Bharatiya Vidya Bhavan Library, Mumbai

Lokamanya Bal Gangadhar Tilak In Easy Sanskrit

Chitale,k.w. · 2012/08

PDF Proofread

Front matter

The Lokamanya Tilak Centenary Celebration
THE LIFE OF
LOKAMANYA
BAL GANGADHAR TILAK
IN EASY SANSKRIT
BY
K, W. Chitalc, B. A. (tloos.), 8.7.
Head Master
Sharadashran Vidya Mandir
Dadar-Bombay
Price Five Rupces.

-1
Printed by M. S. Sathe
at the Prajna Press, Wai.
And
Published by K, W. Chitale
at 1, Dongre Baug, Bhavani Shankar Road,
Dadar-Bombay 28
All rights are reserved.
23rd July 1956

AN APPRECIATION by the Governor of Bombay. ON Raj Bhavan, Bombay 6 3rd June 1956 I have had the opportunity of going through “ Subodha sanskrit Lokamanya Tilak Charitam" in its manuscript form. Shri K. W. Chitale has not only done a great service to the memory of the great leader Lokamanya Tilak, but he has also done a distinct service to Sanskrit literature itself. The reverence with which the memory of Lokamanya is cherished by millions of people requires that his life should be written in the form of an epic to go down to posterity as the story of a great fighter for frecdom. At the same time, it was necessary that the Sanskrit literature should not remain confined to ancient topics but it should also deal with current matters of importance. Both these purposes have been well served by the book which has been written SO beautifully by Shri Chitale. I have no doubt the book will give full satisfaction to its numerous readers both now and after. (sd.) H. Mehatab Governor of Bombay.

२ गुणग्रहणरूपान्तरम् - अवलोकितं मया प्रसङ्गवशात् चितळेमहाशयै- विरचितस्य 'सुबोधसंस्कृतलोकमान्यटिळकचरितस्य । हस्तलिखितम् । इदं तेषां चरित्रलेखनं न केवल लोकधुरन्धराणां लोकमान्यानां स्मरणरूपिणी सेवा, अपि तु निपुणतया संस्कृतसारस्वतस्यापि । लोक- मान्यविपयको लोकसहस्राणामत्यादरो लोकमान्यटिळक- विपयमधिकृत्य रामायणमिव महाकाव्यरूपेण परि- णमनमर्हति यत् किल 'भारतस्वातन्त्र्यसंग्रामवीरपुरुप- कथा' इति सांप्रतम् आयत्यामपि जनाः परम्परया वाचयेयुः । तथैव इदमप्यावश्यकं यत् संस्कृतसार- स्वतं न केवलं पुराणविपयवर्णने एव नियमयितव्यम्, अपि तु महत्त्वपूर्णेषु आधुनिकविषयविशदीकरणेष्वपि नियोजनीयमिति । उभावप्येतावद्देशौ चितळेमहाशयः रमणीयलेखनशैल्या प्रणीतेऽस्मिन् ग्रन्थे समीचीनतया संपादिती। . -(हस्ताइनम्) हरेकृष्ण मेहताय मुम्बईप्रदेशराज्यपालाः ३ हृद्गतम् जीवनयानायां लब्धावसरो धीमद्भिः काव्यशास्त्रविनोदेन नीयते इति श्रूयते । मया सांप्रतं किं कर्तव्यमिति विचारे समुत्पन्ने वृत्तपत्र- मुद्रिता वार्ता नयनगोचरतां गता यद्रिपुभूतग्रहभूमिते (१९५६) सवत्सरे लोकमान्यटिळक्महाशयानां जन्मशताब्दीमहोत्सयो भविष्यतीति । सपद्येव मनस्येका कल्पना पदमकरोत् यहोकमान्यानां सुरोधचरितं देव- पाण्यां यदि विरचितं भवेत्तर्हि किं स्यादिति । संस्कृतभाषायां लोकमान्यानां महती प्रीतिः । वैदिक्सशोधनाय तेपो दृढाऽमिरुचिः । महाभारतभगवद्- गीतादिप्रन्यानां महान् व्यासद्गः । यथा हिंदी-मराठी-पानडी-गुजरायी- त्यादिमापासु लोकमान्यटिळकमहोदयानां चरितं लिखितं विद्यते तथा गीर्वाणभाषायामपि तेयां चरितलेसनं समुचित्रं भवेत् । एवं मनसि विचार्य अनेन मार्गेणाहं किन यतेयेति विचारः समुत्पन्नः । भरतसण्डे सर्वेषु प्रदेशेषु संस्कृतभाषाध्ययनार्थ पाठशाला: विद्यन्ते । तासु न्यायव्याकरणवेदान्तादिशात्राण्यध्याप्यन्ते, तत्तच्छास्त्रेषु छानाणां परीक्षा सचाल्यन्ते, उत्तेजनार्थ पारितोपिकाणि शिष्यवृत्तयश्च दीयन्ते । तथापि सामान्यजने तथा विद्यार्थिजनेषु एका कल्पना बद्धमूला दृश्यते यत् कठिना संरकृतभापा, कठिनतरं च तस्याः व्याकरणम् । कर- मस्माभिः साऽयगन्तच्या । अतस्ता परित्यज्य अन्या काचित् मुरोधा भाषा- फ्रेंच-पाली-अर्धमागधी- शालान्तपरीक्षायां यशः संपादयितुं विद्यालयेषु अध्येतव्या इति । विद्यालयेषु चतुरो यत्सरान अध्यापयितव्या संस्कृत- मापा इति दण्डकः पूर्वमासीत् । अधुना त्रयो वत्सराः पर्याप्ताः संस्कृत. भापाध्ययनायेति शासनसस्थारिद्याधिकारिणा विचारधारा । मुम्यईप्रदेशे एताहशी दुरसस्था ससृतमापाध्ययनस्य । क्यमपेक्षितव्यं सामान्यजने संरएतभापामिद्वयर्थमुत्तेजनम् ? महती भारतीयानां प्राचीन संस्कृतिः। वैदयाायं, रामायणमहाभारतादिप्रन्याध एतम्याः संहनेः प्रती वर्तन्ते (४) इति तारस्वरेण भारतीयैरुद्घोष्यते । परं यस्यां भाषायामेते ग्रन्था लिखितास्तस्याः अभ्यासे प्रायेण न केनापि प्रयत्यते, न वा शासनसंस्थया सा पुरस्क्रियते । यद्यत्कृतमालोच्यते तत्तल्लौकिकार्थमिति दृश्यते । सांप्रत शालान्तपरीक्षार्थ शतसहस्रकल्पाः छात्रा उपतिष्ठन्ति । तेषु कतिभिश्छात्रैः संस्कृतभापाविपयः परीक्षार्थ स्वीकृतो दृश्यते ? ये केचन गृहन्ति ते महाविद्यालयप्रवेशार्थमेव । अधुना इयं देववाणी अल्प- संख्याकानां जनानां रुचये भवति । मया तु एवं विमृश्यते । ये जना मातृभापां सम्यगधीयते ते हिंदी- भापायां जातं व्याख्यानं संभापणं वा तात्पर्याशेन यथा जानन्ति तथा संस्कृतभापायां जातस्य भापणस्य व्याख्यानस्य वा सारांशं किमर्थ न जानीयुः । प्रायेण प्रतिशतमासन्नाशीतिशब्दाः संस्कृतोद्भवाः । अतस्तान् प्रयुज्य लिखितां भापितां वा संस्कृतभापां जना जानीयुः । एवं विचिन्त्य सुबोधसंस्कृतभाषायामिदं चरितं लिखितुं प्रवृत्तोऽभवम् । यद्येतच्चरितं जन- मनसि गीर्वाणवाविपयिकामभिरुचिमुत्पद्येत तर्हि इदं चरितलेखनकार्य सफलं जातमिति मन्ये । एवं संकल्पितं लोकमान्यचरितलेखनम् । परं तल्लिखितुमहं समर्थो वा नेत्याशड्का मनसि समुत्पन्ना । क विविधविपयावगाहक लोकमान्यचरितम् , क चाहं 'तनुयाग्विभवः' पाठशालाध्यापकः । अन्यच्च । लोकमान्यनिकट- पर्तिमिः साहित्याचार्यः 'नरसिंह चिंतामण केळकर'महाशयविरचितम् आसन्नद्विसहस्रष्टष्टात्मकं विस्तीर्ण लोकमान्यचरितम् । देववाण्यां तत् संक्षेपतः कथं लिखेयम् ? उक्तं च 'अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् ।' इति । अनया शङ्कया स्मारितोऽहं कविकुलगुरुकालिदासवचनम् 'क सूर्यप्रभवो वंशः क चाल्पविषया मतिः। इति । एवं दोलायमाने स्वान्ते स्मृतं सुभाषितम् 'उद्योगेन हि सिध्यन्ति कार्याणि न मनोरथैः।' इति । अतः फेटकरविरचितटिम्फचरितमाश्रित्य प्रथमं पनपाणि प्रकरणानि (५) लिखितुमहं सयलोऽभूवम् । यद्भविप्यति तद् भवतु इति संकल्प्य समारब्धं लेसनकार्यम् । लेखनविपयके लोकमान्यटिळकचरिते धार्मिकार्थिकराजकीयसामा- जिफौद्योगिकादिविविधक्षेत्रेषु विज्ञानसंशोधनेन प्रगततरा आधिभौतिक- सिद्धान्ता विचाराः कल्पनाच विद्यन्ते । सर्वमेत नूतनम् । अतो लेसनेऽपि नूतना शब्दसम्पत्तिरपेक्ष्यते । भाषासरणिरपि नावीन्यपूर्णा आवश्यकी । प्राचीनसंस्कृतवाडाये व्याकरणपद्धत्या सन्धिकार्यमावश्यकम् । अस्मिन् ग्रन्थे सन्धिकार्यविपये अनियमोऽस्तु । संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥' इति वचनमाश्रित्य भाणदुर्योधनां परिहा रिशेपशब्दज्ञानार्थ र सन्धिकार्य सर्वत्र न कृतम् । तथैव आधुनिकविरामचिट्ठानि कचित् प्रयुक्तानि । लेखनविषयमनुसृत्य अन्ये वाक्प्रचारा अपि उपयुक्ता द्रक्ष्यन्ते । सुखाव- बोधार्थमिदमावश्यकमिति विमृश्य चरितलेसने इयं पद्धतिरवलम्बिता । एवं समाप्तप्राये लेखनकार्ये प्रधानप्रश्न समुद्भूतः । द्रव्याभावे कथमिदं मुद्रयितव्यमिति । गीर्वाणभापाभिवृद्धयर्थम् इयं स्वल्पा संस्कृत- सारस्वतसेवा लोकमान्यजन्मशतसांवत्सरिकमहोत्सवप्रसङ्गेन मयाऽवश्यं कर्तव्येति मनसि विचारः । चार्गको ब्रूते 'ऋणं कृत्वा घृतं पिबेत्' इति । परमर्शिष्टसंमतमिदं तत्त्वमनभ्यासात् मनसि न लिप्यते । देवी- सपत्परिपूर्णमिदं लोकमान्यचरितं तु अमृतमेव । तत्कथं मां द्रव्याभाव- संकटे पातयेदिति विमृश्य संस्कृतभाषाभिमानिनो जनस्यौदार्ये विश्वस्य इदं साहसं मयाऽङ्गीकृतम् । लोकमान्याभिमानी जनताजनार्दनः तत् सफलीकरोतु । मनोरथस्तु महान् वर्तते यत् चीन-जपान-अमेरिका- इंग्लंड-फ्रान्स-जर्मनी-रशिया- इजिप्त-सीलोन-ब्रह्मदेशप्रभृतिपौर्वात्यपाश्चात्त्य- देशेषु यत्र यत्र इयं सुरवाणी आदरेण कुतूहलेन वा छात्रैरभ्यस्यते तन्न तत्रास्य चरितस्यैकं पुस्तकं तनयाय विद्यापीठीय प्रन्थालयाय वा मया उपायनीकर्तव्यमिति । - . अपरः प्रश्नः कः ख्यातनामा पण्डितः प्रस्तावनां लिखित्वा ग्रन्थमिम- मलकुर्यात् मां च उपकुर्यादिति । अल्पपरिचयेनापि एवं पृष्टैः 'तात्यासाहेब करंदीकर महाशयैलिखित “भूतपूर्वविहारप्रदेशराज्यपालाः 'लोकनायक' इति अन्वर्थकोपपदधारिणः ‘माधव श्रीहरी अणे'- महाशया देववाण्यां श्लोकनिवद्धं लोकमान्यटिळकचरितं विरचयन्तीति । अणेमहाशयानां परिचयाभावेऽपि धाटन मया ते दर्शनार्थ विज्ञप्ताः । दर्शने जाते कथायोगे निजाभिप्राय निवेद्य, लिखितानि कानिचित् प्रकरणानि तान् दर्शयित्वा प्रस्तावनालेखनाथ मया मन्दं मन्दं सूचितम् । रुग्णशय्यासनस्थैरपि तैः सानन्दं मह्यं प्रतिश्रुतम् ‘लिसामि प्रस्तावना'- मिति । अतस्तेभ्यो धन्यवादान् प्रथमं वितीर्य आत्मनः कृतज्ञताबुद्धि दर्शयामि । प्रस्तावनाया आदावन्ते चात्रभवद्भिौरवार्थ दत्तं शास्त्रीति विशेषणं स्वान्ते संकोचं समुत्पादयति । अस्य ग्रन्थस्य पुरस्कारलेसनार्थमपि ' दक्षिणकाशी'ति लोकप्रसिद्ध 'यांई क्षेत्रे ब्रह्मीभूतकेवलानन्दसरस्वतीयतिभिः (पूर्वाश्रमे 'नारायणशास्त्री मराठे' इत्यभिधानेन सुविख्यातैर्महापण्डितैः) संस्थापितायाः प्राज्ञपाठशालायाः प्रधानाध्यापकाः, भारतीयगणराज्यघटनायाः संस्कृतभाषायां रूपान्तर- कारिणः, इतिहासप्रसिद्धसोमनाथदेवालये देवताप्रतिष्ठापनमहोत्सवे प्रधान- पुरोहितपदमलकुर्वाणाः तर्कतीर्थ-लक्ष्मणशास्त्री जोशीमहाशया लब्धा इति चरित्रलेखकस्य भाग्यम् । अतस्तेभ्यो धन्यवादान वितरामि । केसरिसंस्थाविश्वस्ताः फेसरिपत्रस्य भूतपूर्वसंपादकाः फेसरिकार्यालये लब्धलोकमान्यसहवासमुसाः वयस्तपोवृद्धाः 'तात्यासाहेब करंदीकर'- महाशया अस्य चरितस्य पुरस्कारमकुर्वन् । न केवलमयं पुरस्कारः अमि- नन्दनं वा । अपि तु पूर्णप्रज्ञैः करंदीकरमहाशयेतेसकाय दत्तमिदं पारि- तोषिकं यतते । लोकमान्यैः स्वयमलवृतयोसरिपत्रसंपादकासने सांप्रतमुप. विशभिर्लोरमान्यनप्तृभिः 'जयंतराव टिळक'महाशयेर्लोरमान्यानां छाया चित्राणि विना मूल्यं मुद्रितानि । अत: करंदीकरमहाशयेभ्यसथा जयंतराय- महारायेभ्यः पृतमतापूर्वकं धन्यवादाः ।

वाईक्षेत्रे वसन्तः प्राज्ञमुद्रणालयाधिकारिणो धन्यवादाही यतस्तै- मुद्रणविपये तथा मुद्रितपरीक्षणे मह्यं महत्साहाय्यं वितीर्णम् । मम प्रियसुहृजनेन स्निग्धमनसा काले काले लेखनविपये सूचनां कृत्वा अमूल्यं साहाय्यं दत्तम् । अतस्तेभ्यः सर्वेभ्यो मम स्नेहपूर्वक धन्यवादाः। समाकल्पं हृद्गतं धन्यवादप्रदानं च । परमस्मिन् समये अभा. विततया एकया अपूर्वविधिघटनया संयोजयति विद्यैव नीचगाऽपि नरं सरिन् । समुद्रमिव दुर्धपं नृपं भाग्यमतः परम् ।। इत्यस्य सुभाषितरततत्त्वस्य सत्यत्वं मयाऽनुभूतम् । मुम्बईप्रदेशराज्य- पालेभ्यो लोकमान्यचरितस्य पुस्तकमेकमुपायनीकर्तुकामेन मया उपायनी- करणस्य शासनसंस्थापद्धति पृष्टे राज्यपालानां कार्यवाहे, एकस्मिन् दिवसे दर्शनार्थ राज्यपालतो निमन्त्रणं संप्राप्तम् । न ज्ञातवानहं दर्शनकारणम् । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । गतोऽहं दर्शनार्थम् । चरित्रलेखनविषयके कथायोगे केपलमभिनन्दनार्थ निमन्त्रितोऽहमिति ज्ञातवान् । सप्रश्रयममिप्रायार्थ मया सूचिते राज्यपालै- ग्रंन्यस्य गुणग्रहणं मह्यं प्रतिश्रुतम् । ग्रन्थारम्भे एव तन्मया मुद्रितम् । अनेन गुणग्रहणेनोपकृतोऽहं मुम्बईप्रदेशराज्यपालेभ्यो 'डॉक्टर हरेकृष्ण मेहताब'- महाशयेभ्यः सविनयं कृतज्ञतापूर्वकं धन्यवादान् वितरामि । अन्ततः अज्ञानात् धानतो वाऽपि यत्किञ्चिदस्मिन् ग्रन्थे स्खलितं स्यात्तत् सर्व विद्वद्भिरदारमनसा क्षन्तव्यं, तथा च दोपस्थलानि कृपया दर्शयितव्यानीति सप्रश्रयं संप्राय विरमामि । मुद्रणदोपराहित्ये दक्षे सत्यपि केचन दोपा उर्वरिता एप । तेषां प्रमुसः सुरतनगरराष्ट्रियसभाविपये 'मालवी' इत्यभिधानस्थाने 'मालवीय' इति मुद्रितम् । एते दोपा वाचकैः क्षन्तव्याः। प्रथमं प्रन्थस्थानां मुद्रणदोपाणां दूरीकरणम् , पश्चात्तस्य वाचन तव्यमिति संप्रार्थ्यते।

, भूतपूर्वराज्यपालानां लोकनायक-अणे-महोदयानां ४ प्रस्तावना चित्तलयोपाह्ववामनात्मजकृष्णशास्त्रिणा विरचितं संस्कृतटिळकचरित मया अंशतः पठितम् । प्रन्थका संक्षेपेण समग्रं चरित्रं निरूपितम् । टिळकः लोकेषु मान्यतां कथं गतः, तस्मै जननेतृभिः सादरं प्रदत्ता लोकमान्यपदवी तस्मिन् कथमन्वर्थका बभूव इति ज्ञानं वाचकानामस्य ग्रन्थस्य पठनेन समीचीनतया भवति । लोककल्याणार्थ स राजरोपोद्भूतान बहून् केशान- सहत । परदास्यपट्वात् भरतखण्डमुद्धर्तु तेन यावजीवं महान् प्रयलः कृतः । स्वोदरभरणचिन्ताममेपु लोकेषु मातृभूमिप्रेम, स्वातन्त्र्यलालसा, त्यागवृत्ति च उत्पादयितुं तेन नानाविधा उपायाश्चिन्तिता योजिवाश्च । स भारतीय- जनतानुकूल्यं संपाद्य पञ्चविंशतिवर्षपर्यन्तम् आग्लशासनाधिकारिणां विरोधं कृत्वा तैः सह निःशस्त्रयुद्धं चकार । तस्मिन् प्रदीर्घसमरे अब्धि- मन्थने रत्नानीवटिळकस्य स्वार्थत्यागस्थितप्रज्ञताधैर्यशौर्यसंघटनाचातुर्यनेतृत्व- पौशल्यादयोऽसामान्यगुणाः प्रकटीभूताः । बगभगान्दोलने स्थापितस्य सयराजकीयपक्षस्य नेतृपदं टिळकेन स्वीकृतम् । तेन तत्पक्षस्य विशिष्टकार्य- प्रणालिसंयुतं ध्येयं विशदीकृतम् । स्वराज्यं ध्येयम् । स्वदेशीवहिष्कार- राष्ट्रियशिक्षणं च साधनानि । एतत्सर्व युयुत्सुपक्षस्य स्वातन्त्र्यचतुःसूत्रीति संज्ञया विरयातमासीत् । स्वराज्यप्राप्त्यै निरन्तर प्रयत्नशीलोऽपि टिटक: भग्वेदमहाभारत- भगवद्गीतादिप्रन्धानभ्यस्य वेदानां प्राचीनत्यं, वैदिकार्याणां मूलस्थानं, गीतारहस्यम् इत्यादिनयसिद्धान्तप्रतिपादकान् प्रन्थान् रचयामास । अपूर्व- मन्यनिर्मित्या स त्रिखण्डकीर्तिमयाप । पशमनान्दोलनं यत्रयपर्यन्तं टिळकेन संचालितम् । सुरतनगराधि- वेशने उभयपक्षयोविरोधः परां फाष्टां गतः । नेमस्तपक्षीयराष्ट्रियसभाचालके- सदधिवेशनानन्तरं टिळकपक्षो यहिष्कृतः। टिळक: 'मण्डाले 'पारागृहे पडू (९) याणि निनाय । चतुर्दशोत्तरैकोनविंशतितमे वर्षे काराबन्धनान्मुक्तो भूत्वा स स्वदेशं प्रत्यागतः । तदा आयुपः अन्तिमे पटके तेन 'होमरुललीग'स्थापना कृता । स्वानुयायिमिः सह राष्ट्रियसभां प्रविश्य हिंदुयवनयोरक्यं कृतम् । हिंदुयवननेतृणां संमतम् अखिलभारतस्य एकमेव राज्यघटनासुधारणापत्रक विनिर्मितम् । इंग्लंडयात्रां कृत्वा हिंदवासिनां राजकीयाकाङ्क्षाणां प्रचारः कृतः । युद्धोत्तरकाले भारतदेशोऽपि स्वयंनिर्णयतत्त्वस्य अधिकारपात्रमस्ति इति "विड्रो विल्सना' दिविश्वप्रमुखराजकार्यधुरंधरैः सह पत्रद्वारा विचार- विनिमयं कृत्वा निदर्शितम् । इंग्लंडदेशे श्रमजीविपक्षनेभिः सह सख्यं संपाद्य भारतस्य खातन्त्र्यप्रदाने तान् वचनवद्धानकरोत् । भरतखण्ड प्रत्यागतः सः राष्ट्रियसभायाः 'अमृतसरा 'धिवेशनमुपस्थितवान् । तत्र गाँटेग्युसुधारणाविषयकं पार्लमेंटानुमतं विधेयक स्वीकृतम् । तदन्तर्गतदोपानि- राकर्तुमान्दोलनं कर्तव्यमिति गांधीविरोधमविगणय्य स साग्रहं प्रतिपाद- यामास । तत्रोभयोः सन्धिर्जातः । वद्वानां श्रुत्वा राष्ट्रियसभागृहे अखिल- भारतप्रतिनिधिभिःप्रेक्षकैश्च सभामण्डपं टिळके प्रविष्टे सति सहर्ष स्वस्थाना- दुत्थाय तालिकावादर्जयघोपैश्च तस्य स्वागतं कृतम् । स्वदेशवान्धवानां राष्ट्रियसभास्थाने अयमेवान्तिमः प्रणामोऽभवत् । तदनन्तरं च पुण्यपत्तनं यात्या राष्ट्रियसभाप्रजातन्त्रपक्षस्य स्थापना कृता, तत्पक्षस्य कार्यक्रमपत्रिका प्रकाशिता । सा पत्रिका एव टिळकस्य स्वानुयायिनाम् अन्तिमसन्देशो जातः। टिटकस्येदं सूत्ररूपेण कथितं स्फूर्तिदं चरित्रं कृष्णशानिणा संस्कृत- भापायां वर्णितम् । ग्रन्यकर्तुर्गद्य लेखनं सुलभं सरलं च । प्रस्तुवकालीन. राजकीयवियादसमस्यानां चर्चा संस्कृतभाषायां घटपटादिदुर्बोधशब्दप्रचारान् विहाय कर्तुं शक्नोति लेसकः इत्येतग्रन्थस्य पठनेन प्रतीतं भवति वाचकानाम्। टिळक: अखिलभारतस्य नेता । तेनाखिलभारतोद्धाराय एय यत्नः कृतः । तस्य मन्था अपि अखिलभारतीयानां संस्कृतिप्राणभूतान् ऋग्वेद- महाभारतगीतादिग्रन्थान् अधिकृत्य तदर्थप्रतिपादनाय वा तत्संबन्धितविपय- चर्चाये एवं लिखिताः। टिळक: लोकोत्तरः भारतपुरुषः । वस्य वाणी .

प भारतोद्धारिणी, तस्य कार्यक्षेत्रं आसेतुहिमाचलसमुद्रवलयाङ्कितभारतम् । अत एवाखिलभारतीयभाषामातृस्थानीयसंस्कृतभाषायां तस्य चरित्रलेखनं समुचिततरम् इति मन्ये । अयं चरित्रग्रन्थः संस्कृतैकज्ञानिनां प्राचीनपण्डितानां तच्छ्रेष्ठविभूति- कार्यपरिचयाय साधनम् इति तैरवश्यं स्वागतार्हः । संस्कृतभाषाप्रचारं चिकीर्पूणामपि अयमुपयुक्तः । अस्य पठनेन विनाऽऽयासं संस्कृतभापाप्रवेश कर्तु पाठकः शक्नोति । अधुना संस्कृतिप्रोत्साहनस्य प्रभातम् उदितमिति भाति । अखिलभारतीयसंस्कृते: संस्कृतभापा एव मूलम् । तस्याः उत्तेजनं विना संस्कृतिप्रोत्साहनं सफलं नैव भवति । अत एव कृष्णशास्त्रिंण: अयं संस्कृतटिळकचरित्रलेखनोद्योगः सर्वैरभिनन्दनीय एव । लेखकः विदुपां परि- तोपं प्राप्नोतु । पाठकाः टिळकचरित्रात् देशसेवास्फूर्ति प्राप्नुवन्तु । शासनाधिकारिणः गुणग्राहकता लेखकाय पारितोपिकं दत्त्वा प्रकटयन्तु । विवेकधनपण्डिताः सत्याभिराशीर्भिः शानिणं ग्रन्थकर्तारं अनुगृह्णन्तु इति सदिच्छा व्यक्तीकृत्य विरमाम्यहम् । विद्वज्जनशंवदः अणे इत्युपादः श्रीहरिसूनुर्माधवशर्मा ५ पुरस्कार ले. श्री. ज. स. करंदीकर, विश्वस्त, केसरी. .0e- - श्री. चितळे उपनामक कृष्णशर्मा यांनी लिहिलेल्या 'लोकमान्य- टिळकचरितम्' या ग्रंथाचा वाचकांना परिचय करून देण्यांत मला अत्यानंद होत आहे. मराठी, इंग्रजी इत्यादि विविध भाषांतून लोकमान्यांची अनेक चरित्र प्रसिद्ध झाली आहेत. तथापि संस्कृत भातून प्रसिद्ध होणान्या या चरित्राची गोडी कांहीं वेगळीच आहे. लोकमान्यांचे चरित्र संस्कृतभापेतून प्रसिद्ध होत आहे, असें ऐकून टाइम्स ऑफ इंडिया' पत्राने अशी पृच्छा केली की, हे संस्कृत भा. तले चरित्र ग्रंथालयांतील कपाटाची शोभा वाढविण्याकरितां लिहिले जात आहे काय ? मराठी, इंग्रजी इत्यादि भापांतली चरित्रे सोडून हे संस्कृत चरित्र कोण वाचणार? आणि किती जणांना ते समजणार ? ही शंका भारतीय संस्कृतीचे आणि संस्कृत भाषेच्या लालित्याचे अनभिज्ञत्वच दर्शविते. भारतातील सर्व प्रांतांना एकजीव करण्याला समर्थ अशी भाषा संस्कृत हीच होय. इतर भापांतून लिहिलेले प्रबंध अल्पायु ठरतात. संस्कृत भाषेतले लेखच सर्व प्रांतांतील विद्वज्जनांना मान्य होतात य ते चिरकाल टिकतात. लोकमान्य टिळकांची कीर्ति चिरकाल टिकण्याला त्यांचे चरित्र संस्कृतभात लिहिले जाणे आवश्यक होते. म्हणून श्री. कृष्णराव चितळे यांनी टिव्यकपरिन संस्कृतांत लिहिलें यायदल ते अमि- नंदनास पात्र आहेत. श्री. चितळे हे चांगले संस्कृतज्ञ आहेत. त्यांनी प्राचीन परंपरेच्या पंडितांच्या हाताखाली व्याकरण-काव्य इत्यादींचा अभ्यास केला असून से आंग्लभापाप्रवीणहि आहेत. अशा रीतीने हे द्विविध विद्याविभूपित असल्याने असले परित्र लिहिण्यास ते सर्वधय पात्र आहेत.

, . (१२) चरित्रांतील संस्कृतभाषा सोपी व प्रसादयुक्त आहे. महाविद्यालयां तील छात्रांना संस्कृतभाषेचा जेवढा परिचय होतो, तेवढा परिचय अस- लेल्या कोणाही वाचकास हे चरित्र वाचून सहज समजणारे आहे. त्यांत क्लिष्ट किंवा गूढ शब्दरचना नसून भाषा सरळ ओघवती आहे. टिळकचरित्राचे महाभारताशी अनेकविध साम्य असल्याने लेख- कानं यांतील प्रत्येक भागाला 'पर्व' ही संज्ञा देऊन हे टिळकचरित्र अष्टादशपर्वयुक्त रचिले आहे. महाभारतांतल्याप्रमाणेच प्रत्येक पर्वात अनेक उपप आहेत. यांतील प्रजागरपर्व , मित्रकार्यपर्व, मुक्ततापर्व , ग्रंथपर्व , चिरोलपर्व, प्रजासंहारपर्व, इत्यादि नांवें विशेष आकर्षक आहेत. टिळकांची चरित्रे आजवर अनेकांनी लिहिली असल्याने त्यांच्या चरित्रांतील कोणतीहि घटना वाचकांना अज्ञात अशी राहिली नाही. तथापि ज्याप्रमाणे तीच रामजन्माची, मारुतिजन्माची, कृष्णजन्माची कथा प्रत्येक हरिदास आपापल्या परीने सांगतो व त्यांत जशी एखाद्याची कथा सरस तर दुसऱ्याची नीरस वाटते, त्याप्रमाणे टिळकचरित्राच्या अनेक लेखकांत त्यांच्या त्यांच्या गुणदोपानुसार सरसता किंवा निरसता येते. प्रस्तुत चरि- त्राचे लेखक श्रीकृष्ण यांचे चरित्रवर्णन सरस उतरले आहे हे कळविण्यास आनंद वाटतो. मित्रविग्रहः, चहापानम्, अधिकारिणामुपद्रवः, चातुर्य- प्रसंगः, अज्ञेयमीमांसा, प्रसंगावधानम् , चंगदेशान्दोलनम् , अधिवेशनभंगः, लोकमान्यानां समर्थनम् , वेदकालनिर्णयः, आर्याणां वसतिस्थानम् , गीता- रहस्यम् , एकपष्टिमहोत्सवः, युद्धपरिपदः, गर्वफलम् , चिरोलोद्गाराः, स्वराज्यसंघाधिवेशनम् , महायात्रासंचलनम् इत्यादि पर्वोपपर्वातील वर्णन हृदयंगम व मार्मिक आहे. त्यांतल्या त्यांत गीतारहस्याचे रहस्य या चरित्रांत विस्तृतपणे विवेचिले आहे, त्यामुळे कर्मयोगाचा सिद्धान्त समप्रतया आकलन करण्याला हे साधन चांगले उपयुक्त झाले आहे. शेवटच्या समालोचनपर्वात तौलनिक दृष्टीने गुणदोपांची चर्चा करन लो. टिळकांचे विभूतिमत्त्व आणि त्याचा भारतराष्ट्रावर झालेला मुपरिणाम थोडक्यांत घटकदार भाषेनें वर्णिला आहे. , (१३) अशा प्रकारे हे 'लोकमान्यचरितम्' सर्वतोपरी वाचनीय व अभ्यसनीय झाले आहे. ज्या शास्त्रीपंडितांना संस्कृतेतर भाषांच्या अनव- लोकनामुळे राष्ट्रातील महानान्दोलनांचेंहि यथातथ्य ज्ञान नसते, त्यांना या गीर्वाणभातील चरित्राच्या वाचनाने राष्ट्रिय दृष्टि येईल. पाश्चात्त्य राष्ट्रांत जेथे जेथे संस्कृताचा अभ्यास चालतो तेथे तेथे या चरित्राच्या वाचनाने भारतातील एका महान् विभूठीच्या राष्ट्रकार्याचा. परिचय होऊन भारता- विपयींहि त्यांची आदरयुद्धि माढेल, असा भरंवसा वाटतो, श्रीयुत चितळे यांनी आत्मविश्वासाने हे कार्म हाती घेतले आणि ते परिश्रमपूर्वक पार पाडले, यावद्दल आम्ही त्यांचे अभिनंदन करतो. करंदीकरोपाहः सखारामसूनुर्जनार्दनः ६ पुरस्काररूपान्तरम् . चितळेइत्युपनामकृष्णशर्मभिलिखितस्य लोकमान्यटिळकचरितस्य परिचयं कर्तुमतीय मोदते मम मानसम् । मराठी - इंग्रजी - इत्यादिविविध- भापासु लोकमान्यानां चरित्राणि विरचितानि वर्तन्ते । तथापि संस्कृत- भापयाऽलङ्कृतस्यास्य चरितस्य काऽपि अपूर्वा माधुरी । संस्कृतभाषायां लोकमान्यानां चरित्रं प्रकाशितं भविष्यतीति श्रुत्वा टाइम्स ऑफ इंडिया' वृत्तपत्रेण उपहासेन पृष्टम् , इदं गीर्वाणभाषायां विरचितं लोकमान्यचरितं ग्रन्थालये लघुकोष्ठमेव अलङ्करिष्यति किम् ? मराठी-इंग्रजी-इत्यादिभापासु लिखितानि चरित्राणि परित्यज्य इदं संस्कृत- चरित्रं के जना वाचयिष्यन्ति ? तेषां कति वा तत् ज्ञास्यन्ति ? इति । संपादकरयेयमाशड्का भारतीयसंस्कृत्याः संस्कृतभापालालित्यस्य च तस्य अनभिज्ञत्वमेव प्रकटयति । भरतखण्डे सर्वान् प्रदेशानेकस्मिन् सूत्रे प्रथयितुं यदि काचित् भाषा समर्था स्यात्तर्हि सा संस्कृतभाषा एव । इतर- भापासु लिखिताः प्रबन्धा अल्पजीविनो भवन्ति । देववाण्यां विरचिता एव विदुपां मान्या भवन्ति चिरं च तिष्ठन्ति । लोकमान्यकीर्तिडिडिमं सततं निनादयितुं गीर्वाणभाषायां लिखितं तेषां चरित्रमावश्यकमेवासीत् । तरितमेतैः कृष्णशर्ममिविरचितम् । अतस्ते अमिनन्दनारे भवन्ति । संस्कृतभापाभिज्ञाः चितळेमहोदयाः परम्परागतप्राचीनपण्डितकुले अधीतव्याकरणकाव्यकोशाः आङ्ग्लभापाविभूपिताश्च । एवं प्राचीनार्या- चीनविद्यालङ्कृतास्ते एतादृशं चरित्रं विरचयितुं सर्वथैव योग्याः । चरित्रलेसने प्रयुक्ता संस्कृतभापा मुयोधा, सरला, प्रसादयुक्ता च पर्तते । महाविद्यालये अधीयानानां छात्राणां संस्कृतभापायाः यावान् परि- पयस्तायता परिचयेन फोऽपि याचफः एतचरित्रं याचयित्या बिनाऽऽयासं '. - तजानीयात् । न तस्मिन् लिष्टाः शब्दाः न वा गूढाः शब्दरचनाः । प्रत्युत सकला रचना सरला, भाषा वालबोधिनी ओघवती च। टिळकचरित्रस्य महाभारतेन सह नेकविध साम्यम् । लेखकेन प्रकरणानि 'पर्व'शब्देन संहितानि कृत्या अष्टादशपर्वयुक्तं चरितमिदं विरचितम् । महाभारते इवास्मिन्नपि प्रन्थे अनेकान्युपपर्याणि सन्ति । तेषु प्रजागरपर्व, मित्रकार्यपर्व , मुक्ततापर्व, प्रन्यपर्व, चिरोलपर्व, प्रजासंहार. पर्चेत्यादिनामानि याचकानां मनांसि विशेषेण समाकर्पन्ति । अद्यावधि यहुविधैर्जनैर्लोकमान्यानां चरित्राणि विरचितानि । अतश्चरित्रविषयको न कोऽपि प्रसंगो पाचकानामज्ञातो वर्तते । तथापि सैव रामजन्मकथा, हनुमजन्मकथा, कृष्णजन्मकथा कीर्तनकारो यथा स्वकौशलं प्रकटयन् कथयति, यथा च तासु एका सरसा, अपरा च विरसा भवति, तथा टिळकचरितलेखतेऽपि लेखकस्य गुणदोपानुसारतः सरसता विरसता वा प्रादुर्भवति । प्रस्तुतचरित्रलेखकस्य श्रीकृष्णस्य लेखनं सरसं विद्यते इति निवेदयितुं वयं प्रमोदामहे । मित्रविग्रहः , चहापानम् , अधिकारिणामुपद्रवः, चातुर्यप्रसंगः, अज्ञेयमीमांसा, प्रसंगावधानम्, वंगदेशान्दोलनम्, अधिवेशनभंगः , लोकमान्यानां समर्थनम् , वेदकालनिर्णयः, आर्याणां वसतिस्थानम् , गीतारहस्यम् , एकपष्टिमहोत्सवः, युद्धपरिपदः, गर्वफलम् , विरोलोद्गाराः, स्वराज्यसइयाधिवेशनम् , महायात्रासंचलनम् , इत्यादि- पर्योपपर्वसु विद्यमानं वर्णनं मार्मिक हृदयंगमं च विद्यते । तेष्वपि 'गीता. रहस्य'प्रन्थस्य रहस्यमस्मिन् चरित्रे विस्तरेण प्रतिपादितं दृश्यते । तेन कर्मयोगसिद्धान्तं साकल्येनाकलयितुमुपयुक्तमिदमन्यत् साधनं उपलब्धं भवति । ग्रन्थस्यान्तिमे समालोचनपर्वणि तौलनिकपद्धत्या गुणदोपचिकित्सा कृत्वा लोकमान्यटिळकमहोदयानां विभूतिमत्त्वं, तस्य च भारतदेशे जातः सुपरिणामः संक्षेपेण मनोरमवाण्या वर्णितो दृश्यते । एवंगुणविशिष्टमिदं लोकमान्यचरितं सर्वप्रकारेण वाचनीयम् अभ्य- सनीयं च जातम् । येषां शामिणां पण्डितानां च संस्कृतेतरभापानवलोक- - - . (१६) नेन भरतखण्डे जातानां महान्दोलनानां सम्यग् ज्ञानं न विद्यते, ते गीर्वाण. भापायां लिसितेनानेन अन्येन राष्ट्रियदृष्टिं लभेरन् । पाश्चात्त्यदेशेष्वपि यत्र यत्र संस्कृतभापाऽभ्यस्यते तत्र तत्र अस्य ग्रन्थस्य याचनेन भारतदेशे समुत्पन्नस्यास्य महापुरुपस्य राष्ट्रकार्यस्य सम्यक् परिचयो भूत्वा तस्य भारतदेशविषयक: आदरः वृद्धिं प्राप्नुयादिति विश्वासः समुत्पद्यते । चितळेमहोदयैरेतत्कार्य विश्वासपूर्णमनसाऽङ्गीकृत्य परिश्रमपूर्वकं पूर्णता नीतमिति समालोच्य वयं तान् अभिनन्दामः । करंदीकरोपाहः सखारामसूनुर्जनार्दनशर्मा (तर्कतीर्थलक्ष्मणशास्त्री जोशीमहाशयानां ) ७हितीयः पुरस्कारः भारतराष्ट्रगुरोः पुण्यश्लोकस्य लोकमान्येवसाधारणपदवीभाजो लोकोत्तरचरितप्रभावस्य सकलभारतीयकुलतिलकस्य परमपावनीयेयं कथा गीर्वाणवाण्या सुशिष्टालिष्टपदयाक्यविन्यासै रचिता सहृदयानां चेतःसु चकास्ति । एपा सुभगा तिलककथाऽष्टादशसु पर्वसु निवद्धा वैयासिक्या महाभारतकथाया औपम्यं चारुतया सूचयन्ती द्योतयति यदयं चरित- रचयिता महान्तं पुण्याचं संपादयन् दुरितपटलं निर्दहश्च वाचकानामपि दुरिततिमिरं तिरोदध्यात् सुकृतानि च तेभ्यो वितरेदिति । ये किल भारतवर्षेऽन्यत्र च संस्कृतभापायां प्रविष्टबुद्धयो विदग्धमतयो वा वर्तन्ते ते सर्वेऽप्यस्य तिलफचरितस्य पठनेन स्यात्मानं धन्यं मनिष्यन्ते इत्यत्र मनागपि पदं संदेहो न कुरुते । अस्य चरितस्य पठनेन परं संतोपमधि- गच्छन्तो वयमिमं कथारचयितारं सानन्दमभिनन्दयामः । युयानः प्रौढाश्च संस्कृतप्रविष्टमतयो नूनमिमां कथां परिशीलयन्तो तिलकगुरोर्जीवितस्य सकलमनतिविस्तरं च चरितपरामर्श चित्रपटमिय हृदि चिरं धारयितुं प्रभवेरनिति । यस्य स्मरणमात्रेणागण्यपुण्यराशेर्वशीकरणं भवति सोऽयं वालाख्यः प्रज्ञाप्रभुस्तिलकगुरुर्भारतं बलस्यात्मकेऽधिष्ठाने विभर्ति । एतद्वलद्वयं निष्ठा- द्वयरूपमस्ति । प्रथमा निष्ठा, एकमिदं भारतराष्ट्र, तस्य स्वराज्यमेकात्मकमेव सर्वैर्भारतीयैः शरणीकरणीयमित्याकारा एकात्मकभारतस्वराज्यनिष्ठा । द्वितीया निष्ठा चिरंतनधार्मिकतत्त्वदर्शनाभित; कर्मयोगः । प्रथमेयं निष्ठा प्रत्यवायबहुलाऽस्ति । बहुलपत्यवायपरिहारार्थ बहुभ्यः संवत्सरशतेभ्य: संचितानां भारतीयसामाजिकजीवनधारणायां व्यापत्कराणां पातकानां क्षयार्थ तिलकगुरुणा महहीर्घ सुदुष्करं च तप आचरितम् । तेन तिलकतपसा दग्धकिल्विपे भारतेऽस्मिन् राष्ट्रियैक्योद्बोधनकर स्वात्म- योधोत्थं परं ज्योतिराविर्भूतम् । तदेव प्रथमनिष्ठात्मकम् । तच्च ज्योति. र्भारतीयानां हृदयमन्दिराणि प्रकाशयच्चिरमास्ते । अधिष्ठानभूताया भारत- कत्यभावनाभाविताया ज्योतिःस्वरुपाया अस्या निष्ठाया दूपका अन्तराय- (१८) भूताः प्रत्यवायाः पुनःपुनरुद्भवन्तो भीपयन्ते भारतीयानां चित्तेपु संमोहं जनयित्वा भ्रमं चोद्भाव्येति सर्विवेकिभिस्तिलकादर्शचिन्तनेन चित्तमालि- न्यापनोदनं कृत्वा सावधानमतिमिर्भवितव्यम् । ते च प्रत्यवाया जातिभेद- प्रान्तभेद-भाषाभेद-धर्मभेदेत्याधुपाधिरूपा विवेकपरिभवाय यतन्ते कानि- चिनिमित्तानि पुरस्कृत्य । बहून्यपरिमेयानि चेमानि निमित्तानि संमोह- जननाय प्रभवन्ति काले काले, मानुपस्वभावस्याविवेकजन्यकालुप्यगोचर- त्वात् । कदाचित् जातिविशेषपक्षपाताः, कदाचित् प्रादेशिकराज्योपाधिका विसंवादाः, कदाचित् राष्ट्रियभाषाविशेषपोषणार्थोद्यमाः विधानपरिपद्भिः शासनतन्त्रैनिर्वाचितमन्त्रिमण्डलैर्नेतृश्रेष्ठवर्गेण वा विनियुक्तार्थाधिक्यवशाद्वा विधिविशेषप्रवर्तनाद्वा संस्थाप्रचाराद्वा प्रवर्तिताः, नागरिकगणेपु वैमत्य- मुत्पाद्य विद्वेषं विग्रहं च जनयन्ति । आर्थिकनियोजनविशेपेपु विशेपेण एकदाऽन्यं प्रदेश प्राधान्येन पुरस्कर्तुं युक्तं दृश्येत एकदाऽन्यं च प्रदेशम् । एतदपि पक्षपातदोपशङ्कामुपजनयत् राष्ट्रैक्यभावनां बाधेत । अर्थानां मध्य- शासनकृता विपमा विनियोगा अपि अन्ततो राष्ट्रपोपणोदर्की भवन्ति , ते अपि अदीर्घदर्शिभिरनुदारहृदयैः पक्षपातशङ्कामुत्पाद्य दूप्यन्ते । एतानि सर्वाणि संमोहस्थानानि अन्तःकोपकराणि राष्ट्रविदारणानि सर्वथा तिलक- प्रदत्ता स्वराज्यैकात्मकसंवित्तिं ज्योतिःस्वरूपामधिष्टाय निवार्याणि । श्रीतिलकसद्गुरुणा निर्मिता द्वितीया निष्ठा कर्मयोगात्मिका भारतभूमि नितान्तमुपकरोति । पुराणपुरुषोत्तमादारभ्य प्रसृतस्य मध्ये मध्ये भस्म- पिहितवरिव लुप्तप्रायस्य सनातनस्य दिव्यस्य कर्मयोगतत्त्वदर्शनस्योद्धरणेन सर्वेभ्यो जगतीगतेभ्यो धार्मिकतत्त्वदर्शनेभ्यो नितरामतिशेतेऽयं गीतारहस्य- परिष्कृतः कर्मयोगमार्गः । भारतीया यावत्पर्यन्तमिमं श्रीतिलकसद्गुरुणोप- दिष्टं स्वयमाचरितं च मार्ग न परित्यक्ष्यन्ति तावत्पर्यन्तं भारतीयान् जेतुं दिवि या पाताले या भूतले या निवसन् सर्वातिशायिनीमपि महाशक्ति विभ्रदरिने प्रभवेत् । श्रीतिलकगुरुमुखद्वारा साक्षाद्भगवतेवायं पुनर्गीतारहस्यरूपेण श्रावितः सार्वभौमो गीताधर्मों भारतीयेभ्य उपदिष्ट इति श्रद्दध्महे । प्राज्ञपाठशाला, २९-५-५६ लक्ष्मणशास्त्री जोशी तर्कतीर्थः ~ ។ ८ अनुक्रमणिका प्रारम्भिकम् - (१) आङ्ग्लभाषायां गुणग्रहणम् पृ. १, (२) तस्य रूपा- न्तरम् पृ. २, (३) हृद्गतम् पृ. ३, (४) प्रस्तावना पृ. ८, (५) पुरस्कारः ( मराठी भापायाम् ) पृ. ११, (६) पुरस्काररुपा- न्तरम् पृ. १४, (७) द्वितीयः पुरस्कारः पृ. १७. मङ्गलाचरणम् पृ. १ १ स्वाध्यायपर्व- (१) विषयोपन्यासः पृ. ३, (२) शैशवम् पृ. ४, (३) अध्ययनम् पू. ५, (४) विवाहः पृ. ७, (५) महाविद्यालय- शिक्षणम् पृ. ८, (६) बलवर्धनम् पृ. ८, (७) चापलानि पृ. ८, (८) अध्यापकवर्गः पृ. ९, (९) सहाध्यायिनः पृ. १०. २ अध्यापनपर्व- (१) जीवनपार्श्वभूमिः पृ. ११, (२) नूतनाइल- विद्यालयः पृ. १४, (३) वृत्तपत्रद्वयम् पृ. १९, (४) कोल्हापुर. प्रकरणम् पृ. २१, (५) फर्ग्युसनमहाविद्यालयस्थापना पृ. २४, (६) कोणशिलास्थापनोत्सवः पृ. २६, (७) मित्रविग्रहः पृ. २७, (८) शिक्षणसंस्थात्यागः पृ. ३२. ३ प्रजागरपर्व- (१) क्राफर्डमहाशयः पृ. ४१, (२) केसरिमराठावृत्त- पत्रद्वयम् पृ. ४२, (३) विवाहकालमर्यादा पृ. ४४, (४) चहापानम् पृ. ४८, (५) पण्डिता रमादेवी पृ. ५१, (६) हिंदुयवनसंक्षोभः पृ. ५४, (७) चापटसमितिः पृ. ६२, (८) संकीर्णविपयाः पृ.६४, (९) विधिमण्डलप्रवेशः पृ. ६५, (१०) राष्ट्रियमहोत्सवी पृ. ६७, (११) श्रीशिवछन्नपत्युत्सवः पृ. ६८, (१२) राष्ट्रियसभामण्डप. कलहः पृ. ७०. ४ महाराष्ट्रविपत्पर्व- (१) महदुर्भिक्षम् पृ. ७३, (२) प्रन्थि- घरः पृ. ७९, (३) उपाययोजना पृ. ७९, (४) अधिकारिणा- मुपद्रवः पृ.८१.

(२०) ५ प्रथमराजद्रोहाभियोगपर्व- (१) राजद्रोहामियोगः पृ. ८५, (२) रँड्महाशयवधः पृ. ८७, (३) अभियोगपूर्वकारावासः पृ. ९०, (४) प्रतिभूविषयः पृ. ९१, (५) सुहृत्साहाय्यम् पृ. ९२, (६) चातुर्यप्रसङ्गः पृ. ९३, (५) लँगमहाशयभाषणम् पृ. ९५, (८) प्यूमहाशयभापणम् पृ. ९६, (९) न्यायाधीशसमारोप: पृ. ९७, (१०) अमियोगनिर्णयः पृ. ९८, (११) तेजस्विता पृ. ९९, (१२) अन्याभियोगाः पृ. १००, (१३) कारावासः पृ. १०१, (१४) मुक्तता पृ. १०४, (१५) चाफेकरप्रकरणम् पृ. १०५, (१६) द्रविडवन्धुवधः पृ. १०८, (१७) टाइम्सपत्रस्य क्षमा- याचनम् पृ. १०९, (१८) विश्रान्तिसुखम् पृ. ११०, (१९) गृह- जीवनम् पृ. ११०. ६ 'पुनश्च हरिः ओम्'पर्व- (१) पुनश्च केसरिपत्रसंपादनम् पृ. ११३, (२) 'काळ'पत्रम् पृ. ११५, (३) रँगलर' परांजपे'महाशयाभि- नन्दनम् पृ. ११६, (४) सातारानगरे प्रादेशिकी परिपद् पृ. ११६, (५)रानडेमहाशयनिधनम् पृ. ११८, (६) आङ्ग्लदेशराज्ञीनिधनम् पृ. ११९, (७) अज्ञेयमीमांसा पृ. ११९, (८) केसरिपत्रम् पृ. १२२, (९) राज्यारोहणमहोत्सवः पृ. १२४, (१०) कलकत्ता- नगरे शिवछत्रपतिमहोत्सवः पृ. १२५. ७ मित्रकार्यपर्व- (१) ताईमहाराजप्रकरणम् पृ. १२७, (२) दत्तक- प्रकरणम् पृ. १२८, (३) विरुद्धमन्त्रः पृ. १२९, (४) प्रसगाव- धानम् पृ. १३०, (५) अभियोगपरीक्षणम् पृ. १३२, (६) वरिष्ठन्यायालयः पृ. १३३. ८ राष्ट्रियसभापर्व- (१) राष्ट्रियसभा पृ. १३६, (२) पञ्चाङ्गशोधनम् पृ. १३६, (३) समाजसुधारणातत्ववादः पृ. १३७, (४) पुनः पण्डिता रमादेवी पृ. १३७, (५) काम्वृत्तपत्रम् पृ. १३७, (६) ब्रुइन्महाशयनिधनम् पृ. १३८, (७) उत्सवाः पृ. १३८, (८) नेमस्तपक्षनिराशा पृ. १३८, (९) अधिकारमदः पृ. १३९, (१०) राष्ट्रियसभाधिवेशनम् (१९०५) पृ. १४०, (११) वङ्ग- (२१) देशान्दोलनम् पृ. १४०, (१२) राष्ट्रियसभाधिवेशनम् (१९०६) पृ. १४२, (१३) खदेशीयवस्तुप्रचारः पृ. १४४, (१४) आज्ञा- पत्रकपरिणामः पृ. १४४, (१५) वीरनवाली पृ. १४६, (१६) प्रादेशिकपरिपद् पृ. १४८, (१७) मोर्ले-मिंटोसुधारणा: पृ. १४८, (१८) गोखले-टिळकवादःपृ. १४९, (१९) राष्ट्रियसभा स्थलम् पृ. १४९,(२०) अध्यक्षपदम् पृ.१४९, (२१) 'सुरत 'नगरे राष्ट्रियसमाधिवेशनम् पृ. १५१, (२२) अधिवेशनभङ्गः पृ. १५२, (२३) लोकमान्यविरुद्धप्रचारः पृ. १५३, (२४) वार्ताहरलिखित. वृत्तान्तः पृ. १५७, (२५) नेमस्तपक्षनिवेदनम् पृ. १६१, (२६) राष्ट्रियपक्षनिवेदनम् पृ. १६२, (२७) इतस्ततः पृ. १६४. ९ द्वितीयराजद्रोहाभियोगपर्व- (१) पक्षभेदः पृ. १७०, (२) अभियोगानुज्ञा पृ. १७०, (३) अमियोगपूर्वकारावासः पृ. १७२, (४) अभियोगपरीक्षणम् ट. १७३, (५) लोकमान्यानां निवेदनम् पृ. १७५, (६) लोकमान्यानां समर्थनम् पृ. १७६, (७) शासन- संस्थाविधिज्ञस्य प्रतिपादनम् पृ. १८०, (८) न्यायाधीशसमारोपः पृ. १८२, (९) अभियोगनिर्णयः पृ. १८२, (१०) धीरगमीरा याक् पृ. १८३, (११) कारारासदण्डः पृ. १८३, (१२) लोक- ओभः पृ. १८४, (१३) कारागृहगमनम् पृ. १८५, (१४) केळकरमहाशयेपु अभियोगः पृ. १८५. १० मुक्ततापर्व- (१) 'मंडाले' कारावासः पृ. १८८, (२) लोकमान्य. कथितकारावासवृत्तान्तः पृ. १८८, (३) कारावासानन्तरम् पृ. १९२, (१) गृहे कारावासः पृ. १९५, (५) लोकमान्यनिवेदनम् प्र. १९६. ११ ग्रन्थपर्व- (१) वेदकालनिर्णयः पृ. १९८, (२) आयर्याणां यसजि. स्थानम् ट. २०१, (३) गीतारहस्यम् पृ. २०४. १२ राष्ट्रियसभासन्धिपर्व- (१) राष्ट्रियसभाप्रवेशवादः पृ. २२२, (२) गोगलेमहागयनिधनम् पृ. २२७, (३) राष्ट्रियपक्षपरिपट पृ. २२८. १३ स्वराज्यसद्धपर्व- (१) स्वराज्यसइयस्थापना पृ. २२९, (२) फेरोजशहा मेयामदागयनिधनम् पृ. २२९, (३) मुंबईप्रदेश- (२२) परिपद् पृ. २३०, (४) एकपष्टिमहोत्सवः पृ. २३१, (५) तृतीया- भियोगः पृ. २३५, (६) नगरपत्तने व्याख्यानम् पृ. २३६, (७) वरिष्टन्यायालयः पृ २३८, (८) लखनौनगरे राष्ट्रियसभाधिवे शनम् पृ. २४०, (९) अधिवेशनम् पृ. २४२, (१०) अण्णासाहेब पटवर्धननिधनम् पृ. २४५, (११) सैनिकशिक्षणम् पृ. २४५, (१२) कर्णाटकयात्रा पू. २४६, (१३) गांधीमहाशयानां सत्याग्रहः पू.२४६. १४ स्वातन्त्र्योपःकालपर्व- (१) बेझंटमहिलायाः स्थानबद्धता पृ. २४७, (२) घोषणा पृ. २४७, (३) संकीर्णम् पृ. २४७, (४) स्वराज्यान्दोलनार्थ दीर्घप्रयासः पृ. २४८, (५) कोलंबो- यात्रा पृ. २४९, (६) युद्धपरिपदः पृ. २५१. १५ चिरोलपर्व- (१) सर् व्हॅलंटाइन चिरोलमहाशयः पृ. २५४, (२) गफलम् पृ. २५५, (३) चिरोलमहाशयाभियोग: पृ. २५६, (४) चिरोलोद्गाराः पृ. २५८, (५) आग्लदेशनिवासः पृ. २६०. १६ प्रजासंहारपर्व- (१) कृष्णविधिः (रौलट अॅक्ट ) पृ. २६२, (२) जालियनवालानामकमुद्यानम् पृ. २६४, (३) भारतदेशे प्रत्यागमनम् पृ. २६५, (४) अमृतसर-राष्ट्रियसभा पृ. २६६, (५) स्वराज्य- संघाधिवेशनम् पृ. २६९. १७ निर्याणपर्व- (१) ज्वरप्रादुर्भावः पृ. २७०, (२) निर्याणम् पृ. २७०, (३) महायात्रासंचलनम् पृ. २७१. १८ समालोचनपर्व (१) शिक्षणक्षेत्रे अग्रेसरत्वम् पृ. २७३, (२) चिरोल- दत्तप्रमाणपत्रम् २७४, (३) असाधारणबुद्धिमत्त्वम् पृ. २७५, (४) निर्भयत्वम् पृ. २७७, (५) लोकमान्यदोषाः पृ. २७८, (६) निधनोत्तरविभूतिमत्त्वम् पृ. २७९, (७) प्रार्थना पृ. २७९. १९ शुद्धिपत्रम्-पृ. २८१. २० विशेषशब्दकोश:-पृ. २८३.

श्रीमल्लोकमान्याः
---
--
जन्म
मृत्युः
१-८-१९२०
२३-७-१८५६

मङ्गलाचरणम्
ओमित्येकप्रतीकाय सच्चिदानन्दरूपिणे ।
विश्वात्मकाय देवाय परस्मै ब्रह्मणे नमः ॥१॥
'गणानां त्वा गणपति' मन्त्रेणैतेन यः स्तुतः ।
नमस्तस्मै गणेशाय सर्वप्रत्यूहनाशिने ॥२॥
वाग्ररूपिण्यै सरस्वत्यै भक्तियुक्तेन चेतसा ।
शब्दसम्पत्पदानार्थ प्रार्थयेऽहं सदा नतः ॥३॥
जनकं वामनं वन्दे लक्ष्मी स्वजननी तथा ।
त्र्यम्बकं ज्ञानदातारं वैयाकरणभूपणम् ॥ ४ ॥
लोकचित्तविजेतारं टिळकेत्युपनामकम् ।
गङ्गाधरसुतं वालं वन्देऽहं केशवं मुदा ॥५॥
तस्य विस्तीर्णचरितं वर्णितं पूर्वसरिभिः ।
देवयाण्यां वक्तुकामः प्रयते तत्प्रसादतः ॥ ६ ॥

. 'नमो वाचे नमो याचस्पतये' लोकमान्यटिळकचरितम्- १ स्वाध्यायपर्व १ विपयोपन्यासः आनन्दः खलु सञ्जायते मानसंच प्रसन्नं भवति इदानीमासेतुहिमाचलं पूर्वापरसागरान्समेतं भारतदेशं स्वातन्त्र्योपभोगिनं दृष्ट्या । एतद्भरत- खण्डस्य स्वातन्त्र्यं समतीते वर्षशते लग्धजन्मनां-दिवं गतानां तथा विद्यमानानां - सर्वेषां भारतसुपुत्राणां राष्ट्रधुरीणानां प्रयत्नानां समुदितं मुधासदृशं मधुमधुरं महाफलम् । सकलानामपि सुपुत्राणां चरित्राण्यवश्यमय- लोकनीयानि भवन्ति, किमुत सर्वकपबुद्धिमतां रामकृष्णसदृशानां युग- पुरुपाणां, यतः किल वचरित्रश्रवणमनननिदिध्यासनादेव धर्मे रतिः, कर्तव्ये स्फूतिः, समुद्यमे मतिः, व्यवहारे युक्तिः, सङ्कटे धृतिः, अभ्युदये अनुत्सेक इत्यादयो गुणाः प्रसिध्यन्ति । एतेपां चरित्राणि न केवलमबलोकनीयानि अपि तु अध्येतव्यानीति विद्वांसो मन्यन्ते । तेषु राष्ट्रधौरेयेपु महाराष्ट्रदेश- ललामभूताः, सजनेषु यन्दनीयचरिताः, मुहृजनेषु मित्रकार्यरताः, राष्ट्रकार्येषु इवाप्रेसराः भारतभूमितिलकायमाना लोकमान्य- 'टिळक-' महाशयाः। प्राचीनजम्बुद्वीपान्तःपाती पूर्वापरजलनिधिवेलापरिखः यसिष्ठवाम- देवादिमहर्पितपश्चरणपूतः भरतभगीरथहरिश्चन्द्रादिनरपतिरत्नालकृतः कपिलकणादपाणिन्यादिदर्शनकारमण्डितः सुविख्यातोऽयं भारतदेश: । सण्टप्रायेऽस्मिन् भारतदेशे प्राचीनकाले बहूनि राष्ट्राण्यासन् । तेषु कानि- चिलघूनि, कानिचिन्मध्यमानि, कानिचिद्विस्तीर्णानि । सर्वेष्वपि राष्ट्रेषु - ४ लोकमान्यटिळकचरितम् असंख्यानि नररत्नानि साहित्यस्थापत्यरसायनतत्त्वज्ञानादिशास्त्रेषु, गान- वादननर्तनचित्रीकरणादिकलासु, धर्मकारणराजकारणसमाजकारणादिविविध- क्षेत्रेषु आत्मनो बुद्धिप्रागल्भ्यं वाक्पाटवं कार्यकौशलं ज्ञानागाधत्वं विचारवैपुल्यं च प्रकटय्य सुमहद्यशोधन सम्पादयामासुः । एतानि नररत्नानि न केवलं भरतखण्डे ख्याति जग्मुः, अपि तु प्रधानतमेषु प्राच्यदेशेषु तथा अग्रेसरपाश्चात्त्यदेशेष्वपि महती प्रतिष्ठामवापुः । परम् अतीते वर्षशते दैवदुर्विपाकात्पारतन्त्र्यदुःखमनुभवतो भारतस्य राष्ट्र- धुरीणानां विद्वद्रत्नानां कर्तृत्वशालिनामावालवृद्धानां जनानामात्मनो मातृभूमिस्वातन्त्र्यसिद्धिरूपमेकमेव साध्यमासीत् । तत्सिद्धये साधनीभूतं लोकशिक्षणं प्रथमं कर्तव्यं भवति । एवंविधे राष्ट्रकार्ये यैरात्मनो जीवितं सर्वात्मना यापितं, तेषु देशकार्यरतेपु पुरुपश्रेष्ठेषु अलोकसामान्यकर्तृत्वेन, विद्वज्जनेषु वैदुष्येण, उद्यमशालिपु अनवरतकर्मयोगानुष्ठानेन, पुण्यपुरुषेपु शीलेन, व्यवहारिपु सागेन, अज्ञानान्धकारमने भारतदेशे महत्ता लेक. प्रजागररूपान्दोलनेन यो जनानामन्तःकरणेपु दृढं स्थानं लेभे, यश्च छत्रपतेः शिवभूपालस्य कर्मभूमौ महाराष्ट्रदेशे स्वजन्मना निजान्वयमल- कृतवान् स 'टिळक'कुलोत्पन्नो गङ्गाधरतनयः केशवश्चरित्ररूपेणास्माभि- रिदानी द्रष्टव्यः । 'बाळ' इत्यपरं तस्य नामधेयम् । स आत्मनो बुद्धि- विभवेन विद्याव्यासङ्गेन अनन्यसाधारणकर्तृत्वेन च लोकमान्यतां जगाम । तस्मादस्मिन्नपि चरित्रे लोकमान्यटिळक ' इति शब्देन वा, केवलेन 'लोकमान्य'शब्देन वा टिळकमहोदयानां निर्देशो महता गौरवेणास्माभिः क्रियते। २ शैशवम् चरित्रनायकलोकमान्यटिळकमहोदयानां जन्म शालिवाहनशकस्य १७७८ संवत्सरे आपाढे मासे कृष्णपक्षे पट्यां तिथौ सौम्यवासरे- खिस्ताब्दस्य १८५६ वत्सरे जुलैमासे त्रयोविंशे दिवसे-महाराष्ट्रदेशान्त:- पातिनि अपरान्तभागे रत्नागिरिनाम्नि नगरे सआतम् । गड्गाधरनामा एतेषां जनकः, जननी च पार्वतीनाम्नी । पुत्रस्य नामकरणसमये 'केशव । इति स्वकुलदेयतानामधेय मातापितृभ्यां वान्धयजनैश्च सुप्रतिष्टितं कृतम् ।

'स्वाध्यायपर्व . तथापि वन्धुवरातजनैश्च शैशवे वाळ - वार' इति तेन तेन निमित्तेन गृहे पुनः पुनर्नामग्रहणेन लोकमान्यानां 'बाळ' इत्येव नामधेयं सुपरिचित- मभूत् । पत्रादिलेखनावसरे अधस्तात् हस्ताड्कनकाले 'बाळ गड्गाधर टिळक ' इत्येव आत्मनाम लेकमान्यैलिखित दरीदृश्यते । अतो 'केशव' इति लोकमान्यानां नामधेयं न बहुजनपरिचितम् । टिळकमहोदया जनकजनन्योर्न प्रथमापत्यम् । प्रथमं तेषां माता- पित्रोः कन्यात्रितयं सजातम् । अतस्तासां माता मनस्यसियत । पुत्रप्राप्तये सा रामभक्तरामदासजननीव सूर्यदेवतामाराधया धयामास । तत्प्रसादादेवाय पुत्रलाभो जात इति साऽमन्यत । प्रत्यहं शुक्छेन्दुवत्समवर्धवायं लोकनयना- नन्दकरो बाललोकमान्यः । ३ अध्ययनम् वाललोकमान्यानां शैशवे विशेपेणोल्लेखनीयो न कश्चिद्वयतिकरो दृश्यते । परम् अस्य गुणद्वयं बन्धुजननयनगोचरतां गतम् । प्रथमोऽस्य वालस्य गुणः अनन्यसाधारणबुद्धिमत्त्वम् । अपरः आग्रहयुक्तः स्वभावः । एतादृशं बुद्धिवैभवं वीक्ष्य शैशवे एव कतिचित् संस्कृतप्राकृतसुभापितानि जनकेनोपदिष्टानि । नवरात्रावसाने विजयादशम्याः शोभने मुहूर्ते पड्वर्प- देशीयोऽयं बालस्तत्कालोचितप्राथमिकशालां प्रवेशं प्रापितः । अष्टमे वर्षे महता उत्सवेन उपनयनविधिना संस्कारितोऽयं बालः । संस्कृतभाषायाः सम्यगवयोधार्थ व्रतबन्धात् प्रागेव रुपावलिसमासचकामरकोशादिप्रास्ताविक पठनम् अनेन कृतमासीत् । तथैव सन्ध्यावन्दनसूर्यनमस्कारदेवपूजनादिब्रह्म- यज्ञान्तो नित्यकर्मविभागोऽप्यनेनाधीतः ।व्रतबन्धात्पूर्वमेवैतादर्श वटोरध्ययन- मालोक्य विद्वांसो विप्रा उपाध्यायादयश्च महदाश्चर्य प्राप्ताः । लोकमान्यानां जनकः प्रथममाङ्ग्लविद्यालये अध्यापक आसीत् । सेवकविध्यनुसारेण स रत्नागिरिनगरविद्यालयात् पुण्यपत्तने -पुणेनगरे- निरीक्षकस्थाने नियुक्त आसीत् । अतो लोकमान्यानामाङ्ग्लविद्यालयाभ्यास- क्रममारभ्य पदवीपरीक्षान्तविद्यापीठशिक्षणं यावदध्ययनसुयोगः समुत्पन्नः । परम् अयं सुयोगो न निप्प्रत्यूहः । मातृवियोगदुःख दशमे वत्सरे एव चाललोकमान्यरसात । परिसमाप्ते वयसः पोडशे वर्षे एते दैवदुर्विपापात् पितृसुसयश्चिता अभूयन् ।

लोकमान्यटिळकचरितम् आङ्ग्लविद्यालयाभ्यासकाले चाललोकमान्यानां गणितविषयस्य प्राथमिकाध्ययनं पूर्णतां गतम् । गीर्वाणवाण्यामप्येते सम्यग्रीत्या व्युत्पन्ना अभूवन् । कस्यापि साहाय्यं विना एते श्लोकार्थ सरसमजानन् । पुण्यपत्तनस्थाड्ग्लविद्यालये बाललोकमान्यानां प्राथमिकशिक्षणावस्था. विषयकं कथाद्वयं विद्यार्थिजनेषु सुप्रसिद्धं वर्तते । एकस्यां कथायां वालस्यास्य सत्यप्रियता तथैव दण्डदर्शनेऽपि अविचलितधैर्यवृत्तिर्दृश्यते । एकदा शालागृहे बाललोकमान्यानां वर्गे शिशुजनपरमप्रियाणां मराठीभापायां 'भुईमुगा'ख्यानां वीजानि भक्षयित्वा तेपां कवचानि इतस्ततो विकीर्णा- न्यासन् । अध्यापकः सर्वत्र प्रसृतानि तानि कवचानि वीक्ष्य दण्डहस्त: कोपरफुरिताधरस्तारस्वरेण छात्रानपृच्छत् केनेदं कृतमिति । भयाकुलतरल- तारकेपु विद्यार्थिजनेषु न कश्चिदपि वक्तुमधृप्णोत् । प्रस्तावानुसार बाल- लोकमान्यानामुपरि तस्याः अपक्रियायाः आरोपः कृत आसीत् । तं मिथ्या- ssरोपमसहमाना बाललोकमान्या महताऽऽवेगेन शालागृहानिर्गत्य गृहं गता इति श्रूयते । अनेन प्रकारेण लोकमान्यैरात्मनः शिक्षकस्यैवंविधो मिथ्याऽऽरोपो बाल्ये अपि निषिद्धः । अपरः प्रसङ्गस्तु एवंविधः । अथैकदा शुद्धलेखनवेलायामध्यापकेन कथिते कस्मिंश्चिन्मराठीभाषापरिच्छेदे सन्त' इति शब्दस्त्रिवार लेखनार्थमनुवृत्तः। तदा लोकमान्यैरयं शब्दो 'मराठी 'भापायां 'सन्त, संत, सन्त' इति प्रकारत्रयेण लिखितः । लेखनपरीक्षणसमये 'संत' इत्येकमेव रूपं शिक्षकेण शुद्धमिति स्वीकृतम् । अन्यौ द्वौ प्रकारौ अशुद्धौ इति निर्णयो दत्तः । तमन्यायमसहमाना चाललोकमान्या. सत्यान्वेषणाय मुख्याध्यापकमुपगम्य पृष्टवन्तः 'किम् अशुद्धं वर्तते अस्मिन् मम लिपि- न्यासे' इति । मुख्याध्यापकेन बाललोकमान्यान् समाधाय त्रयोऽपि लेखना प्रकाराः समीचीना इति निर्णीतम् । इत्थं वाललोकमान्यानां सत्यप्रियत्वं धैर्यवृत्तित्वं स्वतन्त्रप्रज्ञत्वं च शैशवे एव दृश्यन्ते । वर्गबन्धुपु प्रथमक्रमाङ्कः कदाप्येतेर्न लब्धः । तथापि सर्वेषु छानेपु एतेषां किमपि वैशिष्टयं प्रकर्पणा. लोच्यते । गणितविपयपरीक्षायां फठिनप्रश्नानामेवोत्तरप्राप्तये लोकमान्या अपत्तन्तेति श्रूयते। .

'खाध्यायपर्व ७ ४ विवाहः आङ्ग्लविद्यालये अधीयाना लोकमान्यातदानीवनी जनरूढिमनुस्ल वयसः पञ्चदशवत्सरे एव विवाहपृङ्खलावद्वाअभूवन्निति साम्प्रतमाश्वर्या- वहं भवेत् । परं वर्षशतात् प्राक् सामान्येन पोढशवानन्तरं वालानाम् , अष्टमे वा नवमे या वर्षे वालिकानां विवाहः करणीय इति जनरूढि- रासीत् । तदानींतनेषु राजकारणधुरीणेषु वा समाजकारणाप्रणीषु वा विशेषेणैको गुणो दृश्यते, यत् सर्वैरात्मनोऽध्ययनम् आर्थिकपरिस्थित्यनु सारतः परिसमापितम् । एतेपामेताहशो दृढनिश्चयोऽद्यतनीयैः प्रथमे क्यसि वर्तमानरादरणीयः, विवाहविषयं परित्यज्य अन्यकार्येषु अनुकरणीयश्च । थान' इत्युपनामके करिमश्चित्सुकुले समुत्पन्ना 'तापी' नानी कन्या ब्राह्मण विधिना लोकमान्यैः परिणीता । द्विभुजोऽयं वाल: कोमले वयस्येय चतुर्भुजो जातः । इयं तापी कस्यापि सन्तापायाभयदिति न केनापि चरित्रकारणोल्लिखितम् । विवाहसमये नामकरणविधिना इयं सत्यभामा ' इत्याख्यां जगाम । तथापि इयं लोकमान्यपत्नी अधुना 'सत्यभामाख्या प्रकृत्या कोपना-मामिनी-आसीदिति न केनापि वर्णितम् । स्वाध्यायकाले गृहीतोऽयं चतुर्भुजत्वपाठो लोकमान्यैः खपराक्रमकालेऽपि अर्थान्तरेण (कायवासेन) त्रिवारमभ्यस इति तेषां चरिनतो ज्ञायते । 'कन्याराशिस्थितो नित्यं लामाता दशमो ग्रहः ॥' इति लोकप्रसिद्ध विनोदवचनम् । एवादृशो जामाता नैकप्रकारेण धर्मपत्नी सन्त्रास तस्याः मार्गेण वारं यारं श्वगुराद्धनमधिगच्छति । परं कियताऽपि धनेन न स सन्तोपमेति । लोकमान्यानामाचारे तु विपरीतमेतत् दृश्यते । पुरातनकाले जनरूढिमनुसत्य आपाढे मासे यहूनि मीडनकानि, तत्सदृशा- न्यक्रीडासाधनानि जामाने प्रसादकतान्यासन । अस्मिन् प्रसङ्गे लोकमान्या- नामामहस्त 'एतत् सर्व माऽस्तु । तन्मूल्यानि पुस्तकान्वेर प्रदेयानि ' इति । मिसान्दस्य १८७२ संवत्सरे लोकमान्या मुम्यापुरी विद्यापीठस्स शालान्तपरीक्षायामुत्तीर्गा अभूवन् । तदानीं तस्याः शालान्तपरीक्षायाः नाम 'मॅट्रिक्युलेशन्' इत्यासीत् । अस्यां परीक्षायां पूर्वोतपद्धतिमनुसत्व गणितविपचप्रश्नपत्रिकायाः कटिनमभेम्वेव एते सपत्ना आसन् । तर द लोकमान्यटिळकचरितम् उत्तीर्णताविषयावश्यकी गुणसंख्यामुत्तरपत्रिकायां निश्चित्य नियतकालात् प्रागेव परीक्षामण्डपादेते निर्गता इत्यपि किंवदन्ती श्रूयते । ५ महाविद्यालयशिक्षणम् सप्तदशे हायने 'डेकन कॉलेज' नामकं महाविद्यालयमध्ययनार्थ प्रविश्य लोकमान्यैश्छात्रालयनिवासः स्वीकृतः । आङ्ग्लविद्यालये याऽभ्याससरणिरेतैरड्गीकृता सैव महाविद्यालये । लोकमान्यैरध्ययनार्थ रात्रौ जागरणं न कदापि कृतम्, न वा पाठयविषयाणां टिप्पण्यो विस्तरेणा- भ्यस्ताः । तथाप्येभिः स्वचित्तं न लक्ष्याङ्करीकृतम् । महाविद्यालयजीवन- मेमिः कदाचिद्वयत्यैः सह विविधविपयमधिकृत्य विवादेन, कदाचिद्विनोद- प्रचुरसंल्लापेन, कदाचिदेकचित्तीभूय पाठयविपयायलोकनेन यापितम् । ६ बलवर्धनम् महाविद्यालयजीवने प्रथम वर्ष विशेपेणोल्लेखनीयम् । 'शरीरमाद्यं खलु धर्मसाधनम् ' इति कालिदासवचनमनुसृत्य निजशरीरं च कृशमवलोक्य, कस्यापि कार्यस्य हेतोः इदमसमर्थमिति परिज्ञाय, लोकमान्यैरस्मिन् संवत्सरे विविधप्रकारैर्व्यायामं कृत्वा प्रभूतं शरीरसामर्थ्य सम्पादितमिति महदाश्चर्यम् । इदमेव शरीरबलं भविष्यत्काले लोकमान्यानां महते उपकारायाभूत् , येन आयत्यामापतिता घोरतराः कष्ट- प्रदाञ्च विपत्तयस्तैः पश्चिमे धयस्यपि प्रशान्तमनसा सोढाः । जलसन्तरण- मेतेपामतीव प्रमोदायाभवत् । 'वाराणसी क्षेत्रे परमपवित्रभागीरथ्यां विस्तीर्णप्रवाहो लोकमान्यैः सुखेनोत्तीर्ण इति बहुभिर्जनैः कथ्यते । ७ चापलानि बलसंवर्धनानन्तरं महाविद्यालये लोकमान्यैः कृतो बहुप्रकारकनासः अवसरप्राप्तो वर्णितो दृश्यते । सामर्थ्यसम्पादनाय 'रामवाण 'रसायन- सेवनसताना खासा रसायनकाचपा यातायनेभ्यो पहिः प्रक्षेपणम् , छानालपमित्ती: आरुह्य, गवाक्षद्वाराण्युद्घाट्य, अन्तः प्रवेशनमित्यादि- प्रकारेर्लोकमान्यैश्छात्रसुलभमात्मनश्चापलं क्रीडापेशलत्वं च प्रदर्शिवम् । कश्चित् कुमारो ग्रीष्मसमये नक्तमात्मनः शय्यायां पुष्पाणि विकीर्य स्वपिति । तदवलोक्य न केवलं तस्य पुष्पाय्या प्रत्यहं लोकमान्यैरध्वना स्वाध्यायपर्व कृता, अपि तु कुसुमसुकुमारगात्रयष्टिरय युवा रात्री पुष्पशय्यामधिशेते इति छात्रगणेपु तस्य परिहामोऽपि कृतः । एतादृशैश्वापलेविद्यार्थिवसति- गृहे लोकमान्याः 'सैतान'पदोपालम्भं प्राप्ताः । भोजनगृहेषु छात्राणां भोजनावसरे परम्परामाप्तदुकूलपरिधान- पद्धतिर्लोकमान्यैः परिरक्षिता । महाविद्यालये धूम्रपानमद्यप्राशनादिव्यसना- न्यपि केपांचिच्छानाणां रुचिमायहन् । परं तेभ्यः सर्वेभ्यो लोकमान्याः सुदूर- मासन् । ईदृशानां विद्यार्थिजनानां संसर्गमपि ते निश्चयेन परिहरन्ति स्म । ८ अध्यापकवर्गः लोकमान्यानामध्यापकवर्गे 'केरोनाना छत्रे 'शूट' इति प्राध्यापक- द्वयं छात्रगणप्रियमासीत् इति श्रूयते । गणित-ज्योतिपविद्यानिपुणा: 'छत्रे'- महोदयाः शास्त्रनैपुण्येन बुद्धिविभवेनोपप्राचार्यपदं प्राप्ताः । वनप्रावरणेपु भारतीयजनसाधारणयनमायरणेन, छात्रगणमध्ये अनुत्सेफेन, पृथगजनेषु ऋजुस्वभावेन छ।महाशया विद्यार्थिजनेप्यादरणीया अभूवन् । यस्य यस्य विद्यार्थिनः गणितादिविपयेषु शङ्कास्थानमासीत् स स छात्रः कस्मिन्नपि काले तेषां सकाशं गत्वा आत्मनः शङ्कानां समाधानं प्राप्नोत् । दारिद्य- दुःखपीडितछात्रजनेभ्यदछ।महोदया न केवलं भोजनाच्छादनादिकं प्रा- यच्छन् , अपि तु सुयोग्येभ्यइछात्रेभ्यो यथावसरं यथाशक्ति महाविद्यालय- शिक्षणशुल्कमप्यददुः । राज्याधिकारिणोऽपि छन्नेमहोदयानां निधनानन्तरं तेषां धर्मपल्यै जीयनाथं शतरूप्यकमितं सेवाधनं सममन्यन्त । 'शूट 'नामका: प्राध्यापका अर्थशास्त्रनीतिशास्त्रेतिहासादिविपयेपु पण्डिता आसन् , चिकित्सकपद्धत्या च छानेपु स्वविपयान् व्यतरन् । शिष्य- प्रिया अप्यते छत्रेमहोदययत् विद्यार्थिभ्यो न सुलभतया प्रापणीया आसन् । प्राधान्येन गणितविषयमभ्यस्य लोकमान्याः १८७६ संवत्सरे 'यी. ए.' परीक्षायां प्रथमश्रेण्यामुत्तीर्णाः । परं १८७७ पत्सरे तमेय विपयं गृहीत्या 'एम्. ए. परीक्षायां परीस्यत्वेनोपन्याय न तोत्तीर्णतां प्राप्नुवन् । अनन्तरं १८७९ संवत्सर विधिन्यवहारगानाण्यभ्यस्य एते 'एलएल्. वी.' परीक्षायामुत्तीर्णा अभूयन् । 'डेपान कॉलेज'नाम्नि महाविद्यालये तदानीनने प्राध्यापकवर्गे एतानि कानिचिन्नामानि दृश्यन्त फेरोनाना छन्ने-अनंतगात्री पेंटरकर- " लोकमान्यटिळकचरितम् चिन्तामणिशास्त्री थत्ते- पीटर्सन् - किलहॉर्न - वर्ड्सवर्थ - ऑक्झेनहॅम् - वेस्ट -बेटी- शूट - लार्केन् - एटकेन् ' इति । ९ सहाध्यायिनः लोकमान्यसमकालीना वहवश्छात्रा अध्ययनसमाप्तेरनन्तरं सामान्य- जनवत् प्रभूतं धनं सम्पाद्य तदानींतनलोकाचारेणात्मनो घराकोदरपूरणं कृत्या जीवनं यापितवन्तः । परं लोकमान्यानामेतदेव वैशिष्टयं यदध्ययन- काले आचार्येभ्यः सम्प्राप्त विद्याधनं तैः स्वजनेपु राष्ट्रहितदृष्टथैव वि- तीर्णम् । के न यतन्ते स्वजनाभ्युदयसम्पादनाय ? परम् आत्मनो बुद्धिवैभवं शरीरवलं च अहर्निशं ये लोककल्याणायोपयुञ्जते त एव लोके अनन्यसाधा. रणयशोभागिनो भवन्ति जनानामन्त:करणेपु प्रतिष्ठां लभन्ते च । उक्तं च । 'एते सत्पुरुषाः परार्थघटकाः स्वार्थान् परित्यज्य ये। सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये॥' इत्यादि । न किमप्येते लोकेभ्यो लब्धुमिच्छन्ति । उक्तं च सन्तः परार्थं कुर्वाणा नापेक्षन्ते प्रतिक्रियाम्' इति । लोकमान्यसमकालीनानां विद्यार्थिनां कानिचिन्नामानि 'केळकर'. कृतटिळकचरित्रे निर्दिष्टान्युपलभ्यन्ते । तथा हि । " आप्पासाहेव शारङ्ग पाणी-दाजीसाहेव खरे-ओकशास्त्री-श्रीधर वाळकृष्ण उपासनी- लक्ष्मण मोरेश्वर देशपांडे -मनोहरपंत काथवटे-महादेव भास्कर चौवळ- दादासाहेब सापर्डे - नारायणराव चंदावरकर - आर्. डी. सेटना-गोपाळ- राव आगरकर- वामनराव आपटे" इति । एतेषु सर्वेषु पण्डितेषु केचन वरिष्ठन्यायालये न्यायदानरता न्याया- धीशाः, केचन ख्यातनामानः श्रुतिस्मृतिप्रणीतन्यायव्यवहारादिशास्त्रकुशलाः, फेचन राजाश्रयलालितेपु महाविद्यालयेपु लब्धकीर्तयः प्राध्यापका अभूयन् । राजश्रिया विराजन्ते सर्वेऽप्यते विपश्चितः । राजश्रियाऽवमन्यन्ते लोकमान्यास्तु केवलाः ॥ १॥ लोकोत्तरत्वमेतेपां सर्वकार्येषु दृश्यते । अतस्ते लोकमान्येति नामधेयेन विश्रुताः ।।२।। - २ अध्यापनपर्व १ जीवनपार्श्वभूमिः खिस्ताब्दस्य १८१८ संवत्सरे छत्रपतिशिवरायप्रतिष्ठापितं महाराष्ट्र- राज्यं विलयं गतम् । छत्रपतेर्मुख्यामात्यो 'बाजीराव' नामा पुण्य- पत्तनं परित्यज्य ब्रह्मायतं जगाम । विनष्टेऽपि स्वातन्त्र्ये जना दुःखिता अभूवन्निति तु न दृश्यते, यतः स्वराज्येऽपि जनानामेताहशी पीडा सजाता । छत्रपतीनां राजधानी सातारा' नामकं नगरम् । तच्छनपति- पदमपि कालान्तरेण विनष्टम् । नर्मदानद्याः उत्तरम्यां दिशि शिंदे- होळकर-भोसले-गायकवाड'-प्रभृतीनां सामन्तानां संस्थानान्यासन् । तेषां केचन अधिपतयस्तत्तत्कारणं समुत्पाद्य दूरीकृताः । अन्येऽप्रहारधरा ऐश्वर्य- मदमत्ताः । आङ्ग्लदेशादागतानामधिकारिणां प्रभुत्वं प्रथमं सुखदं जातम् । परं गच्छता कालेन सर्वेपामप्रहारधराणां धनोत्पादनसाधनीभूतानि क्षेत्राणि केनापि कारणेन शासनसंस्थयाऽपहृतानि । ग्रामणसमाजे द्वौ यौँ । एकः पुरोहितानाम् । अपरो लेखनिका- नाम् । पुरोहितवर्गप्रभुत्यं शनैः शनैः क्षीणं जातम् । 'बाह्मणा भोजनप्रियाः' इति फैश्चन ते निन्द्यन्ते । परं तैरेव रक्षितानि वेदशाखाणि । कालान्तरेण ते अकिंचित्करा जाताः । लेसनिकानां स्थितिस्तु नापकृष्टा । तैराग्लमापा. मभ्यम्य राजसेवा स्वीकृता । शासनसंस्थाया राज्यभारं योदुमाग्ला- धिकारिमिः सेवकवर्गोऽपेस्यते । यथाकालं प्राताधिकारमदेन स लेखनिक- यर्गोऽपि उन्मत्तोऽभूत् । पाश्चात्त्यपद्धत्या ज्ञानदानमालाथियारिभिहेतुत्रयेण समारब्धम् । अप्रिमोदेशो राज्यभारं योहुँ कार्यक्षममृत्ययगसम्पादनम् । द्वितीयो भारत- यासिनः परावलम्बिनः पत्याऽऽत्मनो याणिज्यव्यवहारप्रतिष्टापनम् । तृतीयो हेतुर्भारतीयानां सिनधर्मरच्युत्पादनम् । राज्यानि न फेनापि मोक्षार्य सम्पादितानि । यया यौद्धा माहम्मदाय स्वसधर्मप्रसारायं प्रायवन्त १२ - लोकमान्यटिळकचरितम् तथा आइग्ला अपि खिस्तधर्म प्रसारयितुं प्रवृत्ताः । केवलं भारतीया एव वैदिकधर्म न प्रसारयन्ति । खिस्तधर्मप्रसारकाणां दीर्घोद्योगगुणः सर्वेः सर्वथा ग्राह्य एव । वैदिकधर्म ते सदैव निन्दन्ति । निस्तधर्मप्रचारककृत- पूर्वपक्षाणां खण्डने वावदूकपण्डिता एव समर्थाः । एतत्कार्य महाराष्ट्रदेशे 'विष्णुवोवा ब्रह्मचारी'नामकेनैकेन हिन्दुधर्मप्रचारकेण सम्यक् कृतम् । अनेन नूतनेनाइग्लविद्यायाः प्रसारण, तथैव ख्रिस्तधर्मप्रचारकाणां समु- त्साहवता उद्यमेन वैदिकधर्महानिरतावती न संवृत्ता। परं तु आग्लानां राज्यं बद्धमूलमभवत् । प्रन्थमुद्रणकलाऽस्मिन्नेव काले भारतदेशे प्रचलिता । अतो दुर्लभानि पुस्तकानि सुलभान्यासन् । पुरातनकाले भिक्षुकगणेभ्यो दक्षिणारूपेण दीयमानं धनं ज्ञानदाने विनियोजितम् । अनेन दक्षिणाद्रव्येण पुण्यपत्तने संस्कृतपाठशाला स्थापिता । तस्यां धर्मशास्त्रादिविपयैः सार्धमाग्लभाषा- ऽध्यापिता । शासनसंस्थया शिक्षणशाखा पृथनिर्मिता । १८४२ यत्सरे आङ्ग्लभाषाविद्यालयः उद्घाटित.। १८५६ च विधिमण्डले प्रस्ता कृत्या १८५७ संवत्सरे मुम्बई विद्यापीठं प्रतिष्ठापितम् । १८६८ हायने पुण्यपत्तने 'डेक्कन कॉलेज'नाम्नो महाविद्यालयस्य स्थापना कृता । सर्वे प्राध्यापका आग्लदेशीयाः । तेषां सहायकाः संस्कृतभाषापण्डिताः । तैर्मराठीभापायां संस्कृतग्रन्थानां भापान्तरं करणीयम् । यथा यथाऽऽङ्ग्ल- भापाऽभ्यासो घृद्धिं गतस्तथा तथा संस्कृतभापाभ्यासस्य हास एवाभवत् । 'मराठी भाषाध्ययनस्य नामापि न श्रुतम् । मुम्बई विद्यापीठप्रतिष्ठापना- नन्तरं सर्वे परीक्षाधिकारा विद्यापीठहले समर्पिताः । आइग्लभापामभ्यस्य परीक्षेच्छुकानां संख्या प्रतियत्सरं प्रवृद्धा ! १८७६ संवत्सरे लोकमान्यैः 'वी. ए.' पदवीपरीक्षा प्रथमश्रेण्यामुत्तीर्णा इति तु पूर्व निवेदितमेव । द्विजेतरेषु अशिक्षितानां प्रतिशत प्रमाण द्विजेभ्योऽतील अल्पमवर्तत । तेपामप्रेसराः 'जोतीराव फुले' महाशयाः । एतेपामुपनाम 'गोरे' इति । तेपां पूर्वजानां जीविकाव्यवसायः पुष्पविक्रयणम् । पुण्यपत्तने मुरयप्रधानानां पेशवे'इत्युपपदधारिणां प्रासादे देवपूजनार्थ पुष्पाणि गोरेमहाशयेर- दीयन्त । तस्मादेते 'फुले'इत्युपारयां जग्मुः। पुलेमहाशयेराइग्लभापायाः सत्पं शान सम्पादितमासीत् । समाजकार्याथें एतेषां महान् प्रयत्नः । 1 अध्यापनपर्व कृतः। अस्मिन् काले राजकीयविपये जनानां मनसि न किमप्याकाक्षा आसीत् । 'लॉर्ड लिटन्'महाशयानामधिकारकाले आङ्ग्लदेशराझ्या भारतस्य सम्राज्ञोपदं स्वीकृवम् । तदर्थ 'दिल्ली'नगरे महता विभवेनोत्सवः १९०१ संवत्सरे 'विष्णुशास्त्री चिपळुणकर'महाशयानां पुण्यतिथि- दिने लोकमान्यैरेयं व्याख्यातम् १८३७ वत्सरादारभ्य १८७४ वर्ष यावत् त्रयः कालखण्डा भवन्ति । प्रथमो 'गोपाळ हरी देशमुख'प्रभृती- नाम् । द्वितीयो 'रानडे-कुंटे' इत्यादीनाम् । तृतीयः 'चिपळुणकर' महोदया- नाम् । आये खण्डे विद्यमानानां जनानां विद्वत्त्वं, नीतिमत्त्वं, पापभीरत्वं, सदाचारः, धर्मनिष्ठा इत्यादिगुणकलापः आदर्शभूत आसीत् । द्वितीये कालखण्डे सर्वमेतज्जनेराग्लभाषाशिक्षणेन परित्यक्तम् । गच्छता कालेन लोकरेतत् सम्यग्रीया परिज्ञातं, यदेतादृशं धार्मिकं वा सामाजिक या परि- वर्तनं राष्ट्रकार्यस्य पदं स्वल्पांशेनाप्यप्रतो न नेप्यति । अनेनैव समयेन १८७६-७७ ‘यासुदेव बळवंत फडके 'महोदयानां स्वातन्त्र्यसम्पादनार्थमान्दोलनं जातम् । लोकमान्यानां कश्चिद्यान्धव- स्तस्मिन्नान्दोलने आसीदिति श्रूयते । यद्येतन्नानृतं तर्हि अस्योत्थानस्य काश्चि- कथा लोकमान्यानां श्रुतिपथमागताः स्युः । तृतीयः खण्डः चिपळुणकरशास्त्रिणाम् । तैः प्रथमं राजसेवा स्वीकृता । परम् अल्पनेय कालेन जनसेवार्य सा पटान्तलमतृणवत्परित्यक्ता । 'टिटक -आगरकर, महाशयः शिक्षणसमाप्तिसमकालमेव लोकसेवाव्रतमगीकृतम् । पूर्वखण्डद्वये ' डॉ. भाऊ दाजी लाड - महादेवशास्त्री कोल्हटकर- लोकहितवादी देशमुख - नूलकर - मंडलीक ' प्रभृतयः सर्वे लोकधुरीणा यथारसरं यथाशक्ति समाजसेवामकुर्वन् । एतेषु सर्वेपु लोकमान्येभ्यः पूर्व माधव गोविंद रानडे गहाशया आत्मनो वैदुष्येण, स्वदेशप्रीया, राजनीतिज्ञानेन च प्रायोऽखिलभारतदेशे लोकधुरीमान गुरस्थाने अर्तन्त । रानडेमहाशयानां मृत्युलेखे लोकमान्यैः फेसरिपत्रे लिखितम् 'असामान्य बुद्धिमत्त्वम्, अमोधकल्पकत्वं, विद्याव्यसनं, दीर्घोद्योगो, देशकल्याण- धुद्धिरियादिगुणरत्नानां रानडेमहाशया यद्यपि रत्नाकरस्तथापि एतदेव तेषां वैशिष्ट्यं यद्विनष्टे पराममे मृतप्रायो महाराष्ट्रदेशः पुनरपि चैतन्यं कथं .

H - लोकमान्यटिळकचरितम् लभेतेति विचिन्त्य तहुष्कर कार्य स्खयमड्गीकृत्य तत्सिद्धये नक्तंदिवं यदि कोऽपि पुरुषः परिश्रान्तस्तर्हि स रानडेमहाशय इति । एतत्सर्व तैप- सेवायामेच सम्पादितम् । वक्तृत्वसमारम्भः - बसन्तव्याख्यानमाला औद्योगिकपरिषद्-प्रदर्शनम् - 'फीमेल हायस्कूल'नामिका कन्यापाठशाला प्रार्थनासमाजः - ग्रन्थालयः - सार्वजनिकसभा - इत्यादिसंस्थासु रानडे- महाशयाः प्रामुख्येन कार्यमकुर्वन् । अस्मिन् काले 'सार्वजनिकसभा' नाम्नी सभा महद्भिः सुप्रति- ष्ठिताऽऽसीत् । अन्येष्वपि प्रदेशेषु अस्याः नामधेयं 'गणेश वासुदेव जोशी-' महाशयैरात्मनः प्रयत्नेन ख्याति नीतम् । 'सार्वजनिककाका' इति लोक- प्रियाभिधानेनैव एतेषां विविधकार्यव्याप्तता संसूच्यते । लोकमान्यानां पूर्वकाले महाराष्ट्रदेशे काश्चित् सार्वजनिकसंस्था आसन् । विशेषका भावे ताः समुल्लेखमपि नाहन्ति । परं समाजजीवने पदं निहितवत्सु लोकमान्येषु समस्तकार्यरूपं सपद्येय नवचैतन्ययुक्तं सातम् । कथमेतत् सम्भूतमिति अग्रे क्रमशः स्फुटीभविष्यति । २ नूतनाग्लविद्यालयः (२-१-१८८०) महाविद्यालये अध्ययनं कुर्वाणा लोकमान्या आत्मनः सपयोभिः परममित्रैः आगरकरमहाशयैः सह नैकवारं खजीवनविषयिको चर्चा- मकुर्वन् । राजकीय-सामाजिक-शैक्षणिकादयो बहवो विषयास्तैश्चर्चिताः । आगरकरमहोदया एवं प्रतिपादयन्ति "प्रथमं तावदात्मनो गृहं विशुद्धं करणीयम् । बहुदोपप्रस्ता वयम् । समुदायशक्तिः रूढिः । परम्परया प्राप्तास्ता रूढयोऽस्माकं समाजे । परं तासु वयो दोपाः समुत्पन्नाः । लोकाचारेषु विद्यमानानि मूलतत्त्वानि विस्मृत्य विभवप्रदर्शनादिप्रकारा एव परम्परया विरुदाः। विचार्यन्तां तावत् प्रथमम् उपनयनविवाहगर्भाधानादिसंस्काराः। उपनयनविधौ संस्कार्यो बटुः गायत्र्युपदेशार्थम्, अध्ययनार्थ च गुरोः सकाशं नेतव्य इति व्यावहारिकं रमणीयं च मूलप्रयोजनं प्रतिभाति । परं पश्यन्तु भवन्तः कति जना एतत् सम्यग्रीत्या प्रतिपालयन्तीति । एतादृशे संस्कारसमये उत्सयनिया जनाः स्वधनव्ययेन केवलं विभवप्रदर्शनमेव अध्यापनपर्व कुर्वन्ति । एतेषु संस्कारेषु विद्यमानाः काश्चिद्ढयोऽतीव रुचिहीना असमञ्जसाश्च । प्रथमं ताः परित्याज्याः। लोकाचारार्थ जना अकारणं धनव्ययं कृत्या अधमर्णा भवन्ति । कथमेतद्भवद्भ्यो रोचते । मङ्गल- कार्येषु एतद्वर्तते । अमङ्गलप्रसङ्गरूढयस्तु विचारमपि नाईन्ति । अस्योदाहरणं दातुमपि मनसि सड्कोचः समुत्पद्यते । चिन्त्यतां तावत् विधवानां कष्टतमो दुःखकरो मानहानिकरच पुरुपहरतेन केशवपनप्रसङ्गः। केवला स्मृतिरेवास्य प्रसङ्गस्य मनसि व्यथां जनयति । किं पुनर्विचारः । ईदृश्यो रुढयः कालातिपातं न सहन्ते । अविलम्वेन ता विलयं नेतव्याः । ता यदि स्वयं न नश्येयुः नाशयितव्या एव ता अस्मामिः" इति । लोकमान्यानां विचारसरणिरतु ईदृशी "एतत् सर्वमवश्यं करणीयम् । परं कथं कर्तव्यमित्येव प्रभः । अस्य प्रथमोपक्रमो लोकशिक्षणम् । तत्तु द्विप्रकारकम् । बालशिक्षणं प्रौढशिक्षणं च । शिक्षणप्रसारार्थ राजाश्रयोड- यावश्यकः । स यदाऽपेक्ष्यते तदा शासनसंस्थास्वधिकारलाभ आवश्यकः । अधिकारलाभार्थ शासनसंस्थया सह चर्चा, विवादः क्वचिद्विरोधोऽपि अवश्यं सम्भवेत् । तस्याभावे समाजस्थितिः प्रगतिपथं न गच्छेत् । अतः समाजकारणतो राजकारणमप्रस्थानमर्हति । तस्मालोकशिक्षणोपरमोऽग्रिम स्थानं भजते । शिक्षण व लोका विचारप्रवणा भविष्यन्ति । ततस्ते आत्मनो हिताहितं जानीयुः" इति । एवमादयो लोकमान्यानां विचारा विवादाश्च ययस्यैः सह साताः । अध्ययनसमाप्तिकाले एव आगरकर - टिलरमहोदयाभ्यामात्मनो जीवितकार्य निर्धारितमिति दृश्यते । तज्जीवित- कार्य जनसेवा इति । तस्याः मार्गो लोकशिक्षणम् । तत्तु द्विप्रकारक- मित्युक्तपूर्वम् । अस्मिन् समये अन्यस्याप्येकस्य पुरुपस्य मनस्येयंविधा विचाराः प्रादुर्भूताः । स पुरुषः रयातनामा 'विष्णुशास्त्री चिपळुणकर'महाशयः । प्रथममेते शासनसंस्थाया विद्यालये अध्यापका आसन् । स्वतन्त्रप्रज्ञया विमृशन्त एते सानिमहाशयाः शालापत्रकनाम्नि मासिकपुस्तके शिक्षण- विपये स्वविचारान् प्रदर्शयन्ति स्म । तेऽलिखन् “साम्प्रतं ज्ञानप्रसारो बहुलो दृश्यते । परं भ्रम एव सः । राजसेवालोमेनैव जना विद्यार्जन ४ लोकमान्यटिळकचरितम कुर्वन्ति । न ज्ञानलालसया । देशाभिमानो विद्यारुचिर्दुर्जनतिरस्कार इत्यादयो गुणा न तेपा भूपणानि । यत्राध्यापका खयमेव शिक्षणकार्यस्य महत्त्व न जानन्ति तनान्येपा का कथा । अगतिक पुरुषोऽध्यापको भवति । सैव मतिरन्येपाम् । पुरा छानाणा मनसि गुरुभक्तिरासीत् । इदानी सा न दृश्यते । गुरुशिष्यसम्बन्धोऽधुना स्वार्थमूलक । पाठय पुस्तकान्यपि पूर्वमेव नियुक्तानि । तेषु धर्मनीत्यादिविपयाणा लेशोऽपि न दृश्यते । एतत्सर्वमविलम्वेनावश्य परिवर्तनीयम् । देशकार्यक्षमाणा पुरुषाणा निर्माणे ज्ञानदातारोऽध्यापका एव कारणम् " इति । चिपळुणकरमहाशया यद्यपि ' शास्त्री ' इति ख्यातिं गतास्तथापि ते आङ्ग्लविद्याविभूपिता 'बी ए ' इति पदवीधरा आसन् । लेसनकर्मकुशलराश्चिपळुणकरशाषिणो 'निबंधमाला'नामकेन मासिकपुस्तकेन पूर्वमेव लब्धकीर्तयोऽभूवन । तेपा मनस्येवमासीत् ' एक आङ्ग्लभापाविद्यालय स्थापयितव्य " इति । तादृशी घोपणाऽपि वृत्तपनेवेभि कृता । आगरकर-टिळकमहाशययोर स्मिन् विपये पूर्वमेव निश्चयो जात । स निश्चय कारावासवर्णने आगरकरमहाशयैलिखितो दृश्यते । तस्मादुभावपि चिपळुणकरशास्त्रिणा दर्शनार्थ गतौ कथितयन्तौ च स्वमनोगतम् । तयो!नोरनेन स्वमनोगत निवेदनेन हृष्टमानसा विष्णुशास्त्रिण प्रसन्नवदना सजाता । अत शास्त्रिमहाशयै परमगहनस्य सेवाधर्मस्य परित्यागो निर्धारित अनुष्ठितश्च । खिस्ताब्दस्य १८८० सवत्सरे जानेवारीमासस्य प्रथमे दिवसे एप नूतन आङ्ग्लविद्यालय न्यूि इग्लिश स्कूल ' इतिनामधेयो महतोत्सवेनो द्वाटित । प्रथमे दियसे चिपळुणकरशास्त्रिणो लेकमान्याश्चेति द्वादेव प्रधानपुरुषावासाम् । आगरकरमहाशया 'एम् ए' परीक्षायामनुत्तीर्णा । अतस्ते पत्सरानन्तर समागता । चिपळुणकरशानिमहाशयै प्रधानाध्या- पपदमलकृतम् । “माधवराय नामजोगी-वासुदेवशास्त्री खरे-नदर्गीकर शासी-हरि कृष्ण दामले-कृष्णराव माडे-मुळे "प्रभृतयोऽन्येऽध्यापक्वर्गे आसन् । प्रथमे दिवसे यद्यपि डागाणामूनविंशतिरेय उपस्थिता तथापि सार्धशत नामानि प्रविष्टान्यामन् । अनुदिन वृद्धि गतेपा विद्यार्थिसस्या। मामायादेव सा पश्चशनारधि गता।

१७ अध्यापनपर्व ग्रीष्मसमये पाण्मासिके अनध्यायकाले प्रधानाध्यापकैरात्मनो निवेदने एवमुद्घोपितम् " अस्माकं विद्यालये अध्यापका अथ विद्यार्थिन: स्वातन्त्र्यसुसमनुभवन्ति । रक्षापुरुष इव दण्डहस्तो मुख्याध्यापकः शिक्षण- कार्यावलोकनार्थ गमनागमनं कुर्वाणो नात्र दृश्यते । शासनसंस्थानिरीक्षको निरीक्षणार्थ कदा आगमिप्यतीति भयमपि नाव विद्यते । अध्यापका यन्त्र- पुत्तलिका इयाध्यापनकार्य न कुर्वन्ति, नापि मुख्याध्यापकमीत्या स्वाभिमानं दूरीकृत्य अज्ञापुत्रवर्तन्ते । परम्पराप्रसिद्धवेत्रदण्डोऽस्मिन् विद्यालये नावेक्ष्यते । तथा विद्यार्थिजनानां छात्रधर्मानुष्ठानातिक्रमणमप्यत्र न सह्यते नोपेक्ष्यते च । सर्वे छात्राः परिप्रश्नपद्धत्या ज्ञानमर्जयन्ति ! अध्यापकाः कर्तव्यबुद्धया राष्ट्रहितदृष्ट्या च ज्ञानमुपदिशन्ति । भावनाप्रधानो हि छात्रगणः । तस्य बालभावसुलभं भाषणम् औद्धत्यमित्यस्मामिर्न गण्यते । तेषां संशोधनवृत्तयः स्वतन्त्रविचारप्रवाहाश्च विद्यार्थिधर्मनियमैर्यथा नोप- रुध्यन्ते तथाऽस्माभिरत्र विशेषेण निरीक्ष्यते । छात्रानप्युचितशब्दैः काले काले मुरयाध्यापका उपदिशन्ति स्म" इति । प्रथमपञ्चवार्पिककालखण्डे एव एप नूतनो विद्यालयः प्रगतिपथ- मारूढवान् । विद्यार्थिनां संरया सहस्रावधिं गता । अध्यापकवर्गे बहवः शिक्षकाः प्रायेण मुम्बई विद्यापीठपदवीधराः । विद्यापीठस्य ' मॅट्रिक्युलेशन'- नामिकायां महाविद्यालयप्रवेशपरीक्षायां विद्यार्थिजनस्योत्तीर्णताप्रमाणं प्रति- शतं पञ्चसप्ततिपर्यन्तमासीत् । १८८४ यत्सरे एतत् प्रमाणं नवाधिकाशीतिः (८९) । अतो मुम्बईप्रदेशराजप्रतिनिवेः सचिवेन धन्यवादपत्रं प्रेषितम् । जगन्नाथ शंकरशेट'संस्कृतशिष्यवृत्तिरप्यस्मिन् कालखण्डे प्रतिवत्सरमस्यैर विद्यालयस्य छानः सम्पादिता । प्राचार्याणां ॥ शिवराम आपटे" महाशयानां दीर्घोद्योगस्य सुमधुरमेतत् फलम् । गच्छता कालेन छानसंख्या परां पुष्टिमावहत् । विद्यार्थिजनाना. मासनक्रीडादिव्यवहाराय विद्यालयस्थानमपर्याप्तम् । अतो 'गद्रे वाडा-' नाम्नि सदने स्थलान्तरं कृतम् । निकटवर्ति होळकर 'नरेशसदन- मप्यल्पेन कालेनोपलन्धम् । विशताधिकसहस्रविद्यार्थिनां पठनपाठनं सुमुर्स सोपकरणं भवेदेतारी मुस्थता साम्प्रतं स्खलान्तरेण लब्धा । . वामन ३ लोकमान्यटिळकचरितम् विद्यालयोत्कर्पस्य तथा लोकसाहाय्यस्यादिकारणं प्रमुखसञ्चालकानां महती समाजप्रतिष्ठा । कारणचतुष्टयेन सा वृद्धि गता दृश्यते । प्रथम कारणं चिपळुणकर-टिळक - नामजोशी - आपटेप्रभृतीनां स्वार्थत्यागः । एतेप्वपि चिपळुणकर-टिळक - आगरकराणां स्वार्थत्यागः न कस्यापि स्वार्थत्यागस्य तुलामारोहति । प्रथमे संवत्सरे जीवनवेतनमपि टिळक- चिपळुणकराभ्यां न स्वीकृतम् । द्वितीयं कारणमेतेषां सहायकमण्डलम् । सर्वे सहायका विद्वांसोऽध्यापनकर्मकुशला ज्ञानदानं कर्तव्यबुद्धया सोल्लासं कुर्वन्ति । तृतीयं कारणं टिळक-आगरकरयोः 'कोल्हापुर प्रकरणाभियोगो दण्डश्च । एतेन तो लोके विशेपेण प्रसिद्धिं गतौ । चतुर्थ कारणमेभिः पुरस्कृतः 'केसरी-मराठा 'वृत्तपत्रयोः प्रारम्भः । विद्यालयकृतशिक्षणकार्यविपये स्वकीयानामभिप्राया न तथा मानार्थी यथा परकीयाणाम् । अतः प्राध्यापक पवर्थ 'महाशयस्य तथा शासन- संस्थानियुक्तशिक्षणसमित्याः अध्यक्षस्य 'सर् वुइल्यम् हंटर 'महाशय- स्याभिप्रायौ विशेषेणोल्लेखनीयौ । वर्ड्सवर्थमहाशया लिखन्ति स्म 'विद्या- लयेन सम्पादितं यशश्चित्तचमत्कारमावहति । आङ्ग्लभापाज्ञानेन अपूर्व सामर्थ्य निप्पादितमिति दृश्यते । शिक्षितजनेन शासनसंस्थाभयं बिना स्वावलम्बनेन श्रेष्ठं स्थानं सम्पादनीयमित्युदारा खलु भावना । अस्याः परिणामो भारतीयानामन्तःकरणेपु चिरंतनो भवेत् ' इति । 'सर् वुइल्यम् हंटर'महाशयो पक्ति रम “ राजाश्रयं विना अयं विद्यालयो महतीं प्रतिष्ठा- मलभत । न फेवलं भरतखण्डे, अपि तु पाश्चात्त्यदेशेप्यपि नकोऽपि विद्यालयोऽस्य तुलां समारोहति" इति । चिपळुणकरशास्त्रिणामध्यापनानुभवस्य लाभो विद्यालयेन वर्षद्वय- मेव लब्धः । निस्ताब्दस्य १८८२ वत्सरे मार्चमासस्य सप्तदशेऽहनि चिपळुणकरमहादराया अफरमादेव दियं गताः । जीवत्स्वेय तेषु 'आपटे' महाशया अधिकारस्थानमलभन्त । नियमप्रियाले अध्यापनकर्मणि यहु- युशलाः । लोकमान्याः स्वविपये पण्डिताः अध्यापने च निपुणाः । तथापि शिक्षणविषयकान्यकार्येषु न ते दसचित्ताः । छात्राणामुत्तरपत्रिकाः पिना- बिलम्ब न नः परीक्ष्यन्ते । गणितविषयाध्यापनमाले लेसनफलक प्रति .

