Sringeri Sharada Peetham

Vaidikasiksa Darsanbindu

Pt.p.n.pattabhirama Sastri Vidyasagara · 2005/03/10

PDF Proofread

Front matter

तिम गापाय
7s
GAÑGĀNĀTHAJHĀ-PRAVACANAMĀLĀ
[Vol. XI]
VAIDIKAŠIKSĀDARŠANABINDU
Ву
Pt. P. N. PATTĀBHIRĀMA ŚĀSTRİ (VIDYASÄGARA'
Hony. Professor
Sampurnanand Sanskrit Vishyavidyalaya
Research Publication Supervisor
DR. BHÂGİRATHA PRASĀDA TRIPĀȚHI VĀGĪŠA ŠÃSTRI
Director, Research Institute
Sampurnanand Sanskrit Vishvavidyalaya
VARANASI
1980

Published by Director, Research Institute, Sampurnanand Sanskrit Vishvavidyalaya, Varanasi. -- :: Available at Sales Department Sampurnanand Sanskrit Vishvavidyalaya, Varanasi-221002. First Edition : 500 Copies , Price Rs. 1.50 P. Printed by- Tara Printing Works Varanasi.

अतम म गोपाल
गङ्गानाथझा-प्रवचनमाला
[ ११ ]
वैदिकशिक्षादर्शनबिन्दुः
प्रवक्ता
प० पी० ए० पट्टाभिरामशास्त्री 'विद्यासागरः'
सम्मानितप्राध्यापकः
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य
संस्कृत
विश्ववि
द्यालया
.
अनुसन्धानप्रकाशनपर्यवेक्षक:
डॉ० भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री'
अनुसन्धानसंस्थाननिदेशकः,
सम्पूर्णानन्दसंस्कृतविश्वविद्यालये
वाराणस्याम्
१९०२ तमे शकाब्दे
२०३७ तमे वैक्रमाब्दे
१९८० तमे स्रेस्ताब्दे

प्रकाशक:
निदेशकः, अनुसन्धानसंस्थानस्य,
सम्पूर्णानन्दसंस्कृतविश्वविद्यालये,
वाराणसी।
-
प्राप्तिस्थानम्-
विक्रयविभागः,
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः,
वाराणसी-१२१००२.
प्रथमं संस्करणम् : ५०० प्रतिरूपाणि
मूल्यम् : १-५० रूप्यकाणि
.
मुद्रक :-
तारा प्रिटिंग वर्क्स,
वाराणसी।

प्रास्ताविकम् एकविंशोपाधिवितरणोत्सवप्रसङ्गे व्याख्यानानि व्याहर्तुमामन्त्रितानां पदवाक्यप्रमाणपारावारीणानां राष्ट्रपतिपुरस्कारभाजां विद्यासागराणां पण्डितप्रवराणां स्वनामधन्यानां श्रीपट्टाभिरामशास्त्रिवराणां 'वेदाङ्गेषु शिक्षा' 'वेदविषये पाश्चात्त्य- कृतविमर्शसमीक्षा' 'महर्षिजैमिनेः पदार्थपरीक्षणसरणिः' चेति यानि त्रीणि व्याख्यानानि 'सारस्वती सुषमा' इत्याख्याया विश्वविद्यालयानुसन्धानपत्रिकायाः ३३ वर्षे संमिलितयोः तृतीयचतुर्थाङ्कयोः प्रकाशितानि, तानीह पृथक्शः 'वैदिकशिक्षादर्शनबिन्दुः' इति पुस्तक- नाम्ना जिज्ञासूनामुपकाराय विद्वद्व राणां च प्रीणनाय प्राकाश्यमानीयन्ते । वेदपाठे स्वराणां परिज्ञानमनिवार्यं मन्यते। तज्ज्ञानमन्तरा कृते पाठे तु भिन्नार्थत्वे स्वरापराध उपतिष्ठते। ‘स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽ- पराधात्' इति पाणिनीयशिक्षागतोक्तिः प्रसिध्यत्येव । अतः स्वराणां सम्यगुच्चारण- शिक्षणाय वेदाङ्गभूतं शिक्षाशास्त्रमवतीर्णम् । वेदेषु प्रतिशाखं भिन्नेषु शिक्षाग्रन्थेषु केचिदेवोलभ्यन्ते साम्प्रतम् । तत्र शिक्षासौ कथं वेदानामुपकारिका ? शिक्षया गुरुमुखोच्चारणानूच्चारणेन स्वशाखा समवाप्तव्येति शास्त्रिवर्यैः प्रतिपादितम् । शिक्षाग्रन्थः साधारणः, प्रातिशाख्यं त्वसाधारणम् । द्विविधयोरपि ग्रन्थयोविषयस्तु समान एव । किन्तु संहितापदक्रमादिप्रकृतिपाठव्यवस्थायै प्रातिशाख्यं प्रसिध्यति । शिक्षा तु जटाघनादिरूपविकृतिपाठनियामिका विज्ञायते। इह व्यासशिक्षावर्णिता वर्णविषया निरूपिताः सन्ति । तत्र बाह्यप्रयत्नस्थानादिविषये सम्यक् प्रकाशो निपातितः। शिक्षासु क्वचिदागमस्य, क्वचिद् द्वित्वस्य क्वचिल्लोपस्य सोदाहरणं वर्णनं कृतम् । उदात्तानुदात्तस्वरितानां स्वरधर्माः सम्यगवबोधिताः। तेषां विक्रमाभिनिहित- क्षेप्रप्रश्लिष्टनित्येत्यभिधानानि बोधितानि । एवं भगवतो वेदपुरुषस्य रक्षणाय शिक्षा दुर्गोपमा निरूपिताः श्रीशास्त्रिवर्यैः । द्वितीये व्याख्याने श्रीशास्त्रिवर्यैर्वेदविषये पाश्चात्त्यविदुषां मतानि सम्यगालो- चितानि । वैदेशिकास्तदनुयायिनश्च कामं नियमज्ञानवन्तो भवेयुः; सत्यमेव ते सुपरिश्रम्य शाब्दबोधं सम्पादितवन्तः स्युः, स्वीयविमर्शदृष्ट्या वेदविषये यत्किमपि लिखितवन्तो भवेयुः, किन्तु वेदवाक्यानामर्थप्रतिपादनाय निर्णयाय वा या सामग्री निगमनिरुक्तव्याकरणमीमांसादिरावश्यकी, तामनादृत्यैव लेखनी व्यापारयामासुः। 'अज एकपाददेवः' इत्यस्यैकपादयुक्तो मृगः (One-footed goat) इति ग्रिफिथ- महोदयो ब्रूयात् । वैदेशिका विमर्शका वेदार्थनिश्चयविधौ भारतीयां परम्परां नाङ्गी- कुर्वन्ति, नाप्यत्र विश्वसन्ति, न चालौकिकफलजनकेषु कर्मसु श्रद्दधत इति शास्त्रिवर्यैस्ते साधीयः पर्यालोचिताः। परम्परागता भारतीया विद्वांसो भारते प्रचलितायाः कर्मा- नुष्ठानपरम्पराया देशं कालं च निर्णेतुं न प्रवर्तन्ते। मनसाऽपि चिन्तयितुमशक्यः खलु ( २ ) कालो व्यतीतोऽस्याः परम्परायाः। अनुमानमप्यत्र कुण्ठितमेव भवतीति शास्त्रि- वर्यमतम् । मैक्समूलर-विन्टनित्स-महाशययोर्मतमेतद्विषयकं साधु निराकृतमिह व्याख्यानेषु । वेदानां नित्यत्वविषये मूर-मैक्डानलकृत आक्षेपोऽपि सप्रमाणं निराकृतः । वेदानां पुस्तकाकारत्वस्य, आर्याणां देशान्तरेभ्यः समागमनस्य, वेदेषु निरर्थकशब्दाना- मस्तित्वस्य, वेदशब्देषु केषाञ्चनाश्लीलार्थकत्वस्य चोपपादनपूर्वकं प्रत्याख्यानं विहितम् । ब्राह्मणभागस्यापौरुषेयवेदत्वं नास्तीति ये केचन भारतीयाः समामनन्ति, तेऽप्यत्र पर्यालोचिताः। 'महर्षिजैमिनेः पदार्थपरीक्षणसरणिः' इति तृतीयव्याख्याने ध्वनिवर्णशब्दपद- पदार्थवाक्यार्थविवेचनायां संस्काराऽऽहितानां शब्दानां साधुत्वम्, तद्विपरीतानां चासाधुत्वमुदीरितम् । यास्कपाणिन्यादिभिः प्रवर्तिताः शब्दसंस्काराः केवलं साधुत्व- प्रयोजनकाः, न तु तन्निष्पादकाः। अत एव भगवान् जैमिनिः पिकनेमाधिकरणे परम्पराप्राप्तं शब्दार्थव्यवहारमनुसृत्य पिकपैलवादिशब्दानां लोकव्यवहारसिद्ध- मेवार्थ व्यवस्थापयति । अनार्यव्यवहारपतितत्वात् तानर्थानपरिगृह्य निगमनिरुक्त- व्याकरणादिसंस्कारेण योऽर्थ आपतति, तत्परिग्रहं जैमिनिर्न वाञ्छति, किन्तु तानेवार्थान् स्वीकरोति ये चानार्यव्यवहारपतिताः। इह वामनकृतकाव्यालङ्कारसूत्रवृत्तेः (५, १, १३) 'अतिप्रसिद्धं देशभाषापदम्' इत्युक्तिः सादृश्यमुपन्यस्यति। आर्यानार्येषूभयत्र प्रसिद्धानां शब्दार्थानामार्यप्रसिद्धा एवार्था गृह्यन्ते। आर्येष्वप्रसिद्धानां शब्दार्थाना- मनार्यशब्दार्थप्रसिद्धिरेवाभ्युपेयते । शब्दस्य तादृशो वाच्यवाचकभाव एव शक्तिरूपः संबन्धः शब्दार्थयोरनिवार्यः। शक्तिरियमपौरुषेया शब्दगता, अर्थगता च भवति । सोऽयं सम्बन्धो नित्यः। शब्दकर्तृत्वेन वेदेषु पुरुषानुप्रवेशः। जैमिनीयं दर्शनं साक्षाद् वेदसंबद्धम् । वेदार्थधर्मस्यैव विवेचनाय संप्रवृत्तं वाक्यशास्त्रमिदम् । भाषाविज्ञानिनां मतमपीह मध्ये पर्यालोचितम् । एवं तावदाधुनिकमतालोचनपूर्वकं विन्यस्तानि व्याख्यानानीमानि नूनं सर्वेषां संस्कृतज्ञानां हितावहानि सेत्स्यन्ति । ' गङ्गानाथझाप्रवचनमालाया एकादशप्रसूनतया प्रस्फुटितोऽयं वैदिकशिक्षादर्शनबिन्दुः सामान्यतो वेदशिक्षाया ज्ञानाय, वेदविषयक- पाश्चात्त्यदृष्टेः शोधनाय, महर्षिजैमिनेः पदार्थपरीक्षणसरणिबोधनाय च बाढमुपकारको भविष्यतीति ध्रुवं प्रत्येति । वाराणस्याम् प्रबोधिन्याम् २०३७ वै० (१८-११-८० खी० कुजे) भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री' निदेशकः अनुसन्धानसंस्थानस्य

प्रवचनसूची
१५७-१६६
१. प्रथमं प्रवचनम्
(२०-१२-१९७८)
....
१६७-१७६
२. द्वितीयं प्रवचनम्
(२१-१२-१९७८)
....
१७७-१८६
३. तृतीयं प्रवचनम्
(२२-१२-१९७८)
क

प्रथमं प्रवचनम्* वेदाङ्गेषु शिक्षा संहितासारबहुलः पदसंज्ञासमाकुलः। क्रमसन्धिसमाकीर्णो दुस्तरो मन्त्रसागरः॥ ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः । साम्नां वा सरहस्यां च सर्वपापैः प्रमुच्यते ॥ स्वरवर्णप्रयुञ्जानो हस्तेनाधीतमाचरन् । ऋग्यजुः सामभिः पूतो ब्रह्मलोकमवाप्नुयात् ॥ [ याज्ञवल्क्यशिक्षा-३०, ३१, ४२ ] माननीयाः कुलपतिमहोदयाः, तेषु तेषु शास्त्रेषु तलस्पर्शिवैदुष्यमावहन्तो विद्वच्चक्र चूडामणयः, समवेतास्सुहृदयश्छात्राश्च ! सम्पूर्णानन्दसंस्कृतविश्वविद्यालयाधिकारिभिरुपाधिवितरणोत्सवप्रसङ्गे भाषणानि प्रदातु महमाहूतो जिहमि बिभेमि च । तथापि बहुश्रुतानां भवतां विदुषां कर्णविवरेषु मदीयाश्शब्दा: स्थानं न लभेरनिति निश्चित्य प्रवृत्तोऽहमस्मिन् कर्मणि। यदि वा मदीयाश्शब्दा भवच्छ्रोत्रपुटेषु कथञ्चित् स्थानमवाप्नुयुः, तर्हि पुनरुक्तिरूपा एव ते भवेयुः, तत्रापि यदि काचन त्रुदिर्भवेत्, कृपालवो भवन्तः क्षन्तुमर्हन्तीति प्रथमं सम्प्रार्थ्य भाषितुमारभे । पवित्रतमेऽस्मिन् मारते केनापि सुकृतविशेषेण वयमजनिष्महि । किमु वर्णयामो वयम्, अस्माकं पचेलिमं भागधेयमहिमानं यदत्र चिरन्तना अत्रिभृगुकुत्सवसिष्ठगौतमकाश्यपभरद्वाजादयो महर्षयो भारतस्य महान्तं निधि वेदाभिधानं शब्दराशि यथानियम परिरक्षन्त आसन् । तेषां वंशे जनिविना सुकृतेन कथं लभ्येत । न केवलं तत्तन्महर्षिवंशजास्मो वयम्, किन्तु तैनिर्मिते सुमहति मनोहरे प्रासादे च वयं निवसामः । प्रासादनिर्माणाय इष्टकाः स्नुही सिकताः सुधा चेत्यादयोऽपेक्ष्यन्ते । चिरन्तनास्तु लौकिकीमिमां सामग्रीमनपेक्ष्य इष्टकास्थानेऽथं कामञ्चेति द्वितीयतृतीयपुरुषायौं गृह्णन्तः, धर्मस्नुहीं सामान्यतो विशेषतश्च द्वेधा परिकल्प्य विशेषधर्म.. स्नुह्या इष्टकाः संयोज्यानंलिहाः सुदृढा भित्तीनिर्माय ताः सामान्यधर्मस्नुह्याऽनुलिप्य दृढतरैः पाषाणराच्छाद्य मोक्षसुधया प्रासादं सम्भूष्यास्मभ्यं प्रादुः, यत्राद्यापि सुखेन वयं निवसन्तो धर्मस्नुह्या मोक्षसुधायाश्च सौगन्ध्यमाजिघ्रामः । 'सम्पुष्पितस्य वृक्षस्य दूराद् गन्धो वाति' इति श्रुत्यनुसारेण देशान्तरनिवासिनोऽप्याघ्रापयन्नयं भारतदेशो देशान्तराणामपि गुरुरित्याख्यायते । गौरवस्यास्य प्राप्तये किं कारणमन्यत् स्याहते वेदाभिधानशब्दराशेस्सम्बन्धात् । - २ वैदिकशिक्षादर्शनबिन्दुः वैदस्तु महान् निधिर्देशस्य । भारतमातुः प्राणाः खलु वेदाः । याञ्च धर्मस्नुहीं परिकल्प्य प्रासादं निरमासत चिरन्तनाः । तस्या धर्मस्नुह्यास्तत्त्वं यथावदवबोधयितुं मूलमितरनिरपेक्षञ्च प्रमाणं वेदाः । वेदप्रामाण्यस्वीकार आस्तिकदार्शनिकानां समेषां सिद्धान्त एकरूप एव। न तत्र न्यूनाधिक भावमुपलभामहे । प्रामाण्यस्वीकारप्रकारस्तु कामं भिन्नो भवेत् । प्रकारभेदमात्रेण वस्तुनस्स्वरूपं न भिद्यते । ईश्वरोक्तत्वेनेश्वरप्रणीतत्वेन, कृतकेतरवचनत्वेन, भगवदुच्छ्वास- निश्वासरूपत्वेन वा वेदानां प्रामाण्यमङ्गोकुर्वन्तो दार्शनिका वेदप्रामाण्यविषये एकरूपा एव । तस्य तस्य दार्शनिकस्य नियतः कश्चन मनोहरः पन्था भवति, येन च गच्छन् स स्खलद्गतिनं भवति । स्वस्वदर्शनस्य कृते चिरन्तना ससृणं पन्थानं प्रवर्तयाम्बभूवुः, तत्र स्खलनस्य कावसरः ? किन्तु मार्गे परैः प्रक्षिप्यमाणान् कण्टकान् प्रस्तरखण्डांश्च युक्तिभिस्तकश्च दूरीकुर्वन्तोऽग्रे गच्छ- न्त्येव । केनचन दार्शनिकेन कस्य चन दार्शनिकस्य मतं खण्डितमिति खण्डयितुर्मतं स दार्शनिकः स्वीकृत्य गच्छतीति नाद्यावधि क्वापि दर्शने वयमनुभवामः । खण्डयिता खण्डयश्च स्वस्वस्थान एव वर्तते, स्वस्वमार्गे गच्छन्नेवानुभूयते । एक आस्तिकदार्शनिकोऽपरमास्तिकदार्शनिकम् त्वमवैदिको वेदबाह्यः' इति पर्यनुयुञ्ज्याद् यदि, तर्हि न कदापीमं पर्यनुयोग स स्वीकुर्यात् । अतो दार्शनिका भिन्नभिन्नमार्गगामिनोऽपि वेदसूत्रेणैकेन प्रबद्धाः स्वानि कार्याणि साधयन्ति । एतावांस्तु तत्र विशेषः परिकल्पयितुं शक्यते यत् केचन दार्शनिका वेदैस्सह साक्षात् सम्बद्धाः, अपरे चारात्सम्बद्धाः । विभिन्नमार्गः स्वच्छन्दरूपेण गभीरं प्रवहन्त्यो महानद्यः स्वस्वमार्गपतिता उपनदीरादाय सागरेण पत्या मिलिता अन्ते एकीभवन्ति यथा, तथैव तैस्तै- दर्शिनिकधुरन्धरैः प्रकल्पिता विचारधारा अन्ते वेदसागरमवाप्यकीभवन्ति । सर्वदर्शनाना- मुद्गमस्थानं यथा वेदः, तथैव स लयस्थानमपि । अथवा समेषां दर्शनानां समन्वयालयो वेद इत्यप्यभिधाने न कश्चन दोषः । एवमनल्पानां पुराणेतिहासस्मृतिधर्मशास्त्रादीनां मूलं वेदः। मूलमिदं परिरक्षितुं महर्षयो राजगृहस्य दुर्गाणीव षडङ्गानि व्याकरणादीनि प्राणेषुः । तत्र शिक्षाया अङ्गत्वं कीदृशम् ? कथं सा वेदानामुपकारिकेति विमृशामः । 'शिक्ष विद्योपादाने' इति शिक्षतिधातोनिष्पन्नश्शिक्षाशब्दः । वेदविद्याया उपादानं ग्रहणं प्राप्तिरिति यावत् । प्राप्ति- श्चास्या गुरुमुखादेव, नान्येनोपायेनेत्यध्ययनविधिब्रूते । 'स्वाध्यायोऽध्येतव्यः' इति विधि: स्वकुलपरम्परागतशाखाया अध्ययनं विधत्ते । अर्थादध्ययनेन गुरुमुखोच्चारणानुच्चारणेन स्वशाखा- समवाप्तव्येति । उत्पत्त्याप्तिविकृतिसंस्कृतिरूपेषु चतुर्विधेषु कर्मस्विदमध्ययनमाप्तिसंस्कारक.मति शास्त्रविदः । संस्कारकर्मणामेष नियमो यत् संस्कृतस्य पदार्थस्य भूते भाविनि वोपयोगो भवेदिति । गुरुमुखोच्चारणानूच्चारणविधया संस्कृतस्यास्य शब्दराशेः क्व वोपयोगो भवेत् ? यदीदं वाक्यं किञ्चित् प्रकरणमारभ्य पठितं भवेत्, तर्हि प्रकरणसम्बन्ध्यपूर्वसाधकत्वेनोपयोगो भवेत् । न चैतदस्ति, अस्यानारभ्याधीनत्वात् । अतः कथमाप्तिसंस्कारकर्मेति भवत्याशङ्का ? अस्या- श्शङ्काया इदमुत्तरं भवति यदग्निहोत्रदर्शपूर्णमासादिक्रतवो ज्ञानवन्तं पुरुषं त्रैवर्णिकमधिका- • - वैदिकशिक्षादर्शनबिन्दुः साधनतया रिणमपेक्षन्ते, उपनीताधिकारत्वादध्ययनस्य । उपनीताश्च त्रैवर्णिका एव भवन्ति, न चतुर्थ इति शूद्रस्यानधिकारः सिध्यति । तेन त्रैवर्णिकानामधिकारिणां विशेषणत्वेनाध्ययनविधिसिद्धा विद्या स्वीकर्तव्या । एवञ्चाध्ययनविधेरनारभ्याधीतत्वेऽपि नियमविधित्वं सिद्धं भवति-अध्ययनविधि- सिद्धज्ञानवानेवोत्तरक्रतुष्वधिकरोति, नान्य नान्य इति । एवञ्चाध्ययनेनावाप्तस्य संस्कृतस्य वा स्वाध्यायस्य स्वतोऽपुरुषार्थत्वात् फलाकांक्षायामधीतवेदजन्यधर्मावबोधस्य दृष्टस्य स्वर्गादि- फलत्वात्, तमेव प्रयोजनवदर्थावबोधापरनामधेयमधीतस्वाध्यायः फलत्वेन गृह ति । तथा चाधीतेन स्वाध्यायेनार्थावबोध भावयेदिति वाक्यार्थः पर्यवसन्नो भवति । अस्मिन् प्रसङ्गे किञ्चिद् वक्तुमिच्छामि- वटोरध्ययनारम्भे स्वाध्यायाध्ययनविधिरर्था- वबोधायाध्ययनं विधातुं न क्षमते, अर्थावबोधरूपफलेच्छायास्तस्यां दशायां बटोरभावात् । पितृगुरुप्रेरणयव स कथञ्चित् प्रवर्तनीयो भवति । यदा हि स वटुः कालान्तरे गृहीतपदपदार्थ- संगतिको भविष्यति, तस्यार्थावबोधः स्वत एव सिध्यति । यद्यध्ययनविधिरर्थावबोधान्त एव स्यात्, तर्हि कृत्स्नाया: स्वशाखाया अध्ययनं न स्यात्, ब्राह्मणस्य राजसूयप्रकरणाध्ययनेन तदर्थज्ञानम्, राजन्यस्य बृहस्पतिसवनप्रकरणाध्ययनेन तदर्थज्ञानम् वैश्यस्य राजसूय- बृहस्पतिसवनप्रकरणाध्ययनेन तदर्थज्ञानञ्च व्यर्थ व्यथं स्यात् । अर्थज्ञानं तु सामर्थ्येन तत्तत्कर्मानुष्ठानाङ्गं स्वीकृतं शास्त्रविद्भिः। तेषां कर्मणामनुष्ठानप्रसङ्ग एव नोदेति यदा तदा तत्तदध्ययनस्य किं प्रयोजनं स्यात् ? अतो 'विधिस्सर्वांशे प्रवर्तते, निषेधस्त्ववयवेऽपि प्रवर्तते' इति न्यायस्यानुसतव्यत्वेनाध्ययनविधेरर्थावबोधान्तत्वं त्यक्तव्यं भवेत् । न चेदमनु- चितम् । अत एवाध्ययनविधिरक्षरानुपूर्व्यवधारणरूपग्रहणार्थ इति स्वीकर्तव्यम् । अयमर्थः--ऋग्भाष्यभूमिकायां सायण यणाचार्योद्धृतैः पुरुषार्थानुशासनसूत्रैः 'बोधान्त- स्वेऽध्ययनाकात्यम्' इत्यादिमिस्सिद्धो भवति । तथा-'ब्राह्मणेन निष्कारणो वेदः षडङ्गोऽध्येयो ज्ञेयश्च'' इति महाभाष्यप्रदर्शितश्रुतिद्वाराप्यध्ययनं वर्णानुपूर्व्यवधारणरूपग्रहणार्थमिति सिध्यति । अध्ययनस्य बोधान्तत्वे 'ज्ञेयश्च' इति विधेरानर्थक्यापत्तेः । किञ्च, स्मृतिपादस्य कल्पसूत्राधिकरणे कल्पानां सूत्राणां षडङ्गानां मन्वादिस्मृतीनाञ्चा- पौरुषेयत्वम्, अथवा पौरुषेयत्वमिति सन्दिह्य 'मन्त्रब्राह्मणयोर्वेदनामधेयं षडङ्गमेके', 'यदृचोऽ- धोते' इत्युपक्रम्य 'पुराणानि कल्पान्' इत्यादिप्रमाणैरमोषामध्ययनविधिदर्शनात्, नित्यत्वम- पौरुषेयत्वञ्च पूर्वपक्षितम् । अनेन पूर्वपक्षन्यायेन षडङ्गानामप्यध्ययनेन गुरुमुखोच्चारणानूच्चा- रणेन कल्पसूत्राणां षडङ्गानाञ्च वेदवदाप्तिसंस्कारः क्रियते स्मेत्यवगम्यते। तथैवाद्यतनेऽपि वैदिकसमाजे तादृशा वैदिका उपलभ्यन्ते, ये च वाचो विधेयतया षडङ्गानि कल्पसूत्राणि च परिरक्षन्ति । अतश्च यथा हि वेदाध्ययनमाप्तिसंस्कारकर्म, तथैव षडङ्गाद्यध्ययनमपि तादृशं कर्मेति सिध्यति । पूर्वपक्षिणोऽयं न्याय इति न तत्र हेयदृष्टिर्भवितुमर्हति, तथाविधाध्ययनस्या. धुनापि दृश्यमानत्वात् । वेदाध्ययनस्यार्थज्ञानफलकत्वमनन्तरकालिकम्, अक्षरानुपूर्वीग्रहणं तु प्राथमिकम् । असञ्जातविरोधित्वन्यायेन तदेव फलं प्रथममेष्टव्यम् । वेदानां पदपदार्थावबोध- मात्रेणार्थज्ञानं न सम्पादितं भवेत्, किन्तु वाक्यार्थज्ञानसम्पादनेनैव फलं सिद्धमिति परिगण्यते । तच्च गुरुकुलवासपूर्वकं मीमांसाध्ययनजन्यम् । ततः पूर्वमक्षरानुपूर्येव धारणमावश्यकम् । केवलं १. महाभाष्यम्-पस्पशाह्निकम्, पृ० २३, निर्णयसागरीयं संस्करणम् ।

