेन्दुरिति । अत्रिनेत्रक्षीरोदजन्मत्वादिन्दोदित्वानेतत्प्ररूढमिति न कार्यम् । कविसमये तथा- त्वस्याप्रतीतेः । आहुरित्याक्षपादाः । अन्यत्रानुवादादिति । अनुवादे हि शब्दार्थयोः पुनर्वचनं क्रियमाणं न दोषाय । अक्रियमाणं पुनर्दोषाय भवतीति भावः । यथा-'उदेति रकः सविता रक्त एवास्तमेति च । संपत्ती च विपत्ती च महतामेकरूपता ॥' अत्र रक इति। 'शिरः शार्व स्वर्गात्पशुपतिशिरस्तः क्षितिधरं महीध्रादुत्तुनादवनिमवनेश्चापि जलधिम् । अधोधो गङ्गावद्वयमुपगता नूनमथवा विवेकदृष्टानां भवति विनिपातः शतमुखः ॥' अत्र पौनरुक्त्येऽपि शब्दस्यापुनर्वचनं प्रतीत्यन्तरजनकत्वाद्दोषः । तदेवाप्ररूढमलंकार इत्याह- १. 'भुतरसिक तरसिकलितं. तरुकलिततरुजालहरिणतमः' ख... 'भासमानं' स.

२८ काव्यमाला। तात्पर्य मेदवत्तु लाटानुप्रासः॥ तात्पर्यमन्यपरत्वम् । तदेव भिद्यते, न तु शब्दार्थयोः स्वरूपम् । यथा- ताला जाअंतिगुणा जाला दे सहिअएहि घेप्पंति । रइकिरणाणुगाहिआइँ होंति कमलाई कमलाइँ ।' 'मः कियन्नय कथंचन कालमल्प- मत्राजपत्रनयने नयने निमील्य । हेमाम्बुजं तरुणि तत्तरसापहृत्य देवद्विषोऽयमहमागत इत्यवैहि ॥' अत्राजपत्रनयने नयने निमीत्येत्यादौ विभक्त्यादेरपौनरुक्त्येऽपि बहुतरशब्दार्थपौनरुक्त्याल्लाटानुप्रासत्वमेव । तात्पर्यत्यादि । अन्यपरत्वमिति । एकस्य वाच्यविश्रान्तत्वेऽन्यस्य लक्ष्ये व्यङ्ग्ये वार्थे वाच्यविश्रान्तिरित्यर्थः । भिद्यत इति पर्यवसाने । आमुखे हि शब्द- वदर्थस्याप्येकत्वेनैवावभासः । अत एवाह-न शब्दार्थस्वरूपमिति । एवं च नायं द्वयोर्वाच्यविश्रान्तत्वेऽनुवादमात्रमलंकारः । नहि दोषाभावमात्रमलंकार- स्वरूपम् । एवं हि सत्यपशब्दाद्यभावस्याप्यलंकारत्वप्रसङ्गः। यत्परमादावुक्तं तत्पर. मेव पुनर्नोच्यते । इत्येव सामान्येन यद्यप्यन्यपरत्वमुच्यते तद्विरोधादिवत् 'उदेति रक्तः सविता-' इत्यादौ दोषाभावमात्रत्वेप्यलंकारत्वोचितस्यान्यपरत्वाख्यस्याति. शयस्यापि भावालंकारत्वप्रसङ्गः । न चैतावतैव कश्चिदतिशयः प्रतीयत इति ययो. क्तमेव युक्तम् । एकः कमलशब्दो वाच्यपर्यवसितः अन्यश्च सौरभबन्धुरत्वाद्यनेक- धर्मनिष्ट इति तात्पर्यभेदः । ब्रूमः कियदिति । अत्राब्जशब्दस्याप्यपौनरुक्त्या- लाटानुप्रास वमेवेति चिन्त्यम् । अत्र हि द्वयोरपि नयनशब्दयोर्वाच्यविश्रान्त- त्वादन्यपरत्वाभावान्नास्ति तात्पर्यभेदः । स एव ह्यस्य जीवितम् । अन्यथा ह्यनु- प्रासमात्रत्वं स्यानालंकारत्वम् । अथापि केवलनयनशब्दस्य स्वार्थविधान्तिः १. 'न शब्दार्थस्वरूपम्' इति टीकासंमतः पाठो भाति. ३. 'प्रयोक्तुमेव ज्यायः' ख.

अलंकारसर्वस्वम् । २९ 'काशाः काशा इवाभान्ति(न्त) सरांसीव सरांसि च । चेतास्याचिक्षिपुर्दूनां निम्नगा निम्नगा इव ॥' इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः। अन्योन्या- पेक्षया शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थितेभिन्नविषयत्वात् । 'अनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् । अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥ .. संसर्गपदान्तर्गतस्य पुनः स्वार्थमुपसर्जनीकृत्य संज्ञिनमभिदधतश्च खार्थत्यागात्प- रार्थे च वृत्तिरस्त्येव लक्ष्यनिष्टत्वमिति चेत् , नैतत् । लक्षणासामग्र्यभावात् । अत्र ह्यन्यपदार्थप्रधानत्वान्नयनशब्दस्य गुणीभावः, न मुख्यार्थवाधः । स्वार्थ एव विश्रान्तेः । न च गुणीभावमुख्यार्थबाधयोरेकत्वम् । सतो हि मुख्यार्थस्य कंचि- दपेक्ष्य गुणीभावः । बाधः पुनः स्वस्मिन्नेवाविधान्तिरित्यनयोर्महान्भेदः । नाप्यत्र किंचित्प्रयोजनं न वारूढिरियमित्येतत्पौनरुक्त्यमात्रम् । एवम् , 'सितकरकर- रुचिरविभा विभाकराकारधरणिधरकीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥' इत्यादावपि ज्ञेयम् । चमत्कारस्त्वत्रानुप्रासकृतोऽवसेयः। नन्वन- न्वयेऽपि शब्दपौनरुक्त्यं दृश्यत इति तत्रापि किमयमेवालंकारः किमु स एवे- त्याशयाह-अनन्वय इत्यादि । आनुषङ्गिकमिति । न पुनः साक्षात्प्र- योजकमित्यर्थः । शब्दक्यं विनाप्यनन्वयस्य प्रतिपादनात् । अत्र हि शब्दैक्यं क्वचिदक्रियमाणमनौचित्यमावहति क्वचिन्नेति भावः । तत्तु यथा-'यच्चक्षुर्जगतां सहस्रकरवद्धानां च धामार्कवन्मोक्षद्वारमपावृतं च रविवद्धान्तान्तकृत्सूर्यवत् । आत्मा सर्वशरीरिणां सवितृवत्तिग्मांशुवत्कालकृत्साध्वीं नः स गिरं ददातु दिन- कृद्योन्यैरतुल्योपमः ॥' अत्र सहस्रकरादयोऽन्य इवाभासमाना अनन्वयप्रतीति विघ्नयन्तीति शब्दैक्याभावोऽनौचित्यमावहति न पुनरनन्वयस्याभावात् । 'स्थैर्या- द्भर्व्यापकत्वाद्वियदखिलजगत्प्राणभावान्नभखान्भाखान्विश्वप्रकाशाद्युगपदपि सुधा- सूतिराहादनाच्च । वह्निः संहारकत्वाजलमखिलजनाप्यायनाचोपमानं सत्यात्म. त्वेऽपि यस्य प्रभवतु भवतां सोऽटमूर्तिः शिवाय ॥' अत्र निर्विघ्नमेवानन्वयस्य प्रतीतेः शब्दैक्याभावो नानौचित्यावहः । तुशब्दो व्यतिरेके । साक्षादिति । १. क-पुस्तके 'काशाः काशा इत्यादो' एतावदेवास्ति.

३० काव्यमाला। तदेवं पौनरुक्त्ये पञ्चालंकारः॥ निर्गदव्याख्यातमेतत् । वर्णानां खड्गाद्याकृतिहेतुत्वे चित्रम् ॥ पौनरुक्त्यप्रस्तावे स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मकं चित्रवचनम्। यद्यपि लिप्यक्षराणां खङ्गादिसंनिवेश विशिष्टत्वं तथापि श्रोत्राकाशस- मवेतवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालंकारोऽयम्। आदिग्रहणाद्यथाव्युत्पत्तिसंभवं पद्मबन्धादिपरिग्रहः । यथा- 'भासते प्रतिभासार रसाभासाहताविभा । भावितात्माशुभावादे देवाभा बत ते सभा ॥' एषोऽष्टदलपद्मवन्धः । अत्र दिग्दलेषु निर्गमप्रवेशाम्यां श्लिष्टाक्षर- त्वम् । विदिग्दलेषु वन्यथा । कर्णिकाक्षरं तु श्लिष्टमेव । शब्दैक्यं विनास्यानुत्थानात् । एतदेवोपसंहरति-तदेवमित्यादि । पुनरुक्त- वदाभासमर्थपौनरुक्त्याश्रितं, छेकानुप्रासादयस्त्रयः शब्दपौनरुक्त्याश्रयाः । लाटा- नुप्रासस्तूभयाश्रित इति पञ्च पौनरुक्त्याश्रिता अलंकाराः। यद्यप्युक्तः शब्दार्थ- गतत्वेनोचरणाभिधानतया मेदात्सामान्याभावात्कस्य पञ्चप्रकारत्वं तथापि तस्या द्वयोरप्यनुगमादकत्वेन प्रतीतेरुक्तिसामान्यनिवन्धनमेव प्रकारिप्रकारभाववचनम् । यच्चार्थमेदेन शब्दस्यापि भिन्नत्वं तदवास्तवम् प्रतीतावेकतयैवावभासात् । अत एवानेकार्थवर्गादिप्वपि तथात्वेनैव व्यवहारः। वर्णानामित्यादि । उच्चा- रणकाले स्थानविशेषश्लिष्टवर्णात्मकखगादिसंनिवेशस्याभावात्पौनरुक्त्यप्रतीतिर्ना- त्रेति किमाश्रयोऽयमलंकार इत्याशझ्याह-यद्यपीत्यादि । लिप्यक्षराणां मषीबिन्दुरूपाणां श्रूयमाणतासतत्त्ववर्णशब्दाभेदप्रतिपत्त्या औपचारिकोऽयं श- ब्दालंकार इति तात्पर्यार्थः । आदिग्रहणं सफलयितुं पद्मवन्धेनोदाहरति- भासतेत्यादि । खड्गवन्धः पुनर्यथा-'स पात्रीभविता मोक्षक्षणलक्ष्म्या भवा- रसः । समस्तजनतायाससमुद्राभिन्नताभिदः ॥' श्लिष्टमेवेति । अष्टदिक्कमपि १. 'निर्विवादं व्याख्यातम्' ख.

अलंकारसर्वस्वम् । - उपमानोपमेययोः साधर्म्य भेदाभेदतुल्यत्वे उपमा ॥ अर्थालंकारप्रकरणमिदम् । उपमानोपमेययोरित्यप्रतीतोपमानोपमे- यनिषेधार्थम् । साधम्र्ये त्रयः प्रकाराः । भेदप्राधान्यं व्यतिरेकादि- वत् । अभेदप्राधान्यं रूपकादिवत् । द्वयोस्तुल्यत्वं यथास्याम् । यदा- हुः-'यत्र किंचित्सामान्यं कश्चिञ्च विशेषः स विषयः सदृशतायाः' निर्गमप्रवेशयोः । उपमानेत्यादि । अथेति । शब्दालंकारनिर्णयानन्तरमव- सरप्राप्तमित्यर्थः । ननूपमानोपमेययोरेव साधर्म्य संभवति न कार्यकारणादिक- योरिति किं तदुपादानेनेत्याशयाह-उपमानेत्यादि । तत्रोपमानस्याप्रतीतत्वं लिङ्गभेदादिना प्राच्यैरुक्तम् । यथा-'कटु वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव । मनस्तु साधु ध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥' अत्र क्वणनादेर्धर्मस्योपमानेऽन्यतां करोतीति लिङ्गभेदो दुष्टः । यद्यपि साधारणधर्मस्योभयसंबन्धसंभवेऽपि सिद्धत्वादुपमाने तत्संबन्धस्य खयमेवावग- मात्तस्य न शाब्दता युक्तेत्युपमानपारतत्र्येण लिङ्गादिविपरिणामो न कार्य इति न लिङ्गभेदादेर्दुष्टत्वम् तथाप्युपमानवाक्यस्य साकासत्वात्प्रतीतिविश्रान्तेः शाब्द- स्तत्संबन्ध उपयुक्त एव । नहि प्रभामहलादावुपमानवाक्ये पूतत्वादिसंवन्धं विना समन्वयविश्रान्तिः स्यात् । केवलं समानधर्मस्योपमेये विधीयमानत्वमुपमाने चानूद्यमानत्वमितीयानेव विशेषः । तदुभयत्रापि तत्संवन्धस्यावश्योपयोगादु- पपद्यत एव समानधर्मस्यानुगामित्वम् । तल्लिङ्गभेदादेरपि दुष्टत्वं युक्तम् । उपमे- यस्याप्रतीतत्वमवर्णनीयस्यापि वर्णनीयत्वम्। यथा-गौरः सुपीवराभोगो रण्डाया मुण्डितो भगः। मेरोरर्कयोलीटशप्पहेमतटायते ॥ अत्र तन्वझ्या रूपवर्णने भगवर्णनमनौचित्यावहमित्युपमेयस्याप्रतीतत्वम् । भेदाभेदतुल्यत्वं व्याख्यातुं साधर्म्यस्य विषयविभागेण व्यवस्थिति दर्शयति–साधर्म्य इत्यादिना। एतैरेव च त्रिभिः प्रकारैः साधर्म्याश्रयः समप्र एवालंकारवर्गः संगृहीतः । तेन व्यतिरे- कवदित्यनेन सहोत्यादयः संगृहीताः रूपकवदित्यनेन परिणामोत्प्रेक्षादयः। कि- तु रूपकोत्प्रेक्षयोरभेदप्राधान्यसद्भावेऽप्यारोपाध्यवसायकृत एव विशेषः । यद्वक्ष्य- १. धर्मस्योपमानैक्यतां' क.

३२ काव्यमाला। इति । उपमैवानेकप्रकारवैचित्र्येणानेकालंकारबीजभूतेति प्रथमं नि. र्दिष्टा । अस्याश्च पूर्णालुप्तात्वमेदाचिरंतनैर्बहुविधत्वमुक्तम् । तत्रापि ति-'आरोपादभेदेऽध्यवसायः प्रकृष्यते' इति । अतश्चाध्यवसायगर्भेष्वलंकारेषु शुद्धाभेदरूपश्चतुर्थः प्रकारो न कश्चिदाशङ्कनीयः । तत्राप्यभेदप्राधान्यस्यैव भावात् । अनयाप्युपमेयोपमादयः संगृहीताः । सामान्यमित्यभेदहेतुकम् । विशेष इति मेदहेतुकः । एवं च भेदाभेदतुल्यत्वविषये यः सादृश्यप्रत्ययो जायते तस्योपमा- विषयत्वमुक्तम्। ननु च सत्स्वप्यनेकेष्वर्थालंकारेषु प्रथममियमेव किं निर्दिष्टेत्या- शङ्याह-उपमैवेत्यादि । अनेकेऽलंकाराः साधर्म्याश्रयाः तत्रैवास्याजीव- (बीज)त्वात् । उक्तमिति । 'साधर्म्यमुपमा मेदे पूर्णा लुप्ता च साग्रिमा । श्रोत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥' इत्यादिना । अतश्च किमस्माकं तदाविष्करणेनेति भावः । एवं च तेषां गणने तथा न वैचित्र्यं किंचिदिति सूचितम् । तत्रापीति । चिरंतनोक्ते पूर्णत्वादिभेदनिर्देशे सत्यपीत्यर्थः । साधारणधर्मस्येति । धर्मः पराश्रितः तस्य च तदतद्गामित्वात्साधारणत्वम् । तदेव चोपमाद्युत्थाने निमित्तम् । स च 'चतुष्टयी शब्दानां प्रवृत्तिः' इति महाभा- प्यप्रक्रियया जातिगुणक्रियाद्रव्यात्मकेषु धर्मिष्वेवंरूप एव भवति । न चैतद्विर- ध्यते । धर्मिधर्मभावस्याश्रयाश्रयिभावेन भावात् । अत एव च धर्मिधर्मभावस्य न वास्तवत्वम् । जात्याद्यात्मनो धर्मिणोऽपि कदाचिदन्याश्रितत्वे धर्मत्वात् । एवं च तदतिरिक्तं धर्ममात्रमपि साधारणं न किंचिद्वाच्यम् । चतुष्टय्या एव शब्दानां प्रवृत्तेरुक्तत्वात् । ‘सदयं वुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति । अचिरोप- नतां स मेदिनी नवपाणिग्रहणां वधूमिव ॥' इत्यादावुपमानादौ क्रियारूपत्वादेर्यो- जयितुं शक्यत्वात्तस्या एव च समाविषयावगाहनसहिष्णुत्वात् । ननु जातेः साधारणधर्मत्वे तजातीयत्वात्तत्त्वं न स्यान्न तत्सादृश्यत्वमिति कथमुपमाङ्गत्वमस्याः स्यादिति चेत् , न । बिम्बप्रतिबिम्वभावाश्रयेण तधात्वाभावात् । तत्र ह्यसकृ- निर्देशाद्वयोर्हारादिकयोर्जात्योः शैत्याद्यभेदनिमित्तावलम्बनेनैकत्वमाश्रित्य सादृश्य- निमित्तं साधारण्यं स्यात् । एतच सविस्तरमुपरिष्टाद्वक्ष्यामः । तत्र धर्मिणो जात्यादिरूपता यथा-'घनोद्यानच्छायामिव मरुपथाहावदहनात्तुषाराम्भोवा- १. 'लुप्ताद्वयमेदात्' क. २. 'अत्रासाधारण' ख. ३. 'धर्मत्वेऽपि' ख. '४ 'न सदृशत्वं' क. ५. श्वैत्य' स्व.

अलंकारसर्वस्वम् । ३३ साधारणधर्मस्य कचिदनुगामितयैकरूप्येण निर्देशः । क्वचिद्वस्तुपति- वस्तुभावेन पृथनिर्देशः । पृथङिदेशे च संबन्धिभेदमात्रं प्रतिवस्तूप- मावत् । बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् । क्रमेणोदाहरणम्- 'प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥' 'यान्त्या मुहुर्वलितकंधरमाननं त- दावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥' पीमिव विषविपाकादिव सुधाम् । प्रवृद्धादुन्मादात्प्रकृतिमिव निस्तीर्य विर- हाल्लमेय त्वद्भक्तिं निरुपमरसां शंकर कदा ॥' अत्र च्छायावापीसुधाप्रकृ- वीनामुपमानानां जातिगुणद्रव्यक्रियात्वम् । छायायास्तु जातिरूपत्वाद्गुणत्वं नाशङ्कनीयम् । उपमेयस्य पुनरेतत्वयमेवाभ्यूह्यम् । धर्माणां तु यथा-'वैदेहि पश्यामलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् । छायापथेनेव शरत्प्र- सन्नमाकाशमाविष्कृतचारुतारम् ॥' अत्र विभक्तमित्यस्य क्रियात्वं रामसेतुच्छाया- पथयोव्यत्वं फेनतारकाणां जातित्वं प्रसादस्य च गुणत्वं द्रव्यात्मकाकाशाम्बुरा- शिगतत्वेनोपनिवद्धम् । एवं प्रकृतामेव महाभाष्यप्रक्रियामपहाय निर्निमित्तमेव प्रक्रियान्तरमाश्रित्य यैदन्यैरुक्तं तदयुक्तमेवेत्यलं वहुना । एवंविधस्य चास्य भावाभावरूपतया द्वैविध्यम् । एतच्च न तथा वैचित्र्यावहमिति ग्रन्थकृता नोक्तम् । ऐक्यरूप्येणेति । सकृत् । यद्वक्ष्यति—'तत्र सामान्यधर्मस्येवाद्युपादाने सकृ- निर्देश उपमा' इति । पृथनिर्देश इति । असकृदित्यर्थः । यद्वक्ष्यति- 'वस्तु- प्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैव' इति । साधारणधर्मस्येत्यत्रापि संवन्धनी- यम् । वस्तुप्रतिवस्तुभावेऽपि द्वैविध्यमित्याह-पृथड़िर्देश इत्यादि । संवन्धि- भेदमात्रमिति । न पुनः खरूपभेदः कश्चिदित्यर्थः । यद्वक्ष्यति-असकृन्निर्देशे १. 'तारतम्यम्' क. २. 'यदन्यैराश्रित्योक्तं' क. ३ अ० स० ३४ काव्यमाला। अत्र वलितत्वावृत्तत्वे संबन्धिभेदाद्भिन्ने । धर्म्यभिप्रायेण तु बिम्ब- प्रतिबिम्बत्वमेव । 'पाण्ड्योऽयमंसार्पितलम्बहारः कृप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिझरोद्गार इवाद्रिराजः ।' अत्र हाराङ्गरागयोर्निर्झरबालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ । शुद्धसामान्यरूपत्वं विम्बप्रतिविम्बभावो वा' इति । एतच्च भेदत्रयं प्रायः सर्वेषा- मेव सादृश्याश्रयाणामलंकाराणां जीवितभूतत्वेन संभवतीत्यग्रत एव तत्रतत्रोदा- हरिष्यामः । क्रमेणेति यथोद्देशेम् । संवन्धिभेदादिति । संवन्धिनोः कंधरा- वृन्तयोर्भेदात् । न तु हारनिर्झरादिवत्स्वरूपतो भेदः । वस्तुत एकत्वादलितत्वा- वृत्तत्वयोरभेदः। ननु यदि वलितत्वावृत्तत्वाख्यो धर्म आननशतपत्रयोः शुद्ध- सामान्यरूपतयोपात्तस्तद्धर्मी कंधरावृन्तरूपः पुनः किंरूपतयेत्याशझ्याह-धर्म्य- भिप्रायेणेत्यादि । एवकारः शुद्धसामान्यरूपत्वव्यवच्छेदकः । कंधरावृन्तयोश्च यथोक्ते धर्मित्वेऽप्याननशतपत्रापेक्षया धर्मत्वमेव युक्तम् । आश्रयाश्रयिभावेन धर्मिधर्मभावस्य भावात् । अत एवास्यावास्तवत्वं पूर्व मुक्तम् । अतश्चाननशत- पत्रापेक्षया इति न व्याख्येयम् । तयोरुपमानोपमेयभाववाचोयुक्तरेव युक्तत्वात् । एवं च सति कंधरायन्तयोः स्वरूपमनभिमतं स्यात् । अनेनैव च बिम्बप्रतिविम्ब- भावस्य स्वरूपे दर्शितेऽप्यसंकीर्णप्रकटनाशयेन पुनः ‘पाण्ड्योऽयम्' इत्याद्युदाह- तम् । हाराङ्गरागयोरिति । स्वरूपयोरिति शेपः । न चात्र विम्बप्रतिबिम्ब- भावस्य विषयान्तरं प्रदर्य वाक्यार्थगतामुपमामाशक्ष्य गुणसाम्यनामा चतुर्थः प्रकारो वाच्यः । यावता हि साधारणधर्मनिबन्धन मुपमास्वरूपं स चात्र धर्मो निर्दिष्टानिर्दिष्टत्वेन द्विविधः । निर्देशपक्षे चास्य त्रैविध्यमुक्तम् । अनिर्देशपक्षे चास्य न वैचित्र्यं किंचिदिति न तदाश्रयं भेदजातमुक्तम् । अतश्चात्र निर्दिष्टः साधारणधर्मो व्यवस्थित इति का नाम चतुर्थप्रकारकल्पना । वाक्यार्थोपमाग- न्धोऽप्यत्र नास्ति । स ह्यने केषां धर्मिणां परस्परावच्छिन्नानां ताशेरेव धर्मिभिः साम्ये भवति । यथा—'जनयित्र्याः कुलाल्याश्च रक्षित्र्या विदितोऽभवत् । रत्न- सूते जंग्याश्च प्रच्छन्न इव शेवधिः ॥' अत्र जनयित्र्यादीनां रत्नसूत्यादीन्युपमा- अलंकारसर्वस्वम् । ३५ नान्युपात्तानि । एतेषां धर्मित्वं परस्परावच्छिन्नत्वं च स्फुटमेव । विम्बप्रति- विम्वभावः पुनर्धर्मिविशेषप्रतिपादनोन्मुखानां धर्माणां भवति । यथात्रैव । अत्र हि हाराङ्गरागयोः पाण्ज्यस्य विशिष्टतापादनायैवोपादानम् । इन्दुमती प्रति तस्य विशिष्टालम्बनविभावत्वेन विवक्षितत्वात् । अतश्च तयोः परस्परोन्मुखत्वात्स्वात्म- न्येवाविधान्तिरिति का कथोपमेयतायाः । एवं पाण्ड्यस्याद्रिराजेन हारनिर्झरादि- धर्मनिमित्तैवोपमा । तावन्मात्रेणैव सादृश्यपैर्यवसानात् । तच्च हारादेः साधारण- धर्मस्य विम्वप्रतिविम्वत्वादृष्टान्तन्यायस्यैतत्सूदाहरणमेव । ननु हारनिर्झरयोस्तद- तद्गामित्वाभावात्कथं साधारणधर्मतेति चेत् , उच्यते-अस्यास्तावद्धर्मस्य साधा- रण्यं जीवितम् । तच्च धर्मस्यैकत्वे भवति । न च वस्तुतोऽत्र धर्मस्यैकत्वम् । नहि य एव मुखगतो लावण्यादिधर्मः । स एव चन्द्रादौ । तस्यान्वयासंभवात् । अपि तु तजातीयोऽत्रान्योऽस्ति धर्मः । एवं धर्मयोर्भेदात्साधारणवाभावादुपमायाः खरूपनिष्पत्तिरेव न स्यात् । अथ धर्मयोरपि सादृश्यमभ्युपगम्यते तत्तत्रापि सादृश्यनिमित्तमन्यदन्वेष्यम् । तत्राप्यन्यदित्यनवस्था स्यात् । ततश्च धर्मयोर्व- स्तुतो भेदेऽपि प्रतीतावेकतावसायाद्भेदेऽप्यभेद इत्येतन्निमित्तमेकत्वमाश्रयणीयम्। अन्यथा ह्युपमाया उत्थानमेव न स्यात् । एवमिहापि हारनिर्झरादीनां वस्तुप्रति- वस्तुतयोपात्तानां वस्तुतो भेदेऽप्यभेदविवेक्षकत्वं ग्राह्यम् । अन्यथा ह्येषां पाण्ड्या- द्विराजयोरोपम्यसमुत्थाने निमित्तत्वमेव न स्यात् । न चैषामौपम्यं युक्तमिति सम- नन्तरमेवोक्तम् । अत एवात्र विम्बप्रतिविम्वभावव्यपदेशः । लोको हि दर्पणादौ विम्यात्प्रतिविम्बस्य भेदेऽपि मदीयमेवात्र वदनं संक्रान्तमित्यभेदेनाभिमन्यते । अन्यथा हि प्रतिविम्वदर्शने कृशोऽहं स्थूलोऽहमित्याद्यभिमानो नोदियात् भूषण- विन्यासादी च नायिका नाद्रियेरन् । प्राच्यैरैपि-‘स मुनिर्लाञ्छितो मौज्या कृष्णाजिनपटं वहन् । व्यराजन्नीलजीमूतभागश्लिष्ट इवांशुमान् ॥' इति। तथा—'स पीतवासाः प्रगृहीतशाओं मनोज्ञभीमं वपुराप कृष्णः । शतद्देन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥' इत्यत्र मौजीतडितोः शङ्खशशिनोश्च वस्तुतो मेदेऽप्यभेदविवक्षामेवाश्रित्य साधारणधर्मस्य हीनत्वमाधिक्यं चोक्तम् । अत एवात्र पूर्व ग्रन्थकृता वस्तुप्रतिवस्तुभाववस्तुद्वयस्य प्राच्योक्तमेव व्यवहारं दर्श- यितुं प्रतिवस्तूपमावदृष्टान्तवच्चेति तदुक्तमेव दृष्टान्तद्वयं दत्तम् । एवं चात्रामेद- १. 'पर्यवसानम्' क. २. 'विवक्षेत्येकत्वं ख. ३. 'इति' क. १. 'एव चात्र' ख.

ir काव्यमाला। विवक्षैव जीवितम् । एषा च लक्ष्ये सुप्रचुरैव । यथा-'विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुगमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥' अत्र विद्युद्वनितादीनां मेघप्रासादविशिष्टताधायकतया धर्मत्वेनैवोपादानम् । अत एव तेस्तैर्विशेषरित्युक्तम् । तेषां सकृन्निर्देशाभावान्नानुगामिता । एकार्थत्वा- भावान शुद्धसामान्यरूपत्वमिति पारिशेष्याविम्वप्रतिबिम्बभाव एव । एतेषां चामेदेनैव प्रतीतेः साधारणत्वम् । एवं हारादेरपि ज्ञेयम् । अभेदप्रतीतिश्चात्र सादृश्यनिमित्ता । न चैतावतेवेषामुपमानोपमेयत्वं वाच्यम् । तथात्वाविवक्षणात् । सादृश्यस्य च सितत्वादिगुणयोगित्वं नाम निमित्तम् । एवमभेदप्रतीतिमुखेनात्र हारादेः समानधर्मत्वम् । क्वचिन्निमित्तान्तरेणाप्यभेदप्रतीतिर्भवति । यथा- 'द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीद्दष्टो- ऽङ्गुष्ट इवाहिना ॥' अत्रोत्तरार्धे दष्टदुष्टयोर्दोपकारित्वादिना एककार्यकारित्वं भेद- कारणमित्यलं बहुना । इयं च द्वयोरपि प्रकृतयोरप्रकृतयोश्चौपम्ये समुच्चिता भवति । कैमेण यथा-'सदयं बुभुजे महाभुजः' इत्यादि । अत्र वधूमेदिन्योर- चिरोपनतत्वात्प्रकृतत्वेन सदयोपभोगे समुच्चितत्वम् । अप्रकृता यथा-'खरेण तस्याममृतघुतेव प्रजल्पितायामभिजातवाचि । अप्यन्य पुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना ॥' अत्र भगवत्यपेक्षयान्यपुष्टावितव्योरप्रकृतयोः प्रतिकूलशब्दत्वे समुचितत्वम् । इयमेकदेशविवर्तिन्यपि । यथा-'कमलदलैर- धरैरिव दशनैरिव केसविराजन्ते। अलिवलयैरलकैरिव कमलर्वदनैरिव नलिन्यः॥' अत्र नलिनीनां नायिका उपमानत्वेनोपात्ता इत्येकदेशविवर्तित्वम् । इयं च साह- श्यदाार्थ कविप्रतिभाकल्पिते साधर्म्य कल्पिता भवति । तच्च क्वचिटुपमेयग- तत्वेन क्वचिदुपमानेनापि कल्पितमिति द्विधात्वमस्याः। यदुक्तम्-'उपमेयस्य वैशिष्ट्यमुपमानस्य वा क्वचित्' इति । वैधयेणापि साधर्म्यमिति तृतीयः प्रकारः पुनरस्या न वाच्यः। अस्योपमायामेव संभवाद्दायप्रतिपादनाप्रतीतेश्च । क्रमेण यथा-"तं णमह णाहिणलिनं हरिणो गअणङ्गणाहिरामस्स । छप्पअम्पिअगत्तो १. 'साधारणधर्मत्वमुक्तम्' क. २. 'समुचिता' ख. ३. 'क्रमेण' ख-पुस्तके नास्ति. ४. 'अप्रकृता यथा' ख-पुस्तके नास्ति. ५ 'तं नमत नाभिनलिनं हरेर्गगन- अनाभिरामस्य । पट्पदाच्छादितगात्रो मल इव चन्द्रे यत्र विधिः ॥' इति च्छाया.

Library Sri Pratap College, अलंकारसर्वस्वम् । ३७ एकस्यैवोपमानोपमेयत्वेऽनन्वयः ॥ मलो व्व चन्दम्मि जत्थ विही ॥' अत्रोपमेयस्य षट्पदाच्छादित्वं कल्पितम् । 'आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । संजातपुष्पस्त- वकाभिनम्रा संचारिणी पल्लविनी लतेव ॥' अत्रोपमानगतत्वेन संचारिणीत्वं कल्पितम् । न चास्याः पृथग्लक्षणं वाच्यम् , द्वयोरौपम्यप्रतीतेः । सामान्यलणस्या- त्राप्यनुगमात् । अथात्र कल्पनास्तीति चेत् , न । एवं हि प्रतिभेदं लक्षणकर- णप्रसङ्गः । समुच्चितत्वादेविशेषान्तरस्यापि भावात् । अथोपमानगुणविशिष्टोपमे- यावगमफलत्वेनोपमायाः प्रतिभटभूतवस्त्वन्तराभावप्रयोजनत्वेन चास्याः पृथ- गलंकारत्वमिति चेत्, न । अत्रोपमेयस्योपमानगुणविशिष्टतयैव प्रतीतेः फलमे- दाभावात् । तथा हि 'आवर्जिता' इत्यादौ भगवत्या लतायाः सादृश्यस्य संचा- रिणीत्वेनाभावो मा प्रसाझीदिति तयोः साधर्म्यमेव द्रढयितुं कविना लतायाः संचारिणीत्वं कल्पितम् । नन्वत्र भगवत्या अन्यदुपमानं नास्तीति प्रतीयते । अनन्वयादिवदुपमानान्तरनिषेधस्य वाक्यार्थत्वात् । मैवम् । एवमुपमेयस्यापि वैशिष्ट्यकल्पने उपमेयान्तरनिषेधफलत्वं वाच्यम् । समानन्यायत्वात् । तद्यथा दृढारोपे रूपके विषयविपयिणोरभेदमेव द्रढयितुं कस्यचिद्धर्मस्य हानिराधिक्यं वा कल्प्यते तहापि सामान्यदाक्यैव कल्पितत्वं ज्ञेयम् । अत्राप्यभेदालंकाराख्या- लंकारान्तरत्वं न वाच्यम् । रूपकेणैवास्या विच्छित्तेः संगृहीतत्वात् । विषयविष- यिणोरभेदो हि रूपकसतत्त्वम् । स एव चात्र दायेन प्रतीयत इति को नामास्य रूपकात्पृथग्भावः । अभेदमात्रप्रतीतौ रूपकम् , नियतधर्महानावन्यतः सर्वतोऽ. प्यभेदप्रतीतावभेद इति प्रतीतिभेदोऽप्यस्तीति चेत्, न । एवं ह्यस्ति तावदभेद. प्रतीतिरत्रानुगता। यस्तु विशेषः सपृथग्भेदत्वे व्यवस्थापकोऽस्तु न पृथगलंका- रत्वे । नहि शावलेयता(?)मात्रेण गोत्वमश्वत्वव्यपदेश्यं भवति । एवं च 'गृही- तविग्रहः कामो वसन्तः सार्वकालिकः। जहार हृदयं कामी नित्यपूर्णः सुधाकरः॥' इत्यादी गृहीतविग्रहत्वादेर्नियतस्य धर्मस्याधिक्येऽप्यलंकारान्तरप्रैसङ्गः । इयं च मालात्वादिनानन्तभेदेति तद्न्थविस्तरभयान प्रपञ्चितम् । एकस्यैवेत्यादि । ननु सादृश्याश्रयाणामलंकाराणां लक्षयितुं प्रस्तुतत्वात्सादृश्यस्योभयनिष्टत्वेनैव १. 'मैवम्' ख-पुस्तके नास्ति. २. 'प्रसङ्गात्' ख. Srinagar ३८ काव्यमाला। वाच्याभिप्रायेण पूर्वरूपावगमः । एकस्य तु विरुद्धधर्मसंसर्गों द्वितीयसब्रह्मचारिनिवृत्त्यर्थः । अत एवानन्वय इति योगोऽप्यत्र संभ- वति । यथा- 'युद्धेऽर्जुनोऽर्जुन इव प्रथितप्रतापो भीमोऽपि भीम इव वैरिषु भीमकर्मा । संभवादेकस्य च तदभावात्कथमिहातदाश्रयस्याप्यस्य वचनमित्याशझ्याह वाच्याभिप्रायेणेत्यादि । पूर्वरूपेति । सादृश्याश्रयत्वस्येत्यर्थः । अस्त्येव ह्यत्र शाब्दी सादृश्यप्रतीतिः मुखं चन्द्र इवेत्यादिवदेवात्रोपमानोपमेयत्वस्य वाच्यतयोपनिबन्धनात् । अत एवाह-वाच्याभिप्रायेणेति । न पुनर्वस्त्वभि- प्रायेणेत्यर्थः । वस्तुतो ह्येकस्यैव साध्यसिद्धर्मरूपत्वासंभवादुपमानोपमेयत्वेऽपि विरोधः स्यात् । इत्थं शाब्दमेव सादृश्यानुगममाश्रित्येहास्य लक्षणम् । ननु यद्ये वमेकस्योपमानोपमेयत्वं विरुध्यते तत्किं वस्तुविरुद्धेन निष्फलेन चैतेनेत्याशझ्याह -एकस्येत्यादि । एवं चास्य द्वितीयसब्रह्मचारिनिवृत्तिरेवालंकारत्वप्रतिष्टापर्क प्रमाणम् । अन्यथा पुनर्नास्यालंकारत्वम् । यथा-'तस्याज्ञयैव परिपालयतः प्रजा मे कर्णोपकण्ठपलितंकरिणी जरेयम् । यद्गर्भरूपमिव मामनुशास्ति सोऽयमद्यापि तन्मयि गुरोर्गुरुपक्षपातः ॥' अत्र यथैव गर्भरूपं मां गुरुरन्वशात्तथैवाद्याप्यनु- शास्तीति सत्यप्येकस्योपमानोपमेयत्वे द्वितीयसब्रह्मचारिनिवृत्तिप्रतिपत्त्यभावा- जायमलंकारः । एकस्यैवावस्थाभेदेन च सिद्धसाध्यधर्मसंभवान्नोपमानोपमेयत्वस्य विरुद्धधर्मसंसर्गः । अत एवेति । विरुद्धधर्मसंयोगात् । एकस्यैव सिद्धसाध्य- रूपेणोपमानोपमेयत्वेनाविद्यमानोऽन्वयः संवन्धो यत्र स तथोक्तः । अर्जुनादन्यो युद्धे प्रथितप्रतापो नास्तीति द्वितीयसब्रह्मचारिनिवृत्तिरत्र जीवितभूता प्रतीयत एव । अत एव कार्तवीर्यहिंस्रसत्त्वयोरुपमानरूपयोरप्रतीतेः शुद्धमेवेतदुदाहरणम् । इत्तिअमेतुम्मि जए सुन्दरमहिलासहस्सभरिअम्मि । अणुहरइ णवर तिस्सा, वामाद्धं दाहिणद्धस्स ॥' इत्यादो चानन्वयोदाहरणत्वं न वाच्यम् । अत्रान्यार्धे- १. 'एकस्यैव' ख-पुस्तके नास्ति. २. 'एतावन्मात्रे जगति सुन्दरमहिलासहस्रभरिते अनुहरति केवलं तस्या वामार्थ दक्षिणार्धस्य ॥' इति च्छाया.

अलंकारसर्वस्वम् । ३९ न्यग्रोधवर्तिनमथाधिपतिं कुरूणा- मुत्प्रासनार्थमिव जग्मतुरादरेण ॥' द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा ॥ तच्छन्देनोपमानोपमेयत्वप्रत्यवमर्षः । पर्यायो यौगपद्याभावः । १ नान्यार्धस्योपमीयमानत्वेनोपमाया अभिधीयमानत्वात् । अस्य ह्युपमानान्तरनिषे- धपर्यवसाय्यभिधीयमानमेकस्यैवोपमानोपमेयत्वं स्वरूपम् । न च तदत्र शब्देना- भिधीयतेऽपि तु व्यज्यत इति प्रतीयमानतैव युक्तेति न वाच्यत्वमस्येति वाच्यम् । एवं ह्यलंकारध्वनेविषयापहारः स्यात् । एवम् ‘गन्धेन सिन्धुरधुरंधर वक्रमैत्रीमैरा- वणप्रभृतयोऽपि न शिक्षितास्ते । तत्त्वं कंचत्रिनयनाचलरत्नभित्तिस्वीयप्रतिच्छविषु यूथपतित्वमेषि ॥' इत्यत्राप्यनन्वयो न वाच्यः । स्वीयप्रतिविम्बैरेव सादृश्यप्रती- तेस्तद्गन्धस्याप्यभावात् । यदि नाम चैतत्प्रतीयेत तदप्यस्य प्रतीयमानत्वं स्यान्न वाच्यत्वम् । यथोक्तन्यायात् । एवं च तदेकदेशेनावसितभेदेन वेत्येपास्य उपमा- नतया कल्पितेनैव सादृश्यमनन्वय इत्येव त्वया सूत्रणीयम् । 'ग्रसमानमिवौजांसि सदस्योरवेरितम् । नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् ॥' इत्यत्र पुंसः पुंस्त्वारोपादनन्वयरूपकमिति यदन्यैरुक्तं तदयुक्तम् । एकस्यैव विध्यनुवाद- भावनावस्थानादारोपाभावात् । द्वयोरित्यादि । द्वयोरित्युपमानोपमेययोः, न पुनर्द्विसंख्याकयोः । तेन, ‘कान्ताननस्य कमलस्य सुधाकरस्य पूर्व परस्परमभूदु- पमानभावः । सद्यो जरातुहिनराहुपराहतानामन्यः परस्परमसावरसः प्रसूतः ॥' इत्यत्र त्रयाणामप्युपमानोपमेयत्वं स्थितमस्या एवाङ्गम् । तच्छब्देनेति तस्मिन्नित्य- नेन । यौगपद्याभाव इति क्रमरूपत्वात् । अत इति योगपद्याभावात् । स च वाक्यभेदः शाब्द आर्थश्च । तत्र शाब्दो यथा—'रजोभिः स्यन्दनोवृतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥' अत्र भुवस्तलं व्योमेव कुर्वन्निति वाक्यपरिनिप्पत्तेः स्फुट एव शाब्दो वाक्यभेदः। आर्थो यथा-'भव. त्पादाश्रयादेव गङ्गा भक्तिश्च शाश्वती । इतरेतरसादृश्यसुभगामेति वन्द्यताम् ॥' अत्र स्फुटेऽपि शाब्दे एकवाक्यत्वे गङ्गा भक्तिवद्भक्तिश्च गङ्गावद्वन्द्येत्यस्त्येवार्थो १. 'उपमाननिषेध' ख. २. 'कथं' ख. ३. 'अपास्य तेनैवानन्वय इति सूत्र- णीयम्' क. ४. 'स्यन्दनोत्कीण:' क. ..

४० काव्यमाला। अत एवात्र वाक्यभेदः । इयं च धर्मस्य साधारण्ये वस्तुपतिवस्तुनि- देशे च द्विधा । आये यथा- 'खमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥' द्वितीये यथा- 'सच्छायाम्भोजवदनाः सच्छायवदनाम्बुजा । वाप्योऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाः ॥' सदृशानुभवाद्वस्त्वन्तरस्मृतिः स्मरणम् ।। वस्त्वन्तरं सदृशमेव । अविनाभावाभावान्नानुमानम् । यथा- वाक्यभेदः । अस्याश्चोपमानान्तरतिरस्कार एव फलम् । अत एवोपमेयेनोपमा इत्यस्या अन्वर्थाभिधानम् । यत्र पुनरुपमानान्तरतिरस्कारो न प्रतीयते तत्र नाय- मलंकारः । यथा-'सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥' न ह्यत्र विधुसवित्रादीना- मुपमानान्तरतिरस्करणं विवक्षितं किं तु सुखदुःखवशीकृतमनसामेवं विपरीतं भव- तीति । साधारण्य इति । एतच्च धर्मस्य निर्देशानिर्देशरूपपक्षद्वयागूरकत्वेनो- क्तम् । तत्र निर्देशपक्षे साधारण्यमस्ति तथाप्यत्र सकृन्निर्देशेनैवानुगतत्वात्तदुपलम्भः स्फुट इत्यत्र भावः । अनिर्देशपक्षे तु वास्तवमेव साधारण्यम् । यदनुसारं खमिव जलमित्याद्युदाहृतम् । धर्मस्यानुगामित्वे तु यथा—'कमलेव मतिमंतिरिव कमला तनुरिव विभा विभेव तनुः । धरणीव धृतिकृतिरिव धरणी सततं विभाति वत यस्य ॥' अत्र विभातीति सकृन्निर्दिष्टम् । वस्तुप्रतिवस्तुनिर्देशश्च पूर्ववदिहापि शुद्धसामान्यरूपत्वविम्वप्रतिविम्वभावाभ्यां द्विधा । तत्र विम्बप्रतिबिम्बभावो ग्रन्थकृतैवोदाहृतः । तत्र ह्यम्भोजवदनयोबिम्बप्रतिविम्वभावः । शुद्धसामान्य- रूपत्वं यथा-'तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलामधिरोहतां द्वे । १. "यदभिहितं बौद्धैः-'सदृशादृष्टचिन्ताद्याः स्मृतिवीजस्य बोधकाः' इति । वस्त्वन्तरं" ख.

अलंकारसर्वस्वम् । ४१ 'अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तवैव तुल्यरूपम् । कुशिकसुतमखद्विषां प्रमाणे धृतधनुषं रघुनन्दनं स्मरामि ॥' सादृश्यं विना तु स्मृति यमलंकारः । यथा- 'अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः । रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥' प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥'(अत्र) प्रस्पन्दमा- नप्रचलितत्वेन शुद्धसामान्यरूपत्वम् । तारकभ्रमरयोस्तु बिम्बप्रतिबिम्बभावः । उ- न्मेषाभिप्रायेण चानुगामितेति भेदत्रयस्याप्येतदुदाहरणम् । सदृशेति । वस्त्वन्त- रमिति स्मर्यमाणम् । सदृशमेवेति । सादृश्यस्योभयनिष्ठत्वात् । अतश्च स्मर्यमा- णेनानुभूयमानस्य, अनुभूयमानेन वा स्मर्यमाणस्य सादृश्यपरिकल्पनमयमलंकारः । यदुक्तम्-यथा दृश्येन जनिता साम्यधीः स्मर्यमाणगा। स्मर्यमाणकृताप्यस्ति तथेयं दृश्यगामिनी॥' इति। तत्राद्यः प्रकारो ग्रन्थकृदुदाहरणे । तत्र हि शिशोरेव रघुनन्दनेन सादृश्यं विवक्षितम् । द्वितीयस्तु यथा—'तस्यास्तीरे रचितशिखरः प्रेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः । मद्नेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥' अत्रानुभू- यमानेन मेघेन स्मर्यमाणस्य क्रीडाशैलस्य सादृश्यपरिकल्पनम् । एवं चात्र सादृश्य- स्योभयसंवन्धेऽप्यनुभूयमानेनेव पुनः स्मर्यमाणप्रतीतिर्भवतीत्यवसेयम् । ननु यद्येवं तत्परस्मात्परप्रतिपत्तेः किं नेदमनुमानमित्याशझ्याह-अविनाभावेत्यादि । अविनाभावस्तादात्म्यानित्यसाहचर्याद्वा । अनुभूयमानस्मर्यमाणयोश्च तदभावः । शिशुरघुनन्दनयोः सादृश्यपरिकल्पने चातिशयितसुरासुरप्रभावत्वादिधर्मोऽनुगामि- तया निर्दिष्टः । वस्तुप्रतिवस्तुभावेनापि धर्मस्यायं भवति। तत्र शुद्धसामान्यरूपत्वेन यथा-'सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिविम्बगर्भः । कुर्वन्नजसं यमुनाप्रवाहसलीलराधास्मरणं मुरारेः ॥' अत्र सोल्लाससलीलत्वयोरेकत्वम् । विम्बप्रतिविम्बभावेनापि यथा-'पूर्णेन्दुना मेघलवाङ्कितेन द्यां मुद्रितां सुन्दरि वीक्षमाणः । विवाहहोमानलधूमलेखामिलत्कपोलां भवतीं स्मरामि ॥' अत्र मेघ- लवधूमलेखादीनां विम्बप्रतिविम्वभावः । एतदेव सादृश्यनिमित्तत्वं द्रढयितुं प्रत्यु- दाहरति-सादृश्यमित्यादिना। सदृशानुभवाभावात्तत्स्मृतेर्न सादृश्यहेतुक- १. 'स्मृतिगामिनी' ख.

४२ काव्यमाला। अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मर्तृदशाभावित्वम• समीचीनम् । प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृति. विषयः । यथा-'अहो कोपेऽपि कान्तं मुखम्' इति । तत्रापि विभावाद्यागूरितत्वे न खशब्दमात्रप्रतिपाद्यत्वे यथा-'अत्रानुगोदं इत्यादि। 'यदृष्टोऽसि तदा ललाटपतितप्राप्तप्रहारो युधि स्फीतासृक्नुतिपाटलीकृतपुरोभागः परान्पातयन् । तेषां दुःसहकालदेहदहनप्रोद्भूतनेत्रानल- ज्वालालीभरभास्वरे स्मररिपावस्तं गतं कौतुकम् ॥' त्वम् । स्मर्तव्यदशाभावित्व इति । स्मर्तव्यदशाभावित्वं वाच्यं सदनात्ये. त्यर्थः । अत एव वाच्यस्यावचनम् । स्मर्तृदशाभावित्वमित्यवाच्यस्य वचनम् । यद्यपि स्मर्तृदशायामतीतत्वाकर्तृविशेषणानां मृगयानिवृत्तत्वादीनामप्यतीतकालाव- च्छिन्नानां तद्भावित्वं तथापि वर्तमानकालावच्छिन्नस्य स्मर्तुविशेषणभावेनोपनिव- न्धात्तेषां तदवच्छिन्नतैव प्रतीयत इति यथोक्तमेव दूषणद्वयं युक्तमिति सहृदया एव प्रमाणम् । प्रत्युदाहरणान्तरमपि दर्शयति-प्रेयोलंकारस्येत्यादिना । तुशब्द. श्वार्थे । सादृश्यव्यतिरिक्तं संस्कारादिनिमित्तम् । तत्रापीति । एवं स्थितेऽपि सतीत्यर्थः । विभावाद्यागूरितत्वे प्रेयोलंकारस्य सादृश्यव्यतिरिक्तनिमित्ततोत्थापिता स्मृतिर्विषयो न स्वशव्दमात्र प्रतिपाद्यत्वे स्मृतिविषय इति संवन्धः । तत्र विभा. वाद्यारितत्वे स्मृतिर्यथा-'अहो कोपेऽपि कान्तं मुखम्' इति । स्वशब्दमात्रप्र- तिपाद्यत्वे यथोदाहृतम् 'अत्रानुगोदं-' इत्यादौ । अत्र च यथा प्रेयोलंकारो भाववनेश्चास्य यथा भिन्नविषयत्वं तथाग्र एव वक्ष्यामः । एवं च प्रत्युदाहरण- द्वयस्यापि प्रयोजनं भिन्नविषयत्वात् । क्वचिच्च सादृश्यनिमित्तापि स्मृतिरवाक्या- र्थत्वान्नास्मिन्पर्यवस्यतीत्याह–'यैदृष्टोऽसि-' इत्यादि । वस्त्वत्र जयापीड. दर्शनम् । वस्त्वन्तरं तु भगवटक्षणम् । अत्र त्वदर्शनमभिलषतां जनानां न १. 'यथा' क-पुस्तके नास्ति.

अलंकारसर्वस्वम् । ४३ इत्यादौ सदृशवस्त्वन्तरानुभावे शक्यवस्त्वन्तरकरणात्मा विशेषा- लंकारः । करणस्य क्रियासामान्यात्मनो दर्शनेऽपि संभवात् । मतान्तरे काव्यलिङ्गमेतत् । तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनालंकारा निर्णीताः संप्रत्यमेदप्राधान्येन कथ्यन्ते- अभेदप्राधान्ये आरोपे आरोपविषयानपह्नवे रूपकम् । अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः । अन्यत्रान्यावाप त्वदर्शनावाप्तिरेवाभूद्यावत्तेषामसंभाव्यं भगवद्दर्शनमपि जातमित्यशक्यवस्त्वन्तर- करणम् । विशेषालंकारस्य ह्यशक्यवस्त्वन्तरकरणं रूपम् इह पुनरशक्यवस्त्वन्तर- दर्शनं स्थितमिति कथमत्र विशेपालंकार इत्याशङ्कयाह—करणस्येत्यादि। एतच गम्यगमकभावमाश्रित्यान्यः काव्यलिङ्गत्वेनाभ्युपगतमिति दर्शयितुमाह-मता- न्तर इत्यादि । एतदिति स्मरणम् । मतान्तर इल्यौद्भटे । यदुक्तम्- 'श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा । हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥' इति । इह पुनर्गम्यगमकभावादनुभूयमानस्मर्यमाणव्यवहारोऽपि विशिष्यत इति पृथगलं- कारतयतदुक्तम् । एतदुपसंहरनन्यदवतारयति-तदेत इत्यादि । एत इत्यु- पमाद्याश्चत्वारोऽलंकाराः । संप्रतीति । भेदाभेदतुल्यत्वाश्रयालंकारानन्तरम- मेदप्रधानं लक्षयितुमुचितत्वादवसरप्राप्ता वित्यर्थः । तत्र तावत्प्रथमं रूपकं लक्षयति अमेदप्राधान्य इत्यादि । वस्तुत इति । न तु प्रतीतितः । सद्भाव इति । प्रधानाप्रधानयोः संबन्धिशब्दत्वात् । अन्यत्रान्यापाप आरोप इति । अन्यत्रेति प्रकृते मुखादौ । अन्यस्येत्यप्रकृतस्य चन्द्रादेः । स च सामानाधिकर- प्येन वैयधिकरण्येन च निर्देशे भवति । न तु सामानाधिकरण्येन निर्देश एव सः । एवं हि-'याताः कणादतां केचित्' इत्यादावारोपसद्भावेऽपि न सामाना- धिकरण्यमस्तीति व्याप्तिः स्यात् । आर्थ सामानाधिकरण्यमस्तीति नाव्याप्तिरिति चेत्, न । भिन्नयोः सामानाधिकरण्येन निर्देशो ह्यारोपलक्षणम् । न च तदत्र निर्दिष्टम् । वैयधिकरण्येन निर्देशात्तस्यार्थावसेयत्वात् । अर्थावसायो निर्देशश्च नेक रूपम् । विप्रतिषेधात् । नीलमुत्पलमित्यादावपि गुणजातिरूपत्वेन भिन्नयोनीलो- त्पलयोः सामानाधिकरण्येन निर्देशादारोपः प्रसज्यत इत्यतिव्याप्तिः स्यात् । न चारोपे भिन्नयोः सामानाधिकरण्येन निर्देश उच्यत इत्यसंभवोऽपि । इति न निर- काव्यमाला। आरोपः । तस्य विषयविषय्यवष्टब्धत्वाद्विषयस्यापहवेऽपह्नुतिः। अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रूपकम् । साधर्म्यं त्वनुगतमेव । वद्यमेतदारोपलक्षणम् । यद्येवं तत्किंशब्दे शब्दान्तरमर्थे वार्थान्तरमारोप्यत इति चेट्रूमः । तत्र न शब्दे शब्दान्तरारोपः । मुखशब्दादेश्चन्द्रशब्दादिरूपत्वेनाप्रती- तेरन्योन्यविविक्तस्वविधान्तरूपोपलम्भादिति भवद्भिरेवोक्तत्वात् । किं त्वर्थेऽर्था- न्तरारोपः । स च प्रयोजनपरतया तथा निर्दिश्यते न भ्रान्त्या । अत एव शुक्ति- कायामिव रजतारोपो न मुखे चन्द्रारोपः । तस्य स्वरसत एवोत्थानेन भ्रमरूप- त्वात् । अत एव तत्रारोपविषयस्यारोप्यमाणेनाच्छादितत्वेन प्रतीतिः । इह पुन- जानान एव कश्चिचन्द्रविविक्तं मुखं तत्र प्रयोजनपरतया चन्द्रार्थमारोपयति । अत एवोक्तमारोपविपयानपह्नव इति । भवद्भिरप्यनेनैवाशयेन प्रतिपादनभ्रमोऽयं न भ्रान्ताप्रतिपत्तिरित्याद्युक्तम् । तस्येत्यारोपस्य विषयः प्रकृतः विषयी चाप्रकृतः। ताभ्यामवष्टब्धत्वं युक्तम् । यदुक्तम् –'सारोपान्या तु यत्रोक्तो विषयी विषय- स्तथा' इति । अन्यथेति । अपहवे । एवमनेनापहृतिरूपकयोर्भेदोऽप्युक्तः । आहुरिति दण्ड्यादयः । अतश्च साधर्म्यसद्भावात्तदनुयायिभेदत्रयानुप्राणितत्वम- यस्य ज्ञेयम् । यथा-'कंदर्पद्विपकर्णकम्बुमसितैर्दानाम्बुभिाञ्छितं संलग्नाजन- पुञ्जकालिकमलं गण्डोपधानं रतेः। व्योमानोकहपुष्पगुच्छमलिभिः संछाद्यमानोदरं पश्यैतच्छशिनः सुधासहचरं विम्बं कलवातितम् ॥' अत्र कलङ्कस्य दानाम्ब्वा- दिभिः प्रतिविम्बनम् । लाञ्छितत्वाङ्कितत्वयोः शुद्धसामान्यरूपत्वम् । सुधासह- चरत्वस्यानुगतत्वादनुगामितेति भेदत्रयानुप्राणितत्वम् । अनेन च सादृश्यनिमित्त एवारोपो रूपकमित्युक्तं भवति । केपांचिदपि संवन्धान्तरहेतुरप्यारोपो रूपकाङ्गमे- वेति मतम् । यदाहालंकारभाष्यकारः-'लक्षणापरमार्थ यावता रूपकस्वरूपं' इत्युपक्रम्य 'सारोपान्या च सादृश्यादा संवन्धान्तराद्वा' इत्यादि । स तु यथा- 'अमृतकवलः शोभाराशिः प्रमोदरसप्रपा सितिमशकटं ज्योत्स्नावापी तुषारघर- टिका । मनसिजसी शृङ्गारश्रीविमानमहो नु भो निरवधिसुखश्रद्धा दृष्टेः कृती मृगकेतनः ॥' अत्रेन्दुरूप कारणे कार्यरूपायाः श्रद्धाया आरोपः । ग्रन्थकृताप्र्य- लंकारानुसारिण्यामत्र श्रद्धाहेतुत्वाच्छ्रद्धेत्यभिधाया विशेषेणैकस्मिन्ननेकवस्त्वारोपा- न्मालारूपकमित्यभिदधतायमेव पक्षः कटाक्षितः । ननु चाप्यवसायगर्भाणामप्य- १. काश्मीरिकमहाकविजणप्रणीतसोमपालविलासकाव्यटीकायाम्.

अलंकारसर्वस्वम् । ४५ यदाहुः–'उपमैव तिरोभूतभेदा रूपकमिष्यते' इति । आरोपाद- मेदेऽध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालंकारविभागः । इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधम् । आद्यं केवलं मालारूपकं चेति द्विधा । द्वितीयं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधैव । तृतीयं श्लिष्टाश्लिष्टशब्दनिबन्धनत्वेन द्विविधं सत्प्रत्येकं केवलमाला. रूपकत्वाच्चतुर्विधम् । तदेवमष्टौ रूपकभेदाः । अन्ये तु प्रत्येक वाक्योक्तसमासोक्तादिभेदाः संभवन्ति तेऽन्यतो द्रष्टव्याः । क्रमेण यथा- दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकाङ्कुरकण्टकाग़- यखिद्यते तव पदं ननु सा व्यथा मे ॥' लंकाराणामभेदप्राधान्ये सति प्रथममारोपगर्भा अलंकाराः किमिति लक्षिता इत्या- शमाह-आरोपादित्यादि । चशब्दोऽन्यालंकारापेक्षया भेदसमुच्चयार्थः । विषयद्योतकस्तुशब्दः । अवयवेभ्यो निष्क्रान्त आरोप्यमाणो यत्र तत्तथोक्तम् । सहावयवैरारोप्यमाणो वर्तते यत्र तत्तथोक्तम् । परम्परयैकस्य माहात्म्यादपरस्या- रूपणत्वमायातं यत्र तत्तथोक्तम् । आद्यमिति निरवयवम् । माला चैकस्यानेकस्य वानेकारोपाद्भवति । एवं परम्परितत्वेन मालारूपकं ज्ञेयम् । द्वितीयमिति सावय- वम् । समस्तमारोप्यमाणात्मकं वस्त्वभिधाया विषयो यत्र तत्तथोक्तम् । एकदेश आरोपविषयाणामर्थात्तदात्मक एवारोप्यमाणप्रयोजनप्रतिपादनाय तद्रूपतया विवर्तते परिणमति यत्र तत्तथोक्तम् । तृतीयमिति परम्परितम् । यद्यपि श्लेषनि- बन्धनेऽस्मिन्गुणक्रियात्मकधर्मनिबन्धनस्य सादृश्यस्यासंभव एव । तथापि शब्द- मात्रकृतमेवाभेदाध्यवसायतः सादृश्यं ग्राह्यम् । अन्य इति एतद्भेदाष्टकव्यतिरिक्ताः। संभवन्तीति चिरंतनालंकारग्रन्थेष्वेव । न पुनर्लक्ष्यन्त इति भावः । तत्र हि तेषां ४६ काव्यमाला। 'पीयूषप्रसूतिर्नवा मखभुजां दानं तमोलूनये वर्गङ्गाविमनस्ककोकवदनस्रस्ता मृणालीलता । द्विर्भावः स्मरकामुकस्य किमपि प्राणेश्वरीसागसा- माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः ।।' 'विस्तारशालिनि नभस्तलपत्रपात्रे कुन्दोज्वलप्रभमसंचयभूरिभक्तम् (?) गङ्गातरङ्गघनमाहिपदुग्धदिग्धं जग्धं मया नरपते कलिकालकर्ण ॥' तत्त्वेऽप्येतद्भेदाष्टककृतमेव वैचित्र्यं प्रतीयते । तथा च-पादः कूमोऽत्र यष्टिर्भु- जगपतिरयं भाजनं भूतधात्री तैलापूराः समुद्राः कनकगिरिरयं वृत्तवर्तिप्ररोहः । अचिंचण्डांशुरुचगंगनमलिनिमा कजलं दह्यमाना वैरि श्रेणी पतझा ज्वलति नरपते त्वत्प्रतापप्रदीपः ॥' इत्यत्र सत्यपि वाक्यार्थोक्तत्वे समस्तवस्तुविषयकृतमेव वैचि- त्र्यम् । क्रमेणेति यथोद्देशम् । द्विर्भावः स्मरकामुकस्येत्यत्र च वाक्यार्थपर्यालोचन- येन्दोः स्मर का त्वारोपप्रतीतेः कुटिलत्याद्यनेक धर्मनिमित्तं सादृश्यमेव संबन्धः । इन्दोधेकस्य वह्व आरोपा इति मालारूपकम् । अनेकस्य तु यथा—'बाहू वाल- मृणालिके कुचतटी माणिक्यहर्म्य रतर्मुक्ताशैलशिला नितम्बफलकं हासः सुधानिझरः । वाचः कोकिलकूजितानि चिकुराश्चेतोभुवश्चामरं तस्यास्त्रस्तकुरङ्ग- शावकदृशः किं किं न लोकोत्तरम् ॥' अत्राने केषामनेकारोपाद्रूपकमाला । इयं च श्रेषनिवन्धनापि दृश्यते । यथा-'नेत्रे पुष्करसोदरे मधुमती वाणी विपाशा मतितो याति नदीनतां कलयते शोणत्वमस्याधरः । चारित्रं ननु पापसूदनमहो मामेष तीर्थाश्रयः स्नातुं वाञ्छति भूपतिः परमतीवोष्णोदकं वगति ॥' अत्रानेकेषां श्लिष्टा अनेक आरोपिता इति टिष्टार्थरूपकमाला । आभा- तीत्यत्र समायोक्तिमन्ये मन्यन्त इन्युदाहरणान्तरेणोदाहियते । यथा-'भवत्सं- वित्पु पश्रियमनुपमामोदमधुरां समुचिन्वन्नानाविषयवनराजीविकसिताम् । भवो- द्याने भक्त्या तव सह विशेषोल्लासि तया विहन्तुं व्यग्रः स्यामनुसृतविवेकप्रियसखाः॥' १. 'प्रभवसंग अलंकारसर्वस्वम् । ४७ 'आभाति ते क्षितिभृतः क्षणदाप्रमेयं निस्त्रिंशमांसलतमालवनान्तलेखा । इन्दुद्विषो युधि हठेन तवारिकीर्ती- रानीय यत्र रमते तरुणः प्रतापः ॥' क्षितिभृत इत्यत्र श्लिष्टपदं परम्परितम् । 'किं पद्मस्य रुचि न हन्ति नयनानन्दं विधते न वा वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् । वकेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव विम्बाधरे ॥' अत्र वक्रेण रूपणमहेतुकम् । पीयूषेणाधरामृतस्य श्लिष्टशब्दं रूपणम् । 'विद्वन्मानसहंस वैरिकमलासंकोचदीप्तद्युते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ॥' अत्र त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोप इति श्लिष्टशब्दं मालापरम्परितम् । भक्तेर्नायिकारोपस्याशाब्दत्वादेकदेशविवर्तित्वम् । 'पीयूषस्याधरामृतेन श्लिष्ट- शब्दनिरूपणम्' इति लेखककल्पितोऽयमपपाठो ज्ञेयः । अधरामृतस्य हि पीयूषण निरूपणमत्र स्थितम् । अतश्च 'अधरामृतस्य पीयूषेण श्लिष्टशब्दनिरूपणम्' इति पाठो ग्राह्यः । अत्र च पीयूषवदमृतशब्दस्याधररसावाचकत्वमन्ये मन्यन्त इत्युदाहरणान्तरमुदाहियते । यथा-'अलौकिकमहालोकप्रकाशितजगत्रय । स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान् ॥' अत्र मुक्तारत्नमित्यारोपपूर्वको वंश एव वंश इत्यारोप इति श्लिष्टशब्दं केवलपरम्परितम् । विद्वदित्यादिहंसरूपणामा- ४८ काव्यमाला। 'यामि मनोवाकायैः शरणं करुणात्मकं जगन्नाथम् । जन्मजरामरणार्णवतरणतरण्डं हराझियुगम् ।।' 'पर्यको राजलक्ष्म्या हरितमणिमयः पौरुषाव्धेस्तरङ्गो भग्नप्रत्यर्थिवंशोल्वणविजयकरिस्त्यानदानाम्बुपट्टः । सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः खगः क्षमासौविदल्लः समिति विजयते मालवाखण्डलस्य ॥' अत्र मासौविदल इति परम्परितमप्येकदेश विवर्ति । एवमाद- योऽन्येऽपि भेदा लेशतः सूचिता एव । इदं वैधयेणापि दृश्यते । यथा- हात्म्यान्मानसरूपणेति परम्परितम् । एवमर्णवरूपणा तरण्डारोपस्य हेतुरिति पर- म्परितम् । पर्यत इत्यत्रेकस्य वव आरोपा इति मालापरम्परितम् । अनेकस्य तु यथा-'श्रीःश्रीधरोरःस्थलखेन्दुलेखा श्रीकण्ठकण्ठाभ्रतडिच्च गौरी । शक्राक्षिपद्मा- करराजहंसी शची च वो यच्छतु मङ्गलानि ॥' अत्र वहुनामनेकारोपात्परम्परि- तमाला । एवमादय इति । परम्परितमप्येकदेशविवर्तीत्येवंप्रकाराः । सूचिता इति । एतच दर्शनादेव । ततश्च सावयवं द्विविधमपि श्लिष्टं दृश्यते । तत्र सम- स्तवस्तुविषयं यथा-'विहंढन्तोदलउडं फुरन्तदन्ताकारवहलकेसरपअरम् । पहरिमचन्दलोए हसि कुमुएण मुरहिगन्धोग्गारम् ॥' अत्र कुमुदस्य श्लिष्टत्वम् । एकदेशविवतिं यथा—'यत्तारामौक्तिकाघप्रकरपुलकितं चन्द्रिकाचन्दनाम्भोदिग्धं सप्तर्पिहस्तस्थितकरकपयोधौतमाकाशलिङ्गम् । तोयाधारे प्रतीचि च्युतवति दिनकृ. द्विम्बनिर्माल्यपद्म तस्या_पुण्डरीकं व्यधित हिमकरं सत्वरं मूर्ध्नि कालः ॥' अत्र कालविषये पूजकादिरारोप्यमाणो न शब्द इत्येकदेशविवर्तित्वम् । तोया- धारस्य समुद्रनिर्माल्योदकभाण्डवाचकन्वाच्छिष्टत्वम् । क्वचिचाभेदमेव द्रढयितुं विषयिणो निषेधपूर्वमारोप्यमाणत्वेन तदीयस्य वा भेदहेतोधर्मस्य हानिकल्पनेना- १. 'विघटदोएदलपुटं स्फुरदन्ताकारबहलकेसरप्रकरम् । ....."चन्द्रालोके हसितं कुमुदेन मुरभिगन्धोद्वारम् ॥' इति च्छाया.

अलंकारसर्वस्वम् । ४९ 'सौजन्याम्बुमरुस्थली सुचरितालेख्यामित्तिर्गुण- ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा । यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ॥' अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गत्वेऽपि कचित्खतोऽसंभ- वत्संख्यायोगस्यापि विषयसंख्यात्वं प्रत्येकमारोपात् । यथा-'कचि. धिक्येन वा दृढारोपत्वेनापीदं दृश्यते। क्रमेण यथा-'कलिप्रिया शश्वदपा- लिताज्ञावज्ञा गुरुज्ञातिषु दर्शयन्ती । जाया निजा या ननु सैव कृत्या कृत्या न कृत्या सरलस्य धार्मेः ॥' अत्र कृत्या निषेधपूर्व जायायामारोपिता। तन्निषेधेन हि जायाया कृत्यया दाढ्यन साम्यं प्रतीयते । कृत्या तथा न स्वकर्मणि व्याप्रियते। यथेयं तत्कर्मणीति ह्यत्र वाक्यार्थः । अत्र च यदन्ये विशेषालंकारमाहुस्तदभे- दालंकारनिराकरणादेव निराकृतमिति न पुनरायस्यते । होन्या यथा-'वनेच- राणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः । भवन्ति यत्रौषधयो रजन्यामते- लपूराः सुरतप्रदीपाः ॥' अत्रातैलपूरेण हानिकल्पनम् । आधिक्येन यथा- 'तुरीयो ह्येष मेध्योऽग्निराम्नायः पञ्चमोऽपि वा। अपि वा जंगमं तीयं धर्मो वा मूर्तिसंचरः ॥' अत्र तुरीयत्वादेर्धर्मस्याधिक्यम् । 'दृढतरनिवद्धमुष्टेः कोपनिष- ण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥' इत्यत्रापि दृढारोपमेव रूपकं ज्ञेयम् । अत्र हि कृपाणस्येति समुच्चीयमा- नत्वेन निर्देशाच्छाब्दस्यारोपस्याप्रतीतेरप्याकारमात्रेण भेदस्योक्तेर्वाक्यार्थपर्या- लोचनमाहात्म्यात्परिशिष्टसमस्तधर्मान्तरसद्भावाभ्यनुज्ञानात्पर्यवसाने दायें न विषयविषयिणोरभेदप्रतिपत्तिः । सैव च रूपकसतत्त्वमिति पूर्वमेवोक्तम् । अन्येऽपि भेदाः स्वयमेवाभ्यूयोदाहार्याः। वैधयेणापीति। न केवलं साध- म्र्येणेत्यर्थः । अस्य च विच्छित्तिविशेषान्तरं दर्शयितुमाह-अत्रेत्यादि । आवि- लिगत्वेऽपीत्यनेन धर्मिणः स्वरूपमात्रपर्यवसितत्वेऽपि धर्म्यन्तरसंबन्धिनः संख्यात्मनो धर्मान्तरस्यापि स्वीकार इत्यावेदितम् । असंभवत्संख्यायो- १. 'धस्सेः' ख. २. 'हान्या यथा' ख-पुस्तके नास्ति. ३. 'अप्रतीतत्वेऽपि' स. ४. 'पूर्वोक्तमेवोक्तम्' क. ४ अ. स.

५० काव्यमाला। जटावल्कलावलम्बिनः कपिला दावामयः' इत्यादौ । न हि कपिल- मुनर्बहुत्वम् । 'भ्रमिमरतिमलसहृदयतां प्रलयं मूछौं तमः शरीरसादम् । मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ।।' इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो विष. शव्दे श्लेष एव । जलदभुजगजमिति रूपकसाघकमिति । पूर्व सिद्ध- त्वाभावान्न तन्निबन्धनम् । विषशब्दे श्लिष्टशब्दं परम्परितमिति श्लेष एवात्रेत्याहुः। गस्येति । यद्यप्येकादिव्यवहारहेतुः संख्येति नील्या एकस्मिन्नपि द्रव्ये तद्योगः संभवति तथाप्यनेकद्रव्यवर्तित्वाद्यभिप्रायेणैतदुक्तम् । प्रत्येकमारोपादिति अयमग्निः कपिलोऽयमग्निः कपिल इत्येवंरूपात् । अतथारोप्यमाणस्य कपिलमुनेर्वहुत्वा- योगाद्विषयसंख्यत्वम् । श्लिष्टतानिवन्धनस्य परम्परितस्य श्लेषाद्वैलक्षण्यं द्योतयि- तुमाह-भ्रमिमिति । प्रभावित इति । प्रथममेव प्रतीतिगोचरीकृत इत्यर्थः । पूर्व सिद्धत्वाभावादिति । रूपकस्य श्लेपहेतुत्वात् । तन्निवन्धनमिति रूपक- निबन्धनम् । इतिशब्दो हेतौ । अतश्च श्लेष एवात्रालंकारो न परम्परितं रूपक- मित्यत्र तात्पर्यम् । चिन्त्यं चैतत् । यतः श्लेपस्तावद्वाच्ययोयोः प्रकृतयोरप्रकृ- तयोः प्रकृताप्रकृतयोश्च भवति । अत्र च न द्वयोः प्रकृतत्वं नाप्यप्रकृतत्वम् । वर्षासमये जलदस्येव जलस्य वर्णनीयत्वात् । प्रकृताप्रकृतयोश्च विशेषणसाम्य एव श्लेपो भवति इह तु विशेष्यस्यापि साम्यमिति शब्दशक्त्युत्थितस्य ध्वनेरयं विषयो न श्लेषस्य । अतश्च नात्र श्लेषालंकारः । नापि ध्वनिः । जलदभुजगजमिति रूपकमाहात्म्याच्छन्दशक्त्या गरलार्थस्याभिधानात् । एवमत्र श्लिष्टशव्दनिवन्धनं जलदभुजगजमिति । रूपकान्तरेणापि गरलार्थो यदि प्रतीयते तत्स ध्वनर्विषः स्यादित्युक्तम् । स्थिते तु जलदभुजगजमिति रूपके तन्माहात्म्यादेव विषशब्दे श्लिष्टशब्दनिबन्धनं रूपकम् । अन्यथा हि जलदभुजगजमिति रूपकं व्यर्थं स्यात् । १. 'रूपकमित्यनुचिन्त्यं चैतत्' क.

अलंकारसर्वस्वम् । ५१ आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः । : आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केव- लेनान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमति । आगमानुगमविगमख्यात्यभा- वात्सांख्यीयपरिणामवैलक्षण्यम् । तस्य सामानाधिकरण्यवैयधिकरण्यप्र- योगाद्वैविध्यम् । आयो यथा- 'तीर्खा भूतेशमौलिस्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय । व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदश्चदक्षं कृच्छ्रादवीयमानस्त्वरितमथ गिरि चित्रकूटं प्रतस्थे ।' तेन विना हि गरलार्थः प्रतीयत इत्यलं बहुना । आरोप्यमाणस्येत्यादि । आरोप्यारोपविषयभावसाम्येऽपि रूपकाद्वैलक्षण्यं दर्शयन्नेतदेव व्याचष्टे-आरो- प्यमाणमित्यादिना । प्रकृतोपरञ्जकत्वेनेति । यदुक्तम्-विषयिणा विष- यस्य रूपवतः करणाद्रूपकमिति । प्रकृतात्मतयेति । प्रकृताङ्गतयेत्यर्थः । उप- योग इति । तेन विना प्रकृतार्थस्यानिष्पत्तेः । परिणमतीति । प्रकृतमप्रकृत- व्यवहारविशिष्टतयावतिष्ठते । प्रकृतखरूपमात्रावस्थाने प्रकरणानिष्पत्तः । एव- मत्र प्रकरणोपयोगित्वाभावादित्यारोप्यमाणस्योपयोग इति चान्वयव्यतिरेकाभ्यां प्रकृतोपयोगित्वस्यासाधारणत्वं दर्शितम् । असाधारणत्वस्य हि धर्मस्य तत्त्वव्यव- स्थापकत्वाल्लक्षणत्वम् । अतश्च नास्त्येवालंकारान्तरेषु प्रकृतोपयोगित्वम् । एवम्- 'आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाप्यधिजग्मुषस्ते । पुत्रं लभखात्मगुणानुरूपं भवन्तमीज्यं भवतः पितेव ॥' इत्यत्रोपमायाम् । 'अत्रान्तरे सरखत्यवतरणवार्ता- मिव कथयितुमवततार मध्यमं लोकमंशुमाली' इत्यादावुत्प्रेक्षायाम् । 'मैन्दरमेह- क्खोहिअससिकलहंसपरिअ(मु)कसलिलोच्छङ्गम् । मरगअसेवालोवरिणिगण्णतु- १. 'मन्दरमेघपक्षोभितशशिकलहंसपरिमुक्तसलिलोत्सङ्गम् । मरकतशेवालोपरिनिए- पणतूष्णीकमीनचक्रवाकयुगम् ॥' इति च्छाया.

५२ १ काव्यमाला । अत्र सौमित्रिमैत्री प्रकृता आरोप्यमाणसमानाधिकरणान्तररूपत्वेन परिणता । आतुरस्य मैत्रीरूपतया प्रकृते उपयोगात् । तदत्र यथा समासोक्तावारोप्यमाणं प्रकृतोपयोगि तच्चारोपविषयात्मतया तत्र स्थि. तम् , अत एव तत्र तयवहारसमारोपः। एवमिहापि ज्ञेयम् । केवलं तत्र विषयस्यैव प्रयोगः । विषयिणो गम्यमानत्वात् । इह तु द्वयोरप्यभि- धानं तादात्म्यात्तयोः परिणामित्वम् । द्वितीयो यथा हिकमीणचक्काअजुअम् ॥' इत्यत्र च रूपके तथान्यालंकारेष्वाचिलमेव नोपयोगः। औचित्यं हि सिद्धस्य सतः प्रकृतार्थोपलम्भकं भवति । उपयोगः पुनः सिद्धावेव प्रकृतार्थहेतुतां भजते इत्यनयोर्महान्भेदः । तथा हि-'अनन्वये च शब्दक्य- मौचित्यादानुषङ्गिकम् । अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् ॥' इत्यत्रै- कस्यैव शब्दैक्यस्यौचित्योपयोगाभ्यां भेद उक्तः । अतश्चौचित्योपयोगयोर्भेदम- जानद्भिः सर्वत्रैव प्रकृतोपयोगित्वमन्यैर्यदुक्तं तदयुक्तम् । तस्माद्रूपकादन्य एव परिणामः । इह पुनः प्रकृतार्थस्याप्रकृतार्थारोपमन्तरेण सिद्धिरेव न भवतीति प्रकृतोपयोगितेव जीवितम् । 'दाहोऽम्भः प्रसूतिपचः प्रचयवान्बाष्पः प्रणालो. चितः श्वासाः प्रेसितदीप्रदीपलतिकाः पाण्डिनि मनं वपुः । किं वान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिवर्तते ॥' अत्र हि च्छवारोपमन्तरेण चन्द्रातपरोध एव न भवतीति तस्य प्रकृतोपयोगि- त्वम् । अतश्च प्रकृतमप्रकृततया परिणमतीति परिणामः । यद्येवं तर्हि सांख्यीय- परिणामादस्य को विशेष इत्याशङ्ख्याह-आरोपे(गमे)त्यादि । 'जहद्धर्मान्तरं पूर्वमुपादत्ते यदा ह्ययम् । तत्त्वादप्रच्युतो धर्मी परिणामः स उच्यते ॥' इति सांख्यीयपरिणामलक्षणम् । मैत्रीरूपतयेति । मैत्र्यात्मतयेत्यर्थः । उपयोगा- दिति । आतरमन्तरेण तरणायोगात् । अतश्च प्रकृते यत आतरस्योपयोगस्ततश्च प्रकृताया एव मैत्र्यास्तत्कार्यकारित्वात्तझ्यवहारारोपः । एतदेव दृष्टान्तमुखेनापि प्रतिपादयति-तदत्रेत्यादिना । अत्रेति परिणामे । समासोक्तौ चारोप्यमाणस्य १. 'प्रकृतोपयोगित्वे च'क. २. 'ततश्च' ख. ३. 'परिणामः कस्मान्न भवतीत्या. शङ्कयाह-आगमेत्यादि । यद्येवं तर्हि सांख्यीयपरिणामलक्षणम्' क.

अलंकारसर्वस्वम् । ५३ 'अथ पक्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः । क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरंगमायैः ।। राजसंघटने तूपायनमुचितम् । तच्चात्र वचोरूपमिति वचसा व्यधि- करणोपायनरूपत्वेन परिणामः । विषयस्य संदिह्यमानत्वे संदेहः । अभेदप्राधान्ये आरोप इत्येव । विषयः प्रकृतोऽर्थः । यद्भित्तित्वे. नाप्रकृतः संदिह्यते । अप्रकृते संदेहे विषयोऽपि संदिह्यत एव । तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालंकारः । स च त्रिविधः । शुद्धो निश्चयगर्भो निश्चयान्तश्च । शुद्धो यस्य संशय एव पर्यवसानम् । यथा- - प्रकृतोपयुक्तत्वम् । प्रकृतसिद्ध्यर्थमेवाप्रकृतस्याक्षेपात् । आरोप्यमाणमपि तत्र प्रकृतावच्छेदकत्वेन स्थितं न पुनराच्छादकत्वेनेत्याह-तञ्चेत्यादि । अत एवेति । आरोपविषयात्मकत्वादेव । तत्रेति समासोक्तौ । एतदेव प्रकृते योज- यति–एवमित्यादि । यद्येवं तर्हि समासोक्तिपरिणामयोः को विशेष इत्याश- क्याह-केवलमित्यादि । तयोरित्यभिधीयमानयोर्द्वयोः । उचितमिति । उपयुक्ततयेति शेषः । विषयस्येत्यादि । विषयविषयिणोः संबन्धिशब्दत्वाद्विष- यस्योक्तर्विषयिणोऽप्याक्षेपादत्र ग्रहणम् । तेन विषयस्य विषयिणश्च संदेहप्रतीति- विषयत्वं सूत्रार्थः । ननु विषयशब्देन विषयिशव्दस्य संबन्धिशब्दत्वादाक्षेपेऽपि विना वचनमाक्षेपमात्राद्विपयिणः कथं संदिह्यमानता लभ्यत इति चेत्, न । अनियतोभयाशावलम्बिविमर्शरूपत्वाद्विषयमात्रगतत्वेनासंभवात्संदेहस्यान्यथानुप- पत्त्या विषयिणस्तत्संबन्धित्वं लभ्यत एवेति यथासूत्रितमेव ज्यायः । एतदेव विभज्य व्याचष्टे-विषय इत्यादिना । यद्भित्तित्वेनेति । अन्यथा ह्यप्रकृ- तस्य निर्विषयत्वमप्रस्तुताभिधानलक्षणो वा दोषः स्यादिति भावः । तेन विषयभि- त्तितया विषयिणामेव तथाभावो भवतीत्याशयाह-अप्रकृतेत्यादि । विष- योऽपीति । न केवलं विषयिण एव संदिह्यमानत्वं यावद्विषयस्यापीलपि श- ब्दार्थः । तेन क्वचिद्विषयिणामेव संदिह्यमानत्वं क्वचिच विषयविषयिणोर- १. 'यत्र' ख.

काव्यमाला। 'किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिघेः । उदाढोत्कलिकावतां खसमयोपन्यासविस्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ॥' निश्चयगों यः संशयोपक्रमो निश्चयमध्यः । संशयान्तश्च । स यथा- 'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं साक्षात्प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरा- समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः॥' निश्चयान्तो यत्र संशय उपक्रमो निश्चये पर्यवसानम् । यथा- 'इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः ॥' क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते । यथा- प्यलंकारो भवेत् । उभयत्रापि सामान्यलक्षणानुगमात् । अनियतोभयांशावलम्बी हि विमर्शः संशयः । स च विषयिणामेव भवति । विषयविपयिणोरेव संदिह्यमान- त्वात् । अत एव च प्रकृताप्रकृतगतत्वेनेति यथासंभवं योज्यम् । प्रतिभूत्थापित इति न पुनः स्वरसोत्थापितः । स्थाणुर्वा पुरुषो वेत्येवमादिरूप इत्यर्थः । एतदेव भेदत्रयं विवृण्वन्नुदाहरति-शुद्ध इत्यादि । अत्र प्रकृतायास्तन्व्याः संदेहप्रती- तिविषयत्वाभावाद्विषयिणां मजर्यादीनामेव संदेहः । विषयविषयिणोर्यथा-'किं पङ्कजं किमु सुधाकरबिम्बमेतत्किं वा मुखं क्लमहरं मदिरेक्षणायाः। यदृश्यते मधुकराभकुरङ्गकान्तिनेत्रद्वयानुकृति कार्ण्यममुष्य मध्ये ॥' अत्र क्लमहरत्वादिः समानो धमाऽनुगामित्वेनोपात्तः । क्वचिद्वस्तुप्रतिवस्तुभावेनापि भवति । यथा- 'किमिदमसितालिकलितं कमलं किं वा मुखं मुनीलकचम् । इति संशेते लोकस्त्वयि सुतनु सरोवतीर्णायाम् ॥' अत्रासितत्वसुनीलत्वयोः शुद्धसामान्यरूपत्वम् । अलि- १. 'तिरः' क. २. 'इह' ३. 'भिन्नविषयत्वेन' क.

अलंकारसर्वस्वम् । ५५ 'रजिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ॥' अत्रारोपविषयतिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम् । के- चित्त्वध्यवसायोश्रयत्वेन संदेहप्रकारमाहुः । अन्ये तु नुशब्दस्य संभा- वनाद्योतकसत्तादुत्प्रेक्षाप्रकारमिममाचक्षते- सादृश्यावस्त्वन्तरप्रतीतिर्धान्तिमान् । कचानां च विम्बप्रतिविम्वभावः । एवं चास्य सादृश्यनिमित्तत्वात्समानधर्मानेक. धर्मनिमित्तत्वेन द्विभेदत्वं न व्याकार्यम् । सादृश्यनिमित्तत्वेनैवास्य संग्रहसिद्धेः विप्रतिपत्त्यादिनिमित्तान्तरवचारुत्वाभावाच। भिन्नाश्रयत्वेनेति वैयधिकरण्येन । अत्रैव पक्षान्तरमाह-केचिदित्यादि । अनेन च संदेहस्याध्यवसायमूलत्वमपि ग्रन्थकृतैवोक्तम् । तेनाध्यवसायाश्रयोऽप्ययं वरूपहेतुफलानां संदिह्यमानत्वेन त्रिधा भवति । तत्र स्वरूपसंदेहो यथा-'रजिता' इत्यायेव। यथा वा-'एतत्त- र्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिकान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विपि । कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैरक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः ॥' अत्र कौमुदीधवलिन्नः कर्पूरपूरणादिनाध्यवसितत्वादध्यव- सायमूलत्वम् । हेतुसंदेहो यथा-'देवि त्वचरणाम्बुजस्मृतिविधौ गाढावधान- स्पृशां धन्यानां प्रसरन्ति संतततया ये वाष्पधाराभराः । किं ते स्युश्चिरकाल- भावितभवाप्रश्नक्रियावेगतः किं वासादितमुक्तिचन्द्रवदनासंदर्शनानन्दतः॥' अत्रा- श्रुहेतोरानन्दस्य संसारवियोगो मुक्तिसांमुख्यं चेति हेतुद्वयमध्यवसितम् । फल- संदेहो यथा-'नृत्तान्ते पारिजातं किमु विघटयितुं प्रष्टुमाकाशगङ्गां किंविदा चन्द्रसूर्यों किमु विदलयितुं श्वेतरक्ताजवुद्ध्या । लन्धुं नक्षत्रमालाभरणभरमुत स्वर्गजं वाभियोढुं दूरोदस्तः समस्तस्तव गणपतिना स्वस्तये सोऽस्तु हस्तः ॥' अत्र कैरिणो निष्पादनस्य विघटनादिफलमध्यवसितम् । अत्रैवादिशब्दवन्नुशब्दस्य संभा- वनाद्योतकत्वात्पक्षान्तरेमपि दर्शयितुमाह-अन्य इत्यादि । अतश्च रजिता इवेत्यर्थः । पूर्वत्रार्थे तु नुशन्दो वितर्कमात्र एव व्याख्येयः। सादृश्यादित्यादि । १. 'रागादेः' ख. २. 'अयणेन' ३. 'कारणादि' क. ४. 'अत्रैव चेवादिशब्दस्य संभावना' क. ५. 'इदं' क.