अध्यापनपर्व कदाऽपि ते न गच्छन्ति । कठिनान्यपि उदाहरणानि स्मरणशक्तिबलान्मुखेनैव ते विवृण्वन्ति । एवंप्रकारेण लोकमान्यैरात्मनो जीवनकार्य महतोत्साहेन समारब्धम् । ३ वृत्तपत्रद्वयम् 'केसरी-मराठा' बालानामज्ञानं यथा विद्यालये शिक्षणेन विनाश्यते तथा प्रौढानामपि वृत्तपत्रद्वारा ज्ञानदानेन इति साम्प्रतं सर्वेपामनुभवः । स एवानुभवो लोकमान्यसमकालीनानां जनानाम् । अतो 'न्यू इंग्लिश स्कूल 'नामक- विद्यालयसंस्थापका मनस्येवमकुर्वन् यल्लोकशिक्षणाय वयं वृत्तपत्रं समारमे- महीति । 'विष्णुशास्त्री चिपळुणकर 'महाशयैः 'निवन्धमाला' इति मासिकपुस्तकमादावेव सम्पादितम् । लेखनकर्मणि ते प्रसरटीकाकाराः। आगरकरमहाशयानामपि लेखनाभ्यासे रतिरासीत् । 'आपटे'महाशया ग्रन्थनिर्माणे समुत्सुकाः। केवलं लोकमान्या न तथा समुत्सुकाः । ते वदन्ति स्म, को नाम लेखनी गृहीत्या स्वहस्तेन लिखेत् ! परं तेपामप्ययं मार्गो नासम्मतः । अथैकस्मिन् दिपसे आपटेमहाशयगृहे भोजननिमित्तेनैकत्र मिलित्वा घहुकालं विमृश्य तैः सर्वैस्तथा निश्चितं, यथा १८८१ संवत्सरे जानेवारी- मासस्य द्वितीये दिवसे 'केसरी'-'मराठा' इत्यभिधानेन साप्ताहिक वृत्तपत्रद्वयमस्माभिःसम्पादयितव्यम्-केसरिपत्रं 'मराठी भापायां 'मराठा'- वृत्तपत्रमाङ्ग्लभापायामिति । अथ वृत्तपत्रमुद्रणार्थ मुद्रणालयः आवश्यकः । तस्यापि व्यवस्थितिः कर्तव्या । कस्यचित् साठे 'नामकस्य पुराणं मुद्रणयन्त्रं क्रेतव्यमिति विचारः। मुद्रणयन्त्रमूल्यं भागशः शनैः शनैर्देयमिति निर्धारितम् । एतदर्थको लेसोऽपि कृतः । अस्मिन्नेव सन्दर्भे लोकमान्याः कचित् परिहासपूर्व साभिमानं वदन्ति अहं मुद्रणयन्त्र तथा अक्षरटड्कपेटिका अनेन स्कन्धे. नावह मिति । एवमाङ्ग्लविद्यालयसमीपमेव तस्यायं महाप्रतापवान् कनी- यान् भ्राता 'आर्यभूपणनामा' सुप्रतिष्टितः । अस्मिन् मुद्रणालये मुद्रिते 'निवन्धमालाया: ' प्रथम क्रमाके केसरिपत्रस्योद्दिष्टं प्रकटीभूतम् । तस्य . २० लोकमान्यटिळफचरितम् पत्रकस्याधस्तात् 'चिपळुणकर-टिळक-आगरकरादीनां' नामानि दृश्यन्ते । वाड्मयविषये चिपळुणकरशास्त्रिणः, धर्मशास्त्रराजनीतिप्रश्नेषु लोकमान्याः, अर्थशास्त्रेतिहासशाखायां आगरकरमहाशया अलिखन् । प्रथमानि पड्वर्षाणि आगरकरमहाशयैः केसरिपत्रं सम्पादितम् । अनन्तरं लोकमान्यैः । मराठा 'वृत्तपत्रस्य प्रथमक्रमाङ्क: आङ्ग्लभापायां १८८१ यत्सरे जानेवारीमासस्य द्वितीये दिवसे प्रसिद्धिं गतः । तस्मिन् काले प्रमुख- सम्पादकस्य नामलेखनविपये नियमो नासीत् । उद्देशपत्रिकायां पूर्वा- ण्येव नामान्यासन् । दिनद्वयानन्तरं 'मराठी'भापायां केसरिपत्रं प्रकाशितम् । अतो . मराठा 'केसरि'पत्रस्य ज्यायान् भ्राता। एतद्- वृत्तपत्रं बहुप्राहकाभावात् सदैव व्ययकरम् । आयव्ययौ समानौ न कदाप्यभूताम् । अतस्तस्माद्वृत्तपत्रात् द्रव्यलाभस्तु दूरे एव । आङ्ग्ल- भापायां वृत्तलेखनस्यायमेवैकोद्देशो यदन्यप्रदेशस्था वा अन्यदेशवासिनो या जनास्तद्गतविचारान् जानीयुः । विशेषेण तु शासनसंस्थाधिकारिण: । मराठा- वृत्तपत्रस्य प्रथम क्रमाङ्के सम्पादकस्य निवेदने अयमुद्देशो ग्रथितो दृश्यते । तथा हि-'विवेचनं, विज्ञप्तिः, शिक्षणं, तेन लोकप्रबोधः अस्माकं प्रथम कर्तव्यम् । परार्थप्रतिपादनं गौणमेव ' इति । मराठा'वृत्तपन्नस्योदिष्टं विशालम् । न सङ्कुचितम् । " 'मराठा' इति नाम्ना न केनापि भेतव्यं यदयमस्मदीयानामधिकाराणामतिक्रमणं करिष्यति । वृथा भीतिरेपा । विशिष्टपक्षस्य वा विशेपप्रदेशस्य वा वृथाभिमानमयं न धारयेत् " इति । मराठावृत्तपत्रस्य सम्पादनं प्रथमं लोकमान्यैः कृतम् । अनिमे वर्षे कोल्हापुरसंस्थानविपये प्रसरटीकात्मका लेखाः प्रभूताः दृश्यन्ते । तेन अभियोगे जाते कारावासादनन्तरं १८९१ संवत्सरं यावलोकमान्यैस्तत् पत्रं न पुनः सम्पादितम् । अस्मिन् वर्षे द्वयोरपि वृत्तपत्रयोः सम्पादकत्वं लोकमान्यः पुनः स्वामित्वेन स्वीकृतम् । एतत् स्वामित्वं कथं लब्धमित्यमे- अवलोक्यते। अनेन कोल्हापुरप्रकरणोद्भूतेन टिळक-आगरकरयोः कारावासेन मतभेदप्रस्वा यहवः प्रभाः समुत्पन्नाः । तथाहि-आइग्लविद्यालयस्य, महाविद्यालयस्य, 'डेफान एज्युकेशन सोसायटी 'नामिकायाः संस्थायाश्च २१ अध्यापनपत्र कानि मूलतत्त्वानि ? संस्थासदस्यैः कियट्टेतनमपेक्षणीयम् ? धनोत्पादकानि अन्यकार्याणि संसासदस्याः स्वीकुर्युः न वा? संस्थायाः वृत्तपत्रयोश्च कीदृशो मिथः सम्बन्धः? सार्वजनिककार्यसम्बन्धिनो मतभेदा व्यक्तिनिष्टकलहाचैते सर्व प्रश्नाः समासेनाने कथिताः । यद्यपि ते रुचिकरा बोधप्रदाश्च तथाप्यन्ते खेदकारिणोऽभूवन् । ४ कोल्हापुरप्रकरणम् केसरि-मराठावृत्तपत्रयोः सम्पादनकार्य यथा लोकशिक्षणार्थ समाज- धारणार्थ च तथा यत्र यत्र काप्यपप्रवृत्तिः स्यात्तत्र तत्र जनानां तथाऽधि- कारिणामपि सुयोग्यं कर्तव्योपदेशार्थमप्यासीत् । अघुनाऽयं भारतवर्षः स्वातन्त्र्यसुखमनु । तदानी पारतन्त्र्यशृङ्खलावद्ध आसीत् । सार्व- भौमत्वमाड्ग्लभूपतीनाम् । परं कानिचित् परम्पराऽऽगतानि संस्थानान्या- सन् । तेषु तत्तत्संस्थानाधिपतीनां पृथक् पृथक् शासनसंस्था आसन् । तथाप्येते सर्वे भूपतयः सार्वभौमस्य राज्ञः प्रतिनिधेशमापादिताः सामन्ता एव केवलम् । स्वातन्त्र्येण न किमपि कर्तुं समर्थाः । संस्थाननरेशानां राज्यपद्धतिरेकतन्त्रा । आङ्ग्लशासनपद्धतिस्तु मिन्नरुपा । आङ्ग्लशासित. प्रदेशेषु प्रजाः स्वातन्त्र्यसुखमधिकतरमन्वभूवन् । संस्थानेषु दोपप्रचुराया- मपि शासनपद्धयां 'ना विष्णुः पृथिवीपतिः' इति वचनमाद्रियमाणाः प्रजास्तेपु तेषु संस्थानाधिपतिपु अनुरक्ता आसन् । तदानीं 'बडोदा संस्थाननरेशो वाल एवासीत् । तस्यामायपदवी- मारूढः 'सर् टी. माधवराव'महाशयः आङ्ग्लानामेव कल्याणं पश्यति, न नरेशस्येति प्रजानां बुद्धिः । केचन शासनपद्धतिदोपास्तेन इतस्ततो निरस्ताः । परम् आग्लेषु, स्वजनेषु च तस्य पक्षपातः । गुर्जरदेशीया मान्यवरपण्डितास्तेन आदरेण न सम्मानिताः। बालनरेशे 'सयाजीराये-' ऽपि अकारणमेव स कठोरं वर्तते रम । तेन सयाजीरायः स्वतन्त्रप्रज्ञया राजकीयविषयाणां शिक्षणं, तथा प्रजानां सुखदुःखज्ञानं नालभत । तस्मादमात्यमाधवस्य शासनव्यवस्था प्रजानां रुचि नाहवत् । कोल्हापुर'संस्थानस्थितिस्त्वतोऽपि कष्टतराऽऽसीत् । छत्रपतेः शैशचे मुख्यामात्येन स्वेच्छया प्रजानामनुपयुक्तेषु कार्येषु सञ्चितद्न्यनिधि- ।

२० मराठा लोकमान्यटिळफचरितम् पत्रकस्याधस्तात् 'चिपळुणकर-टिळक-आगरकरादीनां' नामानि दृश्यन्ते । वाङ्मयविपये चिपळुणकरशास्त्रिणः, धर्मशास्त्रराजनीतिप्रश्नेषु लोकमान्याः, अर्थशास्त्रेतिहासशाखायां आगरकरमहाशया अलिसन् । प्रथमानि पड्याणि आगरकरमहाशयैः केसरिपत्रं सम्पादितम् । अनन्तरं लोकमान्यैः । मराठा 'वृत्तपत्रस्य प्रथमक्रमाङ्कः आङ्ग्लभाषायां १८८१ वत्सरे जानेवारीमासस्य द्वितीये दिवसे प्रसिद्धिं गतः । तस्मिन् काले प्रमुख- सम्पादकस्य नासलेखनविषये नियमो नासीत् । उद्देशपत्रिकायां पूर्वा- ण्येव नामान्यासन् । दिनद्वयानन्तरं 'मराठी'भापायां केसरिपत्रं प्रकाशितम् । अतो ' 'केसरि'पत्रस्य ज्यायान् भ्राता। एतद्- वृत्तपत्रं बहुप्राहकाभावात् सदैव व्ययकरम् । आयव्ययौ समानी न कदाप्यभूताम् । अतस्तस्मावृत्तपत्रात् द्रव्यलाभस्तु दूरे एव । आग्ल- भापायां वृत्तलेखनस्यायमेवैकोद्देशो यदन्यप्रदेशस्था वा अन्यदेशवासिनो वा जनास्तद्गतविचारान् जानीयुः । विशेपेण तु शासनसंस्थाधिकारिणः । मराठा- वृत्तपत्रस्य प्रथम क्रमाके सम्पादकस्य निवेदने अयमुद्देशो प्रथितो दृश्यते । तथा हि-'विवेचनं, विज्ञप्तिः, शिक्षणं, तेन लोकप्रबोधः अस्माकं प्रथम कर्तव्यम् । परार्थप्रतिपादनं गौणमेव ' इति । 'मराठा'वृत्तपत्रस्योद्दिष्टं विशालम् । न सड्कुचितम् । “ 'मराठा' इति नाम्ना न केनापि भेतव्यं यदयमस्मदीयानामधिकाराणामतिक्रमणं करिष्यति । वृथा भीतिरेपा । विशिष्टपक्षस्य वा विशेपप्रदेशस्य वा वृथाभिमानमयं न धारयेत् " इति । मराठावृत्तपत्रस्य सम्पादनं प्रथमं लोकमान्यैः कृतम् । अग्रिमे वर्षे कोल्हापुरसंस्थानविपये प्रखरटीकात्मका लेसाः प्रभूताः दृश्यन्ते । तेन अभियोगे जाते कारावासादनन्तरं १८९१ संवत्सरं यावल्लोकमान्यैस्तत् पत्रं न पुनः सम्पादितम् । अस्मिन् वर्षे द्वयोरपि वृत्तपत्रयोः सम्पादकत्वं लोकमान्यैः पुनः स्वामित्वेन स्वीकृतम् । एतत् स्वामित्वं कथं लब्धमित्यो- ऽवलोक्यते। अनेन कोल्हापुरप्रकरणोद्भूतेन टिळक-आगरकरयोः कारावासेन मनभेदप्रस्ता वहवः प्रश्नाः समुत्पन्नाः । तथाहि - आङ्ग्लविद्यालयस्य, महाविद्यालयस्य, 'डेकन एज्युकेशन सोसायटी 'नामिकायाः संस्थायाश्च , अध्यापनपर्व २१. । कानि मूलतत्त्वानि ? संस्थासदत्यैः कियटेतनमपेक्षणीयम् ? धनोत्पादकानि अन्यकार्याणि संस्थासदस्याः स्वीकुर्युः न वा ? संस्थायाः वृत्तपत्रयोश्च कीदृशो मिथः सम्बन्धः? सार्वजनिककार्यसम्वन्धिनो मतभेदा व्यक्तिनिष्ठकलहाश्वेते सर्वे प्रभाः समासेनामे कथिताः । यद्यपि ते रुचिकरा घोधनदाश्च तथाप्यन्ते खेदकारिणोऽभूवम् । ४ कोल्हापुरप्रकरणम् केसरि-मराठावृत्तपत्रयोः सम्पादनकार्य यथा लोकशिक्षणार्थ समाज- धारणार्थ च तथा यत्र यत्र काप्यपप्रवृत्तिः स्यात्तत्र तत्र जनानां तथाऽधि- कारिणामपि सुयोग्यं कर्तव्योपदेशार्थमप्यासीत् । अधुनाऽयं भारतवर्षः स्वातन्त्र्यसुसमनुभवति । तदानीं पारतन्त्र्यशृङ्खलाबद्ध आसीत् । सार्व- भौमत्वमाग्लभूपतीनाम् । परं कानिचित् परम्पराऽऽगतानि संस्थानान्या- सन् । तेषु तत्तत्संस्थानाधिपतीनां पृथक् पृथक् शासनसंस्था आसन् । तथाप्येते सर्वे भूपतयः सार्वभौमस्य राज्ञः प्रतिनिधेर्वशमापादिताः सामन्ता एव केवलम् । स्वातन्त्र्येण न किमपि कर्तुं समर्थाः। संस्थाननरेशानां राज्यपद्धतिरेकतन्त्रा । आग्लशासनपद्धतिस्तु भिन्नरूपा । आङ्ग्लशासित. प्रदेशेषु प्रजाः स्वातन्त्र्यमुखमधिकतरमन्वभूवन् । संस्थानेषु दोपप्रचुराया- मपि शासनपद्धत्यां 'ना विष्णुः पृथिवीपतिः' इति वचनमाद्रियमाणाः प्रजास्तेपु तेषु संस्थानाधिपतिपु अनुरक्ता आसन् । तदानीं 'बडोदा'संस्थाननरेशो बाल एवासीत् । तस्यामात्यपदवी- मारूढः 'सर् टी. माधवराव'महाशयः आङ्ग्लानामेव कल्याणं पश्यति, न नरेशस्येति प्रजानां बुद्धिः । केचन शासनपद्धतिदोपास्तेन इतस्ततो निरस्ताः। परम् आइग्लेपु, स्वजनेषु च तस्य पक्षपातः । गुर्जरदेशीया मान्यवरपण्डितास्तेन आदरेण न सम्मानिताः । पालनरेशे 'सयाजीराये.' ऽपि अकारणमेव स कठोरं वर्तते स्म । तेन सयाजीरायः स्वतन्त्रप्रज्ञया राजकीयविपयाणां शिक्षणं, तथा प्रजानां सुखदुःखज्ञानं नालभत । तस्मादमात्यमाधवस्य शासनव्यवस्था प्रजानां रुचि नाहयत् । 'कोल्हापुर 'संस्थानस्थितिस्त्वतोऽपि कष्टतराऽऽसीत् । छत्रपतेः शैशवे मुख्यामात्येन स्वेच्छया प्रजानामनुपयुक्तेपु कार्येषु सञ्चितद्रव्यनिधि- - लोकमान्यटिळकचरितम् य॑यीकृतः । तेनासन्तुष्टाः प्रजाः निजदुःखनिवेदनार्थ केसरिपत्रसम्पा- दकेभ्यः पन्नाण्यलिखन् । तेषु विश्वस्य केसरिपत्रेण लिखितम् “साम्प्रतं कोल्हापुरछत्रपतिस्थितिः पापाणस्यापि हृदयं द्रावयेत् । पञ्चत्वं गते नरेशे आङ्ग्लभूपतेः प्रतिनिधिः प्रबुद्धो भवेत् किम् ? छत्रपतिप्राणापाये सति सम्राश्याः शरश्चन्द्रधवलकीर्तिः कलड्किता भवेत्' इति । सर्वे दोपा अमात्यशिरसि प्रक्षिप्ताः । छत्रपतेर्मातृपक्षस्य पुरस्कारोऽधिकृतरीत्या 'सदाशिव पांडुरंग भिडे 'नामकेन विधिशास्त्रपण्डितेन कृतः । पुण्य- पत्तने लोकसभायां छत्रपतेर्दुरवस्था तेन करुणशब्दनिवेदिता । तेनोक्तम् छत्रपतेर्बुद्धिभ्रंशो जातः । अतः स मूढोऽभूदिति कथा तु सर्वथाs- सत्या । क्रूरमनसा शासनसंस्थाधिकारिणा छत्रपतिः राझ्या वियोजितः । कारावासे तस्य वैद्या रक्षापुरुषाश्च गौरकायाः । तेपामधिकारे छत्रपते- जीवघातोऽपि स्यात्" इति । अनेन छत्रपतिदुरवस्थावर्णनेन जना भीतिग्रस्ता अभूवन् । आग्लवृत्तपत्रैः शासनसंस्थापक्षमुररीकृत्य अमात्य- माधवस्य कृत्यानां समर्थनं कृतम् । 'वर्वे 'महाशयोऽमन्यत एभिः पुण्यपत्तनस्थवृत्तपत्रैः प्रभूता मानहानिः कृता । अतस्तानि अभियोगेन दण्डनीयानीति । अनेनोदेशेन वर्षेमहाशयः पुण्यपत्तनं समागतः । बडोदानरेशप्रकरणं समाप्तमभूत् , यतः स नरेशो व्यवहारयोग्यां वयोवस्थां सम्प्राप्तः । तस्य राज्यारोहणमहोत्सवोऽपि जातः। परं कोल्हापुर- प्रकरणं चर्चाविषयोऽभूत् । बर्वेमहाशयेन मानहानिनिरसनाय न्यायालये अभियोगपत्रं प्रवेशितम् । यद्यपि केसरिमराठावृत्तपत्रयोर्लेखनं बहुभिः कृतं तथापि आगरकर-टिळकमहाशयो एव अभियोक्त्रा मानहानिकरौ इत्यभि- युक्तौ । अन्येपां वृत्तपत्राणां सम्पादकास्तथा अस्य विपयस्य सम्बन्धिनो- ऽन्येऽपि लोका दण्डनीया इत्यपि अभियोग आसीत् । परं प्रायेण बहुभिः सम्पादकैस्तथा सम्बन्धिभिश्च क्षमायाचनपराणि दत्तानि । न्यायाधीश्यानु- ज्ञया बर्वेमहाशयैस्तानि स्वीकृतानि । मुख्यप्रनो वृत्तपत्रेषु प्रसिद्धिं गतानां व्यक्तिनिष्टपत्राणाम् । केन लिखितानि तानि पत्राणि ? कथं प्राप्तानि ? इत्यादिविपयाणां कथा सुरसा, रमणीया च वर्तते, परं स्थलाभावादत्र वर्णयितुं न शक्यते । अन्यत्र - अध्यापनपर्व विस्तरेण लिखिते लोकमान्यटिळकचरित्रे वाचकः सा वाचनीया । टिळक- आगरकराभ्यामपि नानि पत्राणि अप्रमादं स्वयं याचयित्वा आत्मनो मनः समाधाय प्रसिद्धि नीतानि । लोकमान्यानां प्रार्थनया तानि पत्राणि माधवराव रानडे 'महाशयैरपि अवलोकितानि । सर्वाण्यपि पत्राणि सत्यानि दृश्यन्ते इत्यभिप्रायो तैरपि दत्तः । लोकमान्याना हस्ते कानिचित् पत्राण्यासन् । तानि पत्राणि कोल्हापुरनरेशस्य कस्यचित् सम्वधिनोऽवर्तन्त । तेयां पत्राणामुपयोगो. ऽमियोगे नैव कर्तव्य इति तस्य सम्बन्धिनो नियन्धः । अतस्तानि पत्राणि लोकमान्यः जोशी 'महाशयसमक्षं भरमसात् कृतानि । अनन्तरं टिरफ- आगरकरमहाशयाभ्यां क्षमापत्रं दातव्यं या नेति विपयमधिकृत्य महान् विवादो जातः । विवादावसाने क्षमायाचनपत्रकमुभाभ्यामपि दत्तम् । परं सर्व तद्विफलमभूत् । अभियोगपरीक्षणकाले सर्वाण्येतानि पत्राणि कृत- कान्यासन्निति प्राड्वियाकेन निर्णीतम् । अतः सर्वेऽपि ते दण्डारे बभूवुः । भिडे- रानडे वर्षद्वयभोग्येन कारावासेन दण्डितौ । टिळक- आगरकर-वसलेमहाशया मासचतुष्टयमोग्येन कारावासेन दण्डिताः । यर्वेमहाशयकृतमानहानिकराभियोगे दण्डफलेन निर्णीते कोल्हापुर- नरेशस्योपद्रवोऽनुदिनमधिकं प्रवृद्धः । शासनसंस्थामतेन महाराजो मति- भ्रष्ट आसीत् । अतस्तस्य चित्तस्वास्थ्याय कृता औषधोपचारयोजना, भक्ष्याभक्ष्यभक्षणनिर्वन्धः, महाराज्ञीविप्रयोगः, विविधस्थलेपु प्रवसनं, तथा दण्डेन ताडनमित्येते सर्वे उपाया युक्ता आसन्नित्यधिकारिणां मतम् । लोकमतं तु विपरीत्तम् । अन्ततोऽनेन निष्ठुराचारेण कोल्हापुरछत्रपतिः पञ्चत्वं गतः। क्षमापत्रके आगरकर-टिळकमहोदयाभ्यां स्पष्टमेव लिखितम् "लेखन- काले यदस्माभिलिखितं तत्सर्व सत्यमेवेत्यस्माकं विश्वासः । तथैव यैः स वृत्तान्तोऽस्मभ्यं कथितस्ते सर्व तदा विश्वासार्हा आसन् । अधुना 'भिडे'- महाशयस्याभियोगेस वृत्तान्तस्तथा प्रसिद्धिं गतानि पत्राणि कृतकान्यासर इति न्यायाधीशस्य निर्णयः । तस्मादस्माभिः कृतानां विधानानां मूलाधार २४ लोकमान्यटिळकचरितम् " एव नष्टः। अतस्तानि विधानान्यपि असत्सानि जातानि । तस्माहुःखी- भूतमस्माकं चेतः" इति । 'न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् ' इति सुभापितस्य प्रत्ययो लोकमान्यैरनेन प्रसङ्गेन प्रथममनुभूतः । प्रथमोऽयं कारावासो लोकमान्यानां तथा आगरकरमहाशयानाम् । आगर- करमहाशयैः कारावासानुभवा एकस्मिन् पुस्तके वर्णिताः । ते लिसन्ति "कारावासेन वयं न तथा दुःखिताः, यथा भोजनपदार्थेषु कन्दर्पलशुनादि- पदार्थानां मिश्रणं दृष्ट्वा तेपामुग्रं च गन्धं समाधाय व्याकुलीभूताः । अस्माकं शयनस्थानं यूकामत्कुणादिजन्तूनामतिथिगृहम् । गच्छता कालेन लेखन. वाचननिर्वन्धः शिथिलीकृतः । एकाधिकशतदिवसानन्तरम् आवाम् उभा- वपि कारावासान्मुक्तौ लोकैश्च महता गौरवेण सत्कारपूर्वकं सम्मानितो" इति । ५ 'फर्ग्युसन महाविद्यालयस्थापना न्यू इंग्लिश स्कूल 'नामकस्याग्लविद्यालयस्य प्रतिष्ठापनानन्तरं शुक्लपक्षेन्दुवत् प्रतिसंवत्सरं वर्धमानेन तस्याभ्युदयेन द्विगुणीकृतोत्साहाः , स्वार्थत्यागेन जनसेवाधर्मेण च लब्धकीर्तयोऽध्यापका मनस्येवमचिन्तयन् यत् प्राचीनार्वाचीनशास्त्राध्ययनार्थमेकं महाविद्यालय स्थापयित्वा उच्च- शिक्षणप्रदानाय वयं किं न यतेमहि इति । विद्यालयस्याध्यापकवर्गे विद्यमानाः शिक्षकाः स्वस्वविपये विशारदा आसन् । अतो विश्वविद्यालय शिक्षणार्थ महाविद्यालयोद्घाटनं सुकरमभूत् । लोकमान्यटिळकमहाशया 'आपटे 'महाशयाश्च संस्कृतभापायां गणितशास्त्रे च पण्डिताः । आगर- करमहाशया इतिहासविषये अर्थशास्त्रे च निष्णाताः । विष्णुशास्त्रिणां चिपळुणकरोपाह्वानाम् आङ्ग्लभाषायां गीर्वाणभाषायां च अनन्यसाधारणं प्रभुत्वम् । केळकरमहोदयानामपि आइग्लभापायां नैपुण्यम् । 'गोळे.' महाशयाः पदार्थविज्ञानशास्त्रे प्रवीणाः । विद्यार्थिजनेभ्यः स्वार्थत्याग- पूर्वकं ज्ञानदानाय बद्धपरिकरानेतादृशानध्यापकानेकत्र लोक्य मुम्बई विद्यापीठसदस्या विस्मिता बभूवुः । डेक्कन कॉलेज- नानो महाविद्यालयस्य प्राचार्या 'वर्ड्सवर्थ 'महाशयाः, 'ऑक्झन- हम्' - ' मॅकिरुन् ' प्रभृतयोऽन्ये पाश्चात्त्यपण्डितास्तथा रामकृष्ण गोपाळ समागतानव.

अध्यापनपर्व २५ भाण्डारकर-माधवराव रानडे - काशीनाथ त्र्यम्बक तेलंग 'प्रभृतयो भारतीयविद्वांसः एतानुपरिनिर्दिष्टान् प्राज्ञजनान् महता गैरवणामन्यन्त । शिक्षणविपयिकायाः 'हंटर'समित्याः पुरतः आपटेमहाशयकृतनिवेदने सम्यग्रीया प्रतिपादितमेतत् यत् स्थले स्थले विद्यालयप्रतिष्ठापनम् , अल्प- धनेन छात्राणामध्ययनम् , महाविद्यालयानां ज्ञानदानकर्मणि सञ्चलने च पूर्ण स्वातन्त्र्यम्, पाठ्यपुस्तकानां भरतखण्डे सम्पादनम् , मातृभापाया- मध्यापनम् , सुगमाध्यापनपद्धतिः इत्यादिविपयेपु भारतीयानां व्यवस्था- विषयकम् अनिर्वन्धस्वातन्त्र्यमावश्यकम् । राष्ट्रियशिक्षणमिति यल्लोकेरुद्- घोप्यते तदिदमेव । नान्यत् । अनेन शिक्षणेन युवानः कर्तव्यदक्षा बलसम्पन्ना राष्ट्राभिमानिनो भवेयुरिति राष्ट्रियशिक्षणम्योद्दिष्टमासीत् ' इति । विस्ताब्दस्य १८८४ संवत्सरे 'आक्टोबर'मासे 'सर् विल्यम् वेडरवर्न' - महाशयानामध्यक्षवे पुण्यपत्तनस्थप्रतिष्ठितनागरिकाणामेका परिपन्निमन्त्रिता । तस्यां सभायाम् आपटेमहाशयपुरस्कृतशिक्षणसंस्था- स्थापनविषयकमस्तावः सम्मतोऽभूत् । डेकन एज्युकेशन सोसायटी' इति संस्थाया नामकरणं जातम् । अध्यापनविपये मार्गदर्शनाय तथा आयव्ययनिरीक्षणाय 'वेडरबर्न-वर्ड्सवर्थ-मंडलिक - तेलंग-दांडेकर- फेब्यकरप्रभृतीनामेकं मण्डलं द्वितीयप्रस्तावेन विनिर्मितम् । तृतीयप्रस्ताव- समये प्राध्यापकवर्यैः ‘भाण्डारकर महाशयैरुक्तम् “प्रारम्भे विद्यमाने- नि:स्वार्थबुद्धिमिरदारचरितः ऋषितुल्यैः सप्तसदस्य: 'टिळक-आगरकर- नामजोशी-आपटे-केळकर-गोळे-धारप'महाशयः सुप्रतिष्टिते आग्ल- विद्यालये ओजसा, तेजसा, यशसा, यांगन, शीलेन, कर्मणा च जनमना- सावर्जितानि । एतेपामप्रेसरः ‘एल्एल्. वी.'इति विद्यापीठोपपदधारी विधिशास्त्रज्ञो वर्तते । स यदि लोकस्थापिवामिमां शिक्षणसंस्थां परित्यज्य, खार्थपरायणः सन् , राजसेवावृत्तिमकरिष्यत्तर्हि अनेन समयेनाधिकारपदं लन्ध्या या कुत्रापि समाधानवृत्त्या सुसेन कालमनेप्यत् ' इति । लोक- मान्यानुद्दिश्य भाण्डारकरमहाशयैरेतदुत्तमिति तु स्पष्टमेव । १८८४ वत्सरस्य फेनुआरीमासे मुम्बईप्रदेशाधिपतिः 'सर जेम्स् फर्ग्युसन महाशयः न्यू इंग्लिश स्कूल 'नामकं विद्यालयं द्रष्टुमागतः । - ४ लोकमान्यटिळकचरितम् तदाप्रभृत्येय महाविद्यालयकल्पना बद्धमूला जाता । मुम्बई विद्यापीठसदस्यै- रेकं प्रस्ताव स्वीकृत्य महाविद्यालय स्थापयितुमनुज्ञाऽपि दत्ता । आगरकर- महाशयैः केसरिपत्रे विनोदेनैवं लिखितम् " अविलम्वेनैव 'फर्ग्युसन- कॉलेज'रहस्यं वयं प्रकटीकरिप्यामः । तद्वाचकवर्गेण सावधानं वाच- यितव्यम् । वाचनायसाने वाचकानां सुवर्णमुद्राः रौप्यमुद्राश्च कोपागारादुरप्लुत्य झटिति महाविद्यालयं प्रति आगमिष्यन्ति " इति । ६ कोणशिलास्थापनोत्सवः ख्रिस्ताब्दस्य १८८५ वत्सरे जानेवारीमासस्य द्वितीयेऽहनि फर्ग्युसन कॉलेज 'नामको महाविद्यालयः प्रस्थापितः । महाविद्या- लयस्याधिवेशनार्थ विद्यागृहमावश्यकम् । तद्विरचयितुं कोणशिलास्थापनो- त्सवो मुंबईप्रदेशाधिपस्य 'फर्ग्युसन'महाशयस्याध्यक्षत्वे महता विभवेन 'मार्च'मासस्य पञ्चमे दिवसे कृतः । राजमार्ग विस्तीर्ण सभामण्डपं रच- यित्वा, लतापल्लवैः कदलीदलैर्वनकेतनैस्तोरणानि कृत्वा, मण्डपप्रवेशाय प्रेक्षणीयं गोपुरं निर्माय, सभास्थानं विविधमण्डनैरलड्कृतम् । महाविद्या- लयवृत्तनिवेदनानन्तरं फर्ग्युसनमहाशयैः स्वभापणे टिळक-चिपळुणकर- आपटे-आगरकरप्रभृतीनां सगौरवं नामनिर्देशः कृतः। महाविद्यालयछात्राणा- मधिवेशनाय 'बुधवारप्रासादस्थलं' दत्त्वा शासनसंस्थयाऽऽत्मनः कर्तव्यमेव कृतम् इति । परम् एप समारम्भो विफलो जातः । कतिपयवत्सरानन्तरं सा कोणशिला तस्मात्स्थानादुद्धृत्य ' चतुःशृड्गी 'परिसरे स्थापिता । महाविद्यालयेऽध्यापनकार्य कुर्वाणाः सर्वे प्राध्यापकारछात्राणां मह- स्फूर्तिस्थानमभूषन् । आपटेमहाशयानामध्यापन शिक्षणपद्धतिमनुसृत्यासीत् । विद्यार्थिजनोपयोगिन्यष्टिप्पण्य. स्थले स्थले तैरदीयन्त । गौरवर्णा रुचिरा- कारा गोखलेमहाशया नातिपरिस्फुटश्मश्रुराजिलेखाविभूषिता यौवनपदवी- मारूढा आत्मनः शालीनतया ज्ञानदानकौशलेन च छात्राणां मनांस्यावर्ज- यन्ति स्म । लोकमान्यटिळकमहाशया मितशब्दैविद्यार्थिनां शङ्कानिरसनेना- स्मनः प्रत्युत्पन्नमतित्वं कुशाग्रबुद्धिमत्त्वं च प्रकटयन्ति । केळकरमहाशयानां व्याख्यानमग्निरथ इव महावेगेन धावति । विद्यार्थिजनस्तानात्मनः शङ्का प्रष्टुं नाधृष्णोत्, यतः केळफरमहाशयाः छात्रानुपहासपूर्वकमभापन्त । .

२७ अध्यापनपर्व अतो रक्तापाङ्गेभ्यः पृथुललोचनेभ्यस्तेभ्योऽविभयुर्विद्यार्थिनः । शान्त- स्वभावाः स्मितानना आगरकरमहाशया अध्यापने गाम्भीर्यमुत्पादयितुं लोचने ईपन्निमील्य विपयं व्यरुपयन् । विद्यालये लोकमान्यैर्गणितविपयस्योदाहरणस्पष्टीकरणाय लेखनफलको न कदाप्युपयुक्तः । मुखेनैव ते सर्व विशदीकुर्वन्ति स्म इति लिखितपूर्व- मस्ति । सैव पद्धतिस्लमहाविद्यालयेऽनुसृता । तेन अल्पमतयश्छात्रा महता आयासेन विपयं जानन्ति स्म । भर्तृहरिविरचितं नीतिशतकं , कालिदास- कृति मेघदूतं रसज्ञतया महता कौशलेन च लोकमान्या निरुपयन्ति रम इति श्रूयते । बहूनामप्रलेखानां शीर्यकाणि नीतिशतकस्थानीति सुपरिचितमेव । १८९२ संवत्सरे पदवीपरीक्षान्ताः सर्वे विपया विद्यापीठानुज्ञया अध्यापिताः। ७ मित्रविग्रहः 'डेक्कन कॉलेज'नाम्नि महाविद्यालयेऽध्ययनं कुर्वाणयोः टिटक- आगरकरमहाशययो: दोपप्रचुरे, दृढवद्धमूले हिंदुसमाजस्थपरम्परागतरुढि- विपये वहयो विवादाः समजायन्तेति प्रसिद्धमेव । धर्मशास्त्रविहित- संस्काराणां मूलतत्त्वानि विस्मृत्य तदड्गभूता नैकप्रकारा रुढयो दोपप्रचुराः जनानामुपहासास्पदं प्राप्ता अपि लोकैरादरेणाचर्यन्ते इति तु गर्हणीयमेय । उपनयनविधी विवाहविधौ या आचरिताः काश्चिदयो विचित्राः सन्तीति यद्यपि लोकमतं तथापि ताः परित्यक्तुं न कोऽप्यधृष्णोत् । कन्यानां प्रथम- रजोदर्शने गर्भाधानसंस्कारः शास्त्रविहितः । तदानींतना जनारतमनुतिष्ठन्ति रम । अनुतिष्ठन्तु नाम । परम् एतादृशी बधूस्तस्मिन् संस्कारे सवायं, सवैभव, समारम्भपूर्वकं राजमार्गेण लोकानां नयनपथं नेतन्या इति न केवलमुपहासास्पदम् , अपि तु तिरस्काराई हानरचिप्रदर्शकं च । अवश्यमेव एतादृश्यो रुढयो जनैतिव्याः । यदि जनास्ताः स्वयं न त्यजेयुस्तहि शासन- संस्थया निर्बन्धं कृत्वा लोकस्त्याजनीया इति आगरकरमहाशयानां मतम् । लोकमान्यानां प्रतिपादनं तु एवंरुपम् "सत्यमेतत्सर्वम्। परम् अस्मिन् विपये शासनसंस्थानिधो न आवश्यकः । लोकशिक्षणेन जनान् प्रबोध्य २८ लोकमान्यटिष्टफचरितम् तेपो मतपरिवर्तनं कर्तव्यम् । मतपरिवर्तनेन सक्षातमाचारपरिवर्तनं बद्ध- मूलं सुप्रतिष्ठितं च भविष्यति" इति । केसरिपत्रे तदानीं परस्परविरुद्धमतप्रदर्शका लेसाः समागता दृश्यन्ते । विदितमेवेदं चाचकानां यत् केसरिपत्रे वयो विद्वांसो लिखन्ति स्म । यद्यपि आगरकरमहाशया मुख्यसम्पादकास्तथाऽपि न केवलं तेपामेव मत- प्रवाहः केसरिपत्रे दृश्यते । विद्यालयाध्यापकयर्गे यथा विद्वांसो जना अवर्तन्त तथा प्रभूता आचारविचारधारा आसन् । अस्मिन् समाजधारणा- विपये जनप्रवाहो लोकमान्यमतानुसारी । वहवोऽध्यापकास्तन्मतानुवर्तिनः । अतः परस्परविरुद्धलेखनेनाध्यापकवर्गे तथा शिक्षणसंस्थासदरयेपु द्वौ पक्षौ आस्तामिति लोके विदितप्रायम् । तस्मादागरकरमहाशयानां मनसि लेखन- विपये सङ्कोचः समुत्पन्नः । स्वमतप्रतिपादनं निःसङ्कोचतया कर्तव्यं तन्येिषां विरुद्धलेखनं तस्मिन्नेव पत्रे मुद्रितं दृश्यते । मुख्यसम्पादकस्थानस्यैतद्- साम्प्रतम् । स्वनामोल्लेखेन लेखो मुद्रयितव्यस्तर्हि तदप्ययुक्तं दृश्येत । खगृहे स्वयमेव प्राघूर्णिकः । अपूर्वेयं स्थितिः । किं कर्तव्यमिति प्रश्नः । इतो व्याघ्रः इतस्तटी। अनेन समयेन एको विवादः समुत्पन्नः । बालविवाहविपये प्रतिष्ठित- विद्वज्जनानां मतं शासनसंस्थयाऽपेक्षितम् । तदा केनचित् 'मलबारीशेठ'- महाशयेन वृत्तपत्रेपु स्वमतं मुद्रितम् । (१) प्ररूढः कुमारकुमारीविवाहो निर्वन्धेन रोद्धव्यः। (२) विवाहितछानेभ्यो विद्यापीठे प्रवेशो न दातव्यः । (३) नृपसेवाकर्मणि स अयोग्यो मन्तव्यः । (४) एत- द्विपयको निर्बन्धः शासनसंस्थया कर्तव्यः इति । अस्मिन् विपये पक्षद्वयं सजातम् । 'माधवराव रानडे 'प्रभृतीनामेकः सुधारकपक्षः। 'तेलंग'. प्रभृतीनामपरः सनातनपक्षः । केसरिपत्रव्यवस्थापकेष्वपि एवमेव स्थितिः। वहुमतं लोकमान्यानुकूलम् । अल्पमतम् आगरकरप्रभृतीनाम् । पुण्यपत्तने तथा मुम्बापुर्यामस्मिन् विपये महान् विवादः समजायत । लोकमतं प्रायेणे- दमेव यद्धार्मिकविषये शासनसंस्थया हस्तक्षेपो न कार्यः इति । अन्यदप्येकं विवाहविषयकप्रकरणं समुद्भूतम् । तेनायं सामाजिक- सुधारणावादश्चर्चाविषयो जातः । 'दादाजी'नाम्नः कस्यचिद्दरिद्स्य रखमा- .

अध्यापनपर्य २९ ५ नाम्न्या कन्यया सह धनलोभेन विवाहो जातः । स दादाजीनामा दारिन्य. दोपादावाल्यादात्मनः श्वशुरगृहे एव वर्धितोऽभूत् । विवाहादूर्ध्वमपि स तत्रैव निवसति स्म । गच्छत्ता कालेन श्वशुरेण सह तस्य कलहो जातः । अतस्तस्य निवासस्थानमधुना पृथगभूत् । तस्य भार्या रखमानानी पुनःपुनः राहूताऽपि पतिगृहं नायात् । अतो भार्याप्राप्त्यर्थमेतत्प्रकरणं न्यायालये प्रविष्टम् । पादमूलं तु इदमेव । दादाजीनामकेन सह रखमानामिकाया विवाहस्तस्याः असम्मत्या जातः । अतो न्यायाधीशेन निर्णीतम् " विधि- निर्वन्धेन पलात् रसमानाम्नी दादाजीनामकस्य पत्नी तस्य सदनं न प्रेप. यितव्या" इति । कनिष्ठन्यायालयनिर्णयो दादाजीप्रतिकूलो जातः । वरिष्ठ- न्यायालयेन रखमाप्रतिकूलो निर्णयो दत्तः । भवत्तया पतिगृहमाश्रयणीयं वा राजशासनं भोक्तव्यं या इति सम्प्राप्तम् । लोकमान्यादिभिर्व्यवहारशास्त्रपण्डितै 'दादाजी 'पक्षः स्वीकृतः । आमरकरादिमिरल्पसंख्याकैः रखमापक्षस्य पुरस्कारः कृतः । अनेन प्रकरणेन 'डैकन एज्युकेशन सोसायटी 'नाम्न्याः शिक्षणसंस्थायाः सदस्येषु विद्य- मानौ अस्फुटौ द्वौ पक्षौ स्फुटीभूतौ । माधवराव रानडे 'प्रभृतिभिः पुरस्कृतायाः घसन्तव्याख्यान- मालायाः। समारोपकाले न्यायपद्धतिमाश्रित्य अस्य विपयस्य विवेचन रानडेमहाशयैः स्वयं विस्तरेण कृतम् । आशयस्तु एवमेव, यद्धर्मशानेण स्त्रीणां पोषणविपये तासामाचारतः तारतम्यं दर्शितम् । अपराधानुसारेण न्यूनाधिकजीवनधनं स्त्रीभ्यो दातव्यम् । परं पतिगृहे पल्याः अनि. च्छया वासो दण्डेन न कर्तव्यः इति । सपद्येव लोकमान्यैः केसरिपत्रे " समां बान प्रवेष्टव्यं वक्तव्यं या समञ्जसम्" (मनु० ८-१३) इति शास्त्रवचनमुद्धृत्य प्रमाणैरतर्ककर्कशशब्दैश्च रानडे- महाशयकृतपूर्वपक्षस्य सण्डनं कृतम् । लेखहयेनायं विषयः प्रतिपादितो दृश्यते । लोकमान्या अलिप्पन “ साम्प्रतं यदि काचित्सुधारणा इष्यते तर्हि सा सुकरा, सयुक्तिका, आवश्यकी, एतापानेय विचारस्य भागः । न कोऽपि तस्य प्रत्यवायः । परं यदा वयोवृद्धा ज्ञानवृद्धाः स्वपक्षसमर्थनार्थ ज्ञानचातु. र्येण लोकान् विमोहयन्ति तदा सम्यग्दर्शनार्थ सत्यान्वेषणपूर्वकं धर्मतत्त्य- लोकमान्यटिळकचरितम् प्रतिपादनमस्मादृशानां कर्तव्यं भवति । शिक्षणसंस्थायां प्रतिपक्षीयसदस्या आपटेमहाशया अस्मिन् विपये लोकमान्यानुकूलाः । तैरेकं प्रवन्धं विलिख्य रानडेमहाशयदत्तप्रमाणानां शास्त्राधारेण खण्डनं कृत्वा लोकमान्यानां समर्थनं कृतम् । १८७६ वत्सरे 'यमुनाबाई x पेंडसे 'अभियोगे न्यायमूर्तिभिरेप निर्णयो दत्तः यत् पतिगृहे पन्याः वासो न कदापि परिहरणीयः । अप- वादस्तु स्त्रियाः जीवितापायसम्भवे एव । वसन्तव्याख्यानमालायां' 'डॉ. गर्दै'महाशयानां व्याख्यानावसरे उपवक्तृणां महान् विवादः समजायत । आपटे-रानडेमहाशययोर्वाग्युद्ध- मभूत् । रानडेमहाशया अभापन्त 'कलासु स्त्रीशिक्षणमर्यादा नृत्यगान- वादनान्ताऽपि सम्भवेत् । आपटेमहाशयाः प्रत्यवदन् । एतादृशा अनुचित- प्रकारा यदि स्त्रीशिक्षणक्षेत्रं प्रविशेयुस्तर्हि तासां जीवनं विफलं भवेत् । वयं पुरुपा यत्र हठात् आङ्ग्लभापां पठामस्तत्राग्लभापाशिक्षणविपये स्त्रीषु वलस्य प्रयोगः कथं कर्तव्यः' इति । इदानीं पञ्चसप्ततिहायनानन्तरमेतादृशो विवादो विनोदविपयोऽपि न स्यात् । चलचित्रपटेपु यौवनपदवीमारूढानां प्रमदानामुत्तानशृङ्गारप्रधान- मभिनयकलापूर्ण नृत्यनाट्यादिकमवलोकयितुं यत्र जनाः प्रवेशपत्रिका- प्राप्त्यर्थं पक्तिशः चित्रपटद्वारे सोत्साहाः सन्तः अविरतं तिष्ठन्ति तत्रा- धुना स्त्रीशिक्षणं चर्चाविषयः कथं भविष्यति । सामाजिकसुधारणाविषये 'डेक्कन एज्युकेशन सोसायटी'संस्था- सदस्येषु एतादृशं मतवैचित्र्यं दृष्ट्वा जनानां मनांसि साश्चर्याण्यासन् । केसरिमराठावृत्तपत्रयोः स्यामित्वं संस्थासदस्यानाम् । संस्थायां प्रभुत्वं रानडेमहाशयानाम् । आजीवसदस्येषु एतादृशं मतवैचित्र्यम् । बहुमतं लोकमान्यानुकुलम् । आपटेमहाशयानामपि लोकमान्येषु पक्षपातः । किमेत- द्रहस्यमिति लोकैन ज्ञायते । २८-६-१८८७ दिवसस्य केसरिपत्रे सम्पादकै- रेकं स्पष्टीकरणं मुद्रितं दृश्यते केसरि-मराठावृत्तपत्रयोरसम्बन्धिनः प्राध्यापकाः यदा संस्थायां प्रविष्टास्तदाप्रभृत्येवेदं सुस्पष्टमभूत् यदेतवृत्त- पत्रद्वयं सर्वेषां संस्थासदस्यानां मतप्रदर्शकं नासीत् । ये केचन तयोः ।

अध्यापनपर्व सम्बन्धिनस्तेपामेव मतप्रदर्शनं तस्मिन् दृश्यते । नान्येपाम्" इति । केसरि- पत्रस्य सम्पादनं प्रकाशनं च आगरकरमहाशयानाम् । लेखेपु मतप्रदर्शन- मन्येपाम् । अन्ततः २५.१०.१८८७ दिवसस्य फेसरिपत्रे प्रथममेव महत्त्वपूर्ण लघुनिवेदनं दृश्यते । “अद्यप्रभृति केसरिपत्रस्य सम्पादनप्रकाशनकार्यभरः 'यी. ए., एलएल्. वी,'उपपदधारिणां 'याळ गड्गाधर टिळक महाशयानां शिरसि वर्तते । न आगरकरमहाशयानाम्" इति । एवं आगरकरमहाशयानां केसरिपत्रस्य सम्पादकत्वेन सम्बन्धो विलयं गतः । येन कारणेन लोकमान्यैः ‘डेकन एज्युकेशन सोसायटी-' संस्थायास्त्यागपत्रं दत्तं तेनेव कारणेन आगरफरमहाशयैः केसरि- पत्रं त्यक्तम् । वत्सरानन्तरं 'गोपाळराव गोखले 'महाशयानां साहाय्येन आगरकरमहाशयः 'सुधारक' इति नामधेयाङ्कितमन्यवृत्तपत्रं सम्पादितम् । एवं सामाजिकसुधारणाविषये आगरकरमहाशयलेखनस्वातन्त्र्यं लब्धम् । सुधारकपने आगरकरमहाशया मराठीभापायां, गोखलेमहाशया आग्ल- भाषायां लिखन्ति रम । पूर्व वयसि वर्तमाना गोखलेमहाशया गणितदाने तथा आङ्ग्लभाषायामसाधारणप्रभुत्वमलभन्त । नैकवारं ते वदन्ति स्म 'लोकमान्यकृतस्वार्थत्यागरफूल् मया 'डे. ए. सो.'संस्थायाः सदस्यत्वं स्वीकृतम् ' इति । परं प्रवेशानन्तरम् आगरकरमहाशयानामेव विचारसरणि- गोखलेमहाशयरुररीकृता । अग्रे रानडेमहाशयानां परिचये जाते केसरि- मराठापत्रविपये तेषां मतं प्रतिकूलं जातम् । सामाजिकसुधारणाविषये टिळक-आगरकरयोर्यद्यपि मतभेदस्तथापि लोकमान्यचेतसि आगरकरकृत- स्वार्थत्यागविषयको महानादर आसीत् । उभयोश्र स्नेहो भृशमयर्धत । अन्तकाले आगरकरमहाशयेर्लोकमान्यानाहूयात्मनो दुःख लघूकृतम् । उक्तं च कविकुलगुरुकालिदासन- स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति । आगरकरमहाशयानां मृत्युलेखलेसनकाले धीरगमीरा अपि लोक. मान्याः बाप्पपूर्णलोचनाभ्यामेय लेखनकार्य समापयन् इति लोकमान्यान परितो वर्तमाना जनाः कथयन्ति । सत्यस्य, त्यागस्य, निग्रहस्य, निष्ठायाश्च ३२ लोकमान्यटिळकचरितम् एतावानेव महिमा यद्धनवन्तोऽपि निर्धनस्य देशसेवकस्य गुणगणान् मुक्तकण्ठेन गायन्ति । ८ शिक्षणसंस्थात्यागः 'केसरि-मराठा'वृत्तपत्रयोः सम्पादनं सञ्चालनं च प्रथमं ' डेकन एज्युकेशन सोसायटी'सदस्यैः कृतमासीत् । अधुना तत्कार्यमन्तर्गतमतभेदेन लोकमान्यै. स्वीकृतम् । परं यथा सार्वजनिककार्येषु राजकीयसामाजिक- सुधारणावादेन केसरि-मराठादिवृत्तपत्रेषु 'डे. ए. सो.'सदस्यानां मतभेद- दर्शनं जातं तथा शिक्षणसंस्थायाः मूलतत्त्वप्रणाल्यामपि विविधविचार- प्रवाहा उदपद्यन्त । तेषां नैसर्गिकपरिणामस्तु कलिप्रवेशः । महाविद्यालये एतेपामाजीवसदस्यानामेकत्रावस्थानं विवादस्थलमभूत् । तत्त्वनिष्ठा लोक- मान्याः । असह्यपरिणामाश्च मतभेदाः । तेषां नैसर्गिको विपाको 'डेक्कन एज्युकेशन सोसायटी'नामिकाया सस्थायाः सदस्यत्वस्य लोकमान्यानां त्यागपत्रम् । अनवरतजायमानान्तर्गतकलहै निविण्णमानसाः परस्परकृतवाक्शर- प्रहारविद्धहृदया. कृतबुद्धयो लोकमान्या. १८९० वत्सरस्य आक्टोबर- मासस्य चतुर्दशेऽहनि स्वहस्तप्रतिष्ठापितशिक्षणसस्थायाः आजीवसदस्यत्वस्य सागपत्रविपयिणी पूर्वसूचनां दत्त्वा मासद्वयानन्तरं डिसेंबरमासस्य पञ्च- दशेऽहनि अनिच्छया आत्मनरत्यागपत्रं प्राहिण्वन् । स्वार्थत्यागपूर्वकं श्रद्धया धर्मबुद्धया प्रतिपालितस्य जीवितकार्यस्यायं परित्याग. कियान् कष्टप्रदः स्यादिति ज्ञातुं सुशकम् । केळकर विरचितलोकमान्यटिळकचरित्रे कारण- मीमांसापूर्वकं विस्तरेणोद्धृतमेतत् त्यागपत्रं सक्षेपेणानोल्लिख्यते । प्रारम्भे संस्थापरित्यागविषयकं दु.सं प्रदर्य लोकमान्या लिसन्ति " एकादशवर्षेभ्य, प्राक् जीवितध्येयप्रेरिता. केचन सदस्या एकत्र समागत्य ध्येयपूर्तये अद्यावधि प्रायतन्त । विसोढस्तैछेकविरोधः । तिरस्कृतो जनो- पहासः । उपेक्षितं नैराश्यम् । अत. संस्थात्यागसमये कियदुःसं स्यादिति भवद्भिश्चिन्तनीयम् । आसीदयं मम जीवनोद्देशो यदस्यां सस्थायां मयाs. ध्यापनकार्य यानजीवं कर्तव्यम् । तस्या. जीवननिष्ठायास्त्यागसमय: सम्प्राप्तः । अतो दुसतरं नु किम् । फेपांचन सदस्यानां मूलभूततत्त्व अध्यापनपर्व विरोधः तत्वत्यागवृत्तिश्च । यदा यदा सा तत्पत्यागवृत्तिर्मम दृष्टिपथमायाता तदा तदा तम्या अधिोपो मया कृतः । तस्य विपाको मियो वास्ताडनं परस्परविरोधश्च । मूलतत्त्वपरित्यागो न कदाऽपि केनापि सोढव्यः । आयत्यामेतन्न सम्भाविष्यतीति युद्धथा मयेदं लिख्यते । अस्मन्मतभेद- निदानं स्वभाववैचित्र्यम् । ततो विद्वेपवृत्तिः । आजीवसदस्यानां स्वीकार- फालेऽस्मामिस्तारतम्यं न दर्शितम् । मूलतत्वानि धर्मतत्त्वानीति मत्या श्रद्धापूर्वकं तेषां प्रनिपालनमावश्यकम् । अन्यथा सपद्येय संस्थात्यागः फर्तव्यः । अन्यच । अस्माकमेकोऽपि यदि नायकः स्यात्तर्हि समीचीनं भवेत् । तदपि नास्ति । सर्वे सेनापतयः । न कोड प्याज्ञापालनपरः सैनिकः। मिन्नमस्तीनां नेकविचाराणां जनानामेकत्र मीलनस्य नैसर्गिकोऽयं विपाकः। संस्थास्थापकसदस्या पयं समानवयसः, तत्त्यनिष्ठाः कार्यार्थमेकत्र समागताः । ज्ञातेऽपि स्वभायभेदै स्वार्थत्यागपूर्वकं ध्येयसिद्धयर्थ यतमानानामस्माकं प्रकृतिभिन्नत्वं ज्ञानदानकार्ये विलयं गमिष्यतीति तदाऽस्माकं बुद्धिः । अङ्गी- कृतकार्य दुष्करम् । तत्फलदर्शनं तु दूरे एव । पयं सदस्याः लोकेपु सामान्यजनाः । अतो वयं यदि निरलसाः सोत्साहा निष्ठावन्तश्च स्याम, तर्हि यशोऽमृतं हस्तप्राप्यं भविष्यतीत्यस्माकं भावना । प्रथमं सर्व निर्विनमासीत् । व्याभावेऽपि संस्था प्रतिष्ठामलभत । नैतिकवलमपि तया लब्धम् । परम् अग्रे तत्त्ववन्धनानि शिथिलीभूतानि । व्यक्तिगतस्वार्थवृत्तयो वृद्धिं गताः । अन्येऽपि व्ययसाया अरमामु प्रविष्टाः । एतेनाचारविचारमिन्नता समुत्पन्ना। विवादाः प्रादुर्भूताः । पक्षाः साताः । मत्सरः प्रवृद्धः । आयव्ययस्थितिः फठिनीभूता। स्वावलम्बनं, स्वार्थत्यागो, ध्येयनिष्ठा, सभ्यता सर्वेऽप्येते गुणा उपहासारपदं प्राप्ताः । 'होळकर नरेशदत्तसप्तशतरुपफमितं पारितोपिक- मेतस्य निदर्शनम् । संस्थाप्रवेशकाले मूलोद्देशस्तु मम बुद्धया एवमासीत् । निस्तधर्म- प्रचारकपद्धत्या भारतीयर्लोकशालाः किमर्थ न स्थापयितव्या इति विषय- मधिकृत्य विधिव्यवहारशाखाध्ययनार्थ महाविद्यालयवसतिगृहे वसता मया आगरकर-करंदीकर-भागवत'महाशयेस्सह चर्चा कृता । स्वार्थत्यागेनैवाय- मुद्देशः सफलो भवेदिति तु सूर्यप्रकाश इव सुस्पष्टम् । सर्वरेकमेव कार्य .

. लोकमान्यटिळकचरितम् समानाधिकारेण श्रमविभागतत्त्वेन करणीयम् । वैयक्तिकलाभो हानि न द्रष्टव्या । यद्यपि कष्टतरस्तथाप्येप एव मार्गो ध्येयसफलतायाः इत्यत्र सर्वेपा- मैकमत्यम् । पुण्यपत्तनस्थमेकं लोकापण्यं वयमेवं न्यवेदयाम “ यदि पश्च. सप्ततिरुपकपरिमितं धनं वेतनरूपेण प्रतिमासं प्राप्नुयाम तर्हि वयं सर्वे आजीवितमध्यापनकार्य कर्तुकामा भवेम । एतावान् द्रव्यसंग्रह आवश्यकः। यद्येवं स्यात्तर्हि अध्ययनमपि विनामूल्यं सम्भवेत् " इति । स लोकधुरीणो- ऽब्रवीत् । कार्ये समारब्धे जना द्रव्यदानाय अहमहमिकया पुरत आग. मिष्यन्ति । नान्यथा । अनेनोत्तरेण नैराश्यं गतैरस्माभिर्निजोदेशो न परि- त्यक्तः। अनेन समयेन 'विष्णुशास्त्रिचिपळुणकर' महाशया राजसेवां विहाय नूतनविद्यालय स्थापयन्तीति वार्ता निशम्य तेभ्योऽस्माकं मनीपा निवेदिता। तैरपि स्वागतपूर्वकमात्मनोऽनुमतिः प्रदर्शिता । त्रिस्ताब्दस्य १८८० वत्सरस्य प्रारम्भे विद्यालयस्योद्घाटनं निश्चितम् । अत्रान्तरे 'करंदीकर-भाग. वतयो'श्चित्तं दोलाधिरूढं जातम् । अतश्चिपळुणकरमहाशयैः स्वनाम्ना एवैकं पत्रकं मुद्रितम् । स्तुतिवादं विनैव तस्मिन् पत्रके मूलोदेशं प्रकटीकृत्य ज्ञान- लाभं सुलभोपायेनाल्पमूल्येन च कर्तुमयं यत्नो भविष्यतीति ध्येयमपि कथितम् । शनिमहाशयैरेतत् साधु कृतम् । चलमतिस्तु मानवः । उक्तं च भगवद्गीतासु- 'चञ्चलं हि मनः कृष्ण' इति । करंदीकर-भागवतमहाशयो एतस्य निदर्शनम् । आगरकरमहाशया अपि 'डेक्कन कॉलेज'नाम्नि महाविद्यालये 'फेलो' इति प्राप्तं वरिष्ठस्थानं स्वीकृत्य वत्सरान्ते समागताः । तस्मात् १८८० संवत्सरे जानेवारीमासस्य प्रथमेऽहनि शानिमहाशयः अहं च द्वौ एव आख । अनन्तरं नामजोशी. महाशयाः सद्गताः । तेषां विपये विरुद्ध लोकमतमविगणय्य चिपळुणकर- महाशयैस्ते सदस्यत्वेन स्वीकृताः । मया 'वामनराव आपटे'महाशयाः संस्था- सदस्यत्वस्वीकरणाय विज्ञप्ताः। प्रथमं तैरस्माकं विज्ञप्तिरवमानिता । परम् अन्यस्मिन् स्थले प्रभूतधनलाभपदमप्राप्य ते अस्मान् प्रति आगताः । अन्येभ्योऽधिकतरं वेतनं वयं तेभ्योऽदाम । आपटेमहाशयानां मनोरथस्तु - अध्यापनपर्व ३५ . कमप्यन्य व्यवसायं समकालमेव कृत्या विपुलं धनमर्जयितव्यमिति । तेषा- मेवोपक्रमेण 'नामजोशी'महाशयानां 'स्टार'नामकवृत्तपत्रस्य नामान्तरं विधाय अस्माभिः 'मराठा' इति वृत्तपत्रम् आङ्ग्लभाषायां सम्पादितम् । १८८१ वत्सरारम्भे आगरकरमहाशयाः समागताः । चिपळुणकर-टिळक- नामजोशी-आपटे-आगरकरमहाशया इति चयं पञ्च एकत्र समागत्य एक विद्यालयं, द्वे वृत्तपत्रे च समपादयाम । चिपळुणकरशास्त्रिणो मुख्याध्यापक- पदं व्यभूपयन् । परम् आपटेमहाशयानां कृतेऽस्माभिरन्यत् 'सुपरिटेंडंट'- इत्यधिकारस्थानं विनिर्मितम् । अत्रैव प्रथमं तत्त्यभिन्नता गोचरीभूता । सर्वेऽपि वहुकालं निरलसवृत्त्या कार्यमकुर्वन् । कर्मविभागोऽपि योग्यता- नुसारतः कृतः । कचिन्मतभेदो जातः । कचिद्विवादोऽपि सम्भूतः । परं सर्वेपी पुरतो ध्येयं तु एकमेव 'विद्यादानम् ' इति । तस्मिन् सर्वैरात्मनः प्रयत्नाः खिलीकृताः । वरमान्न कलिप्रवेशः । कार्यानुरूपं सदत्येभ्यो न्यूना- धिकं धनमपि दत्तम् । आये वर्षे चिपळुणकरमहाशयर्मयाऽपि च एका कपर्दिकाऽपि न स्वीकृता । १८८२ वत्सरे मार्चमासे 'कोल्हापुरप्रकरणं' समुदभूतम् । तेन वयं समीपतरं प्राप्ताः । लोकैरपि द्रव्यसाहाय्यं दत्तम् । समानाधिकारप्रभोऽद्यापि नोपस्थितः । अतोऽभियोगे जातेऽपि संस्था सङ्कटात् समुत्तीर्णा । अभियोगकाले केळकरमहाशयैस्सहास्माकं परिचयो जातः । 'माधवराव गोळे महाशयाः १८८३ संवत्सरे सदस्या जाताः। परं १८८२ वत्सरे कारावासान्मुक्तयोरावयोः सत्कारवेलायामेव आपटेमहाशयाः स्पष्टमत्रुवन् ‘वृत्तपत्रसम्बन्धं परित्यज्य पाठशालासूपयोल्यमाणानि पुस्तका- न्यहं लिखामि' इति । वृत्तपत्रसम्पादनं यद्यपि कार्यान्तरं तथापि संस्थायाः मूलतत्त्वानां पोपकं तत् । पाठ्यपुस्तकलेखनं धनलाभकरम् । परं तन्मूल. तत्त्वविरुद्धम् । शिक्षणसमित्याः पुरतोऽपि आपटेमहाशयः स्वनिवेदनपत्रे लिखितम् ' संस्थायाः आद्यतत्त्वम् एवमेव; यथा धर्मप्रचारकाः स्वार्थलाग- पूर्वकं धर्मप्रचारं कुर्वन्ति, तथा वयमपि स्वार्थनिरपेक्षं ज्ञानदानाय स्थाने स्थाने विद्यालयानुद्घाटयेम' इति । प्रथमं वर्पवयं विद्यालयस्य वृत्तपत्रयोश्च दृढीकरणे व्यतीतम् । तत्कृतेऽस्माभिरुपहासोऽपि सोढः । आयत्यां समागताः सदस्याः कथमेत.

लोकमान्यटिळकचरितम् जानीयुः । कोल्हापुरप्रकरणस्य ऋणं शेपमासीत् । ऋणकाले फलहा अपि न सम्भवन्ति । १८८४ वर्षे 'सर जेम्स् फर्ग्युसन्'महाशयाः संस्थां द्रष्टुं समागताः । अनेन समयेन " आबासाहेब घाटगे-कागलकर "महाशयै- रुदारमनसा द्रव्यसाहाय्यं दत्तम् । राजप्रतिनिधये उद्देशकथनकाले एव- मुद्घोपितम् यदल्पवेतनं स्वीकृत्य महाराष्ट्रेपु विद्यालया महाविद्यालयाश्च स्थापनीया इति । संस्थाघटनायां सदस्यैः प्रतिमासमल्पवेतनं ग्रहीतव्यम् । विशेषप्रसङ्गे अधिकं ग्राह्यमिति निर्देशो वर्तते । सर्वाः सूचना मया पुरस्कृताः सर्वैः स्वीकृताश्च । उद्देशस्त्वयमेव । सर्व सदस्या एकचित्तीभूय संस्थाकार्यमेव कुर्युः । व्यवसायान्तरेण न धनलाभमिच्छेयुः इति । एपा शिक्षणसंस्था शासनसंस्थायाः सम्मता । १८८५ वत्सरे फर्ग्युसनमहाविद्या- लयः प्रतिष्ठापितः । १८८९ हायनान्तं सर्व कार्य सुव्यवस्थितं जातम् । अल्पसुसानुभवानन्तरम् अस्माभिर्दारिद्यं तिरस्कृतम् । अधिकधनलाभ- वाञ्छा मनसि समुदपद्यत । सा नूतनसदस्यानधिकं वबाधे । तत्त्वनिष्ट- संस्थापकानामल्पमतं जातम् । नूतनानां बहुमतम् । एतत् कलहनिदानम् । कलहे समुत्पन्ने कानि साधनानि केनोपयोजितानि इति विवादोऽप्रस्तुतः । प्रधानप्रश्नस्तु किमर्थं कलहाः समुत्पन्ना इति । वत्सरान्ते न्यूनाधिकद्रव्य- विपये कलहो जातः। १८८६ वत्सरे मुद्रणालयविषयको विवादः समुत्पन्नः । मुद्रणालयः ऋणमुक्तो नासीत् । अस्मासु केचन विनामूल्यमात्मनः सर्वं कालं मुद्रणकार्ये अयापयन् । अन्ये धनलाभार्थमन्यं व्यवसाय प्रारभन्त । वृत्तपत्रेषु प्रसिद्धिं गताः सामाजिकमतभेदाः कलहकारणमासन् । संस्थायाः विज्ञप्त्या मया आयव्ययनिरीक्षणं कृतम् । १८८६ वत्सरान्ते मुद्रणालयः वृत्तपत्रद्वयं तदर्थ जातं ऋणं च केळकरमहाशयैरङ्गीकृतम् । आगरकरमहाशयैः परि- त्यक्तम् । मुद्रणालयव्यवस्थां कर्तुं 'हरि नारायण गोखले'महाशया मुम्या- पुरीत आहूताः । परं साहाय्यदाने यद्यहं प्रतिशृणुयां तर्हि गोखलेमहाशया आगन्तुमैच्छन् । अतः केळकरमहाशयैस्सह ममापि नाम सड्गृहीतम् । तथापि गोखले-केळकरमहाशययोः स्वतन्त्रः समयो जातः । मम समावेश- स्तस्मिन् न कृतः।

अध्यापनपर्व मुद्रणालयस्य वृत्तपत्रद्वयस्य पृथकरणेन कलहोऽन्ततां गमिष्यतीति तदा कल्पना । सर्वैरप्येपा व्यवस्था स्वीकृता । पर सामाजिकविपयकमत- प्रदर्शनसाधनं नष्टमिति आगरकरमहाशयानां चेतसि महान् विपादः समु- त्पन्नः । गोळे महाशया इव यूयमपि स्वनामोल्लेखपूर्वकं लेखनं केसरिपन्ने मुद्रयत इति आगरकरमहाशया विज्ञप्ताः । परं तनु असमीचीनम् । भवतु । वृत्तपत्रं गृह्यतामित्युक्ते ऋणमस्वीकार्यमिति वदन्ति स्म । एतत् कथं संवदेत । अन्ततो गोखले-आगरकरमहाशयैः 'सुधारक' इति वृत्तपत्रं सम्पा- दितम् । एवं द्वयोः पत्रयोर्विग्रहे जाते तृतीयस्य भसूतिः । तस्मिन्नवसरे 'गण्डस्योपरि पिटकः संवृत्तः । तदानीं केवलम् आपटेमहाशयाः शालोपयोगानि पुराकानि समपादयन् । अधुना मुद्रणालय- व्यवस्थापका गोखलेमहाशया अपि मनस्येवमकुर्वन् यदेकः संस्कृतकोशो मया सम्पादयितव्य इति । प्रथमं तैः आपटेमहाशयाः पृष्टाः । तेर्नेत्युक्ते मुम्बापुरीस्थः कोऽपि वैद्यमहाशयः पृष्टः । तेनापि आपटेमहाशय- सम्मत्याऽऽत्मनः सम्मतिः प्रदर्शिता । आपटेमहाशयैरादावेव एको बृहत्संस्कृतकोशः समारब्धः । अधुना लघुकोशमत्सरेण तैरपि अन्यो लघुकोशः सम्पादितः । मुद्रणालयस्य शिक्षणसंस्थायाश्च पुनः फलहः समु. त्पन्नः । मया मध्यस्थस्य भूमिका स्वीकृता । अतः आगरकरमहाशयेरुक्तम् 'यूयं आपटेमहाशयान अद्विष्ट' इति । संक्षेपतरतु मुद्रणालये पृथक् कृतेऽपि फलहो न नष्टः । तत्कारणं संस्थासदस्यैरङ्गीहतमम्पकार्यम् । 'होळफर'नरेश- दत्तसप्तशतरूपकमितस्य पारितोपिफस्य इयमेव कथा । अतोऽयं नियम आवश्यक: यत् संस्थासदस्यैरन्ययार्य न करणीयमिति । स्वीकृतेऽन्यकायें प्राप्स्यमानद्रव्यं संस्थाय समर्पणीयम् इति । विस्तधर्मप्रचारपाणां संस्थान एतदर्थमेयायं निर्यन्धः। शालोपयोगिपाठयपुस्तकविपये फलहो न जायतेति बुद्धपा अयं नियमः फुतः यत् प्रसिद्धिपत्रफेण पाठरपुम्नानि आनेतन्यानि । तेषु यन् सम्मतं भवेत् सन्नियोतव्यमिति । परमन्यस्मिन्नेय हायने गोसले. महाशयानाम् ' अंकगणित'नामकं पुमकं सम्मतम् ।

लोकमान्यटिळकचरितम् संस्थासदस्यैः केवलं जीवनवेतनं ग्रहीतव्यमिति प्रथमं निश्चितम् । तद्वेतनं पञ्चसप्ततिरुपकपरिमितमासीत् । तदप्यने रुपकशतं कृतम् । इतरेपामेव कृते इयं वेतनवृद्धिः कृता। आगरकरमहाशया अहं च चत्वारिंश- दूपकानेव ग्रहीतुमैच्छाम । प्रथमं कतिपयदिवसान तदपि चेतनमरमाभिर्न स्वीकृतम् । परम् अग्रे आगरकरमहाशयानां मतान्तरं जातम् । जीवन- वेतनतत्त्वं परित्यज्य संस्थायाः सुस्थितिं विलोक्य वेतनं निश्चेतव्यमिति नूतनं तत्त्वमङ्गीकृतम् । प्रथमकृतस्वार्थत्यागस्यैतन् फलं किम् ? इति निर्दिष्टे पूर्वमपि युष्माकं शेपं वेतनं युष्माभिम्रहीतव्यमित्यस्माक- मुपहासोऽपि कृतः । अनेन प्रकारेण महान् कलहः समुत्पन्नः । संस्थासदस्यैर्विद्यालयाद्वहिः कथं वर्तितव्यम्, आयव्ययलेखनं कथं कर्तव्यम् , व्यवसायवर्गाः स्थापयितव्या न वा, आग्लदेशीयः प्राध्यापको महाविद्यालये नियोक्तव्यो न वा, एवमन्येऽपि वह्वो वादविपया आसन् । ध्येयं तु इदमेव । येन केन प्रकारेण महाविद्यालयः प्रतिष्ठां लभेत । मूलतत्त्यानां हानिस्तु अप्रधाना । अतीते वर्पचतुष्टयेऽविरतमहं सन्धि कर्तुं प्रयते। परं परिणामस्तु केवलं विवादः । विद्यालयावहिः किमप्यन्यत्कार्य सदस्यैर्न स्वीकर्तव्यमिति नियमः सम्मतः । तथापि गोखलेमहाशयैः सार्वजनिकसभायाः कार्यवाह- पदं स्वीकृतम् । तत्पदं स्वीफर्तुं प्रथममहं विज्ञप्तः। परं मया तन्न स्वीकृतम् । अन्ते संस्थायाः सभायां मद्विपयको निन्दाव्यञ्जकः प्रस्तावः कृतः । तेन संस्थायां ममास्तित्यमशक्यं जातम् । सर्वेपां मार्गे अहमेवैकः कण्टकः । परमाणुरिव मे दोपः पर्वतीकृत्य दर्शितः । अध्यापनकर्मण्यपि अयोग्यो- ऽहमित्यपि कैश्चिदुक्तम् । एतादृशी यत्र स्थितिस्तत्र कथं, किमर्थ वा स्थातव्यम् ? केचित् वदन्ति — स्वार्थत्यागो नाम केवलं दम्भः । आन्तर. कोऽपि हेतुस्तु आत्मश्लाघा, आत्मप्रतिष्ठा' इति । परं तत्त्वभ्रष्टाः के इति कोऽपि मतिमान् विमृशतु । अन्यच्च । मूलतत्त्वविरुद्धं बहुमतं मन्तव्यं वाऽवमन्तव्यमित्यपि प्रश्न एव । बहुमते जाते संस्थात्याग आवश्यकः। युप्मामिस्तत्त्वानां परिवर्तनं विधीयते । परं तेषामपि परिपालनं न कियते । तत्त्वविरुद्धवर्तनं यथा युप्माभिः क्रियते तथाऽस्माभिरपि इत्यारोपो मयि कियते । सोऽप्यसत्य एव ।

'अध्यापनपर्व ३९ ममापि केचन दोपा विद्यन्ते एव । वाक्शरैरहमन्यास्ताइयामि । परं तत् तत्त्वप्रतिपादनार्थ संस्थाहितार्थ च । ममास्तित्वे सति संस्थायां यदि निरन्तरं कलहा एव भवेयुस्तर्हि मम संस्थापरित्यागः एव योग्यः। अद्य महाविद्यालयत्यागेन मया जीवितसर्वस्वं परित्यक्तमित्यहं मन्ये। परं नान्यागतिः इत्यलम्"। सुविस्तरमेतत्त्यागपत्रम् । वादविषयस्तु मूलतत्त्वानि । एक मूल- तत्त्वमिदम् ' संस्थासदस्यैः सर्वकालं देहबुद्धिवलमर्पयित्या - कायेन, याचा, मनसा संस्थाकार्य कर्तव्यम् । व्यवसायान्तरेण लब्धं धनं संस्थायाः । न सदस्यस्य' इति । एतत्तत्त्वविरुद्धा आपटे-गोखलेमहाशयाः। तत्त्वखण्डनं न केनापि कृतम्। लोकमान्यमतं न्यायतो युक्तमेवासीत् । परं लोकसत्तायुगे बहुमतेन किं न परिवर्त्यते । बहुमतस्याने लोकमान्या अपि हताशाः । अतः संस्थापरित्याग एव परम् । स त्यागो लोकमान्यैः कृतः । संस्थापकानामुद्देशस्तु एप:- 'जेसुइट'लोकानां धर्मसंस्था इवेयं शिक्षणसंस्था स्वार्थनिरपेक्षं लोकशिक्षणकार्य विध्यात् इति । अनया शिक्षणसंस्थया शासनसंस्थायाः द्रव्यसाहाय्यं स्वीकार्य न या इत्यप्येको वादविषयः । द्रव्यसाहाय्यग्रहणे वादो व्यर्थः । शासनसंस्थायाः धनं प्रजानामेव । लोककल्याणार्थ शासनसंस्थातः प्रजाधनस्यादानं न दोपावहम् । तस्य स्वीकारेण कियती स्वातन्त्र्यहानिः स्यादित्येय प्रभः। स्वीकरणमप्रधानम् । शानदाने यदि स्वातन्त्र्यहानिः स्यात्तर्हि साहाय्य- स्वीकरणमनुचितमेवेति लोकमान्यानामभिप्रायः । संक्षेपेणात्रापि इदमेव दृश्यते-- अतिपरिचयादवज्ञा संततगमनादनादरो भवति । प्रारम्भे प्रथमश्रेण्यां वर्तमानाः केचन विद्वांसः समानोदेशेन लोक- हिनयुद्धपा, स्वयंस्फूया किमपि राष्ट्रकार्य फर्नुफामा एकत्र समागताः, समान- लोकमान्यटिळकचरितम् ध्येयपूर्तये विद्यालय तथा महाविद्यालय स्थापयित्वा विद्यादानेन, मुद्रणालयं संस्थाप्य वृत्तपत्रसम्पादनेन, धनसम्पादनयोग परित्यज्य स्वार्थत्यागेन, कार्यान्तरं संन्यस्य कर्तव्याचरणेन, निष्ठापूर्वकं लोकशिक्षणकार्य कंचित्कालं विधाय, पररपरगुणावगुणज्ञाने समुत्पन्ने, प्रकृतिभिन्नत्वात् राजकीयसामा- जिकधार्मिकविषयेषु मतभेदे तीने जाते, मिथः अनादरेण कायेन वाचा मनसा च सुदूरमपयाताः । उक्तं च-- यथा काष्टं च काष्ठं च समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥

३ प्रजागरपर्व १ क्राफर्डमहाशयः 'डेक्कन एज्युकेशन सोसायटी 'संस्थापरित्यागे किं कर्तव्यमिति लोकमान्यैर्मनसि निश्चितं दृश्यते । राष्ट्रियसभाकार्यमासीत् । परं तत्कार्य प्रथमं शिथिलतां गतम् । मुम्बईप्रदेशपरिपदोऽधिवेशनं पुण्यपत्तने जातम् । तदपि न विशेषकार्यप्रवणमभूत् । अतस्तस्याः कार्यवाहपदे टिळक-नाम- जोशी-गोखले इति त्रयो युयानो नियुक्ताः । अन्यदेकं प्रकरणं समुद्भूतम् । क्राफर्डनामकः कश्चित् प्रशासको न्यायाधिकारिभ्यः उत्कोचं स्वीकरोति स्म । उत्कोरदाता ग्रहीता च उभा- वपि दोपार्हो दण्डयतां गतौ। उत्कोचदानापराधस्वीकारविषये शासनसंस्थया न्यायाधिकारिभ्यः प्रतिश्रुतम् ' यदि न्यायाधिकारिणः सत्यं कथयेयुस्तर्हि ते दण्डारे न भवेयुः' इति । अतः शासनसंस्थामिपचनानुसारतो न्यायाधि- कारिमिरात्मनो दोपोऽगीकृतः । अतो न ते दण्डनीया इति केसरिपत्रे लोकमान्यैः प्रतिपादितम् । उत्तोचदानदोपेऽगीकृते न्यायाधिकारिणामधि- फारस्थानं नष्टम् । तेपां सेवावेतनमप्यवरुद्धम् । माफर्डनामा प्रशासको बुद्धिमानुदारमनस्कः सुखासीनः । परम् उत्कोचमहणशीलः । रत्नागिरिभूमिभागं स आत्मनो जन्मभूमिममन्यत । 'कोंकणी भाषा तेन लीलयाऽऽत्मसात् कवा । विनाऽऽयासं स तस्यां यक्ति स्म । फडकेनामकस्य कस्यचिद्धनिकम्य गृहे स बहुयारं गत्या तत्र यथेच्छं लेह्यपेयचोप्यखाद्यपदार्थानुपभुज्य प्रत्यागच्छति स्म । एतादृशोऽस्य स्वभावः । आइग्लदेशीयप्रमदाभ्यः स मौक्तिकहारोपायनं यच्छति स्म । उत्कोचस्वीकारणेतत्सर्व फतुं स ममोऽभूत् । 'पंटसे नामकः काफईमहाशयस्य परिचितः कश्चित् पुरुषः दलोच. दानमहणपरीक्षणे शासनसंस्थया नियुक्तः । आत्मनो निदेशस्तेन नि:पक्ष. पातयुद्धपाऽनुष्टितः न्यायाधिकारिभिपत्मनः उल्कोचदानशेषोऽद्गीकृतः । तेभ्यः क्षमाऽपि प्रतिश्रुता । हणमंतरायनामा कधित पुस्पः अनेनापराधेन ४२ लोकमान्यटिळकचरितम् दण्डितः । अधिकारभ्रष्टः क्राफर्डमहाशयः पलायने मतिं कृत्वा मुम्यापुरी गतः । परं राजपुरुपैस्तत्र स निगृहीतः । तस्यापराधपरीक्षणेऽभियोगमकृत्वा एका समितिर्नियुक्ता । लोकमान्यायाधिकारिणां पक्षः स्वीकृतः । 'सीतारामपंत चिपळुणकर -श्रीधर विठ्ठल दाते-ज्ञानप्रकाशवृत्तपत्र'मित्यादिभिरन्यः पक्षोऽनुगृहीतः। समित्या क्राफर्डमहाशयो दोपान्मुक्तः । परं स्वकीयपुरुपैर्लोकेभ्यः ऋणं स्वीकृतमितिदोपेण स राजसेवावृत्तितो दूरीकृतः । एवम् उत्कोचदाता अपराधी, ग्रहीता च निरागाः ! न्यायाधिकारिणोऽपराधस्वीकारेणाभियोग- भीतिग्रस्ता अभूवन् । तेभ्योऽभयं दातुमेका लोकसभा निमन्निता । तस्यां लोकमान्यायाधिकारिणां पक्षः सम्यक् प्रतिपादितः । इदमेव लोकमान्यानां सभायां प्रथमं व्याख्यानम् । अनन्तरं शासनसंस्थाकृतप्रस्तावेन केचन न्यायाधिकारिणोऽधिकारपदे पुनः प्रस्थापिताः । केचन पद्मटाः । अस्मिन् प्रकरणे लोकमान्यैराग्ल- देशेऽपि लोकसभायां परिप्रश्नविपये प्रारब्धः समुद्योगोऽवसराभावे विफलो जातः । कालान्तरेण शासनसंस्थादृष्टिरपि सौम्या बभूव । गच्छता कालेन कैश्चिन्न्यायाधिकारिभिः ' रावसाहेब, रावबहादूर' इति सम्मानपदमपि लब्धम् । २'केसरि-मराठा' --वृत्तपत्रद्वयम् शिक्षणसंस्थापरित्यागानन्तरं जीवना) कञ्चन धनोत्पादनोद्योगो लोकमान्यैः समाश्रयणीय इति सम्प्राप्तम् । अतस्ते: ऋणं कृत्वा एका कर्मशाला स्थापिता । तस्यां कार्पासबीजानि तूलादपाकुर्वन्ति । एको विधिव्यवहारा- ध्यापनवर्गः समारब्धः । १८८९ वत्सरादारभ्य १८९७ हायनं यावदेतदेव द्रव्यलाभसाधनं लोकमान्यानां जीवनायासीत् । तदनन्तरं प्रन्थिज्वरकाले से विधिव्यवहारवर्गो विरामं प्राप्तवान् । अस्य विधिव्यवहारवर्गस्य सञ्चलने सहायफा आवश्यकाः । तेभ्यो मासिकवेतनं दत्त्या लोकमान्याः प्रतिमासं सार्धशतरूपकान प्राप्नुयन् । फाले काले 'विष्णुपंत गोखले-विष्णु अनंत पटवर्धन दिनकर हरि वाकनीस- लक्ष्मण रघुनाथ गोखले नरसिंह चिंतामण केळकर'प्रभृतयो विधिव्यवहार. है प्रजागरपर्व शिक्षणे लोकमान्यानां सहायकाः । मनुयाज्ञवल्क्यादिप्रणीतस्मृतिशास्त्र- पारड्गतानां तेषां तद्विपयकव्याख्यानश्रवणार्थमन्येऽपि नागरिकाः समा- यान्ति स्म। अन्यदुपजीविकासाधनं द्रष्टुमेतत्कारणं यदेतायत्कालपर्यन्तं केसरि- पत्रस्य सम्पूर्णस्वामित्वं न लोकमान्यानाम् । केसरिपत्रं तैः सम्पादितम् । मराठापत्रं फेलकरमहाशयैः । मुद्रणालयकार्यावेक्षणं गोसलेमहाशयानाम् । बहुग्राहकं फेसरिपत्रम् । न तथा मराठापत्रम् । तत्तु सदैव व्ययकारि । मुद्रणालयकार्य लाभकरम् । ऋणग्रस्तमेतत्सर्वम् । पत्रद्वयं मुद्रणालयश्च सर्व केनाप्येकेन एव ग्राह्यमिति सर्वेषां मतम् । पण्डिता रमादेवीप्रकरणे पुनरेकदा फेसरि-मराठापत्रयोलेंसने विसङ्गतिर्दृष्टा । अत एवैतनिश्चितम् । एकतः केसरिमराठावृत्तपत्रद्वयं सप्तसहस्ररुपकाणाम् ऋणं च । अन्यतो मुद्रणालयः चतुर्दशसहस्रस्पकाणाम् ऋणम् । कोऽपि विभागः फेनापि ग्रहीतव्यः । अन्योऽप्येकः समयोऽवर्तत । मुद्रणालयं यो ग्रहीप्यति तेन नान्यवृत्तपत्रं सम्पादनीयम् । गोसलेमहाशयानां मनस्येवं महामीतिरासीत् यल्लोकमान्या मुद्रणालयं गृहीत्वाऽन्यत् पत्रं सम्पादयिष्यन्ति । तथाभूते आगरकरमहा- शयानां ' मुधारक पत्रमिय केसरिपत्रमपि विलयं गमिष्यतीति । लोकमान्य- सम्पादितं केसरिपत्रमतीय लोकप्रियं जातम् । वृत्तपत्रसम्पादने गोसले- महाशयानां न तथा शक्तिर्यथा लोकमान्यानाम् । अतोऽयं समयः । स्यमत- प्रचाराय महत्साधनं वृत्तपत्रमिति लोकमान्यनिश्चित्य केसरि-मराठावृत्त. पत्रद्वयं तथा सप्तसहस्ररूपकाणामृणं स्वीस्तम् । एवं समये जाते वृत्तपत्रयोः सम्पूर्ण स्वामित्यं लोकमान्यानां जातम् । लेसनविषयिणी पूर्वोल्लेखित्ता विसद्गतिरप्यन्यद्विभागकारणमासीन् । किंचिद्विस्तरेणान्यत्र तग्निरूपयिष्यते । पण्डिता रमादेवीप्रकरणे केसरि- मराठापत्रयोर्विवादः । प्राध्यापककेळकरमहाशयमराठापने एवं लिसितम् "शारदामदनविद्यालयेऽध्ययनं पुतीभिर्यालिनाभिरद्यापि निस्तधर्मो न घीयत । तस्माद्बालियानां शिक्षणदानिः किमयं तव्या? न योऽपि लाभोऽनया विरुद्धटीकया । परं तामां मातापितरौ अनया टीग्या ताः पाठशलां न प्रेपिप्यन्ति" इति । फेसरिपप्रमुद्दिश्य एतदुपदिरम् ।

४४ । " लोकमान्यटिळफचरितम् सनातनमतानुसारतः शारदासदनेऽध्यापनं कर्तव्यमित्यपि तैः कथमपेक्ष्यते। न कुर्वन्ति ते ईपदपि द्रव्यसाहाय्यम् । रमादेवीमुद्दिश्यैतत् सूचितम् शारदासदनसंचलनार्थ प्रतिष्ठितविदुपामेकं मण्डलं स्थापयितव्यम् । तथैव धर्माचारपालने कियत् स्वातन्त्र्य बालिका लभन्ते, खिस्तधर्मप्रचारे तास कियान सम्बन्धः, इत्यपि उद्घोपितव्यम्" इति । अस्योपरि केसरिपत्रेण स्पष्टं लिखितम् "शारदासदनसंस्था ख्रिस्त- धर्मप्रचारिणी मत्वा ये केचन स्वबालिकाः शिक्षणार्थं तत्र प्रहितुमिच्छन्ति तैरेयं मनसि निधाय तथा कर्तव्यम्" इति । इदं लेखनमन्ततो विधि- घशात् सत्यं जातम् । शारदासदनसंस्था निस्तधर्मप्रचारिण्यासीत् इति तु सूर्यप्रकाश इव स्पष्टमभूत् । अनेन कारणेनैतनिश्चितं यत् केसरि-मराठापत्रयोविरोधः परिहर्तव्य इति । अथ स परिहर्तव्यश्चेत् प्रथमनिर्दिष्ट विभागोऽवश्यो भवति । एवं 'केसरि-मराठा' इनि वृत्तपत्रद्वयं सम्पूर्णतया लोकमान्यैठणसहितं स्वामित्वेन स्वीकृतम् । मुद्रणालयो गोखलेमहाशयैः । ३ विवाहकालमर्यादा लोकमान्यकृतान्दोलनानि कानिचिन्नूतनानि कानिचित् पूर्वकाल- विवादविषयकाणि । सर्वाणि तानि लोककल्याणदृष्टया अपरिहार्याणि । लोकमान्यास्तेषु सर्वेषु यशस्विनोऽभूवन्निति तेषां वैशिष्टयम् । यावतांशेन प्रतिपक्षः प्रवलः, दुर्बलश्च स्वपक्षः, तावतांशेन लोकमान्यानां तेजो, धैर्य , कुशाग्रबुद्धित्वं, प्रत्युत्पन्नमतित्वमित्यादयो गुणाः प्रकर्पण प्रकाशन्ते । साम्प्रतमेते विपया ऐतिह्याः । परं तत्कालीनसमाजस्य सम्यग् ज्ञानाय तथा लोकमान्यानां गुणदर्शनाय कर्तृत्वविकासाय चैतेषां ज्ञानमावश्यकम् । ईशैरेव प्रसङ्गैर्लोकमान्या मान्यतां गताः । एते ते केचन विषयाः (१) विवाहकालमर्यादानियमः (२)'चहा'प्रकरणम् (३) रमादेव्याः शारदासदनम् (४) हिन्दुधर्मिणां महम्मदधर्मिणां च कलहः (५) राष्ट्रियसभामण्डपप्रकरणम् इति । 'मलबारी' श्रेटिना आङ्ग्लभूमौ प्रसिद्धिं नीते कार्यक्रमे एते विपया आसन् (१) द्वादशवर्षीयया विवाहितकन्यया सह सम्भोगे कृते भर्ता प्रजागरपर्व विधिना दण्डनीयः । (२) वलेन पतिगृहवासाय भर्नाऽभियोगो न कर्तव्यः । (३) कन्यायाः पुत्रस्य वा विवाहो जनकेन कदाऽपि कार्यः । अस्मिन् विपये ज्ञातिजनैन किमपि वक्तव्यम् । (४) विवाहे शैशवे जाते मियः अप्रिययोः पतिपत्न्योविवाहभङ्गः सम्मतो भवेत् इत्यादयो विषयाः । कार्यक्रमपत्रिकास्थितप्रथमविपये एव महान् संघर्पः समजायत । विवाहकालमर्यादायाः इदमेवान्दोलनम् । तेन अन्यप्रदेशेवपि लोकमान्यां लब्धकीर्तयोऽभूवन् । 'याळासाहेब नातू 'प्रभृतिसनातनधर्मवादिभिरेका समा निमन्त्रिता । तस्याः मतं जनानां सामाजिकरूढिपु तथा धर्मविपयेपु शासनसंस्थया परिवर्तनं न कार्यम् इति । कैश्चित् सुधारकैरुपसूचनाः प्रहिताः । रूढिपु या धर्मविपयेषु या शासनसंस्थामतपरिवर्तनमसम्मतं तेषाम् । परं कालोचितसुधारणा आव- श्यकी । सूचनानामाशयस्तु अयम् (१) आपोडशवर्षात् बालिकानां विवादो न कार्य:, विंशतिवर्षात् प्राक् यालानाम् । (२) चत्वारिंशत्समाभ्यः ऊर्ध्व पुरुपेण वियाहो न कार्यः । यदि कार्यः स्थान तर्हि विधयया सहेव । (३) मद्यपाननिषेधनियमाः। (४) परदक्षिणादिः नियमेन प्रतिपेद्धव्या इति । शासनसंस्थाये निवेदनं प्रेपणीयमिति सभायां निश्चितम् । सभायां मदान विवादः समजायत । मुधारफेरन्या सभा निमन्त्रिता । विधिमण्डले विधिप्रलापः स्फोयल'महाशयः पुरस्कृतः । पूर्णद्वादश- पपीणि वियाहफालमर्यादा । तत्ममर्थने फारणद्वयं दत्तम् । एर्फ व्यभिचार- प्रतिषेधः अन्यन् पाल्ये मम्भोगनिपेधा धर्माचरणे विना हसझेपं भारत- यालिकानां सम्यग्रमणं भवेदित्यपि नेः प्रतिपादितम । 'रमेशचन्द्र मित्रः' विरोधः प्रदर्शितः । गलफरमहाशयः मम्मतिः प्रदर्शिता । राजप्रतिनिधिना पथितम् 'सम्राक्ष्याः आतापरे प्रति नानां यचनानामनेन न भड्गो न या धमांचरणे दमझेप: । सरमान विधिप्रस्तायो पिचारादः' इति । फेमरिपत्रे लेकमान्यः प्रदर्शिनः राजप्रतिनिधिमाश्गदोषः । द्वार- परमार प्रातुमयः पयाः गर्भाधानगरवारोऽनन न मम्मपनि । गंधारे विधिभगः। अपने भनंदानि: । अपमेय मांगारे हनशेपः । 'सोयल'मदायेन एथिमम् ' प्रतिशत पा पन्याः नारायणंग मार .

- लोकमान्यटिळकचरितम् ऋतुमत्यो भवन्ति । तेनैवाधारेण केसरी गर्जति 'प्रतिशतं पश्च भर्तारः कारणं विना अनेन विधिना दण्डाही भवन्ति । राजनियमाद्धर्मशास्त्रं बलीयः'। तेलंग-नूलकरादयो वदन्ति 'परित्याज्या रूढयः' । 'भाण्डारकर'महाशया- स्तदेव शास्त्राधारेण प्रतिपादयन्ति । तेषां खण्डनं काटतरम् । तथापि स एव लोकमान्यानां बुद्धिप्रकर्षनिकपः । महताऽऽदरेण क्षमा याचित्वा लोकमान्या लिखन्ति- गुरुं वा वालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ।। एतदयतरणं दत्त्वाऽग्रलेखे लोकमान्यर्भाण्डारकरमहाशयानां खण्डनं कृतम् । प्रथमः प्रश्नः विवाहकालस्य । यद्यपि सूत्रकालात् प्राक् प्रौढवधूनां विवाहा जातास्तथाऽपि मूत्रकालानन्तरमेपा विवाहकालमर्यादा सड्कोचं गता । ऋतुप्राप्यनन्तरं वर्पवयं कन्यया प्रतीक्ष्यताम् । तदनन्तरं सा स्वय- मेव घरं विन्देत । नायमस्यार्थः यद् ऋतुकालात्पूर्व कन्यानां विवाहा मा भूवन् । कन्यानुरूपवरसम्भवे अष्टयपदेशीयानां कन्यानामपि विवाहः शास्त्रविहितः । द्वितीयः प्रश्नः गर्भाधानकालस्य । अस्मिन् विपये भाण्डारकर- महाशयानां प्रधानाधार: आश्वलायनगृह्यपरिशिष्टम् । तद्तवचनानामेभिरर्थ- विपर्यासः कृतः । गर्भाधानसंस्कारः प्राजापत्यहोमश्चैकस्मिन् एव काले कर्तव्यो । भाण्डारकरमहाशयाः प्रतिपादयन्ति 'एतो द्वौ विधी पृथक् स्तः' । अयमेय तेषां मिथ्यापहः । यदि द्वादशवर्षेभ्यः प्राक् कन्या ऋतुमत्यो भवन्ति तह प्रथमे ऋतो कर्तव्यः संपारो द्वादशवर्षेभ्यः प्रागेय कर्तव्यः । धार्मिको- ऽयं विधिः शास्त्रविहितः । अनेन विधिनियमेन एतादृशः पतिः अपराधी भविष्यति । अयमेव धर्माचरणे हस्तक्षेपः । शोभनो दृष्टान्तो लोकमान्यैः दत्तः - अग्निरथानां वेलापत्रके लिखितम् ‘एकोऽमिरथः पुण्यपतनात् भौमयासरे प्रस्थाय भोमयासरे सायं मुम्यापुरीं गमिष्यति' अस्मिन पाक्ये द्विनिदिटो भौगयासर. एक एव । न अन्यसातादे वर्तमानः । तम्मान एकतो धर्मदोपः । अन्यत. शासनसंस्थानियमभद्गः । नियमभङ्गान् भाभङ्गो पलीयान्" इति ।

प्रजागरपर्व । एवं स्वमते केसरिपत्रेण प्रकटीकृते सनातनपक्षीया धर्ममार्तण्डास्तथा मुधारकपक्षीयधुरीणाः सभासु अनुकूलं प्रतिकूलं भापमाणा. निजपक्षसमर्थन- मकुर्वन् । वड्ग-विदर्भ-महाराष्ट्रादिदेशविभागेषु अस्मिन् विधिप्रस्तावविषये महान् सघर्पोऽभूत् । स्थाने स्थाने धर्मशास्त्रसभासु एष एव विदुषां निर्णयो यदेप विधिप्रस्तावः शाखविरुद्धः । सुधारकैः पुण्यपत्तने एका सभा निमन्त्रिता । प्रवेशद्वारे निवेदने स्वनाम लिखित्वा शासनानुफूलैरेय सभा प्रवेष्टव्या इति नियमेन सभास्थान जनः प्रविष्टः । अल्पसङ्ख्योऽयं जनः । यहिश्च महान् जनसम्मदः । अस्यामेवावस्थायां निवेदनं वाचयित्वा सभा विसर्जिता। परं तत्रापि महान् कलहः सम्भूतः । स कलहः कंचित् कालं विवादविपयोऽभूत् । अन्येयुः पञ्च पुरुपा राजपुरुपैर्निगृहाभियोगेन न्यायालयं नीताः । परं प्रमाणाभावेन ते सर्वे न्यायाधीशेन दोपान्मुक्ताः । अनुकूलप्रतिकूलमतप्रदर्शने प्रतिकूललोकमतमधिकम् । तदुपेक्ष्य शासनसंस्थया विवाहकालमर्यादाप्रस्तावो विधिमण्डले सम्मतः कृतः । एवं दूरीभूतेऽस्मिन् वादविपये मुम्यापुर्यामन्यो वादविषयः समुत्पन्नः । भाण्डारकरमहाशयानां द्वादशवर्षदेशीयकन्यायाः पतिर्विवाहादूर्ध्वमचिरात् दुर्दैववशात् पञ्चत्वं गतः । 'पागंदीकरमहाशयेन सह तस्याः पुनर्विवाहो भाण्डारकरमहाशयैः कृतः । अनेन पुनर्विवाहेन प्रक्षुब्ध. सारस्यतसमाजः समामेकां निमन्त्रितवान् । तस्यां सभायां धर्मगुरुणा दास्यमाननिर्णयः सर्वे- मन्तव्य इति सूचिते केनापि आततायिना तरणेन सभाध्यक्षं प्रति पादत्राणं प्रक्षिप्तम् । प्रक्षुब्धश्रोतृगणेन सभा उद्ध्वस्ता कृता । एवमुभयपक्षीयजनैमर्यादाऽतिक्रमणं कृतम् । राजशासननिर्यन्न सामाजिक सुधारणा कर्तव्या इति सुधारकाप्रणीनां मतं लोकरुचये नाभून् । अस्मिन् विपये लोकमान्या अधिकं दोपाही इति सुधारयाणां मतम् । यतस्तैः प्रतिपादितम् 'सामाजिकविपये लोकमतपरिवर्तनमानश्यकम् । राजशासन लोकोमाय कल्पेत' इति । म्यगतसमर्थने अयं पादत्राणप्रक्षेपणमसनः मुधारमाणां प्रभूनमुपकारको जानः ।

४८ टोकमान्यटिळकचरितम् ४'चहा'पानम् 'चहा'पानम् । अहो श्रुतिमनोहरोऽयं शब्दः । अस्य श्रवणमात्रेणैव केपांचिन्मुसं लालायते । सान्प्रतं प्रतिगृहं पर्तमानः साधारणोऽयं विपयः। प्रमाते उत्थाय किं कर्तव्यम् इति प्रश्न तस्य प्रथममुत्तरम् 'मुखप्रक्षालनं कृत्या, अकृत्वाऽपि प्रथमं चहापानं कर्तव्यम् । पश्चात् प्रातःस्मरणम्' इति । "प्रातःकाले लघुलघूत्थाय अग्निं (स्टोव्ह) प्रज्याल्य, तदुपरि चहापान निधाय, तस्मिन् किश्चित् शर्करां निक्षिप्य, ममीपे चहाचूर्ण दुग्धपात्रं च संस्थाप्य, मुसं प्रक्षालयेत्' इति चहापानस्मृतिः । कतिवारं चहापानं कर्तव्यमित्यस्मिन् विपये अनियमोऽस्तु । शान्ति-विश्रान्ति-आराम-विश्राम- सदनादिपु साद्यपेयादिपदार्थविक्रयस्थानेषु जना यथारुचि, यथाशक्ति, यथाकालं चहापानं कुर्वन्ति । कश्चिन्नरः कस्यापि जनस्य दर्शनार्थ गच्छेत्तर्हि तस्य स्वागतार्थ चहापानं प्रथमम् । अध्ययनं कुर्याणारछात्राः परीक्षाकाले रात्रौ जामतः प्रतिमुहूर्त चहापानार्थ व्याकुलीभवन्ति । काचित् गृहिणी कार्या- र्थमन्यगृहं गच्छेत् चेत् गमनपाले सौभाग्यतिलकार्थ यथा कुडपुमं दीयते वथा स्वागतार्थ चहापूर्णपानमपि दातव्यमिति नियमः । कुपिताय कान्ताय प्रसादयितुपामया पान्तया चहापूर्ण पानं प्रदेयम् । प्रक्षुब्धयोर्दम्पत्योरपत्या- भावे चहापानेन सम्मीलनं भवति । शिष्टसम्प्रदाय एपः । प्रतिष्ठास्थान- मेतन् । कार्यसम्पादनसाधनमिदम् । कार्यफलनिष्पत्तेः प्रसादोऽयम् । यशीयसोमरसस्य नूतनावतारोऽयम् । देवपूजना समागताय श्रोत्रियाय पूजनान्ते पहादानेन यजमानः पूर्णकामो भयति । यहुविस्तृतमेतमहाशाखम्। सोकमान्यालेऽपि चहापानस्य एतादर्श माहात्म्यं दृश्यते । धर्म- विषयेषु समाजविपयेषु अनेन प्रतिष्ठारथानं सम्पादितम् । लोपयार्यधौरेयेपु अनेन चहापाननाफरमादेय महान् सङ्घर्षः ममुत्पन्नः । 'गोपारराय जोशी'नामा पश्चिनरो यिनोरमूर्तिरिति प्रधित आसीत् । परम, उपद्रपपारी राम्य विनोद. । ममाजोपकारकं सम्प पत्यं तु गफम् । मेन मापली 'आनन्दी नाम्नी परवानाध्ययनार्थम् 'अमेरिका दे प्रदिना । सपाऽपि न महता पटेन 'एमटी.'शी पसी सम्पारिता ।

-प्रजागरपर्व भापणे आचरणे च निक्षिप्तोऽय पुरुप । हिन्दुधर्मोपहासाय तेनैक्दा निस्तधर्म स्वीकृत्य पुन हिंदुधर्मपद्धत्या भारप्रदेशे सुदीर्घ चन्दनतिरक कृत्वा सिस्तधर्मप्रचारकै सह विवाद कृत । अनेन तस्य विक्षिप्ताचरणेन न हिन्दुधर्मी न वा निस्तधर्मी एतादृशी तस्यानस्था जाता । सनातनधर्मिण- तथा सुधारकान् स मीरुनमन्यत । अयैकदा अस्य जोशीमहाशयस्य मनसि सुशिक्षितसुधारकाणा परि- हासायेका लोकविलक्षणल्पनाऽस्फुरत् । निस्तधर्मप्रचारकै सह तस्य दृढ परिचय आसीत् । अत स सिस्तधर्मप्रचारकाणा विद्यालयस्य मुरयाध्यापक- मुखेन सुधारणाप्रियेभ्य सुशिक्षितेभ्य क्स्यचित् सिलधर्मप्रचारकस्य व्यारयानश्रयणार्थ निमन्त्रणमदापयत्।आङ्ग्लभापाप्रिया 'माधवराव रानडे लोकमान्यटिळक 'प्रभृतय सर्वे सुधारका ज्ञानोलुपा ‘पञ्चहौद-मिशन'- नामिकाया निस्तधर्मप्रचारिण्या सस्थायामुपस्थिता अभूयन् । उपस्थितेषु प्रतिष्ठितेपु न केनापि किश्चिदपि अशक्यत । व्यारयानावसाने सर्वेपा- ममत अपूपसहित चहापान प्राशनार्थ निहितमासीत् । अधुना कि वर्तव्य- मिति प्रश्न श्रोतृगणस्य मनसि समुद्भूत । उक्त च भगवद्गीतासु-- किं कर्म किमकर्मेति करयोऽप्या मोहिताः। इति । केचिदेच्छन् ' यद्येतग्रहापान पुरत स्थापित न स्यात्तर्हि चरम्। अन्येऽमिलपन् 'पुरत स्थितमेतचहापान यदि फेनाप्यपनीत स्यात्तर्हि परम् । अपरेऽचिन्तयन् ' यद्येतचहापानमस्भामिर्न स्वीकृत तर्हि एते धर्म- प्रचारका अरमानुपहसेयु ' इति । एव स्थिते कानिचिचहापानाणि रितान्य भवन् । कानिचित्तथैवातिष्ठन् । परम् ‘गोपाख्यान जोशी'महाशयेन पुणे धैभव'नामके वृत्तपने 'पञ्चहीद-मिशन'सस्थाया व्यारयानश्रवणायो- पस्थितानामनुपस्थितानामपि मुधारपाणा नामानि मुद्रितानि । चहापानमपि वयाभूदिति सन्दिग्धोलेर त । अनया पुणेवैभववृत्तपत्रस्थपातया महाननः सम्भूत । सनातनधर्मा मिमानिना 'नात् 'प्रभृतीनामे पक्ष । मायपराप रानडेप्रभृतीना प्रति- ५० लोकमान्यटिळकचरितम् ष्ठितसुधारकाणामन्यः पक्षः । बुद्धिमन्तो दक्षिणा अपि लोकमान्या अस्मिन् चहापानप्रकरणे जोशीमहाशयेन वञ्चिताः । धर्मप्रकरणमिदं निर्णयार्थं श्रीमच्छङ्कराचार्यपादपीठं गतम् । सनातन- पक्षीय नातू'प्रभृतीनां कृपादृष्टिः लोकमान्यानामोप्ठश्मश्रुराजिपु । परम् आचार्यपादनियुक्तपण्डितसमित्या लोकमान्या न प्रायश्चित्तार्हा इति निर्णीतम् । यतस्तैः पूर्वमेव काशीक्षेत्रे प्रायश्चित्तं गृहीतमिति प्रमाणपत्रं दर्शितम् । अतरते दोषान्मुक्ताः । रानडेप्रभृतिभिरष्टमिः स्वयमेव ज्ञाताशातदोपनिर- सनार्थं प्रायश्चित्तं ग्रहीतव्यमिति निर्णयः कृतः । कैश्चिदेप आदेशोऽनुष्ठितः। कैश्चित्तिरस्कृतः । राजसत्तापुरस्काराभावे धर्माधिकारिणामधिकारा दुर्बलाः । अतः शुक्लकृष्णाविति द्वौ पक्षौ समुद्भूतौ । सनातनपक्षीयाः शुक्लपक्षेन्दुवत् शुक्लाः, शुद्धाः यतस्तैः पञ्चहौदमिशनसंस्थायां पदमपि न निहितम् । व्याख्यानश्रवणलोलुपा ये तत्र गतास्ते कृष्णा अभूवन् , यतस्तैर्धर्मभ्रष्टकर चहापानं कृतम् । कृष्णाः शुहिप्कृताः । अस्मिन् विवादे आगरकरमहाशयैलिखितम् “ वैदिकधर्माभिमानिनो लोकमान्या न केवलं सिस्तधर्मप्रचारकाणां गृहे चहापानं कुर्वन्ति, अपितु अग्निरथविश्रान्तिस्थाने यवनैः पाचितमोदनमपि भक्षयन्ति " इति । अयं नवीनो दोपारोपो लोकमान्यैः सपद्येच निराकृतः । महदेतत् प्रकरणं जातम् अन्ते प्रमाणाभावे आगरकरमहाशया लोकमान्यान् क्षमामयाचन्त । अनेन चहापानप्रकरणेन लोकमान्यानां गृहजीयनं कटतरमभूत् । श्राद्धादिकर्मणे ब्राह्मणा लोकमान्यगृहं नागच्छन्ति । उत्सर्जनोपाकरणविधये न योऽपि विप्र. आचार्यत्वं स्वीकरोति । कन्यापुत्रयोर्विवाहोपनयनकाले न कोऽपि द्विजः पौरोहित्यमद्गीकरोति । एतानि सङ्कटानि कथमपि निरस्तानि । परं भोजनादिविपये पानिप्पत्तये सूदा अपि दुर्लभा जाताः । वियाहादिमङ्गलकार्येषु समागतानां मित्रनान्धवानां स्यागतं भोजनं विना फथं स्पादित्ययं फठिनः प्रभ । सर्वाण्यपि एतानि सङ्कटानि महता धैर्येण लोकमान्यः विसोढानि । जनानां विवाहादिसंम्बन्धाः फष्टसाध्या.। वियाहिस. पधूनां पिनृगृहगमनं दुर्लभं जानम् । पुरोहितवर्गस्य पौरोहित्यं द्विधा भूतम् ।

प्रजागरपर्व रानडेमहाशयेश्वहापानदोपनिरासार्थ प्रायश्चित्तं स्वीकृतम् । तदपि लोकसङ्ग्रहार्थम् । वस्तुतस्तु विन्दुमात्रोऽपि चहारसस्तै स्वादितः । लोक- मान्यैः सर्वप्रायश्चित्तं गृहीतम् । परं न केवलचहापानदोपनिरसनार्थम् । तैरपि अनेन लोकसंग्रहः साधितः । धार्मिकसामाजिकमिश्रस्वरूपेऽस्मिन् चहापानविपये लोकमान्यैः फेसरिपत्रे रानडेपक्षः शास्त्रवचनैः प्रमाणीकृतः । पुण्यपत्तने महदान्दोलनं जातमनेन सामान्यविपयेण । गच्छता कालेन लोकक्षोभकरोऽयं विपयः स्मृतिशेपं गतः । ५ पण्डिता रमादेवी शारदासदनम्। कीदृशं सात्त्विकं, यथार्थ, श्रुतिमनोहरं खल्विदं नाम । परं राजसप्रकृतिभिः निस्तधर्मप्रचारकैः शिक्षणप्रसारमिपेण हिन्दुधर्मिणां धर्मान्तरार्यमस्य सदनस्य दुरुपयोगः कृतः। सनातनधर्माभिमानिनां मुधारणा- प्रियमुधारकाणां चेदं शारदासदनं विवादविपयं जातम् । पुण्यपत्तने मह- दान्दोलनमनेन कृतम् । जनानां सावधानार्थ केसरिपत्रे लोकमान्यैः स्पष्टमेव लिखितम् । किमिदं शारदासदनम् ? केन तत्संस्थापितम् ? कथमनेन धर्मान्तर- प्रचारः कृतः ? इति विपयोऽस्मिन् प्रकरणे द्रष्टव्यः । मंगलूर'नगरवासिनो' डोंगरे'कुलोत्पन्नस्य 'अनंत'शानिणः एका फन्या रमानाम्नी । शैशवे एव तम्या जनकोऽन्तकातिथिः सातः । तद्- दुःखदुःखिता रमाजनन्यपि अल्पेनैव कालेन पतिदर्शनमुपार्थ दियं गता। फनिष्ठभ्रात्रा श्रीनियासेन सद्द भैल्येणोपजीविकां फुर्वाणा रमा देशयागं कृत्या मामाद्धार्म परिभ्रमन्ती 'कलकत्ता'नगरी सम्प्राप्ता । श्रीनिपामः पितुः सकाशात् स्वल्पं शास्त्राभ्यासं कृतवान् । बुद्धिमती रमाऽपि संस्कृत. साहित्ये व्युत्पन्ना । पितृसान्निध्यान् सहस्रशः शोकान् मुसेन गायन्ती रमादेवी गच्छता फालेन यौवनपदवीं ममारदा। महाराष्ट्रिया याचित् पण्डिता प्रमदा प्रतिमासम्पन्ना फलकत्तानगरी समागताऽसि । तम्या पैदुप्येग विद्वांमोऽपि जनाः साश्चर्या यभूयुरिनि यार्वा गुम्यापुरीमागता । पण्टितायाः रमादेव्याः गौरवार्थ फलकत्तानगया.

लोकमान्य टिळकचरितम् मेका सभा निमन्त्रिता । व्याख्याने रमादेव्या तत्कालोचितस्त्रीशिक्षणवाल- विवाहादिविषयाश्चर्चिताः । गीर्वाणमापायां प्रश्नोत्तराणि जातानि । दैव- दुर्यिपाकात् रमादेवीभ्राता श्रीनिवासस्तत्र पञ्चत्वं गतः । अतो रमादेवी 'आसाम प्रदेशं गता । तत्र 'विपिन विहारीदास मेधावी'नाम्ना केनापि यूना तस्याः पाणिग्रहणं कृतम् । तस्मात् रमादेव्याः मनोरमानाम्नी एका कन्या जाता । परं वर्षद्वयात् प्रागेव रमादेवीपतिः 'मेधावी 'नामा दिवं गतः । अनया दुःखपरम्परया भृशं दुःखिता रमादेवी प्रथमं मुम्वापुरी गता, अनन्तरं पुण्यपत्तनं समायाता। तस्यास्तेजसा, यौवनेन, वैदुष्येण, वैधव्येन च मुग्धाः समाजधुरीणाः स्त्रीशिक्षणायेदं महन्निधानं सम्प्राप्त- मित्समन्यन्त । सनातनधर्मिणस्तु अन्यथा व्यमृशन् । पुण्यपत्तने रमादेवी आग्लभापामधीतवती । खिस्तधर्मप्रचारकाणां सहवासेन साहाय्येन च आग्लदेशं गत्वा तत्रस्थस्त्रीशिक्षणसंस्थानां सुस्थितिदर्शनेन च विमोहिता रमादेवी कन्यया सह धर्मान्तरं कृतवती । ततः सा 'अमेरिका'देशं गता । तत्र निस्तोपदेशकसंस्थानां साहाय्यं सम्पाद्य निस्तधर्मप्रसाराय सा मुन्यापुरीमागत्य वत्र शारदासदनं स्थापितवती प्रथम विधवाः, पश्चान्निराधारा. स्त्रियः सदने प्रवेशं लभेरनिति तयोरोपितम् । शारदासदने वासः शिक्षणम् इत्यादि सर्व विना मूल्यम् । यदि काचित् विधवा धनं दद्यात् तर्हि वरम् । यदि न दद्यात्तथापि न हानिः । सदनस्य मन्त्रिमण्डले रानडे-भाण्डारकरादयः समाजनेतारः सुधारका अवर्तन्त । परं सामान्यजना अस्मिन् विषये साशङ्का आसन् । 'अमेरिका देशे न्यूयॉर्क' नगरे मुद्रितेन 'निश्चन वुइफलि'नामफेन साप्ताहिकेन वृत्तपत्रेणैका याता उद्धृता । " शारदासदने साम्प्रतं सप्त विधवाः शिक्षणार्धमागताः । तासु द्वाभ्यां सिरतधर्मे भक्तिः प्रदर्शिता" इति । इमां वार्तामुलिख्य फेसरिपत्रेण सूचितम् । “ शारदासदनं यद्यपि स्त्रीशिक्षणार्थ पर्तते तथापि प्रसङ्गेऽप्रसङ्गे यदि तत्र निस्तधर्मविचारा। प्रतिपादिताः स्युलर्हि तेषां नैसर्गिको विपाको धर्मान्तरस्यीकरणम्" इति । वृत्तपत्रेप्ययं विषय: सबैश्चर्चितः । द्रव्यसाहाय्यं मा भयतु । प्रति. हितसमाजधुरीणानां नैतिकसाहाय्यमावश्यकमित्यमन्पत रमादेवी । अतो 'प्रजागरपर्व १३ मन्त्रिमण्डलसूचितानि कानिचिद्वन्धनानि तया स्वीकृतानि । अस्मिन्नेव काले ‘गोपाळराव जोशी 'नामकस्य धर्मान्तरप्रकरणं जातम् । अस्योल्लेखः पूर्व कृत एव । केसरिपत्रेण लिखितम् "येन पुरुपेण धर्मान्तरं विना पृथ्वीप्रदक्षिणा कृता, येन व्याख्यानेपु आर्यधर्मतत्त्वानि प्रतिपादितानि स धर्मान्तरं कर्तुं प्रवृत्तो भवेदिति चयं न विश्वसिमः । पुरा पितृपितामहादीनां दोपेण या स्वयं वा यैर्धर्मान्तरं कृतं तैस्तद्वधनं परित्यज्य पुनः हिंदुधर्मः प्रवेष्टव्य इत्यनेन सूचितं भवति" इति । धर्मान्तरस्यास्य परिणामः शारदासदनसंस्थायां जातः । 'हॅम्लिन'- नामिका काचित् प्रचारिका पुण्यपत्तनमागता। सुधारकाग्रणीनां साहाय्यं तया शारदासदनाय सम्पादितम् । पुण्यपत्तनेऽप्येका शारदासदनशाखा स्थापिता। तस्याः मन्त्रिमण्डले रानडेमहाशया आसन् । तेपामेतन्मतम् "को दोपो यदि विधवानां शिक्षणसंस्था खिस्तधर्मप्रचारकैः सञ्चालिता ? शिक्षणेन ताः कल्याणमेव पश्येयुः। पण्डितया रमादेव्या यदि धर्मान्तरं कृतं तर्हि तस्या अध्यापनेन किं विपरीतं भविष्यति" इति । केसरिपत्रेण लिखितम् " अनेन मन्त्रिमण्डलशिरसि जनवञ्चनदोपः पतिष्यति । ज्ञानदानमिषेण निस्तधर्मप्रचारकान् तथैव तेषां साहाय्यकान वयं हिंदुधर्मस्य हिन्दुसमाजस्यापि शत्रून मन्यामहे " इति । रमादेव्याः भगिनी कृष्णादेवी एकस्मिन् पत्रे लिखति स्म 'सदनस्थितानां नारीणां तुलसीपूजने वा देवालयगमनेऽपि वा प्रतिपेधः उपवासादिवतेप्यपि निषेधः' इति । लोकमान्यैः केसरिपत्रे परिच्छेदद्वयमुद्धृत्तम् । एकस्मिन् परिच्छेदे इदं वाक्यमासीत् “ रमादेव्याः मनसि एवमासीत् 'हिंदुविधवाः शिक्ष- यित्वा यत् निस्तधर्मसुसं मयाऽनुभूतं तदुपदेष्टुम् एताः शिक्षितविधवाः प्रेपितव्याः" इति । अन्यस्मिन् परिच्छेदे रमादेव्या लिखितम् “सिस्त- धर्मप्रसारं सुकर कर्तुमस्माकं प्रथमं कर्तव्यं तु इदमेय यत् हिंदुस्त्रीणां सामाजिकसन्धनानि विच्छिद्य ताभ्यः स्वातन्त्र्यप्रदानम् । अतो मया द्रव्य- साहाय्यं याचितम् ".इति । .

