Scl
The Parama Laghu Manjusha
Front matter
यन्त्रस्थ परिभाषेन्दुशेखरः 'बृहच्छास्त्रार्थकला' टीका. प्रश्नोत्तरी च्था नाना परिष्कारादि संवलित बृहत्परिशिष्टों से विभूषित । विजया, भूति आदि ख्याति प्राप्त सभी टोकाएँ इसमें गतार्थ हो चुकी हैं बहुत से दुष्प्राप्य क्रोड़-पत्रों को संकलित कर पूर्व प्रकाशित उन सभी टीकाओं के गुण-दोषों की समालोचना करके प्रस्तुत संस्करण प्रकाशित किया गया है ३) मनोरमाशब्दरत्नप्रश्नोत्तरी इसमें हर एक प्रश्नका उत्तर इस तरह लिखा गया है कि अभ्यास करलेने पर बिद्यार्थी परीक्षा में पूरी सफलता प्राप्त कर लेंगे तथा प्रन्याशय का भी पूरा ज्ञान हो जायगा। प्रथम खण्ड ॥) द्वि. तृ० खण्ड 1) परमल घुमजूषाप्रश्नोत्तरी। ग्रहलाघवम् विश्वनाथकृत व्याख्योदाहरणयुत-नूतनोदाहरणोपपत्ति संवलित माधुरी नामक संस्कृत हिन्दोटीका द्वयोपेतम् । आज तक इस ग्रन्थ की कोई भी ऐसी सरल टीका नहीं थी जिससे विद्यार्थी सुलभता पूर्वक ग्रन्थ का आशय समझ कर परीक्षा में पूरी सफलता प्राप्त करसकें। विश्वनाथी टीका के साथ इसकी माधुरी नामक परीक्षोपयुक्त संस्कृत हिन्दी टोकामें प्रन्याशय को अत्यन्त सरल शब्दों में समझाया गया है एवं विश्वनाथी उदाहरण के अतिरिक्त नवीन उदाहरण तथा उपपत्ति भी यथा स्थान दे दी गई है जिससे इस संस्करण का महत्व और भी बढ़ गया है। सूर्यसिद्धान्तः तत्त्वामृतभाष्योपपत्ति-टिप्पणीभिः सहितः। पूर्व प्रकाशित सभी टीकात्रों के गुण दोषों की समालोचना करके प्रस्तुत संस्करण प्रकाशित किया जा रहा है। बड़े बड़े विद्वानोंने उपर्युक्त तत्त्वामृतभाष्य को निरीक्षण करके मुक्त कण्ठ से इसकी प्रशंसा की है । सूर्यसिद्धान्त का ऐसा प्रशंसनीय संस्करण यह प्रथम बार ही प्रकाशित हो रहा हे शीघ्र प्राप्त होगा। प्राप्तिस्थानम् -चौखम्बा सस्कृत पुस्तकालय, बनारस सिटी।
TOE
BARIDASANSKRIT SERIES
43.
THE
Parama Laghu Manjusa
OF
NAGES'A BHATTA
WITH NOTES
BY
M. M. PT, S'RĪ NITYANANDA PANTA PARVATĪYA.
edited with the Arthadipika Commontary
Ву
PANDIT S'RĪ SADĀS'IVA S'ARMĀ S'ĀSTRĪ
PUBLISHED BY
JAYA KRISHNA DAS HARIDAS GUPTA
The Chowkhamba Sanskrit Series Office,
Benares City.
har
1946,
| Registered According to Act XXV of 1867.]
| All Rights Reserved by the Publishers.)
PUBLISHED BY
JAYA KRISHNA DAS HARI DAS GUPTA
The Chowkhamba Sanskrit Series Office,
BENARES
VA
Printed at the Vidya Vilas Press, Benares.
1946
॥ श्रीः । * हरिदास-संस्कृत-ग्रन्थमाला *- ४३ मी महामहोपाध्याय पं० श्रीनागेशभट्टकृत- परमलघुमञ्जूषा महामहोपाध्याय- पण्डित श्रीनित्यानन्दपन्तपर्वतीय- कृत टिप्पणी सहिता। टीकमगढस्थदेवेन्द्रसाहित्यविद्यालयप्रधानाध्यापक- साहित्योपाध्यायव्याकरणाचार्यपदवीकजोशोत्युपाह्व- पण्डित श्रीसदाशिवशास्त्रिणा संशोधिता स्वकृतार्थदीपिकाख्यव्याख्यया च संयोजिता । [द्वितीयं संस्करणम् ] प्रकाशक:- जयकृष्णदास-हरिदास गुप्त:- चौखम्बा संस्कृत सीरिज़ आफिस, विधाविलास प्रेस, बनारस सिटी। सं० २००३]] [१९४६ ई. राजशासनानुरोधेन सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः । मूल्य ११) ॥ श्रीः॥ अथ परमलघुमञ्जूषास्थप्रकरणानाम् अनुक्रमणिका पृ० अंश १६ २२ ... ... ... ३३ AU क्र०अं० प्रकरणनाम १ शक्तिविचारः ... २ लक्षणाविचारः ... ३ व्यञ्जनाविचारः .... ४ स्फोटविचारः ५ आकाङ्क्षाविचारः ६ योग्यताविचारः ७ आसत्तिविचारः ८ तात्पर्यविचारः ६ धात्वर्थविचारः १० निपातार्थविचारः ११ लादेशार्थविचारः १२ कारकविचारः १३ नामार्थविचारः १४ समासादिवृत्यर्थविचारः इति परमलधुमञ्जूषास्थप्रकरणानामनुक्रमणिका ।। ... ... ३६ ४० ५६ ७५ ... .... ६२ .... १०६ ११५ भूमिका। अथ खलु पूज्ये घराहृदये कर्मभूम्यभिधेऽस्मिन्भरतखण्डे को नाम विलक्षण- घिषणो विचक्षणो न विजानाति यत्किल सत्स्वपि प्रमाणान्तरेषु व्यवहारप्रवर्त- केषु प्रत्यक्षादिषु तेषां मूर्धन्यभूतो वेद एव सर्वोत्कर्षेण प्रमाणमिति। वेदस्य लक्षणन्तावत्प्रामाणिकैस्तत्रभवद्भिर्महर्षिवर्यैश्च–इष्टप्राप्तयनिष्टपरिहारयोरलौकि कमुपायं यो ग्रन्थो वेदयति स वेद' इत्युररीकृतम् । अत्रालौकिकपदेन प्रत्यक्षानु- मानयोावृत्तिः। अनुभूयमानस्य लकचन्दनवनितादेरिष्टप्राप्तिहेतुत्वम् , औषध- सेवनादेरनिष्टपरिहारहेतुत्वञ्च प्रत्यक्षतः सिद्धम् । स्वेनानुभविष्यमाणस्य पुरुषान्तर- गतस्य च तथात्वमनुमानगम्यम् । अनेनैव पथा भाविजन्मगतसुखादिकमपि अनु- मानगम्यमिति चेत् , न । तद्विशेषस्यानवगमात् । न खलु ज्योतिष्टोमादिरिष्टप्राप्ति- हेतुः, कलञ्जभक्षणवर्जतादिरनिष्टपरिहारहेतुरित्यमुमर्थ वेदव्यतिरेकेणानुमानसहस्र- णापि तार्किकशिरोमणिरप्यवगन्तुं शक्नोति । . अत एवोक्तम्- प्रत्यक्षणानुमित्या वा यस्तूपाया न बुध्यते । एतं विदन्ति वेदेन तस्माद्वेदत्य वेदता ।। इति । मन्त्रब्राह्मणात्मकत्वं तावददुष्टं वेदस्य लक्षणम् । तथाहि श्रूयते-"मन्त्रबा- झणयोर्वेदनामधेयम्" इति । अत्रभवतोऽपौरुषेयस्य वेदस्यान्यल्लक्षणं भवितुं नार्हति । अव्यातयतिव्याप्तिदोषसद्भावात् । एवश्चास्य भगवतो वेदस्य प्रामाण्यं बोधकत्वात्स्वत एव सिद्धम् । पौरुषेयवा- क्यन्तु बोधकं सदपि पुरुषगतभ्रान्तिमूलत्वसम्भावनया तत्परिहाराय मूलप्रमाण- पेक्षते । न तथा वेदः । तस्य नित्यत्वेन वक्तृदोषशङ्कानुदयात् । अत्र जैमिनिः- - पौरुषेयं न वा वेदवाक्यं स्यात्पौरुषेयता। काठकादिसमाख्यानाद्वाक्यत्वाचान्यवाक्यवत् ॥
२ भूमिका। समाख्यानं प्रवचनाद्वाक्यत्वं तु पराहतम् । तत्कनुपलम्भेन स्यात्ततोऽपौरुषेयता ।। ( जै० न्या. मा० ११२।८) ननु भगवता बादरायणेन वेदस्य ब्रह्मकार्यत्वं सूत्रितम्-"शास्त्रयोनित्वात्" इति ( वे• सू० १३१॥३) । ऋग्वेदादिशास्त्रकारणत्वाद् ब्रह्म सर्वज्ञमिति सूत्रार्थः । बाढम् । नैतावता पौरुषेयत्वं भवति, मनुष्यनिर्मितत्वाभावात् । ईदृशमपौरुषेयत्व- मभिप्रेत्य व्यवहारदशायामाकाशादिवन्नित्यत्वं बादरायणेनैव देवताधिकरणे सूत्रि- तम् "अत एव च नित्यत्वम्" इति (वे. सू० १२।२६ )। श्रुतिस्मृती चात्र भवतः "वाचा विरूपनित्यया"। ( ऋ० ८७५/६) इति । स्मृतिः- अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा । आदौ बेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ।। इति । तस्मात्कतृदोषशङ्काया अनुदयात् मन्त्रब्राह्मणात्मकस्य वेदस्य यथार्थ प्रामा. ण्यं सिद्धम् । अतोऽस्य परमपूतस्य भगवतो वेदस्योपासना द्विजातिभिरवश्यं विधेयेति सर्वत्र मुक्तकण्ठेन निगदन्ति श्रुतिस्मृत्यादयः । श्रुतिः-"द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति, परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः, शिक्षा, कल्पो व्याकरणं निरुक्तं छन्दो ज्यौतिषमिति । अथ-परा यया तदक्षरमधिगम्यते" (मुण्ड० १२११४) इति ।। स्मृतिः योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ इति । तत्रभवान् पतञ्जलिरपि-"ब्राह्मणेन निष्कारणः षडङ्गो वेदोऽध्येयो ज्ञेयश्च" इत्यादिना द्विजातीन् बाढं वेदाध्ययने प्रवर्तयतीत्यलम्बहुना । यश्च किल द्विजन्मा वेदमधीत्यापि अर्थ न विजानाति सोऽयं पुमान् भारमेव वहति । "स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञ इत् सकलं भद्रमश्नुते नाकनेति शानविधूतपाप्मा" इतिश्रुतेः । तस्माद्विजातीनाम- र्थशानाय शिक्षादिषडङ्गानामध्ययनमपि न हेयम्भवतीति निश्चप्रचम् ।
- भूमिका। ३ शिक्षायाम्-वर्णस्वराद्युच्चारणप्रकार उपदिष्टः । छन्दसि-मगणयगणादि- साध्यो गायव्यादिविवेको निर्दिष्टः । कल्पे-यागप्रयोगः । ज्योतिषे कालविशेष यागविशेषः । निरुक्त-अवबोधे निरपेक्षतया पदजातमुक्तम् । एवं व्याकरणेऽपि- अर्थविशेषमाश्रित्य स्वरप्रकृतिप्रत्ययैः वैदिकलौकिकशब्दानां व्युत्पत्तिः प्रदर्शिता । तस्मात्साङ्गमधीत्येव ब्रह्मलोके महीयते ।। इति पाणिनीयशिक्षातः "द्वे विद्ये वेदितव्ये' इतिमुण्डकोपनिददश्च न शङ्कालेशो विलसति साजोवेदाध्ययने द्विजातीनाम् । सत्स्वपि सर्वेषु व्याकरणेषु सावलौकिवैदिकशब्दानां नितरां व्युत्पादक तावत्पाणिनीयव्याकरणमेव । पाराशरोयपुराणे- पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् । सर्वोपकारकं ग्राह्यं कृत्स्नं त्याज्यं न किञ्चन ॥ १ ॥ श्रीमत्पाणिनीयवतीतरतपस्यासन्तोषितमहेश्वरवरलब्धचतुर्दशसूत्रस्याम्नायत्वं वरीवर्तीति तन्मूलकत्वादस्यैव पाणिनीयव्याकरणस्य वेदाङ्गत्वम् । अत्र प्रमाणं पाणिनीयशिक्षावचनम्- "येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तम्" (पा० शि० ५७)। अत एव "सोऽयमक्षरसमाम्नायः पुष्यितः फलितश्चन्द्रतारकवत् प्रतिमण्डितो ब्रह्मराशिः" इति भाष्यमुपादायोक्तं भर्तृहरिणा-"यथैवेदमव्युच्छिन्नं चन्द्रता- रकादि एवमस्याक्षरसमाम्नायस्य न कश्चिद् अाधुनिकः कर्तास्ति । अक्तन्त्रव्या. करणे शाकटायनोऽपि-"इदमक्षरच्छन्दो वर्णशः समनुकान्तं यथाऽऽचार्या ऊचु. ब्रह्मा बृहस्पतये प्रोवाच, बृहस्पतिरिन्द्राय इन्द्रो भरद्वाजाय भरद्वाज ऋषिभ्यः, ऋषयो ब्राह्मणेभ्यस्तं खल्विममक्षरसमाम्नायमित्याचक्षते, न भुक्त्वा न नक्तं प्रबेयाब्रह्मराशिः” इति ॥ भवति च निश्चप्रचं तत्रभवताम्भवतां विपश्चितां वेदाङ्गत्वेन सार्वलौकिकवैदि- कशब्दानां नितरां व्युत्पादकत्वेन चाखिलभारतवर्षे विशेषतश्च तेषु तेषु विद्यापी- ठेषु वाराणस्यादिमाननीयप्रदेशेषु च पठनपाठनपथा सर्वत्रातिशेते पाणिनीयव्या- करणमेवेति। तत्र तत्रभवता भगवता पाणिनीयमुनिना विरचितारोपण महर्षिणा पूज्य- भूमिका। पादेन श्रीकात्यायनेन विरचितपल्लवे श्रीमता भगवता भाष्यकारेण पतञ्जलिमह- र्षिणा बाढीकृतस्कन्धेऽत्र शाखिनि समारुरूषणां तत्फलस्वादरसिकानां सुखसमारो- हणाय विरचिताः सोपानपरम्परा इव नानायिधाः प्रबन्धाः पण्डितप्रकाण्डैान्य - वरैर्मनीषिभिः । तेषु प्रबन्धेष्वद्य श्रीमन्महामहोपाध्यायनागेशभट्टकृत-'परमलघुमञ्जूषा' वैया- करणाभिमतभाष्यसिद्धान्तरत्नानि बिभर्ती मञ्जूषेव तत्रभवताम्भवतां करकमलेषु सादरं समप्यते। श्रीमन्महामहोपाध्यायनागेशभट्टाः 'काले' इत्युपनामका महाराष्ट्रीयब्राह्मणा तीव्रतरतपस्यासन्तोषितवागीश्वरीवरलब्धवैदुषिकाः, कृतवाराणसीवास्तव्याः सती- गर्भजाः श्रीशिवभट्टतनुजन्मानः श्रीहरिदीक्षितगुरुवर्यैरपि प्रशंसिताः शब्देन्दुशेख- राद्यनेकग्रन्थकर्तार इत्यादि तत्तन्नागेशभट्टकृतग्रन्थोल्लेखात्किञ्चिज्ज्ञायते तत्रभवतां ग्रन्थकृताम्परिचयः। इयं परमलघुमञ्जूषा लघुत्वात्सङ्क्षेपतो वैयाकरणसिद्धान्तानां प्रदर्शिकेति तस्या व्याख्यानं परीक्षादिसूनां छात्राणामुपकाराय कर्तव्यत्वोनत्यावश्यकतया विद्याविलासमुद्रणालयाध्यक्षेण व्याकरणाद्यनेकग्रन्थप्रकाशकेन श्रीहरिदासगुप्ता- मजजयकृष्णदासश्रेष्ठिना व्याख्यानसंशोधनकर्मण्यनेकदा प्रार्थितोऽहम्-अर्थदीपि- काख्यव्याख्यां व्यरीरचम् । तस्यां व्याख्यायां प्राधान्येन तत्तन्मतस्य स्पष्टीकरणं स्वसिद्धान्तानाम्प्रदर्श- नम् , प्रतिकूलमतानां प्रत्याख्यानं तत्तत्पदार्थानां निर्दुष्टं लक्षणमित्यादि च प्रदर्शितम् । अपरञ्च छात्राणामधिकलाभाय विदुषां कौतुकाय च महामहोपाध्यायश्रीनि- त्यानन्दपन्तपर्वतीयकृतटिप्पण्येयं परमल घुमञ्जूषासालकृता, अर्थदीपिकया च संवलिता यथाशेमुषि मया संशोधिता। तत्र तावद्गच्छतस्खलनन्यायान्मतिमान्द्याद् दृष्टि दोषान्मुद्रकदोषाद्वा काचना. शुद्धिः स्यात्तां गुणैकपक्षपातिनो विद्वांसो निरस्य मामनुगृह्णन्विति साञ्जलि बन्धं प्रार्थयते। विदुषामनुचरः- जोशीत्युपासदाशिवशास्त्री ॐ श्रीगणेशाय नमः। परमलघुमञ्जूषा शिवं नत्वा हि नागेशेनानिन्द्या परमालघुः।। वैयाकरणसिद्धान्तमञ्जुषैषा विरच्यते ॥१॥ अथार्थदीपिका-प्रारम्भः। यस्य स्मरणमात्रेण प्रत्यूहा यान्त्यधीरताम् । ये नत्वा कृतकृत्याः स्युस्तं वागीशमहं भजे ॥१॥ दामोदरतनूभूतः राधादेव्यास्तु गर्भजः । सदाशिवामिधानोऽयं कौण्डिन्यकुलभूषितः ॥ २ ॥ स्मृत्वा गुरुपदाम्भोज नत्वा पित्रोः पदाम्बुजम् । वैयाकरणमञ्जूषाटीका कुर्वेऽर्थदीपिकाम् ॥ ३ ॥ ॐ "मङ्गलादीनि मङ्गलमध्यानि मङ्गालान्तानि व शास्त्राणि प्रथन्ते, वीरपुरुषकाणि च भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च वृद्धियुक्ता यथास्युः इति वृद्धिसूत्रस्थभाष्या. दिस्मृतिसिद्धकर्तव्यताकं ग्रन्थादो कृतं मङ्गलं शिष्यशिक्षायै व्याख्यातृश्रोतृणामनु षडत्तो मङ्गलाय च निबन्धाति-*शिवमित्यादिना । शिवं निस्वैगुण्यमङ्गलस्वरूपं 'शिवमद्वैतं चतुर्थ मन्यन्ते इतिश्रुतेः। ननुनिर्गुणमूर्तेनैतिप्रयोजकाकारवत्वाभावे नत्य- सम्भव इति चेत्, न शेते अस्मिञ्जगदिति शिवस्तमित्यर्थात् । संहारवाक्तिमतो. ऽप्याशुतोषत्वात्तनमस्कारोऽपि मङ्गलायैव भवतीति न कश्चिद्विरोधः। अथ वा शिव शिवसदृशं स्वपितरमित्यर्थः । नत्वेति । अञ्जलिाशसंयोगादिव्यापारेण तोषयिः त्वेत्यर्थः । स्वनिष्ठापकृष्टत्वप्रकारकबोधानुकूलव्यापाररूपनमस्कारो नमधात्वर्थः । *नागेशेनेति । नु- आत्मनाम गुरोर्नाम नामातिकृपणस्य च। श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ।। इत्यात्मनामोच्चारणप्रयुक्तो दोषः कूपखानकन्यायेन समाधेय इति तन्न । नान्तरी यकपापनाशस्यैव तन्न्यायविषयत्वात्। आत्मनामोच्चारणस्य ग्रन्थकरणनास्तरीयकत्वा । N .
२ परमलघुमञ्जूषायाम्- तत्र वर्णपदवाक्यभेदेन स्फोटस्त्रिधा । तत्रापि जातिव्यक्तिभेदेन पुनः घोढा। अखण्डपदस्फोटोऽखण्डवाक्यस्फोटश्चेति सङ्कलनयाऽष्टौ स्फोटाः । तत्र वाक्यस्फोटो मुख्यः, तस्यैव लोके ऽर्थबोधकत्वात्तेनैवार्थसमाप्तेश्चेति । तदाह न्यायभाष्यकार:-"पदसमूहो वाक्यमर्थसमाप्तौ” इति । अस्य समर्थ- मिति शेषः। तत्र प्रतिवाक्यं सङ्केतग्रहासम्भवाद् वाक्यान्वाख्यानस्य लघू- पायेनाशक्यत्वाच्च कल्पनया पदानि प्रविभज्य पदे प्रकृतिप्रत्ययभागान्प्र. विभज्य कल्पिताभ्यामन्वयव्यतिरेकाभ्यां तत्तदर्थविभाग शास्त्रमात्रविषयं परिकल्पयन्ति स्माचार्याः । । । मावात् । नच "आत्मनाम इति निषेधात्स्वनामोपादानमनुचितमिति वाच्यम् । "आस्मनाम" इति स्मृतौ न गृह्णीयात्' इत्यस्य नोच्चारयेदित्यर्थन लेखने दोषा- मावात् । अत एव "गोनीय आहा 'भद्दोजीदीक्षितकृतिः' इत्यादि सर्वो व्य. वहारः सङ्गच्छते। *वैयाकरणसिद्धान्तमषेति । वैयाकरणानां पाणिन्यादीनां ये सिद्धान्तास्तेषां मञ्जूषेव मजूषा| यथा सम्पुटकः सकलमणीमुक्तादीनां सङ्ग्राहकः, तथा अयमपि मजू- पाख्यो अन्धः सकलवैयाकरणसिद्धान्तसम्राहक इति भावः। एतेन वैयाकरणभूषणे- नेदं गतार्थमित्यपास्तम् । तत्र सकलसिद्धान्ताभावात् । एषेति । भाविनोऽपि बुध्या विषयोकरणादेषेति निर्देशः । तत्रेति । सकलसिद्धान्तानां मध्ये *तत्रापीति। त्रिविधेष्वपीत्यर्थः । *अष्टौ स्फोटा इति । वर्णस्फोटः, पद- ल्फोटः, वाक्यस्फोटा, अखण्डपदस्फोटः, अखण्डवाक्यस्फोटः, वर्णपदवाक्यभेदेन अयो जातिस्फोटा:, सङ्कलया अष्टाविति भावः । *स्फोट इति । स्फुटति प्रकाशते अर्थों अस्मादिति व्युत्पत्या पङ्कजादिपदवद्योगरूदास्फोटशब्दः । तस्यैवेति । वाक्यस्फो. टस्यैवेत्यर्थः, शक्तिग्राहकशिरोमणिना वृद्धव्यवहारेण प्रथम तत्रैव शक्तिग्रहादिति भावः। तेनैवेति । वाक्येनैवेत्यर्थः। अर्थसमावेरिति । निराकाक्षस्य वाक्याथस्य तत एव ज्ञानेन वाक्येनैव वाक्यार्थस्य पूरणत्वादित्यर्थः । *पदसमूह इति । सुबन्त. समूहः, तिङन्तसमूहः, सुबन्ततिङन्तसमूहश्चेत्यर्थः । न तु शक्तं पदमिति भावः। *सङ्के. ताहासम्भवादिति । शक्तिग्रहासम्भवादित्यर्थः। *कल्पनयेति । वाक्ये पदानि प्रकल्प्य पदे व प्रकृतिप्रत्ययभागं प्रकल्प्य कल्पिताभ्यां अन्वयव्यतिरेकाभ्यां प्रकृति. प्रत्ययार्थाः कल्पिताः इत्यर्थः । *शास्त्रमात्रविषयमिति । शास्त्रीय प्रक्रियोपयोगी लोके वाक्यस्यैव बोधकत्वादित्यर्थः । शास्त्रोयकार्यस्मरणपूर्वकप्रयोगे एवं धर्मोत्पत्तेः । अत एव भाष्ये उक्तं 'एकः शब्दः सम्यक्ज्ञातः सुधुप्रयुक्तः स्वर्ग लोके च काम- धुक् भवति इति । *कल्पयन्तीति । अन्यथानुपपत्येति भावः । *माचार्या पा. । । - शक्तिविचार। ३ तत्र शास्त्रप्रक्रियानिर्वाहको वर्णस्फोटः। प्रकृतिप्रत्ययास्तत्तदर्थवाचका एवेति तदर्थः । उपसर्गनिपातधात्वादिविभागोऽपिकाल्पनिकः । स्थानिनो लादय आदेशास्तिबादयः कल्पिता एव । तत्र ऋषिभिः स्थानिनां कल्पिता अर्थाः कण्ठरवेणैवोक्ताः। आदेशानां तु स्थान्यर्थाभिधानसमर्थस्यैवादेशते- तिभाष्यात्तेऽर्थाः। एवं च स्थानिनां वाचकत्वमादेशानां वेति विचारो निष्फ. ल एव । कल्पितवाचकत्वस्योभयत्र सत्त्वात्। मुख्यं वाचकत्वं तु कल्पन- या बोधितसमुदायरूपे पदे वाक्ये वा, लोकानां तत एवार्थबोधात् । उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः । - - णिन्यादयः। *शास्त्रप्रक्रियेति । प्रकृतिप्रत्ययरूपस्य व्याकरणेन गृहीतशक्तिकस्य पच् विप् इत्यादिकस्य निर्वाहक इति भावः। *वर्णस्फोट इति । वर्णस्फोटः इत्यस्य वर्णाः वाचका इत्यर्थो न सम्भवति. अर्थबोधानुकूला शक्तिः वर्णसमूहे एव पर्याता न प्रत्येक, तथा सति प्रत्येकं अर्थवत्वात्प्रातिपदिकसंज्ञापत्तौ धनं धनं इत्यादौ नलोपा- द्यापत्तः। *प्रकृतीति। प्रक्रियते प्रत्ययात्पूर्व क्रियते इति प्रकृतिरिति केचिदाहुस्तक समोचिनम् । बहुपटुरित्यत्र अव्यातेः। किन्तु प्रत्ययविधौ उद्देश्यतावच्छेदकाक्रान्तत्व- प्रकृतित्वम् । *काल्पनिक इति । परमार्थतस्तु स्फोट एव'अर्थवान् , प्रकृतिप्रत्यय- विभागस्तत्तदर्थविभागश्च सचौऽपि कल्पित एवेति भाष्यसिद्धान्तः । *कण्ठरवेणेति। "ला कर्मणि च" इत्यादिना स्थानिनामेवार्थाः उक्ता नत्वादेशानामिति । आदेशाना. मिति । यस्य स्थाने यः प्रयुज्यते स तमेवार्थम्बोधयति, यथा-पादशब्दस्य स्थाने कृतः पदादेशः, यथा वा क्रोष्टुशब्दस्य स्थाने कृतः क्रोष्ट्र आदेशः इति भावः। *एव- चेति । मुख्यवाचकस्य पदे एवं सत्वाच । अनिष्फलं एवेति । व्यवहारेण वाक्ये शक्तिग्रहाद्वाक्यस्यैव वाचकत्वम् । अत्रवाचकत्वन्तु कल्पितमेव । सा कल्पना आदेशे, उत स्थानिनि, विनिगमनाविरहादुभयत्रापि सम्भवतीति स विचारो निष्फल इति भावः । *उभयत्रेति । स्थान्यादेशयोः। *पदे*-सुटिङन्ते, न तु 'शक्तं पदम्' इति नैयायिकपरिभाषिते । वाक्ये*-एकतिङन्तार्थमुख्यविशेष्यके । लोकानामिति । लोकानां शक्तिप्राहकवृद्धव्यवहारेण शिरोमणिना तत एव बोधादिति भावः । *उपेयप्रतिपत्यथेति । उपेयस्य प्रतिपत्यर्थ ज्ञानार्थ उपायाः वर्गल्फोटादि- रूपाः अव्यवस्थिताः । यथा-आनन्दवल्ल्यां शुद्धब्रह्मज्ञानार्थ अनमयप्राणमयमनोम- यविज्ञानमयानन्दमयेति पञ्चसु कोशेषु अपारमाथिकब्रह्मत्वप्रतिपादनमुपाय:, यथा वा अरुन्धतीज्ञानार्थ स्थूलनक्षन्ने अपारमार्थिकारुन्धतीत्वबोधनम् , तथा पारमार्थिका- खण्डवाक्यबोधार्थमेते वर्णपदवाक्याखण्डपदस्फोटा उपायाः । । । ।
परमल घुमजूषायाम्- इति न्यायेन व्याकरणभेदेन स्थानिभेदेऽपि न क्षतिः देशभेदेन लि- पिभेदवदिति दिक् । तत्र “प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" इति गौतमसूत्रे शब्द- श्चाप्तोपदेशरूपः प्रमाणम् । आप्तो नामानुभवेन वस्तुतत्त्वस्य कास्न्येन निश्चयवान् , रागादिवशादपि नान्यथावादी यः स इति चरके पतञ्जलिः। तद्धर्मावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मावच्छिन्ननिरू- । - - उपायाः शिक्षमाणानां बालानामुपलालनाः। असत्ये वमंनि स्थित्वा ततः सत्यं समीहते । इति । व्याकरणभेदेन स्थानिनामनियतत्वान्न वाचकत्वमिति मतं निराकरोति- *व्याकरणेति लिपीति । भिन्नानामपिलिपीनां बोधकत्ववदिति भावः । *दि. गिति । दिगर्थस्तु-वृत्तिषु एकार्थीभावः, नामार्थयोः प्रकृतिप्रत्यययोरित्यादिकमपि कल्पिमिति। एवं वाक्यस्य शब्दस्य वाचकत्वमुक्त्वा तस्य प्रामाण्यमाह-*तन्त्रेति। प्रत्यक्षेति । प्रत्यक्षप्रमायाः करणं प्रत्यक्षम्-इन्द्रियन्त्रिकर्षजन्यं ज्ञानम् , अथवा ज्ञानाजन्यज्ञानत्वम् , ज्ञानाकरणकज्ञानत्वम्वा। अनुमितिकरणमनुमानम् , अथवा व्याधिज्ञानकरणकं ज्ञानमनुमितिः । सादृश्यज्ञानकरणकं ज्ञानमुपमितिः। शब्दज्ञानकरणकं ज्ञानं शाब्दबोधः। एतेषु प्रमाणेषु मध्ये शब्दप्रमाणमाह- *शब्दश्चेत्यादिना*। *आलोदेश इति । आप्तकर्तृकोच्चारणविषय इति भावः। यद्वा आटोपदेशेन वृद्धव्यवहारेण आतकर्तृककथनमात्रेण रूप्यते गृह्यते इति आलोदेशः । *आप्तो नामेति । आतत्त्वञ्च-रागमोहादिहिनत्वे सति कृत्स्नवस्तुनिश्चयवत्वम् । संशयव्यावृत्तये-निश्चयेति । सरागादिनिरासाय-रागादीति। यद्वा अर्थतत्वज्ञान- मासिः, तया प्रतीत इत्याप्तः । *चरके इति*पतालिमहर्षिप्रणितचरकग्रन्थे इत्यर्थः।। *पतञ्जलिरिति । व्याकरणमहाभाष्ययोगभाष्यकारः। ननु प्रमाणत्वं प्रमाकरणत्वं तच्च तादृशशब्दस्य चेत्तर्हि सर्वस्य श्रोतुस्ततो बो- धापत्तिरत आह-*तदावच्छिन्नेति। तद्धमावच्छिन्नेति । घटत्वावच्छिन्नविष: यकवृत्तीत्यर्थः । ज्ञाने वृत्तिवैशिष्टयं सामानाधिकरण्येन बोध्यम् । ज्ञानाधिकरणत्वं विषयतयेति भावः । अत्र ताकिकाः वृत्तिज्ञानपदज्ञानयोः पृथकहेतुत्वमिच्छन्ति । शाब्दिकैस्तु लाघवाद्विशिष्टस्यैव हेतुत्वमुक्तम् । ननु शारिदकानापि वृत्तिविषयकोबुद्धसंस्कारसामानाधिकरणवृत्याश्रयपद. विषयक ज्ञानस्य हेतुत्वे गौरवमिति चेन्न । सामानाधिकरण्यादीनां सम्बन्धकोटौ निवे. शात् । यस्य घटादिपदस्य वृत्तिायते तत्र पदेवृत्तिविषयकसंस्कारो ज्ञानं चेत्युभयमपि ५ शक्तिविचारः। पितवृत्तिविशिष्टज्ञानं हेतुः । अत एव नागृहीतवृत्तिकस्य शाब्दबोधः। अत एव च "(१)नहि गुड इत्युक्त मधुरत्वं प्रकारतया गम्यते” इति समर्थसूत्र- भाष्यं सङ्गच्छते । गुडादिशब्देन गुडत्वजात्यवच्छिन्नो (२)गुडपदवाच्य इत्येव बोधो जातिप्रकारकः । मधुरत्वं तु 'गुडो मधुर ऐक्षवत्त्वाद्'इत्यनु. मानरूपमानान्तरगम्यम् । विशेष्यविशेषणभावव्यत्यासेन गृहोतशक्तिकस्य पुंसो घटपदाद् घटत्वविशिष्टबोधवारणाय तद्धर्मावच्छिन्नेति। ज्ञाने वृत्तिवै- शिष्टयं च स्वविषयकोबुद्धसंस्कारसामानधिकरण्य-स्वाश्रयपदविषयकत्वो भयसम्बन्धेन बोध्यम् । अतो नागृहीतवृत्तिकस्य, नापि विस्मृतवृत्तिकस्य, विषयतयास्ति, वृत्याश्रयपदविषयकंचतज्ज्ञानम्। विशिष्टज्ञानमिति वैशिष्टयञ्च अनु- पदमेव मूले वक्ष्यते । अत एवेति । उक्तसमुदितस्य कारणत्वादेवेत्यर्थः। *नागृहीत- वृत्तिकस्येति । वृत्तिविषयकसंस्काराभावात्। *मधुरत्वमिति मधुरत्वप्रकारकबाधा- दर्शनात् । *मानान्तरगम्यमिति । मधुरत्वस्यानुमानेन व्यञ्जनया मनसा वोपस्थिति. रित्यर्थः। तार्किकाः ज्ञानलक्षणाजन्यं वदन्ति । अलङ्कारिका: व्यञ्जनाजन्यं वदन्ति । अन्येऽनुमानजन्यं वदन्ति । अनुमानश्चेत्थम्-गुडो, मधुरः । ऐक्षवत्वात्। यो यो मधु. रत्वाभाववान् , स स इक्षुविकारत्वाभाववान् । यथा-पिचुमन्द इति । वारणायेति । घटत्वविशेष्यकशक्तिग्रहानन्तरं घटत्वप्रकारकशाब्दबोधवारणायेत्यर्थः । तद्धर्मावच्छि. न्नेति । नन्वेवंत्यदादीनां बुद्धिस्थत्वावच्छिन्ने शक्तिग्रहात् तमानयेत्युक्त बुद्धिस्थ- मानयेत्येव बोधः स्यान्न तु घटत्वादिविशेषरूपेण । अत एव वह्निव्याप्य धूमवत्पर्वतं तच्छब्देन परामृश्य सवह्निमानितिवाक्यजन्यशाब्दबोधे परामर्श जन्यत्वेनानुमितिल. क्षणातिव्याविरुक्ता दीधिताविति चेदत्राहुः । सामान्यरूपेण शकावपित्यदादितो विशेषरूपेणैवोपस्थितिः। उपस्थितिशक्तिप्रहयोः समानाकारकत्वप्रवादस्तु त्यदाय. तिरिक्तविषय इति घटत्वादिविशेष एव शक्यतावच्छेदकः । यद्वा त्यदादीनां नामार्थ- त्वमिष्टमेवेति केचित् । स्वविषयकेति । वृत्तिविषयको य उबुद्धसंस्कारः, तत्सा. मानाधिकरण्यं वृत्याश्रयपदविषयकत्वजेत्यर्थः । अस्ति च घटपदार्थनिरूपितवृत्तिविष- यक उद्बुद्धसंस्कारः, विषयतया घटपदज्ञानं च । अयम्भावः-घटादिपदस्य घटत्वादिविशिष्टे शक्तिरित्यादिवृत्तिविशेष्यकज्ञाना. नन्तरं तत्समानाकार एवं संस्कार उत्पद्यते । ताशसंस्कारविशिष्टं पदज्ञानं शाब्दबो धे हेतुरिति । *स्वाश्रयेति । स्वाश्रयपदेत्यस्य फलं तद्वाचकपदाज्ञानवतो न बोधाइति ज्ञेयम् । *नागृहीतस्येति । वृत्तिविषयसंस्काराभावादिति भावः। विस्मृति (१) गुड इत्युक्ते मधुरत्वं प्रकारतया नांह गम्यते इत्यन्वयः । (२) इदं शब्दस्य बोधविषयत्वाभिप्रायेणोक्तमिति बोध्यम् । - ।
६ परमलघुमञ्जूषायाम् । नापि तत्पदमजानतो, नापि घटपदाश्रयत्वेनोपस्थिताकाशस्य, नापि जन- कतयोपस्थितचैत्रादेश्व बोधः। संस्कारकल्पिका च वृत्तिस्मृतिरेव(१)शाब्द- बुद्धिरेव वेत्यन्यदेतत् । सा च वृत्तिस्त्रिधा-शक्तिलक्षणा व्यञ्जना च। तत्र शक्तिः कः पदार्थ इति चेत् । अत्र ताकिकाः-'अस्माच्छब्दादयमों बोद्धव्यः' इत्याकारा 'इदं पद- मिममर्थ बोधयतु' इत्याकारा वेश्वरेच्छा शक्तिः लाघवात् । सैव सङ्केतः सम्बन्धः। शक्तेर्यद्यपि विषयत्वलक्षणः सम्बन्धः पदेऽर्थ बोधे च तथाऽपि उद्बुद्धसंस्काराभावादितिभावः । *तत्पदमजानत इति । तत्र विषयतया ज्ञानस्या- मावाद। *आश्रयत्वेनेति । तद्धर्मावच्छिन्न निरूपितवृत्याश्रयत्वनिवेशस्येदम्फल- म्बोध्यम् । तथाच-बाब्दस्याकाशगुणत्वाबूटादिशब्दादाकाशस्योपस्थितावपि आका. वात्वावच्छिन्ननिरूपितवृत्तेटादिशब्देऽभावान्न तद्वोध इति भावः । ननु संस्कारस्यातीन्द्रियतया तत्सत्वे मानाभाव इत्यत आह-संस्कारकल्पि- का चेति । स्मृतिरूपकाश्रयेणैव कारणस्य संस्कारस्यानुमानादिति भावः। ननु संस्कारस्य फलनाश्यत्वावृत्तिस्मृतौ संस्कारस्य नष्टत्वाच्छाब्दबोधानापत्तिरत आह-*शाब्दबुद्धिरेवति । चरमफलस्यैव संस्कारनाशकत्वमिति भावः । ताकिकमते ईश्वरेच्छा शक्तिः, मीमांसकमते अतिरिक्ता पदार्थान्तरम्, नवीनता. किंकैरीश्वरेच्छा ज्ञानं वा कृतिति विनिगमनाविरहान्मीमांसकमतमेवाङ्गीकृतम् । इतिमतान्तरासामञ्जस्य सूचनाय तां विभजते-*सा चेति । अनेन संगतिः सूचिता। *तत्र* तासु वृत्तिषु ॥ *शक्तिरिति । शक्तिश्च पदेन सह पदार्थस्य सम्बन्धः । सच अस्माच्छब्दादयमों बोद्धव्य इतीघरेच्छारूपः। यद्यपि ईश्वरेच्छाया: ऐक्यात घटशब्दात् घटो बोद्धव्य इतीघरेच्छा पटेऽप्यस्तीत्यतिप्रसंगः । एवं गङ्गापदजन्य- बोधविषयत्वप्रकारकेच्छायास्तीरेऽपि सत्वाच्छक्त्यैव तीरबोधोपपत्तेलक्षणोच्छेदापत्तिः तथापि गङ्गापदवाच्यत्वव्यवहारस्य तीरेऽभावाद्ङ्गादिपदजन्यबोधविषयतात्वाव. च्छिन्न प्रकारतानिरूपितविशेष्यतासम्बन्धेनेवरेच्छैव गङ्गादिपदानां शक्तिः। तीरादि निष्ठविशेष्यताया गङ्गादिपदजन्यबोधविषयत्वप्रकारतानिरूपितत्वेऽपि न तस्यास्ता- शविषयतात्वेन ताशप्रकारतानिरूपितत्वम्, अपि तु शुद्धविषयतात्वेनेति नाति. प्रसंगः, न वा लक्षणोच्छेदप्रसङ्ग इति भावः । (१) स्मृतेः शाब्दबुद्धिं प्रति न जनकत्वं किन्तु उद्बुद्धसंस्कारस्यैवेति मतम- भिप्रेत्येदम् । स्पष्टं चेदं सक्षेपशारीरके प्रथमाध्याये अन्विताभिधाननिरूपणावसरे इति तत एवावगन्तव्यम् ।
. शक्तिविचारः। बोधनिष्ठजन्यतानिरूपितजनकतावत्त्वेन शक्तिविषयो वाचकः,पदजन्यबोध- विषयत्वेन शक्तिविषयो वाच्य इति नातिप्रसङ्गः । यद्यपि प्रथमं शक्तिग्रहो वाक्य एव तथाऽप्यावापोद्वापाभ्यां शास्त्रकृत्कल्पिताभ्यां तत्तत्पदशक्तिग्रह इत्याहुः। तन्न । इच्छायाः सम्बन्धिनोराश्रयतानियामकत्वाभावेन सम्बन्धत्वा- सम्भवान। “सम्बन्धो हि सम्बन्धिद्वयभिन्नत्वे,सति द्विष्ठत्वे च सति आश्र. यतया विशिष्टबुद्धिनियामकः” इत्यभियुक्तव्यवहारात् । यथा घटबद् भूत- लमित्यादौ संयोगरूपः सम्बन्धः सम्बन्धिभ्यां भिन्नो द्विष्ठा घटनिरूपित संयोगाश्रयो भूतलमितिविशिष्टबुद्धिनियामकश्च, नात्र तथा घटशब्द इच्छा- वान् तदर्थो वा इच्छावानिति व्यवहारः। तस्मात्पदपदार्थयोः (१)सम्बन्धान्तरमेव शक्तिः, वाच्यवाचकभा. वापरपर्याया । तद्ग्राहकञ्चेतरेतराध्यासमूलक(२) तादात्म्य, तदेव * नातिप्रमझा । न सम्बन्धादौ वाचकत्वापत्तिः। प्रथमं शक्तिमह इति । बालानां वाक्यादेवार्थबोधात | आवाप:-पदान्तरप्रक्षेपः। *उद्वापा-निष्कासनम् । घटमानय, घट नय इत्यादिः । *इच्छेति । इच्छाविषयो यो बोधस्तदीयविषयताया इच्छाश्रयतानियाम- कत्वाभावादित्यर्थः । तत्र हि न पदं नापि पदार्थः इच्छाविषयः, किन्तु बोध एव । न च बोधविषयतयैव इच्छाश्रयता सम्भवतीति वाच्यम्। अयं शब्दः अयमों वा इच्छा. वानिति प्रतीत्यभावादिति भावः। *सम्बन्धान्तरम् उक्तेश्वरेच्छादिभिन्नम्।*वाच्यवाचकेतिभाशब्दे कारणताल्पा- (१) बोधजनकत्वस्यापि आश्रयतानियामकत्वाभावान्न सम्बन्धत्वम्। नापि तस्य शक्तित्वम् । प्रयोज्यप्रयोजकव्यवहारं पश्यता बालेन प्रयोज्यस्य प्रवृत्त्या तस्य ज्ञान- मनुमाय ज्ञानस्योपस्थितत्वाच्छन्दमेव कारणत्वेन गृहीत्वाऽसम्बन्धस्य कारणत्वानु पपत्तिज्ञानपूर्वक कल्प्यमानस्य स्वयमनुपपद्यमानत्वेन गृहीतजनकत्वरूपस्य तद्घटि- तस्य चा ग्रहीतुमनुचितत्वात् । तस्मात् सम्बन्धान्तरमेव वाच्यवाचकभाव इति लघु. मजूषायां स्पष्टम् । (२) इतरेतराध्यासो मूलं ज्ञापकं यस्येत्यर्थः । तथाहि-शब्दार्थों परस्परतादा. ल्यवन्तौ इतरेतराध्यासवत्वात् , यत्र यत्र इतरेतराध्यासस्तत्र तत्र तादात्म्यं यथा गुणगुणिनोः । यत्र न तादात्म्यं न तत्र इतरेतराध्यासः यथा घटपटयोः । गुणगुणिनोश्च इतरेतराध्यासो नीलो घट इत्यादौ प्रत्यक्षादिप्रतीतौ दृष्टः । शब्दार्थयोरितरेतराध्या. ।
परमलघुमजूषायाम् । (१)सम्बन्धः। उभयनिरूपिततादात्म्यवानुभय इत्यर्थपदयोर्व्यवहारात् । श. तरपिकार्यजनकत्वेसम्बन्धस्यैव नियामकत्वात् । दीपादिगतप्रकाशकत्वश- क्तावपि आलोकविषयसम्बन्धे सत्येव वस्तुप्रकाशकत्वं नान्यथेति दृष्टत्वात्। - शक्तिः प्रसिद्धैव, अर्थे शक्तिः वाच्यतारूपैव। तद्ग्राहकमिति । वृद्धव्यवहारादिव. दिदमपि तद्ग्राहकमित्यर्थः । *आध्याति । अन्यस्मिन्नन्यधर्मावभासः। तन्मूलक तादात्म्यं नतु वास्तवमित्यर्थः । तदुक्तं पातालभाष्ये-सङ्केतस्तु पदपदार्थयोरित- रेतराध्यासरूपः स्मृत्यात्मको योऽयं शब्दः सोऽर्थः योऽर्थः स शब्दः इति । शक्तः सम्बन्धो बोव्यबोधकनियामको भवति न तु शक्तिरित्याह-*शपीति । सम्बन्ध- स्यैव-तदन्यसम्बन्धस्यैवेत्यर्थः । तत्र मानमाह-*दीपेति । सोऽपि "शब्दार्थप्रत्ययानामितरेतराध्यासात् सङ्घर इति पातञ्चलसूत्रे (पा०३सू० १७) "गौरिति शब्दो गौरित्यर्थो गौरिते ज्ञानम्" इत्यनुभवप्रदर्शनेन भाष्यकारेण स्पष्टीकृतः । रामेति द्वयक्षरं नाम' इत्यादिना अग्रे मूलेऽपि स्फुटः । तस्मादन्वयव्य- तिरेकानुमानेव शब्दार्थयोस्तादात्म्यं सिद्धम् । (१) तादात्म्यस्य च सम्बन्धत्वं रूपवान् घटः, जातिमान् पट इत्यादौ आश्रय- ता बुद्धिनियामकत्वात् प्रसिद्धम् । इदमेव भेदाभेदघटितं नैयायिकैः समवायशब्देन व्यवहियते । तस्यातिरिक्तत्वाङ्गीकारश्च अनवस्थापत्त्यादिदूषणग्रस्तः । ततश्च प्रकृते. ऽपि शब्दार्थयोः दीपादिगतशक्तेः दीपालोकसम्बद्धविषयप्रकाशकत्वस्यैव दृष्टत्वेन पदशक्तेरपि पदसम्बद्धविषयप्रकाशकत्वसम्भवेन अन्यसम्बन्धे प्रमाणाभावेन पूर्वोक्ता. नुमानेन च तादात्म्यसम्बन्ध एवाङ्गीक्रियते । राहोः शिर इत्यत्र औपाधिकभेदेन षष्ठयुपपादानपरभाष्यप्रामाण्यातु केवलाभेद- स्य सम्बन्धत्वं नाङ्गीक्रियते, नतु भेदाभेदघटितस्य तादात्म्यस्य तद्भाष्येण सम्बन्ध- त्वनिरासः। अन्यथा उपाधीभूतशिरश्चैतन्यसमूहस्यापि राहुपदार्थत्वे समूहसमूहिनो. रात्यन्तिकभेदस्य कस्यापि मतेऽभावेन समवायाजीकर्तृभिरपि तत्र समवायानङ्गोका- रेण अन्यसम्बन्धस्य तत्रासत्वेन षष्टयुपपादनं भाष्योक्तमसङ्गतमेव स्यात् । तस्माद् भेदाभेदघटितस्य तादात्म्यस्य सम्बन्धत्वं निर्दुष्टम् । तत्र क्वचितेंदः कल्पनिकः, अभेदो वास्तवः। यथा गुणगुण्यादौ । कचिदभेदः काल्पनिकः भेदो वास्तवः । यथा शब्दार्थयोः शब्दादेव अर्थसृष्टिरिति पक्षे तु तत्राप्यभेदो वास्तवः भेद एव काल्पनिक भेदो वा. स्तवः भेद एव काल्पनिकः । तत्राभेदस्य उद्भूतत्वविवक्षया "वृद्धिरादैच्" "रामेति व्यक्षरं नाम मानभङ्गाः पिनाकिनः" इत्यादिनिर्देशाः। भेदस्योद्भूतत्वविवक्षया च "तस्य वाचकः प्रणवा "उनो वाचकं प्रगृह्मपदम् इत्यादयः प्रयोगाः ! एवं गुणगुण्या- दिस्थलेऽप्युदाहायमित्यलम् । - शक्तिविचारः। तदुक्तं हरिणा- उपकारः स यत्रास्ति धर्मस्तत्रानुगम्यते। शक्तीनामप्यसौ शक्तिर्गुणानामप्यसौ गुणः ॥ इति ॥ उपकार:-उपकार्योपकारकयोर्बोधशक्त्योरुपकारस्वभावः सम्बन्धो य- त्रास्ति तत्र धर्मः शक्तिरूपः कार्य दृष्ट्वा ऽनुमीयते । असौ सम्बन्धः शक्ती- नामपि कार्यंजनने उपकारकः गुणानामपि द्रव्याश्रितत्वनियामक इति हेलाराजः । स सम्बन्धः पदे वाक्ये च। तदाह न्यायभाष्यकार-"समयज्ञानार्थ चेदं पदलक्षणाया वाचोऽन्वाख्यानं व्याकरणं,वाक्यलक्षणाया वाचो ऽर्थ- लक्षणम्” इति । अनेन पदेष्विव वाक्येष्वपीश्वरसमय इति स्पष्टमेवोक्तम् । तस्मादितरेतराध्यासः सङ्केतस्तन्मूलक तादात्म्यञ्च सम्बन्ध इति सङ्घातार्थः । तदुक्तं पातञ्जलभाष्ये, “सङ्केतस्तु पदार्थयोरितरेतराध्यासरूप:(१)स्मृत्या- त्मको योऽयं शब्दः सोऽर्थो योऽर्थः स शब्दः” इति । स्मृत्यात्मक इत्यनेन ज्ञातस्यैव सङ्केतस्य (२)शक्तिबोधकत्वं दर्शितम् । उक्त ईश्वरसङ्केत एव शक्तिरिति नैयायिकमतं न युक्तम् । 'अयमेतच्छ- *उपकार इति । यत्र उपकारस्वभावः सम्बन्धो अस्ति तत्र शक्त्याख्यो धर्म अनुमीयते । असम्बद्धानामुपकाराभावात् । न च शक्तिरेव सम्बन्धः, शक्तीनामप्या. धारपारतन्त्रे कार्यजनने च सम्बन्धस्यैव नियामकत्वात् । *उपकार्यः* । अर्थः । *उपकारका-शब्दः । *कार्यम-(अर्थः) उपकारकम् । *शक्तीनामपीति । सम्बन्धसत्वे एव शक्तरपि कार्यजनकत्वादित्यर्थः। *अर्थलक्षणम्। अर्थप्रतिपादक शास्त्रम् । एतेन पदार्थ सम्बन्धग्रहवन्त्यपि पदानि वाक्याथै सङ्गतिग्रहानपेक्षाण्येवेति वाक्यस्फोटो नैयायिकासम्मत इति परास्तम् । *आध्यास इति। कः शब्दः कोऽर्थ इति प्रश्ने घट इत्ययं शब्दः घट इत्ययमर्थ इत्येकाकारोत्तरदर्शनात्तयोः शब्दार्थयोरध्याससिद्धिः । *तादात्म्योति । तादात्म्य. (१)स्मृतौ आत्मा स्वरूपं यस्येत्यर्थः स्मयमाण इति यावत् । (२)शक्तिबोधकत्वमिति । अयं भावा-प्रत्यक्षतो दृश्यमाने एव घटे "कोs. यम्" इति किं नामकोऽयम्" इति वा प्रश्ने "घटोऽयम्" इत्युपदेशेन "वृद्धिरादैच्" इत्याद्युपदेशेन च घट घटपदाभिन्नत्वेनादैचश्व वृद्धिपदभिन्नत्वेनावगच्छति । तदभिन्नत्वं च तदात्मकत्वं तदात्मकत्वग्रहे च तत्र बोधात्मकघटाघभिव्यक्तिशक्तिं गृह्णाति, बटादौ मृदाद्यात्मकत्वग्रहे मृदादौ प्रत्यक्षात्मकवटाभिव्यक्तिशक्तिमिव । अथ प्रयो. ।
१ १० परमलघूमञ्जूषायाम् । क्यः' 'अत्रास्य शक्तिः' इत्यस्य संकेतस्य शक्तितः पार्थक्येन प्रसिद्धत्वात् । अत एव न्यायवाचस्पत्ये उक्तम्-स्वर्गादिभुवां महर्षिदेवतानामीश्वरेण साक्षादेव कृतः संकेतस्तद्व्यवहाराचास्मदादीनामपि सुग्रहस्तत्संकेतः'इति। च--तभिन्नत्वे सति तदभेदेन प्रतीयमानत्वम् । *शक्तितः पार्थक्येनेति । अयमेतच्छच्यः अनास्य शक्तिः इत्यस्य सङ्केतल्या लाके दर्शनेन । तादृशेश्वरसङ्केतस्याप्यनुमानाच्छक्तिप्रकाशक एवेति भावः। *अत एवेति । सङ्केतस्य शक्तिप्राहकत्वादेव *महर्षीति* । महष्यादिभ्यः ईश्व- रेण साक्षात् संकेतः प्रकाशित इत्यर्थः । *सुग्रहः सङ्केत इति । योगवाचस्पत्ये उक्तम्- । गादिना पदज्ञाने जाते शक्तिविषयकसंस्कारोवोधे च शाब्दबोधो जायते । स्वशक्त्या स्वसम्बद्धस्यैवाभिव्यक्तिदर्शनाद् घटादिपदशक्त्या घटादिपदसम्बद्धस्यैव घटादेः शा. ब्दबोधरूपाभिव्यक्तिर्वाच्या । ततश्च पूर्वोक्तरीत्या तादात्म्यसम्बन्धसिद्धिः। यत्रापि घटपदं घटस्य वाचक, प्रगृह्मपदम् उजो वाचकम् , इत्युपदेशः, तत्रापि अ. भेद सहचरितस्यैव भेदस्य ग्रहो भवति, नतु शुद्धभेदस्य ग्रहः । शुद्धभेदग्रहे शक्तिग्रहा. नुपपत्तेः पटादिप्रतियोगिकशुद्धभेदवत्त्वेन गृहीते मृदादौ पटादिशक्तिग्रहस्य अजन- नात् निमित्तेऽतिप्रसङ्गास्तु न शङ्कयः। उपादाने एव शक्तिस्वीकारात् । स्फोटात्मकश. ब्दादेव सृष्टिरिति पक्षमाश्रित्य शब्दे अर्थोपादानत्वस्य सुवचत्वात् । बौद्धस्यैव अ. र्थस्य शाब्दबोधविषयित्वमिति पक्षे सुतरां तत्संभवाच्च । दृष्टिसृष्टिवादे शङ्काया एवा. नुत्थानाच्च । एवं च व्यवहारादेरपि शक्त्यनुमानमितरेतराध्यासात्मकसङ्घतानुमान. पूर्वकमेव । इतरेतराध्यासात्मकसतश्च योऽर्थः स शब्दः याशब्दः साऽर्थः इत्या. कारक ईश्वरकृतः वाच्यवाचकभावरूपां क्ति ग्राहयति । तदुक्तं पातालभाष्ये "तस्य वाचकः प्रणव इति सूत्रे (पा०१ सू. २७) "स्थितोऽस्य वाच्यस्य वाचकेन सम्बन्धः। संकेतस्तु ईश्वरस्य स्थितमेवार्थमभिनयति । यथाऽवस्थितः पितापुत्रयोः सम्बन्धः संकेतेनावद्योत्यते, अयमस्य पिता अयमस्य पुत्र इति । अनेन च ईश्वरसङ्क तस्य शक्तिग्राहकत्वं स्पष्टमेवोक्तम् । उपदेशरूपस्य पूर्वोक्तसंकेतस्य इतरेतराध्यासोल्लेखि- त्वात्तादात्म्यग्रहपूर्वकशक्तिग्रहजनकत्वं तस्य दशितम् । एतेन नैयायिकोक्तम् ईश्वर- संकेतस्य शक्तित्वं निराकृतं वेदितव्यम् । यथा घटशब्दो घटस्य वाचक इत्युपदेशरूपः संकेतः शक्तितो भिन्नः तथैव महर्षीणां साक्षाद् इश्वरकर्तृकः ताश उपदेशः शक्तितो भिन्न एव वाच्यः। दृष्टानुसारेणैव कल्पनाया उचितत्वात् । उक्त नागेशेन "अय. मेच्छक्योऽत्रास्य शक्तिरित्यस्य संकेतस्य शक्तितः पार्थक्येन प्रसिद्धत्वात्" इति। इच्छारूपसंकेतस्य शक्तित्वं तु प्रागेव निरस्तम् । तस्मात् इन्द्रियशक्तिवत् पदशक्ति. पिभिन्नैव तद्ग्राहकं च इतरेतरोध्याससिद्धं तादात्म्यमिति सर्व सुस्थम् । , शक्तिविचारः। १२ । तस्य च तादात्म्यस्य निरूपकत्वेन विवक्षितोऽथः शक्यः, आश्रयत्वेन विवक्षितः शब्दः शक्त इत्युच्यते । शब्दार्थयास्तादात्म्यादेव 'श्लाकमशृणो- दथार्थं शृणोदिति अर्थ वदति' इत्यादिव्यवहारः । "आमित्येका रं ब्रह्म "रामेति यक्षरं नाम मानभङ्गः पिनाकिन:, "वृद्धिरादैच्" इतिशक्ति ग्राहकश्रुतिस्मृतिविषये सामानाधिकरण्येन प्रयोगश्च । तादात्म्यं च तद्भिन्नत्वे सति तदभेदेन प्रतीयमानत्वमिति भेदाभेदसम. नियतम् । अभेदस्याध्यस्तत्वाच न तयोविरोधः । यत्तु तार्किकाः, शब्दार्थयोस्तादात्म्यस्वाकारे मधुशब्दोच्चारणे मुखे मा. धुर्यरसास्वादापत्तिः, वह्निशब्दोच्चारणे मुखे दाहापत्तिरित्याहुः । तन्न। भेदाभे- दस्योपपादितत्वात् वस्तुतो बौद्ध एवार्थः शक्यः, पदमपि स्फोटात्मकं प्रसिद्धम् , तयोस्ता- दात्म्यम् । तत्र बौद्धे वह्नयादावर्थे दाहादिशक्तिमत्त्वाभावात्। अत एव "शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः” इति विकल्पसूत्रं सङ्गच्छते । शब्दज्ञानमात्रेणानुपाती बुद्धावनुपतनशीलो वस्तुशून्यः बाह्यार्थरहितः वि. शेषेण कल्प्यत इति विकल्पः, बुद्धिपरिकल्पित इति तदर्थः । अत एव - एष वन्ध्यासुतो याति खपुष्पकृतशेखरः। 'सव च शब्दाः सर्वार्थाभिधानसमर्थाः, इति सर्वैरथः सर्वेषां शब्दानां सम्बन्धः, ईश्वर सङ्केतस्तु प्रकाशकः' इति । अत एव 'नित्यः शब्दार्थसम्बधः इति ताकिकाः। *न तयोविरोध इति । तत्र भेदस्योद्भूतत्वविवक्षया अस्यार्थस्य अयं वाचका "उनः प्रगृह्यम्" तस्य वाचक प्रणवः इत्यादौ षष्ठी । अभेदस्योद्भुतत्वविवक्षया तु प्र. थमा यथा-रामेतिद्वयक्षरनाम" "वृदिरादेइत्यादौ। *भेदाभेदस्येति । वस्तुतो भेद एव अभेदस्तु आरोपित इति भावः । एवमभ्युपेत्य समाहितं वस्तुतो दोषशङ्खच नेत्याशयेन सिद्धान्तमाह-वस्तुत इति*। *बौद्ध एवेति । बुद्धिविषयावेवार्थशब्दौ वाच्यवाचकौ न वास्तवावित्यर्थः । *तयोरिति । शब्दार्थयोः । *तादात्म्यम्*-अभेदः । बुद्धिपरिकल्पित* इति । श- क्यो अर्थः बुद्धिसत्तासमाविष्ट एव न तु बाह्यसत्तासमाविष्टः । बौद्धपदार्थानङ्गिकारे घट इत्यत एव सत्तावगमेन घटोऽस्तीतिप्रयोगेगतार्थत्वादस्तीति प्रयोगानापत्तेः । सत्ता. या विरोधाधटो नास्तीत्यस्यानापत्तेश्च । मम तु बुद्धिसतो बाह्यसत्तातदभावबोधनाय अस्ति नास्तीति प्रयोगः सङ्गच्छते। *वन्ध्या सुत इति । एषः बुद्धिस्थः वन्ध्या सुतो बुद्धिस्थः सन् याती. - १ १२ परमलघुमञ्जूषायाम्- कूर्मक्षीरचये स्नातः शशशृङ्गधनुर्धरः। इत्यत्र वन्ध्यासुतादीनां बाह्यार्थशून्यत्वेऽपि बुद्धिपरिकल्पितं वन्ध्यासुत- शब्दवाच्यार्थमादायार्थवत्त्वात्प्रातिपदिकत्वम्। अन्यथाऽर्थवत्त्वाभावेन प्राति. पदिकत्वाभावात्स्वाद्युत्पत्तिर्न स्यात् । यत्तु शशशृङ्गमित्यत्र.शृङ्गे शशीयस्वभ्रम इति तार्किकैरुक्तम् । तन्न। शश- शब्दवाच्यजन्तुदर्शनरूपवाघे सति शशशृङ्ग नास्तीति वाक्ये शशशृङ्गमित्य स्य प्रातिपदिकत्वानापत्तेः । अर्थपदयोस्तादात्म्यात्तत्तदर्थतादात्म्यापन्नः शब्दो भिन्न इति हेतोरथभेदाच्छब्दभेद इति व्यवहारः । समानाकारमात्रेण तु- एकोऽयं शब्दो बह्वर्थ इति व्यवहारः । सा च शक्तिस्साधुष्विवापभ्रंशेष्वपि, शक्तिग्राहकशिरोमणेर्व्यवहारस्य तुल्यत्वात् । व्यवहारदशनेन च पूर्वजन्मानुभूतशक्तिस्मरणम् । अत एव बालानां तिरश्चां चान्वयबोधः । न हि तेषां तदेव तत्सम्भवः । यत्तु तार्किकाः-असाधुशब्देन साधुस्मरणद्वाराऽर्थबोध इत्याहुः । तन्न । साधुस्मरणं विनाऽपि बोधानुभवात् । तद्वाचकसाधुशब्दमजानतां बोधानाप- तेश्च । न च शक्तिभ्रमाद् बोधोऽसाधुशब्देविति वाच्यम् । निस्सन्देहप्रत्यय- स्य बाधकं विना भ्रमत्वायोगात्। अत एव स्त्रीशूद्रबालादीनामुच्चारिते साधा ति तदर्थः । बुद्धिपरिकल्पितमिति । इच्छादीनामन्तःकरणनिष्ठतया तत्र विषयस्य सामानाधिकरण्येनैव कारणत्वौचित्येन बौद्धपदार्थसत्तावश्यकीति भावः। *अर्थभेदाच्छब्दभेद इति । तादात्म्यमूलकस्य सम्बन्धत्वे अर्थभेदात्ता. दात्म्यापन्नशब्देषु भेदौचित्येन अर्थभेदाच्छब्दभेद इत्युपपद्यत इति भावः। नन्व- स्मिन्पक्षे 'एकः शब्दो नानार्थः, अज्ञा पादा भाषा' इति भाष्य, कथमुपपद्यतामित्यत आह-*समानाकारमात्रेणेति। एवं शक्ति निरूप्य । तदाश्रयमाह-सा चेति । वाच्यवाचकभावाख्येत्यर्थः । *व्यवहारदर्शनेनेति । व्यवहारदर्शनमुद्बोधकविधया स्मारकमेवेति लाघवं, जी. वनादृष्टमेवोद्बोधकमित्यर्थः । *अत एवेति । पूर्वजन्मानुभूतस्मरणस्वीकारादेव । अन्यथा इष्टसाधनताज्ञानाभोवात्स्तनपानादौ प्रवृत्ति स्यात् । पश्चादीर्ना जडप्राया प्रतिनियतजात्यनुसारेणैव नियतैव काचित्प्रतिभा बोध्यते, अतस्तेषामप्यनादिवासनैव बीजमिति भावः । *तदैव -आधबोधकाले एव । तत्सम्भवाण-शक्तिग्रहसम्भवः । *मसाधुशब्देनेति । असाधोः साधुप्रकृतिकत्वात्सादृश्येनेति भावः। *भ्रम. ।