५६ काव्यमाला। असम्यग्ज्ञानत्वसाधर्म्यात्संदेहानन्तरमस्य लक्षणम् । प्रान्तिश्चित्त- धर्मः। स विद्यते यस्मिन्मणितिप्रकारे स प्रान्तिमान् । सादृश्यप्रयुक्ता च प्रान्तिरस्य विषयः । यथा- असम्यग्ज्ञानं त्वसाधर्म्यादिति न पुनरारोपगर्भत्वसाजाल्याल्लक्षितमिति भावः। आरोपो हि विषयविषयिणोर्युगपदेकप्रमातृविषयीकृतत्वे भवतीति नारोपगर्भो भ्रमः क्वचिदपि संभवति। शुक्तिकादीनां शुक्तिकादिरूपतयावगमे रजताभिमानाभावात् । ननु भ्रा. न्तिश्चित्तधर्मः स यस्यास्ति सभ्रान्तिमानिति वक्तुं न्याय्यं तत्कथमलंकारस्यैतदभिधा- नमित्याशङ्कयाह-भ्रान्तिरित्यादि । स इति भणितिप्रकारः अतथालंकारे भ्रान्ति- सद्भाव उपचरित इति भावः । सादृश्यप्रयुक्तेति। न तु 'कामशोकभयोन्मादचौर- खप्नाद्युपप्लुताः। अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥' इत्याद्यभिहितावान्त- रनिमित्तोत्थापितेत्यर्थः । अतश्च सादृश्यनिमित्तैव भ्रान्तिरलंकारविषय इति तात्प- र्यार्थः । एवं च 'प्रासादे सा पथि पथि च सा पृष्टतः सा पुरः सा पर्य” सा दिशि दिशि च सा तद्वियोगातुरस्य । हहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः॥' इत्यत्रैकस्या एव परिमिताया अपि योषितो गाढानुरागहेतुकं तन्मयतानुसंधानं प्रासादादावनेकत्र युगपत्प्रतीतौ निमित्तमिति न श्रान्तिमदलंकारः । स हि प्रासादादेवल्लभारूपत्वेन प्रतीतौ स्यात् । अन्यस्या- न्यरूपत्वेन सम्यगभिधानात्मानिश्चयो हि भ्रान्तिमल्लक्षणम् । न च प्रासादादि- वल्लभात्वेन प्रतीयत इति स्फुट एवायं विशेषालंकारस्य विषयः । अथ प्रासादा- दावभूताया अपि वल्लभाया दर्शनाद्रान्तिरिति चेत्, नैतत् । एवं पत्र भ्रान्ति- मात्रं स्यान्नालंकारः । गाढानुरागात्मकनिमित्तसामर्थ्यात्स्वरसत एव प्रासादादा- वसत्या अपि युवत्याः प्रतीतिसमुल्लासाः। कविप्रतिभानिवर्तित्वाभावात् । 'देव- मपि हर्ष पितृशोकविह्वलीकृतं श्रियं शाप इति महीं महापातकमिति राज्यं रोग इति भोगान्भुजगा इति निलयं निरय इत्यादिमन्यमानं' इत्यादावपि न भ्रान्ति- मलंकारः । तत्र हि विषयानवगम एव निमित्तसामर्थ्यावरसत एव विषय- प्रतीतिरुलसेत् । शुक्तिकादीनां शुक्तिकादिरूपतयावगमे रजताद्यभिमानानुदयादिति समनन्तरमेवोक्तत्वात् । इह पुनर्विपयरूपां श्रियमवगम्यापि श्रीहर्षेण पितृशोक- १. 'तस्य' ख. २. भ्रान्तिमच्यम्दः' क.

अलंकारसर्वस्वम् । 'ओष्ठे विम्बफलाशयालमलकेषूत्पाकजम्बूधिया कर्णालंकृतिभाजि दाडिमफलप्रान्त्या च शोणे मणौ । निष्पत्त्या सकृदुत्पलच्छददृशामात्तक्लमानांमरौ राजन्गूर्जरराजपञ्जरशुकैः सद्यस्तृषा मूछितम् ॥' विह्वलीकृतत्वाच्छापत्वेन भाव्यत इति विषमालंकारो ज्यायान् । 'दातुं वाञ्छति दक्षिणेऽपि नयने वामः करः कजलं भौजंगं च भुजोऽगदं घटयितुं वामेऽपि वामे- तरः । इत्यं खं स्वमशिक्षितं भगवतोरधं वपुः पश्यतोः साधारस्मितलाञ्छितं दिशतु नो वक्रं मनोवाञ्छितम् ॥' इत्यत्रापि संस्कार एवालंकारो न भ्रान्तिमान् । अत्र हि भगवत्या नेत्रद्वयाञ्जनदानसतताभ्यासाद्वामनेत्राजनदानानन्तरं दक्षिणनेत्रा- अनदानवासनानुरोधो जायत इति संस्कारस्यैव वाक्यार्थत्वम् । अथात्र संस्का- रप्रवोधं विना तदभावादअनदानसंस्कारहेतुका भगवदर्धस्य स्वार्थत्वेनाभिमानरूपा भगवत्या भ्रान्तिरेवेति चेत् , नैतत् । प्रत्युतात्र हि भगवदर्धस्य तथात्वेनैवावग- मादजनदा संस्कारो न प्ररोहमुपागत इति कारणस्यैव स्खलद्गतित्वात्तत्कार्यस्य भ्रमस्योत्पाद एव न संभवतीति न भ्रान्तिमतोऽवकाशः । प्ररूढ एव हि संस्कारो भ्रमः । खात्ममात्रावस्थितस्तु संस्कारालंकारः । अत एव दातुं वाञ्छतीत्युक्तम् । एवं चात्र नेत्रद्वयाजनदानसंतताभ्यासहेतुकः संस्कार एव प्रतीयते न तु तन्निमि- तकोऽपि भ्रमः परमः । परमेश्वरार्धस्य तथात्वेनैवावगमात्तद्गन्धस्याप्यभावात् । अत एवाशिक्षितं स्मितलाञ्छितं चेत्युक्तम् । अवान्तर एवानयोर्विशेषोऽलंकारभाष्य एवोक्त इति तत एवानुसतव्य इति । एवं च सादृश्यनिमित्तैव भ्रान्तिरलंकारवि- पयो न निमित्तान्तरोत्थापितेति न लक्षणस्याव्यापकत्वं वाच्यम् । एवं सादृश्य- निमित्तकत्वादस्य साधारणधर्मस्यापि त्रयी गतिः । तत्रानुगामिता यथा-'नीलो- त्पलमिति भ्रान्त्या विकासितविलोचनम् । अनुधावति मुग्धाक्षि पदय मुग्धो मधु- व्रतः ॥' अत्र विकासीत्यनुगामित्वेन निर्दिष्टो धर्मः । शुद्धसामान्यरूपत्वं यथा-'अयमहिमरुचिर्भजन्प्रतीची कुपितवलीमुखतुण्डताम्रविम्वः । जलनि- धिमकरैरुदीक्ष्यते द्राइवरुधिरारुणमांसपिण्डलोभात् ॥' अत्र ताम्रत्वारुणत्वयोः १. 'व्युत्पत्त्या' क. २. 'भगवतोः' ख. ३. 'नेत्राजन' क. ४. 'संस्का- रप्ररोहमुपगतः' क. ५. संस्कारः' क. तु ५८ । काव्यमाला । गाढमर्मप्रहारादिना तु प्रान्ति स्यालंकारस्य विषयः । यथा- 'दामोदरकराघातचूर्णिताशेषवंक्षसा । दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥'.. सादृश्यहेतुकापि भ्रान्तिर्विच्छित्त्यर्थं कविप्रेतिमोत्थापितैव गृह्यते । यथोदाहृतं न स्वरसोत्थापिता शुक्तिकारजतवत् । एवं स्थाणुर्वा स्यात्पु. रुषो वा स्यादिति संशयेऽपि बोद्धव्यम् । एकस्यापि निमित्तवशादनेकधा ग्रहणमुल्लेखः । शुद्धसामान्यरूपत्वम् । विम्वप्रतिबिम्वभावो यथा-'पुसिआ कण्णाहरणेन्दणील- किरणाहआ ससिमऊहा । माणिणिवअणम्मि सकजलंसुसङ्काए दइएण ॥' अत्र सकजलत्वेन्द्रनीलकिरणाहतत्वयोविम्बप्रतिविम्वभावः । सादृश्यनिमित्तत्वं चास्य द्रढयितुं प्रत्युदाहरति-गाढेत्यादिना । सादृश्यनिमित्तकत्वेऽपि कविप्रतिभो- त्यापितैव भ्रान्तिरस्यैव विषयो न पुनर्वास्तवीलाह-सादृश्येत्यादि । उदा. हृतमिति । ओप्टे विम्ब फलाशयेत्यादि । एतदेव संदेहेऽपि योजयति-एवमि- त्यादि। संशय इति । अर्थादारोपगर्भ एव । तत्रैव ह्यस्य सादृश्यं निमित्तम् । अध्यवसायमूले हि संदेहे सादृदयात्संबन्धान्तराद्वा विषयविषयिणोः संदिह्यमानत्वं स्यात् । यथोदाहृतं प्राक् । एवमारोपगंर्भत्व एव सादृश्यं विना नायमलंकार इत्य- वगन्तव्यम् । तस्मादविशेषेणेव साधम्यं विहायापि निमित्तान्तरमवलम्व्य नास्या- लंकारत्वं वाच्यम्। सादृश्येऽपि कविप्रतिभोत्थापितस्यैवालंकारत्वं न पुनः स्वारसि- कस्येति। एकस्यापीति । अनेकथा ग्रहणमिति न पुनरनेकधा कल्पनम् । ग्रहणं हि खारसिक्यामुत्पादितायां च प्रतिपत्तौ संभवति न तु वारसिक्यामेव । यदाहुः- 'अतःशब्दानुसंधानवन्ध्यं तदनुबन्धि वा। जात्यादिविषयग्राहि सर्व प्रत्यक्षमिष्यते॥' १. 'चक्षुषा' ख. २. 'प्रतिभैव' ख. ३. 'प्रोञ्छिताः कर्णाभरणेन्द्रनीलकिरणा. हताः शशिमयूखाः। मानिनीवदने सकजलाश्रुशङ्कया दयितेन ॥' इति च्छाया. ४. 'निमित्तकत्वमेव चास्य' ख. ५. 'गर्भ एव सादृश्येऽपि . नायमेवालंकारः' क. ६. 'अशेषेणैव' क.

अलंकारसर्वस्वम् । ५९ तु यत्रैकं वस्त्वनेकधा गृह्यते स रूपबाहुल्योल्लेखनादुल्लेखः । न चेदं निर्निमित्तमुल्लेखमात्रमपि नानाविधधर्मयोगित्वाख्यनिमित्तवशादेत- क्रियते। तत्र रुच्यर्थित्वव्युत्पत्तयो यथायोगं प्रेयोजिकाः। तदुक्तम्- 'यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते । आभासोऽप्यर्थ एकस्मिन्ननुसंधानसाधिते ॥' इति ॥ यथा-'यस्तपोवनमिति मुनिभिः कामायतनमिति वेश्याभिः संगीतशालेति लासकैः' इत्यादि हर्षचरिते श्रीकण्ठाख्यजनपदवर्णने । अत्र ह्येक एव श्रीकण्ठाख्यो जनपदस्तद्गुणयोगात्तपोवनाद्यनेकरूपतया निरूपितः । रुच्यर्थित्वव्युत्पत्तयश्च प्रायशः समस्तव्यस्ता योजयितुं शक्यन्ते । नन्वतन्मध्ये 'वज्रपञ्जरमिति शरणागातैरसुरविवरमिति इति। कल्पनं पुनरुक्ताद्यं प्रतिपत्त्येकगामीति खारसिक्यां प्रतिपत्तौ न संभवतीत्युभय. त्रापि व्यापकत्वाद्यथासूत्रितमेव युक्तम् । रूपवाहुल्येति । अत एवामुखे वस्त्वन्तरप्रतीतिरस्त्येव । अन्यथा ह्येकस्यानेकधाग्रहणमेव न स्यात् । अत एवं चास्य भ्रान्तिमदनन्तरमेव लक्षणम् । एकस्य च न स्वातव्येणानेकधाग्रहणमपि तु तत्प्रयोजनवशादिलाह-न चेदमित्यादि । एतदिति । अनेकधा ग्रहण. मेकस्यैव नानाविधधर्मयोगिनः स्वातन्येण प्रतीतिगोचरीभावात्कथमेकैकधर्मविषय- मनेकधाग्रह्ण युक्तमित्याशझ्याह-तत्रेत्यादि । तत्रेत्यनेकधाग्रहणे । खातन्येण विकल्पनं रुचिः । अर्थक्रियाभिलापपरत्वमर्थित्वम् । वृद्धव्यवहारशरणता व्युत्पत्तिः। उक्तमिति श्रीत्यभिज्ञायाम् । तत्तद्गुणयोगादिति विविक्तत्वादिनानाविधधर्मसंव- न्धात् । मुनीनां तपोवनविषयमर्थित्वम् । वेश्यानां च कामायतनविषयमर्थित्वम् । एवं लासकानां तु संगीतशालाविषया व्युत्पत्तिरर्थित्वं च । प्रायश इत्यनेन रुचि. रत्र नास्तीति सूचितम् । ननु योऽयं श्रीकण्ठाख्यजनपदवर्णनग्रन्थखण्ड उदाहरण- त्वेनानीतस्तत्रालंकारान्तरसंवन्धोऽप्यस्तीति कथमेतद्विषय एवेत्याह-नन्वित्या. १. 'योगत्वात्' क. २. 'प्रजीविकाः' क. ३. 'आखण्ड्येन' क. ४. काश्मीरिक- श्रीमदुत्पलाचार्यप्रणीतायामीश्वरप्रत्यभिशायाम्.

६० काव्यमाला। चातिकैः' इत्यादौ रूपकालंकारयोग इति कथमयमुल्लेखालंकारविषयः। सत्यम् । अस्ति तावत् 'तपोवनं' इत्यादौ रूपकविविक्तोऽस्य विषयः। यदत्र वस्तुतस्तद्रूपतायाः संभवः । यत्र तु रूपकं व्यवस्थितं तत्र चेदि- यमपि भनिः संभाविनी तत्संकरोऽस्तु । न त्वेतावतास्याभावः शक्यते वक्तुम् । ततश्च न दोषः कश्चित् । एवं हि तत्र विषये प्रान्तिमद- लंकारोऽस्तु । अतद्रूपस्य तद्रूपताप्रतीतिनिवन्धनत्वात् । नैतत् । दिना । एतदेवाभ्युपगम्य प्रतिविधत्ते-सत्यमित्यादिना । तावच्छब्दो रूपकाभावविप्रतिपत्तिद्योतनार्थम् । तद्रूपताया इति तपोवनादिरूपतायाः । अत्रापि यदन्यैरवयवावयविभावसंबन्धात्सारोपाया लक्षणायाः सत्त्वाद्रूपकालंकारमाशय विविक्तस्य चिन्त्यत्वमुक्तं तदयुक्तम् । अवयवावयविभावसंवन्धाभावाल्लक्षणाया एवासत्त्वात्। न हि श्रीकण्ठाख्ये जनपदे तपोवनमवयवन्यायेन कुत्राप्येकदेशेऽस्ति यत्तत्रावयविनि मुनिभिरारोपितम् । किं तु तत्तद्गुणयोगिनः श्रीकण्ठस्य विविक्त- त्वादितपोवनादिगुणमुखेन निजनिजवासनानुसारेणार्थित्वादिना मुनिप्रभृतीनामीह- गाभासः । अथापि यद्यस्त्यवयवावयविभावविवक्षा तल्लक्षणामात्रं न रूपकम् । तस्य लक्षणापरमार्थत्वेऽपि विषयिणा विषयस्य रूपवतः करणादलंकारत्वम् । अन्यथा तु लक्षणामात्रमेव । नहि लक्षणापि रूपकपरमार्था इह च तपोवनाद्यारोपेणारोप- विषयस्य नातिशयः कश्चित् । वस्तुत एव तद्रूपतायाः संभवात् । अतश्च स्थित एवात्र रूपकविविक्तोऽस्य विषयः । न केवलमन्यालंकारविविक्तोऽयमेवास्य विषयो यावद्यत्रापि रूपकालंकारयोगोऽस्ति तत्राप्ययं संभवत्येवेति दर्शयितुमाह-यो- त्यादि । इयमपि भगिरिति एकस्यानेकधाग्रहणरूपा । एतावतेति रूपकप्रयोग- मात्रेण । ततश्चेति रूपकोल्लेखयोः संकरात् । ननु यंत्र रूपकयोगो नास्ति तदलं कारान्तरयोगः संभवतीलाह-एवं हीत्यादि । अतद्रूपस्येति । अतपोवन- रूपस्यापि तपोवनरूपत्वोपनिवन्धनात् । अतस्मिंस्तद्हो भ्रम इत्येतदेव हि भ्रम- सतत्त्वम् । अपूर्वस्येति भ्रान्तिमदसंभविनः । तद्धेतुकत्वादिति अनेकधाग्रहणाख्या- १. 'कर्तुम्' क. २. 'अन्यत्रापि' ख. ३. 'वैचित्र्यस्य' क. ४. 'यद्यत्र रूप- कप्रयोगो नास्ति तदलंकारप्रयोगे न संभवतीत्याह' क.

अलंकारसर्वस्वम् । ६१ अनेकधाग्रहणाख्यस्यापूर्वस्यातिशयस्याभावात् । तद्धेतुकत्वाच्चास्यालं. कारस्य संकरप्रतीतिस्त्वङ्गीकृतैव । यद्येवम् , अभेदे भेद इत्येवंरूपा. तिशयोतिरत्रास्तु । नैष दोषः । ग्रहीतृभेदाख्येन विषयविभागेनानेक- धात्वोट्टकनात्तस्य च विच्छित्यन्तररूपत्वासर्वथा नास्यान्तर्भावः शक्य. क्रिय इति निश्चयः । यथा वा- 'णाराअणो ति परिणअवआहिँ सिरिवल्लहो ति तरुणीहिं । बालाहिं उण कोदूहलेण एमे अ सच्चविओ ॥' एवम् 'पृथुरुरसि अर्जुनो यशसि' इत्यादाववसेयम् । इयांस्तु विशेषः-पूर्वत्र ग्रहीतृभेदेनानेकघात्वोल्लेखः, इह तु विषयभेदेन । नन्वनेकघात्वोल्लेखने गुर्वादिरूपतया श्लेष इति कथमलंकारान्तरमत्र स्थाप्यते । सत्यम् । अनेकधात्वनिमित्तं तु विच्छित्त्यन्तरमत्र दृश्यते तिशयनिमित्तकत्वात् । यदि चात्र भ्रान्तिमानप्यस्ति तत्तेन सहास्य संकर एवा- स्त्वित्याह-संकरेत्यादि । यद्येवमिति । भ्रान्तिमतोऽस्य विशेषस्तेन सहास्य संकरो वेत्यर्थः। एष इति अतिशयोक्तिसद्भावः। तस्येति ग्रहीतृभेदाख्यस्य विभौवस्य विच्छित्त्यन्तरत्वमेव हि सर्वेषामलंकाराणां भेदहेतुः। तदेवं तत्तच्छदानिरासपूर्वम- मुमेव सिद्धान्तीकृत्य पुनरप्युदाहरति-णाराअणोत्तीति । अत्र च नारायण- त्वाद्युल्लेखने वृद्धाप्रभृतीनां यथाक्रमं व्युत्पत्त्यर्थित्वरुचयः । एतदेवान्यत्रापि योजयति-एवमित्यादि । विशेष इति पूर्वस्मात् । विषयमेदेनेति वचना- दिभिन्नत्वेन । अनेकधात्वोल्लेखे गुर्वादिरूपतया श्लेष इति गुर्वादीनामुभयार्थवाचि. त्वात् । तत्प्रतिभोत्पत्तिहेतुरिति । श्लेषमन्तरेणात्रोल्लेखानिप्पत्तेः । तदभाव इत्युल्लेखाभावः । अतश्चेति । श्लेपाभावेऽप्येतद्विच्छित्तिसंभवात् । एवंविध इति विषयभेदरूपे। तत्तु यथा-'सब्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे १. 'नारायण इति परिणतवयोभिः श्रीवल्लभ इति तरुणीभिः। बालाभिः पुनः कौतूहलेन एवमेव सत्यापितः ॥' इति च्छाया. २. 'विषयभावगम्यविच्छित्त्यन्तरत्वमेव' क. ३. 'तत्तदीयशङ्का' ख.

६२ काव्यमाला। इति तत्पतिमोत्पत्तिहेतुः श्लेषोऽत्र स्यात् । न तु सर्वथा तदभावः । अतश्चालंकारान्तरम् । यदेवंविधे विषये श्लेषाभावेऽपि विच्छित्तिस- द्भावः । तस्मादेवमादावुल्लेख एव श्रयान् । एवमलंकारान्तरविच्छि- त्याश्रयेणाप्ययमलंकारो निदर्शनीयः। सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेा जह्वसुतावलोकनविधी दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥' अत्रैकस्या एव दृष्टेस्तत्तद्विषयभेदेन नानात्वोल्लेखनम् । तदयं द्विप्रकारोऽपि रूपकाद्याश्रयवद- न्यालंकाराश्रयोऽपि संभवतीत्याह-एवमलंकारान्तरेत्यादि । तत्राद्यः प्रकारः संदेहाश्रयो यथा-'किं भानुः किमु चित्रभानुरिति यं निश्चिन्वते वैरिणः किं चिन्तामणिरेष कल्पविटपी किं वेति चाशागताः । किं पुष्पाकर एप पुष्पविशिखः किं वेति रामार्जनः किं रामः किमु जामदग्न्य इति वा यं धन्विनो मन्वते ॥' अत्रैकस्यैव संदिह्यमानत्वेनानेकधात्वोल्लेखनम् । अति- शयोक्त्याश्रयश्चायमेव यथा-'वज्रं सौराज्यसाक्षी परिकलितमहाः शक्ति- मा पराधो दण्डं खमं रिपुस्त्रीप्रसभहरणवित्कूपवाप्यादिदृश्वा । पाशं पाणा. वपश्यन्ध्वजमपि वलवित्कोपवेदी गदां च स्वाच्छन्द्यज्ञस्त्रिशूलं लिखति कर, तले देव चित्राकृतेते ॥' अत्र त्वमेवेन्द्र इत्याद्यतिशयोक्त्या लोकपालाभेदो राज्ञ उपलभ्यते इलेकस्याने कथात्वोदेखनम् । विषयभेदेन च रूपकाश्रयो यथा- 'म_देर्धातुरागस्तरुषु किसलयं विद्रुनौघः समुद्रे दिल्यातङ्गोत्तमाङ्गेष्वभिनवनिहितः सान्द्रसिन्दूररेणुः । सीन्नि व्योम्नश्च हेनः सुरशिखरिभुवो जायते यः प्रकाशः शोणिम्नासौ खरांशोरुषसि दिशतु वः शर्म रश्मिप्रतानः ॥' अत्रैकस्यैव विषयभेदेन रूपकाश्रयं नानात्वम् । 'कारकान्तर' इत्यपपाठः। प्रकृतकारकविच्छित्त्याश्रयस्यै- वानुत्तत्वात् । अयं स्वरूपहेतुफलोल्लेखनरूपत्वात्रिधा । तत्र स्वरूपोल्लेखः समन- न्तरमेवोदाहृतः । हेतूलेखस्तु यथा—'सर्गहेतोः सदा धर्मः स्थितिहेतोरपि प्रजाः । द्विपः संहारहेतोश्च विदुस्त्वां जातमात्मनः ॥' अत्रैकस्यैव जन्मनो हेतू- नामनेकधात्योदेसनम् । फलोल्लेखस्तु यथा-'धर्मायैव विदन्ति पार्थिव यथाशास्त्रं १. टेपोऽत्र....... स्यात्' क. २. 'यद्येवं' क. ३. 'असद्भावः' क. ४. 'जनाः' क-ख.

अलंकारसर्वस्वम् विषयस्यापहवेऽपह्नुतिः। वस्त्वन्तरप्रतीतिरित्येव । प्रक्रान्तापह्नववैधम्र्येणेदमुच्यते । आरोप- प्रस्तावादारोपविषयापद्धतावारोप्यमाणप्रतीतावपडल्याख्योऽलंकारः । तस्य च त्रयी बन्धच्छाया-अपह्रवपूर्वक आरोपः । आरोपपूर्वकोऽ- पहवः । छलादिशब्दैरसत्यत्वप्रतिपादकैर्वापहवनिर्देशः । पूर्वोक्तभेद- द्वये वाक्यभेदः । तृतीयभेदे त्वेकवाक्यम् । आयो यथा- प्रजाः पालिता अर्थायैव च जानतेऽन्तरविदः कोषैकदेशस्य ये। कामायैव कृता- र्थतामुपगता नार्यश्च निश्चिन्वते मोक्षायैव च वेर्दै जन्म भवतः कश्चिद्विपश्चि- जनः ॥' अत्रैकस्यैव जन्मनः फलानामनेकधात्वोल्लेखनम् । विषयस्येत्यादि । वस्त्वन्तरेति । भ्रान्तिमतोऽनुवर्तत इति शेषः । अत एव केचन मण्डूकष्ठति- न्यायेनानुवर्तनस्यानुचितत्वाद्रान्तिमदनन्तरमपह्नुतिर्ग्रन्थकृता लक्षिता उल्लेखश्चा- तिशयोक्त्यनन्तरमिति ग्रन्थं विपर्यासितवन्तः । न चैतत् । यत उल्लेखस्तावद- तिशयोक्त्यनन्तरं ग्रन्थकृता न लक्षितः । यद्वक्ष्यति-‘एवमध्यवसायाश्रयेणालं- कारद्वयमुक्ता गम्यमानौपम्याश्रया अलंकारा इदानीमुच्यन्ते। तत्रापि पदार्थ- वाक्यार्थगतत्वेन तेपां द्वविध्येऽपि पदार्थगतमलंकारद्वयं क्रमेणोच्यते' इति । तस्माद्वस्त्वन्तरप्रतीते वाड्रान्तिमदनन्तरमेवास्य ग्रन्थकृता लक्षणं कृतम् । अत एव चोल्लेखेऽपि तत्संभवाद्वस्त्वन्तरप्रेतीतेर्निरन्तरमेवानुवर्तनादिहैवास्या लक्षण- मुचितमिति यथास्थित एव ग्रन्थः साधुः । यद्येवं तर्युल्लेखापढत्योरिहैव विपर्य- येण किं न लक्षणं कृतमित्याशमाह-प्रक्रान्तेत्यादि । इदमित्यपह्नुतिलक्षणम् । तदेव व्याचष्टे-आरोपेत्यादिना । विषयस्यापह्नवे विषयिणोऽन्यस्य विधिरि- त्यर्थः । तेन 'न विषं विषमित्याहुब्रह्मखं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मवं तु ससंततिम् ॥' इत्यत्र विषस्य निषेधपूर्व ब्रह्मखविषय आरोप्यमाणत्वादृढारोपं रूपकमेव नापह्नुतिः । नापद्रुतेहि निषेव्यविषयभित्तितयैवान्यस्य विषयिणो विधानं १. विषयापहवे' क. २. 'प्रक्रान्तानपहव' क. २. 'नयविदः' ख. ३. 'देव' ख. ५. 'अप्रतीतेः' ख. ६. 'तयेवं यदि' स्व. ७. 'पुत्रपौत्रकम्' ख. ८. 'ब्रह्मस्वं विषं ख.

६४ काव्यमाला। 'यदेतचन्द्रान्तर्जलदलवलीलां प्रकुरुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा । अहं विन्दं मन्ये वदरिविरहाक्रान्ततरुणी. कटाक्षोरकापातव्रणकिणकलङ्काक्तितनुम् ॥' अत्रैन्दवस्य शशस्यापहवे उपक्षिप्ते शशकपतिवस्तुकिणवत इन्दो- रारोपो नान्वयघटनां पुष्यतीति न निरवद्यम् । तत्त यथा- 'पूर्णेन्दोः परिपोषकान्तवपुषः स्फारप्रभाभाखरं नेदं मण्डलमभ्युदेति गगनाभोगे जिगीषोर्जगत् । लक्षणम् । अत्र तु निषेध्यस्यैव विषस्य ब्रह्मस्वविषये आरोप्यमाणत्वाद्विधा- नम् । अथात्र मुख्यस्य विषस्य निषेधे आरोप्यमाणत्वात् ब्रह्मस्वविषस्य गौणस्य विधानमिति चेत् , तत्र ब्रह्मस्वविषस्य गौणस्य विधानमिति भणितेः कोऽर्थः । कि ब्रह्मस्खविपस्य विधानं किं वा द्वन्द्वपदार्थवद्रह्मस्वस्य च विषस्य च ब्रह्मखे वा वि- षस्येति । तत्र नाद्यः पक्षः । विषादिन्यायेन ब्रह्मस्वविषात्मनः कस्यचिद्वस्तुनो बहि- रसंभवात् । तत्राप्यस्य ब्रह्मस्वं विषं चेति न भेदेनोक्तिः स्यात् । नापि गौणता स्वार्थ एव प्रवृत्तेः । अन्यदन्यत्र वर्तमानं गौणमित्युच्यते । न चात्र ब्रह्मखविष- मन्यत्र कुत्रचिद्वर्तते येनास्य गौणता स्यात् । एवं द्वितीयेऽपि पक्षे न गौणत्वं युक्तम् । नाप्यत्रोभयविधिः । ब्रह्मखविषये विषस्यैव विधीयमानत्वात् । तृतीयेऽपि न गौणस्य सतो विषस्य विधानम् । ब्रह्मववृत्त्यभावान्मुख्यार्थबाधाद्गुणेषु वर्तनात् विहितस्य तस्य गौणत्वात् । एवं ब्रह्मस्वस्य दायन विषसाम्यप्रतीतिप्रतिपिपादयि- पया तत्र निषेधपूर्वं विषमारोपितमिति दृढारोपमेव रूपकं युक्तम् । न ब्रह्मखं विषमिदमिति पुनरुच्यमानेऽपहुतिः स्यात् । तस्मान्मुख्यस्येवेत्यपास्य विषयस्या- पह्रवेऽन्यविधिरपद्यतिरियेव लक्षणं कार्यम् । तस्येल्यपह्रत्याख्यस्यालंकारस्य । वाक्यभेद इत्येकवाक्यमिति चानेन यथासंभवं भेदत्रयस्य स्वरूपनिर्देशः कृतः । न निरवद्यमिति । यथोक्तक्रमनिर्वाहाभावात् । अत एवोदाहरणान्तरमाह- पूर्णेन्दोरित्यादि । मन्येशब्दस्य प्रयोग इति संभावनाद्योतकत्वात् ।

अलंकारसर्वस्वम् । ६५ मारस्योच्छूितमातपत्रमधुना पाण्डु प्रदोषश्रिया मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनः ॥ द्वितीयो यथा- 'विलसदमरनारीनेत्रनीलाब्जखण्डा- न्यधिवसति सदा यः संयमाधःकृतानि । न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥' तृतीयो यथा- 'उद्धान्तोज्झितगेहगूर्जरवधूकम्पाकुलोचैःकुच- प्रेङ्खोलामलहारवल्लिविगलन्मुक्ताफलच्छद्मना । साधं त्वद्रिपुभिस्त्वदीययशसां शून्ये मरौ धावतां भ्रष्ट राजमृगाङ्क कुन्दमुकुलस्थूलैः श्रमाम्भः कणैः ।। अत्र शून्य इत्यस्य स्थाने मन्येशब्दप्रयोगे सापहवोत्प्रेक्षा इत्यपि स्थापयिष्यते 'अहं विन्दं मन्ये' इति तु वाक्यभेदे मन्येशब्दप्रयोगे नोत्प्रेक्षेति च वक्ष्यते । एतस्मिन्नपि भेदेऽपहवारोपयोः पौर्वापर्यप्रयोग- नोत्प्रेक्षेति। साध्यवसायाद्युत्प्रेक्षासामध्यभावात् । वक्ष्यत इत्युत्प्रेक्षायाम् । तथा चास्या इवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः। किंतूत्प्रेक्षासामय्यभावे मन्ये शब्दप्रयोगो वितर्कमेव प्रतिपादयतीति। अतश्च 'अवाप्तः प्रागल्भ्यं-' इत्यादावप- हृत्युदाहरणत्वमभिदधतः समानेऽपि न्याये 'नो मां प्रति तथा'इत्यनेन शशकपक्ष- स्य निराकृतत्वादन्यस्यान्यरूपतया संभावनाया अभावान्मन्य इत्यनेन किणपक्षस्यैव निश्चितत्वादेतिशयोक्तिरेवेति मन्यन्ते। तेषां पूर्वापरविचारकुशलानां किमभिदध्मः एवमन्यैरत्रान्यत्र चोदाहरणादौ बहुप्रकारं स्खलितं तत्पुनर्ग्रन्थविस्तरभयादस्मद्द- १. 'पक्षतया' ख. २. 'भतिशयोक्ति' क. ५० स० ६६ काव्यमाला। विपर्यये भेदद्वयं सदपि न पूर्ववच्चित्रतावहमिति न भेदत्वेन गणि- तम् । तत्रापहवपूर्वके आरोपे निरन्तरमुदाहृतम् । आरोपपूर्वके त्वप- इवे यथा- 'ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी- न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपाहीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।' कचित्पुनरसत्यत्वं वस्त्वन्तररूपताभिधायि वपुःशब्दादिनिवन्धनं यथा- 'अमुस्मिल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः । यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिवपुः ॥' इति । र्शनदत्तदूषणोद्धरणस्यैव प्रतिज्ञातत्वादस्माभिः प्रातिपद्येन न दूषितम् । एतस्मि- निति छलादिशब्दप्रतिपाद्ये । संभवमानं पुनर्दर्शयितुमेतदुदाहृतम्। वस्त्वन्तर- रूपताभिधायीति । वपुःशब्दस्य शरीरार्थाभिधायित्वात् । अत्र पुनरुपमान- स्योपमेयरूपतापरिणतो परिणाम इति परिणामालंकारत्वं यदन्यैरुक्तं तदयुक्तम् तत्त्वे हि धूमशिखान्यग्भावे तत्परिणतिरूपरोमावलीप्राधान्यं स्यात् । इह पुनः शर्वष्ठष्टमदननिपतनानुमापकत्वेन रोमावल्यपह्नवे धूमशिखाया एव प्राधान्यं विव. क्षितमिति न परिणामो नापि रूपकम् । व्याजार्थपर्यवसायिवपुःशव्दवलादारोपवि. पयापदुतावारोप्यमाणस्य प्रतीतेः। आरोपविषयानपहवे हि रूपकमिति पूर्वमेवोक्तम्। अथात्रापि भिन्नयोः सीमानाधिकरण्यायोगादेकतरस्य निषेधप्राप्तावारोप्यमाणस्य च निषेधानुपपत्तेरारोपविषयस्येव पर्यवसाने निषेधः प्रतीयत इति चेत् , नैतत् १. 'समानाधिकरणयोः' ख.

अलंकारसर्वस्वम् । ६७ अत्र हि मुखादौ चन्द्रादेवृत्त्यभावो वाधितः संश्चन्द्रार्थः स्वात्मसहचारिणो गुणां- लक्षयति न तु मुखादेविषयस्य निषेधः प्रतीयते । मुखशव्दादेः स्वार्थ एव प्रवृत्तेः। पर्यवसाने ह्यत्र मुंखादि चन्द्रादिगुणविशिष्टं प्रतीयते । न तु मुखादेर्वाधः । न मुखमित्येवमादेः प्रैल्यवमर्शाभावात् । नापि निदर्शना । संबन्धविघटनाद्यभावात् । आदिशब्दाच्च तृतीययापि क्वचिदसत्यत्वं प्रतिपाद्यते । यथा-'मद्वाह्वोर्व्यवहार मुज्झतु लता कण्ठस्थले तावके मा कार्षीरतिसाहसं प्रियतमे दासस्तव प्राणिति । नीता वृद्धिममी त्वयैव कुसुमैर्वाष्पायमाणा द्रुमा गृह्णन्ति क्षुरिकामिवालिपटलव्याजेन पाशच्छिदे ॥' अत्र कुसुमैरिति तृतीययापह्नवनिवन्धनम् । आरोपगत्वाचेयं सादृश्याद्वा भवति संवन्धान्तराद्वा । सादृश्येऽप्यस्याः साधारणधर्मस्य त्रयीगतिः। तत्रानुगामिता यथा-'तरुणतमालकोमलमलीमसमेतदयं कलयति चन्द्रमाः किल कलङ्कमिति ब्रुवते । तदनृतमेव निर्दयविधुतुददन्तपदव्रणविवरोपदर्शितमिदं हि विभाति नमः ॥' अत्र तमालमलीमसत्वमनुगामित्वेनोपात्तम्। शुद्धसामान्यरूपत्वं यथा-'अयं सुरेन्द्रोपवनाद्धरित्री स पारिजातो हरिणोपनीतः। न प्रापितोऽयं सुमनःप्रबर्हः कश्मीरदेशोद्भवताभिमानम् ॥' अत्रोपनयनप्रापणयोः शुद्धसामान्य- रूपत्वम् । बिम्बप्रतिविम्वभावो यथा-'न ज्योत्स्नाभरणं नभो न मिलितच्छाया- पथो वाम्बुदो नो ताराप्रकरो न चेदममृतज्योतिष्मतो मण्डलम् । क्षीरक्षोभमयोऽ- प्यपानिधिरसौ नेत्राहिना मन्दरः पृक्तोऽयं मणिपूग एप कलशश्चायं सुधानिर्झरः॥' अत्र ज्योत्स्नाभरणत्वस्य क्षीरक्षोभमयत्वं प्रतिविम्बत्वेन निर्दिष्टम् । संवन्धान्तरा- द्यथा-'हेलोदश्चन्मलयपवनाडम्बरेणाकुलासु प्रेटाकेलिं कमपि भजतां चूतशा- खालतासु । वाचालत्वं नयनुदभवत्कानने कोकिलानां मौनित्वं तत्पथिकहरिणीलो- चनानां ववलग ॥' अत्र कोकिलवाचालत्वस्य कारणस्य निषेधे पथिकस्त्रीमौनित्वस्य कार्यस्य विधिः । एवमारोपगर्भेयं सप्रपञ्चं दर्शिता अध्यवसायगर्भा पुनर्दयते यथा-'न लक्ष्मीसौन्दर्यान्न च सुरशरण्यीकृतसुरासुधादिज्येष्टत्वान्न मुकुटमणि- त्वाद्भगवतः । यदेवं बालेन्दोदिशि विदिशि वन्द्यत्वमुदितं स्फुटत्वे तत्कान्तामुख- कमलदास्यादुपनतम् ॥' अत्र वन्द्यत्वस्य प्रभावादिहेतुकत्वे निगीर्य हेत्वन्तरमध्य- वसितम् । यथा वा-'कलाभिस्तृप्त्यर्थ सुरपितृनृणां पञ्चदशभिः सुधासूतिदेवः प्रतिदिनमुदेतीत्यसदिदम् । परिभ्राम्यत्येष प्रतिफलनमासाद्य भवतीकपोलान्तर्यु- १. 'प्रतीते' स्त्र. २. 'मुखादिभिः' ख. ३. 'प्रत्ययस्याभावाथें नापि निदर्शना' ४. 'प्रवाहः' क. ५. 'सारम्' क. ६. 'तदेव' ख.

६८ काव्यमाला। एवमभेदप्राधान्ये आरोपगर्भानलंकारांल्लक्षयित्वा अध्यवसायगर्भाल्ल- क्षयति- क्या त्वदधरसुधासंग्रहपरः ॥' अत्रोदयादौ तत्तद्रास्युपभोगलक्षणं निमित्तं निगीर्य तत्फलभूतं निमित्तान्तरमध्यवसितम् । एतदुपसंहरन्नन्यदवतारयति । एवमि- त्यादि । आरोपग निति। अत्राध्यवसायगर्भत्वस्यापि विद्यमानत्वान्मल्लप्राम इत्यादिवदारोपगर्भस्य प्राधान्यादेवं व्यपदेशः । तत्र तावदुत्प्रेक्षां लक्षयति- अध्यवसाय इत्यादि । अध्यवसाय इति न पुनः संदेहः । इह हि निश्चयानि- श्चयरूपत्वेन प्रत्ययानां द्वैविध्यम् । निश्चयश्चार्थाव्यभिचारी सम्यक्, अन्यथा त्वस- म्यगिति भेदो न ग्राह्यः । प्रतीतिवृत्तिमात्रस्यैवेह विचारयितुमुपक्रान्तत्वात् । तस्य च प्रामाण्यविचारे उपयोगात् । अनिश्चयश्च संशयतर्करूपत्वेन द्विविधः । अत- श्वानिश्चितं च संदिग्धमेवेति न वाच्यम् । तर्कात्मनः संभावनाप्रत्ययस्याप्यनिश्चया- त्मकत्वे संदिग्धत्वाभावात् । उत्प्रेक्षा संभावनादिशब्दाभिधेयतर्कप्रतीतिमूलेति नास्याः संदेहमूलत्वम् । तस्य भिन्नलक्षणत्वात् । अथानवधारणज्ञानसंशय इत्य- नवधारणज्ञानत्वाविशेषात्संशयान्नार्थान्तराभावस्तर्कस्येत्यस्याः संशयमूलत्वमिति चेत् , नेतत्। अनवधारणज्ञानत्वाविशेषेऽपि संशयतर्कयोर्भिन्नरूपत्वात्। तथाहि- स्थाणुर्वा पुरुषो वेति सामान्येन पक्षद्वयोल्लेखः संशयः । पुरुषेणानेन भवितव्य- मित्येकतरपक्षानुकूलकारणदर्शनेन पक्षान्तरवाधनमिव तर्कः । पुरुष एवायमिति पक्षान्तरसंस्पर्शेनेकतरपक्षनिर्णयो निश्चय इत्यस्ति सहृदयसाक्षिकं प्रत्ययानां वैविध्यम् । वाढमस्त्येव प्रत्ययानां त्रैविध्यम् । किं त्वनवधारणज्ञानत्वाविशेषात्त- सामान्यतर्कोऽपि संशयप्रकार इति चेत्, नेतत् । एवं ह्यसम्यग्ज्ञानत्वाविशेषा- द्रमोऽपि संशयप्रकारः स्यात् । अर्थनिश्चयानिश्चयखभावत्वादिना अस्त्यनयोर्वि- शेष इति चेत् , इह पुनर्नास्त्यत्र किं प्रमाणम् । संशयो ह्यतिशयतोभयांशावल- म्बित्वेनोदेति तर्कः पुनरंशान्तरवाधनेनेव वाहकेलिदर्शनाद्यनुकूलकारणौचित्यादंशा- न्तरावलम्बनेन चेत्यस्त्यनयोर्विशेषः । देशान्तरे हि यथा स्पर्धमान एव स्थाणुपक्ष आस्ते न तथा वाहकेलिभूमौ अपि तु शिथिलीभवति संभवत्प्रमादत्वाच्च सर्वा- १. 'तत्तत्' क. २. 'संदेह इति' ख. ३. 'भेदेन' क. ४. 'अनवधारण- ताविशेपात्' ख. ५. 'विशेषात्संशयप्रकारस्तर्क इति' ख. ६. 'नास्तीति किं' क.

अलंकारसर्वस्वम् । ६९ तंत्र । अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा । त्मना न निवर्तत इति अत एव निश्चयः साधकप्रमाणाभावेऽप्यस्योपपत्तेः । नहि प्रतिपक्षवाधादेव निश्चयो भवति । साधकबाधकप्रमाणसद्भावेन तदुत्पादात् । तेनानियतोभयपक्षावलम्बी किंखिदिति विमर्शः संदेहः। एकतरपक्षावलम्बीतु तर्क इति । अथ कोऽस्य फलस्योपायविशेष इत्येकतरपक्षावलम्बेनापि संदेहः संभवतीति चेत् , नैतत् । किमर्थेनानियतपक्षान्तरस्वीकारादेकतरपक्षावलम्बनस्याप्रतिष्ठानात् । वाह्यालीदर्शनाच्च यथा पुरुषविशेषाः स्मरणपथं समवतरन्ति न तथा स्थाणुविशेषा इत्युभयविशेषस्मरणजन्मनः संदेहादेकतरविशेषस्मरणजन्मा विशिष्यते तर्क इत्या- घवान्तरमतिगहनमनयोरस्ति भेदसाधनं तत्पुनः प्रकृतानुपयोगादिह नोक्तम् । तेन संदेह निश्चयान्तरालवी तद्विलक्षणः संभावनाप्रत्ययस्त्रिशङ्कुरिव लम्बमानोऽवश्या- भ्युपगन्तव्यः । एवमप्यनिश्चयात्मकसंभावनाप्रत्ययमूलत्वादुत्प्रेक्षायाः कथमध्यव- सायमूलत्वम् । तस्य हि विषयनिगरणे विषयिनिश्चयश्च स्वरूपम् । न चाकमपि संभवति । विषयोपादानान्निश्चयाभावाचेति । अत्रोच्यते-इह द्विधास्त्यध्यव- सायः-स्वारसिक उत्पादितश्च । तत्र खारसिके विषयानवगम एव निमित्तसाम- र्थ्यात्वरसत एव विषयप्रतीतेरुलासात् । न ह्यवगतशुक्तिकास्वरूपस्य प्रमातुः कदा- चिदपि रजतमिदमिति प्रत्ययोत्पादः स्यात् । इतरत्र तु विषयमवगम्यापि तद- न्तःकारेण प्रतिपत्ती स्वात्मपरतत्रविर्कल्पनाद्विषये प्रतिपत्तिमुत्पादयेत् । जानान एव हि विषयिविविक्तं विषयं तत्र प्रयोजनपरतया विषयिणमध्यवस्येत् । तत्राद्यो भ्रान्तिमदादिविषयः । तत्र हि प्रमात्रन्तरगता स्वारसिक्येव तथाविधा प्रतिपत्ति- र्वफ्रानूद्यते न तूत्पाद्यते । यदाहुः-'प्रमात्रन्तरधी_न्तिरूपा यस्मिन्ननूद्यते । स भ्रान्तिमान्' इति । वारसिकत्वं पुनरत्र कविप्रतिभानिवर्तितमेवेष्टम् । अन्यथा हि भ्रान्तिमात्रं स्यादिति पूर्वमेवोक्तम् । इतरस्तूत्प्रेक्षाविषयः । स च द्विविधः- सिद्धः साध्यश्च । सिद्धो यत्र विषयस्यानुपात्ततया निगीर्णत्वादध्यवसितप्राधान्यम् । साध्यो यत्रेवाद्युपादानात्संभावनाप्रत्ययात्मकत्वाद्विषयस्य निगीर्यमाणत्वादध्यवसा- यक्रियाया एव प्राधान्यम् । अत एवाह-व्यापारप्राधान्य इति । अत एव १. 'अत्र' ख. २. 'तत्राध्यवसाये' ख. २. 'स्मरणं प्रथममवतरन्ति' ख. ४. 'विशेषारसरण' ख. ५. 'द्विविधस्त्वध्यव' क. ६. 'विकल्पबलात्' ख.

काव्यमाला। विषयनिगरणेनामेदप्रतिपत्तिर्विषयिणोऽध्यवसायः। स च द्विविधः चात्र क्वचिद्विषयानुपादानम् । वाच्योपयोग्याध्यवसायस्य साध्यमानत्वेनोपकान्त- त्वात् । क्वचिच्च विषयस्यानुपादानेऽपि न सिद्धत्वम् । इवाद्युपादानान्निगीर्यमाण- तायाः प्राधान्यात्संभावनाप्रत्ययस्यैवोद्रेकात् । अत एव चात्र विषयस्य निगीर्य- माणत्वादारोपगर्भत्वं न वाच्यम् । तत्र विषयस्य विषयितया प्रतीतिः। इह पुन- विपयस्य निगीर्यमाणत्वेन विषयिण एव प्रतीतिः। ननु विषयनिगरणमध्यवसा- यस्य लक्षणम् इह पुनर्विषयस्य निगीर्यमाणतेति कथमत्राध्यवसायतेति चेत्, नेतत् । 'विषय्यन्तः कृतेऽन्यस्मिन्सा स्यात्साध्यवसानिका' इलायुक्त्याध्यवसा- यस्य विषयिणा विपयस्यान्तःकरणं लक्षणम् । तच्च विपयस्य निगरणेन निगीर्य- माणत्वेन वा भवतीति न कश्चिद्विशेषः । निगीर्यमाणमपि पूर्वोक्तनीया विषय- स्योपात्तस्यानुपात्तस्य वा भवतीत्यपि न कश्चिद्विशेषः । एवं सिद्धेऽध्यवसायेऽध्य- वसितप्राधान्यं साध्ये च स्वरूपप्राधान्यमिति सिद्धम् । एतच्च ग्रन्थकृदेव विभ- ज्याग्रे वक्ष्यतीति तत एवावधार्यम् । यदेव चाध्यवसायस्य साध्यत्वं तदेव संभा- वनात्मकत्वम् । संभावना ह्येकतरपक्षशिथिलीकारेण पक्षान्तरदायेन च प्रादुर्भ- वतीत्यस्याः साध्याध्यवसायतुल्यकक्षत्वम् । तस्यापि विषयशिथिलीकारेण विष- यिदाढ्यंन चोत्पत्तेः । अत एव विषयिणोऽपि शाब्देन वृत्तेन सत्यत्वम् । विषय- दायेनेव साध्यवसायखरूपप्रादुर्भावात् । यदुक्तं भवद्भिरेव 'संभावनायां च संभाव्यमानस्य दाादपरस्य च शैथिल्यात्' इति । इह संभाव्यमानस्य विष- यिणो दायादव संशयाद्वैलक्षण्यम् । तस्य ह्यनियतोभयांशावलम्बी किंस्विदिति विमशा लक्षणम् । संभावनाविषयस्य च शैथिल्यान्निश्चयादपि भेदः । निश्चये हि वाधकसद्भावादेकस्य पक्षस्यापसरणेन शैथिल्येन वा साधकसद्भावाच पक्षान्तरस्य सिद्धिः स्यात् । अतिशयोक्तिश्च निश्चयात्मिकेति ततोऽस्या भेदः। यत्तु साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः' इत्यादि ग्रन्थकृद्वक्ष्यति तद्वस्तुवृत्ताभिप्रायेणा- वगन्तव्यम् । तदेवं विषयस्य निगीर्यमाणत्वाद्विषयिणश्च निश्चयात्सिद्धमध्यवसाय. मूलत्वमस्या इति यथोक्तमेव लक्षणं पर्यालोचिताभिधानम् । तस्मात् 'इवादी निश्चयाभावाद्विषयस्य परिग्रहात् । क्वचिदध्यवसायेन नोत्प्रेक्षापि तु संशयात् ॥' इत्याद्युक्तमयुक्तमेवेल्यलं बहुना । एतदेव व्याचष्टे-विषयेत्यादिना। अभेद- १. 'मूलत्वम्' क. २. 'साध्याध्यवसाय' क. ३. 'असंभाव्यमानस्य' ख.

अलंकारसर्वस्वम् । ७१ साध्यः सिद्धश्च । साध्यो यत्र विषयिणोऽसत्यतया प्रतीतिः । असत्यत्वं च विषयिगतस्य धर्मस्य विषय उपनिबन्धे विषयिसंभवि- वेन विषयासंभवित्वेन च प्रतीतेः। धर्मों, गुणक्रियारूपः तस्य संभ- वासंभवप्रतीतो संभवाश्रयस्य तत्रापरमार्थतया असत्यत्वं प्रतीयते, इतरस्य तु परमार्थतया सत्यत्वम् । यस्यासत्यत्वं, तस्य सत्यत्वप्रती. तावध्यवसायः साध्यः । अतश्च व्यापारप्राधान्यम् । सिद्धो यत्र विषयिणो वस्तुतोऽसत्यस्यापि सत्यताप्रतीतिः । सत्यत्वं च पूर्व- कस्यासत्यत्वनिमित्तस्याभावात् । अतश्चाध्यवसितप्राधान्यम् । तत्र प्रतिपत्तिरिति विषयान्तःकरणात् । संभावनाप्रत्ययात्मकत्वेऽपि साध्याध्यवसायस्य वस्त्वभिप्रायेण तद्वलक्षण्यं प्रदर्शयितुमाह-साध्य इत्यादि । विषयपरिशोध- नद्वारेण प्रमाणानुग्राहकत्वात्संभावनाप्रत्ययस्य पुरुषेणानेन भवितव्यमित्यत्र वस्तु- वृत्तेन पुरुषस्य सत्यत्वम् । इह पुनस्तत्र तस्य प्रयोजनपरतयाध्यवसीयमानत्वा- संभावनाविषये संभाव्यमानस्य वस्तुनो न सत्यत्वमित्याह-असत्यतया प्रती- तिरिति । अत्रैव निमित्तमाह-असत्यत्वं चेत्यादि । विषय उपनिबन्ध इति । तद्गतधर्माभेदेनाध्यवसित इत्यर्थः । अनेन सप्रयोजनत्वमेवोपोद्वलितम् धर्म इति विषयिगतः । स एव चोत्प्रेक्षणे निमित्तम् । तस्येति धर्मस्य । संभाव- नाश्रयस्येति विषयिणः । तत्रेति संभावनाश्रये विषये। इतरस्येति असंभवाश्रयस्य विषयस्य । यस्येति विषयिणः । अतश्चेति । अध्यवसायस्य साध्यमानत्वात् । असत्यस्यापीति । वस्तुतो विपयिणस्तत्रासंभवात् । सत्यताप्रतीतिरिति । निश्चयखभावत्वादतिशयोक्तेः । असत्यत्वनिमित्तस्येति धर्मसंचारादेः । अतश्चेति धर्मसंचारान्निगीर्यमाणतायाः प्राधान्याभावात् । अध्यवसितप्राधान्यमिति । १. 'विपयिणि सत्यतया' ख. २. 'विषयगतस्य' क. ३. 'प्रतीतः' क. ४. 'तत्र पर' ख. ५. 'अपरमार्थ' ख. ६. 'यस्य सत्यत्वं' ख. ७. 'सत्यतया' ख. ८. 'विपयस्येति विषयिणः' ख.

७२ काव्यमाला। साध्यत्वप्रतीतो व्यापारप्राधान्येऽध्यवसायः संभावनममिमानस्तर्क ऊह उत्प्रेक्षेत्यादिशब्दैरुच्यते । तदेवमप्रकृतगतगुणक्रियामिसंबन्धादप्रकृ- तत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा । सा च वाच्या इवादिभिः प्रदर्श्यते । प्रतीयमानायां पुनरिवाद्यप्रयोगः । सा च जातिक्रियागुण- द्रव्याणामप्रकृतामध्यवसेयत्वेन चतुर्धा । प्रकृतस्यैतद्भेदयोगेऽपि न वैचित्र्यमिति न ते गणिताः। प्रत्येकं च भावाभावाभिमानरूपतया द्वैविध्येऽष्टविधत्वम् । भेदाष्टकस्य च प्रत्येकं निमित्तस्य गुणक्रियारू- पत्वे षोडश मेदाः । तेषां च प्रत्येकं निमित्तस्योपादानानुपादानाभ्यां द्वात्रिंशत्प्रभेदा तेषु च प्रत्येकं हेतुखरूपफलोत्प्रेक्षणरूपत्वेन षण्णव- तिर्भेदाः । एषा गतिर्वाच्योत्प्रेक्षायाः । तत्रापि द्रव्यस्य प्रायः विषयस्य निगीर्णत्वाद्विषयिण एव प्राधान्यमित्यर्थः । साध्यत्वसिद्धत्वयोश्च सम- नन्तरमेव स्वरूपमुपपादितमितीह न पुनरायस्तम् । तत्रेति द्वयनिर्धारणे । अध्यव- साय इत्यादिशब्दैरुच्यत इति संवन्धः । एतदेवोपसंहरति-तदेवमित्यादि । यदाहुः-'विषयित्वेन संभावनमुत्प्रेक्षा' इति । प्रतीयमानायामिति । इवा- द्यप्रयोगाच्छब्दानुक्तत्वादूह्यायां न व्यङ्ग्यायामलंकारप्रभेदानां प्रतिपिपादयिषित- त्वाद्यङ्ग्यभेदाभिधानस्याप्रस्तुतत्वात् । एवं वाच्या प्रतीयमाना चोत्प्रेक्षा भवतीत्य- नुवादद्वारेण विधिः । सा चेति । न वैचित्र्यमिति । तस्य निगीर्यमाणत्वे- नाप्राधान्यात् । प्रत्येकमिति जात्यादीनाम् । निमित्तस्येति धर्मस्य । तद्वशादेव हि प्रकृतगतत्वेनाप्रकृतोपनिवन्धः। हेतुखरूपफललक्षणमेवास्या भेदत्रयं जीवितभू- तमिति तदेव विश्रान्तिधामतया पश्चादुद्दिष्टम्। जात्यादिभेदगणनं पुनरवैचित्र्याव- हमपि चिरंतनानुरोधात्कृतम्। अत एव ग्रन्थकृता प्रातिपद्येन नोदाहृतम् । अस्मा- भिश्च नोदाहरिष्यते । एपेति। समनन्तरोक्ता। तत्रापीति । सत्यामपि समन- न्तरोद्दिष्टायां भेदगणनायाम् । प्रायःशब्देन च हेतुफलयोः कुत्रापि संभवोऽस्तीति १. 'अध्यवसायत्वेन' ख. २. 'मेदयोरपि' स्व.

१. 'एव तावन्तो' काख. अलंकारसर्वस्वम् । ७३ खरूपोत्प्रेक्षणमेवेति हेतुफलोत्प्रेक्षाभेदास्ततः पातनीयाः । प्रतीय- मानायास्तु यद्यप्युद्देशत एतावन्तो भेदाः, तथापि निमित्तस्या- नुपादानं तस्यां न संभवतीति तैर्भदैन्यूनोऽयं प्रकारः । इवा- धनुपादाने निमित्तस्य चाकीर्तने उत्प्रेक्षणस्य निष्पमाणत्वात् । प्रायश्च स्वरूपोत्प्रेक्षात्र न संभवति । तदेवं प्रतीयमानोत्प्रेक्षाया यथासंभवं भेदनिर्देशः । एषा चार्थाश्रयापि धर्मविषये श्लिष्ट- शब्दहेतुका कचिदृश्यते । कचित्पदार्थान्वयवेलायां सादृश्याभिघा- नादुपक्रान्ताप्युपमावाक्यार्थतात्पर्यसामर्थ्यादभिमन्तृव्यापारोपारोहक्रमे- णोत्प्रेक्षायां पर्यवस्यति । कचिच्छलादिशब्दप्रयोगे सापहवोत्प्रेक्षा भवति । अतश्चोक्तवक्ष्यमाणप्रकारवैचित्र्येणानन्त्यमस्याः । सांप्रतं त्वियं दिमात्रेणोदाहियते । तत्र जात्युत्प्रेक्षा यथा- दार्शतम् । अत एवालंकारानुसारिण्यां ग्रन्थकृतानयोरपि संभवो दर्शितः । तदेवं द्रव्यस्य हेतुफलयोः संभवे प्रागुक्तैव संख्या ज्यायसी । अन्यथा त्वेतद्भेदषोडश- कस्याभावादशीतिर्भेदाः । अस्याश्च वक्ष्यमाणनीत्या हेतुफलयोनिमित्तानुपादानासं- भवाच्चतुःषष्टिरेव भेदाः संभवन्ति । एतावन्त इति पण्णवतिः । अयं प्रकार इति । प्रतीयमानोत्प्रेक्षालक्षणः । प्राय इति । वाच्या यथा स्वरूपोत्प्रेक्षा लक्ष्येषु प्रचुरा तथेयं न भवतीत्यर्थः । न पुनरत्यन्तमेवास्या अभावो व्याख्येयः । क्वचिदपि लक्ष्येऽस्या दृष्टेः । यथासंभवमिति । लक्ष्ये भेदनिर्देश इति कार्यः । तस्याश्चाटचत्वारिंशद्भेदाः संभवन्ति । तदुक्तम- लंकारानुसारिण्याम्-'प्रतीयमानोत्प्रेक्षाभेदा अष्टचत्वारिंशत्' इति । अर्था- श्रयापीति । अर्थाश्रयस्य यद्यपि शब्दहेतुकत्वं न क्वाप्युपयुक्तं तथापि श्लिष्ट- शब्दहेतुकत्वमस्याः क्वचिद्वैचित्र्यमावहतीत्यर्थः । उपमा उत्प्रेक्षायां पर्यवस्य- तीति संवन्धः । आनन्त्यमिति बहुप्रकारत्वम्। सांप्रतमिति प्राप्तावसरम्। दिङ्मा- । २. 'भवति' क.

७ काव्यमाला। 'स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः स्मरारेयों मूर्ध्नि ज्वलनकपिशे भाति निहितः । स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकघवलेनाङ्कुर इव ॥' अत्राङ्कुरशब्दस्य जातिशव्दत्वाजातिरुत्प्रेक्ष्यते । क्रियोत्प्रेक्षा यथा- 'लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नमः । अत्र लेपनवर्षणक्रिये तमोनभोगतत्वेनोत्प्रेक्ष्येते । उत्तरार्धे तु असत्पुरुपसेवेव दृष्टिनिष्फलतां गता ॥' इत्यत्रोपमैव नोत्प्रेक्षा । गुणोत्प्रेक्षा यथा- 'सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुाम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥' अत्र दुःखं गुणः । द्रव्योत्प्रेक्षा यथा- 'पातालमेतेन्नयनोत्सवेन विलोक्य शून्यं मृगलाञ्छनेन । इहाङ्गनाभिः स्वमुखच्छलेन कृताम्बरे चन्द्रमयीव सृष्टिः ॥' घेणेति । अनेन जात्यादिभेदानामनवक्लुप्तिर्ध्वनिता। तमोगतत्वेनेति । तमोग- तव्यापनादिधर्मनिगरणेनेत्यर्थः । अत्र हि तमसो धर्मिणोऽन्यधर्मधर्मित्वं निगीर्या- न्यधर्मधर्मित्वमवस्थापितमित्यग्र एव वक्ष्यामः । द्रव्योत्प्रेक्षेति । दैव्यस्य खरू- पेणोत्प्रेक्षणम् । तस्यैव हि हेतू प्रेक्षा यथा-'जयति शिशिरतायाः कारणं सा हिमा स्त्रिपुरहरकिरीटादापतन्ती द्युसिन्धुः । सततसहनिवासी क्षीरसिन्धोः प्रसूतो हिमकर इव हेतुः श्वैत्यशैल्यस्य यस्याः ॥' अत्रेन्दोई व्यस्य हेतुत्वेनोत्प्रेक्षणम् । फलो प्रेक्षा यथा-'मध्येसलिलमादित्यसंमुखं धूलिधूसराः। कुमुदिन्यस्तपस्यन्ति चन्द्रायेव दिने दिने ॥' अत्र चन्द्रस्य द्रव्यत्वम् । एषामेव भावाभिमानोदाहरण- १. 'उत्तरे त्वर्धे' क. २. 'मन्तनयनो' ख. ३. अत्र द्रव्यस्य'ख. ४. 'भस्म' क.

अलंकारसर्वस्वम् । ७५ अत्र चन्द्रस्यैकत्वाद्रव्यत्वम् । एतानि भावाभिमाने उदाहरणानि । अभावाभिमाने यथा- 'कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ । अपश्यन्ताविवान्योन्यमीक्षां क्षामतां गतौ ॥ अत्रापश्यन्ताविति क्रियाया अभावाभिमानः । एवं जात्यादाव- प्यूह्यम् । गुणस्य निमित्तत्वं यथा-'नवविसलताकोटिकुटिलः' इत्या- दावुदाहृतस्य कुटिलत्वस्य । क्रियाया यथा-'ईदृक्षां क्षामतां गतौ' इत्यत्र क्षामतागमनस्य । निमित्तोपादानस्यैते उदाहरणे। अनुपादाने 'लिम्पतीव तमोऽङ्गानि' इत्याधुदाहरणम् । हेतूत्प्रेक्षा यथा-'विश्ले- षदुःखादिव बद्धमौनम्' इत्यादौ । स्वरूपोत्प्रेक्षा यथा- 'कुबेरजुष्टां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घय । दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोत्ससर्ज ॥ त्वमतिदिशति-एतानीत्यादिना। अभ्यूह्यमिति अभावाभिमानोदाहरणम् । निमित्तोपादानस्येति । कुटिलत्वस्य क्षामतागमनस्य च साक्षान्निर्देशात् । अनुपादान इति । तिरोधायकत्वादेनिमित्तस्य गम्यमानत्वात् । भेदान्तरेष्विति खरूपफलादिकेषु । ज्ञेयमिति प्रतीयमानत्वात् । तत्र स्वरूपोत्प्रेक्षा यथा-'मल- असमीरसमागमसंतोसपणिचराभिसव्वत्तो । विव्याहइ चलकिसलअकराहि सा- हाहि महुलच्छी ॥' अत्र मधुलक्ष्मीगतत्वेन चलकिसलयकरत्वादि निगीर्य व्याह- रणक्रिया स्वरूपेणोत्प्रेक्षिता। तदोन्मुख्योत्पादकत्वादि च निमित्तमनुपात्तम् । यत्पु. नरुद्देशे प्रतीयमानोत्प्रेक्षायां निमित्तानुपादानं न संभवतीत्युक्तं तत्र प्रायस्तस्याः स्वरूपोत्प्रेक्षणस्यासंभवो निमित्तम् । ग्रन्थकृतो हि प्रतीयमानोत्प्रेक्षा हेतुफलरूपैव भवतीत्यभिप्रायः। हेतुफलोत्प्रेक्षणयोश्च वक्ष्यमाणनीत्या निमित्तानुपादानं न संभ- वतीत्याशयेनेतदुक्तम् । तेन प्रतीयमानापि स्वरूपोत्प्रेक्षा निमित्तोपादानानुपादाना- १. 'अभ्यूयम्' क. २. 'उक्त' ख.

७६ काव्यमाला। फलोत्प्रेक्षा यथा- 'चोलस्य यद्धीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः । अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि ॥' एवं वाच्योत्प्रेक्षाया उदाहरणदिग्दत्ता । प्रतीयमानोत्प्रेक्षा यथा- 'महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअंती । अणुदिणमणण्णअम्मा अंगं तणुअंपि तणुएइ ॥' इति । अमाअंती इत्यत्रावर्तमानेवेति तनूकरणहेतुत्वेनोत्प्रेक्षितम् । एवं भेदान्तरेष्वपि ज्ञेयम् । श्लिष्टशब्दहेतुर्यथा- 'अनन्यसामान्यतया प्रसिद्धस्त्यागीति गीतो जगतीतले यः। अभूदहपूर्विकया गतानामतीव भूमिः स्मरमार्गणानाम् ॥' अत्र धर्मविषये मार्गणशब्दः श्लिष्टः। उपमोपक्रमोत्प्रेक्षा यथा- 'कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलावपि । भ्यामेव भवति । तत्र निमित्तानुपादाने उदाहृता । उपादाने तु यथा-'प्रसारि सर्वतो विश्वं तिरोदधदिदं तमः। सर्वाङ्ग लिम्पति जनं सान्दैरमृतकूर्चकैः ॥' अत्र प्रसारित्वादि निगीर्य तमोगतत्वेन लेपनक्रिया स्वरूपेणोत्प्रेक्षिता तिरोधायकत्वादि च निमित्तम् । 'तुरीयो ह्येष मेध्योऽग्निराम्नायः पञ्चमोऽपि वा । अपि वा जङ्गमं तीर्थ धर्मो वा मूर्तिसंचरः ॥' इत्यादौ तु वामनमते विशेषोक्तिः । ‘भूतलकार्ति- केयः' इतिवत् । ग्रन्थकृन्मते तु दृढारोपं रूपकम् । यद्वक्ष्यति-या त्वेकहानिक- ल्पनायां साम्यदाय विशेषोक्तिरिति विशेषोक्तिर्लक्षिता सास्मदर्शने रूपकमेद एवेति। अत एवात्र तत्सामग्यभावादुत्प्रेक्षोदाहरणत्वं न वाच्यम् । एवम् 'अपरः पाकशा- सनो राजा' इत्यत्रापि दृढारोपमेव रूपकम् । एतच्चालंकारानुसारिण्यामुत्प्रेक्षाविचारे ग्रन्थकृतैव दर्शितम् । फलोत्प्रेक्षा यथा—'गिजंते मंगलगाहिआहि वरगोत्तदत्त. कण्णाए । सोत्तुं विणिग्गओ उअह होतबहुआहि रोमंचो ॥' अत्र श्रोतुमिवेति अलंकारसर्वस्वम् । याः कर्णे विकचोत्पलन्ति कुचयोरके च कालागुरु- स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ।।' अत्र यद्यपि 'सर्वप्रातिपदिकेभ्यः क्विप्' इत्युपमानाक्विब्विधावामुखे उपमाप्रतीतिस्तथाप्युपमानस्य प्रकृते संभवौचित्यात्संभावनोत्थाने उत्प्रे- क्षायां पर्यवसानम् । यथा वा विरहवर्णने 'केयूरायितमङ्गदैः' इत्यादौ । एषापि समस्तोपमाप्रतिपादकविषयेऽपि हर्षचरितवार्तिके साहित्यमी- मांसायां च तेषु तेषु प्रदेशेषूदाहृता इह तु ग्रन्थविस्तरभयान प्रपश्चिता । सापहवोत्प्रेक्षा यथा- गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु । यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्रा ॥ फलमुत्प्रेक्षितम् । श्लिष्ट इत्यर्थिशरवाचकत्वात् । आमुख इति न पुनः पर्यवसाने। उपमाप्रतीतिरिति । तदर्थमेव क्विपः प्रवृत्तेः । अत एवात्र वाचकाभावान्नोत्प्रे. क्षात्वमिति न वाच्यम् । नहि वाचकसंभवासंभवमात्रमेवालंकाराणां भावाभावप्र. योजकम् । एवं हि व्याजस्तुतो निन्दादेर्वाच्यत्वेऽप्यवाच्यस्य स्तुत्यादेः प्रतीतिरलं. कारत्वपर्यवसायिनी न स्यात् । तस्माद्वाक्यार्थ एव प्ररूढोऽलंकाराणां स्वरूपप्रति- टापकं प्रमाणम् । वाक्यार्थस्य च पदार्थान्वयवेलातोऽन्यैव प्रतिपत्तिः । संभवौ. चित्यादिति । कस्तूरीतिलकादेर्विषयिणः भालफलकादौ संभवे यथौचित्यं न तथा कण्ठत्विडादेविषयस्येत्यर्थः । अत एवात्रोपमायाः प्रकृतस्याप्रकृतकस्तूरीति- लकादिरूपतया परिणामात्परिणामगर्भत्वं यदन्यैरुक्तं तत्तेषां परिणामस्वरूपानभिज्ञ- त्वम् । नह्यौचित्यमेव तस्य खरूपं किं तु यथोक्तं प्रकृतोपयोगित्वम् । औचित्यं च नोत्प्रेक्षायां विरुद्धम् । तस्य सर्वत्रैव भावात् । उत्प्रेक्षायां पर्यवसान- मिति । कण्ठत्विषामेव कस्तूरीतिलकत्वादिप्रतीतेर्विषयिणो विषयनिगरणेनाभेद- प्रतिपत्तेः । सादृश्यावगमाभावात् । सादृश्यं घुभयनिष्ठम् । न चात्र प्रकृताप्रकृ- तयोः संस्पर्धितया प्रतीतिः । यथा वेत्यनेनास्या लक्ष्ये प्राचुर्य दर्शितम् । सेति (एषेति)समस्तोपमाप्रतिपादकविषये दृश्यमाना। सा तु यथा-'स दण्डपादो भवद. Library Sri Pratap College, STipur ७८ काव्यमाला। अत्रेवशव्दमाहात्म्यात्संभावनं छलशब्दप्रयोगाच्चापहवो गम्यते । एवं छद्मादिशब्दप्रयोगेऽपि ज्ञेयम् । 'अपर इव पाकशासनः' इत्या- दावपरशब्दाप्रयोगे उपमैवेयम् । तत्प्रयोगे तु प्रकृतस्य राज्ञः पाकशा- सनत्वप्रतीतावध्यवसायसंभवादिवशब्देन च तस्य साध्यत्वप्रतीते- रुत्प्रेक्षैवेयम् । इवशब्दाप्रयोगे सिद्धत्वादध्यवसायस्यातिशयोक्तिः । इवापरशब्दयोरप्रयोगे तु रूपकम् । तदेवं प्रकारवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतूत्प्रेक्षायां यस्य प्रकृतसंवन्धिनो धर्मस्य हेतुरुत्प्रेक्ष्यते स धर्मोऽध्यवसायवशादभिन्न उत्प्रेक्षायां निमित्तत्वेनाश्रीयते । स च वाच्य एव नियमेन भवति । अन्यथा के प्रति हेतुः स्यात् । यथा- ण्डपाद(त)मुत्खण्डयनक्षतु चण्डिकायाः । यस्येन्दुलेखा पुरतः स्फुरन्ती त्रुट्य- तुलाकोटितुलामुपैति ॥' अत्र सत्यपि तुला(कोटि)शब्दे चन्द्रलेखाया एव तुला- कोटिप्रतीतेरुत्प्रेक्षात्वम् । छद्मशब्दप्रयोगेन यथा-'खेदोदविन्दुसंदोहच्छमना तव राजते । स्मरेणावैम्यनर्घापि दत्ताधैव कुचस्थली ॥' अस्याश्च तत्तच्छब्दप्र- योगाप्रयोगाभ्यां प्रतीतिभेदादलंकारैः सह विभागं दर्शयितुमाह-अपर इ- त्यादि । तत्प्रयोग इल्यपरशब्दप्रयोगे । इवशब्दस्य संभावनाद्योतकस्याप्रयोगा- सिद्धत्वम् । अत एव चात्र विषयस्यानुपादानमेव । तदुपादाने हि दृढारोपं रूप- कमिति समनन्तरमेवोक्तम् । अन्यत्र पुनः सर्वत्र विषयोपादानमेव न्याय्यम् तदित्यं भेदवैचित्र्येणावस्थिताया उत्प्रेक्षाया हेतुस्वरूपफलानां यथासंभवं स्वरूपं दर्शयति-तदेवमित्यादिना । स धर्म इति यं प्रत्येव हेतुरुत्प्रेक्ष्यते । अध्यव- सायवशादिति भेदेऽप्यभेदाश्रयणात् । अभिन्न इत्यप्रकृतसंवन्धिना धर्मेण । स इति निमित्तत्वेनाश्रितो धर्मः । नियमेनेति । अवाच्यः पुनर्न कदाचिद्भवतीत्यर्थः । अन्यथेति वाच्यत्वे । कं प्रति हेतुरिति । तस्यैव फलरूपत्वात् । नहि यं प्रत्येव हेतुरुत्प्रेक्ष्यते तस्यैव वाच्यत्वं युक्तम् । साध्यमन्तरेण साधनस्य निर्विषय- त्वापत्तेः । यदि चास्य निमित्तमात्रत्वमेव स्यात्तद्वाच्यत्वमवाच्यत्वं स्यात् । एवमेक एव धर्मो हेतोरुत्प्रेक्ष्यमाणस्य निमित्तं फलं चेति सिद्धम् । एतदेव दर्शयति- अलंकारसर्वस्वम् । ७९ 'अपश्यन्ताविवान्योन्यं' इत्यादौ । अत्र कपोलयोः प्रकृतयोः संबन्धित्वे नोपात्तस्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितम् । हेतुफलं च क्षामता- गमनं तत्र निमित्तम् । एवं 'अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखा- दिव बद्धमौनम्' इत्यत्र नूपुरगतस्य मौनित्वस्य हेतुर्दुःखित्वम् । तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयम् । एवं सर्वत्र । स्वरूपोलो- क्षायां यत्र धर्मी धर्यन्तरगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्तभूतो धर्मः क्वचिन्निर्दिश्यते । यथा—'स वः पायादिन्दुः' इत्यादौ । अत्र कुटि- लत्वादिनिर्दिष्टमेव । 'वेलेव रागसागरस्य' इत्यादौ संक्षोभकारि- त्वादि गम्यमानम् । यत्र च धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्तस्योपादानानुपादानाभ्यां द्वैविध्यम् । उपादाने यथा- अपश्यन्तावित्यादिना । तत्रेति । हेतूप्रेक्षणे निमित्तमिति । तद्विनोत्प्रेक्षण- स्थानिष्पत्तेः। द्विविधमत्र क्षामतागमनं तपोजनितमदर्शनजनितं च । तयोरध्यव- सायवशादभिन्नत्वेनाश्रयणम् । अतश्च हेतोरेक एव धर्मो निमित्तं फलं च । वस्तु- तस्तु तपोजनितस्य निमित्तत्वमन्यस्य तु हेतुफलरूपत्वम् । अत एव नेतरेतराश्र- यदोषः । द्वयोरपि भिन्नत्वात् । मौनित्वमेवेति । न पुनरन्यत्किंचिदित्यर्थः । अतश्च निश्चलत्वादिजनितस्य दुःखजनितस्य च मौनित्वस्याभेदेनाश्रयणम् । सर्वत्रेत्यनेन समस्तलक्ष्याविरुद्धत्वं हेतृत्प्रेक्षाखरूपकथनस्योक्तम् । एवं हेतृप्रे- क्षाया यथासंभवं स्वरूपं प्रदर्य स्वरूपोत्प्रेक्षाया अपि दर्शयति-स्वरूपोत्प्रे- क्षायामित्यादिना । यद्यप्युद्देशत एवैतत्स्वरूपोत्प्रेक्षायां निमित्तोपादानत्वानुपा- दानत्वमवगम्यते तथापि हेतूत्प्रेक्षायां यथा निमित्तोपादानमेव संभवति तथा- त्रापि न संभाव्यमित्याशयेन पुनरिहैतदुक्तम् । यदा चात्र धर्मो धर्म्यन्तरगतत्वे- नोत्प्रेक्ष्यते तदा तत्र निमित्तस्य कीग्रूपत्वं भवतीत्याशझ्याह-यत्रेत्यादि । धर्म एवेति । न पुनर्धी धर्मिगतत्वेनेति । धर्मिभित्तितयेत्यर्थः । अत्र हि धर्मि- १. 'गम्यमानात्' क.

८० काव्यमाला। 'प्राप्याभिषेकमेतस्मिन्प्रतितिष्ठासति द्विषाम् । चकम्पे लोक्यमानास्ता भयविहलितेव भूः ।।' अत्र भूगतत्वेन भयविह्वलितत्वाख्यधर्मोत्प्रेक्षायां कम्पादिनिमित- मुपात्तम् । अनुपादाने यथा-'लिम्पतीव तमोऽङ्गानि' इत्यादौ । अत्र तमोगतत्वेन लेपनक्रियाकर्तृत्वोत्प्रेक्षायां व्यापनादिनिमित्तं गम्य- मानम् । व्यापनादौ तूत्प्रेक्षाविषये निमित्तमन्यदन्वेष्यं स्यात् । न णोऽन्यधर्मधर्मित्वं निगीर्यान्यधर्मधर्मित्वमवस्थाप्यते । अत एवात्र धर्मी भित्ति- भूततया विषयः । धर्मिणं विना केवलस्यैव धर्मस्य व्यवस्थापयितुमशक्यत्वाद्यव- स्थाप्यमानत्वे वा धर्मित्वमेव स्यात् । वस्तुतस्तु धर्म एवोत्प्रेक्षाविषयः । यन्निगर- णेनाभेदप्रतिपत्तिर्विषयिणोऽवसीयते । स च निगीर्यमाणो धर्मः क्वचिदुपात्तो भवति क्वचिच्चानुपात्तः । 'प्राप्याभिषेकं' इत्यादावन्ये हेतू प्रेक्षात्वं मन्यन्ते इत्युदाहरणा- न्तरेणोदाह्रियते-'नवरोसदलिअ घणनिरवलंब संघडिअ तडिकडप्पव्व (2)। नरहरिणो जअइ कडारकेसरे कंधरावंधो ॥' अत्र कन्धरावंधधर्मिणि सकेस. रत्वं निगीर्य सतडित्कटप्रत्वमुत्प्रेक्षितम् । कडारत्वं च निमित्तमुपात्तम् । निगी- र्यमाणश्च धर्मो धर्मिगतत्वेनोपात्तः । लेपनक्रियाकर्तृत्वोत्प्रेक्षायामित्यर्थादाशङ्किता- याम् । एवं हि तमोलेपनमिवेति प्रतीतिः स्यात् । न चात्र तथेत्याशझ्याह-व्या- पनादावित्यादि । निमित्तमन्यदिति तिरोधायकत्वादि । तेन तमसि धर्मिणि व्यापनादिधर्म निगीर्य लेपनक्रियाकर्तृत्वरूपो धर्म उत्प्रेक्षित इत्यर्थः । यदाह श्रीमम्मटः–'व्यापनादिलेपनादिरूपतया संभावितम्' इति । यत्र च धर्मान्त- रनिगरणेन धर्म एव धर्मिभित्तितयोत्प्रेक्ष्यते तत्र भित्तिभूतत्वाद्विपयरूपस्य धर्मिणः समनन्तरोक्तनीत्या गम्यमानत्वं न युज्यत इत्याह-न चेत्यादि । विषय- स्येति । निगीर्यमाणोत्प्रेक्ष्यमाणयोर्धर्मयोभित्तिभूतस्य धर्मिण इत्यर्थः । न तु निगीर्यमाणस्येति व्याख्येयम् । तस्य ह्युपादानानुपादानाभ्यां वैविध्यं भवतीति समनन्तरमेवोक्तम् । तच्चोदाहृतम् । यथा वा-'यत्पुण्डरीक इव पार्वण एव वेन्दाविन्दीवरद्वयमिवोदितमेकनालम् । तत्पद्मरागनिधिमूलमिवाधिगम्य सम्य- ग्जितं नयनयोर्मम भाग्यशक्त्या ॥' अत्र मुखादीनामुत्प्रेक्षाविषयाणामनुपादाना- १. 'भूतगतत्वेन' क-ख.

अलंकारसर्वस्वम् । ८१ च विषयस्य गम्यमानत्वं युक्तम् । तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्याभि- धातुमुचितत्वात् । तस्माद्यथोक्तमेव साधु । फलोत्प्रेक्षायां यदेव तस्य कारणं तदेव निमित्तम् । तस्यानुपादाने कस्य तत्फलत्वेनोक्तं स्यात् । तस्मात्तत्र तस्य निमित्तस्योपादानमेव न प्रकारान्तरम् । यथा- 'रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥' अत्राश्वपरिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम् । द्गम्यमानत्वम् । तस्येति धभिरूपस्य विषयस्य । उत्प्रेक्षिताधारत्वेनेति । उत्प्रेक्षितस्य लेपनादेर्धर्मस्य व्यापनादिधर्मनिगरणेनोत्प्रेक्षाविषयीकृतस्याधारत्वेन भित्तिभूततयेत्यर्थः । धर्मिणमन्तरेण धर्मस्य विश्रान्तेः। प्रस्तुतस्येति । अव- श्याभिधेयस्येत्यर्थः । एवं हेतुफलोत्प्रेक्षयोरपि धर्मिगतत्वेनैवान्यधर्महेतुकत्वं निगी- र्यान्यधर्महेतुत्वमन्यधर्मफलत्वं चाध्यवसीयते। अतश्च स धर्मी वाच्य एव भवति । यथोक्तोपपत्तेः । निगीर्यमाणः पुनर्धर्म एवोपादानानुपादानाभ्यां द्विधा। तत्तु यथा-एषा स्थलीत्यादि । अत्र नूपुरस्य धर्मिणो बद्धमौनत्वे निश्चलत्वादि धर्म- हेतुकत्वं निगीर्य दुःखहेतुकत्वमुत्प्रेक्षितम् । निगीर्यमाणश्चानुपात्तो धर्मः । उपा- त्तस्तु यथा-'मृणालसूत्रं निजवल्लभायाः समुत्सुकश्चाटुघु चक्रवाकः । अन्योन्य- विश्लेषणमन्त्रसूत्रभ्रान्त्येव चञ्चस्थितमाचकर्ष ॥' अत्र चक्रवाकस्याकर्षणे चाटुस- मुत्सुकहेतुत्वं निगीर्य भ्रान्तिहेतुत्वमध्यवसितम् । निगीर्यमाणश्च धर्म उपात्तः । अनुपात्तस्तु यथा-'कुमुदिन्यः प्रमोदिन्यस्तदानीमुदमीमिलन् । नलिन्या भर्तृ- विरहान्म्लानिमानमिवेक्षितुम् ॥' अत्र कुमुदिनीनामुन्मीलने चन्द्रोदयहेतुकत्वं निगीर्य दर्शनं फलत्वेनोत्प्रेक्षितम् । निगीर्यमाणश्च धर्मोऽनुपात्तः । तदेवं हेतुख- रूपयोर्यथासंभवं स्वरूपं दर्शयित्वा फलोत्प्रेक्षाया अपि दर्शयति-फलोत्प्रेक्षा- यामित्यादिना । तस्येति फलस्य । एतच्च हेतूप्रेक्षाविचारग्रन्थविवृतेरवगतार्थ- मिति ग्रन्थविस्तरभयान्न पुनरायास्यते । तदेवं ग्रन्थकृदात्मनः श्लाघां कटा- २. 'मानम्लानिं' ख. १. 'तत्क्षणात्' ख. ६ अ० स० ८२ काव्यमाला। तदसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरतया स्थितोऽपि लक्ष्ये दुरवधा- रत्वादिह न प्रपञ्चितः । तस्याश्चेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपा- दकः । किं तूप्रेक्षासामग्र्यभावे मन्येशव्दप्रयोगो वितर्कमेव प्रति- पादयति । यथोदाहृतं प्राक् । 'अहं विन्दु मन्ये त्वदरिविरह' इत्यादि । क्षयन्नेतदुपसंहरति-तदसावित्यादि । अस्याश्च वाचकव्यवस्थां दर्शयति- तस्याश्चेत्यादि । उत्प्रेक्षासामय्यभाव इति संभावनाप्रत्ययात्मकत्वाभावात् । प्रागित्यपद्भुतो । एवमिवशब्दोऽपि क्वचिद्वितर्कमेव प्रतिपादयति । यथा- 'वृत्तानुपूर्वे च न चातिदीर्घ जवे शुमे सृष्टवतस्तदीये । शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः ॥' इयं च भेदेऽभेदे इत्याद्यति- शयोक्तिभेदमय्यपि दृश्यते । तत्र भेदेऽभेदो यथा-पृथ्वीराजविजये—'गृहद्भिः परया भक्त्या वाणलिङ्गपरम्पराः । अनर्मदेव यत्सैन्यैर्निरमीयत नर्मदा ॥' अत्र नर्मदाया अभेदेऽपि भेदः । संवन्धेऽसंवन्धो यथा-'अद्वैतं तद्भवतु भवतां सं- विदद्वैतपुष्ट्यै क्षमाभृत्पुत्रीपरिवृड रमाकान्तदेहद्वयस्य । यत्राकाष्र्ण्य निज इव विद. न्दक्षिणार्धप्रभाभिदेहेऽन्येषामपि पुररिपुः कार्ण्यमन्तः प्रमार्टि ॥' अत्र काj- संवन्धेऽप्यसंबन्धः । असंवन्धे संबन्धो .यथा-'क्षीरक्षालितचन्द्रेव नीलीधौ- ताम्बरेव च । टङ्कोल्लिखितसूर्येव वसन्तश्रीरजृम्भत ॥' अत्र क्षीरक्षालितत्वाद्य- संवन्धेऽपि संवन्धः । कार्यकारणयोस्तुल्यकालत्वे यथा-'यशसेव सहोद्भूतः श्रियेव सह वर्धितः । तेजसेव सहोद्भूतस्त्यागेनेव सहोत्थितः ॥' पौर्वापर्यविपर्यये यथा-'शराः पुरस्तादिव निष्पतन्ति कोदण्डमारोपयतीव पश्चात् । अन्वक्प्र. हारा इव संघटन्ते प्राणान्विषः पूर्वमिव त्यजन्ति ॥' कार्यकारणयोर्विपर्ययेऽपीयं दृश्यते यथा—'सेयं संततवर्तमानभगवद्वाणार्चनैकाग्रताव्यग्रोपान्तलताविमुक्तकु- मुमा चन्द्रप्रसूतिर्नदी । यस्याः पाण्डुरपुण्डरीकपटलव्याजेन तीरद्वये शश्वत्पार्वण- चन्द्रमण्डलशतानीव प्रसूते जलम् ॥' अत्र नर्मदातचन्द्रस्योत्पत्तिप्रतीतेः कार्य- कारणविपर्ययः । क्रमिकविपर्ययेणापीयं दृश्यते यथा-'अखर्वगर्वस्मितद- न्तुरेण विराजमानोऽधरपलवेन । समुत्थितः क्षीरविपाण्डुराणि पीत्वेव सद्यो द्विषतां यशांसि ॥' अत्र समुत्थानानन्तरभाविनो यशः पानस्य पूर्वनिर्देशात्कमिकवि- पर्ययः । अत्रैव 'पिवन्निवोचः' इति पाठे तु क्रमिकयोः समकालभावित्वम् ।

अलंकारसर्वस्वम् । ८३ एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वेऽतिशयोक्ति लक्षयति- अध्यवसितप्राधान्ये त्वतिशयोक्तिः । अध्यवसाने त्रयं संभवति–खरूपं विषयो विषयी च । विषयस्म हि विषयिणान्तर्निगीर्णत्वेऽध्यवसायस्य स्वरूपोत्थानम् । तत्र साध्यत्वे खरूपप्राधान्यम् । सिद्धत्वे त्वध्यवसितप्राधान्यम् । विषयप्राधान्यम- ध्यवसाये नैव संभवति । अध्यवसितप्राधान्ये चातिशयोक्तिः। अस्याश्च पञ्च प्रकाराः। भेदेऽभेदः। अभेदे भेदः । संबन्धेऽसंबन्धः । असं- बन्धे संवन्धः । कार्यकारणपौर्वापर्यविध्वंसश्च । एतदुपसंहरन्नन्यदवतारयति एवमित्यादि । तामेव लक्षयितुमाह । एतदेव व्याख्यातुमध्यवसायस्य तावद्यथासंभवं स्वरूपं दर्शयति-अध्यवसितेत्यादि । परस्परनिष्टत्वानुपपत्तरध्यवसायस्य किं विषयविषयिभ्यामित्याशझाह-विष- यस्य हीत्यादि । विषयविषयिभ्यामन्तरेणाध्यवसाय एव न भवतीत्यर्थः । एषामेव विषयविभागं दर्शयति-तत्रेत्यादिना । तत्रेति त्रयनिर्धारणे । खरू- पप्राधान्यमित्यध्यवसायप्राधान्यम् । अध्यवसितप्राधान्यमिति विषयिप्राधान्यम् । साध्यत्वं सिद्धत्वं चोत्प्रेक्षायामेव निणीतम् । नैव संभवतीति । अध्यवसाय- खरूपानुदयात् । तदेवं विषयिणः प्राधान्यविवक्षायामलंकारो भवतीत्याह-अध्य- वसितेत्यादि । उक्तं चान्यत्र–'अध्यवसायसाध्यत्वप्रतीतावियमिष्यते। तत्सि- द्धताप्रतीतो तु भवेदतिशयोक्तिधीः ॥' इति । पञ्चेति न्यूनाधिकसंख्यानिरासार्थम् । अत एव कार्यकारणपौर्वापर्यविध्वंसस्य चतुर्थभेदान्तर्भावो न वाच्यः। एवं हि भेदान्त- राणामपि तदन्तर्भाव एव स्यात् । अभेदाद्यसंवन्धेऽपि संवन्धोपनिवन्धनात् । अथ भवत्वेतदिति चेत्।न। अत्र च यद्यपि सर्वत्र भेदेऽभेदादौ वस्तुतोऽसंवन्धे संवन्ध एव वर्णयितुं शक्यते तथाप्यवान्तरभेदविवक्षयान्यैलक्षितत्वाद्विवित्तस्यासंवन्धे संवन्धस्य दर्शितत्वाच्च विभागेन निर्देशः कृत इति भवद्भिरेवोक्तत्वात् । तत्समा- १. 'अध्यवसितस्य' ख. २. 'विरुद्धत्वं' ख.