, लोकमान्यटिळकचरितम् एतं निखिलं प्रकार लोकमान्या कठोरशब्दैर्वर्णयन्ति “हिन्दुधर्म भरमसात् कर्तु नेच्छति रमादेवी । सानन्दं शिशुजनपूर्ण गृहं विलोक्य तत्रानि प्रक्षिप्य सा सदयं केवलं प्रार्थयते 'हे प्रभो, मानवेन कर्तुं यच्छक्यं तन्मया कृतम् । अतः परं सर्वं त्वदधीनम्" इति । प्रार्थनाकाले रावबहादुर महाशयाः पटहं निनादयितुं सज्जाः सन्ति । घृतकुम्भं तप्ताङ्गार च एक- स्मिन् स्थले स्थापयित्वा नरो ब्रूते 'भोः परमेश्वर, न मे दोषो यदीदं घृतं द्रवीभविष्यति । ईदृशी रमादेवी । बालिकानां धर्मान्तरदोपो रानडेमहा- शयानां शिरसि आपतेत् ' इति । अग्रे केसरी गर्जति " शासनसंस्थायाः वा निस्तधर्मप्रचारकसंस्थायाः वा पाठशालाभ्यो रमादेव्याः शारदासदनं दुष्टतरं यतः शासनसंस्था धर्मशिक्षणे उदासीना । खिस्तधर्मप्रचारकाः स्पष्टमेव निजोद्देशं कथयन्ति । परं रमादेवी खीशिक्षणावगुण्ठनेन आत्मनो धर्मान्तरोदेशं साधयितुमिच्छति" इति । अन्ततो रानडे-भाण्डारकरादयो मन्त्रिमण्डलस्य त्यागपत्रमदुः। आगर- करादयोऽप्यमन्यन्त 'शारदासदनं निस्तधर्मस्य प्रचारस्थानं वा कर्मशाला वा' इति । धर्मान्तरे महान होप इति सिद्धमभूत् । अस्मिन् काले दश वा द्वादश या स्त्रियो रमादेव्या मिस्तधर्मेण दीक्षिताः इति वार्ता प्रसृता ।अमे- रिकाखण्डस्थसिस्तधर्मप्रचारकै सह कृतो द्वादशवर्पसमयोऽपि एतेन फालेन पूर्णः । शारदासदनेन ' मुक्तिसदनम् ' इति नामान्तरं कृतम् । रमादेव्यपि पुण्यपत्तनं परित्यज्य 'केडगाव 'नामकं प्रामं गता । एवं तेजस्विनी , मेधाविनी , मधुरभापिणी , कर्तृत्वशालिन्यपि रमादेवी राजसबुद्धया आङ्ग्लभाषाशिक्षणविमूढा सत्सङ्गाभावात् संस्कारहीना भारतस्य तथा आर्यधर्मस्य शत्रुर्जाता । अवितयं जातं लोकमान्यतं भविष्यम् । एतादृशी दूरदृष्टिर्लोकापणीनाम् । ६ हिन्दु-यवनसंक्षोभः सण्डमायो भरतसण्डः । प्राचीनकाले अत्र यहूनि राज्यान्यासन् । भारतदेशमभितो वर्तमानानां णशकयवनानां धनकनकसम्पन्नेऽस्मिन् देशे सामिटापा दृष्टिपाताः । अतीतेपु पत्सरेषु न्यूनाधिकपर्पसहस्रपर्यन्तं - प्रजागरपर्व ६६ हिंदुधर्मिणो माहम्मदाश्चात्र निवसन्ति । तेषु परधर्मिषु कतिचिद्राज्यलोमा- कृष्टा अनागत्य नृपत्तयोऽभूवन । त्रिचतुःशतसंवत्सरपर्यन्तं यथा दिल्लीप्रान्ते यवनानां राज्यं तथा दक्षिणस्यां दिश्यपि केचन यवनराजान इतस्ततो राज्या- न्यशासुः । हिंदुधर्मिणां माहम्मदानां च तत्त्वज्ञान भिन्नम् , आहारविहारा- द्याचारा अपि भिन्नाः। त्रिशतसंवत्सरेभ्यः प्राग्दक्षिणस्यां दिशि महाराष्ट्रेपु महदुत्थानं सम्भू- तम् । तस्य विपाको महाराष्ट्रदेशे गोब्राह्मणप्रतिपालकशिवछत्रपतीना- मधिराज्यम् । ततः प्रभृति हिंदुधर्मिणां महम्मदधर्मिणां च धर्मविषयकाः कलहाः छत्रपतिराज्ये महम्मदधर्मिणां प्रार्थनामन्दिराणि सुरक्षितान्यासन् । तेभ्योऽग्रहाय अपि दत्ताः । परं महम्मदधर्मिणः प्रकृत्या तामसा । गोवध- विपये तथा सवाद्यप्रस्थानसमारम्भे सदैव तेषां कलहा. । अनन्तरमाइग्ल भूपतीनां राज्यं जातम् । लोकमान्यकाले भारतदेशे दक्षिणस्यामुत्तरस्यां च दिशि संक्षोभाः समुत्पन्नाः। पुण्यपत्तने समुत्पन्ने संक्षोभे लोकमान्यानां न कोऽपि सम्बन्धः । संक्षोभान समुत्पन्नेषु अभियोगेषु तेषां नामापि न श्रूयते । परं कलहोत्पन्ने राजकीयान्दोलने लोकमान्यानां नाम प्रामुख्येन विराजते । अतः प्रथम महम्मदधर्मिणां तथा सुधारकाणामपि शत्रुस्थानीया लोकमान्याः । १८९३ संवत्सरे प्रभासतीर्थे ' ताबूत'विपये महान् संक्षोभ: समु. स्पन्नः । सन्जना असजनाः तापसाः तीर्थयात्रिकाः शरीरेपु तैलं निक्षिप्य यवनैर्वहिना भरमसात् कृताः । प्रक्षुब्धा मयस्ता जना अस्य प्रकरणस्य निर्णयार्थमधिकारिणं गताः । परं तत्र न केनापि किश्चिदपि श्रुतम् । आग्लाधिकारिणामेपा व्यवस्था । मुम्बापुर्या गुर्जरदेशीयरेका परिपन्निमन्त्रिता । प्रभासपत्तनं तेषां पवित्र स्थानम् । अतो न्यायार्थ तैः प्रार्थितम् । महम्मदधर्मिभिरपि एफस्यां सभायां स्वजनरक्षणार्थ प्रस्ताव कृतः। परं सभायां जातानि आवेशपूर्ण- ध्याख्यानान्येय जनानां धर्मभावनामुद्दीपयन्ति । माहम्मदधर्मगुरुमिर्मुम्बा. पुरी तथाऽन्यानपि प्रदेशान् दूताः प्रेषिताः । उद्देशस्तु क्षोभविस्तारो महान भवेदिति ।

लोकमान्यटिळकचरितम् मुम्बापुर्या १८९३ संवत्सरे ऑगस्टमासे “जुम्मा मशीद "नामकात् प्रार्थनामन्दिरात् बहिरागत्य महम्मदधर्मिभिः समीपस्थे शिवालये आक्रमणं कृतम् । रक्षापुरुषसधेन तेषां प्रतिरोधः कृतः । परम् इदमाक्रमणं केवलं पूर्वसूचना। प्रार्थनामन्दिरे काष्ठदण्डसग्रहः पूर्वमेव कृत आसीदिति पश्चात् कृतेनाभियोगेन निर्णीतम् । दण्डहस्ता यवना हिन्दुधर्मिणां पातार्थ प्रार्थनामन्दिरान्निर्गताः । “भेंडीबझार-कामाठीपुरा-ग्रेटरोड"प्रभूतिपु,प्रमुख- खानेपु महान् संक्षोभः समजायत । हिदुर्मिणां देवालयाः भ्रष्टाः । देवतानां मूर्तयः शतशः खण्डिताः । हिन्दुधर्मिणो जीवघातं हताः । अन्यस्मिन्नहनि हिन्दुधर्मिभिरपि स्वसंरक्षणार्थ दण्डहस्तैर्महदाक्रमण कृतम् । दिनद्वयमेतज्ञातम् । रक्षापुरुपाणां प्रतिरोधोऽपर्याप्तः । अशीति- मिताः पुरुपाः हृताः। सार्धत्रिशतमिता नराः प्रहारैर्जर्जरीकृताः। वित्तं चञ्चलं, जीवितं क्षणभड्गुरमित्यनुभूतं जनैः । अग्नियन्त्रगुलिकाभिः संक्षोभो निरुद्धः । सहस्रादूर्ध्वं नरा निगृहीताः । वृत्तपत्रेषु उभाभ्यामपि स्वसमर्थनं कृतम् । उपशान्ते संक्षोभे रक्षा- पुस्माधिकारिभिः समाजधुरीणानां परिपन्निमन्त्रिता । सभायामुभयपक्ष. नेतृणां राजमार्गेण सश्चलनं निश्चितम् । एके प्रथमसभानिमन्त्रकान दूषयन्ति। अपरे गोरक्षणस्यान्दोलनं निन्दन्ति । अन्ये माहम्मदानामज्ञानं दोपाई मन्यन्ते । परं रक्षापुरुपैस्तथा व्यवस्था न कृता यथा क्षुद्रेणापि कारणेन संक्षोभो न सम्भविष्यति इति वक्तुं न कोऽप्यधृष्णोत् । तत्कार्य केसरि- पत्रेण कृतम् । लोकमान्या लिसन्ति “ यवना अत्याचारान् कर्तुं धृष्णुवन्ति इत्यस्य मूलकारण शासनसंस्थाया उपेक्षा । आग्लदेशीयाः स्पष्टमेव ब्रुवते, 'ययनेभ्यो हिन्दुधर्मिणां रक्षणं भवति इत्यत्र मूलकारणम् आङ्ग्लाना: मत्रोपस्थितिः। एमिर्वचोमिर्माहम्मदा विशन्ति 'आङ्ग्ला अस्मत्पक्षीयाः।' विधिमण्डले राजप्रतिनिधिस्तु हिन्दुधर्मिणः प्रतिनिधीनेयोपदिशति । मह.. म्मद्धर्मिणामेयोऽपि प्रतिनिधिस्तत्र नास्ति । फेसरिपत्रं ब्रूते 'अयमेव पक्षपातः । शासनसंस्था ययनानुत्सा) उपवेशयति, अन्यान्दूरीकरोति । एवं फदाऽपि न भाव्यम् । अन्यथा खसंरक्षणाय हिन्दुधर्मिणामपि दण्ड- ग्रहणमानश्यकं भवेत्' इति । - प्रजागरपर्व - अन्येषां प्रचारः एवंविधः । 'हिन्दुधर्मिणो ययनकृतानत्याचारान्न सहन्ते । दोपोऽयं तेपाम्' इति । उभयपक्षधुरीणैरात्मनो निरीक्षका नियोक्तव्या इति शासनसंस्थाया आग्रहः । संक्षोभस्यादिकारणम् अज्ञजनाः । शासनसंस्था पक्षपातं न करोति इत्यज्ञजनानां संशयनिवृत्तिः शासनसंस्थया प्रथमं कर्तव्या । तदभाचे प्रमाद एव एप: शासनसंस्थायाः । तं निर्दिश्य लोकमान्यैः राजप्रतिनिधये सूचितम् 'निःपक्षपातित्वविपये अधिकारिणः एय प्रथममुपदेष्टव्याः' इति । एवं शासनसंस्था, हिन्दुधर्मिणस्तथा महम्मद- धर्मिण इति त्रयः पक्षाः समुद्भूताः । शासनसंस्था पक्षपातं करोतीति सुधारका अप्यवदन् । ब्रह्मदेशे देवालयसमीपे गोवधो न स्यादिति नियमः । अतो यवनानां संक्षोभः । अजिमगडविभागे हिन्दुधर्मिणां निवासस्थानेपु कुत्रापि गोवधस्य न प्रतिषेधः। पुण्यपत्तने एकस्यां सभायां यवनधर्मगुरुणा व्याख्यातम् ‘हिन्दु- धर्मिणामाचारेण यवनाः क्षुब्धा भवन्ति । अतः संक्षोभः । अनेन भापणेन सुधारका अधिकारिणो वा न कुप्यन्ति । परं यदि लोकमान्या अवदन् 'महम्मदधर्मिणामपराधेन संक्षोभा उत्पद्यन्ते' तर्हि ते दोपाही भवन्ति । कथमयं न पक्षपातः । 'येवले नगरे संक्षोभोऽजायत । तत्रापि यवना मदोद्धताः। अधि- कारिणस्तेपामुत्साहं वर्धयन्ति । 'मुम्बई टाइम्स'पत्रेणापि एतदर्थक लिखितम् । सर्वे ते दोपार्हाः' इति । पुण्यपत्तने एप संसर्गः सम्प्राप्तः । एकस्यां निशीथिन्यां सञ्चलन- समारम्भ आसीत् । स स्थगितोऽभूत् । परं कैश्विद्भक्तजनैराग्रहेण परम्परारक्षणाय प्रस्थानसमारम्भः कृतः । संक्षोभभयं तु सदेवासीत् । परं न किमप्यनिष्टं सातम्। 'मिझी आवासअल्ली वेग'नामकः कश्चिच्छासनसंस्थाधिकारी ' महा. घळेश्वर क्षेत्रे कृष्णानद्याः पवित्रं प्रभवस्थानं गत्या कान्यकुञ्जब्राह्मणोऽह- मिति असत्यमुक्त्या अनुज्ञा विना देवालयं प्रविष्टः । तत्र समागताः केचन जनास्तमजानम् । अतो न्यायालयेऽभियोगः कृतः । क्षमायाचनानन्तरं स रूपकशतं दण्डितः ।

. लोकमान्यटिळकचरितम् श्रावणमासे पश्चन्यां तिथौ पुण्यपत्तने नागदेवस्य सञ्चलनोत्सव आसीत् । हिन्दुधर्मिणो महम्मदधर्मिणश्चैकत्र मिलित्वा प्रस्तावमकुर्वन् यथापूर्व परम्परया समागतेन नियमेन चर्तितव्य मिति । परम् अधि- कारिभिराज्ञापत्रेणोद्घोपितम् ‘प्रार्थनामन्दिराणामग्रत: पश्चात् च चत्वा- रिंशत् पदानि यावत् सर्वाणि वाद्यानि तूष्णीं भवेयुः' इति । अतो नागरिका नागदेवप्रतिमां त्यक्त्वा गृहं गताः । महम्मदधर्मिणामाक्रमणस्य दुराग्रहः । रक्षापुरुषसंस्थया कृता नियमा अपि अव्यवहार्याः । तेप्वेको नियम एवमेव यद् महम्मदधर्मिणां प्रार्थनामन्दिरस्य समन्तात् नक्तंदिवं कदाऽपि वाय- वादनस्य प्रतिषेधः । हिन्दुधर्मिणां देवालयस्य समन्तात् केवलं प्रवचनकाले एव निषेधः । अपरो नियमो 'रक्षापुरुपा यदा वाद्यवादनं प्रतिपिध्यन्ति तदा वाद्यानि न वादनीयानि' इति । आश्चर्यावहमेतत् । लोकमान्या वदन्ति स्म 'अल्पसंख्याकैरन्यधर्मिभिः बहुसंख्याकेपु हिन्दुधर्मिपु कति निर्बन्धा निधातव्याः ? सर्व हिन्दुधर्मिभिः सोढव्यम् । अन्यैः सर्वमाक्रमणीयम्' इति । योग्योऽयं समयो हिन्दुसड्घटनायेति मत्या गणेशोत्सवस्य कुटुम्ब- निष्ठं स्वरूपं संरक्ष्य तस्मै सामाजिकस्वरूपं दातुं लोकमान्याः प्रायतन्त । उद्देशस्तु हिन्दुयवनसघर्षे अखिलहिन्दुधर्मिणः एकत्र समागत्य निर्भय. मनसा स्वाधिकारान् स्थापयितुं प्रवर्तेरनिति । अस्मिन् संवत्सरे पुण्यपत्तने बहुमिहिन्दुधर्मिभिः ‘तायुत'समु- त्सवान् परित्यज्य स्वधर्मविहितं गणपतिपूजनं महता प्रेम्णा समुत्साहेन च फूतम् । केसरिपत्रे लोकमान्याः सानन्दमलिखन् “अल्विदोचारणेनैतावन्तं कालमपवित्रीभूता रसना गजानननामघोपेण पुनः परिशुद्धा जाता । 'खधर्मे निधनं श्रेयः परधर्मो भयावहः।' इति भगवतः श्रीकृष्णस्य वचनं लोकराचर्यते” इति । श्रीगजाननस्य नामघोपेण समातमाये गणपत्युत्सवे त्रयोदश्याः रात्री राजमार्गेण गच्छन्दमेक मेलापकं प्रार्थनामन्दिरस्य समीपे दण्डहस्ता महम्मदधर्मिणोऽभ्यपतन् । ययनाचानि ममानि । मेलापफः उद्ध्वस्तः प्रजागरपर्व कृतः । दण्डेन भृशं ताडिता. तात्यासाहेब नातूमहाशया:' प्रहारैलुप्तसंज्ञा अभूषन् । हिन्दुधर्मिभिरपि प्रार्थनामन्दिरं प्रविश्य दण्डैर्यवना अनुगृहीताः । अनन्तचतुर्दशीदिवसे गणपतिमूर्तीनां प्रस्थानसमारम्भे रक्षणार्थ नियुक्तेषु रक्षापुरुपेयु सत्सु द्विवाः मूर्तयो यवनैर्दिवा भग्नाः । अस्य नैसर्गिको विपाकः क्वचित् हिन्दुययनयोर्दण्डादण्डि युद्धम् । हिन्दुधर्मिभिः स्वसंरक्षणार्थ गृहीता यष्टयो रक्षापुरुपैर्हस्तेभ्योऽपहृताः । तेन रक्षापुरुषा विश्वासभूमयो नाभवन् । परेऽहनि संक्षोभे नाते अनपराधिनो जना रक्षापुरुपै- निगृहीताः । यवनै शं ताडिता 'नातू'महाशया अपि तेप्यासन् । पर मूर्तिभञ्जकानामेकोऽपि रक्षापुरुषैन निगृहीतः । अभियोगे कृते सर्वे निगृहीता जनाः ‘जेकव'महाशयायाधीशैः प्रमाणाभावाहोपान्मुक्ताः । तथाऽपि आङ्ग्लवृत्तपत्रसम्पादकैायाधीशस्याभियोगनिरीक्षकैः सह मत- भेदो जातः इत्यसत्या वार्ता प्रसारिता । एतस्य निधो न्यायाधीशैः स्वय- मेव कृतः। एतेप्वमियोगदिवसेपु सत्यप्रियायाधीशैलेक'महाशय.कमपि स्य- कीयं पत्रमुद्घाटितम् ; न वा कस्यापि दर्शनं खीकृतमिति श्रूयते । अतो दोपेणाक्षिताः सर्वे जना दोषान्मुक्ताः । परं रक्षापुरुषा निग्रहकाले विविधैः प्रकारैः कथमुपद्रयन्ति इत्यभियोगे साक्षिणां रक्षापुरुषाणां परीक्षणे स्पष्ट- मभूत् । सुमहानस्य नैतिकः परिणामो जातः । राजप्रतिनिधिना कारणं विना पुण्यपत्तनस्थब्राह्मणवर्गः सभापणे कोपामिना दग्धः । अतस्तेन क्षमायाचनं कर्तव्यमिति स्पष्टमाह्यानं लोकमान्यैः केसरिपत्रे दत्तम्। परं तत् कथं स्वीकृतं भवेत् ? आयत्यां जातेपु 'लॉर्ड हॅरिस'महाशयस्य भापणेपु तस्य परिणामो जातः । क्षुद्रकारणेन सन्तप्ता यवना अन्ते निजप्रमाई ज्ञास्यन्येवेति तस्यापेक्षा सत्याऽभूत् । 'वाई'नामके क्षेत्रे गणेशोत्सवे एको विचित्रामियोगो जातः । 'द्वार'नामिका एका तत्र जनरुदिः । 'द्वार नाम भाद्रपदमासे उत्सव- समये केचन वाला: देवदर्शनार्थ वाईक्षेत्रात् यहिः समीपस्थं ग्रामं गत्या प्रत्यागच्छन्ति । तदा ग्रामस्था जनास्तान समारम्भपूर्वकं क्षेत्रमानयन्ति । रक्षापुरुषाणां वायविषयका नियमाः सर्वत्र समानाः । ताननुसृत्य प्रार्थना- लोकमान्यटिळकचरितम् - मन्दिरसमीपं सर्ववाद्यवादनं स्थगितव्यम् । तथैवात्र कृतम् । परम् अकस्मादेकेन पुरुषेणोत्साहभरात् कांस्यतालं निनादितम् । भयङ्करोऽय- मपराधः । केवलं वादको दण्डं प्राप्नुयादिति युक्तम् , परं शासनसंस्थाऽपि वादक इव अतीवोत्सुका । तया एकादशप्रतिष्ठितनागरिका अभियोगेन दण्डिताः । अभियोगकर्ता 'दुल्लेखां'नामा रक्षापुरुषाधिकारी । अनुज्ञादायकः उपप्रशासको 'रड्'महाशयः। घटं भिन्द्यात् पटं छिन्यात् कुर्याद्रासभरोहणम् । येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥ इति सुभापितवचनानुसारतः प्रसिद्धपुरुषावेती महाराष्ट्रदेशे। महम्मदधर्मिण एवापराधिन इत्येकेन प्रशासकेन स्वयमनुभूतम् । अतः शासनसंस्थाया अप्येष निर्णयः । तथाऽपि तस्याः पक्षपातः । अस्यो- दाहरणं 'धुळे नाग्नि नगरे दृष्टम् । अनंतचतुर्दशीदिवसे गणेशमूर्तीनां प्रस्थानसमारम्भे आदावेव संक्षोभहेतुना एकत्रमिलिताः महम्मदधर्मिणो लगुडपापाणखण्डादिसामग्रीसहिताः प्रार्थनामन्दिराबहिरागताः । तत्रस्थः प्रशासकः सुसज्जः 'क्युमिन् नामकस्ताननुनेतुं प्रवृत्तः । परं तमेव निगृह्य ताडयितुं प्रवृत्तेपु यवनेषु रक्षापुरुपैरग्न्यस्त्रेण गुलिकाप्रक्षेपणं कृतम् । अस्मिन् प्रकरणे हिन्दुधर्मिणां न कोऽपि सम्बन्धः । संवत्सरद्वयं वृत्तपत्रेषु विवादा जाताः । उत्तरप्रत्युत्तराणि सजातानि । लोकमान्यैः कृतं निदानं निर्दोपमासीत् । अन्ये लोकधुरीणा अपि तदेवामन्यन्त । परं वक्तुं न कोऽपि समर्थः । केवलं लोकमान्या एवं भय सेन खमतम् असन्दिग्धाक्षरैः केसरिपन्ने प्रतिपादितवन्तः । माहम्मदानां पक्षोऽयथार्थः । सर्वेषां प्रार्थनामन्दिराणां समीपं सर्वकालं सर्वाणि वाद्यानि न यादनीयानि इति आज्ञापत्रकम् अयुक्तम् , अन्याय्यम्, अत एवासमञ्जसम् । न कोऽपि सुशः एवं सम्मन्येत । अस्मिन् विपये परम्परागताः पाश्चिदूढयः । यवनास्ता जानन्त्येय । कांस्यतालादि- मधुरयाद्यान्यपि प्रार्थनामन्दिरसमीपे न वादनीयानीति दुरापहस्तैः परि- त्याज्यः । प्रार्थनाकाले यदि याद्यानां मृदुमधुरशब्दोऽसहस्तर्हि राजमार्ग, अप्रिये, प्रवहणेपु, आपणेषु च कयं ते प्रार्थनामनुतिष्ठन्ति ? प्रार्थनाकाले "प्रजागरपर्व ६१ यत्र कुत्रापि महम्मदधर्मिमिः प्रार्थना उपासनीया इति यवनानां धर्म- नियमः । जनस्य कलकलशब्दः प्रार्थनामन्दिरसमीपं वाद्यवादनं वा धर्म- निपिद्धमित्यप्ययुक्तम् । शासनसंस्थाधिकारिणः पक्षपातिनः इत्यपि नाभि- मानावहम् । प्रसङ्गे समायाते हिन्दुधर्मिणो महम्मदधर्मिणश्च उभावपि शासनसंस्थायाः समानौ इति । स्थाने स्थाने जातेपु संक्षोभेपु महम्मदधर्मिणामसहिष्णुता । प्रथमा- क्रमणं तेपामेव । हिन्दुधर्मिणः पश्चात् स्वसंरक्षणार्थमेव प्रायतन्त इति यद्यपि सत्यं दृष्टं च तथाऽपि आग्लवृत्तपत्रैस्तत् ज्ञानतः एवोपेक्षितम् । संक्षेपतः अभियोगभयं महम्मदधर्मिणां रोपं च स्वीकृत्य लोकमान्यैः सत्यकथनेन हिन्दुधर्मिणां सड्घटने प्रयत्य लोकप्रयोधः कृतः इति सुस्पष्टम् । पुण्यपत्तनस्थसार्वजनिकसभाकार्यवाहैरेकं निवेदनं शासनसंस्थाये प्रहितम् । 'पुणे-सोलापुर-नगर-वाई-सातारा-वेळगांव-येयले 'इत्यादिनगरेपु जातान् संक्षोभानेव मनसि निधाय शासनसंस्थायाः पक्षपातवृत्तिर्यद्यपि कार्यवाहैः स्पष्टशब्देनिवेदने न सूचिता तथाऽपि प्रशासका एवास्मिन् प्रकरणे दोपार्हा इति प्रतिपादितम् , सूचितं च वाद्यवादनविपये अनुज्ञा- पत्रदानाधिकारो रक्षापुरुषाधिकारिभ्यो न दातव्यः इति । प्रारम्भे एवमपि ध्वनितं यत् सार्वजनिकसभया निवेदितं तत् हिन्दुयवनपारसिकसमाजस्य मतमासीत् । अनेन विधानेन क्षुधा अधिकारिणः सभामपृच्छन् 'सदस्यानां संख्या का ? कति सदस्याः सभायामुपस्थिताः ? धर्मानुरोधेन तेषां संख्याविभागो निवेदनीयः । अनुकूलप्रतिकूलसदस्यमतानां संख्या का' इत्यादयः प्रश्नाः पृच्छायामासन् । प्रश्नानामुत्तराणि सार्वजनिकसभा नायच्छत् । कार्यवाहैलिखितम् 'कार्यकारिण्यां मतभेदो नासीत् । निवेदने प्रविष्टानां प्रश्नानां विचारः पात्रापानदृष्ट्या कर्तव्यः। एतादृशं वृत्तकथनं शासनसंस्थया कदाऽपि पुरा नापेक्षितम् । साम्प्रतमपि एतवृत्तं कथयितुं सभा नेच्छति' इति । पाद्यवादनविषयकं मूलप्रश्नं दूरीकृत्यान्योऽयं वादविषय: शासनसंस्थयो- त्पादितः। अयं हिन्दुयपनसघर्पः परम्परयाऽऽगतः । परं शामनसंस्थया यवनानां पक्षः स्वीकृतः इति लोकप्रपादोऽधुना यथार्थत्वेन जनस्य दर्शनपथं ६२ लोकमान्यटिळकचरितम् गतः । लोकमान्यैरेतन्निर्धारितं यद् हिन्दुयवनयोः सख्यत्वे यत्नं कृत्वाऽपि यवना निजाग्रहं न मुञ्चन्ति । हिन्दुधर्मिणोऽपि तेषां समाधानार्थ स्वाधि- कारानेकै परित्यज्य अन्ते सर्वमेव नाशयेयुः । तस्मात्परम्परागतान निजाधिकारान् यथार्थत्वेन विज्ञाय हिन्दुधर्मिणस्तान निर्भयेन मनसा उद्- घोपयेयुः अधिकाररक्षणार्थं च बद्धपरिकरा भवेयुरिति । लोकमान्याः स्वयं न कदाऽपि यवनानपकुर्वन्ति । प्रत्युत तेषां सख्यायैव ते सदा सन्नद्धाः । ऐतिहासिकचर्चासु हिन्दुधर्मिपु कृतानां मिथ्याऽऽरोपाणां खण्डने तथा स्वमतमण्डने लोकमान्यानां दृष्टिः । न यवनानां दूपणे । हिन्दुधर्मनिष्ठया तेषां स्वाभिमान उज्ज्वल आसीत् । प्रतिपक्षः सन्तपेदिति भीतिस्तेषां मनसि लेशतोऽपि नासीत् । अन्येनापकृते तेजस्वितया प्रतिकारः कर्तव्यः नानुनय इति लोकमान्यस्वभावः । हिन्दुयवनसङ्घर्पकाले तैः कृतमान्दोलनं नवनीत- कोमलेभ्यो जनेभ्यो नारोचतेति सत्यम् । परं तैरपि हिन्दुधर्मे जायमाना- नामाघातानां निवारणे न कोऽपि यत्नः कृतः । विविधप्रकारेण हिन्दुधर्मे यवनैः प्रहारे दत्ते केवलं शान्तिसूक्तपठनमसाम्प्रतम् । यः कोऽपि उत्तेजन- परशब्दैहिन्दुधर्मिणां साहाय्याय सन्नद्धो भवेत् स तेषां सखा इति जना यदि मन्येरन् तर्हि न दोपास्पदम् । सङ्घर्पकाले अनेन लोकमान्यदत्त- साहाय्येन मुम्बापुर्या गुर्जरदेशीयानां स्नेहो लोकमान्यैः सम्पादितः । अनेन समयेन लोकमान्यैर्धार्मिकविषये गणपत्युत्सवस्य, राजकीय विपये शिवछत्रपत्युत्सवस्य च पुरस्कारः कृतः । अतोऽयमस्माकं महान् परिपन्थीति प्रथमं यवना अमन्यन्त । परमिदं तेषां मतं कतिपयैः संवत्सरैः . परिवर्तितम् । महम्मदधर्मिधुरीणैरात्मनः स्खलितं दृष्टमुक्तं च 'लोकमान्य- विचारसरणिः सयुक्तिका' इति । महम्मदअल्ली-शौकतअल्लीप्रभृतिभिर्मह- म्मदधर्मिधुरीणैरिदमुद्घोपितं यद्राजकारणविपये लोकमान्या एवास्माकं गुरुस्थानीया इति । दिष्ट्या जीवत्सु लोकमान्येषु सर्वमिदं सम्भूतम् । ७ यापटसमितिः मित्रकार्येषु लोकमान्या आत्मौपम्येन प्रायतन्त इत्यस्य 'यापट'- प्रकरणमेकमुदाहरणम् । . - प्रजागरपर्व वापटो पाह्यः कश्चिद्बुद्धिमान युया बडोदा संस्थाने राजसेवारत आल ! आपलवरिष्ठस्य कृपाकटाक्षेण स महदधिकारपदं लब्धवान् । महाविद्यालये लोकमान्यैः सहोपजातपरिचयोऽसौ रत्नागिरिनगरस्थ आसीत् । तृतीयं मित्रं 'दाजीसाहेब सरे महाशयाः । एतेषां त्रयाणां रदं स्नेहः । अग्रहारक्षेत्राणां परीक्षणं, तद्विपयकलेसानां निरीक्षणमित्यादिकर्मसु नियुक्तस्य ' इलियट'नाम्नो परिष्टाधिकारिणः कनिष्टसेवको 'चापट'नामा । अग्रहारधराणां क्षेत्रपतीनां कानिचिदुःसान्यासन् । 'वडोदा'नरेशे राजप्रति- निधेर्न तथा कृपादृष्टिः । तस्य पीडार्थ समुपस्थितमेतत् प्रकरणम् । सयाजी- रायः, इलियटमहाशयो वापटमहाशयश्चैतेषां त्रयाणां महत्सख्यम् नरेन्द्रस्य सयाजीरायस्यानुपस्थिती संस्थाननिरीक्षकेण समुचितोऽयं काल इति मत्वा वापटमहाशये कृतानामुत्कोचाहणारोपाणां परीक्षणार्थमेका समितिनियुक्ता । युक्तायुक्तोपायः प्रजाः परिसीड्य प्रमाणानां सङ्ग्रहार्थ समित्या कार्य समारब्धम् । शासनसंस्थाया विधिज्ञाः ख्यातनामानः यापटमहाशयस्य विधिना 'आपटे-खरे'-महाशयाः । प्रमाणविपयकं सर्व कार्य लोकमान्यैः कर्तव्यमिति स्थितिः । अतो लोकमान्या घडोदानगरं गताः। तत्र निवासार्थ तैः स्थलमपि न लब्धम् । ईदृशीनिर्विपद्मिः सम्प्रयुध्य लोकमान्यैः स्वमार्ग आक्रान्तः । समित्याः कार्य न न्यायदानस्य । सा तु केवलं आरोपपरीक्षण- समितिः । परं तया न्यायाधीशस्य सर्वेऽधिकारा गृहीताः । पत्रिंशदारोपाः समित्याः पुरतः कथिताः। तान स्वीकृत्य समित्या निर्णयः कृतः बापटमहाशयो- ऽभियोगेन दण्डनीय इति । सर्वे आरोपा लोकमान्यैः प्रमाणेनिरस्ताः । परं बडोदानरेशैः सयाजीरायः प्रजानां समाधानार्थ वरिष्टन्यायालयस्थन्यायाधीशै- स्तत्प्रकरणं परीक्ष्य निर्णयो गृहीतः । न्यायाधीशैपिटमहाशयो दोपान्मुक्तः । सेवानिवृत्तिवेतनं दत्त्वा सयाजीरावैराग्लराजप्रतिनिधिसमाधानाधं घापद- महाशयो राजसेवातो दूरीकृतः । अस्मिन् प्रकरणे लोकमान्यैर्यथा स्वमित्राय बापटमहाशयाय प्रत्यक्षं साहाय्यं दत्तं तथाऽप्रत्यक्षं साहाय्यं तैर्वडोदानरेशायापि दत्तम् । अतो जनेषु . “ . लोकमान्यटिळकचरितम् किंवदन्ती यत् सयाजीरायैः प्रत्युपकारार्थमात्मनः पुण्यपत्तनस्थप्रासादः गायकवाड वाडा' इति नाम्ना सुविख्यातो लोकमान्येभ्य उपायनीकृतः । परं सत्यापलाप एप: । लोकमान्यचरित्रलेखकाः केळकरमहाशया लिखन्ति 'चतुःशताधिकपञ्चदशसहस्ररूपकैः सयाजीरायैरयं प्रासादो लोकमान्येभ्यो विक्रीतः । स व्यवहारो मया स्वहस्तेन पूर्णतां नीतः” इति । एतादृशैः प्रकरणैर्लोकमान्यानां विधिशास्ने व्यवहारशास्त्रे च बुद्धि- प्रकर्पः पुनरेकदा विद्वज्जनानां दृष्टिपथं समागतः । ८ सङ्कीर्णविषयाः केसरिपत्रद्वारा महता वेगेन लोकमान्या लोकशिक्षणकार्यमकुर्वन् । महाविद्यालयाध्यापनकार्यापेक्षया एतत् कार्यक्षेत्रं विस्तृततरम् । धार्मिके सामाजिके या विपये लोकमान्याः शास्त्रतो व्यवहारती लोकान् लेखनद्वारा यथाऽनुशासति तथा राजकीयविपयेऽपि । प्रदेशपरिपदि विविधविपयेषु प्रस्तावा लोकमान्यैः पुरस्कृताः । तथैव परिपदः कार्यवाहपदं स्वीकृत्यान्दो- लनस्य क्षेत्रं यथा विस्तारितं तथाऽऽत्मनः कार्यक्षेत्रमपि वितानितम् । १८९१-९३ अस्मिन् वर्पनये लोकमान्यैर्वेदकालनिर्णयार्थ 'ओरायन्' नामको अन्धः संशोधनपूर्वकं सम्पादितः । तस्य संक्षिप्तस्वरूपं यक्ष्यमाणे मन्थपर्वनामके प्रकरणे वर्तते। १८९५ संवत्सरे लोकमान्यैः पुण्यपत्तनस्य स्थानिकस्वराज्यसंस्थायां नगरकार्यार्थ पदं निहितम् । आयत्यां महर्पिपदवी प्राप्ताः 'विनायक रामचन्द्र तथा अण्णासाहेब पटवर्धन'महाशयास्तेपामनिच्छामनादृत्य नागरिकैरत्याग्रहेण स्थानिकस्वराज्यसंस्थासदस्यत्वार्थ पुरस्कारिताः । प्रथमक्रमाङ्केण पटवर्धन- महाशयाः, द्वितीयेन लोकमान्यारतृतीयचतुर्थस्थानयोः प्रमेण । मोघे पाठक महाशयो इति निर्वाचननिर्णयो जातः । एतरमात् फालात् पूर्ण माधवराव नामजोशी'महाशया द्वादशवर्षपर्यन्तं स्थानिकखराज्यसंस्थायाः सदस्यपदं व्यभूपयन् । नामजोशीमहाशया लोकमान्यानां परमं मित्रम् । परस्परसदकारेणोभाभ्यामपि यहूनि कार्याणि सम्पादितानि । शासन संस्थायालया स्थानिफरसराग्यसंस्थायाः फायेंगु नामजोशीमहाशयेभ्यो प्रजागरपर्व लोकमान्यैः प्रभूतं साहाय्यं, स्थानिकस्वराज्यसंस्थायाः वहिः स्थित्वा, दत्तम् । अधुना तां संस्थां प्रविश्य जनसेवा कृता । अयं नगरपालिकायाः सेवाकाल: कारावासेन खण्डितः। २विधिमण्डलमवेशः विधिमण्डलकार्य लोकमतानुसारि कर्तव्यमित्याकाझ्या विधिमण्डलं शनैः शनैर्विस्तारतां नीतम् । तस्मिन् प्रथमं राजप्रतिनिधिना नियुक्ताः शासनसंस्थाधिकारिण एव सदस्या आसन् । कतिपयवर्षापगमे अधिकारिणां स्थाने इतरे जना नियुक्ताः । परं निर्वाचनतत्त्वं नाद्याप्यगीकृतम् । काला- न्तरेण तत्तत्त्वमाश्रित्य विधिमण्डले केपुचित् स्थानेषु लोकमतैः सदस्यां नियुक्ताः । मुम्बईप्रदेशस्य सर्वविभागेभ्य एकैकं स्थानं दत्तम् , परं मध्य- भागाय न दत्तम् । तस्य कारणं तु स्पष्टमेव । शासनसंस्थाऽप्रियः कश्चिल्लोक- प्रियः प्रतिनिधिर्जनमतसम्मतो भवेत् । लोकैः प्रार्थनापत्राणि प्रेपितानि । अन्ततः पुण्यपत्तनं तथैव परितो वर्तमानान् पविभागानेकीकृत्य एकं स्थानं दत्तम् । तत्स्थानलाभाय त्रयः पुरुषा अयतन्त । रानडे-गोखलेप्रभृतिभि- 'र्नेमस्तैः' पुरस्कृतो 'जठार'नामकः प्रथमः । शासनाधिकारिभिः पुरस्कृतः 'खानदेश-विभागस्थो 'गरुड'नामा द्वितीयः । तृतीयः केसरिवृत्तपत्रसम्पाद- नेन लब्धकीर्तयो लोकमान्यटिटकमहाशयाः । इयं निर्वाचनस्पर्धा भृशं तीघ्रा. ऽभूत् । विधिमण्डलस्थानस्पर्धायां प्राप्ता एते त्रयः पुरुषा धाग्जालेन परस्पर- दोपदर्शनेन च विधिमण्डलस्थानमलङ्कर्तुमयोग्या इति तत्तत्पक्षाभिमानिनो वृत्तपत्रेषु लिसन्ति । अन्ते१८९५वत्सरे केसरिपत्रसम्पादका यद्यपि लोकमतेन सम्मतास्तथाऽपि विशेपाधिकारेण स्थासम्मत्या राजप्रतिनिधिना निरोद्धव्या इति सूचनाऽपि 'मुम्बई गॅझेट' पत्रसम्पादकैः कृता । परं साऽपि लोक- मान्यैः प्रमाणैर्निरस्ता। अन्ते निदाघकाले लोकमतदानमभूत् । पत्रिंशन्मतानि लोकमान्यानां, पड्विंशतिर्गरुङमहाशयानां, केवलं द्वे 'जठार'महाशयानाम् । बहुमतेन लोकमान्या लोकनियुक्तसदस्या अभूवन् । राजप्रतिनिधिनाऽपि स्वसम्मतिः प्रदर्शिता । . . .

लोकमान्यटिळकचरितम् ऑगस्टमासे जातायां विधिमण्डलसभायामर्थसङ्कल्पकाले कृतेन विवेचनेन लोकमान्यैरात्मनोऽस्तित्वं दर्शितम् । साम्प्रतं विधिमण्डलेन राजकीयकार्ये वरिष्ठं स्थानं सम्पादितम् । पुरा आङ्ग्लशासनपद्धतिभिन्ना । अर्थसङ्कल्पः केवलं वाचनीयः । विधिमण्डलसम्मतिन पेक्षणीया । राजप्रति- निधितन्त्रेण सर्वाणि कार्याणि कर्तव्यानि । १८९७ संवत्सरे समाप्तोऽयं द्विवार्पिको विधिमण्डलकालः । पुनः निर्वाचनसमयः सम्प्राप्तः । अस्यामपि वेलायां लोकमान्याः पुनरेकदा बहुमतेन विधिमण्डले लोकनियुक्तसदस्या अभूवन् । जूनमासस्य त्रयो- विंशतितमे दिने राजप्रतिनिधिसम्मतिदर्शकं कार्यवाहेन प्रेपितं पत्रमपि लोकमान्यैः सम्प्राप्तम् । परं विचित्रो दैवयोगः । उक्तं च कालक्रमेण जगतः परिवर्तमाना चकारपङ्क्तिरिख गच्छति भाग्यपङ्क्तिः ।। पत्रप्रेषणस्य पूर्वस्मिन्नेव दिवसे ' रँड'महाशयस्य वधो जातः । तेन सर्व लोकमान्यभाग्यचक्रं प्रतीपमभूत् । जुलैमासे राजद्रोहाभियोगेन लोकमान्या निगृहीताः । अतस्तैः स्वयमेव विधिमण्डलसदस्यत्वस्य त्यागपत्रं प्रेपितम् । अतः परं लोकमान्याः शासन- संस्थायाः शत्रुस्थानीयाः । परस्परशत्रुसम्बन्धोऽयमामरणं स्थितः । शरदां विशतेरनन्तरं १९२० हायने विधिमण्डलसभायां लोकमान्यनिधनानन्तरं दुःखप्रदर्शनार्थ प्रस्तावः सम्मन्तव्य इति सूचना 'वेवी'महाशयैर्दत्ता । परं सा कालातिपातेन प्राप्ता इति कृत्वा 'जॉर्ज लाइड 'नामकेन राजप्रतिनिधिना प्रत्याख्याता । विधिमण्डले लोकमान्यानां गुणसङ्कीर्तनं यदि स्यात्तर्हि सभागृहं कदाचिदपवित्रं भवेत् इति तस्य मतिः. सम्भवेत् । परं लोकमान्यानां पार्थिवशरीरस्यान्त्यविधि कर्तुमनेनेय राजप्रतिनिधिना मुम्यापुर्याः सागरोपकण्ठे नगरस्य ललामभूतं निसर्ग- रमणीयम् 'चौपाटी' नामकं पुलिनं अनुज्ञातम् । अनेन तस्य कर्मणा 'जॉर्जे लाइड'नामा राजप्रतिनिधिः सदैव प्रतिकूल आसीदिति न प्रकल्प्यते । 'मरणान्तानि वैयणि ' इत्यपि तत्त्वं सम्मवेत् । - , प्रजागरपर्व १० राष्ट्रियमहोत्सवी गणेशोत्सवः राष्ट्रियभावनासंवर्धनस्य विविधान्यङ्गानि प्रत्यङ्गानि । देशभाषा- विवृद्धिः, इतिहाससंशोधनं, सजनोपासना, ऐतिहासिकवीरपुरुपपराक्रम- वर्णनम्, काव्यगानेन भावनोद्दीपनं , यात्रोत्सवसभासम्मेलनादीनाम- मिवृद्धिरिति तेपामङ्गप्रत्यङ्गानां स्वरूपम् । एतेषामेव मध्ये श्रीगणपत्युत्सवस्य श्रीछत्रपंत्युत्सवस्य च गणना । अनयोरुत्सवयोर्जनकत्वं लोकमान्यानामेवेति यथा शासनसंस्थया निर्णीतं तथा शत्रुपक्षीयैः चिरोलमहाशयैरपि स्वसम्पा- दितान्ये लिखितम् । एतौ द्वौ राष्ट्रियमहोत्सवी पुरस्कृत्य लोकमान्यैर्महान् जनप्रयोधः कृतः । के वयम्, केऽस्माकं पूर्वजाः, कीदृशी अस्माकं सद्य:- स्थितिः, शरदा सार्धशतकात् प्राक् सा कीदृश्यासीत्, साम्प्रतं किमस्माकं कर्तव्यमिति विचारप्रवणो जातो जनोऽनेनोत्सवप्रसङ्गेन । एतदेव खलु शासनसंस्थाया अरुचयेऽभूत् । जनपदहितकर्ता त्यज्यते पार्थिवेन' इति वचनं तु सार्थमेव । अतोऽस्य प्रजागरस्य मूलकारणं लोकमान्या एवेति निश्चितम् । सकलं श्रेयोऽपि तेपामेवेति क्रमप्राप्तम् । यथा श्रेयस्तस्था कारावासरूपं दुःखमपि तेपामेव । श्रीगणपत्युत्सवस्य परम्परा प्राचीना । प्रथमं स उत्सयो गृहनिष्ठः कुटुम्बनिष्ठो या लोकमान्यैः केवलं समाजनिष्ठः कृतः। राज्ञा तथा सामन्तानां प्रासादेषु विभवविशेषेणायमुत्सवः पुरा सम्पादित आसीत् । साम्प्रत. मिव प्राचीनकालेऽपि गृहे गृहे यथाशक्ति, यथाविभवं गणपतिपूजन- मासीत् । अस्यैव गृहनिष्टोत्सवत्येदं सामाजिक रूपान्तरं लोकमान्यैः कृतम् । अन्यच्च । हिन्दुययनसङ्घर्षानन्तरं सपोय प्राप्तस्य गणपत्युत्सवस्येदं रूपा- न्तरं जातम् । महम्मदधार्मिणां 'ताबूत'समारम्भे अप्रविष्टो जनोऽस्मि- न्नुत्सवे अहमहमिकयाऽयतो भूत्वा महताऽऽनन्देन समाविष्टः । सर्वमिदं १८९३ वत्सरे जातम् । परे वत्सरे गणेशोत्सवसङ्ख्या विशेषेण प्रवृद्धा जनस्योत्साहो द्विगुणीभूतः । सभामण्डपा लतापल्लयादिभिश्चित्रविचित्र- तोरणैः, गणेशमूर्तयः सुवर्णमौक्तिकाद्यलङ्कारः, मूर्तीनां पूजास्थानानि कदली. - ६८ रोकमान्यटिग्मचरितम् दले पुष्पमालारङ्गापलिदीपावलिमि सुशोभितानि । प्रभातकाले सपाद्य मूर्तिपूजन, सायकाले व्यारयानकीर्तनप्रवचनेनिसवर्धन, गनौ गानपादन भजनादिमि परमेश्वरगुणसचीर्तनादिकार्यक्रम । मूर्तिविसर्जनसश्चलन- मप्येतादृशम् । तस्य वर्णन १८९४ यत्सरस्य केसरिपने वर्तते । साम्प्रत गणपत्युत्सवो वादातीत । रोकमान्यकाले नेय लेकस्थिति । विविधप्रकारेणायमुत्सवस्तदाऽऽक्षिप्त । पर सर्वेऽप्याक्षेपा निरस्ता । उत्सवे नैकप्रकारान् विपयानधिकृत्य व्यारयाननिदान, तेन रोकप्रबोध इति तस्य फलम् । लोकमान्यै फेसरिपने विविधप्रकारेण एतादृशानामुत्सवानामावश्य कता प्रतिपादिता । देशान्तरे ग्रीसदेशे- विद्यमानानामुत्सवानामुदाहरणानि दत्त्वा रोकमान्या लिखन्ति 'शूराणा, वीराणा, कवीना , पण्डिताना, सज्जनाना, राजकारणकुशलाना सम्मेलनस्थानमेतत् । भारतीयसमाजेऽपि नैकप्रकारा उत्सया आसन् । पर तेषा पुराणस्वरूप जनेभ्यो यदि न रोचते तर्हि तत्तन्मूलतत्त्वानामविरोधेन तेभ्यो नूतन श्रेयस्कर स्वरूप दत्त्वा लोककल्याणाय लोकधुरीणास्तान सयोजयेयुरिति । ११ श्रीशिवछत्रपत्युत्सवः श्रीगणेशोत्सव इव श्रीशिवछत्रपत्युत्सवोऽप्येकेन क्षुद्रकारणेन रोक मान्ये केसरिपत्रे पुरस्कृत । लेककार्यकर्तृणानिदमेय वैशिष्ट्य यत्ते स्वल्पेनापि कारणेन कचिद्विचार जनाना पुरत स्थापयित्वा धार्मिकभावना राष्ट्रियभावना या उद्दीपयन्ति । छत्रपतिशिवराया 'रायगड नाम्नि इतिहास प्रसिद्धे महति दुर्गे पञ्चत्व गता । तेपा तत्समाधिस्थान राष्ट्रियभावनाया स्फूर्तिस्थान स्वातन्यकाले जातम् । अतस्तदानी तस्य स्थानस्य सुस्थिति रासीत् । पर १८१८ सवत्सरानन्वर विनष्टे स्वातन्ये सर्व विपरीतमभूत् । शासनसस्थाधिकारिभि , छत्रपतियशजै कोल्हापुर सागली-बडोदा ग्याल्हेर- इदूर प्रभृतिसस्थाननरेशै सर्वैरप्येतत् पवित्र स्थानमुपेक्षितम् । १८८५ वत्सरे केनापि कारणेन समाधिस्थानस्योल्लेखो वृत्तपत्रेषु दृश्यते । भृश दु स्थिति समाधिस्थानस्यासीत् । समाधिस्थान परित सर्वन महद्विपिन प्रसृतम् । तथाऽपि केचन पादचरिणो महता काप्टेन तत्थानमव- लेकयन्ति । शासनाधिकारिणोऽपि पौतुफेन स्थानमिद पश्यन्ति । 'सर् M प्रजागरपर्य , रिचर्ड टेंपल'नामको मुम्बईप्रदेशराजप्रतिनिधिरेकदा 'क्राफर्ड-बॉटर्स-पिट्' नामकैरधिकारिभिः सह समाधिस्थानं द्रष्टुं गतः। क्राफर्डमहाशयः पत्रे लिखति 'यदा राजप्रतिनिधिः टेंपलमहाशयः समाधिस्थानस्योपरि आत्मान- मस्थापयत् तदा स महत्या स्फूर्त्या शरदां द्विशतात् प्राक् जातायाः सिंहा. सनाधिष्ठितछत्रपतिशिवरायस्य कस्याश्चिद्राजसभायाः काव्यमयं वर्णन. मकरोत् । अनन्तरं शिवराये पञ्चत्वं गते तत्पुत्रकृतं सापत्नमातृसंत्रासं तथा च त्रस्तमनसा तयोक्तां शापवाणी वर्णयित्वा टेंपलमहाशयोऽब्रवीत् । ये केचन चित्रकारा नानाविधदेशादागता अत्र समागच्छन्ति ते इमानि रमणीय- दृश्यानि चित्रीकुर्वन्ति इति । एतादृशं स्फूर्तिस्थानमेतावत्कालं दु स्थिति- मन्वभवत् । तदुद्धारार्थ न केपामपि प्रयत्नाः । संस्थाननरेशाः स्वार्थ- परायणाः, सुखलोलुपाश्च सामान्यजनास्तदानीं राष्ट्रियभावनाविहीनाः । अतो न कस्यापि चित्तमनेन स्फूर्तिस्थानेन समाकृष्टम् । १८९५ वत्सरान्ते केसरिपत्रे लोकमान्यरिमं विपयमधिकृत्य लिखितम् 'छत्रपतिशिवरायस्य नाम महत्स्फूर्तिप्रदम् । सदैव तस्य शौर्यवीर्यधैर्य- पराक्रमादिगुणान् मनसि निधाय जनैवर्तितव्यमित्याशयपूर्णमेकं काव्यमस्माकं श्रुतिपथमागतम् । परं न कोऽपि जनस्तदुपदेशमनुसरति' इति । महाराष्ट्र- देशे वर्तमानस्य जनस्य हितशत्रुः 'हेरिस'महाशयोऽपि शिवरायाणां परा- 'समाधिस्थानस्यान्तर्भागो वृक्षाप्तः । बहि.स्थिता धर्मशालाऽपि तथैव । देवालयस्य विशुद्धिराकश्यकी । परकीयशासनसंस्थया महतौदार्येणास्य स्फूर्तिस्थानस्योद्धारार्थ प्रतिवार्पिकं पञ्च रूपकाः (!) सम्मताः। परं छत्रपतिवंशजा पा तेपां सामन्ता नरेशा वा छत्रपति- स्मारकविपये औदासीन्यं भजन्ते । शासनसंस्थाभयात् न किमपि कुर्वन्ति । सर्वमेतदसाम्प्रतम् । आत्मनश्छत्रपतिविपयिणी कृतज्ञता जनेरपि दर्श. यितव्या' इति । केसरिपत्रलेखनात्मागप्यस्मिन् विपये व्यक्तिनिष्ठप्रयत्ना यशस्विनो जाताः । अनेन लेखनेनान्दोलनं समुत्पन्नम् । सभामेकां निमन्त्र्य प्रस्ताव कृत्वा स्मारकसमितिर्नियुक्ता, स्मारकनिधिसड्महश्च समारब्धः । १८९६ संवत्सरे छत्रपतिशिवरायमहोत्सवकल्पना बद्धमूला जाता। क्रमान् वर्णयति ५० लोकमान्यटिटकचरितम् राष्ट्रियसभाधिवेशनप्रसङ्गेनेका प्रफटसभा पुण्यपत्तने 'रे-मार्केट'स्थानस्य विस्तृते प्रागणे लोकमान्यर्निमन्त्रिता । राष्ट्रियसभाध्यक्षाः 'सुरेन्द्रनाथ यानी महाशया एवास्याः सभायाः सभापतिः । मदनमोहन मालवीया मि. धेयाः पण्डितमहाशयाः ख्यातनामानो यस्तारः । महद्यशः सम्पादित- मनया विराट्समया। एप्रिलमासस्य पञ्चदशे दियसे रायदुर्गे (रायगड ) छत्रपतिशिय- रायस्य महानुत्सयो जातः । करिमन्नपि सत्कार्ये विना विद्यन्त एव । तथैवा- वापि । शासनसंस्थाये प्रार्थनापत्रं सम्प्रेप्योत्सवार्थमनुशा प्रार्थिता । काला. तिपातकारणं पुरस्कृत्स सा शासनसंस्थाधिकारिणा न दत्ता । लोकमान्याः सम्प्रति विधिमण्डलसदस्या आसन् । तस्माद्राजप्रतिनिधि 'सॅन्दर्ट'महा- शयं दृष्ट्याऽखिलं वृत्तान्तं तस्मे निवेद्य तस्मादनुज्ञा लब्धा । अतो द्विगुणी- कृतोत्साहेन जनैः स प्रथमोत्सवो महता अमेण गौरवेण च सम्पादितः । महाराष्ट्रदेशे विद्यमाना राष्ट्रधुरीणा लोकमान्यैः सह तत्रोपस्थिताः । आयत्यामयमुत्सवः शासनसंस्थाधिकारिणां मनसि अस्वस्थतामजन- यत् । सुधारकपक्षेणापि नायगुत्सया पुरस्कृतः । राजद्रोहाभियोगेन लोक- मान्याः कारागृहे निक्षिप्ताः । एवं कालचक्रं प्रतीपं जातम् । १२ राष्ट्रियसभामण्डपकलहः १८९४ संवत्सरे मद्रासनगरे जाते राष्ट्रियसभाधिवेशने आगाम्य- धिवेशनं पुण्यपत्तने भविष्यतीति निश्चितम् । अधिवेशनसम्बन्धीनि सर्वाणि कार्याण्यवेक्षितुं कार्यकारिमण्डलं नियुक्तम् । त्रयः कार्यवाहा आसन् । तेषु लोकमान्याः समाविष्टाः । अस्मिन् काले पुण्यपत्तने द्वौ पक्षावास्ताम् । तयोर्मतभेदास्तीत्रा अभूवन् । अन्यस्याप्येकस्य पक्षस्य वीजमधुना अङ्कुरितम् । रानडे-गोखले. प्रभृतीनां सुधारकपक्षः । लोकमान्यानां राष्ट्रियपक्षः । अधुना 'नातू'- प्रभृतीनां सनातनपक्षस्याङ्कुरो दृश्यते । राष्ट्रियसभामण्डपविपयको विवादः समुत्पन्नः । प्रतिवत्सरं राष्ट्रिय- सभाधिवेशनानन्तरं तिस्मिन्नेव मण्डपे सामाजिकपरिषदोऽधिवेशनमभूत् । इयं पद्धतिरस्मिन् संवत्सरेऽपि अनुसृता भवेदिति कृत्वा कैश्चन पुण्यपत्तन- प्रजांगरपर्व . स्थनागरिकैर िमन् विपये आत्मनो विरोधः प्रदर्शित. । विरोधेनानेन तृतीय- पक्षस्य सम्भवः समुत्पन्नः । राष्ट्रियसभाधिवेशनस्य प्राथमिकी व्यवस्था कर्तुमुपमण्डलानि विनिर्मितानि । तानि कार्यप्रवणान्यभूवन् । द्रव्यनिधिसञ्चयार्थ स्वयंसेवका यदा जनानुपागच्छन् तदाऽयं सामाजिकपरिपदविरोधस्तीयोऽभूत् । विरोधदर्शिनोऽवदन् यदि परिपदोऽधिवेशनं राष्ट्रियसभामण्डपे एव भवि- प्यति तर्हि वयं द्रव्यसाहाय्यं न दास्याम इति । राष्ट्रिया वृत्तिर्लोकमान्या- नाम् । केसरिपत्रे तेः प्रतिपादितम् " प्रथम राष्ट्रकार्यम्, द्वितीय समाजकार्यम् । सभामण्डपे प्रथमं राष्ट्रकार्य सम्पादिते पश्चाद्यदि सामा- जिकपरिपदोऽधिवेशनं भवेत्तर्हि को दोप.?" अनेन प्रतिपादनेन लोकमान्य रुभयपक्षीयाणा रोपः सम्पादितः । सनातनपक्षीया अमन्यन्त लोकमान्या परिपत्पक्षीयाः' इति । सुधारका अमन्यन्त 'लोकमान्या राष्ट्रियावगुण्ठन- धारिणः सनातनपक्षीयाः ' इति । विवादेनानेन राष्ट्रियसभाधिवेशन- मविरोधेन पुण्यपत्तने भविष्यति न या, तथा अधिवेशनाथ द्रव्यसाहाय्य लोकैर्दीयते न वेति सन्देहस्तदानींतनानां राष्ट्रियसभाधुरीणानां-विशेपेण मुम्बापुरीस्थानां-मनसि समुत्पन्नः । 'श्रीधर विठ्ठल दाते'नामकेन केनचि- लब्धप्रतिष्ठेन पुरुपेणैकस्यां समायामुद्घोपितम् 'यदि सामाजिकपरिपदोऽधि. वेशनं राष्ट्रियसभामण्डपे स्यात्तर्हि सभामण्डपोऽमिसात् भवेदिति । उभय- पक्षीयाः लोकमान्यविरुद्धा. । अत. कार्यवाहपदस्य त्यागपत्रमावश्यक जातम् । दत्तेऽपि त्यागपत्रे जनस्य परिपविरोधो न निरस्तः । अयं सामाजिकपरिपदविवादो राष्ट्रियसभाध्यक्षस्थाने नियुक्ताना सुरेन्द्रनाथ वानर्जी 'महाशयानां श्रुतिपथं गतः । स्पष्टमेव कार्यकारिण्यै लिखितम् 'यद्यम्यहं सुधारणाप्रियस्तथाऽपि लोकमानमवश्यं द्रष्टव्यं भवति । अध्यक्षपदे यदि मम नियुक्तिः स्यात् तर्हि मण्डपविषयकाः सर्वे विवादा राष्ट्रियसभाधिवेशनालागेवापश्यं विलयं नेतव्याः' इति । इमं पत्रसन्देश वाचयित्वा रानडेमहाशयैरात्मन आग्रहः परित्यक्तः । एतदर्थक; सन्देशोऽपि मुरेन्द्रनाथमहाशयेभ्यः प्रदित.। .

७२ लोकमान्यटिळकचरितम् एवं राष्ट्रियसभामण्डपे सामाजिकपरिपदोऽधिवेशनं न भवेदिति लोकमान्यपक्षस्य विजयो जातस्तथाऽपि कार्यवाहपदत्यागेन राष्ट्रियसभाया- स्तेपा कार्यसञ्चालकत्वं नष्टप्रायम् । परं साहाय्यदाने - विशेपेण द्रव्य- विपयके- लोकमान्या स्वप्रयत्ला न शिथिलीकृताः । सार्धद्विसहस्ररूपकान् सगृह्य स द्रव्यनिधिः कार्यकारिमण्डलहस्ते तैः समर्पितः । नियोजिताध्यक्षाणां 'सुरेन्द्रनाथ बानर्जी'महाशयानां स्वागत स्वागतसमित्या प्रथम कर्तव्यम् । अतस्तद्विपयिणी पुष्पहारकुसुमगुच्छादि- सामी गृहीत्या स्वागतसमितिसदस्याः पुण्यपत्तनस्याग्निरथविश्रान्तिस्थाने उपस्थिताः । परम् 'हडपसर'नामकं पूर्वस्थानमेव स्वदूतान सम्प्रेष्य अध्यक्ष- महोदयानां प्रथमं स्वागतं लोकमान्यैः सम्पादितं स्वहस्तलिखितं पत्रमपि प्रेपितं च । राष्ट्रियसभाधिवेशनानन्तरमपरेयुः अध्यक्षमहोदयानां तथा- ऽन्येपामभ्यागतानां व्याख्यानानि छत्रपतिशिवरायमहोत्सवविपयमधिकृत्य जातानीति वाचकै तमेव । राष्ट्रियसभासमाप्त्यनन्तरं सर्वे सदस्याः 'बाबामहाराजैनियोजितायो- धानोपहाराय गताः । तत्रापि लोकमान्यप्रभृतीनां प्रामुख्यम् । एवं तै- रात्मनः पक्षस्य महत्त्वं प्रदर्शितम् । एवं समाप्तं पुण्यपत्तनराष्ट्रियसभाधिवेशनम् । - ४ महाराष्ट्रविपत्पर्व १ महदुर्भिक्षम् १८९६ संवत्सरो महाराष्ट्रदेशे अतीव कष्टप्रदः । वर्षाकालस्य पूर्वार्धे- ऽतिवृष्टिः सञ्जाता। तेन जलं विपुलमभूत्। परं जीवनावश्यकधान्यकणाना- मभावः । वर्षाकालस्योत्तरार्धे 'मधा-पूर्वा'दिपर्जन्यनक्षत्रेष्वपि अनावृष्टिः। तेन महदुर्भिक्षं समुपस्थितम् । राष्ट्रान्तयत् तण्डुलगोधूमादिधान्यानि चणिग्- जनैरानीतानि । परं शासनाधिकारिदत्तवृत्तेपु दुर्भिक्षस्यानुल्लेख एव । निस्त- धर्मोपदेशकैरिमं दुरवस्थाप्रसङ्गं साधयित्वा, धर्मान्तरं कारयित्वा, भ्रान्ति- मापन्नानि बालापत्यानि निस्तधर्मसंस्थासु आनीतानि । लोकमान्यैः केसरिपत्रद्वारा अस्मिन् महति सड्कटे प्रजाभ्यस्तासां कर्तव्यमुपदिष्टम् । 'सार्वजनिकसभा' इत्यभिधाना एका संस्था अनेन समयेन सुप्रतिष्ठिताऽऽसीत् । तस्याः सञ्चालकमण्डले लोकमान्या आसन् । सभाया: कार्यकारिण्याऽपि प्रजादुःखनिवारणाय निवेदनपत्राणि प्रशास- केभ्यः पुनः पुनः प्रेपितानि । एकस्मिन् निवेदने महाराष्ट्रेपु 'नगर-सोलापुर- विजापुर'नाम्नि विभागत्रये समुत्पन्नानि दुर्भिक्षनिमित्तकानि प्रजादुःखानि विस्तरेण कथितान्यासन् । तनिवेदनं राज्यप्रशासकेभ्यः सार्वजनिकसभया प्रेपितम् । सोलापुराख्ये पत्तने तन्तुवायानां दुर्भिक्षनिवारणाय सार्वजनिक- सभया उपायः सूचितः, यतस्तेपां जीवनमतीव कप्टतरमभूत् । तथा हि । 'तबस्थवणिग्जनाः स्वमण्डलानि स्थापयित्वा कार्पासतन्नुसङ्ग्रहं कृत्वा पट- कारेभ्यो यथाकालं यथाऽपेक्षं दत्त्वा वस्ननिर्माणाय साहाय्यं दद्युः । तथैव राज्यप्रशासका अप्यस्मिन्नुपाये यत्किश्चिन्यून सम्भवेत्तत्सर्व सम्पादयेयुः इति । श्रेष्ठिजनैरेक मण्डलं संस्थाप्य स्वार्थत्यागेनापि दुर्भिक्षनिवारणकार्य फर्तुमुत्साहः प्रदर्शितः । प्रश्नस्त्वयमेव यत्प्रथमं राज्यशासनसंस्थया द्रव्य- साहाय्यं दत्त्वा पुरस्कारः कर्तव्यः । राज्यशासनयन्त्रं द्रव्यसाहाय्यं दातुं नैच्छत् । अतोऽसम्मतो जातः एप उपायः।

लोकमान्यटिकचरितम् दुर्भिक्षपीडितजनदुःखनिवारणार्थ 'फॅमिन् रिलीफ कोट'नाम्नी काचित् दुर्भिक्षकालव्यवहारशास्त्रसंहिताऽऽसीत् । परं सा विपन्नाशाय नालम् । मुम्बईप्रदेशे 'कोंकण-कर्णाटका'दिविभागेषु सार्वजनिकसभा- सेवफान प्रेपयित्या दुर्भिक्षजनितप्रजादुःखान्याकलय्य लोकमान्यस्तेषां सम्यम् ज्ञान सम्पादितम् । यः कश्चित् प्रजानां स्वल्पद्रव्यसङ्ग्रह आसीत् स पूर्वदुर्भिक्षे विलयं गतः । सम्प्रति प्रजा निःसत्त्या जाताः । केसरिवृत्तपत्रे सर्वाण्येतानि प्रजादुःखानि कथयित्या राज्य प्रशासकेभ्यः काश्चिद्विधायकसूचना लोकमान्यैः कृताः । तथैव जनेभ्योऽपि स्वकर्तव्योपदेशः कृतः । प्रथमं तावत् प्रजामिः स्वकर्तव्यं सम्यग्रीत्या ज्ञात्वा परस्परसहकारेणेवैपा महती विपदुत्तरणीया इति लोकमान्यानामुप- देशपद्धतिः । सार्वजनिकसभासहकारेणैका पुस्तिकाऽपि तेः सम्पादिता । 'फॅमिन कोड'नामिकायाः विधानसंहितायाः सारांशः, 'निवडुंग'नाम्नः वनस्पतेर्गोपभक्षणोचितान्नस्य कृतिः,. दुर्भिक्षनिवारणाय निर्मितानां कार्याणां लोकज्ञानार्थ वृत्तान्तः, राज्यप्रशासकेभ्यः प्रदेयस्य करद्रव्यस्य नियमाः लोकमान्यैरस्यां पुस्तिकायां सङ्ग्रहीताः । पट्सहस्रसंख्याकान्येतानि पुस्तकानि सार्वजनिकसभया मुद्रयित्वा प्रति विभागप्रशासकाय विना मूल्यं पुस्तकानां शतं सम्प्रेप्य विज्ञप्तिः कृता यज्जानपदकृपीवलेभ्यस्तानि दत्त्वा दुर्भिक्षनिवारणाय साहाय्यं क्रियतामिति । अधिकानां पुस्तफाना- मपेक्षा चेत् प्रतिशतं सार्धरूपकद्वयं सम्प्रेप्य यथाकामं पुस्तकानि क्रेतव्यानि लोकेभ्यः प्रदेयानि च । अस्योपायस्य सार्वजनिक- सभोद्देशस्त्वेक एव यच्छासनाधिकारिणो यद्येतानि पुस्तकानि प्रदा- स्तर्हि ग्रामीणारतानि वाचयित्वा सत्वरं साहाय्यं लभेरनिति । परम् अधिकारिभिरयं मार्गो नाङ्गीकृतः । एतत्पुस्तकं शासनयन्त्रणया न निर्मित- मिति कृत्वा त्याज्यमेवेति तेपामभिप्रायः । अतः सार्वजनिकसभायाः कार्य- कर्तृभ्यो विभागाधिकारिभिस्तथा निवेदितम् । राज्यप्रशासकास्तु एतेन निवेदनमात्रेण न संतुष्टाः । कैश्चित्तानि पुस्तकानि खण्डशः कृतानि । कैश्चिदवज्ञया तानि दुर्लक्ष्यीकृतानि । कैश्चिनिःसारवस्तुपाने क्षिप्तानि । कैश्चन अग्नि प्रज्वाल्य पुस्तकान्यग्निसात् कृतानि । कैश्चित्सौजन्येन कार्यवाह " महाराष्ट्रविपत्पर्य प्रति प्रेपितानि । परं सभयाऽऽत्मन प्रयत्नो न परित्यक्तः । पुनरप्येक विस्तृतमावेदनपत्रकं सभया प्रेपितम् । तथाऽपि सर्व विफलमभूत् । राज्यशासनसंस्थया तस्योत्तरमतिसंक्षेपेण प्रदत्तम् । पूर्वस्मिन् दुर्भिक्षे सार्वजनिकसभासूचितोपाया राज्यशासनेन सादरं स्वीकृताः, यतः सभायाः सञ्चालकवर्गे 'माधवराव रानडे' इतिनामधेया मार्गदर्शका आसन् । इदानीं सा सभा लोकमान्यानुवर्तिनी जाता । लोकमान्यानां चरितं तु राज्य- प्रशासकानां रुचये नाभूत् । अनेनैव कालेन सार्वजनिकसभया भूमिकरग्रहणविषयकमन्यत्स- विस्तरनिवेदनपत्रकं राज्यप्रशासकेभ्यः प्रेपितम् । तस्मिन्निवेदने शासन- संस्थाकार्यपद्धतिः सङ्कुचिता, भूमिकरग्रहणरीति. क्षुद्रा इत्यादिविपयाणां निर्देश आसीत् । विशेपेण तु इदमुलिखितं यदाज्यप्रशासकैः कनिष्ठराज- पुरुपेभ्यः सुगुप्तानि करग्रहणविषयकाण्याज्ञापत्राणि प्रेपितान्यासन् । राज्यप्रशासनसंस्थाये तन्नारोचत । अनेनोल्लेखेन प्रक्षुब्धा राज्य- शासनयन्त्रणा । कथं सुगुप्तान्याज्ञापत्राणि सम्पादितानि, प्रजाभ्यश्च विदितानि च भवन्तीति प्रश्नः प्रथममेव राज्यशासनसंस्थया आत्मनः उत्तरे समुद्धृतः। अस्मिन् विपये यहून्युत्तरप्रत्युत्तराण्यभूवन् । परं सुगुप्ताना• माज्ञापत्राणां समर्थनं नाभूत् । अन्यत् प्रकरणमनेन समयेन समुद्भूतम् । अनतंराय जोशी एक- संवेकर'नामा कश्चित्सार्वजनिकसभासेयक आत्मनः स्वाक्षरी कृत्या पत्रमेकं मुद्रयित्वा प्रामे मामे सभां निमन्त्रितवान समाप्तिं च नीतवान् । पत्रके एवं लिसिसमासीत् " अस्मिन् दुर्भिक्षे कोऽपि पुस्पः अन्नं विना निधनं नोपेयादिति सार्वभौमशामनसंस्थाया मनोगतं विद्यते" । अस्मिन् विपये प्रमुसराजप्रतिनिधिः राझ्याः सन्देशमपि प्राप्तवान् । मुम्बईप्रदेशे करमहणार्थ नियुक्तभ्यो राजपुरपेभ्योऽयमादेशः यत्र यत्र चतुर्थाशं पिफलं विद्यते तत्र तत्र भूमिफरमहणं न स्या"दिति । इमानि पत्रकाणि सम्पाय 'मॉन्टीय'नामा फश्चिद्राजपुरपः पत्रकमेकं सार्वजनिक्सभायाः कार्यमाई प्रति प्रेपितवान् पृष्टयांय यन् मारंजनियममाऽम्य पत्रपम्प जनकन्यमुत्तर- दायित्वं प स्वीकरिष्यति न पैति । मुख्यपिपयं दुर्भिशनिवारणोपायमपसार्य 1 लोकमान्यटिळकचरितम् हस्तपत्रके 'किं लिखितं, केन लिखित'मित्यस्मिन् विषये विवादः सम- जायत । यथा राजपुरुपाणां किंचित् स्खलित तथा सभाया अपि । उत्तरप्रेपणे सभया कालापहरणं कृतम् । मुम्बईप्रदेशशासनसंस्थया प्रस्तावमेकं स्वीकृत्य सभा प्रति लिखितम् " एकसंवेकरनाम्नः कस्यचित् सभासेवकस्य पत्रके लिखितानि विधानान्यसत्यानि । एकमासं यावत् सभयोत्तरं न प्रेपितम् । पत्रकानुसारतः कृपीवलैः भूमिकरो न दत्तः। सभया कृतं स्पष्टीकरणमसमी- चीनम् । आयत्यामेतादृशं स्खलितं न स्यादिति आश्वासनमपि न दत्तम् । अतः सार्वजनिकसभायाः प्रजाप्रश्नविपयकलोकमतनिदर्शनाधिकारी राज्य- शासनसंस्थाया असम्मतः । सभासदस्यैरतः परमेतादृशानि निवेदनपत्रकाणि न प्रेपणीयानि" इति । सर्वेष्वपि कार्येषु लोकमान्यानां विचारोऽतीच गभीरो मूलपाही चासीत् । अतः प्रतिपक्षीयसदस्यानां हस्ते इदं साधनभुपलब्धम् । तैश्चोक्तम् पश्यत जनाः लोकमान्यच्छन्दानुवर्तनेन किं भविष्यति' इति । एतदुर्भिक्षविषयकमान्दोलनं केसरित्तपत्रलेखैविशेषेणोपकृतं सर्वतश्च प्रसृतमासीत् । सार्वजनिकसभायाः निवेदने यद्भापासौष्टयं, याङ्माधुर्य, साहित्यदर्शनं च वर्तते तल्लेखेपु न दृश्यते । लेखानां भापा तु सुलभा, परं मूलपाहिणी हृदयहारिणी च । लोकमान्या अलिखन् “ राज्यशासनसंस्था अस्मदीया । वरिष्ठकनिष्ठराजपुरुषा अप्यस्मदीयाः । सर्वेऽपि ते दयायुक्त- चेतसा स्वकर्माणि सम्यगनुतिप्ठेयुः । यद्येवं ते नाचरेयुस्तर्हि ते सापराधा भवेयुः । दुर्भिक्षपीडितजनानां दुःखानि शासनसंस्थायै तैरेव दर्श- नीयानि । शासनसंस्थाधनमपि परम्परया प्रजानामेव । कृपीवलै: करस्याप्रदानात् या हानिः सम्भवेत् साप्यस्माभिः सोढव्या । रक्षा- पुरुपैः प्रतिपालितानि बनान्यपि अस्मदीयानि । प्राणपरित्राणो- चितानि वृक्षपर्णफलानि बनेभ्यो रक्षापुरुपैर्लोकेभ्यः प्रदेयानि । किं बहुना । शासनसंस्थया यद्यत् कृतं स्यात्तस्य तस्य सम्पूर्ण फलं प्रजामिर्ग्रही- तव्यम् । यत्तया न कृतं स्यात्तत् सम्पादयितुं जनाः शासनसंस्था प्रवर्त- येरन् । यद्येतजना न जानीयुस्तहि लोकधुरीणाः प्रजाभ्यस्तनिवेदयेयुः 'इति । आङ्ग्लदेशे पार्लमेंटसभायामेकस्मिन् प्रसङ्गे भारतदेशस्य शासन- ७७ महाराष्ट्रविपत्पर्व संस्थायास्तत्रस्थः सचिवः एवमब्रवीत् “ शासनसंस्थायाः कोपागारः प्रजा. परित्राणाय यदि नालम् , तर्हि ऋणं कृत्वा तत्कार्य वयं सम्पादयेम" इति । तस्य तद्वचनं पुरस्कृत्य लोकमान्या अलिखन् “ यदि राज्यशासनसंस्था इयत् साहाय्यं दातुं सन्नद्धा स्यात्तर्हि जनाः किमर्थमकारणं प्राणांस्त्यजेयुरिति वयं न जानीमः । दातारो यादारास्तर्हि याचकानां किमर्थमभावः । वयं जनान् प्रार्थयामहे यो योऽस्मिन् महति दुर्भिक्षे प्राणपरित्राणार्थ साहाय्यमपेक्षते स स प्रदेशविभागाधिकारिणमुपगम्य याचेत" इति । आत्मनो लेखनेनामुमुपदेशं प्रजाभ्यः कृत्वा राजपुरुषेप्वपि प्रखर- टीकास्त्रं लोकमान्याः प्राक्षिपन् । तेषां लेखनस्यायमेवाशयः "प्रदेशप्रमुखेभ्यो राजप्रतिनिधिभ्यस्तथा विभागप्रशासकेभ्यो बहुलं धनं वेतनरूपेण दातुं कोपागारः सुवर्णपूर्णो विद्यते । परं दुर्भिक्षपीडितप्रजानां प्राणपरित्राणाय धनं नावशिष्यते । भारतदेशस्य प्रमुखराजप्रतिनिधिर्यदा भारतनिवासिनः सामन्तान् द्रष्टुं विचरति तदा तस्य सत्काराय, दीपोत्सवाय, भोजनसमा- रम्भाय, मद्यप्राशनाय, नृत्यगीतादिविनोदाय च विपुलं धनं सम्पाद्यते । यदि सर्व तदनं दुर्भिक्षपीडितप्रजादुःखनिवारणायोपयुज्येत तर्हि मह- कल्याणं भवेत् । परं क एतद्वक्तुं धृष्णोति ? भारतदेशस्य प्रमुखराज- प्रतिनिधिर्यदा 'बडोदा'नगरी गतवांस्तदा तस्य सत्कारोत्सयार्थ उपस्थितेपु लोकेपु त्रिंशञ्चत्वारिंशन्नरास्तस्मिन् जनसम्म प्राणैर्वियुक्ताः । सामन्तराजानो महता विभवेन महोत्सवान् कुर्युः, धनहीनाः प्रजाश्च प्राणान् मुञ्चेयु. । एतादृशो विपरीतकालो विद्याविभूपिताङ्ग्लराजपुरुषाणां प्रशासने सम्प्रति सम्प्राप्तः इति महदाश्चर्यम् । सार्वजनिकसभाद्वारा अधिकृताः पुरुषाः 'विश्वनाथ काशीनाथ राजवाडे-नरसिंह चिंतामणि केळकर-नारायणवावा घमंडे-शंकर गणेश लवाटे-गोविंदराव टिळक 'इत्यादयः सर्वत्र प्रहिताः । सर्वेऽपि ते तत्त- द्विभागप्रशासकान् दृष्ट्वा दुर्भिक्षनिवारणाय प्रायतन्त, ग्रामीणसभायां च लोकेभ्यो निवेदनान्यवर्णयन्त। 'अच्युतराय साठे'नामकः कश्चित् प्राध्यापक: प्रचारकर्मकुशलो वाक्पटुरासीत् । 'ठाणे'विभागे 'खत्तलवाड'प्रामे तेन निमन्त्रिवायां सभायां 'डुयोले'नामको राज्यप्रशासकः कनिष्ठपजपुरुपैस्सहो.

७८ लोकमान्यटिळकचरितम् पस्थित आसीत्। तस्य समक्षमेव ' साठे'महाशयो जनानवदत् " दुर्भिक्षकाले प्रजाः कृषिफलस्याभावे भूमिकरं न दद्युः । अधिकारिपुरुषाणां कृपयैव वयमेवं ब्रूमः" इति एप सभावृत्तान्तो विस्तरेण केसरिवृत्तपत्रे मुद्रितः । परम् एतादृशस्य प्रचारस्य परिणामो विपरीतो जातः । 'साठे-आपटे-परांजपे-कारुटकर-पिपुट- कर'प्रभृतीन् निगृह्य वन्धनागारं निक्षिप्य तेषां प्रचारप्रकरणं रक्षापुरुषैाय- सभायां प्रविष्टम् । साठेमहाशयप्रकरणं गभीरमासीत् । वस्तुतः तत् सार्व- जनिकसभाया एष परीक्षणमासीत् , यतः 'साठे 'महाशयः सभाया अधि- कृतः सेवकः । अस्मिन् समये लोकमान्याः कलकत्तानगरे राष्ट्रियसभा- धिवेशनार्थ गता आसन् । न्यायालयप्रविष्टस्यास्य प्रकरणस्य वार्ताप्राप्तिक्षणे एव लोकमान्याः पुण्यपत्तनं गन्तुं सन्नद्धा अभूयन् । दीर्घप्रवासानन्तरं च तत्र समागच्छन् । दीर्घप्रवासधान्ता अपि ते साठे-आपटेप्रकरणपरीक्षा. समये तेषां परित्राणं कथं कर्तव्यमित्यस्मिन् विपये विचारमूढेभ्यो लोक धुरीणेभ्योऽखिला प्रकरणवार्ता विज्ञाय परित्राणपद्धति निश्चिक्युः । पेण'- पत्तनस्थन्यायालये साठेप्रभृतीनां प्रकरणं परीक्षितम् । व्यवहारशास्त्रकुशला वरिष्ठकनिष्ठविधिज्ञा घवो जनास्तस्मिन् समये उपस्थिता आसन् । पेणपत्तने एकस्यां सभायां लोकमान्यैरुक्तम् । शासनसंस्थायाः आज्ञापत्रकाणा- मर्थस्य सम्यग्रीत्या प्रतिपादनेन यदि साठेप्रभृतयो न्यायालये परी- क्ष्यन्ते तर्हि अहं कथं न परीक्षितव्यो भवामि । मम तु एप एवोद्योगः । नैकवारम् अपि तु बहुवारमहं प्राड्विवाकस्याये परीक्षितव्यः । लोक- मान्यानामनेन भापणेन लोकानां दण्डभयं विलयं गतम् । यदा साठे-आपटे- प्रकरण परीक्षार्थ प्रवृत्तं तदा प्रारम्भे एव प्रफरणद्वयमेतत् पृथक् परीक्षि- तव्यमिति सूचना न्यायाधीशेनाङ्गीकृता । साठेप्रकरणपरीक्षासमये शासन- संस्थया कृता आरोपा पुरस्कृतसाक्षियचनः प्रमाणाभावादसिद्धा जाताः । अतस्तस्मिन्नेव दिने निरपराधित्वात् साठेमहाशयाः कारावासाद्विमुक्ताः । आपटेप्रकरणे महता आयासेन आपटेमहोदया अपराधिन इति निश्वित्स प्रावियाकेन यपभोग्येण कारावासेन द्विशतरूपकैच दण्डिताः । 'ठाणे विभागे विद्यमानं तृतीयं प्रकरण लोकमान्येषु संश्लिष्टं स्यादिति सम्भयः समुत्पन्नः । परं यदा प्रकरणं परीक्षार्थ लोग'नामयपापियाकम्य महाराष्ट्रविपत्पर्व पुरतः प्रवृत्तं तदा सम्यक् परीक्ष्य निर्णयं कृत्वा कारुळकर-पिंपुटकरादयो निर्दोपं विमुक्ताः। अस्मिन् दुर्भिक्षविषयकान्दोलने लोकमान्यानां लेखनेन महत् कार्य कृतम् । तेषां कार्य द्विविधम्- विधायकं विध्वंसकं च । यथा लोकमान्यैः शासनाधिकारिपु प्रखरं टीकास्त्रं प्रक्षिप्तं तथा लोकानां दोपदर्शनेन उपदेशेन च प्रजासु महान् प्रबोधः कृतः । जनैरपि स्वकर्तव्यानि स्वार्थत्यागेन लोकोपयोगार्थमवश्यं करणीयानि इति लोकमान्यैः प्रतिपादितम् । महान् लोकप्रजागरोऽनेन तैः सम्पादितः । २ ग्रन्थिज्वरः 'दुःखं दुःखानुबन्धि' इति यदुच्यते तत्सत्यमेव । दुर्भिक्षसमये कृतान्तदूतः कश्चिद्रोगः प्रादुर्भूतः । यह्यो युवानो युक्त्तयश्च तेन अकालं पञ्चत्वं नीताः । ग्रन्थिज्वरस्य निदानं प्रथमं न जातम् । तस्य प्रादुर्भायः प्रथमं मुम्यापुर्या जातः । अनन्तरं मनुष्यसंसर्गात् सोऽन्यत्र प्रसृतः । अस्य ज्वरस्य स्वरूपं भयानकमासीत् । मुम्वापुर्या तेन प्रतिदिनं त्रिचतुश्शतं मानवा यमधानी प्रापिताः । ज्वरस्येदं रौद्रं स्वरूपं दृष्ट्या प्रकृत्या भीरयो जना अतीव व्याकुला अभूवन । आत्मनो निवासस्थानानि त्यक्त्वा यत्र कुत्रापि प्रामाद्वा नगराद्वा बहिरगच्छन् । ग्रन्थिज्वरवार्ता यदाऽऽङ्ग्लदेशं प्राप्ता तदा तद्देशीया जना अस्वस्था अभूवन , यतस्तेपामस्य ज्वरस्यानुभवः कटुतम आसीत् । अनेन ज्वरेणा- खिलः प्रदेशः सत्वरं प्रस्तो भवेत् , मनुष्यमार्गेण चाङ्ग्लदेशप्रवासमप्यड्गी- कुर्यादिति भीत्या 'लण्डन'नगरस्थभारतशासनसंस्थाया. वरिष्ठकार्यालया- दविलम्वेन प्रभूताः सन्देशाः कलकत्तानगरस्थप्रमुखराजप्रतिनिधये प्रहिताः, यथा तेन विना कालातिपातं ग्रन्थिन्वरनिवारणोपायाः प्रयोक्तव्या इति । लोकमान्यानां मते ये केचनोपायाः प्रयोक्तव्यास्ते जनानां तथैव नगर- पालिकानां सहकारेणैव प्रयोक्तव्या इति । ३ उपाययोजना अग्निरथेन गमनागमनं कुर्वाणाः पथिका नगरपालिकायेद्ययरैः परीक्ष्या इति प्रथमोपायो निश्चितः । मुम्बापुरीस्थशासनसंस्थाया. कार्यालयो . ८० लोकमान्यटिळकचरितम् न्यायालया विद्यालयाश्च स्वकर्माणि स्थगयितु प्रारभन्त । पुण्यपत्तनेऽप्यनेन चरेण स्वप्रभावो दर्शित । शनै शनैर्निखिल नगरमनेन समाकान्तम् । नगरपालिकया ये उपचारा सङ्कल्पितास्तेपु रोका केन मार्गेण साहाय्य दद्युरित्यस्मिन् विषये मिपग्वरैर्लेखान् लेखयित्वा रोकमान्या जनाना मार्ग दर्शनमकुर्वन् । पाकगृहादिशुचितामारभ्य मलमूत्रविसर्जनान्ता सर्वे विपया लेखेषु समालोचिता । लोकान् शिक्षयितु तेपा दोपदर्शनमपि निर्भयवृत्त्या लेकमान्या परुपाक्षरैरकुर्वन् । ग्रन्थिज्वरस्तु महता वेगेन प्रसार प्राप्त । राज्यशासनसस्थयाऽपि केचनोपाया अविलम्बेनावलम्बिता । इग्ल्ड'देशस्थ- लडन'नगरवासिना मुख्यशासनाधिकारिणा ग्रन्थिज्वरप्रतिबन्धविपये उपाययोजना कर्तुमादेशा पुन पुनर्दत्ता । अत 'कलकत्ता'नगरे प्रमुखराजप्रतिनिधेर्मुख्यविधानसभयैक प्रस्ताव स्वीकृत्याधिकारिभ्य साया- मिकाधिकारा प्रदत्ता । ये केचन जनास्तानधिकारानवमन्येरस्तेभ्यो दण्डो ऽपि विहित । प्रजापक्षधुरीणै कृता सूचना राजपुरुपैस्तिरस्कृता । मुख्य- प्रस्तावानुसारत प्रदेशशासनसस्थया बहवो नियमा कृता । तै विभागप्रशासका सायुधा सशक्तिका बभूवु । न्यायालयेऽप्येतद्विपयक- न्यायस्य परिक्षण परिमार्जन वा नास्ति । विभागनगरसीमासु गमना गमननिर्वन्ध , ज्वरससर्गसशयेन सर्ववस्तूना तथा गृहाणामपि विशुद्धीकरण भस्मीकरण था, रोगग्रस्ताना नरनारीणा यत्र कुनापि स्थलान्तरमित्यादय सर्वेऽधिकारी प्रशासकेभ्यो दत्ता । अधिकारमदो जनमततिरस्कार- बुद्धि उपस्वभावो दण्डरुचिरित्यादिगुणैर्युक्ता विशेपाधिकारिणोऽस्मिन् कर्मणि नियुत्ता । यस्मिन्नगरे शासनसस्थाऽवकृपा स्यात्तस्मिन्नगरे एवगुण रिशिष्टविशेषाधिकारी नियुत्तो भवेत् । एतादृशविशेषाधिकारयुक्ताधिकारिणा नियुक्त्या शासनसस्थयाऽनुगृहीत पुण्यपत्तनम् , तथा च लोकमान्या अपि सङ्कटपरम्परया कारावासादिप्रसङ्गेन प्रसादिन कृता । शासनाधिकारिमि प्रयुक्त प्रथमोपायो नगरसीमासु गमनागमननिर्वन्ध । पर तर साद्यपेया दिपदार्थाना न काऽपि व्यवस्था । द्वितीयोपायो प्रन्थिज्वरमस्तरुग्णस्य संसर्गनिरासाय रुग्णस्य परिमन्नपि रुग्णाल्ये स्थलान्तरम् । साम्प्रतमिव तम्मिन् काले जनमत शिक्षित नामीत् । रुग्णाल्या मरणालया इति जनानां महाराष्ट्रविपत्पर्य कल्पना । एतदसमञ्जसमिति लोकमान्यैः कठोरशब्दैलिखितम् । परम् अस्मिन् विपये महत्यनवस्था समुत्पन्ना । पुण्यपत्तननगरपालिकया केचिनियमाः सम्मताः। परं ते सर्व शासनसंस्थाया असम्मताः । ज्वरग्रस्ते नगरे रुग्णालयं नेतुं प्रतिदिनं द्विवानेव रुग्णान् अधिकारिणोऽलभन्त । मुखेन तत्र गन्तुं न कोऽप्यैच्छत् । लोकमान्या अपि रुग्णालयमेकं स्थापयितुं सयत्ना आसन्। ४ अधिकारिणामुपद्रवः सायुधः सशक्तिको 'रड'नामकः कश्चिद्राजपुरुषो ग्रन्थिज्वरनिवारणो- पायकर्मणि विशेषाधिकारैर्नियुक्त आसीत् । प्रकृत्या तामसः, उग्रस्वभावो, दण्डरुचिः स राजसेवकस्तीव्रोपायैः प्रजादुःखमधिकं वर्धयेत् इति तस्य पूर्वेतिहासज्ञानात्तदा लोकमतमासीत् । तस्यागमनात् प्रागेव लोकमान्यै- लिखितमासीत् " ज्वरप्रस्तानां रुग्णानां स्वजनैः सह विप्रयोगानुष्ठानरीतिः उग्रस्वरूप धारयिष्यतीति दृश्यते । परं सा न किमपि फलमायहेत् उद्देश- सिद्धौ च विघ्नाय कल्पेतेति विप्रयोगकरणानुष्ठानपद्धत्या अनुमान सम्भवेत् । सौम्येनैव मार्गेण जना विप्रयोगं विदध्युः, न राजपुरुषाः । तथैव राज्यशासनसंस्था रुग्णालयान् स्थापयित्वा तेषां सकलव्यवस्था लोकहस्ते दद्यात् इति प्रस्तावं कृत्या नगरपालिकाधिकारिभ्यस्तथा शासनसंस्थाधिकारिभ्यः स प्रस्तावो प्रजामिः प्रहेतव्यः । ग्रन्थिज्वरमीतिः स्निग्धजनचिन्ता च ज्वरस्य निमित्तकारणे सम्भवतः । तस्माजना एव तत्कार्य सम्पादयेयुः” इति । 'यूरोप खण्डस्थदेशा प्रन्थिज्वरवार्तया नितरां भीतिग्रस्ता इति प्रथमं लोकानामभिप्राय आसीत् । अतो भयग्रस्तमानसाः शासनसंस्थाधिकारिणः कानप्युपायान् प्रायुञ्जत । तेपा- मुद्देशो दुष्टो नासीत् इति केसरिपत्रेण लिखितम् । रक्षापुरुषाः प्रसङ्ग- स्यास्य लाभमगृहन् । कमपि पुरुपं रक्षापुरपा वदेयु: 'ज्वरसम्पीडितोऽसि त्वम् । आगच्छ मया सह । अहं त्वां रुग्णालयं नयामी'त्युक्त्वा रक्षापुरुषा- स्तस्मात् पुरुपात् धनं लन्ध्या तममुश्चन् इत्यादयोऽस्य ज्वरनिरसनोपायस्य फतिचिद्दुरुपयोगा अपि वभूवुः । रुग्णालयविपये जनानामरुचिं निर्मूलयितुं तत्सम्बन्धिनी यथार्थकल्पना लोकमान्यैस्तेभ्यो दत्ता । लोकमान्याना- लोकमान्यटिळकचरितम् माग्रहस्तु मतपरिवर्तनेन सामोपचारेण ज्वरमस्ता रुग्णालयं नेतन्याः । न वलोपयोगेनेति । परं क एतजानीयात् । रुग्णशोधनार्थ गृहपरीक्षणं निश्चितं कृतम् । अनेन निश्चयेन विप्रयोगकरणालोका बहुलं भीताः । लोकमान्यास्तानुपादिशन् “ आत्मनो प्रामात्यक्त्या लोका यदि सामान्तरं गच्छेयुस्तर्हि मृत्युभयं नष्टं किम् ? तत्रापि मृत्युभविष्यत्येव । तस्मात् कारणं विनाऽन्यत्र गत्वा किमर्थ लोका प्रन्थिज्वरं प्रसारयेयुः ?" इति । ईदृशोप- देशकरणे लोकमान्या एवाधिकारिणो यतस्ते प्रन्थिज्वरकाले पुण्यपत्तने एवं वसतिं चक्रुः, बहिर्न गत्या जनेभ्यः साहाय्यं ददुः । अखिलं पुण्यपत्तनं प्रन्थिज्वरग्रस्तमभूत् । कृतान्तस्य शासनमप्रतिहत- मासीत् । रँडमहाशयस्य ज्वरप्रतिबन्धोद्योगा अपि प्रवृद्धाः । कतिचित् सेना- धिकारिणोऽपि तस्य साहाय्याय शासनसंस्थया नियुक्ताः । रुग्णशोधनार्थमेक गौरकायसैनिकपथकं समागतम्। एकस्मिन्नेव सप्ताहे रुग्णशोधनोद्योगेन विशालं रूपं धारयित्वा महान संक्षोभः कृतः । लोकमान्या एवमलिखन् “ सैनिकाः पाकगृहदेवगृहादिपवित्रस्थानानि प्रविश्य विचिन्वन्ति इति सैनिकानां न दोपः ।तैः सह ये स्वयंसेवकाः शोधार्थ वा परीक्षणार्थ वा सैनिकेभ्यः साहाय्यं दातुं गच्छन्ति त एव दोपार्हा भवन्ति । 'सॅन्ढर्ट' नाम्नो राजप्रतिनिधेरिय- मेवोत्कटेच्छा यत् सैनिका यद्यपि ज्वरप्रतिबन्धार्थ प्रयोक्तव्यानि सर्वाणि कार्याणि कुर्वन्ति तथापि सामान्यजनाः क्लेशं वा उपद्रवं या न प्राप्नुयुः इति । केसरिपने लोकमान्यैरेतदर्थ तस्मै पुनः पुनर्धन्ययादाः प्रदत्ताः । प्राप्तायामवस्थायां सर्वे सौजन्येनात्मनः कर्माणि कुर्युः विपत्तिं चोत्तरेयुः । रुग्णशोधनं प्रेतशोधने परिणतम् । यस्मिन् गृहे ज्वरेण मृत्युः सञ्जातः तद्- गृहं रक्तवर्णेन चिह्नितम् । अनन्तरं तव सैनिकपथकमागत्य तज्ज्वरदूपितं गृहं शुद्धीकरणमिश्रणेन क्षालयितुं प्रावर्तत, स्वेच्छया गृहपात्रादिपदार्थान घहिरानीयामिसात्कर्तुं च प्रारभत, तथैवान्यान्यपि खिलीकृतानि गृहाणि हठादुद्घाट्य तत्राध्यात्मनो लीलाविलासानकरोत् । प्राणपरित्राणार्थ जना नगराबहिरगच्छन् । गृहप्रक्षालनकर्मणि नियुक्ताः सैनिका वहिर्गतानां गृहस्वामिनां गृहाणि प्रविश्य तत्र विद्यमानानि वस्तूनि यथेच्छमपाहरन् । एवं प्रन्थिज्वरप्रतिबन्धार्थ नियुक्तेन सेनापथफेन बहुप्रकारैर्जनवित्तहानिः कृता।

महाराष्ट्रविपत्पर्व नागरिकाणा सहकारेण रोकमान्या एक रुग्णालयमस्थापयन् । तस्य निखिला व्यवस्था पुण्यपत्तनस्थलोकधुरीणा अपश्यन् । ओपधियोजना रुग्णपरिचर्यादिव्यवस्था तज्ज्ञचिकित्सकैरड्गीकृता । रुग्णाल्यनियमा सुलभा सौम्याश्वासन् । रुग्णालयस्थलमपि नगरसमीपमासीत् । अतो लोकभीतिस्तेन लघुकृता । इत्थ नागरिकसस्थापितरुग्णाल्यव्यवस्था लेक- प्रियाऽभूत् । शासनसस्थाविनिर्मिता प्रन्थिज्वरप्रतिवन्धकयन्त्रणा तु भृश पीडा- करा, सर्वदुः खाना च जननी जाता । ग्रामान्तरगमनागमननिर्बन्ध , ज्वर- प्रस्तरुग्णशोधन, तेपा विप्रयोगकरण, दूपितगृहशुद्धीकरणार्थ प्रक्षालन सर्वेप्वेतेपु कर्मसु स्वेच्छया जनाना न प्रवृत्ति । प्रथम तावत्स्वजनचिन्ता । अन्यद्रक्षापुरुपमय सैनिकजनभय च । अतो नागरिका दु खस्य परा कोटि प्राप्नुवन् । रुग्णाल्यप्रवेशोऽपि प्रवेशपत्रिका विना नासीत् । चरप्रतिवन्धो पायार्थमानीताना सैनिकाना लीलाविलासा केन वर्णनीया । साहाय्यार्थ समागते स्वयसेवकै सह असम्भापण, तेपा विडम्बन, सैनिककृतमर्कट- चेष्टा , असम्बद्धभापण, सन्तर्जनम् , अनुचितपरशरीरस्पर्शन, कुतूहलेन किमपि गृहवस्तु समुद्घाटय परीक्षण, स्तेयबुद्धथा तस्यापहरणमिति विविधा विलासा कैश्चिदज्ञानेन कैश्चिदधिकारमदेन कृता । हिंदुधर्मिणो महम्मदधर्मिणश्च ऋजुमार्गेण समाचरन् यतस्ते परस्पराणामाचारधर्मान् जानन्त्येव । परम् एते निस्तधर्मिण पाश्चात्त्या अधिकारमदान्धा आदरेण लोकान् कथ पश्येयु । एतादृशीं रॅडमहाशयस्य शासनरीतिं जना क्थ सहन्ते इति अन्यनामेषु नगरेषु च वसन्तो जना तेस्मान्यानपृच्छन् । लोकमान्यै स्पष्टमेव एव लिखितम् 'शिवछत्रपतिसस्थापितसाम्राज्य समाप्तिकालेऽपि इयत् सैन्यमन 'एल्फिस्टन महाशयसमीप तदा नासीत् यावत्सैन्य सम्प्रति रॅडमहाशयेन समानीतम् । तस्मात्सोढव्या एवैपा विपत्ति जनै रिति । न्यायालयेऽधिकारिणामपराधाना परीक्षणमपि निन्धान स्यात् । लोकमान्याना लेसनमुभयप्रकारकम् । रोकशिक्षणाय जनस्योपदेश । शासन सस्थादोपान दूरीकतुं राजपुरपेभ्य सूचना । परम् एतत्सर्न रोकमान्या निर्भयेन मनसा कदाचित्सौम्यशब्दै , कदाचित् कठोरयचने , कदाचिदुप .

८४ लोकमान्यटिळकचरितम् हासेन, कदाचिनिन्दाप्रचुरवात्यैरकुर्वन् । सर्वेऽपि नागरिका अनेन रौद्रोप- द्रवेणोद्विनमानसा अभूवन् । अन्ते ज्वरपीडिताना रुग्णानां शोधनं स्थगितव्य- मिति रँडमहाशयैर्निश्चितम् । लोकमान्यैः स्वयमेवैतत् सूचितं यद्भिपग्वरस्य परीक्षणं विना न कोऽपि मृतशरीरम् उत्तरक्रियार्थ नयेत । तथैव ज्वरेण मृतस्य पुरुपस्यैव गृहं चिकित्सकस्याज्ञापत्रेण क्षालनीयम् । इयमपि सूचना रॅडमहाशयैः स्वीकृता। गच्छता फालेन प्रन्थिज्वरप्रसारस्य सड़कोचो जातः । वैद्यवरा अपि तन्निदानं कर्तुमसमर्थाः । का कथा औपधाशुपायानाम् । शनैः शनैर्ग्रन्थिज्वर- जन्तयो नष्टा अभूवन् । ज्वरामावस्य सन्देशा विदेशान् प्रहिताः । ज्वर- प्रतिबन्धार्थ विनिर्मिता. समितयो धन्यवादाऱ्या बभूवुः । परं जना बहुप्रकारकाणि दुःखान्यन्वभवन् । नेपां सान्त्वनार्थ न केनापि शब्दमानो- ऽप्युचारितः । अस्मादेय दु.खादन्यदुःखं समुत्पन्नम् ।

५ प्रथमराजद्रोहाभियोगपर्व १ राजद्रोहाभियोगः पुण्यपत्तननगरपालिका, मुम्बई विश्वविद्यालयः, मुम्बईप्रदेशविधि- मण्डलमिति संस्थात्रये लोकमान्याः क्रमेण जनानां वहुमतेन नियुक्ताः सदस्या अभूवन् । अयमभ्युदयस्तेषां लोकप्रियत्वं दर्शयति । सामाजिकप्रश्नविषयक- याग्युद्धे पु लोकमान्यैरन्ये लोकधुरीणा यथा पराभूतास्तथा शासनसंस्था- धिकारिणोऽपि दुर्भिक्षकाले प्रवर्तितेन तथा प्रन्थिज्वरदुःखनिरसनाय कृतेन महताऽऽन्दोलनेन पराभूता इवासन् । लोकमान्याना टीकास्त्रं ब्रह्मानमिव प्रखररूपं परिणामकारकं चासीत् , तेन शासनसंस्थाधिकारिपुरुपविषयकस्तेपां कार्यपद्धति विपयकश्च महानसन्तोप: प्रजासु समुत्पन्नः । केसरिवृत्तपत्रे एत. द्विपयकलेखनेन शासनसंस्थाऽतीय क्षुब्धा अभियोगं च दातुं किमपि निमित्तमन्वेष्टुं प्रवृत्ता । परं लोकमान्या यथा गुणग्रहणे दक्षास्तथैव कालोचितकर्तव्येष्वपि कुशला दृश्यन्ते । अस्मिन् समये आङ्ग्लदेशराश्याः हीरकमहोत्सवः समावर्तत । तं विपयमधिकृत्य तस्या अभिनन्दनार्थ क्रमेण लेखत्रयं केसरिपने लोकमान्यैर्मुद्रितम् । महाराश्याः शीलं, वैभवं, चारित्र्यं, महद्भाग्यं तथा वर्षषष्ट्यां जातः साम्राज्यविस्तारो राज्यतन्त्रं तस्य कार्य च सर्वमेव गुणग्रहणबुद्धया लोकमान्यैः समालोचितम् । आङ्ग्लानामानन्दस्तु नैसर्गिक एव । साम्प्रतं ते राज्यकर्तारः । राज्यकर्तृणामानन्दे राक्ष्याः प्रजाः सहभागिन्यो भवेयुरिति तु प्रसङ्गोचितमेय । परं तृतीयेऽग्रलेखे भारतीय- प्रजानां दारिद्यदुःखमपि लोकमान्यैर्वर्णितम् । अन्यः स्फूर्तिदायकः प्रसङ्गः शिवछन्नपतिस्मारकान्दोलनस्य । 'विभूतिपूजा' इति शीर्षकं दत्त्वा वाङ्मयगुणैरलकृतेऽग्रलेखे राष्ट्रपुरुपाणां विभूतिमत्त्वं वर्णितं दृश्यते । ग्रामे प्रामे सातस्य शिवछत्रपत्युत्सवस्य वार्तापत्राणि केसरिकार्यालयं प्रातान्यासन् । शिक्षिता अशिक्षिताः पदवी- विभूपिता अपि जना अस्मिन्नुत्सर्व उपस्थिताः । राजकीयमहोत्सवा यद्य- .

लोकमान्य टिळकचरितम् प्याङ्ग्लराज्ये निर्बन्धितास्तथाप्यतिहासिकमाहात्म्यविभूपितानां पुरुपाणां भजनपूजनगुणसड्कीर्तनादिलाभः सम्भवेदिति महानभ्युदयः । अतः केसरिपत्रेणानन्दः प्रदर्शितः । ग्रन्थिज्वरदुःखानुभवानन्तरं सम्प्राप्तोऽय- मुत्सवः पुण्यपत्तननागरिकैर्महतोत्साहेन विभवेन च सम्पादितः । शिव- रामपंत परांजपे'महाशयानां राजसूययज्ञविषयमधिकृत्य प्रवचनं जातम् । 'असन्तोषः श्रियो मूलम्' इत्यादीनि वचनानि तेषां प्रवचनस्याधार भूतानि । अन्यस्मिन् दिवसे लोकमान्यानामध्यक्षत्वे प्राध्यापक भानू'महाशयैः 'अफजुलखान वधविपयमधिकृत्य व्याख्यातम् । भानूमहाशयैर्विद्वत्व वक्तृत्वादिगुणप्रचुरेण भाषणेन अफजुलखानवधदोपारोपात् शिवछत्रपतीनां विमोचनं कृतम् । “ 'सीझर-नेपोलियन'प्रभृतिभिः कृतानां मनुष्यधाताना- मुदाहरणानि उद्धृत्य इतिहासविदो यथा तेषां निर्दोषत्वं सम्मन्यन्ते तथैष शिवछत्रपतीनामपि निर्दोषत्वं सम्मन्यन्ताम्" इति 'जिनसीवाले महाशयैः सप्रमाणं प्रतिपादितम् । अध्यक्षीयभापणे सर्वेपां व्याख्यातॄणामाशयानुप- संहृत्य, छत्रपतीनां निर्दोषत्वं प्रतिपाद्य, तेषां सात्त्विकबुद्धिं निर्दिश्य, छत्र- पतिमहोत्सवानिमित्तेन संवत्सरस्य एकवारं सर्जनेरेका समागन्तव्यमिति लोकमान्यैः प्रार्थितम् । छत्रपतिमहोत्सववृत्तं तथा विद्रत्नानां भापणानि लोकमान्यः केसरिपत्रे मुद्रितानि । काकतालीयन्यायेनास्मिन्नेव समये एको भीषणः प्रकारः सातः । प्रन्थिज्वरकाले प्रजादुःखनिरसनाय शासनसंस्थाविनिर्मितयन्त्रणाकृतेन दुःसहोपद्रवेण प्रक्षुब्धमानसः 'चाफेकर'नामा कश्चिद् युवा रँडमहाशयस्य प्राणघातं कृतवान् । तन्निमित्तं लब्ध्वा मुम्बापुरीस्थ टाइम्स'वृत्तपत्रेण केसरि- पन्ने मुद्रितानां केषांचित् सन्दर्भरहितवाक्यानामाङ्ग्लभापया रूपान्तरं कार- यित्या सानि वाक्यान्युद्धृत्य राजद्रोहपूर्णा एते केसरिपत्रमुद्रिता लेखा इति उल्लपितम् । छत्रपतिमहोत्सवे 'अफजुलखान वधोल्लेखो जातः। एप विवादस्तु प्राचीन एव । छत्रपतिमहोत्सयनिमित्तेन पुनरुद्भूतः स विवादो यथाकालं विलयमगमिष्यद्यदि अनेन समयेन रॅडमहाशयवधो नाभविष्यत् । परम् अस्य पधस्य कारणं फेसरिपत्रेण मुद्रिता राजद्रोहकारिणो लेखा इति मुम्बई- 'टाइम्स' पत्रस्य निर्णयः । अस्य निर्णयस्य ध्वनिः शासनसंस्थया सम्यम् ज्ञातः । तमनुसृत्य सर्वो वक्ष्यमाणप्रकारको राजद्रोहाभियोगः समुत्पन्नः । .

प्रथमराजद्रोहाभियोगपर्व ८७ २'र'महाशयवधः 'रँड्'महाशयवधस्यैप वृत्तान्तः । जूनमासस्य द्वाविंशे दिने भौमवासरे ( २२-६-१८९७) पुण्यपत्तने मुम्बईप्रदेशराजप्रतिनिधिप्रासादे 'व्हिक्टो. रिया'महाराश्याः हीरकमहोत्सवनिमित्तेन महान् स्वागतमहोत्सवस्तथा भोजनसमारम्भश्वासीत् । प्रासादप्राङ्गणे महान् दीपोत्सवः कृतः । प्रासादं परित: समुन्नतभूमिभागेपु काठानि रचयित्वा आनन्दप्रदर्शनाय होलिकाः प्रचालिताः । राजभतिनिधिना निमन्त्रिताः सर्वे प्रशासकोपप्रशासकाः परिष्ठकनिष्ठराजपुरुषाः प्रतिष्टितनागरिकाः समारम्भार्थ प्रासादे समुपस्थाय सानन्दं सकौतुकं नृत्यगीतादिविनोदेनार्धरात्रपर्यन्तं सुखेन कालमनयन् । समारम्भावसाने सर्वे जनाः स्वनिवासस्थानानि प्रत्यागच्छन् ।रॅड्महाशयो- ऽपि शकटे उपविश्य स्वनिवासं न्यवर्तत । राजप्रतिनिधिप्रासादगोपुराद्- पहिरागत्य तस्य रयो यावत्स्तोकं मार्गमाकामति तावत्कश्चित् पुरुषः पार्थस्थ- वृक्षराजितः आगत्य पृष्ठभागेन रथमारुह्य हस्वेन आन्यत्रेण रॅमहाशये गुलिकाप्रक्षेपणमकरोत् । सा सीसकगुलिका तस्य यामरकन्धं प्रविश्य तं निःसनमकरोत् । निमिपमानानन्तरं प्रथमस्थस्य पश्चादागतस्यान्यरथस्योपरि पृष्ठभागेन गत्या द्वितीयः कश्चन पुरुषः पुनरान्यस्त्रेण गुलिफाप्रक्षेपणमकरोत् । तस्मिन् रथे 'आय'महाशयः भार्यया सहित आसीत् । इयं सीसकगुलिस आयमहाशयस्य मस्तिप्कं भित्त्या पारं गता । तेन स सपद्येय भार्यायाः भारीरे पतितश्च । निशाजनित- निःशब्दनिविडान्धकारे गुलियाप्रक्षेपणकर्कशष्यनिमार्ण्य भयाकुला रथ- याजिनो जवेन भाद्रयन् । आयमहाशयपल्याः आगोशं श्रुत्वा 'लुईनामकः कश्चिद् योघरतं रथमवस्थाप्य यायदन्तः प्रविशति तारदेप मीपणप्रपारस्तेन घटः । सपोय महाशयस रथः सम्प्राप्तः । रये महाशयो नि.संशो भूत्या दुःसयशदातरयं फरोति इति लुईमहागयो- ऽपश्यन् । दमहाशयं इटिति रुग्णालयं नीत्या ओपयोपचार: पारितः। मृत्युशय्यायामामीनम्य सस्प वृत्तपथनमपि आलिखितमासीन् । एकादश शियमपर्यनं महद्दु,ममनुभूय मोऽप्यन्ते भन्नकानिधिः समातः । पञ्चत्वं गतः, ८८ लोकमान्य टिळकचरितम् जूनमासस्य त्रयोविंशे दियसे महति प्रत्यूपे एव सा वधवार्ता पुण्य- पत्तने सर्वत्र प्रसृता । सर्वे जना भीतिप्रस्तमनसः स्तम्भितमतयश्च धभूवुः। परं न कोऽपि किश्चिदपि वक्तुं शशाक । गुप्तचराणां जालं सर्वत्र प्रसृतम् । रानावेव ' गणेशखिंड राजमार्गो रक्षापुरुपैर्निरुद्धः । वधस्थानसमीपे राज- मार्गस्य प्राधैं प्रसवणसेतोरधस्तात् द्वौ खड्गौ, एक काचपात्रम् , एकः शिला- खण्डः इत्येते पदार्था नयनगोचरतां गताः । कुशला गुप्तचराः समाहूत्ताः । ब्रुइन'महाशयश्चारकर्मनिपुणस्तेषां मुख्याधिकारी नियुक्तः । शासनसंस्थया रंधावकशोधार्थ विंशतिसहस्ररूपकमितं पारितोपिकमुद्घोपितम् । पुण्य- पत्तनस्था नागरिकाः स्वस्फूर्त्या वधनिषेधार्थ लोकसभा निमन्त्रयिष्यन्ते इति शासनाधिकारिभिरपेक्षितम् । परं तेपागपेक्षा विफलीभूता । अतो राज्या- धिकारिणो रुष्टा आसन् । ' लॅम्ब'नामा विभागप्रशासको नागरिकसभा निमन्त्रितवान् । कस्य वधो जातः, कस्मिन् स्थले जातः, कस्मिन् प्रसङ्गे जातः इत्यनेन जीवितापहरणाय कूटसङ्कल्पः कथमनुमीयते, नागरिका हन्तारं दद्युः, साहाय्यस्याप्रदानं कथं नोचितम् , अन्यथा शासनसंस्था तीव्रोपायान् प्रयुञ्जीत इति सर्व तस्यां सभायां लॅम्बमहाशयेन वर्णितम् । पुण्यपत्तनस्थवृत्तपत्राणामधिक्षेपः कृतः । विशेपेण तु केसरिपत्रस्य । लोक- मान्यानुद्दिश्य राजद्रोहारोपो लॅम्ब्महाशयेन कृतः । शिवछत्रपतिमहोत्सवे जातानां भाषणानामुल्खोऽपि तस्य कथने आसीत् । अपराधी दण्डा) भवेदिति तु गतार्थमेव । परं नागरिका भीपणदुःखान्यनुभवेयुरिति तर्जन- मपि तेन भाषणान्ते कृतम् । अखिलसभावृत्तान्तस्याशयो लोकमान्यतिपूर्व एव । रॅमहाशयवधेन आत्मनि किमपि महत् सङ्कटमापतेदिति तैः पूर्वमेव सङ्कल्पितम् , तथापि केसरिवृत्तपत्रे तेषां लेखनपद्धतिर्नयनीतकोमला नाभवत् । नित्यपद्धतिरिय 'व्हिक्टोरिया राझ्याः अभिनन्दनं, गौरवं, शासनाधिकारिणां दैनंदिनकर्मणि । टीकास्त्रं च लेखेप्यासन् । पुण्यपत्तने अधिकरक्षापुरुपनियुक्तिविपये एको लेसः 'अपि भ्रान्तमस्तिष्क शासनयन्त्रम्' इति शीर्पकेण लोकमान्यैर्मुद्रितः । मदोन्मत्तो गजो यथा इतस्ततो धावन् सर्वनाशं करोति तथैव शासनसंस्थायाः स्थितिरिति तैः प्रतिपादितम् । घातकम्यान्वेपणाय विंशतिसहस्ररूपफमित पारितोपिकमलम्। परं निखिले पत्तने विशेपरापुरुपाणां किमर्थमुपद्रयः ?

प्रथमराजद्रोहाभियोगपर्व तेन घातकोपलब्धिर्भवेदिति न निश्चयः । वधकारी कश्चित् ब्राह्मणो वर्तते, जीवितापहरणाय कपटप्रबन्धरचना कृता विद्यते इति शासनसंस्थाया मतिः । द्वयमध्येतदसम्भाव्यमिति लोकमान्यैः पुनः पुनः प्रतिपादितम् । घातको ब्राह्मणो न स्यादिति लेखनमसत्यमभूत् । परं कपटप्रवन्धरचना नास्तीति शासनसंस्थया प्रमाणैर्निर्णीतम् । शासनयन्त्रं तु तथा कुपितमासीत् यथा 'भाण्डारकर-कावसजी होरमसजी'प्रभृतयः प्रतिष्ठिता राजमान्या अपि नागरिका रँड्महाशयस्यान्त्य- विधिसमये उपस्थातुकामा रक्षापुरुषैः श्मशानभूमौ निरुद्धाः । तेभ्यः प्रवेशोऽपि न दत्तः । शवदर्शनं तु दूरे एव । राज्यशासनं नाम न वैरसाधनमित्यपि लोकमान्यैः कथितम् । राज- द्रोहो नाम किमित्यपि तैर्विस्तरेण चर्चितम् । लोकमान्यानां भाषणानि राज- द्रोहपूर्णानि सन्ति न वेत्यपि 'पार्लमेंट'सभायां केनापि सदस्येन पृष्टम् । राज्यव्यवहारशास्त्रस्यायं प्रश्नः मुम्बईप्रदेशशासनसंस्थया अद्यापि न निर्णीत इति अमात्येन कथितम् । आग्लदेशे रँड्महाशयवधवार्तायां प्रसृतायां तद्देशीयवृत्तपत्रविविधा विचाराः प्रदर्शिताः । शासनयन्त्रं भ्रान्तचित्तं वर्तते इति विशेपरक्षा- पुरुषनियुक्त्या दृश्यते इति 'डेली क्रॉनिकल पत्रेण लिखितम् । यधो भविष्यतीति पुण्यपत्तनस्थैः सर्वैरपि नागरिकैख़तपूर्वमेव । वधे जाते सर्वेपां मुखकमलानि प्रसन्नान्यासन्निति · लंडन'पत्रेण प्रसिद्धि नीतम् । केचिदयदन् तद्देशीयवृत्तपत्राण्येवोत्तरदायित्वेन प्रष्टव्यानि । अन्येऽब्रुवन् धार्मिकविपये कृतस्य परिवर्तनस्येदं फलम् ' । इतरे व्याक्रोशन ' सर्वे ब्राह्मणा वन्धनं नीत्या वधस्तम्भं नेतव्याः' । अपरे उदगिरन् 'आइग्ल. सैनिकान् मुक्त्वा भारतीयानां गृहाणि मन्दिराणि च शासनसंस्थयाऽप- वित्रीकृतानि । अधुनामि रहते ? रेस्टर मार्डियन' वृत्तपत्रवालाहरेन सदा आग्लदेशे विद्यमाना राजमान्या 'गोखले'महाशया दृष्टाः पृष्टाश्च । अन्यो- न्यदर्शनसमये जातानां प्रभोत्तराणामाशयस्तु एवमेय “प्रन्थियरप्रतिबन्धाय नियुक्तायाः समित्याः महानुपद्रवो जातः । समित्याः अधिकारिभिः सैनिकैच स्त्रियो राजमार्गमानीय परीक्षिताः। उपमर्द एप तामाम् । द्वितः - "लोकमान्य टिळफचरितम् सैनिकस्तासु अनुचितमाचरितम् । एकया आत्मघातोऽपि कृतः । तस्मादेते वधा जाता इति तय॑ते" इति । गोखलेमहोदयानां दर्शनवार्ता 'मँचेस्टर गार्डियन् 'वृत्तपत्रेण मुद्रिता । सपद्येवाग्लजनेषु महान् संक्षोभः उदपद्यत । सत्यशोधनाय 'लंडन'नगरात् मुम्बापुरी मुम्बापुरीतो लंडननगरं सन्देशाः प्रतिसन्देशा गताः । मुम्बई- प्रदेशशासनसंस्थया प्रहितेपु सन्देशेषु विश्वस्य लंडननगरस्थभारतशासन- संस्थायाः प्रधानाधिकारिणा उद्घोपितम् । गोखलेमहाशयकृताः सर्वे आरोपाः सर्वथा असत्याः । वस्तुतस्तु गोखलेमहाशयैः कृतान्येतानि विधानानि पुण्यपत्तनस्थप्रतिष्ठितनागरिकलिखितपत्राणामाधारेण कृतान्या- सन् । परं सर्वेऽपि ते पत्रलेखका अस्मिन् समये तूष्णी स्थिताः । नैकोऽपि कृतानां विधानानां समर्थनार्थ पुरतः समागतः । अतो गोखलेमहाशयानां क्षमायाचनमावश्यकं जातम् । ३ अभियोगपूर्वकारावासः अस्मिन्नेव काले लोकमान्या मुम्बापुरीमागताः । एक उद्देशस्तु राज- द्रोहाभियोगविषयकं वार्ताहरणम् । अपरश्च गोखलेमहाशयेभ्यः साहाय्य- दानम् । परं तस्मिन्नेव काले मुम्बईप्रदेशशासनसंस्थाया आज्ञापत्रानुसारतो राजपुरुपैर्लोकमान्या बन्दिप्राहं गृहीताः । आर्यभूषणमुद्रणालयस्वामिनो 'हरि नारायण गोखले'महाशयास्तथा व्यवस्थापका वाळ'महाशया अप्याज्ञा- पत्रेण गृहीताः कारागृहं च नीताः । लोकमान्यानां परमसुहृद् ‘दाजी साहेव खरे 'महोदया मध्यरात्रसमये प्रतिभूसम्बन्धेन लोकमान्यदर्शनार्थ फारागृहं गतास्तदा लोकमान्या वाढं प्रसुप्ता अवलोकिताः । महादाश्चर्यमेतत् । उक्तं च- 'लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति'। प्रतिभूविपये आशाऽपि नासीत् । तथाऽपि प्रयत्नस्तु करणीय एवेति निश्चितम् । पुण्यपत्तने श्रीमान् 'बाळासाहेव नातू'महाशयस्तथा तस्य भ्राता तात्यासाहेब'महाशयो द्वायपि १८२७ रेग्युलेशन'नामकेन विधिना बन्दिनी कृत्वा प्रथमं मुम्यापुरी नीती । तत्र रक्षापुरुपाः 'तात्यासाहेव 'महाशयं . . . ।

प्रथमराजद्रोहाभियोगपर्व ९१ समीपस्थे ठाणेनगरकारागृहे अस्थापयन् । 'वायसाहेब'महाशयं च गुर्जर- प्रदेशे 'साबरमती'कारागारमनयन् । १८२७ रेग्युलेशननामकविधिना न्यायालये वन्दिजनापराधपरीक्षणं नापेक्ष्यते । अतो विनामियोगेन तावुभौ बहुदिवसान कारागृहे प्रक्षिप्तौ । वारं वारं नातूभ्रातृद्वयं कारावासा. न्मोक्षणार्थ प्रार्थनापत्राणि प्रेषयति स्म । परं कंचित् कालं शासनसंस्थया तयोरुपेक्षा कृता । उभयोरपि भ्रात्रोरन्ते मोक्षणमावश्यकं जातम् । अनेनैव कालेन 'पुणे वैभव-मोदवृत्त-प्रतोद'इत्यमिधानानां वृत्तपत्राणां सम्पादका अपि राजद्रोहापराधेन रक्षापुरुपैनिगृहीताः । तेपाममियोगाः संक्षेपेणाने कथयिष्यन्ते। ४ प्रतिभूविपयः कनिष्ठन्यायालये प्रतिभूविषयकं प्रार्थनापनकं लोकमान्यविधिज्ञेन दत्तम् । परं तन्न सम्मतमभूत् । पुनः वरिष्टन्यायालये प्रार्थनापत्रं समर्पितम्। तदपि पुनरसम्मतं जातम् । कनिष्ठन्यायालये राजद्रोह्यकरणस्य प्राथमिक- परीक्षणं कृत्या सर्वमेतत् प्रकरणं न्यायाधीशेन परिष्ठन्यायालये प्रवेशितम् । तत्र पुनरेकदा प्रतिभूविषयकं प्रार्थनापत्रकं समर्पितम् , कथितं च यदि लोकमान्यास्तात्कालिककारावासान्मुक्तास्तहि ते न कुत्रापि पलायिष्यन्ते । परम् आत्मनो निरपराधित्वे प्रमाणान्याहतु, सकलयितुं, पण्डितान विधि. शान् वारं वारं द्रष्टुं च समर्था भविष्यन्ति । तस्मात् ते मोक्तव्या इति । अस्य प्रतिभूप्रकरणस्य परीक्षणकाले 'पद्रुदिन तय्यबजी'महाशया न्यायासने उपविष्टा आसन् । लोकमान्यपक्षीया विधिज्ञाः 'दायर'महाशया आमन् , ये दशहायनानन्तरं जातस्य राजद्रोहामियोगस्य परीक्षणे न्याया- धीश अभवन् । प्रतिभूविषयकप्रार्थनापत्रस्य परीक्षणममये यदा दायरमहा. शयाः कारणानि प्रतिपादयन्ति स्म तदा न्यायाधीशमहाशया अपि स्वयमेव प्रनिभूविषयकद्रव्यविपये चर्चा कृत्या उमरूपकमूल्यम्य प्रतिमुवं स्वीकृत्य लोकमान्यान् तात्काटिककारायासान्मोचयितुं समाापयन् । 'यशवंत विष्णु सया अण्णासाहेय नेने महाशयाः 'श्रेष्टी द्वारकादाम धरमसी'महाशयाः इति द्वौ प्रतिष्ठितनागरिपो प्रतिभुयो स्वीकृतौ ।