वैदिकशिक्षादर्शनबिन्दुः वेदवाक्यार्थज्ञानवान् मीमांसको वा वैयाकरणो वा वेदाध्यायीति न परिगण्यते । अक्षरानुपूयंव- धारणसमय एवं शिक्षाया भवत्यावश्यकता । तैत्तिरीयोपनिषदि 'अथ शीक्षां व्याख्यास्यामः' इत्युपक्रम्य 'वर्णः स्वर: मात्रा बलं साम सन्तानः इत्युकः शीक्षाध्यायः'२ इत्युपसंहृतम् । इमां श्रुतिमवलम्ब्यव शिक्षाग्रन्थान् चिर- न्तनाः प्रवर्तयाम्बभूवु: 'शिक्ष' विद्योपादाने' धातोः शिक्षाशब्दा:-शिक्ष्यन्ते वेदनीयत्वेनोप- दिश्यन्ते स्वरादयो यत्र सा शिक्षा, तद्वाचकः । शिक्षव शीक्षा भवति । तत्र निरूपणीयाः पदार्थाः षट्-अकारादयो वर्णाः, उदात्तादयस्स्वराः, ह्रस्वदीर्घप्लुता मात्राः, स्पृष्टेषत्स्पृष्टादयः प्रयत्ना बलम्, अतिद्रुतत्वमतिविलम्बितत्वं परिहृत्य यथोपदेशमुच्चारणं साम, पूर्वस्योत्तरेण सन्धानं सन्तानः संहिता । एवंप्रकारेण शिक्षारूपोऽध्यायोऽध्येतव्यः, गुरुमुखोच्चारणानूच्चारणविधाया प्राप्तव्य इति श्रुतेरर्थः । अध्ययनस्य पठनस्य च भूयान भेदः । वेदं पठति, वेदमधीते इत्यनयोर्व्यवहारयोरर्थेऽस्ति पार्थक्यम् । अध्ययनं तु गुरुमुखोच्चारणानूच्चारणरूपम्, पठनं त्वेवं न भवति । एवञ्च वेदवत् षडङ्गानामप्यध्येयत्वे सिद्धेऽध्ययनेन कथं वेदोऽवाप्तव्य इत्याकांक्षायां शिक्षाग्रन्था इति- कर्तव्यताकांक्षा पूरयन्ति । तत्रानेकहायनेभ्यः पूर्व काशिकराजकीयविद्यालयाध्यापकेन पण्डितश्रीयुगलकिशोर- व्यासेन डॉ० ग्रिफिथमहोदयप्रेरितेन शिक्षासङ्ग्रहः कश्चन प्रकाशितः । यस्मिश्च माध्यन्दिन- शाखासम्बन्धिन्य एकविंशतिशिक्षाः, ऋग्वेदसम्बन्धिन्येका, नारदगोतमलोमशशिक्षास्तिस्रः सामशाखासम्बन्धिन्यः, अथर्वशाखासम्बन्धिन्येका माण्डूकशिक्षा च विद्यन्ते। इमा याज्ञवल्क्य- वसिष्ठ-कात्यायन-पराशर-पाणिनिप्रभृतिभिः प्रवर्तिताः। काश्चन चिरन्तनर्याज्ञिकप्रवरैः प्रणोता उपलभ्यन्ते । सर्वलक्षणमञ्जरीकारासशिक्षाव्याख्यातृभिः श्रीराजाघनपाठिभिः स्वव्याख्याया- मुल्लिखिताः शिक्षा बह्वयः- प्रथमा व्यासशिक्षा च लक्ष्मीशिक्षा द्वितीयिका । भारद्वाजी तृतीया च शिक्षारण्या तुरीयिका ॥ पञ्चमी शम्भुशिक्षा च षष्ठी चापिशलो तथा । सप्तमी पाणिनेश्शिक्षा चाष्टमी कौशली तथा । वासिष्ठी नवमी चैवं नव शिक्षाः प्रकीर्तिताः। यो जानाति भरद्वाजशिक्षामर्थसमन्विताम् । स ब्रह्मस्थानमाप्नोति गृहमेघी गृहं यथा ॥ इति । कौण्डिन्यशिक्षापि काचनोपलभ्यते लध्वी। अमीषां शिक्षाग्रन्थानां विलोकनेन ज्ञायते यत्तस्य तस्य वेदस्य बह्वयः शाखा इति । तत्तच्छाखाया अध्ययनावसर एवाचार्याः स्वस्व- शिष्येभ्यः शिक्षाग्रन्थविषयान् बोधयन्तो लक्ष्येषु प्रदर्शयन्तश्च वेदेन सह गुरुमुखोच्चारणानूच्चारण- विधया शिक्षाग्रन्थानपि ग्राह्यामासुः । तेऽपि शिष्याः स्वस्वशिष्यान् । एवं गच्छति बहुतिथे काले शिष्याणां स्मरणशक्तेन्यूनतामनुभवन्तस्तात्कालिकसाधनसामग्रीरादाय शिक्षाग्रन्थविषयान् लिपि- १. तै० उ०१२ २. तत्रैव ।

वैदिकशिक्षादर्शनबिन्दुः ५ बद्धानकुर्वन् । एकामेव शाखामाश्रित्य यत्र नाना शिक्षा विरचिता विलोक्यन्ते, तत्रान्येनोत्सृष्टं गुरुपारम्पर्येण प्राप्तमेव विषयमपरो लिखतीति मुद्रितशिक्षासङ्ग्रहादवगच्छामः । अत्रैवमनुशीलनं भवितुमर्हति-रामायणमहाभारताद्यवलम्ब्य संख्यातीतानि काव्यानि नाटकानि च यथा कवयो निबबन्धुः, न तथा शिक्षाकारा ग्रन्थान् प्राणैषुः । यद्येवं तर्हि एकस्याः कस्याश्चन शाखाया अध्ययनेऽध्यापने च वैचित्र्योपलम्भस्य स्यादवसरः। न चैतदस्ति । आ च हिमवतः, आ च कुमारिकायाः समानरूपत्वमेवाध्ययनस्याध्यापनस्य च निर्दिष्टशाखाया अनुभवामः । काव्येषु नाटकेषु च तत्तत्कवेः प्रतिभावैचित्र्येण कथावस्तुनो विचित्रतामनुभवामः । अत्र च प्रतिभावैचित्र्यस्य प्रसङ्ग एव नोदेति । परम्पराप्राप्तस्य परिरक्षणं विहाय नान्यत्किमप्यु- द्देश्यं शिक्षाग्रन्थानाम् । वेदानां रक्षणं शब्दतोऽर्थश्व । शब्दतो रक्षणाय व्याकरणं शिक्षा छन्दश्चेति त्रीण्यङ्गानि, निरुक्तं ज्योतिषं कल्पश्चेति त्रीणि वेदार्थसंरक्षणायेति विभागः प्राचीनराश्रितः। व्याकरणञ्च शिक्षाया मूलं सदपि लौकिकवैदिकसाधारणम् । शिक्षा तु वेदस्य शब्दराशेः परिरक्षणाय प्रवृत्ता । तत्र देशभेदेन तेषु तेष्वाचारेषु व्यवस्थितेष्वपि प्रामाण्यबुद्धिस्तुल्यैवेति यथा होलाकाधि- करणे व्यस्थापितम्, तथैव शाखाभेदेन शिक्षाग्रन्थेषु भिन्नेष्वपि सर्वत्र प्रामाण्यबुद्धिरविकलैव । एकां तैत्तिरीयशाखामाश्रित्य शिक्षायास्तत्र कीदृशोपकारजनकतेति दर्शयामः । व्यास- शिक्षां तैत्तिरीयशाखिनस्स्वीकुर्वन्ति । यथा शिक्षाग्रन्थस्तथा प्रतिशाखं प्रातिशाख्यमपि पूर्वजैविर- चितमुपलभ्यते । शिक्षाग्रन्थस्साधारणः, प्रातिशाख्यं त्वसाधारणम् । द्विविधयोरपि ग्रन्थयो- विषयस्तु समान एव । किन्तु प्रकृतिपाठव्यवस्थायै प्रातिशाख्यम् । संहितापाठ: पदपाठः क्रमपाठश्चेति त्रयः प्रकृतिपाठाः, जटाधनादिपाठा विकृतिपाठा इति स्थितिः । संहितान्तर्गतानि पदानि विभज्य यदा पाठः क्रियते, तदा स पदपाठ इति, 'अग्ने यं यं यज्ञं यज्ञमध्वरम् अध्वरं विश्वतः' इत्यानुलोम्येन प्रथमं द्वितीयेन, द्वितीयं तृतीयेनेत्येवंविधया पाठः क्रमपाठ इति वैदिकानां मार्गः । प्रातिशाख्यं त्रिविधमपि प्रकृतिपाठं व्यवस्थापयितुं प्रवृत्तम् । शिक्षा तु विकृतिपाठ- नियामिका । विकृतिपाठे पदानामानुलोम्येन प्रातिलोम्येन च पाठः कर्तव्यो भवति- 'अग्ने यं यमग्न अग्ने यं यं यज्ञं यज्ञं यं यं यज्ञम्, मज्ञमध्वरमध्वरं विश्वतो विश्वतोऽध्वरमध्वरं विश्वतः' इत्येवं पदानामनुलोमविलोमौ भवतः । अत्र विकृतिपाठावसरे पदसन्धिस्वरसन्धिद्वित्वणत्व- यत्वादिनियामकतया शिक्षाग्रन्थः प्रवर्तित इत्येकेनापरस्य न गतार्थता भवति । क्रमपाठपर्यन्तं समग्रायाश्शाखाया गुरुमुखोच्चारणानूचारणविधयवाध्ययनं भवति । विकृतिपाठस्य तु गुरुणा सह शिष्याणां पाठः । तत्र सन्धिणत्वयत्वादिस्थलेषु शिष्याणां स्खलने सति गुरुस्तद्रीकरोति । एवं प्रतिपदं प्रतिवर्णं प्रतिस्वरं प्रतिमात्रां च रक्षितुं जागरूका यथा भवेयुरध्यापका अध्येतारश्च, तथा शिक्षा नियमानुपदिशति । अत एवोक्तम्- पदक्रमविशेषज्ञो वर्णक्रमविचक्षणः। स्वरमात्राविभागज्ञो गच्छेदाचार्यसंसदम् ॥ ध्वनिः स्थानञ्च करणं प्रयत्नः कालता स्वरः। देवताजातिरेतेश्व वर्णा ज्ञेया विचक्षणः ।। इति ।

वैदिकशिक्षादर्शनबिन्दुः तत्र व्यासशिक्षायां पट्षष्टिसंख्याकान् वर्णान् प्रविभज्य तेषु प्लुतवर्णान् विसर्गमोङ्कार जिह्वामूलीयोपध्मानीयौ शुद्धानुस्वारं गकारसंयुक्तानुस्वारं चतस्रस्स्वरभक्ती: रङ्गी चतुरो यमांश्च विहायावशिष्टान् अष्टाचत्वारिंशद्वर्णान् पञ्चसु राशिषु परिगणय्य तत्रैकैकस्य वर्णस्य देवता विहिता:-'अनिलाग्निमहीन्द्वर्काः पञ्चानां त्वधिदेवताः' इति । वायुदेवताक:-अ आ ए क च ट त प य षाः, अग्निदेवताका:-इ ई ऐ ख छ ठ थ फ र साः, भूदेवताकाः-उ ऊ ओ ग ज ड द ब ल हाः, चन्द्रदेवताका:-ऋ ऋ औ घ झ ढ ध म व ळाः, सूर्यदेवताकाः-लु ङ अ ण न म क्ष शाः । तदस्य विधायकं व्याससूत्रम.-'अदादेत्प्रथमयषाः, लुनासिक्यक्षशोत्तराः' इति । अत्र प्रथमपादेन प्रथमो राशिः, द्वितीयपादेन पञ्चमो राशिश्च प्रदर्शितः । लुनासिक्यक्षशा उत्तरा येभ्यस्त इति यच्छब्देन मध्यमास्त्रयो राशयः सिध्यन्ति । एवम्- ब्रह्मजाति वेदुच्चः क्षत्रजातिस्तु नीचकः । वैश्यजातिर्भवेत् स्वारः शूद्रस्तु प्रचयः स्मृतः ॥ इति व्यासाचार्यः । उदात्तानुदात्तस्वरितप्रचयानां जाती: प्रदर्य सर्वेषां स्वरवर्णानां वर्गप्रथमद्वितीयवर्णानां ब्रह्मजातित्वम्, वर्गतृयीयचतुर्थवर्णानां क्षत्रजातित्वम्, वर्गोत्तमानामन्तस्थानाञ्च वैश्यजातित्वम्, अनुस्वारविसर्गोष्मणामवरजातित्वञ्च व्यवस्थापयति । तत्तद्वर्णानां या या जातिनिश्चिता, तस्या उच्चारणावसरे यदि व्यतिक्रमो भवेत्, तर्हि तज्जातिसंहारकत्वदोषः, तत्तज्जातिपरिरक्षणञ्च मवतीति शिक्षाकार उपदिशति- यदन्यजातिरुच्येत तत्तत्संहारको भवेत् । यज्जात्युच्चारणे तेषां लज्जातिपरिरक्षणम् ॥' इति । व्यासशिक्षोक्तनियमानुसारेण 'अग्नि' इति पदस्य संरक्षणं वैदिकाः कथं कुर्वन्तीति प्रदर्शयितुमिच्छामि- 'स्वरपूर्व इयाद् द्वित्वं व्यञ्जनं व्यञ्जनोत्तरे२ इति । विध्यनुसारेण 'अग्निः' अकारोत्तरगकारस्य द्वित्वे जाते 'अग्निः' इति निष्पद्यते। उत्तमपरादनुत्तमात् स्पर्शाद्यमो भवतीति नियमेन तृतीययमो गकारः। तथा च 'अग्ग्ग्निः' इति निष्पन्नम् । अग्निशब्दस्यान्तोदात्तत्वात् प्रथमोऽनुदात्तः । 'अग्ग्ग्निः' इति स्वरयुक्तं पदं सम्पन्नम् । अस्य व्यासशिक्षोक्तक्रमेणेदं स्वरूपं भवति-शुद्धवर्णक्रमः, स्वरवर्णक्रमः, मात्रावणक्रमः, अङ्गवर्णक्रमः, वर्णसारक्रमश्चेति पञ्चसु क्रमेषु पञ्चमप्रकारे प्रदर्शितेऽवशिष्टक्रमाणां स्वरूपं स्वयं ज्ञातं भवतीति पञ्चमक्रम एव प्रदर्श्यते । संवृतकण्ठोत्थित-संवाराख्यबाह्यप्रयत्नसहित-नादध्वनिजनित-नात्युपसंहृत-हनुस्थान-तथा- भूतोष्ठकरण-संवृतप्रयत्लैकमात्रिक-अग्निदेवताक-क्षत्रियजातितमोगुणसहित-कनिष्ठिकाङ्गुल्याद्यरेखा- न्यासयोग्य शरीरह्रासैधित-गळबिलविनिस्सृतमृदुध्वनिक-वृषभरुततुल्य-ऋषमस्वरहेतुभूत-हृदय- स्थानोत्पन्नह्रस्वानुदात्तस्वरगुणक -- वायुदेवताकब्राह्मणजात्यकार -- अर्धमात्रिकविराम – संवृत- - mom १. व्यासशिक्षा-४९९-५००। २. व्यासशिक्षा-३३७ ।