परमलघुमञ्जूषायाम्- सा च शक्तिस्त्रिधा, रूढिोगो योगरूढिश्च । शास्त्रकल्पितावयवार्थभा- नाभावे समुदायार्थनिरूपितशक्ती रूढिः, यथा मणिनूपुरादौ। शास्त्रकल्पि- तावयवार्थनिरूपिता शक्तियोगः, यथा पाचकादौ । शास्त्रकल्पितावयवा- थान्वितविशेष्यभूतार्थनिरूपिता शक्तिर्यागरूढिः, यथा पङ्कजपदे । तत्र पङ्क- जनिकर्तृ पद्ममिति बोधात्। पद्मेऽनुपपत्तिप्रतिसन्धान सम्बन्धप्रतिसन्धा- नं च विना न लक्षणावसरः, कचित् तात्पर्य्यग्राहकवशात्केवलरूढयर्थस्य केवलयोगार्थस्य च बोधः, 'भूमौ पङ्कजमुत्पन्नं कल्हारकैरवमुखेष्वपि पङ्कजेषु' इत्यादौ । स्पष्ट चेदम् "आदि" इति सूत्रे भाष्ये । अश्वगन्धादिपदमोषधिविशेष रूढम्, अश्वसम्बन्धिगन्धवत्तया वाजिशालाबोधे यौगिकम् । इदं यौगिकरूढमि. त्युच्यते । एवं मण्डपपदं गृहविशेष रूढं, मण्डपानकर्तरि यौगिकम् । सैषा शक्तिः संयोगादिभिर्नानार्थेषु नियम्यते । तदुक्तं हरिणा- संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः॥ सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इति ।। एते संयोगादया नानार्थेषु शब्देषु शब्दार्थस्यानवच्छेदे सन्देहे तदपा- *साचति । पूर्वोका च । मातिरिति । तत्स्वरूपे निरूपिते विशेष जिज्ञासाथै तद्भदं दर्शयति । *रूढिरिति । समुदायार्थमात्रबोधकपदे शक्ति-रूढिरित्यर्थः । ननु प्रकृतिप्रत्ययविभागस्यापारमार्थिकत्वात्कथं रूढ्यरूढिविभागः इत्यत आह- शास्त्रकल्पितेति । ननु पङ्कजपदस्य पनत्वविशिष्टे लक्षणैवास्तु किं समुदायः. शच्येत्यत आह-*पद्मतिर । *लक्षणावसरेति । लक्षणायोः अन्वयानुपपत्ति- मूलकत्वादिति भावः । अस्माकं मतेन लक्षणाया अभाव एव इत्याप बोध्यम् । *भूमौ पठ्ठजमिति । इदं केवलरूढयर्थबोधकस्योदाहरणम् । अत्र योगार्थस्य बाधः । *कल्हारेति । कल्हारे कैरवे कुमुदे अवयवार्थमादायैव प्रयोगः। अर्थभेदा. च्छब्दभेदः इतिमते उत्तान्तर्भावसम्भवान्न चतुर्थोऽतिरिकः शब्दः, इति चतुर्धा तद्विभागोऽयुक्त इति सूचयबाह-अवगन्धादिति । अर्थभेदेऽपि शन्दैक्यमिति. मतेनाह- इदमिति।
शक्तिविचारः। १ करणद्वारा विशेषार्थनिर्णायकाइति तदर्थः। संयोगविप्रयोगयोरुदाहरणे सव. स्सा घे(१)नुरवत्सा धेनुरिति । साहचर्यस्य रामलक्ष्मणाविति । साहचर्य सादृश्यं सहशयोरेव सहप्रयोग इति नियमात् । रामार्जनगतिस्तयोरित्या- दौ विरोधेन तत् । अञ्जलिना जुहोति अञ्जलिना सूर्यमुपतिष्ठत इत्यत्र जुहोतीत्यादिपदार्थवशाद् अञ्जलिपदस्य तत्तदाकाराञ्जलिपरत्वम् । सैन्ध- वमानयेत्यादौ प्रकरणेन तत् । "अक्ताः श(२)करा उपदधाति” इत्यादौ तेजो वै घृतम्” इति घृतस्तुतिरूपाल्लिङ्गादत्ता इत्यस्य घृतसाधनकाञ्जनपर- त्वम् । रामो जामदग्न्य इति जामदग्न्यपदसन्निधानाद्रामः परशुरामः । अभिरूपाय कन्या देया इत्यादौ अभिरूपतरायेति सामर्थ्यात् प्रतीयते । परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याद्यैः सर्वस्य क()टुरेव सः ॥ इत्यत्रौचित्यात् परशुनेत्यस्य छेदनार्थत्वम् , मधुसर्पिषा इत्यस्य सेच- यश्च निम्ब *विशेषार्थनिर्णायका इतिमा उपस्थितानामनेकेषामेकतरमात्रार्थतात्पर्यनिर्णयद्वारा तन्मात्रार्थविषयकान्वयबोधजनका इति भावः । अत्र सामर्थ्यमेवैकं मुख्य निर्णायक- संयोगादयस्तद्वयाकप्रपञ्चः । संयोगादिभिः सामर्थ्यस्यैवाभिव्यक्तरितिपरे। सेति। धेनुशब्देन नवप्रसूता सर्वा एवं गृह्यत इति मते इदम् । *अवत्सेति निषे. धस्य प्राप्तिपूर्वकत्वात् अवत्सापि गौरवोच्यते इति भावः। रामलक्ष्मणाविति। ननु रामसाहचर्यालक्ष्मणो दाशरथिः, वक्ष्मणसाहचर्याच रामो दाशरथिति इति अन्यो. न्याश्रय इति चेन्न । रामलक्ष्मणावित्यत्र साहचर्येण उभयोयुगपदेव नियमनमिति स्वीकारात्। साहचर्य न सहचरता "दीधीवेवीटाम्" इत्यादावसम्भवादित्याह- *सादृश्यमिति । रामार्जुनेति । अत्र रामार्जुनयोरिव तयोर्गतिरिति कस्यचिदुप- मायां सदृशलक्षणया विरोधात् भार्गवकार्तवीर्ययोर्बोध इति भावः । *सैन्धवमिति । भोजनकाले नाश्वबोध इति भावः । लिङ्गादिति । संयोगातिरिक्तसम्बन्धेन सम्ब- दो व्यावर्तकधर्मो लिङ्गम् । यथाकुपितो मकरध्वज इत्यत्र समुद्रव्यावृत्तात्कोपोकामे । *सन्निधोनादिति । सामानाधिकरण्यादिति भावः। तेन सशङ्खचको हरिरित्यत्र न (१) सवत्सा इत्युक्ते धेनुरेव प्रतीयते इत्यर्थः । (२).मृत्तिकामिश्राः क्षुद्रपाषाणाः शर्कराः । (३) प्रिय इत्यर्थः । कटुशब्द इत्यादाविव कटुशब्दोऽप्रियार्थकः । अन्यथा निघण्टवादौ तस्य तीक्ष्णरसमरीचशुण्ठीपिप्पल्याधर्थकत्वेन दृष्टत्वात् तस्य च निम्बेऽ- आवादसङ्गतिः स्पष्टेवेति बोध्यम् ।
a परमलघुमञ्जूषायाम्- नार्थत्वम् , गन्धमाल्याचैरित्यस्य पूजनार्थत्वम् । भात्यत्र परमेश्वर इत्यत्र राजधानीरूपदेशात्परमेश्वरपदं राजबोधकम् । चित्रभानुभातीत्यादौ रात्रा- वग्नौ दिवा सूर्ये । व्यक्तिलिङ्गम् । मित्रो भाति मिनं भातीस्यादावादौ सूर्यो ऽन्त्ये सुहृत् । स्थूलपृषतीमित्यादौ स्वरात्तत्पुरुषबहुव्रीह्यर्थनिर्णयः ।। इति शक्तिनिरूपणम् ॥ ननु लक्षणा कः पदार्थ इति चेत् , अत्र तार्किकाः- स्वशक्यसम्बन्धो लक्षणा । सा च द्विधा । गौणी शुद्धा च । स्वनिरूपित- सादृश्याधिकरणत्वसम्बन्धेनशक्यसम्बन्ध्यर्थप्रतिपादिका गौणी।तदतिरि- क्तसम्बन्धेन शक्यसम्बन्ध्यर्थप्रतिपादिका शुद्धा प्रकारान्तरेणापि सा द्विवि- था । अजहत्स्वार्था जहत्स्वार्था च । स्वार्थसंवलितपरार्थाभिधायिकाऽजह. स्वार्था । तेन छत्रिणो यान्ति, कुन्तान् प्रवेशय, यष्टीः प्रवेशय, काकेभ्यो दधि रक्ष्यतामित्यादौ छत्रिसहितसेना-कुन्तास्त्रसहितपुरुष-यष्टिसहित. पुरुष-काकसहितसर्वदध्युपघातकबोधः । स्वार्थपरित्यागेनेतरार्थाभिधायि- mutappa - दोषः । शङ्खचक्रसामानाधिकरण्याभावात् । स्वरादिति- । कारिकायां स्वरादय इत्युक्तम् । तत्रादिना षत्वसत्वणत्वादिग्राह्यम् । तद्यथा-सुसिक्कमित्यत्र पूजार्थः सुः कर्मप्रवचनीयः, सुषिक्तमित्यत्रोपसर्गोऽन्यार्थः । प्रणायके प्रणयनक्रियाकर्ता णत्वात् । प्रनायके प्रगतनायकदेशो वधः इत्यादिबोध्यम् । शक्ति निरूप्य लक्षणां निरूपयति नन्वित्यादिना । स्वपदेन लाक्षणिकत्वे. नाभिमतं पदं ग्राहम् । तथाहि-'गङ्गायां घोषः' इत्यत्र स्वं गंगापदं तच्छक्यः प्र. वाहोऽर्थः, तत्सम्बन्धेन तीरोपस्थितिः। अतोऽत्र तीरे शक्तिर्न कल्प्यते। सैन्ध. वादौ लवणाश्वयोः परस्परसम्बन्धाभावान्नानाशक्तिकल्पनम् । यद्यपि लवणा- श्वयोः संयोगोऽपि सम्भवति यत्रा निक्षिप्तं लवणं, तथापि निरन्तरतत्सम्बस्यौव ग्रहणतात्पर्येणार्थकथनमिति बोध्यम् । *गौणीति* । लक्ष्यमाणगुणसंबन्धस्वरूपा । यथा अनिर्माणवक इत्यत्र । तथाहि-लक्ष्यमाणो यो गुणः शुचित्वादिः तत्सम्बन्धरूपा इत्यर्थः-शक्यसम्बन्धो लक्षणा, स च क्वचित्साक्षात्सम्बन्धः, क्वचित्परम्परास. म्बन्धः, एवञ्चात्र शक्यस्याग्नेः स्वनिष्ठशुचित्ववत्वसम्बन्ध एवं लक्षणेति । *अजहत्त्वार्थेति । यत्र वाच्यार्थस्याप्यन्वयो भवति तत्र यथा छत्रिणो यान्ती. त्यादौ । छत्र्यच्छत्रिषु गच्छत्सु बाहुल्याच्छत्रिणां छत्रिणो यान्तीत्यच्छत्रिषु यान• ।
लक्षणाविचारः। यथा-मज्ञाः काऽन्त्या । तत्परित्यागश्च शक्यार्थस्य लक्ष्यार्थान्वयिनाऽनन्वयित्वम् । तेन गां वाहीक पाठयेत्यादौ गासदशलक्षणायामपि न गोस्तदन्वयिपाठ. नक्रियान्वयित्वम् । सा च लक्षणा तात्स्थ्यादिनिमित्तिका । तदाह- तास्थ्यात्तथैव ताद्धात्तत्सामीप्यात्तथैव च। तत्साहचर्यात्तादाज ज्ञेया वै लक्षणा बुधैः ॥ इति । तास्थ्यान्मञ्चा हसन्ति ग्रामः पलायितः । ताद्धात्सिंहो माणवकः । गौर्वाहिकः । तत्सामीप्यागङ्गायां घोषः। तत्साहचर्याद्यष्टी प्रवेशय । तादा. दिन्द्रार्था स्थूणा इन्द्रः । अन्वयाद्यनुपपत्तिप्रतिसन्धानञ्च (१)लक्षणाबीजम् । वस्तुतस्तु तात्पर्यानुपपत्तिप्रतिसन्धानमेव तद्बीजम् । अन्यथा गङ्गायां कर्तृत्वानुपपत्या कृत्रिपदमजहत्स्वार्थलक्षणया छत्र्यछत्र्युभयबोधकमिति भावः । *अन्त्येति । यन्त्र वाच्यार्थस्यान्वयामावस्तत्र जहल्लक्षगा । क्रोशन्ति इत्यादौ । वाच्यार्थस्य मञ्चस्य क्रोशनकर्तृत्वान्वयासम्भवान्मञ्चपदं मञ्च स्थपुरुष लक्षयति । *अन्वयाउनुपपत्तीति । अन्वयाधनुपपत्तिज्ञानपूर्वकशक्यत्वेन गृहीतार्थसम्बन्ध. ज्ञानेनोबुदशक्ति स्कारतो बाधे लक्षणेतिव्यवहारात् । अन्वयानुपपत्तिज्ञानपूर्वक यत् शक्यसम्बन्धस्मरणं तेनोबुद्धो यः संस्कार इत्यर्थः । व्यञ्जनायामतिव्याप्ति. वारणाय शक्यत्वेनेति । सम्प्रति लक्षणाबीजमाह-वस्तुतस्त्वित्यादिना* *तबीजमिति । सर्वत्र स. त्वादिति भावः। यद्यपि लक्षणाजन्यबोधे अन्वयव्यतिरेकाम्या मुख्यार्थबाधज्ञानं मुख्यार्थसम्बन्धज्ञानं च कारणम् । तद्वाधश्च समभिव्याहृतपदतात्पर्यविषये मुख्यार्थ- तावच्छेदकरूपेण मुख्यार्थासंसर्गरूपं, तेन छत्रिणो यान्ति, कुन्तान्प्रवेशय, काकेभ्यो दधि रक्ष्यतामित्यादौ छत्र्यादिमुख्यार्थानां समभिव्याहृतक्रियासु कर्तृत्वादिभिरन्व- याबाधेऽपि तत्तात्पर्य विषये मुख्यछत्र्यत्रिगमनभोजनार्थप्रवेशदध्युपवातकावधि- रक्षणेषु मुख्यार्थतावच्छेदकरूपेण तदन्वयबाधोऽस्त्येवेति तत्र छत्रिपदमेकसाथ. प्रविष्टछत्रिसमुदाये लाक्षणिकमेवमन्यनापीति सापि सर्वत्रास्ति । *अन्यथेति । . - -- (१) लक्षणायाः शक्यसम्बन्धस्य बीजं ज्ञापकमित्यर्थः । तथाहि-गङ्गायां घोष इत्यादौ प्रवाहादिरूपशक्यार्थीपस्थितौ तत्र अन्वयायोग्यत्वादिना तात्पर्यविषयत्वा- भावे ज्ञाते गङ्गापदादेःप्रवाहादिसम्बन्धित्वेनोपस्थिततीरादिना स्वशक्यसम्बन्धरूपः सम्बन्धो गृयते 'तीरं गङ्गापदशक्यसम्बन्धि' इति । अनन्तरं तदुपस्थितौ अन्व- यबोध्यवादिना तत्र तात्पर्यविषयत्वे निश्चित तद्विषयकः शाब्दबोधो जायते इति । .. २५० म० परमलघुमञ्जूषायाम्- घोष इत्यादौ घोषादिपदे एव मकरादिलक्षणापत्तिस्तावताऽप्यन्यथानुपपत्ति परिहारात् । गङ्गायां पापी गच्छतीत्यादौ गङ्गापदस्य नरके लक्षणापत्तेश्च अस्माकं तु भूतपूर्वपापावच्छिन्नलक्षकत्वे तात्पर्यान्न दोषः । 'नक्षघ्नं दृष्ट्वा वाचं विसृजेद" इत्यत्रान्वयसम्भवेऽपि तात्पर्यानुपपत्त्यैव लक्षणास्वीकारा- त् । एकानुगमकस्वीकारेण निर्वाहेऽनेकानुगमकस्वीकारे गौरवाच । विशिष्टार्थबोधकशब्दस्य पदार्थैकदेशे लक्षणायां जहदजहल्लक्षणेति व्य- वहरन्ति वृद्धाः । वाक्यार्थ किश्चिदंशत्यागः किञ्चिदंशपरिग्रहश्च । अत्र ग्रामैकदेशे पटैकदेशे च दग्धे ग्रामो दग्धः पटो दग्ध इति व्यवहारः । 'त- त्वमसि' इत्यत्र सर्वज्ञत्वाल्पज्ञत्वयोत्यागः शुद्धचैतन्ययोरभेदान्वयः । स्वबोध्यसम्बन्धो लक्षणेति केचित् । गभीरायां नद्यां घोष इत्याद्यनु- राधात् । तथाहि-न तावद् गभीरपदं तीरलक्षक, नद्यामित्यनन्वयापत्तेः । नहि तीरं नदी । अत एव न नदीपदेऽपि | गभीरपदार्थानन्वयात् । न हि तीरं गभीरम् । न च प्रत्येकं पदद्वये सा, विशिष्टनदीबोधानापत्तेः । तस्मा- अन्वयानुपपत्तिज्ञानस्यैव तद्धेतुत्वे । जहदजहल्लक्षणेति । यत्र वाच्यैकदेशत्यागेन एकदेशान्वयः, तत्र जहदजहदिति, यथा-तत्वमसीति । अत्र तत्पदवाच्ये सर्वज्ञत्वा. दिविशिष्टे त्वंपदवाच्यस्यान्तःकरणादिविशिष्टस्याभेदानुपपत्या उभयत्र विशेषणांश. परित्यागः। तथाच-तत्पदलक्ष्यस्य शुद्धस्य त्वंपदलक्ष्येण सहाभेदान्वयोपपत्तिरित्या भिप्रायः । इदमुदाहरणं जीवब्रह्मणोरैक्यं ब्रुवतां ब्रह्मवादिनां सिद्धान्ताभिप्रायेण । *ग्रामो दग्धः इति । ग्रामो दग्धः, पुष्पितं वनमित्यादौ दग्धादिपदानि अर्शआद्य- जन्तानि इति "अर्थवत्" सूत्रभाष्योक्तस्तत्र लक्षणैव नेति केचित् । तत्त्वमसीति । यत्र हि विशिष्टवाचकः शब्दः स्वायें एकदेशं विहाय एकदेशे वर्तते तत्र जहदजह- लक्षणा । यथा सोऽयं देवदत्तः इति अन हि पदद्वयवाच्ययोविशिष्टयोरैक्यानुपपत्या पदद्वयस्य विशेष्यमानपरत्वम् । यथा तत्वमसीत्यादौ तत्पदवाच्यस्य सर्वज्ञत्वादिवि. शिष्टस्य त्वंपदवाच्येन अन्तःकरणविशेष्टेनैक्यायोगादेक्यसिद्धयर्थं सर्वज्ञत्वाल्पज्ञत्वयो. स्त्यागः, शुद्धचैतन्ययोरभेदान्वयः । *स्वबोध्येति । स्वं वाक्यं तेन बोध्या ज्ञाप्यः, तेन वाक्यस्य लक्षणा। गभीरायां नधामिति वाक्यस्य बोध्यो गभीराभिन्ना नदी तत्सम्बन्धस्तीर इति भावः । *केचिदिति। मीमांसकाः । अनहि तीरं नदीति* । गभीरतीरे नद्यामित्यर्था. सम्भवात् । * न नदीपदेऽपीति* । नदीपदेन नदीतीरग्रहणे गभीरसमानाधिकरण्या. सम्भव इत्यर्थः। *प्रत्येकमिति । गभीरपदस्य गभीरतीरे नदीपदस्य नदीतीरे .
लक्षणाविचारः। समुदायबोध्यगभीरत्वविशिष्ट नदीपदार्थः, तत्सम्बन्धो लक्षणेति।। द्विरेफप. दस्य स्वलक्ष्यभ्रमरशब्दवाच्यार्थे लक्षणायां लक्षितलक्षणेति व्यवहारः । स्वबोध्यपदवाच्यत्वं सम्बन्धः । इत्यर्थः । *समुदायबोध्येति । अत एव अर्थवादवाक्यानां ग्राशस्त्ये लक्षणासिद्धिः। परे तु शक्यतावच्छेदकारोपो लक्षणेत्याचक्षते । तथाहि-आरोपितशक्यतावच्छे. दकरूपेणान्यव्यक्तिबोधे लक्षणेति यथा गङ्गायां घोषः इत्यतः शक्यतावच्छेदकप्रवाह त्वस्य तीरविशेषे आरोपाद्नात्वरूपेणैव तीरबोधो न तीरत्वरूपेण । तथा च गौवाहिक इतिवत्तीरे अरोपेणान्वयानुपपत्या प्रयुक्तमिदं वाक्यमन्यथाऽवोक्तत्वानुपपत्तिरतस्ती- रलक्षकमिदमिति बोद्धा बुध्यतीत्यभिप्रेत्येति बोध्यम् । एवं छत्रिणो यान्तीत्यादाव. छत्रिषु छत्रित्वस्य काकेभ्यो दधि रक्ष्यतामित्यादौ दध्युपघातकमात्रे काकत्वारोपः । अत एव "पुंयोगादाख्यायाम्" इतिसूत्रे भाष्ये गोपीत्यादौ गोपपदस्य गोपसम्ब. न्धिस्त्रीत्वाश्रयगोप्या लक्षणायामणप्रत्ययान्तसाधुतामापाद्यैतदर्थे एतदसाधुत्वमा- शङ्ख्य समाहितं 'नावश्यमयमेवाभिसम्बधो भवति तस्येदमिति, किन्तु तन्मूलक: सोऽयमित्यभिसम्बन्धोऽस्तीत्युक्त्वा चतुर्मिः प्रकारतस्तस्मिन्स इत्येतद्भवति ता. स्थ्यात्ताद्धात्तत्सामीप्यात्तत्साहचर्यान्मञ्चा हसन्ति सिंहो माणवको गङ्गाया बोषः यष्टीः प्रवेशयेत्युक्तम् । कैयटोऽपि आरोप्यते तान्द्रुप्यमिति । अत एव गङ्गायां मीनघोषौस्त इत्युपपद्यते । अन्यथा गङ्गापदस्याअजहत्स्वार्थलक्षणायामपि गङ्गात्वतीरत्वोभयाश्रययोगातीरो. भययो?षमत्स्योभयान्वये एकधर्मावच्छिन्नस्य एकधर्मावच्छिन्नेऽन्वयरूपसाहित्या. भावाद् द्वन्द्वान्नुपपत्तिरिति । अनार्थ गौतमो ऽप्यनुकूल:-"सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण- सामीप्य-योग-साधन-अधिपत्येभ्यो ब्राह्मण मञ्च-कट-राजसतु-चन्दन-गङ्गा-शाटका- न-पुरुषेषु अतद्भावेऽपि तदुपचार" इति। यथा-तस्य भावः-तद्धमः, तदभावेऽपि तदुपचार इत्यर्थः । स च धर्मारोपेण आरोपनिमित्तानि च सहचरणादीनि । यष्टीः प्रवे. शयेत्यन्त्र भोजनकाले यष्टिधरब्राह्मणकर्मकप्रवेशनतात्पर्यान्यथानुपपत्या यष्टित्वारोपो- ब्राह्मणे । एवं मचा क्रोशन्तीत्यादावपि बोध्यमिति दिक् । *लक्षितलक्षणेति। यत्र शक्यपरम्परासम्बन्धेनार्थान्तरप्रतीतिस्तत्र लक्षितलक्षणा। यथा-द्विरेफपदस्य रेफद्वये शक्तस्य भ्रमरपदघटितपरम्परासम्बन्धेन मधुकरे वृत्तिः । ननु द्विरेफपदलक्षितेन भ्रमरपदेन शक्त्यैव भ्रमरबोधाल्लक्षणा व्यथेति चेन्न । द्विरे. फपदवृत्यभावे प्रत्ययानां प्रकृत्यान्विता' इति न्यायविरोधापत्तेः । एवञ्च द्विरेफपद. स्यैव लक्षितलक्षणावृत्तिः । तथाच लक्षितस्य लक्षणेति शब्दार्थः ।
परमल घुमञ्जूषायाम्- प्रकारान्तरेण पुनर्लक्षणा द्विविधा । तथा हि- प्रयोजनवती रूढा लक्षणा द्विविधा मता। इति । असति प्रयोजने शक्यसम्बन्धो निरूढलक्षणा । त्वचा ज्ञातमित्यादी यथा त्वचस्त्वगिन्द्रिये । इयं तु शक्यपरपर्यायैवेति बोध्यम्। गङ्गायां घोष इत्यत्र तीरे गङ्गागतशैत्यपावनत्वादिप्रतीतिः प्रयोजनम् । गौर्वाहीक इत्यत्र सादृश्यं लक्ष्यतावच्छेदकं गवाभेदप्रत्ययः प्रयोजनम् । कुन्ताः प्रविशन्तीति भीतिपलायमानवाक्ये कुन्तविशिष्टपुरुषे कुन्तगततेक्षण्यप्रतीतिः प्रयोज- नमित्याहुः । तन्न । सति तात्पर्ये 'सर्वे सर्वार्थवाचका' इति भाष्याल्लक्षणाया अभ- परे तु शक्यसम्बन्ध एव छक्षणा न तु शक्यस्य साक्षात्सम्बन्धे लक्षणा गौरवात्। तथा च परम्परासम्बन्धेन भ्रमरोपस्थापकत्वाद्विरेफपदस्य भ्रमरे वृत्तिः । तथा छ लक्षितपदघटितलक्षणा लक्षितलक्षणेत्यर्थ इत्याहुः । *प्रकारान्तरेणेति । कविवरसम्प्रदायप्रसिद्धप्रकारेणेत्यर्थः निरूटेति अनादितात्पर्यवती निरूढालक्षणा। असति प्रयोजने शक्यार्थबाधप्रतिसन्धानपूर्वक तत्सम्बन्ध्यपरार्थबोधे निरूढालक्षणेति व्यवहारोऽन्यथा रूढिशक्तिरेवेति बोध्यम् । तथाचोकम्- मुख्यार्थबोधे तयुक्तो ययाऽन्योऽर्थः प्रतीयते । रूढः प्रयोजनाद्वाऽसौ लक्षणाशकिरर्पिता ॥ इति । रूढेः अनादितात्पर्यविषयत्वादिति भावः । त्वचा ज्ञातमिति* त्वगिन्द्रियजन्यज्ञानीयतावदिति शाब्दबोधः। अत्र हि स्वपदस्य त्वगिन्द्रि येऽनादितात्पर्य कल्प्यते । तत्पदस्य तदर्थे प्रसिद्धत्वादिति भावः । *साहव्यमिति। गौर्वाहिकः इति वाक्ये गोपदस्य गोसदृशार्थलाक्षणिकत्वमिति भावः । एवमग्निर्मा- णवकः इत्यत्रापि बोध्यम् । अन्ये तु उपमितसमासे एव सादृश्यं लक्ष्यतावच्छेदकमाहुः । *कुन्ताः प्रविशन्ती. ति*। कुन्ताः प्रावशन्तीत्यत्र भीतिपलायमानवाक्ये कुन्तान तात्पर्यविषयकुन्ति. प्रवेशे अन्वयाबाधात्कुन्तपदस्य तत्संयुक्त पुरुषे लक्षणा कुन्तगतवैधण्यप्रतीतिः प्रयो- जनमिति ध्येयम् । ननु यदि 'सर्वे सर्वार्थवाचका:' इति स्वीक्रियमाणे घटपदात्पटबोधापत्तिरित्यत माह-सति तात्पर्येति । अत एव "वृद्धिरादेचा (पा० सू०१००१) इति सूत्रे भाष्ये अनेकशः शब्दस्य इत्युकं सङ्गच्छते.। *अभावादिति । एकवृत्यैव निर्वा- awane । न । । लक्षणाविचारः। २१ बात् । वृत्ति द्वयारच्छेदकद्वयकल्पने (१)गौरवात् । (२)जघन्यवृत्तिकल्प- नाया अन्याय्यत्वाच । कथं तर्हि गङ्गादिपदात्तीरप्रत्ययः । भ्रान्तोऽसि, सति तात्पर्ये 'सर्वे सर्वार्थवाचका' इति भाष्यमेव गृहाण । तथाहि-शक्तिद्विविधा-प्रसिद्धाऽप्रसिद्धा च । आमन्दबुद्धिवेद्यात्वं प्रसि- द्धात्वम् । सहृदयहृदयमात्रवेद्यात्वमप्रसिद्धात्वम् । तत्र गङ्गादिपदानां प्रवाहादौ प्रसिद्धा शक्तिः, तीरादौ चाप्रसिद्धति किम नुपपन्नम् । ननु सर्वेसर्वार्थवाचका' इति चेद् ब्रूपे तर्हि घटपदात्पटप्रत्ययःकिन्नस्या- हे अनेकवृत्ति कल्पनमन्याय्यमिति भावः । *अवच्छेदकेति । अवच्छेदकभेदे शक्तिभेद इति तार्किकादिसिद्धान्तः । लाघवाच्छक्तिरेकैवेति शाब्दिकराद्धान्तः। न च 'अन्याय- श्चानेकार्थत्वम्' इति वाच्यम् ? भवन्मतेऽपि तुल्यत्वात् । एतावान् परं भेदः-भवन्म. ते वृत्तिभेदेन मम मते एकया वृत्येति । *गौरवादिति । लक्षणास्वीकारे शक्तिजन्यो- पस्थिति विनाऽपि लक्षणाजन्योपस्थितेः, शाब्दबोधसम्मवेन परस्परं व्यभिचारः तद्वारणार्थमव्यवहितांशनिवेशेऽनन्तकार्यकारणभावेन गौरवञ्च । अपि च पदार्थोपस्थि- ति प्रत्यपि शक्तिज्ञानत्वेन लक्षणाज्ञानत्वेन च हेतुत्वे गौरवं व्यभिचारश्च । यद्यपि अ. स्मन्मते इदम्पदमेतदर्थबोधकमिति शक्तिज्ञानेन सामान्यतः कार्यकारणभावकल्पनेऽपि तत्तदर्थभेदेनानन्तकार्यशारणकल्पनं, तत्रापि च व्यभिचारवारणाय अव्यवहितोत्तरत्व. निवेशे ऽपरं गौरवं तुल्यं, तथापि परमते सर्वस्याप्येतस्य सत्वेन अधिकस्य लक्षणा. कार्यकारणभावगौरवस्य सत्वेनास्मन्मते एव लाघवमिति भावः । *जघन्येति*। श. (१) अयं भाव-प्रवाहादिसम्बन्धित्वेनापस्थिततारादौ गङ्गापदादेः 'सवें सर्वार्थवाचक इति भाष्यात् सामान्यतः पूर्वमेव ज्ञातः शक्तिरूपः सम्बन्ध एवं कल्पनीयो, न तु शक्यसम्बन्धरूपः । तथा सति तयोरुभयोः शाब्दबोधजनकपदार्थोप- स्थितिजनकपदपदार्थसम्बन्धत्वरूपं शाब्दबोधजनकपदपदार्थसम्बन्धत्वरूपं वा वृत्तित्वं कल्पनीयम् , शाब्दबोधकारणतावच्छेदकत्वम् उपस्थितिकारणतावच्छेदकत्वं च श- तत्वशक्यसम्बन्धत्वयोरुभयोः कल्पनीयम् , इति गौरवम् । शक्तिकल्पनापक्षे तु तस्या एव वृत्तित्वकल्पनं, तत्त्वस्यैव च तत्तदवच्छेदकत्वकल्पन मिति लाघवम् । तन्मते भन्यदपि गौरवं भूषणादौ स्पष्टं प्रतिपादितं तत् तत एवावगन्तव्यम् । व्यवहारादिना गङ्गापदादौ तीरादिशक्तेः पूर्व विशेषरूपेणाग्रहेण अप्रसिद्धत्वात लक्षणापदेन व्यवहार इति बोध्यम् । (२) अन्याय्यत्वादिति । पूर्वोपस्थितशक्तिसम्बन्धस्य वृत्तित्वकल्पनमुपेक्ष्य पश्चादुपस्थिततदूधटितसम्बन्धस्य वृत्तित्वकल्पनाया अनुचितत्वादित्यर्थः ।
२२ परमलघुमञ्जूषायाम्। दिति चेन्न । सति तात्पर्य इत्युक्तत्वात्तात्पर्याभावादितिगृहाण । तात्पर्य चात्र ऐश्वरं देवतामहर्षिलोकवृद्धपरम्परातोऽस्मदादिभिलब्धमिति सर्व सुरूढम् । इति लक्षणानिरूपणम् । ननु व्यञ्जना कः पदार्थः ? उच्यते। मुख्यार्थबाधनिरपेक्षबोधजनको मुख्यार्थसम्बन्धासम्बन्धसाधारणः प्रसिद्धाप्रसिद्धार्थविषयको वक्त्रादिवैशि. ष्ट्यज्ञानप्रतिभाधुबुद्धः संस्कारविशेषो व्यञ्जना। अत एव निपातानां द्योतकत्वं स्फोटस्य व्यङ्गयत्ता च हर्यादिभिरुता । द्योतकत्वं च स्वसमभि- व्याहतपदनिष्ठशक्तिव्यञ्जकत्वमिति । वैयाकरणानामप्येतत्स्वीकार आव- । क्त्यैव कार्यनिर्वाह वृत्तिद्वयकल्पनं जघन्यमिति भावः । *तात्पर्याभावादिति । न चतस्य मुख्यत्वापत्तिर्घटपदं पटवाचकमिति व्यवहारापत्तिश्चेति वाच्यम् । यदर्थे यत्पद प्रसिद्धं तदथें तत्पदवाच्यत्वं तदर्थवाचकत्वं च तत्पदस्येष्यते । तत्पदादेव जायमान स्तदर्थबोधो मुख्य इति स्वीकारात् । प्रसिद्धिरेव शक्तेर्वाचकभावनियामिकेत्यवबो- ध्यम् । एतेन तदर्थनिरूपितप्रसिद्धशक्तिमत्वं तदर्थवाचकत्वं तत्पदनिष्ठप्रसिद्धशक्तिीन- रूपकत्वं तत्पदवाच्यत्वमिति फलितम् । प्रसिद्धिश्चात्र बाहुल्येन प्रयोगादेवानुमात. व्येति बोध्यम् । *सर्व सुरूढमिति । परमते शक्तिज्ञानत्वेनैव हेतुता, शक्यसम्बन्धरू. पलक्षणायां शक्तेरपि प्रवेशादिति वक्तुं शक्यम् । परन्तु तन्न योग्य, शक्तिज्ञानपदा. थोपस्थित्यो कार्यकारणभावे समानविषयत्वस्यावश्यकत्वात्। एवं च शक्तिज्ञानत्वे. नैव हेतुत्वस्य वक्तुमशक्यत्वात् । लक्षणावृत्तिमस्वीकृत्य शक्तिजन्योपस्थितित्वेनैव हेतुत्वकल्पनमुचितमिति दिक् । इत्यर्थदीपिकायां लक्षणाविचारः। लक्षणयैव व्यञ्जना गतायेति तार्किकमतं निराकर्तुमाह-*मुख्याति । 'नि. शेषश्च्युतचन्दनं स्तनतटम्' इत्यादौ मुख्यार्थबाधाभावेऽपि अधमपदार्थपर्यालोचनया व्यङ्ग्यार्थप्रतीतेय॑क्षनावृत्यन्तरमेवेति भावः । *सम्बद्धेति । मुख्यार्थसम्बन्धाभा. वाढ्यादेरभावाच्च न लक्षणेत्यर्थः । *वादीति। वक्त्रादीनां वैशिष्टयस्य ज्ञानेन प्र. तिमया च उबुद्धः संस्कार इत्यर्थः । व्यञ्जकत्वलक्षकत्वयौवैर्लक्षण्यं दर्शयति-*अतः एवेति । अनिपातानामिति । तेषां मुख्यार्थाभावेन लक्षणया असम्भवात् व्यञ्जकता. रूपा द्योतकतैवेत्यर्थः । *स्फोटस्येति । लक्षणायास्तु तत्र न सम्भवः । *वैयाकरणा. नामिति । न केवलं कवीनामेव किन्तु वैयाकरणानामपि सा व्यञ्जना आवश्यकी, ।
व्यञ्जनाविचारः। २३ श्यकः । एषा च शब्दतदर्थपदपदैकदेशवर्णरचनाचेष्टादिषु सर्वत्र, तथैवा- नुभवात् । वक्त्रादि(१)वैशिष्टयज्ञानं च व्यङ्गयविशेषबोधे सहकारीति न सर्वत्र तदपेक्षेत्यन्यत्र विस्तरः। यत्तु तार्किकाः लक्षणयैव गतार्था व्यञ्जनेति न सा स्वीकार्यत्याहुः । यतो व्यञ्जकत्वमेव छोतकत्वमित्यर्थः । लक्षणाव्यानयोवलक्षण्यं दर्शयति-एषा चेति । लक्षणा पदनिष्टा व्यञ्जना तु एकदेशनिष्ठाऽपीत्यर्थः। अत्रेदं बोध्यम्-व्यञ्जना- सामान्यलक्षणं अर्थविषयकः प्रतिमोबुद्धः संस्कारविशेष इत्येव, अनतिप्रसक्तत्वात् दीक्षिताधुक्तलक्षणामतेऽनतिप्रसङ्गाय मुख्याति । मध्यमंतु स्वरूपकीर्तनम् । तृतीय तु सहकारि । एवञ्च नियन्त्रिताविषयकधीजनकत्वं शब्दव्यञ्जना। वक्त्रादिलक्ष. ण्यहेतुका या प्रतिभाशालिनामन्यार्थधीस्तद्धेतुव्यापारत्वमर्थव्यञ्जना। अर्थस्येत्यनेन शब्दव्यञ्जनानिरासः । एतेषां न प्रत्येकमेव व्यञ्जकत्व किन्तु मिलितानामपीति दिक् । *इत्यन्यत्रेति । गुरुमञ्जूषादावित्यर्थः । *ताकिका इति । अत्रालङ्कारिकाः पुनरेवमाहुः तीरे घोषः' इति प्रयोगे स्वायते 'गङ्गायां घोषः' इत्यनन्विताभिधानं शैत्यपावनत्वादिप्रतीत्यर्थे व्यञ्जनावश्यिका । न च सा प्रतीतिर्लक्षणयाऽप्युपपद्यते। केवलतीरलक्षणया एवानुपपत्तिपरिहारे शैत्यपाव. नत्वादिविशिष्टलक्षणायां मानाभावात् । तस्माद्वयजनोवृत्तिरवश्यमझीकर्तव्येति । तन्मतं निराकुर्वन्ति तार्किका:-व्यञ्जना हि शक्तिलक्षणान्तर्भूता शब्दशक्तिमूला, अर्थशक्तिमूला च अनुमानादिना अन्यथा सिद्धा। तथा हि-व्यञ्जके नानार्थस्थले 'दूरस्था भूधरा रम्या इत्यादौ भूधरशब्देन पर्वतानामिव राज्ञामपि शक्त्यैव प्रती. ति सम्भवति । 'गङ्गायां घोष इत्यादौ तु शैत्यपावनत्वादिविशिष्टतीरप्रतीतिरपि लक्षणासाम्राज्यादेव । तत्र लक्षणाकल्पिकायाः तात्पर्यानुपपत्तरेव सद्भावात् किमति. रिक्तव्यञ्जनयेति । ननु शब्दशक्तिमूलाया व्यञ्जनाया अन्यथासिद्धत्वेऽपि अर्थशक्तिमू. लायास्तस्या नाग्यथासिद्धिः। तथाहि- 'गच्छ गच्छसि चेत् कान्त पन्थानः सन्तु ते शिवाः ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान्' (१) वक्त्रादयश्च वक्तृबोद्धव्यकाकुवाक्यवाच्यान्यसन्निधिदेशकालप्रस्तावचेष्टा. दयः । प्रस्तावः प्रकरणम् , इतरे प्रायः प्रसिद्धाः । ते चेमेऽर्थशक्तिमूलव्यञ्जनयाऽर्थाव. बोधे सहकारिण इति केचित् । अपरे तु शब्दशक्तिमूलव्यञ्जनास्थलेऽप्येषां सहकारि- ता। अत एव शालकादिना प्रयुक्त 'सुरभिमांसं भवान् भुक्त' इति वाक्येऽशलीला. र्थान्तरप्रतीतिः, न तु गुर्वादिप्रयुक्ते इत्याधन्यत्र विस्तरः । ।
२४ परमलघुमञ्जूषायाम्- तन्न। लक्षणाया मुख्यार्थवाधपूर्वकलक्ष्यार्थबोधकस्यात् । मुख्यार्थ- सम्बद्धार्थस्यैव लक्षणाया बोधकत्वात् व्यञ्जलाया अतथात्वेन तदनन्त - वाच्चेति दिक् । इति व्यञ्जनाविचारः ननु कोऽयं वृत्त्याश्रयः शब्दः । वर्णाः प्रत्येकमिति चेद्, न । द्वितीया- दिवर्णोच्चारणवैयर्थ्यापत्तेः । नापि वर्णसङ्घातः । उच्चरितप्रध्वंसित्वेन यौग. पद्यासम्भवात् । अभिव्यक्तेरुत्पत्तेर्वा क्षणस्थायित्वात्क्षणात्मककालस्य प्रत्यक्षायोग्यत्वेन तदवच्छिन्नवर्णस्याप्यप्रत्यक्षत्वात् । उच्चारणाधिकरणका- लोत्तरकालवृत्तिध्वंसप्रतियोगित्वमुञ्चरितप्रध्वंसित्वम् । “इको यणचि" इ. त्यादौ "तस्मिन्"इतिपरिभाषोपरकृतवाक्यार्थेऽयं पूर्वोऽयं पर इति नष्टस्य प्रत्यक्षविषयेदंशब्देन पौर्वापर्यव्यवहारायोगाच्च । । इत्यादौ हे प्रिय भवद्गमनोत्तरं मम प्राणवियोगो भविष्यति । अतो न गन्त. व्यम्। इत्याद्यों व्यज्यते। नह्यत्र शक्तिलक्षणाभ्यां निर्वाहः । इत्थं च मानाया आवश्यकतेत्यपि न वाच्यम् । अनुमानात् । अनुमानाकारस्तु इयं मदीयगमनोत्तरका. लिकप्राणवियोगवती । विलक्षणशब्दप्रयोक्तृत्वात् इत्यादिरूपः । आदिना सम्भाव. नादिपरिग्रहः । इत्यर्थदीपिकायां व्यञ्जनाविचारः। अथ वाचकत्वनिरूपयति-नन्वित्यादिना*। *कोऽयमिति । अखण्डपक्षे आ. भ्यन्तरः स्फोटो जातिव्यक्ती बाह्यस्फोटाविति त्रीणि वाक्यलक्षणानि । सखण्डपक्षे तु नियतसाधन आख्यातशब्दपदक्रमोवापदसङ्घातो वा आधमेव पदंवा सर्वाणि पदानि वेति पञ्च वाक्यलक्षणानि। तन्नैषु अष्टसु पक्षेषु कः पक्षो युक्तः इति प्रश्नाशयः । वर्ण- स्फोटवादिमतं द्वेधा खण्डयति क्रमेण-*वर्णाःप्रत्येकमित्यादिना*। *क्षणस्थायित्वा. दिति । क्षणशब्देन तदाधारः कालो ग्राह्यः । क्षणो नाम शब्दतन्मात्राद्वारा प्रकृतेः परिणामविशेषः। क्षणाधाररूपकालस्य परमावर्षावधिः। स च न प्रत्यक्षः । अति. सूक्ष्मत्वात् किन्तु तत्समूहरूपः काल एवेति भावः। ननु उच्चारणप्रध्वंसयोर्योगपद्यमयु. तमत आह-*उच्चारणाधिकरणेत्यादिना*। *प्रत्यक्षविषयेति। प्रत्यक्षविषयो य इदं शब्दस्तद्विषयो यो अयं पूर्व इत्यादिरभिलापस्तद्विषयस्य पौर्वापर्यस्य ज्ञान न सम्भव- तीत्यर्थः। *पौर्वापयति । एकैकवर्णवर्ति वागिन्द्रियमेकमेव वर्णमुच्चारयतिः न द्वौ वर्णों स्फोटविचारः। यत्तु तार्किकाः-वर्णानामनित्यत्त्वेऽपि उत्तरोत्तरवणे पूर्वपूर्ववर्णवत्त्वम- व्यवहितोत्तरत्वसम्बन्धेन संस्कारवशाद् गृह्यत इति पदस्य प्रत्यक्षत्वाच्छा- ब्दबोधः । यद्वा पूर्वपूर्ववर्णजाः शब्दाः शब्दजशब्दन्यायेन चरमवर्णप्रत्य- क्षपर्यन्तं जायमाना एव सन्तीति न पदप्रत्यक्षानुपपत्तिः । यद्वा पूर्वपूर्ववर्णानुभवजन्यसंस्कारसध्रीचीनचरमवर्णानुभवतः शाब्द- बोध इत्याहुः।। तन्न । आद्येऽयं पूर्वोऽयं पर इत्यभिलापासम्भवेन अव्यवहितोत्तरस्व- सम्बन्धायोगात् । नष्टविद्यमानयोरव्य वहितोत्तरत्वसम्बन्धस्य वक्तुमशक्य- स्वाच्च । द्वितीये शब्दजशब्दन्यायेन पदप्रत्यक्षोपपादनेऽपि पदस्याविद्यमा- नत्वेन तत्र शक्त्याश्रयत्वस्य ग्रहानुपपत्तेः । अविद्यमाने आश्रयत्वाङ्गीकारे नष्टो घटो जलवानित्याद्यापत्तेश्च । तृतीये येन क्रमेणानुभवस्तेनैव क्रमेण तत्संस्कारस्थितिरित्यत्र विनिगमकाभावात् सरो रसो नदी दीन इत्यादौ विपरीतसंस्कारोबोधेन प्रत्येकमन्यार्थप्रत्ययापत्तेः । उत्पत्तिविनाशवद्वर्ण- समुदायरूपपदस्य मनुष्यादिवतेंदे "एक इन्द्रशब्दः ऋतुशते प्रादुर्भूतो युग- पत्सर्वयागेष्वङ्गं भवति" इति भाष्यविरोधापत्तेश्च । प्रादुर्भूतोऽभिव्यक्तः । ननु कस्तहिं वृत्त्याश्रयश्शब्दः । स स्फोटात्मक इति गृहाण ।। ननु कोऽयं स्फोटः ? उच्यते । चतुर्विधा हि वागस्ति-परा पश्यन्ती उच्चारितश्च वर्णस्तदानीमेव नष्ट इति पौर्वापर्यसंहितयोरसम्भव इत्यर्थः ॥ *संस्कारवशादिति । पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितचरमवर्णानुभव एवं तावद्वर्णगोचरां स्मृति जनयतीति ताकिकाशयो बोध्यः। *शब्दजशब्देति । यथा वीचिरुत्पन्ना तरङ्गान्तरमुत्पादयतीतिवीचितरङ्गन्यायेनैकैकशब्दाच्छब्दान्तरोत्पत्तिः, ततः श्रोत्रमागतो गृह्यते इति तार्किकाः। अव्यवहितोत्तरत्वसम्बन्धेनेत्यादिकां प्रथमा- माशहां निराकरोति-*अभिलापासम्भवेने ति*। * अविद्यमान इति । अविद्यमा- नयोरपि जलघटयोराश्रयतानिरूपकत्वस्याश्रयत्वस्य च त्वदीत्या बाधाभावात्। त. ज्ज्ञानस्य प्रमात्वापत्तिः । किश्चैवं पदवाक्ययोरभावेन शब्दार्थसम्बन्धस्यैव हानिः । । तदुक्तं हरिणा- 'अशाब्दो यदि वाक्यार्थः पदार्थोऽपि तथा भवेत् । इत्यादिनेत्यलम् ॥ *स्फोटात्मक इति। श्रोत्रेन्द्रियग्राह्यः स्फोटनामा पदार्थ इति भावः । चतुर्वि- । - परमलघुमञ्जूषायाम्- मध्यमा वैखरी च । तत्र मूलाधारस्थपवनसंस्कारीभूता मूलाधारस्था शब्दब्रह्म रूपा स्पन्दशून्या बिन्दुरूपिणी परा वागुच्यते । नाभिपर्यन्तमाग- च्छता तेन वायुनाऽभिव्यक्ता मनोगोचरीभूता पश्यन्ती वागुच्यते । एतद् द्वयं वाग्ब्रह्मयोगिनां समाधौ निर्विकल्पकसविकल्पकज्ञानविषय इत्युच्यते। ततो हृदयपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्ता तत्तदर्थवाचकस्फोटरूपा श्रोत्रग्रहणायोग्यत्वेन सूक्ष्मा जपादौ बुद्धिनिग्रह्या मध्यमा वागुच्यते तत आस्यपर्यन्तमागच्छता तेन वायुनोर्ध्वमाकामता च मूर्धानमात्य परावृत्य धेति । परा-पश्यन्ती-मध्यमा-वैखरीतिभेदात् । तथाहि- 'वैखरी शब्दनिष्पत्तिमध्यमाश्रुतिगोचरा । उद्यतार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥ इति ॥ अश्रुतिगोचरेतिपदच्छेदः । सा श्रुतिगोचरा न किन्त्वन्तः करणग्राह्या, वैखयैव श्रुतिग्राह्येत्यर्थः *मूलाधारस्थेति । षण्णवत्यङ्गुलो देहायामः । तत्र अष्टः चत्वारिंशत्तममधस्तादुपरि च परित्यज्य मध्ये मूलाधारः । तदाहुः- 'पावन्ताद्वयङ्गुलादूचं लिङ्गाच्च द्वथङ्गलादधः । मध्यमेकाङ्गुलं यच्च देहमध्यं प्रचक्षते ॥ 'नवाङ्गुलोर्वतस्तस्मादस्थिकन्दोऽण्डसन्निभः । चतुरङ्गुलविस्तारस्तन्मध्यं नाभिरुच्यते॥ इति ॥ कुण्डलिनी मूलप्रकृत्यात्मिका महदादिभिवेष्टिता सर्पत्तिष्ठति मूलाधा. रादुत्थितः पवनो नाडीद्वारेण कार्याणि करोतीति पातञ्जले स्पष्टम् । श्योगिनामिति । योगिनामित्युक्त्या न बुद्धया निश्चयात्मिकया हिरण्यगर्भदेवत्या तद्रूपप्रणवरूपत्वेन वो. पास्यता दर्शिता। निराधारस्य चोपासनासम्भवादाधारोऽप्युक्तचेतनाधिष्ठानमन्तरे- णाचेतनानां प्रकाशकत्वासम्भवादधिष्ठातृदेवताकीर्तनम् । *समाधाविति । 'सोऽहं ब्रह्म न संसारी न मत्तोऽन्यत्कदाचन । इति विद्यात्स्वमात्मानं स समाधिः प्रकीर्तितः ॥ इति॥ अपरञ्च-"समाधिस्तु समाधानं जीवात्मपरमात्मनोः । ब्रह्मण्येव स्थिति सा स. माधिः प्रत्यगात्मनः" इति ॥ *निर्विकल्पकेति । तत्वं च-चिन्मानविषयत्वम् । *मध्यमा वागुच्यत इति । स्वयं तु कर्णपिधाने सूक्ष्मतरवाय्वभिघातेन उपांशु. शब्दप्रयोगे च श्रूयमाणा चेत्याहुः । । ॥ - स्फोटविचारः। २७. च तत्तत्स्थानेष्वभिव्यक्ता परश्रोत्रेणापि ग्राह्या वैखरी वागुच्यते । तदाह- परा वाङ् मूलचक्रस्था पश्यन्ती नाभिसंस्थिता । हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा ।। इति । वैखर्या हि कृतो नादः परश्रवणगोचरः । मध्यमया कृतो नादः स्फोटव्यञ्जक उच्यते ।। इति च । युगपदेव मध्यमावैखरीभ्यां नाद उत्पद्यते । तत्र मध्यमानादोऽर्थवाच- कस्फोटात्मकशब्दव्यञ्जकः। वैखरीनादो ध्वनिः सकल जनात्रमात्रप्रायो भेर्यादिनादवन्निरर्थकः । मध्यमानादश्च सुक्ष्मतरः कर्णपिधाने जपादौ च सूक्ष्मतरवायुव्यङ्ग्यः शब्दब्रह्मरूपस्फोटव्यञ्जकश्च । तादृशमध्यमानादव्य. गयः शब्दः स्फोटात्मको ब्रह्मरूपो नित्यश्च । तदाह हरिः- अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ।। इति ! *वैखरी वागुच्यत इति* । प्रणव एव व्यानोदानाभ्यां वैखरीरूपं प्रतिपद्यते । अत एवं हरिणा व्याकरणस्य त्रिविधा वाग्विषय इत्युक्तम् । 'वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् । अनेकतीर्थभेदायास्त्रय्या वाचः परम्पदम् ॥ इति ॥ अस्फोट इति । शाब्दिकानां वाच्यलक्ष्यव्यङ्गयार्थप्रतिपादकानां वाचकलाक्षणि. कव्यजकानां शब्दानां तनिष्ठजातेर्वा स्फोट इति व्यवहारस। स्फुरति अर्थो यस्मादिति व्युत्पत्या पङ्कजादिपदवद्योगरूढः स्फोटशब्दः। केवलयोगस्वीकारेवाच्यलक्ष्यव्यङ्गयाना चेष्टायाश्च व्यङ्गयार्थप्रतिपादकत्वेन तत्रातिव्याप्तेः । एवं चार्थनिष्ठविषयताप्रयोजकश. क्तिमत्वमेव स्फोटत्वम् । *अनादीति । आदिनिधनरहितशब्दोपग्राह्यतया शब्दतत्वं स्थितिप्रवृत्तिप्रवि. भागादिशब्देन क्रियते । तच्चाक्षरनिमित्तत्वादक्षरं प्रत्यक् चैतन्ये निवेशितस्य परबोधा. र्थमभिव्यक्तरर्थभावेन विवर्तते तत्वादप्रच्युतमेकं भेदानुकारणाशक्त्यानेकरूपता प्रति. पद्यते । न तत्रारम्भवादः परिणामवादो वा विवक्षितः, किन्तु विववादः । यथा, रज्जु स्वयमविकृतव सती मायया साकारेण विवर्तते । कारणस्वरूपाविरोधेच कार्यप्रति भासः। अतो ब्रह्मणो निर्विकारत्वान्न नित्यत्वविरोध इति बोध्यम् ॥
R परमलघुमञ्जूषायाम् । स च यद्यप्येकोऽखण्डश्च, तथाऽपि पदं वाक्यं जपाकुसुमादिलौहित्य- पीतत्वादिव्यञ्जकोपरागवशाद लोहितः पीतः स्फटिक इति भानवद् वर्णा दिव्यङ्गयः वर्णरूपः पदरूपो वाक्यरूपश्च । यथा च मुखे मणिकृपाणदर्पण व्यञ्जकोपाधिशादैर्ध्यवर्तुलस्वादिभानं तद्वत् । तदुक्तम्- पदे न वर्णा विद्यन्ते वाक्येष् ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ।। इति । किञ्च व्यञ्जकध्वनिगतं कत्वगत्वादिकं :स्फोटे भासते। बिम्बगतध. *वर्णादीति* । अत्रादिशब्देन पदवाक्ययोः सङ्ग्रहः । तेन वर्णरूपमध्यमानादब्य ग्यो वर्णस्फोटः । पदरूपमध्यमानादबङ्गयः पदस्फोटः । वाक्यरूपमध्यमानादव्यङ्गयो वाक्यस्फोटः । तद्वदिति । यथा एकस्यैव मुखस्य कृपाणदर्पणाधभिव्यञ्जकवशाढ्दै- यवर्तुलत्वादिप्रतीतिः, तथैवैकल्य तस्यैकत्येऽपि तत्र व्यञ्जकरूपप्रतिबिम्बजन्यतदप. निरूपितस्यैव प्रतीत्या नानात्वेन प्रतीतिरौपाधिकी बोध्या। अत एवभ्युपगमार्थं न तत्र जातिकल्पनापि । वर्णाभिन्नव्यञ्जकाऽभावाचन कदाचिदपि वणराहित्येन तत्प्रती. तिस्तत्प्रतिबिम्बसमर्पकाश्च संस्कारा एव । ते च येन क्रमेण चित्तस्थास्तेनैव व्यक्षक रूपिता तस्येत्यभ्युपगमाच्य न सरो रस इत्यनयोरविशेषः । व्यञ्जकरूपरूपितस्यैव तस्या) शक्तिग्रहाच्च, न घटादिपर्यायाभिव्यक्तवस्फोटे गृहीतशक्तिकल्याप्रसिद्धपदश्र- वणेऽर्थबोधापत्तिः । अत एवेदमेकं पदं, पदमिदमेकवाक्यमिति व्यवहारः स्वरसतः सङ्गच्छत इति दिक॥ *पदे* । पचतीत्यादौ । न वर्णाः। नातो वर्णसमूहा पदमिति शेषः। दृष्टान्तव्याजे. नाह-*वणेविति । एकारौकारलकारऋकारा दिवणेषु अवयवाः प्रतीयमानापि यथा नेत्यर्थः । सा प्रतीतिस्तु तत्तदुच्चारणविशेषव्याङ्गयतत्तद्वर्णसमानाकारकच निविशेषो. परागौपाधिका भ्रान्तिरेव, अतो नार्थसाधिका । एकादावयवकल्पने गौरवापत्तेरिति भावः । एवं वाक्येऽध्याह-वाक्यादिति । पदानामपि वाक्याद्विवेको-भेदो ना. स्तीत्यर्थः। ननु मध्यमानादव्यङ्गयत्वेऽपि स्फोटात्मकशब्दस्य ब्रह्मवन्नित्यत्वैकत्वयोव्यवस्था- नात्ककारोऽयंगकारोऽयमिति व्यवहारानुपपत्तिस्तस्य भेदनिबन्धनत्वादत आह-*कि. चेति । *स्फोटेभासत इति । यथातिशुभ्रस्य निर्मलस्यापि स्फटिकस्य जपाकुसुमा- दिविजातीयरकादिवस्तुछायापातेन रक्तत्वाध्यवसायः, तथातिभेदरहितस्यापि नित्य- स्यैकस्यापि स्फोटस्य विकारध्वनिगतत्वाद्यव्यवसायेनककारो गकार इत्यादिव्यवहा- रोपपत्तिरिति भावः ॥ ।