काव्यमाला। तत्र मेदेऽभेदो यथा- 'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥' .. नन्यायत्वात्कथमस्यापि चतुर्थभेदान्त वो न्याय्यः । अथ यदि कार्यकारणयोः पोर्वापर्यविध्वंसात्समानन्यायताद्यभावेऽपि तथोपनिवन्धे पञ्चमोऽत्र प्रकार इष्यते तद्देशकालयोः पदार्थसंबन्धे विशेषाभावाद्भिन्नदेशत्वाभावेऽपि तथोपनिवन्धे षष्टोऽपि भेदः परिगणनीय इति निर्विषयत्वादसंगतेरभावः प्रसज्यत इति चेत् नैतत् । यस्मादतिशयोक्तावतिशयाख्यप्रयोजनप्रतिपिपादयिषया विषयनिगरणेन विपयिप्राधान्यं विवक्षितम् , असंगतौ तु विरुद्धत्वप्रत्यायनाय कार्यकारणयोर्भिन्न- देशत्वमित्युभयत्राप्यस्ति तावन्निर्विवादो लक्षणभेदः । कार्यकारणपौर्वापर्यविध्वंसे च वल्लभकर्तृकस्य हृदयाधिष्टानस्य कारणस्य स्मरकर्तृकस्य च कार्यस्य पूर्वापरीभाव नि. गीर्य त्वद्दर्शनेनैव विषयान्तरवैमुख्येन त्वदभिलापपरैव जातेल्यतिशयप्रयोजनप्रति- पादनार्थमन्यथात्वमध्यवसितमित्यतिशयोक्तिभेदत्वमेवास्य न्याय्यं न त्वसंगतिभेद- त्वम् । तत्र हि ववन्ध धम्मिलमधीरदृष्टेः मानायकश्चम्पकमालिकाभिः। चित्तेषु मन्युः स्थिरतां जगाम विपक्षसारङ्गविलोचनानाम् ॥' इत्यादौ धम्मिल्ले वन्ध- श्चित्तेषु च मन्युस्थैर्यमिति कार्यकारणयोर्भिन्नदेशत्वम् । यत्रैव बन्धस्तत्रैव तत्का- र्यस्य स्थैर्यस्योपपत्तेविरुद्धत्वप्रत्यायकम् । विरोधस्य चात्राभासमानत्वम् । धम्मि- लबन्धमन्युस्थैर्ययोर्वस्तुतोऽपि कार्यकारणभावसद्भावाभावाख्यस्य वाधकप्रत्ययस्यो. टासात् । न च वाधोदयेऽपि विरोधाप्रतीतिः । द्विचन्द्रप्रतीतिवदनुपपद्यमानतया स्सलद्गतित्वेन तत्प्रतीतेरवस्थानात् । न चातिशयोक्तौ स्खलद्गतित्वम् । निश्चय- खभावत्वादस्या अनुपपद्यमानत्वशङ्काया अप्यभावात् । नहि कार्यकारणयोः पौर्वा- पर्यविध्वंस उपपद्यत इत्यत्र विवक्षितं किंत्वेवं फलमेतदिति अत एवासंगतेरतिश- योक्तेश्च स्वरूप मेदोऽपीति कार्यकारणयोः पौर्वापर्यविध्वंसेनासंगतिर्भिन्नदेशत्वेन चा- तिशयोक्तिरिति यथोक्तमेव युक्तम् । अत एव च 'पौर्वापर्यविपर्याससमकालसमुद्भवौ । कार्यकारणयोयौं तौ विरोधाभासपट्यो ॥' इत्याद्यपि यदन्यैरुक्तं तदयुक्तमेवेति न न्यूनप्रकारत्वम् । केचिच्च सर्वालंकाराणामप्यतिशयोक्तेरेव प्रभेदत्वादस्या बहुप्र: कारतामाचक्षते । तथा छुपमायामप्यस्त्येतद्भेदत्वम् । न्यूनगुणस्य मुखादेरधिक- अलंकारसर्वस्वम् । ८५ अत्र मुखादीनां कमलाद्यैर्भदेऽभेदः । अभेदे भेदो यथा- 'अण्णं लडहत्तणअं अण्णावि अकावि वत्तणच्छाआ । सामा सामण्णपआवइणो रेहच्चिों ण होइ ।' अत्र लडहत्वादीनामभेदेऽप्यन्यत्वेन भेदः । यथा वा- 'मैग्गिअलद्धम्मि बलामोडिअचुंबिऍ अप्पणा अ उवणमिए । एक्कम्भि पिआहरए अण्णोण्णा होति रसभेआ ।' अत्राभिन्नस्यापि प्रियाधररसस्य विषयविभागेन भेदेनोपनिबन्धः । संबन्धेऽसंबन्धो यथा- गुणेन चन्द्रादिना साम्येऽतिशयानतिपातादतिशयं विना च गौरिव गवय इत्या- दावनलंकारत्वात् । अतश्चातिशयस्यैवसर्वालंकारवीजभूतत्वात् 'एकैवातिशयो- क्तिश्च काव्यस्यालंकृतिर्मता' इत्युक्तम् । नैतत् । इह ह्यतिशयस्य द्वयी गतिः यदयं कविप्रतिभानिवर्तितः सामान्यात्मा भवति भेदेऽप्यभेद इत्येवमादिरूपो विशेषात्मा वा । तत्राद्यः सर्वैरेवालंकारवीजतयाभ्युपगतः । अन्यथा हि गौरिव गवय इत्या- दावलंकारत्वं स्यात् । तावता पुनरेतत्प्रभेदत्वं सर्वालंकाराणां न युक्तम् । तत्त्वे हि विशेषोक्त्युल्लेखादीनामपि तत्प्रसङ्गः । सर्वालंकाराणामपि विशेषोक्त्युल्लेखरूप- त्वात् । अथ द्वितीयपक्षाश्रयेणतदुच्यते तदप्ययुक्तम् । अस्या ह्यध्यवसितप्राधान्यं लक्षणम् । तच्चालंकाराणां न संभवति । तथात्वानवगमात् । अतश्चैषामसंभवत्त- सामान्यत्वात्कथं तद्विशेषत्वमिति बहुप्रकारत्वमस्या निरस्तम् । मुखादीना- मिति । न तु वास्तवस्य सौन्दर्यस्य । कमलाबैरिति । न तु कविसमर्पितेन सौन्दर्येण । अत एव चात्रातिशयाख्यमित्यादिस्तदभिप्रायेणैवाध्यवसितप्राधान्य- मित्यन्तश्चोत्तरकालिको ग्रन्थः खमतिजाघ्याल्लेखकैरन्यथा लिखित इति निश्चि- १. 'अन्यत्सौन्दर्यमन्यापि च कापि वर्तनच्छाया । श्यामा सामान्यप्रजापते रेखैव न भवति ॥' इति च्छाया । 'मागितलब्धे वलात्कारचुम्बिते आत्मना चोपनीते। एकमिन्नपि प्रियाघरेऽन्येऽन्ये भवन्ति रसभेदाः ॥ इति च्छाया। २ .

८६ काव्यमाला। 'लावण्यद्रविणव्ययो न गणितः क्लेशो महान्वीकृतः खच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः । एषापि खगुणानुरूपरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥' अत्र लावण्यद्रविणस्य व्ययसंबन्धेऽप्यसंबन्धस्तन्वीलावण्यप्रकर्षप्र. तिपादनार्थ निबद्धः । यथा वा- 'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारेकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नुं विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुंनिः' अत्र पुराणप्रजापतिनिर्माणसंबन्धेऽप्यसंबन्ध उक्तः । असंबन्धे सं- बन्धो यथा- 'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ।।' नुमः । अयं हि ग्रन्थकृतः पश्चात्कैश्चिद्विपश्चिद्भिः पत्रिकाभिलिखित इल्लवगीता प्रसिद्धिः । ततश्च तैरनवधानेन ग्रन्थान्तरप्रसङ्गत्वादनुपयुक्तत्वाद्वा पत्रिकान्तराद- यमसमञ्जसप्रायो ग्रन्थखण्डो लिखित इति । न पुनरेकत्रैव तदैव मुखादीनां कमलाद्यभेदेऽप्यभेद इत्युक्त्वापि न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीय इत्यादि वचनं पूर्वापरपराहतमस्य वेदुष्यशालिनो ग्रन्थकारस्य संभाव्यम्। लडहत्वादीनामित्यादिशब्दाद्विवर्तनेच्छाया एव ग्रहणम् । तत्रैवाभेदेऽपि भेदवि- वक्षणात् । उत्तरार्धे हि संवन्धेऽप्यसंवन्धः । 'लावण्यदविणव्ययो न गणितः' इत्यस्य पादत्रयी तन्वीलावण्यप्रकर्षप्रतिपादनार्थमिति । एतत्प्रयोजनदर्शनं सर्वोदा- १. 'व्ययस्य' क. २. 'स्वविपय' क.३. 'विधिः' ख..

अलंकारसर्वस्वम् । अत्र संभावनया संबन्धः । यथा वा- 'दाहोऽम्भः प्रसूतिपचः प्रचयवान्बाप्पः प्रणालोचितः श्वासाः प्रेजितदीप्रदीपकलिकाः पाण्डिम्नि मग्नं वपुः । किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिवर्तते ॥' अत्र दाहादीनामम्भःप्रसृत्याद्यैरसंबन्धेऽपि संबन्धः सिद्धत्वेनोक्तः । कार्यकारणपौर्वापर्यविध्वंसः पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा । विपर्ययो यथा- हरणोपलक्षणपरम् । तेनान्यत्र स्वयमेव प्रयोजनमभ्यूह्यम् । संभावनयेति । नतु वस्तुतः । अत एव संवन्धस्यावास्तवत्वादुदाहरणान्तरमाह-दाहोऽम्भ इत्यादि । वाशब्दः समुच्चयार्थः । अत्र च कार्यकारणपौर्वापर्यविध्वंस इत्यनेन प्रसिद्धयोः कार्यकारणयोर्विध्वंसो विपर्ययस्तथा पौर्वापर्यस्यादिपश्चात्कालभावित्वेन प्रसिद्धस्य क्रमस्य विध्वंसो व्यत्ययः सहभावो वेत्यपि भेदत्रयं तत्रेणोक्तम् । एवं च कार्यकारणविध्वंसस्यापि पञ्चप्रकाराः । अवान्तरप्रकारत्वात्पुनरेषां पञ्चप्रकारत्वं नियमगर्भीकारेण पूर्व व्याख्यातम् । तत्र कार्यकारणयोर्विपर्ययो यथा-'एअत्तं अवअत्तं संकोअअरं मिअंक कांतीइं । गहस्सप अरइंदस्स कारणं भणइ सरस्स (?) ॥' अत्रेन्दुकान्तेः संकोचे विपर्ययेण शतपत्रस्य कारणत्वमध्यवसितम्। अत्र भेदेऽभेद इत्येवंरूपातिशयोक्तिहेतुत्वेन स्थिता । उत्तरे त्वर्थे सैव श्लिष्टशब्द- निवन्धना हेतुः । तथाभावोपनिबन्धश्चात्र वफस्य लावण्यप्रकर्षप्रतिपादनार्थम् । क्रमविपर्ययो यथा—'कुपितस्य प्रथममन्धकारी भवति विद्या ततो भ्रुकुटिः। आदाविन्द्रियाणि रागः समास्कन्दति चरमं चक्षुः । आरम्भे तपो गलति पश्चा- खेदसलिलम् । पूर्वमयशः स्फुरत्यनन्तरमधर इति ।' अत्र कोपकार्ये विद्याभ्रुकु- व्यादीनामन्धकारीभवनादो क्रमं निगीर्य तद्विपर्ययोऽध्यवसितः । तस्यैव सहभावो यथा-'रइभवणाहि परिअणो मसणं मणिमेहला णिअंबाहिं । लजा हिअआहि समो सरंति. ससिमुहीणं ॥' अत्र परिजनादीनामपसरणे ऋमिकत्वेऽपि समका- लत्वमध्यवसितम्। एवमेषां सर्वेषामेव भेदानां लोकासंभवद्विषयत्वं दर्शयितुमाह- ८८ काव्यमाला । 'हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥' तुल्यकालत्वं यथा- 'अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः । अयमायातः कालो हन्त हताः पथिकगेहिन्यः॥ एषु पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिक्रान्तगोचरम् । अत्र चातिशयाख्यं यत्फलं प्रयोजकत्वान्निमित्तं तत्राभेदाध्यवसायः । तथा हि 'कमलमनम्भसि' इत्यादौ वदनादीनां कमलाद्यैर्भेदेऽपि वास्तवं सौन्दर्य कविसमर्पितेन सौन्दर्येणाभेदेनाध्यवसितं भेदेऽभेदवचनस्य निमित्तम् । तत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यम् । न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीयः । अभेदे भेद इत्यादिषु प्रकारेप्वव्याप्तेः । तत्र हि 'अण्णं लडहत्तण' इत्यादौ साति. शयं लडहत्वं निमित्तभूतमभेदेनाध्यवसितम् । एवमन्यत्रापि ज्ञेयम् । - एप्वित्यादि । एष्विति विषयसप्तमी । एष चावयवनिर्देशः । लोकातिका- न्तेति । कविप्रतिभानिर्मितमेव सातिशयं वस्त्वेषां विषय इत्यर्थः । अत्रेति भेद- पञ्चके । चशब्दः प्रमेयान्तरसमुच्चयार्थः । फलमिति । तस्यैव प्रतिपिपादयि- षितत्वात् । तत्रेति । वास्तवस्य सौन्दर्यस्य कविसमर्पितेन सौन्दर्येणाभेदवचनेन । ननु चात्र वदनादीनां कमलाद्यध्यवसायः प्रतीयत इति कथमेतदुक्तमित्याश- झ्याह-न त्वित्यादि । कुतश्च तेष्वव्याप्तिरित्याशङ्कयाह-तत्र हीत्यादि । कमलमनम्भसीत्यत्र हि यदि वदनादीनां धर्मिणामभेदाध्यवसाययोजनं क्रियते तत्तस्य धमिगतत्वेनैवेटेरिह धर्माणां न स्यादव्याप्तिः । अतश्च पूर्वत्र धर्माणामेवा- घ्यवसायो योजनीयो येन सर्वत्रक एव पक्षः स्यादिति तात्पर्यार्थः । उपलक्ष्यं चैतत् । यावता ह्यध्यवसितप्राधान्यमस्या लक्षणम् । तच्च धर्मिणामस्तु धर्माणां वेति को विशेषो येनाव्याप्तिः स्यात् । प्रत्युत धर्मयोरभेदाध्यवसायाभ्युपगमे उप- १. 'पतता' क. २. 'एष्वेव' ख. ३. 'अतश्चात्र' ख. ४ 'अत्र च' ख.

अलंकारसर्वस्वम् । ८९ तदभिप्रायेणैवाध्यवसितप्राधान्यम् । प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालंकारप्रस्तावे प्रपञ्चाथ लक्षयिष्यते । एवमध्यवसायाश्रयमलंकारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलंकारा इदानीमुच्यन्ते । तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां द्वैविध्ये पदार्थ- गतमलंकारद्वयमुच्यते- औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसंवन्धे तुल्ययोगिता । इवाद्यप्रयोगे ह्यौपम्यस्य गम्यत्वम् । तत्र प्राकरणिकानामप्राकरणि. कानां वार्थानां समानगुणक्रियासंवन्धे अन्वितार्था तुल्ययोगिता । यथा- 'सज्जातपत्रप्रकराश्चितानि समुद्वहन्ति स्फुटपाटलत्वम् । विकखराण्यर्ककरप्रभावादिनानि पद्मानि च वृद्धिमीयुः ॥' मादीनामप्यतिशयोक्तिप्रसङ्गः स्यात् । तत्रापि धर्माणामेव भेदेऽभेदविवक्षणात् । एवं च विजातीयत्वेन भेदे धर्मयोरप्यव्याप्तिः प्रसज्यत इत्यलमसङ्गतग्रन्थार्थोदीर- गेन । प्रपञ्चार्थ मिति । न तु निर्णयार्थम् । इहैव तस्य निश्चितत्वात् । प्रपञ्चश्व तत्रैव दर्शयिष्यते । एतदुपसंहरन्नन्यदवतारयति–एवमित्यादिना । गम्यमा- नौपम्याश्रया इति इवाद्यप्रयोगात् । पदार्थमिति । वाक्यार्थापेक्षया पदार्थप्रती- तेरन्तरगत्वात् । तत्र प्रथमं तुल्ययोगितामाह-औपम्येत्यादि । एतदेव व्या- चष्टे-इवेत्यादिना । तत्रेत्यौपम्यस्य गम्यत्वे सति । प्राकरणिकानामिति द्वयोः समानधर्मसंवन्धस्य संभवादेव ग्रहणसिद्धर्बहुवचननिर्देशो बहूनां ग्रहणार्थम् । अत एव च वैहूनामौपम्यग्रहणायेति न वाच्यम् । वक्ष्यमाणोदाहरणेषु योरौपम्यस्यो- द्भासमानत्वात् । एवं दीपकेऽपि ज्ञेयम् । अन्वितार्थेति । समानधर्मसंबन्धि- नामत्र भावात् । अनेनैव चास्याः प्रकृतानामप्रकृतानां च गुणक्रियात्मकधर्म- १. 'संजात' क-ख. 'सज्ज-आतपत्र' इति दिनपक्षे छेदः, 'सत्-जात-पत्र' इति च पनपक्षे. २. 'ग्रन्थदूषणोदीरणेन' क. ३. 'निगीर्णत्वात्' क. ४. 'बहूनामेव' ख.

काव्यमाला। अत्र ऋतुवर्णनस्य प्रक्रान्तत्वादिनानां पद्मानां च प्रकृतत्वाद्वृद्धिग- मनं क्रिया । एवं गुणेऽपि । यथा- 'योगपट्टो जटाजालं तारवीत्वपगाजिनम् । उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम् ।।' उचितत्वं गुणः । अप्राकरणिकानां यथा- 'धावत्त्वदश्वपृतनापतितं मुखेऽस्य निर्निद्रनीलनलिनच्छदकोमलाङ्गया । भग्नस्य गूर्जरनृपस्य रजः कयापि तन्व्या तवासिलतया च यशः प्रमृष्टम् ॥' अत्र गूर्जरं प्रति नायिकासिलतयोरेंपाकरणिकत्वे मार्जनं क्रिया । गुणो यथा- 'त्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते । मालतीशशभृल्लेखाकदलीनां कठोरता ॥ योगाद्वैविध्येन चतुष्प्रकारत्वमप्युक्तम् । न चास्यातिशयोक्तिरनुप्राणकतया वाच्या। तां विनापि वक्ष्यमाणोदाहरणेष्वस्याः संभवात् । औपम्याभावेऽपि गुणसाम्यो- दाहरणद्वयं प्राच्योदाहृतत्वाद्रन्थकृतोदाहृतम् । यत्र पुनरौपम्यं प्रतीयते तदुदा- हियते यथा-'ईर्ष्याविकारावसरे तवोचितमिदं प्रिये । स्खलद्गतित्वं वचसां लीलाचक्रमणस्य च ॥' अत्रोचितत्वं गुणः । अप्रकृतयोस्तु यथा-'भूभारोदह- नव्यग्रे सुचिरं त्वयि तिष्ठति । देवाद्य फणिनामय्यः कूर्मच सुखिनो परम् ॥' अत्र मुखित्वं गुणः । केचिञ्च नायिकामिलितयोः प्राकरणिकत्वं मन्यन्त इत्युदा. हरणान्तरेणोदाहियते यथा-'शंभोर्यन्नखरदिमभिः प्रणमतश्चूडामणित्वे स्थिता गङ्गा चन्द्रकला च सर्वजगतां वन्द्यत्वमापादिता । युक्तायाः परतापदावविपदः १. 'प्रक्रान्तत्वम्' क. २. 'अप्राकरणिकत्वं' क.

अलंकारसर्वस्वम् । ९१ कठोरत्वं गुणः । एवमेषा चतुर्विधा व्याख्याता । प्रस्तुताप्रस्तुतयोर्व्यस्तत्वे तुल्ययोगिता प्रतिपाद्य समस्तत्वे दीपक- मुच्यते प्रस्तुताप्रस्तुतानां तु दीपकम् । औपम्यस्य गम्यत्व इत्याद्यनुवर्तते । प्राकरणिकाप्राकरणिकयोर्मध्या- देकत्र निर्दिष्टः समानो धर्मः प्रसङ्गेनान्यत्रोपकाराद्दीपनाद्दीपसादृश्येन दीपकाख्यालंकारोत्थापकः । तत्रेवाद्यप्रयोगादुपमानोपमेयभावो गम्य- मानः । स च वास्तव एव । पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकरणिकत्वे वा वैवक्षिकः । अत्र प्राकरणिकत्वाप्राकरणिकत्वविवर्तित्वादुपमानोपमे- कन्या पितृणामसो दूरीकार्यहिमालया कथमुमापादद्वयी प्राप्यते । अत्र भगवती- पादद्वयस्यैव वर्णनीयत्वाद्गगाचन्द्रकलयोरप्रकृतत्वम् । आपादनं च क्रिया । बिम्ब- प्रतिविम्वभावेनापीयं भवति । यथा-क्षिपन्त्यचिन्त्यानि पदानि हेलया स्वरा- जहंसानधिरुह्य च स्थिता । कवीन्द्रवकेषु च यत्र शारदा सहस्रपत्रेषु रमा च रज्यति ॥' अत्र वक्रपद्मयोर्बिम्बप्रतिबिम्वभावः । अनेनैव चाशयेनात्रालंकारवा- तिके ग्रन्थकृता वैशिष्ट्यमस्या दर्शितम् । शुद्धसामान्यरूपत्वेन यथा-'आस्तां बालस्य संनद्धे द्वे धान्यौ तस्य वृद्धये । एका पयःप्रस्रविणी सर्वसंपत्प्रसूः परा ॥' अत्र प्रस्रवणस्य शुद्धसामान्यरूपत्वम् । एतदुपसंहरन्नन्यदवतारयति-प्रस्तुता- प्रस्तुतानामिति । एकत्रेति प्राकरणिकेऽप्राकरणिके वा। अन्यत्रेति प्राकरणि- कादौ । दीपकेति 'संज्ञायाम्' इत्यनेन कन् । सादृश्येन समुदायगम्यायाः संज्ञाया अभावात् । तत्रेति दीपके। वास्तव इति। प्रकृताप्रकृतयोरुपमानोपमेयरूपत्वात् । पूर्वत्रेति तुल्ययोगितायाम् । इयानेव च दीपकतुल्ययोगितयोर्विशेषोऽस्तीत्यप्यनेन दर्शितम् । न चैतावतैवानयोः पृथग्लक्षणं युक्तम् । औपम्यगर्भत्वाख्यस्य सामा- न्यस्य द्वयोरप्यनुगमात् । एवं च समुचितोपमादेरपि पृथग्लक्षणं स्यात् । ग्रन्थकृता पुनश्चिरन्तनानुरोधात्कृतम् । वैवक्षित इति । यत्रैव वक्तुरुपमानत्वमुपमेयत्वं वा १. 'अत्र कठोरत्वं' ख. २. 'दीपकालंकारोद्दीपकः' ख.

९२ काव्यमाला। यभावस्यानेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वोक्तिः । वस्तुतस्तु वाक्यार्थत्वे आदिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तावादिमध्यान्तदीप- काख्यास्त्रयोऽस्य भेदाः । क्रमेणोदाहरणम्- 'रेहइ मिहिरेण णहं रसेण कव्वं सरेण जोवण । अमएण धुणीधवओ तुमए णरणाह भुवणमिणं ।' 'संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ।।' वक्तुमिष्टं तत्रैव प्रकरणादिवलादाश्रयणीयमित्यर्थः । अतश्च 'प्रस्तुतस्य विनान्येन व्यभिचारस्य दर्शनात्' इति नीत्या प्रस्तुताप्रस्तुतत्वमात्रनिवन्धन एवोपमानोप- मेयभावो न भवतीति भावः। एवं 'प्रसिद्धेनाप्रसिद्धस्य सादृश्यमुपमा मता' इत्या- दिदृशा प्रसिद्धाप्रसिद्धत्वमात्रनिवन्धनोऽप्युपमानोपमेयभावो न वाच्यः । 'खमिव जलं जलमिव खं' इत्यादी द्वयोरपि तुल्यत्वात् । प्रसिद्धगुणत्वाद्यभावेऽप्युपमानो. पमेयभावस्येप्टेयभिचारस्य दर्शनात् । ननु चात्र साधर्म्य वाक्यार्थगतत्वेनैव प्रतीयत इति कथं तस्य पदार्थगतत्वमुक्तमित्याशङ्कयाह-अनेकस्येत्यादि । एवं पूर्वत्रापि ज्ञेयम् । धेनुसंध्ययोः प्रकृतत्वादत्रान्ये तुल्ययोगितां मन्यन्त इत्यु- दाहरणान्तरेणोदाहियते-'धम्मजणेण काण वि काणवि अत्थजणेण वोलेई । कामजणेण काण वि काण वि एमेअ संसारो ॥' ऐकक्रियमित्यनेनैकगुणमपि दीपकं स्वयमेवोदाहायमिति सूचितम् । ततु यथा-'फणासहस्रभृदधो दिवि नेत्रसह- स्रभृत् । अद्वितीयः पृथिव्यां च भवान्नामसहस्रभृत् ॥' अद्वितीयत्वं गुणः । एव- मेकां क्रियां गुणं वानेककारकगतत्वेनाभिधाय तदेव च दृष्टान्तीकृत्यैककारकमप्य- १. 'राजते मिहिरेण नभो रसेन काव्यं स्मरेण यौवनम् । अमृतेन धुनीधवः " त्वया च नाथ भुवनमिदम् ॥' इति च्छाया. २. 'अजीधवलो' ख. ३. 'तु नान्येन' क. ४. 'एकक्रियेत्यनेनक' ख.

अलंकारसर्वस्वम् । ९३ 'किवणाण धणं णाआण फणमणी केसराइँ सीहाणं । कुलवालिआण थणआ कुत्तो छप्पंति अमुआणं ॥' एवमेकक्रियं दीपकत्रयं निर्णीतम् । अत्र च यथानेककारकगत- त्वेनैकक्रियादीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकम् । यथा- 'साधूनामुपकर्तुं लक्ष्मी धतुं विहायसा गन्तुम् । न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ॥' नेकक्रियागतत्वेन दीपकं भवतीत्याह-अत्रेत्यादि। अत्र चोच्छ्वासवर्णनीयं भैर- वाचार्यादिसक्तमुपकारकरणादिविशेषरूपं प्रस्तुतं श्रोतॄनववोधयितुं कविकर्तृकमिदं साधूपकारकरणादीनां सामान्यानामप्रस्तुतानां प्रशंसनम् । तेषां च सामान्यानां परस्परमौपम्यप्रतीतेरेककारकगतत्वेनेयं कारकतुल्ययोगिता। अतश्च नेदं कार- कदीपकस्योदाहरणम् । तत्तु यथा—'आलिङ्गितुं शशिमुखीं च सुधां च पातुं कीर्ति च साधयितुमर्जयितुं च लक्ष्मीम् । त्वद्भक्तिमद्भुतरसां हृदये च कर्तु मन्दादरं जनमहं पशुमेव जाने ॥' अत्रालिङ्गनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्टः । प्रस्तुताप्रस्तुतं स्फुटमेव । 'स्विद्यति कूणति वेलति विवैलति निमिषति विलोकयति तिर्यक् । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणीता वधूः श- यने'॥ इत्यत्र तु स्वेदनादिक्रियाणां प्रस्तुतानामेकाधारगतत्वेन समुच्चीयमानत्वाच समुच्चयालंकारो न तु कारकदीपकम् । तद्धि प्रस्तुताप्रस्तुतानां क्रियाणामौपम्यस- द्भावे भवति। एवं सर्वक्रियाणां प्रस्तुतत्वेऽपि समुच्चयस्यौपम्याभावादेव तुल्ययो- गितातोऽपिभेदः । औपम्यसद्भावेऽपि तुल्ययोगितेव । यथा—'चकार दुर्वलानां यः क्षमामागस्विनामपि । जहे निरपराधानामपि यश्च बलीयसाम् ॥' अत्र करणहरणयोः प्रकृतत्वम् । द्वयोरपि राजगतत्वेन वर्णनीयत्वात् । इदं विम्वप्रति- विम्बभावेनापि भवति । यथा-'मणिः शाणोल्लीढः समरविजयी हेतिनिहतः र 'कृपणानां धनं नागानां फणमणयः केसराणि सिंहानाम् । कुलवालिकानां स्तनाः कुतः स्पृश्यन्तेऽमृतानाम् ॥' इति च्छाया. २. 'कीर्ति निधापयितुमर्धयितुं ख. ३. 'बलाति' ख.

९४ काव्यमाला। अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहलविशिष्टं मनो निर्दिष्टम् । छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यते । वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथनिर्देशे प्रतिवस्तू- 'पमा। पदार्थारब्धो वाक्यार्थ इति पदार्थगतालंकारानन्तरं वाक्यार्थगता- लंकारप्रस्तावः । तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देशे उपमा । वस्तुप्रतिवस्तुमावेनासकृन्निर्देशेऽपि सैव । इवाद्यनुपादाने सकृन्नि- देंशे दीपकतुल्ययोगिते । असकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा । आद्यः प्रकारः प्रतिवस्तूपमा । वस्तुतः कलाशेषश्चन्द्रः सुरतमृदिता वालललना । मदक्षीणो नागः शरदि सारदाश्यान- पुलिना तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाः ॥' अत्र शाणोलीढत्वादीनां विम्बप्रतिबिम्बभावः । शुद्धसामान्यरूपत्वं यथा-फणरअणराइअंगो भुअंगणाहो धरं समुव्यहइ । णहदप्पणोवसोहिअसिहो अतुह णाह भुअदंडो ॥' अत्र राजि- तत्वशोभितत्वयोः शुद्धसामान्यरूपत्वम् । नन्वेतदनन्तरमेव मालादीपकमन्यैर्लक्षित तदिहापि किं न लक्ष्यत इत्याशङ्कयाह-छायेत्यादि । छायान्तरेणेति शृङ्खला- रूपेण । प्रस्तावान्तर इति शृङ्खलाबन्धोपचितरूपत्वात् । वाक्यार्थेत्यादि । एतदेव व्याख्यातुमलंकारान्तरैः सहास्या विभागं दर्शयति-तत्रेत्यादिना। 'तया स पूतश्च विभूपितश्च' इत्यत्रोपमायां सकृन्निर्देशः । 'पाण्ड्योऽयमंसार्पितल- म्बहारः' इत्यादावपि चासकृन्निर्देशः । तदेवमिवाद्युपादाने साधारणधर्मस्य यथा- संभवं स्वरूपं निरूप्येवाद्यनुपादानेऽपि निरूपयति-इवादीत्यादिना । यद्यपि दीपकतुल्ययोगितयोः सामान्यस्यासकृन्निर्देशोऽपि संभवति तथापि सकृन्निर्देश विना तयोरनुत्थानात्तदेवेह प्राधान्येनोक्तम् । असकृन्निर्देशश्च द्विधा भवतीत्याह -असदित्यादि । आद्यः प्रकार इति शुद्धसामान्यरूपत्वम् । यदि चात्र १. 'फणरत्नराजितागो भुजङ्गनाथो धरां समुदहति । नखदर्पणोपशोभितशिखश्च तव नाथ भुजदण्डः ॥' इतिच्छाया. २. 'साम्यस्य' ख.

अलंकारसर्वस्वम् । ९५ शब्दस्य वाक्यार्थवाचित्वे प्रतिवाक्यार्थमुपमा साम्यमित्यन्वर्थाश्रयणात् । केवलं काव्यसमयात्पर्यायान्तरेण पृथङ्देिशः । द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते । तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा । यथा- 'चकोर्य एव चतुराश्चन्द्रिकाचामकर्मणि । आवन्त्य एव निपुणाः सुदृशो रतनर्मणि ॥' अत्र चतुरत्वं साधारणो धर्म उपमानवाक्ये, उपमेयवाक्ये तु निपुणपदेन निर्दिष्टः । न केवलमियं साधम्र्येण यावद्वैघयेणापि । यथात्रैवोत्तरस्थाने 'विनावन्तीने निपुणाः सुदृशो रतनैर्मणि' इति पाठे। सामान्यस्यैकरूपत्वमेवास्ति तत्कि पर्यायान्तरेण पृथर्देिशः क्रियत इत्याशङ्कयाह- केवलमित्यादि । यदुक्तम्-'नैकं पदं द्विः प्रयोज्यं प्रायेण' इति । बिम्ब- प्रतिविम्बभावो द्वितीयः प्रकारः। एवमेतदुपसंहरन्प्रकृतमेव सिद्धान्तयति- तदेवमित्यादिना । औपम्याश्रयेणेति । एतदभिदधता ग्रन्थकृता । प्रति- वस्तूपमाया दृष्टान्ताद्भेदो दर्शितः । यतोऽस्याः प्रकृतार्थस्य विशेषाभिदित्सया सादृश्यार्थमप्रकृतमर्थान्तरमुपादीयते । अत एव चात्र प्रकृताप्रकृतयोरुपमानोप- मेयभावः । दृष्टान्ते पुनरेतादृशो वृत्तान्तोऽन्यत्रापि स्थित इति प्रकृतस्यार्थस्यावि- स्पष्टा प्रतीतिर्मा भूदिति प्रतीतिविशदीकरणार्थमर्थान्तमुपादीयते । अत एवात्रा- रोपादानं प्रकृतस्य न क्वाप्युपयुक्तमपि तु प्रेतिपत्तुः प्रकृतार्थप्रतीतेरविस्पष्टता. निरासात् । केचिच्च दृष्टान्ते द्वयोः समर्थ्यसमर्थकभावेनानयोर्भेदमाहुः । तदसत् । यतः सरूपयोर्विशेषयोः समर्थ्यसमर्थकभावो न भवति । वस्त्वन्तरेण वस्त्वन्तरसि- ड्यनुपपत्तेः । नहि सामान्यविशेषयोरेव भवति । सामान्यस्य नियमेन विशेष- निष्टत्वाद्विशेषस्य च नियमेन सामान्याश्रयत्वात् । यदि चात्र समर्थ्यसमर्थकभावः स्यादर्थान्तरन्यासादस्य पृथगलंकारता न स्यात् । समर्थ्यसमर्थकभावात्मनः १. 'पान' ख. २. 'उपमान' क. ३. 'कर्मणि' क. ४. 'विशेपानभिषि- सया' ख. ५. 'प्रतिपत्तेः' क.

९६ काव्यमाला। तस्यापि बिम्बप्रतिविम्वभावतया निर्देशे दृष्टान्तः । तस्यापीति न केवलमुपमानोपमेययोः । तच्छन्देन सामान्यधर्मः प्रत्यवमृष्टः । अयमपि साधर्म्यवैधाभ्यां द्विविधः । आयो यथा- 'अब्धिर्लवित एव वानरभटैः किं त्वस्य गम्भीरता- मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः । दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः ॥' अत्र यद्यपि ज्ञानाख्य एको धर्मों निर्दिष्टस्तस्थापि न तन्निबन्धनमौ- पम्यं विवक्षितम् । यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिविर म्बिनम् । द्वितीयो यथा 'कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नोऽरयः । तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम् ।।' सामान्यस्योभयत्राप्यनुगमात् । अन्ये पुनरुभयत्राप्यार्थमौपम्यमाश्रिल सामान्यस्य शुद्धसामान्यरूपत्वबिम्बप्रतिविम्वभावाभ्यां व्यवस्थितेरनयोर्भेदमाहुः । तदप्य- सत् । एतावतेवौपम्याख्यस्य सामान्यलक्षणस्यानुगतत्वादुपमाभेदवदनयोः पृथ- गलंकारत्वानुपपत्तेः । तदेवं वाक्यनेरपेक्ष्येऽपि वक्तृप्रतिवक्रोरेव विशेषादनयोर्भेदः सिद्धः । वैधयेणापीति । भवतीति शेपः । तस्यापीति । उपमानोपमे. ययोरिति । प्रकृताप्रकृतयोर्धर्मिणोरित्यर्थः । अतश्च धर्माणां धर्मिणां च विम्वप्र- तिविम्वभावेन निर्देशोऽयमलंकारः । यदुक्तमन्यत्रापि-'दृष्टांतः पुनरेतेषां सर्वेषां प्रतिविम्बनम्' इति । उपमानोपमेययोरिति तु स्वार्थ एव (न) व्याख्येयम् । अर्थान्तरस्य प्रकृतदाायोपादानात्सादृश्यस्याविवक्षणात् । आद्य इति साधम्र्येण । यथा वा-'स्थानेषु शिष्यनिवहैः प्रतिपाद्यमाना विद्या गुरुं हि गुणवत्तरमातनोति । आदाय शुक्तिए बलाहकविप्रकीर्णे रत्नाकरो भवति वारिमिरम्बुराशिः ॥' अत्र स्थानादीनां शुक्त्यादिभिः प्रतिविम्बनम् । यन्निवन्धनं चेति । अर्थालंकारत्वं न पुनरोपम्यम् । तस्य च समनन्तरोक्तयुक्त्यासंभवात् । संभवतेत्यादि । १. 'प्रतिपत्त्योः' क.

अलंकारसर्वस्वम् । ९७ अत्र निहतत्वादेः स्थानादिना वैधम्र्येण प्रतिबिम्बनम् । संभवतासंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिविम्म करणं निदर्शना। प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणम् । तत्र कचित्संभवन्नेव वस्तु- संबन्धः खसामर्थ्याद्विम्बप्रतिबिम्बभावं कल्पयति । कचित्पुनरन्वयबा. घादसंभवता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते । तत्र संभवद्वस्तु. संबन्धा यथा- 'चूडामणिपदे धत्ते यो देवं रविमागतम् । सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ।। विम्बप्रतिबिम्बभावमिति । उपमानोपमेयत्वमित्यर्थः । धर्मधर्मिणोरमेदोपचारात् । एवं चात्र निदर्शनायां सादृश्याविनाभावः। तेन 'प्रभाते पृच्छन्तीरनुरहसवृत्तं सहचरीनवोढा न व्रीडामुकुलितमुखीयं कथयति । लिखन्तीनां पत्राङ्कुरमनिशम- स्थास्तु कुचयोचमत्कारो गूढं करजपदमासां प्रथयति ॥' इत्यादौ संभवत्यपि वस्तुसंवन्धे प्रथनस्यौपम्याभावान्न निदर्शनालंकारत्वम् । अनेनैव वस्तुसंबन्धस्य संभवासंभवाभ्यामस्या भेदद्वयमप्युक्तम् । तदेवोदाहरति-चूडामणीत्या- दिना । तत्समर्थाचरणे प्रयोगादिति । 'कारीषोऽध्यापयति' इत्यादिवत् । अभ्या- गतस्य रवेनिरिणा शिरसा धारणं तत्समर्थाचरणम् । अत एवात्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगान्मयेव भवद्भिरप्यतिथिसपर्या कार्येति संभवत्संबन्ध- मूलमत्रार्थमौपम्यम् । एवं च पर्वतस्य बोधनक्रियाकर्तृत्वासंभवादेवाभिमन्तृव्यापा- रोपारोहाभावानात्र प्रतीयमानोत्प्रेक्षा । नापि स्मृत्यलंकारः । गृहमेधिनां गृहकर्तृ- कस्य सद्विषयातिथ्यबोधकत्वस्य वाक्यार्थत्वात् । तत्र हि सदृशदर्शनाद्वस्त्वन्तरस्य स्मृतिर्भवति । नचात्र गृहमेधिनां रविदर्शनादतिथिस्मृतौ कर्तृत्वम् । तेषां सदा. तिथ्यकर्तव्यताया योध्यत्वात् । नाप्यत्र रविणातिथेरतिथिना वा रवेः साम्यं विवक्षितम् । अपि तु मयेव गृहमेधिभिरपि सतामातिथ्यं कार्यमिति । अत एव नात्र वस्त्वन्तरकरणात्मापि विशेषालंकारः। तपनावगमेऽतिध्यादेरसंभाव्यस्यावगमो १. 'चमत्कार' क. २. 'करणादपि' ख. ७ अ. स.

९८. काव्यमाला। अत्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगात्संभवति. वस्तुसं- बन्धः । असंभवद्वस्तुसंबन्धा यथा- 'अव्यात्स वो यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम्। जटापिनद्धोरगराजरत्नमरीचिलीढोमयकोटिरिन्दुः ॥' अत्र स्मरचापसंवन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसं- भवल्लीलासदृशीं लीलामवगमयतीत्यदूरविप्रकर्षाप्रतिबिम्बकल्पनमु- क्तम् । एषापि पदार्थवाक्यार्थवृत्तिमेदावि विधा । पदार्थवृत्तिः समन- न्तरमुदाहृता । वाक्यार्थवृत्तिर्यथा- 'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ।।' जात इत्येवमात्मिकायाः प्रतिपत्तेरभावात् । अतश्च सत्यसति वा संवन्धे निदर्शनेति वाच्यम् । तेन यथोक्तमेव भेदद्वयं स्यात् । असंभवदिति । धर्म्य. न्तरसंबन्धिनो धर्मस्य धर्म्यन्तरेऽन्वयायोगात् । अदूरविप्रकर्षादिति । धर्ममुखेन सादृश्यस्य किंचित्प्रत्यासन्नत्वात् । यथा वा-'अङ्गे पुलअं अहरं सवे- पिअं जंपिअं ससिक्कारं । सव्वं सिसिरेण कसं जं काअव्वं पिअअमेण ॥' अत्र वल्लभकार्यस्य पुलकादेर्धर्मस्य वस्त्वन्तरभूतेन शिशिरेण करणमसंभवत्तस्य साम्य- मवगमयतीति शिशिरस्य वल्लभतुल्यताप्रतीतेरौपम्यम् । अतश्चात्र धर्माणामसं- वन्धाभावान निदर्शनेत्युक्त्वा प्रतिमालंकारत्वं न वाच्यम् । प्रतिमायाश्चान्योदाह- रणेप्वलंकारान्तरादियोगः स्फुट एवेति न पृथगलंकारत्वं वाच्यम् । एवमन्येषा- मपि समप्राणामभिनवालंकाराणां चान्यैरन्यालंकारयोगो योजयितुं शक्य एवेति प्रन्थविस्तरभयादस्मद्दर्शने तदूषणोद्धारस्यैव च प्रतिज्ञातत्वादस्माभिः प्रतिपद्येन (न) दूषितम् । न (नरेतावतैव परमतमप्रतिषिद्धमनुमतमेवेति दृशा एषामपि पृथगलंकारत्वं युक्तं मन्तव्यम् । एषेत्यसंभवद्वस्तुसंवन्धनिवन्धना । न केवलं १. 'वालैः' क. २. 'प्रतिपाद्य तेन' ख. ३. 'पुनस्तावतैव' स्व. ४. 'अशे- पाणामपि' स्व.

अलंकारसर्वस्वम् । ९९ केचित्तु दृष्टान्तालंकारोऽयमित्याहुस्तदसत् । निरपेक्षयोर्वाक्यार्थ- योर्हि विम्बप्रतिबिम्बमावो दृष्टान्तः । यत्र च प्रकृते वाक्यार्थे वाक्या- र्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदर्श- नैव युक्ता, न दृष्टान्तः। एवं च 'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥' इत्यत्र दृष्टान्तबुद्धिर्न कार्या । उक्तन्यायेन निदर्शनाप्राप्तेः । इयं निदर्शना यावत्तद्भेदोऽप्ययं द्विविध इत्यपिशब्दार्थः । उदाहृतेति 'अव्यात्स वः' इत्यादिना । केचिदिति श्रीमम्मटादयः । तदिति दृष्टान्तालंकारवचनम् । एतद- न्यत्रापि योजयति-पवमित्यादिना । उक्तन्यायेनेति । प्रकृतवाक्यार्थे वाक्यार्थान्तरस्य समानाधिकरण्येनाध्यारोप्यमाणत्वात् । अतश्चान्यैर्वाक्यार्थयोः समानाधिकरण्यनिर्देशाच्छ्रौतारोपसद्भावेन वाक्यार्थरूपकं यदुक्तं तत्तावदास्ताम् , यत्पुनः प्रतिवस्तूपमोदाहरणत्वमुक्तं तद्युक्तमेव । निरपेक्षयोर्वाक्यार्थयोधर्मस्य शुद्धसामान्यरूपत्वे प्रतिवस्तूपमा । न चात्रैकमपि संभवति । वाक्यार्थयोः सापे. क्षत्वाच्छु सामान्यरूपवाभावाच अर्थापत्त्युदाहरणत्वमप्यैत्रायुक्तम् । 'जाग्रतः कमलालक्ष्मी यजग्राह तदद्भुतम् । पादद्वन्द्वस्य मत्तेभगतिस्तेये तु का स्तुतिः॥' इत्यत्र तु प्रतिवस्तूपमोदाहरणत्वं पापात्पी(त्पापी ?)यः । अत्र हि वाक्यार्थयोः परस्परं सादृश्यमात्रमपि नास्तीति का कथा प्रतिवस्तूपमायाः। एवंविधमेव चान्यत्र सर्वालंकारोदाहरणेष्वासमञ्जस्यं संभवदपि समनन्तरोक्तहेतुद्वयान्न दर्शि- तम् । तथा च 'आज्ञाधरः पञ्चशरः पुरस्तात्सुधा पुनः कर्मकरी मुखस्य । स चापि सौन्दर्यविशेषबन्दी योन्दुरिन्दीवरलोचनानाम् ॥' इत्यत्र विषयविषयिणोड़े- योरप्युपादानात्स्फुटेऽपि रूपकत्वेऽतिशयोक्स्युदाहरणत्वमुक्तं तत्र चातिशयोक्तित्व- मेव नास्तीति किं कार्यकारणभावपूर्वकत्वनिदर्शनेनेत्यलं बहुना । असंभवद्वस्तुसं. बन्धनिबन्धनायाश्च यद्यपि वस्तुसंबन्धस्याविशेषेण संभव उक्तस्तथापि समनन्त- १. 'असामान्य' ख. २. 'अन्यत्राप्युक्तम्' स्व. ३. 'गतिः' ख. ४. 'पापोत्या- पीयः' ख. ५. 'उपचारात्' क. ६. 'निर्मूलनेन' ख.

काव्यमाला। चोपमेय उपमानवृत्तस्यासंभवात्प्रतिपादिता पूर्वैः वस्तुतस्तूपमेयवृत्तस्यो. पमानेऽसंभवादपि भवति । उभयत्रापि संवन्धविघटनस्य विद्यमान- त्वात् । तद्यथा- 'वियोगे गौडनारीणां यो गण्डतलपाण्डिमा । अलक्ष्यत स खजूरीमञ्जरीगर्भरेणुषु ।' अत्र गण्डतलं प्रकृतम् । तद्धर्मस्य पाण्डिन्नः खर्जूरीरेणुष्वसंभ- वादौपम्यप्रतीतिः। एष च प्रकारः शृङ्खलान्यायेनापि भवति । यथा- 'मुंण्डसिरे बोरफलं बोरोवरि बोर थिरं धरसि । विग्गुच्छाअइ अप्पा णालिअछे आ छलिज्जन्ति ।' इयमपि कचिन्मालयापि भवन्ती दृश्यते । यथा- 'अरण्यरुदितं कृतं शवशरीरमुर्तितं स्थलेऽन्जमवरोपितं सुचिरमूषरे वर्षितम् । श्वपुच्छमवनामितं बघिरकर्णजापः कृतः धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ।।' रोक्तोदाहरणेषु यथोपमानसंवन्धी धर्म उपमेयगतत्वेनैव संभवति तथैवोपमेयसं. बन्धी धर्मः क्वचिदुपमानेऽपीत्याह-इयमित्यादि। उभयत्रेत्युपमेये उपमाने वा । वसन्तवर्णनस्य प्रक्रान्तत्वाइयोः प्रकृतत्वेऽपि गण्डतलस्योपमेयत्वम् । तद्गतत्वेनैव पाण्डिनः सिसाधयिपितत्वात् । सिद्धसाध्यधर्मत्वमेव चोपमानोपमे- यत्वम् यथा वा-'त्वद्वक्त्रलावण्यमिदं मृगाक्षि संलक्ष्यते पत्युरपि क्षपायाः । कथं त्वनेनाहृतमेतदद्य कलावतां वा किमसाध्यमस्ति ॥' अत्र चाटुषु नायिकायाः झ्यत' ख. १. 'सामान्येनोपमानवृत्तस्योपमेयेऽसंमवात्' ख. २. 'संवन्धन' क. ३. 'अह. ४ मुण्डशिरसि बदरफलं बदरस्योपरि वदरं स्थिरं धारयसि । विढम्म्यत आत्मा धूर्तच्छेकाश्छल्यन्ते ॥' इति च्छाया । स्व-पुस्तके 'मुंडभिदिवोरफलवरोकरीवलो अधिरधरिसि । विगुश्चावसि अप्पाणालिआ छेआ छलिंगाति ॥' इत्पत्यशुदं प्राकृतमस्ति.

अलंकारसर्वस्वम् । १०१ कचित्पुनर्निषेधसामर्थ्यादाक्षिप्तायाः प्राप्तेः संबन्धानुपपत्त्यापि भव- ति । यथा- 'उत्कोपे त्वयि किंचिदेव चलति द्राग्गूर्जरक्ष्माभृता मुक्ता भून परं भयान्मरुजुषां यावत्तदेणीदृशाम् । पन्यां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमः ॥' अत्र मुक्तेति निषेधपदं तदन्यथानुपपत्त्या पादयोहंसगतिप्राप्तिरा- क्षिप्यते । सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंब- न्धनिबन्धना निदर्शना। मेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यति- रेकः। अधुना भेदप्राधान्येनालंकारकथनम् । भेदो वैलक्षण्यम् । स च द्विधा भवति । उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात् । विपर्ययो न्यूनगुणत्वम् । क्रमेणोदाहरणम्- प्रस्तुतत्वाद्वक्रमपमेयम् । तद्धर्मस्य च लावण्यस्योपमाने शशिन्यसंभवः । एष इत्यसंभवद्वस्तुसंबन्धनिवन्धनो वा वाच्यः । आक्षिप्ताया इति । प्राप्तिपूर्वक- त्वानिषेधस्य । सेति प्राप्तिः । सादृश्यमिति । पादयोहंसगतितुल्याया गतेः प्रतीतेः । इयं च सामान्यस्यानुगामितया । यथा-अव्यात्स व इत्यादि । अत्र निसर्गवक्रताख्यधर्मस्यानुगामित्वम् । शुद्धसामान्यरूपत्वेन यथा-'हारेणामलक- स्थूलमुक्तेनामुक्तकुन्तलः । फणीन्द्रवद्धजूटस्य श्रियमाप स धूर्जटेः ॥' अत्रामुक्त- वद्धयोः शुद्धसामान्यरूपत्वम् । विम्वप्रतिविम्वभावेन यथा-'उह सरस- दंतमंडलकपोलपडिमागओ मअच्छीइ । अंते सिंदूरिअसंखवत्तकरणिं वहइ चंदो ॥' अत्र दन्तमण्डलसिन्दूरितत्वयोर्बिम्बप्रतिविम्बभावः । भेदप्राधान्य १. 'यत्कोपे' ख. २. 'असंभवत्संभवनिदर्शना' क.

१०२ काव्यमाला। 'दिदृक्षवः पक्ष्मलताविलासमक्ष्णां सहस्रस्य मनोहरं ते । वापीपु नीलोत्पलिनीविकासरम्यासु नन्दन्ति न षट्पदौघाः॥' 'क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ।' अत्र विकखरनीलोत्पलिन्यपेक्षया अक्षिसहस्रस्य पक्ष्मलताया अ- धिकगुणत्वम् । चन्द्रापेक्षया च यौवनस्य न्यूनगुणत्वम् । शशिवलक्ष- ण्येन तस्यापुनरागमात् । इत्यादि । अधुनेति प्राप्तावसरम् । भेदस्य चात्र प्राधान्यादभेदस्य वस्तुतः सद्भा- वः । सादृश्य एव पर्यवसानात् । अत एव सादृश्यव्यतिरेकेण संभवन्नपि भेदो नास्य विषयः। यथा-'दिव्योत्तरीयभृति कौस्तुभरत्नभाजि देवे परे दधतु लुब्ध- थियोऽनुबन्धम् । रूपं दिगम्बरमखण्डनृमुण्डचूडं भावत्कमेव तु वतेश मम स्पृहायै ॥' अत्र वैष्णवेभ्यः स्वात्मनि विष्णोर्वा परमेश्वरे भेदमात्रं विवक्षितं न तु केनापि कस्यचिदौपम्यम् । स इति भेदः । तस्याधिक्यविपर्ययाभ्यां द्वैविध्याझ्य- तिरेकोऽपि द्विविधः । तदाश्रयत्वादस्य । चन्द्रापेक्षयेति । शशियौवनयोर्हि समानेऽपि गत्वरत्वे शशिनः पुनरागमनमपि संभवति न तु यौवनस्येति ततोऽस्य न्यूनगुणत्वम् । नन्वत्र विपर्ययमेवेति सूत्रितं भेदान्तरमयुक्तम् । उपमानादुपमेयस्य न्यूनगुणत्वे वास्तवत्वात्तत्वे चालंकारत्वानुपपत्तेः । यौवनस्य चात्रास्थिरत्वे प्रतिपाद्ये चन्द्रापेक्षयाधिकगुणत्वमेव विवक्षितम् । यदेतचन्द्रवद्यातं सन्न पुनरायातीति । असदेतत् । यतोऽत्र चन्द्रवद्गतं सद्यौवनं यदि पुनरप्यागच्छेत्तत्प्रियं प्रति चिर- मीर्ष्यानुवन्धो युज्येत । कालान्तरेऽपि ह्यस्य तदवलोकनादिना सफलीकारः स्यात् । इदं पुनर्हतयौवनं यातं सत्पुनर्नागच्छतीतीाद्यन्तरायपरिहारेण निरन्त- रतयैव प्रियेण सह सफलयितव्यमिति धिगीर्ध्या त्वज प्रियं प्रति मन्युं कुरु प्रसाद- मित्यस्मिन्प्रियवयस्योपदेशे प्रियं प्रति कोपोपशमाय चन्द्रापेक्षया यौवनस्या पुनरागमनं न्यूनगुणत्वेनैव विवक्षितमिति वाक्यार्थविद एव प्रमाणम् । जचैतद्वास्तवमुपमेयस्य न्यूनगुणत्वम् । तस्यैव सातिशयत्वेन प्रतिपाद्यत्वात् । १. कोणापगमाय' क.

अलंकारसर्वस्वम् । १०३ : उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहार्थसंबन्धे सहोक्तिः। भेदप्राधान्य इत्येव । गुणप्रधानभावनिमित्तकमत्र भेदप्राधान्यम् । सहार्थप्रयुक्तश्च गुणप्रधानभावः । उपमानोपमेयत्वं चात्र वैवक्षिकम् । द्वयोरपि प्राकरणिकत्वादप्राकरणिकत्वाद्वा सहार्थसामर्थ्याद्धि तयोस्तु. ल्यकक्षत्वम् । तत्र तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम् । अर्थाच परिशिष्टस्य प्रधानत्वादुपमेयत्वम् । शाब्दश्चात्र गुणप्रधानभावः । प्रकृतार्थोपरजकत्वे हि सर्वथा कवेः संरम्भः । तच्चाधिकगुणमुखेन भव- त्वितरथा वा को विशेषः । तस्माद्युक्तमेव विपर्यये वेति सूत्रितम् । प्रत्युत प्रतिकूलत्वं वेति सूत्रितमयुक्तम् । उपमानादुपमेयस्याधिक्ये इत्येतावतैव लक्षणेनास्य व्याप्तत्वात् । यतः 'स्वरेण तस्या अमृतस्रुतेव' इत्यादावन्यपुष्टालापस्य प्रतिकूलत्वोक्तेः कर्णकटुकत्वादिना न्यूनत्वावगतरुपमेयभूताया भगवत्याः संव- न्धिनः खरस्यामृतस्रतेवेत्यभिधानादानन्दातिशयदायित्वादेश्वाधिक्यमेवावगम्यत इत्यलं बहुना । अस्यापि सादृश्याश्रयत्वात्सामान्यस्य त्रयी गतिः । तत्रानुगामिता यथा-'नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः। लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानवाह्याः ॥' अत्र परिणाहिरूपत्वस्यानुगामित्वम् । वस्तुप्रतिवस्तुभावे पुनर्ग्रन्थकृतैवोदाहृतम् ।—दिदृक्षव इत्यादि । अत्र मनो- हरत्वरम्यत्वयोः शुद्धसामान्यरूपत्वम् । पक्ष्मलताविलासविकस्वरयोश्च विम्वप्रति- विम्बभावः । उपमानेत्यादि । किं हेतुकं चात्र भेदप्राधान्यमित्याशङ्याह- गुणेत्यादि । गुणप्रधानभावोऽपि किं हेतुक इत्याह-सहार्थेत्यादि । एकस्य प्रधानभूतविभक्तिनिर्देशादन्यस्य च विधिविभक्तिनिर्देशात् । वैवक्षिकमिति न पुनर्वास्तवम् । उपमानोपमेयत्वं हि द्वयोस्तुल्यकक्षत्वे भवति तच्चात्र किं निमित्तक- मित्याशङ्याह-सहार्थत्यादि । परिशिष्टस्येति प्रथमान्तस्य । शाब्द इति न पुनरार्थः । वस्तुतो विपर्ययस्यापि संभवात् । एवं गुणप्रधानभावनिमित्तकं भेद- प्राधान्यमपि शाब्दमेवात्र ज्ञेयम् । वस्तुतो हि सादृश्यस्यैव पर्यवसानाद्भेदाभेदयो स्तुल्यत्वेनैव प्रतीतिः । तस्माच्छाब्दमेव भेदप्राधान्यमाश्रित्येहास्या वचनम् । १. 'संवन्धः' क. २. 'गुणभावात्' ख. ३. 'आश्चर्यपरिशिष्टस्य' ख.

१०४ काव्यमाला वस्तुतस्तु विपर्ययोऽपि स्यात् । तत्र नियमेनातिशयोक्तिमूलत्वमस्याः सा च कार्यकारणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च । अभेदाध्यवसायश्च श्लेषभित्तिकोऽन्यथा वा । साहित्यं चात्र कादि. नानामेदं ज्ञेयम् । तत्र च कार्यकारणप्रतिनियमविपर्ययरूपा यथा- 'भवदपराधैः साधू संतापो वर्धतेतरामस्याः ।' अत्रापराधानां संतापं प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनिबन्धः । श्लेषभित्तिकामेदाध्यवसायरूपा यथा- 'अस्तं भाखान्प्रयातः सह रिपुभिरयं संह्रियन्तां वलानि ।' अत्रास्तं गमनं श्लिष्टम् । अस्तमित्य- स्योभयार्थत्वात् । विपर्यय इति । प्रधान विभक्त्या निर्दिष्टस्याप्राधान्यं गुणविभक्त्या च निर्दिष्टस्य प्राधान्यम्। नियमेनेति । अनेनातिशयोक्त्यनुप्राणनमन्तरेणालंकारत्वमेवास्या न भवतीति ध्वनितम्। सेत्यतिशयोक्तिः । कार्यकारणयोः प्रति नियमस्य विपर्ययस्तुल्य. कालत्वादिनोक्तेः । (अथ च कार्यकारणवत्प्रतिनियमस्य क्रमस्य विपर्ययस्तुल्यकाल- त्वादिनोक्तेः ।) अन्यथेत्यश्लेषरूपः। तदेवमस्या अतिशयोक्तिभेदचतुष्टयमनुप्राणकम् । कादीति आदिशब्दात्कर्मादयः । तत्रेति निर्धारणे । अस्यामनुप्राणकत्वेन स्थितेति शेषः । अत्रापराधानां शाब्दो गुणभावः। वस्तुतस्तु प्राधान्यं तेषामेव । प्रतिपाद्य- त्वात् । एवमन्यत्र ज्ञेयम् । 'क्षयमेति सा वराकी स्नेहेन समंत्वदीयेन' इत्यस्यार्धम् । 'कुर्वन्त्वाप्ता हतानां रणशिरसि जना वहिसाद्देहभारानश्रून्मिश्रं कथंचिद्ददतु जल. ममी बान्धवा वान्धवेभ्यः । मार्गन्तो ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्कः' इत्यस्याद्य पादत्रयम् । 'सह कमलैललनानां मानः संकोचमायाति' इत्यस्यार्धम् । एतद्विशेषणपरिहारेणेति अतिशयोक्त्यनुप्राणनमन्तरेण । 'द्वीपान्तरानीतलवङ्गपु. प्पैरपाकृतस्वेदलवा मरुद्भिः' इति द्वितीयमर्धम् । एतानीति समनन्तरोक्तानि । यमापेक्षया द्युजनस्यानन्तरमाप्तमनोरथत्वमित्यादि पश्चाद्भावेन क्रमिकयोस्तुल्य- कालत्वेनोक्तिः । यथा वा-'भाग्यैः संमं समुत्पन्नं प्रजाभिः सह लालितम् । वर्धितं मुकृतैः सार्धमेर्णोराजमसूत सा ॥' अत्र समुत्पत्त्यनन्तरं तद्भाग्यानामुत्प- १. 'सह' क. २. 'कर्णराज' ख.

अलंकारसर्वस्वम् । १०५ तदन्यथारूपा यथा-'कुमुदवनैः सह संप्रति विघटन्ते चक्रवा- कमिथुनानि ।' अत्र विघटनं संबन्धिभेदाद्भिन्नं न तु श्लिष्टम् । एत- द्विशेषणपरिहारेण सहोक्तिमानं नालंकारः। यथा-'अनेन सार्थ विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु' इत्यादौ । एतान्येव कर्तृसाहित्ये उदाहरणानि । कर्मसाहित्ये यथा- धुजनो मृत्युना साधं यस्याजौ तारकामये । चक्रे चक्राभिधानेन प्रेष्येणाप्तमनोरथः ॥' अत्र करोतिक्रियापेक्षया घुजनस्य मृत्योश्च कर्मत्वम् । एषा च मालयापि भवन्ती दृश्यते । यथा- 'उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्ध मुखै मितं भूपानां जनकस्य संशयधिया साकं समास्फालितम् । वैदेह्या मनसा समं च सहसाकृष्टं ततो भार्गव- प्रौढाहंकृतिकन्दलेन च समं तद्भगमैशं धनुः ॥' सहोक्तिप्रतिभटभूतां विनोक्तिं लक्षयति- विना कंचिदन्यस्य सदसत्त्वाभावो विनोक्तिः। त्तिरिति ऋमिकयोः समकालत्वम् । अस्याश्च शुद्धसामान्यरूपत्वं यथा-'मलआ- णिलेण सह सोरह वासिएण दइआणं । वट्ठति वहलसोमालपरिमला सासणिउ- उरंबा ॥' अत्र सौरभपरिमलयोः शुद्धसामान्यरूपत्वम् । बिम्बप्रतिविम्वभावो यथा-'दिनअरअरणिउरंवा कणआअलकडअरेणुविप्फुरिआ। विअसंति परि- मलभरोन्भडेहि कमलाकरेहि समं ॥' अत्र कनकाचलकटकरेणुविच्छुरित- त्वस्य परिमलभरोद्भटत्वं विम्वप्रतिबिम्बत्वेन निर्दिष्टम् । प्रतिभटभूतामिति प्रति- पक्षभूताम् । अत एवैतदनन्तरमेतलक्षणम् । तदेवाह-विना कंचिदित्यादि । एतदेव व्याचष्टे-सत्त्वस्येत्यादिना । कस्यचिदिति यत्र यादृशो विवक्षित[स्त- १ 'सह' क. २ 'मग्नं तदेश' ख. ३. 'दर्शयति' क. ४ 'किंचित्' क.

१०६ काव्यमाला। सत्त्वस्य शोभनत्वस्य भावः शोभनत्वम् । एवमसत्त्वस्याशोभनत्वस्य भावोऽशोभनत्वम् । ते द्वे सत्वासत्वे यत्र कस्यचिदसंनिधानान्निबध्येते सा द्विधा विनोक्तिः । अत्र च शोभनत्वाशोभनत्वसत्तायामेव वक्तव्या- यामसत्तामुखेनाभिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थम् । एवं च तदन्यनिवृत्तौ विघिरेव प्रकाशितो भवति । आद्या यथा 'विनयेन विना का श्रीः का निशा शशिना विना । रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ॥' अत्र विनयाद्यसंनिधिप्रयुक्तश्रीविरहाद्यभिमानमुखेनाशोभनत्वमुक्त- म् । अत्र विनाशब्दमन्तरेणापि विनार्थविवक्षा यथाकथंचिन्निमित्तीम- वति । यथा सहोक्तौ सहार्थविवक्षा । एवं च स्येति । ननु चात्र सत्त्वासत्त्वयोर्विधिमुखेनैव वाच्यत्वे किमिति . प्रतीतिवैषम्यदा- यिना निषेधमुखेन निर्देशः कृत इत्याशङ्कयाह-अत्र चेत्यादि । तच्छब्देन सत्वासत्त्वयोः प्रत्यवमर्पः । अन्यनिवृत्तिप्रयुक्तेन तन्निवृत्तिख्यापनेनापि किं भवती- त्याशझ्याह-एवं चेत्यादि । अन्यस्य कस्यचिदनिवृत्तौ सत्त्वमसत्त्वमेव वा भवतीत्यर्थः । आद्येति असत्त्वनिवन्धनोक्तिः । का श्रीन काचिच्छीरिति श्रियो विरहोऽसद्भावः । विनयासद्भावेऽपि थ्रियोऽसद्भावोऽस्तीत्येतदभिधानं श्रियोऽसत्त्वे पर्यवस्यतीति विनयनिवृत्तिप्रयुक्तं धियोऽसत्त्वमुक्तम् । एवं विनयस्यानिवृत्तौ श्रियः सत्त्व एव विधिः प्रकाशितो भवतीति विनय एव भरवन्धः कार्यः । एवमन्यत्रापि ज्ञेयम् । अन्ये चात्र वास्तवत्वं मन्यमानाः 'तस्याः शैवं विना ज्योत्स्ना पुप्पर्द्धिः सौरभं विना । विनोण्यत्वं च हुतभुक्त्वां विनां प्रतिभासते ॥ इत्यत्र विनोक्त्यलंकारत्वमाहुः । अत्र हि ज्योत्स्नादीना शैत्यादिना नित्य- मविनाभावेऽपि विनाभाव उपनिबद्धः । यदाहालंकारभाष्यकारः-"नित्य- संवद्धानामसंबन्धवचनं विनोक्तिः' इति विनोक्तिरुपसंख्यास्यते” इति । ग्रन्थ- कृता पुनरियं चिरंतनलक्षितत्वाल्लक्षिता । यथाकथंचिदिति । यद्यपि १. 'तदानेवृत्ती' क. २. 'विरहसद्भावः' क.

अलंकारसर्वस्वम् । १०७ 'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् । उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धा ॥' इत्यादौ विनोक्तिरेव । तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशो- भनत्वप्रतीतेः । इयं च परस्परविनोक्तिभङ्ग्या चमत्कारातिशयकृत् । यथोदाहृते विषये द्वितीया यथा- 'मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः ॥" अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभन्योक्तः । सैषा द्विधा वि- नोक्तिः। अधुना विशेषणविच्छित्याश्रयेणालंकारद्वयमुच्यते । तत्रादौ वि- शेषणसाम्यावष्टम्भेन समासोक्तिमाह- विशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः। यथा सहशब्दं विनापि सहार्थे तृतीयास्ति तथा विनाशब्दं विनापि द्वितीयादीनां विनार्थ सद्भावोऽस्ति । तथापि वाक्यार्थपर्यालोचनासामर्थ्यात्तदर्थः पर्यवस्यतीत्यस्य भावः । सहशब्दं विनापि सहार्थविवक्षा यथा-विवृण्वता सौरभरोरदोष वन्दि- व्रतं वर्णगुणैः स्पृशन्त्या । विकखरे कस्य न कर्णिकारे घ्राणेन दृष्टेववृधे विवा- दः॥' अत्र घ्राणेन सहेति तत्प्रयोगं विना तत्प्रतीतावेव विश्रान्तेः । एवं चेति । यस्माद्विनाशब्दं विनापि तदर्थविवक्षा भवतीत्यर्थः । यथोदाहृत इति निरर्थकमि- त्यादौ । यथा वा-हंसाण सरेहि विणा सराण सोहा विणा ण हंसेहिं । अण्णो- ण्णं चिअ एए अप्पाणं णवर गरुएंति ॥' द्वितीयेति शोभनत्वनिबन्धनोतिः । तत्रेत्यलंकारद्वयमध्यात् । आदाविति प्रधानतया । अस्या हि विशेषणमात्रावष्ट- म्भात्परिकराविशेषणसाम्यावेष्टम्भत्वेन विशिष्टत्वम् । विशेषणेत्यादि । अस्या- १. 'बाह्यार्थ' ख. २. 'लोभ' क. 'रोप' ख.रोरशम्दो दारिद्यवाचकः, श्रीकण्ठच- रितस्थमिदं पद्यम्. ३. 'तत्प्रतीतेरविश्रान्तेः' ख. ४. 'वष्टम्भत्वे टिष्टत्वम्' ख. Sri Patan College Simagar १०८ काव्यमाला। इह प्रस्तुताप्रस्तुतानां कचिद्वाच्यत्वं कचिद्गम्यत्वमिति द्वैविध्यम्। वाच्यत्वं च श्लेषनिर्देशभझ्या पृथगुपादानेन वेत्यपि द्वैविध्यम् । एत- टिमेदमपि श्लेषालंकारस्य विषयः । गम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशं- साविषयः अप्रस्तुतनिष्ठं तु समासोक्तिविषयः। तत्र च निमित्तं विशे- षणसाम्यम् । विशेष्यस्यापि साम्ये श्लेषप्राप्तेः । विशेषणसाम्याद्धि प्र- श्वालंकारान्तरेभ्यो विभागं दर्शयितुमुपक्रमते-इहेत्यादिना । वाच्यत्वं चात्र द्वयोः प्रस्तुतयोरप्रस्तुयोः प्रस्तुताप्रस्तुतयोश्च भवति । गम्यत्वं पुनः क्वचित्प्रस्तु- तस्य क्वचिचाप्रस्तुतस्य । प्रस्तुताप्रस्तुतयोस्तु न भवति । ताद्रूप्येण वस्तुसद्भावा- भावात् । श्लेष निर्देशभङ्येति। प्रस्तुतयोरप्रस्तुतयोश्च । पृथगुपादानेनेति । प्रस्तुतयोरप्रस्तुतयोः प्रस्तुताप्रस्तुतयोश्चैतदिति वाच्यम्। अत्र चाप्रस्तुतस्य किंहेतुकं गम्यत्वमित्याशङ्कयाह-तत्र चेत्यादि । तत्रेयप्रस्तुतस्य गम्यत्वे । विशेषणानां चात्र बहुत्वमेव विवक्षितमिति न वाच्यम् । श्वसनविषमा रात्रिर्योत्स्ना तरङ्गित. विभ्रमा शशिमणिभुवो वाष्पायन्ते निमीलति पद्मिनी । उपचिततमोमोहा भूमिळ नक्ति विवर्णतां तदिति गहने दर्श दर्श कथं सखि जीव्यते ॥' इत्यत्र विशेषेणव- हुत्वाभावेऽपि समासोक्तेः सद्भावात् । अतश्च विशेषणानां साम्यादिति न सूत्रणी- यम् । अबहुत्वे तस्याव्याप्तेः । विशेषणसाम्यमपि कस्मादत्र हेतुत्वं भजत इत्याश- याह-विशेषणेत्यादि । अप्रस्तुतमिति न पुनरप्रस्तुतधर्मा एव । नह्यन्यधर्मिसं- बन्धिनो धर्माः स्वधर्मिणमन्तरेणान्यत्रावतिष्ठन्ते। नानायके नायकधर्माणामन्वयो युज्यते । अन्यधर्माणामन्यत्रान्वयासंभवात् । अत एवान्यरोप्यमाणोऽन्यव्यवहा- रोऽन्यत्र न “संभवतीति तदविनाभावात्स्वव्यवहारिणमाक्षिपतीत्याक्षिप्यमाणेनाप्र- स्तुतेन धर्मिणैव प्रस्तुतो धर्म्यवच्छिद्यते न पुनराच्छाद्यते । तथात्वे ह्यप्रस्तुतेन प्रस्तुतस्य रूपरूपितत्वाद्रूपसमारोपः स्यान्न व्यवहारसमारोपः । अत एवाह- मेव' ख. १. 'वैधम्' क. २. विषयम्' क. ३. 'समासोक्तेगोंचरम्' क. ४. 'बाहुल्य: ५. 'विशेषणासद्भावेऽपि' ख. ६. 'धर्माणां च' ख. ७. 'न्वयास- द्भावात्' ख. ७. 'संभवेदिति' क. ९. 'आच्छिद्यते' ख.

अलंकारसर्वस्वम् । १०९ तीयमानमप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते । अवच्छेदकत्वं च व्यवहारसमारोपो न तु रूपसमारोपः । रूपसमारोपे त्ववच्छादितत्वेन प्रकृतस्य तद्रूपरूपित्वाद्रूपकमेव । ततश्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भावात्रिधा भवति । तत्र लिष्टतया यथा- 'उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम्।।' अत्र निशाशशिनोः श्लिष्टविशेषणमहिम्ना नायकव्यवहारप्रतिपत्तिः। अपरित्यक्तखरूपयोर्निशाशशिनो यकनायिकाख्यधर्मविशिष्टयोः प्र- तीतेः । साधारण्येन यथा- 'तन्वी मनोरमा वाला लोलाक्षी पुष्पहासिनी । विकासमेति सुभग भवदर्शनमात्रतः ॥ प्रस्तुतावच्छेदकत्वेनेति । अत ऎवाप्रस्तुतस्य गम्यत्वे इति सूत्रितम् । एवं समासोक्तो व्यवहारसमारोपादप्रस्तुतेन प्रस्तुतस्य वैशिष्ट्यलक्षणमवच्छेदकत्वं विधीयते । रूपके तु रूपसमारोपाद्रूपरूपितत्वाख्यमाच्छादकत्वमित्यनयोर्भेदः । तेन विशेषणानां साम्यादप्रस्तुतधर्मावच्छेद इत्यपास्यास्मलक्षणानुगुण्येनैव विशेष- णसाम्यादप्रस्तुतावच्छेदः समासोक्तिरित्येव सूत्रणीयम् । अतिशयोक्त्याशड्डा पुनरत्र निष्पमाणिकैव । विषयस्योपादानाद्विषयिणश्वानुपादानात् । तदिति अप्र. स्तुतस्य गम्यत्वे निमित्तम् । तत्रेति निर्धारणे । नायकेति सरूपयोरेकशेषः अपरित्यक्तस्वरूपयोरिति । रूपरूपितत्वे हि परित्यक्तं खस्वरूपं स्यात् । अत्रेति लताव्यवहारप्रतीतौ । ननु यदि लतैकगाम्येव विकासाख्यो धर्मस्तस्कथं प्रकृते संगच्छत इत्याशमाह-विकास इत्यादि । एतदेवान्यत्रापि योज- १.'प्रखतस्य' ख.. २. 'अवच्छेदकत्वाञ्च' क. ३. 'अपरित्यक्तयोः' का ४. 'शशिनो यकताख्यधर्म' क. ५. 'एव प्रस्तुतस्य' क-ख. ६. 'तत्रेति क.

११० काव्यमाला। अत्र तन्वीत्यादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः तत्र च लतैकगामिविकासाख्यधर्मसमारोपः कारणम् । अन्यथा वि- शेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः । विकासश्च प्रकृते उपचरितो ज्ञेयः । एवं च कार्यसमारोपेऽपि ज्ञेया । इयं च समा- सोक्तिः पूर्वापेक्षया अस्पष्टा । औपम्यगर्भत्वेन यथा- 'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी । केशपाशालिवृन्देव सुवेषा हरिणेक्षणा ॥' अत्र दन्तप्रभा पुष्पाणीवेति सुवेषत्ववशादुपमागर्मत्वेन च कृते समासे पश्चाद्दन्तप्रभासदृशैः पुष्पैश्चितेति समासान्तराश्रयणेन समान- विशेषणमाहात्म्याल्लताव्यवहारप्रतीतिः । अत्रैव 'परीता हरिणेक्षणा' इति पाठे उपमारूपकसाधकबाधकाभावात्संकरसमाश्रयेण कृते योजने पश्चात्पूर्ववत्समासान्तरमहिम्ना लताप्रतीतिज्ञेया । रूपकगर्भत्वेन तु यति–एवमित्यादिना । तदेवं साधारण्येन समासोक्तविशेषणसाम्ये सत्यप्य- प्रकृतसंबन्धि धर्मकार्यसमारोपमन्तरेण तद्व्यवहारप्रतीतिर्न भवतीति सिद्धम् । सुवेषत्वं प्रकृतार्थ एवानुगुणमित्युपमायाः साधकम् अतश्च तत्समाश्रयः । समा सान्तराश्रयणेनेति । यद्यप्यत्रोपमासमास एव स्थितस्तथाप्युपमानोपमेययो- यंत्ययादेव समासान्तरत्वमुक्तम् । पूर्वापेक्षयास्यान्ययात्वात् । अत्रैवेति दन्तप्र- मेत्यादौ । उपमारूपकसाधकवाघकाभावादिति । परीतत्वस्य हि प्रकृता- प्रकृतयोस्तथा नानुगुण्यमिति साधकत्वाभावः । तथा च न विगुणत्वमिति बाध- कत्वाभावः । अतश्चैकपक्षाश्रयाभावादुपमारूपकयोः संदेहसंकरः । तस्य समाश्रय उभयसमासग्रहणम् । तच्चैकस्मिन्नेव वाक्ये न संभवतीति कामचारेण तयोर्ग्रह- णम् । संकरसमाश्रयेणाप्युपमासमासयोजने कृते यद्वदयमेवालंकारस्तद्वद्रूपकस. मासयोजनेऽपि किमयमेव किमुतालंकारान्तरमित्याशङ्याह-रूपकेत्यादि । १. 'नियतस्य' ख. २. 'वेयम्' क. ३. 'संकराश्रयेण' क.

अलंकारसर्वस्वम् । १११ समासान्तराश्रयणात्समानविशेषणत्वं भवदपि न समासोक्तेः प्रयोज- कम् । एकदेशविवर्तिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् । न च पूर्वदर्शितोपमासंकरविषये एष न्यायः । उपमासंकरयोरेकदेश- विवर्तिनोरभावात् । तच्चैकदेशविवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधम् । अश्लिष्टं यथा- 'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः। धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्याततरं ररास ॥' अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्टुपुरुष- निरूपणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते । श्लिष्टं यथा- 'मदनगणनास्थाने लेख्यप्रपञ्चमुदश्चय- निव किल बृहत्पत्रन्यस्तद्विरेफमषीलवैः । एतच्च साक्षादपि रूपकगर्भे समासे योज्यम् । समानन्यायत्वात् । यद्येवं तर्युपमा- समाश्रयेऽप्येकदेशविवर्युपमामुखेनैवार्थान्तरप्रतीतेः किं नैतद्भवतीत्याशझ्याह- न चेत्यादि । एष इति रूपकोक्तः । अभावादिति उद्भटमतेन। यदाहुः-'न च रुद्रटस्येवोद्भटस्यैकदेशविवर्तिरूपकवदुपमासंकरावेकदेशिनौ स्तः।' अतश्चैतत्तन्म- ताभिप्रायेणोक्तम् । प्रन्थकृन्मते हि वक्ष्यमाणनीत्या तयोः संभवः । ननु यदि तयोर्ग्रन्थकृन्मते संभवस्तदीपम्यगर्भविशेषणोत्थापितः समासोक्तिप्रकारस्तर्हि न संभवति । तस्यैकदेशविवर्तिरूपकवदेकदेशविवर्तिभ्यामुपमासंकराभ्यामेवार्थान्तर- प्रतीतिसिद्धयर्थ्यात् । नैतत् । यतोऽस्त्येव तावदौपम्यगर्भविशेषणहेतुकत्वं समा- सोक्तेः । किं त्वेतदन्यमेदसहचरितमेास्या निमित्ततां भजते न पुनः केवलम् । तथात्वे हि विशेषणानामौपम्यगर्भत्वे एकदेशविवर्तिन्या उपमायाः प्राप्तिः । तत्र विष्टत्वसहचरितमेतद्यथा-'परिपिञ्जरितासिताम्बरैर्निविडैः कं न हरन्ति हारि- १. 'वैयर्थ्यम्' व. २. 'रूपकम्' ख. ३. 'रीत्या' स्व. ४. 'अन्यस्यापि' ख. ५. 'आरोपस्य गर्भवे' स. ६. 'शिष्टेन सह' ख.

११२ काव्यमाला। कुटिललिपिभिः 'कं कायस्थं न नाम विसूत्रय- व्येधित विरहिप्राणेष्वायव्ययावधिकं मधुः ।। अत्र हि पत्रलिपिकायस्थशब्देषु श्लेषगर्भ रूपकं द्विरेफमपीलवैरि. त्येतद्रूपकनिमित्तम् । अस्य च प्रचुरः प्रयोगविषय इति न समासो. भिः । अयि सायमिमाः पयोधरैः स्फुटरागाश्चलतारका दिशः ॥' अत्र 'स्फुटसं- ध्यातपकुङ्कुमैः' इति पाठे संध्यातपकुडमैरित्यौपम्यगर्भ विशेषणम् । साधारण्यस- हचरितं यथा-'तन्वी मनोरमा वाला लोलाक्षी स्तवकस्तनी। विकासमेति सुभग भवद्दर्शनमात्रतः ॥' अत्र स्तवकस्तनीयौपम्यगर्भ विशेषणम् । शुद्धकार्यसमारोप. सहचरितं यथा-'समारुरोहोपरिपादपानां लुलोठ पुष्पोत्कररेणुपुञ्ज । लताप्रसूर्ना शुकमाचकर्ष क्रीडन्धेने किं न चकार चैत्रः ॥' अत्र प्रसूनांशुकमित्यौपम्यगर्भ- विशेषणम् । केवलत्वं पुनरेतेषामेकदेशविवर्तिन्युपमैव यथा-'बभौ लोलाधरद. लस्फुरद्दशनकेसरम् । भ्रूविलासालिवलयं लेलितं ललनामुखम् ॥' अत्र ललितत्व- मुपमासाधकम्। समासान्तराधयात्समानविशेषणत्वं भवदपि नात्र समासोक्तः प्रयोजकम् । एकदेशविवर्युपमामुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् । एवं दन्त- प्रमेत्यादावपि ज्ञेयम् । दन्तप्रभाः पुष्पाणीवेत्येवसमासे कृते उपमानभूताया लतायाः प्रतीतिसिद्धेः समासान्तराश्रयेणागतायास्तत्प्रतीतेर्व्यर्थत्वात् । अप्रकृतागू- रणे हि कवेः संरम्भः तच्चानयैव सिद्धमिति किं समासोक्त्या । चिरंतनानुरो. थात्पुनरत्र ग्रन्थकृता समासोक्तिरुक्ता । यत्तु 'यत्र समासोक्तावुपमायां समासा- न्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्ति रक्ता' इति वक्ष्यति तदपि चिरंतनानुरोधपरमेव । अन्यथा हि समानन्यायत्वादे- कदेशविवर्तिनि रूपकेऽपि यत्र समानविशेषणत्वं योजयितुं शक्यं तत्रापि समा. सोक्तिरिति किं नोक्तम् । यत्तु नोकं तद्युक्तम् । रूपकमाहात्म्यात्प्रथममेव तत्प्रती. तिसिद्धरनन्तरे समासोक्तिमुखेनाप्रकृतप्रतीतेवैयर्थ्यात् । 'आहादिचन्द्रवदना स्फुरत्तारकमौक्तिका । घनान्धकारधम्मिल्ला राजते गगनस्थली ॥' इत्यादी पुनरु- पमायाः साधकाभावादेकदेशविवर्ति रूपकमेवेति न समासोक्तिभ्रमः कार्यः । न १. 'कि कायस्यैः' ख. २. 'व्यथित' स. ३. 'शनैः' क. ४. 'केवलत्वे पुन- रेकदेशविवर्तिन्युपमा यथा' क. ५. 'वलितत्वं' क. ६. 'समासोक्तायां' क.