७ वैदिकशिक्षादर्शनबिन्दुः कण्ठोत्थितसंवारघोषाल्पप्राणाख्यबाह्यप्रयत्नसहित-नादध्वनिजनित-हनुमूलस्थान-जिह्वामूलकरण- स्पृष्टप्रयत्नद्वयणुमात्रिक--पूर्वाङ्गभूत-भूमिदेवताक-क्षत्रियजातिकगकारद्वित्व - तादृशध्वनिजनित- संवृतनासिक - हनुमूलस्थान -- जिह्वामूलकरण - स्पृष्टप्रयत्नाणुमात्रिक - पराङ्गभूततृतीययम- संवृतकण्ठोत्थित-संवारघोषाल्पप्राणाख्य- बाह्यप्रयत्नसहित-नादध्वनिजनित-विवृतनासिकोत्तरदन्त- मूलाधोभागस्थान-जिह्वाग्रकरण-स्पृष्टप्रयत्नार्धमात्रिक-पराङ्गभूत-सूर्यदेवताक-वैश्यजातिकनकार- संवृतकण्ठोत्थित-संवाराख्यबाह्यप्रयत्नसहित-नादध्वनिजनित-तालुस्थान-अत्युपसंहृतकल्पौष्ठसहित- जिह्वामध्यकरण - विवृतप्रयत्नैकमात्रिकभूमिदेवताक-ब्राह्मणजाति - सत्त्वगुणसहित-तर्जन्यङ्गुल- मध्यरेखान्यासयोग्य-शरीरायामश्लक्ष्णीकृतगळबिलविनिस्सृत-परुषध्वनिक-अजारुततुल्य-गान्धार- स्वरहेतुभूत-मूर्धास्थानोत्पन्नोदात्तस्वरगुणक अग्निदेवताक-ब्राह्मणजातिक-इकाराणुमात्रिकविराम- विवृतकण्ठोत्थित-विवाराघोष-महाप्राणाख्य-बाह्यप्रयत्नविशिष्टश्वासध्वनिजनित-कण्ठोपरिभागस्थान- तदधोभागकरण-विवृतप्रयत्नार्धमात्रिक-पूर्वाङ्गभूत--सूर्यदेवताक-शूद्रजातिक-विसर्जनीयद्विमात्रिक- विरामा इति 'अग्रिग्नः' । प्रतिपदमेवं वैदिकानां रक्षण प्रकारः। सर्वस्यास्य नियमा मत्सम्पादितायां व्यासशिक्षायां स्पष्टं निर्दिष्टाः । अधुनापि जीवन्ति कतिपये वैदिका निर्दिष्ट क्रमेण वेदसंरक्षकाः । इमे चात्र शिक्षाश्लोका:- व्याघ्री यथा हरेत् पुत्रं दंष्ट्राभ्यां न च पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वान् प्रयोजयेत् ॥ नातिव्यक्तं न चाव्यक्तमेवं वर्णानुदरीयेत् । पयःपूर्णमिवामनं हरन् धीरो यथामति ॥ सुव्यक्तस्सुस्वरो धैर्य तच्चित्तत्वं चतुर्गुणाः । एतद्युक्तः पठेद् वेदं स वेदफलमश्नुते ॥ ध्वनिः स्थानञ्च करणं प्रयत्नः कालता स्वरः । देवता जातिरेतैश्च वर्णा ज्ञेया विचक्षणः ।। संहिताञ्च पदञ्चापि क्रमञ्चैव जटां पठन् । लक्षणशस्तवाप्नोति ब्रह्मज्ञानं हि शाश्वतम् ॥ इति । अत्रायं निष्कर्पः-प्रदर्शितेऽग्निपदे प्रायो वाय्वादयो देवताः, चतस्रश्च जातयो मिलिता इति निर्दिष्टविधयावगतमस्माभिः । विभिन्ना अपीमा जातयो देवताश्च संहत्यकमर्थमवबोधयन्तीत्यपि नाप्रत्यक्षम् । वेदगतमेकैकं पदममुमर्थमयबोधयति । सति चैवमस्माकं राष्ट्रस्य मस्त । को वा वज्रपातो जातः ? वनपातजनितकष्टमसहमाना राष्ट्रनायका हस्तावुद्यम्योच्चैराक्रोशन्ति-'यज्जा- तयस्समुच्छेत्तव्याः, सङ्करविवाहाः कारयितव्याः' इति । तथा नियोक्तुं शक्यते, किन्तु- आबद्धकृत्रिमसटाजटिलांसभित्तिरारोपितो मृगपतेः पदवीं यदि श्वा । मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ॥ इतीदं विचारणीयम् । शिक्षाकाराणां धर्मग्रन्थप्रणेतृणाञ्च वचनानुसारेण सर्वा अपि जातयो यथाधिकारं मिलित्वा राष्ट्र समुन्नतये यतेरन्, तहि कोऽयमशनेः पातो भविष्यति । निश्चितमहं ब्रवीमि - - वैदिकशिक्षादर्शनबिन्दुः यदि नाम भारताद्वेदविद्या यस्मिन्नेव दिने नश्येत् तस्मिन्नेव दिने वज्रपातस्सुनिश्चितः । वेदानो- कहस्य मूलमेव छेत्तुं प्रयतितवन्तो लोकायतिकाः, न तेषामुद्यमस्साफल्यमवायत् । अद्य जाता: केचन यथाजाताः कथयन्ति-यतैत्तिरीयशाखा न वेदः, सर्वोऽपि ब्राह्मणभागो न वेदः, मन्त्रान् विरच्य केचन संहितायां योजितवन्तः, योजितानाञ्च तेषां विनियोगाय नूतनानि कर्माणि प्रवर्तितानि, प्रथमं सात्त्विकानि कर्माण्यैष्टिकान्येवासम्, अनन्तरं सौमिकान्याडम्बराणि वैदिकैः कल्पितानीति । तैत्तिरीयशाखाध्यायिनो भारते सर्वत्र व्याप्तास्सन्तीति न मया वक्तव्यम् । ये च स्वशाखाविहितानि स्मार्तानि जातकर्मप्रभृत्योर्वदेहिकान्तानि कर्माणि, श्रौतानि दशंपूर्णमास- चातुर्मास्यज्योतिष्टोमादीनि च कर्माणि यथावन्निवर्तयन्तोऽद्यापि दृश्यन्ते । प्रवरोच्चारणावसरे गोत्रं सूत्रं शाखाश्चाधुनापि निर्दिशन्ति । तत्र तत्र वङ्गदेशे, असमदेशे चाहमन्वभवं यदात्मन- स्तैत्तिरीयशाखावलम्बित्वं व्यवहरतः श्रोत्रियान् । स्वस्वकुलपरम्परागतः खल्वयं व्यवहारः । महाराजदशरथस्य महिष्याः कौशल्याया: सुमित्रायाश्च पुरोहितस्तैत्तिरीयशाखी आसीदिति महर्षिवाल्मीकिपद्यादवगच्छामः कौसल्याञ्च सुमित्राञ्च भक्तः पर्युपतिष्ठति । आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ॥ इति । आदिकाव्यमिदं रामायणम् । तच्च- वेदवेद्ये परे पुंसि जाते दशरथात्मजे । वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना । इति वचनेन वेदरूपम् । तत्र तैत्तिरीयशाखाया उल्लेखः। तत्रापि तैत्तिरीयाणामाचार्य इत्यभिधानेन पुरोहितस्य तस्याचार्यत्वम् पदक्रमविशेषज्ञो वर्णक्रमविचक्षणः। स्वरमात्राविशेषज्ञो गच्छेदाचार्यसंसदम् ।। इति शिक्षाशास्त्रोक्तं वाल्मीकिरभिप्रेतीति गम्यते । अत्र 'तैत्तिरीयाणाम्' इति बहुवचनान्तं पदं विशेषेण ध्यानमर्हति । अधीततैत्तिरीय- शाखानां बहूनामयमाचार्य इत्यवगम्यते । अयमप्याचार्यो गुरुमुखादधीततैत्तिरीयशाव एव स्यात् । एवं रामायणाद् बहोः कालात् पूर्वमेव भारते तैत्तिरीयशाखा प्रचारपथ आसीदिति निस्सकोचं वक्तुं शक्यम् । तैत्तिरीयशाखानुसारेणापस्तम्बाचार्यो बोधायनाचार्यश्चाधानाग्नि- होत्रप्रभृतिचयनान्तानां कर्मणां श्रौतसूत्राणि प्रणीतवन्तौ । व्यासाचार्येण च तैत्तिरीयशाखायाः कृते शिक्षाग्रन्थं प्रणीयास्मानन्वग्रहीत् । तदनुसारेण कृताध्ययनाः चयनान्तकर्मानुष्ठातारश्च संख्यातीता भारतेऽवर्तन्त, वर्तन्ते चेदानीमपि । अस्यां परिस्थितौ विंशतितमे शतके कश्चन यथाजातः, यश्च प्रथमं पदार्थमाचमनप्यनुष्ठातुं न जानाति, स्वगोत्रं सूत्रञ्च न परिचिनोति, स कथयति निस्सङ्कोचं लिखति च यतैत्तिरीय- १. वाल्मीकीयं रामायणम् । २. तदेव।

वैदिकशिक्षादर्शनबिन्दुः - खा न वेदः, आपस्तम्बेन मन्त्रान्निर्माय तद्विनियोगाय कर्माणि च प्रवर्तितानीति । व्यास- क्षाया यान्युदाहरणानि प्रत्युदाहरणानि च तानि सर्वाणि तैत्तिरीयशाखामवलम्ब्यैव सन्तीति तिरोहितं व्यासशिक्षाध्येतृणाम् । विशेषेणतस्य प्रलापस्य साधूत्तरं डॉ. मण्डनमिश्रेण मदन्ते. सिना न्यायप्रकाशभूमिकायां दत्तमिति नाहमस्मिन् विषये लेखनी व्यापारयितुमभिलषामि । किञ्च गच्छध्वं सं वदध्वं सं वो मनांसि सं वो मनांसि जानताम् । देवा भागं यथा पूर्वे सजानाना उपासते। समानो मन्त्रः समितिस्समानी समानं मनः सह चित्तमेषाम् ॥ गादिमन्त्रो यमाशयमुपदिशति तमेव शिक्षामन्योऽप्यवद्योतयतीव । शिक्षासु क्वचिदागम: क्वचिद् द्वित्वं क्वचिल्लोपश्च निरूप्यन्ते । 'त्रपु च मे' 'मिथु च मे पत्र 'पुश्च मे' 'मिथुश्च में' इति शकारागमः, 'विभु च मे' "प्रभु च मे' इत्यत्र तद्भावः, श्चन्द्र दस्म' इत्यत्र शकारागमः, 'प्र चन्द्रमाः' इत्यत्र तदभावः । एवं 'षट् सम्पद्यन्ते' 'विद्वान् मेन' 'प्रत्यङ् सोमः' इत्यादौ 'षट्सम्पद्यन्ते' 'विद्वान्सोमेन' 'प्रत्यङ्सोमः' इत्यागमवर्णा के समुपदिश्यते । 'विश्वारासि' 'प्रावणेभिः' इत्यादौ दीर्घः । 'गर्भो अस्य' 'यमो अस्य' पादौ पूर्वरूपाभावः । 'ऋक्च में' 'दधिक्रावणः' इत्यादौ द्वित्त्वम् इत्यादीन्यनेकानि वर्ण- रूपाणि ज्ञेयत्वेन शिक्षासूपदिश्यन्ते । उदात्तोच्चारणे देहदैर्ध्यम्, अनुदात्तोच्चारणे देहस्य कोचः, उदात्तानुदात्तयोस्समाहारः समावेश: समावेशः स्वरितस्य, उदात्तश्रुतित्वं स्वरितस्येतीमे रधर्मा अवबोध्यन्ते । उदात्तप्रचययोर्मुखं स्थानम्, अनुदात्तस्य हृदयम्, प्रचयस्य च शिर त स्वराणां स्थानानि । 'प्रजापतिः' इत्यत्र चत्वारोऽपि स्वरा वर्णाश्च स्वस्वजातिदेवताभिस्सह लिता अस्मानुपदिशन्ति, भवन्तोऽप्येवमेव मिलिता राष्ट्रस्य कार्याणि साधयन्त्विति । अनुदात्त- रः क्वचन विक्रमसंज्ञां लभते । द्वयोरुदात्तयोद्वयोः स्वरितयोः, उदात्तस्वरितयोः, स्वरितो- तयोः, प्रचयस्वरितयोर्मध्ये योऽनुदात्तः स विक्रम इत्युच्यते । स्वरितस्वर:-अभिनिहतः क्षेपः, श्लष्टो नित्यश्चेति विभक्तः । एतज्ज्ञानं छात्राध्यापकयोरध्ययनावसर आवश्यकम् । एवम् ---- हस्तेन वेदं योऽधीते स्वरवर्णार्थ संयुतम् । ऋग्यजुस्सामभिः पूतो ब्रह्मलोके महीयते ॥ इति । फलश्रुत्या सामवेदे यथा हस्तस्वरस्तथा ऋग्यजुर्वेदयोरप्यस्तीति ज्ञायते। वर्णा- मुच्चारणे कालनिर्णयोऽपि वर्णितः शिक्षासु । वन्यकाकेनोक्त: काल एकमात्रः, वायसोक्तो मात्रः, मयूरोक्तस्त्रिमात्र इति मात्राकालास्त्रयः । मात्रायाश्चतुर्थो भागोऽणुः, अर्धमात्रस्तु क्तमात्रः कालः। प्रतिवणं कालमवगत्य तदुच्चारणेन फलविशेषोऽपि शिक्षायां प्रतिपादितः । च्चारणावसरे च न हि उ वा स्म ह ईम् वै नु इत्येतेषां पूर्वपदेन यदि संहिता तर्हि पूर्वतो श्रामो न कर्तव्य इति नियमः । एवं पूर्वोत्तरवर्णानामङ्गाङ्गिभावोऽपि विशेषेण शिक्षाकारा ऋग्वेदः-१०११९१।२-३ । २ si १० वैदिकशिक्षादर्शनबिन्दुः उपदिशन्ति । अङ्गाङ्गिभावोऽयमस्मभ्यमुपदिशति-यल्लोकेऽपि सम्भूर्यकं कार्य राष्ट्रसमुन्नतिरूपं कर्तुमुद्यता जनाः मिथोऽङ्गाङ्गिभावमापन्नाः कुर्युरिति । महर्षिर्जेमिनिरौत्पत्तिकसूत्रे 'तस्य ज्ञानमुपदेशः' इति कथयन् उपदेशपदेन विशिष्ट- मुच्चारणमभिप्रैति । उच्चारणे वैशिष्टयञ्च नियतस्वरवर्णक्रमादिनियमाधीनम् । एतादृश- मुच्चारणमनुशिष्याणामुच्चारणं यत्तदेव वेदाध्ययनम् । अत एतादृशोच्चारणव्यापारे शिक्षा- ग्रन्था महान्तमुपकारं जनयन्तो वेदाङ्गत्वेन परिगण्यन्ते । एवं भगवतश्शासकस्य वेदपूरुषस्य संरक्षणाय शिक्षादिरूपेषु दुर्गेषु विद्यमानेष्वपि राजानं ग्रहीतुं चेष्टन्ते सम्प्रत्यपि बहवः । एतेषां यत्नेन न कापि हानिर्भविता श्रुतेर्मातुः । अस्माकं यत्नश्चेच्छिथिलस्तहि अध्येतृणामभावेन नष्टाशाखा इवावशिष्टा अपि शाखा विलयं गच्छेयुरिति महती भीतिः । भीतेरस्या अपाकरणाय संस्कृतविश्वविद्यालयेन विशेषेण ध्यान देयम् । यो व्यतिक्रमस्सम्प्रति वेदाध्ययने परिलक्ष्यते स विश्वविद्यालयेन दूरीकर्तव्यः । तदर्थ योग्या आचार्या नियोक्तव्याः, पूर्वोक्तनियतवेदाध्ययनपरिपाटी परिचालनीया । वेदाध्येतारः छात्रा यथा परीक्षापिशाचिकया ग्रस्ता न भवेयुः, तथाविधो मार्ग आविष्कर्तव्यः । अत्र विशेषेण कुलपतिमहोदया दृष्टि निक्षिपेयुरिति विश्वसिमि । .

द्वितीयं प्रवचनम् वेदविषये पाश्चात्त्यकृतविमर्शसमीक्षा - पूज्यतमाः कुलपतयः, सभासदः पण्डितपुङ्गवाः, प्रेयांसश्छात्राश्च ! अद्य वेदविषये पात्यैः कृतं विमर्शमवलम्ब्य तत्समीक्षात्मकं किञ्चिदिव प्रस्तोतुमभिलषामि । वेदस्तु न केवलं भारतवर्षस्य, किन्तु विश्वस्य जगतो महानिधिः, निखिलविद्यास्थानाना- मुद्गमस्थानम्, अक्षय्यसुकृतावाप्तये परमं साधनम्, दुःख त्रयदलनाय महाहेतिः, सांसारिक- रोगापनुतये निरुपममौषधम्, सामाजिकव्यवस्थाया मार्गदर्शी, सच्चारित्र्यस्य शिक्षायाश्च गुरुरिव ग्राहकः, कुमार्गगामिनां मानवानामुपदेशक इव सन्मार्ग प्रवर्तकः, भूवलयस्यायं कल्पतरुः। पवित्र- मिमं शब्दराशि मूलमाश्रित्य प्रवृत्तस्सर्वोऽपि संस्कृतवाङ्मयनिवहः । अनेन समुपदिष्टव सरणि- स्सकलजनहितसाधिका । अस्मा एव स्पृहयन्ति निखिला अपि शिक्षाशास्त्रिणः । खनेविविधानि रत्नानीवास्मादेव तत्त्वान्युद्धृतानि रत्नानीवास्मादेव तत्त्वान्युद्धृत्य दार्शनिकाः पौराणिका अन्ये च समाजपरिष्कार आपस्तम्बादयः प्रकाशयाञ्चक्रुः । अस्यैव साहाय्येन सर्व भारतवर्ष सकललोकस्पृहणीयमनितरसाधारणञ्च गौरवमद्याप्याबिभर्ति । अस्मिन्नेवास्माकं भारतमातुश्च प्राणा निहिता वर्तन्ते । नैकरूपाणामपि भारतीयानामेकरूपत्वापादने महासूत्रस्थानीयोऽयं शब्दराशिः। यथा हि वायुना सूत्रेण सर्वाणि भूतान्याबद्धानि सन्ति, तथैवानेनापि वेदात्मना सूत्रेण मिथो विरुद्धान्यपि दर्शनानि पुराणानि साम्प्रदायिकतत्त्वानि च सुदृढमाबद्धानि । एक एवात्मा सर्वभूतात्मा, एक एव देवोऽग्निमित्रवरुणेन्द्रादिनानारूपाणि धत्ते, तथैवायं शब्दराशिविविधविद्यास्थानानां रूपाण्याधत्ते । यथा रत्नाकरस्य वीचयो रत्नाकरादनन्यत्वं भजन्ते, तथैवास्मात् समुद्भूतानि शास्त्रजालानि । बहुरूपास्स्यन्दमाना नद्यः समुद्रराजेनैकरूपतामापद्यन्ते, तथैव नानारूपाण्यपि दर्शनानि वेदाख्ये शब्दराशी निलीयकरूपता भजन्ते । एक सद्वस्तु द्रष्टुणां कल्पनाभेदेन भिन्न प्रतिभाति, एकैव माता निरूपकभेदेन भिन्नानि नामानि रूपाणि च परिगृह्णाति, तथै र जननी श्रुतिरपि । वेदविषये भारतीयानां संख्यावतां दृष्टिरन्यादृशी, विदेशीयानां तदनुयायिनाञ्च भारती- यानां दृष्टिरन्यादृशी। मिथो विरुद्ध इमे दृष्टी भवतः । एका चाकृत्रिमत्वदृष्टिरपरा च कृत्रिमत्व- दृष्टिः । एकत्रानुपहसनीयत्वम्, अपरत्र चोपहसनीयत्वम् । क्वचिदर्था अपि शब्दाननुधावन्तीति भारतीया मन्यन्ते, शब्दा एव सर्वत्रार्थाननुधावन्तीत्यपरे। अलौकिकार्थावेदकत्वं वेदस्येति भारतीयाः, लौकिकार्थावेदकत्वमेव वेदस्येत्यन्ये । शब्दार्थयोनियतो नित्यश्च सम्बन्ध इत्येके, सोऽनियतोऽनित्यश्चेत्यपरे। मन्त्रद्रष्टुत्वं महर्षिषु पश्यन्ति भारतीयाः, कर्तृत्वञ्च निर्धारयन्ति तदितरे। एवं दृष्टिभेदे मतभेदे च मुख्यं कारणं यद्भारतीयानां स्वोयत्वबुद्धिर्वेदसन्दर्भ, पाश्चात्त्यानां तु परकीयत्वबुद्धिः। यादृशोभ- निवेशः, यादृशी च श्रद्धा भारतीयानां वेदसन्दर्भ, न तादृशोऽभिनिवेशो न च तादृशी श्रद्धा . .

