Sri Sringeri Sharada Peetham

Laghuchandrikaprakaashah

Vedanta Kesari Veda Brahmashri K Narayana Bhatta · 2004/10/20

PDF Proofread

Front matter

BL
SK
WWWWW
Sri Sarada
poboss
397107
3

श्रीभारतीतीर्थवेदशास्त्रग्रन्थमाला - प्रथमं पुष्पम्
अहं ब्रम्हा रिम
॥ शङ्कर अर्द्रतशोधकेन्द्रम् ॥
दक्षिणाम्नाय जगद्गुरु श्री शङ्कराचार्य महासंस्थानम्,
श्रीशारदापीठम्, शृङ्गेरी-५७७ १३९

श्रीभारतीतीर्थवेदशास्त्रग्रन्थमाला – प्रथमं पुष्पम्
॥ लघुचन्द्रिकाप्रकाशः॥
अद्वैतसिद्धिव्याख्याया: गौडब्रह्मानन्दीति प्रथिताया: लघुचन्द्रिकायाः
अभिनवा व्याख्या
प्रथममिथ्यात्वनिरूपणात्मकः प्रथमभाग:
* व्याख्याता
वेदान्तकेसरी. वेदब्रह्मश्री के. नारायणभट्टः
(शृङ्गगिरिजगद्गुरु श्रीमठीयास्थानमहाविद्वान्)
।। शङ्कर अर्द्रतशोधकेन्द्रम् ॥
दक्षिणाम्नाय जगद्गुरु श्री शङ्कराचार्य महासंस्थानम्,
श्रीशारदापीठम्, शृङ्गेरी-५७७ १३९

Laghu candrika prakashah: A New Commentary on Laghuchandrika. by Vedanta kesari K. Narayana Bhatt R- Published by Shankara Adwaita Research Centre Dakshinamnaya Jagadguru Sri Shankarachary Mahasmthanam. Sri Sharada Peetham. Sringeri Karnataka. 577 239 प्रकाशनसमय: -- वृषवत्सरीयभाद्रपदपूर्णिमा २-९२००१ प्रतय:- ५०० : C सर्वेऽधिकारा: स्वायत्तीकृता: - (प्रकाशकाधीना:) प्राप्तिस्थानम्- दक्षिणाम्नाय जगद्गुरु श्री शङ्कराचार्य महासंस्थानम्, श्री शारदापीठम् शृङ्गेटी कर्णाटका - १७७ १३७ अक्षरसंयोजनम्- श्री वै. राममूर्तिश्रौती शृङ्गेरी Printed By असारका Sree Offset 5/1, Shankar Mutt Road Bangalore 560004 Phone : 6521118 - Sri Sri Bharathi Thirtha Mahaswamigal . -- %3-.... ...-... and- .-..- amad - -... - - --- -..- .. . . . . . - - ..- -. -..-. - .. .- हासंस्थान दक्षिणामाय दक्षिणानाय भीशारदापीठम् । शा .:-:-:.-------- जाना .::: श्रीमत्परमहंसपरिव्राजकाचार्यवर्य पदवाक्यप्रमाणपारावारपारीण यमनिय- मासनप्राणायामप्रत्याहारधारणाध्यानसमाध्यष्टाङ्गयोगानुष्ठाननिष्ठतपश्चक्रवर्त्यनाद्य विच्छिन्नश्रीशङ्कराचार्यगुरुपरंपराप्राप्त षड्दर्शनस्थापनाचार्य व्याख्यानसिंहासना धीश्वर सकलनिगमागमसारहृदय सांख्यत्रयप्रतिपादक वैदिकमार्गप्रवर्तक सर्वतन्त्र स्वतंत्र आदिराजधानी विद्यानगरमहाराजधानी कर्णाटकसिंहासनप्रतिष्ठापनाचार्य श्रीमद्राजाधिराजगुरु भूमण्डलाचार्य ऋष्यशृङ्गपुरवराधीश्वर तुङ्गभद्रातीरवासि श्रीमद्विद्याशङ्करपादपद्माराधक श्रीमज्जगद्गुरु श्रीमदभिनवविद्यातीर्थमहास्वामि । गुरुकरकमलसञ्जात श्रीजगद्गुरु शृङ्गेरी श्रीमद्भारतीतीर्थमहास्वामिभिः निखिलास्तिकमहाजनविषये नारायणस्मरणपुरस्सरं विरचिता आशिष स्समुल्लसन्तु। सिद्ध्यन्तपदाख्येयाश्चत्वारो ग्रन्था वेदान्तदर्शने समुल्लसन्ति। ते च ब्रह्मसिद्धिः, नैष्कर्म्यसिद्धिः, इष्टसिद्धिः,अद्वैतसिद्धिश्चेति। तेषु आद्यास्त्रयः प्रमेयप्रतिपादनप्रवणाः अन्तिमस्तु परपक्षविदलनप्रधानः। तस्य च निर्मातारः सर्वतन्त्रस्वतन्त्राः प्रातस्स्मरणीयाः मधुसूदनसरस्वतीयतिवर्याः। ते खलु उपनिषत्सु प्रतिपादितं भगवत्पादैविस्तारितं सुरेश्वरादिभिराचार्यैः प्रचारितं गाङ्गं पय इवात्यन्तमनाविलमप्यद्वैतसिद्धान्तं दूषणाभासै - मलिनीचिकीर्षितवतां न्यायामृतकाराणां आक्षेपान् समूलमुन्मूल्य तस्य निरवद्यतां १ I - ::: . - -..

-...- -- -..- न . - s- -- -..- . - ..-..- -- - - प्रत्यतिष्ठिपन्। तस्य ग्रन्थस्य साकल्येनावलोकने अद्वैतसिद्धान्तः पर्वतवदप्रकम्प्य इति समेषामपि करबदरायितं भवतीत्यत्र नास्ति संशयलेशोऽपि। तस्याश्च अद्वैतसिद्धेः ब्रह्मानन्दसरस्वत्याख्ययतितल्लजाः लघुचन्द्रिकाभिधां बृहतीं व्याख्यामरीरचन्। व्याख्या चेयं सिद्धिग्रन्थाध्येतॄणामतितरामुपादेया वरीवर्ति। . लघुचन्द्रिकाकाराणां हि सर्वेष्वपि दर्शनेष्वप्रतिहता गतिर्दरीदृश्यते। साऽपि व्याख्या विवरणापेक्षेति मन्वानाः विपश्चिदपश्चिमाः विट्ठलेशोपाध्यायाः तां व्याचचक्षिरे। सापि गुरुतरपरिष्कारगुम्फिता अधुनातनानां सुकुमारमतीनामन्तेवसतां दुरवगाहेति धिया तेषा मुपकाराय अस्माभिः प्रेरिताः विद्वांसो नारायणभट्टाः प्रकाशनाम्नी लघुचन्द्रिकाव्याख्यां | व्यरचयन्। एतेषां व्याख्यातॄणां न्याये वेदान्ते च परिनिष्ठितं पाण्डित्यं समस्तीति व्याख्याया अवलोकनेन स्फुटीभवति । विट्ठलेशीयमनुवर्तमानापीयं व्याख्या लघु चन्द्रिकामनायासेन अवबोद्धं नितरामुपकरिष्यति। दुरूहान् गभीरानपि लघुचन्द्रिका गतान् विषयान् स्फुटं प्रकाशयति। अत एव व्याख्यानस्यास्य 'प्रकाश' इति नामाऽपि सार्थकतामश्नुते। व्याख्याया अस्याः प्रथममिथ्यात्वनिरूपणात्मकस्य प्रथमभागस्य प्रकाशनमधुना सम्पद्यत इति नितरां मोदामहे। श्रीशारदाशशिकलावतंसयोरसीमया कृपया व्याख्यातार इमे श्रेयःपरम्पराभिस्सम- भिवर्धन्तां ग्रन्थश्चायं जिज्ञासुजनपाणिपल्लवालंकारो भूयादित्याशास्महे। - :::::::::: - :::::::::: इति नारायणस्मरणम् शृङ्गगिरिः वृषवत्सरीय ज्येष्ठ शुद्ध सप्तमी भौमवासरः. २९.५.२००१. श्री: ...::-.....................-...-.-:-:-:- TARA Dham । प्रकाशकीयम्।। . श्रीमच्छङ्करभगवत्पादाचार्यै: सनातनधर्मप्रचाराय प्रतिष्ठापितेषु चतुराम्नायपीठेष्व . भ्यर्हितं दक्षिणाम्नाय शृंगगिरि शारदापीठं सुरेश्वराचार्यप्रभृतिभिर्विद्यातपोमूर्तिभिर्यतिश्रेष्ठै. रधिष्ठितं विद्योतते। ते सर्वेऽपि यतितल्लजा: धर्मप्रचारं बहुधा व्यतानिषुः। तस्यामेव परम्परायां षट्त्रिंशत्तमाः आचार्याः जगद्गुरु श्रीभारतीतीर्थमहास्वामिनः अधुना पीठेऽस्मिन् विराजन्ते। इमे गुरुवर्याः स्वपूर्वगुरुभिः धर्मप्रचाराय विहिता व्यवस्था: परिरक्षन्तः ततोप्यधिकतरं वेदशास्त्रपरित्राणे बद्धादरा दरीदृश्यन्ते। तथाहि पूर्वगुरुभिः स्थापिता: पाठशाला:, समारब्धा: पत्रिका:, प्रतिष्ठापितास्संस्थाः एतै: अविकलं प्रचाल्यन्ते। तासां समुन्नयनमपि विधीयत इत्यतिरोहितं समेषाम् । अधुना पुनः प्रकृतदेशकालानुगुण्येन इतोऽपि बहु प्रयतितव्यमिति मन्वाना: श्रीशङ्कर अद्वैत शोधकेन्द्रम् इति नाम्ना संस्थामेकां प्रतिष्ठापयितुं निर्धार्य तदर्थमेकं बृहद्भवनमपि निरमापयन्। अनया संस्थया प्रचीनानां नवीनानां च विशिष्टानां वेदशास्त्रग्रन्थानां प्रकटनं, विशेषतः अद्वैतग्रन्थानां निगूढाध्ययनेन तद्गतापूर्वविषयाणां प्रकाशनं, शृङ्गेाँ परश्शतवर्षेभ्यः परिरक्ष्यमाणस्य माकिं पंचविंशसहस्रग्रन्थकरम्बितस्य सरस्वतीभण्डारनाम्नो ग्रन्थालयस्य विस्तारणमित्यादीनि नैकानि कार्याणि चिकीर्षितानि विद्यन्ते। अपारकृपाजलधीनां श्रीचरणानां कृपया कार्येऽस्मिन् साफल्यमश्नुवीमहीति विश्वसिमो वयम्। संस्थयानया चिकीर्षितेषु कार्येषु ग्रन्थप्रकाशनस्य प्राथमिकत्वात् श्रीभारतीतीर्थवेदशास्त्रग्रन्थमाला नाम्ना ग्रन्थावलिः प्रकाशयितुमुपक्रम्यते। तस्यां मालायां प्रथमं कुसुमं लघुचन्द्रिकाप्रकाश नामकं अधुना प्रकाश्यते। आस्थानमहाविद्वांसः वेदान्तकेसरिण: श्री के. नारायणभट्टाः श्रीचरणानामाज्ञया ग्रन्थमिममरीरचन्। ग्रन्थस्यास्य वैशिष्ट्यं तु तदीयैरेव वचोभि: पाठका विज्ञास्यन्ति । ग्रन्थमिममादौ प्रकाशयितुमाज्ञप्तवतां श्रीचरणानां चरणनलिनयो: साष्टाङ्गप्रणति ततीस्समर्पयामि। ग्रन्थकृद्भ्यो नारायणभट्टेभ्यः सादरं नमोवाकमर्पयामि। अक्षरसंयोजन विहितवन्तः श्रीराममूर्तिश्रौतिन: सुन्दरतया मुद्रापितवन्तः, रामकृष्णाप्रेस् यजमाना: कर्मकराश्च धन्यवादास्ः। अद्वैतरसिका: विद्वांसो विद्यार्थिनश्च ग्रन्थायास्मै नितरां स्पृहयिष्यन्तीति आत्मनो विश्वासं प्रकटयन् विरमति।- १४-८-२००१ शृंगेरी वे. रा. गौरीशङ्करः शृंगगिरि जगद्गुरु श्रीमठीयप्रशासकः।।

व्याख्यातुर्निवेदनम् - नैसर्गिकी खलु प्राणिनां सर्वेषां सुखप्रेप्सा दु:खपरिजिहीर्षा च । प्रेक्षावन्त: पुन: साधनायत्तं सुखमनात्यन्तिकमवधारयन्त: आत्यन्तिकसुखं मोक्षमेव समीहन्ते। स च 'निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षित' इत्यभियुक्तोक्त्या समूलद्वैतरूपबन्धनिवृत्त्युपलक्षितस्वप्रकाशपरमानन्दलक्षण- प्रत्यगभिन्नब्रह्मरूपः। तत्प्राप्तिश्च द्वैताभावोपलक्षितब्रह्मनिर्विकल्पकनिश्चयात्। स च द्वैत सामान्यस्य मिथ्यात्वनिश्चयादेव भवतीति मुमुक्षूणां द्वैतमिथ्यात्वनिश्चयः अतितरामावश्यकः। तच्च द्वैतमिथ्यात्वं 'नेह नानास्ति किंचन' 'मायामात्रमिदं द्वैत' इत्यादिपरश्शतप्रमाणप्रमितं श्रीमच्छङ्करभगवत्पादप्रभृतिभिराचार्यतल्लजैः सयुक्तिकं प्रतिपादितं च । सति चैवं द्वैतसम्प्रदायानुसारिणो व्यासतीर्थाः द्वैतसत्यत्वं प्रतिपिपादयिषव: न्यायामृत- नामक ग्रन्थं निर्ममिरे यदवलोकनेन अद्वैतिनामपि केषांचिन्मनसि द्वैतं सत्यमिति भ्रान्तेरासी दवकाशः। तादृशी भ्रान्तिः कस्यापि कदापि माभूदिति लोकानुग्रहकप्रयोजना: सर्वतन्त्रस्वतन्त्रा: श्रीमधुसूदनसरस्वत्याख्या मुनिवर्याः अद्वैतसिद्धिनामानं ग्रन्थतल्लजं विरचय्य न्यायामृतकारैरद्वैत सिद्धान्ते आपादितानां दोषाणां समूलमुन्मूलनं व्यधासिषुः। तदुपरि न्यायामृततरङ्गिणीकारैरापा . दितान् दोषान्निरस्य श्रीब्रह्मानन्दसरस्वत्य: लघुचन्द्रिका गुरुचन्द्रिकेति व्याख्याद्वयेन अद्वैतसिद्धिं पर्यभूषयन् । सव्याख्याया अद्वैतसिद्धेस्सम्यगाकलने कृते अद्वैतसिद्धान्त: पर्वतवदप्रकम्प्य इति सुष्ठ निर्धारयितुं शक्यते। अत एव अद्वैतघण्टापथं निष्कण्टकीकृतवतां मधुसूदनसरस्वती ब्रह्मानन्द- सरस्वती यतिवर्याणामुभयेषां सर्वमप्यद्वैतिकुलं सर्वदा आधमर्ण्यमावहतीत्यत्र न कोपि संशयः । अथात्र न्यायामृतकाराणां दूषणोद्भावनरीति: मनागिव उदाह्रियते। यद्यपि तै: अद्वैतग्रन्थाः साकल्येनावलोकिता: तथापि संप्रदायापरिज्ञानात् तत्रत्यमर्थमन्यथा गृहीत्वा तैः दोषोद्भावनं कृतम्। तथाहि प्रथममिथ्यात्वनिरुक्तौ सदसत्त्वानधिकरणत्वमित्यस्य सत्त्वात्यन्ताभावासत्त्वात्य न्ताभावरूपधर्मद्वयमित्यर्थो न संभवति व्याघातात् इत्युक्तं तैः । तेषामयमाशय: सत्त्वासत्त्वे परस्परा भावरूपे । अत: तयोरेकतराभावे अन्येन भाव्यमेव। उभयोरभावस्तु न क्वचिदपि संभवति इति। इदं च दूषणं अद्वेतसिद्धान्तापरिज्ञानमूलकमेव। तदुक्तं सिद्धिकारैः 'नापि व्याघात: परस्परविरह- रूपत्वाभावात् 'इति। अत्रेदं तत्त्वम् । सत्त्वं त्रिकालाबाध्यत्वम् । तदभावो नासत्त्वम् तथा सति घटादीनामप्यसत्त्व- प्रसङ्गात्। किन्तु क्वचिदप्यधिकरणे सत्त्वेनाप्रतीयमानत्वम्। तच्च शशशृङ्गादावेव न जगति। तथाच त्रिकालाबाध्यत्वाभावरूपसत्वाभावस्य क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वरूपासत्त्वाभावस्य च प्रपंचे सत्त्वात् सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूपधर्मद्वयस्य सदसत्त्वानधिकरणत्वरूपत्वे न किंचिदनुपपन्नमिति। एवं द्वितीयमिथ्यात्वविचारे प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वमित्यत्र निषेधप्रति - योगित्वं स्वरूपेण पारमार्थिकत्वाकारेण वेति विकल्प्य स्वरूपेणेति पक्षे विवरणग्रन्थविरोध उद्भावितो न्यायामृतकारैः। । - तेषामयमाशय:- ‘त्रैकालिकनिषधं प्रति स्वरूपेणापणस्थरूप्यं पारमार्थिकत्वाकारेण प्रातिभासिकं वा प्रतियोगि' इति विवरणग्रन्थे आपणस्थरूप्यस्यैव त्रैकालिकनिषेधं प्रति स्वरूपेण प्रतियोगित्वस्योक्ततया प्रातिभासिकरजतस्य स्वरूपेण प्रतियोगित्वोक्तौ तद्गन्थविरोधो दुर्वार इति। वस्तुतस्तु अस्याः विवरणपंक्तेः आपणस्थरूप्यतादात्म्येन प्रतीतं प्रातिभासिकं रजतं स्वरूपेण पारमार्थिकत्वेन वा त्रैकालिकनिषेधं प्रति प्रतियोगीत्यर्थः । तत्र वाकरोऽनास्थायाम्। तथा च स्वरूपेण प्रतियोगित्वपक्ष एव युक्ततर इत्यभिप्राय: । तत्र प्रातिभासिकरजते लौकिकपरमार्थरजत. तादात्म्यैन प्रतीतत्वकथनं च पुरोवर्तितादाम्येनैव तस्य प्रतीतिरिति मतनिरासाय। विवरणपंक्तरित्थं व्याख्यानं न सिद्धिकारोपज्ञम्। प्राचीनै: चित्सुखाचार्यैरपि तथैव व्याख्यातत्वात्। तथाच प्राति भासिकरजतस्य त्रैकालिकनिषेधं प्रति स्वरूपत:प्रतियोगित्वपक्षे विवरणग्रन्थविरोधोद्भावनं न्याया मृतकाराणां प्राचीनचित्सुख्यादिग्रन्थापरिशीलनमूलकमेव। विश्वसत्यत्वबोधकश्रुतिवाक्यानां प्रत्यक्षसिद्धघटादिसत्त्वानुवादकतया ‘अग्निर्हिमस्य भेषज'मित्यादिवाक्यवन्न स्वार्थे प्रामाण्यमित्यस्मिन्नर्थे भगवत्पादीयबृहदारण्यकभाष्यविरोधमुद्भा- वयन्ति न्यायामृतकारा: । बृहदारण्यकभाष्ये देहभिन्नात्मबोधिकाया: 'अस्तीत्येवोपलब्धव्यः' इत्यादिश्रुतेः प्रत्यक्षप्राप्तानुवादकतया कथं प्रामाण्यमित्याशंक्य वादिविप्रतिपत्तिदर्शनादिति परिहृतम्। तथाच देहभिन्नात्मनः प्रत्यक्षसिद्धत्वेपि प्रत्यक्षस्य वादिविप्रतिपत्तिकलुषिततया तन्निरासार्थं श्रुत्या देहभिन्नात्मप्रतिपादनं क्रियते। अतो नानुवादकत्वं श्रुतेः इति तद्भाष्याशयः । तथा प्रकृतेपि प्रत्यक्षसिद्धजगत्सत्यत्वस्य श्रुत्या बोधनेपि प्रत्यक्षस्य वादिविप्रतिपत्तिकलुषिततया तन्निरासार्थं श्रुत्या जगत्सत्यत्वस्य बोधनान्नानुवादकत्वं श्रुतेरिति न्यायामृतकारा आशेरते। अत्रापि भाष्यार्थानवबोध एव तेषां शरणम्। यतो हि वादिविप्रतिपत्तेर्दर्शनादिति भाष्यस्यायमभिप्राय: यत् वादिविप्रतिपत्तिदर्शनेन देहव्यतिरिक्तत्वेनात्मनः प्रत्यक्षतैव नास्ति। अन्यथा प्रत्यक्षप्रामाण्यावादिनचार्वाकादेस्तत्र विप्रतिपत्तिर्न स्यात्। अतः देहभिन्नत्वेनात्मनः प्रत्यक्षतः असिद्धतया तत्प्रतिपादिकायाः श्रुते नुवादकत्वमिति। तथाचोक्तं तत्रैव भाष्ये- तस्माजन्मान्तरसंबन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्रप्तिपरिहारोपाय विशेषे च शास्त्रं प्रवर्तत इति। न्यायामृतकाराः जगत्सत्यत्वबोधकान् कांश्चिद्धेतून प्रदर्श्य आत्मानं कृतार्थं मन्यन्ते । अद्वैतसिद्धिकारास्तु तत्र सर्वत्र दोषान् प्रदर्श्य जगन्मिथ्यात्वसाधकानि बहून्यनुमानानि निर्दुष्टानि प्रदर्श्य अन्ते इत्थमवोचन्। “हेतवोऽभीष्टसिद्ध्यर्थं सम्यञ्चो बहवश्च नः। अल्पाः परस्य दुष्टाश्चेत्यत्र स्पष्टसुदीरितम्” इति। इत्थमद्वैतसिद्धिकारैः न्यायामृतोक्तदूषणेषु समूलमुन्मूलितेष्वपि न्यामृततरङ्गिणीकारा: सिद्ध्युक्तयुक्तीर्दूषयितुं प्रवृत्ता इव महान्तमाटोपं प्रदर्शयन्ति। तदीय: आटोप: लघुचन्द्रिकाकारैः सम्यक्तया निरस्त: सिद्ध्ययुक्तस्यार्थस्यानवद्यत्वं महता प्रबन्धेन निरूपितम्। लघुचद्रिकाकाराणां सर्वेष्वपि दर्शनेष्वप्रतिहता गतिः। तदीया विषयविवेचनचातुरी परिष्काररीति: परपक्षप्रतिक्षेपसरणिश्च तेषां लोकोत्तरपाण्डिती प्रकर्षं स्फुटं व्यंजयन्ति । अत एव यथा भगवत्पादैरुक्तं 'तस्मात् पुरुषार्थोत: शब्दादिति यन्मतं भगवतो बादरायणस्य तत्तथैव तिष्ठति - न शेषत्वप्रभृतिभिर्हेत्वाभासैश्चालयितुं शक्यते' इति तथैव मधुसूदनसरस्वतीभिर्यदद्वैतसिद्धौ सिद्धान्तितं तत्तथैव तिष्ठति न तरङ्गिणीकारादीनां हेत्वाभासैश्चालयितुं शक्यते इति ब्रह्मानन्द सरस्वतीनां व्याख्यानेन स्पष्टं प्रतीयते लघुचन्द्रिकाया दुरूहपरिष्कारजटिलतया दुरवगाहतामभि - लक्ष्य विपश्चिदग्रेसरा विठ्ठलेशोपाध्याया: तां व्याचचक्षिरे। अत्युत्तमा सा व्याख्या जडत्वनिरुक्ति पर्यन्तमेवास्ति न तदुत्तरमिति चेखिद्यते नश्चित्तम्। परन्तु इयत्यपिवा सा समुपलब्धेत्येतावतैव कथं चित्समाधातव्यमास्ते। विठ्ठलेशीयव्याख्यायाः अपि परिष्कारजटिलतया सुकुमारमतीनां अन्तेवसतां लघु- चन्द्रिकाया: सुलभावबोधाय सरलव्याख्या रचयितव्येति जगद्गुरु श्रीभारतीतीर्थश्रीचरणा मा माजिज्ञपन्। ब्रह्मानन्दीयव्याख्यारचनायां नाहं शक्त इत्यवयन्नपि श्रीचरणानामनुलङ्घनीयामाज्ञा शिरसा बिभ्रत् कार्येऽस्मिन् प्रावर्तिषि। 'ग्रन्थेऽस्मिन् कृतवाग्द्वारे विठ्ठलेशविचक्षणैः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गति:' । इति कथंचित् धैर्यमावहन व्याख्यामिमां आरभिषि। आदौ प्रथममिथ्यात्वनिरुक्तिग्रन्थं व्याख्याय श्रीचरणेभ्य: प्रादर्शयम्। ते च नितरां मुदितान्तरङ्गा: महत्या अनुकम्पया अवलोक्य क्वचित् क्वचित् शोधनानि समसूचयन्। महती खलु सूक्ष्मेक्षिका श्रीचरणानाम्। तैस्सूचितानि शोधनानि नितरां समुचितान्यासन्। किं बहुना ब्रह्मानन्दसरस्वतीभिलघुचन्द्रिकान्ते यदुक्तं 'महानुभावधौरेयशिवरामाख्यवर्णिनः। एतद्न्थस्य कर्तारो लेखका: केवला वयम्' ॥ इति तदेव ईषद्वत्ययेनास्या: प्रकाशव्याख्याया: अन्ते पठितुं योग्यम्। यथा- 'महानुभावधौरेयभारतीतीर्थदेशिका: । एतद्गन्थस्य कर्तारो लेखका: केवला वयम्'।। इति ।। तदेवं तदनुग्रहेणैव रचितामिमां प्रथममिथ्यात्वनिरुक्तिपर्यन्तां व्याख्यां तेषामेव चरणनलिनयो: सभक्तिश्रद्धं समर्पयामि॥ - इति सुधीजनविधेय: के. नारायणभट्टः

॥ अद्वैतसिद्धिः॥
॥ प्रथम:परिच्छेदः॥
मायाकल्पितमातृतामुखमृषाद्वैतप्रपंचाश्रयः
सत्यज्ञानसुखात्मक: श्रुतिशिखोत्थाखण्डधीगोचरः।
लघुचन्द्रिका
नमो नवघनश्यामकामकामितदेहिने । कमलाकामसौदामकणकामुकगेहिने
॥१॥
प्रकाश:
॥२॥
॥४॥
॥५॥
॥७॥
|॥८॥
शारदाचन्द्रमौळीशरत्नगर्भगणेश्वरान् । नमस्यामि सदा भक्त्या सर्वसिद्धिविधायिन: ॥१॥
अद्वैतार्णवशीतांशुं द्वैतध्वान्तदिवाकरम्। नमामि भगवत्पादशङ्करं करुणाकरम्
पद्मपादसुरेशादीन् सम्प्रदायप्रवर्तकान्। वन्दे दिगन्तविश्रान्तयशोराशिविराजितान् ॥३॥
मधुसूदनसन्मौनिब्रह्मानन्दयती भजे। अद्वैतराजमार्गोऽयं याभ्यां निष्कण्टकीकृत:
दक्षिणाम्नायशृङ्गेरीशारदापीठसद्गुरून्। सर्वतन्त्रस्वतन्त्रादिबिरुदालिविभूषितान्
वेदशास्त्रपरित्रातॄन् मय्यपारकृपावतः। प्रणम्य परया भक्त्या भारतीतीर्थदेशिकान् ॥६॥
तदाज्ञां शिरसा धृत्वा मालां सुममयीमिव । श्री नारायणभट्टोऽहं लक्ष्मीमाधवनन्दन:
शिष्यश्च विद्वद्रत्नश्रीवेङ्कटेश्वरशास्त्रिणाम्। अद्वैतसिद्धिग्रन्थस्य ब्रह्मानन्दीयनामत:
बह्वर्थगर्भितां व्याख्यां प्रथितां लघुचन्द्रिकाम्। छात्राणां सुखबोधाय व्याख्यास्यामि यथामति॥९॥
विघ्नविघातायाचरितं इष्टदेवताया: श्रीकृष्णस्य नमस्काररूपं मङ्गलं शिष्यशिक्षार्थं निबध्नाति- नम इति ।
नवो यो घन: मेघ: तद्वत् श्याम:, कामेन मन्मथेनापि (अतिसुन्दरत्वेन प्रसिद्धेनापि) कामित: अभिलषित:
यो देह: तद्विशिष्टाय इत्यर्थः । अत्र च मत्वर्थीयस्य इनिप्रत्ययस्य सौन्दर्यातिशयरूपप्राश-स्त्यार्थकतया
बहुव्रीहिणा तादृशार्थालाभात् न नकर्मधारयादिति न्यायविरोधः। कमलां लक्ष्मी सम्पद्रूपां कामयत इति
कमलाकाम: स चासौ सुदामैव सौदाम: तस्य कणा: पृथुककणा: । अथवा कमलाकामस्य सुदाम्न इमे
कमलाकामसौदामा: सापेक्षत्वेऽपि गमकत्वात्समास: । ते च ते कणाश्चेति पूर्ववत् । अथवा सुदाम्न:
कणा: सुदामकणा:,त एव सौदामकणा:, स्वार्थे
अण् ।
तेषां कणानां
कामुक: अपेक्षावान् । स- चासौ
गेही गृहस्थ: गृहस्थकर्तव्यातिथिसत्कारकरणेन तदिष्टार्थसम्पादनशील: । अस्मिन् पक्षे कमला-काम
इत्यपि गेहिविशेषणम्। तस्य, श्रीकामः इत्यर्थः,लक्ष्मीपतिरिति यावत्। तस्मै श्रीकृष्णायेत्यर्थः,
सम्पत्प्राप्तिहेतोरदृष्टस्य पूर्वमसत्त्वेऽपि भक्ताहृतात्यल्पपृथुककणमात्रस्वीकरणेनापि तादृशादृष्टमुत्पाद्य
याचकाभीष्टप्रद: लोकविलक्षण: दाता भगवान् अस्माकमपीष्टमवश्यं दास्यतीति- भाव: ॥१॥

2 अद्वैतसिद्धिः सव्याख्या मिथ्याबन्धविधूननेन परमानन्दैकतानात्मक मोक्ष प्राप्त इव स्वयं विजयते विष्णुर्विकल्पोज्झित:॥१॥ लघुचन्द्रिका श्रीनारायणतीर्थानां गुरूणां चरणस्मृतिः। भूयान्मे साधिकेष्टानामनिष्टानां च बाधिका॥२॥ अद्वैतसिद्धिव्याख्यानं ब्रह्मानन्देन भिक्षुणा। संक्षिप्तचन्द्रिकार्थेन क्रियते लघुचन्द्रिका॥३॥ विष्णु:व्यापकं जीवस्वरूपम्। मोक्षं प्राप्त इव स्वयं विजयते। कीदृशो विष्णुर्मोक्षं प्राप्त इव तत्राह- अखण्डधीगोचर इति । संसर्गाविषयकमनोवृत्तिविशेषविषयीभूत इत्यर्थः। ननु तादृश- -- । प्रकाश: यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिताह्यर्था: प्रकाशन्ते महात्मनः। श्वे-उ६-२३ । इति श्रुत्या देवताभक्तेरिव गुरुभक्तेरपि विद्याप्राप्तिसाधनत्वबोधनात् तां शिक्षयितुमाह - श्रीनारायणेति । श्रिया युक्ताश्च ते नारायणतीर्थाश्च श्रीनारायणतीर्थाः । मध्यमपदलोपी समास:, शाकपार्थिवादित्वात् । श्रीश्च प्रकृते ज्ञानलक्ष्मी: मोक्षलक्ष्मीश्च। तेषां । गुरूणां विद्योपदेशकर्तृणां । इष्टानां शास्त्रार्थस्य यथावत्प्रति पत्त्यादिरूपाणां । साधिका सम्पादिका । अनिष्टानां शास्त्रार्थे अप्रतिपत्त्यादिरूपाणां अन्यविधविघ्नानां च । बाधिका निवारिका । भूयादित्यन्वय: । गुरुचरणयोरेव स्मृतेः इष्टसाधकत्वे अनिष्टबाधकत्वे च गुरुस्मृते: किमुतेति गुरूत्कर्षः सूचित: ।।२॥ इत्थं इष्टदेवनमस्कारं गुरुचरणस्मृतिं च विधाय आप्तरचितत्वबोधनेन ग्राह्यत्वसूचनाय स्वनामो- ल्लेखनपुरस्सरं चिकीर्षितं प्रतिजानीते अद्वैतसिद्धीति । संक्षिप्तचन्द्रिकार्थेन ब्रह्मानन्देन भिक्षुणा लघु. चन्द्रिका अद्वैतसिद्धिव्याख्यानं क्रियत इत्यन्वय: । संक्षिप्तेति । संक्षिप्त: सङ्गृहीत: चन्द्रिकाया: गुरु- चन्द्रिकाया: स्वयमेव पूर्वं कृताया: अन्यस्या: अद्वैतसिद्धिव्याख्याया: अर्थो येन सः । तेनेत्यर्थः । ब्रह्मानन्देन तन्नामकेन। भिक्षुणा सन्यासिना। लघुचन्द्रिका एतन्नामिका । अद्वैतसिद्धिव्याख्यानं अद्वैत- सिद्धिनामकस्य ग्रन्थस्य विस्पष्टार्थकथनं । अत्र सिद्धिपदं सिद्धिजनकग्रन्थपरं न तु निश्चयपरं, तस्य व्याख्यानानुपत्तेः॥३॥ मायेत्यादिमूले अखण्डधीगोचरो विष्णु: मोक्ष प्राप्त इवेत्यन्वयः। तत्र विष्णुपदं व्याचष्टे विष्णु रिति । व्यापकं जीवस्वरूपमिति । वेवेष्टीति विष्णुः । विष्ल व्याप्तावित्यस्माद्धातो: 'विषे: किच्चे त्यनेन णु प्रत्यये विष्णुरिति रूपम् । कित्वाद्गुणाभाव: । योगरूढ्या लभ्यस्य परमात्मनो ग्रहणे तत्र मोक्षप्राप्ते नान्वय:संभवतीति तत्परित्यज्य यौगिकस्यार्थस्य व्यापकत्वगुणयुक्तस्य जीवस्य ग्रहणम्। व्यापकत्वस्य मतान्तरे आकाशादौ सत्वेऽपि तत्र-विष्णुपदा प्रयोगात् मोक्षप्राप्तसदृशत्वस्यानन्वयाच्च न तद्ग्रहण - प्रसक्तिः। उक्ते जीवे मोक्षप्राप्तेरभावादाह कीदृश इति । तत्र- एवं प्रश्ने कृते । आह, उत्तरमिति शेषः। अखण्डधीगोचर इतीति । अत्र धीशब्दार्थान्त:करणवृत्तेः निरवयवत्वरूपं नित्यत्वरूपं वा अखण्डत्वं न सम्भवतीति कृत्वा आह संसर्गाविषयकेति । ततश्चाखण्डत्वं नाम संसर्गाविषयकत्वं । धीपदार्थों मनो- वृत्तिविशेषः। विशेषश्च तस्या: निदिध्यासना- ।

प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 3 लघुचन्द्रिका धीविषयत्वे मोक्षप्राप्तिं प्रति नोद्देश्यतावच्छेदकत्वसम्भवः। उद्देश्यतावच्छेदककालावच्छिन्नत्वस्य विधेयगतत्वेन व्युत्पत्तिसिद्धस्य प्रकृते बाधात् । यदा हि तादृशधीविषयीभूत आत्मा ,तदा तस्य न मोक्षः। तस्याविद्यारूपबन्धशून्यात्मरूपत्वात्। तदुक्तं वार्तिके-'अविद्यास्तमयो मोक्ष: सा च बन्ध उदाहृतः' इति। 'निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः' इति च। अविद्याया अस्तमय: संस्कारादिकार्यरूपेणाप्यनवस्थानम् । सा स्थूलरूपा संस्कारादिरूपा च । तथा च विदेहताकालीनो . प्रकाश: . ऽवृत्तिजन्यपटुतमसंस्कारविशिष्टत्वं । अथवा अपरोक्षत्वं। अत्र च अखण्डधीगोचर इत्यादिना संसर्गा विषयकमनोवृत्तिविशेषविषयत्वविशिष्टजीवोद्देश्यकमोक्षप्राप्तिविधेयकबोधो भवतीत्युक्तं भवति । मोक्षं प्राप्त इवेत्यत्र इवार्थो न सादृश्यं किन्तु मिथ्यात्वं, प्राप्ति म संबन्धः, स च प्राप्तव्यमोक्षस्य प्राप्तुर्जीवस्य च भेदे सति । नचात्र मोक्षतत्प्राप्त्रोरस्ति भेद: । जीवस्वरूपत्वान्मोक्षस्य । अतश्च वस्तुत: तयोः सम्बन्धोऽपि न सम्भवति , अत्यान्ताभेदे सम्बन्धासम्भवात्। अत: तयोर्भेदकल्पनया संबन्ध: कल्पित इति बोधनार्थं इवशब्दप्रयोगः । अस्ति च इवशब्दसमानार्थिकाया वते: मिथ्या इत्यर्थे प्रयोग:- यथा भगवत्पादानां 'शुक्तिका हि रजतवदवभासत' इति। अस्माद्वाक्यात् तादृशबोधश्च न भवितुमर्हति, इत्याशंकया मिथ्याबन्धेत्यादिविशेषणमवतारयति, नन्विति । मोक्षप्राप्तिं प्रतीति । मोक्षप्राप्तिनिरूपिते त्यर्थः। अस्य चोद्देश्यतायामन्वयः। नोद्देश्यतावच्छेदकत्वसम्भव इति । कुत इत्यत आह उद्देश्यतावच्छे- दकेति । विधेयगतत्वेन-विधेयगतत्वेन भासमानतया । व्युत्पत्तिसिद्धस्य- न्यायसिद्धस्य । व्युत्पत्तिश्च उद्देश्यविधेयभावस्थले उद्देश्यतावच्छेदककालावच्छिन्नत्वं विधेये भासत इत्येवंरूपा । अन्यथा गन्ध- प्रागभाववान् घटो गन्धवान् इति वाक्यस्य प्रामाण्यापत्ति:, गन्धप्रागभाववति घटे गन्धोत्पत्त्यनन्तरं गन्धस्य सत्त्वात्। एतादृशनियमाङ्गीकारे च गन्धप्रागभावकालावच्छेदेन घटे गन्धस्य असत्वात् गन्धप्रागभाव- कालावच्छेदेन घटे गन्धवत्वबोधकस्य उक्तवाक्यस्य बाधितार्थबोधकत्वेन न प्रामाण्यापत्तिः । प्रकृते बाधादिति। विधेयभूतायां मोक्षप्राप्तौ तादृशधीविषयत्वरूपोद्देश्यतावच्छेदककालावच्छिन्नत्वस्य असंभवादित्यर्थः । असम्भवमुपपादयति- यदाहीति । तस्य आत्मन: । न मोक्ष इति । एवं च उक्तमनो वृत्तिविषयत्वकाले आत्मनि मोक्षस्य अभावात् न तस्य उद्देश्यतावच्छेदकीभूतोक्तवृत्तिविषयत्वकालाव- च्छिन्नत्वं सम्भवतीति भाव: । ननु जीवन्मुक्त इति व्यवहारात् जीवन्मुक्ते उक्तवृत्तिविषयत्वस्य मोक्षस्य च एकस्मिन्नेव काले सत्वात् तस्य तत्कालावच्छिन्नत्वं सम्भवत्येवेत्यत आह- तस्येति । मोक्षस्येत्यर्थः । बन्धशून्येति । बन्धसामान्याभाववदित्यर्थः । अत्र वार्तिककृद्वचनं प्रमाणयति- तदुक्तमिति । अविद्यास्त मयस्य कथं मोक्षत्वं बन्धनिवृत्तेः खलु तदित्याशंक्योक्तं वार्तिके, सा च बन्ध इति । तच्छब्दः समासे गुणीभूताया अपि अविद्याया: परामर्शक: योग्यत्वात् । निवृत्तिरात्मेति । मोहस्य - अविद्यायाः। निवृत्ति: उच्छेदः। ज्ञातत्वेन - उक्तवृत्तिविषत्वेन । आत्मा - आत्मैव नातिरिक्त इत्यर्थः । इत्थं च वार्तिकार्धद्वयेन अविद्यासामान्याभाववदात्मरूपत्वं- - अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका ऽस्तमयएव मुख्यो मोक्षः। ज्ञातत्वोपलक्षित आत्मापि विदेहताकालीन एव। जीवन्मुक्तिकालीनस्य ज्ञातत्वोपहितत्वस्यापि कदाचित्सम्भवेन ज्ञातत्वेनोपलक्षितत्वस्य सर्वदा असम्भवात् तदुपलक्षित- स्यैव मोहनिवृत्तित्वम्। जीवन्मुक्तौ संस्कारादिरूपेण मोहसत्वात्। स्थूलाज्ञाननिवृत्तेस्तत्वज्ञान- प्रकाशः मोक्षस्योक्तं भवति । अविद्यानिवृत्तेरात्मत्वं च कल्पितप्रतियोगिकाभावस्य अधिष्ठानरूपत्वाभ्युपगमात् । उक्तं हि-अधिष्ठानावशेषो हि नाश: कल्पितवस्तुन इति। जीवन्मुक्ते मुख्यमोक्षाभावमुपपादयितुं अविद्यास्तमयशब्दार्थमाह अविद्याया इति । संस्कारादीत्यादिपदेन अविद्याप्रयुक्तं जीवेश्वरभेदादिकं ग्राह्यम् । अविद्यासामान्याभावस्य मोक्षपदार्थघटकत्वार्थं अविद्यासामान्यस्य बन्धत्वमाह सा स्थूलरूपेति । तथा च अविद्यासामान्याभावस्य मोक्षपदार्थघटकत्वे च । विदेहताकालीन:- देहपातोत्तरकालीनः । अस्तमय: - अविद्यासामान्यास्तमय: । मोक्ष: - मोक्षपदार्थघटकः । जीवन्मुक्त इति व्यवहारस्तु स्थूला- विद्यामात्रास्तमयमादाय गौणः । एवं च जीवन्मुक्ते उक्तवृत्तिविषये अविद्यासामान्यास्तमयस्य मुख्यमोक्ष - घटकस्य असत्वात् तस्य उक्तवृत्तिविषयत्वकालावच्छिन्नत्वं न सम्भवतीति भावः । एवं मोक्षघटक: अपरोंशोऽपि न जीवन्मुक्तिकालीन: किन्तु विदेहताकलीन एवेत्याह ज्ञातत्वोपलक्षित इति । ननु ज्ञातत्वं अखण्डधीविषयत्वं, तदुपलक्षितत्वं च तत्सम्बन्धोत्तरकालीन तत्समानाधिकरणतदभाववत्वम् । यथा काकवद्देवदत्तगृहमित्यत्र देवदत्तगृहस्य काकसम्बन्धोत्तरकालीनकाकसमानाधिकरणकाकाभाववत्वम् । देवदत्तगृहोपर्युपविष्टस्य काकस्य तत उड्डयनात् । जीवन्मुक्तेऽपि अखण्डाकारवृत्तीतरवृत्तिकाले अखण्डा - कारवृत्तेरभावेन तया उपलक्षितत्वस्य सम्भवात् । एवं निर्विकल्पकसमाधिकालेऽपि। निर्विकल्पकसमाधौ चित्तं वृत्तिरहितं तिष्ठतीति बोध्यम् । अत आह- जीवन्मुक्तिकालीनस्येति । आत्मेति पूर्ववाक्यस्थं षष्ठ्यन्ततया विपरिणतमनुषज्यते । कदाचित् अखण्डाकारवृत्तिकाले। ज्ञातत्वोपहितत्वं- मोहनिवृत्तित्व- रूपविधेयानन्वयि तदन्वयकाले विद्यमानं च यत् ज्ञातत्वं तद्वत्वम्। असम्भवादिति । जीवन्मुक्ते कदाचिज्ज्ञातत्वसत्वेन सर्वदा ज्ञातत्वोपलक्षितत्वं न सम्भवतीत्यर्थः । ननु मास्तु सर्वदा तदुपलक्षितस्य मोहनिवृत्तित्वमित्यत आह तदुपलक्षितस्यैवेति । सर्वदेत्यादिः । वार्त्तिके तथैवोक्तत्वादिति भावः । सर्वदा तदुपलक्षितत्वं च स्वपूर्वकालीनप्रतियोगिसमानाधिकरण: स्वोत्तरकालीनप्रतियोग्यसमानाधिकरण: य: तदभाव: तद्वत्वं । जीवन्मुक्ते वृत्त्यन्तरकाले ज्ञातत्वाभावसत्त्वेऽपि पुन: ज्ञातत्वसम्भवात् न ज्ञातत्वा भावस्य स्वोत्तरकालीनप्रतियोग्यसमानाधिकरणत्वम् । तत्र हेतुमाह जीवन्मुक्ताविति । मोहसत्वादिति । ततश्च जीवन्मुक्तात्मनः मोहसामान्यनिवृत्तिरूपता न सम्भवतीति भावः। ननु स्थूलाज्ञाननिवृत्तिरेव मोहनिवृत्तिपदार्थोस्तु । सा च जीवन्मुक्ते वर्त्तते इति तस्या उक्तवृत्तिकालावच्छिन्नत्वस्य नासम्भव इत्यत आह स्थूलाज्ञाननिवृत्तेरिति । तत्त्वज्ञानेति । तत्त्वज्ञानविशेषरूपो यो मन:परिणाम: तद्रूपतासम्भवेनेत्यर्थः । अविद्यानिवृत्तिपूर्वकालीनस्य अविद्यानिवर्त्तकस्य तत्त्वज्ञानस्य अविद्यानिवृत्तिरूपत्वासम्भवेन अविद्या 5 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता - लघुचन्द्रिका विशेषादिमन:परिणामरूपतासम्भवेन सर्वदा ज्ञातात्मरूपत्वासम्भवाच्च। नचोक्तविषयत्वक्षणे एव तादृशाविद्यास्तमय:सम्भवति। चरमधीरूपविद्यावत:क्षणस्याविद्यातत्प्रयुक्तदृश्यविशिष्टकालपूर्व त्वाभावनियमेन सिद्धस्याविद्यास्तमयस्य विदेहताकालीनस्य विद्यावति क्षणे सम्भवाभावात्, अत आह- मिथ्याबन्धविधूननेन - विकल्पोज्झित इति। ब्रह्मात्मैक्याज्ञानरूपबन्धस्य तादृशास्त- मयेन दृश्यशून्य इत्यर्थः । अत्र बन्धस्य मिथ्यात्वोक्त्या तदुच्छेदस्य ज्ञानाधीनत्वज्ञापनेन न ज्ञानोत्पत्तिकालीनत्वमिति ज्ञापितम्। प्रकाशः . निवृत्त्युत्तरकालीनस्य तत्त्वज्ञानस्योपादानार्थं तत्त्वज्ञानविशेषेत्युक्तिः। ज्ञातात्मरूपत्वासम्भवादिति । जीवन्मुक्ते स्थूलाविद्यानिवृत्त्यनन्तरमपि तत्त्वज्ञानस्य सम्भवात् स्थूलाविद्यानिवृत्तेस्तद्रूपता सम्भवतीति भाव: । ततश्च तस्याः सर्वदा ज्ञातात्मरूपत्वे प्रमाणाभावात् वार्तिकविरोध इति न सा मोहनिवृत्तिपदेन ग्राह्येति भावः । ननु जीवन्मुक्तौ संस्काररूपेणाविद्या सत्वेऽपि चरमतत्त्वज्ञानकाले अविद्यासामान्यास्तमय: सम्भवत्येवेत्यत आह न चेति । नहीत्यर्थः । अस्य सम्भवतीत्यनेनान्वयः। उक्तविषयत्वक्षणे चरमतत्त्व- ज्ञानविषयत्वक्षणे । तादृशाविद्यास्तमय: स्थूलसूक्ष्मोभयविधाविद्यास्तमय:,अविद्यासामान्यास्तमय इति यावत्। तत्क्षणे तादृशवृत्तिरूपाविद्याकार्य स्यैव सत्वादिति भाव: । ननु तादृशवृत्त्युच्छेदोऽपि तदैव भवतु इत्यत आह चरमधीरूपेति । नियमेनेति । व्याप्त्येत्यर्थः । व्याप्तिश्च चरमधीरूपविद्यावत्क्षणत्वं यत्र यत्र तत्र अविद्यातत्प्रयुक्तदृश्यविशिष्टकालपूर्वत्वाभाव इत्येवंविधा। अविद्यातत्प्रयुक्तेति । अविद्या च तत्प्रयु- क्तदृश्यं च ताभ्यां विशिष्ट: य: काल: तत्पूर्वत्वाभाव इत्यर्थः। विदेहताकालीनस्य विदेहताकालमात्र- वृत्तेः । सम्भवाभावादिति । विद्योत्तरक्षणे दृश्यस्य स्वीकारे विद्यावत: क्षणस्य दृश्यविशिष्टकालपूर्वत्वं स्यात् । दृश्यविशिष्ट:काल: विद्योत्तरक्षणरूप: तत्पूर्वत्वं विद्यावत्क्षणस्य अवश्यंभावीति । ततश्च विद्याव- त्क्षणस्य दृश्यविशिष्टकालपूर्वत्वाभावनियम: पूर्वोक्तो भज्येतेति विद्योत्तरक्षणे दृश्यसामान्याभाव: स्वीक्रि- | यते । विद्यावति क्षणे दृश्यस्वीकारेऽपि नोक्तनियमभङ्गप्रसङ्गः, विद्यावत: क्षणस्य दृश्यवत्कालत्वेन तत्पूर्वत्वाभावस्य तत्र सम्भवात् । विद्यापूर्वक्षणस्य दृश्यविशिष्टकालपूर्वत्वेऽपि तस्य विद्यावत्क्षणत्वा- भावात् । अतो न विद्याक्षणे दृश्यसामान्याभावसिद्धिरिति भावः। अतः उक्तवृत्तिविषयत्वकालावच्छिन्न- त्वस्य मोक्षे उक्तरीत्या असम्भवात् । मिथ्याबन्धेति । मिथ्याबन्धविधूननेनेत्यस्य न मोक्ष प्राप्त . इवेत्यनेनान्वय:, किन्तु विकल्पोज्झित इत्यनेनेति प्रदर्शयति मिथ्याबन्धविधूननेन विकल्पोज्झित इतीति । ब्रह्मात्मैक्याज्ञानेत्यादि । अनेन मिथ्याभूतो बन्ध: ब्रह्मात्मैक्याज्ञानं तस्य विधूननं संस्कारादिकार्य- रूपेणाप्यनवस्थानं तेन, विकल्पो दृश्यं, तेन उज्झित: तच्छून्यः इत्यर्थः प्रदर्शित: । नन्वेतावता कथ - मुक्तशङ्कायाः परिहार इत्यत्राह अत्रेति । ज्ञानाधीनत्वज्ञापनेनेति । मिथ्यात्वस्य ज्ञाननिवर्त्यत्वरूपत्वात् निवृत्ते: ज्ञानाधीनत्वं ज्ञापितं भवतीति भावः। न ज्ञानोत्पत्तिकालीनत्वमिति । तदुच्छेदस्येत्यनुषज्यते । ज्ञापितमिति । तदधीनस्य न तदुत्पत्तिकालीनत्वमिति भावः । तथापि उक्तबोधो न समर्थित इत्यत आह- -- 6 अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका तथा च विधेये उद्देश्यतावच्छेदककालावच्छिन्नत्वबोधस्यौत्सर्गिकत्वात् सर्गाद्यकालीनद्व्यणुक पक्षकजन्यतासम्बन्धेन कर्तृसाध्यकानुमितौ निरवच्छिन्ने कर्तरि विधेये तादृशकालावच्छिन्नत्व बाधवत्प्रकृतेऽपि तस्य बाधितत्वान्न तत्र तद्बोधइति भावः। अत्र बन्धविधूननमविद्या तत्कार्य शून्यत्वं, दृश्यशून्यत्वं अनादिसाधारणदृश्यशून्यत्वमिति तयोर्भेद: । विधूननेनेति तृतीया ज्ञापकहेतौ नतु कारकहेतौ । नह्यविद्याया अस्तमयो नाम व्यावहारिकध्वंसरूपो विद्याजन्योऽस्मत्सिध्दान्ते स्वीक्रियते दृश्यान्तरध्वंसो वा तजन्य:। तथा सति तस्य निवर्तकाभावेन विद्वान्नामरूपाद्विमुक्त' इत्यादिश्रुतिबोधितस्य विदुषि सर्वदृश्योच्छेदस्य बाधापत्तेः। तत्त्वज्ञानोत्पत्तिद्वितीयक्षणे हि तत्त्वज्ञानादिसर्वदृश्यनाशोत्पादात् उक्तक्षणद्वितीयक्षणे उक्तनाशस्य नाशोत्पत्त्यसम्भवः। । प्रकाशः - । । तथा चेति । बन्धनिवृत्तेः उक्तरीत्या ज्ञानोत्पत्तिसमानकालीनत्वाभावसिद्धौ चेत्यर्थः। औत्सर्गिक त्वादिति । असति बाधक एव विधेये उद्देश्यतावच्छेदककालावच्छिन्नत्वभानस्य अङ्गीकार्यत्वादिति भाव: । औत्सर्गिकत्वसिद्ध्यर्थं बाधस्थलमाह सर्गाद्येति । सर्गाद्यकालीनद्व्यणुकं जन्यतासम्बन्धेन कर्तृमत् कार्यत्वात् घटवत् इत्यनुमानाकारो बोध्य: । नन्वत्रापि सर्गाद्यकालावच्छिन्नत्वं विधेये कर्तरि भासत इत्यत आह निरवच्छिन्न इति । अत्र सर्गाद्यकालावच्छिन्नकर्तृसाध्यकानुमिति: नोद्देश्या, किन्तु निरवच्छिन्नकर्तृ- साध्यिकेति नात्र विधेये कर्तरि सर्गाद्यकालावच्छिन्नत्वं भासत इति भावः। प्रकृतेऽपीति । अखण्डधी गोचरो विष्णु: मोक्ष प्राप्त इवेत्यत्रापीत्यर्थः तस्य -उद्देश्यतावच्छेककालावच्छिन्नत्वस्य । तत्र-विधेये । तद्बोधः उद्देश्यतावच्छेदककालावच्छिन्नत्वबोध: । बन्धविधूननविकल्पोज्झितपदार्थदृश्यशून्यत्वयोरभेद- भ्रमं वारयति अत्रेति । तत्कार्यं अविद्याकार्यं आकाशादि । अनादिसाधारणदृश्येति । अविद्याचित्सम्ब. न्धतूलाज्ञानजीवब्रह्मभेदादीत्यर्थः । ज्ञापकहेताविति । हेतावितिसूत्रेण तृतीया, सा च ज्ञापकत्वबोधिके त्यर्थः । कारकहेतौ कारकत्वबोधिका । कारकहेतौ नेत्यत्र युक्तिमाह नहीति । अविद्याध्वंसस्य तजन्य दृश्यान्तरध्वंसस्य च सिद्धान्ते स्वीकारे विधूननपदोत्तरतृतीयाया: कारकहेतुपरत्वं स्यात् तदेव नेत्यर्थः । अत्र अविद्याध्वंसोपादानं दृष्टान्तार्थम् । ननु अविद्याया: दृश्यं प्रत्युपादानत्वात् उपादाननाशस्य कार्यनाशं प्रति कारणत्वेन अविद्याध्वंसे दृश्यध्वंसावश्यंभावात् दृश्यध्वंसस्य अविद्याध्वंसजन्यत्वं कुतो नाङ्गीक्रियत इत्यत आह तथासतीति । दृश्यान्तरध्वंसस्य अविद्याध्वसजन्यत्वे सतीत्यर्थः। तस्य दृश्यान्तरध्वंसस्य । निवर्तकाभावेन - नाशकाभावेन । विद्वानिति श्रुतौ नामरूपादित्यस्य नाम च रूपंचानयो: समाहार: नाम . रूपं तस्मादित्यर्थः । नामशब्देन शब्दात्मक: प्रपंच: रूपशब्देन च अर्थात्मक: प्रपंच उच्यते । तस्मा . द्विमुक्तः तदुच्छेदवान् इत्यर्थः। बाधापत्तेरिति । दृश्यान्तरध्वंसरूपस्य दृश्यस्य सत्त्वादिति भाव: । ननु निवर्त्तकाभावः असिद्धः, तत्त्वज्ञानस्यैव निवर्तकत्वादित्यत आह तत्त्वज्ञानेति । द्वितीयक्षण इति । प्रथम- क्षणे तत्त्वज्ञानोत्पत्तिः, द्वितीयक्षणे तस्मात् दृश्यनाश:, ज्ञानस्यापि दृश्यत्वात् तस्मादेव कतकरजोन्यायेन नाश: उक्तक्षणद्वितीयक्षण इति उक्तक्षण: तत्त्वज्ञानोत्पत्तिद्वितीयक्षण: तद्वितीयक्षण इत्यर्थः, । - प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 7 लघुचन्द्रिका तत्त्वज्ञानजन्यस्य नाशस्यैव तत्त्वज्ञाननाशहेतुत्वे स्वीकृतेऽप्युक्तबाधापत्तेस्तादवस्थ्यात्। तत्त्वज्ञान - जन्यस्य दृश्यान्तरनाशस्य तत्त्वज्ञानस्य च यौ नाशौ तयोशिकाभावात्,तयो: स्वनाशकत्वस्वीकारे- ऽप्युक्तापत्तितादवस्थ्यात् । अप्रामाणिकानन्तनाशकल्पने गौरवाच्च। तस्माच्चरमतत्त्वज्ञानस्य दृश्या- श्रयकालपूर्वत्वाभावनियम एव स्वीक्रियते नतु नाशहेतुत्वम्। यत्तु बध्दपुरुषैः प्रातीतिकमस्त- मयादिकं कल्प्यते , न तस्य नाशहेतुत्वम् । प्रकाशः । - । - तत्त्वज्ञानोत्पत्तितृतीयक्षण इति यावत् । उक्तनाशस्य दृश्यान्तरनाशस्य। नाशोत्पत्त्यसंभव इति । नाशकस्य तत्त्वज्ञानस्य तत्क्षणे नाशादिति भावः । ननु तत्त्वज्ञानं न स्वनाश्यं द्वितीयक्षणवृत्तिध्वंसप्रतियोगित्व रूपक्षणिकत्वापत्ते: । किन्तु स्वजन्यो यो दृश्यान्तरध्वंस: तन्नाश्यं । ततश्च तस्य तृतीयक्षण एव नाश: । एवं च द्वितीयक्षणे तत्त्वज्ञानस्य सत्वात् तदेव दृश्यान्तरध्वंसं नाशयेत् इत्यत आह तत्त्वज्ञानजन्यस्येति । उक्तबाधापत्ते: विद्वानितिश्रुतिबोधितस्य विदुषि सर्वदृश्योच्छेदस्य बाधापत्तेः। तादवस्थ्यादिति । तत्त्व - ज्ञानध्वंसदृश्यान्तरध्वंसध्वंसरूपयो: दृश्ययोः सत्त्वादिति भावः । ननु तयोरपि नाशोऽस्तु इत्यत आह तयोरिति । नाशकाभावादिति। तत्त्वज्ञानस्य नष्टत्वात् अन्यस्य नाशकस्य अभावादित्यर्थः । ननु नाशका भाव: असिद्ध: तयोरेव स्वस्वनाशकत्वादित्यत आह तयोरिति । स्वीकारेऽपीत्यपिना स्वस्य स्वनाशक- त्वस्वीकार: अयुक्त इति सूचितम् । दृश्यान्तरस्यापि स्वनाशकत्वस्य स्वीकर्तुं शक्यत्वेन तत्त्वज्ञाननाश्यत्व- स्वीकार: अयुक्त: स्यादित्यभिप्राय: । उक्तापत्तितादवस्थ्यादिति। तत्त्वज्ञानध्वंसध्वंसस्य दृश्यान्तरध्वंस- ध्वंसध्वंसस्य च सत्वेन विद्वन्निष्ठसर्वदृश्योच्छेदबाधापत्तितादवस्थादित्यर्थः । अप्रामाणिकानन्तनाश कल्पन इति । तत्त्वज्ञानध्वंसध्वंसस्य ध्वंसान्तरं तस्य पुनवंसान्तरं, एवं दृश्यान्तरध्वंसध्वंसध्वंसस्य ध्वंसान्तरं इत्येवंरीत्या कल्पन इत्यर्थः। सति च प्रमाणे अनन्तनाशकल्पनमपि युक्तं स्यात्, न चैतदस्ति, अत उक्तं अप्रामाणिकेति। गौरवादिति । अनवस्थापातादिति भावः । उपसंहरति तस्मादिति । तत्त्वज्ञान - जन्यस्य अविद्याध्वंसस्य तजन्यस्य दृश्यान्तरध्वंसस्य च स्वीकारे श्रुतिबोधितस्य विदुषि सर्वदृश्योच्छे. दस्य बाधापत्ते: ध्वंसपरम्पराया: स्वीकारे अनवस्थापाताच्वेत्यर्थः । चरमतत्त्वज्ञानस्य निदिध्यासनानन्तर- भाविब्रह्मविषयकनिर्विकल्पकसाक्षात्कारात्मकतत्त्वज्ञानस्य । तत्त्वमसीत्यादिश्रुतिजन्यशाब्दबोधात्मकस्य तत्त्वज्ञानस्य दृश्याश्रयकालपूर्वत्वात् व्यभिचार इत्यत: चरमेति विशेषणं तत्त्वज्ञानस्य साक्षात्काररूपत्व लाभाय । तेन उक्तशाब्दबोधोत्तरं दृश्यसत्त्वेऽपि न क्षतिः । अनेन च यो यद्विषयकसाक्षात्कार: स तद्विषय . काज्ञानतत्कार्यपूर्वत्वाभाववान् यथा शुक्तिसाक्षात्कार: शुक्त्यज्ञानतत्कार्यरजतपूर्वत्वाभाववानिति सामा- न्यव्याप्ति: प्रदर्शिता । ननु जीवन्मुक्ते पारमार्थिकस्य व्यावहारिकस्य वा अविद्याध्वंसस्य दृश्यध्वंसस्य च असत्त्वेऽपि प्रातिभासिक: सोऽस्ति । जीवन्मुक्तस्य तत्त्वज्ञानेन अविद्याध्वंसो जात इति बद्धजनानां प्रतीतिसत्त्वात् । तादृशाविद्याध्वंसस्यैव तादृशदृश्यध्वंसं प्रति जनकत्वसम्भवात् कारकतृतीयाप्युपपद्यत इति शङ्कां परिहरति यत्त्विति । न तस्य नाशहेतुत्वमिति । तस्य अविद्यानाशस्य प्रातिभासिकस्य। - 8 अद्वैतसिद्धि: सव्याख्या लघुचन्द्रिका यद्यपि ज्ञापकहेतुत्वमपि दृश्यास्तमयं प्रत्यविद्यास्तमयत्वेन नास्ति जीवन्मुक्ते प्रातीतिकाविद्यास्तमये तद्व्यभिचारित्वात्, जीवन्मुक्ते प्रातीतिकस्य दृश्यास्तमयस्य कल्पने नियमाभावात्, तथापि दृश्या- स्तमयकालीनत्वरूपेणाविद्यास्तमयस्य दृश्यास्तमयं प्रत्यस्त्येवेति ध्येयम्। अथवा मास्तु प्राती तिकं तादृशाविद्यास्तमयादिकम्। अविद्योच्छेदोपलक्षित:पूर्णानन्दरूप आत्मा मोक्षः । अविद्यो - च्छेदश्च तदीयस्थूलसूक्ष्मरूपाश्रयकालपूर्वत्वाभावः सर्वदृश्याश्रयकालपूर्वत्वाभावरूपेण दृश्यो - च्छेदेन व्याप्त:। मोक्षस्य दृश्योच्छेदोपलक्षितात्मरूपकैवल्यरूपत्वात्। यद्वा ननु दृश्योच्छेदस्तत्त्व- प्रकाशः नाशहेतुत्वं प्रातिभासिकदृश्यान्तरनाशहेतुत्वम् । प्रातिभासिकस्यैकस्य वस्तुन: प्रातिभासिकवस्त्वन्तरं प्रत्यकारणत्वात्, दोषादिघटितसामग्या एव तत्र कारणत्वात् । जीवन्मुक्ते प्रातिभासिकस्य अविद्यास्त मयस्य सत्त्वेऽपि तादृशस्य दृश्यास्तमयस्य अभावेन कारणसत्त्वेऽपि कार्यानुत्पत्तिरूपान्वयव्यभिचाराच्चेति भावः। एवं सति तयोः ज्ञाप्यज्ञापकभावोऽपि न सम्भवतीति शङ्कते यद्यपीति । जीवन्मुक्ते प्रातिभासिकयो. | रेव तयो: ज्ञाप्यज्ञापकभावो वाच्यः, स च न सम्भवति, तयोर्दृश्यत्वेन सर्वदृश्योच्छेदवति विदुषि असत्त्वा- दिति भाव: । व्यभिचारादपि स न सम्भवतीत्याह जीवन्मुक्त इति । तद्व्यभिचारित्वादिति । जीवन्मुक्ते प्रातीतिकाविद्यास्तमयो वर्तते। न चास्ति प्रातीतिकदृश्यास्तमय: । ततश्च प्रातीतिकदृश्यास्तमयरहिते | तस्मिन् प्रातीतिकाविद्यास्तमयस्य ज्ञापकत्वेन सम्मतस्य सत्त्वाद्व्यभिचार इति भावः । ननु दृश्यास्तमयोऽपि तस्मिन् कल्प्यतां, ततश्च न व्यभिचार इत्यत आह कल्पने नियमाभावादिति । तस्य कल्पने प्रमाणा - भावादित्यर्थः। जीवन्मुक्ते स्थूलाविद्यास्तमय एव प्रतीयते नतु संस्काररूपाविद्यास्तमय:, संस्काररूपा विद्याया एव प्रतीयमानत्वात् । लोकवद्व्यवहरति तस्मिंस्तत्कल्पनस्याप्यसंभवादिति भावः। समाधत्ते तथापीति । दृश्यास्तमयकालीनत्वरूपेणेति । केवलाविद्यास्तमयत्वेन अविद्यास्तमयस्य उक्तरीत्या ज्ञाप . कत्वाभावेऽपि प्रातीतिकदृश्यास्तमयकालीनत्वविशिष्टप्रातीतिकाविद्यास्तमयत्वेन ज्ञापकत्वं संभवति । दृश्यास्तमयकालीनत्वं चाविद्यास्तमयस्य विदेहताकाल एव संभवति, तदानीं च दृश्यास्तमयोऽपि तस्मिन् वर्तत इति सम्भवति ज्ञापकत्वमिति भावः। अस्त्येवेति । ज्ञापकहेतुत्वमित्यनुषङ्गः। एवं प्रातीतिको अविद्यास्तमयदृश्यास्तमयौ स्वीकृत्य तयोर्जाप्यज्ञापकभाव: उक्तः, इदानीं तयोरनभ्युपगमेऽपि ज्ञाप्यज्ञाप- कभावो निर्वहति अविद्यास्तमयस्य दृश्यास्तमयव्याप्यत्वादि त्याह अथवेति । अविद्यास्तमयादिकमिति आदिपदेन दृश्यास्तमयो ग्राह्य: । अविद्योच्छेदोपलक्षित इति । दृश्यसामान्योच्छेदोपलक्षित इत्यर्थः । मोक्षस्य पुरुषार्थत्वायाह पूर्णानन्दरूप इति । आत्मेति । न स्वभिन्न इत्यर्थः। मिथ्याबन्धविधूननपदार्थमाह अविद्योच्छेद इति । तं विवृणोति तदीयेति । अविद्यीयेत्यर्थः । स्थूलं रूपं अविद्या । सूक्ष्म तत्संस्कार: येन जीवन्मुक्तस्य व्यवहारनिर्वाहः । सर्वदृश्येति । अत्र सर्वपदं दृश्यसामान्याभावलाभार्थम् । दृश्योच्छेदेनेति । विकल्पोज्झितपदार्थेनेत्यर्थः । तद्विवरणं सर्वदृश्येत्यादिकम् । व्याप्त इति । तत्त्वज्ञानोत्पत्तिक्षणमन्त- प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 9 लघुचन्द्रिका ज्ञानोत्पत्तिक्षणे न सम्भवति। अनादिदृश्यानां ज्ञानानुच्छेद्यत्वादविद्यातत्कार्ययोरेव तदुच्छेद्यत्वात्, मिथ्याबन्धेति। मथ्याबन्धविधूननेन विकल्पोज्झित इति योजना। तथा च अविद्योच्छेदेन दृश्योच्छेदवानित्यर्थलाभात् अविद्योच्छेदस्य दृश्योच्छेदव्याप्यतालाभेनाविद्या . तत्राह प्रकाश: र्भाव्येत्यादिः। ततश्च अविद्योच्छेदस्य व्याप्यत्वं दृश्योच्छेदस्य व्यापकत्वम् । व्याप्तिश्च अविद्यीयस्थूल - सूक्ष्मरूपाश्रयकालपूर्वत्वाभाववत्तत्त्वज्ञानोत्पत्तिक्षणत्वं यत्र यत्र तत्र तत्र सर्वदृश्याश्रयकालपूर्वत्वाभाव- वत्त्वमिति । अत्र च अनुकूलतर्क सूचयति मोक्षस्येति । तथा च उक्ताविद्योच्छेदवान् तत्त्वज्ञानोत्पत्तिक्षण: यदि निरुक्तदृश्योच्छेदवान् न स्यात् तर्हि ‘ज्ञात्वादेवं मुच्यते सर्व पाशै' रित्यादि (श्वे.१-८) श्रुतिबोधित - मुक्तिपूर्वत्ववान् न स्यादिति तर्केण अविद्योच्छेदवति क्षणे दृश्योच्छेदसिद्ध्या अविद्योच्छेददृश्योच्छेदयो: व्याप्यव्यापकभावसिद्ध्या ज्ञाप्यज्ञापकभावसिद्धिरिति भाव: । ज्ञापकत्वं च अनुमापकत्वं । अनुमानं च तत्त्वज्ञानोत्पत्तिक्षण: निरुक्तदृश्योच्छेदवान् निरुक्ताविद्योच्छेदवत्वात् यन्त्रैवं तन्नैवं यथा तत्वज्ञानोत्पत्ति पूर्वकाल इति। एवं मोक्षप्राप्तौ तत्त्वज्ञानविषयत्वरूपोद्देश्यतावच्छेदककालावच्छिन्नत्वं न भासते किन्तु तत्प्रयोज्यत्वमात्रं, विधूननेनेति तृतीया च न कारकहेतौ किन्तु ज्ञापकहेतावित्येवंपरतया मिथ्याबन्ध - विधूनेन विकल्पोज्झित इति श्लोकभागो व्याख्यात:। इदानीं प्रकारान्तरेण तं व्याख्यातुं अवतारयति यद्वेति । दृश्योच्छेदः दृश्यसामान्योच्छेदः । न सम्भवतीति । तत्र हेतुमाह अनादिदृश्यानामिति । तानि च अविद्याचित्संबन्धादीनि । ज्ञानानुच्छेद्यत्वादिति । कुत इत्यत आह अविद्यातत्कार्ययोरेवेति । तदुच्छेद्य - त्वात् तत्त्वज्ञानोच्छेद्यत्वात् । समानविषयकाविद्यातत्कार्यान्यतरत्वस्य ज्ञानोच्छेद्यतावच्छेदकस्य अनादि - दृश्येष्वभावेन तेषां ज्ञानोच्छेद्यत्वं न सम्भवतीति भावः । अत्रायमाशय:। अखण्डधीगोचरो विष्णु: मोक्षं प्राप्त इवेति वाक्यजन्यबोधे अखण्डधीगोचरत्वस्य मोक्षप्राप्तिं प्रत्युद्देश्यतावच्छेदकतया तत्प्रयोज्यतापि मोक्षप्राप्तौ भासते । असति बाधके उद्देश्यविधेयभावस्थले उद्देश्यतावच्छेदकप्रयोज्यत्वं विधेये भासत इति व्युत्पत्ते: धनवान् सुखी इत्यत्र सुखे धनप्रयोज्यताभाननियमात् । मोक्षश्च दृश्यसामान्योच्छेदोप - लक्षितपूर्णानन्दरूपात्मरूप: । तत्र आत्मनो नित्यत्वात् तत्त्वज्ञानप्रयोज्यता न सम्भवति, किन्तु उपलक्षणी- भूतदृश्यसामान्योच्छेदस्य मोक्षपदार्थघटकस्य सा वाच्या । तदपि न सम्भवति, दृश्यसामान्यघटकानादि- दृश्यानामुक्तरीत्या ज्ञानोच्छेद्यताया: असंभवादिति । तत्राहेति । एवंशङ्कायां प्राप्तायां उत्तरमाहेत्यर्थः । इति योजना एवमन्वयः। तथाच एवंयोजनायां च । अविद्योच्छेदेन दृश्योच्छेदवान् इत्यर्थलाभादिति । अविद्योच्छेदेनेति मिथ्याबन्धविधूननेनेत्यस्यार्थ: । दृश्योच्छेदवानिति विकल्पोज्झितपदस्यार्थ: । व्याप्य- तालाभेनेति । विधूननेनेति तृतीयाया ज्ञापकत्वमर्थः, तच्च व्याप्यत्वनियतमिति व्याप्यतालाभ:, धूमा- द्वह्निमानित्यादौ वयादिज्ञापकधूमादेर्वह्निव्याप्यतानियमात् । व्याप्यतालाभेनेत्यस्य ज्ञानोच्छेद्यतालाभादि- त्यत्रान्वयः । अविद्योच्छेदस्य अनादिदृश्योच्छेदव्याप्यत्वं च अनादिदृश्यानां अविद्याव्याप्यत्वात् व्याप- कीभूताविद्याऽभावस्य व्याप्यानादिदृश्याभावव्याप्यत्वावश्यंभावात् । एवं तत्त्वज्ञानोत्पत्तिक्षणे व्यापकी- - 10 अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका रूपबन्धस्य मिथ्यात्वोक्त्या अविद्याप्रयुक्तदृश्यमात्रस्य मिथ्यात्वलाभेनानादिदृश्यानामपि ज्ञानोच्छे. द्यतालाभादुक्तव्याप्यताया:सम्भवः। तथा च सर्वदृश्योच्छेदोपलक्षितपरमानन्दरूपात्मरूपकैवल्य प्राप्ति: तत्त्वज्ञानोत्तरमेव न तत्क्षण इति नोद्देश्यतावच्छेदकधीविषयत्वकालीनत्वं विधेये मोक्षलाभे विवक्षितम्। उज्झित इति निष्ठाप्रत्ययेनोच्छेदस्यातीतताकाले मोक्षप्राप्तेर्लाभात् अत्यन्ताभावत्व विशिष्टरूपस्य उच्छेदस्यापि दृश्यत्वात् तादृशे मोक्षकाले तस्यातीतत्वादिति भावः। मोक्षं कीदृशं तत्राह-परमेत्यादि। निरतिशयापरिच्छिन्नसुखमात्रस्वरूपमित्यर्थः । ननु मुक्तस्य प्रकाशकाभावेन प्रकाशः भूताविद्याया: तत्त्वज्ञानप्रयुक्तोच्छेदस्य सत्त्वेन तद्व्याप्यानादिदृश्यानामप्युच्छेद: सिद्ध्यतीति भावः । अत्र च तत्त्वज्ञानोत्पत्तिक्षण: दृश्यसामान्योच्छेदवान् अविद्योच्छेदवत्वात् यन्नैवं तन्नैवं यथा तत्त्वज्ञानोत्पत्ति पूर्वक्षण: इत्यनुमानप्रयोग: । अयमभिसन्धिः । अविद्यातत्कार्यान्यतरत्वं न तत्त्वज्ञानोच्छेद्यताप्रयोजकं , किन्तु दृश्यत्वं, तच्च अविद्यातत्कार्ययोरिव अनादिदृश्येष्वपि वर्तत इति तेषामपि ज्ञानोच्छेद्यत्वं, विद्वा- नामरूपाद्विमुक्तं इति श्रुत्युक्तं सम्भवतीति । अनादिदृश्यानां ज्ञानोच्छेद्यत्वे युक्त्यन्तरं बन्धमिथ्यात्वोक्त्या लभ्यत इत्याह अविद्यारूपबन्धस्येति । अविद्याप्रयुक्तेति । अनादेरपि दृश्यस्य अविद्याप्रयुक्तत्वं सम्भवति । क्षेमसाधारणप्रयोज्यत्वस्य स्वरूपसंबन्धरूपस्य नित्येष्वप्यभ्युपगमात् । यत् यस्मिन् सति भवति यदभावे न भवति तत् तत्प्रयुक्तम् । यथा दुःखप्रागभाव: अनादिरपि सन् प्रायश्चित्तप्रयोज्य: तथा अनादिदृश्यमपि अविद्यायां सत्यां भवति अविद्याया अभावे न भवति इति तत् तत्प्रयुक्तम्। मिथ्यात्वलाभेनेति । प्रयोज - कस्य मिथ्यात्वे प्रयोज्यस्य मिथ्यात्वावश्यंभावात् । यथा स्वाप्नजलस्य मिथ्यात्वेन तत्प्रयोज्यपानाव - गाहनादेरपि मिथ्यात्वं तद्वत् । मिथ्यात्वलाभेनेत्यस्यापि ज्ञानोच्छेद्यत्वलाभे अन्वय: । लाभादिति । यत् यत्प्रयुक्तं तत् तन्निवर्तकनिवर्त्यमिति व्याप्त्या अविद्यानिवर्तकतत्त्वज्ञाननिवर्त्यत्वं अविद्याप्रयुक्ते अनादि- दृश्ये लभ्यते मिथ्यात्वस्य ज्ञाननिवर्त्यताव्याप्यत्वादिति भाव: । उक्तव्याप्यताया इति । अविद्योच्छेदस्य दृश्यसामान्योच्छेदव्याप्यताया इत्यर्थः । एतत्कल्पे पूर्वकल्पोक्तार्थोऽपि लभ्यत इत्याह तथाचेति । तत्त्व - ज्ञानोत्पत्तिक्षणस्य सर्वदृश्याश्रयपूर्वत्वाभावरूपसर्वदृश्योच्छेदविशिष्टत्वस्य उक्तरीत्या सिद्धौ चेत्यर्थः । न तत्क्षणे न तत्त्वज्ञानोत्पत्तिक्षणे । तदानीं सर्वदृश्योच्छेदस्य विशेषणत्वेन कैवल्यं प्रत्युपलक्षणत्वासंभवा - दिति भावः । इति एतादृशहेतोः । न विवक्षितमिति । बाधादिति भावः । शब्देनैव च अविवक्षासूचिते - त्याह उज्झित इतीति । इति निष्ठाप्रत्ययेन एतच्छब्दघटकनिष्ठाप्रत्ययेन । निष्ठाप्रत्यय: निष्ठेति संज्ञित: क्तप्रत्यय: । अतीतताकाल इति। ‘भूते' इत्यधिकारे 'निष्ठा' इत्यनेन क्तप्रत्ययविधानादिति भाव: । तत्त्व - ज्ञानक्षणे च उच्छेदस्य वर्तमानत्वेन अतीतत्वासंभवादिति भावः । ननु उच्छेदो नाम अत्यन्ताभावः , तस्य नित्यत्वेन कथमतीतत्वं इत्यत आह अत्यन्ताभावत्वविशिष्टेति। दृश्यत्वादिति । अत्यन्ताभावत्वेन उपलक्षितस्य ब्रह्मरूपत्वेऽपि तद्विशिष्टस्य ब्रह्मभिन्नत्वेन दृश्यस्य सत: अनित्यत्वादिति भावः । अतीतत्वा- दिति । तत्त्वज्ञानेन तस्याप्युच्छेदादिति भावः । तत्राहेति । इति जिज्ञा सायामाहेत्यर्थः । निरतिशयेत्यादि। ।

प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 11 लघुचन्द्रिका प्रकाशत इत्यर्थकं विजयत इत्ययुक्तं तत्राह- स्वयमिति। प्रकाशकसम्बन्धं विनैवेत्यर्थः। नन्वेवं विजयत इत्यनुपपन्नं,तस्यापि प्रकाशसम्बन्धार्थकत्वात्, स्वयमित्यस्य प्रकाशान्तरं विनेत्य - र्थकत्वेन विजयत इत्यस्य स्वात्मकप्रकाशसम्बन्धार्थकत्वेपि विष्णोर्दृश्यत्वेन मिथ्यात्वापत्तिः। अथ विजयत इत्यस्य उत्कर्षान्तरमेवार्थ: नतु प्रकाशसम्बन्धः, तदा प्रकाशमानानन्दरूपत्वालाभेन मोक्षस्य प्रयोजनत्वालाभः; तत्राह-सत्यज्ञानसुखात्मक इति। प्रकाशः . निरतिशयापरिच्छिन्नेति परमशब्दस्यार्थ:। निरतिशयत्वं च अपकर्षानाश्रयत्वम् । अपरिच्छिन्नत्वं च काल- देशवस्तुपरिच्छेदाभाववत्वम् । आनन्दशब्दार्थः सुखम्, मात्रेति एकतानशब्दस्यार्थः । दु:खलेशेनाप्य- स्पृष्टमित्यर्थः । स्वयं विजयत इत्यत्र स्वयमित्येतदवतारयति नन्विति । प्रकाशकाभावेनेति कथं? सूर्यादि- रूपप्रकाशकसत्वादित्यत आह मुक्तस्येति । तस्य तत्त्वज्ञानेन सर्वदृश्योच्छेदेन सूर्यादिरूपप्रकाशकस्या- प्युच्छेदादिति भावः । प्रकाशत इत्यर्थकमिति। विजयते इत्यस्य सर्वोत्कर्षेण वर्तत इत्येवार्थः, स च सर्वोत्कर्षः प्रकृते प्रकाशाश्रयत्वरूप इत्यभिप्रायेण एवं व्याख्यानम्। अत एवोत्तरत्र उत्कर्षान्तरमेवार्थ इति शंकासंगति: । अयुक्तमिति । मुक्तस्य सति प्रकाशके तत्सम्बन्धात्प्रकाशाश्रयत्वं युक्तं प्रकृते च तदभा- वात्तन्न युक्तमिति भावः । स्वयमिति-स्वेनैवेत्यर्थः। प्रकाशकान्तरसंबन्धं विनैवेति यावत् । तथा च मुक्तस्यैव प्रकाशकत्वात् स्वनिष्ठप्रकाशाश्रयत्वपर्यवसायितया विजयत इति युक्तमेवेति भाव: । सत्यज्ञान - सुखात्मक इति विष्णोर्विशेषणमवतारयति नन्वेवमिति । नन्वेवमपीत्यर्थः । स्वयं विजयते इत्यस्य स्वनिष्ठप्रकाशाश्रयत्वार्थकत्वेऽपीति यावत् । अनुपपत्तौ हेतुमाह तस्यापीति । विजयत इति पदस्यापी- त्यर्थः । प्रकाशसंबन्धार्थकत्वादिति । विपूर्वकजिधातो: प्रकाशोऽर्थः, आख्यातस्य आश्रयत्वं, तच्च सम्बन्धपर्यवसायीति प्रकाशसंबन्धार्थकत्वमिति भावः। अनुपपन्नमिति । तत्वज्ञानेन सर्वदृश्योच्छेदे प्रकाशरूपस्वनिष्ठधर्मस्याप्युच्छेदेन मुक्तपुरुषे तत्सम्बन्धस्याऽसंभवादिति भावः । स्वयमित्यस्य प्रकाश - कान्तरं विनेति नार्थः, किन्तु प्रकाशान्तरं विनेति । ततश्च स्वयं विजयत इत्यस्य प्रकाशान्तरं विना स्वभिन्नप्रकाशं विना, प्रकाशसंबन्धवान् स्वात्मकप्रकाशसंबन्धवान् इत्यर्थः । अत्र च न पूर्वोक्तदोष इत्याह स्वात्मकेति । तथासति दोषान्तरापत्तिरित्याह विष्णोरिति । दृश्यत्वेनेति । स्वस्य चैतन्यरूपतया स्वात्मकप्रकाशस्यापि तद्रूपत्वं, तत्सम्बन्धश्च तत्तादात्म्यरूपः, स एव चिद्रूपज्ञानविषयत्वरूपं दृश्यत्व - मिति भावः । मिथ्यात्वापत्तिरिति। दृश्यत्वस्य मिथ्यात्वप्रयोजकत्वादिति भाव: । विजयत इत्यस्य अर्थान्तरं शङ्कते अथेति । उत्कर्षान्तरं परप्रकाश्यत्वाभावरूपं । स्वयमित्यस्य स्वभिन्नप्रकाशाभाववानि त्यर्थः । ततश्च स्वयं विजयत इत्यस्य स्वभिन्नप्रकाशाभाववान् अत एव परप्रकाश्यत्वाभाववान् इत्यर्थः। प्रकाशमानानन्दरूपत्वालाभेनेति । परेण वा स्वेन वा प्रकाश्यत्वे आनन्दरूपमोक्षस्य प्रकाशमानत्व . लाभ:, तदनभ्युपगमात्तदलाभ इत्यर्थः। मास्तु प्रकाशमानानन्दरूपत्वं मोक्षस्येत्यत आह प्रयोजनत्वा- लाभ इति। अप्रकाशमानानन्दस्य केनापि अनभिलषितत्वेन प्रयोजनत्वासंभवादिति भावः । सत्यज्ञान- - 12 अद्वैतसिद्धि: सव्याख्या लघुचन्द्रिका यथात्मन आनन्दत्वेनानन्दरूपं मोक्ष प्राप्त इवेत्युक्तम्, अत एवानन्दावाप्तिबोधकश्रुतेरनावृतानन्दैक्य. मर्थो नत्वानन्दसम्बन्धः, तथा प्रकाशरूपत्वेन विष्णो: प्रकाशत इत्यस्यानावृतचिदभेदबोधकत्वं नतु प्रकाशसम्बन्धार्थकत्वम्। तथा च दृश्यत्वाभावात् न मिथ्यात्वापत्तिः । न च प्रकाशरूपतोक्ति: व्यर्थेति वाच्यम्। अपरोक्षव्यवहारयोग्यसुखस्यैव पुरुषार्थत्वम्। उक्तयोग्यत्वं चानावृतचिद्रूपत्वेन तादृशचित्तादात्म्येन वा। तत्रोक्तरूपानन्दस्यान्त्याभावेऽप्याद्यमस्तीति ज्ञापनार्थत्वेन तस्याः प्रकाशः -- सुखात्मक इतीति, सत्यं ज्ञानं सुखं च आत्मा स्वरूपं यस्य सः इति विग्रहः । सत्यादिस्वरूप इति समासार्थः । कथमेतेन उक्तशङ्काया निरास इत्यत्राह यथेति । मोक्षं प्राप्त इवेति । मोक्षसम्बन्धवानिवे. त्यर्थः । मोक्ष तद्वतोभ॑दे हि तयोः सम्बन्धसम्भव: । प्रकृते च मोक्षविष्णुपदार्थयोर्भेदाभावान्न वास्तव: तयो: सम्बन्ध:, किन्तु प्रातीतिक इति द्योतनाय इवेत्युक्तम् । नन्वेवं ब्रह्मविदाप्नोति परमित्याद्यानन्दा- वाप्तिबोधकश्रुति: कथमुपपद्यतामित्यत्राह अत एवेति । आत्मन आनन्दरूपत्वादेवेत्यर्थः । आनन्दरूपस्य सत: आनन्दावाप्तिर्नाम आवृतानावृतसाधारणानन्दैक्यं न, तस्य सिद्धत्वेन प्रयोजनत्वासंभवात्, किन्तु अनावृतानन्दैक्यं, अनावरणस्य तत्त्वज्ञानोत्पत्ते: पूर्वमसिद्धत्वेन तत्प्रयोज्यत्वात् तद्विशिष्टस्यापि तत्प्रयो- ज्यत्वमिति तस्य प्रयोजनत्वसिद्धिः । न त्वानन्दसम्बन्ध इति । भेदाभावेन संबन्धाभावादित्यर्थः । एव - मानन्दरूपं मोक्ष प्राप्त इवेत्येतत् दृष्टान्तीकृत्य विजयत इत्य स्यार्थमाह तथेति । प्रकाशरूपत्वेन चिद्रूप - त्वेन । प्रकाशत इत्यस्य= तेन विव्रियमाणस्य विजयत इति पदस्य, मूले प्रकाशत इति पदाभावात् । अनावृतचिद भेदबोधकत्वमिति । विजयत इत्यत्र सोपसर्गस्य धातो: अनावृतचित् अर्थ: । आख्यातस्य लक्षणया अभेदोऽर्थः, तस्य आश्रयतासंबन्धेन विष्णौ अन्वयः । ततश्च विजयत इत्यस्य अनावृतचिद- भिन्न इत्यर्थः । न तु प्रकाशसंबन्धार्थकत्वमिति । प्रकाशाभिन्ने प्रकाशसंबन्धस्य बाधितत्वा- दिति भाव: । इत्थं च सत्यज्ञानसुखात्मक इत्यत्र विष्णोर्ज्ञानात्मकत्वकथनं योग्यताबोधनविधया विजयत इति पदं अनावृतचिदभेदपरमिति सूचनाय इत्युक्तं भवति । एतेन मोक्षस्य प्रयोजनत्वालाभशंकापि पूर्वोक्ता निरस्ता, आनन्दस्य अनावृतत्वस्यैव प्रयोजनत्वसम्पादकत्वेन प्रकाशमानत्वस्यापि अनावृतत्वसम्पाद- कत्वेन साक्षात्तदसंपादकत्वात् । पूर्वोक्तां मिथ्यात्वापत्तिं परिहरति तथा चेति । विजयत इत्यस्य प्रकाश - संबन्धार्थकत्वाभावे चेत्यर्थ: । दृश्यत्वाभावादिति । विष्णो: चिद्रूपप्रकाशतादात्म्यसंबन्धरूपे चिद्विषयत्वे सति दृश्यत्वं, इदानीं च न तेन तद्बोधितं, किन्तु चिदभेद एव नातो दृश्यत्वमिति भावः । न मिथ्यात्वा - पत्तिरिति । तत्प्रयोजकस्य दृश्यत्वस्याभावादित्यर्थः। ननु ज्ञानपदेन विष्णोः प्रकाशरूपत्वस्य सिद्धौ सत्यां विजयत इत्यनेन तस्य अनावृतचिदभेदो बोध्येत, सैव न, निष्प्रयोजनत्वात् इत्याशंक्य समाधत्ते न चेत्यादिना । अपरोक्षव्यवहारः अपरोक्षमिति शब्दप्रयोगः। उक्तयोग्यत्वं अपरोक्षव्यवहारयोग्यत्वम् । चिद्रूपत्वेन चिदभेदेन । तच्च तत्वसाक्षात्कारे सत्येवेति न संसारदशायां तद्व्यवहारापत्तिः। तादृशेति अनावृतेत्यर्थः । चित्तादात्म्येनेति । इदं च चक्षुरादीन्द्रियसनिकर्षजन्यघटाद्याकारवृत्तिदशायां घटादे: - ।