अलंकारसर्वस्वम् । ११३ क्तिबुद्धिः कार्या । तदेवं श्लिष्टविशेषणसमुत्थापितैका । साधारणवि. शेषणसमुत्थापिता तु धर्मकार्यसमारोपाभ्यां द्विभेदा । औपम्यगर्भविशे- षणसमुत्थापितोपमा संकरसमासाभ्यां द्विभेदा । रूपकासमाश्रयेण तु मेदद्वयमस्या न विषयः । तदेवं पञ्चप्रकारा समासोक्तिः। इयं च शुद्धकार्यसमारोपेण विशेषणसाम्येनोभयमयत्वेन प्रथमं त्रिधा समा- सोक्तिः । विशेषणसाम्यं च पञ्चप्रकारं निर्णीतम् । सर्वत्र चात्र व्यव- हारसमारोप एव जीवितम् । स च लौकिके वस्तुनि लौकिकवस्तुव्य- वहारसमारोपः । शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः । लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः । शास्त्रीये वा लौकिकव. स्तुव्यवहारसमारोप इति चतुर्घा भवति । तदेवं बहुप्रकारा समासो- किः । तत्र शुद्धकार्यसमारोपेण यथा- 'विलिखति कुंचावुच्चैर्गाढं करोति कचग्रह लिखति ललिते वक्रे पत्रावलीमसमञ्जसाम् । चैवमादावुपमारूपकयोः संदेहसंकरो न्याय्यः । तस्यालंकारसारकारादिभिर्निराकृत- त्वात् । समासोक्तिलक्षणावसरे किं रूपकनिरूपणेनेत्याशयाह-अस्या इत्यादि । अस्याश्च यथोपपादितान्भेदान्संकलयति-तदेवमित्यादिना । भेदद्वयमिति साक्षात्संदिह्यमानत्वेन वा। न विषय इति । यथोक्तोपपत्ते रूपक एव विश्रान्तेः । प्रथममिति । एतद्भेदत्रयमस्या मूलभूतमित्यर्थः । उक्तं पुनः प्रका- रपञ्चकमस्या अवान्तरमेदरूपम् । विशेषणसाम्यस्यैतद्भेदत्वात् । यद्यपि शुद्धका- र्यसमारोपेऽपि विशेषणसाम्यमेवास्ति तथाप्यत्र शुद्ध एव कार्यसमारोप उद्रिकतया प्रतीयत इति तस्य पृथग्मेदत्वमुक्तम् । सर्वत्रेति मेदसप्तके । वहुप्रकारेति । लौकिकादीनां व्यवहाराणामानन्त्यात् । उदाहृतमिति उपोढरागेणेत्यादिना । क्रमे- णेति यथोद्देशम् । मीमांसेत्यत्रोत्तरमीमांसा विवक्षिता। तत्र हि निखिलप्रमाणागो- १. 'इत्थं शुद्ध' क. ८ अ० स० २. 'कुचान्' ख. ३. 'बहुप्रपञ्चेति' ख.

११४ । काव्यमाला। क्षितिप खदिरः श्रोणीबिम्बाद्विकर्षति चांशुकं मरुभुवि हठात्रस्यन्तीनां तवारिमृगीदृशाम् ॥' अत्र पत्रावलीविलेखनादिशुद्धकार्यसमारोपात्खदिरस्य हठकामुक- त्वप्रतीतिः । विशेषणसाम्येनोदाहृता । उभयमयत्वेन यथा- 'नि नान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः कणे रुग्जनिता कृतं च नयने नीलान्जकान्ते क्षतम् । यान्तीनामतिसंभ्रमाकुलपदन्यासं मरौ नीरसैः किं किं कण्टकिमिः कृतं न तरुमिस्त्वद्वैरिवामझुवाम् ॥ अत्र नीरसैः कण्टकिभिरिति विशेषणसौम्यम् । निक्षूनान्यलका- नीत्यादिषु कार्यसमारोपः । व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाह- रणम् । यथा- 'द्यामालिलिङ्ग मुखमाशु दिशां चुचुम्ब रुद्धाम्बरां शशिकलामलिखत्करात्रैः । अन्तर्निमग्नचरपुष्पशरोऽतितापा- किं किं चकार तरुणो न यदीक्षणाग्निः ॥' लौकिकं च वस्तु रसादिभेदान्नानाभेदं खयमेवोत्प्रेक्ष्यम् । यैरेकरूपमखिलावपि वृत्तिषु त्वां पश्यद्भिरव्ययमसंख्यतया प्रवृत्तम् । लोपः कृतः किल परत्वजुषो विभक्ते- स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये ॥ अत्रागमशास्त्रप्रेसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः । १. 'नीरसे' ख. २. 'साम्यात्' ख. ३. इत्यादिभिश्च' ख. ४. 'तत्क्षणम्' ख, ५. 'वृत्ते' स्व.

अलंकारसर्वस्वम् । ११५ 'सीमानं न जगाम यन्नयनयोर्नान्येन यत्संगतं न स्पृष्टं वचसा कदाचिदपि यदृष्टोपमानं न यत् । अर्थादापतितं न यन्न च न यत्तत्किंचिदेणीदृशां लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकम् ॥' अत्र लावण्ये लौकिके वस्तुनि मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः । एवं तर्कायुर्वेदज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः । 'खपक्षलीलाललितैरुपोढहेतौ मरे दर्शयतो विशेषम् । मानं निराकर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत् ॥' अत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः । पाण्डित्यशब्दः प्रकृते लक्ष- णया व्याख्येयः। 'मन्दममिमधुर्यमोपला दर्शितश्वयथु चाभवत्तमः । दृष्टयस्तिमिरजं सिविरे दोषमोषधिपतेरसंनिधौ ॥' अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः। गण्डान्ते मददन्तिनां प्रहरतः क्ष्मामण्डले वैधृते रक्षामाचरतः सदा विदधतो लाटेषु यात्रोत्सवम् । पूर्वामत्यजतः स्थितिं शुभकरीमासेव्यमानस्य ते वर्धन्ते विजयश्रियः किमिव न श्रेयस्विनां मङ्गलम् ।।' अत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः । 'प्रसर्पत्तात्पर्यैरपि सदनुमानैकरसिकै- रपि ज्ञेयो नो यः परिमितगतित्वं परिजहत् । अपूर्वव्यापारो गुरुवखुधैरित्यवसितो न वाच्यो नो लक्ष्यस्तव सहृदयस्थो गुणगणः ॥' १. 'लडितेः' क. २. 'व्याख्येयः । तथा' स्व. ३. 'राशा' ख. हृदयसंस्थो' क. ४. 'तव ११६ काव्यमाला। अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः । तथा ह्यत्र गुणगणगत- त्वेन शृङ्गारादिरसव्यवहारः प्रतीयते । यतो रसो न तात्पर्यशक्ति- ज्ञेयः । नाप्यनुमानविषयः । न शब्दरमिधाव्यापारेण वाच्यीकृतः । न लक्षणागोचरः । किं तु विगलितवेद्यान्तरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणापूर्वव्यापारविषयतोऽनुकार्यानुकर्तृगतत्वपरिहारेण सह- दयगत इति प्रसर्पत्तात्पर्यैरित्यादिपदै रस एव प्रतीयते । एवमन्यदपि ज्ञेयम् । 'पश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमभ्यन्तरे यत्र त्रुट्यति मध्यमापि मधुरध्वन्युजिघासारसात् । चाटूच्चारणचापलं विदधतां वाक्तत्र बाह्या कथं देव्या ते परया प्रभो सह रहः क्रीडाहढालिङ्गने।' अत्रागमप्रसिद्धे वस्तुनि लौकिकवस्तुव्यवहारसमारोपः । लौकिक- वस्तुव्यवहारश्च रसादिभेदाईहुभेद इत्युक्तं प्राक् । तत्र शुद्धकार्यसमा- रोपे कार्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशेषणसाम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथंचिद्योज्यम् । इह तु चरं परमात्मस्वरूपं दर्शितम् । तद्यवहारसमारोपोऽत्र कृतः । न तात्पर्येति । यदुक्तम्-'नाभिधैवं न तात्पर्य लक्षणानुमितिर्न वा। ध्वन्यन्त वने शक्ता भेदेन विषयस्थितेः॥' इति । अनुकार्यो रामादिः । अनुकर्ता नटादिः । तद्गोचरश्च न रसः प्रतीयते । यदुक्तम्-'नानुकार्येऽपि रामादौ नटादौ नानुकतरि। रसः सचेतसां किं तु' इति । अन्यदिति । अन्यशास्त्रप्रसिद्धवस्तुसमारोपलक्षणम् । तदित्यं सप्रपञ्चां समासोक्किं प्रतिपाद्य पुनरपि सहृदयानां हृदयंगमीकर्तुं प्रन्थकृदेतत्प्र- तीति विभागेन लक्ष्ये योजयति-इह त्वित्यादिना । अविप्रतिपत्तिद्योतनार्थ- १. 'बहुतर' ख.

अलंकारसर्वस्वम् । 'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्दनखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥ इत्यत्रास्ति तावद्रविशशिनो यकत्वप्रतीतिः । न चात्र विशेषणसा- म्यमिति सा कुतस्त्या । प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसा- म्याच्छरदो नायिकात्वप्रतीतौ तदानुगुण्यात्तयोः समासोक्त्या नायक- त्वप्रतीतिरिति चेत् आर्द्रनखक्षताभमैन्द्रं धनुर्दघानेत्येतद्विशेषणं कथं साम्येन निर्दिष्टम् । न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्वप्र- तीतिः स्यात् । तत्कथमत्र व्यवस्था। अत्रोच्यते-एकदेश विवर्तिन्युपम- यदि प्रतिपदं नोक्ता तदा सा केन प्रतिषिद्धा । सामान्यलक्षणद्वारेणाा यातायास्तस्या अत्रापि संभवात्। अथात्र नोपमानत्वेन नायकत्वं स्वरूपेण प्रतीयते अपितु रविशशिनोरेव नायकव्यवहारप्रतीतिः । तयोरत्र नायकत्वात् । तदत्रार्द्रनखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तु- पर्यालोचनया ऐन्द्रे धनुपि संचारणीयम् । इन्द्रचापामं नखक्षतं दधा- स्तावच्छन्दः । कुतस्त्येति । किमस्या निमित्तमिति भावः । तदानुगुण्यादिति शरदो नायिकात्वप्रतीत्यनुगुणत्वात् । तयोरिति रविशशिनोः । कथमिति । प्रकृतार्थाननुगुणत्वात्साम्यायोगात् । कथमत्र व्यवस्थेति । विशेषणसाम्यायो- गात्समासोक्तेरप्राप्तेरेकदेशविवर्तिन्या उपमाया अनुक्तत्वात्। सामान्यलक्षणेति। उपमानोपमेययोः साधर्म्य भेदाभेदतुल्यत्वे उपमेति । एवमेकदेशविवर्युपमासा- मर्थ्यादेवात्र नायकत्वप्रतीतिरिति भावः । अथेति पक्षान्तरे। यदि चात्र पूर्वोक्त- युक्त्यैवानुगुण्याद्रविशशिनोः समासोक्तिमुखेन नायकत्वप्रतीतिस्तदा नखक्षताभ- मिति विशेषणं कथं साम्येन योजयितुं शक्यमित्याशङ्याह-तत्रेत्यादि । १. 'तत्' क. २. 'यद्यप्यत्रोपमानत्वेन' ख. ३. 'नायकत्वप्रतीतिः' ख. ४. 'अप्रकृतार्था' क.

११८ काव्यमाला। नेति प्रतीतेः । यथा 'दना जुहोति' इत्यादौ दन्नि संचार्यते विधिः एवमियमुपमानुप्राणिता समासोक्तिरेव । इह तु पुनः 'नेत्ररिवोत्पलैः पद्मर्मुखैरिव सरःश्रियः । पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव ॥ इत्यत्र सरःश्रियां नायिकात्वप्रतीतिर्न समासोक्त्या । विशेषणसाम्या- भावात् । तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधर्मत्वेन नायिकात्वप्रतीतिरित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या । गत्यन्तरासंभ. वात् । यैस्तु नोक्ता तेषामप्युपसंख्येयैव । यत्र तु 'केशपाशालि- वृन्देन' इत्यादौ समासोक्तायामुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोधः कश्चित् । सा च समासोक्तिरर्थान्तरन्यासेन क्वचित्समर्थ्यगतत्वेन कचित्सम- र्थकगतत्वेन च भवति । क्रमेण यथा- 'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा । कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् ॥' 'असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः । अनाक्रम्य जगत्सर्वं नो संध्यां भजते रविः ॥' एतदेव शास्त्रान्तरप्रसिद्धदृष्टान्तमुखेन हृदयंगमीकरोति-यथेत्यादिना । अग्नि- होत्रं जुहुयादित्यनेनोत्पत्तिविधिवाक्येन हि होमो विहितः । तस्य च पुनर्विधानम- दग्धदहन्यायेन यावदप्राप्तं विधेर्विषय इत्यभ्युपगमान युज्यत इति तत्रायुक्तत्वादु- पपदे दनि संचार्यत इत्यर्थः । उपमानुप्राणितेति । औपम्यगर्भविशेषणोत्या- पितेत्यर्थः । समासोक्तिरेवेति । न पुनरेकदेशविवर्तिन्युपमा। गत्यन्तरमलं- कारान्तरम् । यैरित्युद्भटादिभिः । यत्र त्वित्यादेर्ग्रन्थस्य पूर्वमेवास्माभिरभिप्राय १. 'दधि' ख.

अलंकारसर्वस्वम् । अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदो यकव्यव- हारप्रतीतौ समासोक्त्यालिङ्गित एवार्थों विशेषरूपः सामान्याश्रयेणा- र्थान्तरन्यासेन समर्थ्यते । सामान्यस्य चात्र श्लेषवशादुत्थानम् । शान्त- तडित्कटाक्षेत्यौपम्यगर्भ विशेषणं समासान्तराश्रयेणात्र समानम् । अस- माप्तेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात्सामान्यरू- पोऽर्थो लिङ्गविशेषनिर्देशगर्भेण कार्योपनिबन्धनेनोत्थापितया समा- सोक्त्या समारोपितनायकव्यवहारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते । आकृष्टिवेगविगलद्भुजगेन्द्रभोग- निर्मोकपट्टपरिवेषतयाम्बुराशेः। मन्थव्यथाव्युपशमार्थमिवाशु यस्य मन्दाकिनी चिरमवेष्टत पादमूले ॥' अत्र निर्मोकपट्टापहवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले वेष्टनं तच्चरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसी- यते । तत्तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति । सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पतिपत्नीव्यवहाराश्रयां समासोक्ति उक्तः । सेत्युक्तप्रपञ्चा। सामान्यस्येत्यानाशब्दस्य स्त्रीत्वमात्राभिधानात् । श्लेष- वशादिति । पयोधराणां हि श्लिष्टत्वम् । लिङ्गविशेषेति । रविसंध्ययोः पुंस्त्रीरूपेण कार्य भजनाख्यम् । एवमन्यालंकारसंमिश्रत्वमप्यस्या दर्शयति- आकृष्टीत्यादिना । सेत्युत्प्रेक्षा । एकः काल इति । ज्ञप्तौ समासोतिगर्भी- १. 'नायकनायिकाव्यवहारन्यासप्रतीतो' ख. २. 'नायकनायिका' ख. ३. 'आ. कृष्ट' क. ४. 'पादमूल' क. ५. 'चरणमूल' क. ६. 'भर्तृपत्नी' क. ७. 'आकृष्टेत्यादि' क.

१२० काव्यमाला। गीकरोति । एवं चोत्प्रेक्षासमासोक्त्योरेकः कालः । एवं 'नखक्षता- नीव वनस्थलीनाम्' इत्यत्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्त- रानुप्रविष्टसमासोक्तिमूल एव । एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा खयमुत्प्रेक्ष्या । विशेषणसाभिप्रायत्वं परिकरः। विशेषणवैचित्र्यप्रस्तावादस्यह निर्देशः। विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः। अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्वि- षयः। एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम । यथा- 'राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुवान्धवस्य मिषतः कर्णस्य शल्यस्य च । कारेणेवोत्प्रेक्षाया उत्थानात् । एवमिति। यथोक्तगत्येत्यर्थः । विशेषणे- त्यादि । इहेति समासोक्त्यनन्तरम् । विशेषणानां चात्र बहुत्वमेव विवक्षितम् । अन्यथा ह्यपुष्टार्थस्य दोषत्वाभिधानात्तन्निराकरणेन खीकृतस्य पुष्टार्थस्यायं विषयः स्यात् । एवमेवंविधानेकविशेषणोपन्यासद्वारेण वैचित्र्यातिशयः संभवतीयस्यालं. कारत्वम् । प्रतीयमानार्थस्य वाच्योन्मुखत्वेन प्राधान्याभावाद्गीकारस्तदन्तःकृत- त्वम् । अत एवेति प्रतीयमानार्थस्य प्राधान्याभावात् । प्रसन्नत्वं वाच्यस्यैव प्राधान्येन निर्देशात् । गम्भीरत्वं प्रतीयमानस्याप्यर्थस्य गुणीभावेन गर्भीकारात्। यत्र च प्रतीयमानं प्रत्युपसर्जनीकृतखार्थयोः शब्दार्थयोरवस्थानं स ध्वनेविषय इति (ध्वनिविदः । यदाहुः–'तत्परावेव शब्दार्थों यत्र व्यङ्ग्यप्रतिष्टितौ । ध्वनेः स एव विषयः' इति । अत्र च न तथात्वमित्युक्तं नायं ध्वनेर्विषय इति ।) अत एव नामाप्यस्य योगिकमित्याह-एवं चेत्यादि । सोत्प्रार्शपरत्वमिति । तथा च राज्ञो जगदक्षितव्यमस्य पुनरनुजमात्ररक्षणासिद्धेरन्यदेव नाममात्रेण राज- १. 'निराकारेण' ख. २. 'विशेषः' ख. ३. 'तस्य' ख. ४. 'प्रतीयमानमनुपस- र्जनीकृत्वा शब्दार्थयोः' ख. ५. कोष्ठकान्तःस्थितः पाठः क. पुस्तके नास्ति. ६. 'पर- मिति' क. ७. 'राज्ञा' क.

अलंकारसर्वस्वम् । १२१ पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः॥' अत्र राज्ञ इत्यादौ सोत्प्राशपरत्वं प्रसन्नगम्भीरपदत्वम् । एवम् 'अ. गराज सेनापते राजवल्लभ द्रोणोपहासिन्कर्ण, सांप्रतं रक्षेनं भीमाहुः- शासनम्' इत्यादौ ज्ञेयम् । विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः। केवलविशेषणसाम्यं समासोक्तावुक्तम् । विशेष्ययुक्तविशेषणसाम्यं त्वधिकृत्येदमुच्यते । तत्र द्वयोः प्राकरणिकयोरप्राकरणिकयोः प्राकर- त्वमित्युपहासपरत्वम् । एवमन्येषामपि स्वयमेवैतदवगन्तव्यम् । आदिशब्देन 'यस्यैकस्यैव दोष्णां जयति दशशती सान्वयो द्वारि रुद्रः कारागारे सुराणां पति- रपि च शची चामरव्यग्रहस्ता । कन्या तस्येयमेका रजनिचरपतेरेष शुद्धान्तमेको वालो निःशङ्कमस्याः प्रविशति च नमस्तेजसे वैष्णवाय ॥' इत्यादावपि विशेष- णानां प्रसन्नगम्भीरत्वं ज्ञेयम् । विशेष्यस्यापीत्यादि । इदमिति श्लेषलक्ष- णम् । आद्यमिति । प्राकरणिकगतत्वेनाप्राकरणिकगतत्वेन च । एवकारश्चात्र भिन्नक्रमो देष्टव्यः । तेन प्रकारद्वयमेवेति व्याख्येयम् । अतश्च तृतीयः प्रकारो विशेषणसाम्य एव भवतीति व्यवच्छेदफलम् । अन्यथा हि प्रकारद्वयस्यास्य विशेष्यसाम्याभावेऽपि दर्शनादव्याप्तिः स्यात् । तद्यथा 'संचारपूतानि दिगन्तराणि' इत्यादि । अत्र प्रभाधेन्वोईयोः प्रकृतयोविंशेष्ययोः साम्याभावः । 'आवाहृद्गतम- ण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्क- शाः । उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याजिनः ॥' अत्र स्तनयोधयोरप्रकृतयोर्विशेष्ययोः साम्याभावः । विशेषणसाम्य एवेति न पुनर्विशेष्यसाम्ये । एतदपि विशेष्यसाम्ये किं न भवती- त्याशङ्याह-विशेष्यसाम्ये त्वित्यादि । यथा-'लंकालआण पुत्तअ वसं. १. 'परम्' क. २. 'वक्तव्यः' क. ३. 'विशेष' ख. ४. 'देववधू' स्व.

१२२ काव्यमाला। णिकाप्राकरणिकयोर्वा श्लिष्टपदोपनिबन्धे श्लेषः । तत्राद्य प्रकारद्वयं विशेषणविशेष्यसाम्य एव भवति । तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति । विशेष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्त- रंगतध्वनेर्विषयः स्यात् । आये तु प्रकारद्वयो द्वयोरप्यर्थयोर्वाच्यत्वम् । अत एवाह-'द्वयोवोपादाने' इति तृतीयप्रकारविषयत्वेनोक्तम् । 'वि- शेष्यस्यापि साम्ये' इति तु शिष्टप्रकारद्वयविषयम् । क्रमेण यथा- 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोवृत्तभुजंगहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ।। 'नीतानामाकुलीभावं लुब्धैर्भूरिशिलीमुखैः । सदृशे वनवृद्धानां कमलानां तदीक्षणे ॥' तमासम्मि लद्धपसराणं । आपीअलोहिआणं वीहेइ जणो पलासाणं ॥' अत्र पलाशानामिति विशेष्यस्यापि श्लिष्टत्वम्। प्रकरणवशाच वृक्षविशेषणामेव वाच्यत्व- नियमात्प्रस्तुतत्वेन निशाचराणामप्रस्तुतानां व्यङ्ग्यत्वम् । अत्र चोपमाया एव व्यङ्ग्यत्वं युक्तं नातिशयोक्तेरिति प्रकृतानुपयोगादिह नोक्तम् । ननु च यथैवायं ध्वनेविषयस्तथैवाद्यमपि मेदद्वयं किं न भवतीत्याशयाह-आद्य इत्यादि । वाच्यत्वमिति । अत एव न ध्वनेर्विषयः । तस्य वाच्यातिरिक्तखरूपत्वात् । तृतीयप्रकारविषयत्वेनेति प्राधान्यादुक्तम् । आद्यस्यापि प्रकारद्वयस्य द्वयोरुपादा- नसंभवात् । एष इति त्रिविधोऽपि श्लेषः । तत्रेति त्रयनिर्धारणे। यत्रेति शब्दश्लेषे । अत एवेति स्वरादिभेदाभावात् । संकलनयेति संसभङ्गासभङ्गपदसंमेलनया। पृथ- गिति भेदेन । तत्र शब्दश्लेषो यथा-'ते गच्छन्ति महापदं भुवि पराभूतिः १. 'गति' ख. २. 'विशेषत्वेन' ख. ३. 'लिष्ट' क. ४. 'येरेवायं' ख. ५. 'सभङ्गासभङ्गपदभङ्गमेलनया' क.

अलंकारसर्वस्वम् । १२३ 'खेच्छोपजातविषयोऽपि न याति वक्तुं देहीति मार्गणशतैश्च ददाति दुःखम् । मोहात्समाक्षिपति जीवितमप्यकाण्डे कष्टं मनोभव इवेश्वरदुर्विदग्धः ॥' अत्र हरिहरयोर्द्वयोरपि प्राकरणिकत्वम् । पद्मानां मृगाणां चोपमा- नत्वादप्राकरणिकत्वम् । ईश्वरमनोभवयोः प्राकरणिकाप्राकरणिकत्वम् । एष च शब्दार्थोभयगतत्वेन वर्तमानत्वात्रिविधः । तत्रोदातादिवरभे- दात्प्रयत्नभेदाच शब्दान्यत्वे शब्दश्लेषः । यत्र प्रायेण पदभङ्गो भवति । अर्थश्लेषस्तु यत्र स्वरादिभेदो नास्ति । अत एव न तत्र सभङ्गपदत्वम् । संकलनया तूभयश्लेषः । यथा- 'रक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः । निरस्य पुप्पेषु रुचिं समग्रां पद्मा विरेजुः श्रमणा यथैव ।।' अत्र रक्तच्छदत्वमित्यादावर्थश्लेषः । नालमित्यादौ शब्दश्लेषः । उभय- घटनायामुभयश्लेपः । ग्रन्थगौरवभयात्तु पृथकोदाहृतम् । समुत्पद्यते तेषां तैः समलंकृतं निजकुलं तैरेवे लब्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूपिताः प्रत्यहं ये दृष्टाः परमेश्वरेण भवता तुष्टेन स्टेन वा ॥' अत्र पदानां सभङ्गत्वं स्पष्टम् । अर्थश्लेषो यथा-'इच्छन्ती चिबुकाग्रचुम्बनमथो शैथिल्यशोज्झितौ नैविज्येन परस्परस्य न मनाकेनापि लब्धान्तरौ । धन्यौ तौ तरुणीस्तनाविव न यो स्वप्नेऽपि विश्लिष्यतो विश्लेषं विषमं विषय भवतो नाधोमुखौ जातु वा ॥' अत्र पदानामसभङ्गत्वं स्पष्टम् । संकलनया तु ग्रन्थकृतैवोदाहृतम् । २. 'इत्यत्र' क. ३. 'सदा दृश्यते। ख. १. 'प्राकरणिकत्वात्' क. ४. 'तैश्चापि' ख.

१२४ काव्यमाला। अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तेः। 'रक्त- च्छदत्वं' इत्यादावर्थद्वयाश्रितत्वादयमर्थालंकारः। 'नालं' इत्यादौ तु शब्दद्वयाश्रितत्वाच्छन्दालंकारोऽयम् । यद्यप्यर्थभेदाच्छब्दभेद इति दर्शने 'रक्तच्छदत्वं' इत्यादावपि शब्दाश्रितोऽयं तथाप्यौपपत्तिकत्वा- दत्र शब्दभेदस्य प्रतीतेरेकतावसायान्नास्ति शब्दभेदः। 'नालं' इत्यादौ तु प्रयत्नादिभेदात्प्रातीतिक एव शब्दभेदः । अतश्च पूर्वत्रैकवृन्तगत- फलद्वयन्यायेनार्थद्वयस्य शब्दश्लिष्टत्वम् । अपरत्र जतुकाष्ठन्यायेन वय- मेव श्लिष्टत्वम् । पूर्वत्रान्वयव्यतिरेकाभ्यां शब्दहेतुकत्वाच्छब्दालंकार- त्वमिति चेत् , न । आश्रयाश्रयिभावेनालंकारत्वस्य लोकवद्यवस्थानात् । अस्य च शब्दार्थाश्रितत्वादुभयालंकारतां दर्शयति-अलंकार्येत्यादिना । ननु च ‘यावन्त एवमर्थाः स्युः शब्दास्तावन्त एव हि' इत्याद्युक्त्यारक्तच्छदत्वमित्या- दावपि शब्दद्वयाश्रयाच्छब्दालंकार एवायं तत्कथमन्यथोक्तमित्याशङ्याह- यद्यपीत्यादि । एकतावसायादिति । रक्तच्छदत्वादेः प्रयत्नादिभेदं विना सादृश्येनार्थद्वयाभिधानात् । अतश्चेति । अर्थद्वयस्य शब्दद्वयस्य च श्लिष्टत्वात् । पूर्वत्रेति । रक्तच्छदत्वमित्यादौ शब्दस्य वृन्तस्थानीयत्वात् । अपरत्रेति नाल. मित्यादौ । जतुकाष्टन्यायेनेति परस्परं संवलितत्वात् । पूर्वत्रेति रक्तच्छदत्वमित्यादी। अन्वयव्यतिरेकाभ्यामिति । रक्तच्छदत्वमित्येव शब्दे स्थिते श्लेषः शब्दप. रिवर्तने तु कृते न श्लेप इत्यत्रापि शब्दहेतुकत्वात्तदलंकारत्वमेवेत्यर्थः । आश्र- याथयिभावेनेति । न पुनरन्वयव्यतिरेकाभ्याम् । ताभ्यां हि यस्य यद्धेतु- कत्वं तस्य तत्कार्यत्वं स्यान्न पुनस्तदलंकारत्वम् । लोकवदिति । लोके हि यथा कर्णाश्रितः कुण्डलादिः कर्णालंकार उच्यते न पुनः सुवर्णकारणहेतुकत्वात्तद- ३. 'कृष्णच्छदत्वमित्येव' क. ४. 'तद- १. 'प्रतीतो' क. २. 'भेदात्म' क. लंकात्वा यत्वमुच्यते' क.

अलंकारसर्वस्वम् । १२५ एष चे नाप्राप्तेष्वलंकारान्तरेष्वारभ्यमाणस्तबाधकत्वेन तत्प्रतिभो- पत्तिहेतुरिति केचित् । 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतः' इत्यादौ विविक्तोऽस्य विषय इति निरवकाशत्वाभावान्नान्य- बाधकत्वमित्यन्यैः सह संकरः दुर्बलत्वाद्वा बाध्यत्वमित्यन्ये । तत्र पूर्वेषामयमभिप्रायः । इह प्राकरणिकाप्राकरणिकोभयरूपानेकार्थगोच- रत्वेन तावप्रतिष्ठितोऽयमलंकारः। तत्राद्यं प्रकारद्वयं तुल्ययोगिताया विषयः । तृतीये तु प्रकारे दीपकं भवतीति तावदलंकारद्वयमिदं लंकारः । तदेवंरूपस्यास्य 'निरवकाशा हि विधयः सावकाशान्विधीन्बाधन्ते' इति नीत्या निरवकाशत्वात्सर्वालंकारापवादकत्वं केचिदाहुरित्याह-एष चे- त्यादि । केचिदित्युद्भटादयः । केचिपुनर्विषयवैविक्त्यस्य संभवान्निरवकाशत्वा- भावान्नास्य सर्वालंकारापवादकत्वमभ्युपयन्तीत्याह-येनेत्यादि । अन्या इति मादृशाः । विविकोऽस्य विषय इति तुल्ययोगिताया अत्राभावात् । सा हि द्वयो- रपि प्रकृतयोरप्रकृतयोर्वा विशेष्ययोः पृथगुपादाने औपम्यस्य च गम्यत्वे भवति। इह तु तदभावः । विशेष्ययोः पृथगनुपादानात् औपम्यस्य च गम्यत्वाभावात् । नपत्रोमाधवस्य माधवेन तेन वा तस्य सादृश्यं विवक्षितम् । एकेनैव शब्देन श्लिष्ट- ठयार्थद्वयस्य प्रतिपिपादयिपितत्वात् । अत्र हि परस्परनरपेक्ष्यात्तयोरुमाधववा- क्यार्थपरामर्शवेलायां माधववाक्यार्थपरामर्शमात्रमपि नास्तीति को नामोपम्यस्या- वसरः । तस्मादेवमादावलंकारान्तरविविक्तविषयत्वाच्छुिष्टतायाश्चोदुरकंधरीभावेन प्रतीतेन निरवकाशः श्लेपः । अन्यैः सह संकर इति द्वयोरपि तुल्यकक्षताप्रतीतेः। वाध्यत्वमिति । श्लेषस्य दुर्बलत्वादलंकारान्तराणां च बलवत्त्वात् । एतच्च ग्रन्थ- कृदेवाप्रे दर्शयिष्यतीति नेहायस्तम् । तदेवमस्य सर्वालंकारापवादकत्वं न युक्तम्। अन्यालंकारवदेव वाध्यवाधकभावादिदर्शनात् । एतच्चालंकारसारकृता सप्रपञ्चमु- क्रमितीह ग्रन्थविस्तरभयात्तथा नोक्तम् । पूर्वेषामित्युद्भटादीनाम् । अविप्रतिपत्ति- २. 'च, प्राप्तेपु' ख. ३ 'बाधकत्वात्' क. ४. 'इह' क. ५. 'दुर्लभत्वा' क. ६. प्रतितिष्ठतो' क. ७. 'एव विषयः' क. ८. 'दुर्लभत्वात्' क.

१२६ काव्यमाला। श्लेषविषयं व्याप्त्या व्यवतिष्ठते । तत्पृष्ठे चालंकारान्तराणामुत्थापनमिति नास्ति विविक्तोऽस्य विषयः । अत एवालंकारान्तराणां बाधितत्वात्प्र- तिभानमात्रेणावस्थानम् । 'येन ध्वस्तमनोभवेन' इत्यादौ च प्राकरणि- कत्वादर्थद्वयस्य तुल्ययोगितायाः प्रतिभानम् । एवं च 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुविम्बमिव' इत्यादौ न गुणक्रियासाम्यबच्छब्दसाम्यमुपमाप्रयोजकमपि तूपमाप्रतिमोत्पत्ति- हेतुः श्लेष एवावसेयः । श्लेषगर्भ तु रूपके रूपकहेतुकस्य श्लेषस्य तृतीयकक्षायां रूपक एवं विश्रान्तिरिति विश्रान्तिरिति रूपकेण श्लेषो बाध्यते श्लिष्टविशेषणनिबन्धनायां च समासोक्तौ विशेष्यस्यापि गम्यत्वाच्छे- षस्य बाधिका समासोक्तिः । इँह तु द्योतकस्तावच्छब्दः । व्याप्त्येति । सर्वलक्ष्यव्यापकत्वेन सर्वत्रैवास्य त्रिरूपत्वात्। तत्पृष्ट इति तुल्ययोगितादीपकोपरि । अलंकारान्तराणामित्युपमादीनाम् । उत्था- पनमिति । तुल्ययोगितादीपकाभ्यामपि तत्प्रतीतेरुद्रेकात् । अत एवेति । तस्य विविक्तविषयत्वासंभवात् । प्रतिभानमित्याभासमात्रम् । न पुनस्तत्रैव विधा- न्तिरित्यर्थः । एतच यथा नोपपद्यते तथा समनन्तरमेवोक्तम् । तदेवं स्वमतो- पोदलनाय पूर्वमस्यान्यैः सह संकरो दुर्बलत्वादा (भावान्नान्य)वाध्यत्वमिति यदुक्तं तदेव प्रपञ्चयितुमेतत्कर्तृकं तावदन्यालंकारवाध्यत्वं दर्शयति-लेपेत्या. दिना । तृतीयकक्षायामिति । प्रथमकक्षायां हि रूपकप्रतीतिरेव । द्वितीय- कक्षायां तु श्लेषप्रतीतिः । श्लेषस्य सर्वालंकारापवादत्वमिच्छद्भिरप्यौटैर्यदन्यालं. कारवाध्यत्वमेतस्योक्तं तत्सर्वजनविरुद्धप्रायमेतेषामिति ध्वनयितुं तदुक्तमेव रूपक- समासोक्तिवाध्यत्वमेतस्य प्रन्थकृतेह दार्शतम् । वाध्यत इति विद्वन्मानसहंसेत्यादौ । वाधिकेति उपोढरागेणेत्यादौ । एवं श्लेषस्यान्यालंकाराणां च परस्परं वाघ्यवाधक- १. 'उत्थानं' क. ४. 'उत्थानमिति' क. २. 'प्रतिभासनम्' ख. ५. 'कर्मकं' क. ६. 'तद्वचन' क. ३. 'इह तु' क-पुस्तके नास्ति.

अलंकारसर्वस्वम् । १२७ 'त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणीं प्रत्यगमद्विवखान् । मन्येऽस्तशैलात्पतितोऽत एव विवेश शुद्ध्यै वडवामिमध्यम् ॥' अत्र श्लोके विवखतो वस्तुवृत्तसंभवि अधःप्रदेशसंयोगलक्षणं यत्प- तितत्वं यच्च वडवाग्निमध्यप्रवेशस्ते द्वे अपि त्रयीमयत्वसंबन्धिवारुणीग- मनरूपविरुद्धाचरणहेतुकाभ्यां पतितत्वाग्निप्रवेशाभ्यामतिशयोक्त्या श्लेषमूलया अभेदेनाध्यवसिते । सोऽयमेकक्रियायोगः । तद्धेतुका च मन्ये अत एव शुद्ध्यै इत्युत्प्रेक्षा(क्षया)। अत्रात एवेति परामृष्टो विरो- घालंकारालंकृतोऽर्थों हेतुत्वेनोत्प्रेक्ष्यते । शुद्ध्यै इति च फलत्वेन । भावं प्रकाश्यान्यैः सहास्य संकीर्णत्वं दर्शयति-इह त्वित्यादिना । वडवाग्निम- ध्यप्रवेशेऽपि वस्तुवृत्तसंभवीति विशेषणं लिङ्गविपरिणामाद्योज्यम् । ते द्वे इति वडवाग्निमध्यप्रवेशपतितत्वे । पतितत्वाग्निप्रवेशाभ्यामिति ब्राह्मण्यपरिच्यावप्राय- श्चित्तात्मकाभ्याम् । सोऽयमिति । यत्पतितत्वाग्निप्रवेशयोर्वस्तुतोऽन्यथास्थित- योरप्यन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसायः । तद्धेतुकेति तच्छब्देन तक्रिया- योगपरामर्शः । फलत्वेनेति उत्प्रेक्ष्यत इत्यत्रापि संवन्धः । तेतश्चेति हेतुफलयोई- योरुत्प्रेक्ष्यमाणत्वात् । ननु विरोधालंकारस्य विरोध एव रूपं तस्य दुष्टत्वात्कृते च समाधाने विरोध एव नास्तीति विरोधालंकृतोऽर्थः कथमत्रोत्प्रेक्षायां हेतुत्वं भजत इत्याशमाह-विरोघेत्यादि । यद्वक्ष्यति–'विरोधाभासत्वं विरोधः' इति । अत एव च विरोधस्याभासमात्रसारत्वाद्यथावभासं विश्रान्त्यभावान प्ररोहो नापि वौधोत्पत्तावपि पैत्तिकज्वलस्तम्भतैमिरिकचन्द्रद्वयावभासवदस्ति प्रत्यय इति नात्र पूर्व विरोधबोधेः पश्चाद्विरोधधीरिति वाक्यस्यावस्थाद्वयम् । ननु वाध्यनिषेधपरो नैतदेवमिति प्रत्ययरूपो वाधो वाध्ये च तथैव प्रतीयते किं तेन कृतं स्यादिति चेत् , स्वलद्गतित्वमिति ब्रूमः । तथाहि शुक्तिकारजतमरीचिकासलिलादिविभ्रान्ति- ष्विव नात्र प्रथमप्रवृत्तविरुद्धप्रतिभासखभाववाध्यविज्ञानसमुत्पुंसनेन वाधकत्वमु- १. 'इति' क. २. 'मूलतया' ख. ३. 'हेतुकत्वेन' क. ४. 'सिद्धयोः' क. ५. 'अतश्चेति' क. ६. 'न रूपं' स्व. ७. 'विरोधालंकाराकृतो' क. ८. वाध्यो. त्पत्तो' ख. ९. 'बोधत्वाच्चात्र विरोधधीः' क.१०. 'वाध्यं' क.

१२८ काव्यमाला। ततश्च हेतुफलयोर्द्वयोरप्यत्रोत्प्रेक्षा । विरोधालंकारस्य च विरोधाभासत्वं लक्षणम् । अतो विरोधाभासनसमय एव हेतुफलोत्प्रेक्षयोरुत्थानम् । देति । वाधोदयेपि पैत्तिकज्वलत्स्तम्भतैमिरिकचन्द्रद्वयावभासवद्विरुद्धप्रैतिभासानि- वृत्तेः । केवलमत्र तद्वशादेवानुपपद्यमानताकारा स्खलद्गतितैवावगम्यते । स्खलद्- तित्वे च प्रतिपत्तृव्यवहारं प्रति निमित्तत्वानुपपत्तिः । न हि पैत्तिकः स्वपित्तविकारा- ज्ज्वलत्स्तम्भदर्शनं मन्यमानस्तत्र दाहपाकाद्यर्थितया प्रवर्तते । तिमिरदोष वा जानानस्तैमिरिकोऽपि वहिश्चन्द्रद्वयास्तित्वव्यवहारं विधत्ते । एवं बाधोत्पत्तेरनुपप- द्यमानत्वात्स्खलद्गतित्वेन प्रतीयमानोऽपि विरोधो न प्रतिपत्रपेक्षोत्प्रेक्षणलक्षणव्य वहारनिमित्तभावमुपगन्तुमुत्सहते । यतोऽनुपपद्यमानत्वेन स्खलद्गतित्वमुपपद्यमा- नत्वेन च व्यवहारनिमित्तत्वमिति परस्परविरुद्धत्वादनुभवविरोधाच तयोः कथमेकत्र समावेशो घटते । अतश्चानेनैवाभिप्रायेणाह-अत इत्यादि । विरोधाभासनस- मय एवेति । न तु वाधकोदयसमय इत्यर्थः । वाधोदयानन्तरं विरोधस्योत्प्रेक्षा- हेतुत्वं न युज्यते इत्युपपादितं स्थितं चोत्प्रेक्षाहेतुत्वं विरोधस्येति वाधोदयात्प्रागे- वान्यथानुपपत्त्या निश्चीयते । वाधस्य च स्वारसिकत्ववस्तुवृत्तः पर्यालोचनालभ्य- त्वेन द्विविधस्यापि सर्वत्रोत्तरकालमेवोल्लासः संभवति । तस्य च वाध्यनिष्टत्वाद्वा- ध्यस्य च पूर्वकालभौवित्वात् । अन्यथा हि निर्विपयो वाधः स्यात् । अतश्चोत्तर- कालं तु विरोधसमाधिरिति भणितेरर्थमजानानेनायमर्थोऽन्वेषणीयः । यदि हि याधः प्रागप्युत्प्रेक्षायाः खाधिकारवशेन खरसत एवोल्सेत्तदुक्तनीत्या उत्प्रेक्षो- त्यानमेव न स्यादित्यवाधित एव विरोध उत्प्रेक्षाया निमित्तमित्युक्तमुत्तरकालं विरोधसमाधिरिति । स च समाधिरत्र दिगार्थाधिगमादववुध्यत इति विरोधस्य श्लेपोऽङ्गम् । तद्वशादेवास्योत्थानात् । तथा चात्रानयोः संकीर्णत्वमात्रमेव न पुनः संकरालंकारः । स तु यथा-संजातपत्रप्रकराञ्चितानि समुद्वहन्ति स्फुटपाटल- त्वम् । विकखराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुः ॥' अत्र श्लेषतुल्य- योगितयोरेकवाचकानुप्रवेशेन संकरः । प्राच्यानां मते पुनरेतत्प्रतिभोत्पत्तिहेतुः १. 'एव' ख. २. 'उत्थानं स्यात्' ख. ३. 'प्रतिभानिवृत्तः' क. 'भावि. ५. 'स्वविकार' ख. ६. पद्मपक्षे 'सत्-जात-पत्र' इति, दिनपक्षे 'सज्ज-आतपत्र' इति च्छेदः, लत्वात्' क.

अलंकारसर्वस्वम् । १२९ उत्तरकालं तु विरोधसमाधिः । श्लेषस्य च सर्वालंकारापवादत्वाद्विरोध- प्रतिभोत्पत्तिहेतुरयं श्लेषः । यत्र तु प्रस्तुताभिधेयपरत्वेऽपि वाक्यस्य श्लिष्टपदमहिम्ना वक्ष्यमाणार्थनिष्ठमुपक्षेपापराभिधानं सूचकत्वं तत्र किं श्लेष उत शब्दशक्तिमूलध्वनिरिति विचार्यते-तत्र न तावच्छेपः । अर्थद्वयस्यानन्वितत्वेनाभिधेयतया वक्तुमनिष्टेः । नापि ध्वनिः । उपक्षे. प्यस्यार्थस्यसंबद्धत्वाभावात्तेन सहोपमानोपमेयत्वस्याविवक्षणात् । न चान्या गतिरस्ति तदत्र किं कर्तव्यम् । उच्यते-श्लेषस्योक्तनयेनाप्र- वृत्तेख़नेरेवायं विषय इति निश्चिनुमः । तथाहि शब्दशक्तिमूले ध्वना- वर्थान्तरस्यासंबद्धत्वात्संबन्धार्थमौपम्यं कल्प्यते । स च संबन्धः प्रका- रान्तरेणौपम्यपरिहारेण यद्यप्युपपादयितुं शक्यः स्यात् तत्कोऽयम- भिनिवेशस्त्रत्र । उपमाध्वनौ वस्तुध्वनिरपि संबन्धान्तरेण समीचीनः स्यात् । अत एवं - श्लेषोऽयमित्याह-श्लेपस्येत्यादि । तेनाद्यः पक्षः स्वाभिप्रायेण ग्रन्थकृतोक्तः । यद्वक्ष्यत्येतच्छोकविचार एव संकरालंकारे । अत्र प्रथमेऽर्धे विरोधप्रतिभोत्पत्ति- हेतुः श्लेषः । दर्शनान्तरे तु विरोधटपो द्वावलंकाराविति । तदेवं स्वमताभिप्रायेणा- स्यालंकारान्तरवदन्यालंकारैः : सह वाध्यबाधकमावं संकीर्णत्वं च प्रकाश्य शब्दश- क्युद्भवाद्धनेविशेष प्रतिपादयति-यत्र त्वित्यादिना । असंवद्धत्वाभावादिति उपक्षेप्यस्यार्थस्य वर्णनीयत्वात् । अन्येति श्लेषध्वनिव्यतिरिक्ता। उतनयेनेति अर्थद्वयस्यान्वितत्वेनाभिधेयतया वक्तुमनिटेरित्यनेन । संवन्धार्थमिति संगत्यर्थम् । यथा-'अतन्दचन्द्राभरणा समुद्दीपितमन्मथा । तारकातरला श्यामा सानन्दं न करोति कम् ॥' अत्र प्रकृताप्रकृतयोरसंवद्धार्थत्वं मा प्रसाहीदिति नायिकाशशिनो- रौपम्यं कल्पनीयम् । संवन्धान्तरेणेति यत्र यादृशेन विवक्षितेन । तत्रेति शब्द- १. 'विरोधि' क. २. 'उपेक्षव परा' स्व. ३. 'तत्र' ख. ४. 'नयेनावाप्रवृत्तः' ख. ५. 'संवन्धत्वात्संबन्धेनार्थ' ख. अस० १३० काव्यमाला। 'अलंकारोऽथ वस्त्वेव शब्दाद्यत्रावमासते । प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ।।' इति न्यायमवनबन्धेन द्विधा शब्दशक्त्युद्भव उक्तः । एवं प्रकृतेऽपि यत्र सूचनाव्यापारोऽस्ति तत्र शब्दशक्तिमूलो वस्तुध्वनिोद्धव्यः । यथा- 'सद्यः कौशिकदिग्विजम्भणवशादाकाशराष्ट्र रसा- त्यक्त्वा धूसरकान्तिवल्कलघरो राजास्तशैलं ययौ । तत्कान्ताप्यथ सान्त्वयन्त्यलिकुलध्वानैः समुल्लासिमिः क्रन्दन्तं कुमुदाकरं सुतमिव क्षिप्रं प्रतस्थे निशा ॥' इति। हरिश्चन्द्रचरितेऽत्र प्रभातवर्णनानुगुण्येन राजशब्दाभिधेयेऽस्तमुपे- युषि चन्द्रे रोहिताश्वाख्यतनयसहितया उशीनर्या वध्वा युक्तस्य हरि- श्चन्द्रस्य राज्ञो विश्वामित्रसंपादितोपद्रववशात्प्रातः स्वराष्ट्रं त्यक्त्वा वारा- पसी प्रति गमनं सूचितं स्यात् । तथा च कौशिकशब्दः प्रकृते इन्द्रोलूकयोर्वर्तते । सूचनीयार्थविषयत्वेन तु विश्वामित्रवृत्तिः । शक्तिमूले ध्वनौ । अत एवेति । औपम्यं विनापि प्रकृताप्रकृतयोः प्रकारान्तरेण संवन्धस्योपपादयितुं शक्यत्वात् । उक्त इति काव्यप्रकाशकृता। चन्द्र इति वर्ण्यमान इति शेषः। सूचितमिति शब्दशक्त्या। तामेव विभज्य दर्शयति-तथा चेत्यादि. ना। अतश्चेति । इत्येव शब्दशक्तीवात् । अत्र च यद्यपि सुतादिरूपार्थशक्तिरप्य- स्तीति वस्तुध्वनेरुभयशक्तिमूलत्वमेव तथापि शब्दशतिरत्र स्फुटा स्थितेति तन्मू- लत्वमेव ग्रन्थकृतास्योक्तम् । शुद्धस्तु शब्दशक्तिमूलो वस्तुध्वनिर्यथा—'न महानयं न च विभर्ति गुणसमतया प्रधानताम् । स्वस्य कथयति चिराय पृथग्जनतो जग- त्यनभिमानतां दधत् ॥' अत्र केवलयैव शब्दशक्त्या सांख्यपुरुषरूपं वस्त्वभिव्य- क्तम् । यत्तु काव्यप्रकाशसंकेते ग्रन्थकृता वस्तुध्वनेः शब्दशक्तिमूलत्वं चिन्त्यमुक्कं तदुदाहरणाभिप्रायेणैवोन्नेयम् । तत्र हि ‘पन्थिअ ण इत्थ सत्यरं' इत्याद्युदाहरणमु. १. 'भर' ख. २. 'संपादितापद्धतिवशात्' क. ३. 'प्रस्थानं सूचितम्' ख. ४. शब्दशक्तिमूलत्वमस्य ग्रन्थकृतान्यानुमतानुरोधादुक्तम्' क.

अलंकारसर्वस्वम् । १३१ वल्कलसुताभ्यां त्वौपम्य सूचनीयार्थनरपेक्ष्येण सादृश्यसंभवमात्रेण संभवनीयम् । अतश्च प्रकृतेन सूचनीयस्य संबन्धाच्छब्दशक्तिमूलो वस्तुध्वनिरयम् । इह च 'आकृष्यादावमन्दग्रहमलकचयं वक्रमासज्य वक्र कण्ठे लमः सुकण्ठः प्रभवति कुचयोर्दत्तगाढाङ्गसङ्गः । बद्धासक्तिनितम्बे पतति चरणयोर्यः स ताप्रियो मे बाले लज्जा निरस्ता नहि नहि सरले चोलकः किं त्रपाकृत् ॥' इत्यलंकारान्तरविविक्तोऽयं श्लेषस्य विषय इति नाशङ्कनीयम् । अप- हुतेरत्र विद्यमानत्वात् । वस्तुतोऽपहवस्य सादृश्यार्थभत्र प्रवृत्ते यमपहु- त्यलंकार इति चेत्, न। उभयथाप्यपहृतिसंभवात् । सादृश्यपर्यवसा- यिना वापहवेनापहवपर्यवसायिना वा सादृश्येन भूतार्थापहवस्योभयत्र विद्यमानत्वात् । भयशक्तिमूलं शब्दशक्तिमूलस्य वस्तुवनेः श्रीमम्मटेनोपात्तम् । इह तु यथासंभवमेव विचारितम् । एवं स्वमतेन श्लेपस्य यथोपपत्ति खरूपं प्रतिपाद्यापि प्राच्यानुरोधा- पुनरपि तदीयमेव मतं दर्शयितुमाह-इह चेत्यादि । भूतार्थो वास्तवः संक्षेप इति प्रमेयसंचयात् । आयेत्यादि सादृश्यपर्यवसायापह्नवस्वरूपा । खप्रस्ताव इत्य- पहुतिलक्षणे । उदाहृतेति पूर्णेन्दोरित्यादिना । द्वितीयेति अपहृतिपर्यवसायिसाह- श्यरूपा । प्रदर्शितेति आकृप्यादावित्यादिना । अत्र च ग्रन्थकृता श्लेषः सर्वालं. कारापवादक इति न केवलं प्राच्यमतानुसारमुक्तम् यावदपह्नवपर्यवसायिसादृश्य- रूपोऽपहुतिभेदोऽपि तन्मतानुसारमेवोक्तः। यद्वक्ष्यति-व्याजोती चत्वारः प्रकारा विद्यन्त इत्युपक्रम्योद्भटसिद्धान्ताश्रयेण तत्तत्रोक्तमिति । अतथात्र प्रन्यकृन्मते वक्ष्यमाणसादृश्या टेषमूला व्याजोक्तिः । तस्या एव वाक्यार्थीभूतत्वेन विधान्तेः। १. विश्रमणीयम्' स्व. २. 'प्रकृतत्वेन' ख. ३. मात्र स्व.

१३२ काव्यमाला। 'सादृश्यव्यक्तये यत्रापहवोऽसावपहुतिः । अपह्नवाय सादृश्यं यत्राप्येषाप्यपह्नुतिः । इति संक्षेपः । आद्या खप्रस्ताव एवोदाहृता, द्वितीया तु संप्रति दर्शिता । तेनालंकारान्तरविविक्तो नास्य विषयोऽस्तीति सर्वालंकारा- पवादोऽयमितिस्थितम् । प्रस्तुतादप्रस्तुतप्रतीतौ समासोक्तिरुक्का । अधुना तद्वैपरीत्येनाप्र- स्तुतात्प्रस्तुतप्रतीतावप्रस्तुतप्रशंसोच्यते अप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा । इहाप्रस्तुतस्य वर्णनमेवायुक्तमप्रस्तुतत्वात् । प्रस्तुतपरत्वे तु कदाचित्ताकं स्यात् । न चाप्रस्तुतादसंबन्धे प्रस्तुतप्रतीतिः अतिप्र- सङ्गात् । संबन्धे तु भवन्ती न त्रिविधं संबन्धमतिवर्तते । तस्यैवा- र्थान्तरप्रतीतिहेतुत्वोपपत्तेः । त्रिविधश्च संबन्धः-सामान्यविशेषभावः कार्यकारणभावः सारूप्यं चेति । सामान्यविशेषभावे सामान्याद्विशे- षस्य विशेषाद्वा सामान्यस्य प्रतीतौ द्वैविध्यम् । कार्यकारणभावेs. उत्तेति समनन्तरम् । यत्तु समासोक्त्यनन्तरं परिकरश्लेषयोर्वचनं तद्विशेषणसा- म्यादिना प्रसङ्गागतम् । तामेवाह-अप्रस्तुतादित्यादि । नन्विहाप्रस्तुतस्य वर्णनमेवायुक्तमिति कथं तस्मादपि प्रस्तुतस्य प्रतीतिर्भवतीत्याशङ्कयाह-इहे- त्यादि । तदित्यप्रस्तुतवर्णनम् । अतिप्रसङ्गादिति सर्वस्मात्सर्वप्रतिपत्त्यात्मनः । तस्यैवेति त्रिविधस्य संवन्धस्य । सामान्यस्य विशेषाश्रयत्वाद्विशेषस्य च सामान्य- निष्टत्वात्सामान्यविशेषयोः परस्परमागूरणे संबन्धः । एवं च कार्यस्य कारणपरत- त्रत्वादन्त्यावस्थस्य कारणस्य कार्योन्मुखत्वात्कार्यकारणयोरपि संबन्धः । इत्यमेत. 'अप्रस्तुतावगती' ख. २. 'इति' क. ३. भवतीति' ख. ४. 'वैधम्' क. ५. 'अत्यावश्यकस्य' ख.

अलंकारसर्वस्वम् । १३३ प्यनयैव भङ्ग्या द्विधात्वम् । सारूप्ये त्वेको मेद इत्यस्याः पञ्च प्रकाराः, तत्रापि सारूप्यहेतुके मेदे साधर्म्यवैधाभ्यां द्वैविध्यम् । वाच्यस्य संभवासंभवोभयरूपताभिस्त्रयः प्रकाराः । श्लिष्टशब्दप्रयोगे त्वर्थान्तर- स्थावाच्यत्वाच्छेषाद्विशेषः । श्लेषे ह्यनेकस्यार्थस्य वाच्यत्वमित्युक्तं तत्र सामान्याद्विशेषस्य प्रतीतो यथा- 'तण्णस्थि किंपि पहणो पकप्पिसं जं ण णिअइघरणीए । अणवर अगमणसीलस्स कालपहिअस्स पाहिजं ॥' अत्र प्रहस्तवघे विशेष प्रस्तुते सामान्यमभिहितम् । विशेषात्सा- मान्यप्रतीतो यथा- 'एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमस्त स जडः शृण्वन्यदस्मादपि । अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनै- स्तत्रोड्डीय गतो हहेत्यनुदिनं निद्राति नान्तः शुचा ॥' अत्र जडानामस्थान एवोद्यम इति सामान्ये प्रस्तुते विशेषोऽभि- हितः । कारणात्कार्यप्रतीतो यथा- - संवन्धद्वयं वास्तवम् । सारूप्यं पुनः प्रातीविकमेव । प्रतीतावेव सदृशेन वस्त्व- न्तरेण सदृशस्य वस्त्वन्तरस्य प्रतीतिसिद्धेः । वस्तुत्वे हि वस्त्वन्तरप्रतीत्या वस्त्व- न्तरप्रतीतिर्न स्यात् । अनयैव भङ्गयेति कारणात्कार्यस्य कार्याद्वा कारणस्य प्रतीती। तत्रापीति सत्यपि पचप्रकारत्वे । श्लिष्टशब्दप्रयोग इति । श्लिष्टशव्दनिवन्ध. नाप्यप्रस्तुतप्रशंसा भवतीत्यनुवादाद्विधिः । अत एवास्य वहुप्रकारत्वमुकम् । प्रस्तुत इति । प्रहस्तवधवर्णनस्यैव प्रक्रान्तत्वात् । अत्र वाक्यान्तरोपात्ते विशे- पात्मनि प्रस्तुते प्रहस्तवघे नियतिकर्मलक्षणं सामान्याभिधानमर्थान्तरन्यास इत्यन्ये मन्यन्त इत्युदाहरणान्तरेणोदाहियते । यथा-'दुर्जनदूषितमनसां पुंसां सुजनेऽपि १. तत्रास्ति किमपि पत्युः प्रकल्पितं यन्त्र नियतिगृहिण्या । अनवरतगमनशीलस्य कारपथिकस्य पायेयम् ॥' इति च्छाया.

१३४
काव्यमाला।
'पश्यामः किमियं प्रपद्यत इति स्थैर्य मयालम्बित
किं मामालपतीत्ययं खलु शठः कोपस्खयाप्याश्रितः ।
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे
सव्याज हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥
अत्र धाराधिरूढो मानः कथं निवृत्त इति कायें प्रस्तुते निवृत्ति-
कारणमभिहितम् । कार्यात्कारणप्रतीतो यथा-
'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मगीणामिव
प्रम्लानारुणिमेव विद्रुमरुचिः श्यामेव हेमप्रभा ।
कार्कश्यं कलयामि कोकिलवधूकण्ठेप्विव प्रस्तुतं
सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्दा इव ।।'
अत्र संभाव्यमानैरिन्द्रादिगतैरञ्जनलिप्तत्वादिभिः कार्यरूपैरप्रस्तु-
तैलोकोतरो वदनादिगतः सौन्दर्यातिशयः कारणरूपः प्रस्तुतः प्रती-
यते । तेनेयमप्रस्तुतप्रशंसा । ननु कार्यात्कारणे गम्यमाने प्रस्तुतप्रशं-
सायामिप्यमाणायाम
'येन लम्बालकः सात्रः कराघातारुणस्तनः ।
अकारि भमवलयो गजासुरवधूजनः ॥'
इति । तथा-
नास्ति विश्वासः । बालः पायसदग्धो ध्यपि फूत्कृत्य भक्षयति ॥' अत्र केनापि
दुर्जनेन विप्रलब्धस्य कस्यचित्सुजनविशेषे विनम्भो न जायते । तस्य सुजनसेयं
विशेष प्रस्तुते सामान्योक्तिः । तेनेति । अप्रस्तुतात्कारणात्प्रस्तुतस्य अर्यस्य
प्रतीतेः । यथा वा-'अनेन साधं सरयूवनान्ते कूजन्मयूरीमुखरे विहस्य ।
१. 'प्रतिपत्तिर्यथा' ख. २. 'गम्यमानायाम्' क.

- अलंकारसर्वस्वम् । १३५ 'चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवघूजनस्य । आलिङ्गनोद्दामविलासशून्यं रतोत्सवं चुम्बनमात्रशेषम् ।। इत्यादौ सुप्रसिद्ध पर्यायोक्तविषयेऽप्रस्तुतप्रशंसाप्रयोगः । अत्र हि गजासुरवधूगतेन लम्बालकत्वादिना कार्येण कारणभूतो गजासुरवधः प्रतीयते । तथा राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारणरूपो गम्यते । एवमन्यत्रापि पर्यायोकविषये ज्ञेयम् । तस्माद- प्रस्तुतप्रशंसाविषयत्वात्पर्यायोक्तस्य निर्विषयत्वप्रसङ्गः । नैष दोषः । इह यत्र कार्यात्कारणं प्रतीयते तत्र कार्य प्रस्तुतमप्रस्तुतं चेति द्वयी गतिः । यत्र यत्र प्रस्तुतत्वं कार्यस्य कारणवत्तस्यापि वर्णनीयत्वात्तत्र कार्यमुखेन कारणं पर्यायेणोक्तमिति पर्यायोक्तालंकारः । तत्र हि कारणा- पेक्षया कार्यस्यातिशयेन सौन्दर्यमिति तदेव वर्णितम् । यथोक्तोदा- हरणद्वये । अत्र हि गजासुरवधूवृत्तान्तोऽपि भगवत्प्रभावजन्यत्वात्प्रस्तुत एव । एवं राहुववृत्तान्तेऽपि ज्ञेयम् । ततश्च नायमप्रस्तुतप्रशंसावि- षयः । यत्र पुनः कारणस्य प्रस्तुतत्वे कार्यमप्रस्तुतं वर्ण्यते तत्र स्पष्टै- वाप्रस्तुतप्रशंसा । यथा-'इन्दुर्लिप्त इवाजनेन' इत्यादौ । अत्र हि इन्द्वादयः स्फुटमेवाप्राकरणिकाः। तत्प्रतिच्छन्दमूतानां मुखादीनां विलासवातायनसेवनेन श्लाघ्यामयोध्यां नगरी विधेहि ॥' अत्र खयंवराख्ये कार्ये प्रस्तुते कारणस्याभिधानम् । ननु चात्र कार्यात्कारणस्य प्रतीतो यद्यप्र- स्तुतप्रशंसा स्यात्तद्वक्ष्यमाणस्य पर्यायोकालंकारस्य को विषय इत्याह नन्वि- त्यादि । सुप्रसिद्ध इति सर्वालंकारकाराभिमते । तत्रेति द्वयनिर्धारणे । तदेव वर्णितमिति कार्यमेवोकम् । कारणस्य गम्यमानत्वात् । ततश्चेति । द्वयोरपि कार्यकारणयोः प्रस्तुतत्वात् । स्पष्टैवेति । अप्रस्तुतस्यैव कार्यस्य १. 'अत्र प्रसिद्ध' क. २. 'गजामुरव' क. ३. कारमे कार्यस्वाभिधानम्' ख.

• काव्यमाला। प्राकरणिकत्वात् । तेनान्द्वादिगते नाञ्जनलिप्तत्वादिना अप्रस्तुतेन कार्येण प्रस्तुतं मुखादिगतं सौन्दर्य सहृदयाह्लादकारि गम्यते इत्यत्रा- प्रस्तुतप्रशंसा । एवं च यत्र वाच्योऽर्थोऽर्थान्तरं तादृशमेव खोपस्का- रकत्वेनागूरयति तत्र पर्यायोक्तम् । यत्र पुनः खात्मानमेवाप्रस्तुतत्वा- प्रस्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति निर्णयः । ततश्चानया प्रक्रियया 'राजनाजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुजे भोजय मां कुमारसचिवैर्नाद्यापि संभुज्यते । इत्थं राजशुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा- चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ॥' इत्यत्र पर्यायोक्तमेव वोध्यम् । अन्ये तु दण्डयात्रोद्यतं त्वां बुवा त्व- दरयः पलाय्य गता इति कारणरूपस्यैवार्थस्य प्रस्तुतत्वात्कार्यरूपोऽथों- प्रस्तुत एव राजशुकवृत्तान्तस्याप्रस्तुतत्वात्प्रस्तुतार्थ प्रति खात्मानं प्रशंसितत्वात् । अतश्च द्वयोरपि प्रस्तुतत्वे पर्यायोकं प्रस्तुताप्रस्तुतत्वे त्वर- स्तुतप्रशंसेति विषयविभागः । अतश्च सामान्यविशेषयोः प्रस्तुतत्वासंभवात्कार्य- कारणयोः प्रस्तुतत्वेऽपि कार्यात्कारणप्रतीतिवत्कारणात्कार्यप्रतीतेवैचित्र्याभावाच 'पर्यायत्वे कार्यहेत्वोर्भेदसामान्ययोस्तथा। अप्रस्तुतप्रशंसायां सरूपस्यैव गम्यता ॥' इत्याद्युक्तमयुक्तम् । यद्येवं तदत्र पर्यायोक्काप्रस्तुतप्रशंसयोः प्रस्तुताप्रस्तुतरूपं कार्य प्रस्तुतं कारणं कथमागूरयतीत्याशझ्याह-एवं चेत्यादि । तादृशमेवेति वाच्यम् । खोपस्कारकत्वेनेति । स्वसिद्ध्यर्थं परस्याक्षेपात् । समर्पयतीति वाच्योऽर्थः । इत्थं च 'स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम् । उपादानं लक्षणं च' इत्युक्त्या लक्षणाद्वयाश्रितत्वादनयोरवान्तरोऽपि विषयभेदोऽस्तीत्यत्र तात्प- र्यम् । ततश्चेति । अनयोभिन्नविषयत्वात् । अन्य इति काव्यप्रकाशकारादयः । १, 'श्त्यप्रस्तुतप्रशंसादौ' खः अलंकारसर्वस्वम् । १३७ 'धन्याः खल समर्पयतीत्यप्रस्तुतप्रशंसैवात्र न्याय्येति वर्णयन्ति । सर्वथा पर्यायोक्ता- प्रस्तुतप्रशंसयोर्विषयविभागस्तु निरूपित एवेति स्थितम् । एतानि साधम्र्योदाहरणानि । वैधम्र्येण यथा- वने वाताः कहारस्पर्शशीतलाः। राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः॥' अत्र वाता धन्या इत्यप्रस्तुतादादहमधन्य इति वैधर्येण प्रस्तु- तोऽर्थः प्रतीयते । वाच्यस्य संभव उक्तान्येवोदाहरणानि । असंभवे यथा- 'कस्त्वं भोः कथयामि देवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे ॥' अत्राचेतनेन सह प्रश्नोतरिका नोपपन्नेति वाच्यस्यासंभव एव । सर्वथेति । तेत्र पर्यायोक्तमप्रस्तुतप्रशंसा वास्त्वित्यभिप्रायः । इह च सारूप्येणा साघम्यादाहरणानां पूर्वमनुद्दिष्टानामप्येतानि साधर्योदाहरणानीत्यनेनातिदेश- वाक्येनेति निश्चिनुमः । अयं हि ग्रन्थो प्रन्थकृतः पश्चात्कैरपि पत्रिकाभिलिखित इति प्रसिद्धिः। तैश्चानवधानादुदाहरणपत्रिका न लिखिता। अविदेशवाक्यं च पत्रिकान्तराल्लिखितमिति प्रन्यस्यासंगतत्वम् । वहूनि पुनरुदाहरणानि सारूप्यहे- तुकस्य भेदस्य लक्ष्ये प्राचुर्यदर्शनार्थम् । एवं वाच्यस्य संभवे उक्तान्येवोदाहरणा- नीत्यत्राप्ययमेवाभिप्रायो योज्यः । अतश्च 'परार्थे यः पीडामनुभवति मङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । न संप्राप्तो वृद्धि यदि स ३. 'अत्र' क. ४. 'साधम्र्येण ---१. 'शाहोटक'- क. २. 'प्रश्नोत्तरता' ख. सारूप्यो' ख. ५. 'कैश्चित्' ख.

१३८ काव्यमाला। प्रस्तुतं प्रति तात्पर्यात्ममुख एव तदध्यारोपेण प्रतीतिरिति युज्यत एवैतत् । उभयरूपत्वे यथा- 'अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः । कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ।। अत्र वाच्येऽथें कण्टकानां भङ्गुरीकरणे हेतुत्वं संभवि च्छिद्राणां त्वसंभवीत्युभयरूपत्वम् । प्रस्तुतस्य तात्पर्येण प्रतीतेस्तदध्यारोपाचत्र संगतमेवैतदिति नासमीचीनं किंचित् । एतदेव च शेषगर्भायामस्या- मुदाहरणम् । तदत्र सामान्यविशेषत्वेन कार्यकारणत्वेन सारूप्येण च यद्भेदपञ्चकमुद्दिष्टं तत्र द्वयोः सामान्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं भवति तदार्थान्तरन्यासाविर्भावः। सरूपयोस्तु वाच्यत्वे दृष्टान्तः । अप्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वे सर्वथाप्रस्तुतप्रशं- सेति निर्णयः । मृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥' तथा-'पातः पूष्णो भवति महते नोपतापाय यस्मात्कालेनातं क इव न गता यान्ति यास्यन्ति चान्ये । एतावत्तु व्यथयति यदालोकवायैस्त्रमोभिस्तस्मिन्नेव प्रकृतिमहति योनि लब्धोऽवकाशः॥' तथा-पषि निपतितां शून्ये लब्ध्वा निरावरणाननां ननु दधिघटी गर्वोनद्धः समुद्धरकंधरः। निजसमुचितास्तास्ताश्चेया विकारशताकैलो यदि न कुरुते काणः काकः कदा नु करिष्यति ॥' इत्युदाहरणान्यत्र मध्ये लेखि तव्यानि येन प्रन्थस्य संगतत्वं स्यात् । अत्र च सारूप्यं साधर्म्य वाच्यसंभवब स्फुट एव । तदघ्यारोपेणेति प्रस्तुतारोपेण । एतदित्यचेतनेन सह प्रश्नोत्तर- करणम् । एतच सामान्यादिभेदपञ्चकं वाच्यं सदर्थान्तरन्यासदृष्टान्तयोर्विषयो १. 'समुदिष्टं ख. २. 'अवनिपतितां' ख. ३. 'कुला' ख.

अलंकारसर्वस्वम् । १३९ उक्तन्यायेन प्राप्तावसरमर्थान्तरन्यासमाह- सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनम- र्थान्तरन्यासः। निर्दिष्टस्याभिहितस्य समर्थनार्हस्य प्रकृतस्य समर्थकात्पूर्व पश्चाद्वा निर्दिष्टस्य यत्समर्थनमुपपादनं न त्वपूर्वत्वेन प्रतीतिरनुमानरूपा सोऽ- र्थान्तरन्यासः । तत्र सामान्यं विशेषस्य विशेषो वा सामान्यस्य सम- र्थक इति द्वौ भेदौ । तथा कार्य कारणस्य कारणं वा कार्यस्य सम- र्थकमित्यपि द्वौ भेदौ । तत्र भेदचतुष्टये प्रत्येकं साधर्म्यवैधाभ्यां मेदद्वयेऽष्टौ मेदाः । हिशब्दाभिधानानभिधानाभ्यां समर्थकपूर्वोपन्या- सोत्तरोपन्यासाभ्यां च भेदान्तरसंभवेऽपि न तद्गणना सहृदयहृदय- हारिणी । वैचित्र्यस्याभावात् । तस्माद्भेदाष्टकमेवेहोदृक्तितम् । क्रमेण यथा भवति । अन्यथा पुनरस्या एवेति दर्शयितुमाह-तत्रेत्यादि । सर्वथेत्यनेनैतल्ल- क्षणस्याव्यभिचार उक्तः । उकन्यायेनेति । अप्रस्तुतप्रशंसाभेदानामेव वाच्य- त्वकथनात् । आहेति सामान्येत्यादिना । समर्थनार्हस्येति । साकासत्वार्दुपपा. दनापेक्षत्वात् । उपपादनमित्येवमेव । एतदिति नैराकालपोत्पादनलक्षणम् । कार्यकारणभावाश्रयस्य भेदद्वयस्य काव्यलिगत्वं प्रन्यकृदेव वक्ष्यतीति सामान्य- विशेषभावाश्रयमेव भेदद्वयमाश्रयणीयम् । विशेषेणापि सामान्यसमर्थने यत्र सा. मान्यवाक्यस्योपपादनापेक्षत्वं तत्रायमेवालंकारः । नहि विशेषात्मकागस्त्यवृत्तान्तो. पादानं विना पुंसां कुलबैलक्षण्येन चरितमात्रमेव प्रतिष्ठानिमित्तमिति सामान्यात्मा प्रकृतोऽर्थः सिद्धयेत् । तत्र पुनः खतःसिद्धस्यैव प्रतीतिविशदीकरणार्य तदेकदेश- भूतो विशेष उपारीयते तत्रोदाहरणालंकारः । गुणसंनिपाते दोषनिमजनात्मनः १. उपादान' क. २. 'एवं कार्यकारणमा दौ मेदो । तत्र' क. ३. 'उपमा- नापे' ख.

१४० काव्यमाला। 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् । . एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाकः ॥' 'लोकोत्तरं चरितमर्पयति प्रतिष्ठां पुंसां कुलं नहि निमित्तमुदात्ततायाः । वातापितापनमुनेः कलशात्प्रसूति- लीलायितं पुनरमुद्रसमुद्रपानम् ॥' 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥' अत्र सहसाविधानाभावस्य विमृष्यकारित्वरूपस्य च कारणस्य संपद्धरणं कार्य साधम्र्येण समर्थकम् । तस्यैवैतत्कार्यविरुद्धत्वमापत्पद- त्वम् । सहसाविधानाभावविरुद्धाविवेककार्य वैधैर्येण समर्थकम् । 'पृथ्वि स्थिरा भव भुजंगम धारयैनां त्वं कूर्मराज तदिदं द्वितयं दधीथाः । दिकुञ्जराः कुरुत तत्रितये दिधीषा देवः करोति हरकार्मुकमाततज्यम् ।।' अत्र हरकार्मुकाततज्यीकरणं पृथ्वीस्थैर्यादिप्रवर्तकत्वे कारणं सम- र्थकत्वेनोक्तम् । वैधhण सामान्य विशेषभावो यथा- सामान्यस्य नैराकायेण सिद्धस्येन्दोः किरणेष्विवाङ्क इति तदेकदेशभूतो विशेषस्तत्र प्रतीतिविशदीकरणार्थमुपात्तः । अतश्च विशेषस्यान्येन समर्थनमर्थान्तरन्यास इत्यत्र विशेषेणापि सामान्यस्य समर्थन मिति सूत्रणीयम् । अन्यथा ह्यव्याप्तिः स्यात् । तस्यैवेति सहसाविधानाभावस्य । एतत्कार्यविरुद्धमिति संद्धरणकार्यवि- रुखम् । विरुद्ध सामान्यरूपतयेत्यनेन वैधयेण विशेषः सामान्येन समर्थित इत्यु १. 'उदारतायाः' ख. २. 'वैधम्यणोदाहृतं समर्थकम्' क.: ३. 'रामः-आन- तज्यम्' स्व. 'संपत्करणकार्याविरुद्धम्' स्व.

अलंकारसर्वस्वम् । १४२ 'अहो हि मे वहपराधमायुषा यदप्रियं वाच्यमिदं मयेदृशम् । त एव धन्याः सुहृदां पराभवं जगत्यदृष्दैव हि ये क्षयं गताः॥ अत्रायुःकर्तृकापराद्धत्वाक्षिप्तस्याधन्यत्वस्यायुर्विरुद्धक्षयगतिप्रयुक्तं घ- न्यत्वं विरुद्धं सामान्यरूपतया समर्थकत्वेनोक्तम् । कार्यकारणतायां वैधय॒णोदाहृतम् । हिंशब्दाभिहितत्वानभिहितत्वादिमेदाः स्वयमेव बोद्धव्याः । चारुत्वातिशयाभावान्नेह प्रदर्शिताः । एवमप्रस्तुतप्रशंसानुषजायातमर्थान्तरमुक्त्वा गम्यमानप्रस्तावागतं प- र्यायोक्तमुच्यते- गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तम् । यदेव गम्यत्वं तस्यैवाभिधाने पर्यायोक्तम् । गम्यस्य सतः कथ- मभिधानमिति चेत्, गम्यापेक्षया प्रकारान्तरेणाभिधानस्याभावात् । नहि तस्यैव तदैव तयैव विच्छित्त्या गम्यत्वं वाच्यत्वं च संभवति । अतः कार्यमुखद्वारेणाभिधानम् । कार्यादेरपि तत्र प्रस्तुतत्वेन वर्णना- कम् । सामान्यं तु विशेषेण समर्थ्यते यथा-गुणानामेव दौरात्म्याधुरि धुर्यो नियुज्यते । असंजातकिणस्कन्धः सुखं खपिति गौर्गडी॥' अत्रापि समर्थ्यसमर्थक भावसमर्थनादुदाहरणत्वं वाच्यम् । उदाहृतमिति 'सहसा विदधीत-' इत्यादिना। एतदुपसंहरनन्यदवतारयति–एवमित्यादिना । तदेवाह-गम्यस्यापी- त्यादि। ननु कथमेकस्यैवैकस्मिन्काले गम्यत्वं वाच्यत्वं च संभवतीत्याह-गम्य- स्यैवेत्यादि । प्रकारान्तरेणेति कार्यादिद्वारेण । अत इति। ऐकस्यैवैकस्मि- म्काले गम्यत्ववाच्यत्वासंभवात् । कार्यादिद्वारेणेत्यादिशब्दः प्रकारे । अभिधी- यमानं हि कार्य तदविनाभावित्वात्स्वसिद्धये कारणमाक्षिपतीति गम्यमपि तद्वा- च्यायमानमिति यदेव गम्यते तस्यैव भन्यन्तरेणाभिधानम् । अतश्च 'खभ्य- स्तदुर्नयजयस्तनयस्तदीयः मामाररक्ष जयवाहननामधेयः। दुर्वारवैरिवरवीरवि- १. हिशब्दाभिहितानभिहितादि' क. २. 'पर्यायान्तरेण' ख. ३. 'वाच्यत्वं गम्यत्वं' ख. ४. 'कार्यामिमुखेन' क. ५. 'गम्यस्य' क.

१४२ काव्यमाला। हत्वात् । अत एवाप्रस्तुतप्रशंसातो मेदः । एतच वितत्याप्रस्तुतप्रशं. साप्रस्तावे निर्णीतमिति तत एवावधार्यम् । उदाहरणम्- 'स्पृष्टास्ता नन्दने शच्याः केशसंभोगलालिताः। सावज्ञं पारिजातस्य मञ्जयों यस्य सैनिकैः ॥' मत्र हयग्रीवस्य कार्यमुखेन वर्गविजयो वर्णितः । प्रभावातिशय- प्रतिपादनं च कारणादिव कार्यादपीति कार्यमपि वर्णनीयमेवेति पर्या- योक्तस्यायं विषयः । गम्यत्वविच्छित्तिप्रस्तावाद्व्याजस्तुतिमाह- स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः। यत्र स्तुतिरभिधीयमानापि प्रमाणान्तराद्वाघितखरूपा निन्दायां लासिनीनां स्वप्नावशेषमकरोत्प्रियदर्शनं यः॥' इत्यादावलंकारप्रकारत्वं न वाच्यम्। बहुधाजयत् इति हि क्रियमाणे 'गतोऽस्तमर्को भातीन्दुः' इत्यादिवदेतदकाव्य- मेव स्यात् । न च दोषाभावमात्रमलंकारत्वमिति वहुशः प्रागुक्तं । यत्तु खप्नावशे- षप्रियदर्शनात्मकं कार्यरूपेणार्थेन स्वसिद्ध्यर्थं कारणरूपस्तद्वध आक्षिप्यते तैदि- तरप्रकारान्तरं पृथग्वक्तुं न युक्तमिति निवांजैव पर्यायोकान्तरवाचोयुक्तिः । अत एवेति । द्वयोरपि कार्यकारणयोः प्रस्तुतत्वात् । कार्यमुखेनेति । पारिजातमञ्जरीस्पर्शद्वारेणेत्यर्थः । स्वर्गविजय इति कारणरूपः । वर्णनीय- मिति । प्रस्तुतमेवेत्यर्थः । आहेति स्तुतिनिन्दाभ्यामित्यादिना । प्रमा- णान्तरादिति वक्तृवाच्यप्रकरणादिपर्यालोचनात्मनः । वाघितस्वरूपेति । आमुख एव । प्रस्खलद्रूपेत्यर्थः । अत एवास्या ध्वनेर्भेदः । स हि विधान्ते वाक्यार्थे वक्तृवाच्यौचित्यपर्यालोचनावलादवगम्यते । इह पुनः प्रमाणान्तराद्वा- धितः सन्वाक्यार्थः स्वयमनुपपद्यमानत्वात्परत्र निन्दादौ खं समर्पयति । तत्रैव प्रकृतवाक्यार्थस्य विश्रान्तेः । एवम्-'अह सजणाण मग्गो सुहअ तए वेअ १. 'तथा- क. २. 'इत्यादावेव तदलंकार' क. ३. 'मानत्वे' ख. ४. 'तदितरप्रकारान्त:पातित्वात्पृधवक्तुं' क. ५. 'परनिन्दादौ' ख.

अलंकारसर्वस्वम् । १४३ - पर्यवस्यति तत्रासस्यत्वाचाजरूपा स्तुतिरित्यनुगमेन तावदेका व्याज- स्तुतिः । यत्रापि निन्दाशब्देन प्रतिपाद्यमाना पूर्ववहाधितरूपा स्तुतिः पर्यवसिता भवति सा द्वितीया व्याजस्तुतिः । व्याजेन निन्दामुखेन स्तुतिरिति कृत्वा । स्तुतिनिन्दारूपत्वस्य विच्छित्तिविशेषस्य भावा- दप्रस्तुतप्रशंसातो भेदः । क्रमेण यथा- 'हे हेलाजितबोधिसत्व वचसा कि विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताघाने गृहीतव्रतः। तृष्यत्पान्थजनोपकारघटनावमुक्ष्यलब्धायशो- भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥' अत्र विपरीतलक्षणया वाच्यवैपरीत्यप्रतीतिः। 'इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठपीठी मुरारि. दिङ्गागानां मदजलमषीभाञ्जि गण्डस्थलानि । अद्याप्युविलयतिलक श्यामलिम्नानुलिप्ता- न्युद्धासन्ते वद घवलितं किं यशोमिस्त्वदीयैः ।। णवर णिब्बूढो । इण्हि अण्णं हिअए अण्णं वाआइ लोअस्स ॥' इत्यादौ विश्रान्ते वाक्यार्थे वक्तृवाच्याचित्यपर्यालोचनाबलान्निन्दायाः प्रतीतिरिति ध्वनिविषय- त्वमेव युक्तम् । पूर्ववदिति प्रमाणान्तरात् । एका द्वितीया चेत्यभिदधता दे एवात्र व्याजस्तुती न पुनरेकैव द्विविधा व्याजस्तुतिरिति सूचितम् । प्रकार प्रकारिभावो हि सामान्यलक्षणासद्भावे न भवति । असंभवत्तत्सामान्यस्य तद्विशेषत्वाभावात् । शब्दनिवन्धनं तु सामान्यमाश्रित्य द्वयोरत्राभिधानम् । एवं स्तुतिनिन्दाभ्यामप्रस्तुताभ्यां निन्दास्तुयोः प्रस्तुतयोर्गम्यत्वमित्यत्र सिद्धम्। यद्येवं तस्किमियमप्रस्तुतप्रशंसैव न भवतीत्याशमाह-स्तुतीत्यादि । तत्र हि सामान्यविशेषादीनां गम्यत्वमुक्तम् । विपरीतलक्षणयेति । सनिमि- काव्यमाला। अत्र धवलताहेतुयंशोविषयानवक्तृप्तिप्रतिपादनेन 'विशेषप्रतिषेधे शेषाभ्यनुज्ञानम्' इति न्यायाकतिपयपदार्थवज समस्तवस्तुघवलताका- रित्वं नृपयशसः प्रतीयते । 'किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ- स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यखमावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठया- मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ।। इत्यत्र प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा हन्त कीर्तिरिति भणित्या उन्मूलितेति न प्ररोहं गमितेति श्लिष्टमेतदुदाहरणम् । गम्यत्वमेव प्रकृतं विशेषविषयत्वेनोररीकृत्याक्षेपालंकार उच्यते- उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतिपत्त्यर्थ निषेधा- भास आक्षेपः। इह प्राकरणिकोऽर्थः प्राकरणिकत्वादेव वक्तुमिष्यते तथाविधस्य तात्र वाच्यवैपरीत्यप्रतीतिरिति भावः । अन्यथा हि सर्वस्मात्सर्वप्रतिपत्तिः स्यात् । लक्षणा च मुख्यार्थवाधपूर्विकैव भवतीत्यभिधीयमानायाः स्तुतेर्वाधितखरूपत्व- मुक्तम् । अस्याश्च निन्दास्तुत्योर्वाच्यत्वे स्तुतिनिन्दयोर्यदा गम्यत्वमेव भवति तदैवालंकारत्वं नान्यदेति दर्शयितुमाह-किं वृत्तान्तरित्यादि । उन्मूलि- तेति । स्तुतिरेव वाच्यत्वेनोफेत्यर्थः । श्लिष्टमिति । अनुदाहरणमेवैतदिति तात्पर्यम् । अतश्चास्य लोचनकारेण यझ्याजस्तुत्युदाहरणत्वमुक्कं तदयुक्तमेवेति भावः । उररीकृत्येत्याश्रित्य । तमेवाह-उक्तवक्ष्यमाणयोरित्यादि । तया- १. 'लिप्त' ख. २. 'इत्युच्यते' ख. ३. 'पूर्वस्मात्' ख. ४. 'नान्यथेति' ख. ५ 'वाक्यार्थत्वेन' क.

अलंकारसर्वस्वम् । १४५ विधानार्हस्य निषेधः कतुं न युज्यते। स कृतोऽपि वाधितस्वरूपत्वान्निषेधा- यत इति निषेधाभासः संपन्नः । तस्यैतस्य करणं प्रकृतगतत्वेन विशेष- प्रतिपत्त्यर्थम् । अन्यथा गजलानतुल्यं स्यात् । स चाभासमानोऽपि निषेधस्तत्रोक्तस्य वा स्यात् आसूत्रिताभिधानत्वेन वक्ष्यमाणस्य वा स्यात् । इत्याक्षेपस्य द्वयी गतिः। तत्रोक्तविषयत्वे न कैमर्थक्यपरमालो- चनमाक्षेपः । वक्ष्यमाणविषयत्वेनानयनरूपमागूरणमाक्षेपः। एवं चार्थ- भेदादाक्षेपशब्दस्य द्वावाक्षेपाविति वदन्ति । तत्रोक्तविषये यस्यैवेष्टस्य विशेषस्तस्यैवाक्षेपः । वक्ष्यमाणविषये त्विष्टस्य विशेषः । इष्टसंबन्धि- विधस्येति वक्तुमिष्टस्य । अत एव विधानार्हस्येत्युक्तम् । स इति निषेधः। याधि- तस्वरूपत्वादिति । प्राकरणिके विधानाहे तस्यासंभवात् । यद्येवं तयसावकार्य एवेत्याशङ्कयाह-तस्येत्यादि । अन्यथेति विशेषप्रतिपत्तिर्न स्यात् । तस्य च विषयं दर्शयति-सचेत्यादिना । उक्तस्येति वस्तुतः कथनरूपस्य । आसूत्रिताभिधत्वेनेति सामान्यमुखेनांशोक्तिमुखेन वा । अन्यथा हि सर्वत्र विव- क्षितार्थस्य निषेधमात्रादेव प्रतीतिप्रसङ्गः । कैमर्थक्येति । किमर्थमेतदिति पर्य- नुयोगरूप इत्यर्थः । एवमिति । कैमर्थक्यपर्यालोचनानयनरूपागूरणरूपत्वात् । वदन्तीति प्राच्याः । यदाह भामहः-'वक्ष्यमाणोक्तविपयस्तत्राक्षेपो द्विधा- मतः। एकरूपतया शेषा निर्दिश्यन्ते यथाक्रमम् ॥' इति । तेनास्माकमेतन्न मत- मिति भावः । वक्ष्यमाणविषये हि कथनस्यैव निषेध्यत्वात्किमर्थमेतत्कथ्यत इति कै- मर्थक्यपरमालोचनमेव प्रतीयते इत्येक एवाक्षेपरॉब्दस्यार्थ इति भेदाभावादावाक्षेपा- विति न युक्तम् । तत्किमेक एवाक्षेपो भवन्मते युक्त इलाशझ्याह-तत्रेत्यादि । आक्षेप इति विशेषः । कार्यकारणयोरभेदोपचारात् । इष्टस्येति विशेषात्मनः। अन्य- स्येति विशेषात् । एवं निषेधविशेषयोर्भेदेनावस्थिते त्र सामान्यलक्षणसंभवोऽस्तीति तात्पर्यम् । ननु सर्व विशेषाणां सामान्यानुप्राणितत्वादेकत्रापि कृतो निषेधादिर- १. 'तुल्यत्वं' क. २. 'तत्र' क-पुस्तके नास्ति. ३. 'भिधत्वेन' क. ४. 'तत्र' क-पुस्तके नास्ति. ५. 'शब्दस्यार्थ इति तस्यार्थभेदाभावात्' क. ६. 'ननु सामान्ये सर्वविशेषाणां विशेषे च सामान्यानामनुप्राणितत्वात्' ख. १० अ० स० १४६ काव्यमाला। नस्त्वन्यस्य सामान्यरूपस्य निषेधः । तेनात्र लक्षणमेदः । विशेषस्य चात्र शब्दानुपात्तत्वाद्गम्यत्वम् । तत्रोक्तविषय आक्षेपे कचिद्वस्तु निषिध्यते कचिद्वस्तुकथनमिति द्वौ भेदौ । वक्ष्यमाणविषये तु वस्तु- कथनमेव निषिध्यते । तच्च सामान्यप्रतिज्ञायां केचिद्विशेषनिष्ठत्वेन निषिध्यते कचित्पुनरंशोक्तावंशान्तरगतत्वेनेत्यत्रापि द्वौ भेदौ । तदे- वमस्य चत्वारो भेदाः। शब्दसाम्यनिबन्धनं सामान्यविशेषभावमव- लम्ब्य चात्र प्रकारिप्रकारभावप्रकल्पनम् । क्रमेण यथा- परत्रावश्यमेव पर्यवस्यतीति कथमत्र निषेधविशेषयोर्भिन्नविषयत्वमुक्तम् । सत्यम् । यद्यप्येवं तथाप्येतन्न शब्दार्थम् । अर्थवशेन तत्र तथात्वावगतेः । इह च शाब्द. मेवैतदाक्षेपाझं नार्थवशायातम् । तथात्वे हि रूपकादीनामप्युपमात्वं स्यात् । तेषामप्यार्थस्य सादृश्यस्याभावात् । एतच्चोद्भटविचारे राजानकतिलकेनैव सप्रपञ्च- मुक्तमिति न तथास्माभिराविष्कृतम् । तेनेति । निषेधविशेषयोरेव भिन्नविषय- त्वादाक्षेपशब्दस्यार्थे भेदात् । यस्त्वत्र विशेषः स किं वाच्यः किमुत गम्य इत्या- शङ्याह-विशेषस्येत्यादि । कथनमेवेति । न पुनः साक्षाद्वस्तु । तदिति कथनम् । सामान्यप्रतिशयेति । सामान्यमेवाश्रित्येत्यर्थः । विशेषनिष्ठत्वे- नेति । सामान्यस्य विशेषाविनाभावित्वात् निषिध्यत इत्यत्रोत्तरत्र च संवन्ध- नीयम् । अंशान्तरगतत्वेनेति । सामान्यप्रतिज्ञयेत्यत्रापि संवन्धः । अत्रापि ह्यपरांशोक्तिः सामान्यमुखेनैव निषिध्यते। विशेषस्य हि साक्षादत्र निषेधो न भवति । निषेधानन्तरं तत्प्रतीते विनो निषेधासंभवात् । नयुक्तो निषेधः शब्दा- समर्पिते तत्कालमप्रतीयमाने च विषये संभवति । अस्येत्याक्षेपस्य । ननु द्वयो- राक्षेपयोश्चत्वारो भेदाः संभवन्तीति कथमेकस्यैवोक्ता इत्याशमाह-शब्दे- त्यादि । प्रकल्पनमिति । न पुनर्वस्तुतः सद्भाव इत्यर्थः। वस्तुनो निषेध- १. 'ततश्च' ख. २. 'कापि' क. ३. 'प्रकारप्रकारिकभावपरिकल्पनम्' ख. ४. 'सदर्थम् क. ५. 'नाक्षेपशब्दस्यार्थभेदात्' क. ६. 'शब्दसमर्पिते तत्काल- प्रतीयमाने च' क.