. . १२ वैदिकशिक्षादर्शनविन्दुः देशान्तरीयाणां भवति । साम्प्रतिको परिस्थितिस्त्यज्यतां प्राचीनभारते स्वाध्यायाध्ययनं नियत- कर्तव्येष्वनन्यतममासीद् द्विजानाम् । स्वाध्यायाध्ययनव्यापारात् प्रच्युतिमहते दोषाय प्राक् पर्यगण्यत । सहस्रशः शतकानि वत्सराणां स्वाध्यायाध्ययनतन्तुमविच्छिन्नं परिरक्षन्तः पूर्वजा यापयाम्बभूवुः । नित्यनैमित्तिककर्मणां यथायथमनुष्ठानम्, मीमांसया वेदवाक्यार्थावधारणं तत्परिशीलनमित्यादीन्यनेकानि तेषां परिरक्षणसाधनानि । एतेषु यदा किञ्चिच्छेथिल्यमन्वभूयत पूर्वजैः, तदा परम्परासमागतं क्रममवलम्ब्य सूत्रलक्षणग्रन्थाः प्रणीताः । कल्पसूत्राणां स्वरवैदिकप्रक्रियाया अन्येषाञ्च लक्षणग्रन्थानां प्रातिशाख्यप्रभृतीनां विरचनात् पूर्वमपि पूर्वोक्तस्तन्तु रविच्छिन्न एवासीदिति दृढतरैः प्रमाणनिरूपयितुं शक्यते । परम्परया समागतानेव नियमान् सङ्गृहीतवन्तः प्राक्तनाः । प्रतिपद्-अष्टमी-पर्वकाल: सङ्क्रान्तिरित्यादीनि दिनानि मन्त्राध्ययने ऽनध्यायाः, किन्तु तेषु कालेषु श्रौतानि स्मार्तानि च कर्माण्यनुतिष्ठन्तो मन्त्रानुच्चारयन्त एवाभवन् । 'स्वाध्यायेऽनध्यायो मन्त्राणां न कर्मण्यर्थान्तरत्वात्' इत्यापस्तम्ब- सूत्रात् पूर्व ग्रहणधारणयोरेवाध्ययनयोः प्रतिपदादयोःनध्यायाः, न तु कर्मानुष्ठान इति नियम श्रोत्रिया न प्रज्ञातवन्त इति वक्तुं न शक्यम्, किन्तु याज्ञिकानामाचारं यथायथं जाननापस्तम्बा- चार्यस्सूत्रयतीत्येष्टव्यमेव । श्रौतकर्मणामनुष्ठाने सोमपूर्वत्वमिष्टिपूर्वत्वञ्चासीद् याज्ञिकानाम् । तदेव सूत्रयति सूत्र- कार:-'मन्त्रान्तैः कर्मादीन् सन्निपातयेत्', 'आधारे धारायाञ्चादिसंयोगः, विकल्पो याज्यानु- वाक्यासु' इत्यादयो नियमाः सम्प्रदायत: प्राप्ता एव महर्षिभिलिखिताः । जित्-नित्-प्रत्ययान्तानां पदानामायुदात्तत्वं 'नित्यादिनित्यम्' इति सूत्रप्रवृत्तः पूर्वमेव छात्रानध्यापका ग्राहयन्ति स्म । स्थलविशेषेष्वनुस्वारागमः, तस्य च गकारसंयुक्तत्वम्, यथा-'अग्नी, रफ्सुषदः' 'प्रत्युष्ट रक्षः', 'स", समिधुवसे' इत्यादौ । व्यासशिक्षयामप्युक्तम्---- रेष्मभावात्तु नात्पूर्व लुप्तान्माच्च तदुत्तरात् । नकाराद्याकृतेर्लुप्तादनुस्वारागमो भवेत् ॥ अनुस्वारो यजुष्येवमध्यायेऽपि यदा भवेत् । तदा गकारसंयुक्तो न शान्तिश्शामरूपतः ॥' इति व्यासशिक्षातः पूर्वमेवाध्ययनाध्यापनसम्प्रदाय आसीदित्येव स्वीकर्तव्यम् । स्वरप्रक्रिया वैदिकीप्रक्रिया लक्षणग्रन्था वा सम्प्रदायात् प्राप्तानि लक्ष्याण्यवलम्ब्यैव महर्षिभिः प्रवर्तिताः । अन्यथा 'दक्षिगाचारेण कर्तव्यम्', 'यज्ञोपवीतिना कर्तव्यम्' इत्यादि- स्मृत्युदयात् पूर्व याज्ञिकाः श्रौतानि स्मातानि च कर्माणि वामहस्तेन निवीतिनः प्राचीमा वोतिनो वा समाचरन्तोऽभवन्निति शङ्काया अवसरो भवेत् । अत एवमादीनां ग्रन्थानां प्रादुर्भावात् पूर्व- मपि सुदृढः कश्चन सम्प्रदाय आसीदित्यनुमानं नासङ्गतम् । न चास्य सम्प्रदायस्य जन्म- पत्रिका केनापि कार्तान्तिकेन निर्मातुं शक्या । न चाद्यावधि केनापि निश्चित्येदं निरूपयितु. मपार्यत यद् बीजं प्रथमम् उत वृक्ष इति । अनिदम्प्रथमताकात् कालात् प्रवृत्तानां पदार्थानां निश्चये नान्यत् किञ्चित् साधनं भवितुमर्हति ऋतेऽविच्छेदेन परिप्राप्तायाः परम्परायाः । १. व्यासशिक्षा-२३७ ।

वैदिकशिक्षादर्शनबिन्दुः १३ किञ्च, वेदाध्ययनकतॄणां भारतीयानां वेदग्रन्थपठितृणामाधुनिकानाञ्च भूयान प्रभेदः । अध्ययनं पठनञ्च नैकरूपे भवतः । गुरुमुखोच्चारणानूच्चारणव्यापारेऽध्ययनपदप्रयोगः शास्त्रविदां सम्मतः, पठनपदन्तु वर्णवाचनरूपे साधारणव्यापारे प्रयुज्यते । असाधारणाध्ययनव्यापारवद्भिरेव चिरन्तनी सा परम्परा ज्ञायते, न तु केवलं पठितृभिः, नियतस्वरवर्णक्रमविशिष्टाया आनुपूर्ता अधिगमनेऽध्ययनव्यापारः, तद्रहिताया आनुपूर्व्याः शब्दतोऽर्थतो वाधिगमने पठनव्यापारः । स्वरवैदिकव्याकरणप्रातिशाख्यलक्षणग्रन्था असाधारणेऽध्ययनव्यापार एवोपयुज्यन्ते । अथवा ते ग्रन्था एवाध्ययनस्यासाधारण्यं प्रतिपादयितुं प्रवृत्ताः । 'नित्यादिनित्यम्' इति सूत्रोक्तो नियमोऽध्ययनव्यापार एव समन्वितो भवति, न केवलं पठनव्यापारे । नियमानां ज्ञानमन्यत्, तेषां प्रयोगात्मना परिपालनमन्यत् । परिपालयितृ- भिरेव सा परम्परा संरक्ष्यते, न केवलं ज्ञानवद्भिः । विदेशीयास्तदनुयायिनश्च कामं नियमज्ञान- वन्तो भवेयुः । सत्यमेव ते सुपरिश्रम्य शाब्दबोधं सम्पादितवन्तः स्युः । स्वीयविमर्शदृष्टया वेदविषये यत्किमपि लिखितवन्तो भवेयुः; किन्तु वेदवाक्यानामर्थप्रतिपादनाय निर्णयाय वा या सामग्री निगमनिरुक्तव्याकरणमीमांसादिरावश्यिकी, तामनादृत्यैव लेखनी व्यापारयामासुः । 'अज एकपाद देवः' इत्यस्य 'एकपादयुक्तो मृगः' ( One fooled goat ) इति ग्रिफिथ्- महोदयो ब्रूयात् । नूतनस्य पदार्थस्याविष्रे बोधने वा क्वचित् सत्यमस्ति वैचित्र्यम् । नूनं तत्र प्रतिभायाः कौशलं परिगण्येत, किन्तु तदित राविरोधेनैव प्रतिपाद्यमानं वैचित्र्यमावहेत् कौशलं वा प्रकटयेत् । सत्यपि विरोधे तत्परिहाराय भूयांस उपायाः समुपदिष्टास्सन्ति शास्त्रेषु । तानादाय तत्र तत्र प्राप्तं विरोधं प्रशमयितुं यतन्ते दार्शनिकाः। नवीनाविष्कारे परिहारोपायाः, नापि तत्प्रशमने कियानपि यत्नः । प्रत्युत विरोधमेवावलम्ब्य वेदानामितस्ततो नयनं कुर्वन्ति, तेषामुपहसनीयत्वञ्चाविष्कुर्वन्ति नवीनाः । वेदानां सन्निकृष्टकालत्वं कृत्रिमत्वञ्चेति नाद्यतनमिदम्, चिरादेवमादयश्शङ्काः प्रवर्तन्ते स्म, तासां परिहाय भूयसो सामग्री एकत्रीकृता शास्त्रकारैः । तत्र च सुमहत्साफल्यमप्यवाप्नुवंस्ते । एतेषां विचारधारासु परिशील्यमानासु स्फुट मेवं निर्णेतुं शक्यते-ऋग्यजुस्सामाथर्व- भेदेन विभक्तेषु चतुर्पु वेदेषु संहितामागानां विवरणपराणि ब्राह्मणानि सन्ति नियतानीति प्रतीयते । मन्त्रेष्वधीयमानेषु निरुक्तव्याकरणपरिष्कृतमतीनां नूनमर्थावरोधो भवेत् । किं तेन जातेनार्थावबोधेन प्रयोजनमिति जिज्ञासायां न किमपि साधूत्तरं लभ्यते । न खलु पदपदार्थाव- बोधेन प्रयोजनमिति जिज्ञासायां न किमपि साधूत्तरं लभ्यते । न खलु पदपदार्थावबोधमात्रेण मन्त्राणां प्रयोजनं सिध्यति । न हि मन्त्रभागः कथाया आख्यायिकाया वा बोधनाय प्रवृत्तः, येन कथामाख्ययिकां वावगत्य मनः प्रसीदेत् । निरतिशयेन मननव्यापारेण खलु महर्षिभिः प्राप्ता इये मन्त्राः । एतेषां दर्शनेन किल ते ऋषयस्सम भवन् । अतस्तदनुकूलं किमपि विशिष्टं कार्य मन्त्राणां वक्तव्यम् । तदपि तैरेवावघृतम् । तद्वोधकमेव भवति ब्राह्मणम् । मन्त्राणां यः क्रमस्तमनुधावन्ति ब्राह्मणानि, अथवा ब्राह्मणेन यः क्रमोऽवलम्बितस्तदनुसारेण मन्त्रा एकीकृता इति सन्देहे मन्त्रा एव प्रथमं रचिता अनन्तरञ्च ब्राह्मणानीति द्राक्प्रयाद्विदेशीयो विमर्शकः । तस्य च मते सृष्टेरादौ लब्धजन्मानो मानवा: पशुतुल्या आसन्, तृणानि पर्णानि च खादन्त- १. अष्टाध्यायी ६।१।१९७ । तु न विरोध १४ वैदिकशिक्षादर्शनबिन्दुः स्तान्येव वसानाः संस्कृत्या सभ्यतया च विहीना अभवन्, कमेण विकसिता अभूवन्निति हि सिद्धान्तः। सृष्टिशब्दः प्रलयशब्दो वा सापेक्ष इति न तस्य' बुद्धौ समारोहति । प्रलयगतस्यैव सृष्टिः सृष्टस्यैव च प्रलय इति न स समालोचयति । यदि समालोचयेन्न तर्हि संहिताब्राह्मणयोः पौर्वा- पर्यम् । प्रलयकाले येषां प्रलयस्तेषामेव सृष्टिरिति कुतः पौर्वापर्यम् ? नेप्यते यदि न हि साध- यितुं शक्यमनयोरादिमत्त्वम् । मन्त्रब्राह्मणपाठयोः प्राबल्यदौर्बल्यविचारावसरे मीमांसका मन्त्र- पाठस्यान्तरङ्गत्वं ब्राह्मणपाठस्य च बहिरङ्गत्वं व्यवस्थापयाम्बभूवुः । इमे चान्तरङ्गबहिरङ्गते पाठयोरेव न मन्त्रब्राह्मणयोः । मन्त्रविना ब्राह्मणानां ब्राह्मणश्च विना मन्त्राणां स्वरूपलामो दुष्करः । भागद्वयमपि बध्नन्त्येकेन सूत्रेण श्रौतस्मातकर्माणि । तेषाञ्चानुष्ठानाय मानवाः । मानवानां कर्मणाञ्च यथाधिकारं नियतस्सम्बन्धः । तानि कर्माणि भवन्तु कायिकानि, मानसि- कानि वाचिकानि वा । सर्वविधैरपि तैनिवानां नियतस्सम्बन्धः । आत्मचिन्तनं क्रियताम्, देवा वा यागादिमिराराध्यन्ताम्, जप्यन्तां वा मन्त्राः, सर्वत्र तेषां प्रयोगावगमो ब्राह्मणाधीनः । प्रयोगश्च मानवाधीनो मन्त्रसाध्यश्चेत्ययं याज्ञिकमीमांसकानां राजमार्गः । अनादी यथा सृष्टिप्रलयौ, तथैव मन्त्र-ब्राह्मण कर्म-मानवानां मिथस्सम्बन्धोऽप्यनादिः । क्वचित् काचिन्मानवाः कर्मरहिता अभवन्, कर्माणि मन्त्रविहीनान्यासन्, मन्त्राश्व ब्राह्मणसम्बद्धा नाभूवन्निति साधनं दुष्करम् । विदेशीयास्तु विमर्शका नेमा परम्परामङ्गोकुर्वन्ति, नाप्यत्र विश्वसन्ति, न चाप्येता- दृशेष्वलौकिकफलजनकेषु कर्मसु श्रद्दधते । तेषां मन्त्रेषु पदपदार्थसम्बन्धजनितार्थावगतिमात्र एव मनः प्रसरति । तद्बलेन ते यत्किमपि वदेयुः । भारतीयाश्चिरन्तनाः पुनः कञ्चन मनोहरम- विच्छिन्नसम्प्रदायमवलम्बमाना: संहितागतान् मन्त्रान् ब्राह्मणविहितकर्मसु विनियोजयन्तस्तानि कर्माणि यथावदैहिकम् आमुष्मिकम्, ऐहिकसंवलितामुष्मिकञ्च फलमवाप्तुमन्वतिष्ठन् । सांसारिकावस्थायां मानवैर्यावन्ति फलानि कामयितुं शक्यन्ते, व्यष्टया समष्टया वा यथा--धनं तेजः श्रुताध्ययनसम्पत्तिः, पुत्रपौत्रभृत्यसम्पत्तिः, आयुरारोग्यम्, जनतासङ्ग्रहः, विविधानां दुस्साध्यानाम् असाध्यानाञ्च रोगाणां निवृत्तिः, वृष्टिः, क्षेमसुभिक्षता, ईतिबाधादि- निवृत्तिः, सामूहिकरोगनिवृत्तिः, जनताया एकतेत्यादीनि समेषामेषां साधनाय कर्माण्युपदिष्टानि सन्ति वेदेषु । अधुनाऽभीषां साधनाय यावन्तो लौकिका उपाया विज्ञानेनाविष्कृता अवलम्ब्यन्ते, तथैव चिरन्तने कालेऽलौकिकानि कर्माणीमान्यवलम्बितानि पूर्वजैरित्यत्र सन्ति बहून्युदाहरणानि- रमयति मरुतः श्येनमायिनं मनोजवसं वृषण : सुवृत्तम् । येन शर्ध उग्रमवसृष्टमेति तवश्विना परिधत्त, स्वस्ति ॥ इति कश्चन मन्त्रो मरुतो देवतास्सम्बोध्य प्रवृत्तः। हे मरुतः ! यूयमतिवेगेन समायान्तं पुरोवातं तथा क्रीडयत, यथा पश्चाद्वातस्य निरोधस्स्यात्, येन मेघेभ्यः तीव्रधारारूपेण पतज्जलं ग्रीष्मेणातिसन्तप्तामिमां पृथिवीं प्राप्नुयात् । तदिदं जलं हे अश्विनौ पृथिव्याः क्षेमकरं यथा स्यात्तथा परितो धारयतमिति तस्यार्थः । अस्यार्थस्य ज्ञानेन किमस्माकं प्रयोजनं निर्गलति ? पश्चाद्वातो ग्रीष्मवर्धको वृष्टिप्रति- बन्धकश्च, पुरोवातश्च ग्रीष्मशामको वृष्टिप्रदश्चेति किं वयं न जानीम: ? ग्रामवासिनस्सर्वेऽपि प्रवयसः पुरुषाः वृद्धाश्च स्त्रिय इमं विषयं परिचिन्वन्त्येव । तस्यास्य किं प्रयोजनमिति प्रश्ने .

वैदिकशिक्षादर्शनबिन्दुः १५ पाश्चात्त्यो विमर्शको ब्रूयानिष्प्रयोजनमेवेति । भारतीयास्तु-'मरुतः' इति पदेन त्वगिन्द्रियवेद्यं वायुमेव केवलं न मन्यन्ते, किन्तु तदधिष्ठात्र्या देवताया बुद्धिस्तेषां मरुच्छब्देन भवति । देवतायाश्च कर्मभिस्सम्बन्धो नियत इति प्रागवोचम् । तदिदं द्रढयति ब्राह्मणभागः-'रमयत मरुतः श्येनमायिनमिति पश्चाद्वातं प्रतिर्मावति पुरोवातमेव जनयति' इति स्तुवन् कारीरेष्टयां मन्त्रं विनियुञ्जानः । तथैव- नवो नवो भवति जायमानोऽह्रां केतुरुषसामेत्यग्नम् । भागं देवेभ्यो वि दधात्यायन् प्र चन्द्रमास्तिरते दीर्घमायुः ॥' इति मन्त्रश्चन्द्राभेदेनादित्यं प्रतिपादयन् किं रूपकालङ्कारं शिक्षयति ? अथवा कि रूपकालङ्कारस्यायं मन्त्रो मूलमिति स्वीकारमात्रेण मन्त्रस्य प्रयोजनवत्ता प्रसिध्यति ? अनेन प्रसाधनेन कि विशिष्ट प्रयोजन साधितं स्यात् ? इत्यजानानेभ्योऽस्मभ्यं ब्राह्मणभाग:- 'यः पाययक्ष्मगृहीतस्स्यात्तस्मा एतमादित्यं चरु निर्वपेत्' इति राजयक्ष्मरोगेण पीडितं तस्मा- दुन्मोचयितुमिष्टिं विधाय तत्रास्य मन्त्रस्योपयोग इयुपदिशति । एवमादयस्सहस्रशो मन्त्रा ब्राह्मणेन तत्र तत्र क्रतुषु यथायथं विनियुक्ता दृश्यन्ते । अत्रैवं निश्चेतुं शक्यम् -संहितागता मन्त्राः प्रयोजनविशेषमलभमानाः कर्मविशेष- माकांक्षन्ते, कर्माणि च ब्राह्मणविहितानि कर्मन्त्रैः कर्तव्यानीत्यपेक्षन्ते । तत्रैकोऽपरस्य न्यूनतां पूरयन् द्वावपि मिलितौ कृताौँ भवत इति । यद्यत्र पौर्वापर्यक्रम आश्रीयेन, तहि य एव प्रथम. मुत्पन्नो विरचितो वा. स चिरकालमा कांक्षावानेव तिष्ठेत् । तावत्पर्यन्तमुत्पन्नं भागमवाप्यापि जना: किं कुर्युः ? विना मन्त्रः कर्मानुष्ठानमसम्भवम्, विना च कर्मभिर्मन्त्राणां नोपयोग इति ते तूष्णीमासन्निति कल्पनीयम् । तदिदं न युक्तियुक्तमिति प्रतिभाति । भारते प्रचलितायाः कर्मा- नुष्ठानपरम्पराया देशं कालञ्च न वयं निर्णतुं शक्नुमः । मनसापि चिन्तयितुमशक्यः खलु कालो व्यतीतोऽस्याः परम्परायाः । अनुमानमप्यत्र कुण्ठितमेव भवति । अत एव पाश्चात्त्यविमर्शकेषु 'मैक्समूलरः' महोदयो वैदिकमतविकासावरोधार्थमेव प्रवृताद् बौद्धमतात् पूर्वमेव ख्रिस्तो: पूर्व पञ्चमशतके सर्व वैदिकसाहित्यं संहिताब्राह्मणोपनिषदारण्यकादिकमासीत् । तत्रापि ख्रिस्तोः द्विशताधिकसहास्राद् वत्सरेभ्यः सहस्रवत्सरपर्यन्तं वैदिकमन्त्राणामृचां प्रारम्भिकः कालोऽभ्यु- पगन्तुं शक्यत इत्यभिप्रेति । एवमेव पाश्चात्त्यपण्डितः 'विन्टनित्ज' महोदयः, 'मैक्समूलर'महोदयसम्भावनास्पदेषु वत्सरेषु सङ्कोचं विकासञ्च कुर्वन् वैदिकसाहित्यस्य यदि काचिन्निश्चिता तिथिरुन्नीयेत, तर्हि ख्रिस्तो: पञ्चशतवत्सरेभ्यः पूर्वमित्येव वक्तुं शक्यत इति निरूपयति । एवमेव 'मूर'महोदयः ( Oriental Sanskrit Text) इति स्वीये ग्रन्थे कांश्चन मन्त्रान् परिगणय्य तत्र 'कृञ्' 'तक्ष' प्रभृतीनां धातूनां प्रयोगबलात् मन्त्रेषु चर्षीणां विश्वामित्र- जमदग्निप्रभृतीनां नामोपलम्भाच्च वेदानां नित्यत्वं कथमित्याक्षिपति । तथैव 'मेक्डोनल्'महाशयो वैदिकलौकिकसंस्कृतभाषाभेदमवधारयन् ऋग्वेदस्य दशमं मण्डलमत्यर्वाचीनमित्यादिकं स्वीये संस्कृतेतिहासग्रन्थे लिखति । एवं लिखतामेषामिदं कारणं भवितुमर्हति यद्वेदं पुस्तकाकारमिमे मन्यन्ते, न श्रुति- रूपम्, नापि ग्रन्थाकारम् । अत एव ते प्रथमं पुस्तकं द्वितीयं पुस्तकमिति ऋग्वेदगतमण्डलानि १. ऋग्वेदः-१०।८५।१९ ।