प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 13 लघुचन्द्रिका सार्थक्यात्। ननु-ज्ञानस्याज्ञानतत्कार्यविरोधिताया:शुक्त्यादिज्ञानस्थले दृष्टतया युक्तत्वेप्यनादि - साधारणदृश्यमात्रविरोधित्वमदृष्टत्वान्न युक्तम्, तत्राह- मायेत्यादि। मायया कल्पितं प्रयुक्तम् अत एव मृषाभूतं यन्मातृतामुखं प्रमातृत्वादिरूपं द्वैतमात्मभिन्नं तदभिन्नप्रपंचाश्रय इत्यर्थः। तथा च शुक्त्याद्यज्ञानस्येव चिन्निष्ठतत्सम्बन्धादेरपि तत्प्रयुक्तत्वेन शुक्त्यादिज्ञानविरोधिताया दृष्टतया ब्रह्मज्ञानस्यापि ब्रह्माज्ञानप्रयुक्तदृश्यमात्रविरोधित्वं युक्तमिति भावः । मृषाद्वैताश्रयत्वोक्त्या प्रकाशः - संभवति । अतस्तत्र अपरोक्षत्वव्यवहारनिर्वाह: । उक्तरूपानन्दस्य मोक्षरूपानन्दस्य । अन्त्यं अनावृत - चित्तादात्म्यं । तस्य विषयविशेषसंपर्कजन्यवृत्यवच्छिन्न एवानन्दे सत्वादिति भावः। आद्यं अनावृत चिद्रूपत्वम् । अस्तीति ज्ञापनार्थत्वेनेति । उक्तरीत्या योग्यताबोधनद्वारा विजयत इत्यस्य अनावृतचिद भेदबोधकत्वतात्पर्यग्राहकत्वेनेत्यर्थः। सत्यस्वरूपत्वकथनं च स्वयमित्यनेन बोधितदृश्यत्वाभावयोग्यता सूचनाय । तत्वज्ञानस्य अनादिदृश्योच्छेदकत्वे युक्तिप्रदर्शनपरतया मायेत्यादिविशेषणमवतारयति नन्विति । यद्यपि पूर्वं युक्ति रुक्तैव, अथापि स्फुटं बुद्धावारोहार्थं दृष्टान्तप्रदर्शनपूर्वकं पुनरुच्यते । ज्ञानस्य ब्रह्म - ज्ञानस्य। अज्ञानेति। ब्रह्माज्ञानेत्यर्थः। विरोधिताया इति। अस्य च युक्तत्वे अन्वयः। तत्रं च हेतु: शुक्त्यादिज्ञानस्थले दृष्टतयेति। शुक्तिज्ञानस्य शुक्त्यज्ञानतत्कार्यविरोधित्वदर्शनेन तज्ज्ञानस्य तदज्ञान तत्कार्यविरोधत्वनियमावधारणेनेत्यर्थः। अनादिसाधारणेति। अविद्याचित्संबन्धादीत्यर्थः। मात्रस्य सामान्यस्य। अदृष्टत्वात् शुक्यादिज्ञानस्थले अनिश्चयात्। प्रयुक्तमिति | कल्पितपदस्य जन्यार्थकत्वे अनादिदृश्यानामसंग्रहापत्तिः, अत: प्रयुक्तमिति विवरणम् । अत एव मायाप्रयुक्तत्वादेव । मायाया मिथ्यात्वेन तत्प्रयुक्तस्यापि मिथ्यात्वौचित्यादिति भावः। इत्थं च मायाकल्पितेति हेतुगर्भ विशेषणमिति सूचितम् । माया ब्रह्माज्ञानम् । प्रमातृत्वादिरूपमिति । ततश्च मातृता मुखे आदौ यस्य तत् इति विग्रह: प्रदर्शितो भवति । आदिपदेन कर्तृत्वभोक्तृत्वादिकं ग्राह्यम् । आत्मभिन्नमिति । आत्मन:श्रुतावद्वैत - त्वोक्त्या द्वैतशब्दस्य तद्भिन्नार्थकत्वं युक्तमिति भावः । तदभिनेति । ततश्च द्वैतमेव प्रपञ्च इति कर्मधारयः, न तु द्वैतस्य प्रपञ्च इत्यादिरूप: षष्ठीतत्पुरुषादिरिति सूचितम् । ननु मायाकल्पितेत्याधुक्त्या कथमुक्त शंकापरिहार इत्यत आह तथाचेति । आत्मभिन्नस्य प्रमातृत्वादिरूपस्य समस्तस्य प्रपंचस्य मायाप्रयुक्तत्वे चेत्यर्थः । तत्संबन्धादेरिति । मायासंबन्धादेरित्यर्थः । आदिपदेन जीवब्रह्मभेदादिरूपानादि-दृश्यसामान्य- परिग्रहः । तत्प्रयुक्तत्वेन मायाप्रयुक्तत्वेन । तद्विरोधिताया: शुक्त्याद्यज्ञानरूपानादिदृश्यविरोधितायाः। युक्तमितीति । यथा शुक्त्यज्ञानस्य अनादे: मायाकार्यत्वाभावेऽपि मायाप्रयुक्तत्वेन शुक्तिज्ञानस्य तद्विरोधिता तथैव चिनिष्ठमायासंबन्धादिरूपानादिदृश्यस्यापि मायाप्रयुक्तत्वात् ब्रह्मज्ञानस्य तद्विरोधित्वं युक्तमेवेति भावः । तद्विरोधिताया इत्यत्र तत्पदाघटितपाठे तु तत्संबन्धादेरित्यस्य शुक्त्यज्ञानसंबन्धादेरि- त्यर्थः । तथा च यथा शुक्तिज्ञानस्य शुक्त्यज्ञानविरोधितेव शुक्त्यवच्छिन्नचिनिष्ठशुक्त्यज्ञानप्रयुक्तशुक्त्य ज्ञानसंबन्धादिविरोधिताभ्युपगम्यते तथैव ब्रह्मज्ञानस्यापि ब्रह्माज्ञानविरोधितेव ब्रह्माज्ञानप्रयुक्तसर्वदृश्य - ।

14 अद्वैतसिद्धिः सव्याख्या श्रीरामविश्वेश्वरमाधवानामैक्येन साक्षात्कृतमाधवानाम्। स्पर्शेन निर्धूततमोरजोभ्य: पादोत्थितेभ्योऽस्तु नमो रजोभ्यः॥२॥ लघुचन्द्रिका मुमुक्षावानधिकारी सूचितः। ननु अखण्डब्रह्माकारज्ञानस्य दृश्योच्छेदकत्वे आपातज्ञानरूपस्यापि तस्य तत्स्यात्, तत्राह श्रुतिशिखोत्थेति। श्रुतीनां कर्मोपासनाकाण्डरूपाणां उपकार्यत्वेन शिखेव मुख्यं यन्महावाक्यं तज्जनितेत्यर्थः । तथाच निष्कामकर्मोपासनानुष्ठानद्वारकचित्तशुद्धिचित्तै- काग्रताद्वारोक्तश्रुत्युपकृतवाक्यजन्यज्ञानस्यैव तदिति भावः ।।१।। परममङ्गलरूपां परब्रह्मरूपविषय प्रयोजनोक्तिं संपाद्य परमगुरुगुरुविद्यागुरून्प्रणमति- श्रीरामेत्यादि। प्रकाशः विरोधिताभ्युपगमो युक्तः यज्ज्ञानं यदज्ञानविरोधि तत् तत्प्रयुक्तसर्वदृश्यविरोधि यथा शुक्तिज्ञानमिति व्याप्तेरिति भाव: । द्वैतस्य मृषात्वोक्तेः फल माह मृषाद्वैतेति । अधिकारीति। प्रकृतग्रन्थश्रवणे इत्यादिः । आत्मनि मृषात्वविशिष्टद्वैताश्रयत्वं ज्ञायमानं तादृशद्वैतजिहासारूपां मोक्षेच्छां जनयति यथा शुक्तिरजतं मृषात्वेन ज्ञायमानं तज्जिहासां जनयति तद्वत् । तथा च मृषात्वविशिष्टद्वैताश्रयत्वं ज्ञायमानं मुमुक्षाप्रयोज- कत्वात् तत्सम्बन्धिमुमुक्षास्मारकं भवति, अत: मुमुक्षाया लाभेन तद्वान् अधिकारी तेन सूचित इति भावः। श्रुतीत्यादिविशेषणमवतारयति नन्विति । अखण्डेति । संसर्गाविषयकेत्यर्थः । ब्रह्माकारेति । ब्रह्मविषय - केत्यर्थः । आपातेति आपातत्वं अप्रामाण्यशङ्कास्कन्दितत्वं अनवधारणात्मकत्वं वा । तस्य अखण्डा- कारबह्मज्ञानस्य । तत् दृश्योच्छेदकत्वम् । स्यादिति । न चेष्टापत्तिः । तथाविधज्ञानात् अज्ञानादिदृश्योच्छे . दादर्शनात् । श्रुतिशिखेत्यादि । श्रुतीनां शिखा तस्या: उत्था या अखण्डधी: तस्या गोचर: इति विग्रहः । तत्र श्रुतिपदं कर्मोपासनाकाण्डरूप श्रुत्येकदेशपरं, शिखापदं शिखासदृशपरं सत् महावाक्यार्थकं, तदाह श्रुतीनामिति । महावाक्यस्य श्रुतिशिखात्वं श्रुत्युपकार्यत्वेन मुख्यत्वं, तत्र कर्मकाण्डोपासनाकाण्डरूप श्रुत्यो: महावाक्योपकारकत्वं महावाक्येन दृश्योच्छेदसमर्थब्रह्मात्मैक्यज्ञाने जननीये यत्सहकारि तत्सम्पाद. कत्वम्। निष्कामकर्मोपासनानुष्ठापनेति । कर्मश्रुतीनां निष्कामकर्मानुष्ठापकत्वम्, उपासनाश्रुतीनां उपा - सनानुष्ठापकत्वम्। चित्तशुद्धिचित्तैकाग्रतेति । उक्तकर्मानुष्ठानेन चित्तशुद्धिः, उपासनानुष्ठानेन चित्तैका ग्रता जन्यते। उपकृतेति । उपकारश्च चित्तशुद्धिचित्तैकाग्रतासम्पादनमेव। वाक्यं महावाक्यं । ज्ञानस्यैवे - त्येवकारेण आपातज्ञानव्यावृत्तिः । तदिति । दृश्योच्छेदकत्वमित्यर्थः । ननु मूले मायाकल्पितेत्यादिप्रथम - श्लोके इष्टदेवतोत्कर्षादे रप्रतिपादनान्न तस्य मङ्गलरूपता, विष्णुपदस्य जीवपरत्वेन व्याख्यानात्, अत: श्रीरामेत्यादे: गुरुनमस्काररूपत्वेन मङ्गलरूपत्वात् तदेव प्रथमतो निबद्धव्यं, ग्रन्थादौ मङ्गलकरणस्येव तन्निबन्धनस्यापि शिष्टाचारसिद्धत्वात्, एवं प्रथमश्लोके द्वैतस्य मिथ्यात्वोक्त्या मुमुक्षुरूपाधिकारि सूचनेपि विषयप्रयोजनयोरनुक्त्या न्यूनतेत्याशङ्कां परिहरन् श्रीरामेत्यादिश्लोकमवतारयति । परमेत्यादि परममङ्गलरूपामित्यस्य उक्तिमित्यनेनान्वयः । सा च प्रथमश्लोकरूपा। विष्णु: सत्यज्ञानसुखात्मक Padala - । - प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 15 बहुभिर्विहिता बुधैः परार्थं विजयन्तेऽमितविस्तृता निबन्धाः । मम तु श्रम एष नूनमात्मभरितां भावयितुं भविष्यतीह॥३॥ लघुचन्द्रिका ऐक्येन आत्मैक्येन । माधवानां परब्रह्मणां ॥२॥ ममात्मभरितां मनिष्ठा स्वार्थसम्पादकताम्। भावयितुं जनयितुं । एष श्रम: एतद्गन्थसंपादनम्। परोक्तदूषणोद्धारपूर्वकस्वमतपरिच्छेदविशेषस्यै- तद्न्थे क्रियमाणस्यातिलोकोत्तरत्वेनान्यैरेतद्न्थदर्शनात्पूर्वमज्ञातत्वेनाकामितत्वान्मयैव पूर्वं कामित- मुक्तपरिच्छेदरूपं फलं भावयिष्यत्ययं ग्रन्थो नान्यैः कामितमिति भावः॥३॥ प्रकाशः इत्यनेन परब्रह्माभिन्नजीवचैतन्यस्योक्तत्वेन तस्य विष्णुत्वं, स च मोक्षप्राप्त इव विजयत इत्यनेन अना- वृतप्रकाशाभिन्नानावृतानन्दरूपत्वेनोक्त इति तस्यैव प्रयोजनत्वं चोक्तम् । अस्य चेतरसर्वप्रयोजनाप्रेक्षया उत्कृष्टत्वात् गुरुनमस्कारफलरूपत्वेन च परमप्रयोजनत्वात् एतदुक्तेः परममङ्गलरूपतेति भावः। अतो न न्यूनता नापि श्रीरामेत्यादे: प्रथमतो निबद्धव्यत्वमिति भाव: । सम्पाद्य निबध्य । परमगुर्वित्यादि । तत्क्रमेण प्रणामस्यैव शास्त्रसम्प्रदायोभयसिद्धत्वादिति भावः । श्रीरामेत्यादि। ऐक्येन साक्षात्कृतमाधवानां श्रीराम विश्वेश्वरमाधवानां पादोत्थितेभ्य: स्पर्शेन निर्धूततमोरजोभ्य: रजोभ्य: नमोऽस्तु इत्यन्वयः । ऐक्येनेत्यस्य केनेति जिज्ञासायामाह आत्मेति । स्वाभेदेनेत्यर्थः । माधवपदेन सोपाधिकं ब्रह्मगृहीतमिति भ्रान्तिं वारयति परब्रह्मणामिति । माधवपदस्य लक्षणया परब्रह्म अर्थ इति भावः । श्रीरामविश्वेश्वर - माधवानां श्रिया ज्ञानलक्ष्म्या मुक्तिलक्ष्म्या च युक्ता: रामसरस्वत्यादयः, अथवा श्रीरामेति श्रीपदं नामान्त - र्गतं श्रीरामसरस्वतीविश्वेश्वरसरस्वतीमाधवसरस्वत्य: तेषां पादोत्थितेभ्य:, स्पर्शेन हस्तेन तत्स्पर्शमात्रेण । स्प्रष्टुः निर्धूततमोरजोभ्य: दूरीकृततमोरजोगुणेभ्यः। अत्र च पादरज:स्पर्शमात्रेण तमोरजोगुणापनयोक्त्या तेषां महिमातिशय: उक्त: । ननु प्रकृतग्रन्थस्य रचनं व्यर्थं अत्युत्कृष्टानां ग्रन्थानां बहूनां बहुभिराचार्यै: रचितानां सत्वात् इति शङ्कायां अङ्गीकृत्य बहुभिर्बहूनां रचितानां सत्वं स्वग्रन्थस्य तैरगतार्थत्वमाह मूले बहुभिरिति । बहुभिर्बुधैः श्रीहर्षादिभिः परार्थं बुभुत्सुजन प्रयोजनाय । विहिता: रचिता: अमितविस्तृता: ग्रन्थतोर्थतश्च । निबन्धाः ग्रन्थाः । विजयन्ते सर्वोत्कर्षेण वर्तन्ते । मम तु इह एतद्न्थरचनायाम्। एषः श्रमः एतद्गन्थसम्पादनायास: एतद्ग्रन्थसम्पादनप्रयत्न इति यावत्। आत्मभरितां स्वोदरपूरकतां जीविका मिति यावत्। भावयितुं सम्पादयितुं । नूनं भविष्यति अवश्यं शक्तो भविष्यति । अनेन विनय: सूचितो भवति। केवलविनयसूचनेन नातीवप्रयोजनमित्यालोच्य आत्मभरितापदस्य अर्थान्तरमाह चन्द्रिकायां ममात्मभरितामिति । स्वार्थसम्पादकता स्वप्रयोजन सम्पादकताम् । जनयितुमिति । दण्डात् घटो भवतीत्यादावुत्पत्तेर्भूधातुना प्रतीयमानत्वात् एवं व्याख्यानम् । एतद्गन्थसम्पादनमिति । करिष्यमाणस्य ग्रन्थसम्पादनस्य बुद्धिस्थत्वादेष इति एतच्छब्देन निर्देश:। तात्पर्यमाह परोक्तेत्यादिना । परेण माध्वेन उक्तानि न्यायामृतादौ यानि दूषणानि विप्रतिपत्तिप्रदर्शनस्य निष्प्रयोजनत्वमित्यादीनि तेषामुद्धारो निरसनं - 16 अद्वैतसिद्धि: सव्याख्या श्रद्धाधनेन मुनिना मधुसूदनेन सङ्गृह्य शास्त्रनिचयं रचिताऽतियत्नात्। बोधाय वादिविजयाय च सत्वराणामद्वैतसिद्धिरियमस्तु मुदे बुधानाम् ।।४।। लघुचन्द्रिका सिद्धि: निश्चयः । इयं एतद्न्थाधीना। 'सिद्धीनामिष्टनैष्कर्म्यब्रह्मगानामियं चिरात्। अद्वैतसिद्धि . रधुना चतुर्थी समजायत॥' इति एतद्गन्थीयसमाप्तिस्थानीयपद्यस्थसिद्धिपदान्यपि तत्तद्गन्थाधीन निश्चयपराण्येव। परिच्छेदसमाप्त्यादिस्थले सिद्धिपदं साधकग्रन्थपरं निश्चयपरमेव वा। अद्वैतनिश्चयोपयोगी प्रथमपरिच्छेद इत्याद्यर्थकत्वसंभवेन लक्षणायां मानाभावात्। अस्मदादिभिस्तु स्वकीयसंकेतविशेषेणास्मिन् ग्रन्थे अद्वैतसिद्धिपदं प्रयुज्यते॥४॥ प्रकाशः - - तत्पूर्वक: य: स्वमतपरिच्छेदः स्वमतनिर्णयः। अतिलोकोत्तरत्वेन लोकातिशायित्वेन । सर्वजनसाधार . ण्याभावेन ग्रन्थान्तरे अकृतत्वेनेति यावत् । अज्ञातत्वेनेति । लोकोत्तरत्वादेव अज्ञातत्वमिति भावः । अकामितत्वादिति। कामनां प्रति ज्ञानस्य कारणत्वेन तदभावादेवाकामितत्वमिति भावः । भावयिष्यति अन्येषामिति शेष: । न स्वस्य । ग्रन्थरचनार्थं स्वस्य स्वमतपरिच्छेदस्य पूर्वमेव आवश्यकत्वात् । परोक्त दूषणोद्धारपूर्वकस्वमतपरिच्छेदरूपफलस्य ग्रन्थान्तरादलाभात् अस्य ग्रन्थस्यागतार्थत्वमुक्तम्, नात: पूर्वोक्तशङ्काया अवकाश इति भावः । एवं अतिलोकोत्तरफलकत्वं सूचयित्वा अध्येतॄणां तत्फलमा शासान आह मूले श्रद्धेति । श्रद्धाधनेनेति । लोकोत्तरात्मतत्त्वे आदरवतेत्यर्थः । मुनिना मननशीलेन उत्तमाश्रमवतेत्यर्थः। शास्त्रनिचयं सूत्रप्रभृतितत्त्वदीपनान्तं, परिमलान्तं वा , एवं खण्डनादिसमुदायं च । सङ्गृह्य अर्थविशेषतात्पर्यकत्वेन निश्चित्य । शास्त्रसमुदायतात्पर्यविषयीभूतमर्थं निश्चित्येति यावत् । अद्वैतसिद्धिः अद्वैतनिश्चयजनको ग्रन्थ: रचितेतिपदस्वारस्यात् । सत्वराणां सूत्रभाष्यादिविस्तृतग्रन्था . ध्ययनविलम्बमसहमानानां । बोधाय अद्वैतज्ञानाय। वादिविजयाय माध्वादिप्रतिवादिविजयाय । बुधानां मुदे च विदुषां हर्षाय च । अस्तु भवतु । फलसिद्धिरित्यादौ सिद्धिपदस्य निष्पत्यर्थकत्वेऽपि अद्वैतसिद्धि रित्यत्र अद्वैतपदार्थब्रह्मण उत्पत्तेरसंभवाद्व्याचष्टे सिद्धिरिति । इयमित्यस्य प्रत्यक्षेत्यर्थकत्वान्निश्चय- रूपायां सिद्धौ तदनन्वयादाह एतद्गन्थाधीनेति । ननु सिद्धिपदस्य ग्रन्थार्थकत्वं वाच्यं, अन्यथा सिद्धीना - मिष्टनैष्कर्येत्यादिपद्यस्थसिद्धिपदस्य असङ्गतेरित्यत आह सिद्धिपदान्यपीति । तत्तद्गन्थाधीनेति । ततश्च इष्टसिद्धिपदं तन्नामकग्रन्थाधीनेष्टविषयकनिश्चयार्थकम्। एवमन्यान्यपि सिद्धिपदानि तत्तद्गन्थाधीन- निश्चयपराण्येवेत्यर्थः । ननु सिद्धिपदस्य निश्चयार्थकत्वे ‘इति अद्वैतसिद्धौ प्रथमपरिच्छेदः' इत्यादौ निश्चये परिच्छेदशब्दार्थस्य ग्रन्थभागरूपस्य अनन्वय इत्यत आह साधकग्रन्थपरमिति । सिद्धिपदस्य साधके लक्षणेत्यर्थः । नन्वेवमेकस्यैव सिद्धिपदस्य भिन्नार्थकत्वे वैरूप्यमित्यत आह निश्चयपरमेवेति । तर्हि कथमन्वय इत्यत्राह अद्वैतनिश्चयोपयोगीति । तर्हि अद्वैतसिद्धिमधीष्व इत्यादिप्रयोग: कथमित्यत आह अस्मादादिभिरिति । प्रयुज्यत इति । यथा हि पाणिनिना स्वकीयसङ्केतेन आदैजादौ वृद्ध्यादिपदं - प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 17 तत्राद्वैतसिद्धेद्वैतमिथ्यात्वसिद्धिपूर्वकत्वात् द्वैतमिथ्यात्वमेव प्रथममुपपादनीयम् । उपपादनं च लघुचन्द्रिका पूर्वकत्वादिति । एकमेवाद्वितीय' इत्यादिश्रुत्या जायमाने अद्वैतत्वोपलक्षितब्रह्मनिर्विकल्पक- निश्चये ब्रह्मणि द्वैताभावविशिष्टबुध्देरित्वात्, तस्याश्च निषेधत्वेन प्राप्तिपूर्वकत्वेन द्वैतवति प्रकाश: प्रयुक्तं तद्वदिति भावः ।। इति मङ्गलपद्यार्थनिरूपणम् ।। ॥ विप्रतिपत्तेरवश्यप्रदर्शनीयत्वनिरूपणम् ॥ नन्वेतद्गन्थत: अद्वैतसिद्धिश्चेद्विवक्षिता तर्हि अद्वैतमेव प्रतिपादनीयं, तद्विहाय अग्रे द्वैतमिथ्यात्वप्रतिपादन- मसङ्गतमित्यत आह मूले-तत्रेति । मूलोक्तमद्वैतसिद्धेद्वैतमिथ्यात्वसिद्धिपूर्वकत्वमुपपादयितुं प्रतीकमुपादत्ते टीकायां पूर्वकत्वादितीति । इत्यादिश्रुत्येति । ‘सदेवसोम्येदमग्र आसीदेकमेवाद्वितीय'मित्यादिश्रुत्येत्यर्थः । अद्वैतत्वेति । अद्वैतत्वं द्वैताभाव: । न विद्यते द्वैतं यस्य तत् अद्वैतं द्वैताभाववत्-तस्य भाव: अद्वैतत्वमिति । ततश्च अद्वैतत्वपदेन द्वैताभावलाभ: । तदुपलक्षितं यत् सद्रूपं ब्रह्म तन्मात्रविषयकः, अत एव निर्वि कल्पक: संसर्गाविषयक: यो निश्चयः तस्मिन्नित्यर्थः। द्वारत्वादिति । अयं भाव:-सदेवेत्यादिश्रुतेः चैतन्य मात्रप्रतिपत्तौ न तात्पर्य, तस्य स्वप्रकाशत्वेन स्वतस्सिद्धत्वात् द्वैताविरोधित्वेन द्वैतभ्रमरूपानर्थनिवृत्तिं प्रत्यहेतुत्वाच्च । किन्तु द्वैताभावविशिष्टब्रह्मप्रतिपत्तिपूर्वक चैतन्यमात्रप्रतिपत्तौ । तादृशप्रतिपत्तेः प्रागसिद्ध त्वात्, द्वैतभ्रमरूपानर्थनिवृत्तिं प्रति द्वैताभावरूपद्वैतविरोधिविषयकत्वेन तद्विषयकप्रतिपत्तिपूर्वकत्वेन वा हेतुत्वाच्च । एवं उक्तश्रुतित: प्रथमं ब्रह्म द्वैताभाववत् इत्याकारक: ब्रह्मविशेष्यकद्वैताभावप्रकारक: बोधो जायते । तत: द्वैताभावोपलक्षितब्रह्मरूपधर्मिमात्रविषयको बोधः। तदुपलक्षितविषयकबुद्धौ उपलक्षणी भूततद्विशिष्टबुद्धेः अन्वयव्यतिरेकाभ्यां हेतुत्वावगमात्। एवं च द्वैताभावोपलक्षितब्रह्मनिर्विकल्पक निश्चये ब्रह्मणि द्वैताभाववैशिष्ट्यबुद्धेरितानिर्वाह इति । ननु द्वैताभावरूपद्वैतस्य सत्वात् कथं द्वैताभाव - स्योपलक्षणत्वमिति चेन्न। प्रथमबोधे बह्मद्वैताभाववदित्यत्र द्वैताभावरूपद्वैतस्याप्यभावभानात् । ननु अद्वितीयश्रुत्या प्रथमतो ब्रह्मणि द्वैताभावबोधेपि अद्वैतत्वोपलक्षितब्रह्मनिर्विकल्पकनिश्चयस्य द्वैत- मिथ्यात्वनिश्चयपूर्वकत्वानिर्वाहः, तादृशबुद्धौ ब्रह्मणि द्वैताभावमात्रस्य भानेन द्वैतस्य धर्मितावच्छेदकतया अभानेन तत्कालावच्छिन्नत्वस्य द्वैताभावे भानासंभवेन स्वावच्छेदककालावच्छिन्नो य: स्वसमानाधि- करणोऽभाव: तत्प्रतियोगित्वस्य द्वैतांशे अभानादित्यतआह तस्याश्चेति । द्वैताभावविशिष्टबुद्धेरित्यर्थः । निषेधत्वेन अभावविषयकबुद्धित्वेन। प्राप्तिपूर्वकत्वेन प्रसक्तिपूर्वकत्वेन। प्रसक्तं हि प्रतिषिध्यते इत्यभियुक्तोक्तेः। प्रतियोगिविशिष्टविषयकज्ञानपूर्वकत्वेनेति यावत् । एवं च द्वैताभावविशिष्टब्रह्मबोधो - त्पत्ते: पूर्वं वर्तमानब्रह्मोपस्थितिरेव द्वैतविशिष्टब्रह्मविषयिणी वाच्या। यत्र निषेधस्तत्रैव प्रतियोगिप्रसक्ते- 18 अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका ब्रह्मणि द्वैतवत्वकालावच्छेदेन द्वैताभाववत्वविषयकत्वात्, सदेव सोम्येदमग्र आसीत्' इति पूर्व- वाक्ये इदंशब्दार्थद्वैतसामान्यतादात्म्यस्य लब्धत्वेन तस्य द्वैताभावांशे उद्देश्यतावच्छेदकत्वेन तत्र तत्कालावच्छेद्यत्वभानस्य व्युत्पत्तिसिध्दत्वात्, इदमात्मकसतोऽग्रकालसत्वस्य द्वैताभाववत्वस्य च द्वयोर्विधाने वाक्यभेदस्येष्टत्वात्,द्वैतवति द्वैताभावबोधस्याहार्यत्वेन शाब्दत्वासम्भवेपीदंपदस्य दृश्यत्वरूपेण द्वितीयपदस्य चात्मभिन्नत्वरूपेण बोधकत्वेनाहार्यत्वाभावात्, कालान्तरावच्छेदेन द्वैताभाववत्त्वविषयकधियश्चतरति शोकमात्मवित्' 'विद्वान्नामरूपाद्विमुक्त:' 'ज्ञात्वादेवं मुच्यते प्रकाशः रावश्यकत्वात् । तथा च ब्रह्मभासकसामग्रीत एव उत्तरकालीने ब्रह्मणि द्वैताभावबोधे धर्मितावच्छे- दकतया द्वैतभानसम्भवेन द्वैताभावे द्वैताकालावच्छिन्नत्वस्य भानसम्भवात् । तादृशबुद्धेः द्वैते तुल्यवित्ति- वेद्यतया स्वावच्छेदककालावच्छिन्नस्वसमानाधिकरणाभावप्रतियोगित्वविषयकत्वेन द्वैतमिथ्यात्वविषय- कनिश्चयरूपतया तदुत्तराद्वैतसिद्धे: द्वैतमिथ्यात्वनिश्चयपूर्वकत्वनिर्वाह इति भावः । ननु द्वैतविशिष्टब्रह्मोप- स्थापकं किमित्यत्राह सदेवेति । तस्येति । द्वैतसामान्यतादात्म्यस्येत्यर्थः । तत्र द्वैताभावे । तत्काल: द्वैत - कालः। व्युत्पत्तिः असति बाधके उद्देश्यविधेयभावस्थले उद्देश्यतावच्छेदककालावच्छिन्नत्वं विधेये भासत इत्येवंरूपा। अन्यथा गन्धप्रागभाववान् घटो गन्धवान् इतिवाक्यस्य प्रामाण्यापत्तेः । वाक्यभेद- स्येति । ततश्चात्र इदं सत् अग्रआसीत् इदं सत् अद्वितीयमित्यन्वयाङ्गीकारे वाक्यभेदप्रसङ्ग इत्यर्थः । इष्ट- त्वादिति । अस्याश्च श्रुतेः द्वैतमिथ्यात्वे अवान्तरतात्पर्येण तल्लाभस्य च द्वैतवति द्वैताभावबोधे सत्येव संभवेन तात्पर्यानुरोधेन वाक्यभेदस्येष्टत्वादिति भावः । ननु इदंपदस्य द्वैतवत्वावच्छिन्नब्रह्मबोधकत्वे अद्वितीयमित्यस्य तत्र ब्रह्मणि द्वैतत्वावच्छिन्नप्रतियोगिताकाभावबोधकत्वे च तादृशबोधस्य आहार्य- त्वापत्तिः। स्वविरुद्धधर्मधर्मितावच्छेदककस्वप्रकारकज्ञानस्य आहार्यत्वात् । अस्य च बोधस्य स्वपदोपा- देयद्वैताभावविरुद्धद्वैतरूपधर्मितावच्छेदककत्वात् । ततश्च तस्य शाब्दत्वानुपपत्तिः, आहार्यपरोक्षानभ्युप. गमादित्यत आह द्वैतवतीति । आहार्यत्ववारणप्रकारमाह इदंपदस्येति । अस्य बोधकत्वेनेत्यत्रान्वयः। दृश्यत्वरूपेति । अस्य बोधे अन्वयः । आत्मभिन्नत्वरूपेणेत्यस्यापि तत्रैवान्वयः । बोधकत्वेन द्वैतबोध- कत्वेन। आहार्यत्वाभावादिति । ततश्च इदं सत् इत्यस्य दृश्यवत्सत् इत्यर्थः । अद्वितीयमित्यस्य आत्म- भिन्नाभाववत् इत्यर्थः। अत: धर्मितावच्छेदकतावच्छेदकं दृश्यत्वं, प्रतियोगितावच्छेदकं च आत्मभिन्न- त्वमिति दृश्यत्वावच्छिन्नस्य आत्मभिन्नत्वावच्छिन्नप्रतियोगिताकाभावविरुद्धत्वाभावात् स्वविरुद्धेत्यादि- लक्षणमुक्तबोधे नास्तीति न तस्याहार्यत्वमिति भावः । आहार्यात्वाभावादित्यस्य न तादृशबोधस्य शाब्द- त्वासंभव इति शेषः । ननु सदेवेति श्रुतौ द्वैतस्य द्वैताभावोद्देश्यतावच्छेदकत्वेऽपि पूर्ववाक्यजबोधे अग्र- कालसत्वे द्वैतकालावच्छिन्नत्वाभानेन विधेये उद्देश्यतावच्छेदककालावच्छिन्नत्वभानस्य असार्वत्रिकतया प्रकृतवाक्यस्य तादृशकालावच्छिन्नत्वबोधे तात्पर्यसत्वे प्रमाणाभावेन प्रकृतवाक्यात् द्वैते तत्कालाव- च्छेदेन द्वैताधिकरणवृत्त्यभावप्रतियोगित्वविषयकधीरूप: मिथ्यात्वनिश्चयो न सम्भवतीत्यत आह - कालान्तरेति। ।

प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 19 लघुचन्द्रिका सर्वपाशै'रित्यादिश्रुतिभि: ज्ञाननाश्यत्वानुमापकदृश्यत्वलिङ्गादिरूपमानान्तरेण च सिध्दत्वेन तज्जनने वाक्यवैयर्थ्यांपत्तेः, एककालावच्छिन्नप्रतियोग्यभावयोरेकाधिकरणवृत्तित्वधीरूपो मिथ्या - त्वनिश्चयः। अथवा मिथ्यात्वघटकस्याभावस्य सदा सर्वत्र विद्यमानत्वेनावच्छिन्नवृत्तिकान्यत्वेन मिथ्यात्वं नोक्तरूपम्, किन्तु तादृशान्यत्वविशिष्टेनाभावेन घटितम्। तथा च प्रत्यक्षादि- प्रकाशः - द्वैतानधिरणभूते विद्योत्तरकाल इत्यर्थः । सिद्धत्वेनेति । 'तरति शोकमात्मवित्' इत्यत्र शोकपदं द्वैतोप - लक्षकं, शोकं तरतीत्यस्य द्वैताभाववान् भवतीत्यर्थः । इत्थं च आत्मविदमुद्दिश्यद्वैताभावविधानात् धनवान् सुखीत्यत्र सुखे धनप्रयोज्यत्वस्येव द्वैताभावरूपविधेये आत्मवेदनरूपोद्देश्यतावच्छेदकप्रयोज्य- त्वभानात् द्वैताभावे आत्मज्ञानोत्तरकालीनत्वलाभ: । एवं विद्वान्नामरूपाद्विमुक्त' (मु ३-२-८) इत्यत्रापि उक्तरीत्या नामरूपविमोकशब्दार्थद्वैताभावे विद्वत्वोत्तरकालीनत्वलाभ: । मानान्तरेणेति। उक्तश्रुतिभिन्नेन अनुमानेनेत्यर्थः । अनुमानप्रयोगश्च विमतं ज्ञाननाश्यं दृश्यत्वादिति । तथा च अनुमानेनापि ज्ञानोत्तरकाले द्वैताभावसिद्धिरिति भावः। वैयर्थ्यापत्तेरिति । उक्तश्रुतिभिः उक्तानुमानेन च तद्बोधनात् पुनः अद्वितीयवाक्येनापि तद्बोधजनने वैयर्थ्यापत्तिरिति , तद्वाक्यस्य द्वैताभावे द्वैतकालावच्छिन्नत्वबोधने तात्पर्यमुपगन्तव्यमिति भावः। एककालेति । ‘एकमेवा द्वितीय'मितिश्रुतिवाक्यादित्यादिः । प्रतियोग्य भावयो: द्वैततदभावयोः । एकाधिकरणवृत्तित्वं ब्रह्मरूपैकाधिकरणवृत्तित्वम् । अत्र च एककालावच्छिन्न- त्वस्यान्वयः। मिथ्यात्वनिश्चय इति । सम्भवत्येवेति शेषः। ततश्च सदेवेतिवाक्यात् द्वैतवद्ब्रह्मद्वैतकाला- वच्छिन्नद्वैताभाववत् इत्याकारकः द्वैतमिथ्यात्वावगाही बोध: प्रथमं सम्भवतीति अद्वैतसिद्धेः द्वैत मिथ्यात्वसिद्धिपूर्वकत्वमव्याहतमिति भावः। ननु अस्या: श्रुते: द्वैताभावे द्वैतकालावच्छिन्नत्वबोधने तात्पर्यसत्वे मानाभाव: । न चोक्तश्रुतिवैयर्थ्यापत्तिः। परस्परसमानार्थकस्य तरतीत्यादिश्रुतित्रयस्येव अस्याश्चतुर्थ्या अपि सार्थक्यसम्भवात् । अन्यथा तरतीत्यादित्रितयमध्ये एकया अन्यस्या वैयर्थ्यमापद्येत। एकप्रकरणे हि समानार्थकानेकश्रुतिवैय्यर्थ्यम्। इह च प्रकरणभेदान्न कस्या अपि वैय्यर्थ्यमित्याशय विधान्तरेण अद्वैतसिद्धेः पूर्वं द्वैतमिथ्यात्वनिश्चयसत्वमाह अथवेति। मिथ्यात्वघटकस्येति । प्रति- पन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वशरीरप्रविष्टस्येत्यर्थः। सदा सर्वकालावच्छेदेन। सर्वत्र सर्वदेशावच्छेदेन । ब्रह्मणीति शेषः। विद्यमानत्वेनेति । इदं च अवच्छिन्नवृत्तिकान्यत्वे हेतुः। तत्काल- देशान्यकालदेशानवच्छिन्नवृत्तिकस्यैव तत्कालदेशावच्छिन्नवृत्तिकत्वम् । अत एव वृक्षे घटत्वाभावस्य न कालदेशावच्छिन्नवृत्तिकत्वमिति भावः । उक्तरूपं एककालावच्छिन्नप्रतियोग्यभावयोरेकाधिकरणवृत्तित्व- रूपम्। स्वावच्छेदकदेशकालावच्छिन्न: य: स्वसमानाधिकरणोऽभाव: तत्प्रतियोगित्वरूपमिति यावत्। तादृशान्यत्वविशिष्टेन अवच्छिन्नवृत्तिकान्यत्वविशिष्टेन। अभावेन घटित मिति । अवच्छिन्नवृत्तिकान्यत्व- विशिष्ट: य: स्वसमानाधिकरणाभाव: तत्प्रतियोगित्वमित्यर्थः। ननु घट: सन्नित्यादिप्रत्यक्षेण सद्रूपे ब्रह्मणि तादात्म्येन घटादिदृश्यस्य विषयीकरणात् अद्वितीयपदेन तत्र तादृशदृश्यकालावच्छेदेन द्वितीया- - 20 अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका प्रमाणस्याद्वैतश्रुतिबाध्यत्वेन ब्रह्मणि कालविशेषाद्यवच्छिन्नद्वैताभावबोधकत्वरूपे श्रुतिसंकोचे हेतोरभावेन तादृशाभावस्य त्रैकालिकत्वनिश्चयात्। सार्वज्यसर्वकार्योपादानत्वबोधकश्रुतेरपि लक्षणवाक्यविधया निर्विकल्पकनिश्चयजनकत्वेऽपि तत्र तादृशनिश्चयस्य सर्वद्वैततादात्म्य- विशिष्टधीपूर्वकत्वात्, सर्वतादात्म्यस्यैव ब्रह्मणि सर्वविषयकत्वरूपत्वात् सर्वोपादानत्वस्य ब्रह्मणि प्रकाश: भाववत्वं न बोधयितुं युक्तं प्रत्यक्षविरोधापातात्, किन्तु कालान्तरावच्छेदेनैव । तथा च द्वैताभावस्य द्वैतेतरकालावच्छिन्नत्वेन सदेवेत्यादिश्रुतिजन्यबोधस्य कथमवच्छिन्नवृत्तिकान्यत्वविशिष्टद्वैताभावघटित. मिथ्यात्वावगाहित्वमित्यत आह तथा चेति । अद्वैतश्रुतिबाध्यत्वेनेति । चन्द्रस्य प्रादेशपरिमाणत्वग्राहक- प्रत्यक्षस्य ज्योति:शास्त्ररूपागमविरोधेन, अप्रामाण्यनिश्चयेन, तत्साधhण घट स्सन्नित्यादिप्रत्यक्षस्यापि सन्दिग्धप्रामाण्यकस्य अपौरुषेयत्वेन निश्चितप्रामाण्यकश्रुतित: दुर्बलत्वात्तया बाध्यत्वमिति भावः। कालविशेषादीति । द्वैताधिकरणकालदेशभिन्नकालदेशेत्यर्थः। हेतोरभावेनेति प्रयोजकाभावेनेत्यर्थः । प्रत्यक्षस्य विरोधित्वे तदनुरोधेन श्रुतेः उक्तविधः सङ्कोच: स्यात् । तत्तु उक्तरीत्या दुर्बलत्वान्न विरोधि । अत एव घटादि: सन् प्रत्यक्षप्रमितत्वादित्यनुमानमपि न विरोधि । प्रत्यक्षस्यैव श्रुतितो दुर्बलत्वेन तन्मूल- कस्यानुमानस्य सुतरां दुर्बलत्वात् । नात: प्रयोजकमस्तीति भाव: । तादृशाभावस्य अद्वैतश्रुतिबोध्या- भावस्य। त्रैकालिकत्वनिश्चयात् अवच्छिन्नवृत्तिकान्यत्वनिश्चयात् । ननु उक्तश्रुतौ अभावे अवच्छिन्न- वृत्तिकान्यत्वबोधकपदाभावेन कथं तत: तादृशाभावबोध इति चेदुच्यते। तद्धर्मे कालविशेषाद्यवच्छिन्न- त्वबोधकसामग्यसमवहिताया: तद्धर्मप्रकारकबोधसामग्र्या एव तद्धर्मे अवच्छिन्नवृत्तिकान्यत्वभासकत्वो- पगमात् । प्रकृते च अद्वितीयमित्यत्र नञर्थाभावे कालविशेषाद्यवच्छिन्नत्वबोधकसामग्यसमवहिताया: अभावप्रकारकबोधजनिकाया:नपदघटितसामग्याः सत्वेन तयैव अभावे अवच्छिन्नवृत्तिकान्यत्वभानं सम्भवतीति न तत: तादृशाभावबोधानुपपत्तिः। अत: इदं सत् अद्वितीयमिति वाक्यात् तादात्म्येन द्वैतवति ब्रह्मणि अवच्छिन्नवृत्तिकान्यत्वविशिष्टद्वैतसामान्याभावबोधे जाते तुल्यवित्तिवेद्यतया द्वैते स्वसमानाधि- करणावच्छिन्नवृत्तिकान्यत्वविशिष्टाभावप्रतियोगित्वरूपमिथ्यात्वभानसम्भवेन तादृशबोधस्य मिथ्यात्व- निश्चयरूपत्वसिद्ध्या अद्वैतसिद्धेः द्वैतमिथ्यात्वनिश्चयपूर्वकत्वं निष्प्रत्यूहम् । ननु सदेवेति श्रुतिजन्याद्वैत- ब्रह्मनिश्चयस्य उक्तरीत्या द्वैतमिथ्यात्वनिश्चयपूर्वकत्वनिर्वाहेऽपि 'यस्सर्वज्ञ' (मु२-१-)इत्यादिलक्षण- वाक्येनापि द्वैताभावोपलक्षितब्रह्मनिर्विकल्पकनिश्चयजननात् तत: प्राक् द्वैतमिथ्यात्वनिश्चयाभावात् न अद्वैतसिद्धिसामान्यस्य द्वैतमिथ्यात्वसिद्धिपूर्वकत्वनिर्वाह इत्यत आह सार्वज्येति । निर्विकल्पकनिश्चय- जनकत्वेपीति। नाद्वैतसिद्धिसामान्यस्य द्वैतमिथ्यात्वसिद्धिपूर्वकत्वानिर्वाह इति शेषः। सर्वकार्योपादनत्व बोधकेति । अत्र च श्रुतौ तस्मादेतत् ब्रह्म नाम रूपमन्नं च जायते' इत्युत्तरार्धे तस्मादिति प्रकृतिपंचम्या: प्रयोगात् ब्रह्मादिग्रहणस्य कार्यसामान्योपलक्षकत्वाच्च अस्याः सर्वकार्योपादानत्वबोधकत्वमित्यव- गन्तव्यम् । निर्विकल्पकनिश्चयजनकत्वेऽपीति । लक्षणवाक्यानां अखण्डार्थत्वेन निर्विकल्पकनिश्चय ।

प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 21 लघुचन्द्रिका स्वात्मकसर्वजनकत्वरूपत्वात्, ‘एकमेवाद्वितीय'मिति, य: सर्वज्ञ:सर्ववित् यस्य ज्ञानमयं तपः, तस्मादेतत् ब्रह्म नामरूप'मिति श्रुतिद्वयसामर्थ्यात् द्वैतवत्परब्रह्मनिष्ठस्यावच्छिन्नवृत्तिकान्यत्व- रूपत्रैकालिकत्वविशिष्टात्यन्ताभावस्य प्रतियोगि द्वैतमिति धीरूपो मिथ्यात्वनिश्चय इति तत्पूर्वक- प्रकाशः जनकत्वमिति भाव: । नाद्वैतसिद्धीत्यादेर्हेतुमाह तत्रेत्याद्यावश्यकमित्यन्तेन । तत्र तादृशनिश्चये। उत्प. त्स्यमान इति शेषः। तादृशनिश्चयात् पूर्वमित्यर्थः । मिथ्यात्वनिश्चय इति । जायत इति शेष: । आवश्य- कमिति । यत इति शेष: । ननु ब्रह्मणि कथं द्वैतवत्वलाभ इत्यत आह तादृशनिश्चयस्येति । निर्विकल्पक- निश्चयस्येत्यर्थः । धीपूर्वकत्वादिति । इदं च निर्विकल्पकतादृशनिश्चयात् पूर्वं द्वैतमिथ्यात्वनिश्चयोत्पत्तौ हेतुतया अन्वेति। तदुपलक्षितधर्मिविषयकबुद्धिं प्रति तद्विशिष्टबुद्धेः हेतुत्वेन द्वैतोपलक्षितब्रह्मविषयक - निर्विकल्पकनिश्चयात्पूर्वं द्वैतविशिष्टब्रह्मबुद्धिःस्वीकार्या। ततश्च ब्रह्मणि द्वैतवत्वं लभ्यत इति भावः । ननु ‘य: सर्वज्ञ' इति लक्षणवाक्येनं सर्वज्ञत्वोपलक्षितब्रह्मबुद्धिरेव जन्यते । तत्र च सर्वज्ञत्वविशिष्टबुद्धिरेव हेतुत्वेनापेक्ष्यते, नतु द्वैतविशिष्टब्रह्मबुद्धिरिति कथं तत्पूर्वकत्वमुक्तनिश्चयस्येत्यत आह सर्वतादात्म्य- स्येति । सर्वविषयकत्वरूपत्वादिति । तथा च सर्वतादात्म्यमेव ब्रह्मणि सर्वविषयकत्वरूपमिति भावः। 'तस्मादेतद्ब्रह्मे'त्यादिश्रुत्युक्तं सर्वोपादानत्वमपि ब्रह्मनिष्ठद्वैततादात्म्यघटितमित्याह सर्वोपादानत्वस्येति | स्वात्मकेति । स्वतादात्म्यवदित्यर्थः । स्वतादात्म्यापन्नकार्यजनकत्वमेवोपादानत्वमिति भाव: । ननु ‘य: सर्वज्ञ' इत्यादिश्रुतौ सर्वज्ञ इत्यादिना ब्रह्मणि द्वैतवत्वलाभेऽपि द्वैताभावबोधकपदाभावात् द्वैताभावालाभेन कथं तज्जन्यबोधस्य मिथ्यात्वनिश्चयरूपतेत्यत आह एकमेवाद्वितीयमिति । श्रुतिद्वयसामर्थ्यादिति । अत्र सामर्थ्य बोधजनकत्वं , तस्मात् तादृशश्रुतिद्वयजन्यबोधादिति यावत् । अत्र च ‘एकमेवाद्वितीय'मितिश्रुतौ तदिति पदमध्याह्रियते । 'य:सर्वज्ञ' इत्यादिश्रुत्या च सर्वज्ञत्वसर्वोपादानत्वबोधनद्वारा तादात्म्येन सर्वद्वैत- वद्ब्रह्म लब्धम् । ततश्च श्रुतिद्वयं मिलितं सत् यत् ब्रह्म सर्वद्वैतवत् तत् अवच्छिन्नवृत्तिकान्यत्वविशिष्ट- द्वैतसामान्याभाववत् इत्याकारकं बोधं जनयति । इति धीरूपो मिथ्यात्वनिश्चय इति । अयं च आर्थिकः । उपदर्शितवाक्यद्वयादुक्ताकारशाब्दबोधे जाते तुल्यवित्तिवेद्यतया द्वैते उक्ताभावप्रतियोगित्वस्य भान- सम्भवात्। नन्वेतावता ‘यस्सर्वज्ञ' इति श्रुत्या ‘एकमेवाद्वितीय'मितिश्रुतिसहकारेण ब्रह्मविषयकनिर्वि- कल्पकनिश्चयो जन्यते, तत्पूर्वं तु द्वैतमिथ्यात्वनिश्चय इत्यायातम् । नैतद्युक्तम्, सर्वज्ञश्रुत्या ब्रह्म- निर्विकल्पकनिश्चयजननस्य विनैव अद्वितीयश्रुतिसहकारं सम्भवात् इति चेन्न। केवलसर्वज्ञश्रुत्या ब्रह्मणि द्वैततादात्म्यवैशिष्ट्यबुद्धिरेव जन्यते । तदुत्तरं च तया ब्रह्मनिर्विकल्पकनिश्चयजननं न सम्भवति । द्वैत- वैशिष्ट्यभाने बाधकाभावेन उपस्थिततद्भानस्य दुर्वारत्वात्। अद्वितीयश्रुत्या ब्रह्मणि द्वैताभावबोधने तु तस्या एव द्वैतवैशिष्ट्यभाने बाधकतया सर्वज्ञश्रुत्या निर्विकल्पकबोधसम्भवात्। अधिकमन्यत्रानुसन्धेयम् । नन्वेवमपि तत्त्वमस्यादिमहावाक्यजन्याद्वैतनिश्चयस्य द्वैतमिथ्यात्वसिद्धिपूर्वकत्वाभावेन अद्वैतसिद्धि- सामान्यस्य न द्वैतमिथ्यात्वसिद्धि पूर्वकत्वं सिद्धमित्यत आह महावाक्येति। धीपूर्वकत्वादिति । न द्वैतसिद्धिसामान्यस्य द्वैतमिथ्यात्वसिद्धिपर्वकत्वासिद्धिरिति शेषः। महावाक्यजन्याद्वैतनिश्चयस्य निर्वि 22 अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका त्वमुक्तनिर्विकल्पकनिश्चये आवश्यकम्। महावाक्यजन्याद्वैतनिश्चयस्यापि ‘नेह नानास्ति किंचन' 'नात्र काचन भिदास्ति इत्यादितत्पदार्थशोधकवाक्याधीनधीपूर्वकत्वात्, उक्तवाक्येन वर्तमाना - र्थकलट्प्रत्यययुक्तत्वात् द्वैतविशिष्टब्रह्मरूपोद्देश्यार्थकेहपदयुक्तत्वाच्च वर्तमानकालावच्छेदेनोद्देश्य- तावच्छेदकद्वैतवत्वावच्छेदकदेशकालावच्छेदेन च द्वैतविशिष्टे ब्रह्मणि अस्तित्वविशिष्टस्य द्वैता . भावस्य बोधनात्, अत्यन्ताभावस्यावच्छिन्नवृत्तिकान्यत्वस्वीकारे निरवच्छिन्नविशेषणतया तादृग्ब्रह्मवृत्तित्वबोधनात्,तत्सम्बन्धावच्छिन्नस्य प्रतियोगिसामानाधिकरण्यस्य निवेशादेवाव्याप्य - । प्रकाश: कल्पकत्वं तु स्वरूपात्मक: य: तत्त्वंपदलक्ष्यार्थाभेद: तन्मात्रविषयकत्वात्। तत्पदार्थशोधकेति। महा- वाक्यघटकं यत् तत्पदं तदर्थस्य ब्रह्मण: यत् मालिन्यं द्वैततादात्म्यं तदभावबोधकेत्यर्थः । ननु तत्त्व- मस्यादिमहावाक्यजनिताद्वैतनिश्चयस्य नेहेत्यादिवाक्याधीनधीपूर्वकत्वेऽपि कथं द्वैतमिथ्यात्वनिश्चय पूर्वकत्वमित्यत आह उक्तवाक्येनेति। नेहेत्यादिवाक्येनेत्यर्थः । अस्य च बोधनादित्यत्रान्वयः । बोधना- दित्यस्य अद्वैतसिद्धेः द्वैतमिथ्यात्वसिद्धिपूर्वकत्वमिति वक्ष्यमाणेनान्वयः। तेन बोधनं च एवम्। नाना- पदस्य ब्रह्मभिन्नमर्थः। किंचनेत्यस्य तदन्वितवस्तुसामान्यमर्थः । नञः अभावोऽर्थः । तत्र वस्तुसामान्यस्य प्रतियोगितया अन्वयः । अस्तीत्येतदर्थस्य अस्तित्वाश्रयत्वस्याप्यभावे अन्वयः, इहेत्येतदर्थब्रह्मनिरू पितवृत्तित्वस्यापि अभावे अन्वय:, लट: वर्तमानकालोऽर्थः, स च महावाक्योपदेशकाल: द्वैतकालपर्य- वसित:, तस्यापि ब्रह्मनिरूपितवृत्तित्वे अन्वयः। तथा च अस्माद्वाक्यात् अस्तित्वविशिष्टो ब्रह्मभिन्नवस्तु सामान्याभावो द्वैतकालावच्छिन्नब्रह्मनिरूपितवृत्तित्वाश्रय इति बोधः। स च तुल्यवित्तिवेद्यतया द्वैतमिथ्या. त्वावगाहीति तत्पूर्वकत्वं महावाक्यजन्यनिश्चयस्य अस्त्येवेति भावः । द्वैतानधिकरणकालस्यैव लडर्थत्वे ऽपि द्वैतकालावच्छिन्नत्वलाभप्रकारमाह द्वैतविशिष्टब्रह्मरूपोद्देश्येति । वर्तमानकालावच्छेदेनेत्यस्य अस्ति त्वे अन्वयः। द्वैतवत्वदेशकालावच्छेदेनेत्यस्य ब्रह्मणीति सप्तम्यर्थवृत्तित्वे अन्वयः । अस्मिन्नपि पक्षे वर्तमानकालावच्छिन्नास्तित्वविशिष्टाद्वैताभावः द्वैतकालावच्छिन्नद्वैतवद्ब्रह्मनिरूपितवृत्तितावान् इत्येव बोध: । ननु मिथ्यात्वघटकस्यात्यन्ताभावस्य केवलान्वयित्वेन अवच्छिन्नवृत्तिकत्वाभावात् कथं नेहे- त्यादिवाक्यात् द्वैतकालाधवच्छिन्नवृत्तिकाभावबोध इत्यत आह- अत्यन्ताभावस्येति । मिथ्यात्वघटकस्य द्वैतात्यन्ताभावस्येत्यर्थः । स्वीकार इति । ततश्च द्वैतकालावच्छिन्नत्वस्य तत्र बाधाद्बोधो न सम्भवतीति भाव:। निरवच्छिन्नविशेषणतयेति । अस्य वृत्तित्वे अन्वयः । तादृग्ब्रह्मेति । द्वैतविशिष्टब्रह्मेत्यर्थः । अत्र च सप्तम्यन्तात् इदंशब्दात् इदमो ह' इत्यनेन हप्रत्ययविधानात् निरवच्छिन्नविशेषणतासंबन्धावच्छिन्न- वृत्तित्वस्य तदर्थत्वेन पदार्थविधयैव तद्भानं सम्भवतीति बोध्यम् । नन्वेतावता ब्रह्मनिरूपितवृत्तित्वे द्वैतकालावच्छिन्नत्वं अवच्छिन्नवृत्तिकान्यत्वं वा भाति , न तु द्वैताभाव इत्यायातम् । ततश्च उक्तवाक्यात् द्वैतकालावच्छिनस्य अवच्छिन्नवृत्तिकान्यस्य वा अभावस्य अभानात् तद्धटितमिथ्यात्वभानानुपपत्तिः। तदघटितस्यैव मिथ्यात्वस्याङ्गीकारे च मिथ्यात्वानुमाने द्वैतस्य वृक्षे संयोगस्येव अव्याप्यवृत्तितामादाय ।

प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 23 लघुचन्द्रिका वृत्तितामादाय मिथ्यात्वानुमाने अर्थान्तरवारणात्, एकप्रसरताभङ्गापत्या इहेत्येकपदस्य ब्रह्माधेय- त्वयोरुद्देश्यविधेययोरन्वयाबोधकत्वेऽपि ब्रह्मणीत्यनेन ब्रह्मनिरूपितत्वरूपस्योद्देश्यस्यैवास्तीत्य- नेनाधेयत्वाश्रयत्वरूपविधेयस्यैव समर्पणेन ब्रह्मनिरूपिताधेयत्वे तद्देशाद्यवच्छिन्नत्वलाभात्, 'यस्मिन्पंच पंच जना आकाशश्च प्रतिष्ठित' इति वाक्ये 'प्राणस्य प्राणमुत चक्षुषश्चक्षु' रित्यादि. वाक्ये चाकाशशब्दिताव्याकृतप्राणादिसम्बन्धितया ब्रह्मण उक्तत्वात् पंचजनशब्दस्य गन्धर्वादि - प्रकाशः अर्थान्तरप्रसङ्ग इत्यत आह- तत्सम्बन्धावच्छिन्नस्येति । निरवच्छिन्नविशेषणतासंबन्धावच्छिन्नस्येत्यर्थः। निवेशादिति । मिथ्यात्वशरीरे अभावांशे निवेशादित्यर्थः। अर्थान्तरवारणादिति। तथाचात्र निरवच्छिन्न- विशेषणतासंबन्धावच्छिन्ना या स्वाधिकरणनिरूपितवृत्तिता तदाश्रयीभूताभावप्रतियोगित्वरूपस्यापि मिथ्यात्वस्य सुवचतया अर्थान्तरवारणसंभवान्न दोषः। वृक्षनिरूपिता संयोगाभावनिष्ठा वृत्तिता तु न निरवच्छिन्नविशेषणतासंबन्धावच्छिन्ना, किन्तु मूलावच्छिन्नविशेषणतासंबन्धावच्छिन्नेति भावः। ननु इहेत्यत्र इदंपदार्थो द्वैतवद्ब्रह्म । सप्तमीस्थाने विहितहप्रत्ययस्य आधेयता अर्थः। तस्याश्च ब्रह्मणि विधेय- तया अन्वय: उक्तप्रायः। स च न संभवति। न च पर्वते वन्हिरित्यादौ विशेष्यस्यापि वयादे: विधेयतया अन्वयदर्शनेन विधेयत्वस्य प्रकारत्वानियतत्वेन प्रकृतिप्रत्ययार्थयो: प्रत्ययार्थ: प्रधानमिति न्यायेन प्रत्ययार्थीधेयत्वस्य प्रकृत्यर्थं प्रति विशेष्यत्वे सत्यपि विशेष्यत्वस्य विधेयत्वाविरोधित्वात् कुतो नान्वय इति वाच्यम् । नीलघट इत्यादौ घटोद्देश्यकनीलविधेयकबोधस्येव प्रकृतिप्रत्ययार्थयो: उद्देश्यविधेय- भावेनान्वयस्य अव्युत्पन्नत्वात् । अत एव एवमन्वयबोधाङ्गीकारे एकप्रसरताभङ्ग इति वदन्ति । एकप्रसरता च एकविशिष्टार्थोपस्थापकता। सा च समास इव सुप्तिङन्तपदस्थलेप्यविशिष्टा । स्वातन्त्र्येण पृथगुप- स्थितिनियतस्य उद्देश्यविधेयभावेनान्वयस्य तादृशोपस्थितिरहितस्थलेऽङ्गीकारे तस्या भङ्गप्रसङ्गः। तत श्चोक्तस्थले उक्तविधान्वयबोध:कथम्, कथं च तदभावे आधेयतायां द्वैतकालावच्छिन्नत्वभानमित्यत आह- एकप्रसरतेति । सत्यम्, उक्तविधान्वयबोधाङ्गीकारे एकप्रसरताभङ्गः । अत एव स नाङ्गीक्रियते, किन्तु अन्यविध इत्याह- ब्रह्मणीति। इहेत्यन्तार्थस्य ब्रह्मनिरूपितत्वस्य उद्देश्यत्वं, अस्तीत्यर्थस्य आधेयत्वविशिष्टाश्रयत्वस्य विधेयत्वं अङ्गीक्रियते । एवं च इहेति सुबन्तार्थे अस्तीति तिङन्तार्थस्य विधेयतया अन्वयस्य व्युत्पन्नतया नानुपपत्तिरिति भावः। तद्देशाद्यवच्छिन्नत्वेति । द्वैतदेशाद्यवच्छि- त्रत्वेत्यर्थः । लाभादिति । आधेयत्वाश्रयत्वस्य स्वरूपसंबन्धविशेषरूपस्य आधेयत्वरूपत्वेन आश्रयत्वेन ब्रह्मनिरूपितत्वान्वयबाधः। अत एव उद्देश्यविधेयभावस्थल इत्यादिव्युत्पत्या द्वैतदेशकालावच्छिन्नत्वस्य तत्र लाभ इति भावः । ननु द्वैतवद्ब्रह्मण: प्रक्रान्तत्वाभावात् कथं इहेत्यत्रत्येदंपदेन तस्य परामर्श इत्यत आह- यस्मिन् पंचेति । इत्यादिवाक्य इति । 'प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः' इति वाक्य इत्यर्थः । यस्मिन्नितिवाक्ये आकाश: अव्याकृतं मायेत्यर्थः। प्रतिष्ठित इत्यस्य तादात्म्येनारोपित इत्यर्थः । प्राणस्य= पंचवृत्तेः। प्राणं= प्राणनशक्तिप्रदायकम्। चक्षुष: चक्षुरिन्द्रियस्य। ।

24 अद्वैतसिद्धिः सव्याख्या - - लघुचन्द्रिका रूपस्य ब्राह्मणादिरूपस्य वा भाष्योक्तार्थस्य 'यस्य ब्रह्म च क्षत्रं चेति वाक्ये ब्रह्मक्षत्रपदयोरिव सर्वदृश्योपलक्षणत्वेन प्राणस्येत्यादेरपि सर्वदृश्योपलक्षणत्वेन सर्वदृश्यसम्बन्धित्वेनैव ब्रह्मण: पूर्व - मुक्त्वाच्चाद्वैतसिध्दे: द्वैतमिथ्यात्वसिद्धिपूर्वकत्वम्। नच नानेत्यस्य नञ्पदनिष्पन्नत्वेन भेदार्थकतया स्वसमभिव्याहृतपदार्थब्रह्मभेदबोधकतया तादृशभेदविशिष्टस्य किंचनेति पदार्थस्यात्यन्ताभावे द्वैतवत्त्वदेशकालावच्छिन्नत्वस्य भानं न व्युत्पत्तिसिद्धम्, उद्देश्यतावच्छेदकतत्तद्देशकालावच्छिन्न- त्वयोः तत्तद्देशकालविशिष्टोद्देश्यस्थले एव भानादिति- वाच्यम्; तादृशाभावे तादृशावच्छिन्नब्रह्म वृत्तित्वबोधेऽप्युद्देश्यसिद्धेः। नहि तत्र तत्केनापि स्वीक्रियते। प्रलयेऽपि तादृशाभावे तार्किकादिभि- प्रकाशः चक्षुः= दर्शनशक्तिदम्। मनस: = सङ्कल्पविकल्पात्मकस्य। मन: = सङ्कल्पनविकल्पनशक्तिप्रदायकम् । अचेतनस्य चेतनानधिष्ठितस्य क्रियाशक्तेर्ज्ञानशक्तेर्वा अभावात्। संबन्धितयेति। यस्मिन्नितिवाक्ये अव्याकृतसंबन्धितया, प्राणस्येति वाक्ये प्राणादिसंबन्धितयेत्यन्वय: । नन्वेतावतापि सर्वदृश्यतादात्म्य- वत्वेन न ब्रह्मण: प्रक्रम: सिद्ध इत्यत आह पंचजनशब्दस्येति । गन्धर्वादिरूप स्येति । आदिपदेन पितरो देवा असुरा रक्षांसि ग्राह्याणि। ब्राह्मणादिरूपस्येति । आदिपदेन क्षत्रियवैश्यशूद्रनिषादा ग्राह्या: । भाष्यो क्तार्थस्येति । बृहदारण्यकभाष्योक्तार्थस्येत्यर्थः। अस्य च सर्वदृश्योपलक्षणत्वेनेत्यत्रान्वयः। अत्र दृष्टान्तमाह यस्य ब्रह्मचेत्यादि । ब्रह्मक्षत्रपदयोरिति । मृत्युर्यस्योपसेचनमिति वाक्यशेषे मृत्योरुपसेचनत्व- कीर्तनस्वारस्यानुरोधेन ब्रह्मक्षत्रपदयोः सर्वदृश्योपलक्षणत्वमुक्तमत्त्रधिकरणे। सर्वदृश्यसंबन्धित्वेनेति। सर्वदृश्यतादात्म्येनेत्यर्थः । ब्रह्मण: पूर्वमुक्तत्वादिति । इहेतीदंपदेन द्वैतवद्ब्रह्मपरामर्शसंभव इति शेषः। उपसंहरति अद्वैतसिद्धेरिति । अद्वैतसिद्धिसामान्यस्येत्यर्थः । ननु नेह नानास्तीति वाक्ये द्वैतविशिष्टे | ब्रह्मणि द्वैताभावो न विधीयते । किन्तु तादृशब्रह्मनिरूपितत्वे द्वैताभावाधेयत्वमित्युक्तम् । इत्थं च द्वैता भावस्य अविधेयत्वेन तत्र द्वैतकालावच्छिन्नत्वस्य उक्तवाक्यजबोधे अनवगाहनात् कथमुक्तवाक्यात् द्वैतमिथ्यात्वबोध इत्याशङ्कते न चेति । नञ्पदनिष्पन्नत्वेनेति । 'विनञ्भ्यां नानाऔ नसहेति सूत्रेण पृथक्त्वे वर्तमानस्य नञः स्वार्थे नाञ्प्रत्ययस्य विधानेन नानेत्यस्य नञ्पदनिष्पन्नत्वं बोध्यम् । स्वसम - भिव्याहतेत्यादि । घटो न पट इत्यादौ नञः स्वसमभिव्याहतपदार्थपटभेदबोधकत्वदर्शनेन प्रकृते प्रति योगिवाचकप्रथमान्तपदसमभिव्याहाराभावेऽपि भेदस्य प्रतियोगिसापेक्षत्वेन नानापदस्य लक्षणया समभि - व्याहतेदंपदार्थब्रह्मभेदबोधकत्वमिति भावः । किंचनेति पदार्थस्येति । वस्तुसामान्यस्येत्यर्थः । न व्युत्प- त्तिसिद्धमिति। कुत इत्यत आह- तत्तद्देशकालविशिष्टोद्देश्यस्थल एवेति। तादृशोद्देश्यांशे विधेयतया भासमान एवेत्यर्थः । प्रकृते च तत् द्वैताभावाधेयत्वमेव, नतु द्वैताभाव इति, न तत्र द्वैतकालावच्छिन्न- त्वभानसम्भव इति भावः। समाधत्ते तादृशाभाव इति । ब्रह्मभिन्नवस्तुसामान्यात्यन्ताभाव इत्यर्थः । तादृशावच्छिन्नब्रह्मवृत्तित्वबोधेऽपीति। द्वैतवत्वदेशकालावच्छिन्नं यत् ब्रह्मनिरूपितवृत्तित्वं तद्बोधेपी त्यर्थः। उद्देश्यसिद्धेरिति । उद्देश्यस्य द्वैतमिथ्यात्वस्य सिद्धेरित्यर्थः । तथा च स्वसमानाधिकरण स्वावच्छे- दकदेशकालावच्छिन्नाभावप्रतियोगित्वस्येव स्वावच्छेदकदेशकालावच्छिन्नस्वाधिकरणनिरूपितवृत्तिता- - प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 25 लघुचन्द्रिका स्तदस्वीकारात् मिथ्यात्ववादिनैव तत्स्वीकारात्। वस्तुतस्तु ब्रह्मभेदो न प्रतियोगितावच्छेदकतया भाति, किन्तूपलक्षणतया किंचनपदार्थे प्रकारः। तथा च तत्पदस्य सर्वनामतया प्रसिद्धार्थतया प्रत्य क्षादिमानसिद्धद्रव्यत्वादिविशिष्टबोधकत्वेन प्रसिद्धार्थकत्वात् प्रक्रान्तार्थकत्वाद्वा इहपदेन घट- प्रकाशः काभावप्रतियोगित्वस्यापि मिथ्यात्वेन प्रकृतवाक्यात्तद्भानोपगमेपि न क्षतिः। इत्थं च अद्वैतसिद्धि- सामान्यस्यापि द्वैतमिथ्यात्वसिद्धिपूर्वकत्वस्य निर्वाह इति भावः । ननु द्वैतसत्यत्ववादिना द्वैतवति द्वैत- कालावच्छेदेन द्वैताभाववत्वं नाङ्गीक्रित इति तत्साधनमेव द्वैतस्य सत्यत्वविरोधिमिथ्यात्वपर्यवसायि, द्वैताभावे द्वैतकालावच्छेदेन द्वैतवद्ब्रह्मवृत्तित्व साधनं तु न तथा, तत्र तादृशवृत्तित्वस्य तेन उपगमसम्भवेन अर्थान्तरतापत्तेरिति शङ्कां वारयति नहीति। तत्रेति । द्वैताभाव इत्यर्थः। तत् = द्वैतकालाद्यवच्छिन्नद्वैत- वद्ब्रह्मवृत्तित्वम् । केनापीति । द्वैतसत्यत्ववादिनेति शेष: । ननु प्रलये द्वैताभावस्य ब्रह्मणि तार्किकादिभि: स्वीकारात् केनापि तन्नस्वीक्रियत इति कथमित्यत आह- प्रलयेऽपीति । प्रलयावच्छेदेन ब्रह्मणि द्वैताभावस्य स्वीकारेपीत्यर्थः । तादृशाभावे- ब्रह्मभिन्नवस्तुसामान्याभावे । तदस्वीकारात् = द्वैतदेश- कालावच्छिन्नब्रह्मवृत्तित्वास्वीकारात् । एवं च उक्तरूपस्य मिथ्यात्वस्य दृश्यत्वादिलिङ्गकानुमितौ 'नेह नानास्ति किंचने'तिवाक्यजनितबोधे च भानोपगमेऽपि नार्थान्तरमिति भावः । ननु नेहेति वाक्यात् द्वैतवद्- ब्रह्मवृत्ति: द्वैताभाव इत्येवंविधो बोधो न भवितुमर्हति आहार्यत्वापत्तेरित्याशङ्कयाह वस्तुतस्त्विति । ब्रह्म- भेद इति । नेहेति वाक्यघटकनानापदार्थभूत इत्यादिः । प्रतियोगितावच्छेदकतया = नञर्थाभावप्रतियोगि- तावच्छेदकतया। न भातीति । गौरवात् प्रयोजनाभावाच्चेति भावः। किंचनपदार्थ इति । अनुपदं वक्ष्य - माण इत्यादिः । तथा चेति । ब्रह्मभेदस्य किंचनपदार्थ उपलक्षणतया प्रकारत्वेनेत्यर्थः। तत्पदस्य किंचनपदघटककिंपदस्य । चनेति तु तात्पर्यग्राहकमिति भावः । प्रसिद्धार्थतयेति । सर्वनाम्नां प्रसिद्धार्थ- कत्वादिति भाव: । द्रव्यत्वादीति । आदिपदेन गुणत्वादिकं ग्राह्यम् । बोधकत्वेनेति । अस्य च मिथ्यात्व- लाभइत्यनेनान्वयः। प्रसिद्धेत्यादिपंचम्यन्तद्वयं इहपदघटकेदंपदस्य घटत्वादिविशिष्टब्रह्मबोधकत्वे हेतुः । तद्बोधनं च मिथ्यात्वलाभे हेतुः । इह पदेनेति । तदन्तर्गतेदंपदेनेत्यर्थः । तथा च नेहेत्यादिवाक्ये, इत्यस्य ब्रह्मभेदोऽर्थः । तस्य च किंचनपदार्थे द्रव्यत्वादिविशिष्टे उपलक्षणतया प्रकारत्वम्। किंचन- पदार्थस्य च नअर्थाभावे प्रतियोगितया अन्वयः । इदंपदस्य घटत्वादिविशिष्टवद्ब्रह्म अर्थः । सप्तम्या: निरूपितत्वमर्थः । तस्य च अस्धात्वर्थ आधेयत्वे, तस्य आख्यातार्थाश्रयत्वे, तस्य च अभावे अन्वयः इति ब्रह्मभेदोपलक्षितद्रव्यत्वविशिष्टाभाव: घटत्वविशिष्टवद्ब्रह्मवृत्ति: इति बोधः। तथा च द्रव्यत्वेन गृह्यमाणघटादे: स्वाधिकरणवृत्तिद्रव्यत्वावच्छिप्रतियोगिताकाभावप्रतियोगित्वसिद्धौ मिथ्यात्वसिद्धिः । नन्वेवं घटस्य द्रव्यत्वरूपेण ब्रह्मण्यभावसिद्धावपि घटत्वरूपेणाभावासिद्ध्या उद्देश्यासिद्धिरिति चेन्न घटस्य ब्रह्मणि द्रव्यत्वरूपव्यापकधर्मावछिन्नप्रतियोगिताकाभावसिद्धौ घटत्वरूपव्याप्यधर्मावच्छिन्नप्रति- योगिताकाभावस्यापि तत: सिद्धिसंभवादिति भावः । नन्वेवमुक्तवाक्यात् द्रव्याभावो घटवद्ब्रह्मवृत्तिः जातिमदभावो द्रव्यवद्ब्रह्मवृत्तिरित्यादिसमूहालम्बनरूप एव बोधो वाच्यः । ततश्चास्मिन् बोधे द्रव्यत्वा- %3D नाना १ 26 अद्वैतसिद्धि: सव्याख्या स्वपक्षसाधनपरपक्षनिराकरणाभ्यां भवतीति तदुभयं वादजल्पवितण्डानामन्यतमां कथामा श्रित्य सम्पादनीयम्। तत्र च विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वान्मध्यस्थेनादौ विप्रति पत्ति:प्रदर्शनीया। यद्यपि विप्रतिपत्तिजन्यसंशयस्य न पक्षतासम्पादकतयोपयोग:, सिषाधयिषाविरहसहकृतसाधकमानाभावरूपाया स्तस्याः संशयाघटितत्वात्; अन्यथा श्रुत्याऽऽत्मनिश्चयवतोऽनुमित्सया तदनुमानं न स्यात्, वाद्यादीनां निश्चयवत्त्वेन लघुचन्द्रिका त्वादिविशिष्टवत्ब्रह्मबोधनात्, द्रव्यत्वादिविशेषरूपेणैव मिथ्यात्वलाभ:। घटवत् द्रव्यवदित्येव . मुद्देश्यतावच्छेदकभानेऽपि द्रव्यं नास्तीत्यादिविधेयांशे घटत्वादिविशिष्टस्यैवोद्देश्यतावच्छेदकत्वेन द्रव्यत्वादिविशिष्टाभावज्ञानस्य नाहार्यत्वापत्तिरिति भावः। वादः तत्त्वबुभुत्सुना सह कथा । जल्पो प्रकाश: वच्छिन्नस्य उद्देश्यतावच्छेदकतया द्रव्यत्वावच्छिन्नाभावस्य विधेयतया भानादाहार्यत्वापत्तिर्दुवीरेत्यत आह- घटवदिति । घटवति ब्रह्मणि द्रव्यं नास्ति द्रव्यवति तस्मिन् जातिमान्नास्तीति समूहालम्बनात्म- कबोध इत्यादिः। घटवद्व्यवदित्येवमुद्देश्यतावच्छेदकभानेऽपीति । घटत्वविशिष्टस्य द्रव्यत्वविशिष्टस्य च उद्देश्यतावच्छेदकतया भानेऽपीत्यर्थ: । द्रव्यं नास्तीत्यादिविधेयांश इति । द्रव्यं नास्तीति शब्दप्रति- पाद्य द्रव्यत्वावच्छिन्नप्रतियोगिताकाभावरूपविधेयांश इत्यर्थः । घटत्वादिविशिष्टस्यैवेत्येवकारेण द्रव्यत्व- विशिष्टस्य व्यवच्छेदः । उद्देश्यतावच्छेदकत्वेनेति । अस्य च नाहार्यत्वापत्तिरित्यनेनान्वयः । अयं भाव:- तद्धर्मावच्छिन्नप्रतियोगिताकाभावस्य विधेयतया, तद्धर्मविशिष्टस्य उद्देश्यतावच्छेदकतया भानमात्रं नाहार्यताप्रयोजकं, किन्तु तद्धर्मावच्छिन्नाभावं प्रति तद्धर्मविशिष्टस्य तथाभानं, प्रकृते च द्रव्यत्व विशिष्टस्य जातिमत्वावच्छिन्नाभावं प्रत्येवोद्देश्यतावच्छेदक तया भानं , नतु द्रव्यत्वावच्छिन्नाभावं प्रति , तं प्रति घटत्वविशिष्टस्यैव तथा भानं , अतोनाहार्यत्वापत्तिरिति॥ इति अद्वैतसिद्धे: द्वैतमिथ्यात्वसिद्धिपूर्वकत्वविचारः ।। मूले - स्वपक्षसाधनेति । स्वपक्षसाधनं- स्वस्य सिद्धान्तिन: पक्ष: द्वैतमिथ्यात्वं , तस्य साधनं- प्रमाणत: समर्थनमित्यर्थः । परपक्षनिराकरणेति । परपक्षनिराकरण- परस्य प्रतिवादिनो माध्वादे: पक्षः, द्वैतसत्यत्वं, तस्य निराकरणं, तदुक्तयुक्त्यादौ दोषोद्धाटनादिना तन्निरसनमित्यर्थः । तदुभयं = द्वैतमिथ्या- त्वसाधनद्वैतसत्यत्वनिराकरणोभयम् । अन्यतमां कथामाश्रित्येति। यद्यपि वितण्डारूपकथया स्वपक्ष साधनस्य अकरणादुभयमिति असङ्गतमिव प्रतीयते, तथापि तया परपक्षनिराकरणे सति अर्थात् स्वपक्ष: सिद्ध्यतीत्यभिप्रायेण तत्सङ्गतिरिति ध्येयम् । अथवा उभयत्वसामानाधिकरण्येन सम्पादनीयत्वस्य विविक्षितत्वान्न दोषः। तत्रेति। कथायामित्यर्थः। टीकायां वादशब्दार्थमाह- तत्वबुभुत्सुनेति।

प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 27 %3B संशयासंभवादाहार्यसंशयस्यातिप्रसञ्जकत्वाच्च; नापि विप्रतिपत्तेः स्वरूपत एव पक्षप्रति- पक्षपरिग्रहफलकतयोपयोग:, त्वयेदं साधनीयं', 'अनेनेदं दूषणीय'मित्यादिमध्यस्थ वाक्यादेव तल्लाभेन विप्रतिपत्तिवैयर्थ्यात्; तथापि विप्रतिपत्तिजन्यसंशयस्यानुमित्यनङ्गत्वेऽपि - . लघुचन्द्रिका विजिगीषुणा सह। वितण्डा स्वपक्षस्थापनाहीना। कथा पंचावयवपरिकरोपेतवाक्यम्। सिषाधयिषेत्यादि। सिषाधयिषाभावसामानाधिकरण्यविशिष्टस्य साध्यनिश्चयस्याभावरूपाया इत्यर्थः। संशयस्य संशयहेतुत्वस्वीकारस्य। अतिप्रसञ्जकत्वात्। आहार्यपरामर्शादेर्हेतुत्वापाद ककत्वात्। पक्षप्रतिपक्षपरिग्रहेति। पक्षे धर्मणि प्रतिनियतपक्षपरिग्रहेत्यर्थः । वादिनो वाभावा- न्यतरकोटेरेकधर्मिणि प्रयोगेति यावत्। तथापि अनुमित्यनङ्गत्वेऽपीति। अनुमितिं प्रति तथा- विधमेव यदङ्गत्वं तदभावेऽपीत्यर्थः। प्रथमस्यापिशब्दस्यैवकारसमानार्थकत्वात् यद्यपीत्यस्य पूर्व सत्त्वात्तथापीत्यन्यदध्याहार्यम्। एकेनैव वा तथापीत्यनेनार्थद्वयबोधः। अथवा अङ्गत्वपदस्य पूर्व- प्रकाशः विजिगीषुणा सहेति । कथेति पूर्ववाक्यस्थस्य अनुषङ्गः । स्वपक्षस्थापनाहीनेति । अत्रापि कथेत्यस्य अनुषङ्गः। कथामिति मूलस्थं पदम् । तदर्थवर्णनं पंचावयवपरिकरोपेतवाक्यमिति। प्रतिज्ञादिनिगमनान्ता: पंच न्यायावयवा: त एव परिकर: तद्युक्तं वाक्यमित्यर्थः । पंचावयवेति नैय्यायिकमतमनुरुध्य । उक्तं हि न्यायसूत्रे पंचावयवोपपन्न: पक्षप्रतिपक्षपरिग्रहो वाद' इत्यादि। न अवयवेष्वाग्रह इति वाक्यव्याख्यानावसरे यथामतं न्यूनावयवप्रयोगस्य स्वयं वक्ष्यमाणत्वात्। मूले- विप्रतिपत्तिजन्येति । विरुद्धार्थबोधकवाक्य- जन्येत्यर्थः। अत्र च संशयस्य विप्रतिपत्तिजन्यत्वोक्तिः शाब्दधीरूपसंशयस्य विप्रतिपत्तिवाक्यजन्यत्व- स्वीकर्तृप्राचीनमताभिप्रायेण । प्रत्यक्षस्यैव संशयत्वमिति मते तु जन्येत्यस्य प्रयोज्येत्यर्थः । संशयहेतु भूतकोट्युपस्थितेर्विप्रतिपत्तिवाक्यजन्यत्वेन तद्वारा संशये विप्रतिवाक्यप्रयोज्यत्वस्य अबाधात्। सिषाध- यिषाविरहसहकृतेत्यत्र सहकृतत्वं न तज्जन्यजनकत्वम् । अनुमितौ सिद्धि जन्यत्वस्य सिषाधयिषाविरहे अनुमितिजनकत्वस्य च अभावात् । एवं साधकमानपदस्यार्थ: न सिद्धिसामग्री। चक्षुःपरामर्शादिरूपाया- स्तस्या:सर्वत्र विद्यमानत्वेन सिषाधयिषाया: अभावे, अनुमिते: अनुत्पत्तिप्रसङ्गात् । अतस्तदर्थं व्याचष्टे सिषाधयिषेति । ततश्च सहकृतपदस्य अर्थ: सामानाधिकरण्यविशिष्टः, साधकमानपदस्य च लक्षणया साध्यनिश्चय: इत्युक्तं भवति। ननु साध्य संशयस्यैव पक्षतात्वमस्तु, तथा च विप्रतिपत्ते: तत्सम्पादकत्वेन विचारोपयोगित्वं सिद्ध्यतीत्यत आह मूले- अन्यथेति । उक्तविधसाध्यनिश्चयाभावस्य पक्षतात्वं परि - त्यज्य साध्यसंशयस्य पक्षातात्वोपगमे इत्यर्थः । श्रुत्येति । यस्सर्वज्ञ इत्यादिश्रुत्येत्यर्थः । आत्मनिश्चयवत इति । परमात्मनिश्चयवत इत्यर्थः । तदनुमानमिति । कार्यत्वादिलिङ्गेन परमात्मानुमानमित्यर्थः । न स्या - दिति । संशयरूपपक्षताया: अभावादिति भाव: । ननु अर्थनिश्चये सत्यपि तत्र प्रामाण्यसन्देहेन अर्थसन्देह:

28 अद्वैतसिद्धिः सव्याख्या व्युदसनीयतया विचाराङ्गत्वमस्त्येव । तादृशसंशयं प्रति विप्रतिपत्ते: क्वचिनिश्चयादिप्रति- लघुचन्द्रिका शङ्किताङ्गत्वमर्थः । व्युदसनीयतया विचारसाध्याभावप्रतियोगितया। विचाराङ्गत्वं विचारप्रवृ- त्युपयुक्तस्य संशयाभावरूपफलज्ञानस्य विशेषणज्ञानविधया कारणे ज्ञाने विषयत्वम्। प्रकाशः ' सुलभ इत्यत आह वाद्यादीनामिति । वादिपदेनैव प्रतिवादिनोपि ग्रहणसम्भवात् मध्यस्थ आदिपदग्राह्यः। निश्चयेति । अप्रामाण्यज्ञानानास्कन्दितेत्यादिः। ननु अप्रामाण्यज्ञानानास्कन्दितैककोटि निश्चयसत्वेऽपि, विप्रतिपत्ते: आहार्यसंशयो जायताम् स एव च पक्षताविधया अनुमितौ हेतुर्भविष्यतीत्यत आह आहार्येति । आहार्यसंशयस्य अति प्रसंजकत्वं न संभवति, उपगम्यते च स सर्वैरिति यथाश्रुतमूलासङ्गतिरतो व्याचष्टे- संशयस्येति । संशयहेतुत्वस्वीकारस्येति । आहार्यसंशयस्य अनुमिति प्रति हेतुत्वस्वीकारस्येत्यर्थः। हेतुत्वापादकत्वादिति । अनुमितिं प्रति हेतुभूतयोरनाहार्ययो: संशयपरा मर्शयोर्मध्ये आहार्यस्यापि संशयस्य हेतुत्वस्वीकारे अविशेषात् परामर्शस्यापि तथाविधस्य हेतुत्वं बलादापद्येतेति भावः। मूले स्वरूपत इति । संशयमद्वारीकृत्येत्यर्थः। पक्षप्रतिपक्षपरिग्रहफलकतयेत्यत्र पक्षो भावकोटि: प्रतिपक्ष: अभावकोटि: तयोरन्यतरपरिग्रहः , उभयपरिग्रहो वा इति यद्यर्थ: तर्हि भावाभावकोटिपरिग्रहस्य एकधर्मिकत्वालाभ:, एकधर्मिसम्बद्धभावाभावद्वयं तु अप्रसिद्धमिति न तस्य पक्षप्रतिपक्षपदार्थता । एवं परिग्रहशब्दार्थो न ज्ञानं, तस्य विप्रतिपत्तिं विनापि सम्भवेन तस्या: तत्फलक त्वायोगात्, अतो व्याचष्टे पक्षेति । प्रतिनियतपक्षपरिग्रहेत्यर्थ इति । ततश्च पक्षप्रतिपक्षेत्यादिमूलवाक्ये पक्षश्च प्रतिपक्षश्च पक्षप्रतिपक्षौ तयोःपरिग्रह इति न समास:। किन्तु पक्षप्रतिपक्ष इत्यत्र प्रतिनियत: पक्ष: प्रतिपक्ष: तस्य परिग्रहः। पक्षे प्रतिपक्षपरिग्रह: पक्षप्रतिपक्षपरिग्रहः। स: फलं यस्यास्तस्या भाव: तया इति। अत्र प्रथमपक्षपदं धर्मिपरं , द्वितीयं कोटिपरं इति भाव: । ननु विचारं प्रति विप्रतिपत्तेरङ्गत्वे तद्वारा अनुमितिं प्रत्यप्यङ्गत्वस्य दुर्वारत्वेन अनुमित्यनङ्गत्वेपीतिमूलमसङ्गतमित्यतआह अनुमितिं प्रतीति । तथाविधमिति । पक्षतारूपत्वेन पूर्वमाशङ्कितमित्यर्थः। प्रथमस्य अपिशब्दस्येति। तथापीतिशब्दघटक स्येत्यर्थः। अनुमित्यनङ्गत्वेपीत्यत्र अपर: अपिशब्दो वर्तत इति प्रथमस्येत्युक्तिः। ननु तथापीत्यस्योक्तार्थ कत्वे पूर्वप्रयुक्तस्य यद्यपीत्यस्य नान्वय संभव इत्यत आह- तथापीत्यन्यदिति । तथा च पूर्वतनस्य यद्यपी त्यस्य अध्याहृतेन तथापीत्यनेन अन्वयसंभवान्न दोष इति भावः । अध्याहारे गौरवादाह- एकेनैवेति । अस्मिन् पक्षे सकृदुच्चरित: शब्द: सकृदेवार्थं गमयतीति न्यायविरोध इत्यालोच्याह- अथवेति । पूर्वशङ्कि ताङ्गत्वमर्थ इति । अङ्गत्वसामान्यवाचकस्य पदस्य प्रकरणानुरोधेन अङ्गत्वविशेषबोधकत्वमिति भावः। व्युदसनीयतयेत्यस्य निवर्तनीयतयेति नार्थः, संशयस्य निवृत्तेर्विप्रतिपत्या अजननात् अतो व्याचष्टे- व्युदसनीयतयेति। विप्रतिपत्तिजन्यसंशयस्य विचारसाध्याभावप्रतियोगित्वमात्रेण कथं विप्रतिवाक्यस्य विचाराङ्गत्वमित्यत्राह- विचाराङ्गत्वमिति । विचारप्रवृत्तीत्यादि । संशयाभावरूपं यत्फलं तज्ज्ञानं विचारे पुरुषस्य प्रवृत्तौ उपयोगि, फल ज्ञानस्य साधने प्रवृत्तिं प्रति कारणत्वात् । संशयाभावे च संशयो । ...

29 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता बन्धादजनकत्वेऽपि स्वरूप योग्यत्वात्। वाद्यादीनां च निश्चयवत्वे नियमाभावात् ‘निश्चितौ हि वादं कुरुत' इत्याभिमानिकनिश्चयाभिप्रायं, परपक्षमालम्ब्याप्यहंकारिणो विपरीतनिश्चय- - लघुचन्द्रिका तथा च विप्रतिपत्तिवाक्यात् संशये जाते सन्देहीत्याकारकेण संशयरूपविशेषणज्ञानेन संशया भावरूपफलज्ञानाधीनेच्छया विचारे प्रवृत्तिरित्येवंरीत्या विचारे विप्रतिपत्तिवाक्योपयोग इति भावः । ननु वादिनोः स्वस्वकोटिनिश्चयकाले तत्संशयोत्पादानुपपत्तिः अत आह-तादृशेति। विचाराङ्गेत्यर्थः । स्वरूपयोग्यत्वात् कारणत्वात्। प्राचीनमते विप्रतिपत्तिवाक्यस्य शाब्दधीरूप - संशयोत्पादकत्वस्वीकारात्। प्रत्यक्षस्यैव संशयत्वमिति मते तु, कारणीभूतकोटिद्वयोपस्थितिहेतु- पदघटितत्वादित्यर्थः। तथा च वादिनो निश्चयकाले संशयानुत्पत्तावपि संशयकारणत्वादिरूपेण ज्ञाता विप्रतिपत्ति: संशयं स्मारयति, ययोः संबन्धः पूर्वं गृहीत: तयोरेकज्ञानस्यापरस्मारकत्वात्। तथा च तथैव तस्या उपयोग इति भाव: । आभिमानिकनिश्चयाभिप्रायमिति निश्चयवानस्मीति प्रकाशः -- विशेषणम्। तस्य ज्ञानं च संशयाभावज्ञानं प्रति कारणं, विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य अन्वय- व्यतिरेकाभ्यां कारणत्वावधारणात्। तादृशज्ञाने च संशयस्य विषयत्वमिति भावः। तथाचेति। उक्तरीत्या व्युदसनीयतया विचाराङ्गत्वसिद्धौ चेत्यर्थः। विप्रतिपत्तिवाक्यादिति । विमतं मिथ्या नवेत्यादिवाक्यादि- त्यर्थः । सन्देहीत्याकारकेणेति। विमतं मिथ्या नवेति संशयवानहमित्याद्याकारकेत्यर्थः । इच्छयेति । मम संशयाभावो भवत्वित्याकारकयेच्छयेत्यर्थः। ननु संशयाद्विचारे प्रवृत्ति: वादिनोर्वाच्या, तयोश्च संशय- एव नोत्पत्तुमर्हति, तत्प्रतिबन्धकस्य निश्चयस्यैव सत्त्वादित्याशङ्कते नन्विति । वादिनो: = वादिप्रति- वादिनोः। स्वस्वकोटीति। परंप्रति साधनीयस्वीयस्वीयमिथ्यात्वतदभावादिकोटीत्यर्थः। तत्संशयेति । स्वस्वकोटिविषयकसंशयेत्यर्थः। मूले- निश्चयादिप्रतिबन्धादिति । निश्चयादिना प्रतिबन्धादित्यर्थः । आदिपदेन विशेषदर्शनादिकं ग्राह्यम् । टीकायां- कारणत्वादिति । ततश्च मूले अजनकत्वेपीत्यस्य अनुपधायकत्वेपीत्यर्थः। ननु प्रत्यक्षरूपसंशयं प्रति शब्दात्मिका विप्रतिपत्तिः कथं कारणमित्यत आह- प्राचीनेति। शाब्दधीरूपेति। ततश्च तन्मते संशयस्य प्रत्यक्षत्वनियमाभावात् शाब्दधीरूपसंशयं प्रति भवत्येव विप्रतिपत्ति: कारणमिति भावः। नवीनमते स्वरूपयोग्यत्वादित्युक्तिः कथं सङ्गच्छत इत्यत आह- प्रत्यक्षस्यैवेति। इत्यर्थ इति । कारणत्वादित्यर्थकस्वरूपयोग्यत्वादित्यस्य कारणीभूतकोटिद्वयोपस्थिति- हेतुपदघटितत्वादित्यर्थ इत्यर्थः। तथा च विप्रतिपत्तौ संशयं प्रति कारणीभूता या कोटिद्वयोपस्थिति:तद्धेतु- भूतकोटिद्वयवाचकपदघटितत्वस्य सत्वान्नासंगतिरिति भावः। नन्वथापि वादिनो: निश्चयस्य सत्वेन संशयानुत्पत्ते: न तद्वारा विप्रतिपत्तेरुपयोग इत्यत आह- तथाचेति। विप्रतिपत्तेः उक्तविधकारणत्वे सिद्धे सतीत्यर्थः। संशयं स्मारयतीति । तत्र युक्तिमाह ययोरिति। पूर्वगृहीत इति । पूर्वमित्यनेनस्मरणा- व्यवहितपूर्वं सम्बन्धिज्ञानं नावश्यकं, किन्तु तदंशे संस्कारोबोधमात्रमिति सूचितम्। तथैवेति । संशय । - 30 अद्वैतसिद्धि: सव्याख्या लघुचन्द्रिका ज्ञापयन्तौ विवदेते इत्यर्थकम्। तथाच वादिनोर्निश्चयकाले सभापत्यादीनां संशयाभावमुद्दिश्य- विचारे प्रवृत्तिरिति भाव: । ननु -विशेषणज्ञानस्य विशिष्टबुद्ध्यहेतुत्वमते नोक्तरीत्या विप्रतिपत्ति - रुपयुज्यत- इति चेत् । सत्यम्, तथापि स्वस्य परस्य वा संशयाभाववत्त्वे निश्चिते तत्र सिद्धत्व - प्रकाशः विषयकस्मृति जनकत्वेनैवेत्यर्थः । तस्या:= विप्रतिपत्तेः । उपयोग इति । विचारे इत्यादिः । ननु विप्रति - पत्तेः कुत्रापि न संशयोत्पादकत्वं, सर्वत्र निश्चयेन प्रतिबन्धात्। ततश्च क्वचिदित्युक्तिः कथं, इत्थं च कुत्रचिदपि संशयानुत्पादकत्वे स्वरूपयोग्यता वा कथमित्यत आह मूले- वाद्यादीनामिति । तथा च निश्चयाभावकाले संशयोत्पादकत्वस्य सत्वात् तदनुत्पादस्थलेपि स्वरूपयोग्यता अस्त्येवेति भावः । नन्वेवं निश्चयवत्वानियमे निश्चितौ हि वादं कुरुत इति प्रवाद: कथमित्यत आह निश्चितौ हीति । इतीति। वचनमिति शेषः। आभिमानिकनिश्चयाभिप्रायत्वं उपपादयति परपक्षेति । अहंकारिणः अहं श्रेष्ठ इति ज्ञानवतः। विपरीतनिश्चयवत:। व्यवस्थापनीयसाध्यविरुद्धसाध्यनिश्चयवतः। प्रवृत्तिदर्शनादिति । शब्दस्य अनित्यत्वमभ्युपगच्छत: नैय्यायिकस्यापि स्वस्य विवदनसामर्थ्याधिक्यप्रकाशनद्वारा कथायां जयसम्पाद नार्थं शब्दस्य मीमांसकसंमतनित्यत्वव्यवस्थापने प्रवृत्तिसम्भवेन निश्चितौ हीत्यस्य स्वव्यव- स्थापनीय कोटिविषयकनिश्चयवन्तावित्येव नार्थः। किन्तु वस्तुतो विपरीतकोटि विषयकनिश्चयवन्तावपि स्वस्वी कृतकोटिविषयकनिश्चयवत्वप्रकटनपरावित्यर्थ इति भाव: । टीकायां- निश्चयवानस्मीतीति । वस्तुतो निश्चयरहितावपीत्यादिः। ज्ञापयन्ताविति । प्रकटयन्तावित्यर्थः । ननु यदा वादिनोस्तत्तत्कोटि विषयकनिश्चय: तदा तयोः संशयाभावस्य सिद्धत्वात् तदुद्देशेन विचारे प्रवृत्तिर्न सम्भवतीति सर्वत्र विप्रतिपत्तिवाक्योपयोग: न घटते इत्यत आह- तथाचेति । निश्चयकाल इति । स्वस्वकोटिविषयक निश्चय काल इत्यर्थः । सभापत्यादीनामिति । आदिपदेन सभासदो ग्राह्याः। संशयाभावमुद्दिश्येति । तेषां संशयसम्भवादिति भावः। विचारे प्रवृत्तिरिति । वादिनोर्निश्चयसत्वेपि सभापत्यादीनां संशयसंभवेन तन्निवृत्त्युद्देशेन विचारे प्रवृत्ति: संभवतीति भावः। उक्तरीत्या विप्रतिपत्तेरुपयोगो न सङ्गच्छत इति शङ्कते- नन्विति । विशिष्टबुद्ध्यहेतुत्वमत इति । विशिष्टबुद्धित्वाच्छिन्नं प्रति विशेषणज्ञानं न कारणम् । विशिष्ट- विषयकस्मृतौ व्यभिचारात् । संस्कारसंबन्धेन हेतत्वान्न । हेतुत्वान्न व्यभिचार इति चेत्तर्हि प्रत्यक्षादौ व्यभिचार इत्यादियुक्त्या विशेषणज्ञानविशिष्टबुद्ध्यो: कार्यकारणभावनिरासादिति भावः। उक्तरीत्येति । संशया- भावरूपफलविशेषणीभूतसंशयजनकत्वेनेत्यर्थः। नन्वेवमपि अभावबुद्धिं प्रति प्रतियोगितावच्छेदक- विशिष्टप्रतियोगिज्ञानस्य कारणत्वेन संशयाभावज्ञानं प्रति प्रतियोगितावच्छेदकीभूतसंशयत्वविशिष्टसंशय रूपप्रतियोगिज्ञानमपेक्ष्यत एवेति चेन्न । व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावमङ्गीकुर्वद्भिर्वेदान्तिभि- स्तथाविधकारणताया अभ्युपगन्तुमशक्यत्वात् । घटत्वेन पटो नास्तीत्यादौ घटत्वादिविशिष्टपटादिरूप प्रति योगिन: अप्रसिद्धत्वात्, ब्रह्मणि पारमार्थिकत्वेन प्रपंचनिषेधपक्षे पारमार्थिकत्वविशिष्टप्रपंचस्य अप्रसिद्धत्वादिति भावः । समाधत्ते-सत्यमित्यादिना। तथापीति। संशयाभावरूपफलघटकसंशयरूप - - । .