अलंकारसर्वस्वम् । 'बालअ णाहं दूई तीए पिओ सि ति णम्हवावारो। सा मरइ तुज्झ अयसो एअं धम्मक्खरं भणिमो॥ 'प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः । न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा किमेतस्मिन्वक्तुं क्षममिति न वेद्मि प्रियतमे ॥' 'सुहअ विलंबसु थोरं जाव इमं विरहकाअरं हिअ । संठविऊण भणिस्सं अहवा वोलेसु किं भणिमो ॥' 'ज्योत्स्ना तमः पिकवचः क्रकचस्तुषारः क्षारो मृणालवलयानि कृतान्तदन्ताः । सर्व दुरन्तमिदमद्य शिरीषमृद्वी सा नुनमाः किमथवा हतजल्पितेन ॥' आये उदाहरणद्वये यथाक्रमं वस्तुनिषेधेन भणितिनिषेधेन चोक्त- विषय आक्षेपः । तत्र चोक्तस्य दूतीत्वस्य वस्तुनो निषेधमुखेनैव वा. मुखेन विशेष इत्यनेन यस्यैव निषेधस्तस्यैव विशेष इत्युक्तं निहितम् । 'दूर- पवासे समुहो सि सुहअ आलिंगणं खणं कुरुसु । अहवा अला हि इमिणा गमणम्मि विलंबआरेण ॥' इत्यत्र पुनरुक्तस्यालिङ्गनस्य निषेधो विधी तात्पर्या- भावान्न निषेधाभासतामियादित्येतदुदाहरणं न वाच्यम् । यतोऽत्र विलम्बनकारिण आलिङ्गनस्यैव निषेधेन गमनविधिरुद्रेचितः । स च विधिरनुपपद्यमानत्वादप्रस्थान- लक्षणं निषेधं लक्षयति । अत्र च गमनस्यावश्यापरिहार्यत्वादिविशेषः प्रयोजनम् । १. 'बालक नाहं दूती तस्याः प्रियोऽसीति नास्मद् व्यापारः । सा म्रियते तवायश एतद् धर्माक्षरं भणामः ॥' इति च्छाया. २. 'मुभग विलम्बस्व स्तोकं यावदिदं विरहकातर हृदयम् । संस्थाप्य भणिष्याम्यथवापकाम किं भणामः ॥' इति च्छाया. ३. 'वास्त- वामिन्नादिविशेषतया भण्यमानस्य' ख. ४. विषितात्पर्या' क.

१४८ काव्यमाला। स्तवत्वादिविशेषः । तथा भण्यमानस्य प्रसादस्य निषेधमुखेनैव कोपो- परागनिवर्तनेनावश्यस्वीकार्यत्वं विशेषः । उत्तरस्मिन्पुनरुदाहरणद्वये यथाक्रमं सामान्यद्वारेणेष्टस्यांशोक्तावप्यंशान्तरस्य स्वरूपेण च भणि- तिनिषेधे वक्ष्यमाणविषय आक्षेपः । तत्र च वक्ष्यमाणस्येष्टस्य भणि- स्समितिप्रतिज्ञातस्य सातिशयाकोपजनकत्वादिविशेषः । तथा चां. शोक्तावंशान्तरस्य म्रियत इति प्रतिपाद्यस्याशक्यवचनीयत्वादिर्विशेषः । एवं च आक्षेपे इष्टार्थस्तस्यैव निषेधः निषेधस्यानुपपद्यमानत्वादसत्यत्वं विशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते । तेन न निषेधविधिः न क्षणालिङ्गनमात्रस्यैव चेष्टत्वे गमनस्य विधिरेव पर्यवस्येन्न निषेध इति विवक्षित- वाक्यार्थविप्रलोप एव स्यात् । अतश्चोक्तविषये विहितनिषेधेऽप्याक्षेपत्वमन्यत्र निषेधोऽन्यत्र विशेषश्चेति न वाच्यम् । प्रसादस्येति वस्तुनो न ब्रूयामिति तत्क- थनस्यैव निषेधः । सामान्यद्वारेणेति । भणिष्यामीति भगनसामान्यमाधि- येत्यर्थः । तच्च तत्तदपराधोदीरणपरमेवेति तस्य विशेषागूरकत्वम् । इष्टस्येति काकाक्षिन्यायेन योज्यम् । अंशोक्ताविति सर्व दुरन्तमित्यादिना । अंशान्तरस्येति म्रियते इत्यादेः । किमथवा हतजल्पितेनेति सामान्यरूपस्यैव निषेधः । एवमप्यस्य विभज्य स्वरूपं प्रतिपादयति-एवं चेत्यादिना । उपयुज्यत इति । एत- चतुष्टयमन्तरेणाक्षेप एव न भवतीत्यर्थः । तदेवाह–तेनेत्यादिना । निषेध- विधिर्नाक्षेप इति संवन्धः । एतदुत्तरत्रापि योज्यम् । यदाहुः–'विहितस्य निषे- धेन न निषेधविधौ भवेत् । निषेधेन विधिर्यत्र तत्राक्षेपः प्रकीर्तितः ॥' इति । तत्र निषेधविधिर्यथा-'एप क्षीरोदजन्मा कुमुदकुलपतिः सेयमाकाशगङ्गा वा शीर्ष तदेतत्तदिदमनिमिषं नेत्रमग्नेरगारम् । सैपा हालाहलश्रीवलयिततनवो नाग- राजास्त एते कङ्कालं कालियारेरिदमपि तदलं भाषितेरों नमस्ते ॥' अत्रालमिति निषेधस्यैव विधिः । अतश्च न तस्यासत्यत्वम् । तदभावाच न विधिपर्यवसान- मित्याक्षेपोपयोगिन्याः सामय्या अभाव इति नायमत्रालंकारः । स हि चतुष्टय- १. 'य इटार्थ:' क. २. 'अत एव' क.

अलंकारसर्वस्वम् । १४९ विहितनिषेधः । किं तु निषेधेन विधेराक्षेपः । निषेधस्यासत्यत्वाद्वि- धिपर्यवसानात् । विधिना तु निषेधोऽस्य भेदत्वेन वक्ष्यते । तथा च हर्षचरिते—'अनुरूपो देव्या इत्यात्मसंभावना-' इत्यादौ, तथा 'यामीति न स्नेहसदृशं-' इत्यादावुक्तविषय आक्षेपः । 'केवलं बाल इति सुतरामपरित्याज्योऽस्मि । रक्षणीय इति भवद्भुजपञ्जरमेव रक्षा- स्थानम्' इत्यादावाक्षेपबुद्धिर्न कार्या । बालत्वादेरुक्तस्य निषेध्यत्वेना- संनिधावेव भवति । विहितनिषेधस्तु यथा-'ब्रह्मभ्यः शिवमस्तु वस्तु विततं किंचिद्वयं ब्रूमहे हे सन्तः शृणुतावधत्त च धृतो युष्मासु सेवाञ्जलिः । यद्वा किं विनयोक्तिभिर्मम गिरां यद्यस्ति सूक्तामृतं माद्यन्ति स्वयमेव तत्सुमनसो यात्रा परं दैन्यभूः ॥' अत्र विहितानां विनयोक्तीनां निषेध इति विहितनिषेधः । पूर्व- वचात्र नाक्षेपालंकारः । निषेधेन विधिस्तु ग्रन्थकृतैवोदाहृतः । अत्र च निषेधः खयमनुपपद्यमानत्वादविश्राम्यन्खात्मानं विध्यर्थे समर्पयतीति 'परार्थ स्वसमर्प- णम्' इत्येवंरूपलक्षणामूलत्वमस्य सिद्धम् । यदुक्तमन्यत्र-'यत्र स्वयमविश्रान्तः परार्य स्वसमर्पणम् । कुरुतेऽसौ स आक्षेपो निषेधस्यैव भासनात् ॥' इति । निषेध. विधौ विहितनिषेधे च पुनरभिधेयः । न पुनः खसिद्धये पराक्षेप इत्येवं लक्षणा. मूलत्वमत्र वाच्यम् । मुख्यार्थस्यैव विश्रान्तेर्मुख्यार्थवाधाद्यभावात् । अतश्चान्यैः 'स्वसिद्धये पराक्षेपः प्रतिषेधस्य यत्र हि । आक्षेपस्तत्र नैवेष्टः प्रतिषेधस्य भास- नात् ॥' इत्याद्ययुक्तमेवोक्तम् । यद्यपि लक्षणायां खसिद्धये पराक्षेपस्य प्रागभाव एव प्रागुक्तस्तथाप्येतत्पक्षाश्रयेऽपि प्राच्यानामपर्यालोचिताभिधानमित्येवंपरमेतदु. कम् । ननु च यद्येयं निषेधस्यासत्यत्वाद्विधिपर्यवसाने आक्षेप उक्तस्तद्वदेव विधे- निषेधपर्यवसाने को नामालंकार इत्याशयाह-विधिनेत्यादिना । अस्येत्या- क्षेपस्य । शब्दसाम्यनिवन्धनं सामान्यभावमाश्रित्य चात्र प्रकारप्रकारिभावः कल्पितो न तु वास्तवः । विधिनिषेधयोनिषेधविध्यागूरकत्वादनयोः सामान्यल- क्षणायोगात् । ततश्चेति निषेधस्य विधिपर्यवसानात् । अस्य चालंकारान्तराश्रया- द्वैलक्षण्यं दर्शयति-केवलमित्यादिना । अत्र राज्यवर्धनोक्तौ बालत्वादेरु.

१५० काव्यमाला। १ विवक्षितत्वात् । प्रत्युतात्र बाल्यादिःपरित्यागनिषेधकत्वेन प्रतीयते । तेन नायमाक्षेपः। कस्तह्ययं विच्छित्तिप्रकारोऽलंकार इति चेत्, व्याघाताख्यस्यालंकारस्यायं द्वितीयो मेदो वक्ष्यते । 'तदिष्टस्य निषेध्यत्वमाक्षेपोक्तेर्निबन्धनम् । सौकर्येणान्यकृतये न निषेधकता पुनः ॥' इति पिण्डार्थः । इह तु- 'साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः । यदस्य दैत्या इव लुप्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति । गृह्णन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः कापि कवीश्वराणाम् । रत्नेषु लुप्तेषु बहुष्वमत्र्यैरद्यापि रत्नाकर एव सिन्धुः ॥' इति । तथा- देया शिलापट्टकवाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु । वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञः ॥ बाणेन हत्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य । इत्यर्थनीयः शवराविराजः श्रीखण्डपृथ्वीधरकंदरस्थः ।। क्तत्वम् । श्रीहर्षदेवोक्तो तु निषेधाविवक्षा । प्रत्युतेति । न केवलं वाल्याद्यत्र निषेध्यत्वेन विवक्षितम् । यावदेतदेवान्यनिषेधकत्वेनापीत्यर्थः । तेनेति । वालत्वादेनिषेध्यत्वेनाविवक्षितत्वात् । वक्ष्यत इति । सौकर्येण कार्यविरुद्धा क्रिया चेत्यादिना। एतदेव सारार्थतया पिण्डीकृत्यापि प्रतिपादयति-तदि- टस्येत्यादिना । अन्यकृतय इति निषेधार्थम् । अस्य च यथा विधिमुखेन प्रतीतिस्तथा निषेधमुखेनेति सौकर्यम् । एवं च निषेधकतैवाक्षेपोक्तेर्न निवन्ध- नमिति विहि निषेधादावेतद्रमो न विधेय इत्याह-इह त्वित्यादि । १. निपेधेकत्वेन' ख. २. 'विशेषार्थम्' ख.

अलंकारसर्वस्वम् । १५१ यद्वा मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः । केलिप्रसङ्गे शबराङ्गनानां स हि स्मरग्लानिमपाकरोति ॥' इति नाक्षेपबुद्धिः कार्या । विहितनिषेधो ह्ययम् । न चासावाक्षेपः । निषेधविधौ तस्य भावादित्युक्तत्वात् । चमत्कारोऽप्यत्र निषेधहेतुक एवेति न तद्भावमात्रेणाक्षेपबुद्धिः कार्या । अयं चाक्षेपो ध्वन्यमानोऽपि भवति । यथा- 'गणिकासु विधेयो न विश्वासो वल्लभ त्वया । किं किं न कुर्वतेनर्थमिमा धनपरायणाः ॥ अत्र हि गणिकाया उक्तौ तद्दोषोक्तिप्रस्तावे नाहं गणिकेति प्रती- यते । न चासौ निषेध एव । गणिकात्वेनावस्थिततयैव गणिकात्वस्य निषेधनात् । सोऽयं प्रस्खलद्रूपो निषेधाभासरूपो वकत्र्या गणिकायाः शुद्धोहनिबन्धनत्वेन धनविमुखत्वादौ विशेष पर्यवस्यतीत्युक्तविषय आक्षेपध्वनिरयम् । न तु- 'स वक्तुमखिलाशक्तो हयग्रीवाश्रितान्गुणान् । योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥ तस्येत्याक्षेपस्य । तद्भावमात्रेणेति । केवलेनैव चमत्कारसद्भावेनेत्यर्थः । प्रतीयत इति गम्यते । नाहं गणिकेति निषेधस्य शब्दानुपात्तत्वाद्विशेषमात्रस्य गम्यत्वे आक्षेपालंकारो वाच्य एव । निषेधाभासस्यापि गम्यत्वे ध्वन्य इत्यनेन दर्शितम् । अन्यथा ह्यस्य ध्वन्यमानोदाहरणत्वमयुक्तं स्यात् । तस्येहा- नुपफ्रान्तत्वात् । इत्यं च निषेधाभासस्यैव गम्यत्वेऽयं ध्वन्यमानो भवति न निषेधमात्रस्यैवेति दर्शयितुमाह-नत्वित्यादि । अतश्च ध्वनिकृता यदेतदाने- पध्वनावुदाहृतं तदयुक्तमेवेति भावः । एवं चास्य यथोपपादितं खरूपमुपसंहार- १. योऽम्भःकणैः' ख. २. 'मावस्यैव' क. ३. 'आक्षेपादावुदाहृतं' क.

१५२ काव्यमाला। इत्याक्षेपध्वनावुदाहार्यम् । निषेधस्यैवात्र गम्यमानत्वात् । न निषे- धाभासस्य । गुणानां वक्तुमशक्यत्व एवात्र तात्पर्यम् । तन्निमित्तक एवात्र चमत्कारो न निषेधाभासहेतुक इति नाक्षेपध्वनिधीरत्र कार्या । सर्वधेष्टनिषेधाभासस्य विध्युन्मुखस्याक्षेपत्वमिति स्थितम् । एवमिष्टनिषेधेनाक्षेपमुक्त्वा समानन्यायत्वादनिष्टविधिनाक्षेपमाह- अनिष्टविध्याभासश्च । यथेष्टस्येष्टत्वादेव निषेधोऽनुपपन्न एवमनिष्टस्याप्यनिष्टत्वादेव वि. धानं नोपपद्यते । तत्क्रियमाणं प्रस्खलद्रूपत्वान्निषेधे पर्यवस्यति । ततश्च विधेरुपकरणीभूतो निषेध इति विधिनायं निषेधोऽनिष्टविशेषपर्यव- सायी निषेधागरणादाक्षेपः । यथा- भद्यापि प्रतिपादयति-सर्वथेत्यादिना । सर्वथेत्यनेन कुत्राप्यस्य व्यभिचारो नात्तीति दर्शितम् । एतदुपसंहरन्नन्यदवतारयति-एवमित्यादिना । समा- नन्यायत्वादिति । यथानेष्टस्य निषेधो बाधितत्वाद्विधौ पर्यवस्यति तथैवेहाप्य- निष्टस्य विधिनिषेधे इत्येवंरूपात् । एवमेतावन्मात्रमस्याद्यस्य चाक्षेपस्य साजात्यम् , न पुनः सामान्यलक्षणेसंभव इति भावः । तदेवाह-अनिष्टेत्यादि । एतदेव दृष्टान्तद्वारकं व्याचष्टे यथेत्यादिना । तदिति विधानम् । प्रस्खलद्रूपत्वादिति खार्थवाधात् । पर्यवस्यतीति । स्वात्मसमर्पणेन निषेधं लक्षयतीत्यर्थः । तत- श्चेति विधेनिषेधलक्षणात् । उपकरणीभूत इति । खार्थवाधादुपसर्जनीभूत इत्यर्थः । अनिष्टविशेषेत्यनेन प्रयोजनमत्रोक्तम् । अन्यथा हि गजनानतुल्यत्वं स्यात् । निषेधागूरणादिति निषेधस्यात्र लक्ष्यमाणत्वात् । सर्वत्रैव हि लक्षणायां लाक्षणिकेनैव लक्ष्योऽर्थ आगूर्यते । तस्मात्तत्प्रतिपत्तेः । तच्चान्तरागूरणं 'स्वसि- द्धये पराक्षेपः' इत्येवं लक्षणाप्रकारस्य पूर्व निरस्तत्वात्स्वात्मसमर्पणेनैव भवतीति यथोक्तमेव युक्तम् । अत एवास्यान्वाभिधत्वम् । पर्यनुयोगवशादागूरणमपि ह्याक्षेपशब्दस्यार्थः । व्याजस्तुत्यादौ तु व्याजेन स्तुतेर्विवक्षितत्वात्तत्र तत्त्वमेव १. 'सद्भाव' इत्यर्थः अलंकारसर्वस्वम् । १५३ 'गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥' अत्र कयाचित्कान्तस्य प्रस्थानमात्मनोऽनिष्टमप्यनिराकरणमुखेन विधीयते । न चास्य विधियुक्तः । अनिष्टत्वात् । सोऽयं प्रस्खलद्रूप- त्वेन निषेधमागूरयति । फलं चात्रानिष्टस्य प्रस्थानस्यासंविज्ञानपदनि- बन्धनमत्यन्तपरिहार्यत्वप्रतिपादनम् । इदंच ममापि जन्म तत्रैवेत्या- शीःप्रतिपादनेनानिष्टपर्यवसायिना व्यजितम् । यथा वा- 'नो किंचित्कथनीयमस्ति सुभग प्रौढाः परं त्वादृशाः पन्थानः कुशला भवन्तु भवतः को मादृशामाग्रहः । किं त्वेतत्कथयामि संततरतक्लान्तिच्छिदस्तास्त्वया स्मर्तव्याः शिशिराः सहंसगतयो गोदावरीवीचयः ॥' अत्रानभिप्रेतमपि कान्तप्रस्थानं यदा प्रमुख एवाभ्युपगम्यमानं युकं नापेक्षत्वम् । इह हि प्रधानेन व्यपदेशा भवन्ति' इति न्यायाद्यदेव यत्र प्रधानतया विवश्यते तदेव तत्र व्यपदेशनिमित्तम् । न तु प्रज्ञातिशयवतां 'प्राज्ञा वस्तुनि युध्यन्ति न तु सामयिके ध्वनौ' इति नीत्या नानि विवादो युक्तः तस्मात् ‘आक्षिप्यतेऽत्र विधिना न यतो निषेधः खार्थ विधावपि न पर्यनुयोग- घुद्धिः । तस्मादनिष्टविधिरेव विलक्षणत्वान्नाक्षेपमध्यपतितोऽपि तु भिन्न एव ॥' इत्यादि न वाच्यम् । निराकरणमुखेनेति । प्रवृत्तक्रियत्वात्कान्तस्यानुमोदन- द्वारेणेत्यर्थः । प्रैस्खलद्रूपत्वेनेति स्वार्थवाधात् । आगूरयतीति स्वात्मसमर्पणेन । ननु विधिमुखेनास्य किमागूरणं स्वयं निषेध एव क्रियतामित्याशङ्कयाह-फल- मित्यादि । एतच्चेति विधेनिषेधागूरकत्वम् । यथा वेत्यनेनास्य लक्ष्ये प्राचुर्य दर्शितम् । प्रमुख एवेति । न पुनः पर्यवसान इत्यर्थः । एतदेवोपसंहरति- १. 'प्रलुठद्रूप' क. २. 'निर्वन्ध' क. ३. 'शिथिलाः' ख. ४. 'यस्य मुखे एव' ख. ५. 'च प्रतिशाशय' ख. ६. 'अनुकरण' ख. ७. 'प्रलुठद्रूपत्वेनेति' क.

१५४ काव्यमाला। प्रतीयते, तदायमनिष्टविधिराभासमानमाक्षेपाङ्गम् । स्मर्तव्या इत्यनेन गमननिवृत्तिरेवोपोद्वलिता । तस्मादयमपि प्रकार आक्षेपस्य समानन्या- यतयाभिनवत्वेनोक्तः । आक्षेपे इष्टनिषेघेऽनिष्टविधौ चानुपपद्यमानत्वाद्विरुद्धत्वमनुप्रवि- ष्टम् । एतत्प्रस्तावेन विरोधगर्भोऽलंकारवर्गः प्रक्रियते । तत्रापि विरो- घालंकारस्तावल्लक्ष्यते- विरुद्धाभासत्वं विरोधः । इह जात्यादीनां चतुणां पदार्थानां प्रत्येकं तन्मध्य एव सजातीय- विजातीयाभ्यां विरोधिभ्यां संवन्धे विरोधः । स च समाधानं विना प्ररूढो दोषः । सति तु समाधाने प्रमुख एवाभासमानत्वाद्विरोधाभासः। तत्र जातिविरोधस्य जात्यादिभिः सह चत्वारो मेदाः । गुणस्य गुणा- तस्मादित्यादिना । अभिनवत्वेनेति दण्ड्याद्यपेक्षया । तेन ह्यसौ 'इत्या- शीर्वचनाक्षेपो यदाशीर्वादवर्मना । खावस्थां सूचयन्त्येवं प्रिययात्रा निषिध्यते॥' इत्युक्तेरसंभवतापि लक्षणेन लक्षितः। न पुनर्ग्रन्धकृदुपज्ञत्वेनैतद्व्याख्येयम् । "विधिनिषेधाभ्यां प्रतिषेधविध्युक्तिराक्षेपः' इतीगेव हि श्रीभोजदेवेनाप्यस्य लक्षणं कृतम् । इदानीं विरोधस्य लक्षणमुपक्रमते-आक्षेप इत्यादिना । एतत्प्र- स्तावेनेति । विरुद्धत्वानुप्रवेशानुगुण्येनेत्यर्थः । तत्रापीति । विरोधगर्भालंका- रोपक्रमेऽपीत्यर्थः । तावदित्युपक्रमे । तत्र हि विरुद्धगर्भत्वस्य प्राधान्यम् । तदे. वाह-विरुद्धत्यादि । तन्मध्य एवेति । जात्यादीनां गुणादय एव विजा- तीया गुणादीनामपि जात्यादय एव विजातीया ग्राह्याः, न पुनरन्ये यदृच्छादय इत्यर्थः । ननु विरोधस्य दोषत्वं वाच्यं प्रत्युतास्य कथमलंकारत्वमुच्यत इत्या- शङ्कयाह–स चेत्यादि । समाधानमिति । वस्तुवृत्तपयलोचनालभ्यो विरो- धप्रतीत्यनन्तरभावी नैत देवमिति प्रत्ययरूपो बाधः । प्रमुख एवेति न पुनः १. 'इष्टस्य' ख. २. 'प्रतीयते' क. ३. 'तत्समाधाने तु' ख.

अलंकारसर्वस्वम् ।
१५५
दिभिः सह त्रयः । क्रियायाः क्रियाद्रव्याभ्यां सह द्वौ भेदौ ।
द्रव्यस्य द्रव्येण सहैकः । तदेवं दश विरोधभेदाः । तत्र दिल्याने-
णोदाहरणं यथा-
'परिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् ।
विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥'
अत्र जडीकरणतापकरणयोः क्रिययोर्विरोधो वस्तुसौन्दर्येणाप्राप्ति-
पर्यवसानेन परिहियते । तथा-
'अयं वारामेको निलय इति रत्नाकर इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः ।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥'
अत्र जलनिधिः पीत इति द्रव्यक्रिययोर्विरोधो मुनिगतेन महा-
प्रभावत्वेन समाधीयते । एवमन्यदपि ज्ञेयम् ।
पर्यवसाने । तेनामुखावगतो विरोधः पर्यवसाने न तथा प्ररोहमेतीति भावः । एतच्च
श्लेष एव वितत्य प्रतिपादितमितीह न पुनरायस्तम् । एवं च सत्यपि समाधाने
दोषाभावमात्रमेवास्य स्वरूपं नाशङ्कनीयम् । अलंकारत्वपर्यवसायिनो विच्छित्ति-
विशेषस्यापि संभवात् जातेर्गुणेन सह विरोधे उक्के ‘विरोधोऽन्योन्यवाधनम्' इति
दृशा तेनैव गुणस्यापि जात्या सह विरोधः सिद्धः । अत एव गुणस्य जातिवर्ज
त्रयोभेदाः । एवमन्यत्रापिज्ञेयम् । दिमात्रेणेति । अनेनैषां लक्ष्ये तथा वैचि-
त्र्याभावादनवक्तृप्तिर्ध्वनिता । अत एवास्माभिरप्येते नोदाहृताः । अन्यदिति ।
१. 'प्ररोहतीति' ख. २. 'विच्छित्त्यविशेषस्यापि' क. ३. 'एतन्नोदाहृतम्' क.

१५६ काव्यमाला। विविक्तविषयत्वेन चास्य दृष्टेः श्लेषगर्मत्वे विरोधप्रतिभोत्पतिहेतुः श्लेष औद्भटानाम् । दर्शनान्तरे तु संकरालंकारः । यथा-'संनिहि- तवालान्धकारा भावन्मूर्तिश्च' इत्यादौ विरोधिनोईयोरपि श्लिष्टत्वे । एकस्य तु श्लिष्टत्वे 'कुपतिमपि कलत्रवल्लभम्' इत्यादौ । एकविष- यत्वे चायमिप्यते । विषयभेदे त्वसंगतिप्रभृतिर्वक्ष्यते । अनेनेह चिरंतनैरनुक्ता अपि वैचित्र्याधायिनो भेदा अनुसतव्या इत्यपि सूचि- तम् । तेन भावयोरभावयोर्भावाभावयोश्च विरुद्धत्योपनिवन्धे विरोधो ज्ञेय इति । तत्र भावयोर्ग्रन्थकृतैवोदाहृतम् । अभावयोस्तु यथा—'तं वीक्ष्य वेपथुमती सर- साङ्गयष्टिनिक्षेप एव पदमुद्धृतमुद्वहन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययो न तस्थौ । अत्राभावरूपयोः क्रिययोर्विरोधः । भावा- भावयोस्तु यथानङ्गलेखायां राजवर्णने 'विदर्भागनाजनमपि दर्भगर्भकरमकरोत् , पश्चतां जनयन्नपि पञ्चालस्य वैमुख्यमपुष्णात् , पारसीकरणमप्यारसीकरणं चकार, मागधानपि विमागधान्व्यधात्, चोलकान्ता अप्यचोलकान्ताः समपादयत् , कुन्तलालसानप्यकुन्तलालसांश्च निर्ममे शूरसेनानप्यशूरसेनानदर्शयत् ।' इत्यादि । अस्यापि मतभेदेन श्लेषेण सह व्यवस्थिति दर्शयितुमाह-विविक्तेत्यादि । 'जडयति च तापं च कुरुते' इत्यत्रास्य विविक्तविषयत्वम् । दर्शनान्तर इति ग्रन्थकृदभिमते । शब्दश्चात्र संकीर्णमात्रे वर्तते । तेनात्र संकरेण संकीर्णत्वेन च पेमिश्रत्वेनालंकारो विरोधाभास इति व्याख्येयम् । अलंकारशब्देन चात्र विरो- धाभास एवाभिधीयते । तस्यैवेह प्रस्तुतत्वात् । अत्र हि श्लेषो विरोधोत्पत्ती हेतुत्वं भजते । तेन विना तस्यानुत्थानात् । संकरश्च खहेतुवलालब्धसत्ताकयो- रलंकारयोर्भवति । तेन यो यस्य हेतुत्वं भजते तेन सह तस्य संकरो न युक्तः यद्वक्ष्यति-'न च विरोधोत्पत्तिहेतौ श्लेपस्य विरोधेन सहाङ्गाङ्गिसंकरः' इति । द्वयोरेकस्येत्यनेन श्लेपमिश्रत्वस्यापि वैचित्र्यं दर्शितम् । अस्य च वक्ष्यमाणाद्वि- रोधगर्भादलंकाराद्वैलक्षण्यं दर्शयति–एकेत्यादिना । जडीकरणतापकरणयो- विकारयोर्विकारिगतत्वेनास्यैकविषयत्वम् । विपयभेद इति । कार्यकारणादीना- १. 'अनुमन्तव्याः' ख. २. 'हिट' क.

अलंकारसर्वस्वम् । १५७ एवं विरोधमुक्त्वा विरोधमूला अलंकाराः प्रदर्श्यन्ते । तत्रापि कार्यकारणभावमूलत्वे विभावनां तावदाह- कारणाभावे कार्यस्योत्पत्तिर्विभावना । इह कारणान्वयव्यतिरेकानुविधानात्कार्यस्य कारणमन्तरेणासंभवः । अन्यथा विरोधो दुष्परिहरः स्यात् । यदि तु कयाचिद्भझ्या तथा- भाव उपनिवध्यते तदा विभावनाख्योऽलंकारः । विशिष्टतया कार्यस्य भावनात् । सा च भङ्गिविशिष्ट कारणाभावोपनिबद्धा। अप्रस्तुतं कारणं वस्तुतोऽस्तीति विरोधपरिहारः । कारणाभावेन चोक्रान्तत्वालवता मेकविषयत्वोपपत्तावपि भिन्नदेशत्वाद्युपनिवन्धनात् । तावदिति प्रथमम् । कार- णाभावे कार्योत्पत्तेरत्यन्तं विरुद्धत्वात् । आहेति । कारणाभाव इत्यादिना । तत्र तावत्कार्यस्य कारणपरतन्त्रतां दर्शयति-इहेत्यादिना । यदुक्तम्-'यो हि येन विना नास्ति यस्मिंश्च सति विक्रिया । तदेव कारणं तस्य नान्यत्कारण- मुच्यते ॥' इति । अन्यथेति । यदि कारणं विनापि कार्यस्य संभव उपनिव- ध्यत इत्यर्थः । ननु यद्येवं तत्कथं कारणाभावे कार्योत्पत्तिरूपा विभावना भवती- त्याशझ्याह-यदि त्वित्यादि । तथाभाव इति कारणाभावे कार्योत्पत्तिः । अत एव कार्यस्य विशिष्टत्वम् । सेति । यया भल्या कारणं विनापि कार्यसंभव उपनिबध्यत इत्यर्थः । विशिष्टेति प्रसिद्धम् विरोधपरिहार इति । अप्र- सिद्धस्य कारणान्तरस्य प्रस्तुतत्वात् । ननु यद्येवं तत्कथमयं विरोध एव न भव- तीत्याशझ्याह-कारणेत्यादि । तेनेति कार्येण । यदुक्तम्-'कारणस्य निषे- धेन वाध्यमानः फलोदयः । विभावनायामाभाति विरोधोऽन्योन्यबाधनम् ॥ अतो दूरविभेदोऽस्या विरोधेन व्यवस्थितः ।' इति । एतदेव प्रसङ्गाद्विशेषोकेर- १. 'यदा' क. २. 'भावात्' ख. ३. 'कारणाभावो भावकायोंपनिबन्धः' क, ४. 'चेह' ख. ५. 'विद्यते क्रिया' ख. ६. 'संवन्धः' क. ७. 'अत्र दूरे विरोध: स्थाद्विभेदेन' क.

१५८ काव्यमाला। कार्यमेव वाध्यमानत्वेन प्रतीयते, न तु तेन कारणाभाव इत्यन्योन्य- बाधकत्वानुप्राणिताद्विरोधालंकाराद्भेदः । एवं विशेषोक्तौ कार्याभावेन कारणसत्ताया एव बाध्यमानत्वमुन्नेयम् । येन सापि विरोधाद्भिन्ना स्यात् । इह च लक्षणे यद्यप्यन्यैः कारणपदस्थाने क्रियाग्रहणं कृतं तथापीह कारणपदमेव विहितम् । नहि सर्वैः क्रियाफलमेव कार्यमभ्यु- पगम्यते । वैयाकरणैरेव तथाभ्युपगमात् । अतो विशेषमनपेक्ष्य सामान्येन कारणपदमेवेह निर्दिष्टम् । यथा- 'असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्त मस्त्रं बाल्यात्परं साथ वयः प्रपेदे ।।' अत्र द्वितीये पादे मदस्य प्रसिद्धं यदासवाख्यं करणं तदभावेऽपि प्याह-एवमित्यादि । लेखककल्पितश्चायमपपाठः । तथा हि-'हरतापि तनुं यस्य' इत्यादौ बलाहरणेन कार्यभावेन तनुहरणरूपं कारणं न वाध्यते अपि तु सत्यपि तनुहरणाख्ये सामग्र्ये कथं न वलं हृतमिति कार्याभावस्यैव वाध्यत्वेन प्रतीतिः । तस्मात् ‘एवं विशेषोक्तौ कारगसत्तया कार्याभावस्यैव वाध्यमानत्वमुन्ने- यम्' इति पाठो ग्राह्यः। ऐतदेव राजानकतिलकेनाप्युक्तम्-'कारणसामग्र्यमिह वाधकत्वेनैव प्रतीयते कार्यानुत्पत्तिस्तु बाध्यत्वेन' इति । ग्रन्थकृच्च प्रायस्तन्म- तानुवर्येव । तदुक्तसमानन्यायोऽस्माभिः पाठो लक्षितः । येनेति । एकस्यैव वाध्यत्वेन प्रतीतेः । ननु च ‘क्रियायाः प्रतिषेधेऽपि यत्फलस्य विभावनम् । ज्ञेया विभावना-' इत्यादिनोद्भटादिभिरेतलक्षणे क्रियाग्रहणं कृतमिति कथमिह तदुलक नेन कारणग्रहणं कृतमित्याशझ्याह-इहेत्यादि । सर्वैरिति वौद्धादिभिः । अत इति । वैयाकरणैरेव क्रियाफलस्य कार्यस्याभ्युपगमात् । सामान्येनेति । सर्ववादिसाधारणतयेत्यर्थः । सर्ववादिसाधारणोऽयं ग्रन्थः । द्वितीय इति । १. 'तदोदाहरणम्' ख. २. 'सत्तायाः' ख. वना' क. ३. 'एतच्च' क. ४. 'विभा- अलंकारसर्वस्वम् । १५९ यौवनहेतुकत्वेनोपनिवन्धः कृतः। मदस्य च द्वैविध्येऽप्यभेदाध्यवसा- यादेकत्वमतिशयोक्त्या । सा चास्यामव्यभिचारिणीति न तद्बाधेनास्या उत्थानम् , अपि तु तदनुप्राणितत्वेन । इयं च विशेषोक्तिवदुक्तानुक्त- निमित्तभेदाविधैव । तत्रोक्तनिमित्तोदाहृता । अनुक्तनिमित्ता यथा- 'अङ्गलेखामकाश्मीरसमालम्भनपिञ्जराम् । अनलक्तकताम्राभामोष्ठलेखां च बिभ्रतीम् ॥' अत्र सहजत्वं निमित्तं गम्यमानम् । असंभृतं मण्डनमिति, का- मस्य पुष्पव्यतिरिक्तमस्त्रमिति च । अत्र विवदन्ते-इयमेव विभाव- नेति केचित् । संभरणस्य पुष्पाणां च मण्डनमस्खं प्रत्यकारणत्वाद्वाङ्मात्र अन्यपादयोन विभावनेत्यर्थः । यौवनहेतुकत्वेनेति । समाधानायाप्रसिद्ध कारणमाश्रित्येत्यर्थः । अन्यथा हि विरोधपरिहारो न स्यात् । ननु चासवजनितो- ऽन्य एव मदो यौवनहेतुकश्चान्य एवेत्यत्र यौवनहेतुक एव विवक्षित इति कथं कारणाभावे कार्यस्योत्पत्तिरित्याशयाह-मदस्येत्यादि । द्वैविध्य इति झेब्य. दर्परूपे । सेत्यतिशयोक्तिः । अव्यभिचारिणीति । अतिशयोक्तिं विनास्या अनुत्थानात् । अत एवेयमतिशयोक्त्यनुप्राणितैव भवतीति सिद्धम् । तदेवाह- तदनुप्राणितत्वेनेति । यदुक्तमन्यत्रापि-'आश्लिष्टातिशयोक्तिश्च सर्वत्रैव विभावना' इति । 'निरुपादानसंभारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने ॥' इत्यत्र तु जगत उपादानादिविरहेणैव भगवत्कार्यस्य वास्तवत्वाद्विभावनैव नास्तीति कस्यातिशयोक्त्यनुप्राणितत्वं स्यात् । एवम्-‘ण अ रूवं ण अ ऋद्धी णावि कुलं ण अ गुणाण विण्णाणं । एमे अ तह वि कस्स वि को वि अणो वलहो होइ ॥' इत्यादावपि ज्ञेयम् । अतश्च क्वचिच्छुद्धस्यापि संभवात्सर्वत्रास्यातिशयोक्त्यनुप्राणितत्वमिति न वाच्यमिति यदुक्तं तदयुक्तम् । विशेषोक्तिवदिति । विशेषोक्तौ प्राच्यैर्यथोक्तमित्यर्थः । अत्र चाद्य उदाहरणे द्वितीयपाद एव विभावना व्याख्येया न पुनरन्यैर्यथोक्तमित्याह-असंभृतमि- त्यादि । केचिदिति विवदन्त इति संवन्धः । अकारणत्वादिति । संभरणा- १. 'उत्थापनं' क. २. 'इति भावः' ख. ३. 'ण अ' क. ४. 'संवन्धादि- मण्डनादेः' ख.

१६० काव्यमाला। मेतत् । एकगुणहानौ विशेषोक्तिरित्यन्ये । रूपकमेवाधिरोपितवै- शिष्ट्यमिति वपरे । आरोप्यमाणस्य प्रकृते संभवात्परिणाम इत्य- द्यतनाः। विभावनां लक्षयित्वा तद्विपर्ययस्वरूपां विशेषोक्तिं लक्षयति. कारणसामग्र्ये कार्यानुत्पत्तिविशेषोक्तिः। इह समग्राणि कारणानि नियमेन कार्यमुत्पादयन्तीति प्रसिद्धम् । अन्यथा समग्रत्वस्यैवाभावप्रसङ्गात् यत्तु सत्यपि सामग्र्ये न जनयति कार्य सा कंचिद्विशेषममिव्यतुं दिह मण्डनादेः स्वरूपम् । यद्येवं तह्मत्रान्यः कोऽलंकार इत्याशझ्याह-एके- त्यादि । अन्य इति वामनीयाः । अपर इत्यौद्भटाः । तृतीयस्तु पक्षो न ग्राह्यः । लेखकपरिकल्पितत्वात् । तथाह्यारोप्यमाणस्य प्रकृते संभव इति न परिणामलक्ष- णम् । आरोप्यमाणस्य प्रकृत उपयोग इति तस्य लक्षितत्वात् । संभवोपयोगयोश्च नैकत्वम् । भिन्नत्वात् । ग्रन्थकृतापि साहित्यमीमांसायामेतच्छोकविवृतौ पक्षद्वय- मेवोक्तम् । लेखकैश्चास्य ग्रन्थस्य प्रतिपदमेव विपर्यासः कृतः। तथा चात्रैवासं. भृतमिलादिको ग्रन्थस्तदनुप्राणितत्वेनेत्यस्य पश्चादुपपन्नोऽपि गम्यमानमिलस्य पश्चाल्लिखितः । एतच न तथा दूषणमित्यस्माभिर्यथास्थित एव ग्रन्थो व्याख्यातः । तद्विपर्ययेति । कारणसामग्र्ये कार्यानुत्पादात् । तामेवाह-कारणेत्यादि । समग्राणीति नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायादसमग्राणां पुनः कार्यजनकत्वं न स्यादिति भावः। अत एवाव्यभिचारायाह-नियमेनेति । अन्यथेति यदा कारणानि कार्य नोत्पादयन्ति । एवं नैकं किंचन जनक सामग्री वै जनिकेति नीला समग्राणां कारणानां कार्यजनकत्वं भवत्येवेति तात्पर्यार्थः । यदा त्वेतद्विपर्यय उपनिबध्यते तदा विशेषोक्तिर्भवतीत्याह-यत्त्वित्यादि । अत्र च वस्तुतो निमित्तमस्तीति विरोधपरिहारः । तद्धेतुकमेवास्या भेदनिर्देश- १. 'नारोप्यमाणस्य' स्त्र.

अलंकारसर्वस्वम् । १६१ कुसुमधन्वने ॥ प्रयुज्यमाना विशेषोक्तिः। सा च द्विविधा-उक्तनिमित्तानुक्तनिमित्ता च । अचिन्त्यनिमित्ता त्वनुक्तनिमित्तैव । अनुक्तस्य च चिन्त्याचिन्त्य- त्वेन द्वैविध्यात् । क्रमेण यथा- 'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने । नमोऽस्त्ववारवीर्याय तस्मै 'आहूतोऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि । गन्तुमना अपि पथिकः संकोचं नैव शिथिलयति ॥ 'स एकस्त्रीणि जयति जगन्ति कुसुमायुधः। हरतापि तनुं यस्य शंभुना न हृतं बलम् ॥' अत्र सत्यपि दाहलक्षणेऽविकले कारणेऽशक्तत्वाख्यस्य कार्यस्यानु- त्पत्तिः शक्तिस्वरूपेणाविरुद्धेन धर्मेणोपनिबद्धा । अवार्यवीर्यत्वं चात्रो- कनिमित्तम् । तथाहानादयः संकोचशिथिलीकारहेतव इति तेषु सत्खपि तस्यानुत्पत्तौ प्रियतमाखप्नसमागमाद्यनुक्तं सचिन्त्यं निमित्तम् । तथा तनुहरणकारणे सत्यपि बलहरणस्य कार्यस्यानुत्पत्तौ निमित्तमनु- कमप्यचिन्त्यमेव, प्रतीत्यगोचरत्वात् । कार्यानुत्पत्तिश्चात्र कचित्कार्य- विरोधोत्पत्त्या निवध्यते । एवं विभावनायामपि कारणाभावः कारण- विरुद्धमुखेन कचित्प्रतिपाद्यते । तथा च सति, 'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा. स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । माह-सा चेत्यादि । अचिन्त्येत्युत्तानाशयैः । वस्तुतस्तु संभवत्येव । अन्यथा वस्या विरोधो दुष्परिहार्यः स्यात् । अविकल इति । समग्रे विरुद्धधर्मत्वं शक्त्यशक्त्योर्विरोधात् । अस्याश्च कार्यानुत्पत्तैर्विच्छित्त्यन्तरेण बन्धं दर्शयितु- माह-कार्येत्यादि । यथा कर्पूर इत्यादौ । एवमिति । यथैवात्र कार्यानु- त्पत्तिविरुद्धमुखेनोपनियध्यत इत्यर्थः । तथा च सतीति । द्वयोरप्यनयोविरुद्ध- ११ अ० स० काव्यमाला। सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ पर रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ।।' इत्यत्र विभावनाविशेषोच्योः संदेहसंकरः । तथा धुत्कण्ठाकारणं विरुद्धं यः कौमारहर इत्यादि निबद्धमिति विभावना । तथा यः कौमारहर इत्यादेः कारणस्य कार्य विरुद्धं चेतः समुत्कण्ठत इत्यु- त्कण्ठाख्यं निबद्धमिति विशेषोक्तिः । विरुद्धमुखेनोपनिबन्धात्केवल- मस्पष्टत्वम् । साधकबाधकप्रमाणाभावाचात्र संदेहसंकरः। या तु 'एकगुणहानिकल्पनायां साम्यदाय विशेषोक्तिः' इति विशेषोक्तिर्लक्षिता सास्मिन्दर्शने रूपकभेद एवेति पृथङ् न वाच्या । अतिशयोक्तौ लक्षितायामपि कश्चित्प्रभेदः कार्यकारणभावप्रस्ता- वेनेहोच्यते- मुखेन कार्यकारणभावोपनिवन्धे सतीत्यर्थः । उत्कण्ठायाः कारणं कौमारहरवरा- यसंनिधानम् । तस्य विरुद्धं तत्संनिधानम् । तेन कौमारहरवराद्यसंनिधानरूपं कारणं विनाप्युत्कण्ठाया उत्पाद इति विभावना । तथा कौमारहरवरादिसंनिधान- रूपस्य कारणस्य कार्यमनुत्कण्ठा, तस्याश्च विरुद्धोत्कण्ठा। तेन सत्यपि कौमारह- रवरादिसंनिधानरूपे कारणे समग्रे कार्यस्यानुत्कण्ठारूपस्याभाव इति विशेषोक्तिः । अस्पष्टत्वमिति । कार्यकारणयोः साक्षान्निषेध्यत्वेनाप्रतीतेः । ननु चात्रानयोः किमिति संदेह एकपक्षाश्रय एव क्रियतामित्याशयाह-साधकेत्यादि । ननु 'द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम्' इत्यादौ वामनेन या विशेषोक्तिरुक्ता सा किं नोच्यत इत्याशङ्कयाह-या त्वित्यादि । एवमनयैव दृशा एकगुणहा- न्युपचयादिकल्पनायां साम्यदाय विशेष इति लक्षितो विशेषालंकारोऽप्यस्मिन्दर्शने रूपकमेद एवेति न पृथग्वाच्यः । प्रस्तावेनानुगुण्येन । अत एवेयन्तः कार्यकार- णभावाश्रया विच्छित्तिविशेषाः संभवन्तीति प्रपञ्चमानं दर्शयितुं पुनरिहास्या वच- नम् । एतच प्रन्थकृतैवोक्तम् । प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालंकारप्रस्तावे प्रपञ्चार्थ लक्षयिष्यत इत्युच्यत इति न पुन- १. 'यरतु' ख. २. 'पुनरिहास्य' ख.

अलंकारसर्वस्वम् । १६३ A कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिशयोक्तिः। इह नियतपूर्वकालभावि कारणं नियतपश्चात्कालभावि च कार्य- मिति कार्यकारणयोर्लक्षणं प्रसिद्धम् । यदा तु विशेषप्रतिपादनाव तयोरेतद्रूपापगमः क्रियते तदातिशयोक्तिः । एतद्रूपापगमश्च काल- साम्यनिबन्धनः कालविपर्यासनिबन्धनश्चेति द्विधाभवन्नतिशयोक्तिमपि द्वैधे स्थापयति । क्रमेण यथा- 'पश्यत्सूगतसान्द्रविस्मयरसप्रोत्फुल्लनीलोत्पलं भूपालेषु तवात्र सूक्ष्मनिशिते निस्त्रिंशधाराध्वनि । कीर्त्या च द्विषतः श्रिया च युगपद्राजन्यचूडामणे हेलानिर्गमनप्रवेशविधिना पश्येन्द्रजालं कृतम् ॥' 'पथि पथि शुकचञ्चूचारुराभाङ्कुराणां दिशि दिशि पवमानो वीरुधां लासकश्च । नरि नरि किरति द्राक्सायकान्पुष्पधन्वा पुरि पुरि च निवृत्ता मानिनीमानचर्चा ॥' पूर्वत्र प्रौढोक्तिनिर्मितेऽर्थे शत्रुश्रीप्रवेशः कीर्तिनिर्गमनस्य हेतु- रिति भिन्नकालयोस्तुल्यकालत्वं निबद्धम् । उत्तरत्र च माननिवृत्तिः स्मरशरप्रकिरणकार्येति तैयोस्तुल्यत्वेनोपपन्नं पौर्वापर्य व्यत्ययेन निर्दि- ष्टमित्यतिशयोक्तिः । कार्यस्य चाशुभावाख्यो विशेषः प्रतिपाद्यते । तयोस्तु भिन्नदेशत्वेऽसंगतिः । निणीयते । पूर्वत्रैवास्य निर्णीतत्वात् तामेवाह-कार्यकारणयोरित्यादि उभयत्रापि नियतशब्द एतदव्यभिचारदर्शनात् । एतद्रूपापगम इति । कार्यकार- णयोः सामान्यविपर्यासाभ्यामुपनिवन्धनात् । प्रौढोक्तिनिर्मित इति । कीर्ति- धियोर्वस्तुतो निर्गमनप्रवेशासंभवात् । प्रतिपाद्यत इति प्रयोजनत्वात् । तयो. १. 'स्त्रिया' ख. २. 'तयोरुपपन्नं पौर्वापर्येण निर्दिष्टम्' क. ३. 'मावित्वाल्यो' क.

१६४ काव्यमाला। तयोरिति कार्यकारणयोः। यद्देशमेव कारणं तद्देशमेव कार्य दृष्टम् । नहि महानसस्थो वहिः पर्वतदेशस्थं धूमं जनयति । यदा त्वन्यदेशस्थं कारणमन्यदेशस्थं च कार्यमुपनिवध्यते, तदोचितसंगति- निवृत्तेरसंगत्याख्योऽलंकारः। स च विरुद्धकार्यकारणभावप्रस्तावादिह लक्ष्यते । यथा- 'प्रायः पथ्यपरामुखा विषयिणो भूपा भवन्त्यात्मना निर्दोषान्सचिवान्भजत्यतिमहांल्लोकापवादज्वरः । वन्द्याः श्लाघ्यगुणास्त एव विपिने संतोषभाजः परं बाह्योऽयं वरमेव सेवकजनो धिक्सर्वथा मन्त्रिणः ॥' पथ्यपराङ्मुखत्वमुपालम्मज्वरविषयत्वस्य मिन्नदेशहेतुरित्य- संगतिः । एवम्- 'सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरभरं धत्ते सखेदा वयम् । सा क्लान्ता जघनस्थलेन गुरुणा गन्तुं न शक्का वयं दोषैरन्यसमाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥ इत्यत्र ज्ञेयम् । अत्र वाल्यनिमित्तमप्रगल्भवचनत्वमन्यदन्यच्च स्मर- निमित्तकमित्यनयोरभेदाध्यवसायः । एवमन्यत्र ज्ञेयम् । रित्यादि । एतदेव व्यतिरेकमुखेनापि दर्शयति-नहीत्यादिना । उचित- संगति निवृत्तेरिति । एकदेशयोरपि कार्यकारणयोर्भिन्नदेशत्वेनोपनिवन्ध- नात् । अत एव च तयोर्भिनदेशत्वादियं विपयभेदेन भवतीत्येकविषयाद्विरोधादस्य मेदः इह लक्ष्यत इति । अस्या अपि कारणयोर्भिन्नदेशत्वेन विरोधगर्भ- त्वात् । अमेदाध्यवसाय इति । अनेनातिशयोक्तिरस्या अप्यनुप्राणकत्वेन १. 'एवं च' ख. २. 'समाश्रयैः' क. ३. 'अत्र-ज्ञेयम्' स्व-पुस्तके नास्ति.

अलंकारसर्वस्वम् । १६५ विरूपकार्याऽनर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम् । विरोधप्रस्तावेनेह लक्षणम् । तत्र कारणगुणप्रक्रमेण कार्यमुत्पद्यत इति प्रसिद्धौ यद्विरूपं कार्यमुत्पद्यमानं दृश्यते तदेकं विषमम् । तथा कंचिदर्थ साधयितुमुद्यतस्य न केवलं तस्यार्थस्याप्रतिलम्भो यावदनर्थप्रा. प्तिरपीति द्वितीयं विषमम् । अत्यन्ताननुरूपसंघटनयोर्विरूपयोश्च संघ- टनं तृतीयं विषमम् । अननुरूपसंसों हि विषमम् । क्रमेण यथा- 'सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा। तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते ॥ कटाक्षिता । अन्यथा हि विरोधो दुष्परिहरः स्यात् । एवं पथ्यज्वरशब्दयोरति- शयोक्तिवलात्प्रजापालनयुक्तिसंतापवाचकत्वं द्रष्टव्यम् । अन्यत्रेति कातरत्वादौ । विरूपेत्यादि । इहेति । अस्या अप्यननुरूपसंसर्गेण विरोधैंगर्भत्वात् । विरू- पमिति । कारणापेक्षया विजातीयत्वेनातद्गुणत्वात् । यद्यपि 'गोमयादृश्चिको- त्पत्तिः' इतिवत्कार्यकारणयोर्वास्तवं विरूपत्वं संभवति, तथापीह कविप्रतिभानिर्व- र्तितमेव तद्बाह्यम् । तेन 'द्राक्षाफलानि शिखरेषु शिलोच्चयानां पीयूषसाररसनिर्भ- रगर्भवन्ति । विष्वग्दृषत्कठिनकायनिगूढङ्गबाटकानि पुनरम्भसि संभवन्ति ॥' इत्यादौ विषमं न वाच्यम् । ईदृश एव कार्यकारणभावस्य वस्तुतः संभवात् । तस्येति साधयितुमिष्टस्य । अप्रतिलम्भ इति । असिद्धिरिति यावत् । अत्य- न्तेति । न केवलं तयोः स्वयं विरूपत्वं यावत्तत्संघटनाया अप्यननुरूंपत्वमित्यत्र तात्पर्यम् । एकमित्याद्यभिदधता ग्रन्थकृता विषमाणां भिन्नत्वमुक्तम् , न प्रकार- प्रकारित्वम् । सामान्यलक्षणस्यासंभवात् । एवमेव पुनरेषां कस्मादभिधानमित्या- शमाह-अननुरूपेत्यादि । यत्किंचित्पुनरस्मद्दर्शनविरुद्धमन्यैरधिकमुक्कं तदि- १. 'अत्यर्थ' क. २. 'संघटनात्' ख. ३. 'अननुरूपेत्यादि' ख-पुस्तके नास्त्रि. ४. 'विरूपतागर्मत्वात्' क. ५. 'शृङ्ग' क-ख. ६. 'अप्रसिद्धि' क. ७. 'रूपत्वात्' ८. 'विषयानां ख.

१६६ काव्यमाला। 'तीर्थान्तरेषु मलपकवतीविहाय दिव्यास्तनस्तनुभृतः सहसा लभन्ते । वाराणसि त्वयि तु मुक्तकलेवराणां लाभोऽस्तु मूलमपि यात्यपुनर्भवाय ॥' 'अरण्यानी केयं धृतकनकसूत्रः क स मृगः क मुक्ताहारोऽयं क च स पतगः केयमबला । क तत्कन्यारत्नं ललितमहिभर्तुः क च वयं खमाकूतं धाता निभृतनिभृतं केन्दलयति ॥' अत्र कृष्णवर्णाच्छुक्लवर्णोत्पत्तिः कलेवरात्यन्तापहारलक्षणानन्त- रोत्पत्तिरिति, अत्यन्ताननुरूपाणां चारण्यान्यादीनां परस्परं 'संघटनं क्रमेण मन्तव्यम् । केवलमनर्थोत्पत्तिरत्र व्याजस्तुतिपर्यवसायिनीति शुद्धोदाहरणमैप्यूह्यम् । यथा- 'परहिअ मग्गंती इआरिअं अत्तणोतए हिअअं। अव्योल्लाहस्स कए मूलाओं विछेइआ जाआ ॥' इति तत्रोदाहार्यम् । हास्माभिर्यथावस्तुग्रन्थार्थमात्रव्याख्याननिर्वाहसमुत्सुकमानसत्वान्न निराकृतमिति न तदेव सिद्धान्तीकार्यम् । तस्य पृथडिरसिष्यमाणत्वात् । इह हि यथाशक्त्य- साकमाग्रहप्रवृत्तपरकीयदूषणोद्धारमात्रमेव विवक्षितम् । यथोपयोगं पुनस्तन्निरा. करणमपि कृतं करिष्यते च। अत्र शुक्लकृष्णवर्णत्वं कार्यकारणात्मकविषय- यगतत्वेन स्थितमित्यस्य भिन्नविषयत्वादेकविषयाद्विरोधाद्भेदो ज्ञेयः । एवमन्य- त्रापि ज्ञेयम् । अरण्यान्यादीनामननुरूपमन्योन्यधैंटनं वास्तवमित्युदाहरणान्तरे- णोदाहियते । यथा-'शिरीषादपि मृदगी केयमायतलोचना । अयं क्व च कुकू- लाग्निकर्कशो मदनानलः ॥' अत्राननुरूपयोस्तन्वीमदनानलयोः संघटनम् । अत्रेति तीर्थान्तरेष्वित्यादौ । शुद्धेति । यत्र विषममेव न स्यात् । तत्तु यथा- १. 'पछवयति' ख. २. 'घट्टनं' क. ३. 'अभ्यूह्यम्' क. ४. 'घटेना' स्व.

अलंकारसर्वस्वम्। १६७ तद्विपर्ययः समम् । विषमवैधादिह प्रस्तावः । यद्यपि विषमस्य भेदत्रयमुक्त तथापि तच्छब्देन संभवादन्त्यो भेदः परामृष्यते । पूर्वमेदद्वयविपर्ययस्यान- लंकारत्वात् । अन्त्यभेदविपर्ययस्तु चारुत्वात्समाख्योऽलंकारः । स चामिरूपानभिरूपविषयत्वेन द्विविधः । आयो यथा- 'त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमान्तं परमिह युवामेव भजथः । अयि द्वन्द्वं दिया तदिह सुभगे संवदति वा- मतः शेषं यत्स्याजितमिह तदानीं गुणितया ॥' अत्राभिरूपस्यैव नायकयुगलस्योचितं संघटनमाशंसितम् । द्वितीयो यथा- 'चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविधाता विधाता । यनिम्बानां परिणतफलस्फीतिराखादनीया यञ्चैतस्याः कवलनकलाकोविदः काकलोकः ॥' 'यो हठं प्रतिनिषेधुमुदस्तः सुध्रुवा प्रियतमस्य कटाक्षः । स प्रतोद इव तस्य विशेषात्प्रेरकः किमपि हन्त बभूव ॥' अत्र कटाक्षस्य हठनिषेधायोदस्तस्य न केवलं तदसिद्धिर्यावत्तस्यैवात्यन्तं स प्रेरको जात इत्यनर्थोत्पत्तिः । तद्विपर्यये- त्यादि । संभवादित्यलंकारत्वस्य । अनलंकारत्वादिति । कारणात्कार्योत्पत्त- वस्तुसाधनोद्यतस्य तत्सिद्धेश्च वास्तवत्वात् । यद्येवं तत्सरूपसंघटनापि वस्तुत एव युक्तति तस्या अपि कथमलंकारत्वमित्याशयाह-अन्त्येत्यादि । चारुत्वा- दित्यलंकारत्वपर्यवसायिनः । अभिमानरूपेति । शोभनाशोभनविषयत्वेने- त्यर्थः । आद्य इत्यभिरूपविषयः । द्वितीय इत्यनभिरूपविषयः । आनुरूप्यादित्यौ- १६८ काव्यमाला। अत्रानमिरूपाणां निम्बानां काकानां च समागम आशंसितः। आनुरूप्यात्समत्वव्यपदेशः। विरोधमूलं विचित्रं लक्षयति- खविपरीतफलनिष्पत्तये प्रयत्नो विचित्रम् । यस्य हेतोर्यत्फलं तस्य यदा तद्विपरीतं भवति तदा तद्विपरीतफ- लनिष्पत्त्यर्थ कस्यचित्प्रयत्न उत्साहो विचित्रालंकारः। आश्चर्यप्रती. तिहेतुत्वात् । न चायं प्रथमो विषमालंकारप्रकारः । स्वनिषेधमुखेन वैपरीत्यप्रतीतेः। विपरीतप्रतीत्या तु खनिषेधस्तस्य विषयः। यथा- 'तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोकाभरणं प्रसूते' इत्यादि । इह त्वन्यथा प्रतीतिः। यथा- 'घेत्तुं मुच्चइ अहरो अण्णंतो वलइ पेक्खिउं दिट्ठी घडि, विहडंति भुआ रआअ सुरअम्भि वीसामो ।' अत्र मोचनवलनविघटनविश्रमाणां यथाक्रमं ग्रहणप्रेक्षणघटनरम- णानि विपरीतफलानि प्रयत्नविषयत्वेन निबद्धानि । यथा वा- चित्यलक्षणात् । स्वविपरीतेत्यादि । एतदेव व्याचष्टे-यस्येत्यादिना । यदिति प्रसिद्धम् । फलमिति कार्यम् । तस्येति हेतोः। तदिति कार्यम् । प्रय- नस्य कार्यादिमेदेऽपि न वैचित्र्यमिति तदिह नोक्तम् । एवं यस्य यत्कार्य तस्य तावत्तद्विपरीतं न भवति । यदि च तत्त्वं स्यात्तन्निष्पत्त्यर्थं च यदि कस्यचित्प्रयाः स्यात्तदायमलंकार इत्यत्र तात्पर्यम् । ननु चैतद्विरूपकार्योत्पत्तेः किं न विषममेव भवतीत्याशयाह-न चायमित्यादि । तस्येति विषमस्य । नीलयापि पाण्डु यशःप्रसूतमिति विपरीतप्रतीतिबलादेतन्नोपपद्यत इति पत्र प्रतीतिः। अन्यथेति १. 'अनुरूपत्वात्' क-ख. २. 'तस्य' क-पुस्तके नास्ति. ३. 'तदा विचित्रालं. कारः' क. ४. 'ग्रहीतुं मुच्यतेऽधरोऽन्यतो वलति प्रेक्षितुं दृष्टिः। घटितुं विघटेते भुजौ रताय सुरतेषु विश्रमः ॥' इति च्छाया. ५. 'मरणानि' ख. ६. 'यस्येति' क. ७. 'विपरीतप्रतीतेः । यद्यपि विषमे विरूपस्य' ख.

अलंकारसर्वस्वम्। १६९ 'उन्नत्यै नमति प्रभु प्रभुगृहान्द्रष्टुं बहिस्तिष्ठति खद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया । प्राणान्माणितुमेव मुञ्चति रणे क्लिभाति भोगेच्छया सर्व तद्विपरीतमेव कुरुते तृष्णान्धहक्सेवकः ॥ अत्र विपरीतफलनिष्पादनप्रयत्नः सुज्ञानः । आश्रयाश्रयिणोरानुरूप्यमधिकम् । विरोधप्रस्तावादिह निर्देशः । अनानुरूप्यस्य विरोधोत्थापकत्वात् । तच्चानानुरूप्यमाश्रयस्य वैपुल्येऽप्याश्रितस्य परिमितत्वाद्वा भवति यद्वा- श्रितस्य वैपुल्येऽप्याश्रयस्य परिमितत्वाद्वा स्यात् । क्रमेण यथा- 'धौरत्र क्वचिदाश्रिता प्रविततं पातालमत्र कचि- काप्यत्रैव घराघराघरजलाधारावधिर्वर्तते । स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेवंविधै. दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥' निषेधबलाद्वैपरीत्यप्रयत्न इति । यद्यपि विषमे विरूपस्य कार्यस्य खयमेवोत्पत्ति- रिह च तन्निष्पत्तये प्रयत्न इति स्थितोऽप्यनयोः स्फुटो मेदस्तथापि ग्रन्थकृता विशेषपरिपोषायैव सूक्ष्मेक्षिकागम्यो भेदोऽयमुक्तः । मोचनस्याग्रहणं खं फलम् । प्रहणं पुनः कथं भवतीत्यामुख एवोद्रिक्तत्वेनात्र निषेधप्रतीतिः । अनन्तरं च तन्निमित्ता वैपरीत्यप्रतीतिः। अत एव विषमादस्य मेदः। सुज्ञान इति । पूर्वोक्तयुक्त्यैवावगतत्वात्पुनरुदाहरणमस्य लक्ष्ये प्राचुर्यदर्शनार्थम् । एतद्धि प्रन्यकृत- वाभिनवत्वेनोक्तम् । आश्रयेत्यादि । इहेति विचित्रानन्तरम् । नन्वननुरूपयोः संघटने विषममुक्तमित्याश्रयायिणोस्तत्वे कथमलंकारान्तरत्वमुच्यत इत्याशङ्का- गर्भीकारेणैतझ्याचष्टे-तश्चेत्यादिना । आश्रयस्येत्याधारस्य । आश्रितस्येत्याधेय- स्य । अनेनैव चास्य भेदद्वयमप्युक्तम् । एवं च परिमितत्वापरिमितत्वयोः सापेक्षखा- १. 'यथपि-तनिष्पत्तये' इति क-पुस्तके नास्त्रि. २. 'सौमनस्याग्रहणः पुनः ख.

१७० काव्यमाला। 'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावमलोद्यत- ष्टंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः। द्राक्पर्यासकपालसंपुटमिलद्ब्रह्माण्डमाण्डोदर- प्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥ पूर्वत्र नभस आश्रयस्य वैपुल्येऽप्याश्रितानां घुप्रभृतीनां पारिमित्यं चारुत्वहेतुः । उत्तरत्र तु टंकारध्वनेराश्रितस्य महत्त्वेऽपि ब्रह्माण्डस्या- श्रयस्य स्तोकत्वम् । परस्परं क्रियाजननेऽन्योन्यम् । इहापि विरोधप्रस्ताव एव निर्देशकारणम् । परस्परजननस्य विरु- द्धत्वात् । क्रियाद्वारकं यत्र परस्परोत्पादकत्वं, न खरूपनिबन्धनं, स्व- तथाविधवस्तुद्वयसंघटनयैव तदवगमनसिद्धिरित्यत्राधाराधेययोः संघटनेनैवाननुरू- पत्वमवगम्यते । विषमे चानन्यापेक्षत्वेन स्वत एवाननुरूपयोः संघटनमित्यनयोर्म- हान्भेद इत्यत्र पिण्डार्थः । इत्यम्-'आधाराधेययोर्यत्र संसर्गः खादिरूपयोः । स स्फुटो विषमो वाच्यमधिकं नाधिकं ततः ॥' इति न वाच्यम् । तच्चाश्रयाश्र- यिणोः कविप्रतिभाकल्पितमेव ग्राह्यम् न पुनर्वास्तवम् । तेन चारुत्वाप्रतीतेः। तेन नभसो द्युप्रभृतीनां चान्योन्यापेक्षया वैपुल्यं पारिमित्यं च वास्तवमेवेत्यनु- दाहरणमेतत् । तदुदाहरणान्तरमन्वेष्यम् । तत्तु यथा-'रणरणअगुणिअमुज- तणम्मि तणुई समुद्दगहिरम्मि । मेरुअडवच्छसः तुज्झ हिअए कहं णु ठाई ॥' अत्र हृदयस्य महत्त्वं तन्व्याश्च तनुत्वमित्याधाराधेययोरननुरूप्यम् । परस्पर मित्यादि । ननु यदि परस्परजननस्य विरुद्धत्वं तत्कथमस्यालंकारत्वमित्याश- याह-क्रियेत्यादि । कियाशब्देनात्र धर्मो लक्ष्यते । अन्यथा-'प्रकाशः कोऽपि कैलासशैलपूर्णेन्दुविम्बयोः । उदियाय तैदान्योन्यपटुत्वजननक्रमात् ।' इत्यादौ गुणात्मकपटुत्वमुखेन परस्परजननेऽप्यव्याप्तिः स्यात् । परस्परोत्पाद- कत्वमिति । परस्परनिष्पादकत्वमित्यर्थः । एवं चानेन जननस्य क्रियासामा- १. 'विरुद्धश्रद्धत्वात्' क. २. 'परस्परोपपादकत्वं' ख. ३. 'यदा' क.

अलंकारसर्वस्वम् । १७१ रूपस्य तथात्वोक्तिविरोधात् तत्रान्योन्याख्योऽलंकारः। यथा- 'कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । 'अन्योन्यशोभाजननाबभूव साधारणो भूषणभूष्यभावः ॥ अत्र शोभाक्रियामुखकं परस्परजननम् । अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं वि- शेषः। इहाधारमन्तरेणाघेयं न वर्तत इति स्थितावपि यस्तत्परिहारेणाधे- यस्योपनिबन्धः स एको विशेषः । यच्चैकं वस्तु परिमितं धावर्तमानं क्रियते स द्वितीयो विशेषः । यच्च किंचिदारभमाणस्यासं- भाव्यवस्त्वन्तरकरणं स तृतीयो विशेषः। आनुरूप्यपरिहाररूपविरोध- प्रस्तावादिहोक्तिः । क्रमेण यथा- युगपदनेक. न्यात्मककारणार्थत्वं दर्शितम् । तेन-'प्रियतमहृदयं विवेश तन्वी परयुवतिप्रस- रापसारणाय । अतिसुभगतया हरन्तु मान्या इति च निजे हृदये निवेशय- न्तम् ॥' इत्यत्र परस्परं हृदयानुप्रवेशस्ताभ्यां कृत इति प्रतीतेः पर्यवसानात्पर- स्परजननस्याव्यापकत्वं न वाच्यम् । 'विपर्ययं पूर्वकथाद्भुतस्य चालुक्यभूपालशर- श्वकार । पपात यन्नष्टधृतिर्वराहतं विह्वलाङ्गं वसुधा वभार ॥' इत्यत्र पुनरादि- वराहवृत्तान्तवैलक्षण्यमात्रस्य विवक्षितत्वादन्योन्यालंकार एव नास्तीति कस्य व्यापकत्वं वा स्यात् । एवमन्यत्रापि ज्ञेयम् । तथात्वोक्तिविरोधादिति । इतरेतराश्रयदोषलक्षणात् । यदि पुनरत्र विरोधसमाधिर्भवेत्तदालंकारत्वमपि स्यादिति भावः यथा-'धनेन जायते प्रज्ञा प्रज्ञया जायते धनम् । प्रज्ञार्थों जीवलोकेऽस्मिन्परस्परनिवन्धनम् ॥' अत्र प्रज्ञाधनयोः स्वरूपस्य परस्परं जन- नम् । देशकालमेदाद्विरोधसमाधिः । शोभाक्रियेति । सैव पत्र परस्परनिमि- त्तम् । अनाधारमित्यादि । एतदेव व्याचष्टे-इहेत्यादिना । तत्परिहा- रेणेति । आधारव्यतिरेकेणेत्यर्थः । परिमितमित्यव्यापकम् । व्यापकस्य हि युग- पदनेकत्र स्थितिर्वस्तुसंभविनीति तत्र नालंकारत्वम् । किंचिदिति यत्र यादृग्विव- १. 'जननस्य व्यापकत्व' ख. २. 'प्रवृत्तिनिमित्तम्' ख.

१७२ काव्यमाला। 'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्याः ।। 'प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यके सा दिशि दिशि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥' 'निमेषमपि यद्येकं क्षीणदोषे करिष्यसि । पदं चित्ते तदा शंभो किं न संपादयिष्यसि ।।' क्षितम् । न केवलमारब्धस्य वस्तुनो निष्पत्तिर्यावदसंभाव्यस्यापि वस्त्वन्तरस्येत्यत्र तात्पर्यार्थः। तच वस्स्वन्तरं चिकीर्षितं भवत्यचिकीर्षितं वा । एवं च 'फलान्त. रस्य निष्पत्तिश्चिकीर्षाविरहेऽपि या । स विशेषश्चिकीर्षायां प्रसङ्गस्तु ततः पृथक् ॥ इत्याद्युक्तयुक्त्या प्रसङ्गादन्यार्थः । प्रसङ्ग इति । प्रेसङ्गाख्यमलंकारत्वं न वाच्यम् । न हि चिकीर्षितत्वमचिकीर्पितत्वं वा कश्चिद्विच्छित्तिविशेषो येनालंकारा. न्तरत्वं स्यात् । यावता ह्यत्रासंभाव्यस्य वस्त्वन्तरस्य विच्छित्तिर्विवक्षिता सा चात्र स्थितेति किं चिकीर्षितत्वाचिकीर्षितत्वकल्पनेन । तस्मात् 'अङ्गेषु सान्द्रहरिचन्द- नपकचर्चा माफलहारवलयादि च पान्थवध्वाः। योऽभूद्दिवा पतिवियोगविषाद- दम्भो ज्योत्स्नाभिसारपरिकर्म स नक्तमासीत् ॥' इत्यत्र हरिचन्दनचर्चादिना न केवलं पतिवियोगविषाददम्भः कृतो यावदभिसारिकापरिकर्मापि कृतमित्यशक्य- वस्त्वन्तरकरणात्मैवायं विशेषः । विशेषाश्चात्र त्रयो न पुनरेकस्त्रिविधः । लक्ष- णस्य भिन्नत्वात् । उचितस्य तु विशिष्टत्वस्य भावात्रयाणामपि विशेषत्वम् । गिरामत्र कविस्वभावादन्यत्र भावः । शंभोश्च लोकोत्तरवस्तुसंपादनं वास्तवमेवेति विशेषमत्रान्ये न मन्यन्ते । एतावतैव पुनरस्याभावो न वाच्यः । उदाहरणान्त. रेप्वस्य संभवात् । तानि तु यथा-'अजानि चन्दनरसादपि शीतलानि चन्द्रा- १. 'दिशि दिशि' ख. २. 'पथि पथि' ख. ३. 'दोपं करिष्यति' ख. 'संपादयिष्यति' ख. ५. 'प्रसंख्यालंकारान्तरं' ख. ६. 'छत्रासद्भावस्य' ख. ७. 'निष्पतिः' स्व. ८. 'अङ्गानि-तथा च' इति ख-पुस्तके त्रुटितम्.

अलंकारसर्वस्वम् । १७३ अत्र कवीनामाधाराणामभावेऽप्याघेयानां गिरामवस्थितिरन्यत्रभावो विषयार्थ इति विषयत्वेन तेषामाधारत्वात् । एकस्या एव योषितः प्रासादादौ युगपदवस्थानम् , तथा चित्तविषये पदकरणे प्रस्तुतेऽपि लोकोत्तरवस्तुसंपादनं क्रमेण ज्ञेयम् । यथा साधितस्य तथैवान्येनान्यथाकरणं व्याघातः। यं कंचिदुपायविशेषमवलम्व्य केनचिद्यन्निष्पादितं वस्तु तत्ततो- ऽन्येन केनचित्तत्प्रतिद्वन्द्विना तेनैवोपायविशेषेण यदन्यथा क्रियते स निष्पादितवस्तुव्याहतिहेतुत्वाव्याघातः । यथा- तपं वमति बाहुरयं यशोभिः । चालुक्यगोत्रतिलक व वसत्यसौ ते दुर्वृत्तभूपपरि- तापगुरुः प्रतापः ॥' अत्राजादीनामनहत्वेनाधारत्वाभावेऽप्याधेयस्य प्रतापस्य स्थितिरिति विशेषालंकारत्वम् । तथा च-'चोरिअरमणाउलिए पुत्ति पिअं हरसि सित्ति कि वुजं । वचंती मुहजोण्हाभरेहि तिमिरं पि ण णिहिसि ॥' अत्र न केवलं प्रियं हरिष्यसि यावचिकीर्षाविरहेणासंभाव्यं तिमिरमपीति वस्त्वन्त. रकरणात्मा विशेषः । यथा वा-'माघः शिशुपालवधं विदधत्कविमदघधं विदधे। रत्नाकरः स्वविजयं हरविजयं वर्णयन्व्यवृणोत् ॥' अत्र न केवलं माघः शिशु- पालवधं चकार यावदसंभाव्यं चिकीर्षितं कविमदवधमपीत्यशक्यवस्त्वन्तरकर- णात्मायं विशेषः । अशक्यमेव कविमदवधं कर्तुं माघस्यात्र कर्तृत्वम् । एवमुत्तर- त्रापि ज्ञेयम् । अतः ‘एकस्मिन्क्रियमाणे तजातीयस्य प्रसङ्गतः सिद्धिरनुपङ्गः' इत्यनुषजालंकारोऽपि विशेप एवान्तर्भवतीति न पृथग्वाच्यः । यथासाधित- स्वेत्यादि । निष्पादितमिति न तु निष्पादयितुं संभाव्यमानम् । तद्धि द्वितीयव्या- घातविषयः । तत इति निष्पादनकर्तुः । तत्प्रतिद्वन्द्विनेति । निष्पादितवस्तु- व्याहतिकारित्वात् । तेनैवेत्यत्र भरः । अन्यथा हि वैचित्र्यातिशयो न स्यात् । अन्यथाक्रियत इति । तदुपमर्दकवस्त्वन्तरजननेनेत्यर्थः । अत एव नामा- प्यस्य यौगिकमिलाह-निष्पादितेत्यादि । अतश्च यत्र न निष्पन्नस्य वस्तुनो व्याहतिरुपनिवध्यते तत्र नायमलंकारः । निष्पत्तेरेवाप्ररोहाझ्याघातायोगात् । निष्पन्नवस्तुव्याहतिहिं व्याघातः । फलं चात्र व्याहतिकारिणस्तद्वैलक्षण्यम् । अत १. 'अनन्यभावः' ख. २. 'तथा' ख. ३. 'यं' क-पुस्तके नास्ति.

काव्यमाला। 'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः ॥' अत्र दृष्टिलक्षणेनोपायेन स्मरस्य हरेण दाहविषयत्वं निष्पादितम् । मृगनयनाभिः पुनस्तेनैवोपायेन तस्य जीवनीयत्वं क्रियते । तच्च दाह- विषयत्वस्य प्रतिपक्षभूतम् । तेन व्याघाताख्योऽयमलंकारः । सोऽपि एव 'उत्पत्तिविनाशयोरेकोपायत्वे व्याघातः' इति न सूत्रणीयम् । एवं हि व्याघा- तत्वमेव न स्यात् । 'कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजवलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो व्रजति सुतरां दर्प राजस्त एव तवाङ्कुशाः ॥' इत्यत्र च कुलादयो यथान्येषां दर्पहेतवो न तथा तव । प्रत्युत विनयकारिण इत्येवंविधगुणविशिष्टेभ्यः पुरुषा. न्तरेभ्योऽस्य वैलक्षण्यमानं विवक्षितम् । न तु कुलादिभिरुत्पादितोऽपि दर्पस्तव व्याहत इति येन व्याघातालंकारो भवति । अथात्र दर्पकारिणोऽपि कुलादेस्तद्वि- नाश इत्ययमलंकार इति चेत् , नैतत् । कुलादीनां प्रकृतिभेदेन दर्गदर्पकारित्वस्य वास्तवत्वेनालंकारत्वात् । तत्रापि कुलादिभिस्तव दर्पस्य विनाश इत्यभ्युपगमेना- यमलंकारः । निष्पादितवस्तुव्याहतेरभावात्तन्निवन्धनत्वेन चास्योक्तत्वात् । 'विण्णाणेण मअविसं विणिवट्टइ भिण्णकारणुप्पण्णं । विण्णाणकारणं जं तं पुण भण को णिवटेइ ॥' इत्यत्रापि मदस्य विज्ञानतदन्यहेतुकत्वे वैस्तुसंभवहेतुर्मदो विज्ञानेन निवर्त्यते तद्धेतुकः पुनः केनेत्यलंकारभाष्यकारोक्तस्तन्निवृत्तिहेतुप्ररोहा- त्मकत्वाद्वितर्कालंकारो न व्याघातः । विज्ञानहेतुकाया मदनिष्पत्तेरेव प्ररोहात् । 'गाढकान्तदशनक्षतव्यथासंकटादरिवधूजनस्य यः । ओष्टविद्रुमदलान्यमोचयनि- र्दशन्युधि रुपा निजाधरम् ॥' इत्यत्र चाधरव्ययानिर्मोचनात्मकविपरीतफलनि- प्पत्त्यर्थ तन्निर्दशनात्मा प्रयत्न उपनिवद्ध इति विचित्रमिति न व्याघातालंकारो वाच्यः । तेनैवेति । दृष्टिलक्षणेनैव न पुनरन्येनेत्यर्थः । तेनेति निष्पन्नस्य वस्तुनतेनैवोपायेन व्याहतत्वात् । तदेव विभजति–विरूपाक्षस्येत्यादिना । अनेनास्य व्यतिरेकं विनोत्थानमेव न स्यादिति सूचितम् । तथा हि येनकेनचिद्य. किचित्साधितं तैदप्यन्येनान्यथाक्रियते तदा तस्य ततोऽन्यथाकरणानुपपत्या १. 'प्रतिविरूपपक्षभूतम्' क. २. 'वस्तुसंभवविन्यन्यहेतुर्मदो' ख. ३. तद्- दन्येनान्यधी' ख.

अलंकारसर्वस्वम् । १७५ व्यतिरेकनिमित्तत्वेनात्रोक्तः । विरूपाक्षस्येति वामलोचना इति च व्य- तिप्रकरेकगर्भावेव वाचकौ । जयिनीरिति व्यतिरेकोक्तिः । पूर्ववदिह रणं लक्षणम् । प्रकारान्तरेणाप्ययं भवतीत्याह- सौकर्येण कार्यविरुद्धक्रिया च व्याघातः । किंचित्कार्य निष्पादयितुं संभाव्यमानः कारणविशेषस्तत्कार्यविरु- द्धनिष्पादकत्वेन यत्समर्थ्यते सोऽपि संभाव्यमानकार्यव्याहतिनिबन्ध- नत्वायाघातः । कार्यविरुद्धकार्यनिष्पत्तिश्च कार्यापेक्षया सुकरा । तस्य कारणस्यात्यन्तं तदानुगुण्यात् । नत्वत्र कार्याभिमतस्य कार्यत्वाभावः। तद्विरुद्धस्यात्र सौकर्येण कार्यत्वात् । अत एव द्वितीयाद्विषमाद्भेदः । तत्र हि कार्यस्यानुत्पत्तिरनर्थस्य चोद्गमनम् । इह तु कार्यमकार्यमेव न भवति । तद्विरुद्धस्यानर्थस्य व्यतिरेकिणोऽप्यत्र सुष्ठुकार्यत्वात् । यथा हर्षचरिते राज्यवर्धनं प्रति श्रीहर्षोक्तिषु- वैलक्षण्यमवश्याभ्युपगन्तव्यम् । अतश्चास्य सर्वात्मना व्यतिरेको निमित्तत्वं यायात्। पूर्ववदित्यानुरूप्यपरिहारात् । स चैकस्योपायस्य साधनान्यथाकरणत्वेन विवक्ष- णात् । प्रकारान्तरेणेति प्रतीतिभेदात् । अयमिति व्याघातः। तमेवाह-सौक- येणेत्यादि । एतदेव व्याचष्टे-किंचिदित्यादिना। संभाव्यमान इति केनचि. दन्येन । तत्कार्येति । तच्च तत्कार्य निष्पादयितुं प्रक्रान्तम् । अत एवास्य प्रथमायाघाताद्भेदः । तत्र हि येनकेनचिदुपायेन निष्पादितं सद्वस्तु तथैवान्येना- न्यथाक्रियत इत्युक्तम् । इह तु किंचिनिष्पादयितुं संभाव्यमानस्य कारणस्य तद्वि- रुद्धनिष्पादकत्वेन समर्थनम् । तद्विरुद्धनिष्पत्तेश्च सौकर्य किमुक्तमित्याशङ्कयाह- कार्येत्यादि । तदानुगुण्यादिति कार्यविरुद्धानुगुणत्वात् । न त्विति । अपि तु १. परिनिष्पादकत्वेन' ख. २. 'तस्याकारणस्य' ख. ३. 'कार्य कार्यमेव' ख.

१७६ । काव्यमाला। 'यदि बाल इति सुतरामपरित्याज्योऽस्मि । रक्षणीय इति भवद्भुज- पञ्जरमेव रक्षास्थानम्' इत्यादि । अत्र राज्यवर्धनेन श्रीहर्षप्रस्थापने कार्ये बाल्यरक्षणीयत्वादि कार- णत्वेन यत्संभावितं तत्प्रत्युता प्रस्थापनकारणत्वेन सुकरतया श्रीहर्षेण राज्यवर्धनस्य समर्थितमिति व्याघाताख्योऽलंकारः । एवं विरोधमूलानलंकारान्निणीय शृङ्खलाबन्धोपचिता अलंकारा लक्ष्यन्ते । तत्र- पूर्वस्य पूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला । दुष्करत्वेन कार्यत्वमित्यर्थः । अनेनाप्यस्य प्रथमाद्वयाघाताद्भेदः सूचितः । इह हि किंचिन्निष्पादयितुं संभाव्यमानः कारणविशेषः सौकर्येण तद्विरुद्धनिष्पादकत्वेन समर्थ्यते । तत्र रूपाय विशेषविवक्षापरिहारेण कैर्तुरेव पक्षप्रतिपक्षभावमाश्रित्य तथात्वोपनिवन्धः । अत एवेति । द्वयोरपि कार्यत्वसंभवात् । अनर्थेत्यनेनापि विषमादस्य भेद एवोपोद्वलितः। संभावितमिति। तथा । समर्थितमिति । अनेन प्रथमव्याघातोदाहरणत्वमस्य निरस्तम् । तत्र हि द्वयोरपि कार्ययोर्निष्पत्ति- विवक्षिता । वाल्यस्य तु कार्यद्वयजननेऽपि सामर्थ्य किंतु प्रेस्थापनजनने सौकर्यम्। अत एवात्र संभाव्यमानस्य कार्यस्य व्याहतत्वम् । यथा वा-'यत्सशब्दमिति कामविमर्दै नूपुरं परिहरन्ति तरण्यः । तद्भार कतरापि विदग्धा गोपनाय निज- कण्ठस्तानाम् ॥' अत्र संभाव्यमानं कार्य परिहारः। तस्य व्याहतिधारणम् । उपा- यस्य सुकरदुष्करत्वेन विशिष्टत्वादत्र न प्रथमव्याघातोदाहरणत्वम् । यथा च नाय. मर्थो वक्रोक्तेर्भेदस्तथा वक्रोक्तावेव वक्ष्यामः। एतदुपसंहरनन्यदवतारयति-ए. वमित्यादिना । अलंकार इति न पुनः शृङ्खलैवैकोऽलंकारः । एवं हि साधर्म्य- मप्येक एवालंकारः स्यात् । न ह्युपमादिपु साधर्म्यपरिहारेण प्रत्येकं कश्चिद्विच्छि- त्तिविशेषसंभवः येनालंकारभेदः स्यात् । एवं विरोधोऽप्येक एव वाच्यः। न हि विभावादीनां विरुद्धत्वादन्यः कश्चिद्विशेषः किमपरम् । एवं सप्ताष्टानामेवालंकाराणां १. 'च्यादिष्टोऽलंकारः' क. २. तेनाप्यस्य' क. ३. 'कत्रोंरेव' ख. ४. 'अत्र' क. ५. 'प्रस्थान' ख. ६. 'साधम्येऽप्येक' ख.