लोकमान्यटिळकचरितम् ५ सुहृत्साहाय्यम् राजद्रोहाभियोगकाले लोकमान्येभ्यः साहाय्यं दातुं 'यशवंतराव नेने-दाजीसाहेब खरे-माधवराव बोडस-नानासाहेब देशमुख-भाऊसाहेब आठल्ये-अॅव्होकेट सेटलूर-केशवराव देशपांडे-ओकशास्त्री-वैद्यबन्धू- दाजीवा पिटकर'-प्रभृतयो विधिज्ञा अविधिज्ञाः प्रतिष्ठितनागरिका मुम्बा- पुर्यामासन् । पुण्यपत्तने 'वासुदेवराव जोशी'प्रभृतयोऽवर्तन्त । धन्धनान्मुक्ता भूत्वा लोकमान्या यावत्पुण्यपत्तनं गच्छन्ति तावत् 'क्षते प्रहारा निपतन्त्यभीक्ष्णम्' इति न्यायेन लोकमान्यानां परमं मित्रं वावामहाराज'महाशया विपूचिकारोगग्रस्ता भूत्वा सत्वरं पञ्चत्वं गताः । निधनापूर्व तैरात्मनो विभवस्य व्यवस्थापनकं लोकमान्यसाहाय्येन कृतम् । बाबामहाराजमहाशयानामत्याग्रहेण विश्वस्तेपु लोकमान्यानां समावेशस्तेषां सम्मत्या कृतः । अनेन समावेशेन भविष्यत्काले प्राप्स्यमानाया महाविपत्ते. वीजारोपणं जातम् । अभियोगसम्बन्धीनि सर्वाणि साधनानि प्राप्तव्यानि । द्रव्यमूलाः सर्वे व्यवहाराः। तस्य तु पूर्णतया अभावः। केसरिपत्रम् ऋणमुक्तं नासीत् । तस्य वार्पिकमूल्यात् लोकमान्यानां दैनंदिनचरितार्थाय कुटुम्बभरण- पोपणायापि धनं न प्राप्तम् । तस्माल्लोकमान्यैर्विधिस्मृतिव्यवहारशास्त्राणामध्या- पनवर्गः प्रारब्धः । तस्माद्यो धनलाभो जातः स कुटुम्बभरणायाकल्पत । एप राजद्रोहामियोगोऽपूर्व आसीत् । लोककल्याणाय बद्धपरिफरेषु लोकधुरीणेपु जनानां महान् विश्वासः स्नेहभावश्च । तस्मादियमभियोग- विपत्तिर्न केयलं लोकमान्यानाम् , अपि तु अखिलमहाराष्ट्रदेशस्य, तथा पर- म्परया सर्वस्य भरतखण्डस्यापि इति मत्या लोकैरपि लोकमान्यपरित्राणायास्य अभियोगस्य पुरस्कारः कृतः । अभियोगेन प्रतिपत्स्यमानाद्दण्डात् लोक- मान्यान् परित्रातुं द्रव्यनिधिकल्पना समुद्भूता । तथैव न्यायकर्मकुशलानां विधिव्यवहारशास्त्रज्ञानां च मन्त्रविषयकसहकारसूचना जनरवलम्बिता । द्रव्यनिधिवाः जनः केसरिपत्रे उद्घोपिता । जातमात्रायां घोपणायां जना अहमहमिकया साहाय्यदाने तत्परा बभूवुः । लोकमान्या अपि स्वावलम्बनेन अभियोगव्ययार्थ द्रव्यव्ययस्थामकुर्वन् । तेपां परममुहृदः 'वासुदेवराव जोशी'महाशयाः, तैरपि ऋणं दत्त्वा महत साहाय्यं कृतम् । मन्त्र• प्रथमराजद्रोहामियोगपर्व विषयकसूचनाया अपि तथैव स्वागतमभूत् । स्थानिकविधिज्ञेभ्यः परप्रदेशस्थविधिज्ञाः सुतरां परिणामायहा इत्यकारण मन्यन्ते जनाः । तस्मात् पङ्गदेशवासिनः तत्रस्थानाङ्ग्लदेशीयविधिज्ञान् प्रहितुं समुत्सुका बभूवुः । 'प्यू'नामको 'गार्थ'नामकश्च द्वौ विधिव्यवहारशास्त्रकुशलौ महा- पण्डितौ लोकमान्यपरित्राणार्थ प्रेपणीयौ इति वनवासिभिर्निश्चितम् । ६ चातुर्यप्रसङ्गः यदा लोकमान्या अभियोगसम्बन्धिनी व्यवस्थां कर्तुं पुण्यपत्तन- मागतास्तदा तेषां बुद्धिकौशलव्यवहारचातुर्यदर्शनकारिण्येका विनोदपूर्णा घटना जाता । तथा हि । पूर्वोत्तो 'ब्रुइन'महाशयधारकर्मकुशलः प्रणिधिः रँड्महाशयवधविपयिणी कामपि वाता सम्पादयितुकामो लोकमान्यगृहं तेषां दर्शनार्थ प्रत्यहं समागत्य इतस्ततो वार्ताऽऽलापान् चिरकालं करोति स्म । उद्देशस्तु कथाप्रसङ्गेन वधविषयकं किमपि सूचितं स्यात् । विविधविपया उभाभ्यां चर्चिताः । दूरदर्शिनो व्यवहारचतुराश्च लोकमान्याः । धूर्तेपु ख्यातनामा त्रुइनमहाशयः । अनयोरेप संपादः । लोकमान्या राजद्रोहाभियोगविपयिका वाता जातुमिच्छन्ति । त्रुइनमहाशयो रड्महाशययधविपयकं किमपि सूचितं भवेदित्यभिलपति । अथैकदा कथाप्रसन्न हुइनमहाशयः स्पष्टमेवावदत् 'युप्माभिर्यातकस्य शोधार्थ साहाय्यं दातव्यम्' इति । सोऽब्रवीत् 'यदि लोकमान्या एवं मनसि कुर्युस्तईस्माकं शोधकार्य सुकरं भवेदिति । स्पष्टमेवास्मिन् प्रभे कृते लोकमान्याः प्रत्यभापन्त " स्वयमागत्य को जनो मां तद्विपयिकां याता फययेत् १ अतः अशक्तोऽस्मि साहाय्यं दातुम् । अन्यथ । जानातु भवा- निदमपि । यदि कथंचित् कुत्रचिदेतद्विषयकं किमपि मया सम्प्राप्त स्यात्तथाऽपि मया तद् भवते न कथनीयम् । कुन इति पृच्छयते चेत् उच्यते फारणद्वयादिति । प्रथमं कारणं न मया कम्यापि विश्वासपात: फर्तव्यः । अपरं शासनसंस्थायाश्चारकर्म मया न स्वीकृतम् । यद्यपि रड. महागयपातरोऽयश्यमेव न्यायालये दण्डनीय इति मे मनिस्नयाऽपि कम्पापि विश्वामघातो मया झिमर्थ पर्तव्यः ? भवनां चारफर्मणि मत्तः कोऽपि पिनो न सम्भवेत् । एप यधः पुण्यपरानस महत्वासननिति यन् . ५ लोकमान्यटिळकचरितम् 'लॅम्ब्'महाशयेनोक्तं तदयुक्तम् । प्रयत्नानां परां काष्ठां कृत्वा भवद्भिर्घातको दण्डनीय इत्यपि अहं ब्रवीमि । भवतां तत्कर्तव्यमेव" इति । अनेन लोकमान्यानामुत्तरेण ब्रुइनमहाशयो नैराश्यं गतः । शासनसंस्थाया एपा मतिः यत् केनापि मार्गेण जीवितापहरणार्थ रचिते कपटप्रबन्धे लोक- मान्यानां सम्बन्धो दर्शयितव्य. । परम् एतत्सफलता न गतम् । आक्षेपितलेखानामाङ्ग्लभाषायां रूपान्तरं कृत्वा, अभियोगविपये उपयोक्तव्यान्यन्यानि साधनानि सड्गृह्य लोकमान्या मुम्बापुरी गताः। 'प्यू- गार्थ-चौधरी'प्रभृतयो विधिव्यवहारशास्त्रनिष्णाताः पण्डिता वझवासिभिः प्रहिताः । मुम्बापुरीस्थाः 'दाजीसाहेब खरे-माधवराव बोडस-अॅडव्होकेट सेलूर-बॅ. केशवराव देशपांडे-सॉलिसिटर भाईशंकर कांगा'-प्रभृतयः सुविख्याता महापण्डिता. साहाय्यार्थमासन् । न्यायासने 'स्ट्रेची' नामका आङ्ग्लदेशीया न्यायाधीशा उपविष्टा आसन् । तदानीं वरिष्ठन्यायालये द्वौ भारतीयौ न्यायाधीशौ 'माधवराव रानडे-वगुदिन तय्यबजी'नामानौ आस्ताम् । परं तयोः पुरतोऽयमभियोगो नागतः । सप्टेबरमासे अष्टमे दियसे द्वादशवादनवेलायां लोकमान्येषु कृतानारोपान् वाचयित्वाऽमियोगस्य प्रारम्भो जात. । न्यायाधीशमहाशयायप्रमाणकुशला वगयासिनो विधिज्ञाः प्यू'महाशया एवाज्ञापत्रेण स्वीकृताः । नान्ये । प्रमाणपुरुपगणे पञ्च सभ्या आड्ग्लदेशीया , एको 'ज्यू'धर्मी, अन्यः ' झरतुष्ट्रा'नुयायी, अपरौ द्वौ दाक्षिणात्यौ इति नवसंख्याका आसन् । एतं प्रमाणपुरुषगणं वीक्ष्य लोकैरेतनिश्चितप्रायं यत् सर्वेषां सभ्यानामैकमत्येन निर्णयो न भविष्य- तीति । आर्यभूपणमुद्रणालयम्य स्वामिन., तथा व्यवस्थापका 'बाळ'महा- शया लोकमान्यैः सह राजद्रोहेणाभियुक्ताः, यतस्ते फेसरिपत्रस्य मुद्रण- सम्बन्धि कार्य समालोकयन् । शासनसंस्थायाः सम्मतिविपयिकां प्रास्ताविकी चर्चा समाप्य राजद्रोह- विपये साक्षिणः परीक्षिताः । दण्डविषयकशास्त्रस्य १२४(अ) परिच्छेदेन लोकमान्या राजद्रोहापरापेनाभियुक्ताः । फेसरिपतस्थलेसेपु विद्यमानानां शब्दानां, शब्दसमूहानां, वाक्यानां पाविपये प्रदीर्घा चर्चा जाता । उभय. पक्षविधिज्ञा न्यायाधीशाय मराठी मापां नाजानन् । लेसानाम् आइंग्ल- . , - . प्रथमराजद्रोहाभियोगपर्व ९५ भापायां रूपान्तरं तेपां प्रधानाधारः । अतस्तदाङ्ग्लभापायां कृतं रूपान्तरं मूललेखानां वाच्यलक्ष्यादिसर्वप्रकारेणार्थवाहकं भवति न या इत्यस्मिन् विपये महान विवादः समजायत साकल्येन शासनसंस्थायाः सप्त साक्षिणः परीक्षिताः । लोकमान्याः स्वनिरपराधित्वं प्रस्थापयितुं प्रमाणानि दातुं नैच्छन् । अतः समापितायां साक्षिणां परीक्षायां शासनसंस्थाविधिज्ञा अॅडव्होकेट जनरल लँग'महाशयाः भापणार्थमुदतिष्ठन् । ७ लँगमहाशयभापणम् लँग्महाशया अभापन्त “टिळकमहाशया लोकेषु प्रतिष्ठिता विद्या- पीठस्य तथा विधिमण्डलस्य सदस्याः सन्ति । केसरिपत्रं वह्वो जनाः क्रीणन्ति वाचयन्ति च । अतस्तवृत्तपत्रमपि प्रतिष्ठितम् । तस्मिन् मुद्रिता लेखा जनमनांसि समाकर्पन्ति, तेषु परिणामं च कुर्वन्ति । केसरिपत्रस्य सहोदरो मराठा' ब्रूते 'अद्य या श्वो वा हस्ते शस्त्रग्रहणं लोकानामावश्यकं भवेत् ' दुःखेन प्रजाः संत्रस्ता न वेति वक्तुमहं न शक्नोमि । परं लेखेष्वेतत् वर्तते। उत्सवप्रसङ्ग साधयित्वा प्रजानामन्तःकरणेपु शासनसंस्थाविषये अप्रीतिः समुत्पादिताऽऽसीत् । 'विभूतिपूजा-रामजयन्ती-शिवजयन्ती' इत्यादिशीर्षका लेखाः किं दर्शयन्ति ? ब्राह्मणानामुपद्रयः, गोवधः, कपिकृतलङ्काराज्य- विध्वंसः, छत्रपनिशिवरायस्य पुनर्जन्मप्रार्थना इत्याद्युल्लेखाः किं दर्शयन्ति ? लेखानां भापान्तरविपये केचिदाक्षेपा वर्तन्ते । परं सर्व भापान्तरं भाषा- शास्त्रज्ञैः कृतमस्ति । यद्येतदसमीचीनं तर्हि साक्षिणां साहाय्येन तेपा- मन्यथाकरणं दिळकमहोदयानां प्रथमं कर्तव्यमासीत् । तत्तैर्न कृतम् । भरतखण्डं दारिद्यदुःखपीडितं वर्तते । भारतीयजनाय धार्मिककृत्येषु उपद्रवो विद्यते । गौरकाया अपराधिनो मिथ्याप्रमाणैरपराधान्मुक्ता भवन्ति । फेचिजना अस्मिन् राज्ये वीमर्यादामुल्लइयन्ति इत्यपि लोक- मान्यैर्दर्शितम् । शिवछत्रपतिकाले एतन्निशम्य खड्गानां सहसं निष्कोश- मभूत् । एतादृशैः शब्दैः किं ध्वनितम् ? 'उपद्रवपरिहार'शब्दस्य न सौम्यो- ऽर्थो दृश्यते । राजसूययज्ञस्य हीरकमहोत्सवेन साम्यं सहेतुकं प्रदर्शितम् । 'गृहप्रविष्टाः स्तेना बन्दिनः कृत्या दग्धव्याः।' अस्य वाक्यस्य कोऽर्थः ? असन्तोषः श्रियो मूलम् ' इति महर्पिच्यामोपदेशः । अतोऽस्मिन् राज्ये ९६ लोकमान्यटिळकचरितम् प्रजानां तदेव प्रथमं कर्तव्यं भवति । जना असन्तुष्टा भवेयुरिति । संक्षेपेण लेखानामयमेवोद्देशः । शासनसंस्थायाः कर्मसु न केवलमरुचिप्रदर्शनम् अपि तु प्रजासु शासनसंस्थाकर्तव्यकर्मविपये अप्रीतिसमुत्पादनम् । तेन प्रजाना- मसन्तोषः । अतः टिळकमहोदया. १२४ (अ) परिच्छेदस्य स्पष्टीकरण- फलाहा अपि न भवन्ति" इति । ८'प्यू'महाशयभाषणम् लँगमहाशयानां भाषणम् अर्धयामपर्यन्तं जातम् । प्यूमहाशयानामपि भापणपद्धतिः शान्ता सरला चासीत् । तेऽत्रुवन् ' निखिलमपि वातावरणं लोकमान्यविरुद्धम् । यदि रॅड्महाशयस्य वधो न स्यात्तर्हि एप अभि- योगोऽपि न भवेत् । अपरं च स वधः पुण्यपत्तने जातः । एप अभियोगः पुण्यपत्तनस्थन्यायालये न प्रविष्टः । अत्र प्रमाणपुरुपगणे नैकोऽपि सभ्यः ' मराठी भाषाऽभिज्ञः, नापि न्यायाधीशः । पुण्यपत्तने प्रमाणपुरुपगणे मराठीभाषाभिज्ञानां सङ्ग्रहः स्यादेव । आङ्ग्लदेशे पार्लमेंटसभायां कृतः प्रभोत्तराणां कोलाहलोऽपि लोकमान्यविरुद्धः । भाषाशास्त्रज्ञेभ्यः साक्षिभ्यो निमन्त्रणं शासनसंस्थाया. कर्तव्यमासीत् । तदपि तया न कृतम् । परीक्षणार्थ फेचन लेखा अस्माभिर्दत्ता । अतो लँग्महाशया भाषणं कर्तुं समर्था अभवन् । अन्यथा तेऽपि वक्तुमसमर्था ।आरोपस्तु सर्वथाऽसिद्ध । सर्वेऽपि लेखा भापालङ्कारयुक्ताः । भापान्तरं प्रमादपूर्णम् । सा भापा यदि याच्या- र्थेन गृहीता स्यात्तर्हि किं प्रयोजनमलड्काराणाम् ? शब्दप्रयोगोऽपि विफलो भवेत् । छत्रपतिशिवरायमहोत्सय. किमर्थमारब्ध. ? विभूतिपूजायाः किं महत्त्यमित्यपि प्यूमहाशयविस्तरेण पर्णितम् । आग्लदेशेऽपि विभूतिपूजा पर्तते । तत्रोत्सवेपुजना महताऽऽयेशेन भापन्ते । परं न तत्र राजद्रोहामि- योगः सम्भवति । फयं स भारतदेशे सम्भवति इति चयं न जानीमहे । यदि स ते थक्कारो राजनिष्ठा इति मन्यन्ते तर्हि तेनर न्यायेन लोकमान्या अपि राजनिष्टाः सन्ति । 'अफजुलखान वधस्य समर्थनेन टिटकमहोदयः - महाशयघाताय प्रोत्साहनं दत्तमित्यपि असमीचीनम् । अन्यच्च । प्राचीन एवायं विपयः । यद्येयं तर्हि किमर्थ १२४(अ)परिच्छेदेनाभियोगः पृतः। पधोत्तेजनविपये य: परिन्छेदो वर्तते तेनैरामियोगः पर्तव्यः । राजद्रोह- प्रथमराजद्रोहाभियोगपर्व परिच्छेदस्य योऽर्थ, आग्लदेशे स्यात् स एवार्थो भरतसण्डे । एकोऽर्थ- स्तत्र, अपर. अत्र, एवं भवितुमयुक्तमेव । हीरकमहोत्सवरिपये ये लेसा. टिटकमहाशय. प्रकाशिता तैस्तेपांराजनिष्ठा सुव्यता भवति । यदि ते राज्य- कान्तिममिलपन्ति तर्हि दुर्भिक्षकाल ग्रन्थिज्वरसमयश्च अतीव समुचिता- वास्ताम् । परं टिळकमहोदयाः गान्तिमकृत्वा ग्रन्थिज्वरनिवारणाय रुग्णा- लयमस्थापयन् । सर्वमेवैतप्रकरण विस्तृतं वर्तते'। अन्ते 'प्यू'महाशयविस्तरश १२४ (अ) परिच्छेदस्य विशदीकरणं कृतम् । सर्वथानुकूलप्रमाणानि दातुं यदा प्यूमहाशया प्रवृत्तास्तदा न्याय- मूर्तिमि सह तेपा प्रदीर्थो विवाद समजायत । अप्रीतिशब्दार्थविपये दीर्घ- काल चर्चा अभूत् । टिळकमहोदयाना निरपराधित्वे बहूनि प्रमाणानि सन्तीति पुन पुन प्रतिपाद्य प्यूमहाशयै. समापित निजभापणम् । ९ न्यायाधीशसमारोपः न्यायाधीशैरुभयो पक्षयो प्रमाणान्येकीकृत्य राजद्रोहामियोगस्य विस्तरेण समारोप. कृत । सकल समारोपो विपरीतार्थको लोकमान्य- विरुद्धश्च । टिळकमहोदयाना हेतुरेव राजद्रोहमूलक इति मनसि निश्चित्य सर्वाण्यपि लेखस्थानि वाक्यानि उपमूलकान्यासन इति न्यायाधीशैरुत्तम् । राजद्रोहस्यापराचे राज्यकान्तिसाधनसामग्रीसम्पादनपरीक्षणं वा तवुद्धि- परीक्षणं याऽनावश्यकम् । राज्यसस्थाविपये तस्या अप्रीतिर्नाम तस्या द्वेपभाव इति १२४ (अ) परिच्छेदान्तर्गतशब्दाना विपरीतार्थो न्याया- धीशै. स्वीकृत । टिळकमहोदयानामनुकूल एक एव विपयस्तैरुक्त आसीत् यद् रॅडमहाशयस्य घाते लोकमान्याना लेखाना न कोऽपि चादरायण- सम्बन्ध । समापिते समारोपे प्रमाणपुरपगणस्था सभ्या. विचारविनिमयार्थ- मन्तर्गत्वा नातिचिरेण पहिरागत्य आत्मनो निर्णयमूचु " सर्वेपामैकमत्येन केशवराव बाळ' महाशया अपराधिनो न वर्तन्ते । पर टिस्कमहोदया पण्णा सभ्याना मतेन अपराधिन आसन्" इति । न्यायाधीशे सभ्यानां वहुमतेन जात. स निर्णय स्वीकृव । सपयेव राजसेवकेन लोकमान्या. पृष्टा । राजद्रोहम्यारोपो न्यायालरे प्रमाणरचने परीक्षित सिद्धश्च । तथापि लोकमान्यटिळकचरितम् यूयमदण्ड्या इत्यस्मिन् विषये यदि युप्माकं कानिचित् प्रमाणानि सन्ति तर्हि तानि कथयितुमेप एव समयः इति ।लोकमान्याः प्रत्यमापन्त "सभ्यानां बहुमतनिर्णयेन यद्यप्यहं दोपार्हो दण्ड्यश्च तथाऽपि नाहमपराधीति निश्चयेन मम स्वान्तं कथयति । केसरिपत्रस्था लेखा राजद्रोहबुद्धया न लिखिताः। तेषां परिणामोऽपि राजद्रोहोत्पादनफले न भविष्यतीत्यहं मन्ये । भापानिर्णये भाषापण्डिताः शासनसंस्थया न निमन्त्रिताः" इति । १० अभियोगनिर्णयः एतानि कारणानि न्यायाधीशानामसम्मतान्यासन् । स्पष्टमेव तै- रुक्तम् 'प्रजानामन्तःकरणेपु अराजनिष्ठामुत्पादयितुमेव युष्माकं सर्वे प्रयत्नाः इत्यस्मिन् विपये मन मनसि न कोऽपि सन्देहः । यद्यप्येप महानपराध- स्तथाऽपि न भयङ्करः । अस्मिन् देशे राजद्रोहस्यायं द्वितीयोऽभियोगः । १२४(अ)परिच्छेदः पुरातनो दुर्लक्षितश्चेति मत्वा निर्भयेन मनसा किमपि लेखनीयमिति भवान् मन्यते । ग्रन्थिज्वरकाले भवद्भिर्महत्साहाय्यं शासनसंस्थायै दत्तम् । परं भवतां वैदुष्यं कुशाप्रबुद्धिमत्त्वं च विचिन्त्य भवद्भिरेतल्लेखनं कृतमिति तु असमीचीनम् । एतादृशा लेखा अन्ततो हानिकरा भवेयुः । अतो न लेखनीयाः । एवं सम्यग् विचार्य सार्धवर्पभोग्येण सश्रम- कारावासेन भवन्तमहं दण्डयामि'इति । आर्यभूपणमुद्रणालयस्य व्यवस्थापका 'यार'महाशया आरोपात्सर्वथा निर्दोपं मुक्ताः । समाप्ते न्यायनिर्णये सपद्येव रक्षापुरुपैर्लोकमान्याः कारागृहं नीताः । न्यायालयस्यैप निर्णयो जनतान्यायालयस्य अमान्यो जातः । सर्वैरपि भारतीयवृत्तपत्रेनिर्णयविरुद्धा अभिप्राया दत्ताः । दण्डनीयाः १२४ (अ) परिच्छेदविपये महान् विवादः समजायत । न्यायालयनिर्णयानन्तरं वरिष्ठन्यायालये प्रकरणपरीक्षणार्थ प्रार्थनापत्रं प्रमप्राप्तमेय । तदर्य प्रार्थनापत्रमं ममर्पितम् । परं प्रावियाकत्रयेण तत् सम्यगविचिन्त्य न स्वीकृतम् । अतो विशेषाधिकारेण आपलदेरो 'लंडन'नगरस्थ मीहीयौन्सिल'नामके सर्ववरिष्टन्यायालये लोकमान्यानां राजद्रोदप्रकरणम्स परीक्षणार्थमयिलम्येन प्रार्थनापत्र दत्तम् । तदर्थमन्यां माममी सम्पादयितुं तय मुविख्यातान् विधिध्यपहारपग्टितान् प्रथमराजद्रोहाभियोगपर्व १९९ प्रापयितुं लोकमान्यानां परमं मित्रं 'दाजीसाहेब सरे महाशयास्तथाऽन्येऽपि तेषां सहायका आङ्ग्लदेशमगच्छन् । १२४ (अ) परिच्छेदस्य विपरीतार्थो, न्यायमूर्ति स्ट्रेची महा- शयस्यैकदेशीयः समारोपः इत्यादिप्रकारैः शासनसंस्थायै क्रुद्धा जना लोक- मान्यान् स्निग्धेन चक्षुपाऽद्राक्षुः । लोकमान्यानां वैदुप्ये तथा देशभक्तौ जनानामत्यादर आसीत् । ११ तेजस्विता लोकमान्यैः क्षमायाचनं कर्तव्यमिति व्यूहो लोकमान्यमित्रद्वारा कैश्चि- च्छामनसंस्थाहस्तविरचितः । यद्येवं स्यात्तर्हि समग्रमेतत् राजद्रोहप्रकरणं न्यायालयानिष्कासितं भवेदित्यपि तैरुक्तम् । परम् इयं सूचना रोपारुण- चक्षुपा लोकमान्यतिरस्कृता । वृत्तपत्रे तथैव मुदितमपि । वगदेशीय 'अमृत- वझारपत्रिका सम्पादकैः वावु मोतीलाल घोप'महाशयैः प्रेपितस्य पत्रोत्तरे लोकमान्यैरर्थपूर्णमेकं वाम्यं लिखितमासीत् - नाहं चेतस इव वीर्यहीनः"! क्षमायाचनेन दण्डाभावेऽपि लोकमान्यैरयं हीनमार्गो नाङ्गीकृतः । तेनापि जनानां मनसि लोकमान्यानां कृते अत्यादर. समुद्भूतः । रँड्महाशयस्य घातके उपलब्धे शासनसंस्थया यधाभियोगो न्याया- लयप्रविष्टः कृतः । तस्य निवेदनमन्यन वर्तते । अस्मिन् यधप्रकरणे लोक- मान्यानां न कोऽपि सम्बन्ध इति वधाभियोगे निर्णीतम् । सम्बन्ध दर्शयितुं शासनसंस्था यद्यपि समुत्मुका तथापि कमपि सम्बन्ध स्थापयितुमसमर्था सा हताशा बभूव । तेन कारणेन दण्डोऽपि सार्धवत्सरादधिको न जातः । अतो लोकमान्यविषयको जनानामादरो वृद्धि प्राप्तवान् । नोव्हेंबरमासस्यैकोनविंशे दिने लंडननगरे 'व्हाइटहॉल 'नाम्नि सभामण्डले चतुर्ण न्यायमूर्तीन मण्डलस पुरतो लोरमान्यानां राजद्रोहा- भियोगप्रकरणपरीक्षणप्रार्थनापत्रं विचारार्थ समागतम् । लोकमान्यानां कृते रिपथ्मेन्-उमेशचन्द्र यानर्जी प्रभृतयो विधिव्यरहारपण्डिताः प्रमागपरीक्षणार्थमासन् । प्यू-गार्थ-सरे'प्रभृतयरतेषां सहाययाः शासनसंस्थायाः एने 'कोहेन-बॅन्सन् महोदया. प्रमाणानि परिहर्तुमुपस्थिता - १०० लोकमान्यटिळकचरितम् आसन् । अप्रीतिशब्दार्थविषये, १२४ (अ)परिच्छेदार्थविपये तैः पाण्डित्यं विस्तरेण प्रकटीकृतम् । शासनसंस्थाकार्यविषये टीका भिन्ना । अथ राजद्रोहशब्दार्थो भिन्नः । उभयोर्मध्ये महदन्तरम् । अभियोगस्यास्य असामान्यत्वमपि विधिः प्रतिपादितम् । स्ट्रेचीमहाशयकृतः १२४ (अ) परिच्छेदस्य विपरीतोऽर्थो यदि सम्मतो भवेत्तर्हि आयत्यां तमेवार्थ प्रमाणीकृत्य महाननर्थः सम्भवेत् । परम् एतत्सर्व प्रतिपादनं जल- ताडनमिव न किमपि फलमावहत् । अस्यापि अतिवरिष्ठप्राड्डियाका मण्डलस्य निर्णयो लोकमान्यविरुद्धो जातः । १२ अन्याभियोगाः अन्येऽपि द्विना राजद्रोहाभियोगा अस्मिन् प्रकरणे उल्लेखनीयाः 'पुणे-वैभव' वृत्तपत्रसम्पादकाः केळकरमहाशया राजद्रोहाभियोगेन दण्ड- पात्रता नीताः । परं ते क्षमायाचनेन दण्डान्मुक्ताः । 'उत्तर-सातारा' विभागे आसीनस्य 'वाई'क्षेत्रस्य वृत्तपत्रं 'मोदवृत्तं'नाम । तस्य सम्पादक- महाशयाः 'काशीनाथ वामन लेले 'महाशयाः । 'भाऊशास्त्री लेले' इति तेषां सुपरिचितं नाम । अभियोगपरीक्षणात् , दण्डात् प्रागेव प्रारम्भे तैर्निप्फलं क्षमायाचनं कृतम् । तथाऽपि नवमासभोग्येन केवलकारावासेन एते दण्डिताः । 'प्रतोद' पत्रसम्पादका. 'कशाळकर'नामकाः, मुद्रकाः हरमळकरनामकाः । भाग्यचकस्य परिवर्तनेन न्यायाधीशेन द्वेपपूर्णमनसा आमरणद्वीपान्तरनिर्वासनेन कशाळकरमहाशया दण्डिताः, मुद्रकाश्च हरमर- करमहागयाः सप्तवर्पभोग्येण सनमकारावासेन । न्यायाधीशा अवदन 'दयायुक्तचेतसा मया एप सौम्यो दण्डो विहितः' इति । परं वरिष्ठन्याया- लये स दण्डो वर्पभोग्यो जातः, सप्तवर्पभोग्यश्च मासत्रयभोग्यः कृतः । विनोदपूर्णा रमणीयश्यायम् अभियोगवृत्तान्तः। परं स्थलसङ्कोचादुल्लेसमानणेय समाधानं फर्तव्यं भवति । आगामिनि पाले अचिरादेव १२४ (अ) परिच्छेदः शासनसंस्थया विधिमण्डले विम्मारितो व्यापकञ्च कृतः । अस्य परिच्छेदम्य व्यापकं परिवर्तनमेय प्रमाणं यत् स्ट्रेचीनामपन्यायमूर्तिना परिच्छेदस्थितशब्दाना मर्थस्य विपर्यासः कृतः ।

प्रथमराजद्रोहामियोगपर्व १०१ १३ कारावासः स पुरुपो यथार्थतया तदानींतनकारावासदुःखं जानीयायेन स्वयमेव तदुःखमनुभूतम् । अद्यतनकारावासगृहव्यवस्थाम् उत्तममध्यमाधमान अ-ब-क-वर्गाश्च वीक्ष्य अर्धशतकात्प्राक् सैव व्यवस्थाऽऽसीदिति कल्पना- ऽपि सुतरामसम्भाव्या । य: कोऽपि नरस्तदानींतनयन्धनागारदुःखानि सम्यग् ज्ञातुमिच्छेत् स कारावासदुःखमनुभूय प्रत्यागतैर्जनैलिखितानि पुस्तकानि बाचयेत् । तदानींतने कारागृहे भोजनार्थमन्नं तु एवमेव- एको निकृष्टः पिष्टकः, कन्दर्पलशुनमिश्रितं किञ्चित् व्यञ्जनं च । तादृशं व्यञ्जनं लोकमान्यैः स्पर्शेनापि न दूपितम् । पिष्टकस्य चतुर्थखण्डमात्रभागं जलमिश्रितं कृत्वा तत्सेवनेन लोकमान्यामद्वयं यापितम् । कारागृहनियमानुसारतो लोक- मान्यानां देनंदिनाचारः । तेन प्रतिदिनं तेषां शरीरस्वास्थ्य क्षीणतरं जातम् । आरोग्यं तु नष्टप्रायमेव । राजवन्दिनः पृथग्वर्गाः कर्तव्या इति कल्पनाऽपि फायचिन्मनसि तदानीं न समुद्भूता । कारागृहे शिक्षानियमाः कठोरप्रकारे- णालोच्यन्ते । परं वाममार्गेण केचन स्वामिलपितं साध्नुवन्ति इति सूर्य- प्रकाश इव स्पष्टम् । प्रतिष्टितबन्दिजनानां पृथग्विभागस्तदा नासीत् । शासन- संस्था तु राजद्रोहकारिभ्यो नीचं पदं दातुं सयत्नाऽवर्तत । विधिमण्डल सदस्यत्वस्य तथा नगरपालिकासदस्यत्वस्य च त्यागपत्रं लोकमान्यैर्दण्डात् प्रागेव दत्तम् । उर्वरितं तु मुम्बई विद्यापीठसदस्यत्यम् । तदपि शासनसंस्थया निरस्तम् । प्रत्यहं लोकमान्यानां शरीरं क्षीणतरमभूत् । प्रथमं तायत्ते कतिपयान दियसान् 'डोंगरी'कारागृहे निहिता आसन् । पश्चाद्रक्षापुरुपासान भायखळा'वन्धनागारमनयन् । केचिद्वदन्ति “ तस्मिन् कारागृहे तदा 'तात्यासाहेव नातू 'महाशया आसन् । अधिकारिणामनुनया गृहे मुमृष्ट- मन्नं तेभ्यो दत्तमासीत् । तस्मादन्नान् द्विवान पदार्थान् रक्षापुरपाः फचिल्लोकमान्येभ्यः प्रयच्छन्ति स्म" इति । तथाऽपि लोकमान्यानां प्रकृतिः क्षीणतरा यभूव । कृष्णवर्णमोष्ठद्वयं, मुसं शुष्कं नीरसं च जातम् । एकदा कारागृहयद्यो लोकमान्यानां पुरत उपस्थायावदत् 'यदि अनन्या भोजनपदार्या भवतां प्रकृतिस्वारथ्याय न फल्पेरंन्नदि महां किमयं भवान्नाक्ययत्' इति । लोकमान्याः प्रत्यभाषन्त 'मम शरीर १०२ लोकमान्यटिष्टकचरितम् दर्शनमात्रेणात्रभवान् तत्प्रत्यक्षीकरोतु । मम कथनस्य कि प्रयोजनम् ? किमपि नास्ति' इति । अतोऽधिकारिणो लोकमान्यान् सपद्येच पुण्यपत्तन- समीपस्थ ' येरवडा कारागृहं प्राहिण्वन् । स्थलान्तरेण लोकमान्या प्रकृति- स्वास्थ्य झटिति नालभन्त । शनै शनैरतेपा भोज्यपदार्थेषु चरुदुग्धादि- पदार्थाना समावेशो जात । रक्षापुरुपास्तथाऽधिकारिणश्च लोकमान्यान किञ्चिद्दयार्द्रबुद्धयाऽपश्यन् । बन्धनागारे क्रियमाणेपु सुकरं कर्म वर्ण- शालाया वर्णमिश्नणमासीत् । तल्लोकमान्येभ्यो दत्तम् । बन्दिशालाया तेषा- माचारो विशुद्धो नियमवद्धश्च । निजदु सनिवेदन ते कदाऽपि न कुर्वन्ति । किमुत विवाद । स तु दूरे एव । अधिकारिभि सह बन्दिजनाना विवादस्य कि फलम् । यदि किञ्चित् फलं स्यात्तर्हि स्वाभिमानस्याबमान । अतो लेकमान्या आग्रहेण विवादं परिहरन्ति स्म । रोकमान्यान् बन्धनान्मोचयितु प्रयत्ना जाता । रॅडमहाशयवध- प्रकरणे लोकमान्याना न कोऽपि सम्बन्ध इति वधाभियोगेन निर्णीतम् । तस्माच्छासनसस्था लोकमान्यान् सौम्येन चक्षुपा पश्यति स्म । न स्निग्ध- चक्षुपा । 'मुम्बईटाइम्स'पत्रेणापि एतद्ध्वनितम् । रोक्मान्याना भाग्य पतिश्चकारपड्तिरिय परिवर्तिता दृश्यते । लोकमान्या मुक्ताश्चेत् आयत्या ते कथ वर्तेरन्निति शासनसस्थाया महती शङ्का । तस्या बुद्धया रोकमान्या यावजीर राजकारणविपय सर्वथा परित्यजेयु । मोचनानन्तर च लेक- सभासु सत्कारादिक न स्वीकुर्युरिति । इम द्वितीय समयमविलम्वेन रोप- मान्या सुसेन स्वीकरिष्यन्ति । सत्कारार्थ, सुगन्धिपुष्पसचितपृथुरहार लामार्थ च कारावासो रोकमान्यैर्नाङ्गीकृत । पर राजकारणपरित्यागस्तै क्थ स्वीकर्तव्य ? अस्मिन्नेय काले आङ्ग्लदेशस्थप्रमुसशासनसस्थया मुत्ता- विषयक किमपि पन राजप्रतिनिधिप्रमुसाय भरतखण्डे प्रेपितमासीदिति तय॑ते । रोकमान्याना यन्धमुत्ति विपये मॅक्समुहर'महाशयादीना पण्डिताना प्रयत्नो विशेपेणोल्लेखनीय । तेभ्य पेनचित् कथित रोकमान्यसदृशो महापण्डितो दण्डितो भवतीति तु भृश शोचनीयम् । मॅक्समुरमहाशयाना लोकमान्यै सह परिमंश्चिद्विपये पत्रव्यवहार प्रागेय जात । अतस्ते .

प्रथमराजद्रोहाभियोगपर्व लोकमान्यान जानन्त्येव । 'चट्टोपाध्याय'नामकः कश्चित् पुरुषः 'ऑक्स- फर्ड'नगरे मॅक्समुल्लरमहाशयान मिलितवान् । तदा तस्मै स्वसम्पादितस्य ऋग्वेदग्रन्थस्यैकं पुस्तकं लोकमान्येभ्य. प्रहितुं मॅक्समुलरमहाशयैर्दत्तम् । प्रन्थप्रेपणसमये चट्टोपाध्यायमहाशया लोकमान्यान लिखन्ति "ऋग्वेदपन्थं लोकमान्याः कारागृहे कामयन्ते इति मॅक्समुल्लरमहाशयः कस्मिनिवृत्तपत्रे याचितम् । अतस्तैः सानन्दमयं ग्रन्थः प्रेपितः । लोकमान्यानां कारावासेन तत्रभवन्तोऽतीय दुःखिताः । शासनसंस्थया दयादृष्ट्या वर्तितव्यमिति तेपां मतिः । यदि लोकमान्यानां कारावासमुक्तये केचिजनाः प्रार्थनापत्रं शासनसंस्थायै प्रेपयेयुस्तर्हि मया तस्याः अनुनये यत्नः कर्तव्यः" इति । सफलीभूता इयं कल्पना अविलम्वेनैप प्रयत्नो जात. आग्लदेशस्थ- प्रमुसशासनसंस्थाधिकारिणे लोकमान्यवन्धमोक्षार्थ प्रार्थनापत्रं प्रहितम् । तस्याधस्तात् 'मॅक्समुल्लर-सर विल्यम् हंटर-सर रिचर्ड गार्थ-विल्यम् केन्- दादाभाई नौरोजी-रमेशचन्द्र दत्त'प्रभृतीनां प्रतिष्ठितराजमान्यानां नामानि लिखितान्यासन् । प्रार्थनापत्रके ए लिखितम् " (१) दिळकमहाशया राजनिटाः, मन्त्रकर्मणि कुशलाः विधिमण्डलसदम्याश्च । (२) अभियोगे- नाक्षिप्ता लेसा मन्धिज्वरसमये प्रसिद्धिं गताः।यदि ते राजद्रोहापराधास्तर्हि तस्मिन्नेव काले अमियोगः कर्तव्य आसीत् । न पश्चात्कालातिपातेन । (३) शासनसंस्थायाः कार्याणां कठोराऽपि टीका दण्डनीया न भवति । नार्य राजद्रोहः । तस्य प्रथमाघातः टिटकमहाशयेषु इति तु न समीचीनम् । विधिस्लिसितमेतत् । (४) टिळयमहाशयानां 'ओण्यन्'नामको भन्थः संशोधनात्मको विद्वत्ताप्रचुरश्च । प्राचीनतमपु वैदेपु एतेषां चित्तं भृशं रमते। फारागृहकर्मसदृशेषु कर्ममु न तेषां परिचयः । शरीरशतिहानिकराणि तानि फर्माणि । (५) फेसरिपत्रलेसा न रहमहाशययधर्मप्रवर्तकाः । स घातो धान्तचित्तः कश्चिदशिक्षितपुरुषः। (६) टियफमहाशयानां दण्डेन सम्मानितं विधिशास्र, सम्पादितं न्यायासनकाय च।भुत्तो दण्डः प्रजासन्तर्जनायालम्। साम्प्रतं यादर्शनं समुचितं भवेत्" इति । ऋग्वेदमन्ये प्राप्त लोपमान्यैः पृतमवाप्रदर्शनायं पत्रे मॅक्समुष्टरमदा- दायान् पनि लिखितम् " नत्रमयन्द्रिः प्रेषितं चतुर्विमागामस्म् ग्वेद- १०४ लोकमान्यटिळकचरितम् संहितापुस्तकं मया सम्प्राप्तम् । वन्धमोक्षाय प्रहिते प्रार्थनापत्रके तत्रभवती स्वनामोल्लेखो विशेपेणादरणीयः । तत्मार्थनापत्रं फलमावहतु न वा । तत्र- भवद्भिः अहमेवमुपकृतोऽस्मि यथा न जाने कैः शब्दैमया धन्यवादाः प्रदेया इति । प्राणिमात्रे सङ्कटानि समापतन्त्येव । ममापि इयं विपरी- भविष्यति । परं भवत्कृतसाहाय्यस्य स्मरणमविरतं भविष्यति । गृहेऽपि ऋग्वेदब्रह्मसूत्रभगवद्गीतादिग्रन्थवाचनेनाहं कालं नयामि । तथैवात्रापि याचनाय तत्रभवद्भिः प्रहित: ऋग्वेदग्रन्थो विशेपेणोपयुक्तो भवेदिति दृढं विश्वसिमि । साम्प्रतम् 'ओरायन्'पूर्वकालस्य संशोधने निरतोऽहम् । बन्ध- मोक्षणानन्तरं तत्कार्य ग्रन्थरूपेणारं सम्पादयामीति मे विश्वासः" इति । दिष्ट्या 'सालोमन'नामकः कश्चित् विद्वाँस्तदा कारागृहस्य पर्यवेक्षक आसीत् । तेनेदं ज्ञात्वा दयार्द्रमनसा कानिचित् सुखसाधनानि दत्तानि । रात्रौ दशवादनवेलावधिं यावद्दीपव्यवस्था कृता येन लोकमान्याः सुखेनैव ऋग्वेदस्य पर्यालोचनं कुर्युः । १४ मुक्तता राजकारणपरित्यागसमयः न कदाऽपि लोकमान्यानां सम्मतो भवेदिति ज्ञात्वा अन्यः प्रयत्नः समारब्धो दृश्यते । शासनसंस्थाप्यनेन कालेन बहुलैः कारणैर्लोकमान्यान् मोचयितुं समुत्सुकाऽऽसीत् । विशेषाधिकारयुक्ता ये अविका रक्षापुरुपा नियुक्ता आसन ते अविलम्वेन दूरीकृताः । रँडमहाशयस्य वधप्रकरणे लेशतोऽपि कपटप्रवन्धो नास्तीति निश्चितम् । अतो लोकमान्या अपि किमर्थ कारावासदुःखमनुभवेयुरिति बुद्धया चारकर्मकुशलस्य बुइनमहाशयस्य मुखेन शासनसंस्था कार्योन्मुखी जाता । ब्रुइनमहाशयेन 'दाजीसाहेव खरे'महाशयैः सह बहु विमृश्य निश्चयः कृतः लोकमान्या मान- हानिकर समयं न कदाऽपि सम्मन्यन्त इति । अतः सरेमहाशयैरपरः पर्यायः सूचितः । यदि भविप्यत्काले राजद्रोहापराधेन लोकमान्या दण्डारे भवेयु- सहि शेपदण्डस्य कालसण्डं तेऽनुभयुरिवि । एप समयः सम्मतो भवेदिति मत्या हुइनमहाशयः शासनसंस्थाधिकारिभिः सह मन्त्रार्थ गतयान । मुम्बई. प्रदेशराज्यप्रमुसो राजप्रतिनिधिः मन्त्रिभिः सह सुचिरं विमृश्य लोक- मान्यान् यन्धनान्मोचयितुं प्रस्तान नवान् । तं प्रम्नायं गृहीत्या रात्री अष्ट.

प्रथमराजद्रोहाभियोगपर्व बादनवेलायां खरेमहाशयानां निवासं सत्वरं गत्वा तैः सह येरवडाकारागृहं इनमहाशयो गतवान् । तत्र लोकमान्यान् प्रस्ताव दर्शयित्वा तेपां सम्मति- दर्शिकां स्वाक्षरी तस्योपरि गृहीत्या कारागृहाधिकारिणामनुज्ञया लोकमान्यान यन्धनान्मोचयित्वा खरेमहाशयद्वितीयो बुइनमहाशयो लोकमान्यैः सह रात्री सार्वदशवादनवेलायां लोकमान्यनिवासस्थानं 'विंचुरकर'सदनं प्राप्त- वान् । एकपञ्चाशत्सप्ताहान् कारावासदुःखं महता धैर्येण, कप्टेन चानुभूय वन्धमुक्ता लोकमान्याः परममुहृद्भिः खरेमहाशयैः सह पुण्यपत्तने स्वगृहं प्राप्ताः । परां कोटिं गतः कुटुम्बिजनानां वान्धवानां परमसुहृदां चानन्दः कल्पनागम्य एव । मूकीभूता वाक् तं कथं वर्णयेत् ! चपलेयं वार्ता चपलेव वायुवेगेन लोकेषु प्रसृता । लोकमान्यानामभिनन्दनार्थ विद्युत्सन्देशाः बहूनि पत्राणि च प्राप्तानि । तेपु कानिचिनिमन्त्रणान्यप्यासन् । केसरिपत्रे लोकमान्यैः सर्वेभ्यो जनेभ्यो धन्यवादाः प्रदत्ताः । द्विनेषु दिनेषु जनानां दशसहस्रं लोकमान्यदर्शनार्थ गतमिति केपांचन पुरुपाणामभिप्रायः । गोखलेमहाशयप्रभृतयोऽपि यथा- यसरं दर्शनार्थ गता आसन् । १५ चाफेकरप्रकरणम् लोकमान्यानां राजद्रोहाभियोगस्यादौ यथा रँडमहाशयघातेन तथा तेषां कारावासानन्तरं 'द्रविडानां' घातेन लोकमान्येपु विविधसङ्कटानि समापतन् । अत एव एतेषां वधवृत्तान्तोऽस्मिन् प्रकरणे संक्षेपतोऽव- लोक्यते । रॅडमहाशयघातः केनाप्यज्ञातपुरपेण महाराश्याः हीरकमहोत्सव- दिवसे कृतः । तथैव 'आयर्ट'महाशयस्यापि । कथितपूर्वोऽयं वृत्तान्त: अन्थिज्वरकाले विशेषाधिकारान दत्त्वा शासनसंस्थया ज्वरमतिरन्धार्थ रॅड- महाशयो नियुक्त आसीत् । दुष्टबुद्धिनाऽधिकारमदमत्तेन तेन पुण्यपत्तने महाननः कृतः । ज्वरमीताः सर्वे जना योजितेरुपायैः सङ्कटग्रस्ता बभूवुः । तान् शिक्षयितुं शासनसंस्थायै च मार्ग दर्शयितुं लोकमान्यैः केसरिपत्रे भृशं लिसितम्।

लोकमान्यटिळकचरितम् रॅडमहाशयेनोपयोजिता उपायास्तीत्रा आसन् । ते जनानामतीव दु सदायका बभूवु । अतो हीरकमहोत्सवदिवसे भ्रान्तचित्तेनैकेन पुरुषेण तस्य धात कृत तथैवान्येन 'आयर्ट'महाशयस्य । अनेन कर्मणा जना वाढ भीतिग्रस्तमानसा वभूयु । शासनसस्थाधिकारिण क्रोधामिना भृश जज्वल । आङ्ग्लसम्पादितवृत्तपत्राणि तस्मिन्नग्नौ घृत चिक्षिपु । एतेपा कृत्यैर्महान् सक्षोभ सअज्ञे । तेन शासनसस्थाऽपि भ्रान्तचित्ता भूत्वा वधस्यास्य सम्बन्ध लोकमान्यै सह योजयितु प्रवृत्ता । एप सम्वन्धो राजद्रोहाभियोगे न प्रस्थापितोऽभूदिति लोकमान्याना महद्भाग्यम् । पर ते राजद्रोहकारिण इति निर्णीय सार्धवर्पभोग्येण सश्रमकारावासेन दण्डिता । प्रक्षुब्धया शासनसस्थया रँडमहाशयघातकस्य शोधार्थ विंशति- सहस्ररूपकमित पारितोपिकमुद्घोपितम् । सशोधन तु वधक्षणे एव प्रारब्धम् । 'द्रविड' इत्युपनामकेन भ्रातृद्वयेन 'चाफेकर'वन्धूना नामानि कथितानि । प्रथम तावत् 'दामोदर हरि चाफेकर 'नामा पुरुपो रक्षा पुरुपैनिगृहीत । मुम्बापुर्या 'हॅमिल्टन' इत्यभिधानस्य प्राड्विवाकस्य पुरतो दामोदरेण निजवृत्तान्त कथित । त वृत्तान्त विज्ञाय जना अवदन 'सम्भ्रान्तचित्त कश्चिन्मूर्योऽयम्' इति । चाफेकरवन्धूना जनको विख्यात कीर्तनकार । एते सर्वे भ्रातर किर्तनसमये गानवादनादिना तस्मै साहाय्यमददु । 'दामोदर विंशतिवर्पकल्प , 'यालयप्ण'श्चतुर्विशतियर्पदेश्य , 'वासुदेव'श्चाष्टादशवर्ष- देशीय आसीत् । वीरवृत्तिर्दामोदरो युद्धविद्याप्राप्तये महान्त यत्न कृतवान् । पर तस्य सर्वे प्रयत्ना विफलीभूता । भममनोरथेन तेन वृत्तकथनसमये उत्तम् " यानि यान्यपकृत्यानि मुम्यापुर्या पुण्यपत्तने या अद्यावधि जातानि तानि सर्वाणि मयैय कृतान्यासन् । यैर्धर्मान्तर कृत ते सर्व काष्ठदण्डेन मया भृश ताडिता । महाराश्या शुध्रपापाणप्रतिमाया मसूण कृष्णवर्णो मया निक्षिप्त , पादनाणहारश्च तस्या कण्ठे समर्पित । विद्यापीठमण्डपोऽपि मया दग्ध । गौरफायसैनिकासाचारान् पीक्ष्य क्षुब्धमनसा मया निश्चित यत् रॅहमहाशयपातोऽपि मया पर्तव्य ण्य इति । पूर्व मम प्रयत्ना निप्पटा जामा । पुनरेक्दा हीरकमहोत्मवदिवसे सत्प्राणघाताय मया सप्त .

प्रथमराजद्रोहाभियोगपर्य १०७ यतितव्यमिति निश्चयेन अहं 'गणेशखिंड'नामकं राजमार्ग गतवान् । अग्न्यन्त्रेण मया रँडमहाशये सीसकगुलिकाः प्रक्षिप्ताः । बालकृष्णो मम भ्राता आयटमहाशयं हतवार । जूनमासस्य चतुर्विशे दिवसे अहं मुम्बा- पुरीमागल्य पुनरपि कीर्तनेषु जनकाय साहाय्यमददाम् । अग्रे टिटममहा- शयेपु राजद्रोहविपये अमियोगो जातः । 'नातू इत्युपाख्यं भ्रातृद्वयं कारा- गृहे निक्षिप्तम् । अन्यानपि कांश्चिजनानुपद्रवप्रस्तान् दृष्ट्याऽहं स्वयमेव रक्षापुरुषसमीपं गतवान् । एतत्सर्व मया कथितं विद्यते” इति । सर्वमेतद्वृत्तकथनं दामोदरेण न्यायालये न खीकृतम् । सोऽब्रवीत येनैतवृत्तकथनं लिखितं स प्रधानन्यायाधीशो नासीदिति मया न ज्ञातम् । त्रुइनमहाशयो मधुराक्षरेामवदत् “ सम्पूर्ण तद्विशतिसहस्ररूपक- मितं पारितोपिकमहं तुभ्यं दास्यामि, तव भार्या जीवनाथं द्रव्यं, भ्राने नृपसेवावृत्तिं च दास्यामि, तव नाम्ना मन्दिरमेकं विरचयिष्यामि, त्यामपि बन्धनात् सत्वरं मोक्ष्यामि इत्यादिमिर्वचनशतैर्मामनुनीय स तूष्णीं बभूव । मयाऽपि किमपि वृत्तं कथितम्" इति । नोव्हेंवरमासे प्राथमिकी चर्चा समाप्य दामोदरस्यामियोगः 'को'- नामकस्य न्यायाधीशस्य पुरतः परीक्षणार्थ प्राप्तः । तेन प्रमाणपुरुषगणस्य साहाय्येन 'सोऽभियोगो निर्णीतः । चाफेकरस्य कृते न कोऽपि विधिज्ञो न्यायालये आसीत् । दामोदरेणैवैप वधः कृत इति निर्णयः प्रमाणपुरुषगणेन न दत्तः । परं तेन सदोषपुरुपघाताय साहाय्यं दत्तम् । अतः सोऽपि तथैवापराधीति सभ्यानां निर्णयः। तस्मात् न्यायाधीशो दामोदरं प्राणदण्डेन दण्डितवान् । वरिष्ठन्यायालये दामोदरेण निर्णयपरीक्षणार्थ प्रार्थनापत्रं समर्पितम् । लोकमान्यरिदं प्रार्थनापत्रं दामोदरस्य कथनानुसारतस्तस्येच्छया लिखित- मिलपि केचिद्वदन्ति । परं सर्व तनिष्फलमभूत् । अपरे केचिद् ब्रुवन्ति अन्तकालात् प्राक् लोकमान्या दामोदरेण तथा प्रार्थिताः यथा ते तस्मै श्रीमद्भगवद्गीतापुस्तकं युः । लोकमान्यैरपि तद्दत्तम् । तत् पुस्तकं दामोदरेण मरणकाले स्वहस्ते विधृतमिति । यथा कथंचिदपि तद्भवतु । अचिरादेव दामोदरो घातकैः पाशवन्धन प्रागैवियोजितः ।

लोकमान्यटिळकचरितम् १६ 'द्रविड'बन्धुवधः सुवर्णकङ्कणलुब्धेन ब्राह्मणेनेव पारितोपिकलोभेन द्रविडबन्धुद्वयेन चाफेकरवन्धूनां नामानि कथितानि । तयोईविडयोरेको गणेशनामा असत्यलेखनकर्मदोपात् कारागृहे निक्षिप्तः । तस्य निवेदनेन दामोदरो निगृहीतो दण्डितश्च । दामोदरवधानन्तरं द्रविडो गणेशो बन्धनान्मोचितः । शासनसंस्थया तस्मै पारितोपिकाध दशसहस्ररूपकमितं दत्तम् । परं तन्न पर्याप्तमिति मत्वा शेपं पारितोपिकाध दातुं गणेशः प्रार्थनापत्रं शासन- संस्थायै प्राहिणोत् । गणेशेन लिखितम् " दामोदरो दण्डं लब्धवान् । अतो मया कथितो वृत्तान्तो नासत्यः । वाळकृष्णो यत्र कुत्रापि पलायितवान् इति तु न मम दोपः । रक्षापुरुषाणामनवधानस्य फलमेतत् । अतः सम्पूर्णे पारितोपिके ममैयाधिकारः" इति । पारितोपिकप्रदानकालेऽपि पष्ट्यधिकद्विशतं रूपकान कररूपेण गृहीत्वा शेपं द्रव्यं शासनसंस्थया गणेशाय दत्तम् । केसरिपत्रेण शासनसंस्थायाः कृपणवृत्रुपहासः कृतः । द्रविडस्य वचनं युक्तियुक्तमित्यपि लिखितम् । तथैव द्रविडेन यत्कथितं तत्साधारं शासनसंस्थया प्रजाभ्यः निवेदनीयमिति तस्याः फर्तव्यमित्यपि प्रतिपादितम् । दामोदरस्याभियोगे द्रविडः साक्षिभावेनो- पस्थितः । परं तेन किं कथितमित्यस्योल्लेग्यस्तस्य भापणे नासीत् । ग्रुइन. महाशयः शेपं पारितोपिकं द्रविडाय दातुं नेच्छत् । अस्मिन् विपये तयोविवादोऽपि जातः । परं द्रविडभ्रातरावेव अकालहीनं प्राणैर्विमुत्ता- यभूताम् । निलाब्दस्य १८९९ संवत्सरे फेजुआरीमासस्याप्टमे दिवसे रात्री पशपादनवेलायां फायपि द्वौ पुरुषो समागत्य द्रविडयन्धुभ्यां कथितयन्ती 'गुइनमहाशयो युवां पहिः समाययति" इति । द्वापिढभ्रातरी सोपान- माग मत्यरमधलादागती । ततस्ते पत्यारोऽपि गृहायाहिरागस राज. मार्गेण पतुष्पथ गत्या परायनिताः । मपटोय अग्न्यानभितगुलिफाशनं निशम्य हा हनोऽम्मि' इति पर्णकर्कगयोरदादः श्रुतः । मीमपगुलिया- पिली विस्भ्रानरी भूमि पविनी, मत्यरगुपचाप रग्णालयं नीती, अन्येशुभ पनत्यं गतो।

१०९ , प्रथमराजद्रोहाभियोगपर्व दामोदरस्य कनीयांसं भ्रातरं वासुदेवं तन्मित्रे 'रानडे'नामकं 'साठे'- नामकं चाहूय फरासखाना 'संज्ञके रक्षापुरुषकार्यालये तैः सह संवादे समारब्धे 'रामजी पाण्डु'नामकः कश्चिद्रक्षापुरुषाणामधिकारी कानिचिहु- चांसि उक्तवान् । तस्मिन् क्षणे एव आत्मनो वाससि सुगुप्तं निहितमग्न्यस्त्रं वहिराकृष्य ब्रुइनमहाशयस्य तथा 'रामजी पाण्डु'नामकस्योपरि झटिति गुलिकाप्रक्षेपणमकरोत् । अन्ये पश्यन्तो रक्षापुरुपा वासुदेवस्योपरि उत्प्लुत्य तस्य हस्तात् बलात्कारेण तदग्न्यस्त्रं समाकृष्य अगृहन् वासुदेवं च शृङ्खला- बद्धमकुर्वन् । तत्कालमेव वासुदेवेन तथा 'रानडे'नामकेन कथितम् 'आवा- मुभावेय द्रविडभ्रात्रोर्यातको ' इति । अनेन समयेन 'बाळकृष्णोऽपि उपलब्धो जातः । सर्वेषाममियोगा न्यायालये परीक्षिता. । प्रमाणपुरुषगणेन सर्वेऽपि ते सापराधा दण्डाही- श्वेति निर्णीताः, न्यायाधीशेन च प्राणदण्डेन दण्डिताः । १७ 'टाइम्स'पत्रस्य क्षमायाचनम् लोकमान्यानां कारावासमोक्षणानन्तरमेतौ द्वौ पुरुपयधौ जातौ । तावपि पूर्ववधसम्बन्धिनौ । तस्मादाङ्ग्लवृत्तपत्रसम्पादकानां मस्तकं सम्भ्रान्तम् । सर्वोऽपि दोपस्तैश्छद्मना लोकमान्यानां शिरसि स्थापितः । 'मराठा'नामके वृत्तपत्रे 'धैर्यशीलः उदारः' इत्यादिविशेपणानि वासुदेवाय तथा रानडे- नामकाय दत्तान्यासन् । अतः आङ्ग्लपत्रसम्पादकानां रोपः । अस्मिन्नेय काले मुम्बईप्रदेशराजप्रतिनिधेः 'सॅन्डरर्ट'म 'महाशयस्य पश्च- पार्पिकः त: कालखण्डः समाप्तः । तस्य स्थाने ' नॉर्थकोट'महाशयस्य नियुक्ति- जाता । अत: स राजप्रतिनिधिः 'ग्लोब'नामकस्य वृत्तपत्रस्य सम्पादकेनोप- दिष्टः 'मुम्बईप्रदेशे राजद्रोहकारिणां समितयो वर्तन्ते । तासामग्रणी: टिळकमहाशयः । तस्य सन्त्रेण, मन्त्रेण प्रचालितां घातक्रियां दृष्ट्वा मधुर- याच ब्राह्मणेषु राजप्रतिनिधिना विश्वासो नैव कर्तव्यः' इति । मुम्बापुरीस्थ'टाइम्स'पत्रेणायं परिच्छेद उद्धृतः । अतो लोकमान्यै- मानहानिकरोऽमियोगोऽस्मिन् पने कर्तव्य इति निश्चित न्यायालयेऽभि- योगपत्रं च समर्पितम् । धूर्तेन टाइम्सपत्रसम्पादकेन सपद्येच क्षमायाचन- पत्र मुद्रितम् । अतो मुक्तः स सम्पादकः । परं 'ग्लोब' पत्रसम्पादकेन . .

लोकमान्यटिळकचरितम् सुखेन क्षमायाचनपत्रं न मुद्रितम् । अतस्तस्य सम्पादकस्योपरि मानहानि- करोऽभियोगः आङ्ग्लदेशे कर्तव्य इति निश्चित्य विधिशास्त्रपण्डितविषयका सकला व्यवस्था कृता । अभियोगः कृतः इति ज्ञात्वा मदोन्मत्तेन ग्लोब- सम्पादकेन दीर्घोद्योगः कृतः । परं विफलीभूतः । अतो विधिज्ञैः पण्डितैः सह विमृश्य अन्ते सम्पादकेन अग्रलेसस्य समीपे एव आत्मनः क्षमा- याचनपन्नकं स्थूलाक्षरैर्मुद्रितम् । एवं समाप्तमिदं क्षमायाचनप्रकरणम् । १८ विश्रान्तिसुखम् बन्धमोक्षणानन्तरं शरीरस्वास्थ्याय विश्रान्तिरावश्यकी । परं सा वधप्रकरणेनानेन तथा च आङ्ग्लवृत्तपत्राणां प्रचारेण न लब्धा । क्षमायाचनप्रकरणानन्तरं किञ्चित् स्वास्थ्यमुपलब्धम् । बन्धमोक्षानन्तरं सपयेव 'सिंहगड'नाम्नि इतिहासप्रसिद्ध पुण्यपत्तनसमीपस्थे गिरिशिखरे कतिचिदिनानि लोकमान्यैर्निवासः कृतः । १८९८ संवत्सरे डिसेंबरमासे राष्ट्रियसभाधिवेशनार्थ लोकमान्या 'मद्रास' नगरं गता आसन् । ततो 'रामे. श्वर लड्कां' च गत्या पुण्यपत्तनं प्राप्ताः । अधिवेशननिमित्तेनाङ्गीकृतो दीर्घ- प्रवासः फलदायकोऽभूत् । अतः परं न विश्रान्तिकालः । उत्तरकाले लोक- मान्या न केवलं मुम्बईप्रदेशराष्ट्रकार्यधुरीणा आसन किन्तु वग-भङ्गान्दोलनेपु महद्भिः जनसमुत्थानैस्ते सर्वेषु प्रदेशेषु लब्धकीर्तयो भूत्वा अखिले भरतखण्डे राष्ट्रकार्यधुरीणानां प्रधानपदं लेभिरे। १९०१ संवत्सरे ' ताईमहाराज'प्रकरणं समुद्भूतम् । यद्यपि तस्मिन् प्रकरणे कनिष्ठन्यायालयादारभ्य वरिष्ठन्यायालयान्तेपु सर्वेष्यपि न्यायालयेपु लोकमान्यैर्यशः सम्पादितम् , तथाऽपि अनेन प्रकरणेन दुसहो मनस्ताप. एकविंशत्तिसंवत्सराणि लोकमान्येभ्यो दत्तः । १९ गृहजीवनम् १८९१-१८९९ वत्सरान्तं लोकमान्यानां निवासस्थान पुण्यपत्तने 'विंचुरकर'महाशयानां सदनमासीत् । प्रशस्तं सत्सदनम् । अग्रभागे पृष्ठतश्च प्राङ्गणं, नयनमनोहरमुद्यानं, स्वल्पश्च जलाशयस्तत्रासन | गणेशोत्सवादयः सर्वे महोत्सयास्तथा व्यारयानादयः कार्यक्रमाः अत्रैवाभूयन् । केसरि- कार्यालयः आर्यभूपणमुद्रणालये आसीत् । अभियोगानन्तरं स ~ 'गांधी'- प्रथमराजद्रोहाभियोगपर्व १११ सदनं नीत. । 'गायकवाड'नरेशप्रासादक्रयणं यावत् कार्यालयस्तत्रैवासीत् । केसरिमुद्रणं तु अन्यत्राभूत् । कार्यालयस्थलं न विस्तीर्णम् । सम्पादक- मण्डलस्य सदस्यौ 'केळकर-साडिलकरौ', व्यवस्थापको 'विद्वांसो पनामकः, दिवा लेसकाः एवमेव कार्यालयः । कार्यवशादत्रैवागत्य लोकमान्या वृत्त- मलियन् । केसरिपत्रस्य ग्राहकाः सप्तसहस्रमासन् । साम्प्रतमेकादशसहसं जाताः । मराठापत्रस्य ग्राहकाः सहस्रसंरयाका आसन् । भारतस्यान्येपु प्रदेशेषु तस्य ग्राहकाः । लोकमान्येषु कारावासं गतेपु केळकरमहाशयो मराठापत्रस्य सम्पादकोऽभूत् । केसरिपत्रस्य केळकरसाडिलकरमहाशयौ सम्पादकावास्ताम् । एतयो. सहकारेण लोकमान्या किञ्चित् स्वास्थ्यमलभन्त। अनेनैव समयेन प्रतिसंवत्सरं ग्रन्थिञ्चरः समुत्पन्नः । परं लोकमान्याः स्थलान्तरं कदाऽपि नाकुर्वन् । लोकमान्यानां गृहजीवनम् अमृतमिव निर्मलम् , आचारश्च स्फटिक- मणिरिव विशुद्धः । तेषां ज्येष्ठः पुत्रो ' विश्वनाथ'नामा अस्मिन् समये पञ्चदशवर्पदेशीयो विद्यालयेऽध्यैत, कनिष्ठ. श्रीधरारयनिहायन. । अनयो- मध्ये द्वे कन्ये दुर्गामथुरानाम्न्यौ पुत्रश्च रामचन्द्रः । प्रथमे वयसि वर्तमाना- न्येतानि अपत्यानि शिशुजनोचितक्रीडारतान्यासान् । रामचन्द्रस्य व्रत- पन्धोऽपि न जातः । सम्मार्जनादिगौणगृहकर्माणि भृत्यैः सम्पादितानि । अभ्यागताना गमनागमनं वहुलमासीत् । परं सर्वेषामादरातिथ्यादिव्यवस्था तथैव गृहव्यवस्था लोकमान्यानां भागिनेयो 'धोंडोपंत गङ्गाधरपंत-विद्वासो'- पनामको अपश्यताम् । सर्वेऽपि प्रत्यहं 'चहापानमकुर्वन् । नित्यनैमित्तिक- दिनेप्यपि भोजनाच्छादन विभवसम्पन्नता नासीत् । सर्वाणि गृहकार्याणि दम्भरहितानि आडम्बरविहानानि चासन् । लोकमान्यानां लेसनसामग्री तु इयत्येव । एको लेखनाधारमश्च., दौ पिष्टरी, पुस्तकानां कृते लघुकोष्ठश्च । निशेपस्तु लोकमान्यानामेकं मुसासन- मासीत् । समागतैर्जनैः सह चर्चा, विवादः, सम्भाषणं, सर्वमेय लोकमान्यै- रस्मिन् सुखासने सुसमुपविश्य सम्पादितम् । हास्यविनोदी, होमर्प- ध्यपहारो, नूतनान्दोलनानां सन्चालनमित्यादिकार्याणां प्रभवस्थानमाश्रयस्थान चेदमेव सुसासनम् । स्वहस्तेन लेसनकार्य लोकमान्या न कदाप्यकुर्वन् ।

११२ लोकमान्यटिळकचरितम् अस्मिन् सुखासने शयाना एव ते लेखकाय विपयकथनं, हस्तेन पूगीफल- कर्तनं, मुखेन चर्वणं चाकुर्वन् । वनाच्छादनेष्वपि लोकमान्यानामेतदकृत्रिमत्वं विनीतवेपाभरणत्वं च दृश्यते । परिधानार्थमेकं वस्त्रम् , उत्तरीया द्वितीयं, यहिर्गमनवेलायां कञ्चुकः इति गङ्गाजलमिव विशुद्धानि , शुभ्राणि च लोकमान्यानां वस्त्राणि , कोकनदस्पर्धि रक्तवर्णमुष्णीपं च तेषां वेषभूपा, हस्ते वेत्रयष्टिः । दर्शनार्थ समायातेऽभ्यागते कथमहं परिधानवस्त्रमाणात्मानं दर्शयामि इति शङ्काऽपि तेपां मनसि न समुत्पन्ना । लोकमान्यानां गृहिणी सदैवानुकूला धर्मानुरक्ता सदाचाररता च । सामान्यतः प्रमदाजनो यत्रालङ्कारप्रियः । परम् अस्याः वस्त्राण्यल्पमूल्या- न्यासन् । न कदाऽपि सौवर्णतन्तुविनिर्मितानि । अस्याः स्वभावविशेपरतु अयमेव । आचारेण सरला, प्रकृत्या ऋजुः, सर्वकालं गृहकर्मव्याप्टता साऽन्यप्रमदाभिः सह संलापार्थ न कदाऽपि स्वगृहं त्यक्तुमैच्छत् । कार्या- र्थमपि न कदाऽन्यैः सह अनया सम्भापितम् । आत्मनो गृह, बालापत्यानि, बान्धवगणं विना नान्यः कोऽपि विपयस्तामपाकर्पत् । पतिसेवापरायणाया गृहकर्मनिरतायास्तस्याः शब्दमपि न कश्चिदशृणोत् । लोकमान्यानां मित्रपरिवारो विपुल आसीत् । सर्वेपां जनानामन्तः- करणानि ते सम्यग् जानन्ति स्म । कस्मिन् कर्मणि कः पुरुषो नियोक्तव्य इति ते भृशमवगच्छन्ति स्म । नेकविधा लोका लोकमान्यैः सड्गृहीताः।

६ 'पुनश्च हरिः ओम्'पर्व १ पुनश्च केसरिपत्रसम्पादनम् निस्ताब्दस्य १८९९ संवत्सरे जुलैमासस्य चतुर्थेऽहनि लोकमान्यैः स्वनाना केसरिपत्रं पुनः सम्पादितम् । 'पुनश्च हरिः ओम्' इति वैदिकं शीर्षकमप्रलेसस्य । शीर्पकदर्शनेनैव सर्वाचकैर्विज्ञातं लोकमान्याः पुनः सम्पादका जाता इति । शीर्पकानुरुपोऽप्रलेसस्यारम्भोऽपि 'कर्मलोपः स्वाध्यायप्रारम्भश्वे'ति शब्दैः कृतः । किं सूचितमेतैः शब्दैः ? पैदिकधर्म- प्रणीतकर्ममार्गो जनैराचरितव्यः । कर्ममागोचरणे कारावासेनान्तरायः कृतः । कारागृहे दैनंदिनकर्मणामाचारो न सम्भवति । तस्मात् कर्मलेपो जातः । अतोऽधुना द्विगुणोत्साहेन स्वाध्यायोऽध्येतव्यः । स्वाध्यायो नाम ज्ञान- सम्पादनम् । मनुप्यमात्रस्य विहितकर्म एतत् ।' तत्कर्मफलं लोकशिक्षणं लोककल्याणं च । एतादृशस्य कर्मणः पुनरारम्भो लोकमान्यैः सूचितः । कियान् अभिमानो वेदिकधर्मस्य आचारस्य च । अस्मिन् फर्मणि प्रवर्तितु लोकमान्याः साम्प्रतमेतायता शरीरसामर्थन सन्नद्धा अभूवन् । तस्माते: प्रथमं परमात्मने धन्यवादा दत्ताः । मनुष्यमात्रो जन्मना 'त्रिमिः ऋणैः ऋणना जायते' देवपिपितृणाम् ऋणमिति । लोकमान्य. रिदं चतुर्थ लौकिकम् ऋणं निर्मितम् । तस्वर्णत्याल्पश. प्रतिदानं धन्यवादे- र्जायते, आमरणं जनसेवयाऽपि तस्य प्रतिदानं न भविष्यतीति लोक- मान्याना बुद्धिः । अभियोगकाले ये सुहृदः प्रतिभूस्थाने आसन्, थैर्लोक- मान्यानामनुपस्थितौ तेपां वृत्तपत्राणि सम्यग्रीत्या सम्पादितानि, थैश्वान्य- प्रदेशीयवृत्तपत्रैः सहानुभूतिपूर्वकं साहाय्यं दत्तं तेभ्यः सर्वेभ्य. स्नेहपूर्ण- मनसा लोकमान्यैर्धन्ययादा रितीः। लोकप्रजागरस्य प्रभुतं श्रेयो लोकमान्यः शासनसंस्थाये दत्तम् । ऋजुमार्गेण गच्छतो जनस्य यद्यप्यपघातो जातस्तथाऽपि नायं तस्य जनस्य दोषः । परं समन्तात् तेनापघातेन जनजागरो भवति । तथैवात्रापि । केसरिपत्रस्य कार्यपद्धतिस्तु प्राचीना एव । परं शासनसख्या विहित. कर्मण्यात्मनः परिवर्तनं करम् । अतो लोक्समुस्थानं प्रलागय जना .

रोकमान्यटिटफचरितम् . प्रबोधस्य निमित्तकारण केसरिपनम् , उपादानफारण शासनसस्था इति युक्तिवादेन लोकप्रजागरस्य प्रभूत श्रेयो शासनसस्थाया आसीत् इति रोकमान्याना प्रतिपादनम् । राजद्रोहशदस्तु चतुरक्षरात्मको रघुरेव । पर तस्यार्थो भयङ्कर , परिणामस्तु भयहरतर । तस्मात् केसरिपन नष्ट स्यादिति भय तु स्थाने एव । पर नष्ट नाभूत्तत्पनम् । अस्य सकल श्रेय खसुहृन्मण्डलाय वितीर्य धोरेऽस्मिन् सङ्कटे महता धैर्येण केसरिपन यथा पूर्व सम्पादितमिति कृत्वा रोकमान्य केळकर-साडिल्करमहाशयाभ्या तथैव मुभ्यापुरीस्थवार्ताहराय 'पिटपर'इत्युपारयाय 'अनताय' धन्यवादा वितीर्णा । पश्चात् 'अमृतवझारपनिका हिन्दु चॅम्पियन्'प्रभृतीना वृत्त पनामा सम्पादकेभ्यस्तथैव मॅक्समुल्लरमहाशयेभ्यो निरपेक्षसाहाय्यार्थ धन्य- वादान् दत्त्वा एतादृशा पुरुषा अकारणमिनाणि भवन्ति इत्युचिते. शब्दै- स्तेपा गौरवोऽपि कृत । अनन्तरमात्मनोऽनुपस्थितिकालखण्डस्य सिंहावलोकन कृत्वाऽस्मिन् काले या प्रगतिर्जाता सा स्पष्टशब्दैनिर्दिष्टा । मुद्रणस्वातन्त्र्यसङ्कोच , रोक स्थापितशिक्षणसस्थाना विद्यालयेषु वर्तमानानामध्यापकाना राजकीयसमु स्थानेषु सहकारदाननिरोध , दण्डनीत्या — १२४( अ ) परिच्छेदस्या तिव्याप्तिरित्यादयो महाविना अधुना समुत्पन्ना । पूर्वेण ' १२४(अ) परिच्छेदेन केसरिपनस्य लेसा सत्यतो न राजद्रोहकारिण । पर केसरिपत्र निमित्तीकृत्य शासनसस्थयाऽऽत्मनो मनीपित सम्पादितम् । विना दण्डमेतत् शक्यमासीत् । रोककर्तव्य शासनसस्थया स्पष्टशब्दै कथयितव्यमिति जनैरपेक्ष्यते । मुद्रणस्वातन्त्र्यादीना मर्यादा सड्कुचित्ता इति न वादविषय । पर सा निश्चिता इत्यसमञ्जसम् । क्षणे क्षणे सा सङ्कोचमेति, कार्यवशात् वृद्धि प्राप्नोति इत्यनुचितम् । पुण्यपत्तनेऽभियोगकाले नौ पक्षावजायेताम् इत्यपि असमीचीनम् । एकस्य नाम 'नेमस्ता', अपरस्य 'जहाला 'इति । लेकमान्याना बुद्धिस्तु यद्येताही पक्षौ पुण्यपत्तने न सम्भवेतॉस्तयेतादृश सङ्कट नापतेदिति । अतस्तै राजद्रोहाभियोगस्य दोपोऽल्पाशेन नेमस्तपक्षे प्रक्षिप्त । यद्यपि द्वौ पक्षावजायेता तथाऽपि आग्यशासनसस्था निष्कासयितु नैकोऽपि साम्प्रत मिच्छति । सर्वे विधिनियमान् पालयितुमेघेच्छन्ति । पर विधिनियमैर्योs. , 'पुनश्च हरि ओम्'पर्व ११५ वसर कार्यार्थ दत्तस्तस्योपयोग कथ कर्तव्य इत्यस्मिन् विपये पायोनियाद । नेमस्ता पदन्ति विद्यमाना शासनसस्थाव्यवस्था समीचीना वर्तते । केसरि- पर ब्रूते ' सा व्यवस्था न जनकल्यागारिणी । प्रत्युत अहितकारिणी' । परम् एत विवादविपय दूरीकृत्य उभाभ्या पक्षाभ्या करणीय कार्य विपुल वर्तते । तत्कार्य यद्येतो पक्षौ सहकारेण कुर्यातास्तर्हि महत्कार्य भवेदिति । लोकमान्यविचाराणामागयोऽस्मिन् 'हरि ओम्' इत्यग्रलेखे युक्तिवादेन प्रथित । सार्वराष्ट्रियमान्दोलन यथार्थत्वेनास्मिन्नेव सवत्सरे समुत्पन्नम् । साम्राज्यस्योत्की प्रयतमान प्रमुसराजप्रतिनिधिपदे नियुक्त 'कर्झन'- महाशयो भारतभूमि प्राप्त आसीत् । तस्य पञ्चवार्पिककालखण्डे जनैरनुभूताना सुखदुः साना कथाभागो वयमग्रेऽवलोकयिष्याम । राजद्रोहस्य प्रथमामियोगेन लोकमान्या यथा भारतस्य सर्वेषु प्रदेशेषु ख्यातिं गतास्तथा तेषा कार्यक्षेत्रमपि विस्तृत जातम । राष्ट्रियसभाया प्रतिसवत्सर जायमानेनाधिवेशनेन रोकेपु राष्ट्रियभावनोत्पत्ति , तस्या सवर्धन पोपण च जातम् । नैकनिधा विचारविपया समुत्पन्ना । आव. श्यक्स्तेपा राष्ट्रियदृष्ट्या विमर्श । २'काळ'पत्रम् लोकमान्यपक्षीयमन्यवृत्तपन 'काळ'नामक शिवराम महादेव पराजपे'महाशय सम्पादितम् । अन्योक्ति-व्यानोक्ति पक्रोक्ति-उपहास- गभैलेंसैर्महान् प्रजागर पत्रेणानेन कृत । राष्ट्रियविपयेषु पराजपेमहा. शयाना टीकास्त्र प्रसरतरम् । शरसन्धान सदैव शासनसंस्थाधिकारिपु । अतस्तन्नारोचत सुधारकपक्षाय । सुधारकामणीना 'फेरोजशहा मेथा'- प्रभृतीना मतेन रोक्मान्यैस्तत्पक्षीयैश्च काठपनसम्पादका निपेद्धव्या । विशेषेणाय निषेध केसरिपत्रे मराठापने च मुद्रयितव्य । असम्मतमेतहोक- मान्यानाम् । ते लिसन्ति ' अनेनास्माक निपेघेन प्रतिपक्षीयाणा साहाय्य भवेत् । तद्दातु चयमसमर्था । एक पक्षमङ्गीकृत्य तत्पक्षमुखेन अन्यपक्षस्य निषेध करणीय इति शासनसस्थाया कुटिरनीति प्रसिद्धा । राजनीत्या प्रधानमङ्ग भेदनीति । तस्मादेतत् क्तुं वय नोत्सहामहे " इति ।

५ . . ११६ लोकमान्यटिकचरितम् ३ 'रैंगलर परांजपे'महाशयाभिनन्दनम् विद्वानेव विजानाति विद्वज्जनपरिश्रमम् । कारावासानन्तरं पुनः केसरिपत्रसम्पादनात्प्राक् लोकमान्यैर्वार्ता श्रुता यत् 'परांजपे 'इत्युपनामकः पुरुषोत्तमतनयो रघुनाथनामा आङ्ग्लदेशे 'केंब्रिज विद्यापीठस्य पदवीपरीक्षायां गणितशास्ने प्रथमश्रेण्यां प्रथमक्रमा- ऋणोत्तीर्गोऽभवत् इति । अनेन मुयशसा परांजपेमहाशयाः · सीनिअर रंगलर पदवीमलभन्त । पाश्चात्त्यदेशे सुप्रसिद्धविद्यापीठे मेधाविनां छात्राणां स्पर्धायां तावत्कालं केनापि भारतीयेनालब्धोऽयं बहुमानो न केवलं कुतूहल. विपयः, अपि तु भारतीयानामभिमानस्थानमेतत् । अतो लोकमान्यैः केसरिपत्रे परांजपेमहाशयानामभिनन्दनं कृतम् । एकस्य विजयानन्दः अन्यस्य विपादाय कल्पते । भारतीयछात्रस्येदं स्पृहणीययशो वीक्ष्य आङ्ग्ल- देशीया मत्सराग्निना दग्धाः । परं तदानींतनो भारतस्य प्रमुखराजप्रतिनिधिः कर्झन'महाशयः स्वयं पत्रं लिखित्वाऽभिनन्दनं कृतवान् , परांजपेमहाशयानां जनकाय पत्रं च प्रेपितवान् । अनन्तरं कतिपयैर्मासारतदेशं समागतानां रैंगलर परांजपेमहाशयानां बहुमानो मुम्बई विद्यापीठपदवीधरैर्मुम्बापुर्या कृतः । पुण्यपत्तनं समागतानां तेपां स्वागतमभिनन्दनं च लोकमान्यैः तेषां सदनं स्वयं गत्वा कृतम् । ४ सातारानगरे प्रादेशिकी परिपद् मुम्बईप्रदेशराजप्रतिनिधेः 'सॅन्टर्ट'महाशयस्य पञ्चवार्षिक कालखण्डे वृद्धि गतानि प्रजादु खानि । सुधारकपक्षीयः राजकार्यधुरन्धरैस्तस्य स्मारक- विपये विमर्शः कृतः । तेष्वपि केपांचन सम्मतः स्मारकविपयः, केपांचन असम्मतः । अतो लोकमान्यैः केसरिपन्ने लेखमालां प्रकाश्य तस्य कार्यस्य समालोचनं कृतम् । तस्यां लेखमालफा गणितालि दुर्भिक्ष-प्रन्धिज्वर-राज- द्रोहाभियोग-अधिकरक्षापुरुपनियुक्तिप्रभृतीनि सर्वाणि दुःखानि । पीडा. कराण्येतानि सर्वाणि दुःखानि लोकैः सोढानि । लोकमान्याः प्रतिपादयन्ति प्रजानां सहनशीलतागुणस्य स्मारकं प्रथमं करणीयम् । परं चित्रमेतत् यत् प्रजानां दुःखदस्य स्मारकं कर्तुं समुद्यतो लोकः' इति । . . .

. 'पुनश्च हरि ओम्'पर्व ११७ अस्मिन्नेव कालखण्डे छनपतिराजधान्या- सातारा'नाम्नि नगरें- मुम्बईप्रदेशपरिपदोऽधिवेशनमासीत् । तत्रापि अय विवाद समुपस्थित । मुम्यापुरीस्थसदस्याना मतेन सॅन्दर्टमहाशयस्य नामापि प्रस्तावे न दृश्यते । पर प्रस्तावे समुल्लेखिताना विपयाणा सम्बन्ध सॅन्दर्टमहाशय वर्जयिता नान्य कचन शिष्यति । अत सभाध्यक्षा गोकुळदास पारेसमहाशया अगर्जन् 'एतादृशा प्रस्ताना यदि विचारार्थ सभाया पुरत आगमिप्यन्ति तहमध्यक्षस्थान सम्ता गमिष्यामी'ति । प्रस्तारापेक्षया अध्यक्षमहोदया ग्यास्माकमधिक ग्राह्या इत्यन्तत प्रस्तायसूचकेनोक्त्या आत्मन प्रस्ताव प्रतिसहत । अन्यस्मिनहनि अन्यत् प्रकरण समुद्भूतम् । सभाया कार्यारम्भे एर द्वे प्रार्थनापत्रके अध्यक्षमहोदयाना पुरतो निधाय तयोनिर्णयोs- पेक्षित । एक्स्याशय सदस्यान् अपिचार्यैव अध्यक्षमहोदयरात्मनोऽधिकारेण केचन सदस्या रिपयनियामक्समित्या स्वीकृता । सद्य परिमार्जनीयमेतत् रसलितम् । अन्यस्मिन् पत्रे लिखितम् 'मुम्बईशासनसस्थाया कार्यपद्धति विषये सूचनादायक प्रस्ताव यद्यपि विषयनियामक्समित्या प्रत्यारयात- स्तथाऽपि त प्रस्ताव सूचयितुमनुज्ञा ददातु सभापति'रिति । प्रार्थनापत्र स्याध सात् बहूनि हस्ताइनान्यासन् । एते प्रार्थनापने दृष्ट्या अध्यक्षमहोदया किश्चिद्धान्तचित्ता जाता । पर किं कर्तव्यम् । उक्त च-- 'किर्म किमफर्मेति करयोऽप्यन मोहिताः'। इति अध्यक्षमहोदया स्वामह न मुश्चन्ति । सतस्या प्रोधापिष्टा बभूवु । तेऽध्रुवन् 'स्वयमेय नियमनाहाचरण कृत्या अध्य प्रस्थान बजेयमिति सदस्यान् किमिति तर्जयन्ति अध्यक्षमहोदया ' इति । प्रस्ताव सूचयितु लोकमान्या आतता । तथा पर्नु यदा ते उस्थितास्तदा न पश्चिदेच्छत् तेषा प्रतिपादन श्रोतुम् । अतो महान् पोराहल समुत्पन । अनन्तर रोक्माये सूचितम् । प्रस्तार सूरयितुमनुशा न दाः अध्यक्षमहोदया । पर स्वाक्षरीमि सद्द त पेयर यापयितुमनुता दा । तव ममाया पनसत्महे इस प्रार्थनापत्र सहमहीदव्यम् । य एते सदस्या . ११८ लोकमान्यटिळकचरितम् अपि प्रस्तावं पुरस्कर्तुमाग्रहं न फुयुः इति । इयं लोकमान्यानां सूचना सर्वः सदस्यैः स्वीकृता । अनन्तरं सर्व परिपत्कार्य निर्विघ्नं समाप्तम् । १९०० संवत्सरे पञ्चाङ्गसंशोधनम् , ज्ञानेश्वरवाद., शिवजन्म- तिथिनिर्णय , 'रायगड'नाग्नि दुर्गे द्वितीयः शिवछत्रपतिमहोत्सवः इत्यादयो घवो विपया लोकमान्यैः केसरिपत्रे चर्चिताः । नोव्हेंबरमासे संस्कृतभापामहापण्डिताः मॅक्समुल्लरमहाशया दिवं गताः। तेषां गुणगौरवम् अग्रलेखेन लोकमान्यैः कृतम्: । उक्तं च 'गुणी गुणं वेत्ति न चेत्ति निर्गुणः । जर्मन-फ्रेंच-इत्यादिभापासु लिखितानां ग्रन्थानामाङ्ग्लभापायां रूपान्तरं कृत्वा आग्लभापां विजानत्सु विद्वज्जनेषु महदुपकृतमेमिः पण्डितवर्यैः । ५ रानडेमहाशयनिधनम् एकोनविंशतिशतकं सम्पूर्णम् । विंशतितमं समारब्धम् । निस्ताब्दस्य १९०१ संवत्सरे जानेवारीमासे महाराष्ट्रदेशे 'माधय गोविन्द रानडे'- महाशया दिवं गताः । समाजकारणे, राजकारणे वा यद्यपि रानडेमहाशया लोकमान्यविरुद्धास्तथापि तद्विपयको महानादरो लोकमान्यानां मनस्यासीदिति केसरिपत्रे अग्रलेखे तैर्दर्शितम् । रानडेमहाशयानां मृत्युलेखे लोकमान्या लिखन्ति “रानडेमहाशयानां विशालबुद्धिमत्त्वम् , असाधारणकर्तृत्वम् , विविधविषयपारंगतत्वं, राष्ट्रकार्येषु अग्रेसरत्वं च विलोक्य तेषां निधनेन कंचित् कालं जगत् शून्यं भासते । केचन एव जना ईदृशं गुणसमुच्चयं धारयन्ति । परं स्वार्थसम्पादनायैव ते तान गुणानुपयुञ्जते । रानडेमहाशयानां तु अयमेव विशेषो यदात्मनो बुद्धिमत्त्वम् , उद्योगप्रियत्वं च महाराष्ट्रदेशे राष्ट्रकार्यायोपयुज्य जनान् मार्गमेकं दर्शयित्वा, विविधानि सड्कटानि परिहत्य, कापायध्वज हस्ते गृहीत्या, राष्ट्रकल्याणाय महतोत्साहेन ते सर्वेपा. भप्रेसरा अभूषन् । जनसमूहत्याज्ञानतिमिरं दूरीकृत्य, ज्ञानगङ्गाया प्रवाह- मसण्डं कृत्या, रानडेमहाशया महाराष्ट्रदेशे गुरुस्थानीया जाताः । सुप्रति. ष्ठिते आइग्लराज्ये महाराष्ट्रेपु रानडेमहाशयसदृशो न कोऽपि पुरुषः समु. पन्नः । दृढीभूते आइग्लराज्ये सति, महाष्ट्रदेशे प्राग्विद्यमाना प्राचीन- कर्तृत्वपरम्परा समूल नष्टा । जनास्तेजोवलहीनाः स्वार्थपरायणा अभूवन् । , 'पुनश्च हरिः ओम् पर्व महाराष्ट्रदेशो हिमाचल इस अचेतनो जातः । एतादृशे जड़े कर्तृत्वशून्ये महाराष्ट्रदेशे रानडेमहाशयैर्जनान् सचेतनान् सौत्साहान् कृत्वा तेभ्यो मार्गो दर्शितः, यमनुसृत्य तेपामनुयायिनो देशाभिमानयुक्ता राष्ट्रकार्यतत्पराश्च जाताः । 'नाना फडणीस'महाशया इव रानडेमहाशया अपि सर्वकालं महा- राष्ट्रदेशं चिन्तयन्ति स्म । 'सर्वज्ञः स हि माधवः' इति वचनं हेमाद्रि- माधवाचार्याणामिव रानडेमहाशयानामपि समुचितं स्यात् " इति । ६ आङ्ग्लदेशराज्ञीनिधनम् व्हिक्टोरिया'नाम्न्याः आइग्लदेशराच्याः निधनं १९०१ यत्सरे जातम् । तस्याः मृत्युलेखे लोकमान्या लिसन्ति “ मृदुलमानसा सदाचार. रता शानियामनुसारिणी प्रजाहितदक्षा आग्लदेशराज्ञी लोकप्रिया- ऽभूत् । तस्याः शासनकाले आङ्ग्लराज्यं समृद्धं सम्भूतं, विसरं च सम्प्राप्तम् । तस्याः लोकप्रियत्वस्यैतदपि कारणमासीत् । दूरदेशस्था आइग्ल- देशराजी भारतदेशाय किं दद्यात् ! परं तस्याः घोषणापत्रकं भारतदेशस्याज्ञा- पत्रकं जातम् । शासनसंस्थया तदेवानुसरणीयम्" इति । व्हिक्टोरिया- राज्याः पश्चात् सप्तम एडवर्ड'नामकस्तस्याः पुत्रः सिंहासनमारूद्धवान् । तस्याप्यमिनन्दनं लोकरीत्या लोकमान्यैः कृतम् । आङ्ग्लशासनपद्धत्या यद्यपि प्रजाभिर्महहुःखमनुभूतं तथापि शिष्टाचारो लोकमान्यैः कदाऽपि न परित्यक्तः। ७ अज्ञेयमीमांसा नारायण लक्ष्मण फडफे महाशयेन ‘हर्बर्ट स्पेन्सर'महाशयस्य मन्याधारेण लिसितः · अज्ञेयमीमांसा'नामको प्रन्यो लोकमान्यतेसद्येन समालोचितः अस्मिन् लेसने लोकमान्यानां तत्त्वज्ञानविपयिका विचार. धारा दृश्यते । ते लिसन्ति । अधुना भौतिकशास्त्राणामभ्यासेन पदार्य- विज्ञान प्रातम् । विकालादिपदार्था यद्यप्यनादिसिद्धातथाऽपि तेषामन्य. पदाथैः सह सम्बन्धविवेचनम् अर्याचीनगानेभ्यधिकतरं दृश्यते । विविध मानसिद्धान्तानां तौलनिकपद्धस्सा साम्यये पम्यदर्शनं तत्त्वज्ञानस्य विपय इति स्पेन्सरमहाशयानां तत्वज्ञानलमणम् । इदं पायं पेन्सरमहाशयः पवम् । दयगुणादिपनार्यानां सामान्यगुणधर्मानिधिस सपां भौतिफसिद्धान्तानां १२० लोकमान्यटिळकचरितम् मूलतत्त्वव्यवस्थितिस्तैर्दर्शिता । विविधसिद्धान्तानां संकलनं तत्त्वज्ञानम् । अनेन तत्त्वज्ञानेन अगम्यतत्त्वस्यास्तित्वम् अनुमातव्यं भवति । स्पेन्सर- महाशयानामयं सिद्धान्तोऽस्माकं प्राचीनतत्त्वज्ञानसिद्धान्तैः प्रायः समानो वर्तते । ज्ञेयाज्ञेयविभाग इवास्माकं प्राचीनतत्त्वज्ञानेऽपि सांख्यवेदान्त. विभागो विद्यत एव । स्पेन्सरमहाशयेन उत्क्रान्तिशक्तिसाम्यं गतिसातत्य- मित्यादयः सिद्धान्ता निर्दिष्टाः । तथैव नैयायिकैः सृष्ट्यवलोकनेन सप्त- पदार्थादिसिद्धान्ता. प्रतिपादिताः । सारयाः प्रकृतिपुरुषाविति द्वावेवाद्यतत्त्वे मन्यन्ते । आग्लतत्त्वविदोऽपि द्रव्यं च गतिश्चेति द्वे मूलतत्त्वे मन्यन्ते । नैयायिकेभ्य: साख्याः प्रगततराः । वेदान्तिन. साख्येभ्यः पदमेकममतो गत्या प्रकृतिपुरुपयोः परम् एकं परमात्मतत्त्वं सम्मन्यन्ते । पौर्वात्यपाश्चात्त्य- तत्त्वज्ञानयोरक्यमत्रैव दृश्यते । परं पौर्वात्यतत्त्वज्ञानमेतायता सिद्धान्तेन न मर्यादितम् । स्तोकमग्रतो गत्वा पौर्वात्या वदन्ति ' अज्ञेयाः काश्चित शक्तयो विद्यन्ते' । आनन्दतत्त्वस्य विचारः स्पेन्सरमहाशयेन न कृतः । जड-जीवयोः परमात्मनश्च मिथः कः सम्बन्धः इति विचिन्त्य तयोः परमात्मनि विलय. कथं शक्यः ? यदि शक्यस्तर्हि कीदृशं तस्य स्वरूपमिति अतिसूक्ष्म विचारोऽपि वेदान्तग्रन्थेषु दृश्यते । न तथा स्पेन्सरमहाशयस्य ग्रन्थे । तेन सम्पादितस्य ग्रन्थस्येदमेव महत्त्वं यत् पाश्चात्त्यविचारप्रणाल्या निर्धारिताः सिद्धान्ता. पौर्वात्यतत्वज्ञानसिद्धान्तान् पुष्णन्ति । एते प्राचीन- तमा. पौर्वात्यसिद्धान्ताः बहो: कालादनन्तरं पाश्चात्त्य पद्धत्यापि न विचलिता भवन्ति इति तेपा विशेपः' । अज्ञेयवादपुरस्कर्ता स्पेन्सरमहाशय. ख्रिस्ताव्दस्य १९०३ वत्सरे डिसेवरमासे निधनमुपेत. । लोकमान्यैस्तदा अग्रलेखे वर्णितम् ' कि चरित्रं तत्त्वज्ञस्य ? पूर्वाचार्याणा ग्रन्थानामध्ययनं, चिन्तनं, परिशीलनं, लेखनं च। एतादृशाना तत्त्वज्ञाना जनिः कस्मिन्नपि देशे भवतु । तेषां विचारधनं तु निखिलविश्वस्यैव । नूतनभारतीयविद्यापीठेपु शिक्षिता अर्वाचीनविदासस्तु विशेपेण परिणामक्षमा अनेन स्पेन्सरमहाशयप्रतिपादिततत्त्वज्ञानेन । अतो भारतीयास्तं स्ववीयं मन्यन्ते । एवं विलिख्य तौलनिकपद्धत्या तत्त्वज्ञान- महतीं वर्णयितुं लोकमान्याः प्रारमन्त । अहेयतत्त्वमीमासामहत्त्वं विचिन्त्य 'पुनश्च हरिः ओम्'पर्व १२१ स्वल्पं पुनरुक्तिदोपं स्वीकृत्य अत्र लोकमान्यानां तत्त्वज्ञानविचाराः प्रदश्यन्ते। "तत्त्वज्ञानविचारे प्राचीनतमोऽयं भारतदेशः । अस्य समाज- व्यवस्थापि प्राथम्यं भजते । विशाले भरतसण्डे निसर्गसौन्दर्य विपुलं विद्यते । अतो भारतीयास्तत्त्वविचारप्रवणा जाताः । गृढतत्त्वानां संशोधने प्रगल्भा तेषां शेमुपी । अस्मत्प्राचीनाचार्याणां विचारातथा प्रगल्भा यथा साम्प्रतं विंशतितमेऽपि शतके तेषां सिद्धान्ता व केवलं तर्ककठोरनिकपे मेरुरिवाचलाः, अपि तु निखिलपाश्चात्त्यसिद्धान्तानां मूर्ध्नि एव ते तिष्ठन्ति । आग्लानां परिचयेन तेपामाधिभौतिकविज्ञानं सुशिक्षितानां चक्षुपस्तेजांसि प्रतिहन्ति, विलुप्यति च शनैः शनैरार्यतत्त्वज्ञानस्याध्ययनम् । एवं स्थिते दिप्ट्या आधिभौतिकवादात्सुशिक्षितान् परावर्तयितुं स्पेन्सरमहाशयः समा. गतः । न तेन कश्चिन्नूतनः सिद्धान्तः प्रतिष्टापितः। परं विविधशास्त्रेपु कानि समानानि मूलतत्त्वानि, फा तेषां विकृतिः, कीटग्रुपश्च तेषां तत्त्यानां मनसि परिणामः, के नियमारतेषां विकाराणाम् इवि सर्वेषां विचाराणां संशोधनं पेन्सरमहाशयेन कृतम् । आधि- भौतिकशास्त्राणां नूतनसिद्धान्तानां तेजसाऽप्रतिहतचक्षुः स्पेन्सरमहाशयो यद्रमणीयतत्त्वज्ञानं निर्मितवान् , तेन परावर्तितानि अर्याचीनविदुपां मनांसि, समावर्जितानि च तानि पौर्वात्यानामध्यात्मविचारे । आवर्जिते मनसि समुत्पन्नं दर्शनं यत् प्राचीना चीनतत्त्वज्ञानयोर्मध्ये न कोऽपि भेद इति । परकीयोऽप्यस्मान् सम्यग् बोधयतीति कृत्या स्पेन्सरमहाशयोऽस्माकं धन्यवादानदति । तत्त्वज्ञस्य 'टापिन'महाशयस्योतान्तिवादे प्रतिपादिता जीयमीमांसा सारयतत्त्वज्ञानप्रतिपादितसिद्धान्तेन समाना । प्रथम सत्य- रजतमसां साम्यावस्था मूलप्रकृति. । मिन्नायां साम्यावस्थायां महत् तत्त्व- मुत्पद्यते । तरमा महतो भूतानां पश्च सन्मानाणि, ततः स्थूलानि पञ्चमहा- भूतानीति प्रमेण मृष्ट्युत्पत्तिः । इन्द्रियद्वारा जीवस्य संवेदनशधिः । समाते प्रातिकार्य विकारागां परिणामा नश्यन्ति । नटेषु परिणामेषु जीयम्य मोक्षः। शानद्वारा मूलतत्त्यसंशेधनं तया प तस्स पिरतिस्वरूप- मानमिति पेन्सरमहाशयम्य सत्यहानसभणम । सभ्य मर्म मुलपयोध्या १२२ लोकमान्यटिळकचरितम् गत्योः साम्यावस्था जगतो मूलस्वरूपम् । तस्या अभावे विषमता । साम्ये वैषम्यम् । अभेदे भेदोत्पत्तिः इत्युत्क्रान्तिवादस्य बीजम् । कालान्तरेण उत्क्रान्त्यवसाने अपक्रान्तिः प्रारभ्यते, पुनश्च द्रव्यगतितत्त्वे साम्यावस्थायां तिष्ठतः । इयमेव तयोः प्रवृत्तिनिवृत्तिरूपा क्रीडा । देहाश्रितं चैतन्यमिय सदैव द्रव्याश्रिता इयं गतिः । अस्मिन् विपये स्पेन्सर-चार्वाकयोरैकमत्यम् । अत एव जीवस्य पुनर्जन्म तस्यासम्मतम् । कथं तर्हि धर्मकल्पनानां सम्भव इति विचार्यमाणे स्पेन्सरमहाशयः प्रतिवदति 'स्वप्नावस्थायां जीवो देहं परित्यज्य तिष्ठतीत्यसत्कल्पना प्रथम पुरुपेण स्वीकृता । ईश्वरस्यास्तित्वे तस्याः परिणतिर्जाता।" नायं सिद्धान्तो लोकमान्यानां ग्राह्यः । मॅक्समुल्लरा. दिपाश्चात्त्यपण्डितानामप्ययमसम्मतः । लोकमान्या लिखन्ति " चाकस्य 'ऋणं कृत्वा घृतं पिबेत्' इति तत्त्वं स्पेन्सरमहाशयस्यासम्मतम् " । स ब्रूते 'उत्क्रान्तिवादेन मानवस्य परोपकारबुद्धिवृद्धि प्राप्नुयात् जग- स्कल्याणं च साध्नुयात् । अन्यच, ईश्वरो नास्तीति स्पेन्सरमहाशयो न स्पष्टं ब्रूते । किमप्यज्ञेयं मे शरणम् इति तस्याशयः । अपि च सांख्यवेदान्त- प्रतिपादितं तत्त्वज्ञानं कथं व्यवहारक्षम स्यादित्यपि तस्य प्रयत्नः । अतो यद्यपि ज्ञानिनः ईश्वरमज्ञेयं मन्यन्ते तथापि न हानिः । तेऽपि ईश्वरस्य प्रिया एव । उक्तं च भगवद्गीतासु- 'प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः।' इति । संसारे स्थित्याऽपि स्पेन्सरमहाशयेन दारपरिग्रहोऽपि न कृतः, नापि विवर्धिता द्रव्यतृष्णा । लोकहितरतोऽपि स 'पार्लमेंट'सभायां न प्रविष्टः । आर्याणां प्राचीनमर्पिरिव स्पेन्सरमहाशयः सर्वमात्मनो जीवितं तत्व- चिन्तने यापितवान् ' इति । ८ केसरिपत्रम् १९०२ यत्सरे केसरिवृत्तपत्रं पुष्टि प्राप्नोत् । आकारस्तस्य स एपासीत् । परं पृष्ठसंख्या विवर्धिता । फेब्रुआरीमासस्य चतुर्थे दिवसे आकारण पूर्व, परं पृष्ठसंख्यया गुरुः केसरी वाचकदर्शनार्थमवतीर्णः । अप्रलेसे लोकमान्या निवेदयन्ति 'एकविंशतिवत्सरात् प्राक् पश्चपैर्वयस्यै- रिदं वृत्तपत्रं सम्पादितम् । सर्वः स सहपारियर्गः फालयशं गतः । प्रारम्भ 'पुनश्च हरि. ओम् पर्व १२३ ग्राहकाणां संरया सप्तशतमासीत् । १८८४ वत्सरे सा चतुःसहस्रादूर्ध्व गता । १९०२ वत्सरे सा त्रयोदशसहस्राधिका जाता। आसरेण पुष्टः केसरी बुद्धिविकासार्थ ज्ञानदानार्थ च विविधविषय- रसास्वादरूपं सायं वाचकाय समर्पितमान् । विंशतिसंवत्सरापागाग्ल- भापायां लिसिताः लेसाः गौरवमभजन्त । मराठीभापायां लिसिता' सामान्यजनानां वाचनार्थमिति तदाऽऽग्लभाषाविभूपिवानां जनानां मतिः। अतस्ते मराठीभापालेसकान् क्षुद्रानमन्यन्त । अधुना परिवर्तितः स कालः । केसरिपत्रेण साहित्यशास्त्रमनुसृत्य लोकव्यवहारस्य विविधक्षेनेपु निजविचाराः प्रौढभापया प्रदर्शिता. । अतः केसरी गौरवं प्राप्तवान् । राजकीयविपये केसरिणा स्पष्टमेयोद्घोपितम् 'कस्यापि राज्यापहाराय नास्माकं मनीपा । अस्मिन्नेय राज्ये शिक्षणेन जनानामाधुनिकी हीना- यस्यां दूरीकृत्य समाजधारणपोपणाय जनान् समर्थान् पर्तु वयं सततं प्रयतामहे । यावत्कालमयमरमाकमुद्देशस्तावत्कालं नास्माकं कस्मादपि भयं विद्यते । पुरातनकाले लेसनपद्धतिस्तु तथाऽऽसीद्यथा तहेसनं शासनसंस्था- धिकारिणां मनसि नासुससवेदनामुत्पादयेत् । परम् अतीत सकारोऽधुना। साम्प्रतं वृत्तपरसम्पादकानां कर्तव्यं जनप्रमोधः सद्यशक्तिसमुत्पत्तिरिति मयं जानीमः । केसरिपने यां रिचारप्रणाली वयं प्रतिपादयामतां वाचकानां मनस्युत्पादयितुं यदि वयमसमर्यास्तहि निष्फला अस्माकं परिश्रमाः । कि कोस्तस्य काव्येन किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं न पूर्णयति यच्छिरः ॥ इति । सत्यमेतत् फपियचनं वृत्तपत्रविपयेऽपि ।' लेखस्योपसदारे ोकमान्या' सूचयन्ति फेसरिणा इदं कविश्चनं संदेयात्मन. पुरतो निहितमासीत् । न हि स्वदेरीत्याय जापन्ते चन्दनँद्रुमाः । इति । मुग्दु परप्रसझेषु यः फेसरिणे साहाय्यं रितीण तेभ्य फेवलं धन्यशद- प्रधानमरमा वृतातादि पूांशेन न द्योतयति । टेमकं (टिबरमहागय) १२४ लोकमान्यटिळकचरितम् विहाय उत्पादकेषु नैकोऽपि साम्प्रतं विचारविनिमयार्थ जीवतीति विचारः केसरिणो मनसि विषण्णतामुत्पादयति । केवलमुदरभरणार्थ न समुत्पन्न केसरिपत्रम् । महाराष्ट्रदेशस्यायं केसरी न केवलं सङ्कटकाले सर्वेषां साहाय्यमपेक्षते । मतभेदप्रसङ्गे स्वकर्तव्यं स्मृत्वा केसरी पनगर्जितं गर्जति । परं नायं तस्य प्रकृतिदोपः । व्यवसायनिरतस्य तस्य कर्तव्यमिदम् । अद्यावधि यथा केसरिणा निर्भयवृत्त्या देशसेवा कृता तथैव स आयत्यामपि करिष्यतीति आश्वास्यते। ९ राज्यारोहणमहोत्सवः आङ्ग्लदेशे जातस्य 'सप्तमएडवर्ड'नामकभूपतेः राज्यारोहण- महोत्सवनिमित्तेन भारतवर्षे सान्प्रतं दिल्लीत्यपरनामधेये 'इन्द्रप्रस्थ नगरे विस्ताब्दस्य १९०३ संवत्सरे जानेवारीमासस्य प्रथमे दिवसे राजप्रतिनिधिना 'कर्झन'महाशयेन आत्मनो दम्भ, दर्पम् , ऐश्वर्य, सामर्थ्यम् , अहङ्कार च प्रदर्शयितुमेको महोत्सवः पुरस्कृतः । अपूर्योऽयमभूत विभवप्रदर्शन- समारम्भः । परमेश्वरप्रार्थनापूर्वकं प्रमुखराजप्रतिनिधिसहितं महता वैभवेन सञ्चलनं, चतुरङ्गसेनासञ्चलनं, सुशोभितायां राजसभायां राजाज्ञापन्नवाचनं, भोजनसमारम्भः, पदवीदानसमारम्भः, विद्युद्दीपमहोत्सवः, तथा धनकनक- रत्नाद्यलङ्काराणां इस्त्यश्वरथपदातीनां कौशलपूर्णपदार्यानां विपुलं प्रदर्शन- मित्यादयो विविधप्रकारास्तस्मिन् महोत्सवे आसन् । युवराजपदास्टो राजपुत्रः आङ्ग्लदेशान्निमन्त्रितः । अपेक्ष्यते प्रेक्षकगणो विभवप्रेक्षणाय । अतः सर्वे भारतीयसामन्ता उपसामन्ताः 'सरदार' पदवीधारिणः क्षेत्र पतयश्चाज्ञापत्रेण निमन्त्रिताः। महोत्सयाधिवेशनार्थ विरचितः सभामण्डपो लतापनः कदलीदले: फुसुमस्तयकैः सुगन्धिपुष्पमालाभिस्तथा विभूपितो यथा स्तिमितदशां चकिते- क्षणानां प्रेक्षकगणानां समूदा विस्फारितलोचनैर्विघटितोष्ठपुटैर्विलोकयन्तु । निमन्त्रिताः सर्ने सामन्तादिजना अहमहमिकया दुकट्यौः सुवर्णालङ्कार- हुभूपणे: फर्णपूरैः शिरोभूपणैः रत्नमालामिः स्वदेहमलन्त्य स्वयंवर- मण्डपमिव राजसभार प्राविशन् । महोत्सयस्य मुरपदियसे भेरीपटह- दुन्दुमिकांस्यतालादियायनिनादेन समुद्घोपितः साम्राग्यमदमचानामाग्टा- , - 'पुनश्च हरिः ओम् पर्व १२५ नामुत्सेको गौरीशिखरं सम्प्राप्तः । उपस्थितस्यापि युवराजस्य, अधिकारमदो- न्मत्त. कर्झनमहाशयः स्वयं सिंहासनमुपविश्य सबैपां सामन्तनरेशानाममि- पादनानि उपायनानि च गृहीत्वा शिलायां लिसितानि सुवर्णाक्षराणि विद्युद्दीपप्रकाशेन तान् दर्शितवान् - 'खो यदि पृथिव्यां स्यादत्रैवायं न कुत्रचित् । । इति । महता प्रयासेन धनव्ययेन च सम्पादितस्यास्य महोत्सवस्य लालित्यपूर्ण वर्णनमाइग्लदेशस्थशासनसंस्थाधिकारिभ्यः प्रहिते निवेदने दृश्यते । उपलभ्यते तस्मिन्निवेदने एतादृशी वार्ता । कलाप्रदर्शनं द्रष्टुं धनं दत्त्वा अष्टचत्वारिंशत्सहस्रं जनाः समायाताः । व्यधिकशतं सामन्तनरेशा उपस्थिताः। द्विशतं सहस्राणां जनाः प्रेक्षणार्थ समागताः । महोत्सवाय प्रभूतो धनव्ययो जातः । परम् एकोऽपि वराटकः प्रजा- कल्याणाय नोपयुक्तः । कर्झनमहाशयस्य सुमहानहंकारविलासोऽयमिति महोत्सवरहस्यं केसरिणा वाचकेभ्यः कथितम् । स्नेहः स्नेहेन वर्धते। रिव्यू ऑफ रिव्ह्यू वृत्तपत्रसम्पादकोऽलिसन् 'रत्नपचिता- लकारेः सुशोभितानां सामन्तानां भूपतीनां पार्थभागे क्षुधापीडिवजनानां सहस्राणि राजसभायामदृश्यरूपेणोपातिष्ठन् । साम्राज्यवैभवदर्शनाय तथा चतुरगवलसामर्थ्यप्रदर्शनाय च कृतोऽयमाडम्यरः उत्तरकाले इतिहासे न शोमिप्यते' इति । १० कलकत्तानगरे शिवछत्रपतिमहोत्सवः फलकत्तानगरे १९०३ यत्सरे छत्रपतिशिवरायमहोत्सयः कृतः । अष्ट- सहस्रपरिमितः श्रोतृवृन्दो ब्यारयानश्रयणार्यमुपस्थित आसीत् । अनया रपूर्त्या यद्देशे प्रतापादित्यमहोत्सवः समारब्धः। 'मुरेन्द्रनाय यानी' प्रभृतीनां राष्ट्रधुरीणानां स्फूर्तिदायकानि व्यारयानान्यभूवन् । 'इग्लिन- मन्'वृत्तपनेग प्रथम विरोधो दर्शित । परम् अधुना मतान्तरं कृत्वा लिखितम् महाराष्ट्रदेशस्थितस्याम्प युगपुरपम्य महोत्मवेन यद्गदेगीयमहदौदार्य विचारप्रागल्भ्यं च दर्शितम्' इति । 'पायोनियर'पनेगोपदामः पृनः । तेन लिसितम् 'द्विशतामाक् महाराष्ट्रियाणामन्तःकरणं यथाऽऽसीतययायापि । - . १२६ लोकमान्यटिळकचरितम् वगमहाराष्ट्रदेशयोर्मित्रभावजल्पनं वृथैव । यद्यत्राग्ला न स्युस्तर्हि अधुना- ऽपि महाराष्ट्रिया वङ्गदेशं विलुण्ठिष्यन्ति । शिवरायमहोत्सवे आन्तरः कोऽपि हेतुः प्रतिभाति' इति । आग्लानामभावे वगीयानां महाराष्ट्रियाणां च परस्पराचारः कथं स्यादिति प्रश्नस्योत्तरं किमपि भवतु । परम् आग्ल- शासनसंस्थायाः प्रजापीडनं समानमिति ज्ञात्वा मिथः सहानुभूत्या अस्य प्रतिकारः कथं कर्तव्य इत्युभयदेशयोर्विचारविनिमयः समुचित एव । बङ्गवासिनस्तेजोवलहीना इत्यप्यारोपो 'मेकॉले'प्रभृतिभिः कृतः । तस्य परिमार्जनं कथं भवेदिति बङ्गदेशीयानां चिन्ता । अग्रे भूतं क्रान्ति कारकाणामान्दोलनं तस्यारोपस्य निरसनार्थमिति आग्लानां मीमांसा । परं वङ्गदेशे अन्या क्रान्तिः साता । व्यायामार्थ व्यायाममन्दिराणि तथा क्रीडनार्थ क्रीडागणानि तस्मिन्देशे नासन् । महाराष्ट्रदेशे व्यायाममन्दिराणां परम्परा प्राचीना । तस्याः सम्यग् ज्ञानं गृहीत्वा कैश्चिद्वङ्गवासिभिः स्वप्रदेशे क्रीडागणेपु विविधाः क्रीडास्पर्धाः समारब्धाः । 'सरलादेवी चौधराणी'नामिका एका आर्यमहिला एतासु स्पर्धासु तथा 'शिवराय- प्रतापादित्या दिराष्ट्रपुरुपमहोत्सवेषु धौरेयाऽऽसीत् ।

. ७ मित्रकार्यपर्व १ ताईमहाराजप्रकरणम् अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् । प्रारब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥ चिरोलमहाशयादिभारतशत्रयस्तथा शासनसंस्थाधिकारिणोऽपि लोक- मान्यानां महत्वं सम्मन्यन्ते । गुणाश्रयं हि महत्त्वम् । लोकमान्यरात्मनः सर्वे गुणा राष्ट्रकार्याय समर्पिताः । तेपां सर्वे समुद्योगाः स्वातन्त्र्यसम्पाद- नार्थमासन् । यथा ते सर्वात्मना राष्ट्रकार्याय प्रायतन्त तथा मित्रकार्यमपि ते कर्तव्यबुद्धया दाक्षिण्येन च सम्पादयन्ति स्मेत्येतस्य ' ताईमहाराज'- प्रकरणमेकं निदर्शनम् । कायिकयाचिकमानसिकार्थिकठेशानां सनिरेवेदं ताई. महाराजप्रकरणम्। लोकमान्यानां मित्रपत्नीति परम्परासम्बन्धेन इयं मानिनी महती प्रसिद्धि प्राप । परं लोकमान्यानां नेयोऽपि गुणसयाऽऽत्मसात. कृतः । आमरणमिदं प्रकरणं लोकमान्याना पीडाफरमभूत् । अतः का एपा 'ताई'नाम्नी, योऽसौ लोकमान्यानां ययस्यः, किमेतत् ताईमहाराजप्रकरण- मित्यधुनाऽस्मामिः संक्षेपतोऽवलोक्यते । 'बाबामहाराज'नामको लोकमान्यानामेको ययस्य आसीत् । निधन. समये तेनात्मनो विभयस्य व्यवस्थापन पृतम् । तस्मिन् मृत्युपत्रे ये विश्वस्ता घायामहाराजैनियुत्तास्तेष्वेकं नाम लोकमान्यानामिति प्रधमराज- दोहपर्वणि वाचकानां विदितमेव । पञ्चत्वं गवायां प्रथमभार्यायां वाईनाम्नी काचिद्रूपयौवनसम्पन्ना प्रौढकन्या यागामहाराजेन पुत्रेच्छया परिणीता। 'सरदार'पदस्य. उत्तमकुन्टोत्पन्नोऽयं यायामहाराज: । पोल्हापुरधनपतीनां गुरुमायेनैतेषां पूर्वजा 'महाराज'-पदवी प्राप्ता इति श्रूयते । तस्मादेत. एलोत्पन्नाः स जना 'महाराज'इत्युपपदेन विभूपिताः । अनेन पाना- महाराजस्व द्वितीयत्रीपरिपणेयं क्षुद्रफुलोत्पन्नयन्या ताईनान्नी युगपत् महाराजपदमाम्दा। -- .

१२८ लोकमान्यटिळकचरितम् 'अश्माऽपि याति देवत्वं महद्भिः सुप्रतिष्ठितः'। तस्मादस्माभिरप्यस्मिन् प्रकरणे एतस्याः समुल्लेखः 'ताईमहाराज' इति नामधेयेन क्रियते । विवाहादूर्ध्वमचिरादेव तस्याः शान्तानाम्नी एका कन्या जाता । पुनरप्येकदा विना विलन्यं सा अन्तर्वली यभूव । अतः पुत्रदर्शन- मुखाशा तस्या मनसि समुत्पन्ना । परं दुर्दैववशात्तस्याः पति वामहाराजो विपूचिकयाऽऽसन्नमृत्युभूत्वा सकलनिजविभवस्य व्यवस्थापनमकरोत् । तेन व्यवस्थापत्रेण लोकमान्यास्तस्य विभवस्य विश्वस्ता अभूवन् । अस्मिन् ताईमहाराजप्रकरणे अयं लोकमान्यानां सम्बन्धः । २ दत्तकप्रकरणम् चावामहाराजनिधनानन्तरं ताईमहाराजनाम्न्याः पुत्रो जातः। परं मास• द्वयात्प्रागेव स पितृदर्शनार्थ दिवं गतः । अतो भागधेये पुनरपुत्रता प्राप्ता । 'अपुत्रस्य गतिर्नास्ति' इति धर्मविचारेण कुलस्य सन्तानकर पुत्र आवश्यकः। स एव सकलैश्वर्यस्य अधिकारी स्यात् । अतः कस्यापि पुरुपस्य योग्यः पुत्रो विधिपूर्वकं कृतक इति ग्रहीवव्य इति विचारः । वाबामहाराजनिधनानन्तरं त्रिचतुराणि हायनान्यतीतानि । अतो लोकमान्याः पुत्रशोधनार्थ सयला बभूवुः । अन्ये विश्वस्ताः 'खापर्डे-कुंभोजकर-नगरकर महाशयाः । गोत्रजाः केचन वालाः कोल्हापुरनाम्नि नगरे तथा औरंगाबादनाम्नि नगरे आसन् । अनुभवेन कोल्हापुरस्था वाला लोकमान्यानामसम्मताः । आत्मनो मित्रकुल- मृणमुक्तं कृत्वा यः पुत्रः स्वकुलं समुन्नयेत् , स बालो विश्वस्तानां सम्मतो भवेत् , नान्यः । विश्वस्तेपु नगरकरमहाशयस्य कोल्हापुरनगरे प्रीति: रधिका । न तथान्येपां विश्वस्तानाम् । सापहें-कुंभोजकरौ लोकमान्यमता नुवर्तिनी । सर्वैर्विश्वस्तैः पुण्यपत्तने तथा वडगावमामे सभासु मन्नं कृत्वा एकः प्रस्तावः सम्मतः कृतः । अनेन प्रस्तावेनादेशो दत्तो यलोकमान्याः सापमहाशयाः यावामहाराजपत्नी च औरंगाबादनगरं गत्या विधिपूर्वक दत्तविधान सम्पादयेयुरिति । नगरकरमहाशयः पूर्य विज्ञप्त आसीत् यत् 'औरंगाबाद 'नगरं गत्वा तेन यालाः प्रेक्षितव्याः, तेषां सकलवृत्तान्तः माप्तव्य इति । परम् एतत्तस्य रचि नायहत् । अतस्तेनायधान न दत्तम् । दत्तविधानार्थमपि स औरंगाबादनगरं न गतः । तस्मादन मित्रकार्यपर्व १२९ पुण्यपत्तने स्थित्वा किमपि विपरीतमयं समाचरेदिति लोकमान्यै- स्तर्कितं शङ्कितं च । समाप्ते दत्तविधाने न किमपि भविष्यतीति लोक- मान्यानां बुद्धिः । अतः कालातिपातं विना प्रस्तावानुसारेण लोकमान्यरात्मनो दूताः प्रहिताः। 'औरंगाबाद'नगरस्थां वाता लब्ध्वा लोकमान्याः खापर्डेमहा- शयाः यावामहाराजपत्नी ताईमहाराजनाम्नी च तत्रागच्छन् । चालेन अल्पवयसा बुद्धिमता च भाव्यमिति लोकमान्यानां मनसि स्थितम् । ज्योतिपशास्त्रदृष्ट्या तेन भाग्यवता भाव्यमिति सापर्डेमहाशयानां विचारः । वालकं दत्तकत्वेन स्वीकर्नी माताऽपि स्वबुद्ध या तं पश्यति । एवं समागतान बालानेभित्रिभिः परीक्ष्य तेपामेको जगन्नाथो नाम सर्वेषां सम्मतः । अतो जगन्नाथस्य जनकेन सह विधिक्षसाहाय्येन समयं कृत्वा लेसपनं कृतम् । अथैकस्मिन् शोभने दिवसे वेदशास्त्रसंपन्नान् द्विजानाहूय प्रतिष्ठितनागरि- कांश्च निमन्त्र्य यथाविधि दत्तविधानसंस्कारः समापितः । 'जगन्नाथ'नामा- ऽयं बालः इदानी जगन्नाथमहाराजो जातः । अनन्तरं सर्वैः सह लोकमान्याः पुण्यपत्तनमाजग्मुः। ३ विरुद्धमन्त्रः आसीत् भरतखण्डे दक्षिणस्यां दिशि वर्तमानानां 'सरदार'पदस्थानां जनानां कार्याण्यवेक्षितुं नियुक्तः 'अॅस्टन'महाशयः । तस्मै पत्रं लिखित्वा दत्तविधानविषयकं सर्व वृत्तं लोकमान्यनिवेदितम् । पुण्यपत्तनं समागतेपु सर्वेषु नगरकरमहाशयेन ताईमहाराजनाम्न्ये यानामहाराजपल्यै कर्णमन्त्री दत्तः। औरंगाबादनगरं गतेपु सर्वेषु नगरकरमहाशयेन विश्वससभायां सम्मतस्य दत्तकप्रकरणप्रस्तायस्याधोभागे 'अयं प्रसायो मम न सम्मतः प्रति लेसो विश्वस्तानामनुपस्थिती लिखितः पायामहाराजपत्न्या सह अरटनमहाशयस्य दर्शनं गृहीत्वा तस्य पुरतस्तस्याः विधयायाः मुसेन समर्म दत्तकप्रकरण नगरकरमहाशयस्तरमै निवेदितयान , कधिवयाँश्च नायं दत्तक- पुयोऽस्माकं मान्य इति । शासन संस्थाधिकारी अस्टनमहाशयसामसप्रपतिः आग्लदेशीयः । राजद्रोहकारिणो लोकमान्याः । सरदारपदम्धयायामदा- पजम्य धर्मपल्ल्याऽभुपूर्णरोचनाभ्यां फधितमिदं मुशोमलं दत्तपमरणम् । उपधेय सीदाक्षिण्यपूर्णेन ह्याण मनमा अॅग्टनमहाशयसम्पाः साहाय्यार्थ प्रमायिनः । सम्मानेिन व्यधिनिहदत्तपप्रफरणेन पिनं पजकीयम्पम् । . .

अत. परमस्माकं १३० लोकमान्यटिळफचरितम् औरंगाबादनगरे यथाविधि जातं दत्तविधान केनोपायेन विफली- कर्तव्यमिति प्रश्न अमान्य तद्दत्तविधानमरमाकमिति प्रथम.प्रकार औरंगा बादनगरे दत्तविधानं न जातमिति निर्धारयितुमन्यहत्तविधानं कर्तव्यमिति द्वितीय प्रकार । मृतलेसप्रमाणेन विश्वस्तैर्येऽधिकारा. स्वीकृतास्तान सहत्य, विश्वस्तान् दूरीकृत्य, वापामहाराजपल्या स्वातन्त्र्येण सर्वाणि कार्याणि द्रष्टव्यानीति तृतीय. प्रकार. । इमं तृतीयप्रकारमनुसृत्य ताईमहाराजनाम्न्या सर्वेभ्यो विश्वस्तेभ्य शासनसस्थाद्वारा सूचना दत्ता किमपि कार्य युप्माभिर्विश्वस्तै वेक्षणीय"मिति । अॅस्टनमहाशयस्य न्याया- लये मृतलेसप्रमाणं विफलीकर्तुमेकं प्रार्थनापत्रमपि प्रेपितम् । अन्यद्दत्तविधानं कर्तव्यमिति द्वितीय. प्रकारोऽपि बाबामहाराज- पल्याऽवलम्बित । 'बाळ'नामकमेक वाल निश्चित्य तं वाळामहाराजं कर्तु दत्तविधानं निश्चितम् । कोल्हापुरनरेशस्यानुज्ञाप्राप्तये प्रार्थनापत्रं प्रेपितम् । नगरकरमहाशयस्य निमन्त्रणेन वाळामहाराजस्य माता भ्राता च स्वजनै सह पुण्यपत्तन समागतौ । एवमखिलं दत्तविधानसम्भारमेकीकृत्य धार्मिक विधि समाप्य साक्षिण कृत्वा इदं कार्य निभृतं सम्पादनीयमिति सर्वेपा मनीपा, तदर्थं च सकला प्रयत्ना । परम् उक्त च- मनसा चिन्तितं कार्य दैवमन्यद्विचिन्तयेत्' इति । ४ प्रसगावधानम् केनापि गुप्तचरेणेयमपरदत्तविधानवार्ता लोकमान्येभ्य कथिता । श्रुताया या झटिति नक्तमेव ते वावामहाराजसदन गत्वाऽयदन् 'खापर्डे कुभोजकरादय सर्वे विश्वस्ता अन समागच्छेयु । अन्यहत्त- विधानं यदि अनभवत्या इष्यते तर्हि अनन्तरं सुखेनैव कर्तव्य'मिति । लोकमान्याना सुदैवेनायं तस्या अनुनय सफलो जात. । स्थगितं च तस्मिम् दिने दत्तविधानम् । अनन्तरं खापर्डेमहाशया समागता । तस्मिम् सदने रानौ नाट्यपूर्ण प्रसङ्गो जात । वाव्यामहाराजभ्राता पण्डितमहाराज. स्तामसप्रकृति । आत्मना सह तेन कोल्हापुरनगरात् केचन मल्ला आनीता', शस्त्राण्यपि सङ्गृहीतानि । अनया सामग्या महान् अनर्थ समभविष्यत् , पर महता कप्टेन स परिहृत । रोकमान्यपक्षीया अपि सन्देशेन तनाss.

मित्रकार्यपर्व १३१ हूताः । बाबामहाराजपल्यै सामोपायेन सुविचारान् सूचयित्वा तस्याः मानसमस्मादत्तविधानात्परावर्तयितुं लोकमान्याःखापर्डेमहाशयाश्च प्रायतन्त । परं तेषां सर्वे प्रयत्ना निम्फला जाताः । अत: सर्वानेतान् सदनादहि- निष्कासयितुमन्तिमोपायो लोकमान्यैरवलम्बित: । न्यायनियमानुसारतः खापर्डे टिळकमहाशयैः सर्वेभ्यो वाबामहाराजबान्धवगणेभ्यः पूर्वसूचना दत्ता , यत्प्रभातकालापागेव यावामहाराजसदनाद्वहिः सर्वैर्गन्तव्यम् । अन्यथा तत्कालोचिताः सर्वे उपाया अरमामिरवलम्वयितव्या इति । याला- महाराजबान्धवगणेन शरणार्थिनाऽऽश्रयो याचितः । थायामहाराजपल्याऽपि लोकमान्येभ्यस्तेषां कृते किञ्चिन्निवेदितम् । परं सर्व तन्मोघं जातम् । स्पष्टमेव लोकमान्यर्जितम् अन्यस्मिन्सदने अन्यदत्तविधानं कृत्वा प्रथमकृतं दत्तविधानं दूपयितुकामा यूयं सर्वेऽस्मान् पराभवितुं प्रयतध्वे । अतः प्रथम सर्वैः सदनाद्वहिर्गन्तव्यम् । यदि मुखेन न गमिष्यथ तर्हि अर्धचन्द्रं दत्त्वा निष्कासयिष्यामः' इति । नान्या गतिरिति मत्वा पण्डितमहाराजादयस्ते सर्वे ताईमहाराजमामन्त्र्य सर्वमात्मनः सम्भारं गृहीत्वाऽन्यत्स्थानं जग्मुः। गतेपु तेषु द्वाराणि सङ्घटय्य तत्र रक्षापुरुषान् स्थापयित्वा गमनागमने- ऽनुज्ञा ग्रहीतव्येति निबन्धो विश्वस्तैः कृतः। एवं सर्वत्र प्रतिपिद्धे बाबामहाराजपत्नी ताईमहाराजनाम्नी अॅस्टन. महाशयस्य दर्शनार्थ गता । तत्र परस्परविचारेण तेन अॅरटनमहा. शयेनेवमुपदिष्टं दृश्यते । यदनया कुटिलया सभा निधनसमये कृतं लेखप्रमाणं दूरीकर्तुं शासनसंस्थाधिकारिणे प्रार्थनापत्रं प्रेषणीयमिति । तयाऽपि तथा कृतम् । अनन्तरमनया आयव्ययलेखकादयः सर्वे भृत्या दूरीकृताः । अन्यदत्तविधानं भविष्यतीति स्फुटमभवत् । विरताः सर्वे प्रयत्नाः । कोल्हापुरनरेशस्य दर्शनमपि लोकमान्यगृहीतम् । अन्ततस्तरिमन्नेय नगरे संस्थाननरेशसमक्ष वागमहायजपल्या ताईमहाराजनाम्न्या 'वार- नामको पालो दत्तविधानसंस्कारेणानुगृह्य 'थाळामहाराजः कृतः। एयमेक एप मार्गो लोकमान्यानामुर्वरितः । स तु न्यायालयाश्रयणम् । अवलम्वितः म मागों लोकमान्यः । औरंगायादनगरे जानं प्रथमदत्तविधानं विधि- युक्तमासीन् । द्वितीयं कोल्हापुरनगरे जातम् अन्यायमूलकम् , तस्मानिपिद्ध- मिति निर्धारयितुं लोकमान्यैन्यायालये प्रार्थनापत्रं समर्पितम् । .

