Svi-ksri-chennai

Damayanatiikathaa Athavaa Nalachumpuu

Sretaarand-yanaaraayand-asharmaand-a

PDF Proofread

Front matter

K. S. RI. LIBRARY
DUE DATE LABEL
This book should be returned on or before
the date last marked below.
17. 192
), 1295

No text on this page.

No text on this page.

THE KUPPUSWAMI SASTR
F.....RCENTURE
॥ श्रीः ॥
महाकविश्रीत्रिविक्रमभट्टविरचिता
दमयन्तीकथा
अथवा.
नलचम्पूः।
चेन्नपत्तनस्थित पच्चयप्पपाठशाला संस्कृताध्यापकेन
कौशिकवंशमुक्ताफलेन
श्वेतारण्यनारायणशर्मणा
विरचिंतया
परिमलाख्यया व्याख्यया संवलिता।
साच
शके १९०३ वत्सरे
चेन्नपुर्या
लिङ्गश्रेष्टिवीथीस्थ रायल् विक्टोरिया मुद्रायन्त्रशालाधिपतिना स्त्रीय मुद्रायन्ते
मुद्रिता सद्विजयतेतराम् ।

All Rights Reserveil, by the Publisher.io
AT THE ROYAL VICTORIA
MADRAS.
PRINTED
PRESS,

शुद्धपत्रिका। शुद्वम् अशुद्धम् 1 24 14 25 2 3 8 10 12 12 13 15 16 5 6 14. 22 16 15 24 24 कारय लतायाः जनने उत्पत्तौ जरठ शनोश्च विरिञ्चि दंभसां समस्ता विषयाणां "योपधात्" इयूति तथा मनो भित्ति येषान्त पतीनां शोभते सारंगाणां काराय लतायाः जरठ शेत्राश्च विरञ्चि दभ्यसां समस्ताः विवयानां द्वंद्वमनोज्ञादिभ्यश्च इवति तथा मनौ मित्ति येषात्त पीतनां शाभते सारगाणां पुल्ल धबल 20 22 10 4.1 41 43 '44 18 18 26 31 21 16 21 3 10 25 28 7 27 4). धवलं रन्तुं घोर श्वल परितो नलोवा 49 49 4) 51 रन्तु धोर श्वल परित नलोव वध रक्ति 70 बध रिक्ति (२) पुटे पडो शुद्धम् अशुद्धम् 23 13 3 24 28 16 9 7 9 18 15 1 72 73 74 75 75 78 79 88 91 91 92 95 95 96 96 100 101 101 102 103 105 107 107 108 रन्ध्रम्तो सहिताः बिन्दु धातोः क्त क्रोडयूथं यस्मिंस्तत् पुटविघटितनिकट तेषु स्रक्च पिपर्ति पक्षे हुति सरैः यितुं अध्यासितं पुरुष जनश्च रन्धैम्तै सहि बिन्द धातोः क्त: कोयूडथं यमिंस्तत् पुट......कट तषु सक्च पिपत पक्ष हति सरै यितु अध्यासित घुरुप जनञ्च 5 9 23 8 12 15 22 19 21 13 16 20 नूतनंस्तुत्यं भुवि वाक्यं कपोलयोः सक्तं हरिद्व रुट्र नूतनस्तुत्य भूवि वाक्ये कपोलयो सक्त हरिद्र अथ दमयन्तीकथा। परिमलाख्यव्याख्यया समेता। प्रथम उच्छासः। जयति गिरिसुतायाः कामसन्तापवाहि- न्युरसि रसनिषेकश्चान्दनश्चन्द्रमौलिः । नदन च विजयन्ते कीर्तिभाजां कवीना- मसकृतबिन्दुस्यन्दिनो वाग्विलासाः ॥ १ ॥ १. वन्द वन्द्यं विबुधै स्सरमपदप्रास चित्रिताशेषं । बलिराजसदसि विश्रुतविमलख्याति * त्रिविक्रमन्देवम् ॥ अथ तत्रभवान् महाकविः श्रीत्रिविक्रमभः ‘गद्यपद्यमयं काव्यं चन्यू रियभिधीयते' इति लक्षगलक्षितं नळचम्पू काव्यमारभमाण: प्रहपविशारायट देव. तानुकीर्तनमारचयति। जयतीति। गिरिसुतायाः पार्वत्याः कामसन्तापं सन्मथजनित- तापं ताच्छील्येन वहति धारयतीति तथाभूत न्तस्मिन् उरसि वक्षसि चन्दनस्यायं चान्दनः 'तस्येदं' इत्यग् रसस्य द्रवस्य निषेकः नितरामभिषेक इव (तापनिवर्त. कत्वशैल्यूसौरभ्याहादादिकर:) शिवपक्षे रसाः शृङ्गारादयः निषिच्यन्तेनेनेति रस- निवेकः स धार इत्यर्थः । चन्द्रमौलि: शिव: जयति सर्वोत्कर्षेण वर्तते तेच रसाः कविभिरेव व्यक्तीकर्तव्या इति कृत्वा ताननुकीर्तयति । तदन्विति । तदनु भगव. दनुकीर्तनानन्तरम् । कीर्तिभाजां यशस्विनाम् । कवीनां वाल्मीकिव्यासादीनां अस. कृत् सदा अमृतस्य सुधायाः बिन्दून् पृषन्ति ताच्छील्येन स्यन्दन्ते स्रावयन्तीति * त्रिविकमकविरित्यर्थीप ध्वन्यते अयं कविः कस्यचिद्राज्ञः सभापण्डितस्य देवादित्यनान्नः द्विजस्य पुत्रः बाल्ये मूर्ख एवास्त कदाचित् देवादित्ये देशान्तरंगते पूर्वन्तदुद्वेजितः कचिद्विद्वान् तदन्तरमन्विष्यतत्रागत्य 'राजन् मयासह शास्त्रार्थ केनापि विदुषाकाराय अन्यथाजयपत्रन्देहि' इति राज्ञे निवेदितवान् राजातु त्रिवि- क्रममा हूतवान् त्रिविक्रमस्तु खगृहवासिनी पित्राराधितां सरस्वती "त्वत्प्रसादेन तं विद्वांसं विजयेयेति' प्रार्थितवान् दयाळुस्साच ‘यावत् त्वत्पितागनिभ्यति ताव- त्तवमुखे वसामि' इत्युक्त्वा तन्मुखं विवेश तदनु प्राप्तसरखतीवरप्रसादः त्रिविक्रमः २ दमयन्तीकथायाम् जयति मधुसहायः सर्वसंसारवल्ली- जननजरठकन्दः कोऽपि कन्दर्पदेवः । तदनु पुनरपाङ्गोत्सङ्गसंचारितानां जयति तरुणयोषिल्लोचनानां विलासः ॥२॥ अगाधान्तःपरिस्पन्दं विबुधानन्दमन्दिरम् । वन्दे रसान्तरप्रौढं स्रोतः सारखतं वहत् ॥ ३ ॥ तथोक्ताः वाचां उक्तीनां विलासाः विभ्रमाश्च चतुरोक्तय इति यावत् विजय सर्वोत्कृष्ठावर्तन्ते । “विपराभ्यां जेः' इति तङ् । अत्र गिरिसुतायाः दमयन्। 'गिरि(मनृपेसूर्ये खभावे पर्वते जले' इति कोशात् । चन्द्राणां चन्द्रवंश्यानां म्नलि: प्रधानभूतः नळ इतिच प्रवन्धार्थोपि प्रतीयते । अत्र धर्मवाचकलुप्तोपमा उपमायत्रसादृश्यलक्ष्मीरुल्सतिद्वयोः' इति लक्षणात् । मालिनीवृत्तम ननममय यु. तेयं मालिनीभोगिलोकैः' इति लक्षणात् ॥ २. सहायादिसहितः कामः शिवावपि तापयतीति तमप्यनुकीर्तयति । जयतीति मधुसहायः : वसन्तसखः सर्वस्याः संसारवल्याः प्रपञ्चलतायाः जरटकन्दः कठिन- कन्दः कोपि अनिर्देश्यवैभवः कन्दर्पदेवः कामदेवः जयाते कामस्य जगद्विजिताव- व्यभिचारिसाधनमनुकीर्तयति । तदन्विति । तदन कामकीर्तनानन्तरं अपाङ्गोत्सङ्गे नेत्रान्तप्रदेशे 'अपाङ्गी नेत्रयोरन्तौ' इत्यमरः । सञ्चारितानां कामिसमाकर्षणाय प्र- वर्तितानां तरुणयोषितां युवतीनां लोचनानां नयनानां विलासः विभ्रमः पुनः पर्वे तसाधनविलक्षणं यथा तथा 'पुनरप्रथमेभेदे' इत्यमरः जयति । वृत्तंपूर्ववत् । अश्लिष्टयरंपरितं रूपकमलङ्कारः । 'आरोपविषयस्य स्यादतिरोहितरूपिणः । उपरा- कमारोप्यनाणं तद्रपकम्मतम्' इति लक्षणात् ॥ वाग्विलासाः विजयन्ते' इत्युक्ताया वाचोगुणानेवश्लोकद्वयेनाह । अगा. धेति । अगाधः महार्थविशिष्टत्वेनालब्धमध्यः अन्तमनसि परिस्पन्दः चमत्कारवि- तं बुधं सभायां विजित्यलब्धोत्कर्षः पित्रागमनात् पूर्व कमपि ग्रन्थं निर्मास्यामि इति विचिन्त्य पुण्यश्लोकनलवर्णनेनात्मानं कृतार्थयिष्यामीतिच विभाव्य नलचम्पू- काव्यं प्रारेभे एवं प्रवृत्तस्यास्य सप्तमोच्छाससमाप्तिदिन एव पिता आजग म ग्रन्थोपि तत्रैव पूर्तिमवजगाहे इत्यभियुक्तकथा । अत्र चम्प्यां प्रथमोच्छासे कादम्बरी- कथाकर्तृबाणभट्टनामोल्लेखनेन एतञ्चम्पू षष्टोच्छासैकोनशिश्लोकस्य ‘पर्वतभेदि- पवित्रम्' इत्यस्य भोजराजकृत सरस्वतीकण्ठाभरणे एकावल्यलकारोदाहरणेनच अस्य कवेः बाणभोजयोरन्तराळकालवर्तित्वं ज्ञायते अस्यतु यमुनात्रिविक्रम इति नामान्तरमपि अस्याः नळचम्प्वाश्च दमयन्तीकथेतिच नामान्तरमप्यस्ति । .

प्रथम उच्छासः प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ४ ॥ किं कवेस्तेन काव्येन किं काण्डेन धनुष्मतः । परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ ५ ॥ शेषो यस्य तथोक्तं पक्षे अगाधः गम्भीरः अन्तर्मध्ये परिस्पन्दः समन्ताचलन यस्य तथोक्तं । विबुधानां देवानां विदुषाञ्च पक्षे वीनां पक्षिणां बुधाः राजहंसादयः तेषां आनन्दस्य हर्षस्य मन्दिरं गृहं रसानां शृङ्गारादीनां अन्तरेण विशेषेण प्रौढं प्रगल्भं पक्षे रसायाः भूमेः अन्तरे मध्ये प्रवहतिस्म प्रौढं प्रपूर्वाद्वहतेः कर्तरिक्तः 'प्रादूहोढ' इस्यादिना वृद्धिः । वहत् प्रवर्तमान पक्षे प्रसरत् । सरखती वाणी नदी- भेदश्च तस्या इदं सारखतं स्रोतः नैरन्तर्य प्रवाहञ्च वाणीपक्षे स्रोतश्शब्दस्य लक्ष. णया नैरन्तर्यमर्थः वन्दे नमामि स्तौमि वा । अतश्लोकवृत्तं 'पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्टं गुरु च विज्ञेयमेतच्छोकस्य लक्षणमिति । भत्र श्लेषालकार: नांनार्थसंश्रयः श्लेषः वर्ध्यावयॊभयाश्रित इति ।। .. . ४. प्रसन्ना इति । प्रसन्नाः प्रसादगुणोपेताः तल्लक्षणन्तु-'प्रसिद्धार्थपदत्वं यत्सप्रसादोनिगद्यते' इति । अन्यत्र प्रसन्नास्तोषयुक्ताः । कान्त्या कान्तिगुणेन अन्यत्र शोभया हर्तुशीलं यासामिति तथोक्ताः कान्तिलक्षणन्तु 'भत्युज्ज्वलत्वं- बन्धस्यकाव्येकान्तिरितीष्यते' इति । नाना सभङ्गत्वाभङ्गत्वभेदेन नानाविधं श्लेषं श्लेषालङ्कार विशेषेण चक्षते वदन्तीति तथोक्ताः अन्यत्र नाना अनेकविधे 'स्पष्टक विद्धक उबृष्ट पीडन लतावेष्टक वृक्षाधिरूढ तिलतण्डुल क्षीरनीर ऊरूपगूढ जघ नोपश्लेष स्तनालिङ्गन ललाटिक रूपे द्वादशविधे आश्लेषे आलिङ्गने विचक्षणाः समर्थाः मुखे वाचः गृहे स्त्रियश्च कस्यचित् पुण्यपुरुषस्यैव पुण्यैः भवन्ति । वृत्तंपूर्ववत् । तुल्ययोगितालङ्कारः तल्लक्षणन्तु–वानामितरेषां वा धर्मैक्यतु- ल्ययोगिता' इति ॥ एवं सत्कविवाचः प्रशस्यासत्कविगिरोनिन्दति श्लोकद्वयेन । किमिति । यत्काव्यं काण्डञ्च परस्य इतरस्य शेत्राश्च । हृदये मनसि वक्षसिच । लनं संबद्धं सत् (परस्य ) शिरः मस्तकं नघूर्णयति श्लाघया मूर्छयाच नभ्रमयति । कवे: तेन काव्येन किं प्रयोजनं । धनुष्मतः धन्विनः तेन काण्ड्रेन बाणेनच । 'काण्डो स्त्रीदण्डबाणार्ववर्गावसरवारिषु' इत्यमरः । किं नकिमपीत्यर्थः । वृत्तालारौपूर्ववत् ॥

दमयन्तीकथायाम् . बहुलालापाः कवयो .. . अप्रगल्भाः पदन्यासे जननीरागहेतवः । सन्त्येके बालका इव ॥६॥ अक्षमालापवृत्तिज्ञा कुशासनपरिग्रहा । ब्राझीव दौर्जनी संसद्वन्दनीया समेखला ॥ ७ ॥ रोहणं सूक्तरनानां बृन्दं वन्दे विपश्चिताम् । यन्मध्यपतितो नीचः काचोऽप्युच्चैर्मणीयते ॥ ८ ॥ अत्रिजातस्य या मूर्तिः शशिनः सज्जनस्य च । क्क सावैरात्विजातस्य तमसो दुर्जनस्य च ॥ ९ ॥ ६. अप्रगल्भा इति । पदानां सुबन्ततिङन्तपदानां चरणानाञ्च न्यासे निरन्त- रप्रयोगे निक्षेपेच अप्रगल्भाः असमर्थाः जनानां विद्वजनानां नीरागे रागाभावे चम- त्काराभाव इति यावत् हेतवः कारणभूताः अन्यत्र जनन्याः मातुः रागहेतवः अनु- रागकारणभूताः बहुल: अधिकः आलापः निस्सारभाषणं येषान्तथोक्ताः अन्यत्र बह्वीलीलाः निष्ठीवनजलानि पिबन्तीति बह्वीलालाः एव आप: येष्वितिवा बहुलालापाः ऋक्पूरप्' इत्यादिना अपशब्दस्य समासान्तः अप्रत्ययः एके केचित् कवयः बालका इव सन्ति । अत्र उपमालङ्कारः ॥ निष्कारणं परोत्कर्षासहिष्णून् काव्यप्रवृत्तिभंगहेतून् क्षुद्रान् शब्दमात्रेण गौरवयन्नाह । अक्षेति । अक्षमया असहनेन आलापस्य भाषणस्य वृत्ति स्थिति, जानातीति तथोक्का अन्यत्र अक्षमालायाः जपार्थ रुद्राक्षादिमालिकायाः अपवृत्ति भ्रमणं जानातीतितथोक्ता कुशासनस्य कुत्सितशिक्षणस्य अन्यत्र दर्भासनस्य परि- ग्रहः खीकारो यस्यास्तभोक्ता । समे साधावपि खला शत्रुभूता अन्यत्र मेखलया मौड्या सहिता दुर्जनानां इयं दौर्जनी संसत् सभा ब्रह्मणां ब्राह्मणानामियं ब्राह्मी संसदिव वन्दनीया नमस्कार्येत्युपहासवाक्यं । अत्रोपमालंकारः । ८. निन्द्यमपिविद्वद्वन्दससंगैणानिन्द्यं भवतीत्याह । रोहणमिति । सूक्तानां सुभाषितानामेव रत्नानां प्रशस्तरत्नानाञ्च रोहण उत्पत्तिस्थान माणिक्यशैलश्च विपं. श्चितां विदुषां वृन्दं संघं वन्देनमामि स्तौमिवा यस्य वृदस्य मध्यं पतितः गतः नावः अल्पः काचः कच्यन्ते बध्यन्ते अर्था भनेनेति काचः प्रबन्धः क्षारमृद्विकारश्च उच्चैः श्रेष्ठः अमणिमणिर्भवति मणीयते उत्कृष्टरत्नायते लोहितादेरा कृतिगणवाक्यम् । विद्वांसः क्षुद्रमपि प्रबन्धं व्याख्यानप्रागल्भ्यादुत्कर्ष प्रापयन्तीति भावः-अश्लिष्टाश्लिष्टरूपकालंकारः मणिवदाचरतीति विवरणे उपमाच ॥ ९. सज्जनदुर्जनयोः मूर्त्यापि महदन्तरमस्तीत्याह । अत्रीति । अतः अत्रिमुने जर्जातस्य (अत्रिनयनादिन्दुरुत्पन्न इति पौराणिकीकथा) शशिनश्चन्द्रस्य या मूर्तिः प्रथम उच्छासः निश्चितं ससुरः कोऽपि न कुलीनः समेमतिः । सर्वथासुरसंबद्धं काव्यं यो नाभिनन्दति ॥ १० ॥ सदूषणापि निर्दोषा सखरापि सुकोमला । नमस्तस्मै कृता येन रम्या रामायणी कथा ॥ ११ ॥ उज्ज्वलं शरीरं वै प्रसिद्धा सा मूर्तिः रात्रौ जातस्य तमसः अन्धकारस्य क्व अत्रिजातस्य न त्रिभिः अपितु मातापितृभ्यामेव जातस्य सज्जनस्य या मूर्तिः अनि- न्यं शरीरं अवैरा शात्रवरहिता सा मूर्तिः त्रिजातस्य त्रिभिः पितृभ्यां अन्येन पार- दारिकेणच जातस्य दुर्जनस्य व शुद्धाशुद्धयोश्चन्द्रान्धकारयोरिव महदन्तरमिति भावः अत्रसभंगश्लेषमूलका तुल्ययोगिता ॥ १०. श्लेषभंग्या सत्काव्यनिन्दकनिन्दति। निश्चितमिति । सर्वथा सर्वप्रका- रेण सुष्टु रसा: भंगारादयो यत्र तत् सुरसं यथा तथा बद्धं रचितं काव्यं ग्रन्थं यः नाभिनन्दति नश्लाघते सः निश्चितं ध्रुवं ससुरः सुरया मद्येन सहितः मद्यपाय- न्यर्थः किञ्च सः कुलस्यापत्यं कुलीनः ‘कुलात्खः' इति खः न कुलीनः नकुलीन: दुष्कलजः । नशब्दसमासः नञ्तत्पुरषे अकुलीन इति म्यात् । कोपः अस्या स्ताति कोपी कोपीचासौनकुलीनश्च कोपिनकुलीनः कोपवान् दुष्कुलजश्च इति मे मतिः यद्वा समे साधुजने अमतिः पक्षरहितः । सर्वथा असुरैः संवद्धं सहितं काव्यं शुक्र यनाभिनन्दति सः कोऽपि सुरः देवः सः की भूमौ लीनः स्थितिमान न इति मे, मतिः यद्वा मा लक्ष्मी: इ: कामः ताभ्यां सहितः समेः विष्णुः तस्मिन् मनिर्यस्य सः समेमतिः विष्णुपक्षीय इत्यर्थः । एतद्न्थे एतादृशेषु पयेषु प्रायेश सभगः अभंगोवा श्लेपाएवालंकारः। ११. वाग्विलासाधारान्वाल्मीक्यादीन् कतिचित् कवीन्वर्णयन्नाह । सदूषणे- त्यादिना दूषणैः दोषैः (दूषणाख्यरक्षसाच) सहितापि निर्दोषा खरेण अर्थकाठिन्येन (खराख्यराक्षसेनच ) सहितापि सुकोमला अकटिनार्था अतएव रम्या । रामः ईयते ५-ज्ञायतेनयेतिरामायणी 'करणाधिकरणयोश्च' इति ल्यूट् । 'युवोरनाको' इलगादेशः 'टिछ ' इत्यादिना ङीष् । कथा चरित्रं येन कृता तस्मै वाल्मकियेनमः । अत्रप्रौढि नामालङ्कारः । तदुक्तं 'प्रौढिविशेषणयोगाद्विशेष्यप्रतिपतिः' इति । अर्धयोय॑त्यासपाठे गर्भितदोषशंका नस्यात् अत्र विरोधाभासालङ्कारश्च 'आभासत्वे विरोधस्य विरोधाभासइष्यते' इति ।

६ दमयन्तीकथायाम्" व्यासः क्षमाभृतां श्रेष्ठो बन्धः स हिमवानिब । सृष्टा गौरीदृशी येन भवे विस्तारिभारता ॥ १२ ॥ कर्णान्तविभ्रमभ्रान्तकृष्णार्जुनविलोचना । करोति कम्य नाहादं कथा कान्तेव भारती ॥ १३ ॥ शश्वद्वाणद्विसीयेन नमदाकारधारिणा । धनुषेव गुणाढ्येन निःशेषोरञ्जितो जनः ॥ १४ ॥ इत्थं काव्यकथाकथानकरसैरेषां कवीनाममी विद्वांसः परिपूर्णकर्णहृदयाः कुम्भाः पयोभिर्यथा । १२. व्यासइति। येन व्यासेन ईदृशी सर्वत्रविख्याता विस्तरणशीलं विस्तारि भारतंयस्यांसा गौः वाक् ‘खर्गे-पुपशुवाग्व नदिनेत्रघृणिभूजले । लक्ष्यदृष्ट्याः स्त्रियांसिगौः' इत्यमरः भवे संसारे सृष्टा कृता सःक्षमाभृतां क्षान्तानां मध्ये श्रेष्ठः अतिशयेन प्रशस्यः व्यासः कृष्णद्वैपायनः येन हिमवता ईदृशी विख्याता भवे शिवे रता- राक्ता विस्तारिणी भा कान्तिर्यस्यास्तथोक्ता गौरी पार्वती सृटा उत्पादिता स क्षमाभृतां पर्वतानाम्मध्ये श्रेष्ठः हिमवानिव वन्द्यः नमस्कार्यः अत्रश्लेषः उपमाच ।। १३. कर्णेति । कर्णस्य राधेयस्य अन्ते नाशेसति विभ्रमेण (कृष्णपक्षे) वर्ग- रुडस्य भ्रमेण चलनेन ( अर्जुनपक्षे ) विस्मयेन (धृतराष्ट्रपक्षे) विशेषभ्रान्त्या भ्रान्ताः चरितुंप्रवृत्ताः कृष्णः वासुदेवः अर्जुनः पार्थः विलोचनः नेत्ररहितः धृतराष्ट्रः यस्यान्तथोक्ता भरतान् लक्षणयाभरतवंश्यानृपानधिकृत्यकृता भारती कथा अधि- कृत्यकृतेग्रन्थे ' इत्यण् । कर्णयोः श्रोत्रयोः अन्ते प्रान्ते विभ्रमेण विलासेन भ्रान्ते स्फुरिते कृष्णार्जुने श्यामधवले विलोचने नेत्रेयस्यास्तथोक्ता कान्तेव युवतिरिव कस्य आह्लादं सम्तोषं न करोति । अलंकृतिः पूर्ववत् ।। १४. शश्वदिति । शश्वत् सदा बाणः कादंबरीकथाकर्तावाणकविः शरश्च द्वि- तीयः सहायः यस्यतथोक्तेन न मदाकारं स्तब्धत्वादिरूपं धरतीत्येवं शीलेन बाणा- कर्षणाय नमन्तं आकारं धरतीत्येवंशीलेनच गुणाढ्येन सातवाहनसभापण्डितेन बृह- कथाकारेण तन्नाम्ना कविना गुणेन ज्यया आध्येन युक्तेनच धनुषेव चापेनेव निः शेषः जनः रञ्जितः सन्तोषं प्रापितः अरं अत्यर्थं जितश्च । पूर्ववदलंकारः ॥ १५. कविवर्णनं सक्षिपन्नाह । इत्थामिति । इत्थं एवंप्रकारेण एषां वाल्मीकि प्रभृतीनां कवीनां काव्यस्य ध्वनि गुणीभूतव्यंग्य चित्र रूपस्य त्रिविधकाव्यस्य कथायाः प्रवन्धकल्पमायाः कथानकस्य गद्यकाव्यविशेषस्यच रसैः भंगारादिभिरेत्र .

प्रथम उच्छासः ७. . वाचो वाच्यविवेकविक्लबधियामीग्विधा मादृशां लप्स्यन्ते क किलावकाशमथवा सर्वसहाः सूरयः ॥ १५ ॥ वाचः काठिन्यमायान्ति भङ्गश्लेषविशेषतः । नोद्वेगस्तत्र कर्तव्यो यस्मान्नैको रसः कवेः ॥ १६ ॥ काव्यस्याम्रफलस्येव कोमलम्येतरस्य च । बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ॥ १७ ॥ . रसैः अमृतैः अमी इदानीन्तना भविष्यन्तश्च विद्वांसः पयोभिः क्षीरैजलैवा कुंभाः घटाः यथा तथा परिपूर्णानि कर्णाः श्रोत्राणि हृदयानि मत्रांसिच कुंभाक्षे लक्षगया कर्णाः उपरिभागाः हृदयानि मध्यभागाश्च येषान्तथोक्ताः सन्ति भविष्यन्तिच । एवञ्चसहि । वाच्यस्य अभिधेयार्थस्य (किमुतलक्ष्यार्थव्यग्यार्थयोः) विवेके विवेचने अववोधे इति यावत् विक्लबा अशक्ता धीः वुद्धिोषान्तथोक्तानां मादृशां मदिधानां ईदृशी विधा येषान्ते ईदृग्विधाः रसरहिताः वाच उक्तयः क्व कुत्र अवकाशं स्थान लप्स्यन्ते प्राप्स्यन्ति इति किल संभाज्येरम् (किलेतिसंभावनायां) तर्हि ग्रन्थरचना- प्रयासः किमित्याह अथेति अथवा यदा सूरयः विद्वांसः सर्वं सहन्त इति सर्वसहा: 'पूस्सर्वयोर्दारिसहोः' इति खच् । अरसमधि ग्रन्थं दयया परिगृह्य व्याख्याप्राग- भ्येन रसवन्तमारचयंतीति भावः । शार्दूलविक्रीडितवृत्तं ‘सूर्याश्चैस जस्तताः सगुरवश्शार्दूलविक्रीडितम् ' इति । उपालंकारः ॥ १६. भंगश्लपमुक्तिविशेषेण संवृण्वन्नाह वाचति याः वाचः भंगश्लेषस्य पदभङ्गाधीनार्थद्वययुक्तश्लेषालङ्कारस्य ( यथा 'सावौरात्रिजातस्य' इत्यत्र सा वै रात्रिजातस्य सा अवैरा त्रिजातस्य इति पदभङ्गः ) दुर्बोधार्थकत्वं आयान्ति गच्छन्ति तत्र वाक्षु उद्वेगः अरतिः न कर्तव्यः यस्मात् कारणात् कवेः प्रबन्धक ः रसः रुचिः एकः न किन्त्वनेकः ( रुचिहि प्रसादलक्षणा व्यत्पत्तिलक्षणाचेति द्विविधा प्यस्ति ) अत्र वाक्यार्थहेतुकं काव्यलिङ्गं ‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमलंकृतिः' इति । १७. ननु प्रसादमार्गेण कोमलमेव काव्यं विरच्यतां किमितरेण व्युत्पत्तिमार्ग- णभंगश्लेषकृतकाठिन्येनोद्वेगहेतुनेत्यतआह । काव्यस्येति । कोमलस्य प्रसादमार्गेण स्फुटार्थस्य पूर्णपाकेन मृदोश्च इतरस्य व्युत्पत्तिमार्गेण कठिनार्थस्य अपूर्णपाकेन कठि- नस्य च काव्यस्य आम्रफलस्येव चूतफलस्येव रसोपि शृङ्गारादिरवि रुचिश्चापि बन्धस्य रचनायाः वृन्तस्य च छायायाः विच्छित्तेः नीलपीतादिशोभायाश्च विशेषेण भेदेन अन्यादृशः अन्यरूपः भवेत् व्युत्पत्तिमार्गेणापिसोत्कर्षएवस्यादिति भावः । अत्र उपमा श्लेषश्चालङ्कारी॥

. दमयन्तीकथायाम् 1. अस्ति समरतमुनिमनुजवृन्दवृन्दारकवन्दनीयपादारविन्दस्य भग- बतो विधेर्विश्वव्यापिव्यापारपारवश्यादवतीर्णस्य संसारको कतुक्रिया- काण्डशौण्डस्य शाण्डिल्यनाम्नो महर्षेर्वशः ॥ १. श्रूयन्ते च यत्र श्रवणोचिताश्चन्दनपल्लवा इव केचिदनूचानाः शु- चयः सत्यवाचो विरचिवर्चसोऽर्चनीयाचारा ब्रह्मविदो ब्राह्मणाः । पुण्य- जनाश्च न च येलङ्कापुरुषाः, ससूत्राश्च न च येलम्पटाः, प्रसिद्धाश्च न च येलम्पाकाः, कामवर्षाश्च न च येलचनाः सन्मार्गस्य, नववयसो- ऽपि न च येलम्बालकाः, महाभारतिकाश्च न च येरझोपजीविनः, सेविताप्सरसोऽपि न च येरम्भयान्विताः ॥ . 1. कविः वंशानुकीर्तनपूर्वक खानुद्धतत्वं प्रकटयन्नाह । अस्तीत्यादिना । समस्तैः मुनिभिः सनकादिभिः मनुजवृन्दैः नरसमूहैः बृन्दारकैः देवैश्च यद्वा मुनिज- नरामूहश्रेष्ठैः (प्रशस्तं वृन्दं येषां वृन्दारकाः 'शृङ्गवृन्दाभ्यामारकन्' इति आरकन् ) वन्दनीये पादारविन्दे यस्य तथोक्तस्य (अबोपमा) भगाः 'ऐश्वर्यस्य समग्रस्य वीर्यस्ययशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णांभगइतीरणा' इत्युक्तापड्गुणास्तद्वतः भगवतः विश्वं लोके व्याप्तुं शीलवतः व्यापारस्य सर्जनादिकार्यस्य पारवश्यात् 'ल्यब्लोपेपञ्चमी' पारतन्यविहाय स्वातन्त्र्येणवर्तनायकिम् । संसारचक्रेचक्रवद्भमि युक्ते अनादावितियावत् प्रपञ्चे अवतीर्णस्य कृतावतारस्य विधेः ब्राह्मणइवेत्युत्प्रेक्षा. गाणस्य कियाणां यज्ञकर्मणां काण्डे समूहे शोष्टम्य समर्थस्य शण्डिलरयापल्यं शाण्डिल्यः तनाम्नः महर्षेः वंशः अन्वयः अस्ति । 2. श्रूयन्त इति । यत्र महर्षवंशे केचिद्राह्मणाः चन्दनपल्लवा इव श्रवणे आक- णने श्रवणयोः श्रोत्रयोः (अवतंसीकरणायच ) उचिता: योग्याः । अत्रोपमा । अनू- चानाः सागवेदाध्यापका: अन्ववोचदित्यनूच नः ' उपायवान्' इत्यादिनानीपानितः 'अनूचानो विनीते स्यात् सामवेदविचक्षणे' इति विश्चः । शुचयः शुद्धाः सत्यवाचः अवितथवचनाः विरिञ्चे ब्रह्मगः वर्चः दीप्तिरिक वर्वः थेपा तथोक्ताः अर्चनाय: पूज्यः आचारः कर्मयेषान्तथोक्ताः ब्रह्म वेदं परमात्मा वा विदन्ति जानन्तीति ब्रह्मविदश्वश्रूयन्ते । चकिञ्च ये ब्राह्मणाः पुण्यजनाः राक्षसाः लङ्कापुरुषाः न इति विरोधे पुण्याः पवित्राः जनाः लोकाः अलं अत्यर्थ कापुरुषाः कुत्सितजनाः न इति परिहारः अत्र विरोधाभासालङ्कारः एवमुत्तरत्रापि । च ये ससूत्राः सूत्रेण तन्तुना सहिताअपि अलं अत्यन्तं पटः येषान्ते अलंपटाः न इति विरोधः । सूत्रेणोपवीतेन वेदपाठेनवा सहिताः लंपटाः कामिनः नेतिपरिहारः । ये प्रसिद्धाः प्रकर्षेण सिद्धाः अग्निसंस्कारेण निष्टां - प्रथम उच्छासः बहुना । किं जानन्ति हि गुणान्वक्तुं तद्विधा एव तादृशाम् । वेत्ति विश्वम्भरा भारं गिरीणां गरिमाश्रयम् ॥ १८ ॥ तेषां वंशे विशदयशसां श्रीधरस्यात्मजोऽभू- देबादित्यः रवमतिविकसद्वेदविद्याविवेकः । उत्कल्लोलां दिशि दिशि जनाः कीर्तिपीयूषसिन्धुं यस्याद्यापि श्रवणपुटकैः कूणिताक्षाः पिबन्ति ॥ १९ ॥ प्राप्ता अपि (पूपाद्याः) ते कथमलं नपाकाः नपच्यन्तेस्म इति विरोधः प्रसिद्धाः विख्याताः लंपाकाः लपटाः नेतिपरिहारः । ये कामवर्षाः अत्यन्तं वर्षिणोपि सन्मार्गस्य नक्षत्रमार्गस्य अलं अलङ्काराः घनाः मेघाः नेतिविरोधः कामवर्षाः अभि- लषितदातारः सताम्मार्गस्य लङ्घन्तेअतिक्राम्यन्तीति लङ्घनाः नेतिपरिहारः । ये नव- वयसः नवं नूतनं प्रथमं अल्पमितियावत् वयः येषान्तथोक्ता अपि अल बालकाः नेति विरोधः नववयसः तरुणावस्थाः लंबालकाः लंबमानकेशा: नेति परिहार: अग्निहोत्रित्वात् ह्रखकेशावा सर्वदाकर्मप्रवृत्तत्वाद्वद्धकेशावति भावः । ये भरतेन नाट्याचार्यण प्रोकं भारतं गान्धर्व भारतशिल्पमेषामिति भारतिकाः नटा: 'शिल्पं' इतिठक् । महान्तः नटाअपि रंगे नाट्यशालायां उपजीविनः नेति विरोध: भरता- नाधकृत्यकृतं भारत भारताख्यानं भारतमधीयते विदन्तिवा भारतिकाः ‘आख्या- नाख्यायिकेतिहासपुराणेभ्यश्च' इति ठक् । महान्तः भारतविदः अरं अलं गां भूमि पातिरक्षतीत गोपः नृपः गोपाजीविनः नेतिपरिहारः ‘राजानंतेज आदत्ते' इति दोषश्रवणात् राजप्रतिग्रहमपि नाचरन्तीति भावः । ये सेविताः भुक्ताः अप्सरसः देवांगनाः "यैस्तथोक्ताअपि रम्भया तदाख्याप्सरसा आन्विताः शुक्ता: नेति विरोधः सेवितानि अप्सरासि जलप्रधानतटाकाः यैस्तथोक्ताः अरं अत्यवं भया- न्विताःनेतिपरिहरः॥ १८. किंबहुनेति । बहुनोक्तेन कि संक्षिप्य वदामीत्यर्थः । जानन्तीति त इव दृश्यन्त इति तादृशः तद्विधाः तेषां शाण्डिल्यवंश्यानां ब्राह्मणानां गुणान् वक्तुं तेषां विधेव विधा येषान्ते तद्विधाः तादृशा एव जानन्ति । गुरोर्भावः गरिमा मह- त्वं 'पृथ्वादिभ्यः' इत्यनेन इमनच् । गरिमाणमाश्रयतीति तथोक्तस्तं गिरीणां पर्वतानां भारं भरं विश्वं विभर्तिति विश्वंभरा भूमिः 'संज्ञायांभृत' इत्यादिनाखच वेत्ति जानाति । अत्र विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ।। १९. तेषामिति । विशदयशसां स्वच्छकतिीनां तेषां पूर्वोक्तानां वंशे अन्वये (जातस्य) श्रीधरस्य तदाख्यस्यविदुषः आत्मजः पुत्रः खस्य मतौ विकसन् भास १० दमयन्तीकथायाम् .. तैस्तैरात्मगुणैर्येन त्रिलोक्यास्तिलकायितम् । तस्मादस्मि सुतो जातो जाड्यपालं त्रिविक्रमः ॥ २० ॥ सोऽहं हंसायितुं मोहाद्वकः पङ्गुर्यथेच्छति । मन्दधीस्तद्वदिच्छामि कविवृन्दारकायितुम् ॥ २१ ॥ भङ्गश्लेषकथाबन्धं दुष्करं कुर्वता मया । दुर्गस्तरीतुमारब्धो बाहुभ्यामभ्यसां पतिः ॥ २२ ॥ मानः वेदविद्यानां वेदप्रमुखचतुर्दशविद्यानां । तदुक्तं 'अंगानिवेदाश्चत्वारोमीमांसा- न्यायविस्तरः । पुराणधर्मशास्त्रञ्च विद्यााताश्चतुर्दश इति । विवेकः विज्ञान यस्यतथोक्तः देवादित्यः तन्नामा पण्डितः अभूत् आसीत् । अद्यापि जनाः दिशि- दिशि प्रतिदिशं उत्कल्लोलां अधिकतरंगां प्रवृद्धामित्यर्थः यस्य देवादित्यस्य कीर्ति- मेव पीयूषसिन्धुं अमृतसमुद्रं कूणिते सुखात्किञ्जिनिमीलिते अक्षिणी येषान्ते कूणिता- क्षास्सन्तः ‘बहुप्रीहौसक्थ्यक्ष्णोः' इत्यनेनषच् । श्रवणैः श्रोत्रैरेव पुटकैः पत्रपुटैः चषकैर्वा पिवन्ति । मन्दाक्रान्तावृत्तं 'मन्दाक्रान्ताजलधिषडमैः म्भौनतीतोगुरूचेत्' इति । अश्लिष्टपरंपरितरूपकमलङ्कारः ॥ २०. तैस्तैरिति । येन देवादित्येन तैस्तैः अनितरसामान्यैः आत्मनः स्वस्य गुणैः अनूचानत्वादिभिः त्रयाणां लोकानां समाहारस्त्रिलोकी ‘संख्यापूर्वोद्विगुः' इति द्विगुत्वम् । 'द्विगुरेकवचनम्' इत्येकत्वम् 'द्विगोः' इति डीप् । तस्याः तिलकवत् ललामवत् आचरितं तिलकायितम् । अत्रोपमा । तस्माद्देवादित्यात् सुतः पुत्रः जातः उत्पन्नः त्रिविक्रमः तदाख्यः अहं जाज्यस्य मूर्खत्वस्य पात्रं आस्पदं अस्मि ॥ २१. सोहमिति । यथा पङ्गुः दैवाद्भग्नजङ्घः स्वभावसुन्दरगतेहँसत्यापेक्षया पङ्गुसदृशोवा बक: कहः मोहादज्ञानात् हंसायितुं हंसवदाचरितुं इच्छति तद्वत् तेनतुल्यं तथेतियावत् मन्दधीः अल्पमतिः सोहं कविवृन्दारकः कविश्रेष्ठ इवाचरितु कविवृन्दारकायितुं इच्छामि । हंसायितुमित्यादौ अचारक्यङन्तात्तुमुन् । पूर्व- वदलङ्कारः ॥ २२. भङ्गेति । दुष्करं कृच्छ्रेणकर्तुं शक्यं 'ईषत् दुःसु' इत्यादिना खल् । भङ्गश्लेषप्रचुरायाः ( भङ्गश्लेषलक्षणं उकं प्राक् ) कथायाः प्रबन्धकल्पनायाः ‘ज्ञात- सत्यार्थी आख्यायिका किञ्चित्सत्यार्थाकथा' इति विवेकः बन्धं रचनां कुर्वता तन्वता मया दुर्गः गन्तुं तरीतमशक्यः अम्भसा पतिः समुद्रः बाहुभ्यां भुजाभ्यां तरीतुं तरितुं वृतोवा' इति दीर्घविकल्पः । आरब्धः प्रकान्तः । अत्र यथा बाहुभ्यां दुस्तरस्समुद्रस्तथा भङ्गश्लेषकथाबन्धोपि टुष्कर इत्यौपम्याद्वस्तुसम्बन्धः । 'अभव वस्तुसम्बन्ध उपमापरिकल्पकः' इति ॥ ..

प्रथम उच्चासः उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुखैः सुखम् । जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम् ॥ २३ ॥ संगता सुरसार्थेन रम्या मेरुचिराश्रया । नन्दनोद्यानमालेव स्वस्थैरालोक्यतां कथा ॥ २४ ॥ उदात्तनायकोपेता गुणवत्तमुक्तका । चम्पूश्च हारयष्टिश्च केन न क्रियते हृदि ॥ २५ ॥ .. २३. उत्फुल्लेति । उत्फुल्लगलैः विकसितगण्डैः दुर्मुखैः दुर्वचनपरैर्दुप्रैः आ- लापाः निन्दावाचः सुखं स्वैरं यथा तथा क्रियन्ते कवेः कवयितुः श्रमपुन: काव्य . करण परिश्रमन्तु कविरेव सम्यक् जानाति हि प्रसिद्धौ नान्येदुर्मुखा इति भावः । गनशब्द: ग्राम्योधि अत्र दुर्म बनिन्दायां प्रयुक्तत्वात समुचित एव । उल्कुलगण्डै- रितितुनिर्दुटः ॥ २४. संगतेति । सुरसार्थेन शोभनोरसः शृंगारादिर्यत्रतथोक्तेन अर्थेन अभि- धेयेन सुराणां देवानां सार्थेन संघेनच संगता युक्ता रम्या मनोज्ञा रुचिर: रम्यः आश्रय: नलोपाख्यानलक्षणो यस्यास्तथोक्ता अन्यत्र मेरुः सुरादिः चिरमाश्र. यो यस्यास्तथोक्ता मे मत्कर्तृका कथा प्रबन्धकल्पना यद्वा दमयन्तीकथा कथालक्ष- णन्तु 'कथायां सरस वस्तु गद्यैरेव विनिर्मितं । क्वचिदत्रभवेदार्या क्वचिद्वक्ताप- वक्त्रके ।' इति । 'तत् कथाख्यायिकेत्येकाजाति: संज्ञाद्वयाङ्किता' इत्याचार्यादण्डि- कथितरीत्या कथाख्यायिकयोरैक्येन किञ्चित् कथालक्षणमाख्यायिकायां आख्यायि- कालक्षणञ्च कथाया मुपयोक्तुं शक्यते आख्यायिकालक्षणन्तु-'आख्यायिका कथा- वत्स्या कवे वंशादिकीर्तनं । अस्यामन्यकवीनाञ्च वृत्तंगा क्वचित्क्वचित् । कथां- शानां व्यवच्छेद आश्वास इति बध्यते ।' इति । नन्दनोद्यानस्य तदाख्वस्येन्द्रारामस्थ मालवपतिरिव स्वस्थैः अव्यप्रैः स्वर्गवासिभिश्च 'खपरेशरिवा विसर्गलोपः' इत्य- नेन वः इत्यत्र विसर्गलोप: आलोक्यतां विमृश्यतामीक्ष्यताञ्च अत्रोपमालङ्कारः ॥ २५. उदात्तेति । उदात्तेन महात्मना महार्पणच नायकेन नेत्रा नलेन हारम- ध्यरत्नेनच उपेता युक्ता गुणवत् ओजःप्रसादादिगुगयुक्तं वृत्तं छन्दोबद्धं आर्यावृत्ता- दिकं मुक्तकञ्च गद्यविशेषश्र यस्यान्तथोक्ता । मुक्तकलक्षणन्तु-'मुक्तकं वृत्तगन्धिच' इति यथा 'कल्लोलास्फालितान्तस्तटभुवि पारावारस्य इत्यादिकं । अन्यत्र गुणवसः तन्तुमत्यः वृत्ताः वर्तुलाश्च मुक्काः मौक्तिकानि यस्यां तथोक्ता चम्पू: गद्यपद्यमयी सांकोच्छासा कथाच हृदि चित्ते केन नक्रियते हारयष्ठिः मुक्ताहारलताच हृदि वक्षसि केन नक्रियते । तल्ययोगितालकारः ॥

१२ दमयन्तीकथायाम् 8. अस्ति समस्तविश्वम्भराभोगभाम्वल्ललामलीलायमानः, समानः सु- मनम्सेव्यतया नाकलोकस्य, ग्राम्य कविकथाबन्ध इव नीरसस्यमनो- हरः, भीम इव भारतालङ्कारभूतः, कान्ताकुचमण्डलस्पर्श इवाग्रणीः सर्वविषयाणाम् , अनधीतव्याकरण इवादृष्टप्रकृतिनिपातोपसर्गलोपवर्ग- कारः, पशुपतिजटाबन्ध इव विकसितकनककमलकुवलयोच्चलित- रजःपुत्रपिञ्जरितहंसावतंसया प्रचुरचलच्चकोरचक्रवाककारण्डवमण्डली- मण्डिततीरया भगीरथभूपालकीर्तिपताकया स्वर्गगमनसोपानवीथीयमान रिङ्गतरगया गङ्गया पुण्यसलिलैः प्लावितश्चन्द्रभागालंकृतैकदेशश्च, सारः सकलसंसारचक्रन्य, शरण्यः पुण्यकारिणाम् , आरामो रामणीयककदली. वनस्य, धाम धर्मस्य, आस्पदं सम्पदाम् , आश्रयः श्रेषमाम् , आकर: साधुव्यवहाररत्नानाम् , आचार्यभवनमार्यमर्यादोपदेशानामावों नाम देशः ॥ . 3. कथास्यायिकयोरक्यमाचक्षाणस्याचायर्दण्डिनोलतमवलंब्याख्यायिकाबद- लापिकिञ्चित्कविवंशादिकामुकाकथामारभते अस्तीत्यादिना । समस्तेति समस्ताः याः सर्वस्याः विश्वंभरायाः भूमेः आभोगः आयामस्तस्यवा तयुक्तं वा भास्वत् प्रकाश- मानञ्च यल्ललामतिलकं तस्यलीला विलासवाचान् । समानइति । गुमनोभिः देवैः विद्भिश्च सेव्यतया आश्रयायतया नाकलोकस्य स्वर्गस्य समा.: . दृशः । ग्राम्येति । ग्रामेभवः ग्राम्यः ग्रामीणः पामरव्यवहारमात्रप्रसिद्ध : 'रामाद्य खनौ' इति य: ताहास्य ग्राम्यदोषग्रस्त पदप्रयोगप्रधानस्यता कोः यायाः वन्धः रचनेव । नीरेण जलेन सस्येनच अन्यत्र नीरसस्य अरसिक मनोहरः रम्यः । भीमइति । भीमसेनइव भारतस्य भारतवर्षस्य भारताख्यस्थे हास्यच मण्डनभूतः । कान्तेति । वनितारुचतटस्पर्श इव विवयाणां देशानां इन्द्रियार्थी- नाञ्च अग्रणीः प्रमुखः । अनधीतेति । अपठितव्याकरणशास्त्रइव न दृष्टः प्रकृ. तीनां प्रजानां निपातः स्वपदात्पतनं उपसर्गः धनापहारादिरुपद्रवः लोप: देवदाय- ब्रह्मदायाद्यपालनं वर्णविकारः चातुर्वर्ण्याव्यवस्था च यस्मिन् पक्षे अदृष्टाः अज्ञाताः प्रकृतयः धात्वादयः निपाताश्चादय उपसगीः प्रादयः । लोपः प्रसक्तस्यादर्शनं । वर्णाविकारः अक्षरविकृतिश्चयेनतथोक्तः । पश्विति। पशुपतेशिवस्यजटाबन्धः जटाजूट इव विकसितेभ्यः फुल्लेभ्यः कनककमलेभ्यः स्वर्गारविन्देभ्यः कुवलयेभ्यः इन्दीवरेभ्यश्च उच्चलितानां उद्गतानां रजस्रां परागाणां पुजेन समूहेन पिनगवत प्रथम उच्वासः । 4. यस्मिन्ननवरतधर्मकर्मोपदेशशान्तसमस्तव्याधिव्यतिकराः पुरुषायुष जीविन्यः सकलसंसारमुखभाजः प्रजाः । तथाहि । कुष्ठयोगोगान्धिका .. : पीतवर्गवत् कृताः पिञ्जरिताः हंसा: श्वेतगरुतएव अवतंसः भूषणं यस्यास्तथोक्तया- प्रचुरेति । प्रचुराः अधिकाः चलन्तः सरन्तः ये चकोराः चन्द्रिकाप्रियाः चक्रवाकाः कोकाः कारण्डवाः महापक्षाः जलकाकावा तेषां मण्डल्या समूहेन मण्डिते भूषिते तीरे रोसीयस्यास्तथोक्तया । भगीति । भगीरथनृपयशोवैजयन्या पताकावैज- यन्तीस्यात्केतनं ध्वजमस्त्रियाम्' इत्यमरः । स्वर्गति । खर्ग: गम्यते एभिरिति वर्गगमनानि यानि सोपानानि आरोहणानि ‘आरोहणं स्यातसोपानं ' इत्यमरः । तेषां वीथीवत् पतिवदाचरन्तीति वीथीयमानाः रिंगन्तः विलसन्तः तरंगाः ऊर्मयः यस्यास्तथोक्तया गङ्गाया जाह्नव्या (कवी) पुण्यसलिलैः परिशुद्धजलैः (करणैः) प्ला- वितः सिक्तः शिवस्य गङ्गाधरत्वात् देशस्य गमाविशिष्टोत्तरत्वाचेति भावः । चन्द्र- भागया तदाख्यनद्या चन्द्रस्य भागेन खण्डेनच अलंकृतः भूषितः एकदेशः दक्षिण- रूपएकभागः शिरोदेशश्च यस्यतथोक्तः । सकलाय संसारचक्रस्य प्रपञ्चसमूहस्य सारः वरः ‘सारोबलेस्थिरांशेच न्याय्ये क्लीयंत्ररेलियु' इत्यमरः । पुण्यकारिणां सुकृतं ताच्छील्येनकुर्वतां शरण्यः शरणे रक्षणे साधुः । रमणीयस्यभावः रामणीयकं सुन्दरत्वं 'द्वन्द्वमनोज्ञादिभ्यश्च' इति बुञ् । तदेव कदळीवनं रंभारण्यं तस्य आरामः उपवनम् ॥ अत्र रूपकालङ्कारः ॥ धर्मस्य पुण्यस्य आचारस्यवा 'धर्मो स्त्री पुण्य आचार खभावोपमयोः ऋतौ । अहिंसोपनिषत्र्यायेनाधनुर्यमसोपमे' इति मेदिनी ॥ धाम स्थानं । सम्पदा सम्पत्तीनां आस्पदं पदं स्थानमित्यर्थः आपद्यतेस्मिन्नित्यास्पदम् 'आस्पदं प्रतिष्टायाम्' इत्यनेननिपातितं ॥ श्रेयसां मङ्गलानां आश्रयः आधारः साधूनां सतां यद्वा साधवः सन्तः व्यवहाराः स्थितयः आचारा इति यावत् । 'वि. नानार्थेऽव सन्देहे हरणं हार इष्यते । नानासन्देहहरणाझ्यवहार इतिस्मृतः' इति कात्यायनः ॥ तएव रत्नानि मणयः तेषां आकरः खनिः । आर्याणां पूज्यानां मर्या- दानां न्याय्यपथस्थितीनां उपदेशानांशिक्षणानां आचर्यतेनेनेत्याचार्य: 'उपनीयतु यः शिष्यं वेदमध्यापयेद्विजः । सांगञ्च सरहस्यञ्च तमाचार्यप्रचक्षते' इन्युक्तलक्षणः तस्य भवनं गृह स् । 'आसमुद्रात्तुवैपूर्वा दासमुद्राच पश्चिमात् । तयोरेवान्तरंगिर्योः (वि. न्ध्यहिमवतोः) आर्यावर्तविदुर्बुधाः' इतिमनूक्तलक्षण आर्यावर्तोनाम प्रसिद्धोदेशोस्ति॥ 4. यस्मिन्निीत । यस्मिन्नार्यावर्ते प्रजाः जनाः अनवरतं सदा धर्मकर्मभिः पुण्यक्रियाभिः उपदेशेन मन्त्रकथनेनच शान्ताः ध्वस्ताः समस्तानां व्याधीनां व्य. तिकराः सम्बन्धाः यासान्तथोक्ताः । पुरुषस्यायुः पुरुषायुषं शतसंख्यापरिमितंवयः 'अचतुर' इत्यादिना निपातितं तावत्पर्यन्तजीवनशीलाः सकलानि संसारसुखानि प्रापचिकसौख्यानि भजन्तीति तथोक्ताश्चसन्ति ॥ तदेवोपपादयति तथाहीत्या- .2 १४ दमयन्तीकथायाम् पणेषु, स्फोटप्रवादो वैयाकरणेषु, संनिपातस्तालेषु, ग्रहसंक्रान्तियॊतिः- शास्त्रेषु, भूतविकारवादः सांख्येषु, क्षयस्तिथिषु, गुल्मवृद्धिर्वनभूमिषु, गलग्रहा मत्स्येपु, गण्डकोत्थानं पर्वतवनभूमिषु, शूलसम्बन्धश्चण्डिकाय- तनेषु, दृश्यते न प्रजासु ॥ दिना । कुष्टस्य तदाख्यस्यौषधस्य योग: सम्बन्धः । गन्धः पण्यं एषामिति गा- न्धिकाः गन्धवणिजः 'तदस्यपण्यं' इति ठक् ॥ तेषां आपणेषु निषद्यासु । दृश्यते कुष्ठस्य तदाख्यरोगस्य योगः सम्बन्ध: प्रजासु नदृश्यते। अत्र परिसंख्यालङ्कारः 'परिसंख्यानिषिध्यैकमेकस्मिन्वस्तुयन्त्रणम्' इति । एवमुत्तरत्रापि । स्फुट्यते व्य- ज्यतेोंनेनेति स्फोटः वैयाकरणप्रसिद्धंशब्दब्रह्म सच वाक्यस्फोट: पदस्फोटश्चेति द्विधा नित्यश्च तस्य स्फोटस्य पिटकस्य व प्रकर्षेण वादः कथनं । व्याकरणमधीयते विदन्तिवा वैयाकरणास्तेषु । सनिपातः उभयहस्तयोजनं । यदुक्तम् ‘शस्यांदक्षिण- हस्तेनतालंबामेनयोजयेत् । उभयोहरतयोःपात: सन्निपातः स उच्यते' इति ॥ वात- पित्तश्लेष्मणामेकत्रयोगो रोगविशेषश्च । तालेषु करास्फालेषु । 'ताल:करतलोङ्गुष्ट- मध्यमाभ्याञ्चसम्मिते । गीतकालक्रियामाने करास्फालेद्रुमान्तरे । वाद्यभाण्डेचकां- स्यस्य त्सरौतालीजटौषधौ । क्लीवन्तुहरितालेस्यात्' इति विश्वः ॥ ग्रहागां सूर्यादीनां संक्रान्तिः मेषादिराशिषुप्रवेशः ग्रहाणां पूतनादिग्रहागां संक्रान्तिःसम्बन्धः । ज्यो तिपां सूर्यादीनां (स्वरूपादिवोधकेषु) शास्त्रेषु । भूतः प्रधानाख्यं तत्त्वं मूलप्रकृतिः । ततो महान् । महतस्तस्मादहङ्कारः । अहङ्काराच पञ्चतन्मात्राणि (पृथिव्यादिपञ्च- तन्मात्र णि) । एवमष्टौ । तत एकादशेन्द्रियाणि पञ्चभूतानि चेति षोडशविकाराः । एवं चतुर्विंशतितत्त्वानि । पञ्चविंशस्तु पुरुषः । तथा च - मूलप्रकृतिरविकृति महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिन विकृतिः पुरुषः' इति सांख्याः । ततश्च तेष्वेव भूतविकाराणां वादः प्रमाणतर्कसाधनोपालम्भः सि. द्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः । पक्षे भूतानां प्राणिनां भूतै- वयोनिविशेषैर्वा विकारः शरीरादिविकृतिः तस्य वादः कथनम् । संख्या तत्वानां पञ्चविंशतिं अधिकृत्यकृतं सांख्यकापिलं तदेषामस्तीतिसांख्याः कापिलास्तेषु । क्षयः अपचयः यक्ष्माच । 'क्षयोगेहेकल्पान्तेऽपचयेरुजि' इति हैमः । तिथिघु प्रथमादिषु । गुल्माः । निकुञाः रोगभेदाश्च । गलग्रहाः । कण्ठे ग्रहाः बडिशेन ग्रहणानि रोगभेदाश्च । गण्डकोत्थानम् । गण्डकानां खड्गिपशूनां ह्रखस्फोटकानाञ्च उ. स्थानं उत्पत्तिः । शूलं । आयुधं रोगश्च । चण्डिकायतनेषु । दुर्गायाः आल- येषु ।