- वैदिकशिक्षादर्शनबिन्दुः निर्दिशन्ति । मण्डलमष्टकं वर्गश्चेति न पुस्तकं भवति । प्रथमं श्रुत्येकगोचरा ये शब्दराशयोऽ भवन् श्रुतिशब्दवाच्या: कालान्तरे ग्रथितास्सन्तो ग्रन्थशब्देनाभ्यधीयन्त । ततो लिपिनिबद्धाः सम्प्रति च ते मुद्रिताः पुस्तकशब्दवाच्या अभूवन् । अस्माकं चिरन्तनीयं परम्परा यच्छ्र, त्यैव बहुकालं गृहीताः श्रुतीः कालान्तरे विभज्य यथायथं प्रवर्तितवान् भगवान् व्यासः । अत एव स लोकैवेदव्यास इति प्रसिद्धिमलभत । अनन्तरं केचन काण्डादिना विभज्याध्यापयाम्बभूवुः । अत एव ते काण्डर्षय इत्युच्यन्ते सम्प्रत्यपि । यथा सूक्तानां मन्त्राणाञ्च द्रष्टारो नियमेन स्मर्यन्ते, तथैव काण्डर्षयोऽपि । इयमस्मत्पर- म्परा । विदेशीयास्त्वस्यां परम्परायां नान्तभूताः; तथापि ते निस्सङ्कोचं ब्रुवते --भारते देशा- न्तरेभ्यस्समागता आर्या इति । तद्वयं सर्वात्मना न केवलं विश्वसिमः, तथैव चास्मदपत्यानि ग्राहयामः । महतो दुःखस्यायं विषयो यदा वयं पारतन्त्रयनिगडनिबद्धा आस्म, तदा केनापि कारणेन विदेशीयः प्रवर्तितां शिक्षापद्धतिमस्मदपत्यानि ग्राहयितुं निर्बन्धमन्वभवाम । इदानीं स्वातन्त्र्यमवाप्य बहुषु हायनेषु व्यतीतेष्वपि वास्तविकशिक्षापद्धति प्रवर्तयितुमक्षमाः स्मः । किञ्चिदिवास्माभिः प्रक्कालेऽवस्थितं वृत्तं सिंहावलोकनन्यायेन संवीक्षणीयम् मीमांसासूत्रकारस्य जैमिने: काले कल्पानां सूत्राणां षडङ्गानां मन्वादिस्मृतीनामपि मन्त्र- ब्राह्मणयोरित वेदत्वं लोकस्साध्यते स्म । एवं साधने तेषामियं युक्तिरासीद् यदिमे पूर्वोक्ताः सन्दर्भा अपि तदानीन्तने समये श्रुतिग्राह्या वाचोविधेयाश्चाभवन् । यथा वेदा नियमेन श्रवणे- न्द्रियग्राह्यास्सन्तः श्रुतिशब्दवाच्यास्तथैवैतेषामपि तद्ग्राह्यत्वेन कथं तच्छब्दव्यवहारो न भवत्विति । तत्र परीक्षको महर्षिजैमिनिः सयुक्तिनिर्देशं व्यवस्थापयामास यत्कल्पसूत्रादीनां प्रामाण्ये न काचन विप्रतिपत्तिः, किन्तु वेदमूलत्वेनैव तदङ्गीकर्तव्यम्, न वेदत्वेन, तत्तत्पुरुष- कर्तृकत्वेन स्मर्यमाणत्वादिति । एवमेव शिष्टाकोपाधिकरणसम्बन्धिषु वर्ण केष्वेकस्मिन् शाक्यादिग्रन्थानामुच्छिन्नशाखामूलकत्वमाशङ्कय परिहृतम् । एतेनेदं विज्ञायते यत् प्राचीनभारते वेदत्वेन वेदमूलकत्वेन तस्य तस्य प्रामाण्यसाधने प्रवृत्तिमतां लोकानां हृदयेषु वेदविषये कीदृशः श्रद्धातिशयोऽवर्तत इति । इदानीन्तनमारतीयेषु समाजिनः स्वाभिलषितशब्दसन्दर्भेष्वेव वेदत्वं चिरन्तनात् कालादविच्छिन्नपारम्पर्येण परिप्राप्तेष्वपि वेदत्वं खण्डयितुं प्रवृत्ता विलोक्यन्ते । इदन्तु स्वीकर्तव्यमेव भवति यद् बढ्यो वेदशाखा अध्ययनाध्यापनपरम्परालोपेन जैमिनेः काल एवोच्छिन्ना इति । अत एव शाक्यादिग्रन्थानामुच्छिन्नशाखामूलकत्वशङ्काया उदयस्सङ्गतो भवति । एवं मीमांसकैरुन्नोते पथि सत्यपि पुस्तकयुगान्तर्गता विमर्शका मण्डलेषु काण्डेषु च पुस्तकत्वभ्रान्त्या बदन्ति यद् ऋग्वेदस्य प्रथमं दशमञ्च पुस्तकमर्वाचीनम्, इतराणि च पुस्तकानि प्राचीनानीति । अत्र च ते भाषाभेदमाकलयन्ति । अस्मात्तं तु संस्कृतमेकैव भाषा । लौकिकं वैदिकञ्च संस्कृतमनन्यमेव । लोकवेदाधिकरणन्यायेन जैमिनि:--य एव लौकिकाश्शब्दा- स्तदर्थाश्च, त एव वेदेऽपीत्यभ्युपगच्छति । कतिपये शब्दाः पुनर्नूनं वेदेषु लौकिकशब्देभ्यो भिन्ना इवावमान्ति, तावता नानयोर्भेद आपादयितुं शक्यते । लोके गृहीतपदपदार्थसङ्गतिक एव वेदे पदानां सङ्गतिं गृह्णाति । वैदिकपदानां सङ्गति- ग्रहणाय नान्यः कश्चनोपायो दृश्यते। यत्र च शब्दभेद उपलक्ष्यते तत्र पृथगनुशासनानि विद्यन्ते ।

• . वैदिकशिक्षादर्शनबिन्दुः १७ लोकेऽग्निशब्दस्य दहनमेकमेव प्रवृत्तिनिमित्तम्, तदादाय वेदे तस्यार्थावबोधकत्वे सत्यपि मन्त्रार्था- नुसन्धानबलेनान्यान्यपि प्रवृत्तिनिमित्तानि स्युः। यथा-एत्य दग्ध्वा नयति, अग्रे पुरस्तान्नीयते- प्रणीयते, अग्रं नयति , अग्निर्देवः, अग्निः पुरोहितः, अग्निर्देवानामाह्वाता इति। नैतावता वैदिकाग्निशब्दो लौकिकाग्निशब्दाद् भेदमावहेत् । क्वचिदिन्द्रशब्दस्याग्निरर्थः, पावकोऽग्निः, पवमानोऽग्निः, शुचिरग्निरित्येवं विभिन्नार्थबोधकोऽग्निशब्दो दृश्यते । एवं प्रयुज्यमानस्यास्य नियामकं शास्त्रं प्रमाणीक्रियते पूर्वजैः । विना प्रमाणेन क्वाप्यर्थभेदो नेष्यते । प्रस्तरशब्दो वेदे दर्भमुष्टिविशेष वर्तते, लोके तु शिलायाम्, पीलुशब्दवाच्यो वृक्षो वेदे, लोके तु गजः, यूपशब्दो दृष्टादृष्टसंस्कारवाची वेदे, लोके तु केवलं काष्ठविशेषे, आचार्यशब्दोऽलौकिकार्थावेदको वेदे, लोके तु भृतकाध्यापकवाची । एवं भेदे सन्ति मीमांसान्यायाः प्रमाणम् । अनेन भाषाभेद उन्ने तुं न शक्यते। भाषा तूभयत्र संस्कृतमेव । प्रयोगभेदमात्रेण भाषाभेदो न सिध्यति । प्रान्तभेदेन हिन्दीशब्दा भिन्नाः सन्तीति न हिन्दीभाषाभिन्ना परिगण्यते। अतो वैदिकलौकिकशब्दा अनन्या एवेति लोक- वेदाधिकरणन्यायः । किञ्च, भाषागतं सारल्यं काठिन्यं वा न भाषाभेदप्रयोजकं भवितुमर्हति । आभ्यां कामं शैलीभेदस्स्यात्, न भाषाभेदः । एक एव लेखकः क्वचित् कठिनान् शब्दान् प्रयुङ्क्ते, क्वचिच्च सरलान् । दीर्घसमासयङ्लुङन्तशब्दघटितानि वाक्यानि ग्रन्थस्य काठिन्यमावहेयुः, तदघटितानि च सारल्यम् । एकस्मिन्नेव ग्रन्थे रसानुसारेण प्रकरणानुरोधेन वा सरलकठिनशब्दाः प्रयुक्ता भवेयुः। तावता न तत्र पौर्वापर्यं प्राचीनार्वाचीनत्वरूपं साधयितुं शक्यम् । पाश्चात्त्यविमर्शक- रतिप्राचीनत्वेन स्वीकृत एव वेदमागे शैलीद्वयमनुभवामः-'अग्नि)ता नो अध्वरे', 'ह सश्शुचिषद्वसुरन्तरिक्षसद्' इति । एवमर्वाचीनत्वेन परिगण्यमाने वेदभागे 'यो वश्शिवतमो रसः', 'सृण्येव जरी तुर्फरीतू' इत्यत्रोभयमप्यनुभवामः । एवञ्च भाषागतसारल्यकाठिन्ये समादाय भाषाभेदप्रतिपादनं युक्तिसङ्गतं न प्रतिभाति । किञ्च, विमर्शकानां कथनानुसारेण ऋग्वेदीयं दशमं मण्डलमर्वाचीनमिति स्वीकारे एकस्मिन्नेव क्रतो द्वितीयतृतीयादिमण्डलसूक्तानां दशममण्डलसूक्तानामपि ब्राह्मणभागेन विनियोगः कृतो दृश्यते । तत्र वक्तव्यं भवेत् यद् दशममण्डलविरचनानन्तरमेव ब्राह्मणाविर्भाव इति । तदत्र ब्राह्मणसंहितयोः पौर्वापयं न भवितुमर्हतीति पूर्वमबोचाम । निरर्थकाश्शब्दा वेदेषु वर्तन्त इति कश्चिद्विमर्शकः परिगणयति । 'नाथं स्थाणोरपराधो यदेनमन्धो न पश्यति' इति न्यायेन न वेदगतस्य शब्दस्यायं दोषः। एतादृशेषु स्थलेषु शब्दानामर्थनिर्णयाय तत्सिद्धिपेटिका मीमांसकैस्समुद्घाटिता वर्तते । निगमनिरुक्तव्याकरणादयस्तु सन्त्येव । एतेषु साधनेषु सत्सु कथं निरर्थकत्वं शब्दानाम् ? शब्दानां क्वचिन्मुख्योऽर्थों भवति, क्वचिच्च गौणः । अयञ्च शब्दानां धर्मः। स च लोके यथा, तथा वेदेऽपि । केचन शब्दास्तथा वर्तन्ते यांश्वार्था एवानुधावन्ति । लौकिकोऽर्थो न प्रसिध्यतीति न वैदिकाश्शब्दा निरर्थका इति साधनमनुचितम् । क्वचिच्च शब्दानुपूयेव शब्दार्थ इति स्वीकर्तव्यं भवति । पङ्कजाक्षीति लोके तिन्त्रिणीदलाक्षीमपि नारी बोधयत्येव । गङ्गाधर इति तस्यापि नाम यश्च पिपासवे जनाय जलस्य बिन्दुमपि न ददाति । अत्रानुपूर्येव खलु शब्दार्थः । अत एव 'हुँ फट' 'अस्त्राय फट्' इत्यादिषु मन्त्रेष्वानुपूर्येवार्थः । ३ . १८ वैदिकशिक्षादर्शनबिन्दुः किं बहुना, प्रसिद्धार्थकेष्वपि स्थलेषु क्वचिदानुपूर्येवार्थस्स्वीक्रियते वेदेषु । यस्मिन् कर्मण्यग्निर्देवता तत्र त्यागावसरे ‘अग्नये' इत्यानुपू]व स्वीक्रियते, न तु जातवेदसे, वह्नये इत्यादि। अग्निह्निजातवेदश्शब्दाः पर्यायवाचिनः, तथापि आनुपूर्वीनियम आद्रियते मीमांसकर्याज्ञिकैश्च । वेदशब्देषु केषाञ्चनाश्लीलार्थकत्वं वर्णयन् विमर्शको वेदेऽनादरतामाविष्करोति । अश्ली- लत्वं हि न शब्दस्य नियतो धर्मः। वक्तृबोद्धव्यभेदेनैव शब्दस्याश्लीलार्थकत्वं परिगणनीयम् । 'इयं कनकलता पुष्पिता शोभते' इति परिणतवयोभिरुच्चरिते वाक्ये नाश्लीलता, तस्मिन्नेव स्त्रीलोलुपेन यूना समुच्चारितेऽश्लीलता। वल्मीकजन्ममुनिः स्वीये रामायणे 'वरारोहे' पदम- सकृत्प्रयुङ्क्ते । तदपि सीतां सम्बोध्य । प्रतिपत्तषु केचन रूढमथं प्रतिपद्यन्ते, अपरे च व्युत्पत्ति- लभ्यमर्थम् । व्युत्पत्तिलभ्येऽर्थे केचन तुष्यन्ति, अपरे च तटस्था भवन्ति । तावता किं रामायणस्य वाल्मीके| हेयत्वमनादरता वा सिध्यति ? रामायणं वाचयन्तो वयं सीतां सम्बोध्य रावण मुखा- निस्सृतमिमं शब्दं शृणुमो हनुमन्मुखादपि। उभयत्र किं भावभेदं न गृह्णीम: ? वामदेव्यपदनिर्वचनावसरे 'आपो वा ऋत्वियमार्छन् तासां वायुः पृष्टे व्यवर्तत, ततो वामं वसु समभवत् तन्मित्रावरुणावपश्यताम्, तावदूतां वामं वा देवेभ्योऽजनि' इति वेदवाक्यं प्रवृत्तम् । रजोधर्म प्राप्ताभिरद्भिः वायोस्सङ्गमे सति श्रेष्ठं वसु सज्जातम् । तच्च देवसम्बन्धि, तेनेदं वामदेव्यं साम इति तदर्थः । अत्र रजोधर्माद्यर्थप्रतिपादनेनाश्लीलत्वं वर्णयति विमर्शकः । अश्लीलदोषत्वं ब्रीडा-जुगुप्सामङ्गलव्यञ्जकत्वेनालङ्कारिका आस्थिषत। तदत्र ब्राह्मणवाक्ये पूर्वोक्तान्यतमव्यञ्जकत्वं दुरुपपादम् । अपां रजोधर्मप्राप्तिः, वायोश्च तत्सङ्गमः, वामस्य धनस्य समुत्पत्तिः, तस्य च देवसम्बन्धित्वमित्यस्मिन्नर्थे न तात्पर्यम्, किन्तु 'वामदेव्यम्' इति शब्दनिर्वचनायवेदं ब्राह्मणं प्रवृत्तम् । निर्वचनसिद्धस्य शब्दस्य सामविशेषोऽर्थः। साम्नोऽस्य गानावसरे श्रोतार उद्गातारो वा कि जिहियति ? कि बा जुगुप्सन्ते ? अथवा अंमङ्गल- मवबुध्यन्ते ? एवं सत्यत्राश्लीलस्य क्वावसरः ? कश्चन विमर्शकाग्रणीः पाश्चात्यस्तदनुयायी भारतीयच ‘एको ममैका तस्य, द्वौ मम द्वे तस्य, त्रयो मम तिस्रस्तस्य, चत्वारो मम चतस्रस्तस्य, पञ्च मम न तस्य किञ्चन, योऽस्मान् द्वेष्टि यञ्च वयं द्विष्मः' इति प्रयाजानुमन्त्रणमन्त्रमुदाहृत्य स्वप्रतिभाप्रकर्षमवद्योतयति यत् प्राञ्चो भारतीयाः स्त्रीणां विषये कियदपकृष्टबुद्धय आसन्, ऋत्वनुष्ठाता कामयते यन्ममैकः पुत्रो भवतु, तस्य चैका कन्या, मम द्वौ पुत्रौ भवताम्, तस्य च द्वे कन्ये, एवं त्रयो मम भवन्तु, तस्य तिस्त्र, चत्वारो मम चतस्रस्तस्य, पञ्च मम, न तस्य किञ्चन इति वदन कियदन्याय्य- माचरति स्त्रीणां विषय इति । सत्यमेवायं सम्भ्रान्तो यथाजातो विमर्शकः । पूर्वापर सन्दर्मा. नवलोकनजनितोयं सम्भ्रमस्तपस्विनः । असुरैस्सह शस्त्रैरस्त्रैश्च योद्ध नेच्छन्तो देवा वाग्युद्धाय प्रवृत्ताः प्रथमम् ‘एको मम' इत्यनुवन्, असुराश्चैकेति। एवं चतुस्सङ्ख्यापर्यन्तमवसितम् । 'पञ्च मम' इति देवा अब्रुवन्, असुराश्च तवं वक्तुमसमर्थाः खमपश्यन् । देवाश्व 'न तस्य किञ्चन' इति वदन्तोऽसुरान् निगृहीतवन्त इति सन्दर्भः । पञ्चादिशब्दानां लिङ्गद्वयेऽपि समान- मिति प्रसिद्धम् । एवं वाग्युद्धेनासुराणां निग्रहः । किं शब्दगतलिङ्गमवगत्य मारतीयानां प्राचां स्त्रीष्वपकृष्टत्वबुद्धिरित्यारोप्यते विमर्शकमहोदयेन ? उत प्रकारान्तरमाश्रित्य ? खेदस्यायं - - वैदिकशिक्षादर्शनबिन्दुः १९ विषयो यदेकेन पाश्चात्येनेदमुक्तमिति तत्पुच्छावलम्बिनो भारतीया अपि सभासु विषयमेनं विशदीकृत्य सभासदो हासयन्ति, पुस्तकेषु च लिखन्ति । शृङ्गे ग्रहीतव्ये पुच्छग्रहणं कुर्वन्त इमेऽतिशोचनीयां दशामापन्नाः । किञ्च संवादरूपेषु मन्त्रेषु वैषयिकानर्थानुपलभ्य तत्रादरतां प्रकटयन् कश्चन विमर्श कः ऋक्संहितायाः प्रथममण्डलस्येकोनाशीत्युत्तरशततमं सूक्तं षड़चेमुदाहरति । संहितागतानां मन्त्राणाञ्चानुक्रमणिकाकार ऋषि छन्दो देवतां विनियोगञ्च यथायथं निर्दिशति । इदं प्रमाण- मव म्ब्य मन्त्रार्थविवरणं क्रियते । मन्त्रार्थे प्रतीते तस्य तात्पर्यनिश्चयाय मीमांसान्याया आश्रीयन्ते । निगमनिरुक्तव्याकरणानि पदपदार्थनिर्णये साहाय्यमाचरन्ति । इमास्सामग्री- रादायैव भाष्यकारस्सायणो भाष्यं विरचयामास । तत्र प्रधानसामग्री अनुक्रमणिका । निगम- निरुक्तव्याकरणैः पदार्थे ज्ञातेऽपि प्रकृतसङ्गतिनिनियोगश्चानुक्रमणिकयैव बोद्धव्यौ भवतः । विनियोगश्च मन्त्राणां तृचानां सूक्तानां वा श्रौतकर्मसु क्रियते । येषाञ्च मन्त्रतृचसूक्तानां श्रौत- कर्मसु न विनियोगस्तेषां लैङ्गिको विनियोग इति सम्प्रदायः । तत्तन्मन्त्रगतसामर्थ्यमवबुध्य तस्मिन्नर्थे तद्विनियोगो लैङ्गिकविनियोगः कथ्यत इति स्थितिः । तत्र 'पूर्वीः षट् जायापत्योः लोपामुद्राया अगस्त्यस्य च व्यचाभ्यां रत्यर्थं संवाद श्रुत्वाऽन्तेवासी ब्रह्मचारी अन्त्ये बृहत्यादी अपश्यत्' इत्यनुक्रमणिका वर्तते । 'पूर्वीः' इति सूक्ते षडचस्सन्ति । तत्र प्रथमद्वय चस्य लोपामुद्रा ऋषिः, द्वितीयद्वयचस्यागस्त्य ऋषिः, तृतीय- द्वचस्यागस्त्यशिष्य ऋषिः । तृतीयद्वयचस्य प्रथमा बृहतीच्छन्दस्का, शिष्टा ऋचः त्रिष्टुभः । दम्पत्योः संवादश्रवणजनितमागः क्षपयितुं शिष्योऽपश्यदन्तिमं द्वचम् इत्यनुक्तमणिकाया अर्थः । (अत्र प्रथममन्त्रचतुष्टयेन योऽर्थो बुध्यते तत्राश्लील दोषमुद्भावयति विमर्शकः ।) अत्रायं विवेकः-अस्य सूक्तस्य श्रौते कर्मणि विनियोगोऽनुक्रमणिकायां न दृश्यते । तेन लैङ्गिक विनियोग आश्रयणीयः। यदि कदाचिल्लोके दम्पत्योः रहस्सम्भाषणं श्रुतिपथमागच्छेत्, तर्हि तद्दोषनिहरणाय मन्त्रोऽयं जप्तव्य इति तात्पर्य कल्पनीयम् । अगस्त्यलोपामुद्रे एवं प्रकारेण भाषणमकुरुतामित्यत्र न तात्पर्यम् । शिष्यश्रुतसंवादानुपूर्वीद्रष्टुत्वमेवानयोः । नात्र लोपामुद्रा मन्त्रोक्तप्रकारेण चकमे, न चाप्यगस्त्यस्तस्याः प्रार्थनां समर्थयामास । गणिताध्यापकस्य शब्दा अर्थाननुसृत्य न गच्छन्ति, किन्तु गणितस्योत्तरसम्पादनाय शिष्यस्तेषां शब्दानामथं कल्पयति । तत्र यथा शब्दानेवार्था अनुधावन्ति, तागेवेदम् । किञ्चाष्टममण्ड लस्य प्रथमसूक्तगतं चतुस्त्रिशं मन्त्रमुदाहृत्य तस्याश्लीलार्थकत्वमाकल- यन्ति विमर्शकाः । इन्द्रदेवताकस्यास्य सूक्तस्यैकोनत्रिंशत्संख्याकानामृचां गवामयनान्तर्गतमहा- व्रते कर्मणि निष्केवल्यशस्त्रे विनियोगमनुक्रमणिकाकारः प्रदावशिष्टानां दानस्तुतिपरत्वं निर्दिशति । तत्रान्तिममन्त्रस्य लैङ्गिक विनियोगं सूत्रकारोऽभिप्रेति । यदि कस्यचन पुंस्त्वा- वरोधकं प्रतिबन्धकं स्याद् यूनः, न तु प्रवयसः, तर्हि मन्त्रेणानेन तन्निवर्तयितुं शक्यमित्यर्थे तात्पर्य परिकल्प्य तत्र विनियोग एष्टव्यः । भूयसां रोगाणां निवृत्तिर्मन्त्रस्तयुक्तकर्मभिश्च भवतीति प्रागवोचाम । एवं वक्तारः कामं भवेयुः, न तु प्रयोगात्मना प्रदर्शयितार इत्याक्षेतारो नूनं भवेयुः, किन्तु सन्तीदानीमपि तादृशाश्चमत्कारकारिणः श्रोत्रिया नियतवेदाध्यायिनो भारते। अतो नेयमावश्यकता यन्मन्त्रा अर्थानुसारिण एव भवेयुरिति । यदि चार्थानुसारिण एव मन्त्राः स्वीक्रियेरन्, तहि नित्यानां नैमित्तिकानाञ्च कर्मणामुच्छेद एव स्यात् । सति पापे ३० वैदिकशिक्षादर्शन बिन्दुः तन्निवृत्तिमन्त्ररिष्यते, असति च तस्मिन् मन्त्रानुपूर्वीसमुच्चारणमभ्युदयकारीत्येव नित्य- नैमित्तिककर्मसु मन्त्राणां नात्यर्थं स्वीक्रियते । प्रातः सायं सन्ध्यानुष्ठानावसरे 'सूर्यश्च मा मन्युश्च मन्युपतयश्च', 'अग्निश्च मा मन्युश्च मन्युपतयश्च' इत्यादिमन्त्रैजलप्राशनं क्रियते । सर्वविधपापरक्षणरूपोऽर्थो मन्त्रेण प्रकाश्यते । मन्त्रस्यास्योचारणेन सर्वविधपापानां ध्वंसो भवतीति पापाचरणेन सह जलप्राशने सन्ध्या- नुष्ठातारः प्रवर्तरन् । अथवा पापरहिता वयमित्यनुष्ठातारः सन्ध्याकर्मणो विरता भवेयुः । अतो नित्यनैमित्तिककर्मसु मन्त्रानुपूर्वीसमुच्चारण एव तात्पर्यमेष्टव्यम् । अत एव याज्ञिका नित्य- नैमित्तिककर्मणामनुष्ठाने फलं नास्ति, अननुष्ठाने च प्रत्यवाय इति व्यवस्था स्वीकुर्वन्ति । एतेन मन्त्राणां विवक्षितार्थत्वं नास्तीति साधयितुं न शक्यते । सत्यपि विवक्षितार्थत्वे मन्त्रगता ये शब्दा असमवेतार्थाभिधायिनः, तेषामानुपूर्वीसमुच्चारण एव तात्पर्यमिति मन्त्राधिकरणन्यायानुकूल्यं सम्पादितं भवति । एवञ्च विमर्शकप्रदर्शितमन्त्रो नाश्लीलपरो भवितुमर्हति । भारतीया एव केचन विमर्शकम्मन्या ब्राह्मणभागस्य 'तद्धैके, तदु तथा न कुर्यात्' 'तन्नादृत्यम्' इत्यादिवाक्यान्युदाहृत्य पृच्छन्ति यच्छास्त्रग्रन्थेष्विव ब्राह्मणभागेष्वपि खण्डन- मण्डनरीतेई श्यमानत्वात् कथं ब्राह्मणभागोऽपौरुषेयो वेदो भवितुमर्हतीति । सत्यमेवायं प्रश्नो जटिल: दुरुत्तरश्च। उपलब्धब्राह्मणग्रन्थेभ्य एतादृशानि स्थलान्येकीकृत्यानुसन्दधानोऽहमस्मि । तत्र द्वित्राणि स्थलानि प्रदर्शयितुमिच्छामि । शतपथब्राह्मणे-'तद्धके नुक्समार्जनान्यग्नावभ्या- दधति ... ."तदु तथा न कुर्यात्... .."तस्मादु परास्येदेवैतानि' (श० ब्रा० १.२.४.११) इति दृश्यते । दर्शपूर्णमासयोः सुचां जुहूपभृद्धृवाणां वेदाप्रैः संमार्जनं विहितम्-'स्रुचः सम्माष्टि' इति । वेदस्य शयानवत्सजान्वाकृतिरूपस्य दर्भमुष्टिविशेषस्याग्रभागा एव सम्माजनानि । एतैः सुचः पात्राणि सम्मृज्य तानि केचन शाखिनोऽग्नौ प्रक्षिपन्ति, तत्तथा न कर्तव्यम्, किन्तु तानि चात्वाले निरस्येदेवेति ब्राह्मणस्यार्थः । निरसनं वा भवतु अग्नौ प्रहरणं वा वेदाग्राणाम् उभयमप्युपयुक्तानां तेषामाकोर्णक रतानिवर्तकं कर्मैव भवति । एवं शतपथब्राह्मणस्य स्थितिः । अस्मिन्नेव विषये तैत्तिरीयब्राह्मणं पश्यामः । शतपथब्राह्मणवाक्यं तैत्तिरीयशाखां विषयी- करोतीति प्रतोयते । तैत्तिरीयाः संमार्जनानि अग्नौ प्रहरन्ति । नैतावता शतपथब्राह्मणस्य तैत्तिरीयशाखापरवर्तित्वं निर्णेतुं शक्यम् । तैत्तिरीयशाखायामपि शतपथब्राह्मणविषयाणां हण्डनमुपलभ्यते। अत्र कथमस्माभिरेवं निर्णतुं शक्यं यच्छतपथब्राह्मणं परवति, तैत्तिरीय- ब्राह्मणं वेति । तैत्तिरीयशाखायाम् 'जुक्संमार्जनान्यग्नौ प्रहरति 'इत्युपक्रम्य 'तान्येके वृथैवायास्यन्ति तत्तथा न कार्यम् .. ."तस्मादेतान्यग्नावेव प्रहरेत्' (तै० ब्रा० ३.३.२) इत्युपसंहारवाक्यं श्रूयते । अस्यां परिस्थितौ किं पूर्व किमुत्तरमिति कथं निश्चीयताम् । एवं पुरोडाशपरिमाण- विषये तैत्तिरीयशतपथब्राह्मणयोः परस्परखण्डनमण्डने उपलभ्येते । अत एवमादयो विषया: सत्यमेव विमर्शयोग्याः, झटिति निर्णेतुमशक्याः। बलवत्तरप्रमाणोपलम्मपर्यन्तं मीमांसकैरव- लम्बितः पन्था एव निष्कण्टकः । एतादृशानां पदार्थानामनुसन्धानाय संस्कृतविश्वविद्यालय- रछात्रान प्रोत्साहयेदिति सम्भावयामि ।