१३२ लोकमान्यटिळकचरितम् ५ अभियोगपरीक्षणम् अॅस्टनमहाशयेन न्यायालये मृतलेखप्रमाणविषयकं प्रकरणं परीक्षणार्थ प्रथमं गृहीतम् । उद्देशेस्त्वयमेव । लोकमान्यानां दत्तकविषयकं प्रार्थना. पत्रं मिथ्या कर्तव्यम् । अन्यस्मिन् प्रकरणे औरंगाबादनगरे जातं दत्तविधानमयोग्यमिति निर्णतव्यमिति । अन्यञ्च । यदि सम्भवेत् तर्हि असत्यसाक्षित्व-कपटलेयकारित्व-मिथ्यायव्ययलेखकत्व-अन्यायेन. ताई. महाराजगमनागमनप्रतिवन्धकत्वादिभिरनेकैरपराधैर्लोकमान्या दण्डनीत्या दण्डनीया इति । पूर्वग्रहदूपित अॅस्टनमहाशयः ऋजुमार्ग कथमनु- सरेत् ! न्यायालयप्रविष्टेषु प्रार्थनापत्रेषु विद्यमानानां दोपारोपाणामेकत्र परीक्षणं तेन कृतम् । औरंगाबादप्रकरणे युक्तायुक्ताः सर्वे लेखाः परीक्षणे विनिवेश्य सर्वविवादविषयाणां निर्णयो लोकमान्यविरुद्धोऽभूत् । अल्टन- महाशयदत्तनिर्णयमनुसृत्य शासनसंस्थयाऽपि दण्डनीत्या. विविधपरिच्छेदा- अयेण लोकमान्या न्यायालये दोपेणारोपिताः। 'चाराज्जानन्ति राजानः' । प्रणिधिमार्गेण वृत्तान्तं लब्ध्वा रक्षापुरुपाधिकारिमिरात्मनो निवेदनं प्रहितम् । जना ब्रुवन्ति 'दुष्टा घेते दोपारोपाः।न्यायालये ते परीक्षणमपि नाईन्ति । अतः शासनसंस्थया अभियोगा न कर्तव्याः' इति । शासनसंस्थाऽपि आत्मनो दुरा ग्रहं न मुञ्चति । बहुभिरपराधैर्लोकमान्येपु अभियोगान् कृत्वा न्यायदाने प्लेमंटस्'महाशयो नियुक्तः । तेनोभयपक्षकृतसमर्थनं परीक्ष्य आत्मनो निर्णयो दत्त । पाबामहाराजपली ताईमहाराजनाम्नी विप्रलम्भेन औरंगाबादनगरं नीता । साक्षिणो ब्राह्मणाः टिळकपक्षपातिनः । अतो- ऽमत्यं ते बदन्तीत्यादीनि बहूनि विधानानि तस्मिन्निर्णये वर्तन्ते । अनेन निर्णयेन लोकमान्या न्यायालये सार्धवर्पभोग्येण कारावासेन तथा च रूपकाणां सहस्रेण दण्डिताः । शासनसंस्थाया हेतुरेवायं यल्लोकमान्यानां विशुद्धा कीर्ति क्लविता कर्तव्या इति । अस्य निर्णयस्य परीक्षणार्थ 'सेशन'नामके न्यायालये लोकमान्यानां विधिशेन प्रार्थनापत्रं समर्पितम् । प्रतिभूस्वीकरणायापि पत्रं दत्तम् । अमि- योगपरीक्षणकाले उभयपक्षयोः समर्थनं निशम्य श्रोतृसमूहस्य एवं मतिः सम्भूता यलोकमान्या दोपान्मुक्ता भविप्यन्तीति । परं न्यायाधीशो ल्यूकस.

, मित्रकापर्व महाशयो निर्णयवाचनावसरे अन्तिमे भागे एवमुक्तवान् 'साक्षिणो भापण- समये टिळकमहाशयोऽसत्यमभापत' इति । एवमसत्यभाषणापराधो निर्धारितः, सार्धवर्पभोग्यदण्डस्थाने पाण्मासिककारावासण्दडो जातः । ६ वरिष्ठन्यायालयः वरिष्ठन्यायालये पुनरपि निर्णयपरीक्षणार्थ समाविष्टमेतत्प्रकरणम् । न्यायाधीशौ किन्स-पॅटी-महाशयो निर्णयपरीक्षणार्थमुपाविष्टौ । दिनत्रयेण परीक्षणं कृत्वा उभाभ्यामपि लोकमान्याः सर्वेभ्यो दोपेभ्यो विमुक्ताः । एवं कृत्वाऽपि तावुभौ न सन्तुष्टौ । उर्वरिता अपि दोपारोपा अनेन न्यायमूर्ति- द्वयेन शासनसंस्थाविधिज्ञद्वारा परावर्तिताः । निर्णयपत्रके साधकबाधक- प्रमाणानि दत्त्वाऽस्मिन् प्रकरणे स्वीकृतानां लेसाना तथा साक्षिवचनानां परीक्षणं कृत्या न्यायमूर्तिद्वयेनोपसंहारे लिखितम् । टिळकपक्षसाक्षिभिः कथितं वृत्तं कनिष्ठन्यायाधीशेन सम्यक् न विमृष्टमिति यदि टिळकपक्ष- विधिज्ञ प्रतिपादयेत् तर्हि तन्नायोग्यम् । परीक्षणे समावेशिताना लेखानां परीक्षणमपि न समीचीनम् । तेन लेखानामर्थो विपरीतो जातः । समासेन अभियोगपरीक्षणे तथा निर्णये यानि तत्त्वानि प्रमाणानि इति स्वीकृतानि तानि न युक्तानि । प्रत्युत प्रमादपूर्णानीति मन्यामहे । तस्मात्कनिष्ठन्याय- मूर्तिदत्तो दण्डो न योग्यः अतो दोपाभावात्सपद्येव टिळकमहाशयो बन्धनान्मोचयितव्य इति । विद्युत्सन्देशेनायं निर्णयो भरतखण्डे सर्वत्र प्रसृतः । अभिनन्दनार्थ लोकमान्येभ्यः सन्देशाः प्रहिताः । पुण्यपत्तने सम्मानार्थमेका सभा निमन्त्रिता । अध्यक्षस्थाने 'अण्णासाहेब पटवर्धन'- महाशया आसन् । वरिष्ठन्यायालयन्यायमूर्तिभ्यो धन्यवादान दातुं प्रस्तावः सम्मतः । तथा 'दाजीसाहेब सरे'महाशयेभ्यो 'दादासाहेव करंदीकर'- महाशयेभ्यो धन्यवादाः समर्पिताः । महता गौरवेण सभायां लोकमान्याः सत्कृताः । अस्मिन् समये तैरुक्तम् 'मया महद्धेयं दर्शितमिति भाषण- मयुक्तम् । सङ्कटकाले नैराश्यमगत्वा यो धैर्य नावलम्यते स मनुष्यसंज्ञां नाईति' इति । दत्तकप्रकरणे प्रथमं कृतोऽभियोग एतावत्कालपर्यन्तं सुस्थिर आसीत् । इदानी तस्य परीक्षणं सचलितम् । यथावसरं सर्वेषां साक्षिणां वचनानि . .

। १३४ लोकमान्यदिळफचरितम् सगृह्य १९०६ वत्सरे पुण्यपत्तनस्थन्यायालयेन स्वनिर्णयो दत्तः । सर्वेषु विवादस्थलेषु दैववशादनुकूलोऽयं निर्णयो लोकमान्यानाम् । परं प्रतिपक्षे. णेमं निर्णय परीक्षितुं वरिष्टन्यायालये प्रार्थनापत्रं समर्पितम् । तत्र 'हीटन'- महाशयास्तथा चंदावरकर'महाशया न्यायासने उपविष्टा आसन् । तै- विपरीतो निर्णयो दत्तः । अस्मिन् समये लोकमान्या 'मण्डाले कारागृहे आसन् । तत्रेमं निर्णयं निशम्य निर्णयपत्रकं सम्यगधीत्य सर्वाणि विवाद- स्थलानि पन्ने लिखित्वा आत्मनो विधिज्ञद्वारा अतिवरिष्ठन्यायालयं प्रति आत्मनो निवेदनपत्रेण सह वरिष्ठन्यायालयनिर्णयो लोकमान्यैः परीक्ष- णार्थ समर्पितः । अस्य निवेदनपरीक्षणस्य निर्णयः १९१५ संवत्सरे लोक मान्यैर्लब्धः । अयं निर्णयः पुनरेकदा दिष्ट्या सर्वथा लोकमान्यानामनुकूलो जातः । 'जेंकिन्स-टी'महाशयाभ्यां दत्तेन व्यवहारप्रकरणनिर्णयेनान्ततो लोकमान्यानां सत्पक्षस्य विजयो जातः । अस्य विजयस्य कृते महन्मूल्यं लोकमान्यैर्दत्तम् । चतुर्दशवत्सरान् नक्तंदिवमस्य विषयस्य चिन्तनम् । रूपकाणां पञ्चाशत्सहस्रं धनक्षयः । समाधानं तु केवलमिदमेव यदनेन मूल्ये. नात्मनो वचनं सत्यं निर्णीतं, चारित्र्यं च निर्मलं जातम् । तस्मादमूर्ता आङ्ग्लन्यायदेवता तथैव तस्यै स्फूर्तिदाता अमूर्तः परमेश्वरः उभावपि अभिवादनाहौँ । १९०३ संवत्सरे क्लेमंटस्महाशयस्य निर्णयेन महत्सङ्कटं समुपस्थितम् । शीलस्य रक्षणार्थ संवर्धनार्थ च सर्वेषां जनानां समुद्योगः । तद्यदि विनष्टं स्यात्तर्हि कोऽर्थो धनलाभेन वा किं प्रयोजनं मलीमसेन जीवितेन वा । अनेन निर्णयेन उभयथाऽपि हानिः । परम् अस्मिन् परीक्षा- काले मेरुरिवाचलधैर्यवृत्तयो लोकमान्याः । प्रयत्नवादमङ्गीकृत्य दीर्घोद्योगे. नेदमपि दुःखं लोकमान्यैः सोढम् । अन्ते १९१५ संवत्सरे अतिवरिष्ठ- न्यायालयनिर्णयेनैतत्सर्व दुःखं निरस्तम् । आनन्दस्यायं क्षणः परिवर्तित- भाग्यचक्रेण लोकमान्येभ्यो दर्शितः । वहवो दोपा वहुभिर्जनैर्लोकमान्येषु प्रक्षिताः । तेष्वेको लोकमान्यानां स्वभावोऽतीच 'आमही' इति । अस्मिन् विषये एका स्मृतिशलाका 'नाना नागपुरकर 'नामकेनोल्लिखिता दृश्यते । स लिखति "यावामहाराजपत्नी ताईमहाराजनाम्नी निष्कपटवृत्त्याऽस्माभिः सह सुखेन क्रीडति स्म ।

मिन्नकार्यपर्व अतोऽहमेकदा धैर्येण वामपृच्छम् 'किमर्थ त्वं टिकेन सह सदैव कलहं करोपि ? किं तवापकृतं तेन ?' इति । सपद्येवाश्रुपूर्णलोचनाभ्यां मां दृष्ट्वा सा सद्गदमवादीत् 'वत्स, न मम किमप्यपकृतं तेन । न मम वराटकोऽपि तेन स्पृष्टः । परम् एक एव तस्य महान् दोपः। तस्याग्रही स्वभावः । अहमपि मानिनी । स यदि मम पुरत आगत्य वदिष्यति 'किमिदं क्रियते त्वया' इति तर्हि सपद्येवाहं तस्य चरणौ शिरसि धृत्वा यत्स आदेल्यति तत् करिष्यामि । परं कण्ठगतैः प्राणैरप्यहं स्वयं न कदाऽपि विरमामि' इति। लोकमान्यानां निःस्पृहत्वविपये अन्या स्मृतिशलाका वर्तते । 'यशवंत- राव कुलकर्णी महाशयो लिसति "बाबामहाराजस्योद्याने निर्मिताः शाका. दिपदार्था अपि लोकमान्यैर्न कदाऽपि स्वीकृताः । ते वदन्ति 'अस्माकमुद्याने विपुलाः शाकादिपदार्थाः सम्पद्यन्ते । विविधास्तेपां प्रकाराः । युप्माक- मुद्याने कथमिदं सम्भवेत्" इति । लोकमान्यानामयं नि.स्पृहतागुणः ताई- महाराजेन न्यायालयेऽपि स्वनिवेदने स्वीकृतः । न्यायाधीशेन मुहुर्मुहुः सूचकवाक्यैः पृष्टायास्तस्या एकमेवोत्तरमासीत् ' यद्यत् लोकमान्यैः कृतं तत्तत्सर्व मम विभवकल्याणायैव ' इति । महतीयं कथा । नाटयपूर्ण चमत्कृतिपूर्ण चेदं प्रकरणम् । पर स्थल सइकोचादत्रैवास्माभिरिम्यते । एवं लोकमान्यैः सह परम्परासम्बन्धेनेयं क्षुद्रजनकन्या लोकेषु प्रसिद्धिं गता। उक्तं च-- 'येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् । इति । .

८ राष्ट्रियसभापर्व १ राष्ट्रियसभा १९०४ वत्सरे राष्ट्रियसभाधिवेशनं मुन्यापुर्याममूत् । 'सर वुइल्यम् वेडरयर्न'प्रभुतीनां मतेनाऽऽग्लदेशे राष्ट्रियसभाकार्यस्यान्दोलनमावश्यकम् । एकं शिष्टमण्डलं सम्प्रेष्य, तथैव एक कार्यालयं तत्र संस्थाप्य अविरतं कार्य- मपेक्षितम्। 'पार्लमेंट'सभासदस्यानां वारं वारं दर्शनं गृहीत्या, तेभ्यो भारतस्य दुःखानि निवेद्य, भारतविपयक: प्रश्नः तस्यां सभायामुत्पादयितव्यः । तेनैव भारतीयानां दुःखकथा आग्लदेशीयानां कर्णविवरमापतेदिति । राष्ट्रियसभाधिवेशनं 'सर हेन्री कॉटन महाशयानामध्यक्षत्वे सम्पन्नम्। 'वेडरबन महाशया अप्युपस्थिताः । लोकमान्यैरुभयोर्दर्शनं गृहीत्वा सभाकार्यविपये चर्चा कृता । लाला लजपतरायमहाशयानां 'फेरोजशहा मेथा'महाशयैः सह विपयनियामकमण्डले कलहो जातः । यष्ट्रियसभाघटना- विषयेऽपि महान् सघर्पोऽभूत् । कॉटनमहाशयसम्पादिते प्रन्थे एवं लिखितम् ' जहाल-मयाळपक्षभेदस्तदाऽऽसीत् ' इति । सभाधिवेशने महत्स्वागतं जातं लोकमान्यानाम् । अस्मिन्समये 'कसन'महाशयो राजप्रतिनिधिप्रमुख आसीत् । फॉटन महाशया यदा राष्ट्रियसभाप्रस्तावान् तस्मै निवेदयितुं गतास्तदा कर्झनमहा- शयेन तस्मै दर्शनमपि न दत्तम् । एतादृशस्तस्य रोपः कॉटनमहाशये । लोकशिक्षणेन लोकप्रबोधस्य विविधाः प्रकारा अस्मिन् काले लोक. मान्यैरवीकृता दृश्यन्ते । तेपु फेपांचन परिचयः स्थलसहोचात्केवलोलेस. मात्रेणात्र क्रियते। २ पञ्चाङ्गशोधनम् पन्याद्गसंशोधनविपये सर्वेपामेयमत्यं सम्पादयितु बद्दयो यत्लाः कृताः । अयनांशसम्बन्धन महान मतभेदः । येकमान्यानामेयममिमाय: 'निसिले मारते एकमेय नूतनं पश्चागमुपयुज्येत । प्रथममेतत्सम्पाय भन्यमतभेदविपये विवादाः पश्नाद्भवेयुः' इति ।

राष्ट्रियसभापर्व १३७ ३ समाजसुधारणातत्ववादः माधवरार रानडेमहाशयेपु दिव गतेषु सामाजिकपरिपदो महत्व शनै शनैरल्पतरमुर्वरितम् । अस्मिन् विपये रोकमान्या सोद्वेग लिसन्ति 'समाजसुधारणा न तव्येति कदापि क्य न ब्रूम । नेकप्रकारेणास्माभिरिद कण्ठरवेणोद्घोपितम् । पर सुधारकाणामस्माक च मार्गोऽस्मिन् विपये भिन्न । जातिभेदमूर्तिपूजादिनिपयेपु पुरातनी वैदिकसस्कृति परित्यज्य सुधारका सुधारणामिच्छन्ति ।प्राचीनसस्कृतिस्तेपामुपहासविषय । 'मार्टिन लूथर' नामको महान् सिस्तधर्मसुधारक शार्मण्यदेशेऽभूत् । पर यायनर नामके सिस्तधर्मग्रन्थे विश्वस्य तेन सुधारणामण्डन कृतम् । चौद्धा इव भागवतधर्मिणोऽपि जातिभेद तत्त्वतो न सम्मन्यन्ते । पर जना भागवत धर्मिणो लोकान् वैदिकान् सम्मन्यन्ते । न तथा वौद्धान् । ४ पुनः पण्डिता रमादेवी पण्डितया रमादेव्या व्याख्याने पुनरुपद्रव समारब्ध । पर श्रोतृ वृन्देनैव तन्मतसण्डन सभायामेव कृतम् । अनेन प्रसङ्गेन रोकमान्यैरिद लिसितम् “ विधवाना दु सनिवारणे 'क'महाशयै स्थापित 'अनाथ पालिकाऽऽश्रम ' रमादेव्या शारदासदनात् शतगुण श्रेयान् ” इति । अस्याश्रमस्य वार्षिक प्रतिवृत्त केसरिपने लोकमान्यविस्तरेण मुद्रितम् । तदर्थ तेभ्य कमहाशयैर्धन्यवादा प्रदत्ता । ५ 'काळ'वृत्तपत्रम् पराजपेमहाशयाना 'का'वृत्तपनस्य प्रभोऽपि आग्लवृत्तपत्र सम्पादकै पुनरुद्धृत । तेषु 'मुम्बई टाइम्स'वृत्तपन प्रमुसम् । लोक मान्या अलिसन् 'काळपने लिखिताना लेसानामर्थोऽपि एतैराग्लमृत्त पनसम्पादकैर्न ज्ञायते । प्रसरटीकास्त्रस्य कि कारणम् ? शासनसस्थाधि कारिणामुन्माद । पारतन् यदु सान्यस्मामिरनुभूयन्ते । राजद्रोहाभियोगेभ्यो यय न विमीम । पर शासनसस्थयाऽस्माक हेतूना विपर्यासो न कार्य । . इति । १९०५ वत्सरे 'भालापनसम्पादका पाण्मासिक्कारागसेन दण्डिना ।

. लोकमान्यटिळकचरितम् ६ इनमहाशयनिधनम् रॅडमहाशयवधप्रकरणे वधकर्तुः शोधार्थ नियुक्तो गुप्तचराधिकारी ब्रुइनमहाशय आसीत् इति ज्ञायत एव वाचकैः । तस्य निधने जाते लोक- मान्यैलिखितम् 'रक्षापुरुपसंस्थायां गुप्तचरविभागे विद्यमानोऽयं पुरुषः कैश्चिदनन्यसाधारणगुणैर्मण्डित आसीत् । सत्यशोधनार्थ नाना स्थलानि गत्वा, विविधान् जनान् दृष्ट्वा, आत्मनः कर्तव्यम् अयं पुरुपः कुशलतया सम्पादयति स्म । अधिकारिपुरुपेभ्योऽपि युक्तं मन्त्रं यथावसरमेप ददाति इत्यस्य विशेषः । अतस्तस्य गुणग्रहणार्थमिदं लेखनम् । ७उत्सवाः राजकार्यधुरंधराणां ' नाना फडणीस'महाशयानामुत्सयार्थ १९०५ संवत्सरे लोकमान्याः ‘वेळास'ग्राममगछन् । छत्रपतिशिवरायोत्सवप्रसारस्तै: सोल्लासं कृतः । अस्मिन्नेव संवत्सरे जपानदेशे भारतीयछात्रगणेन कृतस्य छत्रपतिमहोत्सवस्य वार्ता लब्धा । १९०६ वत्सरे तन्महोत्सवार्थ बगदेशे कलकत्तानगरे लोकमान्या निमन्त्रिताः । महान् सत्कारस्तेषां तत्र जनैः कृतः । लोकमान्यैस्तथा सापडें- महाशयैः छत्रपतिगुणदोपविवेचनमैतिहासिकदृष्ट्या कृत्या शिवरायस्य शौर्य- वीर्यदाक्षिण्यपराक्रमशासनकौशलादयो गुणा वर्णिताः । जनैर्महता गौरवेण वैभवेन च महोत्सवः सम्पादितः। ८ नेमस्तपक्षनिराशा १९०४-५ संवत्सरे गोसलेमहाशयैराग्लदेशे महत्कार्य सम्पा- दितम् । राष्ट्रियसभया यथा भारते तथाऽऽग्लदेशेऽपि कार्य विधेयमिति प्रस्तायः कृतः । तमनुसृत्य ' इंडिया-हाऊस'नामिका संस्था कार्यसातत्यार्थ स्थापिता । आङ्ग्लदेशे तदा द्वौ पक्षावास्ताम् । एकः ‘कान्झरव्हेटिव्ह'- नामकः, अपरो 'लियरल्' इत्यारयः ।उभयो. सहकारेण कार्यमावश्यकं जातम् । अग्रे लिवरल्पक्षण कान्झरव्हेटिव्ह्पक्षः पराजितः । भारते नेमतपक्षस्याशा तेन पुनरुज्जीविता । परम् अचिरणेय 'सर जॉन् मोले'महाशयेरुद्घोपितम् 'एकेन पक्षेण यत्कृतं तस्य अपरेण परिवर्तनमयुक्तम् । सद्विभाजितो यादेशकदाऽपि पुन: संयुतो न भयिप्यति । भारतीया अधिशारदान- राष्ट्रियसभापर्व १३९ योग्याः । परं लिबरल्पक्षः प्रभूतानधिकारान् दास्यतीत्याशाऽपि न समी- चीना' इति । अनया स्पष्टोक्त्या नेमस्तपक्षस्याकाङ्क्षा विफलीभूता । ९ अधिकारमदः कीनमहाशयस्याधिकारमदः परां कोटिमापन्नः । प्रमुखराजप्रतिनिधि- पदस्थोऽयं पुरुपः कलकत्ताविद्यापीठस्य प्रमाणपत्रवितरणार्थ तत्र गतः। दीक्षान्तभापणे छात्रानुद्दिश्य 'सत्यं वद' इति तत्त्वं तेनोपदिष्टम् । पर्यायेणायं सर्वेषां भारतीयानामुपदेशः । असिलो वङ्गदेशो भापणेनानेन प्रक्षुब्धः । अतः सत्यानृतविवेकविषयमधिकृत्य कुशलतया सत्यतत्त्वस्य विवरणं कृत्वा 'बायबल'नामकलिस्तधर्मग्रन्थाधारेण लोकमान्यैः केसरिपत्रे प्रथममेव दर्शितम् 'सत्यं नाम किम् ' इति द्विसहस्रहायनेभ्यः प्राक् पाश्चात्त्या एव नाजानन् । पौर्वात्यास्तु तत् सम्यगेव जानन्ति । सत्यप्रियता. मिपेण प्रमुखराजप्रतिनिधिना मनसि स्थितं क्रोधं निष्टीव्य पवित्रं सरस्वती- मन्दिरमपवित्रं कृतम् । सत्यानृतविवेकस्य सूक्ष्मज्ञानं महाभारते दृश्यते एव । 'अमृतवझारपत्रिका'नामकवृत्तपत्रस्य सम्पादकैः ‘वाबु मोतीलाल घोप'महाशयैरुद्धृतः कर्झनमहाशयस्य असत्यभापणप्रसङ्गः । इयं कथा तेनैवात्मनः प्रवासवर्णने महताऽभिमानेन लिखिता दृश्यते । 'कोरिया'देशे प्रधानमन्त्रिदर्शनार्थ गतं कर्झनमहाशयं स मन्त्रिमहाशयः पृष्टयान्- मन्त्री-कियद्वयः अनभयताम् । कहन.-- चत्वारिंशत्समाः । त्रयस्त्रिंशद्वर्पोऽयं युवा निःशवमनसा प्रतियक्ति स्म । मन्त्री- आग्लदेशराझ्याः अत्रभवन्तो निकटवर्तिनः सम्बन्धिन इत्यस्माभिः श्रूयते । अपि सत्यमेतत् ? कहन--- नैवम् । अद्यावधि मम वियाहोऽपि न जातः । इदमुत्तरमसत्यमिति ज्ञातमेव मन्त्रिमहाशयैः । प्रधानमन्त्रिपासम्पा- दनार्थमिदमसत्यभापणम् । अथायं कर्झनमहाशयो भारतीयान् सत्यभाषण- महत्त्वमुपदिशति इत्यहो आश्चर्यम् । भारतदेशे प्रमुग्पराजप्रतिनिधिपदे नियुक्ते पीनमहाशये, एतत्स वृत्तमम्य पुस्तकम्य द्वितीयमुद्रणे प्रतिनिविष्टं न दृश्यते।

१४० लोकमान्यटिळकचरितम् १. राष्ट्रियसभाधिवेशनम् (१९०५) १९०५ वत्सरे राष्ट्रियसभाधिवेशनं वाराणसीक्षेत्रे जातम् । कर्झन- महाशयस्य कार्यपद्धत्याऽसन्तुष्टा गोखलेमहाशया आत्मन अध्यक्षीयभाषणे सर्वान् विषयान् साकल्येन विमृश्यावदन् “बङ्गदेशविभजनेन वशवासिनो- ऽयमानिताः । तेषामान्दोलनं तु युक्तमेव । आग्लदेशीयानामवधानार्थ बहिष्कारयोगोऽपि समुचितः । स्वदेशे निर्मितानां पदार्थानां दैनंदिन कार्येपू- पयोगस्तु स्वाभाविक एव" इति । स्वदेशनिर्मितवस्तुप्रचारो बहिष्कारयोगश्चेति द्वे साधने समुत्पन्ने। ११ वङ्गदेशान्दोलनम् कर्झनमहाशयेन मोर्लेमहाशयं प्रति एक निवेदनं सम्प्रेष्य बनदेश- विभजने तस्यानुज्ञा प्रार्थिता । मोर्लेमहाशयेनापि लोकमतमविचार्यवानुज्ञा दत्ता । अनेन विजयेन १९०५ वत्सरे जुलैमासस्य विंशतितमे दिवसे कर्झन- महाशयेन वङ्गदेशस्य विभजनमुद्घोपितम् । वज्राघात इव बङ्गवासिनां मूर्ध्नि समापतितमेतद्विभजनम् । कंचित् कालं भ्रान्तचित्तास्ते जाताः । बद्यासिनामवमानार्थ बगदेशं च दुर्वलीकर्तुं तथैव हिंदुयवनकलहार्थमिदं कृतमिति सर्वेषां मतिः । तस्मिन्नेव संवत्सरे ऑगस्टमासस्य सप्तमे दिवसे कलकत्तानगरे महदान्दोलनं समारब्धम् । नगरभवने नागरिकाणामेका सभा निमन्त्रिता। परं स्थलसकोचेन चतुर्यु स्थानेपु सभाकार्यमेकसमयावच्छेदेन समापितम् । अद्यावधि सर्वेपामान्दोलनानामेकमेव पर्यवसानम् । आवेदनपत्र- प्रार्थनापत्र निवेदनपत्रादीनि इति । न किमपि कृतिरूपमान्दोलनम् । नेमस्तपक्षीया राष्ट्रियपक्षीयाः, शिक्षिता अशिक्षिताः, सधना निर्धनाः, वृद्धास्तरुणा, विद्यार्थिनो व्यवसायिनश्च सर्वे जना एकीभूय प्रतिकारार्थ सजा बभूवुः । स्वदेशीयवस्तूनां दैनंदिनव्यवहारे स्वीकारः, आङ्ग्लयस्तूनां वहिप्कारः इति साधनद्वयेनेदमान्दोलनं राष्ट्रधुरीणैः सञ्चालितम् । बंकिमचन्द्रस्य' 'आनन्दमठ'नामक पुस्तके विद्यमानेन 'वन्दे मातरम्' इति गीतेन महान् सङ्घर्षः समुत्पन्नः । एतत्पद्यगानमपराध इति अगण्यत रक्षापुरपेः। . .

राष्ट्रियसभापर्व २४१ १९०५ संवत्सरस्य ऑक्टोवरमासस्य पोडशो दिवसः वड्देश- विभजनस्य मुहूर्तो निश्चितः । अस्मिन् दिवसे प्रतिकारप्रदर्शनमाचरितव्य- मिति निर्धारितम् । कार्यक्रमो द्विप्रकारक. । एकः प्रकारो रक्षाबन्धनम् । अपरो तीर्थस्नानमुपोपणं च । अनेन चित्तगुद्धिः स्यात् । अभगवङ्गकल्पनाद्योतक- मेकं सदनं विरचयितव्यमिति सर्वनिश्चितम् । तस्य नाम 'अभेदानन्दमठः' इति । वङ्गभङ्गस्यान्दोलनारम्भे एक मुयोगोऽभाविततया प्राप्तः । बङ्ग- भङ्गजनकः कर्झनमहाशयः कस्मिंश्चित् शासनसंस्थाप्रकरणे वरिष्ठाधिकारिणा पराभूतः। एकस्मिन् पक्षे प्रमुससेनापतिपदस्थो वीराप्रणी. 'किचनेर'महा- शयः । अन्यस्मिन् पक्षे राजप्रतिनिधिपदस्थः पर्सनमहाशयः । अनयोः संघ सड्गः एव प्रधानमिति स्पष्ट जातम् । अतः स्वपराभव स्वमुखेनैवोच्चार्य कर्झनमहाशयेन प्रमुसराजप्रतिनिधिपदस्य त्यागपत्रं प्रहितम् । मानधनस्य पुरुपस्य मानभङ्गान्मरणं परम् । कर्झनमहाशयस्य महत् शासनमेतत् । राज्यारोहणमहोत्सवे — व्हिक्टोरिया'नाम्न्याः सम्राझ्याः पुत्राय गौणं स्थानं दत्त्वा · अहं राजप्रतिनिधिः' इत्यहंकारेण येनाग्रिमं स्थानं स्वीकृतं तस्य पुरुषस्य अभूतपूर्योऽयं परिभवः । अपरं देहान्तशासनमिदम् । एवं प्रधान- मल्लनिवर्हणं घगभगान्दोलनस्य शुभसूचको मुहूतों लोकसम्मतः । उपरि निर्दिष्टं साधनद्वयं लोकदैनंदिनकार्येषु कथमुपयोक्तव्यमिति विचारे प्रथम स्वदेशीयवस्तूनां मध्ये परिधानीयवस्त्राणां प्रश्नः प्राधान्यमभ- जत । बनवासिनां वस्त्रपरिधानपद्धतिः पाश्चात्त्या । आङ्ग्लानां पूर्णत्वेनानु- करणं वगवासिनो स्वभावोऽभूत् । अनेन स्वदेशीयवस्तुप्रचारान्दोलनेन महत्परिवर्तनं जातम् । न केवलमूर्णादुकूलादिमहार्हवत्राणां परित्यागस्तैः कृतः। परं वस्त्रपरिधानक्रियायां स्वीकृताऽऽग्लपद्धतिरपि परित्यत्ता । अनया रीया 'स्वदेशी' नामकमान्दोलनं समुद्भवम् । यथा देशीयवस्तूनां सर्वेषु कार्येपूपयोगस्तथा परदेशीयवस्तूनामनुपयोग इत्यपि तस्यान्दोलनस्यापरं रूपम् । अमिधानं तु तस्य बहिष्कार इति । इदं साधनद्वयं महाराष्ट्रदेशे नापरिचितम् । परमनेन समयेन तेन साधनद्वयेन महत् क्षेत्रं समाकान्तम् । लेसनसातत्येन लोकमान्यरिदं स्वदेशी.

१४२ लोकमान्यटिळकचरितम् यवस्तूनामान्दोलन ग्रामे ग्रामे प्रसारितम् । परदेशीयवस्त्राण्यग्निसात्कृतानि । एतादृश रौद्ररुपमनेनान्दोलनेन विधृतम् । पुण्यपत्तने परदेशीयवस्नदहनोप क्रमेण आयत्या लब्धकीर्ति कान्तिकारकाणा नेता सावरकरनामा प्रथम परिचितो जात । अनेन बहिष्कारयोगेन महत् क्षेत्र व्यापृतम् । वङ्गदशे परा कोटि गतमिदमान्दोलनम् । कैश्चियुवभिईष्टम्- ता सभा , ते निषेधा , तानि दु सनिवेदनपत्राणि, अय स्वदेशीयवस्तुप्रचार , बहिष्कारयोगोऽपि लेशतो दु सनिवारणाय नालम् । तामसप्रकृति 'बम्- फील्ड फुल्हर'नामक पूर्ववङ्गदेशराजप्रतिनिधि अधिकारमदेनोन्मत्तोऽभूत् । 'वन्दे मातरम्' इति गीतस्य राजमार्गेण गान तेन प्रतिपिद्धम् । मार्गेण जनाना सञ्चल्ने रक्षापुरुपैरीगुडप्रहारो दापित । 'सुरेन्द्रनाथ वानर्जी महाशया क्षुद्रेण कारणेन रूपकाणा द्विशत दण्डिता । अत प्रक्षुब्धो तरुणजन क्रान्तिकारकाणा मार्गमाचरितवान् । एको विनोदपूर्णप्रसङ्गोऽत्र वर्णितो लक्ष्यते । बङ्गदेशे व्यारयाना- वसाने सुरेन्द्रनाथ वानर्जीमहाशयाना कण्ठे सभाचालकै पुष्पहार समर्पित । तेनाचारेण शासनसस्थापक्षीया मत्सरग्रस्ता वृत्तपनसम्पादका अवर्णयन् 'सुरेन्द्रनाथमहाशया राजमुकुट धारयित्वा राज्याभिषेकेण राजा- धिराजपदवी प्राप्ता' इति । द्वितीय एप प्रसङ्ग । महाराष्ट्रदेशे व्यारयानार्थ 'वेटगाय' नामक नगर गतेपु लेकमान्येपु सभासमये मेघोऽवर्पत् । तदा एकेन स्वयसेवकेन रोकमान्याना मस्तकस्योपरि छन विधृतम् । भृश अब्रह्मण्य जातम् । अन्य स्मिन्नहनि विरोधकवृत्तपत्रैर्मुद्रितम् ' लोकधुरीणा साम्प्रत राजचिह्नानि धारयन्ति ' इति । एवप्रकारको विरोधकाना प्रचार प्रवृत्त आसीत् । १२ राष्ट्रियसभाधिवेशनम् (१९०६) सिस्ता दस्य १९०६ वत्सरे कलकत्तानगर्या राष्ट्रियसभाधिवेशन निश्चितम् । अध्यक्षपदे को राष्ट्रधुरीणो नियोत्तव्य इति विषये विचारप्रवणो जनो नामान्यसूचयत् । अस्मिन् सवत्सरे रोक्मा या टिचकमहाशया अध्यक्षपदमल्ड्युन्तु इति कैश्चित्सूचितम् । लाला लजपतराजमहाशया इद स्थान निभूपयन्तु इत्यन्येयनितम् । अनयो कोऽपि तत्स्थान मण्डपतु, १४३ राष्ट्रियसभापर्व राष्ट्रियपक्षीय एव सः । अतो नेमस्तपक्षीयाणामेतइसम्मतम् । अतस्ता- बुभावपि दूरीकर्तुं तै: ' दादाभाई नौरोजी'महाशयानां नाम सूचितम् । सर्वेपां तत्सम्मतम् । लोकमान्यश्चिन्तितम् “यदि नौरोजीमहाशयाः 'स्वदेशी- वहिप्कार'नामकं शस्त्रयमधिकारयुक्तवाण्या समुद्घोपयन्ति तर्हि बहु समीचीनं भवेत्" इति । वङ्गभङ्गोत्थानेन याचनायादिनां तथा अधिकारवादिनां पक्षे प्रभूता मतभेदाः समुत्पन्नाः । तस्मादालस्यं परित्यज्य सर्वेपा प्रदेशानां लोकधुरीणाः कलकत्तानगरी समागताः । प्रथमेऽहनि स्वभापणे अध्यक्षमहोदयैः दादाभाई नौरोजीमहाशयै- र्भारतस्य ध्येयं स्वराज्यमिति असन्दिग्धैरक्षरैरुद्घोषितम् । वत्प्राप्त्यर्थ च स्वदेशी-बहिष्कार-राष्ट्रियशिक्षणादीनि' साधनानि भारतेनाश्रयणीयानि इति प्रतिपादितम् । एते चत्वारः शब्दाः राष्ट्रियसभायाश्चतुःसूत्रीति नाना प्रचलिताः। शारीरकमीमांसायां यथाऽग्रिमाणि चत्वारि सूत्राणि चतुःसूत्रीति नाम्ना प्रसिद्धानि तथैव राजकारणविपये इमानि चत्वारि सूत्राण्यभूवन् । महाभाष्यकारः पतञ्जलिमहर्पिमिर्भाप्ये उक्तम् 'एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके च कामधुग् भवति' इति । इमां महर्पिप्रणीतां पङ्क्तिमनुसृत्य राष्ट्रियसभाध्यक्षमहाशयैः सम्यग्ज्ञाताः सम्यक् प्रयुक्ताश्चेते चत्वारः शब्दा अस्मिल्लोके भरतखण्डे आसन्नचत्वारिंशद्वत्सरानन्तरं काम- दुहोऽभूवन् । एतदर्थकाः प्रस्तावा अपि अधिवेशने सदस्यानां सम्मता अभूवन् । सर्वमेतन्नेमस्तपक्षीयाणामसम्मतम् । परं किं कर्तव्यम् ? अखिलभारतीय- प्रतिनिधिमिः सम्मता एते प्रस्तावाः । लोकमान्या विनोदेन केसरिपने लिखन्ति " यौवनपदवीमारूढाया राष्ट्रियसभायाः स्वराज्याधिकारनामकेन यूना सह जातो विवाहसम्बन्धो न केनापि साम्प्रतं विभजनीयः । जनकत्वेन सम्बन्धितपक्षस्य यद्यप्येप सम्बन्धः पूर्णत्वेन न सम्मतस्तथाऽपि तस्मिन् सम्बन्धे इदानीं कोऽपि व्यत्ययो विच्छेदो या न समर्थनीयः । दिने दिने उत्साहवरवीर्यशालिनां लोकमान्यटिळकंचरितम् यूनां मतप्रवाहो लोकरुचये भवतीति राजकीयप्रगतिचिढं क्रमप्राप्तमेव" इति । १३ स्वदेशीयवस्तुप्रचारः १९०७ वत्सरे लोकमान्यैर्महाराष्ट्रदेशे तथा राष्ट्रियसभया निखिल- भरतखण्डे महदान्दोलनं समारब्धम् । स्वदेशीयवस्तूनां प्रचारः, राष्ट्रिय शिक्षणस्य महत्त्वम्, परदेशीयवस्तुपु बहिष्कारयोगः एते सर्व विषया जनानां मनांसि समाकर्षन्ति । खदेशीयवस्तुप्रसाराय मुम्यापुर्या श्रेष्ठिनां सहकारेण विक्रयार्थ "स्वदेशी-कोऑपरेटिव्ह-स्टोअर्स" नामकः एकः आपणः लोकमान्यैः स्थापितः । 'पैसाफंड'नामकः एको द्रव्यनिधिः स्थापित आसीत् । तस्य कार्यमपि अनेन निमित्तेन प्रगतम् । व्यवसायशिक्षणार्थ पूर्व स्थापिता फाचशाला अनेन 'पैसाफंड'नामकेन द्रव्यनिधिना वर्धिता। पुण्यपत्तने, मुम्बापुर्या, पंढरपुरक्षेत्रे, चिंचपोकळी-नामके मुम्बापुर्याः उपनगरे स्वदेशीयवस्तूनां प्रचारो व्याख्यानद्वारा जातः । राष्ट्रियशिक्षणस्य समुत्थानमपि महत्सम्भूतम् । सर्वत्र लोकाग्रणीनां व्याख्यानविद्यार्थिजनस्य घेतसि महचैतन्यं समुद्भूतम् । भावनाप्रधानो हि छात्रगणः । व्याख्या- नादीनां श्रवणेन, वृत्तपत्रवाचनेन च तेषां मनांसि राष्ट्रियसभापुरस्कृत- विषयैरावर्जितानि । अतः शासनसंस्थाधिकारिणां मनस्येको विचारः प्रादु- भूतः । रिस्ले सर्म्युलर' इति नाम्ना कुप्रसिद्धस्याज्ञापत्रकस्य अस्माद्वि- चारादुद्गमः । अनेनाज्ञापत्रकेण विद्यालयाधिकारिणां हस्ते सर्वेऽधिकाराः समर्पिताः। १४ आज्ञापत्रकपरिणामः अस्याज्ञापत्रकस्य एवंविधः परिणामो जातः । विद्यार्थिषु अध्यापकस्यैवा. धिकारः । न तेषां जनकजननीनाम् । तेषां 'पितरः केवलं जन्महेतवः'। पोर्सनव्याख्यानप्रवचनश्रयणार्थ शिक्षकजनस्यानुज्ञां विना कदाऽपि छान यम् । न वा किमपि कार्य कर्तव्यम् । पाठशालासु महा- मिशालगेगु या बहिरपि छात्राणामपचारे गुरुजनो दूपणीयो दण्डनीयश्च ।

राष्ट्रियसभापर्व १४५ 'शिष्यापराधे गुरोर्दण्डः' । आग्लशासितप्रदेशेषु, नरेशाना सस्थानेषु, सर्वन अस्याज्ञापनकस्याधिकार । पुण्यपत्तनस्थपर्युसनमहाविद्यालये अधीयान सावरकरमहाशय स्वदेशीयवस्तुप्रचारसभाया कार्य फुर्माणो महाविद्यालयप्राचार्यैर्दश रूपकान् दण्डित , महाविद्यालयछाननिवास- स्थानान्निष्कासितश्च । राष्ट्रियभावनासवर्धने राष्ट्रधुरीणाना यत्न । विपरीतयत्ना च शासनसस्था । तस्या मतेन विद्यार्थिभि राष्ट्रियसमुत्याने किमपि कार्य न करणीयम् । यदि कृत स्यात्तहि विद्यार्थिभिः सह सा शिक्षणसस्थाऽपि दूपणीया दण्डनीया च । अत सर्वे मुरयाध्यापका शासनसस्थाकृतस्वल्प- द्रव्यसाहाय्यार्थमेतादृशमाज्ञापन मानयन्ति । रोक्मान्या प्रतिपादयन्ति “आग्लदेशे 'केविज्-ऑक्सफर्ड'प्रभृति- विश्वप्रसिद्धविद्यापीठाना छानगणा सदैव विद्यार्थिदशाया राष्ट्रकार्ये यथा- शक्ति लोकाग्रणीभ्य साहाय्य यच्छन्ति । भारते यदि तत् स्यातर्हि किमर्थ दोपास्पद भवेत् । यदि शिक्षणसस्था एतादृशस्य राष्ट्राभ्युदय कार्यस्य पाठान् छानेभ्यो न दास्तहि केनेद कार्य तव्यम् । अथ च तस्य शिक्षणस्य कि फलम् ?" 'सेल्वी'महाशयो वदति 'स्वदेशीयवस्तुप्रचारार्थ मान्दोलन युक्तम् । पर छानगणेन तत्वार्य न करणीयम्' । भवतु नामैतत् । पर सेल्वीमहाशय कदाऽपि प्रचारार्थ गत किम् ? न कदाऽपि गत । एतादृशा प्राध्यापका स्वविपये निष्णाता अपि अस्माक क्ल्याणाय भारत देश नागता । अतस्ते नास्माक गुरव ।अस्माक प्राचीनाध्यापका निस्पृहा , सत्वशीला , जितेन्द्रिया, ज्ञानदानरता, शैकिकव्यवहारादलिप्ता रोक कल्याणाय राष्ट्रहिताय च सदैव प्रायतन्त । अद्यतनाध्यापकनर्गो धनप्रियो विषयसुखलोलुपश्च । तस्मात् ते नास्माक गुरव । महाभारतस्थश्लोकस्य किंचित्परिवर्तन कृत्या लोकमान्या उद्गिरन्ति- गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ।। इति । मत एवैताइयो राष्ट्रकार्यविरोधिन्य शिक्षणसंस्था अनुपयुत्तास्तिरस्काराहाश्च। तस्माद्राष्ट्रियशिक्षणाय जनैरात्मनो धन चित्त च दातव्यमिति लेकमान्या . .. १४६ लोकमान्यटिळकचरितम् प्रतिपादयन्ति । यत्र यत्रावसरः प्राप्तस्तत्र तत्र लेखनव्याख्यानसम्भापणद्वारा राष्ट्रिय शिक्षणस्यान्दोलनं ते कुर्वन्ति । शासनसंस्थाकृतद्रव्यसाहाय्य शिक्षण- संस्थामिरवश्य ग्रहीतव्यं , यतस्तद्रव्यमस्माकमेव । परं शिक्षणसंचालन- स्वातन्त्र्यं न हातव्यम् । लोककल्याणाय शिक्षणम् । तत्साध्यं यदि धयं न साध्नुयाम तर्हि शिक्षणसंस्थानां किं प्रयोजनम् ? १५ वीरनवाली आग्लसैनिकैरत्याचारे कृते न्यायाधीशैः गौरकायप्रमाणपुरुपगण- निर्णयेन अपराधिनो निर्दोपत्वेन मोक्तव्या इत्यस्य बहूनि निदर्शनानि सन्ति । वृत्तपत्रैरयं न्यायालयनिर्णयः कठोरशब्दैन्य॑पेधि। परं न कश्चिच्छासनसंस्था- धिकारी तयधारयति । ' भारतीयानां प्राणानामिदं मूल्यम् ' इति यदि वृत्तपत्रकार्लिख्यते तर्हि सम्पादका एव दण्डाही भवन्ति । परम् अयं श्वेतवर्णीयानां पक्षपातः तिरस्कार्य एव । न्यायाधीशैरेवानया रीत्या न्याय- देवताघातः क्रियते इत्यप्ययुक्तम् । केनाप्यधिकारिणा अस्य प्रतिवादः कृतः। अतो मराठावृत्तपत्रसम्पादकेन नामनिर्देशं कृत्वा एकस्मिन्नेव वत्सरे आसन्न- त्रिंशानामेतादृशानाम् अपचाराभियोगानामेकां मालां विरच्य तस्मै प्रति- वादकाराय समर्पिता । तदपि तस्य न लज्जामावहति । १९०७ वत्सरे एकं हृदयविदारक निदर्शनं जातम् । तस्य स्मृति- रपि मानसं व्यथयति । 'वीरनवाली'नामिका काचिद्युवतिः एकाकिनी भ्रातरं द्रष्टुं गच्छन्ती मध्यराने आत्मनोऽग्निरथविश्रान्तिस्थान प्राप्ता । मध्यरात्रे गृहं कथं गन्तव्यमिति विचारेण तत्रैव बाष्परथविश्रान्तिस्थाने स्त्र्यगारे सा न्यवसत् । तत्र विश्रान्तिस्थानाधिकारिणो दृष्टिपथं सा दुर्दैव- वशाद्गता । तामेकाकिनी दृष्ट्या गौरकायोऽयं नरपशुस्तामात्मनो निवास- स्थानं नीत्वा तस्यामत्याचारं कृतवान् । तस्य पश्चात्तत्सेवकः फाजलउद्दिन- नामफस्तस्यैव कृतवान् । इमां वार्ता श्रुत्या रक्षापुरुपैस्तौ द्वौ नराधमौ न्यायालय नीतौ । तत्र महदाश्चर्यमभूत् । अभियोगपरीक्षणकाले प्रथममेवैताभ्यां कथितम् 'असन्मार्गगामिनीयं तरुणी वर्तते ।अतो वयं न दोपार्हाः' इति । परं चिकित्सकदत्तप्रमाणैस्तन्न सिद्धमभूत् । वीरनवालीजनकेन, तस्याः श्वशुरेण च सा ऋजुखभावा सती च आसीदिति प्रमाणैर्दर्शितम् । एवं प्रमाणैः ५ राष्ट्रियसभापर्व १४७ सिद्धेऽपि अपराधे प्रमाणपुरुपगणस्थैर्नवमिर्गौरवायसदस्यै अपराधिनो पुस्पयोर्वचनेषु विश्वस्य तावुभावपि न दोपार्हावियात्मनो निर्णयो दत्त । न्यायाधीशेन तन्निर्णय स्वीकृत्य नाभौ अपराधिनौ दोपान्मुक्तौ । केसरिपत्र लिसति “अमेरिकासण्डे यदीद भवेत्तर्हि शासनसस्थामविगणय्य जन एन अपराधिन जीवन्त दहेत् । एक्स्या गौरकायायामत्याचारे जाते भारत- वासिनो वत्सराणा विंशति सश्रमकारावास प्राप्नुवन्ति । वीरनवाल्याश्च जन्मनो नाश कुर्वाणा अपराधिनो निर्दोप मुक्ता भवन्ति । अहो आग्ल- देशीयानामिय न्यायप्रियता ।" इति । अन्यस्मिन् सप्ताहे चारित्र्यविघातेन निर्विणचित्ता वीरनवाली आत्मघातमकरोत् । केसरी गर्जति “आत्मन स्त्रीणा चारित्र्य रक्षितुम समर्थान् भारतीयान् ज्ञात्वा निजदु स परमेश्वराय निवेदयितु वीरनवाली दिय गता । जानन्तु गौरकाया इदम् । सहस्र लेसा वा शत व्याख्यानानि वा यत् कार्य सम्पादयितु न शनुनन्ति तत्कार्यमेतादृशा अभियोगा कुर्वन्ति । गलितोत्साहान् हतवीर्यान् पुस्पान् साहसप्रियान् पर्तुं वीरननाल्या आत्मघाते कियत् सामर्थ्य वर्तते तदपि भारतशासनसस्था विज्ञानातु । अनेन व्यतिकरेण व्यथितानि, प्रक्षुब्धानि जनचित्तानि न कदापि शाम्यन्ति " इति । इम वृत्तान्त वाचयित्वा लोकमान्या अस्वस्थमनसा निद्रासुख नान्य. भवन् इति एका स्मृतिशलाका 'गड्गाधरराव देशपाडे'महाशया कथ. यन्ति स्म । . शासनसस्थाया न्यायविरुद्धाचरणेन जनाना मनासि प्रक्षुब्धानि । १९०७ सपत्सरे 'लाला लजपतराय महाशया विनापराध, विनाभियोग द्वीपान्तरकारावासेन दण्डिता । कलकत्ता-मद्रासप्रभृतिषु नगरेषु तथा महाराष्ट्रेपु महदुत्थान समुद्भूतम् । असिलभरतखण्डे शासनसस्थानिषेधार्थ सभा निमन्त्रिता । केपुचिनगरेषु सभानिमन्त्रण शासनसस्याधिकारिमि प्रतिपिद्धम् । सस्थानसामन्तैस्तु समुत्थानस्य सर्व प्रकारा प्रतिपिद्धा । समानिमन्त्रण, व्यारयानानि, 'वन्दे मातर'मिति गीतगान, छत्रपतिमहो सवा , सर्वमपि प्रतिपिद्धम् । पमि कृत्यैरपि असन्तुष्टै सस्थाननरेश १४८ लोकमान्यटिळफचरितम् फेसरिसदृशानि वृत्तपत्राणि आत्मनः संस्थानेभ्यो बहिष्कृतानि । उद्देशस्तु स्पष्टमेव । लोकवृत्तान्तमपि जना न जानीयुरिति । गणेशोत्सवेषु यथावसरं बहुपु स्थानेषु लोकमान्याख्यातम् । बडोदा- नरेशस्य 'गायकवाड-वाडा' इति नाम्नः प्रासादे, 'रेमार्केट' नामकस्य- साम्प्रतं 'फुले गार्केट' इत्यपरनामधेयस्य- विस्तृत प्राङ्गणे, गणपतिविसर्जन- वेलायां 'सद्यःस्थिति'विपयमधिकृत्य लोकमान्यैर्वहु व्याख्यातम् । विसर्जन- काले तैरुक्तम् , 'नष्टे स्वराज्ये किमपि महत् दुःखमापतितमिति वयं न जानीमः । गणपतिपूजनस्यान्ते मन्त्रपुष्पसमर्पणविधिरस्ति। तस्मिन् स्वाराज्यं वैराज्यं पारमेप्ठ्यथमित्यादयः शब्दा वर्तन्ते । वङ्गदेशस्यान्दोलनेन न समुत्पन्ना ह्येते वैदिकाः शब्दाः । स्वराज्यप्राप्तये गणेशप्रार्थना कर्तव्या इत्यस्माकं माचीना पद्धति'रिति । १६ प्रादेशिकपरिपद् द्वादशहायनानन्तरं सुरतनगरे मुम्बईप्रदेशपरिषदोऽधिवेशनं जातम् । तत्र नेमस्तपक्षीयाणां मेथाप्रभृतीनां प्रभुत्वं दृष्टम् । महाराष्ट्रेपु राष्ट्रिय- पक्षस्य बहुमतम् । विवादस्थानानि खदेशी-बहिष्कारादिविपयाः । राष्ट्रिय शिक्षणविपये महान् संघर्पः। प्रयागक्षेत्रे प्रादेशिकपरिपदोऽधिवेशनं जातम् । तत्रापि नेमस्त-राष्ट्रिय पक्षयोः सङ्घर्पः । कलकत्तानगरे जातस्य राष्ट्रियसभाधिवेशनस्य प्रस्तायाः केपांचन नेमस्तपक्षीयाणामसम्मताः । १७'मोर्ले-मिंटो-सुधारणाः ' लॉर्ड मिंटो'नामकः प्रमुखराजप्रतिनिधिरासीत् । ' सेक्रेटरी ऑफ स्टेट् फॉर इंडिया' इति पदारूढस्तत्त्वज्ञो 'सर् जॉन् मोर्ले 'महाशयः उदारमतवादिनां पुरस्कर्ता । तस्मात् राज्यशासनविषयकान् काँश्चिदधिकारान् भारतीया लप्स्यन्ते इति नेमस्तपक्षीयाणां महत्याशा । परम् अन्ते सा विफलीभूता । केवल द्वौ भारतीयपुरुषो 'इंडिया ऑफिस'नामके आग्ल- देशस्थकार्यालये मोर्लेमहाशयेन नियुक्तौ ।

राष्ट्रियसभापर्व १८ गोखले-टिळकवादः कलकत्तानगरे राष्ट्रियसभाधिवेशने बहिष्कारयोगः प्रस्तावेन सम्मतो जातः । तस्यार्थविपये प्रभूतो मतभेदः । यद्यत् परकीयं तत्तत्त्यक्तव्यमिति लोकमान्यानां मतिः । यावच्छक्यं शासनसंस्थाकृतनियमानामविरोधेन शासनसंस्था सर्वत्र निरोद्धव्या इति । गोखलेमहाशयानां मतेन केवलं यत्र- व्यवहारे एव वहिष्कारयोगः आचरणीयः। औद्योगिकविपये बहिष्कारयोगो युक्तः । परं राजकारणे अयुक्तः । 'बायकॉट'इत्याङ्ग्लशब्दो गोखले- महाशयान् प्रति कण्टकायते । १९ राष्ट्रियसभास्थलम् राष्ट्रियसभाऽधिवेशनं सुरतनगरे सम्पादयितव्यमित्यस्य प्रधान कारणम् अयं बहिष्कारयोगः । प्रथमं 'लाहोर'नामकनगरम् अधिवेशनस्य स्थानं निर्धारितमासीत् । परं तनाध्यक्षस्थानं लोकमान्या एव भूपयिष्यन्तीति सम्भयं दृष्ट्वा नेमस्तपक्षीयैस्तन्नगरं सक्त्वा नागपुरनगरं निश्चितम् । तत्रापि राष्ट्रियपक्षस्य बहुमतम् । लोकमान्या एवाध्यक्षस्थाने नियोक्तव्या इति तत्रत्यानां राष्ट्रियपक्षीयाणामाग्रहः । अवर्धत एवायं विवादः। परं मेथा-गोखलेप्रभृतिभिः पूर्वमेय तथा नियोजितं यथा सुरतनगरस्थनेमस्त- पक्षीयैः राष्ट्रियसभाधिवेशनाय निमन्त्रणं दातव्यमिति । एवं मुम्यापुर्याम् फेरोजशहा मेथा' महोदयानां सदने राष्ट्रियसभासमित्याः अधिवेशने सुरत- नगरनेमस्तपक्षीयैनिमन्त्रणं दत्तम् । मेथा-गोखलेप्रभृतिभिस्तत्स्वीकृतम् । इमं विपयमधिकृत्य लोकमान्या लिखन्ति 'साम्प्रतमीदृशी स्थितिः । यन कुवापि मेथामहाशया राष्ट्रियसभा नयन्नु । तत्र राष्ट्रियपक्षसदस्यैरुपस्थातव्यम् । परम् अयं विवादो न समाप्तः' इति । २० अध्यक्षपदम् राष्ट्रियसभाधिवेशनं सुरतनगरे ग्रहीतव्यमिति यथा मेथा-गोखले- प्रभृतिभिर्निश्चिवम् , तथा अध्यक्षस्थाने 'राशविहारी घोप'महाशया नियो- कन्या इत्यपि निश्चितप्रायम् । अन्यस्मिन्नेवानि लाला लजपतरायमहा. शया बन्धनान्मुक्ता इति वार्ता सर्वत्र प्रसृता । तेपामभिनन्दनार्थ स्थाने १५० लोकमान्यटिळकचरितम् स्थाने प्रस्तावाः सम्मताः । तथा राष्ट्रियसभाध्यक्षस्थाने तत्रभवन्त एव नियोक्तव्या इत्यपि लोकैः सूचितम् । स्वागतसमित्याः कार्यालये पत्राणि विद्युत्सन्देशाश्च सर्वतः प्राप्ताः । सुरतनगरेऽपि स्वल्पो राष्ट्रियपक्ष आसीत् । तं समाधातुं गोखलेमहाशया मेथामहाशयैः प्रहिताः । राष्ट्रियपक्षसदत्येभ्य- स्तैः कथितम् 'लजपतरायमहाशयानां निर्वासनविषयमधिकृत्य अधिवेशने प्रस्तावः कर्तव्यः । तस्मादध्यक्षस्थाने तत्रभवतां नियुक्तिरसमञ्जसा' इति । परं राष्ट्रियपक्षेण प्रत्युक्तम् , 'लजपतरायमहोदयानामध्यक्षस्थाने नियुक्तिः प्रस्तावानां शतमतिरोते । अतस्तेभ्य एवाध्यक्षपदं दातव्य'मिति । सभा- धिवेशने अध्यक्षस्थानार्थ लजपतरायमहाशयानां नाम सूचयितुं प्रतिरोधे जाते राष्ट्रियपक्षसदस्यैः सभात्यागः कृतः । अधिकारिपदस्थानां मदरतु अयमेव । अनन्तरं ' राशविहारी घोप 'महाशयानां नाम यथाविधि सूचितं सम्मतं चाभूत् । अनेन प्रस्तावेन प्रक्षुब्धं जनमतम् । एकस्मिन् पक्षे राष्ट्रियसभाधि- कारिवर्ग आसीत् । अन्यस्मिन् पक्षे भारतीयजनमतम् । अनयोर्विवादे एक एव उपाय आसीत् यत् 'राशविहारी घोप'महाशयैरध्यक्षपदं न स्वीकार्य- मिति । लोकमान्यैर्वड्गदेशे ‘वाबु मोतीलाल घोप'महाशयेभ्यः पत्रे लिखितम् 'राजकारणतत्त्वार्थ पादयोः पतित्वाऽपि प्रार्थयितुं सन्नद्धोऽ. स्म्यहम् । केनाप्युपायेन लजपतरायमहोदयेभ्योऽध्यक्षस्थानं दातुं राशबिहारी घोपमहाशयैस्तन्न स्वीकार्य मिति । केसरिपत्रे लोकमान्यैरेकमग्रलेखं मुद्र- यित्वा भारतस्याभ्युदयार्थ लजपतरायमहोदयकृतस्वार्थत्यागस्तथा उपभुक्ता आत्मक्केशाश्च शतगुणेन वरिष्ठा इति विस्तरेण वर्णितम् । शासनसंस्थातोऽधि- कारग्रहणार्थ राष्ट्रियसभा प्रवृत्ता । अतः शासनसंस्थया सह तस्याः कलहो निसर्गसिद्धः । अधिकारिजनेभ्यः किं रोचते, किं न रोचते इति राष्ट्रिय सभया किमर्थ द्रष्टव्यम् । उक्तं च-- नरपतिहितकर्ता द्वेष्यतां याति लोके । जनपदहितकर्ता त्यज्यते पार्थिवेन ॥ इति । लजपतरायमहाशयानां सत्कारोऽध्यक्षपददानेन कर्तव्यः। तदेव समीचीनं भवेत् । अन्यथा तूष्णीं स्थातव्यम् ।

राष्ट्रियसभापर्व १५१ स्वागतसमित्या यद्यपि राशविहारी घोपमहाशयानां नाम निश्चितं तथापि राष्ट्रियसभायाः अधिवेशने प्रथमं यदा अध्यक्षपदार्थ नाम सूच्यते तदा अन्यस्यापि नाम सूचयितुं प्रतिनिधीनामधिकारो वर्तत एव । प्रस्ताव- शब्दरचनां मेथामहाशया वा गोखलेमहाशया या कुर्वन्तु नाम । राष्ट्रियसभा प्रगतिपथमानेतुं राष्ट्रियपक्षसदस्याः संख्यावाहुल्येनोपतिष्ठन्तु । तथैव नेमतपक्षीयों मेथामहाशयैर्वा यदि किंचिदपकृतं तर्हि तत् शान्तचित्तेन सोढव्यम्। परं कोऽप्यपचारो न कर्तव्यः इति । २१ 'सुरत'नगरे राष्ट्रियसभाऽधिवेशनम् राष्ट्रियसभाभगः राष्ट्रियसभाया इतिहासे १९०७ संवत्सरे 'सुरत'नाम्नि नगरे जातस्य राष्ट्रियसभाऽधिवेशनस्य वृत्तान्तश्चिरस्मरणीयः।न भूतो न भविष्यतीत्येता- दृशोऽयं प्रसङ्गः । यैः स प्रत्यक्षीकृतः -भाग्यवन्तः ते (!)-ते तं कदाऽपि न विस्मरन्ति, कथाप्रसङ्गे च तं रसपूर्णवाण्या वर्णयन्ति । भारतस्य सर्वेपु विभागेपु जनानां मनसि नवचैतन्यं समुद्भूतम् । वगदेशविभजनं तस्य मूलकारणम् । अतीते संवत्सरे राष्ट्रियसभाध्यक्षपदे विराजमानः 'दादाभाई नौरोजी'महोदय रतस्याभ्युदयार्थ चत्वारि सूत्राण्युद्घोपितानि 'स्वदेशी-बहिष्कार-राष्ट्रियशिक्षण-स्वराज्य'नामकानि । तेवेकं स्वराज्यं साध्यरूपम् , अन्यानि तस्य साधनानि । एतानि तत्त्वानि प्रस्तावेष्यपि प्रथितानि । परम् एते प्रसाचाः मेथामभृतीनां नेमलानां रचि नावहन् । अतस्तेः सर्वत्र यथावसरमात्मनो विरोधः प्रदर्शितः । ज्ञातमेय तत्सर्वैः मुरतप्रादेशिकपरिपदि । मेधाप्रभृतीनां विचारस्तु एते प्रस्तावा न पुरस्कार्याः राष्ट्रियमभायाः अस्मिन्नधिवेशने इति । महद्विवादस्थानमेतत् । राष्ट्रियपक्षस्य मतेन एकदा बहुमतेन सम्मता जाताः प्रस्तावा अनुसरणीया एय । अद्यावधि प्रार्थनापत्रनिवेदनपत्रैर्न किमपि लब्धम् । स्यातनामानो ज्ञानवृद्धा नौरोजीमहाशया एतान् पुरस्मृनयन्तः । सर्येषु भारतविमागेपु राष्ट्रपार्यप्रवणानां लोकधुरीणानां तथाऽनुभयवृद्धानां जनानामेतदेय मतं यदेते प्रमायाः पुरस्त्रार्या एवेति । अपुरस्सारे रिशेपामहन्तु मेथा-गोसले. प्रभृतीनामेमा राष्ट्रियसभायाः साणि सूपाणि मेधाप्रभृतीनां हस्ते आसन् । .

१५२ लोकमान्यटिळकचरितम् अतस्तेषां प्रभुत्वं सभायाम् । लोकमान्यप्रभृतीनां राष्ट्रधुरीणानां मते एत- दयुक्तम् । उभयपक्षीयैः राष्ट्रियसभाऽऽक्रमणस्य सर्वे उपाया अवलम्बिताः । प्रधानप्रश्नस्तु राष्ट्रियपक्षस्य बहुमतं कथं भवेत् ? तस्मिन् विपये राष्ट्रिय- पक्षीयैर्निश्चितं राष्ट्रियपक्षस्य सर्वैः सदस्यैः सुरतनगरेऽधिवेशनायोप- स्थातव्यमिति । द्वितीयः प्रश्नः अध्यक्षपदस्य । कस्मै इदं दातव्यम् ? राष्ट्रियपक्ष- सदस्यानामाग्रहो लाला लजपतरायमहाशयेभ्यो दातव्यः स बहुमानः । मेथा- प्रभृतिभिर्निश्चिताः राशविहारी घोपमहाशयाः। तस्मादुभयपक्षीयाः सेना- पतयः स्वसेनासमूहैः सह सुरतनगरे अधिवेशनात्प्रागेवोपस्थिता अभूवन् । अध्यक्षपदविपये महान् सङ्घर्पः समुद्भूतः । लजपतरायमहाशयैरध्यक्ष- पदं न स्त्रीकर्तव्यमित्यस्मिन् विपये मेथाप्रभृतिभिः कृतः समुद्योगः सफलो जातः । एवं जाते राष्ट्रियसभाधिवेशनात् प्राक् लजपतरायमहाशया यदा कार्यार्थ मुम्बापुरी समागतास्तदा तत्रस्थनेमस्तधुरीणैस्तेषां सत्कारोऽपि न कृतः। सुरतनगरं समागतेपु लोकमान्येपु एका सभां निमन्त्र्य 'वावु अरविंद घोप'महाशयानामध्यक्षत्वे राष्ट्रियपक्षस्य स्थापना कृता । राष्ट्रियसभाधिवेशने मतदानसमये राष्ट्रियपक्षसदस्यैः कथं वर्तितव्यम् , अध्यक्षमहाशयानां निर्वा- चनकाले किं कर्तव्यमित्यस्यापि विमझे जातः। कलकत्तानगरे राष्ट्रियसभायाः अधिवेशने सम्मताः प्रस्तावा यथापूर्व सम्मन्तव्याः एवमेव राष्ट्रियपक्षस्य विज्ञप्तिः । यद्येपा नेमस्तपक्षस्य सम्मता, तर्हि तेपामध्यक्षा घोपमहाशया राष्ट्रियपक्षस्य सम्मता भवेयुरिति सामोपायो राष्ट्रियपक्षस्य मान्यो जातः । लजपतरायमहाशया यदा सुरतनगरं समायातास्तदा तेपामभूतपूर्व स्वागतं नागरिकैः कृतम् । राष्ट्रियसभाध्यक्षाणां स्वागतादधिकतरं स्वागतं फेरोजशहामहाशयानाम् । ततोऽप्यधिकतरं लोकमान्यानां लजपतराय- महाशयानां च। २२ अधिवेशनमः निश्चिते दिवसे द्विवादनवेलायामधिवेशनस्य प्रारम्भः भ्यक्षाणां 'मालवीय'महाशयानां भाषणेन जातः भाषणं यद्यपि दीर्घमासी- राधाऽपि श्रोतृगणेन सर्व शान्तचिन्तेन श्रुतम् । अनन्तरं सभापतीनां नाम स्थागता.

राष्ट्रियसभापर्व सूचयितुं यदा 'अम्बालाल देसाई'महाशया उत्थितास्तदा सदस्येपु कोलाहलः समुत्पन्नः । कथमपि समापिते तैः स्वभापणे 'सुरेन्द्रनाथ वानर्जी'महाशया वक्तुमुदतिष्ठन् । तदा श्रोतृवृन्देन महान् कलकलः कृतः । तेषां भापणं श्रोतुं न कोऽपि समुत्सुकः । अस्याप्येकं कारणमासीदिति श्रूयते । मिदनापुर'- प्रकरणे वानर्जीमहाशयानामाचारोऽविचारपूर्वको जातः इति श्रूयते । अतस्तेऽप्रिया जाता । बगदेशीयास्तन्नासहन्त । वानर्जीमहाशया मञ्चोपरि स्थित्वा धीरगभीरखरेण वक्तुं प्रायतन्त । स्वागताध्यक्षाः सततं घंटानाद- मकुर्वन् । परं न कोऽपि सदस्यः भापणं श्रुतवान् । न वा तूष्णीं भूत्वा स्थितवान् । प्रतिक्षणमवर्धत सागरकल्लोल इव प्रतिनिधिकोलाहलः । स न शाम्यतीति ज्ञात्वा स्वागताध्यक्ष मौलवीय'महाशयैः कैश्चित्सभ्यैः सह मन्त्रं कृत्या तस्मिन् दिवसे स्थगितमधिवेशनम् । केचन सदस्या रोपेण सभास्थानं नात्यजन् । विरुद्धपक्षीयाः सभा- कार्य संचालयिष्यन्तीति मत्वा केचिदन्ये यहि गच्छन् । स्थले स्थले पिवादाः समजायन्त । सामोपायाः पुनः समारब्धाः । 'चुनीलाल सरय्या- लाला लजपतराय'प्रभृतिमिर्वरिष्ठैः प्रतिष्टितैर्मभ्यस्थभूमिका स्वीकृत्य सामो- पाये साहाय्यं कृतम् । परं सर्व तन्निष्फलमभूत् । लोकमान्याः स्वयं सामोपचारार्थ स्वागताध्यक्षाणां दर्शनार्थ गताः । परं संध्याकर्मणि व्यापृता- स्ते अपसराभावे दर्शनं नायच्छन् । स्वागतसमित्या निश्चितानां प्रसावा- नामेकं मुद्रितपन्न प्रमादेन लोकमान्यानां हस्ते पतितम् । तस्मिन्नपि सामोपायानां न कोऽपि मार्गो दृष्टः । अतोऽध्यक्षमहोदयानां सूचनासमये विरोध दर्शयितुं लोकमान्यनिश्चितम् । स्वागताध्यक्षेभ्यो मालवीयमहाशयेभ्यः पत्रं लिसित्वा अध्यक्षपदस्य सूचनायाः प्रत्यक्षं विरोधमत्या अध्यक्षाणां निर्वाचनं स्थगयित्वा सामोपचारार्धमेका समितिलोकमान्यैः सूचिता । उत्तर- प्रेपणाय पुरषोऽप्येकः प्रहितः । तथाप्युत्तरं न लब्धम् । २३ लोकमान्यविरुद्धपचार: एपेय रात्रिरर्यरिता । साऽपि रजनी सूक्तासूसोपायर्लोकमान्य- विरुद्ध जनमतं क्षोभयितुं मुरननगरामीभिर्यापिता । एकस्मिन् पत्रके लेसमेन स्वनामो समकृत्या इदं लिखितमासीत् " शृणुन रे मुरनपौराः, २.

लोकमान्यटिळकचरितम् उत्तिष्ठत, जागृत । युष्माकं मुखानि लोकमान्यैः कलङ्कितानि । तानि प्रथमं क्षालयत । स्ववृत्तपत्रे लोकमान्यैर्युप्मभ्यं दत्तानि निन्दाव्यञ्जक- विशेपणानि 'धी गुजराथी' इति नामकेन वृत्तपत्रेण प्रसिद्धिं नीतानि । उत्तरं दातुं लोकमान्या असमर्था अभूवन् । गुर्जरवान्धवा मया न निन्दिता इत्यपि तैरुक्तम् । तथैव गुर्जरयन्धूना साहाय्यं याचितम् । विप्रलम्भन- मेतद्युप्माकम् । व्याख्याने तैरुक्तं नाहमत्रागतो राष्ट्रियसभाविभजनार्थ- मिति । परं पूर्वस्मिन्नहनि प्रत्यक्षीकृतं युष्माभिर्यलोकमान्यानां राष्ट्रियपक्षण कृतम् । अद्य पुनः समाधिवेशनं वर्तते । अतो युष्माभिः कथं वर्तितव्यम् ? सभास्थाने टिळकपक्षीया यथा संक्षोभं न जनयिष्यन्ति तथा यूयमा चरिष्यथ । अथवा लोकमान्यैः स्वसम्पादितवृत्तपत्रे यल्लिखितं तत्सत्यमेवेति दर्शयिष्यथ । पुरा द्विवारं शिवाजीमहाशयेन सुरतनगरं विलुण्ठितम् । तदेव तेनोक्तम् 'पुनरेकदा विलुण्ठयिष्यामी'ति । स पुनरागन्तुं नाशक्नोत् । परम् अद्य टिळकमहाशयः समागतः । स युप्माकं कर्णी, नासिकां च छित्त्या गमिष्यतीति कृत्वा उत्तिष्ठत, जागृत" इति।लोकमान्येपु जातिद्वेपारोपोऽपि कृतः । सुलभोऽयमुपायः । कोऽपि जनो झटित्यस्मिन् विश्वसेत् । अनेन हस्तपत्रकेण प्रक्षुब्धमखिलं सुरतनगरं लोकमान्यविरुद्धम् । भृगुवासरे प्रातःकालमारभ्य स्वागतसमित्याऽधिवेशनमण्डपे स्थले स्थले हिन्दुनाविकास्तथा संक्षोभकारिणो यवनाः एकीकृत्य स्थापिताः । केचन स्वयंसेवकाः सगृहीताः । परं ये टिळकपक्षीया इति सन्देहस्तेभ्यः प्रवेशो न दत्तः । ये गुर्जरदेशीयाः सभास्थानमागतास्ते सर्वे हस्ते यष्टी- गृहीत्वैवागताः । रक्षापुरुपा अपि पूर्व निवेदिता आसन् । मध्याह्नसमये एफवादनवेलायामेय सभास्थानं सदस्यपूर्णमासीत् । पूर्वदिनस्योर्वरितं कार्य समारब्धम् । सुरेन्द्रनाथ यानर्जीमहाशया आत्मनो व्याख्यानं समापितयन्तः । जातं सर्व विस्मृत्य कार्य फरणीयमिति सेः प्रार्थितम् । अनन्तरं घोपमहाशया अध्यक्षस्थानमलफुर्वन्तु इति सूचना अनुमोदनेन सह सभाया. पुरत आगता । तम्याः सम्मतिदर्शन समयः सम्प्राप्त इति शात्या प्रानिवेदितामुपसूचनां पुररपर्नु रोकमान्या व्यासपीठमगछन । प्रतिनिधीनां पुरत उपस्थाय उपमूननां पतुं यदा ते . राष्ट्रियसभापर्व १५५ भारमन्त तदा राशविहारी घोपमहाशयाः अध्यक्षपदप्रस्तावः सम्मतो जात इति मत्वा स्वयमुत्थाय वक्तुं प्रारभन्त । निर्वाचनेन अध्यक्षस्थाने मम नियुक्तिः इति प्रस्तावः सम्मतो जातः । साम्प्रतमहम् अध्यक्ष इत्युक्त्या यावदात्मनो मुद्रितं भापणं वाचयितुं ते प्रारमन्त वावल्लोकमान्यैः कथितम् अध्यक्षस्थाने अनभवतां नियुक्तिरिति प्रस्तावो नाद्यापि सम्मतः । तस्यैव प्रस्तावस्य उपसूचनां कर्तुमहमत्रोपस्थितोऽस्मि' । लोकमान्यैरेयमुक्त 'युक्तम् , अयुक्तम् , समीचीनम् , असमीचीनम्' इति तारस्वरेणाकोशो मण्डपे सपनो- स्थितः । स्वागतसमित्याः सदत्येपु टिळफमहोदयानां नामोच्चारणपूर्वकं गुर्जर. भापायामुच्चारिता अपशब्दा लोकैः श्रुताः । केचिदवदन् 'भोः टिळकमहाशयाः, आगच्छत व्यासपीठादधः' इति । लोकमान्याः प्रत्यवदन् 'अधः आगच्छत इति ब्रुवाणाः के यूयम् ? अस्मिन् विपये अहमध्यक्षमहाशयानामप्याज्ञां न पाल्यामि । यदि धृष्णुथ तर्हि मामुद्धृत्य अधो निधत्थ' इति । टिष्टकमहा- शयानागुपरि प्रक्षेनु 'येकुण्ठलाल देसाई 'नामकेन सदरयेन एकं विष्टरं समुद्धृतम् । अन्ये केचन लोकमान्यानमियातुमुद्यताः । एवं स्थिते महा- सङ्कटे लोकमान्याः पतिता इति ज्ञात्या अधस्तान्निपण्णास्तेपां वयस्यास्तान संरक्षितुं व्यासपीठं गन्तुमुद्यताः । अत्रान्तरे केनापि सदस्येन पादत्राण- माकाशे प्रक्षिप्तम् । फेरोजशहा मेथा-सुरेन्द्रनाथ वानर्जी-लोकमान्यटिळक- महाशयाः मिथो निकटवर्तिनः आसन् । तेषु मेथा-सुरेन्द्रौ मृदुमधुरं स्पृष्ट्वा तत् पादत्राणं मञ्चोपरि पतितम् । व्यासपीठस्य समीपं, तथा मण्डपस्य पूर्वभागे प्रथम हस्ताहस्ति द्वन्द्वं प्रवृत्तम् । अनन्तरं विष्टर- प्रक्षेपणम् । ततो दण्डादण्डि युद्धं समारब्धम् । अल्पेनैव कालेन नेमस्त- पक्षीयाः सर्व सदस्याः पश्चिमद्वारेण मण्डपावहिनिर्गताः । व्यासपीठे केवलं लोकमान्यास्तेषां मित्राणि चासन् । अस्मिन् काले आदावेव स्थाने स्थाने प्रस्थापिता नाविकास्तथा संक्षोभकारिणो यवना आविरभूवन । रक्षापुरुषा अपि समागताः । व्यासपीठं गच्छन्तो जनास्तैर्निरुद्धाः । अन्ये मण्डपा- निष्कासिताः । 'कौजलगी-देशपाण्डे'नामको द्वौ सदस्यौ प्रहारैर्विद्धौ। किश्चिदुधिरमपि भूमौ पतितम् । रक्षापुरुपैः सर्वः सभामण्डपो निर्मानुप; कृतः।

लोकमान्यटिळकचरितम् अनेन प्रकारेण राष्ट्रियसभायाः अधिवेशनं न जातम् । भन्ना राष्ट्रियसभा । आत्मनः पृथक् सभा स्थापयितव्या इति नेमस्तपक्षीयैर्मेथा- प्रभृतिभिः प्रागेव निश्चितमिति दृश्यते । उभयपक्षनेतारः सुरतनगरे कंचित्कालमासन् । ' मोतीलाल घोप-मैत्र-चतर्जी-हरकिसनलाल'प्रभृतयो नेतारो लोकमान्यान् द्रष्टुं गताः । अधिवेशनं वयं कुर्मः इति तेऽब्रुवन् । लोकमान्या अपि मित्रगणेन सह सम्मन्न्य तानलिखन् । वयमपि सभा कर्तुं सन्नद्धाः । परं तत्र सङ्केतद्वयं वर्तते । भवन्तु नाम अध्यक्षाः घोप- महाशयाः । परं कलकत्तानगरे सम्मता जाताश्चत्वारः प्रस्तावा अस्मि- नप्यधिवेशने मान्या भवन्तु । तथैव अध्यक्षीयभाषणे राष्ट्रियपक्षाव- मानार्थ ये शब्दा घोपमहाशयैरुक्तास्ते भापणाद्वर्जनीया इति । भग्नायां राष्ट्रियसभायामुभयपक्षीयैरात्मनो निवेदनपत्राणि प्रकाशि- तानि । नेमस्तपक्षीयैलिखितम् “ टिळकपक्षोऽधिवेशनात्प्रागेव सभाभगाय सन्नद्ध आसीत् । अध्यक्षाः पूर्वमेव नियुक्ता आसन् । अध्यक्षमहोदयानां प्रवेशकाले एव तेपां हस्ते एकेन स्वयंसेवकेन टिळकलिखितं पत्रं निहितम् । तस्मिन् पत्रे सूचितमासीत् कंचित्कालमधिवेशनकार्य स्थगयितव्यमिति । सदयुक्तमिति अध्यक्षमहोदयैश्विन्तितम् । सुरेन्द्रनाथमहाशयानां भाषणानन्तरं 'पण्डित मोतीलाल नेहरु'महाशयै पितम् । अध्यक्षाणां सूचना सभया सम्मता । अनन्तरं घोपमहाशया वक्तुं प्रारभन्त । टिळकमहाशया व्यासपीठमागय आत्मनः उपसूचनां वाचयितुं वक्तुं च प्रारभन्त । अध्यक्षैरनुज्ञा न दत्ता । अनुज्ञामविगणय्य वक्तुमेव तेपामामहः । महान कोलाहलः समुद्भूतः । कैश्चिदध्यक्षाणां विरोधः प्रदर्शितः । कैश्चित् टिळक- महाशयानां विरोधः प्रदर्शितः । परां कोटिं गते अस्मिन् विग्रहे समाता सभा इति अध्यक्षरुद्घोपितम्" इति । राष्ट्रियपक्षेण निवेदितम् “ फलकत्तानगरे राष्ट्रियसभाया अधिवेशने सम्मताः प्रताया यवि परागतिपथं न अनेप्यन्त तर्हि लोकमान्याः किमपि नोपासूचयिष्यन् इत्याश्वासनं दत्तपूर्वम् । लजपतरायमहाशयेरपि मध्यस्थस्य भूमिका स्वीकृत्य प्रयतितम् । टिळक-सापर्डे-अरविन्द घोप-मोतीलाल पोपमहाशयः सुरेन्द्रनाथानां दर्शनं गृहीत्या स्वयं निवेदितम् । तेषां निवेदनं राष्ट्रियसभापर्व १५७ निशम्य सुरेन्द्रनाथमहाशयालवीयमहाशया निमन्त्रिताः । परं तैः यस्यापि दर्शनं न स्वीकृतम् । राष्ट्रियपक्षम्य सर्वे प्रयत्नाः नेमनपनीयविफलीकृता इति ज्ञात्वा टिळझमहागयरुपसूचनां कर्नु पूर्वसूचना लेसेन दत्ता । उत्तरमपि तस्याः न प्राप्तम् । स्वागतसमित्याः एकः कार्यवाहः टिठकमहाशयान हस्तेन प्रहीतुमधृष्योन् । परं गोग्यलेमहाशयः स प्रतिपिद्धः" । राष्ट्रियपणेवं बहु लिसितम्। २४ वार्ताहरलिखितवृत्तान्तः 'नेव्हिसन् 'नामकः कश्चित् परदेशस्थवृत्तपत्रवार्ताहरो 'राशविहारी घोष'प्रभृतिभिः सह कलकत्तानगरात् मुरतनगरं प्राप्तः । तस्य भोजन- निवासस्थानादिव्यवस्था पृथगासीत् । नेमस्तैः सह बहुवारं मिलित्या स मन्त्रं कृतवान् । अतो राष्ट्रियपक्षस्य विचारधारा तस्य न तथाऽवगता, यथा नेमलपक्षम्य । तेन मम्पादिते प्रन्ये मुरतनगरराष्ट्रियसभावर्णनं विद्यते । नेमसराष्ट्रियपक्षीये प्रकाशितानि निवेदनानि पूर्वग्रहदूपितानि सम्भ- विष्यन्तीति केचिन्मन्येरन् । परं परदेशस्थवार्ताहरलिसितवृत्तान्तोऽल्पांशेन पूर्वग्रहदूषितः स्वादिति कृत्या ' नेव्हिसन्'महाशयसम्पादितग्रन्थात् अत्र किश्चिदुद्धियते । पक्षातीतेन कृतस्य वर्णनम्य महत्त्वमधिकं विद्यते । नेव्हिसन महाशयो लिगति " "सिसमस'दिवसे वयं सर्वे सुरतनगरं प्राप्ताः । महान् जनसमूहो धूमशकटस्थाने उपस्थितोऽभूत् । अतो धूमशकटादवतरितुं विलम्बो जातः । 'वन्दे मातरम्' इति जयघोपेण निनादितमसिलं नमः, वधिरौ च कर्णो । सुगन्धिजलसिञ्चनमप्यासीत् । परमत्रापि मृत्युशब्दो विप्र- कृष्टात् श्रुतः । 'डाक्का विभागप्रशासको गुलिकाप्रक्षेपणेनासन्नमृत्युर्भूत्वा रुग्णालये वर्तते इति वार्ता कर्णपथमागता । गौरकाया राज्यकारो योजन- सहस्रं सुदूरमाइग्लदेशे स्थिताः । तेभ्यो यदि राज्याधिकाराः प्राप्तव्या- स्तर्हि एतादृशेरधिकारिपुरुपवधैर्महानन्तरायो भवेदिति विचारेण विपण्णा नेमस्ताः । कलकत्तानगरे सम्मतानां प्रस्तावानां परिवर्तनं गोखलेमहाशयैः कृतम् । वयमेतन्न सहामहे इति राष्ट्रियपक्षस्य मतम् । संशयप्रस्तं वातावरणम् । अविश्वासः सर्वत्र । समाधिवेशनं नाग- पुरनगरे भविष्यतीति प्रथम निश्चितमासीत् । परं तत्स्थान परित्यज्य अधि.

१५८ लोकमान्यटिळकचरितम् वेशनाय सुरतनगरं स्वीकृतमिति प्रथममविश्वासकारणम् । शासनसंस्थया सह युद्धायोपयुक्तानि साधनानि अधुना जीर्णान्यभूवन् । इदानीमन्यानि साधनान्यपेक्षन्ते । वङ्गन्देशविभजनेन सर्व विपरीतं जातम् । लजपतराय- महाशयाः सन्धि कर्तुं प्रायतन्त । उभयपक्षीयाः पञ्च पञ्च सदस्या एकत्र मिलित्वा मन्त्रयेरनिति तैः सूचितम् । परं गोखलेमहाशयैरुक्तम् 'सार्धसहस्रं प्रतिनिधिसंख्या । तेषां कृते पञ्च सदस्यान् सूचयितुमधिकारो मां केन दत्तः ' इति । लोकाग्रणीनां गमनागमन , मन्त्रविनिमयः सर्वत्रावर्तत ।' टिळक-खापर्डे -अरविन्द घोप-मोतीलाल घोप'महाशयैः सुरेन्द्रनाथ बानर्जीमहाशया दृष्टाः । लोकमान्यैः सूचितम् ' कलकत्ता- नगरे जाते अधिवेशने सम्मताः प्रस्तावा यथापूर्वमत्रापि सम्मता भवेयुः। अध्यक्षस्थाने लजपतरायमहाशयानां नियुक्तियदि न स्यात्तर्हि तेषां गौरवार्थ किञ्चिद्वक्तव्यमवश्यं भवति । एवं जाते अध्यक्षस्थाने यदि कोऽप्यन्यो नियुज्येत तर्हि वयं विरोधं न दर्शयेम' इति । सुरेन्द्रनाथानामेतत् सम्मतम् । परं तैः सूचितम् ‘गोखले-मालवीयमहाशयानां दर्शनार्थ गन्तव्य'मिति । गोखलेमहोदयानां दर्शनार्थमेते न गताः । मालवीयमहाशयैरेते न दृष्टाः । अपराहकाले अधिवेशनार्थ पोडशशतं सदस्या उपस्थिता अभूवन् । अध्यक्षमहोदयाः सभास्थानं सम्प्राप्ताः । स्वागताध्यक्षाणां मालवीयमहाशयानां भापणं समाप्तम् । 'अम्बालाल'महाशयानां पश्चात्सुरेन्द्रनाथ बानर्जीमहाशया वक्तुमुत्थिताः । वदनसम्पुटमुद्घाट्य पञ्चपान शब्दान् वदत्सु तेषु धन- गर्जितमिव महान् कोलाहलः समुद्भूतः । व्यासपीठस्य दक्षिणभागे निपण्णाः सदस्या आसनादुत्थायोथेरानोशन् । नागपुरविभागस्था येते प्रतिनिधयः । 'मद्राम'प्रदेशस्थाः श्वेतोप्णीपधरास्तेः सह सम्मिलिताः । घोपमहाशयाः क्रोधायिष्टचेतसः तारस्वरेणाकोशन् । गोसलेमहाशया उद्विनमानसाः अभूवन । केचिद्वदन्ति 'अपमानिता राष्ट्रियसभा' । अन्ये ग्रुयन्ति 'अपमानितो यगदेशः' ।माल्यीयमहाशयेविसर्जितं तस्य दिवसस्या. धिवेशनम् । लोकमान्यनिकटवर्तिनः केळकरमहाशया राष्ट्रियपक्षीयाः । तैः सह सम्भापणे तेऽयदन् 'पोलाइलो भविष्यतीति न फेनापि तम्तिम् । अध्यक्षाणां निर्वाचनकाले विरोधो दर्शयितव्य इत्यस्मामिर्निर्धारितम् । पर राष्ट्रियसभापर्व २५९ तस्य नायं प्रकार. 1 नाभविष्यदयं पोलाहलो यघरमाकं सामोपायानामुत्तरं वयं प्राप्याम' इति । बिना बिलम्यं गतोऽहं टिटरमहागयान् प्रति । ते मामयदन "पत्रस्योत्तरार्थ विलम्यो जातः । तम्यायं दुर्विपाकः । गोसले- महाशयरिदानीमेव प्रेपिताः प्रस्तावाः । तेवर तत्र अंगतो भेद आसीत् । परं बहिष्कारप्रस्तावे महत्परिवर्तनं दृष्टम् । नेमन्तराष्ट्रियपनयोः सर्वे मत- भेदा अस्मिन् प्रसाये समाविष्टाः । पहिणारशब्दस्यार्थः अन्यदेशनिर्मित- वस्तूनामपरिग्रहः इति न कृत्या पहिफारयोग इति यदि क्रियेत तर्हि राष्ट्रियसभाया आधारस्तम्भो विनष्टो भवेत् । राष्ट्रियसभायां 'जहाल पक्षस्य प्रापल्यं भवेत् । तेषां हले सभायाः सर्वाणि सूत्राणि गच्छेयुः" इति । एतादृशेषु मतभेदेषु सत्सु सामोपायाः कथं सफलीभवेयुः १ वहि- प्कारस्य प्रस्तावे कृतं परिवर्तनं मूलमादि । दिळक-गोसले-वानर्जीमहाशया एकत्र मिलित्या यदि मन्त्रयेरन् तर्हि कोऽपि पर्यायो निप्पद्येत । पर निष्फलमेतत्सर्वम् । सङ्घर्पण मतभेदाः परां कोटिं गताः । उभयपक्षीयाणां लजाको राष्ट्रियसभाभगः इति सर्वेषां सम्मतम् । न कोऽपि निद्रासुख- मलमत तस्यां निशायाम् । अन्यस्मिन्नहनि सर्व सदस्या अधिवेशनार्थ पुनरुपस्थिताः । घोपमहा- शयरात्मनो मुद्रितं भापणं समानीतम् । परं तरिमन भाषणे राष्ट्रियपक्षे टीकास्त्रं प्रक्षिप्तमासीत् । लोकमान्यानां कृते व्यासपीठे एकमासनमवर्तत । परं ते तस्य पुरत: अधोभागे एव न्यपीदन् । सत्कारपूर्व समायातेपु अध्यक्ष- महाशयेपु लोकमान्यैः स्वयंसेवकद्वारा पत्रं प्रेपितम् । इयं समा कंचित् फालं स्थगितव्या इति तस्मिन् पत्रे सूचितम् । विधायकसूचना फर्तुकामा लोकमान्या इति तस्याः सूचनाया अर्थस्तैरेवोक्त । परं मालवीयमहाशयः फथितं 'राष्ट्रियसभाया अधिवेशनमेव स्थगितव्यमिति तस्यार्थी मया ज्ञातः' इति । अर्थविषये बहुविवादो जातः । महासङ्कटपतितधूर्तमहानुभावसदृशं सुरेन्द्रनाथानां भाषणं जातम् । भाषणस्यादावन्ते च न केनापि करतलानि ताडितानि । 'मोतीलाल नेहरु 'महाशया अपि पञ्चपाणि वाक्यान्युक्त्या सूष्णीं बभूवुः।

१५८ लोकमान्यटिळकचरितम् वेशनाय सुरतनगरं स्वीकृतमिति प्रथममविश्वासकारणम् । शासनसंस्थया सह युद्धायोपयुक्तानि साधनानि अधुना जीर्णान्यभूवन् । इदानीमन्यानि साधनान्यपेक्षन्ते । वङ्गादेशविभजनेन सर्व विपरीतं जातम् । लजपतराय- महाशयाः सन्धि कतु प्रायतन्त । उभयपक्षीयाः पञ्च पञ्च सदस्या एकत्र मिलित्वा मन्त्रयेरनिति तैः सूचितम् । परं गोखलेमहाशयैरुक्तम् 'सार्धसहस्रं प्रतिनिधिसंख्या । तेषां कृते पञ्च सदस्यान् सूचयितुमधिकारो मां केन दत्तः' इति । लोकाग्रणीनां गमनागमनं , मन्त्रविनिमयः सर्वत्रावर्तत । 'टिळक-खापर्डे-अरविन्द घोप-मोतीलाल घोप'महाशयैः सुरेन्द्रनाथ वानर्जीमहाशया दृष्टाः । लोकमान्यैः सूचितम् ' कलकत्ता- नगरे जाते अधिवेशन सम्मताः प्रस्तावा यथापूर्वमत्रापि सम्मता भवेयुः। अध्यक्षस्थाने लजपतरायमहाशयानां नियुक्तिर्यदि न स्यात्तर्हि तेषां गौरवार्थ किञ्चिद्वक्तव्यमवश्यं भवति । एवं जाते अध्यक्षस्थाने यदि कोऽप्यन्यो नियुज्येत तर्हि वयं विरोधं न दर्शयेम' इति । सुरेन्द्रनाथानामेतत् सम्मतम्। परं तैः सूचितम् ‘गोखले-मालवीयमहाशयानां दर्शनार्थ गन्तव्य'मिति । गोखलेमहोदयानां दर्शनार्थमेते न गताः । मालवीयमहाशयैरेते न दृष्टाः । अपराहकाले अधिवेशनार्थ पोडशशतं सदस्या उपस्थिता अभूवन । अध्यक्षमहोदयाः सभास्थानं सम्प्राप्ताः । स्वागताध्यक्षाणां मालवीयमहाशयाना भापणं समाप्तम् । 'अम्बालाल'महाशयानां पश्चात्सुरेन्द्रनाथ बानर्जीमहाशया वक्तुमुत्थिताः । वदनसम्पुटमुद्घाट्य पश्चपान शब्दान् वदत्सु तेपु धन- गर्जितमिय महान् कोलाहलः समुद्भूतः । व्यासपीठस्य दक्षिणभागे निपण्णाः सदस्या आसनादुत्थायोथैराक्रोशन् । नागपुरविभागस्था होते प्रतिनिधयः । 'मद्रास'प्रदेशस्थाः श्वेतोष्णीपधरास्तैः सह सम्मिलिताः। घोपमहाशयाः क्रोधाविष्टचेतसः तारस्वरेणाक्रोशन् । गोखलेमहाशया उद्विनमानसाः अभूवन् । केचिद्वदन्ति अपमानिता राष्ट्रियसभा' । अन्ये ग्रुपन्ति 'अपमानितो बगदेशः' । मालवीयमहाशयेविसर्जितं तस्य दिवसस्या- धिवेशनम् । लोकमान्यनिकटवर्तिनः केळकरमहाशया राष्ट्रियपक्षीयाः । ते: सह सम्भापणे तेऽवदन् 'कोलाइटो भविष्यतीति न फेनापि तर्कितम् । अध्यक्षाणां निर्वाचनकाले विरोधो दर्शयितव्य इत्यस्मामिनिर्धारितम् । पर - राष्ट्रियसभापर्व २५९ तस्य नायं प्रकारः । नाभविष्यदयं कोलाहलो यद्यस्माकं सामोपायानामुत्तरं वयं प्राप्स्याम' इति । विना विलम्यं गतोऽहं टिळकमहाशयान प्रति । ते मामवदन् “पत्रस्योत्तरार्थ विलम्बो जातः । तस्यायं दुर्विपाकः । गोखले- महाशयैरिदानीमेव प्रेपित्ताः प्रस्तावाः । तेष्वत्र तत्र अंशतो भेद आसीत् । परं वहिप्कारप्रस्तावे महत्परिवर्तनं दृष्टम् । नेमस्तराष्ट्रियपक्षयोः सर्वे मत- भेदा अस्मिन् प्रस्तावे समाविष्टाः । वहिप्कारशब्दस्यार्थः अन्यदेशनिर्मित- वस्तूनामपरिग्रहः इति न कृत्वा बहिष्कारयोगः इति यदि क्रियेत तर्हि राष्ट्रियसभाया आधारस्तम्भो विनष्टो भवेत् । राष्ट्रियसभायां 'जहाल'पक्षस्य प्रावल्यं भवेत् । तेषां हस्ते सभायाः सर्वाणि सूत्राणि गच्छेयुः” इति । एतादृशेषु मतभेदेपु सत्सु सामोपायाः कथं सफलीभवेयुः ? वहि- प्कारस्य प्रस्तावे कृतं परिवर्तनं मूलपाहि । टिळक-गोखले-वानर्जीमहाशया एकत्र मिलित्या यदि मन्त्रयेरन् तर्हि कोऽपि पर्यायो निप्पद्येत । परं निष्फलमेतत्सर्वम् । सङ्घर्पण मतभेदाः परां कोटिं गताः । उभयपक्षीयाणां लजाकरो राष्ट्रियसभाभङ्गः इति सर्वेषां सम्मतम् । न कोऽपि निद्रासुख- मलमत तस्यां निशायाम् । अन्यस्मिन्नहनि सर्व सदस्या अधिवेशनार्थं पुनरुपस्थिताः । घोपमहा. शर्यरात्मनो मुद्रितं भापणं समानीतम् । परं तस्मिन् भापणे राष्ट्रियपक्षे टीकास्त्रं प्रक्षिप्तमासीत् । लोकमान्यानां कृते व्यासपीठे एकमासनमवर्तत । परं ते तस्य पुरतः अधोभागे एव न्यपीदन् । सत्कारपूर्व समायातेपु अध्यक्ष- महाशयेषु लोकमान्यैः स्वयंसेवकद्वारा पत्रं प्रेपितम् । इयं सभा कंचित् कालं स्थगितव्या इति तस्मिन् पन्ने सूचितम् । विधायकसूचनां फर्तुकामा लोकमान्या इति तस्याः सूचनाया अर्थस्तैरेयोक्तः । परं मालवीयमहाशयैः फथितं 'राष्ट्रियसभाया अधिवेशनमेव स्थगितव्यमिति तस्यार्थो मया ज्ञातः' इति । अर्थविषये बहुविवादो जातः । महासङ्कटपतितधूर्तमहानुभावसदृशं मुरेन्द्रनाथानां भापणं जातम् । भापणस्यादावन्ते च न केनापि करतलानि साडितानि । 'मोतीलाल नेहरु 'महाशया अपि पञ्चपाणि वाक्यान्युक्त्वा सूष्णी बभूवुः।

, लोकमान्य टिळकचरितम् मालवीयमहाशयैरध्यक्षपदार्थ सूचितं नाम सर्वैः स्पष्टं श्रुतम् । परं सा सूचना सम्मता जाता इति यदा तैरुक्तम् , तदा विविधप्रकारेण महान् कोलाहलः समुद्भूतः । तस्मिन् कोलाहले घोपमहाशयाः स्वस्थानं परित्यज्य अध्यक्षस्थानं समारुह्य कृतज्ञताप्रदर्शनार्थमेकं वाक्यमवदन् । तदेव तेषां भाषणस्यादिमं वाक्यं चरमवाक्यं चाभूत् । स्वभावगभीरा निर्भया लोक- मान्याः स्वस्थानं परित्यज्य अध्यक्षस्थानसंमुखं समागत्य तस्य पुरतः स्थित्वा विस्पष्टाक्षरैः स्वनिषेधमाविरकुर्वन् स्वविरोधमदर्शयंश्च । परम् एतत्सर्व ते शान्तमनसा स्थिरबुद्धया एवाकुर्वन् । धनगर्जितमिव तेषां शब्दं श्रुत्वा अहममन्ये 'अयं पुरुपसिंहो भवितव्यतां तृणाय कल्पते' । उक्तं च- 'दृष्टिस्तृणीकृतजगत्त्रयसवसारा' इति । मालवीयमहाशयास्तदाऽवदन् 'सभाविष्टम्भं सूचयितुमनभवन्तः असमर्थाः । टिळकमहाशयाः प्रत्यवदन् 'के अत्रभवन्तो मामवरुन्धन्ति ? नात्रभवन्तः सभाऽध्यक्षाः' इति । एतदुपरि घोपमहाशया अब्रुवन् 'अहमपि युप्मभ्यं तदेवादिशामि' इति । टिळकमहाशयाः प्रत्यभापन्त 'युष्माकं निर्वाचन नाद्यापि सभायाः सम्मतम् । अहं प्रतिनिधीन उद्दिश्य ब्रवीमि' इति । उत्तरं भापणं न केनापि श्रुतम् । स्वौ वाहू उरसि निधाय, कराग्रौ कुक्षिस्यौ कृत्या टिळकमहाशयास्तत्रैव व्यासपीठे अध्यक्षस्थानस्य पुरतोऽतिष्ठन् ! टिळकमहाशयानुभयतो नेमस्तपक्षीया युवानः उत्थायोत्याय अपकारार्थ हस्तविक्षेपानकुर्वन् । मुष्टीः यद्ध्या, मुखान्युद्धृत्य ते व्याक्रोशन् । केचिदयदन् 'प्रक्षिपत एतं व्यासपीठस्याधस्तात् । टिटकमहाशयस्य पृष्ठभागे घोपमहाशया मश्चमारुह्य तारस्वरेण निषेधशब्दमुथारयन्ति स्म ! परम् अस्मिन् महति सङ्घ कः कं शृणुयात् ! घोपमहाशया घण्टा निनादयन्ति । शान्तस्वभावा गोखलेमहाशया नेमलपक्षीयाणां क्रोधं सान्त्य- यन्ति स्म । उभौ वाहू विस्फार्य टिळकमहाशयान् संरक्षितुं तेषां (लोक मान्यानां ) निकटमेव गोखलेमहाशया अतिष्ठन् । परं टिटफमहाशया न फस्यापि साहाय्यं गणयन्ति । वक्षःस्थलनिहितयाहुः तिरस्कृतस्वकृतिपरिणामो. ऽयं पुरुषः अत्याचार या असूक्पातं या समाययते 'एत, अनागस मां हत 'इति । कोऽपि किमपि कुर्यात् । स्वर्ग गच्यानि या निरयं पतानि पा। , ५ राष्ट्रियसभापर्व नाहं पदात्पदमपि विचलिप्यामि इति । शुभ्रवस्त्रधारी श्रोतृवृन्दो घनगर्जनामकरोत् । अत्रान्तरे आकाशे समुत्पतितमेकं पादत्राणं सुरेन्द्रनाथ धानर्जीमहाशयस्य मुखकमलं मृदुमधुरं परिचुम्ब्य व्यासपीठे न्यपतत् । तामुपानहं दृष्ट्वा इयं सूचना विद्यते इति मत्वा श्वेतोप्णीपधारिणो जनाः जलनिधितरङ्गा इव क्रमेण व्यासपीठं समारुह्य हस्तयष्टी: आकाशे व्याधुन्वन् , क्रोधारुणनेत्राश्च व्याक्रोशन् । क्षणमात्रादेव उद्ध्वस्तमभूदधिवेशनम् । महान् जनसंक्षोभः समभूत् । न ज्ञातानि मित्राणि तथा रिपयः । युद्धेऽपि शौर्य , वीर्यमौदार्य च दृष्टम् । अत्रान्तरे रक्षापुरुपाः समायाताः । क्षणादेव सभामण्डपो रित्तो जातः । अन्येयुः पुनश्च सामोपायाः समारब्धाः । रक्षापुरुषाणां द्विशत सभामण्डपं प्राविशत् । तेषां संरक्षणे नवशतसंख्याकैर्नेमस्तपक्षीयैरात्मनो. ऽधिवेशनं समापितम् । प्रतिज्ञापत्रके स्वनाम लिखित्वा प्रवेष्टव्यमिति दण्डकेन एतैः सर्वैः प्रतिज्ञापत्रकं हस्ताङ्कनपूर्वकं दत्त्वा एकीभूय घोपमहाशयानामध्यक्षत्वे गोखलेमहाशयैः पुरस्कृताः सर्वे प्रस्तावाः स्वीकृताः । संवत्सरपर्यन्तं कार्य कर्तुमेका समितिर्नियुक्ता । अस्मिन्नधिवेशने लजपतरायमहाशयैरुद्घोपितम् " अहं प्राचीनायामेव राष्ट्रसभायां स्थास्ये" इति । अयमेव एकः पुरुषः सर्वानतिशेते इत्येव मनसि सर्वैश्चिन्तितं भवेत् । राष्ट्रियपक्षेणापि आत्मनोऽधिवेशनम् अरविंद घोपमहाशयाना- मध्यक्षत्वे संपादितम् । आयत्यां कार्यार्थमेका समितिनियुक्ता" इति । अन्यदेशीयतटस्थस्य साक्षिणः एवंविधं लेखनं विद्यते । अतोऽ- धिकतरं विश्वासार्हम् इति कृत्वा विशेपेणोल्लिखितम् । आकलूजपत्तनस्थेन कवलगीकरनाम्ना एकेन नेमस्तपक्षसदस्येनापि एवंप्रकारेण लिखितम् । २५ नेमस्तपक्षनिवेदनम् नेमस्तपक्षणात्मनो निवेदने स्वट्या साद्यन्तो वृत्तान्तः कथितः । सर्वो जनः आत्मीयं कान्तं पश्यति' इति वचनानुसारतोऽनेन पक्षण निवेदितम् " अस्मत्पक्षे न कोऽपि दोपः । सर्वो दोपो राष्ट्रियपक्षस्य । .

- १६२ लोकमान्यटिळकचरितम् सुरतनगराधिवेशनात्यागेव नेमस्तपक्षं निन्दितुं, दूपयितुं च प्रारभन्त केसरिपत्रे लोकमान्या. 1 नागपुरनगरतः सुरतनगरं राष्ट्रियसभायाः आगमनम् , अधिवेशनाध्यक्षविषयको विवादः, पूर्वाधिवेशनसम्मतानां प्रस्तावानां परिवर्तनं , तस्य कारणानि , नूतनप्रस्तावपत्रकप्रसिद्धीकरणे विलम्बः इति सर्व वृत्तं गोखलेमहाशयैरधिकारवाण्या समर्थितम् । समासेन परम्पराविरुद्धं न किमप्याचरितं स्वागतसमित्या । लोकमान्यैरेव नूतनः परम्पराविघातो निर्मितः । अद्यावधि सर्वे प्रतिनिधयः एकत्र न्यबसन् । परमस्मिन् सवत्सरे टिळकपक्षीयैरात्मनो निवासः पृथक् कृतः । प्रत्यहं सभायां भापित्वा प्रतिनिधिमनांसि कलुपीकृत्य पूर्वमेव सभाविरोधो लोक- मान्यनिश्चितः । अध्यक्षस्थानार्थमन्यन्नाम सूचयितुमशक्यमिति तैति- पूर्वमेव" इति । २६ राष्ट्रियपक्षनिवेदनम् राष्ट्रियपक्षस्य निवेदने लोकमान्यलिखितम् ॥ कः सत्पक्षः, कः असत् पक्षः इति तावत्प्रथमं ज्ञातव्यं भवति । अनन्तरं कस्य पक्षो दोपा भवतीत्यवलोकनीयम् । अस्माकं मतभेदास्तु मूलपाहिणः । कलकत्तानगरे राष्ट्रियसभाधिवेशने सर्वेषां प्रतिनिधीनां वहुमतेन प्रस्तावाः सम्मताः । तेपां परिवर्तने मेथाप्रभृतिभ्यः केनाधिकारो दत्तः ? वस्तुतस्तु स्वदेशी-स्वराज्य- राष्ट्रियशिक्षण-बहिष्कारादयो विपया मेथाप्रभृतिभ्यो न प्रियाः । अतः सम्मता अपि प्रस्तावास्तैर्न पुरस्क्रियन्ते । अतः प्रथमप्रश्नस्तु अयमेव । को रोचते राष्ट्रियसभाप्रतिनिधिभ्यः १ तामसप्रकृतिर्मुम्बापुरीस्थः 'औरंगजेव'- महाशय. (मेथामहाशयः) ? उत कलकत्तानगरे जातस्य राष्ट्रियसभाधिवेश- नस्याध्यक्षपदारुढो विख्यातनामा 'महर्पि' (दादाभाई नौरोजीमहाशय.) १ स्वागताध्यक्षैर्वा राष्ट्रियसभाध्यक्षैर्वा कृतोऽन्यायः प्रमादो वा अक्षम्य एव । सभाप्रतिनिधयरतं कथं सहेरन् ? उपसूचनाप्रेपणे सदस्यानामधिकारो धर्तते इत्यस्मिन् विपये शतशः प्रमाणानि वर्तन्ते । प्रथमतो मालवीयमहा. शयानामेवाचारो नियमबाह्यः । तेनाचारेण महति संक्षोभे जाते टिळक महाशया कथं दोपार्दा भवन्ति ? नि:पक्षपाती जनो यदि निर्णेतुमुपतिष्ठेन् तर्हि उभावपि पक्षी अंशतः दूपणीयो इत्येय ब्रूयात् " इति । - राष्ट्रियसभापर्व अनन्तरमुभयपक्षीयैरात्मनः पक्षौ स्थापितौ पुरस्कृतौ च । उभाभ्या. मपि एकैकां सभां पृथक् निमन्त्र्य, एकं प्रतिज्ञालेसं कृत्वा तस्योपरि हस्ता- इनं निर्दिश्य ये तं सम्मन्यन्ते ते एव सदस्याः सभागृहे प्रवेशमर्हन्ति इति निश्चितम् । नेमस्तपक्षस्य प्रतिज्ञापत्रके मेथा-गोसले-प्रभृतीनां विचारधारा- ऽऽसीत् । राष्ट्रियपक्षस्य प्रतिज्ञापत्रके कलकत्ताधिवेशनप्रस्तावानां पुनरुचार आसीत् । स्वराज्यं ध्येयम् । राष्ट्रियशिक्षणादीनि तत्साधनानि । येषां तानि सम्मतानि तैरेय सभा प्रवेष्टव्या, नान्यरित्यादीनि राष्ट्रियपक्षस्य मूल- तत्त्यानि । नेमस्तपक्षेण सह सम्मन्त्र्य सन्धि सम्पादयितुमेकां समिति नियुज्य अवसरो दत्त आसीत् । राष्ट्रियसभायाः पुनरुज्जीवने सयत्नोऽयं पक्षः। २७ इतस्ततः सुरतनगरात् पुण्यपत्तनं समागतेपु लोकमान्येपु केसरिपत्रेण लेस- मालामारभ्य अध्यक्षस्याधिकाराणां शास्त्रशुद्धविवेचनं कृत्वा नूतनराष्ट्रिय पक्षोपन्यासस्य मूलतत्त्वानि तथा शास्त्रशुद्धरचना विशदीकृत्य कैरुपायैरुभय- पक्षयोः सन्धिर्भवेदिति दर्शयित्वा तत् कार्य सम्पादयितुं सर्वाणि साधनान्युपयोक्तव्यानीत्युपदिष्टम् । 'चाबु अरविन्द घोष 'महाशयाः पुण्यपत्तनं समागताः । महाराष्ट्र- देशे जातस्य लोकप्रबोधस्य सम्यग्ज्ञानं प्रत्यक्षीकृत्य वगदेशकृतान्दोलन- वृत्तान्तः, तस्याधारतत्त्यानि तैः कथितानि । उभयप्रदेशयोर्जातस्योत्थानस्य साम्यं तैर्दृष्टम् । महाराष्ट्रदेशे अन्येष्वपि प्रसिद्धनगरेपु 'अरविन्द घोप'महा- शयाख्यातम् । (अ) राष्ट्रमतवृत्तपत्रम् राष्ट्रियपक्षविचारधाराप्रचारार्थमेकं दैनिक वृत्तपत्रमावश्यकं जातम् । अतो मण्डलमेकं निर्माय 'राष्ट्रमत' इति नाम्ना स्वल्पमूल्यं दैनिकमेकं समारब्धम् । स्वदेशः, स्वधर्मः, स्वराज्य , स्वावलम्यनमिति स्वादिशब्दचतु- एयमस्य वृत्तपत्रस्याधारस्तम्भाः। (आ) समर्थविद्यालयः राष्ट्रियशिक्षणप्रसारार्थ कोल्हापुरनगरे 'समर्थविद्यालय'नामकं शाला- गृहमासीत् । तत् पुण्यपत्तननिकटवर्तिनं 'तळेगाव'नामकं ग्राममानीय लोकमान्यटिष्टकचरितम् तन्न प्रतिष्टापितम् । तस्मिन् शालागृहे सर्वेषां शास्त्राणामध्यापनं कृत्वा शालागृहस्य महाविद्यालये, महाविद्यालयस्य महाराष्ट्रविद्यापीठे परिणति- भवेदिति सञ्चालकानां महती आकाङ्क्षा । व्यवसायशिक्षणार्थमत्र काच- शालाऽपि प्रस्थापिता । द्रव्यसम्पादनार्थ स्थले स्थले प्रचारः कृतः । नूतन- पक्षस्य प्रसारार्थ ग्रामे ग्रामे, नगरे नगरे सभाः निमन्त्र्य राष्ट्रियपक्षमत- प्रसारः कृतः । 'धुळे'नानि पत्तने प्रादेशिकपरिपदोऽधिवेशनं निश्चितम् । स्वागतसमित्यां सर्वे पक्षाः समावेशिताः । सर्वेषां पक्षाणां समन्वयः कथं कर्तव्यः इति मार्ग दर्शयितुकामेन सदस्यगणेनात्र विमर्शः कृतः । (इ) नगरपालिकानिर्वाचनम् पुण्यपत्तननगरपालिकायाः निर्वाचनकाल: सम्प्राप्तः। नेमस्तपक्षराष्ट्रिय- पक्षयोर्यलावलपरीक्षणस्यायं समयः । नेमस्तपक्षेणात्मनः सर्व बलमेकीकृत्य पुरस्कृतं एकं पुरुपं ' हरि नारायण आपटे'महाशयं पराभूय, राष्ट्रियपक्षस्य पत्यारः पुरुषाः 'अण्णासाहेब पटवर्धन-चावासाहेब पेंडसे गणेश व्यंकटेश जोशी-शिवरामपंत परांजपे'महाशया यहुमतेन नियुक्ताः । अध्यक्षपदं राष्ट्रियपक्षाय दातुं कृतः प्रयत्लो विफलो जातः । (उ) विभागसभा 'पुणे विभागसभायाः प्रथमाधिवेशनं जातम् । गणेश व्यंकटेश जोशी 'महाशयरध्यक्षस्थानात् राष्ट्रियसभायाश्चत्यारि सूत्राण्युपदिष्टानि । विविधविषयप्रस्तावपुरस्कारार्थ नेगस्तपक्षीया अपि सभायामुपस्थिताः! मद्यपाननिषेधादयो बहवो विपया मतभेदरहिताः । अतः समाधिवेशन सर्वपक्षाणां समाहकं जातम् । विचारक्षेत्रे राष्ट्रियशिक्षणं मद्यपाननिषेधश्च प्राधान्यं भजेते । मय पानविपये लोकमान्यरुतम् 'मद्यपाननिषेधो वैदिकधर्मस्य महन्नीतितत्त्वं वर्तते । तस्य पालने लाभालाभदृष्टया कस्यापि प्रत्यूहः परिहरणीयः ! कारावासादपि मद्यपानं दुःसतरम् । यद्येक मद्यविक्रयस्थानं मया विसर्जित तर्हि स्वर्गलाभो भवेदिति भत्या युवमिः प्राणदानायापि सनद्धैर्भाव्यम् । यदीदं मद्यपाननिषेधरूपं सामान्यकार्य फर्नु ययमसमास्तादि स्वराज्याय राष्ट्रियसभापर्व कथं योग्या भवेम' इति । अस्मादेव भापणान्मद्यपाननिरोधनस्याभ्युत्थानं समुत्पन्नम्। राष्ट्रियसभाविभजनेन कैश्चिलोकमान्या दूपिताः । दृष्ट तैलोकमान्यानां कर्तृत्वं प्रभावश्च । नूतनराष्ट्रियपक्षस्य सामर्थ्य, तेजः, ध्येयं, चैदुप्यम् , अनुयायिनां मदः, यथाकालं यष्टिग्रहणप्रवृत्तिः, सर्वमेतदनया विभाग सभया दर्शितम् । राष्ट्रधुरीणस्य शब्दमात्रेणानुयायिनः प्राणपरित्यागेऽपि तत्परा इति दृश्यं न दृष्टपूर्वम् । एवंविधः सन्देशो 'मॅक्निकल'महाशयेनकेन सिस्तधर्मोपदेशकेन 'टाइम्स' पत्राय प्रहितः । (ए) मद्यपाननिषेधः मद्यपानप्रतिबन्धार्थमान्दोलनं प्राचीनम् । १९०५ वत्सरे इदमा- न्दोलनं पुनः प्रचालितमासीत् । 'शंकरराय लयाटे'महाशयेरस्यान्दोलनस्य पुरस्कारः कृतः । पुणेविभागसभायां लोकमान्यैः कठोरशब्दैर्मद्यपानविरुद्धं टीकास्त्रं प्रक्षिप्तम् । तेन 'ठाणे-बेळगांचा'दिविभागेपु लोकर्मद्यप्राशनं परित्यक्तम् । नगरविभागे समुत्थानं जातम् । पुनरेकदा पुण्यपत्तने आन्दोलनकालः समायातः । स्थले स्थले वर्तमानानि पानगृहाणि रित्तानि पभूवुः । शासनसंस्थायाः धनोत्पादनसाधनं नष्टप्रायम् । अतः किं कर्तव्यमिति अधिकारिणोऽपि विचारमूढा अभूवन् । मद्यपानप्रति- बधार्थमापणानां पुरतो निरोधनं लोकः स्वयंसेवकमार्गेण कृतम् । मद्य- पानार्थ समागतान् जनान् सम्प्राय॑ तान् मद्यपानान् परावर्तयितुं स्वयं- सेयकाः प्रायतन्त।ग्रामे प्रामे लवाटेमहाशयारयानप्रवचनद्वारा परिणामा. यहमान्दोलनं कृतम् । स्वयंसेवकानामेकं मण्डलं स्थापयित्या निरोधनं प्रचालितम् । मद्यपाननिषेधसभामु नेमस्तराष्ट्रियपक्षभेदं विस्मृत्य स पक्षा एकन समागताः । स्वयंसेवकानां निरोधनं शान्तिप्रधानमार्गेण जातम् । फेनापि फारणेन प्रोमो न पर्तव्य इति नियमः । यथा यथा मद्यपाननिरोधनं सफलं जातं सथा तथा अधिकारिणां मन मु मोघेनाधिष्टानं पृतम् । क्षुद्रेण कारणेनामियोग पत्या शासनसंस्थया म्ययंसेयका दण्डिताः । दण्डोदेशरतु समुत्थानमिदं विपलं भवेत् , जना ययाफार्म मद्यपानं पुर्युः, शासनसंस्थापिरारिणो धनं मम्पादयेरनिति ।

लोकमान्यटिळकचरितम् मद्यार्काधिकारिभिः निरोधनविषयकाणि भीतिप्रदानि निवेदनानि राजप्रति- निधये प्रेपितानि । अधिकारिभिनिवेदितम् ' पुण्यपत्तने आङ्ग्लभूपतीनां राज्यं समाप्तप्रायम् । टिळकमहाशयस्य राज्यं समारब्धमिति दृश्यते । अद्य पानगृहाणां पिधानं जातम् । श्वः शासनसंस्थाकार्यालयानां पिधान सम्भवेत् ' इति । 'कारमायकेल 'नामकेन विभागप्रशासकेन लोकमान्याः दर्शनार्थ निमन्त्रिताः । क्रोधसन्तप्तमनसा सम्भाषणं जातम् । वरिष्ठेभ्योऽस्स सम्भाषणस्य वृत्तान्तनिवेदनेन लोकमान्यानामपराधशतं पूर्णमभूत् । ' सर् जॉर्ज क्लार्क 'नामकेन राजप्रतिनिधिना मनस्येवं निर्धारितम् .टिळकमहा- शयः कारागृहदर्शनेन विना न शाम्येत् ' इति । स्वयंसेवकानां दण्डनं सर्वत्र प्रसृतम्। मद्यपाननिरोधनप्रतिवन्धार्थ शासनसंस्थया केचन नियमाः कृताः । तेपामुल्लङ्घनेन नरो दण्डाों भवति इत्यपि विहितम् । उद्देशस्तु स्पष्ट एव यदेतदान्दोलनं परित्यक्तव्यमिति । एतेषां शासनसंस्थाप्रचलितनियमानां निषेधार्थमेका सभा पुण्यपत्तने निमन्त्रिता । भाण्डारकर'महाशयैरध्यक्षस्थानं मण्डितम् । गोखले. महाशयैः पत्रद्वारा आन्दोलनसम्बन्धिनी आत्मनः सहानुभूति: प्रदर्शिता । तैलिखितम् ' देशान्तरेऽपि एतादृशं समुत्थानं शास्त्रविहितम् । अतः समुत्थानस्य कृतेऽस्माभिः सन्नद्धर्भाव्यम्' इति । भाण्डारकरमहाशयेरुक्तम् 'सामाजिकदोपाणामुन्मूलनं शिक्षितानां जनानां कर्तव्यमेव । वेदकाले यद्यपि सुरापानं ज्ञातमासीत् तथापि वेदेषु तन्निपिद्धं गण्यते इति प्राचीना- चार्याणां मतम् । प्रजामिर्मद्यपानं न कर्तव्यमिति शासनसंस्थयाऽपि अभिहितम् । किमर्थ तर्हि जनास्तथा नोपदिशेयुः ? शासनसंस्थयोपदिष्टे न दोपः । परं जनरेवमुपदिष्टे कथमयमपराधो भवतीति न ज्ञायते । मद्यपाननिषेधस्य नायमुद्देशः यच्छासनसंस्थायाः कार्ये फोऽप्यन्तरायः फर्तव्य इति । विपरीतोऽयं प्रहः शासनसंस्थायाः । सर्वथा त्याग्य एव सः । तथैव जनोपदेशकार्यमपि अरमामिन परित्यक्तव्य'मिति । समायां प्रथमः प्रस्तायो लोकमान्यः पुरस्कृतः । तस्मिन् प्रसापे शासनसंस्थादत्तादेशस्य तथा समुत्यानप्रतिरोधम्य निषेधः नः । लोफ- .