प्रथम उच्वासः । , . 5. यत्र चतुरगोपशोभिताः सङ्ग्रामा इव ग्रामाः, तुङ्गसकलभवनाः स- र्वत्र नगा इव नगरप्रदेशाः, सदाचरणमण्डनानि नूपुराणीव पुराणि, सदानभोगाः प्रभञ्जना इव जनाः, प्रियालपनसाराणि यौवनानीव व- नानि, विटपिहिताश्चेटिका इव वाटिकाः, निर्वृतिस्थानानि सुकलत्राणी- वेक्षुक्षेत्रसत्राणि, जलाविलक्षणाः पशुपुरुषा इवाप्रमाणास्तटाकभागाः, 5. यत्रेति । यत्र देशे ग्रामाः संग्रामाः रणभूमय इव चतुरैः पाशुपाल्यदक्षैः गोपैः गोपालैः उपशोभिताः भूषिताः संग्रामपक्षे यत्र च इतिच्छेदः । तुरगैरश्वैः उपशोभिताः सन्ति । अत्रश्लेषोत्थापिता उपमा एवमुत्तरत्रापि ॥ तुङ्गेति । तुङ्गा- न्युनतानि सकलानि समस्तानि भवनानि गृहाणि येषु ते । नगाः पर्वतास्तु तुझं श्रेष्ठं यद्वा तुजैः पुन्नागैरुपलक्षितं कलभैः इभडिभैस्सहितञ्च वनं येषु तथोक्ताः 'तुङ्गः पुन्नागनागयोः । तुङ्गःस्यादुनतेन्यवत्' इति विश्वः । सदेति । पुराणि सत् शोभनं आचरणं आचारएव मण्डनं भूषणं येषान्तानि । नूपुराणि मञ्जीराणितु सदा चर- प्पानां पादानां मण्डनानि । सदानेति । जनाः दानभोगाभ्यां सहिताः । प्रभजनाः वातास्तु सदा नभस्याकाशे गच्छन्तीति नभोगाः । प्रियेति । वनानि प्रियालं राजादनवृक्षं पनसं कण्टकिफलवृक्षञ्च इगति प्राप्नुवन्तीति तथोक्तानि । यौवनानितु प्रियाणां दयितानां आलपनेन सकामभाषणेन साराणि वराणि । विटेति । वाटिकाः गृहोद्यानानि वृतयोवा विटपिभ्यः वृक्षेभ्यः हिता: अनुकूलाः । चेटिकाः सन्धान- कुशलाः इत्यस्तु विटैः पिनैः पिहिताः वेष्टिताः । निर्वृतीति । इक्षणां पुण्ड्रेक्षणां क्षेत्राणां केदाराणां सत्राणि वनानि ‘सत्रमाच्छादन यज्ञ सदादाने वनेऽपिच' इत्य- मरः । निर्वृत्या वृतेरभावेन स्थानं स्थितिः येषान्तानि । सुकळत्राणि समीचिनाः भार्यास्तु निवृतेस्सुखस्य स्थानान्यास्पदानि । जलेति । तटाकभागाः सरःप्रदेशाः जलाविलाः (जलार्थिभिःसदासेव्यतया) जलपिच्छिलाः क्षणाः अवतारादितीरदेशा- येषु । अप्रमाणाः अगाधाः । पशुपुरुषाः पशुप्रायाः नरास्तु (लडयोरभेदात् ) जलाः जडाः विलक्षणाः व्यपेतशास्त्राः अप्रमाणाः प्रत्यक्षादिप्रमाणरहिताश्च । कुपितेति। कूपाः प्रहयः भग्नाः स्फुटिताः कुम्भानां घटानां कर्णाः कण्ठायेषुतथोक्ताः घनाः प्रचुराः खाः खकीयाः पातालमूलोत्थाः नतुप्रवाहादिपूरिताः आपःतीर्थानि येषु तथोक्ताश्च । कुपितानां कपीनां कुलैस्संधैः आकुलिताः पीडिताः लंकेश्वरस्य रावणस्य किंकरास्तु भग्न (श्रीरामागमनकथनेन) विच्छिन्नः कुम्भकर्णस्य तदाख्यरक्षसः घनः अधिकः (षण्मासावधिकः) खाप: निद्रा यैस्तथोक्ताः कूपपक्षे खापा इत्यत्र 'ऋक्यू' इत्यादिना समासान्तप्रत्ययः । पीवेति । गावः धेनवः पीवरंच तदूधश्च तस्माद्धेतोः सरित इव अथवा पीवरं पीनं ऊपः आपीनं येषां अत्र 'गोशन्दो धे- १.६ दमयन्तीफथायाम् कुपितकपिकुलाकुलिता लङ्केश्वरकिंकरा इव भमकुम्भकर्णघनस्वापाः कूपाः, पीवरोधसः सरित इव गावः, सतीव्रतापदोषाः सूर्यद्युतय इव कुलस्त्रियः ।। 6. यत्र च मनोहारिसारसद्वन्द्वास्तत्पुरुषेण द्विगुना चाधिष्ठिताः काद- म्बरीगद्यबन्धा इव दृश्यमानबहुव्रीहयः केदाराः ॥ किं बहुना। नास्ति सा नगरी यत्र न वापी न पयोधरा । दृश्यते न च यत्र स्त्री नवापीनपयोधरा ॥ २६ ॥ ग्वापि स्त्रीनरलिङ्गः' इति व्याडिः । ततःपुंस्त्वादनङ्न । सरितस्तु पीव स्थूलं रोधः तटयासांताः पीवरोधसः । सतीति । कुलस्त्रियः सत्कुलजाङ्गनाः सतीनां साधीनां व्रतेन पतिशुश्रूषणादिना अपदोषाः निष्कलंकाः सूर्यस्य द्युतयः प्रकाशास्तु तवः तापएव दोषस्तेन सहिताः ॥ 6. यत्रेति । यत्रदेशे केदाराः सस्यक्षेत्राणि मनोहारीणि सारसानां पक्षि. विशेषाणां द्वन्द्वानि मिथुनानि येषु तथोक्ताः । तत्पुरुषेण तत्स्वामिना द्विगुना गो. युग युक्तेन अधिष्ठिताः युक्ताः दृश्यमानाः बहवः व्रीहयः धान्यानि येषु तथोक्ताश्च । कादंबरीग्रन्धगतगद्यानां बन्धाः रचनास्तु मनोहारिणः साराः श्रेष्टाः सद्वन्द्वाः इन्द्रसमासयुक्ताः तत्पुरुष द्विगुबहुव्रीहिसमासयुक्ताश्च ।। २६. नास्तीति ॥ यत्र देशे सा कापि नगरी नास्ति यत्र नगयो वापी नि- पानं इनः स्वामी पयः जलं तयोर्धरा इनपयोधरा स्वामियुक्ता जलयुक्ताच न यत्र• च नगर्यो नवा तरुणी स्त्री पीनौ पीवरौ पयोधरौ कुचौ यस्यास्सा पीनपयोधरा नदृश्यते । यद्वा यत्र नगर्यो वापी नवं नूततं आसमन्तात् पीनं आपीन वृद्धं यत् पयः जलं तस्य धरा नदृस्यते । यत्र नगर्यां पयोधरा जलप्रधाना भूमिः नवाः नू- तनाः आपीनाः पीवराः पयोधराः मेघाः यस्यान्तथोक्ता अथवा नवं स्तुति ताच्छी- ल्येनाप्नोतीति नवापी नवापी चासौ इनः (राजा) च नवापीनः तं पान्तीति नवापा. नपाः तादृशाः येयोधाः तान् रातिगृह्णातीति तथाभूता अथवा नवाः नूतनाः अपां समूहः आपं तदेषामस्तीति आपिनः तेषां इनाः प्रभवः आपीनाः तादृशाः पयोधराः मेघाः यस्यान्तथाभूता नदृश्यते यद्वा पयोधरा पयसः क्षीरस्य धरा गौः नवं तरुणं आपीनं उधः तत्र पयसः क्षीरस्य धरा नदृश्यते यत्र नगर्या नवा स्त्री पीनपयोधरा पीनस्तनी नदृश्यते । अत्र द्वितीयतुरीयपादावृत्तिरूपं यमकं शब्दा- लंकारः । ' यमकलक्षणन्तु' 'व्यावृत्तिर्वर्णसंहतेः यमकं' इति काव्यादर्श । अर्थालं. कारस्तु तुल्ययोगिता तल्लक्षणमुक्तं प्राक् ॥

प्रथम उच्छासः। अपि च। भवन्ति फाल्गुने मासि वृक्षशाखा विपल्लवाः । जायन्ते न तु लोकस्य कदापि च विपल्लवाः ॥ २७ ॥ १. यत्र सौराज्यरञ्जितमनसः सकलसमृद्धिवर्धितमहोत्सवपरम्परारम्भ- निर्भराः, सततमकुलीनं कुलीनाः, प्राप्तविमानमप्राप्तविमानभङ्गाः, कति- पयवमुविराजितमनेकवसवः, समुपहसन्ति वर्गवासिनं जनं जनाः ॥ 8. कथं चासौ वर्गान्न विशिष्यते ॥ 9. यत्र गृहे गृहे गौर्यः स्त्रियः, महेश्वरो लोकः, सश्रीका हरयः, पदे पदे धनदाः सन्ति लोकपालाः । केवलं न मुराधिपो राजा । न च विनायकः कश्चित् ॥ , , २७. भवन्तीति ॥ फल्गुनीभिर्युक्ता पौणमासी फाल्गुनी सास्मिनस्तीति फाल्गुनः तस्मिन् मासि तपस्यमासे वृक्षशाखाः विपदयाः विगतकिसलयाः भव. न्ति लोकस्यतुकदापि विपदां आपदां लवाः लेशाअपि नजायन्ते । अत्रपरिसंख्या- लंकारः॥ 1. यत्रेति ॥ यत्रदेशे शोभन: राजा सुराजा सुराज्ञः भावस्सौराज्यं तेन राजितं प्रीणितं मनः येषान्तथोक्ताः सकलानां समस्तवस्तूनां समृद्धया संपत्या वर्धितानां महोत्सवपरंपराणां आरंभेण निर्भराः निबिडाः जनाः कुलीना: अभिजा- ताः को भूमौ लीनाश्च सन्तः सततं सदा अकुलीनं न की भूमौ लीनं अनभिजातञ्च अप्राप्त विमानः तिरस्कारः व्योमयानञ्च यैस्तथोक्तास्सन्तः प्राप्तः विमानः व्यो मयानं तिरस्कारश्च येनतथोक्तं अनेकानि वसूनि धनानि अनेके वसवः वसुसंज्ञा- देवाश्च येषान्तथोक्तास्सन्तः कतिपयैः कतिभिः (अष्टभिः) वसुभिः देवैः धनैश्च राजितं शोभितं । खर्गवासिनं जनं देवं सम्यगुपहसन्ति परिहसन्ति देवन्यकारः तुल्यार्थे अतएवोपमा व्यतिरेकश्लेषसंवलिता व्यतिरेकलक्षणन्तु 'व्यतिरेकोविशेष- श्चे दुपमानोपमेययोः' इति ॥ *8. कथमिति ॥ असौ आर्यावर्तः । न विशिष्यते नोत्कृष्टः भवति ॥ 9. यत्रेति ॥ यत्रदेशे गृहे गृहे स्त्रियः गौर्यः गौरवर्णाः उभयकुलशुद्धावा उमाश्च खर्गेतु एकस्मिन् गृहे एका गौरी (उमा) लोकः जनः महान् ईश्वरः अ- तिसमृद्धः शिवश्च अत्रसर्वे महेश्वराः खर्गत्वेकोमहेश्वरः (शिवः) श्रिया शोभया लक्ष्म्याच सहिताः हरयः अश्वाः विष्णवश्व खर्गत्वेक एव सलक्ष्मीको विष्णुः पदे पदे प्रतिस्थानं लोकपालाः नृपाः दिक्पालाश्च धनदाः धनप्रदाः कुबेराश्च सन्ति । ..

१८ दमयन्तीकथायाम् 10. यत्र चलतासंबन्धः कलिकोपक्रमश्च पादपेषु दृश्यते न पुरुषेषु ॥ 11, यत्र चमरकवार्ता परमहिमोपघातश्च तुहिनाचलस्थलीषु श्रूयते न प्रजासु ॥ 12. यश्च नीतिमत्पुरुषाधिष्ठितोऽप्यनीतिः, सवटोऽप्यवटसंकुलः, का- रूपयुतोऽप्यगतरूपशोभः ॥ 13. यत्र च गुरुव्यतिक्रमं नक्षत्रराशयः, मात्राकलहं लेखशालिकाः, मित्रोदयद्वेषमुलूकाः , अपत्यत्यागं कोकिलाः, बन्धुजीवविघातं ग्रीष्म- दिवसाः, कुर्वन्ति न जनाः ॥ धनदः (कुबेरः) एकस्मिन्नेवस्थाने एक एव । केवलं परं राजा अधिपिवतीत्यधि पः सुरायाः मद्यस्य अधिपः न । स्वर्गेतु राजा इन्द्रः सुराणान्देवानामाधिपः पतिः । कश्चिदपि विनायकः विरुद्धनायक: न खर्गेतु विनायकः गगेशः अस्ति । अत्रश्लेष- व्यतिरेकावलंकारौ ॥ 10. यति ॥ चेतिभिनंपदं । लतासंबन्धः वल्लीयोगः कलिकानां कोर- काणां उपक्रमः आरंभश्च पादोषु वृशेषु । पुरुषेषुतु चलतायाः लोलत्वस्य संबन्धः कलि: कलहः कोपः क्रोधः तयोः क्रमश्च नदृश्यते ॥ अत्रोत्तरत्रच परिसंख्यालं. कारः॥ 11. यत्रेति ॥ चमरकाणां चमरमृगाणां वार्ता प्रवृत्तिः अन्यत्र चेतिभिन्नं- पदं मरकस्य (बाहुल्येन) मरणस्य वार्ता । परमेण अधिकेन हिमेन तुहिनेन उपघातः उपद्रवः अन्यत्र परस्य उत्कृष्टस्य महिम्नः माहात्म्यस्य उपघातः विघातः तुहिना- चलस्य हिमवतः स्थलीषु अकृत्रिमप्रदेशेषु ॥ 12. येश्चति ॥ योदेशः नातिमाद्भिः पुरुषैः अधिष्ठितोपि युक्तोपि अनीति नीतिरहितः नविद्यते ईतिरतिवृष्ट्यादिरुपद्रवायस्यसः अनीतिश्च सवटः वटैः न्यग्रोधौः सहितोपि अवटसंकुल: वटैः संकुल: निबिडः न अवटैः कूपादिगतैस्सः कुलश्च कारुभिश्शिल्पिभिः उपयुतः युक्त: कुत्सितरूपं कारूपं तेन युतोपि अगता न भ्रष्टा रूपस्य आकारस्य शोभायस्मिं स्तथोक्त: अगैः नगै: तरुभिश्च उपशोभितश्च । अत्रविरोधाभासालंकारः॥ 13. पत्रेति ॥ यत्रदेशे गुरोः बृहस्पतेः आचार्यस्यच व्यतिक्रमं अतिक्रम- णं नक्षताणां राशयस्संघाः कुर्वन्ति नजनाः एवमुपरि मात्राणां नीलपीतादिवर्णा- वयवानां कलहं संघर्ष मात्रा जनन्या कलहञ्च लेखशालिकाः चित्रशालाः । मित्र- स्य सूर्यस्य सख्युश्च उदये उत्पत्तौ अभ्युदयेच द्वेषं उलूका दिवान्धाः । अपत्यानां : ..

'प्रथम उच्चासः। १९ किं बहुना। देशः पुण्यतमोद्देशः कस्यासौ न प्रियो भतेत् । युक्तोऽनुक्रोशसंपन्नों जनैरिव योजनैः ।। २८ ।। तस्य विषयस्य मध्ये निषधो नामास्ति जनपदः प्रथितः । तत्र पुरी पुरुषोत्तमनिवासयोग्यास्ति निषधेति ॥ २९ ॥ जननीतिमुदितमनसा सततं सुस्वामिना कृतानन्दा । सा नगरी नगतनया गौरीव मनोहरा भाति ॥ ३० ॥ 14. यस्याम_लिहेन्द्रनीलसालाशखरसहस्रनिभृतांशुजालबालशाद्वलाङ्गु- राग्रग्रासलालसाः स्खलन्तः खे खेदयन्ति मध्येदिनं सादिनं रविरथतुरं गमाः ॥ .. पुत्राणां त्यागं विसर्जन कोकिलाः परभृताः ( कोकिलाः अपत्यसंरक्षणक्लेशं काकेनि- क्षिपन्तीति प्रासद्धिः) बन्धुजीवानां बन्धूकपुमागां बन्धूनां जीवानाञ्च विघातं ग्रीष्मस्य तपाः दिवसाः कुर्वन्ति जनाः न कुर्वन्ति अन परिसंख्यालंकारः ।। २८. देश इति ॥ यः देशः अनुगताः परस्पर संबद्धाः क्रोशाः अष्टसहस्र- हस्तपरिमाणानि तैः संपनैः युक्तः योजनैः चतुर्भिः क्रोशैरिव अनुक्रोशेन दयया संपन्नः जनैः युक्तः पुण्यतमाः अतिपवित्राः उद्देशाः अवान्तरभूभागाः यस्मिंस्त- थोक्तः असौ देशः आर्यावर्तः कस्थ प्रियः नभवेत् । अत्रश्लेषसंवलितोपमालंकारः । चतुर्थपादगतं व्यवहितं यमकंशब्दालंकारश्च ।। २१. तस्येति । विषयस्य (आर्यावर्ताख्यस्य ) महादेशस्य । जनपदः देशः । प्रथितः । प्रसिद्धः । पुरुषोत्तमः । विष्णु: पुरुषश्रेष्ठश्च ॥ ३०. जनेति । सा नगरी निषधापुरी गौरीव पार्वतीव सततं जनानां नीत्या जननी माता इति हेतोश्च मुदितं हृष्टं मनः यस्यतथोक्तेन सु शोभनेन स्वामिना रा. ज्ञा स्कन्देनच । कृतानन्दा नगताः ननष्टाः नयाः नीतयः यस्यां तथोक्ता नगस्य पर्व- तस्य तनया पुत्रीच । मनौहरा रम्या मनसि हरः शिवः यस्यास्तथाभूताच भाति राजते अत्र शिलटोपमा । 14. यस्यामिति ॥ यस्यानगों अभ्रं (आकाशं) लिहन्तीति अभ्रंलिहाः अत्युन्नता इत्यर्थ: ‘वहाभ्रेलिहः' इति खश् । इन्द्रनीलरत्नरचिताः येसालाः प्राकाराः 'प्राकारेवरणस्सालः इत्यमरः । तेषां शिखराणां शृंगाणां जालांनि समुहाएव बालाः शादः बालतृणमेध्वितिशाद्वलाः नवतृणप्रचुरदेशा: 'नडशादाड्डुलच्' इति- द्दलच् । शादलशब्दस्यात्रलक्षणया नवतृणान्यर्थः तेषां येकुराः प्ररोहाः तेषाम- २० दमयन्तीकथायाम् 15. यस्यां च स्फटिकमणिशिलानिबद्धभवनप्राङ्गणगतासु संचरद्गृहिणी- चरणालक्तकपदपङ्क्तिषु पतन्ति निर्मलसलिलाभ्यन्तरतरत्तरुणारुणकम- लकाझ्या मुग्धमधुपपटलानि ॥ 16. यस्यां च विविधमणिनिर्मितवासभवनभव्यमित्तिषु खच्छासु खां छायामवलोकयन्त्यः कृतापरस्त्रीशङ्काः कथमपि प्रत्यानीयन्ते प्रियैः प्रियतमाः ॥ 17. यस्यां च दिव्यदेवकुलालंकृता स्वर्गा इव मार्गाः, सततमपांमु- वसनाः सागरा इव नागराः, समत्तवारणानि वनानीव भवनानि, सुरसेनान्विताः स्वर्गभूपा इव कूपाः, अधिकंधरोद्देशमुद्भासयन्तो हारा इव विहाराः ॥ ग्राणां ग्रासे भक्षणे लालसाअत्यासक्तिः येषान्तथोक्ताः अतएव स्वलन्त: गतिप्रति. घातवन्तः रवेः रथे (बद्धाः) तुरंगमाः अश्वाः खे आकाशे दिनस्यमध्ये मध्येदिन 'पारेमध्ये षष्ठ्यावा' इत्यव्ययीभावः सादिनं सारथिं (अरुणं ) खेदयन्ति आया. सवन्तं कुर्वन्ति । अंशुजालेत्यादौरूपकालंकारः भ्रान्तिमदलंकारोवन्यते । 15. यस्याश्चेति । स्फटिकमणिशिलाभिः निबद्धानां रचितानां भवनानां गृहाणां प्रांगणानि अजिराणि गतासु प्राप्तासु सच्चरन्तीनां गृणिणीनां कुटंविनीनां चरणालक्तकानां पादलाक्षाणां पदानां चिह्नानां पङ्तिषु मुग्धानां भ्रान्तानां मधु- पानां गाणां पटलानि संघाः निर्मलस्य सलिलस्य जलस्य अभ्यन्तरे मध्ये तरन्ति प्लवमानानि तरुणानि प्रौढानि अरुणकमलानि रक्तपद्मानीति कांक्षया वाञ्छ्या भ्रान्येतियावत् अतएवभ्रान्तिमदलंकारः निपतन्ति नितरांसक्तानिभवन्ति अत्र स्फटिकस्यजलं पदपंक्तेश्चकमलमुपमानं ॥ 16. यस्यामिति ॥ स्वच्छासु निर्मलासु विविधैर्मणिभिः रत्नैः निर्मितासु रचितासु वासभवनस्य वासगृहस्य भव्यभित्तिषु मंगलकुड्येषु खां वकीयां छायां प्रतिबिंब अवलोकयन्त्यः पश्यन्त्यः प्रियतमाः प्रमदाः कृता अपराः इतरा स्त्रिय. इति शंकाः भ्रमाः याभिस्तथोक्तास्सत्यः प्रियैः नायकैः कथमपि कृच्छ्रेण प्रत्यानी- यन्ते प्रत्याश्वास्यन्ते । अत्रपूर्वदलंकारः ॥ 17. यस्यामिति ॥ दिव्येति ॥ दिव्यैः रम्यैः देवकुलैः देवालयैः दिव्यैः खोद्भवैः कल्पद्रुमादिभिः देवानां कुलशैश्च अलंकृताः । नगरेभवा: नागराः पौरा; अपांसु रेणुरहितं वसनं वस्त्रं येषान्तथोक्ताः । सागरास्तु अपां तीर्थानां सुष्टुव- ॥

'प्रथम उच्छासः। २१ 18. यस्यां च बहुलक्षणाः सुधावन्तो दृश्यन्तेऽन्तः प्रचुराः प्रासादा बहिश्च वारणेन्द्राः । मुशोभितरङ्गाः समालोक्यन्तेऽन्तः संगीतशाला बहिश्च क्रीडाकमलदीर्घिकाः । बहुधान्यनिरुद्धाः कथमप्यभिगम्यन्तेऽन्तः पण्यस्त्रियो बहिश्च क्षेत्रभूमयः । नानाशुकविभूषणाः शोभन्तेऽन्तः सभा बहिश्च सहकारवनराजयः । ससौगन्धिकप्रसारा विराजन्तेऽन्तर्वि- पणयो बहिश्च सलिलाशयाः ॥ किं बहुना। भूमयो बहिरन्तश्च नानारामोपशोभिताः । कुर्वन्ति सर्वदा यत्र विचित्र वयसां मुदम् ॥ ३१ ॥ सन्त्यष्विति सुवसनाः आधाराः समत्तेति । मत्तवारणैः वलभीभिः मत्तगजैश्च सहितानि “ कूटागारं तुवलभीनियूहोमत्तवारणं' इति वैजयन्ती ॥ सुरेति । कूपाः सुरसेन सुजलेन अन्विताः युक्ताः स्वर्गभूपास्तु सुराणां देवानां सेनया अन्विताश्च । अधीति । विहाराः देवतायतनानि क्रीडास्थानानिवा “देवतायतनं चैत्वं विहार" इतियादवः । अधिकंयधातथा धराया भूमेः उद्देशं स्थलं हाराः मुक्ताहा- रास्तु कन्धरायाः कण्ठस्य उद्देशे प्रदेशे अधिकन्धरोद्देशं ॥ अव्ययंविभक्ति" इत्यादिनाविभक्त्यर्थव्ययीभावः । उद्भासयन्तः प्रकाशयन्तः सन्ति ॥ अत्रश्लि. ॥ टोपमा ॥ 18. यस्यामिति ॥ अन्तः मध्ये प्रचुरा: अधिकाः प्रासादाः नृपसदनानि बहुलाः अधिका:क्षणाः उत्सवाः भूमिकावा येषान्तथोक्ताः सुधासुधालेपः तद्वन्तश्च दृश्यन्ते बहिः प्रचुराः वारणेन्द्रा: गजेन्द्रास्तु बहूनि लक्षणानि येषान्तथोक्ताः सुष्टु सम्यक् धावन्तश्च दृश्यन्ते अत्र श्लिष्टतुल्ययोगिता । एवमुत्त्तरत्रापि । सुशोभि- तरंगाः । सुशोभितः रंगः नर्तनस्थानं सुशोभिनः तरंगाः ऊर्मयः सुतथाभृताः । दीर्घिकाः । सरांसि । बहिति । अन्तः पण्यन्ते (मूल्येनवशीक्रियन्तइति) पण्याः तथाभूताः स्त्रियः गणिकाः बहुधा अनेकैः प्रकारैः अन्यैरितरैः (बिटैः) निरुद्धाः नितरांवेष्टिता स्सत्य: बहिः क्षेत्रभूमयः केदारप्रदेशाश्च बहुभिः धान्यैः निरुद्धास्सत्यः कथमपि अभिगम्यन्ते प्राप्यन्ते । नानेति । नानाविधैः आशुकविभिः भूष्यन्ते नानाविधैः शुकैश्च विभूष्यन्तइतितथाभूताः । सभाः सभास्थानानि । सहेति । चूतवनपङ्क्तयः । सेति । सुगन्धीनि द्रव्याणि पण्यमेषान्ते सौगन्धिकाः वणिजः तेषां सौगन्धिकानां कल्हाराणाञ्च प्रसारैविस्तारैः सहिताः । विराजन्ते । शोभन्ते । विपणयः। पण्यवीथिकाः । सलिलाशयाः। कासाराः । ३१. भूमयइति ॥ यत्र यस्यां बहिः अन्तश्च भूमयः प्रदेशाः नाना .

२२ दमयन्तीकथायाम् 19. यस्यां च भक्तभाजो देवतायतनेषु देवताः संनिधाना दृश्यन्ते ह- दे॒षु वणिग्जनाः । अक्षरसावधानाः कविगोष्ठीषु कवयो विलोक्यन्ते द्यूतस्थानेषु द्यूतकाराः । कान्तारागप्रियाः कारणो राजद्वारेषु संचरन्ति वेश्याङ्गणेषु भुजङ्गाः ॥ 27. यस्यां च चतुरुदधिवेलाविराजितसकलधराचक्रचूडामणी माण- कमनिर्मितरम्यहर्म्यतया मुरपतिपुरीपराभवकारिण्याम् । अव्ययभावो व्याकरणोपसर्गे न धनिनां धनेषु । दानविच्छित्तिरुन्माद्यत्करिकपोल- मण्डलेषु न त्यागिगृहेषु । भोगभङ्गो भुजङ्गेषु न विलासिलोकेषु । आरामः उपवनः रामाभिः स्त्रीभिश्च उपशोभितास्सत्यः सर्वदा विचित्रं रम्यं वयः येषान्ते विचित्रवयसः युवानः विचित्राणि विविधानि वयांसि पक्षिणश्च तेषां 'खग- वाल्यादनार्वयः' इत्यमरः । मुदं सन्तोषं कुर्वते । अत्रतुल्ययोगिताश्लिष्टा ॥ 19. यस्यामिति ॥ यस्यान्नगया देवतानां आयतनेषु आलयेषु देवताः भक्तान् भक्तिमतोजनान् भजन्ति प्राप्नुवन्तीतिभक्तभाज: सन्निधानं सानिध्यं आसामस्तीति सन्निधानाः 'अर्शआदिभ्यः' इत्यच् । सान्निध्यवत्यश्च दृश्यन्ते हटेषु आपणेषु वाणग्जना नगमाश्च भक्त अन्नं भजन्तातिभक्तभाजः सम्यक् निधानं निधिः येषान्तेसन्निधानाश्च दृश्यन्ते । कवीनां गोष्टीपु सभासु कवयः कवयितारः अक्षरेषु वर्णषु सावधानाः अवहिताः यूतस्थानेषु देवनस्थानेषु द्यूतकाराः अक्षक्री- डाकारण: अक्षेषु पाशके रसेन प्रीत्या अवधानं जागरूकतायेषात्तथोक्ताश्च विले. क्यन्ते । कान्तारे वने अगेषु सलक्यादिवृक्षेषु प्रियाः करिण: राज्ञः द्वारेषु गृहद्वा- रेषु सञ्चरन्ति कान्तासु वधूषु रागः अनुरागः येषान्ते कान्तारागाः अतएव प्रियाः भुजंगा: विटाः वेश्यानां गणिकानां अंगणेषु चत्वरेषु सञ्चरन्ति । अत्रपूर्ववदलंकारः॥ 20. यस्यामिति ॥ चतुणी उदधीनां समुद्राणां वेलाभिः कलैः विराजितस्य सकलस्य धराचक्रस्य भूमण्डलस्य चूडामणौ शिरोरत्नायमानायां मणीनां रत्नानां कर्मणा क्रियया यद्वा माणिकर्मभिः रत्नशिल्पिभिः निर्मितानि रम्याणि हाणि धनि- निवासाः यस्यान्तस्याभावस्तत्ता तया सुरपतिपुर्याः अमरावत्याः पराभवं अवमतिं ताच्छील्येनकुर्वत्यां यस्यानगयों अव्ययभावः 'स्वरादिनिपातमव्ययं' इति अव्ययसं- ज्ञावत्वं व्याकरणे (प्रसिद्धेषु ) उपसर्गेषु ' उपसर्गाः क्रियायोगे' इतिविहितोपस- गसंज्ञेषुप्रादिषु अस्ति धनिनां गृहेषु न व्ययः दानादिनोपयोगः येषुतेषां भावः दाना- गुपभोगाभाववत्वमित्यर्थः नास्ति । अत्रपरिसंख्यालंकारः एवमुत्तरत्रापि । दानस्थ मदस्य विच्छित्तिः शोभा उन्माद्यता अधिकमदंप्राप्नुवतां करिणां कपोलमण्डलेषु प्रथम उच्छासः। २.३ स्नेहक्षयो रजनिविरामविरमत्प्रदीपपात्रेषु न प्रतिपन्नजनहृदयेषु । कूट- प्रयोगो गीततानविशेषेषु न व्यवहारेषु । वृत्तिकलहो वैयाकरणच्छात्रेषु न स्वामिभृत्येषु । स्थानकभेदश्चित्रकेषु न सत्पुरुषेषु ॥ किं बहुना। त्रिदिवपुरसमृद्धिम्पर्धया भान्ति यस्यां सुरसदनशिखाग्रेप्वाग्रहग्रन्थिनद्धाः । नभसि पवनवेल्लत्पल्लवैरुल्लसद्भिः परममिह वहन्त्यो वैभवं वैजयन्त्यः ॥ ३२ ॥ - गण्डदेशेषु । अस्ति त्यागिनां दातॄणां गृहेषु दानस्य त्यागस्य विच्छितिविच्छेदः नास्ति । भोगस्य सर्पवपुषः भंग: आमर्दनं कुण्डलीकरणमितियावत् भुजंगेषु सर्पषु अस्ति भोगस्य सुखस्य भंगः विघातः विलासः लीला तद्वत्सलोकेषुजनेषु नास्ति । स्नेहस्य तैलादेः क्षयः नाशः रजन्याः रात्रेः विरामे अवसाने विरमत्यु शून्याभ- वत्सु प्रदीपपालेषु अस्ति स्नेहस्य प्रीतेः क्षयः प्रतिपनानां (स्नेहवत्वेन। विदितानां जनानां हृदया नास्ति । कूटप्रयोगः । कूटशब्दप्रयोग: गीतस्य गानस्य तानवि- शेषेष तानभेदेषु । अस्ति । तानोनामस्वरान्तरप्रवर्तकोरागस्थितिप्रवृत्यादिहेतुरं शापरनामा वंशवाद्यसाध्यः प्रधानभूतः स्वरः । 'तानस्त्वंशखरोमतः' इत्यभिनव- गप्तः । 'गातार्ययंखरंगच्छे तंतं बंशेनतानयेत्' इतिभरतः । तानाः द्विप्रकाराः एके कूटाख्याः पञ्चत्रिंशत् अन्येच शुद्धाख्याश्चतुर्दश एवमेकोनपञ्चाशत् अतएव 'तानान्येकोनपञ्चाशतू' इतिवैजयन्तां । व्यवहारेषुतु कूटस्यकपटस्य प्रयोगः उप- योग: नास्ति । वृत्तौ शास्त्रविवरणे वार्तिकग्रन्थे काशिकावृत्तौवा कलहः स्पर्धा व्याक- रणमीयतेविदान्तवा वैयाकरणाः तादृशेषु च्छात्रेषुशिष्येषु अस्ति खामिभृत्येषुतु वृत्तौ आजीवने कलहः पैशुन्यं नास्ति । स्थानकानां (नवानां) भेदः चित्रकेषु रम्येषुचित्रेषु । अस्ति । तद्यथा । सम्मुखंपराङ्मुखं संपूर्णावयवरूपं पाइर्वागतञ्चचित्रं. भवति । ततोभागद्वयनैकतः पतताऽन्यत्रच चटता क्रमेण ऋजु ऋज्वागत द्वयर्ध अक्ष अर्धऋजु संज्ञानिचेति स्थितस्थानकानिपञ्च गमनंआलीढं त्वरितं त्रिभंगं इत्याख्या- निच गच्छत्स्थानकानिचत्वारि एवञ्चनवानां स्थानकानांभेदश्चित्रेपु । सत्सुपुरुषे- पतु । स्थानानामेवस्थानकानां रक्षणीयनगरादीनां भेदः उपजापः नास्ति ३२. त्रिदिवेति । यस्यां नगर्यो सुरसदनानां देवालयानां शिखानां शिख- राणां चूडानामितिध्वन्यते अग्रेषु आगृह्यन्ते एभिरित्याग्रहाः आयसविष्कम्भाः तेषां प्रन्थिषु पर्वसु नद्धाः बद्धाः आग्रहेणाभिनिवेशेन ग्रन्थिनद्धाः बद्धवस्त्रादिपरिकराचे दमयन्तीकथाथाम् अपि च। चार्वी सदा सदाचारसज्जसज्जनसेविता । नगरी न गरीयस्या संपदा सा विवर्जिता ॥ ३३ ॥ 21. तस्यामासीन्निजभुजयुगलबलविदलितसकलवैरिवन्दमुन्दरीनेत्रनी- लोत्पलगलद्बहलबाप्पपूरप्लवमानप्रतापराजहंसः, सकलजलनिधिवेलावन- निखातकीर्तिस्तम्भभूषितभुवनवलपः, विश्वंभराभोग इव वहुधारणक्षमः, प्रासाद इव नवसुधाहारी, रविरिवानेकधामाश्रयः । दनुजलोक इव सदानवः स्त्रीजनस्य, वसिष्ठ इव विश्वामित्रत्रासजननः, जनमेजय इव परीक्षितनयः, परशुराम इव परशुभासितः, राघव इवालवुकोदण्डभङ्ग- रञ्जितजनकः, सुमेरुरिव जातरूपसंपत्तिः, तुहिनाचल श्व पुण्यभागीर- थीसहितः चिन्तामणिः प्रणयिनाम् , अग्रगीः साङ्ग्रामिकाणाम् , उपा- . तिध्वन्यते नभसि आकाशे उल्लसद्भिः राजद्भिः पवनेन वातेन वेल्लद्भिः चञ्चले: पल्लवैः अञ्चलैः इह अत्रलोके परम अधिकं वैभवं माहात्म्यं वहन्ट'. धारयन्त्यः वैजयन्त्यः पताकाः त्रिदिवपुरस्य अमरावत्याः समृद्धी संपदि स्पर्द्धया संघर्षण अभिभवेच्छयेतियावत् (यु ताइव) भान्ति प्रकाशन्ते । विजिगीषुरपि बद्धपरिकरः प्रकटितस्वविभवः स्पर्द्धया पताकान्दर्शयतीति भावः । मालिनवृतम् । गम्यो. त्प्रेक्षालङ्कारः ‘अप्रकृतगुगक्रियासम्बन्धादप्रकृतत्वेनप्रकृतस्य सम्भावनमुत्प्रेक्षा' इति लक्षणात् । व्यञ्जकाप्रयोगाद्गम्यत्वम् ।। ३३. चार्वीति । चावी मनोज्ञा ‘वोतोगुणवचनात्' इति विकल्पेनडीए । सदा सर्वदा सति साधौ आचारे आचरणे सज्जैः बद्धकवचैः सजनैः सेविता आ. श्रिता सा नगरी गरीयस्या अतिशयेन गुया संपदा संपत्या विवर्जिता न अपितु युक्तेत्यर्थः । अत्राद्यपादे अव्यवहितमध्यभागयमकं द्वितीयतृतीयपादयोः अव्यवहि- तम्मिश्रञ्चादिभागयमकंशब्दालंकारः ॥ 21. तस्यामिति । तस्यां नगर्या नलो नाम राजासीत् । तविशिनष्टि । निजेत्यादिना । निजभुजयोः युगलस्य द्वंद्वस्य वलेन विदालतानां निर्भिन्नानां सकलवैरिणां समस्तरिपणां वृन्दस्य समूहस्य सुन्दरीणां स्त्रीणां नेत्रनीलोत्पलेभ्यः नीलारविन्दसदृशनयनेम्य: गलतां ख्रसमानानां बहलानामधिकानां बाध्याणां अश्रूणां पूरे प्रवाहे प्लवमानः तरन् प्रतापः ओजएव राजहंस: कलहंसः यस्यतथोक्तः । सकलंजलनिधीनां वेलासु कूलेषु (स्थितेषु) वनेषु निखातैः स्थापितैः कीर्तिस्तम्भैः . , प्रथम उच्छासः। २५ ध्यायोऽध्ययनविदाम् , आदर्शो दर्शनीयानाम् , आचार्यः शौर्यशालि- नाम् , उपदेशकः शस्त्रशास्त्रस्य, परिवृढो दृढपहारिणाम् , अग्रगण्यः पुण्यकारिणाम् , अपश्चिमो विपश्चिताम् , अपाश्चात्यस्त्यागवताम् , अचरमश्चातुर्याचार्याणाम् , अपर्यन्तभूभाराधारस्तम्भभूतभुजकाण्डकीलि- तसालभञ्जिकायमानविंजयश्रीः, श्रीवीरसेनसूनुः, समस्तजगत्प्रासादशि- रःशेखरीभूतकान्तकीर्तिध्वजो, राजा, राज्यलक्ष्मीकरेणुकाचापलसंय- मनशृङ्खलः, खलवृन्दकन्दलदावानलो नलो नाम ॥ कीर्तिबोधकविजयवर्णावली बंटितस्थूगाभिः भूषितभुवनवलयः अलंकृतजगन्मण्डल: विश्वम्भरायाः भूमेः आभोगः विस्तारइव बहूनां धारणे बहुधा- रणे युद्धेच क्षमः शक्तः । प्रासादः राजगृहमिव न वसुधा देवद्विजभूमि ताच्छील्येनहरतीति नव- सुवाहारी पक्षे नवया नूतनया सुधया लेपविशेषेण हारी रम्यः। रविरिव अनेकधा माया लक्ष्म्याः आश्रयः अनेकेषां बहूनां धानां किरणानां आश्रयश्च । दनुजाना- मसुरागां लोकइव सदा सर्वदा नवः रम्यतया नूतनएव दानवैस्सहितश्च । विश्वेति। विश्वेषां समस्तानाममित्राणां शत्रूणां विश्वामित्रस्यनुनेश्च त्रासजनन: भयकृत् जना- नेजयति (कम्पयति) इति जनमेजयः अभिमन्युपौत्रइव परीक्षितः नयः नीतियें- जसः परीक्षेः अभिमन्य पुत्रस्य तनयश्च । परश्चिति । परस्मिन् श्रेष्ठे शुभे मङ्गले आसितः स्थित: परशुना भासितः दीप्तश्च । अलध्विति । अलघुरेवालघुकः महान् दण्डस्य वधपरिक्लेशार्थहरणलक्षणस्यशिक्षणस्य भंगेन मोचनेन रजिताः तोषिताः जनाः येनतथोक्तः अलयो महतः कोदण्डस्य शिवचापस्य भङ्गेन भन्न- नेन रन्जित: जनकः सीरध्वज: येनतथोक्तश्च । सुमेरुः मेरुगिरिरिव । जाताः रूपस्य सम्मतिः सम्मत् यस्य सः जातरूपं सुवर्ण संपत्तिर्यस्यतथोक्तश्च । तुहिनाचलः हिमा- दिरिव । पुग्येति । पुण्प्रभागी सुकृतभजनशीलः रथीरथवान् सहितः हितैर्युक्तः पुण्यया पवित्रया भागीरथ्या गङ्गया सहितश्च । प्रणयिनामर्थिनां चिन्तामणिः चिन्तितप्रदः मणिरिव । संग्रामायप्रभवन्तीति सांग्रामिका युद्धशूराः ‘तस्मैप्रभ. वतिसन्ता पादिभ्यः' इति ठन् । तेषां । अनगीः श्रेठ । अध्ययनेन वेदादीनाम- धीत्या वित् ज्ञानं येषान्ते अध्ययनविदः यद्वा अध्ययन अध्यायः तद्विदां उपेत्या- धीयतेस्मादित्यु पाध्यायः अध्यापकः 'एक देशन्तुवेदस्यवेदांगान्यपिवापुनः । योध्या. पति यर्थ न पाध्यायः स उव्यो' इति ॥ द्रष्टुं योग्यानां रम्यवस्तूनां आदर्शः दर्प- णतुल्यः अत्यन्तनिर्मलकान्तिमत्वांदादर्शवत् बिंबग्राहीत्यर्थः । यद्वा द्रष्टुं ज्ञातुं योग्यानां (शास्त्रागां) आदर्शः अर्थप्रकाशकइत्यर्थः शौर्येण शालन्तेप्रकाशन्त इति २६ दमयन्तीकथायाम् 22. यस्येन्दुकुन्दकुमुदकान्तयः सकललोककर्णप्रियातिथयो गुणाः सत- तमेकब्रह्माण्डसंपुटसंकीर्णनिवासव्यसनविषादिनः पुनरनेकबह्माण्डकोटि- घटनामभ्यर्थयमाना इव भगवतो विश्वसृजः कमलसंभवस्य कर्णलग्नाः स्वर्गलोकमधिवसन्ति स्म ॥ 28. यस्मिंश्च राजनि जनितजनानन्दे नन्दयति मेदिनीम् , गीतेषु . . . शौर्यशालिनस्तेषां आचार्यः तत्तुल्यः ' उपनीयतुयः शिष्यं वेदमध्यापयोद्विजः । सांगज सरहस्यञ्च तमाचार्यप्रचक्षते' इति ॥ शस्त्राणां आयुधानां शास्त्राणाञ्च समा. हारश्शस्त्रशास्त्रन्तस्य यद्वा आयुधशास्त्रस्य उपदेशक: उपदेष्टा । दृढं यथा तथा प्रहर्तुं शीलमेषां दृढप्रहारिण: तेषां परिवृढः प्रभुः । अग्रगण्यः अग्रेगणयितुंशक्यः । विपश्चितां । विदुषां । न पश्चाद्भवः अपश्चिमः मुख्यः । त्यागवतां । दातॄणां । र पश्चाद्भवः अपाश्चात्यः प्रथमः चातुर्यस्य वैदग्ध्यस्य आचार्याणां बोधयितॄणां अचरमः प्रथमः । अपर्यन्तस्य अपरिमितस्य भूभारस्य आधारस्तम्भभूतयोः भुजकाण्डयो: बाहुदण्डयोः कीलितो घटिता या सालभाजिका पाञ्चालिका तद्वदाचरिता विजयश्रीः जयलक्ष्मीः यस्यतथोक्तः । समस्तेति । समस्तजगतामेवप्रासादशिरसां शेखरी- भूतः अवतंसीभूतः कान्तः रम्य: कीर्तिरेवध्वजः यस्यतथोक्तः । राज्येति । राज्य- लक्ष्मीरेव करेणुका इभी तस्याश्चापलस्य चञ्चलत्वस्य संयमने बन्धने शृंखलः निगडः । शृंखलापुस्कटीवस्त्रबन्धेपिनिगडेत्रिषु' इतिमेदिनी । खलेति । खलानान्दुष्टानां वृन्दान्येव कन्दलानि नवांकुराः तेषां दावानलः दावाग्निः । अत्ररूपकोपमानश्लेषा.. अलंकाराः ॥ 22. यस्येति । यस्य नलस्य इन्दुः चन्द्रः कुन्दं माध्यकुसुमं कुमुदं सितोत्- पलं तेषां कान्तिरिवकान्तिर्येषान्तथोक्ताः सकललोकानां कर्णानां श्रोत्राणां प्रियाति. थयः गुणाः सततं सदा एकस्मिन् संपुटसदृशे ब्रह्माण्डे संकीर्णानिवासेन निविड- स्थित्या यक्ष्यसनं श्रमः तेन विर्ष दन्तिताछोल्यनतितथोक्तास्सन्तः । पुनः अनेकवद्माण्डकोटीनां घटनां निर्माणं अभ्यर्थयमानाः प्रार्थयमानाइव भगवतः विश्वं सृष्टवतः । नारायणनाभिपद्योद्भवस्य ब्रह्मणः । कर्णेषु लग्नाः सक्कास्सन्तः सुष्टुअज्यतइति खर्गः लोक्यतेप्रकाश्यतइतिलोकः तं मुमुक्षुभिः प्रार्थ्यमानं खतः प्रकाशमानञ्चब्रह्मलोकमित्यर्थः । अधिवसन्तिस्म । तत्रास्थिताइत्यर्थः 'उपान्वध्या वसः' इत्मधारस्यकर्मत्वं । ‘लट्स्मे' इतिभूतेलट् ॥ अत्रोपमानोत्प्रेक्षेअलं- कारौ ॥ 23. यस्मिन्निति । नन्दयति । सन्तोषयति सति । मेदिनीं । भूमिं । जातिसंकराः । जातिषु नन्दयन्तीप्रभृतिषु अष्टादशजातिषु गानशास्त्रप्रसिद्धासु प्रथम उच्छ्वासः । २७ जातिसंकराः, तालेषु नानालयभङ्गाः, नृत्येषु विषमकरणप्रयोगाः, वाद्येषु दण्डकरप्रहाराः, पुष्पकर्मारम्भेषु प्रबन्धाः, शारिद्यूतेषु पा- शप्रयोगाः, पुष्पितकेतकीषु हस्तच्छेदाः, न्यग्रोधेषु पादकल्पनाः, कञ्चु- कमण्डनेषु नेत्रविकर्तनानि, आसन् । न प्रजासु ॥ 21. यश्च कोऽप्यन्यादृश एव लोकपालः । तथाहि । अपूर्वो विबुधप- तिः, अदण्डकरो धर्मराजः, अजधन्यः प्रचेताः अनुत्तरो धनदः ॥ 25. येन प्रचण्डदोर्दण्डमण्डपमण्डला विश्रान्तविजयश्रिया श्रवणोत्पल- " संकरः परस्परमिश्रणं जातीनां विप्रादीनां संकरः परस्परसांकर्यश्च । तालेषु । चञ्चत्पुगादिषु 'नानेति । नाना लयानां द्रुतमध्यविलंबितलक्षणानां आलयानां गृहाणाञ्चभंगः रीतिः भञ्जनञ्च । विषमेति । विषमाणां परस्परभिन्नानां करणानां तलपुभपटादीनामटोत्तरशतसंख्यानां । विषमाणामेव विषमकाणां विरुद्धानां रणानां युद्धानाञ्च प्रयोगाः उपयोगाः । दण्डेति । दण्डेन कोणेन करेण पाणिनाच प्रहाराः लाडनानि । पक्षे दण्डः वधादिः करः राज्ञेदेयोंशः प्रहारः ताडनञ्च । पुष्पेति । पुष्पाणां कर्म । खग्रूपेणक्रिया तस्यारंभेषु । प्रबन्धाः । अनुस्यूततयाग्रथनानि । पक्षे प्रकर्षणबन्धनानि । शारियूतेषु । अक्षदेवनेषु । पाशप्रयोगाः । पाशानां बन्धानां पक्षे बन्धनरज्जूनां प्रयोगाः प्रकृष्टसंबन्धाः । शारयः दायैर्बध्यन्ते अक्षार्थ- स्तु पाशकएवप्रतीतः । हस्तः । केतकीगर्भः पाणिश्च । न्यग्रोधेषु । वटेषु । .पादकल्पनाः । पादस्य मूलस्य अंघेश्च कल्पनाः अवरोहादिनाविस्तृतता विकर्त- नञ्च । कञ्चुकं । कवचं । वस्त्रं चोळकोवा । नेत्रं । वस्त्रविशेषः नयनञ्च । विकर्तनानि । विशेषेणांगप्रमाणेनकर्तनानि उत्पाटनानिच । अत्र गीतादिष्वे- वजातिसंकरादीन्यासन प्रजास्वित्यिवधारणात्परिसंख्यालंकारः ॥ 24. यश्चेति । यः नळ: कोपि आश्चर्यहेतुः अन्यादृशः ये लोकंपालयन्ति तेभ्यइन्द्रादिभ्यः विसदृशः । लोकपाल: लोकंप्रजापालयतीतितथोक्तः राजा इन्द्रा- दिश्च । अन्यादृशत्वमेवविशदयति । तथाहीत्यादिना । विबुधानां देवानां पति- रेिन्द्रः सपूर्वः पूर्वदिग्युक्तः । नलस्तु अपूर्वः उत्कृष्टः विद्वत्पतिश्च । धर्मराजः यमः दण्डपाणिः । नळस्तु (करोतीतिकरः) न दण्डस्य वधादेः करः । धर्मप्रधा- नोराजाच । प्रचेताः वरुणः । सह जघन्यया पश्चिमया वर्तते । नळस्तु अजघन्यः अकुत्सितः प्रकृष्टमनाश्च । धनदः कुबेरः सहोत्तरया दिशा वर्तते । नलस्तु नविद्य ते उत्तरः उत्कृष्टः यस्मात् अनुतर: धनदाताच । अत्रविरोधाभासालंकारः ।। 25. येनेति । प्रचण्डः उग्रः दोर्दण्डएव मण्डपः जनाश्रयः तस्य मण्डल्यां प्रदेशे विश्रान्ता आयासनिवृत्ति याता विजयश्रीर्यस्य तेन । श्रवणयोः कर्णयोः २८ दमयन्तीकथायाम: दलायमानमानिनीमानलुण्टाकलोचनेन पृथ्वी प्रिया च कामरूपधारिणी शातेन भुक्ता ॥ 26. यस्याः सकलजनमनोहारिविशेषकम् , पृथुललाटमण्डलम् , अभि- लषणीयकान्तयः कुन्तलाः, श्लाघनीयो नासिक्यभागः, बहुलवलीकः सरोमालिकालंकारश्च मध्यदेशः, प्रकटितकामकोटिविलासः काञ्ची. प्रदेशः ॥ किं बहुना। 27. यस्याः कृष्णागुरुचन्दनामोदबहुलकुचाभोगभूषणा नृत्यतीवाङ्गरङ्गे रमणीयतया निरुपमा नवा यौवनश्रीः ॥ . उत्पलदलायमाने नीलोत्पलपत्रायमाणे मानिनीनां मानवतीनां मानस्य अभिमानस्य लुण्टाके अपहर्तणी लोचने यस्य तेन । येन नलेन कामरूपं देशविशेषं काम्यत इति काममभिलषणीयं काममतिशयेनवा रूपञ्च धरतीत्येवंशीला पृथ्वी भूमिः प्रिया कान्ताच । शातेन सुखेन । 'शर्मशातसुखानिच' इत्यमरः । भुक्ता रक्षिता अनुभूताच । अत्र रूपकोपमानश्लेषतुल्ययोगिता अलङ्काराः ॥ 26. यस्या इति । यस्याः भुवः कान्तायाश्च । सकलजनानां मनोहारि विशेषकं तदाख्योदेशः तिलकञ्च अस्ति । पृथुलं विस्तृतं लाटमण्डलं लाटदेशः पृथु विशालं ललाटमण्डलं फालदेशश्च अस्ति । अभिलषणीयकान्तयः कमनीय- शोभाः । कुन्तलाः तदाख्यदेशखण्डाः अळकाश्च सन्ति । श्लाघनीय: प्रशस्यः । नासिक्य इति भागः देशखण्ड; नासिकायां भवः नासिक्यः भागः प्रदेशः आस्ति वयः अधिका: लवल्यः लताविशेषाः यस्मिंस्तथोक्त: बहुला: अधिकाः नीलावा वल्यः उदररेखाः यस्मिंस्तथोक्तश्च । सरसां तटाकानां मालिका पतिः अलङ्कारः यस्य तथोक्तः रोम्णां तनुरुहाणां आळिरेव रोमालिका सैवालङ्कारस्तेनसहितश्च मध्यदेशः तदाख्योदेशः अवलमभागश्च अस्ति । प्रकटितः विशदीकृतः कामकोट्याः कामाक्षीदेव्याः अनगोत्कर्षस्यच विलासः यस्मिंस्तथोक्तः काञ्च प्रदेशः काञ्चीपुरी श्रोणीच अस्ति । अत्रश्लेषालङ्कारः ॥ 27. यस्याइति ॥ यस्याः भूमेः अंगे अंगाख्यदेशेएव रंगे नर्तनस्थले निरु- पमानवायौ सति । कृष्णा पिप्पली अगम्चन्दनौ वृक्षविशेषौ तेषां आमोदः परिमळ: बहूनां लकुचानां जंबीराणां आभोगोविस्तारः तौ भूषणंयस्यास्तथोक्ता। रमणीयतया (युक्ता) वनश्रीः नृत्यतीव वाततलितत्वभेवनर्तनत्वेनोत्प्रेक्षितं । पक्षे । यस्या .. ..