31 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता वतो जल्पादौ प्रवृत्तिदर्शनात्। तस्मात् समयबन्धादिवत् स्वकर्तव्यनिर्वाहाय मध्यस्थेन विप्रतिपत्ति: प्रदर्शनीयैव । तत्र मिथ्यात्वे विप्रतिपत्ति: ब्रह्मप्रमातिरिक्ताबाध्यत्वे सति सत्त्वेन लघुचन्द्रिका ज्ञानात्, न तदुद्देशेन प्रवृत्तिरत: संशयाभाववत्त्वनिश्चयविरोधिनी संशयवत्त्वधीरपेक्ष्यत एव । ननु- वादिनोरन्येषां च सभास्थानां निश्चये वादिभ्यां निश्चिते संशयाभावमुद्दिश्य न विचारे तयोः प्रवृत्तिः, किन्तु विजयादिकमुद्दिश्य। तत्र च विप्रतिपत्तिर्नोपयुज्यते अत आह- तस्मादिति। स्वकर्तव्येति। उक्तस्थले तात्कालिके संशयाभावे निश्चितेऽपि निश्चयजन्यसंस्कारस्य कालान्तरे उच्छेदशङ्कया संशयोत्पत्तिसंभवज्ञानेन तदापि संशयाभावोऽनुवर्ततामितीच्छाया: संभवान्न विजयादिकमात्रमुद्दिश्य प्रवृत्तिः। किंच यथा समयबन्ध: एतन्मतमवलम्ब्यैव युवाभ्यां विचारणीयमित्याकारको मध्यस्थेन क्रियते, अन्यथा वादिनोर्मतान्तरप्रवेशेऽव्यवस्थापत्तेः; यथा वा वादिनौ परीक्ष्येते, अन्यथा मूर्खस्य प्रकाशः - - - विशेषणज्ञानजननद्वारा विप्रतिपत्तेः फलेच्छायामुपयोगाभावेऽपि इत्यर्थः। तत्र= संशयाभाववत्वे । सिद्धत्वज्ञानात्= निष्पन्नत्वज्ञानात् । प्रवृत्तिरिति । फले सिद्धत्वज्ञानस्य तत्रेच्छाविघटनद्वारा साधन- विषयकप्रवृत्तिप्रतिबन्धकत्वादिति भावः। संशयवत्वधीरिति । सा च स्मृतिरूपा संभवति। विप्रतिपत्ते: संशयेनेव तद्वारा संशयवतापि संबन्धसत्वेन तया तस्याः संभवादिति भाव: । अपेक्ष्यत एवेति । संशया - भावरूपफले सिद्धत्वज्ञानविघटनद्वारा फलेच्छाजनन इत्यादिः। उक्तरीत्या विप्रतिपत्तेरुपयोग: क्वचिन्न संभवतीति शङ्कावारकतया तस्मादित्याद्युपसंहारस्थमूलमवतारयति। नन्विति । वादिभ्यां= वादिप्रति वादिभ्याम् । तयोः= वादिप्रतिवादिनो:। संशयाभावमुद्दिश्येति । संशयाभावस्य सिद्धत्वेन तस्य इच्छा विषयत्वरूपोद्देश्यत्वासम्भव: । उद्देश्याभावे कथं प्रवृत्तिरित्यत आह किन्त्विति। विजयादिकमिति। आदिपदेन सभासदां रंजनं ग्राह्यम् । वाद्यादीनां निश्चयस्थलेऽपि विप्रतिपत्तेरुपयोगं दर्शयति- उक्तस्थल इत्यादिना । उक्तस्थले = वादिनोरन्येषां च सभास्थानां निश्चयस्थले । कालान्तरे उच्छेदशङ्कयेति। अदृढत्वे इत्यादिः । तदाऽपि कालान्तरेऽपि । इच्छाया:सम्भवादिति । अनेन कालान्तरेऽपि संशया- भावानुवृत्तेरुद्देश्यत्वमुक्तम्। ननु वाद्यादीनां निश्चयस्थले निश्चयजन्यसंस्कारस्य कालान्तरे उच्छेदशंकया संशयोत्पत्तिसंभवज्ञानेन तदाऽपि संशयाभावानुवृत्तीच्छया विचारे प्रवृत्तिरित्येतन समंजसं, तथा सति विचारप्रयुक्तनिश्चयजन्यसंस्कारस्यापि उच्छेदशंकया पुन: संशयोत्पत्तिसंभवज्ञानेन तदापि संशयाभावानु- वृत्तीच्छया पुन: विचारे प्रवृत्त्यापत्तेः, एवं पुनरपीति विचारप्रवृत्तिपरंपरापात इत्यस्वरसादाह किंचेति । समयबन्धपदार्थं विवृणोति एतन्मतमिति। शब्दनित्यत्वानित्यत्वाद्यंशे मीमांसक नैयायिकादिमतमित्यर्थः । समयबन्धाकरणे दोषमाह अन्यथेति। मतान्तरं स्फोटशब्दवादिवैयाकरणादिमतं। अव्यवस्थेति । शब्द - नित्यत्वानित्यत्वयो: जयपराजययोर्वा अनिश्चयेत्यर्थः। समयबन्धस्येव वादिपरीक्षाया अपि मध्यस्थ . कर्तव्यतामाह यथावेति । परीक्ष्यते इति । विवदनीयविषयज्ञानवत्वविषयोपपादनशक्तिमत्वनिश्चयानु- ।

32 अद्वैतसिद्धिः सव्याख्या प्रतीत्यहँ चिद्भिन्नं प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि न वा, लघुचन्द्रिका विचारे मध्यस्थस्यैव हास्यत्वापत्तेः; तथा विप्रतिपत्तिरपि मध्यस्थेन कार्यैव; अन्यथा प्रासङ्गिक विषयमादाय वादिनोरेकस्य जयस्वीकारापत्त्या प्रकृतविषये तयोर्जयपराजयव्यवस्थापनरूपस्य मध्यस्थकर्तव्यस्यानिर्वाहात्। विप्रतिपत्तौ कृतायां तु सभास्थैस्तच्छ्रवणात्तद्विषयकोटी अपलप्य प्रासङ्गिकविषयान्तरं न वादिभ्यामवलम्ब्य विजय:स्वीकर्तुं शक्यते।तस्मात्सार्वकालिकसंशया- भावप्रयोजकसंस्कारदाढयस्योक्तव्यवस्थापनस्य च स्वकर्तव्यस्य निर्वाहाय मध्यस्थेन विप्रतिपत्ति: कार्यैवेति भावः। प्रतिपन्नेत्यादि। स्वसंबन्धितया ज्ञाते सर्वत्र धर्मिणि। त्रैकालिकस्य सर्वदा विद्यमानस्य। निषेधस्य अत्यन्ताभावस्य। प्रतियोगि न वा । येन संबन्धेन यद्रूपविशिष्टसंबन्धितया प्रकाश: कूलव्यापार: परीक्षा । परीक्षाया अकरणे दोषमाह- अन्यथेति । एवं समयबन्धस्य वादिपरीक्षायाश्च कर्तव्यत्वमुक्त्वा तदृष्टान्तेन विप्रतिपत्तेरपि कर्तव्यत्वमाह तथेति । विप्रतिपत्तेरकरणे को दोष इत्यत्राह अन्यथेति । प्रासङ्गिकविषय मिति । शब्दस्य नित्यत्वानित्यत्वविवादे प्रकृते तस्य आकाश- गुणत्वस्वतन्त्रद्रव्यत्वादिरूपं विषयमित्यर्थः । विप्रतिपत्तिकरणे तु प्रासङ्गिकविषयोपादानं वादिभ्यां कर्तुं न शक्यत इत्याह विप्रतिपत्ताविति । उपसंहरति तस्मादिति । उक्तव्यवस्थापनस्येति । वादिनोर्जय- पराजयव्यवस्थापनस्येत्यर्थः ।। ।। इति विप्रतिपत्तेर्विचारोपयोगित्वनिरूपणम् ।। अथपक्षतावच्छेदकविचार: मूले तत्रेति । अवश्यप्रदर्शनीयत्वेन व्यवस्थापितविप्रतिपत्तिषु मध्य इत्यर्थः । मिथ्यात्व इति । मिथ्यात्व. सिद्ध्यनुकूला, मिथ्यात्वकोटिका इति वा अर्थः । तथा च प्रदर्शनीयविप्रतिपत्तिषु मध्ये ब्रह्मप्रमेत्यादि- वाक्यरूपाविप्रतिपत्ति: मिथ्यात्वकोटिका, मिथ्यात्वसिद्ध्यनुकूला विप्रतिपत्ति: ब्रह्मप्रमेत्यादिवाक्यरूपा इति वा अन्वयः। प्रतिपन्नोपाधावित्यादिमूलं सर्वत्रेतिपदमध्याहृत्य व्याचष्टे प्रतिपन्नेत्यादीति ॥ स्वसंबन्धितयेति । ततश्च प्रतिपत्तिर्ज्ञानं तच्च स्वसंबन्धितया विवक्षितं, तद्विषय इति प्रतिपन्नपदस्यार्थः, उपाधिपदस्य उप समीपे आधीयते अत्रेति व्युत्पत्या अधिकरणं अर्थ: इति सूचितं भवति । निषेधपदेन न अभावसामान्य विवक्षितं, नापि अन्योन्याभाव:, किन्तु अत्यन्ताभाव इत्याह निषेधस्येति । ततश्च स्वसंबन्धितया ज्ञातयावद्धर्मिनिष्ठत्रैकालिकात्यन्ताभावप्रतियोगित्वं मिथ्यात्वमित्युक्तं भवति। एवं सति सिद्धसाधनं प्रसज्येतेति तद्वारणार्थं ज्ञानीयप्रकारतावच्छेदकधर्मसंबन्धावच्छिन्नत्वं अभावीयप्रतियोगितायां निवेशयति येनेत्यादिना । संबन्धान्तरेति । प्रकारतावच्छेदकसंबन्धभिन्नसंबन्धेत्यर्थः । रूपान्तरेति । प्रका - रतावच्छेदकरूपभिन्नरूपेत्यर्थः । सिद्धसाध्यतेति। कपालं समवायेन घटवदित्याकारकज्ञानीयसमवाय - ----- 33 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता - लघुचन्द्रिका यत् ज्ञातं तत्संबन्धतद्रूपावच्छिन्नं तन्निष्ठोक्ताभावस्य प्रतियोगित्वं निवेश्यम्; अन्यथा संबन्धान्तर रूपान्तरावच्छिन्नमुक्तप्रतियोगित्वमादाय सिद्धसाध्यतापत्तेः । स्वपदं रजतत्वादिविशिष्टपरम्। नव्य - मते स्वत्वस्याननुगतत्वात्तत्तद्व्यक्तिपरत्वे व्यक्तिभेदेन मिथ्यात्वस्य भेदापत्तेः। तथाच रजत तादात्म्येन ज्ञायमानं यच्छुक्त्यादिकं तन्निष्ठाभावीयं यद्रजतत्वतादात्म्यसंबन्धावच्छिन्नप्रतियोगित्वं तस्य प्रातीतिक इव व्यावहारिकेऽपि रजते सत्त्वात्तत्र सिद्धसाधनवारणाय सर्वत्रेत्युक्तम्। कालिकाव्याप्यवृत्तिमदत्यन्ताभावमादायार्थान्तरतापत्तेस्त्रैकालिकेत्युक्तम्। यद्यपि अत्यन्ताभाव स्यैव प्रतियोगिता भेदसहिष्णुना तादात्म्येनावच्छिन्ना, न तु भेदस्य; तादृशतादात्म्यस्य भेदाविरोधि- त्वात्, भेदासहिष्णु च तादात्म्यं नास्त्येव अत्यन्ताभेदे तादात्म्यादिसंबन्धासम्भवात् ; तथापि - प्रकाशः संबन्धावच्छिन्नघटत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतावति कपाले संयोगेन घटो नास्ति पटत्वेन घटो नास्तीत्यादिप्रतीते: सर्वसिद्धत्वेन कपालनिष्ठाभावीयाया: संयोगसंबन्धावच्छिन्नाया: पटत्वावच्छिन्नाया- श्च प्रतियोगिताया घटे सिद्धत्वेन सिद्धसाध्यतापत्तेरिति भावः । संबन्धरूपैक्यनिवेशे च कपालं समवायेन घटवत् इति प्रतीतौ सत्यां कपालं समवायेन घटाभाववत् इत्याकारकप्रतीतेः परेणानभ्युपगमानसिद्ध- साध्यतापत्तिः। स्वपदस्य तत्तद्व्यक्तिपरत्वे दोषापातादनुगतधर्मविशिष्टपरत्वं वाच्यमित्याह स्वपदमिति रजतत्वादीत्यादिपदेन सर्पत्वादिकं ग्राह्यम् । ननु स्वत्वस्यानुगतत्वेन न वक्ष्यमाणदोषप्रसङ्ग इत्यत आह नव्यमते स्वत्वस्याननुगतत्वादिति। ततश्च प्राचां मते स्वत्वस्यानुगतत्वेन दोषाभावेपि नव्यमते तस्याननु- गतत्वाद्दोष: स्यादिति भावः । को दोष इत्यत्राह- भेदापत्तेरिति । अनुगतस्य मिथ्यात्वस्य संभवे प्रति- व्यक्तिभिन्नस्य मिथ्यात्वस्याङ्गीकारो न युक्त: गौरवापातादिति भावः । रूपनिवेशे पूरितस्य सर्वत्रेत्यस्य प्रयोजनमाह- तथा चेति । रूपनिवेशे सर्वत्रेति पूरणे चेत्यर्थः । अन्यथा व्यावहारिकरजतस्य स्वपदेनोपा- दाने तत्संबन्धितया ज्ञाते तदवयवे व्यावहारिकरजताभावस्य असत्वेन तन्निष्ठाभावप्रतियोगित्वस्य व्याव- हारिकरजते असिद्धत्वान्न सिद्धसाधनापत्तिरिति सर्वत्रेति पदं व्यर्थं स्यात् । रूपनिवेशे च तादात्म्य- सम्बन्धेन रजतत्वविशिष्टवत्वेन ज्ञायमानशुक्तिनिष्ठाभावीयरजतत्वावच्छिन्नप्रतियोगिताया व्यावहारिक- रजते सिद्धत्वात् तद्वारणाय सर्वत्रेत्यावश्यकम् । तदुपादाने च सर्वान्तर्गते व्यावहारिकरजतावयवे रजतत्वा- वच्छिन्नाभावस्यासिद्धत्वेन न सिद्धसाधनापत्तिरिति भाव: । त्रैकालिकत्वनिवेशप्रयोजनमाह-कालिकेति। भूतले इदानीं संयोगेन घटो नास्तीति प्रतीतिसिद्धमभावमादायेत्यर्थः । अर्थान्तरतापत्तेरिति । एतादृशाभाव प्रतियोगित्वस्य सत्यत्वाविरोधित्वेन अनभिलषितत्वेन अर्थान्तरतेति भाव: । ननु अभावप्रतियोगितायां सम्बन्धावच्छिन्नत्वनिवेशादेव भेदमादाय सिद्धसाधनवारणसम्भवेन तद्वारकात्यन्तपदनिवेशनं व्यर्थमित्यत आह- यद्यपीति । तादात्म्येन = भेदसमानाधिकरणाभेदेन, अतिरिक्तेन वा । भेदाविरोधित्वादिति । गुण- गुण्याद्योस्तादात्म्यस्य भेदसमानाधिकरणाभेदादिरूपत्वेन भेदाविरोधित्वादिति भावः । तथा च अभाव- विरोधिन एव संबन्धस्य प्रतियोगितावच्छेदकत्वेन तादात्म्यस्य भेदरूपाभावविरोधित्वाभावेन तस्य 34 अद्वैतसिद्धि: सव्याख्या लघुचन्द्रिका प्रकृतानुमानात्तादात्म्यावच्छिन्नभेदप्रतियोगितासिद्धिमादायार्थान्तरं स्यात्। अतोऽत्यन्ताभावेत्यु- क्तम्। संसर्गाभावो वा निवेश्य:। तादृशाभावप्रतियोगितावच्छेदकरजतत्वादिमत्त्वस्य साध्यत्वे साध्याप्रसिद्धिः । अतस्तदपहाय तादृशप्रतियोगित्वमेव साध्यं कृतम्। तस्यापि शुक्तिरूप्यादावनु- मानात्पूर्वमसिद्धिः। रजतादिसंबन्धितया प्रतीयमानसर्वान्तर्गतव्यावहारिकरजतादिनिष्ठात्यन्ताभाव. प्रतियोगित्वस्य तादृशावछिन्नस्य तत्राभावात्। अतो व्यावहारिकपक्षकविशेषानुमानेषु रजतत्वा प्रकाश: तत्प्रतियोगितानवच्छेदकत्वादिति भावः। ननु भेदासहिष्णु तादात्म्यं प्रतियोगितावच्छेदकं भवतु इत्यत आह- भेदासहिण्विति । सम्बन्धासम्भवादिति । अन्यथा स्वं न स्वीयमिति प्रत्ययो न स्यादिति भावः। तथापीति । भेदप्रतियोगितायास्तादात्म्यानवच्छिन्नत्वेपीत्यर्थः । अर्थान्तरमिति । कपालादौ घटादेरत्यन्ता- भावानुपगमेऽपि कपाले विद्यमानो यो घटभेद: तदीयप्रतियोगिताया: तादात्म्यावच्छिन्नत्वोपगमेन घटादौ तादृशभेदरूपाभावप्रतियोगितारूपसाध्यमादाय प्रकृतानुमानपर्यवसानसम्भवेन घटादेः पारमार्थिक- त्वस्योच्छेदो न स्यादिति भावः। नित्यसंसर्गाभावत्वरूपात्यन्ताभावत्वघटकनित्यत्वनिवेशे प्रयोजना- भावाद्गौरवाच्चाह -संसर्गाभाव इति। अन्योन्याभावभिन्नाभाव इत्यर्थः। ननु अत्यन्ताभावत्वेन अत्यन्ता- भावानिवेशे ध्वंसप्रागभावप्रतियोगितां तादात्म्यावच्छिन्नामादाय प्रकृतानुमानपर्यवसानसंभवेन अर्थान्तर- तादवस्थ्यं इति चेन्न । त्रैकालिकत्वविशेषणेनैव तद्वारणसंभवादिति भावः। इदमत्रानुसन्धेयं - अग्रे विमतं मिथ्या दृश्यत्वादित्यनेन सामान्यपक्षकं विशेषपक्षकं चानुमानं विवक्षितम्। ब्रह्मप्रमेत्यादिना सामान्य- पक्षिकाया: प्रत्येकं वा विप्रतिपत्तिरित्यादिना विशेषपक्षिकायाश्च विप्रतिपत्ते: प्रदर्शनात्। तत्र च ब्रह्म- प्रमातिरिक्ताबाध्यत्वविशिष्टसत्वप्रकारकप्रतीतिविषयताविशिष्टचिद्भिन्नत्वविशिष्टं तादात्म्यसंबन्धेन स्ववि. शिष्टत्वेन ज्ञायमानयावनिष्ठत्रैकालिकसंसर्गाभावीयतादात्म्यसंबन्धावच्छिन्नतादृशचिद्भिन्नत्वावच्छिन्नप्रति- योगितावत् दृश्यत्वादिति सामान्यानुमानम् । विशेषानुमानं च रजतत्वविशिष्टं तादात्म्यसंबन्धेन रजतत्व- विशिष्टवत्तया ज्ञायमानयावन्निष्ठत्रैकालिकसंसर्गाभावीयतादात्म्यावच्छिन्नरजतत्वावच्छिन्नप्रतियोगिता- विशिष्टं दृश्यत्वादिति। तत्र च सामान्यानुमाने शुक्तिरूप्यं दृष्टान्तः। विशेषानुमाने तु न शुक्तिरूप्यं किन्तु घटादिरिति। ननु विशेषानुमानेऽपि शुक्तिरूप्यस्यैव दृष्टान्ततास्तु तादृशाभावप्रतियोगितावच्छेदकरजत- त्वस्य साध्यत्वे शुक्तौ तादात्म्येन रजतं नास्तीति प्रतीतिसिद्धतादृशाभावप्रतियोगितावच्छेदकाजतत्व- वत्वस्य शुक्तिरजते सम्भवादित्यत आह तादृशेति। साध्याप्रसिद्धिरिति । रजतत्वस्य प्रातीतिक- व्यावहारिकरजतसाधारणत्वेन तादृशरजतत्वविशिष्टवत्वेन ज्ञायमानसर्वान्तर्गता व्यावहारिकरजतावयवा अपीति तत्र रजतसामान्याभावस्यासत्वेन रजतत्वे तादृशाभावीयतादृशप्रतियोगितावच्छेदकत्वस्यासम्भवा दिति भावः । तादृशेति । रजतत्वतादात्म्यैतदुभयावच्छिन्नेत्यर्थः। तस्यापि- तादशप्रतियोगित्वस्यापि। असिद्धिरिति। कुत इत्यत आह- रजतसंबन्धितयेति । व्यावहारिकरजतादीति । व्यावहारिकरजतावयवा दीत्यर्थः । रजतावयवानामपि रजतत्ववत्वात् यथाश्रुतमेव वा साधु । तादृशावच्छिन्नस्येति। रजतत्व- 35 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका दिना घटो नास्तीति प्रतीते: घटादिरेव दृष्टान्तः। ननु- तादृशप्रतियोगिताया व्यधिकरणावच्छेदक रजतत्ववत्त्वस्य शुक्तिरूप्यादावपि प्रसिद्ध्या तदेव साध्यं कुतो न कृतमिति- चेन्न। तथा सति व्यावहारिकरजतादिरूपे पक्षे तत्प्रसिद्ध्या सिद्धसाधनापत्ते: समानाधिकरणावच्छेदकरजतत्वस्यैव साध्यीकार्यत्वेनाप्रसिद्ध्यावश्यकत्वात्। सामान्यानुमाने तु शुक्तिरूप्यादिकं मूलोक्तं दृष्टान्तः। स्वत्वस्यानुगतस्य प्राचां मते स्वीकारेण स्वविशिष्टसंबन्धितया ज्ञायमाने सर्वत्र विद्यमानात्यन्ता- भावस्य प्रातीतिकरजतत्वतादात्म्यावच्छिन्नप्रतियोगित्वस्य प्रातीतिकरजतादौ सत्त्वात् । नचैवं- सर्वदेशकालवृत्तिव्याप्यवृत्त्यत्यन्ताभावप्रतियोगित्वं पर्यवसितम्, प्रकाशः तादात्म्यैतदुभयावच्छिन्नस्येत्यर्थः। घटो नास्तीति प्रतीतेरिति । इयं प्रतीति: व्यावहारिकरजतावयवेष्वपि सम्भवतीति रजतवत्वेन ज्ञायमानसर्वनिष्ठत्वस्य अभावे नानुपपत्तिः। घटादिरेवेति । तत्र च तादृशाभावीय- रजतत्वतादात्म्यावच्छिन्नप्रतियोगिताया अबाधादिति भावः। इयं च प्रतियोगिता व्यावहारिकरजते सिद्ध्यन्ती तस्य पारमार्थिकत्वं उन्मूल्यैव सिद्ध्यति । नन्विति । यदि व्यधिकरणधर्मावच्छिन्नप्रतियोगिता- काभावमादाय तादृशप्रतियोगित्वप्रसिद्धि: सम्पाद्यते तदेति शेषः। शुक्तिरूप्यादावपि प्रसिद्ध्येति । रजत- त्वेन घटो नास्तीतिप्रतीतिसिद्धाभावीयप्रतियोगितावच्छेदकरजतत्ववत्वस्य शुक्तिरूप्ये अबाधादिति भाव: । कुतो न कृतमिति । पूर्वोक्ताप्रसिद्धेरभावादिति भाव:। दोषान्तरापातात् तत्त्याग इत्याह- तथासतीति | प्रतियोगिताव्यधिकरणावच्छेदकरजतत्वादिमत्वस्य साध्यत्व इत्यर्थः। तत्प्रसिद्ध्या- तादृशरजतत्व. प्रसिद्ध्या । समानाधिकरणावच्छेदकेति । प्रतियोगितासमानाधिकरणत्वे सति प्रतियोगितावच्छेदके त्यर्थः। प्रसिद्ध्यावश्यकत्वादिति । प्रसिद्धिरावश्यकी सा च नास्तीत्याशयः। अप्रसिद्ध्यावश्यकत्वा- दिति पाठे अप्रसिद्धेरवश्यंभावादित्यर्थः । ननु रजतत्वावच्छिन्नप्रतियोगिताया: साध्यत्वेपि सिद्धसाधना- पत्तिरिति चेन्न। घटे तादृशप्रतियोगिताया: प्रसिद्धत्वेपि व्यावहारिकरजत एतदनुमानात् प्राक् तस्या असि - द्धत्वात्। सामान्यानुमानेऽपि किं घटादिकमेव दृष्टान्तः इत्यत्राह- सामान्यानुमानेत्विति । शुक्तिरूप्या- दिकमिति। तस्यैव दृष्टान्तत्वसम्भवादिति भावः । विशेषानुमानाश्रयणं तु स्वत्वाननुगमवादिनवीनमतेने त्यवगन्तव्यम्। ननु शुक्तिरूप्यस्य कथं दृष्टान्तत्वं, स्वपदेन व्यावहारिकरजतस्योपादाने तद्वत्वेन प्रतीयमानेषु तदवयवेषु तदभावासंभवात्। प्रातीतिकरजतस्योपादाने तद्वत्वेन प्रतीयमानशुक्तौ तदभावा- संभवादित्यत आह- स्वत्वस्येति । प्रातीतिकरजतत्वेति । प्रातीतिकरजतत्वं व्यावहारिकरजतत्वं उभय साधारणरजतत्वं चेति रजतत्वं त्रिविधम्। तत्र व्यावहारिकरजतमात्रवृत्ति कटकाद्यर्थक्रियाकारिताव. च्छेदकं व्यावहारिकम् । प्रातीतिकरजतमात्रवृत्ति शुक्त्यज्ञानरजतसादृश्यज्ञानकार्यतावच्छेदकं प्रातीतिकम्। तदुभयसाधारणं रजतपदशक्यतावच्छेदकं तृतीयं । तत्र स्वत्वस्य व्यावहारिकप्रातीतिकरजतत्वयोरनुगत- त्वात् स्वत्वविशिष्टप्रातीतिकरजतत्वविशिष्टे प्रसिद्धमेव साध्यं व्यावहारिकरजतत्वविशिष्टे साध्यते । ततश्च स्वपदेन न व्यावहारिकस्य रजतस्य नापि प्रातीतिकस्य तस्य उपादानम्। किन्तु स्वत्वविशिष्टोभय 36 अद्वैतसिद्धिः सव्याख्या - लघुचन्द्रिका तथाचालीकत्वापत्तिः प्रपंचस्येति- वाच्यम्; कालसंबन्धित्वसमानाधिकरणस्य तस्य निवेश्य त्वात्। ननु- कालसंबन्धित्वमास्तां प्रपंचे विशेष्यभूतमुक्तप्रतियोगित्वं तु न तत्रास्ति। येन हि प्रकाश: साधारणरजतत्वस्य। तद्विशिष्टप्रातीतिकरजताभावस्य शुक्तौ प्रातीतिकरजतकालेऽप्यङ्गीकारात् तस्य दृष्टान्तत्वसम्भवेन तन्निष्ठस्य रजतत्वतादात्म्यावच्छिन्नप्रतियोगित्वस्य व्यावहारिकरजते साधनसम्भवा - दिति भावः। नचैवं स्वत्वधर्ममादायानुगतरजतत्वावच्छिन्नप्रातीतिकरजतनिष्ठप्रतियोगिताया व्यावहारिक- रजते सिद्ध्यापत्तिरिति वाच्यम्। वह्नित्वावच्छिन्नव्याप्यवत्ताज्ञानेन पर्वते महानसीयवह्रिसिद्ध्यापत्तिवत् उक्तसिद्ध्यापत्तेरपि इतरबाधेनैव वारणसंभवात्। एवंविधमिथ्यात्वसाधने प्रपंचस्य तुच्छत्वापत्तिमाशङ्कते नचेति । अस्य वाच्यमित्यनेनान्वय: । व्याप्यवृत्तीति। अवच्छिन्नवृत्तिकान्येत्यर्थः। पर्यवसितमिति । यत् यत्र प्रतीयते तस्मिंस्तन्निष्ठाभावप्रतियोगित्वस्य भवता उक्तानुमानेन साधनात्। यत् यत्र न प्रतीयते तत्र तनिष्ठाभावप्रतियोगित्वस्य सर्वैरुपगमात् इति भावः। तथा चेति । उक्तप्रतियोगित्वस्य पर्यवसितत्वे चेत्यर्थः । अलीकत्वापत्ति:= अलीकत्वनिश्चयापत्ति:,अप्रतीयमानत्वापत्तिरिति बा । यथाश्रुते उक्त- विधप्रतियोगित्वस्यैवालीकत्वेन आपाधापादकयोरैक्येन इष्टापत्तिसम्भवेनासङ्गते: । तथा च प्रपंचो यदि सर्वदेशकालवृत्तिव्याप्यवृत्त्यभावप्रतियोगी स्यात् तर्हि शशविषाणवन्न प्रतीयेत इति तर्क: पर्यवसन्न: । स च निरुक्तमिथ्यात्वसिद्धिविरोधी। तर्कस्य विपर्ययपर्यवसायित्वात्। प्रकृते च स्वविशिष्टत्वेन अप्रतीयमान- निष्ठाभावप्रतियोगित्वस्य सर्वसिद्धत्वेन तदभावस्य बाधितत्वेन तमादाय उक्ततर्कस्य पर्यवसानासंभवात् स्वविशिष्टत्वेनप्रतीयमाननिष्ठाभावप्रतियोगित्वाभावमादायैव पर्यवसानस्यावश्यकत्वात् इति शङ्का निर्गलितार्थः। परिहरति- कालसम्बन्धित्वेति । तस्य= स्वविशिष्टत्वेन प्रतीयमाननिष्ठव्याप्यवृत्त्यत्यन्ता- भावप्रतियोगित्वस्य । निवेश्यत्वादिति। तथा च कालसम्बन्धित्वसमानाधिकरणस्य सर्वदेशकालवृत्ति- व्याप्यवृत्त्यत्यन्ताभावप्रतियोगित्वस्य प्रपंचे पर्यवसानेन न तेन प्रपंचस्य अप्रतीयमानत्वापत्ति:सम्भवति। कालसम्बन्धित्वसमानाधिकरणसर्वदेशकालवृत्त्यत्यन्ताभावप्रतियोगिनि शुक्तिरजतादौ प्रतीयमानत्वस्यैव सत्वेन तस्य अप्रतीयमानत्वरूपापाद्यविरुध्दत्वात्। ननु स्वविशिष्टत्वेन अप्रतीयमाननिष्ठाभावप्रतियोगि- त्वेन सर्वसिद्धे प्रपंचे स्वविशिष्टत्वेन प्रतीयमाननिष्ठाभावप्रतियोगित्वरूपमिथ्यात्वसाधनेऽपि न तस्य सर्व- देशकालवृत्त्यभावप्रतियोगित्वपर्यवसायित्वं । मिथ्यात्वस्य देशांशे प्रतीयमानत्वघटितत्वात्, सर्वदेश कालवृत्त्यभावप्रतियोगित्वस्य च प्रतीयमानत्वाघटितत्वात् । किन्तु उक्तप्रतियोगित्वद्वयं पर्यवस्यति । न च तद्वयं तुच्छे शशविषाणादौ, तद्वत्वेन प्रतीतेरभावात् । अतस्तन्नालीकत्वरूपापाद्यव्याप्यमिति न तेन तदापत्तिशर्केति कालसंबन्धित्वनिवेशो व्यर्थ इति चेदुच्यते । असत् शशशृङ्गं शशशृङ्गमसत् इति विकल्प- रूपप्रत्ययसंभवेन शशशृङ्गादे: स्वमेव तद्वत्वेन प्रतीयमानोपाधिः। उपाधिपदस्येदानीं धर्मिमात्रपरत्वात्। तन्निष्ठाभावप्रतियोगित्वं च तस्य वर्तत इति उक्तप्रतियोगित्वद्वयस्य तुच्छे अलीकत्वव्याप्यतया उक्तापत्ति. संभवः। तथा च कालसंबन्धित्वनिवेशनं सार्थकम् । पारमार्थिकत्वाकारेणेत्यादिपक्षान्तरमवतारयति- प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 37 पारमार्थिकत्वाकारेणोक्तनिषेधप्रतियोगि न वेति। अत्र च पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिध्देरुद्देश्यत्वात् पक्षकदेशे साध्यसिध्दावपि सिद्धसाधनतेति मते शुक्तिरूप्ये सिद्ध - लघुचन्द्रिका रूपेण संबन्धेन च यत्र यत् संबध्यते नच तेन रूपेण तत्संबन्धेन च तत्र तदभावो विरोधादिति- मन्वानं वादिनं प्रति तुष्यतु दुर्जन इति न्यायेन तन्मतमनुसृत्य साध्यान्तरमाह-पारमार्थिके त्यादि। पारमार्थिकत्वावच्छिन्नं यदुक्तप्रतियोगित्वं तद्वन्न वेत्यर्थः। तत्रोक्तप्रतियोगित्वे तद्रूपावच्छिन्नमिति पूर्वोक्तस्य विशेषणस्य स्थाने तद्रूपसमानाधिकरणमिति विशेषणं देयम्। नच- तत्र प्रयोजनाभाव इति-वाच्यम्, घटादे: पारमार्थिकत्वेऽपि पारमार्थिकत्वेन शुक्तिरूप्यादेः यो ऽत्यन्ताभावस्तत्प्रतियोगित्वस्य घटादौ सिद्धिमादाय यदर्थान्तरं तद्वारणादेः प्रयोजनस्य सत्त्वात्। कपालादौ संयोगादिसंबन्धेन घटादेर्योऽत्यन्ताभावस्तत्प्रतियोगित्वस्य घटादौ सिद्धिमादाय घटादे: पारमार्थिकत्वस्वीकारेऽप्यर्थान्तरं स्यादतस्तत्संबन्धावच्छिन्नेत्यपि प्रतियोगित्वे विशेषणं देयम्। प्रकाशः नन्वित्यादिना । न तत्रास्तीति । तत्र हेतुमाह- येन हि रूपेणेत्यादिना। विरोधादिति । असामानाधिकर- ण्यादित्यर्थः। ततश्च प्रकृते तादत्म्येन रजतत्वाद्यवच्छिन्नवति तादात्म्यावच्छिन्नरजतत्वाद्यवच्छिन्नप्रति- योगिताकाभावस्यासत्वात् रजतादौ न मिथ्यात्वसिद्धिसंभव इति भावः। मन्वानमिति । अनेन तस्य भ्रान्ति: सूचिता । स्वप्ने रजततदभावदृष्टान्तेन तद्धर्मावच्छिन्नवत्यपि तद्धर्मावच्छिन्नप्रतियोगिताकाभावस्य साध- यिष्यमाणत्वात् । मूले पारमार्थिकत्वाकारेणेत्यत्र आकारपदं धर्मपरं, तृतीयार्थोऽवच्छिन्नत्वं, तस्य च प्रतियोगिपदार्थैकदेशे प्रतियोगित्वे अन्वयः । तथा च पारमार्थिकत्वावच्छिन्नप्रतियोगित्वलाभ इत्यभि- प्रायेण व्याचष्टे- पारमार्थिकत्वावच्छिन्नमिति। रजतत्वावच्छिन्नवत्यपि परमार्थिकत्वेन रजताभावस्य संभवान्न पूर्वोक्तदोष इत्याशयः। अत्र च प्रतियोगितायां अर्थान्तरवारणार्थं विशेषणान्तरं देयमित्याह तत्रेति । उक्तसाध्य इत्यर्थः । उक्तप्रतियोगित्वे- अभावीयपरमार्थिकत्वावच्छिन्नप्रतियोगित्वे। तद्रूपसमा नाधिकरणमिति । यद्रूपविशिष्टसंबन्धितया यत् ज्ञातं तद्रूपसमानाधिकरणमित्यर्थः। प्रयोजनाभाव इति । रजतादे: पारमार्थिकत्वमभ्युपगच्छतः प्रतिवादिनो मते पारमार्थिकत्वावच्छिन्नप्रतियोगिताया रजतादौ असिद्धत्वेन सिद्धसाधनस्य अर्थान्तरस्य वा अनापत्तेरिति भावः। योऽत्यन्ताभाव इति । घटत्वविशिष्ट- संबन्धित्वेन ज्ञातकपालादिनिष्ठ इत्यादिः । सत्वादिति । तथा च तद्रूपसमानाधिकरणत्वस्य प्रतियोगिताया मनिवेशे घटवत्कपालं पारमार्थिकत्वेन शुक्तिरूप्याभाववदित्याकारकप्रतीतिसिद्धाभावीयशुक्तिरूप्यनिष्ठ- पारमार्थिकत्वावच्छिन्नप्रतियोगिताया घटे सिद्ध्यापत्त्या तस्याश्च घटसत्यत्वाविरोधित्वेन अजिज्ञासि- तत्वेन यदर्थान्तरं प्रसक्तं तत् तद्रूपसामानाधिकरण्यनिवेशे शुक्तिरूप्यनिष्ठायास्तस्या घटत्वसामानाधि- करण्याभावेन तदुपादानासंभवात् नेति भावः। नन्वेवमप्रसिद्धि: ,घटत्वसमानाधिकरणायास्तथाविधप्रति. योगिताया उक्तानुमानात् पूर्वं कुत्राप्यसिद्धेरिति चेन्न। प्रातीतिकघटे तत्प्रसिद्धेः। प्रतियोगितायां तद्रूप- सामानाधिकरण्यमिव तत्संबन्धावच्छिन्नत्वमपि निवेशनीयमित्याह कपालादाविति । योऽत्यन्ताभाव इति 38 अद्वैतसिद्धि: सव्याख्या लघुचन्द्रिका नच- पारमार्थिकत्वस्य घटादौ स्वीकारे तेन रूपेण कथं कपालादौ संयोगेनापि घटादेरभावसिद्धिः; व्यधिकरणधर्मावच्छिन्नाभाववादिनापि विशेषरूपेण सामान्याभावस्वीकारेऽपि सामान्यरूपेण विशेषस्याभावास्वीकारादिति- वाच्यम्; प्रकृतानुमानबलेनैव तादृशाभावसिद्ध्यापत्त्योक्तस्यार्थान्त- रस्यापत्तेः । मत इति। यद्व्यक्तौ साध्यं सिद्धं तत्र नानुमितिर्भवति, व्यक्त्यन्तरे तु भवत्येव। प्रकाशः । तादात्म्येन घटवति संयोगेन घटाभावे बाधकाभावादिति भावः। अर्थान्तरमिति । पारमार्थिकत्व- विरोधिन एव प्रतियोगित्वस्य जिज्ञासितत्वादिति भावः। तत्सम्बन्धावच्छिन्नत्वानिवेशेऽपि नोक्तार्थान्तर- प्रसक्तिरित्याशङ्कते- न चेति । तेन रूपेण पारमार्थिकत्वरूपेण । स्वीकारेऽपीति। कपाले पटत्वेन द्रव्यं नास्तीतिप्रतीते: सत्वादिति भावः। अभावास्वीकारादिति । तथा च प्रकृते पारमार्थिकत्वस्य सामान्य- धर्मत्वेन तेन रूपेण संयोगसंबन्धेनापि कपालादौ घटादेर्विशेषस्य अभावास्वीकारेण उक्तानुमानेन सिद्ध्यन्ती कपालनिष्ठाभावीयसंयोगसंबन्धावच्छिन्नपारमार्थिकत्वावच्छिन्नप्रतियोगिता घटादे: पारमार्थि. कत्वमुन्मूल्यैव सिद्ध्यतीति अर्थान्तरस्य अनापातान्न तत्संबन्धावच्छिन्नत्वं देयमिति भाव: । समाधत्ते प्रकृतेति । प्रकृतानुमानं च घट: तादात्म्येन घटत्वविशिष्टवत्तयाज्ञातसर्वनिष्ठाभावीयपारमार्थिकत्वावच्छि- नप्रतियोगितावान् दृश्यत्वादिति। तादृशाभाव:= घटवत्वेन ज्ञातकपालनिष्ठसंयोगसंबन्धावच्छिन्नपारमा - र्थिकत्वावच्छिन्नप्रतियोगिताकाभावः। तथा च घटादे: पारमार्थिकत्वभङ्गो न स्यात् । तत्सम्बन्धावच्छिन्न- त्वस्य निवेशे तु तेन संबन्धेन तद्वत्तया ज्ञाते तेन संबन्धेन पारमार्थिकत्वेन तदभाव: सिद्ध्यन् तस्य पारमार्थिकत्वं भक्त्वैव सिद्ध्यतीति भावः। अस्मिन्नपि पक्षे ब्रह्मप्रमातिरिक्ताबाध्यत्वविशिष्टसत्व प्रकारकप्रतीतिविषयताविशिष्टचिद्भिन्नत्वविशिष्टं तत्संबन्धेन स्वविशिष्टत्वेन ज्ञायमानसर्वनिष्ठत्रैकालिक . संसर्गाभावीय तत्संबन्धावच्छिन्नपारमार्थिकत्वावच्छिन्नप्रतियोगितावत् दृश्यत्वात् शुक्ति रूप्यवत् इति सामान्यानुमानम् । स्वत्त्वमनुगतम्। व्यावहारिकप्रातीतिकसाधारणघटत्वावच्छिन्नं सर्वं तत्संबन्धेन घट- त्वावच्छिन्नवत्वेन ज्ञायमानसर्वनिष्ठत्रैकालिकसंसर्गाभावीयतत्संबन्धावच्छिन्नपारमार्थिकत्वावच्छिन्न- घटत्वसमानाधिकरणप्रतियोगितावत् दृश्यत्वात् प्रातीतिकघटवत् इति विशेषानुमानं इत्यनुसन्धेयम्। मूले साध्यसिद्धेरुद्देश्यत्वादिति । सर्वसत्यत्ववादिनः परस्य तावतैव पराजयसम्भवादिति भावः । मते इत्यस्य नवीनमते इत्यर्थकत्वं द्योतयति टीकायां यद्व्यक्ताविति । अयमाशय:- सिद्धसाधनस्य दोषत्वं तद्धटकसिद्धेरनुमितिप्रतिबन्धकत्वेन । तत्र तन्निष्ठविशेष्यतासंबन्धेन तद्वत्ताबुद्धिं प्रति तन्निष्ठविशेष्यता संबन्धेन तदभाववत्तानिश्चयस्येव तनिष्ठविशेष्यतासंबन्धेन तदनुमितिं प्रति तन्निष्ठविशेष्यतासंबन्धेन तन्निश्चयस्य प्रतिबन्धकत्वमुचितं, अत: यद्व्यक्तौ साध्यं निश्चितं तद्व्यक्तौ न तदनुमिति: संभवति । व्यक्त्यन्तरे तु जायत एवेति प्राचीनानां मतम् । अस्मिंश्च मते सामानाधिकरण्येन सिद्धेः व्यक्त्यन्तरे अनुमितिं प्रत्यप्रतिबन्धकत्वान्न पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वेऽपि सिद्धसाधनस्य दोषत्वम् । नव्यमते तु विशेष्यतावच्छेदकतासंबन्धेन तदनुमितिं प्रति विशेष्यतावच्छेदकतासंबन्धेन ।

प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 39 साधनवारणाय ब्रह्मज्ञानेतराबाध्यत्वं पक्षविशेषणम्। यदि पुन:पक्षतावच्छेदकावच्छेदेनैव साध्यसिद्धिरुद्देश्या; तदैकदेशे साध्यसिध्दावपि सिद्धसाधनाभावात् तद्वारकं विशेषण मनुपादेयम्। इतरविशेषण द्वयं तु तुच्छे ब्रह्मणि च बाधवारणायादरणीयमेव। प्रत्येकं वा लघुचन्द्रिका समानविशेष्यत्वसंबन्धेन बाधविशिष्टबुद्ध्योरिव सिद्धयनुमित्योः प्रतिबध्यप्रतिबन्धकत्वौचित्या दिति प्राचां मतम्। नव्यमते तु यद्धर्मविशिष्टे क्वचित्साध्यं सिद्धं तद्धर्मविशिष्टे व्यक्त्यन्तरेऽपि नानुमितिरिति भावः । पक्षविशेषणं पक्षतावच्छेदकतापर्याप्त्यधिकरणंतावन्मानं पक्षतावच्छेदक मिति यावत्। ब्रह्मज्ञानान्याबाध्यत्वसामानाधिकरण्येनानुमितिं प्रति तत्सामानाधिकरण्येन ब्रह्म- तुच्छयो: साध्याभावज्ञानस्याविरोधित्वेनान्यविशेषणद्वयस्य पक्षतावच्छेदकप्रवेशे प्रयोजनाभावा - दिति भावः। बाधवारणायेति। ननु- असिद्धिवारणायेत्यपि वक्तुमुचितम् । बाधो हि हेत्वाभासो - प्रकाशः तत्सिद्धेः प्रतिबन्धकत्वात् पक्षकदेशे साध्यसिद्धावपि सिद्धसाधनता दोष एव। अतोऽत्र मत इत्यनेन नवीनमतं ग्राह्यमिति । पक्षतावच्छेदकतापर्याप्त्यधिकरणमिति पक्षविशेषणस्य पक्षतावच्छेदकत्वात्तत्र च अधिकवारकपर्याप्तेर्विवक्षितत्वात् पक्षविशेषणपदादस्यार्थस्य लाभ:। तावन्मात्रमिति । नन्वेवं ब्रह्मज्ञानान्याबाध्यत्वस्य ब्रह्मणि तुच्छे च सत्वेन पक्षतावच्छेदकाक्रान्तयोस्तयोमिथ्यात्वाभावाद्वाध इत्यत आह- ब्रह्मज्ञानान्येत्यादि। अविरोधित्वेनेति अप्रतिबन्धकत्वेनेत्यर्थः । सामानाधिकरण्येन तद्वत्ताबुद्धिं प्रति सामानाधिकरण्येन तदभाववत्तानिश्चयस्य न प्रतिबन्धकत्वं, किन्तु अवच्छेदकावच्छेदेन तदभाववत्तानिश्चयस्यैव । प्रकृते च तदभावान्न बाधवारकविशेषणान्तरोपादानं सफलमिति भावः । अन्य- विशेषणद्वयस्येति । सत्त्वेन प्रतीत्यर्हत्वचिद्भिन्न त्वरूपविशेषणद्वयस्येत्यर्थः । मूले पक्षतावच्छेकावच्छे - देनैव साध्यसिद्धिरुद्देश्येति । ब्रह्मभिन्ननिखिलप्रपंचस्य मिथ्यात्वसिद्धावेव मोक्षहेतुज्ञानविषयस्य ब्रह्मण: श्रुत्युक्ताद्वितीयत्वसिद्धेः तथाविधसाध्यसिद्धेरे वोद्देश्यत्वमावश्यकमिति भावः । बाधवारणायेति । सत्त्वेन प्रतीत्यर्हत्वरूपविशेषणानुपादाने तुच्छे, चिद्भिन्नत्वरूपविशेषणानुपादाने ब्रह्मणि च प्रसक्तबाधवारणाये- ननु सामानाधिकरण्येन बाधनिश्चयस्य अप्रतिबन्धकत्वान्न दोष इति चेन्न। अवच्छेदकावच्छेदेन तद्वत्ताबुद्धिं प्रति सामानाधिकरण्येन तदभाववत्तानिश्चयस्यापि प्रतिबन्धकत्वात् । ब्रह्म तुच्छयोर्बाधवारक- विशेषणोपादानस्य असिद्धिवारकत्वस्यापि संभवात्तदनुक्त्या मूलस्य न्यूनतेत्याशंकते- नन्विति । असिद्धिवारणायेति । सत्त्वेन प्रतीत्यर्हत्वरूपविशेषणानुपादाने तुच्छस्यापि पक्षत्वापत्त्या तत्र दृश्यत्वरूप हेतोरभावादसिद्धिः । एवं चिद्भिन्नत्वानुपादाने ब्रह्मण्यसिद्धिः, तद्वारणायेति भावः । ननु बाध: विप्रतिपत्ति - जन्यसंशयविरोधित्वेन विप्रतिपत्तिदोषत्वाद्विप्रतिपत्तिकाल उद्भाव्यते स्वरूपासिद्धिस्तु न तथा, पक्षधर्मतां प्रत्येव तस्या विरोधित्वेन विप्रतिपत्तौ हेतोरप्रविष्टत्वेन च न तस्या विप्रतिपत्तिदोषत्वमित्यत आह- बाधो हीति । न्यायप्रयोगाधीनानुमिताविति । न्यायप्रयोगप्रयुक्तव्याप्तिपक्षधर्मताज्ञानजन्यत्वादनुमितेाय- त्यर्थः। - - 40 अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका विप्रतिपत्तिप्रयुक्तन्यायप्रयोगाधीनानुमितावेव विरोधी सन् दूषणं, नतु विप्रतिपत्तिजन्यसंशयविरोधी सन्, वाद्यादीनां निश्चयवत्त्वे संशयानुत्पादस्योक्तत्वात्। तदा हि संशयस्याकर्तव्यत्वेन जयव्यव- स्थामात्रसिद्धये विप्रतिपत्तेरिवानुमितिसामग्रीमात्रस्य हेत्वाभासादिदोषशून्यस्य प्रतिवादिनिष्ठस्य वादिना कर्तव्यतया संशयाविरोधित्वेन बाधस्योद्भावनं व्यर्थम् । अनुमितितत्करणपरामर्शान्यतर विरोधित्वरूपेण हेत्वाभासत्वेन बाधस्योद्भावने च हेत्वसिद्धरपि तदुचितमिति- चेन्न। विप्रतिपत्ति- काले हेतोरप्रयुक्तत्वेन हेतुमत्ताज्ञानविरोधिन्या असिद्धेः ज्ञातुमशक्यत्वेन तस्य विप्रतिपत्तिदोषत्वा व्यवहारात् । नच- पक्ष तावच्छेदकावच्छेदेन विप्रतिपत्तौ साध्यस्य विवक्षितत्वाद्धेतो: पक्षताव - च्छेदकावच्छेदेन प्रयोक्तव्यतामनुमाय असिद्ध्यादेर्दोषत्वं संभाव्यमिति- वाच्यम्; अनुमाना - - प्रकाश: प्रयोगाधीनत्वं बोध्यम्। विरोधी = प्रतिबन्धकज्ञानविषयः। ननु बाधः विप्रतिजन्यसंशयविरोध्यपि भवतु इत्यत आह- वाद्यादीनामिति। तथा च निश्चयवशादेव संशयस्य अनुत्पादान्न बाध: तद्विरोधी इति भावः। उक्तत्वादिति। तथा च बाधो न विप्रतिपत्तिदोषतयोद्भाव्यत इति भावः। तदेति। वाद्यादीनां निश्चयकाले इत्यर्थः। तर्हि विप्रतिपत्तिः कुतः प्रयुज्यत इत्यत्राह- जयव्यवस्थेति। ननु विप्रतिपत्तिकाले अनुमिते: तत्करणस्य वा वादिना असंपादनीयत्वात्तद्विरोधी दोष: कथं प्रतिवादिना उद्भाव्यत इत्यत आह अनुमितिसामग्रीमात्रस्येति । मध्यस्थेन प्रतिवादिना वा ज्ञायमानस्य न्यायप्रयोगमात्रस्येत्यर्थः। मात्रपदेन अनुमिते: तत्करणस्य च व्यवच्छेदः। कथमेतावता विप्रतिपत्तिकाले हेत्वाभासस्योद्भावनमित्यत आह हेत्वाभासादिदोषशून्यस्येति । तथा च विप्रतिपत्तिसमनन्तरमेव हेतुदोषोद्भावने तदुत्तरं न्यायप्रयोगे उक्तहेतु: दोषरहितो न संभवति। अत: अनुमितिसामग्या: हेत्वाभासराहित्यं वादिना कर्तव्यमिति भावः । ननु संशयाविरोधित्वेऽपि बाधस्योद्भावनं न व्यर्थं अनुमितितत्करणपरामर्शान्यतरविरोधित्वेन हेत्वाभास . त्वात् इत्यत आह- अनुमितितत्करणेति । उद्भावन इति । क्रियमाण इति शेषः । हेत्वसिद्धेरिति। हेतो: पक्षे अभावस्येत्यर्थः । स्वरूपासिद्धेरिति यावत्। तत्= उद्भावनम् । उचितमिति। परामर्शविरोधित्वेन हेत्वाभासत्वादिति भावः । समाधत्ते- नेत्यादिना। अयमाशयः। विप्रतिपत्तिदोषत्वव्यवहारविषय एव विप्रतिपत्तिकाल उद्भावनीय: । बाधस्योक्तरीत्या विप्रतिपत्तिविरोधित्वाभावेऽपि विप्रतिपत्तिसमानाधि . करणानुमितिं प्रति विरोधित्वेन तत्काल एव तस्य ज्ञानसंभवेन विप्रतिपत्तिदोषत्वेन व्यवहारात् तत्काले स एवोद्भाव्यः । स्वरूपासिद्धिस्तु नानुमितिविरोधिनीति न तस्या विप्रतिपत्तिदोषत्वव्यवहारविषयतेति न सा तत्काल उद्भाव्येति । ननु स्वरूपासिद्धरनुमित्यविरोधित्वेऽपि अनुमितिजनकपक्षधर्मताज्ञानविरोधित्वेन कुतो न विप्रतिपत्तिदोषत्व व्यवहार इत्यत आह- विप्रतिपत्तिकाल इति ।। असिद्धेः= स्वरूप सिद्धेः। ज्ञातुमशक्यत्वेनेति । अशक्यत्वे हेतु: पूर्वोक्तमप्रयुक्तत्वम्। हेतोरप्रयुक्तत्वमात्रेण ज्ञातुमशक्यत्वं नास्तीति शङ्कते- न चेति। प्रयोक्तव्यतामनुमायेति । मिथ्यात्वे हेतु: पक्षतावच्छेदकावच्छेदेन प्रयोक्तव्य:, विप्रतिपत्तौ पक्षतावच्छेदकावच्छेदेन विवक्षितसाध्यकत्वात्, व्यतिरेकेण सामानाधिकरण्येन विवक्षित प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 41 विप्रतिपत्ति: वियन्मिथ्या न वा, पृथिवी मिथ्या नवेति। एवं वियदादे: प्रत्येकं पक्षत्वेऽपि न घटादौ सन्दिग्धानैकान्तिकता। पक्षसमत्वात् घटादेः। तथाहि पक्षे साध्यसन्देहस्यानुगुणत्वात् पक्षभिन्न एव तस्य दूषणत्वं वाच्यम्। अत एवोक्तं 'साध्याभावनिश्चयवति हेतुसन्देहे एव लघुचन्द्रिका कौशलेन सभाक्षोभादिना वा अन्यथापि हेतोः प्रयोगसंभवात् । वस्तुतस्तु, बाधपदमसिद्धेरप्यु- पलक्षकम्। विप्रतिपत्तियोग्यन्यायवाक्योक्तहेतोर्दोषस्यापि विप्रतिपत्तिदोषत्वसंभवात्। अतएवाग्रे संन्दिग्धानैकान्तिके विप्रतिपत्तिदोषत्वमाशङ्कितम्। अतएवोक्तमिति। प्राचीनतार्किकैरिति शेषः । प्रकाश: - साध्यकहेतुवत्, इत्यनुमानाकारः। ननु एवमनुमानेऽपि हेतुविशेषस्य अज्ञानात्, विकल्पसाधारणवृत्ति विषयत्वरूपस्य अवच्छेदकावच्छिन्नवृत्तिकस्य हेतोः संभवाच्च कथं विप्रतिपत्तिकाले स्वरूपासिद्धि - ज्ञानमिति चेन्न। प्रयोक्ष्यमाणस्य हेतोर्ब्रह्मतुच्छ वृत्तित्वे व्यभिचारप्रसङ्गात् तद्व्यावृत्त एव हेतु: प्रयोक्तव्य इति सामान्यरूपेण ज्ञानसंभवेन तत्र स्वरूपा सिद्धिज्ञानसंभवादिति भावः। समाधत्ते अनुमानाकौशलेनेति । अन्यथाऽपि= पक्षतावच्छेदकसामानाधिकरण्येनापि। तथा च अवच्छेदकावच्छेदेन विवक्षितसाध्यक - विप्रतिपत्तिप्रयोगस्य अवच्छेदकावच्छेदेन हेतुप्रयोगव्याप्यत्वाभावेन तेन तदनुमानाभावान्न असिद्धेर्विप्रति- पत्तिदोषत्वसंभव इति भावः । ननु वादिनो: परीक्षापूर्वकमेव मध्यस्थेन कथायां प्रवेशनीयत्वात् अनुमाना- कुशलयो: सभाक्षोभशालिनोर्वा कथायां प्रवेशाभावात् अवच्छेदकावच्छेदेन विवक्षितसाध्यकविप्रति पत्तिस्थले तथैव हेतुप्रयोगस्यावश्यकतया तदनुमानसंभवेन तद्विरोधिन्या: स्वरूपासिद्धेः विप्रतिपत्ति - प्रयोगकाल एव ज्ञानसंभवेन विप्रतिपत्तिदोषत्वव्यवहारविषयत्वस्य बाधवदावश्यकतया तदुद्भावनमुचित- मेवेत्यत आह वस्तुतस्त्विति । ननु असिद्धेः विप्रतिपत्तिदोषत्वे बाधपदं उपलक्षकं वाच्यं, तदेव कुत इत्यत आह विप्रतिपत्तीत्यादि । योग्येति । प्रयुक्तेत्यर्थः। विप्रतिपत्तिदोषत्वसंभवादिति । अत्र मूल - कारसंमतिमाह अत एवेति । हेतुदोषस्यापि विप्रतिपत्तिदोषत्वादेवेत्यर्थः। अग्र इति । एवं वियदादे: प्रत्येकं पक्षत्वेऽपि न घटादौ सन्दिग्धानैकन्तिकता इत्यत्रेत्यर्थः। ननु वियदादे: प्रत्येकं पक्षत्वे दृश्यत्वादिहेतोः घटादौ सन्दिग्धानेकान्तिकता । निश्चितसाध्याभाववति हेतुसन्देह इव पक्षादन्यत्र निश्चितहेतुमति साध्यसन्देहेऽपि तस्य दुर्वारत्वादित्यत आह मूले- एवमिति । पक्षसमत्वाद्धटादेरिति । ततश्च न घटादौ सन्दिग्धानैकान्तिकतेति भावः । तदुपपादयति तथा हीति । अनुगुणत्वादिति । अनुमिति प्रतीत्यादिः । पक्षभिन्न एवेति। हेतुमतीति शेषः । तस्य = सन्दिग्धानैकान्तिकत्वस्य । निश्चितहेतुमति पक्षेऽपि साध्यसन्देहस्य दोषत्वे अनुमानमात्रोच्छेदापत्तिः । अत: पक्षातिरिक्त एव तस्य दूषणत्वं वाच्यं, घटादिस्तु साध्यसन्देहवत्वान्न पक्षातिरिक्तः । अतो न तत्र सन्दिग्धा नैकान्तिकतेति भावः। अत्र उपष्टम्भ - क्माह- अत एवेति । पक्षभिन्न एव सन्दिग्धानैकान्तिकताया दोषत्वादेवेत्यर्थः । हेतुसन्देह एवेति । एवकारेण हेतुनिश्चयवति साध्यसन्देहस्य व्यवच्छेदः । उक्तमित्यत्र कैरिति जिज्ञासायामाह टीकायां- - 42 अद्वैतसिद्धिः सव्याख्या सन्दिग्धानैकान्तिकते'ति। पक्षत्वं तु साध्यसन्देहवत्त्वं साध्यगोचरसाधकमानाभाववत्त्वं वा। एतच्च घटादिसाधारणम् । अत एव तत्रापि सन्दिग्धानैकान्तिकत्वं न दोषः। पक्षसमत्वोक्तिस्तु प्रतिज्ञाविषयत्वाभावमात्रेण । न च तर्हि प्रतिज्ञाविषयत्वमेव पक्षत्वं; स्वार्थानुमाने - लघुचन्द्रिका नवीनतार्किकैस्तु व्याप्तिग्राहकतर्काभावे सति साध्याभाववत्वेन संन्दिग्धे धर्मिणि हेतुनिश्चयोऽपि व्यभिचारसंशयहेतुतया दोष एव। अत एव वह्निरद्विष्ठातीन्द्रियधर्मसमवायी दाहजनकत्वादात्मव' दित्यादिशक्त्यादिसाधकानुमानेषु मणावप्रयोजकत्वमुक्तम्। 'तत्र व्यभिचारसंशयस्यादूषणत्वे व्याप्तिपक्षधर्मतानिश्चयसंभवेनाप्रयोजकत्वोक्तेरसङ्गते: तस्य दूषणत्वमावश्यकमिति दीधितायुक्तं यद्यपि ; तथापि प्रकृते मिथ्यात्वानुमाने तर्काणां वक्ष्यमाणत्वेन न दोष: इति भावना। विमतं प्रकाश: प्राचीनतार्किकैरिति । यद्यपीत्यस्य वक्ष्यमाणस्य नवीनतार्किकैरित्यने नान्वयः। दोष एवेति। उपगम्यत इति शेषः। उपगम्यत इति कथं ज्ञेयमित्यत आह अत एवेति। अनुकूलतर्काभावे सति हेतुमति साध्याभावांशे संशयस्यापि नवीनै: दोषत्वोपगमादेवेत्यर्थः । अस्य च मणावुक्तं दीधितावुक्तमित्युभयत्रा - न्वयः। अप्रयोजकत्वमुक्तमिति। वह्नौ दाहजनकत्वमस्तु तादृशधर्मसमवायित्वं मास्तु इत्युक्त्या साध्याभाववत्वेन सन्दिग्धे वह्निरूपपक्षे हेतो: सत्त्वाभ्युपगमेनपक्षान्तर्भावेणैव व्यभिचारसंशयस्य दोषत्व - मङ्गीकृतं भवति। अन्यथा अप्रयोजकत्वोक्तिरनुपपन्ना स्यादिति भावः । इदं च दीधितौ स्पष्टीकृतमित्याह तत्रेत्यादिना। तत्र पक्षे। अदूषणत्वे व्यप्तिग्रहं प्रत्यप्रतिबन्धकत्वे । पक्षधर्मतापदं दृष्टान्तार्थम्। तथा च मिथ्यात्वानुमानेऽपि घटादौ सन्दिग्धानैकान्तिकता दोष एव, अनुकूलतर्काभावात् इति शंकाशयः । तथापीति । पक्ष एव व्यभिचारसंशयस्य दोषत्वेपीत्यर्थः। तर्काणामिति। दृग्दृश्यसम्बन्धानुप- पत्यादिरूपाणां अनुकूलतर्काणामित्यर्थः। ननु वियत: पक्षत्वे घटस्य तद्भिन्नत्वात् तदन्तर्भावेण सन्दिग्धानेकान्तिकता कुतो न दोष इत्यत आह मूले- पक्षत्वंत्विति। साध्यसन्देहस्य असार्वत्रिकत्वा. दाह साध्यगोचरेति । साध्यगोचरसाधकमान साध्यनिश्चयः। साधकमाने सिषाधयिषाविरहविशिष्टत्वं पूर्वोक्तं विशेषणं अत्राप्यनुसन्धेयम्। घटादिसाधारणमिति । तथा च घटेऽपि मिथ्यात्वसन्देहस्य मिथ्यात्वनिश्चयाभावस्य वा सत्वेन तस्य पक्षभिन्नत्वाभावेन न तदन्तभावेण सन्दिग्धानकान्तिकता दोष इति भावः । ननु तर्हि पक्षसमत्त्वाद्धटादेरित्यत्र घटादे: पक्षभेदघटितपक्षसमत्वोक्तिः कथं घटते इत्यत्त आह- पक्षसमत्वोक्तिस्त्विति । प्रतिज्ञाविषयत्वाभावमात्रेणेति । मात्रपदेन साध्यसन्देहादेर्व्यवच्छेदः। - ततश्च पक्षसम इति व्यवहारे पक्षपदेन प्रतिज्ञाविषय उच्यते । पक्षभिन्न एव तस्य दूषणत्वमित्यत्र तु सन्दिग्धसाध्यवदादिरिति भावः। तहीति । प्रतिज्ञाविषयत्वाभावस्य पक्षसमत्वोक्तिप्रयोजकत्व इत्यर्थः । पक्षत्वमिति। अस्त्विति शेषः। तथा च घटस्य पक्षभिन्नत्वेन सन्दिग्धानैकान्त्यं दुर्वारमिति भावः। तदभावादिति। प्रतिज्ञाविषयत्वाभावादित्यर्थः। ततश्च पूर्वोक्तमेव पक्षत्वं स्वीकर्तव्यम्। तच्च प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 43 तदभावात्। एवं विप्रतिपत्तौ प्राचां प्रयोगाः। विमतं मिथ्या, दृश्यत्वात्, जडत्वात्, परिच्छिन्नत्वात्, शुक्तिरूप्यवदिति। नावयवेष्वाग्रहः । अत्र स्वनियामकनियतया विप्रतिपत्त्या लघुभूतया पक्षतावच्छेदो न विरुद्धः। समयबन्धादिना व्यवधानात्तस्य अनुमानकालासत्त्वे - लघुचन्द्रिका विप्रतिपत्तिविशेष्यम्। नावयवेष्विति । 'तत्र पंचतयं केचिद्वयमन्ये वयं त्रय'मिति मीमांसकोक्तरीत्या तार्किकमीमांसक बौद्धानां पंचत्रिव्यवयववादित्वात्तान् प्रति यथामतमवयवाः प्रयोक्तव्याः। ‘उदाहरणपर्यन्तं यद्बोदारणादिक'मिति मीमांसका:। उदाहरणोपनयरूपावयववादिनो बौद्धा इति भावः । ननु- विप्रतिपत्तिमात्रस्य निवेशे सिद्धसाधनबाधादिकम्, घटादिमात्रविशेष्यक- विप्रतिपत्तिनिवेशे प्रपंचमात्रस्य मिथ्यात्वासिद्धि: तत्राह स्वनियामकनियतयेति। स्वस्या: विप्रतिपत्ते: नियामकं प्रकृतानुमानपक्षतावच्छेदकत्वयोग्यतासंपादकं यद् ब्रह्मज्ञानान्याबाध्यत्वादि- विशिष्टविशेष्यकत्वं पूर्वोक्तम्, तेन नियतया विशेषितया; पूर्वोक्तयेति यावत् । ननु- पूर्वोक्तविप्रति. पत्तेर्ब्रह्मज्ञानान्याबाध्यत्वादिघटितरूपेण पक्षतावच्छेदके निवेशे गौरवात् लाघवादुक्ताबाध्यत्वादि - रूपस्यैव पक्षतावच्छेदकत्वमुचितम् तत्राह-लघुभूत येति । तद्व्यक्तित्वादिरूपलघुरूपविशिष्टये - --- 4 प्रकाशः घटादिसाधारणम् । अतो घटस्य पक्षभिन्नत्वाभावान्न तमादाय सन्दिग्धानकान्तिकतेति भावः। विप्रति - पत्ताविति। सत्यामिति शेषः। प्रयोगा:=अनुमानप्रयोगा:। दृश्यत्वादिहेतुभेदेन प्रयोगभेदाद्वहुवचनम्। टीकाया- विप्रतिपत्तिविशेष्यमिति। विप्रतिपत्तिजन्यसंशयविशेष्यमित्यर्थः। नावयवेष्वाग्रह इति मूले अवयवेषु मतभेद: सूचितः । तमाह- तत्रेत्यादिना | पंचतय= पंचावयव समुदायम् । यथामत मिति । यस्य प्रतिवादिनो यावन्तोऽवयवा: सम्मता: तेन सह विवादे तावन्तोऽवयवा: प्रयोक्तव्या: नाधिका न न्यूना वा इति भाव: । उदाहरणपर्यन्तमिति। प्रतिज्ञामारभ्येत्यादिः। तथा च प्रतिज्ञाहेतूदाहरणरूपावयवत्त्रयमिति भाव:। उदाहरणादिकमिति। उदाहरणोपनयनिगमनरूपावयवत्रयमित्यर्थः। द्वयमन्ये इत्यत्रोक्तं द्वयं किं अन्ये च क इति जिज्ञासायामाह उदाहरणेति । विप्रतिपत्तिमात्रस्य= विप्रतिपत्तिसामान्यस्य । सिद्धसाधन- बाधादिकमिति । शुक्तिरूप्यादेरपि विप्रतिपत्तिविशेष्यत्वसम्भवेन तत्र मिथ्यात्वस्य सिद्धत्वात्सिद्ध साधनम्। एवं ब्रह्म मिथ्या न वा शशविषाणं मिथ्या नवेत्यादिविप्रतिपत्तिविशेष्यत्वस्य ब्रह्मणि तुच्छे च सत्त्वेन तत्र मिथ्यात्वस्याभावाद्बाधः। आदिपदेन ब्रह्मणि तुच्छे च दृश्यत्वाभावा त्स्वरूपासिद्धिाह्या । घटादीति । घटो मिथ्या न वेत्यादीत्यर्थः । प्रपंचमात्रस्य= प्रपंचसामान्यस्य । पटादे: पक्षानन्तभादिति भाव: । मूलगतस्वनियामकेत्यादेरर्थमाह स्वस्या इति । ब्रह्मज्ञानान्याबाध्यत्वादीत्यादिपदेन सत्त्वेन प्रतीत्यर्हत्वं चिद्भिन्नत्वं च ग्राह्यम्। ततश्च ब्रह्मज्ञानान्याबाध्यत्वविशिष्टसत्वप्रकारकप्रतीतिविषयता विशिष्टचिद्भिन्नत्वविशिष्टं मिथ्या नवेति विप्रतिपत्तिविशेष्यं मिथ्या, दृश्यत्वादित्यनुमानाकार: सिद्धः । अत्र शंकते नन्विति । गौरवादिति । उक्ताबाध्यत्वादे: विप्रतिपत्तेश्च पक्षतावच्छेदके प्रवेशेन गौरवादिति भावः। लाघवादिति । लाघवसम्भवादित्यर्थः । विप्रतिपत्ते:पक्षतावच्छेदकशरीरे अप्रवेशाल्लाघवं बोध्यम् । । '.

44 अद्वैतसिद्धिः सव्याख्या ऽप्युपलक्षणतया पक्षतावच्छेदकत्वम्। यद्वा विप्रतिपत्तिविषयतावच्छेदकमेव पक्षतावच्छेद कम्। प्राचां प्रयोगेष्वपि विमतमिति पदं विप्रति पत्तिविषयतावच्छेदकावच्छिन्नाभिप्रायेणे- त्यदोषः। - लघुचन्द्रिका त्यर्थः। तथाच ब्रह्मज्ञानेत्याद्युक्तरूपेण परिचितपूर्वोक्तविप्रतिपत्तिव्यक्तेस्तद्व्यक्तित्वेनैव निवेश इति भावः। ननु उक्ताबाध्यत्वादिरूपस्य विप्रतिपत्तिपरिचायकघटकतया प्रथमोपस्थितत्वात्तदेव पक्षतावच्छेदकं युक्तम्, तत्राह—यद्वेति। अवच्छेदकमेवेति। भट्टभास्करमते शुक्तिरूप्यादे: सत्यस्य शुक्त्यादावुत्पत्तिस्वीकारात्तदनुयायिना केनचित् यदि तस्य मिथ्यात्वमुच्यते, तदा तेन सह विप्रतिपत्तौ तस्यामबाध्यत्वान्तमेव पक्षविशेषणम्; तथाच न तं प्रति सिद्धसाधनम्। तादृशस्य कस्यचिदभावेऽपि दृष्टान्तसिद्धये शुक्तिरूप्यादौ मिथ्यात्वस्य प्रकृतानुमानात् पूर्वं प्रसाध्यत्वात् तत्र - प्रकाशः तव्यक्तित्वेनैवेति। तथा च ब्रह्मज्ञानान्याबाध्यत्वादेरपि पक्षतावच्छेदकशरीरे अप्रवेशादत्यन्तलाघवम्। नापि पूर्वोक्तसिद्धसाधनादिकं, प्रपंचसामान्यस्य मिथ्यात्वासिद्धिर्वा। ब्रह्मज्ञानेत्यादिना परिचायितविप्रति- पत्तेरेव तद्व्यक्तित्वेनोपादानेन, उक्तदोषाणामसम्भवादिति भावः। ननु अनुमानकाले पक्षसम्बद्धस्यैव पक्षतावच्छेदकत्वं, यथा पर्वतो वह्निमानित्यादौ पर्वतत्वादिकम्। विप्रतिपत्तिस्तु नानुमानकालेऽस्ति। तस्या: समयबन्धादिना व्यवधानात् इत्याशंक्य परिहरति मूले- समयेति । उपलक्षणतयेति । ततश्च विशेषणत्वेन पक्षतावच्छेदकस्यैव अनुमानकालसत्वावश्यकता , न उपलक्षणतया पक्षतावच्छेदकस्येति भाव: । ननु विप्रतिपत्तेः लघुरूपेण पक्षतावच्छेदकत्वस्य उपपादितत्वेन यद्वेति मूले पक्षान्तरानु सरणं व्यर्थमितिशङ्कां कल्पान्तरानुसरणबीजोपवर्णनपूर्वकं परिहरति टीकायां- नन्विति। प्रथमोपस्थित त्वादिति। तथा च उक्ताबाध्यत्वादे:परिचायकत्वेन अवश्याश्रयणीयत्वात् उपस्थितिकृतलाघवस्य सत्त्वाच्च तस्यैव पक्षतावच्छेदकत्वमुचितमिति भावः । ननु ब्रह्मप्रमातिरिक्ताबाध्यत्वस्य पक्षतावच्छेदक शरीरे प्रवेशो व्यर्थः। सामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वेऽपि न शुक्तिरूप्ये सिद्धसाधनापत्तिः । भट्ट भास्करादिभिः शुक्तौ सत्यस्य रजतस्य उत्पत्तिस्वीकारेण तत्र मिथ्यात्वस्य असिद्धत्वादित्यत आह- भट्ट - भास्करमत इति । स्वीकारादिति। तेन साकं विवादे अबाध्यत्वान्तविशेषणवैयर्थोपीति शेषः । तदनुया यिनेति। शुक्तौ रजतोत्पत्तिस्वीकारमात्रेण तदनुयायिता न तु सत्यत्वस्वीकारेणेति बोध्यम्। तस्यां विप्रतिपत्तौ। अबाध्यत्वान्तमेवेति । एवकारेण सत्वेन प्रतीत्यर्हत्वचिद्भिन्नत्वयोर्व्यवच्छेदः । पक्षविशेषण मिति। शुक्तिरूप्ये सिध्दसाधनवारणार्थमिति भावः । तथा चेति। उक्तविशेषणदाने चेत्यर्थः । न सिद्ध साधनमिति। उक्तविशेषणेन शुक्तिरूप्यस्य व्यावर्तनादिति भावः। नन्वेवं तुच्छे ब्रह्मणि च बाध इति चेन्न । सामानाधिकरण्येन साध्यसिध्देरुद्देश्यत्वे सामानाधिकरण्येन बाधस्य अदोषत्वात् । ननु तथाविधस्य वादिनोऽप्रसिद्धत्वात् तद्विशेषणोपादानं व्यर्थं अत आह- तादृशस्येति । तादृशस्य शुक्तिरूप्यमिथ्यात्व. । ।

प्रकाशव्याख्यासहितलधुचन्द्रिकायुता 45 - लघुचन्द्रिका सिद्धसाधनवारणाय तद्विशेषणं देयमेव। यदात्ववच्छेदकावच्छेदेनानुमितिमुद्दिश्य विप्रतिपत्ति स्तार्किकादिना सह, तदेतरविशेषणे एव देये। तत्राप्यलीकवादिनं प्रत्येवान्तिविशेषणं देयम्। एकदा तु न द्वाभ्यां सह विप्रतिपत्तिस्तथैव कथकानां संप्रदायात् । तथाच यदेव यं प्रति विप्रतिपत्तौ पक्षविशेषणं तदेव तं प्रति न्यायप्रयोगेऽपीति भावः। ननु- सत्त्वेन प्रतीतियोग्यत्वं सद्रूपचित्ता- दात्म्यं घटादौ व्यावहारिकम्, घटादितुल्यकक्ष्यत्वात्; शशविषाणादावलीके तु प्रातीतिकं प्रकाश: । - वादिन: भट्टभास्करमतानुयायिनः। देयमेवेति । ये निखिलं जगत् सत्यमिति वदन्ति तान्प्रति दृष्टान्त | सिद्ध्यर्थं प्रथमं शुक्तिरूप्ये मिथ्यात्वं साधयित्वा तद्दृष्टान्तेन ततोऽन्यत्र क्वचित् अनेनानुमानेन मिथ्यात्वं साधनीयम् । स्वोद्देश्यस्य सकलजगन्मिथ्यात्वस्य असिद्धावपि तावतैव तेषां पराजयसंभवात्। तत्र च अबाध्यत्वान्तविशेषणानुपादाने सत्वेन प्रतीत्यर्हत्वविशिष्टचिद्भिन्नत्वसामानाधिकरण्येन विप्रतिपत्तौ शुक्तिरूप्ये सिद्धसाधनं स्यादेवेति तत् देयमेवेति भावः । ननु ब्रह्मण: अद्वितीयत्वस्य सिद्ध्यर्थं सकलस्यापि ब्रह्मव्यतिरिक्तस्य जगतो मिथ्यात्वं साधनीयम् । ततश्च न सामानाधिकरण्येन अनुमितेरुद्देश्यत्वं , किन्तु अवच्छेदकावच्छेदेनैवेति विप्रतिपत्तिरपि तार्किकादिना सह अवच्छेदकावच्छेदेन अनुमितिमुद्दिश्यैवेति तत्र सिद्धसाधनाभावान्न अबाध्यत्वान्तविशेषणसार्थक्यमित्यत आह यदात्विति। तार्किकादिनेत्यादिपदेन मीमांसका ग्राह्याः। इतरविशेषणे एवेति । सत्वेन प्रतीत्यर्हत्वचिद्भिन्नत्वरूपे एवेत्यर्थ: । एवकारेण ब्रह्म प्रमातिरिक्ताबाध्यत्वरूपविशेषणव्यवच्छेदः । तेन वारणीयस्य सामानाधिकरण्येन सिद्धसाधनस्य अवच्छे दकावच्छेदेन अनुमितौ अदोषत्वात्। अवच्छेदकावच्छेदनानुमितिं प्रति सामानाधिकरण्येन सिद्धेरप्रति बन्धकत्वादिति भावः। देये इति । अन्यथा सत्त्वेन प्रतीत्यर्हत्वस्य अदाने तुच्छे, चिद्भिन्नत्वस्य अदाने ब्रह्मणि च बाधापत्तेरिति भावः। तत्रापीति। तयोर्विशेषणयोर्मध्येपीत्यर्थः। अलीकवादिन शशविषाणा- दितुच्छपदार्थानभ्युपगच्छन्तम्। प्रत्येवेति। एवकारेण तदितरेषां व्यवच्छेदः। देयमिति। अन्यथा तुच्छाभ्युपगन्तृमते तत्र बाधापातादिति भावः । तुच्छानभ्युपगन्तृमते बाधस्थलस्यैव अभावेन बाधाप्रसक्ते: न तद्वारकविशेषणं देयमित्याशयः। ननु अलीकाभ्युपगन्त्रनभ्युपगन्तृभ्यां सह युगपदेव विवादात् अलीकवादिनं प्रत्येव तद्विशेषणं देयमित्युक्तिर्न समंजसेत्यत आह- एकदात्विति। तथा चेति । कथकसम्प्रदाये द्वाभ्यां युगपत् विवादाभावात् इत्यर्थः। अर्हान्तविशेषणदानेऽपि तुच्छे बाधवारणं न संभवतीत्याशङ्कते- नन्विति । सत्त्वेन प्रतीतियोग्यत्वं सद्रूपचित्तादात्म्यमिति। अयमाशय:- सत्त्वेन प्रतीतियोग्यत्वं नामः सत्त्वप्रकारकप्रतीतिविषयताप्रयोजकरूपवत्वम्। तद्धर्मप्रकारकप्रमात्मकप्रतीतौ तद्धर्मस्य कारणत्वेन सत्त्वप्रकारकप्रतीतो सत्त्वं कारणम्। तच्च घटादिषु न वास्तवं, तेषां मिथ्यात्वात्। किन्तु सद्रूपे ब्रह्मणि तादात्म्येन अध्यस्ततया परस्परा पराध्यासानुरोधेन ब्रह्मधर्माणां घटादौ अध्यस्ततया आरोपितम्। तथाच सत्तादात्म्यमेव सत्त्वमिति पर्यवसितम्। एवं प्रत्ययो नाम वृत्त्यवच्छिन्ना चित् । तद्विषयत्वे चित्तादात्म्यं प्रयोजकम्। एवं च एकस्मिन् सच्चितोस्तादात्म्यं सच्चितोरभेदं विना न 46 अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका संभवति, अनध्यस्तेप्यलीके सत्तादात्म्यस्यारोपसंभवात्, ‘यदि पुन: पक्षतावच्छेदकावच्छेदेने' त्यादिमूलानुरोधात् शुक्तिरूप्यादिप्रातीतिकसाधारणस्य सत्तादात्म्यत्वस्य निवेश्यत्वादिति-चेन्न। तत्रैव हि सत्तादात्म्याध्यासो यस्य तत्समानकालमध्यास:, शुक्तिरूप्यादिरूपेण परिणममानाविद्याया एव तन्निष्ठेन सत्तादात्म्यरूपेण परिणममानत्वात्; तथाचालीकरूपेणाविद्याया: अपरिणममानत्वात् नालीकनिष्ठतादात्म्य रूपेण परिणामः । नच- स्फटिकादिरूपेणापरिणममानाया अप्यविद्याया: स्फटिकादिनिष्ठेन जपाकुसुमादिलौहित्यतादात्म्यादिरूपेण परिणामदर्शनात् अलीकरूपेणापरिणता- प्रकाशः = सत्तादात्म्याध्यास- संभवतीति तयोरभेदो लभ्यत इति । ननु सत्त्वेन प्रतीत्यर्हत्वस्य एवंविधत्वेऽपि तस्य शशविषाणादा- वसत्त्वात् तस्य पक्षतावच्छेदकानाक्रान्तत्वेन तत्र मिथ्यात्वाभावेऽपि कथं बाध इत्यत आह शशविषाणा दाविति । प्रातीतिकं सम्भवतीति । ननु शशविषाणादे:सद्रूपचिति अनध्यस्तत्त्वात् कथं तत्र प्रातीतिकमपि सद्रूपचित्तादात्म्यमित्यत आह- अनध्यस्तेपीति । अध्यस्तत्त्वस्य सत्तादात्म्याध्यासे अप्रयोजकत्वादि- त्यभिमान: । ननु प्रातीतिकसत्तादात्म्य व्यावृत्तरूपेणैव सत्तादात्म्यस्य पक्षतावच्छेदकत्वेन विवक्षितत्वान्न तुच्छस्य पक्षतावच्छेकाक्रान्तत्वमित्याशंक्याह यदि पुनरिति । प्रातीतिकसत्तादात्म्यस्य प्रातीतिकव्यावृत्त- रूपेण पक्षतावच्छेदकशरीरे निवेशे शुक्तिरूप्ये तेन रूपेण सत्तादात्म्यस्य असत्त्वात् तस्य पक्षानन्तभावः स्यात् । ततश्च तत्र साध्यसिद्धेः सत्त्वेपि पक्षैकदेशे साध्यसिद्धेःअवच्छेदकावच्छेदेन अनुमितौ अप्रति- बन्धकत्वेन दोषत्वाभावप्रतिपादनपर 'यदि पुन रित्यादि मूलविरोध: स्यादिति भावः। अभिमानं निरा. कुर्वन् समाधत्ते- तत्रैवहीति । एवकारेण तदितरस्य व्यवच्छेदः। तत्समानकालं समानकालम् । ततश्च अनेन सत्तादात्म्याध्यासो यत्र यत्र तत्र तत्र सत्तादात्म्याध्याससमानकालं अध्यस्तत्त्व | मिति व्याप्तिः प्रदर्शिता भवति । अत्र हेतुमाह- शुक्तिरूप्यादिरूपेणेति । तन्निष्ठेन = शुक्तिरूप्यादिनिष्ठेन । परिणममानत्वादिति । अनेन च तन्निष्ठतादात्म्यरूपेण परिणममानाविद्यात्वं यत्र यत्र तत्र तद्रूपेण परिणम. मानाविद्यात्वं इति नियम: प्रदर्शितो भवति । अत्र च दृष्टान्तः शुक्तिरूप्यादिरूपेणेत्यादिः । तथाचेति । उक्त विधनियमसत्त्वादित्यर्थः। नालीकनिष्ठतादात्म्यरूपेण परिणाम इति । व्यापकाभावाव्याप्याभाव इति भावः। ततश्च अलीके प्रातीतिकसत्तादात्म्याभावान्न बाध इत्याशयः। तद्रूपेणेत्यादिनियमस्य व्यभिचारमाशङ्कते- नचेति। परिणामदर्शनादिति। अयं भाव:- लोहितः स्फटिक इति प्रतीतौ स्फटिके लौहित्यतादात्म्यं प्रतीयते। तच्च न वस्तुतोऽस्ति। स्फटिकस्य स्वच्छत्वात्। अतः तत् अध्यस्तं अविद्यापरिणामरूपं वाच्यम् । न च स्फटिकनिष्ठतादात्म्यरूपेण परिणममानाविद्या स्फटिकरूपेणापि परिणमते। स्फटिकस्य व्यावहारिकत्वात्। इत्थं च स्फटिकरूपेण परिणममानत्वाभाववत्यां अविद्यायां स्फटिकनिष्ठतादात्म्यरूपेण परिणममानत्वस्य सत्त्वाव्यभिचार इति। ननु स्फटिकोऽपि अविद्यापरिणाम इति मोक्तनियमे व्यभिचार इति चेत्- सत्यं, परन्तु स: ब्रह्मज्ञाननिवांया मूलाविद्याया: परिणामः। तन्निष्ठजपाकुसुमलौहित्यतादात्म्यं तु न तस्या: परिणाम: । किन्तु तनिष्ठशौक्ल्यलौहित्यतादात्म्याभावादि- ।