अलंकारसर्वस्वम् । १७७ यदा पूर्व पूर्व क्रमेणोत्तरमुत्तरं प्रति हेतुत्वं भजते तदा कारणमा- लाख्योऽयमलंकारः । यथा- 'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षों विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥' कार्यकारणक्रम एवात्र चारुत्वहेतुः । यथापूर्व परस्य विशेषणतया स्थापनापोहने एकावली । लक्षणप्रणयनप्रसङ्गः । अथोपमादीनामपि साधादावैवान्तरोऽस्ति विशेष इति चेत् । तर्हि कारणमालादीनामपि शृङ्खलावन्धोपचित्रितत्वेऽपि वक्ष्यमाणनीत्या कार्यकारणविशेषणविशेष्यभावाद्यात्मास्त्येवावान्तरोऽपि विच्छित्तिविशेषः येनोप- मादिवत्पृथगेवैषामलंकारत्वं युक्तम् । एवं हि शृङ्खलायामवान्तरविच्छित्तिविशेषसं- भवेऽप्यन्यालंकारोपसंख्यानं प्रसज्यत इति चेत् , न । यद्यस्ति विच्छित्त्यन्तरं तदस्त्वलंकारान्तरोपसंख्यानं, को दोषः । प्रत्युताभासमानस्य विशेषस्यापहवो न वाच्यः । तद्यथास्थित एवालंकारभेद आश्रयणीयः । तस्मादुत्तरोत्तरस्य पूर्वपूर्वा- नुबन्धित्वे विर्यये वा शृङ्खलेति न वाच्यम् । तत्र तावत्कारणमालामाह-पूर्वे- त्यादि । कारणमालाख्योऽयमिति मालान्यायेन वहूनां कारणमालानां योगपद्ये. नावस्थानात् । अत एवाह-कार्यकारणक्रम एवेति । न पुनः केवलमेव शङ्खलात्वमित्यर्थः । अत एव कारणमालेल्यस्या अन्वर्थमभिधानम् । एवमन्येभ्यः शृङ्खलावन्धोपचित्रितेभ्योऽलंकारेभ्योऽस्या विषयविभागः । न हि तेषु कार्यकार- णक्रम एव चारुत्वहेतुः। विशेषणविशेष्यभावादेवान्तरस्य विच्छित्तिविशेषस्य संभ- वात् । क्वचिद्विपर्ययेणापि भवति । यथा-'माणो गुणेहि जाअइ गुणा वि जाते सुअणसेवाइ । विमलेण सुअअप्पसरेण सुअणवइ उट्टाणं ॥' अत्र हि पूर्वस्योत्त- रोत्तरं कारणतयोपनिवद्धम् । एवमुत्तरत्रापि विपर्ययोऽभ्यूह्यः ॥ यथापूर्वमि- १. 'परस्परविशेषणतया' ख. २. 'अप्यन्तरोऽस्ति' ख. ३. 'पूर्वानुबन्धित्वम्' ख. ४. 'विपर्ययो वा' ख. ५. 'मानो गुणेन जायते गुणा अपि जायन्ते सुजनसेवायाः' इति पूर्वार्धस्य च्छाया. ६. उत्तरार्ध क. पुस्तके नास्ति. १२ अ० स० Srinagar. Liviny Sri Pratap College, काव्यमाला। यत्र पूर्व पूर्व प्रति क्रमेण परं परं विशेषणत्वमनुभवति स एका- वल्यलंकारः। विशेषणत्वं च स्थापनेन निवर्तनेन वा । स्थापनेन यथा- 'पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥' अत्र वराङ्गनाः पुराणां विशेषणं स्थापनीयत्वेन स्थितम् । एवं वराजनानां रूपमित्यादि ज्ञेयम् । निवर्तनेन यथा- 'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद् यदेलीनषट्पदम् । 'न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः ।।' अत्र जलस्य सुचारुपङ्कजत्वं विशेषणं निषेध्यत्वेन स्थितम् । एवं पङ्कजानामलीनषट्पदत्वं ज्ञेयम् । पूर्वस्य पूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम् । उत्तरोत्तरस्य पूर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावली । पूर्वस्य पूर्वस्यो- चरोत्तरोत्कर्षनिबन्धनत्वे तु मालादीपकम् । मालात्वेन चारुत्वविशेषमा- त्यादि । परं परमिति । अत एव पूर्वस्य पूर्वस्य यथायथं विशिष्टतयावगमः । खरूपमात्रेणावगतस्य वस्तुनो यत्संवन्धबलेन वैशिष्ट्यमवगम्यते तद्विशेषणम् । यद्वक्ष्यति । उत्तरोत्तरस्य पूर्व पूर्व प्रत्युत्कर्षहेतुत्वे एकावलीति । एकावल्य. लंकार इति । पूर्वोत्तरयोः परस्परानुषक्तत्वेनैकपतिरूपत्वात् । पूर्वेत्यादि । अतश्चैकावल्यलंकाराद्वैलक्षण्यं दर्शयन्व्याचष्टे-उत्तरेत्यादि । उत्कर्षनिवन्धनत्व इत्यनेन कारणमालातोऽप्यस्य वैलक्षण्यमुक्तम् । तस्यां हि पूर्वस्य पूर्वस्योत्तरमुत्तरं प्रति कारणत्वम् । ननु चास्य प्राच्यदर्दीपकानन्तरं लक्षणं कृतमिह तु किं न तथे- साराङ्याह-मालात्वेनेत्यादि । मालाशब्देनात्र शृङ्खला लक्ष्यते । तस्या एवोपक्रान्तत्वात् । न चात्र मालोपमावन्मालाशब्दो ज्ञेयः । एकस्योपमेयस्य वहुपमानोपादानाभावात् । अत्र ह्यौपम्यमेव नास्ति । कोदण्डशरादीनां तस्याविव. १. 'द्विधा भवति' ख. २. 'वराङ्गनारूपमित्यादि' ख.

अलंकारसर्वस्वम् । १७९ श्रित्य दीपकप्रस्तावोल्लङ्घनेनेह लक्षणं कृतम् । गुणावहत्वमुत्कर्षहेतुत्वम् । यथा- 'संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥' अत्र कोदण्डादिमिः क्रमेण शरादीनामुत्कर्षों विहितः। समासादनल- क्षणक्रियानिवन्धनं च दीपकं दीपनक्रियाणामुत्तरोत्तराभिमतत्वेन कृतम्। उत्तरोत्तरमुत्कर्षणमुारः। पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षनिबन्धनत्वमुदाराख्योलंकारः । क्षणात् । अत एवास्य दीपकभेदत्वं न वाच्यम् । औपम्यजीवितं हि तत् । प्राच्यः पुनरेतद्दीपनमात्रानुगुण्यात्तदनन्तरं लक्षितम् । शृङ्खलात्वेन तु विशिष्टमस्य चारु- त्वमितीह लक्षणं युक्तम् । एतच्च दीपक एव ग्रन्थकृतोक्तम् । छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यत इति । अत्रेत्यादि । उत्कर्षश्च शरादीनां कोदण्डादिसमासादनलक्षणः । दीपनविषयाणामिति । कोदण्डशरादीनाम् । अत एवास्य दीपकमित्यन्वर्थमभिधानम् ॥ उत्तरेत्यादि । एतदेव व्याचष्टे- पूर्वेत्यादि । एतच्चैकस्यैव वस्तुनो बहूनां वा स्यादित्यस्य द्वैधम् । तेन पूर्वत्र पूर्वपूर्वेत्युत्तरस्येति चावस्थाविशेषाभिप्रायेण व्याख्येयम् । अन्यथा ह्येकस्यैव पूर्व- त्वमुत्तरत्वं च कथं स्यात् । एवमप्युत्तरोत्तरमुपचयः खरूपेण धर्मेण वा भवती- त्यस्य चातुर्विध्यम् । एवं प्रकृते यथायथमारोहक्रमेण धाराधिरूढतयोत्कर्षप्रतिपा- दनं स्यादित्यलंकारयीजम् । यदुक्तम्-उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिरिति । पूर्वापेक्षयोत्तरस्योत्कृष्टत्वमित्यनेन मालादीपकादस्य भेदोऽप्युक्तः । तत्र हि पूर्व- १. 'हेतुकं' क. २. 'दीपनविपयाणाम्' ख. ३. 'उत्तरोत्तरमुत्कर्षः सारः' ख. ४. अयमेव काव्यप्रकाशकारादिमिः 'सार' नाम्ना व्यवहतः। वेदेऽप्ययमलंकारो दृश्यते । यथा-महतः परमव्यकमन्यतात्पुरुषः परः । पुरुषान परं किंचित्सा काष्ठा सा परा गतिः ॥ ५. 'निवन्धनं सारः' ख. ६. 'प्रस्तावान्तरेण' क. ७. 'चार्ववस्था' क.

१८० काव्यमाला। यथा- 'जये धरित्र्याः पुरमेव सारं पुरे गृहं सद्मनि चैकदेशः। तत्रापि शय्या शयने वरा स्त्री रत्नोज्ज्वला राज्यसुखस्य सारम् ॥ अत्र धरित्र्यपेक्षया पुरस्य सारत्वमेवं पुरापेक्षया तदेकदेशस्य गृह- स्येत्यादि योजनीयम् । यथा- 'राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वखम् ॥' अत्र राज्यापेक्षया वसुंधरायाः सारत्वमेवं वसुधापेक्षया तदेकदे- शस्य पुरस्येत्यादि योजनीयम् । स्योत्तरं प्रत्युत्कर्षनिवन्धनत्वमुक्तम् । अत एव चास्योत्तरोत्तरस्योत्कर्षोपनिवद्धा- दन्वर्थत्वम् । तत्रैकस्य स्वरूपेणोत्कर्षों यथा-'किं छत्रं किं नु रत्नं तिलकमथ तथा कुण्डलं कौस्तुभो वा चक्रं वा वारिजं वेत्यमरयुवतिभिर्यलिद्वेषिदेहे । ऊर्षे मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं पायात्तद्वोऽर्कविम्वं स च दनुज- रिपुर्वर्धमाणः क्रमेण ॥' अत्रेकस्यैव हरेस्तत्तदवयवस्थाविशिष्टतया स्वरूपेणोत्तरोत्तर- मुत्कर्षः । धर्मेणापि यथा-'अतसीकुसुमप्रभं मुखे तदनु त्वत्कचमेचकद्युति । अथ वालतमालमांसलं प्रसृतं संप्रति सर्वतस्तमः ॥' अत्रैकस्यैव तमसो निविडत्वाख्य- धर्ममुखेनोत्तरोत्तरमुत्कर्षः । अत्र च यद्यप्येकस्मिन्नेव तमस्यनेकस्यातसीकुसुमप्र- भादिकस्यावस्थानात्पर्यायत्वम् , तथापि तमसो नैविध्यं यथायथमुत्कृष्टतया वा- क्यार्थीभूतमिति यथोक्तमेव युक्तम् । बहूनां स्वरूपेणोत्कर्षो यथा-'अत्युच्चास्तरवः स्पुरन्ति गिरयः स्वर्वासिशैलस्ततस्तस्माद्विष्णुपदं ततः किमपरं स्यादन्यदत्युन्नतम् । तस्मात्सर्वत एव साधुहृदयान्युत्तुङ्गभङ्गीनि तत्कस्या उन्नतये तवार्थिपदवीं चिन्ता- मणे तन्वते ॥' अत्रानेकेषां पूर्वापेक्षया स्वरूपेणोत्तरोत्तरमुत्कर्षः । धर्मेण यथा- 'कुक्षेः कोटर एव कैटभरिपुर्धत्ते त्रिलोकीमिमामप्युद्वयूढभरो विभर्ति तमपि प्रीतो भुजंगेश्वरः । श्रीकण्ठस्य स कण्ठसूत्रमभवद्देव त्वया तं हृदा बिभ्राणेन परेषु पौरु- पकथा श्रीकर्ण निर्नाशिता ॥' अत्र कैटभारिप्रभृतीनां पौरुषाख्यधर्ममुखेनोत्तरो- अलंकारसर्वस्वम् । १८१ एवं शृङ्खलाविच्छित्यालंकाराः प्रतिपादिताः । अधुना तैन्याया- श्रयेणालंकारद्वयमुच्यते । तत्र- हेतोर्वाक्यपदार्थता काव्यलिङ्गम् । यत्र हेतुः कारणरूपो वाक्यार्थगत्या विशेषणद्वारेण वा पदार्थ- गत्या लिङ्गत्वेन निबध्यते तत्काव्यलिङ्गम् । तर्कवैलक्षण्यार्थ काव्यग्र. हणम् । न ह्यत्र व्याप्तिपक्षधर्मतोपसंहारादयः क्रियन्ते । वाक्यार्थगत्या च निवध्यमानो हेतुत्वेनैवोपनिबद्धव्यः, नोपनिबद्धस्य हेतुत्वम् । अन्यथार्थान्तरन्यासान्नास्यभेदः स्यात् । क्रमेण यथा- त्तरमुत्कर्षः । एवं 'जये धरित्र्याः' इत्यादौ सारत्वमुखेन बोद्धव्यम् । यदाहात्रे- त्यादि । यथा वा-'त्रिलोक्यां रत्नसूः श्लाघ्या तस्यां धनपतेर्हरित् । तत्र गौरी- गुरुः शैलो यत्तस्मिन्नपि मण्डलम् ॥' अत्र वहूनां श्लाघ्यत्वेनोत्तरोत्तरमुत्कर्षः । यत्त्वन्यैरेतत्स्थाने रूपधर्माभ्यामाधिक्यमुक्तम् । तत्तेषां नाममात्रनवीकरणरसिक- त्वम् । अस्यैव पूर्वपूर्वापेक्षयोत्तरोत्तरोत्कर्षोपनिवन्धनात्मकत्वात्समग्रविषयावगाहन- सहिष्णुत्वात् । तस्मादस्मिंश्च वर्धमाने सारोपान्तर्भावमेति। न पुनरिदमन्तर्भूतं सारे परिमितविषये महाविषयमित्याद्युक्तमेवोक्तम् । एतदुपसंहृत्यान्यदवतारयति -एवमित्यादिना । तत्रेति द्वयं निर्धारणे । हेतोरित्यादि । यति । हेतोश्च वाक्यार्थपदार्थगत्योपनिबन्धादस्यानेन सह भेदद्वयमप्युक्तम् । वाक्यार्थ- गत्येति । न तु पदार्थगत्या । तत्र ह्युपनिबद्धस्यैव हेतुत्वात् । हेतुत्वेनैवेति । हेतुत्वस्यामुख एवोदिक्तत्वेन प्रतीतेः । अन्यथेति । हेतुत्वेनोपनिबन्धो यदि न स्यात् । ननु हेतोर्वाक्यपदार्थोभयोपनिवन्धे न कश्चिद्विच्छित्तिविशेषः प्रतीयत इति कथमस्यालंकारत्वमुक्तम् । न हि साध्यसाधनायोपात्तस्य हेतोरेवं प्रकारद्वयातिरे- केणोपनिबन्धः स्यात् । न च यथासंभविनोपनिबन्धमात्रेणालंकारत्वं वक्तुं युक्तम्। कविप्रतिभात्मकस्य विच्छित्तिविशेषात्मकस्यालंकारत्वेनोकत्वात् । न चैवमुपनिब- १. 'प्रदर्शिताः' क. २. 'तत्कान्यायालयेणा' ख. ३. 'तत्र' इति क-पुस्तके नास्ति. ४. 'उपसंहारादयः क्रियावाक्यागत्या' ख. नास्ति. ६. 'यत्रेति' इति ख-पुस्तके नास्ति. ७. 'हेतुत्वम्' ख. ५. एतत्पर्यन्तं ख-पुस्तके १८२ काव्यमाला। 'यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे देवेन न क्षम्यते ॥' 'मृम्यश्च दर्भाकरनियंपेक्षास्तवागतिज्ञं समबोधयन्माम् । व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ।। पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूपश्चतुर्थपादार्थे हेतुत्वेनोपन्यस्तः। उत्तरत्र तु संबोधने 'व्यापारयन्त्यः' इति मृगीविशेषणत्वेनानेकः पदार्थों हेतुत्वेनोक्तः । न्धात्कश्चिदतिशय इति कथमस्यालंकारत्वम् । एवं हि दृक्त्वाभासैव न्यायेन वेद्ये- त्यादावपि खाभासत्वस्य हेतोर्विशेषणद्वारेण पदार्थगल्या, तथा 'प्रत्यक्षाद्विरलक- राङ्गुलिप्रतीतिापित्वादकुशलमिन्द्रियं न तस्याम्' इत्यादौ तमसि विरलाङ्गुलिप्र- तीतो व्यापित्वादिन्द्रियकोशलमेव साधनमिति हेतोर्वाक्यार्थगत्योपनिवन्धादलंका- रत्वं स्यात् । सत्यम् । यद्यप्येवमुपनिबन्धस्य वस्तुवृत्तेरसंभवान्न कश्चिदतिशयः प्रतीयते । तथापि ग्रन्थकृता प्राच्यैर्लक्षितत्वादेतदिह लक्षितम् । अथ यत्र व्य- झ्याश्लिष्टो वाच्यार्थो वाच्यमेवार्थ प्रति हेतुतां भजते तत्रायमलंकारो युज्यत एवेति चेत् । तर्हि व्यङ्ग्याश्लेषवशेन तदुत्थानाद्वाक्यार्थपदार्थतयोपनिवद्ध्यमानस्य हेतोः स्वात्मनि न कश्चिदतिशय इति व्यङ्ग्य कृत एवातिशयोऽभ्युपगम्यते । न तत्कृतः । तस्यैवमुपनिबद्धस्य वास्तव्यत्वात् । यदि च व्यङ्ग्यसाहचर्येणेव हेतुरलं- कारतामियात् तच्छब्दस्यापि हेतोरलंकारत्वं प्रसज्यते । यदि तत्रापि व्यङ्ग्याश्लेषः स्यात् । अथ तस्य शाब्दत्वादेव वैचित्र्याभावादयमनलंकारत्वे निमित्तत्वं कथं न यायात् । अथ तत्र व्यङ्गया लेषो न भवतीति चेत् , किं नामापराद्धम् । येनात्र व्यङ्ग्याले पस्तत्र च नेति । तथात्वेन लक्ष्यादर्शनादिति चेत् , नैतत् । अवा- ग्दार्शन एवं निश्चयानुपपत्तेः । प्रत्युत यत्र भवता व्यङ्ग्याश्लेष उक्तस्तत्र स नास्तीति वक्तुं शक्यते । तथाहि । 'वक्षःस्थली रक्षतु सा जगन्ति जगत्प्रसूतेर्ग. १. अनेकार्थवाक्यारूप:' क. २. 'चतुर्थपादा' क.

अलंकारसर्वस्वम् । १८३ एवमेकवाक्यार्थपदार्थगतत्वेन काव्यलिङ्गमुदायिते । यथा- 'मनीषिताः सन्ति गृहेषु देवतास्तपः क वत्से क च तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ॥' 'यद्विस्मयस्तिमितमस्तमितान्यभाव- मानन्दमन्दममृतप्लवनादिवाभूत् । तत्संनिधौ तदधुना हृदयं मदीय- मनारचुम्बितमिव व्यथमानमास्ते ॥' पूर्वत्र वरप्राप्तिहेतुभूततपोनिषेधस्य 'मनीषिताः' इति वाक्यार्थरूपो हेतुनिर्दिष्टः । उत्तरत्र पुनः 'अस्तमितान्यभावम्' इत्यत्र विस्मयस्ति- मितमिति विशेषणद्वारेण पदार्थः । रुडध्वजस्य । श्रियोऽङ्गरागेण विभाव्यते या सौभाग्यहम्नः कषपट्टिकेव ॥' इत्यत्र वक्षःस्थल्या जगद्रक्षकत्वे जगत्प्रसूतित्वं पदार्थों हेतुः । प्रसवितुर्हि निजप्रसूतेः सर्वथैव रक्षणमुचितम् । अत एव गरुडध्वजवक्षःस्थल्या जगद्रक्षकत्वे कर्तृत्वं युक्तम् । इयांश्चाभिधेय एवार्थः । अत एव चात्र न हेतोः कश्चिझ्यङ्ग्याश्लेषः। इत्यम् । 'संजीवणोसहम्मिव सुअस्स रक्खइ अणण्णवावारा । सासू णवन्भदंसण- कंठागअजीविअं सोण्हं ॥' इत्यत्र कण्ठागतजीवितत्वस्य । अत्र च जगत्प्रसूति- त्वस्य हेतोः पदार्थतयोपनिवन्धे न कश्चिदतिशयो विशेषः । एवम् । 'अयि प्रमत्ते सिचयं गृहाणेत्युक्तेऽपि सख्या न विवेद काचित् । मन्ना हि सा तत्र रसान्तराले यत्रान्तरङ्गो भगवाननङ्गः ॥' इत्यत्रापि ज्ञेयम् । यद्यपि चात्र रसशब्दस्य जल. वाचित्वं न विवक्षितम् । तथाप्यभेदाध्यवसायादतिशयोक्तिर्न पुनः शब्दशक्तिमूलं व्यङ्ग्यम् । तथात्वे हि हेतुहेतुमद्भावस्य न कश्चिदतिशयः। एवं हि। 'एकान्तजा- ज्यादूरुभ्यां करभोर्वाः पराजिताः। कदल्यो यन्न तच्चित्रं जयः क्व न कलावताम् ॥' इत्यत्र जाड्यस्यातिशयोक्त्यालिङ्गितत्वेन वैचित्र्यावहत्वाच्छब्दस्यापि पदार्थस्य १. 'एवमेव ख. २. 'यथा' इति क-पुस्तके नास्ति. ३. 'संजीवनौपधिमिव सुतस्य रक्षत्यनन्यव्यापारा । श्वश्रूर्नवाभ्रदर्शनकण्ठगतजीवितां सुषाम्' इति च्छाया.

१८४ काव्यमाला। साध्यसाधननिर्देशोऽनुमानम् । यत्र शब्दवृत्तेन पक्षधर्मान्वयव्यतिरेकवरसाधनं साध्यप्रतीतये नि. दिश्यते, सोऽनुमानालंकारः । विच्छित्तिविशेषश्चात्रार्थादाश्रयणीयः । अन्यथा तर्कानुमानास्किं वैलक्षण्यम् । उदाहरणम्- 'यथा रन्ध्र व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वालोज्वलनपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥' अत्र धूमस्फुलिङ्गकपिलदिक्त्वानि वह्निलिङ्गानि त्रिरूपत्वावशब्द- हेतोरलंकारत्वं स्यात् । एवमुदाहरणान्तरेष्ववसेयम् । एवं च यत्रापि व्यङ्ग्याश्लेषः स्यात्तत्रापि हेतोर्वाक्यार्थपदार्थतयोपनिवन्धे न कश्चिदतिशयः । अथ साध्यप्रती- तये हेतोरुपनिवन्धादस्त्येव वैचित्र्यातिशय इति चेत् । तानुमानमेवेदं स्यान्ना- लंकारान्तरम् । साध्य साधनस्य तल्लक्षणत्वेन वक्ष्यमाणत्वात् । एवं हेतोर्वाक्यप- दार्थतयोपनिबद्धस्य वास्तवत्वादस्य पृथगलंकारत्वं न युक्तम् । उक्तवक्ष्यमाणनी- त्यानुमान एवान्तर्भावोपपत्तेः । साध्येत्यादि । एतदेव व्याचष्टे-यत्रेत्या- दिना । एवं चात्र साध्यप्रतीतये त्रिरूपस्य साध्यस्य निर्देशात्तर्कानुमानसमानक. क्ष्यमेवास्य लक्षणमिति भावः । यद्येवं तत्ततोऽस्य को विशेष इत्याशङ्याह-वि- च्छित्तीत्यादि । तच्चानुमानं द्विधा । स्वार्थ परार्थ च । तत्र स्वार्थ यत्र मया- यमवगतोऽर्थ इति खपरामर्षस्य निश्चयः स्यात् । परार्थं तु यत्र परेणानवगतस्य वस्तुनः प्रतिपादनात्परप्रत्यायकत्वं स्यात् । एवं च । स्वार्थपरार्थभेदेन द्विविधमनु- मानमेवैकोऽलंकारो वाच्यो न पुनरनुमानहेतुतया पृथगलंकारत्वम् । उभयत्रापि सामान्यलक्षणानुगमात्प्रकारप्रकारिभावस्यवोपपत्तेः। तत्र स्वार्थानुमानं, यथा प्रन्थ- कृतेवोदाहृतम् । तत्र हि स्मरदवो लग्न इति स्वपरामर्षस्यैव निश्चयः । परार्थानुमानं यथा-'तदस्ति तेषां तमसि प्रसर्पिणां निशाचरत्वं यदि पारमार्थिकम् । ततः प्रिये संनिहितेऽत्र वासरे कथं नु तत्संचरणं भविष्यति ॥' अत्र दिवासंचरणस्य कार्यस्य अलंकारसर्वस्वम् । १८५ प्रतिपादितं वहिं गमयन्तीत्यनुमानम् । रूपकमूलत्वेनालंकारान्तरभङ्गी- कारेण विच्छित्त्याश्रयणातर्कानुमानवैलक्षण्यम् । क्वचित्तु शुद्धमपि भवति । यथा- 'यत्रैता लहरीचलाचलदृशो व्यापारयन्ति ध्रुवं यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः । तच्चक्रीकृतचापमञ्चितशरप्रेकरः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः ॥ अत्र योषितां भ्रूव्यापारेण मार्गणपतनं स्मरपुरोगामित्वे साध्येऽनलं- कृतमेव साधनमिति शुद्धमनुमानम् । प्रौढोक्तिमात्रनिष्पन्नार्थनिष्ठत्वेन च विच्छित्तिविशेषाश्रयणाच्चारुत्वम् । अयमत्र पिण्डार्थः-इहास्ति प्रत्याय्यप्रत्यायकभावः । अस्ति च समर्थ्यसमर्थकभावः । विरुद्धं निशाचरत्वं परप्रत्यायको हेतुः। कैपकमूलत्वेनेति । रूपकमन्तरेणा- नुत्थानात् । ननु चास्यालंकारान्तरगर्भीकारमात्रमेव किं तर्कानुमानवैलक्षण्यनिमि- त्तम् , उतान्यदपि किंचिदित्याशङ्कयाह-क्वचिदित्यादि । अनलंकृतमिति । शासनधर्मादेः प्रौढोक्त्या वास्तवत्वेनैव विवक्षितत्वादतिशयोक्त्याद्यलंकारान्तर- गर्भीकाराभावात् । अतश्चास्य कविकर्मेव वैलक्षण्यनिमित्तमिति भावः । तदाह- प्रौढोक्तीत्यादि । एवं च कविकर्माभावाद्यत्र विच्छित्तिविशेषाश्रयणं न स्यात्तत्र नायमलंकारः। यथा-'यो यत्कथाप्रसझे च्छिन्नच्छिन्नायतोष्णनिःश्वासः । स भवति तं प्रति रक्तस्त्वं च तथा दृश्यसे सुतनु ॥' अत्र रकत्वं प्रति विशिष्टस्य निःश्वसितस्यार्थेऽपि हेतुत्वे वास्तवत्वात्कविप्रतिभानिर्वर्तितत्वाभावान्नायमलंकारः। यथा-'प्रजानां विनयाधानाद्रक्षणाद्भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः ॥' अत्र विनयाधानादिहेतूनां वास्तवत्वादनलंकारत्वम् । न पुनरत्र हेतोरार्थत्वाभावादनलंकारत्वमिति वाच्यम् । कविकर्मण एवालंकारनिबन्धनत्वेनो- तत्वात् अर्थत्वस्य तदप्रयोजकत्वात् । न हि हेतोरार्थत्वेऽपि कविकर्मव्यतिरेकेणा- १. 'शुद्धमेव' क. २. 'यथा' इति ख-पुस्तके नास्ति. ३. 'रूपकमूलमेवेति' क, ४. 'शासनपरादेः' क.

१८६ काव्यमाला। तत्राप्रतीतप्रत्यायने प्रत्याय्यप्रत्यायकभावः । प्रतीतप्रत्यायने तु सम- य॑समर्थकभावः । तत्र प्रत्याय्यप्रत्यायकभावेऽनुमानम् । समर्थ्यसमर्थ- कमावे तु यत्र पदार्थों हेतुस्तत्र हेतुत्वेनोपादाने 'नागेन्द्रहस्तास्त्वचि कर्कशत्वात्' इत्यत्र न कश्चिदलंकारः। यत्र तूपात्तस्य हेतुत्वं यथोदा- हृते विषये 'मृग्यश्च दर्भाङ्कुरनियंपेक्षाः' इत्यादौ तत्रैव काव्यलिङ्गम् । यत्र तु वाक्याथों हेतुस्तत्र हेतुप्रतिपादकमन्तरेण हेतुत्वायोपन्यासे काव्यलिङ्गमेव । तटस्थत्वेनोपन्यस्तस्य तु हेतुत्वेऽर्थान्तरन्यासः । एवं चास्यां प्रक्रियायां कार्यकारणवाक्यार्थयोहेतुत्वे काव्यलिङ्गमेव पर्यव- स्यति । समर्थ्यवाक्यार्थस्य सापेक्षत्वात् । ताटस्थ्याभावात् । ततश्च सामान्यविशेषभावोऽर्थान्तरन्यासस्य विषयः । यत्पुनरर्थान्तरन्यासस्य कार्यकारणगतत्वेन समर्थकत्वमुक्तम् , तदुक्तलक्षणं काव्यलिङ्गमनाश्रित्य तद्विषयत्वेन लक्षणान्तरस्यौद्भटेराश्रितत्वात् । लंकारत्वं स्यात् । तच्छाब्देऽपि हेतो क्वचित्कविप्रतिभानिर्वर्तितत्वेनालंकारत्वाभ्यु- पगमे न कश्चिद्दोषः । ग्रन्थकृता पुनरेतच्चिरंतनमतानुरोधेनोक्तम् । तन्मतमेवा. धिकृत्य ह्ययमत्रेत्यादिना विचारः प्रस्तुतः । तत्रेति द्वयनिर्धारणे । प्रतीतेति । वोद्धव्येन समर्थतया प्रमुख एवाधिगतस्येत्यर्थः । न कश्चिदलंकार इति । हेतुमात्ररूपत्वात् । हेतुत्ववाचकं विनापि तदधिगमे ह्यस्य चारुत्वातिशय इति भावः । यद्वक्ष्यति-हेतुत्वप्रतिपादकमन्तरेणेति । उपात्तस्येति । पारिशेष्या- पदार्थस्य हेतुत्वेनोपादानाभिधानात् । एकमिति पदार्थगतम् । हेतुत्वप्रतिपादक इति शब्दादिः । तटस्थत्वेनेति । न तु हेतुत्वेनेत्यर्थः । अत एव चानयोर्भदः। ततश्चेति पारिशेष्यात् । ननु यद्येवं तत्पूर्वमर्थान्तरन्यासस्य केनाभिप्रायेण कार्यका- रणगतत्वेन समर्थकत्वमुक्तमित्याशङ्कयाह - यत्पुनरित्यादि । लक्षणान्तर- स्थेति । पदार्थगतत्वेनैवेष्टेः । यदाहुः-'श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा। १. 'इत्यादाविव' ख. २. 'हेतुत्वप्रतिपादकं' ख.

अलंकारसर्वस्वम् । १८७ S उक्तलक्षणाश्रयणे तु यत्त्वन्नेत्रेत्यादिर्विविक्तो विषयः काव्यलिङ्ग- स्वार्थान्तरन्यासदर्शित इति कार्यकारणयोः समर्थ्यसमर्थकत्वमर्थान्तर- न्यासे पूर्व दर्शितमितीयं गमनिकायितव्या । एवं तर्कन्यायमूलमलंकारद्वयमिह प्रतिपादितम् । अधुना वाक्य- न्यायमूला अलंकारा उच्यन्ते- उद्दिष्टानामर्थानां क्रमेणानदेशो यथासंख्यम् । ऊर्ध्व निर्दिष्टा उद्दिष्टाः। पश्चान्निर्देशोऽनूदेशः। स चार्थादर्थान्तरगतः संबन्धश्चात्र सामर्थ्यात्प्रतीयते । ऊवं निर्दिष्टानामर्थानां पश्चान्निर्दि- ष्टैरथैः क्रमेण संबन्धो यथासंख्यमिति वाक्यार्थः। अन्ये विममलं. कार क्रमसंज्ञयाभिदधिरे । तच्च यथासंख्यं शाब्दमार्थं च द्विधा । शाब्दं यत्रासमस्तानां पादानामसमस्तैः पदैरर्थद्वारकः संबन्धः । तत्र क्रमसंबन्धस्यातिरोहितस्य प्रत्येयत्वात् । आर्थ तु यत्र समासः क्रियते. तत्र समुदायस्य समुदायेन सह संबन्धस्य शाब्दत्वादर्थावगमपर्यालो- चनया त्ववयवगतः क्रमसंबन्धः प्रतीयते । तथात्र यथासंख्यार्थत्वम् । हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥' इति । यद्येतदुद्भटमताभिप्रायेणोक्तं तत्कथं स्वमतं संगच्छते इत्याशङ्कयाह-उक्तत्यादि । विविक्तविषय इति । ताटस्थ्यव्यतिरेकेण वाक्यार्थस्य हेतुत्वायोपन्यासादर्थान्तरन्यासस्यात्राव्यापृतेः । आश्रयितव्येति । न पुनर्वस्तुतः संभवतीत्यर्थः। एतदुपसंहरन्नन्यदवतारयति- एवमित्यादिना। उद्दिष्टानामित्यादि। अर्थादिति । उद्दिष्टानामेव ह्यनुनि- देशे पौनरुक्त्यं स्यात् । सामर्थ्यादिति। वाक्यपर्यालोचनवलात्। अन्य इति । वामनादयः । यदाहुः-'उपमेयोपमानां क्रमसंवन्धतः क्रमः' इति । अनेनास्य प्राच्योक्तत्वं दर्शितम् । अव्यवहितत्वेनेति । समासाद्यभावात् । अवयवा- नामिति । हरिकजलादीनाम् । न चास्यालंकारत्वं युक्तम् । दोषाभावमात्ररूप- १. 'आश्रयेण' क. २. 'यथासंख्यम्' स्त्र. ३. 'अत्राप्रवृत्तेः' ख.

१८८ काव्यमाला। आद्यस्योदाहणम्- 'लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो वृथैव किममी सृष्टाः कुलक्ष्माभृतः ॥' अत्र लावण्यौकःप्रभृतीनामिन्द्वादिभिः क्रमसंबन्धस्याव्यवहितत्वेन अतीतेः शाब्दं यथासंख्यम् । यथा- 'कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः । जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ॥' अत्र कज्जलादीनां सुपर्णादिभिः संबद्धानां जलनिध्यादिभिः सह संवन्धो हरिप्रभृतिभिः संबन्धः श्रुत्या समुदायनिष्ठः प्रतीयते । अर्था- नुगमानुसारेण त्ववयवानां क्रमसंवन्धावगतिरित्यार्थं यथासंख्यम् । त्वात् । उद्दिष्टानां क्रमेणानुनिर्देशे ह्यक्रियमाणेऽपक्रमाख्यो दोषः प्रसज्यते । यदु- तम्-'क्रमहीनार्थमपक्रमम्' इति । तच्च यथा-'कीर्तिप्रतापौ भवतः सूर्याच- न्द्रमसाविव' इति । दोषाभावमानं च नालंकारत्वम्। तस्य कविप्रतिभात्मकविच्छि- त्तिविशेषत्वेनोक्तत्वात्। तत्त्वे चास्य 'यथासंख्यमनुदेशः समानाम्' इत्यादिसूत्रोदा- हरणानां 'तूदीशलातुरवर्मतीकुचवाराडक्छण्डञ्यकः' इत्यादीनामप्यलंकारत्वप्रस- गः । एतच वक्रोक्तिजीवितकृता सप्रपञ्चमुक्तमित्यस्माभिरिह नायस्तम् । ग्रन्थकृता पुनरेतदुद्भटमतानुयायितया लक्षितम् । एवमासत्तिविप्रकर्षवतां तदपेक्ष उपदेशा- क्रम इति लक्षितः । क्रमोऽप्यनलंकार एव । दोषाभावमात्ररूपत्वात् । आदिपश्चा- निर्देश्यानामतथानिर्देशे ह्यपक्रमाख्य एव दोषः स्यात् । यथा-'तुरङ्गमथ मातङ्गं मे प्रयच्छ मदालसम् ।' अत्र गजाश्वयोरादिपश्चानिर्देश्ययोरप्यतथानिर्देशादपक्र- मत्वम् । अनयोश्च स्वस्थाननिर्देशे दोषाभावमात्रत्वम् । न पुनरलंकारत्वम् । १. 'अस्य' क.

अलंकारसर्वस्वम् । १८९ एकमनेकस्मिन्ननेकमेकस्मिन्क्रमेण पर्यायः । क्रमप्रस्तावादिदमुच्यते । एकमाघेयमनेकस्मिन्नाधारे यत्तिष्ठति स एकः पर्यायः । नन्वेकमनेकगोचरमिति प्राक्तनेन लक्षणेन विशेषालं- कारोऽत्रोक्तः। तत्किमर्थमिदमुच्यते इत्याशङ्कयोक्तम्-क्रमेणेति इह च क्रमोपादानादर्थात्तत्र यौगपद्यप्रतीतिः । तेनास्य ततो विविक्त- विषयत्वम् । तथा- एकमिन्नाधारेऽनेकमाधेयं यत्स द्वितीयः पर्यायः । नन्वत्र समुच्चयालंकारो वक्ष्यते इत्येतदर्थमपि क्रमेणेति योज्यम् । अत एव गुणक्रियायोगपद्यं समुच्चयः' इति समुच्चयलक्षणे योगपद्यग्रह- णम् । अत एव क्रमाश्रयणात्पर्याय इत्यन्वर्थमभिधानम् । तस्मात् । 'अवश्यं तदहो भाविवियोगो यत्र नो ध्रुवम् । परिच्छदमुहृद्वन्धुविष- येन्द्रियजीवितैः ॥' इत्यत्र परिच्छदादीनामन्यथानिर्देशे दोष एव स्यात् । न चात्र ताकश्चिद्विशेष उपलभ्यते । येनानलंकारत्वं स्यात् । एवम्-'आस्तामस्तमयो- ऽहमित्यभिमतेदेहादिमात्रस्पृशो माभूद्वा विरतिर्ममेति च मृतेर्दारात्मजादिष्वपि । अस्माकं वसुवेइमनिष्कुटनदीसीमानुकेदारिकादेशक्ष्मेशदिगादिकेष्वपि कथं सा हन्त नास्तं गता ॥' इत्यत्रापि ज्ञेयम् । एकमित्यादि । इदमिति पर्यायलक्षणम् । तदेव व्याचष्टे-एक मित्यादिना । एक इति द्वितीयापेक्षया । अतश्च द्वौ पर्यायौ । न पुनरेक एव । सामान्यलक्षणायोगात् । अत एव काव्यप्रकाशकृता पृथगेतौ लक्षितौ । यदाह–'एक क्रमेणानेकस्मिन्पर्यायः' इति । 'अन्यस्ततोऽन्यथा' इति च । ग्रन्थकृता त्वनयोरत्रान्यस्यान्यथा ग्रहणेन क्रमान्यथाभावोऽपि प्रसक इति दूषणोद्भावनयैवं लक्षणं कृतम् । एवं क्रमेणैकमनेकत्रान्यथा वा पर्याय इत्यपि सूचितं तस्यैव प्रयोजनं दर्शयति-नन्वित्यादिना । किमर्थमिति । विशेषा- लंकारेणैव तत्प्रतीतिसिद्धेः। अर्थादिति । पारिशेष्यात्मकात्सामर्थ्यादित्यर्थः तेनेति । क्रमयोगपद्यरूपत्वेनेत्यर्थः । तत इति । विशेषात् । तथेत्यादि । अत्रापि क्रमग्रहणस्य प्रयोजनं दर्शयति-नन्वित्यादिना । अत एवेति । विशेषसमुच्चययोर्योगपद्यसंभवात् । अन्वर्थमिति । 'परावनुपात्य इण्' इत्यने- १९० काव्यमाला। विनिमयाभावात्परिवृत्तिवैलक्षण्यम् । तस्या हि विनिमयो लक्षण- त्वेन वक्ष्यते । तत्रानेकोऽसंहतरूपः संहतरूपश्चेति द्विविधः। तच्च द्वैविध्यमाघाराधेयगतमिति चत्वारोऽस्य मेदाः । क्रमेणोदाहरणानि- 'नन्वाश्रयस्थितिरियं किल कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥' 'विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् । कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ।। नानुपात्यये गम्यमाने घस्रो विहितत्वात् । अतश्चास्यैव क्रमार्थाभिधायित्वात्क- मोऽपि पृथगलंकारतया न लक्षणीयः। अथात्रारोहावरोहयोरधिकयोः प्रतीतिर- स्तीति युक्तमेवास्य पृथग्लक्षणमिति चेत् । एवं ताधाराधेयानां परस्परं विलक्ष- त्वाभ्यामप्यलंकारान्तरप्रणयनं स्यात् । तयोरप्यधिकयोः पर्याये संभवात् । न चात्र तावत्कश्चिदतिशय उपलभ्यते । येन पृथगलंकारत्वमपि स्यात् । एवमारोहादिना यदत्र वैलक्षण्यमवगम्यते तदेतद्भेदत्वे निमित्तम्, न पुनः पृथगलंकारतायाम् । एकस्यानेकतान्यथा वा क्रमेणावस्थानाख्यस्य सामान्यलक्षणस्यात्राप्यनुगमात् । एवं 'यदेकस्मान्निवृत्तोऽर्थ आधारान्तरमाश्रयेत् । स पर्यायो निवृत्तौ तु क्रमोऽयं बहुधा स्थितः ॥' इत्यपि पर्यायादस्य पृथक्त्वे निमित्तं न वाच्यम् । निवृत्त्यनि- वृत्त्योविच्छित्तिविशेषत्वाभावात् । तस्मादस्य पर्याय एवान्तर्भावात्पृथग्लक्षणप्रण- यनं नवनवालंकारप्रदर्शनहेवाकमात्रमेवेत्यलं बहुना ॥ ननु चैकानेकरूपस्य वस्तु. नोऽन्यत्र प्राप्तेः परिवृतिरेवायं किं नेत्याशझ्याह-विनिमयेत्यादि । संहत- रूप इति । संघातरूप इत्यर्थः । अस्येति शब्दसामान्यमवलम्ब्योक्तम् । असं. हते इति । आश्रयाणामनेकत्वात् । क्रमेणेति । हृदयाद्यनुक्रमात् । एवमप्ये- कस्यैव कालकूटस्योत्तरोत्तराधिकस्थानासादनादारोहणप्रतीतिः :। अवरोहो यथा- १. 'आधाराधेयमिति' ख.

अलंकारसर्वस्वम् । १९१ 'निशासु भाखत्कलनू पुराणां यः संचरोऽभूदभिसारिकाणाम् । नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥' 'यत्रैव मुग्धेति कृशोदरीति प्रियेति कान्तेति महोत्सवोऽभूत् । तत्रैव देवाद्वदने मदीये पत्नीति भार्येति गिरश्चरन्ति ।' अत्र कालकूटमेकमनेकस्मिन्नसंहते आश्रये क्रमेण स्थितिमन्निबद्धम् । करश्चैकोऽनेकस्मिन्संहते क्रमवान् । अधरकन्दुकयोनिवृत्त्युपादानतया संहतत्वेन स्थितत्वात् । अभिसारिकाः शिवाश्चानेकखभावा असंहतरूपा एकस्मिन्नाश्रये राजपथे क्रमवर्तिन्यः । वचने चैकस्मिन्नाश्रये मुग्धत्वादि- वर्गः पत्नीत्यादिवर्गश्च वर्गत्वादेव संहतरूपोऽनेकः क्रमवानुपनिबद्धः । समन्यूनाधिकानां समाधिकन्यूनर्विनिमयः परिवृत्तिः । विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम् । समेन तुल्यगुणेन त्यज्यमानेन तादृशस्यैवादानम् । तथाधिकेनोत्कृष्टगुणेन दीयमानेन न्यूनस्य गुणहीनस्य परिग्रहः । एवं न्यूनेन हीनगुणेन त्यज्यमानेनाधि- कगुणस्योत्कृष्टस्य स्वीकारः । तदेषा त्रिप्रकारा परिवृत्तिः । क्रमप्रति- भाससंभवात्पर्यायानन्तरमस्या लक्षणम् । समपरिवृत्तिर्यथा 'शिरः शार्व खर्गात्' इत्यादि । अत्र गङ्गाया उत्तरोत्तरस्थानासादनम् । संहते इति । अधरकन्दुकादेरनेकस्याश्रयत्वात् । क्रमवर्तिन्य इति । अभिसारिका- शिवानामतीतवर्तमानकालावच्छिन्नत्वात् । मुग्धत्वादीनां वहुत्वाद्वर्गत्वम् । सम- न्यूनेत्यादि । एतदेव व्याचष्टे-विनिमय इत्यादिना । तादृशस्येति । तुल्यगुणस्येत्यर्थः । अतश्चात्र द्वयोरपि तुल्यगुणत्वात्त्यज्यमानादीयमानयोर्गम्य- मानमौपम्यम् । एवं च तन्निमित्तस्य साधारणधर्मस्यापि त्रैविध्यम् । अधिकत्वं न्यूनत्वं चोत्कृष्टत्वानुत्कृष्टत्वयोगात् । अतश्चात्र शब्दोपात्तदधति (१)। क्वचित्सा- मर्थ्यलभ्यं तदिति नियमस्य त्रिरूपत्वात् । क्रमप्रतिभासेति । त्यागादानयोः १. 'पलीत्लादिवर्गश्च' ख. २. 'समानाधिकन्यूनैः' ख. ३. 'अतः' इत्यारभ्य 'सामर्थ्यलभ्यम्' इत्यन्तं ख-पुस्तके नास्त्रि. ४. 'विनिमयस्य' ख.

१९२ काव्यमाला। 'उरो दत्त्वामरारीणां येन युद्धेष्वगृह्यत । हिरण्याक्षवधाह्येषु यशः साकं जयश्रिया ॥' अत्रोरोयशसोस्तुल्यगुणत्वम् । अधिकंपरिवृत्तिर्यथा- 'किमित्यपास्याभरणानि यौवने घृतं त्वया वार्धकशोभि वल्कलम्। वद प्रदोषे स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते।' अत्रोत्कृष्टगुणैराभरणैन्यूँनगुणस्य वल्कलस्य परिवृत्तिः । न्यूनपरि- वृत्तिर्यथा- 'तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिव शोच्यते बुधैः । येन जर्जरकलेवरव्ययात्रीतमिन्दुकिरणोज्ज्वलं यशः ॥ अत्र हीनगुणेन कलेवरेणोत्कृष्टगुणस्य यशसो विनिमयः । पौर्वापर्येण क्रमिकत्वात् । तुल्यगुणत्वमिति । वैपुल्यादिना साधारणधर्मस्यानु- गामितया पुनरत्र तुल्यगुणत्वं यथा-'सुधावदातं पाण्डुत्वं विनिधाय कपोलयोः। भीर्यत्कथोत्था शत्रूणां निःशेषमकरोद्यशः ॥' सुधावदातमित्यस्यानुगामित्वम् विम्बप्रतिविम्वभावो यथा—'लतानामेतासामुदितकुसुमानां मरुदसौ मतं लास्यं दत्त्वा श्रयति भृशमामोदमसमम् । लतास्त्वध्वन्यानामहह दृशमादाय रभसाद्दद. त्याधिव्याधिभ्रमरुदितमोहव्यतिकरम् ॥' अत्र लतासमत्वयोर्बिम्बप्रतिविम्बभावः । शुद्धसामान्यरूपत्वं यथा-'मनोहरं खं प्रतिवेतनाय रुतं प्रकल्प्योन्मदचित्तहारि। मध्वाददानो मधुपायिलोकः पद्माकराणामनृणीवभूव ॥' अत्र मनोहरत्वचित्तहारि- त्वयोः शुद्धसामान्यरूपत्वम् । आभरणानां चात्रोत्कृष्टत्वं वस्तुसामर्थ्याल्लभ्यते । वल्कलस्य पुनर्वार्धकशोभीलनेन खयमेव न्यूनत्वमुक्तम् । एवं कलेवरयशसोरपि जर्जरोज्ज्वलत्वेन न्यूनाधिकत्वमुक्तम् । एतचास्य प्राच्यैरप्युक्तमिति रुद्रटोदाह- १. 'अतश्चास्याः' ख.

अलंकारसर्वस्वम् । १९३ 'दत्वा दर्शनमेते मत्प्राणा वरतनु त्वया क्रीताः। किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ॥' अत्राये समपरिवृत्तिः । द्वितीयाधै न्यूनपरिवृत्तिः । एकस्यानेकप्राप्तावेकत्र नियमनं परिसंख्या । एकानेकप्रस्तावादिह वचनम् । एकं वस्तु यदानेकत्र युगपत्संभा- व्यते तदा तस्यैकत्रासंभाव्ये द्वितीयपरिहारेण नियमनं परिसंख्या । कस्यचित्परिवर्जनेन कुत्रचित्संख्यानं वर्णनीयत्वेन गणनं परिसंख्या । सा चैषा प्रश्नपूर्विका तदन्यथा वेति प्रथमं द्विधा । प्रत्येकं च वर्जनीय. त्वेऽस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्यमिति चतुःप्रभेदाः। क्रमेण यथा- 'किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम् ॥' 'किमासेव्यं पुंसां सविधमनवा |सरितः किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः । रणेऽपि समपरिवृत्त्यादि योजयति-दत्वेत्यादिना । एकानेकेति । पर्याये एकस्यानेकत्र पर्यवसानादेरुक्तत्वात् । असंभाव्य इति । कविप्रतिभानिवर्तित. त्वाभावाल्लोकोत्तर इत्यर्थः । न पुनः प्राप्तिविषयत्वेनासंभाव्यत्वं व्याख्येयम् । सर्व थाप्राप्तस्यार्थान्तरनिषेधमात्रपरो हि विधिः परिसंख्या । अत एवार्थान्तरनिषेधे तात्पर्यमेव दर्शयितुं द्वितीयपरिहारेणेत्युक्तम् । अपवर्जन इति । 'अप परीवर्जने' इति वचनात् । सेति । यथोक्तरूपा । एपेति । परिसंख्या। किं भूषणमिति प्रश्नपूर्वकत्वम् । न रत्नमिति शब्दोपादानात्परिवर्जनीयस्य शब्दत्वम् । न पुन- १. 'तस्यासंभाव्य एकत्र' ख. २. 'परिवर्जने कस्यचिदर्जने' ख. ३. 'वर्जनी. यत्वस्य' क. १३ अ० स० १९४ काव्यमाला। किमाराध्यं पुण्यं किमभिलषणीयं च करुणा यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति ॥' 'भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्ने । चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥' 'कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥' अत्र चालौकिकं वस्तु गृह्यमाणं वस्त्वन्तरव्यवच्छेदे पर्यवस्यतीति व्यवच्छेद्य वस्त्वन्तरशब्दमानं वेति नियमाभावः। अलौकिकत्वाभि- प्रायेणैव कचित्प्रश्नपूर्वकं ग्रहणम् । यथा- 'विलक्यन्ति श्रुतिवर्त्म यस्यां लीलावतीनां नयनोत्पलानि । विभर्ति यस्यामपि वक्रिमाणमेको महाकालजटार्धचन्द्रः ॥' यथा-'चित्रकर्मसु वर्णसंकरो, यतिषु दण्डग्रहणानि' इत्यादि श्लेषसंपृक्तत्वमस्या अत्यन्तचारुत्वनिवन्धनम् । अत्र च नियमपरिसं- रीश्वरादि सेव्यमिति परिवर्जनीयस्य शब्दानुपादानादर्थत्वम् । अत्रेति। एषूदाह- रणेषु । अलौकिकमिति । कविप्रतिभानिवर्तितम् । गृह्यमाणमिति । विधी- यमानतया । वस्त्वन्तरव्यवच्छेद इति । अर्थान्तरनिषेधमात्रतात्पर्यात् । नियमाभाव इति । नात्र व्यवच्छेद्यस्य शाब्दत्वार्थत्वाभ्यां कश्चिलक्षणमेद इति भावः । अलौकिकत्वाभिप्रायेणेति । नहि ‘पञ्च पञ्चनखा भक्ष्याः' इ- त्यादौ प्रश्नपूर्वकं ग्रहणमित्याशयः। क्वचिदिति । कुत्राप्यप्रश्नपूर्वकत्वमपि भवे- दिति भावः । श्लेपसंपृक्तत्वमिति । श्लेषशब्दश्चात्र श्लिष्टशब्दनिवन्धनाया. मतिशयोनौ वर्तते। तथात्वोक्तेश्वातिशयोक्तिमात्रसंपृक्तत्वे न तथा चारुत्वं भवतीति प्रयोजनम् । अत्यन्तेति । पूर्वोदाहरणेभ्यः। ननु नियमपरिसंख्ये भिन्नलक्षणे प्रसिद्ध इति कथं तयोः सामानाधिकरण्यं सूत्रितमित्याशयाह-अत्रेत्यादि । वाक्यविदो मीमांसकाः । यदाहुः–'विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके १. 'लौकिक' ख. २. 'वस्त्वन्तरं शाब्दमार्थ वेति' ख. ३. 'निवर्तितम्' क.

अलंकारसर्वस्वम् । १९५ ख्ययोर्वाक्यवित्पसिद्धं लक्षणं नादरणीयमिति ख्यापनाय नियमनं परिसंख्येति सामानाधिकरण्येनोक्तिः । अत एव पाक्षिक्यपि प्राप्तिरत्र स्वीक्रियत इति युगपत्संभावनं प्रायिकम् । सति । तत्र चान्यत्र च प्राप्तौ परिसंख्या निगद्यते ॥' इति । अत्रायमर्थः । इह कस्यचिदर्थस्य नियमेनाज्ञातस्य विधिः क्रियमाणो यदार्थान्तरनिषेधार्थमपि पर्य- वस्यति तदा नियमविधिः । पुनरज्ञातज्ञापनमात्रपर्यवसित एव भवति । तेन नियमे 'व्रीहीनवहन्ति' इत्यादाववघातमात्रपर्यवसायित्वमेव । दलनादेरपि निषेध्यत्वेन पर्यवसानात् । नापि निषेधमात्र एव तात्पर्यम् । अवघाताभावे विध्यनिष्पत्तेः । सर्वप्रकारप्राप्तेरप्राप्तांशपरिपूरणस्याप्यभावे विधिः क्रियमाणोऽर्थान्तरनिषेधमात्रा- र्थमेव यत्र पर्यवस्यति सा परिसंख्या। तेन ‘पञ्च पञ्चनखा भक्ष्याः' इत्यादा- वन्यपञ्चनखभक्षणनिषेधमात्रतात्पर्यमेव । न पुनरेतत्पञ्चनसभक्षणकर्तव्यतापि तथात्वे हि पञ्चानां पञ्चनखानामभक्षणे प्रत्यवायप्रसङ्गो नियमादस्या भेदो वा न स्यात् । नादरणीयमिति । अनेनैव लक्षणेनोभयोः संग्रहात् । तथाहि नियमे 'समे देशे यजेत' इत्यादौ यागस्य समविपमात्मन्यनेकत्र देशे प्राप्तावेकत्र सम एव नियमनं कृतम् । परिसंख्यायामपि सर्वत्र भक्षणस्य प्राप्तौ पञ्च पञ्चनखविषय एवैकत्र नियमनम् । नन्वत्र पञ्चपञ्चनखान्तरनिषेधमात्रतात्पर्यात्पञ्चपञ्चनखविषये भक्षणनियमनेन वाक्यार्थत्वमिति कथमुभयानुगाम्येतल्लक्षणमिति चेत् । सत्यम् । अस्ति तावदामुखे पञ्चपञ्चनखविषये भक्षणे विधिः । यदास्यार्थान्तरनिषेधपर्यव- सायित्वं तदेव जीवितभूतत्वेनेहालंकारत्वप्रतिष्ठापकम् । तच नियमपरिसंख्ययोः समानम् । अथ नियमे विधिनिषेधयोर्वाक्यार्थत्वं परिसंख्यायां च निषेधस्यैवेत्य- नयोर्महान्भेद इति चेत् । न । अस्ति तावद्विधेरर्थान्तरे निषेधपर्यवसा- यित्वं समानं, यन्निबन्धनमनयोरलंकारत्वम् । यत्तु नियमे विधावपि तात्पर्य न तु परिसंख्यायाम् । तदनौपयिकत्वादिहानादरणीयम् । न हीह पञ्चाना पञ्चनखानामभक्षण एव प्रत्यवायः प्रसज्यते येन विधिनिषेधतात्पर्याभ्यामन- योरलंकारभेदः स्यात् । तथात्वे च सर्वालंकारभेदानां भेदहेत्वतिशयादिसं- भवाद्भिन्नलक्षणप्रसङ्गेऽलंकारानन्त्यं स्यात् । अतश्चैतद्भेदत्वमेव नियमस्य वा- च्यम् । तदाह-अत एवेत्यादि । स्वीक्रियत इति । भेदत्वेनेत्यर्थः । १. भेदहेत्वतिशयांशसंभवात्' ख.

काव्यमाला। देण्डापूपिकयार्थान्तरापतनमापत्तिः । दण्डापूपयोर्भावो दण्डापूपिका । 'द्वन्द्वमनोज्ञादिभ्यश्च' इति वुन् । पृषोदरादित्वाच्च वृद्ध्यभावः । यथा-अहमहमिकेत्यादाविति के- चित् । अन्ये तु दण्डापूपो विद्यते यस्यां नीतौ सा दण्डापूपिका नीतिः । एवमहं शक्तोऽहं शक्तोऽस्यामिति अहमहमिकेतिवन्मत्वर्थी- अपरे दण्डापूपाविव दण्डापूपिकेति ईवे प्रतिकृताविति कनं वर्णयन्ति । अत्र हि मूषककर्तृकेण दण्डभक्षणेन तेत्सहभाव्यपू- यष्ठन्नित्याहुः। सा च यथा-'किमासेव्यं पुंसाम्' इत्यादौ । द्युसरित्तटेश्वरयोः सेवाया न युगप- त्संभावनमिति निषेधपर्यवसायी धुसरित्तट एवैकत्र सेवाया नियमः कृतः । अत एव च तत्प्रायिकमित्युक्तम् । दण्डापूपिकयेत्यादि । शब्दयोजनां ताव- दाह-दण्डेत्यादि । द्वन्द्वसंज्ञकत्वादस्यानेन वुञ्। शैष्योपाध्यायिकेतिवत् । ननु चास्य अचोऽणितीति जित्वादृद्धिः किं न भवतीत्याशङ्कयाह-पृषोदरेत्यादि । यथोपदिष्टमित्यनेन हि शिष्टप्रयोगभाजां शब्दानां व्याकरणशास्त्रेण लोपागमवर्ण- विकारादि यदविहितं तद्भवति । लक्ष्यमूलत्वाझ्याकरणस्य । तेनात्राविहितोपि वृद्ध्य. भावोऽनेन सिद्धः । इतिशब्दो हेतौ । 'अत इनिठनौ' इति ठन् । एतच पक्षत्रयं सामान्येनैवाभिदधता ग्रन्थकृता खयमेवोपपन्नः पक्ष आश्रयणीय इति सूचितम् । तेनात्राद्य एव पक्ष आश्रयणीयः । पक्षान्तरयोरनुपपत्तेः । तथा चात्र 'एकाक्षरा- त्कृतो जातेः सप्तम्या च न तो स्मृतौ' इत्याद्युक्त्या तस्य सप्तम्यर्थे निषिद्धत्वात् ठनेव न भवति । अथापि विषयनियमार्थस्येति करणस्यात्रापि संवन्धादिहापि भवतीति चेत् । न । एतद्धि नियतोदाहरणविषयम् । अन्यथा हि निषेधकस्याक- रणप्रसङ्ग एव स्यात् । अहमहमिकाशब्दस्य पुनरेतदत्यन्तमेवायुक्तम् । अदन्ता- त्प्रातिपदिकादनो विहितत्वात् । कनोऽप्यत्र न प्राप्तिः। तस्य प्रकृतौ गम्यमाना- यामिवार्थे वर्तमानात्प्रातिपदिकादुक्तत्वात् । अदन्तात्प्रातिपदिकादुक्तत्वात्प्रकृत्य. १. 'दण्टापूपिकायाम्' क; 'दण्डापूपिकायार्थापतनमापत्तिः' ख. २. 'एवमहो शक्तोऽहं शक्तोऽस्यामिति' क. ३. 'मत्वथें' ख. ४. 'इव प्रकृताविति' स. ५. 'तत्सहभाव्यपूपाभक्षणं' ख. ६. 'जातो' ख. ७. 'सप्तम्यांशयुतौ स्मृतौ' ख. - अलंकारसर्वस्वम् । १९७ पभक्षणमात्सिद्धम् । एष न्यायो दण्डापूपिकाशब्देनोच्यते । ततश्च यथा दण्डभक्षणादपूपभक्षणमर्थायातं तद्वत्कस्यचिदर्थस्य निष्पत्तौ साम- र्थ्यात्समानन्यायत्वलक्षणाद् यदर्थान्तरमापतति सार्थापतिः । न चेदमनुमानम् । समन्यायस्य संबन्धरूपत्वाभावात् । असंबन्धे चानुमानानुत्थानात् । अर्थापत्तिश्च वाक्यविदां न्याय इति तज्जातीय- त्वेनेहाभिधानम् । इयं च द्विधा । प्राकरणिकादप्राकरणिकस्यापतन- मेकः प्रकारः । अप्राकरणिकात्याकरणिकस्यार्थापतनं द्वितीयः प्रकारः। आद्यो यथा- 'पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः । कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥' अत्र विभुवृत्तः प्राकरणिको लोकवृत्तान्तमप्राकरणिकमर्थादाक्षिपति। द्वितीयो यथा- 'धृतधनुपि वाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम् । रिपुसंज्ञकेषु गणना क इव वराकेषु काकेषु ॥' भावाच्च कन्न भवति । अन्यथा हि गोरिव गवय इत्यत्रापि कनः प्रसङ्गः । तदि. त्यमाद्य एव पक्षो ज्यायान् । नन्वत्र किमर्थसिद्ध्या तत्सहभाविनोऽर्थस्य कस्यापतनं स्थितं येनेह दृष्टान्तत्वेन दर्शनमित्याशझ्याह-अत्रेत्यादि । एतदेव प्रकृते योज- यति-ततश्चेत्यादिना । सामान्यन्यायत्वलक्षणादिति । येनैव न्यायेनै- कस्यार्थसिद्धिस्तेनैवाप्यस्यापरस्यार्थस्येत्यर्थः । नन्वर्थादर्थान्तरप्रतीतेः किमयमनु- मानमेव न भवतीत्याशङ्कयाह-न चेदमित्यादि । संवन्धरूपत्वाभावा- दिति । दण्डभक्षणे ह्यपूपभक्षणं समानन्यायत्वादुचितमपि न निश्चितमेव। दण्ड, भक्षणेऽपि पृथक्प्रवेशावस्थानादिना केनापि निमित्तेनापूपानामभक्षणस्यापि भा- वात् । अनुमानं पुनर्नियतमेवार्थादर्थान्तरस्यापतनमित्यस्याः पृथग्भावः । इहेति। वाक्यन्यायमूलालंकारप्रस्तावे । द्विविधेत्यनेनापततोऽर्थान्तरस्य साम्यादिना बहु- प्रकारत्वं न तथा वैचित्र्यावहमिति सूचितम् । आपाततः पुनरर्थान्तरस्योपादाना- १९८ काव्यमाला। अत्र शैलवृत्तान्तोऽप्राकरणिको रिपुवृत्तान्तं प्राकरणिकमर्यादाक्षि- पति । कचिन्यायसाम्ये निमित्तं श्लेषेण गम्यते- 'अलंकारः शङ्काकरनरकपालं परिकरो विशीर्णाङ्गो भृङ्गी वसु च वृष एको गतवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- विधौ वक्रे मूर्ध्नि प्रभवति वयं के पुनरमी ॥' अत्र विधौ वक्रे इति श्लिष्टम् । अप्राकरणिकस्थाणुवृत्तान्तात्माकर• णिकार्थापतनम् । तुल्यवल विरोधो विकल्पः। विरुद्धयोस्तुल्यप्रमाणविशिष्टत्वात्तुल्यवलयोरेकत्र युगपत्प्राप्तौ विरु- द्धत्वादेव योगपद्यासंभवे विकल्पः । औपम्यगर्भत्वाचात्र चारुत्वम् । यथा-'नमन्तु शिरांसि धनूंषि वा, कर्णपूरीक्रियन्तामाज्ञा मौव्यों वा' नुपादानाभ्यां संभवत्यस्या वैचित्र्यम् । तत्रोपादाने ग्रन्थकृतैवोदाहृतम् । अनुपा- दाने यथा-'श्रीशारदापादरजःपवित्रैः स्पृष्टाः समन्ताद्धिमवन्मरुद्भिः। यत्रोल- सम्निर्भरशास्त्रगर्भसंदर्भिणः सन्त्यपि गर्भरूपाः ॥' तत्र गर्भरूपेभ्योऽन्येषां का वार्तेत्यापतदर्थान्तरमनुपात्तम् । श्लेषेणेति । श्लेषमूलयातिशयोक्त्येत्यर्थः । तुल्ये- त्यादि । एतदेव व्याचष्टे-विरुद्धयोरित्यादिना । तुल्यवलत्वादेवैकस्यापि वाधाभावान्नैकतरग्रहणम् । तच्च द्वयोरपि युगपत्प्राप्तिः । न च विरुद्धयोरेतद्युज्यते इत्यत्रैकस्यापि साधकबाधकप्रमाणाभावादनिश्चयादनियतैकतरावलम्बनेन पाक्षिकी प्राप्तिः । अत एव नियतोभयपक्षावलम्बी विकल्पः । ननु च ‘यवेत्रीहिभिर्वा यजेत' इति वास्तवत्वाद्विकल्पादस्य को विशेष इत्याशङ्कयाह-औपम्येत्यादि । औपम्यं साधारणधर्मनिबन्धनमिति तस्याप्यत्र त्रैधम् । एवं च यत्रैवौपम्यग. भत्वं तत्रैवायमलंकारो न त्वन्यथेति भावः । यथा-'निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः परापततु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगा. न्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥' अत्रौपम्यगर्भत्वाभावाद्विक- अलंकारसर्वस्वम् । १९९ इत्यादि । अत्र प्रतिराजकार्ये नमने शिरसां धनुषां च तुल्यप्रमाणश्लि- ष्टत्वम् । संधिविग्रहौ चात्र क्रमेण तुल्यप्रमाणे, प्रतिराजविषयत्वेन स्पर्धया द्वयोरपि संभाव्यमानत्वात् । द्वौ चेमौ विरुद्धाविति नास्ति तयोर्युगपत्प्रवृत्तिः । प्राप्नुवतश्चात्र युगपत्प्रकारान्तरस्यानाशङ्कयत्वात् । ततश्च न्यायप्राप्तो विकल्पः । नमनकृतं च तयोः सादृश्यमित्यलंकारता । एवं कर्णपूरीक्रियन्ता- मित्यादौ योजनीयम् । औपम्यगर्भत्वाचात्र चारुत्वम् कचिच्लेषावलम्बे- नाप्ययं दृश्यते । यथा- 'भक्तिपहविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥' अत्र नेत्रे तनुर्वेति विकल्पः । उत्तमत्वाच्च तुल्यप्रमाणं श्लिष्ट. ल्पमात्रत्वम् । विकल्पवृत्तं चात्र दर्शयति-अत्रेत्यादिना । क्रमेणेति । शिरोनमने संधिर्धनुनमने विग्रहश्चेति । स्पर्धयेत्यनेन विरुद्धत्वमेवोद्वलितम् । द्वौ चेमाविति । संधिविग्रहो। अनयोविरुद्धत्वादेतत्कार्ययोरपि शिरोधनुर्नमनयो- विरुद्धत्वम् । तयोरिति । शिरोधनुनमनयोः । प्रकारान्तरस्येति । यत्र शिरसां धनुषां च युगपन्नमनं न संभवेत् । ततश्चेति । विरुद्धयोर्युगपत्प्रवृत्त्य- संभवाश्यायप्राप्तत्वेनास्यानुन्मूल्यत्वमुक्तम् । अत एव चैतदभाववादिनामन्यायवा- दित्वमपि सूचितम् । अत्रौपम्यकृतमेवालंकारत्वमित्याह-नमनेत्यादि । तेनात्र नमनाख्यस्य समानधर्मस्यानुगामितयैक्यरूपेण निर्देशः । वस्तुप्रतिवस्तुभावस्तु यथा-'स्रष्टुं विधातुरुचितं मुखमेव चञ्चद्भूकं नतधु तव कान्तिविलोकितेषु । एणाङ्कविम्बमथ वा विवलत्कलङ्कमेकं न यद्विहित एव जगत्प्रकाशः ॥' अत्र च- चद्विवलवत्योः शुद्धसामान्यरूपत्वं भ्रूकलङ्कयोर्विम्वप्रतिविम्वभावः । उत्तमत्वा- दिति । द्वयोरपि भगवत्संवन्धित्वेन भवार्तिशमनकरणसामर्थ्येन समत्वात् ।

२०० काव्यमाला। त्वम् । न चात्र समुच्चये वाशब्दः । संभवन्त्यामपि गतौ महाकवि- व्यवहारे तथा प्रयोगाभावात् । ननु विरोधनिमित्तो विकल्पः । कथं चात्र विरोधः । नैतत् । तनुमध्ये नेत्रयोः प्रविष्टत्वात्तयोः पृथगभि- धानमेव न कार्यम् । कृतं च तत्स्पर्धिभावं गमयति । स्पर्धिभावश्च विरुद्धत्वम् । नेत्रे अथवा समस्तमेव शरीरमित्यर्थावगमे विरोधस्य सुप्रत्येयत्वात् । स चात्र श्लेषाच्छिष्टः । लिङ्गश्लेषस्य वचनश्लेषस्य चात्र दृष्टेः । तस्मात्समुच्चयप्रतिपक्षभूतो विकल्पाख्योऽलंकारः पूर्वैरकृत- विवेकोऽत्र दर्शित इत्यवगन्तव्यम् । गुणक्रियायोगपर्व समुच्चयः। गुणानां वैमल्यादीनां योगपद्येनावस्थानम् , तथैव । क्रियाणां च समुच्चयोऽलंकारः । विकल्पप्रतिपक्षेणास्य स्थितिः । क्रमेण यथा- ननु च नेत्रे च तनुश्चेत्यत्र समुच्चय एव किं न भवतीत्याशङ्ख्याह-न चात्रे- त्यादि । गताविति । वाशब्दस्य समुच्चयार्थलक्षणायाम् । तथेति । समुच्च- यार्थपरतयेत्यर्थः । न ह्यत्र समुच्चयार्थो विवक्षितः । एवमत्र विरोधाभावात्कथं विकल्पोऽपि न भवतीत्याह-नन्वित्यादि । न कार्यमिति । तन्वभिधानेनैव नेत्रयोः स्वीकृतत्वात् । कृतमिति । पृथगभिधानम् । स्पर्धिभावमिति । अन्यथा हि पृथगभिधानं निष्प्रयोजनं स्यात् । स्पर्धिभावादिति । तुल्यत्वात्। असुप्रत्येयत्वादिति । सुष्टुत्वेन विरुद्धस्य कष्टकल्पनानिरासः कृतः । स इति । विकल्पः । एतदेवोपसंहरति-तस्मादित्यादिना । समुच्चये द्वयोरपि युगपदवस्थानमिह त्वन्यथेत्यस्य तत्प्रतिपक्षभूतत्वम् । अनेनास्य ग्रन्थकृदुपज्ञत्व- मेव दर्शितम् । गुणक्रियेत्यादि । तथैवेति तथैवेति । योगपद्यावस्थानेनेत्यर्थः अनेनैव चास्य गुणक्रियाणां युगपदवस्थिते दद्वयमप्युक्तम् । नेमल्यमालिन्ययोर्गु- २. 'विकल्पस्य' ख. १. 'निमित्तको' ख. ४. 'इत्यवधातव्यम्' ख. ३. 'स चात्र टेषः शिष्ट:' ख.

अलंकारसर्वस्वम् । २०१ 'विदलितसकलारिकुलं तव बलमिदमाशु विमलं च । प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ॥ 'अयमेकपदे तया वियोगः प्रियया चोपनतोऽतिदुःसहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥' एतद्विभिन्नविषयत्वेनोदाहरणद्वयम् । एकाधिकरणत्वेनाप्ययमलं- कारो दृश्यते । यथा- 'बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम् । शेते शुष्यति ताम्यति प्रलपति प्रम्लायति भ्राम्यति प्रेवत्युल्लिखति प्रणश्यति दलत्युन्मूर्छति त्रुट्यति ॥' एवं गुणसमुच्चयेऽप्युदाहार्यम् । केचित्पुनर्न केवलं गुणक्रियाणां व्यस्तत्वेन समुच्चयो यावत्समस्तत्वेनापि भवतीति वर्णयन्ति । उदा- हरन्ति च- 'न्यञ्चत्कुञ्चितमुन्मुखं हसितवत्साकूतमाकेकर व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेमकम्पं स्थिरम् । उद्भूभ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरङ्गोत्तरं चक्षुः सासु च वर्तते रसवशादेकैकमन्यक्रियम् ॥ णयोरुपनमनभवनयोश्च क्रिययोोगपद्येनावस्थानम् । विभिन्न विषयत्वेनेति । गुणादीनां वलमुखादिविषयगतत्वात् । अतश्च भिन्नाधिकरणोऽयं समुच्चयः । एकेत्यादि । यद्यप्यत्र शयनादीनां शोषणादीनां च क्रियाणामुपनमनभवनादिव- कालान्तरभावित्वान्न योगपद्येनावस्थानम् । तथापि तन्नेरन्तर्येण ज्ञेयम् । एव- मिति । यथैवात्रैकविषयत्वेन शयनाद्याः क्रिया इत्यर्थः । तत्तु यथा-'सितं ज्योत्स्नाजालैररुणरुचि संध्याकरभरैस्तमस्तोमैःश्यामच्छवि भपटलैः पीतमपि च । नभो नीलीनीलं रतिरमणलीलाविहरणे स्थली धात्रा चित्रं चतुरमधुना चित्रित- २०२ काव्यमाला। अत्राकेकरादयो गुणशब्दा न्यञ्चदित्यादयः क्रियाशब्दा इति सा- मस्त्येन गुणक्रियायोगपद्यम् । प्रसादिसप्रेमेत्यादीनां समासकृत्तद्धितेषु संवन्धाभिधानमिति संव- न्धस्य वाच्यत्वात् । तस्य च सिद्धरूपत्वेन गुणत्वाद्गुणशब्देन गुण- योगपद्यमिति द्रष्टव्यम् । एवमयं त्रिधा समुच्चयः । एकं समुच्चयं त्रिप्रकारभिन्नं लक्षयित्वा द्वितीयं लक्षयति- एकस्य सिद्धिहेतुत्वेऽन्यस्य तत्करत्वं च । समुच्चय इत्येव । यत्रैकः कस्य चित्कार्यस्य सिद्धिहेतुत्वेन प्रक्रान्त. स्तत्रान्योऽपि यदि तत्स्पर्धया तत्सिद्धिं करोति तदायमपरः समुच्चयः। न चायं समाध्यलंकारेऽन्तर्भवति । तत्र टेकस्य कार्य प्रति पूर्ण सा- धकत्वम् । अन्यस्तु कार्याय काकतालीयेनापतति, तत्र समाधिर्वक्ष्यते । यत्र तु खलेकपोतिकया बहूनामवतारस्तत्रायं समुच्चयः । अतः सुमहान्भेदोऽनयोः । स एष समुच्चयः सद्योगेऽसद्योगे सदसद्योगे च भवतीति त्रिधा भिद्यते । सतः शोभनस्य सता शोभनेन समुच्चीय- मानेन योगे यथा- मदः ॥' अत्र सितादीनां गुणानामेकाधिकरणत्वेन युगपदवस्थानम् । ननु च केकरादयो न्यञ्चदित्यादयश्च यदि गुणक्रियाशब्दास्तत्प्रसादीत्यादयः पुनः किं शब्दा इत्याशङ्कयाह-प्रसादीत्यादि । तस्येति । संबन्धस्य । एतदुपसंहरति- एवमित्यादिना । विधेति । गुणानां क्रियाणां गुणक्रियाणां च योगपद्येनाव. स्थानात् । भिन्नाभिन्नाधिकरणत्वेन यो विशेषः स एतत्प्रपञ्च एवेतिन पृथगिहो- पात्तः । लक्षयतीति । एकस्येत्यादिना । एकः कस्यचिदिति । यत्र या- दृशो विवक्षितस्य । स्पर्धयेति । प्रक्रान्तस्य हेतोः । तत्सिद्धि मिति । का- यनिप्पत्तिम्। अपर इति । पूर्वसमुच्चयात् । भिन्नलक्षणत्वात् । ननु यद्येवं तत्कयं वक्ष्यमाणलक्षणः समाधिरेवायं न भवतीत्याशझ्याह-न चेति । पूर्णमिति ।

अलंकारसर्वस्वम् । २०३ 'कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा एते भावा अमीभिरयं जनो व्रजति नितरां दर्प राजस्त एव तवाङ्कुशाः ॥' अत्रामालिन्येन शोभनस्य कुलस्य मूर्त्यादिभिः शोभनैः समुच्चयः । एकै च दर्पहेतुतायोग्यं तत्स्पर्धया निवद्धम् । असतोऽशोभनस्यासता समुच्चीयमानेन योगे यथा- 'दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोऽक्षमो सख्यश्चतुराः विरहः सोढव्य इत्थं शठः ॥' अत्र दुर्वारत्वेनाशोभनानां स्मरमार्गणानां तादृशैरेव प्रियतमादूर- त्वादिभिः समुच्चयः । नववयःप्रभृतीनां च यद्यपि स्वतः शोभनत्वम् , नो कथं नु अन्यनिरपेक्षमित्यर्थः । आकस्मिकमापततो हि कारणान्तरस्य सौकर्येण मु- खेन स्वरूपोपचयाधायित्वेन मुकार्यनिष्पत्तिः प्रयोजनम् । समुच्चये पुनः स्प- र्धयैव वहूनामेककार्यकारित्वम् । अत एवात्र खलेकपोतिकयेति निदर्शनीयम् । एवं च-'सोबाणारुहणपरिस्समेण कीस्मृविजे विनिस्सरिआ । तेखि अहरिदः सनवइअरेणस्सा साणवाच्छिण्णाः ॥' इत्यादौ समुच्चय एव। सोपानारोहणपरि- श्रमस्पर्धयैव हरिदर्शनरूपस्यापि कारणान्तरस्य तद्वयवच्छेदनिषेधमुखेन श्वासका- रित्वोपनिबन्धात् । अत एवात्र न समाधिः । तस्य हि काकतालीयेनापतता का- रणान्तरेण कार्यसौकर्य लक्षणम् । न चात्रैतत्संभवति । न ह्यत्र काकतालीयेन हरिदर्शनरूपस्य कारणान्तरस्यापतनम् । तदर्थमेव सोपानारोहणस्योपक्रान्तत्वात् । नापि तद्योगात्कार्यस्योपोद्वलनात्मकं सौकयं, हरिदर्शनस्यापि सोपानारोहणपरिश्रम- स्पर्धतया तत्कारित्वमात्रस्यैव विवक्षितत्वात् । अत एव ‘णवोवाच्छिण्णा' इत्यु- कम् । शोभनैरिति । भद्रत्वादिति योगात् । ननु दूरनिर्वासितत्वादिना प्रिया- १. पुस्तकद्वयेऽप्येपा गाथास्फुटैव.

२०४ काव्यमाला। तथापि विरहविषयेनात्राशोभनत्वं ज्ञेयम् । सदसतः शोभनाशोभनस्य तादृशेन सदसता समुच्चीयमानेन योगो यथा- 'शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं वाकृतः । प्रभुधनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ अत्र शशिनः स्वतः शोभनस्यापि दिवसधूसरत्वादशोभनत्वेन सद- सतस्तादृशैरेव कामिनीप्रभृतिभिः समुच्चयः । नत्वत्र कश्चित्समुच्चीय- मानः शोभनः । अन्यस्त्वशोभन इति सदसद्योगो व्याख्येयः । ननु नृपाङ्गणगतः खल इत्यशोभनोऽन्ये तु शोभना इति कथं समुच्चीयमा- नस्य सतस्तादृशेनासता योगः । नैतत् । 'नृपाङ्गणगतः खलः' इति प्रत्युत प्रक्रमभङ्गाहुष्टमेव । न तु सौन्दर्यनिमित्तमित्युपेक्ष्यमेवैतत् । अत एवान्येरेवमादौ सहचरभिन्नोऽर्थ इति दुष्ट एवेत्युक्तम् । प्रकृते तु नृपाङ्गणगतत्वेन शोभनत्वं खलत्वेनाशोभनत्वमिति समर्थनीयम् । एव- दीनां यद्यशोभनत्वं तत्कथं नववयःप्रभृतीनामपीत्याशङ्कयाह-नवेत्यादि । ता- दृशैरेवेति । सदसद्भिः। कामिन्यादीनां स्वतः शोभनानामपि गलितयोवना- देरशोभनत्वात् । अन्यथा पुनरत्र सदसद्योगो व्याख्येय इत्याशङ्याह-नन्वि. त्यादि । तादृशेनेति । समुच्चीयमानेनेत्यर्थः । प्रक्रमभेदादिति । शोभना- नामुपक्रमेऽप्यशोभनस्य निर्देशात् । अत एवेति । सौन्दर्यनिमित्तत्वाभावात् । अन्यैरिति । काव्यप्रकाशकारादिभिः । तत्तु यथा-'श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्रगा। निशा शशाङ्केन धृतिः समाधिना नयेन चालंकि- यते नरेन्द्रता ॥' अत्र श्रुतिधृतिवुद्ध्यादिभ्य उत्कृष्टेभ्यः सहचरेभ्यो व्यसनमूर्खत- योनिकृष्टयोभिन्नत्वम् । एवमपीति । सत्यामप्यस्यां समर्थनायाम् । न सम- १. 'इत्युत्प्रेक्ष्यमेवैतत्' क.

अलंकारसर्वस्वम् । २०५ न मपि विशेष्यस्य शोभनत्वं प्रक्रान्तम् , विशेषणस्य त्वशोमनत्वम् , इह त्वन्यथेति न सर्वथा निरवद्यम् । ननु 'दुर्वाराः स्मरमार्गणाः' इत्युक्तो- दाहरणवत्कथं न सदसद्योगः । नैतत् । इह शोभनस्य सतोऽशोभन. त्वमिति विवक्षा। तत्र त्वशोभनमेवैतदिति विवक्षितमित्यस्त्यनयो- भेदः । अत एवैकत्रोपसंहृतं 'मनसि सप्तशल्यानि' इति । सुन्दरत्वे- नान्तःप्रविष्टानामपि व्यथाहेतुत्वात् । अपरत्र तु 'कथं सोढव्यः' इति सर्वथा दुष्टत्वाभिप्रायेण । तस्मादस्ति प्रकारत्रयस्य विविक्तविषयत्वम् । कारणान्तरयोगात्कार्यस्य सुकरत्वं समाधिः । केनचिदारब्धस्य कार्यस्य कारणान्तरयोगात्सौकर्य यत् , स सम्य. गाधानात्समाधिः । समुच्चयसादृश्यातदनन्तरमुपक्षेपः । तद्वैलक्षण्यं तु प्राक्प्रतिपादितमेव । उदाहरणम्- 'मानमस्या निराकर्तुं पादयोमें पतिष्यतः । उपकाराय दिष्टयेदमुदीर्ण घनगर्जितम् ॥' माननिराकरणे कार्ये पादपतनं हेतुः । थेति । अनेनापि मार्गेण क्रमभेदोपपत्तेः । असद्योगसदसद्योगी भेदयति-न- न्वित्यादिना । इहेति । प्रकृते सदसद्योगोदाहरणे । तत्रेति । असद्योगोदा- हरणे । अत एवेति । शोभनस्य सतोऽशोभनत्वेन विवक्षणात् । सोढव्य इत्यु- पसंहृतमित्यत्रापि संवन्धनीयम् । एतदेवोपसंहरति-तस्मादित्यादिना । प्रकारत्रयस्येति । प्रकारद्वयस्य तावद्भेद उक्तस्तद्वचनादेव पारिशेष्यात्तृतीय- स्यापि प्रकारभेदः प्रतिपादितो भवतीत्येतदुक्तम् । कारणेत्यादि । एतदेव व्या. चटे–केनचिदित्यादिना । सौकर्यमिति । कार्यस्य सुखेनानायासमेव प्रकृ- तकारणवशेन निष्पन्नत्वेऽपि खरूपोपचयाधायकत्वेनाकृच्छ्रार्थस्योपलक्षणपरत्वेन विवक्षितत्वात्सुष्ठु वा करणमित्यर्थः । अत एव कारणान्तरयोगात्कार्यस्य सुखेन सुठु वा कारणस्य भेदद्वयमपि ज्ञेयम् । प्रागिति समुच्चये। हेतुरिति । प्रकृतः।

२०६ काव्यमाला। तत्सौकर्यार्थ घनगर्जितस्य कारणान्तरस्य प्रक्षेपः । सौकर्य चोप- कारायेति पदे प्रकाशितम् । एवं वाक्यन्यायाश्रयिणोऽलंकारान्प्रतिपाद्याधुना लोकन्यायाश्रयि- णोऽलंकारा उच्यन्ते । तत्र- प्रतिपक्षतिरस्काराशक्तौ तदीयस्य तिरस्कारः प्रत्यनीकम् । यत्र बलवतः प्रतिपक्षस्य दुर्वलेन प्रतिपक्षेण प्रतीकारः कर्तुं न शक्यत इति तत्संबन्धिनो दुर्वलस्य तं बाधितुं तिरस्कारः क्रियते तत्प्रत्यनीकम् । अनीकस्य सैन्यस्य प्रतिनिधिः प्रत्यनीकमुच्यते । त- तुल्यत्वादिदमपि प्रत्यनीकमुच्यते । तत्सौकर्यार्थमिति । सुखेन कार्यनिष्पत्त्यर्थमित्यर्थः । यद्याकस्मिकघनगर्जित- योगो न स्यात्तदा निरासमानराकरणं न सिद्ध्येत् । एतच प्रथमप्रकारस्योदाहरणम् । द्वितीयस्य यथा—'स्त्रैणं लीलाभरणमभितस्रोटयित्वा श्रमाम्भः शक्त्या पत्रावलि- मृगमदव्यजितश्मश्रुदेहः । केलिशोभः कुवलयदृशां मान्मथे कार्यभावे पुंवद्भाव वटितमभितः पारिपूर्ण्य निनाय ॥' अत्र खेदादिना घटितस्यापि पुंवद्भावस्य के- लिक्षोभाख्येन कारणान्तरेण स्त्रैणाभरणत्रोटनादिना खरूपोपचयाधानात्समाधिः । एवमेवमादावव्यापकमेतद्वक्षणमिति यदन्यैरुक्तं, तत्तेषामेतल्लक्षणस्वरूपानवधारण- मेवेत्यलं बहुना । एतदुपसंहरन्नन्यदवतारयति-एवमित्यादिना । तत्रेति निर्धारणे । प्रतिपक्षेत्यादि । एतदेव व्याचष्टे-यत्रेत्यादिना । वलवत इति दुर्बलेनेति च प्रतीकाराकरणे विशेषणद्वारेण हेतुद्वयोपन्यासः । तत्संवन्धिन इति । वलवत्प्रतिपक्षमत्कस्य । तत्संवन्धित्वं च सादृट्यादिसंवन्धमूलम् । दुर्व- लस्येति । तस्यापि हि वलवत्वे दुर्वलेन प्रतिपक्षेन प्रतीकारः कर्तुं न शक्यत इति भावः । तसिति । सवलं प्रतिपक्षम् । बाधितुमिति । अन्यथा हि नि. प्प्रयोजनस्तरीयतिरस्कारः स्यात् । क्रियत इति । दुर्वलेन प्रतिपक्षेण । नैतत्सं- ज्ञामात्रमित्याशयाह-अनीकस्येत्यादि । तुल्यत्वमेव दर्शयति—यथे- १. 'वाधयितुं' ख. २. 'मेघधनगर्जित' क. ३. 'एवमादौ'ख. ४. 'कर्तुं शक्यः' ख.