प्रथम उच्छासः। २९ किं चान्यत् । 48. अन्य एव नवावतारः स कोऽपि पुरुषोत्तमो योनमीनरूपदूषितः, नाङ्गीकृतविश्वंभराभारोऽपि कूर्मीकृतात्मा, न वराहवपुषा क्लेशेन पृथ्वी बभार, न च नरसिंहः समुत्सन्नहिरण्यकाशपुः, न बलिराजबन्धनविधौ वामनोदैन्यमकरोत् , नापि रामोलकेश्वरश्रियमपाहरत् , नापि बुद्धः कल्किकुलावतारी ॥ प्रियायाः कालागरुचन्दनयोरामोदेन व्याप्तस्तनविस्तारमण्डना निरुपमा नवा यौव- नश्रीः रमणीयतया अंगेशरीरेएवरंगे नृत्यतीव ॥ अत्रश्लेषोत्प्रेअलंकारौ । 23. किञ्चेति । सः नल: कोपि अपरिच्छेद्यमहिमा नवः पूर्वविलक्षणः अव. तारः जन्म यस्य तथोक्तः । अन्यः सर्वनृपेभ्यः अन्यः असाधारणएव पुरुषोत्तमः पुरुषश्रेष्ठः यः नलः । अमः रोग: तद्वान् अमी न अमी अनमी नीरोगः यद्वा नमयति शत्रूनवश्यमिति नमी । तथा न रूो दूषितः । यद्वा मीनेनरूप्यतेलक्ष्यतइति मीनरूपः मीनकेतनः तेन दूषितोन । तथा स्वीकृतसमस्तधराधुरोपि कर्मिभंगुरः यद्वा कुत्सिता ऊर्मि: पीडा यस्यसः कर्मिः । ऊर्मि: पीडाजवोत्कण्ठाभंगप्राकाश्यवर्वाचिषु' इति । अकूर्मिः कर्मिः संपद्यमानोभूतः कूर्मीभूतः आत्मादेहः यस्यतथोक्तः। न । अंगीकृतभा- रोहिपीडावान्भवति नतथायमितिविरोधाभासः। तथा वरं आहवं युद्धं पुष्णता क्लेशेन पृथ्वी न बभार अपितुसुखेनेत्यर्थः । नरेषु सिंहः शौर्यात् समुत्सन्नं नाशितं हिरण्यं धनं कशिपु भोजनाच्छादनादि यस्मात्तथोक्तोन । तथा वलिनां राज्ञां बन्धनस्य विधौवा विधानेवा मनोदैन्यञ्च नाकरोत् । तथा रामः सुन्दरः अलं अत्यर्थ कस्य ब्रह्मणः ईश्वरस्यशिवस्यच श्रियंनापाहरत् देवखापहारीनेत्यर्थः । बुद्धः विद्वान् नापि कल्किनां पापिनां कुलोत्पन्नः । अन्यएव पुराणपुरुषाद्दशावताराद्विसदृशएव । नवा- वतारः नवसंख्यावतारः । कोप्ययं पुरुषोत्तमोविष्णुरित्युक्तिलेशः । तत्पक्षे मीन-. कूर्मवराहनरसिंहवामनरामवुद्धकल्किनोऽवताराः । हिरण्यकशिपुबलिलंकेश्वरास्तत्- प्रतिपक्षाः । रामः परशुरामोपि । तदा ' अनुंदराकन्या' इतिवत् नत्रः अल्पार्थक- त्वमंगीकृत्य न (अल्पः ) लंकेश्वरः यस्यसः अलंकेश्वरः कार्तवीर्यार्जुनः । अर्जुनेनदि- जितोरावणः कारायांनिवेशित इति अर्जुनापेक्षयारावणस्याल्पत्वमितिभावः । तस्य- श्रियमपहृतवान् । रामः. कृष्णोपि । तदा अलं अत्यर्थं कस्यजलस्य यमुनाहृदस्य ईश्वरः कालीयसर्पस्तस्यश्रियमपहृतवान् ॥ अत्रश्लेषविरोधाभासावलंकारौ ॥

३० दमयन्तीकथायाम् किं बहुना। धन्यास्ते दिवसाः स येषु समभूभूपालचूडामणि- लोकालोकगिरीन्द्रमुद्रितमहीविश्रान्तकीर्तिनलः । लोकास्तेऽपि चिरंतनाः सुकृतिनस्तद्वक्रपङ्केरुहे यविस्फारितनेनपत्रपुटकैर्लावण्यमास्वादितम् ॥ ३४ ॥ अपिच। कुन्दद्युतयः समस्तभुवनैः कर्णावतंसीकृता यैः सर्वत्र शलाकयेव लिखितैर्दिग्भित्तयश्चित्रिताः । यैर्वक्तुं हृदि कल्पितैरपि वयं हर्षण रोमाञ्चिता- स्तेषां पार्थिव पुंगवः स महतामेको गुणानां निधिः। ३५॥ 29. यस्य च युधिष्ठिरस्येव न कचिदपार्थो वचनक्रमः, मरुमण्डलमि- ये ३४. धन्या इति । लोकालोकः चक्रवाल इति गिरीन्द्रस्तेन मुद्रितायां चि- हितायां मह्यां भुवि विश्रान्ता व्यापृता कीर्तिर्यस्यतथोक्तः भूपालानां राज्ञां चूडामणि- शिरोरत्नं सः नल: येषु दिवसेषु समभूत्सञ्जातः स्थितवांश्च ते दिवसाः धन्याः धनंलब्धारः पुण्यवन्त इत्यर्थः । तस्य नलस्य वक्त्रपङ्केरुहे मुखाब्जे स्थितं लावण्यं कान्तिविशेषः 'मुक्ताफलेषुच्छायायास्तरळत्वमिवान्तरा । प्रतिभातियदंगेषु तल्ला- वण्यं प्रकीर्तितम्' इति । विस्फारिते विस्तारिते नेत्रे नयने पत्रपुटको पर्णरचित- संपुटकाविव येषान्तथोक्तैः थैलॊकैः आस्वादितं लीदं दृष्टमित्यर्थः ते लोकाः जना अपि चिरंभवाः चिरन्तना: ‘सायञ्चिरं' इत्यादिना टचलतुट्च । सुकृतिनः पुण्य. वन्तः । अत्र काव्यलिंगमुपमाचालङ्कारौं । वृत्तंशार्दूलविक्रीडितम् ॥ ३५. य इति । कुन्दद्युतयः माध्यपुष्पसमानकान्तयः ये गुणाः समस्तैर्भुवनै- कैः कर्णावतंसीकृताः श्रवणाभरणीकृताः । सर्वत्र शलाकया कूकिया लिखितै. रिवस्थितैः चैर्गुणै: दिग्भित्तयः दिशएवकुड्यानि दिगन्ता इत्यर्थः चित्रिताः राजात- चित्रा इवकृताः । वक्तुं वर्णयितुं हृदिमनसि कल्पितैः कृतः स्मृतरित्यर्थः थैर्गुणैः वयमपि हर्षेण मुदा रोमाञ्चिताः सजातपुलकाः कृताः । तेषां महतां गुणानां कवि- समयसिद्धशक्लरूपान्वितानां शौर्योदार्गदीनां पार्थिवपुङ्गवः नृपश्रेष्टः सः नल: एक एव निधि: आस्पदं । अत्रोपमोत्प्रेक्षे अलङ्कारौ । वृत्तं पूर्ववत् ॥ 29. यस्येति ॥ अपार्थः । अर्थादपेतः पृथायाः अपत्यपुमान् पार्थः अर्जुनः तद्रहितश्च । मरुमण्डलं निर्जलभूमिः । अपापं । निष्पापं अपांसमूहः आपं आपादपेतञ्च । मानसं । मनः । महानसं । महच्चतत् अनश्च महानसं पाकशाला 'प्रथम उच्छासः। वापापं मानसम् , महानसमिव सूपकारसारं कर्म, कार्मुकमिव सत्को- टिगुणं दानम् , दानवकुलमिव दृष्टवृषपर्वोत्सवं राज्यम् , राजीवमिव भ्रमरहितं सर्वदा हृदयम् ॥ 30. यश्च परमहेलाभिरतोऽप्यपारदारिकः । शान्तनुतनयोऽपि न कुरू- पयुक्तः ॥ किं बहुना । सदाहंसाकुलं बिभ्रन्मानसं प्रचलजलम् । भूभृन्नाथोऽपि नो याति यस्य साम्यं हिमाचलः ॥ ३६ ।। 'अनोइमायः' इत्यादिनासमासान्तः अच्प्रत्ययः । सूपेति । सुलु उपकारेण सारं वरं । सूपकारैः सूदैः सारञ्च । कार्मुकं । कर्मणेप्रभवति कार्मुकं शरासनं 'कर्म- णउकञ्' इत्युकञ् । सदिति । सत्सु सत्पात्रेषु (प्रतिपादनाद्धेतोः) कोटिः कोटि- संख्याः गुणाः गणितानि यस्यतथोक्तं सन् विद्यमानः शोभनश्च कोटौ अग्रे गुण: ज्या यस्यतथोक्तञ्च । दानवकुलं । असुरगृहं । दृऐति । दृष्टाः वृषः धर्मः पर्व पौर्णमास्यादिः तत्कालकर्तव्यंकर्मत्यर्थः । रत्सवः पुत्रजन्मविवाहादिश्च यस्मिंस्त- थोक्तं पक्षे दृष्टः वृषपर्वण: तदाख्यस्यासुरपतेः उत्सवः यस्मिंस्तथोक्तं । राजीवं। पद्मं । भ्रमेति । भ्रमेण संशयेन रहितंहीनं भ्रमरेभ्यः मँगेभ्यः हितं अनुकलञ्च । अत्रश्लिष्टोपमा ॥ 30. यश्चेति । यः नलः । परेति । परमायामुत्कृष्टायां हेलायां शृंगारचे- टायां यद्वा परउत्कृष्टः महः उत्सवः यस्यांसा परमहा या इला भूः तस्यां अभिरतः आसक्तः । अपिविरोधे । तदा परस्य. इतरस्य महेलायां भार्यायां अभिरतः । अपारदारिकः । न परदारान्गच्छति 'गच्छतोपरदारादिभ्यः' इतिठक् ॥ शान्तति । शान्तः जितेन्द्रियः । नुतः स्तुतः नयः नीतिर्यस्यसः नुतनयश्च विरोधे शान्तनोः तदाख्यराजस्य तनयः पुत्रः भीष्मः । कुर्विति । कुत्सितेन रूपेण युक्तः न । विरोधे कुरूणां कुरुवंशनृपाणान्दुर्योधनादीनां उपयुक्तः उपयोगी न । अत्र विरोधाभासोलंकारः॥ ३६. सदेति। हिमाचल: भूभृतां गिरीणां राज्ञाञ्च नाथोपि सदाहं सखेदंसाकुलं (आकुलशब्दः भावप्रधान: आकुलत्वार्थक) व्याकुलतायुक्तं प्रचलत् कम्पमानं जलं (लड़योरभेदात् ) जडं मानसं चित्तं बिभ्रत् धारयन् सन् (सिद्धान्ते सदा हंसा- कुलं प्रचलत् चञ्चलं जलं यस्मिन् तथोक्तं मानसं तदाख्यं सरः बिभ्रत्) यस्य (निर्दाहं निराकुलं अप्रचलत् अजडं चित्तं बिभ्रतः) नलस्य साम्यं नो याति। अत्र श्ले- षव्यतिरेकावलकारौ । व्यतिरेकलक्षणन्तु 'व्यतिरेकोविशेषश्चेदुपमानोपमेययोः' इति॥ .

दमयन्तीकथायाम् अपि च । आकरः नक्षत्रभूः क्षत्रकुलप्रसूतेर्युक्तो नभोगैः खलु भोगभाजः । सुजातरूपोऽपि न याति यस्य समानतां कांचन काञ्चनाद्रिः॥३७॥ 81. तस्य च महामहीपतेरस्ति स्म प्रशस्तिस्तम्भः सकलश्रुतिशास्त्रशा- सनाक्षरमालिकानाम् , न्यग्रोधपादपः पुण्यकर्मप्ररोहाणाम् , साधुव्यवहाररत्नानाम् , इन्दुः पार्थिवनीतिज्योत्स्नायाः, कन्दः सकल- कलाङ्कुर कलापस्य, सागरः समस्तपुरुषगुणमणीनाम्, आलानस्तम्भश्च- पलराज्यलक्ष्मीकरणुकायाः, सकलभुवनव्यापारपारावारनौकर्णधारः, सु. धाम्भोनिधिडिण्डीरपिण्डपाण्डुरयशःकुशेशयखण्डमण्डितसकलसंसारस राः, सरागीकृतसमस्तपार्थिवानुजीवी, जीवितसमः, प्राणसमः, हृदय- सम:, शरीरमात्रभिन्नो द्वितीय इवात्मा, कुलक्रमागतः, संक्रान्तिदर्पणः सुखदुःखयोः, स्वभावानुरक्त', शुचिः, सत्यपूतवाक् , कृतज्ञः, ब्राह्मणः सालङ्कायनस्य सूनुः श्रुतशीलो नाम महामन्त्री ॥ . ३७. नक्षत्रेति । काठअनाद्रिः महामेरु मुटु जातरूपं सुवर्ण यस्मिंस्तथो- तोपि नलपक्षे मुटु जातं जननं रूपं सौन्दर्यञ्च यस्य तथोक्तः । न क्षत्रात् क्षत्रिय- कुलात् भवतीति नक्षत्रभूः (सिद्धान्ते नक्षत्राणां भू: स्थानं ) न भोगः मुखैः युक्तः (सिद्धान्ते नभसि गच्छन्तीति नभोगाः देवाः तयुक्तः) सन् क्षत्रकुलान् प्रसूतिः उत्पत्तिर्यस्य तथोक्तस्य भोगभाजः सुखभाजः यस्य नलरय काञ्चन काञ्चिदपि समा- नतां साम्यं नयाति खलु नगच्छत्येव अत्र आद्यद्वितीयतुर्यपादेषु व्यवहिताव्यव- हितम्मिश्रं मध्यभागयमकं शब्दालङ्कारः । पूर्ववदालङ्कारः । पूर्वत्र उपमेयाधिवयं गम्यं अतुवाचिकं । वृतमुन्द्रिवज्रा 'उपेन्द्रव वाजतजास्ततोगी' इति लक्षणात् ॥ 31. तस्येति । तस्य महतः महीपतेः ब्राह्मण: सालंबायनान्यस्य सूनुः श्रुतशीलोनाम महान्मन्त्री आस्तिस्म आसीत् तं विशिनष्टि । प्रशस्तीत्यादिना । सकलश्रुतिशास्त्राण्येव शासनाक्षराणि लेट्याक्षराणि 'शासनंनिग्रहलेल्य वेदवाक्येषु कमणि । वाइनियोगप्रहरणे शास्त्रेग्रामेचनिष्करें' इति यादवः । तेषां मालिकानां पट्टीनां प्रशस्तिः प्रशंसा तळ्यापक: स्तम्भः । (दानादिशासनाक्षराणे स्तंभे विलिख्य प्रशंसायस्तंभाः निखन्यते इति संप्रदायः) पुण्यानि कर्मण्येव प्ररोहाः अंकु- रास्तेषां न्यग्रोधपादपः वटवृक्षः । साधव्यवहाराणां सदाचाराणामेव रत्नानां मणीनां आकरः सनिः । पार्थिवनीतेः राजनीतरेव ज्योत्स्नायाः कौमुद्याः इन्दुः चन्द्रः । ..

प्रथम उच्छासः । ३३ मित्रं च मन्ली च सुहृत्प्रियश्च विद्यावयःशीलगुणैः समानः । बभूव भूपस्य स तस्य विप्रो विश्वंभराभारसहः सहायः ॥ ३८ ॥ अपि च । ब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयुक्तोऽपि प्रायशो विप्रयुक्तः । सद्वेषोऽपि द्वेषनिर्मुक्तचेताः को वा तादृग्दृश्यते श्रूयते वा ॥ ३९॥ सकलाः कलाः विद्याः एव अंकुराः प्ररोहास्तेषां कलापस्य समूहस्य कन्दः मूलं । समस्तानां पुरुषगुणानामेव मणीनां सागरः । चपलाया: चञ्चलायाः राज्यलक्ष्म्याः एव करेणुकायाः इभ्याः आलानस्तंभः गजबन्धनस्तंभः । सकलभुवनव्यापारएव पारावारनौः सागरस्थितः प्लवः तस्याः कर्णधार: नाविकः । सुधांभोनिधे: अमृतसा- गरस्य डिण्डीरपिण्डवत्पाण्डुराणि शुभ्राणि यशांसि कुशेशयानि तामरसानीव तेषां खण्डैः मण्डितः भूषितः सकल: संसारः प्रपञ्चः सरः तटाकमिव यस्यतथोक्तः (अत्रोपमा) पूर्वेषुविशेषणेषु अश्लिष्टपरंपरितरूपकं । रागः प्रीतिः तेनसहिताः कृताः सरागीकृताः समस्तपार्थिवास्तान् अनुजीवतिताच्छील्येन यद्वा ते अनुजीवि- नोयस्यतथोक्तः । (तस्यनलस्य) जीवितसमः जीवतुल्यः । (तस्य)प्राणैः असुभिः सम.। (नस्य ) हृदयेन मनसा समः । (तस्य ) शरीरमात्रेण भिन्नः अतएव द्वितीयः यद्वा अद्वितीय : एक: आत्मा अन्तरात्मेव । (तस्थ) कुलक्रमादागत: '(तस्य ) सुखदुः खयोः संक्रान्तौ संक्रमणे दर्पण: आदर्शः । स्वभावानुरक्तः । निष्कारण. प्रीतिमान् । शुचिः शुद्धः । सत्येन पूता पवित्रा वाक् यस्यतथोक्तः । कृतज्ञः उप-. कारवेदी। ३६. मित्रमिति । सः विप्रः द्विजः श्रुतशील: तस्य भूपस्य मित्रं स्निग्धः । मन्त्री सचिवः शोभनं हृत् मनः यस्यसः सुहृत् सुष्टुहृदयं यस्यसः सुहृदितिविगृ. ममाण ‘सुहृदुईदौमित्रामित्रयोः' इतिनिपातनात् मित्रमितिव्यत्य॑स्यात् । प्रीणाती- तिप्रियः प्रीतिमान् विद्यया पयसा शीलेन आचारेण गुणेन दयादाक्षिण्यादिनाच समानः सदृशः । सहत इति.सह विश्वंभरायाः भूवः भारे भरणे सहः क्षमः सहायः अनुचरश्च बभूव । अत्र पूर्वार्ये इन्द्रवज्रावृत्तं ' स्यादिन्द्रवज्राततजास्ततोगौ ' इति. लक्षणात् उत्तरार्धेतु उपेन्द्रवज्रा लक्षणमुक्तंप्राक् ॥ ३९. ब्रह्मण्य इति । ब्रह्मणे ब्राह्मणांय हितोपि ब्रह्मण: वित्तं धनं ताच्छी- ल्येनापहरतीति तथोक्तः (इति विरोधः) ब्रह्म वेत्तीति ब्रह्मवित् तापहारीच (इति परिहारः) एवमुत्तरत्रापि स्त्रीभिर्युक्तोपि प्रायशः बाहुल्येन ‘बह्वल्पार्थात्' इति शस् । विप्रयुक्तः स्त्रीविरहितः विप्रैर्युक्तश्च । सत्सु साधु ए द्वेषः यस्य तथोक्तापि सिद्धान्ते सन् समीचीनः वषेः प्रसाधनं यस्य तथोक्तः । द्वेषेण निर्मुक्त रहितं चेतः मन, ३४ दमयन्तीकथायाम् 82. अथ स पार्थिवस्तमिन्नमात्ये परिजनपरिवृढे प्रौढप्रेमणि निगू- ढमन्त्रे मन्त्रिाण तृणीकृतस्त्रैणविषयरसे सौराज्यरागजनने जननीयमाने जनरय, सर्वोपधाशुद्धबुद्धौ निधाय राज्यप्राज्यचिन्ताभारमभिनवयौ- वनारम्भरमणीये रम्यरमणीजननयनहृदयप्रिये प्रियंगुभासि जितमदन- गहस्यपहसितसुरापुरसौभाग्ययशसि विस्मापितसमस्तजनमनसि लसल्ला- वण्यपुञ्जपराजितसकलसमुद्राम्भसि कान्तिकटाक्षितचन्द्रमसि वयसि वर्तमानो मानितमानिनीजनयौवनसर्वस्वः खयमनवरतं सकलसंसार- सुखसंदोहमन्वभूत् ॥ यस्य तथोक्तः । स इव दृश्यते इति तादृक् नृपतुल्यः मन्त्रितुल्योवा कोवापुरुषः दृश्यते श्रूयतेवा । विरोधाभासालङ्कारः । पादत्रये व्यवहितम्मिश्रमादिमध्यभाग- यमकं शब्दालङ्कारश्च । शालिनीवृतम् 'शालिन्युक्ताम्तौतगौगोब्धिलोकैः' इति लक्षणात् ॥ 32. अथेति । सः पार्थिवः नल: अमाये अमा सह भवे वर्तमाने परि- जनानां परिवृढे श्रेष्टे 'प्रभौ परिवृढः' इति निपातः । प्रौढं वृद्धं प्रेम प्रीतिर्यस्य तथोक्ते । निगूढः संवृतः मन्त्रः गुह्यवादः येन तथोक्ते । अतृणं तृणं सम्पद्यमानः कृतः तृणीकृतः स्त्रीणामयं स्त्रैणः यः विषयः शब्दादिः सएव रसः स्वादः येन. तथोक्ते । सुराज्ञः भावः सौराज्यं तस्मिन् राग: (जनानां) प्रीति: तस्य जननं यस्मात् तथोक्ते । अतएव जनस्य जननी मातेवाचरन् जननीयमानस्तस्मिन् 'कर्तुः क्यङ्' इत्यादिना क्यङ् तदन्ताच्छानच् । सर्वाः याः उपधाः धर्मार्थकामभयैः परीक्षणानि ‘उपधाधर्माद्यैर्यत्परीक्षणं ' इत्यमरः । ताभिः शुद्धा बुद्धिर्यस्यतथोक्ते । तस्मिन्मन्त्रिणि श्रुतशीले । राज्यस्य प्राज्या अधिका या चिन्ता सैव भारस्तं निधाय निक्षिप्य । अभिनवस्य नूतनस्य यौवनस्य तारुण्यस्य आरम्भेण रमणीये रम्ये रम्याणां रमणीजनानां स्त्रीजनानां नयनयोः हृदयस्यच प्रिये प्रियंगोः फलिन्याः भाइवभाः कान्तिर्यस्मिन् तथोक्ते । जितं मदनस्य कामस्य महस्तेजः यस्मिंस्तथोक्ते। अपहिसतं अवमतं सुरासुराणां सौभाग्यस्य सौन्दर्यस्य यशः यस्मिंस्तथोक्ते । वि- स्मापितानि साश्चर्याणिकारितानि समस्तजनानां मनांसि येनतथोक्त । लसतः चञ्च- लस्य प्रकाशमानस्यवा लावण्यस्य कान्तिविशेषस्य पुजेन समूहेन पराजितं परिभूतं सकलसमुद्राणां अंभः जलं यस्मिं स्तथोक्ते । कान्त्याश्रिया कटाक्षः अपाझेन दर्शनं तद्वान् कृतः कटाक्षितः विलोकितः तुल्य इति यावत् (अत एव प्रतीपालंकारः प्रतीपमुपमान स्योपमेयत्वप्रकल्पनम् ' इति) चन्द्रमाः यस्मिं स्तथोक्ते । वयसि वर्त.

प्रथम उच्छ्वासः । ३५ 98. कदाचिदनुत्पन्नविषमरणभयो गरुड इवाहितापकारी हरिवाहन- विलासमकरोत् ॥ 84. कदाचिच्चन्द्रमौलिरिव मदनबाणासनातिमुक्तशरसंछादितायां पर्वत- भुवि विजहार ॥ 85. कदाचिदच्युत इव शिशिरकमलाकरावगाहनोत्पन्नपुलककोराकत- तनुरनन्त गोगभाक्सुखमन्वतिष्ठत् ॥ 86. कदाचिन्नलिनयोनिरिव राजसभावस्थितः प्रजाव्यापारमचिन्तयत् ॥ 87. कदाचिन्मयूर इव कान्तोन्नमत्ययोधरमण्डलीविलासेन हर्षमभजत् ।। मानः मानितं संभावितं मानिनीजनानां मानंयुक्तस्त्रीजनानां यौवनमेव सर्वखं धनं येनतथोक्तस्सन् । स्वयं अनवरतं सदा सकलं समस्तं संसारसुखानां प्रपञ्चविषय- सौख्यानां सन्दोहं पुझं । अन्वभूत् । अनुभवति स्म ॥ 33. कदाचिदिति । (सः नल: ) गरुडः वैनतेयइव अनुत्पन्नं अजातं विषमात् विरुद्धात् रणायुद्धात् भयं विषात् मरणभयञ्च यस्यतथोक्तः । अहितानां शत्रूणां अपकारी अहीनां सर्माणां तापकारीचसन् हरिः अश्वः तस्य वाहनं बाह्या- लीप्रवहणं हरविष्णोः वाहनं यानञ्च तस्य विलासं लीलां । अकरोत् अत्रश्लिष्टोपमा अहेः वृत्रस्य तापकारी हरिवाहनस्य इन्द्रस्येतिध्वन्यते ॥ 34. कदाचिदिाते । चन्द्रमौलि: शिव इव । मदनः मरुवक: बाणः नील- झिण्टी असन: बन्धूकः आतिमुक्तः पुण्ट्रकः शरः तेजनकः एतैवृक्षः मदनस्य काम- स्य बाणासनाचापात् अत्यन्तं मुक्तैः शरैः बाणैश्च संछादितायां स्थगितायां । पर्वत. भूवि गिरिप्रदेशे पार्वलाञ्च विजहार विहृतवान् । पूर्ववदलंकारः एव मुत्तरत्रापि ॥ 35. कदाचिदिति । अच्युतः विष्णुरिव । शिशिरे शीतले कमलाकरे प. द्मसरसि अवगाहनं स्नानं शिशिरेण कमलायाः श्रियाः करेण पाणिना अवगाहनं ग्रहणश्च तेन उत्पनैः जातः पुलकैः रोमाञ्चैः कोरकिता मुकुलिता तनुः शरीरं यस्य- तथोक्तः । अनन्त अपरिमितं भोगं मुखं अनन्तस्य आदिशेषस्य भोग शरीरश्च भजतीति तथोक्तश्चन् सुखं अन्वतिष्ठत् अनुबभूव यद्वा सुखं यथा तथा अवर्तत ।। 36. कदाचिदिति । नलिनयोनिः धातेव । राज्ञः सभायां अवस्थितः ति- टन् रजसा रजोगुणेन निवृत्ते राजसे भावे वृत्तौ आस्थितः वर्तमानश्च । प्रजानां व्यापार व्यवहारं निर्माणश्च । अचिन्तयत् ।। 37. कदाचिदिति । मयूरः केकीव । कान्तायाः अंगनायाः उन्नमतोः उ- नतयोः पयेोधयोः स्तनयोः मण्डल्यां देशे विलासेन उपभोगेन कान्तायाः कमनी- ..

३६ दमयन्तीकथाथाम् 88. कदाचिन्नक्षत्रराशिरिवाश्चिन्या सेनया समन्वितो मृगानुसारी.बहुश- प्पवनमार्ग बभ्राम ॥ 89. कदाचिदाञ्जनेय इवाझविनोदमन्वतिष्ठत् ॥ 40. कदाचिद्वानरेश्वर इव मुग्रीवो वैदेहीति ब्रुवाणस्याल चुकाकुस्थस्या- र्थिनः प्रार्थना क्रियतां सफलाते वानरपुंगवानादिदेश ॥ 41, कदाचिन्मकरकेतन इव सुमनसो मार्गणान्विधाय स्वगुणं कर्ण- पूरीचकार ॥ यायाः उन्नमतां पयोधराणां मेघानां मण्डल्याः समूहस्य विलासेन स्फुरणेनच । हर्षे अभजत् जहर्ष ॥ 38. कदाचिदिति । नक्षत्राणां ताराणां राशि: संघ इव आश्विन्या अश्व- वत्या सेनया सैन्येन सेनया इनेन रविणा साहतया आश्वन्या आश्वनीनक्षत्रेणच समन्वितः युक्तः मृगन् श्वापदान् मृगं मृगशीर्षनक्षत्रच्च अनुगन्तु शीलवांश्चसन् । बहूनि शष्पाणि वालतृणानि यस्मिंस्तथोक्तं वनमार्ग पक्षे बहुश: पवनमार्गः द्यौः तञ्च (प्राप्य ) बभ्राम अवमन् बहुश: पवनेत्यत्र पकारात् प्राक् विसर्ग: उपध्मा- नायोवा शष्पत्यत्रतु षकार एव । तदेवं रूपभेदोष श्रुतिसाम्यानदोष इति कवि: समयः ।। 39. कदाचिदिति । आञ्जनेयः हनुमानिव अक्षः पाशकैः विनोदं कीडां अक्षस्य रावणकुमारस्य विनोदं वधच अन्वतिष्ठत् अकरोत् ।। 40. कदाचिदिति । वानरेश्वरः सूर्यतनग्न इव । सुग्रीवः शोभना ग्रीवा कण्ठः यस्यतथोक्तः तदाख्यश्च । वै स्फुटार्थे (मह्यं ) देहि प्रयच्छ इति वैदेहि सी- ते इति च ब्रुवाणस्य वदतः आ समन्तात् लन्यां काको ( याच्नावशात् ) भित्रक- ण्ठध्वनी तिष्ठतः अन्यत्र अल घोः गुरोः काकुत्स्थस्य रामस्य अर्थिन: याचकस्य रामविशेषणत्वे सप्रयोजनस्येत्यर्थः प्रार्थना सकला क्रियतां इति वा इत्येव 'वास्याद्विकल्पोपमयोरेवार्थच समुच्चये' इत्यमरः । नरपुंगवान् नरश्रेष्टान् अन्यत्र वानरपुंगवान् हरिश्रेष्टान् आदिदेश आदिष्टवान् ।। 41. कदाचिदिति । मकरकेतनः मन्मथ इव । मार्गणान् याचकान् सु. मनसः प्रार्थितार्थदानेन सौमनस्ययुक्तान् पक्षे सुमनसः पुष्पाणि । मार्गणान् बा- णान् विधाय कृत्वा । स्वस्य गुणं त्यागगुण ज्याच्च । कर्णौ (जगतः) श्रोत्रे पूर्येते अनेनेति कर्णपूरः पक्षे कर्य स्वस्य कर्णसमीपदेशं पूरयति कर्षणेन व्याप्नोतीति कर्णपूरः अकगपूरं कर्णपूरं सम्पद्यमानञ्चकार कर्णपूरीचकार ॥ ..

" प्रथम उच्छ्वासः । 42. कदाचिदम्भोनिधिरिवोच्चैःस्तननाभिरम्याः कृतानिमेषनयनविभ्रमाः, सकंदर्पाः, सिषेवे वेलाविलासिनीः ।। 48. कदाचिद्दशरथ इवायोध्यायां पुरि स्थितः सुमित्रोपेतो रममाण रामभरतप्रेक्षणेन क्षणमाह्वाइमन्वभूत् ॥ 41. एवमस्य सकलजीवलोकमुखसंतानमनुभवतो यान्ति दिनानि ॥ 45. अथ कदाचिदुन्नमत्पयोधरान्तरसतद्धारावलीविराजिताः, कमलद- लकान्तनयनाः, सुरचापचक्रवकभुवः, विद्युन्मणिमेखलालंकारधारिण्यः, शिक्षानामुक्तकलहंसकाः, प्रौढकरेणुसंचारहारिण्यः, कम्रकंधराः, तिर- स्कृतशशाङ्ककान्तिकलापोच्चमुखमण्डलाः, सकलजगज्जेगय्यिमानगुणमि- ममनुपमरूपलावण्यराशिराजितं राजानमवलोकायितुमिवावतरान्ति स्म वर्षाः ॥ .. 42. पदाचिदिति । अम्भोनिधिः समुद्र इव । उच्चैः उन्नताभ्यां स्तनाभ्यां नाभ्याच रम्याः उच्चैः स्तननेन शब्देन अभिरम्याश्च । कृन: आनिमेषयोः निमेष- रहितयोः नयनयों नेत्रायोः विनमः लीला याभिस्तथोक्ताः कृतं अनिमेषाणां मी- नानां नयनं प्रापणं याभिस्तथोक्ताच । सकन्दर्याः सकामाः कञ्जलं तस्य दर्पण मो. क्षणेन सहिताश्च । (पेचिनार्थत्वात् ) बेलायां वारके दिलसन्ति भोगायोपतिष्ट. न्त इत्येवंशीलाः वारस्त्री: पक्षे विजयन्ति प्रकाशन्ते अभीक्ष्णमिति विलासिन्य: ताः वेला: अभाबुद्धीः कलानिया सिमेवे रोवितवान् ॥ 43. कदाचिदिति । दशरथ इव अयोध्यायां न योद्धुं शक्या तदाख्याच तस्यां । पुरि नगरे स्थितः । सुमित्रैः सुभित्रयाच उपेतः । रममाणा: विलसन्यः रामाः स्त्रियः यत्र तथाभूतेन भरतप्रेक्षणेन भरताभिनयेन रममाणयोः क्रीडताः रामभरतयोः प्रेक्षणेन दर्शनेनच । क्षणं मुहूर्त । 'कालाध्वनोः' इति द्वितीया । आ- हादं मुदं अन्वभूत् ॥ 44. एवमिति । जीवलोकाः । प्राणिनः । सन्तानं । समूहं । यान्ति गच्छन्ति ।। 45. अथेति । अथ कदाचिन् सकल जगद्भिः पुनः पुन: गीयमानः जेगीय्य- मानः गुणः यस्य तथोक्तं । अनुपमं असदृशं यत् रूपयति विमोहयतीति रूपं श- रीरं तस्यलावण्यस्य कान्तिविशेषस्य राशिभिः पुनः राजितं शोभितं । इमं राशन नलं अवलोकयितुं द्रष्टुमिव अत्रोत्प्रेक्षा वर्षाः वर्षे वर्षणमत्रास्तीति वर्षाः प्रावृट व. गाशब्दगतस्त्रीत्वबोधिताः स्त्रियश्च । वर्षाशब्दः प्रावृडथै स्त्रीलिङ्गः निर बनना.

६८ दमयन्तीकथायाम् यत्र च। आकर्ण्य स्मरयौवराज्यपटहं जीमूतनूनध्वनि नृत्यत्केकिकुटुम्बकस्य दधतं मन्द्रां मृदङ्गक्रियाम् । उन्मीलन्नवनीलकन्दलदलव्याजेन रोमाञ्चिता हर्षेणेव समुच्छ्रितान् वसुमती दधे शिलन्ध्रिध्वजान् ॥ ४०॥ .. न्तश्च । अवतरन्तिस्म अवतीर्णाः आविर्भूताः उभयीवर्षाः विशिनष्टि । उन्नमदि- त्यादिना । उन्नमतां पयोधराणां मेघानां पयोधरयोः स्तनयोश्च अन्तरान्मध्यात् अन्तरेच पतन्तीभिः धाराणां वर्षधाराणां हाराणां मुक्तासराणाञ्च आवलीभिः यद्वा स्त्रीपक्षे अन्तः मध्ये अपतन्तीभि हारावलभिश्च विराजिताः यद्वा उन्नमत्पयोधरा- न्तरपतद्धाराः वलीभिरुदरलेखाभिः विराजिताश्चस्त्रियः । कमलदलानां कान्तमिष्टं नयनं अतिवाहनं यासान्तथोक्ताः । वर्षातिवाहनेहि कमलानामुल्लासः । पक्षे कम- लदलवत्कमनीयनेत्राः । सुरस्य इन्द्रस्य चापचक्रं धनुर्मण्डलमेव वक्रे कुटिले भ्रुवौ- थासां पक्षे इन्द्रचापबद्वकध्रुवः । विद्युत् तडिदेव मणिमेखला रत्नरशना तां अलं अलर्थ कस्य जलस्य अरं वेगञ्च धारयन्तीति तथोक्ताः पक्षे विद्योतमानमनिकाञ्ची- भूपणधारिण्यः । शिजाना: गर्जन्यः भुक्ताः त्यक्ताः कलहंसाः याभिस्ताः (तदा हसानाम्मानसेगमनात् ) पक्षे शिजोन शब्दायमाने आमुक्ते बद्धे इसके चरणाभरणे चासान्तथोक्ताः । प्रकर्षण ऊढं कं जलं तेन रेणूनां रजसां सञ्चारं हरन्तीत्येवंशीला: पक्षे प्रौढेन प्रगल्भेन करेण्याः इभ्या इव सञ्चारेण हारिण्यः रम्याः । धरन्तीति धराः कंजलंतस्य धराः कन्धरा मेघाः कम्राः रम्याः कन्धरा: मेघाः यासु कम्रा क- न्धरा कण्ठः यासाञ्च । तिरस्कृता आच्छादिता शशांकस्य चन्द्रस्य कान्तिीसुता: कंजलं लपति कलापं जलवृद्धिक्षयभाषणतत्परं उच्चं मेघालोकनाय उन्नमितं मु. खं येवान्तथोक्ताः मण्डला: (लक्षणया) देशजनाः यासुतथोक्ताश्च । पक्षे तिरस्कृ- ताः अभिभूताः शशांकस्य कान्तिकलापाः शोभासमूहाः येनतथोक्तं उच्चं उत्कृष्टं मुखमण्डलं आननबिंबं यासां तथोक्ताः । अत्र समासोक्त्यलंकारः ‘समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् ' इति लक्षणात् ॥ ४०. आकण्येति । युवाचासौ राजाच युवराजस्तस्यकर्मभावोवा यौवराज्य स्मरस्य कामस्य यौवराज्यस्य पटहं आनकं नृत्यतां ककिनां मयूराणां कुटुंबकस्य पुत्रादिसन्तानस्य मन्द्रो गम्भीरां मृदङ्गस्य मुरजस्य क्रियां वादनकर्म दधतं धार- यन्तं जीमूतस्य मेघस्य कस्यचिनायकस्येतिध्वन्यते नूनं नवं ध्वनि आकर्ण्य श्रुत्वा हर्येण सन्तोषेणेव उन्मीलतां उत्पद्यमानानां नवानां नूतनानां नीलानां श्यामानां कन्दलदलानां कदलीपत्राणां व्याजेन मिषेण रोमाञ्चिता पुलकिता वसुमती भूः का. चित् स्त्रीचेतिध्वन्यते समुच्छ्रितान् समुन्नतान् शिलीन्ध्रान् छत्राकानेव ध्वजान के- प्रथम उच्छासः। आपिच । पर्णैः कर्णपुटायितैर्नवरसप्राग्भारविस्फारितैः शृण्वन्तो मधुरं द्युमण्डलमिलन्मेघावलीगर्जितम् । शाखाग्रग्रथमानसौरभभरभ्रान्तालिपालिध्वजा- स्तोषेणेव वहन्ति पुष्पपुलकं धाराकदम्बद्रुमाः ॥ ४१ ॥ अथ क्रमेण नीरं नरिजनिर्मुक्तं नीरजस्कं भुवस्तलम् ॥ जातं जातिलतापुष्पगन्धान्धमधुपं वनम् ॥ ४२ ॥ अपिच । धुतकदम्बकदम्बकनिष्पतन्नवपरागपरागममन्थराः । हृततुषारतुषा रतिरागिणां प्रियतमा मरुतो मरुतो ववुः ॥ ४३॥ .. तून् दधे धृतवती । अत्र ‘कैतवापह्नुतिर्व्यक्तौव्याजाद्यैर्निद्भुतेः पदैः' इत्युक्तलक्ष. णायाः कैतवापहृतेः उत्प्रेक्षायाः ‘परिणामःक्रियार्थश्चेद्विषयीविषयात्मना' इत्युक्त- लक्षणस्यपरिणामस्यचसंसृष्टिः वृत्तं शार्दूलविक्रीडितम् ॥ ४१. पर्णैरिति । नवस्य नूतनस्य रसस्य जलस्य रागस्यच प्राग्भारेण भति. शयेन विस्फारितैः विवृद्धैः कर्णपुटवत् श्रोत्रसंपुटवदाचरितैः पर्णैः पत्रैः मधुरं रु- चिरं दिवः आकाशस्य (स्वर्गस्यच) मण्डले प्रदेशे (मण्डलाद्देशाच्च) मिलन्त्याः सं. गच्छमानायाः मेघावलेः मेघपतेः (कस्याश्चिस्त्रियाश्च) गर्जितं गर्जनं शृण्वन्तः शाखाग्रे ग्रथमानानां मिलतां सौरभभरेण वासनाभारेण भ्रान्तानां अटतां अलीनां भृङ्गाणां पालि: पति व ध्वजः येषान्तथोक्ताः धाराकदम्बद्रुमाः ये वसन्ते पुष्प्यन्तिते धूलीकदम्बाः वर्षासुच धाराकदम्बाः तदाख्याद्रुमाः तोषेण हर्षेणेव पुष्पमेव पुलकं रोमाञ्चं वहन्ति । अत्र उपमारूपकोत्प्रेक्षाणां संसृष्टिः । वृत्तं पूर्ववत् ॥. ४२. नीरमिति । नीरं जलं नीरजैः पझैः निर्मुक्तं जातं भुवः तलं नीर. जस्कं धूलिरहितं जातं वनं जातिलतायाः मालतीवल्लयाः पुष्पाणां गन्धेन अन्धा: तृप्ता इत्यर्थः मधुपाः भृङ्गाः यस्मिंस्तथोक्तं जातं । अत्र यमकाख्यश्शब्दालङ्कारः ॥ ४३. धुतेति । धुतानां कम्पितानां कदम्बानां नीपानां कदम्बकात्समूहात् निष्पततां नवानां परागाणां पुष्परजसां परागमेन उत्कृष्टमेलनेन मन्थराः मन्दाः (एतेनसौरभ्य मान्द्यश्चकथित) हृताः ऊढाः तुषारतुषाः शीकरकणाः यैस्तथोक्ताः (एतेनशैत्यं उक्तं) रतौ सुरते रागिणां इच्छावतां प्रियतमाः अत्यन्तमिष्टाः मरुतः वायवः मरुतः मरोः पर्वतात् ‘पञ्चम्यास्तसिल्' इति मरुशब्दात्तसिल् । वत्रुः वह ४ दमयन्तीकथायाम् 46. ततश्च । तिरस्कृततरणित्विषि, विगलद्वारिविघुषि, शान्तचात- कतृषि, निर्वाणवारणवपुषि, मानिनीमानग्रहग्रन्थिमुषि, जनितयवासक- शुषि, विधववधूविद्विषि, वर्धितमण्डूकहृषि, मुद्रितचन्द्रनसि, विद्राण- पङ्कजसरसि, स्वाधीनप्रियप्रेयसिं, प्रोषितकलहंसवयसि, नष्टनक्षत्रमण्ड- लमहसि, मेचकितनभसि निष्पतन्नीपरजसि, स्फुटकुटजरजःपुञ्जपिञ्ज- रिताष्टदिग्भासि भासुरसुरचापचक्रभृति, मयूरमदकृति, महिषशोषहृति विस्तरत्सरिति, शादलहरिति, विद्योतमानविद्युति, वहन्मन्दमेघंकरमरु- हि, हृप्यत्कृषाणयोषिति, पुप्प्यत्केतकीगन्धपानमत्तमधुकृति, प्रोद्भूतभू- रुहि, दरिद्रनिद्रामुहि, सगर्वगोदुहि, कदम्बस्तम्बालम्बिमधुलिहि, मुदि- , १ " न्तिस्म । अत्र पादचतुष्टयेपि अव्यवहितम्मिश्रं मध्यभागयमकं । वृत्तं द्रुतविलम्बितं । तल्लक्षणन्तु 'इतविलम्बितमाह नभौ भरौ' इति ॥ 46. ततश्चेति । तिरस्कृताः तिरोहिताः तरणेस्सूर्यस्य त्विषः दीप्तयः येन तथोक्त । विशेषेणगलन्त्यः वारीणां विप्रषः विन्दवः यस्मिंस्तथोक्ते । शान्ता चात- कस्य तोककस्य तृट पिपासा यस्मिंस्तथोक्ते । निर्वाणं निर्वृतिर्मजनंवा 'निर्वाणम- तंगमनेनिवृतीगजमज्जने । संगमेप्यपवर्गेच' इति मेदिनी । तयुक्तं वारणस्थ गज- स्य वपुश्शरीरं यस्मिंस्तथोक्ते । मानिनीनां मानवतीनां मानस्य गर्वस्य ग्रहं ग्रहणमेव ग्रन्थि बन्धनं मुष्णाति हरतीति तथोक्ते । जनितः उत्पादितः यवासकस्य कच्छरायाः (काजोरीतिद्राविडप्रसिद्धस्य) शुशोषणं यस्मिंस्तथोक्ते । विधयानां विरहितपीतनां वधूनां स्त्रीणां विद्विषिशत्रौ। वर्धितः मण्डूकानां भेकानां हृट् सन्तोपः यस्मिंस्तथोक्ते। भुद्रितः तिरोहितः चन्द्रमाः यस्मिंस्तथोक्ते । विद्राणानि भीतानि तिरोहितानीत्यर्थ. पंक- जानि पद्मानि यस्मिंस्तथोक्तं सरस्तटाकः यस्मिंस्तथोक्त। स्वाधीनी स्वायत्ती प्रियाच प्रियश्चप्रियौ (अतिशयेनप्रिया) प्रेयसच (अतिशयेनप्रियः) प्रेयांश्च प्रेयांसौ यस्मिंस्त- थोक्ते। प्रोषितानि मानसं प्रस्थितानि कलहंसवयांसि हंसपक्षिणः यस्मिंस्तथोक्त । नष्ट नक्षत्राणां मण्डलस्य बिंबस्य समूहस्यवामहस्तेजः यस्मिंस्तथोक्ते । मेचकितं श्यामनि- तं नम: आकाशं यस्मिंस्तथोक्ते । निष्पतन्ति नीपानां कदंबपुष्पाणां रजांसिरेणवः चमिस्तथोक्ते । स्फुटानां फुल्लानां कुटजानां गिरिमल्लिकानां रजसां पुंजेन समूहेन पिरिताः पीतवर्णवत्यः कृताः अष्टदिशां भासः कान्तयः यस्मिंस्तथोक्ते । भासुरस्य प्रकाशमानम्य सुरचापस्य इन्द्रधनुषः चक्र मण्डलं बिभ्रतीति तथोक्ते । मयूराणां मदं हर्षे गर्ववा ‘गदोरेतसिकस्तू- गहरेभदानयोः' इति मेदिनी। कृतवति ।

प्रथम उच्छासः। ४१ . . तमदनाट्टहासायमानघननादमुचि, पच्यमानजम्बूफलश्यामलितवनान्तर- रुचि, रचितपान्थसार्थशुचि, श्रूयमाणमदमधुरमयूरवाचि, विनिद्रकोशा- तकीशालिनि, यूथिकाजालिनि, नवमालिकामालिनि, कन्दलभाजि, प- च्यमानजम्वृतरुवनराजिब्राजि, भिक्षाक्षणक्षपितपरिबाजि, शान्तसारङ्ग- रुजि, नीडनिर्माणाकुलबलिभुजि, सान्द्रेन्द्रगोपयुजि, श्च्योतत्तमालधारा- गृहसदृशि, श्यामायमानदशदिशि, दिवापि श्रूयमाणरजनिशङ्काकुलच- क्रवाकचक्राश, शकटसंचाररुधि, पल्लवितवीरुधि, विश्रान्तजिप्णुक्ष्मा- , , ' . . महिषाणां शोपं तापं हृतवति । विस्तरन्यः विस्तारंगच्छन्त्यः सरितः नयः यस्मिं. स्तथोक्ते । ननु ‘स्तृआच्छादने' इत्यस्यक्रमादित्वात् विस्तृणत्सरितीति वाच्य- मिति चेत् सत्यं 'बहुलमेतनिदर्शन' इति बहुलग्रहणेन नवगणीपठितेभ्योपिक चित्स्वाणिजित्युक्तत्वात् विस्तारयदित्यस्य चिन्तेतिपठितव्ये 'चितिस्मृत्यां" इत्यदित्ग्रहणं णिचः पाक्षिकत्वे लिङ्गमित्युक्तत्वात् विस्तरदित्यस्यच सिद्धिरित्यलं शब्दशास्त्रपारावाविलोडनेन । शालाः बालतृणहरिताः हरितः दिशः यस्मिंस्त- थोक्ते । विशेषेण द्योतमानाः विद्यत: तांडतः यस्मिन् । वहन्तः वान्त: मन्दाः मेघ कुर्वन्तीति मेघंकराश्च ‘मेघर्तिभयेषु कृषः' इतिखच् । मरुतः वाताः यस्मिन् । हृष्यन्त्यः कृपाणानां कृषीवलानां योषितः स्त्रियः यस्मिन् । पुष्प्यन्तीनां विकसन्तीनां केतकीनां गन्धस्य पानेन मत्ताः मधुकृतः भ्रमराः यस्मिन् । प्रकर्षण उद्भूताः उत्प- नाः भूरुहः वृक्षाः यस्मिन् । दरिद्राणां निद्रायै द्रुह्यनीति दरिद्रनिद्राभुक तस्मिन् । सगर्वाः गोदुहुः गोपाः यस्मिन् कदंबानां नीपानां स्तंवेषु गुच्छेषु ‘स्तवोगलमेतुणा- दीनामकाण्डद्मगुच्छयो: ' इति । आलंघनशीलाः मधुलिहः शृंगायस्मिन् मुदितस्य तुष्टस्य मदनस्य कामस्य अट्टहासः वीररौद्ररससञ्जातहास इवाचरन् अट्टहासायमानः यो घनस्य मेघस्थ नादः तम्मुक्तवति । पच्यमानैः परिपाकं प्राप्नुवद्भिः ॥ कर्मकर्त- रिलटश्शानच् ॥ जंबूफलै. श्यामलिता वनान्तरस्य वनमध्यस्य रुक्कान्तियस्मिन् । रचिताकलिंता पन्थान नियं गच्छन्तीति पान्थाः पथिकाः तेषां सार्थस्य संघस्य शुव्यसनं येनतथोक्ते । श्रूयमाणा मदेन हर्षेण मधुरा रुचिरा मयूराणां वाक् केका- ध्वनि: यास्मन् । विनिद्राभिः विकसिताभिः कोशातकीभिःपटोलीभिः शालते शोभते इति तच्छीले । यूथिकानां गणिकाख्यपुष्पविशेषाणां जालं समहः तदस्मिनस्तीतित- थोक्ते । नवमालिकानां सप्तलानां पतिः सास्मिनस्तीतितथोक्त । कन्दलान् नवांकुरान् भजतीति तथोक्त । पच्यमानानां जंबूतरुवनानां राज्या पक्ष्या भ्राजते शोभत इति तथोक्ते । भिक्षाक्षणे भिक्षावसरे क्षपिताः (सुभिक्षत्वात्) भागहारिणः परिव्राजः सन्यासिनः यस्मिन् । शान्ता सारगाणां चातकानां रक दनयन्तीकथायाम् पालयुधि, क्षीणोक्षाधि, क्षीरसमुद्रनिद्राणबाणबाहुच्छिदि, सिन्धुरोधो- भिदि, दवदहननुदि, विरहिमनस्तुदि, जनितजनमुदि, तापिच्छच्छा- यानुच्छेदिनि, छतकुटीमध्यबध्यमानवाजिनि, विकसितवकुलवनविराजि- नि, सीरसीमन्तितग्रामसीमनि, विजयमानमनोजन्मनि जाते जगज्जी- विनि, जीमूतसमये कदाचिदनम्भसि दिवसे मृगयावनपालकः प्रविश्य राजानं विज्ञापयामास ॥ पिपासाजनितरोगः यस्मिन् । नीडनिर्माणाकुलाः कुलायकरणव्यग्रा: बलिभुजः का काः यस्मिन् । सान्द्रः निबिडः इन्द्रगोपानां तितिभाख्याद्रजन्तूनां युक् योगः यस्मिन् । इच्योतत् क्षरत् तमालानां तापिञ्छानां यत् धारागृहं तस्य सदशि समा. ने । श्यामाइवाचरन्तीति श्यामायमानाः दशदिश: यस्मिन् अत एव । दिव.पि अहन्यपि । श्रूयमाणः रजनिः रात्रिरिति शकया सन्देहेन आकुलानां चक्रवाकाणां चक्रस्य समूहस्य क्रुक् विरहजनित आक्रोशः यस्मिन् । शकटानां अनसां सञ्चार रुणद्धीति तथोक्ते । पल्लविताः सजातकिसलयाः वीरुधः लताः यस्मिन् । विश्रान्ता निवृत्ता जिष्णूनां जयशीलानां मापालानां रग्ज्ञां युत् युद्धं यस्मिन् । क्षीणा विनष्टा उक्ष्णां वृषभाणां क्षुत् बुभुक्षा यस्मिन् । क्षीरसमुद्दे निद्राणः निद्रांगतः (वर्षासु हरिनिद्रातीति शास्त्रादिति भावः) बाणस्य तदाख्यासुरस्य बाहुच्छित् विष्णुर्यस्मिन्। सिन्धूनां नदीनां रोधासि तीराणि भिनत्तीति तथोक्ते । दवदहनं वनाग्निं नुदति नाशयतीति तथोक्ते । विरहिणां वियोगिनां मनः हृदयं तुइति व्यथयतीति तथोक्त जनिता जनानां मुत् तुष्टियेन । तापिञ्छानां तमालानां छायां न उच्छिनत्ति ननि- वारयतीति तच्छीले । छन्त्रायाः सावरणायाः कुटयाः कुटीरस्य मध्ये बध्यमानाः वाजिनः अश्वाः यस्मिन् । विकसितैः वकुलानां वजुलानां वनैः विराजते शोभत इति तच्छाले । सारः हलै: सीनः अन्तः सीमन्तः केशवेशः 'सीमन्तः केशवेशे' इति शकन्ध्वादिगणसूत्रेणपररूपं । सीमन्तवत्कृताः सीमन्तिताः विभक्ताः कृष्ष्टा इति यावत् ग्रामाणां सीमानः आघाटाः क्षेत्राणिवा यस्मिन् । 'सीमाघाटस्थिति क्षेत्रेवण्डकाशपिच स्त्रियाम्' इति । विशेषेण जयन् विजयमानः 'विपराभ्यांजेः इति तङ् ततश्शानच् । मनसि जन्मयस्यसः मनोजन्मा कामः यस्मिन् । जगन्ति जीव- यतीति तच्छीले । जीमूतानां मेघानां समये काले वर्षाकाले । जातेसति । कदा. चित् अनभसि जलवर्षरहिते दिवसे दिने । मृगयायै आखेटकाय (योग्यस्य) वन. स्य पालकः । प्रविश्य राजानं नलं विज्ञापयामास निवेदितवान् ।

'प्रथम उच्छ्वासः। "देव, किं स्यादञ्जनपर्वतः स्फटिकयोर्द्वन्द्वं दधदीर्घयो- रम्भोमेदुरमेघ एष किमुत श्लिप्यद्वलाकाद्वयः । शून्यः किंनु करेण कुञ्जर इति भ्रान्ति समुत्पादय- न्दंष्ट्राद्वन्द्वकरालकालवदनः कोलः कुतोऽप्यागतः ॥४४॥ ततश्चासौ भिन्दन्कन्दकशेरुकन्दलभृतः स्निग्धप्रदेशान्भुवो भञ्जन्नञ्चनशैलशृङ्गसदृशः फुलल्ललामण्डपान् ॥ मन्दं मन्दरलीलयाब्धिसदृशं मनंश्व लीलासरः क्रोडः क्रीडति भाययन्निव भवत्क्रांडावने रक्षकान्" ॥४५॥ ४४. किमिति । एषः दीर्घयोः आयतयोः स्फटिकयोः स्फटिकरत्नयोः द्वन्द्वं द्वयं दवत् धारयन् अञ्जनपर्वतः कजलगिरिः स्याकिं उत आहोस्वित् श्लिष्यत् आलिंगत् युक्तमितियावन् बलाकयोः विसकण्ठिकयोः द्वयं यस्मिंस्तथोक्तः । अम्भो- भिः जलैः मेदुरः निबिडः मेघः किं करेण शुण्डया शून्यः रहितः कुञ्जरः गजः किनु किंवा 'नुपृच्छायां विकल्पेच' इत्यमरः । इति भ्रान्ति भ्रमं यद्वा अनवस्थिति भनिश्चयं सन्देहमितियावत् । अतएवात्र भ्रान्तिमान्वा सन्देहोवालङ्कारः । समुत्पा- दयन् जनयन् दंष्ट्रयोः दन्तयोः द्वन्द्वन करालं भीषणं कालं श्यामञ्च वदनं मुखं यस्यतथोक्तः कोलः किरिः कुतोपि आगतः । शार्दूलविक्रीडितवृत्तम् ॥ ४५. भिन्दन्निति । कन्दानां पद्ममूलानां सूरणानांवा कशेरूणां मुस्तानाञ्च कन्दलान् नवाङ्कुरान् बिभ्रतीति तथोक्तास्तान् भुवः भूमेः स्निग्धान् आर्द्रान् प्रदे- शान् भिन्दन् दारयन् अञ्जनशैलस्य शृङ्गेण शिखरेण सदृशः समानः पुलन्तीनां विकसन्तीनां लतानां मण्डपान् भञ्जन् आमर्दयन् मन्दं खैरं यथातथा मन्दरस्य मन्दरपर्वतस्येव लीलया विलासेन अब्धिसदृशं सागरसमं लीलासरःक्रीडातटाकं मंनंश्च विलोडयंश्च कोड: वराहः भवतः क्रीडावने रक्षकान् भाययन् भीतियुक्तान् कुर्वनिव । इति वाक्यालङ्कारे । क्रीडति रमते । मन्दरलीलया भाययनित्यत्र करणाद्भयेन आत्मनेपदं आत्वं षुगागमश्च न हेतोश्चेद्भयं तदाभीषयमाणः भापय. मान इति च स्यात् । द्रव्यादिसाधारणं निर्व्यापारसाधारणञ्चहेतुत्वं करणत्वन्तु क्रियामात्रविषयं व्यापारनियतञ्चेतिविवेकः । उपमाखभावोक्त्यलङ्कारौ । स्वभा- वोक्तिलक्षणन्तु 'स्वभावोक्तिः स्वभावस्यजात्यादिस्थस्यवर्णनम्' इति वृत्तं पूर्ववत् ॥ .. ..