, तृतीयं प्रवचनम्* महर्षिजैमिनेः पदार्थपरीक्षणसरणिः समेषां दर्शनानां शास्त्रागाञ्च यावन्तः प्रवर्तकाः सर्व एव ते विचारकाः, चिन्तकाः परीक्षकाश्च । स्वस्वदर्शनोपयिकानि प्रमेयजातानि सुविचार्य सुचिरं परिचिन्त्य परीक्ष्य च स्वस्वग्रन्थेषु प्रतिपादयन्ति । मीमांसाशास्त्रप्रवर्तको महर्षिजैमिनिरपि विचारकश्चिन्तकः परीक्षकश्च । दर्शनेषु मीमांसायाः पृथगेकं विशिष्टं स्थानमस्ति । अत एव सांख्यमीमांसकाः, ब्रह्ममीमांसकाः, प्रमाणमीमांसकाः, अलङ्कारमीमांसकाः, वाक्यमीमांसका इति मीमांसपद- संयोजनेन सर्व एव विचारका आत्मनो गौरवम्वद्योतयन्ति । पूज्यविचारवाचकः खलु मीमांसा- शब्दः । विचारे पूज्यत्वञ्च निष्पक्षपातेन विषयपरीक्षणम् । तच्च सर्वैरेव दार्शनिकैः क्रियत इति भवन्ति सर्व एव मीमांसकाः । एवं सत्यपि साधारण्ये निरुपपदं मीमांसापदं पूर्वतन्त्रमेव विषयीकरोतीति दर्शनसमाजे प्रसिद्धिः । तत्र भगवान् जैमिनिर्वाक्यमीमांसकः, मीमांसाशास्त्रञ्च वाक्यशास्त्रमिति च प्रसिद्धम् । वेदवावयावबोधितं धर्मस्वरूपं याथातथ्येन परीक्षते जैमिनिः । अत एव 'तस्य निमित्तपरीष्टिः' इति प्रतिजानीते । तदर्थमेव विपुलं शास्त्रं तेन प्राणायि । सर्वेभ्योऽपि वेदवाक्येभ्यस्साक्षात्परम्पराया वा धर्म एव निर्गलतीति प्रतिपादनायेयान् प्रयासो महर्षेः । तत्र वाक्यार्थज्ञानं पदार्थावबोधपूर्वकमिति प्रायः समेषां तीर्थकाराणां सम्मतिः । पदार्था- नामन्यथाभावे वाक्यमपि विपरीतार्थप्रकाशकं भवेत्, तेन च धर्मस्य वेदवाक्यार्थरूपस्य तथ्यं स्वरूपं विघटितं स्यादिति निश्चिन्वन् जैमिनिर्लोकवेदाधिकरणे-लोके ये शब्दाः, ये च तेषामर्थास्त एव वेदेऽपीति व्यवस्थाप्य सर्वेष्वधिकरणेषु वेदवाक्यमेकैकमुदाहृत्य तदर्थान परीक्षते । आवश्यकतानुसारेण वाक्यार्थाधिगभौपयिकान् शब्दतदर्थानपि विशेषेण स्वयं युक्तिभिः प्रमाणश्च निश्चिनोति । एवं निश्चये का परिपाटीति कानिचनाधिकरणानि दिदर्शयिषामि । वेदानां प्रामाण्यमपौरुषेयत्वञ्च सिषाधयिषुमहर्षिः शब्दतदर्थतत्सम्बन्धानां स्वरूपमादौ विवेचयति । वेदानां परतः प्रामाण्यं पौरुषेयत्वं वा पुरुषसम्बन्धादेष्टव्यम् । स च पुरुषानुप्रवेश: त्रिविधस्सम्भाव्यते - शब्दार्थयोस्सम्बन्धं कुर्वन्तः शब्दमेव वा समुत्पादयन्तः, वाक्यवाक्याथ- सम्बन्धं विदधाना वा पुरुषा वेदेषु प्रवेशमर्हन्ति । तभ जैमिनिरौत्पत्तिकसूत्रेण तयोस्सम्बन्धं नित्यं व्यवस्थापयति । अत्र भाष्यकार: श्रीशबरस्वामी सौत्रम् 'अव्यतिरेकश्व' इत्यंशं विवृण्वन् लिखति-'न हि सम्बन्धव्यतिरिक्तः कश्चन कालोऽस्ति, यस्मिन् न कश्चिदपि शब्दः केनचिदर्थे- नासम्बद्ध आसीत् । कथम् ? सम्बन्धक्रियैव हि नोपपद्यते । अवश्यमेव सम्बन्धं कुर्वता केन- चिच्छब्देन कर्तव्यः । येन क्रियेत तस्य केन कृतः ? अथान्येन केनचित् कृतः, तस्य केनेति तस्य केनेति तस्य केनेति नैवावतिष्ठते । तस्मादवश्यमनेन सम्बन्धं कुर्वताऽकृतसम्बन्धाः केचन शब्दा वृद्धव्यवहारसिद्धा अभ्युपगन्तव्याः' इति । ।

अन्ये च २२ वैदिकशिक्षादर्शनबिन्दुः अनेन सन्दर्भेणेदं निर्गलति यज्जगति शब्दार्थव्यवहार ऋतुलिङ्गन्यायेन बीजाङ्कर- न्यायेन वा विच्छिन्नः प्रवहति । कस्मिश्चिदपि काले जगतीतले मानवा व्यवहारमन्तरा मूका नाभवन, विविधाभिश्चेष्टाभिर्ने कविधैरव्यक्तैर्ध्वनिभिर्वा वानरा इव नरा व्यवहरन्तो नासन्, सम्प्रति यथा वयं वर्तामहे, तथैव प्राक्कालेऽपि मानवा अवर्तन्त, नरा नरेभ्य एवाजायन्त, न वानरेभ्यः, शिशवः स्वस्वमातृभ्य एव प्रथमं शब्दोच्चारणमशिक्षन्त, तदर्थांश्चावागच्छन् । शब्द- तदर्थावगमाय व्यवहार एव प्रधानं कारणम् । किं बहुना, सर्वमेव लौकिकं कार्यजातं शब्द- मूलकमेव प्रववृते । शब्दार्थव्यवहारस्य कालनिर्णये प्रवृत्तः पुरुषो गजस्य कौपीनधारणव्यापारे प्रवृत्त इव स्यात् । सुचिरं विमृश्य चिरन्तना आत्मन इव पूर्वजान् निर्धारयन्तः 'न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते'' इति सिद्धान्ते विश्वासमाबबन्धुः; न हाधुनिका इव विज्ञान- शब्दघटितभाषापदप्रयोगमायया किमपि किमपि लिखितुं तत्प्रचारयितुञ्च प्राक्तनाः प्रावर्तन्त ! शब्दतदर्थनिर्णये तद्व्यवहारे च तेषां स्वस्वपूर्वतनानां व्यवहार एव मूलम्, न तु कृमिकीट- सरीसृपपतङ्गशाखामृगाणामव्यक्तशब्दव्यवहारः । आत्मन इव परे द्रष्टव्या इति हि नीतिरुचिता। यथा वयं मानवाः, तथा तेऽपीत्यत्रैवौचित्यं माति, न तु यथा ते कृमिकीटादयः, तथा वयं मानवा इत्यत्रः । भाषाशास्त्रिणां 'ते' इति तच्छब्दवाच्या: कृमिकीटादयः, 'वयम्' इत्यस्मच्छब्दवाच्या मानवाः । कथमत्रौपम्यं सङ्गच्छताम् ? अव्यक्ता ध्वनयस्तेषाम्, व्यक्ताश्च वाचोऽस्माकम् । ध्वनिमात्रसादृश्यञ्चेदुभयेषां न तर्हि काचिद्विप्रतिपत्तिः। अन्ये च ध्वन्यात्मकाश्शब्दाः, वर्णात्मकाः । ध्वनिभिर्वर्णा अभिव्यज्यन्ते । अभिव्यञ्जकामिव्यक्तयोर्भेदमाकलयामो न त्वैक्यम् । वर्णानुकूलैरेव ध्वनिभिर्वतितव्यम्, न तु ध्वन्यनुकूलर्वणः । करणापाटवादिना क्वचिद् ध्वनिभिर्वर्णाः कामं निस्सरेयुः 'महाशयः' इति स्थाने 'मोशे' इति, कामं तत्रार्थप्रत्ययोऽपि जायेत, किन्तु साधुत्वं तत्र न प्रतियन्ति तीर्थङ्काराः। गौरिति वक्तव्ये गावीत्युच्चारयतीति हि व्यवहरन्ति शास्त्रज्ञाः । न तत्र गावीशब्दस्य साधुत्वग्रहस्तेषाम् । अर्थप्रतीतिमात्रेण न शब्दस्य साधुत्वग्रहः । न हि शुक्तौ रजतप्रतीतिमात्रेण तत् सत् प्रत्यक्षं मन्यत इति यथा । अर्थ- प्रत्यायने यावानादरश्शब्देषु ततोऽप्यधिक आदरस्त दरस्तत्साधुत्वे । शुद्धाशुद्धत्वे वस्त्रभाण्डादिष्वे- वार्थेषु न परिगण्येते, किन्तु शब्देष्वपि । शुद्धाशुद्धत्वे साध्वसाधुस्वे च शास्त्रकसमधिगम्येऽलौकिके स्तो यूपाहवनीयाविव । मार्तिके पात्रे चुश्चूषाकारेण कश्चन पानीयं पिबति, तदेव पात्रं गङ्गा- जलेन प्रक्षाल्याव्यपरः पानीयं तेन न व्यवहरति, तथा प्रक्षालितेन पात्रान्तरेण राजतादिना पानीयं व्यवहरति साधारणो जनः । शिधास्तु स्वव्यवहाराय नै पात्रं संरक्षन्ति । एवमस्ति शुद्धाशुद्धत्वे दृष्टिः । यागीयेषु ब्रीह्यादिषु द्रव्येषु यथा प्रोक्षणादयस्संस्काराः, तथा शब्देष्वपि निगमनिरुक्तव्याकरणादिभिरनेके संस्कारास्सन्ति विहिताः । एवं संस्काराहिताश्शब्दास्साधवः, तद्विहीनास्त्वसाधवः। यास्कपाणिन्यादिभि: प्रवर्तिताश्शब्दसंस्काराः केवलं साधुत्वप्रयोजनकाः, न तु साधु- शब्दनिष्पादकाः । लक्ष्यकचक्षुषः खलु भवन्ति महर्षयः । 'इको यणचि" इति सूत्रप्रवृत्तेः पूर्व इ उ ऋ तृणां य व र लाः सन्धिवर्णा नाभवन्, सूत्रप्रवृत्ते रनन्तरमेवेमे वर्णा इति साधनं १. वाक्यपदीयम्-११२३ । २. अष्टाध्यायी-६।११७७ ।

वैदिकशिक्षादर्शनबिन्दुः २३ दुष्करम् । 'मित्रे चाँ' इति सूत्रात् प्राङ् महर्षेविश्वमित्र इति नामासीत् सूत्रानन्तरञ्च तन्नाम विश्वामित्रोऽभवदिति प्रतिपादनं न विमर्शकानां रजकं स्यात्; प्रत्युत लाघवैकदृष्टिः पाणिनिः विश्वामित्रस्य कृते चतुर्वर्णात्मकं सूत्रमेव रचयन् विश्वामित्रं न विसस्मारेति कथनं मनोरञ्जक स्यात् । एवञ्च लक्ष्याविरोधेन महर्षयश्शास्त्रेषु प्रावर्तन्तेति स्वीकर्तव्यम् । अत एव भगवान् जैमिनिः पिकनेमाधिकरणे परम्पराप्राप्तं शब्दार्थव्यवहारमनुसृत्य 'पिकमालभेत', 'पैलवो दण्डः' इत्यादिवाक्येषु पिकादिशब्दानां लोकव्यवहारसिद्धमेवार्थ व्यवस्थापयति । अयमत्र विशेषः-पिक-नेम-सत-तामरसादयः शब्दा आर्याणां व्यवहारे न सन्निपतन्ति, अनार्याश्च तान् व्यवहरन्ति कोकिलार्धाद्यर्थेषु । अनार्यव्यवहारपतितत्वात्तानानपरिगृह्य निगम- निरुक्तव्याकरणादिसंस्कारेण योऽर्थ आपतति तत्परिग्रहं जैमिनिर्न वाञ्छति, किन्तु तानेवार्थान् स्वीकरोति ये चानार्यव्यवहारपतिताः । यद्यपि गोक्षीरन्यायेन जैमिनेस्तेऽर्था अग्राह्या एव, तथापि शब्दार्थव्यवहारे गोक्षोरन्यायस्य प्रसक्त्यभावाद् न दोषः । पीलुशब्दस्य तु द्वेधा व्यवहारः- वृक्षे गजे च। उत्तरप्रदेशेषु ‘पीलवान' इति हस्तिपे प्रयोगो दृश्यते । अत: पीलुशब्दो हस्ति- वाची । वैदिकास्तु वृक्षे पीलुशब्दं प्रयुञ्जते । वैदिका: शास्त्रस्थाः, ते यथा शब्दार्थव्यवहार- मविप्लुतपारम्पर्येण परिपालयन्ति न तथा लौकिकाः। लौकिकास्तु यथाकथञ्चिदर्थावबोधाय शब्दान् व्यवहरन्ति । 'चोर'शब्दोऽकारान्तः, स्तेन वाची प्रसिद्धः। शब्दमिममुकारान्तम् 'चोर' इति परि- कल्प्य द्रविडदेशैष्वन्ने व्यवहरन्ति । एवं 'वैरी' इति पदं रेफान्तं विधाय 'वैरु' इत्युदरे व्यवहरन्ति । एवमादिषु शब्देषु शास्त्रस्थानां यत्र प्रयोगस्तत्रैव तस्य पदस्य प्रयोग इति जैमिनेर्मतम् । अयमत्र जैमिनेनिष्कर्षः येषां शब्दानां म्लेच्छेष्वार्येषु च विभिन्नार्थेषु प्रयोगः, यथा- यवव राहादीनाम्, तत्रार्यप्रसिद्धिरेव बलीयसी, वाक्यशेषानुगुणत्वात्तस्याः । ये च शब्दाः कस्मि- श्चिदर्थे म्लेच्छप्रयोगेष्वेव वर्तन्ते, आर्यैश्च क्वाप्यर्थे न प्रयुज्यन्ते, तेषां शब्दानां त एवार्था गृह्यन्ते ये म्लेच्छप्रयोगविषयाः । येषां शब्दानामुमयेषामपि विभिन्नेष्वर्थेषु प्रयोगः, यथा पील्वादि- शब्दानां तत्र वैदिकप्रसिद्धविषया एवार्था ग्राह्याः, अविप्लुतव्यवहारपरिपालकत्वाद्वैदिकानाम् । देशभाषापभ्रंशपदानि चोरु, वैरु इत्यादीनि विप्लुतिभूयिष्ठानि न ग्राह्याणि इति। एवञ्च शब्दार्थ- योस्सम्बन्धोऽविप्लुतव्यवहारसिद्धो नित्य इति तत्र न पुरुषानुप्रवेशः। सोऽयं सम्बन्धः क्रियात्मको मीमांसकानामित्यस्य प्रश्नस्य श्रीशबरस्वामी भाष्यकारो वदति 'यो व्यपदेश्यस्सम्बन्धस्तमेकं न व्यपदिशति भवान् प्रत्याय्यस्य प्रत्यायकस्य च यस्संज्ञा- संज्ञिलक्षण इति' इत्यादिना । अस्यार्थ:--संयोगादीनां सम्बन्धान्तराणामभिमतानामसम्भवेऽपि 'शब्देनाऽर्थमभिधत्ते' इत्यादिव्यवहारानुरोधेनार्थप्रतीत्युद्देश्यिकायां शब्दकरणिकायामभिधानक्रियायां शब्दज्ञानरूपायां तज्जन्यप्रतिपत्तिरूपफलशालित्वेन यत्कर्मत्वं वाच्यत्वरूपमर्थस्य तस्यामेव च यत्कारणत्वं वाच- कत्वरूपं शब्दस्य तादृशो वाच्यवाचकभाव एव सम्बन्धश्शक्तिरूपः शब्दार्थयोरनिवार्य इति । .