प्रकाशव्याख्यासहितलधुचन्द्रिकायुता 47 लघुचन्द्रिका प्यविद्या तनिष्ठेन सत्तादात्म्यरूपेण परिणमतामिति- वाच्यम्, तादात्म्यमात्ररूपेण परिणामस्य तथा दृष्टत्वेऽपि सत्तादात्म्यरूपेण परिणामस्य तदनुयोगिरूपेण परिणममानाविद्यानिष्ठत्वनियमा . विघातात्। नच- सत्प्रतियोगिकतादात्म्यस्योक्तनियमस्वीकारेऽपि सदनुयोगिकस्यालीकप्रति योगिकतादात्म्यस्याविद्यापरिणामत्वमास्तामिति- वाच्यम्; सदलीकमिति प्रतीत्यभावेनाविद्याया- स्तादृशपरिणामे हेतुत्वाकल्पनात् । अत एव शब्दज्ञानानुपाती वस्तुशून्यो विकल्प' इति - प्रकाश: विषयकतूलाविद्याया:, ब्रह्मज्ञानान्येन शुक्ल: स्फटिक इति ज्ञानेन निवाया: परिणाम इति उभयोरेका- विद्यापरिणामत्वाभावात् उक्तनियमे व्यभिचारो दुर्वार इति भाव: । परिणमतामिति । ततश्च अलीके सत्तादात्म्यस्य सम्भवात् तद्विशेषणदानेऽपि बाधो दुर्वार इति भावः । तादात्म्ये सत्प्रतियोगिकत्वं निवेश्यते ततश्च उक्तनियमे न व्यभिचार इत्याह- तादात्म्येति । तथादृष्टत्वेऽपि= किंचित्प्रतियोगिकतादात्म्याश्रय. रूपेण अपरिणममानाविद्यानिष्ठत्वदर्शनेऽपि। सत्तादात्म्यरूपेण सत्प्रतियोगिकतादात्म्यरूपेण। परिणाम- स्येति । अविद्यापरिणामस्येत्यर्थः । तदनुयोगिरूपेण सत्प्रतियोगिकतादात्म्यानुयोगिरूपेण। नियमाविघा. तात्= व्याप्तिभङ्गाभावात्। ततश्च सत्प्रतियोगिकतादात्म्यरूपेण परिणममानाविद्यात्वं यत्र यत्र तत्र तादृशतादात्म्यानुयोगिरूपेण परिणममानाविद्यात्वमिति व्याप्तिशरीरं निष्पन्नम्। अस्याश्च व्याप्ते: न स्फटिकरूपेण अपरिणममानायां तन्निष्ठतादात्म्यरूपेण परिणममानायामविद्यायां व्यभिचारः। तादृशतादा- त्म्यस्य सत्प्रतियोगिकत्वाभावेन व्यापकाभाववत्यामविद्यायां व्याप्यस्याप्यभावात् । इत्थं च अलीकरूपेण अविद्याया:परिणामाभावात् न तन्निष्ठतादात्म्यरूपेण परिणाम इति अलीके सत्प्रतियोगिकप्रातीतिक- तादात्म्यस्य अभावान्न बाध इति भावः। सत्तादात्म्यनिवेशेऽपि अलीके बाधवारणं न संभवतीत्याशयेन शङ्कते- नचेति । उक्तनियमेति ।अनुपदोक्तस्य सत्तादात्म्यरूपेण परिणामस्येत्यादिरूपस्येत्यर्थः । अविद्यापरिणामत्वमास्तामिति । तथात्वेपि उक्तनियमभङ्गाभावात्। सद्रूपेण परिणममानाया एवाविद्याया: सदनुयोगिकतादात्म्यरूपेण परिणाम इत्यस्य ब्रह्मात्मकसद्रूपेण अपरिणममानाया अप्यविद्याया: सन्निष्ठ- प्रपंचप्रतियोगिकतादात्म्यरूपेण परिणामस्य अभ्युपगन्तव्यत्वेन वक्तुमशक्यत्वादिति भावः। ततश्च सदनुयोगिकतादात्म्यस्यापि सत्तादात्म्यत्वेन तस्य च अलीके सत्त्वात् बाधो दुरि इति भावः । समाधत्ते- सदलीकमिति । तादृशपरिणाम इति । सदनुयोगिकालीकप्रतियोगिकतादात्म्यरूपेण परिणाम इत्यर्थः । हेतुत्वाकल्पनादिति । प्रमाणाभावादिति भावः । ततश्च अलीकप्रतियोगिकस्य सदनुयोगिकस्य अविद्या. परिणामरूपस्य तादात्म्यस्य अप्रसिद्धत्वात् तदादाय अलीके बाधापादानं न युक्तमिति भावः। सद्रूपेण अपरिणममानाया अप्यविद्याया: प्रपंचप्रतियोगिकसदनुयोगिकतादात्म्यरूपेण परिणाम: स्वीक्रियते, सन् घट इत्यादिप्रतीते: सत्वात् इति बोध्यम् । सदलीकयो: तादात्म्यरूपेण अविद्याया अपरिणामे उपष्टम्भक- माह- अत एवेति । सत् अलीकं, अलीकं सत् इत्याकारकप्रतीत्योरभावादेवेत्यर्थः । शब्दज्ञानानुपाती शशविषाणादिशब्दज्ञानानन्तरभावी, तज्जन्य इति यावत्। वस्तुशून्य:= विषयितासंबन्धेन सद्रूपवस्त्व- का नाम 48 अद्वैतसिद्धिः सव्याख्या - लघुचन्द्रिका पातञ्जलसूत्रे शब्दमात्रजन्यस्यालीकाकारधीरूपविकल्पस्य सद्रूपाविषयकत्वरूपं वस्तुशून्यत्व मुक्तम्। अत एव च प्रमाणविपर्ययविकल्पनिद्रास्मृतय'इति वृत्तिविभाजके पातंजलसूत्रे विकल्पात् पृथग्विपर्ययस्योक्तिः। तस्य सद्रूपवस्तुविषयकत्वेन वस्तुशून्यत्वाभावात्। किंच सत्प्रतियोगिक तादात्म्यस्यैव प्रकृते पक्षतावच्छेदके निवेशादलीकप्रतियोगिकतादात्म्यमादाय नोक्तदोषः। ननु माध्वादिमते शुक्तिरूप्यादेरलीकतास्वीकारात् ‘इदं रूप्यं सदि'त्याकारभ्रमेण तत्र सत्प्रतियोगिक - तादात्म्यावगाहनान्माध्वादीन् प्रति न्यायप्रयोगे बाध: सदसद्विलक्षणत्वादिसाध्यस्य तत्राभावात्, नच अबाध्यत्वान्तविशेषणेन तस्य वारणम्; अलीकस्य ज्ञानोच्छेद्यतारूपज्ञानबाध्यत्वाभावादिति- प्रकाशः - भाववान्। विकल्प:= विकल्पाख्यवृत्तिविशेष: इति सूत्रार्थः। पातंजलसूत्र इति । पतंजलिमहर्षिणा प्रणीते योगसूत्र इत्यर्थः । तत्रैव उपष्टम्भकान्तरमाह- अत एव चेति। विकल्पस्य सद्रूपवस्त्वविषयकत्वा- देव चेत्यर्थः । अस्य उक्तिरित्यनेनान्वयः। तस्य = विपर्ययस्य। सद्रूपवस्तुविषयकत्वेनेति । न च भ्रम विषयस्य रजतादेर्मिथ्यात्वान्न विपर्ययस्य सद्रूपवस्तुविषयकत्वसंभव इति शंक्यम्। रजतादेर्मिथ्यात्वेऽपि इदमादे: स्वरूपतस्तदभावेन तदादाय सद्रूपवस्तुविषयकत्वसंभवात्। तुष्यतु दुर्जन इति न्यायेन अलीक- प्रतियोगिकसदनुयोगिकतादात्म्यमभ्युपगम्य तुच्छे बाधं वारयति- किंचेति। सत्प्रतियोगिकतादात्म्य- स्यैवेति । एवकारेण सदनुयोगिकतादात्म्यस्य व्यवच्छेदः । उक्तदोष:= अलीकस्य पक्षान्तर्भावेण बाध- रूपो दोषः। सत्प्रतियोगिकतादात्म्यनिवेशेन शशविषाणदावलीके बाधवारणेऽपि माध्वमते शुक्तिरूप्ये बाधं शङ्कते- नन्विति। अलीकतास्वीकारादिति। शशविषाणादिवदसद्रूपतास्वीकारादित्यर्थः। अनेन शुक्तिरूप्ये मिथ्यात्वरूपसाध्याभाव:सूचितः । नन्वेवं तत्र सत्प्रतियोगिकतादात्म्यस्य उक्तरीत्या अभावान्न तस्य पक्षतावच्छेदकाक्रान्तत्वमित्यत आह- इदं रूप्यं सदिति । भ्रमेणेति । असत: सदिति प्रत्ययस्य भ्रमत्वादिति भावः । तत्र = शुक्तिरूप्ये । अवगाहनादिति । विषयीकरणादित्यर्थः । ततश्च शुक्तिरूप्यस्य सदसद्विलक्षणत्वादीति। सदसद्विलक्षणत्वं = सद्भिन्नत्वे सति असद्भिन्नत्वम् । आदिपदेन ज्ञाननिवर्त्यत्वं ग्राह्यम्। तत्र = असद्रूपशुक्तिरूप्ये। अभावादिति। मिथ्यात्वघटकसद्भेदसत्त्वेऽपि असद्भेदाभावादिति भावः । असति ज्ञाननिवर्त्यत्वस्याप्यभावाद्बाधो बोध्यः। विशेषणान्तरेण तस्य व्यावर्तनं शङ्कते- नचेति। अस्य वारणमित्यनेनान्वयः। अबाध्यत्वान्तविशेषणेन= ब्रह्मप्रमातिरिक्ताबाध्यत्वरूपपक्षविशेषणेन । न वारणमित्यत्र हेतुमाह- अलीकस्येति । ज्ञानबाध्यत्वाभावादिति । ज्ञानसमानविषयकाज्ञानतत्प्रयुक्तदृश्या- न्यतरस्यैव ज्ञानोच्छेद्यत्वात् अलीकस्य च अज्ञानतत्प्रयुक्तदृश्यान्यतरत्वाभावादिति भावः। ततश्च न अलीकस्य अबाध्यत्वान्तविशेषणेन वारणसंभव इत्याशय: । यद्यपि इयं बाधशङ्का न युक्ता। मतद्वये साध्याभावस्थल एव हि बाधः । यथा सत्त्वेन प्रतीत्यर्हत्वचिद्भिन्नत्वयोरनुपादाने क्रमेण तुच्छे ब्रह्मणि च बाधः । तत्र मतद्वयेऽपि मिथ्यात्वरूपसाध्यविरहात्। शुक्तिरूप्ये च माध्वमते साध्याभावेऽपि स्वमते तस्य । । ।

प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 49 लघुचन्द्रिका तन्मते भ्रमस्यासत्ख्यातित्वस्वीकारेणानिर्वचनीयख्यातित्वानभ्युपगमेन तादात्म्यादिसंबन्धस्याप्य . लीकस्यैव भ्रमे भानात्, अनलीकस्य भानस्वीकारे तस्य सद्रूपत्वेन अत्यन्ताभावप्रतियोगित्व- प्रत्ययानुपपत्तेः अलीकस्यैव तन्मते अत्यन्ताभावप्रतियोगित्वात्, रूप्यादेरप्यलीकान्यत्वापत्त्या अधिष्ठानान्यस्य भ्रमविषयस्यालीकत्वनियमाच्च सत्स्वरूपस्यैव तादात्म्यस्य तत्र भाने अलीक - प्रकाशः अलीकत्वास्वीकारेण साध्यसत्त्वेन स्वयं माध्वं प्रति तत्र मिथ्यात्वस्य साधयितुं युक्तत्वात्। अन्यथा वियदादिप्रपंचे असत्यत्वसाधनेऽपि तस्य सत्यत्वाभ्युपगन्तृपरमते बाध: स्यात् । तथापि समाधानान्तरमपि सुकरमित्याशयेनाह तन्मत इत्यादि।तृतीयान्तद्वयार्थस्यापि अलीकस्यैव भ्रमे भाने हेतुत्वं इति मन्तव्यम्। अलीकस्यैवेत्येवकारेण अनलीकस्य भ्रमे भानव्यवच्छेदः। तथा च प्रकृते अलीकव्यावृत्तरूपेण सत्तादा- त्म्यस्य पक्षतावच्छेदकशरीरे निवेश्यतया माध्वमते शुक्तिरूप्ये तथाविधसत्तादात्म्यस्य असत्त्वेन पक्षताव- च्छेदकानाक्रान्ततया न बाध इति भावः। ननु इदं रूप्यं सदित्यत्र माध्वमते अनलीकसत्तादात्म्यस्य भान- स्वीकारे को दोष इत्यत आह- भानस्वीकार इति । तथा च शुक्तिरूप्ये बाधतादवस्थ्यमिति भावः । तस्य उक्तभ्रमविषयीभूतस्य सत्तादात्म्यस्य । सद्रूपत्वेनेति । सद्रूपत्वापत्त्येत्यर्थः। सदसदिति प्रकारद्वयस्यैव माध्वेन अभ्युपगमेन असत्त्वाभावे सद्रूपत्वावश्यंभावादिति भावः । अस्तु तस्य सद्रूपत्वमित्यत आह- अत्यन्ताभावेति। शुक्तिरूप्यतादात्म्यं अत्यन्ताभावप्रतियोगि इत्याकारकप्रत्ययानुपपत्तेरित्यर्थः। ननु तादृशतादात्म्यस्य सद्रूपत्वाङ्गीकारेऽपि अत्यन्ताभावप्रतियोगित्वप्रत्ययानुपपत्ति:कुत इत्यत आह- अलीकस्यैवेति। तन्मते = माध्वमते । अत्यन्ताभावप्रतियोगित्वात् = अत्यन्ताभावप्रतियोगित्वाङ्गी कारात्। न च भूतले घटो नास्तीत्यादौ सद्रूपे घटादौ अत्यन्ताभावप्रतियोगित्वप्रत्ययात् कथमयं नियम इति वाच्यम्। तत्र भूतले आरोपितस्य अलीकस्य घटसंसर्गस्याभावो भासते न तु घटस्य, स एव च घटविरोधीति तन्मते अभ्युपगमात्। अलीकस्यैवात्यन्ताभावप्रतियोगित्वमिति नियमे प्रमाणाभाव इत्या शंक्य तादृशतादात्म्यस्य अलीकत्वे युक्त्यन्तरमाह- रूप्यादेरिति। तादृशतादात्म्यस्य अनलीकत्व- स्वीकार इत्यादिः। अलीकान्यत्वापत्त्येति । तादात्म्यस्येव शुक्तिरूप्यादेरपि अनलीकस्यैव अत्यन्ताभाव- प्रतियोगित्वभ्रमविषयत्वयोः संभवादिति भावः। आपत्त्येति । तस्य अनिष्टत्वेन तद्वारणानुरोधेनेति भावः। नियमादिति । नियमस्य तेन उपगन्तव्यत्वादित्यर्थः । नियमशरीरं तु - अधिष्ठानान्यभ्रमविषयत्वं यत्र यत्र तत्र तत्र अलीकत्वमिति । भ्रमविषयस्याप्यधिष्ठानस्य अनलीकत्वेन व्यभिचारादधिष्ठानान्येति । अत्र च अधिष्ठानपदेन आरोप्याधिकरणत्वेन प्रतीयमानं विवक्षितं, न तु सिद्धान्तिसम्मतं भ्रमोपादानाज्ञान- विषयरूपम्, तन्मते अप्रसिद्धेः। ततश्च तादृशतादात्म्यस्य अनलीकत्वस्वीकारे तादृशनियमभङ्गापत्ति- रिति भावः । ननु भ्रमप्रकारस्य अलीकत्वनियम एव तेन उपगम्यते। एवं च विशेष्यस्येव सत्तादात्म्यस्य संसर्गतया अनलीकत्वेन सद्रूपत्वेऽपि न तादृशनियमभङ्गः, अधिष्ठानान्यत्वस्यानिवेशात् लाघवं चेत्यत आह सत्स्वरूपस्यैवेति। तत्र = भ्रमे । तदनुयोगित्वाभावात् = सद्रूप तादात्म्यानुयोगित्वाभावात् । अयं च 50 अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका रूप्यादौ तदनुयोगित्वाभावादलीके रूप्यादिनिष्ठे तादात्म्ये सत्प्रतियोगिकत्वस्येव सद्रूपे अलीकानुयोगिकत्वस्याभावात् । सदसतोरुपरागाभावात् । शुक्तिरूप्यादौ सत्प्रतियोगिकतादात्म्यानु योगित्वरूपपक्षतावच्छेदकाभावेन तत्र बाधोक्त्यसंभवात्, वक्ष्यमाणरीत्या सदसद्भिन्नत्वस्य माध्वं प्रत्यसाध्यत्वेन तं प्रति बाधाभावाच्च। नचैवमपि तन्मते शुक्तिरूप्यादौ साध्यवैकल्यं; तं प्रति सद्वि विक्तत्वादिवक्ष्यमाणमिथ्यात्वस्यैव साध्यत्वात्। ननु- सद्रूपं शुद्धचिदेव, तत्प्रतियोगिकत्व विशिष्टतादात्म्यत्वावच्छिन्नाधिकरणत्वं च तस्यां नास्तीति चिद्भिन्नत्वविशेषणं व्यर्थं इति चेत् सत्यम्। उक्ताधिकरणत्वनिवेशे चिद्भिन्नत्वं न देयम्, तत्प्रतियोगिकस्य तादात्म्यस्याधिकरणत्वमात्र निवेशाभिप्रायेण दत्तम् । ननु- प्रकाश: शुक्तिरूप्यादौ पक्षतावच्छेदकस्य असत्त्वे हेतुः । अलीकरूप्यादौ सद्रूपतादात्म्यानुयोगित्वाभाव एव कुत इत्यत आह-अलीक इत्यादिना अभावादित्यन्तेन । तदपि वा कुत इत्यत आह-सदसतोरिति । उपराग:= संबन्धः। स च सतोरेव, न असतो:, नापि सदसतोः। अनुभवाभावादिति भावः । तत्र = शुक्तिरूप्यादौ। बाधोक्त्यसंभवादिति। अयंभाव:- इदं रूप्यं सदित्याकारक पूर्वोक्तप्रतीतौ अलीकमेव सत्तादात्म्यं अलीके शुक्तिरूप्ये भातीत्यभ्युपगन्तव्यम्। तस्य च अलीकत्वादेव सत्प्रतियोगिकत्वासंभवः। सद्रूपस्य तस्य स्वीकारे तु तस्य सत्प्रतियोगिकत्वसंभवेऽपि तदनुयोगित्वस्य अलीके शुक्तिरूप्ये असंभवः । सदसतो: संबन्धाभावात्। एवं च उक्तप्रतीतिविषयस्य तादात्म्यस्य अलीकत्वे सद्रूपत्वे वा सत्प्रतियोगि- कतादात्म्यानुयोगित्वस्य अलीके शुक्तिरूप्यादौ असत्वात् तस्य पक्षतावच्छेदकानाक्रान्तत्वेन न अलीक शुक्तिरूप्यमादाय माध्वमते बाधोक्तिसंभव इति। शुक्तिरूप्ये सत्तादात्म्यस्य अङ्गीकारेऽपि बाधवारण- प्रकारमाह- वक्ष्यमाणेति । असाध्यत्वेनेति । माध्वेन प्रपंचे असद्विलक्षणत्वस्य अभ्युपगतत्वेन तद्धटित- सदसद्विलक्षणत्वसाधनस्य व्यर्थत्वादिति भावः। बाधाभावादिति । असद्भिन्नत्वस्यापि साधने शुक्तिरूप्ये अलीके बाध: स्यात्। तं प्रति सद्भिन्नत्वमानं साध्यते । नातो बाधप्रसक्तिरिति भावः। नन्वेवमपि प्रपंचं पक्षीकृत्य शुक्तिरूप्यदृष्टान्तेन तत्र सदसद्विलक्षणत्वरूपमिथ्यात्वस्य साधने दृष्टान्ते शुक्तिरूप्ये माध्वमते असद्विलक्षणत्वाभावात्साध्यवैकल्यमित्यत आह-नचेत्यादि ।तं प्रति-माध्वं प्रति। सद्विविक्तत्वादीति। ततश्च शुक्तिरूप्ये सद्विविक्तत्वरूपस्य साध्यस्य सत्त्वान्न तत्र साध्यवैकल्यमिति भावः। आदिपदेन प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वादिकं ग्राह्यम्। सत्प्रतियोगिकतादात्म्यनिवेशे चिद्भिन्नत्व- विशेषणवैय्यर्थ्यं शङ्कते- नन्विति। शुद्धचिदेवेति। सत्यं ज्ञानमित्यादिश्रुतौ त्रिविधपरिच्छेदरहितत्व- रूपानन्तत्वेन विशेषितस्य ब्रह्मण: सत्यरूपत्वोक्ते: ज्ञानरूपत्वोक्तेश्चेति भावः। सत्पदार्थो यदि शुद्धचिद्भिन्न: स्यात् तर्हि तत्प्रतियोगिकत्वविशिष्टतादात्म्यत्वावच्छिन्न निरूपिताधिकरणता शुद्धचित्त्यपि संभवेदत उक्तं शुद्धचिदेवेति। तस्यां नास्तीति । स्वस्मिन् स्वविशिष्टत्वबुद्धेरनुत्पत्त्या तत्प्रयोजिकाया: स्वस्मिन् स्वप्रतियोगिकत्वविशिष्टसंबन्धाधिकरणताया: स्वप्रतियोगिकसंबन्धानुयोगितारूपाया अनभ्युप- गमादिति भाव: । व्यर्थमिति। उक्तरीत्या सत्तादात्म्यस्य शुद्धचित्यभावेन चिद्भिन्नत्वविशेषणेन वारणीयस्य बाधस्य अप्रसक्तेरिति भावः । सत्प्रतियोगिकत्वविशिष्टतादात्म्यत्वावच्छिन्ननिरूपितानुयोगितानिवेशे । PANNA प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 51 लघुचन्द्रिका तादृशतादात्म्यस्यापक्षत्वापत्तिः, तस्य स्वस्मिन्नभावात् तादात्म्ये तादात्म्यान्तरस्यानवस्थापत्त्या अनङ्गीकारात्- इति चेन्न । घटाद्यभावस्येव तस्य स्वस्मिन् स्वरूपसंबन्धेन वृत्तिस्वीकारात्, घटाभावे घटो नास्तीतिवत् सत्तादात्म्यं सदितिप्रतीतेः। अथ घटादिदृश्यमात्रस्य सत्तादात्म्यवत्त्वे किं मानमिति चेत्-शुक्तिरूप्यादेरिदमादितादात्म्यवत्त्व इव परस्पराध्यासानुभवादिकम् । तथाहि- 'इदं रजत' भित्यादिभ्रमस्थले 'इदं रजतं जानामि' 'रजतमिदं जानामी'त्याकारद्वयानुभवादिदमादि- प्रकाश: चिद्भिन्नत्वविशेषणवैय्यर्थ्यमङ्गीकरोति सत्यमिति | कथं तर्हि मूले तन्निवेश इत्यत्राह- तत्प्रतियोगिक- स्येति । तत्प्रतियोगिकस्य = सद्रूप चित्प्रतियोगिकस्य। तत्प्रतियोगिकत्वोपलक्षितस्येति यावत्। मात्रेति । अनेन विशिष्टाधिकरणतारूपानुयोगितायाव्यवच्छेदः । शङ्कते- नन्विति। तादृशेति । सत्प्रतियोगिके- त्यर्थः । अपक्षत्वापत्तिरिति । कुत इत्यत आह- तस्येति । स्वस्मिन्नभावादिति । स्वनिरूपिताधिकरण. ताया: स्वस्मिन् बाधितत्वादिति भावः । तर्हि तादात्म्यान्तरमस्तु इत्यत आह- तादात्म्य इति । अनङ्गी- कारादिति। अनङ्गीकारे हेतुमाह अनवस्थापत्त्येति। प्रथमस्येव द्वितीयादितादात्म्यानामपि मिथ्यात्व- साधनार्थं पक्षत्वावश्यम्भावेन तत्र तत्र अन्यस्यान्यस्यैव तादात्म्यस्य अप्रामाणिकस्य अङ्गीकार्यत्वेन अनवस्थापत्तिरित्यर्थः । ततश्च तादात्म्ये स्वस्य स्वभिन्नस्य वा तादात्म्यस्य असत्त्वेन तस्य अपक्षत्वापत्त्या तत्र मिथ्यात्वासिद्धौ द्वैतापत्तिरिति भावः। समाधत्ते- नेत्यादिना। वृत्तिस्वीकारादिति । तादात्म्यान्तर- स्वीकारे अनवस्थापत्त्या गौरवेण लाघवात् तस्मिंस्तादात्म्ये तस्यैव तादात्म्यस्य घटाभावे घटाभावस्येव स्वरूपसंबन्धेन वृत्ति:अगत्या स्वीक्रियत इति भाव: । ननु घटाभावे घटाभावस्य वृत्ति: प्रतीत्यनुरोधेन स्वीक्रियते प्रकृते कथमित्यत आह- सत्तादात्म्यमिति । तथा च सत्तादाम्यस्यापि पक्षत्वसम्भवेन न पूर्वोक्तदोष इति भावः। सत्तादात्म्यनिवेशे दृश्यसामान्यस्यापि अपक्षत्वापत्तिं शङ्कते- अथेति । दृश्य- मात्रस्य-दृश्यसामान्यस्य। किं मानमिति । इदमि रजतस्येव ब्रह्मणि दृश्यसामान्यस्य तादात्म्येन अध्यस्त- तया अनिर्वचनीयख्यातिस्वीकारेण इदं रजतमिति प्रत्यक्षानुरोधेन इदमि रजततत्तादात्म्ययोरिव सन् घट इत्यादिप्रतीत्यनुरोधेन सद्रूपे ब्रह्मणि घटादिदृश्यसामान्यतत्तादात्म्ययोरुत्पत्तिरस्तु, घटादिदृश्ये च सद्रूप- ब्रह्मणोऽनध्यासात्तत्र सत्तादात्म्ये मानं नास्तीति शंकाशयः। मानाभाव एव असिद्ध इत्याह -शुक्ति रूप्यादेरित्यादिना । परस्पराध्यासानुभवादिकमिति । इदं रजतमिति एकस्मिन् ज्ञाने, इदं रजतमिति रजत- मिदमिति च द्वयोज्ञानयोर्वा, इदंरजतयोः परस्पराध्यास:, इदमि रजतस्य रजते च इदम: तादात्म्येन विशेषणतया य आरोप: तदनुभवादित्यर्थः । ननु अध्यासस्यैव प्रातीतिकपदार्थसाधकत्वात्तदनुभवपर्यन्ता- नुधावनं किमर्थमिति चेत् । सत्यं, अध्यासः प्रातीतिकपदार्थसाधकः, तथापि इदं रजतमिति प्रतीते: इदमिरजतविषयकत्व इव रजते इदंतादात्म्यविषयकत्वे सिद्धे इदमि रजतादात्म्यमिव रजते इदंतादात्म्यमपि सिद्धयेत्, परन्तु तत्रैव किं प्रमाणमित्याकांक्षायां तदनुभवपर्यन्तानुधावनम् । रजते इदंतादात्म्येऽपि विवाद- संभवात् प्रथमं तत्साधयति- तथाहीति । भ्रमस्थल इति । भ्रमानुव्यवसाय इत्यर्थः । अस्य च भातीत्यने - 52 अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका विषयतावच्छिन्नं रजततादात्म्यादिविषयत्वं रजतादिविषयतावच्छिन्नं इदमादितादात्म्यविषयत्वं च चिद्रूपानुभवनिष्ठं भातीति स्वीक्रियते। एवम्, ‘इदं रजतं रजतमिद'मिति च यत् ज्ञानं तत् मिथ्येति बाधकप्रत्ययेन विषयविशष्टभ्रमस्य मिथ्यात्वावगाहनात् भ्रमस्येव तद्विषयाणामपि बाधकधी बाध्यत्वम् । तत्राप्युक्तबाधधीकालेऽपीदमर्थस्य तादृशधीमता पुरुषेणाङ्गुल्या प्रदर्श्यमानस्य स्वरूपत: सत्यत्वानुभवात्तस्य व्याव-हारिकस्वरूपत्वनिश्चयेन स्वरूपतो मिथ्यात्वानिश्चयेन मिथ्यात्वेन निश्चीयमानतादात्म्योपहित- रूपेण मिथ्यात्वनिश्चयः। प्रकाशः नान्वयः। तद्भानेऽपि प्रमाणमाह- इदमित्यादिना अनुभवादित्यन्तेन । अस्य च तादृशभ्रमानुव्यवसायस्ये त्यादिः । इदं रजतमित्यादिभ्रमविषयकानुव्यवसायस्य यत् इदं रजतं जानामीत्याद्याकारद्वयं तस्यानुभवादि- त्यर्थः। चिद्रूपानुभवनिष्ठमिति। इदं रजतमित्याकारकभ्रमो नाम परस्परतादात्म्यापन्नरजताकाराविद्या- वृत्तिः, इदमाकारान्त:करणवृत्तिश्चेत्युभयावच्छिन्नचिद्रूपोऽनुभव: तन्निष्ठमित्यर्थः । स्वीक्रियत इति। अन्यथा तादृशभ्रमानुव्यवसायस्य यत् अनुभवसिद्धं तादृशाकारद्वयं तस्यानुपपत्तेरिति भावः। तथा च इदं रजतमित्याकारकभ्रमस्य य: अनुव्यवसाय: तस्य इदं रजतं जानामीत्याकारकत्वात् इदंविषयतया अवच्छिन्ना या रजततादात्म्यविषयता तदवगाहित्वं, तेन च व्यवसायस्य इदंविषयतया अवच्छिन्ना या रजततादात्म्यविषयता तच्छालित्वं, तेन च इदम: रजततादात्म्यवत्त्वं यथा सिद्ध्यति तथैव रजतभ्रमानु- व्यवसायस्य रजतमिदं जानामीत्याकारकत्वात् रजतविषयतावच्छिन्ना या इदंतादात्म्यविषयता तदवगाहित्वं, तेन च व्यवसायस्य रजतविषयतावच्छिन्ना या इदंतादात्म्यविषयता तच्छालित्वं, तेन च रजतस्य इदंतादात्म्यवत्त्वं सिद्ध्यतीति फलितम् । परस्पराध्यासानुभवादिकमित्यादिपदसंगृहीतं प्रमाणान्तरं प्रदर्शयति- एवमिति । इद मिति । इदं रजतमिति रजतमिदमिति च यत् ज्ञानं इति योजना । तादात्म्यद्वयस्य मिथ्यात्वसिद्ध्यर्थं आकारद्वयोपादानम्। विषयविशिष्टभ्रमस्येति। निपातेन इतिपदेन तादात्म्येन रजतविशिष्टेदम:, इदंविशिष्टरजतस्य च परामर्शः। इतिपदपरामृष्टस्य तादृशविशिष्टद्वयस्य विषयतया ज्ञाने अन्वयः। ततश्च विषयविशिष्टभ्रमसिद्धिरिति भावः। मिथ्यात्वेति। स्वाश्रयत्वेन प्रतीयमानयावन्निष्ठा- त्यन्ताभावप्रतियोगित्वेत्यर्थः । तद्विषयाणामपीति । भ्रमविषयाणामपीत्यर्थः। असति बाधके विशिष्टधर्मिक प्रतीते: धर्मितावच्छेदकेऽपि प्रकारावगाहित्वनियमादिति भावः। धनवान्सुखीत्यादौ धनादौ सुखादेर- प्रकारत्वात् असति बाधक इति। बाधकधीबाध्यत्वमिति। मिथ्येतिधीविषयस्वाश्रयनिष्ठाभावप्रतियोगि. त्वमित्यर्थः। अस्य इतीदमाद्यवच्छेदेनेत्यत्रान्वयः। ननु भ्रमविषयाणां सर्वेषामपि बाध्यत्वे अधिष्ठानस्य इदमोऽपि बाध्यत्वात् अधिष्ठानारोप्ययोः को विशेष इत्याशङ्कय तयोर्बाध्यत्वे वैलक्षण्यं निरूपयन् विशेषमाह-तत्रापीति। बाध्येषु भ्रमविषयेष्वपीत्यर्थः । कालेऽपीति । अस्य अङ्गुल्या प्रदर्श्यमानस्येत्यनेन- न्वयः। तादृशधीमता= उक्तबाधकधीमता। स्वरूपत:= मिथ्यातादात्म्यानुपहितरूपेण। तस्य इदं पदार्थस्य । व्यावहारिकेति। न तु ब्रह्मवत् पारमार्थिकेत्यर्थः । मिथ्यात्वानिश्चयेन। मिथ्यात्वनिश्चयस्य ।

प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 53 लघुचन्द्रिका रजतादितत्तादात्म्ययोस्तु स्वरूपतोऽपि स इतीदमाद्यवच्छेदेन रजतादिकं तत्तादात्म्यं रजतत्वादे: संसर्गश्च, रजताद्यवच्छेदेनेदमादेस्तादात्म्यमिदंत्वादे: संसर्गश्च चिति जायते। भ्रमस्थले भ्रमकाले बाध्यस्योत्पत्तिस्वीकारात्तस्य प्रातीतिकत्वेन भ्रमपूर्वमविद्यमानत्वात्। ननु-एकेनैव तादात्म्येनेदं - रजतयोराकारद्वये परस्परं प्रति विशेषणतया भानसंभवात् तादात्म्यद्वयोत्पत्तौ मानाभाव- इति चेन्न। आकारभेदानुपपत्तेः। आकारो हि ज्ञानानां मिथो वैलक्षण्यम्। तच्च विभिन्न विषयत्वरूपं नतु प्रकाश: - दुर्घटतया। स्वरूपतोपीति। मिथ्यात्वेन निश्चीयमानतादात्म्योपहितरूपेण मिथ्यात्वे तु अन्योन्याश्रय- प्रसङ्गात्। सः मिथ्यात्वनिश्चयः । इतीति । अधिष्ठानारोप्ययो विशेष इति शेषः । अत्र च इदमाद्यवच्छेदेने त्यारभ्य प्रथमं संसर्गश्चेत्यन्तं दृष्टान्तः। तत आरभ्य द्वितीयं संसर्गश्चेत्यन्तं दार्टान्तिकमिति बोध्यम्। इदमाद्यवच्छेदेनेति । इदमवच्छिन्नचित्त्येव रजततत्तादात्म्यादिकं जायते, नत्विदमि,चित एव सर्वप्रपंचाधि- ष्ठानत्वात्, इदमस्तु तदवच्छेदकतामात्रमिति भावः। भ्रमविषयाणां बाधकधीबाध्यत्वमिति इदमाद्यव- च्छेदेन रजतादिकं जायत इत्यन्वयात् तादृशरजतादीनामुत्पत्तौ बाध्यत्वस्य हेतुता लभ्यते, सा च कुत इत्याकांक्षायामाह- भ्रमस्थल इति। विषयतासंबन्धेन भ्रमाधिकरण इत्यर्थः। भ्रमकाल इति । बाध्यस्य भ्रमकाले उत्पत्तिस्वीकारादित्यन्वयः। ननु किमर्थं तस्य तदा उत्पत्ति: स्वीकार्या तत्पूर्वं विद्यमानस्यैव भ्रमे भानं बाध्यत्वं चास्तु इत्यत आह- तस्येति। भ्रमविषयस्येत्यर्थः । प्रातीतिकत्वेन - प्रतीतिप्रयोजकत्वेन , प्रतीतिसमकालत्वेनेति यावत्। प्रतीतिनिर्वाहानुरोधेन उपगम्यमानस्य प्रतीते: पूर्वं विद्यमानत्वे प्रमाणा- भावात्। न च प्रतीतिपूर्वमविद्यमानत्वे इन्द्रियसन्निकर्षासंभवात् प्रतीतिरेव न स्यादिति वाच्यम्। तदानीमुत्पन्नाविद्यावृत्त्यैव प्रतीतिनिर्वाहात्। व्यावहारिकविषयकप्रत्यक्षरूपान्त:करणवृत्त्यात्मकप्रतीति प्रत्येव इन्द्रियसन्निकर्षस्य कारणत्वादिति भावः। अधिकमन्यत्रानुसन्धेयम्। शंकते- नन्विति। एकेनैव तादात्म्येनेति। तादात्म्यद्वयाङ्गीकारे गौरवादिति भावः। आकारद्वय इति । अनुव्यवसायनिष्ठे इदं रजतं जानामि इत्याकारकत्व, रजतमिदंजानामीत्याकारकत्वैतदुभयस्मिन् । चर्मणि द्वीपिनं हन्तीत्यादिवत् वक्ष्य- माणभानान्वयिप्रयोजकत्वं सप्तम्यर्थः । न च तादात्म्यस्यैकत्वे आकारद्वयनिर्वाहो न भवतीति वाच्यम्। एकस्यैव तादात्म्यस्य उभयानुयोगिकत्वोभयप्रतियोगिकत्वस्य घटपटयो:परिवृत्त्य स्थापनस्थले संयोग- स्येवोपगमादिति भावः । परस्परं प्रति = इदंप्रति रजतस्य रजतं प्रति इदम: । तादात्म्यद्वयं- इदमवच्छिन्न- चिदनुयोगिकरजतप्रतियोगिकतादात्म्यं, रजतावच्छिन्नचिदनुयोगिकेदंप्रतियोगिकतादात्म्यं चेति तादात्म्य. द्वयम्। मानाभाव इति। आकारभेदोपपत्त्यर्थं हि तादात्म्यभेदाङ्गीकारः, तदुपपत्तिश्च विनैव तादात्म्य- भेदाङ्गीकारं संभवतीति न तादात्म्यभेदे मानमस्तीत्यभिमानः। अभिमानं निराकरोति नेति । आकारभेदानु- पपत्तेरिति । तादात्म्यस्यैकत्वे इदं रजतमिति रजतमिदमिति ज्ञानयो: य: आकारभेद: तदसंभवादिति भावः। कुत इत्यत आह- आकारो हीति। मिथो वैलक्षण्यमिति। परस्परभेदसाधकः परस्परावृत्तिधर्म इत्यर्थः। तच्च-वैलक्षण्यं च। विभिन्नविषयत्वरूपमिति । स्वाविषयविषयकत्वमित्यर्थः । विषयस्यापि विषयिता- 54 अद्वैतसिद्धि: सव्याख्या . लघुचन्द्रिका विषयिताविशेषमात्रम्, तथा सति बहिर्विषयमात्रलोपापत्त्या साकारवादापत्तेः । तदुक्तमुदयना चार्यादिभि:-'अर्थेनैव विशेषो हि निराकारतया धिया' मिति । अर्थेन ज्ञानादत्यन्तभिन्नेन घटादि रूपेण विषयेणाभिन्नो धियां विशेष: । निराकारतया ज्ञानधर्मरूपाकारेण घटादिना विषयितास्थानीयेन हीनतया। तथाच घटादिकं विषयितास्थानीयो ज्ञानधर्मो ज्ञानात् भिन्नाभिन्नतया बौद्धैर्यदुच्यते, तथा न; किन्तु ज्ञानादत्यन्तभिन्नम्, तथैवानुभवादिति भावः। तथाचेदंप्रतियोगिकरजतप्रतियोगिक तादात्म्ययोर्भिन्नयोराकारयोरुत्पत्तिरावश्यकी। किंच 'इदं रजत'मित्यादिधीस्थले रजततादात्म्य विषयत्वं इदंविषयत्वेनावच्छिन्नम्, इदंतादात्म्यविषयत्वं च रजतविषयत्वेनावच्छिन्नमित्याकारद्वयं प्रतीयत इत्युक्तम्। तच्च तादात्म्यस्यैकत्वे नोपपद्यते। रजततादात्म्यादिविषयताया इदंविषयताव - च्छेद्यत्वे रजतादिविषयताया अपीदंविषयतावच्छेद्ये विशेषणत्वादिदंविषयतावच्छेद्यत्वेन नेदंता - प्रकाश: । । संबन्धेन ज्ञानसंबन्धित्वादिति भावः । ननु विषयिताविशेषादेव ज्ञानवैलक्षण्यमस्तु, किं विषयवैलक्षण्येने. त्यत आह नत्विति। मात्रपदेन विषयव्यवच्छेदः । कुत इत्यत आह- तथा सतीति । ज्ञानानां वैलक्षण्यस्य विषयिताविशेषमात्ररूपत्वे सतीत्यर्थः । बहिर्विषयमात्रेति । बाह्यविषयसामान्येत्यर्थः। लोपापत्त्येति । अयं घट: अयं पट: इत्यादिज्ञानानां वैलक्षण्यसिद्ध्यर्थं हि तेषां विषया: परस्परं भिन्ना घटपटादिरूपा अभ्युप- गम्यन्ते, विषयिताविशेषैरेव ज्ञानवैलक्षण्यसिद्धौ कृतं विषयैरिति भावः । साकारवादापत्ते:- ज्ञानानां साकारत्ववादापत्तेः । नीलोऽयं पीतोऽयमित्यादौ नीलपीतादिकं ज्ञानस्यैव आकारविशेष इति बौद्धमतम् । न च तदन्यैरभ्युपगम्यत इति भावः । ज्ञानाद्भिन्नेनैव विषयेण ज्ञानवैलक्षण्यमित्यत्र उदयनाचार्यादिसंमति माह- तदुक्तमिति। अर्थेनेवेत्यादेरर्थमाह- अर्थेनेत्यादिना । विषयेण अभिन्न इति । ततश्च अर्थशब्दो विषयपरः। तृतीया च धान्येन धनवानित्यादाविव अभेदपरेति भावः। विशेष इति । वैलक्षण्यमित्यर्थः । विषयैरेव ज्ञानवैलक्षण्यं कुत इत्यत आह- निराकारतयेति । विषयितास्थानीय इति । अनेन विषयिता बौद्धमते नाभ्युपगम्यत इत्युक्तं भवति । ज्ञानधर्म इति । तादात्म्येनेत्यादिः । भिन्नाभिन्नतयेति । आकारस्य ज्ञानादत्यन्तं भिन्नत्वे अभिन्नत्वे वा तादात्म्येन ज्ञानधर्मत्वासंभवादिति भावः । ज्ञानादत्यन्तभिन्नमिति अत्र प्रमाणमाह-तथैवेति । ज्ञानादत्यन्तभिन्नत्वेनैवेत्यर्थः । अनुभवादिति। न च अनुभवापलापो युक्त इति भाव: । प्रकृतमुपसंहरति तथा चेति। विषयस्य ज्ञानवैलक्षण्यरूपत्वसिद्धौ चैत्यर्थः । इत्थं तादात्म्यद्वयानु- पगमे ज्ञानद्वयवैलक्षण्यानुपपत्तिमुक्त्वा परस्पराध्यासरूपस्य एकस्यैव ज्ञानस्य आकारद्वयानुपपत्तिमाह- किंचेति। रजततादात्म्यविषयत्वमिति । निरूपितत्व संबन्धेन रजतविषयताविशिष्ट तादात्म्यविषयत्व. मित्यर्थः। इदंतादात्म्यविषयत्वमिति। निरूपितत्वसंबन्धेन इदविषयताविशिष्टं तादात्म्यविषयत्वमि- त्यर्थः । इत्याकारद्वयमिति। इति हेतोः अनुव्यवसायस्य आकारद्वयमित्यर्थः । इत्युक्तमिति। पूर्वं तथाही. त्यादिनेति भावः। तच्चेति । आकारद्वयनिर्वाहकं उक्तविषयताद्वयं चेत्यर्थः। नोपपद्यत इति । कुत इत्यत आह- रजतेति । रजततादात्म्यादिविषयताया:= रजतविषयताविशिष्टतादात्म्यादिविषयतायाः। । - - प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 55 लघुचन्द्रिका दात्म्यादिविषयतावच्छेदकत्वसंभव:, अवच्छेद्ये विशेषणीभूतायामिदंविषयतायामवच्छेदकत्वा संभवात्। नच-'रजतमिदंजानामी'त्यादिप्रत्यये रजतादिविषयतावच्छिन्नत्वमिदंविषयताविशिष्टे तादात्म्यविषयत्वे न भाति, किन्तु केवल इति- वाच्यम्; तथा सति विशेषणविषयत्वे विशेष्य विषयतावच्छिन्नत्वस्यासिद्भ्यापातात्। नहि तदनुभव: पृथगस्ति। नच तदसिद्धमेव; सर्वानुभव सिद्धत्वात् । ननु- आस्तामिदमादिविषयत्वरजतादिविषयत्वयो: परस्परावच्छिन्नत्वम्- इति प्रकाशः । रजतादिविषयताया अपीति। अस्य च इदं विषयतावच्छेद्यत्वेनेत्यनेनान्वयः। रजतविषयताया इदंविषयतावच्छेद्यत्वे हेतु: विशेषणत्वादिति। असति बाधके यादृशविशेषणविशिष्टं यदवच्छेद्यं तादृश विशेषणमपि तदवच्छेद्यमिति भावः। नेदंतादात्म्यादिविषयतावच्छेदकत्वसंभव इति । रजतविषयताया इत्यनुषङ्गः । कुत इत्यत आह अवच्छेद्ये विशेषणीभूतायामिति। अवच्छेद्यं इदंविषयताविशिष्टतादात्म्य- विषयत्वं, तत्र विशेषणीभूतायामित्यर्थः। इदंविषयतायामिति। स्वावच्छेदकीभूतायामित्यादिः। अवच्छेदकत्वासंभवादिति । स्वावच्छेदकं प्रति स्वस्य अवच्छेदकत्वाङ्गीकारे स्वनिरूपितावच्छेदकत्व स्वनिरूपितावच्छेद्यत्वयोरेकत्रापात:स्यात्, स च विरुद्ध इति भावः। न च रजतविषयताया इदंविषयताव- च्छेदकत्वाभावेऽपि इदंविषयताविशिष्टतादात्म्यविषयतावच्छेदकत्वमस्तु, तादात्म्यविषयताया: स्वाव - च्छेदकत्वाभावादिति शंक्यम्। विशेषणविषयतावच्छेदकत्वाभावे विशिष्टविषयतां प्रत्यपि अवच्छेदक त्वासंभवादिति भावः । न च प्रकारतारूपं रजतविषयत्वं विषयतारूपेदंविषयतावच्छिन्नं, विशेष्यतारूपं रजतविषयत्वं च प्रकारतारूपेदंविषयताया अवच्छेदकं संभवति स्वावच्छेद्यावच्छेद्यत्वस्य स्वस्मिन् अनापातादिति वाच्यम्। प्रकारतात्वविशेष्यतात्वरूपातिरिक्तोपाधीनां निराकरिष्यमाणत्वादिति ध्येयम्। रजतविषयतायाः इदंविषयतावच्छेदकत्वासंभवेऽपि इदंतादात्म्यविषयतावच्छेदकत्वमस्त्विति शंकते- नचेति । केवल इति। तादात्म्यविषयत्वे रजतविषयतावच्छिन्नत्वं भातीत्यनुषङ्गः । अनुव्यवसाय इति शेषः । क्वचित् इदमुपलक्षिततादात्म्यविषयकबुद्धेरप्युत्पत्तिसंभवादिति भाव: । समाधत्ते- तथासतीति । विशेषणविषयत्वे। तादात्म्यं प्रति विशेषणीभूतं यत् इदं तद्विषयत्वे इत्यर्थः । विशेष्यविषयतावच्छिन्न- त्वस्य । रजतमिदमिति बुद्धौ विशेष्यभूतं यद्रजतं तद्विषयतावच्छिन्नत्वस्य । असिद्ध्यापातादिति। साध- काभावादिति भावः । ननु तादात्म्यमविषयीकृत्य विशेष्यतया रजतं, विशेषणतया चेदंपदार्थं अवगाह मानाया बुद्धेरुत्पत्त्या तया तत्सिद्ध्यतीत्यत आह- नहीति। तदनुभव:- विशेषणविषयत्वे विशेष्यविषय- तावच्छिन्नत्वानुभवः। पृथगिति। रजतमिदं जानामीत्यनुभवाद्भिन्न इत्यर्थः। ततश्च तादात्म्याविषयकेदं- विषयक बुद्धेरेवाभावान्नेदंविषयत्वे रजतविषयतावच्छिन्नत्वस्य अन्यस्मादनुभवात्सिद्धिसंभव इति भावः। अत्र इष्टापत्तिं शंकते- न चेति। समाधत्ते- सर्वानुभवसिद्धत्वादिति। तथा च इष्टापत्तौ अनुभवविरोधापात इति भावः। तादात्म्यद्वयोपगमे तु नेयमनुपपत्तिः। रजतप्रतियोगिकेदमनुयोगिकतादात्म्यस्य इदंप्रतियोगि- करजतानुयोगिक्तादात्म्यस्य च भिन्नत्वेन तद्विषयतयोर्भेदात् तत्तन्निरूपितेदंविषयतयो रजतविषयतयोश्च । ।

56 अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका चेन्न। प्रसिद्धावच्छेदकस्य मूलादेस्तदवच्छिन्नसंयोगाद्यवच्छिन्नत्वाननुभवेन विषयत्वयोरपि परस्प. रावच्छिन्नत्वाकल्पनात्। दृष्टान्तानुसारेणैव कल्पनात्। नच मूलादिनिष्ठावच्छेदकत्वाद्विलक्षणं विषयत्वनिष्ठमवच्छेदकत्वमिति-वाच्यम्; विलक्षणत्वासिद्धेः। मूलादिनिष्ठावच्छेदकताजातीय- स्यैवावच्छेदकत्वस्य विषयत्वे अनुभवात्। विषयता हि विषयेषु ज्ञानस्य तादात्म्यम्, नतु वृत्तेराकाराख्यसंबन्धः । वृत्तिं विनापि सुखादेश्चिद्रूपज्ञाने विषयत्वानुभवात् । अत एव ज्ञानं चिदेव, नतु वृत्तिः। तथाचैकवृक्षादिनिष्ठसंयोगतदभावयो: अग्रमूलाधवच्छेदेनेवैकस्यां सर्वदृश्यतादात्म्या पन्नचिद्व्यक्तौ शुक्त्यादिघटादितादात्म्यावच्छेदेन रजतादितादात्म्यतदभावयोरुपपादनार्थमवच्छेद- प्रकाशः . . भेदात्। अथ वा तादात्म्यभेदे भिन्नतादात्म्यप्रतियोगित्वानुयोगित्वोपहितरूपेण इदमो रजतस्य च भेदे परस्परभिन्नमेव अवच्छेद्यावच्छेदकभावापन्नविषयतात्रिकद्वयं आकारभेदनिर्वाहकमिति नानुपपत्तिलेशोऽ पीति भावः। शङ्कते नन्विति । परस्परावच्छिन्नत्वमिति । तथा च तादात्म्यभेदाकल्पनाल्लाघवं, आकार द्वयनिर्वाहश्चेति भावः । समाधत्ते नेत्यादिना । परस्परावच्छिन्नत्वाकल्पनादिति । ननु मूलादेस्तदवच्छिन्न- संयोगाद्यवच्छिन्नत्वाभावेऽपि विषयत्वयोः परस्परावच्छिन्नत्वमास्तामित्यत आह- दृष्टान्तेति। दृष्टान्ते क्वचिदप्यदृष्टस्य कल्पनमनुचितमिति भावः। विषयत्वनिष्ठावच्छेदकत्वं मूलादिनिष्टावच्छेदकत्वा. द्विलक्षणं, अत: संभवति विषयत्वयो: परस्परावच्छिन्नत्वमिति शङ्कते- नचेति । समाधत्ते- विलक्षणत्वा- सिद्धेरिति। वैलक्षण्यसाधकाभावादिति भावः। प्रत्युत तयोरवच्छेदकत्वयोरेकजातीयत्वे च अस्ति साधकमित्याह- मूलादीति। ननु विषयता नाम अन्त:करणवृत्तिरूपज्ञानस्य विषयेषु व्याप्यवृत्तिराका- राख्य: संबन्ध: अतिरिक्त: नतु संयोगजातीयः, संयोगस्य अव्याप्यवृत्तित्वात् आकारस्य व्याप्यवृत्तित्वा- दित्यत आह- विषयताहीति । विषयेषु - विषयनिष्ठम् । ज्ञानस्य- चिद्रूपस्य । नत्विति। कुत इत्यत आह- वृत्तिं विनापीति। चिद्रूपज्ञान इति। साक्षिरूप इत्यर्थः । साक्षिनिरूपितेति यावत्। विषयत्वानु- भवादिति । ततश्च वृत्तेरभावेऽप्यनुभूयमानविषयत्वस्य वृत्तिसंबन्धरूपता न सम्भव तीति भावः । अत एव सुखस्य वृत्तिं विनाऽपि ज्ञानविषयत्वानुभवादेव। नतु वृत्तिरिति । वृत्तेर्ज्ञानत्वे सुखस्य तद्विषयत्वासंभवेन तस्य ज्ञानविषयत्वानुभवबाधापातादिति भावः। ननु चिद्रूषज्ञानतादत्म्यस्यैव विषयत्वेऽपि न तस्य संयोगजातीयत्वम्। किं च इदं रजतमिति विशिष्टज्ञानविषयते इदंरजतनिष्ठे परस्परं व्यधिकरणे। विशिष्ट ज्ञानस्य समूहालम्बनतो वैलक्षण्यसिद्ध्यर्थं तदीयविषयतयोरवच्छेद्यावच्छेदकभाव उपेयते। संयोगा ग्रयोस्तु नैवं, किन्तु समानाधिकरणयोस्तयोरेकस्मिन् वृक्षे संयोगाभावेन सहवृत्तौ विरोधप्रसक्तौ तत्परिहाराय स उपेयते। अतः कथं सयोगनिरूपितावच्छेदकताजातीयत्वं विषयतानिरूपितावच्छेदक- ताया इत्यत आह- तथा चेति। चिद्रूपज्ञानतादात्म्यस्य विषयतारूपत्वे चेत्यर्थः। एकेत्यादि । अग्रमूला द्यवच्छेदेनेति एकवृक्षादिनिष्ठेत्यत्रा न्वेति । तथा च अग्रावच्छेदेन बृक्षनिष्ठः संयोगः, मूलावच्छेदेन तस्मिन्नेव वृक्षे वर्तमान: संयोगाभाव इत्यर्थः । दान्तिकमाह- सर्वदृश्येति । तादात्म्यापनेति। सर्वेषां - - - प्रकाशव्याख्यासहितलघुचन्द्रिकायुता . लघुचन्द्रिका कत्वस्वीकारेण तादात्म्यरूपविषयत्वे मूलादिनिष्ठसंयोगाद्यवच्छेदकत्वजातीयस्य विषयत्वावच्छे. दकत्वस्य संभवेन गौरवापादकस्य विलक्षणावच्छेदकत्वस्य वक्तुमशक्यत्वात् मूलादिनिष्ठावच्छे दकत्ववदेव विषयत्वनिष्ठावच्छेदकत्वे अनुभवाव्यवस्था। अथ–संयोगादेरवच्छेदकतासंबन्धेनो- त्पत्ती तादात्म्यसंबन्धेन मूलादेर्हेतुत्वात् संयोगादेरेव मूलाधवच्छिन्नत्वम्, न विपरीतम्, माना भावात. विषयत्वयोस्त्वेकमेवापरत्रावच्छेदकमित्यत्र नियामकाभाव--- इति चेन्न। व्यावहारिकस्ये- दमादे; स्वावच्छिन्नसंयोगादौ यत् कारणत्वं क्लृप्तं तत् अवच्छेदकतासंबन्धेन स्वावच्छिन्नसामा. न्यस्योत्पत्तौ; तथाच रजतादितत्तादात्म्ययोरपि तत्तदिदमर्थव्यक्तिभिरवच्छिन्नत्वात्तयोरुक्तसंबन्धेनो- त्पत्तौ तद्व्यक्तेस्तादात्म्येन हेतुत्वम्, अन्त्यावयविनामपि घटादीनां तन्मध्यस्थजलादिवायु प्रकाश: । । दृश्यानां चिति तादात्म्येन कल्पितत्वाच्चित: सर्वदृश्यतादात्म्यापनत्वं बोध्यम् । शुक्त्यादीति। शुक्त्यादि- तादात्म्यावच्छेदेन चिति रजतादि तादात्म्यं, घटादितादात्म्यावच्छेदेन तत्रैव रजतादितादात्म्याभाव इत्यर्थः । तादात्म्यरूपविषयत्व इति। चिनिष्ठविषयतादत्म्यरूपविषयत्व इत्यर्थः । अनेन च इदंतादात्म्य- रूपेदं विषयत्वस्य रजततादत्म्यरूपरजतविषयत्वस्य च चिद्रूपैकाधिकरणवृत्तित्वं उपपादितम्। न च पूर्व विषयनिष्ठं चिद्रूपज्ञानतादात्म्यं विषयत्वमित्युक्तं, इदानीं च चिद्रूपज्ञानवृत्तिविषयतादात्म्यं विषयत्वमुच्यते, कथमिदं घटतामिति शङ्कयम् । परस्पराध्यासानुरोधात् विषयेषु चिद्रूपज्ञानतादात्म्यं यद्यपि वर्तते, तथापि तन्न विषयत्वेन विवक्षितं, तस्य संयोगसाम्यासंम्भवात्, किन्तु चिद्रूपज्ञाननिष्ठं विषयतादात्म्यमेवेत्यभिप्रा. यात् । गौरवापादकस्येति । क्लृप्तजातीयस्याङ्गीकारे बुद्धिलाघवम् । विजातीयस्य कल्पने बुद्धिगौरवमिति भावः। अनुभवाव्यवस्थेति । अनुभवानुरोधेन स्वाश्रयानवच्छेदकीभूतं यत् स्वाश्रयावच्छेद्यं तन्निरूपित- त्वनियम इत्यर्थः। विषयत्वसंयोगयो:प्रकारान्तरेण वैषम्यं शङ्कते- अथेति। हेतुत्वादिति। अन्यथा मूलावच्छिन्नसंयोगस्य अग्रावच्छेदेनाप्युत्पत्तिप्रसङ्गादिति भावः। न विपरीतमिति। न संयोगावच्छिन्नत्वं मूलस्येत्यर्थः । संयोगस्य मूलं प्रत्यकारणत्वादिति भावः। नियामकाभाव इति । अवच्छेदकतासंबन्धेन एकविषयत्वोत्पत्ति प्रति अपरविषयतायास्तादत्म्येन अकारणत्वादिति भावः। समाधत्ते नेति । संयोग स्थलीयनियामकं अत्रापि संभवतीत्याह- व्यावहारिकस्येति । दशावच्छेदेन पटे वायुसंयोगस्थले इदंपदेन दशाया: परिग्रहे तस्या: स्वावच्छिन्नवायुसंयोगं प्रतीव स्वावच्छिन्नवायुविभागं प्रत्यपि हेतुत्वं, ततश्च दशायां अवच्छेदकतासंबन्धेन वायुसंयोगं प्रति तस्याः तादात्म्येन कारणत्वमिव अवच्छेदकतासंबन्धेन स्वस्मिन् वायुविभागोत्पत्तिं प्रत्यपि एकमेव कारणत्वं स्वीक्रियते । अन्यथा विभागादिकं प्रति पृथक्- कारणताकल्पने गौरवात् । ततश्च स्वावच्छिन्नसामान्यस्य अवच्छेदकतासंबन्धेन उत्पत्तौ तादात्म्येन स्वं कारणमिति कार्यकारणभावो निष्पन्न इति भावः । तथाचेति । स्वावच्छिन्नसामान्यस्योत्पत्तिं प्रति स्वस्य कारणत्वसिद्धौ चेत्यर्थः। अवच्छिन्नत्वादिति । रजतावयवरूपेदमवच्छेदेन चैतन्ये रजतस्य तादात्म्ये नोत्पत्ते: रजतस्य तत्तादात्म्यस्य च रजतावयवरूपेदमर्थावच्छिन्नत्वमिति भावः। तयोः- रजततत्तादा- - 58 अद्वैतसिद्धिः : सव्याख्या लघुचन्द्रिका संयोगाद्यवच्छेदकत्वानुभवात्तेष्वपि तथैव भ्रमविषयावच्छेदकत्वसंभव:, गुणकर्मादीनां तु तादृश हेतुत्वस्याक्लृप्तत्वेऽपि तद्विशेष्यकभ्रमस्थले विशेषणतत्संसर्गयोर्विशेष्यनिष्ठावच्छेदकतासंबन्धे नोत्पत्तौ विशेष्यनिष्ठेन तत्संबन्धेन दोषाणां हेतुत्वं कल्प्यते। एवमवच्छेदकतासंबन्धेन तादात्म्य - - प्रकाशः त्म्ययोः । उक्तसंबन्धेन- अवच्छेदकतासंबन्धेन। तद्व्यक्तेः= इदमर्थरूपव्यक्तेः । ननु इदंपदार्थस्य किंचिद- वयवत्वे तस्य स्वारब्धावयवनिष्ठसंयोगादौ उक्तहेतुत्वं संभवति, तस्य घटादिरूपान्त्यावयवित्वे तत्र घटाद्यवच्छिन्नसंयोगादेरप्रसिद्ध्या न घटादेरुक्तविधं हेतुत्वमित्यत आह- अन्त्यावयविनामिति । अस्य च अवच्छेदकत्वेत्यनेनान्वयः। तन्मध्यस्थजलादिवायुसंयोगेति। तन्मध्यस्थजलादीनां वायुना संयोगे त्यर्थः। आदिपदेन क्षीरादिकं ग्राह्यम्। अवच्छेदकत्वानुभवादिति। घटे जलं वायुसंयोगीति प्रतीते: स्वाश्रयसमवायिनामिव स्वाश्रयसंयोगिनामपि संयोगादौ अवच्छेदकत्वमिति भावः। तेष्वपि अन्त्यावयविष्वपि। तथैवेति। स्वावच्छिन्नसामान्यस्य अवच्छेदकतासंबन्धेनोत्पत्तौ स्वस्य तादात्म्येन क्लृप्तकारणताबलेनैवेत्यर्थः। भ्रमविषयावच्छेदकत्वेति । घटे जलमुष्णमिति भ्रमस्थले घटमध्यस्थजले आरोपितं यदौष्ण्यं तस्यापि अवच्छेदकतासंबन्धेन घटे उत्पत्तिं प्रति घटस्य तादात्म्येन कारणत्वमिति भावः। ननु गुणकर्मादीनां संयोगाद्याश्रयसमवायित्वस्य संयोगाद्याश्रयसंयोगित्वस्य च अभावात् तदवच्छिन्नसंयोगाद्युत्पत्तेरप्रसिद्धत्वात् न भ्रमविषयावच्छेदकत्वसंभव इत्यत आह- गुणकर्मादीनामिति । तादृशहेतुत्वस्येति। अवच्छेदकतासंबन्धेन स्वावच्छिन्नोत्पत्तिं प्रति तादात्म्येन कारणत्वस्येत्यर्थः । अक्लृप्तत्वेऽपीति । अक्लृप्तत्वं अनुपदोक्तरीत्या बोध्यम्। ननु तत्र भ्रमस्यैवाभावादक्लृप्तत्वेऽपि न हानिरित्यत आह- तद्विशेष्यकभ्रमस्थल इति । गुणादिविशेष्यकभ्रमस्थल इत्यर्थः । शङ्खादिगतगुणादि विशेष्यकतादात्म्येन पीतरूपादिप्रकारकेदं पीतरूपमित्यादिभ्रमस्थल इति यावत्। गुणादिविशेषणक द्रव्यविशेष्यकभ्रमस्थले द्रव्यावयवानां कारणत्वस्य क्लृप्तत्वात् गुणादिविशेष्यकेत्युक्तम्। दूरे जलगत - शुक्लरूपे नैल्यारोपस्थलमप्युदाहरणं ग्राह्यम् । तत्संबन्धेन- अवच्छेदकतासंबन्धेन आश्रयतासंबन्धेन वा । उक्तरूपे नैल्यारोपस्थले दूरत्वरूपदोषाश्रयत्वस्यापि जलरूपे संभवात् । कल्प्यत इति । ततश्च गुणादि - विशेष्यकभ्रमस्थले तादात्म्येन गुणादे: कारणत्वाभावेऽपि दोषाणां कारणत्वसंभवान्न विशेषणत- त्संसर्गयोभ्रमविषयीभूतयोरुत्पत्त्यनुपपत्तिः। रजतादिभ्रमस्थले रजताद्युत्पत्तिं प्रति दोषाणां कारणत्वस्य क्लृप्तत्वेन न अक्लृप्तकल्पनापत्तिः। तथा च पूर्वोक्तशङ्काया इष्टापत्तिरेवोत्तरमिति भावः। यद्यपि विशेष्यस्यैव तादात्म्येन हेतुता वक्तुं शक्या, तथापि भ्रमे तद्विषये च दोषाणां हेतुत्वस्य क्लृप्तत्वात् तत्पर्यन्तानुधावनम्। ननु उक्तविधकार्यकारणभावाङ्गीकारेण इदमवच्छेदेन रजततादात्म्योत्पत्या इदंरजत मित्याकारकत्वनिर्वाहेऽपि रजतमिदमित्याकारकता न निर्वहति , अवच्छेदकतासंबन्धेन रजते इदंतादा त्म्योत्पत्तिं प्रति रजतस्य तादात्म्येन कारणत्वं न सम्भवति, रजतस्य इदम इव रजतभ्रमात्पूर्वमसिद्धत्वा दित्यत आह- एवमिति । यथा दोषाणां पृथक्कारणत्वं कल्प्यते तथेत्यर्थ: । अवच्छेदकतासंबन्धेनेति ।

59 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका स्योत्पत्तौ स्वपरिणामाव्यवहितपूर्वत्वविशिष्टमज्ञानं तादात्म्यभिन्नस्वपरिणामनिष्ठविषयतासंबन्धेन हेतुः । स्वमज्ञानं तस्य परिणामो रजतादिकं तदाकारावृत्तिश्च तदव्यवहितपूर्वत्वविशिष्टमज्ञानं रजता- द्युत्पत्तेरव्यवहितपूर्वक्षण एवास्तीति रजताद्युत्पत्तिक्षण एवेदमादिविशेष्यतादात्म्यं रजताद्यवच्छेदेने- दमाद्याकारमनोवृत्तितादात्म्यं रजताकाराविद्यावृत्त्यवच्छेदेनोत्पद्यते। स्वमज्ञानं तत्परिणामो रजता दिकं तदाकारावृत्तिश्च तन्निष्ठाविषयता ईश्वरज्ञानादेरस्तीति सा संबन्धः। स्वपरिणामे भाविनि तादात्म्यादिसंबन्धेन पूर्वमज्ञानस्यासत्त्वात् स्वपरिणामनिष्ठविषयतेत्युक्तम् । विषयतासंबन्धस्य च भाविभूतविषये ज्ञानादे: सत्त्वादुक्तविषयतासंबन्धेन भाविन्यप्यज्ञानसत्त्वम्। अत एव ज्ञायमान घटत्वरूपं सामान्यं घटवृत्त्यलौकिकमुख्यविशेष्यतासंबन्धेन प्रत्यक्षं प्रति स्वसमवायिनिष्ठविषयता - - प्रकाशः - अस्य उत्पत्तावन्वय: । तादात्म्यस्येति । रजतादिनिष्ठस्य इदमादितादात्म्यस्य रजताद्याकाराविद्यावृत्ति निष्ठस्य इदमाद्याकारमनोवृत्तितादात्म्यस्य चेत्यर्थः । स्वपरिणामेत्यादि। रजतभ्रम स्थले= रजतमिदमि- त्यत्र। स्वं शुक्त्यज्ञानं, तत्परिणाम: रजतं, तदाकारा अविद्यावृत्तिश्च, तदव्यवहितपूर्वत्वविशिष्टमज्ञानं शुक्तयज्ञानमेव, तत् रजते रजतभ्रमे च तादात्म्यभिन्नस्वपरिणामनिष्ठविषयतासंबन्धेन वर्तते। तादत्म्यभिन्ना या स्वपरिणामनिष्ठविषयता ईश्वरीयमायावृत्तिरूपज्ञानविषयता, अत्रापि स्वपरिणाम: रजतं तद्भमश्च। तनिष्ठत्वं उक्तविषयतायाः सम्भवतीति तेन संबन्धेन रजते तद्भ्रमे च शुक्त्यज्ञानस्य सत्वात् रजते अवच्छेदकतासंबन्धेन इदंतादात्म्यं तेनैव संबन्धेन रजतमित्याकारकाविद्यावृत्तौ इदमाकारमनोवृत्ति तादात्म्यं च उत्पत्तुमर्हति। अज्ञानस्य भ्रमात्पूर्वसिद्धत्वाच्च तस्य कारणत्वमपि सम्भवतीति भावः । अज्ञाने स्वपरिणामाव्यवहितपूर्वत्वविशेषणस्य प्रयोजनं दर्शयति-अव्यवहितपूर्वक्षण एवास्तीति। एतद्विशेषणा - नुपादाने अज्ञानस्यानादित्वात् भ्रमात्पूर्वमेव रजताद्यवच्छेदेन इदमादितादात्म्यस्य उत्पत्तिः स्यादिति भावः। ननु विषयतासंबन्धेन अज्ञानं न प्रातिभासिकरजतादौ वर्तते, तस्य उत्पत्ते:पूर्वमसत्वात् अज्ञानाविषयत्वाच्चेत्यत आह- ईश्वरज्ञानादेरिति । विषयतायां स्वीयत्वानिवेशात् ईश्वरीयज्ञानविषयता- विषयतापदेन उपात्तुं शक्यत इति भावः। ननु तादात्म्यं जनकतावच्छेदकसम्बन्धत्वेन कुतो न निवेशित- मित्यत आह-स्वपरिणाम इति । स्वं-अज्ञानम् । भाविनीति हेतुगर्भम् । अज्ञानस्यासत्वादिति। वस्तुनः स्वोत्पत्तेः प्राक् असत्त्वेन तत्र अज्ञानतादत्म्यासम्भवादिति भावः । ननु भाविनि विषयताया अप्यसम्भवात् कथं तत्र अज्ञानसत्वमित्यत आह- विषयतासंबन्धस्येति । ज्ञानादेविषयतासंबन्धस्येत्यन्वय:। आदिपदेन इच्छादिकं ग्राह्यम् । भाविनि भूते च ज्ञानविषयताया अभावे भाविभूतवस्तुविषयकं ज्ञानं न स्यादिति भावः। उक्तेति । स्वपरिणामनिष्ठेत्यर्थः। ज्ञानादेविषयतासंबन्धस्य भाविभूतवस्तुनिष्ठत्वे तार्किकसंमति माह- अतएवेति। ज्ञायमानघटत्वरूपमिति। इन्द्रियसन्निकृष्टविशेष्यकज्ञानप्रकारीभूतघटत्वरूपमित्यर्थः । स्वसमवायीति तादृशघटत्वं, तत्समवायिन: भूतभाविवर्तमानरूपा: सर्वे घटाः । ईश्वरज्ञानीया। जीवज्ञानीयाया असम्भवात् । ननु इदमवच्छिन्नचिद्रूषाधिष्ठाननिष्ठस्य रजतस्य तादात्म्यरूप- है। स्वं । तनिष्ठविषयता FDMRAURAHASAN 60 अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका संबन्धेन भाविभूतनिष्ठेन हेतु'रिति तार्किका वदन्ति । रजतादितत्संसर्गयोरिदमाधवच्छिन्नत्वात्त - दीयं चित्तादात्म्यरूपं विषयत्वमपि तथा, इदमादिविषयत्वावच्छिन्नं च संभवति। इदमादिविषय त्वस्य तु रजतादिप्रतियोगिकतादृशसंसर्गविषयत्वावच्छिन्नत्वे मानाभावात् ‘रजतमिद' मिति द्वितीयाकारसिद्ध्यर्थं रजतादितद्विषयत्वावच्छेदेन तादात्म्यस्योत्पत्ति: स्वीक्रियते। तस्य च तादा त्म्यस्येदमादिप्रतियोगिकत्वसिद्धये प्रतियोगितासंबन्धेन तादात्म्यस्योत्पत्तौ स्वाश्रयतावच्छेदकत्व संबन्धेनोक्ताज्ञानस्य हेतुतान्तरं कल्प्यते। तथाच भ्रमपूर्वसिद्धं यदिदमादिकं तद्विषयत्वं च तदेव रजतादौ तत्तादात्म्ये तयोर्विषयत्वे च तावदुपहितरूपेणावच्छेदकम्। प्रकाशः तत्संबन्धस्य च इदमवच्छिन्नत्वसिद्धावपि रजतविषयतायाः तादात्म्यविषयतायाश्च इदंविषयतावच्छि- नत्वमसिद्धमित्यत आह- रजतादीति । तदीयं= रजत तत्संर्गीयम्। चित्तादात्म्यरूपमिति। वृत्त्यवच्छिन्न- चिद्रूपं यज्ज्ञानं तत्तादात्म्यरूपमित्यर्थः। तथेति । इदमवच्छिन्नमित्यर्थः। यस्य वस्तुनो यदवच्छिन्नत्वं तत्संबन्धस्यापि तदवच्छिन्नत्वनियमात्। अत एव कपिसंयोगादेरग्राद्यवच्छिन्नत्वात्तत्सम्बन्धस्य समवाय- रूपस्य तादात्म्यरूपस्य वा अग्राद्यवच्छिन्नत्वम्। सम्भवतीति । तस्य इदमवच्छिन्नत्वात् । यस्य यदवच्छे. दकत्वं तत्संबन्धस्यापि तदवच्छेदकत्वमिति नियमादिति भावः। एवं च रजतभ्रमस्य इदंरजतमित्याकार कतानिर्वाहः। रजतमिदमित्याकारनिर्वाहार्थं तादात्म्यान्तरं स्वीकार्यमित्याह-इदमादीत्यादिना। ननु इदंविषयत्वस्य क्लृप्तरजतप्रतियोगिकतादात्म्यविषयत्वावच्छिन्नत्वेनैव तादृशाकारनिर्वाहसिद्धेः किमिति तादात्म्यान्तरस्वीकार इत्यत आह- इदमादिविषयत्वस्येति । इदं रजतमित्याद्याकारनिर्वाहकस्येत्यादिः । रजतादिप्रतियोगिकतादृशसंसर्गेत्यादि । अस्यापि तादृशाकारनिर्वाहकेत्यादिः। मानाभावादिति । तत्प्रयोजककार्यकारणभावाभावादिति भावः। तादात्म्यस्येति । इदं प्रतियोगिकरजतानुयोगिकतादात्म्या. न्तरस्येत्यर्थः। उत्पत्तिरिति । चितीत्यादिः । स्वीक्रियत इति । इदमवच्छिन्नचिदनुयोगिकरजतप्रतियोगिक तादात्म्यनिर्वाह्याभ्यां इदंविषयत्वावच्छिन्नरजततत्तादात्म्यविषयत्वाभ्यां द्वितीयाकारानिर्वाहादिति शेषः । ननु अवच्छेदकतासंबन्धेनेत्याधुक्तरीत्या अज्ञानस्य रजताद्यवच्छेदेन तादात्म्योत्पत्तौ कारणत्वेन तादृश- तादात्म्योत्पत्तिनिर्वाहेऽपि तादृशतादात्म्यस्येदंप्रतियोगिकत्वे किं नियामकमित्यत आह- तस्य चेति। स्वाश्रयेत्यादि । स्वं = अज्ञानं, तदाश्रयता इदमवच्छिन्नचिनिष्ठा तदवच्छेदकता इदंपदार्थनिष्ठेति तत्र प्रतियोगितासम्बन्धेन तादात्म्यसिद्धिः। उक्ताज्ञानस्येति । स्वपरिणामाव्यवहितपूर्वत्वविशिष्टाज्ञानस्येत्यर्थः। तथाचेति । तादात्म्यद्वयोपगमे चेत्यर्थः । तत्तादात्म्ये= रजततादात्म्ये । तयोः = रजततत्तादात्म्ययोः । ननु इदमादेरनुपहितरूपेण अवच्छेदकत्वसम्भवे तावदुपहितरूपेणेति कुत इति चेदुच्यते । मूल संयोगाद्यो: परस्परानवच्छिन्नत्वनियमवत् मूलत्वसंयोगत्वादीनां परस्परावच्छिन्ननिरूपितावच्छेदकतानबच्छेदकत्व- नियमोऽपि वर्तते । मूलत्वस्य मूलावच्छिन्नसंयोगनिरूपितमूलनिष्ठावच्छेदकतावच्छेदकत्वमेव, न तु मूलावच्छेदकनिरूपितावच्छेदकतावच्छेदकत्वम् । एवं संयोगत्वमपि संयोगावच्छिन्ननिरूपितसंयोग ।

प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 61 लघुचन्द्रिका यत्तु भ्रमकाले इदमर्थस्य तादात्म्यं तत्प्रतियोगित्वोपहितमिदमादिकं च जायते यच्च तयोर्विषयत्वं, तानि तदुपहिततादृशरजतादिनावच्छिद्यन्ते। एवंच मूलसंयोगादीनामिव परस्परानवच्छिन्नत्वनियमो न व्याहतः, न वा परस्परभिन्नसर्वविषयकत्वरूप आकारयोर्भेदनियमो व्याहतः । इदं रजत'मित्या. प्रकाश: निष्ठावच्छेदकतावच्छेदकमेव, न तु संयोगावच्छेदकनिरूपितावच्छेदकतावच्छेदकं इति द्वितीयनिय माशयः । तथा च भ्रमपूर्वसिद्धेदम: इदंत्वरूपेण रजतादिकं प्रति अवच्छेदकत्वस्य भ्रमकालोत्पन्नरजत - तादात्म्योपहितेदम: इदंत्वेनैवरूपेण रजताधवच्छिन्नत्वस्य च उपगमेऽपि न प्रथमनियमस्य भङ्गप्रसङ्गः। रजताद्यवच्छेद्यस्येदमः, रजताद्यवच्छेदकादिदम:तादात्म्यरूपोपाधिभेदेन भिन्नत्वात्। अथापि इदंत्वस्य रजताद्यवच्छेदकतावच्छेदकत्वेन, तस्यैव रजतावच्छेद्यतावच्छेदकत्वे च उपगम्यमाने द्वितीयनियम भङ्ग:स्यादिति तावदुपहिरूपेणेत्युक्तम्। रजतादिरूपतत्तदुपाध्युपहितरूपेणेति तदर्थः। रजतोपहितं इदमादिकं रजतावच्छेदकं, तत्तादात्म्योपहितं च तत् तादात्म्यावच्छेदकम्। एवं रजतविषयत्वोपहितं इदंविषयत्वं रजतविषयत्वावच्छेदकं, रजततादात्म्यविषयत्वोपहितं तत् रजततादात्म्यविषयत्वावच्छेदक- मित्यादीति यावत् । नन्वेवं रजतादेः स्वावच्छेदकतावच्छेदकतापत्तिरिति चेन्न। इदंनिष्ठावच्छेदकतायां रजतोपहितं इदं तादात्म्यसंबन्धेन अवच्छेदकम् । उपाधे: स्वविशेष्यान्वयिना अनन्वयेन अवच्छेदक . कोट्यप्रवेशात् न उपाधिभूतस्य रजतस्य स्वावच्छेदकतावच्छेदकतापत्तिः। एतादृशापत्तिवारणायैव विशिष्टरूपेणेत्यनुक्त्वा उपहितरूपेणेत्युक्तम् । एवं इदं रजतमित्यत्र इदमादेरवच्छेदकत्वमुपवर्ण्य रजतमिद- मित्यत्र रजतादेरवच्छेदकत्वमुपवर्णयति- यत्तु इत्यादिना । इदमर्थस्य तादात्म्यमिति । इदमर्थप्रतियोगिकं तादात्म्यमित्यर्थः। तत्प्रतियोगित्वोपहितमिति। तादृशतादात्म्यप्रतियोगित्वोपहितमित्यर्थः। एतद्विशेषणं च भ्रमपूर्वकालीनादिदम: भ्रमकालीनस्य तस्य भेदसिद्ध्यर्थम् । तयोर्विषयत्वमिति। तादात्म्यस्य तत्प्रतियोत्वोपहितेदमादेश्च विषयत्वमित्यर्थः। इदं रजतमित्याकारे भ्रमे भासमानाद्रजतात् रजतमिदमि- त्याकारे तस्मिन् भासमानरजतस्य भेदसिद्ध्यर्थमाह - तदुपहितेति। तादृशतादात्म्यादिना उपहितेत्यर्थः । | एवं चेति । आकारद्वये भासमानेदमर्थस्य भेदाश्रयणे चेत्यर्थः । न व्याहत इति । इदं रजतमित्यत्र अवच्छेदकीभूतेदमर्थः रजताद्युपहित: अन्यः, रजतमिदमित्यत्र रजतादिना अवच्छिद्यमान: रजतानुयोगि- कतादात्म्यप्रतियोगित्वोपहित: स: अन्य: । अतः परस्परानव च्छिन्नत्वनियमस्य न भङ्ग इति भावः । ननु इदमर्थस्य भेदोपगममात्रेण उक्तनियमनिर्वाहे सति रजतादेरप्युपाधिभेदेन भेदाश्रयणं व्यर्थमित्यत आह-न वा परस्परभिन्नेति । सर्वविषयकत्वेति । परस्परभिन्नयत्किंचिद्विषयकत्वनियमश्च इदमर्थमात्रस्य भेदोपगमे ऽपि निर्वहतीति न रजतादेरपि भेद उपगन्तव्य: स्यात्। उक्तविधसर्वविषयकत्वनियमस्तु न निर्वहतीति रजतादेरपि भेद उपगन्तव्य इति भावः। आकारयोरिति । ज्ञानाभिलापकविभिन्नानुपूर्वीकशब्दयोरित्यर्थः । भिन्नसर्वविषयकत्वेत्यत्र विषयताव्यापारनुबन्धिनी। अथवा आकारयोरित्यस्य विभिन्नानुपूर्वीकशब्दाभि . लप्यप्रत्यययोरित्यर्थः । तदभिलप्यत्वं च तज्जन्यशाब्दबोधसमानविषयकत्वम्। इदं रजतं रजतमिद - 62 अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका कारे तादृशावच्छेद्यावच्छेदकयोरेव भानेन जायमानस्य रजतप्रतियोगिकतादात्म्यस्य प्रतियोगि त्वोपहितरजतस्य तदनुयोगित्वोपहितेदमर्थस्य च भानात् रजतमिद' मित्याकारे तु जायमानस्येदं - प्रतियोगिकतादात्म्यस्य प्रतियोगित्वोपहितेदमर्थस्य तदनुयोगित्वोपहितरजतस्य चावच्छेद्यावच्छे दकतया भानेनाकारद्वयविषयाणां मिथो भिन्नत्वात्। नच- इदमाद्यवच्छेदेन जायमानतादात्म्यस्य रजतादौ प्रतियोगितासंबन्धेनोत्पत्त्या तत्रोक्तसंबन्धेनाज्ञानस्याभावात् व्यभिचार इति-वाच्यम्; रजतादेरुक्ततादात्म्यस्य प्रतियोगिताऽभावेऽपि रजतादिसंसर्गतया भानसंभवात्। नहि विशेषण विशेष्ययोः संसर्गप्रतियोगित्वानुयोगित्वे विशिष्टबुद्ध्योर्विषयौ, येनानुभवबलादेव तयोस्ते सिद्ध्यतः। अथवा रजताद्यवच्छेदेन जायमानतादात्म्यस्यापि नेदमादिप्रतियोगिकत्वम्, किंतु तत्संसर्गतया भानमात्रमतो न तादृशकार्यकारणभावाभावेऽपि क्षतिः। प्रकाश: मित्यनयो: प्रतीत्यो: विषयभेदं स्फुटयति इदं रजत मित्याकार इत्यादिना । इत्याकार इति । भ्रमात्मक- ज्ञान इति शेष:। तादृशावच्छेद्यावच्छेदकयो:= रजतादिरूपावच्छेद्येदमादिरूपावच्छेदकयोः। भानेनेति । भानस्यावश्यकतयेत्यर्थः । इदं रजतमितिशब्दजनितबोधे तथैव भानादिति भावः। अवच्छेद्यावच्छेदक- तयेति। रजतस्य अवच्छेदकत्वं, तादात्म्यप्रतियोगित्वोपहितेदमर्थस्यावच्छेद्यत्वं इति ध्येयम्। प्रतियोगितासंबन्धेन तादात्म्योत्पत्तिं प्रति स्वाश्रयतावच्छेदकत्वसंबन्धेन अज्ञानं कारणमित्यत्र व्यतिरेक - व्यभिचारं शङ्कते- न चेति। जायमानेति । चितीत्यादिः । उत्पत्येति। अन्यथा रजतप्रतियोगिकसंसर्गरूपेण तस्य इदरजतमिति भ्रमे भानासंभवादिति भावः। उक्तसंबन्धेन स्वाश्रयतावच्छेदकत्वसंबन्धेन । अज्ञानस्याभावादिति। अज्ञानोत्पाद्यं रजतादिकं न अज्ञानस्याश्रयतावच्छेदकं, रजतोत्पत्तेः प्रागाश्रयता . वच्छेदकस्य रजतस्य अभावेन तदवच्छेदेन अज्ञानस्यासत्त्वेन रजतोत्पत्तेरेवासंभवादिति भावः । समाधत्ते- रजतादेरिति। अस्य प्रतियोगिताभावेपीत्यनेनान्वयः। भानसंभवादिति। तथाच उक्तसंबन्धन अज्ञाना - भाववति रजतादौ प्रतियोगितासंबन्धेन तादात्म्यरूपकार्यस्य अनुत्पत्तेर्नव्यतिरेकव्यभिचार इति भावः । ननु | रजते तादात्म्यप्रतियोगित्वाभावे कथं तत्संसर्मतया इदं रजतमिति बुद्धौ तादात्म्यभान, रजतसंसर्गतया तादात्म्यस्य भाने विशिष्टबुद्धौ संसर्गप्रतियोगित्वानुयोगित्वयोर्विषयतया इदमर्थे तादात्म्यानुयोगित्वस्य रजते च तत्प्रतियोगित्वस्य भानेन रजते तत्प्रतियोगित्वस्यावश्यकत्वादित्यत आह- नहीति । विशेषण . विशेष्ययो: संसर्गप्रतियोगित्वानुयोगित्व इति यथाक्रम मन्वयः । तथा च विशेषणस्य संसर्गप्रतियोगित्वं विशेष्यस्य संसगीनुयोगित्वमित्यर्थः। नहीत्यस्य विषयावित्यनेनान्वयः। येन = संसर्गप्रतियोगित्वा नुयोगित्वयोर्विशिष्टबुद्धिविषयत्वेन। तयोः = विशेषण विशेष्ययोः। ते= संसर्गप्रतियोगित्वानुयोगित्वे । नन्वेवं रजतमिदमित्याकारकेऽपि भ्रमे भासमानतादात्म्यरूपसंसर्गप्रतियोगिताया अपि इदंपदार्थे भाना भावेन तत्र तदनुपगमसंभवेन तन्निर्वाहकस्य प्रतियोगितासंबन्धेनेत्यादेरुक्तकार्यकारणभावस्य कल्पनं व्यर्थ- मित्याशङ्कामिष्टापत्त्या परिहरति अथवेति । जायमानेति । चितीत्यादि:। तत्संसर्गतया = इदंपदार्थ - ।

63 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका वस्तुतस्तु दोषादिघटिता सामग्रोव रजतादिप्रातीतिकप्रतियोगि -कतादात्म्ये नियामिका, व्यावहारिकप्रतियोगिके प्रातीतिके तादात्म्ये च अज्ञानाश्रयतावच्छेदकत्वं नियामकम्। ननु- 'रजतमिद'मित्याकारसिद्धये इदमादितादात्म्योत्पत्तिस्वीकारो व्यर्थः, इदंत्वादिसंसर्गोत्पत्त्यापि तादृशाकारसिद्धेः-इति चेन्न। तादृशाकारे तादृशस्य संसर्गस्य तादात्म्यस्य वा भानमित्यत्र विनिगम- काभावात्। तस्माद्धर्मयो: संसर्गाविव धर्मिणोस्तादात्म्ये अपि प्रातीतिके जायते। तयोरिव तयोरपि सप्रतियोगिकतया प्रतीयमानत्वात् बाध्यत्वानुभवाच्च। एतेन इह रजतं ने ति बाधस्य बाध्य प्रकाश: - संसर्गतया । नेति। अस्य च क्षतिरित्यनेनान्वयः । तादृशेति। प्रतियोगितासंबन्धेनेत्यादिरूपेत्यर्थः । ननु संसर्गप्रतियोगित्वानुयोगित्वयोर्विशिष्टबुद्धिविषयत्वमनुपदं व्यवस्थाप्यते। ततश्च रजतमिदमिति भ्रमविष- यसंसर्गभूततादात्म्यप्रतियोगित्वस्य इदमि आवश्यकतया तत्सिद्ध्यर्थमुक्तकार्यकारणभाव: कल्पनीय एवेति रजते उक्तरीत्या व्यभिचारो दुर्वार इत्यत आह वस्तुतस्त्विति । दोषादिघटितेति । प्रातीतिकनिष्ठ- प्रतियोगितासंबन्धेन तादात्म्यं प्रति स्वजन्यप्रकारनिष्ठविषयतासंबन्धेन दोष: कारणम्। इदं रजतमित्यत्र स्वपदेन काचादिरूपदोषस्य परिग्रहे तज्जन्यप्रकारो रजतं तन्निष्ठविषयतासंबन्धेन दोषस्य तत्र सत्त्वात् तन्निष्ठप्रतियोगितासंबन्धेन तादात्म्यं तत्र उत्पत्तुमर्हति । प्रातीतिकनिष्ठत्वानिवेशे रजतमिदमित्यत्र इदमि प्रतियोगितासंबन्धेन तादात्म्यस्योत्पत्त्या उक्तसंबन्धेन तत्र दोषाभावेन व्यभिचार: स्यादिति तन्निवेशः। सामग्ग्रेवेति । एवकारेण अज्ञानस्य व्यवच्छेदः । तादात्म्ये नियामिकेति । प्रतियोगितासंबन्धेन तदुत्पत्ति प्रयोजिकेत्यर्थः। व्यावहारिकप्रतियोगिक इति। व्यावहारिकनिष्ठप्रतियोगितासंबन्धेन तादात्म्यं प्रति स्वाश्रयतावच्छेदकतासंबन्धेन अज्ञानं कारणमित्यर्थः। प्रतियोगिताया व्यावहारिकनिष्ठत्वेन विशेषित- त्वात् रजते नोक्तरीत्या व्यभिचार इति भावः। रजतमिदमित्यत्र इदंप्रतियोगिकतादात्म्योत्पत्तिवैय्यर्थ्य शङ्कते- नन्विति । व्यर्थ इति । ननु तादृशतादात्म्योत्पत्तेर स्वीकारे तन्निर्वाह्यस्य आकारस्य सिद्धिः कथ - मित्यत आह- इदंत्वादीति। तादृशाकारेति । रजतमिदमित्याकारेत्यर्थः । ननु रजतमिदमिति शब्दस्य तादात्म्यसंबन्धेन इदंप्रकारकबोधजनकत्वेन इदंत्वप्रकारकबोधाजनकत्वात् इदंत्वप्रकारकज्ञानस्य च रजतमिदंत्ववदित्याकारकत्वेन उक्ताकारकत्वासम्भवादिदंत्वसंसर्गोत्पत्तिस्वीकारो व्यर्थः, निर्वाहकत्वादिति चेन्न। तादृशशाब्दबोधस्य इदंपदार्थरूपधर्मिपारतन्त्र्येण इदंत्वप्रकारकत्वस्यापि संभवात् । अन्यथा इदंत्वादिप्रकारकज्ञानाकारस्य विस्पष्टस्य दुर्लभत्वा पत्तेः। अत एव द्रव्यत्वादि- साध्यकप्रतिज्ञायां द्रव्यमित्येव साध्यनिर्देश: इति भावः । समाधत्ते- नेत्या दिना। तस्मात्= धर्मसंसर्ग - धर्मितादात्म्यान्यतरभाने विनिगमकाभावात्। धर्मयो: इदंत्वरजतत्वयोः। संसर्गों यथाक्रम स्वरूपसमवायौ। अथवा रजतत्वस्य समवायस्थानीयं तादात्म्यं संसर्ग:। धर्मिणो: = इदं रजतयोः। प्रातीतिके = प्रातिभासिके। जायेते इति । अत्र हेतुमाह तयोरिवेति । तयोरिव = धर्मयो: संसर्गयोरिव । तयोरपि धर्मिणोस्तादात्म्ययोरपि। प्रतीयमानत्वात् बाध्यत्वानुभवाच्चेति । अत्र च तयोरुत्पत्तौ उक्ताकारा - 64 अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका रजतमेव, नतु तत्प्रतियोगिकं तादात्म्यम्; तथाच भ्रमपूर्वसिद्धं यदिदमादि -तादात्म्यं तस्यैव रजतादिविशेषणं प्रति संसर्गतया भानम्-इत्यपास्तम्। रजतादिप्रतियोगिकतादात्म्यत्वेन प्रतीते - बर्बाध्यत्वानुभवस्य च रजताद्यप्रतियोगिकतादात्म्येनानिर्वाहात्। नहि विशेषणविशेष्ययोः संसर्ग प्रतियोगित्वानुयोगित्वे न भासेते इति वक्तुं शक्यते। घटभूतलादिनिष्ठयोवृत्तिज्ञानीयविशेषणता- विशेष्यतयो समानवैशिष्ट्यीयभासमानप्रतियोगित्वानुयोगित्वस्वरूपत्वादवच्छेदकावच्छेद्यभावा- पन्नचिच्चेत्यतादात्म्यरूपयोर्विशेष्यताविशेषणतयोश्चिद्रूपज्ञान एव स्वीकारेण चैतन्यस्यैव ज्ञानत्वेन प्रकाशः प्रतीयमानत्वं हेतुः प्रातिभासिकत्वे च बाध्यत्वानुभवस्तथेति बोध्यम्। रजतादिप्रतियोगिकतादात्म्यस्य वैय्यर्थ्यमाशङ्कय परिहरति- एतेनेति। वक्ष्णमाणदूषणेनेत्यर्थः । इति बाधस्य= इत्याकारक ज्ञानविषयी - भूताभावस्य। बाध्य प्रतियोगि। एवकारव्यवच्छेद्यमाह नत्विति । तथा सति बाधानुभव: इदं रजतं नेत्याकारक: स्यादिति भावः । भ्रमपूर्वसिद्धं यदिदमादितादात्म्यमिति। सत्यरजतस्थलीयरजतमिदमिति ज्ञानविषयीभूतं इति भावः। तस्यैवेति । अतिरिक्ततादात्म्योत्पत्तिस्वीकारे गौरवादिति भावः। रजतादीति। भ्रमविषयीभूतेत्यादिः। भानमिति। इदं रजतमिति भ्रम इत्यादिः। अपास्तमिति। कुत इत्यत आह- रजतादीति। रजतादिप्रतियोगिकतादात्म्यत्वेन प्रतीतेरिति। संसर्गप्रतियोगित्वानुयोगित्वयोर्विशिष्ट. बुद्धिविषयत्वादिति भावः । बाध्यत्वानुभवस्य चेति । रजतमिदमिति यज्ज्ञानं तन्मिथ्येति विषयविशिष्ट. भ्रमस्य मिथ्यात्वप्रत्ययेन रजतप्रतियोगिकतादात्म्यत्वावच्छिन्नरूपविषयस्यापि बाध्यत्वावगाहनस्यो. क्तत्वादिति भावः । अनिर्वाहादिति । भ्रमपूर्वसिद्धेदमादितादात्म्यस्य व्यधिकरणत्वेन भ्रमे विशेषणतया भासमानरजतसंसर्गत्वस्य स्वीकारे तदंशे अन्यथाख्यातिस्वीकारापत्तिः, ततश्च तस्य अबाध्यत्वेन बाध्य. त्वानुभवविरोधश्च । अनिर्वचनीयख्यातिवादिभिरस्माभिरन्यथाख्यातेरनङ्गीकारादिति भावः । ननु संसर्ग- प्रतियोगित्वानुयोगित्वयोर्विशिष्टबुद्ध्यविषयत्वस्थानुपदमुक्तत्वात् तयो विशिष्टबुद्धिविषयत्वे युक्त्यभावा. च्च रजतादिप्रतियोगिकत्वं तादात्म्ये नास्त्येवेत्यतआह नहीति । घटभूतलादिनिष्ठयोरित्यस्य विशेषण. ताविशेष्यताभ्यां यथाक्रममन्वयः। स्वरूपत्वादिति भासमानवैशिष्ट्यीयभासमानप्रतियोगित्वं विशेषणता, भासमानवैशिष्ट्यीयभासमानानुयोगित्वं विशेष्यतेत्यर्थः। एवं च विशेषणताविशेष्यतयोर्भूतलं घटवदित्यादिविशिष्टबुद्धौ विषयत्वेन तयोश्च उक्तविधप्रतियोगित्वानुयोगित्वरूपत्वात् विशिष्टबुद्धिविष- यत्वमवश्यंभावीति भावः । अत्र च प्रतियोगित्वे अनुयोगित्वे च भासमानत्वानिवेशे घटभूतलसंयोगा इति समूहालम्बनेऽपि घटभूतलयो: परस्परं विशेष्यविशेषणभावापत्तिः, तन्निवेशे च न तदापत्तिः, उक्तसमूहा- लंबने घटे भूतले वा संयोगप्रतियोगित्वस्य अनुयोगित्वस्य वा अभानात् । ननु अवच्छेदकीभूतं ज्ञानविष- ययोस्तादात्म्यं विशेष्यता अवच्छेद्यं तत् प्रकारता । तयोश्च वृत्तिरूपे ज्ञाने उपगममात्रेण विशेष्यताप्रकार- तयोनिर्वाहात् प्रतियोगित्वादेर्भानं व्यर्थमित्यत आह- अवच्छेदकेति । चेत्येति । चिद्विषयेत्यर्थः। चिद्रूप- ज्ञान एवेति । एवकारेण वृत्तेर्व्यवच्छेदः । ननु वृत्तेरपि ज्ञानत्वेन चिद्रूपज्ञान एवेति कुत इत्यत आह चैतन्य- प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 65 लघुचन्द्रिका वृत्तौ स्वीकर्तुमशक्यत्वात्। ननु-तथापि रजतादेरुपनयसंनिकर्षेण प्रत्यक्षे विषयीभवतो विशेषण. त्वमेव नतु विशेष्यत्वं; उपनीतं विशेषणतयैव भातीति नियमात्---इति चेन्न। उपनयस्य सिद्धान्ते प्रत्यक्षविषयत्वानियामकत्वादुक्तनियमस्याभावात्। परमते तद्भावेऽप्यलौकिकविशेषणतायामेव तस्य नियामकत्वात् । लौकिक्यां च विशेषणतायामिव विशेष्यतायामपि दोषाणामेव बाधविशेषा - भावादिसहकृतानां नियामकत्वात्। ननु- रजतस्याध्यासे स्वीकृते तत्तादात्म्यस्यापि अध्यास आवश्यकः, स एव कुत:, रजतत्वादिधर्मस्यैव संसर्ग आरोप्यते; तावतैव प्रतीतिबाधयोरुपपत्तेः, प्रकाश: . , - -- स्यैवेति। एवकारेण वृत्तेर्व्यवच्छेदः। ‘सत्यं ज्ञान मित्यादिश्रुत्या तस्यैव ज्ञानत्वव्यवहारात्। वृत्ते डान्त: करणपरिणामत्वेन प्रकाशकत्वासंभवाच्च न मुख्यज्ञानत्वसंभव:,तत्र क्वचित्तद्व्यवहारस्तु मुख्यज्ञानावच्छेद- कत्वेन औपचारिक इति भावः। अशक्यत्वादिति । अन्त:करणपरिणामरूपाया वृत्तेर्घटादेश्व नावयवाव- यविभावादिः, नाप्यध्यास्ताधिष्ठानभावः, चैतन्यस्यैव अधिष्ठानत्वात् अतो न वृत्तिविषययोस्तादात्म्यं संबन्धः । नापि संयोग:, घटादौ तत्संभवेपि गुणादावसंभवात्। अतो वृत्तिविशेषणताविशेष्यते उक्तरूपे एवेति भावः। रजतभ्रमस्य इदंरजतमित्याकारकत्वसिद्धावपि रजतमिदमित्याकारकत्वं न सेत्स्यतीति शङ्कते- नन्विति । उपनयसन्निकर्षेणज्ञानलक्षणया प्रत्यासत्त्या। न तु विशेष्यत्वमिति । कुत इत्यत आह उपनीतमिति। नियमादिति । नियमाङ्गीकारादित्यर्थः । समाधत्ते- नेति। सिद्धान्ते = वेदान्तसिद्धान्ते। प्रत्यक्षविषयत्वानियामकत्वादिति। अनुमेयवयादेरपि प्रत्यक्षविषयत्वापत्तेः । तत्रापि व्याप्तिज्ञानरूपस्य परामर्शरूपस्य वा उपनय सन्निकर्षस्य संभवादिति भावः । उक्तनियमस्य= उपनीतं विशेषणतयैव भातीति नियमस्य । ननु नैयायिकमते उपनयस्य सन्निकर्षत्वाभ्युपगमेन उक्तनियमाभ्युपगमान्न रजतस्य विशेष्यतया भानसंम्भव इत्यत आह- परमत इति। नैय्यायिकमत इत्यर्थः। तद्भावेऽपि उक्तनियमसत्त्वेऽपि । अलौकिकविशेषणतायामेवेति। एवकारेण लौकिक्यास्तस्या व्यवच्छेदः। तस्य = उपनयसंनिकर्षस्य। नियामकत्वात्- प्रयोजकत्वात्। लौकिक्यां चेति । प्रकृते च रजतनिष्ठप्रत्यक्षविषयता लौकिक्येव, रजतं पश्यामीत्यनुभवादिति भावः । ततश्च उपनयस्य सन्निकर्षत्वाङ्गीकारेऽपि रजतनिष्ठविषयताया लौकिकत्वेन तां प्रति तस्य अनियामकत्वेन रजतस्य विशेषणतयैव भानप्रसङ्गो नेति भावः। उपनयसन्निकर्षस्य लौकिकविषयतां प्रत्यनियामकत्वे किं नियामकमित्यत्राह-दोषाणामेवेति । दोषाणां= चाकचक्यादीनाम् । नन्वेवं चाकचक्यदोषसत्त्वे नेदरजतमिति बाधसत्त्वेऽपि रजतभ्रमापत्तिरित्यत आह- बाधविशेषाभावेति। प्रत्यक्षभ्रमस्थले प्रत्यक्षबाधाभावस्यैव सहकारित्वाभिप्रायेण विशेषेत्युक्तम्। कामलादिदोषसत्त्वे बाध- सत्त्वेऽपि शङ्ख: पीत इति भ्रमोदयात् कामलादिदोषाणां न बाधाभाव: सहकारीति ध्येयम् । ततश्च दोषाणां विशेष्यतायामपि प्रयोजकत्वेन रजतविशेष्यकभ्रमस्य नानुपपत्तिरिति भावः। इदं रजतमित्यत्र रजत- तत्तादात्म्ययोरध्यासवैय्यर्थ्यं शङ्कते- नन्विति । आवश्यक इति अनध्यस्तेन तादात्म्येन अध्यस्तस्य रजतस्य इदं रजतमिति भ्रमे विशेषणतया भानासंभवात्, संबन्धान्तरेण च भाने भ्रमस्य इदंरजतमित्या.