अलंकारसर्वस्वम् । २०७ यथानीकेऽभियोक्तव्ये तत्रासामर्थ्यात्तत्प्रतिनिधिभूतमन्यदभियु- ज्यते, तद्वदिह प्रतिपक्षे विजेये तदीयस्य दुर्बलस्य तिरस्करणमि- त्यर्थः । प्रतिपक्षगतत्वेन बलवत्त्वख्यापनं प्रयोजनम् । यथा- 'यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवक्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि वाघते ॥' अत्र राहोः सकाशाद्भगवान्बलवान्विपक्षः । तदीयः पुनर्वसाह- श्यमुखेन दुर्बलश्चन्द्रमाः तत्तिरस्काराद्भगवतः प्रकर्षावगतिः । उपमानस्साक्षेप उपमेयताकल्पनं वा प्रतीपम् । उपमेयस्यैवोपमानभारोद्वहनसामर्थ्यादुपमानस्य कैमर्थक्येनाक्षेप आ- लोचनं क्रियते, तदेकं प्रतीपम् । उपमानप्रतिकूलत्वादुपमेयस्य प्रतीप- मिति व्यपदेशः । यद्युपमानतया प्रसिद्धस्योपमानान्तरप्रतितिष्ठापयिष- यानादरणार्थमुपमेयत्वं कल्प्यते, तत्पूर्वोक्तगत्या द्वितीयं प्रतीपम् । क्रमेण यथा- त्यादि । किं चात्र प्रयोजनमित्याशदयाह-प्रतिपक्षेत्यादि । वलवत्त्वा- ख्यापनमिति । अप्रतीकार्यत्वात् । अत्रेत्यादि । वक्रसादृश्यमुखेन तदीय इति संवन्धः । तत्तिरस्कारादिति । न पुनस्तत्स्वीकारात् । वाधत इत्युक्ते- स्तिरस्कारस्यैव साक्षाद्वाक्यार्थत्वात् । अत एव परैरपि तत्संबन्धितिरस्कारद्वारा तस्यैव वाधनादित्युक्तम् । प्रकर्षोऽप्रतीकार्यत्वम् । एतेन चास्य प्रयोजनं दर्शितम्। अत्र ह्यतिरस्कार्यतिरस्करणातिरस्करणकर्तुनिन्दाद्वारेण वलवतः प्रतिपक्षस्य प्रती- कार्यत्वात्स्तुतिप्रतिपादने तात्पर्यम् । उपमानस्येत्यादि । कैमर्थक्येनेत्यादि। तयापारस्योपमेयेनैव कृतत्वादनुपयोगेनेत्यर्थः । उपमानान्तरेति । उपमा- नानां मध्ये । अनादरणार्थमिति । उपमानत्वेन नैतद्योग्यमिति यावत् । पूर्वोक्तगत्येति । उपमेयस्योपमानप्रतिकूलवर्तित्वात् । अनेनोभयत्रापि नैतत्सं- १. 'तिरस्कारकर्तुः' ख. Library Sri Pratap College, २०८ काव्यमाला। 'यत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारस्तु कुव- लयदलमाल्यानि' इत्यादि । यथा वा- 'लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीमरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ।।' अत्र यथासंख्यमप्यस्तीति प्राक्प्रतिपादितम् । 'ए एहि दाव सुंदरि कण्णं दाऊण सुणसु वअणिज्जं । तुज्झ मुहेण किसोअरि चंदो उअमिजइ जणेण ॥' ज्ञामात्रमित्युक्तम् । एकं द्वितीयमित्यभिदधता ग्रन्थकृता प्रतीपाख्यमलंकारद्वयं पुनः सामान्यलक्षणाभावादेकमेव द्विप्रकारमित्युक्तम् । उपमाप्रकारत्वं चानयोर्न वाच्यम् । उपमानस्याक्षेपादुपमेयकल्पनाच्च । न हि तत्र तदस्तीति ततोऽनयोः सुप्रत्यय एव भेदः । अनयोः पुनः साधर्म्यजीवितत्वात्साधारणधर्माणामस्ति त्रैवि- ध्यम् । एवमौपम्यमन्तरेण नैतदलंकारद्वयं भवतीत्यवगन्तव्यम् । तेन ‘णिद्दश्चम वंदिजिअ किं किरऊ देवआहिं अण्णाहिं । जिइ पसाएण पिओ लघइ दूरेवि णिवसंतो ॥' इत्यत्रापि प्रतीपालंकारत्वं न वाच्यम् । अत्र हि देवतान्तराणां तथा सामर्थ्यादर्शनात्तदाक्षेपेण स्वप्नकाले प्रियोपलब्धिदायिन्या निद्राया विरहिणी- कर्तृकं वास्तवमेव वन्द्यत्वम् । वस्तु च नालंकार इति निर्विवादः । कुवलयदलदा- नामाक्षेपश्चक्षुषामत्यन्तमेव तत्साधर्म्यप्रतिपादनार्थः । अन्यथा हि तदाक्षेपो निरर्थकः स्यात् । एवं 'किं कर्णपूरैर्यदि साधुवादा मुक्ताफलैः किं यदि वाग्वि- लासाः । किं चूर्णयोगैयदि रूपशोभा लावण्यमास्ते यदि चन्दनैः किम् ॥' इत्य- त्रापि ज्ञेयम् । अत्र हि यथा कर्णपूरादिभिः श्रोत्रशोभा क्रियते तथैव साधुवादा- दिभिरिति साधुवादादिभिरेव तत्कार्यकरणात्कर्णपूरादीनामाक्षेपः । तस्य च सा- धुवादादीनामयन्तमेव तत्साधर्म्यात्प्रतिपादनं फलम् । एवं 'खेलन्तीनां सुरपति- पुरीवारवाराङ्गनानां यन्मजीरध्वनितसुभगो रौति कोलाहलोऽयम् । तेनैवास्ते मद- १. 'अये एहि तावत्सुन्दरि कर्ण दत्वा शृणुष्व वचनीयम् । तव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥' इति च्छाया.

अलंकारसर्वस्वम् । पत्रोपमानत्वेन प्रसिद्धस्य चन्द्रमसो निकर्षार्थमुपमेयत्वं कल्पि- तम् । वदनस्य चोपमानवविवक्षात्र प्रयोजिका । कचित्पुनर्निष्पन्नमे- वौपम्यमनादरकारणम् । यथा- 'गर्वमसंवाद्यमिमं लोचनयुगलेन किं वहसि भद्रे । सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥' अत्रोत्कर्षभाज उपमानस्य प्रादुर्भाव एव न्यकारकारणम् । ननृपतेर्माङ्गलिक्ये प्रबोधे मोघायन्ते पथि पथि गिरः कच्छपारावतानाम् ॥' इत्य- त्रापि ज्ञेयम् । यत्पुनरत्रान्यरुपमानोपमेयत्वस्याविवक्षितत्वमुक्तम् , तत्तेषां तत्स्व- रूपानभिज्ञत्वम् । लावण्यादिधर्मश्चात्र नृपचन्द्रयोरनुगामितया निर्दिष्टः । यथा पा-'तस्यायेन्मुखमस्ति सौम्य सुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ यदि च से किं नाम नीलोत्पलैः । किं वा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे ही धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो प्रहः ॥' इत्यत्र सौम्यसुभगत्वादि सकृ- निर्दिष्टम् । असकृनिर्देशस्तु यथा—'यद्यस्ति तस्याः स्मरशाभङ्गिविलासवेन्द्र मुखं नताझ्याः । तदिन्दुना किं विहितं विधात्रा सृष्टेन वल्गन्मृगशावकेन ।' अत्र वेलद्वगत्वयोः शुद्धसामान्यरूपत्वं भ्रूमृगयोस्तु बिम्बप्रतिविम्बभावः । निकर्षार्थमिति । अन्यथा चन्द्रस्योपमेयत्वकल्पनं निरर्थकं स्यात् । प्रयोजि- केति । उत्कर्षप्रतिपादनात् । अत्रापि साधारणधर्मस्थानुगामितया यथा-'मुखेन सखि पीयूषपेलवेन निशासु ते । उपमानतया चन्द्रं प्रियेणाशिष्यते ध्रुवम् ॥' अत्र पीयूषपेलवत्वमनुगामितयोपात्तम् । असकृन्निर्देशस्तु यथा-'पौलस्त्य वि. स्तृतविवेल्लदपूर्वबभ्रुकूर्चच्छटाप्रकटितं सृजताय च त्वाम् । नीतोऽअनाद्रिरुपमेय. धुरां विधात्रा प्रोगजविवलत्पृथुदाववहिः ॥' अत्र वेल्टद्विवलत्वयोः शुद्धसामा- म्यरूपत्वम् , कूर्चदावयोस्तु बिम्बप्रतिविम्बभावः । अस्य हि विच्छित्त्यन्तरं दर्श- पति-कचिदित्यादिना । निष्पन्न मिति । सिद्धत्वेनोक्तेः । उत्कर्षभाज इति । अर्थानेत्रयुगलस्य । प्रादुर्भाव इति । उपमानस्याभूतस्योत्पत्तिः । अत १. 'निष्पन्नमौपम्यम्' ख. २. 'यथा' ख-पुस्तके नास्ति. १४ अ० स० २१० काव्यमाला। अनेन न्यायेनोत्कृष्टगुणत्वाद्यदुपमानभावमपि न सहते तस्योपाभावत्व- कल्पितं प्रतीपमेव । यथा- 'अहमेव गुरुः सुदारुणानामिति हालाहल ताव मा म हप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ।। अत्र हालाहलत्वं प्रकृष्टदोषत्वादसंभाव्यमानोपमेयभावमप्युपमानत्वेन निबद्धम् । वस्तुना वस्त्वन्तरनिगृहनं मीलितम् । सहजेनागन्तुकेन वा लक्ष्मणा यद्वस्त्वन्तरेण वस्त्वन्तरं निगृह्यते तदन्वर्थाभिधानं मीलितम् । न चायं सामान्यालंकारः, तस्य हि सा- एव स्पर्धावन्धभाजः परस्योत्पादायकारः । अनेन न्यायेनेति । अत्र ययो- पमानत्वप्रादुर्भावो न्यक्कारकारणं तथैवेत्यर्थः । अतश्च पूर्वस्या एव विच्छित्तेरिदै विभजनं न पुनर्विच्छित्त्यन्तरमिति भावः । प्रतीपमिति । उपमानभावं यो न सहते, तस्योपमानत्वपरिकल्पनेन प्रतिकूलवर्तित्वात् । यद्यपि प्रकृष्टगुणेनोपमानेन भाव्यं न्यूनगुणेन चोपमेयेन, तथापीदृशप्रकृष्टगुणत्वं विवक्षितं यदपेक्षया न्यून गुणमप्युपमेयं न संभवतीत्यत्र पिण्डार्थः । 'वैकुण्ठाय श्रियमभिनवां शीतभानुं भवाय प्रादादुच्चैःश्रवसमपि वा वज्रिणे तत्व गण्यम् । तृष्णार्ताय खमपि मुनये यद्ददातिस्म देहं कोऽन्यस्तस्माद्भवति भुवने वारिधेर्वोधिसत्त्वः ॥' इत्यत्र पुनर- न्यमतेऽपि न प्रतीपम् । लक्ष्म्यादेरधिकगुणस्य न्यूनगुणेनावतारत्वापादनाभा- वात् । अत्र हि लक्ष्म्यादिदानाद्देहदानस्याधिकगुणत्वं विवक्षितम् । अत एवाम्बुधेः खदेहदानमुत्प्रेक्ष्य को नाम लक्ष्म्यादिदानेनोत्कर्ष इत्यत्र वाक्यार्थः । एतच्च व- स्त्विति नालंकार इत्यलमतिविस्तरेण । वस्तुनेति । लक्ष्मणेति । चिहरूपेण धर्मणेत्यर्थः । तस्य हि सहजागन्तुकत्वेन द्विविधत्वादस्यापि द्विप्रकारत्वमस्तीत्य- नेनोक्तम् । ननु वस्त्वन्तरस्य वस्त्वन्तरेण निगूहितत्वेनैकात्म्योपनिबन्धात्किमयं सामालिंकार एव न भवतीत्याशझ्याह-न चायमित्यादि । साधारण १. तस्यवोपमानभावकल्पने' ख. २. 'तस्योपमेयत्वपरिकल्पनेन' इति भाति. ३. 'अभिनवं' ख.

अलंकारसर्वस्वम् । २११ धारणगुणयोगाद्भेदानुपलक्षणं रूपम् । अस्य तूत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानमिति महाननयोर्विशेषः । सहजेन यथा- 'अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गकैर्मगदृशां खतो लीलया यदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥ अत्र दृक्तारल्यादिना खाभाविकेन लक्ष्मणा मदोदयकृतं दृक्तार- ल्यादि तिरोधीयते । आगन्तुकेन यथा- गुणयोगादिति । यदाहुः–'प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया। एकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ॥' इति । भेदानुपलक्षणमिति । प्रस्तु- ताप्रस्तुतात्मनः सदृशस्य वस्तुद्वयस्यासामान्याकारतया पृथगवगतस्याप्येकतरवि- शेषस्मरणादुभयविशेषाग्रहणाच्चैकतरत्वेनैव निश्चयोत्पादनाद्धटपटवद्भेदो न प्राति- श्विकेन रूपेणानुपलक्षणं यथावगमनमध्यवसाय इत्यर्थः । यथा-राजगादौ शुक्तिकारजतयोः संनिकर्षण सामान्याकारतया पृथगवगमेऽप्येकतरविशेषस्मरणा- दुभयत्र विशेषाग्रहणात्कस्यचिदेकतरत्वेनैव निश्चयो जायते तथैवेहापि ज्ञेयम् । मीलिते पुनन्यूनगुणस्याधिकगुणेन तिरोहितत्वात्सामान्याकारकत्वेनाप्युभयावगमो न्यूनगुणाच्छादकतया तद्देशावष्टम्भेनाधिकगुणस्यैव प्रतिभासनात् । अत एवात्र मदोदयकृतस्य टेक्तारल्यादेर्नावगममात्रं, तस्य मदोदयात्पूर्वमपि तथैवावस्थानात् । बलवता स्वाभाविकेन दृक्तारल्यादिनाच्छादितत्वात् । सामान्ये पुनः-'अभेद- मूढस्तवकाभिरागता लताभिरीषललितालिपतिभिः । इयं पुरो मारुतनर्तितालका न लक्ष्यते व्यक्तमवामनस्तनी ॥' इत्यादौ निकुञ्जमध्यगताया योषितः पृथग्देशा- वष्टम्भन सामान्याकारतयावगमेऽपि साधारणगुणयोगालताभ्यो भेदेनानध्यव- सायः । अत एव 'न लक्ष्यते व्यक्तम्' इत्याद्युक्तम् । अतश्च स्वरूपेणावगतस्यापि भेदानध्यवसायः । सामान्यं बलवता तिरोहितत्वात्स्वरूपानवगमो मीलितमिति स्थितम् । अत एवाह-महाननयोर्विशेष इति । एवं तर्हि समानगुणस्वस्या- १. भेदः' क. २. 'बाध्यते' क. ३. 'दृक्तारतम्यादेः' क.

३१२ काव्यमाला। 'थे कन्दराम निवसन्ति सदा हिमाद्रे- स्त्वत्पातशवितधियो विवशा द्विषस्ते । अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं तेषामहो बत मियां न बुधोऽप्यभिज्ञः ॥' अत्र हिमाद्रिकन्दरानिवाससामर्थ्यप्रतिपन्नेन शैत्येन समुद्भावितावा- गन्तुको कम्परोमाञ्चौ भयकृतयोस्तयोस्तिरोधायकौ । तिरोधायकत्वा- देव च मीलितव्यपदेशः। प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् । यत्र प्रस्तुतस्य वस्तुनो प्रस्तुतेन साधारणगुणयोगादैकात्म्यं भेदा. विशेषाद्वक्ष्यमाणोदाहरणादावभिसारिकादिवज्योत्लादेरपि भेदानुपलक्षणं किं न स्यात् । ननूक्त एवात्र परिहारो यत्सुमनोगुणत्वेऽप्येकतरविशेषस्मरणादुभयविशे- षाग्रहणाच्चेति एवमपि कथमिति चेत् , कस्यायं पर्यनुयोगः, किं ज्ञातुरुत ज्ञेयस्य वा । एतच्चाप्रस्तुतत्वान्नेहास्माभिरुक्तम् । इह च प्रस्तुतस्यैवाप्रस्तुताद्भेदेनानुपल- क्षणं विवक्षितम् । तद्गतत्वेनैवाभेदद्वारेण तत्सादृश्यस्य प्रतिपादयिषितत्वात् । न चैवमप्यन्यस्यान्यतया प्रतीतेरस्य भ्रान्तिमत्यन्त वो वाच्यः । तस्य हि प्रकृतव- स्त्वाच्छादकत्वेनैव प्रतीतिर्लक्षणम् । इह तु तथात्वेऽपि वस्त्वन्तरस्य पृथक्प्रति. पत्तिरित्यलं बहुना । न चास्य संज्ञामात्रमेतदित्याह-तिरोधायकत्वादिति । अतश्च पूर्व तदन्वाभिधानं मीलितमित्युक्तं निर्वाहितम् ॥ प्रस्तुतस्येत्यादि । प्रस्तुतस्येत्युपमेयस्य । अप्रस्तुतेनेत्युपमानेन । साधारणगुणानां च त्रिरूपत्वमत्रा- र्थसिद्धम् । तेन साधारणगुणस्यानुगामितया यथा-'मध्ये जानपदस्त्रैणमुखाना- ममलत्विषाम् । रोहोरलक्ष्यतामेति यत्र पूर्णेन्दुमण्डलम् ॥' अत्रामलकान्तित्वम- नुगामितया सकृतिदिम् । असकृन्निर्देशस्तु यथा-अमेदमित्यादौ । अत्र स्तव. कस्तन मोर्बिम्बप्रतिबिम्बभावः । ललितत्वनर्तितत्वयोः : शुद्धसामान्यरूपत्वम् । ननु च प्रस्तुतस्याप्रस्तुतेनापहवः क्रियत इति किमयमपढुतिरेव न भवतीत्याशङ्याह- १. 'साधारणधर्माणो' ख. २. 'राहोरालक्ष्यतां' ख. ३. 'तुलितत्व' ख. ..

अलंकारसर्वस्वम् । २.१३ नध्यवसायादेकरूपत्वं निबध्यते तत्समानगुणयोगासामान्यम् । न चेयमपह्नुतिः । किंचिन्निबध्य कस्यचिदप्रतिष्ठापनात् । यथा- 'मलयजरजसविलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः । शशमृति विततधानि धवलयति धरामविभाव्यतां गताः प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ।। अत्र मलयजरजसविलेपनादीनां चन्द्रप्रभया सह 'अविभाव्यतां गताः' इत्यभेदप्रतीतिर्दर्शिता । खगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्गुणः। यत्र परिमितगुणस्य वस्तुनः समीपवर्तिप्रकृष्टवस्तुगुणस्य खीकरणं स तद्गुणः । तस्योत्कृष्टगुणस्य गुणा अस्मिन्निति कृत्वा । न चेदं मीलि- तम् । तत्र हि प्रकृतं वस्तु वस्त्वन्तरेणाच्छादितत्वेन प्रतीयते । इह त्वनपद्भुतस्वरूपमेव प्रकृतं । वस्तु वस्त्वन्तरगुणोपरक्ततया प्रतीयत इत्यस्त्यनयोर्भेदः । न चेयमित्यादि । 'अविभाव्यतां गताः' इत्यादुक्तेः ॥ स्वगुणेत्यादि । परिमितेति । स्वीक्रियमाणस्य गुणस्याभावात् । तत्संभवादेव चान्यस्य प्रकृष्ट- गुणत्वम् । समीपवर्तीत्यनेन गुणग्रहणे योग्यत्वमुक्तम् । अस्मिन्निति । परिमि. तगुणे प्रकृते । अतश्च नैतत्संज्ञामात्रम् । ननु च प्रकृष्टगुणेन परिमितगुणस्य तिरोधानान्मीलितमेवायं किं न भवतीत्याशयाह-न चेत्यादि । आच्छा- दितत्वेनेति । अपह्नुतिखरूपत्वेनेत्यर्थः । उपरक्ततयेति । विशिष्टत्वेने- १. 'तद्गुणम्' ख. २. 'समीपवर्तिप्रकृष्टगुणस्य वस्तुनः समीपवर्तिप्रकृष्टवस्तुगुणस्स स्वीकरणम्' क. ३. 'गुणेऽपरत' ख.

२१४ काव्यमाला। यथा- 'विमिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यत्र रुचं रुचा खामानिन्यिरे वंशकरीरनीलैः ।। अत्र रविरथाश्वानामरुणवर्णखीकारः । तस्यापि गारुत्मतमणिप्रभा- खीकार इति तद्गुणत्वम् । सति हेतौ तद्गुणाननुहारोऽतद्गुणः । तद्गुणप्रस्तावात्तद्विपर्ययरूपोऽतद्गुण उच्यते । इह न्यूनगुणस्य वि. शिष्टगुणपदार्थधर्मस्वीकारः प्रत्यासत्या न्याय्यः । यदा पुनरुत्कृष्टगु- गपदार्थसन्निधानाख्ये हेतौ सत्यपि तद्रूपस्योत्कृष्टगुणस्याननुहरणं न्यून गुणेनाननुवर्तनं भवति सोऽतद्गुणः । तस्योत्कृष्टगुणस्यास्मिन्गुणा न सन्तीति । यद्वा तस्याप्रकृतस्य रूपाननुपहारः सत्यननुहरणहेतौ सोऽ- तद्गुणः । तस्याप्रकृतस्य गुणा नास्मिन्सन्तीति कृत्वा । क्रमेण यथा- त्यर्थः । तस्येति । अरुणवर्णस्य । अपिः समुच्चये । यथा वा-'इन्दूदयश्चन्द- नमिन्दुवक्रा चैत्रस्तवेत्यादिसहायसंपत् । वपुश्च शृङ्गारमयं स मन्ये संतापकस्त्वं हरवह्रियोगात् ॥' अत्र हरवद्विगुणस्य संतापकत्वस्य स्वीकारः ॥ सतीत्यादि । तद्विपर्ययेति । अत्र हि प्रत्यासत्त्यान्यगुणग्रहणमुक्तम् । इह तु योग्यताया- मपि न तद्ब्रहणम् । प्रत्यासत्त्येति । विप्रकृष्टस्य ह्यन्यगुणस्वीकारानुपपत्तिः । यदा त्वेतन्न भवति तदायमलंकार इत्याह-यदेत्यादि । उत्कृष्टगुणस्येत्यनेन व्याख्यान्तरे द्वयोरपि गुणत्वं सूचितम् । एवं च प्राप्तेऽप्यन्यगुणस्वीकारे तद. भावोऽयमलंकारः । यदुक्तम्-'तद्रूपाननुहारश्चेदस्य तत्स्यादतद्गुणः' इति । अस्मिन्निति । न्यूनगुणे । यद्वेति पक्षान्तरे । अप्रकृतस्येति । अननुदाहर- णीयगुणस्यान्यस्य । तदेवं व्याख्यानद्वयेनास्य प्रकारद्वयं दर्शितम् । अननुदाहर- णाख्यस्य सामान्यस्यानुगमात् अतिरिक्तत्वेनात्युत्कृष्टगुणत्वं हृदयस्य दर्शितम् ।

अलंकारसर्वस्वम् । २१५ 'धवलो सिजह वि सुन्दर तह वितुए मज्झ रंजिअं हिअअं। राअभरिए वि हिअए सुहअ णिहित्तो ण रत्तो सि ॥ 'गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ॥ पूर्वत्रातिरक्तहृदयसंपर्कान्नायकस्य धवलशब्दवाच्यस्य प्राप्तमपि रक्तत्वं न निष्पन्नमित्यतद्गुणः । उत्तरत्राप्रकृतस्य गाङ्गयामुनजलस्य संपर्केऽपि न तथा रूपत्वमित्ययमप्यतद्गुण एव । कार्यकारणभावस्य चात्राविवक्षणान्न विषमालंकारावकाशः । अयमपीति । समानगुणत्वेनापीत्यर्थः । धवलोसीति । तत्तद्गुण एवेति अन्यैकदेशस्तु क्वचिल्लेखकैः कल्पित इत्युपेक्ष्य एव । पुस्तकान्तरेष्वस्यादृष्टेः । न च गाथाव्याख्यानं प्रस्तुतं येनात्रालंकारान्तरस्यापि व्याख्यानं स्यात् । नाप्यत्र तद्गुणः । तस्य हि स्वगुणत्यागेनाप्यन्यगुणस्वीकारो लक्षणम् । न चात्र स्वगुण- त्यागो नाप्यन्यगुणस्वीकारः । तस्य धवलत्वव्यभिचारात् । किं त्वत्र कारणाभा- वेऽपि कार्योत्पादनाद्विभावना, न तु विरूपकार्योत्पत्त्या विषमालंकारः । तत्र हि कार्यकारणयोर्विरूपत्वेऽप्यवाध्यमानतया प्रतीतिः । इह त्वेकस्य वाध्यमानतयेति महाननयोर्भेदः । नन्वत्र सत्यपि कारणसामग्र्येऽन्यगुणानुदाहरणरूपस्य कार्य- स्यानुत्पत्तेः किमयं विशेषोक्तिरेव न भवतीत्याशङ्कयाह-कार्येत्यादि । अवि- वक्षणादिति । वस्तुतस्तु संभवत्येव कार्यकारणभावः । अत एवालंकारसार- कृता विशेषोक्त्यन्तर्भाव एवोक्तः । ग्रन्थकृता तु प्राच्यानुरोधाल्लक्षितः । “विष- मालंकार-' इति पाठस्तु पुस्तकान्तरेषु स्थितोऽप्यत्रायुक्तः । न हि कार्यकारण- भावविवक्षामात्रेणात्र तत्त्वं स्यायेन तन्निषेधेन तस्यानवकाशः । तस्य हि विरूपस्य १. 'धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रजितं हृदयम् । रागभरितेऽपि हृदये सुभग निहितो न रक्तोऽसि ॥' इति च्छाया.

२१६ | काव्यमाला। उत्तरात्प्रश्नोनयनमसकृदसंभाव्यमुत्तरं चोचरम् । यत्रानुपनिबध्यमानोऽपि प्रश्न उपनिबध्यमानादुत्तरादुन्नीयते, तदे- कमुत्तरम् । न चेदमनुमानम् । पक्षमतादेरनुद्देशात् । यत्र च प्रश्नपू- र्वकमसंभावनीयमुत्तरं, तच न सकृत् तावन्मात्रेण चारुत्वाप्रतीतेः। अतश्चासकृन्निबन्धे द्वितीयमुत्तरम् । न चेयं परिसंख्या । व्यवच्छेद्यव्यवच्छेदकपरत्वाभावात् । क्रमेण यथा- 'एकाकिनी यदबला तरुणी तथाह- मस्सगृहे गृहपतिश्च गतो विदेशम् । कार्यस्यानर्थस्योत्पत्तिश्च लक्षणम् । उत्तरादित्यादि । उन्नीयत इति । प्रश्न- रूपत्वेन संभाव्यत इत्यर्थः । ननु चाप्रतीतस्य प्रत्ययनात्किमिदमनुमानं न भव- तीत्याशयाह-न चेदमित्यादि । असंभावनीयमिति । कविप्रतिभानि- वर्तितमित्यर्थः । तदिति । प्रश्नपूर्वकमुत्तरम् । एवं प्रश्नस्याप्यसकृदेवोपनिवन्धो न्याय्यः । अतश्चेति । सकृदुत्तरस्य चारुत्वाप्रतीतेः । एवं समानन्यायत्वात्पूर्व- त्राप्यनुपनिवध्यमानप्रश्नागूरकमुत्तरं न सकृत् , तावन्मात्रेण चारुत्वाप्रतीतेरिया- श्रयणीयम् । ननु च प्रश्नोत्तररूपत्वादियं परिसंख्यैव किं न भवतीत्याशङ्कयाह- न चेयमित्यादि । एतच्चोत्तराख्यमलंकारद्वयम् । न पुनरेकः, सामान्यलक्षणा- योगात् । एतच्चोदाहरणद्वयं ग्रन्थकृता प्राच्यमतानुरोधेन दत्तम् । वस्तुतस्त्वत्र नास्त्येतदलंकारद्वयम् । अत एवैतावतालंकारसारकारादिभिरेतदलंकारद्वयम- पास्तम् । न च तद्युक्तम् , लक्षणदोषाभावात् । उदाहरणान्तरेष्वस्य प्रतिष्टानात् । तत्तु यथा--'भिक्षो कन्या श्लथा किं ननु शफरवधे जालिकैषात्सि मत्स्यान्मध्ये मद्यावदंशं पिबसि मधु समं वेश्यया यासि वेश्याम् । हत्वारीन्किं करिष्ये कति तव रिपतः संधिमेत्तास्मि येषां चोरस्त्वं द्यूतहेतोः कथमसि कितवो येन भिक्षु नमस्ते ॥' अत्र हि शफरवन्धजालिकैषेत्युत्तरान्मत्स्यादनरूपस्य प्रश्नस्योन्नयनम् । एवमन्यदपि ज्ञेयम् । 'येन दासीसुतोऽस्मि' इति पुनः पाठो ग्राह्यः। दासीसुतत्वे कितवस्य निमित्तत्वाभावात् । प्रश्नोत्तरोन्नयनस्यासमाप्तेः साकासत्वाद्वाक्यार्थस्याकि अलंकारसर्वखम् । २१. कं याचसे तदिह वासमियं वराकी श्वश्रूर्ममान्धबघिरा ननु मूढ पान्थ । 'का विसमा देवगई किं लद्धं जं जणो गुणग्गाही । किं सोक्खं सुकलतं किं दुक्खं जं खलो लोओ।' पूर्वत्र मम वासो दीयतामिति प्रश्न उत्तरादुन्नीयते । उत्तरत्र दैक- गत्यादिनिगूढत्वादसंभाव्यमसकृत्पश्नपूर्वकमुत्तरं निबद्धम् । इतः प्रमृति गूढार्थप्रतीतिपरालंकारलक्षणम्- संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् । इह सूक्ष्मः स्थूलमतिभिरसंलक्ष्यो योऽर्थः, स यदा कुशाग्रमतिभि- रिङ्गिताकाराभ्यां संलक्ष्यते तदा तस्य संलक्षितस्य विदग्धं प्रति प्रका. शनं सूक्ष्ममलंकारः । तत्रेनिताद्यथा- श्रान्तेः। द्वितीयो यथा-'पुंसः संवोधनं किं विदधति करिणं के रुचोऽग्नेर्भि- षकिं का शून्या ते रिपूणां नरवर नरकं कोऽवधीत्कीडनं किम् । के वा वर्षासु न स्युस्तृणमिव हरिणा किं नखाग्रेविभिन्न विन्ध्याद्रौ पर्यटन्को विघटयति तनु- नर्मदावारिपूरः ॥' 'नर्मदावारिपूरः' इति सभङ्गासभङ्गत्वेन त्रिरुत्तरम् । अत्र च यथोक्तमनुमानपरिसंख्यावैलक्षण्यं सुस्पष्टमेवेति ग्रन्थविस्तरभयानोक्तमिति ॥ अधुनालंकारान्तराणां लक्षणं कर्तुमुपक्रमते-इत इत्यादि । एतदेव व्याचष्टे- इहेत्यादि । इङ्गिताकाराभ्यां सूक्ष्मार्थसंलक्षणादस्य मेदद्वयमप्युक्तम् । एवं संलक्षितस्यार्थस्य प्रकाशनमयमलंकार इत्यत्र तात्पर्यम् । 'कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते। धर्मेण केनचिद्यत्र तत्सूक्ष्मं परिचक्षते ॥' कि च 'यत्र कर्णोत्पलन्यस्तहस्तदीपावलोकिनी । दृष्ट्वा वधूः प्रियोपान्ते सखीभिः प्रतिमुच्यते ॥' इत्येतद्न्थप्रक्रिययालंकारोदाहरणजातं कुर्वताप्यलंकारभाष्यकृता- सूक्ष्मालंकारे यत्तदनुगुणमुदाहृतं तत्रायमाशयः यत्सूक्ष्मस्यार्थस्य संलक्षणमात्र १. 'न शृणोति कश्चित्' क. २. 'का विपमा दैवगतिः किं लब्धं यजनो गुण- ग्राही। किं सौख्यं सुकलत्रं किं दुःखं यत्सलो लोकः ॥ इति च्छाया.

२१८ ३ काव्यमाला। 'संकेतकालमनसं विटं ज्ञात्वा विदग्धया। हसन्नेत्रार्पिताकूत लीलापमं निमीलितम् ॥' अत्र संकेतकालाभिप्रायो विटसंबन्धिना यूक्षेपादिना इनितेन लक्षितः रजनिकालभाविना लीलापद्मनिमीलनेन प्रकाशितः । आका. रायथा- 'वक्रस्यन्दिखेदविन्दुप्रबन्धैर्दृष्ट्वा मिन्नं कुङ्कुम कापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मिला पाणौ खड्गलेखां लिलेख ॥' अत्र खेदविन्दुकृतकुङ्कुमरूपभिन्नेनाकारेण संलक्षितं पुरुषायितं पाणौ पुरुषोचितखड्गधारालिखनेन प्रकाशितम् । उद्भिन्नवस्तुनिगृहनं व्याजोक्तिः । यत्र निगूढं वस्तु कुतश्चिन्निमित्तादुद्भिन्नं प्रकटतां प्राप्तं सद्वस्त्व- न्तरप्रक्षेपेण निगृह्यते अपलप्यते, सा वस्त्वन्तरप्रक्षेपरूपस्य व्याजस्य वचनाद्वयाजोक्तिः । यथा- 'शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस- द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभन्नाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तःपुरमातृमण्डलगणदृष्टोऽवताद्वः शिवः ॥' प्रकाशनमात्रं वाप्ययमेवालंकार इति । अत एवात्र सखीभिः सुरतोत्सुकत्वं संलक्षितम्। कर्णोत्पलन्यासादिना प्रकाशितमित्युभयार्थसहितत्वम् । तदेवमादौ मालंकार एव वाच्यः । सूक्ष्मस्यैवार्थस्य संलक्ष्यमाणत्वादिनावस्थानात् ॥ उद्भिन्नेत्यादि । निगूढमिति । वस्तुतः। वस्त्वन्तरप्रक्षेपेणेति ।

अलंकारसर्वस्वम् । २१९ अत्र रोमाञ्चादिनोद्भिन्नो रतिभावः शैत्यप्रक्षेपणेनापलपितः । यद्य- प्यपदुतोऽपि सस्मितत्वख्यापनेन पुनरप्युद्भिन्नत्वेन प्रकाशितः, तथा- प्यपलापमात्रचिन्तयास्यालंकारस्योल्लेखः । नन्वपद्भुतिग्रन्थे 'यथा साह- श्याय योऽपहवः सापह्नुतिः, तथापह्नवायापि यत्सादृश्यं साप्यपद्भुतिः' इति स्थापितम् । व्याजोक्तौ चोत्तरः प्रकारो विद्यते तत्कथमियमलंका. रान्तरेण कथ्यते । सत्यम् । उद्भटसिद्धान्ताश्रयेणोत्तरत्रोक्तम् । न हि तन्मते व्याजोक्त्याख्यमलंकरणमस्ति । इह तु तस्य संभवाद्वयतिरि- कापहृतिरिति पृथगयमलंकारो निर्दिष्टः । अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यामन्यथा योजनं वक्रोक्तिः । उक्तिव्यपदेशसाम्यावयाजोक्त्यनन्तरमस्या लक्षणम् । यद्वाक्यं केन- निमित्तान्तरकथनेनेत्यर्थः । रतिभाव इति । स्थायी । अपहुतोऽपीति । व्याजोक्तेः प्ररोहात् । अपलापमात्रचिन्तयेति । तावन्मात्रस्यैव तल्लक्षण- त्वात् । अस्याश्चापद्रुतेर्भेदं दर्शयितुमुपक्रमते-नन्वित्यादिना । स्थापित मिति । श्लेषग्रन्थे यदुक्तम् । 'सादृश्यव्यक्तये यत्रापह्नवोऽसावपळुतिः' इति । एवमपह्नवग्रन्थ इति पूर्ववाक्य एव संवन्धनीयम् । उत्तरःप्रकार इति । अपहवाय सादृश्यं तदिति । उत्तरेणैव प्रकारेण व्याप्तत्वात् । कथमिति । निष्प्रयोजकत्वात् । एतदेवाभ्युपगम्य प्रतिविधत्ते-सत्यमित्यादिना । तदित्यपहवाय सादृश्यम् । तत्रेति । श्लेषे । तन्मत इति । उद्भटमते । त- स्येति । व्याजोक्त्याख्यस्यालंकारस्य । तद्व्यतिरिक्तेति । अपद्रुतौ हि प्रकृतमे- वोत्कर्षयितुमप्रकृतस्योपादानम् । इह तूद्भिन्नं सत्प्रकृतं वस्तु वस्त्वन्तरेणाप्रकृतेन निगृह्यते इत्यनयोर्महान्मेदः । एवं 'आकृष्यादौ' इत्यादौ च लोकात्मवस्त्वन्तर- प्रक्षेपेणोद्भिन्नप्रियनिगूहनस्यैव वाक्यार्थत्वाट्याजोक्तिरेव न पुनरपद्रुतिः । अत एव च नात्र वक्रोक्तिः । तस्य हि यथायोजनमात्रं लक्षणम् ॥ अन्यथेत्यादि । एतदेव व्याचष्टे-यद्वाक्यमिति । अन्याभिप्रायेणेति । विवक्षितार्थपर- १. 'तत्तत्रोक्तम्' ख.

२२.० काव्यमाला। चिदन्यथामिप्रायेणोकं सदपरेण वक्रा काकुप्रयोगेण श्लेषप्रयोगेण वान्यथान्यार्थघटनया योज्यते तदुक्तिः सा वक्रोक्तिः। काकुप्रयोगेण यथा 'गुरुपरतत्रतया बत दूरतरं देशमुद्यतो गन्तुम् । अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ॥' अत्रैतद्वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम् । तत्सख्या काकुप्रयोगेण विधिपरतां प्रापितम् । काकुवशाद्विधिनिषेधयोर्विपरी- तार्थसंक्रान्तिः । तत्र श्लेषोऽभङ्गसभङ्गत्वेनोभयमयत्वेन त्रिविधः । तत्राभङ्गश्लेषमुखेन यथा- तयेत्यर्थः । काकुः ध्वनिविशेषः । यदुक्तम्-'वाक्याभिधेयमानेऽथें येनान्यः प्रतिपद्यते । भिन्नकण्ठध्वनिधारैः स काकुरिति कथ्यते ॥' अन्यार्थघटनयेति । प्रकान्तादन्यस्य व्यतिरिक्तस्यार्थस्य घटनयोल्लेखनेनेत्यर्थः । येनकेनचिद्वक्राभि- प्रेतार्थस्य प्रतिपादयिषयोक्तस्य वाक्यस्यान्येन विघाताय प्रहेलिकामात्रार्थ 'नवक- म्बलकोऽयं माणवकः' इत्यादिनावाक्छलेनान्यथायोजनमात्रमयमलंकार इति पिण्डार्थः । अत एव द्वितीयो व्याघातो नास्या भेदतया वाच्यः । न हि तत्र वचनविघातायैवान्यथा योजनम् । तत्र हि 'बाल इति सुतरामपरित्याज्योऽस्मि, रक्षणीय इति भवद्भुजपञ्जरं रक्षास्थानम्' इत्यादौ वालत्वादिकं प्रस्थानविशेषतया राज्यवर्धनेन संभावितं श्रीहर्षेण पुनरन्यथा प्रस्थाननिमित्ततया योजितम् । अत. श्चानान्यथा योजनस्य प्रस्तुतवस्तुव्याहतिनिबन्धनत्वेऽपि प्रस्थानविधौ तात्पर्यम् न तद्विघातमात्रेणास्य वक्रोक्तावन्तर्भाव इति चेत् , तर्हि साधाविशेषादुपमेयो- पमादीनामप्युपमायामन्तर्भावः किं न स्यात् । अथात्र फलमेदोऽस्तीति कथमे- तदिति चेत् , एवमिहापि फलभेदस्य विद्यमानत्वात्कथमस्यान्तर्भावः स्यात् । तया- १. 'अन्याभिप्रायेण' ख. २. 'अत्र' ख. ३. 'श्रीकण्ठेन' ख.

अलंकारसर्वस्वम् । २२१ 'अहो केनेशी बुद्धिर्दारुणा तव निर्मिता । त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी कचित् ॥' अत्र दारुणेति प्रथमान्तं प्रक्रान्तं श्लेषमन्या तृतीयान्ततया संपादि- तम् । सभङ्गश्लेषमुखेन यथा- 'वं हालाहलभृत्करोषि मनसो मूछों समालिङ्गितो हालां नैव बिभर्मि नैव च हलं मुग्धे कथं हालिकः । सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरोऽवताद्वः शिवः ।।' उभयमुखेन यथा- वन्यथा योजनस्य क्वचिद्वचनविघातमात्रं फलं क्वचिच्च संभाव्यमानव्याहतिनिब- न्धनत्वेऽप्यर्थान्तरे तात्पर्यम् । फलभेदश्चालंकारभेदनिमित्तमित्यविवादः । तेन पूर्वत्र वक्रोक्तिरपरत्र व्याघात इति यथोक्त एवालंकारभेदो न्याय्यः । एवं फला- न्तरेष्वपि ज्ञेयम् । तस्मात् 'एष श्रीकण्ठकण्ठच्छविरनभिमतो राजहंसत्रजानां सद्यस्तापं प्रजानां प्रशममुपनयनच्छधाराच्छलेन । कुर्वन्दिक्चक्रवालाक्रमणमुद- यते देव को वारिवाहो मा मैवं मालवेन्द्रो परिमलकतरस्तहिं राजन्नसिस्ते ॥' इत्यत्र श्रोत्रा संभावितस्य वारिवाहस्यान्यथा खड्गत्वेन योजनं, तस्य तत्सादृश्य- प्रतीत्यर्थमित्यगभूतोत्तरमार्थमौपम्यं वक्तुर्विवक्षितम्। वाक्छलमुपचारफलम्। तद- विशेषादिति वाक्छलेनैवास्य संग्रहादुपचारच्छलात्मकम् । क्वचित्त्वौपचारिके प्रयोगे मुख्यार्थमुपादानमिति भेदान्तरमप्यवसानवाच्यम् । यस्तु तदर्थान्तराभावादिति न्यायाद्वागुपचारच्छलयोर्विशेष उक्तः स नैयायिकानामुपयुक्तो नालंकारिकाणाम् । तथात्वेनान्यथायोजनस्य वैचित्र्यान्तराभावात् । यद्वा मुख्यौपचारिकार्थद्वयस्यैक- वृन्तगतफलद्वयन्यायेन शब्दश्लिष्टत्वादस्य श्लेषवक्रोक्तावन्तर्भावः स्यात् । उभय- मुखेनेति । सभङ्गासभङ्गश्लेषद्वारेण । विजय इति श्लेषस्यासभङ्गत्वम् । मेदुरो- १. 'माहो' ख. २. 'मुख्यार्थापादानं' ख. ३. 'भेदान्तरमप्यस्या न वाच्यं ख. ४. 'एकदन्तगतच्छलत्वन्यायेन' क.

२२२
। काव्यमाला।
'विजये कुशलरूयक्षो न क्रीडितुमहमनेनं सह शक्ता ।
विजये कुशलोऽसि न तु व्यक्षोऽक्षद्वयमिदं पाणौ ।।
किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेऽभिमतः ।
कः प्रद्वेष्टि विनायकमहिलोकं किं न जानासि ।।
चन्द्रग्रहणेन विना नास्मि रमे किं प्रतारयस्येवम् ।
देव्यै यदि रुचितमिदं नन्दिन्नाहूयतां राहुः ।।
हा राहो शितदंष्ट्रे भयकृति निकटस्थिते रतिः कस्य ।
यदि नेच्छसि संत्यक्तः संप्रत्येषैव हाराहिः ॥
वसुरहितेन क्रीडा भवता सह कीदृशी न जिहेषि ।
किं वसुभिर्नमतोऽमून्सुरासुरान्नैव पश्यसि पुरः ।।
आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदकस्य ।
दिव्यं वर्षसहस्रं स्थित्वेति न युक्तमभिधातुम् ।।
इति कृतपशुपतिपेलवपाशकलीलाप्रयुक्तवक्रोक्ति-।
हर्षवशतरलतारकमाननमव्याद्भवान्या वः ॥'
वक्रोक्तिशब्दश्चालंकारसामान्यवचनोऽपीहालंकारविशेषे संज्ञितः ।
सूक्ष्मवस्तुस्वभावयथावद्वर्णनं स्वभावोक्तिः ।
दरेणेति सभङ्गत्वम् । 'स्मेरोऽवताद्वः शिवः' तथा 'प्रयुक्तवक्रोकि' इत्यादिना
वचनविघातमात्रप्रयोजनस्यान्यथा योजनस्य प्रहेलिकाप्रायत्वमेव प्रकाशितम् ।
ननु सपा सर्वेव वक्रोक्तिः कोऽलंकारोऽनया विना' इति नीत्या समग्र एवालंका:
स्वर्गो वक्रोक्तिरूप इति कथमयमेव तथात्वेन निर्दिष्ट इत्याशङ्कयाह-वक्रोक्ती-
त्यादि । इहेति । वाक्छलात्मकत्वेनोकेः कौटिल्यात् ॥ सूक्ष्मेत्यादि । ननु

अलंकारसर्वस्वम् । २२३ इह वस्तुखभाववर्णनमात्रं नालंकारः । तत्त्वे सति सर्व काव्यमलं- कारि स्यात् । न हि तत्काव्यमस्ति यत्र न वस्तुखभाववर्णनम् । तदर्थ सूक्ष्मग्रहणम् । सूक्ष्मः कवित्वमात्रस्य गम्यः । अत एव तन्निर्मित एव यो वस्तुस्खभावस्तस्य यथावदन्यूनानतिरिक्तत्वेन वर्णनं खभावो- किरलंकारः । उक्तिवाचोयुक्तिप्रस्तावादिह लक्षणम् । भाविकरसवद- लंकाराभ्यामस्य भेदो भाविकप्रसक्ने निर्णेष्यते । यथा- ऋहारो नखकोटिचक्षुपुटकव्याघट्टनोदृद्धित- स्तन्व्याः कुन्तलकौतुकव्यतिकरे सीत्कारसीमन्तितः । पृष्ठश्लिष्यदवामनस्तनभरोत्सेव्याङ्कपालीसुधा- सेकाकेकरलोचनस्य कृतिनः कर्णावतंसीभवेत् ॥' अतीतानागतयोः प्रत्यक्षायमाणत्वं भाविकम् । कथं वस्तुवर्णनमात्रमलंकार इत्याह-इहेत्यादि । 'तदतिशयहेतवस्त्वलंकाराः' इति नीत्या वस्त्वतिशयदायिनां धर्माणामलंकारत्वात्कथं वस्तुमात्रस्यैवालंकारत्वं स्यादिति भावः । ननु कथमेतत्सूक्ष्ममात्रग्रहणेनैव समाहितमित्याशङ्कयाह- सूक्ष्म इत्यादि । कवित्वमात्रस्येति । कुशाग्रीयधिषणत्वात् । एवं स्थूलम- तीनामकवीनां कुकवीनां तस्यावगमेऽपि तथा विकल्पारोहो न भवेदिति भावः । अत एवेति । कवित्वमात्रगम्यत्वात् । तनिर्मित एवेति । अन्येषां तथा- त्वेन वक्तुमशक्यत्वात् । तद्वस्तुगतस्यासाधारणस्य फलक्रियादेः संभवतः खभावस्य शब्देन प्रतिपादनमात्रत्वात्तन्निर्मित एवेत्युक्तम् । अन्यूनानतिरिक्त- त्वेनेति । यथा वस्तुनि संभवतीत्यर्थः । अत एव सचेतसां वस्तुगतस्य सूक्ष्म- सुभगस्य वस्तुनो वर्णनेन हृदयसंवादाच्च किमयं रसवदलंकारो वा न भवतीत्या- शयाह-भाविकेत्यादि । तत्र निर्णेष्यमाणस्यैतद्भेदस्य 'वस्तुनश्चित्तवृत्तेच संवादः स्फुटता प्रथा । स्वभावोके रसवतो भाविकस्य च लक्षणम् ॥' इत्ययं संक्षेपः ॥ अतीतानागतयोरित्यादि । एतदेव व्याचष्टे-अतीतेत्यादि । १. 'सूक्ष्मम्' ख. २. 'प्रत्यक्षायमानत्वं' क. . ३. 'सूक्ष्ममित्यादि' ख.

२२४ काव्यमाला। अतीतानागतयोर्भूतमाविनोरर्थयोरलौकिकत्वेनात्यद्भुतत्वायतसंव- न्धरहितशब्दसंदर्मसमर्पितत्वाच्च प्रत्यक्षायमाणत्वं भाविकम् । कवि. गतो भाव आशयः श्रोतरि प्रतिबिम्बत्वेनास्तीति, भावो भावना बा पुनः पुनश्चेतसि निवेशनं सोऽत्रास्तीति । न चेयं प्रान्तिः । भूतमा- विनो भूतभावितयैव प्रकाशनात् । नापि रामोऽभूदितिवद्वस्तुमात्रम् । भूतभाविगतस्य प्रत्यक्षत्वादिगतस्य धर्मस्य स्फुटस्याधिकस्य प्रतिल. म्मात् । नापीयमतिशयोक्तिः। अन्यस्यान्यतयाध्यवसायाभावात् । नहि भूतभाव्यभूतभावित्वेनाध्यवसीयते, अभूतभावि वा भूतभावित्वेनापि, प्रत्यक्षमप्रत्यक्षगतत्वेन, अप्रत्यक्षमपि प्रत्यक्षत्वेन । न हि प्रत्यक्षत्वं केवलं वस्तुधर्मः । प्रतिपत्त्यपेक्षयैव वस्तुनि तथा- अलौकिकत्वेनेत्यनेन सहृदयानां तत्रावधानाईत्वमुक्तम् । व्यस्तेति । यद्यपि वाचामाकुलत्वं सर्वत्रैव वर्जनीयं, तथापि तत्तत्र वैषम्येनार्थाविशेषात्प्रतीते. विघ्नमात्रफलम् । इह तु तदाकुलत्वेनातीतानागतयोः प्रत्यक्षायमाणत्वमेव न स्यादिति प्राधान्येनैतदुक्तम् । एवमनेन हेतुद्वयेनास्यालंकारत्वमुक्तम् । इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा वाच्यवाचकयो रामणीय. कमित्युक्तम् । अत एवैकस्यापि रामणीयकहानी नास्यालंकारत्वम् । इह हि केचिदर्थाः कविवचसि सुस्पष्टमधिरूढा अपि निजसौभाग्याभावात्तृणश- करावत्सहृदयानामवज्ञास्पदतया नावधानार्हाः । केचिच्च सुभगा अपि दुर्भग, शब्दोपारोहितया सहृदयानामनावर्जका एवेत्युभयमपीहावश्यमाश्रयणीयम् । यदाहुः-'प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः । अत्यद्भुताः स्यात्तद्वाचा- मनाकुल्येन भाविकम् ॥' इति । वाशब्दः पक्षान्तरद्योतकः । ननु चाप्रत्यक्षाणां भूतभाविनां प्रत्यक्षेणोपनिबन्धाद्रान्तिमानेवायं किं' न भवतीत्याशझ्याह-न यमित्यादि । ननु यदि भूतभावितयैव प्रतीयते तदेतद्वस्त्वेव किं नेत्याश- स्याह-नापीति । अधिकस्येति । वस्तुवृत्ते तस्यासंभवात् । अत एवास्य ततो व्यतिरेकः । नन्वस्यान्यतयावसायाकिं नायमतिशयोक्तिरित्याशयाह-ना- पीयमित्यादि । भूतभाविनो भूतभावितयैवास्फुटतयावगमात् । नन्वत्राप्रत्य- अमेव प्रत्यक्षेण किं नाध्यवसितमित्याशझ्याह-नहीत्यादि । तच्चाप्रस्तुतत्वा- १. 'कि नेत्याह' ख. २. 'एवाप्रत्यक्षेण' ख. ल अलंकारसर्वस्वम् । २२५ भावात् । यदाहुः-तत्र यो ज्ञानप्रतिभासनात्मनोऽन्वयव्यतिरेकाव. नुकारयति स प्रत्यक्षः' इति । केवलवस्तुप्रत्यक्षत्वे प्रतिपत्तुः सामग्री उपयुज्यते । सा च लोकयात्रायां चक्षुरादीन्द्रियखभावायोगिनामती- न्द्रियार्थदर्शने भावनारूपा । काव्यार्थविदां च भावना खभावैव । सा च भावना वस्तुगत्यात्यद्भुतत्वप्रयुक्ता । अत्यद्भुतानां च वस्तूनामादर- प्रत्ययेन हृदि संधार्यमाणत्वात् । नापि भूतमाविनामप्रत्यक्षाणां प्रत्यक्ष- तयैव प्रतीतेरिवार्थगर्मीकारेणायं प्रतीयमानोत्प्रेक्षा । तस्या अभिधान- रूपाख्याध्यवसायखभावत्वात् । न ह्यप्रत्यक्षं प्रत्यक्षत्वेनाध्यवसीयते । किं तर्हि काव्यार्थविद्भिः प्रत्यक्षत्वेन दृश्यते इति । नापि वस्तुगता इवार्था उत्प्रेक्षाप्रयोजकाः । तस्या अभिमानरूपायाः प्रतिपत्तृधर्मत्वात्। यदाहुः-'अमिमानेन सा योक्तिनिधर्मसुखादिवत्' इति च । काव्य- विषये च प्रयोक्तापि प्रतिपत्तैव । नाप्यद्भुतदर्शनादतीतानागतयोःप्रत्य- द्हनत्वाच्च नेह प्रपञ्चितम् । ननु यद्येवं तत्प्रमातुः सदैव समस्तबाह्यवस्त्ववगमः किं न स्यादित्याशमाह-केवलमित्यादि । भावनारूपेति । तत्रेन्द्रियादी. नामव्यापारणात् । एवं योगिनां भावनाबलाद्भूतभावितयैव प्रत्यक्षावभास इति भावः । यदाहुः-'अतीतानागतज्ञानं प्रत्यक्षान विशिष्यते' इति । चः समुच्चये। तेन योगिनामतीन्द्रियार्थदर्शने यथा भाविना निमित्तं तथैव काव्यार्थविदामपी- त्यर्थः । तस्याश्च निमित्तमाह-सा चेत्यादि । वस्तुनोऽत्यद्भुतत्वमादरे निमि- त्तम् । आदरश्च वस्तुनो हृदि संधारणम् । तच्च तदेकतानतया प्ररूढं सद्भावना- त्वमुपयातीति काव्यार्थविदां योगिनामिव भावनावलाखकालावच्छेदेनैव भूतभा- विवस्तुप्रत्यक्षतया भासत इति नाप्रत्यक्षाणां प्रत्यक्षतयाध्यवसायः । ननु यद्यपि योगविद्भूतभाविनो भावाः खकालावच्छेदेनैव सचेतसः प्रत्यक्षतयेव तदभावभा- सनं युक्तमित्येतत्प्रतीयमानोत्प्रेक्षैव किं नेत्याशमाह-नापीत्यादि । किं तहीति । अध्यवसायो नास्त्येवेत्यर्थः । प्रतिपत्तैवेति । नयजानतः कवितुः १. 'दर्शनेन' क. १५ अ० स० २२६ ; काव्यमाला। क्षत्वप्रतीतेः काव्यलिङ्गमिदम् । लिङ्गलियभावेन प्रतीत्यमावात् । योगिवत्प्रत्यक्षतया प्रतीतेः। नाप्ययं पुरः स्फुरद्रूपतया सचमत्कारं प्रतीते रसवदलंकारः । रत्यादिचित्तवृत्तीनां तदनुषक्ततया विमावादीनामपि साधारण्येन हृदयसंवादितया परमाद्वैतज्ञानवत्प्रतीतौ तस्य भावात् । इह तु ताट- स्थ्येन भूतभाविनां स्फुटत्वेन भिन्नसर्वज्ञवप्रतीतेः । स्फुटप्रतीत्युत्तर- कालं तु साधारण्यप्रतीतौ स्फुटप्रतीतिनिमित्तक औचरकालिको रस- वदलंकारः स्यात् । नापीयं सूक्ष्मवस्तुखभाववर्णनात्खभावोक्तिः । तस्यां लौकिकवस्तुगतसूक्ष्मधर्मवर्णने साधारण्येन हृदयसंवादसंभवात् । प्रयोक्तृत्वं भवतीति भावः। नन्वत्यद्भुतपदार्थप्रत्यक्षप्रतीत्योर्गम्यगमकभावात्कि नेदमनुमानमित्याशयाह-नापीत्यादि । एवं रसवदलंकारादस्य भेदं दर्श- यति-नाप्ययमित्यादिना । पुरःस्फुरद्रूपतयेत्यादिनानयोरभेदनिमित्तमुक्तम् । परकीयायाश्चित्तवृत्तेरात्मीयचित्तवृत्त्यभेदेन परामर्शो हृदयसंवादः । तस्य च स्वपरविभागाभावाद्देशकालाभावाच्च व्यापकत्वेन प्रतीतेः साधारण्यम् । अत एव परमाद्वैतज्ञानतुल्यत्वम् । तस्य ह्ययमित्येव परामर्शः। तद्यतिरिक्तस्यान्यस्यासंभ- वात् । ताटस्थ्येनेति । इदमहं जानामीति सामानाधिकरण्येन प्रतीत्येत्यर्थः । अत एव विद्येश्वरादितुल्यत्वम् । ननु भाविकप्रतीत्यनन्तरं यत्र रसवदलंकारः प्रतीयते तत्र किं प्रतिपत्तव्यमित्याशयाह- स्फुटेत्यादि । एवमत्रानयोरङ्गा- गितया समावेश इति तात्पर्यार्थः । तत्तु यथा-'वनान्तरादुपावृत्तैः स्कन्दास- तसमित्कुशैः । अग्निप्रत्युद्गमात्पूतैः पूर्यमाणं तपखिभिः ॥' अत्र तपखिनां स्फुट- त्वप्रतीतिः शान्ताख्यरसोदयानमिति न तयोरैकात्म्यम् । एवं च सुन्दरस्य वस्तुनो यथावद्वर्णनावशात्प्रत्यक्षायमानत्वमस्य स्वरूपमिति तात्पर्यम् । ननु यद्येवं तत्किमिदं खभावोक्तिरेवेत्याशयाह-नापीयमित्यादि । ईदृगिदं वस्त्वित्यत्र हृदयसंवादः। स च यथा-'यत्र स्तनंधयाहस्ते रत्नदीपाजिघृक्षतः । १. 'चित्तवृत्तिभेदेन' क. २. 'स्वभावोक्तिरेव नेत्याशङ्कयाह' ख.

अलंकारसर्वस्वम् । २२७ इह च लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन प्रतीतः । कचित्तु लौकिकानामपि वस्तूनां स्फुटत्वेन प्रतीतौ भाविकखभावोक्त्योः समावेशः स्यात् । न च हृदयसंवादमात्रेण खभावोक्तिरसवदलंकारयोरभेदः । वस्तुसंवादरूपत्वात्स्वभावोक्तेः। चित्तवृत्तिसमाधिरूपत्वाच रसवदलं- कारस्य । उभयसंवाददर्शनेऽपि समावेशोऽपि घटते । यत्र वस्तुगत- दृष्ट्वा हा हेति संभ्रान्ता धात्री चेटैर्विहस्यते ॥' अत्र धात्रीणामीदृगयं खभाव इति वस्तुनिर्दिष्टो हृदयसंवादः । यथा वा-'यदाखाद्यं सीता वितरति तदने स्वगृहिणे मुमित्रापुत्राय प्रणिहितविशेषं तदनु च । यदामं यत्क्षामं यदनतिरसं यच्च विरसं फलं वा मूलं वा रचयति तु तेन खमशनम् ॥' अत्रेडगेव गृहिणीनां स्वभाव इति संवादः । स्फुटतयेति । पुरःस्फुरद्रूपतया । सा च प्रतीतिर्यथा-'निमी- लितस्य पूर्णेन्दोः सुधायां पङ्किलाङ्गुली । यत्र मृत्युजितः पादौ भाव्येते भावितैः पुरः ॥' यथा च-'दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा । आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥' अत्र पादयोः शकुन्तलायाश्च शुद्धव प्रत्यक्षत्वेन प्रतीतिः । ननु च यत्र स्वभावोक्तावपि प्रत्यक्षतया प्रतीतिस्तत्र किमित्याशङ्याह-कचिदित्यादि समावेश इति । संसृष्टिरूपः संकररूपो वा । स तु यथा-'हेरम्भोऽत्र हरी- श्वरे नखमुखैः कण्डूयमाने गलं कुर्वन्युच्छविवर्तनां निविरतो रोमन्थलीलायि- तात् । संमीलन्नयने विसंस्थुललसत्सास्त्रं नतोन्नामितप्रीवं निश्चलकर्णमीश्वरवलीवर्दः सुखं मन्यते ॥' अत्र वृषभस्य पुच्छविवर्तनादिसूक्ष्मधर्मवर्णनेन खभावोक्तिः प्रत्यक्षायमानत्वेन भाविकमित्यनयोः समावेशः। स्वभावोकेरपि रसवदलंकारात्प्र- सङ्गेन मेदं दर्शयति-न चेत्यादिना । हृदयसंवादो हि वस्तुचित्तवृत्तिगतत्वेन द्विविधः । तत्र स्वभावोक्तो वस्तुसंवादः प्रदार्शतः। चित्तवृत्तिसंवादस्तु यथा- 'चन्द्रांशुस्मेरधम्मिल्लमल्लिकानां प्रियं प्रति । सौधेषु नीतं रामाणां यत्रालिभिर- नूद्यते ॥' अत्र प्रियाभिलाषिणी नायिकाचित्तवृत्तिः सचेतसां खचित्तवृत्त्यभेदेन संवदतीति तत्संवादः। यत्र द्विविधोऽपि संवादस्तत्र किं प्रतिपत्तव्यमित्याशाह -उभयेत्यादि । स च समावेशो यथा-'किंचित्कुश्चितच चुम्बनमुखस्फा- २२८ । काव्यमाला। . सूक्ष्मधर्मवर्णनं सातत्र खमावोक्तिः, अन्यत्र तु रसवदलंकार एव । नाप्ययं शब्दानाकुलत्वहेतुकाज्झगित्यर्थसर्पणात्प्रसादाख्यो गुणः। तस्य हि स्फुटयस्फुटोभयवाच्यगतत्वेन झटिति समर्पणं रूपम् । अस्य तुझटिति समर्पकस्य सतः स्फुटत्वेन प्रतीतौ खरूपप्रतिलम्भः। तस्मादयं सर्वोत्तीर्ण एवालंकारः । लक्ष्ये चायं प्रचुरप्रयोगो दृश्यते । यथा- मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः । येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ।' यथा वा-हर्षचरितप्रारम्मे ब्रह्मसदसि वेदखरूपवर्णने । तत्र हि प्रत्यक्षमेव स्फुटत्वेन तदीयं रूपं दृश्यते । एवं तत्रैव मुनिकोघवर्णने, रीभवल्लोचना खप्ने मोदितचारुचाटुकरणैश्वेतोऽर्पयन्ती मुहुः। कूजन्ती विततैक पक्षतिपुटेनालिजय लीलालसं धन्यं कान्तमुपान्तवर्तिनमियं पारावतं सेवते ॥' अत्र पारावतयोः सूक्ष्मधर्मवर्णनेन स्वभावोक्तिः, चित्तवृत्तिविशेषाच रसवदलंकार इत्यनयोः समावेशः। अन्यत्रेति । यत्र वस्तुगतसूक्ष्मधर्मवर्णना न स्यात्। अनेन च भाविकरसवदलंकाराभ्यामस्या मेदो भाविकप्रसङ्गे निर्णेष्यते इति यत्प्रागुकं तन्नि- हितम् । इदानी च प्रकृतमेवाह-नाप्ययमित्यादि। झगित्यर्थसमर्पणं प्रसा- दः, झगिति समर्पितस्यार्थस्य स्फुटत्वेन प्रतीति विकमित्यनयोर्महान्भेदः। एतदे. बोपसंहरति--तस्मादित्यादि । एतच्च नास्माभिरस्थान एवाभिनिविष्टमित्याह- लक्ष्य इत्यादि । तत्रैवेति । हर्षचरिते । तत्र क्रोधमुनिवर्णनं प्रारम्भ एव स्थितम् । पुलिन्दवर्णनं पुनरष्टमोच्छासारम्भे स्थितमिति तत एव स्वयमवघार्यम्। इह तु प्रन्यविस्तरभयान लिखितम् । अतीतानागतयोः सूत्रितेऽपि प्रत्यक्षायमा. णत्वे देशादिविप्रकृष्टानां प्रत्यक्षायमाणत्वमुदाहरता ग्रन्थकृतातीतानागतत्वस्य विप्र. कर्षमात्रसारत्वं सूचितम् । तच देशकालखभावविप्रकृष्टानामविशिष्टमित्येतदुदा. हृतम् । तत्रागस्त्यमुनेर्देशविप्रकृष्टत्वम् । अनागतस्य तु यथा-क्षिप्तोत्क्षिप्ताखि- लखुरपुटाहन्यमानादिरौद्रध्यानत्रस्यत्सुरवरनमस्कारवाग्दत्तकर्णः । पाणिस्पर्शाद- हनतुरगं प्रेरयम्लेच्छजाति जेष्यत्येष त्रिभुवन विभुः कर्किरूपेण विष्णुः ॥' एवं १. 'यत्र' क. २. 'ध्वानभ्राम्यत्' क.

अलंकारसर्वस्वम् । २२९ पुलिन्दवर्णनादौ ज्ञेयम् । अयं त्वत्र विचारलेशः संभवति-इह कचिद्वर्णनीयस्य वर्णनावशादेव प्रत्यक्षायमाणत्वम् । कचिप्रत्यक्षायमा. णस्यैव वर्णनम् । आद्यो यथोदाहृतं प्राक् । द्वितीयो यथा- 'अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः । अचामरोऽप्येष सदैव वीज्यते विलासबालव्यजनेन कोऽप्ययम् ।। इति। अत्र प्रथमप्रकारविषयोऽयमलंकारो न प्रकारान्तरगोचरः। कवि- समर्पितानां धर्माणां ह्यलंकारत्वात् । न हिमांशुलावण्यादीनामिव वस्तु- सन्निवेशिनाम् । अपि च 'शब्दानाकुलता चेति तस्य हेतून्प्रचक्षते' इति भामहीये, 'वाचामनाकुलत्वेनापि माविकम्' इति चौद्भटलक्षणे व्यस्तसंबन्धरहितशब्दसंदर्भसमर्पितत्वं प्रत्यक्षायमाणत्वप्रतिपादकं कथं प्रयोजकीभवेत् , यदि वस्तुसन्निवेशधर्मिगतत्वेनापि भाविकं स्यात् । तस्माद्वास्तवमेव महत्त्वमुत्तरत्र प्रकारविषये वर्णितमिति नायमलंकारः। . चिरंतनोक्तनीत्या विचार्य पुनरपि खोपज्ञं कंचिद्विचारमाह-अयमित्यादिना। संभवतीति । न पुनः केनापि दृष्ट इति भावः । यथोदाहृतमिति । मुनि. जयतीत्यादिना । प्रथमेति । यत्र वर्णनावशात्प्रत्यक्षायमाणत्वम् । अत एव कविसमर्पितधर्मत्वं न वस्तुसन्निवेशिनां धर्माणामलंकारत्वादिति संवन्धः । न हि वस्तुमात्रवर्णने कविकौशलं किंचिदिति भावः । अपि चेति । निपातसमुदायः समुच्चयार्थः अत्रैव वाक्यगत्या हेत्वन्तरस्य समुच्चीयमानत्वात् । कथमिति । वस्तुमात्रवर्णने शब्दानामाकुलताया अनाकुलतायाश्चाविशेषात् । उत्तरप्रका- रेति । अनातपत्रोऽपीत्यादौ । अत्रापि प्रकारान्तरेणालंकारत्वं योजयति- १. 'उत्तरत्वप्रकारविषये' ख. २. 'वस्तुसंनिवेशादलंकारत्वादिति संबन्ध:'.क.

२३० : काव्यमाला। यदि तु वास्तवमेवात्र सौन्दर्य कविनिबद्धं कविनिबद्धवक्तृनिबद्धं वा सकलवक्तृगोचरीभूतं स्वभावोक्तिवदलंकारतया वर्ण्यते, तदायमपि प्रकारो नातीव दुःश्लिष्टः । अत एव 'प्रत्यक्षा इव यत्रार्थाः क्रियन्ते भूतभाविनः । तद्भाविकम्' इति, एवमन्यै विकलक्षणमकारि।खभा- वोक्त्या किंचित्सादृश्यात्तदनन्तरमस्य लक्षणं कृतम् । समृद्धिमद्वस्तुवर्णनमुदात्तम् । खभावोक्तौ भाविके च यथावद्वस्तुवर्णनम् । तद्विपक्षत्वेनारोपित वस्तुवर्णनात्मन उदात्तस्यावसरः। तत्रासंभाव्यमानविभूतियुक्तस्य व- स्तुनो वर्णनं कविप्रतिभोत्थापितमैश्वर्यलक्षणमुदात्तम् । यथा- 'मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्वालाशिलाक्षारुणाः । यदि त्वित्यादिना । सकलवक्तगोचरीभूतमिति । कवित्वमात्रगम्य- त्वात् । अत एव प्रत्यक्षायमाणत्वस्य तन्निर्मितायमानत्वं स्यात् । सकलवक्तृगो- चरीभूतत्वे पुनर्यथोक्तं वास्तवत्वमेवेति भावः । नातीवेति । न पुनः प्रकारव. त्सुश्लिष्ट इति यावत् । अत एवेति । वास्तवस्यापि सौन्दर्यस्यात्रालंकारतया वर्णनात् । एतावदेवेति न पुनः शब्दानाकुलत्वादिवस्तुनि तस्याविशेषात् । अन्यैरिति । काव्यप्रकाशकारादिभिः । समृद्धिमदित्यादि । तद्विपक्षत्वे. नेति । वस्त्ववस्तुवर्णनयोर्विरुद्धत्वात् । तत्रेति । एवमवसरे सतीत्यर्थः । असं- भाव्यमानेति । संभाव्यमानविभूतियुक्तस्य तु वर्णनं नैतदङ्गमिति भावः । यथा-'प्रातश्चकासति गृहोदरकुटिमाग्रविक्षिप्तरत्नकुसुमप्रकरावकीर्णाः । अभ्युद्ग- तारुणकराहतिपात्यमाननक्षत्रराशिशवला इव यत्र रथ्याः ॥' अत्र हि भगवन्न- गर्या वस्तुत एव संभवति रत्नविक्षेपः। अत एवास्य कविप्रतिभोत्थापितत्वमु- कम् । एवं चास्य नामापि सार्थकम् । अलंकारसारकृता पुनरत्रातिशयोक्तिप्रका. १. 'कृताः' क-ख.

अलंकारसर्वस्वम् । २३१ दूरादाडिमबीजशवितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥' अङ्गभूतमहापुरुषचरितं च । उदानशब्दसाम्यादिहाभिधानम् । महापुरुषाणामुदात्तचरितानाम- निभूतवस्त्वन्तराजभावेनोपनिबध्यमानं चरितं चोदात्तम् । महापुरुष- चरितस्योदात्तत्वात् । यथा- 'तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्बाहुसहायश्चकार रक्षःक्षयं रामः ॥' अवारण्ये वर्णनीये रामचरितमङ्गत्वेन वर्णितम् । रत्वमुक्तम् । अङ्गभूतेत्यादि । एतदेव व्याचष्टे-महापुरुषाणामित्या- दिना। अङ्गभूतस्य वस्तुनो महापुरुषचरितमुत्कर्षप्रतिपिपादयिषयाङ्गतयोपनि. वध्यमानमेतदलंकाराङ्गम् । न तूपलक्षणमात्रपरतयोपात्तमिति तात्पर्यार्थः । तच यथोदाहृतम् । 'कश्चित्कान्ताविरहगुरुणा खाधिकारप्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चके जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥' अत्राङ्गिनो गिरिविशेषस्य वसतियोग्यत्वादिदर्शनार्थ- मुत्कर्षप्रतिपिपादयिषया रामसीतादिचरितमुपलक्षणपरं तत्र नायमलंकारः । यथा-'गोदावर्याः करिकुलमदक्षोददक्षोदकायाः पारे पारे वत बत परामृश्य- तामृष्यमूकः । कंकालाद्री पिहितगगने दुन्दुभैर्यत्र रामः पादामुष्ठं निजमपि भव. दैवतं निर्ममेऽस्तम् ॥' अत्र पवनं प्रति वियोगिन्या उक्तौ रामचरितमुपलक्षणमा- त्रपरम् । न ह्याभूतेनाङ्गिनः कश्चिद्विशेषो विवक्षितः । 'अत्रासीत्फणिपाशबन्धन- विधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः। दिव्यौ- रिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितस्तस्याप्यत्र मृगाक्षि राक्षसपतेः कृता च कण्ठाटवी ॥' इत्यत्र तु रामस्य सीतां प्रत्युक्तावुपलक्षणीभूतदेशविशेषं पाश- बन्धनायेव साक्षाद्विवक्षितमिति न महापुरुषचरितस्य वस्त्वन्तरं प्रत्यङ्गभाव इति २३२ काव्यमाला रसभावतदाभासतत्पशमानां निवन्धनेन रसवत्प्रेयऊर्ज- स्विसमाहितानि । उदाते महापुरुषचरितस्य चित्रवृत्तिरूपत्वाच्चित्तवृत्तिविशेषखभाव- त्वाच रसादीनामिह तद्वदलंकाराणां प्रस्तावः । अत एव चत्वारोऽलंकारा युगपल्लक्षिताः । तेत्र विभावानुभावव्यभिचारिमिः प्रकाशितो रत्यादि- श्चित्तवृत्तिविशेषो रसः । भावो विभावानुमावाभ्यां सूचितो निवेंदा- दिस्त्रयस्त्रिंशद्भेदः । देवादिविषयश्च रत्यादिर्मावः । तदाभासो रसामासो भावाभासश्च । आभासत्वमविषयप्रवृत्त्यानौ- चित्यम् । तत्पशम उक्तप्रकाराणां निवर्तमानत्वेन प्रशाम्यदवस्था । नायमलंकारः ॥ रसभावेति । अत एवेति । चतुर्णामपि चित्तवृत्तिविशेष- खभावात् । तत्रेति । युगपल्लक्षणे स्थिते सतीत्यर्थः । विभावा ललनोद्यानादयः आलम्बनोद्दीपनकारणानि । अनुभावाः कटाक्षभुजक्षेपादयः कार्याः । व्यभिचा- रिणो निर्वेदादयः सहकारिणः । प्रकाशित इति । व्यजितः । यदुक्तम्- 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति । रत्यादीत्यादिशब्देन हासा- दीनां स्थायिनां ग्रहणम् । निर्वेदादिरिति । यदुक्तम्-'निर्वेदग्लानिशङ्का- ख्यास्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृति तिः ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्राफ्स्मार एव च ॥ सुप्तं विवोधोऽमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ॥' इति । देवतादिविषयाणामानन्त्यादनेकप्रकारत्वेऽप्ये- कप्रकार एव रत्यात्मभावः । अत एव रत्यादिरित्यादिशब्दः प्रकारे। चः समु- चये । यदुक्तम्-'रतिर्देवादिविषया व्यभिचारी तथाञ्चितः । भावः प्रोक्तः' इति । तथा 'तदाभासा अनौचित्यप्रवर्तिताः' इति । प्रशाम्यदवस्थेति । न तु धंसल्ला प्रशान्तावस्थेत्यर्थः । तथात्वे हि सर्वत्रैव कस्यचित्प्रकृतत्वे सर्वे- पामन्येषां प्रशान्तत्वादेवंभावः स्यात् । ननूकप्रकारत्वेन परामृष्टस्य रसस्यापि १. 'निवन्धने' ख. २. 'अत्र' क. ३. 'देवतादिविषयश्च' क.

अलंकारसर्वस्वम् । २३३ तत्रापि रसस्य परविश्रान्तिरूपत्वात्सा न संभवति इति परिशिष्टभेदवि- षयो द्रष्टव्यः । एषामुपनिबन्धक्रमेण रसवदादयोलंकाराः । रसो वि- द्यते यत्र निवन्धने व्यापारात्मनि तद्रसवत् । प्रियतरं प्रेयो निवन्धन- मेव द्रष्टव्यम् । एवमूनों बलं विद्यते यत्र, तदपि निवन्धनमेव । अनौ- चित्यप्रवृत्तत्वादत्र बलयोगः। समाहितं परिहारः। स च प्रकृतत्वादुक्त- भेदविषयः प्रशमापरपर्यायः । तत्र यस्मिन्दर्शने वाक्यार्थीभूता रसादयो रसवदाद्यलंकाराः, तत्रानभूतरसादिविषये द्वितीय उदानालंकारः । यन्मते त्वङ्गभूते रसादिविषये रसवदाद्यलंकाराः अन्यस्य रसादिध्वनिना व्याप्तत्वात्तत्रोदात्तालंकारस्य विषयो नावशिष्यते, तद्विषयस्य रसवदादिना व्याप्तत्वात् । तत्र रसवत उदाहरणम्- कथं प्रशाम्यवस्था संगच्छत इत्याशङ्कयाह-तत्रापीत्यादि । परिशिष्टेति । भावतदाभासतत्प्रशमविषय एवेत्यर्थः । एपामिति । रसभावतदाभासतत्प्रश- मानाम् । बलयोग इति । अनुचितेन बलात्कारेणैव प्रवृत्तिः । प्रकृतत्वा- दिति । तेनात्र वस्त्वन्तरं प्रकृतमिति भावः । ननु च परविश्रान्तिरूपस्य काव्यात्मनोऽलंकार्यस्य रसस्य कथमलंकारत्वं संगच्छत इत्याशङ्याह-तत्रे- त्यादि । यस्मिन्दर्शन इति । ध्वन्यभाववादिनां मत इत्यर्थः । द्वितीय इति । ऐश्वर्यलक्षणात् । अन्यस्येति । यत्र वाक्यार्थीभूतो रसः । एवं ध्वन्य- भाववादिमतं विषयद्वयस्य दृष्टान्तीकृत्य रसरसवदलंकारयोरनेन विषयविभागः कृतः । अगभूतस्य रसादेश्वालंकारत्वं युक्तम् । तथा च यावतोपमादीनां सर्वालं. काराणां प्रकृतवस्तूपरजकत्वमलंकारत्वे निबन्धनम् । अङ्गभूतेनापि रसेन तत्कि- यत एव । प्रकृतस्य रसादेस्तदुपस्कृतत्वेन भावात् । अतश्चोपमादीनामलंकारत्वे यादृश्येव वार्ता तादृश्येव रसादीनां यद्यपि चोपमादयोऽर्थालंकाराः, तथापि तस्य वाच्यार्थस्य विभावादिरूपतापर्यवसानाद्रसपर्यवसायित्वमेवेति काव्यात्मनो व्यङ्गयस्य १. 'एषामुपनिवन्धे क्रमेण ख.

२३४ ; काव्यमाला। 'किं हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः । खप्नान्तेष्विति वो वदन्प्रियतमव्यासक्तकण्ठग्रहो बुद्धा रोदिति रिक्तवाहुवलयस्तारं रिपुत्रीजनः ।। रसादेरेव तदलंकार्यत्वम् । किं पुनस्तस्य शब्दमुखेनोपस्कारकाः शब्दालंकाराः अर्थमुखेन त्वर्थालंकाराः। तत्तदवयवगतैरपि हि कटकादिभिश्चेतन आत्मैव त. त्तच्चित्तवृत्तिविशेषौचित्यसूचनात्मना तयालंक्रियते। तथा ह्यचेतनं शवशरीरादिक कटकाद्युपेतमपि न भाति, अलंकार्यस्याभावात् । अतश्च देहद्वारेण सर्वत्रात्मै- वालंकार्यः । एवमस्यापि शब्दार्थशरीरत्वात्तन्मुखेनैवालंकार्यत्वम् । तेन रसभावा- दितात्पर्यमाश्रित्य विनिवेशनम् । 'अलंकृतीनां सर्वासामलंकारत्वसाधनम्' इति दृशा रसाद्याश्रयेणैवालंकाराणां विनिवेशनं जीवितम् । अतश्चैहापि प्रकृतस्य वाक्यार्थीभूतत्वेन प्रधानस्य रसादेरुपस्कार्यस्याङ्गभावेन रसादेरलंकारत्वं युक्तम् । यदाहुः-'प्रधानतां यत्र रसादयो गता रसो रसादिध्वनिगोचरो भवेत् । भवन्ति ते यत्र रसादिपोषका रसाद्यलंकारदशा हि सा पृथक् ॥' इति ननु निर्वेदादीनां भावानां गर्भदासवत्कदाचिदपि स्वप्राधान्याभावात्सर्वदा रसाद्यगत्व एव ध्वनि- भेदत्वमिति प्रधानेतरकक्षाद्वयाभावादेतेषां भावस्थित्युदयसंधिशवलताप्रशमात्म- तया कथमलंकारत्वं वाच्यम् । तथात्वे ह्यभिधीयमाने ध्वनिभेदत्वमेषां न स्यात् । असदेतत् । इह हि निर्वेदादीनां त्रयी गतिः । तत्र 'व्यक्तः स तैर्विभावाद्यः स्थायीभावो रसः स्मृतः' इति नीत्या विभावानुभावस्पर्धयैपां रसव्यञ्जकत्वमेका गतिः । तत्र च रसस्यैव प्राधान्यान्निरतिशयप्रीतिकारित्वेन फलवत्त्वात् 'फलव- संधिनावफलं तदङ्गम्' इति नीत्या रसव्यञ्जकत्वमात्रेणैव कृतार्थत्वान्नास्त्येषां रसव्यक्तिव्यतिरेकि किंचित्प्रयोजनान्तरम् । 'नायं कञ्चुलिकाविमोक्षसमयः स्पृष्टो न काञ्चीगुणः प्रक्रान्ता न मया विपर्ययरतारम्भाय वा प्रार्थना। न त्वत्कर्तृक- मर्थयामि निविडं दोःकन्दलीवन्धनं तनिष्कारणमेव वाललवलीवल्लीव किं वेपसे ॥' अत्रालम्बनविभावो लता, वेपनादिरनुभावः, वितर्कश्च व्यभिचारिभावः । एषां चात्र समस्पर्धितया रसव्यञ्जकत्वमात्रमेव प्रयोजनम् । व्यक्तश्च रसः सचेतसां १. 'तथा तत्वे ह्यभिधीयमाने' ख. २. 'अत्रालम्बनविभाव उपावेपनादिरनुभावः'क.

अलंकारसर्वस्वम् । २३५ दत्तफल इति नैषां किंचित्फलान्तरम् । अत एव रसायङ्गभूतस्य व्यभिचारिणः स्थित्याद्यात्मध्वनिप्रकारत्वं भवतीति न वाच्यम् । तथात्वे चाभिधीयमाने निर्वे. दादेः प्राधान्याभावात् ध्वनिव्यपदेश एव न युक्तः । अप्रधानस्य प्रधानत्वाभि- धाने विरोधात् । ऐवं च गुणीभूतव्यङ्ग्यस्यापि ध्वनिव्यपदेशः केन प्रत्युक्तः क्वचिदपि 'मुख्ये रसेऽपि तेऽमित्वं प्राप्नुवन्ति कदाचन' इति नीत्या राजानुगत. विवाहप्रवृत्तमृत्यवद्विभावानुभावव्यजितानां रसगुणीभावेनैषामेव प्राधान्यम् । यथा-'इतवारुप्रेमप्रणयसुकुमारा वरवधूरितः खेच्छालभ्यानुपमफलमूला वन- मही । इतो मौर्वीनादोन्मुखनिखिलसैन्यो रणविधिः क नामायं तादृक्तरलहृदयो रज्यतु जनः ॥' अत्र विभावानुभावाभ्यां व्यजितः तारादीनां रसानामप्ररूढ- त्वेन गुणीभावाद्वाक्यतात्पर्यविषयत्वेन विश्रान्तेश्चिन्ताख्यो व्यभिचारिभावः प्रधानम् । अत एवात्र भावस्थितेलनिभेदत्वम् । एवं चात्र चिन्तायाः शृङ्गारा- दीन्प्रति तदङ्गत्वाभावान गुणीभावः । अत एव चात्र तत्परिपोषकत्वात्यागात्त- दीयकार्याकरणासं प्रति गुणीभावात्स्वेनैव च निरतिशयप्रीतिकारित्वेन सचेतसां दत्तफलत्वानिजप्रयोजनासंपादकत्वविरहादाजानुगतविवाहप्रवृत्तभृत्यवन्मुख्यानपि रसाननादृत्य चिन्ताया एव वाक्यतात्पर्यविषयत्वेन प्राधान्यादङ्गित्वम्। अत एव च दृष्टान्तदा न्तिकयो कश्चिद्विषम उपन्यासः । वक्तुश्चात्र सरलहृदयत्वेनेकत्र तात्पर्येच्छाभावान्नैकतरपक्षाश्रयणमिति न कश्चिदपि रसस्य प्राधान्यम् । नाप्येषां परस्परविरोधात्संधिरिति व्यभिचारिभावस्यैव प्राधान्यम् । एवं च निर्वेदादीनां गर्भदासवत्कदाचिदपि प्राधान्यं [न] भवतीत्यपालोचिताभिधानम् । गर्भदास- स्यापि कदाचिदन्ततो गर्भदासी प्रत्यस्ति प्राधान्यम् । प्रधानाप्रधानभावस्यापे. क्षिकत्वात् । 'क्वचिदप्यपरस्याङ्गम्' इति नीत्यैषामङ्गत्वे प्राधान्याभावादलंकार- त्वम् । यथा—'कचकुचचिवुकाने पाणिषु व्यापृतेषु प्रथमजलधिपुत्रीसंगमेऽन- गधानि । निविडनिविडनीवीप्रन्थिविस्रंसनेच्छोश्चतुरधिककराशा शाणिो वः पुनातु ॥' अत्र शृङ्गाररसस्याप्ररूढत्वाद्गुणीभावेन वाक्यतात्पर्यविषयत्वेनोपनि- वैन्धमप्यौत्सुक्यं शानिविषयां रति प्रत्यङ्गमिति प्रेयोऽलंकारः । ननु च यद्यपि परस्याङ्गत्वे सत्येषामलंकारत्वं तद्रसागभूतत्वादेषां सर्वत्रैव तत्त्वं स्यादिति चेत् , नैतत्। यस्मानिमित्तान्तरेभ्यो लब्धसत्ताकस्याङ्गिभूतस्य वस्तुन उपस्काराधायकत- १. 'प्रधानस्य प्रधानत्वामिधानविरोधात्' ख. २. 'एवं गुणीभूत' क. ३. 'तत्परिपोषकत्वत्यागात्' ख. ४. 'निबद्धमप्यौत्सुक्यम्' ख.