- दमयन्तीकथायाम् राजा तु तदाकर्ण्य चिन्तितवान् । अच्छाच्छैः शुकपिञ्छंगुच्छहरितश्छन्ना वनान्तास्तृणैः सेव्याः संप्रति सान्द्रचन्द्रकिकुलैरुत्ताण्डवैर्मण्डिताः ॥ येषु क्षीरविपाण्डु पल्वलपयः कल्लोलयन्तो मना- ग्वाता वान्ति विनिद्रकेतकवनस्कन्धे लुठन्तः शनैः ॥४६॥ 47. माद्यन्ति च तेषु संप्रति प्रोथिनः । तद्युज्यते विहर्तुम्, इत्यवधार- यन्नाहूय बाहुकनामानं सेनापतिमादिदेश ॥ 48. 'भद्र दुतमनुष्ठीयताम् , समादिश्यन्तां कृतवैरिविपत्तयः पत्तयः, पर्याण्यन्तां मनस्तुरगास्तुरगाः, सज्जीक्रियन्तां निजवेगनिर्जितमातरिश्वा समारोप्यन्तामपनीताहितायूंषि धनूंषि, गृह्यन्तां निर्मथित- प्रोथियूथपाशाः पाशाः' इति ॥ - नः श्वानः, ४६. अच्छेति । अच्छाच्छैः अत्यन्तनिर्मलैः । शुकानां पिञ्छानि गुच्छा इव पिञ्छगुच्छाः तद्वत् हरितैः हरितवर्णैः तृणैः छन्नाः आवृताः उत्ताण्डवैः अधिक- नर्तनैः । सान्द्राणां निबिडानां चन्द्रकिणां मयूराणां कुलैः संधैः मण्डिता: भूषिता: वनान्ता: वनमध्यभागाः संप्रति सेव्याः । येषु वनान्तेषु क्षीरवत् विपाण्डु विशेषेण धवल पल्वलस्य अखातसरसः पयः जलं मनाक् किञ्चित् कल्लोलयन्तः चालयन्त: ( अनेनशैत्यमुक्त ) विनिद्राणां विकसितानां केतकवनानां स्कन्धेकाण्डे समूहेवा लुठन्तः पतन्तः (अनेनसौरभ्ययुक्त) वाताःवायवः शनै: मन्दं वान्ति वहन्ति । उपमा काव्यलिंगे अलंकारौ । वृत्तं पूर्ववत् ॥ 47. माद्यन्तीति । माद्यन्ति हृष्यन्ति तेषु वनान्तेषु प्रोथिनः स्कराः वि. हतु रन्तु । अवधारयन् निश्चिन्वन् ॥ 48. भद्रेति । भद्र श्रेष्ठ साधोवा द्रुतं शीघ्रं अनुष्ठीयतां (मयावक्ष्यमाणं) क्रियतां । कृता: वैरिणां अरीणां विपत्तयः विपदः यैस्तथोक्ताः पत्तयः पदातयः समादिश्यन्तां आज्ञाप्यन्तां । मनः चित्तभिव तुरेण जवेन गच्छन्तीति मनस्तुरगाः । तुरगाः अश्वाः । पर्याण्यन्तां । पर्याणं पत्त्ययनं तद्वन्तः क्रियन्तां । पर्याणवच्छब्दात् प्रातिपद्रिकाद्धात्वर्थे बहुलमिष्ठवच्च' इति णिच् ‘विन्मतो लुक्' इति मतुपोलुक् तः कर्मणिलोट् । निजवेगेन निर्जितः मातरिश्वा वातः यैस्तथोक्ताः श्वानः कुक्कु. पः सन्जीकियन्तां सन्नद्धाः क्रियन्तां । अपनीतं विमोचितं अहितानां अरीणां आयुः पेस्तथोक्तानि धनषि समारोप्यन्तां शरारोपणकरणीक्रियन्तां निर्मथिताः विधंसि- ताः प्रोथिनां सूकराणां यूथपानां संघपतीनां आशा: इच्छाः यैस्तथोक्ताः पाशाः ज्जवः गृह्यन्तां ॥

प्रथम उच्वासः । 49. अथ मौलिमिलन्मुकुलितकरकमलयुगलेन सेनापतिना 'यदाज्ञापय- ति देवः' इत्यभिधाय त्वरया तथा कृते सति ॥ खयमपि निर्मासं मुखमण्डले परिमितं मध्ये लघु कर्णयोः स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्दमे । पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे गजा वाजिनमारुरोह सकलैयुक्तं प्रशस्तैर्गुणैः ॥ ४७ ॥ E0. आरुह्य च क्रमेण कार्दमिककर्पटावनद्धमूर्धजैर्दण्डखण्डपाणिभिः क्रूरकर्मोचिताकारैर्वांगुरावाहिभिरनन्तैः कृतान्तदूतैरिव पाशहस्तैः पाप- द्धिकैरनुगम्यमानः, दूरादुन्नमितकंधरैस्तथोर्ध्वकर्णसं' टै काण्डोड्डीनप्राणै- रिव वनप्राणिभिराकर्ण्यमानहर्षितहयहेषारवः, पवनकम्पिततरुशाखाग्रप- लवव्याजेन दूरादेवोरिक्षप्तहस्ताभिरुड्डीयमानशकुनिकलकोलाहलच्छलेन 49. अथेति । मौलीति । मौलौ शिरसि मिलत् लगत् मुकुलितं कोर- कितं बद्धाञ्जलीति यावत् करकमलयोः पाणिपद्मयोः युगलं द्वयं यस्य तथोक्तेन । अभिधाय । उक्त्वा । त्वरया । वेगेन ॥ ४७. निर्मासमिति । मुखमण्डले वक्त्रप्रदेशे । निर्मासं मांसरहितं । मध्ये मध्यभागे परिमितं स्वल्पं । कर्णयोः श्रोत्रयोः लघु तनुं । स्कन्धे असे ककुदिवा बन्धुरं उन्नतानतं । उरसि कुक्षौ अप्रमाणं मानातीतं रोम्णां उद्भे उत्पत्ती स्निग्धं मसृणं रम्यमितियावत् पश्चिमयोः जघन्ययोः पार्श्वयोः पीनं वृद्धं पृष्ठे पृथुतरं अति- शयेनस्थूलं जवे वेगे प्रधान मुख्यं किञ्च सकलैः उक्तानुक्तैः समस्तैः प्रशस्तैः श्ला- घितैः गुणैः युक्तं वाजिनं अश्वं राजा नल: आरुरोह आरूढवान् । स्वभावोक्त्य- लंकारः । शार्दूलविक्रीडितवृत्तम् । 50. आरुह्येति । कादिमिकेति । कर्दमेन नीलीलोहमलादिनारक्तः कार्द- मिकः ‘शकलकर्दमाभ्यां' इति ठक् । यः कर्पट: मलिनवस्त्रं शिथिलवस्त्रंवा तेन अवनद्धाःबद्धाः मूर्धजाः शिरोरुहाः येषान्तथोक्तैः । आकारः। आकृतिः । वांगुरा। जालं । कृतान्तः । यमः । पापर्धिकैः । पापानां ऋद्धिः ( वृद्धिः ) यत्रपापर्धि. गया तयाजीवन्तीति पापर्धिकाः मृगयाचराः तैः। उन्नमितकन्धरः। उद्गमितक ण्टैः । अकाण्डेति । अकाण्डे अनिमित्ते उड्डीनाः उड्डीय गताः प्राणाः येषान्त. थोक्तैरिवेत्युत्प्रोक्षतैः । वनप्राणिभिः । अरण्यजन्तुभिः । आकयेति । आक- ।

४६ दमयन्तीकथायाम् भयान्निवार्यमाण इव वनदेवताभिः, अभिमुखागतरुन्मिषत्तरुपुष्पप्रकरमक- रन्दाबन्दुवर्षवाहिभिर्वनविनाशशङ्कितैरर्ध्यमिवोपपादयाद्भिपरुध्यमान इव वन मारुतैः, उन्निद्रसान्द्रकुसुमकेसराङ्कुरजालजटिलाभिर्भयादुद्गतरोमाञ्च- प्रपञ्चाभिरिवोद्धान्तभृङ्गरवगद्गदरुदितेन निषिध्यमान इव वनवीरुद्भिः, उद्भिन्नभास्वदमन्दकन्दलावलोकनेनानन्धमानः श्वानुगतोऽप्यश्वानुगतः सगजमप्यगजं तद्वनमाससाद ।। 51. ततश्च केचिदुद्यत्परश्वधा गणपतयः, केऽपि दृष्टसिंहिकासुत- विक्रमाः शशधराः, केऽपि पाशपाणयो जम्बुकदिक्पालाः, केऽपि हरिमार्गानुसारिणो बलभद्राः, केऽपि चक्रपाणयो मधुसूदनाः, केऽपि य॑मानः श्रूयमाण: हर्षितानां सञ्जातहर्षाणां हयानां अश्वानां हेषारवः हेषितध्वनिर्य- स्यतथोक्तः । पल्लववव्याजेन । किसलयामिषेण । उत्क्षिप्तहस्ताभिः । उद्धृतक- राभिः । उड्डीति । उड्डीयमानानां ( कर्मकतरिलटः शानच् । उत्पत्यमानानां श- कुनिकलानां पक्षिसंघानां कोलाहलच्छलेन कलकलव्याजेन (अत्र पूर्वत्रचकैतवाप- हुत्यलंकारः) निवार्यमाण इव । अत्रोत्प्रेक्षा । अभीति । अभिमुखं यथा तथा आगतैः उन्मिषतां विकसतां तरुपुष्पाणां प्रकराणां समूहानां मकरन्दबिन्दूनां मधु. पृषतांवर वृष्टिं वहन्तीति तच्छ लैः । वनेति । सञ्जातवनविनाशशंकैः । अतएव अर्धाय इदं अयं अय॑जलं उपपादयाद्भिः संपादयद्भिरिवेत्युत्प्रेक्ष्यमाणैः । वनमारुतैः । उपरुध्यमानः अनुनीयमान इव । उन्निद्रेति । विकसितनिबिडपुष्पकिञ्जल्कप्ररोह- समूहैाप्ताभिः : । भयात् । उद्गतेति । उत्पन्नपुलकततिभिरिवस्थिताभिः । वन- वीरुद्भिः। वनलताभिः । उदिति । उद्घान्तानां गाणां आरवः ध्वनिरेव गद्ग- दं मनाक्स्फुटं रुदितं रोदनं तेन । निषिध्यमानः प्रतिषिध्यमान इव । उदिति । उद्भिनानामुगतानां भाखतां कान्तिमतां अमन्दानां बहुलानां कन्दलानां नवांकुरा- णां अवलोकनेन आनन्द्यमानः । श्वानुगतः । श्वभिरनुगतोपि । अश्वानुगतः नश्वभिर नुगतः (इति विरोधः) अश्वरनुगतः (इति परिहारः) विरोधाभासोऽत्रो- नरत्रचालंकारः । (सः नलः) सगजं । गजयुक्तमपि । अगजं । गजरहितं । - गे पर्वते जातञ्च । तद्वनं । मृगयावनं । आससाद । प्राप ॥. 51. ततश्चेति । उद्यन्तः पलायमानाः परे उत्कृष्टाः ये श्वानः. तान् दधतीतितथोक्ताः उद्गृह्यमाणपरशवश्च गणस्य सेनायाः पतयः हेरंबाश्च । दृष्टः सिं- हिकामुतस्य केसरिकिशोरस्य राहोश्च विक्रमः विशिष्टक्रमणं पराक्रमश्चयैः ।. शशस्य रोमकर्ण मृगम्यधराः चन्द्राश्च । पाशः पाणौ येषान्ते फशपाणयः वरुणाश्च । जंबु. .. .

प्रथम उच्छासः । शिवागमानुवर्तिनो रौद्राः, केऽप्याहिताग्नयो विप्रलोकाः, केऽपि खण्डि- ताञ्जनाधरप्रवालाः प्रभञ्जनाः, केऽप्युत्खातदन्तिदन्तमुष्टयो निस्त्रिंशाः, तस्य पृथ्वीपतेराकुलितश्वापदाः पदातयो वनं रुरुधुः ॥ 52. ततश्च तैः क्रियन्ते विकलभा वननिकुञ्जाः कुञ्जराश्च, ध्रियन्तेऽने- कधारयातिपातिनः खड्गाः खगिनश्च, कृप्यन्ते कूजन्तः कोदण्डदण्डा गण्डकाश्च, विक्षिप्यन्ते परितः शराः शरभाश्च, भज्यन्ते तरवस्तरक्षवश्व।। कानां सृगालानां दिशं निस्सारणं 'दिक्तुनिस्सारणम्मुखम्' इति यादवः । पालयन्ति प्रतीक्षन्ते इति तथोक्ता: जंवकदिशः प्रतीच्याः पालकाश्च । 'जंदक.फे. रवेनीचे प्रतीचीदिक्पतावपि' इति विश्वः । हरि सिंहं मार्ग मृगसमुहं हरेः कृष्णस्य- मार्ग पन्थानञ्च अनुसरन्तीति तच्छीलाः । बलेन भद्राः श्रेष्ठाः बलदेवाश्च । चक्र पाणी येषान्ते चक्रपाणयः विष्णवश्च । मधु क्षौद्रं मधुः तदाख्यासुरश्च तस्य सूदनं क्षरणं मारणञ्च यैस्तथोक्ताः । शिवायाः सृगाल्या: गमः गतिः शिवागम: शिवशास्त्रञ्च तं अनुवर्तन्त इति तच्छीलाः । रौद्राः भीषणाः शैवाश्च । आहितः (गुल्मादिषु ) उत्पादितः अग्निः यैस्ते आहिताः आधानादिना संस्कृता: अग्नयः गार्हपत्याहवर्नाय. दक्षिणाग्नयः यैस्तथोक्ताश्च । वीन् पक्षिणः प्रकर्षण लोकन्ते पश्यन्तीतितथोक्ताः ब्राह्मणजनाश्च । खण्डिताः शकलिताः अञ्जनस्य पञ्चिकपक्षिणः यद्वा अञ्जनशाखिनः अधरपल्लवाः पुच्छाधःपिञ्छानि अधः किसलयानिवायैः पक्षे खण्डितः दष्टः अञ्ज- नाया: हनुमन्मातुः अधरपल्लव: ओष्ठकिसलयः यैस्तथोक्ताः । प्रकर्षण भञ्जन्तीति प्रभञ्जनाः वायवश्च उत्खाताः दन्तिदन्ताः यैस्तथोक्ताः मुष्टयः संग्राहाः येषान्ते पक्षे उत्स्वातः उत्क्षिप्तः दन्तिदन्तप्रधान: मष्टिः त्सरुः येषान्तथोक्ताः । निस्त्रि. शाः क्रूरकर्माणः खड्गाश्च । आकुलिताः श्वापदाः हिंस्रमृगायैस्तथोक्ताः तस्य पृथ्वी- पतेः नलस्य पदातयः पतयः वनं रुरुधुः अरुधन् । अत्रश्लेषालङ्कारः ॥ 52. ततश्चेति । तैः पत्तिभिः वननिकुञ्जाः लतादिपिहितवनप्रदेशाः कुञ्जराः गजाश्च विगताः व्यपेताः कलभाः करिपोताः येषु विकला (भयात् ) न्यूना भा कान्तिर्येषान्तथोक्ताश्च । कियन्ते (श्लिष्टातुल्ययोगिता एवमत्तरत्रापि ) अनेकया धारया अत्यन्तं पतन्तीति तच्छीलाः खड्गाः द्विधारा असयः अनेकधा . बहुधा रयेण वेगेन अतिपतन्तीति तच्छीलाः खड्गिनः उद्भिन्नाः प्रौढा: गण्डकाश्च ध्रि- यन्ते गृह्यन्ते । कूजन्तः अव्यक्तं शब्दायमानाः कोदण्डदण्डाः धनुर्दण्डाः गण्डका: बालका गण्डकाश्च कृष्यन्ते आकृष्यन्ते । शराः बाणाः शरभाः तदाख्याः अष्टपाद- भृगाश्च परितः समन्ततः विक्षिप्यन्ते अस्यन्ते विक्षिप्ताः दुःखिताश्रक्रियन्ते । तरवः वृक्षाः तरक्षवः मृगादनाश्च भज्यन्ते आमृद्यन्ते ।

दमयन्तीकथायाम् 58. क्षणेन च पतन्ति पीवरा वराहाः, सीदन्ति दन्तिनः, विरसं रसन्ति सातङ्का रङ्कवः, प्रकाशैलं शैलं भयादारोहन्ति -रोहिताः, शरसंघातबू- र्णिता यान्ति महीं मंहिषाः, दुर्गसंश्रयं श्रयन्ते तरलितनेत्राश्चित्रकाः, त्वरिततरं तरन्तीवोत्पतन्तो नभसि निजजवनिर्जिततुरंगाः कुरङ्गाः ॥ तत्र च व्यतिकरे जाताकस्मिकविश्मयैः किमिदमित्याकर्ण्यमानः सुरैः संत्रासोज्झितकर्णतालचलनान्दिग्दन्तिनः कम्पयन् । जन्तूनां जनितज्वरः स मृगयाकोलाहलः कोऽप्यभू- येनेदं स्फुटतीव निर्भरभृतं ब्रह्माण्डमाण्डोदरम् ।। ४८ ॥ E1. राजाप्येकशरपहारपातितमत्तमातङ्गः सर्वतो विहारिहरिहरिणशश- - 3. क्षणेनेति। पीवराः। पीनाः। सीदन्ति । विषादं गच्छन्ति । विरसं। निवीय नीरागंवा यथातथा। रसन्ति । शव्दायन्ते। सातंकाः । सभयाः । रंक- वः। मृगाः । प्रकाशैलं । प्रकाशाः स्पयाः एला एलालताः यत्र (शैले) तथोक्तम् । रोहिताः । तदाख्य मृगविशेपाः । शरेति । शरैः सम्यग्घातेन हननेन चूर्णिताः भ्रमणं प्राप्ताः । दुर्गसंश्रयम् । दुर्गमस्थानम् । श्रयन्ते । आश्यन्ति । तरलि. तम् । भ्रमितम् । चिनकाः मृगविशेषाः । त्वरिततरम् । अतिशीघ्रम् । तरन्तीव । तरणं कुर्वन्तीव । उत्पतन्तः । उत्प्लवमानाः । जवः ! वेगः । तुरंगः । अश्वः । कुरंगाः । हरिणाः ॥ ४८. तत्रचव्यतिकरे । तादृशे सम्बन्धे (मृगादीनां ) व्यसनेवा । जा- तेति । जातः अकस्माद्भवः आकस्मिकः विस्मयः आश्रय येषान्तथोक्तैः सुरैर्देवैः इदं (सामान्येनपुंसक) किमिति आकर्ण्यमानः सन्त्रासेन भील्या उज्झितं त्यक्तं क- तालयोः तालवृन्तसदृशकर्णयोः चलनं यस्तथाभूतान् । दिग्दन्तिनः दिग्गजान् । कम्पयन् कम्पवतःकुर्वन् । जन्तूनां प्राणिनां जनितः ज्वरः तापः येनतथोक्तः सः मृगयायां आखेटके कोलाहलः कलकल: कोपि अनिर्वचनीय: अभूत् येन कोलाहलेन निर्भरं निविडं यथातथा भृतं पूर्ग इदं ब्रह्माण्डमेव भाण्डं पात्रं तस्योदरं मद्रय स्फुटति दलतीव । अत्रोत्प्रेक्षा । पूर्वार्धे कलकल: स्वर्ग सर्वदिशश्च व्याप्त इति वक्तव्ये प्रकारान्तरेणकथनात्पर्यायोक्तालकारश्च । तल्लक्षणन्तु 'पर्यायोक्तंन्तुगम्यस्य वचोभंग्यन्तराश्रयम्' इति । शार्दूलविक्रीडितवृत्तम् ॥ 54. राजेति । मातंगः । गजः । विहारीति । विहरणशीलानां हरिप्रभृ- तीनां (हरि: सिंहः शंबर: मृगभेदः) हनने वधे हेलया लीलया । तरुणेति ।

.प्रथम उच्छासः ४९ कशम्बरवराहहननहेलया विचरन्नितस्ततस्तरुणतरतमालमञ्जरीजालनी- लोद्भुषितस्कन्धकेसरमूर्ध्वस्तब्धकर्णसंपुटमश्वचक्राय क्रुध्यन्तमाघूर्णित घोणमनवरतकृतघनघोरघर्धररवमुक्षिप्तपुच्छगुच्छमभिमुखमेकस्मिन्नति - सान्द्रभद्रमुस्तास्तम्बभाजि पङ्किलपल्वलप्रदेशे तं शूरसूकरमपरमिव दवदहनदग्धाद्रिमद्राक्षीत् ॥ 55. दृष्ट्वा च रचितशरसंधानलाघवो राघव इव रामसेश्वरस्य तस्योपरि परिणद्धविविधपत्रैः पतत्रिभिरभ्यवर्षत् ॥ तत्र च व्यतिकरे किमश्वः पार्थेषु प्लवनचतुरः किंनु नृपतिः शरान्मुञ्चन्नुञ्चैश्चलतरकराकृष्टधनुषा । किमालोलः कोलः परिहृतशरः शौर्यरसिको न जानीमस्तेषां क इह परमो वर्ण्यत इति ॥४९॥ तरुणतराणां अतिप्रौढानां तमालमजरीणां तापिञ्छवल्लरीणां जालवत् समूहवत् नीलाः उद्घशिताः उत्तब्धाः । यद्वा-उद्घोषेण प्रकटितवैराभिप्राया इवेत्युपचरिताः । "घुषिरविशब्दने" इत्यनेनाविशब्दने इण्णिषेधाद्विशब्दने भवत्येवेट । (विशब्द- नमभिप्रायाविष्करणम् ) स्कन्धकेसराः अंससटाः यस्य तथोक्तम् । ऊयों स्तव्धी स्थिरौ कर्णसम्पुटौ यस्य तथोक्तम् । अश्वानां चक्राय मण्डलाय क्रुद्वयन्तं कुप्यन्त "क्रवदह' इत्यादिना चतुर्थी । आसमन्तात् घर्णिता भ्रान्ता घोणा नामा यस्य तथोक्तम् । अनवरतं सदा कृतः घनः निविड: घोरः घर्घररवः घरघुरध्वनिः यस्य तम् । उत्क्षिप्तः पुच्छरय गुच्छ: पूलिका यस्य तम् । अतीति । अत्यन्तं सान्द्राणां निबिडानां भद्राणां श्रेष्ठानां मुस्तानां कशेरूणां स्तम्बं गल्म गुच्छ वा भजतीति तथो- क्ते । पङ्कः (कर्दमः) अस्मिन्नस्तीति पङ्किलः । 'पिञ्छादित्वादिलच' पल्वलस्य अखा- तसरसः प्रदेशस्तस्मिन् अपरं दवदहनेन दवाग्मिना दग्धं अदिमिव स्थितं तं शूरं सू. करं वराह अद्राक्षीत् दृष्टवान् ॥ 55. दृष्ट्येति । लाघवम् ॥ शैघ्रयम् । परीति ॥ परिणद्धानि परित बद्धानि विविधानि पत्राणि कपत्राणि येष तथोकैः । पतत्रिभिः॥ बाणैः ॥ ४९. किमिति ॥ पार्श्वेषु प्लवने प्लुतगतौ चतुरः निपुणः अश्वः परमो वयेते किं चलतरकरेण आफुटेन धनुषा उच्चैः आधिकान् शरान्मुञ्चन् नृपतिः नुनलो व परमो वर्ण्यते किं आलोल: चञ्चल: परिहृताः शराः येन तथोक्तः शौर्थे शूरत्वे रस 5 दमयन्तीकथायाम्। भपिच । अजनि जनितपृथ्वीमण्डलोत्पातकम्प किमपि चलितशैलं द्वन्द्वयुद्धं तयोस्तत् । स्खलिततुरगवेगो विस्मयनैष यस्मि- न्दिनपतिरपि शौर्याश्चर्यसाक्षी बभूव ॥५०॥ अथ कथमपि नाथं प्रोथियूथस्य जित्वा ज्वरित इव विशालं सालसः सालमूले । सुखमभजत राजा राजमानः श्रमाम्भ:- कणकलितकपोलालोललीलालकेन ॥५१॥ 56. तत्र च स्थित श्रममुकुलितनयनारविन्दम् , आन्दोलयन्तः कुसु- ॥ प्रीतिः अस्यास्तीति रसिकः "अत इनि ठनौं' इति ठन् । कोल: सूकरः परमो व- य॑ते किम् । इह अस्मिन्समये तेषां अश्वनृपसूकराणाम्मद्धये कः परमः श्रेष्ठः वर्ण्य- ते इति न जानीमः न बुद्धयामहे । सन्देहालङ्कारः । शिखरिणीवृत्तम् । “रसै रुदै. दिछनायमनसभलागदिशखरिणी” इति लक्षणात् ॥ ५०. अजनीति ॥ जनितः पृथ्वीमण्डलस्य उत्पातैः उल्कापसगैरिव कम्पः येन तथोक्तम् । चलिताः शैलाः यस्मिन्तत् किमपि अनिर्देश्यं तयोः नृपसूकरयोः तत् द्वन्द्वयुद्धं अभिव्यक्त जन्यं "द्वन्द्वरहस्य” इत्यादिना साधु । अजनि जातं य- स्मिन् युद्धे विस्मयेन आश्चर्येण एषः दिनपतिः रविपि स्खलितः प्रतिबद्धः तुरग. वेगः यस्य तथोक्तस्सन् शौर्याश्चर्यस्य साक्षी साक्षात् द्रष्टा वभूवेब इत्युत्प्रेक्षते कविः अत्र गम्योत्प्रेक्षा । मालिनीवृत्तम् । “ननमयययुतेयं मालिनी भोगिलोकैः" इति लक्षणात ५१. अथेति । अथ कथना कृच्छ्रन प्रोथियूथस्य कोलसंघस्य नाथं जित्या ज्वरित: रुग्गइव सालस: अलराशब्द: भावप्रधान: आलरयेनसहितः श्रम- भसां कणैः शीकरैः कलितयोः व्याप्तयोः कपोलयोः गण्डयोः आलोल: चञ्जलः लीलाय. कः विलासयुक्त: अलकः कुन्तलस्तन राजमानः शोभमानः राजा विशालं सुखं सुख- करं सालस्य वृक्षस्य मूलं अभजत । अन्योज्वरितोपि अलसः मूलादीनि सेवमानः खेदविन्दुलक्ष्यमाणज्वरापगमो राजते । अत्रोपमा । वृत्तं पूर्ववत् । 56. तनेति । मुकुलितम् । निमीलितम् । अरविन्दम् । कमलम् । आन्दोलयन्तः । चालयन्तः । तरलयन्तः। कंपयन्तः । शिखीति । शि प्रथम उच्छ्वासः . . मिततरून् , तरलयन्तः शिखिशिखण्डमण्डलानि, ताण्डवयन्तस्तनुल. तापल्लवनिवहान् , वहन्तो वहन्निझरजलशिशिरशीकरनिकरान्, कराल- यन्तः कुटजकुङ्मलानि, मकरन्दविन्दुमुचो मन्दमानन्दयामासुः कम्पि- तनीपवनाः पवनाः ॥ अनन्तरमनवरतकरालकालकौलेयककुलकबलनाकुलितकोलकरिकु- रङ्गकण्ठीरवकिशोरपृषत्पृष्ठधाविते परितः परिजने, जनितविविध- मृगवधूबधब्याधीव्याधान्निवारयितुमिवान्तरान्तराप्रसारितकरे मध्यस्थ- तां गतवति भगवति गभस्तिमालिनि, सहसंवर्धितमृगविनाशशोकभरा- दिव वनवीरुधां पतत्सु पुप्पलोचनेभ्यो वाप्पेप्विव मध्याह्रोष्णविलीन- मकरन्दविन्दुषु, श्रूयमाणेषु वनदेवतानां वनविमर्दोपालम्भेष्विव तरु- खण्डोड्डीनविविधविहङ्गविरुतेषु, विघट्टितार्भककुरङ्गकुटुम्बिनीकरुणकूजि- खिनां मयूराणां शिखण्डानां पिञ्छानां मण्डलानि समूहान् । ताण्डवयन्तः॥ उद्धत नर्तयन्तः । तन्विति । तनूनां कृशानां लतानां पल्लवानां निवहान् समू- हान् । वहदिति । वहतां प्रवहतां निर्झरजलानां झरतोयानां शिशिरशीकराणां शीतलकणानां निकरान् समूहान् । करालयन्तः । विकासयन्तः । कुटजकुइम लानि । गिरि गाडिकाकोरकान् । मकरन्दः । पुष्परसः । मन्दम् । अल्पं यथा तथा । कम्पितनीपवनाः । चलितकदवकाननाः । 57. अनन्तरमिति । अनवरतेति । अनवरतं सदा करालं भयंकर कालं श्यामं कोले पकानां शुनां कुलं सङ्कः तेन कवलनया भक्षणेन आकुलिताः को- लाः सकराः करिण: गजाः कुरङ्गाः हरिणाः कण्ठीरवकिशोराः सिंहशिशवः पृष- न्नः श्वेतविन्दयुक्तमृगाः “पृषन्मृगे पुमान् बिन्दौ नद्वयोः पृषतोपिना । अनयोश्च निपुश्वेतबिन्दुयुक्तेप्युभाविमा" इति । तेषां पृष्ठतो धावितेसति । वधव्याधीन् । वधएव व्याधिर्यशान्तान् । व्याधान् । किरातान् । अन्तरान्तरा । मध्ये मध्ये । करः। किरण: हस्तश्च । मध्यस्थताम् । दिनमध्यस्थिति तटस्थताञ्च । गभस्ति- मालिनि । सूर्य । वीरधाम् । लतानाम् । पुष्पेति । पुष्पाणि लोचनानीव तेभ्यः । बाप्पेषु । अधुषु । विलीनः । विद्रुतः । विमर्देति । विम- दन विनाशेन (जात) उपालम्भे निन्दावचनेषु । उड्डोनाः । उत्पतिताः । विहङ्गाः । पक्षिणः । विरुतानि । शब्दाः । विघट्टितेति । विहिताः विम. र्दिताः अर्भकाः यासान्तथोक्तानां कुरङ्गकुटुम्बिनीनां हरिणाशनानां करुणकूजितव्या.

दमयन्तीकथायाम् तव्याजेनान्यायमिव फूलुर्वतीषु वनराजिषु, इतस्ततः संचरचटुलतरतु- रंगखुरशिखरशिखोत्खातधरणिमण्डलाद्वनविनाशवाती गगनचरेभ्यः कथयितुमिवोत्पतितेऽम्बरतलमकृतपरित्राणे च मूर्छित इव पुनः पुनः पतति भुवि भवनपारावतपतत्रिपत्रधूसरे धूलिपटले, सकम्पकपिकला पोल्ललनलुलिततरुतरुणमञ्जरीपुञ्जनिकुञ्जादुद्वेजिते मनु गुञ्जति वनान्त- रमपरमुच्चलिते चञ्चलचश्चरीकचक्रवाले, चङ्कमणक्रमेण च संपन्ने सैन्यस्य श्रमावसरे तस्यैव सरससरलसालद्रुमस्याधस्तान्निषण्णे श्रमभाजि राजनि॥ अकस्मात्कुतोऽपि वल्लीवल्कपिनद्धधूसरशिराः स्कन्धे दधद्दण्डकं ग्रीवालम्बितमन्मणिः परिकुथत्कौपीनवासाः कृशः । एकः कोऽपि पटच्चरं चरणयोर्बद्धाऽध्वगः श्रान्तवा- नायातः क्रमुकत्वचा विरचितां भिक्षापुटीमुद्वहन् ॥१२॥ जेन शोकध्वनिमिषेण । न्यायस्याभावः अन्याय "अव्यय विभक्ति' इत्यादिना- व्ययीभावः । इति वनराजिषु वनपतिषु फूत्कुर्वतीषु फूत्कारं आजिल्पनं कुर्व- तष्विव सतीषु । चटुलः । चञ्चलः । खुरशिखराशिखा। शफाग्राग्रं । अम्ब- रतलं । नभस्थलं प्रति । अकृतपरित्राणे । अलब्धरक्षण । मूर्छिते। सञ्जातमूर्छ । भवनेति । गृहकपोतपक्षिगरुदिवधूसरम् धूम्रवर्ण तस्मिन् । पटले। समूहे । सकम्पति । सकम्पानां कपिकलापानां वानरसङ्घानां उल्लन्टनेन आन्दो- लनेन लुलितं मृदितं तरोः तरुणमञ्जरीणां प्रौढवल्लरीणां पुजं वृन्दं यस्मिन् तथोक्तात् निकुञात् । उद्वेजिते । भीते । मञ्जु । मनोज्ञं यथा तथा । गुञ्जति । शब्दाय- माने । बञ्चरीकचक्रवाले । भ्रमरसङ्के । चंक्रमणं । सञ्चारः । सम्पन्ने । प्राप्तसति । सरसेति । सरसस्य निग्धस्य सरलस्य अवक्रस्य सालद्रुमस्य । अधस्तात् । अधः । निषण्णे । उपविष्टे सति ॥ ५२. भकस्मात् । अतर्किते । अव्ययमिदं । वल्लीति । वल्लीवल्केन लतात्वचा पिनद्धं बद्धं धूसर धूम्रवर्ण शिरः यस्य तथोक्तः स्कन्धे अंसे दण्डक अल्पदण्डं दधत् धरन् ग्रीवायां कण्ठे आलम्बित: मृन्मयमणिः काचमणिः यस्य सथोक्तः परितः कुथत् पूतीभवत् “कुथपूतीभावे'' इत्यस्माच्छता यद्वा परितः कुथइवकंवलइवाचर तीति परिकुथत् कौपीनवास: कौनिवस्त्र यस्य तथोक्तः ..

प्रथम उच्छ्वासः 58. भागत्य च राजानमवलोक्य सविस्मयमेवमेष चिन्तयांचकार॥ अब्जश्रीसुभगं युगं नयनयोर्मोलिमहोप्णीषवा- नूर्णारोमसखं मुखं च शशिनः पूर्णस्य धत्ते श्रियम् । पद्मं पाणितले गले च सदृशं शङ्खस्य रेखात्रयं तेजोऽप्यस्य यथा तथा सजलधेः कोऽप्येष भर्ता 19. तदेवंविधाः खलु महनीया महानुभावा भवन्तीत्येवमवधार्य समु. पसृत्य " स्वस्ति स्वकान्तिनिर्जितमकरध्वजाय तुभ्यम्” इत्यवादीत् ॥ 60. राजापि सविस्मयमना मनागुन्नमितमस्तकः खागतप्रश्नेनाभिनन्द्य भुवः॥ 1- (कूपपतनमर्हतीति कौपीन अकार्य “शालीनकौपीने अधृष्टाकार्ययोः" इति साधु भकार्यहेतुत्वात् पुरुषलिङ्गमपि तदाच्छादकत्वात् गुह्यचीरमपि कौपीनं ) कृशः कार्यवान् श्रान्तवान् गमनश्रमवान् क्रमुकत्वचा पूगतरुवल्केन विरचितां कृतां भिक्षापुटी भिक्षापात्र उद्वहन् एकः कोपि अध्वगः पथिकः चरणयोः पटच्चर जीर्णवस्त्रखण्डं बड़ा आयातः । शार्दू ..... वृत्तम् ॥ 58. आगत्येति । सविस्मयं ॥ साश्चर्य । एषः । अध्वगः ॥ ५३. अब्जेति ॥ यथा येन प्रकारेण अस्य (नलस्य) नयनयोः युग द्वयं अब्जस्य पद्मस्येव श्रिया कान्या सुभगं सुन्दरं (अस्ति) मौलिः शिरः महत् उष्णी- पं शिरस्थितलक्षणविशेषः "उष्णीषन्तु शिरोवेटे किरीटेलक्षणान्तरे" इति विश्वः। तद्वान् अस्ति । यद्वा महान् उष्णीषवांश्च । ऊर्गारोम्णः भ्रूमध्यरोमावर्तस्य सखायं कर्णरोमसखं भ्रूमध्यशुभरोमावर्तयुक्तमित्यर्थः । “राजाहस्सखिभ्यः" इति टच् मुखं पूर्णस्य शशिनः चन्द्रस्य श्रियं धत्ते धारयति । पाणितले (विषये) पद्मं सदृश अस्ति। गले कण्ठे (विषये) शङ्खस्य कम्बोः रेखाणां त्रयं सदृशं अस्ति तेजोपि दीप्ति- रपि अन्यादृशमस्तीति शेषः । तथा तेन प्रकारेण एषः पुरुषः सजलधेः ससमुद्राया भुवः कोपि अनिर्वचनीयप्रभावः भर्ता पतिः (इति मन्ये) अत्र उपमानिदर्शना- प्रतीपालङ्काराः । निदर्शनाप्रतीपलक्षणेतु ॥ "वाक्यार्थयोस्सदृशयोरैक्यारोपोनिदर्श- ना । प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम्" इति । वृत्तं पूर्ववत् ॥ 59. तदिति । महनीयाः। पूज्याः । अवधार्य । निश्चित्य । समु. पसृत्य । समीपमागत्य । स्वस्ति । कुशलमस्तु । मकरध्वजः । मन्मथः । भवादीत । उक्तवान् ॥ 60. राजेति ॥ मनाक । ईषत् । मस्तकः। शिरः । स्वागतम् । सुत्रु आगतम् । अभिनन्य । (अध्वगं) सन्तोष्य । तीर्थयात्रिक । तीर्थ क्षेत्रा- दमयन्तीकथायाम्: " तीर्थयात्रिक, कुतः प्रष्टव्योऽसि । क च कियच्चाद्यापि गन्तव्यम् । उपविश । विश्रम्य कथय कांचिदपूर्वी किंवदन्तीम् । अनेकदेशदृश्वानः किलाश्चर्यदर्शिनो भवन्तीति । न चाकस्मिकं दर्शनमपूर्वः परिचयः स्वल्पा प्रीतिरित्येकमप्याशङ्कनीयम् । अपूर्वदर्शनेऽपि न जात्या मणयः स्वां स्वच्छतामपहुवते । तदेहि । मुहूर्तमेकत्र गोष्ठीसुखमनुभवावः इत्येनमवादीत् ॥ 61. असावपि “अपूर्वकौतुककथाकर्णनरसिक, श्रूयतां यद्येवम्” इत्य- भिधाय सुरखोपविष्टस्यास्य समीपे स्वयमुपविश्य कथयितुमारभत ॥ अस्ति स्वर्गसमः समस्तजगतां सेव्यत्वसंख्याग्रणी- देशो दक्षिणदिङ्मुखस्य तिलकः स्त्रीपुंसरत्नाकरः । यस्मिंस्त्यागमहोत्सवव्यसनिभिर्धन्यैरशून्या जनै- रुद्देशाः स्पृहणीयभावभरिताः कं नोत्सुकं कुर्वते ॥५४॥ ॥ दिकम्प्रति यात्राशीलमस्येति यात्रिक: तस्य सम्बुद्धिः । “शील'' इति ठक् । कुतः । आगच्छसीति शेषः । कियत् ॥ किंप्रमाणमस्य कियत् किय(रमित्यर्थः । किंवदन्तीं ॥ जनवाती । अनेकेति । अनेकान्देशान्दृष्टवन्तः । “दृशेः क्वान' इति क्वनिप् किलेति प्रसिद्धौ । आकस्मिकम् ॥ अकस्मात् भवं आकस्मिकम् । परिचयः । सल्लापादिकम् । नेति ॥ जातौ भवाः जात्याः विशिष्टजातीयाः मणयः रनानि स्वां स्वीयां स्वच्छता निर्मलतां नापलुवते न छादयन्ति । (इयं लोकोक्तिः) एहि । आगच्छ । मुहूर्तम् ॥ घटीद्वयपरिमितकालम् । गोष्ठी। विनोदकथालापनम् 61. असाविति । रसिक । रसः (प्रीतिः ) अस्यास्तीति रसिकः तस्य सम्बुद्धिः ॥ ५४. अस्तीति । खर्गेण समः समस्तजगतां सेव्यत्वसङ्खवायां आश्रयगी. यत्वसङ्ख्याने अग्रणीः प्रथमः । दक्षिणस्याः दिशः (चतुरनायिकायाश्च) मुखस्य प्राग्भागस्य (आननस्यच ) तिलक: विशेषकायितः । स्त्री च पुमांश्च स्त्रीपुंसौ । "अचतुर" इत्यादिनानिपात्यते । स्रीपुंसौ च स्त्रीपुंसौ च स्त्रीपुसौ च स्त्रीपुंसाः तएव रत्नानि तेषां आकरः स्थानं समुद्रश्च । देशः (विदर्भदेशः) अस्ति । यस्मि- न्देशे। त्यागः दानमेव महोत्सवः तत्र व्यसनिभिः आसक्तैः धन्यैः सुकृतिभिः जनैः अशून्याः अरहिताः स्पृहणीयैः भात्रैः पदार्थैः भरिताः उद्देशाः प्रदेशाः प्रथम उच्छ्वासः 62. कथं चासौ न प्रशस्यते ॥ 63. यत्र त्रिपुरपुरंधिरोधतिलकहारिणा हरिविरञ्चिचूडामणिमरीचिचक्र- चकोरचुम्बितचरणनखचन्द्ररुचिनिचयेन भगगता सेव्यते सेव्यतयाऽप- हसितकैलासश्रीः श्रीशैलः शूलपाणिना ॥ 64. यत्र च विकचविविधवनविहारसुरभिसमीरणान्दोलितकदलीदल- व्यजनवीज्यमानानिधुवनविनोदखेदविद्राणनिद्रालुद्रविडमिथुनसनाथपरि- सराः सरसघननिचुलतलचलच्चकोरचक्रवाककुलकापञ्जलमयूरहारीतहा- रिण्यो नाकलोककमनीयतां कलयन्ति कलमकेदारसारा: सरससहकार- कारस्कराः कावेरीतीरभूमयः॥ कं जनं उत्सुकं उत्कण्ठावन्तं न कुर्वते । सर्वमुत्सुकं कुर्वन्तीत्यर्थः । अत्र उपमा रूपककाव्यलिंगान्यलकाराः शार्दू ...वृत्तम् ॥ 62. कथमिति । असौ । देशः । प्रशस्यते । प्रकर्षेण श्लाध्यते ॥ 63. यत्रेति । यत्र देशे त्रिपुराणां अयोरजतहिरण्यमयपुरत्रयाधेिपासुराणां पुरन्ध्रीणां स्त्रीणां रोधतिलक लोध्रपुष्पविरचितविशेषकं हरतीति तच्छीलेन त्रिपु. रासुरहननात् तात्त्रियो विधवाः कुर्वतेत्यर्थः (अत्रपर्यायोक्तालङ्कारः) हरिविरिञ्चयोः विष्णुब्रह्मणोः चूडामण्योः शिरोरत्नयोः मरीचिचकैः किरणसमूहैरेव चकोरैः तदा- ख्यपक्षिभिः चुम्बितः भक्षितः । चरगनखा एव चन्द्ररुचयः चन्द्रकान्तयः तासां निचयः समूहः यस्य तथोक्तेन ( अत्ररूपकालङ्कारः) भगवता शूलपाणिना शिवेन अपहसिता कैलासस्य श्रीः शोभा येन तथोक्तः श्रीशैलः सेव्यतया आश्रयणीयत्वेन सेव्यते आश्रीयते ॥ 64. यति ॥ विकचेषु विकसितेषु विविधवनेषु विहारेण सञ्चारेण सुरभि- गा वासितेन समीरणेन वायुना आन्दोलितैः कम्पितैः कदलीदलैरेव व्यजनैः ताल- वृन्तैः वीज्यमानैः वीजनेनोपचर्यमाणैः निधुवनविनोदेन सुरतक्रीडया यो खेदः श्रमः तेन विद्राणैः श्रान्तैः निद्रालुभिः निद्रावद्भिः द्रविडानां मिथुनः अनेकत्रीपुंसः सनाथः सहितः परिसरः समीपप्रदेश: यासान्तथोक्ताः । सरसानां स्निग्धानां घना- नां निबिडानां निचुलानां वानीराणां तलेषु चलद्भिः चकोरैः चक्रवाकानां कुलेन स. मूहेन कपिजलमयूरहारीतैश्च हारिण्यः मनोहरणशीलाः । कलमकेदारैः शालिक्षेत्रः साराः श्रेष्ठा: सरसाः स्निग्धाः सहकारफारस्कराः चूतवृक्षाः यासु तथोक्ताः । का. वेर्याः तीरभूमयः नाकलोकवत् स्वर्गवत् कमनीयता रमणीयतां कलयन्ति रचयन्ति॥ ..

१६ दमयन्तीकथ याम् कि बहुना। अस्तु खस्ति समस्तरलानिधये श्रीदक्षिणस्यै दिशे स्वर्गस्पर्धिसमृद्धये हृदयहृदोदावरीरोधसे । यत्र त्रस्तकुरङ्गका कदृशः संभोगलीलाभुवः सौख्यस्यायतनं भवन्ति रसिकाः कंदर्पशस्त्रं स्त्रियः ॥२५॥ 65. तत्र प्रणतसुरामुरशिरः शोणमाणिमराचिचयबहलकुङ्कुमानुलेपपल्ल- वितपादारविन्दद्वयस्य क्रौञ्चभिदो भगवतः सुगन्धिगन्धमादनाधिवा- सिनः स्कन्ददेवस्य दर्शनार्थमितो गतवानस्मि ॥ 66. तस्माच्च निवर्तमानेन कचिदेकस्मिन्नध्वरोधिनि न्यग्रोधपादपतले दीर्घाध्वश्रान्तेन विश्राम्यता मया श्रूयतां यदाश्चर्यमालोकितम् ॥ 67. अतिललितपदविन्याससारसाधुसिन्धुरवधूस्कन्धमधिरूढा, प्रौढस- ५५. अस्त्विति ॥ समस्तानां रत्नानां श्रेष्टवस्तूनां निधये आश्रयाय । वर्ग स्पर्धते ताच्छील्येनाभिभवितुमिच्छतीति वर्गस्पर्धिनी समृद्धिः सम्पत् यस्यास्तथा भूतायै । हृदयहृत् मनोहरं गोदावर्याः रोधः तीरं यस्यान्तथोक्तायै । श्रीमत्यै दक्षि- णस्यै दिशे अवाच्यै स्वस्ति मङ्गळं अस्तु । यत्र दिशि त्रस्तानां भीतानां कुरङ्गका- भकाणां मनोज्ञहरिणशिशूनामिव दृशौ यासान्तथोक्ताः सम्भोगलीलायाः क्रीडाविला- सस्य भुवः स्थानानि रसिकाः अनुरागिण्यः स्त्रियः सौख्यस्य आयतनं आस्पदं कन्द- पस्य कामस्य शस्त्रमायुधश्च भवन्ति । वेदाः प्रमाणमित्यादिवत् आयतनं शस्त्रमित्य- त्र क्लीबत्वमेक-वञ्च । अत्र उपमारूपककाव्यलिङ्गान्यलङ्काराः शार्दू...वृत्तम् ॥ 65. तवेति ॥ प्रणतसुरासुराणां शिरस्सु (स्थिताः ) शोणमणिमरीचिच. याः पद्मरागकान्तसमूहा एव बहुल कुङ्कुमानुलेपाः अधिकसिन्दूरविलेपनानि तैः पल्ल- वितं सजातकिसलयमिव स्थितं पादारविन्दद्वयं यस्य तथोक्तस्य । क्रौञ्चं तदाख्यम- सुरावासगिरि भिनत्ति स्म क्रौञ्चभित् तस्य भगवतः शोभनः गन्धः यस्मिन्सः सुग. न्धिः " गन्धस्येत्” इत्यादिना इत्वम् । य: गन्धमादनः तदाख्यगिरिः तमधिव- सतीति तच्छीलस्य । स्कन्ददेवस्य कुमारस्वामिनः दर्शनार्थ इतः अस्मादुत्तरदेशात्। अस्मि अहं गतवान् ॥ 66. तस्मादिति ॥ अध्वरोधिनि ॥ अध्वानं मार्ग ताच्छील्येन रुणद्धि आवृणोतीति तथाभूते । विश्राम्यता । आयासनिवृत्तिं गच्छता ॥ 67. अतीति । अत्यन्तं ललितेन सुन्दरेण पदन्यासेन चरणनिक्षेपेण सा- रायाः श्रेष्ठाया: साध्व्याश्च सिन्धुरवधाः करिण्याः स्कन्धं ककुत्प्रदेशं भधिरूडा .. ..