स्फोटविचारः। मवैशिष्टयेनैव प्रतिबिम्वस्य लोके अवधारणाद् । व्यञ्जकरूपितस्यैव स्फटिकादेर्भानाच्च । यथा चैकस्याकाशस्य घटाकाशो महाकाश इत्यौपा- धिको भेदः, यथा चैकस्यैव चेतनस्यौपाधिको जीवेश्वरभेदो; जीवानां च परस्परं भेदः, एवं स्फोटेाव्यञ्जकध्वनिगतकत्वादि भानात्ककारो बुद्ध इत्यौ- पाधिको भेदव्यवहारः। औपाधिको भेद इत्यत्रोपाधिः कत्वादिभिन्न *व्यञ्जकरूषितस्यैवेति । यथा-जपाकुसुमादिनानाव्यञ्जकरूपप्रतिबिम्बजन्यतद्रूपान रूपितस्य नानात्वेन प्रतीतेरपि स्फटिकस्यैकत्वं, तथात्रापि व्यञ्जकध्वनिगतनानात्वेन प्रतीतावपि स्फोटस्यैकत्वमिति भावः। यथैकल्याकाशस्योपाधिवशानानात्वं घटाका. शो मठाकाश इत्यादिस्तथैव प्रकृते उपाधिवशानानात्वमिति प्रदर्शयति-*यथेत्यादि. ना* : *एकस्यैव चेतनस्येति । यथा लोके अमलः स्फटिकमणिः स्वसन्निहितानांना. नाविधवर्णानां बन्धूकादीनां वर्ण धत्ते, रक्तः स्फटिक इत्यादि, तद्वद् विभुः आत्माऽपि गुणभावितस्य प्रकृत्या प्रकाशितस्य देहादिलक्षणस्य उपाधेवि देवत्वमनुष्यत्वादिकं धत्ते इत्युपाधिवशात् जीवेश्वरभेद इति भावः ! *औपाधिक इति। ध्वनिगतभेदस्य वर्णेष्वारोपादिति भावः । *औपाधिको भेदव्यवहार इति । अत्रेदं तत्वम्-अवर्णादीनामेकत्वं नित्यत्वं विभुत्वं च तदवयवक पदादेरपि तत्वम् । कण्ठताल्वाभिघातस्तद्वयनकः । देशभेदेऽपि पटादीनां देशवाटित. सन्निवेशाभेदवत्कालभेदेऽपि तदूघटितानुपूर्त्या अभेदः । "प्रत्यक्षप्रत्यभिज्ञानाद्वर्णकत्वं प्रतिष्ठितम् ।। वर्गात्मक पदं तच तदभेदान्न भिद्यते। इत्युक्तः ॥ दिनान्तरानुभूतेऽधुनानुभूयमानस्य सोऽयमितिप्रत्यभिज्ञया तावत्कालं स्थिरत्वसिद्धेस्तावत्कालं स्थिर चैनं कः पश्चानाशयिष्यतीति न्यायात्पराभिमताशु. विनाशित्वव्यतिरेके सिद्धे नित्यत्वपर्यवसानम् । नित्यत्वञ्चैषां सृष्टयाधकालोत्पात. कत्वं प्रलयकालनाध्यत्वं चेत्येतावदेव बोध्यम् । सर्वदेशेषु तदुपलम्भाद्विभुत्वन् । लाधवाञ्चकत्वम् । आनुपूर्वीघटकमव्यवहितोत्तरत्वं चैतत्पने-उत्पत्यनवच्छिन्नस्व. ज्ञानाधिकरणकालोत्पत्तिकज्ञानविषयत्वम् । यथा-अत्यन्तरागवतः कामिनीसाक्षा- कारस्थले ज्ञानधाराकल्पने गौरवादेकत्वं तद्वत् ज्ञानानामपि एतद्विषये स्थिरत्वम् । व्यञ्जकगतवैजात्यमादायैव ककारहकारयोभदव्यवहारः। अद्वैत सिद्धान्ते विषयसम्ब. न्धजन्यवृत्तिवैचित्र्येण व्यङ्गय स्वरूपसुखे भेदव्यवहारवत् । विशेष्यांशमादायाभेदेऽपि तत्प्रतीतिनापाद्या । उपाध्यनालिङ्गिततत्प्रतीत्यभावात् । देशकालभेदप्रत्ययोऽप्यौपा- धिक एव । स एव च पदादिरूपेणापि व्यङ्गय इति बोध्यम् । अत्रापि काल्पनिक प्रकृतिप्रत्ययविभागः पदे, वाक्ये च पदविभागः। भेदेन कल्पिता भपि ते पदवदेव परमलघुमजूषायाम् । AN- उपाधेयस्तु आकाशस्फोटादिरेक एवेति तात्पर्यम्। पदवाक्ययोरसखण्डत्वपक्षे स्वन्तिमवर्णव्यङ्गयः स्फोट एक एव । पूर्वपूर्ववर्णस्तु तात्पर्यग्राहकः । न्या- यनये चित्रगुरित्यादौ चित्रादिपवत् ।। ध्वनिस्तु द्विविधः । प्राकृतो वैकृतश्च । प्रकृत्याऽर्थबोधनेच्छया स्वभावेन वा जातः स्फोटव्यञ्जकः प्रथमः प्राकृतः। तस्मात्प्राकृताज्जातो विकृतिवि- शिष्टश्चिरस्थायी निवर्तको वैकृतिकः । हरिरप्याह- स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते। शब्दस्योर्ध्वमभिव्यक्तवृत्तिभेदे तु वैकृताः ।। ध्वनयः समुपोहन्ते स्फोटात्मा तैनै भिद्यते ।। इति । नित्याः । तदुक्तम् "आद्यन्तौ" इति सूत्रे भाष्ये "नित्येषु शब्देषु कूटस्थैरविचालिमि. बैणभवितव्यम्" इति दिक् । *आकाशस्फोटादिरिति*। आकाशश्व स्फोटश्च आकाशस्फोटौ, तौ आदिर्यस्येति विग्रहः । अथवा आँसमन्तात्काशते-प्रकाशते इत्याकाशः स्वयम्प्रकाशरूपः ब्रह्म. त्यर्थः । स चासौ स्फोटश्शेति बोध्यः । स्फोटरूपस्य शब्दस्य ब्रह्मरूपत्वं स्मृतिपुराणप्र- सिद्धम् -"शब्दे ब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति" इत्यादि। ननु अन्तिमवर्णस्यैव तात्पर्यग्राहकत्वे पूर्वपूर्ववर्णोच्चारणानर्थक्यमित्याशङ्क्याह- *पूर्वपूर्वति । न्यायनये इति। तेषां मते चित्रग्वादिबहुव्रीहौ गवादिपदमेव चित्राद्य. भिन्नगवादिस्वाम्यथें लाक्षणिकम् । चित्रादिपदन्तु लक्षणायां तात्पर्यग्राहक यथा क- लभ्यते, तथा प्रकृतेऽपि चरमवर्णजन्यबोधे पूर्वपूर्ववर्णास्तात्पर्यग्राहका इति बोध्यम् । ध्वनिस्त्विति । 'ध्वनिः स्फोटश्च शब्दानां ध्वनिस्तु खलु लक्ष्यते । अल्पो महांश्च केषां चिदुभयं तत्स्वभावतः । इति । स्फोटः शब्द इति श्रोत्रेन्द्रियग्राह्यस्फोटनामा पदार्थः शब्दः, ध्वनिस्तद. भिव्यक्त्युत्तरं जीयमानो वैकृतध्वनिरूपः, शब्दस्य चिराचिरोपलब्धिकारत्वाद् गुण उपकारकः । *प्राकृत इति । प्राकृतशब्देन रूफोटव्यञ्जकमत्रोच्यते । तथाहि- 'स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते। ग्रहणे-अभिव्यक्तावित्यर्थः । श्वैकृतिक इति । स्थितिभेदे निमित्तत्वं वैकृतः प्रतिपद्यते । स्थितिभेदे चिराचिरोलब्धिविशेषे इत्यर्थः । - स्फोटविचारः। ३१ ३ शब्दस्याभिव्यक्तेरूज़, वैकृता धनयो जायन्ते इति शेषः । वृत्तिभेदे इति। अभ्यासार्थे द्रुता वृत्तिमध्या वै चिन्तने स्मृता । शिष्याणामुपदेशार्थ वृत्तिरिष्टा विलम्विता ।। इति । तिसृषु वृत्तिषु समुपोहन्ते कारणानि भवन्ति स्फोटस्तु तैर्न भिद्यत इति तदर्थः। अत्रेदं बोध्यम्-केनचिद् घटमानयेति वैखरीनादः प्रयुक्तः, स केन चिच्छ्रोत्रेन्द्रियेण गृहीतः, स नाद इन्द्रियद्वारा बुद्धिहृद्गतस्सन्नर्थबोधक 'शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदे तु वैकृताः। ध्वनयः समुपोहन्ते स्फोटात्मा तनै भिद्यते । इति । द्रुतेति । द्रुतायां वृत्तौ तदुच्चारयति वक्तरि ब्रह्माण्डसम्बद्धालामृतविन्दुस्रावि. णोति योगिप्रसिद्धेयस्याः सुषुम्णारब्धनाडिकाया अनवपानीयबिन्दवः स्त्रवन्ति, तस्या एव मध्यमायां वृत्तौ द्वादशबिन्दवः स्त्रवन्ति, विलम्बितायां वृत्तौ षोडषबिन्दवः स्व. न्तीति पूर्वपूर्वतस्त्रयो भागा अग्रेऽधिका इत्यर्थः । श्वैखरीनाद इति । अत्र नन्दिके- सरकाशिकायामपीदमुक्तम्- 'ज्ञप्तेर्बभूव पश्यन्ती मध्यमा बाक् ततः परम् । व विशुद्धचक्राख्ये वैखरी सा मता तता। इति विशुद्धचक्राख्ये वक्त्रे अभिग्यको यो वैखरीनादः । *प्रयुक्त इति । घट- कर्मकेच्छया वक्त्रा वैखरीनादाख्यो ध्वन्यपरपर्यायो मध्यमानादस्फुरणायोञ्चारित इत्यर्थः । एतनादस्यैव परश्रवणेन्द्रियग्राह्यताया उक्तत्वात् "उच्चारितः शब्दप्रत्या- यको नानुच्चारितः' इति न्यायादिति भावः । *गृहीत इति । श्रावणप्रत्यक्षविषयीकृत इत्यर्थः। *इन्द्रियद्वारेति। श्रोत्रा- दीन्द्रियद्वारेत्यर्थः । *बुद्धिहृदत इति । बुद्धिर्नाम निश्चयात्मिका अन्तःकरणवृत्तिः । हृत्-नामचित्तं, 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरकोशात् । अनु सन्धानात्मिका अन्तःकरणवृत्तिहि चित्तम्-पूर्वाननुभूतो हि विषयो बुद्धिविषयो भ. वति । हृदः पुनः पूर्वानुभूत इति द्वयोर्मध्ये भेदः। तौ गतः बुद्धिचित्तगत इत्यर्थः । *अथबोधकमिति। 'बुद्धा कृत्वा सर्वाश्चेष्टाः कर्ताधारस्तन्वनीतिः । शब्देनार्थान् वाच्यान् दृष्ट्वा बुद्धौ कुर्यात्पौपियें । य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति अस्मिन्नथऽयं शब्दः प्रयो- - परमलघुमञ्जूषायाम्- शब्दं स्वनिष्ठकत्वादिना व्यञ्जयति तस्मादर्थबोधः। स्फुटत्यर्थोऽस्मादिति व्युत्पत्त्या स्फोट: । उच्चारयितुस्तु युगपदेव मध्यमावैखरिभ्यां नाद उत्प. द्यते । तत्र वैखरीनादो वन्हेः फूत्कारादिवन्मध्यमानादोत्साहकः, मध्यमाना- दस्फोट व्यञ्जयतीति शीघ्रमेव ततोऽर्थबोधः । परस्य विलम्बेनानुभवसिद्ध- त्वात् । अत एव श्रोत्रोपलब्धिर्बुद्धिनिर्णायः प्रयोगेणाभिज्वलित आकाशदे- शः शब्द इत्याकरग्रन्थस्सङ्गच्छते । कत्वादिना श्रोत्रोपलब्धित्वं स्फोटात्मक- पदादिरूपेण तु बुद्धिनिर्ग्राह्यत्वम् , स च प्रयोगेण वैखरीरूपेणाभिज्वलितः स्वरूपरूषितः कृत इति तदर्थः । तत्रापि शक्यत्वस्येव शक्ततावच्छेदिकाया वर्णपदवाक्यनिष्ठजातेर्वाचकत्वम् । तदुक्तम्- अनेकव्यक्त्यभिव्यङ्गया जातिः स्फोट इति स्मृता । इति । तस्मादष्टविधस्फोटात्मकश्शब्दो वृत्त्याश्रयः । वस्तुतस्तु वाक्यस्फोटो । क्तव्यः, अस्मिश्च धाब्दे अयं इति “पर:सन्निकर्ष" सूत्रे भाष्ये स्पष्टम् । *स्फुटत्य । थोऽस्मादिति । स्फुटत्यभिव्यक्तीभवत्यर्थोऽस्मादिति व्युत्पत्या अर्थप्रकाशत्वम् , प्रकाशश्च ज्ञानम् । तथाचार्थनिष्ठविषयताप्रयोजकशक्तिमत्वं पर्यावस्यति । फूत्का- रादिवदिति । अप्रज्वलितस्य वह्नः फूत्कारादयो यथा उद्बोधकास्तथा वैखरीनाद इति भावः । *श्रोनोपलब्धिरिति । श्रोत्रे एव उपलब्धिर्यस्येत्यर्थः । श्रोत्रो. पलब्ध्या च शब्दस्याकाशदेशत्वं प्रतिपादितम् । *आकाशदेश इति । कर्णशष्कुल्यवच्छिन्नमस एच श्रोत्रत्वादाकाशदिशो तिरिक्तत्वमित्यभिप्रायेण देशशब्दप्रयोग आकाशे बोध्यः । यद्वा आकाशो देशः अभिव्यक्तिस्थानं यस्ये ति बहुव्रीहिः । आकाशे एव शब्दाभिव्यक्तिस्वीकारात् । बुद्धिनिर्माह्य इति । पूर्व- पूर्वध्वन्युत्पादिताभिव्यक्तिजनितसंस्कारपरम्परासहकृतान्त्यवर्णबुद्धिग्रहयोग्य इत्यर्थः। *प्रयोगेणेति । प्रयोगो नामध्वनिः, तेनाभिव्यक्त इत्यर्थः । *स्वरूपरूषितःकृत इति। ऐतेन कदम्बमुकुलादिन्यायेनानन्तशब्दजशब्दानां तत्प्रागभावध्वंसाना तत्प्रत्यक्षानुप. पत्या नैयायिककल्पनमपास्तम् । तत्रापीति। अर्थगतजातेयथा शक्यत्वं तथा शक्य. तावच्छेदकवर्णादिगतजातरेववाचकत्वमिति भावः। *अनेकव्यक्त्यभीति। अनेकाभिः वर्णव्यक्तिभिरभिव्यक्वजातिस्फोट इति स्मृता। योगार्थतया बोधिकेति भावः। *अष्टविधेति । वर्णस्फोटः, पदस्फोटः, वाक्यस्फोटः, अखण्डपदवाक्यस्फोटौ वर्णवाक्यभेदेन त्रयो जातिस्फोटाः इति । *वृत्याश्रय इति । शक्तयाश्रयेति भावः। वर्णपदभेदस्फोटानान्दूषितप्रायत्वात्स्वमते निष्कर्षमाह-वस्तुतस्त्वित्यादिना । *वाक्यस्फोट इति । लोके तस्यैवार्थबोधकत्वात्। शक्तिप्राहकशिरोमणिना वृद्ध- ७ । - ३३ आकाहाविचारः। वाक्यजातिस्फोट एव वा वृत्त्याश्रयः । तत एव लोकेऽर्थबोध इत्याधुक्तत्वा- दिति सर्व सुस्थम् । इति स्फोटनिरूपणम् ॥ अथ शाब्दबोधसहकारिकारणानि आकाङ्क्षा-योग्यता-आसत्ति-तात्पर्या- णि। वाक्यसमयग्राहिकाऽऽकाङ्क्षा । सा चैकपदार्थज्ञाने तदर्थान्वययोार्थस्य यज्ज्ञानं तद्विषयेच्छा प्रस्थान्वय्यर्थः कः' इत्येवं रूपा पुरुषनिष्ठेव, तथापि व्यवहारेण प्रथमं तत्रैव शक्तिमहादिति तात्पर्यम् । अत एव हरिरप्याह- 'वाक्यस्फोटोऽतिनिष्कर्ष तिष्ठतीति मतस्थिति इति । न्यायभाष्यकारैरप्युक्तम्-"पदसमूहो वाक्यमर्थसमातौ” इति । इत्यर्थदीपिकायां स्फोटविचारः। स्वमतेऽर्थबोधजनकत्वरूपैव शक्तिस्तत्र च बोधपदेन शाब्दबोधग्रहणाच्छाब्दबोधे वृत्तिज्ञानाधीनोपस्थितपदपदार्थधियः कारणत्वेन तद्धटकवृत्यादीन् निरूप्येदानी सह. कारिकारणनिरूपणमारभते-*अथ शाब्देत्यादिना*। *सहकारीति । मुख्यकारणजन्यकार्यजनकत्वे सति मुख्यकारणभिन्नत्वमिति । यथा-घटकार्य प्रति मुख्यकारणत्वं कपालस्य । इतरेषां तु सहकास्किारणत्वम् । यथा वा यागादेः स्वर्ग प्रति मुख्यकारणत्वम् , अपूर्वस्य तु सहकारिकारणत्वम् । प्रकृते तु पदज्ञानं शाब्दबोधे मुख्य कारणम् , पदार्थोपस्थित्यादीनां तु सहकारिकार- णत्वम् । तदुक्तं कारिकावल्याम्- 'पदज्ञानं तु करणं द्वारं तत्र पदार्थधी। शाब्दबोधः फलं तत्र शकिधीः सहकारिणी ॥ इति । एकपदस्य पदान्तरसमभिव्याहार आकाक्षेति केचित् । केचित्तु एकपदस्य प. दान्तरप्रयोज्यान्वयाननुभावकत्वमाकाक्षामाहुस्तानिराचष्टे-*वाक्यसमयेत्यादिना* मन्त्र समयपदं शक्तिपरम् । तथाच वाक्यशक्तिग्राहकेत्यर्थः । यथाह न्यायभाष्यकार "समयज्ञानार्थ चेदं पदलक्षणया वाचोऽन्वाख्यानं व्याकरणं, वाक्यलक्षणया वाचोऽर्थ- लक्षणम्" इति । * सा चैकेति । यथा घटादिपदार्थज्ञानानन्तरं तदन्वयिन आनयना- देजिज्ञासा भवतीति। यद्यपि 'घटमानया इति वाक्ये द्वयोरपि पदार्थयोरवगतत्वान्नास्ति जिज्ञासा, त. थापि एकपदार्थज्ञानमात्रे इत्यर्थः । *तद्विषयेच्छेति ।ज्ञानविषयिणीच्छेत्यर्थः । *पुरु- षनिष्ठैवेति * इच्छारूपायास्तस्यास्तत्रौवौचित्यात् । ननुभवन्मतेऽपिहच्छायाः आत्मगुणत्वेन शब्दे अर्थ वा स्थित्यसम्भव इत्यत माह-*त- ३५० म० क परमलघुमञ्जूषायाम्- तस्याः स्वविषयेऽर्थ आरोपः । अयमर्थोऽर्थान्तरमाकाङ्क्षतीति व्यवहारा- त् । इदमेवाभिधानापर्यवसानमित्युच्यते(१) । पदे तु नारोपः, अर्थबोधोत्त- रमेवाकाङ्क्षोदयात्। पदं साकाङ्क्षमिति तु साकाङ्क्षार्थ बोधकमित्यर्थकम् । तदुक्तं समर्थसूत्रे भाष्ये-"परस्परव्यपेक्षां सामर्थ्यमेके । का पुनश्शब्दयो- यंपेक्षा । न ब्रूमश्शब्दयोरिति, किं तर्हि अर्थयोरिति”। ईदृशजिज्ञासोत्थाप- चैकपदार्थेऽपरपदार्थव्यतिरेकप्रयुक्तस्यान्वयबोधाजनकत्वस्य(२)ज्ञान- थापीति*। *स्वविषये इति। आकाङ्क्षाविषये इत्यर्थः । *अर्थे आरोप इति । विषयतासम्बन्धेनाकाक्षायाः अर्थेऽपि सत्वादिति भावः । *आरोप इति । इच्छा- याः सम्बन्धस्य चारोप इति तात्पर्यम् । इदमेवेति । अभिधानस्य वाचकत्वस्यापर्यवसानमपूर्णत्वमित्यर्थः। *अर्थबो. धोत्तरमिति । पदनिष्टार्थनिरूपितवृत्तिज्ञानोत्तरार्थोपस्थित्युत्तरमिति भावः । अनेदं बोध्यम्-पदस्थ वा वाचकत्वपक्षे तत्तदर्थबोधस्य निरूपिततत्पदनिष्ट- वृत्तिज्ञानवशात्सम्भवेऽपि संसर्ग वृत्यभावेन तद्भानं शाब्दबोधे दुरुपपादं, तत्प. दजन्यतदर्थबोधम्प्रति तत्पदनिष्ठतदर्थनिरूपितवृत्तिज्ञानस्य कारणत्वादिति सोऽपि भासताम् । अत एव भाकाङ्क्षाज्ञानस्याप्यन्वयबोधम्प्रति कारणत्वं वक्तव्यम् । वाक्यशक्तिवादिना तु नायं दोषः। तन्मते संसर्गविशिष्ट शक्तिसत्वात् । अत एवान्विताभिधानवादिमीमांसकैकदेशिन इतरार्यान्विताथै शब्दस्य शक्ति स्वीकृत्य इतरान्वितो घटः घटपदशक्य, इत्येवं सर्वत्र शक्तिग्रहं वदन्ति । तत्रान्वयत्वसामान्य. रूपेणान्वयमात्रोपस्थिती योग्यतावशात् तात्पर्यनिश्चयवशाच्चान्वयविशेषमानं मन्यत इति दिक् । ननु माकाक्षायाः पदे आरोपाभावे पदं सांकाङ्क्षमिति व्यवहारः कथमुपपद्यत इत्यत आह-*पदमिति । *अर्थयोरितिभा देवदत्तो गामपेक्षते मदीयेयमिति गौश्च देवदत्तमपेक्षते अहमस्येति स्वं स्वमर्थं प्रति शब्दस्य विशेषणत्वेन गुणीभावादर्थयोरेवाकाङ्क्षा न शब्दयोरिति भावः । *एकपदार्थ इति । घटपदार्थे अपरपदार्थव्यतिरेकप्रयुक्तस्य अपरपदार्थज्ञाना. (१)अभिधानस्यापर्यवसानम् अपूर्णतेत्यर्थः । (३) एतादृशज्ञानस्य बोधहेतुत्वात् एकवारमन्वयबोधे जाते तदजनकत्वज्ञाना- भावान्न पुनरन्वयबोधः । अन्वयबोधश्च-तदाकाक्षितसकलक्रियाकारकादिविषयो विवक्षितः। तेन खण्डवाक्यार्थबोधोत्तरं न महावाक्याथेंबोधानुपपत्तिः। एतन्मूलिकैव च 'सकृदुच्चरितः शब्दः सकृदर्थ गमयति इति व्युत्पत्तिरित्यादि लघुमञ्जूषायां स्पष्टमिति तत एवावगन्तव्यम् । , ३ आकाहाविचारः। ३५ मिति तद्विषये तादृशान्वयबोवजनकत्वेऽप्याकाक्षेति व्यवहारः । यद्वा उत्थापकताविषयतान्यतरसम्बन्धेनोमयसम्बन्धेन वाऽर्थान्तरजि- ज्ञासा आकाङ्क्षा । आद्यम्-'पश्यमृगो धावति' इत्यत्र, दर्शनार्थस्य कारक- धावनाकाङ्क्षोत्थापकत्वं धावनं तु तद्विपय एव ! अन्त्यन्तु- पचति तण्डु- लं देवदत्तः' इत्यादौ, क्रियाकारकयोर्द्वयोरपि परस्परं तदुत्थापकत्वात्त- द्विषयत्वाच्च । अत एव घटः कर्मत्वम् आनयनं कृतिरित्यतो घटमानयेतिवन्नान्वय- बोधः। आकाङ्क्षाविरहात् । घटमानयेति विभक्त्यन्ताख्यातान्तयोरेव साकाङ्क्षत्वाच । इत्याकाङ्क्षानिरूपणम् । भावप्रयोज्यस्येत्यर्थः । तथा च-चटपदाथें आनयपदार्थाभावप्रयोज्यबोधाजनकत्वस्य ज्ञानमित्यर्थः । अत एव पदस्थ पादान्तरप्रयुक्तान्वयाननुभावकत्वमाकाङ्केति तार्किकाः प्राहुः। यथा घटमिति सुबन्तमानयति च तिङन्तमपेक्ष्यैव घटकम्मंकानयनार्थबोधञ्जनया ति । तथैवानयेति तिङन्तं पदंघटमिति सुबन्तं पदम्, तयोश्च परस्परमन्यताद्विनाऽथ. बोधोत्पादकत्वादिति भावः। *तद्विषये इति । बोधाजनकत्वज्ञानविषय इत्यर्थः । वेदान्तपरिभाषाकारास्तु-पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकासा । कि. याश्रवणे कारकत्या कारकश्रवणे क्रियायाश्च, जिज्ञासाविषयत्वम् । क्वचिजिज्ञासाम- न्तरापि शाब्दबोधदर्शनात् तत्लनहाय योग्यत्वपदोपादनमिति वदन्ति । नन्वेवं घर: कर्मत्वम् आनयनं कृतिरित्यादौ कर्मत्वपदोपस्थाप्यकर्मत्वज्ञाने तदर्थान्वययोग्यानयनाथस्य यज्ज्ञानं तद्विषयेच्छारूपाकाङ्क्षायाः सत्वात् घटमानये. ति वाक्यजन्यशाब्दबोधवत् तत्रापि शाब्दबोधापत्तिरत आह-*उत्थापकेति। एवञ्च द्वितीयान्तपदोपस्थाप्यस्यैव आनयपदोपस्थापितानयने आकाङ्क्षा। एवमान- यपदोपस्थापितस्यैव द्वितीयान्तपदोपस्थापिताथै आकाङ्केति न कश्चिद्दोषलेश इति भावः । *आद्यमिति* । अन्यतरसम्बन्धेन । *कारकधावनेति । क्रियायाः कारका- पेक्षासत्वेन सकर्मकदर्शनादिक्रियायाः कोशे प्रकृते सापेक्षत्वेन तत्र दर्शने धावन- क्रियान्वयौचित्यादिति भावः । *धावनं तु तद्विषय एवेति । ईशस्थले क्रियाकार. कसम्बन्धो वाक्यशक्य एव । अत एव "विभाषा साकाले” इति सूत्रे भाष्ये "अस्त्य- स्मिन्नाकाङ्केति च साकासम्" इत्युक्तम् । अस्मिन्निति विषयसप्तमीत्यलम् । *अत एवेति । उक्ताकाङ्क्षायाः शाब्दबोधम्प्रति हेतुत्वादेवेत्यर्थः । *विभक्त्यन्तेति । सुब. न्ततिडन्तयोरित्यर्थः ।। *साकाङ्क्षत्वाच्चेति । घनिष्ठकनेतानिरूपकानयनबोधे चटमित्येतत्सुबन्तानयेतितिङन्तपदयोरेव साकाङ्क्षत्वादिति भावः । इत्यर्थदीपिकायामाकासानिरूपणम् ।
परमलघुमञ्जूषायाम् । योग्यता च-परस्परान्वयप्रयोजकधर्मवत्त्वम् । तेन 'पयसा सिञ्चति' इति वाक्यं योग्यम् । अस्ति च सेकान्वयप्रयोजकद्रवद्रव्यत्वं योग्यता जले, करणत्वेन जलान्वयप्रयोजकार्दीकरणत्वं योग्यता सेकक्रियायाम् । अत एव 'वह्निना सिञ्चति, इति वाक्यमयोग्यम् । वढेः सेकान्वयप्रयो. जकद्रवद्रव्यत्वाभावात्। एतादृशस्थलेषु नान्वयबोधः,किन्तु प्रत्येकंपदार्थबोधमात्रमिति नैयायि काः । तन्न । बौद्धार्थस्यैव सर्वत्र बोधविषयत्वेन बाधस्याभावात् ।। क्रमप्राप्तां योग्यतां निवक्तुमुपक्रमते-*योग्यतेत्यादिना । नैयायिकास्तावत्-बाधाभावो योग्यतास्तु, सा च तात्पर्यविषयीभूतपदार्थसं- सर्गेऽपरपदार्थनिष्ठात्यन्तीभावप्रतियोगित्वाभावः । यथा हि-तात्पर्य्य विषयीभूतजल. करणकत्वसम्बन्धे सेकनिष्ठात्यन्ताभावप्रतियोगित्वाभावः, इति चेन्न । विशिष्टबुद्धौ बाधाभावस्यैकरूपेण कारणत्वासम्भवात् । पृथकरूपेण कारणत्वकल्पने तु गौरवा. च। तदपेक्षया शाब्दबोधे योग्यताज्ञानस्यैव कारणत्वौचित्यात् । परे तु अन्वयप्रयोजकसमभिव्याहृतकार्यशक्तिमत्वं योग्यता, सा च शाब्दबोधे भासते । अत एव 'घटेन जलमाहर' इत्यादौ सच्छिद्रेतरस्यैव जलाहरणशक्तिमत्वेन्द्र सच्छिद्रेतत्त्वप्रकारको बोधः । अत एव प्रतिनिधेः श्रौतत्वोपपत्तिरिति दिक् । *परस्परेति । अयमेव शाब्दबोधः । अत्राहि-तद्वाक्यजन्यतदर्थ निष्ठविष- यतानिरूपकशाब्दबोधं प्रति तद्वाक्यघटकपदार्थनिष्ठविशेष्यतानिरूपकपरस्परान्वय- बोधप्रयोजकधर्मप्रकारकज्ञानं कारणमिति कार्यकारणभावोऽवसेयः । ज्ञानञ्चात्र पदार्थ स्मृत्यनन्तरमेवापेक्ष्यते, तदैव बाधज्ञानोदयसम्भवात् । न ह्येकपदस्यापरपदासमभि- व्याहारे तत्सम्भवति । एवं हि अस्मिन्पक्षे शाब्दबोधम्प्रति योग्यताहेतुरिति फलती. ति बोध्यम् । *पयसा सिस्तीतिपयमासिञ्चतीत्यादौ सेकान्वयप्रयोजकधर्मजलत्वस्य पयसि, एवं पयःकरणकान्वयप्रयोजकधर्मसेकत्वस्य सेिकक्रियायामिति समन्वयो बोध्यः । शाब्दबोधस्तु जलनिष्टकरणतानिरूपकार्दीकरणानुकूल-एकाश्रयको वर्तमानकालिको व्यापार इति वैयाकरणमते बोध्यः । अलक्ष्ये लक्षणगमनासम्भवो दर्शयति-अत एवेत्यादिना* । अतएव-निरुक्त- योग्यताया अन्वयबोधप्रयोजकत्वादेव । *वहिनेति । अन्न तृतीयार्थकरणताया निरू. पकत्वेनार्दीकरणरूपे सेके एवान्वयोऽभ्युपेयः, स च न सम्भवति । वह्नौ आर्दीकरणक.- रणताया बाधितत्वादति भावः । *बौद्धार्थस्यैवेति । बुद्धिविषयार्थस्यैव शब्दशक्यत्वेन तस्य शाब्दबोधविषयत्वं - श्रासत्तिनिरूपणम् । हरिरप्याह- "अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति च" । इति अतो वन्ध्यासुतादिशब्दानां प्रातिपदिकत्वम् ।। वह्निना सिञ्चतीत्यतो बोधाभावे तद्वाक्यप्रयोक्तारं प्रति 'अद्रवेण व- हिना कथं सेकं ब्रवीषि' इत्युपहासानापत्तेश्च । वाक्यार्थबोधे जाते बुद्धार्थ- विषये प्रवृत्तिस्तु न भवति, बुद्धार्थेऽप्रामाण्यग्रहादित्यन्यत्र विस्तरः ।। इति योग्यतानिरूपणम् । प्रकृतान्वयवोधाननुकूलपदाव्यवधानम्-आसतिः। गिरिरग्निमानित्या- सन्नम् । अनासन्नं च-'गिरि क्तमग्निमान्देवदत्तेन' इति । आसत्तिरपि ॥ late . निष्प्रत्यूहमिति भावः। अत्रेदमवयम्-वस्तुतो बाधज्ञानं न कस्यापि ज्ञानस्य प्रतिबन्धकम् । बाधकाले. ऽपि सामग्रयां विद्यमानायां सत्यां ज्ञानं समुत्पद्यत एव, तन्त्र स्वसामग्रया जायमान- योनियोयल्य ज्ञानस्य दोषविशिष्टसामग्रीजन्यत्वं न तस्य प्रामाण्यम् । यस्य तु पुननिर्दुष्टसामग्रीजन्यत्वं तस्य प्रामाण्यमित्येव मर्यादेति लघुमञ्जूषायां स्पष्टम् ।। *अत्यन्तेति । उत्तरार्धस्तु- "अबाधात्त प्रमामत्र स्वतः प्रामाण्यनिश्चलाम्" । इत्यवसेयः। "एष वन्ध्यासुतो याति खपुष्पकृतशेखरः। कर्मक्षीरचये स्नातः शशशृङ्गधनुर्धरः ॥ अमुल्यो करिशतं क्रीडति । मम कर्णविवरं प्रविश्य सिंहो गर्जति । इत्यादिशब्दा. दुत्पद्यमानस्य शाब्दज्ञानस्यानुभवसिद्धतया न तद्बाधसम्भवः, किन्तु तज्ज्ञानाविष- यीभूतबाह्यार्थस्य बाधादप्रमाण्यं, विषयस्याबाधात्सर्वत्र प्रामाण्यमिति तात्पर्यम् । इत्यर्थदीपिकायां योग्यतानिरूपणम् । क्रमप्राप्तामासत्तिनिरूपयति-प्रकृतान्वयेति । प्रकृतो योऽन्वयबोधस्तदननु. कूलपदेन तदजनकपदेनायवधानमित्यर्थः । प्रकृतान्वयबोधानुकूलपदव्यवधाने तु शा. छदबोधो भवत्येवेति फलितम् । *आसत्तिरिति । अन्वयप्रतियोगिपदार्थानां तद्बोध- कपदानाचाव्यवधानेनोपस्थितिमसत्तिरित्यर्थः । अत एव गामित्युच्चार्य प्रहरानन्तर- मानयेत्युच्चारणे आसत्याभावान्न गवानयनप्रतीतिः । ध्वनितञ्चेदं संहितांसंज्ञा सूत्रे भाष्ये । तदेतत्सर्व मनसि निधाय वदति-गिरि(क्तमिति* *आसत्तिस्पीति*। म. न्दस्याविलम्बेन बोधे आसत्तिरपि कारणम् । अमन्दस्य तु आसत्यभावेऽपि बोधो भवतीत्यर्थः । एवं चानासन्नस्थले योजनावाक्याद्विलम्बेन बोध इत्येतावतैवानासन- - परमलघुमञ्जूषायाम् । मन्दबुद्धेरविलम्बेन शाब्दबोधे कारणम् । अमन्दबुद्धेस्त्वासत्यभावेऽपि पदार्थोपस्थितावाकाङ्क्षादितोऽविलम्बेनैव वोधो भवतीति न बोधे तस्याः कारणत्वम् । ध्वनितं चेदं()"नपदान्त"सूत्र भाष्ये । स्थाल्यामोदनं पचतीत्यादौ स्थाल्यामित्यस्यौदनपदेन व्यवधाने सत्यपि प्रकृतान्वयबोधानुकूलत्वादासन्नत्वाक्षतिः ॥ इत्यासत्तिनिरूपणम् । एतद्वाक्यं पदं वा एतदर्थबोधायोच्चारणीयमितीश्वरेच्छा-तात्पर्य्यम् । - । त्वव्यवहार इति भावः । *ध्वनितञ्चेति । आसक्तिज्ञानस्य कारणत्वमित्यर्थः । *मा. ध्ये इति । तत्र हि स्वरदीर्घयलोपानां स्थानिवद्भावनिषेधप्रसङ्ग स्वरे कर्तव्ये आक. र्षिक । चिकीर्षक: । दीर्घ प्रतिदीनः इत्यादौ लोपाजादेशस्य स्थानिवद्भावः प्राति- षेधनिकः इति निषेधं विधाय तत्र हि-"वक्तव्यम्, न वक्तव्यम् । इह हि लोपोऽपि प्रकृतः आदेशोऽपि। विधिग्रहणमपि प्रकृतमनुवर्तते । दीर्वादयोऽपि निश्यिन्ते केवलं तत्राभिसम्बन्धमानं वक्तव्यम् , स्वरदीर्घयलोपविधिषु लोपाजादेशो न स्थानिव- त" इति । अत्राक्षेपः कृतः-आनुपूव्येण सग्निविष्टानां यथेष्टसम्बन्धः शक्यते कर्तुम् । नचेतान्यानुपूव्येण सन्निविष्टानि । तस्योपरिसमाधीयत-आनुपूयेणापि सन्निविष्टा- नां यथेष्टमभिसम्बन्धो भवति । तद्यथा-अनड्वाहमुदाहारि या त्वं हरसि शिरसा कुम्भ भगिनि साचीनमभिधावन्तमद्राक्षीरिति । तस्य यथेष्टमभिसम्बन्धो भवति उदाहारि भगिनि या त्वं कुम्भं हरसि शिरसा अनड्वाहं साचीनमभिधावन्तमद्राक्षी. रिति” उक्तम् । अनेन भाष्येण आसत्ति विनापि शाब्दबोध इति स्पष्ट सूचितम् । *स्याल्यामोदनमिति । अन्वयबोधाननुकूलेतिविशेषणस्य प्रयोजनं प्रदर्शितमिति बोध्यम् । इत्यर्थदीपिकायामालत्तिनिरूपणम् ॥ क्रमपात तात्पर्य प्रदर्शयति-*एतद्वाश्यमिति* : *ईश्वरेच्छेति । ईश्वरपदमन वक्तरुपलक्षणम्बोध्यम् । अन्यथा नदीवृद्धयादिपदेष्वीचरेच्छाया अमावाच्छाब्दबोधा. नुपपत्तेः। नदीपदमीकारोकारान्तबोधनेच्छयोचरितम्, एवं वृद्धिपदमादैच्बोधनेच्छ- योच्चरितमिति शास्त्रकारमात्रेच्छायाः सत्वात् । हदन्त्वार्थिकार्थकथनं न तु तत्स्वरूप. परम् । तच्च एतद्वाक्यं पदं वा इममर्थम्बोधयतु इति पदविशेष्यकम् । अस्माद्वाक्या. (१)तत्राहि-"स्वरदीर्घयलोपेषु इत्यादिवार्तिकस्यासंग्रहसिद्धार्थकत्वप्रतिपादना. यमिदमुक्तम् । "आनुपूज्यणसनिविष्टानां यथेष्टमभिसम्बन्धः शक्यते कतुं, न चैतान्या- नुपूण सन्निविष्टानि । अनानुपूष्येण सन्निविष्टानामपि यथेष्टमभिसम्बन्धो भवति । तद्यथा-अनड्वाहमुदहारि या त्वं हरसि शिरसा कुम्भ भगिनि साँचीनग्रभिधावन्तम. द्राक्षीरित्यस्य यथेष्टमभिसम्बन्धो भवति, उदहारि भगिनि या त्वं कुम्भं हरसिः शिरमा अनड्वाहं साचीनमभिधावन्तमद्राक्षीरिति” ।
तात्पर्यविचारः। अत एव सति तात्पर्ये सर्वेसर्वार्थवाचकाः' इति शाब्दिकनये घटशब्दापट- प्रत्ययो नेत्याधुक्तम् । नानार्थस्थले लोके तात्पर्यन्तु एतत्पदं वाक्यं वा एत- दर्थप्रत्ययाय भयोच्चार्यते इति प्रयोक्तुरिच्छारूपम् । तात्प-नयामकं च लोके प्रकरणादिकमेव । अतो भोजनप्रकरणे सैन्धवमानयेत्युक्ते सैन्धवपदेन लवणप्रत्ययः, युद्धावसरेऽश्वप्रत्ययः । वेदवाक्ये चैश्वरतात्पर्य्यादर्थवोधः । इति तात्पर्य निरूपणम् । त्पदाहाऽयमों बोद्धव्य इत्यर्थविशेष्यम् । एतदपि न स्वरूपत्वे हेतुः वक्त्रा उच्चारिते वाक्ये पदे वा श्रोतुस्तात्पर्यज्ञानाभावे तादृशानुपस्थितेः सर्वजनानुभवसिद्धत्वाद, किन्तु तज्ज्ञानमेव हेतुः । तज्ज्ञानञ्च प्रकरणाद्भवतीति उक्तप्रायम् । श्रोतृबोधायैव श. ब्दप्रयोगात् । एवञ्च तत्पदजन्यतदर्थविषयकशाब्दबोधं प्रति तदर्थविषयकबोधजनक- त्वनिष्ठप्रकारतानिरूपिततत्पदनिष्ठविशेष्यताक, तथा तत्यदजन्यबोधविषयत्वनिष्ठ- प्रकारतानिरूपिततदर्थनिष्ठविशेष्यताकं वा वक्तृतात्पर्यज्ञानं कारणमिति कार्य- कारणभावो ज्ञेयः। *अत एव*-शाब्दबोधम्प्रति वक्ततात्पर्यनिश्चयस्य कारणत्वादेव । ननु 'सर्वे सर्वार्थवाचकाः' इति न्यायेन घटपदात् पटप्रतीत्यापत्तिरित्यत आह-*सति तात्पर्य इति* : *सर्वे सर्वार्थेति । इदन्तु सर्वपदधर्मिकसर्वार्थप्रकारकसामान्यशक्तिमहस्वरू- * पम्। *शाब्दिकनय इति । तार्किकमते तु नायं दोषः शङ्ख्यः। शक्तिग्रहार्थस्मरणयोः समानधर्मप्रकारताकत्वस्य समानधर्मिताकत्वस्य च नियमादिति ध्येयम् ॥ *घटपदादिति । निरुक्तशक्तिग्रहे सर्वपदत्वेन घटशब्दस्य सर्वार्थपदेन च घटरू. पार्थस्यापि भानातल्यापि स्मृतौ तात्पर्य्यनिश्चयस्य हेतुत्वाभावे तत्पदात्तादृशान्व- यबोधापत्तिः स्यात्, सति च तात्पर्य तस्मात्तदर्थबोधस्त्विष्ट एवेति भावः । *नानार्थ ति* । तत्त्वं च नानार्थनिरूपितनानाशक्तिमत्वम् । अथे नानात्वञ्च ना. नाधर्मावच्छिन्नत्वम् । अत एव 'अर्थभेदाच्छब्दभेद' इति पक्षेऽपि घटत्वाधेकधर्मावच्छि. बवाचकपदानां न नानार्थकत्वम् । न च 'अर्थभेदाच्छब्दभेदः' इति पक्ष एव दुर्वच इति वाच्यम् । 'सकृदुञ्चरितः शब्दः सकृदर्थङ्गमयति' इति न्यायस्य जागरूकत्वेन नाना- र्थस्थलीयातिप्रसङ्गवारणायावश्यकत्वेनार्थभेदे शब्दभेदाङ्गीकारमन्तरेण गत्यन्तराभा- वादिति दिक् । *वेदवाक्ये चेति । अत्रापीचरतात्पर्यनिश्चयत्वेन न हेतुता, अपि तु वकृतात्पर्य- निश्चयत्वेनैव । वेदस्य स्वतः प्रमाणत्वेन तत्रेश्वरस्य वक्तुरमावादिति बोध्यम् । इत्यर्थदीपिकायां तात्पर्यनिरूपणम् ।
परमलघुमञ्जूषायाम् । ननु प्रकरणादीनां शक्तिनियामकत्वे शक्त्यैव निर्वाहे किन्तात्पर्येणेति चेन्न ।अस्माच्छन्दादर्थद्वयविशेष्यको बोधो जायते, अर्थद्वये शक्तिसत्त्वात्। तात्पर्य तु क्वेति न जानीम इत्यनुभवविरोधात् । अत एव च पय आनये. ल्युक्तेऽप्रकरणज्ञस्य दुग्धं जलं वा आनेयमिति प्रश्नः सङ्गच्छते । इत्याकाङ्क्षादिविचारः॥ अथ सकलशब्दमूलभूतत्वाद्धास्वर्थो निरूप्यते । तत्र फलानुकूलो यत्नसं- हितो व्यापारो धात्वर्थः फलत्वं च तद्धात्वर्थजन्यत्वे सति कर्तृप्रत्ययसमभि. व्याहारे तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतावत्त्वम् । विभागजन्यसं- अथावसरसङ्गत्या पूर्वनिरूपणानन्तरं सर्वशब्दानाम् उपजीव्यत्वान्मूलप्रकृतेर्धा- तोर्निरूपणमारभते-*अथेत्यादिना* | *तत्र-निरूपणीयधात्वर्थविषये। अन्न प्र. भाकरानुयायिनः-फलमेव धात्वर्थो भावना तु वाच्यैव न, तद्विषयकशाब्दबोधस्य सर्वत्राननुभवात् । किन्तु लियेव । परं सा आख्यातवाच्येति । तन्न । "कर्तरि कृत" इत्यत एवं कर्तृग्रहणल्य "ल: कर्मणि" इत्यत्रानुवृत्या तिकृतोवैषम्यस्य दुरुपपाद त्वात् । यत्नातिरिकः फलानुकूलो व्यापारो धात्वर्थो, यत्न आख्यातार्थः। धात्वथै का. रकान्वय इति गुरुमतं 'तत्तु समन्वयात्' इति सूत्रस्थवाचस्पत्यादिनन्थेभ्यो।लभ्यमान भूषणकारोक्तयत्नाख्यातार्थत्ववादिनैयायिकमतदूषणग्रस्तं, तदेतत् ध्वनयवाह-*य. नेति*। *यत्वसहित इति । तेनाग्निसंयोगांधीनव्यापारसत्वे अयं न पचतीति प्रयो- गो भवत्येव तत्र यताभावात्। आमवातजडीकृतकलेवरस्य च यत्नसत्वेऽपि यत्न. स्योत्थानानुकूलत्वाभावानोत्तिष्ठतीति प्रयोग इति भावः । *फलत्वञ्चेति । लोके रूघ्या फलपदस्य लोकप्रसिद्धविक्लित्याद्यर्थोपस्थापकत्वे. ऽपि अत्र शास्त्रे तस्य पारिभाषिकत्वमेव । सकर्मकत्वादिव्यवहारानुरोधात् । तद्धात्व. र्थजन्यत्वे सति तद्धातुजन्योपस्थितिविषयत्वम् । जन्यत्वञ्च-जन्यत्वनिष्ठप्रकारता- निरूपितप्रतीतिविषयत्वम् । गम्यादिधात्वर्थव्यापारस्य तत्त्ववारणाय सत्यन्तेति । गम्धात्वर्थच्यापारजन्यविभागेऽतिप्रसङ्गवारणाय विशेष्यदलमिति । एतेन सत्तावृ- याद्यर्थ नातिप्रसङ्गा इति प्राञ्चः। नवीनमतानुसारेण लक्षण परिष्करोति-*तद्धात्वर्थेति। अत्र जन्यत्वमारोपिता- नारोपितसाधारणं ग्राह्यम् । तेन ईश्वरस्तिष्ठति, पत्ये शेते इत्यादौ नातिप्रसङ्गः ॥ विभागजन्यसंयोगादिति । अत्रादिना संयोगजन्यविभागपरिग्रहः। यथा- 'कुख्यात्पततोऽश्चात्पतत्यश्ववाहः' इत्यादौ गमिवत्पतेरपि उत्तरदेशमयोगानुकूल- व्यापाररूपं गमनमेवार्थः । तथापि कुड्यशब्दात्पञ्चम्या अन्यथानुपपत्या तत्रत्यसंयोगे धात्वर्थविचारः। योगादिरूपे पतत्यादिधात्वर्थ विभागसंयोगयोः फलत्ववारणायोभयम(१)। कर्मप्रत्ययसमभिव्याहारे तु फलस्य विशेष्यता । व्यापरत्वं च-धात्वर्थफल. जनकत्वे सति धातुवाच्यत्वम् । अनुकूलत्वं संसर्गः। अनुकूलत्वं च-फल- निष्ठजन्यतानिरूपितजनकत्वम् । "भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि" विभागजन्यत्वमवश्यमनीकरणीयम् । विभागावधेरेवापादानसंज्ञाविधानात् ।*फलस्य विशेष्यतेति । 'चैत्रेण पच्यते तण्डुल' इत्यत्र चैत्रवृत्तिव्यापारजन्या एकतण्डुलामि- नायिका विक्लित्तिरिति स्वमते फलविशेष्यबोधस्वीकारादिति भावः। *व्यापार- त्वञ्चेति । धातुवाच्यत्वमात्रोपादाने फलेऽतिव्याप्तिः। अतः सत्यन्त विशेषणम् । तावन्मात्रोपादाने कर्तृवृत्तिव्यापारविवक्षायां काष्ठतण्डुलादिव्यापारेऽतिप्रसङ्गः । अतस्तदुपादानम् । तनिष्टव्यापाराणां धात्वर्थविवक्षायान्तु तस्यापीष्टमेव । अत एव काष्ठं पचति स्थाली पचतीति सङ्गच्छते । वस्तुतस्तु व्यापारपदस्य भावना-अविधा-साध्यत्वेनाभिधीयमाना-क्रिया इत्यर्थः तथा च-साध्यत्वप्रकारकप्रतीतिविषयत्वं व्यापारत्वमिति फलितम् । न च घटं करो. तीत्यादौ घटादीनामपि साध्यत्वेन प्रतीतिविषयत्वादतिव्याधिरिति वाच्यम् । पदान्तरसमभिव्याहाराप्रयोज्यत्वस्य प्रतीतौ विशेषणेनादोषात्। करोति पदसानि. ध्यादेव साध्यत्वप्रत्ययः । स्वतस्तु घटादिपदात् सिद्धत्वेनैव व्यप्रत्ययः । अधिश्रय- गादधाश्रयणान्तक्रियासमूहस्य पदान्तरसमभिव्याहारं विनापि साध्यत्वेन प्रतीति- विषयत्वात् व्यापारत्वमक्षतमिति दिक् । *भावप्रधानेति । भावा-क्रिया, प्रधानं यस्मिन् तत् । भावोऽत्र क्रिया साच करणव्युत्पत्या व्यापारं, कर्मव्युत्पत्या च फलं बोधयति । तथा च आख्याते :फलव्या- पारयोः प्राधान्यमिति फलितम् । कर्तृवाच्ये व्यापारस्य, कर्मवाच्ये तु फलस्येति विवे का। सत्वं-द्रव्यं, प्रधानं येषु तानीति बहुव्रीहिः। एवञ्चोक्तनिरुक्तात् भूवादिसूत्रस्थ- क्रियाप्राधान्यबोधकभाष्योच वैयाकरणानां व्यापारमुख्यविशेष्यकः शाब्दबोधः फलित इति भावः । *सत्वप्रधानानीति* । अस्य लक्षण-सत्वं-द्रव्यं, प्रधानं यत्रेति विग्रहाल्लिका- दिनिष्टप्रकारतानिरूपितविशेष्यताशाल्यर्थप्रतिपादकत्वं नाम लक्षणमित्यर्थः। विशे. ज्याकत्वस्य निपाताऽऽख्यातादावतिप्रसक्तत्वात् , तद्वारणाय प्रकारतानिरूपितत्वा- (१)विभागस्य फलत्ववारणाय सत्यन्तापादानम् । संयोगे तद्वारणाय प्रकार- तावत्स्वान्तम् । तेन वृक्षात् पर्ण भूमौ पततीत्यादौ विभागाश्रयस्य वृक्षादेः संयोगा- श्रयस्य भूम्यादेश्च न कर्मत्वमित्यादिकमूहम् ।
४२ । परमलघुमञ्जूषायाम्- इति निरुत्तोक्तेापारविशेष्यको बोधः । तत्र तिङवाच्यं संख्याविशिष्ट कारकम , कालश्च व्यापारविशेषणम् ।। परे तु फलव्यापारयोर्द्धातोः पृथक्शक्तावुद्देश्यविधेयभावेनान्वयापत्ति स्तयोः स्यात् । पृथगुपस्थितयोस्तथा अन्वयस्यौत्सर्गिकत्वात् । किश्चैकपदे व्युत्पत्तिद्वयकल्पनेऽतिगौरवम् । तथाहि- फलविशेषणकव्यापारबोधे कर्तृप्रत्ययसमभिव्याहृतधातुज- न्योपस्थितिः कारणम् , व्यापाविशेषणकफलबोधे कर्मप्रत्ययसमभिव्या- न्तं विशेषणम् । व्यक्तिबोधस्य धर्मविषयकत्वनियमेन, जातिप्रकारतानिरूपितत्वस्या- तिप्रसङ्गमावारकत्वात्तदनुपादानम् । लक्ष्यतावच्छेदकाऽनाक्रान्तेषु यादृच्छिकेषु अतिप्र. समस्तु लक्षणे तद्व्यतिरिक्तत्वविशेषणेनैव वारणीय इति दिक् । *तिड्वाच्यमिति । तिडोऽर्थः कर्ता, कर्म, संख्या, कालश्च । तत्र संख्या कर्तृप्र. त्यये कर्तरि, कर्मप्रत्यये कर्मण्यन्वेति। तद्विशिष्टकर्तुश्च धात्वर्थव्यापारेऽन्वय इति बोध्यम् । अत्र प्राञ्च:-धातूनां फलव्यापारयोमिन्ना शक्तिः, न तु विशिष्टा । अत एक "फलव्यापारयोर्धातुराश्रये तु तिः स्मृता" इति हयुक्तिः सङ्गच्छते । ननु हरिशब्दादुपस्थितयोः सिंहसूर्ययोः परस्परान्वयः बोधवारणाय तत्पदजन्य-तद्धर्मावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति अपरप- दजन्यपदार्थोपस्थितिः कारणमिति कार्यकारणभावः फलितः । तेन एकपदोपस्थाप्य- योरर्थयोः परस्परान्वयबोधोऽव्युत्पन्न इति फलव्यापारयोरन्वयासम्भव इति चेन्न । व्युत्पत्तिवैचित्रण तथान्वयस्वीकारादिति तन नव्या स्वमतम्प्रकटयति-परेत्वि. त्यादिना*। *उद्देश्यविधेयभावेनेति । तात्पर्यविशेषनिश्चयादिवशेन कदाचित् फलमुद्दिश्य व्यापारस्य, कदाचिञ्च व्यापारमुद्दिश्य फलस्य विधानं स्यादिति तात्पर्यम् । *पृथगुपस्थितयोरिति । विभिन्नशक्तिग्रहजन्यविभिन्नोपस्थितीयविषयतावतो. रिति भावः । तेन यथा नीलो घट इत्यादौ नीलघटयोविभिन्नशक्तिपहजन्यविभिन्नोप- स्थितिविषययोरुद्देश्यविधेयभावेन अन्वयबोधस्तथानापि स्यादिति भावः । ननु एकपदाद्विभिन्न शक्तिज्ञानजन्योपस्थितपदार्थद्वयस्य उद्देश्यविधेयमावेनान्वये प्रमाणाभावः, दृष्टान्ताभावश्चेति न पृथक्शक्तिमतां प्राची दोष इत्यरूचेराह- *किन्नेति। D धात्वर्थविचारः। ४३ हृतधातुजन्योपस्थितिः कारणमिति कार्यकारणभावद्वयकल्पनम् , धातोर. थद्वये शक्तिद्वयकल्पनं, धातोर्वोधजनकत्वसम्बन्धद्वयकल्पनं चातिगौ- रवम् । तस्मात्फलावच्छिन्ने व्यापारे; व्यापारावच्छिन्ने फले च; धातू. नां शक्तिः, कर्तृकर्मार्थकतत्तत्प्रत्ययसमभिव्याहारश्च तत्तबोधे नियामक इत्या (१) हुः॥ । *कार्यकारणमावस्यकल्पनमिति। फलत्वावच्छिन्नप्रकारतानिरूपितव्यापारवि. शेष्यशाब्दबुद्धित्वावच्छिन्नं प्रति कर्तृप्रत्ययसमभिव्याहृतधातुजन्योपस्थितिः कारण. म् । एवं व्यापारत्वावच्छिन्नप्रकारतानिरूपितफलविशेष्यकशाब्दबुद्धित्वावच्छिन्न प्रति कसैप्रत्ययसभिव्याहृतधातुजन्योपस्थितिः कारणमिति कार्यकारणमावद्वयकल्पनरू. पगौरवं पृथक्शक्तिमतां प्राचां स्यादिति भावः । ननु विशिष्टशक्तिस्वीकारे विनिगमनाविरहात्सर्वत्र बोधापत्तिरत आह-*कर्तृक- कर्मार्थकेति । फलावच्छिन्नव्यापारबोधे कर्मप्रत्ययसमभिध्याहृतधातुजन्योपस्थितिः कारणम् । एवं व्यापारावच्छिन्नफलबोधे कर्मप्रत्ययसमभिव्याहृतधातुजन्योपस्थितिः कारणमिति न सर्वत्र सर्वबोधप्रसङ्ग इति दिक् । गुरुचरणास्तु-प्राचाम्मतमेव सम्मतमाहुः । तथाहि-विशिष्टे शक्तिकल्पने श. क्यतावच्छेदकत्वं फलावच्छिन्नव्यापारत्वस्या व्यापारावच्छिन्नफलत्वस्य च कल्पित. मिति गौरवम् । फलव्यापारयोः पदार्थ कदेशत्वेन तत्र कर्तृकर्मादीनामन्वयासम्भवश्च । 'पदार्थः पदार्थनान्वेति न तु पदार्थकदेशेन' इति न्यायात्। अपरं दूषणन्तूभयमते स. मानमेव । अपरञ्च प्राचाम्-एकवृन्तावलम्बिफलद्वयवत् उभयांशे एका खण्डशः शक्ति- रिति न शक्तिद्वयकल्पनं न वा बोधजनकत्वसम्बन्धद्वयकल्पनम् , अपि तु नव्यानामेव (१) यद्यपि फलावच्छिन्नव्यापारत्वस्य व्यापारावच्छिन्नफलत्वस्य च शक्य- तावच्छेदकत्वकल्पनप्रयुक्तं गौरवमेतेषां मते स्फुट, तथापि भिन्नशक्तिवादिनां फलवि. शेषणकव्यापारविशेष्यकावान्तरवाक्यार्थबोधे कर्तृप्रत्ययसमभिव्याहृतधातुजन्यसमूहा. लम्बनात्मकोपस्थितिः कारणम् , व्यापारविशेषणकफलबोधे कर्मप्रत्ययसमभिव्याहृत- धातुजन्यसमूहालम्बनात्मकोपस्थितिः कारणमितिकार्यकारणभावद्वयकल्पनेऽतिगौरव- म् । विशिष्टशक्तिवादिनां तु तत्तत्समभिव्याहारवशाद् अवान्तरवाक्यार्थबोधस्थानीया विशिष्टोपस्थितिरेवेति न तेषामुक्तकार्यकारणभावद्वयम् । एवं धातोःफलव्यापारसमू: हार्थे उपस्थितिशक्तिकल्पनं विशिष्टार्थे शाब्दबोधशक्तिकल्पनं, शक्त बोधजनकताया- श्च असम्बद्ध धातौ अनुपपत्त्या विशिष्टार्थनिरूपितसम्बन्धद्वयकल्पनं च विशिष्टधाता- वित्यतिगौरवमिति दिक् ।
परमलघुमञ्जूषायाम्- यत्तु मीमांसकाः फलं धात्वर्थो, व्यापारः प्रत्ययार्थ, इति वदन्ति । तन्न । "ल: कमणि इत्यादिसूत्रविरोधापत्तेः । नहि तेन व्यापारस्य प्रत्ययार्थता लभ्यते। किञ्च पचति पक्ष्यति पक्कवानित्यादौ फूत्कारादिप्रतीतये तत्रानेकप्रत्यया- नां शक्तिकल्पनापेक्षयैकस्य धातोरेव शक्तिकल्पनोचिता। किञ्च फूत्कारादेः प्रत्ययार्थत्वे गच्छतीत्यादौ तत्प्रतीतिवारणाय तद्बोधे पचिसमभिव्याहारस्यापि कारणत्वकल्पनेऽतिगौरवम् । किञ्च सकर्मकाकर्मकव्यवहारोच्छेदापत्तिः । न च प्रत्ययार्थव्यापारव्य- कल्पनीयम्भवेदिति सुधियो विभावयन्तु । *मीमांसका इति। व्यापारणाश्रयस्याक्षेपात् व्यापारमानं प्रत्ययार्थः, व्यापार- रस्य प्रत्ययेनैव लाभाच्च । 'अनन्यलभ्यः शब्दार्थः' इति न्यायात् फलमानं धात्वर्थ इति तेषाम्मते सिद्धान्त इति भावः । मण्डनमिश्रास्तु-फलमान धात्वर्थः, व्यापार:-प्रत्ययाः पाक इत्यत्राप धार्थ एवं व्यापारः । कर्तृत्वमपि प्रत्ययार्थव्यापाराश्रयत्वात् । प्रत्ययार्थव्यापारव्यधिकरण- फलाश्रयत्वमेव च कर्मत्वम् । 'देवदत्तेन पाक' इत्यत्र तृतीयार्थ एव व्यापारः। णिजन्ते तु व्यापारल्याख्यातार्थत्वादुभयोः कर्तृता । फलरूपक्रियावाचकत्वादेव च धा- तुत्वमिति वदन्ति । तन्निराकरोति-*तन्नेति । ननु "ल: कर्मणि च" इति सूत्रे कर्तृकर्मपदे कर्तृत्वकर्मत्वधर्मपरे। तथा च-कर्मणि कर्तरि लकार इत्यस्य कर्तृत्वे कर्मत्वे लकार इत्यर्थः । एवञ्च 'प्रकृतिजन्यबोधे प्रकारी. भूतो भावः' इति सिद्धान्तेन कर्तृपदस्य व्यापाराश्रयार्थकत्वात्तत्र व्यापारस्य विशे. पणत्वात्तस्य प्रत्ययार्थत्वं निबर्बाधमित्यत आह-*किञ्चेति । ननु व्यापारेऽनेकप्रत्ययानां शक्तिकल्पने यथा गौरवं, तथा धातूनामपीत्यत आह-*किञ्चेति। *फूत्कारेति । फूत्कारत्वादिधर्मपुरस्कारेणैव लादिप्रत्ययाना व्यापारे शक्ति- बोध्या। एवं सति गच्छतिभवतीत्यादावपि उक्तधर्मपुरस्कृतव्यापारमात्रोपस्थितौ सति तात्पर्ये फूत्कारादेरपि बोधप्रसङ्ग इति भावः । ननु धातुत्वावच्छिन्नस्य व्यापार शक्तिकल्पनायामपि विशेषव्यापारबोधम्प्रति तत्तद्धातुसमभिव्याहारस्य कारणत्वमवश्यमेव वक्तव्यम् । एवञ्च धात्वर्थो व्यापार इति वदतामपि तुल्यं गौरवमित्यत आह-*किन्चेति । *सकर्मकाकर्म केति* व्यापारस्य धात्वथें 'स्वार्थव्यापारव्यधिकरणफलवाचकत्वं सकर्मकत्वम् । 'स्वार्थव्यापारसमानाधिकरणफलवाचकत्वम्-अकर्मकत्वमिति क.