काव्यमाला। एतन्मतद्वयेऽप्युदाहरणम् । वाक्यार्थीभूतोऽत्र करुणो रसः । अब- भूतस्तु विप्रलम्भशृङ्गारः । एवं रसान्तरेष्वप्युदाहार्यम् । प्रेयोऽलंका- रादौ विशेषमनपेक्ष्योदाहियते । प्रेयोलंकारो यथा- याङ्गतामुपगच्छतामेषामलंकारत्वमुपकार्योपस्कारकत्वनिवन्धनतयालंकार्यालंकरण- भावस्योक्तत्वात्। रसादेः पुनः स्वरूपनिवृत्तये निर्वेदादयोऽजतामुपयान्तीति तत्रैषा रसोपसर्जनीभूतत्वात्तव्यञ्जनमात्रमेव फलम् फलम् । अत एव तत्रैव पूर्वोक्तनीत्या न ध्वनित्वम् ,नाप्यलंकारत्वम् । रसव्यक्तिव्यतिरेकिप्रयोजनान्तरनिष्पादनत्वायोगात् । एवं निर्वेदादीनां रसव्यक्ती सहकारित्वम् , अङ्गित्वे ध्वनित्वम् , अङ्गत्वे चालंकार- त्वमिति विषयविभागः । तस्मात् 'निर्वेदादीनां सर्वदैवाङ्गभावात्प्रेयोऽलंकारस्तर पेक्षो न वाच्यः। तस्मादेतेषां व्यङ्ग्यतायां ध्वनित्वं न प्राधान्यं वापि यस्माद्भ जन्ते ॥ एतेन भावप्रशमादयोऽपि व्यङ्ग्याः सदैव ध्वनितां प्रयान्ति । ध्वनित्व. मिष्टं यदि तर्हि तेषु न लक्षणीयस्तु समाहितादिः ॥' इत्यादि यदन्यैरुक्तं तदुपे. क्ष्यम् ॥ एतन्मतद्वय इति । ध्वन्यभाववादिनां ध्वनिभाववादिनां च । तत्र ध्वन्यभाववादिमते करुणापेक्षया रसवदलंकारः। शृङ्गारापेक्षया तूदात्तम् । मता. न्तरेण तु करुणाभिप्रायेण रसध्वनिः । शृङ्गारापेक्षया त्वयमलंकारः । अत्र यद्यपि राजविषयाया रतेरङ्गित्वात्करुणोऽपि तदङ्गमेव, तथापि तस्य शारापे. क्षयाङ्गित्वमाश्रित्यैतदुक्तम् । करुणश्च शृङ्गारोपस्कृतः प्रतीयत इति तस्यालंकार- त्वम् । एवमिति । यथा मतद्वयमपि संगच्छत इत्यर्थः । तत्तु यथा-'का त्वं रक्तपटावगुण्ठितमुखी मुग्धे तवाहं सखी किं शून्यौकसि केवला निवससि त्वामागतान्वेषितुम् । एतद्वमुदञ्चयेति कथयन्त्यालोक्य कूचं ततः पत्युः स्मेर- मुखाम्बुजस्य तरुणी जाता विलक्षस्मिता ॥' अत्र वाक्यार्थीभूतः शृहारः, आग- भूतस्तु हासः । एवमिति सामान्येनाप्युदाहरणव्याप्तिपरं व्याख्येयम् । यथा- 'पार्वत्या रचितां कपालिवृषभारूढं विलासाङ्गदग्रन्थिक्लान्तमहाहिलोचनलसज्ज्वालं पिनाकाङ्कितम् । कन्दर्पार्पितशासनां कविवलत्कंकालमर्धेन्दुमद्स्माकं च पुनातु वो नवरसा-पुष्णमुरारेर्धनुः ॥' अत्र भगवद्विषयाया रतेनैव रसा अङ्गम् । विरोधरिति । अङ्गाङ्गित्वेन । तेन धन्यभाववादिमतेनाङ्गाङ्गित्वमेवैषामाश्रित्यो- १. 'प्रोद्भूत' क. २. 'इत्युक्तः' क.

अलंकारसर्वस्वम् ।
२३७
।
'गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा
सान्द्रस्नेहरसातिरेकविगलच्छीमन्नितम्बाम्बरा ।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥'
अत्र नायिकायां हर्षाख्यो व्यभिचारिभावः । यथा वा-
'त्वद्वकामृतपानदुर्ललितया दृष्टया क विश्रम्यतां
त्वद्वाक्यश्रवणाभियोगपरयोः श्राव्यं कुतः कर्णयोः ।
एमिस्तत्परिरम्भनिर्भरभरैरङ्गैः कथं स्थीयतां
कष्टं तद्विरहेण संप्रति वयं कृच्छामवस्थां गताः ॥'
अत्र चिन्ताख्यो व्यभिचारिभावः । एष एव च भावालंकारः ।
भावस्य चात्र स्थितिरूपतया वर्णनम् । शान्त्युदयावस्थे तु वक्ष्येते ।
ऊर्जस्वी यथा-
'दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुति
चेतः कालकलामपि प्रकुरुते नावस्थिति तां विना ।
एतैराकुलितस्य विक्षततरैरङ्गैरनङ्गातुरैः
संपद्येत कदा तदाप्तिसुखमित्येतन्न वेद्मि स्फुटम् ॥'
अत्र रावणस्याभिलापको विप्रलम्भशृङ्गार औत्सुक्यं च व्यभि-
चारिभावोऽनौचित्येन प्रवृत्तौ । समाहितं यथा-
'अक्ष्णोः स्फुटासुकलुषोऽरुणिमा निलीनः
शान्तं च सार्धमधरस्फुरणं झुकुट्या ।
दाहियत इति तात्पर्यम् । भावालंकार इति । निर्वेदादीनां भावानां स्थित्या-
मकतयोपनिबध्यमानत्वात् । शान्त्युदयावस्थेति भावस्येत्यत्रापि संबन्धनीयम् ।
अनेन चास्य समाहितादिभ्यो वैलक्षण्यं योतितम् । तेन यत्र भावस्य स्थितिस्तत्रा-

२३८ । काव्यमाला भावान्तरस्य तव चण्डि गतोऽपि रोषो नोगाढवासनतया प्रसरं ददाति ॥' अत्र कोपस्य प्रशमः । एवमन्यत्राप्युदाहार्यम् । भावोदयो भावसंधिर्भावशवलता च पृथगलंकारः। यमलंकारः, अन्यथा त्वन्येऽलंकारा इति । एवमिति । यथैतदुदाहृतमित्यर्थः । अन्यत्रेति । ध्वनिवादिमते एषामङ्गत्व इत्यर्थः । तत्र प्रेयोऽलंकारः 'कचकुच- इत्यादिना व्यभिचारिभावापेक्षयोदाहृतः । देवताविषयरत्यात्मभावोपनिवन्धे पुन- यथा-'कण्ठेऽर्पयत्युरगपाशमसूयया मे यामिन्यधीशशिख यत्समये कृतान्तः । नूनं तदा मुहुरुपैमि फणीन्द्रहार त्वत्तुल्यतामिति भजे मरणेऽपि हर्षम् ॥' अत्र भवद्विषयाया रतेर्मरणविषया रतिरङ्गमिति प्रेयोऽलंकारः। ऊर्जखी यथा-वन्दी- कृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणमन्ति लान्ति परितक्षु- म्बन्ति ते सैनिकाः। अस्माकं सुकृतैर्दशां निपतितोऽस्यौचित्यवारांनिधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ॥' अत्र राजविषयस्य भावस्य प्रथमद्वितीयार्धद्योत्यौ रसाभासभावाभासावङ्गम् । व्यभिचारिभावापेक्षया पुनरयं यथा-'द्विषां तवारण्यनिवासमीयुषां नितम्विनीनां निकुरम्बकं नृप । मुहुर्मुहु- स्यश्रवलद्विलोचनं न केन पल्लीपतिना निरीक्षितः ॥' अत्र शबराणां परदारविष. यमौत्सुक्यमनौचित्येन प्रवृत्तमिति भावाभासो राजविषयां रतिं प्रत्यङ्गम् । समाहितं यथा-'अविरलकरवालकम्पनैर्भुकुटीतर्जनगर्जनैर्मुहुः । ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥' अत्र राजविषयाया रतेरभूतस्य शत्रुविषयस्य मदस्य प्रशमः। देवतादिविषयरत्यात्मभावापेक्षया पुनरयं यथा-'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि विभ्रती किमपि न क्लान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुवस्तावद्विध्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥' अत्र राजविषयाया रतेराभूतस्य भूविष- यस्य रत्याख्यभावस्य प्रशाम्यत्वम् । अत एव च समाहितं यदन्यैर्न लक्षितं तद- त्यन्तमेवायुक्तम् । तन्मतेऽपि प्रेयोऽलंकारवद्रत्याभावापेक्षयास्य लक्षयितुं युक्त- त्वात् । व्यभिचारिभावापेक्षया हि भवद्भिः प्रेयःप्रभृतीनामलंकारत्वं निरस्तम् । यदुक्तम्-तस्माद्यभिचारापेक्षया प्रेय ऊर्जविसमाहितभावोदयसंधिशवलत्वानि अलंकारसर्वस्वम् । २३९ मावस्योक्तरूपस्योदय उद्गमावस्था, संधिः द्वयोर्विरुद्धयोः स्पर्धित्वे- नोपनिबन्धः, शबलता च बहूनां पूर्वपूर्वोपमर्देनोपनिबन्धः । एते च पृथम्सवदादिभ्यो भिन्नालंकाराः । एतत्प्रतिपादनं चोद्भटादिभिरेषां पृथगलंकारत्वेननिर्दिष्टत्वात् । अथ च संकरसंसृष्टिवैलक्षण्येनैते सर्वालंकाराः पृथक्केवलत्वेनालंकारा इति सर्वालंकारशेषत्वेनोक्तम् । संसृष्टिसंकरयोर्हि संपृक्ततयालंकाराणां स्थितिस्तद्वैलक्षण्यप्रतिपादनमेतत् । तत्र भावोदयो यथा- न पृथगलंकाराणि वाच्यानि' इति । तस्माद्भवन्मतेऽपि समाहितादीनां लक्षणी- यत्वं युक्तम् । भावेत्यादि । एतदेव व्याचष्टे-भावस्येत्यादि । उक्तरूप- स्येति । व्यभिचारिदेवादिरतित्वेन द्विप्रकारस्येत्यर्थः । उद्गमावस्थेति। उद्गमा- वस्था न पुनरुदितेत्यर्थः । उदितायां हि भावस्य स्थित्यात्मकत्वात्प्रयोऽलंकार एव स्यात् । एते इति । भावोदयभावसंधिभावशवलतास्त्रयोऽलंकाराः । ननु च लक्षणस्य भिन्नत्वादेवैषां पृथक्त्वावगम इति किं तद्रणेनेत्याशङ्याह-एत. दित्यादि । अथ चेति पक्षान्तरे । सर्वालंकारा इति । पुनरुक्त- वदाभासादिभावशवलान्ताः । केवलत्वेनेति । तस्यैवैकस्य वाक्यार्थत्वेन प्ररोहात् । तस्मादगभूतैरलंकारान्तरैरुपस्क्रियमाणो वा य एव यत्र वाक्या- तात्पर्यविषयत्वेन प्रतीयते स एव तत्र साक्षादलंकार इति भावः । अत एवात्र संसृष्टसंकरव्यपदेशः । यतस्तयोरलंकाराणां मिश्रत्वेनावस्थानं लक्षणम् । तदेवाह-संसृष्टीत्यादि । यत्तु पूर्वत्र कुत्रचिदुदाहरणेषु संकराद्यलंकारत्व- मस्ति, तत्तत्र संभवमात्रेण निदर्शनीकृतम् । न तु साक्षादलंकारत्वम् । तत्तत्र तथाविधस्योदाहरणस्य स्वयमेव लक्ष्यादभ्यूहः कार्यः । एतदुदाहरणत्रयं ध्वन्य- भाववादिमतेन ग्रन्थकृतोपात्तम् । ध्वनिवादिमतेन पुनरुदाहियते । तत्र भावोदयो यथा-'साकं कुरङ्गकदृशा मधुपानलीलां कर्तुं सुहृद्भिरपि वैरिणि च प्रवृत्ते । अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम् ॥' अत्र राजविषयाया रतेरजभूतस्य भासस्योदयः । भावसंधिर्यथा-'असोढा १. 'शबलत्वेनेति' क. २. 'शाम्भमात्रेण' क.

काव्यमाला। F एकस्मिन्छयने विपक्षरमणीनामाहे मुग्धयामा ; सद्यः कोपपरिग्रहम्लपितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणा- न्माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥' अत्रौत्सुक्यस्योदयः । भावसंधिर्यथा- 'वामेन नारीनयनास्रुधारां कृपाणधारामथ दक्षिणेन । उत्पुंसयन्नेकतरः करेण कर्तव्यमूढः सुमटो बभूव ॥' अत्र स्नेहाख्यरतिभावरणौत्सुक्ययोः संघिः। भावशवलता यथा- 'काकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः खमेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपेहि कः खलु युवा धन्योऽधरं पास्यति ॥ अत्र वितर्कोत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां भावानां शब- लता । तदेते चित्तवृत्तिगतत्वेनालंकारा दर्शिताः । तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्मेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो देव्याः कपटवटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मर- हरः ॥' अत्र भगवद्विषयाया रतेरङ्गभूतयोरावेगधैर्ययोः संधिः । भावशवलता यथा-'पश्येत्कश्चिञ्चल चपल रे का त्वराहं कुमारी हस्तालम्ब वितर हहहा व्यु- कमः क्वासि यासि । इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तः कन्या कंचित्फलकि- सलयान्यादधानाभिधत्ते॥' अत्र राजविषयाया रतेः शङ्कासूयाधुतिस्मृत्यौत्सुक्यदै- न्यौत्सुक्यानां पूर्वपूर्वापमर्देनोपनिबद्धानामङ्गत्वम् । देवताविषयरत्यात्मभावा- पेक्षया पुनरुदाहरणत्रयं यथा-'त्रिशङ्कोः परिपूर्णानां पुण्यानामस्तलक्षणम् । यदक स्मादुदेत्याशु विश्वामित्रं प्रति स्पृहा ॥' अत्र विश्वामित्रविषयाया रतेरुदयः। १. 'दिश्यात्' ख.

अलंकारसर्वस्वम् । २४१ अधुनैषां सर्वेषामलंकाराणां संश्लेषसमुत्थापितमलंकारद्वयमुच्यते । तत्र संश्लेषः संयोगन्यायेन समवायन्यायेन च द्विविधः । संयोगन्यायो पत्र भेदस्योत्कटतया स्थितिः । समवायन्यायो यत्र तस्यैवानुत्कटत्वेना. वस्थानम् । तत्रोत्कटत्वेन स्थितौ तिलतण्डुलन्यायः। इतरत्र तु क्षीरनी- रसादृश्यम् । क्रमेणैतदुच्यते- एषां तिलतण्डुलन्यायेन मिश्रत्वं संसृष्टिः। उक्तालंकाराणां यथासंभवं यदि क्वचिद्वचनं स्यात् , तदा ते किं पृथक्त्वेन पर्यवसिताः, उत तदलंकारान्तरमेव किंचिदिति विचार्यते- तत्र यथा बाह्यालंकाराणां सौवर्णमणिमयप्रभृतीनां पृथक्चारुत्वहेतु- त्वेऽपि संघटनाकृतं चारुत्वान्तरं जायते, तद्वत्प्रकृतालंकाराणामपि संयो. जने चारुत्वान्तरमुपलभ्यते । तेनालंकारान्तरप्रादुर्भावो न पृथक्पर्य- 'परिचुम्बनीयचलकाकपक्षकं तनयं कथं वितरतु क्षितेः पतिः । अभिवन्दनीय. तमपादपङ्कजं सहसा प्रतीपयतु वा कथं मुनिम् ॥' अत्र सुतमुनिविषययो रत्या- ख्यभावयोः संधिः । 'त्याज्यो नैष शिशुः सुतो रघुकुले याति प्रतीपो गुरुस्ताम्य. न्त्यस्य सहोदरा विजयते क्षत्रस्य शस्त्रग्रहः । यात्यस्मिन्नवसादमेति हृदयं स्वार्थः परार्थेन मे व्यामुत्यन्त्यमुना विना प्रकृतयो मान्यो मुनिः प्रीयताम् ॥' अत्र पुत्रा- दिविषयाणां रतीनां पूर्वपूर्वोपमर्देनोपनिवद्धानां शवलत्वम् । अत्र च रते राम- चरितं प्रत्यात्वमित्यलंकारत्वम् ॥ अलंकारान्तरलक्षणं कर्तुं चोपक्रमते-अधु- नेत्यादि । अधुनेति प्राप्तावसरम् । एषामिति । पूर्वोद्दिष्टानाम् । तत्रेति । अलंकारद्वये । तस्यैवेति । मेदस्य । स्फुटत्वमस्फुटत्वं च सुस्पष्टमेव । अत एव तिलतण्डुलन्यायः, क्षीरनीरन्यायश्चेत्युक्तम् । एषामित्यादि । एतदेवोप. पादयितुमुपक्रमते-उक्तेत्यादिना । तदेतत्पक्षद्वयमध्यादृष्टान्तोपदर्शनद्वारेणा- लंकारान्तरत्वमेव सिद्धान्तयितुमाह-तत्रेत्यादिना । संघटनाकृतमिति । एकत्रैव द्वयोर्वहूनां वालंकाराणां युगपद्विनिवेशनं संघटना, तया कृतम् । तदुत्था- पितमित्यर्थः । चारुत्वान्तरमिति । एकैकालंकारनिवन्धनात्प्रकृतत्वाच्चारुत्वा- १६ अ० स० २४२ काव्यमाला वसानमिति निर्णयः । अलंकारांन्तरत्वेऽपि च संयोगन्यायेन दन्यत्सातिशयमिति यावत् । उपलभ्यते । स्वसंवित्सिद्धतया साक्षाक्रियत इत्यर्थः । तेनेति । चारुत्वान्तरोपलम्भेन । नहि विषयभूतालंकारातिशयमन्तरे- णोपलम्भातिशयो भवितुमर्हतीति भावः । ननु शब्दार्थालंकाराणां संघटनामात्रे- णैव कथमलंकारान्तरत्वमुक्तम् । भिन्नकक्ष्यत्वेनैषामेकवुद्धयुपारोहासंभवाचारुत्वा- न्तराभावात् । तेषां हि संघटितत्वेऽपि 'अलंकारेषु चारुत्वं तद्विदि विभिद्यते । यथैव साधु माधुर्यमिक्षुक्षीरगुणादिषु ॥' इति नीत्या भेदत्वेनैव चारुत्वावगमाद्भि- नत्वमेव न्याय्यम् । नापि लोकिकालंकारवदेतेषां संघटनाकृतं चारुत्वान्तरमुपल- भ्यते । नहि मौक्तिकपद्मरागेन्द्रनीलादिवत्सचेतसः कस्यचिदनुप्रासोपमादीनां परस्परं परभागो भासते । शब्दार्थयोर्भिन्नेन्द्रियग्राह्यत्वेन भिन्नजातीयत्वादस- देतत् । तथाहि खलु यथा पृथगवस्थितेषु स्थालीजलज्वलनरततण्डुलादिषु न स- मताप्रत्ययः । समुदितेषु तु भवति समग्रसंनिधानाख्यस्य धर्मस्य प्रत्यक्षमुपाल- म्भात् , तथैव भिन्नकक्ष्याणामलंकाराणां संघटनांवलेन पूर्वापरकीकारेणेकवुझ्यधि- रोहादुपलभ्यत एव कश्चन संसर्गो नाम यस्य संसृष्टिसंकरव्यपदेशार्हत्वम् । अपि च रूपभेदेऽप्यविच्छेदादेकत्वम् । 'चित्रपत्रक' इत्यादिनीत्या चित्रास्तरणादौ यथा स्वरूपस्य रूपान्तराट्यावृत्तत्वेऽपि विच्छेदानवभासोदकघटश्लिष्टाकारप्रत्ययः । चित्ररूपमप्येकमेव वस्तुरूपं भासते तथैव । भिन्नकक्ष्याणामध्यलंकाराणां संघट. मानत्वेन प्रतीतावेकतावसाय इति युक्तमेव संसृष्टाद्यलंकारान्तरत्वम् । इत्यादीनां च माधुर्यस्य भेदेऽपि संमीलनायां पानकादिरसनिष्पत्तावुपलभ्यत एव कश्चिद्वैचि- च्यातिशयस्तद्वदेषामपीति युक्तमलंकारान्तरत्वम् । न चास्य चारुतातिशयस्य शपथप्रत्ययत्वं वाच्यम् । एकत्रैवैकस्य द्वयोर्वहूनां वालंकाराणामवगमे यथायथम- तिशयोत्कर्षस्य खसंवित्साक्षिकत्वेन वेद्यमानत्वात् । संघटमानत्वेन च प्रतिपत्ति- रलंकाराणामेकस्मिन्वाक्ये तत्तच्छन्दसि वा भवति । न तु कुलकादौ, विदूरतया तस्यास्तावत्याः प्ररोहासंभवात् । यदाहुः–'वाक्यार्थभेदेऽप्येकश्लोकान्तर्गतत्वेना- रंकारस्यालंकारान्तरसाहिलं प्रतिभायेव । अविदूरत्वाद्विभिन्नश्लोकगतत्वेन वा. क्यभेदे व्यवहितत्वान्न भवति संसृष्टिः ।' इति । कुलकादावप्यलंकाराणां वाक्यै- १. 'संवट्टमानत्वेन च' ख. २. 'संतृष्टाद्यलंकारत्वम्' क. c.

अलंकारसर्वस्वम् । R४३ । फवाक्यतया यद्यविच्छेदेन प्रतिपत्तिप्ररोहः स्यात्तदात्रापि संस्ट्याद्यभ्युगमे न क- श्चिद्दोषः । ननु समग्रताप्रत्यये चित्रज्ञाने वा स्थाल्यादीनां चैकेन्द्रियग्राह्यत्वेन समानजातीयानामेकबुद्ध्यधिरूढादुपपद्यत एव सामगादेरेकस्य वस्तुनोऽवगमः। इह तु भिन्नेन्द्रियग्राह्यत्वेन भिन्नजातीययोः शब्दार्थयोरेकबुद्ध्यधिरूढाभावात्तदलं- काराणां युगपत्प्रतीतिरेव नास्तीति कथमेकस्य संसर्गादेर्वस्तुनोऽवभासो यस्यापि संसृष्ट्याद्यलंकारान्तरव्यपदेशाईत्वं स्यात् । अत्रोच्यते । श्रोत्रकरणत्वाच्छब्दावग- मस्यैकेन्द्रियग्राह्यत्वात्तदलंकारयोः सजातीयत्वे तावद विवादः । अत एव च तयो- रेकवुद्ध्यधिरोहाद्युगपत्प्रतीतेः संसर्गावगमः । सति च संचये चारुतातिशयोपस- र्जन इत्यत्र संसृष्टाद्यलंकारत्वम् । एवमर्थावगमस्यापि शब्दकरणत्वात्समानजाती- ययोः संसृष्टत्वेन प्रतीयमानयोरलंकारयोरपि ज्ञेयम् । शब्दार्थयोः पुनरुपायभेदे- ऽपि तदलंकाराणां सुगन्धिवन्धूकवोधन्यायेन मानसवोधन्यायेन मानसज्ञानविष- यत्वाद्युगपदवभासः सिद्ध्यतीति लौकिकालंकारवदेव शब्दार्थोभयालंकाराणां संसर्गे लब्धपरभागतयावभासत एव चारुत्वान्तरमिति न्यायप्राप्तमेव संसृष्ट्याद्यलंकार- त्वम् । यत्पुनरन्यैः शब्दार्थयोभिन्न जातीयत्वे भिन्नेन्द्रियग्राह्यत्वं निमित्तमुक्तं तदु- पेक्ष्यमेव । शब्दार्थशरीरे काव्ये शब्दप्रतिपाद्यस्यैवार्थस्या जत्वात्तच्चक्षुरिन्द्रियग्रा- ह्यस्य वाह्यस्यानोपयिकत्वात् । यद्येवं पूर्वलक्षितानामनुप्रासोपमादीनामभावः स्यात् , असंकीर्णानामलंकाराणामसंभवात्सर्वत्र संसृष्टिसंकरयोरेव भावादेषां विषयापहारात् । नैतत् । असंकीर्णानामलंकाराणां सहस्रशो दर्शनात् । तथाहि- 'यशोवर्माणमुल इय हिमाद्रिमिव जाह्नवी । सुखेन प्राविशत्तस्य वाहिनी पूर्वसाग- रम् ॥ उत्तराः कुरवोऽविक्षुस्तद्भयाजन्मपादपान् । उरगान्तकसंत्रासाद्विलानीव महोरगाः ॥ जयार्जितधनः सोऽथ प्रविवेश खमण्डलम् । भिन्नेभमौक्तिकापूर्ण- पाणिः सिंह इयाचलम् ॥ राजतान्क्वापि सौवर्णान्क्वापि देवान्विनिर्ममे । पार्श्वेषु मुख्यदेवानां पार्थिवो धनदोपमः ॥ तुः खारश्च कुणश्चक्रे स्वनामाविहारकृत् । भूपचित्तोपमं स्तूपं जिनार्हसमयास्तथा ॥ ईशानदेव्या तत्पल्या साताम्बु प्रतिपा- दितम् । सुधारसमिव स्वच्छमारोग्यादायि रोगिणाम् ॥ संजग्राह स देशेभ्यस्ता- स्तानन्तरविजनान् । विकचान्सुमनःस्तोमान्पादपेभ्य इवानिलः ॥ अभेद्यसारे मयि तु व्यक्तमेवं विधीयते । प्रयासः कुण्ठतां यातो लोहे वज्रमणाविव ॥ निदेशे- नैव संपश्य पयः सूतेऽद्य मेदिनी । रसितेनाम्बुवाहस्य रत्नं वैडूर्यभूरिव ॥ १. 'अविक्षन्' इति राजतरङ्गिण्याम्.

२४४ काव्यमाला। स्फुटावगमो भेदः, समवायन्यायेन वास्फुटत्वावगम इति द्वैषम् । पूर्वत्र संसृष्टिः, उत्तरत्र संकरः । अत एव तिलतण्डुलन्यायः, क्षीर- नीरन्यायश्च तयोर्यथार्थतामवगमयतः । तत्र तिलतण्डुलन्यायेन भवन्ती संसृष्टिस्त्रिधा । शब्दालंकारगतत्वेन, अर्थालंकारगतत्वेन, उभयालंका- रगतत्वेन च । तत्र शब्दालंकारसंसृष्टियथा- 'वदनसौरभलोभपरिभ्रमद्भमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखलाकलकलोऽलकलोलशान्यया ।।' इत्युक्त्वा सोऽम्वु निष्कष्टुं कुन्तेनों:मदारयत् । उज्जिहीर्षुर्वितस्ताम्भः शूलेनेव त्रिलोचनः ॥ श्रुते प्रणष्टे नगरे निःशोकोऽभून्महीपतिः । स्वप्नान्तरेरिते पुत्रे प्र. बुद्धोऽग्र इवेक्ष्यते ॥ अवस्थैः सर्वदा रक्ष्यः खमेदः प्रभविष्णुभिः । चार्वाकाणा- मिवैषां हि भयं न परलोकतः ॥' इत्यादि राजतरङ्गिण्यां ललितादित्यवर्णने उप- मायाः शुद्धमुदाहरणजातम् । एवमत्रैवान्यराजवर्णने प्रबन्धान्तरेषु वा शुद्धाया उपमायाः कियान्विषय इति को नाम दर्शयितुमलम् । उपमैव चानेकालंकारवी. जभूतेति तन्निदर्शनमेव कृतम् । एवमन्यालंकाराणामपि सहस्रशश्चात्रोदाहरणत्वं संवददपि ग्रन्थविस्तरभयान्न दर्शितम् । तस्मादेषां विषयत्वं प्रविरलविषयत्वं च न वाच्यम् । प्रविरलविषयत्वेऽप्युपमादीनां न संसृष्टिसंकरयोरेवं लक्षणीयतया प्राप्तिस्तावन्मात्रविषयस्वीकारायाप्येषां पृथग्लक्षयितुमुचितत्वात् । एवं च न सं. सृष्टिः । पूर्वहाराच्चारुत्वाभावाच्चत्याद्युक्तमयुक्तम् । अत एव च तस्मात्समस्तविषये प्रतिबन्धकारे संसृष्टिसकथने चलिते विदुरम् । प्राधान्यतः खविषयं सुविशाल- माप्य सर्वोऽप्यलंकृतिगणो रसतां चिराय ॥' इत्याशीर्वचनसूक्तमपि निष्प्रयोज- नम् । नन्वेवं यद्यलंकारान्तरत्वं युक्तं तदेक एव संसृष्टिः संकरो वास्तु, किं द्वा. भ्यामित्याशझ्याह-[अलंकारान्तरत्वेऽपि चेति ।] श्रीभोजदेवेन पुनर्भे- १. 'वलितया' क. २. 'अविपयत्वं' ख. ३. 'एकलक्षणीयतया' क. ४. 'एपा' क. ५. पुस्तकद्वयेऽप्यत्र च्छन्दोभङ्गो दृश्यते. ६. पुस्तकद्वयेऽपि प्रतीकमतन्न गृहीतम्.

अलंकारसर्वस्वम् । २४५ अत्रानुप्रासयमकयोर्विजातीययोः संसृष्टिः । अत्रैव 'अलकलोल- कलोल' इति, तथा 'कलोलकलोल' इति सजातीययोर्यमकयोः संसृष्टिः । अर्थालंकारसंसृष्टिर्यथा- 'देवि क्षपा गलति चक्षुरमन्दतार- मुन्मीलयाशु नलिनीव सभृङ्गमनम् । एष त्वदाननरुचेव विलुण्ठ्यमानः पश्याम्बरं त्यजति निष्पतिभः शशाङ्कः ॥' अत्र विजातीययोरुपमोत्प्रेक्षयोः संसृष्टिः । 'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ।' दस्य स्फुटास्फुटत्वमाश्रित्य नानालंकारसंकरः संसृष्टिरिति संकीर्णमात्राभिप्रायेण संसृष्ट्याख्य एक एवालंकार उक्तः । विजातीययोरिति । यमकानुप्रासयोर्भि- नलक्षणत्वात् । अत्र च प्रधानस्यानुप्रासस्य परिपोषकत्वेनाङ्गं यमकमिति संकरो. दाहरणं न वाच्यम् । अत्र हि यमकसर्गस्योपक्रान्तत्वात्तत्रैव कवितुः संरम्भाति- शयाद्यमकस्य प्राधान्यमित्यनुप्रासस्य यमकं प्रति वरमगत्वं युक्तं, न पुनर्विपर्ययः । सकलवाक्यव्यापिनोऽप्यनुप्रासस्य प्राधान्येनाविवक्षणात् । नाप्यत्र परस्पर- मङ्गाङ्गिभावो युक्तः । इह हि निमित्तानिमित्तभावेनोपकार्योपकारकभावेन चेति द्विधाङ्गाङ्गिभावः । तत्राद्यो द्विधा । सार्वत्रिकः, प्रादेशिकश्चेति । तत्र सार्वत्रिको यथा विभावनातिशयोक्त्योः। 'आश्लिष्टातिशयोक्तिस्तु सर्वत्रैव विभावना' इति दशा विभावनायाः सर्वत्रैवातिशयोक्त्यपेक्षात् । प्रादेशिको यथा श्लपातिशयोक्त्योः । 'रजनीमुखम्' इत्यादौ क्वचिदिव श्लेषवशेनातिशयोक्तेरुत्थानात् । 'कमलमनम्भसि' इत्यादौ श्लेषमन्तरेण तस्याः संभवात् । एतद्भेदद्वयं च न संकरस्य विषयः। तस्य खहेतुवलालब्धसत्ताकानामलंकाराणां संसर्गे वक्ष्यमाणत्वात् । द्वितीयो यथा- 'अगुलीभिरिव' इत्यादौ । अत्र हि खहेतुवलेन लब्धसत्ताकानामुपमादीनां परस्प. .. १. 'अपेक्षत्वात्' ख. २. 'टेषमन्तरेणापि' ख.

२४६ काव्यमाला। रमुपकार्योपकारकत्वमात्रं येनाङ्गाङ्गिभावः। न ह्यत्रोपमयोः परस्परं खरूपनिष्प- तावुपेक्षा काचित् । एकतराभावेऽप्येकस्याः खरूपोत्थानात् । एवमुपमाद्वयपरि- हारेण केवलाप्युत्प्रेक्षा स्यात् । स्थितानां पुनरेषामियं चिन्ता यच्चुम्बने केशग्रहणा; देरुचितत्वादुपमाद्युपकारकमुत्प्रेक्षा चोपकार्या येनानाङ्गिभावः । एवं च तेन प्रधा. नतायामुपमादीनां निजं निजं नाम । अङ्गत्वे पुनरेषां संकरादीनामङ्गाङ्गिभावेऽपी. त्याद्यन्यैरयुक्तमेवोक्तम् । इह पुनर्यमकानुप्रासयोर्निमित्तनिमित्तिभावः । सर्वत्रवा- नयोः स्वरूपनिष्पत्तावन्योन्यानपेक्षत्वात् । तत्त्वेऽपि समनन्तरोक्तयुक्त्या संकरा. योगात् । नच खहेतुभ्यो लब्धसत्ताकयोरप्यनयोः परस्परमङ्गाङ्गिभावः । शब्दा. लंकारयोः शब्दवदुपकार्योपकारकत्वभावात् । अथ वर्णसावयेन वैचित्र्यातिश- याधायकत्वेनानयोरुपकार्योपकारकभाव इति चेत् । न । इयमेव हि संसृष्टियो- बहूनां वालंकाराणां परस्परनिरपेक्षाणामपि संसर्गे सति चारुतातिशयप्रति- पत्तिः । एवमर्थालंकारसंसृष्टावपि संकरोदाहरणत्वं न वाच्यम् । न हि तत्रो. पमोत्प्रेक्षयोः परस्परमुपकार्योपकारकभावाद्यात्माङ्गाङ्गिभावः । यद्येवं दशदाडिमा- दिवाक्यवचनयोरसंवद्धत्वं स्यादिति चेत् , न । चक्षुरुन्मीलनात्मके एकस्मिन्नेव प्रधानेऽर्थे द्वयोरपि समृद्धत्वात् । न च पाकलक्षणमेकमेवार्थमुररीकृत्य व्यवस्थि. तानां स्थाल्यादीनामप्यन्यः कश्चित्संवन्धः । अथोपमालिङ्गितस्य चक्षुरुन्मीलनस्यो. प्रेक्षाश्लिष्टः शशाङ्काम्वरत्यागः पारम्पर्येण हेतुत्वेनोपनिवद्ध इति खाश्रयभूतार्थ- वदनयोरप्यङ्गाङ्गिभावोऽस्तीति चेत् । नैतत् । उपमाद्यालिङ्गनाभावेऽपि चक्षुरुन्मी- लनादेर्हेतुहेतुमद्भावानतिपातादवस्थितत्वे वा तयोरुक्तयुक्त्या परस्परं संवन्धाभा- वात् । नाप्यत्रोपमाया वाक्यार्थत्वम् । तस्या अप्युत्प्रेक्षादिवच्चक्षुरुन्मीलनाङ्गत्वेना- वस्थानात् । अत्र हि चक्षुरुन्मीलनस्यैव वाक्यार्थत्वम् । शशाङ्काम्बरल्यागोपपादि- तस्य क्षपागलनस्य तं प्रत्येव हेतुत्वेनोपनिबन्धात् । एवं परं प्रत्युपसर्जनीभूतयो. रवान्तरसंबन्धाभावेऽप्युपमोत्प्रेक्षयोः संसर्गे सति चारुत्वातिशयोपसर्जन इति य. थोक्तमेव संसृष्ट्युदाहरणत्वं युक्तम् । एवम् 'अन्योन्यसंबन्धविवर्जितानामलंकृतीनां विनिवेशनं चेत् । अनन्वितत्वाद्दशदाडिमादिवाक्यादिवदूषणमेव तर्हि ॥ अथान्व- योऽस्त्येव परस्परं तद्गुणप्रधानत्वमवश्यमेप्यम् । तदा न संसृष्टिकथा गुणस्य परा- गतायां खलु संकरः स्यात् ॥ एकत्र चेदङ्गिनि संगतं स्याद्वयं तदन्योन्यसमील- नेन । न संकरो नापि न वा गुणत्वे कार्यान्तरोत्पादनशक्तियोगात् ॥' इत्याद्युपे. क्षणीयमेव । न चात्रायमालंकार इत्यार्थोऽलंकारसमुच्चय इति वाच्यम् । धर्म- अलंकारसर्वस्वम् । २४७ मे विजयाय मञ्जु- अत्रोपमोत्प्रेक्षयोर्विजातीययोः संसृष्टिः । उभयसंसृष्टिर्यथा- 'आनन्दमन्थरपुरंदरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥' अनोपमानुप्रासयोः संसृष्टिः । पादाम्बुजमित्यत्र ह्युपमाया मञ्जीर- शिञ्जितयोगो व्यवस्थापकं प्रमाणम् । स हि रूपके प्रतिकूलः पारिशे. प्यादुपमा प्रसाधयति । तदेवं संसृष्टिस्त्रिधा निर्णीता । अधुना क्षीरनीरन्यायेन संकर उच्यते- योगपद्यमन्यस्यापि तत्करत्वं च समुच्चय इत्युक्त्या भवन्मतेऽप्यलंकारयोगपद्यस्य तल्लक्षणत्वाभावात् । तथात्वाभ्युपगमे चायं नाम्नि विवादः । एवं हि संसृष्ट्या कि- मपराद्धम् । 'अत्र चोयं करिष्यामि' इत्याशयेन सजातीययोरुपमयोः संसृष्टिरित्य- शुद्धं पठित्वा यदन्यैरुक्तं तदुपेक्ष्यमेव । अत्र हि विजातीययोरुपमोत्प्रेक्षयोः संसृ. ष्टिरिति सर्वत्रैव सुस्पष्टः पाठः । उत्प्रेक्षयोरिति । प्रथमार्धगतयोः । यद्यपि चानयोद्वितीयार्धगतयाप्युपमया संसर्गे संसृष्टिरेव, तथापि विजातीययोरुपमोत्प्रे. क्षयोरुदाहृतत्वात्सजातीयाभिप्रायेणैवमुक्तम् । नाप्यत्रोत्प्रेक्षाद्वयमुपमाहेतुभूतमिति वाच्यम् । त्रयाणामप्यलंकाराणां वाक्यार्थीभूतं तमोवाहुल्यं प्रत्यङ्गत्वात् । उभ- यसंसृष्टिरिति । अनुप्रासोपमयोः शब्दार्थालंकारत्वात् । व्यवस्थापक मिति । मीरशिञ्जितयोगस्य पादगतत्वेनौचित्यात् । प्रतिकूल इति । अम्बुजस्य मजीरशिञ्जितायोगात् । पारिशेष्यादिति । उपमारूपकाभ्यामन्य- स्याप्राप्तेः । एतदेवोपसंहरति-तदेवमित्यादि । विधेति । यद्यपि सजाती. यविजातीयत्वेनान्यदप्यस्याः संभवति मेदद्वयम् , तथापि तदुद्दिष्टस्यैवान्तर्भव- तीति यथोक्त एवायमुपसंहारः ॥ इदानीं संकरमवतारयति-अधुनेत्यादि । १. 'ते' क..

२४८ काव्यमाला। क्षीरनीरन्यायेन तु संकरः । मिश्रत्व इत्येव । अनुत्कटभेदत्वमुत्कटमेदत्वं च संकरः । तच्च मिश्रत्वमङ्गाङ्गिभावेन संशयेन, एकवाचकानुप्रवेशेन च त्रिधाभव- संकर त्रिभेदमुत्थापयति । क्रमेण यथा- 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुङ्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ।।' अत्राङ्गुलीभिरिवेत्युपमा। सैव सरोजलोचनमित्यस्या उपमायाःप्रसा- धिका । रजनीमुखमिति श्लेषमूलातिशयोक्तिः । प्रारम्भवदनाख्य- योर्मुख्ययोरभेदातिशयात् । अत एव तयोरङ्गाङ्गिभावः । एवं च वाक्योक्तसमासोक्तिः । उपमाश्लेषानुगृहीता चातिशयोक्तिस्त्प्रेक्षया 'चुम्बतीव' इति प्रकाशिताया अनुमाहिका । तद्बलेन तस्याः समु- स्थानात् । सा च समुत्थापिता समुत्थापकानां चमत्कारितानिबन्धन- मित्यस्त्यङ्गाङ्गिभावः । यथा वा- 'त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणी प्रत्यगमद्विवखान् । मन्येऽस्तशैलात्पतितोऽत एव विवेश शुध्यै वडवामिमध्यम् ॥' तदेवाह-क्षीरेत्यादि । तदिति । यथोक्तरूपम् । त्रिभेदमिति । अङ्गाङ्गि- भावादिना । प्रसाधिकेति । आनुगुण्यकारित्वेनाङ्गमित्यर्थः । श्लेषमूलेति । लेपहेतुकेत्यर्थः । अत्र च यथाङ्गाशितया संकरस्तथा पूर्वमेवोक्तम् । अत एवोप- माद्वयापेक्षयैव तयोरङ्गाङ्गिभाव इत्युपसंहारः । श्लेपानुगृहीतेति । श्लेषमन्तरे- णास्या अनुत्थानात् । तद्बलेनेति । तेषामुपमादीनां बलेनोपकारकत्वेनेत्यर्थः । समुत्थानादिति । उपकार्यत्वेन । उदाहरणान्तरोपादानं दावाप्ति(?)प्रदर्शनप- अलंकारसर्वस्वम् । २४९ अत्र प्रथमाधे विरोधोत्पत्तिहेतुः श्लेषः । दर्शनान्तरे तु विरोध- श्लेषौ द्वावलंकारौ । तदनुगृहीता द्वितीयेऽर्धे मन्येपदप्रकाशितोत्प्रेक्षा । अतश्चाङ्गाङ्गिभावः। तथाह्यत्र यत्कारणमुत्प्रेक्षते तत्र विरोषश्लेषानुप्रवेशः । यच्चान कार्यमुत्प्रेक्षानिमित्तं तत्र पतितत्वामिप्रवेशौ वस्तुस्थित्या अन्यथास्थि- तावपि अन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसितो ज्ञेयौ। तेनात्राना- निभावः संकरः । न च विरोधोत्पतिहेतौ श्लेषे श्लेषस्य विरोधेन सहाङ्गाङ्गिभावः संकरः, उत्प्रेक्षाया वा निमित्तगतातिशयोक्त्या सहायं संकरः, ताभ्यां विना तयोरनुत्थानात् । अतश्च निरवकाशत्वाबाधक- त्वम् । न च मन्तव्यं विरोधमन्तरेणापि श्लेषो दृश्यत इति श्लेषस्य सावकाशत्वमिति । यतो न ब्रूमो विरोधमन्तरेणापि श्लेषो न भवतीति । किं तहलंकारान्तरविविक्तो विषयः श्लेषस्य नास्तीति निरवकाशत्वा- - रम् । श्लेष इति । औद्भटानामिति शेषः । द्वावलंकाराविति । हेतुहेतुमद्रू- पावित्यर्थः । श्लेषमन्तरेण विरोधस्यानुत्थानात् । तदनुगृहीतेति । श्लेषमूल- विरोधोपकृतेत्यर्थः । अङ्गाङ्गिभावमेव विभजति–तथा हीत्यादिना । कार्य- मिति । पतितत्वाग्निप्रवेशलक्षणम् । एतच्चोत्प्रेक्षानुगुण्येन प्रसन्नादिहोक्तम् । तेनेति । उत्प्रेक्षाविरोधोपकृतत्वेन । ननु विरोधोत्प्रेक्षयोर्यद्वदङ्गाङ्गिभावेन संकर- स्तद्वदतिशयोक्त्यापि सह तस्या विरोधश्लेषयोश्च किं संकर उत नेत्याशङ्याह- न चेत्यादि । एतच्चोद्भटमतानुसार श्लेषस्य प्राधान्याभिप्रायेणोक्तम् । स्वपक्षाभि- प्रायेण तु विरोधस्याप्येतदेव द्रष्टव्यम् । अत्र च यथा न संकरालंकारस्तथा पूर्व- मेवोपपादितम् । अत्र घुभयथाप्येक एवालंकारः । न चैकस्य संकरो युक्तः । तस्य द्विप्रमृतीनामलंकाराणां मिश्रत्वे संभवात् । अतश्चेति । विरोधगुणीभावेन श्लेष- स्यैव समुत्थानात् । यत्तु ग्रन्थकृता खमताश्रयेणैतदपि नोक्तम् , तत्रायमाशयः । यावता हि यत्रालंकारान्तरखरूपनिष्पादने हेतुत्वं भजते तत्र नायमलंकार इति प्रतिपाद्यम् । तच्चवमपि सिक्ष्यतीति तन्मतेनाप्येतत्साधनं चिरंतनाभ्युपगतत्वा- २५० काव्यमाला। जेषां बाधः। तन्मध्ये च विरोधोऽनुप्रविष्ट इति सोऽपि तेन बाध्यत इति न कश्चिद्दोषः । एवमर्थालंकारसंकर उक्तः। शब्दालंकारसंकरस्तु कैश्चिदुदाहृतो यथा- 'राजति तटीयमभिहतदानवरासातिपातिसारावनदा । गजता च यूथमविरतदानवरा सातिपाति सारा वनदा ॥' अत्र यमकानुलोमप्रतिलोमयोः शब्दालंकारयोः परस्परापेक्षत्वेना- गानिसंकर इति । एतत्तु न सम्यगावर्जकम् । शब्दालंकारयोः शब्द- वदुपकार्योपकारकत्वाभावेनाङ्गाङ्गिभावाभावात् । शब्दालंकारसंसृष्टि. स्त्वत्र श्रेयसी । यथोदाहृतं पूर्वम् । यद्वा अत्र शब्दालंकारद्वयमेकवाचकानुप्रविष्टमिति तृतीयः संकरो ज्ञेयः । एवमेकः प्रकारो दर्शितो द्वितीयः प्रकारस्तु संदेहसंकराख्यः। यत्रान्यतरपरिग्रहे साधकं प्रमाणं नास्ति बाधकं वा प्रमाणं न विद्यते तत्र न्यायप्राप्तः संशय इति संदेहसंकरस्तत्र विज्ञेयः । यथा 'यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा- स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः। सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥' भ्यनुज्ञानात्मप्रयोजनम् । तन्मध्य इति । श्लेषाद्वयतिरिक्तानामन्येषामलंकाराणां मध्य इत्यर्थः । दोष इति । सावकाशत्वापत्तिरूपः। कैश्चिदिति । काव्यप्र- काशकारादिभिः । उदाहृतमिति । कुसुमसौरभेत्यादिना । यद्वेति । पक्षा- न्तरे । एकवाचकेति । य एव शब्दा यमकस्य वाचकास्त एव चित्रस्येति द्वि- तीय इत्यहानिभावात् । साधकमिति । अनुकूलम् । न्यायप्राप्त इति ।

अलंकारसर्वस्वम् । २५६ अत्र विभावनाविशेषोक्त्योः संदेहसंकरः । तथाधुत्कण्ठाकारणा- भावे उत्कण्ठाया उत्पत्तौ विभावना । स च कारणाभावो 'यः कौमा- रहरः' इत्यादिना कारणविरुद्धमुखेन प्रतिपादितः । तथा च 'यः कौमारहरः' इत्याद्यनुत्कण्ठाकारणसद्भावेऽपि अनुत्कण्ठाया अनुत्पत्तौ विशेषोक्तिः । सा चानुत्पत्तिः 'समुत्कण्ठते' इति विरोधोत्पत्तिमुखे. नोक्ता । अत एव द्वयोरप्यस्फुटत्वमन्यत्रोक्तम् । न चानयोः प्रत्येक साधकबाधकप्रमाणयोग इति संदेहसंकरोऽयम् । यथा वा- 'यद्वक्रचन्द्रे नवयौवनेन श्मश्रुच्छलादुल्लिखितश्चकास्ति । उद्दामरामादृढमानमुद्राविद्रावणो मन्त्र इव स्मरस्य ॥' अत्र वकं चन्द्र इवेति किमुपमा, उत वक्रमेव चन्द्र इति रूपकमिति संशयः । उभयथापि समासस्य भावात् । 'उपमितं व्याघ्रा- दिभिः' इत्युपमासमासः, व्याघ्रादीनामाकृतिगणत्वात् । मयूरव्यंस- कादित्वाद् रूपकसमासः, मयूरव्यंसकादीनामाकृतिगणत्वात् । न चात्र कचित्साधकबाधकप्रमाणसद्भाव इति संदेहसंकरः- साधकबाधकप्रमाणाभावादेकस्यानिश्चयात् । संदेहमेवोपपादयति-तथाहीत्या- दिना । उत्कण्ठाकारणाभाव इति । कौमारहरवराद्यसंनिधानरूपस्य कारण- स्याभाव इत्यर्थः । विरुद्धमुखेनेति । तत्संनिधानद्वारेणेत्यर्थः । अत एवेति । द्वयोरपि विरुद्धमुखेनोपनिवन्धात् । अन्यत्रेति । काव्यप्रकाशादौ । उभय- थेति । उपमारूपकत्वेनेत्यर्थः । चन्द्रशब्दस्याकृतिगणत्वाद्गणद्वयेनापि हि स्वीकृr. तत्वमिति भावः । क्वचिदिति । उपमायां रूपके वा । न चैतदलंकारसारकारा- दीनां मतम् , अलंकाराणां संदेहायोगात् । तथाहि स्थाणुर्वा पुरुषो वेति संदेहः कस्यचिदेव कदाचिद्भवति, न तु सर्वदैव सर्वेषां संनिकृष्टानां तदेवानन्तरं त्वन्ये- घामपि निश्चयोत्पादनात् । सर्वदा सर्वत्र सर्वान्प्रति चालंकारलक्षणं प्रणयनम् । तथात्वे च संदेहोऽयुक्तः, तस्य नियतदेशकालप्रमागतत्वात् । संदेहोऽपि पर्यव- २५२ काव्यमाला। यत्र तु कस्यचित्परिग्रहे साधकं बाधकं वा प्रमाणं विद्यते, तत्र नियतपरिग्रहः । तत्रानुकूल्यं साधकम् , प्रातिकूल्यं बाधकम् । तत्र साधकं यथा- 'प्रसरद्विन्दुनादाय शुद्धामृतमयात्मने । नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे ॥' अत्र शंकर एव क्षीरसिन्धुरिति रूपकस्यामृतमयत्वं साधकम् । तस्य शंकरापेक्षया क्षीरसिन्धावनुकूलत्वात् । उपमायास्तु न बाधकम् । सानेऽवश्यमेकतरपक्षाश्रयणम् , उत्तरकालं बाधकप्रत्ययोलासात् । इह च संदे- हेऽप्युत्तरकालं यद्येकतरालंकाराश्रयणं तत्स एवालंकारः स्यात् , तस्यैव वाक्यार्थ- त्वेन प्ररोहात् । वाक्यार्थीभाव एव त्वलंकाराणां खरूपप्रतिष्ठापकं प्रमाणम् । न चोभयोरपि वाक्यार्थीभावो, विप्रतिषेधात् । संदिग्धश्च वाक्यार्थो दोष इत्यवि. वादः । न च लक्ष्येऽपि तथाभावः, तथा ह्याद्योदाहरणे विभावनाया एव निश्चयः। विरुद्धमुखेनोत्कण्ठाकारणाभावेऽपि प्रतिपन्ने तथापि 'चेतः समुत्कण्ठते' इत्युत्क- प्ठोदयस्यैव कार्यस्य वाक्यार्थत्वेन प्ररोहात् । अत एवानुत्कण्ठोत्पत्तिरविवक्षितेति विशेषोक्तेर्वाध इति विभावनाया एव वाक्यार्थीभावः । उत्तरोदाहरणे रूपकस्यैव निश्चयः । यतोऽत्रान्यप्रयोजनयोर्द्वयोः समासयोरेकत्र युगपत्प्राप्तेस्तुल्यबलत्वाद्वि- प्रतिषेधः। ततश्च ‘विप्रतिषेधे परं कार्यम्' इति परत्वाद्रूपकसमासप्रवृत्तिः। एत- देव रूपकस्य साधनं प्रमाणम् । अत एवात्र यदन्यैः 'अबाधेन गतौ संभवन्त्यां वाधगतिरप्रामाणिकी' इति न्यायालक्षणात्मकरूपकसमासबाधकतयाश्रयात्मन उपमासमासस्य प्रवृत्तिरित्युपमायाः साधकप्रमाणसद्भावोऽस्तीत्युक्तम् । तदयुक्तम् । भवन्मते च समासां प्रायशो लक्षणपरत्वादुपमासमासस्यापि लक्षणात्मकत्वमित्य- बाधेन गतेरसंभवादुपमाया अपि नास्ति वाधकप्रमाणसद्भावः । अथोपमायां लक्षणा, रूपके तु लक्षितलक्षणेति न द्वयोः पक्षयोस्तुल्यत्वमिति चेत् , नैतत् । एवमप्यबाधेन गतेरसंभवस्य तादवस्थ्यात् । अयं हि वाधगतेरेव प्रतीयते, तत्र तत्समास एव कार्य इत्याह-यत्र त्वित्यादि । एतदेव दर्शयति-तत्रेत्या दिना । न वाधक मिति । न पुनः साधकमपीत्यर्थः । वाधकत्वाभावमात्रेण अलंकारसर्वस्वम् । २५३ शंकरेऽपि तस्योपचरितस्य संभवात् । यथा वा- 'एतान्यवन्तीश्वरपारिजातजातानि तारापतिपाण्डुराणि । संप्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ॥' अत्रावतंसनं प्रसूनेष्वनुगुणमिति रूपकपरिग्रहेण साधकं प्रमाणम् । बाधकं यथा- 'शरदीव प्रसर्पन्त्यां तस्य कोदण्डटंकृतौ । विनिद्रजम्भितहरिविन्ध्योदधिरजायत ।' अत्र विन्ध्य उदधिरिवेत्युपमापरिग्रहे विनिद्रजृम्भितहरिरिति साधारणं विशेषणं वाधकं प्रमाणम् । 'उपमितं व्याघ्रादिभिः सामा- न्याप्रयोगे' इति वचनादुपमासमासे प्रतिकूलत्वात् । अतश्च पारिशे- व्यापकपरिग्रहः। न तु शरदीवेत्युपमात्रोपमासाधकत्वेन विज्ञेया। न यौपम्येन कदाचिदर्थसिद्धिः । न ह्यौपम्येलंकारेणोपक्रान्तेन निर्वाहः कर्तव्य इति राजाज्ञेषा । नापि धर्मसूत्रकारवचनम् । नाप्येष न्यायः । उत्तरोत्तरसाम्यप्रकर्षविवक्षणे प्रक्रान्तोपमापरित्यागेन रूपकनिर्वाहस्यो- चितत्वात् । विपर्ययस्तु दुष्ट एव । यथा-'येनेन्दुर्दहनं विषं मल- साधकत्वानुपपत्तेः । तथात्वे ह्यत्रापि संदेहसंकरः स्यादिति भावः। यथा वेति। पूर्वत्र संकरेऽप्युपचरितस्यामृतमयत्वस्य संभवात्संदेहभ्रमः कस्यचित्स्यादित्यस्यो- दाहरणस्य पुनरुपादानम् । साधारणमिति । सामान्यप्रयोगे हि विन्ध्य उद- धिरेवेत्यसमास एव स्यात् । यथा-पुरुषोऽयं व्याघ्र इव शूर इति । अत- चेति । उपमाया वाधकप्रमाणसंभवादप्रवृत्तेः । पारिशेष्यादिति । न पुनः साधकप्रमाणसंभवादित्यर्थः । उचितत्वादिति । रूपकनिर्वाहेण साम्यस्याधि- क्येन प्रवृत्तिः । विपर्यय इति । रूपकोपक्रमेणोपमानिर्वाहो दुष्ट इति साम्य- लाघवेन प्रतीतेः । 'खेच्छाचारिणि यत्पुरा प्रियसखीवाचस्त्वया नादृता यत्क- ल्याणपराधुखि प्रियतमः पादानतो नेक्षितः । तस्येदं हरिणाक्षि दुर्नयतरोरद्यापि २५४ काव्यमाला १ यजं हारः कुठारायते।' इति । तस्मात्प्रकृते सामान्यप्रयोगे उपमापरिग्रहे बाधक इति मयूरव्यंसकादेराकृतिगणत्वाद्रूपकसमाश्रयेण रूपकमेव बोद्धव्यम् । एवं भाष्याब्धिः क्वातिगम्भीरः' इत्यादौ द्रष्टव्यम् । साधकबाधकाभावे तु संदेहसंकरः । यथोदाहृतम् । तृतीयस्तु प्रकार एकवाचकानुप्रवेशलक्षणः। यत्रैकस्मिन्वाचकेऽने- कालंकारानुप्रवेशः, न च संदेहः । यथा- 'मुरारिनिर्गता नूनं नरकप्रतिपन्थिनी । तवापि मूर्ध्नि गनेव चक्रधारा पतिष्यति ॥' अत्र मुरारिनिर्गतेति साधारणविशेषणहेतुका उपमा, नरकप्रतिप- न्थिनीति श्लिष्टविशेषणसमुत्थश्चोपमाप्रतिभोत्पतिहेतुः श्लेषश्चैकस्मिन्नेव- शब्देऽनुप्रविष्टौ, तस्योभयोपकारित्वात् । अत्र यथार्थश्लेषेण सहोप- सायाः संकरस्तथा शब्दश्लेषेणापि सह दृश्यते । यथा- बालं फलम् ॥' इति चास्य पादत्रयी । एवं चाधिक प्रकर्षालंकारोपक्रमेण तत्प्र- कर्पालंकारनिर्वाहो न कार्य इत्यप्यनेन सर्वालंकारशेषत्वेनोक्तम् । प्रकृत इति । शरदीवेत्यादौ । द्रष्टव्यमिति । उपमाया वाधकत्वं प्रति गम्भीरत्वस्य सामा- व्यस्य हि प्रयोगे उपमासमासे वाधक इति रूपकपरिग्रह एव युक्तः । उदाहृत- मिति । 'यः कौमारहरः' इत्यादिना । न च संदेह इति । संदेहसत्कारे यद्यप्येकवाचकत्वमस्ति, तथापि तत्र संदिह्यमानत्वेन चमत्कारोऽस्तीति ततोऽस्य वलक्षण्यम् । इह ह्येकानुप्रविष्टयोरलंकारयोनिश्चितत्वेन निवन्धनम् । एकवाच- कानुप्रविष्टत्वेन चालंकारयोः संसृष्टत्वेन चारुतातिशयोपजन इति नैवैकहेतुकत्वेन संकरोपमयोरिवेत्युक्त्या नास्याभावो वाच्यः। न हि यमकयोः संसृष्टत्वेनैवाव- भासोऽस्तीति यथोक्तमेव युक्तम् । अर्थश्लेपेणेति । नरकशब्दस्य दानवनिरया- थकत्वात् । द्योतितरङ्गेति शब्दस्य सभात्वाच्छन्दश्लेषः । न चास्योदाहरणद्वय- सेतयुक्तम् । उपमाप्रतिभोत्पत्तिहेतुकस्य लेपस्यैवात्रालंकारत्वात् । उपमा हि व्यस्य हेतुत्वेनैव गता । तां विना तस्या अनुत्थानात् । अतथ श्लेष एवात्र १. पाणिनिनत्रविरुद्धोऽप्य प्रयोगः कविसंप्रदायसिद्धः ।

अलेकारसर्वस्वम् । २५५ 'सत्पूरुषद्योतितरङ्गशोभिन्यमन्दमारब्धमृदङ्गवाये । उद्यानवापीपयसीव यस्यामेणीहशो नाट्यगृहे रमन्ते ॥" अत्र 'पयसीव नाट्यगृहे रमन्ते' इत्येतावतैव समुचितोपमा निष्पन्ना सत्पूरुषद्योतितरङ्ग इति शब्दश्लेपेण सहकस्मिन्नेव शब्दे सङ्कीर्णा । शब्दालंकारयोः पुनरेकवाचकानुप्रवेशेन संकरः पूर्वमुदाहृतो ‘राजति तटीयम्' इत्यादिना । एकवाचकानुप्रवेशेनैव चात्र संकीर्णत्वम् । अत एव व्यवस्थितत्वमन्यानुभाषितमप्रयोजनकम् । तुल्यजातीय- योरप्यलंकारयोरेकवाचकानुप्रवेशसंभवात् । शब्दार्थवर्त्यलंकारसंक- प्राधान्येनालंकारः । एवं न संकरः, एकस्यैवात्रालंकारस्य स्थितेः । तस्य च द्विप्र- मृतीनां संसृष्टतायामुक्तत्वात् । उदाहरणान्तरं यथा-'अङ्के न्यस्योत्तमाझं प्लवग- वलपतेः पादमक्षस्य हर्तुः कृत्वोत्सङ्गे सलीलं त्वचि कनकमृगस्याङ्गमाधाय शेषम् । वाणं रक्षःकुलनं प्रगुणितमनुजेनादरात्तीक्ष्णमक्ष्णः कोणेनैवेक्षमाणस्त्वदनुजवदने दत्तकोऽयमास्ते ॥' अत्रेहगीश्वराणां स्वभाव इति स्वभावोक्तिः, दाशरथेच प्रत्यक्षायमाणवमिति भाविकमित्येकस्मिन्नेव वाचकेऽलंकारद्वयमनुप्रविष्टमित्ययं संकरः । अत्र च भाविकस्वभावोक्योरुपकार्योपकारकभावेनासाङ्गित्वेऽप्येकवाच- कानुप्रवेशकृतो वैचित्र्यातिशयः प्रधानतया प्रतीयत इत्येतदुदाहरणत्वम् । अजा- निभावश्च भिन्नवाचकालंकारगतत्वेन लब्धावकाशोऽस्ति । अतो 'राजति तटी- यम्' इत्लादावेकवाचकानुप्रवेशोऽपि निरवकाश इति ततोऽस्य पृथग्भावः । अत एवेति । शब्दालंकारयोरेकवाचकानुप्रवेशात् । अन्येति । अन्यैः काव्य- प्रकाशकारादिभिः । यदुक्तम्-'स्फुटमेकत्र विषयं शब्दार्थालंकृतिद्वयम् । व्यव- स्थितं च' इति। अप्रयोजनकमिति । तथानुभाषणं पुनर्न कश्चिद्दोष इति भावः। मुरारिनिर्गतेल्यादौ ह्यर्थालंकारत्वात्सजातीययोरुपमाश्लेषयोः पूर्वोक्तनील्या भिन्न- विषयत्वेनास्यैकवाचकानुप्रवेशोऽस्तीत्यर्थः । एवं शब्दाश्रयत्वादाश्रयत्वाच तुल्यजातीयानामलंकाराणामझाङ्गिभावादिना संकर उक्तः । शब्दार्थवर्तिनामलं- काराणां पुनः संसर्गेणायमलंकार इत्याह-शब्दार्थेत्यादि । न केवलं काव्य:

२५६ काव्यमाला। रस्तु भट्टोद्भटप्रकाशितः संसृष्टावन्तावित इति त्रिप्रकार एव संकर इह प्रदर्शितः । इदानीमुपसंहारसूत्रम्- एवमेते शब्दार्थोभयालंकाराः संक्षेपतः मूत्रिताः। एवमिति पूर्वोक्तप्रकारपरामर्शः। एते इति प्रक्रान्तखरूपनिर्देशः । सुत्रिता अलंकारसूत्रैः सूचिताः संक्षेपतः प्रकाशिताः। तत्र शब्दालंकारा यमकादयः । अर्थालंकारा उपमादयः। उम- यालंकारा लाटानुप्रासादयः । संसृष्टिसंकरप्रकारयोरपि कयोश्चित्तद्रूप- त्वात् । लोकवदाश्रयाश्रयिभावश्च तत्तदलंकारनिबन्धनम् । अन्वयव्य- तिरेकौ तु तत्कार्यत्वे प्रयोजको । न तदलंकारत्वे । तदलंकारप्रयो. प्रकाशकारेण शब्दार्थवर्तिनोरलंकारयोः संकर उक्तो यावदनेनापीति भावः । तदुक्तम्-'शब्दार्थवत्यलंकारवाक्य एकत्र भासिनः । संकरः ।' इति । संसृ. ष्टाविति।अनयोश्रियमेदात्तिलतण्डुलन्यायेन स्पष्ट एव मेदावगम इत्यत्रैवान्त- र्भावो युक्तः । त्रिप्रकार इति । अङ्गाङ्गिभावसंशयैकवाचकानुप्रवेशेन । यदु. कम्-'तेनासौ त्रिरूपः परिकीर्तितः' इति । एवं संदेहसंकरस्यानुपपत्तावपि चिरंतनोक्तत्वादेवास्य ग्रन्थकृता त्रिप्रकारत्वमेवोक्तम् ॥ अधुनैतेषामलंकाराणामुप- संहारं कर्तुमुपक्रमते-इदानीमित्यादिना । प्राप्तावसरेति । यथातत्त्वं सर्वे. षामलंकाराणां निर्णीतत्वात् । तदेवाह-एवमित्यादि । एतदेव व्याचष्टे- एवमित्यादिना । संक्षेपेणेति । ग्रन्थस्य । न पुनरर्थस्य । तस्य हि तथावक- थने तेषां स्वरूपमेव कथितं न स्यात् । एवं ग्रन्थसंक्षेपेणापि सर्वेषामलंकाराणां विस्तरत एव यथासंभवि स्वरूपमुक्तमिति प्राच्यालंकारग्रन्थेभ्योऽस्य वैलक्षण्यमपि ध्वनितम् । तत्र ग्रन्थविस्तरेणाप्येतत्स्वरूपस्यानभिधानात् । अत एव ग्रन्थकारेण प्रयोजनमपि द्योतितम् । के ते शब्दार्थोभयालंकारा इत्याशङ्कयाह-तत्रेत्यादि। आदिग्रहणादनुप्रासानन्वयश्लेषादीनां ग्रहणम् । ननु च लाटानुप्रासश्लेषयोरेवोभ- यालंकारत्वे पूर्वमुक्त्वा उभयालंकारा इति बहुवचननिर्देशः कथं संगच्छते इत्या- शङ्ख्याह-संसृष्टीत्यादि । तत्र संसृष्टेरुभयालंकारत्वं यथा-'आनन्दमन्थर-' इत्यादि । संकरस्य यथा-'मैवमेवाखसच्छायकर्णिकाचास्वर्णिता । अम्भोजिनीव चित्रस्था नेत्रमात्रसुखप्रदा ॥' अत्र शब्दार्थालंकारसंसर्गादुभयालंकारत्वम् । संक- अलंकारसर्वस्वम् । २५७ जकत्वे तु श्रौतोपमादेरपि शब्दालंकारत्वप्रसङ्गात् । तस्मादाश्रयाश्रयि- भावेनैव चिरंतनमतानुसृतिरिति भद्रम् । संपूर्णमिदमलंकारसर्वस्वम् । । रस्य चैतदुभयालंकारत्वमौद्भटमत एवावसेयम् । ग्रन्थकृता ह्यस्य समनन्तरमेव संसृष्टावन्तर्भाव उक्तः । अतश्च ग्रन्थकृन्मते लाटानुप्राससंसृष्टिः । श्लेषाणामेवो. भयालंकारत्वम् । ननु तुल्यत्वेऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलंकारः शब्दस्य कश्चिदर्थस्य कश्चिदुभयस्येति कुतः पुनरयं प्रतिनियम इत्याशझ्याह-लोकवदि- त्यादि । लोके हि योऽलंकारो यदाश्रितः स तदलंकारतयोच्यते, यथा कुण्डलादिः कर्णाद्याश्रितस्तदलंकारः। एवमिहापि शब्दाद्याश्रितस्तदलंकार इति सिद्ध एव विष- यविभागरूपः प्रतिनियमः । यत्त्वन्यैरन्वयव्यतिरेको तदलंकारनिवन्धनत्वेनोको तदयुक्तमेवेत्याह-अन्वयेत्यादि । एवं हि श्रौतोपमायामिवादिशब्दान्वयव्यतिरे- कानुवर्तनात्तत्कार्यमेव न पुनस्तदलंकारत्वम् । तस्याविशेषात् । अर्थस्य पुनरलं- कृतत्वात्तदलंकारत्वमेव युक्तमिति तात्पर्यार्थः । एतच्चोद्भटविवेके राजानक- तिलकेन सप्रपञ्चमुक्तमिति ग्रन्थविस्तरभयान्नेहास्माभिः प्रपञ्चितम् । एतदेवोपसं- हरति-तस्मादित्यादि । आश्रयायिभावेनेति । उपस्कार्योपस्कारकभा- वेनेत्यर्थः । तेन योऽलंकारो यदुपस्कारः स तदलंकार इति पिण्डार्थः । चिरंत- नेति । अनेनास्माभिः सर्वत्रैव तन्मतानुसूतिरेव कृतेल्यात्मविषयमनौद्धत्यमपि ग्रन्थकृता प्रकाशितमिति शिवम् ॥ राजराज इति भूभुजामभूदग्रणीर्गुणिगणाश्रयः परम् । तां सतीसरसि राजहंसतामातनोत्किल धनागमेऽपि यः ॥ शक्राधिकश्रियस्तस्य श्रीशृङ्गार इति श्रुतः । गुणातिकान्तधिषणो मत्रिणामग्रणीरभूत् ॥ तदात्मजन्मा वैदग्ध्यबन्धुर्जयरथाभिधः । व्यधादिदमसामान्यं श्रवणाभरणं सताम् ॥ यन्नाम किंचिदिह सम्यगथान्यथा वा साक्षादलंकृतिनयोचितमेतदुक्तम् । विद्वेषरोषमपसार्य वुधैः क्षणस्य तत्रावधेयमियतैव वयं कृतार्थाः ॥ इति श्रीजयरथविरचितालंकारविमर्शिनी संपूर्णा ॥ Collega Sri Pratap १७ अ० स० 1.ar

No text on this page.

अलंकारसर्वखस्योदाहरणश्लोकानामनुक्रमणिका । :: ... १५९ / अरण्यरुदितं अलंकारःशक्षा ८८ :: :: पृ० पृ० 'अ. अयं वारामेको १५५ भक्ष्णोः स्फुटान्नु २३७ अयमेकपदे २०१ लेखाम .. १५९ १०० अङ्गुलीभिरिव अरण्यानी २४८ .... १६६ अण्णं लडह ८५ १९८ अतिशयित ४१ / अविरल अत्रानुगोदं ४१ अध्यात्सवो ९८ अथ पक्रिमता ... ५३ | असमाप्त ... ११८ अथोपगूढे ... ११८ | असंभृतं १५८ अनन्तरत्न १४० | अस्याः सर्ग ८६ अनन्यसामान्य ... ७६ | अहमेव गुरुः २१० अनातपत्रो २२९ | अहीनभुजगा २३ अन्तछिद्राणि १३८ | अहो केनेडशी २२१ अपाङ्गतरले २११ | अहो हि मे १४१ अब्धिलचित ९६ आ. अमुष्मिलावण्या ६६ / आकृष्टिवेग ११९ अयं मार्तण्डः किं ... ५४ | ओंकृष्यादाव १३१ १. उद्भटस्य प्रतीहारेन्दुराजवृत्तौ। २. कालिदासस्य कुमारसंभवे । ३. रघुवंशे । ४. पाणिनेर्जाम्बवतीविजये । ५. कालिदासस्य कुमारसंभवे । ६. पमगुप्तस्य नवसा. हसाचरिते । ७. भटशतके । ८. मुरारेः स्तुतिपरं मुक्तकम् । ९. सुभापितावली रामस्य । १०. भछटशतके । ११. विक्रमोर्वश्याम् । १२. नवसाहसाङ्कचरिते। १३. रुद्रटस्य काव्यालंकारे । १४. नवसाहसाकुचरिते। १५. कल्हणस्य राजतरङ्गि- ण्याम्। १६. कालिदासस्य कुमारसंभवे । १७. विक्रमोर्वश्याम् । १८. रुय्यकस्य श्रीकण्टस्तवे । १९. सुभाषितावली २ पृ० ऐन्द्रं धनुः इति कृतपशु इन्दुः किं क ५७ क. पृ० आटोपेन २५ | ऐकस्मिञ्शयने २४० औनन्दमन्थर २४७ : एकाकिनी २१६ भाभाति ते ४७ | ऐतत्तस्य १३३ भा.मुण्डशिरसि १०० एतान्यवन्ती २५३ औरोपयसि २२२ | ऐषा स्थली आहूतोऽपि १६१ ऐ. इ. ११७ २२२ ओ. ५४ | ओष्ठे विम्वफल ईन्दुर्लिप्त १३४ इन्दोर्लक्ष्म १४३ १८८ १७१ उत्कोपे खयि १०१ ७५ उत्क्षिप्तं सह १०५ उद्धान्तोज्झित ६५ कपूर इव १६१ उन्नयै नमति १६९ कस्तूरीतिलक ७६ उपोढरागेण केस्त्वं भो १०९ १३७ १९२ / का विसमा २१७ ए. २९ ए एहि दाव २०८ कोकार्य शश २४० १. मडकवेः श्रीकण्ठचरितकाव्ये । २. पञ्चस्तव्याम् । ३. सुभाषितावलौ मयू. रस्य । ४. मालवरुद्रस्य । ५. सुभाषितावलौ मयूरस्य । ६. राजशेखरस्य वालरामा. यणे । ७. पाणिनेः । ८. प्रतीहारेन्दुराजवृत्तौ । ९. अमरुशतके । १०. ध्वन्या- लोके । ११. भल्लटशतके । १२. नवसाहसाचरिते । १३. रघुवंशे । १४. पा. णिनेः । १५. रुद्रटस्य काव्यालंकारे । १६. कुमारसंभवे । १७. प्रतीहारेन्दुराज- वृत्ती । १८. सुभाषितावलौ शंकरगणस्य । १९. वालरामायणे । २०. ध्वन्यालोके। २१. प्रतीहारेन्दुराजवृत्तौ। २२. विक्रमोर्वश्याम् । फैजलहिम कैण्ठस्य तस्याः कपोलफलका कमलमनम्भसि ८४ :: :: :: :: उरो दत्त्वा कौशाः काशाः पृ० पृ. १०२ ग. १९३ गणिकासु १५१ गण्डान्ते मद ११५ :: २०९ २१५ क्षीणः क्षीणोऽपि शशी किमासेव्यं किमित्यपास्या किवणाण किं तारुण्यतरो किं नाम दर्दुर किं पद्मस्य रुचि किं भूषणं किं मे दुरोदरे किं वृत्तान्तैः किं हास्येन न कुबेरजुष्टां कुलममलिनं क्रेशरो नख कौटिल्यं कच १९२ गंतासु तीरं ९३ गर्वमसंवाह्य ५४ गाङ्गमम्बु २४ | गाढालिङ्गन ४७ | गुरुपरतत्र १९३ | गृहन्तु सर्वे २२२ १४४ | घेत्तुं मुच्च २३७ २२० १५० :: घ. E १६८ २३४ च. चकोर्य एव ९५ १३५ :: ७५ चक्राभिघात २०३ चन्द्रग्रहणेन २२३ चित्रं चित्रं १९४ | चूडामणिपदे चोलस्य यद्भीति २२२ १६७ ९७ १६ ख. ७६ ४० ज. खमिव जलं गच्छ गच्छसि १७ १५३ | जये धरित्र्याः १८ १. रुद्रटस्य काव्यालंकारे । २. कुमारसंभवे । ३. सुभाषितावली बन्धोः । ४. बकस्य । ५. मयूरस्य । ६. ध्वन्यालोकलोचने । ७. रुद्रटस्य काव्यालंकारे। ८. दण्डिनः काव्यादर्श । ९. नवसाहसाचरिते। १०. रुद्रटस्यकाव्यालंकारे । ११. अमरुशतके । १२. विक्रमाङ्कदेवचरिते। १३. राजशेखरस्य बालरामायणे । १४. ध्वन्यालोके । १५. सुभाषितावली मयूरस्य । १६. विक्रमाङ्कदेवचरिते। १७. वराहमिहिरस्य वृहत्संहितायाम् ।

४ ... ११ दिव्यमप्युप देशा दग्धं ::: :: देवि क्षपा १६ पृ० पृ० जितेन्द्रियत्वं १७७ | देन्तप्रभा ११० ज्योत्स्नातमः १४७ | दामोदरकरा ५८ ज्योत्स्नाभस्म ६६ | दारुणः काष्ठतो २३ ण. दासे कृता ४५ णाराअणोत्त ६१ | दोहोऽम्भः तण्णस्थि किंपि १३३ | दिदृक्षवः १०२ तैदिदमरण्यं २३१ ... १७२ तन्वी मनोरमा १०९ दुर्वाराः स्मर २०३ तस्य च प्रवयसो १९२ दूराकर्षण २३७ त्वं हालाहल २२१ त्वत्पादनख १७४ ९८ त्वेदङ्गमार्दवं देया शिलापट्ट ९० १५० त्वद्वक्रामृत २३७ २४५ त्वमेवं सौन्दर्या ... १६७ | दोर्दण्डाचित १७० ताला जाअन्ति २८ याँमालिलिङ्ग ११४ तीर्थान्तरेषु १६६ धुजनो मृत्युना १०५ तीर्खा भूतेश ५१ | द्यौरत्र क्वचि १६९ त्रयीमयोऽपि १२७ घ. द. धवलोऽसि २१५ दत्वा दर्शन १९३ | धन्याः खलु १३७ १. रुद्रटस्य काव्यालंकारे । २. वक्रोक्तिपञ्चाशिकायाम् । ३. विक्रमादेवचरिते । ४. प्रतीहारेन्दुराजवृत्ती । ५. वामनस्य काव्यालंकारसूत्रवृत्ती। ६. आनन्दवर्धनस्य विपमवाणलीलायाम् । ७. मुरारेरनधराघवे । ८. रुद्रटस्य काव्यालंकारे। ९. प्रती. हारेन्दुराजवृत्ती । १०. विद्धशालभलिकायाम् । ११. रुद्रटस्य काव्यालंकारे । १२. शार्गधरपद्धती भट्टशकस्य । १३. ध्वन्यालोकलोचने । १४. राजशेखरस्यविद्ध- शालभजिकायाम् । १५. विक्रमाङ्कदेवचरिते । १६. महावीर चरिते । १७. मनस्य श्रीकण्ठचरिते। १८. गाथासप्तशत्याम् । ... ::

५ ९० ४ ८० पृ० पृ० धावत्त्वदश्व पश्यामः किमियं १३४ धृतधनुषि १९७ | पाण्ड्योऽयमंसा ३४ न. पातालमेत न तज्जलं १७८ | पीयूषप्रसूति ४६ नेन्वाश्रय १९० पृथ्वि स्थिरा १४० निमेषमपि १७२ | पैराणि यस्यां १७८ निरर्थक १०७ | पुष्पं प्रवालोप ८६ पूर्णेन्दोः परि ६४ निरीक्ष्य विद्यु १११ प्रभामहत्या ३३ निनान्य ११४ प्रसरद्विन्दु २५२ निशासु भाव १९१ | प्रसर्पत्तात्पर्य ११५ नीतानामा १२२ प्रसीदेति १४७ नेत्ररिवोत्पलैः ११८ ! प्राप्याभिषेक नो किंचित्कथ १५३ प्रायः पथ्यप १६४ २०१ | प्रसादे सा ... १७२ प. ब. पथि पथि १६३ | वणन हत्वा परहिअअं १६६ | बालअणाई १४७ परिच्छेदातीतः १५५ बित्राणा हृदये २०१ ४८ | ब्रूमः कियन्नय २८. पशुपतिरपि १९७ भ. पश्यत्सूदत १६३ भक्तिप्रहविलो १९९ पश्यन्ती त्रपयेव ११६ / भक्तिर्भवे १९४ १. भट्टिकाव्ये । २. भलटशतके । ३. विक्रमादेवचरिते । ४. पाणिनेः ५. भवभूतेर्मालतीमाधवे । ६. कुमारसंभवे । ७. रघुवंशे । ८. नवसाहसाङ्कचरिते। ९. वालरामायणे। १०. नवसाहसाङ्कचरिते ११. कुमारसंभवे । १२. कुमारसं. भवे। १३. अमरुशतके। १४. विक्रमादेवचरिते । १५. सुभाषितावलौ भाग- वतामृतवर्धनस्य । न्यश्चत् कुञ्चित ... १५० पर्यको राज १९ यद्वा मृषा :: ४८ :: २०५ / युद्धेऽर्जुनो ये कन्दरासु मुकाः केलि पृ० पृ. भासते प्रतिभा ३० | यत्रैव मुग्धेति १९१ भुजंगकुण्डली २३ यथारन्ध्र १८४ भ्रमिमरति यदि नेच्छसि २२२ यैदेतच्चन्द्रा म. ६४ मग्गिअलद्धमि यद्वनचन्दे २५१ मैदनगणना १११ १५१ मनीषिताः यद्विस्मयस्ति १८३ १८३ मन्दमग्नि यस्य किंचिद ११५ २०७ मलयजरजस यन्त्यिा मुहुर्व २१३ ३३ महिलासहस्स यामि मनोवा मानमस्या ३८ २३० २१२ मुण्डसिरे १०० येन ध्वस्तमनो १२२ मुंनिर्जयति २२८ येन लम्बालकः १३४ मुरारिनिर्गता २५४ | येरेकरूप ११४ मृगलोचनया यैदृष्टोऽसि १०७ ४२ मृग्यश्च दर्भा १८२ / योगपट्टो ९० १६१ यो यः पश्यति २६ १८२ र. यत्रता लहरी १८५ | रञ्जिता नु ५५ १. रुय्यकस्य श्रीकण्ठस्तवे । २. ध्वन्यालोके । ३. महस्य श्रीकण्ठचरिते । ४. कुमारसंभवे । ५. वामनस्य काव्यालंकारसूत्रवृत्ती । ६. गाथासप्तशत्याम् । ७. दण्डिनः काव्यादर्श । ८. ध्वन्यालोके । ९. प्रतीहारेन्दुराजवृत्तौ । १०. कुमारसंभवे । ११. शीलाभट्टारिकायाः । १२. सुवृत्ततिलके कान्यकुब्जा. धिपतेर्यशोवर्मणः । १३. सुभापितावली श्रीहर्षचौरयोः । १४. विक्रमाङ्कदेव- चरिते। १५. शिशुपालवधे। १६. भवभूतेर्मालतीमाधवे । १७. सुभाषितावलौ चन्द्र- कस्य । १८. प्रतीहारेन्दुराजवृत्ती। १९. प्रतीहारेन्दुराजवृत्तौ। २०. किरातार्जुनीये । १९ यः कौमारहरः यत्वनेत्रसमान २० १२ २०१ ... 13 १०६ रकच्छदत्वं रथस्थिताना रोजति तटीय राजनराजसुता राज्ञो मान राज्ये सारं रेहइ मिहि २१४ १०. पृ० १२३ | विदलितसकला ८१ | विद्वन्मानस २५० विनयेन विना १३६ | विभिन्नवर्णा १२० वियोगे गौड १८० विलैचयन्ति ९२ विलसदमर ८६ विलिखति विर्सष्टरागा १८८ १२०८ | विस्तारशालिनि (२४५ | वृषपुंगवल १९४ ६५ लावण्यद्रविण ११३ १९० लावण्यौकसि ४६ ... २३ लिम्पतीव तमो ... ७४ श. लोकोत्तरं २५३ १४० | शरदीव शशी दिवस २१८ व. :: २०४ ९९ २१८ २४४ | शैलेन्द्रप्रतिपाद्य वक्रस्यन्दि वेदनसौरभ वैसुरहितेन वामेन नारी :: २२२ स. २४० १६१ से एकत्रीणि संकेतकाल विजये कुशल २२२ २१८ १. विक्रमाङ्कदेवचरिते । २. राजानकरलाकरस्य हरविजये। ३. वेणीसंहारे । ४. रुद्रटस्य काव्यालंकारे । ५. औचित्यविचारचर्चायां वौद्धस्य धर्मकीतेः। ६. ख. ण्डप्रशस्ता। ७. भासकवेः चारुदत्तनाटके, मृच्छकटिकेऽपि । ८. वालरामायणे । ९. शिशुपालवधे। १०. सूर्यशतके मयूरस्य । ११. मयूरस्य १२. रुद्रटस्य काव्यालंकारे। १३. मयूरस्य । १४. शिशुपालवधे। १५. नवसाहसाङ्कचरिते। १६. कुमारसंभवे। १७. नवसाहसाङ्कचरिते । १८. भर्तृहरेनीतिशतके । १९. म. मिशानशाकुन्तले। २०. ध्वन्यालोकलोचने। २१. ध्वन्यालोके ८ ४० :: सद्यः कौशिक . पृ० पृ० संप्रामाङ्गन १७९ सा बाला. वय १६४ संचौरपूतानि ९२ साहित्यपाथो १५० सीमानं न जगाम ... ११५ सच्छायाम्भोज सुहअ विलम्बसु सैजातपत्र १४७ ८९ सैषी स्थली सत्पूरुषद्योति २५५ सौजन्याम्बु ४९ सेद्यः करस्पर्श १६५ स्पृष्टास्ता नन्दने १४२ १३० | खेपक्षलीला ११५ स वः पायादिन्दुः ७४ | खेच्छोपजात १२३ सं वक्तुमखि १५१ सहसा विदधीत ... १४० | हो राहो शित २२२ सह्याः पन्नग २६ | हेयमधिष्ठित साधूनामुपकर्तु ९३ | हे हेलाजित १४३ १. सदुक्तिकर्णामृते । २. रघुवंशे । ३. विक्रमाङ्कदेवचरिते । ४. नवसाह. साद चरिते । ५. नवसाहसाचरिते । ६. ध्वन्यालोके । ७. किरातार्जुनीये। ८. अमरुशतके; सुभाषितावली तु कल्याणदत्तस्य । ९. विक्रमाङ्कदेवचरिते । १०. रघुवंशे । ११. मेण्ठस्य हयग्रीववधे । १२. मसस्य श्रीकण्ठचरिते । १३. मयूर स्य । १४. कुट्टनीमते । १५. भर्तृहरेर्वाक्यपदीय टीकायां पुअराजः । ह . .८८ १५

विक्रय्यमुद्रितग्रन्थाः।
,
पातञ्जलव्याकरणमहाभाष्यम् ।
(तृतीयाध्यायात्मकं विधिप्रकरणरूपं तृतीयखण्डम् )
एतद्याख्यानभूत उपाध्यायकैयटप्रणीतो भाष्यप्रदीपः, तद्याख्यानभूतो
नागेशभट्टविरचितो भाष्यप्रदीपोयोत इत्येतद्वयाख्याद्वयसमलङ्कृतमेतत्
खण्डं वाचकमहोदयेभ्यः संप्रति समुपहियते तच्चावश्यं संग्राह्यमित्यनु-
नीयते च, येनाग्रिमांशस्य झटिति प्रकाशनेऽतीव सौकर्य स्यात् ।
मूल्यम् रू. ३ प्रे. व्य. रू. .॥
योगरत्नाकरः।
ग्रन्थोऽयं नात्यर्वाचीनोऽखिलभिषग्गणमान्योऽप्यस्ति । अत्र सर्वेषां
रोगाणां निदानपूर्विका चिकित्सा सप्रमाणा प्रतिपादितास्ति । तथा वि-
विध-रसायन-कषायाऽऽसवा-ऽरिष्टा-ऽवलेह-गुटिका-पाकादीनां प्रक्रिया-
प्रमाणाऽनुपानादिप्रपञ्चोऽपि कृतोऽस्तीत्ययं ग्रन्थ आयुर्वेदीयानामतीवो-
पयोगीत्यवश्यं संग्राह्यः ।
मूल्यम् रू. २॥ प्रे. व्य. रू. .।।.
द्रव्यगुणसंग्रहः।
अत्र नानाविधौषधीनां गुणागुणविवेचनं सम्यकृतमस्ति ।
मूल्यम् १२ आणकाः । प्रे. व्य. रू. ..
-

२ अग्निवेशकृता चरकदृढवलाभ्यां प्रतिसंस्कृता चरकसंहिता। चक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया समलता। मूल्यम् रू. ८ प्रे. व्य. रू. १. श्रीमहर्षिसुश्रुतप्रणीता सुश्रुतसंहिता। वैद्यवर-श्रीडल्हणाचार्यविरचितया निवन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासविरचितया न्यायचन्द्रिका- ख्यपञ्जिकाव्याख्यया च समुल्लसिता । अयं ग्रन्थो भगवतो धन्वन्तरेरुपदेशानुगुणं महर्षिश्रीसुश्रुतप्रणीतोऽ- खिलायुर्वेदनिबन्धेषु मूर्धन्यमणित्वेन वरीवर्ति । निवन्धकृद्धृद्यप्रकाशनाय वैद्यवर-डल्हणाचार्यरचिता व्याख्यापि सर्वाङ्गसुन्दरत्वेन विराजते । परं च संप्रति निदानस्थानस्य गयदासप्रणीतपञ्जिकाव्याख्यया च समलङ्क- तोऽयं सर्वाङ्गसुन्दरो ग्रन्थः सर्वेषां सुखावबोधकः स्यात् । मूल्यम् रू. १० प्रे. व्य. रू. १॥ ० प्राप्तिस्थानम्-पाण्डुरङ्ग जावजी, निर्णयसागरमुद्रणालयाध्यक्षः, मुंबई नं. २

No text on this page.

The Alankarasarvasva Of Rajanaka Ruyyaka

Author
Dvivedi Girijaprasad
Title
The Alankarasarvasva Of Rajanaka Ruyyaka
File name
The Alankarasarvasva Of Rajanaka Ruyyaka
Text
OCR done
Citation
1939
Published
2013
Publisher
Pandurang Jawaji Nirnaya Sagar Press, Bombay
Language
Sanskrit
Pages
296
Library
S.P College, Srinagar
Classification
Language. Linguistics. Literature
DLI number
242080
Barcode
99999990879827.00
Scanning centre
Allama Iqbal Library, University of Kashmir
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
9DsOlXcoFGN
Download PDF

The Alankarasarvasva Of Rajanaka Ruyyaka