66 अद्वैतसिद्धिः सव्याख्या लघुचन्द्रिका एव कुत:, रजतत्वादिधर्मस्यैव संसर्ग आरोप्यते; तावतैव प्रतीतिबाधयोरुपपत्ते:, किमिति रजत तत्तादात्म्ययोरध्यास उच्यते-- इति चेन्न। रजतस्योत्पत्तिं विना रजतत्वमत्र साक्षात्करोमीति प्रत्ययानिर्वाहात्। देशान्तरस्थरजते मनोवच्छिन्नचित्तादात्म्याभावेन तद्गतरजतत्वादावपि तदभा वात्। नच-रजतत्वादेरेवोत्पत्तिरस्तु नतु तद्वत इति वाच्यम्; अनेकधर्माणामुत्पत्तिकल्पना मपेक्ष्यैकस्य धर्मिण एवोत्पत्तिकल्पनाया लघुत्वात् । अखण्डरजतत्वादेरुत्पत्तौ तस्य पूर्वमननु - - प्रकाशः - -- कारकतानुपपत्तेरिति भावः । स एवेति । रजताध्यास एवेत्यर्थः । ननु रजतस्य अध्यासं विना उक्तप्रतीते- र्बाधस्य चासम्भवात् स आवश्यक इत्यत आह- रजतत्वादिधर्मस्यैवेति । देशान्तरस्थरजतादिनिष्ठस्ये त्यादिः। संसर्ग:= समवायः, तादात्म्यं वा । प्रतीतिबाधयोरिति । प्रतीति:, इदंरजतमित्याकारा बाधश्च नेदंरजतमित्याकारः। इदंरजतमितिप्रतीतेरिदमि रजतत्ववैशिष्ट्यविषयकत्वेन नेदं रजतमितिप्रतीते: रजतत्वाभावविषयकत्वसंभवादिति भावः। किमितीति । उच्यत इति । निष्प्रयोजनत्वात् गौरवापाताच्च न वक्तव्य इति भावः। समाधत्ते- नेति । प्रत्ययानिर्वाहादिति। कुत इत्यत आह- देशान्तरस्थेति । अयं भावः। रजतत्वमत्र साक्षात्करोमीत्यत्र हि वृत्त्यवच्छिन्ना चित् साक्षात्कारः, रजतत्वमिति द्वितीयान्तार्थ: रजतत्वीयतादात्म्यरूपं विषयत्वम्। तस्य च साक्षात्कारे आश्रयतया अन्वयः। आख्यातार्थ: तादात्म्य - संबन्धावच्छिन्नमाश्रयत्वम्। तस्य च अध्याह्रियमाणाहंपदार्थे अन्त:करणावच्छिन्नचिति अन्वयः। एवं च रजतत्वीयतादात्म्याश्रय: या वृत्त्यवच्छिन्ना चित् तत्तादात्म्याश्रयीभूतं यत् अन्त:करणावच्छिन्नचैतन्यं तत् तत्र भासते। तथा च तादृशप्रतीति प्रति रजतत्वीयं वृत्त्यवच्छिन्नचित्तादात्म्यद्वारकमन्त:करणावच्छिन्न- चैतन्यतादात्म्यं प्रयोजकम्। तच्च रजतस्य उक्तविधचैतन्यतादात्म्ये सत्येव सम्भवति। तत्र पुरोवर्तिनि रजतस्योत्पत्त्यनङ्गीकारे देशान्तरस्थरजतस्यैव तादृशतादात्म्यं वाच्यं, तच्च न सम्भवति। देशान्तरस्थ रजतेन सन्निकर्षविरहेण रजताकारवृत्त्यभावेन तदवच्छिन्नचित्तादात्म्याभावेन तस्य तादृशचित्तादात्म्य द्वारकस्य अन्त:करणावच्छिन्नचैतन्यतादात्म्यस्य अभावात्। ततश्च देशान्तरस्थरजतनिष्ठरजतत्वस्यापि न तादृशचैतन्यतादात्म्यमिति न उक्तविधप्रत्ययनिर्वाह इति । तद्तरजतत्वादाविति । देशान्तरस्थरजतगत रजतत्वीयसंसर्गमात्रारोपस्योपगमेन रजतत्वोत्पत्तेरपि त्वया अनुपमगमादिति भावः । रजतोत्पत्तेरभावेऽपि रजतत्वोत्पत्तिमभ्युपगम्य उक्तप्रत्ययोपपत्तिं शङ्कते- न चेति। समाधत्ते अनेकधर्माणा मिति। अनेके धर्माः रजतत्वपरिमाणादयः। धर्मिण एवेति। तथा च धर्मिण: मनोवच्छिन्नचित्तादात्म्ये तद्धर्माणामपि तत्सम्भवादिति भावः। ननु आरोपितस्य रजतस्य अन्त:करणवृत्तिविषयत्वाभावात् वृत्त्यवच्छिन्नचित्ता दात्म्यद्वारकान्त:करणावच्छिन्नचैतन्यतादात्म्यस्य तत्र कथं सम्भवः, तदभावे तद्गतरजतत्वादावपि कथं तत्सम्भव इति चेन्न। इदमाकारवृत्त्यवच्छिन्नचिति तादात्म्येन अध्यस्तरजतोत्पत्तेरङ्गीकारेण तादृशचित: मनोवच्छिन्नचित्तादात्म्यात् रजते , तद्वारा रजतत्वादावपि तत्सम्भवात्। अधिकमन्यत्रानु सन्धेयम्। ननु धर्मिमात्रस्योत्पत्तिर्न घटत इति धर्मधर्म्युभयोत्पत्तेरङ्गीकार्यत्वे गौरवात् धर्ममात्रस्यैवोत्पत्तिलाघवादङ्गीक्रिय - ।

प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 67 लघुचन्द्रिका भूतत्वेन पूर्वानुभूतरजतत्वादिप्रकारकप्रवृत्त्यादिकार्यस्य भ्रमस्थलेऽनुपपत्तेः। तस्मादिदमादितादा- त्म्यस्य रजताद्यवच्छेदेनावश्यमुत्पत्ति: प्रातीतिकभ्रमस्थले वाच्या। तथाच तद्वदेव व्यावहारिक- घटादिभ्रमस्थलेऽपि 'सन्तं घटं जानामि,' 'घटं सन्तं जानामी'त्याकारद्वयानुभवात्, तादृशभ्रमस्य विषयविशिष्टस्य बाधकप्रत्ययेन श्रुत्यनुमानादिना च मिथ्यात्वप्रत्ययाच्च, सदवच्छेदेन घटादिकं प्रकाश: तामित्यत आह- अखण्डेति। अतिरिक्तेत्यर्थः। देशान्तरस्थरजतनिष्ठस्य रजतत्वस्य पुरोवर्तिनि उत्पत्तेरसम्भवादतिरिक्तमेव तत्स्वीकर्तव्यमिति भावः। अनुपपत्तेरिति। रजतत्वप्रकारकप्रवृत्तिं प्रति रजतत्वप्रकारकज्ञानं कारणमिति क्लुप्तकार्यकारणभावेन भ्रमस्थले प्रवृत्तिनिर्वाहो न भवति, पुरोवर्ति- न्युत्पद्यमानस्य रजतत्वस्य विलक्षणत्वेन पूर्वमननुभूतत्वात्, तथा च अखण्डरजतत्वादिप्रकारकप्रवृत्ति प्रति अखण्डरजतत्वप्रकारकज्ञानं कारणमिति कार्यकारणभावान्तरं कल्पनीयमिति गौरवं स्यादिति भावः । ननु रजतस्य उत्पत्तेरङ्गीकारेऽपि तद्गतरजतत्वस्य पूर्वमननुभूतत्वात् पूर्वानुभूतरजतत्वादिप्रकारकप्रवृत्त्यादि- कार्यानुपपत्तितादवस्थ्यमिति चेन्न। व्यावहारिकप्रातिभासिकरजत साधारणरजतत्वस्योपगमेन तस्य पूर्व- मनुभूतत्वात्। दृष्टान्तमुपसंहरति तस्मादिति । रजतप्रतियोगिकतादात्म्येन रजतमिदमित्याकारानिर्वाहादि- त्यर्थः। प्रातीतिकभ्रमस्थले = रजतमिदमित्याद्याकारकप्रातिभासिकभ्रमस्थले। एवं दृष्टान्तं व्युत्पाद्य दार्टान्तिकं व्युत्पादयति तथा च तद्वदेवेति। व्यावहारिकघटादिभ्रमस्थले- सन् घटः, घट: सन्निति भ्रमस्थले। इत्याकारद्वयानुभवात्= इत्येवंविधं यत् आकारद्वयं तस्य अनुभवसिद्धत्वात्। ततश्च सन्तं घटं जानामि इत्यत्र सद्विषयतावच्छिन्नं घटतादात्म्यविषयत्वं, घटं सन्तं जानामि इत्यत्र च घटविषय- तावच्छिन्नं सत्तादात्म्यविषयत्वं भाति । तथा च अनुव्यवसायस्य सन्तं घटं जानामीत्याकारकत्वात् सद्विषयतावच्छिन्नघटविषयतावगाहित्वं, तेन च सन् घट इति व्यवसायस्य सद्विषयतावच्छिन्नघटतादात्म्य- विषयताशालित्वं, तेन सत: घटतादात्म्यवत्त्वं यथा, तथैव च अनुव्यवसायस्य घटं सन्तं जानामीत्याकार- कत्वात् घटविषयतावच्छिन्नसत्तादात्म्यविषयतावगाहित्वं तेन घटस्सन्निति व्यवसायस्य घटविषयता- वच्छिन्नसत्तादात्म्यविषयताशालित्वं, तेन च घटस्य सत्तादात्म्यवत्त्वं सिद्ध्यति इति दृष्टान्तवत् अनुसन्धेयम्। घटादौ सत्तादात्म्ये मानान्तरमाह- तादृशभ्रमस्येत्यादि । तादृशभ्रमस्येति । सन् घटः इत्यस्य घटस्सन्नित्यस्य चेत्यर्थः। बाधकप्रत्ययेनेति । सन् घट इति घटस्सन्निति च यज्ज्ञानं तन्मिथ्येत्याकार- केणेत्यादिः। अस्य च मिथ्यात्वप्रत्ययादित्यनेनान्वयः। ननु रजतभ्रमस्थले नेदरजतमिति ज्ञानानन्तरं मम इदं रजतमिति यज्ज्ञानं जातं तन्मिथ्येति बाधक: प्रत्यय: अनुभवसिद्धः। सन् घट इत्यादौ तु सन् घटो न घटस्सन्नेति वा ज्ञानानुदयात् कथं उक्तमिथ्यात्वप्रत्यय इति चेन्न- ‘अविद्यायामन्तरे वर्तमाना: (कठ१-२- ५) अविद्यायां बहुधा वर्तमाना:' (मुं १-२-९) ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेवार्थस्वरूपेण भ्रान्तिदर्शनत:स्थितम् ।।' (वि पु १- २- ६)इत्यादिश्रुतिस्मृतिजन्यत्वात्तादृशबोधस्य। श्रुत्यनुमानादिना चेति। घटादिप्रपचस्येत्यादिः । श्रुति: ‘सदेव- एकमेवाद्वितीयं' (छां६-२-१) नेह नानास्ति किंचन' .

68 अद्वैतसिद्धिः सव्याख्या - लघुचन्द्रिका तत्तादात्म्यं घटत्वादिसंसर्गश्च, घटाद्यवच्छेदेन सत्तादात्म्यं सत्वादिधर्मसंसर्गश्च जायते, केवलस्य सतोऽसंबद्धत्वेऽपि तादात्म्यानुयोगित्वोपहितरूपेण तस्य तत्संबद्धत्वेनावच्छेदकत्वम्। नच- एकस्यैवानादेः सत्तादात्म्यस्याविद्यायामिव घटादावपि संभवात् घटाद्यवच्छेदेनानन्तसत्तादात्म्याना- मुत्पत्तौ न मानमिति-वाच्यम्; सत्तादात्म्यं हि चिद्रूपज्ञानस्य विषयतारूपतादात्म्यम्, तथाच कपालादिनिष्ठविषयतारूपसत्तादात्म्येनावच्छिन्नस्य घटादिनिष्ठविषयतारूपस्य तन्त्वादिनिष्ठविषयतारूपसत्तादात्म्यावच्छिन्नेन पटादिनिष्ठविषयतारूपेण सत्तादात्म्येनाभेदासंभवाद. वच्छेदकभेदेन सत्तादात्म्यानां भेदस्यावश्यकत्वेनानन्त्यं प्रामाणिकम्। नहि तार्किकादिभिरपि तत्तद्विषयतावच्छिन्नविषयतानामैक्यमुच्यते। तेषां च संयोगादिवदेवोक्तरीत्या जन्यत्वमपि। सत्तादात्म्यस्य प्रकाशः । (कठ२-४-१२)। इत्यादिरूपा। अनुमानानि च अत्र प्रदर्शयिष्यमाणानि। आदिपदेन तरति शोकमात्म- विदित्यादिश्रुत्युक्तज्ञाननिवर्त्यत्वान्यथानुपपत्तिरूपार्थापत्तिाह्या । घटत्वादिसंसर्गश्चेति। अस्य जायत इत्यनेनान्वयः। ननु सदवच्छेदेन घटादिकं जायत इत्युक्तिर्न सङ्गच्छते। सद्रूपस्य ब्रह्मण: अधिष्ठानत्वेन स्वासंबद्धतया अवच्छेद्यघटाद्यधिकरणासंबद्धत्वादित्यत आह- केवलस्य सत इति। तादात्म्येति । घटादिप्रतियोगिकेत्यादिः। तस्यः सतः। तत्संबद्धत्वेन अवच्छेद्याधिकरणसद्रूपब्रह्मसंबद्धत्वेन । उपहितकेवलयो: तादात्म्यस्य स्वीकारेण तेन संबन्धेन संबद्धत्वं बोध्यम्। घटाद्यवच्छेदेन सत्तादात्म्याना मुत्पत्तौ प्रमाणाभावं शङ्कते- न चेति। तर्हि घटस्सन् पटस्सन् इत्यादिप्रत्यय: कथमित्यत आह एकस्यैवानादेरित्यादि। 'जीव ईशो विशुद्धाचित्तथा जीवेशयोर्भिदा। अविद्या तच्चितोर्योग: षडस्माक- मनादयः' इत्यभियुक्तोक्तौ अविद्यातच्चितोर्योग इत्यनेन अविद्यायां चित्तादात्म्यस्य अनादित्वोक्तेः इति भाव: । न मानमिति । अनादिनैव सत्तादात्म्येन अविद्यायां क्लुप्तेन घटस्सन् पटस्सन् इत्यादिप्रत्ययोप पत्ते:, घटपटाद्यवच्छेदेन अनन्तसत्तादात्म्यानामुत्पत्यङ्गीकारे गौरवांच्चेति भावः । प्रामाणिक गौरव न दोषायेति न्यायमनुसृत्यसमाधत्ते सत्तादात्म्यं हीत्यादिना। हि = यतः। अस्य च सत्तादात्म्यानामानन्त्यं प्रामाणिकमित्यनेनान्वयः। उक्तानन्त्यस्य प्रामाणिकत्वे सत्तादात्म्यानां भेदस्यावश्यकत्वं हेतुः । तत्र च अभेदासम्भवो हेतुः। तथा चेति । सत्तादात्म्यस्य चिद्रूपज्ञानविषयतारूपत्वे चेत्यर्थः। कपालादीति। असम्भवादिति । कपालं घटवदिति ज्ञानं कपालनिष्ठसत्तादात्म्यरूपविशेष्यतावच्छिन्नघटनिष्ठसत्तादात्म्य- रूपविशेषणताशालि। तत्र कपालनिष्ठसत्तादात्म्यस्य विशेष्यतारूपस्य घटनिष्ठसत्तादात्म्यस्य विशेषणता- रूपस्य चैकत्वे अवच्छेद्यावच्छेदकभावो न स्यात्। किंच तन्तव: पटवन्तः इति ज्ञानं तन्तुनिष्ठ- सत्तादात्म्यरूपविशेष्यतावच्छिन्नपटनिष्ठसत्तादात्म्यरूपविशेषणताशालि। तत्र घटनिष्ठविशेषणतापटनिष्ठ- विशेषणतयो: विभिन्नविशेष्यतावच्छिन्नयोरभेद: न सम्भवतीति भावः । भेदस्यावश्यकत्वादिति। अव- च्छेद्यावच्छेदकभावापन्नतादात्म्ययो परस्परं घटपटादिनिष्ठतादात्म्यानां च परस्परं भेद आवश्यकः । अन्यथा विषयताभेदाभावेन ज्ञानभेदो न स्यादिति भावः । अत्र तार्किकादिसम्मतिमाह नहीति। तत्तद्विषय- प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 69 लघुचन्द्रिका तस्मादाकारद्वयानुभवात्, भ्रमविषयत्वहेतुना मिथ्यात्वानुमितेः, ‘सत्तादात्म्यमिदमादितादात्म्यं च यदि मिथ्या न स्यात्तदा भ्रमविषयो न स्यात् विषयविशिष्टभ्रमस्य मिथ्यात्वप्रत्ययात्' इति तर्काच्चेद- मादितादात्म्यमिव सत्तादात्म्यमपि मिथ्या। तदिदं सर्वं शारीरकसंक्षेपशारीरकपञ्चपादिकादि मूलकम् । उक्तं हि शारीरके-'अन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्याहमिदं ममेद मिति व्यवहार' इति । अन्योन्यस्मिन् परस्परावच्छेदेन । उक्तं च संक्षेप शारीरके-'इदमर्थवस्त्वपि भवेद्रजते परिकल्पितं रजतवस्त्विदमि। रजतभ्रमेऽस्य च परिस्फुरणान्न यदि स्फुरेन्न खलु शुक्ति रिव ।। इतरेतराध्यसनमेव ततश्चितिचेत्ययोरपि भवेदुचितम्। रजतभ्रमादिषु तथावगमान्नहि कल्पना - - प्रकाश: तेति। कपालादिविषयतावच्छिन्नघटादिविषयता तन्त्वादिविषयतावच्छिन्नपटादिविषयतानामित्यर्थः । सत्तादात्म्यानां नित्यत्वे अवच्छेद्यावच्छेदकभावनियमानुपपत्तिः, वक्ष्यमाणरीत्या अक्लृप्तकल्पनाप्रयुक्त- गौरवं चेत्यत: तेषां जन्यत्वमाह तेषां चेति । दार्टान्तिकमुपसंहरति तस्मादिति । आकारद्वयानुभवात् सन्तं घटं जानामि, घटं सन्तं जानामीत्याकारद्वयानुभवात्। मिथ्यात्वानुमितेरिति अस्य च सत्तादात्म्यमपि मिथ्या इत्यनेनान्वयः। अनुमाने अप्रयोजकत्वशङ्कानिरासकं तर्कमाह सत्तादात्म्यमिति। विषयविशिष्ट- भ्रमस्य मिथ्यात्वप्रत्ययादिति। अस्याऽपि मिथ्या इत्यनेनान्वयः। ततश्च अनुमितिरिव अयं प्रत्ययोऽपि मिथ्यात्वग्राहक इति भावः। मिथ्येति । जायत इत्यङ्गीकर्तव्यमिति शेषः। अतश्च आकारद्वयानुभवादि- त्यस्य पूरितेन अङ्गीकर्तव्यमित्यनेन अन्वयात् न अनन्वयप्रसङ्गः। नापि घटादे: सत्तादात्म्यवत्त्वे मानप्रश्ने मिथ्यात्वोक्तेरन्तरता। अनुभवादिरूपप्रमाणस्योक्तत्वादिति बोध्यम् । ननु परस्पराध्यासस्य उक्तयुक्ति- सिद्धत्वेऽपि न तस्य पूर्वाचार्यानुमतत्वमित्यत आह- तदिदं सर्वमिति । शारीरकं= शारीरकमीमांसाभाष्यं भगवत्पादरचितम् । सङ्केपशारीरकं= सर्वज्ञात्ममुनिकृतः पद्यरूप:सङ्केपेण शारीरकार्थनिरूपणपरोग्रन्थः । पंचपादिका= पद्मपादाचार्यविरचिता शारीरकभाष्यव्याख्या। अन्योन्यस्मिन्नित्यत्र सप्तम्या अधिष्ठान त्वार्थकत्वे जडस्य घटादेरधिष्ठानत्वासम्भवादनुपपत्तिरतोव्याचष्टे- अन्योन्यस्मिन्निति। परस्परावच्छे देनेति। ततश्चाधिष्ठानत्वं न सप्तम्यर्थः , किन्तु अवच्छिन्नत्वमिति भावः। अन्योन्यात्मकता व्यत्यासेन अन्योन्यतादात्म्यम्। रजते परिकल्पितमिति । अत्रापि सप्तम्या अवच्छिन्नत्वमर्थः। एवमि- दमीत्यत्रापि। इदमि रजतकल्पनं सर्वसिद्धमिति न तत्र युक्तिरपेक्षितेति सा नोक्ता। रजते इदमर्थकल्पनं तु न सर्वसिद्धमिति तत्र युक्तेरपेक्षितत्वात् ‘रजतभ्रमेऽस्य च परिस्फुरणा'दित्यनेन सोक्ता। तत्र अस्येति पदस्य अर्थमाह- अस्य इदमर्थस्येति । न यदीत्यत्र अपेक्षितं इदमर्थ इति धर्मिवाचकं पदं,नअर्थाभावप्रतियोगि- वाचकं कल्पित इति पदं च पूरयित्वा तदर्थमाह- नयदीत्यादीति। शुक्तेरपि इदन्त्वेन रूपेण भ्रमे स्फुरणात् शुक्तिरिवेति दृष्टान्तानुपपत्तिः, अतो व्याचष्टे- शुक्तिरिवेति । शुक्तित्वविशिष्टमिति । रजतभ्रमे शुक्तेः इदन्त्वेन भानेऽपि न शुक्तित्वेन रूपेणेति न दृष्टान्तानुपपत्तिरिति भावः। प्रथमश्लोके इदं रजतयो: परस्पराध्यासरूपं दृष्टान्तमुक्त्वा इतरेतराध्यसनमेवेति द्वितीयश्लोके दार्टान्तिकमुक्तम् । तद्व्याचष्टे - 70 अद्वैतसिद्धि: सव्याख्या , लघुचन्द्रिका गुरुतरा घटते ।। अनुभूतियुक्त्यनुमितित्रितयादितरेतराध्यासनमेव ततः। चितिचेत्यवस्तुयुगलस्य न चेत्रितयस्य बाधनमिहापतति॥' इति। अस्य इदमर्थस्य, न यदीत्यादि। यदीदमर्थो न कल्पितः तदा भ्रमे न स्फुरेत्। शुक्तिरिव शुक्तित्वविशिष्टमिवेत्यर्थः। इतरेतराध्यसनं परस्परावच्छेदेना ध्यास:। गुरुतरेति। रजतादिभ्रमे यथा दृष्टं तद्विपरीता व्यावहारिकभ्रमस्थले एकस्यैवाध्यास उत्पत्तिश्चेति कल्पनानुपस्थितविषयकत्वेन गुर्वी। आवश्यकानामनन्तसत्तादात्म्यानां विषयत्वरूपा णामनध्यस्तत्वे सत्यत्वापत्तेरद्वैतश्रुतिसङ्कोचापत्तेश्च। तेषामध्यस्तत्वेऽपि न जन्यत्वमिति स्वीकारे कपालादिनिष्ठविषयत्वावच्छिन्नानां घटादिनिष्ठविषयत्वानां पूर्वोक्तरीत्या कपालादिनाप्यवच्छिन्न- त्वात्तादृशनित्यसाधारणेन कपालाद्यवच्छिन्नत्वरूपेण संयोगादीनां कपालादिकार्यता न संभवती त्यतो जन्यत्वविशेषितेनोक्तरूपेण सा वाच्या। तथा चैतादृशगुरुतरकल्पनामूलकत्वेनैकस्यैवा- त्म्यानां सत्यत्वमस्तु। प्रकाश: इतरेतराध्यसनमिति। तत:- तस्मात्। चितिचेत्ययोः। चिति: सद्रूपा चित्। चेत्यं= चिद्विषय: घटादि- कम्। रजतभ्रमादिषु इति श्लोकार्धं व्याचष्टे- गुरुतरेतीति। तद्विपरीतेति। तद्विलक्षणेत्यर्थः। अस्य कल्पनेत्यनेनान्वयः। वैलक्षण्यं विवृणोति- व्यावहारिकेत्यादिना। उत्पत्तिश्चेतीति । एकस्यैवेत्यस्य अत्रा प्यनुषङ्गः। अनुपस्थितविषयकत्वेनेति। अन्यत्र क्लृप्तसजातीयत्वाभावेनेत्यर्थः। गुर्वीति। अक्लृप्त जातीयकल्पने बुद्धिगौरवमिति भावः। एवमुक्तकल्पनागुरुत्वे अनुपस्थितविषयकत्वं हेतुमुक्त्वा तस्य गुरुतरत्वे हेतुमाह- आवश्यकानामित्यादिना । अनध्यस्तत्वे अनध्यस्तत्वाङ्गीकारे । ननु तादृशतादा चाद्वितीयमिति श्रुतिविरोध:, :, सत्तादात्म्यातिरिक्तद्वितीयाभावप्रतिपादकत्वेन उपपत्तिसम्भवादित्यत आह- अद्वैतश्रुतिसङ्कोचापत्तेश्चेति। सङ्कोचो नाम, अद्वितीयमित्यत्र द्वितीय सामान्यार्थकस्य द्वितीयपदस्य सत्तादात्म्यातिरिक्तद्वितीयरूपे द्वितीयविशेषे लक्षणाकल्पनम्। तथा च एतादृशलक्षणाकल्पनसापेक्षत्वादेकस्यैवाध्यास इति कल्पना गुरुतरेति भावः। तेषामुत्पत्तेरनङ्गीकारे गौरवप्रयोजकमाह तेषामिति। न जन्यत्वमिति स्वीकार इति। न च अध्यस्तस्य जन्यत्वनियमादजन्यत्व स्वीकारो न सम्भवतीति शङ्कयम्। अध्यस्तस्याऽप्यविद्यादेरनादित्वाङ्गीकारात् । पूर्वोक्तरीत्येति । रजतादि तत्संसर्गयोरिदमाद्यवच्छिन्नत्वात्तदीयं चित्तादात्म्यरूपं विषयत्वमपि तथेत्यत्रोक्तरीत्येत्यर्थः। तादृशनित्य साधारणेन= घटादिनिष्ठविषयतारूपसत्तादात्म्यवृत्तिना। कपालादिकार्यतेति। कपालाद्यवच्छिन्नं प्रति कपालादिकं कारणमिति कार्यकारणभावसिद्धाकार्यतेत्यर्थः । न सम्भवतीति। कार्यतातिप्रसक्तधर्मस्य कार्यतावच्छेदकत्वासंभवादिति भावः। उक्तरूपेण-कपालाद्यवच्छिन्नत्वरूपेण। सा- कपालादिकार्यता। तथा च जन्यकपालाद्यवच्छिन्नं प्रति कपालादिकं कारणमिति कार्यकारणभावो वाच्य इति भावः । तथा च एतादृशकल्पनासापेक्षतया सति घटादितादात्म्यमेवोत्पद्यते न तु घटादौ सत्तादात्म्यमिति कल्पना गुरुतरेति भावः। तथा च चिच्चेत्ययो:परस्पराध्यासस्य उत्पत्तेश्च स्वीकारे सति रजतभ्रमे परस्पराध्यासादे दृष्टत्वात् गुरुतरा कल्पना, न घटते- नापततीति रजतभ्रमादिष्वित्यादेरर्थइति भावः । न च चित अध्यास: उत्पत्तिश्च । ।

प्रकाशव्याख्यासहितलघुचन्द्रिकायुता 71 लघुचन्द्रिका ध्यासोत्पादादिकल्पना गुरुतरेत्यर्थः। अनुभूतिराकार- द्वयानुभूति: आद्यपद्यस्याद्यार्धे उक्ता। अनुमिति: भ्रमविषयत्वहेतुका मिथ्यात्वानुमितिस्तृतीयचरणे। युक्तिस्तर्कश्चतुर्थचरणे। पञ्च पादिकायामप्युक्तम्-'यद्यनात्मन एवाध्यासस्तदा आत्मा न भ्रमे भासेत। तस्मादात्मानात्मनोईयो- रप्यहमनुभवे अध्यास' इति । ननु–विप्रतिपत्तौ मिथ्यात्वविशेषस्यैव साध्यतयोक्तत्वान्यायप्रयोगे . प्रकाश: . न सम्भवतीति शङ्कयम्, घटाद्यनुयोगिकतादात्म्यप्रतियोगित्वोपहितरूपेण तस्या अप्यध्यासस्य उत्पत्तेश्च सम्भवात्। न चैवं मिथ्यात्वानित्यत्वयोरापत्तिः। उपहितरूपेण तयोरिष्टत्वात्। शुद्धरूपेणैव परमार्थत्वस्य नित्यत्वस्य च अंगीकारात्। अनुभूतीत्यादितृतीयश्लोकं व्याचष्टे- अनुभूति रिति । तृतीयचरण इति । आद्यपद्यस्येत्यस्य अनुषङ्गः कर्तव्यः । चतुर्थचरण इति । अत्रापि आद्यपद्यस्येत्यनुषङ्गः । ततश्च श्लोकाना- मयमर्थ:-इदंरजतमिति भ्रमस्थले रजतवस्तु रजतरूपं वस्तु । इदमि= इदं पदार्थावच्छेदेन चिति, परिकल्पितं अध्यस्तम्। इदमर्थवस्त्वपि इदंपदस्य अर्थरूपं वस्त्वपि, रजते रजतावच्छेदेन चिति, परि- कल्पितं भवेत् अध्यस्तं भवति। लिङर्थो न विवक्षित:। अपिशब्दात् न केवलं रजतं किन्तु इदमपी- त्यर्थः । इदम: कल्पितत्वे हेतु: रजतभ्रमेऽस्य च परिस्फुरणादिति। अस्य च इदमर्थस्यापि । रजतभ्रमे -इदंरजतमित्याकारके, रजतमिदमित्याकारके वा भ्रमात्मकज्ञाने । परिस्फुरणात् =विषयीभवनात्। यदि न= इदमर्थो यदि न कल्पित:स्यात्, शुक्तिरिव शुक्तित्वविशिष्टमिव, न स्फुरेत् भ्रमे न भासेत। तत: तस्मात्। चिति चेत्ययोरपि सद्रूपचित: घटादिरूपदृश्यस्य च । इतरेतराध्यसनं परस्परावच्छेदेन परस्परा- ध्यास: उचितं भवेत्= युक्तो भवितुमर्हति, रजतभ्रमादिषु इदंरजतमित्यादिभ्रमादिषु, तथावगमात् परस्परा- वच्छेदेन परस्पराध्यासानुभवात्, कल्पना व्यावहारिकभ्रमस्थले एकस्यैवाध्यास उत्पत्तिश्चेति कल्पना। गुरुतरा अक्लृप्तजातीयत्वेन गुर्वी । आवश्यकानामनन्तसत्तादात्म्यानामनध्यस्तत्वे सत्यत्वापत्त्या अद्वैत श्रुतिसङ्कोचापादकत्वेन सत्तादात्म्यानामनुत्पत्तौ संयोगादीनां कपालादिकार्यताया जन्यत्वविशेषित कपालावच्छिन्नत्वरूपेण स्वीकार्यतापादकत्वेन च गुरुतरा- न घटते चिच्चेत्ययो: परस्पराध्यासादे: स्वीकारे सति रजतभ्रमस्थले परस्पराध्यासादेर्दृष्टत्वात् नापतति। चितिचेत्यवस्तुयुगलस्य = दृग्दृश्यरूप - पदार्थद्वयस्य अनुभूतियुक्त्यनुमिति त्रितयात्= अनुभूति: सन्तं घटं जानामि घटं सन्तं जानामीत्याकार द्वयानुभव:, युक्ति:= यदि कल्पितं न स्यात् तर्हि भ्रमे न भासेतेत्यवंरूपा, अनुमिति: चित्तादात्म्यं अध्यस्तं भ्रमविषयत्वादित्यनुमानजन्या चित्तादात्म्यमध्यस्तमित्यादिरूपा। एवं रूपं यत्त्रितयं = त्रयाणां समुदाय: तस्मात्, इतरेतराध्यसनमेव= परस्परावच्छेदेनाध्यास एव । न चेत् = इतरेतराध्यासानङ्गीकारे इह- चिच्चेत्याध्यासे तितयस्य= उक्तानां त्रयाणां बाधनमापतति= अप्रामाण्यं प्रसज्यते इति । पंचपादिका. मूलकमित्युक्तं विवृणोति- पंचपादिकायामपीति। उक्तमिति। तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विप र्ययेण अन्त:करणादिष्वध्यस्यतीति भाष्यव्याख्यानावसर इति भावः। विमतं मिथ्येति प्रतिज्ञावाक्यस्य अयुक्तत्वमाशङ्कते- नन्विति । मिथ्यात्वविशेषस्य-प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वस्य । - -- 72 अद्वैतसिद्धि: सव्याख्या लघुचन्द्रिका ऽपि तस्यैव तदुचितम्, नतु मिथ्यात्वसामान्यस्य-इति चेन। विप्रतिपत्तावपि मिथ्यात्वस्य सामान्यरूपेणैव साध्यतायां तात्पर्यात्। तच्च सामान्यरूपं वक्ष्यमाणपञ्चविधमिथ्यात्वसाधारणं मिथ्याशब्दार्थत्वं मिथ्याशब्दप्रवृत्तिनिमित्तत्वरूपम्, नतु पञ्चविधमिथ्यात्वानामन्यतमत्वम्; न्याय प्रयोगे आधुनिकलक्षणया शब्दप्रयोगस्यासांप्रदायिकत्वात् । मिथ्याशब्दार्थत्वरूपेण मिथ्याशब्देन | मिथ्यात्वस्य बोधने निरूढलक्षणैव नाधुनिकलक्षणा। 'वृक्षो महीरुह' इत्यादौ कोशवाक्ये व्याख्यानवाक्ये च महीरुहादिपदस्य तदर्थपरत्वेन भूरिप्रयोगदर्शनात् ।। ।। इति लघुचन्द्रिकायां पक्षतावच्छेदकनिरुक्तिः।। प्रकाश: साध्यतया= विप्रतिपत्तिघटकैककोटितया। न्यायप्रयोगे= न्यायघटकप्रतिज्ञावाक्ये। तस्यैव-तादृशप्रति. योगित्वरूपविशेषस्यैव। तत् साध्यतया वचनम् । उचितमिति। तस्यैव सन्दिग्धत्वेन जिज्ञासितत्वादिति भाव:। नतु मिथ्यात्वसामान्यस्येति । वक्ष्यमाणपंचविधमिथ्यात्वानुगतमिथ्याशब्दार्थत्वरूपस्येत्यर्थः । अत्रापि तत् उचितमित्यनुषङ्गः । तथा च तत् नोचितमित्यर्थः। तस्य विप्रतिपत्तिकोटित्वाभावेन असन्दि- ग्धत्वेन अजिज्ञासितत्वादर्थान्तरापत्तेरिति भावः। ननु विमतं मिथ्येति प्रतिज्ञावाक्येऽपि मिथ्येतिवाक्यस्य प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि इत्यर्थकतया नासङ्गतिरिति चेन्न । ननु किमिदं मिथ्यात्वं साध्यते इत्युत्तरग्रन्थस्य मिथ्यात्वसामान्यस्य साध्यत्वप्रदर्शकस्य अनुत्थित्यापत्तेः। सामान्यरूपेण पंचविध- मिथ्यात्वानुगतरूपेण। तात्पर्यादिति । अन्यथा प्रतिपन्नोपाधावित्यादिना प्रदर्शितमिथ्यात्वेतरमिथ्यात्व- कोटिकविप्रतिपत्तीनामप्रदर्शनात् न्यूनतापत्तेरिति भावः। किं तत्सामान्यरूपमिति जिज्ञासायामाह तच्चेति। मिथ्याशब्दार्थत्वं मिथ्यात्वसंबन्धस्य मिथ्यात्वधर्मिणश्चेति तयोर्वारणाय मिथ्याशब्दप्रवृत्तिनिमित्तत्व- रूपमिति। ननु पंचविधमिथ्यात्वानामन्यतमत्वस्याप्यनुगतत्वात्तदेव कुतो नोच्यत इत्यत आह- नत्विति। आधुनिकलक्षणयेति। मिथ्याशब्दस्य न पंचविधमिथ्यात्वान्यतमविशिष्टे शक्ति:अप्रसिद्धत्वात्। किन्तु लक्षणा । सापि न निरूढा अनादिप्रयोगाभावात्। अत: आधुनिकीत्येव वाच्यमिति भावः । असाम्प्र- दायिकत्वादिति । कथकसम्प्रदायविरुद्धत्वादित्यर्थः । ननु मिथ्याशब्दस्य मिथ्याशब्दार्थत्वरूपधर्मेऽपि न शक्ति: किन्तु लक्षणेति समानो दोष इत्यत आह- मिथ्याशब्दार्थत्वरूपेणेति। सत्यं लक्षणा, किन्तु निरूढेति न दोष इत्याह निरूढलक्षणैवेति । तत्समर्थनार्थं कोशादौ महीरुहादिपदानां तदर्थपरत्वेन प्रयोग- माह-वृक्षो महीरुह इत्यादाविति। भूरिप्रयोगदर्शनादिति। अनेन महीरुहादिपदानां महीरुहादिशब्दार्थे निरूढलक्षणायां हेतुरुक्त इति ध्येयम्। ततश्च प्रकृतेऽपि मिथ्याशब्दस्य मिथ्याशब्दार्थे भूरिप्रयोग- दर्शनानिरूढलक्षणैव, निरूढलक्षणया च न्यायवाक्ये शब्दप्रयोगस्य नासाम्प्रदायिकत्वमिति भावः। इति पक्षतावच्छेदकनिरुक्तिः।। । । ।

अद्वैतसिद्धिः सव्याख्या 73 ननु किमिदं मिथ्यात्वं साध्यते, न तावत् 'मिथ्या शब्दोऽनिर्वचनीयतावचन' इति पंचपादि- कावचनात् सदसत्त्वानधिकरणत्वरूपमनिर्वाच्यत्वं; तद्धि किं असत्त्वविशिष्टसत्त्वाभाव:, लघुचन्द्रिका ।। अथ प्रथममिथ्यात्वविचारः ।। ननु किमिदं मिथ्यात्वमित्यादि। मिथ्यात्वं मिथ्याशब्दार्थः। साध्यते तादात्म्यसंबन्धेन पक्षविशेषणतया निर्दिश्यते। अथवा मिथ्यात्वं मिथ्याशब्दार्थतावच्छेदकं। साध्यते साध्यविशे. षणतया निर्दिश्यते। मिथ्याशब्दार्थतावच्छेदकविशिष्टत्वरूपेण मिथ्याशब्दार्थत्वेन मिथ्याशब्दार्थः तादात्म्येन साध्यः; तत्र विशेषणतयोच्यमानं किमिति वाक्यार्थः । असत्त्वेत्यादि। असत्त्वसमाना- प्रकाशः ।। अथ प्रथममिथ्यात्वविचारः ।। पक्षतावच्छेदकस्य उक्तरीत्या निर्दुष्टस्य निरुक्तावपि साध्यीभूतं मिथ्यात्वं निर्दष्टं निरूपयितुमशक्य- मित्यभिप्रायेण पृच्छति मूले- ननु किमिदमिति। तद्व्याख्यातुं प्रतीकमुपादत्ते टीकायां- ननु किमिदं मिथ्यात्वमित्यादीति। तत्र मिथ्यात्वशब्दार्थमाह-मिथ्यात्वं मिथ्याशब्दार्थ इति । साध्यत इत्यस्य अनुमितिविषयीक्रियत इत्यर्थकत्वे न्यायप्रयोगकाले अनुमितेरभावादसङ्गतिरतो व्याचष्टे- साध्यत इति । नन्वेवं सदसत्त्वानधिकरणत्वरूपमनिर्वाच्यत्वं मिथ्याशब्देन तादात्म्यसम्बन्धेन पक्षविशेषणतया न तावन्निर्देष्टुमर्हमित्यर्थ: न तावदित्यादेर्वाच्यः, स च न सङ्गच्छते, तादृशानिर्वाच्यत्वस्य तादात्म्येन प्रपंच- रूपे पक्षे बाधेन तथा निर्देशस्य अप्रसक्तेस्तत्खण्डनवैय्यर्थ्यात्, तादृशानिर्वाच्यत्वाश्रयस्यैव अबाधेन तथा निर्देशप्रसक्तेरित्यत आह-अथवेति। साध्यत इत्यस्येदानीं तादात्म्यसम्बन्धेनेत्याद्यर्थकत्वं न सम्भवति, मिथ्याशब्दार्थतावच्छेदकस्यानिर्वाच्यत्वस्य तादात्म्येन पक्षे बाधात् अत आह साध्यत इति । पर्यवसितं वाक्यार्थमाह मिथ्याशब्दार्थतावच्छेदकविशिष्टत्वरूपेणेति । आश्रयतासम्बन्धेन मिथ्यापदार्थतावच्छेद- कस्य साध्यत्वं न सम्भवति, तादृशार्थप्रतिपादकप्रतिज्ञाया दुर्लभत्वात्, मिथ्याशब्दार्थ एव मिथ्या शब्दार्थत्वविशिष्टरूपेण तादात्म्यसम्बन्धेन प्रतिज्ञायां पक्षविशेषणतया निर्दिश्यते । मिथ्याशब्दार्थत्व . विशिष्टत्वं च मिथ्याशब्दार्थतावच्छेदकविशिष्टत्वम्। मिथ्याशब्दार्थतावच्छेदकविशिष्टे विशेषणतया उच्यमानं मिथ्याशब्दार्थतावच्छेदकं किमिति प्रश्नवाक्यार्थ इति भावः। सदसत्त्वानधिकरणत्वरूपा- निर्वाच्यत्वं मिथ्यापदार्थतावच्छेदकमित्यत्र आप्तवाक्यरूपं प्रमाणमाह मूले- मिथ्याशब्दोऽनिर्वचनीय- तावचन इतीति। पंच पादिकावचनादिति। उक्तं हि पंचपादिकायां ‘अध्यासो मिथ्येति भवितुं युक्त' मिति भाष्यव्याख्यानसन्दर्भे 'मिथ्याशब्दो व्यर्थ: अपह्नववचन: अनिर्वचनीयतावचनश्चेति। तद्धीति। सदसत्त्वानधिकरणत्वरूपमनिर्वाच॑त्वं हीत्यर्थः। सत्त्वविशिष्टासत्त्वाभाव इति । सदसत्त्वानधिकरणत्व. मित्यत्र सच्छब्दस्य भावप्रधानत्वेन सत्वपरत्वात् तस्य च असत्वं प्रति विशेषणत्वात्, अनधिकरणत्व - - 74 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता उत सत्त्वात्यन्ताभावासत्वात्यन्ताभावरूपं धर्मद्वयं, आहोस्वित् सत्त्वात्यन्ताभाववत्वे सति असत्त्वात्यन्ताभावरूपं विशिष्टम्। नाद्यः; सत्त्वमात्राधारे जगत्यसत्त्वविशिष्टसत्त्वानभ्युप गमात्, विशिष्टाभावसाधने सिद्धसाधनात्। न द्वितीयः; सत्त्वासत्त्वयोरेकाभावे अपरसत्त्वा- लघुचन्द्रिका धिकरणस्य सत्त्वस्यात्यन्ताभाव इत्यर्थः। सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूपम्। सत्त्वा- त्यन्ताभावासत्त्वात्यन्ताभावोभयत्वावच्छिन्नम्। सतीति। सतिसप्तम्या: सामानाधिकरण्यार्थक- त्वात्, सत्त्वात्यन्ताभावसमानाधिकरण: असत्त्वात्यन्ताभावोऽर्थः । नाद्य इति। मन्मते इति शेषः । साधनादिति। माध्वमते अलीकस्यैवात्यन्ताभावस्वीकारेणोक्तविशिष्टप्रतियोगिकाभावप्रसिद्धा वपि मतान्तरे तदप्रसिद्धिरित्यपि बोध्यम् । सत्त्वासत्त्वयोरिति । परस्पराभावरूपत्वेनेति शेषः। प्रकाशः मित्यस्य अधिकरणत्वाभाववत्वार्थकत्वात् अधिकरणत्वांशस्य च अनतिप्रयोजनकत्वेन परित्यागात् सदसत्त्वानधिकरणत्वमित्यस्मात् सत्वविशिष्टासत्वाभावलाभ:। सत्वविशिष्टासत्वाभाव इति मूलपाठ- मङ्गीकृत्यैवं विवरणं कृतम्। व्याख्यानुरोधीपाठस्तु असत्वविशिष्टसत्वाभाव इति। सत्वात्यन्ताभावा- सत्वात्यन्ताभावरूपधर्मद्वयमिति। सत्वासत्वयोः प्रत्येकमनधिकरणत्वेन अन्वयात् अधिकरणत्वस्य च अविवक्षणात् उक्ताभाव द्वयलाभ: । सत्वात्यन्ताभाववत्वे सति असत्वात्यन्ताभावरूपमिति। अनधिकर- णत्वपदस्य सच्छब्दात्परतो योजनेन अनधिकरणत्वशब्दरूपमध्यमपदलोपिसमासाश्रयणे सत्वानधिकर- णत्वस्य असत्वानधिकरणत्वं प्रति विशेषणत्वविवक्षणे च उक्तार्थलाभ इति ध्येयम्। टीकायां असत्वे- त्यादीति । तत्र च असत्वविशिष्टत्वं न सत्वाभावे विशेषणम्, स्वस्मिन् स्वविशिष्टत्वरूपविशेषण वैयर्थ्यात्। नापि सत्वे तत्, असत्वविशिष्टसत्वस्य अलीकत्वेन तदभावस्य प्रपंचे सिद्धत्वेन अभाव प्रतियोगिभूतसत्वे असत्ववैशिष्ट्यनिवेशस्य व्यर्थत्वात्, किन्तु सत्त्वे तत् उपलक्षणम् । न चैवंनिवेशोऽपि व्यर्थ इति शङ्कयम्। एकेनैवानुमानेनः प्रपंच: असत्वोपलक्षितसत्वाभाववान् दृश्यत्वादित्येवंरूपेण प्रपंचस्य सदसद्रूपतावादिनिरासार्थं तत्सार्थक्यात् । असत्वोपलक्षितसत्वस्याप्रसिद्धत्वेऽपि अप्रसिद्ध- प्रतियोगिकाभावाभ्युपगमेन चेयं कोटिरित्याशयेन व्याचष्टे-असत्वसमानाधिकरणस्य सत्वस्येति । सत्वात्यन्ताभावश्च असत्वात्यन्ताभावश्चानयो:समाहारः सत्वात्यन्ताभावासत्वात्यन्ताभावं इति समा- हारद्वन्दः, रूपशब्दः धर्मद्वयान्वय्यभेदार्थकः, धर्मद्वयमित्यस्य धर्मद्वयत्वावच्छिन्नमित्यर्थ इत्याशयेन व्याचष्टे- सत्वात्यन्ताभावेत्यादि। सति सप्तम्या इति। 'यस्य च भावेन भाव लक्षणम्' इति सूत्र विहिताया इत्यर्थः । सत्वात्यन्ताभावस्य असत्वे अन्वयभ्रमं वारयन्नभावे उपलक्षणतया अन्वय इति सूचयन् व्याचष्टे सत्वात्यन्ताभावसमानाधिकरण इति । असत्वात्यन्ताभावमात्रोक्तौ तस्य पक्षे सिद्धत्वेन सिद्धसाधनमिति समानाधिकरणान्तम् । सत्वात्यन्ताभावमात्रोक्तौ असद्रूपत्वेन अर्थान्तरं स्यादिति विशेष्योपादानम् । मन्मत इति शेष इति। मन्मते= माध्वमते । शेषपूरणफलं दर्शयन् मतान्तरे दोषान्तरमाह. - अद्वैतसिद्धिः सव्याख्या 75 श्यकत्वेन व्याघातात्, निर्धर्मकब्रह्मवत्सत्त्वासत्त्वराहित्येऽपि सद्रूपत्वेन अमिथ्यात्वोपपत्त्या अर्थान्तराच्च, शुक्तिरूप्ये अबाध्यत्वरूपसत्त्वव्यतिरेकस्य सत्त्वेऽपि बाधत्वरूपासत्त्वस्य लघुचन्द्रिका एकाभावे एकस्याभावे सति । निर्धर्मकेत्यादि । यथा केवलब्रह्मणो बाध्यत्वाभावरूपसत्त्वादिकं न धर्मः, 'केवलो निर्गुण 'इत्यादिश्रुतेः ब्रह्मनिष्ठसत्त्वस्याबाध्यत्वेनाद्वैतश्रुतिविरोधाच्च, अथच तस्य बाध्यत्वादिधर्मोऽपि नास्ति, श्रुतिप्रमितत्वात्, साक्षित्वादिनाबाध्यत्वासंभवाच्च' तेन तत् सद्रूपम्; -- प्रकाशः माध्वमत इति । मतान्तरे= नैयायिकादिमते। तदप्रसिद्धिरिति। असत्वविशिष्टसत्वाभावाप्रसिद्धिरि- त्यर्थः। तथा च तन्मते सिद्धसाधनासम्भवादिदमेव दूषणमिति भावः। मूलोक्ते सत्वासत्वयोरेकाभावे अपरसत्वावश्यकत्वे हेतुं शेषपूरणेनाह- परस्पराभावरूपत्वेनेति शेष इति । परस्पराभाव -रूपत्वेन- सत्वाभावः असत्वं असत्वाभाव: सत्वं इत्येवंरूपत्वेन। एकाभावे इत्यत्र एकश्चासावभावश्चेति कर्मधारयाङ्गीकारेण सत्वासत्वोभयप्रतियोगिके अन्यतरत्वावच्छिन्नप्रतियोगिताके एकस्मिन्नभावे सत्यपि नापरसत्वावश्यकत्वमित्यत:षष्ठीतत्पुरुषं स्वीकृत्य व्याचष्टे- एकस्याभाव इति। सतीति पूरितम्। मूले आवश्यकत्वेनेति। असत्वस्य सत्वाभावरूपत्वात् तस्मिन्नसति असत्वं स्यादेवेति भावः। टीकायां केवलब्रह्मण इति । शुद्धब्रह्मण इत्यर्थः। न धर्म इति। बाध्यत्वात्यन्ताभावस्य अधिकरणीभूत ब्रह्माभिन्नत्वेन धर्मधर्मिभावासंभवादिति भावः । ननु बाध्यत्वात्यन्ताभावत्वविशिष्टत्वेन रूपेण बाध्यत्वा - त्यन्ताभावस्य ब्रह्मभिन्नतया तेन रूपेण बाध्यत्वात्यन्ताभावब्रह्मणोधर्मधर्मिभावसंभव इत्यत आह- केवलो निर्गुण इति । निर्गुणः = स्वसमसत्ताकधर्मशून्यः । तथा च बाध्यत्वाभावत्वविशिष्टस्य मिथ्यात्वेन ब्रह्मसमसत्ताकत्वाभावात् तादृशाभाववत्वेऽपि ब्रह्मण: न सधर्मकत्वापत्तिरिति भावः । ननु केवलो निर्गुण इति श्रुतौ गुणमात्रोपादानात् बाध्यत्वाभावस्य च अगुणत्वेन ब्रह्मणि तदङ्गीकारे किं बाधकम्, अत आह- ब्रह्मनिष्ठेति । सत्वस्येति । बाध्यत्वात्यन्ताभावस्येत्यर्थः । न च उक्ताभावस्य ब्रह्मरूपत्वेन तन्निष्ठत्वोक्तय संगतिरिति शंक्यम्। अतिरिक्तत्वाङ्गीकारेण तदुक्तेः। अबाध्यत्वेनेति। तस्य बाध्यत्वे तु न ब्रह्म तेन सधर्मकमिति भावः । अद्वैतश्रुतिविरोधादिति । 'नेह नानास्ति किंचन' इत्यादिश्रुत्या ब्रह्मणि स्वसमान - सत्ताकस्वेतरसर्वनिषेधबोधनादिति भावः। ननु बाध्यत्वात्यन्ताभावस्य ब्रह्मण्यसत्वे तत्प्रतियोगिभूत बाध्यत्वरूपधर्मः तत्र स्यात्, प्रतियोग्यभावयोरेकस्य असत्वे अपरसत्वनियमादित्यत आह- अथचेति। श्रुतिप्रमितत्वादिति। 'सत्यं ज्ञानं' इत्यादिश्रुतिप्रमितत्वादि त्यर्थः। तथाच ब्रह्मणि बाध्यत्वाङ्गीकारे तादृशश्रुतेरप्रामाण्यापत्तिः । उक्तनियमस्तु असति बाधक एवेति भावः । ननु ब्रह्मणो बाध्यत्वेऽपि स्वर्गादि- प्रतिपादकश्रुतिवत् ब्रह्मप्रति पादकश्रुतीनां व्यावहारिकप्रामाण्योप पत्तिरित्यत आह- साक्षित्वादिनेति । साक्षित्वं-भासकत्वम्। यथा चन्द्रबिम्बादिस्वावच्छेदकराहुभासकं तद्वत् ब्रह्मैव स्वावच्छेदकाविद्यादि- भासकम् । बाध्यत्वं त्रैकालिकपारमार्थिकाभावप्रतियोगित्वम्। ततश्च यदि ब्रह्मणः कालत्रयेऽपि - 76 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता .. - व्यतिरेकासिद्ध्या साध्यवैकल्याच्च। अत एव न तृतीयः; पूर्ववद्व्याघातात्, अर्थान्तरा त्साध्यवैकल्याच्च- इति चेत्, मैवं। सत्त्वात्यन्ताभावासत्त्वात्यन्ताभावरूपधर्मद्वयविवक्षायां दोषाभावात् । न च व्याहति:। सा हि सत्त्वासत्त्वयोः परस्परविरहरूपतया वा , परस्परविरह लघुचन्द्रिका तथा प्रकृतानुमानात् प्रपञ्चस्योक्तसत्त्वाभावसिद्धावपि न बाध्यत्वम्; स्वत:प्रमाणप्रत्यक्षादि प्रमाविषयत्वात्, तेन सोऽपि सद्रूप इति सद्रूपत्वविरोधिमिथ्यात्वासिध्द्यार्थान्तरमिति भावः । अत:शब्दार्थस्य विवरणम् पूर्ववदित्यादि। व्याहति: प्रपञ्चे उक्तव्याघात:। सा हीत्यादि। प्रकाशः पारमार्थिकोऽभाव: स्यात् तदा अविद्यादीनां भानं न स्यात्। आदिपदेन प्रपंचाध्यासाधिष्ठानत्वादिकं ग्राह्यम्। तथाहि- ब्रह्म यदि बाध्यं स्यात् सर्वप्रपंचाध्यासाधिष्ठानं न स्यात् अध्यस्तापेक्षया अधिक सत्ताकस्यैव अधिष्ठानत्वदर्शनात् इति भावः। तेन= बाध्यत्वतदभावरूपयो: सत्वासत्वयोरसम्भवेन । सद्रूपमिति । इति स्वीकर्तव्यमिति शेषः । अन्यथा सदेव सोम्येदमग्र आसीदिति श्रुतौ सदिति व्यवहारानु- पपत्तेः। न च सत्वरूपधर्मानङ्गीकारे सदिति व्यवहारो न सम्भवति, पदानां किंचिद्धर्मपुर- स्कारेणैव धर्मिबोधकत्वनियमादिति वाच्यम् । आकाशपदेन आकाशरूपधर्मिमात्र बोधनस्य मणिकारादिभिरङ्गीकृत- त्वेन तादृशनियमस्य अभावेन इहापि सत्पदेन ब्रह्मरूपधर्मिमात्रबोधनसम्भवादिति भावः। उक्तेति । असत्वाभावसमानाधिकरणेत्यर्थः । नन्वेवं शुक्तिरजतान्तर्भावेण असत्वाभावसमानाधिकरणसत्वात्यन्ता- भावे बाध्यत्वव्याप्यत्वस्य गृहीतस्य भङ्ग:स्यादिति चेन्न, इष्टत्वात्। ब्रह्मान्तर्भावेण तद्भङ्गप्रदर्शनायैव निर्धर्मकेत्यादिदृष्टान्तोपादानादिति भावः । ननु प्रमाणप्रमितत्वरूपबाध्यत्वबाधकाभावे सति उक्तसत्वा- भाववत्वं बाध्यत्वव्याप्यमिति नियम:। न च तस्य ब्रह्मणि भङ्गः । ब्रह्मण: श्रुतिप्रमितत्वेन सत्यन्ताभावेन विशिष्टस्यैव अभावादित्याशङ्कय तर्हि प्रपंचेऽपि बाध्यत्वबाधकसत्वान्नोक्तनियमभङ्गापत्तिरित्याह- स्वत इति । प्रत्यक्षेति। अयं घट इत्याद्याकारकेत्यादिः। प्रमाविषयत्वादिति। श्रुतिजन्यज्ञानस्य यथा स्वत: प्रमात्वं तद्विषयत्वस्य ब्रह्मणि बाध्यत्वबाधकत्वं च तथा प्रत्यक्षादेरपि स्वत:प्रमात्वेन तद्विषयत्वस्य प्रपंचे बाध्यत्वबाधकत्वमङ्गीकार्यमिति भावः । सद्रूप इति । अन्यथा सन् घट इत्यादि-प्रत्यक्षानुपपत्ति:स्यादिति भावः। ननु उक्तरीत्या प्रपंच: सद्रूप एवास्तु, तथापि तस्य अनुमानत: सत्वात्यन्ताभावासत्वात्यन्ता- भावोभयत्वावच्छिन्नवत्वरूपमिथ्यात्वसिद्धिर्निष्प्रत्यूहैवेत्यत आह- सद्रूपत्वविरोधीति। अर्थान्तरमिति । प्रपंचे पराभ्युपगतस्य सद्रूपत्वस्य निरासाय सद्रूपत्वविरोधिमिथ्यात्वसिद्धिरेवोद्देश्या, उक्तमिथ्यात्वं च न उक्तरीत्या सद्रूपत्वविरोधीति तत्सिद्धेरनभिलषितत्वादर्थान्तरमिति भावः। पूर्ववद्व्याघातादित्यादेः अत एवेत्यनेन पौनरुक्त्यं वारयति- अत:शब्दार्थस्येति। नापि व्याघात इति वक्ष्यमाणग्रन्थेन पौनरुक्त्य वारणाय न च व्याहतिरित्यत्र व्याहतिपदार्थ व्याचष्टे- प्रपंचे उक्तव्याघात इति । सत्वासत्वयोरेकस्याभावे अपरस्य सत्वावश्यकत्वेन प्रपंचस्य सत्वात्यन्ताभावासत्वात्यन्ताभावद्वयवत्तानुपपत्तिरूप: अनुमाने प्रति ।

अद्वैतसिद्धिः सव्याख्या 77 व्यापकतया वा, परस्परविरहव्याप्यतया वा । तत्र नाद्यः; तदनङ्गीकारात् । तथाह्यत्र त्रिकाला- बाध्यत्वरूपसत्त्वव्यतिरेको नासत्त्वं, किन्तु क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वानधि- करणत्वम्। तद्व्यतिरेकश्च साध्यत्वेन विवक्षितः। तथा च त्रिकालाबाध्यविलक्षणत्वे सति - लघुचन्द्रिका सत्त्वस्याभावोऽसत्त्वं असत्त्वाभावः सत्त्वमिति वा सत्त्वाभावव्यापकमसत्त्वं, असत्त्वाभावव्यापकं सत्त्वमिति वा, सत्त्वाभावव्याप्यमसत्त्वम्, असत्त्वाभावव्याप्यं सत्त्वमिति वा, व्याघाते हेतुरित्यर्थः । तदनङ्गीकारात् प्रकृते निवेशनीययोः सत्त्वासत्त्वयोः परस्परविरहत्वास्वीकारात्। प्रतीयमानत्व रूपं प्रतीयमानत्वयोग्यत्वम्, तच्च सत्तादात्म्यवत्त्वमेव। ननु- सत्त्वेन प्रतीयमानत्वं न दृश्यमाने ऽस्ति, घटो गुरुरित्यादिप्रमामात्रसिद्धे गुरुत्वादौ सत्त्वेन प्रत्यये मानाभावात्; तथाच तद्योग्यत्वमपि नास्ति, अत: सत्त्वस्य विशेषणमुक्तम् क्वचिदप्युपाधाविति। किंचिद्धर्मिनिष्ठं यत् सत्त्वं तेन प्रतीयमानत्वे त्यन्वयः। तथाच गुरुत्वादेरपि घटाद्यवच्छिन्नचित्यारोपात्तद्गतस्य सत्त्वस्य तत्रारोपात्, पृथिव्यादिनिष्ठगुरुत्वादिकं सदिति प्रत्ययाच्च सर्वत्र दृश्ये सत्त्वेन प्रतीयमानत्वयोग्यतास्तीति भावः । त्रिकालाबाध्यविलक्षणत्वे सतीति। त्रिकालाबाध्यत्वात्यन्ताभावे यत् सद्विद्यमानं त्रिकाला बाध्यत्वात्यन्ताभावसत्तादात्म्योभयत्वं तत्संबन्धीत्यर्थः । तस्य च प्रतीयमानत्वेत्यत्रान्वयः। प्रकाशः -- कूलतर्क इत्यर्थः। सत्वमिति वा इत्यादौ सर्वत्र इतिपदोत्तरं अभ्युपगम इति शेषः। व्याघाते= तर्के। हेतुरिति। आपाद्यव्यतिरेकनिर्णयविधयेत्यादिः। ततश्च सत्त्वस्याभावोऽसत्वमित्यत्र असत्वं यदि सत्वाभावसमानाधिकरणस्वाभावकं स्यात् तर्हि सत्वाभावरूपं न स्यादिति तर्कमूलभूतसत्वाभावसमाना. धिकरणस्वाभावकं यत् तत् सत्वाभावरूपं नेति विशेषव्याप्तौ सत्वं दृष्टान्तः। यत् यदभावसमानाधिकरण स्वाभावकं तत् न तदभावरूपमितिसामान्यव्याप्तौ तु घटादिकम्। एवं सत्वं यदि असत्वाभावसमाना- धिकरणस्वाभावकं स्यात् तर्हि असत्वाभावरूपं न स्यात् इति प्रथमकल्पे द्वितीयस्तर्कः। तन्मूलभूत व्याप्तिश्च असत्वाभावसमानाधिकरणस्वाभावकं यत् तत् असत्वाभावरूपं इति। तत्र दृष्टान्त: असत्वम्। सामान्यव्याप्तौ तु घटादिकम् । एवं द्वितीयकल्पे असत्वं यदि सत्वाभावसमानाधिकरणस्वाभावकं स्यात् तदा सत्वाभावव्यापकं न स्यादिति तर्कः। तत्र च सामान्यव्याप्तौ वह्नयभावसमानाधिकरणस्वाभावक: वल्यभावाव्यापक: धूमो दृष्टान्तः। एवं सत्वं यदि असत्वाभावसमानाधिकरणस्वाभावकं स्यात् तर्हि असत्वाभावव्यापकं न स्यात् इति द्वितीयस्तर्कः। तत्रापि सामान्यव्याप्तौ धूम एव दृष्टान्तः । एवं तृतीय कल्पे असत्वं यदि सत्वाभावसमानाधिकरणस्वाभावकं स्यात् तर्हि सत्वाभावव्याप्यं नस्यादिति प्रथम . स्तर्कः। तत्र घटादि: सामान्यव्याप्तौ दृष्टान्तः। तथा सत्वं यदि असत्वाभावसमानाधिकरणस्वाभावकं स्यात् तर्हि असत्वाभावव्याप्यं न स्यादिति तृतीयकल्पे द्वितीयस्तर्कः । अत्रापि यत् यदभावसमानाधिकर. णस्वाभावकं तत् न तदभावव्याप्यं इत्यत्र घटादिर्दृष्टान्त: । एतैश्च तर्कैः प्रपंच रूपैकधर्मिणि सत्वाभावा - - 78 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता प्रकाश: । सत्वाभावयो: सामानाधिकरण्यावगाहिन्या: तदभाववत्वानुमितेः प्रतिबन्ध: संभवति। सत्वाभावासत्वा- भावयो: सामानाधिकरण्याभावसाधकत्वात् । तत्साधकत्वं च सामानाधिकरण्ये अनिष्टापादकत्वात्। तत्र प्रथमकल्पे प्रथमतर्के असत्वस्य सत्वाभावरूपत्वाभावापत्तिः, द्वितीयतर्के सत्वस्य असत्वाभावरूपत्वा - भावापत्ति: अनिष्टा, असत्वस्य सत्वाभावरूपत्वस्य सत्वस्य च असत्वाभावरूपत्वस्य अभ्युपगमात् । एवं द्वितीयकल्पे प्रथमे तर्के असत्वस्य सत्वाभावव्यापकत्वाभावापत्तिः द्वितीये सत्वस्य असत्वाभावव्यापक - त्वाभावापत्ति: अनिष्टा, असत्वे सत्वाभावव्यापकत्वस्य सत्वे च असत्वाभावव्यापकत्वस्य अभ्युप . गमात्। एवं तृतीयकल्पे असत्वे सत्वाभावव्याप्यत्वस्य सत्वे च असत्वाभावव्याप्यत्वस्य च अभावा- पत्तिरनिष्टा, असत्वे सत्वाभावव्याप्यत्वस्य सत्वे च असत्वाभावव्याप्यत्वस्य अभ्युपगमात्, इति शङ्कितु- राशय: । तदनङ्गीकारादिति मूलस्य कुत्रापि सत्वासत्वयो: परस्परविरहरूपत्वानङ्गीकारार्थकत्वभ्रमं वारयति प्रकृत इति। मिथ्यात्वानुमान इत्यर्थः । परस्परविरहरूपत्वास्वीकारादिति । तथा च असत्वं सत्वाभाव रूपं न स्यात् सत्वं च असत्वाभावरूपं न स्यादित्यत्र इष्टापत्तिरिति न प्रथमकल्पोक्ततर्काभ्यां अनुमिति प्रतिबन्ध इति भावः। अनङ्गीकारमुपपादयति मूले तथाहीति। न असत्वमिति । शुक्तिरजतादौ मिथ्याभूते उक्तविधासत्वाभावस्यासम्भवादिति भावः। क्वचिदप्युपाधौ= कस्मिंश्चिदपि धर्मिणि । प्रतीयमानत्वा नधिकरणत्व- प्रतीयमानत्वाभाववत्वम्, असत्वमित्यनुषज्यते। तथा च क्वचिदप्युपाधौ सत्वेन प्रतीय- मानत्वाभावरूपासत्वस्य अभावः, तादृशप्रतीयमानत्वं,न च तत् त्रिकालाबाध्यत्वरूपं सत्वं, बाध्ये शुक्तिरजतादावपि सत्वादिति न सत्वासत्वयो:परस्परविरहरूपतेति भावः । अत्र प्रतीयमानत्वाभावाभाव- त्वेन प्रतीयमानत्वनिवेशे गौरवादाह तथाचेति प्रतीयमानत्वमित्यत्र शानजर्थवर्तमानत्वविवक्षणे प्रतीत्यभावकाले मिथ्यात्वाभावापत्तेस्तदविवक्षा सूचयति टीकायां-प्रतीयमानत्वयोग्यत्वमिति । तच्च- सत्वेन प्रतीयमानत्वयोग्यत्वं च। सत्तादात्म्यवत्वमेवेति। उक्तयोग्यत्वं सत्वप्रकारकप्रतीतिविषयता प्रयोजकरूपवत्वम्। तच्च रूपं सद्रूपब्रह्मभिन्ने प्रपंचे सत्तादात्म्यवत्वमेव, सत्तादात्म्यापन्ने सत्त्वप्रतीतेरा - वश्यकत्वादिति भावः। क्वचिदप्युपाधाविति मूलोक्तं विशेषणं अवतारयति- नन्विति । दृश्यमाने = दृश्य सामान्ये। न अस्तीति। गुरुत्वादावतीन्द्रिये तदभावादिति भावः । ननु गुरुत्वस्य सत्वेन प्रतीत्यभावे तस्य सिद्धिरेव नस्यादित्यत आह- घटो गुरुरिति। प्रमामात्रसिद्ध इति। मात्रपदेन गुरुत्वं सदिति प्रतीते निरास: । घटस्सन् इत्याकारकप्रत्यक्षं सर्वसिद्धं घटादीनां साधकं, गुरुत्वादीनां तु अतीन्द्रियत्वात् न गुरुत्वं सत् इति प्रत्यक्षं साधकं, नापि गुरुत्वं सत् इत्याकारिका अनुमितिः, गुरुत्वरूपपक्षस्यैवासिद्धेः, किन्तु घटो गुरुः पतनादिति पतनहेतुका अनुमितिरेवेति भावः। ननु गुरुत्वादौ सत्वेन प्रतीतिविषयत्वाभावेऽपि तद्योग्यत्वं स्यादित्यत आह तथा चेति । सत्वेन प्रतीतिविषयत्वाभावे चेत्यर्थः । नास्तीति । तज्जातीये क्वचिदपि वा प्रतीतिविषयत्वसत्व एव तत्र तद्योग्यत्वमिति गुरुत्वादौ मिथ्यात्वासिद्ध्या तेषां सत्यता स्यादिति भावः। सत्वस्य विशेषणमुक्तमिति। ततश्च क्वचिदप्युपाधावित्यस्य न प्रतीतावन्वय:किन्तु सत्वे इत्युक्तं भवति। तदेव विशदयति-किंचिद्धर्मिनिष्ठमिति । तेन प्रतीयमानत्वेति । तत्प्रकारकप्रतीति विषयत्वेत्यर्थः । प्रतीतिश्च भ्रमसाधारणी निवेश्यत इति भावः । आरोपादिति । तादात्म्येनेत्यादिः।

अद्वैतसिद्धि: सव्याख्या 79 क्वचिदप्युपाधौ सत्त्वेन प्रतीयमानत्वरूपं साध्यं पर्यवसितम्। एवं च सति न शुक्तिरूप्ये साध्यवैकल्यमपि । बाध्यत्वरूपासत्त्वव्यतिरेकस्य साध्याप्रवेशात्। नापि व्याघात:; परस्पर - विरहरूपत्वाभावात्। अत एव न द्वितीयोऽपि, सत्त्वाभाववति शुक्तिरूप्ये विवक्षितासत्त्व- लघुचन्द्रिका तथाच कालाद्यवच्छिन्नं यदबाध्यत्वं तदत्यन्ताभाव: सत्तादात्म्यं चेत्युभयवत्त्वं साध्यम् । यथाश्रुते तु त्रिकालाबाध्यत्वात्यन्ताभावसमानाधिकरणस्य सत्तादात्म्यस्य लाभात्तस्य च वक्ष्यमाणत्वात् पौनरुक्त्यम् । व्याघात: शुक्तिरूप्ये उक्तो व्याघात: । प्रपञ्चे व्याहत्यभावस्य पूर्वोक्त्यैव शुक्तिरूप्ये- प्रकाशः - तद्गतेति। घटाद्यवच्छिन्नचिद्गतेत्यर्थः । तत्र = गुरुत्वादौ। आरोपादिति। यस्मिन् धर्मिणि यस्य तादात्म्येन आरोप: तत्र तद्धर्मिगतधर्मस्य आरोपनियमात्, यथा दीर्घरज्वादावारोपितसर्पादौ रज्जुगतदीर्घत्वारोप इति भाव:। सदिति प्रत्ययाच्चेति। अयं च प्रत्यय: पतनलिङ्गकघटो गुरुरित्याकारकानुमितिसिद्धं यद्गुरुत्वं तत्पक्षिका घटनिष्ठगुरुत्वं सत् घटरूपसद्विशेष्यकप्रतीतिप्रकारत्वादिति अनुमानजन्या या अनुमिति: तद्रूपो बोध्यः, गुरुत्वं सदिति प्रत्यक्षप्रतीतेरसंभवात्। सर्वत्र दृश्ये= अतीन्द्रियगुरुत्वादावपि। अस्तीति भाव इति । तथा च तेषामपि मिथ्यात्वा न सत्यतापत्तिरिति भावः। त्रिकालाबाध्यविलक्षणत्वे सतीत्यादिमूलस्य सत्वात्यन्ताभावासत्वात्यन्ता भावोभयत्वावच्छिन्नरूपसाध्यपरिष्काररूपत्वं नोचितं, विलक्षणत्वे सती त्यनेन वैलक्षण्यवैशिष्ट्यस्यैव असत्त्वाभावे प्रत्ययात्, सत्त्वात्यन्ताभाववत्वे सतीत्यनेन पौनरुक्त्याच्चेत्यत आह त्रिकालेति। विलक्षणत्वे सतीत्यत्र विलक्षणत्वं न भेदः, सत्प्रतियोगिकभेदद्वयं वा साध्यमित्यनेन पौनरुक्त्यप्रसङ्गात्, अत्यन्ताभावोपक्रमानानुगुण्याच्चेत्याशयेनाह त्रिकालाबाध्यत्वात्यन्ताभावे इति । यत् सत् विद्यमानमिति। अनेन विलक्षणत्वे इति सतिसप्तमी न, सति इत्यपि तद्द्योतकं न, सप्तम्यौ च व्यधिकरणे इति सूचितम् । ततश्च सतीत्यस्य अस्तीति सत् तस्मिन्नित्यपि विवरणं सूचितं भवति । विलक्षणत्वइति सप्तम्या: निरूपितत्वमर्थः तस्य च सत्पदार्थैकदेशाधेयतायामन्वयः। तथा च त्रिकाला- बाध्यविलक्षणत्वे सत् इत्यस्य त्रिकालाबाध्यत्वात्यन्ताभावनिरूपिताधेयतावदित्यर्थः । तत्सम्बन्धीति तादृशोभयत्वसम्बन्धीत्यस्यार्थः । उभयत्वे आधेयतासम्बन्धेन उभयस्य सत्त्वात् उभयं उभयत्वसम्बन्धि। उभयत्वाश्रयेति यावत्। ततश्च अस्य उभयत्वावच्छिन्नरूपसाध्यपरिष्कारत्वानुपपत्तिर्नेति भावः । पर्यवसितमर्थमाह तथाचेति । बाध्यत्वात्यन्ताभावस्य व्याप्यवृत्तित्वे व्याप्यवृत्तेरवच्छेदकानुपगमे काल - त्रयावच्छिन्नत्वरूपं त्रिकालत्वं तस्य न सम्भवतीत्यत आह कालाधनवच्छिन्नमिति। देश: आदिपदेन ग्राह्यः। अबाध्यत्वमिति ब्रह्मणि प्रसिद्धमिति शेषः। यथाश्रुतपरित्यागे बीजमाह- यथाश्रुतेत्विति। वक्ष्यमाणत्वादिति । अत एव सत्वात्य- न्ताभाववत्वे सतीत्यनेनेत्यादिः। न च व्याहतिरिति पूर्वतनग्रन्थेन नच व्याघातइत्यस्य पौनरुक्त्यपरिहारार्थं व्याघातपदार्थं व्याचष्टे- शुक्तिरूप्य इति। दृष्टान्त इति शेषः। उक्त इति । शुक्तिरूप्ये इत्यादिग्रन्थेनेत्यादिः । व्याघात: साध्यवैकल्यम् । पूर्वोक्त्येति । नाद्य:, - 80 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता .. व्यतिरेकस्य विद्यमानत्वेन व्यभिचारात् । नापि तृतीयः, तस्य व्याघाताप्रयोजकत्वात्, गोत्वा श्वत्वयो: परस्परविरहव्याप्यत्वेऽपि तदभावयोरुष्ट्रादावेकत्र सहोपलम्भात्। लघुचन्द्रिका ऽप्यर्थात्तस्य लब्धत्वेऽपि ‘अतएव न द्वितीय' इत्याधुक्तिवैचित्र्याय नापीत्याधुक्तम्। सत्स्वभावता सदाकारबुद्धौ विशेषणता। ननु- सा ब्रह्मण एवास्तु- तथापि प्रपञ्चस्योक्तरीत्या सद्रूपता किमिति न स्यात्- इति चेन्न। यत: प्रपञ्चे तस्याः स्वीकारे तार्किकादिमते घट: सन्नित्याकारप्रत्यये प्रकाश: - - । तदनङ्गीकारादित्युक्त्येत्यर्थः । लब्धत्वेऽपीति । सत्वासत्वयो: परस्परविरहरूपत्वे हि शुक्तिरूप्ये सत्वाभावे असत्वस्य आवश्यकत्वेन असत्वाभावे च सत्वस्य आवश्यकत्वेन सत्वाभावासत्वाभावोभयवत्वं न स्यादिति साध्यवैकल्यं स्यात्। तदनङ्गीकाराच्च न तद्वैकल्यमिति प्रपंचे उभयाभाववत्वप्रतिपादनादेव लभ्यत इति भावः। तथा च 'नापि व्याघात: परस्पर विरहरूपत्वाभावा'दित्यस्य पौनरुक्त्यमस्त्येवेति भावः। सप्रयोजनत्वात् पौनरुक्त्यं न दोष इत्याह- अत एवेति। उक्तिवैचित्र्यायेति। अत एव नद्वितीय इत्यत:शब्देन परस्परविरहरूपत्वाभावस्य परामर्शेन एकया परस्परविरहरूपत्वाभावरूपयुक्त्यैव कल्प द्वयनिरासादुक्तेर्वैचित्र्यमिति भाव: । मूले परस्परेत्यस्य सत्वासत्वयोरित्यादिः । अत एवेति । सत्वासत्वयो: परस्परविरहरूपत्वाभावादेवेत्यर्थः। तयो:परस्पराभावरूपत्वे हि सत्वाभाववति शुक्तिरूप्ये असत्वस्य आवश्यकत्वेन असत्वस्य सत्वाभावव्यापकताया: सम्भवेन तादृशासत्वाभावस्य शुक्तिरूप्ये असम्भवेन साध्यवैकल्यरूपव्याधात: स्यात्, तदेव नेति भाव: । द्वितीयोऽपीति । व्याघात इत्यनुषज्यते। सत्त्वा सत्त्वयोः परस्परविरहव्यापकत्वप्रयुक्त: व्याघात इत्यर्थः । कुतो नेत्यत आह- सत्वाभाववतीति । विव क्षितेति। कचिदप्युपाधौः सत्त्वेन प्रतीयमानत्वाभाववत्वरूपेत्यर्थः । व्यभिचारादिति। सत्त्वाभावे असत्त्वस्य असत्त्वाभावे सत्त्वस्य व्यभि चारादित्यर्थः । शुक्तिरूप्ये विवक्षितासत्वाभाववति त्रिकाला- बाध्यस्वरूपसत्वस्य अभावात् तत्रैव उक्त सत्वाभाववति उक्तासत्वस्य अभावात् व्यभिचारेण न परस्पर - विरहव्यापकत्वम्। ततश्च द्वितीयकल्पोक्ततर्कयोरपि इष्टापत्तिपराहतत्वेन न ताभ्यामुभयवत्तानुमिति प्रतिबन्ध इति भावः । तस्य = परस्परविरहव्याप्यतोपगमस्य। व्याघाताप्रयोजकत्वादितिः। परस्परविरह. व्याप्यत्वाभावापत्तिरूपतर्के अकारणत्वादित्यर्थः। असत्वे सत्वाभावसमानाधिकरणस्वाभावकत्वरूपा पादकोपगमेऽपि व्यापकस्य अधिकदेशवृत्तिताया व्याप्यस्य व्याप्यत्वाभंजकत्वात् । यथा धूमे वहयभाव - समानाधिकरणस्वाभावके वढेरधिकदेशवृत्तित्वस्य वहिव्याष्यत्वाभंजकत्वं तथा । अतः तुच्छान्तर्भावेण असल्वस्य सल्वाभावव्याष्यत्वोपपत्तिः संभवतीति आपादकापाद्ययोः व्याप्तिरूपमूलशैथिल्यादिति भावः। ननु असत्वे सत्वाभावसमानाधिकणस्वाभावकत्वरूपापादकस्य सल्वाभावव्याप्यत्वाभावेन विशेषव्याप्त्यभावेन तदापादनासंभवेऽपि यो यदभाव समानाधिकरणस्वाभावकः स न तदभावव्याष्य इति सामान्यव्याप्त्यैव तादृशापत्ति: संभवतीत्यत: तादृशव्याप्तौ व्यभिचारमाह-गोत्वाश्वत्वयोरिति।

अद्वैतसिद्धिः सव्याख्या 81 यच्च- निर्धर्मकस्य ब्रह्मण: सत्त्वराहित्येऽपि सद्रूपत्त्ववत्प्रपंचस्य सद्रूपत्वेनामिथ्यात्वोपपत्त्या अर्थान्तरं - उक्तम् । तन्न। एकेनैव सर्वानुगतेन सर्वत्र सत्प्रतीत्युपपत्तौ ब्रह्मवत् प्रपंचस्य लघुचन्द्रिका शुद्धसत्ताया विशेषणत्वादन्यैरपि तादृशप्रत्यये शुद्धसत एव तादात्म्येन विशेषणत्वं वाच्यम्, तथाच प्रपञ्चे बाध्यत्वाभाववैशिष्ट्यं नोक्तप्रत्ययेन सिद्ध्यति,नापि घटोऽबाध्य इत्यादिप्रत्ययेन,तस्याबाध्य- ब्रह्मतादात्म्यविषयकत्वेनाप्युपपत्तावबाध्यत्वप्रपञ्चयोर्वैशिष्ट्यविषयकत्वे मानाभावात् । प्रकाशः परस्परविरहव्याप्यत्वेऽपीति । गोत्ववति नियमेन अश्वत्वाभावस्य अश्वत्ववति च गोत्वाभावस्य सत्वात् तयोः परस्परविरहव्याप्यत्वमिति भावः। तदभावयो:= गोत्वाभावाश्वत्वाभावयोः। सह= एककाला वच्छेदेन। उपलम्भादिति । तथा च गोत्वे उष्ट्रान्तर्भावेण अश्वत्वाभावसमानाधिकरणस्वाभावके अश्व. त्वाभावव्याप्यत्वाभावस्य, तथैव अश्वत्वे तदन्तर्भावेणैव गोत्वाभावसमानाधिकरणस्वाभावके अश्वत्वा- भावव्याप्यत्वाभावस्य च असत्वाद्व्यभिचार इति तृतीयकल्पोक्ततर्कयोरपि व्याप्तिरूपमूलशैथिल्या त्ताभ्यां न उभयवत्तानुमिति प्रतिबन्ध इति भावः। उक्तमर्थान्तरं निरसितुमनुवदति यच्चेति । तन्निरस्यति तन्नेति । कुत इत्यत आह एकेनैवेति। सद्रूपेण ब्रह्मणेति शेषः । सर्वानुगतेन= तादात्म्यसंबन्धेन सर्वसंबद्ध- तया सर्वत्र विशेषणतया भानयोग्येन । सर्वत्र= घटपटादौ। सत्प्रतीति: घटस्सन् पटस्सन् इत्यादिप्रतीतिः । प्रत्येक घटपटादिरूपप्रतिव्यक्तेः । मानाभावादिति । तथा च प्रत्येकं सत्स्वभावताकल्पेन गौरवं स्यादिति भाव: । टीकायां- सदाकारबुद्धाविति । घट: सन् इत्यादिबुद्धावित्यर्थः । शङ्कते-नन्विति । सा= सदाकार - बुद्धौ विशेषणता। ब्रह्मण एवेति। सद्रूपस्येत्यादि:। उक्तरीत्येति। सत्वासत्वयोरभावेऽपि स्वत:प्रमाण प्रत्यक्षप्रमितत्वेनेत्याधुक्तरीत्येत्यर्थः। सद्रूपता= ब्रह्मवदबाध्यरूपता। किमितीति। कुतो बाधकादि त्यर्थः। तथा च बाधकाभावात् घटादेरबाध्यरूपता स्यादेवेति भावः। सद्रूपतासाधकाभाव एव तत्त्वे बाधक इत्यभिप्रायेण समाधत्ते- नेति। ननु घट:सन् इति प्रतीतौ सद्रूपो घट एव घटांशे विशेषणतया भातीति सैव घटादे: सद्रूपत्वसाधिकेत्यत आह- यत इति । तस्याः = सद्रूपताया:। स्वीकारे = स्वीकारे - ऽपि। तार्किकादिमत इति। आदिपदेन मीमांसकादयो ग्राह्या: । शुद्धसत्ताया: = किंचिदविशिष्टसत्तारूप जातेः। विशेषणत्वात् = विशेषणत्वाङ्गीकारात्। अन्यैरपि = घटादौ सत्त्वरूपधर्माभावमङ्गीकुर्वद्भिरपि। तादृशप्रत्यये = घट:सन्नित्यादिप्रत्यये। शुद्धसत एव= शुद्ध सद्रूपब्रह्मण एव। एवकारेण सद्रूपत्वेन अभ्युपगम्यमानघटादे: अबाध्यत्वाख्यसत्त्वरूपधर्मस्य च विशेषणत्वव्यवच्छेदः । प्रत्येकं घटादे: सद्रूपत्व- मभ्युपगम्य तस्य विशेषणत्वे गौरवात्, अनुगतव्यवहाराभावप्रसङ्गाच्च, अननुगतेन धर्मेण अनुगतव्यव हारासंभवात्। अबाध्यत्वरूपधर्मस्य चानुपगमात्। तादात्म्येन =तादात्म्यसंबन्धेन। विशेषणत्वं विशेषणत्वेन भानम्। ननु घट:सन्निति प्रतीत्यैव घटादेर्बाध्यत्वाभावरूपसत्ववैशिष्ट्यं तेन च सद्रूपत्वं सिद्ध्यतीत्यत आह- तथाचेति । घट:सन् इत्यादिप्रतीतौ शुद्धसद्रूपब्रह्मण एव तादात्म्येन विशेषणत्वे - %D 82 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका नच-विनिगमकाभावः । शुद्धसदाकारपूर्वोक्तप्रत्ययसिद्धस्य ब्रह्मप्रपञ्चतादात्म्यस्यैवैतत्प्रत्ययविषय- त्वसंभवेनोक्तवैशिष्ट्यस्य तद्विषयताकल्पने गौरवस्यैव विनिगमकत्वात् । नापि प्रत्यक्षादीनां स्वत: प्रामाण्यबलेन तत्कल्पनम् ; प्रत्यक्षादीनां व्यावहारिकमेव प्रामाण्यमित्यस्य वक्ष्यमाणत्वात् । ननु- - - प्रकाश: चेत्यर्थः । बाध्यत्वाभावेति । कालाधनवच्छिन्नेत्यादिः । उक्तप्रत्ययेन = घट:सन्नित्यादिप्रतीत्या। इत्यादि- प्रत्ययेनेति। बाध्यत्वाभाववैशिष्ट्यं सिद्ध्यतीत्यनुषङ्गः। कुत इत्यत आह तस्येति। घटोऽबाध्य इत्यादिप्रत्ययस्य घट:सन्नित्याद्याकारकतासिद्ध्यर्थं हि तस्य घटादिप्रपंचे अबाध्यत्ववैशिष्ट्यविषयकत्वं वाच्यम् , तस्य तदाकारकता च घटादिप्रपंचे अबाध्यब्रह्मतादात्म्यविषयकत्वेनापि उपपद्यत इति न तत्कल्पने प्रमाणमस्तीति भावः । ननु घटोऽबाध्य: इत्यादिप्रत्ययस्य घटादौ अबाध्यब्रह्मतादात्म्यविषयक- त्वेनेव घटादावबाध्यत्ववैशिष्ट्यविषयकत्वाभ्युपगमेनापि तदाकारकता निर्वहतीति अबाध्यब्रह्मविषयक त्वमेवेत्यत्र न युक्तिरस्तीत्यत आह- नचेत्यादिना। शुद्धसदाकारपूर्वोक्तप्रत्ययेति । घट: सन्नित्याकारक प्रत्ययेत्यर्थः। ब्रह्मप्रपंचतादात्म्यस्य = सद्रूपब्रह्मप्रपंचतादात्म्यस्य। एतत्प्रत्ययेति। घटोऽबाध्य इति प्रत्ययेत्यर्थः। उक्तवैशिष्ट्यस्य= अबाध्यत्वप्रपंचयोर्वैशिष्ट्यस्य। तद्विषयताकल्पने = तादृशप्रत्यय विषयताकल्पने। गौरवस्यैवेति । घट:सन्नित्यादिप्रत्ययानुरोधेन अवश्यं सद्रूपब्रह्मप्रपंचयोस्तादात्म्य- मभ्युपगन्तव्यम्, ब्रह्मणः सद्रूपत्वं च अबाध्यत्वमेव। एवं च तादशब्रह्मतादात्म्येनैव क्लृप्तेन घटोऽबाध्य इत्यादिप्रत्ययस्योपपत्तौ घटादौ अबाध्यत्वरूपधर्मवैशिष्ट्यकल्पने गौरवमिति भावः। ननु घटादेरबाध्य- त्वानङ्गीकारे बाध्यतापि नाङ्गीकर्तुं शक्या। न च अबाध्यत्वरूपसत्त्वाभावस्य शुक्तिरजतादौ दृष्टबाध्यत्व - व्याप्यत्वभङ्गापत्तिः। ब्रह्मान्तर्भावेण प्रसक्तव्यभिचारवारणार्थं सत्त्वाभावरूपव्याप्यकोटौ बाध्यत्वे बाधका- भावस्य प्रवेशात्। ब्रह्मणि श्रुतिप्रमितत्वस्येव प्रपंचेऽपि अयं घट इत्यादिप्रत्यक्षप्रमितत्वस्य बाध्यत्व बाधकस्य सत्वादित्युक्तम् । एवं च घटोऽबाध्य इत्यादिप्रत्ययस्य घटादावबाध्यत्वरूपसत्त्ववैशिष्ट्यविषय कत्वमावश्यकम्, अन्यथा घटादेर्बाध्याबाध्याभ्यां तृतीयप्रकारतापत्तेः, नचेष्टापत्तिः। प्रतीयमानस्य तदसंभवादित्याशंकां परिहरति- नापीति | स्वत:प्रामाण्यबलेन= स्वत:सिद्धप्रामाण्योपपत्त्यर्थम् । घटादे - बर्बाध्यत्वस्वीकारे तद्भङ्गापत्तेर्बाध्यत्वस्वीकारासंभवेनेति यावत् । तत्कल्पनम्- घटोऽबाध्य इत्यादि प्रत्ययस्य घटादौ अबाध्यत्ववैशिष्ट्यविषयकत्वकल्पनम् । प्रत्यक्षादीनामिति । आदिपदेन अनुमित्यादिकं ग्राह्यम्। व्यावहारिकमेव व्यवहारकालाबाध्यविषयकत्वमेव। ब्रह्मज्ञानेतराबाध्यविषयकत्वमेवेति यावत् । एवकारेण तात्विकप्रामाण्यव्यवच्छेदः । वक्ष्यमाणत्वादिति । भाविबाधोपपत्तिप्रकरणान्ते वक्ष्य . माणत्वादित्यर्थः। तथा च श्रुतिरूपतात्विकप्रमाणप्रमितत्वस्यैव बाध्यत्वबाधकतया प्रपंचे तदभावेन प्रकृतमिथ्यात्वरूपसाध्यघटकाबाध्यत्वरूपसत्वाभावमुपगम्य बाध्यत्वानुपगमे उक्तव्याप्तिभङ्गप्रसङ्ग इति प्रपंचस्य बाध्यत्वमावश्यकमिति प्रकृतमिथ्यात्वानुमाने नार्थान्तरमिति भावः । ननु मूले अनुगतव्यवहारा- भावप्रसंगाच्चेत्यनेन घट:सन्नित्यादिबुद्धौ प्रत्येकं सद्रूपघटादिप्रपंचस्य विशेषणत्वाङ्गीकारे प्रकारांशे । ।