धात्वर्थविचारः। धिकरणफलवाचकत्वं सकर्मकत्वम्, तन्मते तत्समानाधिकरणफलवाचकत्व- मकर्मकत्वं च, प्रत्ययार्थव्यापाराश्रयत्वं कर्तृत्वम्, घटं भावयतीत्यादौ णिज- र्थव्यापारव्यधिकरणफलाश्रयत्वेन घटादेः कर्मत्वमिति वाच्यम् । अभिवा- नानभिधानव्यवस्थोच्छेदापत्तेः। न च व्यापारेणाश्रयाक्षेपात्कर्तुरभिधान- म् , कर्माख्याते च प्रधानेन फलेन स्वाश्रयाक्षेपारकर्मणोऽभिधानमिति वाच्य- म् । जातिशक्तिवादे जात्याक्षिप्तव्यक्तरिवाश्रयप्राधान्यापत्तो "क्रियाप्रधान. माख्यतम्" इति यास्कवचोविरोधापत्तेः। किञ्च फलस्य धातुना तदाश्रयस्य चाक्षेपेणैव लाभसम्भवेन "ल: कर्मणि" इत्यस्य वैयापत्तेः । कर्मकर्तृकृतां कारकभावनोभयवाचकत्वे गौरवाच । किञ्च भावविहितघनादीनां व्यापारावाचकत्वे ग्रामो गमनवानित्याद्या- पत्तिः । तद्वाचकत्वे तु तेनापि स्वाश्रयाक्षेपे कर्तुरभिधानापत्तिः । क्षणेन सकर्मकत्वाकर्मकत्वव्यवहारः समुपपद्यते । प्रत्ययार्थत्वे तु नेयं व्यवस्था भवे. दिति भावः। ननु प्रत्ययार्थव्यापाराश्रयस्य कर्तृत्वाङ्गीकारे घटं भावयतीत्यायनुपपत्तिः । तथा हि-णिच्प्रत्ययार्थप्रेषणव्यापाराश्रयत्वस्य घटादावसम्भवेन कर्तृत्वाभावात् अणि क- तुर्गों कर्मत्वानुपपत्तिरत आह-*घटं भावयतीति । *अभिधानानभिधानेति । 'कटं भीष्मं कुरु' इत्यत्र विशेषणेन कर्मत्वोक्तावपि द्वितीयोपपत्तये कृत्तद्धितसमासैरभिहिते क्वचिन्निपातेन चेति परिगणनस्य "अनभिहि. ते" इति सूत्रे भाष्ये दर्शनात्तैरेवाभिधाने कर्मत्वादीनां द्वितीयादीनां साधुत्वाभावे भाष्यकृत्स्वारस्यः स्यात्, फलाश्रयस्य कर्मत्वेन व्यापाराश्रयस्य कर्तृतया च त्वन्मते तयोस्तिकाऽनमिधानेन च 'हरिम्भजति भक्तः' इत्यत्र भक्ते तृतीयायाः 'पच्यते तण्डुलः' इत्यत्र तण्डुले द्वितीयायाश्चापत्तौ परिगणनं भाष्योक्तमसङ्गतं स्या. दिति भावः। कथञ्चिदाक्षिप्तस्य कर्तुरप्रधान्येऽपि दोषो दुरुद्धर एवेत्यत आह-*किञ्चेति । *वैय्यर्थ्यांपत्तेरिति । अत्रे तात्पर्यम्-फलाश्रयस्य कर्मण आक्षेपेण लाभसम्भवे "लः कर्मणि च भावे चाकमकेभ्य इत्यादिना कर्मणि लकारविधानवैयर्थ्य स्यादिति॥ *गौरवादिति । एकस्यैव प्रत्ययार्थस्य अर्थद्वये शक्तिकल्पने गौरवमिति भावः । यद्यपि उभयवाचकत्वं गारवापत्तिभिया कृतान स्वीक्रियेत, तदा दूषणान्तराप- त्तिः स्यादत आह-*किञ्चेति ।
परमलघुमञ्जूषायाम्। किञ्च 'गुरुः शिष्याभ्यां पाचयति' इत्यादौ "हेतुमति चं” इतिसूत्रबलात् प्रयोजकव्यापारस्य गिजर्थत्वे स्थिते प्रयोज्यव्यापार आख्यातार्थो वाच्यः । एवञ्च सङ्ख्यायाः स्ववाचकाख्यातार्थव्यापारेऽन्वयिन्येवाऽन्वयाच्छिष्या. भ्यामिति द्विवचनानापत्तिः। पाचयतीत्येकवचनानापत्तिश्च । गुरोरनभिधा नेन तत्र प्रथमाया अनापत्तेश्च । शिष्यशब्दात्तदापत्तश्चेत्यन्यत्र विस्तरः । सर्वकारकान्वयितावच्छेदकधर्मवती क्रिया । तदाह-यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।। आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ।। १ ।। गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।। बुद्धया प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ।। २।। इति भूवादिसूत्रस्थभाष्यार्थप्रतिपादकहरिग्रन्थात् । क्रमजन्मनां व्यापा- 'फलमानं धात्वर्थः' इत्यत्र दूषणान्युक्त्वा आख्यातार्थव्यापारे दूषणान्याह अकिञ्चेति । *अनापत्तेरिति । अनभिहिते कर्तरि तृतीयापत्तेश्चेत्यर्थः । *सर्वकारकति* सर्वेषां कारकाणां धात्वर्थक्रियायामेवान्वयः । उक्तञ्च भूषणे- "सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमो वतिः । धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनम् ॥ तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम् , साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम् ॥ इति ॥ *कारकान्वयितेति। कारकान्वयित्वञ्च-कारकनिष्ठविषयतानिरूपितविषय. ताश्रयत्वम् । कारकाणां क्रिययैवान्वयात् , क्रियान्वयं विना कारकत्वानुपपत्तेश्च । तथा च-कारकान्वयितावच्छेदकधर्मवत्वं तत्वमिति फलितम् । *यावदिति । यावत्-सर्वम् । सिद्धम्-निष्पन्नम् , 'विद्यमानध्वंसप्रतियोगि 'अपाक्षीत्' इत्यादौ । असिद्धम्-अनिष्पन्नम्, भूतभिन्नम्-वर्तमानम् , वर्तमानप्राग- भावप्रतियोगि च पचति पक्ष्यति' इत्यादौ । *आश्रितक्रमेत्यादि-आश्रितं क्रमरूपं यस्यास्तत्वात् पूर्वापरीभूतावयवकत्वा. दित्यर्थः। तदीयाऽवयवानामधिश्रयणाधाश्रयणपर्यन्तानां क्रमेणोत्पत्तःक्रियापदेन सा उच्यते । यत्र च न ऋमिकावयवको व्यापारः, तत्र रूढिरेवादरणीया, पौर्वापारोपो वा । फलस्यापि स्वजनकव्यापारगतपौर्वापर्यारोपेण तथैव भानम् । अत एव तन्मात्र. वाचकस्य धातुत्वसिद्धिरिति भावः । *गुणभूतैरिति । तिरोहितैः तत्तद्रूपेणाप्रतिपाद्य. मानसित यावत् । *अवयवैः*-तत्सदृशैः। *क्रमजन्मनाम्-क्रमेण जन्म यासा मिति बहुव्रीहिः। *समूहा -समुदायभावमापन्नः, यथाऽवयविनि शरीरे हस्तपादाद- धात्वर्थविचारः। राणां समूहं प्रति गुणभूतैरवयवैर्युक्तःसङ्कलनात्मिकयैकत्वबुद्धया प्रकल्पि- ताभेदरूपः समूहः क्रियेति व्यवतियत इति द्वितीयकारिकार्थः। अत्रावय. वाश्रयं पौर्वापर्य समुदायाश्रयमेकत्वम् । क्षणनश्वराणां व्यापाराणां वस्तुभुत- समुदायाभावात् बुद्धयेत्युक्तम्।पचति पक्ष्यतीत्यादावसिद्धम् , अपाक्षीदित्या. दौसिद्धमसिद्धं वा साध्यत्वेनाभिधीयमानं क्रिया। आश्रितेति योगदर्शनंकृतम्, अवयवानांक्रमेणोत्पत्त्या । अत एवाश्रितक्रमरूपा क्रियेति आदिमकारिका- र्थः । एकैकावयवेऽपि समूहरूपारोपादधिश्रयणकालेऽपिपचतीति व्यवहारः तदुक्तम्-एकदेशे समूहे वा व्यापाराणां पचादयः । स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिताः ।। इति । अत्र केचित्-सिद्धत्वम्-क्रियान्तराकाङ्क्षोत्थापकतावच्छेदकवैजा- त्यक्त्त्वे सति कारकत्वेन क्रियान्वयित्वे सति कारकान्तरान्वयायोग्यत्वम् । साध्यत्वं च-क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदक सत् कारकान्तरान्वय- योग्यतावच्छेदकरूपवत्वम् । हिरुगाद्यव्ययानां साध्यत्वाभावेऽपि क्रिया. वाचकत्व व्यवहारम्तु क्रियामात्रविशेषणत्वात् । तत्र सिद्धत्वं पाक इत्यादौ वनादिवाच्यम् । साध्यत्वं तु सर्वत्रैव धातुप्रतिपाद्यम् । ननु 'हरिं नमेच्चेत्सुखं यायात्' इत्यत्र क्रियाया अपि क्रियान्तरा- काङ्क्षत्वेन सिद्धत्वमस्तीति चेन्न । चेच्छब्दसमभिव्याहारेणाकाङ्क्षोत्था- पनादित्याहुः । वस्तुतः साध्यत्वम्-निष्पाद्यत्वमेव, तद्रुपेणैव बोधः । सष्टं चेदम् "उपपदमति” इत्यादौ भाष्ये । - योऽवववाः क्रमेण जायन्ते, ते च अवयविना सहाभेदमुपगच्छन्ति, यथा फूत्काराद- योऽपि क्रमेणोत्पद्यमानाः समुदायभावमासाद्य विक्लित्यादिफलानुकूलक्रियात्वमुपग- च्छन्तीति भावः । *एकैकेति । एकस्मिन् व्यापारेऽपि समूहरूपक्रियारोपेण पचतीति प्रयोगःप्रयुज्यते । अन्नवाथें हरिकारिकां प्रमाणत्वेनोपन्यस्यति *एकदेशे इत्यादिना । *अत्र केचिदिति । क्रियास्वरूपघटकसिद्धत्वसाध्यत्वे किमित्याकाङ्क्षायां भूषण- कारोक्तमेवकथयति-सिद्धत्वमित्यादिना । स्वसिद्धान्तमाह-वस्तुत इत्यादिना*। तत्तद्धातुवाच्यतावच्छेदकधर्मप्रकार. कबोध इत्यत आह-*तत्तद्रूपेणैवेति। करोतेरुत्पादनार्थत्वात् घटवृत्त्युत्पत्यनुकूलव्या. रानुकूल-एकाश्रयको वर्तमानो व्यापार इति शाब्दबोधः। उत्पत्तिमत्वरूपनिष्पा- ॥
परमलघुमञ्जूषायाम्- ननु घट करोतीत्यादौ द्रव्यस्यापि साध्यत्वेन प्रतीतिरितिचेन्न। करोति पदादिसमभिव्याहारात् तथा प्रत्ययेऽपि स्वतो घटादिपदाद् द्रव्यस्य सिद्ध- स्वेनैव प्रतीतेः। अस्तिभवतिवर्ततेविद्यतीनामर्थः-सत्ता। सा चानेककालस्थायिनीति कालगतपौर्वापर्येण क्रमवतीति तस्याः क्रियात्वम् । सत्तेह-आत्मधारणम् । सकर्मकत्वञ्च-फलव्यधिकरणव्यापारवाचकत्वम्,फलसमानाधिकरणव्यापा- रवाचकत्वमकर्मकत्वम् । कचित्तु फलांशाभावादकर्मकत्वम् । यथाऽस्त्यादौ केवलं सत्तादिरेवार्थः । फलांशस्य सूक्ष्मदृष्टयाऽप्यप्रतीतेः। "उत्पन्नस्य सत्त्वस्य स्वरूपधारणरूपां सत्तामाचष्टेऽस्त्यादिः” इति निरुतोक्तेश्च । वस्तु तस्तु शब्दशास्त्रीयकर्मसंज्ञकार्थान्वय्यर्थकत्वं सकर्मकत्वम्।तदनन्व य्यर्थकत्वमकर्मकत्वम् । तेन 'अध्यासिता भूमय' इत्यादिसिद्धिः। अन्वयश्च पृथग्बुद्धेन संसर्गरूपः । अन्वयपदस्य तत्रैव व्युत्पत्तेः । तेन जीवतीत्यादौ न दोषः।तत्र प्राणादिरूपकर्मणो धारणार्थधात्वर्थात्पृथगबोधादिति सुफ आस्मन"इति सूत्रे भाष्ये स्पष्टम्। "अधिशीथासाम्" इत्यनेन भूमय इत्याधारस्य कर्मत्वम् । जानातेविषयतया ज्ञानं फलम् , आत्ममनःसंयगो-व्यापारः। अत एव मनो जानातीत्युपपद्यते । आत्माऽत्रान्तःकारणम् , मनोऽपि तवृत्तिविशे- षरूपम् । -- त्मिा आत्मानं जानातीत्यादौ अन्तःकरणावच्छिन्नः कर्ता शरी- रावच्छिन्नं कर्मेति "कर्मवत्" सूत्रे भाष्ये स्पष्टम् । यत्तु आवरणभङ्गो विषयता वा फलम् , व्यापारस्तु ज्ञानमेवेति । तन्न यत्वे साध्यत्वं घटेऽतिव्याप्तमित्याशङ्कयाह-*नन्वित्यादिना*। *सत्तेति । सत्तेह आत्मधारणम् । आत्मधारणस्य बहुकालापेक्षितत्वम् । यद्यपि कालस्याखण्डत्वमस्ति, तथापि तत्रावयवान् परिकल्प्य तद्वतपौर्वापर्येण सत्तायां क्रममासमानत्वेन तस्याः क्रियात्वं बोध्यम् । ननु फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वं कालादिकर्मकधातुष्वव्याप्तमित्यत आह*वस्तुतस्त्विति**सकर्मकत्वमितिकर्मसंज्ञावदर्थनिष्ठविषयतानिरूपितविषय. ताप्रयोजकत्वे सति धातुत्वमिति सकर्मकस्य लक्षणं ध्येयम् ।* अकर्मकत्वमिति। कर्मसंज्ञकार्थनिष्ठविषयतानिरूपितविषयतावदर्थबोधकत्वाभाववत्वमकर्मकत्वम् । *अध्यासिता इति । 'अध्यासिता भूमया इत्यत्र 'अधिशीङ्स्थासाङ्कमं” इति सूत्रेण भूमेराधारत्वेन कर्मसंज्ञाविधानात, शब्दशास्त्रीयकर्म संज्ञकार्यान्वय्यर्थकत्वेन सकम्मकत्वाकर्मणि निष्ठेतिभावान दोष हति । जीवतेः प्राणधारणस्य धात्वा. , - धात्वर्थविचारः। ४६ कर्मस्थक्रियकत्वापत्तेः। तद्वयवस्था चेत्थमुक्ता हरिणा- विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता । क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकल्पिता ।। इति । अस्यार्थः-यत्र कर्मणि कतरि वा क्रियाकृतो विशेषः कश्चिद्ह श्यते, तत्र क्रिया व्यवस्थितेत्युच्यते। न-वेवं पच्यादिकर्तर्यपि श्रमादिरूपविशेषस्य दर्शनादिदमयुक्तम् । किञ्च चिन्तयति पश्यतीत्यादीनां कर्तृस्थभावकत्वानु. पपत्तिः । कर्तरि क्रियाकृतविशेषाभावात् । अत आह-अन्येषामिति । मते इति शेषः । यत्र कर्तृकर्मसाधारणरूपं फलं शब्देन प्रतिपाद्यते, स कर्तृस्थ- भावको यथा-पश्यति घटम, ग्रामं गच्छति, हसतीत्यादौ । तत्र विषयता- समवायाभ्यां ज्ञानमुभयनिष्ठम् , 'योगश्चोभयनिष्ठः । एवं हसोऽपि । न हि विषयताऽऽवरणभङ्गावेवम् । यत्र कर्तृवृत्तिकमस्थफलं स कर्मस्थभावकः । यथा-भिनत्तीत्यादौ । न हि द्विधाभवनादिकथमपि कर्तृनिष्ठमिति हेला- राजः । तथा चावरणभङ्गस्य विषयतायाश्च कर्ममात्रनिष्ठत्वाज्जानातेरपि कर्मस्थक्रियकत्वापत्तिरित्यलम् । इच्छतेरिच्छानुकूलं ज्ञानमर्थः। अतीतानागतयोरपि बुद्ध्युपारोहात् फलशालित्वम् । पतिर्गमिवत्सकर्मकः । नरकं पतित इत्यादिप्रयोगात् । विभागजन्यसं- योगमात्रपरत्वेऽकर्मक इति । कूब उत्पत्तिव्यधिकरणस्तदनुकूलो व्यापारो- ऽर्थः । फलमात्रार्थकत्वेऽकर्मकत्वापत्तिर्यतिवत् । किञ्च कर्मस्थभावकत्वाभा- वात् कर्मकतरि यगाद्यनापत्तिः । कृतिरित्यादौ धातूनामनेकार्थत्वात् यत्न माने वृत्तिः। थंऽन्तर्भूतत्वेन अन्वयितावच्छेदकरूपेण धारणस्यानुपस्थितत्वान्न दोष इति भावः । विशेषदर्शनमिति । यत्र च कर्मणि न क्रियाकृतो भेदो ज्ञायते तत्र कर्तृस्थक्रि. यत्वमिति भावः । *अन्येषाम्भ-ताकिकाणाम्मत इति भावः। *नरकं पतित इति । फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वं यथा गम्लधा तोस्तथा पत्धातोरपि विभागजन्योत्तरदेशानुकूलव्यापारोऽर्थोऽङ्गीकार्यः । अत एवं "द्वितीयाश्रितातीतपतित" इति सूत्रे पतितपदेन द्वितीयासमासः सङ्गच्छते ॥ *यागाद्यनापत्तिरिति । यत्नस्य चेतनगुणत्वादचेतने घटादौ तदसम्भवेन क्रियते घटः स्वयमेवेतिप्रतियोगासम्भव इति भावः । *धातूनामनेकार्थत्वादिति । अत एक "कुईखुईगुईगुद क्रीडायामेव" इतिधातुपाठस्थे एवकारश्चरितार्थ इति बोध्यम् । ।
५० परमलघुमञ्जूषायाम्- यद्वा यत्नकृतिशब्दयोरपि व्यापारसामान्यवाचितव। अत एव स्था- लीस्थे यत्ने पचिना कथ्यमाने स्थाली पचतीति "कारके” इति सूत्रे भाष्ये उक्तमित्यलम् । यत्तु तार्किकाः-फलव्यापारौ धात्वर्थः । लकाराणां कृतावेव शक्तिर्ला- घवात् , नतु कर्तरि, कृतिमतः कर्तृत्वेन तत्र शक्तौ गौरवात् । प्रथमान्तपदे- नैव तल्लाभाच। आख्यातार्थे धात्वर्थो विशेषणम् , प्रकृत्यर्थप्रत्ययार्थयोः सहा- र्थत्वे प्रत्ययार्थस्यैव प्राधान्यात् । प्रथमान्तार्थे आख्यातार्थो विशेषणम् । अनुकूलत्वमाश्रयत्वञ्च संसर्गः । तथाच चैत्रः पचतीत्यादौ विक्लित्त्यनुकूल- व्यापारानुकूलकृतिमांश्चैत्र इति बोधः । रथो गच्छतीत्यादौ रथस्याचेतन- त्वात् यत्नशून्यत्वेन व्यापारे आश्रयत्वे वा आख्यातस्य लक्षणेत्याहुः ।। तन्न । युष्मदस्मदोलकारेण सामानाधिकरण्याभावात् पुरुषव्यवस्थाऽ- नापत्तेः । पचन्तं चैत्रं पश्य, पचते देवदत्ताय देहीत्यादौ शतृशानजादीना- मपि तिबादिवल्लादेशाविशेषेण तेभ्यः कृतिमात्रबोधापत्तश्च । नचेष्टापत्ति- राश्रयाश्रयिभावेन कर्मणि सम्प्रदाने च कृतेरन्वयादिति वाच्यम् । । - ननु धातूनामनेकार्थत्वात् कृतिरूपोऽर्थ एव मुख्यो भवतु, उत्पत्यनुकूलो व्यापार एवगौणःकरप्यतामत माह-*यद्वेति । आख्यातस्य कृतौ शक्तिरिति तार्किकमतं प्रब. लप्रमायुक्तिभ्यां खण्डयितुं तमनुवदति-*यत्त्वित्यादिना*। *गौरवादिति । कृत्या- श्रयत्वमेव कर्तृत्वमितित्वन्मते कर्तुराख्यातार्थत्वेऽनन्तकृतीनां वाच्यतावच्छेदकत्व- कल्पनं गौरवम् । मन्मते तु कृतेरनन्तत्वेऽपि कृतित्वजातौ एकस्यामेव तत्कल्पनमि- त्यस्ति लाघवमिति भावः । *प्रथमान्तार्थ इति । एवञ्चात्र आख्यातार्थतिप्रकार कॉन्वयबोधप्रति प्रथमान्तपदजन्योपस्थितिः कारणमिति कार्यकारणभावः संयातः। *सामानाधिकरण्यामावादिति । "युष्मधुपपदे समानाधिकरणे” इत्यादिसूत्रेषु समानाधिकरणपदसत्वात्। तत्र तत्र स्वलकारवाच्यकारकवाचित्वरूपसामानाधिकर- ण्यस्यैव स्वीकारा कृतिवाच्यत्ववादित्वन्मते तदसम्भव इति भावः । *शतृशान- जादीनामपीति । शतृशानजादीनामपि कर्तरि कृत्" इत्यनेन सूत्रेण कर्तव्येव विधा- नस्याभ्युपगमेन तिबादिवत् कृतिवाचकत्वापत्तौ केवलकृतिमात्रदर्शनदशायामपि पच- तं चैत्रं पश्य पचमानं चैत्रं पश्येतिप्रयोगापत्तिः स्यात्तवेति भावः । *आश्रयायि- भावेनेति । कृतेराश्रयतासम्बन्धेन प्रथमार्थेऽन्वय इति तात्पर्यवर्णनं तु अज्ञानमूलक मेवेति भावः।
५१ , धात्वर्थविचारः। नामार्थयोरभेदान्वयो व्युत्पन्न इति व्युत्पत्तिभङ्गापत्तेः। ननु फलमुखगौरवं न दोषायेति न्यायेन शत्रादीनां कर्तरि शक्तिः, तिबा- दीनां कृतावेव; इति चेत् , न । स्थान्येव वाचको लाघवात् , आदेशानां बहुत्वेन तेषां वाचकत्वे गौरवमिति हि तव मतम् । एवं च तिवादीनां श- त्रादीनां च स्थानिस्मारकतया लिपिस्थानीयत्वम् , बोधकस्तु लकार एव । स च शत्राद्यन्ते कर्तरि शक्तस्तिबाद्यन्ते कथं कृति बोधयेत् । 'अन्यायश्चाने- कार्थत्वम्' इति न्यायात् । ननु "लः कर्मणि" इति सूत्रे कर्तृकर्मपदे भावप्रधाने, तथा च कर्तृत्वं कृतिः, कर्मत्वं फलम् , तयोः शक्तौ सूत्रस्वरसः। कर्मप्रत्ययान्ते पच्यते ओदनो देवदत्तेनेत्यादौ देवदत्तनिष्ठकृतिजन्यव्यापारजन्यविक्लित्तिमान ओदन इति बोधः । “कर्तरि कृत्" इति सूत्रे तु कतैरीति पदस्य धर्मिप्र- धानत्वात् कृत्याश्रये शत्रादीनां शक्तिरिति चेत् , न । “कर्तरि कृत्" इति सूत्रे यत्कर्तृग्रहणं तस्यैव "ल: कर्मणि" इति सूत्रे चकारानुकृष्टत्वेन भाव- प्रधानत्वे सूत्रस्वरसाभावात् । शत्रादीनां स्थान्यर्थाभिधानलमर्थस्यैवा. देशत्वम्' इति न्यायेन स्थान्यर्थेन निराकाङक्षत्वादाकाक्षितविधान ज्याय इति न्यायात् “कर्तरि कृत्" इत्यनेन शक्तिमहाभावात्। अन्यथा देवदत्तेन शय्यमाने आम्यमाने च यज्ञदत्तो गत इत्यादौ भावे शानजनापत्तेः ननु नामार्थयोरभेदान्वयानुरोधात् शतृशा(१)नजादीनां कर्तरि शक्ति- रिति चेत् , न । पचतिकल्पं पचतिरूपं देवदत्त इत्याद्यनुरोधेन तिक्ष्वपि कर्तुरेव वाच्यत्वौचित्यात् । किञ्च कृतिवाच्यत्वे रथो गच्छतीत्यादौ आश्रये लक्षणास्वीकारे गौर- वापत्तिः । अभिहितत्वानभिहितत्वव्यवस्थोच्छेदापत्तिश्च । न च "अन- *नामार्थयोरिति । इदंच फलितार्थकथनं बोध्यम् । नामार्थयोभैदेन लाक्षादन्व योऽव्युत्पन्न इति व्युत्पत्तिस्वरूपम् । इयं च भेदसम्बन्धावच्छिन्ननामार्थनिष्ठप्रका. रतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति मुख्यविशेष्यतासम्ब- वेन प्रत्ययजन्योपस्थिति: कारणमिति कार्यकारणभावमूलिकेति बोध्यम् । दूषणान्तरमाह-किच्छेति । *अभिहितेति । 'कर्मणि द्वितीया "करि तृ. तीया" इत्यत्र "अनभिहिते" इत्यधिकारात्-अनुक्त कतरि तृतीया भवति, अनुक्ते, कर्मणि च द्वितीया भवति, उक्ते च प्रथमैवेति व्यवस्था कृतौ शक्त्यङ्गीकारे उच्छि. (१) भावविहितलकारस्थानिकभिन्नानामिति शेषः । तेन न पूर्वप्रयोगासङ्गतिः ।
५२ परमलघुमञ्जूषायाम् । भिहिते” इति सूत्रस्यानभिहितसङ्ख्याके इत्यर्थवर्णनमिति वाच्यम् । कृत्तद्धितसमासैः सल्याऽभिधानस्याप्रसिद्धत्वात् । किश्च यत्नोऽपि व्यापारसामान्यं धातुत एव लभ्यते, स्थालीस्थे यत्ने पचिना कथ्यमाने स्थाली पचतीति “कारके" इत्यधिकारसूत्रे भाष्यप्रयोगा- दनन्यलभ्यस्यैव शब्दार्थत्वात् कृतौ शक्तरुक्तिसम्भव एव नेत्यलम् ।। आख्यातार्थे धात्वर्थो विशेषणमित्यस्य निराकरणमवशिष्यते । तथाहि- प्रकृत्यर्थप्रत्ययार्थयोः सहार्थत्वे प्रत्ययार्थस्यैव प्राधान्यमित्युत्सर्गः। पाच. क औषगव इत्युदाहरणं पाकक्रियाश्रयः उपगुसम्बन्ध्यभिन्नापत्यमिति प्रत्य. यार्थस्य प्राधान्यन्तयोरर्थे । तत्रापि प्रत्ययवाच्यस्यैवार्थस्य प्राधान्यम् । द्यो- त्यस्य त्वप्राधान्यमेव । यथा अजा इत्यत्र स्त्रीत्वविशिष्टपशुविशेष इति बोधः । तस्योत्सर्गस्य "भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि" इति यास्कवचनमपवादः । तेनाख्याते तिङन्ते क्रियाया एव प्राधान्यं शाब्दबो. धेन प्रत्ययार्थस्येति बोध्यम्। घेतेति भावः । "कारके” इति सूत्रभाष्यादाख्यातस्य कृतौ शक्तिः कथमपि न सम्भवतीति दर्शयति-*किञ्चेति । *यत्नोऽपीति। व्यापारस्यैव फलोत्पादकत्वेन प्रसिद्ध्या पचतीत्यतो विक्वित्यनुकूलव्यापारस्यैव बोधस्यानुभवसिद्धत्वादिति भावः । *भाष्य- प्रयोगादिति । यदा सौकर्यातिशयद्योतनाय कर्तृव्यापारो न विवक्ष्यते, तदा कारका- न्तराण्यपि कर्तृसंज्ञां लभन्ते, यथा स्थाली पचतीति अत्र सौकर्यातिशयद्योतनाय स्थाल्या अधिकरणत्वेनाविवक्षायां व्यापाराश्रयत्वेन वक्तृतात्पर्यविषयतायां स्वत. न्त्र इति कर्तृत्वे तत्कर्तरि लकारे स्थाल्याः प्रथमान्तत्वमिति भाष्याशयः। कृति- रूपयत्नस्य आत्मविशेषगुणस्य लकारार्थत्वे तु स्थाल्या अचेतनत्वात् तदाश्रयत्वा- सम्भवेन तदसङ्गत स्पष्टमेवेति भावः ॥ *प्राधान्यमिति । अस्यां व्युत्पत्तौ तु प्रकृत्यर्थनिष्ठप्रकारतानिरूपितविशेष्यता. सम्बन्धेन शाब्दबोधम्प्रति विशेष्यतासंसर्गेण विभक्तिजन्योपस्थितिः कारणमिति कार्यकारणभावो मूलं बोध्यम् । *धोत्यस्येति । अजा खट्वा महिषी इत्यत्र स्त्रीप्र- त्ययानां द्योतकत्वमेव । अन्यथा स्त्रीप्रत्ययार्थस्त्रीत्वल्यैव प्राधान्यापत्तौ अजा, महिषी इत्यादौ स्त्रीत्वविशिष्टः पशुरिति बोधानुपपत्तिः स्यात् । एतेन धोत्यभिन्नप्रत्ययार्थः प्रधानमिति सामान्यो नियमः सूचित इति बोध्यम् । *भावप्रधानमिति*। भावो-धात्वर्थः । धात्वर्थच-फलव्यापारान्यतमो बो: ध्यः । प्रधानम्-विशेष्यमिति यावत् । तथाहि-भावः प्रधानं यस्मिन्निति बहुव्री. ।
५३ धात्वर्थविचारः। यत्तु आख्यातपदेन तिङ्मात्रग्रहणाद्भावप्रधानमित्यत्र षष्ठीतत्पुरुषाश्र- यणात् प्रत्ययार्थप्राधान्यमेव फलतीति । तन्न । "आख्यातमाख्यातेन क्रिया- सातत्ये” इति सूत्रे आख्यातपदेन तिङन्तस्यैव ग्रहणात् । उत्सर्गणैव निर्वाहे यास्ककृतापवादवचनवैयापत्तेश्च । तस्मात् "भावप्रधानम्" इत्यत्र बहु- त्रीहिः । आख्यातपदेन तिङन्तस्यैव ग्रहणमित्यलम् । प्रथमान्तार्थमुख्यविशेष्यको बोधस्तार्किकमते इति निराकर्तुमवशि- ध्यते । तथा हि-शाब्दिकमते पश्य मृगो धावतीत्यादौ मृगकतकं धावनं हशिक्रियायाः कर्म, प्रधानं शिक्रियैव । तथा च मृगकर्तृकधावनकर्मकं प्रेरणाविषयीभूतं त्वत्कर्तृकं दर्शनमिति बोधः। तत्र मृगो धावतीत्यत्र विशेष्यभूतधावनरूपार्थवाचकस्य धावतीत्यस्य प्रातिपदिकत्वाभावान्न द्वितीया । कमत्वन्तु संसर्गमर्यादया भासते । एवं पचति भवतीत्यत्र पचि- क्रियाकर्तृका सत्तेति बोधः । पच्यादयः क्रिया भवतिक्रियायाः कयों भवन्तीति भूवादिसूत्रस्थभाष्यात् । उक्तञ्च हरिणा- सुबन्तं हि यथाऽनेकन्तिङन्तस्य विशेषणम् । तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम् ।। इति । - हिः । आख्यातं तिङन्तमिति यावत् । तेन तिङन्तं फलव्यापारान्यतरप्रधानकं बोध जनयति । नामानि-प्रातिपदिकानि । सत्वप्रधानानि-सत्वम् -द्रव्यम् । आश्रय इति यावत् । तत्प्रधानानि-तद्विशेष्यकाणि ज्ञानानि, अन्वयबोधात्मकानि जनयन्तीति भावः । यथा-पचति इत्यत्र व्यापारप्रधानको बोधः। पच्यते इत्यत्र फलप्रधानको विक्लित्यादिरूपार्थो बोध्यत इति क्षेयम् ॥ *षष्ठीति । भावस्य-आख्यातस्य प्रधा. नमिति षष्ठीतत्पुरुषादाख्यातपदस्य तिङ्मानपरत्वात् प्रत्ययार्थस्यैव प्राधान्यं सिध्य. तीति यत्तुकृतप्रश्नल्याशयो बोध्यः । *पश्य मृगो धावतीति । न च पश्येत्यत्र समिति कर्माध्याहार्यम् । वाक्यभेदप्रसङ्गात् । उत्कटधावनक्रियाविशेषस्यैव दर्शनकर्मतयाs. न्वयस्य प्रतिपिपादयिषितत्वात् । अध्याहारेऽनन्वयापत्तेश्च । एवं च भावनाप्रकारका बोधे प्रथमान्तपदजन्योपस्थितिः कारणमिति नैयायिकोक्तं नादरणीयम् । किन्तु आ- ख्यातार्थकर्तृप्रकारबोधे धातुजन्योपस्थितिर्भावनात्वावच्छिन्नविषयतया कारणमिति कार्यकारणभावोऽवसेयः । संसर्गमर्यादयेति । शाब्दबोधस्थले-'एकपदार्थे अपरपदा- र्थस्य संसर्गः संसर्गमर्यादया मासते' इति नियमेन एकपदार्थानुयोगिकापरपदार्थप्रति- योगिकसम्बन्धस्याकांक्षाभास्यत्वात् । अत एव 'नीलो घट इत्यादावभेदादिबोधः । एवञ्चान कर्मत्वबोधे नानुपपत्तिरिति ध्येयम् ।
, परमलघुमञ्जूषायाम् । ताकिकमते तु अन्यदेशसंयोगानुकूलधावनानुकूलकृतिमन्मृगकर्मक प्रेरणाविषयीभूतं यदर्शनं तदनुकूलकृतिमांस्त्वमिति बोधः । तत्र विशेष्य- भूतार्थवाचकमृगशब्दस्य प्रातिपदिकत्वात् हशिक्रियाकर्मत्वाच्च द्वितीया- पत्तौ धावन्तं मृगं पश्येतिवत् पश्य मृगन्धावतीत्यापत्तेः। अप्रथमासमा. नाधिकरणे शतृशानचोनित्यत्वादेवं प्रयोगविलयापत्तेश्च ।। ननु विशिष्टार्थवाचकस्य धावति मृग इति वाक्यस्य कर्मत्वेऽपि पृथङ्- मृग इत्यस्य प्रातिपदिकस्य कर्मत्वाभावान्न द्वितीयेति चेत् , न । “अन. भिहिते' इत्यधिकारसूत्रप्रघट्टके अभिधानञ्च तिकृत्तद्धितसमासरित्ये- तत्परिगणनप्रत्याख्यानपरभाष्यरीत्या द्वितीयाऽऽपत्तेः । सथाहि-कटं भीष्मं कुर्वित्यादौ विशेष्यकटशब्दादुत्पन्नद्वितीयया कर्मत्व- स्योक्तत्वाविशेषणीभूतभीष्मशब्दाद् द्वितोया न स्यादतः परिगणनं भाष्ये कृतम् । तत्प्रत्याख्यानञ्च सर्वकारकाणां साक्षात्स्वाश्रयद्वारा वा अरुणाधि- करणन्यायेन भावनान्वयस्वीकारात्। अत एवोक्तम्भाध्ये-कटोऽपि कर्मभी- मादयोऽपोति। तत्र कटनिष्ठकमत्वोक्तावपि भीष्मत्वादिगुणविशिष्टकर्म- त्वानुक्तस्तस्माद् द्वितीयेति तात्पर्यम् । उभयोः पश्चात्परस्परमन्वयस्तु विशे- व्य विशेषणभावेन । अयमेवान्वयः पार्णिक इत्युच्यते । एवमेवान्वयोऽ- रुणाधिकरणे- अरुणया पिङ्गाक्ष्यैकहायन्यासोमं क्रीणाति"इत्यत्र क्रयण क्रियायां मीमांसकैस्स्वीकृतः। तस्माद्धावति मृग इत्यत्र उभयोः कर्मत्वे धावतीत्यस्य प्रातिपदिकत्वाभावाद् विशेषणत्वेनान्यत्र निराकाङ्क्षत्वाच द्वितीयोत्पत्त्यभावेऽपि मृगशब्दाद् द्वितोया दुर्वारैवेत्यवेहि । शाब्दिकमते तु क्रियाविशेषणत्वेनेतरार्थे निराकाङ्क्षत्वाद् मृगशब्दान्न द्वितीया ।तार्किकमत *तार्किकमत इति । प्रथमान्तार्थस्य प्रधानतावादिमत इत्यर्थः । *प्रेरणाविषयीति* । व्यापारानुकूलव्यापारस्यैव प्रेरणारूपत्वमिति यावत् । *वाक्यस्येति। मृगो धावतीति वाक्यस्य कम्मवाचकत्वेऽपि तस्य समासग्रह- णकृतनियमान प्रातिपदिकत्वमिति भावः॥ *अत एवेति । सर्वेषां कारकाणां साक्षात् परम्परया वा क्रियान्वयाङ्गीकारादे. वेत्यर्थः ।*क्रियाविशेषणत्वेनेति । धावनक्रियायाः मृगपदार्थाभित्रालयद्वारा विशेष. गत्वेनेति भावः । निराकाङ्क्षत्वादिति । इतरक्रियाम्प्रति निराकाङ्क्षत्वात् मृग- शब्दस्य कर्तृवृत्तिव्यापारप्रयोज्यफलाश्रयत्वप्रकारकेच्छोदूदेश्यत्वाभावात् कर्मसंज्ञाया ar निपातार्थनिर्णयः। ५५ तु विशेष्यार्थवाचकात् मृगशब्दात् राज्ञः पुरुषमानयेतिवद् द्वितीयादुर्वारे- त्यलमतिविस्तरेण । इति धात्वर्थनिर्णयः । अथ निपातार्थनिर्णयः। अनुभूयते सुखम्, साक्षात् क्रियते गुरुरित्यादौ निपातानां द्योतकत्वेना- नुभवसाक्षात्काररूपफलयोर्धात्वर्थत्वेन सकर्मकत्वम् । कर्मसंज्ञकार्यान्व- य्यर्थकत्वं सकर्मकत्वमितिनिष्कृष्टमतेऽपि फलाश्रयतया कर्मसंज्ञकस्य धात्वर्थफले एवान्वयौचित्येन द्योतकत्वमावश्यकम् । द्योतकत्वश्च स्वसम- भिव्याहृतपदनिष्ठवृत्त्युबोधकत्वम् । कचित्तु क्रियाविशेषाक्षेपकत्वं द्योतक स्वम् । यथा प्रादेशं विलिखतोत्यादौ वर्तमानक्रियाक्षेपकः । प्रादेविमाय लिखतीत्यर्थावगमात् । अत एव "अथ शब्दानुशासनम्" इत्यत्राथशब्दस्य प्रारम्भक्रियाक्षेपकत्वं कैयटायुक्तं सङ्गच्छते । क्वचित्तु सम्बन्धपरिच्छेदकत्वं अभावान द्वितीयेति तात्पर्यम् । राज्ञः पुरुषमित्यादि । राज्ञः पुरुषमानयेत्यत्र यथा विशेष्यपुरुषपदार्थस्य-आनयनक्रियायां साक्षादन्वयेन कम्मत्वम्, तथा विशेष्यमृगल्य नैयायिकमते साक्षात् कियान्वयित्वेन कर्मत्वाद्वितीया दुर्वारेति यावत् ॥ इत्यर्थदीपिकायां धात्वर्थविचाः। ननु अनुभूयते सुखं साक्षादिक्रयते गुरुरित्यत्र अनुभवाद्यर्थः किं धातोः ? उत उप. सर्गस्य ? अथ च उपसर्गविशिष्टधातोः। तत्र नाद्यः भवतीत्यत्रापि तत्प्रत्ययापत्तेः । न च द्वितीयः सम्भवति, 'प्रकृत्यान्वितस्वार्थबोधकत्वम् इति व्युत्पत्या आख्याता. थेऽनन्वयापत्तेः । नापि विशिष्टार्थः, विशिष्टानुपूयाः शकतावच्छेदकत्वे गौरवादि. त्यभिसन्धायाह-निपातानां द्योतकत्वेनेति । सकर्मकत्वमिति । एतेन निपात. स्यैव तदर्थकत्वमित्यपास्तम् । अत एव- द्योतकाः प्रादयो येन निपाताश्चादयस्तथा इति कारिका सङ्गच्छते। *स्वसमभिव्याहृतेति । भूधातुगतानुभवबोधकशोरुबोधकोऽनुरित्यर्थः । ल- क्षणसमन्वयस्त्येवं विचारणीयः-स्वं द्योतकत्वेनाभिमतं निपातपदम् अन्वादि तत्स. मभिव्याहृतधातुनिष्ठानुभवाद्यर्थनिरूपितवृत्युद्धोधकत्वं तेषामिति । *क्रियाविशेषे- ति* । आक्षेपकत्वन्नाम-अन्यथानुपपत्या कल्पनाजनकत्वम्बोध्यम् । प्रादेशमि. ति। अत्र कारकविभक्तलिखतीतिक्रियायोग्यताऽभावाद्विना मानक्रियाऽऽक्षिप्यते । क्रियाविशेषाक्षेपकत्वरूपद्योतकत्वे प्रमाणमाह-*अत एवेति* । उक्तद्योतकत्वादेवे. त्यर्थः । ननु 'जपमनु प्रावर्षत' इत्यादौ प्रादिनिपाते द्विविधस्यापि द्योतकत्वस्यामा- वात्पुनरपि निपातानां धोतकत्वमनुपपन्नमतस्तृतीयमाह-कचित्विति । सम्बन्ध क - lindne ५६ परमलघुमञ्जूषायाम्- द्योतकत्वम् । यथा कर्मप्रवचनीयानाम् । विशिष्टस्य न धातुत्वम् । आपा- ठात् । अडाद्यव्यवस्थापत्तेश्च । यत्तु तार्किकाः-उपसर्गाणां द्योतकत्वं तदितरनिपातानां वाचकत्वम् , 'साक्षात्प्रत्यक्षतुल्ययोः इति कोशात् । नमः पदेन 'देवाय नमः' इत्यादौ नम- स्कारार्थस्य, दानावसरे 'गवे नमः' इत्यत्र पूजार्थस्य प्रसिद्धत्वाच्च । सकर्मक- त्वञ्च-स्वस्वसमभिव्याहृतनिपातान्यतरार्थफलव्यधिकरणव्यापारवाचक- त्वम् । कर्मत्वञ्च स्वस्वसमभिव्याहृतनिपातान्यतरार्थफलशालित्वमित्याहुः। विशेषे इत्यर्थः । इदञ्च "कर्मप्रवचनीया हत्यत्र भाष्ये स्पष्टम् । तत्र हि-कर्म प्रो. कवन्तः कर्मप्रवचनीयाः, के पुनस्तथा। ये सम्प्रति क्रियामाहुः। येऽप्रयुज्यमानस्य क्रियामाहुस्ते कर्मप्रवचनीया" इत्यन्वर्थसंज्ञात्वमुक्तम् । वत्र हरि:- क्रियाया द्योतको नार्य सम्बन्धस्य न वाचकः । नापि क्रियापक्षाक्षेपी सम्बन्धस्य तु भेदकः ॥ इति, तथाच भाष्ये क्रियापदम् अग्रे तत्सम्बन्धपरमिति भावः । विशिष्टस्ये. ति* । उपसर्गत्वविशिष्टस्येत्यर्थः । *अपाठादिति । भ्वादिधातुगणे पाठादिति भा- कः। *अडादीति । विशिष्टस्य धातुत्वे तत एव लडादेविधानेन विशिष्टस्यैवाङ्गसंज्ञा. यां "लुङ्लङ्लक्षु" इत्यनेनाडागम उपसर्गात्पूर्वमेव स्यात । किञ्च "लिटि धातोर- नभ्यासस्य इति द्वित्वं निपातविशिष्टधात्ववयवस्य प्रथमैकाचा, क्वचित द्वितीयकाचश्च स्यादिति भावः ॥ अत्र नैयायिकाभिप्रायं प्रदर्शयति-*यत्वित्यादिना* | *उपसर्गाणां घोतकत्व- मिति* । अत्र तार्किकाणामित्थमनुमानम्-उपसो, द्योतकः, उपसर्गत्वात् । नन्वेवं पक्षतावच्छेदकहेत्वोरैक्ये सिद्धसाधनमिति चेत् ? सत्यम् । संज्ञारूपोपसर्गत्वं पक्षता- वच्छेदकम् । द्योतकोपसर्गसजातीयत्वं च हेतुरिति न सिद्धासाधनरूपो दोषः, इति उपसर्गाणां धोतकत्वसाधने शक्तिसम्बन्धेन निपातपदवत्वरूपमखण्डं वा निपातत्वं पक्षतावच्छेदकीकृत्य निपात्तवेनैव हेतुना वाचकत्वाभावसाधनं युकम् । प्रमाणानां सामान्ये पक्षपातादिति, तन्न । ततोऽपि सामान्यधर्माव्ययत्वावच्छेदेनैव ततसिद्ध्या पत्तेः । *प्रत्यक्षतुल्ययोरिति । अत्र सप्तम्या वाचकत्वार्थकतायां पर्यवसानात् साक्षा. च्छब्द एतदुभयार्थवाचक इत्येवं शक्तिग्राहकाऽसौ काश इति ध्येयम् । ननु निपाता. नां वाचकत्वे 'साक्षास्क्रियते गुरु' इत्यादौ कमाण लकारा न भवेत् । सकम्मैकधातो- रेव कमणि लकारविधानात् । इह तु साक्षात्कारार्थे कृधातोः सकर्मकत्वाभावः । सकम्मकस्य लक्षणं 'स्वार्थफलव्यधिकरणव्यापारवाचकत्वम् , तत् साक्षात्कारार्थन घटत इत्यत आह-*सकम्मकत्वोति .