२४ वैदिकशिक्षादर्शनबिन्दुः शक्तिरियमपौरुषेया शब्दगताऽर्थगता च भवति-'सामर्थ्य सर्वभावानां शक्तिरित्य भिधीयते' इति वात्तिकात् । शक्तरतिरिक्तपदार्थत्वमभ्युपयन्ति मीमांसका इति प्रसिद्धमेव । सोऽ वाच्यवाचकभावरूपोऽपौरुषेयस्संबन्धो नित्य इति मीमांसकसरणिः । शब्दकर्तृत्वेन वेदेषु पुरुषानुप्रवेश इत्यस्मत्सपक्षीया अपि मन्वते दार्शनिकाः । सोऽय पक्षः परीक्षितो जैमिनिना शब्दनित्यत्वाधिकरणे। एकैकस्य दर्शनस्य प्राधान्येन निरूपणीय वा विषयः कश्चन निश्चितः। तस्यैव निर्वाहाय तत्सम्बद्धाः पदार्थास्तदनुकूलतया व्यवस्थाप्यन दार्शनिकैरिति स्थितिः । तत्र यत् प्रमाणानां प्रमेयानाञ्चैव प्राधान्येन विवेचनाय प्रवृत्तं प्रमाण शास्त्रमिति प्रथते काणादं गौतमीयं वा, तत्र प्रमाणानां प्रामाण्यं परत इति पन्था अवलम्बित: तन्निर्वाहाय शब्दस्य कृतकत्वमवस्थापितम् । शब्दस्याप्तनिर्मितत्वे प्रामाण्यम्, अनाप्तनिर्मित चाप्रामाण्यम् । अतो वेदस्यापीश्वरनिर्मितत्वेन ईश्वरस्य चाप्तत्वेन वेदप्रामाण्यं सिद्धं भवती प्रमाणशास्त्रस्य तात्पर्यम् । चतुर्विशतिगुणेषु शब्दस्यापि परिगणनात्, तत्स्वरूपविवेचनावस तस्य नित्यत्वं प्रसाध्य, तत्प्रामाण्यस्य कृते परतस्त्वसरणौ समाश्रितायां वेदस्यापि तथावि प्रामाण्यमव्याहतमिति कणादगौतमयोराशयः । प्रमाणप्रमेयैकनिरूपणाय प्रवृत्ताविमौ कणादगौतम वेदेन सह दूरतस्सम्बन्धमावहत इत्यत्र न कश्चन संशयः । कथञ्चि द्वेदप्रामाण्यं संसाध्यात्म वैदिकसूत्रेण संयोजने तेन च वेदबहि तानां निष्कासने तन्मतखण्डने चाप्तस्येश्वरस्य साधन मावश्यकमिति मन्वानो कणादगौतमौ पद्धतिमिमां शिश्रियात इत्यम्यूहितुं शक्यते । जैमिनीयं दर्शनं तु साक्षाद्वेदसम्बद्धम् । वेदार्थधर्मस्यैव विवेचनाथ सम्प्रवृत्तं वाक्यशास्त्र मिति कथ्यते । प्रमाणप्रमेयानां विवेचनन्तु गौणं समाश्रित्य, अथवा ईषद्भेदेनान्यतस्सिद्धं वा ते स्वरूपमङ्गीकृत्य मुख्यतया वेदवाक्यार्थविचाराय प्रवृत्तस्य जैमिनेर्वाक्याथौंपयिकशब्दतदश तत्सम्बन्धविषये यद्विवेचनम्, तस्य च या पद्धतिस्तस्या अतिशयत्वे समादरे च न कियाना सङ्कोचो भवेदिति विभावयामः । अतः शब्दस्य नित्यत्वेन तद्वारा वेदेषु पुरुषानुप्रवेशो दुर्लभः शब्दस्वरूपं प्रतिपादयितुं भाष्यकार श्शवरस्वामी 'अथ गौरित्यत्र कः शब्दः ? गकारौकार विसर्जनीया इति भगवानुपवर्षः' इत्युपक्रम्य 'तस्मादक्षराण्येव पदम्' इत्युपसंहरति । सन्दर्भस्यास्येदं तात्पर्यम् 'गो: घटः' इत्यादी क्रमिका: श्रूयमाणा ये वर्णास्तेषामनित्र तयाऽर्थावबोधकत्वानुपपत्तेः श्रूयमाणगकारादिव्यतिरिक्तोऽन्यो गोशब्दोऽर्थप्रत्यायकत्वेनेष्ट इति स्फोटवादिनोऽभिप्रयन्ति । मतमिदमौचित्यमावहति न वेत्यत्र विचारो न सङ्गत दा पश्यामि । साधकबाधकयुक्तयो भूयस्यः स्युः । केनचित् खण्डनमात्रेण स्फोटवादो निरस्त इत्यर धारणं नोचितम् । साधकैश्च प्रमाणः स्फोटवादोऽवस्थापित इति सोऽन्यैरपि स्वीकर्तव्य इति निर्बन्धः। सर्वोऽपि शास्त्रकारः स्वशास्त्रमर्यादायां तिष्ठन् परिशीलयति-इदमुचित उतानुचितमिति । तत्र मीमांसकमर्यादेयम्-'स्वाध्यायोऽध्येतव्यः' इति विधिः स्वकुलपरम्परागताय शाखाया अध्ययनकर्तव्यतां बोधयति । अध्ययनञ्च गुरुमुखोच्चारणानूच्चारणम् । उच्चारण मनूच्चारणञ्च वर्णानां भवति । वर्णा एव श्रोत्रेण गृह्यन्ते । श्रोत्रगृहीतेऽर्थे लोके शब्दशक वैदिकशिक्षादर्शनबिन्दुः २५ प्रसिद्धः । लौकिकवैदिकशब्दानामनन्यत्वं लोकवेदाधिकरणन्यायसिद्धम् । गकारादिव्यति- रिक्तोऽर्थावबोधकश्च शब्दो न श्रोत्रग्राह्यः । कामं तस्य बौद्धिकत्वमुपपन्नं स्यात् । न तेन मीमांस- कानां कोऽपि लाभः । यदि वर्णा नित्या भवितुमर्हन्ति, तर्हि न कोऽप्यर्थावबोधने प्रत्यूहः । यदि वा तेऽनित्याः, तर्हि पूर्वपूर्ववर्णजनितसंस्कारसहितान्तिमवर्णः प्रत्यायक इति विधयाऽर्थावबोधे न कोऽप्यन्तरायः। अतः स्वाध्यायाध्ययनविधिनाऽक्षराणि गृह्यन्ते, तान्येवाक्षराणि नित्यानि सन्ति, अर्थावबोधने निमित्तरां भजन्त इति । एवं वाक्यवाक्यार्थसम्बन्धे कर्तृद्वारा वेदस्यैव वा प्रबन्धस्य निर्माणद्वारा पुरुषानुप्रवेशो दुर्घट इति वाक्याधिकरणे वेदापौरुषेयत्वाधिकरणे च व्यवस्थापितं जैमिनिना। इदमिदानी विवेचनीयम् -- यज्जैमिनिः तदनुयायिनो मीमांसकाश्च वेदवाक्यार्थनिर्णयाय वाक्यगतानां पदानामर्थावधारणे कानुपायानवलम्बन्त इति । अश्वप्रतिगृहेष्टिविधायकं वाक्य- मस्ति-'यावतोऽश्वान् प्रतिगृह्णाति स तावत्संख्याकान् वरुणदेवताकचतुष्कपालद्र व्यकयागान् कुर्यात्' इत्यापाततोऽर्थः प्रतीयते । अत्र सिद्धान्ते 'प्रतिगृह्णीयात्' इत्यस्य 'प्रतिग्राहयेत्' इत्यर्थ स्वीकृत्य अश्वानां दातैव ऋतूनिमान् समाचरेत्, न तु प्रतिग्रहीता इति व्यवस्थापितं जैमिनिना। अयमत्रत्यसन्दर्भविवेक:-'प्रजापतिर्वरुणायाश्वमनयत्, स स्वां देवतामाळुत्, स पर्यदीर्यत, स एतं वारुणं चतुष्कपालमपश्यत्, तन्निरवपत्, ततौ वै स वरुणपाशादमुच्यत, वरुणो वा एतं गृह्णाति योऽश्व प्रतिगृह्णाति' इत्यन्तं पर कृति रथंवादः । अन्ते च 'यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेत्' इति विधिवाक्यम् । प्रजापतिवरुणायाश्वमनयत्---अदात् । 'सः' प्रजापतिः स्वां स्वकीयां देवतां सम्प्रदानभूतं वरुणम् आर्छत् प्राप्तवान् । प्रजापति रश्वं दत्वा वरुणग्रहं प्राप्त बानित्यर्थः ।। 'सः' प्रजापतिः पर्यदीर्यत- जलोदरेण व्याधिना उदरे विदीर्णोऽभवत् । 'सः' प्रजापतिः एतं वारुणं चतुष्कपालं यागमपश्यत् ; तन्निरवपत् तमन्वतिष्ठत्, ततः-तेन सः प्रजापतिः वरुणग्रहादमुच्यत इत्यर्थवादमागस्यार्थः । तत ऊवं विधिः 'यावतोऽश्वान्' इति । अत्र प्रतिपूर्वकगृह्णातेर्यदि प्रतिग्रहोऽर्थस्तहि उपक्रमगतार्थवादस्य सङ्गतिनं स्यात्, अर्थवादगतैः 'सः' इति तच्छब्दः प्रजापतेरेव दातुरभिधानात् । तात्पर्यनिर्णायकप्रमाणेषु उपक्रमोपसंहाराविति प्रथम प्रमाणम् । तेन उपक्रमानुसारेणोपसंहारः कर्तब्यो भवति । विध्य, पेक्षयार्थवादस्य दुर्बलत्वेऽपि उपक्रमगतस्य तस्य प्राबल्यमङ्गीकर्तव्यं भवति । अतस्तदनुरोधेनोप- संहारस्य विधिगतस्य प्रतिपूर्वकगृह्णातेनमेवाथं एष्टव्यः-योऽश्वान् प्रतिगृह्णीयाद् दद्यात् प्रतिग्राहयेद्वा स वारुण्येष्टया यजेत इति । सर्वमिदमालोच्य जैमिनिस्सूत्रयति-'सा लिङ्गा- दात्विज्ये स्यात्' (३.४.३७) इति । सा-वारुणीष्टि: आत्विज्ये- ऋत्विासम्प्रदानके याजमानेऽ- श्वदाने स्यात्, लिङ्गात्-उपक्रम सामर्थ्याद् इति सूत्रस्यार्थः । देशभाषासु 'सम्भ्रान्तपण्डितः' इति सम्भ्रान्तपदमुत्कर्षे, 'भीषणसुन्दरः' इति भीषण- पदमाधिक्ये च प्रयुज्यमानमनुभवामः । तत्र कारणे पृष्ठे भाषाविज्ञानिनो ब्रुवन्ति यदस्मिन्नर्थेऽयं शब्दः प्रचलित इति। संस्कृते च सम्भ्रान्तपदं भीषणपदञ्च भ्रान्तियुक्तस्य भयङ्करस्य च वाचक इति प्रसिद्धम् । सत्यामप्येवं प्रसिद्धौ, जानन्तोऽपीमां प्रसिद्धि विरुद्धार्थे तयोरशब्दयोः प्रयोगे न सङ्कोचमाचरन्ति । तत्र च हेतु: प्रचलितत्वमेव । प्रचलितत्वञ्चाधारशून्यमेव ।

-- २६ वैदिकशिक्षादर्शन बिन्दुः शब्दानुपूर्व्यामपभ्रंशस्सहजः, किन्तु कस्मिश्चनार्थे प्रसिद्धस्यार्थान्तरे प्रयोगो विना कारणेन क्रियमाणश्शास्त्रस्थानुद्वेजयेदेव । मीमांसका एकत्र प्रसिद्धशब्दं तद्विपरीतेऽर्थे कल्पयन्ति, किन्तु तत्रोचितं कारणं परिदर्शयन्ति । किन्तु विपरीतार्थावलम्बने यद् यत्र कारणम्, तदेव कारणं स्थलान्तरेऽ. प्यन्तिरावलम्बायेति नातिदिशन्ति । यथा-कदाचन स्तरीरसि नेन्द्रसश्चसि दाशुषे इति मन्त्रे प्रयुक्त इन्द्रशब्दो वज्रहस्ते प्रसिद्धः, अतोऽयं मन्त्र इन्द्रदेवताककर्मणि विनियोक्तव्यो लिङ्गात् । अयमेव मन्त्रः क्वचिद् गार्हपत्योपस्थाने 'ऐन्द्रचा गार्हपत्यमुपतिष्ठते' इति विधिना विनियुक्तो गार्हपत्यमग्नि प्रकाशयितुं प्रवर्तते । तत्र 'इन्द्र'पदस्य गार्हपत्यार्थबोधकत्वं स्वीक्रियते । अत्रार्थान्तरे इन्द्रशब्दस्य प्रयोगे विनियोजक ब्राह्मणवाक्यं कारणम् । विधिमन्त्राधि- करणन्यायेन विधिमन्त्रयोरैकार्थ्यं संरक्षणीयमिति हेतोर्ब्राह्मणवाक्यानुसारेण मन्त्रगतेन्द्रशब्दस्य इदिधातोरन्प्रत्ययान्तस्य परमैश्वर्यसम्पन्नो गार्हपत्य एवार्थः स्वीक्रियते । अयमेवैन्द्रीन्याय इति कथ्यते । एवं 'हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्' इति कश्चन मन्त्रः । 'प्रजापति, हिरण्यगर्भः' इति वाक्यशेषेण हिरण्यगर्भः प्रजापतिः। 'समवर्तताग्ने जातः' इति प्रपञ्चसृष्टेः प्रागाविर्भावकथनम् । 'भूतस्य पतिः' इति स्वसृष्टजगदुत्पत्तित्वम्, 'एक आसीत्' इति सृष्टेः प्रागेकत्वञ्च । इदं सर्व सृष्टिकर्तरि प्रजापतावुपपद्यते । अस्यां स्थितावयं मन्त्रः "हिरण्यगर्भः समवर्तताग्र इत्याधारमाघारयति' इति वाक्येन वायव्ययागे आधाराङ्गत्वेन विनियुक्तः । आधारशब्दस्य घृतेन क्षारणमर्थः । चतुरस्राकारे आहवनीये वायव्यादाग्नेयान्तम् । एवं निर्ऋत्यादीशानान्तञ्च घृतं क्षार्यते। तदिदं पूर्वाधार उत्तराधारश्चेति कर्मद्वयम् । प्रकृतौ दर्शपूर्णमासयोः पूर्वाधारोऽमन्त्रक: प्रजापतिदेवताकः, उत्तराधारश्च इन्द्रदेवताकश्च अतिदेशेन कर्मद्वयमिदं वायव्य विकृतियागं प्राप्तम् । तत्र हिरण्यगर्भमन्त्रस्य प्राकृतमिन्द्रदेवताकं मन्त्रं बाधित्वा उत्तराधार एव निवेश इति दशमतृतीये सिद्धान्तितं जैमिनिना। उत्तराधार- स्येन्द्रदेवताकत्वेऽपि 'यो ह खलु वाव प्रजापतिः स उ वै इन्द्रः' इति वाक्यशेषेण प्रजापति- शब्दस्येन्द्रोऽर्थ इत्यवलम्ब्य विधिमन्त्रयोरैकायं संरक्ष्यते। अयमेव हिरण्यगर्भन्याय इति व्यवह्रियते । एवञ्चोचितं कारणं प्रदार्थान्तरे प्रसिद्धानां पदानामर्थान्तरे निवेशो मीमांसक- मर्यादासिद्धः। दार्शनिकपदार्थविवेचनावसरे ६.स्य तस्य दार्शनिकस्य पृथक् पृथक् पन्थाः कामं भवेत् । स च पन्थाः स्वस्वदर्शनपरम्परां मर्यादाञ्चानुसृत्य प्रवर्तते। मतान्तरस्य समालोचनावसरे खण्डनप्रसङ्ग च मतान्तरसम्बन्धिनी परम्परां मर्यादाञ्चानुसृत्यैव समालोचनेन खण्डनेन वा भवितव्यमित्यस्ति दार्शनिकानां समयः । स्वस्वदर्शनेऽपि पूर्वजानां मतमवरजैस्समालोच्यते खण्ड्यते च, किन्तु तावता नेदमभ्युपगन्तुं शक्यते यदेकस्मिन्नेव दर्शने परम्परा मर्यादा च भिन्नेति । स्वस्वपरम्परायां मर्यादायाञ्च स्थित्वैवावरज: समालोचयति खण्डयति च । सोऽप्य- वरजः कालान्तरे पूर्वजो व्यवह्रियेतैव । एवं रूण्डनमण्डनपरम्परायां समर्यादायां सत्यामप्येकरूपतां दार्शनिका न जहति । शब्दार्थस्वरूपविषये तु समेषां दार्शनिकानां विमर्शकानाञ्चैकरूप्यमेव स्वीकर्तव्यं भवेत् । समात्रक भवतः । वै वैदिकशिक्षादर्शनबिन्दु. २७ . शब्दस्यानित्यत्वं साधयितुमैदम्पर्यमावहन्तोऽपि 'घटः' इत्येवानुपूर्वीमुत्पादयेयुः कम्बुग्रीवादिमति, न तु 'टघः' इति । शब्दः कृत्रिम इत्येतावता यथा तथा वा पुरुषश्शब्दान् रचयितुं प्रभुर्न भवेत् । एवमर्थस्वरूपविषयेऽपि । प्रान्तभेदेन देशभेदेन वा घटस्याकारा भवन्ति भिन्नाः, तथापि तत्तदाकारवति घटशब्दप्रयोगस्तु नियतः। पिकशब्दः परिवर्तनेन कपिर्भवति । अतः कपिशब्दस्य निर्माणं पिकशब्दाज्जातमिति कथनं किं युक्तियुक्तम् ? एवं कटपयादिसंख्या- शास्त्रानुसारेण पिककपिशब्दयोरेकैव 'एकादश' रूपा संख्या निष्पद्यत इत्यनयोरेक एवार्थ इति किं निश्चेतुं शक्यम् ? यद्येवं तहि घट इत्यस्य एकचत्वारिंशत् सङ्ख्या समायातीति टघ- शब्दोऽपि घटार्थकस्स्यात् । अतश्शब्दतदर्थस्वरूपतत्सम्बन्धविषये किञ्चन प्रबलं नियामकं प्रमाणं सर्वैरेष्टव्यम् । तदत्र मीमांसकैरवधृतं प्रमाणं निराबाधमित्युत्पश्यामः । तत्र मीमांसावेदवाक्यार्थ- निर्णयाय प्रवृता शब्दशब्दार्थ आवश्यकतानुसारेण सप्रमाणं विवेचयतीति पूर्वमवोदाम । वेदानयंतश्शब्दतश्च संरक्षितुं षडङ्गानि महर्षिभिः प्रवर्तितानि सन्ति प्रसिद्धानि । तत्र शिक्षा- व्याकरणच्छन्दोविचितयो वर्णम्, तत्समुदायपदम्, वर्णम्, तत्समुदायपदम्, तत्समुदायं वृत्तमपि यथायथमवबोध्य वैदिकोमक्षरानुपूर्वीमनपायं परिरक्षितुं प्रावर्तन्त । तथार्थव्यवस्थोपयोगिनस्त्रयो निरुक्तं ज्यौतिष कल्पश्चेति । यावद्वेदे शब्दस्य प्राधान्यम्, तावदेवार्थस्यापि । यदि शब्दप्रधान एव वेदोऽभविष्यत्, न तहि जैमिनिः शब्दवत्तदर्थतत्सम्बन्धान नित्यानवक्ष्यत् । पाणिनेर्वैदिकप्रकरणं स्वरप्रकरणञ्चेम- मेव विषयमवद्योतयतः--यद्वेदेषु शब्दानां स्वराणाञ्चाध्ययनपरम्परासमागतं नियतं स्वरूपं कीदृशामिति । प्रातिशाख्यापरपर्यायाः शिक्षाया अध्ययनेन स्पष्टं प्रतीयेत यच्छब्दस्वरूपपरिपालने तस्याः कीदृशी जागरूकतेति । । एवं वैदिकच्छन्दसां परिरक्षणे छन्दोविचितेः। एवमर्थव्यवस्थोपयोगिनां निरुक्तज्योतिषकल्पानां कियदुपकारकत्वमिति तत्तद्ग्रन्थपरिशीलनपरिपक्वमतिवैमवानां न तिरोहितं किञ्चित् । इमान्यङ्गानि पुराणन्यायधर्मशास्त्राख्यानि त्रीण्युपाङ्गानि च प्रमाणतयाऽ- वलम्ब्य जैमिनिः शब्दतदर्थस्वरूपविवेचनं करोति । दामाध्यायस्य पञ्चमपादे 'अनभ्यासे पराक शब्दस्तादर्थात्' (१०.५.३९) 'आग्रयणाद्वा पराक् शब्दस्य देशवाचित्वात् पुनराधेयवत्' (१०.५.४१) इति सूत्रद्वयम् । प्रथमं सूत्रं पूर्वपक्षिणः, सिद्धान्तिनश्चोत्तरं सूत्रम् । 'पराञ्चमुक्थ्यानिगृह्णाति' इति वेदवाक्यार्थनिर्णयाय 'पराञ्चम्' इति शब्दस्यार्थे विचारः। अनभ्यासार्थकः पराक्शब्दः पूर्वपक्षिणः 'पराचीस्सामिधेनोरन्वाह' इति वेदवाक्ये पराकशब्दस्यानभ्यासवाचित्वादिति पूर्वपक्षिणो युक्तिः । सिद्धान्तिनस्तु स शब्दः कालवाची 'पराचीनमग्न्याधेयादग्नि पुनरादधाति' इति वेदवाक्ये कालवाचितया तस्य शब्दस्य प्रयोगादिति युक्तिः । अत्रायं विषयविवेकः-ज्योतिष्टोमे सोमयागे षोडशीनामा कश्चन गृहः । गृहशब्दस्य दारव उलूखलाकारः पात्रविशेषोऽर्थः। अस्मिन् ग्रहे सोमरसः कस्मात् पात्राद् ग्रहीतव्य इति विवादः । 'आग्रयणात् षोडशिनं गृह्णाति' इति वाक्यद्वयेन पात्रद्वयाद् ग्रहीतव्यमित्युभयोरपादानत्वं स्पष्टमव- गम्यते । किन्तु 'उक्थ्याद् गृह्णाति' इति वाक्यस्य 'पराञ्चमुक्थ्यान्निगृह्णाति' इति वाक्येनैकवाक्यतां कृत्वा 'उक्थ्यात्' इति पञ्चम्या अपादानत्वं सम्भवति न वेति विचारस्समापन्नः ।