राष्ट्रियसभापर्व १६७ मान्यैर्व्याख्यातम् ‘शासनसंस्था ब्रूते अरमामिः फेवलं पानगृहाणि उद्घाटितानि । तत्र गत्या सुरापानं कर्तव्यमित्यस्मामिर्नोपदिष्टम् ' इति । स्वयंसेवका अपि किं कुर्वन्ति ? पानगृहाणां पुरतः स्थित्वा केवलमुप- दिशन्ति मद्यपान न कर्तव्यमिति । किमत्र स्खलितं स्वयंसेवकानाम् ? 'मॅक्- निकल्नामकेन खिस्तधर्मप्रचारकेणानुमोदितोऽयं प्रस्तावः । अन्यैरपि वक्तृभिः पुष्टयर्थमुक्तम् । प्रतिष्टितनागरिकाणामेकं मण्डलं राजप्रतिनिधि- दर्शनार्थ प्रेपितव्यमित्यपि सभायां निश्चितम् । अयं सभावृत्तान्तो बहून्यनुमानानि सूचयति । आन्दोलनकार्य केवलं शान्तिसूक्तपठनेन कृतम् । न संक्षोभेण । आन्दोलनहेतुर्न राजकारणम् । नीतिशिक्षणोपदेशे सर्वेपामधिकारः । तस्यायमाग्रहः । इदमान्दोलनं नैक- पक्षस्य । न वा कस्यापि एकस्याः जात्याः । सर्वो जनस्तस्मिन् समाविष्टः । परं शासनसंस्थाग्रहस्तु एक एष। ब्राह्मणानामिदमभ्युत्थानमितिमद्यपाननिषेधस्तु केवलमयगुण्ठनम् । स्वयंसेवकशिक्षणार्थमियं पाठशाला । साहसप्रियान तरुणान् सन्नद्धार कुर्तुमिदं व्यायामगृहम् । सङ्घशक्तिनिर्माणे प्रयत्नोऽयम्। अधिकारिणामयमानार्थमेतत् शिक्षणम् । कातरेषु वलप्रयोगः । प्रजानां पान- स्वातन्त्र्ये प्रहारोऽयम् । निरोधनमार्गेण शासनसंस्थाधर्षणाय तर्जनमिदम् । नेदमान्दोलनं लोककल्याणाय । प्रच्छन्नं राजकारणमिदम् । स्वातन्त्र्यसम्पा. दनायायं संक्षोभप्रस्तायः । 'धुळे 'नाम्नि नगरे प्रदेशपरिपदोऽधिवेशनं जातम् । नेमस्तपक्षेण सामोपायार्थमादौ विमर्शः कृतः । 'प्रयागक्षेत्रे' जातायां परिपरि अस्या विचारधारायाः परिवर्तनं जातम् । राष्ट्रियपक्षण प्रादेशिकपरिपदि सामोपायार्थमेका समितिः स्थापिता । अस्मिन्नधिवेशने लोकमान्यः संयुक्तराष्ट्रियसभाधिवेशनप्रस्तावमधिकृत्य बहु भापितम् । प्रादेशिकपरिपदोऽधिवेशनानन्तरं 'साप'मभृतिभिः सह लोकमान्या अकोला नगरं गताः । तस्मिन् व्याख्याने तेरत्तम् " केचित् यात्रिका: स्वराज्याहीपं दृष्ट्वा तत्र गन्तुं मुदीर्घप्रयासमगीकुर्वन्ति । फेचित्तं प्रयाह- मपि न पश्यन्ति, दीर्घप्रयासंघ न सहन्ते । तैरात्मनस्तीर्थयात्रा गोदावरी नदीतीरे एक समापयितच्या । परम् अरमा निश्चयस्तु स्वराज्यगमातोरे फाशीक्षेत्रमेय गन्तव्यमिति । मागंप्रमादेन या परणपीच्या या यदि चर्य १६८ लोकमान्यटिळकचरितम् मध्येमार्ग गतप्राणास्तहि 'अन्ते मतिः सा गतिः' इति वचनेन तीर्थयात्रा- फलं सम्पादयितुं स्वराज्यगङ्गातटाके एव राष्ट्रियपारणां कर्तुं वयमुत्सहामहे" इति । अनेन समयेन वङ्गदेशे अग्निगोलकरफोट: प्रलयः समारब्धः । शासनसंस्थाकृतप्रजापीडननिरसनार्थ क्रान्तिकारकाणामयं समुद्योगः । अस्मिन् विपये लोकमान्यैः केसरिपत्रे लिखितम् अप्रेऽवलोकनीयं भवेत् । राजद्रोहामियोगाः शासनसंस्थया समारब्धाः । कैश्चिदाङ्ग्लदेशीयैरपि लिखितम् 'शासनसंस्थाधिकारिकृतप्रजापीडनस्यायं नैसर्गिको विपाकः' इति । परं शासनसंस्था अभ्युत्थानविनाशायैव सन्नद्धाऽभूत् । (ओ) नेमस्त-जहाल'पक्षयोः सन्धिः १९०८ संवत्सरे फेब्रुआरीमासे 'सन्धिः कथं भवेत् ' इति शीर्षकं दत्त्वा लिखितेऽग्रलेखे लोकमान्याः प्रतिपादयन्ति "आग्लदेशे पार्लमेंटसभायाः निदर्शनमस्माकं पुरतः सदैव वर्तते । आत्मनो मतभेदं पक्षभेदं च विस्मृत्य राष्ट्राभ्युदयार्थ सर्वे जना एकत्र मिलित्वा आत्मनः कार्य सम्पादयन्तीति प्रत्यक्षमेव । राष्ट्रियसभा नेमस्तपक्षेणैवागन्तव्यम्, न राष्ट्रियपक्षेण इति तु असमअसम् । मतभेदे मतैक्यं, द्वैते अद्वैतं तत्र दृश्यते । अस्माकं सर्व विपरीतमेव । अस्माकं स्वराज्यं या स्वातन्त्र्यं वा सुदूर- मेव । इदानीमकालस्तस्य विचारस्य । पुष्पवादिनां फलवादिभिः सह कलहेन किं प्रयोजनम् ? भूमौ वीजमुप्त्वा जलं निपिच्य अड्कुरो वर्धयितव्यः । संवर्धितेऽङ्कुरे उभयोः पक्षयोः कार्यसिद्धिर्भवति । वेदान्ते स्वर्गप्राप्तिः मोक्षश्व, व्यवहारे पुप्पं फलं च, राजकीयकार्ये स्वराज्यं स्वातन्त्र्यं चेति समानि द्वन्द्वानि । सत्यपि ध्येयभेदे कार्यसातत्यमावश्यकं भवति । फल सम्पादने न फेपामपि मतभेदः । एवंप्रकारको विरोधः सर्यन दश्यते" इति । यदेशे लोकमान्यानां मतप्रभायः । नान्यत्र । 'पवना'नगरे प्रादेशिकपरिपदोऽधिवेशने राष्ट्रियपक्षस्य मताधिक्यम् ।न तथा 'मद्रास'- प्रदेशे, अन्यरिमम् प्रदेश या। अन्ते नेमसपशेण 'पमहेन्शन ' इति नाना आत्मनः सतन्त्रा समा स्थापिता । तस्याः प्रतिज्ञापत्रस्मासीत् । प्रतिज्ञापन हम्नानं त्या राष्ट्रियसभापर्व एव सदस्येन सभास्थानं गन्तव्यमिति नियमः । एतत् सर्व राष्ट्रियपक्षस्या- सम्मतम् । एवं राष्ट्रियपक्षेण सन्ध्यर्थं कृताः सर्वे प्रयत्ना निप्फला अभूवन् । राष्ट्रियपक्षेण सन्धिविमर्शार्थ नियुक्तया समित्या मुम्बापुर्यामेका सभा निमन्त्रिता । तस्यां राष्ट्रियसभायाः स्वतन्त्रमधिवेशनं 'नागपुर' पत्तने ग्रहीतव्यमिति निश्चितम् । स्वागतसमित्या आत्मनः कार्य समारब्धम् । एकं स्वयंसेवकमण्डलं निर्मितम् । अधिवेशनार्थ स्थान नियुक्तम् । अतः प्रतिनिधिप्रेपणार्थ सर्वेपु प्रदेशेषु विचारः समुद्भूतः । एवं स्थिते नागपुर- प्रशासकेनात्मनः आज्ञापत्रकेण निरुद्धं तदधिवेशनम् । नागपुरनागरिकैर्यथा तर्कितं तथा जातम् । निरुद्धे नागपुराधिवेशने स्वतन्त्रराष्ट्रियसभाधिवेशन- कल्पना पुनर्न समुद्भता । नेमस्तपक्षेण प्रतिसंवत्सरं कृतं 'राष्ट्रियसभा' इति नाम्ना अधिवेशनं लोकेषु अप्रियमभूत् । शनैः शनैः संयुक्तराष्ट्रियसभा- पक्षः सवलो जातः । अन्ते 'मण्डाले कारागृहान्मुक्तेषु लोकमान्येपु राष्ट्रिय- सभा एव राष्ट्रियपक्षेण प्रवेष्टव्या इति समुत्पन्ना कल्पना यशस्विनी जाता।

९ द्वितीयराजद्रोहाभियोगपर्व १ पक्षभेदः अद्यावधि लोकमान्यैरारब्धान्यान्दोलनानि शासनसंस्थायै नारोचन्त । राष्ट्रियपक्षस्य सामर्थ्य प्रभावश्च शुक्लपक्षेन्दुरिव प्रतिदिनं ववृधे । राष्ट्रिय- सभाविभजनेन लोकमान्याः कस्यचिजनस्याप्रिया अभूवन् । परं येन कारणेन तैरयं मार्गः समाश्रितस्तस्य कारणमीमांसा न केनापि अप्रमाणी- कृता । केवलं नेमस्तराष्ट्रियपक्षभेदः स्पष्टो जात. । नेमस्तपक्षमतेनाञ्जलि बद्ध्वा प्रार्थनापूर्वकनिवेदनेनाखिलं कार्य सम्पादनीयम् । अनेन मार्गेण यदि कार्यसिद्धिर्न स्यात्तर्हि कालान्तरेण शासनसंस्थायाः मतपरिवर्तनं भवेत् । परं शासनसंस्थाविरोधोऽस्माभिः कदाऽपि न कर्तव्यः। कृते प्रतिरोधे किं फलं भविष्यति ? शासनसंस्थाधिकारिणः क्रोधसन्तप्तमनसा प्रजापीडनमधिकं करिष्यन्ति । तस्माच्छान्तिसूक्तपठनेनैव सर्व कार्य सम्पद्येत । अयं मार्गो राष्ट्रीयपक्षस्य रुचये नाभूत् । सोऽब्रवीत् 'आजन्मनो राष्ट्रियसभयाऽयं मार्गोऽनुसृतः । तेन किं फलं प्राप्तम् ? स्वराज्याधिकारदाने उभावपि पक्षी शासनसंस्थाया. समानौ । आग्लाः प्रथममत्र याणिज्यार्थमागताः । भारती- यानां दोपान् दृष्ट्वा शनैः शनैस्तैराक्रमणं कृतम् । तस्मादधिकारदाने तेपां प्रवृत्तिः कथं सम्भवेत् ? अधिकारिणामधिकारमदः परां कोटिं गतः । अन्यच । यथाऽस्माकं सर्वाणि गृहकार्याणि अस्माभिरेव करणीयानि तथैय सर्वागि राज्यकार्याणि । तस्माद्यदि आग्लाः सामोपायैरधिकारदानं न फुर्युस्तर्हि अस्माकं विरोधोऽस्मामि. प्रदर्शयितव्य एव । कलकत्ताधिवेशने सम्मताश्चत्वारः प्रस्तावा. प्रगतिपराः । यदि राज्यकर्तारः सुखेनात्मभ्यं राज्याधिकारान्न दास्यन्ति तर्हि प्रतिकारेणापि अस्माभिस्ते माह्या एय । अस्माकं गृहे अस्माकमेव अधिकारः । नान्येपाम् । तस्माच्छासनसंस्थानियमा. ननुल्लड्ड्यास्मामिः प्रतिरोधः कर्तव्य एव' इति । २ अभियोगानुज्ञा अनेन राष्ट्रियपक्षमार्गेण लोकैः सामध्ये सम्पादितम् । तस्माच्यासन संस्थयाऽपि निर्णीनम् अस्य पक्षस्य नेतारो निरोद्धव्या इति । 'सर जॉर्ज द्वितीयराजद्रोहामियोगपर्व १७१ क्लार्क महाशयस्तदा मुम्बईप्रदेशराजप्रतिनिधिरासीत् । तेन महता निर्वन्धेन राजद्रोहानियोगाय मोर्लेमहाशयस्यानुमतिर्लब्धा । वस्तुतस्तु मोर्लेमहाशयो- ऽमियोगकरणे नैव समुत्सुकः । क्लार्कमहाशयेनैवैतत् स्वसम्पादितमन्ये लिसितम् । अन्ते तेन १९०८ वत्सरे जूनमासस्य त्रयोविंशे दिने लोक- मान्येप्वमियोगं कर्तुमनुज्ञा दत्ता । अन्येयुरेव मुम्बापुर्याः प्रशासकस्य अॅस्टनमहाशयस्य पुरतः अभियोगस्य प्रार्थनापत्रं समर्पितम् । प्रार्थनापत्रे एवं लिखितम् “मे-मासस्य द्वादशस्य दिनस्य केसरिपत्रे ' देशस्य दुर्दैयम्' इति शीर्षकं दत्त्या अग्रलेसो मुद्रित आसीत् । अयं लेखो जनानां मनसि शासनसंस्थाविपये द्वेपबुद्धि तथाऽवमानबुद्धिं जनयति । अथवा तथा तस्य प्रयत्न. । शासनसंस्थायाः दण्डनीतिशास्त्रस्य '१२४ अ, १५३ अ' परिच्छेदयोराधारेण दण्डनीयोऽयं राजद्रोहापराधः" इति । सपद्येच लोक- मान्यान् निग्रहीतुमाज्ञापत्र दत्तम् । तेनानापत्रेण पुण्यपत्तनस्थस्य केमरि- पृत्तपत्रस्यासिलं पत्रव्यवहारं, तथैव लोम्मान्यानां व्यत्तिनिष्टं पत्रव्यवहार- मपि प्रहातुमाज्ञापन दत्तम् । अनेनाज्ञापत्रेणासन्तुष्टोऽयं प्रशासक. सिंहगड- नाम्नि दुर्गे विद्यमानं लोकमान्यानां निवासस्थानमपि विचेतुमनुज्ञां दत्तवान् । केसरिपत्रसम्पादकेषु अभियोगो भविष्यतीति ज्ञातमेव पूर्व लोक- मान्यः । 'काळ' पत्रसम्पादकेपु अभियोगो जातः। अत: 'शिवरामपंत परांजपे'- महाशयेभ्यः साहाय्यं दातुं मुम्बापुरीगमनं लोकमान्यानामावश्यकम् । तत्र गन्तुं यदा ते पुण्यपत्तनान् प्रातिष्ठन्त तदा ते. सह 'यापूसाहेब गांधी'- नामको विधिज्ञ आसीत् । यारत्तानुभौ पुण्यपत्तनस्थाग्निरथविश्रान्तिस्थानं सम्प्राप्ती तायदेव गांधीमहाशयस्य कर्णे केनापि गुप्तचरेणोत्तम् 'लोकमान्ये- प्यभियोगो भविष्यति । प्रायेणेदमेव तेषामन्तिमं मुम्बापुरीगमनम् ' इति । लोकमान्या यदा याप्परये स्थानापन्नाम्नदा गांधीमहाशयस्तेषां कर्णे मन्द यक्ति स्म 'वो मुम्यापुरी गमिप्यामः । गृहं गला किमप्युर्वरितं पार्य यदि मम्पादनीयं भवेत्तर्हि तदेवारमाभि. प्रथमं पर्तव्यम् ' इति । सपधेर लोक- मान्यैरव्यममनसा उपम् - किं तन पर्तव्यं भयति ? सिं गृहं गत्या मैन्यं समादयितुमातापयितव्यम् ? उन सैनिकाः शिनायितच्या: ? उतादो लोकमान्यटिळकचरितम् हस्त्यश्वरथपदातिशृङ्गारे यतितव्यम् ? आहोस्वित् शत्रु दुर्गमभियास्यतीति कृत्वा दुर्ग परित परिखावलय खनितव्यम् ? अखिल भरतखण्ड शासन- सस्थया कारागृह कृतम् । अतो वय सर्वे कारागृहे एव घसाम । प्रत्यक्ष कारागृहगमन नाम एका कक्षा विहाय कक्षान्तरे प्रवेशनम्' इति । अहो धीरोदात्ता इय वाणी । न कस्मादपि रोकमान्याना भय विद्यते । उक्त च पञ्चतन्त्र--- 'समुत्पनेषु कार्येषु बुद्धिर्यस्य न हीयते । स एव दुर्ग तरति (जलस्थो वानरो यथा)।' इति । स्थितप्रज्ञस्य का भापा' इत्यर्जुनप्रश्नस्योत्तर लेकमान्यैराचारेण दत्तमिति चय मन्यामहे । ३ अभियोगपूर्वकारावासः लोकमान्याना निरोधात् प्रागपि ईदृश प्रसङ्गो जात । 'सरदार गृह'मागत्य 'यशवतराव कुलकर्णी' महाशयेभ्य केनापि कथितम् ‘टिळक महाशय बन्दिशाला नेतुमाज्ञापनके प्रशासकेन हस्ताङ्कन कृतम्' इति । रोकमान्यास्तदा तन नासन् । समागतेभ्यस्तेभ्यो यशपतराय उदन्त कथितवान् । तदा रोक्मान्या उदगिरन् ‘किमनेनोदन्तकथनेन १ प्रति कारासमर्थ राष्ट्र किं करिष्यति' इति । आज्ञापत्र गृहीत्वा प्रहरकालपर्यन्त यदा राजदूतो नागतस्तदा लोकमान्या यशवतरायमहाशयमाहु 'इयन्त काल प्रतीक्ष्यापि न सम्प्राप्त तदाज्ञापत्रक मिति । अनन्तर घटिकामानेण रक्षापुरुषाधिकारी समायात । त दृष्ट्वा रोकमान्या समुगिरन्ति बहुकाले गत आज्ञापत्रके जातस्य हस्तानस्य । नातिदूरे प्रशासककार्यालयोऽस्मात स्थानात् । यदि विना कालरातिपात यूयमागमिष्यथ तर्हि प्रतिभूपिपये प्रार्थना. पनमर्पयितुमयतिप्यामहि' इति । साधारोऽयमधिक्षेप । रक्षापुरुपाणा मुद्देशस्तु रोक्मान्या कारावासमनुभवेयुरिति । शासनसस्थायाश्चारा यथा परिष्ठाधिकारिभ्यो लोक्चाता क्थयन्ति तथा रोक्मान्याना हितचिन्तका स्तेभ्यो गुप्तवार्ता सतत कथयन्त्येव । केसरिपत्रसरियादखिल पत्रव्यवहारो रक्षापुरुपैनीत । सर्वेषु पोपु वैरेय लोकमान्यैरप्रेपित पत्र लधम् । स्फोटकद्रव्यविषयमधिकृत्य . द्वितीयराजद्रोहाभियोगपर्व लिसितानां ग्रन्थानां द्वे नामनी तस्मिन् पत्रे लिसिते आम्नाम् । इदमप्रेपितं पत्रं लन्ध्या 'मुलिव्हन्'नामको रक्षापुस्पाधिकारी हर्षनिर्भरो भूत्या ताण्डमकरोत् । 'सिंहगड'नाग्नि दुर्गे राजदूतैर्न किमप्यासादितम् । अनि गोलकानां साधनानि वा कानिचित् शस्त्राणि या तत्र प्राप्स्याम इति तेपां हढा आशा । परं ते नैराश्यं गताः । अन्येयु: 'अशाश्वता एते उपायाः' इति जीप दत्त्या प्रकाशितमग्रलेखमधिकृत्य अन्याभियोगो रचितः । अग्नि- गोलकानां विवेचनं तरिमहसे आसीत् । लोकमान्या. बन्दिशालायामेयारर्तन्त । अस्य नूतनाभियोगस्याज्ञापत्रं तान् दर्शयित्वा रापुरुपाधिकारिणा लेकमान्यानां इसाक्नं गृहीतम् । जूनमासस्य एकोनत्रिशे दिने न्यायाधीशम्य पुरत. प्राथमिकपरीक्षणार्थ- ममियोगपनकं निहितम् । 'भारकर विष्णु जोगी 'महाशयेन अप्रलेसाना रूपान्तरं समर्पितम् । केसरिपत्रं मुम्यापुयां ग्राह्या याचयन्तीयस्मिन् विपये । नारायणराव दातार 'महाशयेन निवेदन दत्तम् । लोकमान्यानां फने प्रतिभूविपये दत्तं प्रार्थनापत्र न्यायमूर्तिना न स्वीकृतम् । कारागृहं गत्या लोकमान्यान् द्रष्टुं ययम्यगणायानुज्ञा दत्ता। वरिष्ठन्यायालयं गतेऽमि- योगे पुनरेकदा प्रतिभूस्वीकरणाय प्रार्थनापत्रं दत्तम् । १८९७ संवत्सरे राजद्रोहम्य प्रथमाभियोगे यो 'दावर 'नामयो विधितो रोकमान्यै. स्वपक्ष- प्रतिपादनार्य नियुक्त स एपाधुना वरिष्टन्यायालयम्य न्यायाधीशो जात । तम्य पुरतो निहितमिदं प्रतिभूविषयकं प्रार्थनापत्रम् । तेनापि सन्न रीतम । निर्णयपरके 'दार'महाशया लियन्ति 'प्रतिभूगरण रोकमान्यानां बन्धमोमोऽसमस । केन कारणेनेदमहमाचरिष्ये इत्यपि पयनं न ममीचीनम्' इति । ४ अभियोगपरीक्षणम् जुलैमामम्य तृतीयेऽहनि भगमनसंग्याया यने महापण्टिगरिधिन न्यायाधिकारिभ्यः प्रार्थनापन समर्पितम, या दिममदारयन्याभियोग- परीभगा रिशेपप्रमागपुरपागा गो नियोगव्यशीरमान्यानां विधि- मेन 'पपटिस्टामदागवेन मा मनिषिद्धम, स.प'प्रथमं नाम विशेष. प्रमागारगणं प्रापंपितुं सामान्यानानेयाधिकारः । ते पर विशेष १७४ लोकमान्यटिळकचरितम् प्रार्थयन्ते तर्हि अर्हति किलायं प्रश्नो विमर्शम् । लोकमान्या एतादृशं विशेष- प्रमाणपुरुषगणं न प्रार्थयन्ते । अन्यञ्च । न कोऽपि तस्मिन् गणे 'मराठी'. भाषाभिज्ञ. स्यात् । राजद्रोहाभियोगोऽयम् । यान् लेखानधिकृत्याभियोगो रचितः ते अग्रलेखा मराठीभापायां मुद्रिताः । अतो महाराष्ट्रभाषाभिज्ञा एव प्रमाणपुरुषा अस्मिन् गणे समावेष्टव्याः । पुण्यपत्तने खलु अयमभियोगः कर्तव्य एव , यतस्तत्र मराठीभाषाभिज्ञा वहयो जना वर्तन्ते । अग्रलेखेपु महत्त्वपूर्णानां विषयाणां विवरणं कृतम् । विशेपेण तु अग्निगोलकानाम् । एभिरनिगोलकै!रकायेषु अत्याचारा विहिताः । तस्मान्मराठीभापाभिज्ञा यदि प्रमाणपुरुपगणे न स्युस्तर्हि न्यायदानं सुकरं न भवेत् ' इति । परम् एतदपि न्यायाधीशैर्न स्वीकृतम् । किं ध्वनितमनेन ? न्यायाधीशाः प्रतिपादयन्ति 'टिळकमहाशयस्य हितायैव विशेषप्रमाणपुरुषगणो नियोक्तव्यः' इति । प्रतिभुवः अस्वीकरणं टिळकमहाशयस्य हितायैव ! विशेषप्रमाणपुरुषगणोऽपि तस्य हिताय !! तथा दण्डोऽपि न केवलं टिळकमहाशयस्य हिताय, अपितु अखिलभरतखण्डस्य हिताय !!! उक्तं च- 'परोपकाराय सतां विभूतयः।' इति । एवं यथाऽपराधिनः कल्याणाय तथा भारतदेशस्य कल्याणायैवेदं सर्व न्यायाधीशदावरमहाशयैः कृतम् । कामं देशहितचिन्तका राष्ट्रसेवका एव न्यायाधीशमहाशयाः । महद्भाग्यमेतद्भारतदेशस्य यल्लोकमान्याः कारावास- दण्डमलभन्त । अस्मादेव सद्भाग्याद्भगवद्गीतारहस्यजननम् । जुलैमासस्य त्रयोदशे दिवसे सोमयासरे ( १३-७-१९०८) लोक- मान्यानां द्वितीयराजद्रोहाभियोगस्य परीक्षणं समारब्धम् । विधिशास्त्र- महापण्डितो 'बॅन्सन् 'नामकः शासनसंस्थापक्षं प्रतिपादयति स्म ।' इन्- व्हेरिटी-विनिंग' नामको अन्यौ द्वौ विधिशास्त्रज्ञौ तस्य सहायकौ । लोक- मान्यानां पक्षे शासनसंस्थापक्षखण्डनाय तथा स्वपक्षमण्डनाय लोकमान्याः स्वयमेव यद्धपरिकरा अभूवन् । प्रमाणपुरुषगणे नव प्रतिष्ठित नागरिका नियुत्ताः। तथाहि । '१वुड, २ प्रेग्, ३ हिलियाई, ४ पालनजी, ५ दायर, ६ हडसन् , ७ शापुरजी सोरायजी, ८ हेम्पसन् , ९ अंडरसन् मार्टिन् ' इति । एतेषां प्रमुखः .

द्वितीयराजद्रोहाभियोगपर्व १७५ " अंडरसन महाशयः । एतेषु सप्त आइग्लदेशीयाः, द्वौ 'झरतुष्ट्रा'- नुयायिनौ । चतुर्पु आरोपेषु त्रयः परीक्षणार्थ गृहीता. । चतुर्थो न ग्रही. तव्य इति शासनसंस्थाविधिज्ञेनाभियोगान्ते प्रार्थनीयमिति राजपक्षविधि- शेन कथितम् । एकैकमारोपमधिकृत्य पृष्टा लोकमान्या अवदन् 'नाहमपराधी' इति । अनन्तरं शासनसंस्थापक्षस्य प्रथमं प्रतिपादनं 'इन्व्हेरॅरिटी 'महाशयेन कृतम् । द्वापपि लेसौ आक्षेपाही इति तेन प्रतिपादितम् । दण्डनीयाः १२४ ( अ ) तथा १५३ ( अ ) कमाइकयोः परिच्छेद्योर्विवरणं कृत्या, समग्रौ अग्रलेखौ राजद्रोहपूर्णी इति मत्वा, प्रायेण सर्वेपां मुख्यविधानानां स्पष्टीकरणं दत्त्वा, विधिज्ञेन कथितं यद्यत् टिळकमहाशयेन लिखितं तत्त- शक्षणया गौरकायजनानुद्दिश्य लिखितम् इति । अनन्तरम् अभियोगपरीक्षणं जातम् । आक्षिप्तलेसानामाङ्ग्लभाषया रूपान्तरं प्रमाणार्थ दत्तम् । अनन्तरं भाषान्तरकर्मणि नियुत्तो 'जोशी'- महाशयो लोकमान्यैः परीक्षितः । पश्चाद्रक्षापुरुषाणामधिकारी 'सुलिव्हन्'- नामकः परीक्षितः । स्फोटकद्रव्यविपयमधिकृत्य लिसिवानां ग्रन्थानां नामानि यस्मिन् पत्रे लिसितान्यासन् तत्पनविषयको वृत्तान्तस्तेन कथितः । एतत् सर्व परीक्षणार्थ स्वीकृतम् । ५ लोकमान्यानां निवेदनम् भौमवासरे अपराहकाले शासनसंस्थापक्षस्य प्रतिपादनं समाप्तम् । अनन्तरं न्यायाधीशैनिवेदनार्थ लोकमान्या आज्ञताः । तैलेपनिविष्टमात्मनो निवेदनं प्रथमं वाचयित्वा परीक्षणार्थ समर्पितम् । निवेदने लोकमान्य- लिखितम् । सम्पादकत्वेन प्रसाशकत्वेन च फेसरिवृत्तपत्रे प्रकाशितानां लेसानां समस्तो भरो मयि वर्तते । अतोऽमियोगे जाते प्रतियादो मयेय फर्तव्यः इति तु प्रमप्रातमेव । राजकीयविषयाणामूहापोहो मराठीभापायां नूतनः । अतः फेपांचन आग्लशब्दानामर्यान् बोधयितुं मया मराठीमापायां फेचन शन्दा उपयुक्ता, । नेपामी नाथापि निर्धारिताः । अमलेरेयु मया एतादृशाः शब्दा उपयुक्ताः । अधिकारियर्गविषयके लेसने मया सर्वेषु - १७६ लोकमान्यटिळकचरितम् स्थलेपु गोरा-सरकारी अधिकारी-इंग्रजी-राज्यकर्ता' इत्यादयो विविधा मराठीभापायां विद्यमानाः शब्दा एकेनैवार्थेनोपयुक्ताः । 'जुलमी-माथेफिरू: तेज-आवेश-स्वेप-चीड-एकमुखी-मतिभ्रष्ट-बुद्धिभ्रंश' इत्यादीनां मराठीशब्दानां आङ्ग्लभाषायां कृतं रूपान्तरमसमीचीनम् । तत्सर्वमपि ममासम्मतम् । (अस्मिन् समये लोकमान्यानां सम्मताः शब्दास्तैः सूचिताः ) एकस्मिन पने मया स्वयं लिखितानि स्फोटकद्रव्यविषयकाणां पुस्तकानां नामानि वर्तन्ते । अध्ययनार्थ तानि पुस्तकानि मयाऽपेक्ष्यन्ते । शासनसंस्थया स्फोटकद्रव्यविषयकमेकं विधेयकं विधिमण्डले सम्मतं कृतम् । तस्त्र विवेचनार्थमेवानि पुस्तकान्यावश्यकानि । अतस्तेपां नामानि मया लिखितानि । जूनमासस्य नवमे दिवसे केसरिपत्रे मुद्रितस्य लेखस्यायमेव विपयः "असन्तोपनिरसने 'प्रजापीडन'मिति नैव एकः उपायः" इति । ६ लोकमान्यानां समर्थनम् शासनसंस्थापक्षविधिज्ञेन प्रमाणीकृते राजद्रोहारोपे , लोकमान्यैः स्खलेखसमर्थनार्थ विस्तरेण प्रतिपादितमात्मनोऽनपराधित्वम् । बहूनि अव- तरणानि उद्धृतानि । लोकमान्यानां भापणं विस्तृतम् । राजद्रोहविषयक साङ्गोपाङ्गविवेचनं तद्वर्तते । स्थलाभावात् सक्षेपतोऽपि तस्य सारांशलेसन. मशक्यप्रायम् । तथापि किश्चित् प्रयत्यते । लेसानां समस्तो भरो लोकमान्यैः स्वीकृतः । परम् अनेन लेखनेन राजद्रोहः कथं भवति इति प्रथमः प्रश्नः । लोकमान्यैः प्रतिपादितं मराठी- भाषायां मुद्रितान् लेसान् महाराष्ट्रभाषाऽभिज्ञा एव सम्यग् जानन्ति । प्रमाणपुरुषगणसदस्यानामेयोऽपि न जानाति मराठीभापाम् । अतस्तेषां पुरतः आङ्ग्लभापया लेसानां रूपान्तरं विद्यते । अतो लेसानां वाच्यार्थ, लक्ष्यार्थ, व्यङ्ग्यार्थ ज्ञातुं प्रमाणपुरुषगणसदस्या असमर्थाः । लेसेभ्यो राजद्रोहः प्रभवति, न या प्रभवति इति साम्प्रतं द्रष्टव्यं भवति । यदि प्रमाणपुरुषाः तं न पश्यन्ति तर्हि तेपामेय निर्णयः प्रमाणम् । राजद्रोदः परिणामेन निर्णेतव्यः । राजद्रोहप्रयत्ले हेतु उद्देशो या तथा प पूर्वसद्धेतः आपश्यो भवनि । लेयेन राजद्रोहहेनु: मिद्धो न भवनि इति दर्शयितु १७७ द्वितीयराजद्रोहाभियोगपर्व मुदाहरणानि दत्त्वा लोकमान्यैर्विवेचितम् ' उपस्थिते वादविपये यदि केनापि पूर्वपक्षः कृतस्तर्हि केवलं तस्य सण्डनमेवाप्रलेसे वर्तते । शासन- संस्थाकार्यदोपान् दूरीकुरुत इत्यादिप्रकारकोपदेशः कथं राजद्रोहात्मकः । शासनसंस्थायाः स्खलनं यदि वृत्तपत्रैः प्रदर्यते तर्हि कथं तद्राजद्रोहमावह- तीति न ज्ञायते । अनेन प्रकारेण लोकमान्यैर्विविधा विपया. प्रतिपादनेन विशदी- कृताः । राजद्रोहः, तस्य प्रयत्नः, तस्योद्देश', परिणामश्चैते सर्व विषया द्रष्टव्या भवन्ति । प्रचलितविपयेषु वृत्तपत्रसम्पादकैलेंसनमवश्यं भवति । अमिगोलकानां स्फोट., पुस्पाणां पात , सशस्त्रप्रतिकार', 'खुदीराम योस'- नामकस्य तरुणस्याभियोग इवाभियोगाः किं कथयन्ति ? प्रजानामसन्तोप एवास्य निदानम् । अस्मिन् समये शासनसंस्थायै उपदेशो मादृशानां सम्पादकानां कर्तव्यं भवति । सम्पादकः स्वतन्त्रविचारप्रवर्तकः पुरुपः । . उक्तं च- 'अप्रियस्यापि पथ्यस्य वक्ता श्रोता च दुर्लभः ।' इति । वृत्तपत्रसम्पादकेन कृत. उपदेशः शासनसंस्थाये कथं रोचिप्यते ? 'पायो- निअरा' दिवृत्तपत्रर्लिसितम् ' अत्याचारपरम्परेयं समारब्धा' इति । मया तस्य केवलं प्रतियाद. कृतः । अनुभूताः परिणामा एव युप्माभिर्लिस्यन्ते । परं तेषां कारणमीमांसा न क्रियते । यदि प्रजाभिरनिगोलकाः प्रक्षिप्तासहि तेपां कारणं किं सम्भवेत् इति यूयं पिचिनुत इति । प्रचलितविपयेपु जनानां मार्गदर्शनं वृत्तपत्रसम्पादकानां कर्तव्यं भवति । सर्वमेतन्मम लेसनं प्रमादपूर्णभापान्तरेण पिकृतं प्रतिभाति । प्रगतिपथं वर्तते प्रस्तुतं जगन् । एतादृशे जगति आधुनिक विषयानु. हिदय प्रकाशिता लेखाः पुराणकोशसाहाय्येनाग्लभापायगुण्ठिताः शासन- सस्थाधिकारिभिःजीर्णोऽयं पोशो नूतनशब्दानां रूपान्तरक्रियायां फयमुप. फारको मयिष्यति ? समासेन एतादृशं भापान्तरं मूललेरामविपादितविपय- स्यायं न सम्यग्यहति । तस्मादस्मिन् दोपपूर्णे भापान्तरे विधम्य अहं दोपाई इति प्रमाणपुरपगणेन न निगेंतव्यम् । अन्यप | मराठीमापायां मुद्रितेन लेखेन तो भाप विजानन्सु रोकेषु फः परिणामोऽभूरिन्यपि २१ १७८ लोकमान्यटिळकचरितम् द्रष्टव्यं भवति । मद्रासप्रदेशे जातस्याभ्युत्थानस्य वा वङ्गदेशे समुत्पन्नस्य प्रक्षोभस्य या मराठीभाषायां प्रकाशितो लेखः कथं कारणं सम्भवेत् ? अस्याग्रलेखस्य नायं विपाकः । + पाय:-- अनन्तरम् ‘दुहेरी इशारा' ( उभयमुखी सूचना ) इति शीर्षक दत्त्वा प्रकाशितेऽग्रलेखे किं प्रतिपादितमिति साकल्येन लोकमान्यैर्विवेचि- तम् । इयं भयसूचना यथा राष्ट्रियसभायै तथा शासनसंस्थायै अपि दत्ता । मोर्लेमहाशयोऽपि एवं वदति ' अखिलभारते यथा शान्तिः पुष्टिश्चास्तु तथा राज्याधिकारदृष्ट्याऽपि भारतः प्रगतिपथं गच्छतु' इति । परं राजकीय- विषये यदा प्रतिगतिर्दृश्यते तदा लोकानामभ्युत्थानं भवति । अभ्युत्थाने जाते आग्लवृत्तपत्रसम्पादकाः कठोरं प्रजापीडनमुपदिशन्ति । अधिकार- दानचर्चाऽपि ते न सहन्ते । एतादृशानां सम्पादकानां प्रतिवादं कुर्वाणः सम्पादको राजद्रोहापराधेन आरोप्यते । यदि करिमश्चित्स्थले किञ्चिदान्दो लनं समुद्भूतं तर्हि एतेपामाङलपत्राणामेक एव व्याक्रोशः, एक एवो- • कठोरमनसा प्रजापीडनम् । अत्र वयं ब्रूमः ‘अपराधिनो दण्ड- नीयाः । सर्वत्र शान्तिः स्थापनीया । अत्याचारा निपेद्धव्याः । परं तेन सह स्वराज्यस्य अधिकाधिकारा अपि दातव्याः' । अन्यथा क्रान्तिकारकाः कथं तूष्णीं भवेयुः । यद्यपि मानवः स्वभावकोमलस्तथाऽपि तस्य स्वाभिमानो विद्यत एव इति आग्लवृत्तपत्रसम्पादकैस्तथा शासनसंस्थाधिकारिभि- ज्ञातव्यम् । एषः मम लेखनस्य हेतुः । आग्लाः परोपकारार्थ न भारतदेशं शासति इति विधाने मया कृते किं मम स्खलितम् ? पंजाब'प्रदेशस्य 'थॉयर्न' नामको वरिष्ठप्रशासकः एवमेव ब्रूते 'आग्लानां घृत्तिः स्वार्थपरा- यणा । आयत्यामपि सा तथैव स्थास्यति इति । अधिकारविभाजनसमित्याः पुरतो मया एवमेव निवेदितम् । वयमेव प्राज्ञाः, सर्पज्ञाः इति मत्या सर्वे ऽधिकाराः शासनसंस्थाधिकारिभिः स्वहस्ते दृढ़ विधृताः । तैरेय एते राज्या धिकारा उपभोक्तव्याः । नान्यः इति शासनसंस्थाधिकारिणां स्वभावो मया दूपितः । यत् समित्याः पुरतः प्रतिपादनं तदत्रैय । सर्वेभ्यः सूचनां दातुं मयाऽस्मिन् लेसे पृष्टम् 'यूयमेतेभ्योऽत्याचारेभ्यः फमपि योधं महीप्यथ न पा' इति ।

" , द्वितीयराजद्रोहाभियोगपर्व १७९ विविधैः प्रमाणः, दृष्टान्तः, कथाभिः, मन्यावतरणैर्लोकमान्यैः स्वपक्षो विशदीकृतः । ते प्रत्यपादयन् 'अग्रिगोलकानां रहस्यम्' इति शीर्षकं दत्त्वा योऽमलेखो मया केसरिपने मुद्रितः, तस्मिन्नेव आङ्ग्लवृत्तपत्र सम्पादकानामत्याचारविपयकाणि मतानि मयोद्धृतानि पर्तन्ते । राज- प्रतिनिधिसहितशासनसंस्थाधिकारिणां शाश्वतिको विरोधः राष्ट्रियसभा- सदस्यः सह । अतो विवादायसरः । अग्निगोलकैरत्याचार इत्येका तस्य प्रतिक्रिया । सा किमर्थ क्रान्तिकारकैरवलम्विता इति विचारणीयं भवेत् । स्फोटकद्रव्यविपयफपुस्तकानि यस्मिन् पत्रे लिखितानि दृश्यन्ते तत्पत्रमुद्दिश्य अहमेवं प्रतिपादयामि " शासनसंस्था मनुते तत्पत्रं मम विरुद्धममूल्यं प्रमाणम् , अथ अनुमास्यति च अग्रिगोलकान् सम्पादयितुमहं समुद्यतः । कुत इति पृष्टे शासनसंस्था ब्रूते 'पश्यत एतत् पत्रम् । स्फोटक- द्रव्यविपयकाणां पुस्तकानां नामानि अत्र वर्तन्ते' इति । यदीदम् एवम- मूल्यरत्नं तर्हि कथं मया तत् सुगुप्तं न निहितम् ? उत्तानस्थले कथं पतित- मभूत् । इदं पत्रं कथं लब्धम् इति कथाऽपि रक्षापुरुपैः कथिता । स्फोटक द्रव्यविधेयकस्य विवेचनं कर्तुं य इच्छति तस्य तद्विषयकं समीचीनं ज्ञान- मावश्यकं भवति । कानि स्फोटकद्रव्याणि, कानि तेपां नामानि, किं तेपां स्वरूपम्, के गुणधर्माः, कथं तानि प्राप्तव्यानि इति शास्त्रशुद्धं ज्ञानं सम्पादकस्यावश्यकम् । यदि तन्न स्यात्तर्हि स किं लिखेत् ? जूनमासस्य पोडशदिनस्य केसरिपत्रे मया स्फोटकद्रव्यविपयस्य विवरणं कृतम् । अयं सम्बन्धः तस्य स्फोटकद्रव्यविपयकस्य पत्रस्य" इति । दण्डनीत्याः १२४ (अ) तथा १५३ (अ) परिच्छेदयोरेकी- करणेन समुद्भूतस्य दोपस्य, तथा 'वर्ग-पक्ष'-शब्दयोर्मिनीकरणेन समुत्पन्नस्य दोपस्य विवेचनेन अग्रलेखस्यार्थविपये प्रमादः कथं जातः इनि निर्दिश्य प्रमाणपुरुषगणस्याधिकारविपये लोकमान्यैः प्रतिपादितम् । मुद्रण- स्वातन्त्र्यरक्षणार्थमाङ्ग्लदेशे जाताना प्रयत्नानां फलं निर्दिश्य १८८४ वत्सरे आङ्ग्लदेशे जातस्यैकस्य राजद्रोहाभियोगस्य परीक्षणकाले 'चैवर- लेन'महाशयेनोक्तमेकं वाक्यं तैरुद्धृतम् । चेंबरलेनमहाशयो ब्रूते 'शासन- संस्था यद्येवं करिष्यति तर्हि जनानां शतसहस्रं लंडननगरमभियास्यतीति । - १८० लोकमान्यटिळकचरितम् ईदृशेन भापणेन चेंबरलेनमहाशयेऽभियोगो न कृतः । यदि स अभ- विष्यत्तर्हि न दूपणास्पदम् । मम लेखे एतादृशं वाक्यं विचेतव्यं भवेत् । शासनसंस्थाविधिज्ञो ब्रूते , मयि दोषारोप: आङ्ग्लभाषायां कृतेनाप- लेखस्य रूपान्तरेण कृतः । इदं भाषान्तरं न मया कृतम् । नापि स्वीकृतम् । सदोपमिदं भापान्तरम् । अग्रलेखस्थिता मराठीभाषाशब्दा आरोपपत्रके किं नोद्धृताः । शासनसंस्थया अभियोगार्थमनुज्ञा दत्ता साऽपि इदं प्रमाद्- पूर्ण भापान्तरमधिकृत्य दत्ता । तस्मात्साऽपि अयोग्या भवति । अग्रस्थानीयो वादग्रस्तः प्रश्नस्तु अयमेव । मराठीभाषायां लिखितस्याग्रलेखस्य सम्यग्ज्ञानं प्रमाणपुरुषगणसदस्यानां कदाऽपि न सम्भवति । अयमेकोऽसम्भवः । अन्यश्च । मूलाग्रलेखानां सम्यग्ज्ञानाभावे अग्रलेखवाचकानां मनसि वाचनेन कः परिणामो भविष्यतीति ज्ञानस्य सभ्यानां सुतरामसम्भवः । अतो राजद्रोहारोपः पूर्णतया न सिद्धो भवति इति । एतावत्कालपर्यन्तमविरतमात्मनः समर्थनं प्रतिपाद्य अष्टमे दिवसे लोकमान्यैः समारोपः कृतः । तस्मिन् समारोपे तैरुक्तम् 'समाप्ते मम प्रतिपादने शासनसंस्थाविधिज्ञो भापिप्यते । अन्तिम भाषणं तेषा. मेव । प्रत्युत्तरदाने न ममाधिकारः । शासनसंस्थाविधिज्ञस्य सम्भाव्यप्रश्नां- स्तर्कयित्या सर्व मया निवेदितम् । तस्मिन् यत् किंचन स्खलितं भवेत्तत्सर्व क्षम्यतामिति प्रार्थये' । शान्तमनसा सर्वमिदं निवेदनं न्यायमूर्तिना तथा प्रमाणपुरुषगणेन श्रुतमिति कृत्वा सर्वेभ्यो धन्यवादान् दत्त्या लोकमान्या विरेमुः। ७ शासनसंस्थाविधिज्ञस्य प्रतिपादनम् समाप्ते लोकमान्यनिवेदने महापण्डितेन शासनसंस्थाविधिज्ञेनात्मनः प्रतिपादनं समारब्धम् । तेनोक्तम् "टिळकमहाशयेन प्रदीर्घ स्वभाषणे चर्चिताः प्रश्नाः प्रस्तुतविपयस्यासम्बद्धाः । तस्मादनावश्यकाः । कारणं विना तेनायं कालापव्ययः कृतः । प्रधानप्रभस्तु अयम् 'आक्षिप्ता लेसाः राजद्रोह प्रतिपादयन्ति , या न प्रतिपादयन्ति' । राजद्रोहविधेयकस्य परिणतिः, मुद्रण- स्वातन्त्र्यं, प्रमाणपुरुपगणस्याधिकाराः इत्यादयो विषया अस्मिन्नमियोगे न सम्बद्धाः । भवते नाईन्ति विमर्शम् । अमिगोलकरत्याचारो ममाप्यसम्मतः .

द्वितीयराजद्रोहाभियोगपर्व १८१ इति यत् टिव्यकमहाशयेनोक्तं तद्दम्भपूर्णम् । अन्यथा कथं तैः स्तुतिगर्भ तल्लि- खितम् ? दण्डनीयां वर्तमाना आत्मसंरक्षणमर्यादा अग्रलेखेनातिकान्ता । टिळकमहाशयस्य हेतुरशुद्धः । विवादार्थ स शुद्धः इति यद्यपि मन्येत तथापि तेन तस्यापराधित्वं नापहियते । केवलं दण्डो न्यूनो भविष्यति । चिन्तयन्तु अत्रभवन्तस्तस्य दर्पोक्ति: ' देशाभिमानसहितो राजद्रोहो यदि कुत्रापि विद्यते तर्हि स मया कृतः । अधिकारान् प्रदत्त । अन्यथा अग्नि- गोलकैरातिथ्यं स्वीकुरुत इत्यहं वदिष्यामि यतोऽहं वृत्तपत्रसम्पादकः । अथ च सम्पादकस्य हेतुः सदैव शुद्धः' इति । एवंप्रकारकमौद्धत्यं टिळकमहा- शयस्य न शोभते । यद्येवं स करिष्यति , महासङ्कटे पतिप्यति"। . एवंविषेनोपहासाधिक्षेपगर्भेण प्रतिपादनेन महापण्डितः शासनसंस्था- विधिज्ञ: स्वपक्षं समर्थितवान् । विधिज्ञानामीदृश्येव प्रतिपादनरीतिः तेनोक्तं "टिळकमहाशयस्याशयस्तु अयमेव 'राज्यव्यवहारप्रतिवन्धेन प्रजाः पूर्णमनो- रथा भविष्यन्ति । नान्यथा । क्रान्तिवीराः शासनसंस्थाधिकारिपु अत्याचारान् कुर्वन्ति । शासनसंस्था तान् प्रतिकरोति । तस्मादासुरीयं शासनसंस्था । वनदेशे प्रक्षिप्तोऽग्रिगोलको देशभक्तिप्रेरितः। अतः स स्वर्गीयः । यूरोपखण्डे पतितोऽग्निगोलकः निरयगतिं यच्छति । अत: स निन्द्यः' । अनेन क्रूरपरि- हासेन टिळकमहाशयस्य चेतो युष्माभिः परीक्षितव्यं भवति । टिळकमहाशयो लोकान सूचयति 'शृणुत रे भारतीयाः, पूर्व यथा युष्माभिर्यवनाः पराभूता- तथा अधुना गौरकायान् सैनिकान यूयं पराभवत' इति । राज्यकर्तारो यवनाः भारतीयानां शस्त्राणि नापाहरन् इति लेखने टिळकमहाशयस्य को विशेप- हेतुरिति सर्वायत्त एव । अन्ते शासनसंस्थाविधिज्ञेन स्वप्रतिपादनसमारोप- काले कथितम् 'प्रथमं मम एवं विचार आसीत् यन्मया न किमपि कठोरं वक्तव्यम् । परं टिळकमहाशयस्य भापणेन मम मनसः शान्ति रक्षितुमहम- समर्थो जातः । तस्मात् किञ्चिपणीयोऽहमत्रभवद्भिः । परम् आश्रयीभूता अग्रलेसा एष एवंरूपाः यथा ते उपेक्षा नाईन्ति । अतः कठोरटीश विना मम का गतिः। एवं स्थिते निर्विकारमनसा अत्रभवन्तोऽभियोगं निर्णयन्तु" इति । ।

१८२ लोकमान्यटिळकचरितम् ८ न्यायाधीशसमारोपः शासनसंस्थाविधिज्ञेन समापिते स्वप्रतिपादने क्षणादेव न्यायाधीशैः 'दावर'महाशयैरात्मनः समारोपः समारब्धः । तेऽवदन् 'उभाभ्यां पक्षाभ्यां स्वपक्षसमर्थनार्थ प्रमाणानि दत्तानि । टिळकमहाशयेन युष्मासु विश्वासः प्रदर्शितः इति समीचीनम् । टिळकमहाशयः युप्माकमपरिचित इत्यपि असम्भाव्यम् । युष्माकं निर्णयो निःपक्षपाती भविष्यतीत्यहं दृढं विश्वसिमि । अस्मिन्नभियोगे न कश्चित् कूटप्रश्नो विद्यते । न्यायाधीशैः स्ट्रेचीमहाशयैः राजद्रोहविधेयकस्य कृतं विवरणं वरिष्ठन्यायालयस्य सर्वेपां न्यायमूर्तीनां सम्मतम् । आङ्ग्लदेशेऽतिवरिष्ठन्यायालयस्यापि तत्सम्मतम् । अतस्तस्मिन् विषये न किमपि वक्तव्यं भवति' । अनन्तरं 'मुद्रण- स्वातन्त्र्यं, भापान्तरं , प्रयत्नशब्दस्यार्थः, अत्याचाराः इत्यादिविषयान् समासेन निर्वर्ण्य विवेकपूर्णमनसा अत्रभवद्भिनिर्णयो दातव्यः' इति प्रमाण- पुरुषगणाय न्यायाधीशैः कथितम् । ९ अभियोगनिर्णयः एवं तस्मिन् दिवसे समतिकान्तः कार्यावेक्षणस्य नियतः कालः । परम् अतीतेऽपि सन्ध्यासमये , समाप्तायां च अष्टवादनवेलायां रात्रौ समा- पितम् अभियोगपरीक्षणम् । अतो विचारविनिमयार्थ प्रमाणपुरुषगणो निर्मानुपस्थानं गतः, अर्धप्रहरकालेन पुनरायातः । प्रत्यागतेषु प्रमाणपुरुषगणसदस्येषु न्यायाधीशैः पृष्टम् 'अप्यत्रभवता सर्वेपामरिमनिर्णये ऐकमत्यम् ?' एवं पृष्टे गणप्रमुखेनोक्तम् ' नास्माकमैकमत्यम् । अस्मासु मिन्नमतता . , वर्तते। न्यायाधीशः-- कीदृशी सा भिन्नमतता? गणप्रमुसः- त्रिष्यपि आरोपेषु टिळकमहाशयः अपराधीति सप्तानामभिप्रायः । द्वयोः सदस्ययोर्मतेन नायमपराधीति । न्यायाधीश:-- अपि विद्यते ऐकमत्यस्य सम्भवः ? गणप्रमुस:-- सम्भवस्तु दूरे एय।

द्वितीयराजद्रोहाभियोगपर्व न्यायाधीश:- एवं स्थिते मयाऽपि अधुना शास्त्रतः स्वनिर्णयो वक्तव्य. । विशेषप्रमाणपुस्पगणस्यायं निर्णयो ममापि सम्मतः इत्यह निर्णयामि। । शासनसंस्थाविधिज्ञेन अनोच्यते , दण्डकथनात् प्राक् पूर्वभुक्तदण्डं- विषयक किश्चिन्मया वक्तव्यं भवति । परं लोकमान्या अपदन् विधि- शास्त्रनियमानुसारतो मया केचित् प्रश्नाः न्यायाधीशानां पुरतः कथयि- तव्याः । तेपां निर्णये प्रथमं जाते अन्यत् कार्य कर्तव्यं भवति । एष- मुक्त्वा लोकमान्यैश्चतुर्दश प्रश्ना उद्धृताः । परं न्यायाधीशैनिर्णीतम् ' सर्व- मेवत् पूर्व कथितमेव । तस्मादेते प्रभा अधुना न विचाराही । तेषु न किमपि तथ्यं वर्तते । सुनिश्चितं मम मतम् । न केनापि तत्परिवर्त्यते । अतोऽहं विना कालातिपातेन अप्रतः क्रियमाण कार्यमेवावेक्षे 'इति । अनन्तरं पूर्वदण्डस्योर्वरितः पाण्मासिको भागो लोकमान्यैः स्वीकृतः । स्वीकृते पूर्वदण्डे न्यायाधीशैर्लोकमान्याः पृष्टाः । यदि यूयं किमपि वक्तु- कामास्तहि एप एव समयस्तद्वत्तुम् । न्यायाधीशैरेवं पृष्टे निर्भयमनसा धीरगभीरस्वरेण लोकमान्यैरुक्तम् । १० धीरगभीरा वाक् 'किमतः परम् अन्यद्वक्तव्यमस्ति ? सत्यपि एवंविधे प्रमाणपुरुषगणनिर्णये अहं प्रतिपादयामि 'नाहमपराधी' इति । एतस्मा- दपि न्यायासनादस्ति काचिद्वरिष्ठा शक्तिः, या निखिलं चराचरं नियमयति । दृश्यते च इयमीश्वरेच्छा, यत् ( तथाकथित ) स्वातन्त्र्यो- पभोगान्मम कारावासेनैव मयाऽङ्गीकृतं कार्य प्रगततरं भवेत् . " इति । ११ कारावासदण्डः अन्ततो लोकमान्यानुद्दिश्य न्यायाधीशा अवदन् “अधुना दण्डकथनं भम दुःसप्रदं कर्तव्यं भवति । यूयं बुद्धिमन्तो वहुश्रुताः सामर्थ्यसम्पन्नाश्च । सुमहान लोको युप्मान सम्मन्यते । यहवो युप्माकमनुयायिनश्च । एतानि साध- नानि यदि देशकल्याणाय युप्माभिरुपयुज्येरन् वर्हि येषां जनानां कल्याणाय १८४ लोकमान्यटिळकचरितम् यूयं प्रयतध्वे ते जना सुसं लभेरन् । दशवत्सरात् प्राक् दयार्द्रबुद्धया शासन- सस्थया यूयं कारावासात् समयात्पूर्व विमुक्ता । अद्य यूयं वदथ 'एतादृशा लेखा राजकीयान्दोलनस्य शस्त्रं वर्तते' इति । अतो दृश्यते कीदृशं युष्माक- मन्तरङ्गं व्याधिग्रस्तमिति । राजद्रोहपूर्णा युष्माकं लेखा. अत्याचारमुप- दिशन्ति । भीरूणां घोरकृत्यानि न केवलं युष्माकं सम्मतानि, अपि तु अग्नि- गोलका लोककल्याणाय पृथिवीमवातरन्निति बुद्धया यूयं तेषां स्वागतं कुरुथ। शासनसंस्थाविषयको युष्माकं द्वेपो न नष्टः । भवादशा वृत्तपत्रसम्पादकाः पृथिव्यां जीवन्ति इति शाप एव भुवः । कति दण्डो युष्माकं योग्यो भविष्यति इति मया सम्यक् चिन्तितम् । दण्डं श्रुत्वा जना वदिष्यन्ति 'अल्पोऽयं दण्ड. । न्यायमूर्तिभि. अस्थाने दया दर्शिता' । परं यथाऽपराध- स्तथा दण्ड इति न्यायेन योग्योऽयं दण्डः । अत. प्रथमद्वितीयापराधयो. कृते पड्वर्पभोग्यं द्वीपान्तरकारावासं, तृतीयापराधस्य कृते रूपकाणां सहस्रं अहं युष्मान् दण्डयामि" इति । अनन्तरं शासनसंस्थाविधिज्ञस्य विज्ञप्त्या लोकमान्याश्चतुर्थादोपारोपा- न्मुक्ता. । समापितेऽस्मिन् राजद्रोहाभियोगप्रकरणे न्यायासनादुत्थिता न्यायाधीशमहाशयाः । सपद्येव रक्षापुरुषाधिकारिणो लोकमान्यान् बन्दिनः कृत्वा ते. सह निर्गताः । बहुलो जनसमूहो न्यायालयात् प्रचलित. । शेपः रक्षापुरुषैः अर्धचन्द्रं दत्त्वा बहिनिष्कासित.। १२ लोकक्षोभः इयं लोकमान्यानां दण्डवार्ता विद्युद्वेगेन लोकेषु प्रसृता । प्रात.. फाले पण्यवीथिकायां विक्रयस्थानानि नोद्घाटितानि । श्रमिका. यन्त्र- गृहं न गताः । व्यवसायिनो व्यवसायं नान्सरन् । सर्यो जनो दु.खितो भूत्वा तूप्णी स्थित.। न कोऽपि जन. स्वव्यवसायमनुगन्तुं कामयते । एवं स्थिते रक्षापुस्पास्तेपामधिकारिणश्च श्रृद्धाः । सर्वेषां रोकन्यवहाराणा भवष्टम्भः तैर्न सोढ. । हठादापणानुद्घाटयितुं रक्षापुरुपैरापणिकेभ्यो भयं दर्शितम् । तेन महाम संक्षोभ. समुत्पन्नः । संक्षोभे जाते रक्षापुरुषै- रग्न्यस्त्रेण गुलिकाप्रक्षेपणं कृतम् । तेनासनपञ्चसप्ततिर्जना विद्धाः, फेचन मृताश्च ।

द्वितीयराजद्रोहाभियोगपर्व १८५ १३ कारागृहगमनम् प्राड्वियाकेन दण्डकथनानन्तरं लोकमान्यार तैलशकटे स्थापयित्वा रक्षापुरुषाधिकारिणः ‘बी. बी. सी. आय. 'नानः लोहमार्गस्य अग्निरथ- स्थानं गताः । तत्रैकदेशे एकोऽमिरथः स्थित आसीत् । तस्मिन लोकमान्यान स्थापयित्या सर्वाणि द्वाराणि चातायनानि च पिधाय स धूमशकटः अह- मदाबाद'नगरं प्रातः । अगिरथप्रस्थानकालपर्यन्तं सारथिना वा रक्षकेण वा केनापि न ज्ञायते कुत्र गन्तव्यं वर्तत इति । लोकमान्यानां जामाना तथा भागिनेयेन 'धोंडोपंत विद्वांस'महाशयेन इयं वाती श्रुता । सपद्येव तावुभौ तत्र गत्वाऽधिकारिणं दृष्ट्वा लोकमान्यानपश्यताम् । कारागृहवेपस्तेभ्यो नाद्यापि दत्तः । कारागृहस्यान्नमहं न भक्षयामीति लोकमान्यानामाग्रहः । तदा रुग्णालये यदन्नं दीयते तदनं तेभ्यो दत्तम् । अनन्तरं । सप्टेंबर'मासस्य दशमे दिवसे अहमदाबादकारागृहा. मुम्बापुरी लोकमान्यानानीय प्रवहणमारोप्य रक्षापुरुषाधिकारिणः नौकाधि- पतये आज्ञापनमयच्छन् । पूर्वमिवाधुनाऽपि न कोऽप्यज्ञानात् कुत्र गन्तव्य- मिति । प्रस्थिताया नौकायां नौकाधिकारिणा पत्रमुद्घाटघ वाचितं कुन गन्तव्यमिति । अत्रान्तरे लोकमान्यानां विधिनेन पृष्टे शासनाधिकारिणा कथितम् नियोजितस्थानमप्राप्त टिटकमहाशये वार्ताकथनमयुक्तम् ' इति । अचिरा- देय शासनसंस्थयाऽऽज्ञापत्रकेणोद्धोपितम् - तृतीयापराधविषयको रूपक- सहस्रपरिमितो दण्डः क्षान्तः । अन्यच्च । द्वीपान्तरे कारावास: सामान्यतः सश्रमकारावासः परं लोकमान्यविपये सश्रमकारावासः श्रमविरहितः कृतः इति । काममेपा शासनसंस्थायाः कृपादृष्टिः । अन्यथा पश्चिमे चयसि वर्त- मानर्लोकमान्यैः कथमिदं सहिप्यते इति न कल्प्स्यते । अस्य निर्णयस्य परीक्षणार्थमाग्लदेशे अतिवरिष्ठन्यायालये प्रार्थना. पत्रं समर्पितम् । परं सर्व तन्मोघं जातम् । १४ केळकरमहाशयेषु अभियोगः जुलैमासस्य द्वाविशे दिने अभियोगनिर्णयो जातः । पड्विंशस्य दिवसस्य मराठापत्रस्यावृत्तौ 'तात्यासाहेब केळकर'महाशयैरभियोगस्य समा. २४ १८६ लोकमान्यटिळकंचरितम् लोचनं कृत्वा एको विस्तृतोऽग्रलेखो मुद्रितः । वरिष्ठन्यायालयन्यायमूर्ति- भिस्तं लेखं वाचयित्वा ' अवमानिता न्यायदेवताऽनेनाग्रलेखेने ति मनसि निधाय अभियोगायानुज्ञा दत्ता। 'ज्ञानप्रकाश'पत्रेणापि समानार्थकोऽग्र- लेखः आदौ प्रकाशित आसीत् । तत्मादुभयपत्रसम्पादकेषु न्यायदेवता- वमानविषयकोऽभियोगः कृतः । मराठावृत्तपत्रे लेखप्रसिद्धीकरणात्पूर्व 'श्रीनिवासशास्त्रि'महाशयैस्तथा 'नटेश आप्पाजी द्रविड'महाशयैरयं लेखोऽ- भियोगशङ्कया वाचितः । परं तैर्न किञ्चित् तस्मिन्नाक्षिप्तम् । समग्रमग्रलेखं वाचयित्वा तैरुक्तम् ' अस्मिन् लेखे नैकोऽपि शब्दः परिवर्तनीयः' इति । एवं समाहितेषु तेषु न केनापि किञ्चित् शकितम् । परं नूतनाभियोगस्य पूर्वसूचना रक्षापुरुषाधिकारिणा केळकरमहाशयेभ्यो दत्ता । इमां वार्ता श्रुत्वा प्रतिपक्षस्यापि मनांसि दु.खितानि । किमुत स्वपक्षस्य । उभावपि सम्पादको मन्त्रार्थ ‘फेरोजशहा मेथा 'महाशयान् द्रष्टुं गतौ । मेथामहाशयैः स्पष्टमेवोक्तम् 'अत्रभवतां पुरतो मार्गद्वयं वर्तते । एकः क्षमायाचनम् । अपरः प्रमाणैर्लेखस्य समर्थनम् । एवं कृतेऽपि न्याया- धीशदत्तदण्डः उपभोक्तव्यः' इति । बहुविमर्शानन्तरं तैर्निश्चितं क्षमापत्रं समर्थनानन्तरं दातव्यमिति । अभियोगपरीक्षणे द्रविडमहाशयानां विधिज्ञेन क्षमायाचनविपये तेषां मनीपा प्रदर्शिता । क्रोधावेगवशात्तीनोऽप्रलेखो जातः । परं न्यायमूर्ति- दायरमहाशयानामवमानने द्रविडमहाशयानां न बुद्धिः इति । अतो द्रविड- महाशया दोपमुक्ताः। अनन्तरं केळकरमहाशयानामभियोगः परीक्षणार्थ गृहीतः । तेषां विधिज्ञा 'टिस्टा'महाशयाः । तैः प्रतिपादितम् ‘वृत्तपत्रसम्पादकोऽह- मिति ज्ञात्वा यत्कर्तव्यं मम प्रतिभाति तन्मया कृतम् । स्पष्टशब्देलोकमत- प्रदर्शन मम कर्तव्यं भवति । चर्चाविषयः लोकमान्यानां राजद्रोहाभि. योगः । अतस्तस्य गुणदोपविवेचनमेय मम कर्तव्यमिति मम हेतुः । न न्यायमूर्तिदायरमहाशयानामयमाननम् । अतः परं न्यायमूर्तय एप प्रमाण- . मिति ।

द्वितीयराजद्रोहाभियोगपर्व न्यायालयनिर्णयः सूर्यप्रकाश इव स्पष्टः । स तु अयमेव । केळकर- महाशया रूपकाणां सहस्रं दण्डिताः । द्विशतं रुपका न्यायालयस्य व्ययार्थ दातव्याः।चतुर्दश दिवसान कारावासः। एतायता कालेन यदि केळकरमहा. शयाः क्षमायाचनपत्रं न दद्युस्तहि क्षमायाचनपनसमर्पणकालं यावत् तैः कारागृहे स्थातव्यमिति । दण्डकारणानि न्यायाधीशमहाशयैरेतानि लिखि. तानि । न्यायमूर्तिदावरमहाशयेषु कुटिलत्वारोपः केळकरमहाशयलेंखे कृतः । एयमारोपे सति तैः प्रतिपादितम् ' मम टीका सरला आसीत् ' इति । अभियोगपरीक्षणकाले न्यायालयस्याधिकारविपये तैस्तिरस्कारबुद्धिः प्रदर्शिता । क्षमायाचनार्थ दत्तोऽवसरः तैः प्रत्याख्यातः । न्यायालयः यद्यप- पधित्वेन निर्णयेत्तर्हि पश्चात् क्षमायाचनं कर्तव्यमिति वैविचारः प्रदर्शितः । एतादृशमौदासिन्यं न्यायालयेन नोपेक्षणीयम् । तस्मादयं प्रसङ्ग, केटकर- महाशयस्य विस्मृतिपथं यथा न गच्छेत्तथा मया एते दण्डनीया. । सामान्यजनेभ्योऽधिकं स्वातन्त्र्यं वृत्तपत्रसम्पादकेभ्यः किमर्थ दातव्यम् ? अभियोगस्य निर्णये जाते न्यायाधीशः सामान्यजनस्य चर्चाविषयो भवतीति बॅप्टिटामहाशयैरुक्तम् । परम् अहमेयं मन्ये तस्यापि लेखनस्य काचिन्मर्यादा विद्यते । विफलेषु प्रयत्नेषु क्षमायाचनम् इत्यत्र न किमपि पौरुपम् । अतः क्षमायाचनं यावत् कारावासः केटकरमहाशयानां युक्तः इति । अनन्तरं केटकरमहाशयान् कारागृहं नीत्या नत्र तेषां प्रवेशसंस्काराः कृताः । परं वैपान्तरं न कृतम् । वाचनार्थ पुस्तकानि दत्तानि । क्षमायाचनं बिना यदा नान्या गतिरासीत्तदा केटकरमहाशयैः क्षमायाचनपत्रं चतुर्दशदिवसमात्रकारावासाप्रागेव ऑक्टोबरमासस्य द्वादशे दिवसे समर्पितम् । अतस्ते बन्धनान्मुक्ताः।

१० मुक्ततापर्व १ मंडाले कारावासः 'मंडाले'नाम्नि नगरे कारागृहं समानीतेषु लोकमान्येपु कालक्रमेण सार्धपश्चवण्यतीतानि । प्रत्यहं स एव नित्यक्रमः । लोकमान्यानां निवासार्थ एकः प्रकोप्टो दत्तः। एकः सूदः तेषां सहचरः । कारागृहाधिकारिणो भिपग्वर्यश्च लोकमान्यानामतिथयः । लोकमान्यानां भागिनेयो 'धोंडोपंत विद्वांस'महाशय: वत्सरस्य सकृद्वा द्विर्या लोकमान्यान् द्रष्टुं गच्छति स्म । तदर्शनमपि अधिकारिकार्या- लयेऽभूत् । विद्वांसमहाशयेन लोकमान्यानां निवासस्थानमपि न दृष्टम् । प्रतिमासमात्मनो वार्ता निवेदयितुं पत्रलेखनायानुज्ञाऽऽसीत् । तेषां व्यवसायः अतिवरिष्ठन्यायालयं प्रेपणीयानामभियोगानां निर्णयपरीक्षणार्थ प्रार्थनापत्राणां टिप्पणीकरणं 'गीतारहस्य 'ग्रन्थलेखनं च । २ लोकमान्यकथितकारावासवृत्तान्त: 'मंडाले' नगरकारावासात् पुण्यपत्तनं समागतेषु लोकमान्येपु केसरि- वृत्तपत्रवाचकानुग्रहार्थमेकं कारावासवृत्तनिवेदनं मुद्रितम् । तस्मिन्निवेदने संक्षेपतः सफलवृत्तान्तो विद्यते । अतो लोकमान्यैः स्वयं कथितं कारावास- वृत्तं वयमत्र समासेनावलोकयामः । 'अभियोगेन कारावासदण्ढे जाते कस्यापि पुरुपस्य दर्शनं विना न्यायालयस्याधोभागे नीत्वा पूर्वनियोजिततैलशकटाभ्यन्तरे मां संस्थाप्य 'वी. वी. सी. आय. 'नामकस्य लोहमार्गस्याग्निरथविनान्तिस्थानं रक्षापुरुषा • मामनयम् । तत्र पूर्वमेव विशेषवाप्परथः सन्नद्ध आसीत् । सारथिना सह रक्षापुरुषाणां संवादो जातः। कुत्र मां नयन्ति इति न केनापि मह्यं कथितम् । अन्येषुः प्रभातेऽनिरथविश्रान्तिस्थाने 'सायरमति'कारा- गृहस्याग्रतो वापरथोऽतिष्ठत् । 'अहमदाबाद विभागप्रशासकस्तत्रोपस्थित आसीत् । स मां कारागृहमनयत् । तत्र मम भोजनव्यवस्था सश्रमकारा- वासयन्दिजनस्येव आसीत् । तेन मम भारपरिमाण न्यूनं जातम् । अत- मुक्ततापर्व १८९ . चरुदुग्धघृतादिपदार्था मह्यं दत्ताः । द्वीपान्तरकारावासेन दण्डितोऽहं बहुदिवसानत्र न स्थास्ये इति मया ज्ञातमेव । अत: १९०८ वत्सरस्य सप्टेंबरमासस्य त्रयोदशे दिवसे कारागृहाधिकारी मां स्वकार्यालय- मनयत् । मम प्रयासस्य सकला सामग्री तन आसीत् । कारागृहा- द्वहिरग्निरथः सजोऽवर्तत । गुर्जरदेशीयो ब्राह्मणः सूदत्वेन नियुक्तः । अद्यावधि कारागृहवेपो मह्यं न दत्तः । परिधानवस्त्राणि, कञ्चुकः, उष्णीयं चेति मम वेपस्तत्रासीत् । सश्रमद्वीपान्तरकारावासदण्डः केवल- कारावासत्वेन परिवर्तित इत्याजापत्रकं मह्यं मण्डालेकारागृहे दत्तम् । वाप्प- रथद्वाराणि वातायनानि च पिहितानि । मम रक्षणार्थ (!) नव रक्षा- पुरुषा (!) आसन् । तेप्वेक: आड्ग्लदेशीयः । अन्येऽष्टौ यवनाः । शनिमगलादिनयग्रहा इव ते सर्वे मां परितः आसन् । एवं स्थितेऽपि एक- स्मिन् स्थले 'जयतु टिळकमहाराजः' इति शब्दो मया श्रुत एव । प्रभातायां रजन्यामस्माकमग्निरथो मुम्बापुर्या नौकाश्रयस्थान प्राप्तः । 'हार्डिंग'नामकं प्रवणमासीत् । तस्याधोभागे एकस्मिन् प्रकोप्टे मम सूदः स्थापितः । अहोरात्रमहं तत्रावसम्। तीनो निदाघः । प्रत्यहं होरामानं नौकायाः ऊर्ध्वभागे रक्षापुरुषा मामनयन् । मुम्बापुरीं विहाय विना विश्रान्ति- सुखं मम प्रवणं नवरात्रानन्तरं 'रंगून'नामकं नौकाश्रयस्थानमगच्छत् । मम तत्र गमनात्प्रागेव रंगूननागरिकैर्ममागमनवार्ता श्रुता । आसन्न- द्विसहस्रं जनाः नौकाश्रयस्थाने उपस्थिताः । प्रवहणान्मामवतार्य सन्निहित- धूमशकटे मां, मम सेवकांश्च प्रवेश्य प्रस्थितोऽस्माकं सारथिः । अन्येयुः प्रातःकाले अमिरथो ‘मंडाले'नामकं विश्रान्तिस्थान प्राप्तः । तन्न कारागृहे पूर्वनियोजितस्थलं मां नीत्या एकस्मिन् प्रकोप्टे मम स्थापना कृता । विंशतिहस्तदीर्घ द्वादशहस्तविततं मम निवासस्थानम् । कारागृहं परितस्तुनः प्राकार आसीत् । सर्वाणि द्वाराणि पिनद्धानि । मम प्रकोष्ठे एको विष्टरः, एको लेखनमञ्चः, एक मुखासनम् , निद्रासुखार्थमेको मञ्चकश्च आसन् । पाकसिद्धयर्थ प्रथमं गुर्जरदेशीयः सूद आसीत् । मासेन कारावासात्तस्य मोक्षे जाते अपर: 'कुलकर्णी 'नामक: पञ्चवर्पभोग्येण कारावासेन दण्डितस्तत्रानीतः । सोऽपि कालान्तरेण लोकमान्यटिळफचरितम् . गतः । अन्ते उत्तरभारतीय एको ब्राह्मणो मया सहासीत् । तण्डुल- गोधूमादिधान्यकणाः दुग्धघृतादिपदार्थाः तथा सप्ताहस्य सकृत् कानिचित् फलानि मामाहाराय दत्तान्यासन् । गृहादानीतानि वस्त्राणि धारयितुमनु ज्ञाऽऽसीत् । पाका स्थाल्यादिपात्राणि स्वधनेन क्रीवानि । विशेपस्तु पूगीफलभक्षणाय मह्यमनुज्ञा दत्ता । वाचनार्थ पुस्तकान्यासन् इति पूर्वमुक्त- मेव । परं युगपत् चत्वार्येव पुस्तकानि सन्निहितानि स्युः इत्याज्ञया मह. त्सङ्कटं प्राप्तम् । अतो ब्रह्मदेशशासनसंस्थाये मया प्रार्थनापत्रं प्रहितम् , यत् ग्रन्थलेखनाथ मया ग्रन्थसाहित्यमपेक्ष्यते । तस्मात्कृपयाऽनुज्ञा दातव्या इति । अनुगृहीतं मम प्रार्थनापत्रम् । अतो ग्रन्थलेखनाथ पुस्तकसम्भारः सन्निहितो जातः । सर्वे ग्रन्थाः सम्यक् परीक्ष्य, तेषां पृष्ठसंख्या प्रतिपुस्तकं विलिख्य मह्यं दत्ताः । लेखनाथ लेखनपुस्तकान्यपि पृष्ठसंख्यां गणयित्या दत्तानि । आसन्नचतुःशतं ग्रन्थसंख्या । एतान् सर्वान् प्रन्थानधीत्य केवलं पञ्चपेषु मासेपु गीतारहस्यग्रन्थो लिखितः । परं पूर्वचिन्तने तथा लेखना- नन्तरं न्यूनातिरिक्तदोपदर्शने बहुकालो व्यतीतः । स ग्रन्थः शासनसंस्थया नीतः । मम मुक्ततासमये मह्यं न दत्तः । प्रतिमासं पुण्यपत्तनादेकं पत्रं समागतमासीत् । मासत्रयस्यैकवार कस्यापि जनस्य दर्शनार्थमनुज्ञाऽऽसीत् । परं सा प्रायेण कुटुम्वीयजनस्य दर्शनार्थमुपयुक्ता । प्रकृतिस्वास्थ्यं सामान्यमासीत् । परं शरीरव्याधिरधिको जातः । परिणतवयसा पञ्चपा दन्ताः स्थानभ्रष्टाः । दूरस्थाः पदार्था न सभ्यगयलोक्यन्ते, न वा शब्दाः श्रूयन्ते । कृतान्तकटकामलध्वजजरा' दूरतो दृश्यते । मम कारावासः समाप्तिपथमायातः । अतो मया सर्वे ग्रन्थाः प्रथम प्रेषिताः । कारावासनियमानुसारतो द्वीपान्तरकारावासेन दण्डितो बन्दि- जनो दण्डसमाप्तेः प्रागेव मासदयं वदेशं नेवव्यः इति नियमः । तेनैव नियमेन मम सकला व्यवस्थितिर्भविष्यतीति मयाऽपेक्षितम् । तथा जून- मासस्याष्टमे दिवसे कारागृहनिरीक्षको मामागस 'गमनार्थ सन्नद्धा भवते'ति मामाज्ञापितवान् । एकवादनवेलायां रक्षापुरुपाधिकारिणो मामग्निस्थ- विश्रान्तिस्थानमनयन् । तत्र स्थितो बाप्परथो मां गृहीत्वा 'रंगून'नामकं . .

. मुक्ततापर्व १९१ नौकाश्रयस्थान प्राप्तवान् । तत्रस्था रक्षापुरुषा मां ' मेयो'नामके सेना- प्रयहणेऽस्थापयन् । कुत्र गन्तव्यमिति न केनापि मह्यं कथितम् । साम्प्रतं मातृभूमि गच्छामीति तर्कयित्वा मयाऽपि न पृष्टम् । अस्मिन् प्रयहणे मया प्रथम पुण्यपत्तनस्थरक्षापुरुषाणां मुसकमलानि दृष्टानि । तदा मयाऽनुमितम् एते मां पुण्यपत्तनं नेतुमागता भवेयुरिति । अस्माकं प्रवहणं 'मद्रास'नगरं प्राप्तम् । प्रवहणान्मामवतार्य अग्नि- रयविश्रान्तिस्थानं नीत्या वाप्पशकटे रक्षापुरुषा मामस्थापयन् । सर्वाणि द्वाराणि तथा वातायनानि पिहितान्यासन् । कुत्र मां नयन्ति इति न कोऽपि मामवदत् । धूमशकट: पुण्यपत्तनस्याग्निरथविश्रान्तिस्थानं नियतकालमागतो भवेत् । परमहं तत्र न गतवान् । गुप्तचरागामुपप्रमुसाधिकारी पूर्वमेव 'दौड'- नामकं वापरथविश्रान्तिस्थानमागत्य तत्रत्याधिकारिणा सह मन्त्रं कृत्वा निर्धारितवान् कस्मिन् विनान्तिस्थाने धूमशकटादस्मामिरवतार्यमिति । अतः पुण्यपत्तनस्य वाप्परथविश्रान्तिस्थानात्मागेय 'हडपसर'नानि विश्वान्तिस्थाने वयमग्निरथावतारिताः । तत्रस्थो विश्रान्तिस्थानाधिकारी अपि न ज्ञातयान् कथं तत्राग्निरथोऽतिष्ठदिति । विश्नान्तिस्थानाद्वहिर्गमनवेलायां द्वारस्थो- अधिकारी मां प्रवासानुज्ञापत्रं दर्शयितुमाज्ञापितवान् । रक्षापुरुपाधिकारिणं प्रति केवलमड्गुलि निर्देशो मया कृतः । अग्निरथविश्रान्तिस्थानाद्वहि तैल- शकटौ सन्नद्धावास्ताम् , तत्र वयं न्यपीदाम । मम बन्धमोक्षकाल: समीपमागत इति मया ज्ञातमेय । अतो मास. मानं मां 'येरवडा'नामके पुण्यपत्तनसमीपस्थकारागृहे रक्षापुस्पाः स्थाप. यिप्यन्तीति मया तर्कितम् । परं तत्र मम यास. सुगुप्तो न भविष्यति । अतो मामविलम्वेन मोश्यन्ति इति मयाऽपेक्षितम् । परमहं न कमपि पृष्ट- वान् । (अहो फियान् बाड्निमहोऽयम् ! ) अप्रे रक्षापुरपाधिफारिणां तैलशक्टः, पश्चान्मम शक्टः । एवंक्रमेण प्रस्थिता वयम् । येरवडासरा- गृहमार्गो यदास्मामिर्मुक्तस्तदा मम संशयो निरस्तः । अप्रस्थतेलशफटो मध्ये. मार्ग निवृत्तः । एवं सिस्ताब्दस्य १९१४ संवत्सरे जूनमासस्य पोडशे दिवसे भौमवासरे मध्यरात्रादूर्ध्वमरमाकं तैलाय: ' गायकवाडबाडा' इति नाम्ना लोकमान्यटिळकचरितम् प्रख्यातस्य सदनस्य पुरतः स्थिरीभूतः । मम तैलशकटे 'गायडर'महाशय- स्तथा 'सदावर्ते 'महाशय आस्ताम् । तावुभौ मां कथितवन्तौ "मासमात्रो दण्डः शासनसंस्थया कृपया क्षान्त.” इति । अनुगृहीतोऽरमीत्युक्त्वा तेभ्यो धन्यवादान वितीर्य मया कृतज्ञता प्रदर्शिता । शासनसंस्थारक्षापुरुपैः सह समागताय गृहस्वामिने द्वारं कथमुद्घा टयितव्यमिति संशयेन मम द्वाररक्षकः 'धोंडोपंत विद्वांस'महाशयमाहूत- वान् । समागते तस्मिन् अहं पड्वर्षानन्तरं मम सदनं पुनः प्रविष्टवान् इति । ३ कारावासानन्तरम् दीपान्तरस्थ मंडाले' कारागृहमुक्तान् पुण्यपत्तनस्थस्वगृहं मध्यरात्रे अकस्मादेव सुखरूपं समागतान् लोकमान्यान् सदनस्थो जनः सानन्दं साश्चर्य सकुतूहलं स्निग्धमयेन चक्षुपा पुनः पुनः पश्यन्नपि न नयनतृप्ति- मवाप । क्षणादेव दिवाभूता रात्रि. । उदितश्चैतन्यरविः । प्रकाशित सम्पूर्ण सदनम् । व्यवहारकुशलो लोकमान्यानां भागिनेयो वार्तामिमा वयस्यगणाय कथयितुं क्षणादेव दूतान् विसृष्टवान् । मुहूर्तमात्रादेव आप्तजनैन्धुवर्ग- यस्यगणैरपरिचितजनैनक्तमपि लोकमान्यसदनं समाकुलमभूत् । अहमई- मिकया सर्वो जनः सादरं सप्रश्रयं लोकमान्यचरणो स्पृष्ट्वा नमस्करोति समीपमुपविशति च । एवं याममात्रकालो गतः। अनन्तरमुपःकाले चतुर्वादन- वेलाया विश्रान्तिसुखाय लोकमान्यैः प्रार्थनापूर्वकं विसृष्टोऽयं जनसमूहः । इयमानन्दमयी वार्ता विद्युत्सन्देशैरखिलं भरतखण्डं वायुवेगेन प्रसृता । ' अपो तरङ्गेषु तैलबिन्दुरिव' लोकमान्या भारतीयेपु बहुली- भूताः । भारतवासिभिरभिनन्दनार्थ विद्युत्सन्देशाः प्रहिता. । वृद्धजनैराशी- र्वादाः प्रेपिताः । प्रतिवचनार्थ कार्यालयः अहोरात्रगुद्घाटित आसीत् । द्विवान् दिवसान समागतेभ्यो जनेभ्यो दर्शनदानं विना नान्यत् किमपि कार्य कर्तुं लोकमान्या अशक्नुवन् । लोकमान्यानां कारावासमुक्त तानिमित्तेनात्मनः आनन्दप्रदर्शनार्थमेका सभा निमन्त्रयितव्या इति पुण्यपत्तनस्थनागरिकाणां सार्वजनिकसभया निर्धारितम् । अतो भानुवासरे सध्यासमये 'गायकवाडवाडा 'नाग्नि मुक्ततापर्व सदने समाधिवेशनार्थ सम्भारः कृतः । पड्वादनवेलायां सदनस्य विस्तीर्ण प्रागणं जनसमाकुलमभूत् । सत्कारार्थ नागपुर-चन्हाह-खानदेश-नाशिक -सोलापुर-नगर-बेळगावादिप्रदेशेभ्यो वयस्यगणः समागत आसीत् । आसन्नपट्सहस्रं प्रेक्षकगणः । सपादषड्वादनवेलायां 'दादासाहेब खापर्डे. चिंतामणराव वैद्य-दादासाहेव करंदीकर-बाळासाहेब देशपांडे प्रा. विजापुर- करप्रभृतिवयस्यगणसमेता लोकमान्या यावत्सभास्थानं प्रविशन्ति तावरकर- तालकनिनादेन 'जयतु जयतु टिळकमहाराजः' इति जयशब्देन निखिलो जनसमूहस्तेभ्यः स्वागतं व्याजहार । प्रस्तुतचरित्रलेखकेन प्रत्यक्षीकृतोऽयं स्वागतमहोत्सवः । इदमेव तस्य लोकमान्यानां प्रथमं दर्शनम् । तेपां कनिष्ठः पुत्रः श्रीधराख्यः फर्ग्युसनमहाविद्यालये लेखकस्य सुपरिचितो- ऽभूत् । तेन प्रकाशितं 'मम लेखनव्यवसायः' इति नामकं पुस्तकं श्रीधर- महाशयेन लेखकायावलोकनार्थमुपायनीकृतम् । सभाध्यक्षस्थानं 'महर्पि अण्णासाहेब पटवर्धन'महाशयैण्डितम् । राष्ट्रियपक्षसंसामिः नागपुर-व-हाडादिविविधप्रदेशस्थलोकधुरीणैस्तथा प्रति- निधिभिर्लोकमान्येभ्यः पुष्पहारा: समर्पिताः । अनन्तरं लोकमान्या अमापन्त । कारावासमोक्षणानन्तरं सभायामिदमेव तेषां प्रथमं भाषणम् । ते. ऽवदन् “ सुखदुःखयोरेको भेदो वर्तते । 'स्निग्धजनसंविभक्तं हि दुःखं सबवेदनं भवति' इति कव्युक्तिः । परं संविभक्तं सुसं शतगुणेन वृद्धिं प्राप्नोति । इमं समुपस्थित जनसमूहं विलोक्य मम बन्धमोक्षसुखं लक्षगुणं जातम् । द्वित्रैः शब्दैमा कुशलं प्रयुकामो जनो याममात्र मत्समीप- मुपातिष्ठन् । परं प्रत्या क्षीणोऽहं सर्वैः सह वक्तुमसमर्थः । अतस्तान सर्वानहं क्षमा याचे । नैतदहं दम्भेन वदामि । परं सत्यमिदम् । पट्समानन्तरमहं स्वजनेपु प्रत्यागतः । समन्तादवलोकनं स्मारयति मां 'रिप् व्हॅन् विंकल्'नामकस्य पुरुषस्य कथाम् । 'वॉशिंग्टन् आयर्व्हिन्'- नामकेनाग्लग्रन्थकारण विरचिते ' रकेच् बुक्' नामके अन्ये इयं कथा विद्यते । 'विकल्'नामा पुरुपः बहून् संवत्सरानस्वपीत् । प्रबुद्धस्य तस्य निखिलं जगत् नूतनमाविर्भूतम् । सम्प्रति तदयस्थामहं सम्प्राप्तः । पट्सु वत्सरेषु अत्र किं जानम् , कति पुरुषा दिवं गमाः, कति जीयन्तो वर्तन्ने - १९४ लोकमान्यटिळकचरितम् इति वार्तालेशोऽपि यथा मम श्रुतिपथं न यायात् तथा मम व्यवस्थितिः कारागृहे कृताऽऽसीत् । अनेन शासनसंस्थाकर्मणा अहमेवं मन्ये अखिलं जगन्मया विस्मर्तव्यमिति शासनसंस्थोदेशः । अद्येदं लोककृतं स्वागतं वीक्ष्य जनो मां न व्यस्मरत् इति मे प्रतिभाति । मयाऽपि लोको न विस्मृतः । सर्वेषां जनानां प्रेमाविष्कारो यथा युष्माभिरत्र प्रदर्शितस्तथा मया कथं दर्श- यितव्यः ? अशक्यप्रायमेतत् । परं ममापि युष्मासु पूर्ववत्स्नेहो वर्वते इति युप्माभिः सत्यं मन्तव्यम् । पारद्भ्यः प्राक् युष्माभिः सह मम यथाss- चारस्तथैवातः परं भवेदिति युष्माभिर्मन्तव्यम् । अथ यूयमपि मां यथापूर्व स्वीकर्तुं समुत्सुका इत्यत्र बहुसंख्यया युष्माकमुपस्थितिः प्रमाणम् । आयत्यां यूयं किं करिष्यथ इति बहुभिर्जनैरहं पृष्टः । 'चक्षुःपूर्त न्यसेत् पादम्' इति सुभापितम् । वैदिकधर्मिणामियं पद्धतिः । येन मार्गेण गन्तव्यं वर्तते तस्मिन् किश्चिजलसिञ्चनं कृत्वा पदं निधातव्यमिति । इयमेव सरणिरस्माभिरनुसरणीया । अस्माकं पन्थाः शुद्धो वाऽशुद्धो था इति न ज्ञायते । तस्मान्मया यन्मौनं विधृतं तद्युक्तियुक्तमिति युष्माभिर्जातव्यं भवति । मया किञ्चिद्विस्तरेण वक्तव्यमित्युपस्थितानां जनाना मनोरथः स्यात् । परं प्रेमावेगात्तथाऽऽचरणं न युक्तम् । ग्रन्थस्य प्रस्तावना मया दर्शिता । ग्रन्थस्वरूपं युप्माकं मनस्यनेन प्रस्तावेन समुद्भवेत्” इति । उपस्थितजनेभ्यो धन्यवादान् दत्त्वा लोकमान्यरात्मनो वक्तव्यं समापितम् । यथा जनैस्तथा केसरिणाऽपि आनन्दः प्रदर्शित. । लोकमान्याना- मनुपस्थितौ केसरिपत्रस्य सम्पादकत्वं 'तात्यासाहेब केळकर'महाशयैः स्वीकृ- तम्। स्वीकृते सम्पादकत्वे संवत्सरादेव शासनसंस्थया मुद्रणविपये विधेयक सम्मतं कृतम् । तस्याघातः केसरिपत्रे पतितः । अतः कारागृहं गतेषु लोक- मान्येपु केसरिपत्रेण मुमूर्पणा न भाव्यमित्याकाझ्या केळकरमहाशयै- स्तत्पत्रं तथा सम्पादितं यथा पट्समानन्तरं लोकमान्यस्तत्पत्रं जीवदेवाव- लोकितम् । केटकरमहाशयानां मनसि स्थितेयमाकाक्षा परमेश्वरेण कृपया पूरिता इति कृत्या तैरात्मनः कृतज्ञता केसरिपत्रे 'मुक्ता टिळकमहाशयाः' इति शीर्षकं दस्याऽग्रलेखेन प्रदर्शिता ।

मुच्चतापर्व ४ गृहे कारावास पन्धमोक्षणानन्तरं लोकमान्या जनानामन्तःकरणेपु महत्स्थानं लभेर- निति बुद्धधा शासनसंस्थयाऽऽज्ञापत्रेण तेषां दर्शनमपि प्रतिपिद्धम् । 'यथा राजा तथा प्रजाः' इति न्यायेन कोल्हापुरछत्रपतिनाऽपि आज्ञापत्रेण तथा उद्घोपितम् । कैश्चित्तत्सम्भावितम् । कैश्चिदसम्भावितम् । अनेनाज्ञापत्रेण शासनसंस्थया क्षुदबुद्धिः केवलं प्रदर्शिता । अधिकारिणामपि विवेको नष्टः । एकमस्य निदर्शनं दृष्टम् । 'वेळगाव'पत्तनस्थाः 'दत्तोपंत वेळवी महाशयाः पुण्यपत्तने लोकमान्यानां दर्शनं गृहीत्वा प्रत्यागताः । तदा वेळगांवविभाग- प्रशासकः वेळवीमहाशयानाहूय साटोपं पृच्छति स्म । प्रशासक:- यूयं दिळकमहाशयं द्रष्टुं गता इति श्रूयते । अपि सत्यमेतत् ? वेळवीमहाशयः-- अथ किम् । प्रशा०-- अपि ज्ञायते युप्माभिः शासनसंस्थायाः आज्ञापत्रम् ? अपि ज्ञायते युप्माभिः कोऽहमिति ? स्वतन्त्रव्यवसायी विधिशास्रज्ञोऽहम् । नाहं मन्ये यत् लोकमान्यान् द्रष्टुमहं गतवान् इति कृत्या वरिष्ठन्यायालयो मम विधिशास्त्रज्ञाधिकारपत्रं निरस्यतीति । अन्यच्च । अहं विधिमण्डलसदस्यः । विधिमण्धले यदा एतादृशं विधेयकं सदस्यानां सम्मतं भवेत्तदाऽवश्यं विचारणीयं स्यात् । अनेन प्रकारेण अस्याज्ञापत्रस्यानादरो बहुभिः कृतः । अन्यच्च । आज्ञापत्रेण लोकमान्यदर्शनप्रतिपेधः कृतः । परं सभासु तेषां नामघोषः कथं निरोद्धव्य इति प्रश्नः । तस्यापि समयो गणेशोत्सवेनोपस्थितः । पुण्य- पत्तनस्थप्रशासकेनाज्ञापत्रकेणोद्घोपितम् (१) गणपतिनाम विना न कस्याप्यन्यस्य नामघोप. कर्तव्यः । (२) पूर्वानुज्ञां विना सार्वजनिक- स्थलेषु पद्यानि न गेयानि । न वा व्यारयानान्यनुष्टेयानि । (२) राज- द्रोहापराधेन दण्डितानां पुरुषाणां चित्राणि न प्रदर्शनीयानि , न या पुष्पहारः मण्डनीयानि । शासनसंस्थाऽनुज्ञया प्रशासकेनैकेन पत्रेण लोकमान्या अपि निवेदिताः यत्तैः श्रीगणेशमूर्तीनां सञ्चलने न प्रवेष्टव्यमिति । लोकमान्यानपि तत्सम्मतम् । भवत्वेतत् । परं शासनसंस्थायाः क्षुद्रत्वं परां कोटिं गत- वेळवी- लोकमान्यटिळकचरितम् मासीत् । तयाऽऽज्ञापितम् ‘लोकमान्यानां द्वौ पुत्रावपि मूर्तीनां सञ्चलने न ग्रहीतव्यो, यतस्तेषां सत्कारे कृते परम्परया लोकमान्या एव सत्कृता भवन्ति । अतस्तदपि न करणीय मिति । परम् एतादृशेन शासनसंस्थाया आचारेण लोकमान्यानां प्रतिष्ठा लोकेषु न ऊनाऽभवत् । प्रत्युत वृद्धि प्राप्नोत् । एवं शासनसंस्था लोकमान्यानां महत्त्वं नासहत । एतादृशः शासनसंस्थाया आचारोऽपमानास्पद इति लोकमान्या अमन्यन्त । अतो रक्षापुरुषाणामेतद्वन्धनं दूरीकर्तुं लोकमान्या आग्लदेशे प्रायतन्त । तत्ररथा अधिकारिणोऽपि इमं प्रकरणं व्यमृशन् । परम् अनेन समयेन (४-८-१९१४ ) अकस्मात्प्रथममहायुद्धं समुद्भूतम् । सइट- प्रस्तः आङ्ग्लदेशः । अपेक्ष्यते शासनसंस्थया सर्वेषां जनानां सहानुभूति- र्भारतदेशे । तस्मादेतदपमानास्पदं लोकमान्यदर्शनयन्धनं तया कथं दूरीकृत. मित्यत्रावलोक्यते। ५ लोकमान्यनिवेदनम् अनेन महायुद्धप्रसङ्गेन लोकमान्यैरात्मनो विचारा एफरिमन्निवेदने केसरिपत्रे प्रकाशिताः । शासनसंस्थया तदेवापेक्षितम् । एतन्निवेदनं केसरिपत्रे मराठीभापायां, मराठापत्रे आग्लभापायां मुद्रितम् । लोक मान्यलिखितम् "पण्णां घर्पाणां ममानुपस्थिती भारतदेशे यजातं तत्सर्व समालोच्याहमेवं मन्ये भारतदेशः शनैः शनैरात्मनो ध्येयमानमते । शासन- संम्पयाऽप्येतदधुना ज्ञायते यद्राजकार्यविपये लोफेभ्यः फेचनाधिकारा दातव्या इति । अतोऽधिकारिण• प्रजादुमयानि नियारयितुं प्रायतन्तेति दृश्यते । अनया रीत्या प्रजानां मनस्यधिकारिणां विपये विश्वासः समुत्पधेत । अथायं विश्वासः सहकाराय, सहकारः स्फूर्तये, स्फूर्तिः समुधमाय फपेत । अन्यदप्येतदुच्यते । ममानुपस्थिती भारतदेशे तयाऽऽग्लदेश आङ्ग्लमम्पादितवृत्तपत्रेषु मम लेग्यानां या मत्तानामान्दोउनानामताको पाण्यार्यों विशदीक्रियते यन्मया प्रत्यक्षाप्रत्यक्षमत्याचाराय मोत्मादनं दाम। गया मया मापौराग्लानां राज्यं समूलगुन्मूलयितुं पलः नः । चिरोल- महाशयसम्पादितमन्ये एतत्मयं यते । तिरस्करणीयमेयम् । मदानीगदं मुक्ततापर्व १९७ कारावासे वर्तमानः समर्थयितुं या प्रतिपादयितुं वाऽसमर्थ आसम् । अतो मयाऽधुना तत् कठोरशब्दैर्निपिध्यते । राज्यव्यवस्थाविपये शासनसंस्थया सहास्ति मम मतभेदः । न विरोधः । परं तेन मम भापणानि वा कृत्यानि वा शासनसंस्थाविपये जनानां मनसि द्वेपबुद्धि जनयन्तीति लेखनं लेखकस्य मनोविकृतिमेव द्योतयति । अत्याचारो मया नेकवारं निपिद्धाः । आग्लराज्यपद्धत्या भारतदेशस्य विविधलोकानां तथा जातीनामेकी- भवनेन कालान्तरे संयुक्तभारतराष्ट्रनिर्माणस्य महान् सम्भव इति कृत्या आग्लानां शासनाद्भारतवासिनां वहवो लाभा अजायन्तेति यदुच्यते तद्युक्त- मित्यस्माभिः सम्यग् ज्ञायते । अत. आङ्ग्लदेशस्यायं महायुद्धरूपो विप. कालोऽस्माकमाइग्लदेशविपयिकां निष्ठां दर्शयितुमुपकारकः समयः । आग्लदेशस्य सङ्कटकालो भारतस्य लाभावसरः इति ज्ञात्वाऽस्मिन्समये. ऽस्माभिर्भारतयासिभिराग्लेभ्य: सहकारोऽवश्यं दातव्यः । पूर्वस्मिन् कालेऽस्माभिरेवमेव कृतम् । अतोऽस्माकमेतन्मतप्रदर्शनाय सर्वेषां पक्षाणां , विविधानां जातीनां, धनिनां निर्धनानां, वृद्धानां तरुणानां, नराणां नारीणा- मेका सभाऽविलम्वेन पुण्यपत्तने निमन्त्रयितव्या " इति । अनेन लोकमान्याना निवेदनप्रकाशनेन महान् लाभो जातः । सप- धेय शासनसंस्थया लोकमान्यदर्शनप्रतिबन्धात्मकमाज्ञापनकं प्रतिसंहृतम् । महान् सङ्कटकालोऽयमिति ज्ञात्वा पुण्यपत्तनप्रशासकेन महायुद्धनिमित्तेन युद्धवार्तामुद्रणविषये चर्चा कृता । जना अपि सहकाराय सजा अभूवन् । लोकमान्याः सार्वजनिकसभासु अध्यक्षपदं स्वीकृत्य पुनर्देशकार्योन्मुसा अभूवन् । गणपत्युत्सयप्रसङ्गेन केसरिपत्रकार्यालये करंदीकर-परांजपेमहा- शयानां व्याख्यानसमये अध्यक्षपदं स्वीकृत्य लोकमान्यः सभायां भापितम् । तथा सप्टेंबरमासस्य ऊनविंशतितमं दिवसमारभ्य चत्वारि दिनानि भगव- गीतारहस्यमधिकृत्य तेषां प्रवचनान्यभूवन् ।

११ ग्रन्थपर्व १ वेदकालनिर्णयः अध्यापने संशोधने च रमते मम मानसम् । कालचक्रवशाद्राजकारणं मम जीवनकार्य सञ्जातमिति लोकमान्यानामुद्गारा बहुभिर्जनैः श्रुताः । दैनंदिनकार्य कुर्वाणा लोकमान्या यथावसरं संशोधनकार्य चिन्तयन्ति रम । साम्प्रतं राजकारणं तेषां स्वभावः । परं संशोधनकार्य तेभ्यो बहु रोचते । मॅक्समुल्लरमहाशयेभ्यः प्रेपिते पत्रे लोकमान्यैरेवमेव लिखितम् ‘यदा मया ऽवसरो लभ्यते तदा तं कालमहं प्राचीनसंस्कृतिसंशोधनेन वा वेदवाङ्मय संशोधनेन याऽतिवाहयामि' इति । संशोधनकार्यस्यास्य प्रथम फलं 'ओरायन् ' नामको वेदकालनिर्णय. विपयकः आङ्ग्लभाषायां लिखितो ग्रन्थः । १८९३ संवत्सरे अस्य अपत्यस्य जननम् । आङ्ग्लदेशस्थ लंडन'नगरे 'ओरिएंटल कॉमेस्'. नामिकायाः प्राच्य विद्यासभाया अधिवेशने वाचनार्थ लोकमान्यैरस्य ग्रन्थस्य सारांश: प्रहितः, सभायाः प्रतिवृत्ते मुद्रितश्च । 'आक्टिक होम इन् दि वेदाज्'नामकः आर्याणां मूलस्थानविषयको लोकमान्यानां द्वितीयो ग्रन्थः । अयं ग्रन्थः १९०३ संवत्सरे प्रसिद्धि गतः । परस्परपूरकमिदं ग्रन्थद्वयमिति लोकमान्यैः स्वयमेव प्रस्तावनायां लिखितम् । ते प्रतिपादयन्ति 'चेदकालनिर्णये पाश्चात्त्यपण्डितैदवाअयस्य कालसण्डाः प्रकल्पिताः। एकैकस्य खण्डस्य कालायधि: सामान्येन कल्पितः। अनया कालगणनया सिस्तशात्पूर्व सार्धसहस्रद्यपरिमितो वेदयाध्ययकालः सम्प्राप्तः । अतीव स्थूलेयं कल्पना, प्रमाणदृष्ट्या अनिश्चिता च । पाश्चात्त्यै- वैदवाडायस्य प्रतिसण्डाय अल्पकालः प्रदीयते । वाटाये विद्य- मानानि ज्योतिपविपया विधानानि विचिन्त्येयं कालगणना निसपूर्वपश्य- सहस्रवर्षपर्यन्ता दृश्यते । 'फेतकर'प्रभृतिज्योतिर्विद्भिः पूर्वमेवेदं प्रमाणी. कृतमासीत् । परं पाश्चात्त्यपण्डिता. कथमेतत्सम्मन्येरन् ! मिग्नपद्धत्या संशोधिते वेदवाटाये कदाचिदन्यान्यनुमानानि सन्दृश्यन्ते इति सामान्य : ग्रन्थपर्व १९९ त्वेन तैरनुज्ञातम् । पञ्चसहस्रवर्षकाल: 'ब्लूमफील्ड'महाशयैः सम्मतः । अतो लोकमान्यैरधिकं संशोधनं कृतम् । भूगर्भभूस्तरशास्त्रादिमिस्तथा प्राचीनवस्तुसंशोधनेनैतत्कार्य सुकरं जातम् । अनेन संशोधनेनायं कालो लोकमान्यैः त्रिस्तपूर्वाष्टसहस्रवर्षपर्यन्तं नीतः । मानवजातौ ऋग्वेदोऽतिप्राचीनः इति पण्डितानां मतम् । वेदकाल- निर्णयस्य दे साधने, भाषाशास्वं ज्योतिपशास्त्रं च । मॅक्समुल्लरादिपाश्चात्त्य पण्डितर्भापाशनपद्धतिः स्वीकृता । तां स्वीकृत्यापि ज्योतिपशास्त्रसाहाय्ये. नान्यानि प्रमाणान्युपलभ्यन्ते इति कृत्वा लोकमान्योतिपशानपद्धति- रखलम्बिता। छन्द.कालो मन्त्रकालो ब्राह्मणकालः सूत्रकालज्येति चतुरो विभागान् परिकल्प्य, तेभ्यः शरदां द्विशतं कालं दत्त्वा वेदकालः निस्तपूर्व- द्वादशशतसंवत्सरपरिमित इति मॅक्समुल्लरमहाशयनिर्णीतम् । 'डॉक्टर हो' महाशयैर्वत्सराणां पञ्चशतं दत्त्वा वर्षाणां चतुर्विशतिशतं गृहीतम् । लोकमान्यैरयं मार्गः प्रत्याख्यातः। संवत्सरे सूर्यस्य गतिरेकदा उत्तर दिशमुद्दिश्य भवति, यण्मासा- नन्तरं दक्षिणां दिशमुद्दिश्य भवतीति ज्ञायते अज्ञैरपि । प्रत्यक्षमिदम् । आक्रमवृत्तस्य शेखरं प्रति सचितुर्गमनं संवत्सरस्य द्विदृश्यते । पाण्मासिक- मिदम् । उत्तरां दिशमुद्दिश्य सूर्ये गच्छति, यदा दिनरात्रिसाम्यं भवति तदा पसन्तसम्पातः । दक्षिण दिशमुद्दिश्य गच्छति सूर्ये यदा दिनरात्रि- साम्यं भवति तदा शरत्सम्पातः इति लोकैरुच्यते । वसन्तसम्पातकाले सविता रेवतीनक्षत्रात् प्राक् अष्टादशसु अंशेषु विद्यते । वसन्तसम्पाते सूर्यस्य भ्रमणं येपु नक्षत्रेषु वर्तते तानि सर्याणि चलानि । अतिसूक्ष्मगल्या तेषां चलनम् । सम्पातचलनगतिर्योतिनिश्चिता । तस्याः आधारेण गणितशास्त्रदृष्ट्या ज्योतिषा वर्णयन्ति कस्मिन् काले करिमन्नक्षत्रे वसन्त- सम्पातो भवतीति । वेदाङ्गज्योतिपकाले अयं वसन्तसम्पातो भरणीनक्षत्र- स्थामे दशसु अशेष्यभवत् । अवस्तस्य काल: स्रिस्तपूर्व त्रयोदशशतयर्षाणि (१३००)।त्तिरीयब्राह्मणे वसन्तसम्पात: कृत्तिकानक्षत्रे आसीदित्य- नुमीयते । ऋग्वेदेऽयं वसन्नमम्पातो मृगशीर्षनक्षत्रे आसीन ( Orion - २०० लोकमान्यटिळकचरितम् आप्रयण ) । अतः ऋग्वेदकालः ख्रिस्तपूर्वचतुःसहस्रवर्षपरिमितो लक्ष्यते । अतः इदं पत्रकमुपलभ्यते । अदितिकालः ख्रिस्तपूर्व पुनर्वसुनक्षत्रात् ६०००तः मृगशीर्पनक्षत्रे ४०००यावत् वसन्तसम्पातपर्यन्तम् मृगशीर्पकालः ख्रिस्तपूर्व- मृगशीर्पनक्षत्रतः ४०००तः कृत्तिकायां वसन्त- २५००यावत् सम्पातपर्यन्तम् । कृत्तिकाकाल: ख्रिस्तपूर्व कृत्तिकातो भरणी- २५००तः नक्षत्रे वसन्त- १४००यावत् सम्पातं यावत् । एवं विस्तपूर्वचतुःसहस्त्रवर्षाणि ऋग्वेदकालः , तस्मादार्यसंस्कृतिः सर्वासु संस्कृतिपु ज्येष्ठा श्रेष्ठा च दृश्यते । संक्षेपतः 'ओरायन'अन्धतात्पर्यमेतादृशम् । प्रथमतो वेदकालनिर्णय महत्त्वं तथा च पण्डितैरवलम्बिता विविधाः पद्धती: कथयित्वा वैदिककाले विद्यमानं पश्चागं, यज्ञकालं, वर्षारम्भं च निषण्यकस्मिन् काले वसन्त- सम्पातः कृत्तिकानक्षत्रे अवर्ततेति प्रतिपाद्य, कृत्तिकानक्षत्रे वसन्तसम्पाते सति कः कालो निश्वितो भवतीति प्रमाणैर्विवैचितम् । अनन्तरमयं घसन्त- सम्पातो मृगशीर्षेऽभूदित्यस्मिन् विषये मृगशीर्पनक्षत्रस्यान्यन्नाम आप्रयण- मित्यस्य व्युत्पत्तिविचारः कृतः । तदपि नक्षत्रमेकदा प्रथममासीति दर्शितम् । आप्रयणशब्दव्युत्पत्ती कुताः कथं कल्पिता इति निवेद्य सम्पावान्दोलन- कल्पनायाः सम्भाव्यं कारणं दत्तम् । मृगशीर्पविषयफाः मन्त्राक्षण- पुराणेपु विद्यमानाः कथास्तथैव 'मीक पौराणिककथाः कथयित्या प्रन्य. फारेण तासां साम्यं दर्शितम् । ग्रीकाणाम् 'ओरायनः' सस्य मेसला, भरमाकं यज्ञप्रजापतिः तस्स यज्ञोपवीतम्, 'शरतुष्ट्रा'नुयायिनां होमः (सोमः१) तस्स मेसला च, सर्येपामेतेषां साम्यं दर्शयित्या प्रीकाणाम् 'ओरायन'शब्दो येदिकानाम् 'आपयण'शलान् मिद्धो भयप्तीवि प्रमि. + ।

॥ श्रीगणेशाय नमः।
ता.
..
.
श्रीमगवड़ी.ता- रहस्य
अभना
कर्म योग्य-शाम
प्रकरण
निय प्रवेश
नारायण न महल नरं चैव नरोजना।
देवी सरस्वती मान मोजमयदीरयेत
पराभान आदिम
श्रीमदगनीनो
हाथोकी एक भगत
तेजनी के निर्गल हिरा आहे. पिदार ज्ञानमूनिक आमनि
योची स्वत्र तले सोहगात पं अधितीने सांगू
retain सागमा आमालक
STATE
सामलिगकरना
(भीला Hit
मनोमवाधारकांचा
समन करपार रा
शे मेध संसदमागमगातार नाम:
मोरो सपउन मित्रहोय. महागामारी जरी
मनले
मंडाले नुरुंगांत लिहिलेल्या गीतारहस्याच्या मूळ हस्तलिखित प्रतीतील
पहिल्या वहीचे पहिले पान.