। निपातार्थविचारः । तन्न । वैषम्ये बीजाभावात् , अनुभूयते इत्यनेन साक्षाक्रियते इत्य- स्य समत्वात् । नामार्थधात्वर्थयोभदेन साक्षादन्वयाभावात निपाताथैधा- वर्थयोरन्वयस्यैवासम्भवात् । निपातार्थफलाश्रयत्वेऽपि धात्वर्थान्वयं विना कर्मत्वानुपपत्तेश्च। यदपि केचिच्छाब्दिकाः-निपातानां वाचकत्वे शोभनः समुच्चय इतिवत् शोभनश्च इत्यापत्तिः। घटस्य समुच्चय इतिवत् घटस्य च इत्यापत्तिश्चेत्याहुः तन्न । शब्दशक्तिस्वभावेन निपातैःस्वार्थस्य (१)परविशेषणत्वेनैव बो- धनेन विशेषणान्वयाप्रसङ्गात् । षष्ठयप्राप्तेश्च । किञ्च घटं पटश्च पश्येत्यादौ घटमित्यस्य क्रियायामेवान्वयः। अत एंव ततो द्वितीया । घटं समुच्चयवन्तं पटम्पश्येति बोधः । समुच्चयस्य प्रतियोग्या- तार्किकमतं निरस्यति-तन्नेत्यादिना* *बीजाभावादिति । चादित्वेन तेषां वाचकत्वम् , उपसर्गत्वेन द्योतकत्वमिति भेदे प्रमाणाभावादिति भावः । *अन्वयस्यैवासम्भवादिति । साक्षादर्थप्रत्यक्षल्य धात्वर्थव्यापारेण सहान्वय. ख्याव्युत्पन्नत्वादिति भावः । *धात्वर्थान्वयं विनेति । व्यापारप्रयोज्यफलाश्रय. खेनेच्छाविषयस्यैव "कर्तु" रित्यनेन कर्मसंज्ञाविधानात् क्रियान्वयं विना कारकत्व- स्यैवाभावाच्च प्रकृते कमसंज्ञा नैव भवेदिति भावः । प्राचीनवैय्याकरणाभिप्रायमनुवदति- यदपीत्यादिना । शब्दशक्तीति । यथा हि एकच पचिक्रिया पाक इत्यनेन सत्वभूताऽभिधीयते, पचतीत्यनेन चासत्वमूता । एवं शब्दशक्तिस्वभावान्निपातानामपि नित्यपरतन्त्रत्वमेवेति न षष्ठी नापि विशेषण. योग इत्यर्थः । *परविशेषणत्वेनेति । परपदार्थे विशेषणत्वेनेत्यर्थः । अतः प्रकृतेऽपि विशेषणत्वेनैव भानज्योचितत्वात्। विशेष्यतया भानप्रदर्शनं सर्वथा विरुद्धमेव । तथा. हि-यत्किञ्चित्पदार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्न. म्प्रति ननादिभिन्ननिपातपदजन्योपस्थितेः प्रतिबन्धस्त्वमिति प्रतिबध्य प्रतिबन्ध- (१)प्रकारतासम्बन्धेन शाब्दबोधं प्रत्येव चादिनिपातविशेषजन्योपस्थितः कारणत्वम्, नतु यत्किञ्चिदर्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबाधं प्रति कारणत्वम् अतो न शोभनादिपदार्थान्वयस्तत्र । घटो नास्तीत्यादौ नजन्यापस्थितेः विशेष्यतासम्बन्धेन घटप्रकारकशाब्दबाधं प्रत्यपि कारणत्वाझाकारात्-निपातविशेषेति उपात्तम्। सामान्यत एव विशेष्यतासम्बन्धेन किञ्चिदर्थनिष्ठप्रकारताकशाब्दबोधम्प्रति चादिनिपातविशेषजन्योपस्थिते. कारणत्वानङ्गीकारात् प्रतियोगित्वादिसम्बन्धेन घटा दिपदार्थस्य समुच्चयादावन्वयसम्भवेन षष्ठयापत्तिरपि इत्थमेव वारिवा। चशब्दद्या- परमल घुमजूषायाम्- काक्षायां सन्निहितत्वात् घटस्य प्रतियोगित्वम्, पटे तु समुच्चयस्य भेदे. नान्वयो; न तु पटस्य समुच्चये इति क्व (१)षष्टयापादनम् । नामार्थयोर- भेदान्वय व्युत्पत्तिस्तु निपा (२)तातिरिक्तविषया। नि(३)पातानामर्थवत्त्वमपि द्यात्यार्थमादायैव । शक्तिलक्षणा-द्योतक- - कभावो ज्ञेयः । *भेदेनान्वय इति । विषयत्वसम्बन्धेनेति बोध्यम् । तथा च घटनि. ष्ठप्रतियोगितानिरूपकसमुच्चीयविषयताश्रयपटकर्मक दर्शनं त्वत्समवेत मत्प्रेरणावि. षय इति शाब्दबोधः॥ *षष्ट्येति । निपातार्थे विशेषणान्वयासम्भवात् सम्बन्धे एव षष्ठीविधानाच्च है न घटादौ षष्ठ्याः प्रातिरिति भावः । शनिपातातिरिक्तविषयेति । वस्तुतोऽव्ययेषु नामत्वमेव नास्ति । चत्वारि पदजातानि" इति निरुक्त नामनिपातयोः पृथगुपादा- नात् । तथा च नामार्थयोरभेदः' इति व्युत्पत्तेन यं विषयः । अत एव समुच्चयानन्तरं चादिप्रयोग इति वृद्धाः । यद्वा समुच्चितश्चार्थः, स्वभावतश्चाद्युपस्थाप्यस्यासत्वभूतत्वम् । तदुक्तम्- "समुञ्चिताभिधाने च व्यतिरेको न विद्यते । इति ।। एवं वाचकत्वे तेषां परोक्तदूषणानि संखण्ड्य प्रागुक्तयुक्त्याऽऽवश्यके तेषां द्योत. कत्व सिद्धान्तमादाय परोकदूषणद्वयमुद्धति-निपातानामिति । त्यसमुच्चयस्यासत्त्वभूतत्वात् षष्ट्यप्राधेति काचित्कोऽपपाठः । मातुः स्मरतीत्यादौ असत्त्वभूतक्रियान्वये गृहस्योपरीत्यादो तादृशाव्ययान्वयेऽपि षष्ट्या दृष्टत्वात् तेन हेतुना तद्वारणासम्मवादिति बोध्यम् । (१)अत्र (घटमित्यस्य क्रियायामेवान्वयः) इत्यादेः (क्क षड्यापादनम्) इत्यन्तस्य स्थाने (घटपदस्य घटप्रतियोगिकसमुच्चयवति अप्रसिद्धा शाक्तिरेव लक्ष. णा) इत्यादिः पाठोऽस्ति, सन युक्तः सन्दर्भविरुद्धत्वात् लघुमञ्जूषाऽसम्मतत्वाच्चे. ति बोध्यम् । (२) अतः समुच्चयल्य अनुयोगित्वसम्बन्धेन पटेऽन्वयो नानुपपन्न इति भावः । लिङ्गसङ्घयान्वय्यर्थप्रतिपादकत्वमेव नामत्वम् , तच्च निपातेषु नेत्यतोऽपि न तव्यु. त्पत्तिविरोधः। यहासमुच्चयवांश्चार्थः। तेन अभेदान्वय समञ्जस एवेत्यादि लधुमजू. (३) प्राचीनानां वाचकत्वपक्षे शोभनश्चेत्यादिदूषणस्याभिधानमसङ्गतमिति प्र. तिपादितम् । इदानी द्योतकत्वपक्षेऽपि न किञ्चिद् दूषणमिति नैयायिकान् प्रत्यु- च्यते-निपातानामिति । षायां स्पष्टम् ।
निपाताविचारः। ताऽन्यतमसम्बन्धेन बोधकत्वस्यैवार्थवत्त्वात् । नब्समासे उत्तरपदार्थप्रा- धान्य द्योत्यार्थापेक्षयैव । प्रतिष्ठते इत्यत्र तिष्ठतिरेव गतिवावी, धातूनाम- नेकार्थत्वात् । प्रशब्दस्तु (१)तदर्थगत्यादित्वस्य द्योतकः । अत एव धातुः पूर्व साधनेन युज्यते पश्चादुपसर्गेणेति सिद्धान्तितम् । साधन कारकम् तत्प्रयुक्तकार्येण, उपसर्गेण उपसर्गसंज्ञकशब्देन । तत्र हि भाष्ये-“पूर्व धातुरुपसर्गेण युज्यते, पश्चात्साधनेनेति । नैतत्सारं पूर्वं धा- तुस्लाधनेन युज्यते पश्चादुपसर्गेण साधनं हि क्रिया (२)निर्वतयति तामुप- ७ । १ *बोधकत्वस्यैवेति । अर्थविषयकबोजनकत्वप्रकारकवस्तृतात्पर्य विषयतापर्याप्त्य- धिकरणस्यैवेत्यर्थः ॥ *नजसमासे इति । नब्राह्मणो अब्राह्मण इत्यस्यारोपितब्राह्मण इत्यर्थः । आरोपित्वं नद्योत्यम् । अत एव असर्वस्मै इत्यादौ सर्वनामसंज्ञायां स्मा. यादेश इति भावः । *द्योतक इति । अत्र भूवादिसूत्रस्थं भाष्यं प्रमाणम् । तत्र हि "क्रियावचने धातावुपसर्गप्रत्यययोः प्रतिषेधः इति वार्तिकखण्डनावसरे "प्रकृतिः प्रकृ. त्यर्थ वर्तते प्रत्ययः प्रत्ययाथै इति प्रतिपाद्य, क्रियाविशेषक उपसर्गः, पचतीत्यत्र क्रिया गम्यते, तां प्रो विशिष्टि" इत्युक्त्वा, तत्र धातोरुपसर्गव्यभिचारवदध्येती- त्यादौ उपसर्गस्य धातुव्यभिचारेण निर्वाहं कृत्वा, "इह तहि व्यक्तमर्थान्तरं गम्यते, तिष्ठति प्रतिष्ठते इति आधे नजिक्रियानिवृत्तिरन्त्ये ब्रजिक्रिया, अतो "मन्यामहे उपसर्गकृतमेतत् येनान नजिक्रिया गम्यत इति प्रोऽयं दृष्टापचारः आदिकर्मणि वर्तते । न चेदं नास्ति बतर्था अपि धातबो भवन्ति" इति । वष्यादौ यथेदं तथाऽत्रापि "ति. ष्टतिरेव जिक्रियां तन्निवृत्ति चाह" इत्युक्तम् । प्रोऽयमिति, अन्यत्रापि प्रयोगात्। ततश्चान्यत्रास्य योऽर्थो धोत्या, स एवेहापीत्यनुमीयते । अनेकार्थत्वाद्धातूनां तिष्ठतिरेव गतिवाचीति निर्णय इति कैयटः । *पूर्व धातुरुपलगणेति । विशिष्टा हि क्रिया 'उपास्यते गुरु' इत्यादौ कार्यला. भाय सम्बध्यते । एवाञ्चान्तरङ्गत्वात्सुटि सञ्चस्करतुरित्यन्न गुणः सिद्ध इति मावः । ननु "विष्वग्देवयोश्च" इत्यत्राप्रत्ययग्रहणेन तदादिविधेापितत्वात्कथं धातूपसर्ग. कार्यस्यान्तरङ्गत्वमित्यत आह नैतत्सारमिति । साधनसम्भवाद्धि धात्व. थस्य साध्यत्वं प्रतीयते, क्रियायामेव चोपसर्गा विशेष द्योतयति । *पश्चादुपसर्गेणे. ति। अत एव 'प्रत्ययः इति निर्देशः सङ्गच्छते । निर्वर्तयतीति* | साध्यवैशिष्टयेन । (१) तदर्थगतेः-स्थाधात्वर्थगतेः आदित्वस्य द्योतक इत्यर्थः । तेन प्रतिष्ठते इत्यस्य गन्तुं प्रवर्तते इत्यों बोध्यः । (२) निवर्तयति साध्यत्ववैशिष्टयेन बोधयतीत्यर्थः ।
pm- - । परमलघुमञ्जूषायाम्- सर्गो विशिनष्टीति(१) । सत्यमेवमेतत् । (२)यस्त्वसौ धातूपसर्गयोरभि- सम्बन्धस्तमभ्यन्तरं कृत्वा धातुस्साधनेन युज्यते । अवश्यं चैतदेवं विज्ञेयं यो ह्येवं मन्यते पूर्व धातुः साधनेन युज्यते पश्चादुपसर्गेणेति तस्य आस्यते गुरुणा इयकम्मकः उपास्यते गुरुरिति केन सकर्मकः स्यात्" इति । हरिणाऽ-प्युक्तम्- धातोस्साधनयोगस्य भाविनः प्रक्रमाद्यथा । बोधयतीत्यर्थः । *सत्यमेवमेतदिति । उपसर्गयोगात्पूर्व साधनयोग इति सत्यम् , परन्तु धातूपसर्गसम्बन्धकृता योऽर्थस्तमभ्यन्तरं कृत्वा स्वबोध्यं कृत्वा साधनयोगे क्रियात्वावगतौ उपसर्गयोगः । न हि केवलधातुना सोऽर्थः प्रतीयते। *यस्त्वसावि. ति* । यस्तव धातूपसर्गसम्बन्धकृतत्वेनाभिमतोऽर्थस्तमुपसर्गसंज्ञकसम्बन्धमन्तरेणापि धातुरभ्यन्त कृत्वाऽर्थत्वेनाङ्गीकृत्य साधनेन युज्यत इत्यर्थः । अत्रेदं तात्पर्यम्-वक्ता धातोरेव विशिष्टमर्थ बुद्धौ कृत्वा साधनसम्बन्धकार्यप्र. त्यययोगेन तन्त्र साध्यत्वावगतौ श्रोतृबोधाय क्रियायोगनिमित्तोपसर्गसंज्ञकशब्दयोगं करोति । अन्यथा केवलधातुतः सर्वत्राप्रतीयमानतया श्रोतुस्तबोधो न स्यादिति । एतदेवोक्तं कैयटेन "भूवादयो धातवः” इति सूत्रे । तथाहि-अनेकार्थत्वाद्धातूनां विशिष्टोऽर्थो धातोरेव, उपसर्गस्तु बोद्धारं प्रति तदर्थद्योतक इति । एवं च पूर्वमुपस- गण योगो नाम तदर्थसम्बन्धः, तत उपसर्गयोगात्पूर्व साधनकार्ययोगः, तत उपसर्ग- शब्दयोग इति परिभाषाद्वयोर्थ इति बोध्यम् । विस्तरस्तु बृहन्मजूषायां स्पष्टम् । *धातोरिति । क्रियावाचिनो धातवइत्युक्तम् , साधनसम्बन्धाच्च प्राक् क्रिया. (१) विशिनष्टि स्वधोत्यविशेषणवैशिष्टयेन बोधयतीत्यर्थः । साध्यत्वेन ज्ञानं विना क्रियायोगे विहितोपसर्गसंज्ञकशब्दैोगाज्ञानादिति "पूर्वधातुःसाधनेन युज्यते पश्चादुपसर्गेण इत्यस्य तात्पर्यम् । (२) धातूपसर्गकार्यस्य सुडादेरन्तरङ्गत्वोपपादनायाह-यस्त्वसाविति । या धा. तूपसर्गसम्बन्धकृतत्वेनाभिमतोऽर्थः तं धातुः उपसर्गसंज्ञकशब्दयोगं विनाऽपि अभ्य- न्तरं कृत्वाऽर्थत्वेनाङ्गीकृत्य साधनेन युज्यते इत्यर्थः । एवं च पूर्वमुपसर्गयोगो नाम तदर्थसम्बन्धः । ततः उपसर्गशब्दयोगात् पूर्व साधनकार्ययोगः, ततः उपसर्गशब्दयोग इति "पूर्व धातुः साधनेन युज्यते, पूर्व धातुरुपसगंण युज्यते" इति परिभाषाद्वय. स्यापि तात्पर्यम् । एवं च सुटः पूर्वोपस्थितभूषणाद्यर्थनिमित्तकत्वेनान्तरङ्गत्व मुपप. चम् । यत्तु उपसर्गकार्य नाथंनिमित्तकं तत्तु पूर्वागतसाधननिमित्तककार्याद बहिरङ्ग- मेव । तेन प्रत्ययः अध्ययनम् इत्यादौ यणादिकमेवान्तरनत्वात् भवति । अत एव. "णेरध्ययने" इत्यादिनिदेशसङ्गतिरित्यादिकमन्यतो बोध्यम् ।
निपातार्थविचारः। ६ धातुत्वं कर्मभावश्च तथाऽन्यदपि दृश्यताम् ।। बुद्धिस्थादभिसम्बन्धात्तथा धातूपसर्गयोः । अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते ।। इति । अस्यार्थः-यथा भाविसाधनसन्बन्धाश्रयणेन क्रियावाचित्वमाश्रित्य धातुसंज्ञोच्यते, यथा च सन्प्रत्यये चिकीर्षिते भावीषिकर्मत्वमाश्रित्योपक्र. मे एवेषिकर्मत्वमुक्तम् , तथा भाव्युपसर्गसम्बन्धादुपक्रमे एव विशिष्ट क्रि- यावाचकत्वं दृश्यताम् । धातूपसर्गयोस्सम्बन्धं बुद्धिविषयीकृत्योपसार्थ- कृतो विशेषो धातुनैवाभ्यन्तरीकृतः पदप्रयोगकाले उपसर्गसम्बन्धे सति प्र- काशते । श्रोतुरिति शेषः । उपसर्गयोगात्प्रागेव धातुनैवोपसर्गार्थविशिष्टः स्वार्थ उच्यत इति तात्पर्यम् । पूर्वं धातुरुपसर्गेणेति तु तदर्थस्य धात्वर्थान्त र्भावाद् व्यवहारः। चन्द्र इव मुखमित्यादौ चन्द्रपदस्य स्वसशेऽप्रसिद्धा शक्तिरेव लक्ष- णा । “नबिवयुक्तमन्यसहशाधिकरणे” इति न्यायात् । इवपदं तात्पर्यग्राह. कम् । तात्पर्यग्राहकत्वञ्च-स्वसमभिव्याहृतपदस्यार्थान्तरशक्तिद्योतकत्व- मित्यागतम् इवनिपातस्य द्योतकत्वम्। निर्वृत्तरसम्भवात् यथा भाविसाधनसम्बन्धाश्रयेणोपक्रमे एव धातुसंज्ञा, यथा वा "धातोः कर्मणाहत्यत्र भावीषिकर्मत्वमुक्तम् , तथाभाविसम्बन्धादुपक्रमे एव विशि. ष्टक्रियावचनत्वम् , तदाह-*अन्यदपीति* । दार्शन्तिके योजयति-तथेति । *भेद-विशेषः । *पदकाले*-पदप्रयोगकाले । प्रतिष्ठते इत्यादिप्रयोगकाले इति भावः । 'पूर्व धातुः साधनेन' इति पक्षणाह-*प्रयोगाहेंचिति । प्रयोगाहेषु धातुषु प्रसिद्धोऽर्थो विशेष्यो भवत्युपसर्गादिभिः॥ *श्रोतुरितीति । तथाहि- 'प्रयोगाहेषु सिद्धः सन् भेत्तव्योऽर्थो विशेषणैः । प्राक् तु साधनसम्बन्धात् क्रिया नैवोपजायते । इति च ॥ *स्वसदृशे इति । स्वप्रतियोगिकसदृशे इत्यर्थः । नजिवयुक्तमिति । "नभिव. युक्तमन्यसदृशाधिकरणे तथाह्यर्थगतिः” इति न्यायाकारो बोध्यः । नसमभिव्या तम् इवसमभिव्याहृतञ्च, पदं स्वबोध्यार्थान्यस्य स्वबोध्यार्थसहशस्य च बोधकमिति तदर्थः । नअपदम्, इवपदञ्च तात्पर्यग्राहकम् , तथाह्यर्थगतिः । सादृश्यञ्च तत्तत्स्थलेषु तत्तद्धर्मेण ग्राह्यम् । स च धर्मः सादृश्यप्रतियोगितावच्छेदकोऽपेक्षितः । चन्द्र इव मुखमित्यादौ आह्लादकत्वधम्मस्य सादृश्यप्रतियोगितावच्छेदकचन्द्रत्वव्यापकत्वात् तेनैव धर्मेण सादृश्यमवसेयमिति दिक् । - ।
परमलघुमञ्जूषायाम् । यत्तु इवार्थस्सादृश्यं तत्र प्रतियोग्यनुयोगिभावेनैव चन्द्रमुखयोरन्वयो- पपत्तौ किं लक्षणया। तथा च चन्द्रप्रतियोगिकसाहश्याश्रयो मुखमिति बोध इत्याहुः । तन्न । चन्द्र इव मुखं दृश्यते चन्द्रमिव मुखं पश्यामीत्यादौ चन्द्र- पदस्य मुखरूपकमसामानाधिकरण्याभावादुक्तानुक्तत्वप्रयुक्तविभक्त्यनाप- त्तेः षष्ठयापतेश्च । परे विवशब्दस्योपमानताद्योतकत्वम् । उपमानत्वञ्च-उपमानोपमेयो. भयनिष्टसाधारणधर्मवत्त्वेनेषदितरपरिच्छेदकत्वम् । तद्धर्मवत्तया परि- च्छेद्यत्वञ्चोपमेयत्वम् । साधारणधर्मसम्बन्धश्च क्वचिद् विशेष्यतयाऽन्वे- ति क्वचिद् विशेषणतया । एवञ्च चन्द्र इव आह्लादकं मुखमित्यादौ आह्ना- दकोपमानभूतचन्द्राभिन्नमाह्लादकं मुखमिति बोधः। चन्द्र इव मुखमाह्लाद- यतीत्यादौ चोपमानभूतचन्द्रकर्तृकाह्नादाभिन्नो मुखकर्तृकाहाद इति बोधः । इदम् “उपमानानि सामान्यवचनैः” इत्यत्र (१) भाष्ये स्पष्टमित्याहुः । *प्रतियोगीति । चन्द्रस्य प्रतियोगितया मुखस्यानुयोगितया च सादृश्येऽन्वयः। चन्द्रप्रतियोगिकमुखानुयोगिकसादृश्यमिति यावत् । एवञ्चान लक्षणा न युक्तेति भावः । *कर्मसामानाधिकरण्याभावादिति । अस्माकं मते तु चन्द्रसदृशे लक्षणया चन्द्रसशरूपचन्द्रपदार्थस्य स्वाभिन्नमुखद्वारा फलाश्रयत्वात्कम्मत्वेन द्वितीयोपपद्यते। या विशेष्येषु दृश्यन्ते लिङ्गसङ्गविभक्तयः । प्रायस्ता एव कर्तव्याः समानार्थे विशेषणे॥ इत्यभियुक्तोकमत्राथै मानं ज्ञेयम् । 'निपाता वाचका' इति तव मते तु चन्द्रपदा- थस्येवार्थसादृश्ये प्रतियोगितयैवान्वयो वाच्यः, स च दुरुपपादः । 'नामार्थयोमियो भेदेनान्वयस्याव्युत्पन्नत्वात् । अन्यकर्ता स्वमत प्रकटयति-*परेत्वित्यादिना। साधारणधर्मवत्वेनेति साह- श्यनियामकधर्मवत्वेनेत्यर्थः । ईषदितरेति । स्वल्पमेदवदित्यर्थः । *इति बोध इति । अतोऽत्रापि तयोः समानविभक्तिकतैवेति भावः । एवं 'गज इव गच्छति चैत्र' इत्यादौ बोध्यम् । 'वनं गज इव शूरः समरभूमि गच्छति' इत्यादौ 'उपमानग- जकर्तृकवनगमनाभिन्नं शूरकर्तृकसमरभूमिगमनम्' इति बोधः । अन्न साधारणधर्मरूप. गमनस्य विधेयतयोपमाविधेयका धोः। 'व्याघ्र इव यः पुरुषः स गच्छति' इत्यादौ 'उपमानव्याघ्राभिन्नशूरपुरुषकर्तृकं गमनम् इति धीः। शूरत्वादिसाधारणधर्मस्योद्देश्य- तयोपमोद्देशियकाऽत्र धीरित्यादिबोध्यम् । नन्वत्रैव किम्मानमित्यत आह- इदमि. (१) तत्र हि भाष्ये "किमिहोदाहरणम् । शस्त्री श्यामा । व पुनरयं श्यामाश- ।
.. निपातार्थविचारः। नन् द्विविधः-पर्यंदासः प्रसज्यप्रतिषेधश्च । तत्रारोपविषयत्वं नपर्दा दासद्योत्यम् । आरोपविषयत्वद्योतकत्वञ्च नबः समभिव्याहृतघटादिपदाना- मारोपितवृत्तिनिमित्तबोधकत्व तात्पर्यग्राहकत्वम् । प्रवृत्तिनिमित्तं घटत्वब्राह्म ति* *माष्ये स्पष्टमिति । तत्र हि "कि सर्वथा भेदे उपमानोपमेयभाव उत-अभेदे। इति प्रश्ने ? उभयत्रापि साधारणधर्मासम्भवाद्गौरिव गौः, गौरिवाश्च इत्यादौ उपमा. वाचकेवादेनेरर्थक्यापत्तिमुक्त्वा यत्र विशेषरूपेण भेदावगतिः साधारणधर्मरूपेणाभेदा. वगतिस्तत्र सः" इत्युक्त्वा "कथमेतज्जातम्" इति शङ्कायां हीनं मानमुपमानं यत्रा- न्यन्ताय मिमीते इत्यर्थकोपमानव्यवहारादेतन्निोंतम् । इत्युक्तम् । तस्यायम्भावः- प्रस्थादि हि साकल्येन मानमिति तदू-अत्यन्तभेदनैव परिच्छेदकम् । प्रस्था परिमाण. मस्येति प्रस्थो व्रीहिरिति वा इदं तु हीनमिति भेदाभेदाभ्यामेव परिच्छेदकमिति । अन्यन्तायेत्यव्ययमत्यन्तमित्यर्थ इति । नजो भेदकत्वमिति तार्किकमतनिरासायोपक्रमते-*नो द्विविध इति । ना. थों द्विविधः । भेदः संसर्गाभावश्च तत्र समासघटकस्य नजो भेदबोधकत्वमितरस्य तु संसर्गाभावबोधकत्वम् । अघटं पश्यतीत्यत्र घटमिन्नम्पश्यति । घटो नास्तीत्यत्र घट. स्वावच्छिन्न प्रतियोगिताभाव इति च ताकिकाणां मतमबसेयम् । *पर्युदास इति । 'द्वौ नौ समाख्यातौ पर्युदासप्रसज्यको । पयुदाससदृशमाही प्रसज्यस्तु निषेधकृत् ॥ इति । *आरोपविषयत्वेति* । अत एव 'आरोपितत्वं नन्द्योत्यं नह्यसोऽप्यतिसर्व. वत्' इत्युक्तिः सङ्गच्छते । *तात्पर्यग्राहकत्वमिति । यथा-'सिंहो माणवक इत्या- दौ माणवकादिपदानि सिंहादिपदस्यारोपितसिंहत्ववद्बोधकत्वे । 'अनुदरा कन्या इत्यादावत्यल्पत्वेनोदराभावमारोप्य नसमभिव्याहारे आरोपितोदरबुद्धया तन्मूला- ल्पत्वादौ विश्रमः । अद्विजः इत्यादौ च तद्भेदमूलकमारोपितप्रवृत्तिनिमित्तकत्वमि- ति भेदे विश्रान्तिः।। अधर्म इत्यादौ च विरोधिनि । आरोपितस्य नवाच्यत्वे तु तस्थ ब्राह्मणादिपदशक्येऽनारोपितब्राह्मण्यवति सम्बन्धो दुरुपपादः । तत्र प्रसिद्धार्थ- परित्यागोऽप्रसिद्धार्थप्ररिग्रहश्चेत्युभयं द्योतककृत्यमिति नसूत्रे भाष्ये स्पष्टम् । *प्रवृत्तिनिमित्तमिति । प्रातिपदिकविशिष्टत्वं प्रवृत्तिनिमित्तम् । वैशिष्टयञ्च- ब्दो वर्तते । शस्त्रयामित्याह । केन तहीदानी देवदत्तोऽभिधीयते । समासेन । (यदि श्यामाशब्देन शस्त्रो अभिधीयते उपमेयं समासेन अभिधीयते तहि पुंस्त्वविशिष्टदेवद- तादेरपि उपमेयत्वे श्यामशब्दस्य तदनभिधायकत्वात् स्त्रोत्वविशिष्टशस्त्र्यभिधायक. त्वाच्च टापि) शास्त्रीश्यामो देवदत्त इति पुल्लिङ्गप्रयोगा) नसिध्यति । गोस्त्रियारपस- जनस्याति हृस्वत्वं भविष्यति। यद्येवं कुम्भकपाललोहिनो इत्यत्र "वर्णादनुदात्तात्॥ इति अनुपसर्जनलक्षण ईकारो न प्राप्नोति, एवं तर्हि बस्न्यामेव शास्त्रीशब्दा देवदत्तायां । ..
परमलघुमजूषायाम् । रणत्वादी । तस्मात् अब्राह्मण इत्यादौ आरोपितब्राह्मणत्ववान क्षत्रियादिरिति स्ववाच्यत्वम् , स्ववाच्यवृत्तित्वं, स्ववाच्योपस्थितिप्रकारतावत्व, स्वनिष्ठशक्तिज्ञा. नाधीनोपस्थितिप्रयोज्यशाब्दबोधीयपदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यत्वासमा. नाधिकरणापदार्थसम्बन्धावच्छिन्नप्रकारताविशिष्टसम्बन्धैः । सम्बन्धघटकवैशिष्टयञ्च- स्वानाश्रयत्व, स्वावच्छेदकतानाश्रयत्व, एतदन्यतरसम्बन्धेन । लक्षणसमन्वयस्तु स्वयमेवोद्यः । *अब्राह्मण इति । अब्राह्मण इत्यत्र आरोपविषयत्वं नार्थः । तस्य च । . श्यामाशब्दः । एवमपि समानाधिकरणेनेति वर्तते, व्यधिकरणत्वात्समासोनप्राप्नोति किं हि वचनानि भवति । यद्यपि तावद्वचनात्समासः स्यात् । इह खलु मृगीव चपला. मृगचपलेत्यत्र समानाधिकरणलक्षणः पुंवद्भावो न प्राप्नोति । एवं तर्हि तख्यामेवोभर्य वर्तते । युक्तं चैतत् ? इतस्थाहि बह्वपेक्ष्यं स्यात् । यदि तावत् एवं विग्रहः करिष्यते शस्त्रीव क्यामा देवदत्तेति, शस्त्रयां श्यामेत्येतदपेक्ष्यं स्यात् । अथाप्येवं विग्रहः करिष्य- ते,यथाशस्त्री श्यामाातद्वदियं देवदत्तेति, एवमपि देवदत्तायां श्यामेत्येतदपेक्ष्यं स्यात् इत्युक्तम् । तत्र तस्यामेवेत्यस्य उपमेयायामेवेत्यर्थः । उपमानशब्दोऽपि सादृश्यमूल. कामेदाध्यवसायात् उपमेये एव वर्तते इति भाष्याशयः । सादृश्यनिर्वाहायच तत्प्रयो. जकस्य साधारणधर्मस्य श्यामत्वादेः घनश्यामो देवदत्त इत्यादौ तन्त्रादिना उपमा. उपमेये चोभयत्रान्वयः । तथाच उपमानश्यामधनाभिन्नः श्यामो देवदत्त इति बोधः । अत एव सूत्रे "सामान्यवचनैः" इति वचनपदमुपात्तम् । तेन च साधारणधर्मत्वेन बोध. कता लभ्यते । साधारणधर्मत्वं च अनेकवृत्तिधर्मत्वम्।। उभयत्र श्यामत्वादेरन्वयाभावे च अनेकवृत्तिधर्मत्वेन श्यामादिपदानां तद्वोधकत्वाभावात्समासो न स्यात् । त. स्मात् सौत्रवचनपदस्वारस्येन उभयगतगुणावाचकत्वादिति "उपमानानि इतिसूत्रस्थ भाष्याञ्च उभयत्र साधारणधर्मान्वयः शाब्दः। तत्प्रयोज्यः सादृश्यान्वयस्तु आर्थः । नतु पूर्वपदस्य घनशब्दादेः लक्षणयो तत्सदृशान्वयबोधः शाब्दः । तथासति उपमान- स्वेन बोधकानि सामान्यधर्मविशिष्टोपमेयवचनैः समानाधिकरणः समस्यन्ते इत्यर्थके- न "उपमानानि सामान्यवचनैः" इत्यनेनासमासानापत्तेः । पूर्वपदस्य लक्षणया उपमे. यपरत्वेन उपमानवाचकत्वाभावात् । वृत्तिविग्रहयोः समानार्थत्वाय तद्विग्रहवाक्येऽपि घन इव श्याम इत्यादौ लक्षणया तत्सदृशपरत्वस्यावश्यकत्वेन विग्रहवाक्यीयमु. पमानवाचकत्वमपि नायितुं शक्यते । धनेन तुल्य इत्यादिकं तु न तद्विग्रहवाक्यम् । अन्यथा मृग्या तुल्या चपलेत्येतद्विग्रहवाक्यके मृगचपलेल्यत्र पुंवद्धावानापत्तिः । सा. मानाधिकरण्याभावात् । षष्ठीतत्पुरुषादावतिव्यातिवारणाय वृत्तौ विग्रहे च सामाना- धिकरण्यस्य पुंवद्भावेऽपेक्षितत्वात्। वृत्तिविग्रहयोः समानार्थकत्वनियमभङ्गापत्तिश्च । तस्मात् "तल्यामेवोभयं वर्तते इति भाष्यस्य पूर्वपदस्य उपमानवावकत्वेऽपि साह - । निपातार्थविचारः। ६५ बोधः । अत एवोत्तरपदार्थप्राधान्यं नञ्तत्पुरुषस्येति प्रवादस्सङ्गच्छते । अत एव च 'अतस्मै ब्राह्मणाय' 'असः शिव' इत्यादौ सर्वनामकार्यम् : अन्यथा गौणत्वान्न स्यात् । प्रवृत्तिनिमित्तारोपस्तु सदृशे एव भवतीति "पर्युदासः सदृशग्राही” इति प्रवादः । पर्युदासे निषेधस्त्वार्थः । अन्य. स्मिन्नन्यधर्मारोपस्तु आहार्यज्ञानरूप: । बाधकालिकमिच्छाजन्यं ज्ञानमे- वाहार्य मति वृद्धाः । सादृश्यादयस्तु प्रयोगोपाधयः, पर्युदासे त्वार्थिका- थाः । तदुक्तं हरिणा- तत्साहश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नर्थाः षट् प्रकीर्तिताः ।। इति । तत्सादृश्यं गर्दभेऽनश्वोऽयमित्यादौ । अभावस्तु प्रसज्यप्रतिषेधे वक्ष्यते। तदन्यत्वम् अमनुष्यं प्राणिनमानयेत्यादौ तदल्पत्वम् अनुदरा कन्या इत्यत्र, अर्थात्स्थूलत्वनिषेधेनोदरस्याल्पत्वं गम्यते। अप्राशस्त्यं ब्राह्मणे अब्राह्मणोऽ- यमिति प्रयोगे। विरोधः असुरः अधर्म इति प्रयोगे। उत्तरपदार्थे ब्राह्मणेऽन्वयः । आरोपश्च प्रत्यासत्या प्रवृत्तिनिवृत्तिप्रकारक एवं गृह्यते । एवं च आरोपविषयत्ववान् ब्राह्मण इति बोधः पर्यवसन्न हतिबोध्यम् । अत एवेति। नम आरोपितार्थयोतकत्वादेव । *न स्यादिति* । नमर्थस्य भिन्नार्थवाचकत्वे तस्य च विशेष्यत्वात् इतरपदार्थनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकताप्रयोजकत्वरूप- गौणत्वं तच्छब्दादीनां स्यात् । तेन सर्वनामसंज्ञाकार्य न भवेदिति तात्पर्यम् । *बाध. कालिकमिति । यथा घटे पटत्वं नास्तीति निश्चयदशायामपीच्छयायं पट इति यज्ज्ञानं तदाहार्यम् । ताकिकास्तु अयमेव भ्रम इति मन्यन्ते । तेषां मते तद्धाभाव. अनिष्ठविशेष्यतानिरूपिततद्धर्मनिष्ठप्रकारतानिरूपकज्ञानस्यैव भ्रमत्वम् । क्रमेणोदाहरति-*तत्साध्यमित्यादिना*। *गर्दभ इति । अनच इत्यस्या. रोपिताश्वत्ववानित्यर्थः । अन्न साहलमूलकोऽचत्वारोपः । *अमनुष्यमिति ! मनुष्यभिन्न मित्यर्थः । *अनुदरेति* अनु-अल्पमुदरं यस्याइति बहुव्रीहिः । अल्पो- दरविशिष्टेत्यर्थः । *अब्राह्मण इति । अप्रशस्तो ब्राह्मणः, निषिद्ध ब्राह्मण इति यावत् । *असुर इति* । सुरविरुद्ध इत्यर्थः । विरोधश्चात्र ऋरक्रियात्वेन ज्ञेयः । स्यमूलकाभेदाध्यवसायात् उपमेयपरत्वमित्येव पूर्वोकं तात्पर्य समीचीनम् । ततश्च वि. आहे वृत्तौ च पूर्वपदस्य उपमानत्वविशिष्टार्थपरत्वात् उत्तरपदार्थसाधारणधर्मस्य च उ. भयत्रान्वयात् समासः, वृत्तिविग्रहयोः समानार्थकत्वं, साधारणधर्मान्वयप्रयोज्याभेदा- न्वयबोधश्च सिध्यन्ति । ततश्च मूले प्रदर्शितो बोधः उक्तसूत्रस्थभाष्यसम्मत इति सझेप इति लघुमन्जूषायां विस्तरः। - .
- परमलघुमञ्जूषायाम् । पर्युदासस्तु स्वसमभिव्याहृतपदेन सामर्थ्यात्समस्त एव (प्रायः १)। कचित्तु “यजतिषु ये यजामहं करोति नानुयाजेषु” इत्यातौ घटःअपटो भव. तीत्यर्थके घटो न पट इत्यादौ च समासविकल्पादसमासेऽपि । अत्रान्यो- न्याभावः फलितो भवति । प्रसज्यप्रतिषेधस्तु समस्तोऽसमस्तश्चेति द्विविधः। तत्र विशेष्यतया क्रियान्वयनियमात्सुबन्तेनासामर्थेऽपि 'असूर्यललाटयोः' इत्यादिज्ञापकात्समासः। तदुक्तम्- प्रसज्यप्रयिषेधोऽयं क्रियया सह यत्र नञ् । इति । अत्र क्रियापदं गुणस्याप्युपलक्षणमिति बहवः। अत एव नसूत्रे भा- ध्ये "प्रसज्यायं क्रियागुणौ ततः पश्वानिवृत्तिं कुरुत" इत्युक्तम् । उदाहरण- म् -नास्माकमेकं प्रियमिति । एकप्रियप्रतिषेधे बहुप्रियप्रतीतिः । एवं 'न सन्देहः, नोपलब्धिः' इत्यायुदाहरणं गुणस्य । सन्देहादीनां गुणत्वात् । क्रियोदाहरणम्-'अनचि च' 'गेहे घटो नास्ति' इत्यादि । तस्य समस्तस्य तु अत्यन्ताभाव एवार्थः । असमस्तस्य तु अत्यन्ताभावोऽन्योन्याभावश्च । तादात्म्येतरसम्बन्धामावोऽत्यन्ताभावः । तादात्म्यसम्बन्धाभावोऽन्योन्या- भावो भेद इत्यर्थः। असूर्यम्पश्या राजदाराः, गेहे घटो नास्ति, घटो न पटः इत्युदाहरणानि । प्रागभावप्रध्वंसाभावौ तु न नद्योत्यौ। " " पर्युदासं निरूप्य प्रसज्यप्रतिषेधस्वरूपं प्रदर्शयति-*प्रसज्यप्रतिषेधस्त्वित्यादि- ना । प्रतिषेधशब्दः कर्मघजन्तो बाहुलकात् । प्रसज्य-आपाद्य प्रतिषेधः प्रतियोगी यस्य तादृशोऽभावोऽर्थो यस्येति व्युत्पत्या ऽभावार्थकः । "न" सूत्रे भाष्ये तु "प्र. सज्य क्रियागुणौ ततः पश्चानिवृत्ति करोति" इत्युक्तम् । तेन गुणाभावबोधेऽपि प्रस. ज्यप्रतिषेध इति लभ्यते । *बहुप्रिय इति । प्रियशब्दः पात्रादिः। बहुप्रियतेति पाठस्तु सुगम एव । प्रागुक्तदाढायोदाहरणान्तरमाह-*नसन्देह इति । "अनचि व इति । अत्र विध्यर्थकः । तथाच-अजव्यवहितपूर्वत्वविशिष्टस्य यरो द्वित्वं वेत्येकं वाक्यम् । निषेधवाक्यञ्च-अनचोति । अस्यार्थ:-अजव्यवहितपूर्वत्वविशिष्टस्य यरो द्वित्वं न भवतीति । नञःप्रसज्यप्रतिषेधार्थकत्वादिति बोध्यम् । अत्यन्ताभावो. दाहरणम्-*असूर्यपश्येति । सूर्यकर्मकदर्शनप्रतियोगिकामाववन्तो राजदारा इत्य- थः । ॐगेहे घट इति। घटकर्तृकसत्ताभावो गृहवृत्तिरिति शाब्दबोधः । *न नद्यो- (१)एतन्मध्यस्थः पाठो बहुषु पुस्तकेषु नास्ति ।
६७ निपातार्थनिर्णयः। तत्रात्यन्ताभावो विशेष्यतया तिङन्तार्थक्रियान्वय्येव । (१)नअर्थात्य- न्ताभावविशेष्यकबोधे तिसमभिव्याहृतधातुजन्योपस्थितेः कारणत्वात् । तथा च घटो नास्तीत्यादौ घटकर्तृकसत्ताप्रतियोगिकोऽभाव इति बोधः । अत एवाहं नास्मि त्वं नासीत्यादौ घटौ न तो घटा न सन्तीत्यादौ च पुरुषवच- नव्यवस्थोपपद्यते । अन्यथा युष्मदादेस्तिङ्सामानाधिकरण्याभावात् मद- भावोऽस्तीत्यादाविव सा न स्यात् । असंदेह इत्यादौ तु आरोपितार्थकनव समासः । अत्यन्ताभावस्तु फलित एव । वायौ रूपं नास्तीत्यत्र तु (२)तात्प- र्यानुपपत्त्यारुपप्रतियोगिकात्यन्ताभावे लक्षणा। तेनवाय्वधिकरणिका रूपा- भवकर्तृका सत्तेति बोधः । वस्तुतस्तु समनियताभावैक्यमाश्रित्य (३)फलि. त्याविति । 'रक्तघटे श्यामोनास्ति' इतिप्रतीतिरत्यन्ताभावमेवावगाहते, न ध्वंसप्रा. उभावाविति तन्त्र रहस्यम् । *तिङन्तार्थेति । तिङन्तपदमत्र कृदन्तस्याप्युपलक्षगम्बोध्यम् । तेन 'असूर्यम्प- श्या राजदारा' इत्यत्र न दोष इति भावः । *धातुजन्योपस्थितेरिति । प्रकारतास- म्बन्धेन नअर्थात्यन्ताभावविशेष्यकशाब्दबुद्धित्वावच्छिन्नम्प्रति विशेष्यतासम्बन्धेन धातुजन्योपस्थितिः कारणमिति कार्यकारणभावोऽत्रावलेयः। *लक्षणेति । रूपपदस्य रूपप्रतियोगिकात्यन्ताभावे लक्षणा । नञ्पदं तात्पर्य ग्राहकमिति भावः । रूपकर्तृकस. ताभावोऽत्र बोध्यः । रूपाभावस्तु फलितार्थकथनम् । *समनियतेति । स्वाधिकरणवृत्त्यत्यन्तामावाप्रतियोगित्वे सति स्वाभावववृत्ति. - (१) प्रकारतासम्बन्धेनेति शेषः । कारणतावच्छेदकश्च विशेष्यतासम्बन्धो बो. ध्यः । एतादृशकार्यकारणभावाङ्गीकारेणैव घटो न जायते इत्यादौ घटोत्पत्त्यभावादिः प्रतीयते, न तु तदभावोत्पत्त्यादिः । एवं च अनुगतरूपेण कार्यकारणभावकल्पने लाघ- वात् सर्वत्रैव तथा बोधोऽङ्गीकार्यः । न क्रोधो नच मात्सर्य न लोमो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ इत्यत्र तु प्रत्येकं भवतीत्यस्य, भवन्तीत्यत्र च एतेनेत्यस्याध्याहारेण अन्वय उप- पादनीयः । एवमन्यत्रापि बोध्यम् । (२) रूपामावस्यैव बोधविषयत्वेन तात्पर्यविषयत्वादिति भावः । (३) रूपसत्ताऽभावविषयके शाब्दबोधे जाते तत्समनियतो रूपाभावोऽर्थादेव प्रतीयत इति भावः।
, परमलघुमञ्जूषायाम्- तार्थ एवायम् । (२)अरूपमस्तीत्यर्थकं वा तत् । एतेनात्यन्ताभावप्रकारक- क्रियाविशेष्यको बोध इति तार्किकोक्तमपास्तम् ।। नन्वेवंघटसत्तारूपोऽर्थः प्रथमंबुद्धो नानिवर्तयितुमशक्यः, सतो निषे- धायोगात् , असतस्त्वसत्त्वादेव निवृत्तिसिद्ध्या निषेधो व्यर्थः । तदुक्तम्- सतां च न निषेधोऽस्ति सोऽसत्सु च न विद्यते । जगत्यनेन न्यायेन नबर्थः प्रलयं गतः ।। इति चेत , न । बौद्धो हि शब्दो वाचकः बौद्ध एवार्थो वाच्य इत्युक्त- स्वात् बुद्धिसतोऽप्यर्थस्य नबा बाह्यसत्तानिषेधात् । बुद्धौ सन्नपि घटो बहि- नास्तीत्यर्थात् । न च घटास्तिपदाभ्यां या घटविषयाऽस्तिबुद्धिर्जाता सा नमा निवर्त्यते किं बौद्धार्थस्वीकारेणेति वाच्यम् । बुद्धेश्शब्दावाच्यत्वेन नबा तनिषेधायोगात् । एतेन बौद्धार्थमस्वीकुर्वन्तो नबर्थबोधाय कष्टकल्प. नां कुर्वन्तस्तार्किकाः परास्ताः। घटो न पट इत्यत्र घटपदस्य घटप्रतियोगि. कभेदाश्रये अप्रसिद्धा शक्तिरेव लक्षणा, नब्पदंतात्पर्यग्राहकम् । तात्पर्य्य- ग्राहकत्वं द्योकत्वमेवेत्युक्तम् । अत एवान्योन्याभावबोधे प्रतियोग्यनुयो. गिपदयोः समानविभक्तिकत्वं नियामकमिति वृद्धोक्तं सङ्गच्छते । , । त्वं समनियतस्य लक्षणम् । *सतो निषेधायोगादिति । "नासतो विद्यते भावः, नाभावो विद्यते सतः" इत्यनुसारिसत्कार्यवादिमतमवलम्ब्य उक्तमिति बोध्यम् । इत्युक्तत्वादिति । अत एव "एष वन्ध्या सुतो याति खपुष्पकृतशेखरः" इत्यादीनां निषेध उपपद्यते । तेषां प्रातिपदिकत्वञ्च सिद्धयतीति बोध्यम् । बौद्धपदार्थस्य रूपष्टी. करणं तु लघुमञ्जूषायां स्पष्टम् । *बुद्धौ सन्नपीति | विषयतासम्बन्धेन तत्र विद्यमा. नोऽपीत्यर्थः। *परास्ता इति । कथमन्यथा शशशृङ्गादिपदानां प्रातिपदिकसंज्ञा स्यात् । बाह्यपदार्थाभावेनार्थवत्वाभावात् , इत्यपि ते एव प्रष्टव्याः । *वटप्रतियोगिकेति* । अन्यथा तन्मते नजो भेदवाचकतया घटस्य प्रतियोगितया भेदे, तस्य च आश्रयतया पटेऽन्वये वटपदस्य तिङ्सामानाधिकरण्याभावात्प्रथमाना. पत्तिरिति बोध्यम् । अत एवर-लक्षणाङ्गीकारादेव । *समानविभक्तिकत्वमिति (१) अब्राह्मण इत्यादाविव आरोपितरूपत्ववान् यो वायुवृत्तिस्तत्कर्तृका सत्ते. त्येव शाब्दबोधः । तदभावबोधश्चात्रापि आर्थ एवेति बोध्यम् ।
निपातार्थविचारः। Un यत्तु घटपदं पटप्रतियोगिके लाक्षणिकं नञ्पदं तु भेदवति, अतो घट- प्रतियोगिकभेदवान्पट इति बोध इति तार्किकैरुक्तम् ! तन्न । भेदवति नन- थे भेदस्यैकदेशत्वात् तत्र घटार्थानन्वयापत्तेः । ‘पदार्थः पदार्थेनान्वेति, न तु पदार्थैकदेशेन' इति न्यायात् । पदद्वये लक्षणावीकारे गौरवाच । भाष्य- मते लक्षणाया निपातानां वाचकत्वस्य च स्वीकाराभावादिति संक्षेपः । एवशब्दस्यार्थोऽवधारणमसम्भवश्च । 'एवे चानियोग' इति वार्तिकनि- योगोऽवधारणं तदभावोऽसम्भव इति कैयटोक्तः । अनयोरर्थयोरेवशब्दो । - । w- समानविभक्तिकत्वन्नाम-एकविभिकत्वम् । तत्वञ्च-स्वाव्यवहितोत्तरत्वेनाधिगम्य- मानविभक्तिवृत्तिविभक्तिविभाजकधर्मवाद्विभक्त्यव्यवहितपूर्वत्वेनाधिगम्यत्वम्। तत्र विभक्तिविशिष्टत्वम्विभक्तिविभाजकत्वम् । वै० स्वव्याप्यत्वम् , स्वव्याप्याव्याप्य- त्वम् , स्वभिन्नत्वम् । एतत्रितयसम्बन्धेन, तादृशः प्रथमत्वादिरेव धर्माः न तु सुप्त्व- मौत्वादिकम्वा । तस्य विभक्तित्वव्याप्यप्रथमात्वव्याप्यत्वात्। स्वभिन्नत्वाभावात विभक्तित्वमपि न तथेति लक्षणसमन्वयो बोध्यः । *घटप्रतियोगिकभेदवानिति । घटप्रतियोगिकस्य घटपदार्थस्य नार्थकदेशे भेदेऽ. भेदेनान्वय इति तात्पर्यम् । *पदार्थः पदार्थेनेति । अयं च कार्यकारणभावमूलको न्यायः । नजातिरिक्तत्वेन न्याये सोचे तु गौरवमिति बोध्यम् । ननु नित्यसाका. वितस्थले नायं नायः स्वीकार्यः। अत एव देवदत्तस्य गुरुकुलम्' इत्यादौ एकादेशेऽपि न क्षतिः । तथा च प्रकृतेऽपि नित्यसाकाङ्कत्वादेकादेशान्वयो न दोषावह इत्यरुचेरा- ह-*पदद्वये इति*। *वाचकत्वस्येति । शास्त्रेषु तावत् निपातार्थविषये पक्षत्रयं दृश्यते । यथा- 'प्रजयति' इत्यादौ प्रकर्षादीनांनिपातार्थानां केवलधातुतोऽप्रतोत्या उपसर्गसम्बन्धा- त्तदवगम इति उपसर्गाणां विशेषार्थद्योतकत्वमेवेति प्रशब्दः प्रचष्टजयद्योतकः । अन्न हरिकारिका- 'कचित्सम्भविनोभेदाः केवलैरनिदर्शिता। उपसर्गेण सम्बन्धे व्यज्यते अपरादिना ॥ इतिप्रथमः । क्वचित् उपसर्गाणांवाचकत्वमपि । यथा-'प्रतिष्ठते? इत्यादौ स्था- धातोगतिनिवृत्तिवाचकत्वम् , प्रशब्दस्य तु गतिवाचकत्वम् । 'स वावको विशेषाणांसम्भवाद् द्योतकोऽपि वा। इति यथा । इति द्वितीयपक्षः । तृतीयस्तु सम्भूय धातूपसौ अर्थमाहतुः, उपसर्गस्तु शक्तिमानं कुरुते इत्यर्थाभि- धाने उपसर्गाः सहकारिणः । वाक्यपदीये उक्तञ्च- शक्त्याधानाय धातोर्वा सहकारी प्रयुज्यते । इति । on- - - । , परमलघुमञ्जूषायाम्- द्योतकः । अत एव तं विनापि तदर्थप्रतीतिः 'सर्व वाक्यं सावधारणम्' इति वृद्धोक्तं सङ्गच्छते । लवणमेवालौ भुङ्क्ते इत्यादौ प्राचुर्यार्थकस्य, घट एव प्रसिद्ध इत्यादावप्यर्थकस्य, केव भोक्ष्यसे इत्यादावसम्भवार्थकस्य च तस्य सत्त्वमित्यालङ्कारिकाः। तच्चावधारणं त्रिविधम् । विशेष्यसङ्गतैवकारेऽन्ययोगव्यवच्छेदरूपं, विशेषणसङ्गतैवकारेऽयोगव्यवच्छेदरूपं, क्रियासङ्गतैवकारेऽत्यन्तायोगव्य- वच्छेदरूपम् । विशेष्ये-पार्थ एव धनुर्धरः । पार्थेतरावृत्तियद्धनुर्धरत्वं ताश- धनुर्धरत्ववान् पार्थ इति बोधः इत्य यतरस्मिन्धनुर्धरत्वसम्बन्धव्यवच्छेदः। विशेषणे, शङ्खः पाण्डुर एव । अयोगः सम्बन्धाभावः तस्य व्यवच्छेदो निवृ- , - उक्तेष्वपि पक्षत्रयेषु उपसर्गाणां द्योतकत्वमेवेति विचारावसरे निश्चप्रचम् । धातू. नामनेकार्थत्वात् 'प्रतिष्टते' इत्यादौ स्थाधातोरेव गतिरर्थः, प्रशब्दो द्योतत एवेति बो. ध्यम् । एतदेवोक्तं वाक्यपदीये- स्थादिभिः केवलैयच्च गमनादिनगम्यते । तत्रानुमानाद्विविधात् तद्धर्मा प्रादिरुच्यते ।। इति ॥ एवं चादिनिपातेवपि पक्षत्रयमस्ति । उक्तञ्च हरिणा- निपाता द्योतकाः केचित् पृथगर्थाभिधायिनः । आगमा|इव केऽपि स्युःलम्भूयार्थख्य वाचकाः ॥ इति । एतेषु पक्षत्रयेषु घोतकत्वपक्ष एवं न्याय्यः केवलानां चादीनामप्रयोगात् तदु- क्तं वाक्यपदीये- चादयो न प्रयुज्यन्ते पदत्वे सति केवला:। प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते । एवञ्च प्रादीनां चादीनाञ्च निपाताना घोतकत्वमेवेति हरीणां हार्दम् । नागेशाना- मपीदमेवारुचिकरम् । प्रकृतसन्दर्भ पुनःपुनाद्योतकत्वपक्षल्यैव समर्थनादितिदिक् । *असम्भवार्थकस्येति । तथाच-"एवेचानियोगे” इति वार्तिकमुपादाय तन्त्र भवान् भाष्यकारआह- "मनवक्लुप्तौ यदा दृष्टः पररूपस्य गोचरः। एवस्तु विषयो वृद्धनियमेऽयं यदा भवेतू ॥ इति ॥ तत्र वार्तिके नियोगशब्दो न व्यापारवचनः, तवैव ममैवेत्यादावपि पररूपापत्तेः । स्पष्टचैतत् प्रौढमनोरमायाम् । *पार्थतरेति । पार्थत्वावच्छिन्नप्रतियोगितानिरूपकभेदाश्रयवृत्तित्वाभाववद्ध- R निपातार्थविचारः। ७१ । तिः, द्वाभ्यां निषेधाभ्यां प्रकृतार्थदाढयं वोधनेनाव्यभिचरितपाण्डुरत्वगुण- वान् शङ्ख इति बोध इत्ययोगव्यवच्छेदः । न तु नील इति हि फलति । क्रि- यायां, नीलं सरोज भवत्येव । अत्यन्तोऽतिशयितोऽयोगः सम्वन्धाभाव- स्तस्य व्यवच्छेदोऽभावः । तथा च कदाचिन्नीलत्वगुणवदभिन्नं यत्सरोज तत्कर्तृका सत्तेति वोधः। कदाचिदन्याशगुणसंयुक्तमित्यपि गम्यते इत्य- त्यन्तायोगव्यवच्छेदः'। कचिदेवशब्दं विनापि नियमप्रतीतिः। तदुक्तं भाष्ये-अभक्ष्यो ग्राम्य कुक्कुट इत्युक्ते गम्यते एतत् आरण्यो भक्ष्य इति । 'सर्व वाक्यं सार्वधारणम्' इति न्यायात् । आलङ्कारिका अपि परिसङ्ख्या- ऽलङ्कारप्रकरणे प्रमाणान्तरेण प्राप्तस्यैव वस्तुनः पुनः शब्देन प्रतिपादनं प्रयो- जनान्तराभावात् स्वतुल्यान्यव्यवच्छेदं गमयतोति । भागवतेऽपि- लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोन हि तत्र चोदना । व्यवस्थितिस्तेषु विवाहयज्ञ- सुराग्रहैरासु निवृत्तिरिष्टा ।। इति । व्यवायो मैथुनम् , आमिषं मत्स्यादि, मद्यम्-एतेषां सेवा जन्तोः प्राणि- । नुर्धरत्ववान पार्थ इतिशाब्दबोधोऽत्रावसेयः। *द्वाभ्यां निषेधाभ्यामिति । अभा. वाभावस्य प्रतियोगित्वरूपत्वेन पाण्डुरत्वसम्बन्धाभावाभाववान् शङ्ख हति बोधः अभावस्य निषेधेन पाण्डुरत्वसम्बन्धः शङ्खे बोध्यत इति भावः । *नीलं सरोजमिति । सामानाधिकरण्येन तदभावानधिकरणं यत् सरोज नील- भवनसमभिव्याहृतं तत्प्रकारकेत्यर्थः। नालाभिन्नसरोजामिनकतकमवधारणविशेष्यं भवनमिति बोधः। *तदुक्तं भाष्ये । पल्पशान्हिके इति शेषः । *गम्यत इति । भक्ष्यभिन्नतया ग्राम्य एव कुक्कुटः प्रतीयते। तथाहि-भक्षणम्-क्षुन्निवतको व्यापारविशेषः । क्षुद्धि- वृत्तिश्च रागतो ग्राम्यतदितरभक्षणेन च भवितुमर्हति इतिप्रकृतवाक्यं व्यर्थीभूय निय- मयति ग्राम्य एवाभक्ष्य इति तेन इतरभक्षणं फलति । एवं "पञ्च पञ्च नखा भक्ष्या इत्यनेनाप्युक्तदिशा भक्ष्यनियमेनाभक्ष्यप्रतिषेधसिव्या शशकादिपञ्चकेतरपञ्चनखभक्ष. णाभावः फलतीति दिक् । आलङ्कारिका:-मम्मटादयः। *व्यवाय -सुन्दरीगमनम् । *आमिष*-मांसम् । *मद्यसेवेति। तथाच तैत्तिरीयब्राह्मणम्-'ब्राह्मणं परिक्रीणी. यादुच्छेषणस्य पातारं यदि ब्राह्मणं न विन्देत वल्मीश्वपायामवनमयेत् सा तत्र ।
७२ परमलघुमञ्जूषायाम् । मात्रस्य नित्यारागतः प्राप्ताः। अतस्तत्र चोदना विधिर्नास्ति । नन्वेवम् "ऋतौ भाामुपेयात्” “हुतशेषम्भक्ष येत्” 'सौत्रामण्यां सुराग्रहान् गृह्णाति" इत्ये- तेषां वैयर्थ्यम्। भार्या विवाहिताम् । तत्राह व्यवस्थितिरिति । तेषु पुनः प्राप- रणमित्यर्थः । नियमस्यान्यनिवृत्तिफलकत्वादाह आसु निवृत्तिरिष्टेति । अ. न्येष्विति शेषः । तदुक्तम्- विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । - प्रायश्चित्तिः इति । ब्राह्मणो हि आहुत्या उच्छेषणस्य पाता । अकरणे प्रत्यवायाभा वरूपयित्यत्वाभावादाह-रागत इति । स्वभावत इत्यर्थः । न हि कश्चित्प्राणी नुत्प्रतिघातमन्तरेण प्राणधारणे समर्थो भवति । अतो येन केनाप्युपायेन प्राणधारणे तस्य प्रवृत्तिः स्वभावसिद्धति भावः । *ऋतौ भार्यामिति । त्रिविधोऽत्र नियमः तावेव, भार्यामेव, उपेयादेवैति माये गमननिवृत्तिःफलम् । द्वितीये-भाय्येतरस्त्रीगमननिवृत्तिः । अन्त्ये-उपगमना. भावनिवृत्तिश्च फलं बोध्यम् । अत एव गृहस्थस्यानृतौ अनुपगमने ब्रह्मचर्यमुक्तम् । अविवाहितागमने, ऋतौ भार्यागमनाभावे प्रायश्चित्तं प्रोक्तं स्मृतिषु ॥ एतेन ऋतावित्यत्र नियम एव युक्तो,न परिसंख्येति न्यायविदां चोक्तिः परास्ते. ति बोध्यम् । *आसुनिवृत्तिरिति । रागतो नित्यप्राशत्वात् नैते नियमविधयः, पाक्षियां हि प्राप्तौ नियमो भवति, किन्तु प्राप्तस्याप्यर्थस्य पुनः प्रापणमनर्थकमित्यपूर्वविधिद्वारा अन्यनिवृत्तिः फलति तदाह-*आसुनिवृत्तिरिति । भाष्येऽपि नियमपदेनाभ्यनुज्ञा । ऋतुस्नाता तु यो मार्यो सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां पच्यते- इतिदोषश्रवणन्तु मनसि कामे सत्यपि तस्यां द्वेषादिनाऽनुपगमे बोध्यम् । वि. धिरत्यन्तमप्रासाविति । यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थत्वेन यो विधि: सोऽपूर्वविधिः । यथा-स्वर्गकामो यजेत 'अहरहः सन्ध्यामुपासीत् , इत्यादौ याग- स्य सन्ध्योपासनस्य च प्रमाणान्तरेण प्राधल्य विधानादनयोविधित्वम् । नियमः पाक्षिके सतीति । यो विधिः पक्षे प्रातमर्थ नियमति स नियमविधिः। यथा-'ब्रोहीनवहन्तिः 'समे यजति' इत्यादौ तुषविमोकल्यावधातेन नखविदलनेन च सम्भवायदा नखविदलनेनैव तुषविमोकेच्छा तदाऽवघातस्थाप्राप्सत्वात्पाक्षिकस्य तस्य विधानात् , एवं यदा विषमदेश एवं सौकर्यादिना यागकरणेच्छा तदाऽप्रातत्वा. त्याक्षिकस्य समदेशाधिकरणकत्वस्य विधानाचानयोनियमत्वम् । अवघातेनैव तण्डुल. निष्पत्तावपूर्वोत्पत्ति तु नखविदलनेन,समदेशाधिकरणकयागेनैवापूर्वोत्पत्तिनतु विषमदे- निपातार्थविचारः। तत्र चान्यत्र च प्राप्तौ परिसङ्घचेति गीयते ।। इति । स्वर्गकामोऽश्वमेधेन यजेतेति विधिः । क्षुत्प्रतिघातो यद्यपि शशकादि. मांसः श्वादिमांसैश्च भवति; तथापि शशकादिमांसैरेव कर्त्तव्य इति परिस- ङ्यायते 'पञ्च पञ्च नखा भक्ष्या' इत्यनेन नखविदलना वहननाभ्यां बाहेनि- स्तुषीकरणं प्राप्तम् , तत्रावहनेन निस्तुपी करणं पुण्य जनकमिति 'ब्रोहीनबह- न्ति'इत्यनेन नियन्यते। यद्यपि परिसङ्ख्यायां नियमे च स्वार्थहानिः प्राप्तवा- धःपरार्थकल्पना चेति दोषत्रयम् , तथाप्यनन्यगत्या स्वीक्रियते इति वृद्धाः । 'पञ्च पञ्च नखा' इत्यस्य नियमत्वेन भाष्ये व्यवहृतत्वात् अन्यनिवृत्तिरूप- फलेनैक्याच्च । नियमपदेन परिसङ्ख्याऽपि व्याकरणे गृह्यत इति संक्षेपः । इति निपातार्थविचारः । - - शाधिकरणकयागेनेति नियम्यते । *तन चान्यन्त्र च प्राप्ताविति । उभयस्य युगपत्प्राप्तौ इतरनिवृत्तिफलको विधिः परिसंख्याविधिः । यथा-'पञ्च पञ्च नखा भक्ष्या इति । अत्र क्षुन्निवृत्यर्थ रागात् शाख. व्यापारमन्तरेणैव भक्षणं प्रायम् , तञ्च भक्षणं पञ्चसु पञ्चनखेषु अन्यत्र च श्चमांसादिषु युगपत् प्राप्तम् । तत्र पञ्चनखभक्षणेनैव क्षुन्निवृत्तिः कार्या इत्यनेन परिसंख्यायते । अप- ञ्चनखभक्षणन्तु निवर्तते इति परिसंख्याविधिरयम्बोध्यः । *स्वर्गकाम इति । अश्वमेधेनेत्यत्राभेदस्तृतीयार्थो; यागान्वयी भावना च लि. अर्थः। तस्यां च यागादिः करणतयान्वेति। तेन-अश्वमेधाभिन्नयागकरणिका स्वर्गका. मिका भावनेतिबोधः । *वाहीनवहन्तीति । अयं च पुरोडाशप्रकरणे पठ्यते । तत्रावघातस्तण्डुलनिष्प- त्यर्थः। सा च नखविदलनेनापि भवितुमहंतीति तत्र नियमः क्रियते अवघातजन्य. तण्डुलनिष्पत्या पुरोडाशभरणमेवाभ्युदयकारि भवति, नान्यथेति तदेतदेवानुवदति- *तनावहननेत्यादि। ननु परिसंख्यायां दोषत्रयसत्वेऽपि नियमे दोषत्रयोक्तिः कथं संगच्छते । पाक्षि- काप्राप्तिकाप्राप्तांशपरिपूरणफलो नियमः । अन्यनिवृत्तिफला च परिसंख्येतिद्वयोर्भेदा- दत आह-*पञ्च पञ्च नखेति* । अप्राक्षांशपरिपूरणरूपफलबोधनद्वारार्थान्यनिवृत्तेनि- यमेऽपि सत्वात् द्वयोरभेदादुभयत्र दोषत्रयोकि सङ्गतेति भावः । *अन्यनिवृत्तिरूपफलेनैक्याञ्चेति । अन्यनिवृत्तिरूपनियमसाधम्यणात्र शास्त्रे परिसंख्याया अपि नियमशब्देन व्यवहारादिति भावः । इत्यर्थदीपिकायां निपातविचारः॥
परमलघुमञ्जूषायाम् । अथ दशलकारादेशार्थाः। यद्यपि लकाराणामेवार्थनिरूपणंतार्किकैः कृतम् ; तथापि 'उच्चारित एक शब्दोऽर्थप्रत्यायको नानुच्चारित' इति भाष्याल्लोके तथैवानुभवाच्च तदादेशति- डामर्थो निरूप्यते । “वर्तमाने लट्” इत्यादिविधायक "ल: कर्मणि"इतिश. क्तिग्राहकसूत्राणामादेशार्थं स्थानिन्यारोप्य प्रवृत्तिः । तत्र सङ्ख्याविशेष- कालविशेष-कारकविशेष-भावा लादेशमात्रस्यार्थाः। तथाहि-लडादेश- स्य वर्तमानकाल:, शबादिसमभिव्याहारे कर्ता, यचिण्समभिव्याहारे भावकम्मणि, उभयसमभिव्याहारे एकत्वादिसङ्ख्या चार्थः । तदाह- फलव्यापारयोस्तत्र फले तब्यक्चिणादयः । RA- ननु लकाराणामेव कांद्यर्थेषु शक्ति, लत्वस्यावच्छेदकत्वे लाघवात् । न तु तिवादीनां । शक्ततावच्छेदकगौरवादत आह-*लकाराणामेवेति । *उच्चारित इति । लोके ह्यादेशा एव प्रयुज्यन्त इति तत एवार्थबोधदर्शनात्ते. पामर्थविचार एव ज्यायानिति भावः । अत्र यत्किञ्चिदर्थविषयकशाब्दबोधं प्रति उच्चारितशब्दनिष्ठवृत्तिज्ञानाधीनोपस्थितिः कारणमिति कार्यकारणभावोऽवसेयः । अत एव रामान रमाः इत्यादौ नकारविसर्गयोरेव कर्मत्वबोधनं न शसादेरिति भावः। *तथैवानुभवादिति । अन्वयव्यतिरेकाम्यामेव जन्यजनकभावस्य निर्णयदिति ता- त्पर्यम् । ननु "लः कर्मणि च" इत्यादिना लकाराणामेवार्थनिरूपणादादेशतिडामर्था- प्रसिद्धया तन्निरूपणमयुक्तमत आह-वर्तमाने लडित्यादिना । बोधकत्वरूपा तिबा. धादेशगता कादिशक्ति तत्स्थानित्वेन कल्पितेषु लकारेषु आरोप्य "लः कर्मणि" इत्यादिसूत्रप्रवृत्तिरप्युपपादनीयेति भावः । *शबादीति* । अनादिपदेन शत-शान- कान-शप्-कनम्-श-अनादीनां सङ्ग्रहो शेयः । अत्र कार्यकारणभावस्तु-धातुजन्याश्रयनिष्ठप्रकारतानिरूपितव्यापारनिष्ठविशे. व्यताशालिबुद्धित्वावच्छिन्नम्प्रति धातूत्तरशबादिग्रहः कोरणम् । तथा आश्रयनिष्ठप्र. कारतानिरूपितफलनिष्ठविशेष्यताशालिबुद्धिम्प्रति धातूत्तरतङ्-यक्-चिणादन्यतमः ग्रहः कारणमिति च बोध्यः । *समभिव्याहार इति । यत्किञ्चिद्विशिष्टत्वं समभिव्याहृतत्वम् । वैशिष्टयञ्च- स्वनियतोत्तरत्वम् , स्वनियतपूर्वत्वम्, एतदन्यतरसम्बन्धेन । लक्षणसमन्वयस्तु रूप. ष्टत्वात्स्वयमेवोह्यः। *फलव्यापारयोरिति । वन-'फलव्यापारयोर्मध्ये तड्यचिणादयः फले आश्रय.