२८ वैदिकशिक्षादर्शनबिन्दुः तु . तत्र पूर्वपक्षो 'उपपदविभक्त कारकविभक्तिबलीयसी' इति वैयाकरणमर्यादामवलम्ब्य पराक्शब्दस्यानभ्यासार्थकत्वं वेदबोधितं स्वीकृत्यानभ्यासो यथास्यात् तथा षोडशिनि उक्थ्या- पादानकस्सोमरसो ग्राह्य इति स्वपक्षमुपस्थापयति। सिद्धान्ती तु पराक्शब्दस्य सप्रमाणं कालवाचित्वमङ्गीकृत्योक्थ्य ग्रहग्रहणोत्तरकालमाग्रयणान् षोडशिग्रहे सोमो ग्राह्य इत्यभिप्रैति । तत्राग्रयणस्यैवापादनत्वम्, न तूक्थ्यस्येति सिध्यति । पूर्वपक्षे सिद्धान्ते च पराक्शब्दार्थस्य प्रमाणं तुल्यं वेदरूपम्, तर्हि कतरः पक्षो ग्राह्यः ? विनिगमनाविरहात् पक्षद्वयं तुल्यमेव स्यादिति चेत्, पूर्वपक्षे तस्यानभ्यासवचनत्वे उक्थ्याद् अनभ्यासमित्यन्वयस्स्यात् । तत्र प्राप्ते षोडशिग्रहणे उक्थ्यापादानकत्वस्यानभ्यासस्य च विधाने वाक्यभेदः । उक्थ्यात् पराचीनमूर्ध्वकालीनमित्यन्वये उक्थ्यापादानत्वाभावात् प्राप्तं पोडशिग्रहणमुद्दिश्योर्ध्वकालत्वमात्रविधाने वाक्यभेदाभावः । उक्थ्यस्यापादानत्वाभावे पञ्चमी 'अन्यारादितरते दिक् शब्दाञ्चूतरपदाजाहियुक्ते' इति सूत्रेण भवति। चैत्रात् पूर्वः फाल्गुन इत्यादिप्रयोगनिर्वाहाय दिशि दृष्टश्शब्दो दिकशब्द इति वैयाकरणाख्यातत्वात् । यद्यपि पूर्वपक्षिमते 'उक्थ्यात्' इत्यत्र कारकविभक्तिस्सिद्ध्यति, सिद्धान्तिनस्तु मत उपपदविभक्तिः, तथापि पूर्वपक्षिमतं वाक्यभेदादिबहुदोषवदिति 'उक्थ्यात् पराञ्चम्' इत्युपपदविभक्त्याश्रयणस्यैवोचितत्वात् । तस्मादाग्रयणादेव षोडशिग्रहणम् । अनेन सन्दर्भेणेदं निश्चितं भवति यत् कस्यचन शब्दस्यार्थनिर्धारणाय पूर्वापरसन्दर्भ वाक्यशेष वृद्धव्यवहारं निगमनिरुक्तव्याकरणादिकञ्च पर्यवेक्षणीयम, तदनुसारेणैव निश्चितोऽर्थः प्रत्येतव्य इति । षष्ठाध्यायस्यान्तिमेऽधिकरणे पशुशब्दार्थो विचारितः । पशुशब्दो जीवमात्रे वर्तते 'पशुपतिः' इत्यादौ, चतुष्पात्स्वेव व्यवह्रियते पशवश्चरन्ति इत्यादौ । कृमिकीटपतङ्गादिष्वण्ड. जेषु पशुशब्दव्यवहारो न दृश्यते । अस्यां स्थितौ 'पशुना यजेत' 'अग्नीषोमीयं पशुम्' इत्यादि- वेदवाक्येषु पशुशब्दार्थः क इति विचाराय प्रवृत्तो जैमिनिस्सूत्रयति-'छागो वा मन्त्रवर्णात्' इति । अत्रत्यः पूर्वपक्षी आकृत्यधिकरणन्यायसिद्धं शब्दानां जातिवाचकत्वमङ्गीकृत्य पशुत्वमेव पशुशब्दार्थः, तस्य साक्षाद्यागसाधनत्वेऽनुपपन्ने सति परिच्छेदकतया व्यक्तरुपस्थितौ या कापि पशुव्यक्तियोगसाधनमिति मन्यते । सिद्धान्ती च जातिवाचकत्वं शब्दानामपरित्यज्य वाक्याशेषाधिकरणन्यायेन छागविशेषव्यक्ती जातेः पर्यवसानमिति व्यवस्थापयन् छागव्यक्तिर्यागसाधनमिति मन्यते । तत्र सिद्धान्तिनः 'छागस्य वपायाः मेदसः' इति मन्त्रोऽवलम्बः । अर्थवादो यथा विधिगत- सामान्यस्य विशेषार्थव्यवस्थापकः, तथा मन्त्रोऽपि तादृशकार्यसम्पादने क्षमः । यद्यपि विध्यर्थवादयोरेकवाक्यत्वादर्थवादस्य विधिगतसामान्यव्यवस्थापकत्वं यथा, न तथा मन्त्रस्य; मन्त्रस्तु स्थलान्तराधीनो विध्येकवाक्यतामवाप्तुं न क्षमः, तथापि मन्त्राणां प्रयोग- विध्येकवाक्यतायास्सत्त्वात् प्रयोगविधिना तस्योपसंहारः कर्तुं शक्यत इति न दोषः । विशेष्य- विशेषणभावस्सर्वत्र नैकरूपः, क्वचिदेकपदोपात्तयोरपि भवति, यथा-पशुना इत्यत्र लिङ्ग- संख्यादेः प्रकृत्यर्थे, प्रकृत्यर्थस्य च कारके प्रत्यायार्थे । क्वचित् पदद्वयोपात्तयोः । यथा-शुक्ल: पट इत्यत्र । क्वचिच्च वाक्यद्वयस्थयोरपि । यथा प्रयोगवचनमन्त्रवाक्ययोः। तदिदमुपसंहृतं जैमिनिना-'न वा प्रयोगसमवायित्वात्' इति सूत्रेण । अत: पशुशब्दः छागपर एव । एवञ्च शब्दार्थावधारणाय क्वचिन्मन्त्रस्यापि व्यापृतिरस्तीति सिध्यति । .

वैदिकशिक्षादर्शनबिन्दुः २९ यस्य 'पृष्ट यषडहो बृहद्रथन्तरसामा कार्यः' इत्येकं वाक्यम् । अत्र 'बृहद्रथन्तरसामा' इति शब्दस्यार्थी विचारितो दशमस्य पञ्चमे । बृहदिति रथन्तरमिति च साम्नोमिनी । षडह इति षड्भिदिनैस्साध्यस्सोमयागः । स च द्विविधः----पृष्ठयः, अभिप्लवश्च । पृष्ठस्तोत्रयुक्तः पृष्ठयः, अभितः प्लवते यः सोऽभिप्लवष्षडहः । द्वादशाहे क्रतो पृष्ठयष्षडहो यस्तस्य विकृतिः गवामय- निकषडहः । प्रकृतौ द्वादशाहिकषडहे क्रमेण षट्सु दिनेषु रथन्तरं बृहद वै रूपं वैराज शाक्वरं रंवतमिति षट् सामानि विहितानि । तद्विकृतावस्मिन् गवामयनिकषडहे बृहद्रथरन्तरयोरेव साम्नोर्गानम्, न तु वैरूपादेरिति वाक्यमिदमवबोधयति । तत्र प्रत्यहं बृहद् रथन्तरमित्युभे सामनी गेये, उत बृहद्रथन्तरं बृहद्रथन्तरमिति षट्सु दिनेष्वावृत्त्या एकैकस्मिन्दिन एकैकं गेय- मिति विप्रतिपत्तिः । वृहद्रथन्तरसामन्शब्दस्य द्वेधा समासः-बृहच रथन्तरञ्चेति वृहद्रथन्तरे, ते सामनी इति त्रिपदबहुव्रीहिरिति । अन्यपदार्थस्तुभयत्र समानः, किन्तु द्वन्द्वगर्भबहुव्रीही इतरेतरसाहित्यस्य प्रतीतेर्यस्मिन्नहनि बृहत् तस्मिन् रथन्तरसाहित्यमप्यावश्यकमित्यन्यपदार्थ एककस्मिन्नहनि सामद्वययोगः प्रतीयते । त्रिपदबहुव्रीहौ तु न, तथाप्येककस्मिन्नहन्येकैकस्य साम्नो योगः प्रतोयते। अतोऽन्यपदार्थस्य समानत्वेऽप्यनुष्ठाने वैलक्षण्यमापततीति समासेनार्थावधारणमावश्यकम् । तत्र द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यं समासवचनम्' इति भगवतः कात्यायनस्य वचनेन त्रिपदबहुव्रीही द्वन्द्वसमासावश्यम्भावाद् नित्यग्रहणेन पाणिनीयविभाषाधि- कारस्य 'यथोत्तरं मुनीनां प्रामाण्यम्' इति नीत्या सङ्कोचावश्यम्भावाद् द्वन्द्वगर्भबहुव्रीह्याश्रयणे- नेतरेतरसाहित्येनैव साम्नोविधानमिति प्रत्यहं सामद्वयं गेयमिति पूर्वपक्षिण आशयः । अत्र सिद्धान्तसूत्रं जैमिनेः-विभक्ते वासमस्तविधानात्तद्विभागेऽविप्रतिषिद्धम्' इति । बृहद्रथन्तरे सामनो विभक्ते प्रत्यहमन्यतरत्स्यादित्यर्थः । हेतु:-असमस्तविधानादिति । त्रिपदबहुव्रीहिमाश्रित्यासमस्तयोः-इतरेतर- निरपेक्षयोः साम्नोविधानादित्यर्थः। कात्यायनवचनन्तु वृहद्रथन्तरसामा इत्यत्र न प्रवर्तते । त्रिपदबहुब्रीही अवान्तरद्वन्द्वतत्पुरुषयोमहाविभाषया विकल्पे प्राप्ते, द्वन्द्वतत्पुरुषाभावपक्षे 'द्वन्द्वा- चुदषहन्तात्समाहारे', 'गोरतद्धितलुकि' इति समासान्तप्रत्ययाभावे सति 'वाक्त्वप्रियः', 'पञ्चगोधनः' इत्यपि प्रयोगः प्रसज्येत। वाक्त्वचप्रियः, पञ्चगवधन इत्येव प्रयोग इष्यते । अतोऽवान्तरद्वन्द्वतत्पुरुषयोनित्यत्ववचनम् । एवञ्च यत्रावान्तरद्वन्द्वतत्पुरुषयोः प्रवृत्तावप्रवृत्तौ च शब्दरूपान्यत्वं तत्रैवेदं कात्यायनवचनं प्रवर्तते। वृहद्रथन्तरसामा इत्यत्र त्रिपदबहुव्रीही द्वन्द्व- प्रवृत्तौ तदप्रवृत्तौ च न रूपान्यत्वमवलोक्यते । अतो नात्र द्वन्द्वस्य नित्यता। तमुत्र द्वन्द्वगर्भ- द्विपदबहुव्रीहिर्वा तद्रहितत्रिपदबहुव्रीहिर्वेति कथं निश्चीयतामित्यत्राह तद्विभागेऽविप्रतिषिद्धमिति । परस्परनिरपेक्षतया साम्नोविधाने सति अतिदेशवाक्यमविरुद्धमित्यर्थः । यथा प्रकृतौ द्वादशाहिक- षडहे प्रतिदिनमेकैकं साम गीयते चेन्न विरोध इति तात्पर्यम् । पूर्वपक्षिणो मते प्रकृतिवद्विकृतिः कर्तव्येत्यतिदेशवाक्यं नानुसृतं स्यात्, सिद्धान्तिनस्तु मते तदनुसृतं स्यादिति भावः । स्वरभेदेनार्थभेदः, अर्थभेदेन च पदभेद इति रीत्या द्वन्द्वगर्भबहुव्रोही बृहद्रथन्तरसामा इत्यत्र पूर्वपदं बृहद्रथन्तरपदम्, तच्च समासस्वरेणान्तोदात्तम्, तत्प्रकृतिकस्वर एव बृहद्रथन्तर- सामशब्दः । त्रिपदबहुव्रीहौ च पूर्वपदं बृहत्पदम्, तत्र प्रातिपदिकस्वरेणान्तोदात्तम्, तत्प्रकृतिक- अत्र - ३० वैदिकशिक्षादर्शनबिन्दुः स्वरो बृहद्रथन्तरसामशब्द इति रूपान्यत्वमत्रापि विद्यत इवाभाति; तथापि शिक्षाग्रन्थेषु ब्राह्मणभागे भाषिकस्वरस्य स्वीकृतत्वान्नात्र स्वरभेदप्रयुक्तरूपान्यत्वप्रसक्तिरिति मीमांसक- सम्प्रदायः । एवञ्च वाक्यार्थावधारणाय मीमांसकाः क्वचिद् व्याकरणम्, क्वचित् शिक्षाग्रन्थम्, क्वचिदर्थवादम्, क्वचिन्मन्त्रवर्णनम्, क्वचिच्चोपक्रमोपसंहारसन्दर्भ प्रामाणीकृत्य शब्दतदर्थ- निश्चये प्रवर्तन्ते । तत्रायं विशेषः पूर्वपक्ष्यपि यन्मतं प्रस्तौति तदपि पूर्वोक्तप्रमाणेष्वन्यतममादायैव । पूर्वपक्ष इत्येतावता न स प्रमाणविहीनो भवति । सिद्धान्त्यभिमतप्रमाणेषु प्रदर्श्यमानेष्वपि तत्र वर्तमानं दौर्बल्यं न्यूनतां वा समुद्घाटय सिद्धान्ती स्वमतं व्यवस्थापयति शब्दार्थस्वरूप- चिन्तनधारेयं मीमांसायामनित रसाधारणी। जैमिनिसूत्रेषु परिशील्यमानेषु तत्रेदं वैचित्र्यं स्पष्टमवभाति यज्जैमिनेः प्राक्कालवतिनां शब्दतदर्थविषये यन्मतं तदुल्लिख्य तैरुच्यमानं हेतुञ्च निर्दिश्य तदौचित्यानौचित्यपरोक्षणं महर्षिः करोतीति । एवं नेकविधया दृष्टया निष्कृष्ट वेद. वाक्यार्थशब्दतदर्थविचार: प्रवर्तितो मीमांसकैः । तत्र जातिशक्तिवादिनो मीमांसका इति प्रसिद्धम् । 'आकृतिस्तु क्रियार्थत्वात्' इति सूत्र- यन्नाकृत्यधिकरणे जैमिनिः शब्दस्यार्थ आकृतिरिति प्रतिजानीते, किन्त्वेतदधिकरणपूर्वपक्षिणोऽपि व्यक्तिशक्तिवादिनस्स एव हेतुः, यश्च सिद्धान्तिनो जातिशक्तिवादिनः। 'बोहोन प्रोक्षति' इत्यत्र ब्रोहिशब्दार्थो यदि व्रीहित्वं जातिः, तर्हि तत्र प्रोक्षणक्रिया न सम्पद्यतेति व्यक्तिरर्थ इति पूर्वपक्षिणो मतम् । 'श्येनधितं चिन्वीत' इत्यत्र श्येनशब्दार्थो यदि व्यक्तिः, तर्हि चयनक्रिया नोपपद्यत इति जातिरर्थ इति सिद्धान्तिनोऽभिमतम् । कथमत्र निर्णयो भवतु ? नात्र निर्णयाय कस्यचन वैदिकस्य प्रमाणस्यावलम्बः पूर्वोत्तरपक्षिणो भवितुमर्हति । न चात्र कस्यचन महर्षे- रनुशासनं विलोकयामः-यज्जाति रेव शब्दस्यार्थो न व्यक्तिः, व्यक्तिरेव तादृशी न जातिरिति । शब्दार्थचिन्तनधारैव परिशीलनीया पूर्वोत्तरपक्षिणोः। तत्र यः पक्ष औचित्यमावहति प्राप्तान् विरोधान परिहरेत्, शास्त्रमर्यादाञ्च नोल्लङ्घते, स पक्षो ज्यायान् ग्राह्यश्चेति निर्णयः कर्तव्यः । एषा च चिन्तनधारा मोमांसकानाम् । 'श्येनचितं चिन्वीत' इत्यत्र श्येनशब्दस्य पक्षिविशेष- व्यक्तिवाचित्वे चयनप्रयोग एवानुपपन्नस्स्यात् । 'व्रीहीन् प्रोक्षति' इत्यत्र व्रीहिशब्दस्य जाति- वाचित्वे प्रोक्षणक्रियाया अनुपपत्तिरिति समानायामप्यनुपपत्तो पूर्वपक्ष्यनुपपत्त्यपेक्षया सिद्धा- न्तिनोऽनुपपत्तिगरीयसी दुर्वारा च । पूर्वपक्षो दर्शपूर्णमासाङ्ग ब्रीह्यङ्गप्रोक्षणस्यानुपपत्ति दर्शयति 'अङ्गगुणविरोधे च तादात्' इति द्वादशिकाङ्गगुणविरोधन्यायेनाङ्गाङ्गप्रोक्षणानुपपत्त्यपेक्षया प्रधानाङ्ग- चयनानुपपत्तिर्गरीयसी। इत्थञ्चानुपपत्तिर्दुरा। प्रोक्षणानुपपत्तिश्च द्रव्यपरिच्छेदकतया समाधातुं शक्या। 'श्येनचितं चिन्वोत' इत्यत्र तु श्येनपक्षिणो द्रव्यस्य प्रकृतेनोपयोगः । न हि श्येनपक्षिमिर्यागः क्रियते बोहिवत्, किन्तु इष्टकाभिश्चयन क्रिया सम्पादनीया। तच्च चयनं श्येनाकारवत् सम्पादनीयम् । तत्र श्येनशब्दस्य व्यक्तिवाचित्वेऽनुपपन्नं चयनं स्यात् । अत आकृतिः शब्दस्य शक्येति सिद्धान्तः । शब्दार्थनिश्चये एतादृशी विचारधारा मीमांसकानाम् ।

Vaidikasiksa Darsanbindu

Author
Pt.p.n.pattabhirama Sastri Vidyasagara
Title
Vaidikasiksa Darsanbindu
File name
Vaidikasiksa Darsanbindu
Text
OCR done
Published
2005/03/10
Publisher
Director, Research Institute, Sampurnanand Sanskrit Vishvavidylaya, Varanasi.
Language
Sanskrit
Pages
37
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
495729
Barcode
1990030070643.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Available
VMLT id
9TpzhgHfMJQ
Download PDF

Vaidikasiksa Darsanbindu