'प्रथम उच्वासः . खीसहायप्राया, प्रान्तपतच्चारुचामरमरुन्नर्तितालकवल्लरी, कर्णकुवलया- लंकारधारिणी, रुचिररुचिमचरणनूपुरा, पुरःसरसरागगान्धर्विककण्ठ- कन्दरविनिःसरत्सरसमीतप्रेङ्खोलनप्रयोगेषु दत्तावधाना, नेत्रे मनाङ्मी- लयन्ती, ध्रियमाणमायूरातपत्रमण्डला, मण्डलितमदनचापचक्रवक्रभूः, भूपालपुत्रिका कापि क्वापि कुतोऽप्युञ्चलिता तदेव न्यग्रोधच्छायामण्ड पमशिश्रियत् ॥ 68. तां चालोक्य चिन्तितवानस्मि विस्मितमनाः ॥ " किं लक्ष्मीः स्वयमागता मुररिपोर्देवस्य वक्षःस्थला कोपात्पत्युरुतावतारमकरोद्देवी भवानी भुवि । श्यामाम्भोजसदृक्षपक्ष्मलचलन्नेत्रामिमां पश्यतो धातस्तात करोषि किं न वदने चक्षुःसहस्रं मम ॥५६॥ -- आरूढा । प्रौढसखीभिरेव सहायैः प्राया बहुला । प्रान्ले पार्श्वे पतनोः चारुचामरयो- मरुता वातेन नर्तिताः कम्पिताः अलकाः कुन्तलाः वल्लयइव यस्यास्तथोक्ता । क- र्णयोः कुवलयालङ्कारं नीलोत्पलावतंसं धारयतीति तच्छीला । रुचिरौ सुन्दरी रुचिमन्तौ कान्तिमन्तौ चरणयोः नूपुरौ मजीरौ यस्यास्तथोक्ता । पुरः सरन्तीति पुरस्सरा: सरागाः मालवादिरागयुक्ताः गन्धर्वाणामिद यद्वा गन्धर्वेभ्यः आगत गान्धर्वम् सङ्गीतं तद्विदन्ति तेन जीवन्ति वा गान्धर्विकाः तेषां कण्ठकन्दरान् गलबिलात् विनिस्सरतां विनिर्गच्छतां सरसानां गीतानां प्रेढोलनस्य प्रेक्षितस्य प्र. सरणस्येति यावत् । प्रयोगेषु क्रियाविधिषु प्रारम्भेष्विति यावत् । दत्तं अवधानं अवहितत्वं यया सा । मनाक । किञ्चित् । ध्रियमाणेति ॥ ध्रियमाणानि मयू- राणां इमानि मायूगणि बर्हागि तैः कृतानि आनपत्रमण्डलानि छत्रसमूहाः यस्या- स्तथोक्ता। मण्डलितेति ॥ मण्डलिते मण्डलवत्कृते मदनस्य कामस्य चापे धनु- षी एव चक्रे तद्वत् वके कुटिले भुवो यस्यास्तथोक्ता । क्वापि । कुत्रापि देशे स्थिता । कुतोपि ॥ कुतोपि नगरात् । उच्चलिता। निर्गता । आशिथि यत् । आश्रितवती॥ 68. तामिति । विस्मितमनाः । माश्चर्ययुक्तचित्तः ॥ ५६. किामाते । स्वयं साक्षात् लक्ष्मोः कोपात् देवस्य मुररिपोर वक्षःस्थ- नात् उरस्थलं विहाय 'ल्यब्लोपेपञ्चमी' आगता किम् । उत अथवा देवी भवस्य स्त्री भवानी शिवा 'इन्द्रवरुणभव' इत्यादिना डीए आनुक्च । कोपात् पत्युः पतिं विहाय ६८ दमयन्तीकथायाम् अपिच । इन्दोः सौन्दर्यमास्यं कलयति कमलस्पर्धिनी नेत्रपत्रे कालिन्द्याः कुन्तलाली तुलयति विभवं भव्यभङ्गैस्तरङ्गैः । तस्याः किं श्लाध्यतेऽन्यत्सुभगगुणनिधेः काप्यपूर्वैव यस्याः पुष्पेषोर्वैजयन्ती जयति युवजनोन्मादिनी यौवनश्रीः।।५७॥ अपिच। आकारः स मनोहरः स महिमा तद्वैभवं तद्वयः सा कान्तिः स च विश्वविस्मयकरः सौभाग्यभाग्योदयः । एकैकस्य विशेपवर्णनावधौ तस्याः स एव क्षमो यस्यास्मिन्नुरगप्रभोरिव भवेजिह्वासहस्रद्वयम् ।। भत्रापि ल्यब्लोपे पञ्चमी। भुवि अवतारं अकरोत्कि इति । श्यामाम्भोजयोः नीलोत्प. लयोः सदृक्षे समाने पक्ष्मले निबिडपक्ष्मवती पक्ष्मन् शब्दात् 'सिध्मादिभ्यश्च इति इलन्। चलन्ती चञ्चले च नेत्रे यस्यास्तथाभूतां इमां पश्यतः । मम वदने चक्षुषां स. हस्रं हे तात पितः धातः ब्रह्मन् किं नकरोषि। इमां सहस्रेण दृम्भिरालोक्य तृप्तस्या- मितिशङ्केति भावः । अत्र सन्देह उपमा पर्यायोक्तालङ्काराः । वृत्तं पूर्ववत् ॥ ५७. इन्दोरिति ॥ तस्याः राजपुत्रया: आस्यं वक्तं इन्दोः चन्द्रस्य सौन्दर्य कलयति धत्ते । तस्याः नेत्रपन्ने नयनदले कमले स्पर्धितुं अभिभवितुं शीलवती भव्यैः रम्यैः भंगैः कुटिलविच्छित्तिविशेषैः (युक्ता ) तस्याः कुन्त लाली अळकावलिः तरङ्गः ऊर्मिभिः (युक्तायाः) कालिन्द्याः यमुनायाः विभवं महिमानं तुलां उपमा आचटे तुलयति अमुनावन्नीलेयर्थः । तुलाशब्दात् 'तत् करोति तदाचष्टे' इति णिच् । तस्याः अन्यत् इतरदङ्गजातं श्लाध्यते किं अनुपमत्वादनेन वस्तुनेदमङ्ग- न्तुल्यामिति न वर्ण्यते ययाजानामतिरमणीयत्वं तां यौवनश्रियं वर्णयति सुभगेन्यादिना सुभगाणां सुन्दराणां गुणानां निधेः यस्याः यौवनश्रीः कापि अनिदेश्यविभवा अपूर्वा पुष्पेषोः मन्मथस्य वैजयन्ती पताकेव युवजनान् तरुणान् उन्मादयति मोह- यतीति तच्छीलासती जयति सर्वोत्कृष्टा वर्तते । अपूर्ववेति पाठे सा कन्या लाप्य- पूर्ववेत्यर्थः । अत्र उपमालकारः । आक्षेपालङ्कारश्च तलक्षणन्तु 'विशेषबोधायोक्त- स्य वक्ष्यमाणस्य वा भवेत्। निषेधाभासकथनमाक्षेपस्समुदाहृतः' इति । वृत्त पूर्ववत्॥ ५८. भाकार इति ॥ तस्याः मनोहरः रम्यः आकारः आकृतिः स एव नान्यस्तत्तुल्य इत्यर्थः । महत्याः भावः महिमा पूज्यता स एव वैभव पाटवं तदेव वयः यौवनवयः तदेव कान्तिः शोभा सैव विश्वस्य प्रपञ्चस्य विस्मयकरः आश्चर्य, बहुना। प्रथम उच्छासः ५९ 89. सापि यथा त्वमिदानी मामिह पृच्छसि तथार्धपथमिलितं कंचि. दुदीचीनमध्वगं दक्षिणस्यां दिशि प्रस्थितमादरेण पृच्छन्ती मुहूर्तमिव तत्रैव विश्रमितुमारभत ॥ 70. श्रुतश्चायं मयापि तेन तस्याः पुरः कस्यचिदुदीच्यनरपतेः श्लाघ्य- मानस्य कथावशेषालापः ॥ तस्मिन्स्मितमुखे यूनि यूपदीर्घभुजद्वये । ते धन्या न्यपतन्येषां कंदर्पसदृशे दृशः ॥ ५९॥ किं सा त्वं मन्मथमञ्जरी स च युवा भृङ्गस्तवैवोचितः श्लाघ्यं तद्भवतोः किमन्यदपरं किं त्वेतदाशास्महे । भाग्यैर्योग्यसमागमेन युवयोर्मानुष्यमाणिक्ययोः श्रेयानस्तु विधेविचित्ररचनासंकल्पशिल्पश्रमः ॥६॥ कारी सौभाग्यं शोभनमङ्गलविशिष्टत्वं तदेवभाग्यं तस्य उदयः आविर्भावः स एव । आस्मिन् जगति यस्य कविसार्वभौमस्य उरगप्रभोः आदिशेषस्येव जि- हानां रसनानां सहस्रद्वयं भवेत् स एव तस्याः (संबन्धिनः) एकैकस्य (वरुनः) विशेषस्य अतिशयस्य वर्णनस्य विधौ कर्मणि क्षमः शक्तः । अत्र उपमा काव्याल ङ्गपर्यायोक्तालंकाराः निद्दिष्टाः अनन्वयालंकारोध्वन्यते च । वृत्तपुरवत् ॥ 69. सेति । अर्धेति ॥ अर्धे पथः (मार्गस्य) अर्थपथः पथिन्शब्द- स्य "ऋक्पूरब्धूः पथामानक्षे” इत्यनेन समासान्तः अप्रत्ययः । अर्धपथे मिलितं सङ्गतं । उदीचीनम् ॥ उदक् (उत्तरा) भवम्।प्रस्थितं । कृतप्रयाणं । विश्र- मितुं । आयासनिवृत्तिं कर्तुं ॥ 70. श्रुतइति । उदीच्यः ॥ उदक् भवः । कथेति । कथायाः चरित्रस्य अवशेषस्य शेषस्य आलाप: कथनं । ५९. तस्मिन्निति ॥ स्मितमुखे हासयुक्त वदने यूपवत् उपाकरणार्थ. पशुबन्धनस्तम्भवत् दीर्घ भुजद्वयं यस्य तथोक्ते । कन्दर्पसदृशे भन्मयतुल्ये तस्मिन् मयावर्णिते यूनि तरुणे । येषां दृशः नेत्राणि न्यपतन् निपतन्तिस्म । ते धन्याः पुण्यवन्तः । भत्र उपमाकाव्यालिले अलङ्कारौ । श्लोकवृत्तं ।। ६०. सेति ॥ सा तथाविधा त्वं मन्मथोद्दीपिका मञ्जरी वल्लरीव असि भंग: मञ्जरीमकरन्दपानाहेः सः युवा तादृशस्तरुणश्च तवैव चतः योग्यः भवतीच .

१० दमयन्तीकथायाम् 1. तन्न जाने स कः सुकृती तेन तस्याः श्रवणादेवोल्लसद्बहुलपुल- काङ्कुरोत्तम्भितांशुकायाः पुरो विस्तरेणैवं वर्णितः 72. न च मयापि विस्मयविस्मृतविवेकेन केयं कस्येयं कुत्र कुतो वा प्रस्थितेति प्रश्नाग्रहः कृतः । केवलमदृष्टपूर्वरूपोत्पत्ताकस्मिककौतुका- तिरेकास्तमितसमस्तान्यव्यापारेणैकाग्रतया ग्रहनिरुद्धेनेवान्धेनेव मूकेनेव मूढेनेव मूर्छितेनेव संजातसंतमसेनेव विषविचूर्णितेनेव स्तोभस्तम्भितेनेव गतायामपि तस्यां तेनाध्वनीनेन सह तत्रैव न्यग्रोधतरुतले सुचिरमा- सितमासीत् ॥ .. भवांश्च भवन्तौ तयोः भवतोः “पुमान् स्त्रिया" इत्येकशेषः । तत् मिथुनं लाध्यं न विद्यते परं श्रेष्ठं यस्मात्तत् अपरं अन्यत् किं वाच्यम् । किन्तु एतत् वक्ष्य. माणं आशास्महे प्रार्थयामहे “आङश्शासु इच्छायां' इति तङ् । मानुष्ये मानुष- त्वे माणिक्ययोः तदाख्यरत्नविशेष योरिवस्थितयोः त्वञ्च त्वञ्चयुवां तयोः युवयो: (अत्राप्रत्यक्षमपिनलं बुद्ध्यारुढत्वेन प्रत्यक्षमिवमत्वा भवतोः युवयोरिति चोक्ति :) भाग्यैः अदृष्टैः (लब्धेन) योग्यसमागमेन उचितसङ्घटनेन विधेः धातुः विचित्रायां अद्भुतायां रचनायो सृष्टौ सङ्कल्पः मनोव्यापारः स एव शिल्पं कर्म "शिल्पं कर्म- कलादिकं'' इत्यमरः । तत्र श्रमं परिश्रमः श्रेयान् सफल: अस्तु । अत्र रूपकं का. व्यलिङ्गञ्चालंकारौ । शार्दू...वृत्तं ।। 71. तन्नेति ॥ श्रवणात् - युववर्णनाकर्णनात् उल्लसद्भिः प्रकाशमानैः बहुलैराधिकैः पुलकाङ्कुरः रोमाञ्चप्ररोहै: उत्तभितांशुकायाः उद्धृतवस्त्रायाः तस्याः पुरः तेन अध्वगेन यः विस्तरेण एवं वर्णितः सः सुकृती पुण्यवान् कः तन्नजाने । 72. नचेति । विवेकः ॥ विवेचनं कर्तव्याकर्तव्यविचार इति यावत्। प्रश्नाग्रहः । पृच्छायां निर्बन्धः । अहति । पूर्वमदृष्टेन रूपेण उत्पन्नेन अकस्माद्भवेन कौतुकातिरेकेण सन्तोषातिशयेन अस्तमिताः विनष्टाः समस्ताः अन्य- व्यापाराः यस्य तथोक्तन । एकाग्रतया ॥ ऐकाग्र्येण । ग्रहनिरुद्धेन । पूतना- दिदुष्टग्रहाविष्टेनेव । अन्धेन । चक्षुविकलेन । मूकेन । वागिान्द्रयरहितेन । मूढेन । अज्ञेन । मूर्छितेन । सजातमर्छन । सातेति । सञ्जातं सम्यक् ( सर्वतः ) तमः सन्तमसं यस्य तथोक्तेन । " ।“ अवसमन्धेभ्यस्तमसः इत्यच् । विषेति । विषेण विघूर्णितेन विशेषभ्रमं गतेन । स्तोमेति । स्तोभेन क्षोभेण म- नोव्याकुलतयेति यावत् । स्तम्भीकृतेन जडीकृतेनेव च स्थितेन (मया) अध्व- नीनेन । अध्वगेन । आसितम् । स्थितिः । भावे क्तः । अत्रोत्प्रेक्षालङ्कारः ।। " .प्रथम उच्छासः ६१ 78. तदायुष्मन्नेष कथितः स्ववृत्तान्तः ॥ 74. तस्यां दिशि तया सकलजगज्ज्योत्स्नया, अस्मिन्नपि देशे निः- शेषजननयनकुमुदेन्दुना त्वया दृष्टेन, दृष्टं यदृष्टव्यम् । अभूच मे श्लाध्यं जन्म । जाते कृतार्थे चक्षुषी। संपन्नः सफलः परिभ्रमणप्रयासः।। 15. तदिदानी किमन्यत् ॥ 76. अनुमन्यस्व स्वविषयगमनाय माम्" इत्यभिधाय व्यरंसीत् ॥ 17. राजाप्येतदाकर्ण्य चिन्तितवान् ।। स्त्रीमाणिक्यमहाकरः स विषयः पान्थोऽप्यय तथ्यवा- ज्यापारोऽपि विविचित्ररचनम्तकि न सम्भाव्यते । किं त्वाश्चर्यमदृष्टरूपविभवाप्याकर्ण्यमाना सती कान्तेत्युनतचेतसोऽपि कुरुते नानैव निम्नं मनः ॥६१ ।। 73. तदिति ॥ आयुष्मन् । बदुलं आयुर्यस्य तत्य रम्बुद्धिः ।। 74-75. तस्यामिति ॥ सकलेति । सकलजगतां ज्यालया चन्द्रिक- येव स्थितया । निरिति । निश्शे वजनानां नयनानामेव कुमुहानां सितोपलाना इन्दुना चन्द्रेणेव स्थितेन । कृतार्थ । पर्याप्तप्रयोजने स्तः । परिननणप्रयासः। अटनश्रमः ॥ 76-77. अधिति ॥ अनुमन्यस्य । अनुजानीहि । विषयः। देशः। अभिधाय । उक्त्वा । व्यरंसीत् । विरमाते स्म । “व्याङ् परिभ्यो रमः'' इति परस्मैपदम् ॥ ६१. स्त्रीति ॥ सः विषयः दक्षिणदेश: स्त्रीमाणिक्यानां स्त्रीरत्नानां महान आकरः निधिः अयं पान्थः अवगोपि तथा ( सत्ये ) साधु तथ्यं सत्यं तद्युकावा- ग्यस्य तथाक्तः । विधे: धातुः व्यापारः सृष्टिः विचित्रा रचना क्रिया यस्य तथो- क्तः। तत् तस्मात् किन्न सम्भाव्यते नानुमीयते उक्तमखिलं हेतुत्रयेणानुमायत इत्यर्थः । अतएवानुमानालङ्कारः। किन्तु अदृष्टः रूपविभव सौन्दयातिशयः यस्यास्त- थोक्ताऽपि कान्ता कमनीया स्त्री आर्यमानासती ( किमुत दृश्यमाना) उन्नतचे. तसः गम्भीरमनस: पुरुषस्या मन: नानव शव निम्नं लाघवास्पदं कुरुते इत्येतदाश्चर्यम् । अवोत्तरार्धे तस्याश्नवणेन मम मनएवं वर्तत इति प्रस्तुते विशे. 6 :

૧ दमयन्तीकथायाम् तथा हि । नो नेत्राञ्जलिना निपीतमसकृत्तस्याः स्वरूपामृत नो नामान्वयपल्लवोऽपि च मया कर्णावतंसीकृतः । चित्रं चम्बति चुम्बकाश्मकमयो यद्बलादूरत- स्तद्वत्तर्जितधैर्यमेतदपि मे तस्यां मनो धावति ।। ६५ ॥ 78. सोऽयं दुर्लभेष्वनुरागः पुंसाम् , अज्वरमस्वास्थ्यम् , अदौर्गत्यं दौःस्थ्यम् , अविषास्वादनमाघूर्णनम् , असाध्वसं कम्पनम् , अनात्मवि- , षेकथनीये अप्रस्तुतसामान्यकथनात् अप्रस्तुतप्रशंसालङ्कारः "अप्रस्तुतप्रशंसा स्यात् सा यत्र प्रस्तुताश्या” इति तल्लक्षणात् । वृत्तं पूर्ववत् ॥ ६२. नो इति ॥ मया तस्याः ख स्वीयं रूपं आकृतिः यद्वा सौन्दर्यमेव अमृतं सुधा असकृत् अनेकवार नेत्रेणैव अअलिना नो निपीतं न पीतं तस्याः अ. न्वयः वंश एव पल्लवः किसलयमपि मया नो कर्णावतंसीकृत: नाम नैव कर्णाभ- रणीकृत: न श्रुत इत्यर्थः । यद्वत् यथा दूरतः दूरे विद्यमानं अयः लोहं कालायसं अश्मसारो वा (मण्डूर मिति भाषायां ) चुम्वकाश्मकं अयस्कान्तशिलाविशेषं बला- त् बलात्कारेण चुम्बति दृढं स्पृशति । तद्वत् तथा एतत् मे मनोपि तर्जितं भसि. तं त्यक्त मिति यावत् धर्य येन तथोक्तं रात् तस्यां धावति जवेन गच्छति। इद चित्रम् । अत्र रूपकोपमे अलङ्कारौ । वृत्तं पूर्ववत् ॥ 78. सोयमिति । पुंसां दुर्लभेषु ( वस्तुषु ) सोयं अनुराग: आसक्तिः अ. ज्वरं अविद्यमानप्रकटज्वरम् । (आन्तरं कामतापादिकमप्रकटं कारणमस्त्येव ) अस्वास्थ्यं अस्वस्थता रुग्णतेति यावत् । अत्र विभावनामिलित: रूपकालङ्कारः । एवमुत्तरत्रापि । विभावनालक्षणन्तु---" विभावना विनापि स्यात् कारणं कार्यज. न्मचेत्” इति । अदौर्गवं अविद्यमानदारिा दौःस्थ्यं कष्टास्थितिः । अविषास्वादनं विषभक्षणाहेतुकम् । आघूर्णनं भ्रमणं असाध्वसं भयाहेतुकं कम्पनं चलनं अनात्म- विक्रयं आत्मविक्रयाहेतुकं पारवश्यं पराधीनता । अजरं ॥ जरावस्थित्यजन्य । जाड्यम् । “इष्टवानिष्टवा सुखदुःखंवान वेत्ति यो मोहात् । परवशगः सभवेदिह जडसंज्ञक: पुरुषः" इत्युक्तलक्षण: जडः तस्य कर्म जाड्यम् ॥

प्रथम उच्छ्वासः क्रय पारवश्यम् , अजरं जाड्यम् , अनिन्धनं ज्वलनम् , अलग्नग्रहमु- न्मादनम् , अवात्याघातमुद्रमणम् , अमौनं मौक्यम् , अहीनश्रुति बा- धिर्यम् , अनष्टदृष्टिकमन्धत्वम् , अस्खलितमनोरथम् , मनःस्तम्भनम् , अमन्त्र आवेशः॥ 79. सर्वथा नमः सुस्थितजनदुर्जनाय मनोजम्मने, यस्यायमेवंविधो व्यापार इत्यवधारयन्नवतार्य सर्वाङ्गेभ्यो भूषणानि तस्मै सदयमदात् ।। 80 तैस्तैरालापैः स्थित्वा च कंचित्समयमिममथ यथाप्रस्थितं पान्थं क- थमपि प्रेषयामास ॥ 81 स्वयमपि तत्कालान्तरालमिलितैनक्षत्रैरिव सामृगशिरोहस्तैः सश्र- वणचित्रकृत्तिकोपस्करवाहिभिः पापद्धिकपरिजनैरनुगम्यमानो राजा नि- जावासमयासीत् ॥ अनिन्धन ॥ एधोरहितं । ज्वलनं दीप्तिः । अलग्नग्रहं । असंसक्तपूतनादि. दुष्टंग्रह । उन्मादन चित्तभ्रमः । अवात्याघातं । वातानां समूहः वात्या तया घातः पीडा तद्रहितं । उद्धमणं अधिकंघूर्णनं । अमौनं अभाषणरहितं । मौक्यं मूकत्वं । अहीनश्रुति । अहीना अरहिता श्रुतिः श्रवणं यस्मिंस्तथोक्तं । बाधिर्य बधिरत्वं । अनष्टा दृष्टियस्मिस्तत् अन्धवं अस्खलिताः भ्रषरहिताः मनोरथाः यस्मिंस्तथोक्तं भनसः स्तम्भनं स्तब्धता अमन्त्रः निवर्तकमन्त्ररहितः आवेश: भूतावेशनम् ॥ 79. सर्वथेति । सुस्थितेति ॥ सुखेन स्थितेषु जनेषु दुर्जनाय । मनोजन्मने । कामाय । अवधारयन् । निश्चिन्वन् । अवतार्य ॥ उन्मोच्य । सदयं । सकृपं ॥ 80. तैरिति । आलापः ॥ मिथाभाषणः । समयं । काले । यथा- प्रस्थितं । प्रस्थितं यात्रा (भावे क्तः) तदनतिक्रम्य ॥ 81. स्वयमिति ॥ राजा नल: चन्द्रोपि स्वयमपि तत्कालं तत्क्षणं अन्तराले मार्गमध्ये मिलितैः सङ्गतैः । तस्मिन् ज्योतिःप्रसिद्धे काले (अष्टशती. लक्षणे) कलासमूहे यदन्तरालं तत्र मिलितैश्च । नक्षत्ररिव । आः मृगाणां हरि- मानां शिरोभेः सहिताः हस्ता येषान्तथोक्तः । पक्षे आया (नक्षत्रण) सह मृग- शिरः हस्तश्च (नक्षत्र) येषु । सश्रवणां सकर्णी चित्रस्य चित्रकमृगस्य कृक्तिका दमयन्तीकथायाम् ततः प्रभृति च हृयोद्यानमरुत्तरङ्गितसरित्तीरे तरूणामध- स्तल्पेऽनल्पसरोजिनीनवदलप्रायेऽपि खिन्नात्मनः । धीरस्यापि मनाङ्मनस्तृणकुटीकोणान्तराले बला- लग्नोऽस्येति विभाव्यते परवशैरङ्गैरनङ्गानलः ॥ ६३ ॥ एवमस्य पुनरपि तदभिज्ञान्पृच्छतः पान्थसार्था- प्रतिपथमथ यूनो यान्ति तस्य क्रमेण । त्वचं उपस्करं मृगयोपयोगिसभारं यद्वा वासनाद्रव्यविशेषञ्च वहन्तीति तच्छालैः श्रवणचित्राभ्यां (नक्षत्राभ्यां) सहिताः कृत्तिकाः (नक्षत्राणि) तासां उपस्कर सम वायं वहन्तीति तच्छीलैश्च । पापानां ऋद्धिः (वृद्धिः) यस्यां सा पापधिः मृगया सा शीलं एपान्ते पापर्धिकाः शीलं" इति ठक् । ये परिजनाः तैः अनुगम्यमानस्स- न् । निजं आवासं वासस्थानं अयानि प्राप्तवान् ॥ ६३. हृद्येति ॥ हृधरय हृदयप्रियस्य उद्यानस्य आरामस्य मरुता वातेन तरीङ्गतायाः चञ्चलाया: सरितः नद्याः तीरे तरूणां वृक्षाणां अधः अधस्तात् अन- स्पैः महद्भिः सरोजिन्याः पद्मिन्याः नवदलैः नूतनपत्नः प्राये बहुले तल्पे शय्याया- मपि खिन्नात्मनः आयस्तमनसः धीरस्य धैर्यवतोपि अस्य नलस्य मनाक किञ्चि. त् अगु इति यावत् मनः एव तृणरचिता कुटी कुटीरं तस्याः कोणस्य एकदेशस्य अन्तराले मध्य बलात् अनशानलः कामानिः लग्नः संबद्धः इति परवशैः अस्वा- धीनैः अझै: अवयवैः विभाव्यते अनुमीयते । अत्रानुमानालंकारः “साध्यसाधन- निर्देशत्वनुमानमुदीर्यत" इति तल्लक्षणात् । शार्दू......वृत्तं ॥ ६४. पुनरिति । अथ पुनरपि तां राजकन्यां अभिजानन्तीति तदभिज्ञास्तान् पान्थसाथीन् पथिकसवान् पथिपथि प्रतिपथं प्रतिमार्ग। प्रतिपदमिति पाठे प्रतिक्षण, मित्यर्थः। पृच्छतः। हरस्य शिवस्य चरणसरोजद्वन्द्वस्य पादपद्मद्वयस्य मुद्रा बोधक- दिन्यासविशेषः अङ्कः चिह्न यस्य तथोक्तः मौलि: किरीटं यस्य तथोक्तस्य यूनः प्रथम उच्छ्रासः हरचरणसरोजद्वन्द्वमुद्राङ्कमौले- मदनमदनिवासा वासराः प्रावृषेण्याःः ॥ ६४ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तकिथायां हर- चरणसरोजाङ्कायां प्रथम उच्छासः समाप्तः ॥ तस्य नलस्य मदनमदस्य काममदस्य निवासाः प्रावृषि (वर्षासु) भवाः प्रावृषेण्या: प्रावृषएण्य:" इत्येण्यः। वासराः दिनानि क्रमेण यान्ति॥ अनुप्रासोनामशब्दालं. कारः । मालिनीवृत्तं ॥ इतीति। हरचरणसरोजांकायां । प्रत्युच्छ्वास अन्ते हरचरण सरोजपदं अंक.यस्यान्तस्यां॥ श्रीनलचंपूप्रथमाच्छामं नारायणाभिधोविद्वान् । परिमलसंज्ञव्याख्यामुराभि तमतनुत सिताटवीवासी॥ इति चेनपत्तनविराजमानपञ्चयप्पपाठशालासंस्कृताध्यापक श्वेतारण्यनारायणशास्त्रिविरचिता नलचम्पू प्रथमोच्छासव्याख्या परिमलाख्या पूर्तिमागता. व अथ द्वितीय उच्छासः. अथ कदाचिदवगलबहलपरिमलमिलदलिकुलाकुलितकुटजकदम्ब- कुमुमकर्णपूर शून्यकाननासु, विश्राम्यन्मदमुखरमयूररसनावलीकलक्वणि- तासु, विरलतरतडिल्लताललितलावण्यासु, विगतहंसद्विजराजिषु, पतत्प- योधरासु, क्षीणशुक्रासु, वृद्धाखिव गतप्रायासु वर्षासु, रतिमकुर्वाणो मदकलकलहंसहासहारिण्यामुत्सुकमतरुण्यामिवागतायां शरदि, द्विरद- १. अथेति । अवगळदिति । अवगळन्ति समानानि बहलपरिम- लात् (हेतोः ) मिलद्भिः सङ्गच्छमानैः अलिकुलैः भृङ्गसमूहै: आकुलितानि कुटज- कदम्बकुसुमानि तैरेव कर्णपूरैः अवतंसैः ( पक्षे तैः कर्णपूरैश्च) शून्यम् काननम् वनम् यासु तासु (पक्षे शून्यम् कम् शिरः आननम् मुखञ्च यासाम् ) यद्वा अव- गलन्तः विरलाभवन्तः बहल...कर्णपूरा: यस्मिंस्तत् अवगल...पूरम् अत एव शून्यम् शून्यप्रायम् काननम् वनम् कम् आननञ्च यासु यासाञ्च तायु । विश्राम्य- दिति । विश्राम्यत् विरमत् मदेन मुखराणाम् शब्दायमानानाम् मयूराणाम् पक्षे मयूराणामिव रसनावल्याः जिह्वापक्षयाः पक्षे काञ्चीश्रेण्याः “ रसनाकाञ्चिजिट्ठयोः' इति विश्वः । कलक्वणितम् मधुरध्वनिर्यासु यासाञ्च तासु । विरलेति। विरलतरम् अत्यन्तमल्पम् तटिल्लतानाम् विद्युल्लतानाम् पक्षे तटिलतानामिव ललितलावप्यम् रम्यकान्तिः पक्षे ललितम् मधुराणविन्यासः लावण्यम् कान्तिविशेषश्च यासु यासा- ञ्च तासु । विगतेति । व्यपेतहंसपक्षिपतिषु पक्षे व्यपेतहंसशुभ्रदन्तराजिषु । पत दिति । नश्यद्धनासु पक्षे निपतत्कचाशु । क्षीणेति । क्षीणशुक्राख्यग्रहासु पक्षे क्षीणम् गर्भसम्भवाभावाद्विनष्टम् शुक्रम् पुवीर्य यासु तासु । वृद्धाविव । जरती- विव । गतप्रायासु । प्रायेण बाहुल्येन गतासु खल्पशेषाखिति यावत् । ' प्रायो- मरणानशनेमृत्यौ बाहुल्यतुल्ययोः' इति मेदिनी । पक्षे गतः प्राय: वयः यासान्तासु 'प्रायावयांसि' इति वैजयन्ती । वर्षासु । प्राकृषि । 'अप् सुमनस् समासिकता. वर्षाणाम् बहुत्वञ्च' इत्यनेन वहुत्वम् । रतिम् । चित्तासक्तिम् सम्भोगञ्च । अकु- र्वाणः । अकुर्वन् । मदेति । मदेन कलाः मयूराः कलहंसाएव हासस्तेन हारिण्याम् रम्यायाम् पक्षे मदेन क्षीबतया कलकलः हर्षवनिर्यस्यास्सा मदकलकला हंसोपमा हासहारौअस्यां स्त इति हसहारिणीच तस्याम् । तरुण्याम् । अभिनवप्रवृत्तायाम् । युवत्यामिव च । आगतायां । प्राप्तायां पक्षे रागात् स्वयं प्राप्तायां । शरदि।

द्वितीय उच्चासः मदगन्धसंबन्धानुधाविते कुसुमितसप्तच्छदच्छायासु विस्फूर्जति रोषोद्ध- षितकेसरकरालकण्ठे. कण्ठीरवकदम्बके, गृहदीर्धिकामृणालिकाकाण्ड- खण्डनविरामरमणीयमुन्नदत्सु शरत्समयप्रवेशमङ्गलमृदङ्गेप्विव हंसमण्ड- लेषु, स्मरशरनिकरनिर्मथितपान्थसार्थप्रहाररुधिरनिप्यन्दविन्दुसंदोह इव वनस्थलीपून्मिषति बन्धुरबन्धूककुसुमप्रकरे, प्रसरन्तीपु शरल्लक्ष्मीप्रवे- शानन्दवन्दनमालासु निःशङ्कशुककुलावलीपु, श्रूयमाणासु स्मरराजरा- ज्यविजयघोषणासु पक्वकलमगन्धशालिपालिकाबालिकाहर्षगीतिषु, शर- च्छ्रीकटाक्षेन्मीलत्सु नीलनीरजेषु, क्वणति वर्षावधूप्रस्थानपटहे षट्र- शरदृतौ । उत्सुकः। उत्कः । सः महीपतिः । नल: । कुसुमितेति । कुसुमिता- नां (शरदि) सञ्जातपुष्पाणां सप्तच्छदानां ( मदगन्धसमानगन्धानां) सप्तच्छद- वृक्षाणां छायासु । द्वीति । द्विरदानां गजानां मदस्य दानजलस्य गन्धस्य संबन्ध इाते (भ्रान्त्या) अनुधाविते। अत एव रोषेति । रोषेण कोपेन उद्बुषितैः शब्दितैः उद्भूतैर्वा केसरैः सटाभिः करालः दन्तुरः भयानको वा कण्ठः यस्य तथोक्त। कण्ठीति। सिंहबृन्दे । विस्फूर्जति । गर्जतिसति । शरदिति। शरत्समयप्रवेशाय मङ्गलमृदंगेषु कह पाणमुरजेष्विव । हंसमण्डलेषु । हंससमूहेषु । गृहेति। गृहदीर्घिकायां गृहपद्मि न्यां मृणालिकाकाण्डस्य बिसदण्डस्य खण्डनस्य छेदनपूर्वकचर्वणस्य विरामे अवसाने रम्यं (बिसचर्वणशुद्ध कण्ठत्वात् ) मधुरं यथा तथा । उन्नदत्तु । शब्दायमानेषु स्मरेति । स्मरशराणां निकरण समहेन निर्मथितानां ताडितानां पान्थसार्थानां पथिकसङ्घानां प्रहारात् प्रहारस्थलात् ये रुधिरनिष्यन्दाः रक्तस्रावाः तेषां बिन्दूनां सन्दोहस्समूहस्तस्मिन्निव स्थिते । बन्धुरेति । बन्धुराणां निविडाना बन्धूककुसु- मानां रक्तसवर्णानां बन्धुजीवपुष्पाणां प्रकरे समूहे । वनस्थलीषु । अकृत्रिमवन- भूमिषु “ जानपद' इत्यादिना अकृत्रिमार्थे स्थलशब्दात् डीए । (कृत्रिमातु स्थला) उन्मिषति ॥ विकसतिसति । शरदिति । शरलक्ष्मीप्रवेशे आनन्देन (प्रवृत्तासु) वन्दनमालासु तोरणमालिकासु । निरिति । निश्शंकानां निकाणां शुककुलानां आवलीषु । प्रसरन्तीषु । प्रचलन्तीषु सतीषु । स्मरेति । कन्दर्प. राजस्य राज्यजयप्रकटनध्वनिष्विव स्थितासु । पक्वेति । पक्वाः कलमाः कला- पकाख्यशालिविशेषाः गन्धशालयः सुगन्धिकाख्यशालयः तेषां पालिकाः रक्षिकाः तासां याः बालिकाः तासां हर्षगीतिषु श्रूयमाणासुसतीषु । शराच्छ्रियाः कटाक्षेष्विव- स्थितेषु॥ नीलनीरजेषु॥ नीलोत्पलेषु।उन्मलित्सु विकसत्सु । वर्षाः प्राडेव वधूः दमयन्तीकथायाम् णचक्रवाले, प्रभात इव घनतिमिरविरामरमणीये जाते जलनिधिशयन. शायिशार्जिनिद्रादुहि विनिद्रसान्द्रसरससरोजराजिराजितसरास शरत्स. मये, स महीपतिः समासन्नवनविहारिकिंनरमिथुनेन गीयमानमिदमन- श्लीलं श्लोकलयमशृणोत् ॥ धन्याः शरदि सेवन्ते प्रोल्लसच्चित्रशालिकान् । प्रासादास्त्रीसखाः पौराः केदारांश्च कृषीवलाः ॥ १ ॥ नमिताः फलभारेण न मिताः शालिमञ्जरीः । केदारेषु हि पश्यन्तः के दारेषु विनिःस्पृहाः ॥ २ ॥ तस्याः प्रस्थानपटहे प्रयाणानकतुल्ये । चट्चरणानां भ्रमराणां चकवाले समूहे । कणति । नदति सति । प्रभाते प्रातःकालइव । घनानां मेघानामेव अन्यत्र निबि- डानां तिमिराणां विगमेण विरत्या रमणीये रम्ये । जलनिधिशयनशायिनः शार्षि- णः विष्णोः निद्रायै बृह्यतीति तथोक्ते । (शरदि विष्णुः प्रबुध्यते इति शास्त्रादिति भाव:) अन्यत्र जलनिधिवत् (विस्तृत) शयनं तत्र शेरते ताच्छी ल्येनेति तथो. क्ताः ये शाह्मिण: धनुष्मन्तः ( सर्वेषामुपलक्षणमिदम् ) तेषां निद्रानुहि । विनिद्रा- णां विकसितानां सान्द्रागां सरसानां निग्धानां सरोजानां राजिभिः ततिभिः राजितं शोभितं सरः यस्मिंस्तथोक्ते । ( इदं शरत्प्रभातयोः तुल्यं ) शरत्समये। जाते उद्भू- ते सति । समासने प्रत्यासन्ने वने विहरणशीलयोः किनरयोः देवविशेषयोः मिथु. नेन द्वन्द्वेन । गीयमानम् । इदं वक्ष्यमाणं अनश्लीलं अग्राम्यं श्लोकत्रयम् । अनृणोत् ॥ धन्या इति ॥ शरदि धन्या: पौराः स्त्रीणां सखायः स्त्रीसखाः स्त्रीयु- क्तास्सन्तः " राजाहस्सखिभ्यः' इति टच । प्रोल्लसन्त्यः प्रकर्षेण राजमानाः चित्र- शालिकाः आलेख्यभूमिकाः येष तान् प्रासादान् हाणि सेवन्ते। धन्याः।कृषिरेषाम- स्तीति कृषीवलाः कर्षकाः "रजः कृषि' इत्यादिनावलच । स्त्रीसखास्सन्तःप्रोल्लसन्तः चित्राः : बहुविधाः शालयः येषु तान् केदारान् सस्यक्षेत्राणि व सेवन्ते आश्रयन्ति। तुल्ययोगितालङ्कारः ॥१॥ नमिता इति ॥ केदारेषु क्षेत्रेषु फलान वीहीणां भारेण नमिताः अवनति गमिताः नमिताः अनल्पाः शालीनां मञ्जरीः वल्लरीः पश्यन्तः के दारेषु भार्यासु विशेषेण निस्पृहाः निरभिलाषाः भवन्ति न केपीत्यर्थः । फलसमृद्ध केदारदर्शनेन निरायासकुटुम्बभरणमवगच्छन्तः दारादिस्पृहावन्त इत्यर्थः । हि पादपूरणे । अत्र व्यवाहितमिश्रंपादादियमकं ॥२॥ •.

द्वितीय उच्छ्वासः प्रावृणं शरदं चापि बहुधाकाशहारिणीम् । विलोक्य नोत्सुकः कः स्यान्नरो नीरजसङ्गताम् ॥ ३ ॥ २. अनेन मृदुमूर्छनातरङ्गरङ्गिताक्षरेण श्रवणपथप्रथमप्रियातिथिना श्लोकत्रयेण विपविषमविषयवैरस्यव्रतव्रततिकठिनकुठारेण, दारपरिग्रह- पराङ्मुखोऽपि शृङ्गारशृङ्गिशृङ्गमुत्तुङ्गमारोप्यमाणस्तदेवोद्यानममन्दमन्दा- रमकरन्दामोदमत्तमधुकरमधुरझंकाररमणीयमुपसर्तुमारभत ।। ३. प्रथमसंमुखप्रेजितेन चलच्चदनामोदनन्दिनान्दोलनवेगवित्रस्त कुसुमिततरुशिखरसुप्तसुरतश्रमखिन्नकिंनरीनिविडतरपरिरभ्यमाणकिंनर- नमस्कृतेन क्रीडाकमलदीपिकातरझोत्सारङ्गत्तरुणतामरसरसविसरो- प्रावृषमिति ॥ आकाशस्य गगनस्य हारिणी हरणशीला तिरोधायिनामिति यावत् नीरजसं पांसुरहितां गतां अतिक्रान्तां प्रावृष वर्षाकालं काशैः काशपुष्पैः हा. रिणी रम्याम् । नीरजैः कमलैः सङ्गतां युक्तां शरदञ्च बहुधा पुनः पुन: विलोक्य कः नरः उत्सुकः उत्कः न स्यात् सर्वोपि स्यादिति भावः अत्र सश्लेषस्तुल्ययोगि- तालङ्कारः ॥ ३॥ २. अनेनेति ॥ मृद्रयाः ललितायाः मूर्छनायाः एकविंशतिभेदयुक्ताः खरमूर्छावस्थायाः तरङ्गेण विच्छित्तिविशेषेण रङ्गितानि ज्ञातानि सञ्जातनृत्यानि वा- अक्षराणि यस्य तथोक्तेन । श्रवणपथस्य कर्णमार्गस्य प्रथमः प्रियश्च अतिथिः अ- भ्यागतस्तत्तुल्येन विषवत् विषमाः प्रतिकूलोदर्काः ये विषयाः शब्दादयः तेषु वैर, स्यं अप्रीतिरेवव्रतं नियमः तदेव व्रततिलता तस्याः (छेदने ) कठिनकुठारेण ती- क्ष्ण परशुना अनेन पूर्वोक्तेन श्लोकत्रयग दारपरिग्रहे परिणये पराङ्मखः (शोकश्रव. णात्पूर्व) विमुखोपि। उत्तुङ्गं उन्नतं शृंगार एव शृंगी गिरिः तस्य ग शिखर आरोप्यमाणः आरूढः क्रियमाणः (नलः ) अमन्दानां अनल्पानां मन्दाराणां पारि- जाताना मकरन्दानां पुष्परसानां आमोदेन परिमलेन मत्तानां मधुकराणां भृङ्गाणां मधुरझङ्कारेण रमणीयं तदेव उद्यानं उपवनं उपसर्तुं गन्तुं आरभत आरब्धवान् ॥ ३. प्रथमेति ॥ प्रथमं सम्मुखं प्रेजितेन चलितेन चलतां चन्दनानां चन्दन- वृक्षाणां आमोदेन परिमलेन नन्दयितं आनन्दायतुं शीलमस्येति तथोक्तेन आन्दो. लनवेगेन चलनवेगेन वित्रस्तया भीतया कसमिततरुशिखरे(पूर्व) सुप्तया सुरतश्रम- खिन्नया सम्भोगायासश्रान्तया किना निबिडतरं दृढतरं यथा तथा परिरभ्यमा- णेन आलिंग्यमानेन किन्नरेण नमस्कृतेन (किन्नरीस्वयमाश्लेषस्य हेतुभूततया वायो- ७० दमयन्तीकथ याम लताः, . . द्गारहारिणा यौवनमदनिरुद्धनैषधीधम्मिल्लवल्लरीचलनविलासलासकेन व- नमारुतेनोत्पुलकिततनुः स्तोकमन्तरमतिक्रम्य "देव, भवद्वैरिवधूवदने वने च नारङ्गतरूपशोभे भान्ति गण्डशैलस्थलालंकारधारिण्यो लोध्र- नागरुचिताश्चन्दनपत्रभङ्गाः, नालिकेरचितस्तिलकः, नवा दृ- ष्टिपथमवतरति घनाञ्जनयष्टिका, नाभिरम्या नीलतमालकाः, नाधरी कृतस्ताम्बूलीरागः, पल्लवितमेतदृश्यतेशोकजालम् । इतश्च काञ्चनगि- नमस्कार इति भावः) क्रीडार्थायाः कमलदीर्घिकायाः पद्मिन्याः तरोत्सङ्गे वीचि. मध्ये रङ्गतां चलतां तरुणतामरसानां प्रौढपद्मानां रसविसरस्य मकरन्दझर्याः उद्गारं निष्यन्द हरतीति तच्छिलेन । यौवनमदेन निरुद्धानां आवृतानां निषधेषु भवा: नैषध्यः निषधदेशस्त्रियः तासां धम्मिल्लाः संयताः कचा: त एव वलयः मञ्जयः तासां चलनविलासे कम्पनलीलायां लासकेन नर्तकेन वनमारुतेन वनवायुना उत्पुलकिता अधिक रोमाञ्चिता तनुर्देहः यस्य सः नल: स्तोकं किञ्चित् अन्तरं अन्तरालं अतिक्रम्य अतिलङ्घय गत्वेत्यर्थः । देव प्रभो नल अरं अत्यर्थं गता नष्टा रूपस्य आकृतेः शोभा कान्तिर्यस्य तस्मिन् भवतः वैरिवधूनां शत्रुस्त्रीणां वदने मुखे गण्डशैलस्थलस्य शैलवत् विशालस्य कपोलप्रदेशस्य अलंकार धारयन्तीति तच्छी- लाः लोध्रस्य विलेपनरूपस्य लताः मण्डनवल्यः न भान्ति। नारङ्गतरुभिः उपशोभिते वने च गंडशैलानां सहजच्युतस्थूलपाषाणानां स्थलस्य अलङ्कारधारिण्यः लोध्रस्य तरुविशेषस्य लताः शाखाः भान्ति । अगरुणा कालागरुद्रवेण चिताः व्याप्ताः चन्द- नस्य चन्दनद्रवस्य पत्रभंगा: पत्रवल्यः वदन न भान्ति नागेभ्यः सर्पेभ्यः रुचिताः इष्टाः चन्दनस्य चन्दनतरो: पत्राणां छदानां भङ्गाः विशेषाः वने भान्ति । अलिके ललाटे तिलकः पुडूं न रचितः नकृतः नालिकेरवृक्षः चितः व्याप्तः तिलकवृक्षः वने भाति । घनस्य निविडस्य अन्जनस्य कजलस्य यष्टिका शलाका दृष्टिपथं नेत्रमार्ग नावतरति नगच्छति च वाकारस्समुच्चये । नवा नूतना घना निबिडा अञ्जनस्य अञ्जनवृक्षस्य यष्टिका प्रकाण्डः वने भाति । अभिरम्याः अतिशयेन नीलाः नीलतमाः अलकाः कुन्तलाः वदने नभान्ति नामयः प्रधानाः रम्याश्च यद्वा नाभिदघ्नाः रम्याश्च नीलाः (ह्रस्वाः तमालाः) तमालकाः वने भान्ति । तांबूलीनां नागवल्लीनां राग: रिक्तमा अधरः अस्यास्तीति अधरी ओष्टसंबद्धः नकृतः इति वदने । वनेतु तांबूली. लतानां रागः सम्बन्धः अधरीकृत: हीनीकृतः न । एतत् शोकानां दुःखानां जालं वृन्दं यद्वा शोक अलं अनर्थः पल्लवितं (लक्षणया) वृद्ध वनपक्षे अशोकवृक्ष. वृन्दं सञ्जातकिसलयं दृश्यते । इतश्च । अत्र च । सुरचितः । सुष्टुरचितः :

द्विताय उच्छ्वासः ७१ रिरिव सुरचितः क्रीडापर्वतः । इतश्च गूर्जरकूर्चमिवाखण्डितप्रवालं बालसालवनम् । इतश्च भवद्वैरिनगरमिवानेकविधवकुलसंकुलं कूपकूलम् । इतश्च धूर्जटिजटाजूट इव पुनागवेष्टितो वापीपरिसरः। इतश्च कुरुसे- नेव कृताश्वत्थामहिता च क्रीडासरित्पुलिनपालिः ।" इति भङ्गश्लेषो- क्तिकुशलया वनपालिकया निवेद्यमानानि वनविनोदस्थानान्यवलोकयां. चकार । ४. चलच्चकोरचक्रवाकचक्रचञ्चुचञ्चलचञ्चरीकचरणचूर्णितचम्पका कुरमरिचमञ्जरीदलदन्तुरेण वनमार्गेण स्तोकमन्तरमतिक्रान्तस्त्तया पुनरेवं बभाषे ॥ ५. " देव, पुरंदरानन्दिनन्दनोद्यानस्पर्धिनोऽस्य वनस्य किं किं वर्ण्यते ॥ मुरैः चितः व्याप्तश्च । इत इति ॥ बालानां सालानां सर्जतरूणां वनं गूर्जराणां कूर्चमिव श्मश्रुवत् अखण्डिताः प्रवालाः पल्लवाः अन्यत्र प्रवृद्धा वाला: केशा: यस्यतत् । अनेकेति ॥ अनेकविधैः वकुलैः वञ्जुलैः पक्षे अनेकाः विधवाः मृत. भर्तृकाः येषु तैः कुलगत्रैः सङ्कुलं निबिडं । कुलं । तीरं । इत इनि । वायाः दीर्घिकायाः परिसरः समीपदेशः धूर्जटे: शिवस्व जटाजूटः कपर्द इव पुन्नागैः पुन्नागवृक्षैः पुंसा नागेन वासुकिना च वेष्टितः संवृतः । इतश्चेति ॥ क्रीडासरितः क्रीडार्थकृतायाः नद्याः पुलिनानां सैकतानां पालिः पतिः । कुरूणां सेनेव कृताः उत्पादिताः अश्वत्थाः चलदलाः यस्यां सा कृताश्वत्था महिता पूजिता च पक्षे कृतं अश्वत्थान्ने द्रौणये हितं यया तथाभूता । भङ्गेति । भङ्गः भिन्नभिन्नपदच्छेदः तत्पूर्वकः यः श्लेषः अर्थद्वयसम्वन्धः तद्युक्तायां उक्तौ वचने कुशलया निपुणया। भङ्गश्लेषालङ्कारलक्षणमुक्तं प्राक् । वनपालिकया । वनरक्षिण्या । निवेद्यमानानि विज्ञाप्यमानानि वने विनोदाथानि विश्रान्त्यानि स्थानानि अवलोकयाञ्चकार ददर्श ॥ ४. चलदिति ॥ चलतां चकोराणां चक्रवाकाणाञ्च चक्रस्य मण्डलस्य चक्षु- भिः नोटिभिः चञ्चलानां चञ्चरीकाणां भ्रमराणां चरणैश्च चूर्णितानां चपकांकुराणां चांपेयप्ररोहाणां । म्रियते विषमनेनेति मरिच कृष्णं (मोळकु इतिभाषायां) तस्य मञ्ज- रीणां दलैः पत्रैश्च दन्तुरेण निबिडेन । तया । वन पालिकया । बभावे । उक्तं ॥ ५. देवेति। पुरमिति। पुरन्दरमिन्द्रं आनन्दयतीति तच्छीलं नन्दनाख्य- मुद्यानं स्पर्धते आभिभवितु मिच्छतीति तच्छीलस्य।