लादेशार्थविचारः। व्यापारे शपश्नमाद्यास्तु द्योतयन्त्याश्रयान्वयम् ।। फलव्यापारौ तु धात्वर्थावित्युक्तमेव । तत्र तिङ्समभिव्याहारे तदर्थ. सङ्ख्या तदर्थकारके विशेषणम् । कालस्तु व्यापारे । तदाह- फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः । फले प्रधान व्यापारस्तिर्थस्तु विशेषणम् ।। तिर्थः कर्ता व्यापारे, कर्म च फले विशेषणम् । "क्रियाप्रधानमाख्यात- - । स्येप्सिततमस्यान्वयं द्योतयन्ति, शबादयस्तु व्यापारे आश्रयस्य प्रथमान्तार्थस्थान न्वयं धोतयन्तीति यावत् । तदर्थसंख्येति । तिङर्थः-तिर्थकारक कर्तरि कर्मणि चान्वेतीति भावः । *कालस्विति । यद्यपि 'समानाभिधानश्रुतेः कालोऽपि कारक एवान्वेतुमर्हति, तथापि अतीते पाकेकर्तरि च वर्तमाने पचतीत्यस्य पाके वर्तमाने कतरि चातीतेऽपाक्षीदित्यादिप्रयोगापत्तिभिया कालस्य व्यापारेऽन्वयः स्वीकर्त. व्येति भावः ॥ *फलव्यापारयोरिति । तत्रधातुरित्यस्य 'स्मृताः इति न विशेषणम् , विभिन्न वचनान्तोपस्थापितत्वात् । विशेष्यवाचक्रपदोत्तरविमक्तितात्पर्यविषयसंख्याविरुद्ध. संख्याया अविवक्षायां विशेष्यविशेषणवाचक्रपदयोः समानवचनकत्वनियमात् । अत एव 'नीलो घटाः इत्यादेनं साधुत्वम् । धातूनां फलब्यापारयोः शक्तिः, तिङ:-आश्रये, नाम-फलाश्रये व्यापाराश्रय चेत्यर्थः। फलव्यापारयोर्मध्ये फलं विशेषणम् । व्यापारः प्रधानम् । तिङर्थोऽपि व्यापारे विशेषणमिति कारिकार्थः । *क्रियाप्रधानमिति । "भूवादयो धातवः इति सूत्रस्थक्रिया प्राधान्यबोधकमा- व्यात् "क्रियाप्रधानमाख्यातम्" इतिनिरूकाञ्चकर्माख्याते आख्याते क्रियाख्याते आ- ख्याते च सर्वत्र व्यापारमुख्यविशेष्यक एवं बोधः । यथा- प्रामं गच्छति चैत्र इत्यत्र ग्रामाभिन्न कर्मनिष्ठोत्तरदेशसंयोगानुकूलः एकत्वावच्छिन्नचैत्राभिन्नकर्तृको वर्तमान- कालिको व्यापारः। ग्रामो गम्यते चैत्रेण इत्यादौ चैत्राभिन्नकर्तजन्यो वर्तमान. कालिक एकत्वावच्छिन्नो ग्रामानिन्नकर्मनिष्ठो यः संयोगस्तदनुकूलो व्यापार इति च प्राच मते शाब्दबोधः। अत एव "फले प्रधान व्यापार स्तिर्थस्तु विशेषणम्" इत्यपि सङ्गच्छते। नव्यातु-कर्तृरूपाख्याते व्यापारमुख्यविशेष्यकबोधः । कर्माख्याते तु फलमु. ख्यविशेष्यको बोधः स्वीकुर्वन्ति। ननु तहि "फले प्रधान व्यापारः तिर्थस्तु विशेषण- म्" इति कथं सङ्गच्छते इतिचेत् ? तत्र व्यापारस्य प्राधान्येन बोधनं काख्याताभि- प्रायेणेति गृहाण । अन्ये तु "फलेप्रधानं व्यापार, इत्यत्र उभयपदच्छेदः, प्रधानम् अप्रधानञ्चे. ।
७६ परमलघुमजूषायाम्- म्” इति यस्कोक्तौ क्रियापदं करणव्युत्पत्त्या व्यापारपरं कर्मव्युत्पत्त्या फल- परमिति बोध्यम् । तथाच ग्रामं गच्छति चैत्र इत्यत्रैकत्वावच्छिन्नचैत्राभि- नकर्तृको वर्तमानकालिको प्रामाभिन्नकर्मनिष्ठो यस्संयोगः तदनुकूलो व्या- पारः, ग्रामो गम्यते मैत्रेणेत्यत्र तु मैत्रकर्तृकवर्तमानकालिकव्यापारजन्यो प्रामाभिन्नकर्मनिष्ठः संयोग इति च बोधः । वर्तमानकालत्वं च प्रारब्धाप- रिसमाप्तक्रियोपलक्षितत्वम् । लिटितङस्तु भूतानद्यतनकाल: परोक्षत्वं चाधिकोऽर्थः । शेषं लड्व (१) त्। परोक्षत्वं च(२)कारके विशेषणंनतु क्रियायाम् , तस्या(३) प्रतीन्द्रियत्वेन - । । त्याहुः । तेन नव्यानां मते कारिकार्थोऽपि संगत इति बोध्यम् । *एकत्वावच्छिन्नेति । अत्रावच्छिन्नत्वम्-आश्रयत्वम् , तच्च समवायसंसर्गुण बोध्यम् । वर्तमानकालत्वञ्चेति । प्रयोगविशिष्टत्वं वर्तमानत्वम् । वैशिष्ट्यञ्च स्वा. धिकरणत्वम् ' स्वघटकधातुबोध्यत्वेन गत्पर्यविषयीभूतक्रियाकलापान्तर्गताथक्रियाप्रा. गभावानधिकरणत्वम् , स्वघटकधातुबोध्यत्वेन तात्पर्यविषयीभूत क्रियाकलापान्तर्गता. न्त्यक्रियाध्वंसानधिकरणत्वम्, एतत्रितयसम्बन्धेन। द्वितीयसम्बन्धनिवेशात् भविष्य. काले वर्तमानलक्षणस्य नातिव्याप्तिः। तृतीयसम्बन्धदानेन भूतकाले वर्तमानलक्ष. णस्य नातिव्याप्तिरिति ध्येयम् । *प्रारब्धेति । प्रारब्धा च अपरिसमाता च या क्रिया ताहानियोपलक्षितकालत्वमित्यर्थः । क्रियोपलक्षितेति । क्रियाश्रयत्वमि. त्यर्थः । *भूतानद्यतनेति* । "भूते” इत्यधिकाराद्भूते इति "अनद्यतने" इत्यधि- कारात् अनद्यतने इति च द्वयमपि “परोक्षेलिट" इत्यत्रानुवर्तते । 'अतीतायाः रात्रेः पश्चार्धेन आगामिन्याः पूर्वार्दैन च सहितः कालोऽद्यतनस्तद्भिन्नोऽनद्यतनः । *परोक्षत्वञ्चेतिभा अन्न व्यापाराविष्टानां क्रियानुकूलसाधनानामेव पारोक्ष्यं विव. क्षितम् । तेन अतीतानद्यतनव्यापाराविष्टपरोक्षकर्तृकक्रियावृत्ताद्धातोलिट् इति “परोक्षे लिट् इति सूत्रस्यार्थः । *शेषमिति* । संख्याकर्तृकर्मरूपा अर्था यथा लटस्तथा लिटोऽपीत्यर्थः। । -- (१) शेष लड्वदिति । शेष संख्याकारकं लड्वदित्यर्थः । एवमुत्तरत्र सर्वत्र बोध्यम् । (२) कारके, क्रियाविष्टे इति शेषः । तेन गमनादिक्रियानाविष्टस्य देवदत्तस्य दर्शनेऽपि "न देवदत्तो जगाम" इत्यादिप्रयोगानुपपत्तिरिति बोध्यम् । (३) अतीन्द्रियत्वेनेति । न च तस्या आतीन्द्रियत्वे 'पश्य मृगो धावति' इत्यत्र धावनस्य दर्शनविषयत्वानुपपत्तिरिति वाच्यम् । तत्र दृशेनिसामान्यार्थकत्वाङ्गीका.
७७ लादेशार्थविचारः। लिट्सूत्रे भाष्ये प्रतिपादनात् व्यभिचाराभावात् । कृभ्वाद्यनुप्रयोगस्थलेश्व- सांक्रियासामान्यमर्थः। आमप्रकृतेस्तु तत्तक्रियाविशेषः । सामान्य विशे- षयोरभेदान्वयः । अकर्मकप्रकृतिकामन्तानुप्रयुक्तकृभ्वसामकर्मिकैव क्रिया। वस्तुतस्तु अनुप्रयुक्तानां कृभ्वसां फलशून्यक्रियासामान्य वाचकत्वमेव । सकर्मकाकर्मकत्वव्यवहारस्तु आम्प्रकृतिभूतधातारेवेति निष्कर्पः । एवञ्च एधाञ्चक्रे चैत्र इत्यत्र एकत्वावच्छिन्नपरोक्षत्वावच्छिन्नचैत्रकर्तृका भूतान- द्यतनकालाधिकरणिका वृद्धयभिन्ना क्रियेति बोधः। परोक्षत्वं च(१)साक्षात्कृ- तमित्येताहशविषयताशालिज्ञानाविषयत्वम् । भूतानद्यतनत्वं च(२) अद्यतना- लिट्सने भाष्ये इति । तत्र हि-"क्रिया नामेयमत्यन्तापरदृष्टा पूर्वापरीभूता. वयवा न शक्या पिण्डीभूता निदर्शयितुम्" इत्युक्तम् । अनेन भाष्येण क्रियाया अती- न्द्रियत्वं सुस्पष्टमेव लभ्यतेनिन्वेवं तहि परोक्षे इति व्यर्थमितिचेत् , न पिण्डीभूतायाः क्रियायाः निदर्शयितुमशक्यत्वेऽपि अवयवशः साक्षात्करोमीति प्रतीतिविषयत्व. सम्भवात् । अन्यथा 'पक्ष्य मृगो धावति' इत्यत्र तस्याः दर्शनकर्मता न स्यादिति भावः । *व्यभिचाराभावादिति। अतीन्द्रियस्य पदार्थस्य परमाणोरिव बहिरिन्द्रिय जन्यप्रत्यक्षस्यायोग्यत्वात् सर्वत्र परोक्षताया एवं क्रियायाः सत्वात् "सम्भवव्यभिचा. राभ्यां स्याद्विशेषणमर्थवत् इति न्यायात् व्यभिचाराभावेन न क्रियायां विशेषणमि- तितात्पर्यम्। *वभ्वादीति । "आम्प्रत्ययवत्कृतोऽनुप्रयोगस्य इति सूत्रे कृग्रहणेन "कृञ्चानुप्रयुज्यते लिटि' इति सूत्रे प्रत्याहाराश्रयणात् 'कृ-भू-अस्' इत्यनुप्रयोगो लभ्यत इति भावः । *फलशून्यक्रियेति । व्यापारमात्रमित्यर्थः । *साक्षात्कृतमित्येतादृशेति । साक्षात्कृतमिति विशेषणेन 'सुप्तोऽहं किल विल- रात् । शीघं शीघ्र देशान्तरसंयोगदर्शनेन च धावनमनुमीयते इति तस्यानुमितिविष- यत्वमेव पश्य मृगो धावतीत्यत्र बुध्यते इति भावः । (१) साक्षात्कृतमित्येतादृशविषयताशालिज्ञानाविषयत्वमिति । अनेन "सुतो. ऽहं किल विललाप" इत्यादौ स्वकृतविलापस्य स्वप्रत्यक्षत्वेऽपि परोक्षत्वमुपपन्नम् । तत्काले साक्षात्करोमि इत्येवं साक्षिभास्यत्वेऽपि निद्रादिदोषात् तदंशे संस्कारानुद. येन साक्षात्कृतत्वावच्छिन्नविषयताशालि लिज्ञानाविषयत्वस्य सुवचत्वात् । अत एव सा. क्षात्करोमि इति त्यक्त्वा साक्षात्कृतमित्युपात्तमिति भावः । (२) अद्यतनाष्टप्रहरीव्यतिरिक्तत्वे सत्तीति । अद्यतनानद्यतनविभागश्च त्रेधा । अतीताया रात्रे पश्चाधेनार्गामिन्याः पूर्वार्धन च सहितो दिवसोऽद्यतनस्तशिन्नोऽनध- तन इत्येक प्रकार: । अतीताया रात्रेः अन्त्यतृतीयभागेन आगामिन्या आद्यतृतीय. .
परमल घुमञ्जूषायाम् । टप्रहरीव्यतिरिक्तत्वे सति भूतत्वम् । लुडादेशस्य तु भविष्यदनद्यतनार्थोऽ. धिकः । शेषं लड्वत् । भविष्यत्त्वं च वर्तमानप्रागभावप्रतियोगिक्रियोपल- क्षितत्वम् । तिङस्तु भविष्यत्सामान्यमर्थः । लेतिङस्तु विध्यादिरर्थः। “छन्दसि लिङर्थे लेट्' इति सूत्रात् । लट्प्रक्रियातो लेटोऽडाटाविति विशे- षः । भवाति भवतीतिप्रयोगदर्शनात् । लोतिङस्तु विध्यादिरर्थः। तत्राधोष्टं (१)सत्कारपूर्वको व्यापारः, आगच्छतु भवान् जलं गृह्णातु इत्यादौ । सम्प्र. श्नोऽनुमतिः, गच्छति चेत् भवान् गच्छत्वित्यादौ । लङादेशस्य तु भूतान- द्यतनत्वमधिकोऽर्थः । शेषं लड्वत् । लिङादेशस्य तु विध्यादिरर्थः । तत्र वि. ध्यादिचतुष्टयानुस्यूतप्रवर्त्तनात्वेन चतुर्णां वाच्यता लाधवात् । तदुक्तं हरिणा- अस्ति प्रवर्तनारूपमनुस्यूतं चतुर्वपि । तत्रैव लिङ विधातव्यः किं भेदस्य विवक्षया ।। इति । , लाप इत्यादौ स्वविलापल्य स्वप्रत्यक्षत्वेऽपि निद्रादिदोषवशात् संस्काराजननेन न परोक्षत्वानुपपत्तिरिति भावः । *शेपं लड्वदिति । यथा लप्रयोगे संख्याकालकार- काणां विशेष्यविशेषणमावस्तथाऽत्रापि ज्ञेय इति तात्पर्यम् । *क्रियोपलक्षितत्वमिति । क्रियाधिकरणत्वमित्यर्थः । लट्प्रक्रियेति । साध. नप्रकारो लट् इवेति भावः । लटमपेक्ष्य यो विशेषस्तमाह-लेटोऽडाटाविति । विध्यादिचतुष्टयेति । अत्र विध्यादीनां तत्तद्रूपेण वाच्यतास्वीकारे नानार्थाप- तेः। अतोऽत्र प्रवर्तनात्वेनैव वाच्यता स्वीकर्तव्या लाघवात् । अस्ति चात्र चतुर्वष्य. नुगतत्वेन प्रवर्तनेति भावः । *किम्भेदस्येति। तत्तद्रूपेण पार्थक्यादित्यर्थः । तत्तद्रूपेण शक्तरनङ्गीकारादिति भावः । नन्वेवं तर्हि "विधिनिमन्त्रणामन्त्रणाधीष्ट-" इतिसूत्रे विध्यादीनां ग्रहणं व्यर्थ स्यादिति चेत्, न । प्रवर्तनाया भेदबोधकत्वे न तेषां सार्थक्यात् । अत एव- न्यायव्युत्पादनार्थम्वा प्रपञ्चार्थमथापि वा । - भागद्वयेन च सहितो दिवसोऽद्यतनः, तद्भिन्नोऽनद्यतन इति द्वितीयः। उदयादुदयं यावदधतनः तद्भिन्नोऽनद्यतन इति तृतीयः । अत्र च देशाचाराद् व्यवस्था ज्ञेया। (१) अधीष्टमिति । बहुषु पुस्तकेषु अधीष्ट इति पुंलिङ्गपाठो दृश्यते। तत्र भा. वकान्तादर्शआधज बोध्यः । तत्र भावतान्तस्य सत्कारोऽर्थः, तत्पूर्वको व्यापारश्च अच्प्रत्ययान्तार्थ ७६ लादेशार्थविचारः। प्रवर्तनात्वं च-प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वम् , तच्चेष्टसाध- नत्वस्यैवेति तदेव लिङर्थः । न तु कृतिसाध्यत्वं, तस्य यागादौ लोकत एव लाभादित्यन्यलभ्यत्वात् । न च बलवदनिष्टाननुवन्धित्वं, द्वेषाभावेनान्य- थासिद्धत्वात् , इत्यन्यत्र विस्तरः । लुङादेशस्य तु भूतसामान्यमर्थः । भू- तत्वं च-वर्तमानध्वंसप्रतियोगिक्रियोपलक्षितत्वम् । लङादेशस्य तु क्रियाति. पत्तौ गम्यमानायां हेतुहेतुमद्भावे च गम्यमाने भूतत्वं भविष्यत्त्वञ्चाथः । आपादना तु गम्यमाना । भूते, एधश्चेदलप्स्यत ओदनमपक्ष्यत् । भविष्यति, सुवृष्टिश्चेभविष्यत्सुभिक्षमभविष्यदिति सक्षेपः । अथ नैयायिकानां मते सङ्क्षपाल्लकाराणामों निरूप्यते । तत्र लडा. दिलुङन्ता दश लकाराः । तत्र लकारस्य का कालः सङ्ख्या चेति त्रयोs- र्थाः। तत्र कर्तेति पातञ्जलाः । “ल: कर्मणि च” इति सूत्रे चकारेण कर्तुः प- रामर्शात् । कतृस्थाने व्यापार इति भाट्टाः । यत्न इति नैयायिकाः। युक्तं चै- तत् । व्यापारताद्यपेक्षया लाघवेन यत्नत्वस्यैव शक्यतावच्छेदकत्वात् । श- कतावच्छेदकञ्च लकारसाधारणं लत्वमेव भवतीत्यादौ चादेशेनादेशिनो विध्यादीनामुपादानं चतुर्णामादितः कृतम् ॥ इति हरिणाप्युक्तम् । *तच्चेति । निरुक्तावच्छेदकत्वञ्चेत्यर्थः । *इष्टसाधनत्व. स्यैवेतिका अत्र इष्टत्वच-समभिव्याहतपदोपस्थापितकामनाविषयत्वम्। स्वर्गकामो- यजेत इत्यत्र स्वर्गकामपदोपस्थापितकामनाविपयत्वस्य स्वर्ग सत्वादिष्टत्वं तस्याक्षतम् तेनैव च स्वर्गादीष्टानामनुगम इति बोध्यम् । यजेदित्यादिवाक्याद्यागोबलवदनिष्टान- नुबन्धित्वविशिष्टेष्टसाधनतावानिति वाक्यार्थबोधमभ्युपेत्य इष्टसाधनत्वे बलवदनिष्टा. नुबन्धित्वाविशेषणमभ्युपगच्छतो नैयायिकानाक्षिपति-*नचेत्यादिना । *द्वेषामा. वेनेति । प्रवृत्ति प्रति द्वेषस्य प्रतिबन्धकत्वेन यत्कार्य प्रति यस्य प्रतिबन्धकत्वम् तदभावस्य तत्कार्यम्प्रति कारणत्वं सिध्यतीति भावः। *चकारेणेति । "ल कर्मणि च भावे चाकमकेभ्यः अत्र सूने "कर्मणि च» इत्ये. को योगः, 'भावे चाक केभ्यः, इत्यपरा, तत्रोभयत्रापि “कर्तरि कृत्" इति सूत्रात् च. काराभ्यां कर्तरीत्यनुकृष्यत इति ध्येयम् । व्यापार इति* । मोमांसका भावनात्वेनैव व्यापारे लकाराणां शक्तिमङ्गाकुर्वन्तीति भावः । “यत्न इति । कृतिरित्यर्थः । *व्यापारतापेक्षयेति । तज्जन्यत्वविशिष्टतज्ज. न्यजनकत्वस्यैव व्यापारत्वेन कृतित्वजात्यपेक्षया गौरवान व्यापारे शक्तिरिति नया- । -- । , परमलघुमञ्जूषायाम्- लस्यैव स्मरणादन्वयधीः । आदेशेषु बहुषु शक्तिकल्पने गौरवात् । तदस्म- रणे च शक्तिभ्रमादेवान्वयधीः । 'चैत्रो गन्ता गतो ग्रामः' इत्यादौ सामा- नाधिकरण्यानुरोधेन यथायथं कतकर्मणी द्वाच्ये । नचैवं "लटः शतृशा. नचौ” इत्यनेन शतृशानचोरादेशत्वात्कथं कर्त्तरि शक्तिः। आदेशिशक्त्या निर्वाह एवादेशशक्त्यकल्पनात् । चैत्रः पचन्नित्यादौ सामानाधिकरण्यानु- रोधादादेशिशक्त्याऽनिर्वाहादत्रादेशेऽपि शक्तिः । इयांस्तु विशेष:-लत्वेन यत्ने शक्तिः, आत्मनेपदत्वेन फले । 'मैत्रेण ग- म्यते ग्राम' इत्यादौ मैत्रवृत्तिकृतिजन्यगमनजन्यफलशाली ग्राम इत्यन्वय. बोधात् । कृतिश्चात्र तृतीयार्थः । जन्यत्वं 'सर्गः। मैत्रः कृतौ विशेषणम् , सा च गमने, तच्च फले, तच्च प्रामे । 'ग्रामं गच्छति मैत्र' इत्यत्र तु ग्रामवृ- त्तिफलजनकगमनानुकूलकृतिमान्मन्न इति बोधः । फलं च द्वितीयाथैः । जनकत्वं संसर्गः । ग्रामश्चात्र फले विशेषणम् , तद् गमने, तच्च कृतौ, सा मैत्रे इति विशेष्यविशेषणभावभेदेनैव कर्मकर्तृस्थलीयबोधयोर्विशेषः । ता-. वन्तः पदार्थास्तूभयत्रैव तुल्याः । मैत्रेण ज्ञायते इष्यते क्रियते घट इत्यादौ तु वृत्तिस्तृतीयाया, विषयता त्वाख्यातस्यार्थः । मैत्रवृत्तिज्ञानविषयो घट इति बोधः । घटं जानाति मैत्र इत्यादौ तु विषयता द्वितीयाया, आश्रयत्वं चाख्यातस्यार्थः। घटविषयकज्ञानाश्रयो मैत्र इति बोधः। - यिकानां तात्पर्यम् । एवमपि न लकाराणां कर्तरि शक्तिः । कर्तृत्वस्य शक्यतावच्छेद- कत्वेन गौरवात् । एवं वैयाकरणानाम्-आख्यातपदजन्यशाब्दबुद्धित्वावच्छिन्नम्प्र. तिआश्रयतात्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नाश्रयत्वप्रकारकोपस्थिते का. रणत्वम् । आश्रयतात्वनिष्टप्रकारतानिरूपितविशेष्यत्वावच्छिन्नाश्रयत्वप्रकारकोप. स्थिति प्रति ताशाश्रयत्वप्रकारकाश्रयनिष्ठशक्तिज्ञानस्य कारणत्वं वक्तव्यमिति गौर. वम् । नैयायिकानां तु कृतित्वप्रकारकोपस्थितिः कृतिनिष्टकाक्तिज्ञानञ्च शाब्दबोधो. पस्थित्योः कारणमिति लाधवम् ॥ *तदस्मरण इति । तस्य स्थानिनो लकारस्य स्मरणाभावे इत्यर्थः। एवञ्चा. तिव्याप्त्वादिरूपेणैव शक्तिश्रमादन्वयबोध इति व्यवस्था। *आत्मनेपदत्वेनेति । अन्यूनानतिप्रसक्तधर्मस्यैवावच्छेदकत्वनियमेन आत्मने. पदत्वस्य तथात्वात् । तत्वञ्च-पाणिनीयसङ्केतसम्बन्धेनात्मनेपदवत्वमित्यनुगम इति यावत् । *मैत्रवृत्तीति । कर्तृकर्माख्याते शाब्दबोधप्रकारोऽयमिति भावः।
लादेशार्थविचारः। कालश्चातीतवर्तमानानागतात्मा यथायथं लडादेरर्थः। लटो भवती. त्यादौ वर्तमानत्वं, लङ्लुङ्लिटाम् अभवत् अभूत् बभूवेत्यादौ भूतकालः, लुङ्लुटोर्भविता भविष्यतीत्यादौ भविष्यत्कालः । लिङ्लोड्लेटां भवेत भवतु आग्नेयोऽष्टाकपालो भवतीत्यादौ विधिः। सङ्ख्या च केवलार्थः । लेटस्तु छन्दस्येव प्रयोगः । तत्र दीर्घत्वमपि विकल्पेन भवति, भवा- तीति दर्शनात् । तत्र व्यापारादिबोधकेन लटा वर्तमानत्वं व्यापारादा- वेव बोध्यते । पचतीत्यादितो वर्तमानपाकानुकूलव्यापारवानिति बोधात् । एवमन्यत्रापि। व्यापारबोधकाख्यातजन्यवर्तमानत्वप्रकारबोधे आख्यातजन्यव्यापा- रोपस्थिथेहेतुत्वकल्पनान्नातिप्रसङ्गः । व्यापाराबोधकज्ञाधात्वादिसमभिव्याहृताख्यातजन्यवर्तमानत्वप्रकार- कबोधे तु तादृशधातुजन्योपस्थितिहेतुः । कार्यताकारणतावच्छेदिका च प्र- त्यासत्त्या विषयतैवेति नातिप्रसङ्गः । जानाति इच्छति यतते इत्यादौ वर्त- मानत्वाश्रयज्ञानाश्रयत्वादिबोधस्यैवानुभविकत्वात् । तत्र लटा शक्त्या वर्तमानत्वं लक्षणयाऽऽश्रयत्वं बोध्यत इति विशेषः। लटा स्वाधिकरणकालोपाधिस्पन्द एव वर्तमानः प्रत्याय्यते। वर्तमानसा- मीप्ये विहितेन तु स्वानधिकरणसमीपवत्तॊ ताशकालः। तत्रापि शक्ति- लक्षणा वेत्यन्यदेतत् । । । *व्यापारादावेवेति । आख्यातेनोपस्थाप्यकृतिरूपव्यापारे इत्यर्थः, न तु धात्वर्थ- व्यापारे पञ्चधात्वर्थव्यापारस्याग्निसंयोगरूपस्य सत्वे पुरुषयत्नस्य चासत्वेऽयं न पच- तीतिप्रयोगात् । *नातिप्रसङ्ग इति । अख्यातार्थ व्यापारान्वयबोधककार्यकारण- भावस्य धात्वर्थव्यापारेऽप्रसक्त्या न तत्र वर्तमानकालान्वय इत्याशयः । विषयत. वेति । कार्यताकारणतावच्छेदकसम्बन्धी विषयतारूप इति भावः। अन्यथा कालिकादिसम्बन्धेन कारणस्थान्यत्रापि सत्वात् वर्तमानत्वप्रकारकबोधा. पत्तेः। *वर्तमानसामीप्य इति। लट्प्रयोगाधिकरणसमीपवर्ती कालो भूतभविष्य. द्रुपः, तदुपलक्षितव्यापार इत्यर्थः । अत्रेदम्बोध्यम्-वर्तमानसमीप्ये विहितलटो वर्त- मानसामीप्यमर्थः। तच्च द्विविधम्-स्वप्रयोगाधिकरणक्षणाव्यवहितोत्तरकालावच्छे. चत्वम् , स्वप्रयोगाधिकरणक्षणाव्यवहित प्राक्कालावच्यछेत्वञ्च । तच्च भूतभविष्य. कालयोरेव । अव्यवहितत्वञ्च-स्वध्वंसाधिकरणसमबध्वंसानधिकरणत्वे सति प्रा- ६५० म० ८२ । परमलघुमजूषायाम्- नन्वेकदोपस्थितयोः कृतिवर्तमानत्वयोः कथं मिथोऽन्वयः । तत्पदज. न्यशाब्दबोधे पदान्तरजन्योपस्थितेहेतुत्वात् । कार्यतावच्छेदिका च प्रत्या. सत्तिः प्रकारता । कारणतावच्छेदिका च विशेष्यतेति। अन्यथा हरिपदार्थ. योः, दण्डेनेत्यादौ च करणत्वैकत्वयोमिथोऽन्वयापत्तेः। मैवम् । तत्तत्प- दान्यत्वस्योक्तव्युत्पत्तौ प्रवेशात् । कथमन्यथैवकारार्थयोरन्ययोगव्यवच्छे. दयोमिथोऽन्वयः। घटो नश्यतीत्यादौ वर्तमानोत्पत्तिकत्वं प्रतियोगित्वं च लडर्थः । आद्यं नाशे प्रकारः, द्वितीयं घटे प्रकारः । वर्तमानोत्पत्तिकनाशप्रतियोगी घट इति बोधस्यानुभविकत्वात् । अत्र च वृत्तिद्वयस्य युगपद्बोधकत्वं सर्वैरेषितव्य- म् । तादृशोत्पत्तिकत्वप्रतियोगित्वयोरर्थयोर्युगपदेव बोधात् । नच तादृशो- त्पत्तिकत्वमेवार्थोऽस्तु । धात्वर्थस्य नाशस्य घटे प्रातिपदिकार्थे साक्षादन्व- यासम्भवात् । न च प्रतियोगित्वमेवार्थोऽस्त्विति वाच्यम् । चिरनष्टेऽपि नश्यतीति प्रसङ्गात् । एतेनात्र वर्तमानत्वमेवार्थो नोत्पत्तिरित्यपास्तम् । केचित्तु लत्वमेवात्र प्रतियोगित्वस्य वृत्त्यवच्छेदकं लटत्वन्तु तादृशो- त्पत्तिकत्वस्य । एकधर्मावच्छिन्नवृत्तिद्वयस्यैवन युगपद्बोधकत्वम् । अन्यथा दण्डेनेत्यादौ करणत्वैकत्वयोर्बोधो न स्यादित्याहुः । अन्ये तु नश्यतीत्यादौ लटा नाशसामग्रचेव बोध्यते। तेन न चिरनष्ट नश्यतीति प्रसङ्गः । अत एव विनश्यत्ता विनाशसामग्रीसान्निध्यमित्याहुः प्रामाणिकाः। आख्यातात्क्रियाविशेष्यको बाध इति वैयाकरणाः भाट्टाश्च । आद्यानये भावध्वंसान्यतरसम्बन्धेन स्वाधिकरणत्वम् । लक्षणसमन्वयस्तु स्पष्टः । *लडर्थ इति* । लटो वर्तमानत्वे शक्तिः, प्रतियोगित्वे लक्षणेति भावः । *वृत्ति. द्वयस्येति । ननु युगपदवृत्तिद्वयविरोधेन वर्तमानोत्पत्तिकत्वप्रतियोगिकत्वयोः शब्द- बोधे भान न स्यादिति चेत् , न अस्या असार्वत्रिकत्वात्। अन्यथा 'गङ्गायां मीनघोषौ स्तः' इत्यादौ जलप्रवाहतटयोर्बोधः कथं स्यादिति धेयम् । *एतेनेति । ध्वसस्य नि. त्यत्वाद्वर्तमानकालेऽपि सत्वेन चिरनष्टेऽपि नश्यतीति प्रयोगप्रसङ्गेनेत्मर्थः। ताह- शोत्पत्तिकत्वस्येति । वर्तमानोत्पत्तिकत्वस्येति तात्पर्यम् । *क्रिमाविशेष्यक इति ।
३ लादेशार्थविचारः। धात्वर्थः क्रिया । चैत्रस्तण्डुलं पचतीत्यादितश्चैत्रकर्तृकतण्डुलकर्मकपाक- इति धीः । अन्त्यनये भावना क्रिया प्रत्ययाः। चैत्रीयपाककरणिका त- ण्डुलकर्मिका भावनेति बोधः । प्रथमान्तार्थविशेष्यक एव बोधः । ओदनकर्मकपाकानुकूलकृतिमांश्चैत्र इति बोध इति नैयायिकाः । द्वितीयाद्यर्थंकर्मकरणत्वादेः क्रियायामेव सर्व- मतेऽन्वयः। लङस्तु शक्यो ह्योऽनद्यतनकालः । लुङस्तु भूतसामान्यम् । भूतत्वं च वर्तमानध्वंसप्रतियोग्युत्पत्तिकत्वम् , न तु तादृशप्रतियोगित्वमेव । चिरो- त्पन्नेऽपि पूर्वद्युरभवदितिप्रत्ययापत्तेः । नष्ट इत्यादौ नाशे तदन्वयासम्भ- वाच। उत्पत्तेस्तु देशकालादावन्वयान्न दोषः । अभवदित्यादौतु धातुनोत्पत्तिः अत्याय्यते, नष्ट इत्यादौ तादृशोत्पत्तिकत्वं प्रत्ययेनेति विशेषः । लिटस्तु भूत काल इव परोक्षत्वमप्यर्थः । अहं चकारेत्यादिप्रयोगादर्शनात् । ननु चैवं भुवादिसूत्रस्थभाष्यात् "भावप्रधानमाख्यातम् , क्रियाप्रधानानि नामानि इतिनि. रूक्ताच क्रियामुख्यविशेष्यकबोधस्यैवोक्तत्वादिति भावः। अत एव गोमांसकैरपि "तद्भूतानां क्रियार्थेन समाम्नायः' इतिसूत्रेग क्रियामुख्यविशेष्यकबोधस्यैव मुख्य- त्वमुक्तं सङ्गच्छते । *प्रथमान्तार्थ मुख्येति । कालायतिरिक्तत्वे सति आख्यातार्थ- निष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन आख्यातरदज्ञानजन्यशाब्दबुद्धित्वावच्छि. नम्प्रति विशेष्यतासम्बन्धेन प्रथमान्तनामपदजन्यान्यविशेषणीभूतार्थविशेष्यकोप- स्थितिः कारणमिति कार्यकारणभावो बोध्यः । *अनद्यतन इति*। अतीतायाः रात्रे पश्चार्धन अगामिन्या:पूर्वाधन च सहितः कालोऽद्यतनः, तद्भिन्नोऽनघतन इति वृत्तिः। अतीतरानेरन्त्ययामेन आगामिराराद्ययामेन च साहितो दिवसोऽद्यतन इति "लगा सूत्रे कैयटः । एवम् अनद्यतने भविष्यति लुट , भविष्यत्सामान्ये लट् इत्यादि तदनु- शासनादितो बोध्यम् । वर्तमानेति । वर्तमाने ध्वंसः, वर्तमानश्चासौ ध्वंसचेति उभयविधसमासस्य सम्मवत्वेन वर्तमानक्षणवृत्तियों ध्वंस:-अतोतक्रियाध्वंसः, वर्त- मानो यो ध्वंस इति वा तत्प्रतियोगिनी तादृशक्रिया तदुत्पत्तिकत्वमतीतकालस्ये- ति लक्षणसमन्वयः । चिरोत्पन्न* इति । उत्पत्तिपदोपादानेन वर्तमानक्षणवृत्तिध्वंसप्र- तियोगिन्या अतीतक्रियाया उत्पत्तियस्मिन् इति बहुव्रीहिणा यस्मिन्काले तादृश- क्रियोत्पत्तिः स एवातीतकालो लक्ष्यते । अन्यथा वर्तमानक्षणवृत्तिध्वंसोऽतीतक्रिया. ध्वंसः, तत्प्रतियोगित्वस्यातीतक्रियायां सत्वेऽपि क्रियाया अपि कालत्वेन सामा. न्यातीतेऽपि वर्तमानत्वात्ताशप्रयोगः स्यादिति भावः । *परोक्षत्वमिति* । परोक्षa NRS - परमलधुमञ्जूषायाम्- "णलुत्तमो वा' इति ज्ञापकात् उत्तमपुरुषस्तत्र स्यादिति वाच्यम्। 'सुप्तोऽहं किल विललाप' 'मत्तोऽहं किल विचचार'इत्यादौ चित्तविक्षेपादिना पारो- क्ष्यमुपपाद्य तत्र सूत्रसार्थक्यसम्भवात्। तत्र च परोक्षत्वेन पारोक्ष्यसादृश्ये ता- त्पर्यम् । 'चक्रे सुबन्धुः इति तु न लिट्प्रयोगोऽपितु तिङन्तप्रतिरूपको निपातः। लुङ्लटोस्तु भविष्यत्कालः । भविष्यत्त्वं वर्तमानप्रागभावप्रतियोग्युत्पत्ति कत्वम् । उत्पत्तौ च देशविशेषः कालविशेषश्चाधिकरणत्वेनान्वेति । गृहे घटो भविता अद्य घटो भविष्यतीत्यादौ धातुनोत्पत्तिःप्रत्याय्यते, वर्तमानप्रागभा. वप्रतियोगित्वमाश्रयत्वं च प्रत्ययेन । गृहाधिकरणकवर्तमानप्रागभावप्रति. योग्युत्पत्त्याश्रयो घटः, अद्यतनप्रागभावप्रतियोग्युत्पत्त्याश्रयो घट इत्यन्वय- बोधात् । वर्तमानप्रागभावप्रतियोगित्वमात्रस्य लुडाद्यर्थत्वे श्वो गृहे समुत्प- द्य परश्वः प्राङ्गणं गमिष्यति मैत्रे परश्वः प्राङ्गणे मैत्रो भविष्यतीति प्रसङ्गः। केचित्तु देशविशेष: कालविशेश्व प्रागभावे प्रतियोगिनि चान्वेति । पर- श्वः प्राङ्गणे मैत्रो भविष्यतीत्यस्य परश्वो वृत्तिः प्राङ्गणवृत्तियः प्रागभावस्तत्प्र. तियोग्युत्पत्त्याश्रयः परश्वोवृत्तिः प्राङ्गणवृत्तिमैत्र इति बोधः । तेन नोक्ताति- प्रसङ्गः । एतेन श्वोभाविनि घटे अद्य भविष्यतीति प्रसङ्गा निरस्त इत्याहुः।। नञ्जयतीत्यादौ वर्तमानप्रागभावप्रतियोग्युत्पत्तिकत्वं प्रतियोगित्वं च प्रत्ययार्थः । श्वो घटो नङ्ख्यतीत्यादौ श्वोवृत्तिः वर्तमानप्रागभावप्रतियो. गिनी योत्पत्तिस्तदाश्रयनाशप्रतियोगी घट इत्यन्वयबोधः । यत्त्वत्र वर्तमा- त्वच-वक्तुः साक्षात्काराविषयत्वम् । तेन स्वक्रियायाः स्वप्रत्यक्षेन नाहं चचार इत्यादिप्रयोगोऽसाधुरेव । ननु "व्यातेने किरणावलीमुदयनः" इत्यादः का गतिरि. ति चेत् ? तत्र परोक्षत्वारोपेण समाधेयमिति दिन् । *पारोक्ष्यसादृश्ये इति*। एव "मत्तोऽहं किल विललाप” विचचार' इत्यादौ पारोक्ष्यसादृश्याल्लिट् साधुरिति तात्पर्यम् । *वर्तमानप्रागभावेति । वर्तमानकालिको यः प्रागभावस्तत्प्रतियोगिन्युत्पत्ति. र्यस्येति बहुव्रीहिरिति भावः । *उत्पत्तिरिति । 'भू सत्तायाम्' इतिपरितस्यापि भू- धातोत्पत्तिरोधातनामनेकार्थत्वादोध्यम् । प्रतियोगित्वमात्रस्येति । वर्तमान प्रागभावप्रतियोगित्वल्य क्रियारूपकाले सत्वात्ताशप्रयोगः स्यात् । उत्पत्यन्तलु- डाधर्थत्वे तु वर्तमानप्रागभावप्रतियोग्युत्पत्तिरतीतक्रियायाः परयो नास्तीति न ताह.
लादेशाथविचारः। नप्रागभावप्रतियोगित्वमेव प्रत्ययार्थ इति, तन्न । (१)श्वोभाविनाशके घटे अद्य नञ्जयतीति प्रसङ्गात् । पक्ष्यतीत्यादौ आद्यपाकव्यक्तिप्रागभावगर्भमेव भविष्यत्त्वम् , पकवा- नित्यादौ चरमपाकव्यक्तिध्वंसगर्भमेव भूतत्वं भासते । तत्तस्लमभिव्याहा- रस्य ताशबोधे हेतुत्वात् । तेन पाकमध्ये कस्याश्चित्पाकव्यक्तेरनुत्पादेऽपि कस्याश्चिदतीतत्त्वेऽपि न पक्ष्यति पक्कवानित्यादिप्रयोगः । लिङो विधिराशीश्वार्थः। यजेतेत्यादौ विधिः, आशीस्तु भूयादित्यादौ । सा च शुभाशंसनं तदिच्छेति यावत् । लोटस्तु विधिरनुमतिर्वा । गच्छ- स्वित्यत्रानुमतिविषयगमनानुकूलकृतिमानिति बोधस्यानुभविकत्वात् । विधिःप्रवत्तेनेति भाट्टाः ।(२)लिनिष्ठा व्यापारः पदार्थान्तरम् , (३)लि. शप्रयोग इति भावः । *भाद्यपाकव्यक्तीति । विक्लित्युत्पादकसिद्धासिद्धफूत्कारा- धःश्रयणान्तक्रियाकलापरूपोत्पादनापरपर्यायो व्यापारविशेषः पाका साध्यत्वेन प्रती. यमानो धात्वर्थः । अत एव च "गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुध्या प्रकल्पि. ताभेदः क्रियेति व्यपदिश्यते" इति। "यावसिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते” इत्यभियुक्तरुक्तम् । ततश्चाद्यपाकपदेन फू. कारस्य चरमपाकपदेनाधाश्रयणस्य च ग्रहणम्योध्यम् । तत्समभिव्याहारस्येति । तत्तद्धातुसममिव्याहृतलूडादेरित्यर्थः । *लिको विधिरिति । "विधिनिमन्त्रणामन्त्र. ग” इति “आशिषि लिङ्लोटौ" इतिचामयसूत्राा लिस्तादृशार्थद्वये शक्तिबोध- नात् द्वयोरप्युक्तार्थयोरुपस्थितिः । तत्रेयान्विशेषः-शपसमभिव्याहारे विधेः तदितरत्र 'यास्त' 'सीस्त' इत्यन्यतरसमभिव्याहारेबाशिषश्च तात्पर्य निश्चयवशाबोधवैलक्ष. ण्यमत्र बोध्यम् । तदिच्छेति । शुभविषयिणीच्छेत्यर्थः । विधिरनुमितिवेतिर । "लोट् च" इत्यनेन विध्यादौ द्विधानात् , अनुमतिः-अनुज्ञा, अत्राप्युक्तार्थस्यार्था- न्तरोपलक्षणत्वमुझम् । (१)श्वोभावी नाशो यस्य तस्मिन्नित्यर्थः । (२) यद्यपि लोके आज्ञादिरूपो ऽभिपायविशेष एव प्रवर्तना, तथापि वेदे पुरु. षाभावाच्छन्दनिष्ट एव स आश्रीयते इति भावः । (३) क्लुप्तेन लिङ्पदज्ञानेनैवोपपत्तौ पदार्थान्तररूपव्यापारकल्पनाया अनाच- त्वात् । तथाहि-प्रवृत्तिहेतुव्यापारः प्रवर्तना । विधिशब्दो हि पुरुषप्रवृत्तिरूपार्थमा. वादशलकारसाधारणाख्यातत्वेन बोधयति, ज्ञातैव च सा अनुष्ठातुं शक्यत इति भवति ३६ परमलघुमञ्जूषायाम् । उपदज्ञानमेव वा । तस्य प्रवर्तनात्वेन(१) ज्ञानं शब्दाधीनप्रवृत्तौ कारणम् । लिश्रवणे आचार्यो मां प्रवर्तयतीति ज्ञानाद्गवानयनादौ प्रवृत्तेः अचा- यनिष्ठप्रवर्तनात्वभिप्रायविशेष एवेत्याहुः । तन्न। स्तनपानादिप्रवृत्ताविष्टसा. धनताज्ञानस्य हेतुताया आवश्यकत्वात् तत एवोपपत्तौ प्रवर्तनाज्ञानस्य हेतुत्वे (२)मानाभावात्।स्वर्गकामो यजेतेत्यादौ प्रवर्तनाविषया यागकरणिकास्व- । *माझा-मीमांसकाः । *तस्येति । प्रवतेनात्वस्य अयं मां प्रवर्तयतीति प्र. तीतिलाक्षिकस्य प्रवर्तकपुरुषाभिप्रायेष्विव शब्दव्यापारे ऽपिसत्वाल्लोकवेदयोरुभयोः सङ्ग्रहः । स्तनपानादीति । आधक्षणे स्तनपाने बालस्य प्रवृत्यनुकूलव्यापाररूप. विधिशब्दस्य ज्ञानद्वारा प्रवृत्तिहेतुत्वम् । तस्य च प्रवृत्तिज्ञानद्वारा प्रवृत्तिहेतुत्वं "वि. धिशब्दः प्रवृत्तिबोधहेतुशक्तिमान्" इत्येवं ज्ञातस्यवेति ताशशक्तिमत्त्वेन ज्ञानमेव तस्य प्रवृत्तिहेतुापार इति स एव प्रवर्तनाख्यां लभते। ज्ञानातिरिक्तव्यापारकल्पने मानाभावादिति भावः। (१) प्रवर्तनात्वेनैव ज्ञानस्य प्रवृत्ति प्रति कारणत्वान लोकवेदयोरननुगमः । लिश्रवणे अयं मां प्रवर्तयतीतिप्रतीतिसाक्षिकस्य प्रवर्तनात्वस्य आज्ञादिष्विव शब्द- व्यापारेऽपि सत्त्वादिति भावः । (२) इष्टसाधनत्वमपि प्रेरणात्वेनैव शक्यं, न स्वरूपतः । प्रेरणात्वापेक्षया तस्य गुरुत्वात् । इष्टत्वांशं विहाय साधनत्वमात्रस्य वाच्यत्वे च आख्यातत्वांशोपस्थितप्र. वृत्त्या सह समानाभिधानश्रुत्या साधनत्वान्वयसम्भवे पदान्तरोपस्थापितस्वर्गण सह सममिव्याहाररूपवाक्येन तदन्वयासम्भवात् प्रवृत्तिसाधनत्वरूपप्रेरणात्वे एव प. र्यवसानमिति इष्टसाधनत्वं न पदार्थः, किन्तु वाक्यार्थः । तथाहि-प्रवर्तनाविषयी. भूताऽऽर्थभावना किम्भावयेदिति भाव्याकाङ्क्षायां समानपदोपात्तमपि धात्वर्थमपुरुषा. र्थत्वाद्भाव्यतयाऽन्वयायोग्यं विहाय भिन्नपदोपात्तमन्यविशेषणमपि स्वर्ग कामपदस म्बन्धात् पुरुषार्थतयावगतं साध्यत्वान्वययोग्य भाव्यत्वेनाश्रयति । अपुरुषार्थकमिका यास्तस्याः प्रवर्तनासाध्यत्वानुपपत्तः। एवञ्च स्वर्गभावनासाधनत्वात्स्वर्गरूपेष्टसाधन- त्वमपि प्रवर्तनायाः सिध्यति । पुरुषप्रवृत्तिरूपार्थभावना च यागव्यापार विना स्वर्ग साधयितुं नालमिति यागस्य स्वगंसाधनत्वमाक्षिप्यते । न तु यागस्य स्वर्गसाधनत्वं वाक्यप्रमाणगम्यम् । यजधातोरकमेकत्वेन तत्र द्वितीयान्तस्वर्गपदार्थस्य कर्मत्वेना. न्वयायोगात् । तस्मात् फलसाधनत्वस्य प्रवर्तनात्वेनैव वाच्यतेत्यादिकं मण्डनमतस- मर्थन वैयाकरणादिसम्मतमन्यतो विस्तरेणावगन्तव्यम् । मानाभावादिति तु नैयायि- कमतनिरूपणप्रस्तावे ग्रन्थकारेणोक्तमिति तत्कथन वैयाकरणसंमतमिति न भ्रमितव्यम् - लादेशार्थविचारः। र्गकर्मिका भावनेति बोधस्य परैरभ्युपगमात् प्रवर्तनाविषयत्वमात्रज्ञानात् प्र. वृत्यनुपपत्तेरावश्यकस्वर्गसाधनत्वादिज्ञानादेव तत्र प्रवृत्तेः । कार्य विधिरिति (१) प्राभाकराः । स्वर्गकामो यजेतेत्यादौ स्वर्गकामनि- योज्यकं यागविषयकं कार्यमिति प्राथमिको बोधः । सनियोज्यकं यागविषय- कंस्थायिस्वर्गसाधनं कार्यमिति द्वितीयः । स्वर्गकामनियोज्यको यागः स्वर्ग- । प्रवर्तनाया असम्भवेन जन्मान्तरगृहीतेष्टसाधनतास्मरणादेव प्रवृत्तेरिति भावः । *कार्य विधिरिति* । साक्षात्कृतिसाध्यं हि कार्यम् । अतः फले नातिव्यातिः। यागस्य लघु विनाशित्वेन कालान्तर्भावि स्वर्ग प्रति कारणत्वासम्भवात् । अतोऽपू. वरूपं कार्य लिङयमितिनिश्चित्य प्रथमबोधानन्तरमपूर्वोपस्थितौ द्वितीयेन बोधेन (१) प्राभाकरा इति । ते हि प्रवृत्तिं प्रति कार्यताज्ञानस्य कारणत्वमभ्युपग- च्छन्ति । तथाहि-कायंताज्ञानं द्विविधम्-मयेदं कर्तुं शक्यते इत्यवंरूपमेकम् , मयेद. मवश्यं कार्यमित्येवंरूप द्वितीयम् । तत्राद्य पदार्थयोग्यतागम्यमिति न प्रवृत्तौ कार- णम् । द्वितीयमिष्टसाधनत्वादिज्ञानजन्यमिति चिकीर्षाद्वारा प्रवृत्तिहेतुः। अत एवं इष्टसाधनत्वेनाज्ञाते मध्वनभोजने, बलवदनिष्टसाधनत्वेन ज्ञाते विषसंयुक्तानभोजने च न प्रवृत्तिः। निरुक्तस्य कार्यताज्ञानस्य इष्टसाधनत्वज्ञानाद्यभावेऽजननात्। प्रवृत्ति प्रति इष्टसाधनत्वज्ञानादीनां त्रयाणां कारणत्वकल्पनापेक्षयालाघवेन उक्तकार्यताज्ञान- स्यैव चिकीर्षाद्वारा कारणत्वकल्पनं समुचितमेव । प्रकरणादिहेतुकतात्पर्यज्ञानस्य फल. भूतशाब्दबोधकारणत्वकल्पनवत् । तस्मात् कार्यताज्ञानमेव प्रवर्तकमिति तदेव लोके विध्यर्थः। वेदे तु कार्य विध्यर्थः । तृप्तिकामः पचेदित्यादौ लोके पाकादौ तृतिरूपफलसाधन. त्वस्य लौकिकप्रमाणगम्यत्वेन तेन रूपेणावगते पाकादौ काम्यसाधनताज्ञानाधीनका- यंताज्ञानवत्त्वरूपनियोज्यत्वविशिष्टान्वये कार्यत्वान्वयो यथा भवितुमर्हति, तथा स्व. गंकामो यजेतेत्यादौ वेदे यागादौ कार्यत्वान्वयो न भवितुमर्हति । क्षणिकयागे काम्य. स्वर्गलाधनत्वरूपयोग्यताऽभावेन तज्ज्ञाबाधीनकार्यताज्ञानवत्त्वरूपनियोज्यत्वविशि. टोन्वयरूपाया योग्यतायाः कार्यत्वान्वयप्रयोजिकाया अभावात् । अतोऽपूर्वरूपकार्य विध्यर्थमङ्गीकृत्य स्वर्गकामनियोज्यक यागविषयक कार्यमिति प्रथमबोधोत्तरमपूर्वोप- स्थितौ तत्र द्वियीयबोधेन स्थायित्वस्वर्गसाधनत्वयोः अहे तद्द्वारा यागे स्वर्गसाधन. त्वग्रहात् तत्र कार्यत्वबोध उपपादनीयः। अत एव च अतीन्द्रियस्य तस्य कार्यत्वोप- पत्तिः । चतुर्थबोधस्तु प्रथमप्रतीतकृतेराश्रयान्वयलाभार्थम् । पञ्चमस्तु यागे असाधा. रणप्रवृत्त्युपपादनार्थमित्यलम् ।
परमलघुमञ्जूषायाम- कामकार्य इति तृतीयः । स्वर्गकामो यागकर्तेति चतुर्थः । अहं स्वर्गका- मोऽतो यागो मत्कृतिसाध्य इति पञ्चमः । न च प्रथम एव स्वर्गकामकार्यो याग इति बोधोऽस्तु, तथा च कार्यत्वे एव शक्तिर्न कार्य इति वाच्यम् । यागादिक्रियायों नियोज्यान्वयं विना कार्यत्वान्वयानुपपत्तेः । नियोज्यत्वं हि क्रियानिष्टकाम्यसाधनताज्ञानाधीनमत्कार्यामितिबोधवत्त्वम् । तत्तु स्वर्ग- कामनाविशिष्ट योग्यताऽवच्छेदकतया भासते। घटेन जलमाहरेत्यत्र घटे छिद्रंतरत्ववत् । न च यागे स्वर्गसाधनत्वज्ञानं विनेशं नियोज्यत्वं भातु. महति। न वायागे स्वर्गसाधनत्व प्रथममेव शक्यं ज्ञातुम् । तद्धिसाक्षात् पर- म्परया वा । नाद्यः । आशुविनाशिनो यागस्य कालान्तरभाविनि स्वर्गरूप- फले साक्षादहेतुत्वात । नान्त्यः । परम्पराघटकापूर्वानुपस्थितेः । अतो यागविषयकं कार्यमिति प्रथमबोधादपूर्वोपस्थितौ तद्वारा यागे स्वर्गसाध- नत्वग्रहात् तत्र कार्यत्वबोध इत्युक्तम् । नियोज्यत्वं च पदानुपस्थितमपि योग्यतया शाब्दबोधे भासते द्वारमित्यत्र पिधेहीतिवत् । प्रवर्तकज्ञानविषयो विधिरिति नैयायिकाः। प्रवर्तकं च कृति साध्यत्वेष्ट- साधनत्वबलवदनिष्टाननुबन्धित्वानां ज्ञानम् । अतस्तेषु लिशक्तित्रयम् । सुमेरुशृङ्गाहरणनिष्फलाचरणमधुविषसंपृक्तानभोजनेषु प्रवृत्तिवारणाय य. थासङ्घयं त्रयाणामेव ज्ञानं प्रवर्तकम् । स्थायित्वस्वर्गसाधनत्वग्रहः । तादृशापूर्वद्वारा च यागे स्वर्गसाधनत्वग्रहः । प्रथमबो- धविषयीभूतकृतेराश्रयान्वयलामाय तुरीयबोधः प्रदशितः। पुरुषाणामप्रेरणेनैव अवश्य कर्तव्यबुध्या स्वयं प्रवृत्त्युत्पादनाय पञ्चमो बोध इति ग्रन्थे पञ्चबोधप्रदर्शन मिति ता. त्पर्यम् । अच्छिद्रेतरत्ववदिति* । बाधज्ञानस्य विषयतायां सङ्कोचकतया सच्छिद्रेण घटेन जलाहरणमसम्भवीति बाधज्ञाने सति उक्तवाक्ये घटपदप्रयाज्यकरणताख्यविषय- तायां यथा सच्छिद्रेतरत्वावच्छिन्नत्वं भासते, तथेह नियोज्यत्वमपीत्यर्थः। *अपूर्वा- पस्थिताविति । तत्पदजन्यतदर्थोपस्थितौ यथा तत्पदनिष्ठशतिग्रहजन्यसंस्कारो हेतुः । एवं स्वर्गादीष्टम्प्रति साक्षात्कारणं यागजन्यापूर्वम् , न तु यागे एवेति भावः । नैयायिकाभिमतलिडर्थमाह-प्रवर्तकेति। प्रवृत्तिजनकमित्यर्थः । कृतिसा. ध्यत्वेति । एवं च न सुमेरुङ्गाहरणे प्रवृत्तिः। तथैव न फिलजलताडने प्रवृत्तिः । अनिष्टत्वात्। नापि मधुविषसम्पृतान्नभोभने, बलवदनिष्ठानुबन्धित्वादिति भावः ।
८६ लादेशार्थविचारः। यत्तु समुदिते शक्तिरेकैवेति । तन्न। विशेष्यविशेपणभावे विनिगमका- भावेन त्रिष्वेव पृथकशक्तेः। एवञ्च स्वर्गकामो यजेतेत्यादौ स्वर्गकामीयो यागः कृतिसाध्यः, इष्टसाधनं बलवदनिष्टाननुबधीचेति बोध इत्येके । वस्तुतो नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयस्थाब्युत्पन्नतया तादृशया- गानुकूलकृतिमान स्वर्गकाम इत्येव बांधः। कृतिसाध्यत्वं च प्रवृत्तिसाध्य- स्वम् । अतो न समुद्रतरणादौ प्रवृत्तिः । इष्टसाधनत्वं चेष्टनिष्टसाध्यतानि- रूपकत्वमतो न तृप्तस्य भोजने प्रवृत्तिः । बलवदनिष्ठाननुबन्धित्वंतु स्वजन्ये- ष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनकत्वम् । नहि सुखं दुःखैविना ल- भ्यते इति न्यायेन नान्तरीयकं किञ्चिद् दुःखमिष्टोत्पत्ता ववश्यं भावि तदतिरिक्तदुःखराहित्यमेव तत्त्वम् । 'ब्राह्यणो न हन्तव्यः' इत्यादौ नञः कृतिसाध्यत्वेष्टसाधनत्वनिषेधे स्वारस्याभावात्तेन बलवदनिष्टाननुबन्धित्वनिषेवाद् ब्राह्मणवधो बलवद- निष्टजनक इत्यर्थः पर्य्यवस्यति । एतेन समुदिते लिङः शक्तिकल्पनमपास्तम्। यद्यपि प्रकृत्यान्वितस्वार्थबोधकत्वं प्रत्ययस्येति व्युत्पत्या नअर्थे बल. वदनिष्टाननुबन्धित्वान्वयोऽसम्भवी, तथाप्यन्यथाऽनुपपत्या एतदतिरिक्त- स्थले एव सा व्युत्पत्तिः । अत एव नातिरात्रे घोडशिनं गृह्णातीत्यादौ षोड. शिग्रहणाभाव इष्टसाधनमिति बोध इति दीधितिकृतः । न हन्तव्य इत्यादी हननाभावविषयक कार्यमिति बोध इति गुरवः। ननु पचतीत्यादौ लडाद्यर्थ. वर्तमानत्वादेर्यत्ने एवान्वयान्न सा व्युत्पत्तिः । मैवम् । यत्र प्रत्ययत्वं तत्र *शक्तिरेकैवेति* । फलव्यापारयोर्धातोरिव लिडोऽपि उक्तार्थत्रये एकैव शक्तिस्वी. क्रियताम् , खण्डत्रये चास्यास्त्रिषूक्तेष्वर्थेषु च शक्तिबाहुल्ये शक्यतावच्छेदकबाहुल्यन गौरवञ्च परिहीयताम् । विशेष्यविशेषणभावश्च तात्पर्यनिश्चयविशेषबलाद्भविष्यतीति न तत्रापि वैषम्यम् । स्वर्गकामीय इति । स्वर्गकामपुरुषसम्बन्धीत्यर्थः। सम्बन्धिता च स्वनिष्ठकर्तृतानिरूपकत्वसम्बन्धेन बोध्या । स्वजन्येति । स्वं यागः, तज्जन्येष्टोत्पत्तौ स्वर्ग नान्तरोयकोपमादिजन्यदुःखात् अधिकदुःखाजनकत्वमिति. समन्वयो बोध्यः । *प्रकृत्यान्वितेति । इमामेव व्युत्पत्तिमर्थतः पठन्ति 'प्रत्ययार्थः प्रकृत्यर्थेनैवा. न्बेति' इति । अत एव पचन्तं पश्य पचमानं पश्येत्यत्र द्वितीयाकर्मत्वैकत्वयो - स्वर्थेऽन्त्रयमुरीकृत्य केवलपाकदर्शनादेन बोधः, किन्तु शत्राद्यर्थ एवान्वयेन पाककर्तृद- - परमलघुमञ्जूषायाम्- प्रकृत्यान्वितस्वार्थबोधकत्वमिति व्याप्तेः । यः प्रत्ययार्थः स प्रकृत्यर्थस्य विशेष्यतया भासते इति व्याप्तेश्च ।। लेटस्तु यच्छब्दासमभिव्याहृतस्यैव विधिरर्थः समिधो यजतीत्यादौ विधिप्रत्ययात् । देवांश्च याभिर्यजते ददाति च य एवं विद्वानमावास्यां यजते इत्यादौ तदप्रत्ययादिति ।। लुस्तु भूतत्वं क्रियातिपत्तिश्चार्थः। अतिपत्तिरनिष्पत्तिरापादनारूपा। सा च शक्या । सा चापादना तर्कः। तर्कत्वं च मानसत्वव्याप्यो जाति. विशेषः । एधांश्चेदलप्स्यत ओदनमपक्ष्यत् इत्यादौ एधकर्मको भूतत्वेना. पादनाविषयो यो लाभस्तदनुकूलकृतिमान् ओदनकर्मको भूतत्वेनापादना- विषयो य: पाकस्तदनुकूलकृतिमांश्चेति बोधः । भविष्यति क्रियातिपदनेऽपि लृङ। यदि सुवृष्टिरभविष्यत्तदा सुभिक्षमभविष्यदिति प्रयोगदर्शनात् । भूतत्वभविष्यत्त्वयोर्बोधनियमस्तात्पर्यात् । यदि स्यादित्यादौ लिडोऽप्या. पादनायां शक्तिः। यदि निर्वह्निस्यात्तर्हि निधूमस्यादित्यादौ तस्या एव प्रतीतेः। लाघवेन स्थानिनां वाचकत्वात् सङ्ख्यापि लकारार्थः ।। इति लकारार्थनिर्णयः॥ - . निदशायामेव तादृशप्रयोग इति दिक् । *यः प्रत्यर्थ इति* । प्रकृत्यर्थनिष्ठविशेष. णतानिरूपितविशेष्यतावान्प्रत्ययार्थ इति फलितोऽर्थः । * तर्क इति * । व्याप्यारो. पेण व्यापकारोपस्त इति भावः । आरोपश्चाहार्यज्ञानम् , तच्चबाधकालीनेच्छाजन्य. ज्ञानरूपम् । यथा-निर्वह्निः स्यान्निधूमः स्यादिति । अत्र व्याप्यस्य वह्नयभावरू. पस्य आरोपेण व्यापकस्य धुमाभावस्यारोपः । प्रकृते च एधाभावात् ओदनाभाव आरोप्यत इति भावः। *सुवृष्टिश्चेदिति। अत्र सुभिक्षभवने सुवृष्टिभवनं हेतुरतो हेतुहेतुमद्भावे क्रियाया असिद्धौ धातोलसिद्धस्तेन सुवृष्टिभवनहेतुकं सुभिक्षभवनमिति बोधः। * तात्पर्यादिति । तात्पर्यनिश्चयवशादित्यर्थः । इत्यर्थदीपिकायां लकारार्थविचारः।