अद्वैतसिद्धिः सव्याख्या 83 प्रत्येकं सत्स्वभावता कल्पने मानाभावात्, अनुगतव्यवहाराभावप्रसङ्गाच्च। सत्प्रतियोगिका सत्प्रतियोगिकभेदद्वयं वा साध्यम्। तथा चोभयात्मकत्वेऽन्यतरात्मकत्वे वा, तादृग्भेदा - लघुचन्द्रिका सदाकारप्रत्ययो यदा द्रव्यादौ, तदा तत्र समवायेन सत्ताजातिर्विशेषणमस्तु; यदा द्रव्यादौ, तदा सामानाधिकरण्येन सा; तंथाच कथं ब्रह्मण एव तथात्वं-अनुगतेति। संबन्धांशेऽप्यनुगताकारे - त्यर्थः। उक्तमर्थान्तरं स्वीकृत्यापि तद्वारणायाह-सत्प्रतियोगिकेत्यादि। भेदेति। आत्यन्तिक - भेदेत्यर्थः। उभयात्मकत्वे इति। 'भ्रमविषयीभूतालीकसंसर्गविशिष्टादिरूपेण प्रपञ्चोऽलीक: रूपान्तरेण तु सत्य' इति न्यायटीकारवाचस्पत्युक्तपक्षे इत्यर्थः । अन्यतरात्मकत्वे इति । प्रकाश: अनुगतव्यवहारानुपपत्तिरुक्ता, सा च न युक्ता, प्रपंचस्य तत्र विशेषणत्वाङ्गीकारे तदनुपपत्तावपि सत्ताजाते: संभवत्संबन्धेन विशेषणत्वोपगमे अनुगतव्यवहारोपपादनसंभवादित्यत: तादृशमूलं तादृशशङ्कानिराकरण परतयाऽपि व्याख्यातुं तादृशशङ्कामुपक्षिपति- नन्विति। द्रव्यादाविति । आदिपदेन गुणकर्मणी ग्राह्ये। समवायेनेति। द्रव्यादित्रिके समवायेन सत्ताजातेरंगीकारादिति भावः। द्रव्यत्वादाविति। आदिपदेन गुणत्वादिकं ग्राह्यम्। सामानाधिकरण्यसंबंधेनेति। जातौ जाते: समवायेनानङ्गीकारात् द्रव्यत्वादौ सत्तासामानाधिकरण्यस्य च सम्भवादिति भावः । सा= सत्ता। विशेषणमस्तु इत्यस्य अनुषङ्गः । तथाचेति। सत्ताजातेरेव विशेषणत्वे चेत्यर्थः। तथात्वम्= तादात्म्येन विशेषणत्वम्। संबन्धांशेऽपीति। अपिना प्रकारांशो ग्राह्यः । ततश्च सत्ताजातेर्विशेषणत्वाङ्गीकारे व्यवहारस्य प्रकारमात्रांशे अनुगतत्वसंभव: न संबन्धांशे, संबन्धवैलक्षण्याङ्गीकारात्। ब्रह्मण: सद्रूपस्य तादात्म्येन विशेषणत्वोपगमे तु उभयांशेऽपि तस्य अनुगतत्वं संभवति। उभयांशे अनुगतत्वसंभवे एकमात्रांशे अनुगतत्वस्वीकारो नोचित इति भावः । ननु मूले अत्यन्ताभावघटितसाध्यस्य निर्दुष्टस्य समर्थनात्तस्यैव सम्यक्त्वे भेदघटितसाध्यादरणं व्यर्थमित्यत आह- उक्तमर्थान्तरमिति । सत्त्वासत्त्वयोरभावेऽपि ब्रह्मवत् प्रपंचस्य सद्रूपत्वोपपत्त्या सद्रूपत्वविरोधि- मिथ्यात्वासिद्धिप्रयुक्तमर्थान्तरमित्यर्थः ।। । स्वीकृत्येति । । पारमार्थिकप्रमाणप्रमितत्वाभावे सति अबाध्यत्व- रूपसत्वाभावो यत्र तत्र बाध्यत्वमिति व्याप्तौ अप्रयोजकत्वशंकयेति भावः । ननु प्रपंचस्य सदसदुभय- रूपतामते अवच्छेदकभेदेन सद्भेदासद्भेदयोरपि तत्र स तत्र सत्वात्तदुभयसाधने सिद्धसाधनं, अत आह- आत्यन्तिकेति । सदवृत्तिः सद्भेदः, असदवृत्ति: असद्भेदः, एतदुभयमित्यर्थः । अवच्छेदकभेदेन सिद्धभेद- द्वयं सदादिवृत्त्येवेति भावः। ननु मूले उभयात्मकत्व इत्यनेन विवक्षितसदसदुभयात्मकत्वोक्तिरयुक्ता | तादृशवादिन: अप्रसिद्धत्वादित्यत आह उभयात्मकत्वे इतीति । भ्रमविषयीभूतालीकसंसर्गविशिष्टादि- रूपेण प्रपञ्चोऽलीक इति। इदरजतमित्यादिभ्रमेषु सत्ये इदमादौ सत्यमेव दृश्यं रजतादिकं दोषवशात् अलीकसंबन्धेन भासते। तत्र स्वरूपत: सत्ययोरपीदमादिरजताद्यो:अलीकसंसर्गविशिष्टरूपेण अलीक- त्वम्, संसर्गविशिष्टत्वं प्रतियोगित्वानुयोगित्वान्यतर संबन्धेन । स्वरूपसंबन्धेनेव तादात्म्यसंबन्धेनापि 84 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता संभवेन ताभ्यामर्थान्तरानवकाश:। न च - असत्त्वव्यतिरेकांशस्यासद्भेदस्य च प्रपंचे सिद्ध . लघुचन्द्रिका भ्रमविषयोऽपि संसर्गो देशान्तरस्थत्वात् सत्य इति प्रपञ्चः सत्य एवेति पक्षे, ज्ञानातिरिक्त रूपेणालीक एव प्रपञ्चो विकल्पविषय इति पक्षे चेत्यर्थः। अनवकाश इति। सत्त्वाभावस्य केवलप्रपंचे सत्त्वस्य तदुपहितप्रपञ्चे स्वीकारे सत्त्वोपहितप्रपञ्चस्य केवलप्रपञ्चे तादात्म्यसत्त्वान्न तत्रैकान्तिक: सद्भेद इति भावः । गुणादिकं गुण:, क्रिया,जाति:,विशिष्टरूपं अवयवी, अंशी। . प्रकाश: संसर्गविशिष्टत्वं रजतादे रूपम्। एवं च प्रपंचस्य असद्रूपत्वमपीति भावः। रूपान्तरेणेति। इदन्त्व- रजतत्वादिना, प्रमाविषयीभूतसत्त्यसंसर्गविशिष्टत्वरूपेण वेत्यर्थः। ननु अन्यतरात्मकत्वइत्यनेन सदसदन्य- तरात्मकत्वं मूलोक्तं न सङ्गच्छते भ्रमविषयस्य रजतादिरूपप्रपंचस्य सद्रूपत्वासद्रूपत्वयोरसंभवादित्यत आह-भ्रमविषयोपीति । संसर्ग:= तादात्म्यरूप:। देशान्तरस्थत्वादिति। सत्यरजतस्थले इदंपदार्थे रजत- प्रतियोगिकतादात्म्यस्य वस्तुतः सत्वादित्यर्थः । ज्ञानातिरिक्तरूपेणेति। अभेदे तृतीया । अलीक एवेति। ज्ञानादत्यन्तभिन्न:प्रपंचोऽलीक एवेत्यर्थः। इदं च ज्ञानस्य साकारतावादिबौद्धमतम्। तन्मते अयं घट . इत्यादिज्ञानेषु ज्ञानादत्यन्तभिन्न: बाह्यो घटादिर्न भासते, किन्तु ज्ञानमेव घटाद्याकारं , स्वप्नस्थले यथा ज्ञानातिरिक्तविषयं विनापि ज्ञानं विषयाकारं भाति तद्वत्। सच आकार: तादात्म्यसंबन्धेन ज्ञानधर्मः। तादात्म्यं च नात्यन्तभेदे नाप्यत्यन्ताभेद इति ज्ञानाद्भिन्नाभिन्न: सः। ततश्च ज्ञानादत्यन्तभिन्न: विषयः अलीक एवेति शास्त्रदीपिकायां विस्तार: । ननु ज्ञानातिरिक्तस्य प्रपंचस्य अलीकत्वे तदनुभवविरोध इत्यत आह- विकल्पविषय इति । घटादेः प्रपंचस्य ज्ञानादत्यन्तभिन्नत्वविषयिणी वृत्ति: विकल्परूपा, नानुभव- रूपा, अलीकाकारवृत्तेः विकल्परूपत्वस्य ‘शब्दज्ञानानुपातीवस्तुशून्यो विकल्प' इति योगसूत्रे उक्त्वादिति भावः। इत्यर्थ इति । तथाचोभयात्मकत्वपक्षे मिथ्यात्वशरीरे सद्भेदानिवेशे सद्रूपत्वसिद्धिमादाय, अस. नेदानिवेशे असद्रूपत्वसिद्धिमादाय अर्थान्तरं, अन्यतरात्मकत्वपक्षे सद्भेदानिवेशे सद्रूपत्वपक्षे तत्सिद्धि- मादाय असद्भेदानिवेशे असद्रूपत्वसिद्धिमादाय अर्थान्तरं स्यात् । अतस्तदुभयं निवेशनीयमिति भावः । ननु भेदे आत्यन्तिकत्वविशेषणं व्यर्थम्- सति सद्भेदस्य असति असद्भेदस्य च असम्भवेन अर्थान्तरानव- काशात् । न च अन्यतरात्मकत्वपक्षे अर्थान्तरानापत्तावपि उभयात्मकत्वपक्षे अलीकसंसर्गविशिष्टत्वा- वच्छेदेन सद्भेदं, इदंत्वाद्यवच्छेदेन असद्भेदं चादाय अर्थान्तरापत्तिसम्भव इति शङ्कयम्। निरवच्छिन्न- विशेषणतासंबन्धस्य साध्यतावच्छेदकसंबन्धत्वनिवेशेनापि तद्वारणसंभवात्। नयुक्तोभयात्मकत्वपक्षे निरवच्छिन्नविशेषणतासंबन्धेन प्रपंचे सद्भेदासतेंदोभयसंभव इत्याशङ्कय प्रकारान्तरेण प्रपंचस्योभयात्म- कत्वं प्रदर्श्य तादृशविशेषणं सार्थकयति सत्वाभावस्येति । सद्भेदस्येत्यपि द्रष्टव्यम्। केवलप्रपंच इति। सत्वानुपहित प्रपंच इत्यर्थः। तदुपहितेति। सत्वोपहितेत्यर्थः । तादात्म्यसत्वादिति । उपहितकेवलयो स्तादात्म्यस्वीकारादिति भावः । केवलप्रपंचनिष्ठसद्भेदस्य सद्वृत्तित्वादिति शेषः। ततश्च केवलप्रपंचस्य ।

अद्वैतसिद्धिः सव्याख्या 85 त्वेनांशत: सिद्धसाधनमिति-वाच्यम्; गुणादिकं गुण्यादिना भिन्नाभिन्नं समानाधिकृतत्वादिति लघुचन्द्रिका गुण्यादिना गुणिना,कियावता,व्यक्त्या,केवलरूपेण अवयवेन,अंशेन। भिन्नाभिन्नं भेदाभेदोभय- वत्। समानाधिकृतत्वात् अभेदसंसर्गकधीविषयतायोग्यत्वात्। पराभ्युपगतसमवायतादात्म्य भिन्ना: ये संयोगादयस्तेषामन्यतमसंबन्धेन गुण्यादिविशेषणिका या धीस्तदन्या गुण्यादिविशेषणिका - प्रकाशः । . । सत्वोपहितप्रपंच तादात्म्यसत्वात् सत्वोपहितप्रपंचे सत्वस्वीकाराच्च केवलप्रपंचे विद्यमानः सद्भेद: सद्वृत्तिरेव। एवं सत्वोपहितप्रपंचे केवलप्रपंचतादात्म्यसत्वात् केवलप्रपंचे सद्भेदस्वीकारेण तस्य असत्वाच्च सत्वोपहितप्रपंचे विद्यमान: असद्भेद: असद्वृत्तिरेवेति तादृशभेदस्य सदसद्रूपत्वविरोधित्वा- भावात् अर्थान्तरापत्तौ तद्वारणाय भेदे आत्यन्तिकत्वविशेषणमावश्यकमेव । तथा च सदवृत्तिसद्भेद: अस - दवृत्त्यसद्भेदश्चेत्युभयवत्वं अनुमानेन सिद्ध्यत् उभयरूपतां भङ्क्त्वैव सिद्ध्यतीति नार्थान्तरावकाश इति भावः। मूले सत्वाभावासत्वाभावसद्भेदासतेंदोभयाभावसाधने असत्वाभावासद्भेदरूपांशस्य सिद्धत्वा- दंशत: सिद्धसाधनमाशंक्य गुणादिकं गुण्यादिना भिन्नाभिन्नमित्यत्र भेदाभेदान्यतरांशस्य सिद्धावपि यथा अंशत: सिद्धसाधनं नास्ति तद्वत् अत्रापि नास्तीत्युक्तम् । तद्विवृणोति गुणादिकमित्यादिना। तत्र गुण: रूपादिः। क्रिया उत्क्षेपणादिरूपं कर्म। जाति:घटत्वादिः। विशिष्टरूपं गुणकर्मान्यत्वविशिष्टसत्तादि। अवयवी घटादिः । अंशी धान्यराश्यादिः, गवाश्वादिसमुदायश्च । गुणिना घटादिना। क्रियावता घटा- दिना। व्यक्त्या घटादिना। केवलरूपेण शुद्धसत्तादिना। अवयवेन मृदा कपालादिना वा। अंशेन धान्य- कणरूपेण, गवाश्वादिना च । भेदाभेदोभयवदिति। तथाच गुण: गुणिप्रतियोगिकभेदाभेदोभयवान्। क्रिया क्रियावत्प्रतियोगिकभेदाभेदोभयवती। जाति: व्यक्तिप्रतियोगिकभेदाभेदोभयवती। विशिष्टरूपं केवलरूपप्रतियोगिकभेदाभेदोभयवत्। अवयवी अवयवप्रतियोगिकभेदाभेदोभयवान्। अंशी अंशप्रति - योगिकभेदाभेदोभयवान्। इति प्रयोगा बोध्या:। सर्वत्र हेतुवाक्यप्रयोग: समानाधिकृतत्वादिति। समानाधिकृतत्वं विवृणोति अभेदसंसर्गकेति। गुण्यादिविशेषणकेत्यादिः। अत्र च उक्तधीविषयत्वस्य हेतुत्वे तादृशधियोऽभावकाले पक्षे हेतोरभावादसिद्धि: स्यादिति योग्यतापर्यन्तानुधावनम्। योग्यताव - च्छेदकं च गुणत्वादिकमिति योग्यताया न कादाचित्कत्वमिति बोध्यम् । अत्र च धी:प्रमारूपा निवेशनीया, अन्यथा घटो घट इति पटो घट इति भ्रमरूपधीविषयत्वस्य घटे घटप्रतियोगिकभेदरहितत्वेन उभयाभाव - वति, पटे च घटप्रतियोगिकाभेदाभावेन उभयाभाववति सत्वात् व्यभिचार: स्यात् । तथा च तार्किकादिमते गुणगुण्याद्यो: अभेदसंसर्गकप्रमाया अप्रसिद्ध्या हेतोरसिद्धिः, स्वमते च तयोः समवायसंसर्गकप्रमाया अप्रसिद्ध्या तद्धटितहेतोरप्रसिद्धिरिति मतद्वयसाधारण्यसम्पादनाय हेतुं परिष्करोति पराभ्युपगतेति। समवायत्वेन पराभ्युपगतभिन्नत्वे सति तादात्म्यभिन्ना ये संयोगादय इत्यर्थः। समवायस्य स्वमते अप्रसिद्धत्वेऽपि समवायत्वेन पराभ्युपगतं प्रसिद्धिमिति तद्भिन्नत्वं संयोगादौ संगच्छते। अथवा पराभ्युप- 86 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका या धीस्तद्विशेष्यत्वादिति यावत्। नचाप्रयोजकत्वम्; नीलगुणघटयोस्तादात्म्य संबन्धस्वीकारे घटो न नील' इत्याकारकनीलगुणभेदबुद्धौ तादात्म्यसंबन्धेन नीलगुणप्रकारकधीत्वेनैव प्रकाशः १ गतसमवायतादात्म्यभिन्ना इति परिचायकमेव न हेतुशरीरे प्रविष्टमिति न समवायस्य स्वमते अप्रसिद्धि- प्रयुक्तो दोषः। अत एव ये संयोगादयस्तेषामन्यतमेत्युक्ति: संगच्छते। अन्यथा समवायतादत्म्यभिन्नत्वेन अनुगतरूपेण संयोगादीनामुपादाने अन्यतमत्वोक्तेर्निष्फलत्वापत्तेः। संयोगादय इति । आदिपदेन दैशिक- विशेषणताकालिकविशेषणते ग्राह्ये। अत्र च यथाश्रुते संयोगाद्यन्यतमसंबन्धावच्छिन्नगुण्यादिविशेषण ताकधीभिन्नगुण्यादिविशेषणताकधीविशेष्यत्वं हेतुः प्रतीयते। तत्र च धीभिन्नधीत्वेन द्वितीयधियो निवेशा. द्रौरवम्, प्रथमधिय: प्रमात्वेन विवक्षणे संयोगाद्यन्यतमसंबन्धावच्छिन्नविशेषणताकायास्तस्या अप्रसिद्धि: नीलो घट इत्यादिप्रमाया:संयोगेन घटप्रकारिकाया असंभवात्। अत: गुण्यादिनिष्ठ विशेषणतायां संयो- गाद्यन्यतमसंबन्धानवच्छिन्नत्वं निवेशनीयम्। ततश्च संयोगाद्यन्यतमसंबन्धानवच्छिन्ना या गुण्यादिनिष्ठ- विशेषणता तन्निरूपितप्रमीयविशेष्यत्वादिति पर्यवसितो हेतुः। भूतलं घटवदित्यादौ घटादिनिष्ठविशेषण- तायां संयोगादिसंबन्धावच्छिन्नत्वं प्रसिद्धम्। नीलो घट इत्यादौ घटनिष्ठविशेषणतायां संयोगाद्यन्यतम- संबन्धानवच्छिन्नत्वमस्तीति तन्निरूपितप्रमीयविशेष्यताया नीलरूपात्मकगुणादौ सत्वात् हेतो: पक्षधर्म- तेति बोध्यम् । एचं चलो घट इत्यत्र चलनरूपक्रियावद्धटनिष्ठोक्तविधविशेषणताकधीविशेष्यत्वस्य चलन- क्रियायां, सन् घट इत्यत्र सत्तारूपजातिमद्धटनिष्ठोक्तविशेषणतानिरूपितप्रमीयविशेष्यत्वस्य सत्तारूपजातौ गुणकर्मान्यत्वविशिष्टसत्ता सत्ता इत्यत्र विशिष्टसत्तायां केवलसत्तानिष्ठोक्तविशेषणताकप्रमीयविशेष्य- त्वस्य, घटो मृत् इत्यत्र अवयविनि घटे मृद्रूपावयवनिष्ठोक्तविशेषणताकप्रमीयविशेष्यत्वस्य, अयं धान्य- राशि:व्रीहिः इत्यत्र धान्यराशिरूपांशिनि व्रीहिरूपधान्यनिष्ठोक्तविशेषणताकप्रमीयविशेष्यत्वस्य सत्वात् हेतोः पक्षधर्मतेति बोध्यम्। न चात्र घटो नील इत्यादौ नीलादे:प्रकारत्वात् संयोगाद्यन्यतमसंबन्धानवच्छि. ना या गुण्यादिविशेष्यकधीप्रकारता सैव हेतुः कुतो नेति शङ्कयम्। गुण्यादिप्रतियोगिकभेदाभेदवत्तायाः गुण्यादिविशेषणकधीविशेष्यत्वं प्रत्येव प्रयोजकत्वात् तस्यैव हेतुत्वमाश्रितम्। न च गुणादिप्रतियोगिक- भेदाभेदवत्वं गुण्यादौ साध्यतामिति शक्यम्, गुणगुण्याद्योर्भेदाभेदवादिभि: गुणादिकं गुण्यादिना भिन्ना- भिन्नमित्यनेन गुणादौ गुण्यादिभेदाभेदवत्ताया एवोक्तत्वात्। अत्र च व्याप्तिर्नान्वयतोऽस्ति, अन्वयदृष्टा- न्ताभावात्, किन्तु व्यतिरेकतः, व्यतिरेकदृष्टान्तस्य सत्वात् । य: घटत्वावच्छिन्नप्रतियोगिताकभेदा भेदोभयाभाववान् सः संयोगाद्यन्यतमसंबन्धानवच्छिन्नघटत्वावच्छिन्नविशेषणताकप्रमीयविशेष्यत्वा भाववान् यथा घटत्वावच्छिन्नघटः पटत्वावच्छिन्नपटश्च । घटो घट इति, पटो घट इति वा प्रमाया अभावात्। अत्र च अप्रयोजकत्वमाशङ्कच निरस्यति नचेत्यादिना। अप्रयोजकत्वमिति । गुण्यादिप्रति योगिकभेदाभेदोभयवत्वस्य उक्तविधगुण्यादिविशेषणकधीविशेष्यत्वप्रयोजकत्वे मानाभावात्, तथा च हेतुरस्तु साध्यं मास्तु इति अप्रयोजकशंकायां तत्रिवारकस्तर्को नास्तीति भावः। उक्तोभयवत्वस्य उक्तप्रयोजकत्वे लाघवज्ञान सहकृतस्य अनुमानस्य सत्वात् मानाभावोऽसिद्ध इत्याह नीलगुणघटयोरिति ।

अद्वैतसिद्धिः सव्याख्या 87 लघुचन्द्रिका प्रतिबन्धकत्वं वाच्यम्, नतु नीलगुणसमवायिभेदबुद्धौ नीलगुणसमवायितादात्म्यधीत्वेन; समवाय -स्यालीकत्वात्, समवायस्वीकारे तु नीलगुणसमवायिभेदबुद्धावुक्ततादात्म्यधीत्वेनेव घटादौ नीलगुणभेदबुद्धौ नीलगुणतादात्म्यधीत्वेनापि प्रतिबन्धकत्वं वाच्यमिति गौरवम्। प्रकाशः - - धीत्वेनैव= निश्चयत्वेनैव। अनाहार्यत्वं अप्रामाण्यज्ञानानास्कन्दितत्वमपि निश्चये विशेषणं बोध्यम्। प्रतिबध्यबुद्धावपि अनाहार्यत्व लौकिकसन्निकर्षाजन्यत्वदोषविशेषाजन्यत्वानि विशेषणानि देयानि। तथा च घटो न नील इत्याकारिका या अनाहार्यलौकिकसन्निकर्षाजन्यदोषाविशेषाजन्या घटविशेष्यकतादात्म्य- संबन्धावच्छिन्ननीलगुणत्वावच्छिन्नप्रतियोगिताकभेदनिष्ठस्वरूपसंबन्धावच्छिन्नप्रकारताशालिनी बुद्धि: तादृशबुद्धित्वावच्छिन्नं प्रति घटो नील इत्याकारक: य: नीलगुणत्वावच्छिन्नतादात्म्यसंबन्धावच्छिन्न प्रकारतानिरूपितघटनिष्ठविशेष्यताशाली अनाहार्याप्रामाण्यज्ञानानास्कन्दितो निश्चयः, तादृशनिश्चय त्वेन तस्य प्रतिबन्धकत्वं वाच्यम्। धीत्वेनैवेत्येवकारव्यावर्त्यमाह- नत्विति। नीलगुणसमवायिभेद . बुद्धौ नीलगुणसमवायी नेत्याकारकबुद्धौ। नीलगुणसमवायितादात्म्यधीत्वेन नीलगुणसमवायीत्याका- रकबुद्धित्वेन। प्रतिबन्धकत्वं वाच्य मित्यनुषज्यते। ततश्च उक्तरीत्या प्रतिबन्धकत्वं न वाच्यमित्यर्थः। कुत इत्यत आह- अलीकत्वादिति। गुणगुणिनोस्तादात्म्याभ्युपगन्तृमते समवायस्य अप्रसिद्धत्वेन तद्धटिततादृशप्रतिबध्यग्रहस्य, प्रतिबन्धकग्रहस्य च अप्रसिद्धिरिति तथाविधप्रतिबध्यप्रतिबन्धकभावो न वाच्य इति भावः। तथा च नीलगुणे घटभेदविशिष्टघटाभेदस्य तादात्म्यसंबन्धेन घटविशेषणकधी विशेष्यत्वप्रयोजकत्वे लाघवमिति लाघवज्ञानसहकृतं नीलगुणनिष्ठतादात्म्यसंबन्धावच्छिन्नघटनिष्ठ विशेषणताकधीविशेष्यता, किंचित्प्रयोज्या व्यतिरेकित्वात् इत्यनुमानं तादृशविशेष्यत्वे तादृशतादात्म्य प्रयोज्यतां साधयतीति न मानाभावः। तथा च नीलगुणादौ घटभेदाभेदयोरङ्गीकारे घटविशेषणताक धीविशेष्यताया घटभेदविशिष्टघटाभेदस्य च प्रयोज्यप्रयोजकभावस्य उक्तानुमानसिद्धस्य भङ्गापत्ति रित्यनुकूलतर्केण नीलगुणादौ घटादिभेदाभेदरूपसाध्यं सिध्यति। घटाभेदमात्रस्य तादृशधीविशेष्यत्व प्रयोजकत्वं न सम्भवति। घटे घटाभेदसत्वेऽपि तादृशधीविशेष्यत्वाभावेन व्यभिचारात्। अतो भेदस्यापि प्रयोजकशरीरे निवेश:। अत एव च मतद्वयसिद्धस्यापि तस्य साध्ये निवेश: कृतः। उक्तविशेष्यतात्वरूप - प्रयोज्यतावच्छेदकावच्छिन्नेन प्रयोजकतावच्छेदकीभूतभेदाभेदोभयत्वावच्छिन्नस्यैव अनुमानसंभवात्। ननु नीलगुणघटयो: समवायसंबन्धस्वीकारे घट: नीलो नेत्याकारकघटविशेष्यकनीलगुणभेदप्रकारकबुद्धौ नीलगुणतादात्म्यधीत्वेन घटो नीलः इत्यारकधिय: प्रतिबन्धकत्वं न वाच्यम्, नीलगुणघटयोस्तादात्म्य स्यालीकत्वादिति कल्पनासाम्यमुभयोरित्याशङ्कां परिहरति समवायस्वीकारेत्विति । नीलगुणसमवायि - भेदबुद्धाविति । घट: नीलगुणसमवायी न इत्याकारकबुद्धावित्यर्थः। उक्ततादात्म्यधीत्वेनेति। घट: नीलगुणसमवायी इत्याकारकनीलगुणसमवाय्यभेदबुद्धित्वेनेत्यर्थः। घटादौ नील गुणभेदबुद्धौ- घट: नीलगुणो नेत्याकारकबुद्धौ। नीलगुणतादात्म्यधीत्वेन घटो नीलगुण: इत्याकारकधीत्वेन। वाच्यमिति। नीलगुणघटयोरत्यन्तभेदाङ्गीकर्तृमते तयोरभेदाप्रसिध्या प्रमात्मकप्रतिबन्धकग्रहस्य उक्ताकारकस्य . - - 88 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका एवं नीलादिसमवायविषयके विशिष्टज्ञानमात्रेऽनुमित्यादौ च कारणत्वप्रतिबन्धकत्वानि च कल्प्यानि समवायावच्छिन्नप्रतियोगिताधिकरणत्वयोस्तादृशप्रतियोगिताद्यत्यन्ताभावस्य तादृश- प्रतियोगिताकात्यन्ताभावस्य तादृशप्रतियोगितावच्छेदकताया: समवायेन नीलादिविशिष्टस्य भेद - प्रकाशः . अप्रसिद्धावपि अन्यदीयतादात्म्यसंबन्धस्य प्रसिध्या घटादौ तेन सम्बन्धेन नीलगुणप्रकारकप्रतिबन्धक- ग्रहस्य सम्भवादिति भावः। गौरवमिति। घट: नीलगुणसमवायी न इत्याकारकबुद्धिं प्रति घट: नीलगुणसमवायी इत्याकारकबुद्धिः प्रतिबन्धिका, घट: नीलगुणो न इत्याकारकबुद्धिं प्रति घट: नीलगुण: इत्याकारकबुद्धिः प्रतिबन्धिकेति प्रतिबध्यप्रतिबन्धकभावद्वयकल्पनादिति भावः । गुणगुणिस्थले सर्वेषां भ्रमसत्वे मानाभावेन यत्र घटादौ नीलादिगुणतादात्म्यभ्रमो न भवति तत्र नीलादिगुणतादात्म्यधीत्वेन प्रति. बन्धकत्वं न वाच्यम्, ततश्च तत्र गुणगुणिनो: समवायस्वीकारेऽपि न गौरवमिति तत्र तयोस्तादात्म्यसिद्धि. न स्यादित्याशङ्कय समवायस्वीकारे गौरवान्तराण्याह एवमिति । समवायस्वीकारे इत्यनुषज्यते। विशिष्ट. ज्ञानमात्र इति। विशिष्टज्ञानसामान्य इत्यर्थः। अनुमित्यादाविति। अत्रापि नीलादिसमवायविषयक- इत्यनुषज्यते। आदिपदेन शाब्दादिकं ग्राह्यम्। कारणत्वप्रतिबन्धकत्वानि कल्प्यानीति। अयं घट: नीलसमवायवानिति नीलसमवायविशिष्टघटबुद्धिं प्रति नीलसमवायज्ञानस्य कारणत्वं विशिष्टज्ञानं प्रति. विशेषणज्ञानस्य कारणत्वात् , ज्ञानद्वारा नीलसमवायस्यापि तत् कल्प्यम्, एवं घटोऽयं नीलसमवायवान् नीलकपालजन्यत्वात् इत्यनुमिति प्रति साध्यात्मकनीलसमवायस्य स्वज्ञानद्वारा कारणत्वं कल्प्यम्। अथवा विषयितासंबन्धेन विषयविशिष्टज्ञानस्य कारणत्वे विशेषणीभूतविषयस्यापि कारणत्वं बोध्यम्। एवं नीलसमवायवानिति विशिष्टज्ञानं प्रति तादृशानुमितिं प्रति च नीलसमवायाभाववानिति ज्ञानस्य बाधविधया नीलसमवायानुमितिं प्रति नीलसमवायवानिति निश्चयस्य सिद्धिविधया च प्रतिबन्धकत्वं कल्पनीयमित्यर्थः । समवायावच्छिन्त्रप्रतियोगितेत्यादि । समवायेन रूपं नास्तीत्यादौ समवायसंबन्धाव - च्छिन्नप्रतियोगिता, संयोगेन घटाभावस्थले घटे समवायावच्छिन्नप्रतियोगितात्यन्ताभावः समवायेन रूपाभावस्थले समवायावच्छिन्नप्रतियोगिताकात्यन्ताभावः, तत्रैव समवाये तादृशाभावीयप्रतियोगिताव- च्छेदकता, समवायेन नीलवान इत्यत्र समवायेन नीलरूपविशिष्टप्रतियोगिकभेदः, तत्रैव तादृशभेद प्रतियोगिता, नीलरूपे समवायावच्छिन्ना तादृशभेदप्रतियोगितावच्छेदकता इत्येतेषां कल्पनं, तथा समवाये समवायत्वरूपाखण्डधर्मस्य संयोगादौ तदभावस्य समवायत्वरूपाखण्डधर्मे ज्ञानीयविषयताया: तादृशधर्माभावे ज्ञानविषयतायाश्च कल्पनं कार्यमिति महगौरवमित्यर्थः। नीलादौ नीलादितादात्म्यं परस्यापि सम्मतमिति नीलादितादात्म्यस्थलेषु एतत्सर्वं उभयमतेऽपि क्लृप्तमिति न तत्कल्पनागौरवमिति भावः। मूले भिन्नत्वस्येति। गुणक्रियाजातिपक्षकगुणिक्रियावज्जातिमद्भिन्नाभिन्नत्वसाध्यकस्थल इत्यादिः । विशिष्टपक्षककेवलसाध्यकस्थले तु अभिन्नत्वस्येति बोध्यम्। विशिष्टकेवलयोः तार्किकादिना अभेदस्वीकारात्। एवं च तयोर्भेद एव विवादादभेदमात्रवादी भेदस्वीकारे गौरवमाशङ्कते टीकायां- 90) प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका सांसर्गिकविषयतात्वेन वा अखण्डधर्मेण । नचैवं -विशेष्यतात्वादिविशिष्टविषयताशालितया ज्ञान- ग्राहकत्वं तादृशानुभवस्य सर्वसंमतं न स्यात् इति- वाच्यम्; परस्पराध्यासविवेचनोक्तरीत्या विशिष्टज्ञानमात्रस्य एकविषयतावच्छिन्नविषयत्वान्तरशालित्वेन तद्विशिष्टज्ञानग्राहकत्वादुक्तानु भवस्य विशेष्यतात्वप्रकारतात्वादिविशिष्टविषयताविशिष्टतयाज्ञानग्राहकत्वोपपत्तेः। तथाहि—इदं रजत'मित्यादिज्ञाने तादात्म्यादिसंसर्गनिष्ठाया विषयताया रजतादिविषयताविशिष्टाया इदंविषयता. वच्छिन्नत्वमिदमवच्छिन्नत्वं चेति पूर्वमुक्तम्। तथाच विशिष्टविषयतावच्छेदकत्वविशिष्टविषता ग्राहकोऽनुभवो विशेष्यतात्वादेर्दाहकः। विषयता हि यया विषयतया विशिष्टायां यस्यां विषयताया प्रकाशः - . माणावच्छेदकत्वादेर्निरासः। इत्याद्यनुभवेनेति । इत्याद्यकारकानुव्यवसायेनेत्यर्थः । एवकारव्यवच्छेद्य माह- नत्वित्यादिना। अखण्डधर्मेणेति। अखण्डानां अवच्छेदकतात्वादीनां भाने सति हि विशिष्ट वैशिष्ट्यविषयताकस्य भूतलं तत्क्षणविशिष्टघटवदित्याकारकस्यैव ज्ञानस्य तत्क्षणनिष्ठविशेषणतावच्छेद - कतात्वरूपाखण्डधर्मवद्विषयतानिरूपकत्वं न तु विशेष्ये विशेषणमिति रीत्या जायमानस्य ज्ञानस्येति वैलक्षण्यं सुवचम्, तादृशधर्माणां सखण्डत्वे तु निर्वक्ष्यमाणं यत् विषयतानिष्ठावच्छेदकतानिरूपकता वच्छेदकविषयतात्वं तस्य द्विविधतत्क्षणविशिष्टघटवद्भूतलमितिज्ञानीयतत्क्षणनिष्ठविषयतासाधारणत्वेन तादृशज्ञानयो(लक्षण्यं विशिष्टस्य केवलादन्यत्वानङ्गीकारे दुर्वचमेवेति भावः। विशेष्यतात्वादीना मखण्डानामनङ्गीकारे अनुभवविरोधं शङ्कते नचेति। एवं= विशेष्यतात्वादीनामखण्डानामनङ्गीकारे। सखण्डानां तेषां निर्वचनं न सम्भवतीत्यभिमानः। तादृशानुभवस्य- तत्क्षणविशिष्टवन्तं जानामीत्यनु - भवस्य। सर्वसम्मतमिति । अनेन न स्यादित्यापत्तिर्वक्ष्यमाणा नेष्टेति सूचितम् । समाधत्ते परस्पराध्यासेति। विवेचनोक्तरीत्येति। रीतिश्चेयं “परस्पराध्यासानुभवादिकम्। तथाही त्यादिग्रन्थेनोक्तेति बोध्यम् । विशिष्टज्ञानमात्रस्य= विशिष्टज्ञानसामान्यस्य। शालित्वेन- विशिष्टत्वेन । अनेन अनुव्यवसाये व्यव |सायांशे तादृशविषयतावैशिष्ट्यभानस्य सनिकर्षप्रयोज्यत्वेन तदुरिता तस्य प्रमात्वं च सूचितम् । तद्विशिष्टज्ञानग्राहकत्वादिति। एकविषयतावच्छिन्नविषयत्वांतरविशिष्टव्यवसायरूपज्ञानविषयकत्वेने त्यर्थः। उक्तानुभवस्येति। तत्क्षणविशिष्टवन्तं जानामीत्याकारकानुव्यवसायस्येत्यर्थः। प्रकारतात्वा दीति। आदिपदेन संसर्गतात्वं ग्राह्यम् । उपपत्तेरिति। अनेन उक्तशङ्कायाः समाधानं सूचितम्। अनु- व्यवसायस्य विशेष्यतात्वादिविशिष्टविषयताशालित्वेन व्यवसायग्राहकत्वेऽपि कथं विशेष्यतात्वादिग्राह कत्वमित्याशय परस्पराध्यास एव तदुपपादयति तथाहीति । पूर्व- परस्पराध्यासविवेचने। तथाचेति । इदरजतमित्यादिज्ञानीयाया: रजतादिविषयताविशिष्टाया: तादात्म्यादिसंसर्गनिष्ठाया विषयतायाः इदंविषय. तावच्छिन्नत्वस्य इदमवच्छिन्नत्वस्य च सिद्धौ चेत्यर्थः । अनुभवः= इदंरजतं जानामीत्याकारकः। विशेष्यतात्वादेहिक इति । भवतीति शेषः । ननु अखण्डधर्मरूपविशेष्यतात्वादेरनङ्गीकारात्कथमुक्तानु, भवस्य विशेष्यतात्वादिग्राहकत्वमित्याशङ्कय तत्सिद्ध्यर्थं सखण्ड विशेष्यतादिस्वरूपं विशेष्यतात्वादि. ।

अद्वैतसिद्धि: सव्याख्या 91 तु लघुचन्द्रिका मवच्छेदिका सा विशेषणीभूता प्रकारता, विशेष्यभूता सांसर्गिकविषयता, तदवच्छेदकविषयता विशेष्यता; तथाच विषयतानिष्ठं विषयतावच्छेदकत्वं विशेष्यतात्वम्। तादृशावच्छेदकत्वं यां विषयतां प्रति तत्त्वं तादृशावच्छेदकतानिरूपकविषतात्वरूपं सांसर्गिकविषयतात्वम्। विषयता निष्ठायां तादृशावच्छेदकत्वनिरूपकतायामवच्छेदकविषयतात्वं प्रकारतात्वम्। नच-तादात्म्या- दिविषयतानिष्ठायामुक्तनिरूपकतायां रजतादिनिष्ठा विषयता यथावच्छेदिका तथा तादात्म्यत्वादि - विषयतापीति तस्या अपि निरुक्तप्रकारतात्वं स्यादिति-वाच्यम्; तादृशनिरूपकताया: समानाधि करणं सत् यदवच्छेदकत्वं तस्यैव प्रकारतात्वरूपत्वात् तादात्म्यत्वादिनिष्ठविषयतायां तदभावात्। रजततादात्म्येनेदं जानामीत्यनुभवो हि रजतविषयताविशिष्ठस्य तादात्म्यविषयत्वस्योक्तनिरूपकतां गृह्णन् रजतविषयताया अपि तां गृह्णाति, नतु तदवच्छेदकत्वमात्रम् । नहि रजतादिविषयत्वस्येदं प्रकाशः । स्वरूपं च निर्वक्ति विषयताहीति। यथा इदंविषयता, रजतविषयताविशिष्टायां तादात्म्यविषयतायां अवच्छेदिका। सा= रजतविषयता। प्रकारतेति । इति व्यवह्रियत इति शेषः। विशेष्यभूता= तादात्म्य. विषयता। सांसर्गिकविषयतेति । अत्रापि इति व्यवह्रियत इति शेषः । तदवच्छेदकविषयतेति। तादृश. विशेष्यतावच्छेदकविषयतेत्यर्थः। अत्रापि इति व्यवह्रियत इति शेषः। एवं सति विशेष्यतादेर्यल्लक्षणं फलितं तदाह तथाचेति। विषयतानिष्ठं विषयतावच्छेदकत्वमिति । यथा इदंविषयतानिष्ठं तादात्म्य. विषयतावच्छेदकत्वम्। इदमोऽपि तादात्म्यविषयतावच्छेदकत्वेन तन्निष्ठावच्छेदकताया विशेष्यतात्व. वारणाय विषयतानिष्ठमिति। तादृशावच्छेदकत्वम् विषयतानिष्ठमवच्छेदकत्वम्। यां विषयतां प्रति- यद्विषयतानिरूपितम्। तत्त्वमिति। अस्य सांसर्गिकविषयतात्वमित्यनेनान्वयः। यत्त्वतत्त्वनिवेशात्प्राप्ता- ननुगमवारणायाह- तादृशेति विषयतानिष्ठेत्यर्थः। प्रकृते च इदंविषयतानिष्ठं यदवच्छेदकत्वं तन्निरूपक - विषयतात्वं तादात्म्यविषयतायामिति तस्याः सांसर्गिकविषयतात्वमिति भावः। अत्रापि इदंनिष्ठावच्छेद- कतानिरूपकत्वं तादात्म्यविषयतानिष्ठमादाय अतिप्रसक्तिवारणार्थं विषयतानिष्ठमित्युक्तम्। विषयता निष्ठायामिति। प्रकृते च तादात्म्यविषयतानिष्ठा इदंविषयतानिष्ठावच्छेदकतानिरूपकता, तस्यां च रजत - विषयताया अवच्छेदकत्वात्तस्या:प्रकारतात्वमिति भावः। उक्तविधप्रकारतालक्षणस्य अतिव्याप्तिमा. शङ्कते नच तादात्म्येति । अत्र तादात्म्येति स्वरूपकीर्तनमात्रम् । प्रकारतालक्षणे तस्य अप्रविष्टत्वात्। उक्त- निरूपकतायाम् विषयतानिष्ठवच्छेदकतानिरूपकतायाम्। तादात्म्यत्वादिविषयतापीति। तस्या अपि तादात्म्यविषयतायां विशेषणत्वादिति भावः। निरुक्तप्रकारतात्वमिति। विषयतानिष्ठं यत् विषयता निष्ठावच्छेदकतानिरूपकत्वं तदवच्छेदकविषयतात्वरूपमित्यर्थः । स्यादितीति। तथाच तादात्म्यत्वादि- विषयतायां अप्रकारतारूपायामुक्तलक्षणस्य सत्वादतिव्याप्तिरिति भावः। उक्तलक्षणे विशेषणान्तर प्रक्षेपेण अतिव्याप्तिं परिहरति तादृशनिरूपकताया इति। तदभावादिति । तादृशनिरूपकता समाना - धिकरणत्वविशिष्टावच्छेदकतानिरूपकतावच्छेदिकायां तादृशनिरूपकत्वं नास्तीति भाव: । नन्वेवं रजत- विषयताया अपि प्रकारतात्वं न स्यात्, तस्या अपि तादात्म्यविषयतानिष्ठा या, इदंविषयतानिष्ठावच्छेद - - 92 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता .. लघुचन्द्रिका विषयतावच्छिन्नत्वे कस्यापि विप्रतिपत्तिः; तस्य तादात्म्यादिसांसर्गिकविषयत्वाग्राहकेणापि 'इदं रजतं जानामि' 'इदं रजतत्वेन जानामी' त्याद्यनुभवेन ग्रहणात्, तादात्म्यत्वविषयत्वस्य तूक्तनिरूप. कत्वाननुभवेन तदवच्छेदकत्वमात्रं गृह्णाति। नचैवमपि–सांसर्गिकविषयतात्वस्य उक्तनिरूपक तामात्ररूपत्वे रजतादिविषयतायामपि तत्स्यादिति-वाच्यम्, उक्तनिरूपकतानवच्छेदकविषयता निष्ठस्यैवोक्तनिरूपकत्वस्य सांसर्गिकविषयतात्वरूपत्वात्, तादृशनिरूपकत्वाश्रयवियतावच्छिन्न प्रकाश: - कतानिरूपकता तदवच्छेदकत्वस्यैव सत्वादित्यत आह- रजततादात्म्येनेति । ज्ञानान्वयिविषयता तृतीयार्थः। उक्तनिरूपकतां गृह्णन्निति । उक्तानुभवे रजतविषयताविशिष्टतादात्म्यविषयतानिरूपिताव च्छेदकता इदंविषयतायां भासत इति तुल्यवित्तिवेद्यतया रजतविषयताविशिष्टतादात्म्यविषयतायां निरूपकता भासते । ततश्च विशेषणीभूतायां रजतविषयतायामपि निरूपकताभानमिति भावः । ननु रजत - तादात्म्येनेत्यस्य रजतविषयताविशिष्टा तादात्म्यत्वविषयताविशिष्टा च तादात्म्यविषयतेत्यर्थः। एवं च रजतविषयतायामिव विशेषणीभूतायां तादात्म्यत्वविषयतायामपि निरूपकताभानमावश्यकमित्याशक्य रजतविषयतायां प्रमाणान्तरसंवादात्तादृशनिरूपकताभानमभ्युपगम्यते, न तु तादात्म्यत्वविषयतायां, तद - भावादित्याह- नहीति । इदं विषयतावच्छिन्नत्व इति । इदंविषयतानिष्ठावच्छेदकतानिरूपकत्व इत्यर्थः । कस्यापीति। नैयायिकादेरपीत्यर्थः । तत्र हेतुमाह तस्येति । रजतादिविषयत्वे इदं विषयतावच्छिन्नत्व स्येत्यर्थः । इत्याद्यनुभवेन= इत्याद्याकारकानुव्यवसायेन। ग्रहणात्= विषयीकरणात्। अनुव्यवसायो हि व्यवसायस्य विषयताविशेषशालित्वव्यवस्थापकः। तदत्र प्रदर्शितानुव्यवसाय: इदं रजतमित्यादि व्यवसायं इदंविषयतावच्छिन्नरजतादिविषयताशालित्वेन गृह्णन् तस्य इदंविषयतावच्छिन्नरजतादिविषयता- शालित्वं व्यवस्थापयतीति रजतविषयतायाः इदं विषयतावच्छिन्नत्वं साधयतीति भावः। उक्तनिरूप कत्वाननुभवेन इदंविषयता निष्ठावच्छेदकतानिरूपकत्वावगाहिन: अनुभवान्तरस्य अभावेन। तदवच्छेद कत्वमात्रमिति। उक्तनिरूप कतावच्छेदकत्वमात्रमित्यर्थः । रजततादात्म्येनेदं जानामीत्यनुभव इत्यनुषङ्गः। मात्रपदेनोक्तनिरूपकत्वव्यवच्छेदः । उक्तानुभवे तादात्म्यत्वविषयत्वस्य तादात्म्यविषयतायां उपलक्षणतैव न तु रजतविषयताया इव विशेषणतेत्युपगमसंभवेन तादात्म्यत्वविषयतायां उक्तनिरूपकत्वानवगाहनेऽपि तादृशानुभवस्य उपपत्तेरिति भावः। निरूपकतावच्छेदकता तु निरूपकांशे उपलक्षणतया भासमानेऽपि भासत इत्याशयः। सांसर्गिकविषयतालक्षणस्य प्रकारतायामतिव्याप्तिमाशङ्कते नचैवमपीति। एवमपि | रजतादिविषयतानिष्ठप्रकारतात्वस्य तादात्म्यत्वादिविषयतायां अतिप्रसक्तयभावेऽपि। उक्तनिरूपकता मात्ररूपत्वे विषयतानिष्ठवच्छेदकतानिरूपकतामात्ररूपत्वे। मात्रपदेन वक्ष्यमाणविशेषणव्यवच्छेदः। तत् सांसर्गिकविषयतात्वम्। सांसर्गिकविषयतात्वरूपत्वादिति। तथाच रजतविषयताया: तादात्म्यविषयता निष्ठोक्तनिरूपकतां प्रत्यवच्छेदकत्वेन तन्निष्ठोक्तनिरूपकत्वस्य उक्तनिरूपकतावच्छेदकविषयतानिष्ठत्वमेव नतूक्तनिरूपकतानवच्छेदकविषयतानिष्ठत्वमिति रजतविषयतायां नातिप्रसक्तिः। तादात्म्यविषयतायाश्च उक्तनिरूपकताश्रयत्वमेव, नतु तादृशनिरूपकतावच्छेदकत्वमिति तस्या: सांसर्गिकविषयतात्वं सूपपाद . - - - and अद्वैतसिद्धिः सव्याख्या 93 . लघुचन्द्रिका स्यैव तादृशनिरूपकत्वस्य तद्रूपत्वाद्वा। तादात्म्यविषयतानिष्ठेव हि तादृशनिरूपकता तादृशनिरूप. कताश्रयेण रजतविषयत्वेनावच्छिन्ना, न रजतविषयता निष्ठा, तादात्म्यत्वादिविषयता तु उक्तनिरू पकतावच्छेदकत्वान्न सांसर्गिकविषयता, किन्तु तदवच्छेदिका। एवमिदन्त्वादिविषयतापि तादात्म्यादिविषयतावच्छेदकतायामिदंविषयतानिष्ठायामवच्छेदिका, अतो विशेष्यतावच्छेदिका। अथ-तादात्म्यत्वादिविषयतायाः सांसर्गिकवषयतावच्छेदकताशब्देन कथं तान्त्रिकव्यवहार-इति चेत्, तादात्म्यत्वादेरपि सांसर्गिकविषयतावच्छेदकत्वेन तद्धर्मतयेति गृहाण। एवमिदंत्वादिविषय- तायामपि विशेष्यतावच्छेदकताशब्देन व्यवहारः। तादात्म्यसंबन्धेन रजतादि यत्रेदमादौ प्रकारः; तत्र रजतत्वादिकमप्याधारत्वसंबन्धेन प्रकारः; यत्र तु संयोगादिसंबन्धेन रजतादिकं प्रकारः, तत्र रजतत्वादे!क्तसंबन्धेन प्रकारत्वनियमः, प्रकारतावच्छेदकत्वं तूभयत्र। नचैवं-रजतादिविषयता निष्ठस्येदंविषयनिष्ठा- प्रकाश: मिति भावः । नञानिवेशेन लाघवादाह- तादृशेति। तद्रूपत्वादिति । सांसर्गिकविषयतात्वरूपत्वादि- त्यर्थः। अस्य च तादात्म्यविषयतायां संगतिं रजतविषयतायामनतिप्रसक्तिं चोपपादयति तादात्म्येति । न रजतविषयतानिष्ठेति । तादृशनिरूपकतेत्याद्यवच्छिन्नान्तं अनुषज्यते। रजतविषयतां प्रति तादृशनिरूपक . त्वाश्रयविषयताया विशेषणीभूताया अभावादिति भावः। तथा च न रजतविषयतायां सांसर्गिकविषयता लक्षणस्यातिव्यप्तिरिति भावः। नन्वेवं तादात्म्यत्वविषयतायाः संसर्गतात्वं न स्यात् , उक्तनिरूपकत्वस्य तत्राभावादित्याशङ्कां इष्टापत्त्या परिहरति तादात्म्यत्वविषयतात्विति । तादात्म्यत्वविषयता तु न सांसर्गि- कविषयता, किन्तु तदवच्छेदिका; उक्तनिरूपकतावच्छेदकत्वादिति योजना। तदवच्छेदिका सांसर्गिक- विषयतावच्छेदिका। नन्वेवं इदंत्वादिविषयताया: विशेष्यतात्वं न स्यादिनापीष्टपत्तिरित्याह- एवमिति। अवच्छेदिकेति । न तु तादात्म्यादिविषयतायामवच्छेदिकेति शेषः । अत:= तादात्म्यादिविषयतावच्छेदक- तायामवच्छेदकत्वात्। विशेष्यतावच्छेदिकेति। न तु विशेष्यतेति शेषः । कथमिति। तादात्म्यत्वविषयता हि तादात्म्यविषयतारूपसांसर्गिकविषयतानिष्ठा, या इदं विषयतानिष्ठावच्छेदकतानिरूपकता, तदवच्छेद- कताश्रय एव न तु तादृशसांसर्गिकविषयतावच्छेदकतारूपेति भावः। तादात्म्यत्वादेरपीति। अपिना तादात्म्यत्वविषयताया: समुच्चयः । तद्धर्मतयेति । तादात्म्यविषयतावच्छेदकीभूतं यत् तादात्म्यत्वं तद्धर्म- तयेत्यर्थः । अथेति कथमिति पदद्वयरहितं तादात्म्यत्वादीत्यारभ्य व्यवहार इत्यन्तं अनुषज्यते। सांसर्गिक- विषयतावच्छेदकताशब्दो हि भावार्थे विहिततल्प्रत्ययान्तः। तेन च तादृशविषयतावच्छेदकस्य तादात्म्य- त्वस्य धर्म: तादृशविषयतावच्छेदकतानात्मकोऽपि परिभाषया तथा व्यवह्रियत इति भावः। एवमिति। इदंत्वस्यापि इदंनिष्ठविशेष्यतावच्छेदकत्वेन तादृशेदन्त्वधर्मतयेत्यर्थः। एवमिदन्त्वविषयतायां विशेष्यता- वच्छेदकताव्यवहारमुपपाद्य रजतत्वविषयतायां प्रकारतावच्छेदकताव्यवहार मुपपादयितुमाह- तादात्म्य - संबन्धेनेति । यत्रेति । इदंरजतमित्यादिज्ञानस्थले इत्यर्थः । आधारत्वसंबन्धेन आश्रयत्वसंबन्धेन। रजत- त्वादिकमपीति। अत एव इदं रजतत्वेन जानामीत्यप्यनुभव इति भावः । यत्रत्विति । इदं रजतवदित्यादौ- त्वित्यर्थः । उक्तसंबन्धेन= आधारत्वसंबन्धेन। प्रकारत्वनियम इति । दण्डिमदित्यादौ बाधकाभावे दण्डा- -- 94 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका वच्छेदकतानिरूपकत्वस्य प्रकारतात्वरूपस्य तादृशनिरूपकत्ववत्या रजतत्वादिविषयतयाव च्छिन्नत्वेन तादात्म्यसंबन्धेन रजतादिप्रकारकभ्रमस्थले रजतादिप्रकारता सांसर्गिकविषयता स्यात्, पूर्वोक्तस्य द्वितीयलक्षणस्य तत्र सत्त्वादिति-वाच्यम्; रजतादिविषयतानिष्ठस्योक्तनिरूपकत्वस्य तादृशनिरूपकतावत्या रजतत्वादिविषयतयानवच्छिन्नत्वात्। द्वयी हि तादृशस्थले रजतत्वादि- प्रकारता, एका प्रातीतिकेनेदमनुयोगिकसंसर्गेण, अन्या व्यावहारिकेणरजतादिनिष्ठसंसर्गेण। आद्या इदंत्वाद्यवच्छिन्नविशेष्यतावच्छिन्ना, अन्त्या रजतादिनिष्ठया अनवच्छिन्नविशेष्यतयावच्छिन्ना, तद. वच्छिन्नत्वं च तन्निष्ठावच्छेदकतानिरूपकत्वम् । तथाचान्त्या नेदंविशेष्यतानिष्ठावच्छेदकता प्रकाश: - । देरप्याश्रयत्वसंबन्धेन प्रकारत्वसंभवान्नियम इत्युक्तम् । उभयत्रेति । तादात्म्यसंबन्धेन रजतादे: प्रकारता | स्थले संयोगसंबन्धेन रजतादे: प्रकारतास्थले चेत्यर्थः। ततश्च रजतत्वस्यापि रजतनिष्ठप्रकारतावच्छेद- कत्वात् रजतत्वविषयतायाः तद्धर्मत्वेन तस्यां प्रकारतावच्छेदकताव्यवहार: सम्भवतीति भाव:। प्रकार तायां सांर्गिकविषयतालक्षणस्य अतिव्याप्तिं शङ्कते नचेति । एवं इदं रजतमिति भ्रमे इदमंशे रजतत्वस्यापि प्रकारत्वे। तादृशनिरूपकत्ववत्येति । इदंविषयतानिष्ठावच्छेदकतानिरूपकत्ववत्येत्यर्थः। रजतत्वादि विषयतयेति । इदमंशे रजतांशे च एकैव रजतत्वस्य प्रकारता, अत:सा रजतत्वादिविषयतया अवच्छिन्ने. त्यभिमानः । तादात्म्यसंबन्धेनेति । संयोगादिसंबन्धेन रजतादे: प्रकारतास्थले रजतत्वादे: प्रकारत्वनियमा- भावस्योक्तत्वेन रजतादिप्रकारतायां सांसर्गिकविषयतात्वस्य अप्रसक्तेस्तादात्म्यसंबन्धेनेत्युक्तम्। सांसर्गिकविषयतात्वापत्तौ हेतुमाह- पूर्वोक्तस्येति । द्वितीयलक्षणस्येति । तादृशनिरूपकत्वाश्रयेत्यादिरूप. द्वितीयलक्षणस्येत्यर्थः। उक्तनिरूपकतानवच्छेदकेत्यादिप्रथमलक्षणं रजतविषयतायां न संभवति। रजत विषयतायाः तादात्म्यविषयतानिष्ठोक्तनिरूपकतां प्रत्यवच्छेदकत्वेन उक्तनिरूपकतानवच्छेदकत्वाभावेन | तद्धटितस्य तस्य रजतविषयतायामसंभवात्, अतो द्वितीयलक्षणस्येत्युक्तम्। रजतत्वविषयतायास्तादृश निरूपकताश्रयत्वेन रजतविषयतानिष्ठतादृशनिरूपकत्वस्य तदवच्छिन्नत्वेन च द्वितीयलक्षणस्य तत्र सत्वा दिति भावः। समाधत्ते रजतादीति । उक्ताभिमानं निराकरोति द्वयीति । रजतत्वादिप्रकारता= रजतत्वादे: प्रकारता। प्रतीतिकेनेति । इदमंशे रजतत्वाश्रयताया अपि कल्पितत्वात्प्रातीतिकत्वं बोध्यम्। इदमनु - योगिकसंसर्गेणेति। इदमनुयोगिकेन रजतत्वप्रतियोगिकेन आश्रयतारूपसंसर्गेण इदमंशे रजतत्वस्य प्रकारतेत्यर्थः । व्यावहारिकेणेति। रजते रजतत्वसंसर्गस्य समवायस्य तादात्म्यस्य वा अप्रातीतिकत्वाद तात्विकत्वाच्च व्यावहारिकत्वं बोध्यम्। रजतादिनिष्ठसंसर्गेणेति । रजतांशे रजतत्वस्य रजताद्यनुयोगिक संसर्गेणेत्यर्थः। रजतत्वादिप्रकारतेत्यनुषज्यते। आद्येति। प्रातीतिकेन इदमनुयोगिकसंसर्गेण रजतत्व . प्रकारतेत्यर्थः । इदंत्वाद्यवच्छिन्नेति। इदंनिष्ठविशेष्यता इदंत्वावच्छिन्ना तया च उक्तसंसर्गेण रजतत्व . प्रकारता अवच्छिन्नेत्यर्थः। अनवच्छिन्नविशेष्यतयेति। इदं रजतमित्यत्र रजतांशे धर्मितावच्छेदकस्य धर्मान्तरस्य अभानाद्रजतनिष्ठरजतत्वप्रकारतावच्छेदकीभूतविशेष्यता अनवच्छिन्नेत्यर्थः। तथाचेति। उक्तविधप्रकारताद्वयसिद्धौ चेत्यर्थः । अन्त्येति । रजतप्रकारतानिष्ठाया उक्तनिरूपकताया अवच्छेदिकापीति ।

अद्वैतसिद्धिः सव्याख्या 95 लघुचन्द्रिका निरूपिका, तदवच्छेदकस्य व्यावहारिकस्य रजतत्वादिसंसर्गस्य इदंविशेष्यतावच्छेदेनानध्यासे नोक्तावच्छेदकतानिरूपकत्वाभावात्। नहि यत्संसर्गानवच्छेदिका या विशेष्यता सा तत्संस- र्गावच्छिन्नप्रकारतावच्छेदिका; आद्या तु तादृशावच्छेदकतानिरूपिका, नतु रजतादिप्रकारता- निष्ठायास्तादृशनिरूपकताया अवच्छेदिका, रजतत्वादिप्रातीतिकसंसर्गोपहितरूपेण रजतादेरुक्त- निरूपकत्वाननुभवात् । नच यत्संसर्गो नोक्तनिरूपकतावच्छेदकः तत्संसर्गावच्छिन्नप्रकारता उक्त- निरूपकतावच्छेदिका; तस्माद्रजतादिप्रकारतायां न सांसर्गिकविषयतात्वापत्तिः । - प्रकाशः शेषः। व्यावहारिकेण रजतादिनिष्ठसंसर्गेणावच्छिन्नेत्यर्थः। अन्त्याया रजतत्वप्रकारताया इदंविशेष्यता- निष्ठावच्छेदकतानिरूपकत्वाभावे हेतुमाह तदवच्छेदकस्येति। रजतत्वप्रकारतावच्छेदकस्येत्यर्थः । अनध्यासेनेति । चैतन्य इत्यादिः । रजतविशेष्यतावच्छेदेनैव व्यावहारिकस्य रजतत्वादिसंसर्गस्य अध्यास: न तु इदंविशेष्यतावच्छेदेन, इदमंशे रजतत्वस्य व्यावहारिकसंसर्गेण अप्रकारत्वादिति भावः। ननु व्यावहारिकस्य रजतत्वसंसर्गस्य उक्तरीत्या इदंविशेष्यतानिष्ठावच्छेदकतानिरूपकताया अभावेऽपि तत्संसर्गावच्छिन्नरजतत्वप्रकारताया: तादृशनिरूपकत्वं कुतो नेत्यत आह न हीति । तत्संसर्गनिरूपिताव- च्छेदकत्वस्य तत्संसर्गावच्छिन्नप्रकारतानिरूपितावच्छेदकताव्यापकत्वोपगमात्। अन्यथा समवाया वच्छिन्नघटप्रकारतावच्छेदकविशेष्यतायाः संयोगावच्छिन्नघटप्रकारतावच्छेदकत्वं स्यादिति भावः। ततश्च प्रकृते व्यापकाभावाव्याप्याभाव इत्याशयः। आद्येति। इदमनुयोगिकप्रातीतिकसंसर्गावच्छिन्न रजतत्वप्रकारतेत्यर्थः। तादृशावच्छेदकता= इदं विशेष्यतानिष्ठावच्छेदकता। निरूपिकेति। इदं विशेष्यतावच्छेदेन चैतन्ये रजतत्वीयप्रातीतिकसंसर्गस्य अध्यासेन तत्र इदं विशेष्यतानिष्ठावच्छेदकता निरूपकत्वसंभवेन तत्संसर्गावच्छिन्नरजतत्वप्रकारताया अपि उक्तनिरूपकत्वसंभवादिति भावः। रजत त्वादीति । रजतत्वादे: य: इदमि प्रातीतिक:संसर्गः तदुपहितत्वेन रूपेणेत्यर्थः । ननु रजतादेः रजतत्वादि प्रातीतिकसंसर्गोपहितरूपेण उक्तनिरूपकत्वानुभवाभावेऽपि रजतत्वादिप्रकारताया: रजतादिनिष्ठोक्तनिरूप. कतावच्छेदकत्वं कुतो नेत्यत आह न चेति। नहीत्यर्थः। तन्निष्ठावच्छेदकतानिरूपकतावच्छेदक. संबन्धत्वस्य तादृशनिरूपकतावच्छेदिका या प्रकारता, तदवच्छेदकसंबन्धत्वव्यापकत्वोपगमात् । प्रकृते च रजतत्वस्य प्रातीतिकसंसर्गेण इदमंशे प्रकारत्वात् तादृशसंसर्गे रजतनिष्ठा या, इदं विशेष्यतानिष्ठाव च्छेदकतानिरूपकता,तदवच्छेदकत्वरूपस्य व्यापकस्य अभावात् रजतादिनिष्ठा या तादृशनिरूपकताव च्छेदिका प्रकारता तदवच्छेदकसंबन्धत्वमपि नास्तीति भावः। उपसंहरति तस्मादिति । अयंभावः। इदं रजतमिति भ्रमे इदमि तादात्म्यसंबन्धेन रजतस्येव रजतत्वस्यापि प्रातीतिकेन आश्रयतासंबन्धेन प्रकारत्वं तथा रजतांशेऽपि रजतत्वस्य व्यावहारिकेण संसर्गेण प्रकारत्वं भासते। एवं सति रजते या प्रकारता तस्याः सांसर्गिकविषयतात्वापत्तिः। विषयतानिष्ठा या अवच्छेदकता तन्निरूपकत्वाश्रयविषयत्वावच्छिन्नं यत् विषयतानिष्ठावच्छेदकतानिरूपकत्वं तस्य सांर्गिकविषयतात्वम् । अस्ति च तत् रजत निष्ठप्रकारतायां , 96 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता .. लघुचन्द्रिका अतएव तादृशप्रमास्थलेऽपि नोक्तापत्ति: ‘इदं रजत'मित्यादिप्रमायां हि रजतत्वप्रकारता द्वयी, एका इदंत्वावच्छिन्नविशेष्यतयावच्छिन्ना; अन्या रजतनिष्ठयानवच्छिन्नविशेष्यतया अवच्छिन्ना; आद्या इदंत्वावच्छिन्नविशेष्यतानिष्ठावच्छेदकतानिरूपिकापि नोक्तनिरूपकतावच्छेदिका, रजतप्रकारता- निष्ठां उक्तनिरूपकतां प्रति तस्याः अव्यापकत्वेनानवच्छेदकत्वात्, नहि रजतत्वविशिष्टवैशिष्ट्य बुद्धिषु सर्वासु तादृशप्रकारतासत्त्वे मानमस्ति। नच-विशेषणतत्त्वावच्छेदकयोरेकर्मिणि एक संबन्धावच्छिन्नप्रकारताशालिबुद्धित्वमेव विशिष्टवैशिष्ट्यबुद्धित्वम्, तथाचैकसंबन्धावच्छिन्न प्रकारता एकैव तादृशविशेष्यताद्वयावच्छिन्ना, नतु द्वयी, तथाच तादृशनिरूपकतावच्छेदिकापि प्रकाशः रजतत्वविषयताया इदंविषयतानिष्ठावच्छेदकतानिरूपिकाया: तदवच्छेदकत्वादिति चेत् उच्यते । इदं विषयतानिष्ठावच्छेदकतानिरूपिका या इदमंशे प्रातीतिकसंसर्गावच्छिन्ना रजतत्वप्रकारता तदवच्छिन्नत्वं रजतनिष्ठप्रकारतायां नास्ति। या चान्या रजतांशे रजतत्वप्रकारता तदवच्छिन्नत्वं रजतनिष्ठनिरवच्छिन्न- विशेष्यतारूपविषयतायां यद्यपि वर्तते, परन्तु सा इदंविषयतानिष्ठावच्छेदकतानिरूपिका नेति उक्त. लक्षणस्य तत्र असत्वान्न रजतप्रकारताया: सांसर्गिकविषयतात्वापत्तिरिति। अतएव रजतत्वगतप्रकार. तयोभिन्नत्वोपगमादेव। तादृशप्रमास्थलेऽपि तादात्म्यसंसर्गकप्रमीयरजतादिनिष्ठप्रकारतायामपि। नोक्ता. पत्ति: न सांसर्गिकविषयतात्वापत्ति: । आपत्त्यभावं उपपादयति इदं रजतमित्यादीति । इदंत्वावच्छिन्नेति। इदंत्वस्य रजतत्वं प्रति धर्मितावच्छेदकतया भानादिति भावः। अनवच्छिन्नेति । केवलरजते रजतत्वस्य प्रकारतया भानादिति भावः । नोक्तनिरूपकतावच्छेदिकेति। विषयतानिष्ठा, या विषयतानिष्ठावच्छेद- कतानिरूपकता, तदवच्छेदिका नेत्यर्थः। कुत इत्यत आह रजतेति। तस्या: रजतत्वप्रकारतायाः । अव्यापकत्वेन अन्यूनवृत्तित्वाभावेन। अनवच्छेदकत्वादिति । अवच्छेद्यान्यूनवृत्तेरेव अवच्छेदकत्वा दिति भावः। अन्यूनवृत्तित्वाभावमुपपादयति नहीति। तादृशप्रकारतासत्वे इदंत्वावच्छिन्नविशेष्यता. वच्छिन्नप्रकारतासत्वे। नहीति । मानमस्तीति। इदंत्वावच्छिन्ने रजतत्वबाधग्रहदशायां तत्र रजतत्वस्य प्रकारतया भानासंभवात्, तावतापि विशिष्टप्रकारकत्वं संभवतीति वक्ष्यमाणरीत्या विशिष्टवैशिष्ट्य बुद्धित्वोपपत्तिरिति गूढोऽभिसन्धिः। तथाच रजतनिष्ठप्रकारताया: न इदंविषयतानिष्ठावच्छेदकता निरूपकताश्रयीभूतरजतत्वप्रकारतावच्छिन्नत्वमस्तीति सांसर्गिकविषयतालक्षणस्य अभावान्न आद्यरजत . त्वप्रकारतामादाय सांसर्गिकविषयतात्वापत्तिरिति भावः। इदमि रजते च रजतत्वप्रकारताया एकत्वात् रजतनिष्ठप्रकारतायाः संसर्गतात्वमस्त्येवेत्यभिप्रायेण शंकते नचेति। एकसंबन्धावच्छिन्नप्रकारताशलि बुद्धित्वमिति। यथा दण्डिमद्भूतलमित्यादौ दण्डिनो दण्डस्य च संयोगरूपैकसंबन्धावच्छिन्नप्रकारता शालित्वं, तथा प्रकृते रजतस्य तादात्म्यसंबन्धेन इदमीव रजतत्वस्य तेनैव संबन्धेन इदमि रजते च प्रकारत्वमिति भावः । एकैवेति । अवच्छेदकधर्मैक्य इव अवच्छेदकधर्मभेदाभावे अवच्छेदक संबन्धैक्ये. ऽपि प्रकारता एकैवेति भावः । विशेष्यताद्वयावच्छिन्नेति । प्रकृते रजतत्वप्रकारता इदंविशेष्यतया - अद्वैतसिद्धिः सव्याख्या 97 लघुचन्द्रिका सेति-वाच्यम्; संयोगादिसंबन्धेन रजतत्वादिविशिष्टस्य प्रकारतास्थले रजतत्वादेः संयोगादिना प्रकारत्वे भ्रमत्वापत्त्या प्रकारतयोरेकसंबन्धावच्छिन्नत्वनिवेशासंभवेन विशेषणतावच्छेदकस्य स्वाश्रयप्रतियोगिकेन विशेषणसंबन्धेन प्रकारताया विशिष्टवैशिष्ट्यबुद्धित्वशरीरे निवेश्यत्वात् । वस्तुतस्तु नोक्तरूपं विशिष्टवैशिष्ट्यबुद्धित्वम्, विशेष्ये विशेषणमिति ज्ञानापेक्षया विषयकृत विशेषस्य वाच्यत्वात्, किन्तु विशिष्टस्य केवलादन्यत्वेन तत्प्रकारकत्वमेव; सिद्धान्ते तथैव स्वीकात्, तस्माद्विषयतानिष्ठं यद्विषयतावच्छेदकत्वं तद्विशेष्यतात्वम्, तदवच्छेदकविषयतात्वं विशेष्यतावच्छेदकतात्वम्, विषयतानिष्ठस्यावच्छेदकत्वस्य निरूपकत्वविशेषौ सांसर्गिकविषयता. त्वप्रकारतात्वे, तदवच्छेदकविषयतात्वे सांसर्गिकविषयताप्रकारतावच्छेदकतात्वे। ननु-तादृश - प्रकाश: । रजतविशेष्यतया च अवच्छिन्नेत्यर्थः । सेति। तथा च इदं रजतमित्याकारकरजतत्वविशिष्टवैशिष्ट्याव- गाहिप्रमीयरजतप्रकारताया: संसर्गतात्वापत्तिर्दुवीरेति भावः। समाधत्ते संयोगादीति। प्रकारतास्थले इति । इदं रजतवदित्यादिज्ञानस्थले इत्यर्थः । भ्रमत्वापत्त्येति। रजतत्वस्य अद्रव्यत्वेन तनिष्ठप्रकारतायाः संयोगा- वच्छिन्नत्वासंभवादिति भावः । प्रकारतयोरिति । विशिष्टवैशिष्ट्यबुद्धित्वशरीर इत्यादिः। तर्हि किंसंबन्धा- वच्छिन्ना सा निवेशनीयेत्यत्राह- विशेषणतावच्छेदकस्येति। विशेषणतावच्छेदकधर्मनिष्ठा, या स्वाश्रय . प्रतियोगिकत्वविशिष्टविशेषणतावच्छेदकसंबन्धावच्छिन्ना प्रकारता तस्या इत्यर्थः। तथाच रजतत्वस्य इदमंशे प्रकारता स्वाश्रयप्रतियोगिकत्वविशिष्टविशेषणतावच्छेदकीभूततादात्म्यसंबन्धावच्छिन्ना, रजतांशे तु स्वप्रतियोगिकतादात्म्यसंबन्धावच्छिन्नेति तयोर्भेदः। अतो न द्वितीयप्रकारतामादायापि रजत प्रकारतायाः संसर्गतात्वापत्तिः, उक्तरजतत्वप्रकारताया रजतप्रकारतावच्छेदिकायाः इदंविषयतानिष्ठा- वच्छेदकतानिरूपकत्वाभावादिति भावः। उक्तपक्षे विशेष्ये विशेषणमितिरीत्या जायमानबुद्ध्यपेक्षया विशिष्टवैशिष्ट्यावगाहिबुद्धेः विषयकृतवैलक्षण्यं न स्यादित्यस्वरसादाह वस्तुतस्त्विति। नोक्तरूपम्= न एकसंबन्धावच्छिन्नप्रकारताघटितं, उक्तविशिष्टसंबन्धावच्छिन्नप्रकारताघटितं वा। विषयकृत विशेषस्येति। प्रकारकृतवैलक्षण्यस्येत्यर्थः। तेन द्वितीयरीतौ स्वाश्रयप्रतियोगिकत्वविशिष्टविशेषण संबन्धस्य भानोपगमेन संबन्धरूपविषयकृतवैलक्षण्यस्य संभवेऽपि न क्षतिः। तत्प्रकारकत्वमेव- विशिष्ट- प्रकारकत्वमेव। विशिष्टवैशिष्ट्यबुद्धित्वमित्यनुषज्यते। एवकारेण पूर्वोक्तप्रकारताकत्वव्यवच्छेदः। ननु नैयायिकैः द्वितीयरीत्युक्तप्रकारताकत्वस्य विशिष्टवैशिष्ट्यबुद्धित्वस्वीकारात् एवकार: कुत इत्यत आह- सिद्धान्त इति। विशेष्यतावच्छेदकतात्वादिकं निर्वक्तुं विशेष्यतात्वादिकमुपसंहरति तस्मादिति । यस्मादखण्डविशेष्यतात्वादिकं नानुभूयते तस्मादित्यर्थः । तदवच्छेदकविषयतात्वं विशेष्यतावच्छेदक- विषयतात्वम्। निरूपकत्वविशेषाविति। विषयतानिष्ठावच्छेदकतानिरूपकत्वाश्रयविषयतावच्छिन्न विषयतानिष्ठावच्छेदकतानिरूपकत्वं सांसर्गिकविषयतात्वम्। विषयतानिष्ठावच्छेदकतानिरूपकतासमाना. धिकरणविषयतानिष्ठावच्छेदकतानिरूपकतावच्छेदकत्वं प्रकारतात्वमित्यर्थः। तदवच्छेदकविषयतात्व - ॐ प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका विशेष्यतात्वादीनामखण्डविशेष्यतात्वादिभ्यः को विशेषो येन तादृशेष्वेव पक्षपात-इति चेत्, अवश्यं सर्वैः कल्पनीयत्वमेव विशेषः। अन्योऽप्ययं विशेष:। मूलादौ तत्संबन्धे च यदवच्छेदकत्वं यच्चतन्निरूपकत्वं संयोगादौ तत्संबन्धे च तज्जातीययोरेवावच्छेदकत्वतनिरूपकत्वयोर्विषयतासु कल्पनात् विषयविषयतयोर्द्वयोरेव ते वर्तते, नैकत्र; तथाच विषयविषयतयोरेकमपि नापलपितुं शक्यते, तज्जातीयावच्छेदकतातन्निरूपकत्वयो: संबन्धसंबन्ध्युभयसापेक्षत्वात्, अखण्डविशेष्य - तात्वादेविषयतायां स्वीकारे तु तस्य ज्ञानवैलक्षण्यानुभवान्यथानुपपत्तिरेव कल्पिका, साच ज्ञानगत. मेव वैलक्षण्यं कल्पयेन्न विषयतानिष्ठम्; तथाच घटत्वादिकमपि ज्ञानस्यैव धर्म: घटपटादिज्ञानानां मिथो वैलक्षण्यानुभवस्यान्यथानुपपत्तेः । तथाच ज्ञानस्य घटादिविषयैरत्यन्ताभेदापत्त्या तार्किकाणां . प्रकाशः इति । उक्तविधसांसर्गिकविषयतावच्छेदकविषयतात्वं सांसर्गिकविषयतावच्छेदकतात्वं, उक्तविध. प्रकारतावच्छेदकविषयतात्वं प्रकारतावच्छेदकतात्वमित्यर्थः । इदं च प्रकारतावच्छेदकतात्वं द्विविध- तत्क्षणविशिष्टघटवानिति ज्ञानीयतत्क्षणनिष्ठविषयतासाधारणमिति नैतेन उक्तज्ञानयो(लक्षण्यनिर्वाह इत्यतो विषयकृतवैलक्षण्यमेव वाच्यम्, तच्च विशिष्टस्य केवलादन्यत्व एवेति विशिष्टस्य केवलादन्यत्वं स्वीकार्यमिति भावः। अखण्डविशेष्यतात्वाद्यपेक्षया निरुक्तविशेष्यतात्वादौ विशेषाभावात् निरुक्त. विशेष्यतात्वादिकमेव ग्राह्यमित्यत्र बीजं नास्तीत्याशयेन शंकते- नन्विति। विशेष प्रदर्शयन् समाधत्ते अवश्यमिति। नहि रजतादिविषयत्वस्य इदंविषयतावच्छिन्नत्वे कस्यापि विप्रतिपत्तिरिति विशेषण. विषयतायाः विशेष्यविषयतावच्छिन्नत्वं सर्वानुभवसिद्धमिति च पूर्वमुक्तम् । तेन च उक्तविशेष्यतात्वादे: सर्वैः कल्पनीयत्वं सिद्ध्यतीति भावः। ननु विषयतयोरवच्छेद्यावच्छेदकभावकल्पनमात्रेण अखण्ड. विशेष्यतात्वाद्यतिरिक्तविशेष्यतात्वादेः न सर्वै:कल्पनीयत्वसिद्धिरित्यत आह- अन्योपीति। अय- तथाचेत्यनेन वक्ष्यमाणविषयाद्यपलापाप्रसञ्जकत्वरूप:। विषयविषयतयोरिति । संबन्धिसंबन्धरूपयोरि. त्यर्थः । तथा च मूलादौ क्लृप्तजातीयावच्छेदकत्वादिकल्पने च । विषयविषयतयोरिति निर्धारणे षष्ठी। एकमपि नापलपितुं शक्यत इत्यत्र हेतुमाह- तज्जातीयेति। संबन्धसंबन्ध्युभयसापेक्षत्वादिति। असंब. द्धस्य वस्तुन: संबन्धिनं विना संबन्धमात्रस्य चावच्छेदकत्वाद्यसंभवात्, अवच्छेद्याधिकरणसंबद्धस्यैव अवच्छेदकत्वनियमादिति भावः । अखण्डविशेष्यतात्वादेः स्वीकारे तु विषयस्य अपलापः प्रसज्यतेत्याह अखण्डेति। विशेष्यतात्वादेरित्यादिना प्रकारतात्वसंसर्गतात्वयो:परिग्रहः। तस्य- अखण्डविशेष्यता- त्वादेः। ज्ञानवैलक्षण्येति । विशेष्ये विशेषणमिति रीत्या जायमानज्ञान,विशिष्टवैशिष्ट्यावगाहिज्ञानयो. वैलक्षण्येत्यर्थः । ज्ञानगतमेवेति । ज्ञानगतवैलक्षण्यसिद्धावेव अनुपपत्तिपरिहारादिति भावः । न विषयता- निष्ठमिति । अप्रयोजकत्वादिति भावः । तथाचेति । ज्ञानवैलक्षण्यानुभवान्यथानुपपत्तेर्ज्ञानगतवैलक्षण्यमात्र कल्पकत्वे चेत्यर्थः । अन्यथेति । घटत्वादीनां ज्ञानधर्मत्वं विनेत्यर्थः । विषयतावैलक्षण्येन ज्ञानवैलक्षण्य. सिद्धावपि तत्कल्पनापेक्षया क्लृप्तघटत्वादेर्शानधर्मत्वकल्पने लाघवमिति भावः । अस्तु घटत्वादिकं ज्ञान- - । ।

अद्वैतसिद्धिः सव्याख्या 99 लघुचन्द्रिका बौद्धस्वीकृतसाकारवादापत्तिः । अथ-वेदान्तिनां मतमालम्ब्य तार्किकैरेवं वाच्यम्, घटादीना मुत्पत्तिविनाशवत्त्वानुभवात् ज्ञानस्य च विषयाविशेषितरूपेण तथाननुभवेन लाघवेन चैकव्यक्ति रूपत्वान्न ज्ञानस्य ज्ञातघटादिभिरभेदः; नचैवं तेषां व्यवहारो न स्याद्व्यवहारविषयतायां तादात्म्येन ज्ञानव्यक्तेः प्रयोजकतया क्लृप्तत्वेऽपि ज्ञान एव तत्तादात्म्यसत्वात् ज्ञानभिन्नेऽपि विषये ज्ञानसंबन्धं स्वीकृत्य तस्य तत्र व्यवहारविषयताप्रयोजकत्वकल्पने गौरवादिति-वाच्यम् । ज्ञानतादात्म्यापन्नतया विषयाणां कल्पितत्वेन ज्ञान इव विषयेष्वपि कल्पितस्य ज्ञानतादात्म्यस्य सत्त्वात्। तथाच न ज्ञानस्य घटत्वादिकं धर्मः, नहि नैल्यादिकं गगनादावारोपितमपि तस्य धर्मः; धर्मिसमसत्ताकस्यैव धर्मपदमुख्यार्थत्वात् । नच-ज्ञानानां मिथो वैलक्षण्यानुभवानुपपत्तिरिति-वाच्यम्; ज्ञानानां मिथो प्रकाशः धर्म इति चेत् तत्राह अत्यन्ताभेदापत्त्येति। घटत्वादीनां घटाद्यभेदव्याप्यत्वेन तद्वतां घटाद्यभेदावश्यंभावा- दिति भावः। साकारवादापत्तिः= घटादिकं अयंघट इत्यादिज्ञानस्य आकारविशेष एव, न तु ज्ञानाद्भिन्न- मिति वादापत्ति: । तार्किकाणां साकारवादापत्त्यभावं शंकते- अथेति । वेदान्तिनां मतमालम्ब्येति । अनेन तार्किकमते ज्ञातघटादिभिरभेदो ज्ञानस्य नेति वक्तुं न शक्यत इति सूचितम्। ज्ञानस्यापि घटज्ञानं जातं पट- ज्ञानं नष्टमित्याद्युत्पत्तिविनाशानुभवोऽस्तीत्यत आह विषयाविशेषितरूपेणेति । तथा = उत्पत्तिविनाशव- त्वेन। लाघवेन चेति । घटाद्यभिन्नरूपत्वेन भेदकल्पनापेक्षयेत्यादिः। घटाद्यभेदकल्पने तेषां भिन्नत्वेन ज्ञानानामपि भेद: स्यात्, तदभावे तु घटादिभेदप्रयुक्तभेदाभावाल्लाघवमिति भावः। नेति। विरुद्ध- धर्मवत्वादिति भावः । ज्ञानविषययोरभेदाभावे घटादिरूपविषयाणां व्यवहारानुपपत्तिं शंकते नचेति । एवम् ज्ञानस्य ज्ञातघटादिभिरभेदाभावे। तेषां= घटादीनां । व्यवहार:= अयंघट इत्यादिशब्दप्रयोग:, उपादाना- दिकं वा। न स्यादिति । ज्ञानाभेदाभावादिति भावः। ननु तद्विषयकव्यवहारं प्रति तादात्म्येन ज्ञानस्येव ज्ञानीयविषयतारूपसंबन्धस्यापि आश्रयतासंबन्धेन प्रयोजकता उपेयते, तथा च घटादेविषयस्य ज्ञान- तादात्म्याभावेऽपि ज्ञानविषयताश्रयत्वात् व्यवहारोपपत्तिरित्यत आह तादात्म्येनेति । क्लृप्तत्वेपीति । अत एव ज्ञानरूपस्वविषयकव्यवहारोपपत्तिरिति भावः। क्लृप्तत्वेपीत्यस्य कल्पने इत्यनेनान्वयः । ज्ञान एवेति। एवकारेण विषयव्यवच्छेदः। ननु ज्ञान एव ज्ञानतादात्म्यसत्वेऽपि घटादिषु ज्ञानविषयताश्रयत्वसत्वान्न तद्व्यवहारानुपत्तिरित्यत आह ज्ञानभिन्नेपीति । ज्ञानसंबन्ध= ज्ञानीयविषयताश्रयत्वरूपम्। अथवा ज्ञान- भिन्नेऽपि ज्ञानतादात्म्यं स्वीक्रियतामित्यत आह ज्ञानभिन्नपीति । अस्मिंश्च पक्षे ज्ञानसंबन्धं ज्ञान- तादात्म्यम् । गौरवादिति । प्रथमपक्षे ज्ञानीयविषयताश्रयत्वे व्यवहारविषयताप्रयोजकत्वस्य अक्लृप्तस्य कल्पने, द्वितीये ज्ञानभिन्नेषु अक्लृप्तस्य ज्ञानतादात्म्यस्य कल्पने गौरवादिति भावः। समाधत्ते ज्ञानेति । इदं च ज्ञानं चिद्रूपमिति बोध्यम् । सत्वादिति । ततश्च न अक्लृप्तकल्पनाप्रयुक्तं गौरवमिति भावः । तथाचेति । घटादिविषयाणां ज्ञानतादात्म्यापन्नतया कल्पितत्वे चेत्यर्थः । ननु घटाद्यभेद: घटत्वादिकं वा आरोपितं ज्ञानरूपे ब्रह्मणि अस्त्येवेत्यत आह नहीति । धर्मिसमसत्ताकस्यैवेति । तथाच घटादे: आरोपितत्वेन ब्रह्म- 100 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता - . लघुचन्द्रिका विलक्षणविषयतादात्म्यमनुभूयते नतु मिथो वैलक्षण्यम्; तथाच ज्ञानगतस्य वैलक्षण्यस्य साकार वादिबौद्धस्वीकृतस्य कः प्रसङ्ग इति चेत्, तर्हि वेदान्तिभिरेव जितम्। तार्किकस्वीकृतस्य संबन्ध - रूपविषयतागतस्यापि वैलक्षण्यस्य विशेष्यतात्वादेः कः प्रसङ्गः। अथैवं-इदमादितद्विषयत्वयो रुक्तावच्छेदकत्वमपि न स्यादिति चेन्न; नहि तत् ज्ञानानां मिथो वैलक्षण्यानुभवान्यथानुपपत्त्या कल्प्यते, येनोक्तरीत्या न स्यात्, किन्तु मूलादितत्संबन्धयो: संयोगावच्छेदकत्ववत् सार्वलौकिकेन पूर्वोक्तानुभवेनेत्यलं विस्तरेण ॥ तस्माद्विषयवैलक्षण्येनैव ज्ञानानां वैलक्षण्यस्य वाच्यत्वात् विशिष्ट वैशिष्ट्यज्ञाने विशिष्टस्य विषयत्वात्, ‘विशेष्ये विशेषणं तत्रापि च विशेषणान्तर'मिति ज्ञाने च तस्याविषयत्वादुक्तज्ञानयोस्तत्क्षणविशिष्टघटवानित्याकारसान्येऽपि मिथो विशेषः। एवमेकत्र द्वयमिति रीत्या तादृशाकारज्ञाने तत्क्षणघटत्वाभ्यां विशिष्टो विशेषणम्, तदतिरिक्तश्च तत्क्षण विशिष्टो घटः, घटत्वविशिष्टानुयोगिकस्य तत्क्षणवैशिष्ट्यस्य तत्र घटकत्वात्; तादृशघटस्य तत्क्षणविशिष्टघटत्वेन विशिष्टस्य वा विशिष्टवैशिष्ट्यज्ञाने विषयत्वात्। विशेष्ये विशेषणं तत्र च -- प्रकाश: रूपधर्मिसमसत्ताकत्वाभावान्न ब्रह्मधर्मत्वमिति भावः। न चेति । एवमिति शेषः। घटत्वादेर्शानधर्मत्वा- भावे इति तदर्थः । अनुपपत्तिरिति । घटत्वपटत्वादिरूपवैलक्षण्यस्य घटज्ञानपटज्ञानाद्योरभावादिति भावः । ज्ञानानां मिथोवैलक्षण्यानुभवमपलप्य समाधत्ते ज्ञानानामिति । तथा चेति। मिथोवैलक्षण्याननुभवे चेत्यर्थः। तर्हि= ज्ञानगतवैलक्षण्यस्य साकारवादिबौद्धस्वीकृतस्य प्रसङ्गाभावे । विशेष्यतात्वादेः कः प्रसङ्ग इति। ज्ञानवैलक्षण्यमिव ज्ञानसंबन्धरूपविषयतावैलक्षण्यमपि नानुभूयते, किन्तु विषयवैलक्षण्य. मेव, तच्च विषयतागतवैलक्षण्यं विनैव सर्वसिद्धमिति भावः । शङ्कते अथेति। एवम्= ज्ञानवैलक्षण्या- नुभवानुपपत्या विषयतावैलक्षण्यानङ्गीकारे। न स्यादिति । कल्पकाभावादिति भावः। समाधत्ते नेत्या- दिना। येन= ज्ञानवैलक्षण्यानुभवान्यथानुपपत्त्यभावेन । कथं तर्हि उक्तावच्छेदकत्वसिद्धिरित्यत आह किन्त्विति। पूर्वोक्तानुभवेन इदं रजतत्वेन जानामीत्याद्यनुभवेन। तस्मादिति। अखण्डस्य विशेष्यता. त्वादेरसिद्धेः, सखण्डस्य च उभयविधज्ञानसाधारण्येन तद्वैलक्षण्यासाधकत्वादित्यर्थः। विशिष्टस्य विशेषणविशिष्टस्य । तस्य विशिष्टस्य। अविषयत्वादिति। किन्तु केवलस्यैव विषयत्वादिति शेषः । एकत्र द्वयमितिरीत्या धर्मद्वयविशिष्टविशेषणवैशिष्ट्यावगाहिन: धर्मितावच्छेदकविशेषणभावेन धर्मद्वय विशिष्टविशेषणवैशिष्ट्यावगाहिनो ज्ञानस्य च मिथोवैलक्षण्यमाह एवमिति। तादृशाकारज्ञाने तत्क्षण- विशिष्टघटवानित्याकारकज्ञाने। तदतिरिक्तश्चेति। तत्क्षणविशिष्टो घटश्च तदतिरिक्त इत्यन्वयः। अति- रिक्तत्वे हेतुमाह घटत्वेति । तत्र = तत्क्षणविशिष्टघटे । घटकत्वादिति। अन्यत्र च केवलघटानुयोगिकस्य तत्क्षणवैशिष्ट्यस्य घटकत्वमिति भावः। तादृशघटस्येति । अस्य च विशिष्टवैशिष्ट्यज्ञाने विषयत्वादि- त्यत्रान्वयः। घटत्वविशिष्टानुयोगिकतत्क्षणवैशिष्ट्यघटिततत्क्षणविशिष्टघटस्येत्यर्थः। तत्क्षणविशिष्ट- घटत्वेन विशिष्टस्येति । सामानाधिकरण्यसंबन्धेन तत्क्षणविशिष्टं यत् घटत्वं तेन विशिष्टस्येत्यर्थः । ।