टिळक-कुटुवातील मडळा
।
के दुगाताइ वैद्य, ला टिळक व कै श्रीधरपत टिळक, के रामभाऊ टिळक के सत्यभामाबाइ टिळक,
के पावताबाइ क्तकर व धा अ व क्तकर डा) सौ मबूताई ( रमावाद ) सान

लो. टिळक घरगुती पोशाखात
मजाक
.
m

गष्ट्रीय सभेतर्फे विलायतेस गेटेलें शिटमंडळ, सप्टेंबर १९१८
reasorever
Samsun.
d
बाबू बिपिनचद्र पाल, डॉ पी जे मेथा, लो टिळक, ना सापर्ड,
ना विटलमाइ पटेल, न चि केळकर

प्रन्यपर्व .२०१ पादितम् । सर्वेपामेतेषां मूलस्थानीया मृगशीर्पनक्षत्रे वसन्तंसम्पात्तकल्पना । वैदिकजनस्य ज्योतिपज्ञानं निरूप्य वसन्तसम्पातो मृगशीर्यनक्षत्रेऽभू- दित्यस्य प्रमाणार्थमेकः ऋग्वेदमन्त्रः तथैवैकं सम्पूर्ण सूक्तमुद्धृतं विवेचितं च । अन्ते वसन्तसम्पातः पुनर्वसुनक्षत्रे आसीदित्यपि दर्शयितुं प्रमाणानि गृहीत्वा एकैकस्य कालखण्डस्य मर्यादां कथयित्वा एतानि सर्वाण्यनुमानानि इतरेपामविरुद्धानीति दर्शितम् । अनेन संशोधनेन पाश्चात्त्यसंशोधकेषु विचारक्रान्तिः समुत्पादिता । कालनिर्णये ज्योतिषशास्त्रसाधनं सर्वैः परित्यक्तमासीत् । तदेव साधनं स्वीकृस लोकमान्यैरयं वेदवाङ्मयकालनिर्णयः कृत इति चित्रम् । वह्यो विद्वांसोऽस्य ऽस्य पक्षस्य खण्डनेऽसमर्थाः । पूर्वग्रहदूपिताश्च दुर्बलास्ते मण्डने या स्वीकारे या । संशोधको 'जाकोवी 'महाशयोऽनेनाधारेण प्रमुदितो जातः । तथैव अमेरिकाखण्डस्थेन संस्कृताध्यापकेन 'मारिस ब्लूमफील्ड'महाशयेन एकस्मिन् प्राच्यविद्याविपयव्याख्यानेऽस्य सिद्धान्तस्योल्लेखः कृतः । २ आर्याणां वसतिस्थानम् लोकमान्यानामन्यो ग्रन्थः 'आर्याणां वसतिस्थानम्' इतिनामकः । भूसरशानसिद्धान्तानामाधारोऽस्य ग्रन्थस्य । शास्त्रज्ञा वदन्ति 'खिस्तपूर्वाप्ट- सहस्रवर्षेभ्यः प्राक् उत्तरध्रुवप्रदेशो मानववसतिक्षमः आसीत् । परं तत्र मानयानां वसतिरासीदित्यस्मिन् विपये निर्णायकानि साधनानि भूस्तर- शाने नोपलभ्यन्ते । एतानि साधनानि ऋग्वेदे दृश्यन्ते इति लोकमान्यैः संशोधितम् । उत्तरध्रुवं परितो वर्तमानानां निसर्गरमणीयभूभागानां वर्णनम् ऋग्वेद उपलभ्यते । एवं सति तद्वर्णनं वर्णयितारः कषयोऽपि ध्रुवमभितः न्ययसन्नित्यनुमीयते । अनेनानुमानेन केपांचिन्मन्त्राणामपि दुज्ञेयोऽर्थः सुज्ञेयो भवति। अस्मिन् प्रन्ये लोकमान्यैरेवं प्रतिपादितं शास्त्रीयसंशोधनात्प्रागिति- हासकालमर्यादा स्वल्पाऽऽसीत् । संशेधनेन सा सिस्तशकात्याक् सुदूर गता । यानि तरयान्यगम्यानि वा याः कथाः काल्पनिफा इत्यस्मामिरमन्यन्त तानि तत्त्वान्यघुना सुज्ञेयान्यासन या ता: कथाः साम्प्रतं मुबोधा जाता इति प्रथमप्रकरणे उक्तम् । द्वितीये प्रकरणे ऋतुपर्यायकारणं प्रतिपाद्य २६ २०२ लोकमान्यटिळकचरितम् पृथिव्याः विविधविभागे जायमाना अन्तरिक्षविकाराः कथं भूताः, ध्रुव• प्रदेशोऽपि एकदा कथमुष्ण आसीत, कालक्रमेण स कथं शीतलोऽभवत् , हिमवृष्ट्या स भूभागो मानुपयसत्य कथमयोग्योऽभवत् , पुनः , शनैः शनैः कथमुष्णोऽभवदिति वर्णितम् । ऋग्वेदे .विद्यमानं निसर्गवर्णनं दृष्ट्वा उत्तरध्रुवप्रदेशो मानुपवसतिक्षमः कल्प्यते । अनया कल्पनया न कस्यापि सिद्धान्तस्य हानिः, न कोऽपि दोपः । प्रत्युत नूतन- संशोधनेनास्याः कल्पनायाः समर्थनं भवति । तृतीयप्रकरणे ध्रुव- प्रदेशो वर्णितः । निदाघसमयस्तत्र शीतः, उप्णश्च हेमन्तः । एवं तत्र सदैवासीत् वसन्तर्तुहिमप्रलयात्प्राक् । सविता दक्षिणस्यामदेति । तारका नोदन्ति, नाप्यस्तं यान्ति । वर्तलाकारं परिभ्रम्य ता अष्टसु प्रहरेषु प्रदक्षिणामेकां सम्पादयन्ति । तत्र पाण्मासिको दिवसः, पाण्मासिकी रजनी च संवत्सरं कुरुतः ।हायने दिनमणिः सदुदेति, सकृञ्चास्तमेति । रमणीय- तमोऽत्रोपःकालः । चतुर्थप्रकरणे ध्रुवप्रदेशे विद्यमानः पाण्मासिको दिवसः पाण्मासिकी च रात्रिः ऋग्वेदे वयेते । इदमेव देवानामहोरात्रम् । देवयानपिठ्याणसम्बन्धः संवत्सरस्य प्राचीन एव । एताः कल्पनाः पाश्चात्त्येप्वपि दृश्यन्ते । अतस्ताः सार्थाः साधाराश्चेत्यनुमीयते । पञ्चमे प्रकरणे उपसो विवेचनं कृत्वा तद्वर्णनपराणि वाक्यानि तथा मन्त्रा- श्वोद्धृताः । पठे प्रकरणे प्रदीर्घ दिवसानां तथा रात्रीणां विमर्श कृत्वा सप्तमे मासानामृतूनां विवेकं प्रतिपाद्येदं दर्शितम् , यत् पुरा कदाचन सप्तमासात्मक वा दशमासात्मकं वा वर्षमानमासीत् । पञ्चानामृतूनां संवत्सरोऽभवत् । सर्वाण्येतानि वर्णनानि पुराणान्तरे वर्तमानानि काल्पनिकानीति जना अमन्यन्त । परं सर्वमेतदैतिहासिकं सत्यमासीत् , तथैवेदं सर्व ध्रुवप्रदेशे निवसद्भिर्जनैरन्वभूयतेति लोकमान्यानामनुमानपरम्परा । अष्टमे प्रकरणे दशमासानां कल्पनासिद्धयर्थ गवामयनसनपरीक्षणं कथमयुक्तमिति निर्दि- टम् । नवमे प्रकरणे गूढवैदिककथानां निवेदनम् । विशेषेण इन्द्रवृत्रयो- युद्धम् । अनयाऽहोरात्रोपपत्त्या अस्याः कथाया अर्थः सुसङ्गवो भवति । इन्द्रवृत्रयोयुद्धवीजं प्रदीर्घा तमिस्रा । तस्या अनन्तरं प्रदीर्घः प्रकाशागमः । एतादृशं दृश्यं ध्रुवप्रदेशे दृश्यते । तत्रानुभूतेषु विषयेषु एतादृशीनां कथा. नामुद्गमः । दशमे प्रकरणेऽतया विचारसरण्या. वैदिककथान्तर्गताः प्राव:- . . - -- ग्रन्थपर्व, कालिकदेवताः, विष्णुदेवतायाः त्रिपादविक्रमः, दाशराज्ञयुद्ध, दशमुखरावणः इत्यादीनां कल्पनानां प्रतिपादन विद्यते । एकादशे झरतुष्ट्रानुयायिनां झंदावेस्ता'नामके वेदे वर्तमानानि प्रमाणानि दत्त्वा, द्वादशे प्रकरणे गाथाशास्त्राधारेण पाश्चात्त्यकथा अपि वैदिकप्रमाणानां पोपकाः कथं भवन्ती. यालोचितम्' । त्रयोदशे प्रकरणे सर्वाणि प्रमाणानि साकल्येन विमृश्य उत्तरध्रुवं परितो वर्तमानस्य वसतिस्थानस्य काल: ख्रिस्ताब्दात् प्राक् अष्टसहस्रसंवत्सरपरिमितः कथं निश्चितो भवतीति प्रतिपादितम् । एवं ध्रुवसमीपं वसतामार्याणां संस्कृतिः श्रेष्ठा प्राचीना चेति निश्चीयते । एपमार्याणामार्यधर्मस्य च मूलम् एवंरूपं प्राचीनम्-सनातनम् । अतस्त- द्विपयकाण्यनुमानान्यपि स्थूलस्वरूपाणि । तथापि वेदोत्पत्तिवेदस्वरूपविषय- काण्यस्माकमृपीणां मतानि कथं सत्यानि, भूस्तरशास्त्रप्रतिपादितः प्रलयस्तथैव प्रलयोत्तरं जीवसृष्टेरुदयः , अनेनोदयेन प्रलयकाले विनष्टो वेदः अर्थशः पुनः कथं सम्भवति, अन्ते अनेन वेदसम्भवेन वेदानामनादित्वं कथं सिध्यतीति समालोचितम्। 'ओरायन' तथा 'आईटिक् होम् इन् दि वेदाज्' इति ग्रन्थद्वयस्य परीक्षणे कृते प्रथमः प्रमाणवद्धः, द्वितीयश्चित्तरजकः उद्योधकश्च दृश्यते । इयं विचारसरणिः पाश्चात्त्यानां नूतना । द्वितीया ग्रन्थपद्धतिः पाश्चात्त्यानां पौरस्त्यानामपि नवीना । प्रथमो ग्रन्थः वाचकाय रूक्षो भाति । परं द्वितीयः प्रतिभाजन्यकल्पनाविलासेन तथैव सर्वासां कल्पनानामेकस्मिन्नद्भुतप्रमेये पर्यवसानेन महदाश्चर्यमावहति । ननु इदं ग्रन्थद्वयमाड्ग्लभाषायां किमर्थ लिखितमासीदित्याक्षेपे इद- मुच्यते । पाश्चात्त्यसंशोधकानां दृष्टिपथमयं ग्रन्थः कथं गच्छेत्तर्हि आङ्ग्ल- भाषावगुण्ठनेनैतत्सुकरं भवेदिति विमृश्य आङ्ग्लभाषास्वीकारो लोकमान्यैः कृतः । पाश्चात्त्यपण्डितनिश्चित: कालो लोकमान्यैः प्रमाणेः सण्डितः । लोकमान्यानां राष्ट्रियभावनाया एको घटको विजयिष्णुता । पौर्यात्यपाश्चात्त्य- संस्कृत्योः सङ्घर्षे पौर्वात्यसंस्कृतेर्षिजयोऽनेन ग्रन्थद्वयनिर्माणेन लोकमान्यः सम्पादितः । सोऽपि विजयो भारतस्याभ्युदयार्थम् ।

२०४९ लोकमान्यटिळकचरितम् ३ गीतारहस्यम् राष्ट्रकार्यधुरीणेषु ध्वज इयाप्रेसराः, लोकचित्तविजेतृपु धौरेयाः, लोकापणीपु प्रथमश्रेणीमलंकुर्वाणाः, मधुमेहादिव्याधिग्रस्तशरीराः पश्चिमे वयसि वर्तमाना लोकमान्याः १९०८ संवत्सरे राजद्रोहाभियोगे पड्वर्ष- भोग्येण देशान्तरकारावासेन दण्डिताः । अचला इवाचलधैर्यवृत्तयः, क्षत्रिया इव जनदुःखविमोचनशीलाः, कवय इव कल्पनाऽऽकराः, पिपीलिका इव सततोद्योगशालिनः, अपय इव विशुद्धाचाराः, स्थितप्रज्ञा इवानवरतपर- तत्त्वविवेकेन स्थिरबुद्धयो लोकमान्याः कारागृहे कथं तूष्णीं वसेयुः? चिन्तन- पराणां तेषां मनसि एतावत्कालपर्यन्तं निश्चलीभूताः भगवद्गीताग्रथित- तत्त्वज्ञानविचाराः वाक्शरीरधारणक्षमाः कर्मयोगशास्त्ररूपेण गीतारहस्य- मित्यपरनामधेयेनाविरभवन् । गीतारहस्यग्रन्थस्य प्रस्तावनायां लोकमान्याः स्वयमेव लिखन्ति 'रुग्णशय्याऽऽसीनान् तातचरणान् श्रावयितुं भगवद्- गीतावाचनं पोडशवर्षदेशीयैरस्माभिः प्रथमं कृतम्' इति । गीताश्लोक- पारायणं वा तस्याः प्राकृतभाषानुवादवाचनं वा प्रथमे वयसि वर्तमानानां लोकमान्यानां सम्पूर्णभावार्थज्ञानाय नालमासीत् । परम् अनेनाल्पपरिचयेन तेषां मनसि गीताध्ययनरुचिः समुत्पन्ना। 'काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।' इति वचनानुसारतः कार्यान्तराभावाद्वेदग्रन्थसंशोधनेन वा भगवद्गीताभ्यासेन वा लोकमान्याः स्वकालं नयन्ति स्म । इदानी देशान्तरकारावासदुःखं सम्प्राप्तम् । अस्मिन् समये 'कृतान्त- कटकामलध्वजजरा जर्जरितदेहे, कुटुम्वीयजनवियोगदुःखदुःखितचित्ते , दूरीकृते वयस्यवान्धवगणे , निर्बन्धनिवृत्ते परमप्रियराजकारणसमुद्यमे , शासनसंस्थाकृपाकटाक्षेण अनिच्छया प्राप्ते विश्रान्तिसुखे , भायता श्रीकृष्णेन योगयुक्तचेतसा गीतासूपदिष्टपरमात्मतत्त्वचिन्तनेन विना किमन्यत् लोकमान्यानां रुचये भविष्यति ? पड्यर्पभोग्यकारावासावधेर्वर्ष. द्वयानन्तरं गीतारहस्यनिर्माणाय लोकमान्या मतिं चक्रुः । त्रिचत्या. रिंशद्वर्षपर्यन्तं कृतस्य चिन्तनस्य सुधासदृशं सुमधुरमेतत्फलं गीतारहस्यं - ग्रन्थपर्व २०५. नाम । तस्योपक्रमोपसंहारप्रकरणानुसारतः संक्षेपेणात्रावलोक्यते कि तद्रहस्यतात्पर्यमिति । गीताभाष्यादिसंस्कृतग्रन्थानां तथान्यभापासु विद्यमानानां प्राचीना- चीनग्रन्थानां परिशीलनेन पूर्वे वयसि जातसंस्कारे मनसि समुत्पन्ना- ऽऽशङ्का । दुर्योधनादिकौरवैः सह युद्धाय सन्नद्धोऽर्जुनः सेनयोर्मध्ये स्वं रथं स्थापयित्या भीष्मद्रोणादिमहानुभावानां गुरुजनानां वधपावकमाकलय्य शोकसंविग्नमानसो जातः । अहो वत महत्पापं कर्तुं व्यवसिता वयम् ।' इति तस्योक्तिः। एतदवस्थमर्जुनं युद्धाय प्रवर्तयितुकामेन भगवतोपदिष्टासु गीतासु केवलं ब्रह्मज्ञानविवेचनं या मोक्षमार्गकथनं वा कथं सम्भवेत् ? निर्विण्णचेताः, निवृत्तकर्मा, संन्यस्तशस्रोऽर्जुनः समरभूमिं परित्यज्य, विविक्ते पर- मात्मतत्त्वचिन्तनपरो भूत्वा सुखं निवसेत् । युद्धकर्मणि प्रवृत्तः कथं स भवेदित्याशङ्कायाः समाधानं कर्मसंन्यासपूर्वकतत्त्वज्ञानप्रतिपादन. मात्रेण न भवति । अतो लोकमान्य प्यादिपन्थान दूरीकृत्य भगवद्गीता. चिन्तनं स्वतन्त्रबुद्धया कृतम् । तदा भगवद्गीता प्रवृत्तिरूपं कर्मयोगमार्ग- मुपदिशतीति दर्शनं समुत्पन्नम् । ग्रन्थतात्पर्य मीमांसका एवं निर्णयन्ति- 'उपक्रमोपसंहारावम्यासोऽपूर्वता फलम् । अर्थवादोपपची च लिङ्गं तात्पर्यनिर्णये ।' अनेन निकपेण ग्रन्थोपक्रमदृष्ट्या गीतासु दृष्टिक्षेपे कृते किं लक्ष्यते ? अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥१॥ हुपीकेशं तदा वाक्यमिदमाह महीपते । सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥२॥ इति अर्जुनोऽब्रवीत् । अनन्तरं समरभूमौ पितामहान् , आचार्यान् , भ्रातून, पुत्रान् , पौवान् , ससीन् युयुत्सून दृष्ट्या विपण्णमना अर्जुनो ब्रूते- 'सीदन्ति मम गात्राणि मुसं च परिगुप्यति । चेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥

लोकमान्यटिळकचरितम्
गाण्डीवं संसते हस्तात्त्वक् चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ।।
2
अतः
यत
~
न काझे विजयं कृष्ण न च राज्यं सुखानि च ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ।।
कुलक्षये जाते कुलधर्माः प्रणश्यन्ति । नष्टे अधर्म कुलमभिभवति ।
तस्मात् कुलस्त्रियः प्रदुप्यन्ति । अनन्तरं सड्करो भवति । सड्करो नरकाप
कल्पते । अनया परम्परया कुलधर्मा जातिधर्माश्चोत्साद्यन्ते । तेन नराणां
नरके वासो नियतं भवतीति श्रूयते ।।
'अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ।।'
यदि मामशस्त्रं शस्त्रपाणयो धार्तराष्ट्रा हन्युस्तहि क्षेमतरं भवेत् । एवं
विपीदन्तमर्जुनमश्रुपूर्णाकुलेक्षणं दृष्ट्या ,
'कुतस्त्वा कश्मलमिदं विपमे समुपस्थितम् ।
अनार्यजुष्टमस्वय॑मकीर्तिकरमर्जुन ।।
क्लैन्यं मा स्म गमः पार्थ नैतत्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ।'
इति भगवानुवाच । इदं सूत्रभूतमुपदेशमजानन् अतीव खिन्नमना अर्जुनो
यक्ति स्म 'कथं पूजार्हाभ्यां भीष्मद्रोणाभ्या सहाहमिपुभिर्योत्स्ये ? तेषां
हननात् भैक्ष्यमपि लोके श्रेय. । तान् हत्वा रुधिरप्रदिग्धान् भोगान् कथं
भुजीय?' हे भगवन् धर्मसम्मूढचेता अहं त्वां पृच्छामि-
'यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्मे ।
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ।।" इति ।
एवं युद्धनिवृत्तमर्जुनं प्रहसन्निय परमफारुणिको भगवान् श्रीकृष्या

अन्यपर्व २०७ . - . 'अशोच्यानन्यशोचस्त्वं प्रज्ञावादांश्च भापसे ।' इत्युपहासगर्भवचनेन प्रारभ्य इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥' इत्यन्तं सप्तदशाध्यायमितमुपदिशति गीताशास्त्रम् । एवमुक्त्वा यथेच्छसि तथा कुरु' इति कर्मस्वातन्त्र्यं दत्त्वा गुह्याद्गुह्यतरं सुविस्तरेणोपदिश्य गुह्यतमं किश्चिदवशिष्यते इति मत्वाऽसन्तुष्टो भगवानाह-- 'सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इप्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ।। सर्वधर्मान् परिस्पज्य मामेकं शरणं व्रज | अहं त्या सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥' इति । सप्तदशाध्यायान्तं शास्त्रप्रमाणैः कर्मज्ञानभक्तियोग विस्तरेण व्याख्याय परमात्मतत्त्वं निश्चित्य तत्तत्त्वं ' मन्मना भवेति शोकद्वयेनात्मना एकी- कृत्य 'मामेकं शरणं व्रज' इति निश्चितमुपदिश्य भगवानुवाच-- 'कच्चिदेतच्छ्रुतं पार्थ ।' इति । प्रत्युत्तरार्थमर्जनो ब्रूते- 'नटो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत । स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ।।' इति । करिष्ये वचनं तव' इति गीताशास्त्रस्योपसहारः । किं करिष्ये ? युद्धं करिष्ये इत्युत्तरं स्पष्टमेय । युत. इति पृष्टे पुनः पुनः गीतासु उच्यते 'तस्माद्युध्यस्त्र भारत' 'मामनुस्मर युध्य च' 'कुरु कमैय तस्माचम्' इति । 'करिष्ये वचनं तर' इति न केवलं शब्दमात्रम् | अचिपदेव कौरवपाण्डययोर्जन्यमजनि । तस्मिन्नायोधने स्वधर्मपालनार्थ युद्धं चिंकीर्य. अर्जुनो भीष्मवर्णजयद्रथादीन् समरे जघान । उपनिपत्प्रणीततत्त्वज्ञान, २०८ लोकमान्यटिळकचरितम् पातञ्जलयोगमार्गो भक्तियोगो चा गीतायां नोपदिष्टः इति न प्रतिपादयन्ति लोकमान्याः । किन्तु कर्माकर्मविमूढचेतसमर्जुनं स्वधर्मप्रणीतकर्तव्ये योज- यितुं प्रवृत्तेन भगवता ज्ञानभक्तियुक्तकर्मयोगशास्त्रमुपदिष्टम् । ज्ञानमार्गो यथा पुरुपं परमात्मतत्त्वं प्रापयति तथा कर्मयोगोऽपि । कर्मयोगरूपेण कथिते- ऽस्मिन् प्रवृत्तिमार्गे ज्ञानयोगादीनां विचार आनुषङ्गिकः । किमिदं कर्मयोग- शास्त्रमिति 'गीताध्यायसङ्गतिः ' अथ 'उपसंहारः 'इति गीतारहस्यान्तर्गत- प्रकरणद्वयगतविचारेणाधुना संक्षेपतोऽवलोक्यते । स्वधर्मप्राप्तवर्णाश्रमविहितकर्माणि कुर्वता पुरुषेणाध्यात्मविचारेण वा भक्तियोगेन वा प्रथम सर्वात्मैक्यरूपसाम्यबुद्धिः सम्पादनीया । सम्पादि- तायां तस्यां संन्यासमार्गमनाश्रित्य संसारे एव पुनः शास्रतः प्राप्तानां सर्व- कर्मणां कर्तव्यबुद्धथा नित्यानुष्ठानमेवास्मिञ्जगति तस्य परमपुरुषार्थो वा जीवनक्रमस्योत्तममार्गो वा भगवता गीतासु प्रतिपादितो दृश्यते । कस्यापि विपयस्य निरूपणं पद्धतिद्वयेन भवति । एका शास्त्रीया, अपरा पौराणिकी । प्रतिपाद्यविपयतत्त्वानां साधकबाधकप्रमाणैायशास्त्रानुसारेण क्रमशः प्रतिपादनं शास्त्रीया पद्धतिः । भगवद्गीतासु कृतं निरूपणं यद्यपि सशास्त्रं तथापि न शास्त्रीयम् । सर्व तत्त्वज्ञानं श्रीकृष्णार्जुनसंवादरूपेण व्यासमहर्पिणा भारते प्रथितम् । अत एवाध्यायसमाप्तिसूचके सङ्कल्पे श्रीमद्भगवद्गीतासूपनिपत्सु ब्रह्मविद्यायो योगशास्त्रे श्रीकृष्णार्जुनसंवादे' इति शब्दा विद्यन्ते । शास्त्रीयविवेचनपद्धतेर्भिन्नेयं पौराणिकी पद्धतिः । अस्मिन् प्रतिपादने धर्मशब्देन समावेशितानां सर्वविपयाणामविरोधेन सड्महः संवादरूपेण योगयुक्तचित्तेन भगवता कृत इति प्रतीयते । अर्जुनेन पूर्वज्ञातानां विपयाणां प्रतिपादनमयुक्तम् । तस्य प्रधानप्रभो युद्धरूपं घोरकर्म मया कर्तव्यं न या फर्तव्यमिति । तस्योत्तरं संवादरूपं भगयद्- गीताशास्त्रम् । श्रौतस्मातभागयवधर्माणां सांख्यमीमांसावेदान्तादिशास्त्रस्य. फर्मविपाकादिसिद्धान्तानां निरूपणे तेषां परम्परा येन नावगता स गीतापाचनेन भ्रान्तचित्तो भवति । अतः श्रीकृष्णार्जुनसंपादे एते विपयाः कथं प्रतिपादिताः इति द्रष्टव्यं भवति ।

अन्यपर्व विक्रमशालिना राजकारणपटुना परमपूज्येन सर्वज्ञेन क्षत्रियेण श्रीकृष्णेन क्षत्रकुलोत्पन्नमर्जुनं स्वधर्मप्राप्तकर्मणि प्रवर्तयितुमुपदिष्टं गीता- शास्त्रम् । जैनबौद्धधर्मप्रवर्तको महावीरगौतमबुद्धावपि क्षत्रियकुलावतंसौ । तथाऽपि ताभ्यां वैदिकधर्मान्तर्गतसंन्यासमार्गमाश्रित्य निवृत्तिमार्गः स्वीकृतः। परं ब्राह्मणक्षत्रियादिसर्ववर्णैर्निवृत्तिमार्गकथितात्मौपम्यतत्त्वेन सह निष्काम- बुद्धया लोकसङ्ग्रहार्थ प्राप्तकर्माणि ज्ञानोत्तरमपि कर्तव्यानीति भगवता श्रीकृष्णेनार्जुनायोपदिष्टम् । उपदेशकारणमर्जुनविपादः। स विषादः कथमुद्भूत इति प्रथमाध्याये कथितम् । एतादृशं युद्धकर्मविरक्तमर्जुनं दृष्ट्वा तस्मै निवृत्तिमार्गकथनं सुलभमासीत् । 'आत्मार्थे पृथिवीं त्यजेत्' इति सुभापितम् । आत्मकल्याणाय यतमानेन पुरुपेण 'यदहरेव विरजेन तदहरेव प्रयजेत् ।' इत्याज्ञया सर्व संन्यस्य ज्ञानप्राप्तये मनः समाधातुं वनं गन्तव्यम् । परं निवृत्तिमार्गमकथयित्वा श्रीभगवानुवाच- 'कुतस्त्वा कश्मलमिदं विपमे समुपस्थितम् ।' इति । अकीर्तिकरमिदमित्युक्त्वाऽपि धर्मसम्मूढचेता अर्जुनो ब्रूते- यच्छ्रेयः स्यानिश्चितं हि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥' . इति । अधुना 'अशोच्यानन्यशोचस्त्वं प्रज्ञावादांच मापसे ।' इत्यादिना योगयुक्तमनसा गीताशास्त्रमुपदेष्टुं भगवता प्रारभ्यते । ज्ञानवान पुरुष इयार्जुनः कर्मसंन्यासं यक्ति स्म । अतो ज्ञानवद्धिः पुरुपैराचरितां प्रवृत्तिनिवृत्तिनिष्ठा व्यारयातुमारभत भगवान यासुदेयः । वर्णाधमविहितकर्मणामाचारः अथ फर्मत्यागः इति प्रवृत्तिनिवृत्ति- निष्ठयोः केनापि मार्गेण गच्छतलवायं फर्मत्यागो न शास्त्रसम्मतः। न वाहं जातु नासं नवं नेमे जनाधिपाः।' इत्यादिनाऽऽत्मनो नित्सत्यं प्रतिपाय, देहस्य यौमारयौवनपद्धायस्यापानिय. पात्मनो देशान्तरमाप्तिरिति फयित्या, 'अन्तरन्त इमे देहाः' इत्युक्या -

.
लोकमान्य टिळकचरितम्
अयमात्मा कदाऽपि न जायते, न म्रियते, अजोऽयं, नित्योऽयं, शाश्वतोऽयं,
पुराणोऽयमिति भगवता प्रतिपादितम् ।
अनन्तरम् अयमात्मा नित्यजातः नित्यमृतः इति पक्षमाश्नित्य ,
'स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि
धाद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥'
इति धर्मदृष्ट्या विविधमार्गेण विमृश्य सर्वेषां पूर्वपक्षाणां खण्डनं कृत्वा
युद्धत्यागोऽसम्मत इत्युक्त्वा भगवतोपदिष्टम्
'तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ।'
इति । चित्तशुद्धये स्वधर्मप्राप्तवर्णाश्रमविहितकर्मानुष्ठानं, ज्ञानप्राप्त्यनन्तरं
मोक्षसिद्धये सर्वकर्मसंन्यासो ज्ञानमार्गः । अयमेव सांख्ययोगः । इमं
कथयित्वा भगवानुवाच
'एपा तेऽभिहिता सांख्ये बुद्धिोंगे विमां शृणु ।
बुद्धया युक्तो यया पार्थ कर्मवन्धं ग्रहास्यसि ।'
सर्वकर्माणि कृत्वाऽपि यया बुद्धथा कर्मबन्धं प्रहास्यसि -न कर्म प्रहास्यसि
-ताशं बुद्धियोग- नाम कर्मयोग शृणु । अनेन कर्मयोगमार्गेण युद्धरूपं
स्वधर्मप्राप्तकर्म कृत्वाऽपि संन्यासिनां ज्ञानमार्गलभ्यां गतिं त्वमवाप्स्यसि ।
'द्वाविमौ पुरुषव्याघ्र सूर्यमण्डलभेदिनौ ।
परिबाड्योगयुक्तश्च रणे चाभिमुखो हतः ॥
( उद्योगपर्व ३२-६५)
फौटिल्यप्रणीतार्थशास्त्रेऽपि एतदर्थकः श्लोको वर्तते ।
'यान् यज्ञसपैस्तपसा च विप्राः
स्वर्गेपिणः पात्रचयैश्व यान्ति ।
क्षणेन तानप्यतियान्ति शूराः
प्राणान् सुयुद्धेपु परित्यजन्तः ॥'
यज्ञादिमार्गेण गच्छन्तो नरा यां गतिं प्राप्नुवन्ति तामेय गति समरे
निधनं प्राप्त योद्धारः प्रयान्ति ।
.

ग्रन्थपर्व २११ 'हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् ।' इत्यस्याप्ययमेवाशयः। कर्मसंन्यासे युद्धे वा यदि समं फलं तर्हि युद्धमेव कर्तव्यमिति सिद्धं न भवति । अत: कर्मयोगशास्त्रप्रतिपादनं समारब्धम् । स्वधर्मप्राप्तवर्णा- श्रमविहितकर्मणां निष्कामवुद्धयाऽनुष्ठानं कर्मयोगशास्त्रम् । कर्माणि तु अनुष्टातव्यानि । परं तानि मोक्षाविरोधेन कथं कर्तव्यानीति सन्देहे समु- पन्ने प्रमाणैः सन्देहनिवृत्तिपूर्वकमस्मिइछास्त्रे मार्गः प्रतिपादितः । कस्यापि कर्मणो वाह्यपरिणामापेक्षया कर्तुर्वासनात्मिका बुद्धिः शुद्धा वा अशुद्धा वेति प्रथमं द्रष्टव्यं भवति । परम् इयं वासनात्मिका बुद्धिः शुद्धा या अशुद्धा वेति वेवक्तुं व्यवसायात्मिका बुद्धिरेव प्रमाणम् । विशुद्धां व्यवसायात्मिकां बुद्धिं विना वासना विशुद्धाः समाश्च न भवन्ति । अतो वासनात्मिकां बुद्धि विशुद्धां कर्तुं व्यवसायात्मिकायाः युद्धेः समाधानमावश्यकम् । सामान्यजनाः सुखप्राप्तये यागादिवैदिककाम्यकर्मणि रता दृश्यन्ते । परम् एते जनाः शाश्वतसुसं, मोक्षं न लभन्ते । अतो वैदिककाम्यकर्मणां समुद्योगं त्यक्त्वा निष्कामसुद्धया त्वं स्वकर्माणि कुरु । कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। कर्मफलं न त्यधीनम् । मा कर्मफलहेतुर्भूः मा ते सङ्गोऽस्त्वकर्मणि ।' फलं भवतु या न भवतु । कर्तव्ययुद्धया फर्माणि कुर्वतो नरस्य न पुण्यपापलाभः । अत. समथुद्धिमाश्रित्य कर्माणि समाचर । 'समत्वं योग उच्यते।' अनेन समत्वयोगेन फर्तव्यकर्म पुर्वतलय मोक्षराभो भविष्यत्येव । फर्म. संन्यासोऽनावश्यकः । समत्ययोगेनेय पुरपः स्थितप्रज्ञो भयति । समय- योगेन पर्म पुर्वतो नरस्य स्वल्पोऽपि धर्मों महनो भयान् प्रायते । स्वल्पमप्यस्य धर्मस्य प्रायते महतो भया ।' इति । एवं घ स्थितप्रश इय

..
२१२
येकमान्यटिळकचरितम्
योगस्थः कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।'.
नैवं त्वं पापमवाप्स्यसि इति द्वितीयाध्याये प्रतिपादितम् ।
तृतीयाध्यायप्रारम्भे अर्जुनस्य प्रश्नः--
'ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्कि कर्मणि घोरे मां नियोजयसि केशव ॥'
इति । साम्यबुद्धिमानित्याह किमर्थमुदासीनो न तिष्ठेयम् १ किमिति मया
योद्धव्यम् ? अतो भगवानाह -
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोता मयाऽनघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥'
सर्वेषां कर्मणां संन्यासस्तु अशक्य एव ।
न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥
अतो
'नियतं कुरु कर्म त्वं कर्म ज्यायो घर्मणः ।
शरीरयात्राऽपि च ते न प्रसिध्येदकर्मणः ॥
यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर ॥
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविप्यध्वमेप वोऽस्त्विष्टकामधुक् ॥'
इति । इयमेव फर्म कुरु इति प्रजापतेराज्ञा , यत: कर्मणा विना यज्ञा न
सिध्यन्ति । इदं ब्रह्मापि यज्ञे प्रतिष्ठितम् । यस्तु आत्मरतिः आत्मतृप्तः
आत्मन्येव च संतुष्टः तस्य किमपि कार्य न विद्यते ।
'नव तस्य कृतेनाओं नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ।।
तस्मादसक्तः सततं कार्य कर्म समाचर ।
असक्तो खाचरन फर्म परमाप्नोति
पूरयः॥

ग्रन्थपर्व २१३ .. इत्ययमुपदेशः । अनेन निष्कामकर्मयोगमार्गेणैव जनकादयः संसिद्धि गताः । लोकसङ्ग्रहार्थमिदं कर्म अवश्यं करणीयम् । यतः-- यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥' अनन्तरं भगवान् श्रीकृष्णः सोदाहरणेन दर्शयति- 'न में पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं (तथापि ) वर्त एव च कर्मणि ।' यद्यहं कर्ममार्गेण न वर्ते वर्हि कथं स्यात् स परिणामोऽपि भगवता स्पष्ट- मेवोक्त:- 'यदि ह्यहं न वयं जातु कर्मण्यतन्द्रितः । मम वानुवर्तन्ते मनुप्याः पार्थ सर्वशः ॥ उत्सीदेयुरिम लोका न कुर्या कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ।। फर्मणि सक्ता अविद्वांसो यथा कर्म कुर्वन्ति तथैय लोकसहप्रहं चिकीर्पयो विद्वांसोऽप्यसत्ताः सन्तः कर्म फुयुः । न बुद्धिभेदं जनयेदज्ञानां कर्मसगिनाम् । जोपयेत्सर्वकर्माणि विद्वान युक्तः समाचरन् ।' सर्याणि कर्माणि प्रकृतिगुणकार्याणि दृश्यन्ते । अहं तेषां कर्ता' इत्यई- फारविमूहात्मा मन्यते । गुणकर्मविभागयोभिन्नत्वं जानन तत्त्वचित् गुणा गुणेषु वर्तन्त इति मत्या तेषु न सजते । 'तस्मात्सर्याणि कर्माणि (मपि) मंन्यस्याध्यात्मचेतसा । निराशीनिर्ममा भूत्वा युध्यस्थ विगतज्वरः ॥' ति भरोफेन युध्यस्य''कुरु फर्मर' न फर्ममंन्यामं ममाचरेनि भगयना स्परमेयोपम् । फर्मयोगाचरणम्म परमपि भगयान फययति- 'ये में मतमिदं नित्यमनुतिष्ठन्नि मानवाः । श्रद्धापन्नोऽनमपन्तो मुच्यन्ते नेऽपि फर्ममिः ॥' . -- . २१४ लोकमान्यटिळकचरितम् तथैवानाचरणस्यापि ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान्विद्धि नधानचेतसः ॥' इति । तृतीयाध्याये सुविस्तरेण कथितमिदं कर्मयोगशास्त्रं पूर्वपरम्पराकथनं विना अपूर्णमिति मत्वा ' श्रेयान स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।' इत्युक्त्वा अनुसन्धीयते चतुर्थाध्याये--- 'इमं विवस्वते योग प्रोक्तवानहमव्ययम् । विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽनवीत् ।। एवं परम्पराप्राप्तमिमं राजर्पयो विदुः।' महता कालेनास्मिञ्जगति नष्टोऽयं ( कर्म )योगः । 'स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्य होतदुत्तमम् ॥' गीताशास्त्रे भगवता श्रीकृष्णेन प्रयुक्तमिमं रहस्यशब्दं वीक्ष्य कर्मयोग- शास्त्रस्य स्वग्रन्थस्येदमेव नाम प्रतिष्ठातव्यमिति लोकमान्यैर्मनसि निश्चित. मिति वयं मन्यामहे । अस्योपरि शक्यतेऽर्जुनेन । ननु कथमिदं सम्भवेद्यत्त्वमादौ प्रोक्त- वानिति । अपरं जन्म भवतः, परं च जन्म विवस्वतः इत्युक्तवत्यर्जुने अस्म- च्छब्दं प्रयुज्य श्रीभगवानाह- 'बहूनि मे व्यतीतानि जन्मानि तव चार्जुन {. तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप । अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोपि सन् । प्रकृति स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥' किमर्थ तव जन्म इत्युच्यते चेत् कथयामि-- यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥

अन्धपर्व २१५ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि ( अहं) युगे युगे॥' इति । एवं लोकसङ्ग्रहार्थ निष्कामवुद्धथा कर्म कुर्वतो मम (तस्मिन् कर्मण्यनासक्त्या ) पुण्यपापफलदोपो न विद्यते । अनेनैव मार्गेण जनका- दिमिर्लोकसङ्ग्रहार्थ पूर्वकाले कर्म कृतमिति प्रथममुक्तमेव । अतः 'कुरु कमैव तस्मात्त्वं पूर्वः पूर्वतरं कृतम् ।' अनन्तरं कर्माकर्मविवेको विस्तरेण कृत्वा द्रव्ययज्ञास्तपोयज्ञा इति बहुविधा यज्ञा भगवता कथिताः । परम् एते सर्वे कर्मजा इति ज्ञात्वा तेभ्यो ज्ञान- यज्ञः श्रेयानिति निश्चितम् ।। 'सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ।' वत् ज्ञानं तत्त्वदर्शिनो ज्ञानिन उपदेश्यन्ति । ज्ञानेन सदृशं पवित्रं किमपि नास्ति । उक्तं च- 'न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।' ननु सांख्ययोगी यदि तुल्यवलौ वर्हि कर्मयोगे कथं तवामहः । यां निष्ठां यः समीचीनां भावयेत् तामेव सोऽनुसरेत् इत्यर्जुनस्य संशयं मनसि निधाय-- संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥' श्रीमगवानुवाच पञ्चमाध्यायप्रारम्भ 'संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥' पुत इत्युच्यते चेत् लोकसहमहार्यमनासक्त्या वर्णाश्रमविहितकर्माणि फल- त्यागपूर्वकं पुरतः पुरुषस्याचारोऽन्येयां जनानामाझे भयतीति विशेषोऽयं फर्मयोगनिष्टायाम्। 'ययदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । , भन्यप २२६ २ लोकमान्यटिळकचरितम् - + + -1 - सांख्ययोगौ पृथग्वालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥' इत्यपि भगवतोक्तम् । सर्वाणि कर्माणि प्रकृतेर्विलासः । समत्वयोगेन सर्वभूतात्मभूतात्मा भूत्वा तानि तानि कर्माणि कुर्वन्नपि पुरुषः फलेन न लिप्यते । स सर्वदा मुक्त एव । पष्ठाध्याये कर्मयोगसिद्धयर्थं साम्यवुद्धि सम्पादयितुमुपायः कथितः । 'अनाश्रितः कर्मफलं कार्य कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः॥' इति । कर्मयोगे बुद्धिरिन्द्रियं स्थिरीकर्तुमिन्द्रियनिग्रहरूपं योगं साधयितुं पातञ्जलयोगोऽस्मिन्नध्याये विशेषेण वर्णितः । अन्ते च 'तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । .. कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥' इति निश्चितोपदेशः । सप्तमाध्याये तत्त्वज्ञानदृष्ट्या क्षराक्षरविवेकः, अष्टमाध्याये अधि- यज्ञाधिदेवाधिभूतशब्दविचारः, नवमाध्याये राजविद्या राजगुएं या प्रति- पादितम् । अव्यक्तरूपस्य परमात्मनो व्यक्तरूपं भक्त्या ज्ञात्वाऽनन्यभावेन तं शरणं गच्छेदिति सुलभो राजमार्गो राजविद्या या राजगुह्यमिति नाम्नो. पदिष्टः । सर्वेप्यध्यायेपु ज्ञानपान या भक्तिमान् या पुरुपः सदैव निष्काम. कर्मयोगेन कर्माचरणं कुर्यादित्यपि कथयितुं न विस्मरति भगवान वासुदेवः। दशमाध्याये सर्वश्रेष्ठवस्तुजातं मम तेजोऽशसम्भवमिति विभूतियोगं निर्वर्ण्य एकादशाध्याये आत्मनो विश्वरुपमर्जुनस्य पुरतः प्रस्टीकृत्य भगवान् घूते 'लोकश्यकृत् कालोऽस्मि । मयैवैते निहता. पूर्वमेय । त्वं तु निमित्तमात्रो भय' इति । परमेश्वरम्य व्यतारयं प्रधानमिति सर्वत्र तिम् । अतो. ऽन्यतस्य या व्यक्तरूपस्योपासना पुरपेण पर्तव्या इत्यर्जुनस्य प्रभे व्यतो. पासना सुलभा इत्यात्मनोऽभिप्रायः पथितः 'मय्येव मन आधत्स्व मयि बुद्धि निवेशय ।' इत्यारिना । अयमेव भक्तियोगः ।

ग्रेन्यपर्व त्रयोदशाध्याये क्षेत्रक्षेत्रज्ञविचारः कृतः । चतुर्दशाध्याये त्रिगुणा- स्मिकायाः प्रकृतेः संसारोऽयम् । त्वं त्रिगुणातीतो भव इत्युपदिश्य पञ्च- दशाध्याये 'ऊर्ध्वमूलमधःशाख'मित्यादिना वेदेषु दृष्टं वृक्षरूपं जगत् वर्ण- यित्वा प्रकृतिप्रपञ्चोऽयम् अश्वत्थवृक्ष इत्युक्त्वा क्षराक्षरप्रकृतेः परोऽहम् उत्तम इति निर्दिश्येतस्मात्कारणादहं लोके पुरुषोत्तम इति प्रथितोऽस्मि । एवं भगवता पुरुषोत्तमयोगः कथितः । पोडशाध्याये प्रकृतिभेदाजगद्वैचित्र्यं तथैव मनुष्येषु देवासुरसम्प- द्विभागं कथयित्वा सप्तदशे त्रिगुणात्मिकायाः प्रकृतेर्गुणवैषम्यात श्रद्धाज्ञान- यजतपरम वैचित्र्यं दृश्यते इति विविच्य अन्ते 'ओम् तत्सदिति निर्देशो'- ऽपि कर्मयोगशास्त्रानुकूल इति दर्शितम् । एवं कर्मयोगशास्ने बुद्धेः श्रेष्ठत्वं ज्ञात्वा तस्याः स्थैर्य समत्वं च कथं प्राप्येते, तथैव कर्मत्यागं विनाऽपि मोक्षप्राप्तिः कथं सम्भवति इति क्षराक्षर- विचारे तथा क्षेत्रक्षेत्रज्ञविचारे निरूप्य घुद्धिसाम्ये प्राप्ते पुरुपेण फर्म- त्यागान्-संन्यासात-कर्मफलाशां त्यक्त्या टोकसङ्ग्रहार्थ कर्मानुष्ठानं श्रेयस्कर- मिति निश्चयेन भगवतोक्तम् । अर्जुनशङ्कानिरसनाय अयमेय सिद्धान्तो भगवता पुनः कथितः। ननु स्मृतिप्रन्धप्रतिपादितः संन्यासाश्रमः फर्मयोगे न विहितः । तरमान् स्मृतिप्रन्थानां कर्मयोगशास्त्रेण सह विरोधः स्यादित्याशक्य अष्टा- दगाध्यायेऽर्जुनः संन्यासस्य त्यागस्य च तत्त्वं वेदितुमिच्छति । संन्यासस्य महाबाहो तचमिच्छामि चेदितम् । त्यागस्य च हपीकेश' नि रोकेन । तत्तत्यप्रतिपादनमधुना भगयता प्रारभ्यते । काम्यानां कर्मणां न्यासं संन्यासं करयो विदुः ।' (न नित्यनैमित्तियानां फर्मणाम् ) 'सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥' दनि संन्यासलागयोभै दर्शयित्या भगयानाद दोपयस्पर्म त्याग्यनिति फेरिदन्ति । यादानापःफर्मन साम्यनित्यपरं घुपते । बत्र में निप्रयं पा २१८ . यतः लोकमान्यटिळकचरितम् यज्ञदानतपाकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीपिणाम् ॥ एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चित मतमुत्तमम् ।।' संन्यासो नाम किम् ? सम्यग्रीत्या कर्मणां न्यासः- त्यागः । कर्मयोगशास्त्रे यद्यपि कर्मत्यागो न विहितः तथापि कर्मफलाशात्यागो विहित एव , कापायवस्राणि परिधाय भैक्ष्यमनाचर्यापि संन्यासस्य स्मृत्युक्तं मूलतत्त्वं निष्कामत्वं कर्मयोगे नित्यं वर्तत एव । फलाशात्यागे स्वर्गप्राप्तेरपि आशा न स्यात् । अतो यज्ञादिश्रीतकर्मणामनुष्ठानं नापेक्ष्यते इत्यपि शक्यते । अत्रो- च्यते । यज्ञादिकर्मणामनुष्ठानमपेक्ष्यते एव, यतस्तानि कर्माणि चित्तशुद्धि- कराणि । तानि नित्यकर्मभिः सह निष्कामबुद्धयाऽनुष्ठातव्यानि । एवमिदं यज्ञचक्र लोकसङ्ग्रहार्थमावश्यकमिति सिद्धान्तः पुनरुक्तः । प्रकृतिधर्मानुसारतो ज्ञानकर्मकर्तृबुद्धिधृतिसुखादीनां वैचित्र्यं व्याख्याय निष्कामकर्म , निष्कामकर्ता , अनासक्तबुद्धिस्तजन्यं सुखम् , आत्मज्ञान- मित्येतानि सर्वाणि श्रेष्ठानीति निर्णीय चातुर्वर्योपपत्तिमुक्त्या वर्णाश्रम- फर्मणां निष्कामयुद्धधानुष्ठानेन पुरुषोऽस्मिञ्जगति कृतकृत्यो भूत्वा 'शान्ति- मामोति नैष्ठिकीम् ' इति भगवानाह । कर्माणि प्रकृतेर्धर्माः । तेषां सर्वथा सागोऽशक्य एव । तस्मादीश्वर एव कर्ता, तथा कारयिता इति बुद्धधा 'तमेव शरणं गच्छ सर्वभावेन भारत ।' इति प्रतिपाद्य भगवानर्जुनं सर्पगुह्यतमं वचः श्रावयति- मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेष्यसि मृत्यं ते प्रतिजाने प्रियोऽसि मे ।। सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं ला सर्वपापेभ्यो मोक्षयिप्यामि मा गुचः ॥' इति श्लोकाभ्यां भफियोगसहितकर्मयोगशास्त्रप्रतिपादनेन प्रवृत्तिमार्गतत्य- सानफ्यनं भगयता समाप्यते । एयमुपसंहारेण प्रवृत्तिपरमेय गीताशाश्रम, . - ग्रन्थपर्व २१९ न निवृत्तिपरमिति भगवद्गीतारहस्यम्। 'रहस्सं ह्येतदुत्तमम्' इति । कर्म- योगशास्त्रं नाम निष्कामकर्मसहितसांख्ययोगो वा ज्ञानभक्तियुचकर्म- योगो वा। धर्माधर्मज्ञानं पुद्धिमतां प्राणिनां विशिष्टो गुणः । कर्माकर्मविवेके बुद्धेविशुद्धत्वं तथा च श्रद्धायुक्तत्वमावश्यकम् । बहुसुखवादेन यद्यपि बहु सुस भयति यथाऽपि धर्मनीतिदृष्ट्या इदं कर्म श्रेष्ठमिति नोच्यते । कर्तुः शुद्धबुद्धिरेवात्र प्रमाणम् । शुद्धबुद्धेर्निकपो विपत्कालः । सङ्कटसमये शुद्ध- बुद्धर्विशुद्धत्यं यदि न विचलेत्तर्हि तदेव श्रेष्टतमं कर्म । अत एव भगवान् 'पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।' इत्युक्त्वा श्रद्धायुक्तविशुद्धबुद्धेर्महत्त्वं गायति । महाभारतेऽश्वमेधपर्वणि कथितं नकुलोपाख्यानमत्रोदाहरणम् । वाह्यतो दृष्टसमफलानि कर्माणि धर्माधर्मदृष्ट्या वा नीतिशास्त्रदृष्ट्याऽनया शुद्धाशुद्धबुद्धया विमिद्यन्ते । अतो बहुसुखवाद निरस्य कर्मकर्तुर्बुद्धेर्विशुद्धत्वं द्रष्टव्यं भवति । स्थितप्रज्ञस्य साम्यबुद्धौ वासनात्मिकायाः युद्धेर्षिशुद्धत्वं तथा व्यवसाया स्मिकायाः बुद्धेः स्थैर्यमन्तर्भवतः । तस्माद्यो बुद्धः परस्तस्य परमात्मनः सर्व- भूतात्मस्वरूपं विज्ञाय कार्याकार्यविवेचिका या बुद्धिः सा शुद्धा या साचिकीति या भगवता प्रतिपाद्यते । अतः कर्मणः श्रेष्ठत्वे शुद्धबुद्धिरेय निकप इति सिद्धान्तः । एवं पाश्चात्यानामाधिदेवतपक्षो या आधिभौतिकमुसपादपक्षो या निरस्तो भवति । तृतीयः पक्षोऽध्यात्मयादिनाम् । अस्मिन्नपि पक्षे शुद्धबुद्धये प्राधान्यं दीयते । अस्मिन् पझे विचारेण श्रेष्ठौ पाश्चात्यदेशस्यौ द्वौ महा- पण्डितो 'कान्ट-पीन'नामानौ । कान्टपण्डितस्येते सिद्धान्ताः (१) फम्यापि फर्मणो नेतिफमूल्यं पर्नुः शुद्धयुद्धचा निर्णतव्यम् । (२) इयं यासनाल्मिया पुद्धिर्यक्षा व्यवसायामिफयुद्धरामया यर्तते तदा सा शुद्धा, पवित्रा, स्मनन्त्रा घ मातम्या । (३) इन्द्रियनिमदेण यामनात्मिकाया बुद्धेशुिद्धत्ये पुरपेण नीतिनियमा नापेक्ष्यन्ते । यामनायुशिशुद्धत्वे सा यस्मिन् फर्मगि प्रेरयवि वर्म पर्नु, एयं ने किं स्वादिति विचार्यय आपापयति । (४) प्राविचारेण विना नोपपपते पासनाशुदत्यम् । एते पाभात्त्यपण्डितानां अन्यपर्व २२१ यर्णितश्चातुर्वर्ण्यविचारस्तथैव पुरुषस्य स्वधर्मप्राप्तकर्मविचारो ब्राह्मणव्याध- सघादेन (पन० २०८) तथा तुलाधारजाजलिसपादेन ( शाति० २६१) महाभारते निर्णीत । परमेश्वरार्पणबुद्धया कर्तव्यरुपेण सर्वाणि कर्माणि कृत्वा तद्वारा परमेश्वरोपासना कर्तव्या । अयमेव ज्ञानयुक्तप्रवृत्तिमार्ग कर्मयोग मागयत इत्यपरनामधेय । 'स्खे से कर्मण्यभिरतः संसिद्धिं लभते नरः।' (गी १८४५) एर सर्वत समो निर्भयो व्यापको वर्णाश्रमदेशकाल जातिभेद- विर्जित सपा मोक्षदाता परधर्मसहिष्णु (स्वधर्मे निधन श्रेय ) ज्ञान भक्तिमयुक्तगीताधर्म सनातनवैदिकधर्मकल्पवृक्षस्य सुमधुरममृतफलम् । आदी वैदिकधर्मे कर्मकाण्डस्य प्राधान्यमासीत् । उपनिपग्रथिततत्त्वज्ञानेन वहीण जातम् । तस्मिन् साप्यविचार प्रादुर्भुत । परम् एतत्सारय. ज्ञान सामान्यजनस्यागम्यम् । कर्मसन्यासे तेपा प्रवृत्ति । अत्त पुनरसमा धानम् । तस्मात्तद् बुद्धिगम्य नहाज्ञान व्यक्तस्योपासनया राजविद्यया सयुज्य कर्मकाण्डस्य प्राचीनपरम्परयाऽऽस्मनो योग्यतया सर्माणि सासारिककर्माणि निष्कामसुद्धया रोकसपहार्थ यावजीर विधाय तेन आग्रह्मस्तम्यपर्यन्तेषु सर्वभूतेप्येकत्वेन स्थित नित्य परमात्मान सर्यो जनो यजताम् । तरिमन्नेष सपामहिक पारलौकिक च कल्याण विद्यत इति असिलब्रह्माण्डनायक श्रीकृष्णोऽर्जुन निमित्तीकृत्य सर्वाअनान् मुताण्ठन गीताधर्म प्रतिपादित पान् । अनेन ज्ञानपूर्वकभक्तियुक्त नियामकर्मयोगेन सर्वान विरोधान परि- इस निखिल मानवजीवन श्रेयोमय फतु प्रतिपादितेऽस्मिन् गीताधर्मे सरपैदिकधर्मस्य सार समुद्धृतम् । एत नित्यधर्म शात्या वर्तव्ययुद्धमा सर्वभूतहितार्थ यतमान सदाचारसपनेर्महा ममिर्यदा पपा भरतभूमि समलता तदाऽय देशो भगवत्कृपाप्रसादपायो भूत्या न पेयल शानस्य, अपि तु सालेश्वर्यस्य गौरीशरशिपर प्रातयाम् । परमतेउरिपना कर्तृत्य- शालिनानेन गीताधर्मेण सत्पुरुषा स्वतमना भरवसण्डमिम पुनरप्य लशुन्त्यिति माध्यते। 'नारायणपरो धर्मः पुनरात्तिदुर्लभः । प्रचिलपर धमा नारायणात्मकः ॥' (शाति- ३४७-८०,८१) २२० लोकमान्यटिळकचरितम् सिद्धान्ताः भगवत्प्रतिपादितसिद्धान्तैः सह यद्यपि पूर्णाशेन न संवदन्ति तथाऽपि बहवंशैः समाना दृश्यन्ते । भगवद्गीतासिद्धान्तारत्वेते । (१) वाह्यकर्मतः कर्तुर्वासनात्मिका बुद्धिः श्रेयसी । (२) आत्मनिष्ठव्यवसायात्मिकायाः बुद्धेः साम्यावस्थायां वासनात्मिका वुद्धिः स्वभावतो विशुद्धा पवित्रा च भवति । (३) एवं समबुद्धिः स्थितप्रज्ञः कर्मातीतो भवति । ( ४ ) तस्याचारा वा तेनात्मौ- पम्ययुद्धथा प्रमाणीकृता नीतिनियमा वा इतरेपां जनानामादर्शा भवन्ति । (५) पुरुपोत्तमस्य देहिनो जीवस्य चात्मतत्त्वमेकमेवेति निश्चित्य जीवात्मा स्वं विशुद्धं पूर्णस्वरूपं मोक्षं प्रापयितुं समुत्सुको भवति । शुद्ध- मिदमात्मस्वरूपं विज्ञाय आत्मौपम्येन सर्वत्र समदृष्टिर्जायते । यवंशेन यद्यप्येते सिद्धान्ताः समास्तथाऽपि ब्रह्म-आत्मा-माया- आत्मस्वातन्त्र्यं-ब्रह्मात्मैक्यं-कर्मविपाकः इत्यादिविषयेषु पौर्वात्यवेदान्त- सिद्धान्ताः कान्ट-ग्रीनप्रभृतीनां पाश्चात्त्यानां सिद्धान्तेभ्योऽतीय प्रगता निश्चितरूपाश्च । औपनिपदिकं तत्त्वज्ञानमाश्रित्य भगवद्गीतान्तर्गतकर्मयोग- शास्त्रविवेचनमाध्यात्मिकदृष्ट्या निःसंदिग्धं पूर्ण पर्याप्तं च वर्तते । 'शोपेनहौएर मतानुसारी 'डायसन्' पण्डितोऽप्येवं प्रतिपादयति । वासना- मूलः संसारः । दुःखनिरसनाय तस्याः क्षयः कर्तव्यः । वासनाक्षये कर्म- त्यागोऽनावश्यकः । वासनाक्षयनिकपस्तु परोपकारार्थ निष्कामकर्म । तस्मात् सदाचारस्य नीतिशास्त्रस्यादिकारणं वासनायाः निष्कामता । अतो भगवानुवाच- तस्मादमक्तः सततं कार्य कर्म समाचर । ' इति । नीतिशास्त्रं तत्वज्ञानस्यैकमङ्गं वर्तते । तस्य सदाचारस्य च विचारेणेय पर. मात्मतत्त्वविचाराः प्रादुर्भवन्ति । अत एव भगवद्गीतामु तत्त्वज्ञानप्रति. पादने सदाचारादिनीतितत्त्यानामन्तर्भावः । तथैव श्रद्धामूलकभक्तिमार्गस्य विवेचनेन सर्वाङ्गपरिपूर्णोऽयं प्रन्थः प्रमाणीभूतः । पाश्चात्त्यानामाधिभौतिकमुसवाद-बहुमुवाद-सर्पभूतमुखबाद-सदाः पारादिसकलान् यादान् तथैव सित-चौद्ध-जैनधर्माणों संन्यासमार्ग विस्तरेण वियिच्य सर्वेऽपि ते कथमपाता इति निर्दिश्य भगयता श्रीकृष्णेन .

ग्रन्थपर्व २२१ वर्णितश्चातुर्वर्ण्यविचारस्तथैव पुरुषस्य स्वधर्मप्राप्तकर्मविचारो ब्राह्मणव्याध- संवादेन (वन० २०८) तथा तुलाधारजाजलिसंवादेन (शांति० २६१) महाभारते निर्णीतः । परमेश्वरार्पणवुद्धया कर्तव्यरूपेण सर्वाणि कर्माणि कृत्या तद्वारा परमेश्वरोपासना कर्तव्या । अयमेव ज्ञानयुक्तप्रवृत्तिमार्गः कर्मयोगः भागवतः इत्यपरनामधेयः । स्खे स्खे कर्मण्यभिरतः संसिद्धिं लभते नरः।' (गी.१८.४५) एवं सर्वतः समो निर्भयो व्यापको वर्णाश्रमदेशकालजातिभेद- विवर्जितः सर्वेषां मोक्षदाता परधर्मसहिष्णुः ( स्वधर्मे निधनं श्रेयः ) ज्ञान- भक्तिकर्मयुक्तगीताधर्मः सनातनवैदिकधर्मकल्पवृक्षस्य सुमधुरममृतफलम् । आदौ वैदिकधर्मे कर्मकाण्डस्य प्राधान्यमासीत् । उपनिपग्रथिततत्त्वज्ञानेन तद्गौणं जातम् । तस्मिन् सांख्यविचारः प्रादुर्भूतः । परम् एतत्सांख्य- ज्ञानं सामान्यजनस्यागम्यम् । कर्मसंन्यासे तेपां प्रवृत्तिः । अतः पुनरसमा. धानम् । तस्मात्तद् वुद्धिगम्यं ब्रह्मज्ञानं व्यक्तस्योपासनया राजविद्यया संयुज्य कर्मकाण्डस्य प्राचीनपरम्परयाऽऽत्मनो योग्यतया सर्वाणि सांसारिककर्माणि निष्कामबुद्धया लोकसङ्ग्रहार्थ यावज्जीवं विधाय तेन आब्रह्मस्तम्बपर्यन्तेषु सर्वभूतेप्वेकत्वेन स्थितं नित्यं परमात्मानं सर्यो जनो यजताम् । तस्मिन्नेव सर्वेपामहिकं पारलौकिकं च कल्याणं विद्यत इति अखिलब्रह्माण्डनायकः श्रीकृष्णोऽर्जुनं निमित्तीकृत्य सर्वाञ्जनान् मुक्तकण्ठेन गीताधर्म प्रतिपादित- वान् । अनेन ज्ञानपूर्वकभक्तियुक्तनिष्कामकर्मयोगेन सर्वान् विरोधान परि- हृत्य निखिलं मानयजीवनं श्रेयोमयं कर्तुं प्रतिपादितेऽस्मिन् गीताधर्मे सकलवैदिकधर्मस्य सारं समुद्धृतम् । एतं नित्यधर्म ज्ञात्वा कर्तव्यबुद्धया सर्वभूतहितार्थ यतमानैः सदाचारसंपन्नैर्महात्ममिर्यदा एपा भरतभूमिः समलकृता तदाऽयं देशो भगवत्कृपाप्रसादपात्रो भूत्वा न केवलं ज्ञानस्य, अपि तु सकलैश्वर्यस्य गौरीशंकरशिखरं प्राप्तवान् । परमतेजस्विना कर्तृत्व- शालिनानेन गीताधर्मेण सत्पुरुषाः स्वजन्मना भरतखण्डमिमं पुनरप्य- लड्कुर्वन्त्यिति प्रायते। नारायणपरो धर्मः पुनरावृत्तिदुर्लभः । प्रवृत्तिलक्षणचव धमों नारायणात्मकः ॥' (शांति० ३४७-८०,८१) १२ राष्ट्रियसभासन्धिपर्व १ राष्ट्रियसभाप्रवेशवादः महायुद्धे समारब्धे प्राचीनेतिहासप्रसङ्गानुद्धृत्य भारतदेशमुद्दिश्य सैनिकशिक्षणविपये लोकमान्यैर्वहु लिखितम् । अस्मिन् समये । व्हॅलंटाईन चिरोल'नामकः आङ्ग्ललेखकः आङ्ग्लानकथयत्, 'भारतदेशे लोकमान्यादयो लोकधुरीणा अपि आङ्ग्लशासनसंस्थायाः शासनपद्धति- गुणान् प्रशंसन्ति, आत्मनो राजनिष्ठां च प्रकटयन्ति । इयं भारतजनस्तुता शासनपद्धतिरायत्यामपि भारतदेशस्योपकाराय भविष्यति । तस्मादियमेव शासनसंस्थयाऽनुसरणीया। भारतीयेभ्योऽधिकाधिकारदानेन तस्याः पद्धत्याः परिवर्तनमयुक्तम् ' इति । यस्मिन् पत्रे आङ्ग्लशासनपद्धत्याः गुणग्रहणं लोकमान्यैरुदारमनसा कृतं तस्मिन्नेव पत्रे तैरेवं लिखितमासीत् 'आयर्लंडदेशे आयरिशजना यथा स्वराज्यसम्पादनाय प्रयतन्ते तथा भारतीया अपि स्वराज्याकाझ्या प्रयतन्ते' इति । एतत्सर्व चिरोलमहा- शयेन सुखेनैव विस्मृतम् । स्वराज्यसम्पादनाय राष्ट्रियसभा प्रयतते । अतः सा कथं प्रवेष्टव्या इत्यस्मिन् विपये विमर्शः समारब्धः । मद्रासनगरे जातं राष्ट्रियसभाधि- वेशनमुद्दिश्य केसरिपत्रे १९१५ संवत्सरस्य जानेवारीमासस्य पञ्चमे दिवसे लोकमान्यैलिखितम् 'नेमस्त-राष्ट्रियपक्षयोध्येये अभेदः । प्रतिज्ञापत्रके हस्ताङ्कनमपि कर्तुं प्रतिनिधयः सजा अभूयन् । परं सामोपचाररथाश्वा मुम्वापुर्यामेयावरुद्धा भवन्ति इति स्पष्टं जातम् । मुम्यापुरीस्थराष्ट्रसभा धुरीणानां राजनीतिमार्गः कियतांशेन जनानां मान्यः इत्यत्र मद्रासनगरे अचिरादेव सम्पन्नाय राष्ट्रियसभाधिवेशनाय नानादेशागतप्रतिनिधीनां संख्या एवं प्रमाणम् । सपादपटाते प्रतिनिधिगणे पादाधिकशतं प्रतिनिधयो- ऽन्यप्रदेशादागता आसन् । तेष्वपि शतं चङ्गप्रदेशात्तथा मुम्बईप्रदेशादुप- स्थिताः । एतां दुरवस्थामवलोक्य प्रतिप्रदेश चीन सदस्यान् स्वीकृत्य पुनः संधानार्थमेका समितिर्नियुक्ता । राष्ट्रियसभाधिवेशनात् प्रत्यागतेषु प्रति- - . . राष्ट्रियसभासन्धिपर्व निधिपु मद्रासनगरे नेमस्तराष्ट्रियपक्षयोः सन्धिः कथं विफलीभूतः इत्यस्मिन् विषये प्रदेशे प्रदेशे विवादः समुद्भूतः । अमृतवझारपत्रिकायाः ' सम्पादकमहाशयैरेवं लिखितम् ' अद्य वा यो था लोकमान्यटिळकमहाशया राष्ट्रियसभामाक्रमिष्यन्ति इति कृत्या सामोपाया विफलीभूताः । मुम्बापुरीरथेनैकेन नेमस्तपक्षीयेण स्वागतसमित्यै सुगुप्तमेकं पत्रं प्रेपितम् । परं विपयनियामकसमित्यां तस्य स्फोटः आव- श्यको जातः । पत्रे एवं लिखितमासीत् 'टिळकमहाशयस्योद्दिष्टं शसन- संस्थायाः पहिष्कारः । स यदि राष्ट्रियसभां प्रविशेत् तर्हि आयलंडदेश- यासिन इव स प्रतिरोधमार्गमवलम्वेत् ' इति । तनिशम्य 'अॅनी बेझंट'- महिलया विशुत्सन्देशेन लोकमान्याः पृष्टाः । असत्यं तत् ' इति क्षणादेव लोकमान्यरुत्तरं प्रेपितम् । परं लोकमान्यानामुत्तरप्रापणात्प्रागेव पुनः- सन्धानाशा निरस्ता । पश्चात् अस्मामिलोकमान्येपु मिथ्यारोपाः कृता इति कृत्या वावुभूपेन्द्रमहाशयः सभाध्यक्षः क्षमायाचनं कृतम् । इदं मुगुप्तं पत्रं, वेझंटमहिलायाः सन्देशः, तस्य लोकमान्यानामुत्तरम्, एभ्यः सर्वेभ्यः प्रार सुबरायमहाशयेन सह जातं लोकमान्यानां सम्भापणं, तस्य मुबराबरत- लेसनम्, एतान् सर्वान् विषयानधिकृत्य मद्रासनगरे राष्ट्रियसभाधिवेशन- समये विपयनियामकसमित्यां महान विवादो जातः । अधिवेशने राष्ट्रिय- सभाप्रवेशविपये राष्ट्रियपक्षस्य निराशा इति तस्य विवादस्य फलम् । सामो. पायाः फथं विफलीभूता एतद्विपयको विवादो वृत्तपत्रेपूभयपक्षसदस्यः कृतः । विवादविषयो गोसलेमहाशयः प्रहितं गुप्तपत्रम् । यहुकालविवादा- नन्तरं 'स्तेनस्य विपरीतो व्याकोशः' इत्युद्वेगप्रदर्शक शीर्षक दत्त्वाऽम- लेरो लोकमान्यैः पृतं सविसरं प्रतिपादनमा समासेनायटोक्यते यतो. ऽर्धमासादेय विधिपशान् पातालीयन्यायेग गोषलेमहाशया अम्मादेय दियं गताः । अस्या विधिघटनायाः सम्यन्धः पेभिननैरनेन लेरोन साह संदिलप्यते। लोकमान्या लिगलि 'सामोपापाः फयं विफलीभूता इत्सम्मिन् विषये 'अमृतयारपत्रिनामस्तपने मागदपमहाशयलिग्गियानन गोगमादायानुगायिनः प्रोगसंगमा मरमरममा भूत्या पूर्णभ्यमान् २२४ लोकमान्यटिळकचरितम् मार्गानन्यसरन् । वस्तुतस्तु गोखले-टिळकमहाशययोरयं विवादः । परं गोखलेमहाशयानुयायिनोऽस्मिन् विवादे प्रमाणानि दातुं यदा पुरतः समायान्ति तदा स विवादो ग्राम्यरूपं धारयति । ग्राम्यवचनानि, असत्या. न्यवतरणानि , हेत्वाभासपूर्णप्रमाणानि , तथा ज्ञानतो वाक्यार्थविपर्यास इत्यादिमिः परिपूर्णमिदं गोखलेपक्षीयाणां प्रतिपादनं मनसि घृणामेव जनयति । एतादृशं लेखनं गोखलेमहाशयानां सम्मतं वाऽसम्मतं वेति न ज्ञायतेऽस्मामिः । परं नैतदाश्चर्य यदस्य विवादस्य परिणामास्तैरनुभूयन्ते । यथा यथाऽयं विवादो जनैश्चिकित्स्यते तथा तथाऽयमसुखमेवोत्पादयति । परमस्मिन् विवादे किं सत्यं किमसत्यमिति जना जानीयुरिति कृत्वा अनिच्छयाऽद्यास्माभिरस्मिन् विपये पुनर्लिख्यते । यद्येतल्लेखनं कंचन दुनुयात् तर्हि नास्माकमयं दोपः । सन्धिविचारः कथं विफलीभूत इति तावत्प्रथममवलोक्यते । अस्मिन् संवत्सरे सामोपाया विचारार्थ प्रथमम् 'अनी वेझंट'महिलया समुद्धृताः। न राष्ट्रियपक्षेण । सन्धिविमर्शार्थमहं पुण्यपत्तनमागमिष्यामीति पत्रं लोक- मान्येभ्यस्तया प्रेपितम् । अतस्तैः स्थाने स्थाने पत्राणि सम्प्रेष्य राष्ट्रियपक्ष- धुरीणानां विचारसरणिः परिज्ञाता । तथैव केचन मन्त्रार्थ पुण्यपत्तनं निमन्त्रिताः । हेतुस्तु अयमेव , यत् वेझंटमहिलाया आगमनात्प्रागेव कंचन राष्ट्रियसभाप्रवेशमार्ग निश्चित्य स मार्गस्तस्या. पुरतो विमर्शार्थ निधातव्य इति । नेमस्तपक्षधुरीणस्याज्ञापत्रं यथा सर्वैः परिपाल्यते तथा न राष्ट्रियपक्ष- कार्यपद्धतिः । अस्मिन् पक्षे सर्वे निर्णयाः सर्वेपामनुमत्या स्वीकृता भवन्ति । अतो लोकमान्यैरयं मार्गोऽङ्गीकृतः । एवं राष्ट्रियपक्षेण निर्णीतः सन्ध्यु- पायो मुद्रितलेसस्पेण पुण्यपत्तनं समागताये वेझंटमहिलाये दत्तः । स एव मराठावृत्तपत्रे मुद्रित आसीत् । राष्ट्रियसभाघटनाया थत् किश्चित् परिवर्तनं सम्पादयितुमिप्यते तस्य प्रस्तायस्य शब्दरचना गोसलेमहाशयः कृता इतीदानी स्पष्टे जाते गोसलेमहाशयास्तावत्कालं परिवर्तनानुफूला आसन्नित्यनेनानुमीयते । मद्रासनगरराष्ट्रियसभाधिवेशने प्रतिनिधीनां पुरत इमं प्रस्तायं विचारार्थ निधातुं येझंटमहिला इच्छति टिळफमहाशयरात्मनोऽनुफूलना पूर्वमेय प्रकाशं नीता । पादेशराष्ट्रिय.

राष्ट्रियसभासन्धिपर्व २२५ पक्षस्याप्येतत्सम्मतमासीत् । संक्षेपतो राष्ट्रियसभाध्यक्षाणां भूपेन्द्रनाथमहा- शयानां 'अमृतवझारपत्रिका 'सम्पादकैः ‘बाबु मोतीलाल घोप'महाशयः सह कलकत्तानगरात् मद्रासनगरं प्रति प्रस्थानकालपर्यन्तं सर्वत्रास्मिन्व नेमस्तराष्ट्रियपश्योः सन्धिर्भविष्यतीति लोकनिश्चितमासीत् । अथ स्थाने एव लोकानामियमपेक्षा। प्रस्तावशब्दरचनाकारंोसलेमहाशयेरेवैकं सुगुप्तं पदं भूपेन्द्रनाथ- महाशयेभ्यः प्रहितम् । तरिमन् पत्रे गोखलेमहाशया लिखन्ति 'टिएकमहा- शयाः शासनसंस्थावहिप्कारमवलम्वितुमिच्छन्ति । आयरिशजनमार्गस्तेपां सम्मतः। एवमेव तैः सुवरावमहाशयेभ्यः कथितम् । अत: टिटफमहाशयैः सह सन्धिन युक्तः' इति । मन्ये, अन्यदपि किश्चिदनुचितं तस्मिन् पत्रे लिखितं स्याद्यतो विषयनियामकसमित्याः पुरतो विचारार्थ निधातुं तत्पत्रमयोग्य- मिति मत्वा भूपेन्द्रनाथमहाशयैर्गोसलेमहाशयेभ्यो लिखितम् 'अन्यत् पत्रं प्रेपणीय'मिति । गोखलेमहाशयैरपि मुयोग्यमन्यत्पत्रं प्रेपितम् । न केवल मेवम् । परं सन्धिविच्छेदार्थ केचन स्वपक्षीया अपि प्रतिनिधिरूपेण मद्रासनगरं प्रहिताः । विपयनियामकसमित्यां यदाऽयं सन्धिविपयो विचारार्थ गृहीतम्नदा प्रायेण सर्व सदस्या अनुफूला आसन् । परं भूपेन्द्र- नाथमहाशयेर्गोयलेमहाशयानां पत्रस्था विचारा यदा निवेदितास्तदा सदस्या अमन्यन्त 'टिळपमहाशयाः शासनसंस्थासहिष्कारममिसपन्ति' इति । वेमंद- महिलाप्ययममन्यत । अतलया विद्युत्सन्देशेन लोकमान्याः स्पष्टीकरणार्य प्रार्थिताः । लोकमान्यस्तरक्षणं सन्देशः प्रदितः 'गासनसंस्था यहिप्कार्या प्रति यदाऽपि मया नोचम् । राष्ट्रियपक्षानुयायिनः स्थानिकस्वराज्यसंम्धामु पार्याणि सम्पादयन्त्येय' इति । अन्येशुः येमेटमहिलयाऽयं सन्देशो विषयनियामफसमित्यां पाचितः । याचित सन्देशे गोरमलेमहागयलिमित- गुमपयाधारण लोकमान्येपु ना आरोपा भूपेन्द्रनाथमहाशयः प्रति- संह मायापनं पृतम् । परं गुरुपयम्य पार्य मफलं जातम् । मन्धि. पाधि समितिमा निपुग्य मभया पानानिपातः म्यानः। मसायं. प्राय: एपं प्रशान्ताः । अग्मिन् गृणान्ते पदि पधन प्रमादपेन् सादि सदरमारमानदार पपेन । परम् भग्माभियों मान्न उपलबमदामयेर २२ २२६ लोकमान्यटिळकचरितम् सन्धिविषये नास्माकं महत्याशा । गोखलेमहाशयानां गुप्तपत्रात्प्राक् सर्व- मृजुमार्गेणावर्तत । परं पत्रकेणानेन सर्वः सन्धिमार्गोऽवरुद्धः । गोखले- महाशया वा भूपेन्द्रनाथमहाशया वा यावत्कालमेतत् पत्रं प्रकाशतां न नेष्यन्ति तावत्कालमस्य विपयस्य निर्णयो न स्यात् । सामोपायाः सर्वैः प्रकाशमनुसृता आसन् । तत्र गुप्तपत्रस्य किं प्रयोजनम् ? अशिष्टोऽयं मार्गः। गोखलेमहाशया वदन्ति 'शासनसंस्थावहिष्कारः' इति शब्दाः पने नासन् । अन्यसदस्यैस्तदा पृष्टम् ' अप्यन्ये केचन एतदर्थकाः शब्दास्तरिमन् पने वर्तन्ते ? ' अस्य प्रभस्योत्तरं परिहृत्य गोखलेमहाशयाः पृच्छन्ति 'शासनसंस्थायाः वहिष्कारः इत्यस्य कोऽर्थो युप्माभिः क्रियते' । परम् अस्य प्रतिप्रश्नस्यार्थ सम्यग्ज्ञातुं सदस्याः समर्था आसन् । अनेनैव पत्रेण सर्वेषामेवं बुद्धिरासीत् यल्लोकमान्याः शासनसंस्थावहिप्कारकामा आसन्निति । अथ यदा भूपेन्द्रनाथमहाशया अजानन् तदसत्यमिति तदा तैरुदारमनसा मिथ्यारोपार्थ क्षमायाचनं कृतम्। परं गोखलेमहाशया न कथयन्ति पत्रस्थान् शब्दान् , न वा प्रकाशं नयन्ति प्रेपितं पत्रम् । प्रत्युत तेपामनुयायिनः टिळकमहाशयेषु अपशब्दप्रहारान् कुर्वन्तीत्येतत् शिष्टसम्मतं, विपरीतं वेति निर्णयन्तु वाचका एव । ऋजुमार्गस्तु गोखलेमहाशयास्तत्पनं वृत्तपत्रे मुद्रयन्तु । तस्मिन् कृता आरोपा यदि सत्या: स्युस्तर्हि टिळकमहाशयास्तान् सानन्दं स्वीकुर्युः इति । एवं बहु विलिख्य प्रमाणानि दत्त्वा सुबरावमहाशयैः सह जातं सम्भाषणमुल्लिख्य लोकमान्या निवेदयन्ति 'सुबरावमहाशयैस्सह जातस्य सम्भापणस्य सारांशस्तैः स्वयं लिखितः । यदाऽई केळकरमहाशयैस्सह तान् द्रष्टुं तेषां सदनं गतवान् तदा मम श्रवणार्थ तैः स सारांशो वाचितः । पञ्चपेषु स्थलेषु किञ्चित् शुद्धीकरणं मया सूचितम् । स लेखः सुवराव- महाशयैर्मद्रासनगरं नीतः' इति । अनन्तरमस्मिन्नग्रलेखे चेझंटमहिलाया विद्युत्सन्देशस्तथा लोकमान्य- प्रहितमुत्तरमपि मुद्रितम् । एवं निवेद्य समारोपे लोकमान्यैर्लिसितम् 'अन्ते वयमेवं ब्रूमः । अत अर्ध्वमस्य विवादस्य न किमपि प्रयोजनम् । नेमस्तपक्षीया राष्ट्रियपक्षाय राष्ट्रियसभाप्रवेशमनुजानन्तु न यानुजानन्तु । तत्कृते गुप्तपत्राणामाश्रयो न शिष्टसम्मतः । तथैव राष्ट्रियपक्षस्य भापणानां .

२२७ राष्ट्रियसभासन्धिपर्व या लेखाना या विपर्यासो न कर्तव्यः । तेन शासनसंस्था विपरीत जानाति । गोखलेमहाशयानां तथा टिळकमहाशयानां चितेन्धनानि प्रायेण 'ओंकारेश्वर'-श्मशान-गतान्यासन् । अतो यदि टिळकमहाशया राष्ट्रिय सभां प्रविशन्ति तर्हि तय तेषां मताधिक्यं भवेदिति सुतरामशक्यप्रायम् । राष्ट्रियसभा अखिलभरतखण्डस्य वर्तते । न केवलं टिटकमहाशयानाम् । न या गोसलेमहाशयानाम् । तस्याः कार्यपद्धतिस्तु समाधिवेशने निर्धार- यितव्या । अतः सदस्याः सभायामात्मनो विचारप्रणालि प्रमाणीकुर्वन्तु । तेषां बहुमतेनैव काचित्प्रणालिः सम्मता भवेत्' इति । २ गोखलेमहाशयनिधनम् एवंविधा यहयो विचारा लोकमान्यैरस्मिन् लेसे प्रशशिताः। एवं स्थिते नेमस्तपक्षीयास्तत्पत्रं प्रसिद्धि नयन्ति न या नयन्ति इत्यौत्सुक्येन प्रतिपाल. यिप्यता जनेन अकरमादमाघात इव गोखलेमहाशयानां निधनवार्ता श्रुता। अतो लोकेपु फेचिनना लोकमान्यान् दूपयन्ति रम । तेऽब्रुवन् 'लेसनस्थचितेन्धनशब्दो गोसलेमहाशयान् प्रति अविपायत' । यस्तुतस्नु नेतादशोऽर्थसस्मिन् लेसे आसीत् । गोसलेमहाशयानां निधनं लोकमान्या ऐच्छन् इत्यामुरी फल्पना असह्या भवति । अन्यशनाभिः संयत्मरायांमो लोकमान्याः गोसलेमहाशयेभ्यः । अत. कालामेण प्रथम लोकमान्यानामेय निधनं सम्भवेत् । न गोसलेमहाशयानाम् । परं पूर्वप्रहदूपितमनग्मु जनेषु ईपिचेकः कथं म्यान् । लेग्यशगोपलेमहाशयानां निधनं ममीपवर. मागवमिति फल्पना फल्पफम्य क्षुद्रमनोवृत्तित्यं गोनयति । अस्मिन् समये लोकमान्या गीतारहसमन्यपार्याय सिंहगनाग्नि अतिहासप्रसिद्धदुर्गे ययापूर्व नियामार्य गना आसन् । श्रुतमारायां गोपले. महागयनियनयानायां लोरमान्यवयम्परिमां दुहरयाता तेभ्यः फयितुं दनाः मदिसाः सपोय रमान्याः पुण्यपसनमागत्य गोपमहायानामन्ययानां प्रपिटाः । औरंगारनाम्नः शिवालयम निस्टपर्तिपुलिने अन्यसम्रपाले गारोमदायानां गुजगोरपं गा, सेपां निपमेन आना राष्ट्र- हानि निश, पतिभ्यो विणार्थिजनमो गेरमान्यम्परिटम 'फेयल मभरानेर पा लिन पारि प्रयोजनम् ? गुमामु पन मया योग २२८ लोकमान्यटिळकचरितम् महाशया इव राष्ट्रकार्यधौरेया भवेयुस्तदैव गोखलेमहाशयानां जीवात्मा शान्तिसुखं लभेत ' इति । 'मुहूर्त ज्वलितं श्रेयो न च धूमायितं चिरम्' इति शीर्षक दत्त्वा केसरिपत्रे लोकमान्यैरप्रलेखे गोखलेमहाशयकृतविविधकार्यसमालोचन कृतम् । लोकमान्यानां स्वार्थत्यागोदाहरणेन मोहिता गोखलेमहाशयास्तेषां निमन्त्रणेनैव 'न्यू इंग्लिश स्कूल'नामकं विद्यालयमध्यापनार्थ प्रविष्टाः । महाविद्यालये तेषां गणितशास्त्रनैपुण्यम् , आङ्ग्लभापाप्रभुत्वम् , इतिहासार्थ- शास्त्रपारंगतत्वम् इत्यादयो गुणा विद्यार्थिजनस्य कल्याणायाभूवन् । राज- कारणविपये रानडेमहाशयानां सच्छिष्या गोखलेमहाशयाः।सार्वजनिकसभा- कार्यमारभ्य वरिष्टविधिमण्डलकार्यान्तं यावत्सर्वाणि कर्याणि गच्छता कालेन सम्पाद्य विविधैरङ्गप्रत्यङ्गैः राष्ट्रकार्य विधाय अकाले एव गोखलेमहाशया दिवं गता इति । ३ राष्ट्रियपक्षपरिपद् विफलेपु सन्धिप्रयत्नेपु लोकमान्यरात्मनो राष्ट्रियकार्य समारब्धम् । 'बॅप्टिस्टा'महाशयानामध्यक्षत्वे मुम्बईप्रदेशराष्ट्रियपक्षाधिवेशनं पुण्यपत्तने गृहीत्वा महायुद्धं, गोखलेमहाशयनिधनं, राष्ट्रियसभाप्रवेशः, सन्धिकार्य- मित्यादिवपयकाः प्रस्तावाः राष्ट्रियकार्य प्रगतिपथं नेतुं सभायां सम्मताः कृताः । अनेन राष्ट्रियपक्षाधिवेशनेन लोकमान्यैर्महद्यशः सम्पादितं राष्ट्रिय- कार्य च प्रगतिपथमारूढम् ।

. १३ स्वराज्यसङ्घपर्व १ स्वराज्यसङ्घस्थापना स्वराज्यसबस्थापनाविषयको विमर्शो लोकमान्यरात्मनः सहकारिमिः समारब्ध आसीत् । तस्योगारोऽपि तैः क्वचित् कृतः । परं वेझंटमहिलया मद्रासप्रदेशे 'होमरूल लीग'नामिका एका संस्था खराज्यसम्पादनार्थ स्थापिता राष्ट्रियसभायातदेकागमासीत् । राष्ट्रियसभाप्रतिज्ञापत्रममनुसृत्य लोकेभ्यः स्वराज्यशिक्षणदानमस्याः संसाया उद्देशः । महम्मदधर्मिणामपि एका मुस्लिम लीग'नामिका संस्था आसीत् । 'महम्मदअली जीना'महाशया इव केचन तस्या धुरीणास्ता राष्ट्रियसभा- समीपमानेतुं सयला आसन् । राजकीयविपये समानोदेशे राष्ट्रिय- सभायाः मुस्लिमलीगसंस्थायाश्च । अतः प्राज्ञो जनः एवममन्यत यदु- भाभ्यामप्येकीभूय कार्य कर्तव्यमिनि । २ फेरोजशहा मेथामहाशयनिधनम् अस्मिन् संवत्सरे फेरोजशहा मेथामहाशयाः पञ्चत्वं गताः। निधन. समये तेषां वयः शरदा सप्ततिः । मृगेन्द्रसमानसारो वाचोयुक्तिपटुरयं पुस्पो मुन्यापुरीस्थानामप्रणीः । पञ्चचत्वारिंशत् समा एतैर्देशकार्यार्थ प्रत्यहं फश्चि- कालं दत्वा यापिताः। प्रथमश्रेणीस्थोऽयं विधिशास्त्रमहापण्डितो राजकारण- मात्मन: एक कर्तव्यममन्यत । नेमस्तपक्षाप्रणीरयं मुम्बईनगरपालिकाया लोकनियुक्तसदस्यः । कतिचित् यत्सराणि राष्ट्रियसभायाः सूत्रधारोऽयम् । परम् एषां राजकारणं निवेदनपत्रमार्थनापत्राणामप्रवो न प्रगतम् । लोक- मान्येभ्य एते द्वादशवायांसः । अतो यथा गोसलेमहाशयान् तथा लोकमान्यानपि यूनामयमप्रणीरिति मेथामहाशया अमन्यन्त । राष्ट्रकार्येषु तयोरुभयोर्न कदाऽप्यैकमत्यम् । उभायपि कठिनत्यचौ, मानधनौ, प्रकृत्या आमहिणौ च । मेथामहाशयानां बुद्धौ स्वार्थत्यागो नारफुरत् । सामान्य- जनानामप्रिया मेथामहाशयाः, यतरते तेभ्यः सुदूरं नियसन्ति । उमस: प्रांशुदेहो विपुलरमधुराजिहाईपत्रपरिवृतो पनगर्जितमिच गमीरध्यनिरयं पुरुपसिंहः आत्मनोऽमोपयस्वृत्वगुणेन सर्वत्र स्वमाहात्म्यमस्थापयत् ।

२३० लोकमान्यटिळकचरितम् मेथामहाशयानां निधनेन राष्ट्रियसभायाः महती हानिर्जाता । अस्मिन् संवत्सरे राष्ट्रियसभाधिवेशनं मुम्यापुर्यामासीत् । नेमस्त- पक्षीयाणामामहस्तु लोकमान्यैरधिवेशनार्थ मुम्बापुरीमागन्तव्यमिति । परम् असम्भाव्यं तत् । अन्ते सत्यप्रसन्नसिंहमहाशयानामध्यक्षत्वे प्रगतिपरा: प्रस्तावाः सम्मताः । प्रतिनिधिप्रेपणविषयकाः सकला राष्ट्रिय- पक्षसूचनाः सम्मताः । ३ मुम्बईप्रदेशपरिपद् सिस्ताब्दस्य १९१६ संवत्सरारम्भादेव लोकमान्यैर्द्विविधोद्योगः समारब्धः-राष्ट्रियसभाप्रवेशः स्वराज्यसदस्थापना च । मुम्बईप्रदेश- परिपदोऽधिवेशनं 'वेळगांव'नगरे निश्चितम् । युक्त एवायं कालोऽस्य विपयस्य चर्चायाः इति मत्या लोकमान्यैरात्मनो यत्नः समारब्धः । अत्रान्तरे पुण्यपत्तननागरिकैरेका सभां निमन्त्र्य 'लॉर्ड हार्डिज'- नामकाय भारतस्य प्रमुखराजप्रतिनिधये एकं मानपत्रमुपायनीकृतम् । अस्य राजप्रतिनिधेः पश्चयार्पिकनियतकालखण्डः प्रजानां कल्याणायाभवत् । भारतीयराजकीयविपये अनेनात्मनः सहानुभूति प्रकटय्य भारतीयानां स्वराज्याकाङ्क्षा न्याय्या, युक्ता चेति मतं प्रदर्शितम् । तस्मात् 'अण्णा- साहेब पटवर्धन'महीणामध्यक्षत्वे जातायां पुण्यपत्तननागरिकसभायां खाडिलकरमहाशयैर्मानपत्रविपयकः प्रस्तावः सूचितः । प्रस्तावे एवं लिखितम् 'सङ्कटान्यविगणय्य हार्डिजमहाशयैर्भारतविषयिकाऽऽत्मनः सहानुभूतिः प्रदर्शिता, भारतस्योत्कर्षाय च यथाशक्ति समुद्यमः कृतः इति कृत्या इयं सभा नागरिकाणां कृतज्ञतावुद्धिं दर्शयति ' । प्रस्तावस्यानुमोदनकाले लोकमान्यर्डिजमहाशयानां पञ्चवार्षिककालखण्डकार्याणि समालोच्य तेषां गुणसमुच्चयो वर्णितः । अनेन कर्मणा लोकमान्याः शासनसंस्थाबहिष्कार- वादिनः सन्तीति दोपो निरस्तः 'वेळगाव'नगरे मुम्बईप्रदेशपरिपत् खापर्डेमहाशयानामध्यक्षत्वे जाता । स्वागताध्यक्षवेळवीमहाशयैर्भापणे शरदां विंशत्याः प्राक् जातस्याधि. वेशनस्योल्लेखः कृतः। गोखलेमहाशयानां निधनविषयको दुःखनिदर्शकः प्रस्तावो गौरवपूर्वकं सम्मतः । सैनिकशिक्षणं, स्वयंसेवकसयः, राजकीयवन्दिजन- -भट- स्वराज्यसङ्घपर्व २३१ मुक्तता, स्वराज्यसङ्घयोजना, भारतीयवस्तुप्रचारः इत्यादिविषयानधिकृस्य प्रस्तावाः सम्मताः । परं प्रमुखप्रस्तायस्तु सन्धिविषयकः- राष्ट्रियसभा- प्रवेशविपयकः । 'टिळक-वेळवी-प्टिस्टा ' महाशयानां समित्या कृतं राष्ट्रीयसभाप्रवेशविषयकं निवेदनमधिवेशनस्य सम्मतम् । राष्ट्रकल्याणं तथा महायुद्धकालं सम्यग्विमृश्य नेमस्तराष्ट्रियपक्षसन्धिः सर्वथा इष्टः । मुम्यापुर्या जाते राष्ट्रियसभाधिवेशन सम्मतं घटनापरिवर्तनं यशपिन सन्तोपकर तथा- ऽपि राष्ट्रियसभा प्रविश्यैव समुद्योगः कर्तव्यः । तत्कृते टिळक-खापर्डे-- वप्टिस्टा-वेळवी-केळकरमहाशयानामेका समितिर्नियोक्तव्या इति प्रस्तायः प्रतिनिधीनां सम्मतो जातः । महता यत्नेन सम्मतस्यास्य प्रस्तावस्य फलं सपद्येव दृष्टम् । प्रस्ताववार्तामाकर्ण्य · टाइम्स'पत्रेण लिखितं ' जिता राष्ट्रियसभा टिळकमहाशयेनानेन प्रस्तावेन ' इति । अस्मिन् विपये वेळवी :-मुंजे-सेटलूरमहाशयानां स्मृतिशलाकाः वाचनीयाः सन्ति । मद्रासप्रदेशे 'होमरूल लीग'नामिका संस्था संस्थाप्य वेझंटमहिलया स्वराज्यविषयकान्दोलनं समारब्धम् । स्थाने स्थाने स्वराज्यसङ्घस्य शाखा- विस्तारो जातः । जागृताऽभूत् शासनसंस्थाऽनेनान्दोलनेन । 'प्रेस अॅक्ट्'. नामकेन विधिशास्त्रेण दण्डितेपु वृत्तपत्रेषु वेझंटमहिलायाः 'न्यू इंडिया'- नामकं वृत्तपत्रमासीत् । वरिष्टन्यायालयेऽभियोगः कृतः । परं व्यर्थम् । अनन्तरं मुम्बईप्रदेशेऽपि तस्याः प्रवेशो निरुद्धः। ४ एकपष्टिमहोत्सवः वेळगावनगरे मुम्बईप्रदेशपरिपदं समाप्य सातारानगरे नागरिकाणां सत्कार स्वीकृत्य खापर्डेमहाशयैः सह लोकमान्याः पुण्यपत्तनं गत्वा निकटवर्तिनि 'सिंहगड'नाम्नि दुर्गे वसतिं चक्रुः । केसरिपत्रे लेखन गीतारहस्यसिद्धान्तविवादाः इत्यादीनि तेपां कार्याणि प्रचलितान्यासन् । अस्मिन् समये लोकमान्यविषयकजनमतनिदर्शकमेकं महदान्दोलन जातम् । निस्ताब्दस्य १९१६ वत्सरस्य जुलैमासे लोकमान्यानामायुपः शरदा पष्टिः सम्पूर्णा । एकं संवत्सरचक्रं सम्पूर्णम् । द्वितीयं समारब्धम् । महत्त्वपूर्णोऽयं दिवसो भारतीयानाम् । एतं दिवसमुद्दिश्य धर्मशाने विधिरपि विहितः । उत्सर्जनोपाकरणसांवत्सरिकश्राद्धमहालयादिधार्मिक- .

२३२ लोकमान्यटिळकचरितम् विधयो यद्यपि लोकमान्यैर्नियमेनानुष्ठितास्तथाऽपि अन्यगृहकृत्येपु ते सामान्येनोदासीनाः । अतः पप्ट्यब्दिपूर्तिविधिं ते समाचरिष्यन्ति न वेति न ज्ञायते । मंडालेनगरे कारावासं गतानां लोकमान्यानां जन्मतिथि- भिपग्वराः कवडेमहाशयाः प्रतिवत्सरं पालयिष्यन्ति स्म । अतस्तेपां मनसि कल्पना समुद्भवा, यदस्मिन् संवत्सरे महता गौरवेणायं विधिरनुष्ठातव्य इति एवं लोकमान्यानां वयस्यैः सार्वजनिकसभायाः सभागृहे केचन नागरिका विमर्शार्थं निमन्त्रिताः । पुराणकीर्तनवेदघोपामिपेकभोजनद्रव्य- दानमानपत्रादयो विविधाः प्रकाराः सभायां सूचिताः । यद्यपि व्यक्तिनिष्ठोऽयं विधिस्तथापीदानी टिळकमहाशया लोकमान्यरुपेणैका समष्टिरुपा संस्था सञ्जाताः । नैको व्यष्टिरूपः पुरुषः । अतस्तेपाम- भिनन्दनमायुरारोग्यचिन्तनं सार्वजनिकरूपेणाधिक लोकरुचिकरं भवेदिति कैश्चित्तत्र प्रतिपादितम् । परम् अनेनासन्तुष्टः कश्चित् सदस्योऽब्रवीत 'नैते प्रकारा अस्माकं लोकमान्यसम्बन्धिनी श्रद्धां याथाताथ्येन प्रकट- यिष्यन्ति । कारागृहं गतेपु लोकमान्येपु बहुभिर्जनै पोपवासाभिषेका. दिकर्माण्यनुष्ठितानि । परं तस्य वार्ताऽपि शासनसंस्थया न श्रूयते । व्यक्ति निष्ठमेतत्कर्म । अन्यच्च. । शासनसंस्थाया अनेन किं प्रयोजनम् । अयं समयस्तु एतहशो यस्मिन् सर्वे जना यथाशक्ति यथामति यथारुचि लोक- मान्यविषयकमात्मनो भावं प्रकटयेयुः । स्वराज्यसड्घप्रचारार्थ द्रव्यमावश्य- कम् । अतो यद्येकलक्षरुपकान् वयं तेभ्यो दास्यामस्तर्हि स्वराज्यसडघस्या- न्दोलनार्थ तन्महत्साहाय्यं भविष्यति । शासनसंस्थाऽपि लोकमान्यानां लोकप्रियत्वं द्रक्ष्यति । तथैव यहवो जनास्ताननुसरन्ति इत्यपि दृष्टं स्यात् । अहमिदं सत्यं वदामीति द्योतयितुं रूपकाणां प्रथमसहस्रमहं दास्यामि' इति । अनेन विचारेण स्तम्भिता उपस्थितजनाः । क अतिन्हखोऽयं कालावधिः, क च लक्षसंख्यापरिमितो द्रव्यनिधिः । कथमिदं सम्भवेदिति चिन्ता मनसि समुत्पन्ना । उपस्थितजनैरनुमितं कियान् द्रव्यनिधिर्वयं सम्पादयेम इति । रुपकाणां सप्तसहस्रं सभायामेय संकलितम् । क्षणे क्षणे इयं कल्पना वृद्धिं गता । मित्रैमन्त्रितम् । दूताः प्रहिताः । पत्राणि स्वराज्यसड्धपर्व पितानि । तिथिनिर्णयः कृतः । निधिकार्य समारब्धम् । जुलैमासस्य त्रयोविंशे दिवसे पष्ट्यब्दिमहोत्सयो निश्चितः । मासार्धात् मुम्वापुरी-व-हाड-नागपुर-कर्णाटकादिप्रदेशेभ्य: समा- गतेन वृत्तान्तेनेयं कल्पना दृढीभूता । यथा यथा पप्ट्यब्दिमहोत्सवदिवसः समीपमायाति तथा तथाऽस्माकं निधिविषयकं भयं दूरतरं प्रधावति । रूपकाणां प्रथमसहस्रं जुलैमासस्य चतुर्थेऽहनि कोपागारे सगृहीतम् । चरमसप्ताहे निधिखरूपमेवमासीत्-- अष्टादशे दिवसे रूपकाणां पञ्चसहस्रं सम्प्राप्तम् , एकोनविंशे दशसहस्रम् , विशे दिने पञ्चसहस्रम् , एकविंशे अष्टसहस्रम् , द्वाविंशे द्विसहस्रम् , त्रयोविंशे दिवसे पञ्चाशत्सहस्रम् । अनेन क्रमेण वृद्धि प्राप्नोत् द्रव्यनिधिः । उत्सवदिवसे रूपकान् गणयितु- मप्यवसरो न लब्धः। पूर्वनिर्दिष्टजुलैमासस्य त्रयोविंशेऽहनि प्रातःकाले होमहवनरुद्रा- मिपेकदेवतानुष्ठानादिधार्मिकविधि परिसमाप्य वेदपठनम् , अन्नसन्तर्पणम् , रुग्णसाहाय्यम् , पुण्यपत्तनस्थसंस्थाभ्यो द्रव्यदानम् , रात्री हरिकीर्तनर्मि- स्यादिकार्यक्रमो जातः । प्रधानोत्सवः सायंकाले लोकमान्यानां भवनेड विस्तीर्णमपि भवनप्राङ्गणं जनाकीर्ण जातम् । मुद्रणालयशिखरमपि प्रेक्षकै- याप्तम् । शतशो वयस्याः सत्कारार्थ निमन्त्रिताः । मुम्बापुरीतः स्वयंसेवक- गणः समागत. । अध्यक्षस्थानं अण्णासाहेब पटवर्धनमहर्षिभिर्मण्डितम् । अमिनन्दनसन्देशानां क्रमः प्रदीर्घ आसीत् । अनन्तरं गीर्वाणभाषायां लिखितं मानपत्रं समर्पितम् । तस्यानुवादो मराठीभाषायामाग्लभाषायां च कृत आसीत् । 'मानपत्रे प्रथमं परमेश्वर स्मृत्वा पष्टयब्दिमहोत्सवनिमित्तेन लोकमान्यानमिनन्द्य जनानामानन्दः प्रदर्शितः । 'न्यू इंग्लिश स्कूल' संस्थापक', 'डेक्कन एज्युकेशन सोसायटी' समुत्पादकः, फर्ग्युसन महाविद्यालये ख्यातनामा प्राध्यापकः, केसरी-मराठा- वृत्तपत्रयोः सम्पादकः, राष्ट्रियसभायास्तथा विधिमण्डलस्य सदस्यः, अथ च राष्ट्रियान्दोलनस्याद्यप्रवर्तक इति विविधरूपेणात्रभवद्भिः कृतां जनसेवां वर्णयितुमसमर्थाः शब्दाः । सदाचारः स्वार्थत्यागः मनोधैर्यमित्यादिगुण. गणेनाप्रभवतां चरितमादर्शभूतम् । ऽभूत् ।

२३४ टोफमान्यटिगफचरितम् असिधाराव्रतमिय लोकसेवाव्रतमपि कष्टप्रदम् । तस्मिन् प्रामानि सष्टान्यविगणय्यानभवद्भिरात्मनो राष्ट्रकार्यमपिरतं फयमाचरितमिति साश्चर्य सादरं सकौतुकं घ जनेनालोक्यते । साम्प्रतं विद्वजनेषु प्रदीर्घमायुर्मानं भारतदेशे न दृश्यते । तस्माद- अभयतामेकपष्टिजन्मतिथिरस्मामिष्टेति महतीयं भगवत्कृपा । इशनी लोफमान्याः 'जीवन्तु शरदां शतम्' इति प्रणतिपूर्वकं प्रार्थ्यते । अनभयतामभिनन्दनं जनो रिक्तपाणिना कथं कुर्यादिति मत्वा आजन्मनः स्वार्थत्यागपूर्वककृतामनभयतां लोकसेयां मनसि निधाय यत् किश्चिद्वयमुपायनीकर्तुकामास्तदतीय स्वल्पं भवेत् । तथाऽपि अस्माभिः सकलितोऽयं द्रव्यनिधिरत्रभवद्भिः स्वीकार्य इति सप्रश्रयं विज्ञाप्यते । राष्ट्रकार्यनिरतो जनः सदा स्वार्थनिरपेक्षो वर्तते । तथाऽपि जनेन लोकनेतृणां सेवारूपं कार्यमविस्मरणीयम् । यदि स विस्मरेत् तर्हि कृतघ्नो भवेत् । अतः कृतघ्नत्वदोपो जनस्य मा भूदिति कृत्वा इदमुपायनं स्वीकरणीयम्' इति शम् । अनन्तरं 'दाजीसाहेव सरे'महाशयैरुक्तम् 'लोकमान्यकीर्तिडिण्डिम. निनादोऽसिलं भरतखण्डं पूरयति । अतस्तेपामुपद्रयो विरोधश्च नैसर्गिक एव । पाश्चात्त्यदेशानामितिहास एवमेव कथयति' इति । 'दादासाहेब करंदीकर'महाशया अवदन् 'सुखदुःखे समे कृत्वा लाभालाभौ जयाजयो' इति भगवदुक्तिर्लोकमान्यैरात्मसात् कृता इति । गङ्गाधरराव देशपाडे'महा- शयैरभिहितम् 'सङ्कटान्यविगणय्य शक्तिसर्वस्वमर्पयित्वा स्वकर्तव्यं करणीयमिति टिळकतत्त्वमजरामरं वर्तते ' इति । अनन्तरं केळकरमहा. शयैव्यनिधिविषयकवृत्तान्तः कथितः । सङ्कलितो द्रव्यनिधिः रूपकाणां पश्चाशीतिसहस्रादूर्ध्व वर्तते । लक्षसंख्यायाः यत् किश्चिदूनं भवेत्तदपि केचित् युपूर्वन्ति इत्यत्रत्यैर्जनैराश्वास्यते । एवं सकल्पितो लक्षसंख्यापरि- मितो द्रव्यनिधिः परिपूर्णो जात इति घोपयितुमाज्ञापितोऽस्मि । अनन्तरं रुद्धान्तःकरणेन लोकमान्यरात्मनः कृतज्ञज्ञाबुद्धिः प्रदर्शिता । तै पितम् “यथाऽयं द्रव्यनिधिः सहस्रशो वृद्धस्तथा मम कृतज्ञताशब्दा अपि वृद्धिं प्राप्नुयुः । अद्यावधि युष्माभिर्नेकप्रकारेण मह्यं साहाय्यं दत्तम् ।

स्वराज्यसधपर्व २३५ तहणं मया कथमपनेयमिति यावञ्चिन्तयामि तावत् द्वितीयमिदं समुप- स्थितम् । अतोऽहं मन्ये 'मया ऋणमुक्तं कदाऽपि न भाव्य मिति युप्माकं बुद्धिः । स्नेहस्यैतदाकर्पणमिति मया ज्ञायते । परं तेनोपकारभारो न लघू- भवति । युप्माभिर्दत्तं मानपत्रं मया सड्कोचेन स्वीक्रियते । परम् एप द्रव्य- निधिः कथं स्वीकार्य इति प्रश्नः। अहं मन्ये न्यास एवायं जनानाम् । अस्यैका कपर्दिकाऽपि मया नोपयोक्तव्या । प्रत्युत मयाऽपि तस्मिन् तुलसीपत्रसंनिभं मम द्रव्यभागं निक्षिप्य लोककल्याणार्थ स निधिविश्वस्त. सम्बन्धेनेव स्वीकर्तव्यः । तत्सम्बन्धी लेखो यथाऽवकाशं भविष्यति । जीवनस्य सिंहावलोकनेन मञ्चित्तं शङ्कितं भवति । सुखानुभवाद् दुःखानुभवः प्रामुख्येन दृष्टिपथमायाति । गते वयसि क्षीणं भवति शरीर. सामर्थ्यम् । अतः शेपे आयुपि पूर्ववदेव भवतां सहानुभूत्या देशकार्यार्थ धैर्य सामध्ये चाहं लभेयेति वाद विश्वसिमि"। मानपत्रस्थस्तुतिशब्दान् निशम्य स्मर्यते मया भर्तृहरिवचनम् - 'परगुणपरमाणन् पर्वतीकृत्य नित्यं निजहदि विकसन्तः सन्ति सन्तः कियन्तः ।' इति । जातं कार्य स्वल्पम् । करणीयं शतगुणमधिकं विद्यते । अस्माकं मातृभूमिः सकलान् कार्यार्थमाह्वयति । अतो ज्ञानस्थानजातिपक्षादिभेदान् विस्मृत्य सर्वैर्निजकल्याणायागन्तव्यम् । नात्रावसरः स्पर्धायाः । नायं कालो मत्सरस्य । नेप प्रसङ्गो मानापमानबुद्धेः । न वाऽयं समय: सड्कटेभ्यो भयस्य । कार्यसिद्धये समर्थः सर्वशक्तिसंपन्नः परमेश्वरः । अस्मत्कर्तव्यं केवलं राष्ट्राभ्युदयार्थ समुद्योगः । तस्य फलमय श्वो या कालान्तरे या सम्पत्स्यते इत्यत्र नास्ति सन्देहः । तस्य स्वल्पोऽप्यंशो मया जीवता द्रष्टव्य इति मे प्रार्थना इति । ५ तृतीयाभियोगः अयमानन्दमहोत्सयो यथा लोकमान्यवयस्यैरनुयायिभिहितचिन्तफैश्च महतोत्साहेन सम्पादितस्तथा शासनसंस्थयाऽपि स्वव्यूहं निगृहं विरच्य . , लोकमान्यटिळकचरितम् अस्मिन्नेवानन्दोत्सवदिवसे प्रातःकाले तस्य प्रारम्भममियोगसूचनारूपेण कृत्वा आसुरानन्द उपभुक्तः । अत: पट्यब्दिमहोत्सयो निकटवर्तिजनेन विपादयुक्तमनसाऽनुभूतः । लोकमान्यमानसं तु न विचलितम्, न वा भीतिग्रस्तम् । तैमनस्येवं चिन्तितम् ' साम्राज्यस्यायं विपत्कालः । अस्मिन् समये युद्धविरुद्धं न किमपि वक्तव्यम् । प्रत्युत जनस्य सैनिकीकरणाय साहाय्यमपि दातव्यम् । तेन भारतस्य स्वराज्यं समीपतरमागच्छेत् । अतो लोकैर्यदि प्रभूताः शासनाधिकाराः प्रार्थितास्तर्हि तेन राजद्रोहो न भविष्यति'। स्वराज्यसङ्घप्रचारार्थ लोकमान्यैः प्रवासोऽङ्गीकृतः । प्रदेशपरिप- काले सार्वजनिकभायां स्वराज्यविपयमधिकृत्य तैयाख्यातम् ‘वाणिज्यार्थ समागतानामाङ्ग्लानामितिहासमारभ्य भारते तैः साम्राज्यं कथं स्थापित- मिति विशदीकृत्य शासनविपयकाणि सर्वाणि कार्याणि आङ्ग्लदेशीयाः पुरुपा एव कुर्वन्ति, न भारतीयाः' इति तैरुक्तम् । स्वराज्यं नाम आग्लानां स्थानेषु भारतीयानां नियुक्तिः । शासतु नाम भारतीया निजजन्मभूमिम् । को दोपः ? एतत् स्वराज्यम् ' इति । स्थाने स्थाने लोकमान्यैस्तेपामनु- यायिसियाख्यातम् । अनुदिनं प्रसृतमेतदान्दोलनम् । ६ नगर'पत्तने व्याख्यानम् विभागसभाऽधिवेशननिमित्तेन तात्यासाहेब केळकर'महाशया 'नगर'नामकं पत्तनं गताः । नगरनागरिकैर्बहुमानेन सत्कारार्थ लोकमान्या निमन्त्रिताः । तैरपि तत्र गत्वा द्विः व्याख्यातम् । विषयस्तु एक एव । प्रथमव्याख्यानेनासंतुष्टाः श्रोतारो द्वितीयेन समाधानं प्रापुः । स्वराज्य- विषयको जनानामाग्रहश्च स्थाने एवेति निश्चिक्युः । लोकमान्या अवदन् भवतु नाम आङ्ग्लदेशनृपतिर्भारतीयानां राजा । परं सर्वे राज्या- धिकारा भारतीया एवानुभवन्तु । आङ्ग्लदेशे किं वर्तते । तत्रापि राजपदं विद्यत एव । परं 'पार्लमेंट'नाम्नी लोकसभा अखिलं राज्यं शास्ति । तदेव भारते भवतु इति वयं ब्रूमः । एतत् स्वराज्यम्' । एवं बहु विविच्य लोकमान्यैरुक्तम् ""प्रथमं निजाधिकाराणां न सम्यग्ज्ञानं जनस्य । यदि ज्ञानं, न निश्चयः । यदि निश्चयः, न धैर्यम् । यदि कश्चिदामलाधिकारी पृच्छति . . ४ . स्वराज्यसपपर्व २३७ स्म 'अपि त्वं टिळकमहाशयानां व्याख्यानं श्रोतुं गतोऽसि ?' तर्हि केचिद् ब्रुवन्ति 'गतोऽहम् , परं सुदूरं निपण्ण आसम् । अतो मया न तत् सम्यक् श्रुतम् ' इति । स्पष्टमेव जनाः कथयेयुः 'गताः स्मः वयं व्याख्या- नार्थम् । वयमपि स्वराज्यं प्रार्थयामहे ' " इति । एतानि नगर-वेरगावपत्तनव्याख्यानान्यधिकृत्य शासनसंस्थया पुन- रेकदा तृतीयो राजद्रोहाभियोगो लोकमान्येषु कृतः । अभियोगपत्रके रक्षापुरुषाधिकारिभिलिखितम् 'लोकमान्यानां भाषणानि राजद्रोहपूर्णालि । न्यायालयेन ते पूर्वमस्यैवापराधस्य कृते द्विर्दण्डिताः । परं तेषां स्वभावो न परिवर्त्यते । आयत्यामन्येष्वपि स्थलेषु ते एवमेव व्याख्यास्यन्ति । अतो रूपकाणां पञ्चाशत्सहस्रपरिमितः प्रतिभूः शान्ततारक्षणार्थ तेभ्यो प्रही- तव्यः । धनसम्पन्ना लोकमान्याः, प्रजासु प्रतिष्ठिताश्च । तेषामनुयायिनो- ऽपि धनिनः । श्वस्ते लोकमान्येभ्यों रूपकाणां लक्षम् उपायनीकरिष्यन्ति । अतो लोकमान्या एतादृशं महाई प्रतिभुवं दातुं समर्थाः' इति । अभियोगसमये न्यायालयपद्धतिमनुसृत्य प्रथमं शासनसंस्थाविधिशेन "किमर्थ प्रतिभूम्रहीतव्यः' इत्यस्मिन् विषये प्रतिपादितम् 'नगर-वेळगावादि. पत्तनेषु जातानि लोकमान्यानां व्याख्यानानि राजद्रोहपूर्णानि । तानि प्रजानां मनसि शासनसंस्थाविपये द्वेपवुद्धिं जनयन्ति । टिळकमहाशयानामेप खभाव एव' इति । अनन्तरं व्याख्यानानामाङ्ग्लभाषायामनुवादो परीक्षणार्थ न्यायालये समर्पितः । अनुवादे बहवः प्रमादाः प्रदर्शिताः । अनन्तरं लोक- मान्यानां निवेदन स्वीकृतम् । अनुवादस्तैः सारांशेन स्वीकृतः । राजद्रोह. विषयकं स्पष्टीकरण विधिज्ञो दास्यतीति तैर्निवेदितम् । अनन्तरं लोकमान्यविधिोः 'जीना'महाशयैः सविस्तरं प्रतिपादितम् इतस्ततः उद्घदैर्व्याख्यानोपयुक्तैर्याक्यैः राजद्रोहो न सिध्यति । सम्पूर्ण व्याख्यानं समालोच्य यः परिणामो भवति स एष द्रष्टव्यः । प्रमेयाणां स्पष्टीकरणार्थ · दत्तान्युदाहरणानि या कथिताः कयास्तद्मथिततत्त्वांशेन महीवव्याः । 'प्रयाणां धूर्ताणां कथा ' अस्य सम्यगुदाहरणम् । वारं वारं लोकमान्यैरेक एव सिद्धान्तः प्रतिपादितः यदरमाभिः प्राप्तव्यं स्वराज्य साम्राज्यान्तर्गतमेव । प्रस्तुतः आङ्ग्लम्पतिः सार्वभौमो वर्तते । पर्ववां .

२३८ लोकमान्यटिळकचरितम् नाम । तस्यैवाधिराज्यं स्वीकृत्य भारतदेशेऽस्माकं सर्वाणि राज्यकार्याण्य. स्माभिरेव करणीयानि । शासनसंस्थाधिकारिणामिच्छया जना न किमपि कार्य कुर्युः । सर्वमेवत् परिवर्तनमाग्लदेशस्थपार्लमेंटसभाद्वारा एव शनैः शनैः सम्पादयितव्यमिति । पीडाकरं व्याघ्रमपि हन्तुं सांप्रतं शासनसंस्थाया अनुज्ञाऽऽवश्यकी । परिवर्तनीयमेतदिति प्रतिपादने को दोपः ?" अनेन प्रकारेण व्याख्यानानां समर्थने कृते कनिष्ठन्यायालयन्यायाधीशेनाभियोग- निर्णयो लोकमान्यविरुद्धो दत्तः । निर्णये लिखितम् ' शासनसंस्थया कृपयाऽयमभियोगः १२४ अ परिच्छेदेन न कृत इति युप्माकं भाग्यम् । हेतुस्तु युष्माभिः राजद्रोहपूर्ण न भापितव्यम् ' इति । ७ वरिष्ठन्यायालयः अस्य निर्णयस्य विरुद्धं प्रार्थनापत्रं लोकमान्यैर्वरिष्ठन्यायालये निर्णय. परीक्षणार्थ समर्पितम् । तत्रोभयपक्षविधिज्ञकृतसमर्थनं निशम्य लोकमान्येपु कृतो राजद्रोहारोपः सिद्धो न भयतीति न्यायमूर्तिद्वयेन निर्णीतम् । व्याख्यानानां विमर्शः साकल्येनाऽऽवश्यकः। शासनसंस्थाधिकारिणां शासन- पद्धतिदोपाविष्करण प्रजासु शासनसंस्थासम्बन्धिनी द्वेपबुद्धि न जनयति । तथा स्वराज्यशब्दोचारणं वा स्वराज्यप्रार्थना वा नाक्षेपाही । एवं बहु विमृश्य 'बॅचलर'नामकन्यायमूर्तिभिः स्पष्टमेव लिखितम् ‘आग्लानाम- धिराज्ये तेषां पर्यवेक्षणेन, साहाय्येन च 'पार्लमेट'सभासदस्यैर्भारतशासन- विधेयकं परिवर्त्यात्मनः कार्य सम्पादयितव्यमिति टिळकमहाशयस्य भाषणेपु स्पष्टमेव दृश्यते । एवं साकल्येन परिशीलनं कृत्वा राजद्रोहः सिद्धो न भवति । अतः कनिष्ठन्यायालयनिर्णयं परिवर्त्य टिळकमहाशयो दोपारोपा- न्मुच्यते' इति । न्यायमूर्ति शहा'महोदयानां निर्णयो न केवलं लोकमान्यान्मोचयति , अपि तु स न्यायमूर्तीनामौदार्य बुद्धिप्रागल्भ्यं च प्रकटयति । वृत्तपत्रसम्पादकैर्लोकमान्यानां तथा न्यायमूर्तीनामभिनन्दनं मुक्तकण्ठेन कृतम् । परम् अस्यानन्दस्य परिसमाप्तिः 'टाइम्स ऑफ इंडिया' वृत्तपत्र- सम्पादकेन कृता । तेन प्रकाशमुद्घोपितम् ' कनिष्ठन्यायालयेन निर्णीतेऽ. .

स्वराज्यसङ्घपर्व भियोगे विना विलम्चमस्माभिः कृता टीका अधुना सम्पूर्णतयोपसंह्रियते' इति । एवं तेन स्वदोपोऽङ्गीकृतः। केसरिपन्ने लोकमान्यैरग्रलेखेनाभियोगनिर्णयस्य महत्त्वं विशदीकृत्य वाचकानां मनसि तथा विचारधारा निर्मिता यथा ते स्वराज्यशब्दावा स्वराज्यान्दोलनाद्वा नाविभयुः । 'मुक्ता टिळकमहाशयाः । ततः किम् ?' इति प्रश्नस्तैर्वाचकमनस्युत्पादितः । इदमेव शीर्षकमग्रलेखस्य । तेऽलिखन् 'यदि जना अस्य निर्णयस्य लाभं न गृणीयुतर्हि किं फलं मुक्तायाः ?' इति । चलितेऽप्यभियोगे स्वराज्यान्दोलनं स्थगयितुं न विचारो लोकमान्या- नाम् । अतोऽभियोगनिर्णयात्पूर्वमेव तैरेका व्याख्यानमाला समारब्धा । बॅप्टिस्टामहाशयैः स्वराज्यघटना लिखिता । मद्रासप्रदेशे बेझंटमहिलया व्याख्यानैः स्वराज्यान्दोलनं सञ्चालितम् । बङ्गदेशे 'गोरखपुर पत्तने बग- प्रदेशपरिपदि अध्यक्षपदस्थैः 'चिन्तामणि'महाशयैस्तदेव प्रतिपादितम् । अहमदावाद'नगरे मुम्बईप्रदेशपरिपद् जाता । अध्यक्षस्थानं 'जीना'- महाशयैर्मण्डितम् । अध्यक्षीयभापणे तैर्नेमस्तपक्षपद्धत्या स्वराज्यविपयः प्रतिपादितः । अग्रे कैश्चिद्विधिमण्डलसदस्यैरेका स्वराज्ययोजना आग्ल- देशं प्रहिता । नोव्हेंबरमासे राष्ट्रियसभया स्वराज्याधिकारदानविषयक निवेदनं लिखितम् । तथा 'मुस्लिमलीग'संस्थयाऽपि । 'होमरूल लीग'. संस्थायाः स्वराज्यघटना पूर्वमेव लिखिताऽऽसीत् । एवं स्वराज्यविषयक मान्दोलनं प्रतिदिनं प्रगतिपथमारूढम् । शासनसंस्थाविरुद्धेऽपि राजद्रोहाभियोगनिर्णये अधिकारिवर्गस्य दृष्टिर्न विशुद्धाऽभूत् । किमपि व्यक्तिनिष्ठकार्यार्थ 'गदग'पत्तनं गतेषु लोक- मान्येषु नागरिकाणां मनसि विचारः समुद्भूतः, यत्तैर्लोकमान्यसत्कारः कर्तव्य इति । परं धारवाड'विभागप्रशासकस्तत्र यहच्छयागत आसीत् । तेनेमां सत्कारवार्ता निशम्य तत्प्रतिबन्धोपायोऽनुष्ठितः । सत्कारार्थ सभास्थानं समागतानां जनानामपसारणं रक्षापुरपैलुष्ठितम् । समाल्यासपीठमुध्यस्तं कृतम् । सर्वमेतत् लोकमान्यतिम् । लोकापणीभ्य- स्लैरुक्तम् 'आहूयतां परिनिवर्तमानो जनः । निधीयतां व्यासपीठम्' .

२४० लोकमान्य टिळकचरितम् इति । सपद्येव रक्षापुरुषाधिकारिणा लोकमान्यहस्ते प्रशासकाज्ञापत्रं निहितम् । तस्मिन् लिखितमासीत् 'नगरपालिकामर्यादायां मार्गे लोक- प्रक्षोभकं न किमपि लोकमान्यैर्वक्तव्यम्' इति । तद्वाचयित्वा लोकमान्या रक्षापुरुपाधिकारिणमपृच्छन् 'किमिति जनो युष्माभिरपसार्यते ?' तेनोक्तम् ' एवमनुष्ठातुं प्रशासकेनाहं मुखेन आदिष्टः' । लोकमान्यै. कथितम् 'प्रतिबन्धपत्रके सत्कारो न प्रतिपिद्धः । तदर्थमन्यत्पत्रमावश्यकम्' इति । अतः 'ओगारमन्' महाशयः निवर्त्य पुनः प्रत्यागतोऽवदत् 'अयं सत्कारोत्सवः पञ्चनिमेषमानादेव समापयितव्यः' इति । लोक०- सम्मतमेतदस्माकम् । पुनरागतेपु जनेषु लोकमान्याः सत्कृताः । तैरपि निमेषमानादेकं वाक्यमुच्चैरुयारितम् ‘विधिशास्त्रपूतं न्यायालयनिर्णीतं स्वराज्यं लोकै प्रार्थयितव्यमिति । 'श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः।' इति वचनं जनोऽस्मरदिति न चित्रम् । हुबळी'नगरेऽपि लोकमान्या एवं सत्कृताः। ८' लखनौ'नगरे राष्ट्रियसभाधिवेशनम् मुम्बईप्रदेशपरिपदि राष्ट्रियसभाप्रवेशप्रस्तावे सम्मते जाते जनाना- मुत्साह. शतगुणं प्रवृद्धः । आदिमध्यावसानेषु 'लखनौ'नगरे जातं राष्ट्रिय सभाधिवेशनमभूतपूर्वम् । दिकालाधवच्छिन्नाः सर्वे भायाः । अपूर्वमिदं कालतत्त्वम् । १९०७ सवत्सरं सर्वथा प्रतिकूलम् । सामार्थ विश्वप्रयत्लाः कृताः । परं व्यर्थम् । १९१६ वत्सरे परिवर्तितं कालचक्रम् । महायुद्धं प्रचलितमासीत् । साम्राज्ये महती विपत्तिरापतिता । लोकमान्याः कारा. गृहान्मुत्ताः। उक्तं च- यथा चतुर्भिः कनक परीक्ष्यते निघर्षणच्छेदनतापताडनैः। तथा चतुर्भिः पुरुषः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्मणा ॥

. स्वराज्यसङ्घपर्व २४१ एवं लोकमान्या अमि न्यायालये पुनः परीक्षिताः । तेषां तत्त्वप्रणालि: सत्येति निर्धारिता । स्वराज्यमार्गस्तैर्दृष्टः। अतः सञ्चालितं तदर्थमान्दोलनम् । इदमेव दूरदर्शित्वं लोकमान्यानाम् । साम्प्रतं जनस्य जीवशक्तिर्लोकमान्याः । तेपामुपस्थितिर्जनेन सर्वत्रापेक्ष्यते । सर्वेषु पक्षेषु यद्यपि मतभेदा आसन् तथाऽपि सन्धिविपये सर्वेपामैकमत्यम् । अत: सर्वे पक्षाः 'लखनौ'नगरे अधिवेशनार्थमुपस्थातुं समुत्सुकाः । तेन यथार्थतया प्रातिनिधिक स्वरुप- मधिवेशनस्य । राष्ट्रियसभाप्रवेशप्रस्तावानुसारतः मुम्बईप्रदेशादासन्नपञ्चशतं प्रति- निधयः उपस्थातुकामा आसन् । स्वराज्यान्दोलनं सर्वत्र प्रसृतम् । अतो मुम्बईप्रदेशस्थविविधविभागेभ्य आगन्तुकामान् प्रतिनिधीन् लखनौनगरं नेतुमेको विशेपवाप्परथो नियोक्तव्य इति 'डॉ. साठे'महाशयानां कल्पना फलमायहत् । मुम्बई- वन्हाड-नागपुर-महाराष्ट्रादिविभागेभ्यः प्रतिनिधि- भिरग्निरथे निजस्थानानि प्रवासशुल्कं दत्त्वा निश्चितानि । एतावान् जनो- साहो यदग्निरथप्रस्थानात्प्रागेव दिनद्वयं सर्वाण्यासनानि परिपूर्णानि । अनुयायिभिः सह लोकमान्या अनेनाग्निरथेन प्रवासमड्गीचक्रुः । अमिरथवेलापत्रकमादावेव प्रकाशतां नीतम् । तेन मुम्बापुरीतो लखनौ- नगरं यावत् सर्वेषु विश्रान्तिस्थानेषु लोकमान्यदर्शनोत्सुफजनः स्वागतार्थ सत्कारार्थ बोधामृतपानार्थ प्रतिविश्रान्तिस्थानं नक्तंदियमुपस्थितोऽभूत् । लोकमान्यानाममिरथविभागो वाह्यतः पुष्पहारैर्मण्डितः । अतोऽग्निरथेन विजयोत्सवरूपं विधृतम् । कल्याण-नाशिक-मनमाड-भुसावळ-इत्यादि- विश्रान्तिस्थानेपु वह्यः स्वराज्यसघसदस्या अग्निरथं प्रविविशुः । भुसापर- विश्रान्तिस्थाने स्वराज्यसयध्वजारोपणं कृतम् । युगान्तरमारुढे सवितरि यात्रिकैरल्पोपहारः कृतः । मध्याह्नसमये 'हारदा'नामके विश्रान्तिस्थाने उत्तमोत्तमा प्रतिनिधीनां भोजनव्यवस्था तत्रत्यैः कृता । 'शाल्यन्नं सघृतं पयोदधियुतं' , मिष्टान्नं, रुचिदीप्त्यर्थ व्यञ्जनादिकं सर्व पर्याप्तमासीत् । विश्रान्तिस्थाने, सत्कारस्थले , भोजनपङ्क्तिपु स्वयंसेवका बद्धपरिकरा आसन् । अतः सर्वाणि कार्याणि विना कालातिपातं सम्पादितानि । तथा. ऽपि याप्परस्थस्य बिलम्बो जातः ।

. . २४२ लोकमान्यटिळकचरितम् अपराह्नसमये 'हुशंगावाद 'स्थानके शकर्रायुक्तं सुगन्धिद्रव्यसंयुतं पयःपानं स्वागतार्थे सुसज्जमासीत् । 'भोपाळ'विश्रान्तिस्थाने महम्मद- धर्मिभिरपि लोकमान्याः सत्कृताः । भेलसा-विना-ललितपुर-झांशी' इत्यादिस्थलेषु सत्कार स्वीकृत्य प्रभाते 'कानपुर 'विश्रान्तिस्थाने सर्वे समा- गताः । तत्राल्पकालं विश्रम्य मध्याह्नसमये सर्वे प्रतिनिधयः 'लखनौ'. विश्रान्तिस्थान प्राप्ताः । अनन्तरं तत्र महत् जनसंचलनमभूत् । ९ अधिवेशनम् अधिवेशनारम्भे सर्वेपां स्वागतं कृत्वा स्वागताध्यक्षैः 'जगत्नारायण'- महाशयैः राष्ट्रियपक्षसदस्यास्तथा महम्मदधर्मिणो बन्धयो राष्ट्रियसभाप्रवेशस्य कृते अभिनन्दिताः । राष्ट्रियसभाध्यक्षैः ‘बाबु अंविकाचरण मुजुमदार- महाशयैर्निजानन्दः प्रदर्शितः । तैरुक्तम् ॥ १९०७ संवत्सरे 'सुरत'नगरे 'फ्रेंच'जनानां प्राचीनोद्याने राष्ट्रियसभा शकलीभूता। नवहायनानन्तरं १९१६ वत्सरे अत्र 'केसरबाग'नामकोद्याने तस्याः पुनः सन्धानं जातम् । अतः परं वृद्धजनैस्तरुणा न अनादरणीयाः । अथ च तरुणैर्वृद्धा नोपहसनीयाः । दूरदर्शित्वं , प्रौढविचाराः, सावधानता इति सत्यमेव गुणाः । परं तेपामति- रेको भीरुत्वे, नैतिकाधःपाते पर्यवस्यति । तथैवान्यस्मिन् पक्षे उत्साहः, शौर्य, सामर्थ्य , कर्तृत्वशीलता इत्यादयो गुणाः स्तुत्या एव । परं तेषु आत- तायिता इति दोषो विद्यते । तेन संस्थानाशो भवति । तस्मादुभयपक्षदोपान घयमावृणवाम । अतः परं राष्ट्रकार्य प्रगतं करवाम । १९०७ वत्सरानन्तरं नवभ्यः संवत्सरेभ्यः ऊर्ध्व टिटकमहोदयाः सर्वेपामस्माकं मध्ये पुनरागताः इति कृत्वा तेभ्योऽहं स्वागतं व्याहरामि" इति । अनन्तरं विपयनियामकसमित्यां राष्ट्रियसभया तथा 'मुस्लिम लीग'- संस्थया मियो मन्त्रेणैका स्वराज्ययोजना निर्मिता । सा योजनाऽधिवेशने प्रतिनिधीनां पुरतः 'सुरेन्द्रनाथ पानी'महाशयैर्विचारार्थ निहिता । प्रस्तावारम्भे लिखितम् "भारतदेशेन स्वराज्यसुखं पुराऽनुभूतम् । सांप्रत. मपि नायमपात्रः स्वराज्योपभोगाय । तथाऽपि शासनाधिकाराणां प्रथमो माग इति मत्वाऽयं भागोऽस्माभिः स्वीक्रियते' इति । अतोऽनेन प्रस्तावेन स्वराज्यध्वजारोपणं कृतम् ।

. स्वराज्यस पर्व २४३ अस्मिन् विपये केसरिपत्रेण लिखितम् ' १९१६ वत्सरस्य डिसेंबर- मासस्योनत्रिंशो दिवसो भृगुवासरो भारतदेशस्येतिहासे सुवर्णाक्षरैलिखितो भवेद्यतोऽस्मिन् दिवसे गोमतीनद्यास्तीरे लखनौनगरे स्वराज्यध्वजारोपणं कृतम् । अस्मिन् दिवसे भारतदेशेन पक्षभेदं, जातिभेदं, धर्मभेदं विस्मृत्य प्रतिनिधिद्वारा स्वराज्यप्रस्तावः सम्मतः कृतः । अयं प्रस्तावो भारतदेशस्य स्वराज्याकाङ्क्षायाः मुकुटधारणविधिरासीत् । सर्वाः प्रजाः आत्मनः उपा- यनान्याहृत्योपस्थिताः । अस्मिन् देशे न कोऽपि पक्षो विद्यते यस्य प्रतिनिधयोऽधिवेशने नोपस्थिताः । जातिभेदः, मतवैचित्र्यं, व्यक्तिद्वेप इत्यादयः सर्वे पिशाचाः गोमतीनदीजले विलयं गत्या, नूतनं मङ्गलरूपं धारयित्या आशीर्वचनानि व्यतरन् । आत्मनो रायकीयं ध्येयं विचेतुं भारतेन पश्चाशत्समाः यापिताः । परम् अन्ते तेनात्मनो निश्चितं ध्येयं वारस्वरेण तथोद्घोपितं यथा तेन घोपेणाखिलं जगत् निनादितम् । न कदाऽपि तस्य विस्मृतिर्भविष्यति । तस्मादतः परं भारतस्य सर्वे समुद्योगाः स्वराज्य- प्राप्त्यर्थमेव भविष्यन्ति । आत्मनोऽधिकाराः समाप्ता इति साम्प्रतमधि- कारिव! जानीयाद्यतश्चरमयवननरेशराजधान्यां लखनौनगरे महम्मद- धर्मिणस्तथा भारतीयाः शिक्षिताशिक्षिताः सर्वे राष्ट्रियसभाव्यासपीठे एकत्र मिलित्वा स्वराज्यं प्रार्थयन्त । अधिकारस्थानानि महम्मदधर्मिणो गृह्णन्तु वा भारतीयाः स्वीकुर्वन्तु वा । परम् आग्लास्तेपु स्थानेषु न नियोक्तव्या इति तेभ्यः कथयितुं सर्वे बद्धपरिकरा दृश्यन्ते ' इति । डिसेंबरमासस्य त्रिशे दिवसे, समाते राष्ट्रियसभाधिवेशने, सायं ब्रह्मविद्यामण्डपे 'स्वराज्यसङ्घपरिपद्' जाता । वेझंटमहिलया अध्यक्षस्थानं मण्डितम् । तस्याः सूचनया लोकमान्य पितम् ' राष्ट्रियसभया अत्र कार्य- द्वयं सम्पादितम् । एकं स्वराज्यप्रार्थना । द्वितीयं सा प्रार्थना हिंदुधर्मिभि- महम्मदधर्मिभिरेकीभूय कृता । एवं स्थितेऽपि अधिकारिवर्गः प्रवल इति शात्या समुद्यमोऽस्माभिर्विदोषण कर्तव्यः । तारस्वरेण सर्वेरियं स्वराज्य- घोषणा कृता इति तस्योद्यमस्य प्रारम्भः । अस्माकं गृहे सर्वाणि कार्याणि ययमेव करपामेति वक्तुं न करमादपि भयम्' इति । लसनौराष्ट्रियसभाधिवेशनानन्तरमसाग्रहेण लोकमान्याः । कानपुर नगरं गताः । तेपामागमनात्पूर्व केवलं याममात्रकालः स्वागतसम्भारार्थ- २४४ लोकमान्य टिळकचरितम् मासीत् । परं महानुत्साहो जनानाम् । एकेन पुरुपेण डिण्डिममेकं कण्ठे धृत्वा तस्य महानिनादेनेयं लोकमान्यागमनवार्ता सर्वत्र प्रसारिता । कुकुम- तिलकलेपनं नीराजनविधिमहत्सञ्चलनमित्यादयः सत्कारस्य सर्व प्रकाराः सर्वत्रासन् । ' दादासाहेव करंदीकर'महाशया महाराष्ट्रवेपेण सभास्थानं प्रथमं गताः । तेषां तद्रक्तवर्णमुष्णीषं दृष्ट्वा एते लोकमान्या इति भ्रमेण जनस्तेपामेव चरणौ नमस्कृतवान् । नाहं टिळकमहाशय इति पुनः पुनः सर्वान् कथयतां तेषां वचने न कोऽपि विश्वसिति स्म । अन्ते कानपुराग्रणीमिः सह लोकमान्याः सभास्थानं प्राप्ताः । तदा करंदीकरमहाशया अस्मात्प्रसङ्गा- न्मुक्ताः । 'वेळवी'महाशयास्तदा तानवदन् 'उत्तरे भारते रक्तोष्णीपधारणे लोकमान्यानामेवाधिकारः । नान्येपाम्' इति । सर्वेपु स्थलेषु विविधोदाहरण दृष्टान्तादिप्रकारैर्लोकमान्या एकमेव तत्त्वमुपदिशन्ति स्म 'स्वराज्यप्रार्थना इति । . . कानपुरनगरात् 'कलकत्ता'नगरं 'घायु मोतीलाल घोप 'महाशय- दर्शनार्थ 'जोशी-खापर्डे'महाशयैरसह लोकमान्या अगच्छन् । लोकमान्या- नामयं वृद्धवयस्यस्तेभ्यो बाप्पपूरितलोचनो दृढं क्षेमालिङ्गनं दत्तवान् । पड्वानन्तरं मिथो दर्शनम् । अनुभविनो जना एवैतादृशं स्नेहरसं जानन्ति । कुशलप्रश्नानन्तरं दिवसमेके तत्रोपित्या लोकमान्या नागपुरनगरं गताः । तत्र सर्वे सत्कारा महता विभवेन कृतास्तथाऽपि हरिजनवर्गेण कृतः सत्कारः संस्मरणीयः। स्वराज्यान्दोलनमल्पेनैव कालेन सर्वत्र प्रसृतम् । अतः 'सिडेन- हॅम् कार्क'महाशयसदृशाः पुरुषाः पुरत आगत्याग्लान् सूचयन्ति 'सम्राश्याः घोपणापत्रकं व्यर्थम् । मोघानि सम्राजामभिवचनानि । पर्याप्तमधिकार- दानम् । अधिकं न प्रार्थनीयम् । नापि देयम्' इति सकृदेव शासनसंख्या कथयितव्यमिति। नागपुरतो लोकमान्या धामणगाव-ययतमाळ'इत्यादिस्थलेम्य: 'अकोला 'नगरं गताः । साम्प्रतं सत्मारादिकार्यक्रमो नित्यविधिर्जातः । अस्मिन्नित्ययिधो लोकमान्यैर्गीतारहस्यमधिकृत्य शासनसंस्थासेयरानां पते तथा विद्यार्थिनां कृते विशेषेण भापितम् 'मानिना पुरपेण टोमव्ययहारे आत्मनः कर्तव्यं प्राकृवजनयदाचरणीयम्' इति ।

खराज्यसड्यपर्व २४५ जानेवारीमासे पुण्यपत्तनमागत्य स्वराज्यसङ्धकार्य लोकमान्यैः समालोचितम् । १० अण्णासाहेब पटवर्धननिधनम् १९१७ संवत्सरे फेजुआरीमासे अण्णासाहेब पटवर्धनमहाशया दिवं गताः । बोधप्रदं तेषां चरितम् । प्रवृत्तिमार्गेणारब्धं जीवनं निवृत्तिमार्गे पर्यवसितम् । प्रतिभासम्पन्नोऽयं प्रज्ञावान पुरुपः स्वराज्यकाले राजसभायां विद्वद्रलेपु माधवाचार्य इव गुणिगणगणनायां प्रथमपदमलप्स्यत । ११ सैनिकशिक्षणम् महायुद्धं समाप्तम् । अतः शासनसंस्थायाः महती अपेक्षाऽऽसीत् । १९१७ पत्सरस्य फेब्रुआरीमासे 'रँगलर परांजपे'महाशयानामध्यक्षत्वे सैनिकशिक्षणार्थ तरुणानुपदेष्टुमेका सभा निमन्त्रिता । तस्यां सैनिकशिक्षण- विपयको मुख्यमस्तायो लोकमान्यैः पुरस्कृतः । तेऽवदन् 'स्वराज्यप्राप्तये बद्धपरिकरेण जनेन एप दुर्लभसमयः सैनिकशिक्षणार्थमवश्यमुपयोक्तव्यः। नोपेक्षणीय' इति । यस्मिन् दिने तैरेवमुपदिष्टं तस्मिन्नेय दिने 'लोकमान्यः पंजाव'प्रदेशो न प्रवेष्टव्यः' इत्याज्ञापत्रं तेभ्यः शासनसंस्थया दत्तम् । केसरिपत्रे एकस्मिन्नप्रलेसेऽपि तेरेवं प्रतिपादितम् । मुम्बापुर्यामेका सभा निमन्त्रिता । तत्र लोकमान्यभाषणावसाने अष्टशतं जनाः सेनाप्रवेशार्थ स्वनामान्यदुः। १२ कर्णाटकयात्रा अथ कर्णाटकप्रदेशे स्वराज्यप्रचारार्थ लोकमान्यर्या कृता। 'चिकोडी -निपाणी इत्यादिस्थलेषु कपीवलजनेषु तारयातम् । मार्गमुभयतो मामे मामे लोकमान्यदर्शनार्थ जना याममानं निपण्णा आसन् । खराज्यससम्य प्रथमवर्धापनदिक्से चतुर्दशसहस्रादूर्व जनाः सहस सदस्या अभूयन् । एपरिमन्नेव यत्सरे आसेतुहिमाचलं स्वराज्यविषयक महदान्दोलनं जातम् । तेन सफलोऽधिकारियर्गोऽस्सरयोऽभूत् । प्रजापीडन- सम्मयो लोष्टः । मद्रासप्रदेशराजप्रतिनिधिना जनान् तयितुं यदु मापितम् । तेन टोरनुमितं प्रजापीटनमपश्यंमागीति ।

२४६ लोकमान्यटिएकचरितम् अस्य भाषणस्य निषेधो राष्ट्रियसभाशाखासमितिमिर्न कृतः । परमनेन राजप्रतिनिधिभापणेन मद्रासप्रदेशजनः प्रक्षुब्धः । एकेन सेवानिवृत्त न्यायाधीशेनोक्तम् 'स्वराज्यप्रार्थनं विधिशास्रसम्मतम् । अतो वयं तस्य पुरस्कारं करिष्यामः । शास्तु अस्मान् शासनसंस्था । परं वयं न विभेम' इति । एकेन श्रेष्ठपुरुपेणेवं पुरस्कारे कृते वहवो जनाः शासनसंस्थायै पत्राणि प्राहिण्वन् । वेझंटमहिला ‘उटकमंड'नगरे स्थानबद्धा जाता । अन्यान्यपि प्रजापीडनचिहानि जनैर्दष्टानि । 'अलाहाबाद'नगरे 'चिन्तामणि 'महाशयाः स्वराज्यसङ्घस्य सदस्या भूत्वा जनानुपादिशन् 'शासनसंस्थादृष्टया राष्ट्रियसभासदस्याः स्वराज्यसड्धसदस्यैः समानाः । यदि वयमेवं भेदं करिष्यामस्तर्हि १९०८-०९वत्सरे जातस्येतिहासस्य पुनरावृत्तिर्भविष्यति'। १३ गांधीमहाशयानां सत्याग्रहः स्वराज्यान्दोलनसमये 'गांधी 'महाशयैः सत्याग्रहस्यान्दोलनं सञ्चालि. तम् । अतः परम् अयं महापुरुषः उदयाचलं प्राप्तः। प्रतिसंवत्सरमनेन शनैः शनैरखिलं भरतखण्डं समानान्तम् । 'बिहार'प्रदेशे 'चंपारण्ये' नीलीक्षेत्राणां स्वामिनः आग्ला आसन् । तत्रक्षेत्रभृत्याना क्षेत्रपतिभिः सह बहुकालं कलहो जातः । भृतिदानबन्धनेन नियतकालं भृत्याः स्वामिनं परित्यक्तुं नाश- नुवन् । अतः स्वामिनस्तान् बहु अपीडयन् । अस्मिन् प्रकरणे कलह- कारणानि विचेतुं तवत्यैधुरीणानां निमन्त्रणेन गांधीमहाशया 'मोताहारी'- पत्तनं गताः । सपद्येव तत्रस्थप्रशासकेन प्रतिबन्धकमाज्ञापत्रं तेभ्यो दत्तम् । गांधीमहाशयैरसंदिग्धाक्षरैः प्रतिभापितम् ' मम कार्यस्य महत्त्वं तथा तस्य परिणामानहं सम्यग्जानामि । अतोऽहमिदं स्थानं त्यक्त मर्थः । तत्र भवद्भ्यो यद्रोचते तत्सुखेन कर्तुं तत्रभवन्तः समर्थाः । आन्दोलनस्य या प्रक्षोभस्य या न ममोद्देशः । सामोपायेनाहं कलहकारणं दूरीकर्तुमुत्सहे । इदं यदि तत्रभवतां रुचये नाभविष्यत्तर्हि प्रसह्य मामुत्क्षिप्य यन कुत्रापि नयत । युक्तायुक्तविचारेण शासनसंस्थायाः आज्ञापत्रकात् मम सदस- द्विवेकबुद्धिमहं शरणं गतोऽस्मि' इति । वरिष्ठाधिकारिणा सह मन्त्रं कृत्या प्रशासकेन प्रतिरोधात्मकं निजाज्ञापत्रं प्रतिसंहृतम् । अनन्तरं शासनसंस्थया एकां समिति नियुज्य तस्यां गांधीमहाशयं समावेश्य फलहकारणानि परी- क्षितानि । .