७२ दमयन्तीकथायाम ६. यत्र । त्रिजटाश्रयमनेकजटाः स्फुरदेकपुष्पकमनेक पुष्पाः समुद्रेजितराममानन्दितरामाः, समुपहसन्ति लङ्केश्वरं तरवः ॥ ७. यस्मिंश्च मत्तमयूरहारिणि भद्रभुजंगप्रयाते विचित्रकौञ्चपदे छन्दःशास्त्र इव वैतालीयं मालिनी शिखरिणी पुष्पिताग्रा च दृश्यते विविधा जातिः ॥ ८. यस्मिंश्च । एकभीमार्जुनविनिर्जितानाक्रान्तानेकभीमार्जुनाः, कोपितैकनकुलानाह्लादितानेकनकुलाः, सहदेवेनैकेन स्पर्धमानाननैकैः . .. ६. यत्रेति। यत्र वने अनेकाः जटा: मूलानि येषान्ते । अनेकानि पुष्पाणि येषु ।। आनन्दिताः रामाः स्त्रियः यस्ते । तरवः तिसगां जटानां मूलानां त्रिजटायाः तदा- ख्यायाः निजस्वसुः आश्रयं । स्पुरत् लसत् एकं पुष्पं कुसुमं पुष्पकयानञ्च यस्मिस्तं उद्वेजिताः भीपिता: रामाः स्त्रियः उद्वेजितः क्लेशित : रामः दाशरथियेन तं । लकेश्वरं रावगं सम्यगुपहलीन्त परिहमन्ति ॥ ७. यस्मिन्निति । छन्दसा उक्तादिछन्दमां लक्ष्यलक्षणादिप्रतिपादके शास्त्र पिङ्गलसूत्रादाविर मतेमयूरैः मत्तमयूरवृतेन च हारिणि रम्थे । भद्रं रम्यं भुजङ्गा- गां सांणां विटानां का प्रयातं गमनं अन्यत्र भुजङ्गप्रयातबृतं यत्र तस्मिन् । वि. चित्राणां को खाना कोचपक्षिणां पदे स्थाने अन्यत्र विचित्रा कौञ्चपदा तदाख्यवृत यत्र तस्मिन् । याग्मिन् वने । ( वनपक्षे वै ताली इयं इति पदच्छेदः ) इयं विवि था ताली तालद्रमः विविधा जाति: मालती च माला पलिः अस्यामस्तीति मालि. नी। शिखरिणा शिवायुकना पुष्धितानि अग्राणि य प्यास्सा पुस्पिताग्रा च दृश्यते। छन्दश्शाचे तु चैतालायत्त मालिनीवृतं शिखरिणीवृनं पुष्पिताग्रावृत्तं इति । विवि- धा अनेकावधा जाति ( उक्तादि उत्कृत्यन्तं ) छन्दः दृश्यते । जातिश्छन्दसि सामान्य नाल या गात्र जन्मनोः ।" इति विश्वः । मतमयूरादिलक्षणन्तु “वेदै- रन्थ्रम् 4 जानवरम् । भुजायाने भावधताभ: । क्रौञ्चपदान्ताभरी नन- नानगा मुान रामरतियुता । पडियमष्टा सने कलारताच सम स्थी निर. न्तराः । नसमा फला बतायेनेरलीगुरुः । ननमयययुतेयम्मालिनी भोगिलाकः । रसाछ नायमनसभलागशिखरिणी । अजिनयुगरेफतोयका युजिचनज जरगाश्च ताया।" इति ॥ ८. यामश्चनि। यस्मिन्वने । आक्रान्ताः आरूढाः निर्जिताश्च अनेके भीमाः अल्लवेत ताः भीम सेनाश्च “भीमोऽम्लघेतसेशंभा घोरेवापि वृकोदरे" इति विश्वः । अजना: कमला: पार्थाश्च यामिन्ताः । आहादितः: आनन्दिताः अनेके नकुलाः द्वितीय उच्छवासः सहदेवैः संगताः । न बहु मन्यन्ते कुरुवीराबीरुधः ॥ किं चान्यदवलोकयतु देवः । पटलमलिकुलानागुन्नमन्मेधनीलं भ्रमदुपरि तरूणां पुष्पितानां विलोक्य । मृदुमदकलकेकानिर्भरो नृत्यसक्त- स्तरलयति कलापं मन्दमन्दं मयूरः ॥ ४ ॥ अपिच । भ्राम्यद्विरेफाणि विकासप्राजि संयोज्य पुष्पाणि शिलीमुखेषु । इह स्थितः सर्वजगजयाय धनुःश्रमं पुष्पशरः करोति ॥५॥ .. सर्पशत्रवः माद्रीज्येष्ठपुत्राश्च याभिस्ताः । अनेकैः । देवैः “ एते वै गन्धर्वाप्सरसा गृहाः' इत्युक्त्या तदावासभूतेषु खेषु निवसद्भिर्गन्धर्वादिभिः सहि सहदेवास्त - रवः नकुलानुजाश्च तैस्सङ्गता युक्ताः वोरुधः लताः । एकेन भीमन पाण्डवेन अर्जनेन पाण्डवेन च विनिर्जितान् कोपितः एकः नकुलः पाण्डवः यैस्तान् । एकेन सहदेवेन पाण्डवेन स्पर्धमानान् स्पर्धाकुर्वतः । कुरुवीरान् दुर्योधनादीन् न बहुम- न्यन्ते न गौरवयन्ति ॥ अत्र त्रिजटाश्रयमिति गये च श्लेषः काव्यलिङ्गं व्यति- रेकचालंकाराः ॥ पटलमिति ॥ उनमन् उच्छ्यन् मेघइव नीलं श्यामं पुष्पितानां सजा- तकुसुमानां तरूणां उपरि ऊर्श्वभागे भ्रमत घूर्णमानं अलिकुलानां श्रमरसमूहानां पटलं वृन्दं विलोक्य मृदुभिः ललिताभिः भेदेन कलाभिः मधुराभिः केकाम: केकाश्वनिभिः निर्भरः निबिडः नृत्ये नर्तने सक्तः आसक्तः मयूर: कलापं बर्ह मन्दमन्दं किञ्चित् किञ्चित् तरलयति चालयति । शिखी अलिपटलं दृष्ट्वा मेघवान्या नर्तितुमयुक्त इति भावः । अत एव भ्रान्तिमदलङ्कारः । मालिनीवृत्तम् ॥ ४ ॥ भ्राम्यदिति । पुष्पशरः कामः इह (उद्दीपनविभावातिशयविशिष्टे) उद्याने स्थितस्सन् शिलीमुखेषु शरेषु यद्वा अर्श आद्यचि तद्वत्सु शरासनेषु भ्राम्यन्तः घूर्णमानाः द्विरेफाः भ्रमराः येषु तानि विकासभाजि विकसितानि पुष्पाणि संयोज्य .. 7 दमयन्तीकथ याम् इतश्च हरिति हरिणयूथं यथिकाजालमूले कुसुमजमधुबिन्दस्यन्दसंदोहभाजि । मधुरमधुकरालीगीतदत्तावधानं लिखितमिव न दूर्वापल्लवानुल्लुनाति ॥ ६ ॥ इतोऽपि सोऽयं क्रीडाचलो भव्य लोभव्यसनवर्जित । यस्मिन्नासन्नसारङ्गा सारं गायति किंनरी ॥ ७ ॥ राजते राजतेनायं सानुना सानुनायकः । यस्मिन्निशम्य गायन्तं किंनरं किं न रंस्यते ॥ ८॥ मेलयित्वा सर्वाणि जगन्ति जेतुं धनुःश्रमम् धनुरभ्यासं करोति । इदमुद्यानं कामोद्दी- पकमिति वक्तव्ये प्रकारान्तरेण कथनात्पर्यायोक्तालङ्कारः । इन्द्रवज्रोपेन्द्रवन्नामेलन- रूपोपजातिवृत्तम् ॥५॥ हरितीति । कुसुमजानाम् मधुविन्दूनाम् स्यन्दसन्दोहम् निष्यन्दसमूहम् भजतीति तथोक्ते । हरिति हरितवर्णे यूथिकानाम् गणिकाख्यकुसुमानाम् जालस्य समूहस्य मूले अधःप्रदेशे यद्वा यूथिकाजालमूले (स्थिते ) हरिति तृणे “ हरि- दिशि स्त्रियाम् पुंसि हयवर्णविशेषयोः । आस्त्रियां स्यात्तृणे'' इति । (स्थितम् ) मधुरे मधुकराळीगीते भृङ्गवृन्दगाने दत्तम् अवधानम् एकाग्रता येन तथोक्तम् अतएव लिखितमिवस्थितम् हरिणयूथं मृगवृन्दम् दूर्वापल्लवान् बालतृणानि न उल्लुनाति नच्छिनत्ति न भक्षयतीति यावत् । उत्प्रेक्षालङ्कारः । मालिनीवृत्तम् ॥ ६ ॥ सोयमिति । हे भव्य भद्र हे लोभेन व्यसनेन च विवर्जित अयम् सः क्रीडाशैलः यस्मिन् आसन्नाः ("पशुत्ति शिशर्वेत्ति वत्ति गानरसं फणी'' इत्यु के:) गानश्रवणाय समीपगताः सारङ्गाः मृगाः यस्यास्सा किनरी किनराख्यदेवविशेषस्य स्त्री सारम् श्रेष्ठम् यथा तथा गायति । अत्र भव्य लो भव्य सारङ्गा सारङ्गा इति वीप्सया व्यवहितमव्यवहितञ्च मिश्रं यमकम् ॥७॥ राजत इति । अयम् सानुनायकः गिरिः रजतस्य रूप्यस्य विकारः राजतः तेन सानुना तटेन राजते शोभते । यस्मिन् गिरौ द्वितीय उच्छासः इतश्वास्य जनयति जलबुद्धिं बाललीलामृगाणा- मयमिह पटुकान्तिः स्फाटिको भित्तिभागः । इह हरितमणीनामुल्लसन्तो मयूखाः सरसनवतृणालीलोभमुत्पादयन्ति ॥ ९ ॥ इयं च गौरवं गौरवंशस्य पर्वतः पर्वतस्थले । भ्रमरी भ्रमरीणस्य कुरुतेऽकुरुतेन ते ॥ १० ॥ अपिन इह कवलितकन्दं कंदरे कन्दलिन्यां भुवि विरचितकेलि क्रीडति क्रोडयूथम् । इह सरसिजगर्भभ्रान्तभृङ्गं कुरङ्गाः सरासि सरलयन्तः कंधरां के धयन्ति ॥ ११ ॥ गायन्तं गानं कुर्वन्तं किनरं निशम्य श्रुत्वा किं वस्तु नरस्यते सर्व रतिं गमिष्यती- त्यर्थः । अत्र पादत्रये अव्यवहितं मिश्रयमकम् ॥ ८ ॥ जनयतीति । इह अत्र पटुः समर्था बहुलति यावत् कान्तिर्यस्य सः स्फाटिकः स्फटिकमयः भित्तिभागः कुड्यप्रदेशः बालानां लीलामृगाणां क्रीडार्थ पोषितानां हरिणानां जलबुद्धिं जलभ्रमं जनयति इह हरितमणीनां गारुत्मतरत्नानां उल्लसन्तः शोभमाना: मयूखाः किरणाः (तेषामेव मृगाणां) सरसानां स्निग्धानां नवतृणानां आल्य: ततय इति लोभं भ्रान्तिं उत्पादयन्ति जनयन्ति । भ्रान्तिमदलंकारः । मालिनीवृत्तम् ॥९॥ गौरवमिति । गौरः शुद्धः वंशः अन्वयः यस्य तस्य । पर्वतस्य गिरेःस्थले पर्वतः गच्छतोपि भ्रमेण अटनेन भ्रान्त्याच रीणस्य प्रसुतस्य हीनस्येति यावत् । "री प्रस्रवणे'' इति धातोः क्तेः “ओदितश्च' इति नत्वं । " स्यन्नं रीण मुतं मुते' इत्यमरः। तव । भ्रमरी भृङ्गी अकुरुतेन अकुत्सितेन शब्देन गौरवं प्रतिपत्ति- विशेषं कुरुते । अत्र पादादौ अव्यवहित मिश्रञ्च यमकम् ॥ १० ॥ इहेति ॥ इह कन्दरे गुहायां कन्दलिन्यां कन्दवत्यां कदलीयुक्तायां वा भुवि कबलितकन्दं भक्षितमुस्तं विरचिता कृता कोलिः विहारः येन तत् क्रोयूडथं दमयन्तीकथायाम् इह पनरनिशं निशम्य भिन्न द्रुममुकुलानि कुलानि षट्दानाम् । श्रुतिसुखकरणं रणन्ति वीणां तदनुगुणां गुणयन्ति किंनरेन्द्राः ॥ १२ ॥ ९. इतश्च क्रीडाचलस्थलकमलदीर्घिकातीरतरुतलमनुसरतु देवः ॥ यत्र च वहति नवविकासोल्लासिकिंजल्कलुभ्यन्म- धुकरकृतगीता नर्तयन्नब्जराजीः । वनकरिमदगन्धस्पर्धिसप्तच्छदाली कुसुमजकणशारः शारदीनः समीरः" ॥ १३ ॥ वराहबृन्दं क्रीडति रमते । इह सरसि तटाके कुरङ्गाः मृगाः कन्धरां ग्रीवां सरल. यन्तः सरलां ऋज्वीं कुर्वन्तस्सन्तः सरसिजानां पद्मानां गर्भ अन्तरे भ्रान्ता: चलन्तः भृङ्गाः यस्मिंस्तत् कं जलं धयन्ति पिबन्ति ॥ स्वभावोक्तिरर्थालंकारः बहवोयमकभेदाः अनुप्रासश्च शब्दालड्काराः । मालिनीवृत्तम् ॥ ११ ॥ इहेति । इह पुनः अत्र तु अनिशं सदा भिन्नाः (स्वभ्रमणेन) विकसिताः द्रूममुकुला: वृक्षकोरकाः यैस्तथोक्तानि श्रुत्योः कर्णयोः सुखस्य करणं कृतिः यस्मि. न कर्मणि तद्यथा भवति तथा रणन्ति शब्दायमानानि षट्पदानां भृङ्गाणां कुलानि वृन्दानि निशम्य श्रुत्वा लक्षणया तेषां ध्वनिं श्रुत्वेत्यर्थः किन्नरेन्द्राः तस्य भ्रमररणि तस्य अनुगुणां अनुगामिनी समानध्वनिमिति यावत् वीणां विपश्चीम् गुणयन्ति आवर्तयन्ति वादयन्तीति यावत् । अत्र पादमध्येषु अव्यवहितं मिश्रञ्च यमकं ॥ पुष्पताग्रावृत्तम् ॥१२॥ १. इतश्चेति । क्रीडेति । क्रीडाशैलस्थलपद्मसरस्तीरवृक्षतलम् ॥ वहतीति । नवेन विकासेन उल्लासिनः प्रकाशनशीलान् किजल्कानू केसरान् लुभ्यद्भिः अभिलाद्भः मधुकरैः कृतं गीतं गानं झकार इति यावत् यासु तथोक्ताः अब्जराजीः कमलश्रेणी: नर्तयन् चालयन् वनकरिणां मदगन्धेन स्पर्धनशीलानां समानगन्धानामित्यर्थः । अतएवानोपमालङ्कारः । सप्तच्छदवृक्षाणां आलीनां ततीनां कुसुमजकणैः मकरन्दलवैः शारः शबलः । शरदि भवानि शार- द्वितीय उच्चासः १०. राजा तु तेन तस्याः सकलललितवनप्रदेशप्रकटनप्रियालापप्र पञ्चेन परितोषितः “ साधु भोः सारसिके सुभाषितमञ्जरि, साधु । गृ- हाण पारितोषिकम्" इत्यभिधाय सर्वाङ्गीणाभरणप्रदानेन प्रसन्नाननां तामकरोत् ॥ ११. ततश्च संचरच्चटुलभृङ्गविहंगवेगवेलद्वकुलचम्पकचूतचन्दनम- न्दारामन्दस्यन्दमानमकरन्दबिन्दुसंदोहाडम्बरिताकाण्डप्रावृषि, प्रलम्ब- ताम्बूलवल्लीवलयितनितम्बकिम्बजम्बीरजम्बूम्तम्बकदम्बके, कुसुमितक- रवीरवीरुधि कोरकितकरञ्जाजननिकुञ्जशिजानशुककपिञ्जले, जल- दसमयनारदलितमतमालतलताण्डवितशिखण्डिनि, मण्डलितमदकल. , दानि मुद्गादीनि तानि विद्यन्ते येषां ते शारदिन: कृषीवला: तेपामिनः खामी तत्त- त्सम्पत्तिहेतुत्वात्तस्य तत्स्वामित्वं समीरः वायुः वहति वाति ॥१३॥ १०. राजेति। ललितम् । रम्यम् । प्रकटनम् । प्रदर्शयितृत्वं । प्रपञ्चः। विस्तारः । सारासिके । वनपालिकायाः सारसिकेतिनाम । हे सुभाषितानां (पुष्पतुल्यानां) शोभनवचनानां मञ्जरीवमञ्जरी वल्लरी तस्यास्सम्बुद्धिः । साधु । सम्यक् । परितोषः प्रयोजनमस्य पारितोषिक उपहारं प्रीतिदानं “प्रयोजनं" इति ठक् । सर्वाणि अङ्गानि व्याप्नुवन्तीति सर्वांगीणानि “तत्सर्वादेः पथ्यङ्गकर्म- पत्रपात्रं व्याप्नोति" इति खः । यान्याभरणानि तेषां प्रदानेन तां वनपालिकां सुप्र- सन्नं सन्तुष्टं आननं मुखं यस्यास्तथोक्ता अकरोत् ।। ११. ततश्चेति । सञ्चरतां चलानां स्वभावतो वेगवतां भृङ्गविहंगानां धूम्याटपक्षिणां यद्वा भृङ्गाणां भ्रमराणां विहंगानां शुकादीनाञ्च वेगेन वेलद्भयः चलद्भयः वकुलादिभ्यः अमन्दं यथा तथा स्यन्दमानस्य मकरन्दस्य बिन्दुसन्दोहेन आडम्बरिता सजाताडम्बरा प्रादुर्भूतेवेति यावत् । अकाण्डप्राट् आकस्मिकवर्षा- कालः यस्मिंस्तथोक्ते । प्रलम्बाभिः लम्बमानाभिः ताम्बूलवल्लीभिः वलयिताः वेष्टि- ताः नितम्बाः लक्षणया मध्यभागाः येषान्तथोक्तानि निम्त्र किम्ब जम्बीर जम्बूवृक्षा- णां स्तम्बानां गुच्छानां गुल्मानां वा "स्तम्बो गल्मे तृणादीनामकाण्डद्मगुच्छयो:" इति । कदम्बकानि समूहाः यस्मिन् । कुसुमिताः करवीराणां चण्डातकानां वीरुधः लताः यस्मिन् । कोरकितेषु सञ्जातमुकुलेष करज अञ्जन वृक्षयोः निकुञ्जेषु कुञ्जेषु शिञानाः शब्दायमानाः शुकाः कपिञ्जलाश्च पक्षिविशेषाः यस्मिन् । जलदसमयनी- रदवत् वर्षामेघवत् नीलतमे अतिशयेन श्यामे तमालानां तले ताण्डविताः मेघ - भ्रान्त्या सजातनर्तनाः शिखण्डिनः मयूराः यस्मिन् । मण्डलिताः सातवृन्दाः दमयन्तीकथायाम् कलहंसोत्तंसकमलवापीमण्डिते, मञ्जरितसिन्दुवारसुन्दग़मोदनन्दिनि म- न्दतरमारुतान्दोलनविलोलकाकोलकुटलफलनःलिकेरलवङ्गपगपुंनागनारङ्ग- रङ्गितविहङ्गे भृङ्गमुखनखरपञ्जरजर्जरितसर्जखधुरमञ्जरीरजःपुञ्जपांसुलभुवि भुवोभूषणायमाने, सर्वर्तुनिवासनामनि वने विहर्तुमारभत ।। १२. तत्र च व्यतिकरे प्रलयप्रचण्डपवनोल्लासिततनुतुहिनाचलग- ण्डशैललीलामाकलयन्तः, मन्दमरुत्तरङ्गिततनुतरशरदभ्रविभ्रमायमाणाः, सुरवारणेन्द्रविक्षोभितगगनमन्दाकिनीपतत्याण्डुरडिण्डीरपिण्डपटलानि विडम्बयन्तः, शकलोदितेन्दुमण्डलसहस्रसंछादितमिव गगनमापादय- न्तो, मन्दरगिरिपरिक्षेपक्षुभितक्षीरवारिधिदूरसमुच्चलितदुग्धकल्लोललीलां मदेन कला: अव्यक्तध्वनयः कलहंसा एव उत्तंसाः भूषणानि यासान्ताभिः कमल. वापीभिः मण्डिते अलंकृते । मञ्जरितानां सजातमञ्जरीकाणां सिन्दुवारागां इन्द्रसुर. भिवृक्षाणां सुन्दरामोदेन मधुरपरिमलेन नन्दयतीति तच्छी ले मन्दतरेण मारुत- स्य आन्दोलनेन चलनेन विलोलेभ्यः ककोलांदिवृक्षेभ्यः रङ्गिताः चलिताः वि. हङ्गाः यस्मिन् । भृङ्गाणां धूम्याटानां भ्रमराणां वा मुखैरेव नखर पञ्जरैः नखना: जर्जरितानां खण्डितानां सर्जखजूरवृक्षयोः मञ्जरीणां रजःपुजेन पांगुला धूलि. मती भूः यस्य । भुवः भूमेः भूषणवदाचरति सर्वनां निवासः यमिंस्तत् सर्वर्तु निवासं इति नाम यस्य तथोक्त वने (नल:) विर्तु रन्तुं आरभत ॥ १२. तत्रेति । तत्र तादृशे व्यतिकरे सम्बन्धे च । प्रलये संवर्त प्रचण्डेन उग्रेण पवनेन उल्लासिताः उत्पाटय क्षेपेण प्रकाशिताः तनवः अल्पाः तुहिनाचलस्य हिमाद्रेः ये गण्डशैलाः पाषाणाः तेषां लीलां आकलयन्तः कुर्वन्तः तत्तुल्या इत्यर्थः। अत्र उपमालङ्कारः । एवमुत्तरत्रापि । मन्दमरुता तरङ्गितानां चलितानां तनुतरा- णां अत्यन्तस्वल्पानां शरदभ्राणां शरत्कालमेघानां विभ्रमाः विलासास्तद्वन्तइवाच - रन्तः । विभ्रमायमाणेत्यत्र विभ्रमशब्दात्तद्वनि वर्तमानात् उपमानात् कर्तृवाचका- दाचारेर्थे क्यङ् । एवं शोभायमानेत्यादी । सुरवारणेन्द्रेण ऐरावतेन विक्षोभितायाः लोडितायाः गगनमन्दाकिन्याः आकाशगङ्गायाः पततां पाण्डुरडिण्डीराणां श्वेतफेना. नां पिण्डपटलानि सान्द्र सञ्चयान् । विडम्बयन्तः अनुकुर्वन्तः । गगनं शकलं ख. ण्डाकारं (खण्डशश्येव हंससदृशो भवतीति तथोक्तिः ) उदितं आविर्भूतं इन्दु- मण्डलसहस्रं तेन संछादितं संवृतमिव आपादयन्तः तन्वन्तः । मन्दरागिरिरव परि.

द्वितीय उच्छासः ७ ९ दर्शयन्तः, शेषाहिफणचक्रवालधवलाः, प्रमुदितहराट्टहासलवा इव मू- र्तिमन्तः पतन्तः, अमन्दमन्द्रकोलाहलभरितभुवनान्तरालाः, सपदि धरातलमुत्फुल्लपाण्डुपङ्कजप्रकरप्रकारेण मण्डयन्तो निपेतुः कुतोऽपि पुण्डरीकपाण्डुपक्षपत्रराजयो राजहंसाः ॥ १३. तथाविधे च व्यतिकरे विस्मयविस्मृतनिमेषतया निर्वातनिध- लनीलोत्पलपलाशशोभायमानलोचनः कौतुकाकूततरलितमनाः सपरिज- नो नरपतिरवलोकयन्निश्चल एवावतस्थे । १४. ते च धार्तराष्ट्रा अपि कृतपाण्डुपक्षपाताः, द्विजातयोऽपि मुराजिताः,केचिटुच्च चञ्चमुटाववाटतानकटबालस्थ लकमल कुइमलाः सरं- ܕ ܕ क्षेप: मन्थाः तेन क्षुभितस्य लोडितस्य क्षीरवारिधेः दूरं समुच्चलितानां उद्गतानां दुग्धकल्लोलानां क्षीरतरङ्गाणां लीलां दर्शयन्तः । शेषाहेः शेषाख्यसर्पस्य फणानो स्फटानां चक्रवालं मण्डलमिव धवलाः । मूर्तिमन्तः धृतशरीराः पतन्तः डयमानाः प्रमुदितस्य तुष्टस्य हरस्य शिवस्य अट्टहास लवाः उद्धतहासकणाइव स्थिताः अमन्दे. न मन्द्रेण गम्भीरेण कोलाहलेन कलकलेन भरितं भुवनान्तरालं येषान्तथोक्ताः । रापदि निपतनक्षणएव । धरातलं भूतलम् । उत्फुल्लानां विकसितानां पाण्डुपङ्कजाना पुण्डरीकाणां प्रकरस्य बृन्दस्य प्रकारेण सादृश्येन " प्रकारो भेदसादृश्ये' इत्यमरः। मण्डयन्तः अलङ्कुर्वन्तः पुण्डरीकवत् पाण्डवः धवलाः पक्षयोः गरुतोः पत्राणां प- र्णानां राजयः श्रेणयः येषान्तथोक्ताः राजहंसाः हंसविशेषाः “राजहंसास्तु ते च. अचरणौहितैस्सिताः '' इत्यमरः । कुतोपि देशात् निपेतुः निपतन्ति स्म ॥ १३. तथेति। विस्मयेति । विस्मयेन आश्चर्येण विस्मृतः निमेषः येन तथोक्तः । निर्वातेति । निर्वातेन वाताभावेन निश्चलयो: नीलोत्पलस्य पलाशयोः दलयोः शोभाविशिष्टवदाचरिते लोचने यस्य तथोक्त: । कौतुकेति । कौतुकाकूतेन सन्तोषाभिप्रायेण तरलितं चञ्चलं मनः यस्य तथोक्तः ॥ १४. तेचेति ॥ धार्तराष्ट्राः कृष्णचरणाननहंसाः धृतराष्ट्रपुत्राश्चापि । कृतः पाण्डूनां धवलानां पक्षाणां गरुतां पात: न्यासः पाण्डुषु (लक्षणया) पाण्डवेषु पक्ष- पातः तगृह्यत्वच यैस्तथोक्ताः । अत्र विरोधाभासालङ्कारः।एवमुत्तरापि । द्विजातयः' पक्षिणः ब्राह्मणाश्रापि सट राजिताः शोभिताः सुरया मद्यन जिताः तदधीनाः कृताश्च । उच्चेति । उच्चैः उदग्रैः चञ्चपुटैः सम्पुटतुल्यत्रोटिमिः विघटिताः वि. कासिताः निकटे समीपे (स्थिताः) बालस्थलकमलानां कुड्मलाः मुकुलाः यैस्तथो. -- ८० दमयन्तीकथायाम् सविसकिसलयानि कवलयन्तः, केऽप्युन्नतसरलगलनालयो नलि. नवनविमुखाः खमालोकयन्तः, केचिदुत्क्षिप्तपक्षविक्षेपपवनकम्पितक- न्दलाः सलीलमुत्पतन्तः, केचिन्मदमधुरनिजनिनादनिर्जिताशञ्जाननू- पुराः, पुरःपुरोऽस्यधावन्तो विचरितुमारभन्त ॥ १५. राजापि परिधावितविहङ्गग्रहणाग्रहसमग्रव्यग्रपरिग्रहः परिहासो- न्मीलदमलदन्तकान्तिस्तबकिताधरपल्लवो विहसन्नेव तेषामन्यतममनुच्च- चटुलचरणचारिचर्यया चारु संचरन्तमीषदुत्क्षिप्तपक्षविलासविहसितविला- सिनीलास्यलीलमुन्नमिताग्रग्रीवं जग्राह हेलया हंसम् ॥ १६. उत्क्षिप्तः स च तेन रक्तकमलगर्भविभ्रमायमाणपाणिपल्लवे, पाण्डुपद्म इव पद्मरागशुक्तितले, क्षणमुदयशैलशोणमाणिक्यशिखर- ताः । सरसोत । स्निग्धमृणालपल्लवान् । कबलयन्तः। भक्षयन्तः। उन्नतेति। उन्नतः सरलः अवक्रः गलनालिः कण्ठकाण्डं येषान्तथोक्ताः । नलिनं । पद्म खागगनम्। उत्क्षिप्तेति । उत्क्षिप्तयोः उस्तयोः पक्षयोः गरुतोः विक्षेपण प्रेर- णेन (जातेन ) पवनेन कम्पिताः कन्दलाः नवांकुराः येषान्ते । सलीलं । सवि. लासं । निनादः । शब्दः । शिानः । शब्दायमानः ॥ १५. राजेति । परीति । परिधावितानां विहंगानां ग्रहणे आग्रहः अभि- निवेशः तेन समग्राः सम्पन्ना, अत एव व्यग्राः व्याकुलाः परिग्रहाः परिजना: यस्य तथोक्तः । परितः हासेन उन्मीलन् विकरान् अमलया दन्तानां कान्या स्तबकितः निविडितः अधरपल्लवः ओष्ठप्रवालः यस्य तथोक्तः । अन्यतमं । एकं । उच्चेति । उच्चायाः उन्नतायाः चटुलयोः चञ्चलयोः चरणयोः चार्याः सल- यन्यासस्य चर्यया रीत्या युक्तं चारु रम्यं यथा तथा सञ्चरन्तं चर्ययासञ्चरन्त- मित्यन्वये “ समस्तृतीयायुक्तात् '' इत्यात्मनेपदेन भाव्यं । ईषदिति । ईषत् किञ्चित् उत्क्षिप्तयोः उद्धृतयोः पक्षयोः विलासेन लीलया विशिष्टनर्तनेन वा विह. सिता परिभूता विलासिनीनां नर्तकीनां लास्यलीला नृत्यविलासः येन त । ग्रीवा । कण्ठः । हेलया। लीलया ॥ १६. उत्क्षिप्त इति । तेन राज्ञा रक्तकमलगर्भस्य कोकनदमध्यस्य विभ्रमः विलासस्तद्वानिवाचरन् यः पाणिपल्लव: तम्मिन् । उत्क्षिप्तः उद्धृतः । पद्मरागशक्तेः शोणरत्नस्फोटस्य तले पाण्डुपद्मइव पुण्डरकिमिव “वापुंसिप ' इति कोशात् पद्मशब्दः पुस्लिंगोपि । उदयशैलस्य शोणमाणिक्यशिखरस्य अरुणरत्नमयङ्गस्य - ..

द्वितीय उच्चासः ८१ शिखायामिन्दुरिव, विराजितो राजहंसो मृदुवाद्यमानरौप्यघनघर्घरीजर्ज- रस्वरेण कृतस्वस्तिशब्दो विस्पष्टवर्णविशेषं राजानमुपश्लोकयांचकार ॥ पाण्डुपङ्कजसंलीनमधुपालीसमं गलम् । यो बिभर्ति विधेयात्ते ना कपाली स मङ्गलम् ॥ १४ ॥ अपिच सरलप्रियंगुणाढयं लम्बितमालं विचित्रतिलकं च । वनमिव वपुस्तवैतत्कथमवनं नृप जनस्याभूत् ॥ १५ ॥ अपिच वरसहकारकरञ्जकवीरतरोऽशोकमदनपुंनाग । विविधद्रुममय राजन्कथमासि न बिभीतकः क्वापि ॥ १६ ॥ -- शिखायामग्रे क्षणं (तिष्ठन् ) इन्दुरिव विराजितः शोभितः सः राजहंसश्च । मृदु मन्द यथा तथा वाटयमानस्य रौप्यस्य रजतमयस्य घनस्य तालस्य घर्घर्याः वाद्यभेदस्य जर्जरस्य अल्पकलध्वनेः दण्डिकाख्यस्य चेव स्वरेण कृतः स्वस्ति (तुभ्यं मङ्गळमस्तु ) इति शब्दः येनतथोक्तः विस्पष्टाः विशेषस्फुटाः वर्णविशेषाः अक्षर भेदायस्मिन् कर्मणितद्यथा भवति तथा । राजानं उपश्लोकयाञ्चकार श्लोकैरुपतुष्टाव सत्यापपाश' इत्यदिना णिच् ॥ पाण्डिति ॥ यः पाण्डुपङ्कजे पुण्डरीके संलीनायाः स्थितायाः मधुपा- ब्याः भृङ्गपतयाः समं सदृशं (अत्रोपमालङ्कारः ) गलं कण्ठं विभर्ति धारयति सः ना पुरुषशब्दवाच्यः कपाली शिवः ते मङ्गलं विधेयात् कुर्यात् । विपूर्वात् धान: आशीर्लिडि " एलिडि" इत्येत्वम् । अत्र यमकविशेषश्शब्दालङ्कारः ॥ १४ ॥ सरलेति ॥ हे नृप वनमिव स्थूलानां अवक्राणां प्रियं गुणैश्शौर्यादिभिः आढथं पूर्ण पक्षे सरल; पीतवृक्षः प्रियंगुः फलिनी तयोस्समाहार: सरलप्रि- यङ्गु तेन आढयम् । लम्बिता माला पुष्पमाला यास्मन् अन्यत्र लम्बिनः प्रलम्बन- शोलाः तमाला: तापिञ्छवृक्षाः यस्मिन् । विचित्रतिलकं अद्भुतपुण्ड्रं विविधतिलक- वृक्षयुक्तश्च । एतत् तव वपुः शरीरं जनस्य कथं अवनं रक्षकं वनभिन्नञ्च अभूत् । अत्र विरोधाभास सभङ्गश्लेषावलङ्कारौ । आर्यावृत्तम् ॥ १५ ॥ वरेति । वराः श्रेष्ठाः सहकारकाः सचिवादयः यस्य तस्य संबुद्धिः वरसह- कारक । रजयतीति रजकः तस्य संबुद्धिः रजक । वीराणां गुहसहायानां नववीरा- णामिव तरः बलं यस्य सः वीरतराः तस्य सम्बुद्धिः वीरतरः । न शोको यस्य तस्य दमयन्तीकथानाम् मपिच। बाणकरवीरदमनकशतपत्रकबन्धुजीवकसुजाते । नृप विविधविटपरूपस्तथापि विटंपः कथं नासि ॥ १७ ॥ १७. राजा तु तदाकर्ण्य सविस्मयम् "अहो अस्य धैर्य मनुप्यसंनिधौ, आश्चर्य रूपे, माधुर्य वाचि, प्राचुर्य प्रज्ञायाम् , औदार्यमर्थे, गाम्भीर्य वर्णव्यक्तौ । प्रायेणाहारमैथुननिद्राभयभ्रमणमात्राविवेकासु कथं प्राग- ल्भ्यमेतत्पक्षिजातिषु । तदेष विहङ्गव्यञ्जनः कोऽपि कामचारी भविष्य- ति । सर्वथा मनसापि नावज्ञेयाः केऽपि प्राणिनः । यतः कर्मतः का- मतः शापतः संछन्नरूपाण्यपि भ्रमन्ति विविधाश्चर्यभाञ्जि भूतानि " इति चिन्तयन्नुचितज्ञस्तमीषदुल्लसितमिन्दुवारमञ्जरीभिरिव कुन्दकान्तद- न्तदीप्तिभिरर्चयन्स्वागतमपृच्छत् ॥ सम्वुद्धिः अशोक । मदनः कामइव मदनस्तस्य सम्वुद्धिः मदन । पुमान् नागइव पुन्नागः नरकुञ्जरः तस्य सम्बुद्धिः पुनाग। द्रुमपक्षे वरसहकार । श्रेष्टचूत करञ्जक न- क्तमाल वीरतरो अर्जुनवृक्ष अशोक कङ्केले मदन शल्यवृक्ष पुन्नाग केसरवृक्ष । अतएव विविधद्रममय राजन् कथं क्वापि कत्रापि विभीतकः विशेषेण भीतः वि. भीतः कुत्सितः विभीतः विभीतकः अक्षवृक्षश्च नासि न भवसि । अत्र पूर्ववद्वृत्ता- लङ्कारौ ॥ १६ ॥ बाणेति ॥ बाणः शरः करे यस्य तस्य सम्बुद्धिः बाणकर वीरान् दमय. तीति वीरदमनः सएव वीरदमनकः तस्य सम्बद्धिः वीरदमनक । शतं पत्राणि वाहनानि यस्य तस्य सम्बुद्धिः शतपत्रक । “शेषाद्विभाषा" इति कप् । बन्धून् जीवयतीति बन्धुजीवकः तस्य सम्बुद्धिः बन्धुजीवक । शोभना जातिः क्षत्रिय- जातिः यस्य तस्य सम्बुद्धिः सुजाते । नृप त्वं विविधाः श्लिष्टतया पूर्वोक्ताः बाणः गोस्तन: करवीरः चण्डातः दमनकं कान्ताख्यं शतपत्रकं कमलं वन्धुजीवकः बन्धूकः शोभना जातिः मालतिश्चेति विटपाः वीरुधः तद्रूपः असि तथापि कथं विटप. विटान् भुजङ्गान् पातीति विटपः विटरक्षकः वीरुच्च । नासि । पूर्ववद्वृत्ता- लङ्कारी ॥ १७ ॥ १७. राजेति ॥ सविस्मयम् । साचर्यम् । प्राचुर्यम् । आधिक्यम् । औदार्यम् । सारल्यम । वर्णव्यक्तौ । अक्षरोच्चारणे । प्रायेण । बाहुल्येन । आहारेति । आहारादिमात्रेषु विवेकः ज्ञानं यासान्तामु । प्रागल्भ्यं धाष्टर्यम् । .. ।

द्वितीय उच्छवासः ८३ १८. असावपि प्रणयप्रणतशिराः शुचिरोचिषां चयेन पाण्डुपुष्पप्रकर- प्रकारेण प्रतिपूजयन्निव " देव, भवदव लोकनेनाह्लादितमनसो ममाद्य स्वागतम् ” इति ब्रुवाणो राजानं रज्जयांचकार ।। १९. अत्रान्तरे त्रासतरलतरतरत्तारकमकाण्डाडम्बारतबाष्पप्लवप्ल- वमानमिव वहन्ती चक्षुः, उत्क्षिप्तपझपत्रपल्लवव्याजेन संगृहीते सह- चरे शाखोद्धारमिव दर्शयन्ती, हंसी दूरादवनिपालमवाप्य रौप्यमयघ- ण्टाटंकारकोमलया गिरा श्लोकद्वयमपठत् ।। एकान्ते सेवते योगं मुक्ताहारपरिच्छदः । हंसः समोझयोग्योऽपि देव किं बध्यते त्वया ॥ १८ ॥ विहङ्गम्यञ्जनः । पक्षिरूपः। कामचारी । खेच्छाचारी विद्याधरादिः। अवज्ञेयाः अवज्ञातुमभिभवितुमर्हाः । संछन्नम् । संवृतं । उल्लसितेति। विकसितेन्द्रसुर- भिवल्लरीभिः । कुन्देति । माध्यपुष्परुचिरदन्तशोभाभिः ॥ १८. असाविति । असौ । हमः । प्रणयः । स्नेहः। शुचिरोचियां । शुभ्रकान्तीनां । चयेन । समूहेन । पााविति । श्वेतकसमनिचयभेदेन । रन्जयाञ्चकार तोषयामास ॥ १९. अत्रेति । अत्रान्तरे अस्मिन्समये । त्रासेन भीत्या तरलतरं अतिश- येन चञ्चलं यथा तथा तरन्ती प्लवमाना तारका कनीनिका यस्य तत् । अकाण्डे अकस्मात् आडम्बरिते सजाताडंवरे अभिवृद्ध इति यावत् बाष्पप्लवे अश्रुपूरे प्लवमानं तरदिवस्थितं चक्षः वहन्ती उत्क्षिप्तानां पक्षयोः गस्तोः पत्रपल्लवानां पलाशकिसलयानां व्याजेन मिषेण संगृहीते राज्ञा गृहीते सहचरे नायके विषये शा- खोद्धारं अन्यायफून्कारचिहं शाखाग्रहणं दर्शयन्तीवस्थिता हंसी हंसस्य स्त्री दूरात् अवनिपालं नलं अवाप्य रौप्यमयघण्टायाः रजतविकृतघण्टायाः टङ्कारवत् कोमल - या रम्यया गिरा वाचा श्लोकयोर्द्वयं अपठत् ॥ एकेति । देव हे राजन् मुक्ताहारवत् मुक्तासरवत् (शुभ्रौ) परिच्छ. दौ पक्षौ यस्य सः यः हसः हंसपक्षी कान्ते कस्य जलस्य अन्ते समीपे एव ए (अशब्दस्य सप्तमी) अङ्गणे अन्तःपुरे वा “ अकारो ब्रह्मविष्णीशकमठेवणे रणे । गौरवेन्तःपुरे" इति रत्नमाला । स्थितं अगं वृक्षं सेवते आश्रयति मोक्षस्य मोच- नस्य योग्योपि सः हंसपक्षी त्वया भवता किं किमर्थ बध्यते । अन्योप्यर्थ:- हे देव मुक्ताहारपरिच्छदः त्यक्ताहारपरिवारः यः हंसः आत्मा जीवः कान्ते कम- नये ए विष्णौ शिवे वा । यद्वा-एकान्ते रहसि योगं भक्तिं ध्यानं वा “ योग: स.

दमयन्तीकथायाम् नीरंजनपदेतिष्ठन्विश्वसंसारसङ्गतः । हसः किं बध्यते कापि यस्य नालम्बनं प्रियम् ॥ १५ २० राजन्, जलपक्षिणो मुनय इव येमीनाहारं वाञ्छन्ति, बहुधा व्यसनिनः, बिसाधाराः। तदलमाग्रहेण" || २१. राजा तु तेन तस्याः श्लेषश्लाधिना श्लोकोक्तिरसेनालायमान नर्मालापलीलया तां बभाषे ॥ बहनोपायध्यानसङ्गतियुक्तिषु” इत्यमरः । सेवते मोक्षस्य कैवल्यस्य योग्यः र यद्वा समः लक्ष्म्यासक्तियुतः अक्षयोग्यः इन्द्रियसम्बद्धोपि सः यद्वा समः र दर्शनः । त्वया ( अन्यार्थकः सर्वादिगणपठितः त्वशब्दः ) अन्यया सुरुषादित प्रकृत्या बध्यते किं न बध्यत इत्यर्थः । अत्र श्लेषालङ्कारः ॥ १८ ॥ नीरेति ॥ यस्य हंसपक्षिणः नलस्य (नलाख्यस्य तव ) इदं नालं यद्वा लस्य कमलस्य इदं नालं " नल: पोटगले राज्ञि पितृदेवे कपीश्वरे । कमलेपि नट्याञ्च क्रमेण क्लीबयोषितोः" इति मेदिनी । वनं काननं जलं वा यद्वा । उत्पलादिकाण्डं वनञ्च प्रियम् । सः जनानां पदे स्थाने पुरग्रामादौ अतिष्ठन् सर (तटाकस्य) इदं सारसम् । श्वसन्तीति श्वसाः प्राणिन । वयः पक्षिणः श्वसाः २ तत् विश्वसं नीरं जलं गतः हंसः हंसपक्षी कापि वध्यते किं न वध्यत इत्यर्थः अन्योप्यर्थ -यस्य हंसस्य आत्मनः विश्वसङ्गतः विश्वेषु समस्तेषु संसारसङ्गेयु सारविषयेषु “ सार्वविभक्तिकरतसि:" आलम्बनं आसक्तिः प्रियं न । सः नीर नपदे नीरागस्थाने तिष्ठन् हंसः आत्मा क्वापि बध्यते किम् । अत्र पूर्ववदलङ्कारः॥ २०. राजनिति ॥ येमीति । ये पक्षिणः मीनाहारं मत्स्यभोजनं वाञ्छा इच्छन्ति पक्षे ये अमी मुनयः आहारं न वाञ्छन्ति । बह्विति । उभयेति बहु अनेकधा वने जले कानने वा व्यसनिनः आसक्ताः यद्वा बहु अधिकं यथा त धावने द्रुतगती मुनिपक्षे कायादिशोधने व्यसनिनः यद्वा बहुधा अवने गमने मु पक्षे अवने सकलप्राणिरक्षणे वेदान्तश्रवणे वा " अवरक्षणगति ... श्रवणादिषु व्यसनिनः । बिसेति ॥ बिसं पद्मिनीमूलं आधारः जीवनं येषान्ते विसाधाराः । क्षिणः । मुनयस्तु-आधारेण आश्रयेण गृहादिना सहिताः साधाराः सांसारिक विरुद्धाः विप्रकृष्टा वा साधारेभ्यः विसाधाराः । ( वबयोरभेदः ) आग्रहेण । अ समन्तादहणेन निग्रहेण च ॥ २१. राजेति ॥ श्लेषेति । श्लेषं नानार्थसंश्रयं सभङ्गाभङ्गभिन्नं श्लेषाख्ट मर्थचित्रं श्लाघते (धातूनामनेकार्थत्वात् ) प्रकाशयतीति तच्छीलेन । श्लोकेति श्लोकानामुक्तिरेव रस: पेयद्रव्यं तेन । नर्मालापः । परिहासोक्तिः ॥

द्वितीयउच्छासः ८५ " अनेकधा यः किल पक्षपातं सदा सदम्भोजगतः करोति । स हंसिकेदारविहारशीलो न बध्यते किंबहुनाशकुन्तः" ॥ २० ॥ २२. किं चान्यदपि श्रूयतां वन्धस्य कारणम् ॥ २३. अस्ति मत्परिग्रहे यूमालिकानामवननायिका, सापरागस्थ - गितमुखकमलापि वलाइनेन विनाशिता, विनित्योपरि जर्जरिता नलैः, खण्डितमधरदलम् , दलितमलिकालकगण्डनम् , अपनीतः सुकुमार- भावः ।। , कोति ॥ हे हसिके रस्त्य हसि सदा सदम्भ: दाम्भिकः दम्मानु- ठानरत इत्यर्थः । यः जगतः (विपये ) अनेकथा बहुधा पक्षपातं ममतां करोति किल प्रसिद्धी दारविहारातील दारकी डारतः ब्रह्मचर्य रहिन इत्यर्थः । वह नाशय - तीति बहुनाशः कुन्तः चण्डभावः यस्य तथाभतः सः किं न वध्यते संसारकाराया- मिति शेषः । अथ वा हे हंसिके सदा सदम्भः सकाटः सपापोवा " दम्मः कल्के कनवे च ' इति हेमचन्दः । यः अनेकधा पक्ष य मित्रवर्गस्य पातं नाशं कति किल स्फुटमाचरति । जगत: दारविहारशीलः परस्त्रीरतिशीलः वहन्नारायतीति नयोक्तः कुन्तः : प्रासः यस्य तथोक्तश्च सः न बध्यते किं वध्यत एव यद्वा (वय योरभेदात् ) हन्यत एव अयं परिहासार्थः । तत्वार्थस्तु-हे हंसि यदुना बहरला किम् । सदा सदम्भोज सत्पन गतः यः अनेकधा पक्षाभ्यां गरुद्धयां पातं पतन करोति किल केदारेषु सस्यक्षेत्रेप विहरणशीलः सः शकुन्तः हंसपक्षी न वायते किन्तु मुच्यते । अत्र पालकारः ॥ २० ॥ २२. किचेलि ॥ बन्धस्य । बन्धनस्य ॥ २३. अत्तीति ।। मलरिग्रहे राज्ञोपि मम कलत्राणां मध्ये मत्परिकारमध्ये वा मृणालिकति नाम यस्यास्ता बननायिका धनस्वामिनी मृणालिकानामबननागि. का । यद्वा --- गृणालिकानां पचिनीना अवने रक्षणे नायिका खामिनी (या ) अस्ति सौ अपरागात् (अस्मिन् ) रागाभावात् स्थगितं संवृतं मुखकमलं यया तथाभूता- ऽपि बलात् बलात्कारात् अनेन त्वदी विनाशिता शीलखण्डनं नापिता कथमिति चेदाह -विनियत्येति । (अस्याः) उपरि विनिपत्य पतित्वा (इयं अनेन स्वस्य) नखैः जजरिता खण्डिता (अस्याः ) अधरदलं ओष्टकिसलयं खण्डितं अलिकरय लराटस्य अलकानां केशानाञ्च मण्डनं भूपणं दलितं लुप्तम् । सुकुमारभावः सौकु. 8 दमयन्तीकथायाम् २४. किं वापीवरेणानेन न कृतम् ।। २५. तदेष यावन्मध्यं बहुधापाञ्जरन्नावगाहते तावन्मे कुतः संतो- पः । नच नदीक्षितद्विजन्मनि निगृहीतेऽपि गरीयः पातकमस्ति ।। २६. अयि मुग्धे कलहंसिके, त्वं पुनः मानसंगतापि विमानना सहसे, विपरीतः खल्वेषः । यतः सद्वंशकान्तारागविमुखो मधुपश्रेणि- श्रयणीयां सुराजीविनी कान्तां कामयते । तदलमनेन । गच्छ वत्से, यथाप्रियम् ' इत्यभिहितवति वसुंधरेश्वरे ॥ मार्य कन्यात्वमिति यावत् । अपनीतः निरस्तः । तत्वार्थस्तु-मत्परिग्रहे मदान- राज्ये मृणालिका पद्मिनी नामेति सम्बोधने अयि हंसीत्यर्थः । बननायिका वनस्वा- मिनीव या अस्ति परागैः मकरन्दैः स्थगितमुखानि छन्नाग्राणि कमलानि यस्यास्सा सापि बलात् अनेन विना पक्षिणा आंशता भक्षिता अधरदलं अधःपत्रं अलयः भृ. गाएव कालं कृष्णं कस्य शिरसः उपरिभागस्येति यावत् । मण्डनं अलङ्करणम् । मुकुमारभावः मार्दवम् । शेषं पूर्ववत् ॥ २४. किंवेति ॥ पीवरेण स्थूलेन अनेन किं वा न कृतं सर्व कृतमित्यर्थः । वास्तवे तु-वाप्यां वरेण प्रधानभूतेन ॥ २५. तदिति ॥ तत् तम्मात् एषः अपराधी वहुधा बहुभिः प्रकारैः पञ्जर स्य इदं पाजरं मध्यं नीडमध्यं कारान्तरञ्च यावत् नावगाहते न प्रवेक्ष्यति यावत् पुरा' इति लट् । तावत् मे कुतः सन्तोषः । अयं द्विजत्वादशिक्षणीय इत्यत आह-न चेति । दीक्षा वेदोक्तयज्ञदीक्षा शैवपाञ्चरात्रायुक्तदीक्षा वा अस्य सजाते . ति दीक्षितः न दीक्षितः न दीक्षितः (नशब्दसमासः) तस्मिन् द्विजन्मनि ब्राह्मणे क्षत्रिये वेश्ये वा निगृहीते दण्डितेपि गरीयः अतिशयेन गुरु अधिकं पातकं पाये नास्ति किञ्च दीक्षिते द्विजन्मनि निगृहीते गरीयः पातकं नास्तीति न अपित्वलेव- त्यर्थेपि । वास्तवेतु--एषः लत्पतिः अपांमध्यं जरन् यावत् वार्धकावधि नावगा. हते तावन्मे कुनस्सन्तोषः नयां क्षिते उषिते द्विजन्मनि पक्षिणि नितरां गृहीते स्नेहात् स्वीकृतेपि गरीयः अत्यथै पातकं नास्ति ॥ २६. . अयोति ॥ अयिमुग्धे । हे मूढे पक्षे सुन्दरि । मानसङ्गता । मानेन चित्तसमुत्रल्या साता युक्तापि पक्षे मानसं सरः गतापि । विमाननां। अवगणना पक्षे विपु पक्षिषु माननां पूजां । विपरीतः । विरुद्धवृत्तः पक्षे विभिः पक्षिीभः परीतः परिवृतश्च । सदिति । सति श्रेष्ठे वंशे कुले (जातायां) कान्ता- यो भार्यायां रागविमुखः आशारहितः पक्ष सन्तः विद्यमानाः वंशाः वेणवः येषु तेषु ..