कारविचारः। अथ कारकाणि निरूप्यन्ते ॥ कर्ता कर्म च करणं सम्प्रदानं तथैव च । अपादानाधिकरणमित्याहुः कारकाणि षट् ।। तत्र क्रियानिष्पादकत्वं कारकत्वम् । तच्च कादीनां षण्णामपि । तत्र प्रकृतधातुवाच्यव्यापाराश्रयस्वं कर्तृत्वम् । धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते । इति हर्युक्तः। अन्यकारकनिष्ठो व्यापारस्तु न प्रकृतधातुवाच्यः । यथा वह्निना पचतीत्यत्र वह्निनिष्ठः प्रज्वलनादिः । अन्यकारकनिष्ठव्यापाराश्रय- स्य कर्तृत्ववारणाय धातुवाच्येति । तत्रोक्ते तु कारकमाने प्रथमैव । तिङ. समानाधिकरणे प्रथमा अभिहिते प्रथमेति वार्तिकद्वयात्। सूत्रमते तुकर्तृक- । - *अथेति । अत्राथशब्दो मङ्गालार्थः। निरूप्यन्त इति । स्वसमभिव्याहृ. तपदार्थतावच्छेदकव्याप्यमिथोविरुद्धनानाधर्मप्रकारकज्ञानानुकूलो व्यापारो निरूपय. तेरथः । क्रियानिष्पादकत्वमिति निष्पादयति-उत्पादयतीति-निष्पादक:-जन. कः । तथाच क्रियाजनकत्वम् , जनकत्वेन क्रियान्वयित्वं वा कारकत्वम्बोध्यम् । अन्ये तु कर्तृप्रत्ययसमभिव्याहारे व्यापारतावच्छेदकसम्बन्धेन धात्वर्थनिष्टविशेष्यः तानिरूपितप्रकारताश्रयतद्धात्वर्थाश्रयत्वम् कतृत्वम् । कालिकसम्बन्धेन व्यापारा. श्रयेऽतिप्रसङ्गवारणाय व्यापारतावच्छेदकसम्बन्धेनेति । ग्राम गच्छतीत्यादावुत्तरसंयो. गात्मके फले तादृशधात्वर्थत्वाभावान्न तदाश्रयेऽतिप्रसङ्गः । पक्कस्तण्डुलो देवदत्तेने. त्यादौ फलस्य विशेष्यत्वेन देवदत्तेऽतिव्याप्तिपरिहाराय कर्तृप्रत्ययसमभिव्याहार इति लक्षणसमन्वयो बोध्यः । षट्सु कारिकेषु प्रथमोपस्थितत्वात्कारं लक्षयति-*प्रकृत- धात्विति । प्रकृतधात्वर्थप्रधानीभूतव्यापाराश्रयत्वमिति यावत् । तेन प्रयोज्यप्रयो. जकोनुक्तकर्तृणां सर्वेषां संग्रहः । 'माषेष्वश्वं बध्नाति' इत्यत्र तु गलाधः संयोगानुकूल- व्यापाराश्रयत्वेन अवश्यकर्तृत्वेऽपि प्रकृतधात्वर्थप्रधानीभूतव्यापाराश्रयत्वाभावान. कर्तृत्वापत्तिरिति दिक् । *धातुनोक्तेति । धातुनोतक्रिये कारके कर्तृता नित्यमिष्यते, इति हरिपद्यपदयो. जनेति भावः। अत एव यदा यदीयो व्यापारो धातुनाऽभीधीयते तदा सकतेति, स्थाली पचति, अग्निः पचति, एधांसि पचन्ति,तण्डुला पच्यतेस्वयमेवेत्यादिसङ्गच्छते। *धातु परमलघुमञ्जूषायाम्। मांद्यर्थकप्रत्ययेन कोदेरुक्तत्वात प्रथमायाः प्रातिपदिकार्थं एवार्थः । तस्य चाख्यातार्थकादिनाऽभेदान्वयेन प्रथमार्थस्य कारकत्वम् । अत एवाख्यातार्थ- द्वारकक्रियान्वयात्(२) तदर्थस्य क्रियाजनकत्वादस्याः कारकविभक्तित्वेन भा. ध्ये व्यवहारः । चैत्रा भवतीत्यत्र एकत्वावच्छिन्नचैत्राभिन्नकर्तृकं भवनमिति बोधः । आख्यातकृदादिना कर्नादेरभिधानेऽपि प्रथमयाऽनुद्भूतकर्तृत्वादिश- क्तिः प्रतिपाद्यते इति तात्पर्यम् । कर्माख्याते तु चैत्रेण ग्रामो गम्यते इत्यत्र चै- वाच्येतीति । प्रकृतधात्वर्थप्रधानीभूतेत्यर्थः। *एकत्वावच्छिन्नेति। आख्याता. थकत्वसंख्यायाः कर्तर्यन्वयात् वयाकरणमत व्यापारमुख्यविशेष्यकबोधाच्चति भावः। कर्माख्याते तु तृतीयायाः कौर विधानात्कर्तृत्वमर्थः । तत्र चैत्रत्याभेद- संसगंणान्वयः, कतुश्च वृत्तित्वसम्बन्धेन धात्वर्थव्यापार तस्य जन्यत्वसम्बन्धेन संयो- गरूपाले तत्रैव निष्ठत्वसम्बन्धेन ग्रामादिकर्मणः ग्रामे चाख्यातार्थसंख्याया अन्वयो बोध्यः । *चैत्रकर्तृकेति। अत्रेदमवधेयम्-चैत्रेणेतिकर्तृतृतीयायाः कार्थः । तेन , (१) ननु परम्परयाक्रियान्वितस्य कारकत्वे राज्ञः पुरुषमानयेत्यादौ राजादीना- मपि कारकत्वात्तिः । न च क्रियानिष्टविषयताविशिष्टविषयताश्रयत्वं कारकत्वम् । विषयतावै० साक्षात् परम्पस्या वा स्वनिरूपितत्वम् , स्वनिरूपितविषयतासामानाधि- करण्यम् एतदुभयसम्बन्धेन । तथाच-राजनिष्ठविषयतायाः परम्परया क्रियाविषयता. निरूपितत्वेऽपिक्रियाविषयतानिरूपितविषयतासामानाधिकरण्याभावान्न राज्ञः कारक- त्वापत्तिरिति वाच्यम् । सुन्दरस्य राज्ञः पुरुषमानयेत्यादौ सुन्दरपदार्थस्य परम्परया क्रियाविषयतानिरूपितराजपदार्थनिष्टविषयतासमानाधिकरणसुन्दरत्वावच्छिन्नविषय. ताश्रयत्वेन कारकत्वापत्तेः। साक्षात् क्रियाविषयतानिरूपितविषयतासामानाधिकर. ण्यनिवेशेऽपि चैत्रेण स्वस्य पुत्रा दृश्यते इत्यत्र चंत्रस्य स्वपदार्थत्वेनापि कारकत्वा- पत्तिः, सुन्दरश्चैत्रो गच्छतीत्यादौ सुन्दरपदार्थस्य कारकत्वानापत्तिश्चेति चन्न कारकत्वव्याप्यकर्तृत्वकर्मत्वादिसम्बन्धेतरसम्बन्धाघटितपरम्परया क्रियाविषयतानि. रूपित विषयताश्रयस्यैव कारकत्वस्वीकारात्। चैत्रो गच्छतीत्यादौ आख्यातार्थाश्रये चैत्रस्य विशेषणत्वेऽपि अभेदस्य सम्बन्धत्वाभावेन तस्य सम्बन्धानवच्छिन्नतया तद्ध. टितपरम्परायाः कमत्वादिसम्बन्धेतरसम्बन्धावटितत्वात्कारकत्वम् । चैत्रेण स्वस्य पुत्रो दृश्यते इत्यादौ तु स्वपदार्थस्य पुत्रपदाथै निरूपितत्वसम्बन्धेन विशेषणत्वात् तद्घटितपरम्परायाः कर्तृत्वादिसम्बन्धेतरसम्बन्धघटितत्वान्न कारकत्वम् । कटादेरधि- करणल्यापि परम्परया क्रियान्वयेऽपि तदूधटितपरम्परायाः कर्तृत्वादीतरसम्बन्धावटि. तत्वान्न कारकत्वानुपपत्तिरिति दिक् । - कारकविचारः। त्रकर्तृकव्यापारजन्य एकत्वावच्छिन्नग्रामाभिन्नकर्मनिष्ठः संयोग इति बोधः ! सम्बोधनप्रथमार्थस्यापि अनुवाद्यत्वनोद्देश्यतया युष्मदर्थाभेदेन(१)विधेयक्रि. । सह चैत्रस्याभेदः, वृत्तित्वञ्च संसगतया भासते । धातोस्तु फलव्यापारयोः खण्डशः शक्तिः । अत एव तयोविशेषणभावव्यत्यासः । एवञ्च चैत्राभिन्नकर्तृवृत्तिव्यापारजन्ये- त्यर्थ इति भावः । *सम्बोधनेति । "सम्बोधने च" इतिविहितप्रथमायास्तु सम्बो- धनमर्थः। प्रातिपदिकार्थापेक्षया तस्याधिक्येन भावात् पूर्वसूत्राविषयत्वात् तत्सूत्रा- - (१) विधेयक्रियायामिति । "सिद्धस्याभिमुखीभावमात्रं सम्बोधनं विदुः । प्रा. प्ताभिमुख्यो यर्थात्मा क्रियासु विनियुज्यते" ॥ इति हयुक्तविधेयक्रियायामेवसम्बो- धनप्रथमान्तार्थान्वयलामात प्रवृत्तिनिवृत्त्योश्च तत्फलत्वात् प्रवर्तनादिविषयक्रिया. यामेव तदन्वयः। अत एव व्रजानि देवदत्तेत्यादौ जानीहीत्यादिः शेष आवश्यकः । अस्मत्पदार्थकर्तृकबजनस्य देवदत्तोद्देश्यकप्रवर्तनाविषयत्वाभावात् । विधेयक्रियाया- मन्त्रयोऽपि लोडर्थप्रवर्तनान्वयद्वारकः । प्रवर्तनायामुद्देश्यतानिरूपकत्वसम्बन्धेन प्रक- त्यर्थान्वयः। तस्याश्च विषयतासम्बन्धेन धात्वर्थे । अभिमुखीभावमात्रसम्बोधनस्य प्रकृत्यर्थे एवान्वयः । अभिमुखामावश्च प्रयोक्तृवचनार्थज्ञानायादरवैशिष्टयेनावस्थानम् । अयमेव प्रयोक्निच्छाविषयप्रकृतवाक्यार्थविषयकबोधानुकूलो व्यापारः । तदाश्रयत्वं सम्बोध्यत्वम् । एतद्वयापारानुकूलस्य सम्बोधनविभक्त्यन्तशब्दप्रयोगरूपप्रयोक्तृव्या. पारख्येतरनरपेक्ष्येणैव प्रतीतेस्तस्य न वाक्यार्थत्वम् । अमिनुखीमावस्यापि प्रातिपदि- कार्थत्वमेव । तथाच राम मां पाहीत्यादौ अभिमुखीभवद्रामाधुद्देश्यकप्रवर्तनाविषयो मत्कर्मकं रक्षणमिति बोधः । राम देवदत्तं मां पाहीत्यादौ च देवदत्तरक्षणं रामोद्देश्य कनिवर्त्तनाविषय इति बोधः । बजानि देवदत्तत्यादौ जानीहीत्यध्याहारस्वीकारादेव सम्बोधनस्य कर्तृत्वव्यवहारो वृद्धोक्तः संगच्छते । अन्यथा वजनक्रियाकर्तृत्वस्यामा. वात् । तत्र स दुरुपपादः । अस्माकं तु सूपपादः । तस्यैव त्वं पदार्थत्वैन अध्याहृतक्रि. याकर्तृत्वात् । अत एव च तिङ्समानाधिकरणे प्रथमेति वार्तिकमते प्रथमा सिध्यति । तिसमानाधिकरणयुष्मत्पदसमानाधिकरणत्वात् । तद् ध्वनयन्नाह-अभिमुखीमव. देवदत्ताभिन्नयुष्मदथेति । अत्र च श्रूयमाणपदवृत्त्यैव बोधस्वीकारात् देवदत्तपदेनैव ल. क्षणया देवदत्तोद्देश्यकप्रवर्तनाविषयज्ञानरूपवाक्यार्थबोधनात् 'एकतिङ वाक्यम्' इति परिभाषितं वाक्यलक्षणमपि समन्वेतीति आमन्त्रितनिवातसिद्धिः। एतेन अध्याहृत- क्रियायामन्वये ब्रजानीत्यनेनैकवाक्यत्वाभावानिधातो न स्यादित्यपास्तम्। 'नद्या- स्तिष्ठति कूले' इत्यादाविव परम्परया नजानीत्यनेनान्वयल्य अध्याहृतक्रियान्वयेऽपि सत्त्वेनैकवास्यत्वस्य सुलभत्वाच्चेति दिक् ।
परमलघुमञ्जूषायाम् । यायामन्वयात् क्रियाजनकत्वरूपं कारकत्वम् । देवदत्त त्वं गच्छेत्यादौ अ. भिमुखीभवदेवदत्ताभिन्नयुष्मदर्थोद्देश्यकप्रवर्तनादिविषयो गमनमिति बोधः । अत एव- आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा। यथायथं विभक्त्यर्थाः सुपां कर्मेति भाष्यतः ॥ इत्यभियुक्तोक्तम्- सुपा कर्मादयोऽप्यर्थाः सङ्ख्या चैव तथा तिडाम् । इति भाष्यं च सङ्गच्छते । अनुक्तकादिषु तृतीयादयो विभक्तयः, अ. नभिहिताधिकारे तासां विधानादित्यन्यत्र विस्तरः ।। ननु क्रियानिमित्तत्वं कारकत्वमिति स्वीकार्यमिति चेत् , न । चैत्रस्य तण्डुलं पचतीत्यत्र सम्बन्धिनि चैत्रादावतिव्याप्तेः । अनुमत्यादिप्रकाशन- द्वारा सम्प्रदानादेरिव तण्डुलादिद्वारा सम्बन्धिनोऽपि क्रियानिमित्तत्वात् । किन्तु क्रियाऽन्वितविभक्त्यान्वितत्वं क्रियानिर्वर्तकत्वं वा कारकत्वम् । विशेष्यतया क्रिया सुप्तिङन्यतरविभक्त्यर्थेऽन्वेति । स च विशेष्यतयैव चैत्रघटादौ । षष्ठ्यर्थस्य तण्डुलादिनामार्थान्विततया क्रियाऽनन्वितत्वात् । अत एव षष्ठ्यर्थस्योपपदविभक्त्यर्थस्य च न कारकत्वम्, क्रियान्वयाभावा- दिति शाब्दिकाः । उपपदविभक्तीनामपि सम्बन्ध एवार्थः । चैत्रस्य पचती- त्यादावपि तण्डुलादिपदाध्याहारेणैव बोधः । षष्ठयर्थसम्बन्धस्य नामार्थेनैव रम्भः । तच्चाभिमुखीभवनानुकूलो व्यापारः क्रियान्वय्येवेति भावः । *आश्रय इति । द्वियीयातृतीयासप्तमीनामाश्रयोऽर्थः । *सुपामिति । 'प्रसि. द्धो नियमस्तत्र नियमः प्रकृतेषु वा' इत्युत्तरार्धमत्रावधेयम् । *तथा तिडामिति । तद्वत्तिकामपि सङ्ख्याकर्माधर्थ इत्यर्थः । क्रियानिमित्तत्वमिति । अत्र हि निमित्तं साक्षात्परम्परासाधारणम् । इदमेव पूर्वपक्षाणामभिप्रायः । *सम्बन्धिनीति । सम्बन्धिता च स्वस्वामिभावेन बोध्या। *उपपदविभक्कयर्थस्येति । पदोद्देश्यिकाविभक्तिरुपपदविभक्तिः । “नमःस्वस्ति. स्वाहा इत्यादिविहितचतुर्थ्यादेः पदोद्देश्यकत्वेन क्रियान्वयित्वाभावान कारकत्व. मिति भावः। *उपपदविभक्तीनामिति । उपपदविभक्तीनां षष्ट्यपवादस्वादिति ता. त्पर्यम् । *मध्याहारेणैवेति । येन विना यदनुपपन्नं तत्तेनाक्षिप्यते, इतिन्यायेन कर्म विनानुपपद्यमानपचिक्रियया योग्यस्य तण्डुलरूपस्य कर्मण आक्षेपोऽत्रावसेयः । *कर्मत्वादिनैवेति । अत्रादिना करणत्वादीनां सङ्ग्रहो बोध्यः । कारकाणां क्रिययैः ।
कारकविचारः। क्रियायाः कर्मवादिनैव साकाङ्क्षत्वेन सम्बन्धक्रिययोनिराकाङ्क्षत्वात् । यत्तु कारकान्तराप्रयोज्यत्वे सति कारकचक्रप्रयोजकत्वं कर्तृत्वमि- ति । तन्न । स्थाली पचति असिश्छिनत्तीत्यादौ स्थाल्यादेः कारकचक्राप्रयो- जकत्वात्कारकान्तरप्रयोज्यत्वाच्च तत्त्वं न स्यादित्यलम् । कर्मत्वं च प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रय- त्वेनोद्देश्यत्वम् । इदमेव कर्मलक्षणे ईप्सिततमत्वम् । गां पयो दोग्धोत्यादौ पयोवृत्तियों विभागस्तदनुकूलो व्यापारो गोवृत्तिः तदनुकूलश्च गोपवृत्तिः । अत्र पयसः कर्मत्वसिद्धये प्रयोज्यत्वनिवेशः । जन्यत्वनिवेशे तन्न स्यात् । प्रयागात्काशीं गच्छतीत्यत्र प्रयागस्य कर्मत्ववारणाय प्रकृतधात्वर्थफलेति । नहि विभागः प्रकृतधात्वर्थः; किन्तु नान्तरीयकतया गमने उत्पद्यते । प्रया- गस्य फलतावच्छेदकसम्बन्धेन(१) फलाश्रयत्वेनानुद्देश्यत्वाच्च । वान्वयादिति भावः। *कारकचक्रति । प्रकृतधातूपातक्रियान्वययोग्यकारकसमुदायप्रवर्तकमिति भा. वः । *तत्वम्-कर्तृत्वमिति यावत् । *प्रकृतधात्वथैति । तेन यदा पुष्टयर्थ माषमक्षणाय माषक्षेत्रे एवाश्वबन्धनम् , तदा 'माषेष्वश्वं बध्नाति' इत्यादौ माषाणां न कर्मत्वम् । बन्धनप्रयोज्यभक्षणफलाश्रयत्वे. ऽपि भक्षणस्य बध्नात्यर्थत्वाभावात् । ईप्सिततमत्वमिति* । माप्नोतेरिच्छासन्न- न्तात् कर्मकान्तात् प्रकृत्यर्थातिशयद्योतके तमपि निष्पन्न ईप्सिततमशब्दः । *प्र. योज्यत्वनिवेश इति गोव्यापार विना पयसि व्यापारपूर्वकविभागानुत्पत्तेः गोपव्या. पारजन्यो गोव्यापारो धातुवाच्यः । तज्जन्यस्तु पयोनिष्ठो व्यापारपूर्वको विभागः। तन्न पयोनिष्ठव्यापारस्य विभागनान्तरोयकत्वान्न धातुवाच्यतेति न तदुल्लेखः । एवञ्च पयोनिष्ठविभागरूपफलस्य गोपनिष्टधात्वर्थप्रधानव्यापारजन्यत्वाभावात्कर्म संज्ञा न स्यादिति साक्षात्परम्परासाधारणं प्रयोज्यत्वं निवेशनीयमिति भावः। *नान्तरीयक- तयेति । नहि पूर्वदेशविभागमन्तरेणोत्तरदेशे संयोग उत्पद्यते इति भावः । *फलताव. (१) फलस्य व्यापारे स्वानुकूलत्वं-स्वेच्छाधीनेच्छाविषयत्वम्-एतदुभय. सम्बन्धेनान्वयः । शसम्बन्धवटकच्छीयविषयतावच्छेदकश्च सम्बन्धः फलतावच्छे. दकः । तथा च तण्डुलं पचतीत्यादौ 'समवायेन विक्लित्याश्रयस्तण्डुलो भवत' इत्या. कारकेच्छायाः कर्तनिष्ठत्वेन तादृशेच्छीयफलनिष्ठविषयतावच्छेदकत्वस्य समवायेएव सत्त्वेन तत्सम्बन्धेन फलाश्रयस्यैव कर्मत्वम्, न तु कालकादिना फलाश्रयस्य । - परमलघुमञ्जूषायाम् । ननु प्रकृतधात्वर्थग्रहणेनैवात्रधारणादुद्देश्यत्वनिवेशःकिमर्थः, इति चेत: न । तस्यासाधारणं प्रयोजनं काशी गच्छन्पथि मृत इति काश्याः फलाश्रय- स्वाभावेऽपि फलाश्रयत्वेनोदेश्यत्वसत्त्वात्कमंत्वम् । ननु काशी गच्छति चैत्रे चैत्रः काशीं गच्छति न प्रयागमिति प्रयोगानुपपत्तिः, प्रयागस्य फलाश्रय- त्वनोद्देश्यत्वाभावादिति चेत् , उच्यते । कर्मलक्षणे ईप्सिततमपदस्य स्वार्थ विशिष्टयोग्यताविशेष लक्षणा। तथाच प्रकृतधात्वर्थप्रधानीभूतव्यापारप्र- योज्यप्रकृतधात्वर्थफलाश्रयत्वेनोद्देश्यत्वयोग्यताविशेषशालित्वं कर्मत्वम्। तच्च च्छेदकसम्बन्धेनेति* । येन सम्बन्धेन फलत्वप्रकारिकेच्छा भवति स एव सम्बन्धः फलतावच्छेदकः । यथा तण्डुलं पचतीत्यत्र समवायसम्बन्धेन विक्लित्याश्रयस्तण्डुलो भवतु इति इच्छायाः सत्वेन तेन सम्बन्धेन तण्डलस्य फलाश्रयत्वात्कर्मत्वम् । प्रकृते 'प्रयागात्कार्शी गच्छति' इत्यत्र अनुयोगित्वविशिष्टसमवायप्सम्बन्धस्य .फलतावच्छे. दकत्वात्तेन सम्बन्धेन प्रयागस्य फलाश्रयत्वाभावान्न कर्मत्वमिति भावः। ननु "कर्तु। राप्ततमं कर्म" इत्येव सूत्रमुच्यताम् , सन्ग्रहणञ्च सूत्रे मास्त्वित्यत आह-*नन्वि- ति* । तच्चेति निरुक्तफलाश्रयत्वेनेच्छोद्देश्यत्वयोग्यताविशेषशालित्वमित्यर्थः । . त्सम्बन्धस्य निरुकेच्छीयविषयतावच्छेदकत्वाभावात् । एवं ग्रामाद्विभजते इत्यादौ विभागसमानाधिकरणव्यापारार्थकविपूर्वकमजधातुयोगे प्रामादेने कमत्वम् । तस्य प्रकृतधात्वर्थव्यापारप्रयोज्यविभागरूपफलाश्रयत्वेऽपि 'अनुयोगित्वेन विभागाश्रयोऽहं भवानि इत्याकरकेच्छाया एव तत्र कर्तृनिष्ठायाः प्रतीयमानत्वेन अनुयोगित्वस्यैवे. च्छीयविषयतावच्छेदकत्वेन तेन सम्बन्धेन विभागरूपफलाश्रयत्वाभावात्। ग्रामं त्यज. तीत्यादौ त्यजधातुयोगं तु ग्रामादेः कर्मत्वं भवत्येत्र। तत्र त्यजधातुना कर्तृव्यापार- व्यधिकरणविभागस्यैव प्रतीत्या "प्रतियोगित्वेन विभागविशिष्टो ग्रामो भवतु" इत्याकारकेच्छाया एव तत्समभिव्याहारे प्रतीत्या च प्रतियोगित्वस्यैवेच्छीयविषय. तावच्छेदकत्वेन तत्सम्बन्धेन फलाश्रयत्वस्व सत्त्वात्। एवं च प्रयोगात् काशी ग. च्छति इत्यत्र नवीनमते पञ्चम्युपपत्तये विभागस्य धात्वर्थत्वेऽपि व्यापारसमानाधि. करणस्यैव विभागस्य प्रतीत्या अनुयोगित्वस्यैव फलतावच्छेदकत्वात्तेन सम्बन्धेन फलाश्रयत्वेन प्रयागल्यानुद्देश्यत्वान्न कर्मत्वमिति भावः। गमधात्वादिसमभिव्या- हारेऽपि विभागस्य धात्वर्थत्वं "ध्रुवमपाये” इति सूत्रे शब्देन्दुशेखरे स्पष्टमभिहितमि. ति तत एवावगन्तव्यम् । जन्यतावच्छेदकस्य, प्रकारतावच्छेदकस्यवा फलतावच्छेदक. सम्बन्धत्वमिति तुनयुक्तम् । तथा सति ग्राम त्यजति प्रामाद्विभजते इत्यादौ समवाय. स्यैवाविशेषेण फलतावच्छेदकत्वादुभयत्रापि प्रामादेः कर्मत्वापत्तेरित्यन्यत्र विस्त।
कारकविचारः। - प्रयागस्याप्यस्तीति कर्मत्वं तस्य सुलभम् । एतेन कार्यान्तरं कुर्वति चैत्रे किं ग्रामं गच्छति अथ वा ओदनं पचतीति प्रश्ने न ग्रामं गच्छति नौदनं पच- तीत्यादिप्रयोगा व्याख्याताः। यत्र तु ताडनादिना पराधीनतया विषभोज- नादिकं तत्र विषादि तादृशफलाश्रयत्वेनोद्देश्यमेव । अत एव “आतश्च विषमीप्सितं यद्भक्षयति ताडनात्" इति भाष्यं सङ्गच्छते । एतेन कशाभि. हतः कारागारं गच्छतीति व्याख्यातम् । कालत्रये काशीगमनशून्ये चैत्रे काशी गच्छति चैत्र इति वारणाय विशेष इति । काश्याः फलाश्रयत्वेनोद्दे- श्यत्वयोग्यतासत्त्वेऽपि तद्विशेषाभावान्न कर्मत्वम् । तद्विशेषश्च व्यापार लम- कालिकस्तटस्थजनगम्यः । किञ्च ईशस्थले तद्विशेषवत्त्वेऽपि निषेध एवानु- भवसिद्ध इति काशी न गच्छतीति किमनुपपन्नम् । नन्वन्तं भक्षयन् विषं भुङ्क्ते ग्रामं गच्छंस्तृणं स्पृशतीत्यादौ विषतृण- योरुद्देश्यत्वाभावात् कथं कर्मत्वमिति चेच्छृणु। “तथा युक्तम् इति लक्षणा- न्तरात् : प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्वमनी. StaMINERA - -- एवञ्च प्रयागस्य संयोगरूपफलाश्रयत्वेनेच्छोद्देश्यत्वाभावेऽपि निरुक्तयोग्यताविशेष. शालित्वात्कर्मत्वं सिद्धमिति तात्पर्यम् । एतेन-निरुक्तयोग्यताविशेषशालित्वनि- बशेन। *अत एव*-ताशस्यापि फलाश्रयत्वेनोद्देश्यत्वादेव । तत्र प्रमाणमाह- *आतश्चेति । अवश्यमेवेत्यर्थः । यत्र ताडनादिना फलाश्रयत्वं तत्र तेनेच्छैचोत्पाद्यते इति न स "तथा युक्तम्" इत्यस्य विषय इति ध्येयम् । *कशेति । चर्ममयी रज्जः कशा, "नधी वधी वरत्रा स्यादवादेस्ताडनी कशा" इत्यमरः । ननु योग्यतामात्रमेव निवेदयताम् , किमनेन विशेषपदोपादानेनेत्यत आह-कालत्रयेऽपीति । तस्या अपि तादृशयोग्यतासत्वात्कर्मत्वं दुर्वारमिति भावः । *अन्नं भक्षयन्निति* । यद्यपि 'अन्नं भक्षयन् विषं भुङ्क्ते, इत्यादौ पराधीनतया विष भुनानेऽपि भुजिक्रियाफलाश्रयत्वेनोद्देश्यत्वात्पूर्वसूत्रेणैव सिद्धम् । तदुक्तं भा- ज्ये- आतश्च विषमीप्सितं यत्तदक्षयतिइति । तथापि अत्र 'चोरान् पश्यति इत्यस्योपलक्षणं तद्बोध्यम् । तथायुक्तमिति । ईप्सितानीप्सितभेदेन कर्मणो द्वि- विधत्वाद्विषतृणयोरीप्सितकर्मत्वाभावेऽपि अनीवियतकम्मत्वस्याबाधान काप्यनु- पपत्तिरिति भावः । *प्रकृतधात्वर्थफले ति* । नन्वेवं कर्मत्वाननुगमप्रसङ्ग इतिचेदु- च्यते-प्रकृतधात्वर्थव्यापारप्रयोज्यप्रकृतधात्वर्थफलविशिष्टत्वं कर्मत्वम् । वैशिष्टय. ञ्च-स्वाश्रयत्व, स्वाश्रयत्वप्रकारकेच्छाविषयत्व एतदन्यतरसंसर्गेण बोध्यम् । एवञ्च ।
86 परमलघुमञ्जूषायाम्- प्सितकर्मत्वमिति तदर्थात् । प्रयागात्काशीं गच्छतीत्यत्र प्रयागस्य कर्मत्ववा- रणाय प्रकृतधात्वर्थफलेति ।द्वेष्योदासीनकर्मसङ्ग्रहार्थमिदं लक्षणम्। दुहा- दीनां ब्यापारद्वयार्थकत्वपक्षे "अकथितञ्च" इति व्यर्थम् , पूर्वेणैवेष्टसिद्धेः। एकव्यापारबोधकत्वपक्षे तु सम्बन्धषष्ठीबाधनार्थम् । तत्पक्षे कर्मसम्बन्धित्वे सति अपादानादिविशेषाविवक्षितत्वमकथितकर्मत्वमिति तृतीयलक्षणेन 'गां पयो दोग्धि' इत्यादौ गामित्यस्य कर्मत्वसिद्धिरित्यन्यत्र विस्तरः । यत्तु तार्किकाः-कर्मत्वं तु न करणव्यापारवत्वम् , तद्धि करणजन्य- व्यापारवत्त्वम् । दात्रेण धान्यं लुनातीत्यादौ हस्तादिकरणजन्यव्यापारवति दावादावतिव्याप्तः । नापि क्रियाजन्यफलशालित्वं तत् । चैत्रश्चैत्रं गच्छती- त्यापत्तेः । संयोगरूपफलस्योभयकर्मकर्तृनिष्ठत्वात् । नापि परसमवेतक्रिया- जन्यफलशालित्वं तत् । गमिपत्योः पूर्वस्मिन्देशे त्यजेश्चोत्तरस्मिन्देशे कर्म- त्वप्रसङ्गात्। नदी वर्धत इत्यादौ अवयवोपचयरूपवृद्धिक्रियायाः तीरप्रा- तिरूपफलाश्रये तीरे कर्मत्वापत्तश्चेति । अत्र ब्रूमः-धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वम् , तादृशफलं च गमेस्संयोगस्त्यजेविभागःपतेरधादेशसंयोगः।अधोदेशरूपकर्मणोधात्वर्थ- निविष्टत्वादकर्मकत्वेन पर्ण वृक्षाद् भूमौ पततीति । संयोगमात्रफलपक्ष - सर्वेषामनुगमसम्भव इति बोध्यम् । *व्यापारद्वयेति । दुहे:-क्षरणानुकूलव्यापारा- नुकूलव्यापारोऽर्थः, याचेः-परस्वत्वोत्पत्त्यनुकूलब्यापारानुकूलव्यापारोऽर्थः, एवं संयो. गानुकूलव्यापारानुकूलव्यापारो नीधात्वर्थ इति व्यापारद्वयार्थकत्वे पूर्वसूत्रेणैव कर्म. त्वसिद्धौ "अकथितञ्च" इति सूत्रं विफलमितिभावः । *गामित्यस्येति। गामित्यत्र गोपदार्थस्येत्यर्थः। *करणजन्येति । करणव्यापारजन्येत्यर्थः । 'धात्वर्थक्रियाजन्यफलशालित्वं कर्म- त्वम्' इति लक्षणेन दानादौ कर्मलक्षणस्यातिव्याप्तिवारणेऽपि "चैत्रो ग्रामं गच्छति इत्यत्र ग्रामस्येव चैत्रस्यापि कम्मैत्वापत्तिस्तदर्शयति-संयोगरूपेति । *धात्वर्थतावच्छेदकेति* ! धातुनिष्ठशक्तिनिरूपकतावच्छेदकेत्यर्थः । एवं गमि. पत्योः संयोगानुकूलव्यापारे शक्तिसत्वेन तादृशशक्तिनिरूपकताबच्छेदकतायाः संयोगे सत्वेन तदाश्रयत्वस्य पूर्वस्मिन्देशेऽसम्भवात् पूर्वदेशविभागरूपफलस्य संयोगानुकू- लव्यापारस्पक्रियाजन्यत्वेऽपि प्रकृतधात्वर्थतावच्छेदकत्वाभावान्न तदाश्रयस्य कर्मत्वं त्यजधातोविभागानुकूलव्यापारे शक्तत्वेन तत्रोत्तरदेशवृत्तिसंयोगस्य न धात्वर्थताव- कारकविचारः। 88 वृक्षाद् भूमि पततीति । ननु चतुर्थलक्षणेऽपि चैत्रश्चैत्रं गच्छतीत्यापत्तिः, तत्र हि धात्वर्थतावच्छेदकफलं संयोग इति चेत् , न । लक्षणे व्यापारा- नधिकरणत्वे सतीतिविशेषणादानादित्याहुः । तन्न । काशी गच्छन् पथि मृत इत्यादौ काश्याः, काशी गच्छति न प्रयाग- मित्यादौ प्रयागस्य, ग्रामं न गच्छतीत्यादौ ग्रामस्य च तादृशफलशालित्वा- भावादेतस्य लक्षणस्यात्र सर्वत्राव्याप्तेः। ननु वृक्षं त्यजति खग इत्यत्र वृक्षस्य विभागरूरफलाश्रयत्वेनापादानत्व.. मस्त्विति चेत् , न । अत्र हि विभागः प्रकृतधात्वर्थः । यत्र च विभागो न प्रकृतधात्वर्थस्तद्विभागाश्रयस्यैवापादानत्वम्, यथावृक्षापततीत्यादौ । पत्रच प्रकृतधात्वर्थो(१)विभागस्तत्रोभयप्राप्तौ "अपादानमुत्तराणि कारकाणि बा- धन्ते” इति भाष्ययुक्तेः कर्मत्वम् । अनुक्ते कर्मणि षष्ठीद्वित षष्ठीद्वितीये, भारतस्य श्रवणं भारतं शृणोतीति यथा । सकर्मकत्वं च फलव्यधिकरणव्यापारवाचकत्वम् । फलसमानाधिकरण. व्यापारवाचकत्वमकर्मकत्वम् । अद्य देवदत्तोभवति उत्पद्यत इत्यर्थः। अत्रो- स्पत्तिरूपं फलं बहिनिस्सरणं च व्यापारः देवदत्तनिष्ठ एव । व्यापारमात्र. वाचकत्वं वाऽकर्मकत्वम् । अस्ति भवति विद्यते वर्तत इत्यादिधातुषु फलस्य सर्वदुर्विज्ञेयत्वात् । सत्ता हि स्थितिरूपो व्यापारविशेषः । च्छेदकत्वं किन्तु विभागस्येवेति नोत्तरदेशे कर्मत्वातिव्याप्तिरितिभावः । *लक्षणे- लक्षणघटकफले इत्यर्थः । *व्यापाराधिकरणत्वे इति । एवञ्च धात्वर्थतावच्छेदक- व्यापारानधिकरणफलशालित्वमिति फलितम् । चैत्रवृत्तिसंयोगस्य व्यापारसमाना- धिकरणत्वान्न कर्मत्वापत्तिरिति भावः । विभागरूपफलाश्रयत्वेनेति । इदञ्च विभागाश्रयत्वमपादानत्वमित्यभिमाने- नोक्तम् । वस्तुतस्तु प्रकृतधात्वर्थविभागजनकतक्रियानाश्रयत्वे सति प्रकृतधात्वयंज- न्यविभागाश्रयत्वेन विवक्षितत्वमेव लक्षणम् , "ध्रुवमपायेऽपादानम्” इतिसूत्रस्वर- सात् । अत एव "अपाये यदुदासीनं चलं वा यदि वा चलम् । ध्वमेवातदावेशात्तद. पादानमिष्यते” इति हयुक्तिरपि सङ्गच्छते । *स्थितिरूप इति । स्वस्वरूपश्त्यनुकूलो व्यापार इति भावः । नन्वेवं “फल. (१)फलतावच्छेदकसम्बन्धेन च फलाश्रयत्वमिति शेषः। । ।
१०० परमलघुमञ्जूषायाम्- देवदत्तोऽस्तीत्यादौ देवदत्तकर्तृका सत्तेत्येव बोधाच । "फलव्यापारयो- र्धातुर्वाचक" इति तु बाहुल्याभिप्रायेणेति दिक् । स्वनिष्टव्यापाराव्यवधानेन फलनिष्पादकत्वं करणत्वम् । इदमेव साध- कतमत्वम्। क्रियायाः परिनिष्पत्तिर्यव्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ।। इति हर्युक्तेः । क्रियाया इत्यस्य फलात्मिका या इत्यर्थः । रामेण बाणेन हतो वालीत्यादौ धनुराकर्षणादेर्व्यापारस्य बाणव्यापारात्पूर्वमपि कर्तरि स- त्वात् ।रामाभिन्नकर्तृनिष्ठब्यापारप्रयोज्योयो बाणनिष्ठो व्यापारस्तज्जन्यं यत् प्राणवियोगरूपं फलं तदाश्रयो वालीति बोधाच्च । रामो बाणेन वालिनं हन्ती- त्यादो कर्तृप्रत्यये बाणव्यापारजन्यो यो वालिनिष्ठः प्राणिवियोगस्तदनुकूलो रामकर्तृको व्यापार इति बोधः । अर्थाद्रामव्यापारप्रयोज्यो बाणव्यापार इति पाष्णिको बोधः । कादिपञ्चकारकाणां करणत्ववारणाय व्यापाराव्यवधा. नेनेति दिक् । (१) क्रियामात्रकर्मसम्बन्धाय क्रियायामुद्देश्यं तत् कारक तत्त्वं सम्प्र. व्यापास्योर्धातु-"रित्यादिकारिकतो विरोध इत्यत आह-*बाहुल्याभिप्रायेणेति । *स्वनिष्ठेति । यस्य करणत्वंचिकीषितं तदेव स्वपदेन ग्राह्यम् । यथाहि-रामेण बाणेन हतो वाली' इत्यत्र बाणव्यापाराव्यवहितोत्तरफलनिष्पादकत्वं बाणस्येति लक्षणसमन्वयः । परे तु फलायोगव्यवच्छिन्नकारणत्वं करणत्वम् । स्वव्याप्येतरयाव. कारणसमवधाने सति यदव्यवहितोत्तरक्षणे फलनिष्पत्तिस्तत्वमिति यावत् । सत्य- न्तनिवेशाचक्षुषोऽन्धःकारे फलायोगेऽपि न तत्राऽप्रसङ्गः । प्रयोजकेऽतिप्रसङ्गनिरासा- याव्यवहितेति वदन्ति ! *क्रियाया इति । अत्र क्रियापदं फलपरम् । 'बाणेन हतः' इत्यत्र बाणव्यापा- राव्यवहितोत्तरक्षणे प्राणवियोगरूपफलावश्यम्भावाल्लक्षणसमन्वयः । विवक्ष्यते इति* । विवक्ष्यते इत्यनेन विवव विभक्तौ प्रयोजिका, न वास्तवकरणत्वादिसत्तेति भावः । इति बोध इति । "क्रिया प्रधानमाख्यातं सत्वप्रधानानि नामानि इति यास्कोक्तेः क्रियामुख्यविशेष्यको बोधः । अत्र क्रियापदं साध्यत्वेन प्रतीयमानधात्व. थपरम् । तेन पाचको देवदत्तः' इत्यादौ आश्रयस्य प्राधान्येऽपि न क्षतिः। सत्वम्- द्रव्यम्, लिङ्गसंख्यान्वयीति यावत् । *क्रियामात्रेति । "मानं कास्न्येऽवधारणे" (१)अन मात्रशब्दः कास्न्ये । तथाच क्रियासामान्यस्य कर्मणा सम्बन्धाये. ७ कारकविचारः। - दानत्वम् । यथा ब्राह्मणाय गां ददातीत्यादौ दानक्रियाकर्मीभूतगोसम्बन्धाय ब्राह्मणो दानक्रियोद्देश्यः । गोब्राह्मणयोः स्वस्वामिभावः सम्बन्धः, चैत्रो मैत्राय वार्ताः कथयतीत्यत्र मैत्रवातयो यज्ञातृभावः सम्बन्धश्च । यत्तु वृनिकारः-सम्यक्प्रदीयते यस्मै तत्सम्प्रदानमित्यन्वर्थसंज्ञेयम् । तथा च गोनिष्ठत्वस्वत्वनिवृत्तिसमानाधिकरणपरस्वत्वोत्पत्त्यनुकूलव्यापार- रूपक्रियोद्देश्यस्य ब्राह्मणादेरेव सम्प्रदानत्वम् । पुनर्ग्रहणाय रजकस्य वस्त्र- दाने रजकस्य वस्त्रं ददातीति सम्बन्धसामान्ये षष्ठये वेत्याहुः ।। तन्न । “खण्डिकोपाध्यायः शिष्याय चपेटां ददाति" इतिभाष्यविरो- धात्। “कर्मणा यमभिप्रैति" इति सूत्रव्याख्यावसरे भाष्यकृताऽन्त्रर्थसंज्ञा- या अस्वीकाराच्च । अत एव- तदाचक्ष्वासुरेन्द्राय स च युक्तङ्करोतु यत् । इति सप्तशतीश्लोकः सङ्गच्छते । तस्माद्रजकाय वस्त्रं ददातीत्यादि भव- स्येव । अत्राधीनीकरणेऽर्थ ददातिः । चपेटां ददातीत्यत्र न्यसनेऽर्थे इति । सम्प्रदानचतुर्थ्यर्थ उद्देश्यः । तथा च ब्राह्मणोद्देश्यकं गोकर्मकं दान- मिति बोधो मैत्रोद्देश्यक वार्ताकर्मकं कथनमिति च। अकर्मकक्रियोद्देश्य- त्वं सम्प्रदानत्वमितिलक्षणान्तरम् । यथा पत्ये शेते इत्यादि । पत्युद्देश्यक इत्यमरकोषादत्र मात्रशब्दाकात्न्यथिको बोध्यः । एवञ्च सकलक्रियाकर्मीभूतस. म्बन्धाय क्रियायामुद्देश्यं यत् कारकं सम्प्रदानत्वमित्यर्थः । ब्राह्मणाय गामिति । परस्वत्वजनकस्वस्वत्वध्वंसावच्छिन्नेच्छात्मकस्त्यागो दाधात्वर्थः । उद्देश्यत्वं चतु. र्थ्यर्थः । गोरूपकर्मणश्चाश्रयत्वसम्बन्धेन स्वस्वरूपफलेऽन्वेति । तथाच-गोवृत्तिस्व. त्वजनकस्वस्वत्वध्वंसानुकूलो विप्राभिन्नोद्देश्यकस्त्याग इति वैयाकरणमते शाब्दबो. धोऽवसेयः। *सम्प्रदानमिति* । स्वस्वत्वनिवृत्तिसमानाधिकरणपरस्वत्वोत्पत्यनुकूलव्यापारः सम्प्रदानशब्दार्थः । एवञ्च 'रजकाय वस्त्रं ददाति इत्यादौ उक्तार्थाभावात् 'रजकस्य वस्त्रं ददातिः इत्येव प्रयोग इति तेषामाशयः । *खण्डिकोपाध्यायः* बालशिक्षकः । *चपेटाम्*-प्रसृतकरतलम् । 'उद्देश्य इति । "आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेब वा" इत्यनेन तस्यैव चतुर्थ्यर्थत्वेनाभिधानादिति भावः । *लक्षणान्तरमि. ति* | "कर्मणा यमभिप्रेति स सम्प्रदानम्" इति सूत्रे कर्मणः क्रियायां साकासित त्यर्थः, नतु दानरूपाया एव । तेन चैत्रो मैत्राय वार्ताः कथयतीत्यादौ कथनादिसङ्ग्रहः। । 2 ।
। १०२ परमलघुमञ्जूषायाम् । नायिकाकर्तृकं शयनमिति बोधः । ननु दानादीनां तदर्थत्वात्तादर्थं चतुथ्यैव सिद्धौ ! किं "कर्मणा यम" इति सम्प्रदानसंज्ञया, "चतुर्थीसम्प्रदाने” इति सूत्रं तु "रुच्यर्थानाम्” इति विषये चतुर्थ्यर्थमिति चेत्, न । दानकर्मणो गवादेर्ब्राह्मणार्थत्वेऽपि दानक्रि- यायाः परलोकार्थत्वात् । अत एव तादर्थ्यचतुर्थी दानकर्मणो गवादेः स. प्रदानार्थत्वेऽपि दानक्रियायास्तदर्थत्वाभावेन चतुर्थ्यन्तार्थस्य दानक्रियाया- मन्वयानापत्त्या कारकत्वानापत्तिरिति हेलाराजः । उपकार्योपकारकत्वसम्बन्धस्तादयं चतुर्थ्यथः । ब्राह्मणाय दधीत्यादौ ब्राह्मणोपकारकं दधीति बोधादिति दिक् । तत्तत्कर्तृसमवेततत्तत्क्रियाजन्यप्रकृत धात्ववाच्यविभागाश्रयत्वमपादा. नत्वम् । तदेवावधित्वम् । विभागश्च न वास्तवसम्बन्धपूर्वको वास्तव एव; त्वात् क्रियालाभः । अभिप्रैति-इच्छति सम्बन्धुमिति कर्म सम्बन्धाय यः सम्बन्धुमि. च्छति स सम्प्रदानम् । तत्फलितार्थकथनमिदम्-"क्रियामात्रकर्मलम्बन्धाय' इति । तेन 'ब्राह्मणाय गां ददाति शिष्याय शास्त्रमध्यापयति' इत्यादि सिद्धम् । 'पत्ये शेते. इत्यादौ तु तेन लक्षणेन सम्प्रदानसंज्ञाया अप्राप्तिरत: "क्रियया यमभिप्रेति स सम्प्र- दानम्” इति वातिकारम्भः । तन्मूलकमेवेदं लक्षणम् 'अकर्मक्रियोदेश्यत्वम्' इति तात्पर्यम् । *पत्ये शेते इति । परे तु 'पत्ये शेते' इत्यादौ शयनादिक्रियाया अपि. सन्दानप्रार्थनव्यवसायजन्यारम्भक्रियानिरूपितकर्मत्वमाहुरिति न तदर्थ लक्षणान्त. रख्यापेक्षेतिदिक् । ननु स्वर्गरूपोपकारस्य विप्राद्यगामित्वेऽपि दुग्धाधुपभोगरूपोपकारस्य तद्गामि- त्वात् तज्जनकत्वस्य दुग्धादिद्वारा गवादाविव गवादिद्वारा तानादावपि सम्भवात् ताशस्यैव तादर्थ्यस्य विवक्षया कैयटादिमते दानादिक्रियान्वयोपपत्या कारकत्वमु. पपद्यते एवेति न तत्प्रयुक्तकार्याणामनापत्तिः सूत्राभावेऽपीत्यत आह-*तदर्थत्वा- तादथ्यति । *दानक्रियायामन्वयानापत्येति । दानक्रियायाः स्वर्गार्थत्वात् स्वर्ग: रूपोपकारस्य दानक्रियाकतृगामित्वात् तद्दतफलद्वारातज्जनकत्वरूपतादर्थ्यस्य ब्राह्म. णादिनिरूपितस्य दानक्रियायामभावेन चतुर्थ्यन्तार्थस्य तत्रान्वयानापत्तिरित्यर्थः । अपि च तादर्थ्यरूपविभक्त्यर्थस्य दानादावनन्धये गवादावेवान्वये च 'ब्राह्मणाय गोदानम्' इत्यादौ सापेक्षत्वात्समासानापत्तिः । कारकविभक्त्यर्थसाकाङ्कस्येव ताद. Wसापेक्षस्यापि समासाङ्गीकारे 'ब्राक्षणाय कम्बलरोमाणिः इत्यादेप्यापत्तिरिति बो- व्यम्।
कारकविचारः। । किन्तु बुद्धिपरिकल्पितसम्बन्धपूर्वको बुद्धिपरिकल्पितोऽपि। माथुराः पाट- लिपुत्रकेभ्य आढयतरा इत्यादौ बुद्धिपरिकल्पितापायाश्रयणेनैव भाष्ये पञ्चमी साधनात् । अत एव चैत्रान्मैत्रः सुन्दर इत्यादिलों के प्रयोगः। (१) वृक्षं त्यजति खग इत्यादावपादानत्ववारणाय प्रकृतधात्ववाच्येति। परस्परस्मा- न्मेषावपसरत इत्यत्रापादानत्वाय तत्तत्कर्चिति । तत्तत्पशुविशेषनिष्ठव्यापार- जन्यविभागाश्रयस्तत्तत्पशुविशेषः। कि च मेषपदवाच्ययोः पशुविशेषयोः क्रियाश्रयत्वविवक्षा, परस्परपदवाच्ययोस्तयोस्तु विभागाश्रयत्वविवक्षेत्यौ- पाधिकस्तयोर्भेदः । शब्दस्वरूपोपाधिकृतभेदोऽप्यर्थे गृह्यते । यथाऽऽत्मान- मात्मना वेत्तोत्यादौ शरीरावच्छिन्नं कर्तृ, अन्तःकरणावच्छिन्नं करणं, निर- वच्छिन्नं निरीहं कर्म । एकस्यैव शब्दभेदाझेदः। शब्दालिङ्गितस्यैव सर्वत्र भानात् । तदाह- न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमाहते। अनुविद्धमिव ज्ञानं सर्व शब्देन भासते ।। इति ननु ह्येतदीपाधिकभेदमादायैवात्रापादानत्वे सिद्धे किं तत्तत्कर्तृसमवेते- त्यनेनेति चेत , न । पर्वतात्पततोऽश्वात् पतत्यश्ववाह इत्यादावश्वस्यापा. दानत्वाय तत्स्वीकारात् । ननु वृक्षात्पर्ण पततीत्यादौ ताशफलाश्रयत्वात्पर्ण- *बुद्धिपरिकल्पित इति । "जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्" इतिवार्ति. कप्रत्याख्यानपरम्भाष्यमत्र प्रमाणम् । तथाहि-"तत्तहि वक्तव्यम् । न वक्तव्यम् । कथं तावत् अधर्माज्जुगुप्सते अधर्मात् बिभत्सते, इति । य एष मनुष्यः प्रेक्षापूर्वकारी भवति दुःखोऽधर्मो नानेन कृत्यमस्तीति स बुद्धया सम्प्राप्य निवर्तते। तत्र "ध्रुवम. पायेऽपादानम्" इत्येव सिद्धम्" इत्यादिभाष्वे उक्तम् । अनेन भाष्येण बुद्ध्या परिक- ल्पितमपादानत्वं स्पष्टमेवोक्तम् । वृक्षमिति । खगसमवेतविभागानुकूलक्रियाजन्य. विभागाश्रयत्वात् वृक्षल्यापादानत्वापत्तिरिति भावः । परस्परस्मादिति । परस्पर. पदोपात्तयोरपादानत्वम्, तत्तत्क्रियाश्रयत्वान्मेषपदोपात्तायाःकर्तृत्वञ्चोपपद्यत इत्यर्थः। *न सोऽस्तीति । यथा ज्ञान विषयमपोर न भासते; किन्तु विषयविशिष्टमेव, तथा शब्दोऽपि स्वरूपं परित्यज्य न केवलमर्थं प्रत्याययतीतिभावः । पर्वतात्पतत इति । अचसमवेतक्रियाजन्यप्रकृतधात्ववाच्यविभागाश्रयत्वेन पर्वतस्य, अन्धवाहस- मवेतक्रियाजन्यप्रकृतधात्ववाच्यविभागाश्रयत्वेन चावस्यापादानत्वमिति भावः । *तदिति । तत्तत्कर्तृसमवेतेति । *पर्णस्यापादानत्वमिति । पर्णसमवेतक्रियाजन्य. (१) अनत्यं तत्त्वं पूर्वमुक्तम् । ।
। १०४ परमलघुमञ्जूषायाम्- स्याप्यपादानत्वं विभागस्य द्विष्टत्वादिति चेत् , न । परया कर्तृसंज्ञया बाधा- त्। अतएव 'अपादानमुत्तराणि कारकाणि बाधन्ते" इतिभाष्यं सङ्गच्छते। यत्तु केचिद्-गत्यनाविष्टत्वे सति तज्जन्यविभागाश्रयत्वमपादानत्व- मिति । तन्न । तत्तद्वाक्ये मेषाश्वयोरपादानत्वानापत्तेः । यदपि अपसरत इति सृधातुना गतिद्वयस्याप्युपादानादे कनिष्ठां गतिं प्रतीतरस्यापादानत्वम- विरुद्धमिति । तन्न । क्रियाया एकत्मात् । अत एव"न वै तिङन्तान्येकशे. पारम्भं प्रयोजयन्ति क्रियाया एकत्वात् इति भाष्यं सङ्गच्छते । पञ्चम्योऽवधिः । वृक्षावधिकं पर्णकर्तृकं पतनमिति बोधः । पर्वताव- धिकपतनाश्रयाभिन्नाश्वावधिकमश्ववाहकर्तृकं पतनमिति बोधः । पर- स्परमेषावधिकं द्वित्वावच्छिन्नमेषकर्तृ कमपसरणमिति बोध इति दिक् । कर्तृकर्मद्वारकफलव्यापाराधारत्वमधिकरणत्वम् । यथा स्थाल्यामोदनं गृहे पचतीत्यादौ कर्मद्वारकविक्लित्तिरूपफलाधारः स्थाली, कर्तृद्वारकव्यापा- राधारोगृहमिति । ननु साक्षाक्रियाधारयोरोदनचैत्रयोरधिकरणत्वलब्धौ प- रम्परयातदाधारयोगृहस्थाल्योस्तत्संज्ञा त्वयुक्तति चेत् ,न। परत्वात्कर्तकमसं- १ प्रकृतधात्ववाच्यविभागाश्रयत्वं यथा वृक्षस्य तथा पर्णस्यापि सत्वादपादानत्वापत्ति- रिति भावः । अत एवेति । परया कर्तृसंज्ञया बाधादेवेति । *गत्यनाविष्टत्वे सती. ति* । संयोगानुकूलव्यापारानाश्रयत्वे सतीत्यर्थः । *तज्जन्येति । विभागजनकक्रिया- जन्येत्यर्थः । एवञ्च 'वृक्षात्पर्णम्' इत्यादौ वृक्षादेस्तादृशव्यापारानाश्रयत्वात् पर्णवृत्त्यु. त्तरदेशसंयोगानुकूलव्यापारजन्यविभागाश्रयत्वेन विवक्षितत्वाच्च वृक्षस्यापादानत्वसि- द्विरिति तेषामाशयः । तत्तद्वाक्ये इति* ! 'परस्परान्मेषावपसरतः पर्वतात्पततोऽ. श्वात्पततिइत्यादिवाक्ये इति यावत् । भूषणकारस्य मतं खण्डयति-*यदपीति । *गतिद्वयस्येति । गतित्वसामान्यधर्मपुरस्कारेणै के नैव धातुना कर्तृभेदेन गतिरूपक्रि- याद्वयस्य प्रतीतिसम्मवाभिप्रायेणेदमुक्कामति बोध्यम् । *क्रियाया एकत्वादिति । द्विवचनाद्वित्वसंख्यायाः काश्रयत्वेन प्रतीतेरेकशेषं बिना धातुतः प्रतीतिसम्भवा- भावादिति भावः । धातूनामेकशेषस्याभावे प्रमाणमुपदर्शयति-*अत एवेति । *कर्तृकर्मद्वारेति । एतादशार्थलाभश्च तत्सूत्रसामर्थ्यादेव लभ्यते । तथाहि- कारकाधिकारीयेणैतेन क्रियान्वय्याधारस्याधिकरणसंज्ञा विधीयते । क्रिया च धात्व. थः । साक्षादाधारस्य पराभ्यां कर्तृकर्मसंज्ञाभ्यामाक्रान्तत्वादिदं सूत्रमनवकाशं सत् - कारकविचारः। १०५ ज्ञाभ्यां साक्षादाधारीभूते बाधात(१)। स्थाल्यधिकरणिका या ओदननिष्ठा- विक्लित्तिस्तदनुकूलो गृहाधिकरणको(२)मैत्रकर्तृको व्यापार इति बोधः । तचाधिकरणं त्रिधा अभिव्यापकमौपश्लेषिकं वैषयिकं चेति । तत्र स- कलावयवव्याप्ती व्यापकाधारत्वम् , यथा तिलेषु तैलमस्तीत्यादि । उप स- मोपेश्लेष:सम्बन्ध उपश्लेषस्तत्कृतमौपश्लेषिकम् । अत एव"इको यणचि" इत्यादावौपश्लेषिकाधारे सप्तम्युक्ता“संहितायाम्" इति सूत्रेभाष्ये। तत्राजादि सामीप्यमेवेगादीनाम् । “यन्मासेऽतिक्रान्ते दीयते तस्य मास औपश्लेषिक- मधिकरणम् मासिकं धान्यम्" इत्युक्तम् “तत्र च दीयते” इति सूत्रे भाष्ये । परम्परया तदाश्रयस्य ग्रहणम्बोधयति । परम्पराच कर्तृकर्मद्वारैवेति स्पष्टम्-'कर्तृकर्म- व्यवहितामक्षाद्धारयत्क्रियाम् । उपकुवैत्क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम्" इति वाक्यपदीयादिति यावत् । *मैत्रकर्तृक इति । एकत्वविशिष्टमैत्राभिन्नाश्रयवृत्तिर्वत. मानो व्यापार इति भावः । *अभिव्यापकमिति* । च्याप्यव्यापकमावघटितसम्बन्धेन क्रियाश्रयोऽभिव्याप. कम् । *औपश्लेषिकमिति । संयोगवटितपरम्परासम्बन्धेन क्रियाश्रय औपश्लेषिकम् । *सप्तम्युक्तति । अत एव ईशसूत्रेषु "तस्मिन्निति" इतिसूत्रोपस्थितिः । तस्या हि औपश्लेषिकाधारबोधकसप्तम्यन्तम्प्रवृत्तौ निमित्तमिति ध्येयम् । *उक्तभाष्यविरोधा. दिति । तद्भाष्येण हि समीपत्वस्य सप्तम्यर्थत्वप्रतीत्या 'कटे आस्ते इत्यत्र तस्याभा. (१) बाधादिति । अतएव गृहं प्रविशति, मोमिच्छति इत्यादौ न सप्तमी। मोक्षे इच्छाऽस्ति इति तु प्रत्ययोपात्तेच्छारूपकर्तृद्वारा अस्तिक्रियायामन्वयाबोध्यम् । धातूपात्तेच्छायामन्वये तु कर्मत्वात् "कर्तृकर्मणोः" इति षष्ट्येवेति दिक् । (२) अन्ये तु गृहाधिकरणको यश्चैत्रस्तत्कतको व्यापारः, स्थाल्यधिकरणको य ओदनस्तन्निष्टा या विक्लित्तिरित्येवम् अधिकरणकारकस्य कर्तृकर्मणोरेवान्वयः। अत एव अक्षशौण्ड इत्यादौ समासः सिध्यति । क्रियायामन्वये तु शौण्डादिना सा- मर्थ्यात् समासो न स्यात् । शौण्डादिपदस्य आसक्तशौण्डादौ लक्षणया अन्तर्भूताश- क्त्यादिक्रियाद्वारा सामोपपादनं तु न युक्तम् । अक्षविषयकशौण्डत्ववान् इति बो- धस्यैव ततो जननात् , विवक्षितत्वाच्च । अक्षशौण्डस्य धनमित्यादौ शौण्डादेरकर्तृत्वे तु अगत्या आसक्तशौण्डादौ लक्षणाश्रयणम् । तत्र शौण्डत्वस्य विधेयत्वेनाविवक्षित. त्वाल्लक्षणाश्रयणेऽदोषात् । एतेन तन्त्र लक्षणास्वीकारेऽत्रापि लक्षणोचितेत्यपास्तमि- त्याहुः।
१०६ परमलघुमञ्जूषायाम्- यत्त कटे आस्ते इत्यौपश्लेषिकोदाहरणमुक्तं कैयटेन, तदयुक्तम् , उक्त- भाष्यविरोधात् । एतद्व्यतिरिक्तं वैषयिकमधिकरणम् । कटे आस्ते, जले सन्ति मत्स्या इत्यादि (१)अभिव्यापकातिरिक्तंगौणमधिकरणमिति बोध्य- म् । सप्तम्यर्थोऽधिकरणमिति दिक । ज्ञापकक्रियाश्रयवाचकादुत्पन्नायाः सत्सप्तम्यास्तु क्रियान्तरज्ञापकत्वम. र्थः । तत्रानिीतकालिकायाः () क्रियाया निर्णीतकालिका ज्ञापिका। गो. षु दुह्यमानासु गत इत्यादौ गोनिष्टदोहनक्रियाज्ञापितगमनाश्रयश्चैत्र इति बोध:(३)। । वान्नौपश्लेषिकोदाहरणमिति बोध्यम् । वैषयिकमिति । विषयतापटितपरम्परास. म्बन्धेन क्रियाश्रयो वैषयिकम् । 'खे पक्षिण मोक्षे इच्छा अस्ति' इत्युदाहरणानि अस्य ज्ञेयानि । सप्तम्यर्थ इति । अधिकरणत्वशक्तिमांश्चाधिकरणविभक्त्यर्थः । *ज्ञापकक्रियेति । “यस्य च मावेन भावलक्षणम्” इति सूत्रविहितसतम्या इत्य. र्थः । *गोषु दुह्यमानास्विति । ज्ञापकक्रियाश्रयः कर्ता कर्म च । तत्र 'ब्राह्मणेष्वधी. (१) अने वृक्षः कपिसंयोग्यस्तीत्यादौ अग्राधिकरणिका कपिसंयोगविशिष्टवृक्ष- कर्तृका सत्ता इति बोधे संयोगस्याव्याप्यवृत्तित्वात् वृक्षस्यावयवान्तरे मूलादौ कपि. संयोगविशिष्टवृक्षाभावप्रतीतेः कपिसंयोगे अग्रावच्छेद्यत्वं फलति । शिरसि मे वेदना इत्यादि तु अवच्छेद्यावच्छेदकभावसम्बन्धस्याध्याधारतानियामकत्वादुपपादनीयम् । (२)अनिर्णीतकालिकाया इति । एवम् अनिर्णीतदेशिकोया निर्णीतदेशिका लक्षणम् । सति गुणे द्रव्यत्वमस्तीत्यादौ गुणनिष्टसत्ताज्ञापया द्रव्यत्वनिष्ठा सत्तेति बो. धः। ज्ञाप्यज्ञापकभावस्योत्सर्गत:सामानाधिकरण्ये सत्येव प्रतीतेः सामानाधिकरण्येन गुणविशिष्टं दव्यत्वमिति फलति । एतन्मूलक एव सत्सप्तम्या वैशिष्टयमर्थ इति ताकि- काणां प्रचादः । जले पीते तृषा शाम्यतीत्यादौ भूतार्थकप्रत्ययसमभिव्याहारे एतद्योगे हेतुत्वस्याप्याकाङ्या प्रतीतेरस्या निमित्तसप्तमीत्वव्यवहारोऽपीति दिक् : ज्ञाण्य. ज्ञापकभावश्च तत्तच्छब्दबोध्यत्वेन विवक्षित एवैतच्छास्त्रप्रवृत्तौ निमित्तम् , नतु वह्नि- धूमयोरिव व्यभिचारादर्शनसहकृतभूयोदर्शनाश्रयः । तथासति उदिते आदित्ये तमो नष्टमित्यादावेव स्यात् , गोषु दुह्यमानासु गत इत्यादौ कादाचित्कगमने विवक्षिते न. स्यादिति बोध्यम्। (३) दुह्यमानगोज्ञाप्यगमनाश्रय इति शब्दतो बोधे गोपिकत्वस्य विशेषणी- भूतदोहनक्रियाद्वारीव पर्यवसितत्वात् गोनिष्ठदोहनक्रियाज्ञाप्यगमनाश्रयश्चैत्र इति बोधः फलितो भवति । एवमेव सति गुणे द्रव्यत्वमित्यादावपि बोध्यम् । .