: १४ स्वातन्त्र्योषःकालपर्व १ वेझंटमहिलायाः स्थानबद्धता वेझंटमहिलायाः 'होमरुल लीग'नामकसंस्थायाः आन्दोलनेन मद्रास- प्रदेशे शासनसंस्था भृशं संत्रस्ता। अतस्ताम् ' उटकमंड'नामके स्थले स्थापयित्वा तस्याः सर्वाणि कार्याणि निरुद्धानि । तेन महदान्दोलनं जातम् । तस्याः मुक्तताविपये विचारो जातः । यदि तस्याः मुक्तता न स्यात्तर्हि किं कर्तव्यमिति प्रश्नः । राष्ट्रियसभाया अध्यक्षस्थाने तस्या नियुक्तिः कर्तव्या इति कैश्चित्सूचितम् । कतिचिन्मासानन्तरमेपा सूचना सम्मता जाता। २ घोषणा अत्रान्तरे भारतमन्त्रिमहाशयेनोद्घोपितम् 'स्वराज्याधिकारदान- विषये क्रमशो भारतदेशायाधिकारान्' दत्त्वा भारतदेशेन साम्राज्यस्य महत्त्वपूर्णेन घटकेन भाव्यम् , इति आङ्ग्लमन्त्रिमण्डलस्य मनीपा । प्रमुखराजप्रतिनिधिनिमन्त्रणानुसारतः स्वराज्यविचारविनिमयार्थमहं भारत- देशमागमिष्यामि । सर्वेर्लोकधुरीणैस्सह मन्त्रं कृत्वा पार्लमेंटसमायामेकं विधेयकं पुरस्कृत्य अचिराद्विचारो भविष्यति । परम् अन्तिमाः सर्वे अधि- काराः पार्लमेंटसभाया हस्ते स्थास्यन्ति' इति । एवं स्वराज्यशब्दोचारणेऽपि यः प्रतिवन्ध आसीत् स स्वराज्यशब्दोऽधुना शासनसंस्थया प्रकाशं स्वागती. कृतः । न केवलमेतत् परं लोकधुरीणाः स्वराज्यसम्बन्धिनः स्वविचारान भारतमन्त्रिणः पुरतो विचारार्थ निधास्यन्ति इति महत्फलमान्दोलनस्य इति । लोकमान्यानां स्वराज्यसघनान्दोलनार्थमात्मनः प्रतिनिधिः 'प. टिस्टा'महाशयः आङ्ग्लदेशं प्रहितः । स्वराज्यविषयकप्रस्तावानुसारतरतेन जन प्रतिष्ठितान् पार्लमेंटसभासदस्यान दृष्ट्वा तेभ्यः स्वराज्यप्रस्तायं निवेद्य तेषां मतमनुमितम् । ३ सड्कीर्णम् सप्टेंबरमासस्य सप्तदशेऽहनि येझंटमहिला यन्धनान्मुत्ता लोकमान्याः स्वराज्यविषयमधिकृत्य व्यास्यानार्थ सातारा'नगरं, ततः 'अलाहानाद'नगर, २४८ लोकमान्यटिळकचरितम् -प्रयागक्षेत्रम्-राष्ट्रियसभासमित्याः अधिवेशनार्थ गताः । तत्र लोकमान्यानां तथा वेझंटमहिलायाः महान् सत्कारो जातः । समितिसभा समाप्य लोक- मान्याः 'पंढरपुर पत्तनं गताः । तेपां सत्कारार्थ तत्र गोपुराणां त्रिशतं विरचितम् । पुण्यपत्तने लोकमान्यानामध्यक्षत्वे ज्योतिपसम्मेलनं जातम् । 'गुजराथ'प्रदेशे गांधीमहाशयानामध्यक्षत्वे 'गोध्रा पत्तने प्रदेशपरिपदोऽधि- वेशनं जातम् । तत्र लोकमान्याः 'साप 'महाशयाश्च निमन्त्रिताः । १९१७ संवत्सरे नोव्हेंबरमासस्य सप्तदशेऽहनि भारतदेशमन्त्रिणा 'माँटेग्यू'महाशयेन भारतदेशे शिष्टमण्डलैः सह विचारविनिमयः समा- रब्धः । तदा 'होमरूल लीग 'संस्थया तथा ' स्वराज्यसड्पेन' आत्मनः पृथक् शिष्टमण्डलं दिल्ली 'नगरं प्रेषितम् । स्वराज्यशिष्टमण्डलसदस्याना• मेतानि नामानि-' टिळक-खापर्डे-करंदीकर-केळकर-वेळवी-गड्गा- धरराव देशपांडे-डॉ. मुंजे-निळकंठराव उधाजी-साठे-वेलणकर-वेदरकर' इति । वेझंटमहिलायाः लोकमान्यानां च पृथक् दर्शनं मॉटेग्यूमहाशयेन गृहीतम् । अनन्तरं कलकत्तानगरं गत्वा मॉटेग्यूमहाशयो मुम्बापुरीं गतः । तत्र तस्य दर्शनार्थ दशाधिकशतं शिष्टमण्डलानि समागतान्यासन् । सर्वैरपि सामान्यतो राष्ट्रियसभापुरस्कृतस्वराज्यप्रस्ताव, समर्थितः । ४ स्वराज्यान्दोलनार्थ दीर्घप्रवासः १९१८ वत्सरस्य फेब्रुआरीमासस्य पञ्चमदिवसादारभ्य पञ्चविंशति- तमदिवसपर्यन्तं लोकमान्यैः स्वराज्यप्रचारार्थमयं दीर्घप्रवासोऽङ्गीकृतः । अयं यात्राप्रसङ्गः खापर्डेमहाशयैर्लालित्यपूर्णवाण्या वर्णितः । यात्राप्रसङ्गेन कति स्थलानि लोकमान्यैदृष्टानि , कति द्रव्यसाहाय्यं जनैः स्वराज्यप्रचाराय दत्तमित्यप्रे दत्तात् पत्रकात् ज्ञास्यते । प्रामनाम्नः पुरतो द्रव्यसख्या लिखिता वर्तते । स्थले स्थले सत्कारपूर्वकं मानपत्रमर्पयित्या जनै- द्रव्यनिधिरुपायनीकृत. । १ मुम्बापुर्याम् अङ्गारव्यवहारिभिः ५७११ रूपका उपायनीकृताः । नगरनामानि--२ खांडया ३ वहाणपुर -४ मलकापुरपत्तनपर्यन्तमग्निरथेन प्रवासः कृतः । अतः परं चत्वारस्सैल- शकटाः स्वीकृताः । अनन्तरमेतानि स्थलानि दृष्टानि-- ५ धुलढाणा, स्वातन्त्र्योपःकालपर्व २४९ ६ चिखली, ७ खामगाव (७२००), ८ नांदुरा (१०००), ९ जळगाव, १० जामोद (५०००), ११ शेगाव -एकेन चर्मकारेण अत्र रूपकद्वयं दत्तम्-, १२ तेल्हारा (२०००), १३ अकोट (४८००), १४ अकोला (४३००), १५ वाशीम (३५०० ) एकया सीमन्तिन्या अष्टोत्तरदातं आणकद्वयनाणकानि दत्तानि , १६ पुसद , १७ कारंजे ( ३०००), १८ मूर्तिजापुर (२५००), १९ पुलगाव (७०००)-एकेन शिवलिङ्गं दत्तम् -, २० आर्वी (७६००), २१ वर्धा (५१००), २२ वरोडा, २३ चांदा (६०००), २४ वणी ( ३०००), २५ पांढरकवडा (स्वराज्यमपानन् पलायमानो बाजीरावनामा अत्रागतः । सांप्रतं स्वराज्यमाहर्तुकामा लोक- मान्या आगताः।), पुनः २६ वरोडा ( २५००), २७ शिंदी, २८ हिंगणी, २९ सेल ( २७६०), ३० नागपुर (९०००), ३१ उमरेड (१६००), ३२ कलोल (१४००), ३३ मोहपा, पुनः ३४ नागपुर, ३५ भंडारा (४५००), ३६ धामणगाव ( २०००), ३७ वरणगाय, ३८ भुसावळ (३०००)। एवं विंशतिदिनेषु एतानि स्थलानि दृष्ट्या लोकमान्या मुम्बापुरी निवृत्ताः । अनन्तरं 'सोलापुर' (९०००) नगरं गत्या पुण्यपत्तनं (११३००) समायाताः । तत्र मार्चमासस्य द्वाविंशे दिने 'वंडगार्डन 'नामकोद्याननिकटवर्तिनि 'खण्डवानी'नामके हर्ये अखिलपुण्यपत्तननागरिकैर्महता विभवेन उद्यानोपहारो दत्तः । अनेन समयेन आग्लदेशप्रवासार्थम् आवश्यकराजाज्ञापत्रकादि- सकलसम्भारः उपलब्ध आसीत् । ५.कोलंयो 'यात्रा मार्चमासस्य त्रयोविंशे दिने नक्तं दशवादनवेलायां सापर्डेमहाशयः सह लोकमान्या आग्लदेशगमनार्थ 'कोलंबो'नामकं नौकाश्रयं गन्तुं महतो. रसवेन पुण्यपत्तनात् प्रस्थिताः । नागरिकैः संचलनं कृतम् । स्थाने स्थाने लतापल्लवतोरणेर्गमनमार्गोऽलकृतः । अग्रतो मगलयाचशफ्टाः, पश्चात् पणवपटहकांस्यतालादियायसमूहः, अनन्तरं कतिचिदश्वारोहाः, स्वयंसेवकदलं, जनसमुदायभ । अन्ते लोकमान्यटिळक-साप.महाशयादिलोकधुरीणानां ३२ लोकमान्यटिटफचरितम् रथा आसन् । अहो महद्भाग्यं लेखकस्य यत्तेनेदमपि सञ्चलनं प्रत्यक्षी- कृतम् । लोकमान्याः प्रथमं पुण्यपत्तनात् मुम्बापुरी गताः । तत्रापि विविध- स्थलेषु नागरिकैर्वणिक्टेप्ठेरते सत्कृताः। उद्योगक्षेत्रेषु विद्यमानैः पोडशसहस्र- कर्मकारैः एकैकमाणकं समाकलय्य रूपकाणामेकसहस्र लोकमान्येभ्यः उपा- यनीकृतम् । 'चौपाटी'नाम्नि सागरोपकण्ठे रमणीयपुलिने स्वराज्यसङ्घ- परिपद् जाता। प्रस्तावादिनित्यकार्यानन्तरं स्वराज्यसङ्घकोशाध्यक्षैः आयव्यय. पत्रकं समर्पितम् । सङ्घशिष्टमण्डलस्य प्रवासव्ययार्थ लोकैरुपायनीकृतो द्रव्यनिधिः सप्तदशोत्तरैकलक्षसंख्यापरिमितो जातः । मुम्बापुर्यामष्टचत्वा- रिंशत्सहस्रं द्रव्यसाहाय्यं लब्धम् । अन्ततो ब्रह्मवृन्दः 'ठाकुरद्वार'नामके राममन्दिरे लोकमान्येपु आशीर्वचनानि व्यतरत् । एवं महतोत्साहेन सत्कारपूर्वकम् आङ्ग्लदेशगमनार्थ जनैरामन्त्रिता लोकमान्याः कोलंबोनामक- नौकाश्रयस्थानात् यात्राभङ्ग कृत्वा परावृत्ताः । शासनसंस्थादत्तं प्रवासा- धिकारपत्रम् उपसंहृतम् । अनेन शासनसंस्थाकर्मणा सर्वेपामुत्सवः शीततां गतः। कोलंबोनौकाश्रयस्थानं गन्तुं प्रस्थितमिदं स्वराज्यशिष्टमण्डलं प्रथमं मुम्बईनगरात् मद्रासनगरं प्राप्तम् । मार्गे जनसमूहेन कृतं सत्कार स्वीकृत्य, मद्रासनगरे सर्वपक्षैः कृतं स्वागतसत्कारमङ्गीकृत्य , 'पत्तने वेझंटमहिलाया दर्शनं गृहीत्वा लोकमान्याः शिष्टमण्डलसदस्यैः सह कोलंबो- नगरं गताः । तत्रत्यैरपि जनैर्महता गौरवेण ते सर्वे सत्कृताः । एकस्मिन्नु- द्यानोपहारसमये सार्धसहस्रं प्रतिष्ठितनरनारीनागरिकगणः समुपस्थित आसीत् । तैस्तत्र सङ्कलितो द्रव्यनिधिोकमान्यैलोकप्रियराजप्रतिनिधि- स्मारकार्थे समर्पितः । जलमार्गेण प्रस्थातुं देशान्तरगमनार्थ प्रवासाधिकारपत्रादिसकल. सम्भारः सड्गृहीतः । सर्वे शिष्टमण्डलसदस्याः कार्यान्तरं समाप्य थावत प्रस्थानाय सन्नद्धास्तावत् प्रवासाधिकारपत्रं निवर्तयितुम् आज्ञापत्रं सम्प्राप्तम् । लङ्का'प्रदेशशासनसंस्थाधिकारिणा तस्य वार्ता लोकमान्येभ्यो निवेदिता । तां श्रुत्वा सर्व सदस्याः स्तम्भिता बभूवुः । उक्तं च- अड्यार स्वातन्त्र्योपःकालपर्व २५१ मनसा चिन्तितं कार्य दैवमन्यद्विचिन्तयेत् ।' इति । अयं प्रतिषेधः आग्लदेशात् सम्प्राप्तः । लोकमान्यैर्विद्युत्सन्देशान् सम्प्रेष्य प्रतिपेधनिवारणार्थ विश्वप्रयत्नाः कृताः । एकस्मिन् क्षणे आशा, अन्यस्मिन् क्षणे नैराश्यम् इति महत् द्वन्द्वं समुद्भूतम् । पराभूता आशा । विजयीभूतं नैराश्यम् । आङ्ग्लदेशगमनार्थ नियुक्तेन प्रवहणेन परित्यक्तं नौकाश्रयस्थानम् । लोकमान्यप्रवासाधिकारपत्रप्रतिपेधवार्ता मुम्यापुरी गता । सपद्येव समासु निषेधप्रस्तावाः सम्मता । वृत्तपत्रैरात्मनो नियेधः प्रदर्शितः । आग्लदेशे तस्य प्रतिध्वनिः श्रुतः । तत्रस्थकर्मकारसनिषेधः प्रदर्शितः । स्वराज्यसपशिष्टमण्डलस्याधिकारपत्रं गृहीत्वा सड्यकार्यप्रचारार्थ चॅप्- टिस्टामहाशयाः पूर्वमेयाङ्ग्लदेशं गता आसन् । आङ्ग्लदेशं महायुद्धविपद्- प्रस्तं विलोक्य तैः पत्रे लिखितम्- नायं समुचितः कालोऽत्र स्वराज्य- विमर्शाय । आदी मारते इदमवश्यमेव पर्तव्यं भवति (१) प्रथम राष्ट्रिय- सभाध्यक्षस्थाने लोकमान्यानां नियुक्तिः । (२) द्वितीयं कर्मकाराणां पक्ष- स्थापना। (३) आग्लदेशस्थकर्मकारपक्षाय निर्वाचनकाले द्रव्यसाहाय्यम् । (४) आडग्लदेशस्थराष्ट्रियसभासमितिस्तथा 'इंडिया' नामकं वृत्तपत्रं राष्ट्रियसभायाः मुखपत्रमिति । ६ युद्धपरिपदः एप्रिलमासस्य तृतीये सप्ताहे भारतशासनसंस्थया निवेदनद्वयं प्रका- शितम् । प्रथमे लोकमान्यानां स्वराज्यसङ्घसदस्यानां च आग्लदेशगमन- प्रतिषेधकारणानि लिखितानि । तैर्न फेपामपि मनः समाहितम् । अन्येन निवेदनेन सप्तविंशे दिने दिलीनगरे एका युद्धपरिपद् निमन्त्रिता । प्रदेशशासनसंस्थामिनिमन्त्रणानि प्रेपितानि । मुम्बईप्रदेशाहोकमान्या न निमन्त्रिताः। अस्मिन्नेय दिवसे पुण्यपत्तने आपटेमहाशयानामध्यक्षत्वे नागरि- काणां महती सभा जाता । प्रस्तावे लिसितमासीत् 'प्रारभ्यतां भारतस्य स्वराज्याधिकारदानम् । अस्माकं सहकारः सदेव भविष्यति । 'नादिरशहा'- कृतम् । तत्कार्य २५२ लोकमान्यटिळकचरितम् नरपतिना समतिक्रान्ते भारतदेशे दिल्लीश्वरस्य सीमारक्षणं महाराष्ट्रदेश. सैनिकः महाराष्ट्रीया अद्य कथं न करिष्यन्ति । परं स्वराज्य- गीताश्रवणं विना नान्यत् किश्चिद्भारतस्य स्फूर्तिस्थानम् ' इति । दिल्लीनगर- युद्धपरिपदि गांधीमहाशयैः कथितम् 'टिळफ-वेझंटमहिला-अल्लीवन्धवः एते सर्वे मन्त्रार्थ युप्माभिर्न निमन्त्रिताः । भारतदेशे कोऽन्यः युप्मभ्यं सैनिकसाहाय्यं दद्यात् । अतो व्यर्थोऽयं मन्त्रः' इत्युक्त्वा गांधीमहाशयैः सभात्यागः कृतः । अस्यां सभायामेकेन सदस्येन स्वराज्यप्रस्तावः पुरस्कृतः । परं स नानुज्ञातः । पुनस्तस्य प्रस्तावस्य सूचना खापर्डेमहाशयैर्दत्ता । तेनापि प्रस्तावेनार्धचन्द्रो दृष्टः। दिल्लीनगरे समारब्धं युद्धकार्य पुरस्कर्तुं मुम्बापुर्या जूनमासस्य दशमे- ऽहनि राजप्रतिनिधिना सभा निमन्त्रिता । दिल्लीनगरे कृतः प्रमादोऽत्र निरस्तः। लोकमान्यास्तथाऽन्ये स्वराज्यवादिनो मन्त्रार्थ निमन्त्रिताः। सभायां किं कार्य स्यादिति पृष्टे शासनसंस्थया निवेदितम् ' शासनसंस्थानियोजित- प्रस्तावा एव सभायां सम्मता भविष्यन्ति । युद्धचर्चायां कथितं लोकमतं शासनसंस्था सम्यग्विमृशे दिति । प्रस्तावचर्चासमये भापितुं लोकमान्या आहूताः । तैरुक्तम् ' उपसूचनां कर्तुं नास्त्यवसरः । अतो लोकानां मनीपा मयाऽत्र निवेद्यते । प्रथमं मयेदमाश्वास्यते अन्यैः समानान्ते भारतदेशे प्राणपरित्यागेनापि वयं सर्वे मातृभूमिरक्षणार्थ यतेमहि । परं स्वदेशरक्षणस्य स्वराज्येन सम्बन्धोऽस्माभिर्न परित्याज्यः' । श्रवणमात्रादेवास्य वाक्यस्य राजप्रतिनिधिना लोकमान्याः प्रतिपिद्धा उक्ताश्च । सभायां राजकारणचर्चा 'नानुज्ञास्यामि । सपद्येव लोकमान्यैरुक्तम् ‘एवं स्थिते मानधनस्य सभात्यागं विना नान्या गतिः । अतोऽहं समां परित्यजामि' इति । गतेपु लोकमान्येषु 'केळकर'महाशया आहूताः । तैरपि लोकमान्यैरिव राजकीयविषये किंचि- दुक्ते राजप्रतिनिधिना भाषणं निरुद्धम् । केळकरमहाशया अपि सभा परि- त्यज्य गताः । एवं ' हॉर्निमन्-जमनादास-बमनजी'महाशयाः समां त्यक्त- वन्तः । अनान्तरे माँटेग्यू-चेम्स्फर्डमहाशयैरात्मनोऽधिकारदानविषयक निवेदनं प्रकाशितम् । तस्य समालोचने कृते केसरिपत्रे लोकमान्यैर्वहु लिखितम् । 'ननु प्रभाता रजनी। परं कुतो भास्करः। 'सुदूरं दिल्ली- स्वातन्त्र्योप कालपर्व २५३ नगरम्' इत्यादिपु लेखेषु एतस्य निवेदनस्य गुणदोपा विशदीकृता । राष्ट्रिय सभाऽधिवेशने अस्य निवेदनस्य चर्चासमये रोकमान्या भारते वर्तन्ते या आड्ग्लदेशे विद्यन्ते इति सन्देहः समुत्पन्नः । अनन्तरं मुम्बापुर्या राष्ट्रियसभाया विशेपाधिवेशनं मॉटेग्यू-चेम्स्फर्ड- कृतस्याधिकारदानविपयकनिवेदनस्य विमर्शार्थ निमन्त्रितम् । अध्यक्षस्थानं विधिशास्त्रपण्डितै 'सय्यद हसन इमाम'महाशयर्मण्टितम् । लसनौनगरे सम्मतस्य राष्ट्रियसभाप्रस्तावस्याधारेणायं प्रस्ताव. तस्मिन् लिखितमासीत् 'भारतदेश. स्वराज्याधिकारदानाय सदैव पान मस्ति । एकं शिष्टमण्डलमाइग्लदेशं प्रहितुं प्रस्ताव सम्मत । अधिवेशनार्थ मुम्बापुरी समागता 'मोतीलाल घोप-चित्तरंजन दास-निपिनचन्द्र पाल-चिदवरं पिल्ले-शर्मा' इत्यादयो राष्ट्रधुरीणा पुण्य- पत्तनं निमन्त्रिता । तन यथोचितस्वागतेन ते सर्व सत्कृता । तेषां व्यारयानश्रवणलाभार्थ सहस्रशो जना उपस्थिता आसन् । सभाया सम्मत।

१५ 'चिरोल'पर्व १ 'सर् व्हॅलंटाईन चिरोल' महाशयः ऑक्टोबरमासस्य त्रिंशे दिने चिरोलपकरणार्थ लोकमान्या आङ्ग्ल- देशं गताः। दिल्लीनगरे 'मदनमोहन मालवीय'महाशयानामध्यक्षत्वे राष्ट्रिय समाधिवेशनं जातम् । लब्धकीर्तिः 'सर् व्हॅलंटाईन चिरोल'नामा प्रतिगतराजकीयमत- धारी, जगत्साम्राज्यवादी 'लंडनटाइम्स'नामकवृत्तपत्रस्य परराष्ट्रियराज- कारणसञ्चालकः आसीत् । तस्य प्रमुखकार्य दूरदेशान् दृष्ट्वा तत्तदेशस्थ- राजकारणवार्तामुपलभ्य लंडनटाइम्सपत्रे मुद्रणम् । अस्य पत्रस्य राज- नीत्याः प्रमुखमङ्गं भारनस्वातन्त्र्यान्दोलनकर्तृणां लोकधुरीणानां सदैवाधि- क्षेपणम् । वङ्गभङ्गानन्तरं भारतदेशे समुद्भूतस्यान्दोलनस्य वार्ताः समाहृत्य, ताः सम्यक् समालोच्य अस्मै पत्राय तत्प्रेषणार्थ चिरोल- महाशयो भारतदेशं प्रहित आसीत् । अस्य देशस्य नैकामपि भाषां वक्तुं स शशाक, न वा भारतदेशस्थविविधलोकसमूहेपु उपित्वा तेषां परम्परागताचारविचारान् मतप्रवाहांश्च परिज्ञाय वार्तापत्राणि लिलेख । चिरोलमहाशयस्य वार्तापत्राणां प्रमुखाधारः शासनसंस्थालेखाः, तस्याः आज्ञापत्राणि, रक्षापुरुपाणां वृत्तनिवेदनानि, तथाऽधिकारिभिः सह काले काले जाताः संल्लापाः । अन्यदप्येकं वार्तालाभस्थानं चिरोलमहाशयेन लब्धम् । कोल्हापुरसंस्थाननरेशछत्रपतिमहाराजः तस्य वार्तापलब्धिस्थानम् । सर्वस्य भारतीयासन्तोपस्य वीजं पुण्यपत्तनस्थो ब्राह्मणकुलोत्पन्नः एकः पुरुप इत्यात्मनो निदानं सत्यमिति चिरोलमहाशयेन मुम्बईप्रदेशशासनसंस्थाधि- फारिभिः सह तथा करवीरछत्रपतिना सह जातेभ्यः संल्लापेभ्यो ज्ञातम् । एतेषु सर्वेषु स्थलेषु विविधवार्तानामाकरः कोल्हापुरसंस्थान- सेवको 'भास्करराव जाधय 'महाशयः, प्राध्यापकः डोंगरे 'महाशयः, सचिवः 'सवनीस'महाशयश्च । सर्वेषामेतेषां मुख्य कार्य लोकमान्यविरुद्धं तथा केसरिविरुद्धं यद्यवृत्तं तत्तत्सर्व सालङ्कारं रोचकरीत्या चिरोलमहा- .

'चिरोलपर्व शयेभ्यः कथयित्वा यावच्छक्यमसया अप्रामाणिका आरोपा लोकमान्येषु कर्तव्याः । सर्वमेतत्साहाय्यं जाधव-डोंगरेमहाशयाभ्यामात्मीयभावनया दत्तम् । शासनसंस्थया तथा करवीरसंस्थानेन प्रतिवत्सरं केसरि-मराठावृत्त- पत्रयोः क्रमाङ्कानुपलभ्य तबस्थलेखानामाङ्ग्लभापायां रूपान्तरं कृत्वा तत् चिरोलमहाशयेभ्यो दत्तम् । अधिकारिवर्गेण सह संवादेपु तैः स्वपद्धत्या लोकमान्यानामुद्देशा विशदीकृताः । तेपामान्दोलनेषु द्वेषभास्करस्य प्रकाशः पातितः । एवं चिरोलमहाशयानां वार्तापत्राणां ग्रन्थस्य पूर्वसामग्री सिद्धा जाता । लोकमान्यैर्मानहानिविपये अभियोगे कृते जाधव-डोंगरे-सवनीस- महाशयाः साक्षिभावेन न्यायालयसमित्याः पुरतः उपरथाय स्वलेखान् समर्थयामासुः । २ गफलम् एतादृशस्तामसप्रकृतिः साम्राज्यमदमत्तश्विरोलमहाशयो निजावलेप. फलमप्युपभुक्तवान् । अथैकदा १९०३ संवत्सरे राज्यारोहणनिमित्तेन दिल्ली- नगरे जातस्य महोत्सवस्य वृत्तं लंडनटाइम्सपत्राय प्रेपितुमयं यार्ताहरो भारतदेशं समागतः । अग्निरथप्रयासे 'साहरणपुर'नामके शक्टविश्रान्तिस्थाने वाप्परथः उपस्थितः। अस्मिन् स्थले प्रन्थिञ्चरप्रतिवन्धार्थ सर्वे यात्रिका- चिकित्सकैः परीक्षितव्या इति शासनसंस्थाssज्ञापत्राधिकारेण पश्चिद् भारतीयो मिपावरश्चिरोलमहाशयस्यासनं प्राप्य पृष्टवान् 'कम्मात्स्थाना- दत्रभयतामागमन मिति । तथा नाडीपरीक्षार्थ तस्य हस्तश्चिकित्सफेन स्पृष्टः। हस्ते स्पृष्टमात्रे फ्रोधाग्निना ज्वलन्निव चिरोलमहाशयो वैद्यवराय मुष्टि- प्रदारान् दत्तवान् । सपद्येय रक्षापुरुपेण वत्रागस 'मिपग्वरोऽयं, प्रन्यिग्यर- प्रतिबन्धाय शासनसंस्थया नियुक्तः' इति फथिवम् । तदेय चिरोलमहा. शयेन स्वनामाङ्कितं पनं दर्शयित्या स येशसर्जितः 'तय परिष्टाधिकारिणे सय फतव्यस्सालितं निवेदयिष्यामि' इति । अमे मिपग्यरेण तम्योपरि अभियोग पते चिरोलमहाशयेन 'कनि'नामा प्रमुख राजप्रतिनिधिः प्रार्थितः। पर सर्व व्यर्थमभूत् । अन्ने न्यायालयमागापरावनिरसनाथम् अभियोग- फर्मुर्भिपग्परम्प क्षमायाचन चिरोलमदासयेन लेरोग पतम् । ।

समग्र- लोकमान्य टिळकचरितम् एवंगुणविशिष्टेन चिरोलमहाशयेन लिखिते 'भारतीयासन्तोप'- नामके ग्रन्थे लोकमान्यविरुद्धं बहु लिखितमासीत् । असत्यपूर्णोऽयं ग्रन्थः । अतोऽसत्यारोपनिरसनार्थ लोकमान्यैरमियोगः कृतः । आङ्ग्ल- न्यायदेवता न्यायप्रिया विद्यते इति तेषां विश्वासः । अस्माद्मन्थादासन्न- त्रिंशानि वाक्यानि अभियोगार्थमुद्धृतानि । तेषु कानिचिद्वाफ्यानि लोकमान्यानामत्याचारः t: सह सम्बन्धं द्योतयितुं लिखितानि, कानिचित्तेपा सदाचारपूर्ण दैनंदिनयर्तनं दूपयितुं द्वेपबुद्धथा लिसितान्यासन् । ३चिरोलमहाशयाभियोगः १९१५ संवत्सरस्य ऑक्टोबरमासस्य प्रथमे दिवसे लोकमान्यपक्षीय- विधिशास्त्रपण्डितेन चिरोलमहाशयाय अभियोगसूचना दत्ता । तस्यां तेन लिखितम् । 'अभियोगेन धनलाभो भवेदिति न लोकमान्यानामुद्देशः । पर ग्रन्थकृतमानहानि निरसनार्थमयमभियोगः । अतो युष्माभिर्मानहानिकराणि वाक्यान्युपसंहृत्य क्षमायाचनं कर्तव्यम्' इति । तस्योत्तराभावे १९१६ वत्सरस्य नोव्हेबरमासस्य चतुर्दशे दिवसेऽभियोगो न्यायालये प्रवेशितः । अनन्तरं परस्परलेखपत्रदर्शनार्थम् , उत्तरप्रत्युत्तरार्थ, लेखपत्राणामाग्ल- भाषायां रूपान्तरार्थ, शासनसस्थानियुक्तसमित्या योग्यायोग्यलेखसग्रहार्थ प्रभूतः कालो गतः आसीत् । चिरोलपक्षीयविधिशास्त्रज्ञेन एका प्रश्नमालिका मुद्रयित्वा उत्तरार्थ लोकमान्यविधिशास्त्रज्ञाय दत्ता । हेतुस्तु लोकमान्या- नामत्याचारेषु सम्बन्धो जनैर्द्रष्टव्यः । लोकमान्यैरपि सा प्रश्नमालिका सप्रमाणं प्रत्युक्ता। अनन्तरं न्यायालयनियुक्तसमित्या भारतदेशे अभियोगोपयुक्तलेख- पत्राणि संग्रहीतुं प्रवासोऽड्गीकृतः । समित्याः पुरतः साक्षिभावेनैते नागरिका. समागताः '१ भास्करराव जाधव, २ प्राध्यापकः डोंगरे, ३ जॉन् विल्यम् केवल, ४ रघुनाथ व्यंकटेश गोसावी, ५ धनाप्पा कालवे, ६ गणेश बळवंत वैद्य, ७ लॉरेन्स् रॉबर्टसन, ८ शिवरामपंत परांजपे, ९ नरसिंह चिंतामण केळकर, १० य. ग. कुलकर्णी ' इति । १९१९ वत्सरे जानेवारीमासस्य ऊनविंशे दिने अभियोगः परी- क्षणार्थ न्यायालयं प्राप्त. ।' डार्लिंग'नामको न्यायाधीशः । तस्य साहाय्यार्थ , . चिरोल' पर्व २५७ विशेषप्रमाणपुरुषाणां गणोऽप्यासीत् । 'सर जॉन् सायमन्' अथ 'स्पेन्स्'- महाशयः द्वौ लोकमान्यपक्षीयो विधिशास्त्रमहापण्डितौ । चिरोलपक्षीया विधिशास्त्रज्ञा:- (१) 'सर् एडवर्ड कार्सन् , (२) सर् एलिस् घुम् विल्यम्स् , (३) यूस्टेस् हिल्स्'महाशया. । चिरोलमहाशयेन पट्सु विपयेपु लोकमान्यमानहानिकर लिसितम्- १ गोरक्षणम् , २ व्यायामसंस्थाः, ३ तर्जनेन धनार्जनम् , ४ ताईमहाराज- प्रकरणम्, ५'रड्-आयर्टवधः, ६ जॅक्सन्धातः इति । अतिविस्तीर्णमिदं प्रकरणं समासेनानालोच्यते । सायमनमहाशयेन स्वपक्षविशदीकरणार्थ समर्थनार्थ च विस्तरेण प्रतिपादितम् । न्यायाधीशैरपि प्रश्नैः सर्वविपयाणां विशदीकरणं लब्धम् । टिळकपक्षीयविधिशास्त्रज्ञेन लोकमान्याः परीक्षिताः । कार्सनमहाशयेन चिरोलपक्षीयविधिशास्त्रपण्डितेन पुन. परीक्षिताः । पुनः टिळकपक्षीय- विधिज्ञेन सायमननाम्ना लोकमान्या. परीक्षिताः। समाते लोकमान्यपक्षीयविधिज्ञस्य प्रतिपादने चिरोलपक्षीयविधिज्ञः फार्सनमहाशयः स्वमतप्रतिपादनमारब्धवान् । तेन चिरोलमहाशयः परी- क्षितः । सायमनमहाशयेन स पुनः परीक्षितः । अनन्तरं 'लॉई सॅन्डर्ट, सर् चार्लस् लॅम्य'प्रभृतीनां साक्षिणा परीक्षणं, कार्सनमहाशयम्य समारोपः, सायमनमहाशयस्य समारोपः, न्यायमूर्तिहालिंगमहाशयानां समारोपः इत्यादिविधिपु जातेषु विशेषप्रमाणपुरुषगणेनात्मनो निर्णयो लोकमान्य- विरुद्धो दत्तः। अस्याप्यभियोगस्य कृते लोकमान्यानां प्रभूतः पाल: समतीतः । यथार्थतया ते यायेन , याचा, मनसा पक्षीणा अभूवन । यद्यपि सेः स्वराज्यपिपयाणि सर्वाणि पार्याणि यथापूर्व प्रगतिपथं नीतानि तथाऽपि तेपामार्थिकस्यारघ्यं नएप्रायम् । न कस्यापि अनुमयः एतादृशस्याभियोगस्य । अत. सर्वेषां धनव्ययस्य तो विफलीभूता, । अभियोगार्थ धनव्ययो रूपराणां लमयपरिमिनो जान. ।

लोकमान्यटिळकचरितम् ४ चिरोलोद्गाराः 'ऑब्झरव्हर 'वृत्तपत्रवार्ताहरेण चिरोलमहाशयस्य दर्शनं गृहीत्या वृत्तान्तः पृष्टः । तदा तैरुक्तम् ' वृत्तपत्रवार्ताहरव्यवसायं प्रभूताः समाः अहमन्यसरम् । तस्मिन् कालपण्डे धायेन मां पृच्छन्तौ द्वौ पुरुषो मया दृष्टौ । प्रथमः टिळकमहाशयः । द्वितीयः शार्मण्यदेशसम्राट् ' कैसर विल्यम्'महाशयः । १८५७ संवत्सरे जातं सैनिकसंक्षोभं टिळकमहाशयः स्वातन्त्र्ययुद्धं वदति' । एतादृशानि प्रभूतानि विधानानि द्वेपपूर्णानि दृश्यन्ते । परम् एतचिरोलमहाशयमतं कालान्तरेण किश्चित् परिवर्तितमिति 'इंडिया'नानि पुस्तकेऽवलोक्यते । अस्मिन् पुस्तके चिरोलमहाशयेन लिखितम् 'टिळकमहाशयः पुण्यपत्तनस्थः 'चित्पावन'ब्राह्मणजातीयः । सर्दैवायं वर्गः परमेश्वरकृपामनुभवति, अहंकारं च वहति । पुराणमतवादी टिळकमहाशयः । अस्मिन् कालसण्डे नान्यः कश्चिल्लोकोत्तरपुरुषः अनेन सह तुलामधिरोहति । कदाचिद् गांधीमहाशयः एतत्स्थानं लभेत । परं तस्य मृदुत्वं विनयशालित्वं च टिळकमहाशये न वर्तते । तथा च टिळक- महाशयस्य बुद्धिमत्त्वं राजकारणमर्मज्ञत्वं च गांधीमहाशयतः शतगुणेनाधिकं विद्यते । स्वधर्मे दुर्दम्यविश्वासेन स अन्यान् धर्मान् तृणाय कल्पते । लोकाग्रणीनां आवश्यका गुणाः तस्य जन्मसिद्धाः । कस्मिन्नपि विषये याग्युद्धे समुद्भूते नायमरातिपु दयामदर्शयत् । क्षत्रियवर्णाद्ब्राह्मण- वर्णः श्रेष्ठः इति कृत्वा नानेन कदाऽपि शस्त्रमुपयुक्तम् । ब्राह्मणवर्गस्य शस्त्रद्वयं वर्तते जिवा , लेखनी च । टिटकमहाशयः आङ्ग्लभाषां सम्यग्लिखति वदति च । मातृभाषायां न कोऽपि तं पराभवेत् । पाश्चात्त्य- देशेषु जातान्यान्दोलनानि सम्यगभ्यस्य भारतीयराजकारणे तेषामुपयोगः प्रथमं टिळकमहाशयेन कृतः । राजकीयान्दोलनस्यैकं साधनमिदमिति मत्वा कैश्चिच्छासनसंस्थाधिकारिणां घातोऽवलम्बितः । गच्छता कालेनायमकुरो वृक्षत्वेन परिणतः । परं टिळकमहाशयेन सह तस्य सम्बन्धो न केनापि निर्धारितः । अनन्तरममिगोलकरहस्यं जनान् प्रतिपादयन् टिळकमहाशयो राजद्रोहापराधेन दण्डितः । बन्धमोक्षानन्तरं सपद्येन तेन स्वराज्यान्दोलनं समारब्धम् । लखनौनगरे राष्ट्रियसभाधिवेशने यदा टिळकमहाशयो - "चिरोलपर्व २५९ धैझंदमहिला च एतौ द्वो लोकधुरीणौ व्यासपीठं समास्ढौ तदा ईश्वराव- सारोऽयमिति मत्या निखिलो जनः उत्थानपूर्वकं तो नमस्कृतवान् ' इति । महत्त्वपूर्ण वर्णनमिदं चिरोलमहाशयेन कृतमिति मत्वा किचिद्विस्तरेणा- त्रोद्धृतम् । चिरोलमहाशयस्य शत्रुस्थानीया लोकमान्याः । परं तेनापि लोकमान्यगुणाः दोपरूपेण दर्शिताः । अतो महत्त्वपूर्णमिदमित्युच्यते । एतादृशं चिरोलप्रकरणं वस्तुतो भारतविरुद्धम् । एतादृशानां साम्राज्यवादिनां तथा शासनसंस्थाधिकारिणां प्रचारोऽपि भारतविरुद्धः । अतस्तेन लिखितेषु ग्रन्थेपु भारसनिन्दा सदैवावलोक्यते । भरतखण्डस्य पारतन्त्र्यदुःखविमोच- नार्थ येषां प्रयत्नास्ते सर्वे सानाज्यवादिनां शत्रवः। अतस्तेपामपि निन्दाऽस्मिन् ग्रन्थे धर्तत एव । तस्मादेतन्निरसनार्थ लोकमान्यैरयं महान् यत्नः कृतः । आग्लन्यायदेवता सदैव न्यायप्रिया इति लोकमान्यानां श्रद्धा । अतस्तेपा. माइग्लदेशे यलः । चञ्चलस्वभावा स्त्रीजातिरिति सर्वेषामनुभवः । अतो- ऽत्राप्यन्यथाऽनुभयः कथं स्यात् । न्यायदेवताऽपि स्त्रीस्वभावात् प्रकृत्या चश्चला इति जनानां प्रत्यय आसीत् । अतोऽयं निर्णयो लोकमान्यविरुद्ध इति न चित्रम् । वस्तुतस्तु लोकमान्यविरुद्धोऽयं न्यायालयनिर्णयो भारत- विरुद्धः । अतः स्वराज्यविषयकमिदमान्दोलनमाग्लानां रुचिकरं कथं सम्भवेत् । शासनसंस्थाया अपि विरुद्धः प्रचारः। अस्यामियोगस्य कृते लोकमान्यानां धनक्षयोऽपि महानभूत् । तदर्थ ते अघमर्णा जाताः । यद्यपि भारतस्य मानार्थमयं यत्तस्तथाऽपि साहाय्यार्थ तेलोंगा न प्रार्थिताः । अन्यान् विलिख्य अहमृणमपनेप्यामीति सेपामात्म- विश्वासः । मयत्येभ्योऽपि तैरेवमुक्तम् । परं लोमान्येपु आग्लदेशेषु सत्सु जनेः स्वयमेव द्रव्यनिधिः सड्कलयितुं यत्नः समारब्धः । पयस्या लोक- मान्यानभियोगव्ययमपृच्छन् । परं तेऽयदन् 'यदा निधिज्ञा द्रव्यसंरयां मां फथयिष्यन्ति तदाऽ६ निवेदयिमामि' इति । व्ययसम्यन्धिनः सर्वा अपेक्षा निष्फला जाताः । सकलिना सफलव्ययसंख्या लक्षत्रयं जाता। रोकमान्यानामनुशा यिनेय जनेव्यनिधिः सइफलप्य तेभ्यो दत्तः । पर प्रहीतुं लोकमान्यानां मनसि मदान् सदोषः समुत्तमः ।

२६० लोकमान्यटिळकचरितम् ५ आङ्ग्लदेशनिवास निस्ताब्दस्य १९१८ वत्सरे ऑक्टोबरमासस्य विशे दिने लोकमान्या आग्लदेशं गताः । अथ १९१९ हायनस्य नोव्हेंबरमासे पठे दिने ते मातृभूमिमागन्तुं तस्माद्देशात्प्रस्थिताः। प्रथमं दश मासान् 'मेदाव्हेल'विभागे 'होले प्लेस क्रमाके १०' सदने ते वसतिं चक्रुः । चरमं मासत्रयं 'वेजं. वॉटर विभागे टालबट्'मार्गे क्रमाके ६० सदने ते न्यबसन् । पश्चिमे वयसि वर्तमानैर्लोकमान्यैः शरीरस्य 'मधुमेह'च्याधि तथा च हिमप्रकृतिकं देशं विचार्य वेपभूपायामाग्लपद्धतिः स्वीकृता। परं भारतचिह्न रक्तोप्णीपधारणपद्धतिर्न परित्यक्ता । प्रातःकाले पड्वादनवेलायामुत्थाय सर्वे प्रातर्विधयो भारतीयपद्धत्या समाप्य चहापानसमये त्रिचतुराणि प्रमुखवृत्त- पत्राणि लोकमान्या अवालोकयन्। निवासस्थले तैरेकं कुटुम्बं भृतिदानेन गृह- कृत्यानि तथा भोजनपदार्थान् सम्पादयितुं नियुक्तमासीत् । भोजनस्य सर्वे पदार्थाः वनस्पत्याहारमुद्दिश्य गृहस्वामिन्यै सूचिताः । अनेन वनस्पत्याहारेण केषांचन शरीरस्वास्थ्य सुदृढमभूत् । दैनंदिनकार्यक्रमे तनस्थलोकधुरीणानां तथा 'पार्लमेंट'सभासदस्यानां दर्शनं प्रतिदर्शनम् अग्रस्थानमलभत । आङ्ग्ल- देशाचारे न किमपि न्यून लोकमान्यानाम् । परकीयसमाजरीतिस्तैरात्म- सात्कृता । प्रस्थानसमये लोकमान्यैः राजकीयविपये न किमपि वक्तव्यमिति शासनसंस्थाधिकारिणां बन्धनमासीत् । परं कालान्तरेण तत् वन्धनं दूरीकृतम्। आङ्ग्लदेशं गतेपु लोकमान्ये ' राष्ट्रियसभा-होमरूल लीग- स्वराज्यसड्य' इत्यादिसंस्थानां शिष्टमण्डलानि तन समागतानि । स्वराज्या- धिकारदानविषये भारतमन्त्रिभि: मॉटेग्यूमहाशयैरधिकृतं पत्रकं प्रकाशितम्। तत् सम्यग्विमृश्य स्वराज्याधिकारदानपत्रकम् असमाधानकारक नैराश्यजनक चेति प्रस्तावो राष्ट्रियसभायाः सम्मतः । अधुना विचारविनिमयार्थ सर्वाणि शिष्टमण्डलानि समागतानि । राष्ट्रियसभाशिष्टमण्डलदर्शनवेलायां मॉटेग्यू- महाशयः किश्चिदसन्तुष्टः, यतो राष्ट्रिय पक्षणाधिकाधिकारदानं प्रार्थितम् । तस्य पत्रकमपर्याप्तं नैराश्यजनकं चेति राष्ट्रियसभयोक्तमेव । स्वराज्यदान- विचारायायं समयो योग्य आसीत् । विजयोत्सवेनाग्लाः सम्प्रति प्रसन्नाः। 'जर्मनी'देशः सन्धिलेखार्थ सज्जोऽभूत् । सन्धिलेखे प्रति- निधयो हस्ताकनमकुर्वन् । तेन महानानन्दः समुत्पन्नः । युद्धाय सन्नद्धः 'चिरोलपर्व २६१ लंडननगरे भारतविषयककार्यकत्री एका समितिरासीत् । परं तस्याः कार्य युक्तमार्गेण न सञ्चालितम् । 'इंडिया'नामकमेकं वृत्तपत्रमप्यासीत् । अनयोः कृते राष्ट्रियसभया प्रतिसंवत्सरं धनव्ययोऽपि कृतः । परम् अनया समित्या मारतराजकारणं यथा पुरस्कर्तव्यं तथा न पुरस्कृतम् ) अत: प्रथम तस्याः परिवर्तनं कृत्या 'इंडिया'वृत्तपत्रमाइग्लदेशे राष्ट्रियसभाया मुखपत्रं कृतम् । अस्मिन् काले आइग्लदेशे पुराणमतवादिनः उदारमतवादिनः कर्म- कारपाश्चेति प्रभूताः पक्षा आसन् । तेषु कर्मकाराणां पक्षो विशेषसहा- नुभूत्या भारतस्वराज्यविपयं परामशति । सर्वेषां शिष्टमण्डलानां कार्यपद्धतिः सामान्यतः एवमासीत् यथा आग्लदेशे सर्वपक्षसदस्येपु भारतविषयक सम्यग्ज्ञानं प्रसार्य स्वराज्यविपयकं कार्य ते पार्लमेंटसभायां सहानुभूत्या अविरोधेन यथाशक्ति सम्पादयिष्यन्ति । स्वराज्यान्दोलनत्य वृते, राष्ट्रिय- . सभायाः कृते, सराज्यसङ्घस्य कृते लोकमान्यानां धनव्ययः प्रभूतो जातः। राष्ट्रियसभामण्डलस्य अन्ये सदस्याः लोकमान्यानां मार्गेण सयत्ना आसन् । वेझंटमहिला 'होमस्ल लीग'यते सयत्नाऽऽसीत् । परं तस्याः कानि- चिन्मतान्यधुना मिन्नान्यासन । एवमिदं स्वराज्यान्दोलनं राष्ट्रियसभया, लोकमान्यपक्षेण च प्रगतिपथं नीतम् । आहग्लदेशे फेचन भारतीयाः स्वराज्यविरोधका आसन् । तेषां प्रमुखः 'सफलादयाला'महाशयः । तेन 'बटिस्टा 'महाशयेभ्यः पत्र प्रेषितम् । परमेतेषां विरोधः क्षुद्र एव । पत्रसाधसान येईस्वाहनं कृवं तेषां नामान्यपि आङ्ग्लजनैन ज्ञातानि । दिल्लीनगरे जातेन राष्ट्रियसमाधिवेशनेन 'टिळक-गांधी-सप्यार इसन इमाम 'नामकानां मदस्यानामेका समितिर्नियुत्ता । तस्याः ने युद्ध- समाप्सनन्तरं सन्धिपरिपति विद्यापर्य प्रार्थनापत्र समर्पितम् । विधशावता- प्रपले भारतदेशेन महत्वपूर्ण स्थान निमर्गतः स्वीक्रियते । अतः स्वयं- लिमयलत्यं सरलदेगे या मुश्मु भरेर ! द टोरमान्यपिम्पूर्ण विवचनं प्रार्थनापत्र पृतम् । पर्व सामु पितु समनिॉस्मान्यभारत. म्यराण्यार्य प्रसारितम्।

.. १६ प्रजासंहारपर्व १ कृष्णविधिः (रौलट अॅक्ट) १९१९ संवत्सरे फेब्रुआरीमासस्य पञ्चमे दिवसे दिल्लीनगरे विधि- मण्डलाधिवेशनं समारब्धम् । प्रमुखराजप्रतिनिधिभापणानन्तरं 'सर विल्यम् व्हिन्सेन्ट'महाशयेन द्वे विधेयके विधिमण्डलसम्मत्यर्थ पुरतः स्थापिते । प्रतिपादने सोऽब्रवीत् 'युद्धकाले शान्तताभङ्गप्रतिबन्धार्थ 'डिफेन्स ऑफ इंडिया अॅक्ट' इति नाम्ना कुप्रसिद्धः एको विधि:-नियमः-- • आसीत् । कालान्तरेण स नष्टो भविष्यति । शान्ततारक्षणार्थ मेतादृशः फश्चिद्विधिरावश्यकः । अत एतद्विधेयकं विधिमण्डलस्य सम्मतं भवेत् । यद्यस्य विरोधः सम्भवेत्तर्हि भारतीयाः स्वराज्याय अपात्रा इति वयं मन्या- महे , यतः स्वराज्येऽपि एतदृशो विधिरावश्यकः' इति । अविलम्वेनैते द्वे विधेयके सम्मते भवेतामिति शासनसंस्थायाः आग्रहः । अतिघातकं स्वरूप- मनयोः विधेयकयोः । व्यक्तिस्वातन्त्र्यहारके न्यायतत्त्वविरुद्ध चैते विधेयके इति मतं न्यायमूर्तिचन्दावरकरमहाशयैः प्रदर्शितम् । विधिमण्डले ' वाच्छा- सधू-सुरेन्द्रनाथ शास्त्री-खापर्डे मालवीय'प्रभृतिभिर्महान विरोधः प्रदर्शितः । परं विधेयके विधिमण्डलस्य सम्मते जाते। विधिमण्डले विरोधो व्यर्थ इति ज्ञात्वा गांधीमहाशयैः सत्याग्रहस्या- न्दोलनमुपदिष्टम् । तेऽवदन् न्यायस्वातन्त्र्यादिजन्मसिद्धाधिकारप्रति- बन्धके एते विधेयके इति कृत्वा सम्मतेऽपि विधेयके वयं विधिमा करिष्यामः । अस्मिन्नान्दोलने वयं सत्यं न त्यक्ष्यामः, जीवितवित्तहानिर्या न करिष्यामः' इति । विधेयके सम्मते जाते गान्धीमहाशयैः सत्याग्रहा- न्दोलनं समारब्धम् । भारतस्य सर्वेपु प्रदेशेषु एकसमयावच्छेदेनेदमान्दो- लनं जातम् । मुम्बईप्रदेशे तथा 'पंजाब'प्रदेशे आन्दोलनस्य भर आसीत् । सकलव्यवहारः लोकैः स्थगितः । लोकधुरीणैः कठोरं भापितम् । मार्चमासस्य . प्रजासंहारपर्व त्रिंशो दिवसो दिल्लीनगरे सकलव्यवहाराभावस्य निश्चितः । हिंदुयवनयो- दृढमैक्यम् । लोकैः शान्तताभङ्गो न कृतः । तथापि रक्षापुरुपैरग्न्यस्त्रै- गुलिकाप्रक्षेपणं कृतम् । तेन महान् संक्षोभः समजायत । रौद्रं रूपं नगरेण विधृतम् । नगरेकविभागे सभाकार्य समाप्य प्रतिनिवर्तमानेषु श्रद्धानन्द- स्वामिमहाशयेषु रक्षापुरुपैर्मार्गान् प्रतिरुध्य अग्न्यस्त्राणि सजीकृतानि । मेरुरिवाचलाः स्वामिमहाशया रक्षापुरुषानवदन् 'अयमहं युष्माकं पुरत- स्तिष्ठामि । हत माम् ' इति । अस्मिन् संक्षोभे महती जीवहानिर्जाता । कालपुरुषेण ताण्डवं कृतम् । इमां दिल्लीनगरवाता निशम्य गांधीमहाशयैर्मुद्रणविषयकं विधिभङ्गं कर्तु सत्याग्रह 'नामकं वृत्तपत्रं सम्पादितम् । अन्यैर्जनैः पुस्तकानि मुद्रितानि । तेषां विक्रयणं समारब्धम् । दिल्लीनगरं गत्वा आन्दोलन कर्तव्यमिति मनसि निधाय गांधीमहाशया मुम्बईनगरतः प्रस्थिताः । परं 'कोसीकलन विश्रान्तिस्थाने तान् निरुध्य रक्षापुरुषाः मुम्बईनगरं प्रति अनयन् । अनया वार्तया सर्वत्र प्रक्षुब्धो जनः । सर्वेपु स्थलेषु ' अमृतसर'नगरे जाताः पीडाप्रकारा रौद्रतमाः । कालपुरुषताण्डवं तत्र अतीव क्रूरतममिति मन्यामहे । शासनसंस्थयाऽन्यायेन विधिमण्डले प्रजापीडनविषये विधयः सम्मताः । तेन प्रजाः प्रक्षुब्धा इत्यत्र किमाश्चर्यम् । प्रक्षुब्धे जने रक्षापुरुपैर्निर्दयं गुलिकाप्रक्षेपणं कृतम् । तस्य नैसर्गिकविपाकः असङ्ख्यनिरपराधिनां प्राणनाशः । परम् एतावता प्रजा. पीडनेनापि अधिकारिवर्गो न तृप्तः । कपटाचारोऽपि अस्मिन् हत्याकाण्डे अधिकारिवर्गेणाङ्गीकृतः । अधिकारिपुरुपाणां मन्त्रकाले एकेनोक्तम् ' एक- स्याङ्ग्लस्य जीवधाते शतशो भारतीयाः कीटका इय हन्तव्याः' इति । अन्येन सूचितम् ‘महाग्न्यस्त्रेण-शतघ्न्या- घटिकामावादखिलं 'अमृतसर'नगरम् अमिसात्कर्तव्यम्' इति । तदा लाला घोलनलाल महाशयैः स्पष्ट- मेवोतम् ' अमृतसर'नगरमिदम् । अस्मिन्नगरे शीखजनानां परमपवित्रं सुवर्णमन्दिरं वर्तते । तस्य विनाशे जाते निखिल: 'पंजाव'प्रदेशो भस्म- सात् भविष्यति । 'फर्नल स्मिथ'नामकेन रुग्णालयाधिकारिणा चिकित्स- केनोपचिकित्सकाय सन्देशः प्रहितः 'घटिकामात्रेण सेनापतिः 'जनरल .

२६४ लोकमान्यटिळकचरितम् डायर'महाशयः शतघ्नीमिर्नेगरे गुलिकाप्रक्षेपणं करिष्यति । अतो युप्माभि- नंगरं न गन्तव्यम्' इति । एकेन स्थिरबुद्धिनाऽधिकारिणा अस्य शतघ्नीप्रयोगस्य निषेधः कृतः । मदमूर्तिर्मुख्यचिकित्सकः स्मिथ'महा- शयो नेत्रशस्त्रक्रियार्थ समागतेभ्यो रुग्णेभ्यो महताऽऽवेगेनाक्रोशत् 'गच्छ गांधीमहाशयम् । स युष्माकं नेत्रपीडां दूरीकरिष्यति' इति । 'लाहोर'नगरं गत्वा राजप्रतिनिधितः आज्ञापत्रं गृहीत्वा ' डॉ. सत्यपाल महाशयांस्तथा 'डॉ. किश्चलू'महाशयानयं स्मिथ'महाशयः सीमापारं कृतवान् । २ 'जालियनवाला'नामकमुद्यानम् 'जालियनवाला'नामके उद्याने जातमग्निगुलिकाप्रक्षेपणं कपटेन अतिभीपणमभूत् । हंसराजनाग्नैकेन पुरुपेण गुप्तचराणां दर्शनं वारं वारं गृहीत्या अस्मिन्नुद्याने नागरिकाणां सभा निमन्त्रिता । 'लाला कन्हय्या- लाल'महाशया अध्यक्षस्थानमलङ्करिष्यन्ति , 'लाला लजपतराय'महाशया व्याख्यानार्थमुपस्थास्यन्ति इति वार्ता प्रसार्य अनेन हंसराजेन सभास्थान संमार्जितम् , व्यासपीठं च कारितम् । सभासमये व्यासपीठोपरि आकाश- याने भ्रमति, हंसराजेनोक्तम् 'शृणुत रे पौराः, सभास्थानं मा त्यजत' इति । गते आकाशयाने सैनिकैस्तत्रागत्य हंसराजकृतसूचनामनुसृत्य भयानक गुलिकाप्रक्षेपणं कृतम् । श्रोतृगणे भित्तीनामुपरि उत्प्लुत्य पलायिते अयं हंसराजः सैनिकैाप्तं निर्गमनद्वारं प्रति गत्वा सुखेनोद्यानाद्वहिर्गतः । एतादृशं हंसराज 'हंटर'समित्याः पुरतः साक्षिभावेन न निमन्त्र्य शासनसंस्था तं 'मेसापोटेमिया' देशं प्राहिणोत् । एवं सकलां गुलिकाप्रक्षेपणसामग्री समाप्य प्राणघातस्यान्यत् साधनं साम्प्रतं न दृष्ट्या सेनापतिः 'डायर 'महाशयः परावर्तत । गते तस्मिन् यद्रौद्ररूपमुद्यानेन विधृतं तद्वर्णयितुमसमर्था लेखनी । गुप्तचरहस्तकेन याव- च्छक्यं जनाः सभार्थ निमन्त्रिताः । लोकधुरीणानां नामानि प्रयुज्य जनाः समाहूताः । अमिगोलकप्रक्षेपणात्पूर्व निरीक्षणं कृतम् । गमनार्थ पूर्वसूचना. ऽपि न दत्ता । आसुरी पद्धतिमनुसृत्य गुलिकामक्षेपणं कृतम् । सैनिका निर्दयाः पशुतुल्या विवेकहीनाश्च । हृदयविहीनलनिःशइकमनसा निःशस्त्र- , . .

प्रजासंहारपर्व . २६५ खजनेषु गुलिकाप्रक्षेपणं कृतम् , गुलिकाविद्धेभ्यः प्राशनार्थ जलं या भिपग्वराणां साहाय्यमपि वा न दत्तम् । का कथा खाद्यपेयादिपदार्थानाम् ! एतेनाप्यसन्तुष्टेनाधिकारिवर्गेण रात्रौ 'जालियनवाला'नामके उद्याने गमना- गमनमपि प्रतिपिद्धम् । अतो मिपग्वराणां साहाय्याभावे,खायपेयादिपदार्था- भावे, गुलिकाकृतव्रणविरोपणादिपरिचर्याभाचे ववो जनाः हा हा इति कृत्वा पयःपानार्थमाक्रोशन्तः महता दु.खेन प्राणाहुः । साक्ष्यर्थमपि कठोरं प्रजा- पीडनं शासनसंस्थया कृतम् । अस्मिन् समये मानुषशरीरेयु दैत्यसञ्चारो जातः । प्रजापीडनविपये स्त्रीदाक्षिण्यमपि विलयं गतम् । 'शेरवुड'मार्गेण सरीसृपा इवोरसा गन्तुं जनाः शासनाधिकारिभिराज्ञापिताः । एवं पंजाव- प्रदेशे महाननर्थः सम्भूतः । अखिलोऽयं वृत्तान्तः शिष्टमण्डलसदस्यै- राङ्ग्लदेशे शनैः शनैतिः। ३ भारतदेशं प्रत्यागमनम् नोव्हेंबरमासस्य पठे दिवसे आग्लदेशान्निर्गत्य सप्तविंशे दिने लोकमान्या मुम्यापुरी प्राप्ताः । तत्र तेषां महान् सत्कारोऽभूत् । परम् एतेन अमृतसरप्रकरणेन लोकमान्यानां चित्तमतीव दुःखितं जातम् । एक- स्मिन् समये लोकमान्यैरुक्तम् ‘एतन्मम चित्तं दहति यदहं गांधीमहाशयानां सत्याग्रहसमये भारतदेशे नासम् । येऽधिकारा लप्स्यन्ते ते असन्तुष्टमनसा स्वीकर्तव्याः, परं तेषां साहाय्येनान्दोलनं न कदाऽपि त्याज्यम्' । उक्तं च 'असन्तोपः श्रियो मूलं सन्तोपो हरति श्रियम् ।' इति । डिसेंचरमासस्य प्रथमे दिवसे लोकमान्याः पुण्यपत्तनं प्राप्ताः । तेषां सत्कारार्थ स्वागतसमितिनियुक्ताऽऽसीत् । सचलनार्थ देवलमहाशयैर्गजद्वयं दत्तम् । गमनकाल इवागमनकालेऽपि पुष्पलतापल्लयतोरणानि मार्गे विरचि- तानि । तेलशम्टे उपविश्य पूर्वनियतमार्गेण गच्छन्तो लोकमान्याः स्थले स्थले प्रतीक्षमाणानां जनानां सत्कार स्वीकृत्य साधयामानन्तरं स्वसदनं प्राप्ताः। पुण्यपत्तननगरपालिकया मानपत्रं दत्त्वा ते सत्कृताः । अस्य मानपत्रस्ये- यमेवापूर्वता यत् शासनसंस्थाधिकारिभ्योऽन्यः प्रथमोऽयं पुरुपः यो नगर- पालिकया मानपत्रेण सम्मानितः । शिलामूर्तिविपयेऽपि लोकमान्या एवं प्राथम्यमभजन्त।

२६६ लोकमान्यटिळकचरितम् पुण्यपत्तननागरिकैरपि लोकमान्या मानपत्रेण सत्कृताः । अस्मिन् समये केचन विरोधका आसन् । परं तेषां विरोधः शीततां गतः । अस्मिन् समये लोकमान्यैरुपदिष्टम् ' यल्लप्स्यते तद्गृह्यताम् । यन्न लप्स्यते तल्लब्धु- मेकचित्तेन प्रयत्यताम् । स्वगृहे भेदो न युक्तः। 'संहतिः कार्यसाधिका' इति । ४ अमृतसर-राष्ट्रियसभा डिसेंबरमासम्म सप्तविंशे दिने अमृतसरनगरे राष्ट्रियसभाधिवेशन मासीत् । अध्यक्षस्थाने 'पण्डित मोतीलाल नेहरू'महाशया नियुक्ता आसन् । अस्मिन्नपि वत्सरे प्रतिनिधीनां कृते विशेषाग्निरथयोजना कृता । अग्निरथेन गच्छन्तो लोकमान्या मध्येमार्ग 'गङ्गापुर विश्रान्तिस्थाने आग्लदेशनृपते?पणां वृत्तपत्रे अवाचयन् । सपद्येव तैः कृतज्ञता प्रदर्शिता । अयं सन्देशः कश्चित् कालं भारते विवादविपयो जातः । अमृतसरनगरं प्राप्तेषु त्येकमान्येषु नागरिकैर्महत्संचलन नियोजितम्। डॉ. किश्चलू-डॉ. सत्यपाल 'प्रभृतिलोकनेतारो बन्धनान्मुक्ता अभूषन् । तेन जनानामानन्दो द्विगुणो जातः । स्वामिश्रद्धानंदमहाशयाः स्वागताध्यक्षपद- मापन्नाः । स्वागतसमये तैरुक्तम् “ राष्ट्रियसभाया इतिहासे अयमेव प्रथमः समय. यस्मिन् कापायवनधारी यतिः सुशोभितेऽस्मिन् राजकीयव्यासपीठे अत्रभवद्भ्यः स्वागतं वितरति । मम यतिवेपो मां कथयति 'अखिलं जग. न्मम गृहम् ' । अतः साम्यदृष्ट्या सर्वमहं पश्यामि । अन्यथ । येनररत्नै- भारतदेशस्य मानरक्षणार्थ प्राणदानं कृतं कारावासो या स्वीकृतस्तेषां धर्म- पत्नीभिराज्ञप्तोऽस्मि यत्तेपां प्रियपतीनां जीवात्मानस्तदा शान्ति लभेरन् यदा स्वराज्यप्राप्त्यर्थ राष्ट्रियसभया प्रचालितमान्दोलनं शीतता न गच्छेत् । अतस्तासामाज्ञां शिरसि निधाय मयेदं स्थानं स्वीकृतम् । स्वराज्याधिकारदानविपये श्रद्धानन्दमहाशयैरुक्तम् 'फेपामपि समु. समेन जनाः स्वराज्याधिकारान् लभन्ताम् । यत्नातं भवेत् तत्स्वीपत्य शेपं सम्पादयितुमरमामिः सयत्नभाव्यम् । असिलं भरतपण्ड यदि प्रातानधि- पारान त्यां मन्नदं भवेत्तादि सत्यागेन योऽप्यः सम्पधेत।परं माग्मत. मम्यासम्भयः । समातः फलदः । टिरममदापनाप्यरमभ्यमेगदेयोपपिएम् । .

२६७ प्रजासंहारपर्व यदत्तमुपभोक्तव्यं तत् । यन्न दत्तं तदर्थ सुमहान् यत्नः कर्तव्यः । भरतखण्डे एकराष्ट्रियभावनां प्रसारयितुं यैरादिपुरुपैविश्वप्रयत्नः कृतस्तेपामग्रणी: टिळक- महाशयः । अस्ति कश्चिदसौ इयति लोके येन मातृभूमिपारतन्त्र्यशृङ्खला- भङ्गाय टिठकमहाशयेभ्योऽधिकतरं दुःखमनुभूतम् ? क्योवृद्धतपोवृद्ध- ज्ञानवृद्धानां भीष्माचार्यसमानानां टिळकमहाशयानामनुशासनं पालयितुं सर्वे भारतभूसैनिका बद्धपरिकराः स्मः इत्यहं मन्ये " इति । विपयनियामकसमितिसदस्यानां मनोवृत्तय उल्लसिता अभूवन् । 'महंमदअल्ली-शौकतअल्ली' इति भ्रातृद्वयं बन्धनान्मुक्तम् । लोकमान्यानां तथा विपिनचन्द्रपालमहाशयानां पंजाबप्रदेशप्रवेशप्रतियन्धो दूरीकृतः । गांधीमहाशयानां भाषणसमये 'दिवाण मंगळसेन-लाला धुनीचंद'महाशयाः कारावासान्मुक्ताः । 'जालियनवालाबाग'नामकोद्याने जातस्य प्रजासंहारस्य स्मारकं विधेयमिति प्रस्तावे सभायां विचारार्थ स्वीकृते सर्वैरुत्थाय निज- संमतिः प्रदर्शिता । क्षणादेय तत्र लक्षपरिमितरूपकाः स्मारकार्थ सङ्कलिताः। राजघोषणा, राजपुत्रस्वागतं, डायर-ओडवायरकृतप्रजासंहारः, लॉर्ड चेम्स- फर्डमहाशयस्य प्रधानराजप्रतिनिधेः पदच्युतिरित्यादिविषयानधिकृत्य प्रस्तायाः सम्मताः । प्रमुखप्रस्तावः अधिकारदानविषयकः । दिनदयं तस्य चर्चा कृत्या तृतीयेऽह्नि सर्वसम्मता प्रस्तावशब्दरचना कृता । अधिकारदानस्य गौणत्वसूचकानि विशेषणानि दत्त्वा प्राप्ताधिकाराणां स्वीकरणं माँटेग्यू- महाशयानामाभारप्रदर्शनमिति विषयान् समावेश्य प्रस्तावः संमतो जातः । एवं सर्वेपामविरोधेन समाप्तमिदं संस्मरणीयं राष्ट्रियसभाधिवेशनम् । अमृतसरनगरापुण्यपत्तनं प्राप्तेषु प्रतिनिधिपु लोकधुरीणैर्नागरिकाणां सभा निमन्त्रिता। 'तात्यासाहेब केटकर'महाशयैरधिवेशनवृत्तान्तः सवि- स्तरं निवेदितः । अध्यक्षीयभापणे लोकमान्या अबदन काले काले कार्य- पद्धतिः बेझंटमहिल्या परिरयते । सा यदि लोकसंगला नाभविष्यत्तर्हि क्रोधेन किं प्रयोजनम् ' इति । प्रधानपदस्वीकरणविपये तैरुतम् ' शासन- संस्था यदि प्राज्ञा भवेत्तर्हि स्तुतिपाठकानां स्थाने युक्तियुकं भापमाणान् जनान् सा प्रधानपदे नियुज्यात् । अथैते प्रधानपदस्था जना अपि लोकां- स्तथा शासनसंस्थामाराधयेयुः' इति ।

२६८ लोकमान्यटिळकचरितम् अनन्तरं 'सांगली' नगरे ज्योतिपसमेलनं, जुन्नरपत्तने पुणे विभाग- परिपत् , सिंधदेशे प्रचारार्थ दीर्घप्रवासः, मार्गे दिल्लीनगरगमनम् , पश्चात् अजमीरपत्तनगमनम् (तत्र पणिग्जनैः सुवर्णरजतपुष्पवृष्टिः कृता ); अनन्तरं 'हैदराबाद (सिंध)-शिकारपुर-सफर-मिरपुरसास-तिडोजाकोटी'- इत्यादिस्थलेषु स्वागतसत्काराः द्रव्यनिधिः इत्यादिनित्यविधीन् समाप्य लोकमान्यैः प्रचारार्थ बहु व्याख्यातम् । एतं दीर्घप्रवासं समाप्य लोकमान्याः ‘सोलापुर'नगरं मुम्बईप्रदेश- परिपदधिवेशनार्थं गताः । नेमस्तपक्षेण तत्र प्रथमं गत्वा सूक्तासूक्तप्रकारै- निजपक्षप्रचारं कृत्वाऽधिवेशनसमये विरोध दर्शयितुं महान् यत्नः कृतः । वेझंटमहिलाऽपि निमन्त्रिता। अध्यक्षस्थानं केळकरमहाशयैर्मण्डितम् । अमृतसरनगरे इव सोलापुरनगरेऽपि नेमस्तराष्ट्रियपक्षयोर्महान् संपामो जातः । अधिवेशने मुरयप्रस्तायो लोकमान्यैः पुरस्कृतः । विधि- मण्डले राष्ट्रियसभासमतप्रस्तावानुसारतो राष्ट्रियपक्षपुरुषा एव निर्वाचनेन नियोक्तव्या इति प्रस्तावाशयः । तस्य उपसूचना वेझंटमहिलया कृता । पक्षभेदं विस्मृत्य सदस्या नियोक्तव्या इति तस्या. आशयः । प्रस्तावचर्चासमये अनुकूलपतिकूलप्रतिनिधीनां क्रमशः प्रतिपादनम् अध्यक्ष महाशयः कुशलतयाऽनुज्ञातम् । एवं महान् विवादः समजायत । अन्ते लोकमान्यैः सर्वेषां विरोधपरिहारं कृत्वा राष्ट्रियपक्षमतप्रतिपादनं प्रमाणे: कृतम् । तस्येष्टपरिणामो मतदानकाले दृष्टः ।प्रमुसप्रस्तायस्यानुकूलमतसंख्या सहस्रद्वयमासीत् । प्रतिकूलमतसंरया सप्तशतम् ।सोलापुरनगरे राष्ट्रियपक्षण महान् विजयः संपादितः । एतं विपयमधिकृत्य केसरिपने अप्रलेसे विस्तरशः प्रमाणैः राष्ट्रियपक्षमण्डनं लोकमान्यैः पुनरेकदा कृतम् । अथ राष्ट्रियकार्य प्रगतं कर्तुं लोकमान्यैरेकं निवेदनमुद्घोपितम् । तरिमनिवेदने राष्ट्रियसभासंगततत्त्यानि मथित्या स्वराज्याधिरारदान- मुपयुफ पर्नुमेका कार्यपद्धतिः प्रतिपादिता । अनन्तरं राष्ट्रियपक्षेण संकलितो द्रव्यनिधिलोकमान्येभ्यः समर्पयितु. मपूर्यमलारमहोत्सपः नः । एनसताप्रदर्शनार्य कमान्यनाम् 'अनेन द्रव्यनिपिना येरदं पीतोऽस्मि' चिरोलपपरणं सारांशेन पयरित्या . प्रजासंहारपर्व २६९ तेऽब्रुवन् 'चिरोलपक्षीयविधिज्ञेन कथितम् । अस्मिन्नभियोगे यदि टिळक- महाशयेन यशः सम्पादितं तर्हि भारतदेशे आग्लशासनसंस्थायां महा- ननर्थः समापते'दिति । एतेन प्रतिपादनेन अभियोगस्याखिलभारतीयस्वरूप निर्णीतम्' इति । ५ स्वराज्यसाधिवेशनम् अनन्तरं स्वराज्यसवस्य सांवत्सरिक चतुर्थाधिवेशनं जातम् । अधि. वेशनान्ते लोकमान्यविस्तृत विवेचनं कृत्वा प्रतिपादितम् ‘स्वराज्याधि. काराणां यावच्छक्यमुपयोगोऽवश्यं कर्तव्यः । सांप्रतमस्मिन् विषये न विवादः। अतः परं सम्पूर्णस्वराज्यप्राप्तये प्राप्ताधिकाराणामुपयोगः इत्यस्माकं कार्यपद्धति'रिति । विरोधकानामाक्षेपान विविच्य तेषां परिहारं कृत्वा स्वराज्याधिकाराणां गुणदोपान् परीक्ष्य तैः कथितम् 'अधुना विधि- मण्डलप्रवेशाय शक्तिसर्वस्वमुपयोक्तव्यम् । आग्लदेशेऽपि प्रचार आवश्यकः । केनापि निमित्तेन राष्ट्रसङ्घस्य पुरत आत्मनो दुःसं निवेद्य स्वमतप्रतिपादनं वर्तव्यम् । एतदर्थ राष्ट्रियसभासम्बन्ध आवश्यकः इति । अनया रीत्या सर्वेषां प्रश्नानां साकल्येनोहापोहं कृत्वा लोकमान्यैः स्वराज्यसङ्घाधिवेशनं समापितम् । राजकारणविषयकं लोकमान्यानामेतदेवान्तिमं भापणम् । स्वराज्यसङ्घकार्य समाप्य अखिलभारतीयराष्ट्रियसभासमित्याः अधिवेशनार्थ लोकमान्याः 'काशीक्षेनं गताः । 'मे'मासस्य त्रिंशे दिवसे गगातीरे गङ्गापुत्रैर्देववाण्यां लिखितेन मानपत्रेण लोकमान्याः सत्कृताः । नागरिकैरप्यन्यन्मानपत्रं गीर्वाणयाण्यां लिखितं तेभ्यो दत्तम् ।

. , १७ निर्याणपर्व १ ज्वरमादुर्भावः स्वराज्यसब्यसभायामेव लोकमान्यैरुक्तम् 'पश्चिमे वयसि धर्त- मानस्य मम शरीरसामर्थ्यमधुना क्षीणं जातम् । अतो नूतनं कार्य मया स्वेच्छयाऽड्गीकर्तव्यम् । लोकाग्रहोऽनावश्यकः' इति । लोकमान्यानां मानसपुत्रो जगन्नाथमहाराजः । तस्य शेपं कार्य लोकमान्यैः समापितम् । तस्य मधुरं फलमपि चरमे वयसि निधनात्पूर्वमनु- भूतम् । परम् अस्य प्रकरणस्य समुद्यमे समारब्धे लोकमान्या हिमज्वरप्रस्ता बभूवुः । एतेन जगन्नाथप्रकरणनिमित्तेन लोकमान्या जुलैमासस्य द्वादशेऽ- हनि मुम्बापुरीं गताः । प्रथमं ज्वरः पश्चात् स्वेदजालम् । स्वेदजालानन्तरं ज्वरमानं किश्चिदूनं जातम् । पुनर्वरः । एवंक्रमेण लोकमान्याः किञ्चित ज्वरग्रस्ता जाता. । ख्रिस्ताब्दस्य १९२० संवत्सरस्य जुलैमासे विशे दिवसे 'दिवाण चमणलाल'महाशया लोकमान्यदर्शनार्थ 'सरदारगृह'नामक हयं गताः । कुशलमापृच्छ्य लोकमान्यान् आत्मनस्तैलशकटे उपवेश्य तैस्सह पवनविहारार्थ सुदूरं गत्वा परागताः। रात्री ज्वरमानं प्रवृद्धम् । तस्मादिवसादारभ्यान्तकालपर्यन्तं लोकमान्यैः शयनमञ्चो न मुक्तः । २ निर्याणम् मुम्बापुर्या धन्वन्तरिसमानानां भिपग्वराणां महत्साहाय्यं लब्धम् । जुलै- मासस्य सप्तविंशादिवसादूर्ध्व लोकमान्याः कचित्कचिन्निःसंज्ञा बभूवुः । पुनः प्रकृतिमापुः। एवं लोकमान्यानां महान शत्तिपातो जातः। न तेषां बान्धवज्ञानं वयस्यजनज्ञानं वा आसीत् । मन्दयासरे अपराहसमयादूर्ध्वमाशाबन्धः क्षीणो बभूव। कुशलं प्रष्टुमसड्यो जनो विप्रकृष्टादागतः । सर्वेर्लोकमान्यानां दर्शनं गृहीतम् । परं तान् बोधामृतं श्रापयितुं लोकमान्या असमर्थाः। स्वयंसेवकगणे- नातीय कप्टतर कार्य कृतम् । लोकमान्यसेवानुपहार्थसगणो दिवा, रात्रौ, सदैव अविश्रान्तं सनः आसीत् । नतंदियं लोकमान्यदर्शनार्थ जना आगच्छन् । शरीरस्वास्थ्यं जनेभ्यो निवेदयितुं वृत्तपत्रसम्पादकैः स्वपत्राणि सायंप्रात- मुंद्रितानि । अस्मिन् समये सर्चे पक्षभेदा निरस्ताः । विद्युत्सन्देशगृहकार्य- ।

निर्याणपर्व २७१ मखण्डमासीत् । ' सरदारगृहस्वामिना 'साळवेकर'महाशयेन लोकमान्य- प्रकृतिस्वास्थ्याय प्रभूतो धनव्ययो धार्मिककृत्येषु कृतः । अन्ते भिपग्यौः 'देशमुख-भडकमकरा दिभिकेभ्यः कथितम् 'अधुना लोकमान्या ईश्वरा- धीना जाताः । तेषां शयनागारं गत्वा जनाः शान्तताभङ्ग न कुर्युः । मिप- ग्वराणां शब्दमात्रेणाखिलं तत्सदनं निःशब्दं जातम् । मध्यराने घटिकाद्वया- दूर्ध्व लोकमान्यनिकटवर्तिना जनेन अधः आगत्य लोकेभ्यः कथितम् 'लोक- मान्यानां जीवात्मा परमात्मनि विलीनः' इति । एवं १९२० संवत्सरस्य ऑगस्टमासस्य प्रथमे दिवसे लोकमान्या दिवं गताः । महति प्रत्यूपे विद्युद्वेगेन लोकमान्यनिधनवार्ता सर्वासु दिक्षु प्रसृता । अन्त्यविध्यनुष्ठानं मुम्बापुर्यामेव युक्तम् । सर्यो जनः सरदारगृहं गन्तुं प्रवृत्तः । सत्यपि वर्षासमये प्रभाते सहस्रशो जना हर्म्यस्य पुरतोऽन्य- दर्शनार्थ समागताः। पुण्यपत्तनस्थो जनः पुण्यपत्तनात् मुम्बापुरीं गन्तुं प्रस्थितः । तेषां केचन लोकमान्यकलेवरं पुण्यपत्तनं नेतुमैच्छन् । परं तान् समाधाय सकला व्यवस्था मुम्बापुर्यामेव कृता । तत्रापि प्रथमः प्रश्नः स्थलस्य । नित्या श्मशानभूमिस्तु न विस्तीर्णा । जनसमुदायस्तु सागर इव अपारः। अतः समुद्रोपकण्ठे 'चौपाटी'नामके स्थले अग्निसंस्कारो युक्त इति निश्चये जाते तदुद्देशेन यत्नः समारब्धः । अस्मिन् विपये शासनसंस्थायाः अनुज्ञा आवश्यकी । अतः प्रमुखरक्षापुरुषाधिकारिणं दृष्ट्वा स लोकाग्रणीमिः प्रार्थितः । मुम्बईप्रदेशराजप्रतिनिधिः पुण्यपत्तने आसीत् । विद्युत्सन्देशेन तं पृष्ट्वा अनुज्ञा प्रार्थिता । राजप्रतिनिधिना कथितम् आय संस्कारस्थलस्योपरि न कोऽपि लोकानामधिकारः शासनसंस्थायाः सम्मतो भविष्यति । यद्येतयुष्मामिः प्रतिश्रुतं तर्हि अनुज्ञां दास्यामि' इति । सम्मतमेतलोकधुरीणानाम् । लब्धायामनुज्ञायां प्रमुखरक्षापुरुपाधिकारिणा श्मशानयात्रामार्गो निर्धारितः । ३ महायात्रासश्चलनम् अथ अपराहकाले श्मशानयात्रासञ्चलनं समारब्धम् । पक्षभेद, जातिभेदं, धर्मभेदं विस्मृत्य सर्यो जनः शवासनं स्कन्धेनोवाह । दीर्घोऽपि . २७२ लोकमान्यटिळकचरितम् मार्गः आबालवृद्धः स्त्रीपुरुपैः, धनिकैर्निर्धनैः, शिक्षितैरशिक्षितैर्जनः समा- कुलो जातः । आसारेण जनः पुनः पुनरापादमस्तकं स्नातः । जल- क्लिन्नवस्त्राणि शरीरे तथैव धारयित्वा जनो लोकमान्यान् मनसि ध्यायन्न- अतोऽसरत् । हरिनामसङ्कीर्तनमखण्डमासीत् । स्थाने स्थाने शवासनोपरि नरनारीमिः पुष्पवृष्टिः कृता । अनन्तरं सागरोपकण्ठे चन्दनकाष्ठानि रच- यित्वा, कलेवरस्य धार्मिकविधि समाप्य, लोकधुरीणानां समयोचितभापणा- नन्तरं जनेन महता दुःखेन लोकमान्यशवोऽग्निसात् कृतः । पञ्चमहा- भूतानां पञ्चीकरणेन समुत्पन्नो देहः पुनः पञ्चतत्त्वेपु विलीनः । समग्रो मुम्बापुरीस्थो जीवलोको दुःसविमूढो जातः । कञ्चित्कालं श्मशाने स्थित्वा सर्यो जनो जडपदैर्मन्दं मन्दं गृहं जगाम । ऑगस्टमासस्य तृतीये दिवसे लोकमान्यानामरथीनि चन्दनकाष्ठ- मञ्जूपायां स्थापयित्या वान्धववयस्यधुरीणगणो जडहृदयेन विशेषाग्निरथेन पुण्यपत्तनविश्रान्तिस्थान समागतः । लोहमार्गे सर्वत्रास्थिसत्कारो जातः । अग्निरथविश्रान्तिस्थानालोकमान्यसदनं यावदखिलो मार्गो जनेन समाकुलो- ऽभूत् । गृहद्वारेषु, वातायनेपु, गृहाणामुपरितनभागेपु, महीरुहेपु, यत्र यत्र स्वल्पं स्थानं स्थातुमासीत्तत्र तत्र लोक. शोकाकुलमनसा उपस्थित आसीत् । राम-कृष्ण-हरि-ज्ञानदेव-तुकाराम' इत्यादिनामघोपं कुर्वतां भजनमण्डलानां संचलनम् , आन्दोलिकां दृष्ट्वा जनानां नमस्कृतिः, सम्मुखमागतायां शिबिकायां नारीणामश्रुविमोचनम् , भाविकजनेन कृता पुष्पवृष्टिः, एतत्सर्व दृश्यं विलोक्य अचेतनमपि जगहुँ खीभवति, किमुत सचेतनम् ! पुण्यपत्तने औलदेहिकविधि समाप्य लोकमान्यानां ज्येष्ठ. पुनः, कनिष्ठो जामाता च लोकमान्यास्थीनि गृहीत्वा परमपवित्रं प्रयागतीर्थ गत्वा त्रिवेणीसङ्गमे विधिपूर्वकमस्थिविसर्जनमकुरुताम् । एवं लोकमान्यानां मध्यम- लोकयात्रा सम्पूर्णा । प्रारब्धभोगाय जीवलोकं समागतो. जीवात्मा स्वस्थानं गतः । अधुना नामशेषा लोकमान्याः पत्रिंशत्समानन्तरमपि तत्त्व- ज्ञानविषये निष्कामकर्मयोगोपदेशेन, राजकारणविपये प्रतियोगिसहकार- तत्त्वादेशेन , लोकव्यवहारे स्वार्थत्यागेन, विपत्काले अविचलितधैर्येण सदाचारेण च कर्तव्यमूढान् जनान् पदे पदे आदर्शभूतं निजचरितं स्मारयन्ति ।

१८ समालोचनपर्व . . 'यद्यविभूतिमत्सचं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम् ।।' भ.गी. १०-४१ खजनघातेन कथं सुखी भविष्यामीति विपादेन कर्तव्यपराङ्मुस- मर्जुनम् 'अशोच्यानन्यशोचस्त्वं प्रज्ञावादांच भापसे ।' इत्यादिभिः शोक यात्मपरमात्मनोरक्यं प्रतिपाद्य भगवान् श्रीकृष्णस्तं विभूतियोगं कथयित्वा ब्रूते, यद्यत्सत्त्वम् ऐश्वर्यसंपन्नं विशेषप्रकारेणोर्जितं या दृश्यते तत्तन्मम तेजोऽशसंभवमिति त्वं जानीहि । अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥' म. गी. १०-२० यद्यप्यसिलचराचरवस्तुजातस्य मूलकारणं परमात्मतत्त्वं तथापि तस्यास्तित्वं सामान्यजनस्य तत्रयोत्कटत्वेन प्रतिभाति यत्र कश्चिदतिशयो दृश्यते । इमं निकपमुररीकृत्य यदेदं लोकमान्यचरितं समालोच्यते तदा समतीते वर्पशते विविधेषु कार्यक्षेत्रेषु लोकमान्या अग्रिमं स्थानं भजन्ते इति विलोक्यते । इदमेव तेषां गुणवैशिष्ट्यं विभूतिमत्त्वं वा । कथमेत- संभूतमित्यत्र समासेनालोक्यते । १ शिक्षणक्षेत्रे अग्रेसरत्वम् यावजी लोकमान्यैः किं कार्य कृतमिति पृष्टे, यथाशक्ति यथामति तेरानालवृद्धेभ्यो ज्ञानदानं कृतं , तथा च शासनसस्थया सह भारतस्वात- न्यार्थ महायुद्धं कृतमित्युत्तरं प्राप्यते । आसेतुहिमाचलं सण्डप्राय भारत- देशं पारतन्त्र्यशृड्सलाबद्धं दृष्ट्या लोकमान्यानां स्वान्तमतीव दु साकुल- मभूत् । पोडशवर्पदेशीयस्य महाविद्यालये अधीयानस्य चालस्यैवंविधा २७४ लोकमान्यटिकचरितम् भरतखण्डस्वातन्त्र्यविषये विचाराः । पारतन्त्र्ये किं दुःखं वर्तते, स्वातन्त्र्ये कि सुखमिति कल्पनाऽपि तदा सामान्यजनस्य नास्ति । कुतस्तद्विपयको यत्नः । ईगवस्थायाः मूलकारणमस्माकमज्ञानमिति विचिन्त्य तन्नाशाय लोकमान्याः प्रथमं सयत्ना अभूवन् । अज्ञानविनाशकं ज्ञानम् । प्रजासु तस्य प्रसरः शिक्षणेन । सामान्यजनेन शिक्षणं पाठशालासु, विद्यालयेपु, महा- विद्यालयेषु च लभ्यते । अतः प्रथमं विद्यालयमहाविद्यालयस्थापनाविचार। स विचारो लोकमान्यैस्तेषां सहकारिभिश्च कार्यान्वितः कृतः । तस्य दृग्गोचरफलं 'न्यू इंग्लिश स्कूल 'नामको विद्यालयः, 'फर्ग्युसन कॉलेज'- नामको महाविद्यालयश्च । अस्त्ययं विशेषोऽस्य समुद्यमस्य यत्तदानीमेतादृशः प्रयत्नो न पूर्व केनापि समारब्धः । अतो थैर्यत्नः कृतस्तेषां कर्तृत्वं विद्युदिव व्यद्योतत । सर्वमेतद्वालानां शिक्षणार्थमनुष्ठितम् । प्रौढानां शिक्षणार्थ किमिति विचारे समुत्पन्ने तत्कालोचिता वृत्तपत्रकल्पना प्रादुर्भूता । तद्नुसारतः 'केसरी-मराठा' इति वृत्तपत्रद्वयं समारब्धम् । केसरिणा स्वनामसदृशः पराक्रमः कृतः । अतः शासनसंस्थाऽपि तस्मात् भीतिग्रस्ता बभूव । यावतां- शेन केसरिणा जनप्रबोधः कृतस्तावतांशेन तस्य संपादकेन शासनसंस्था- रोप: संपादितः । गुप्तचरकार्यालये 'अयं टिळकमहाशयः प्रथमस्थानीयो रिपुरिति गण्यते । एवं चतुरङ्गवलान्विताऽपि शासनसंस्था यस्मात् पुरुषात् बिभेति स कथं लोकोत्तरो न भवेत् । इदमेव लोकमान्यानां विभूतिमत्त्वम् । २ चिरोलदत्तप्रमाणपत्रम् अस्मिन् लोकमान्यवैशिष्ट्यविपये शत्रुपक्षे स्थितस्य साम्राज्यवादिनः शासनसंस्थापक्षपातिनश्चिरोलमहाशयस्य मतं विशेपेण प्रमाणम् । लोकमान्य- विपये तेन यल्लिखितं तत् पुनरेफदा उध्रियते । तेन लोकमान्यानां लोको. त्तरत्वं सिद्धं भवति । चिरोलपर्वणि तस्य एवमुद्गाराः 'वृत्तपत्रवार्ताहर- व्यवसायं बहुलाः समा अहमन्वसरम् । तस्मिन् कालखण्डे धाष्टर्थेन मां पृच्छन्तौ द्वायेव पुरुपौ मया दृष्टौ । एक: टिटकमहाशयः । अपरो 'जर्मन्- सम्राट कैसर विल्यम् 'महाशयः । अयं टिळकमहाशयः पुण्यपत्तमस्थ.

. समालोचनपर्व २७५ चित्पावनब्राह्मणजातिसमुत्पन्नः । चित्पावनवर्गः सदैव परमेश्वरकृपा- मनुभवति, अहंकारं च वहति । ( उक्कं च भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥' मनु. १-९६ इति ) । पुराणमतवादी टिळकमहाशयः । अस्मिन् कालखण्डे नान्यः कश्चि- लोकोत्तरपुरुषोऽनेन सह तुलामधिरोहति । कदाचित् गांधीमहाशयः एत- स्थानं लभेत । परं तस्य ऋजुत्वं, मृदुत्वं, विनयशीलत्वं च टिळकमहाशये न वर्तन्ते । तथा च टिटकमहाशयस्य बुद्धिमत्त्वं , व्यवहारकौशलं , राज- कारणमर्मज्ञत्वं च गांधीमहाशयतः शतगुणेनाधिकं विद्यते । स्वधर्मे दुर्दम्य- विश्वासेनान्यधर्मान् स तृणाय मन्यते । लोकधुरीणानामावश्यका गुणास्तस्य जन्मसिद्धाः' इति । एवं भारतसपत्नेन चिरोलमहाशयेन लोकमान्यानां गुणा एवं दोपरूपेण दर्शिताः । उक्तं च 'गुणायन्ते दोपाः सुजनबदने दुर्जनमुखे गुणा दोपायन्तै तदिदमपि नो विस्मयपदम् ॥' इति । न केवलमिदम् । अपि तु चिरोलमहाशयेन लोकमान्येभ्यो ' भारता- संतोपस्य जनकः' इति पदचीं दत्त्वा तेपाममिनन्दनं कृतम् । उक्तं च- 'असन्तोपः श्रियो मूलं सन्तोपो हरति श्रियम् ।' इति । इदमेव लोकमान्यानां लोकोत्तरत्वं विभूतिमत्त्वं च । ३ असाधारणबुद्धिमत्त्वम् अन्यो लोकमान्यानां गुणप्रकर्पस्तेपामनन्यसाधारणबुद्धिमत्त्वम् । एतत्तेषां कुशाप्रबुद्धित्वं धर्मशास्त्रे, विधिशास्ने, गणितशास्त्रे, राजनीयां, संशोधनकार्ये च प्रकर्पण दृश्यते । धर्मविपये लोकमान्यविचाराः प्रगततराः। 'प्रामाण्ययुद्धिवेदेपु साधनानामनेकता। उपास्यानामनियम एतद्धर्मस्य लक्षणम् ॥'

२७६ लोकमान्यटिळकचरितम् इति लोकमान्यैर्धर्मलक्षणं कृतम् । परम्परागतधर्मतत्त्वानि पूर्वाचाय- रनुभूतिपूर्वकं निश्चितानि पुरस्कृतानि च वर्तन्ते । तेषां सनातनतत्त्वाना- माधारेण देशकालानुसारतो लोकान् सुप्लु विनीयाचारधर्मे सम्यविचारेण मतपरिवर्तनं लोकमान्यैरिष्यत इति तेषां लेखेपु व्याख्यानेषु च दृश्यते । सामाजिककार्यविषयेऽपि लोकमान्यानामेवमेव मतम् । लोकमान्यानां लोकोत्तरत्वं संशोधनकार्ये प्रामुख्येण दृश्यते । वेद- वाङ्मयावगाहनं तेषां स्वभावः । कृतज्ञताप्रदर्शनकाले मॅक्समुल्लरमहाशयेभ्यो लोकमान्या लिखन्ति स्म लब्धावसरो मया वैदिकवाड्मयचिन्तनेन वा महाभारतावलोकनेन वा याप्यते ' इति । लोकमान्यानां संशोधनपद्धतिरपि लोकविलक्षणा । ज्योतिषशास्त्रविषयका वेदवाड्मयोल्लेखाः पाश्चात्त्यसंशोधकै- स्तिरस्कृताः । ये केचन शास्त्रज्ञास्तेपामाधारेण चैदिकप्रमेयाणि प्रतिपाद- यन्ति तेपां सिद्धान्तास्तै द्रियन्ते । परं लोकमान्यैरात्मनः संशोधन-विशेपेण तु वेदानां प्राचीनत्वविपये-ज्योतिपशास्त्राधारेण, गणितशास्त्रप्रामाण्येन च पाश्चात्त्यपण्डितानां पुरतस्तथा स्थापितं यथा तैरपि तत्संशोधनं विचारा. हमिति संभावितम् । कैश्चन पूर्वग्रहदोपेण लोकमान्यसिद्धान्तास्तिरस्कृताः । कैश्चन कुशाग्रबुद्धधभावात्ते सिद्धान्ताः सम्यड्न ज्ञाताः । प्रचलितसिद्धान्त- विरुद्धा ह्येते सिद्धान्ताः । अत एव ते कथं मन्तव्या इति कृत्वा कैश्चन ते न स्वीकृताः। परं केचन पण्डिताः शुद्धबुद्धय आसन् । तेऽलिखन् 'वेदान्त- र्गतप्रमाणः स्वातन्त्र्यबुद्धया प्रतिपादिता ह्येते सिद्धान्ताः । यद्यपि ते तदानींतनया रुढसंशोधनरीत्या न निरूपितास्तथाऽपि अनया ज्योतिप- शास्त्राधारपद्धत्या संशोधनस्यापरो मार्गो दर्शितः इति कृत्वा विरुद्धप्रमाणा- भावात् सिद्धान्ताः स्थिराः भवन्ति । अपरं च । पूर्व यानि प्रमेयाणि गृढा. न्यासन् तान्येमिः सिद्धान्त तानि भयन्तीत्यस्य संशोधनस्य विशेषफलम्। इदं लोकमान्यानां लोकोत्तरत्यम् अलोकसामान्यबुद्धिमत्त्वं च । अतस्तेषां विभूतिमत्त्यमिदम् । 'ओरायन्' 'आटिक होम् इन् दि वेदाज्' इति ग्रन्धद्वयेनेदं प्रमाणीकृतम् । पाश्चात्त्यसंशोधकैरयं संशोधनमार्गो द्रष्टव्य इति हेतुना इदं प्रन्यद्वयं लोकमान्यैराग्लभापायां लिखितम् । गीतारहस्यमन्ये प्रतिपादितेन कर्मयोगसिद्धान्तेन पर्मसंन्यासमार्गे महान् प्रहारः कृतः । मीमांसकाः युद्धा यतो लोकमान्यलेषां फर्ममार्गपक्षो समालोचनपर्व २७७ न स्वीकृतः । शङ्कराचार्यानुयायिनः संन्यासिनो रुष्टा यतस्तेषां केवलज्ञान- मार्गो न प्रतिपादितः । सत्यपि परमात्मतत्त्वज्ञाने, ज्ञानोत्तरमपि लोकस- ड्ग्रहार्थ ज्ञानिमि. कर्माणि कर्तव्यानीति लोकमान्यानां सिद्धान्तः । उक्तं च 'काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥' इति । सर्वकर्मफलत्यागशब्दे निसनैमित्तिककर्मणामप्यन्तर्भावो भवेत् । सर्वकर्मफलत्यागेनापि पुरुषो नैष्कर्म्यसिद्धिं लभते । अतो यद्यपि ज्ञानिनां तानि कर्माणि अनावश्यकानि तथापि लोकसङ्ग्रहार्थ करणीयानीति लोकमान्यानां प्रतिपादनम् । अनेन नूतनतत्त्वेन जनानां विचारे क्रान्तिः समुत्पन्ना । अनया दृष्ट्या अपूर्वोऽयं गीतारहस्यग्रन्थः । केवलेनास्य ग्रन्थस्य पठनेन लोकमान्यानामगाधमतित्वं कुशाग्रबुद्धित्वं प्रतिपादनकौशलं च दृश्यन्ते । एतल्लोकमान्यानां लोकविलक्षणविभूतिमत्त्वम् । ४ निर्भयत्वम् 'दैवी संपद्विमोक्षाय निवन्धायासुरी मता।' इति भगवद्गीतासु कथ्यते । तस्यां दैव्यां संपदि अभयं, सत्त्वसंशुद्धिः, सत्यं, तेजः, धृतिः, शौचमित्यादयो गुणाः सर्वेषां मूर्ध्नि तिष्ठन्ति । एते सर्वे लोकमान्येषु प्रकर्षेण दृश्यन्ते । सुरतनगरे राष्ट्रियसभाधिवेशनप्रसङ्गे लोक- मान्यानामेते गुणाः प्रखरतया जनानां नयनगोचरतां गता. । अयमेव नरकेसरी, पश्यतामपि 'फेरोजशहा मेथा'प्रभृतीनां पुरुषव्याघाणां, राष्ट्रिय- सभाव्यासपीठे निर्भयवृत्त्या स्वविरोध दर्शयितुमुपस्थाय सर्वान् सदस्या- नाह्वयते स्म इय 'अस्ति कश्चिदसौ इयति लोके यो मामस्मान सभास्थाना- दुत्क्षिप्यान्यत्र नीत्या तथा प्रस्थापयेत्, यथाऽयम् अध्यक्षनिर्वाचनप्रस्तावो विरोधं विना सभायाः संमतो भवेदिति । महान संक्षोभस्तदा समुत्पन्नः । परं न कोऽपि लोकमान्यानां शरीरं स्प्रष्टुमधृष्णोत् । निर्भयवृत्तित्वम् , अनन्य- साधारणधैर्यशालित्वं, लोकविलक्षणतेजोवलं, कर्तव्यदाक्षिण्यं , इन्द्रिय- निग्रह इत्यादयो यहयो लोकमान्यगुणा जनस्य दृष्टिपथं तदा गवाः । 'ताईमहाराज'प्रफरणे लोकमान्येषु यहूनि संकटान्यापतितानि । 'चिरोल'. प्रकरणे महती द्रव्यहानिर्जाता अपयशश्च संप्राप्तम् । राजकारणविपये .

२७८ लोकमान्यटिळकचरितम् शासनसंस्थया सह शाश्वतविरोधः समुत्पन्नः । तस्य फलमपि प्रदीर्घकारा- वासेन लोकमान्यैः सोढम् । परम् अङ्गीकृतं लोककल्याणकार्य वा शृङ्खला. पद्धस्य भरतखण्डस्य स्वातन्त्र्यप्राप्तिविपयकः समुद्यमो वा न परित्यक्तः । उक्तं च- 'विभैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति ॥' इति । एतादृशोऽयं नरकेसरी सह्यादिशिखरेषु घनगर्जितमिव गर्जन कथं त लोकोत्तरः। ५ लोकमान्यदोषाः एतेषु असामान्यगुणेषु केचन दोपा अपि लोकमान्येपु विद्यन्ते । तेषां प्रथमो लोकमान्यानामाग्रही स्वभावः । स्वभावस्तु सदैव दुरतिक्रमः । अन्यो दोपस्तेषां प्रखरटीकास्त्रम् । शिक्षणसंस्थायाः आजीवसदस्यत्वस्य त्यागपत्रे लोकमान्यैः स्वयमेवास्य दोपस्योल्लेखः कृतो दृश्यते । परमन्यगुणोत्क एते दोषा विलुप्ता भवन्ति । उक्तं च ‘एको हि दोपो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाकः ॥' इति । एवं राजकारणविषये 'दादाभाई नौरोजी 'प्रभृतिषु पुरोगामिमत- प्रवर्तकेपु नररत्लेपु प्रगततरस्वमतेन, 'सुरेन्द्रनाथ यानर्जी-फेरोजशहा मेथा- गोपाळराव गोखले 'इत्याविनेमस्तामणीपु पुरुपव्या पु राष्ट्रियमतप्रभावेण, 'चाफेकर-सावरकरा दिक्रान्तिकारकेपु वीररत्नेयु तत्कालोचितनि.शस्त्र- प्रतिकारेण, 'बिपिनचन्द्र पाल-लाला लजपतराया 'दिराष्ट्रियपक्षधुरीणेषु कौशल्यपूर्णनिजनेतृत्वेन , ' मॅक्समुल्लरादिविद्वद्रत्नेयु अभिनवपद्धत्या वैदिकसंशोधनेन, सारययोगादिदर्शनकारेषु गीतारहस्यमित्यपरनामधेयेन कर्मयोगशास्त्रेण , 'बावु अरविन्द घोष'प्रभृतिपु योगिजनेपु आत्मनः स्थित- भज्ञत्वेन, विशुद्धाचारशालिपु धर्माचार्येषु आत्मनः शीलेन त्यागेन प . 'समालोचनपर्व त्रिसण्डलब्धकीर्तय एते टिळकमहाशया भरतखण्डे लोकदत्ता लोकमान्य- पदवीं प्राप्य मुम्बापुर्या 'सरदारगृह'नामके हम्फे आत्मन: पार्थिवदेहं विसृज्य दिवं गताः वृत्तपत्रसंपादकैश्च 'महाराष्ट्रदेशस्यायम् अनभिषिक्तो महीपति'रिति लिखित्वा महता गौरवेण संमानिताः । ६ निधनोत्तरविभूतिमत्त्वम् एतावता माहात्म्येनापि युगपुरुपस्यास्य विभूतिमत्त्वं न संपूर्णम् । निधनानन्तरमपि निजदेहस्योर्ध्वदेहिकार्थ लोकमान्यैः इमशानान्तरं निर्मितम् । सौन्दर्यपूर्णायाः विशालमुम्बापुर्याः बहुजनसमाकुले 'चौपाटी'- नामके रमणीयसमुद्रोपकण्ठे लोकमान्यानां कलेवरमनिसात् कर्तुं शत्रु- स्थानीयशासनसंस्थया अनुज्ञा दत्ता । अभूतपूर्वमेतजातम् । अनन्यसाधारणे- नानेन बहुमानेन शासनसंस्थया महत्पुण्यं समासादितम् । अतस्तदानीन्तनो मुम्बईमदेशराजप्रतिनिधिर्जनानां धन्यवादानहति । 'मरणान्तानि वैराणि' इति यदुच्यते तत्सत्यमेव । लोकैरप्यस्मिन् स्थले लोकमान्यानां गौरवार्थ, पूजनार्थ, निजादरप्रदर्शनार्थ च एका भव्या धातुमयी मूर्तिः स्मारकरुपेण प्रथमं प्रतिष्ठापिता । अन्येषां सर्वेषां प्रसिद्धपुरुपाणां मूर्तयः प्रामुरयेण 'कोट'नामके विभागे वर्तन्ते । इयं भव्या मूर्तिरेकाकिन्येव तदाऽस्मिन् चौपाटी'नामके सागरोपकण्ठे आसीत् । सांप्रतं लोकमान्यसहयासमुस- लाभार्थ 'विठ्ठलभाई पटेल महाशयानामन्या मूर्तिः स्मारकस्पेणात्र विद्यते । निधनोत्तरमपि लोकमान्यानामिदं लोकोत्तरत्वम् । इदमेव लोकमान्यानां विभूतिमत्त्वं लोकेञ्जयते । ७ प्रार्थना एतादृशं जीवनस्ल विविधशासान्वितं , शास्त्रपूतं, पराक्रमपूर्णम्, ऊर्जितसत्यं , निर्मलाचारयुक्तं, बुधबुद्धिवर्धकं लोकमान्य टिरफचरितं सरुणेभ्यः स्फूर्ति यच्छेत्, अभ्यापनकार्यरतेभ्य: आदर्शपाठान धान्, धनलुग्धान लोकशिक्षणाय द्रव्यदानं शिक्षयेत्, लोकधुरीणान अमयपत्ति मध्यापयेत्, शासनसंस्थाधिकारिभ्यः कीर्ति पितरेन्, राजकारणधुरैयरान् रोककन्यागमार्ग दर्शयेन् ।

२८० लोकमान्यटिळकचरितम् तत्कुरुप्वमदर्पणम् यत् करोपि यदनासि यज्जुहोपि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥' इति भगवतः श्रीकृष्णस्योपदेशवचनमनुसृत्य विभूतिमधुगपुरुषलोकमान्य- टिळकचरितसुवर्णचम्पकस्य अष्टादशपर्वप्रसूनानां 'वागुरूपिण्यै सरस्वत्यै भक्तियुक्तेन चेतसा । सुबोधाक्षररूपोऽयं पुष्पहारः समर्प्यते ॥' इति शम्। ॥ समाप्तमिदं सुबोधसंस्कृतलोकमान्यटिळकचरितम् ।।

(1) शुद्धिपत्रम् . पक्तिः ३ . पृष्ठम् २७ ३३ ५० ६९ or २१ १९ २७ १७ २१ अशुद्धम् व्यरूपयन् विरोध विप्र राकश्यकी तिस्मिन्नेय मसमर्था इति शास्त्रनियामनु व उपनगरे मारवीय शुद्धम् न्यरूपयन् विरोधः विप्रः रावश्यकी तस्मिन्नेव मसमर्थाः ९६ ११७ . इति ।। ११९ शास्त्रनियमानु १२१ १४४ १५२ १५३ १४ २७ १० २१ विभागे मालवी " १५७ " " १५८ " " " " " १७ २५ २२ " " १५९ १६० " " २५ " १६२ १९४ जनाना जनाना (२८२) पङ्क्तिः २५ १० १९६ २०६ २०८ २२८ २३१ २३३ अशुद्धम् धिकारिण स्यानिश्चितं कर्याणि वषयका. राष्ट्रीय पष्ट्यब्दि शुद्धम् धिकारिणः स्यानिश्चितं कार्याणि विषयकाः राष्ट्रिय पष्टयन्दी ४ ४ " " २२ २६ २३४ २३५ २३६ २४५ २५९ २७६ कृतज्ञज्ञा कार्य पट्यब्दि समाप्तम् द्वो स्वातन्त्र्य कृतज्ञता कार्य पष्ट्यब्दी संप्राप्तम् द्वी स्वतन्त्र ९ १ १९ . .

विशेषशब्दकोशः उ BAT: a railway train. Franta: & bribe. BER: grant of land. उपनयनम् thread ceremony. BTHETTER: a landlord. 346TH: & ridicule. 3727909: a debtor. अधिकारवादिनः agitators for उहापोहः consideration. rights. sakril pregrant. s straight fortpard. 44: a family. क 314T mischief, fault. Sidh: adopted. 341 insufficient. Fede: a forged document. अप्रमादम् without mistake. कार्यवाह: Becretary. ब्रह्मण्यम् an exclamation to कोष्ठः a cupboard. say that a horrible act has been committed. ग अभियोगः a suita गर्भाधानम् impregnetion. अवसानम् an end. गुणग्रहणम् sppreciation. 2999 a false witness. Joa: a detective, 377 गुटिकाप्रक्षेपणम् firing. आमही obstinate. 1979 A gateway. 3154: show. आन्दोलनम् a morement. घोषणा a proclamation. 89fat: latare time. I: I four aphorisms. धनम् fuel, N fetal & pyre. २८४ विशेपशब्दकोशः चापलम् rashness, परिवर्तनीयम् fit for alteration. परिहास: a joke. पिधानम् closing. छत्रपति: a crowned king. पञ्चाङ्गम् a calender, प्रकोष्ठ: a room. जहालपक्षः the extremists प्रावियाक: a judge. प्रणिधि: a spy. तैलशकटः a motor. slaan: a surety. प्रत्यूहः a difficulty. प्रदेशपरिषद् a provincial con- दुकूलम् silk garment ference. दक्षिणा a gift to a Brahman प्रधानमल्लनिबर्हणम् defeating the . at the completion of principal foe. religious.rites. cucalfa: administration of प्रमाणपुरुषगण: a jury. प्रमुखराजप्रतिनिधिः The Viceroy. justice. दोषारोप: charge of a crime. प्रस्तावः a resolution. प्राघूर्णिकः a guest. नाहं वेतसं इव वीर्य हीन: I am not a kachha reed.. बद्धपरिकरः to be ready.. निरीक्षक. an irispector. बहिष्कारः boycott. निर्वाचनम् an election. ब्रह्मावर्तः name of a place, TEATAT: a party of moderates, भस्मसात् burnt to ashes. पक्षः a party. भुईमूग ground nuts. पक्षपात: partiality. परिखा a trench. मुद्रणम् printing ब प .

विशेषशब्दकोशः २८५ rence, Bias: a lawyer. arenga: petitionists. विधिशास्त्रपण्डित: a lawyer. fassam: separation. TA1967: a police. विभागपरिषद् a district conte: रजोदर्शनम् first menstrual flow. विभाजनम् partition, : sedition. विलुण्ठितम् plundering. राजनीतिः politics. विशेषरक्षापुरुषाः punitive police, algte: a governor. विशेषवाप्परथ: a special train. राष्ट्रियपक्षः the nationalist fara: & trustee. party, fagfa cholera. Bez: a chair. TETEN: lathi-charge. श 0197 an ornament. शतनी a machine gun. of a clerk. शासनसंस्था government. cena: a desk. fareială: a statue. च RIGHUSTH a deputation. qi: & class, stron intellect. घसंतसंपात: vernal equinox. 5476119719; a bartol, closing HT17 agitation, moreof work as a mark of ment. Bien: A serpent. व्यवस्थापनम्। & vill. A: a riot. ampa; thread ceremony. 8909Z procession. : a talkatire man. संस्कारः performance of a Hallo a platform, dias. religious rita Borroy.

स्मारकम् a memorial.
२८६
विशेपशब्दकोशः
सामन्तः a feudatory prince. स्थापत्यम् engineering.
सारथिः a driver.
सुखासनम् an easychair.
स्मृतिशलाका a memory.
सुवर्णमन्दिरम् the holy temple स्वराज्यम्
home-rule.
of the Shikha
स्वागतसमितिः a reception co.
सुवर्णमुद्रा a gold coin. mmittee.
सूरि: a learned man.
ह
सेवकविधि: service regulations. हस्ताड्कनम् signature.
सेवाधनम् pension.
स्त्रयगारम्
a ladies waiting room. stagia: a landlord.
.

Lokamanya Bal Gangadhar Tilak In Easy Sanskrit

Author
Chitale,k.w.
Title
Lokamanya Bal Gangadhar Tilak In Easy Sanskrit
File name
Lokamanya Bal Gangadhar Tilak In Easy Sanskrit
Text
OCR done
Citation
1956
Published
2012/08
Publisher
Bombay.,k.w.chitale Dongre Baug Bhavani Shankar Road
Language
Sanskrit
Pages
319
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
313037
Barcode
99999990321766.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
9JvwaNneflU
Download PDF

Lokamanya Bal Gangadhar Tilak In Easy Sanskrit