८७ हहो [१९ उग, मृणालिकां द्वितीयउच्छासः । २७. सापि सपरिहासं हंसी तामरसान्तरसानुरागरञ्जितमनाः कामयसे किं वापीनदेहे नात त्वयि न संभाव्यते' इत्याकलितकलहं कलहंसमवादीत् ॥ २८. सोऽपि “ वैदग्ध्यधुरंधर, धूर्तालापपण्डित, प्रज्ञाप्राग्भार- गुरो, चातुर्याचार्य, मा मे प्रियां प्रकोपय । सदृशा एव यूयं वयं च कान्तारेषु वनेषु (स्थितेभ्यः) अगेभ्यः तरुभ्यः विमुख: जलचारित्वादिति भावः । मध्विति । मद्यपगणसेव्यां पक्ष भृगपतिसेव्यां । सुरेति । सुरवा मद्येन जीवतीति तच्छीलां। कान्तां । नायिका पक्षे कान्तां रम्यां सुराजीविनी शोभनां राजीवानि पद्मान्यस्यां सन्तीति राजीविनी पद्मिनी तां । कामयते। इच्छति । तदलमिति। तत् तस्मात् अनेन विपरीतेन अलं पर्याप्त वास्तवेतु अनेन हंसराजेन अलं तव भूषणं " अलं भूषणपर्याप्तिशक्तिवारणवाचकम् इसमरः । गच्छेति । हे वत्से वत्सवत् अज्ञे यथाप्रिय इष्टदेशमनतिकम्य गच्छ धाव वास्तवेतु वत्सवत् लालनीये यथा गुणैस्त्वत्समं योग्यं वा “यथा सादृश्ययोग्यत्व वीप्सास्वानतिकमे" इति यादवः । प्रिय अमु भर्तारं गच्छ लभस्व ॥ २७. सेति । हहों। हे । विहंगभुजङ्ग । विहंगेषु पक्षिषु भुअङ्ग सर्प- वन् द्विजिह्व मत्समक्षं अनुकूलं घदसि मत्परोक्षं प्रतिकूलं वदसति बोधयितुं भुजंगे- त्यामन्त्रणं । अरसां । रागरहितां । तां राजनिवेदितां मृणालिकां । तन्नानी बननायिकां । तरसा । बलेन । अन्विति । अनुरागण स्वासक्त्या रजितचित्तः । कानयसे । इच्छसि । वास्तवेतु विहंगेषु भुजङ्गविलासिन् तामरसान्तरे पद्ममध्ये सानुराग प्रीतियुक्त यद्वा तामरसानां अन्ते मध्ये स्वरूपे वा यो रसः मकरन्दः तत्रा- नुरागः यस्य तस्व सम्बुद्धिः । रजितमना: प्रीतचित्तः त्वं कां काञ्चित् मृणालिका पद्मिनी अयसे गच्छसि। किंवेति । वा अथवा पीनदेहे स्थूलशरीरे नीरसे निः. स्नेहे वके कुटिले बवयोरभेदात् वके बकाये बकराक्षसतुल्ये वा "वकिकौटिल्ये' इति धातोः अच्प्रत्यये । आगणशास्त्रस्यानित्यत्वेन नुमागमाभावे बक इति रूपं । त्वयि कि नसंभाव्यते सर्व दौजन्य शंक्यत एवेत्यर्थः । वास्तपेतु वापीष नदेषु च ईहा इच्छा यस्य तस्मिन् नीरं जल सेवत इति नीरसेवकस्तस्मिन् त्वयि किं न समायो न प्रशस्यते सर्व प्रशस्यत एवेत्यर्थः । आकलितेति। आकलितः सम्यक् कृतः पक्षे किञ्चित् कृत इव कलहः यस्मिन् कमणि तद्यथा भवति तथा ।। २८. सोपीति । सोपि हसोपि इति राजानमवादीत् इत्यनेनान्वयः । वैद- गध्धन दाक्षिण्येन धुरन्धर राज्यभरणधुरीण । यद्वा वैदग्ध्यं औदार्य “अग्राम्ये सर- लोदाविदग्धच्छेकदाक्षिणाः" इति यादवः । तदेषामस्तीति वैदग्ध्याः "अर्श भा-

॥
--
८८
दमयन्तीकथायाम
राजहंसाः । सरसां कि गनुभवामः । नदीनां पात्रेप्ववस्थितिं कुर्मः
यायां न श्लाघ्यामहे । तत्सपक्षेषु विपक्षो माभूः ॥
एषा मे हृदयं जीव उच्छ्वासः प्राण एव च ।
संसारमुखसर्वखं प्राणिनां हि प्रियो जनः । २१ ॥
रूपसंपन्नमग्राम्यं प्रेमप्रायं प्रियंवदम् ।
कुलीनमनुकूलं च कलत्रं कुत्र लभ्यते ॥ २२ ॥
"
बच्" उदाराः तथे धुरं धारयतीति धुरन्धरः धुरीणः “संज्ञायां भृतृवृ" इत्यादिना
खच् । तस्य सम्वृद्धिः वेदाध्यधुण उदाराग्रेसर हे राजन् ।धूतीनां विटाना-
भिव आलापे भाषणे पण्डित कोविद । प्रज्ञायाः मतेः प्राग्भारेण अतिशयेन “प्रा.
ग्भारोतिशयोभरः" इति यादवः । गुरो ख्यात "गुरुगीपति पित्राद्योः पौरोहित्य.
करेचना । मात्रादी स्त्री वहत्ख्यात दुर्भरा लघुषु त्रिषु' इति यादवः । चातुण
दाक्ष्येण धीमत्त्वेन वा आचार्य आचार्यतुल्य मे मम प्रियां भायाँ हसी मा प्रकोपयं
कुपितां मा कुरु । सदशा इति। राजहमाः राजमुख्याः यूयं सरसां जनानुराग-
कारिणी श्रिय लक्ष्मी अनुभवथ पात्रेप वेदशास्त्रादिसम्पन्नसत्पुरुषेषु दीनां कृ-
पणां अवस्थिति स्थिति नकुरुथ रणचर्यायां युद्धकमणि नश्लाध्यध्वे इति न अपि
तु श्लाघ्यध्धे । वयं तु राजहमाः हसावशेषाः सरसां तटाकानां श्रियं संपदं अनुभवा.
मः । नदीनां सरितां पात्रषु कुलमध्धेषु “ पात्रन्तुकूलयोर्मध्येपणे नृपतिमन्त्रिणि ।
योग्यभाजनयोर्यशभाण्डे नात्यानुकतरि' इति हैमः । अवस्थितिं कुर्मः । चरणा-
भ्यां चर्यायां गतो नन श्लाघ्यामह। तस्मात् यूय वयञ्च सदृशाः । तत् तस्मात् सपक्षेषु
समानवर्गषु सदृशेषु सखिप वा पत्रयुक्तेषु च । विपक्षः विरुद्धपक्षः शत्रुः माभूः ॥
एषेति । एषा हस्येव मे मम हृदयं मनः विषयानुभवे प्रधाननिदान-
त्वात् । जीवः जीवितं तत्सद्भावे जीवनात् उच्छासः श्वासरोधकचिन्तादिदःखभराप-
गमहेतृत्वात् प्राणः प्रधानभूतो वायुश्च देहाधारत्वात् । उक्तमर्थमर्थान्तरन्यासेन दृड.
यति । संसारेति । प्रियः इष्टः जनः प्राणिनां संसारसुखस्य प्रापश्चिकविषयमु.
खस्य सर्व स्वं स्वरूप धनं वा । भवति हि । अत्र सामान्येन विशेषसमर्थनरूपार्थान्त-
रन्यासालङ्कारः ॥ २१ ॥
रूपेति । रूपेण सौन्दर्येण सम्पन्नं पूर्ण अत्राम्यं सरलं प्रेमप्रायं प्रीतिबहुलम् ।
प्रियं इष्टं वदतीति प्रियंवदम् । कुले भवं कुलानं सत्कुलजातं । अनुकूलं अप्रतिकू-
लञ्च कलनं दाराः कुत्र लभ्यते । अत्रानप्रासालङ्कारः ॥ २२ ॥

द्वितीयउच्छ्वासः । २९. तदलमलीककलहारम्भेण भवानप्येवं प्रेमप्रपञ्चनाटकनायको ना- तिचिरादेव यथा भवति तथा कमप्युपकारं करिप्यामि” इति राजा- नमवादीत् ॥ ३०. अत्रान्तरेऽन्तरिक्षमण्डलादतिस्पष्टवर्णव्यक्तिमनोहारिणी वागश्रू- यत ॥ "राजनराजीवपत्राक्ष क्षिप्रं हंसो विमुच्यताम् । भविष्यत्येष ते दूतो दमयन्त्याः प्रलोभने" ॥ २३ ॥ ३१. राजा तु तस्याः सोप्मबलातैलपूरेणेवाङ्गमुत्पुलकयता, कर्णान्त- रमवतीर्णेन, दमयन्तीति नाम्ना कोमलतैत्तिरपिच्छम्पर्शमुखमिवानुभव- न्मनानिमीलिताक्षश्चिन्तयांचकार ॥ " आह्लादयन्ति सौख्याम्भः शातकुम्भीयकुम्भिकाः । काञ्चीकलापसश्रीकाः श्रोणीबिम्बाः श्रुता अपि ॥ २४ ॥ , । २९. तदिति। अलीककलहः । अनृतविरोधः । “अलीकन्त्वप्रियेनृतं" इत्य- मरः। प्रेमेति। प्रेम्ण स्नेहस्य नर्मणोवा कलत्रविषयकप्रीतेरित्यर्थः प्रपञ्चः विस्तार एव नाटकं रूपकमेदः तस्य नायकः नयति प्राप्नोति वृत्तं फलश्चेति नायकः प्रबन्ध- व्यापीफलाश्रय इत्यर्थः । नातिचिरादेव । शांवमेव । यथाभवति । “वर्त- मानसामाध्ये वर्तमानवद्वा” इति भविष्यदर्थे लट् । यथा भविष्यतीत्यर्थः ॥ ३०. अत्रेति । अन्तरिक्षमण्डलात् । अकाशदेशात् । वर्णव्याक्तिः । वर्णानामक्षराणां व्यक्तिः पृथगात्मता असंश्लिष्टत्वमिति यावत् ॥ राजनिति । राजीवरनाक्ष । राजीवस्य पद्मस्य पत्रे इवाक्षिणी यस्य तस्म संवुद्धिः “ बहुव्रीही सक्थ्यक्ष्णोः” इत्यादिना पच् । क्षिप्रम् । शीघ्रम् । प्र. लोभने । आशोत्पादने ॥ २३ ॥ ३१. राजेति । राजातु। तस्याः।आकाशवाण्याः सकाशात् कर्णान्तरं श्रोत्रमध्यं अवतीर्णन । प्रविष्टेन । सोध्मेति । सोष्म उच्णं बलायाः वाट्यालकस्य (चित्ता- 'मुट्टीति द्राविड्यां) तैलस्य पूरेण प्रवाहेणेव अझं उत्पुलकयता अधिक रोमाञ्चयता. दमयन्तीति नान्ना कोमलानि मृदुलानि तित्तिरीणां तदाख्यपक्षिणामिमानि तैत्तिराणि यानि पिञ्छानि बर्हाणि तेषां स्पर्शसुखं अनुभवनिव मनाक् किञ्चित् निमीलिताक्षः पिहितनेत्रस्सन् चिन्तयाञ्चकार । आह्नादयन्तीति ॥ सौख्यमेवाम्भः जलं तस्य तत्प्रदाः तयुक्ता वा शतकुम्भे पर्वते भवं शातकुम्म खर्ण तस्य इमाः शातकुम्भीयाः स्वर्णमय्यः कुम्भि- ९० दमयन्तीकथायाम् ३२. तत्केयं दमयन्ती, कश्चायमाश्चर्यभूतो विहंगः, का चेयं नभो. भारती, सर्वमेतद्विस्तरेण वेदितव्यम्" इत्यवधारयन्नेकस्यामुत्फुल्लपल्ल- वितलतामण्डपच्छायायामुन्निद्रकुसुममकरन्दशीकरासाराशशिरे शिला- तले निषद्य तं हंसमवादीत् ॥ ३३. भद्र, साप्तपदीनं सख्यम् , उत्पन्नकतिपयप्रियालापा प्रीतिः, प्र- योजननिरपेक्षं दाक्षिण्यम् , अकारणप्रगुणं वात्सल्यम् , अनिमित्तसुन्दरो मैत्रीभावः, सतां लक्षणम् ॥ ३४. अस्ति च तत्सर्वं भवन्मूर्तावतो निःशङ्कमभिधीयसे । कथय केयं दमयन्ती, कस्य सुता, कीदृग्रूपम् , कुत्र सा वसति, कश्च भवानस्मा- कमुपकर्तुमिच्छति, का चेयं दिव्यवाणी" इत्येवमुक्तः स कथयितुमारेभे॥ काः घटयः सौख्यजलस्वर्णकलक्ष्य इत्यर्थः । काञ्चीकलापेन मेखलाभूषणेन सश्रीकाः शोभायक्ताः । श्रोणीविम्बाः कटिप्रदेशाः श्रुता अपि (किमुत दृष्टाः स्पृष्टा वा ) आह्लादयन्ति । अत्र रूपकालङ्कारः । कैमुत्यध्वनिश्च ॥ २४ ॥ ३२. तदिति ॥ नभोभारती । आकाशवाणी । वेदितव्यम् । ज्ञातव्यम् । अवधारयन् । निश्चिन्वन् । उत्फुल्ला । विकसिता । पलविता। सञ्जातकिस- लया। उन्निद्रेति । विकसितपुष्परसकणधारासम्पातशीतले । निश्च । उपविश्य॥ ३३. भद्रेति ॥ भद्र श्रेष्ठ यद्वा साधो सप्तभिः पदैः ( उक्तिभिः पादनिक्षे- पैर्वा ) अवाप्यते इति साप्तपदीनम् । " साप्तपदीनं सख्यम्” इति साधु । सख्यु- भीवः कर्म वा सख्यं कतिपयेभ्यः प्रियालाप्रेभ्यः प्रियभाषणेभ्यः उत्पन्ना उत्पा- कतिपयप्रियालापा “वाहिताग्न्यादिषु'' इत्यनेन परनिपातः । प्रीतिः प्रीणनम् । प्रयोजनं प्रतिप्रयोजनं निरपेक्षते नापेक्षत इति प्रयोजननिरपेक्षं दाक्षिण्यं सारल्यं छन्दानुवर्तित्वं वा । अकारणे कारणाभावेपि प्रगुणं अकुटिलं 'ऋजावजिह्म प्रगुणो" इत्यमरः । वात्सल्यं वत्से पुत्रादिस्नेहपात्रे अभिलाषास्यास्तीति वत्सलः वत्सां साभ्यां कामवले" इति लच् । तस्य भावः वात्सल्यम् । यदा वत्समिव लाति गृहातीति वत्सलस्तस्य भावः वात्सल्यं । अनिमित्तः अकृत्रिमः अतएव सुन्दरः रम्यः । मित्रस्य सुहृदः कर्म मैत्री तस्यां भावः अभिप्रायः यद्वा मैच्या भावः स्थितिः इति यंत् एतत् सतां लक्षणम् ॥ ३४. अस्तीति ॥ भवन्मृतौ । भवतः तव मूतौ शरीरे । निःशंकम् । निःसन्देहम् । अभिधीयसे । उच्यसे । उपकर्तुम् । उपकारं कर्तुम् । दिव्यवाणी । दिवि आकाशे भवा दिव्या वाणी वाक् ॥ ।

" द्वितीयउच्छासः ९१ शृङ्गाररसभृङ्गार तस्याः सौन्दर्यवीरुधः । कर्णमारोप्यतां देव वार्ताविस्मयपल्लवः ॥ २५ ॥ ३५. अस्ति विस्तीर्णमेदिनीमण्डलमण्डनायमानो नगनगरपुरविहारा- रामरमणीयः सीतासहायसंचरितरबुपतिपादपद्मपवित्रारण्यः पुण्यतरतर- हुगङ्गागोदावरीवारिवारितदुरितदावानलप्रसरः, मन्दर इव बलिराजज- नितपरिवर्तनः, कैलास इव महेश्वरलोककृतवसतिः, मेरुरिव सुवर्णप्रकृ- तिकमनीयो, यदुवंश इव दृष्टशूरपुरुषावतारः, सोमान्वय इव बुधप्र- शृङ्गारेति ॥ शृङ्गं प्राधान्यमियतीति शृङ्गारः तदाख्यो रसः । शृङ्गा- रलक्षणन्तु - " रतिस्थायिभावकः कान्तावालम्बनकः सक्चन्दनायुद्दीपितः कटा- क्षायनुभावितः व्रीडादिसञ्चारितः शृङ्गारः' इति । स एव रसः जलं तस्य बिभर्ति जलमिति भृङ्गारः कनकालुका जलभरितस्वर्णपात्रं तस्य सम्वुद्धिः हे देव राजन् । तस्याः दमयन्त्याएव सौन्दर्ययुक्तायाः वीरुधः लतायाः यद्वा सौन्दर्येण विरुध इव स्थितायाः तस्याः दमयन्त्याः वार्तायाः वृत्तान्तमा विस्मयः आश्चर्यमेव पलनः कि- सलयः यद्वा वार्ताविस्मयः पल्लवइव । कर्ण आरोप्यताम् । सुन्दरलतापल्लवस्य - ङ्गारिणा कर्णपूरीकरणमिव दमयन्तीसौन्दर्यवार्ता रसिकशिरोमणिना राज्ञा त्वया श्रूयतामित्यर्थः । अत्र रूपकालङ्कारः ॥ २५ ॥ ३५. अस्तीति। मेदिनी। भूमिः। नगेति। नगाः पर्वताः। नगा वृक्षास्सन्त्यनेति नगरं वृक्षादियुक्तं शाखानगरं । पिपर्त पालयत,ति पुरं पालनसाधनदुर्गादिविशिष्टा प्रधानराजधानी । विहारारामा: कीडोद्यानानि यद्वा विहाराः क्रीडास्थानानि आरा- माश्च तैः रमणीयः । सीतेति । सीतासहायस्य जानकासखस्य सञ्चरितस्य पीतागाव इत्यादिवत् अर्शआद्यचि सञ्चरितवतः रघुपतेः पादपद्माभ्यां पवित्राप्य रण्यानि यस्य सः। पुण्यति॥ पुण्यतरतरङ्गायाः गङ्गागोदावर्याः युद्धगंगाभिधगो. तम्याः यद्वा गङ्गायाः गोदावर्याश्च वारिणा वारितः दुरितमेव पापमेव दावानल: तस्य प्रसरः व्याप्तियस्मिन् तथोक्तः मन्दरः मन्थानत्वेन क्षीराब्धौ पातितः मन्द- रपर्वत इव । बलिना बलवता महाबलिसंज्ञकेन राज्ञा भीमेन दैत्यराजेन च जनितं परिवर्तनं परिपालनं भ्रमणञ्च यस्य सः । कैलासगिरिरिव महेश्वरलोकैः धनिकजनैः शिवभक्तैश्च कृता वसतिर्वासः यस्मिन् सः। मेरुगिरिरिव सुथु वर्णैः विप्राद्यैः प्रकृति भिः अमात्यादिश्च पक्षे सुवर्णप्रकृत्या स्वर्णस्वभावेन कमनीय: रम्यः । यदुवंशः ययातेः ज्यष्टपुत्रस्य यदोः कुलमिव । दृष्टः शूरपुरुषाणां शर्यिवतां नराणां पक्षे शूरः शूराख्यः वसुदेवपिता स एव पुरुषः तस्य अवतारः उत्पत्तिः यस्मिन् सः सोमस्य चन्द्रस्य अन्वयः वंश इव । बुधप्रधानः । विद्वत्प्रधानः चन्द्रपुत्रप्रधानश्च । वेद- ..

९२ दमयन्तीकथायाम् धानः, वेदपाठ इवानेकैः सवने पेतः, पर्वते पर्वते स्थाणुभिः, पुरे पुरे पुरा- णपुरुषैः, जले जले कमलोद्भवैः, पदे पदे देवकुलैः, वने वने वरुणैः, स्थाने स्थाने नन्दनोद्यानैः, अर्गलः खर्गस्य, तापीप्रायोऽप्यनुपतापी जनम्य, विन्ध्याद्रिमुद्रितायां दिशि देशानामुत्तरोऽपि दक्षिणो देशः ॥ ३६. यत्र । शास्त्रे शस्त्रे च वेदे वैये च भरते भारते च कल्पे शिल्पे च प्रधानो, धनी, धन्यो, धान्यवान् , विदग्धो वाचि, मुग्धो मुखे, स्निग्धो मनसि, वसति निरन्तरमशोको लोकः ॥ ३७. यत्र क्रुद्धथूर्जटिललाटलोचनानलज्वालाकवलनाकुलः, त्रासा- दपाशावलोकनमात्रनिर्जितपरमेश्वरमनसां विलासिनीनामुचकुचकुम्भ- पाठः । वेदाध्याय इव । अनेकैः स इति भिन्नं पदं वनैः उपेतः सः प्रसिद्धः पक्षे सवनयज्ञैः युक्त: । स्थाणुभिः । शाखापत्रहीनतरुभिः रुद्रेश्च । पुराणपुरुषैः । वृद्धैः विष्णुभिश्च । कमलोद्भवैः । पद्मानामुत्पत्तिभिः ब्रह्मभिश्च । देवकुलैः। देवगृहै: पक्षे देववृन्दैः यद्वा देवराष्ट्रैः "कुलं जनपदे गोत्रे सजातीयगणेपि च । भवने च तनी क्लीब कण्टकार्योपथौ कुली" इति मेदिनी । वरुणैः । वरणवृक्ष: पक्षे पाशिभिः सूर्यैवी । नन्दनोद्यानैः । आनन्दकरैरुपयनैः पक्ष नन्दनं इन्द्रवनं तत्संज्ञकोपवनैः । (तैस्तैर्वहुत्वविशिष्टैः) स्वर्गस्य । दिवः। अर्गलः । विष्कमः निरोधकः अवमन्तेति यावत् । स्वर्गेटकैकः स्थागुप्रीतः अत्र तु बहव इति तस्ना- दधिकोयन्देश इति भावः। तापीति । प्रायः प्रायेण तापी अवश्यन्तापयतीति तापी तादृशोपि जनस्य अनुपतापी असन्तापयिता इति विरोधे तापी तदाख्यनदी प्रायेण यत्र सः तापीप्रायइति परिहारः । मुद्रितायां । चिह्नितायां । उत्तरः उत्तर- देशसम्वन्यपि दक्षिणः दक्षिणदेशसम्बन्धीति विरोधे उत्तरः श्रेष्ट इति परिहारः ॥ ३६. यत्नेति । भरते । गान्धर्वे । कल्पं । यज्ञकर्मणामुपदेशके कल्पसूत्रे । शिल्पे । कलादिकर्मणि च । प्रधानः । प्रमुख: “वा क्ली प्रधान प्रमुखप्रबहप्रवर- त्तमाः' इति यादवः । धन्यः । पुष्यवान् । विदग्धः । चतुरः । मुग्धः । गुन्दरः । स्निग्धः । स्नेह्वान् । निरन्तरं । सदा । ३७. योति । यत्र देशे ऋद्ध स्यधूर्जटेः शिवस्य ललाटलोचनानलज्यालया कवलनेन भक्षणेन आकुलः व्याकुल: मकरकेतनः कामः अपाङ्गावलोकनमात्रेण कटाक्षवीक्षणमात्रेण निर्जितानि परमेश्वराणां धनिनां परमेश्वरस्य शिवस्य च मनासि यासान्तासां । कामजिदपि ताभिर्जित इल्युक्तिलेश: । विलासिनीनां विलासवतीना स्त्रीणां उच्चयोः उन्नतयोः कुचकुम्भयोः झारस्य सर्व स्तं स्वरूपं । अधरपल्लवेषु बहुना। द्वितीयउच्छ्रासः ९३ योः शृङ्गारसर्वस्वम्, अधरपल्लवेषु मधु, भ्रूभङ्गेषु धनुः, कटाक्षेषु पुष्प- बाणान्निधाय निलीनोऽङ्गेषु जघनस्थलस्थापितरतिर्मकरकेतनः ॥ ३८. यासां तारुण्यमेव सर्वाङ्गेषु शोभार्थमाभरणम् , उत्तुङ्गस्तनम- ण्डललावण्यमेव मुखकमलावलोकनाय दर्पणः, तारतरनयनकान्तिरेव मुखमण्डलमण्डनाय चन्दनललाटिका, भ्रूभङ्गा एव विभ्रमाय मृगमद- पत्रभङ्गाः, कटाक्षा एव युवजनजयाय परमास्त्राणि, बन्धूककुमुमकान्ति- दन्तच्छद एव लोकलोचनमनोमोहनाय माहेन्द्रमाणः, मुखकमलपरि- मलागतमधुकरमधुरझंकार एव विनोदाय वीणाध्वनिः ।। किं ता एव निर्वृतिस्थानमहं मन्य मृगेक्षणाः मुक्तानामास्पदं येन तासामेव स्तनान्तरम् ॥ २३ ॥ ओष्ठकिसलयेषु मधु भ्रूभङ्गेषु भ्रकटिषु यद्वा भ्रुवोविच्छित्तिषु धनुः कटाक्षेषु अपांगेषु पुष्पाण्येव बाणान् निधाय स्थापयित्वा जघनस्थले कटिप्रदेशे पृष्ठदेशे च स्थापिता गतिः सुरत स्वभार्या च येन तथोक्तस्सन् अङ्गेषु तासामवयवेषु निलीनः तिरोहि - त इति मन्ये अन्यथा कथन्तासां परमेश्वरमोहकरूपादिसम्पत्तिः । अत्रगम्योत्प्रेक्षालं. कार: ॥ ३८. यासामिति ॥ यासाम् । स्त्रीणाम् । तारुण्यम् । यौवनमेव लावण्यम् । कान्तिविशेषः । दर्पणः । आदर्शः । तारतरा । भत्युच्चा अति- श्रेष्टेति यावत् । चन्दनेति । ललाटस्यालङ्कारः ललाटिका “ कर्णललाटात् कन- लङ्कारे ” इति कन् । चन्दनरचित ललाटालङ्कारः । भ्रूभङ्गाः । भ्रवोः भङ्गा: को. टिल्यानि विच्छित्तिविशेषा वा। विभ्रमाय । विलासाय । मृगेति । कस्तूरीरचित मकारकादिपनरचनाः । बन्धूकेति। बन्धुजीवपुष्पशोभासमानशोभायुक्तोऽधरः । माहेन्द्रमणिः । महेन्द्रेण प्रोक्तं महेन्द्रादागतं वा माहेन्द्र इन्द्रजालं तन्त्रबलेनावि. घमानवस्तुप्रकाशनमिति यावत् । तदर्थो मणिः । माहेन्द्रमणिः । परिमलः । वासना । विनोदाय । कौतुकाय । अत्र तारुण्यादीन्येवाभरणादीनि शोभाद्यर्थोनि नाभरणादीनि शोभाद्यर्थानीति वर्जनीयस्य आर्थत्वात् आर्थवर्जनीया परिसलया रू. पकमिलिता। परिसङ्ख्यालक्षणन्तु-'परिसङ्ख्या निषिध्यैकमेकस्मिन्वस्तुयन्त्रणम्' इति ॥ ता इति ॥ ताः मृगस्य हरिणस्येव ईक्षणे नेत्रे यासान्ता एव निवृतेः केस्सुखस्य च स्थानं आस्पदमिति अहं मन्ये । येन कारणेन तासां स्तनान्तरं दमयन्तीकथायाम् ३९. मन्ये च । ताभिरेव विविधनिधुवननिधानकुम्भीभिः कुम्भो- द्भवोऽपि भगवान्प्रलोभितो भविष्यति, येनाद्यापि न मुञ्चति दक्षिणां , दिशमेव ॥ अथवा । देशो भवेत्कस्य न वल्लभोऽसौ स्त्रीसंकुलः सुस्थितकामकोटिः। दग्धैककामं त्रिदिवं विहाय यस्मिन्कुमारोऽपि रतिं चकार ॥ २७ ॥ ४०. तस्यान्तर्भूतवैदर्भमण्डलस्यालंकारभूतमनाकुलममरपतिपुरप्र- तिम्पर्धि परितःपरिखाप्रान्तरूढप्रौढहृयोद्यानमालावलयितमदभ्रशुभ्रा- भ्रंलिहप्रासादशिखरशिखाभोगभनरविरथतुरंगवेगम् । एकत्राग्रिहोत्रम- कुचमध्यमेव मुक्तानां मुक्तात्मनां मैक्तिकानाञ्च । आस्पदं स्थानम् । अत्र उपमा- श्लेषोत्प्रेक्षाणां मेलनम् ॥ २६ ॥ ३९. मन्ये चेति ॥ ताभिः । दक्षिणदेशनारीभिः । विविधेति । विवि- धानां निधुवनानां सुरतानामेव निधानानां निधीनां कुम्भीभिः घटीभिः “गौरादि- वात् डीप' कुम्भोद्भवः । अगस्त्यः । प्रलोभितः । वञ्चितः मोहित इत्यर्थः ॥ देश इति ॥ स्त्रीभिः सङ्कल: निबिडः । सुखेन स्थिता कामकोटिः कामाक्षी देवी मन्मथकोटिश्च यस्मिंस्तथोक्तः । असौ देशः दक्षिणदेशः कस्य वल्लभः प्रियः न भवेत् । यस्मिन्देशे दग्धः एकोऽपि कामः यस्मिंस्तथाभूतम् । त्रयः ब्रह्मविष्णु - रुद्राः दव्यिन्त्यास्मिन्निति त्रिदिवः स्वर्गः तम् । विहाय त्यक्त्वा कुमारोऽपि कार्ति- केयो बालश्चापि रति आसक्ति सुरतञ्च चकार । अत्र विरोधाभासश्लेषकाव्यलिङ्गा- न्यलङ्काराः । स्वर्गतुल्योयमिति उपमा ध्वन्यते । तया व्यतिरेकध्वनिः । इन्द्रवज्रा. वृत्तम् ॥ २७ ॥ ४०. तस्येति ॥ तस्य दक्षिणदेशस्य अन्तर्मध्ये स्थितं वर्तमानं यत् विदर्भा- गामिदं वैदर्भ मण्डलं विदर्भदेशस्तस्य । अलङ्कारभूतम् । अनाकुलं निरुपद्रवम् । अमरपतिपुरं प्रतिस्पर्धते अभिभवितुमिच्छतीति तच्छीलम् । परितः समन्ततः परितः खन्यत इति परिखा खेयं तस्याः प्रान्ते पर्यन्ते रूढानां उत्पन्नानां प्रौढानां तरुणानां हृद्योद्यानानां रम्योपवनानां मालया पड्या वलयितं वेष्टितम् । अदम्राः अनल्पाः शुभ्राः सुधाधवला: अभ्रं लिहन्तीति अनलिहा: आकाशव्यापिनश्च . . अ- द्वितीयउच्छ्रासः ९५ न्त्रपवित्राहतिहतसमस्तदिव्यान्तरिक्षभौमोत्पातसंघातैः, कृतमन्युभिरपि मन्युशन्यैः, उक्तसूक्तैरपि निरुक्तपरैः, सन्मार्गस्थैरपि गृहस्थैः, सकल- त्रैरपि ब्रह्मचारिभिः, अभ्यस्ततिथिभिरप्यतिथेि कुशलैः, सामप्रयोगप्रया- नैरपि दण्डावलम्बिभिः, शतपथानुसारिभिरप्येकमार्गः, ब्राह्मणैरध्या- सेतम् । एकत्र कुरुभिरिव द्रोणपुरःसरे, प्रासादैरिव तुलाधारिभिः । 'वहाने लिहः" इति खश् । ये प्रासादाः धनिकगृहाणि तेषां शिखरशिखानां पृङ्गाग्राणां आभोगेन आयामेन भग्नः रविरथतुरङ्गाणां वेगः यस्मिंस्तत् अत्र सम्ब- धातिशयोक्तिः । एकत्र क्वचित् । अग्निषु गार्हपत्याहवनीयदक्षिणाग्निषु होत्रं क्षीर- मः यस्मिन् तत् अग्निहोत्रं तदाख्यं सायंप्रातरनुष्ठेयं कर्म तत्र ये मन्त्राः ज्योतिर्योतिरग्निः स्वाहा इत्यादयः तैः पुनन्तीति पवित्राः पूताः याः आहु- यः होमाः ताभिः हतः निरस्तः दिव्यानां दिवि स्वर्ग भवानां आन्तरिक्षाणां अ. तरिक्ष आकाशे भवानां भौमानां भूमौ भवानाञ्च उत्पातानां उपद्रवाणां सङ्घातः छः यैस्तथाभूतैः । कृतमन्युभिः पूर्णकोपैरपि मन्युशून्यैः कोपरहितैरिति विरोधः चतयागैरिति परिहारः । “ कृतं युगलमर्थे स्याद्विहिते हिंसिते त्रिषु” इति मेदि- ।। " मन्युदैन्ये ऋतौ कुधि' इति हैमः । उक्तं कथितं शोभनं उक्तं वचनं हषसूक्तादिकञ्च शैस्तैरपि । निरुक्त वचनाभावे निरुक्ताख्यवेदाङ्गान्यतमे च परैः सत्तः । सतां नक्षत्राणां “ सन्नक्षत्रमुडनना" इति वैजयन्ती । साधूनाञ्च मार्गे छन्तीति सन्मार्गस्थास्तैरपि गृहे भवने गृहेण भार्यया च तिष्ठन्तीति गृहस्थास्तैः । कलौः भार्यायुक्तैः सकलं समस्तं त्रायन्ते रक्षन्ति इति सकलत्रास्तैरपि । ब्रह्म- रिभिः प्रथमाश्रमिभिः ब्रह्म तपः ज्ञानं वा चरन्त्यवश्यमिति ब्रह्मचारिणस्तैश्च । भ्यस्ताः आवर्तिताः तिथयः प्रथमादयः यैस्तथोक्तैरपि अतिथिकुशलैः तिथिषु नेपुणैः अतिथीनागन्तुकान् कुशांश्च लान्ति गृह्णन्तीति तथोक्तास्तैः । सामेति । न्त्वनोपायमुख्यैरपि सामवेदीयोगालप्रयोगसमर्थेश्च । दण्डं दण्डनोपायं वेगुदण्डञ्च धारयणवं दण्डं शुभे शैक्मे च कुण्डले । यज्ञोपवीतं वेदञ्च सोदकञ्च कमण्ड- ।" इति स्नातकविधेरिति भावः । अवलम्बन्ते धारयन्तीति तच्छालैः । शतपथ सङ्खयं पन्थानं शतपथाख्यशुक्लयजुर्वेदीयब्राह्मणञ्च अनुसरन्तीति तच्छीलास्तै- ।। एकः एकसङ्ख्यः मुख्यश्च मार्ग: येपान्तैः । ब्राह्मणैः ब्रह्म वेदं भधीयते वि- त वा ब्राह्मणास्तैः । अध्यासितं अविष्टितम् । एकत्र कर्मचत् कुरुभिः दुर्योधना- भरिव द्रोणः मानविशेषः द्रोणाचार्यश्च पुरस्सरः येषान्तैः । “पलं प्रकुचकं मुधिः वस्तञ्चतुष्टयम् । चत्वारः कुडवाः प्रस्थश्चतुप्रस्थमथाडकम् ॥ अष्टाढको भवेहोणः दमयन्तकिथायाम नैयायिकैरिवानुमेयानुमाननिपुणैः, वैशेषिकैरिव द्रव्यानुगुणकर्मविशेषप- ण्डितैः, वैयाकरणैरिव रूपसिद्धिप्रधानैः, रुद्रैरिवानेकग्रन्थिबद्धकपर्दकैः, विपणिवणिग्जनैरधिष्ठितम् । एकत्र विटकौलदम्मदीक्षाभिरिव कुचरूप- लोभितलोकाभिः, कुकविकाव्यपद्धतिभिरिव भग्नयतिगणवृत्ताभिः, निशा- चरीभिरिव रजनीरागिणीभिः, सर्वतोमुख जघनचपलाभिरप्यनार्याभिः, ' द्विद्रोणः शूर्पउच्यते । सार्धशूर्पो भवेत्खारी द्विद्रोणागोण्युदाहृता ॥ तामेवभारं जानी- याद्वाहोभारचतुष्टयम्' इति । प्रासादैः राजगृहैरिव तुलां सूत्रादिमानं गृहादीनां तिर्यग्धारणस्तम्भच धारयन्तीति तच्छलास्तैः । न्याय गौतमीयशास्त्र विदन्तीति नैयायिकास्तैरिव अनुमेयं अनु द्रव्यादानात्पश्चात् मातुं मानेन निर्धारायतु योग्यं मेयं क्रय्यं कणादिवस्तु तस्य अनुमानं उद्देशज्ञानं यद्वा अनुक्रमेण मेयस्य मातुं योग्यस्य वस्तुनः अनु ज्ञानपूर्वकं मान तोलन तत्र निपुणैः । पक्षे अनुमीयत इत्यनुमेयं सा ध्यं वह्नयादिक अनुमीयतेनेनेत्यनुमानं हेतु मादिः तयोनिषुणैः । वैशेषिकैः काणा- दैरिव । व्यस्य रूप्यादेः अनुगुणः सङ्कलना तस्य कर्मणः क्रियायाः विशेपे भेदे यद्वा द्रव्यानुगुणेषु वित्तानुमारिषु कर्मविशेषेषु क्रय्यवस्तुमहणादिक्रियातिशयेषु पण्डितः । पक्षे द्रव्यं द्रव्यपदार्थ अनुगताः समवायसम्बन्धेन आश्रिताः ( गुणगुणिनोः क्रियाक्रियावतोः विशेपनित्यगम्ययोश्च समयायादिति शास्त्रात् ) ये गुणकर्मविशेषाः पदार्थाः तेषु पण्डितैः । व्याकरणं विदन्तीति वैयाकरणाः शा- दिकास्तारव । रूपागां दंतकरूपकादिनाणकाना शब्दानाब सिद्धिः वृद्धिः निष्प- त्तिश्च प्रधानं येषान्तैः । “ रूपन्तु लोकशब्दयोः । पशावाकाशे सौन्दर्य नाणके नाटकादिके । ग्रन्थावृत्ती खभावे च" इति हेमः । “सिद्धिः स्त्रीयोगनिष्पत्तिपादकान्त - वृिद्धिषु' इति मेदिनी । रुद्रैः एकादशरुद्रेरिव अनेकेष प्रन्थिए बन्धेषु पर्वयुवा बद्धः कपर्दः (नाणकत्येनकाचिद्देशे प्रख्यातः) वराटः जटाजूटश्च येपान्तैः । विपणौ पण्य - चीथिकायां (प्रधान:) वणिरजनैः वाणिज्यजीविभि: अधिष्टितं अध्यासत । एक- त्र विटाः भुजला: ये कोलाः शाक्ता: तेषां दम्भप्रधानाभिः दिक्षाभिः नियमैरिव कुचयोः रूपेण लोभिता: मोहिताः अन्यत्र कुत्सितेन चरुणा मांसौदनादिना उपलो. मिताः प्रतारिताः लोका: यानिस्ताभिः । कुकवेः काव्यस्य पद्धतिभिः सरणिभिरिव- भग्नं यतिगणानां मुनिवृन्दानां वृत्तं शीलं गभिः अन्यत्र भग्नाः यतिः पदविराम: गणाः मगणादयोष्टौ च येषु तानि भग्नयतिगणानि वृत्तानि पद्यानि यासु ताभिः । निशाचरीभि: । राक्षसीभिरिख । रजन्याः हरिद्रायाः राग: अनुलेप: रजन्यां रात्री रागः आसक्तिश्च सआसामस्तीतिरजनीरागिण्यस्ताभिः । सर्वतः सर्वत्र द्वितीयउच्छ्वासः । कर्णाटचेटीभिर्भरितम् । एकत्र बालकभिव कुलालाकीर्णम् । एकत्र वृद्ध- मिव कुजराजितम् । एकत्र चित्रविद्ययेव प्रवर्धमानसकलशिशुशोभितया विन्यस्तस्वस्तिकया सर्वतोभद्रभूषणया भवनमालयालंकृतम् । एकत्र नाट- कैरिव पताकाङ्कसंधिसंगतैः, दुष्टकिरातैरिव दृष्टकूटकर्मभिः, शस्त्ररिव सुधारैः, विचित्रैरपि सचित्रैः, सतुलैरप्यतुलैर्देवकुलैः संकुलम् । विशा- मुखजघनचपलाभिः “ उगयाधयोजकारौ द्वितीयतुर्यो गमध्यगौ यस्याः । चपलेति नाम तस्याः प्रकीर्तितं नागराजेन ॥ आद्यं दलं समस्तं भजेत लक्ष्मवालागतं यस्याः । शेषे पूर्वजलक्ष्मा (पथ्यालक्षणवती) मुखचपला सोदिता मुनिना ॥ प्राक्प्रतिपादितमधे प्रथमे प्रथमेतरे तु चालायाः । लक्ष्मश्रयेत सोक्ता विशुद्धधीभि जघनचपला ॥' इति लक्षणविशिष्टाभि: मुखचपलाभिः जघनचपलाभिश्चापि न आयाभिः आर्याध्यमात्रावृत्तरित विरोधः । मुखे आनने जघने कटौ च चपलाभिः चञ्चलाभिः अनार्याभिः असतीभिः । कर्णाटचे टीनिः काटदेशीयाभिः चेटीभिः नायक सन्धानकुशलाभिः भारतं निबिडम् । बालस्य शिशोः कं मुखमिव । कुलेति। कुलाल: कुम्भकारैः कुत्सितया लालया स्यन्दिन्या च आकीर्ण निबिडम् । कुजेति ! कुजैः वृक्षः राजितं शाभितन् । वृद्धं जरटं वस्तु तु कुत्सितया जरया जिनम् । चित्रविद्यया आलेख्यविद्ययेव । प्रकर्षेण वर्धमानैः सकलैः कलावद्भिः शिशुभिः बालशोभितया विन्यस्ताः रचिताः स्वस्तिकाः मौक्तिकादिक्षोदभयचतुष्काः यस्यां तथाभूतया । सर्वतोभद्रः गृहनिर्माणभेदः यद्वा सर्वतः सर्वत्र भद्राणि काञ्चनानि भू. षणं यस्यास्तया भवनानां गृहागां मालया पझ्या अलङ्कृतम् । चित्रविद्या तु शिशुः सकलः स्वस्तिकः वर्धमानः सर्वतोभद्रः इत्याख्यैः पञ्चपत्रभूपिता । पताकेति । पताका ध्वजवस्त्रमेव अङ्कः चिहं येषान्तानि पताकाकानि सन्धिषु इश्कासन्धानेपु सहतान अविभाव्यसन्धीनि चेत्यर्थः । नाटकानि तु पताका मुख्यनायककथाइभू- ते.पनायक चरित्रं यथा रामायणे सुग्रीवचरितम् । अङ्क: प्रबन्धविभाग: सन्धयः मुख प्रतिमुख गर्ग विमर्श निर्वहणाख्या: पञ्च सन्धयः तैयुक्तानि तैः । दुष्टैः किरातः म्लेच्ठभदैरिव दृष्टम् कूटस्य शिखरस्य काटस्य च कर्म ये तैः । शस्त्रैः आयु- धैरिव सुधां लेपविशेष इयद्भिः प्राप्नुवद्भिः पक्षे शोभना धारा मुखं येषान्तैः “धा- रा शत्रमुखं फलम्" इति यादवः । विचित्रः आलेख्यरहितैरपि अनेकप्रकारैश्च सच त्रैः चित्रसहितैः सचित: चिता चैतन्येन सहितान् नायन्ते रक्षन्तीति सचित्राः तैश्च । तुलया साम्थेन धारणस्तम्भेन च सहितैरपि अतुलैः न तुली साम्यं चलनञ्च येपान्तः । देवकुलै देवालयैः सङ्कुलं निबिडम् । विशालं विस्तीर्णम् । गजादिशा- 9 ..

९८ दमयन्तीकथायाम् - , लमपि शालासंपन्नम् , चतुश्चरणसंयुक्तमपि चरणरहितम् , विट्संभृ- तमपि शुचिमार्गम् , सर्वत्र चत्वराधिकमपि स्थिरप्रकृति, मज्जन्महारा- ट्रकुटुम्बिनीमुखमण्डलविधीयमानोत्कुल्लकमलशोभायास्तुङ्गतरङ्गरङ्गत्तरु णार्जुनराजीवराजमानराजहंसविराजितवारेवरदायास्तीरे रामणीयकरसकु- ण्डं कुण्डिनं नाम नगरम् ॥ ४१ यस्य नातिदूरे दर्शनदूरीकृतदुरितोपप्लवाप्लवनजनितपातकभङ्गा गङ्गामुपहसन्ती स्वर्गमार्गाश्रयणनिश्रेणी पुण्यपयाः पयोप्णी वहति ॥ ४२ यस्य च पाश्चमदेशे प्रणतमुरामुरमौलिनीलमणिमरीचिचञ्चरी- कचक्रचुम्बितचरणाम्भोजस्य भोजकटकूपजन्मनो जरापातितययातेः लारहितमपि । शालाभिः वाजिसदनादिभिः सम्पन्नम् । चतुश्चरणः चतुष्पाजन्तु. भिः चतुभिः चरणैः ऋग्वेदादिभिः पादैवी संयुक्तमपि चरणेन सञ्चारेण चरणैः शाखाभिः पादैर्वा रहितं । चेति भिन्न पदं रणेन युद्धेन रहितञ्च । विभिः वैदयैः जनैर्वा विष्टाभिः सम्भृतमपि शुचि: शुद्धः मार्ग: यस्मिंस्तत् । सर्वत्र चत्वरेण चतु. पथेन सर्वत्र च त्वरया वगेन च संयुक्तमपि । स्थिरा अचञ्चला प्रकृति: स्वभाव: स्थिराः स्थैर्यवन्तः प्रकृतयः अमात्यादयश्च यस्मिंस्तत् । रमणीयस्य भावः रामणी. यकं तदेव रस: द्रवः जलं तस्य कुण्डं पिठर: "पिटर: स्थाल्युखा कुण्डं इत्य- मरः । कुण्डिनं नाम नगरम् । म जन्तीनां स्नान्तीनां महाराष्ट्रकुटुम्बिनीनां महाराष्ट्र. देशस्त्रीणां मुखानां मण्डल: बिम्बैः समूहेवी । विधायमानं क्रियमाणं उत्फुल्लानां विकसितानां कमलानां शोभा यस्यास्तस्याः । उत्तुगतरजेपु रिङ्गन्ति चलन्ति तरु- णानि प्रौढानि अर्जुनानि धवलानि यानि राजीवानि पानि तेषु तद्वद्वा राजमानैः राजहंसः विराजितं वारि यस्यास्तस्याः । वरदायाः वरदायनद्याः । तीरे अस्तीति शेपः ॥ ४१. यस्येति । यस्य पुरस्य । नातिदूरे समाये । दर्शनेन दूरीकृतौ दुरितं पापं उपलवः उपद्रवथ यस्यास्सा । अत एव आलबनेन मानेन जनितः उत्पादितः पातकस्य पापस्य भङ्गः नाशः यस्यान्तथाभूतां गङ्गां जावी उपहसन्तीव स्थिता । स्वर्गमार्गस्य आश्रयणे गमने विषये निश्रेगी अधिरोहणी । पुनातीति पुण्यं पयः जलं यस्यास्सा पुण्यपयाः पयोगी तदाख्या नदी वहति प्रवहति ॥ ४२. यस्येति । पश्चिमः । पश्चाद्भवः पश्चिमः प्रतीच्यः " अग्रादिपश्चात् " इत्यादिना डिमच् । प्रणतेति । प्रणतानां सुरासुराणां मौलिघु किरीटेषु (घटितानां) नीलमणीनां मरीचयः किरणा एव चञ्चरीकाः भृङ्गाः तेषां चक्रेग वृन्देन चुंबिते ..

द्वितीयउच्छ्रासः ।
९९
प्रचण्डदण्डदाण्डिक्यदण्डनाडम्बरितगण्डपाषाणविदलितवैदर्भमण्डलस्य
भगवतो भार्गवस्याश्रमः ॥
४३. यत्र च विपत्राः सन्ति साधवो न तु तरवः, विजृम्भमाण-
कमलानि सरांसि न जनमनांसि, कुवलयालंकाराः क्रीडादीर्घिकान
सीमन्तिन्यः, विपदाक्रान्तानि सरिकुलानि न कुलानि ।
किंबहुना ।
देशानां दक्षिणो देशस्तत्र वैदर्भमण्डलम् ।
तत्रापि वरदातीरमण्डनं कुण्डिनं पुरम् ॥ ५८ ।।
,
संयुक्त चरणाम्भोजे यस्य तस्य । भोजकटकूपे तदाख्यस्थाने जन्म यस्य तस्य ।
"शुक्रोभोजकटेऽभवत्" इति श्रुतेः । मरुदेशे शिवकूपः किराटकूपः जाङ्गलकूपः
इत्यादिवत् कूपान्तत्वेनाधिष्ठाननाम्नः प्रसिद्धेश्च तथा व्यवहारः । जरया (विषय-
सुखात् ) पातितः ययातिः नहुषात्मजः येन तथाभूतस्य । अत्र कथा-वृषपर्वदैत्य-
सुतां शर्मिष्टां शुक्रमुतां देवयानीञ्च ययातिनृपतिरूपयेमे । ततोसौ शर्मिष्टाप्रीत्या
देवयानीमवजानन् “ तवाङ्गे जरा पततु' इति शुक्रेणशप्तः । इति । प्रचण्डदण्डस्य
उग्रशिक्षणस्य दाण्डिक्यस्य तदाख्यस्य राज्ञः दण्डनाय शिक्षणाय आडंबरितैः समा-
रब्धैः इच्छामात्रेण सम्पादितैरित्यर्थः गण्डपाषाणैः च्युतस्थूलोपलैः विदलितं वि-
दार्ण वैदर्भमण्डलं विदर्भदेशः येन तस्य । अत्र कथा-दाण्डक्योनाम भोजकट.
देशाधिप. शुक्रसुता अरजःसंज्ञां क्षत्रियः किल हठात् द्विजकन्यां परिणीतवान्
इति परिभूतमन्येन शुक्रेण मन्युना पातालशैलगण्डवृष्टया स विदर्भदेशो नाशितः
इति । भार्गवस्य । शुक्रस्य ।।
४३. यति । यत्र नगरे साधवः सन्तः विपदः आपदः त्रायन्ते रक्षन्तीति
विपत्राः सन्ति तरवस्तु विपत्राः पर्णरहिताः न सन्ति अत्र श्लेषसङ्कीर्णा परिसङ्ख्या
एवमुत्तरत्रापि । सरांसि कासाराः विजृम्भमाणानि विकसन्ति कमलानि येषु तानि
जनानां मनांसि तु विजृम्भमाणं प्रसरत् कमलं कुत्सितं पापं येषु तानि न । क्रीडा-
र्थाः दीर्घिकाः वाप्यः कुवलयानि उत्पलानि अलङ्काराः यासान्ताः । सीमन्तिन्यः
स्त्रियस्तु कुवल्यं कुत्सितं कटकं अलङ्कारः यासान्ताः न सरितां नदीनां कूलानि
तीराणि वीनां पक्षिणां पदैः आकान्तानि कुलानि गृहाणि यद्वा वंशास्तु विपदा
भाषदा आक्रान्तानि न सन्ति ॥
देशानामिति । देश: वर इति शेषः । एवमुत्तरत्रापि । अत्र सारालङ्कारः ।
तल्लक्षणन्तु “ उत्तरोत्तरमुत्कर्षस्सारइत्यभिधीयते'' इति ॥ २८ ॥

४४. १०० दमयन्तीकथायाम् तत्रास्ति समस्तरिपुपक्षक्षोददक्षदाक्षिणाणीपालमौलिमाणि- क्यनिकषनिर्मलितचरणनखदर्पणश्चतुरुदधिपुलिनचक्रवालवालुकासंख्य - संख्यविख्यातकीर्तनीयकीर्तिमुधाधवलितवसुंधरावलयो निजभुजपञ्ज- रान्तरनिरुद्धशारिकायमाणरणरझाङ्गणार्जितोर्जितजयश्रीः, यौवनमदमत्त- कान्तकुन्तलविलासिनीनयननीलोत्पलदलमालाच॑मानलावण्यपुण्यप्रति - मः, रविरिव नासत्यजनकः, पुरंदर इव नाकविख्यातः, गरुत्मानिव नागमाधिक्षेपी, पद्मखण्ड इव नालसहितः, व्याकरणप्रबन्ध इव नाम- संपन्नः, धाम धाम्नाम् , आधारो धीरतायाः, पुरं पुरुपकारस्य, ४४. तत्रेति । तत्र कुण्डिने । समस्तरिपूणां पक्षस्य वर्गस्य क्षोदे मर्दने दक्षाणां समर्थानामपि दक्षिणानां सरलानां दक्षिणदेशीयानां वा क्षोणीपालानां मौ. लिमाणिक्यानां किरीटरत्नानां निकषेण घर्षणेन निर्मलितः निर्मार्जितः चरणनख एव दर्पण: आदर्शः यस्य स: । चतुरुदधीनां पुलिनचक्रवालस्य द्वीपबृन्दस्य वालुका. वत् सिकतावत् असङ्ख्यानि सङ्ख्यारहितानि अनेकानीत्यर्थः यानि सङ्खयानि युद्धा. नि तेषु विख्याता प्रसिद्धा कीर्तनीया च या कीर्तिः सैव सुधा लेपविशेषः तया धव- लितः शुभ्रः कृतः वसुन्धरावलयः भूमण्डलं येन तथोक्तः । निजभज एव पञ्जर नीड तस्य अन्तरे मध्ये निरुद्धा वद्धा या (शृणातिदुःखं विरहिणीनामिति ) शारि- का पक्षिभेदः तद्वदाचरिता रणरङ्गस्य युद्धभुवः अङ्गणे चत्वरे आर्जिता सम्पादिता ऊर्जिता स्थिरा जयश्रीः यस्य तथोक्तः । यौवनमदमत्तानां कान्तानां रम्याणां कुन्तलविलासिनीनां कुन्तलदेशस्त्रीगां यद्वा कान्तकुन्तलानां रम्याळकानां विलासि- नीनां स्त्रीणां नयननीलोत्पलदलानां मालाभिः अर्यमाना पूज्यमाना लावण्यमेव पुण्या पवित्रा प्रतिमा अर्चाविम्बं यस्य तथोक्तः । रविः सूर्यइव । असत्यस्य जनकः उत्पादयिता अनृतवक्ता न यद्रा सत्यजनकः ना नरः पक्षे नासत्ययोः अश्विनोः जनक: पिता । पुरन्दरः इन्द्र इत्र । अकविषु कुकुविषु ख्यातः प्रतीतः न यद्वा कविख्यातः ना पुरुषः । पक्षे नाके स्वर्गे विख्यातः । गरुत्मान् गरुड इव । आगमान् शास्त्राणि अधिक्षिपति तिरस्करोतीति तच्छील: न पक्षे नागानां. सर्पाणां मां लक्ष्मी अधिक्षिपति लम्पतीति तच्छील: पद्मानां खण्ड: शकल इव षण्ड इति पोटे समूह इत्यर्थः अलसेभ्यः मन्दभ्यः हितः न । पक्षे नालेन काण्डेन सहितः । व्याकरणग्रन्थइव आमेन रोगेण सम्पन्नः न पक्षे नामभिः प्रातिपदिकै सम्पन्नः । धाम्नां तेजसां धाम गृह "धाम शक्तीप्रभावे च तेजोमन्दिरजन्मसु'' इति विश्वः । धीरतायाः धैर्यस्य आधारः आस्पदं पुरुषस्य कारः कृतिः पौरुषमित्यर्थः तस्य पुरं द्वितीयउच्छासः आश्रयः श्रेयसां श्रियां श्रुतीनां च, राजा रणाङ्गणेप्वगणितभीमामी नाम ॥ ४९. यस्यानवरतमुत्कृष्टालयः क्रिडावनपादपाः पौरलोकश्च, अपरुषो दायादा वाग्विभवश्व, विमत्सराःसभासदो देशश्च, विकसदुचयोऽङ्गाव- यवाः क्रीडापर्वतश्च, अपराजयो मण्डनमणयः सेनासमूहश्च, अगतरुजो वने विनाशमन्वभवन्नितान्तं रिपवः पुप्पप्रकरश्च ।। ४६. तस्य च कंदर्पकमनीयकान्तेर्मत्ताः करिणः सदामानो न 1 नगरम् । श्रेयसां शुभानां श्रियां सम्पदां श्रुतीनां वेदानाञ्च आश्रयः रणांगणे युद्ध- भूमावपि अगणिता भीः भयं येन तथोक्त: भीमो नाम राजा अस्ति ॥ ४५. यस्येति । यस्य राज्ञः क्रीडावने (स्थिताः) पादपाः वृक्षाः अनवरतम् सदा उत्कृष्टाः उत् अधिकं (परिमलेन ) आकृष्टाः अलयः भृङ्गाः येषु ते।पौरलोकः पुरजनञ्च उत्कृष्टाः आलयाः गृहाणि यस्य तथोक्तः । अत्र बहुत्वैकत्व श्लेषः तुल्य- योगिताच । एवमुत्तरत्रापिादाय वित्तं अदन्तीति दायादा: यद्वा आददत इत्यादा: दायस्य आदाः दायादाः सपिण्डा: “ दायोदानेयोतकादि धने वित्ते च पैतृके" इति यादवः । “ दायादस्तु भवेत् पुंसि सपिण्डे तनयेपि च” इति मेदिनी । अपगता रुट कोपः येभ्यस्ते अपरुषः। वाचः वचनस्य विभवः महिमा न परुषः अपरुषः अरूक्षः निग्धइत्यर्थः । सभायां सीदन्तीति सभासदः सभ्याः विगतः मत्सर: द्वेषः येभ्यस्ते विमत्सराः । देशश्च वयः पक्षिणः एषु सन्तीति विमन्ति सरांसि यस्मिन् सः विमत्सराः । अङ्गस्य अवयविनश्शरीरस्य अवयवाः करचरणादयः “ अहं गाने प्रतीकोपाययोः पुंभन्नि नीति । क्लीबैकत्वेत्वप्रधाने त्रिध्वङ्गवतिचान्तिके' इति मेदिनी। विकसन्ती दीप्यमाना रुचिः कान्तियेषु । क्रीडा- पर्वतश्च विकसन् द्रूणां तरूणां चयः सङ्घः यस्मिन् । मण्डनमणयः भूषणरत्नानि अपगता राजिः सन्धिः दुष्टरेखा वा येभ्यस्ते । सेनासमूहश्च न पराजीयत इत्यपराजयः । अग़ताः अनष्टाः रुजः पीडाः येषान्ते रिपवः अरयः इतः प्राप्तः अन्तः मरणं य- स्मिन् तं इतान्तं विना विशिष्टं नाशं भयाददर्शनं वने अन्वभवन् । अगतरुजः पर्वतवृक्षजातः पुष्पाणां प्रकरः समूहश्च । नितान्तं भृशं वने विनाशं प्रध्वंसं अन्व. भवन् । ४६. तस्येति ।। च किञ्च कन्दर्पवत् कमनीयकान्तिः रम्यशोभस्तस्य । तस्य भीमनृपतेः । मत्ताः मदयुक्ताः करिणः गजाः सहदाम्ना सन्दानेन पादबन्धनशृङ्ख- लयेति यावत् । वर्तन्त इति सदामानः सन्ति। मानिनी मानवती युवतिरेव लोकः दमयन्तीकथायाम् मानिनीलोकः, कृतविटपानमनाः क्रीडोद्यानतरवो नावरोधजनः, कट- कालंकृतदोषः सीमन्तिन्यो न परिपन्थिकः ॥ ४७. यस्य च चरणाम्भोजयुगलं विमलीक्रियते नमज्जनेन न मज्जनेन।। ४८. यः शृङ्गारं जनयति नारीणां नारीणाम् ॥ ४९. यः करोत्याश्रितस्य नवं धनं न बन्धनम् ॥ ५०. यो गुणेषु रज्यते नरमणीनां न रमणीनाम् ॥ ५१. यम्य च नमस्याग्रहारेषु श्रूयते नलोपाख्यानं न लोपाख्यानम् ।। जनः सदा मानः गर्वः यस्य स तथाभूतः नास्ति । अत्र बहुत्वैकत्वयोः श्लेषः परि. सङ्ख्या च । क्रीडार्थे उद्याने स्थिता: तरवः कृतं विटपानां शाखानां आनमनं अव- नमनं येषान्तथोक्तास्सन्ति अवरोधजनः अन्तःपुरस्त्रीजनः कृतं विटानां पाने चुम्व ने मन: येन तथोक्तो नास्ति । सिमन्तिन्यः स्त्रियः कटकैः वलयैः अलङ्कृतौ दोपौ वाह यासान्तथोक्तास्सन्ति। परि ( दोषाख्यानं ) पन्थायितुं (गन्तुं) शीलवान् परि पन्थी स एव परिपन्थिकः शत्रु: पारिपन्थिक इति पाठे पन्थानं वर्जयित्वा व्याष्य वा तिष्ठति इन्ति वा पारिपन्थिकश्चोरः कटके राज्ये अलं अत्यर्थं कृतः दोषः उप- द्रवः येन तथोक्तो नास्ति ॥ ४७. यस्येति ॥ यस्य चरणाम्भोजयोः युगलं द्वयम् । नमजनेन । नमता- जनेन विमलीक्रियते निर्मलीक्रियते मजनेन क्षालनेन न विमलीक्रियते । अत्र परि. सलधालङ्कारः । एवमुत्तरत्रापि ॥ य इति ॥ यः नारीणां स्त्रीणां शृङ्गारं कामोत्सवं कामध्वजः कामो. त्सवः शृङ्गारः कामविक्रिया” इति यादवः । जनयति अरीणां शत्रूणां शृङ्गारं न ४८. जनयति ॥ ४९. य इति ॥ यः आश्रितस्य वाश्रितजनस्य नवं नूतन स्तुत्य वा धनं करोति वन्धनं (ववयोरभेदात् ) वन्धनं न करोति ॥ ५० य इति ॥ यः नरमणीनां पुरुषश्रेष्ठानां गुणेषु शौर्यादिषु रज्यते आस तो भवति रमणीनां स्त्रीणां गुणेषु रूपादिषु न रज्यते ॥ ५१. यस्येति । यस्य ( सम्बन्धिषु ) नमः कर्तुं योग्येषु नमस्येषु पूज्येषु " नमोवरिवश्चित्रङः क्यच्" इति क्यच। तदन्तात्कृत्यप्रत्ययः । अग्रहारेषु विप्र- ग्रामेषु नलस्य उपाख्यानं चरितं भारतप्रतीतं यद्वा नलस्य तव उपाख्यानं ( शौ- यादिगुणानां) कथनं श्रूयते लोपस्य चौरादिभिः द्रव्यादिनाशस्य आख्यान कथनं न श्रूयते॥