कारकविचारः। कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिःसम्बन्धः षष्ठया वा- च्यः । तत्र राज्ञः पुरुष इत्यादौ षष्ठीवाच्यसम्बन्धस्याश्रयायिभावसम्बन्धे- न पुरुषेऽन्वयः । राजनिरूपितसम्बन्धवान पुरुष इति बोधात् । ननु सम्ब- न्धस्योभयनिष्ठत्वात् पुरुषशब्दादपि षष्ठयुत्पत्तिरस्त्विति चेत् , न । राज. सम्बन्धिपुरुष इतिविवक्षायां राजशब्दादेव षष्ठी, 'प्रकृत्यर्थप्रत्ययाथयोः प्रत्ययार्थस्यैव प्राधान्यम्' इति व्युत्पत्त्यनुरोधात् । अन्यथा तद्विवक्षायह राजा पुरुषस्येति पुरुषशब्दात् षष्ठयां पुरुषार्थ प्रति षष्ठ्यर्थस्य विशेषण- त्वापत्त्या व्युत्पत्तिभङ्गापत्तेः । अत एवाह- भेद्यभेदकयोश्चैकसम्बन्धोऽन्योन्यमिष्यते । द्विष्ठो यद्यपि सम्बन्धः षष्ठयुत्पत्तिस्तु भेदकात् ।। इति । भेदकः सम्बन्धनिरूपको, भेद्यः सम्बन्धाश्रयः । इति षट् कारकाणि ॥ - यानेषु गतः' इति कर्तर्युदाहरणम् । कर्मण्युदाहरणम्-गोषु दुयमानासु गतः इति । अत्र दोहनक्रियाज्ञानजन्यज्ञानविषयताश्रयो य उत्तरदेशसंयोगस्तदनुकूलव्यापाराश्र. याभिन्नवचैत्र इति बोधः स्वस्वामिभावादिरिति । अत्रादिनावयवावयविभावजन्यजनकभावविषयविषः यिभावादयो प्रायाः । प्राचीनास्तु सम्बन्धत्वेन रूपेण तत्तत्सम्बन्धे शक्तिः स्वीकुर्व. न्ति, न सम्बन्धेषु प्रत्येकं शक्तिः । अनेकशक्तिकल्पने गौरवापत्तेः । एवञ्च शक्यताव. च्छेदकस्य सम्बन्धत्वस्य कर्तृत्वकर्मत्वादिषु विद्यमानत्वात् सम्बन्धत्वेन रूपेण षष्ट्य. थताऽस्त्येव । अत एव सम्बन्धत्वविवक्षायां 'सतां गतम्। 'सर्पिषो जानीते' इत्यादौ षष्ठी सिद्धा। नव्यास्तु-सम्बन्धत्वेन रूपेण न स्वस्वामिभावादिसम्बन्धः षष्ठया वाच्यः । “एकशतं षष्टयर्थाः" इति "पष्टीस्थानेयोगा' इतिसूत्रस्थभाष्यमप्यत एवं सङ्गच्छते। 'राज्ञः पुरुषः' इत्यादौ तु स्वत्वस्वामित्वरूपः समूहः षष्ठयों न स्वत्वं स्वामित्वं वा । तस्यै कमात्रवृत्तित्वादित्याहुरिति दिन् । *व्युत्पत्तिभापत्तेरिति । 'प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यम्' इति व्युत्पत्तिभङ्गापत्तेरिति भावः । *भेदकात्-*विशेषणवाचकात् । ।
१०८ परमलघुमञ्जूषायाम्- अथ नामार्थः । अत्र मीमांसकाः-शब्दानां जातौ शक्तिलाघवात् । व्यक्तीनामानन्त्येन तत्र शत्तौ गौरवात् । "नागृहीतविशेषणा बुद्धिर्विशेष्य उपजायते" इति न्यायस्य विशेषणे शक्तिविशेष्ये लक्षणेति तात्पर्यात् । किञ्च एकस्या व्यक्तौ शक्त्युपदेशे व्यक्त्यन्तरे तदभावेन तद्बोधाप्रसङ्गात् । गामानये. यादावन्वयानुपपत्या तदाश्रयलक्षकत्वेन निर्वाहश्चेत्याहुः। तन्न । गोत्वमस्तीत्यर्थेऽन्वया पपत्यभावेन गौरस्तीति प्रयोगे व्यक्ति- भानानापत्तेः । व्यक्तीनामानन्त्येऽपि शक्यतावच्छेदकजातेरुपलक्षणत्वेन तदैक्येन च ताशजात्युपलक्षितव्यक्तौ शक्तिस्वीकारेणानन्तशक्तिकल्पना- विरहेणागोरवात् । लक्ष्यतावच्छेदकतीरत्वादिवत् शक्यतावच्छेदकस्यावा. च्यत्वे दोषाभावात् । “नागृहीत" इति न्यायस्य विशेषणविशिष्टविशेष्यबोधे " *जातावित* । तत्तत्पदार्थसाधारणो धर्मो जातिरित्यर्थः । तेन अभावत्वाकाश- त्वादीनां नित्यानेकसमवेतत्वरूपजातित्वाभावेऽपि न क्षतिः । जातेः शब्दशक्यत्वे मानन्तु "जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्" इति सूत्रे "सवर्णेऽणग्रहण- मपरिभाष्यमाकृतिग्रहणात् सिद्धम्" इति वार्तिकम् । "आकृति वाजप्यायन इति सरूपसूत्रस्थं भाष्यञ्चेति भावः । युक्तिमध्याह-*लाघवादिति । एकस्या एव शक्ते- रेकस्या एवं सम्भवादिति भावः । ननु शक्तिमाहकशिरोमणिना व्यवहारेण व्यक्तावेव तत्परिच्छेदात्कथं जातौ तत्सिद्धिरत आह-*व्यक्तिनोमानन्त्येनेति । पूर्वव्यवहारेण व्यक्तौ शकिग्रहेऽप्यानन्त्यात् तावतीषु शक्तिमहासम्भवात्तत्तदाश्रयभेदभिन्ननानाश- तिकल्पने गौरवात्पश्चाज्जातादेव निर्धाय्यते इति भावः । ननु नागृहीतविशेषणा बुद्धिर्विशेष्य उपजायते” इतिन्यायेन उभयत्र शक्तः प्रतीयमानत्वात्कथं जातादेव शक्तिरित्यत आह-विशेषणे इति । *गामानयेत्यादाविति । अत्रादिना 'ब्राह्मणों न हन्तव्यः' इत्यादेः सङ्ग्रहो बो. ध्यः । एवञ्च सर्वत्र लक्षणयैव स्वाश्रयत्वसम्बन्धेन व्यक्तिमानसम्भवे तत्र शक्तिकल्पन निष्फलमेव । मीमांसकमतं खण्डयति-*तन्नेति*। *अन्वयानुपपत्येति । गोत्वल्यानयन- क्रियायां कर्मतयान्वयानुपपत्येति भावः । *शक्यतावच्छेदकेति । सम्बन्धितावच्छे. दकजातेरनुगतत्वात् तदच्छिन्नाया एकस्या एव शरभ्युपगमेन अनन्तशक्तिरूप. गौरवस्याभावादिति तात्पर्यम् । ननु शक्यतावच्छेदकत्वाज्जातेरपि वाच्यत्वमावश्य- कमिति शङ्कानिरसनायाह-*लक्ष्यतावच्छेदकेति ।
- नामार्थविचारः। तात्पर्येऽपि त्वदुक्ततात्पर्ये मानाभावात् । जातेरुपलक्षकत्वेन तदाश्रयसक- लव्यक्तिबोधेन व्यक्त्यन्तरबोधाप्रसङ्गभङ्गाच्च । तदाह- आनन्त्येऽपि हि भावानामेकं कृत्वोपलक्षणम् । शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यति ।। इति ।। युक्तं ह्येतत् । शक्तिग्रहं व्याकरणोपमान- कोशाप्तवाक्याद्वयवहारतश्च ! वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ।। इत्येतेषु शक्तिप्राहकशिरोमणिर्व्यवहारो व्यक्तावेव शक्तिं ग्राह्यति ! गवादिपदेन लोके व्यक्तेरेव बोधात् ।। OR *आनन्त्येऽपीति । भावानाम्-व्यक्तीनां नानात्वादपरिच्छेद्यत्वेऽपि, एकम्- अनुगतजात्यादिधर्मम् , उपलक्षणम्-अशक्त्यत्वेऽपि शक्यव्यावर्तकम् , कृत्वा-अ. भ्युपगम्य, शब्दः-गवाधात्मकः, सुकरसम्बन्धः-सुग्राागवादिनिष्ठवाच्यतासम्ब. न्धः। *नचेति । शक्तिमहाविषव्यक्ति बोधयिष्यतीति कारिकार्थः । गोत्वादिसामा. न्यलक्षणया सर्वास्वेव व्यक्तिषु शक्त्यवधारणादिति भावः । एतदेवार्थम्प्रपञ्चयति- भाक्तिग्रहमिति* । पाचकः, पत्ता, इत्यादौ व्याकरणात् । 'गोसहयो गवयः इत्या. दावुपमानात् । हरिशब्दस्य-इन्द्रादौ, कोशात , पिकशब्दस्य कोकिलादावाप्तवा- क्यात्। प्रयोज्यप्रयोजकवृद्धव्यवहारात् गामानयेत्यादौ तटस्थबालकस्य गोशब्दा दो। “यदान्या ओषधयो म्लायन्ते अथैते मोदैमानास्तिष्ठन्ति" इतिवाक्यशेषात् यवपदस्य दीर्घशुकपदार्थे । घटशब्दस्य कलशे शक्तिर्विवरणात् । 'सहकारतरौ पिको रौतिः इत्यत्र प्रसिद्धसान्निध्यात्यिकशब्दस्य कोकिले शक्तिरिति निश्चयो बोव्यः । *व्यवहार इति*। प्रयोजकवृद्धेनोक्ता 'गामानयेतिः यदा प्रयोज्यवृद्धो गामानयेति, बधानेत्युक्तो बध्नाति, एवं मुन्चेत्युक्तस्ताम्मोषयति, तदा पावस्थबालकोऽवधारयति. 'सानादिमानयं भावो गोपदवाच्य इति । एवमावापोद्वापाभ्यां सर्वत्र शक्तिग्रहः सुल- भः। स च व्यवहारो व्यक्तिविषयक एवेति तस्मात्केवलव्यक्तिरेव शब्दस्य वाच्येति तात्पर्यम्। यद्यपि "आकृतिपदार्थस्य इव्यं न पदार्थः, द्रव्यपदार्थकस्य चाकृतिन पदार्थः, इत्युभयोरुमय पदार्थः" इति भाष्याद्विशकलितयोरेवाकृतिव्यक्योः शाक्तिग्रहविषयता लभ्यते, तथापि "कस्यचित किञ्चिद्गुणभूतं किञ्चित् प्रधानम्" इत्युत्तरभाष्यपर्यालो.
No text on this page.
, नामार्थविचारः। क्लीबत्वमिति विलक्षणशास्त्रीय स्त्रीपुन्नपुंसकत्वम् । अत एव खट्वादिशब्दवा- च्यस्य स्तनकेशादिमत्त्वरूपलौकिकस्त्रीत्वाभावेऽपि तद्वाचकादावादिप्रत्ययः। सङ्ख्याऽपि नामार्थः। विभक्तीनां द्योतकत्वात् । अत एव आदिर्बिटु- डव"इति सूत्रे आदिरिति बहुत्वे एकवचनम् । वाच्यत्वेऽन्वयव्यतिरेका- भ्यां जसं विना नामार्थबहुत्वप्रतीत्यभावापत्तेः । कारकमपि प्रातिपदिकार्थ इति पञ्चकं प्रातिपदिकार्थः। नन्वन्वयव्य- तिरेकाभ्यां प्रत्ययस्यैव तद्वाच्यमिति चेत् , न । दधि तिष्ठति दधि पश्येत्या- दौकादिकारकप्रतीतेः प्रत्ययं विनापि सिद्धत्वात् । न च लुप्तप्रत्ययस्मरणा- त्तत्प्रतीतिरिति वाच्यम् । प्रत्ययलोपमजानतोऽपि नामत एव तत्प्रतीतेः। विशेषणतया शब्दोऽपि शाब्दबोधे भासते । युधिष्ठिर आसोदित्यादौ युधिष्ठिरशब्दवाच्यः कश्चिदासीदिति बोधात् । न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाते । यम् । *विलक्षणमिति । पूर्वोक्तलौकिकलिङ्गतो विलक्षणमिति भावः । अत एव*- ईदृग्विलक्षणपुंस्त्वादिस्वीकारादेव । *द्योतकत्वादिति । वैयाकरणानाम्मते प्रकृतीनामेव संख्यावाचकत्वम् , विभक्त. यस्तु घोतको एवेति भावः । न चान्वयव्यतिरेकाभ्यां विभक्तीनामेव संख्यावाचकत्व- कल्पनमुचितमिति वाच्यम् । दधि, पश्य, मधु आनय इत्यादौ विभक्ति विनापि सं. ख्याकारकप्रतीत्या व्यतिरेकव्यभिचारात् । नैयायिकानाम्मते संख्याऽपि विभक्तरर्थः, न प्रकृतेः। अनन्तप्रकृतीनां शक्ततावच्छेदकत्वकल्पनापेक्षया विभक्तानां तत्कल्पने लाघवम् । वस्तुतस्तु "वाचिका धोतिका वास्युद्वित्वादीनां विभक्तयः । यद्वा संख्या- वतोऽर्थस्य समुदायोऽभिदायकः" इति हरिकारिकाबलात् न संख्यावाचिका प्रकृतिः, नवा विभक्तिः। किन्तु घट इति विभक्त्यन्तसमुदायः संख्याविशिष्टवाचकः । शक्ततावच्छेदकस्तु तत्तदानुपूर्वीति न कश्चिद्दोषलव इति दिक । *अत एव*-विभक्तीनां घोतकत्वादेव । जसं विनेति । प्रकृते जसं विनाऽपि बहुत्वप्रतीतेव्यतिरेकव्यभिचारः स्पष्ट एवेति भावः । *पञ्चकमिति* ॥ 'एक द्विकंत्रिक चैव चतुष्कं पञ्चकन्तथा । नामार्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः । इत्यनेन स्वार्थद्रव्यलिङ्गसंख्याकारकाणां नामार्थबोधनात् । स्पष्टञ्चेदं "अनभिहिते" इति सूत्र. भाष्ये । घटमानयेत्यादिशाब्दबोधे घटादिशब्दस्य भाने प्रामाणाऽभावेन तस्य प्राति. पदिकार्थत्वसाधनमनुचितमित्याशङ्कां परिहरति-*शब्दोऽपीति । तत्र हरिका. रिका प्रमाणयति-*न सोऽस्तीति । प्रत्ययः-शाब्दबोधात्मकः । *शब्दाऽनुग. मादिति । शब्दविषयकत्वादित्यर्थः । अनुव्यवसायो यथाऽथनविशिष्टज्ञान विषयो- ।
परमलघुमञ्जूषायाम्- अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते॥ इत्यभियुक्तोक्तेः। ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा। तथैव सर्वशब्दानामेते पृथगवस्थिते ।। विषयत्वमनात्य शब्दैर्नार्थः प्रकाश्यते । इति वाक्यपदीयाच। अत एव विष्णुमुच्चारयेत्यादाक्र्थोच्चारणासम्भवाच्छब्दप्रतीतिः । अत एवानुकरणेनानुकार्यस्वरूपप्रतीतिः । तथाहि-स्वसहशशब्दमात्रबोध. तात्पर्यकोच्चारणविषयत्वमनुकरणत्वम् । स्वसहशशब्दप्रतिपाद्यत्वे सति शब्दत्वमनुकार्यत्वम् । तत्रानुकार्यादनुकरणं भिद्यते इति तयोर्भेदविवक्षा- यामनुकार्यस्वरूपप्रतिपादकत्वेनार्थवत्त्वात् प्रातिपदिकत्वात्स्वादिविधिः । भेदपक्षज्ञापकः "भुवो वुग्लुङ्लिटोः' इत्यादिनिर्देशः । अनुकार्यादनुकरण- मभिन्नमित्यभेदविवक्षायां चार्थवत्त्वाभावान्न प्रातिपदिकत्वम् ; न वा पद- त्वम् । अभेदपक्षज्ञापकस्तु 'भू-सत्तायाम्' इत्यादिनिर्देशः । प्रातिपदिकत्व- पदत्वाभावेऽपि भू इत्यादि साधु भवत्येव ।। ननु 'अपदं न प्रयुञ्जीत'इति भाष्यादसाध्विदमिति चेत्, न । अपदमि- त्यस्य हि अपरिनिष्ठितमित्यर्थः। परिनिष्ठितत्वंच-अप्रवृत्तनित्यविध्युद्देश्य- तावच्छेदकानाक्रान्तत्वम् । देवदत्तो भवतीत्यादौ "तिङतिङः” इति निघाते करोति तथा शब्देन विशिष्टमपीत्यर्थः । वैशिष्टयञ्चार्थद्वारकम्बोध्यम् । घटपदजन्यबो- धानन्तरं घट शाब्दयामीत्येवानुव्यवसायान्न कलशं कुम्भवेति । अत एव "उदेति सविता ताम्रस्ताम्र एवास्तमेति च" इत्यादौ न पौनरुक्त्यम् । तत्पदानुपादाने उदया. स्तयोः शाब्दबांधे ऐकरूप्याऽनिर्वाहादिति भावः । *अत एवेति । शब्दस्यापि शा- ब्दबोधे भानावेत्यर्थः। *स्वसहशेति । स्वशब्देनात्रानुकार्यपरिग्रहः । स्वम्- अनुकार्यः, तत्सादृश्यञ्च स्ववृत्यानुपूर्वीमत्वेनेति बोध्यम् । *शब्दत्वमिति । अर्थेऽपि स्वसहाशब्दप्रतिपाद्यत्वस्य सत्वात्तनातिव्याप्तिस्तद्वारणाय शब्दत्वं निवेश्यमिति भावः । *अनुकार्येति । अनुकरणस्यानुकार्यनिरूपितशक्तिकल्पनया वृत्तिमत्वरूपा- र्थवत्वस्यानुकरणे सत्वेन भेदपक्षे स्वादिविधिरुपपद्यते । तेन "भुवो बु" "क्षियो दीर्घात्" इत्यादिनिदेशाः सङ्गच्छन्त इति भावः । मयञ्च पक्ष: "मतौ छः सूक्ता इति सूने भाष्ये स्पष्टः । *अप्रवृत्तेति । राम सु इत्यत्र अप्रवृत्तनित्यविधिः “ससजुषो का , समासादिवृत्यर्थविचारः। जातेऽतिङन्तपदपरतिङन्तत्वरूपोद्देश्यतावच्छेदकसत्त्वे अपरिनिष्ठितत्ववा- रणाय अप्रवृत्तेति । "स्वरति" इत्यादिविकल्पसूत्रस्य पाक्षिकप्रवृत्तौ 'सेद्धा, इत्यादावसाधुत्ववारणाय नित्यविधीति । अभेदपक्षे तु "अर्थवत्" इति सूत्रस्यार्थवत्त्वरूपोद्देश्यतावच्छेदकानाक्रान्तत्वात् सूत्राप्रवृत्तावपि भू इत्या. दि परिनिष्ठितम् । परिनिष्ठितसाधुशब्दौ पर्यायौ। नन्वनुकरणस्यानुकार्यस्वरूपबोधकत्वस्याभावेन कथमनुकार्यस्वरूपप्र- तीतिरिति चेत्, सादृश्याख्यसम्बन्धेनेति गृहाण। यथा मैत्रसशपिण्डदर्शने मैत्रस्मरणम् । एवं भूइत्याद्यनुकरणज्ञाने तादृशानुकार्यस्य ज्ञानमितिसक्षेपः। अथ समासादिवृत्त्यर्थः वृत्तिद्विधा । जहत्स्वार्थाऽजहत्स्वार्था च । अ. वयवार्थनिरपेक्षत्वे सति समुदायार्थबोधिकात्वं जहत्स्वार्थात्वम्। अवयवा- र्थसंवलितसमुदायार्थबोधिकात्वमजहत्स्वार्थात्वम् । रथन्तरं सामभेदः, शुश्रूषा सेवा इति पूर्वस्या उदाहरणम्। राजपुरुष इत्यादावन्त्या समासादि- पञ्चसु विशिष्टे एव शक्तिर्न स्ववयवे । रथन्तरं, सप्तपर्णः, शुश्रूषेत्यादौ अव. यवार्थानुभवाभावात्। अत एव भाष्ये व्यपेक्षापक्षमुद्भाव्य "अथैतस्मिन्व्य- पेक्षायां सामर्थ्य योऽसावेकार्थीभावकृतो विशेषः स वक्तव्य इत्युक्तम् । धव- खदिरौ, निष्कौशाम्बिः, गोरथो, घृतघटो, गुडधानाः, केशचूडः,सुवर्णालङ्का- रो, द्विदशाः, सप्तपर्ण, इत्यादौ साहित्य-क्रान्त-युक्त-पूर्ण-मिश्र-सङ्घात-वि. कार-सुच्प्रत्ययलोप-वीप्साद्यर्था वाचनिका वाच्या इति तद्भाष्याशयः ।। इत्यादिविधिः, तदुद्देश्यतावच्छेदकाकान्तत्वात्तस्यापरिनिष्ठितत्वम् । राम इत्यस्य तु "ससजुषो का इत्यादिशास्त्रीयोद्देश्यतावच्छेदकानाक्रान्तत्वात्परिनिष्ठितत्वमिति भावः। *यथेति । गोसवापिण्डालोचनेन गवयज्ञानवदिति भावः। इत्यर्थदापिकार्या नामार्थनिरूपणम् ॥ प्रसङ्गात्समासशक्तिमाह-*अथेति ॥ *समासादीति। आदिना कृत्तद्धितक. शेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयो बोध्याः । जहति पानि स्वार्थे यस्यां सा जह. हस्वाति फलितार्थकथनम्, लक्षणन्तु-*मवयवार्थेति । न जहति पदानि स्वार्थ यस्यामिति अजहत्त्वार्थाः तलक्षणमाह-*अवयवार्थ सवलितेति । *विशिष्ट एवं शक्तिरिति । तथा हि-राजपुरुषः इति समासस्य स्वत्वसंसर्गेण राजसम्बन्धिनि पुरुषे शक्तिः । स्थन्तरादिकदन्तस्य सामविशेषे शाक्तित्ववयवे । अन्यथा स्थकरणका ७॥ प०म० ।
११४ परमलघुमञ्जूषायाम्- यत्तु व्यपेक्षावादिनो नैयायिकमीमांसकादयः-न समासे शक्तिः । राज- पुरुष इत्यादौ राजपदादेः सम्बन्धिनि लक्षणयैव राजसम्बन्धवदभिन्नः पुरुष इति बोधात् । अत एव राज्ञः पदार्थैकदेशत्वान्न तत्र ऋद्धस्येत्यादिवि- शेषणान्वयः । ‘पदार्थः पदार्थेनान्वेति, न तु पदार्थैकदेशेन' इत्युक्तेः । 'स- विशेषणानां वृत्तिन, वृत्तस्य च विशेषणयोगो न' इत्युक्तेश्च । न वा धन- श्यामो, निष्कौशाम्बिः, गोरथ इत्यादाविवादिप्रयोगापत्तिः । लक्षणयैवो- कार्थतया "उक्तार्थानामप्रयोग" इति न्यायेन इवादीनामप्रयोगात् । नापि "विमाषा” इति सूत्रमावश्यकम् , लक्षणया राजसम्बन्ध्यभिन्न इति बुबो- धयिषायां समासस्य, राजसम्बन्धवानिति बुबोधयिषायां विग्रहस्य च प्र. योगनियमसम्भवात् । नापि शक्तिः, पङ्कजशब्दत्वात् इति पङ्कजशब्दप्रति- द्वन्द्विता शक्तिसाधिका । तत्रावयवशक्तिमजानतोऽपि ततो बोधात् । न च शक्त्यग्रहे लक्षणया तस्माद्विशिष्टार्थप्रत्ययः सम्भवति । अत एव राजपदादिशक्त्यग्रहे राजपुरुष इत्यादिषु न बोधः । न च चित्रगुरि. त्यादौ लक्षणासम्भवेऽप्यषष्ठ्यर्थबहुव्रीहौ लक्षणाया असम्भवः, बहुव्युत्प- तरणकर्तुर्बोधापत्तेः । एवं पङ्कजवाब्देन पङ्कजनिकर्तुः शैवालादेरपि बोधापत्तिः स्यादिति भावः। समुदायशक्तिमन्तरापि राजपदस्थ राजसम्बन्धिनि लक्षणायां सम्बन्धमान. सम्भवे तदर्थ समुदायशक्तिर्न स्वीकार्यति तात्पर्येणाह-सम्बन्धिनि लक्षणयैवेत्या. दिना* *पदार्थ इति । तत्वञ्च-आश्रयत्वसम्बन्धावच्छिन्नबोधविषयतात्वावच्छि- चप्रकारतानिरूपितभगवदिच्छीयविशेष्यताश्रयत्वम् । *पदार्थेनान्वेतीति । घटत्वे नित्यान्वयतात्पर्येण 'नित्यो घटः' इति वाक्यस्य प्रामाण्यवारणायैषा व्युत्पत्तिरिति भावः। *पदार्थेकदेशेनेति । पदार्थंकदेशत्वञ्च-अवच्छेदकत्वसम्बन्धावच्छिन्नबोधविष. यतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यताश्रयत्वम्। *लक्षणयवेति। 'धनश्यामः' इत्यादौ घनशब्दस्य धनसहशे लक्षणयैवेत्यर्थः । *बुबोधयिषायाभिति* ! ताशवकृतात्पर्यदशायामित्यर्थः । *न च शक्त्यग्रह इति । लक्षणाग्रहे शक्तिहस्य हेतुत्वात् । *लक्षासम्भवेऽपी. ति। त्रित्रगुशब्दस्य चित्राभिन्नगवीसम्बन्धीत्यर्थः । *अषष्टयथेति । प्रासोदका. दिद्वितीयाथर्थबहुव्रीहावित्यर्थः । तत्र ग्रामकर्मकप्राप्तिक-भिन्नमुदकमिति विग्रहार्थः। उदककर्तृकप्राप्तिकर्मीभूतो ग्राम इति समासार्थः। अत्र प्रासपदस्य प्राप्तिकर्तृरूपार्थप. रतया तदय लक्षणाऽसम्भवाच्छक्यार्थमादायैवान्वयबोधोपपत्तेरिति दिक् । *बहुव्यु- समासादिवृत्यर्थविचारः। त्तिभञ्चनापत्तेरिति वाच्यम् । प्राप्तोदक इत्यादी उदकपदे एव लक्षणास्वी- कारात् । पूर्वपदस्य यौगिकत्वेन तत्र लक्षणाया धातुप्रत्ययतदर्थज्ञानसाध्य. तया विलम्बितत्वात् । प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्प- त्यनुरोधाच्च । घटादिपदे चातिरिक्ता शक्तिः कल्प्यमाना प्रत्येकं वर्णेषु बो- धकत्वेऽपि विशिष्टे कल्प्यते, विशिष्टस्यैव सङ्केतितत्वात् । प्रकृते चात्यन्त. सन्निधानेन प्रत्ययान्वयसौलभ्यायोत्तरपदे एव लक्षणा कल्प्यत इति विशे- षः । स्वीकृतं च घटादिपदेष्वपि चरमवर्णस्यैव वाचकत्वं मीमांसकमन्यै- रित्याहुः। अत्रोच्यते-समासे शक्त्यस्वीकारे विशिष्टस्यार्थवत्त्वाभावेन प्रातिपदि- कत्वं न स्यात् । अत एवार्थवत्सूत्रे भाष्ये "अर्थवदिति किम् , अर्थवतां समुदायोऽनर्थकः-दश दाडिमानि षडपूपाः कुण्डमजाऽजिनम्” इति प्रत्यु. दाहृतम् । एवं च राजपुरुषपदयोस्त्वन्मते प्रत्येकमर्थवत्त्वेऽपि समुदायस्य दशदाडिमादिवदनर्थकत्वात्प्रातिपदिकत्वानापत्तेः । न च "कृत्तद्धित" इति सूत्रे समासग्रहणात् तत्संज्ञेति वाच्यम् । तस्य नियमार्थताया भाष्यकृतैव प्रतिपादितत्वात् । अन्यथासिद्धिं विना नियमायोगात् । अत एव राज्ञः पुरुषः देवदत्तः पचतीत्यादिवाक्यस्य (१)मूलकेनोपदंशमित्यादेश्च न प्राति- पदिकत्वम् । त्पत्तीति । 'समानाधिकरणनामार्थयोरभेदान्वयः इति व्युत्पत्तिमङ्गापत्तेरिति भावः । *विशिष्टस्यैवेति । व्यवहारादिना विशिष्टे एव शक्तिग्रहादिति भावः । *दशदाडिमादिवदिति । यथा दशदाडिमादिसमुदायस्य वृत्तिमत्वरूपार्थवत्वा. भावान प्रातिपदिकत्वम्, न तथा राजन् डस् पुरुष सु इत्यादेरपीति भावः। *अन्यथा. सिद्धिविनेति। "सिद्धे सति आरम्यमाणो विधिनियमाय भवति" इति न्यायात् नियमार्थत्वमप्यर्थवत्वे सत्येव सम्भवति, तत्राप्यर्थवत्पदस्यानुवृत्याऽर्थवत्कृदन्तादेरेव । तेनापि संज्ञाविधानात् अर्थवद्ग्रहणस्येहार्थताया एवाकारे सिद्धान्तितत्वात् । पूर्वसूत्रे (१) ननु राज्ञः पुरुष इत्यादिवाक्यस्य नैयायिकमते अर्थवत्त्वाभावादेव प्रातिप. दिकत्वं न स्यादत आह-मूलकेनोपदंशमिति । नैयायिकमते उत्तरसूत्रे अर्थ. वत्पदासम्बन्धात् कृद्ग्रहणपरिभाषया कृदन्ततदादित्वादत्रातिप्रसङ्गो दुार एवेति भावः । किं चे बहुपटव इत्यस्य तद्धितान्तत्वाभावात्, परमगाग्र्यायण इत्य. स्य तद्धितान्ततदादित्वाभावात् , कुमार्याः राज्ञा श्रितेन च युगपद् वृत्तौ राजकुमारी- श्रित इत्यस्य समासत्वाभावाच्च उत्तरसूत्राप्राप्त्या अर्थवत्त्वाभावेन च पूर्वसूत्रल्या. प्यप्राप्त्या प्रातिपदिकत्वानापत्तौ स्वादिविधानानापत्तिरिति दिक् ।
OM , परमलघुमञ्जूषायाम्- किञ्च समासे शक्त्यस्वीकारे शक्यसम्बन्धरूपलक्षणाया अप्यसम्भवेन लाक्षणिकार्थवत्त्वस्याप्यसम्भवेन सर्वथा प्रातिपदिकत्वाभाव एव निश्चितः स्यादिति स्वाद्यनुत्पत्तौ 'अपदं न प्रयुञ्जीत' इति भाष्यात्समस्तप्रयोगविल. यापत्तेः ।। अथ तिप्तस्झीत्यतः तोत्यारभ्य योस्सुबिति पकारेण तित्प्रत्याहारो भाष्यसिद्धः, तत्पर्युदासेन 'अतिप्प्रातिपदिकम्' इत्येव सून्यताम् , ततः "समासश्च” इति सूत्रं नियमार्थमस्तु किं सूत्रद्वयेनेति । सुप्तिङन्तभिन्न प्राति- पदिकमित्यर्थात् समासस्यापि सा स्यादिति "समासश्च" इत्यस्य नियमार्थत्वं सुलभमिति चेत् , सत्यम् । प्रत्येक वर्णेषु संज्ञावारणाय"अर्थवत्" इत्यस्या- वश्यकत्वेन समासेऽव्याप्तिस्तदवस्थैव । तथा च प्रातिपदिकसंज्ञारूपकार्यमे. वार्थवत्त्वमनुमापयति । समासो; अर्थवान् , प्रातिपदिकत्वात्। यन्नार्थवत्तन्न प्रातिपदिकम् , अभेदविवक्षापक्षे-'भू सत्तायाम्' इत्याद्यनुकरणवदिति ।। यत्तु पदार्थः पदार्थेन' इति, 'वृत्तस्य विशेषणयोगो न' इति वचन. द्वयेन ऋद्धस्येत्यादिविशेषणान्वयो न भवति; तत्तु समासे एकार्थीभावे समासः त्वधातुरित्यादिपर्युदासबलेनैवार्थवत्वलामादिति भावः । *कि सूत्रद्वयेनेतीति । अयम्भाव:-"अतिप्रातिपदिकम्" "समासश्च" इति सूत्रद्वयं कार्यम् । तेन सर्वत्र प्रातिपदिकसंज्ञासिद्धौ समासग्रहणस्य नियमार्थत्वमपि सेत्स्यतीति किं सूत्रद्वयेन । *प्रत्येकवणेंग्विति । अर्थवद्ग्रहणाभावे-'धनम्। इत्यत्र धकारमकारयोरपि तिबन्तभिन्नत्वात्प्रातिपदिकसंज्ञापत्तेः। कृते त्वर्थवग्रह- णेऽर्थवत्वाभावान्न प्रातिपदिकसंज्ञेति भावः । *अनुमापयतीति । पक्षा, अर्थवत्वम्-साध्यम्, प्रातिपदिकत्वादिति हेतुः। भू सत्तायामिति दृष्टान्तः । इदन्त्वनुमानं व्यतिरेकिहेतुकम् । अन्वयमुखेनानुमानन्तु न सम्भवति । अनर्थकनि पातेष्वपि प्रातिपदिकसंज्ञादर्शनात् । नचैवं निपातानां प्रातिपदिकसंज्ञाभाव इति शवयम् । "निपातस्यानर्थकस्यः इति वातिकात् "कृतद्धितसमासाच" इति सूत्रस्थचकाराच्चानुक्तसमुच्चायकस्य ग्रहणात् । वस्तुतस्तु व्यतिरेकमुखेनापि निरुक्तमनुमानमसङ्गतम् । यत्र य त्रार्थवत्वाभाव. स्तत्र तत्र प्रातिपदिकसंज्ञाभाव इतिअनर्थकनिपातेषु व्यतिरेकव्यभिचारादिति बोध्यम्। *एका भाव इति । पदविशिष्टत्वमेकार्थीमावत्वम् । वै० स्वघटितत्वम् , स्वप्रयो- ज्यशक्तिज्ञानीयमुख्यविशेष्यतासमानाधिकरणोपस्थितीयविषयतानिरूपितशक्तिज्ञानी- समासादिवृत्यर्थविद्यारः। स्वीकृतेऽवयवानां निरर्थकत्वेन विशेषणान्वयासम्भवात् फलितार्थपरम् , अस्माकं, युष्माकं तु अपूर्ववाचनिकमिति गौरवमित्यग्रे वक्ष्यते ॥ यत्तु प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधेकत्वव्युत्पत्तिरिति, तन्न । उपकुम्भम् अर्धपिप्पलीत्यादौ पूर्वपदार्थे विभक्त्यर्थान्वयेन व्यभिचारात् । ममतु प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेविशिष्टोत्तरमेव प्रत्य- योत्पत्तेविशिष्टस्यैव प्रकृतित्वात् विशिष्टस्यैवार्थवत्त्वाञ्च न दोषः । किंच राजपुरुषादौ राजपदादेः सम्बन्धिनि सम्बन्धे वा लक्षणा । नायः । राज्ञः पुरुष इतिविवरणविरोधात् । वृत्तिसमानार्थवाक्यस्यैव विग्रहत्वात् । अन्यथा तस्माच्छक्तिनिर्णयो न स्यात् । नान्त्यः। राजसम्बन्धरूपपुरुष इत्यन्वयप्रसङ्गात्। ननु तर्हि वैयाकरण इत्यस्य व्याकरणमधोते इति पाचक इत्यस्य पच. तीति कथं विग्रहः । वृत्तिसमानार्थत्वाभावदित्यत आह- - यमुख्यविशेष्यतासमानाधिकरणविषयताप्रयोजकपदघटितत्वम्, स्वप्रयोज्योपस्थिती. यविषयत्वानिरूपितविषयताप्रयोजकपदाघटितत्वम्, इति सम्बन्धनयेण । प्रथम- सम्बन्धनिवेशात् एकपदस्य सर्व इत्यस्य नैकार्योभावत्वम् । द्वितीयसम्बन्धदानात न वाक्यस्य । तृतीयसम्बन्धनिवेशात् उदासीनपदघटितसमुदायस्य राजपुरुषः वटा, इत्याकारकस्यैकार्थीभावत्वमिति दिक् । *उपकुम्भमिति । कुम्भस्य समीपमुपकुम्भम् , इति विग्रहे "मव्ययं विभक्ति" इति सूत्रेण सामोप्येऽर्थेऽव्ययीभावसमासेन द्वितीयार्थकर्मतायाः समीपेऽन्वयात्, नि- रुक्तव्युत्पत्तिव्यभिचार इति भावः । *न दोष इति । स्वनिष्टविधेयतानिरूपितोद्दे- क्यतापर्याप्त्यधिकरणत्वमेव प्रकृतित्वम् , तञ्च समुदाय एव सम्भवतीति भावः । ननु 'राजपुरुष' इत्यत्र राजपदस्य सम्बधिनि लक्षणा राजसम्बन्धवदभिन्नः पुरुष इति बोधसम्भवे विशिष्टशक्तिनिष्फलेति शहां निराकरोति-*किञ्चेति । *ननु तहीति* । वृत्तिविग्रहयोः समानार्थत्वाङ्गीकारे इत्यर्थः । स्वृत्तिसमाना- थत्वाभावादिति । प्रश्नकर्तुत्यम्भावः-यद्विशेष्यक्यत्प्रकारकबोधजनक- त्वम् , तद्विशेष्यकतत्प्रकारकबोधजनकत्वं वृत्तः, इदमेव हि वृत्तिसमानार्थकत्वम् । एवञ्च व्याकरणमधीते पचति इत्यादौ व्यापारविशेष्यकाश्रयत्वप्रकारकबोधल्य वैया. करणसिद्धान्तात् पाचकः वैयाकरणः इत्यादौ तद्वैपरीत्येन भासमानत्वात् वृत्तिसमा. अन्न .
.. परमलघुमञ्जूषायाम्- आख्यातं तद्धितकृतोर्यत्किञ्चिदुपदर्शकम् । गुणप्रधानभावादो तत्र दृष्टो विपव्ययः ।। इति । तद्धितकृतोर्यत्किञ्चिदर्थबोधकं विवरणमाख्यातं तिङन्तमिति यावत्, तत्र विवरण विनियमाणयोर्विशेष्यविशेषणभावविपर्ययो दृष्टइति। कृदन्तत- द्वितान्तयोराश्रयप्राधान्यम ; आख्याते व्यापारस्येति बोध्यम् । ननु रथन्त. रशब्दादथिकस्यापि प्रत्ययः किन्न स्याचिति चेत् , मैवम् । 'रूढियोगार्थम. पहरति' इति न्यायात्। ननु विशिष्टशक्तिस्वीकारेपङ्कजपदादवयवार्थप्रतीति. भूत् , समुदायशक्त्यैव कमलपदवत् पुष्पविशेषप्रत्ययः स्यादिति चेत्,न । जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी । इत्यभियुक्तोक्तेः । अवयवार्थसंवलितसमुदायार्थे पद्म शक्तिस्वीकारात् । अत एव चतुर्विधः शब्दः । यथा-रूढः, योगरूढः, यौगिकः, यौगिकरूढश्चे. ति । अवयवार्थमनपेक्ष्य समुदायशक्तिमात्रेणार्थबोधकत्वं रूढत्वम्-रथन्त- रमित्यादौ । अवयवार्थसंलितसमुदायशक्त्याऽर्थबोधकत्वं योगरूढत्वम्- पङ्कमित्यत्र । अवयवशक्त्यैवार्थबोधकत्वं यौगिकत्वम्-पाचिक; पाठिके- नार्थकत्वाभावात्तयोर्विग्रहवाक्यत्वं न सम्भवतीति । *आख्यातम्-तिङन्तम् । *तद्धितकृतोरिति । 'आक्षिका, 'कुम्भकारः, इत्यत्राक्षकरणकव्यापाराश्रया, कुम्भो. त्पत्यनुकूलव्यापाराश्रय इति बोधः । 'अक्षैर्दीव्यति, 'कुम्भं करोति, इत्यत्राक्षकरणिका देवनानुकूला भावना, कुम्भोत्पत्यनुकूला भावनेति च बोधः । *गुणप्रधानभावादा. विति* । गुणो-गौणः-विशेषणम् , प्रधान-विशेष्यन्तयोर्भावः, विशेषणविशेष्यभावः । *तत्र-तयोः, विपर्यासो*-व्यत्यासो, *दृष्टt*-फलबलाच्छिष्टकल्पित इति यावत् । रथेन तरतीति विग्रहे "संज्ञायां भृतृवृजि" इति सूत्रेण कर्तरि खज्विधानात् स्थकरणक- तरणकर्तृमात्रोपस्थितेरवयवशक्त्या रथिकस्यापि बोध इति भावः ! *रूढिरिति । समुदायशक्तियंत्रावयवार्थविरोधिनी तन्नैव रूढिरिति भावः । एवञ्च रथन्तरमित्यत्र पद- द्वयस्य नैरर्थक्येऽपि स्थकरणकतरणकर्तृत्वादिकल्याहार्यारोऐण प्रक्रियानिर्वाहो बोध्यः। *रूढ इति । शास्त्रकृत्कल्पितावयवार्थाप्रतीतौ यदर्थनिरूपितं प्रकृतिप्रत्ययस. मुदायमाने बोधकत्वम् , तत्पदे सा तदर्थनिरूपिता रूढिः, यथा-मणिनूपुरादौ । योगरूढ इति* । यत्र शास्त्रकल्पितावयवार्थान्वितविशेष्यभूतार्थनिरूपितं समुदाय. बोधकत्वम्-सा योगरूढिः, यथा-पङ्कजादिपदे । तन्त्र पङ्कजनिकर्तृ पद्ममिति बोधः । *यौगिक इति । शास्त्रकृत्कल्पितावयवार्थमात्रबोधे योगशक्तिः, यथा-पाचकादौ। *यौगिकरूढश्चेति । अवयवशक्त्या समुदायास्याच अर्थबोधकत्वं यौगिकरूढ. .
समासादिवृत्यर्थविचारः। त्यादौ । अवयवशक्त्या समुदायशक्त्या चार्थबोधकत्वं यौगिकरूढत्वम् । मण्डपानकर्तृपरोऽपिगृहविशेषपरोऽपि मण्डपशब्द उदाहरणमिति विवेकः। व्यपेक्षापक्षे दूषणं शक्तिसाधकम् । हरिरप्याह- समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महगौरवं तस्मादेकार्थीभाव आश्रितः ।। इति । पङ्कजशब्दे योगार्थस्वीकारे शैवालादेरपि प्रत्ययः स्यात् । वृत्तिधर्माः- विशेषणलिङ्गसङ्ख्याद्ययोगादयः, “सविशेषणानां वृत्तिन इत्यादिवचनैरेव साध्याः, इति तत्तद्वचनस्वीकार एव गौरवम् । मम तु एकार्थीभावस्वीका- रादवयवार्थाभावाद्विशेषणाद्ययोगो न्यायसिद्धः; वचनं च न कर्तव्यं न्याय- सिद्धं चेति लाघवम् । व्यपेक्षायां दूषणान्तरमाह- चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् । कर्तव्यन्ते न्यायसिद्धं त्वस्माकन्तदिति स्थितिः॥ घटपटाविति द्वन्द्वे साहित्यद्योतकचकारनिषेधस्त्वया कर्तव्यः। आदि- ना घनश्याम इत्यादौ इवशब्दस्य। मम तु साहित्याचवच्छिन्ने शक्तिस्वीका- रात् “उक्तार्थानामप्रयोग” इतिन्यायात्तेषामप्रयोगः। बहुव्युत्पत्तिभञ्ज नमि- ति-अषष्ट्यर्थबहुव्रीहौ प्राप्तोदक इत्यादौ पृथक्शक्तिवादिनां मते प्राप्तिकर्ती- - - त्वम् । यथा-अवगन्धादौ । अश्वगन्धापदमौषधिविशेषबोधे रूढम् । अचगन्धवत्तया वाजिशालाबोधे यौगिकम् । *मण्डपानकर्तृपरोऽपीति । मण्डं पिबतीति विग्रहबला- न्मण्डपशब्दो यद्यप्यनुशासनबोधितावयवशक्त्या मण्डपानकर्तृरूपार्थबोधकः सम्भव- ति, कोषजशक्तिबलाच्च गृहविशेषबोधकश्च, तथापि "रूडियोगार्थहारिणी" इत्युक्तन्या. येन समुदायनिष्ठरूढिशक्त्या गृहविशेषबोधक एवेति भावः । *समासे इति । समास इति वृत्तिमात्रोपलक्षणम् । "समर्थः पदविधिः" इत्यत्र पदमुद्दिश्य यो विधीयते समासादिः स समर्थः । विग्रहबाक्यार्थाऽभिधाने शक्तः सन् साधुरिति सूत्रार्थस्य भाष्योल्लाभात्। पदोद्देश्यकविधित्वञ्च-कृत्तद्धितसमासैक- शेषसनाद्यन्तरूपासु पञ्चस्वपि वृत्तिष्वस्त्येवेति भावः। *पङ्कजशब्दवदिति । अत्र सप्तम्यन्ताद्वतिर्बोध्या । उपमेये ससमीदर्शनात् । पक्कजशब्दे यथाऽवयवाक्त्यतिरिक्त शक्तिस्तद्वत्समासेऽपीत्यर्थः । *शैवालादेरपीति । पङ्घाधिकरणकोत्पत्तिमत्वाविशेषादिति भावः। विशेषणे- - १२० परमलघुमञ्जूषायाम्- भिन्नमुदकमित्यादिबोधोत्तरं तत्सम्बन्धिग्रामलक्षणायामपि उदककर्तृकप्राप्ति- कर्म ग्राम इत्यालामे प्राप्ते प्राप्ततिक्तप्रत्ययस्य कर्थकस्य कर्मार्थे लक्षणा, ततोऽपि 'समानविभक्तिकनामार्थयोरभेद एव संसर्ग' इति व्युत्पत्त्या उदका- भिन्न प्राप्तिकर्मेति स्यात् । उदकस्य कर्तृतया प्राप्तावन्वये तु नामार्थयोरभे- दान्वयव्युत्पत्तिभञ्जनं स्यादिति तात्पर्यम्। 'नामार्थप्रकारकशब्दबुद्धित्वाव- च्छिन्नं प्रति विभक्त्यर्थोपस्थितेः कारणत्वम्' इति व्युत्पत्तिभञ्जनं च। ममतु पृथक् शक्त्यनङ्गीकारात् विशिष्टस्यैव विशिष्टार्थवाचकत्वात् नामार्थद्वया- भावान्न कचिदनुपपत्तिरित्यलम् । इति श्रीशिवभट्टसुतसतीदेवीगर्भजनागेशभट्टकृता परमलघुमजूषा समाप्ता॥ - त्यादि* | समासैकदेशाथै लिङ्गस्य संख्यायाश्च विशेषणतयाऽन्वयो नेति भावः। *अनुपपत्तिरिति । विशिष्टशक्तिस्वीकारात् 'लोहितगङ्गम्। 'अरण्ये तिलका इत्या. दौ नित्यसमासत्वात् विग्रहवाक्यामावादवयवादर्थाप्रतीतेरपिन संज्ञानवगमापत्तिरू. पदूषणमपीति शम् । मनीषामन्थदण्डेन मथित्वा शास्त्रसागरम् । अर्थानां दीपिका टीका कृतेयं श्रीसदाशिवः॥१॥ हेरम्बवत्राम्बुजचुम्बिकाम्बां स्वाङ्के बिभर्तीन्दुमुखी कुतूकात् । सत्प्रेममूतिर्जगदीश्वरो यो गृह्णातु टीकाकृतिपुष्पमालाम् ॥ २ ॥ शास्त्रे कृती नो न च बुद्धिशाली श्रीशानुभावात्कृपया गुरोश्च । टीका मदीया विदुषां मनोज्ञा स्याच्चेत्प्रमोदो हृदि मेऽन्यथा न ॥ ३ ॥ इति जोशीत्युपाबदामोदरात्मजसदाशिवशास्त्रिकृतार्थदीपिकायां सशक्तिनिरूपणं समाप्तिमगमत् ।
अभिज्ञानशाकुन्तलनाटकम् 'रुचिर' 'किशोरकेलि' संस्कृत हिन्दीटीका द्वयोपेतम् । उपर्युक्त दोनों टोकायें संसारभरमें सर्वोत्तम सिद्ध हो चुकी हैं ४) मुद्राराक्षसनाटकम् 'भावबोधिनी--आशुबोधिनी' टीका द्वयोपेतं, इसके अभिनव द्वितीय संस्करण में ग्रन्थ की सारी कठिनता दूर करदी गई है। देखते हो श्राप प्रसन्न हो जायगें। द्वितीय संस्करण ३॥) वेणीसंहारनाटकम 'प्रबोधिनी'-प्रकाश' संस्कृत हिन्दीटीकाद्वयोपेतम् । इस संस्करण में श्लोकान्वय, विग्रह, पर्याय, सुन्दर अर्थ, भावार्थ, अलङ्कार तथा कोषादि प्रमाण से शब्दान्तर देकर समन्वय करते हुए प्रबोधिनी और प्रकाश (संस्कृत-हिन्दी) टोकाओं से, श्लोक, प्राकृत तथा गद्य को इस तरह सम- झाया है कि, सुकोमल मति विद्यार्थी स्वयं भी इस से ज्ञान प्राप्त कर सक्ते हैं हर्षचरित प्रथम उच्छ्वास जयश्री-कथाभट्टीया-मंस्कृत हिन्दी टीका सहित । इन टीकाओं में परीक्षोपयोगी सभी विषयों का सरल विवेचन किया गया है । व्याख्या के साथ साथ कवि के ऐतिहासिक परिचय तथा कथासार ( संस्कृत तथा हिन्दी ) से पुस्तक की उपयोगिता अधिक बढ़ गई है १०) कुमारसम्भव-महाकाव्यम् नूतन पुंसवनी टीका सहितम् । इस टीका में विशेषता यह है कि प्रत्येक श्लोक का १ अवतरण सहित दण्डान्वय प्रदर्शन, २ परीक्षोपयोगिनी व्याख्या, ३ विप्रह, व्याकरण, कोश, अलङ्कार, छन्द, प्रमाणप्रदर्शन, मल्लिनाथादि प्रदर्शित दोषोद्धार व्युत्पत्ति, ४ संस्कृत में भावार्थ, ५ भाषा के सङ्क्षिप्त पदों के द्वारा श्लोकाभिप्राय प्रदर्शन, ६ हिन्दी में सरल भावार्थ, ७ प्रत्येक सर्ग की कथा का संक्षेप में संग्रह, ८ विशिष्टभूमिका इत्यादि लोकोत्तरता देखने ही से ज्ञात हो सकती है। ३) स्वप्नवासवदत्तनाटकम् इस संस्करण के "प्रबोधिनी” नामक संस्कृत व्याख्या में अन्वय, विप्रह, पर्याय, सुन्दर अर्थ, भावार्थ, कोश, अलङ्कार, छन्द, नाट्य-लक्षण आदि विषय और साथ ही साथ "प्रकाश" नामक प्राञ्जल भाषा टीका भी रख दी गयी है। संस्कृत तथा हिन्दी दोनों ही में कथासार भी लिख दिया गया है २) प्राप्तिस्थानम्-चौखम्बा संस्कृत पुस्तकालय, बनारस सिटी।
मध्यमा परीक्षोपयोगी सर्वोत्तम ग्रन्थ- प्रबन्ध-पारिजातः लेखक:-मुजफ्फरपुर राजकीय गवर्नमेण्ट संस्कृत कालेजाध्यापक व्या० के. सा. आचार्य पं० रामचन्द्र मिश्र । इल में मध्यमा परीक्षाके छात्रों को संस्कृत प्रबन्ध रचना लिखने के नियम अत्यन्त सरल रूपमें समझाये गये हैं और तदनुसार परीक्षोपयोगी 'प्रबन्ध लेखन प्रकार' ( परीक्षा पाने योग्य निबन्धों का उत्तर ) इस तरह सरल और संक्षिप्त में लिखा गया है कि अभ्यास कर लेने पर भी विद्यार्थी परीक्षामें पूरी सफलता प्राप्त कर सकते हैं । इतना ही नहीं अन्तमें (१) पत्रलेखन प्रकार' (चिट्ठी-पत्री यावेदन पत्र प्रादिका उल्लेख ) तथा प्रसंगोपयुक्त (२) 'सुभाषित गद्यावली' (३) 'सुभाषितपद्यांशावली' और (४) लौकिक न्यायमाला' आदि विषयोंका समावेश करके अाधुनिक चतुरस्त्र विद्वान् बननेका सुगम रास्ता दिखाया गया है। विश्वास है कि आजतक के प्रकाशित प्रबन्धोपयोगी ग्रन्थों में इस 'प्रबन्धपारिजात' के समान दूसरी कोई भी पुस्तक नहीं है। शीघ्रता कीजिये कठिन परिस्थिति के कारण इसकी बहुत कम प्रतियाँ छपी हैं लघुशब्देन्दुकला [लघुशब्देन्दुशेखर प्रश्नोत्तरी] परीक्षोपयुक्त परिशिष्ट सहिता । इसमें परीक्षामें आने योग्य सभी प्रश्नों के उत्तर ऐसे सरल तथा निर्दष्ट परि- कारों से युक्त लिखे गये हैं कि अभ्यास करलेने पर विद्यार्थी परीक्षामें पूरी सफलता प्राप्त कर लेगें तथा ग्रन्थ लगाने में भी बिद्यार्थीको अत्यधिक सहायता मिलेगी । हेमा प्रशंसनीय संस्करण यह प्रथम बारही प्रकाशित हुआ है । ११) । परिभाषेन्दु-प्रश्नपञ्जिका प्रस्तुत संस्करण में परीक्षा में आने योग्य १२५ प्रश्नों के उत्तर ऐसे सरल तथा निर्दुष्ट परिष्कारों से युक्त लिख दिये गये हैं कि-"एक पन्थ दो काज" याने प्रन्थ लगाने में भी इस से आपको अत्यधिक सहायता पहुँचेगी और कण्ठस्थ कर लेने पर परीक्षा में अधिक से अधिक नम्बर भी पासकेगें। 1) प्राप्तिस्थानम्-चोखम्बा संस्कृत पुस्तकालय, बनारस सिटो। १६......
No text on this page.