. , द्वितीयउच्छासः १०३ ५२. यस्य च राज्ये साक्षरम्य पुस्तकस्य बन्धः, सगुणस्य कार्मुक- स्याकर्षणम् , सुवंशप्रभवस्य च्छत्रस्य दण्डः, सुजातेरुद्यानवि- शेषस्योत्खननम् , कुलीनस्य कन्दन्योन्मूलनारम्भः, सन्मार्गलमस्य पुनर्व- मुभाजश्चन्द्रस्यैव ग्रहणालोकनमभूत् ॥ किं देवो दक्षिणदिङ्मुखस्य तिलकः कर्णाटकान्ताकुच क्रीडाशैलमृगः प्रतापकदलीकन्दः स किं वर्ण्यते । यस्यारातिकरीन्द्रकुम्भरुधिरक्लिन्नासिदंष्ट्राङ्करा शौर्यश्री जदण्डमण्डपतले सिंहीव विश्राम्यति ॥ २९ ॥ बहुना। ५२. यस्येति । यस्य राज्ये साक्षरस्य लिखिताक्षरस्य पुस्तकस्य बन्धः सूत्रादिना बन्धनम् । अत्र आर्थवर्जनीयापरिसङ्गचा । ननु साक्षरस्य (अधीताक्षर- स्य ) जनस्य बन्धः इति वर्जनीयस्य शब्देनाप्रतिपादनान् । एवमुत्तरत्रापि । सगुणस्य गुणेन ज्यया युक्तस्य कर्मणेप्रभवति कार्मुकं धनुस्तस्य “कर्मणउकञ् इन्युकञ् । आकर्षणं कर्णान्तप्रापणं ( नतु सगुणस्य गुणेन बुध्या सहितस्य जनस्य आकर्षणं आक्षेप इत्याथै ) सुवंशप्रभवस्य शोभनवेणुजातस्य छत्रस्य आतपत्रस्य दण्डः यष्टिः (नतु सदन्वयजस्य जनस्य शिक्षणमित्यार्थ) सुजातेः शोभनमालती- युक्तस्य उद्यानविशेषस्य उपवनभेदस्य उत्खननं वृक्षपुष्टये आलवालमार्दवायोत्कृष्टं खननं भुवोविदारणं । (नतु सुजातेः विप्रादिवर्णस्य उत्खननं उच्छेदनमित्यार्थ) कुलीनस्य को भूवि लीनस्य गुप्तस्य कन्दस्य मूलस्य सूरगम्यत्रा उन्मूलने उत्खनने आरम्भः (नतु सत्कुलभवस्य जनस्य उन्मूलनप्रयत्न इत्यार्थ ) सतां नक्षत्राणां मार्गे लग्नस्य सक्तस्य यद्वा सत् विद्यमानं मृगस्येदं मार्ग लग्नं सक्तं संयोगः यस्य तस्य । पुनर्वसू नक्षत्रं भजतीति तथोक्तस्तस्य चन्द्रस्यैव ग्रहणस्य राहुयोगस्य आ- लोकनं अभूत् (नतु सन्मार्गे सतां पथि लमस्य रतस्य पुनः किञ्च वसुभाजः ध- निन: जनस्य ग्रहणे वन्द्यां " ग्रहणं बन्दिरादानमादरोकायुपल्लव.'' इति यादवः । आलोकनमभूदित्यार्थ ) ॥ देव इति ॥ दक्षिणदिशः कस्याश्चिन्नायिकायाश्च मुखं प्रारम्भः आननञ्च तस्य तिलकः विशेषकं तद्दिशोलङ्कारभूत इत्यर्थः । कर्णाटकान्तानां कर्णाटदेशीय- स्त्रीणां कुचावेव क्रीडाशैलौ तयोः मृगः हरिणः कर्णाटस्त्रीरतितत्पर इत्यर्थः । प्रताप एव कदली मोचा तस्याः कन्दः मूलं प्रतापाश्रय इत्यर्थः । सः देवः भीमनृपः किं १०४ दमयन्तीकथायाम् ५३. तस्य च महामहीपतेरात्मरूपापहसितसमस्त सुरसुन्दसिौन्दर्यसा- रसंपत्तिकलङ्ककुलकन्दकन्दलीकंदर्पदर्पगजेन्द्रावष्टम्भस्तम्भयष्टिरखिलज - ननयनकुरङ्गबागुरा रामणीयकपताकायमानोद्भिन्ननवयौवनश्रीः, शृङ्गार- स्यागारम्,अवनिर्वनिताविभ्रमाङ्कुराणाम् , आभोगः सौभाग्यभागस्य, रङ्ग- शाला रागवृत्तनृत्तम्य, सर्वान्तःपुरपुरंधिकाप्रधानभूताऽस्ति प्रिया प्रियं- गुमञ्जरी नाम ॥ ५४. यस्याः पद्मानुकारिणी कान्तिर्लोचने च, रम्भाप्रतिस्पर्धिनी रूप- •. वर्ण्यते अनिर्देश्यमहिमत्वात् किमिति वर्ण्यते । अरातीनां शत्रूणां करीन्द्राणां गजे. न्द्राणां कुम्भेषु मस्तकेषु ( स्थितैः ) रुधिरैः रक्तैः क्लिन्नाः सिक्ताः असयः खड्डा: दंष्ट्राकुराः दन्तप्ररोहा इव यस्यास्तथाभूता शोयश्रीः शौर्यलक्ष्मीः सिंहीव सिंहस्त्रीव यस्य भीमस्य भुजदण्डः मण्टपतलमिव तस्मिन् विश्राम्यति विश्रान्ति गच्छति । अत्र रूपकोपमे अलङ्कारौ । शार्दूल......वृत्तम् ॥२९॥ ५३. तस्येति ॥ महतः श्रेष्ठस्य महीपतेः तस्य भीमस्य । आत्मरूपेण अप- हसिता समस्तसुरसुन्दरीणां सौन्दर्यस्य सारसंपत्तेः श्रेष्टसंपदः कलंकः चिह्नमेव कुले तटाके (जातस्य) कन्दस्य मूलम्य कन्दली अङ्कुरः लता वा यया तथोक्ता । त्रुटयत्काञ्चयइत्यादिवत् समासान्तविधिरिह नादृतः । कन्दर्पदर्पः कामगर्वएव गजे. न्द्रस्तस्य अवष्टम्भार्थी बन्धनार्थी स्तम्भयष्टिः स्थूणादण्ड: । अखिलजननयनान्येव कुरङ्गाः हरिणाः तेषां वागुरा जालम् । अवागुरते हिनस्तीति वागुरा “गुरी हिंसा- याम्” इति धातोः । “ इगुपध इति कः । " वष्टिभागुरिः इत्यकारलोपः। रामणीयकपताका रमणीयताख्यापकवैजतन्ती सेवाचरन्ती उद्भिना उद्भूता नवा नूतना यौवनश्री: यस्यास्तथोक्ता । शृङ्गारस्य कामोत्सवस्य अगारं गृहम् । वनितानां स्त्रीणां विभ्रमाः विलासा एव अङ्कुराः प्ररोहास्तेषां अवनिः भूः । शोभनः भगः श्रीः यस्यास्सा सुभगा सुन्दरी तस्याः भावः सौभाग्यं सौन्दर्यम् । तदेव भागः भाग्यं तस्य " भागो रूपार्धके भाग्यैकदेशयोः” इति हैमः। आभोग: परिपूर्णता यद्वा आ अमिव्याप्तः भोग: शरीरं स्थानमित्यर्थः । रागः अनुरागः तस्य वृत्तं वृत्तिः यद्वा रागयुक्तं वृत्तं चरित्रं तदेव नृत्तं तस्य रङ्गशाला नर्तनस्थानम् । सर्वासां अन्त:- पुरपुरन्ध्रिकाणां अन्त पुरस्त्रीणां प्रधानभूता मुख्यभूता प्रियंगुमञ्जरीति नाम प्रसिद्धा प्रिया भार्या अस्ति ॥ ५४. यस्या इति। यस्याः प्रियंगुम अर्याः कान्तिः पद्मां लक्ष्मी ताच्छील्ये- नानुकरोतीति पद्मानुकारिणी स्त्रीलिङ्गप्रथमैकवचनं लोचने नेत्रद्वयञ्च पझे अब्जे , द्वितीयउच्च्यासः संपत्तिरूरुमण्डले च, सुमनोहारिणी केशकबरी भ्रूभङ्गचक्रे च, भ्रमर- कोद्भासिनी ललाटपट्टिका कर्णोत्पले च, प्रवालानुकारिणी दन्तच्छद- च्छाया करचरणयुगले च ॥ ५५. यस्याः सुवर्णमयं वचनं नूपुरं च पदे पदे मनो हरति । ५६. यस्याः सुमधुरया वाचा सदृशी शोभते कण्ठे कुमुममालिका। अलिकालयाऽप्यलकवल्लरीमालया सह विराजते तिलकमञ्जरी ।। ताच्छील्येनानुकुरुतः इति पद्मानुकारिणी नपुंसकलिङ्गप्रथमाद्विवचनं । प्रथमैकत्वद्वि- त्वयोः स्त्रीक्लीबयोश्च श्लेषः । एवमुत्तरत्रापि । रूपस्य सौन्दर्यस्य सम्पत्तिः सम्पत् रम्भा रम्भाख्यामप्सरसं प्रतिस्पर्धते अभिभवितुमिच्छतीति तच्छीला । ऊरुमण्डले ऊरुबिंबौ च रम्भे कदल्यौ प्रतिस्पर्धेते इति तच्छीले । केशानां कबरी मार्जनाव- न्धविशेषः सुमनोभिः पुष्पैः हारीणी रम्या भ्रूभङ्गयोः भृकुट्याः चक्रे मण्डलेच यद्वा भ्रूभङ्गावेव चक्रे सुष्टु मनोहारिणी मनोज्ञे । ललाटपट्टिका ललाटभूषणं " पट्टीलला- टभूषायां पट्टीलाक्षाप्रसादने'' इति विश्वः । भ्रमरकैः चूर्णकुन्तलैः उद्भासते अधि. कं शोभत इति तच्छोला । कर्णोत्पले कर्णावतंसनीलोत्पलेच भ्रमरकैः भृङ्गः उद्भा- सेते इति तच्छीले “अथ भ्रमरको भृङ्गे गारेके चूर्णकुन्तले'' इति मेदिनी । दन्त - च्छदस्य ओष्टस्य च्छाया कान्तिः प्रवालं विद्रुमं पल्लवं वा अनुकरोतीति तच्छीला करौच चरणौच करचरणं युगलञ्च युगलञ्च युगले करचरणस्य युगले करचरणयुगले द्वंद्वान्ते श्रूयमाणं प्रत्येकं संबध्यत इति न्यायात् करयुगलं चरणयुगलञ्चेत्यर्थः। प्रवालं अनुकुरुतः इति तच्छीले । अत्रश्लेषस्तुल्ययोगिताच ॥ ५५. यस्या इति । यस्याः।सुवर्णमयम् । शोभनः वर्ण: अकारादिः तत्प्न. चुरं वर्णविकृतञ्च वचनं वाक्ये नूपुरं मजीरश्च । पदेपदे प्रतिपदं । प्रकृतिविभ. क्तिसमुदायः पादन्यासश्च पदं । तत्र तत्र मनः हरति ॥ ५६. यस्या इति ॥ अत्र तृतीयाप्रथमयोः श्लेषः । यस्याः कण्ठे सुत्रु मधुनः मकरन्दस्य रयः प्रसरः यस्यास्सा मुमधुरया कुसुममालिका सुष्टु मधुरा रुचिस तया सुमधुरया यस्याः वाचा वचनेन सदृशी शोभते । अत्र श्लिष्टोपमा । अलिकं ललाटं आलयः स्थानं यस्यास्सा अलिकालया यस्याः तिलकं विशेषकमेव मञ्जरी वल्लरी अलिवत् भृङ्गवत् काल: श्यामो वर्णः यस्यास्सा अलिकाला तया अलिकालया यस्याः अलकाः कुन्तला एव वल्लयः मञ्जयः तासां मालया पङ्ख्या सह विराजते । अपीति बार्थे । शोभते चेत्यर्थः । अत्र श्लिष्टा सहोक्तिः ॥

१०६ दमयन्तीकथायाम् बहुना। किं तस्याः कान्तिनिरुद्धमुग्धहरिणीलीलाचलच्चक्षुष- म्तारुण्यम्य भरादनालसलसल्लावण्यलक्ष्मीरसः । लुभ्यल्लोकविलोचनाबलिपुटः पेपीय्यमानोऽपि स- न्नौंवेव न माति सुन्दरतरो रङ्गस्तरङ्गैरिव ॥ ३०॥ ५७. एवमनयोः सकलसंसारमुखरसास्वादमुदितमनसोर्यान्ति दिवसाः।। ५८. कदाचिच्चालतरतरुणषदचरणचक्रचुम्बनाक्रमणभरभज्यमानम जरीजालगलदमन्दमकरन्दबिन्दुकर्दमिलेगु विविधाङ्गविहंगविहारविदलि- तदलदन्तुरान्तरालेपु स्मरबन्धुसुगन्धिगन्धवाहवाजिबाह्यालीपु वरदायाः .. तस्या इति ॥ कान्त्या अर्थालोचनकान्त्या निरुद्धं अभिभूतं मुग्धहरिणीनां मुन्दरकुरीणां लीलया विलासेन चलत् चक्षुः यया तथाभूतायाः तस्याः प्रियङ्गुम- जयीः तारुण्यस्य यौवनस्य भरात् अतिशयात् न आसमन्तान् अलसं मन्दं अनालसं अमन्दं यथा तथा लसन् प्रकाशमानः लावण्यस्य कान्तविशेषस्य लक्ष्म्यास्सम्पदः रस: सारः एव रसः जलालुभ्याद्भः तृष्यद्भिः लोकैः विलोचनैरव अञ्जलिपुटैः प्रस - तकरसम्पुटैः पेपीय्यमानः भृशं पायमानस्सन्नपि मुन्दरतर: अतिशयन रम्यः तर. है: वीचिभिः रङ्गन् विलसन्निव यद्वा चलन्निव सन अङ्गेषु अवयवेषु न माति एव उद्रिक्तत्वादवकाशं न गच्छत्येव। रसोहि भरादजिह्मो लसति। तरङ्गश्च रगति। पीय- मानोपील्यत्र अपिशब्दादापाततो विरोधोपि भृशं पुनःपुनः पाने उद्वेजनादरम्यता रसस्य क्षीणता च स्यात् नात्र तथेति । अत्र उपमारूपकोत्प्रेक्षालङ्काराः । शार्दूल- विक्रीडित वृत्तम् ॥ ३० ॥ ५७. एवमिति ॥ एवं सकलानि संसारमुखान्येव रसाः तेषां आस्वादेन अनुभवेन मुदितमनसोः अनयोः प्रियङ्गुमन्नरीभीमयो । दिवसाः यान्ति गच्छन्ति॥ ५८. कदेति ॥ कदाचित् अतिशयेन चटुलानां चञ्चलानां तरुणानां. यूनां षट्चरणानां भ्रमराणां चक्रेण वृन्देन चुम्बनाय मकरन्दपानाय यदाक्रम आक्रान्तिः तदेव भरः तेन भज्यमानानां मञ्जरीणां जालात् समूहात् गलतां संस- मानानां अमन्दानां मकरन्दानां बिन्दुभिः कर्दमः पङ्गः एषान्तानि कर्दमिलानि पङ्किलानि तेषु "पिञ्छादित्वादिलच" । विविधाङ्गानां विचित्राङ्गानां विहङ्गानां पक्षिणां विहारेण मञ्चारेण विदलितः खण्डितैः दलैः पत्रैः दन्तुरं निविडं अन्तराल मध्यं येषान्तथोक्तेषु । स्मरस्य कामस्य बन्धुः सहायः शोभन: गन्धः यस्य सः सुगन्धिः “ गन्धस्येदुत्पनिमुसुरभिभ्यः इति इकारोन्तादेशः । यः गन्धवाहः " द्वितीयउच्छासः १०७ पुण्यपुलिनपालिपादपतलेपुरममाणयोः परिणतेन्द्रवारुणारुणकपोलकान्ति- रुद्धषितदेहपिण्डकण्डूयनाकूततरलितकरकिसलया बालकमेकमुदरदे - शालग्नमपरमपिपृष्ठप्रतिष्ठितमुवहन्ती कापि कपिकुटुम्बिनी दृष्टिपथमवा- तरत् ॥ ५९. तां चावलोक्य चेतस्यास्पदमकरोत्तयोरनपत्ययोर्विषमविषादवेद- नाव्यतिकरः ॥ ६०. करपत्रधाराकर्तनदुःसहदुःखदूनमनसोवैमनस्यमभूग्नि राज्ये जने जीविते च । किमनेनाधिपत्येनापत्यशून्येन ॥ ६ १. सर्वथा स.क.लसुरासुरकिरीटकोटिकोणमणिमरीचिचञ्चरी- बातः स एव वाजी अश्वः तस्य वाह्याः बाहिर्भवाः आलयः सेतवः वन्धनस्थानानि तत्प्रायेषु । वरदाया: वरदानद्याः पुण्यानां पवित्राणां पलिलानां सैकतानां पालिप पाङ्गेषु स्थितानां पादपानां तले प रममाणयोः क्रीडतोः तयोः परिणतं परिपक्व इन्द्रवारुग इन्द्रवारुणीफलभिव (पेत्तुम्मट्टीति द्राविड्यां ) अरुणा रक्ता कपोलयो। गण्डयोः कान्तिर्यस्यास्पा । उद्धापनानां उद्धृतानां शब्दितानां वा देहस्य शरीरस्य पिण्डानां अवयवानां एकदेशानां वा कण्ड्यने कण्डूतौ आकूतेन अभिप्रायेण तर- लिले कम्पिते करकिसलये यस्यात्तथाभूना । उदरदेशे जठरभुवि लग्नं सक्त एक वालकं पृष्ठे प्रतिष्ठितं संबद्धं अपरं वालकमपि उद्वहन्ती कापि कपिकुडुम्बिनी वा. नरी दृष्टिपथं नयनमार्ग अवातरत् अवतीर्णा दृष्टेत्यर्थः ॥ ५९. तामिति ॥ आस्पदं । पदं । अनपत्ययोः । अपत्यरहितयोः । विषमेति । विषमः तीक्ष्णः विषादेन अवसादनेन जातायाः व्यथायाः शरीरपी डायाः व्यतिकरः संपर्कः ॥ ६०. करेति करपत्रस्य क्रकचस्य धारया अग्रेण कर्तनवत् च्छेदनवत् दुस्स. हेन सोढुमशक्येन दुःखेन दूनं तप्तं"टुदु उपता"इति धातोःक्त: "दुग्बोदाघश्च' इति नत्वम्।मन: ययो:तयोः। बहोभीवः भूमा महत्वम् तस्मिन् भूनि बहुशब्दात् "पृथ्वा- दिभ्यः' इति इमनिचि “बहोर्लोपोभूचवहोः' इति भूरादेशः इमनिच इकारस्य लोपश्च । राज्ञः कर्म भावोवा राज्यन्तस्मिन् जने मित्रादिजने जीविते प्राणधारणे- च । वैमनस्यं विगतमनस्त्वं अभूत् । अपयेन तोकेन शून्येन अनेन अधिपतेर्भावः आधिपत्यन्तेन किंप्रयोजनमितिशेषः ।। ६१. सर्वथेति । सर्वथा सवैः प्रकारैः सकलसुरासुराणां किरीटके टीनां कोणे अग्रे (स्थितानां) मणीनां अर्थानीलरत्नानां मरीचिभिरेव चञ्चरीकैः भृऔः चुं बिते चरणांबुजेयस्यतं । अम्विकाप्रियं पार्वतीपति महेश्वरं शिवं प्रतिपद्यामहे श- चक्रतुः ॥ १०८ दमयन्तकिथायाम् कचुम्बितचरणाम्बुजमम्बिकाप्रियं प्रतिपद्यामहे महेश्वरमित्यन्योन्यमा- लोचयां ६२. अथ विपुलवियद्विलङ्घनश्रमप्रशमनार्थमरुणेन वारुणी प्रति- पानार्थमिवावतार्यमाणेषु रविरथतुरंगमेषु, अपरासक्ते दिवसभर्तरि शो- कभरादिव तमःपटलेनापूर्यमाणामाश्वासयितुमिव पूर्वी दिशभभिधावमा- नामु पादपच्छायासु,हारीतहरितहरिहारिणस्तरणेररण्यान्तराच्च मन्दमप- वर्तमानेषु गोमण्डलेषु, अस्ताचलवनदेवतादत्तरक्तचन्दनार्यसलिलप्लवप्ला- व्यमान इव लोहितायति पश्चिमाशामुखे, वारविलासिनीभिः कपोल- मण्डलीमण्डनाय क्रियमाणेषु पत्रभङ्गेषु । भयेनेव पादपैः प्रारब्धे पत्र- संकोचकर्माण, विघटिप्यमाणचक्रवाककामिनीकरुणकूजितव्याजेन दि- रणं गच्छामः इति अन्योन्यं परस्परं आलोचयाञ्चक्रतुः आलोचितवन्तौ ।। ६२. अथेति ॥ अथानन्तरं विपुलाया: विशालायाः वियतः नभसः विलखने- न तरणेन (जातस्य) श्रमस्य प्रशमनार्थं अरुणेन सूर्यसारथिना रविरथतुरङ्गमेषु पानार्थमिव (अत्रोत्प्रेक्षा) वारुणी प्रतीचिं सुराञ्च प्रति लक्ष्यीकृत्य अवतार्यमाणेषु अवरोप्यमाणेषु सत्सु । दिवसभर्तरि सूर्ये अपरस्यां प्रतीच्या नायिकान्तरे च आस- क्ने सम्बद्धे आशावति च सति शोकस्य भरात् अतिशयादिव (अत्रोत्प्रेक्षा ) तम. सः ध्वान्तस्य मोहस्य च पटलेन समूहेन आसमन्तात् पूर्यमाणां पूर्णा क्रियमाणां पूर्वी दिशं प्राची अग्रमहिषीच आवासयितुं सान्त्वयितुमिव (अत्रोत्प्रेक्षा ) पाद- पानां वृक्षाणां छायामु पूर्वान्दिशं अभिधावमानामु सतीषु हारीतैः शुकाभपक्षिभिरि- व हरितैः हरिणैः हारभिः अवैः हरति गच्छतीति तच्छीलात् पक्षे हारीतैः हारी, तपक्षिभिः हरितः शालैः हरिभिः वानरैश्च हारिणः रम्यात् तरणेः सूर्यात् अरण्यस्य अन्तरात् मध्याच । गामण्डलेय किरणसमृहेषु धेनुवृन्देपुच । मन्दं शनैः अपवर्त- मानेषु चलत्यु सत्सु । अस्ताचले चरमगिरी (स्थिताभिः ) वनदेवताभिः दत्तेन रवये विताणेन रक्त चन्दनमिश्रेण असलिलप्लवन पूजार्थतीर्थप्रवाहेण प्लाव्यमाने व्याप्यमान इव (अनोत्प्रेक्षा) पश्चिमाशायाः प्रतीच्याः मुखे प्रारम्भे नायिकावचनेचे तिध्वन्यते लोहितायति लोहिते रके भवति सति “लोहितादि इत्यादिना क्यषु । वारविलासिनीभिः गणिकाभिः कपालमण्डलीनां गण्डदेशानां मण्डनाय अलङ्करणाय पत्रभङ्गेषु पचवलायज्ञविलपनचित्र पत्राणां भजनेषुच । क्रियमाणेषु सत्सु भयेन पत्रमन्जनभयेनेव ( अत्रोत्प्रेक्षा ) पादपैः वृक्ष: पत्राणां दलानां सङ्कोचे मुकुलीभाव एवं कर्मणि क्रियायाम् । प्रारब्धे उपक्रान्ते सति । विघटिष्यमाणानां विरहं प्राप्स्य- १०९ द्वितीय उच्छ्वासः वसभर्तुरस्ताचलगमनं निवारयन्तीभिरिव विरहविधुराभिः कमलिनीभि- विधीयमानेषु प्रार्थनाप्रणामाञ्जलिपुटेष्विव कमलमुकुलेषु, क्रमेण पश्चि- माम्भोधितरङ्गान्तरतस्तरुणतरताम्रतामरसानुकारि केसरायमाणराश्मिम- जरीजालजटिलमवलोक्य तरणिमण्डलमतिसंभ्रमभ्रमद्भमरनिकुरम्ब इव प्रधावमाने दूरं तिमिरपटले, कृष्णागुरुपङ्कपत्रभङ्गभूष्यमाणप्विव दिग- ङ्गनामुखेषु, कोकिलकलापैराक्रम्यमाणेष्विव वनान्तरेषु, विकचकुवलयब- हलमेचकरुचिनिचयश्यामलीक्रियमाणप्विव सलिलाशयेषु, तापिच्छ- गुच्छच्छदच्छाद्यमानास्विव वनवृतिषु, नृत्यकलापिकलकलापैः का- लीक्रियमाणप्विव शैलशिरःशिलातलेषु, कज्जलालेख्यचित्रचर्यमाना- तां चक्रवाककामिनीनां कोकाङ्गनानां करुणकृजितव्याजेन दुःखध्वनिमिषेण दिवस- भर्तुः रवेः अस्ताचलं प्रति गमनं निवारयन्तीभिारव (अत्रोत्प्रेक्षा) विरहेण रविवियोगेन विधुराभिः विकलाभिः विषण्णाभिरित्यर्थः । कमलिनीभिः पग्मिनीभिः प्रार्थनाय याचनाय प्रणामाजालपुटेषु नमस्काराजलिसंपुटेष्विव (अत्रोत्प्रेक्षा) कम- लमुकुलेषु पद्मकोशेषु विधीयमानेषु क्रियमाणेषु सत्सु । पश्चिमांभोधेः तरजान्तरतः वीचिमध्ये । सार्वविभक्तिकस्तमिः । तरुणतरं अतिप्रौढं तानं रक्तं तामरसं पत्र अनुकरोतीति तच्छीलं । केसरवत् किनकददाचरन्तः रश्मयः किरणा एव मञ्जयः तासां जालेन वृन्देन जटिलं निविडम् । तरणेः रवेः मण्डलं विम्बम् । अवलो. क्य । अतिसम्भ्रमेण अतित्वरया भ्रमतां भ्रमराणां निकुरुम्बे सङ्घइव (अत्रोत्प्रेक्षा) तिमिरपटले तमःपुञ्ज क्रमेण दूरं प्रधावमाने प्रसरति सति । दिगिति । एतदा- दिवाक्येषु तमोनिविडेष्विति योज्यं दिश एव अङ्गनाः स्त्रियः तासां मुखेषु अरम्भ- भागेष्वेव मुखेषु वक्त्रेषु । वृष्णागरुपङ्केन श्यामागरुवृक्षकदमेन (कृतैः) पत्रभरे: विलेपनचित्रैः भूष्यमाणेप्विव अलंक्रियमाणेष्वित्युप्रेक्ष्यमाणेषु सत्सु । वनन्तरण वनमध्येधुकोकिलकलापैः पिकसमूहै: आक्रम्यमाणेष्विव ख्याप्यमानावित्युत्प्रेक्ष्यमा- णेषु सत्सु सलिलाशयेषु हृदेषु विकचानां स्फुटानां कुवलयानां नीलोत्पलानां बहलाना अधिकानां मेचकरुचीनां श्यामकान्तीनां निचयेन वृन्देन श्यामलाक्रियमाणेविर । वनस्य वृतिषु रोवरणभागेषु तापिञ्छानां तमालानां गच्छच्छदैः स्तबकदलैः छाय. मानामु स्तीयमाणास्विव शिलेति । पर्वतशिखरशिलाप्रदेशेषु । नृत्यदिति । नृत्यन्मयरबन्दबहैः । कालीति । श्यामीक्रियमाणेष्विव । भवनेति। गूहकुलेषु । कन्जलालाव्येन अञ्जनद्रव्यरचितचित्रेण चित्रं अगलं यातथा चर्च्य - मानासु विलेप्यमानास्विव । पान्थेति । पथिकगृहेषु । विरहिणीनां वियोगेनीना दमयन्तीकथायाम् स्विव भवनभित्तिषु, विरहिणीनिःश्वासधूमश्यामलीक्रियमाणप्विव पा- न्थावसथेषु, कस्तूरिकासलिलसिच्यमानास्विव कामुकविलासवासवेश्म- वाटीपु, मदान्धसिन्धुरनिरुध्यमानेष्विव नृपभवनाङ्गणेषु, कलितकाल- कञ्चकायामिव गगनलक्ष्म्याम् , मदनशरनिकरविद्रुतदरिद्रविटविषादान लस्फुलिङ्गेप्बिव रङ्गत्सु ज्योतिरिङ्गणेषु, काञ्चनीषु तिमिरकरिकुम्भभेद- भल्लीप्विव निशितासु प्रदीप्यमानासु प्रदीपकलिकासु, प्लवभानपाण्डुपु- ण्डरीककल्माषितकालिन्दीपरिस्यन्दमुन्दरेऽमृतमथनक्षणक्षुब्धक्षीरसागर- रसविन्दुस्तबकितनारायणवक्षःस्थल इव कांचिदपि श्रियं कलयति तारा- विराजिते वियति, विटङ्कान्तमनुसरन्तीपु वेश्याम वेश्मपारापतपतत्रि- , -. निःश्वासधूमेन अग्नितुल्योच्छासपवनधूमेन श्यामलीक्रियमाणेष्विव । कामुकानां का- मिनां विलासार्थानां वासवेश्मनां निवासगृहाणां वाटीपू उद्यानेषु । कस्तूरीति । मृगमदजलेन सिच्यमानास्विव । नृपेति । राजगृहचत्वरेषु । मदेति । मदो- न्मत्तगजैः आक्रम्यमाणेष्विव । गगनमेव लक्ष्मीः श्रीः तस्यां । यद्वा गगनस्य लक्ष्भ्यां । कलितः कृतः कालः कृष्णः कञ्चकः चोलकः यया तथाभूतायामिव । मदनशरनिकरेण विद्रुतानां पलायितानां दरिद्रविटानां विपादानलस्य दुःखाग्नेः स्फुलिंगेषु कणेष्वित्युत्प्रेक्ष्यमाणेषु ज्योतिरिंगणेषु खद्योगोपु रङ्गत्सु लसत्सु । यद्वा- चलत्सु सत्नु । काञ्चनीपु स्वर्णमयीपु निशितासु तीक्ष्णाग्रासु तिमिराणां अन्धकारा- णामेव कारणां गजानां कुम्भभेदे मस्तकभेदने भल्लीषु शस्त्रविशेषेष्वित्युत्प्रेक्ष्यमाणामु तासु प्रसिद्धासु प्रदीपानां कलिकासु कोरकेषु निशि गत्री प्रदीप्यमानासु सताए । हवमानः चलद्भिः पाण्डुपुण्डरीकैः श्वेताजैः कल्माषितः चित्रितः कालिन्धाः यमु. नायाः परिस्यन्दः प्रस्रवणं प्रवाहति यावत् । तद्वत् सुन्दरे । ताराभि: नक्षत्रैः वि- राजिते वियति गगने अमृतमथनस्य क्षणे काले क्षुब्धस्य लोडितस्य क्षीरसागरस्य र- सविन्दुभिः क्षारकणैः खबकितं सत्रात गुन्छं व्याप्तमिति यावत् । यत् नारायणस्य वक्षःस्थलं तम्मिन्निव । काञ्चित् श्रियं शोभां अधिकन्याञ्च कलयति प्रामु. वतिसति यमुना प्रवाहविष्णुवक्षश्च गगनस्योपमानं पुण्डरीकाणि क्षीरविन्दवथ ताराणायुपमानम् । वेशेन नेपथ्येन शोभन्त इति वेश्या: "कर्म वेशाद्यत्" इति यत् । यद्वा वेशे वेश्यावाटे भवा: वेश्या: “दिगादिभ्यो यन्” इति यत् । वेश्या- सुगणिकासु कान्तं प्रियं विटं भुजङ्गं अनुसरन्तीपु अनुगच्छन्तीपु । वेश्मेति । गृहकपातपक्षितलिप च । विटकः पक्षिणामावासयटेस्नतीशः तस्यान्तं मध्यं अनु- सरन्तीषु आश्रयन्ती । अटन्तीति अटाः कुलानां अभीष्टकान्तगृहाणां अटाः कुल.

द्वितीय उच्छासः १११ पङ्क्तिषु च, भ्रमरसंगतासु कुलटामु कुमुदिनीषु च, नदीपालिविरहितेषु चत्वरेषु चक्रवाकमिथुनेषु च, जाते जरद्वयकायकालकान्तिकाशिनि निशावतारे, तरुणतमालकाननमिवाञ्जनगिरिगुहागर्भमिवेन्द्रनीलमणिम- हामन्दिरोदरामिव विशति सकल जीवलोके स लोकेश्वरः “प्रिये प्रियंगु- मञ्जरि,प्रसादय प्रणतप्रियकारिणमभङ्गानङ्गदर्पहरं हरम् । अहं च तदा- राधनावधानमनुविधास्यामि" इत्यभिधाय यथावासमयासीत् ॥ ततश्च । अखण्डितप्रभावोऽथ प्रदोषेणान्धकारिणा । तस्याश्चित्ते स्थितः शंभुरुदयाद्री च चन्द्रमाः ॥ ३१ ॥ टाः खैरिण्य: “ शकन्ध्वादिः" तासु । कुमुदिनीपु सितोत्पलयुक्तसरसीषु च भ्रमे भ्रमणे रसं तात्पर्य गतासु पक्षे भ्रमरैः भृङ्गैः सङ्गतासु युक्तासु । चत्वरेषु अ. गणेषु (नेति भिन्न पदम् ) दीपालिभिः दीपपतिभिः विरहितेषु न असत्सु । चक्रेति । कोकद्वन्द्वेषु च । नदीनां पालिघु प्रदेशेषु “ पालिः कर्णलतायां स्यात् प्रदेशे पङ्किचिह्नयोः" इत्यजयः । विरहितेषु वियुक्तेषु सत्सु । निशायाः रात्रेः अ. वतारे आविर्भावे । जरतः वृद्धस्य गवयस्य गोसदृशमृगविशेषस्य कायवत् शरीरवत् कालकान्त्या श्यामशोभया काशते शोभत इति तच्छीले जाते सति । सकले जीव- लोके तरुणं प्रौढं तमालकाननं विशतीवेत्युत्प्रेक्ष्यमाणे सति । अञ्जनगिरिगुहायाः गर्भ मध्य विशतीव । इन्द्रनीलमणिभिः ( रचितम् ) महत् यन्मन्दिरं गृहं तस्योदरं मध्यं विशतीव च सति । स: लोकेश्वरः भीमभूपतिः । प्रिये हे भार्ये प्रियङ्गमञ्जरि प्रणतानां प्रणतिकृताम् । भुक्ताब्राह्मणाः इतिवदर्शआद्यच् । प्रियकारिणं अभीष्ट- कृतम् । अभङ्गं अकुण्ठितं अनङ्गस्य मन्मथस्य दर्प गर्व हरतीति तथोक्तम् । हर शिवम् । प्रसादय पूजादिभिः प्रसन्नं कुरु । अहञ्च तस्य शिवस्य आराधने पूजने अवधानं जागरूकताम् । अनु विधास्यामि त्वां अनुसृत्य अनुपदं वा करिष्यामि इति अभिधाय उक्त्वा । यथावासं आवासमनतिक्रम्य निवासस्थानमित्यर्थः । अया. सीत् अगात् ॥ अखण्डितेति ॥ अथ प्रकृष्टदोषेण अन्धकनाना अरिणा शत्रुणा अखाण्डे - तः अव्याहतः प्रभावः महिमा यस्य सः । शम्भुः तस्याः प्रियङ्गुमचर्याः । चित्ते मनसि स्थितः । अन्धकारिणा अन्धकारवता प्रदोषेण रजनीमुखेन ने खण्डितः प्र. भायाः आवः वृद्धिः यस्य सः । वृध्यर्थात् अवधातो वे घञ् । चन्द्रमाश्च उदयाद्री उदयगिरौ स्थितः । अत्र शिवचन्द्रयोः श्लेषः ॥३१॥ ..

११२ दमयन्तीकथायाम् बिभ्रते हारिणी छायां चन्द्राय च शिवाय च । नभोगरुचये तस्मै नमस्कार चकार सा ॥ ३२ ॥ नित्यमुद्वहते तुभ्यमन्तः सारङ्गरञ्जितम् ॥ भूतिपाण्डुर गोवाह सोम स्वामिन्नमो नमः ॥ ३३ ॥ एवं च नातिचिरात् क्षुभ्यत्क्षीरसमुद्रसान्द्रसलिलोल्लोलैरिव प्लावयँ- लोकं लोचनलोभनः स्मरसुहृज्जातः स चन्द्रोदयः । यस्मिन्संभृतवैरदारुणरणप्रारम्भिणो भ्राम्यतः कद्धोलककदम्बकस्य पुरतः काकोऽपि हंसायते ॥ ३४ ॥ विभ्रत इति । हरिणस्येमां हारिणी मृगसम्बन्धिनी छायामकं बिभ्रते धारयते । नभः गच्छतीति नझोगा आकाशव्यापिनी रुचिः कान्तिर्यस्य तस्मै । शि- वपक्षे हारिणी रम्या छायां कान्ति बिभ्रते। न भोगे अस्मदादिवत् विषयानुभवे रुचिः प्रीतिर्यस्य तस्मै । तस्मै यः उदयाद्रौ स्थितः तस्मै चन्द्राय । तस्मै “ओं तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः” इति गीतोक्तरीत्या ब्रह्मवाचकतच्छब्दनि- र्दिष्टाय शिवाय च । सा प्रियङ्गुमञ्जरी। नमस्कारं चकार । अत्र पूर्ववदलङ्कारः ॥३२ नित्यमिति । भूत्या भस्मना पाण्डुर शुभ्र गौः वृषः वाहः वाहनं य- स्य तस्य सम्बद्धिः गोवाह । सोम उमयासहित स्वामिन् ईश्वर । अन्तः कण्ठमध्ये सारं उत्कृष्टं गरं कालकुटं जितं महिम्ना स्तम्भितशक्ति यथा तथा नित्यं उद्वहते विभ्रते तुभ्यं नमः नमः पुनःपुनः नमोस्तु । आभीण्यद्विवचनम् । चन्द्रपक्षे भृत्या जन्मना स्वभावनेत्यर्थः पाण्डुर श्वेत । गाः किरणान् वहतीति गोवाहः “क- मण्यण' । तस्य सम्बुद्धिः गोवाह स्वामिन् सोम चन्द्र अन्तः बिम्बमध्ये सारङ्गः मृगएव रञ्जितं लाञ्छनम् । भावे क्तः । नित्यं उद्वहते तुभ्यं नमोनमः। अत्र पूर्व- वदलङ्कारः ॥ ३३ ॥ नातिचिरात् । शीघ्रम् । क्षुभ्यदिति । क्षुभ्यतः लोडनङ्गच्छतः क्षीर- समुद्रस्य सान्द्रः निविडैः सलिलस्य जलस्य उदोलैः महातरङ्गैः । लोकं प्लालयन् ध्याप्तं कुर्वन्निव (अत्रोत्प्रेक्षा) लोचने लोभ्येते अनेनेति लोचनलोभनः सकल- जननयनानन्दनइत्यर्थः। स्मरस्य कामस्य सुहृत् सखा कामोद्दीपक इत्यर्थः सः चन्द्रोदयः जातः । यस्मिन् चन्द्रोदये सम्भृतं पूर्ण यद्वैरं शत्रुत्वं तेन दारुणे क्रूरे रणे युद्धे प्रारम्भि- गः प्रकृष्टारम्भयुक्तस्य (अत एव काकदमनाय) भ्राम्यतः अटतः क्रुद्धस्य कुपितस्य उलककदम्बकस्य घूकवृन्दस्य पुरतः अग्रे काकोपि स्वभावश्यामः वायसोपि हंसः द्वितीय उच्छ्वासः अपि च । श्चयोतचन्दनचारुचन्द्ररुचिभिर्विस्तारिणीभिर्भरा- जातेयं जगती तथा कथमपि श्वेतायमानद्युतिः । उन्निद्रो दिनशङ्कया कृतरुतः काको वराकः प्रिया- मन्विप्यन्पुरतः स्थितामपि यथा चक्रभ्रमं भ्राम्यति ॥ ३२ ॥ अपि च । मुग्धा दुग्धधिया गवां विदधते कुम्भानधो वल्लवाः कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि । कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाझ्या सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका ॥३६ ॥ श्वेतखगः इवाचरति हंसायते । अत्रोपमोत्प्रेक्षातद्गुणालङ्काराः । तद्गुणलक्षणन्तु- " तद्गुणः स्वगुणत्यागादन्यदीयगुणग्रहः” इति । शार्दूल...वृत्तम् ॥ ३४ ॥ श्वयोतदिति ॥ भरात सान्द्रतया यद्वा भरं अतिशयं प्राप्य । ल्यलोपे पञ्चमी । विस्तारिणीभिः विस्तारयुक्ताभिः श्चयोतन्तीभिः क्षरन्तीभिः चन्दनरसवत् चारुभिः रम्याभिः यद्वा श्चयोतचन्दनरसवत् चारुभिः चन्द्रस्य रुचिभिः कान्तिभिः कथमपि केनापि प्रकारेण श्वेतायमाना श्वेतवर्णवतीवाचरन्ती द्युतिः विविधनीलपीता- दिशोभा यस्यां सा । इयं जगती भूः तथा तादृशप्रकारवती जाता । यथा येन प्र. कारेण दिनं अहः इति शङ्कया भ्रमेण उनिद्रः उत्सृष्टस्वापः अतएव कृतं रुतं शब्दः येन सः वराकः शोच्यः काकः पुरतः स्थितामपि प्रियांज्योत्नावशात् हसीभ्रमदां कार्की अन्विष्यन् गवेषमाणस्सन् चक्रवत् कुलालचक्रवत् यद्वा चक्रस्य समीपवर्तिनीमपि प्रियां रात्रौ अन्विध्यतः चक्रवाकस्येव भ्रमः भ्रमणं यस्मिन् कर्मणि तद्यथा भवति तथा भ्राम्यति भ्रान्ति गच्छति । अत्र भ्रान्तिमदुपमालङ्कारौ स्पष्टौ । शुक्रगुणसमृ. द्धिवर्णनादुदात्तालङ्कारश्च । अयमुपरितनश्लोकत्रयेपि । तल्लक्षणन्तु-" यत्र महास- मृद्धिशालिवस्तु वर्ण्यते तत्रोदात्तालङ्कृतिः' इति मदीयशिवार्थालङ्कारस्तवीकायाम् । शार्दूल...वृत्तम् ॥ ३५ ॥ मुग्धा इति ॥ मुग्धाः मूढाः वल्लवाः गोपाः दुग्धं क्षीरमिति धि- या मत्या चन्द्रिका दुग्धमिति मत्वेत्यर्थः । गवां धेनूनां अधः अधस्तात् कुम्भान् घटान् विदधते कुर्वन्ति दोहाय निक्षिपन्तीत्यर्थः । कान्ताः अपि/ सततपरिचितोत्तं सरचनाः विलासिन्योपि (किमुतमुग्धगोपादयः) कैरवं सितोत्पलामति शङ्कया भ्रमेण कर्णे श्रोत्रे कुवलयं अर्थात् शुक्लोत्पलं कुर्वन्ति चन्द्रिका कुमुदत्वेनाशङ्कय कर्णावतंसी.

११४ दमयन्तीकथानाम् यत्र च मुक्तादाममनोरथेन वनिता गृह्णन्ति वातायने गोष्ठे गोपवधूर्दधीति मथितुं कुम्भीगतान्वाञ्छति । उच्चिन्वन्ति च मालतीषु कुसुमश्रद्धालवो मालिकाः शुभ्रान्विभ्रमकारिणः शशिकरान्पश्यन्न को मुह्यति ॥ ३७॥ अपि च । किं कर्पूरकणाः स्रवन्ति वियतः किं वा मनोनन्दिनो मन्दाश्चन्दनबिन्दवः किमु सुधानिप्यन्दधारा इमाः । इत्थं भ्रान्तिममी जनस्य जनयन्त्यङ्गे लगन्तः परा- मिन्दोः कुन्दविकासिकुडलदलस्रक्सुन्दरा रश्मयः ॥ ३८ ॥ कतु यतन्त इत्यर्थः । शबरी पुलिन्दागना मुक्ताफलं इत्याकांक्षया वाञ्छया कर्कन्धूफलं बदरीफलं उचिनोति उच्चित्य गृह्णाति । चन्द्रमसः चन्द्रस्य सान्द्रा निबिडा चन्द्रि- का कौमुदी । कस्य चित्ते भ्रम भ्रान्ति न कुरुते । सर्वस्यापि जनस्य मनसि भ्रान्ति कुरुत इत्यर्थः । अत्र भ्रान्तिमान् अर्थान्तरन्यासश्चालंकारौ ॥ पूर्ववद्वृत्तं ॥ ३६ ॥ मुक्तेति ॥ वनिताः स्त्रियः मुक्तदामानि मुक्ताहारा इति मनोरथेन वाञ्छया वातायने गवाक्षे (प्रविष्टान्शशिकरान् ) गृह्णन्ति । गोष्ठे गोस्थाने गोपवधूः गोपि- का कुभी कलशं गतान् (शशिकरान् ) दधि इति (मत्वा) मथितुं विलोडयितुं वा - ञ्छति आभिलष्यति । कुसुमेषु श्रद्दधत इति श्रद्धालवः आसक्ताः “स्पृहिग्रहि' इत्या- दिना आलुच् । माला एषामस्तीति मालिकाः "ब्रीह्यादिभ्यश्च” इति ठन् । यद्वा मालाशिल्पमेषामिति मालिकाः मालाकाराः "शिल्पं" इति ठन् । मालतीषु जातिषु (प्रसृतान् शशिकरान् जातिपुष्पाणीति मत्वा) उच्चिन्वन्ति उच्चेतुं यतन्त इत्यर्थः । तस्मात् शुभ्रान् विभ्रमं विलासं विशेषण भ्रमञ्च कुर्वन्तीति तच्छीलास्तान् शशिनः चन्द्रस्य करान् किरणान् पश्यन् कोनमुह्यति सर्वेपि मुह्यन्तीत्यर्थः । अत्रवृत्तालंकारी पूर्ववत् ॥ ३७॥ किमिति । कपूरस्य घनसारस्य कणाः लवाः वियतः आकाशात् सवन्ति स्यन्दन्तेकि । वा उत मनः नन्दयन्ति आह्लादयन्तीति तच्छीला: मन्दाः सूक्ष्माः जाड्यकारिणोवा चन्दनबिन्दवः चन्द नरसशीकराः वियतः सवन्ति किं । इमाः सुधानिध्यन्दस्य अमृतप्रवाहस्य धाराः आसाराः वियतः स्रवन्ति किमु । इत्थं एवं (अस्य भ्रान्तिमित्यनेनसम्बन्धः) जनस्य अङ्गे लगन्तः सजन्तः कुन्दस्य माध्यस्य ।

द्वितीयउच्छ्रासः इते जनितमुदिन्दोः सिन्दुवारस्रगाभं किरति किरणजालं मण्डले दिडवेषु । हरचरणसरोजद्वन्द्वमाराधयन्ती शुचिकुशशयनीये साथ निद्रां जगाम ॥ ३९ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरोजाङ्कायां द्वितीय उच्छासः ॥ विकासिनां विकसनशोलानां कुडलदलानां कोरकदलानां स्रजः दामानीव सुन्दरा इन्दोः अमी रश्मयः किरणाः (जनस्य) परां अधिकां भ्रान्ति जनयन्ति । अत्र उपमा सन्देहः भ्रान्तिमांश्चालंकाराः । वृत्तं पूर्ववत् ॥ ३८॥ इतीति । अथ इति एवं जनिता उत्पादिता मत् हर्षः येन तत् सिन्दुवारस्रजः इन्द्रसुरभिपुष्पदानः आभेवाभा यस्य तत् । किरणानां जालं बृन्दं । दिशाम् मुखेषु किरति वितन्वति (शत्रन्तं ) इन्दोः मण्डले हरचरणसरोजद्वंद्वं आराधयन्ती च्या - यन्ती पूजयन्तीवा सा प्रियङ्गुमञ्जरी शुचिनि शुद्धे कुशशयनीये द भविरचित तल्ये निद्रा जगाम मुज्वाप । अत्र उपमालङ्कारः । मालिनीवृत्तम् ॥ ३९ ॥ श्वीनारायणशर्मा श्रीनलचम्प्वा द्वितीयमच्छ्वासम् । परिमलसंज्ञव्याख्या सुरभितमतनुतसिताटवीवासी । इति चेन्नपत्तनविराजमान पञ्चयप्पपाठशाला संस्कृताध्यापक श्वेतारण्य नारायणशास्त्रिविरचिता नलचम्पू द्वितीयोच्छ्वासव्याख्या परिमलाख्या पूर्तिमागता. ॥ शिवम् ॥

No text on this page.

No text on this page.

Damayanatiikathaa Athavaa Nalachumpuu

Author
Sretaarand-yanaaraayand-asharmaand-a
Title
Damayanatiikathaa Athavaa Nalachumpuu
File name
Damayanatiikathaa Athavaa Nalachumpuu
Text
OCR done
Citation
1903
Publisher
The Royal Victoria Press, Madras
Language
Sanskrit
Pages
124
Library
Svi-ksri-chennai
Classification
Fiction. Prose Narrative
DLI number
369074
Barcode
5010010078796.00
Scanning centre
RMSC, IIIT-H
Rights
OUT_OF_COPYRIGHT
VMLT id
9QyTPjLOBvi
Download PDF

Damayanatiikathaa Athavaa Nalachumpuu