अद्वैतसिद्धिः सव्याख्या 101 लघुचन्द्रिका विशेषणान्तरमिति ज्ञाने च भूतलादौ केवलघटस्यैव विशेषणत्वात्तेषां मिथो विशेष:। नच- तत्क्षणविशिष्टघटस्य तद्व्यक्तित्वरूपेण यत् ज्ञानं तस्य तादृशघटत्वरूपेण ज्ञानापेक्षया वैलक्षण्यं न स्यादिति-वाच्यम्; तद्व्यक्तित्वविशिष्टविषयकत्वस्यैवोक्तवैलक्षण्यरूपत्वात्। अथ-तत्क्षणविशि. ष्टस्य यत्र विषयत्वादिकं व्यवह्रियते तत्र त्त्क्षणोपहितस्य तत्क्षणोपलक्षितस्य वा तद्व्यवहार: प्रकाशः - विशिष्टवैशिष्ट्यज्ञाने इति। अवान्तरभेदसत्वेऽपि उभयविधमपीदं विशिष्टवैशिष्ट्यज्ञानमेवेति भावः। | विशेष्ये विशेषणमितिरीत्या जायमानज्ञानस्य उक्तोभयविधज्ञानादपि वैलक्षण्यमाह विशेष्य इति। केवल- घटस्यैवेति । उभयविधविशिष्टातिरिक्तस्येत्यादिः । एवकारेण उभयविधविशिष्टव्यवच्छेदः। विशेषणत्वा. दिति । तत्र च तत्क्षणस्य विशेषणत्वादिति शेषः। अत एव घटवानिति ज्ञानात्तस्य विशेषः , त्रयाणा- माकारसाम्येन विशेषोपपादनावश्यकता च । शङ्कते नचेति । तव्यक्तित्वरूपेण यज्ज्ञानमिति । वस्तुत: तत्क्षणविशिष्टघटविषयकं तद्व्यक्तिरित्याकारकं यज्ज्ञानमित्यर्थः । तादृशघटत्वरूपेणेति । तत्क्षणविशिष्ट घटत्वरूपेणेत्यर्थः । वैलक्षण्यं न स्यादिति। तयोर्विषयवैलक्षण्यस्य दुर्वचत्वादित्यभिमानः। अभिमान निराकुर्वन् समाधत्ते तव्यक्तित्वेति । उक्तवैलक्षण्य रूपत्वात् विषयवैलक्षण्यरूपत्वात्। उपहितोपलक्षित- शब्दयोर्विशिष्टमर्थः इति भ्रमेण शङ्कते अथेति । यत्र = यज्ज्ञाने । विषयत्वान्वयिनिरूपितत्वं त्रलर्थः। व्यवह्रियत इति । व्यवहारश्च तत्क्षणविशिष्टो घट: एतज्ज्ञानविषय इत्याद्याकारकः। तद्व्यवहार: विषयत्वव्यवहारः। समाधत्ते नेति। उक्तभ्रम निराकरोति उपहितोपलक्षितशब्दयोरिति। विद्यमानेनेति। स्वव्यावर्त्यस्य समभिव्याहृतपदार्थान्वयकाले स्वव्यावर्खे इत्यादिः। तच्छून्यात् तादशधर्मरहितात् । व्यावर्तित= तदविषयकबुद्धिविषयीकृतं, तद्भिन्नत्वेन ज्ञापितं वा। ज्ञापनं च अनुमापनं, अनुमानं च एतज्ज्ञानविषयो घटः तत्क्षणशून्यघटादिभ्यो भिन्नः तत्क्षणवत्वादिति। विषय इति। एतज्ज्ञानविषय. इत्यर्थः। अविद्यमानपदमिति तु विशेष इति । तत्क्षणोपलक्षितो घट एतज्ज्ञानविषय इत्यत्र विषयताकाले घटे अविद्यमानेन तत्क्षणेन तत्क्षणानवच्छिन्नघटादिभ्यो व्यावर्तितो घट एतज्ज्ञानविषय इति बुद्ध्यत इत्यर्थः। विशेषणस्यापीति । येन धर्मेण विशिष्टमुच्यते विशेष्यान्वयिसमभिहतपदार्थान्वयिना विद्यमानेन तेन तच्छून्याव्यावर्तितं विशिष्टशब्दस्यार्थः । तथा च तत्क्षणविशिष्टो घटो विषय इत्यत्र विषयताकाले घटे विद्यमानेन विषयताश्रयेण तत्क्षणेन तत्क्षणानवच्छिन्नघटादिभ्यो व्यावर्तितो घटो विषय इति बुद्ध्यत इति भावः। अनेन उपहितोपलक्षितपदस्थले उपाध्युपलक्षणयोः विषयताप्रत्ययो नास्तीति ध्वनितम्। गुणादिकमित्यत्र विशिष्टकेवलयोः भेदाभेदयोरुक्तत्वेऽपि विशिष्टस्य केवलादन्यत्वस्य साधितत्वात् तयोर्भेद एवेति भ्रान्त्या तत्क्षणोपलक्षितघटो घट इति ज्ञानव्यक्तिविषय इति व्यवहारानुपपत्तिं शङ्कते अथेति। यत्र तत्क्षणोपलक्षितघटविषयके अयं घट इति ज्ञाने । तत्रेति । तादृशज्ञानविषय इत्यर्थः । केवलघटादावसंबद्धतत्क्षणस्येति। तत्क्षणविशिष्ट एव घटे तत्क्षणसंबन्धः, न तु केवलघटे; तत्क्षणा- विशेषितघटरूपधर्मिमात्रस्यैव केवलघटपदार्थत्वात्। विशिष्टं च केवलाद्भिन्नमिति साधितम्; तत्क्षणस्य --- 102 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता अथ- लघुचन्द्रिका स्यादिति-चेन्न। उपहितोपलक्षितशब्दयोर्हि न विशिष्टमर्थः, किंतु येन धर्मेणोपहितमुच्यते विद्य मानेन तेन तच्छून्याव्यावर्तितमुपहितशब्दार्थः । तथाच तत्क्षणोपहितघटो विषय इत्यत्र विषयता काले घटे विद्यमानेन तत्क्षणेन तत्क्षणानवच्छिन्नघटादिभ्यो व्यावर्तितो घटो विषय इत्येव बुद्ध्यते, नतु विशिष्टो घटो विषय इति। तत्क्षणोपलक्षितो घटो विषय इत्यादावप्येवम्। विद्यमानपदस्थाने अविद्यमानपदमिति तु विशेषः। तथाच तदुभयस्थले विशिष्टस्यविषयत्वाप्रत्ययात् विशिष्टस्य विषयत्वप्रत्ययस्थले विशेषणस्यापि विषयताप्रत्ययादुक्तव्यवहाराणां मिथो विशेषः। तत्क्षणविशिष्टं यत्र न विषयस्तत्र केवलघटादावसंबद्धतत्क्षणस्य तदनवच्छिन्नघटादिभ्यो व्यावर्तकत्वानुपपत्तिः, घटादौ हि तत्क्षणादियुक्ते तत्क्षणाद्ययुक्ताद्व्यावृत्तिधीन तु केवले-इति चेन्न; तत्क्षणादियुक्तकेवलघटयोस्तत्क्षणादियुक्तत्वघटत्वरूपाभ्यामभेदस्येव भेदस्यापि स्वीकारात्, घटस्तत्क्षणयुक्त इत्यनुभवात्। अतएव घटो न तत्क्षणविशिष्ट इति धीन प्रमा, अभेदविरोधिभेदस्य नादिनोल्लेखात्। तद्विरोधित्वं चैकावच्छेदेनैकाधिकरणत्वस्याभावः, तेन कृष्णसंयोगिन्यपि वृक्षे मूले न कृष्णसंयोगीति धी: प्रमैव। ननु- कथं भेदाभेदयोरेकधर्मिप्रतियोगिगतत्वमवच्छेदकभेद मस्वीकृत्योच्यते, नच-अवच्छेदकभेदं स्वीकृत्यैव तौ वाच्याविति-वाच्यम्; मणिकाराद्युक्ति - प्रकाश: व्यावर्तकत्वेन संमतस्य केवलघटरूपपक्षासंबद्धतया व्यावर्तकत्वानुपपत्तिरित्यर्थः। तथा च उपलक्षित. पदार्थघटकव्यावर्तितत्वबाधात् तत्क्षणोपलक्षितघट: एतज्ज्ञानविषय: इति व्यवहारानुपत्तिरिति भावः। तत्क्षणादियुक्ते तत्क्षणादिसंबद्धे । न तु केवले= नतु तत्क्षणाद्यसंबद्धे। विशिष्टकेवलयोर्भेद एवेति भ्रान्तिमपनुदन् समाधत्ते नेत्यादिना। अभेदस्येव भेदस्यापीति। भेदस्येव अभेदस्यापीत्यर्थः। यथाश्रुते विशिष्टकेवलयोर्भेदव्यवस्थापनस्य कृतशंकापरिहारानौपयिकतया अर्थान्तरतापत्तेः। भेदस्वीकारस्य घटो न तत्क्षणविशिष्ट इति धिय: प्रमात्वाभावे अननुकूलतया अत एवेत्युपष्टंभासंगतेश्च। तथा च तत्क्षणस्य केवलघटरूपपक्षसंबद्धतया व्यावर्तकत्वोपपत्त्या उक्तव्यवहारोपपत्तिरिति भावः। अभेदविरोधीति। अभेदासमानाधिकरणेत्यर्थः । नादिनेति। आदिपदेन भिन्न इत्यादिशब्दो ग्राह्यः। ननु यदि विरोधित्वं असामानाधिकरण्यं तर्हि कृष्णसंयोगिनि वृक्षे वृक्षो न कृष्णसंयोगीति धियः प्रमात्वं न स्यात्, कृष्ण संयोगिभेदस्य मूलावच्छेदेन वृक्षनिष्ठस्य कृष्णसंयोग्यभेदसमानाधिकरणत्वादित्यत आह तद्विरोधित्व मिति। तेनेति। अवच्छेदकैक्यविवक्षणेनेत्यर्थः। प्रमैवैति। अग्रावच्छेदेन कृष्णसंयोग्यभेदवति वृक्षे मूलावच्छेदेन कृष्णसंयोगिभेदस्याबाधितत्वेन उक्तधिय: तद्विषयकत्वादिति भावः । अभेदस्येव भेदस्यापि स्वीकारादित्यनेन गुणादिकं गुण्यादिना भिन्नाभिन्नमित्यनेन च भेदाभेदयोरेकधर्मिगतत्वं एकप्रतियोगिकत्वं चोक्तम् । तत्र शङ्कते नन्विति । भेदाभेदयोरिति । परस्पराभावरूपयोरित्यादिः। अवच्छेदकभेदेन उभयो रेकत्र वृत्तौ न विरोध इत्यत आह अवच्छेदकभेदमस्वीकृत्येति। गुणादिकमित्यादौ अवच्छेदकभेदं विनेत्यनुक्ते: अवच्छेदकभेदस्वीकारेणैवैकत्र तयोरङ्गीकार इत्याशङ्कते नचेति। अवच्छेदकभेदेन तयोरेकत्र H ।

अद्वैतसिद्धिः सव्याख्या 103 लघुचन्द्रिका विरोधात् । मणिकारेण हि वृक्षे कपिसंयोग तद्वद्भदौ स्वीकृत्य 'नचैवं भेदाभेद' इत्यनेन भेदाभेदमत- मापाद्या वच्छेदकभेदाभ्युपगमा'दित्यनेनोक्तमतापत्ति: परिहृता; तथाच भेदाभेदमतमवच्छेदकभेद . निरपेक्षमिति तदभिप्रेतम् । नच- कार्यात्मना तु नानात्वमतभेद: कारणात्मना। हेमात्मना यथाऽभेद: कुण्डाद्यात्मना भिदे'ति वाचस्पत्युक्तया भेदाभेदवादिकारिकया अवच्छेदकभेदेनैव भेदाभेदयोरुक्त- त्वान्मणिकारोक्तवाक्यस्थस्य भेदाभेद इति पदस्य दोष इति शेषतया पूरणीयम्, तथाचावच्छेद कभेदस्वीकारे भेदाभेदस्वीकारो न दोष इति मणिकारवाक्यार्थ-इति वाच्यम्; अवच्छेदकभेदेन गुणगुण्यादिषु भेदाभेदानुमाने तार्किकादीन्प्रति क्रियमाणे सिद्धसाधनतापत्तेः, नहि तार्किकादिभिः कुण्डलादौ हेमत्वाद्यवच्छिन्नाभेदो न स्वीक्रियते। किंच हेमत्वादिना कुण्डलादावभेदस्वीकारे भेदो- ऽपि तेनैव रूपेण स्वीकार्यः, अन्यथा हेमकुण्डलमिति सामानाधिकरण्यप्रत्ययानुपपत्तेः, नहि - - प्रकाशः स्वीकारो न तात्पर्यविषय इत्याह मणिकारादीति। आदिपदेन मणिव्याख्यातारो ग्राह्याः। उक्तिविरोधा- दिति। विरोधमेव स्फुटयति मणिकारेण हीति । व्याप्तिपूर्वपक्षग्रन्थे इति शेषः । न चैवं भेदाभेद इत्यत्र एव मित्यस्य कपिसंयोगतद्वद्भेदयो: स्वीकारे इत्यर्थः । भेदाभेद इति। वृक्षे कपिसंयोगस्वीकारात् कपिसंयोग- वदभेदः स्वीकृतो भवति। तद्वद्भेदस्वीकारश्च साक्षादुक्तः, अत: भेदाभेदमतप्रवेशापत्तिरित्यर्थः । अवच्छेद कभेदाभ्युपगमादिति । कपिसंयोगवद्भेदावच्छेदकं मूलम्, कपिसंयोग्यभेदावच्छेदकं अग्रमित्येवं भेदाभेद. योरवच्छेदकभेदाभ्युपगमादित्यर्थः । उक्तमतापत्ति:= भेदाभेदमतापत्तिः। तदभिप्रेतमिति= गुणगुण्याद्यो: भेदाभेदवाद्यभिप्रेतमित्यर्थः। अवच्छेदकभेदाभ्युपगमात् न भेदाभेदमतप्रवेशापत्तिरिति तद्वाक्यार्थादिति भावः । शङ्कते नचेति । कार्यात्मनेति । कार्यतावच्छेदकविशिष्टरूपेणेत्यर्थः । नानात्वमिति । कार्याणामि. त्यादिः । कारणात्मनेति । कारणतावच्छेदकरूपविशिष्टत्वेनेत्यर्थः । अत्रापि कार्याणामित्यादिः। कारण . पदं उपादानपरम् । अत्र दृष्टान्तमाह हेमात्मनेति । हेमत्वावच्छेदेनेत्यर्थः । अभेद इति । कटककुण्डलयो रित्यादिः। कुण्डलाद्यात्मनेति। कटकत्वकुण्डलत्वरूपेणेत्यर्थः। अत्रापि कटककुण्डलयोरित्यादिः। वाचस्पत्युक्तेति । परिणामिनित्यतानिराकरणभामत्यामित्यादिः। भेदाभेदवादिकारिकयेति । भास्कराचार्य रचितयेत्यादिः । उक्तत्वादिति । इदं च पूरणीयमित्यत्र हेतुः। तथा च नचैवं भेदाभेदो दोष इति मणिकार- वाक्यं निष्पन्नम्। तदर्थमाह तथाचेति । दोषपदपूरणे चेत्यर्थः । अवच्छेदकभेदस्वीकारे इति। अवच्छेदक- भेदस्वीकारादित्यर्थः । वाक्यार्थ इति। तथा च भेदाभेदमतस्य अवच्छेदकभेदनिरपेक्षता न मणिकार. वाक्यार्थ इति भावः। समाधत्ते अवच्छेदकभेदेनेति । भेदाभेदानुमान इति। गुणादिकं विभिन्नावच्छेदेन गुण्यादिना भिन्नाभिन्नं समानाधिकृतत्वादित्येवंरूप इत्यर्थः। सिद्धसाधनतां विवृणोति नहीति । कुण्डलादौ कुण्डलत्वाद्यवच्छिन्ने हेमत्वाद्यवच्छिन्नाभेद इति कटकत्वाद्यवच्छिन्नभेदश्चेति शेषः। न स्वीक्रियत इति। येन सिद्धसाधनता न स्यादिति शेष: । गुणगुण्यादिषु अवच्छेदकभेदेन भेदाभेदस्वीकारे समानाधि. कृतत्वरूपहेतोरुपपत्तेरसंभवात् अवच्छेदकभेदं विनैव तौ स्वीकार्यावित्याह किंचेति । हेमत्वादिनेति। MA 104 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका द्रव्यत्वघटत्वाभ्यां भेदसत्त्वेऽपि घट: कलश इति सामानाधिकरण्यधीर्भवति। तस्मात् कार्यात्मना कार्यमात्रगतकटकत्वकुण्डलत्वादिरूपैः कटककुण्डलादीनां मिथो भेद एव, कारणात्मनेत्यत्र कार्या. त्मनेत्यनुषज्यते; तथाच कारणगतेन रूपेण कार्यमात्रगतेन रूपेण च हेमत्वकुण्डलत्वादिभ्यामभेद:, नानात्वमित्यनुषज्यते, अभेद: अभेदोऽपि। भिदा भिदैवेत्युक्तकारिकाव्याख्यानस्य वाच्यत्वेनैक रूपेणैव भेदाभेदौ वाच्यौ। अतएव भामत्यामुक्तम्- ‘हाटकत्वेनैव रूपेण कटकादे: कुण्डलत्वादि - मत्यभेदो नतु कटकत्वादिरूपेण, तेन रूपेण तु तत्र तस्य भेद एव। एवं भेदोऽपि हाटकत्वादिना कटकादेः कुण्डलत्वादिमत्यस्ति, हाटकत्वादिरूपेण ज्ञातेऽपि कुण्डलत्वादिरूपेण जिज्ञासोदया' प्रकाश: कुण्डलत्वावच्छिन्ने कटकस्य हेमत्वेन अभेदस्वीकारे तत्र कटकात् भेदोऽपि हेमत्वेनैव स्वीकार्य इत्यर्थः । तेनैव रूपेणेति । तद्रूपावच्छिन्ने तद्रूपावच्छिन्नस्य सामानाधिकरण्यप्रत्ययं प्रति तद्रूपावच्छिन्ने तद्रूपाव. च्छिन्नप्रतियोगिताकभेदाभेदयो: प्रयोजकत्वोपगमादिति भावः। ननु सामानाधिकरण्यप्रत्ययं प्रति किंचि द्रूपावच्छिन्ने तत्र किंचिद्रूपावच्छिन्नप्रतियोगिताकभेदाभेदयोः प्रयोजकत्वमुपगम्यतामित्यत आह नहीति । तथा सति घट: कलश इति सामानाधिकरण्यप्रत्ययापत्ति:, घटत्वेन अभेदस्येव द्रव्यत्वेन भेदस्यापि सत्वादिति भावः । ननु कथं तर्हि उक्तकारिकायां अवच्छेदकभेदेन भेदाभेदोक्तिरित्यत आह तस्मादिति । तस्मात् सिद्धसाधनादिवारणानुरोधात्। अस्य चैकेनैव रूपेणेत्यत्रान्वय: । कारिकाविरोधपरिहारार्थं तदभिप्रेतमर्थमाह कार्यात्मनेति। नानात्वमित्यनेन आकाशितं कार्याणामिति पदं मिथ इति पदं एव कारंचाध्याहृत्य तदर्थमाह कटककुण्डलादीनां मिथो भेद एवेति। एवकारेणाभेदव्यवच्छेदः। अत एव कटकं कुण्डलमिति प्रत्ययो नास्तीति भावः । द्वितीयपादार्थमाह कारणात्मनेति। अत्रापि अध्याहृत. कार्याणामित्यनुषज्यते। कार्यात्मनेत्यनुषज्यत इति। तदर्थमाह कारणगतेन रूपेणेत्यादिना । नानात्व. मित्यनुषज्यत इति । तथाच कार्याणां कारणात्मना कार्यात्मना अभेदो नानात्वं चेति वाक्यस्वरूपं निष्पन्नं, तस्य च कारणगतेन रूपेण हेमत्वेन कार्यमात्रगतेन रूपेण कटकत्वकुण्डलत्वादिना कटककुण्डलाद्यो: अभेदो भेदश्चेत्यर्थ इति भावः। ततश्च कुण्डले कुण्डलत्वावच्छेदेन हेमत्वावच्छिन्नकटकस्य भेदाभेद विति पर्यवसितार्थः। एवं च हेम कुण्डलमिति सामानाधिकरण्यप्रत्ययोपपत्तिरिति भावः। उत्तरार्धमताभेद . पदं व्याचष्टे अभेद इति । अभेदोपीत्यपिशब्देन भेदस्य समुच्चयः । हेमात्मनेत्यस्य कुण्डले कटकस्य कटके वा कुण्डलस्येत्यादिः । कुण्डलाद्यात्मनेत्यादिपदेन कटकात्मनेति ग्राह्यम्। ततश्च कुण्डले कटकत्वा वच्छिन्नस्य कटके वा कुण्डलत्वावच्छिन्नस्येत्यर्थः। भिदा इत्यत्रापि अपिकारान्तर्भावशङ्का बारयति भिदैवेति। एवकारेण अभेदव्यवच्छेदः । कारिकाया उक्तविधव्याख्याने अध्याहारक्लेश इत्याशङ्कय उक्त विधव्याख्यानस्य बाचस्पतिसम्मतत्वमाह अत एवेति । भेदाभेदयोरेकरूपेणैव भेदाभेदवादिसम्मत त्वादेवेत्यर्थः । तेन रूपेण = कटकत्वादिरूपेण । तत्र = कुण्डलत्वादिमति । तस्य = कटकस्य । भेद एवे त्येवकारेणाभेदव्यवच्छेदः । हाटकत्वादिना कटकाद्यभिन्ने कुण्डले तेनैव रूपेण भेदसत्वे कि मानमित्य- . . ।

अद्वैतसिद्धिः सव्याख्या 105 - लघुचन्द्रिका दिति। ननु-हाटकत्वकुण्डलत्वाभ्यामपि कटककुण्डलयोः कथमभेद उक्त:? भिन्नदेशस्थत्वेन युगपदनुभूयमानयोरभेदाप्रत्ययात्-इति चेन्न; यद्धि पूर्वं कटकादिरूपेण स्थितं पश्चात् कुण्डलभाव- मापन्नं तस्यैव कटकादेस्तत्र कुण्डलादौ हाटकत्वकुण्डलत्वादिरूपाभ्यामभेद:; तद्धाटकमिदं कुण्डलमित्यादिप्रत्ययात्, नतु कटकत्वकुण्डलत्वादिरूपाभ्याम्; इदं कुण्डलं तत् कटकमित्य प्रत्ययात्, तथाच युगपत् क्रमेण वा यानि कार्याण्येकोपादानव्यक्त्या जनितानि तेषामुपादेयमात्रगत रूपैर्मिथो भेद एव तद्रूपोपादानगतरूपाभ्यां मिथो भेदाभेदौ। अतएवैकघटोपादानकानां रूपरसा. दीनामपि तथा व्यवस्था। ननु- इदं कुण्डलं कटकं स्थितमिति प्रत्ययात्कथमुक्तनियम-इति चेन्न; उक्तप्रत्ययेन कटकत्वोपलक्षितस्याभेदावगाहनात्तदुपहितस्य कुण्डलत्वाद्युपहितभेद एवेति नियम स्यानपायात्। अतएवोक्तकारिकायां हेमात्मनेत्यादेः हेमत्वकुण्डलत्वादिरूपाभ्यां मिथोऽभेदेऽपि कुण्डलकटकत्वादिरूपाभ्यां भिदैवेति व्याख्या। तस्मादुक्तकारिकायामेकोपादानकनानाकार्य दृष्टान्तेन कारणकार्यरूपाभ्यामेव भेदाभेदावित्यस्यास्मदुक्तस्यैवोक्तत्वान्न कोऽपि दोषः। तथाच भावाभावयोरवच्छेदकभेदं विना विरोधादसंगति:-इति चेन्न; अवच्छेदकाभेदेन संयोगतदभावयो: - - प्रकाश: वाह भामत्यां हाटकत्वादिरूपेणेति। तेन रूपेण भेदाभावे जिज्ञासा न स्यादिति भावः । कुण्डलत्वा- वच्छिन्ने हाटकत्वेनापि रूपेण कटकाभेद उक्तो न संगच्छत इति शङ्कते नन्विति । कथमभेद उक्त इति । अभेद: कथमुक्त इत्यन्वयः। कुतो न सङ्गच्छत इत्यत आह भिन्नदेशस्थत्वेनेति। भिन्नदेशस्थत्वेन हस्त. श्रोत्ररूपभिन्नप्रदेशस्थत्वेन। समाधत्ते नेति। तस्यैवेति । पश्चात् कुण्डलभावमापन्नस्यैवेत्यर्थः । एवकारेण कुण्डलभावमनापन्नस्य कटकस्य व्यवच्छेदः । कुण्डलाद्भिन्नदेशस्थत्वेन युगपदनुभूयमानस्य कटकस्य न कुण्डलभावापत्तिरिति न तदभेद: तत्कुण्डलस्येति भावः । हाटकत्वकुण्डलत्वाभ्यां कटककुण्डलयोरभेदे युक्तिमाह तद्धाटकमिति। नतु कटकत्वकुण्डलत्वादिरूपाभ्यामिति। अभेद इत्यनुषज्यते। तत्र युक्तिमाह इदमिति। तथा चेति । उक्तरूपयो: प्रत्यययो: सत्वाच्चेत्यर्थः। एकोपादानव्यक्त्या मृद्धाटकादि. रूपोपादानव्यक्त्या। उपादेयमात्रगतरूपैः कटकत्वकुण्डलत्वघटत्वशरावत्वादिभिः। तद्रूपोपादानगत. रूपाभ्याम् = हाटकत्वकुण्डलत्वाभ्यां मृत्त्वघटत्वादिरूपाभ्यां च। उक्तरीतिमन्यत्रातिदिशति अत एवेति। तथा व्यवस्थेति। रूपत्वरसत्वाभ्यां उपादेयमात्रगताभ्यां रूपरसयोर्भेद एव, घटत्वरूपत्वाभ्यां उपादानो. पादेयगताभ्यां तु भेदाभेदावित्यर्थः। उक्तनियम इति । उपादेयमात्रगतरूपाभ्यां मिथो भेद एवेति नियम इत्यर्थः। कथमिति। प्रदर्शितप्रत्ययेन कुण्डलत्वविशिष्टे कटकत्वविशिष्टस्याभेदावगाहनादिति भावः। उक्तप्रत्ययेन- इदं कुण्डलं कटकं स्थितमितिप्रत्ययेन। अभेदावगाहनादिति। कुण्डलत्वावच्छिन्न. इत्यादिः। तदुपहितस्य= कटकत्वोपहितस्य। इदं च तद्विशिष्टस्योपलक्षणम् । अत एवेति । कुण्डलत्वोप. हितकटकत्वोपहितयोर्भेदादेवेत्यर्थः। न कोऽपि दोष:= न कोऽपि विरोध: । शंकामुपसंहरति तथाचेति। भावाभावयोरिति । प्रतियोग्यभावयोरित्यर्थः । तौ च प्रकृते भेदाभेदरूपौ। विरोधात् असामानाधि- ।

1106 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका विरोध:, घटत्वतदभावयोस्त्ववच्छेदकनिरपेक्ष एव विरोध इत्यप्यनुभवबलादेव स्वीक्रियते; तथाचावच्छेदकभेदं विनापि गुणगुण्यादिस्थले भेदाभेदावपि सामानाधिकरण्यप्रत्ययादेव स्वीक्रियेते, अत्यन्ताभेदे अत्यन्तभेदेवोक्तप्रत्ययासंभवात् । तदुक्तं वाचस्पत्ये- 'विरुद्धमिति न: क्व प्रत्ययो यन्न प्रमाणगोचरः, प्रकृते च प्रमाणसत्त्वान्न विरोधप्रत्ययः, सामानाधिकरण्यप्रत्यये हि भेदाभेदौ भासेते' इति। ननु-कथमुक्तप्रत्यये भेदाभेदयो नम्? तयोरेकवत्ताज्ञानस्यापरवत्ताधी. विरोधित्वेनैकनिश्चयविषयत्वाभावात्, नच-गुण्यादिस्थले नोक्तविरोधित्वं कल्प्यते, सामाना धिकरण्यप्रत्ययस्यान्यथानुपपत्तेरिति-वाच्यम्; ‘घटो न नील'इति वाक्यजन्यधीकाले ‘घटो नील' इति ज्ञानापत्तेः। नच -तयोरेकप्रकारकज्ञानस्यैव सामग्या उक्तविरोधित्वम्, नत्वेकसंसर्गकज्ञान . सामग्या: उक्तप्रत्यये च तयोः संसर्गतयैव भानान्नोक्तदोष इति वाच्यम् एकसंसर्गकधीसामग्या अप्युक्तविरोधित्वस्यानुभवसिद्धत्वात्, नहि घटोऽभेदसंबन्धेन नीलवशिष्ट इति धीकाले घटो प्रकाश: करण्यात्। समाधत्ते नेति। अवच्छेदकाभेदेन एकदेशकालावच्छेदेन। विरोध: एकाधिकरणावृत्तित्वम् । अवच्छेदकनिरपेक्ष: एकदेशकालरूपावच्छेदकाघटितः। अनुभवबलादिति। मूलावच्छेदेन कृष्ण | संयोगिनि वृक्षे मूलावच्छेदेन कृष्णसंयोगाभावो नेत्यनुभवबलात्, अवच्छेदकमनुल्लिख्यैव घटत्ववति घटत्वाभावो नेत्यनुभवबलादित्यर्थः। तथा च अनुभवानुरोधेन विरोधाविरोधयोः स्वीकार्यत्वे च। सामानाधिकरण्यप्रत्ययात् नीलो घट इत्याद्यनुभवरूपात्। उक्तप्रत्ययासंभवादिति । घट: कलश इति इति गौरश्व इति वा प्रमात्मकप्रत्ययासंभवादित्यर्थः । अत्र वाचस्पतिसंमतिमाह तदुक्तमिति । अर्थानुवादो. ऽयम्। यन्न प्रमाणगोचर इति । तत्रेति शेषः । प्रकृते= गुण गुण्यादिषु । गुणगुण्याद्योः अवच्छेदकभेद नैरपेक्ष्येण भेदाभेदयोः किं प्रमाणमित्यत्राह सामानाधिकरण्यप्रत्यये हीति। सामानाधिकरण्यप्रत्यये भेदाभेदयो नमुक्तं न संभवतीति शंकते नन्विति । उक्तप्रत्यये घटो नील इत्यादिसामानाधिकरण्य प्रत्यये। कथमित्याक्षेपे। तत्र हेतुमाह । तयोरिति। तयोः भेदाभेदयोः। एकवत्ताज्ञानस्य एकवत्तानिश्चयस्य। विरोधित्वेन प्रतिबन्धकत्वेन। एकनिश्चयेति । तयोरित्यनुषज्यते। विषयत्वाभावादिति। विषयत्वा सम्भवादित्यर्थः। अन्यत्र भेदाभेदनिश्चययोः परस्परविरोधित्वेऽपि गुणगुण्यादिस्थले न विरोधत्वमिति शंकते न चेति । विरोधित्वाकल्पने हेतुमाह सामानाधिकरण्येति । अन्यथा भेदाभेदविषयकत्वं विना । समाधत्ते घट इति। वाक्यजन्यधी: घटे नीलविषयकभेदधी:। घटो नील इति ज्ञानापत्तेरिति । घटे नीलभेदविषयकस्य निश्चयस्य नीलाभेदनिश्चयं प्रत्यविरोधित्वेन आपत्तेरित्यर्थः। गुणगुण्यादिस्थलेऽपि उक्तविरोधित्वकल्पनमावश्यकमिति शेषः । उक्तापत्तिं वारयितुं शंकते नचेति। एकप्रकारकज्ञानस्यैवेति । एकप्रकारकस्यैव ज्ञानस्येत्यर्थः । एकसंसर्गकेति । तयोरित्यादिः । सामग्र्या इति । सामाया एवेत्यर्थः । उक्त प्रत्यये घटो नील इत्यादिसामानाधिकरण्यप्रत्यये । नोक्तदोष: भेदाभेदयोरेकनिश्चयविषयत्वा संभव रूपो दोषः। समाधत्ते एकसंसर्गकेति । तयोरित्यादि: । उक्तविरोधित्वस्य अपरसंसर्गकधीविरोधित्वस्य। ।

अद्वैतसिद्धिः सव्याख्या 107 लघुचन्द्रिका भेदसंबन्धेन नीलविशिष्ट इति धीर्घटो न नील इति धीर्वाऽनुभूयते । किंच सामानाधिकरण्यप्रत्यये संसर्गत्वेनाभेदस्य भानेऽपि भेदस्य भाने मानाभावः, तथाच द्वयोस्तत्र भानं वाचस्पत्युक्तमसङ्गतं- इतिचेन्न; एकधर्मावच्छिन्ने धर्मिणि भेदाभेदविषयकस्य निश्चयस्यासंभवेऽपि तादृशप्रत्यये भेदसमानाधिकरणाभेदविषयतायां बाधकाभावात्, नहि 'नीलभेदविशिष्टं द्रव्यं नीलो घट' इत्या- कारकधी!त्पद्यते। नच-घटो नील इत्यादिज्ञाने तादृशविषयतापि न संभवति, घटत्वविशिष्टे हि तादृशाभेदस्य विषयत्वे भेदस्यापि घटत्वविशिष्टे विषयताया आवश्यकत्वेन पूर्वं घटत्वविशिष्टे भेदनिश्चयस्यावश्यकत्वं घटे नीलभेदस्य संशययोत्तरं घटे नीलस्य भेदसमानाधिकरणाभेदसंसर्गक- प्रकाशः . - अनुभवसिद्धत्वादिति । तथा च तयोरेकनिश्चयविषयत्वं दुर्घटमिति भावः। उक्तविरोधित्वस्य अनुभव सिद्धत्वं विशदयति नहीति । घटो न नील इति धीरिति। घटविशेष्यकनीलभेदप्रकारकधीरित्यर्थः । एवं च अभेदसंसर्गकनिश्चयस्य भेदप्रकारकबुद्धावपि विरोधित्वमिति भावः। तादृशानुभवे विप्रतिपन्नं प्रत्याह किंचेति। सामानाधिकरण्यप्रत्यये घटो नील इत्यादिप्रत्यये । अभेदस्य विशेषणाभेदस्य । भानेपीति। अत एव पटो घट इति प्रत्यय: पटे घटाभेदस्य बाधितस्य अवगाहनान्न प्रमेति भावः । भान इति प्रकारतया संसर्गतया वेत्यादिः । मानाभाव इति । न च घटो घट इत्यादिप्रमानुत्पादस्य अन्यथानुपपत्तिरेव मानमिति शंक्यम्। अभेदसंसर्गावच्छिन्नतद्धर्मावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धन प्रमां प्रति तद्धर्मभेद: कारणमिति कल्पनेनापि तादृशप्रमानुत्पादस्य उपपत्तेरिति भावः। शंकामुपसंहरति तथाचेति । भेदाभेदविषयकनिश्चययोस्तत्सामग्योर्वा विरोधित्वात् अभेदविषयकनिश्चये भेदभाने मानाभावाच्चे त्यर्थः । द्वयोः भेदाभेदयोः। तत्र सामानाधिकरण्यप्रत्यये। समाधत्ते नेत्यादिना। भेदाभेदविषयकस्येति । संसर्गतया प्रकारतया वा तद्विषयक स्येत्यर्थः। तादृश प्रत्यये घटो नील इत्यादिप्रत्यये । बाधकाभावा दिति । सामानाधिकरण्यघटकाधिकरणांशे भेदस्य निर्धर्मितावच्छेदककभानोपगमात् निर्धर्मितावच्छेदक कज्ञानस्य प्रतिबध्यत्वप्रतिबन्धकत्वयोरभावादिति भावः। ननु विरोधितायां समानविशेष्यकत्वमात्रं नियामकं, न तु समानविशेष्यतावच्छेदककत्वं, ततश्च अभेदज्ञाने निर्धर्मितावच्छेदककमपि भेदभानं न संभवतीत्यत आह नहीति। द्रव्यमिति । द्रव्यत्वेन घटावगाहीत्यर्थः। ततश्च विरोधितायां समानविशेष्यक- त्वमात्रस्य प्रयोजकत्वे उक्तधी!त्पद्यतेति भाव:। भेदसमानाधिकरणाभेदविषयतेत्यस्य भेदसामानाधि . करण्यविशिष्टाभेदविषयतेत्यर्थ इत्याशयेन शंकते नचेति। तादृशविषयता भेदसामानाधिकरण्यविशिष्टा - भेदविषयता। तादृशाभेदस्य भेदसामानाधिकरण्यविशिष्टाभेदस्य । आवश्यकत्वेनेति । यथा विशिष्ट विशेषणकबोधे विशेषणतावच्छेदकस्य मुख्यधर्मिणि धर्मिपारतान्त्र्येण विशेषणत्वं, अन्यथा तस्य उप लक्षितविशेषणकज्ञानवैलक्षण्यं न स्यात्, एवं विशिष्टसंसर्गकबोधेऽपि विशेषणतावच्छेदकस्य धर्मि पारतन्त्र्येण मुख्यधर्मिणि संसर्गत्वमावश्यकं, अन्यथा तस्य उपलक्षितसंसर्गकज्ञानवैलक्षण्यं न स्यादिति भावः । भेदनिश्चयस्य आवश्यकत्वमिति । तथा च पूर्वं घटत्वविशिष्टे नीलभेदनिश्चयसत्त्वे तदुत्तरं तत्र + - 108 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका निश्चयस्यानुत्पत्तेः, तत्र नीलभेदनिश्चयस्य हेतुत्वात्, तदुक्तमनुमादीधितौ-साध्यसामानाधि- करण्यविशिष्टहेतोः पक्षे निश्चयस्तु पक्षे साध्यनिश्चयं विनाऽनुपपन्न' इति । एतावांस्तु भेदः यद्वह्निसामानाधिकरण्यविशिष्टधूमवान् पर्वत इति पर्वतांशे विशिष्टधूमस्य प्रकारत्वात् वह्निरपि तत्र प्रकार:, घटो नील इत्यादौ तु घटे विशिष्टाभेदस्य संसर्गत्वाद्भेदस्यापि संसर्गता; अतएव घटे अभेदसंसर्गकज्ञाने भेदसंसर्गेण नीलप्रकारकज्ञानमेव हेतु: औचित्यात्, नतु भेदप्रकारकमिति-इति वाच्यम्; भेदसामानाधिकरण्योपलक्षिताभेदविषयतायामुक्तदोषाभावात् ।अथ- भेदस्य तथाभाने- ऽपि किं मान-इति चेत्, अत्र ब्रूम:-तद्धटे तद्धटस्य संयोगादिसंबन्धेन धीर्न प्रमा, किंतु तद्धटभिन्न प्रकाश: - नीलाभेदनिश्चयो न संभवतीति भावः । भेदनिश्चयस्य आवश्यकत्वमुपपादयति घट इति । अनुत्पत्तेरिति । अनेन भेदसंशयस्य भेदसमानाधिकरणाभेदनिश्वयं प्रति प्रतिबन्धकत्वमुक्तम्। हेतुत्वादिति। यत्संशय . व्यतिरेकनिश्चयौ यत्प्रतिबन्धको तनिश्चयस्तद्धेतुरिति व्याप्तेः। दृष्टा चेयं व्याप्ति: व्याप्तिसंशय व्यतिरेकनिश्चयप्रतिबध्यानुमितिं प्रति कारणीभूते व्याप्तिनिश्चय इति भावः। तथा च घटत्वविशिष्टे नीलभेदसमानाधिकरणनीलाभेदनिश्चयं प्रति तत्र नीलभेदनिश्चयस्य हेतुत्वेन तस्य तत्पूर्वमावश्यकत्व . मिति भावः । उक्त व्याप्तेरप्रयोजकत्वमाशंक्याह तदुक्तमिति । तथा च उक्तव्याप्तेरनभ्युपगमेऽपि तद्धर्मिणि तत्सन्देहे सति तद्धर्मिणि तत्सामानाधिकरण्यविशिष्टस्य वैशिष्ट्यसन्देह औचित्यायत्त इति तन्निश्चय: तत्संशयनिरासाय व्यावर्तकधर्मदर्शनविधया अपेक्षणीय इति दीधितिकाराशय इति भावः। ननु दीधितौ तद्धर्मिणि तत्सामानाधिकरण्यविशिष्ट प्रकारकनिश्चयं प्रति तत्प्रकारकनिश्चयस्य हेतुत्वमुक्तं, प्रकृते च न तत्सामानाधिकरण्यविशिष्टप्रकारको निश्चय इति कथं तत्र तन्निश्चयस्य हेतुत्वमित्याशंक्य उक्तविध . वैलक्षण्यमङ्गीकृत्याह एतावास्त्विति। विशिष्टधूमस्य वह्रिसामानाधिकरण्यविशिष्टधूमस्य । विशिष्टा भेदस्य नीलभेदसामानाधिकरण्यविशिष्टाभेदस्य। संसर्गतेति । संसर्गघटकस्य संसर्गतौचित्यादिति भावः। ननु उक्तविधभेदोऽस्तु; तावता किमित्यत आह अत एवेति । एवंविधभेदसत्त्वादेवेत्यर्थः । ननु भेदसंसर्ग- कभेदप्रकारकज्ञानयोर्ध्यावर्तकधर्मदर्शनरूपता तुल्येति भेदसंसर्गकज्ञाने भेदसंसर्गेण नीलप्रकारकज्ञानमेव हेतुरिति कुत इत्यत आह औचित्यादिति । साजात्यादित्यर्थः । समाधत्ते भेदेति । उक्तदोषाभावादिति । घटो नील इत्यादिज्ञाने घटत्वविशिष्टे पूर्वं भेदनिश्चयस्य आवश्यकत्वप्रयुक्ततादृशभेदविषयताऽसंभव - रूपदोषाभावादित्यर्थः। उपलक्षितविशेषणकबोधे उपलक्षणतावच्छेदकस्य धर्मिपारतन्त्र्येण मुख्यधर्मिणि भानस्य अनावश्यकत्वादिति भावः । ननु भेदसामानाधिकरण्यविशिष्टाभेदविषयतास्वीकारेऽपि न दोषः, विशिष्टस्य : उपलक्षितादन्यत्वेनैव विशिष्टविषयकज्ञानस्य उपलक्षितविषयकज्ञानाद्वैलक्षण्यनिर्वाहेण विशेषणतावच्छेदकस्य पारतन्त्र्येण धर्मिणि भानस्य अप्रामाणिकत्वेन घटो नील इत्यादिज्ञाने भेदस्य घटत्वविशिष्टे अभानात्; इति चेत्सत्यं, तथापि भेदसामानाधिकरण्योपलक्षिताभेदविषयतास्वीकारेणैव निर्वाह उक्तविशिष्टविषयतास्वीकारे प्रयोजनाभाव इत्याशयात् । किंचेत्यादिनोक्तां शङ्का परिहर्तुमनुवदति- । ।

अद्वैतसिद्धि: सव्याख्या 109 - लघुचन्द्रिका इति व्यवस्थासिद्धये विशिष्टधीमात्रे विशेष्ये विशेषणस्य भेदसमानाधिकरण: संबन्धो विषय इति कल्प्यते; तथा सति हि तद्धटे तस्य संयोगादिसत्त्वेऽपि तद्भेदसमानाधिकरणसंयोगादिसंबन्धस्या सत्त्वान्नोक्तधी: प्रमा। नच-उक्तसामानाधिकरण्यं तद्धटसंयोगेऽप्यस्त्येव, तस्य तद्धट इव तदन्यस्मिन् पटादावपि सत्त्वात्, तथाच तदुपलक्षितसंयोगस्य तद्धटेऽपि सत्त्वात् कथं न प्रमेति वाच्यम्; उक्तोपलक्षितत्वं हि प्रकृते तद्भेदोपलक्षिताधिकरणवृत्तित्वविशिष्टत्वम्; तथाच अधिकरणांशे भेदस्य विशेषणत्वेन न भानम्, किंतु उपलक्षणतया; तदुपलक्षिताधिकरणवृत्तित्वस्य तु संयोगादि संबन्धांशे विशेषणतयैव सर्वत्र भानम्, तादृशाधिकरणवृत्तित्वविशिष्टसंयोगादेश्च न तद्धटादौ सत्त्वमिति नोक्तधी: प्रमा । ननु- ‘तद्धटस्तत्कम्बुग्रीवादिमान्' इत्यादौ घटत्वकम्बुग्रीवादिमत्व रूपाभ्यां भेदसंभवात्तादात्म्येन प्रमा स्वीक्रियते, तथा तद्धस्तत्कम्बुग्रीवादिमद्वानिति संयोगेनापि प्रमा स्यात्-इति चेन्न; व्याप्यव्यापकभावापन्नधर्मद्वयं यत्र विशेषणतायां विशेष्यतायां वा अवच्छे - दकं, तत्र व्याप्यधर्म एव भेदे प्रतियोगितावच्छेदकतयाऽनुयोगितावच्छेदकतया वा भासते,व्यापक- धर्मस्तु प्रतियोग्यंशे विशेषणमात्रतया भासते; नतु उक्तावच्छेदकप्रविष्टतया। द्रव्यं घटो नास्ती- प्रकाशः अथेति। तथा भानेऽपि= सामानाधिकरण्यघटकतया भानेऽपि। समाधत्ते अत्र ब्रूम इत्यादिना। विशिष्ट- धीमात्रे= विशिष्टधीसामान्ये । संबन्ध इति । नच संयोग इत्येव कुतो नोक्तमिति शंक्यम्, असति बाधके प्रमाणानां सामान्य विषयकत्वनैयत्यात्। एवं च घटो नील इत्यादौ अभेदस्यापि भेदसमानाधिकरणस्यैव भानेन घटो घट इति प्रमानुत्पादनिर्वाहे अभेदसंसर्गावच्छिन्नेत्यादितद्वारकोक्तकार्यकारणभावाकल्पनेन लाघवमिति भावः। तद्धटे तस्य संयोगादिसत्वेऽपीति । नच तद्धटे तत्प्रतियोगिकत्वविशिष्टसंयोगा नुयोगित्वस्य बाधान्नेदं युक्तमिति शंक्यम् । योऽयं घटपटसंयोग: स घटीयोऽपि भवतीत्याशयात्, तत्प्रति योगिकत्ववैशिष्ट्यस्य संयोगे अविवक्षणात्। असत्वादिति। तद्धटे तद्धटभेदस्यासत्वेन तादृशसंयोगे तद्धटभेदसामानाधिकरण्यस्यासंभवादिति भावः। तद्भेदसामानाधिकरण्यस्य निवेशेऽपि तद्धट: तद्भेद | समानाधिकरणसंयोगेन तद्धटवानिति ज्ञानस्य प्रमात्वं वारयितुं न शक्यत इति शंकते न चेति। उक्त- सामानाधिकरण्यं तद्भेदसामानाधिकरण्यम्। पटादावपि सत्वादिति। तथाच पटान्तर्भावेण संयोगस्य तद्भेदसामानाधिकरण्यमिति भावः। तदुपलक्षितसंयोगस्य तद्भेदसामानाधिकरण्योपलक्षितसंयोगस्य। |समाधत्ते उक्तोपलक्षितत्वमिति। विशेषणतयैवेति । एवकारेण उपलक्षणताया व्यवच्छेदः। न तद्धटादौ सत्वमिति। तद्भेदोपलक्षितत्वमपि न तद्धटस्य किन्तु पटस्यैवेति तद्वृत्तित्वविशिष्टसंयोगस्तद्धटे नेति भावः। प्रकारान्तरेण तद्धटे संयोगेन तद्वत्ताज्ञानस्य प्रमात्वापत्तिं शंकते नन्विति। इत्यादाविति । प्रमान्वयिविषयत्वं सप्तम्यर्थः । भेदसंभवादिति । तद्धटस्य तस्मादित्यादिः । प्रमा स्यादिति । घटत्वकम्बु ग्रीवादिमत्वरूपाभ्यां तद्धटस्य तस्माद्भेदसंभवादिति भावः । समाधत्ते नेत्यादिना । भेदे इति प्रकृतानुरोधेन । अभावे इत्यर्थः । अत एव नास्तीति प्रतीतेरुपादानम् । प्रतियोगितावच्छेदकतयेति । विशेषणतावच्छेदको । ।

10 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका त्यादिप्रतीते: द्रव्यवत्युत्पत्तेः, व्यापकविशिष्टव्याप्यस्य तु गौरवेणानवच्छेदकत्वात्। अतएव प्रमे- यघटो नास्तीत्यादौ प्रमेयत्वादेरवच्छेदकत्वासंभवात् प्रमेयत्वोपलक्षितघटत्वादेरवच्छेदकत्वमुक्तं पक्षधरमिश्रादिभिः। तत्र घटत्वमेवावच्छेदकं प्रमेयत्वं तु प्रतियोगिनि विशेषणमित्यर्थः। तथाच तद्धट इत्याधुक्तस्थले व्याप्यीभूततद्व्यक्तित्वावच्छिन्नप्रतियोगितानुयोगिताकभेदस्यैव भानं व्युत्पत्ति सिद्धं वाच्यम्, स च बाधित इति न प्रमा। अतएव तादात्म्येनोक्तधीरपि न प्रमा, तद्व्यक्तिस्त व्यक्तिमतीति धीवत् । नच- तथापि कम्बुग्रीवादिमान समवायेन घटवानित्यपि प्रमा स्यात्, घटीय- समवायस्य घटे सत्त्वादिति-वाच्यम्; घटो भूतलसंयोगीति प्रमावत् घट: कपालसमवायीति बुद्ध्य- प्रकाश: धर्मः भेदे प्रतियोगितावच्छेदकतया, विशेष्यतावच्छेदकश्च अनुयोगितावच्छेदकतया भासत इत्यर्थः । उक्तावच्छेदकप्रविष्टतया भेदप्रतियोगितावच्छेदकप्रविष्टतया। ननु व्यापकधर्मे प्रतियोगितावच्छेदकताया भानं कुतो नेति शंकायां किं व्यापकीभूतधर्ममात्रे प्रतियोगितावच्छेदकतापर्याप्तिभानं उत व्याप्यव्यापकी. भूतधर्मद्वये इति विकल्प्य प्रथमे दूषणमाह द्रव्यमिति। द्रव्यवत्युत्पत्तेरिति । द्रव्यत्वमात्रस्य प्रतियोगिता वच्छेदकत्वे प्रतियोगितावच्छेदकावच्छिन्ननिरूपिताधिकरणतया साकं तदवच्छिन्नप्रतियोगिताकाभावस्य विरोधात् सा प्रतीतिर्न स्यादिति भावः। द्वितीये तदाह व्यापकेति । अत्र पक्षधरमिश्रादिसम्मतिमाह अत एवेति। व्यापकधर्मस्य प्रतियोगितानवच्छेदकत्वादेवेत्यर्थः। प्रमेयत्वादेरित्यादिपदेन प्रमेयत्वविशिष्ट- घटत्वपरिग्रहः। ननु प्रमेयत्वोपलक्षितघटत्वस्य प्रतियोगितावच्छेदकत्वे प्रमेयत्वस्याप्युपलक्षणतया अवच्छेदकत्वमागतमेवेत्यत आह तत्रेति। घटत्वमेवावच्छेदकमिति। उपलक्षणतयापि वा प्रमेयत्वस्य अवच्छेदकत्वे गौरवस्य तादवस्थ्यादिति भावः। तद्धट इत्याधुक्तस्थल इति। तद्धट: संयोगेन तत्कम्बु ग्रीवादिमद्वानिति बुद्धावित्यर्थः। तद्व्यक्तित्वावच्छिन्नेति प्रतियोगितायां अनुयोगितायां चान्वेति । न प्रमेति । तादृशीबुद्धिरित्यादिः। बाधित इति। उक्तस्थले तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकतव्यक्तित्वा वच्छिन्नानुयोगिताकभेदो भासते, सच बाधित इति भावः । नन्वेवं प्रदर्शिततादात्म्यसंसर्गकतादृशधीरपि प्रमा नस्यादित्याशंकामिष्टापत्या परिहरति अत एवेति । उक्तस्थले तद्व्यक्तित्वमात्रस्य प्रतियोगितानुयोगि- तावच्छेदकत्वादेवेत्यर्थः। न प्रमेति। तद्व्यक्तित्वावच्छिन्ने तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदस्य बाधितत्वादिति भावः । अत्र दृष्टान्तमाह तद्व्यक्तिरिति । उक्तज्ञानानामुक्तरीत्या प्रमात्ववारणेऽपि अन्यत्र प्रमत्वापत्तिरस्त्येवेति शंकते नचेति । तथापि उक्तधियां उक्तरीत्या प्रमात्ववारणेपि। घटीयसमवायस्येति। घटत्वविशिष्टभेदसमानाधिकरणस्येति शेष: । घट इति । कम्बुग्रीवादिविशिष्टे इति शेषः । तेन स्वभेद सामानाधिकरण्योपलक्षितसमवायस्य घटे सत्वेऽपि तादृशसामानाधिकरण्यविशिष्टसमवायाभावान्न प्रमात्वापत्तिरिति शंकाया नावसर: घटत्वकम्बुग्रीवादिमत्वाभ्यां भेदस्य सत्वेन विशिष्टसमवायसंभवात् । सत्वादिति। संबन्धस्य उभयाश्रितत्वादिति भावः। न च घटीयसमवायानुयोगिता समवायेन घटप्रमा प्रयोजिका, सा च घटभिन्न एव स्वीक्रियत इति नोक्तज्ञानस्य प्रमात्वापत्तिरिति शक्यम् । तथा सति । ।

अद्वैतसिद्धिः सव्याख्या 111 .. लघुचन्द्रिका भावेन घटस्य स्वसमवायानुयोगित्वाभावात् । ननु-यस्माद्विशेषणाद्वस्तुगत्या भिन्नं विशेषणसंबन्धि च यत् विशेष्यं तस्य तत्र विशिष्टधीत्वं प्रमात्वं वाच्यम्, न संसर्गघटकतया भासमानविशेषण - भेदघटितम्; तथाच विशेषणभेदस्य विशिष्टधीविषयत्वानियमेऽप्युक्तधियः अप्रमात्वोपपत्ति:-इति चेन्न; प्रमात्वस्य तादृशत्वे पारिभाषिकत्वापत्तेः। प्रकृष्टज्ञानं हि प्रमापदमुख्यार्थः, प्रकर्षश्चाज्ञानता- बाधितविषयकत्वम्, तच्चोक्तज्ञानेऽप्यस्तीति तस्योक्तमुख्यार्थत्वं दुर्वारम्। अतएव तस्य भ्रमपद मुख्यार्थत्वमपि न स्यात्, प्रमापदविपरीतार्थकत्वेन भ्रमपदस्य बाधितविषयकज्ञानार्थकत्वेन विषया- बाधेन च तस्योक्तमुख्यार्थत्वाभावात्। ननु विशिष्टधीमात्रे नोक्तभेदो विषयः घटाभावो घटाभा. प्रकाश: तटीयसंयोगानुयोगिताया: संयोगन तद्धटप्रमाप्रयोजकत्वमुपगम्य तस्या: तद्धटे असत्वेन तद्धटे तादृश प्रमापत्तिवारणसंभवेन उक्तप्रमापत्तिवारणानुरोधेन विशिष्टज्ञाने विशेषणभेदसामानाधिकरण्यस्य संसर्गताव च्छेदकतया भानस्य पूर्वोक्तस्य मानाभावेन असिद्धिःस्यादिति शंकितुराशयः। समाधत्ते घट इति। प्रमावदिति । तथाच एतत्प्रमानुरोधेन घटे घटीयसंयोगानुयोगिताया आवश्यकत्वेन तद्धटः संयोगेन तद्बा- निति प्रमापत्तेर्दुर्वारतया तद्वारणार्थं निरुक्तसामानाधिकरण्यस्य संसर्गतावच्छेदकतया भानस्य आवश्यक- त्वात्। न च घटो भूतलसंयोगीति प्रमायां संयोगाधिकरणतैव विषय: न संयोगानुयोगितेति वाच्यम् । तदधिकरणतातिरिक्तानुयोगिताया अप्रामाणिकत्वादिति भावः। स्वसमवायानुयोगित्वाभावादिति। स्वसमवायाधिकरणत्वरूपस्यापि तस्य अभावादित्यर्थः। तथा च तादृशानुयोगताया: कम्बुग्रीवाद्य- वच्छिन्ने समवायेन घटत्वावच्छिन्नप्रमाप्रयोजकत्वोपगमान्न तादृशप्रमापत्तिरिति भावः। तद्धटे संयोगादि - संबन्धेन तद्धट धिय: अप्रमात्वोपपत्त्यर्थं विशिष्टधिय: विशेषणभेदविषयकत्वनियमो नावश्यकः । प्रमात्वस्य अन्यथा निर्वचनेन तदभावादेव उक्तधिय: अप्रमात्वोपपत्तेरिति शंकते नन्विति। वस्तुगत्येति । अनेन भेदस्य प्रतीयमानत्वं नावश्यकमिति द्योतितम्। तस्य तादृशविशेषणस्य । तत्र तादृशविशेष्ये। प्रमात्वं वाच्यमिति। अनेन तद्भिन्ने तद्वति तत्प्रकारकज्ञानत्वं प्रमात्वमित्युक्तं भवति । भेदघटितमिति। भासमानतद्भेदसमानाधिकरणसंबन्धेन तद्वति तत्प्रकारकज्ञानत्वमित्यर्थः। उक्तधिय: तद्धटः संयोगेन तद्धटवानिति ज्ञानस्य । अप्रमात्वोपपत्तिरिति। तद्घटस्य वस्तुगत्या तद्धटभिन्नत्वाभावादिति भावः। तादृशत्वे वास्तवविशेषणभेदघटितनिरुक्तरूपत्वे। पारिभाषिकत्वापत्ते: सांकेतिकत्वापत्तेः। कुत: पारि- भाषिकत्वं प्रमापदस्य, उक्तार्थ एव शक्तरित्यत आह प्रकृष्टज्ञानमिति। उक्तज्ञानेऽपि तद्धट: संयोगेन तद्धटवानिति ज्ञानेऽपि। अस्तीति । तद्धटे तद्धटसंयोगस्य अज्ञातत्वादबाधितत्वाच्चेति भावः। प्रमात्वस्य भासमानभेदघटितोक्तरूपत्वे तु तद्धटे तद्धटभेदस्य बाधितत्वेन बाधितविषयकतया न तस्य प्रमापद मुख्यार्थत्वापत्तिः, नवा भ्रमपदमुख्यार्थत्वानुपपत्तिरिति भावः। शंकते नन्विति। विशिष्टधीमात्रे विशिष्टधीसामान्ये। उक्त भेदः विशेषणभेदः। विषय इति। किन्तु संयोगसंसर्गकविशिष्टबुद्धावेवेति शेषः । एवं च नीलो घट इत्यादिसामानाधिकरण्यप्रत्यये भेदस्य विषयत्वे मानाभाव इति भावः । ननु क्वचि- - 112 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका ववा'नित्यादौ विशेष्यविशेषणयोरैक्येन भेदभाने भ्रमत्वापत्तेः, तद्धटस्तद्धटवानित्यादिज्ञानस्यापि न प्रमात्वापत्तिः, तस्य हि प्रमात्वं, संयोगादिसंबन्धीया तद्धटनिष्ठा या प्रतियोगिता तन्निरूपितानु योगितावति संयोगादिसंबन्धेन तद्धटप्रकारकधीत्वं, तादृशी चानुयोगिता तद्धटभिन्न एव स्वीक्रियते; तद्धटे तस्य संयोग इति प्रत्ययाभावात्, घटाभावे तु विशेषणतासंबन्धीय प्रति योगितया घटाभावनिष्ठया निरूपितानुयोगिता स्वीकियते, घटाभावे तस्य संबन्ध इत्यनुभवात्- इति चेन्न; घटप्रतियोगिकाभावत्वमात्रेण विशेष्यत्वे तेनैव रूपेण न विशेषणत्वम्, किंतु घटविरोध्य. भावत्वादिरूपेण । यथाहि मामहं जानामीत्यादौ रूपभेदेनैव कर्मकर्तृता; अन्यथा अत्यन्ताभेदे परसमवेतक्रियाजन्यफलवत्त्वरूपस्य कर्मत्वस्यात्मन्यसंभवात्, तथा रूपभेदेनैव विशेषणत्वमुक्तज्ञाने - प्रकाश: द्विषयत्वे भेदस्य सर्वत्र विशिष्टज्ञाने विषयत्वं स्यादेव असति बाधके प्रमाणानां सामान्ये पक्षपात इति न्यायादित्यत आह घटाभाव इति । भ्रमत्वापत्तेरिति। भेदस्य तत्र बाधितत्वादिति भावः। तथा च ईदृशबाधकसत्वान्न प्रकृते तन्न्यायावतार इत्याशयः। एवं च एकरूपतासिद्ध्यर्थं संयोगसंसर्गकविशिष्ट बुद्धावपि नोक्तभेदो विषयः इति पर्यवसितम्। ननु भेदस्य विशिष्टबुद्धावविषयत्वे तद्धटस्तद्धटवानिति ज्ञानस्य प्रमात्वापत्तिः। तत्र विषयीभूतयो: तद्धट संयोगयोरबाधितत्वादित्यत आह तद्धट इति। तद्धटस्त- दटवानिति ज्ञानस्य प्रमात्वापत्तिं वारयितुं प्रमात्वं निर्वक्ति तस्य हि प्रमात्वमिति । ननु अधिकरणतारूपा तादृशानुयोगिता तद्धटेऽप्यस्तीत्यत आह तादृशी चेति । अनुयोगितेति । अधिकरणत्वातिरिक्त: स्वरूप- संबन्धविशेष: पदार्थान्तरं वेति शेषः। स्वीक्रियत इति। उक्तज्ञानस्य प्रमात्वापत्तिवारणानुरोधेनैवेति भावः। तद्धटभिन्न एव तस्या: स्वीकारे किं नियामकमित्यत आह तद्धट इति । कथं तर्हि घटो भूतल- संयोगीति प्रत्यय इति चेत्तत्र संयोगाधिकरणतामात्रं विषय: न तु संयोगानुयोगितेति गृहाण। ननु तत्प्रति- योगिकसंबन्धानुयोगिता तद्भिन्न एवेति यदि नियमः तर्हि घटाभावो घटाभाववान् इति ज्ञानस्य प्रमात्वं न स्यादित्यत आह घटाभावेत्विति। तथा च नायं नियम: सर्वसंबन्ध विषयः, किन्तु संबन्धभेदेन भिन्नैव व्यवस्था । इत्थं च अभावीयस्वरूपसंबन्धानुयोगिताया अभिन्नेऽपि स्वीकारात् उक्तज्ञानस्य न प्रमात्वानुप- पत्तिरिति भावः । समाधत्ते नेत्यादिना । विभिन्नरूपाभ्यामेव विशेषणविशेष्यभावः, ततश्च ताभ्यां रूपाभ्यां विशेषणविशेष्ययोर्भेदोऽपि वर्तत इति विशिष्टबुद्धिसामान्ये भेदो विषय एवेति भावः। तेनैव रूपेण घटप्रतियोगिकाभावत्वमात्रेण रूपेण। तत्र दृष्टान्तमाह यथाहीति। रूपभेदेनेति। शरीरविशिष्टत्वान्तः करणविशिष्टत्वाख्यरूपभेदेनेत्यर्थः। कर्मकर्तृतेति। ज्ञानकर्मता ज्ञानकर्तृता चेत्यर्थः। एकरूपेणैव कर्म- कर्तृतास्तु इत्यत आह अन्यथेति। आत्मन्यसंभवादिति । ज्ञानक्रियाया: परसमवेतत्वाभावेन तज्जन्य- स्फुरणरूपफलवत्वस्य आत्मन्यसंभवात् । रूपभेदाङ्गीकारे तु अन्त:करणविशिष्टस्यात्मनः परत्वेन तत्सम- वेतज्ञानरूपक्रियाजन्यस्फुरणरूपफलवत्वस्य देह विशिष्टे आत्मनि संभवान्न दोष इति भावः । उक्तज्ञाने घटाभावो घटाभाववानिति ज्ञाने । उक्तकल्पना भेदस्य विशिष्टबुद्धिसामान्यविषयत्वकल्पना। ननु अद्वैतसिद्धि: सव्याख्या 113 लघुचन्द्रिका स्वीक्रियते, उक्तकल्पनानुरोधात् । घटाभावस्तद्वानित्यादावेकरूपविशिष्टस्यैव घटाभावपदतत्पदा भ्यामुल्लेखेऽपि सुबथैकत्वादिविशेषितरूपेणैव शाब्दधीविशेष्यता। तथाच भिन्नरूपाभ्यां घटा भावादौ तद्भेदसंभवेन भेदविशिष्टविशेषणतासंबन्धस्य भानाद्विशिष्टधीमात्रे भेदविशिष्टसंबन्धस्य भाननियमो न व्याहतः। यत्तु-अनुयोगिताविशेषघटितं प्रमात्वमतस्तद्धटस्तद्वानित्यादिधीरप्रमा-- इत्युक्तम्। तन्न प्रमात्वस्य पारिभाषिकत्वापत्तेरित्याधुक्तदोषात्,नहि उक्तरूपविशिष्टानुयोगिता नियमेन विशिष्टधीविषय इत्यत्र मानमस्ति; येन विषयबाधेन प्रमात्वाभाव उक्तज्ञाने वाच्यः; नवा तादृशानुयोगिता प्रामाणिकी। नच-कम्बुग्रीवादिमान् घट:, कम्बुग्रीवादिमान् तद्धटवान्, तद्धटो घटवानित्यादीनां प्रमात्वं तव मते दुर्वारम्, विशेष्यविशेषणयोर्भिन्नरूपावच्छिन्नतया भेदसत्त्वात्, प्रकाश: विशिष्टबुद्धिसामान्ये न भेदस्य विषयतासंभवः, घटाभावस्तानित्यादौ रूपभेदासंभवादित्यत आह घटाभाव इति। एकरूपविशिष्टस्यैवेति। तत्पदस्य प्रक्रान्तपरामर्शकत्वादिति भावः। प्रक्रान्तत्वं च समभिव्याहृतपदोपस्थाप्यत्वं; तेन वाक्योपस्थाप्यैकत्वविशिष्टस्य न तत्पदेन परामर्श इति बोध्यम् । सुबर्थेति । एकवचनार्थेत्यर्थः। तथाच घटाभावस्तद्वानित्यत: एकत्वविशिष्टघटाभावो घटाभाववानिति शाब्दबोधो जायत इति भावः। भिन्नरूपाभ्यामिति । एकत्वविशिष्टघटाभावत्वशुद्धघटाभावत्वरूपाभ्या- मित्यर्थः । तथाच तादृशज्ञानस्य घटाभावे घटाभावभेदविषयकस्यापि न भ्रमत्वापत्तिरिति भावः । ननु इदं सर्वं विशिष्टधीमात्रे भेदस्य विषयत्वकल्पनानुरोधादित्युक्तम्,परन्तु उक्तकल्पनायामेव नास्ति मानम्; तद्धट: संयोगेन तद्धटवानिति ज्ञानप्रमात्वापत्ते: अनुयोगिताविशेषविषयकत्वाभावेनैव वारितत्वादित्या- शंकते यत्त्विति । समाधत्ते तन्नेति । ननु संयोगादिसंबन्धीयप्रतियोगितानिरूपितानुयोगितावति तादृशानु योगिताविषयकधीत्वं प्रमात्वं; तथा च न प्रमात्वस्य पारिभाषिकत्वं; प्रमापदार्थस्य उक्तज्ञानस्य तादृशानुयोगितारूपाबाधितविषयकत्वात्; संबन्धप्रतियोगित्वानुयोगित्वयोर्विशिष्टधीविषयत्वादित्या शंकां परिहरति नहीति। उक्तरूपविशिष्टानुयोगिता तद्घटादिरूपविशेषणनिष्ठप्रतियोगितानिरूपितत्व विशिष्टानुयोगिता। यद्यपि संबन्धप्रतियोगित्वानुयोगित्वयोः विशिष्टबुद्धिविषयत्वं 'नहि विशेषण- विशेष्ययोः संसर्गप्रतियोगित्वानुयोगित्वे न भासेति इति वक्तुं शक्यते' इत्यादिनोक्तम्, तथापि तत्तद्विशेषणनिष्ठप्रतियोगितानिरूपितत्वविशिष्टानुयोगिताभाननियमे मानाभाव इति हृदयम्। घटनिष्ठ संयोगीयप्रतियोगितानिरूपितानुयोगितावत्वेन भूतलं जानामीत्याद्यनुव्यवसायस्य भूतलं घटवदित्यादिज्ञाने क्वचित्तादृशानुयोगिताभाने मानत्वा नियमेनेत्युक्तं। विषयबाधेनेति। संयोगादिसंबन्धीयतद्धटनिष्ठप्रति- योगितानिरूपितत्वविशिष्टानुयोगिताया: तद्धटे बाधेनेत्यर्थः । उक्तज्ञाने । तद्धटस्तद्धटवानिति ज्ञाने। नवेति । नचोक्तप्रमात्वव्यवस्थान्यथानुपपत्तिरेव प्रमाणमिति वाच्यम् उक्तरूपविशिष्टानुयोगितारूपपदार्थान्त- रस्य, ज्ञाने तद्भाननियमस्य च कल्पनापेक्षया क्लृप्तभेदभाननियमकल्पनेन तादृशव्यवस्थोपपादने लाघवा. दिति भावः । अनुवोगिताविशेषेणप्रमात्वव्यवस्थापनवादी शंकते नचेति। दुर्वारमिति । उक्तधियां प्रमात्वं 114 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका तत्संबन्धीयघटादिनिष्ठप्रतियोगितापिरूपितानुयोगितानिवेशे तु तस्या: कम्बुग्रीवादिमत्त्वावच्छिन्ना- दावस्वीकारात् नोक्तधियां प्रमात्वापत्तिरिति-वाच्यम्; उक्तधियां प्रमात्वस्येष्टत्वात्। आद्यबुद्धौ विशेष्यविशेषणतादात्म्यस्याज्ञातत्वसंभवेनाज्ञातविषयकत्वसंभवात्, तद्व्यक्तिस्तद्व्यक्तिरित्यादौ तु तस्य तदसंभवेन न तथा। द्वितीयतृतीययोरपि तथा, एकघटे घटान्तरसंयोगमादाय त्वयापि तस्येष्टत्वात्। नच-समवायेन तयोः प्रमात्वापत्तिस्तव मते इति वाच्यम्; तवमतेऽपि तादृशापत्तेः। अथ तद्धटीयसमवायानुयोगित्वस्य तद्धटे स्वीकारे तद्धटः स्वाश्रयकपालसमवायीति प्रत्ययापत्तेस्त - त्संबन्धेन प्रमात्वस्य तत्संबन्धानुयोगिविशेष्यकत्वघटितत्वाच्च नोक्तापत्ति:—इति ब्रूषे, तदा अहमपि तथा ब्रवीमीति न कोऽपि दोषः। यथाहि विषयतया विषयमात्रे ज्ञानस्य प्रमा, नतु ज्ञाने प्रकाश: - नास्तीत्यभिमानः। ननु तत्र विशेष्यविशेषणयोर्भेदाभावात् कथं प्रमात्वापत्तिरित्यत आह विशेष्य विशेषणयोरिति । शंकक: स्वमते तादृशधियां प्रमात्वापत्तिं वारयति तत्संबन्धीयेति। आद्यबुद्धौ तादात्म्यं संबन्धः, द्वितीयतृतीययोस्तु संयोग इत्यनुपदं स्फुटीभविष्यति। इष्टापत्त्या समाधत्ते उक्तधियामिति । ननु आद्यबुद्धौ कम्बुग्रीवाद्यवच्छिन्नंतद्धटे घटत्वावच्छिन्नतद्धटस्य तादात्म्यं संसर्गतया भासते, तच्च तद्धटे तुल्यवित्तिवेद्यमिति विशेष्यविशेषणयोरिव तयोस्तादात्म्यस्यापि पूर्वं ज्ञातत्वात् अज्ञातविषयकत्वघटितं प्रमात्वं कथं तस्याः, अत एव तद्व्यक्तिस्तद्व्यक्तिरितिबुद्धेः न प्रमात्वमित्यत आह आद्यबुद्धाविति। विशेष्येति। कम्बुग्रीवाद्यवच्छिन्नानुयोगिकघटत्वावच्छिन्नप्रतियोगिकतादात्म्यत्वावच्छिन्नस्येत्यर्थः । तद्धर्मावच्छिन्नानुयोगिकतद्धर्मावच्छिन्नप्रतियोगिकतादात्म्यस्यैव पूर्वं नियमेन ज्ञातत्वं, प्रकृते तादात्म्यस्य विभिन्नधर्मावच्छिन्नानुयोगिप्रतियोगिकत्वेन न तस्य ज्ञातत्वमिति भावः। यत्र पुनरेकधर्मावच्छिन्नप्रति. योग्यनुयोगिकतादात्म्यं विषय: न तस्या बुद्धेः प्रमात्वमित्याह तद्व्यक्तिरिति। तस्य विशेष्यविशेषण तादात्म्यस्य। तदसंभवेन अज्ञातत्वासंभवेन । न तथा न प्रमात्वम्। द्वितीयतृतीययोरपि = कम्बुग्रीवादि - मान् तद्धटवान्, तद्धटों घटवानित्यनयोरपि। तथा प्रमात्वमिष्टम् । ननु कम्बुग्रीवादिमति तद्धटसंयोगस्य तद्धटे घटसंयोगस्य च बाधितत्वेन तदवगाहिन्योर्धियोः कथं प्रमात्वमित्यतआह एकघट इति । शंकते नचेति। समवायेनेति। एकघटे घटान्तरसमवायाभावेन प्रमात्वस्य अनिष्टत्वादिति भावः। तयोः द्वितीयतृतीयबुद्ध्योः। तव मतेपीति। समवायस्यैकत्वेन तद्धटकपालयोर्यः समवाय: स एव घटान्तर कपालयोरपीति तद्धट इव घटान्तरेऽपि तादृशसमवायसत्वात् इति भावः । आपादक: उक्तापत्तिं परिहरति अथेत्यादिना। तटीयसमवायानुयोगित्वस्य तद्धटप्रतियोगिकत्वविशिष्टसमवायानुयोगित्वस्य। तत्संबन्धानुयोगीति। तस्य तेन संबन्धेन तत्र प्रमात्वं नाम तत्प्रतियोगिकत्वविशिष्टतत्संबन्धानुयोगि- विशेष्यकत्वे सति तेन संबन्धेन तत्प्रकारकज्ञानत्वमित्यर्थः। नोक्तापत्तिरिति । तद्धटप्रतियोगिकत्व. विशिष्टसमवायानुयोगित्वस्य तत्कपाल एव सतः घटान्तरे असत्वादिति भावः । तथेति । तद्धटीय- समवायेत्यादिनोक्तापत्तिरित्यन्तमित्यर्थः। भेदस्य विशिष्टबुद्धिविषयतावादिनापि एकस्यैव संबन्धस्य क्वचिदेवानुयोगिता सैव च विशिष्टप्रमानियामिकेत्यवश्यमंगीकर्तव्यमित्याह यथाहीति । ज्ञानविषययो:

अद्वैतसिद्धिः सव्याख्या 115 लघुचन्द्रिका विषयस्य; तस्या: ज्ञानानुयोगिकत्वाभावात्, तथा समवायेन कपाल एव घटस्य प्रमा, नतु घटे कपालस्यापीति दिक् ॥ अथ-घटस्तद्धटवानिति बुद्धेः प्रमात्वे विप्रतिपद्यसे, तदा तादात्म्यसंबन्धेन प्रमात्वस्य लक्षणे भेदमात्रस्य निवेशेऽपि तादात्म्यान्यसंबन्धेन प्रमात्वस्य लक्षणे औपाधिक भेदान्यभेदो निवेश्यताम् । घटत्वतद्धटत्वविशिष्टयोर्भेदस्यौपाधिकत्वान्नोक्तबुद्धेः प्रमात्वापत्तिः । - प्रकाश: परस्परभेदेपीति शेष: 1 विषयतया विषयतासंबन्धेन। विषयमात्रे घटादिरूपविषयविशेष्यिकैव । ज्ञानस्य ज्ञानप्रकारिका। प्रमेति। घटो विषयतासंबन्धेन ज्ञानवानित्यादिरूपेत्यर्थः। न तु ज्ञाने विषयस्येति । विषयतयेति प्रमेति चानुषज्यते। ज्ञानं विषयतासंबन्धेन घटवदित्याकारिका नेत्यर्थः । तत्र हेतुमाह तस्या इति । विषयताया इत्यर्थः। तथेति। घटकपालयोरन्योन्यभेदेपीति शेषः। तथा ज्ञानविषय स्थल इव । कपालस्येति । कपालानुयोगिकसमवायस्य घटानुयोगिकत्वाभावादिति शेषः । इदं च पररीत्या। सिद्धान्ते समवायस्य तादात्म्यातिरिक्तज्ञानविषयतायाश्चानङ्गीकारात्; विषयतासमवाययोः स्थाने तादात्म्यं निवेशनीयम् । तेन संबन्धेन गुणगुणिनोरिव प्रकृतेपि विशिष्टबुद्धेः स्वीकारात् इति बोध्यम्। ननु तदा अहमपि तथा ब्रवीमीति न युक्तम्; भेदस्य विशिष्टबुद्धिविषयत्ववादिनापि समवाय संसर्गकयोरुक्तद्वितीय- तृतीयज्ञानयोः प्रमात्वापत्तिवारणाय उक्तरूपविशिष्टानुयोगिताया:, प्रमात्वस्य पारिभाषिकत्ववारणा- नुरोधेन तयोर्ज्ञानयोर्बाधितविषयकत्वनिर्वाहाय च तस्या विशिष्टबुद्धिविषयतायाश्च अवश्यं स्वीकारे तादृशानुयोगितामादायैव संयोगेन तद्धटस्तद्धटवानिति ज्ञानस्यापि प्रमात्वापत्तेर्वारणसंभवात् भेदस्य विशिष्टबुद्धिविषयत्वं मानाभावात् लुप्येतेति चेत्, सत्यम्; एतस्य वितण्डामात्रत्वात्। स्वाभिप्रेतरीतेरनुपदं वक्ष्यमाणत्वात् । पूर्वं “द्वितीय तृतीययोरपि प्रमात्वस्य इष्टत्वात्, एकघटे घटान्तर संयोगमादाय त्वयापि तस्य इष्टत्वात्' इत्युक्तम्, तत्र शंकते अथेति। तद्बटवानिति। यस्य घटस्य क्वचिदपि घटे न संयोग: तद्धटवानित्यर्थः । इदं च कम्बुग्रीवादिमान् तद्धटवान् इत्यस्योपलक्षणम्। एवं च तादृशज्ञानप्रमात्वस्य कथमप्यनङ्गीकारात् परस्य तत्र असंमति: संभवति। एवं च स्वमते परापादित प्रमात्वांशे इष्टापत्तेरसंभवेन अनुयोगिताविशेषस्यैव प्रमात्वनियामकत्वेन भेदस्य विशिष्टधीविषयत्ववादिना च तदनभ्युपगमेन प्रमात्व- नियामकतया अभ्युपेतस्य विशेष्ये विशेषणभेदस्य च औपाधिकस्य घटस्तद्धटवानित्यत्र सत्वेन च उक्तबुद्धेः प्रमात्वापत्तिर्दुवीरेति शंकितुराशयः। समाधत्ते तदेति । लक्षण इति । स्वरूप इत्यर्थः । भेदमात्र - स्येति। औपाधिकानौपाधिकभेदसाधारणरूपावच्छिन्नभेदस्येत्यर्थः। तथा च तद्धर्मोपहितानुयोगिक तद्धर्मोपहितप्रतियोगिकभेदोपलक्षितधर्मिवृत्तित्वविशिष्टतादात्म्यसंबन्धेन तद्धर्मावच्छिन्नविशेषणसंबन्धि- तद्धर्मावच्छिन्नविशेष्यकतादात्म्यसंसर्गकतद्धर्मावच्छिन्नप्रकारकज्ञानत्वं तादात्म्यसंबन्धेन प्रमात्वमित्यर्थः। उक्तबुद्धेः घटस्तद्धटवानिति बुद्धेः । अनेन च समवायेन तयोः प्रमात्वापत्तिरित्युक्तं निरस्तम्। समवायस्य तादात्म्यान्यत्वेन तत्संसर्गकप्रमात्वशरीरे औपाधिकभेदान्यभेदस्यैव निवेशेन कम्बुग्रीवादिमति तद्धट- भेदस्य तद्धटे घटभेदस्य च औपाधिकत्वेन अनौपाधिकभेदघटितप्रमात्वस्य तत्रासत्वात्। अत एव च - 116 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका सर्वेषां प्रमात्वानां लक्षणेषु शब्दैक्यं नोपयुज्यते। नच-औपाधिकत्वं दुर्वचमिति-वाच्यम्; तद्धर्मयोर्यो भेदस्तदन्य: यस्तद्धर्मोपहितयोर्भेदस्तद्धटितं तद्धर्मावच्छिन्नयोरेकस्मिन्नपरस्य प्रमात्व - मित्यस्य सुवचत्वात्। नच-घटादौ द्रव्यत्वघटत्वरूपाभ्यां भेदो न मानसिद्धः, उक्तव्यवस्था न्यथानुपपत्त्या कल्पनं तु तादृशानुयोगित्वस्यापि संभवतीति-वाच्यम्;तादृशभेदो हि न तया कल्प्यते किंत्वनुभवसिद्धः। य एव हि द्रव्यत्वघटत्वयोर्भेदः स एव तदुपहियोरपि। अतएव द्रव्यत्वस्य तत्रेव तदुपहितेऽपि भेदासत्त्वान्न विशिष्टधी: । नचैवं-द्रव्यत्वस्य स्वोपहिते व्यावर्तक प्रकाशः उक्तरूपविशिष्टानुयोगिताया: प्रमात्वनियामकताया: भेदस्य विशिष्टबुद्धिनियामकतावादिना अनभ्युपगमात् तस्य विशिष्टबुद्धिमात्रविषयतानियमसिद्धिश्चेति ध्येयम्। तद्धटितमिति। तद्धर्मानुयोगिकतद्धर्मप्रति- योगिकभेदभिन्नो य: तद्धर्मोपहितानुयोगिकतद्धर्मोपहितप्रतियोगिकभेद: तदुपलक्षितधर्मिवृत्तित्वविशिष्ट. संयोगादिसंसर्गेण तद्धर्मावच्छिन्नविशेषणसंबन्धितद्धर्मावच्छिन्नविशेष्यकतत्संसर्गकतद्धर्मावच्छिन्नप्रकार- कज्ञानत्वमित्यर्थः। भवति चेदं भूतलं घटवदित्यादौ। तत्र च भूतलत्वानुयोगिकघटत्वप्रतियोगिक भेदभिन्नः भूतलत्वोपहितानुयोगिकघटत्वोपहितप्रतियोगिको भेदः तदुपलक्षितधर्मि भूतलं तद्वृत्तित्व- विशिष्टः संयोग: तेन घटत्वावच्छिन्नरूपविशेषणसंबन्धि यत् भूतलत्वावच्छिन्नं तद्विशेष्यकं संयोगसंसर्गकं घटत्वरूपधर्मावच्छिन्नप्रकारकं च यज्ज्ञानं पूर्वोक्तं तत्त्वस्य तत्र सत्वात्। अपरस्येति । तादात्म्यान्य संबन्धेनेति शेषः। औपाधिकभेदस्यासिद्धिं शंकते नचैति। न मानसिद्ध इति । तथाच औपाधिक भेदस्यैवासिद्ध्या तद्धटितं तादात्म्यसंबन्धेन प्रमात्वं दुर्वचमिति भावः। उक्तव्यवस्थेति । घटो घट इति ज्ञानं न प्रमा, द्रव्यं घट इति तु प्रमेति व्यवस्थेत्यर्थः। तादृशानुयोगित्वस्यापीति। घटत्वान्यधर्माव- च्छिन्नानुयोगिकघटत्वावच्छिन्नप्रतियोगिकाभेदादिसंबन्धानुयोगित्वस्येत्यर्थः। तादृशभेदः औपाधिक - भेदः। तया उक्तव्यवस्थान्यथानुपपत्त्या। ननु द्रव्यं न घट इति प्रतीतेरभावात् कथं अनुभवसिद्धतेत्यत आह य एवहीति । भेद इति । द्रव्यत्वं न घटत्वमित्यनुभवसिद्ध इत्यर्थः । स एवेति । उपाध्युपहितयोरभेदो पगमात्। एवं च उपाधिभेदस्यैव उपहितभेदत्वात्तस्य च अनुभवसिद्धत्वादुपहितभेदोप्यनुभवसिद्ध इति भावः। नच उपहितभेदोपगमो व्यर्थः । तादात्म्यसंबन्धेन प्रमात्वशरीरे भेदमात्रस्य निवेशेन कम्बुग्रीवादि मान् घटवानित्यादितादात्म्यसंसर्गकज्ञानस्य कम्बुग्रीवादिमत्त्वघटत्वयोर्भेदमादायैव प्रमात्वस्योपपत्तेरिति शंक्यम्। संयोगादिसंसर्गेण तादृशज्ञानप्रमात्वापत्तिवारणाय तद्धर्मोपहितानुयोगिकतद्धर्मोपहितप्रतियोगि- कभेदोपगमस्यावश्यकत्वात् । अत एवेति । उपाध्युपहितयोः उपाधिभेदोपहितभेदयोश्च अभेदादेवेत्यर्थः । तत्रेव द्रव्यत्व इव। तदुपहिते द्रव्यत्वोपहिते । द्रव्यत्वस्येति भेदासत्वादित्यनेनान्वेति। न विशिष्टधी रिति। तत्रेव तदुपहितेऽपि द्रव्यत्वस्येत्यनुवर्तते। द्रव्यं द्रव्यमित्याकारेत्यादिः । उपाध्युपहितयोभिन्नत्वे तु द्रव्यत्वोपहिते द्रव्यत्वस्य भेदसत्वात् उक्तविशिष्टबुद्धिप्रसंग:। एवमुपाधिभेदादुपहितभेदस्यातिरिक्तत्वे द्रव्यत्वोपहिते द्रव्यत्वोपहितभेदासत्वेऽपि द्रव्यत्वभेदसंभवात् द्रव्यत्वोपहिते द्रव्यत्वविशिष्टबुद्धिप्रसंग अद्वैतसिद्धिः सव्याख्या 117 लघुचन्द्रिका त्वानुपपत्तिः, द्रव्ये द्रव्यत्वभेदाभावे स्वोपहिते स्वस्य विशिष्टबुद्ध्यसंभवादिति- वाच्यम्; द्रव्यत्वत्वविशिष्टस्यैव शुद्धद्रव्यत्वोपहिते तत्संभवात् । अतएव ‘गुणानां गुणत्वाभिसंबन्ध' इत्या - दिकं गुणभाष्यादावुक्तम्। अथवा द्रव्यं घट इत्यत्र द्रव्ये यस्य विशेषणस्य भेदो भाति, तस्य द्रव्यविशेषणे शुद्धद्रव्यत्वेऽपि; विशेष्यविशेषणयोरेकभेदभाननियमात्। तथाच द्रव्ये शुद्धद्रव्य . त्वस्य न विशिष्टधी:; भेदप्रतियोगिताऽपि द्रव्यत्वतदुपहितयोरेकैव; लाघवात्, एवं भेदानुयोगि- ताऽपि। तथाच द्रव्यत्वघटत्वयोः शुद्धयोर्भेदानुभवे भासते यो भेद: तस्यैव 'द्रव्यं घट' इत्यनुभवे - - प्रकाशः इति अतएवेत्युपष्टंभसंगतिः। शंकते न चेति । एवं = द्रव्यत्वोपहिते द्रव्यत्वभेदा भावे। द्रव्ये द्रव्यत्वो पहिते। विशिष्टबुद्ध्यसंभवादिति। भेदस्य विशिष्टबुद्धिनियामकत्वाभ्युपगमादिति भावः । तथाच द्रव्य - त्वोपहित एतज्ज्ञानविषय इति व्यवहारानुपपत्तिः, उपहितपदार्थघटकव्यावर्तितत्वबाधादिति भावः । समाधत्ते- द्रव्यत्वत्वविशिष्टस्यैवेति । एवकारेण शुद्धद्रव्यत्वव्यवच्छेदः । तत्संभवादिति । भेदविशिष्ट बुद्धिव्यावर्तकत्वानां संभवादित्यर्थः। तथाच द्रव्यत्वोपहितस्य द्रव्यत्वेन व्यावर्तितत्वसंभवादुक्तव्यव- हारोपपत्तिरिति भावः । ननु शुद्धद्रव्यत्वोपहिते द्रव्यत्वत्वविशिष्टद्रव्यत्वस्यापि न भेदादिसंभवः, विशिष्ट - शुद्धयोरभेदादित्याशंक्य तत्र प्रशस्तपादभाष्यसंमतिमाह अत एवेति। गुणानां स्वरूपतो गुणत्वोपहिता नाम् । गुणत्वाभिसंबन्ध: गुणत्वविशिष्टस्य अभिसंबन्ध: विशिष्टबुद्धिविषयत्वयोग्यता। तथा च विशिष्ट . शुद्धयो र्भेदाभेदावुपगन्तव्याविति भावः । ननु उपाध्युपहितयोर्भेदासमानाधिकरणााभेदो वा तत्समानाधि - करणो वा? आद्ये उपाध्युपहितभावो न स्यात्, तस्य भेदसापेक्षत्वात्। अन्त्ये उपाधिभेदादुपहितभेदः अनतिरिक्तो न स्यात्; उपाध्युपहितयोर्भेदासमानाधिकरणाभेदस्यैव तत्र प्रयोजकत्वात्। किंचैवं द्रव्यत्वो . पहिते द्रव्यत्वभेदस्यापि सत्वात् पूर्वोक्तविशिष्टंबुद्धिप्रसंगो दुर्वारः। एवमुपाध्युपहितभेदयोरनतिरिक्तत्वे घटत्वं न घट इत्यादिप्रत्ययो न स्यात्; घटत्वभेदानतिरिक्तस्य घटभेदस्य घटत्वे असंभवात्। न च घटनिष्ठ प्रतियोगिकत्वविशिष्टभेदत्वेन तस्य तत्र संभवः, तथासति सर्वेषामभावानामैक्यं स्यात्, घटाभावपटाभाव. योरैक्येऽपि पटाभाववति कपाले पटाभावानतिरिक्तघटाभावस्य प्रसक्तस्य घटप्रतियोगिकत्वविशिष्टत्वेन अभावात् वारणं संभवतीत्याशंक्याह अथवेति । इत्यत्रेति । इत्याद्याकारके घटत्वादिप्रकारकज्ञान इत्यर्थः । यस्य विशेषणस्येति। घटत्वादिरूपस्येत्यर्थः । द्रव्यविशेषण इति । द्रव्यनिष्ठविशेष्यतावच्छेदक इत्यर्थः। विशेष्यविशेषणयो: विशेष्यविशेष्यतावच्छेदकयो: । न विशिष्टधीरिति । शुद्धद्रव्य त्वरूपधर्मितावच्छेदके शुद्धद्रव्यत्वभेदस्य बाधितत्वादिति भावः। नन्वेमपि औपाधिकभेदो न सिद्ध इत्यत आह भेदप्रति योगितापीति। एकैवेति। अनेन उपाध्युपहितोभयनिष्ठैकप्रतियोगिताकभेदत्वं औपाधिकभेदत्वमित्युक्तं भवति। एवं भेदप्रतियोगितेव । भेदानुयोगितापीति । द्रव्यत्वस्येत्यनुषज्यते। घटत्वतदुपहितयोरिति शेष:। एकैव लाघवादित्यप्यनुषज्यते। तथाचेति । उपाधिभेदस्य उपहितप्रतियोगिकत्वे स्वानुयोग्युपा- ध्युपहितं यत् तदनुयोगिकत्वे चेत्यर्थः । भेदानुभवे द्रव्यत्वं न घटत्वमित्याकारके भेदानुभवे। यो भेदः- - 118 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका द्रव्यत्वतदुहितानुयोगिकतया घटत्वतदुपहितप्रतियोगिकतया भानम्; औपाधिकभेदधीस्थले तथै- वानुभवात्, द्रव्यत्वोपहितानुयोगिकतया तद्भाने घटत्वोपहितस्याभेदो नोक्तानुयोगिकतया भातुम- हतीति सामानाधिकरण्यघटकतयैव द्रव्यांशे भेदभानमिति पूर्वमुक्तम् । नच-उक्तानुभवे द्रव्यत्व घटत्वयोर्भेदानुयोगिप्रतियोगिताभाने तदवच्छेदकतया द्रव्यत्वत्वादेरपि भानापत्तिः, भेदप्रत्यक्षे प्रतियोग्यनुयोगिनोरुक्तावच्छेदकभानस्यावश्यकत्वादिति-वाच्यम्; इतरविशेषणीभूते प्रतियोग्यादौ तद्भानस्यानावश्यकत्वात्। नच-उक्तानुभवे द्रव्यत्वघटत्वयोरेव भेदो भाति, नतु तदुपहितयोः; तथाच विशिष्टधीमात्रे विशेषणताविशेष्यतावच्छेदकयोरेव भेदभानेनैकधर्मविशिष्टयोर्विशिष्टज्ञान प्रमात्ववारणसंभवाद्विशेष्यविशेषणयोरपि भेदो भातीत्यत्र न मानमिति-वाच्यम्; विनिगमकाभावा - प्रकाशः -- द्रव्यत्वानुयोगिकघटत्वप्रतियोगिको भेदः। तस्यैवेति । द्रव्यत्वघटत्वयो: शुद्धयोरनुभूयमानभेदस्यैवेत्यर्थः । तथाचास्यानुभवसिद्धत्वे द्रव्यत्वोपहितानुयोगिको घटत्वोपहितप्रतियोगिकऔपाधिकभेदोप्यनुभवसिद्ध इति भावः। ननु भेदस्य औपाधिकत्वं नाम उपाध्युपहितोभयनिष्ठा, या उपाधिवृत्तिधर्मावच्छिन्ना प्रति योगिता तत्कत्वम्, तच्च न युक्तम् । न्यूनवृत्तेरुपाधिमात्रवृत्तिधर्मस्य उपाध्युपहितोभयवृत्तिप्रतियोगिता वच्छेदकत्वासंभवादित्यत आह औपाधिकेति। तथैवेति। उपाधिमात्रवृत्तिधर्मावच्छिन्नोभयनिष्ठप्रति- योगिताकतयेत्यर्थः। तथाचानुभवानुरोधेन न्यूनवृत्तेरपि धर्मस्य प्रतियोगितावच्छेदकत्वं स्वीकार्यमिति भाव: । ननु यदि द्रव्यं घट इति तादात्म्यसंसर्गकबुद्धौ घटभेद एव भासते तर्हि तस्य घटाभेदाविरोधितया द्रव्यत्वोपहित एव भानसंभवे किमिति सामानाधिकरण्यघटकतया भेदभानं पूर्वमुक्तमित्यत आह द्रव्य त्वोपहितानुयोगिकतयेति। तद्भाने घटत्वोपहितप्रतियोगिकतया । घटत्वभेदभाने। उक्तानुयोगिकतया- द्रव्यत्वोपहितानुयोगिकतया। न भातुमर्हतीति । तयोर्विरोधादिति भावः । शंकते न चेति । उक्तानुभवे द्रव्यं घट इत्यनुभवे। तदवच्छेदकतयेति। भेदानुयोगितावच्छेदकतया भेदप्रतियोगितावच्छेदकतया चेत्यर्थः । द्रव्यत्वत्वादेरित्यादिपदेन घटत्वत्वं ग्राह्यम्। भानापत्तिरिति। कुत इत्यत आह भेदप्रत्यक्ष इति । उक्तावच्छेदकभानस्य भेदानुयोगिताप्रतियोगितावच्छेदकभानस्य। आवश्यकत्वादिति। प्रतियोगिताव- च्छेदकभानाभावे घटपटादिभेदानां वैलक्षण्यस्य दुर्व दुर्वचत्वादिति भावः । द्रव्यत्वं न घटत्वमित्यादौ तथा भानस्य अनुभवसिद्धत्वात् । समाधत्ते इतरविशेषणीभूत इति। आदिपदेन अनुयोगी ग्राह्यः । तद्भानस्य प्रतियोगितानुयोगितावच्छेदकभानस्य। अनावश्यकत्वादिति। प्रतियोग्यनुयोगिनो समानयोर्भेदादेव वैलक्षण्यसंभवात् उपदर्शितानुभवस्य च इतराविशेषणद्रव्यत्वादिविषयकत्वेन वैषम्याच्चेति भावः । प्रकृते च घटत्वद्रव्यत्वयोः प्रतियोग्यनुयोगिनो: घटरूपप्रतियोगिद्रव्यरूपानुयोगिविशेषणतयैव भानमिति भावः । पुन:शंकते नचेति । उक्तानुभवे द्रव्यं घट इत्यनुभवे । तथाच- उपहितयोर्भेदाभाने च। विशिष्टेति। अभेद संबन्धेनेत्यादिः। विशिष्टज्ञानप्रमात्ववारणसंभवादिति। तद्धर्मे तद्धर्मभेदस्य बाधितत्वादिति भावः । विशेष्यविशेषणयोरिति । अभेदसंबन्धेन विशिष्टज्ञानइत्यनुवर्तते । तेन संयोगसंबन्धेन घटस्तद्धटवानिति अद्वैतसिद्धिः सव्याख्या 119 लघुचन्द्रिका दुक्तानुभवस्योपाध्योरिवोपहितयोरपि भेदे मानत्वात्, अनुभवान्तरस्य शुद्धद्रव्यत्वघटत्वयोर्भेदाव- गाहिनोऽभावात्, केवले घटे नीलत्वादिविशिष्टादिव द्रव्यत्वादिविशिष्टादपि भेदस्य पूर्वोक्तयुक्ति- भिर्व्यवस्थापितत्वात्, तद्धटवानित्याकारकस्य तद्धटविशेष्यकस्य निर्धर्मितावच्छेदककस्य विशेष्यविशेषणयोर्भेदाभाने प्रमात्वापत्तेश्च। तस्माद्दव्यत्वघटत्वोपहितयोर्भेदस्योक्तानुभवसिद्धत्वात् पूर्वोक्तानुयोगिताविशेषस्याप्रामाणिकत्वात् विशिष्टज्ञानमात्रस्य विशेष्यविशेषणभेदविषयकत्व मव्याहतम् । नचैवं-'घटो द्रव्यं ने'त्यादिधीरपि प्रमा स्यादिति-वाच्यम्; नभेदादिपदाभिलप्यज्ञाने तादात्म्यविरोधित्वविशिष्टभेदस्य विषयत्वात्। अत एव वृक्षे कृष्णसंयोगो नेत्यादि ज्ञानेऽपि प्रकाश: - बुद्धेः प्रमात्ववारणानुरोधेन विशेष्यविशेषणयोर्भेदभानस्य आवश्यकत्वेऽपि न दोषः। समाधत्ते विनिगम - काभावादिति। उपहितभेदभानोपगमेनापि एकधर्मविशिष्टयो स्तादात्म्येन विशिष्टज्ञानस्य प्रमात्ववारण संभवादिति भावः । उक्तानुभवस्य द्रव्यं घट इत्याकारकानुभवस्य। उपाध्यो: द्रव्यत्वघटत्वरूपयोधर्मयोः । ननु उपाध्योरिवेति दृष्टान्तासंगतिः, तयोर्भेदे द्रव्यत्वं घटत्वं नेत्यनुभवस्यैव मानत्वादित्यत आह अनुभवान्तरस्येति । शुद्धेति । उक्तानुभवस्तु द्रव्यत्वत्वोपहिते घटत्वत्वोपहितभेदमेवावगाहत इति भावः। ननु तर्हि केवले घटे द्रव्यत्वविशिष्टाद्भेदे किं मानम्, नहि केवलघटविशेष्यकः तादात्म्यसंबन्धेन द्रव्यत्वविशिष्टप्रकारक: अनुभवोऽस्तीत्यत आह केवल इति। पूर्वोक्तयुक्तिभिरिति। घटत्वोपलक्षितं द्रव्यत्वविशिष्टं इत्यनुभवज्ञानवैलक्षण्यान्यथानुपपत्यादिभिरित्यर्थः। ननु द्रव्यं घट इत्यादौ भासमानोपहित. भेद: द्रव्यत्वादिरूपोपाधिभेद एव; तथाच न विनिगमकाभावः, द्वयोः खलु स इति चेन्न। भासमानभेदस्य उपाधिप्रतियोगिकत्वं वा उपहितप्रतियोगिकत्वं वेति विनिगमकाभावसंभवात्। विशिष्टज्ञाने विशेष्य - विशेषणयोर्भेदभाने युक्त्यन्तरमाह तद्बटवानिति। तद्धटविशेष्यकस्येति। तादात्म्यसंसर्गकज्ञानस्येति शेषः। भेदाभानशंकायास्तन्मात्रविषयत्वात्। संयोगादिसंसर्गकज्ञानस्य अभिमतत्वे घटस्तद्धटवानिति सधर्मितावच्छेदककज्ञानोपेक्षाया निर्बीजत्वापाताच्च। तादात्म्यसंसर्गकं तु घटस्तद्धट इत्याकारकं सधर्मितावच्छेदककं ज्ञानं प्रमात्वेन इष्यत एव, निर्धमितावच्छेदककं तद्धटवानित्याकारकं परं प्रमात्वेन नेष्यत इति बोध्यम् । उपसंहरति तस्मादिति । संयोगादिसंसर्गकस्य घटस्तद्धटवानित्यादिज्ञानस्य प्रमात्व - वारणानुरोधादित्यर्थः। उक्तानुभवेति। द्रव्यं घट इत्यनुभवेत्यर्थः। अन्यथासिद्धिनिरासं स्मारयति पूर्वोक्तेति। शंकते नचेति। एवं= घटत्वोपहिते औपाधिकद्रव्यत्वोपहिभेदोपगमे। प्रमा स्यादिति। तादृशधीविषयस्यौपाधिकभेदस्याबाधितत्वादिति भावः। समाधत्ते नभेदादीति। तादात्म्यविरोधित्व- विशिष्टभेदस्येति। तादात्म्य अभेदः। तद्विरोधित्वविशिष्टश्च भेद: अनौपाधिक एव, उक्तज्ञाने च औपाधिकभेदवति अनौपाधिकभेदो विषय इति न तस्य प्रमात्वापत्तिरिति भावः । ननु भेदे अत्यन्ताभावे च नञः शक्तिरेकैव लाघवात्, तथाच नञ्बोध्यात्यन्ताभावेऽपि प्रतियोगिविरोधभानं वाच्यम्, तच्च न संभवति । अव्याप्यवृत्त्यत्यन्ताभावे प्रतियोगिविरोधस्य बाधेन भानासंभवादित्याशंक्य प्रतियोग्यभावयोरे - 120 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका कृष्णसंयोगविरोध्यत्यन्ताभावस्यैव विषयत्वम्। नञादिपदस्य विरोध्यभावबोधकत्वेन तेनैतादृशाभावज्ञानस्यैवाभिलापात्, विरोधस्य पदानुपस्थाप्यत्वेऽपि संसर्गविधया भानसंभवात्। अतएव विरोधित्वमेकावच्छेदेनैकाधिकरणावृत्तित्वरूपम्। अतएव उक्तज्ञानोत्तरं घटो द्रव्यमित्यादि- ज्ञानस्य नोत्पत्तिः, प्रतियोगिसामानाधिकरण्यरूपाव्याप्यवृत्तित्वविशिष्टसंयोगाद्यभावज्ञानस्य तु नादिपदानभिलप्यतया न संयोगादिविशिष्टधीविरोधित्वम्। अतएव च मूले वृक्षे न कृष्णसंयोग इत्यादिधीरपि मूले वृक्षे कृष्णसंयोग इति ज्ञाने नियमेन विरोधिनी; प्रतियोगिविरोधविशिष्टाभाव निश्चयत्वेनैव विरोधित्वस्वीकारात्, तादृशस्यैव तथात्वेन सर्वानुभविकत्वात्। अतएव च भूतले घटोऽस्ति न वेति संशयनिवृत्तये भूतले घटाभावोऽस्तीति न प्रयुज्यते, किंतु भूतले घटो नास्तीति । एतेन-विशिष्टकेवलयोर्भेदे विशिष्टसत्ता सत्ता नेति प्रमा स्यात्-इति शिरोमण्युक्तापत्ति: - प्रकाशः । कावच्छेदघटित एव विरोधः, स च अव्याप्यवृत्त्यत्यन्ताभावेऽपि वर्तत इति तत्रापि प्रतियोगि विरोधभानं संभवतीत्याह अत एवेति। अत एव= प्रतियोगिविरोधित्वविशिष्टाभावस्यैव नपदाभिलप्य ज्ञानविषय- त्वादेव। कृष्णेति। 'सांकेत्यं पारिहास्यं वा स्तोभं हेलनमेव वा। वैकुण्ठनामग्रहणमशेषाघहरं विदुरिति वचनमनुसृत्य कपीति विहाय कृष्णेत्युक्तिः। ननु नञःप्रतियोगिविरोध्यभावज्ञानस्यैवाभिलापकत्वं कथं, विरोधस्य नञ्छक्यतानवच्छेदकत्वात् इत्यत आह नादीति । बोधकत्वेनेति। शाब्दबोधौपयिकाकांक्षा- शालित्वेनेत्यर्थः । तेन ना। एतादृशाभावेति । प्रतियोगिविरोध्यभावेत्यर्थः । ननु वृत्त्या पदानुपस्थाप्यस्य विरोधस्य कथमाकांक्षामात्राच्छाब्दबोधविषयत्वम्, अत आह विरोधस्येति। संसर्गविधयेति अभावबुद्धौ स्वरूप- संबन्धस्य प्रतियोगिविरोधिस्वरूपत्वेन संसर्गतेति भावः। नन्वेवं वृक्षे न कृष्णसंयोग इति ज्ञानस्य प्रमात्वं न स्यात् , कृष्णसंयोगवति वृक्षे तद्विरोधितदभावस्य बाधादित्यत आह अत एवेति। उक्तज्ञानस्य प्रमात्वादेवेत्यर्थः । ननु वस्तुगत्या द्रव्यतादात्म्यविरोधी यो द्रव्यभेद: तद्विषयत्वं घटो न द्रव्यमिति प्रत्य . यस्य उपगम्यताम्, तावतापि द्रव्यतादात्म्यवति वस्तुतस्तद्विरोधिभेदस्य बाधितत्वेन तस्य प्रमात्ववारण - संभवात्, किमुक्तविरोधस्य तद्विषयत्वोपगमेनेत्यत आह अत एवेति। घटो द्रव्यं नेति ज्ञानस्य द्रव्य . तादात्म्यविरोधित्वविशिष्टद्रव्यभेदविषयकत्वादेवेत्यर्थः। नोत्पत्तिरिति । विरोधस्य उक्तज्ञानविषयत्वानुप गमे उक्तधिय: उक्तरीत्या प्रमात्ववारणेऽपि वस्तुगत्या विरोधस्य प्रतिबन्धकत्वानौपयिकतया उक्तज्ञानस्य उत्पत्तिः स्यादेवेति भाव: । नन्वेवं कृष्णसंयोगसमानाधिकरणकृष्णसंयोगाभाववान् वृक्ष इति ज्ञानस्य वृक्षः कृष्णसंयोगीति ज्ञानप्रतिबन्धकत्वं न स्यात्, तत्प्रयोजकस्य कृष्णसंयोगाभावे कृष्णसंयोगविरोधभानस्य तत्रासंभवादित्याशकामिष्टापत्त्या परिहरति प्रतियोगीति। नजादिपदानभिलप्यतयेति। नादिपदस्य प्रतियोगिविरोध्यभावबोधकत्वेनेत्यादिः। तदभिलप्यज्ञानस्यैव प्रतियोगिज्ञानविरोधित्वादिति भावः । नजैव प्रतियोगिविरोधविशिष्टाभावस्य बोधः, तस्यैव च प्रतियोगिज्ञानप्रतिबन्धकत्वमित्यत्र युक्तयन्तरमाह अत एव च भूतल इति । नास्तीति । प्रयुज्यत इत्यनुषङ्गः। विशिष्टकेवलयोर्भेदाङ्गीकारे शिरोमण्युक्तापत्ति अद्वैतसिद्धिः सव्याख्या 121 लघुचन्द्रिका अपास्ता। तस्मात् ‘सामानाधिकरण्यप्रत्यये भेदाभेदौ भासेते' इति वाचस्पत्युक्तिर्युक्तैव ।। तत्र भेदो भेदत्वरूपाखण्डधर्मविशिष्टो भावोऽभावो वा यथासंभवं बोध्य: । अयं घटान्य इत्यादौ घटान्यस्य भेदो घटान्यत्वभेद एव; उपहितभेदस्योपाधिभेदात्मकत्वमित्युक्तत्वात्। तथाच तस्याभावप्रति . योगिकाभावत्वेनाधिकरणात्मकत्वादिदंनिष्ठत्वेनेदन्त्वरूपत्वात् भावरूप एव सः। 'अयं घट' इत्यादौ घटादिभेदोऽभावरूप:। अभेदस्तु तादात्म्यम्। तादात्म्यत्वं चाखण्डधर्मविशेष एव । तथाहि तादात्म्यं न विशेषणस्वरूपं, द्रव्यं घट इत्यादौ द्रव्यत्वोपहितस्य विशेष्यस्यापि विनिगम . काभावेन तादात्म्यत्वापत्तेः, अथ-तस्य पटादिद्रव्येऽपि सत्त्वेन तत्रापि घटत्वोपहितप्रकारकज्ञानस्य भ्रमत्वानापत्त्या न तादात्म्यत्वापत्तिरिति-चेत्, सत्यम्; तथापि विशेषणस्वरूपघटाद्यसंबद्धपटादेरपि प्रकाश: । परिहरति एतेनेति। नञः प्रतियोगितादात्म्यविरोधित्वविशिष्टभेदबोधकत्वनियमेनेत्यर्थः। अपास्तेति । केवलसत्तादात्म्यवत्यां विशिष्टसत्तायां बाधिततादृशतादात्म्यविरोधिभेदस्य विषयीकरणादिति भावः। उपसंहरति तस्मादिति। अत्यन्तभेदे अत्यन्ताभेदे वा सामानाधिकरण्यप्रत्ययासंभवात् भेदसामानाधि- करण्योपलक्षिताभेदस्य विषयतायां बाधकाभावात् विशिष्टधीमात्रे विशेषणभेदसमानाधिकरणसंबन्ध- भानस्य आवश्यकत्वाच्चेत्यर्थः। भेदाभेदयो: स्वरूपं विवेचयति तत्रेति। अभावप्रतियोगिकाभाव- त्वेनेति । घटान्यत्वं अभावः, तद्भेद: तत्प्रतियोगिकाभाव इति अभावप्रतियोगिकाभावत्वमिति भावः । अधिकरणात्मकत्वादिति । अधिकरणस्य आत्मा स्वरूपं अधिकरणतावच्छेदकीभूतो धर्म: तद्रूपत्वादि. त्यर्थः। धर्मरूपतामाह इदंनिष्ठत्वेनेति। अधिकरणात्मकत्वादित्यस्य अधिकरणाभिन्नत्वादिति यथा श्रुतार्थस्तु न संगच्छते इदंनिष्ठत्वोक्तिविरोधात्। इदंत्वरूपत्वादिति । घटत्वाभावाभावस्य घटे विद्यमानस्य यथा अधिकरणतावच्छेदकघटत्वरूपत्वं तथा घटान्यत्वभेदस्यापि इदमि विद्यमानस्य अधिकरणता- वच्छेदकेदंत्वरूपत्वमिति भावः । अभावरूप इति । तस्य अभावप्रतियोगिकत्वाभावादिति भावः। अभेद- पदार्थमाह अभेदस्तु तादात्म्यमिति । अभेदो यद्यपि भेदाभाव:, भेदाभेदौ प्रकृत्य “तथाच भावाभावयोर- वच्छेदकभेदं विना विरोधा''दिति पूर्वमुक्तेः; तथापि भेदाभावरूपोऽपि स: न भावभिन्न सप्तमपदार्थरूपः, किन्तु भावरूप एवेति भावः। भेदाभावस्य प्रतियोगितादात्म्यरूपत्वं तार्किकाणामपि संमतमेव। तच्च केषांचिन्मते प्रतियोगिरूपं, अन्येषां प्रतियोगितावच्छेदकरूपम्; अस्मन्मते तु तदतिरिक्तमित्याह तादात्म्यं चेति । तस्य अतिरिक्तत्वं साधयति तथाहीत्यादिना । अनतिरिक्तत्वं वदत: तस्य विशेषणरूपत्वमभिप्रेतं उत विशेषणतावच्छेदकरूपत्वम्। नाद्य इत्याह तादात्म्यमिति । तादात्म्यत्वापत्तेरिति। तथाच तस्य विशेषणस्वरूपतैवेति पक्षो गत इति भावः । विशेष्यस्वरूपस्य तादात्म्यत्वे बाधकमाशंकते अथेति । तस्य द्रव्यत्वोपहितरूपविशेष्यस्य। तत्रापि= पटादिद्रव्येऽपि। नेति। तस्येत्यादिः। भ्रमत्वानापत्त्येति। द्रव्य- त्वोपहितविशेष्यस्वरूपतादात्म्यस्य घटे सत्वेन पटो घट इति ज्ञानस्य बाधितविषयकत्वाभावादिति भावः। विशेष्यस्वरूपस्य तादात्म्यत्वानापत्तिमङ्गीकरोति सत्यमिति । तथापि- विशेष्यस्वरूपस्य 122 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता - लघुचन्द्रिका तत्तादात्म्यता स्यात्; विशेषणस्वरूपस्यापि तदसंबद्धत्वेन विनिगमकाभावात्, नात्यन्ताभेदे संबद्धता संभवति; घटो घट इत्यादिप्रत्ययाभावात्। किंच स्वं न स्वीयमित्यनुभवेन स्वप्रति योगिकत्वस्य स्वस्मिन्नसंभवेन विशेषणस्य न स्वप्रतियोगिकतादात्म्यत्वसंभवः । अथ- आस्तां विशेषणतावच्छेदकघटत्वादेर्घटादितादात्म्यता-इति चेन्न; शुद्धघटत्वादिविशेषणस्थले तदसंभवात् घटत्वत्वादिकमविषयीकृत्यैवायं घट इत्यादिबुद्ध्युदयात्, तद्व्यक्तित्वस्य विशेषणतावच्छेदकत्व. स्थले रूपरसाद्यनेकधर्मरूपस्य तव्यक्तित्वस्य तद्व्यक्तितादात्म्यत्वकल्पने गौरवात्तद्व्यक्त्युत्पत्ति कालावच्छेदेन रूपादेस्तद्व्यक्तावभावाच्च, तदन्यस्यैव तत्कालावस्थायिनस्तत्कल्पनाया आवश्य कत्वेन, घटत्वादेर्विशेषणतावच्छेदकत्वस्थलेऽपि तादृशतादात्म्यभानसंभवेन घटत्वादेस्तादात्म्य त्वाश्रयत्वकल्पने गौरवान्मानाभावाच्च। अथ-घटादेस्तादात्म्यं तत्स्वरूपमेव, अभावादेः प्रकाश: M तादात्म्यत्वानापत्तावपि । तत्तादात्म्यता घटरूपविशेषणतादात्म्यता। घटासंबद्धपटस्य कथं घट तादात्म्य. तापत्ति: अत आह विशेषणस्वरूपस्यापीति। तदसंबद्धत्वेन= घटरूपविशेषणासंबद्धत्वेन। विनिगमका- भावादिति। विशेषणस्वरूपस्य विशेषणासंबद्धस्य विशेषणतादात्म्यत्वं, पटस्य तथाविधस्यैव विशेषण- तादात्म्यत्वाभाव इत्यत्र विनिगमकं नास्तीति भावः । ननु विशेषणस्वरूपस्य विशेषणासंबद्धत्वमसिद्ध- मित्यत आह नहीति । नन्वत्यन्ताभेदेऽपि संबद्धता उपेयते, घटो घट इत्यादिप्रत्ययापत्तिस्तु न, विशेष्यता- वच्छेदकतासंबन्धेन तद्धर्मोपहितप्रकारकबुद्धिं प्रति तद्धर्मभेदस्य कारणत्वोपगमादित्यत आह किंचेति । द्वितीयं कल्पमाशंकते अथेति। घटत्वादेरिति। तस्य घटादिसंबद्धत्वादिति भावः। तदसंभवादिति। शुद्धघटत्वादिकं विशेषणतया अवगाहमाना बुद्धिरेव नास्तीत्यत आह घटत्वत्वादिकमविषयीकृत्येति। घटत्वस्य तत्र अनुल्लिख्यमानत्वादिति भावः । ननु विशेषणतावच्छेदकविधया घटत्वत्वस्य अयं घट इति बुद्धावविषयत्वेऽपि संसर्गविधया तस्य तद्विषयत्वमास्तामित्याशंक्य घटत्वस्य विशेषणतावच्छेदक तास्थल एव तस्य तादात्म्यरूपत्वं दुर्घटमित्याह तव्यक्तित्वस्येति। अयं तद्व्यक्तिरित्यादावित्यादिः । रूपरसाधनेकधर्मरूपस्येति। विनिगमनाविरहेणेत्यादिः। तद्व्यक्तित्वं नाम न अखण्डो धर्म: मानाभावात्; किन्तु तद्व्यक्तिनिष्ठः असाधारणो धर्मः, सच रूपरसादिरेवेति भावः। गौरवादिति। अनेकेषां तद्व्यक्ति तादात्म्यत्वांगीकारादिति भावः । गौरवादिति अभावादिति च आवश्यकत्वेनेत्यत्रान्वेति। प्रामाणिकं गौरवं न दोषायेत्याशंक्याह तव्यक्त्युत्पत्तिकालावच्छेदेनेति। अभावाच्चेति। उत्पन्नं द्रव्यं क्षणमगुणमक्रियाकं च तिष्ठतीत्यङ्गीकारादिति भावः। तत्काले इदानीमयं तद्व्यक्तिरिति प्रत्ययानुपपत्तेरिति शेषः। तथाच घटरूपतद्व्यक्त्युत्पत्तिकालावच्छेदेन तद्व्यक्तावसत: रूपरसादिरूपतद्व्यक्तित्वस्य तद्व्यक्तितादात्म्यत्वं न घटत इति भावः। अन्यस्येति । अस्मदभिमततादात्म्यस्येत्यर्थः। तत्कल्पनायाः कल्पनायाः । गौरवादिति । यद्यपि घटत्वं उत्पत्तिकालमारभ्यैव घटे वर्तत इति न तस्य तद्व्यक्तित्वतुल्यता तथापि इयं तद्व्यक्तिरित्यादौ तादात्म्यस्य अतिरिक्तत्वं अयं घट इत्यादौ तादात्म्यस्य घटत्वादिरूपत्वमिति तादात्म्यत्व अद्वैतसिद्धिः सव्याख्या 123 लघुचन्द्रिका स्वरूपस्यैवाधिकरणे संबन्धत्वदर्शनात्, स्वरूपस्यापि संबन्धत्वोपपत्तेः, उक्तंच बौद्धाधिकारे शिरोमणिना-'ज्ञानस्य स्वरूपमपि विषयतानामकस्तत्संबन्ध: अभावाधिकरणयो: स्वरूपवत्- इति चेन्न; स्वं न स्वीयमित्याधुक्तानुपपत्तेः, अभावाधिकरणयोरपि स्वरूपान्यस्यैव संबन्धत्वात्। अतएव विषयतापि न ज्ञानस्वरूपेति तत्रैव तेनैव पश्चादुक्तम्। अथ-घटादिविशेषणस्वरूपस्यापि तादात्म्यत्वरूपेण घटादितो भेदसंभवेन घटादिप्रतियोगिकत्वसंभवात्तदीयतादात्म्यत्वमुपपद्यत-इति चेन्न; घटादौ तादात्म्यत्वकल्पनायाः पूर्वं तस्य तत्संबन्धत्वासिद्ध्या तस्या असिद्धेः। नहि घटत्वविशिष्टप्रतियोगिकतादात्म्यत्वसिद्धेः पूर्वं तादात्म्येन तत्संबद्धं किंचित् सिद्धमस्ति, येन तत्संबंधस्य तादात्म्यत्वमानं कल्प्येत। तथाच भेदे सिद्धे तादात्म्यत्वं कल्प्यं तादात्म्यत्वे क्लृप्ते तदुपहितभेदसिद्धिरित्यन्योन्याश्रयः। तस्मात्तादात्म्यत्वमिव तदाश्रयस्तत्र घटादिसंबंध इति त्रयमपि प्रकाशः कल्पने गौरवमिति भावः । ननु प्रामाणिकत्वाद्वौरवस्य न दोषतेत्यत आह मानाभावाच्चेति । तद्व्यक्तिरि - त्यत्र अवश्यकल्पनीयातिरिक्ततादात्म्यमादायैव अयं घट इत्यादावप्युपपत्तेरिति भावः। विशेषणस्वरूप स्यैव तादात्म्यरूपतामाशंकते अथेति । ननु स्वं न स्वीयमित्यनुभवेन स्वस्मिन् स्वप्रतियोगिकत्वा संभवस्योक्तत्वात् स्वस्य स्वप्रतियोगिकसंबन्धता कथमित्यत आह अभावादेरिति। अधिकरणे भूतलादौ। तथाचोक्तानुभवोऽलीक एवेत्यभिमान: । स्वरूपस्य संबन्धत्वे शिरोमणिसंमतिमाह उक्तं चेति । समाधत्ते न स्वं नेति । स्वरूपान्यस्यैव संबन्धत्वादिति। उक्तानुभवापलापो न युक्तः, किन्तु अभाव - स्थलेऽपि स्वरूपातिरिक्तस्यैव संबन्धत्वकल्पनं युक्तमिति भावः। तर्हि ज्ञानस्य स्वरूपं तत्सम्बन्ध इति शिरोमण्यक्तिविरोध इत्यत आह अत एवेति । स्वरूपस्य संबन्धत्वासंभवादेवेत्यर्थः । तेनैव पश्चादुक्त- मिति। तथा च न तदुक्तिविरोध इति भावः । नन्वेवं तदुक्त्योरेव पूर्वापरविरोध इति चेन्न, पूर्वं तदुक्तेः शंकारूपत्वात् मतान्तरोपन्यासरूपत्वाद्वा। प्रकारान्तरेण विशेषणस्वरूपस्य तादात्म्यत्वं शंकते अथेति । तादात्म्यत्वरूपेणेति । घटतत्स्वरूपयो: स्वतो भेदासंभवेऽपि घटत्वतादात्म्यत्वाभ्यां भेदस्संभतीति भाव: । घटादिप्रतियोगिकत्वेति । भेदनिबन्धनेत्यादिः । समाधत्ते नेति । तस्य घटस्वरूपस्य । तत्संबन्ध त्वासिद्धयेति । तद्भेदासिद्धयेत्यादिः। तत्संबद्धत्वासिद्धयेति वा पाठः। घटसंबद्धत्वासिद्धयेत्यर्थः । तस्या: तादात्म्यत्वकल्पनाया:। असंबद्धे तु न तत्कल्पनेति भावः। ननु घटादिस्वरूपे तादात्म्य त्वकल्पनात: पूर्वं तस्य तत्संबद्धत्वं कुतो न सिद्धमित्याशंक्य घटप्रतियोगिकतादात्म्यासिद्धरित्याशयेन समाधत्ते नहीति। तत्संबद्ध= घटादिसंबद्धम्। किंचित्= घटादिकम्। ननु तादात्म्येन घटसंबद्धे घटे तादात्म्यत्वं कल्प्यता, तादृशतादात्म्यत्वकल्पनाप्रयुक्तभेदसिद्ध्या च घटस्य तादात्म्येन घटसंबद्धता भवतु को दोष इत्यत आह तथाचेति । तादात्म्यत्वकल्पनाया: पूर्वं तादाम्येन घटसंबद्धस्यासिद्धौ चेत्यर्थः । भेदे सिद्ध इति। घटस्वरूपस्य घटानेदे सिद्ध इत्यर्थः । तदुपहितरूपेण- तादात्म्यत्वोपहितरूपेण । अन्योन्या- श्रय इति । दोष इति शेषः । स च ज्ञप्तौ, भेदज्ञानाधीनत्वात् स्वरूपे तादात्म्यत्वज्ञानस्य, तदधीनत्वात् । ।

124 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका क्लृप्तघटादिभ्योऽतिरिक्तं कल्प्यते। तत्र तादात्म्ये तदन्यस्य घटादिसंबन्धस्य कल्पने अनवस्थाना. द्वरं तत्स्वरूपसंबन्धेन घटादिसंबद्धत्वं तस्य स्वीक्रियते; अनवस्थापेक्षया आत्माश्रयस्य युक्तत्वात् । अनवस्थायां हि तादात्म्ये घटस्यैक: संबन्धो वाच्यः; असंबद्धस्य तादात्म्यस्य संबन्धत्वासंभवात्, एवं तत्रापि घटस्य संबन्धान्तरमेवं तत्रापीत्यादिमहागौरवम् । यदि तु तादात्म्यद्वयं घटस्य स्वीक्रियते तयोः परस्परसंबन्धता च स्वीक्रियते, तदान्योन्याश्रयः; तत्रापि गौरवं च । यदि तु तादात्म्यत्रयं स्वीकृत्य प्रथमस्य द्वितीयं संबन्धस्तस्य तु तृतीयं तस्य तु प्रथममित्युच्यते, तथापि चक्रकं गौरवं च । अथ तादात्म्यमेकं स्वसंबन्धिभ्यामतिरिक्तं तथैव प्रतीयमानत्वात्कल्प्यते, तदाऽनवस्थाद्यपेक्षया लाघवम्। अत: स्वस्यैव स्वं प्रति संबन्धत्वादात्माश्रयोऽपि स्वीक्रियते। अतएव बौद्धाधिकार - शिरोमणौ घटाभावस्य स्ववृत्तित्वस्वीकारे आत्माश्रयेऽपि लाघवमुक्तम्। तच्च तादात्म्यं घटादौ प्रकाश: भेदज्ञानस्येति बोध्यम्। तादात्म्यस्य अतिरिक्तत्वमुपसंहरति तस्मादिति। विशेषणस्वरूपस्य विशेषणता- वच्छेदकस्य वा तादात्म्यत्वासंभवादित्यर्थः। तादात्म्यत्वमिवेति । तादात्म्यत्वस्य अतिरिक्तत्वं सर्वमत. सिद्धमिति तस्य दृष्टान्ततोक्तिः। तत्र तादात्म्यत्वाश्रये। घटादिसंबन्ध इति । तदनभ्युपगमे तस्य घटीय. संबन्धता न स्यात् असंबद्धस्य संबन्धत्वासंभवादिति भावः । ननु तादात्म्यघटयो: संबन्धः तत्तादात्म्या. तिरिक्तश्चेत् तत्राप्यतिरिक्त इति रीत्या अनवस्था, तदेव तादात्म्यं चेदात्माश्रय इत्यत आह तत्रेति । घटादिभ्योऽतिरिक्तत्वेनाभ्युपगत इत्यर्थः। युक्तत्वादिति । कल्पनालाघवादिति भावः। महागौरवमिति । अप्रामाणिकानन्तसंबन्धानां कल्पनादिति भावः । ननु अनवस्थात्माश्रययोरनापातात् तादात्म्यद्वयमङ्गी- क्रियतामित्यत आह यदि तु तादात्म्यद्वयमिति । परस्परसंबन्धता चेति । अयं घट इत्यादौ इदमादौ घटस्य एकं तादात्म्यं संबन्ध उपेयः। तादृशतादात्म्ये घटसंबन्धत्वसिद्धये घटीय संबन्धरूपतादात्म्यान्तरम् । तत्र घटीयसंबन्धत्वसिद्धिस्तु प्रथमतादात्म्येनेति भावः। गौरवमिति । तादात्म्यद्वयाभ्युपगमादिति भावः । तर्हि तादात्म्यत्रयं स्वीक्रियता अन्योन्याश्रयादेरभावादित्यत आह यदि तु तादात्म्यत्रयमिति। तथापि- अन्योन्याश्रयपरिहारार्थं तादात्म्यत्रयाङ्गीकारेऽपि । अतिरिक्तस्यैकस्य तादात्म्यस्य स्वीकारे लाघवमित्याह अथेति । नन्वेवं विशेषणस्वरूपमेव तादात्म्यमस्तु, नच असंबद्धत्वं; अतिरिक्ततादात्म्याङ्गीकारपक्ष इव विशेषणस्वरूपस्यापि स्वात्मकसंबन्धेन संबद्धत्वोपगमसंभवादित्यत आह तथैव प्रतीयमानत्वादिति। तादात्म्यस्य अतिरिक्तस्य कल्पने अस्ति प्रतीतिः प्रमाणं, न तु विशेषणस्वरूपस्य विशेषणसंबद्धत्वे तदस्तीति भावः। नन्वेवमात्माश्रय इत्यत आह अत इति। स्वीक्रियत इति। क्लृप्ताना विशेषण- स्वरूपादीनां उक्तरीत्या संबन्धताया असंभवात् अतिरिक्तं तादात्म्यं स्वीक्रियते । तच्च स्वत एव घटादि- संबद्धमुपगम्यते, असंबद्धस्य संबन्धताया अनुपपत्ते:, संबन्धान्तरोपगमे अन्योन्याश्रयाद्यापातात् गौरवा- च। तत्र च प्रसज्यमान आत्माश्रयो दोष: गत्यन्तराभावाल्लाघवात्सह्यत इति भावः । लघवादात्माश्रयः शिरोमणिसंमत इत्याह अत एवेति । स्ववृत्तित्वस्वीकार इति। घटाभावे घटो नास्तीत्यत्र घटाभावस्य ।

अद्वैतसिद्धि: सव्याख्या 125 लघुचन्द्रिका रूपरसादेर्जायते। रूपादीनां नित्यत्वादुत्पत्तिनाशप्रत्ययस्य तादात्म्योत्पत्तिनाशविषयकत्वात्। पाकादिना घटादेर्नाशोत्पत्ति: रूपादीनां तादात्म्यस्य वेत्यत्र विनिगमकाभावादिति भट्टादिमतम्, मन्मते त्वविद्यादेः श्रुतियुक्तिसिद्धानादिताकात् भिन्नं दृश्यमात्रमुत्पत्तिनाशवदिति स्वीक्रियते। 'यावद्विकारंतु विभागो लोकव'दिति न्यायात्। विभाग:तादृशाविद्यादिभेदः। यावद्विकारम्, उत्पत्तिमनतिक्रम्य वर्तते, उत्पत्तिव्याप्य इति यावत् । यतो वा इमानि भूतानि जायन्त' इति श्रुताविमानि भूतानीति पदाभ्यामात्माविद्यादिभिन्नस्योत्पन्नमात्रस्योक्तेश्च। भूतानीत्युक्ते उत्पन्न- प्रकाश: - अतिरिक्तत्वे प्रमाणाभावात् अभावाधिकरणकाभावस्य अधिकरणानतिरिक्तत्वेन स्ववृत्तित्वस्य स्वीकर्त- | व्यत्वादिति भावः । श्याममृत्तिकाकार्यघटादौ पाकात् पूर्वं श्यामताप्रत्यय: नतूत्तरमिति नियमः। स किं श्यामरूपस्य पाकेन नाशात् उत तत्संबन्धभूततादात्म्यस्येति संशये भट्टादिमतमाह तच्चेति। रूपरसादे रिति । एवं च सर्वसम्मतोत्पत्तिनाशानां घटादीनां कपालादौ, नित्यसंबद्धघटत्वादीनां घटादौ च तादात्म्यं नित्यमेवेति भाव: । ननु रूपादिकमेव जायते, अन्यथा श्यामो नष्ट: रक्तो जात इति प्रत्ययस्य अनुपपत्ते - रित्यत आह रूपादीनामिति । उक्तं हि शब्दनित्यत्वाधिकरणवार्तिके भट्टपादै: एतयैव दिशा वाच्या शुक्लादेरपि नित्यता' इति । कथं तर्हि उत्पत्तिनाशप्रत्यय इत्यत्राह उत्पत्तिनाशप्रत्ययस्येति । ननु पाकादिना घटादेरेव नाश: जायते न रूपादेः नापि रूपादितादात्म्यस्येत्यत आह पाकादिनेति। रूपादीनां तादा त्म्यस्य वेत्युभयत्र नाशोत्पत्ती इत्यनुषज्यते। विनिगमकाभावादिति। वस्तुत: संबन्धभूततादात्म्यमात्र. नाशेन श्यामो नष्ट इति प्रतीत्युपपत्तेः पाकादिना घटादेर्वा रूपादेर्वा नाशो नाङ्गीकार्य इत्याशयः । वेदान्तसिद्धान्तमाह मन्मतेत्विति । श्रुतियुक्तिसिद्धानादिताकादिति । श्रुति:- 'अजामेकां लोहितशुक्ल कृष्णा'मित्याद्या। युक्ति:- ‘मायां तु प्रकृतिं विद्या' दिति श्रुतिसिद्ध सर्वभूतोपादानभूत मायाया जन्यत्वे तदुपादानमन्यद्वाच्यम्, तथाच अन्योन्याश्रयचक्रकानवस्थान्यतमरूपदोषप्रसङ्ग इति। दृश्यमात्रमिति। दृश्यसामान्यमित्यर्थः। तथाच रूपादिकं घटघटत्वादिकं तत्तादात्म्यं च अनित्यमेवेति भावः। ननु अविद्यादिभिन्नदृश्यत्वसामानाधिकरण्येन उत्पत्तिनाशयोरंगीकारमात्रेण घटादावुत्पत्तिनाशप्रत्ययोपपत्ते: उक्तदृश्यत्वावच्छेदेन तदभ्युपगमे किं मानम्, अत आह यावद्विकारमिति । सूत्रं व्याचष्टे विभाग इति । उत्पत्तिमिति। इदं नाशस्योपलक्षणम्। अनतिक्रम्य वर्तते- अतिक्रम्य- तद्विना- न वर्तते। उत्पत्त्यभाववदवृत्तिरिति यावत्। तदाह उत्पत्तिव्याप्य इति । अविद्यादिभेद इत्यादिपदेन ब्रह्मभेदोऽपि ग्राह्यः, अन्यथा ब्रह्मणि व्यभिचार: स्यात्। व्याप्तिग्रहप्रयोजकसहचारग्रहस्थलं दर्शयति सूत्रे लोकव दिति। लोक्यते- चाक्षुषप्रत्यक्षविषयीक्रियत इति लोकः घटादिः तद्वदित्यर्थ: । ननु सूत्रगतविभागपदस्य अविद्यादिभेदार्थकत्वे किं मानमिति शंकां परिहरन् अविद्यादिभिन्नस्य सर्वस्य उत्पत्त्यादिमत्वे श्रुतिरूपं प्रमाणमाह यतोवेति। उत्पन्नमात्रस्य = उत्पन्नसामान्यस्य । भवन्ति= उत्पद्यन्ते इति भूतानीति व्युत्पत्त्या भूतानीत्यस्मादुत्पन्न लाभ:, दण्डाद्धटो भवतीत्यादौ उत्पत्तौ भवते: प्रयोगदर्शनात् । एवं च अविद्यादे- --- . .

126 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका त्वसामानाधिकरण्यमात्रेण ब्रह्मजन्यत्वं लभ्यते इत्यतस्तदवच्छेदेन जन्यतालाभाय इमानीत्युक्तम्। सर्वाणीति तदर्थः । अथवा भूतानि सत्तादात्म्यवन्ति, ब्रह्मभिन्नानीति यावत्। अविद्याद्यनादि वारणायेमानीति। अविद्याद्यनादिभिन्नानीत्यर्थः । विशेष्यतावच्छेदकीभूततादृशविशिष्टधर्मावच्छि- नत्वस्योत्पत्तिमत्वे लाभस्त्वौत्सर्गिकव्युत्पत्त्या भवत्येव। तथाच कपालाद्यवच्छेदेन घटादे: घटाद्य- वच्छेदेन घटादे: घटाद्यवच्छेदेन कपालादेस्तादात्म्यं जायते इति परस्पराध्यासोक्तरीत्या जन्यमात्रस्य तादात्म्यं जायते। यत्तु-कपालाघटाभ्यामुपहिता सत्तैव तयोस्तादात्म्यमिति मतम्, तत्राध्यासिक . तादात्म्येनैव चिद्रूपसत्ताया घटाद्युपहितत्वं वाच्यम्; तथाच कपालघटयोर्यत्तादात्म्यं सत्तायां संबन्धस्तदेव तयोरन्योन्यस्मिन्नपि संबन्धोऽस्तु; कपालादितादात्म्यापन्नसत्तानुयोगिकस्य घटादि . तादात्म्यस्य कपालाद्यनुयोगिकत्वसंभवात् सत्तायामेकानुयोगिकत्वापरप्रतियोगिकत्वयोस्तादात्म्य प्रकाश: रनुत्पत्त्या तद्भिन्नस्येत्यर्थलभ्यमिति भावः । सामान्यार्थलाभकं दर्शयति भूतानीत्युक्त इति । तदवच्छेदेन उत्पन्नत्वावच्छेदेन । ननु इमानीत्यस्य प्रत्यक्षविषयीभूतानीत्यर्थः, ततश्च कथं तेन भूतसामान्यलाभ इत्या. शंक्याह सर्वाणीति । अन्यथा इमानीति पदं व्यर्थं स्यादिति भावः । इमानि भूतानीति पदयोरर्थान्तरमाह अथवेति । भूतानि सत्तादात्म्यवन्तीति। एतत्पक्षे भूधातो: सत्ता अर्थः । सत्ता च सद्रूपब्रह्मतादात्म्यमिति भावः। ब्रह्मभिन्नानीति भूतानीत्यस्य पर्यवसितोऽर्थ इति भावः। इमानीतिपदं सार्थकयति अविद्यादीति। तेषामपि ब्रह्मभिन्नत्वादिति भावः । इत्यर्थ इति । अनादिपदार्थानां ब्रह्मजत्वबाधात् तात्पर्यत: इमानीत्यस्य अविद्याद्यनादिभिन्नानीत्यर्थो वाच्य इति भावः । ननु इमानीति पदस्य सर्वाणीत्यर्थस्यानुपगमे विधेयोत्पत्ति- मत्वादौ उद्देश्यतावच्छेदकधर्मावच्छिन्नत्वस्य कथं लाभ इत्यत आह विशेष्यतावच्छेदकीभूतेति । तादृश- विशिष्टधर्मेति। अविद्याद्यनादिभिन्नत्वविशिष्टब्रह्मभिन्नत्वरूपधर्मेत्यर्थः। औत्सर्गिकव्युत्पत्त्येति । असति बाधके उद्देश्यविधेयभावस्थले उद्देश्यतावच्छेदकावच्छिन्नत्वं विधेये भासत इति व्युत्पत्त्येत्यर्थः । एवं च पूर्वकल्पे इमानीतिपदवैयर्थ्यशङ्कव कल्पान्तरानुसरणबीजमिति भावः। तथाच- अविद्याद्यनादिभिन्नस्य सर्वस्य श्रुतिन्यायाभ्यां उत्पत्ते: सिद्धौ च। जायत इति। चिद्रूपे ब्रह्मणीत्यादिः। मतान्तरमुपन्यस्यति यत्त्विति । सत्तैवेति । ब्रह्मरूपसत्तैवेत्यर्थः । एवकारेण अतिरिक्ततादात्म्यव्यवच्छेदः । तथाच तस्य जन्यत्व. मपि दुर्घटमिति भावः । यथाश्रुते तदसंगतमित्याह तत्रेति । आध्यासिकतादात्म्येनै वेति। घटाद्युपहितत्वं घटादिविशिष्टत्वं, अत एव यद्विशिष्टे इति वक्ष्यति। तच्च चिद्रूपसत्तायां तादृशसत्तातिरिक्तन अतएवा- रोपितेन तादात्म्येनेत्यर्थः। एवकारेण अतिरिक्तसंबन्धव्यवच्छेदः । ननु चिद्रूपसत्तायां घटादिवैशिष्ट्यं अतिरिक्ततादात्म्येनास्तु कपालघटयोस्तु सत्तैव तादात्म्यमस्तु इत्यत आह तथाचेति। यत्तादात्म्यमिति । अतिरिक्तमिति शेषः । ननु कपालादिप्रतियोगिकसत्तानुयोगिकतादात्म्यस्य कथं कपालाद्यनुयोगिकत्वं येन कपालादौ घटादेः तत् संबन्धः स्यात् अत आह कपालादितादात्म्यापनेति । तादात्म्यसंबन्धेन कपाला- दिविशिष्टेत्यर्थः । कपालाद्यनुयोगिकत्वसंभवादिति। विशिष्टस्यानुयोगित्वे विशेषणस्याप्यनुयोगित्वमिति ।

अद्वैसिद्धिः सव्याख्या 127 लघुचन्द्रिका त्वस्य च कल्पनापेक्षया एकप्रतियोगिकतया क्लृप्ते तादात्म्ये अपरानुयोगिकत्वमात्रस्य कल्पने लाघवात्। तस्मादयमाशयस्तत्रोन्नीयते, उक्तरीत्या कपालघटयोस्तादात्म्यसंबन्धस्वीकारे एकघट निष्टानां रूपरसादीनामपि मिथस्तादात्म्यापत्तिः; तेषामपि परस्परोपहिताया एकसत्तायाः सत्त्वात्, अती यद्विशिष्टे सत्तारूपाधिष्ठानचैतन्ये आधारीभूते यस्यारोप्यस्य तादात्म्यमारोप्यते, तत्रैव तस्यारोप्यस्य तत्तादात्म्यं स्वीक्रियते; विशिष्टस्य तदनुयोगित्वेन विशेषणस्यापि तदनुयोगित्वात्, रूपादिविशिष्टे तु चैतन्ये रसादीनां न तादात्म्यमारोप्यते;घटादिविशिष्टचैतन्ये रूपरसादीनां यगपदारोपात्। एवंच कपालोपहितसत्तायां वस्तुगत्या विद्यमानं घटस्य यत्तादात्म्यं तस्य तादात्म्य. त्वरूपणैवोक्तसत्तायामिव कपालेऽपि संबद्धत्वेऽप्युक्तसत्त्वोपहिततादात्म्यस्य स्वरूप प्रकाशः भावः। सत्ताया एव तादात्म्यरूपत्वे कल्पनागौरवमाह सत्तायामिति। एकप्रतियोगिकतया घटादि- प्रतियोगिकतया। क्लृप्ते तादात्म्य इति । घटादिप्रतियोगिकं सत्तानुयोगिकं च तादात्म्यमतिरिक्तं उक्तरीत्या क्लृप्तमिति भाव: । लाघवादिति । एवं च कपालादौ घटादेस्तादात्म्यमतिरिक्तमेव नतूक्तसत्तारूपं गौरवा- दिति यथाश्रुतं तन्मतं न युक्तमिति भावः। कस्तर्हि तन्मताभिप्राय इत्यत्राह तस्मादिति। यथाश्रुतार्थे अतिप्रसंगरूपं दोषमाह उक्तरीत्येति । उक्तमतानुसारेणेत्यर्थः । तादात्म्यसंबन्धस्वीकार इति । कपालघटो भयोपहितैकसत्तारूपतादात्म्यसंबन्धस्वीकार इत्यर्थः । एकघट निष्ठानां = घटरूपैकोपाध्युपहितचिद्रूप. सत्तानिष्ठानाम्। मिथस्तादात्म्यापत्तिरिति। तथाच रूपं रस इति प्रतीत्यापत्तिरिति भावः। तत्र हेतुमाह तेपामपीति । एकसत्ताया इति । तादात्म्यरूपाया इति शेषः । सत्वादिति । तथा च कपालघटाभ्यामुपहित- सत्ता चिद्रूपा यथा एका तथैव एकघटनिष्ठरूपरसाभ्यामुपहितापि सा एकैवेति भावः। स्वीकारदिति पाठे स्वीकर्तव्यत्वादिति तदर्थः । अत इति । यथाश्रुतस्य अतिप्रसंजकत्वादित्यर्थः । तत्रैवेति । तादृशविशेषणा- नुयोगिकमेवेत्यर्थः । ननु कपालादिविशिष्टे चैतन्ये घटादेस्तादात्म्यस्यारोपात् चैतन्यस्य घटादिप्रतियोगिक- तादात्म्यानुयोगित्वमस्तु कपालादेस्तत् कुतः तत्र तादात्म्यानारोपादित्यत आह विशिष्टस्येति । विशेषणस्यापीति। विशेषणस्य अनुयोगित्वं विना विशिष्टस्य तन्न संभवतीति भावः। रूपरसादीनां मिथस्तादात्म्यापत्तिमुक्तां निरस्यति रूपादिविशिष्ट इति। न तादात्म्यमारोप्यत इति। अतो न रूपरसादीनां मिथस्तादात्म्यमिति शेषः । रूपरसादिस्थले एकविशिष्टे अपरस्यारोप: कुतो नेत्यत आह घटादीति । रूप- रसादीनां युगपदुत्पद्यमानानां एकविशिष्टे अपरारोपो न संभवतीति भावः । नन्वेवं कपालोपहितचिद्रूप- सत्तानिष्ठं घटीयतादात्म्यमेव कपाले घटस्य संबन्ध इति पर्यवसितम्; तथाच कपालघटाभ्यामुपहिता सत्तैव तयोस्तादात्म्यमित्युक्तिरसमंजसैवेत्याशंक्य कथंचित्तस्याः सामंजस्यमाह एवं चेत्यादिना। वस्तुगत्येति। अनेन कपालोपहितसत्तानिष्ठत्वस्य संबन्धतावच्छेदककोटौ अप्रवेश उक्तः। तदाह तादात्म्यत्वरूपेणैवेति। एवकारेण उभयोपहितसत्तात्वव्यवच्छेद:। उक्तसत्तायां कपालोपहितसत्तायाम्। कपालेऽपीति। अनेन कपालघटोभयोपहितसत्तात्वेन संबन्धत्वं न वक्तव्यमिति सूचितम्। तर्हि उभयोप.

138 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका परिचयार्थमुभयोपहितसत्तासंबन्ध इत्युच्यते। उक्तसत्ताया अपि तादृशतादात्म्यरूपसंबन्धपरि चायकत्वात् । यथाश्रुतं त्वसङ्गतम्; उक्तयुक्तेः, ‘सन् घट'इतिप्रत्ययस्येव ‘कपालं घट'इति प्रत्ययस्यापि तादात्म्यत्वविशिष्टसंसर्गविषयकत्वस्यसर्वानुभविकत्वात्, उक्तसंसर्गेणैव घटाद्युत्पत्ती कपालादेर्लाघवेनोपादानकारणत्वादिकल्पनात्, तादात्म्योपहितसत्तात्वादिशिष्टसंसर्गेण तदुत्पत्तौ तत्कल्पने गौरवान्मानाभावाच्चेत्यास्तां विस्तरः। तस्मादुक्तरीत्या भेदाभेदयोरविरोधादिकमुपपाद- नीयम्। वेदान्तदर्शने तु एकाधिकरणकस्वाप्नभावाभावदृष्टान्तेन मूले वक्ष्यमाण: व्यावहारिकयो: प्रपंचतदभावयोरविरोध इव भेदाभेदयोरविरोधः । अथवा व्यवहारदशायामेवाऽवयवावयविगुण - प्रकाशः हितसत्तासंबन्ध इति किमर्थमुक्तमित्यत आह उक्तसत्तोपहिततादात्म्यस्येति। कपालोपहितसत्तानिष्ठत्वा- पहिततादात्म्यस्येत्यर्थः। ननु अनयोक्त्या कथं तादृशतादात्म्यस्वरूपस्य परिचयसंभव: उक्तसत्तात्वरूप. परिचायकस्य तादृशतादात्म्ये असत्वादत आह उक्तसत्ताया अपीति। घटप्रतियोगिकतादात्म्यस्यापि आध्यासिकपदार्थभूतस्य वस्तुगत्या कपालघटोभयोपहितसत्तारूपाधिष्ठानचैतन्ये तादात्म्येनाध्यस्ततया कपालघटोभयोपहितसत्ताया घटीयतादात्म्यरूपसंबन्धेन अभेदात् तादृशतादात्म्यरूपसंबन्धस्य उक्त सत्तात्वरूपपरिचायकधर्माश्रयत्वमिति भावः। एवं च तन्मतेऽपि कपाले घटस्य संबन्धरूपं तादात्म्यमति. रिक्तमेवेति पर्यवसितमिति भावः । एवमाशयोन्नयनं कुतः, यथाश्रुतमेव तदस्त्वित्यत आह यथाश्रुतं त्विति । उक्तयुक्तरिति । एकघटनिष्ठानां रूपरसादीनां मिथस्तादात्म्यापत्तेरित्यर्थः । यथाश्रुतस्य उक्तमतस्य असंगतत्वे हेत्वन्तरसिद्ध्यर्थं कपालघटयोरतिरिक्ततादात्म्ये अनुभवोऽपि प्रमाणमित्याह कपालं घट इतीति । तत्र दृष्टान्तमाह सन् घट इति प्रत्ययस्येवेति । ननु घटं प्रति कपालघटतादात्म्योपहितसत्तात्व- विशिष्टसत्तासंबन्धेन कपालस्य हेतुताकल्पनात् कार्यतावच्छेदकसंबन्धविधया सत्ताया: संबन्धत्वसिद्धौ तस्या एव कपालं घट इति बुद्धौ विषयत्वं युक्तं न तूक्ततादात्म्यस्येत्यत आह उक्तसंसर्गेणैवेति। तादात्म्य. त्वविशिष्टतादात्म्यसंसर्गेणैवेत्यर्थः । तादात्म्यस्य कार्यतावच्छेदकसंबन्धत्वे युक्तिमाह लाघवेनेति। तादा. त्म्योपहितसत्तापेक्षया तादात्म्यस्य लघुत्वादिति भावः। उक्तसत्तायाः कार्यतावच्छेदकसंबन्धत्वे बाधक . माह गौरवादिति। तादात्म्यापेक्षया तादात्म्योपहितसत्ताया: स्वरूपतो गुरुत्वादिति भावः । सति प्रमाणे गौरवं न बाधकमित्यत आह मानाभावाच्चेति । सन् घट इत्यत्र घटतादात्म्यमेव विषय: नतु घटसत्ता दात्म्योपहिता सत्ता, घटं प्रति सत: सत्तादात्म्योपहितसत्तात्वेन हेतुताकल्पनस्य सत्तादात्म्योपहितसत्ताया अतिरिक्ताया अभावेनासंभवात् केवलतादात्म्येन घटं प्रति सत: उपादानकारणत्वस्य च अवश्यं वाच्य त्वेन उक्तप्रतीते: तादात्म्यविषयकत्वसिद्धौ तदविशेषात् कपालं घट इत्यत्रापि तस्यैव विषयत्वसंभवात् उक्तसत्ताविषयकत्वे न प्रमाणमस्तीति भावः । प्रकृतमाह तस्मादिति। उक्तरीत्येति । भेदसामानाधिकर ण्योपलक्षिताभेदविषयतायामुक्तदोषाभावादित्याद्युक्तरीत्येत्यर्थः। अविरोधादिकमित्यादिपदेन सामानाधि- करण्यप्रत्यये तयोर्विषयत्वं ग्राह्यम्। वेदान्तसिद्धान्ते तु भेदाभेदयोरविरोधः प्रकारान्तरेणापि वक्तुं शक्य इत्याह वेदान्तदर्शनेत्विति । मूले वक्ष्यमाण इति। द्वितीय- अद्वैतसिद्धिः सव्याख्या 129 अद्वैतसिद्धिः भेदाभेदवादिप्रयोगे तार्किकाद्यङ्गीकृतस्य भिन्नत्वस्य सिद्धावपि उद्देश्यप्रतीत्यसिद्धेर्यथा न सिद्धसाधनं, तथा प्रकृतेऽपि मिलितप्रतीतेरुद्देश्यत्वान्न सिद्धसाधनम् । यथा च तत्त्वाभेदे घट: कुम्भ इति सामानाधिकरण्यप्रतीतेरदर्शनेन मिलितसिद्धिरुद्देश्या, तथा प्रकृतेऽपि सत्त्वरहिते लघुचन्द्रिका गुण्यादिभेदस्य विचारेण मिथ्यात्वनिश्चयात्तादृशभेद: प्रातीतिकः, अभेदस्तु व्यावहारिकः, अतो भिन्नसत्ताकत्वेन तयोरविरोध इत्यादियुक्तिरपि बोध्या। भेदाभेदवादीति। भाट्टसांख्यपातंजला . दिभि: तार्किकादीन् प्रति क्रियमाणे न्यायप्रयोगे। भिन्नत्वस्य गुणगुण्याद्योर्भिन्नत्वस्य। सिद्धौ निश्चितत्वे । उद्देश्यप्रतीते: उक्तप्रयोगतात्पर्यविषयीभूताया: गुणादौ गुण्यादेर्भेदाभेदोभयवत्ता प्रतीतेरित्यर्थः। प्रकृते उक्तमिथ्यात्वसाधकन्यायप्रयोगे। मिलितप्रतीते: सदसद्भेदादिरूपोभय- वत्ताप्रतीतेः। तथाचोभयत्वरूपेणानुमितौ प्रत्येकरूपेण सिद्धेरप्रतिबन्धकत्वात् नोक्तदोष इति भावः। ननु-दृश्यत्वस्य सदन्यसकलनिष्ठत्वेन सदन्यत्वमात्रस्य दृश्यत्वोपपादकत्वेन तदेव साध्यताम्- इत्यत आह-यथाचेत्यादि। अभेदे अत्यन्ताभेदे। सामानाधिकरण्येति। प्रकाशः मिथ्यात्वे “स्वाप्नार्थस्य स्वाप्ननिषेधेन बाधदर्शनात्" इत्यनेनेति भावः । ननु मूल एव “भिन्नसत्ताकयो- रविरोधेऽपि समसत्ताकयोर्विरोधात्" इत्यनेन समसत्ताकयोर्विरोधस्यैव वक्ष्यमाणत्वेन भिन्नसत्ताकयोरेव प्रपंचतदभावयोरविरोध इति चेत् प्रकृतेऽपि तथैवास्त्वित्याह अथवेति। विचारेणेति । घटादिकं कपाला. दिभ्यो वस्तुतो न भिद्यते तेभ्यो भिन्नत्वेनानुपलम्भात् अन्वयेन कपालादिवत् व्यतिरेकेण पटादिवत् इत्यनुमानेनेत्यर्थः । प्रातीतिक इति। प्रतीतिश्च कपालं घट इत्याकारिका सामानाधिकरण्यप्रतीतिरेव, तत्र भेदभानस्योपपादितत्वात् । इत्यादियुक्तिरपीति । आदिपदेन भेदत्वभेदाभावत्वाभ्यामेव भेदाभेदयो विरोध: नतु भेदत्वतादात्म्यत्वाभ्यामिति युक्तिमा॑ह्या । भेदाभेदवादिप्रयोगे इत्यत्र भेदाभेदवादिन: के, प्रयोगो नाम कः इति जिज्ञासायामाह भेदेति। गुणगुण्याद्योरिति । गुणाद्यनुयोगिकस्य गुण्यादिप्रतियोगिकस्य चेत्यर्थः । उद्देश्यपदस्यार्थमाह उक्तप्रयोगतात्पर्यविषयीभूताया इति । प्रतीतेर्विषयमाह गुणादाविति। ननु सद्भेदत्वा- दिप्रत्येकरूपेण उभयवत्तानुमितिं प्रत्यपि प्रत्येकरूपेण सिद्धेः प्रतिबन्धकत्वात् सिद्धसाधनं स्यादेवेत्यत आह तथाचेति । अप्रतिबन्धकत्वादिति । तद्धर्मावच्छिन्नवत्तानुमितिं प्रति तद्धर्मावच्छिन्नवत्तानिश्चयस्यैव प्रतिबन्धकत्वादिति भावः । उक्तदोष:= सिद्धसाधनरूपो दोषः । असद्भेदस्य साध्यशरीरे प्रवेशानुपपत्ति- माशंकते नन्विति । दृश्यत्वस्य दृश्यत्वरूपहेतोः। सदन्यसकलनिष्ठत्वेनेति। सदन्यस्मिन्नेव सर्वत्र विद्य- मानत्वेनेत्यर्थः । सद्रूपशुद्धब्रह्मण्यसत्वेनेति यावत्। एवं च दृश्यत्वे सदन्यत्वाभाववदवृत्तित्वरूपव्याप्यता. लाभात् सदन्यत्वस्य दृश्यत्वोपपादकत्वोक्ति: संगच्छते ; व्यापकस्य व्याप्योपपादकत्वात्। मूले तत्वा- भेद इति । स्वरूपाभेद इत्यर्थः । गुणगुण्याद्योरभेदे सत्यपि सामानाधिकरण्यप्रतीतेर्दर्शनाददर्शनेनेत्ययुक्त- - । ।

130 प्रकाशव्याख्यासहितलधुचन्द्रिकायुता अद्वैतसिद्धिः तुच्छे दृश्यत्वादर्शनेन मिलितस्य तत्प्रयोजकतया मिलितसिद्धिरुद्देश्येति समानम् । अत एव लघुचन्द्रिका भेदसामानाधिकरणाभेदसंसर्गविषयकेत्यर्थः। मिलितस्य तत्प्रयोजकतयेति। उभयत्वविशिष्टस्य दृश्यत्वोपपादकतयेत्यर्थः । यथा 'सामानाधिकरण्यप्रतीतिविशेष्यत्वं यधुभयं विनाऽपि,स्यात् तदा घटकुम्भयोरपि घटपटयोरपि वा स्या'दिति तर्केण व्याप्तिग्रहादुभयं हेतूपपादकम्, तथा 'दृश्यत्वं यद्युभयं विनाऽपि स्यात्, तदा तुच्छेऽपि ब्रह्मण्यपि वा स्या'दिति तर्केण व्याप्तिग्रहादुभयं तथेति भावः। ननु- उभयस्योपपादकत्वेऽपि प्रत्येकरूपेणैव साध्यतास्तु, यदि भिन्नं न स्यात् तदा सामानाधिकृतं न स्या'दित्यादेर्दृष्टान्ते, 'यदि सत्स्यात् तदा दृश्यं न स्या'दित्यादे: दार्टान्तिके च प्रकाशः मित्यत आह टीकायां अत्यन्ताभेद इति। गुणगुण्याद्योस्तु नात्यन्ताभेद इति भावः । उभयत्वविशिष्ट स्येति। सद्भेदासद्भेदोभयत्वविशिष्टस्येत्यर्थः। तेन सदन्यत्वमात्रस्य दृश्यत्वोपपादकत्वे तस्य असत्यपि सत्वेन तत्रापि दृश्यत्वं स्यादिति सूचितम्। ननु सद्भेदासद्भेदोभयत्वावच्छिन्नं प्रति व्याप्यत्वे सत्येव व्यापकीभूतोभयत्वावच्छिन्नस्य दृश्यत्वप्रयोजकतारूपा तदुपपादकता संभवति, परन्तु तादृशव्याप्यत्व मेव दुर्ग्रहं, अनुकूलतर्काभावेन व्यभिचारशङ्काया दुरुद्धरत्वादित्यत आह यथेति । सामानाधिकरण्येति । घटप्रकारकभेदसमानाधिकरणाभेदरूपसंसर्गकेत्यर्थः । उभयं विनापि स्यादिति । घटप्रतियोगिकभेदाभेदो. भयाभाववद्वृत्तिं स्यादित्यर्थः । घटकुम्भयोरपि स्यादिति । कुम्भवृत्ति स्यादित्यर्थः । घटपटयोरपि वा स्या- दिति। पटवृत्त्यपि वा स्यादित्यर्थः। एवं च यदि घटीयभेदसमानाधिकरणाभेदसंबन्धेन घटप्रकारकप्रतीति. विशेष्यत्वं घटीयभेदाभेदोभयाभाववद्वृत्ति स्यात् तर्हि कुम्भवृत्ति स्यात्, इत्येकस्तर्कः, तथा यदि उक्त. प्रतीतिविशेष्यत्वं उक्ताभाववद्वृत्ति स्यात् तर्हि पटवृत्ति स्यादित्यपरस्तर्क इति आपाद्यभेदेन तर्कद्वयमिति भावः । व्याप्तिग्रहादिति । उक्तताभ्यां व्यभिचारशंकाया उच्छेदादिति भावः। उभयं विनापि स्यात् सद्भेदासतेंदोभयाभाववद्वृत्ति स्यात्। तुच्छेपि स्यात् तुच्छवृत्त्यपि स्यात्। ब्रह्मण्यपि वा स्यात् ब्रह्म- वृत्त्यपि वा स्यात्। एवं च दृश्यत्वं यदि सद्भेदासद्भेदोभयाभाववद्वृत्ति स्यात्तदा तुच्छवृत्ति स्यात्, एवं तत् यदि उक्तोभयाभाववद्वृत्ति स्यात्तदा ब्रह्मवृत्ति स्यादिति दार्टान्तिकेऽपि आपाद्यभेदेन तर्कद्वयमिति भावः । तथेति। दृश्यत्वरूपहेतूपपादकमित्यर्थः । तथा च सदन्यत्वमात्रस्य दृश्यत्वरूपहेत्वनुपपादकत्वेन साध्यत्वं न संगच्छत इति भावः । उक्तोभयत्वरूपेण साध्यता मास्तु गौरवात् किन्तु प्रत्येकरूपेण साऽस्त्विति शंकते नन्विति। ननु तर्काभावेन व्याप्तिग्रहाभावान प्रत्येकरूपेण साध्यतासंभव इत्यत आह यदीत्यादि। भिन्नं न स्यादिति। घटादेरित्यादिः। नीलादिकं पक्षः। आदिपदेन अभिन्नं न स्यादित्याद्यभेदाभावापादककतर्क- संग्रहः। सत्स्यादिति । अत्रापि इत्यादेरित्यनेन असत्स्यादित्याद्यसदापादककतर्कसंग्रहः। ततश्च नीला- दिकं यदि घटादिभिन्न न स्यात्तदा घटादिसमानाधिकृतं न स्यात् यदि तत् तदभिन्नं नस्यात्तदा तत्समानाधि.

अद्वैतसिद्धिः सव्याख्या 131 - - लघुचन्द्रिका प्रत्येकरूपेण व्याप्तिग्राहकस्य तर्कस्य संभवात्। नच-उभयत्वेन रूपेणैकस्यामनुमितौ लाघवा न्यायप्रयोगोऽप्युभयत्वेनैवेति-वाच्यम्; न्यायप्रयोगोत्तरं प्रत्येकांशाप्रयोजकत्वे वादिना शङ्किते प्रत्येकांशतर्कोपन्यासक्रमेण प्रत्येकानुमित्योरुत्पादेन लाघवानवकाशात्-इति चेन; प्रत्येकानुमि त्योरुत्पादेऽपि तयोः न्यायवाक्यतात्पर्याविषयत्वेनोभयत्वावच्छिन्नविधेयकानुमितरेवोक्तवाक्य तात्पर्यविषयत्वरूपोद्देश्यत्वेन लाघवानपायात्। नच- भेदाभेदवत्' ‘सदसद्भिन्न' मित्येव प्रयोगो ऽस्तु भेदाभेदोभयवत्' ‘सदसद्भेदोभयवदिति प्रयोगे गौरवादिति-वाच्यम्; सिद्धसाधनदोषस्यो - क्तत्वेनोक्तलाघवस्यासंभवात्। अतएव वाङ्मनसे अनित्ये इति समूहालम्बनानुमितिमात्रे सिद्धि - - - प्रकाशः कृतं न स्यात् इति दृष्टान्ते तर्कद्वयम् । दार्टान्तिके च यदि घटादिकं सद्भिन्नं न स्यात्तदा दृश्यं न स्यात् यदि असद्भिन्नं न स्यात्तदा दृश्यं न स्यादिति च तर्कद्वयमिति भाव: । एवं च दृष्टान्ते नीलादिकं घटादिभिन्नं समानाधिकृतत्वात् नीलादिकं घटाद्यभिन्नं समानाधिकृतत्वात् इत्यनुमानद्वयेन क्रमश: नीलादौ घटादि. भेदाभेदयो:सिद्धिः, दार्टान्तिके च विमतं सद्भिन्नं दृश्यत्वात् विमतमसद्भिन्नं दृश्यत्वात् इत्यनुमानद्वयेन दृश्यप्रपंचे सद्भेदासद्भेदयो: सिद्धिरिति, अर्थादेव भेदाभेदयो: सिद्धौ व्यर्थमुभयत्वावच्छिन्नसाध्यकानुमा. नानुसरणमिति शंकितुराशयः। तत्र शंकते नचेति। लाघवादिति। उभयविषयकानुमितिव्यक्तेरेकत्वेन प्रत्येकसाध्यकानुमितिद्वयापेक्षया लाघवादिति भावः । तेन च पूर्वोक्तं गौरवमयुक्तमिति सूचितम्। न्याय- प्रयोगोऽपीति। अनुमितिन्यायप्रयोगयोः समानविषयकत्वस्य आवश्यकत्वादिति भावः। पूर्ववादी समाधत्ते न्यायप्रयोगोत्तरमिति। उभयत्वावच्छिन्नसाध्यकन्यायप्रयोगोत्तरमित्यर्थः। प्रत्येकांशाप्रयोजक- त्व इति । समानाधिकृतत्वमस्तु भेदो वा अभेदो वा मास्त्विति दृष्टान्ते, दृश्यत्वमस्तु सद्भेद: असद्भेदो वा मास्त्विति दार्शन्तिके च शंकायां कृतायामिति भावः। उत्पादेनेति । उत्पादस्य अनिवारणादिति भावः । सिद्धान्ती समाधत्ते नेति। न्यायवाक्येति। उभयत्वावच्छिन्नसाध्यकेत्यादिः। तात्पर्याविषयत्वेनेति । सत्वात्यन्ताभावासत्वात्यन्ताभावोभयत्वावच्छिन्नस्य साध्यतायामाशंकितदोषपरिहारार्थं सद्भेदासद्भेदो. भयत्वावच्छिन्नस्यैव साध्यत्वेन विवक्षणान्न प्रत्येकानुमित्योायवाक्यतात्पर्यविषयतेत्यर्थः। उत्पादेपी. त्यपिकारेण उभयत्वावच्छिन्नसाध्यकन्यायप्रयोगस्थले प्रत्येकांशाप्रयोजकत्वादिशंकातन्निवर्तक तर्कयो: कथक संप्रदाय विरुद्धत्वेन प्रत्येकानुमित्योरुत्पादो नास्तीति सूचितम् । उक्तवाक्येति न्यायवाक्येत्यर्थः । उद्देश्यत्वेनेति । अनुद्देश्यानुमित्या अर्थसिद्धिस्तु न प्रतिवादिविजयाय प्रभवतीति भाव: । लाघवानपाया . दिति। प्रत्येकरूपेण न्यायद्वयप्रयोगमन्तरा प्रत्येकानुमित्योरुद्देश्यत्वस्यैवासंभवादिति भावः। शंकते नचेति । भेदाभेदवदिति । तथाच दृष्टान्ते घटीयभेदत्वाभेदत्वरूपप्रत्येकधर्मावच्छिन्नोभयसाध्यकैकसमूहा. लम्बनानुमिते: दार्टान्तिके च सद्भिन्नत्वासद्भिन्नत्वरूपप्रत्येकधर्मावच्छिन्नोभयसाध्यकसमूहालम्बनानुमिते. रुद्देश्यत्वेन सिषाधयिषितार्थसाधकत्वेन तयैव वादिविजयसिद्धौ उभयत्वावच्छिन्नसाध्यकन्यायप्रयोगे प्रयोजनाभाव: पदगौरवं चेति भावः । समाधत्ते सिद्धसाधनदोषस्येति । उक्तलाघवस्य पदन्यूनतारूप - 132 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता - अद्वैतसिद्धिः सत्त्वात्यन्ताभाववत्वे सत्यसत्त्वात्यन्ताभावरूपं विशिष्टं साध्यमित्यपि साधु । न च मिलितस्य विशिष्टस्य वा साध्यत्वे तस्य कुत्राप्यप्रसिद्ध्या अप्रसिद्धविशेषणत्वं,प्रत्येक सिद्ध्या मिलितस्य विशिष्टस्य वा साधने , शशशृङ्गयो: प्रत्येकं प्रसिद्ध्या शशीयशृङ्ग साधनमपि स्यादिति - वाच्यम् ; तथाविधप्रसिद्धेः शुक्तिरूप्य एवोक्तत्वात्। लघुचन्द्रिका सत्त्वेऽपि न जायत एवेति नव्यतार्किता:। अप्रसिद्धविशेषणत्वं विशिष्टस्य साध्यत्वे साध्य विशेषणाप्रसिद्धि: । उभयस्य साध्यत्वे तु साध्यरूपविशेषणस्य क्वाप्यप्रमितत्वमन्वयदृष्टान्ताभावेन व्याप्त्यग्रहपर्यवसितदोषः। शशीयशृङ्गेति- ननु-विशिष्टस्य साधने दूषणमिदम्, मिलितस्य साधने तु दूषणं नोक्तमिति न्यूनतेति-चेन्न; शशीयशृङ्गसाधनमित्यस्यैव हि द्वावाँ; शशीयत्वविशिष्ट- शृङ्गस्य संयोगादिसंबन्धेन साधनमित्येकः; शशीयं शृङ्गं चेति द्वयोस्तादात्म्यसंबन्धेन साधनमि त्यन्यः। तथाच तादात्म्यसंबन्धेन तदुभयस्य क्वाप्यज्ञातत्वेन साध्याप्रसिद्ध्या उभयसाधनेऽपि दूषणमेतदेवेति प्रकाश: लाघवस्य । असंभवादिति। अकिंचित्करत्वादित्यर्थः । ननु एकैकसिद्धेन्यूनविषयकत्वेन समूहालम्बनानु मितिप्रतिबन्धकत्वाभावात्कथं सिद्धसाधनतेत्यत आह अत एवेति। न जायत एवेति। शुद्धतद्धर्माव च्छिन्नोद्देश्यकशुद्धतद्धर्मावच्छिन्नविधेयकशुद्धतत्संसर्गकानुमितित्वरूपस्य तद्धर्मावच्छिन्नविशेष्यक तद्धर्मावच्छिन्नप्रकारकतत्सर्गकसिद्धिप्रतिबध्यतावच्छेदकस्य समूहालम्बनानुमितावपि सत्वेन तस्याः उक्तसिद्धिप्रतिबध्यत्वावश्यंभावादिति भावः । मूलोक्तमप्रसिद्धविशेषणत्वं मिलितस्य साध्यत्वे न संगच्छत इत्याशंक्य विशिष्टसाध्यकोभयसाध्यकस्थलद्वयसाधारण्येन व्याचष्टे विशिष्टस्य साध्यत्व इति। साध्य विशेषणाप्रसिद्धिरिति । असत्वात्यन्ताभावरूपसाध्ये सत्वात्यन्ताभावसामानाधिकरण्यरूपविशेषणस्या प्रसिद्धिरित्यर्थ: । साध्यरूपविशेषणस्येति। सत्वात्यन्ताभावासत्वात्यन्ताभावोभयत्वावच्छिन्नस्य सद्भेदा सद्भेदोभयत्वावच्छिन्नस्य वेत्यर्थः । ननु कीदृशोऽयं दोष इत्यत आह अन्वयदृष्टान्ताभावेनेति । तथा च मूलगतविशेषणपदस्य साध्यं प्रति विशेषणमिति साध्यरूपं विशेषणमिति च अर्थ इति सूचितम् । ननु एकत्र सत्वात्यन्ताभावादेरप्रसिद्धत्वेऽपि पृथिवी इतरभिन्ना पृथिवीत्वादित्यत्र पृथिवीतरजलादिप्रति : योगिकत्रयोदशभेदानामिव अत्र सत्वात्यन्ताभावस्य सद्भेदस्य वा तुच्छे, असत्वात्यन्ताभावस्य असद्भेदस्य वा ब्रह्मणि प्रसिद्धत्वेन नाप्रसिद्धविशेषणतेत्याशंक्य दूषयति मूले प्रत्येकं प्रसिद्धयेत्यादिना। मिलितविशिष्टसाध्यपक्षयोर्दूषणं शशीयशृजेत्यनेनोक्तं वेधा तत्पदव्याख्यानेन योजयितुं शंकते टीकायां नन्विति । दूषणं नोक्तमिति । शशीयशृङ्गपदेन शशीयत्वविशिष्टशृङ्गस्यैव बोधनादुभयोरबोधनादिति भावः । तथाच शशीयशृंगमित्यस्य उक्तार्थद्वयसिद्धौ च । तदुभयस्येति। तादात्म्यसंबन्धेन शशीयं शशलोमादौ प्रसिद्ध, शृंगं च गवादौ, तदुभयन्तूक्तसंबन्धेन न क्वापीति भावः। ननु ब्रह्मणो निर्धर्मकत्वं अद्वैतसिद्धिः सव्याख्या 133 नच- निर्धर्मकत्वात् ब्रह्मण: सत्त्वासत्त्वरूपधर्मद्वयशून्यत्वेन तत्रातिव्याप्तिः; लघुचन्द्रिका भावः। निर्धर्मकत्वादित्यादि। सत्त्वादिधर्माणां तदुपहिते एव ब्रह्मणि संबन्धः, नतु शुद्धे धर्मधर्मिणोस्तादात्म्यस्वीकारेण तत्त्वज्ञानेन धर्माणां नाशे धर्मिणोऽपि नाशापत्तेः। अथ-धर्मिसमान- सत्ताकधर्मनाशे सत्येव धर्मिणो नाश:, आरोपितस्य वास्तवधर्मत्वाभावेन तन्नाशेऽपि न धर्मिनाश:, तर्हि शुद्धस्य सत्त्वेऽपि कैवल्ये तत्र धर्माप्रत्ययाच्छुद्धे धर्मो न स्वीक्रियते। तदुक्त माचार्यै:- 'रागेच्छासुखदुःखादिबुद्धौ सत्यां प्रवर्तते। सुषुप्तौ नास्ति तन्नाशे तस्माद्बुद्धस्तु नात्मनः।।' इति । तस्माद्यथा शुद्धस्य स्वप्रकाशत्वेन न वृत्तिज्ञानविषयत्वादिकं, किंतु तदुपहित एव ब्रह्मणीति वाचस्पतिसंमतं, तथोक्तयुक्तेः सत्त्वादिधर्मसंबन्धस्तदुपहित एव ब्रह्मणीति सत्त्वादिधर्माभावघटित मिथ्यात्वलक्षणं शुद्धब्रह्मण्यतिव्याप्तमिति भावः। सद्रूपत्वेन बाध्यत्वाभाववत्वेन। प्रकाशः कथं, सदेवेत्यादिश्रुत्या तत्र सत्वादिधर्माणां प्रतीतेरित्यत आह सत्वादिधर्माणामिति । तदुपहिते- सत्वादिधर्मोपहिते। ननु शुद्ध एव ब्रह्मणि सत्वादिधर्माः स्वीक्रियन्तामित्यत आह धर्मधर्मिणोरिति। धर्मिणोऽपि नाशापत्तेरिति । न च उपहिते धर्मस्वीकारपक्षेऽप्येतद्दोषतादवस्थ्यमिति शंक्यम्, धर्मविशिष्ट - रूपेण तन्नाशस्येष्टत्वात्। धर्मिणोऽपीति। ब्रह्मरूपधर्मिणोऽपीत्यर्थः। धर्मसामान्यनाशे न धर्मिनाश:, किन्तु धर्मविशेषनाशे इत्याशंकते अथेति । धर्मिसमानसत्ताकेति । इदं च तादात्म्यसंबन्धेन धर्मधर्मिभाव - स्थल एव। यथा नीलत्वावच्छिन्न नाशे नील घटनाश:। न च घटस्य तादात्म्येन मृद्धर्मस्य नाशेऽपि मृद: अनाशान्नायं नियम इति शंक्यम्। घटोपहितमृद एव घटधर्मित्वेन घट नाशे तन्नाशावश्यंभावात्। संयोगादिसंबन्धेन धर्मधर्मिभावस्थले तु नायं नियम: । घटरूपधर्मनाशेऽपि धर्मिणो भूतलस्यानाशात्। आरोपितस्येति। शंखादावारोपितस्य पीतत्वादे शेऽपि शंखादेरनाशादिति भावः। समाधत्ते तहीति । शुद्धस्य सत्वेपीत्यादि । कैवल्यदशायां शुद्धस्य ब्रह्मण: वर्तमान त्वेऽपि तत्र शुद्धे ब्रह्मणि धर्माप्रतीतेरि - त्यर्थः । शुद्ध धर्माभावे मूलकारसम्मतिमाह तदुक्तमिति । आचार्यै: श्रीमधुसूदनसरस्वतीभिः । दुःखादी - त्यन्तं कर्तृवाचकं पदम्। प्रवर्तते- जायते। सुषुप्तौ= सुषुप्त्यवस्थायाम्। तन्नाशे बुद्धेर्विलये। नास्तीति। दुःखादीत्यन्तमनुषज्यते। अत्र सुषुप्ताविति दृष्टान्त:, कैवल्य इति दार्टान्तिकं बोध्यम्। तस्मात्- बुद्धौ सत्यां जायमानत्वात् बुद्धिविलये असत्वात्। बुद्धेस्त्विति। बुद्धेः बुद्ध्युपहितस्य चेत्यर्थः । न आत्मन:= न शुद्धात्मसंबन्धि। नन्विदं प्राचीनाचार्यसम्मतं नेत्यत आह तस्माद्यथेति। वाचस्पतिसंमतमिति । उक्तं हि भामत्यां अस्मत्प्रत्ययविषयत्वादिति भाष्यवाक्यव्याख्यान सन्दर्भ ‘सत्यं प्रत्यगात्मा स्वयंप्रकाशत्वाद विषयोऽपि अस्मत्प्रत्ययविषय इवे' ति। उक्तयुक्तेरिति। कैवल्ये तत्र धर्माप्रत्ययरूपयुक्तरित्यर्थः । शुद्धब्रह्मणि सत्वादिधर्माभावे किमायातमित्यत आह सत्वादिधर्माभावघटितेति । ननु सद्रूपेऽपि ब्रह्मणि 134 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका तथाच भावरूपधर्मानाश्रयत्वेऽपि ब्रह्मणो बाध्यत्वादिशून्यत्वरूपाभावरूपधर्माश्रयत्वात् नाति व्याप्तिः। नच-उक्ताभावस्य ब्रह्मरूपाधिकरणस्वरूपत्वेन तदभावो ब्रह्मण्यस्त्येवेति-वाच्यम्; उक्ताभावत्वविशिष्टरूपेण ब्रह्मणि तादात्म्यस्येव भेदस्यापि सत्त्वेन तत्रोक्ताभाववैशिष्ट्यस्यैव संभवेन तदभावासंभवात्। तादात्म्यमेव हि अभावस्याधिकरणे वैशिष्ट्यं भट्टमते स्वीक्रियते। उक्तं हि न्यायकुसुमांजलौ-'तादात्म्यमेव परस्य मते अभावाधिकरणयो: संबन्ध'इति। परस्य भट्टस्येति तत्र वर्धमानटीका। नच-एवमभावाधिकरणयोराधाराधेयभावानुपपत्तिरिति-वाच्यम्; संयोगस्येव तादात्म्यस्यापि कस्यचिदाधारतानियामकत्वस्वीकारात्; घटाभावे घटो नास्तीत्यादौ सर्वैरपि तथा प्रकाश: - सत्वादिधर्माभावात् कुतो नातिव्याप्तिरित्यतो व्याचष्टे बाध्यत्वाभाववत्वेनेति। तथाच सत्वं नाम बाध्यत्वाभाववत्वमेव न तु कश्चिद्रावरूपो धर्म इति भावः। ननु निर्धर्मके ब्रह्मणि तादृशसत्वमपि कथमित्यत आह तथाचेति। आश्रयत्वात् आश्रयत्वोपगमादित्यर्थः । नातिव्याप्तिरिति । तादृशसत्वा भावस्य तत्राभावादित्यादिः। तादृशसत्वाभावघटितत्वान्मिथ्यात्वलक्षणस्येति भावः। शंकते नचेति। अधिकरणस्वरूपत्वेनेति । अभावस्य अधिकरणस्वरूपत्वाभ्युपगमादिति भावः । तथाच अभेदे आधा राधेयभावविरहात् उक्तभावरूपप्रतियोग्यधिकरणताविरोधिनो ब्रह्मण्यभावान्न तदभावसत्वे बाधकमिति भावः। अस्त्येवेति। तथाचातिव्याप्तितादवस्थ्यमिति भावः। समाधत्ते उक्ताभावत्वेति। विशिष्ट रूपेणेति। उक्ताभावत्वोपलक्षितरूपेणैव ब्रह्मरूपाधिकरणस्वरूपत्वमिति भावः। तादात्म्यस्य अभेदस्य। अन्यथा ब्रह्म अबाध्यमिति प्रत्ययस्य सदेवेत्यादिश्रुतेश्चानुपपत्तेरिति भावः। भेदस्यापि सत्वेनेति। विशिष्टबुद्धौ भेदभानस्य व्यवस्थापितत्वादिति भावः। उक्ताभाववैशिष्ट्यस्येति । बाध्यत्वाभावत्व विशिष्टवत्वस्येत्यर्थः। बाध्यत्वाभावत्वरूपं यत् प्रतियोगितावच्छेदकं तदवच्छिन्नाधेयतानिरूपिताधि- करणताया इति यावत्। एवं चाभावत्वोपलक्षितस्य ब्रह्मात्यन्ताभेदेन तन्निरूपिताधिकरणताया ब्रह्मण्यभावेऽपि न दोषः। प्रतियोगितावच्छेदकावच्छिन्नाधेयतानिरूपिताधिकरणताया एव अभाव विरोधित्वेन तद्वति ब्रह्मणि बाध्यत्वाभावाभावस्यासंभवादिति भावः। ननु उक्ताभावत्वविशिष्टस्य न ब्रह्मणि तादात्म्यं संबन्धः, अभावस्य अधिकरणेन साकं स्वरूपमेव संबन्ध इति सर्वैरुपगमादित्यत आह तादात्म्यमेवेति। भट्टमत इति । ननु भट्टमतमेवेति कुत इत्यत आह उक्तं हीति। नन्वत्र परस्य मते इत्येवोक्तं न भट्टमत इतीत्यत आह परस्य भट्टस्येति तत्र वर्धमानटीकेति। शंकते न चेति । एवं तादात्म्यस्याभाव संबन्धत्वे। आधाराधेयभावानुपपत्तिरिति। तादत्म्यसामान्यस्य वृत्त्यनियामकसंबन्धत्वादिति भावः । समाधत्ते संयोगस्येवेति। अत्रायमाशयः। यथा संयोगसामान्यं न वृत्तिनियामकं अंगुलीद्वयादिसंयोगस्य वृत्त्यनियामकत्वात् अन्यथा संयुक्तांगुलीसामान्यस्य आधाराधेयभावप्रतीत्यापत्तेः। नापि वृत्त्यनियामकं, घटभूतलादिसंयोगस्य वृत्तिनियामकत्वात्, अन्यथा भूतले संयोगेन घट इति प्रतीत्यनुपपत्तेः। तथा तादात्म्यसामान्यं न वृत्तिनियामकं, घटे घटतादात्म्यस्य वृत्त्यनियामकत्वात्, नापि वृत्त्यनियामक, तत्रैव ।

अद्वैतसिद्धिः सव्याख्या 135 - लघुचन्द्रिका वाच्यत्वात्। अतएव घटे रूपमित्यादौ रूपत्वादिरूपेण तादात्म्येनैवाधारता, संबन्धान्तरा स्वीकारात्, एतदभिप्रायेण द्वितीयमिथ्यात्वप्रस्तावान्ते आचार्यैर्वक्ष्यते-'ब्रह्मणो भावरूपधर्माना . श्रयत्वेऽप्यभावरूपधर्माश्रयत्वेन सत्यत्वादिधर्मवत्त्वमिति'-इति ध्येयम्। नच मिथ्यात्वमेव बाध्यत्वम् तथाचात्माश्रय इति- वाच्यम्; ज्ञाननिवर्त्यत्वरूपबाध्यत्वस्य प्रकृते निविष्टत्वेन सदसद्विलक्षणत्वरूपबाध्यत्वस्याभावानिवेशात्। ननु- ज्ञानानिवर्त्यत्वरूपसत्त्वाभावस्य निवेशे असत्त्वाभावस्य वैयर्थ्यम्, असत्त्वाभावस्यैव विशेष्यतया लक्षणे निवेशेन धूमप्रागभावदवैयर्थेऽपि सत्त्वाभावविशिष्टत्वरूपेणैव लक्षणत्वमुचितम्, नतु सत्त्वाभावविशिष्टासत्त्वाभावत्वेन, प्रकाशः रूपादितादात्म्यस्य वृत्तिनियामकत्वादिति । सर्वैरपीति। तत्र तादात्म्यभिन्नस्वरूप संबन्धस्य दुर्वचत्वा दिति भावः। अत्र च विशिष्टधीप्रयोजकभेद: स्वरूपसंबन्धवादिभिरपि कथंचिद्वक्तव्य एव, अन्यथा विशिष्टधिय एव असंभवात् । सच घटप्रतियोगिकाभावत्वघटविरोध्यभावत्वाभ्यां पूर्वमुक्त एवेति ध्येयम्। तथेति। तादात्म्यस्य आधारतानियामकत्वस्येत्यर्थः । ननु तादात्म्यं विशेष्यविशेषणस्वरूपाभ्यामतिरिक्तं, स्वरूपसंबन्धस्तु घटाभावादेः कालविशेषावच्छिन्नभूतलादिरूपविशेष्यमेवेति वक्तुं शक्यम्, अत आह अत एवेति । तादात्म्यस्य आधारतानियामकत्वादेवेत्यर्थः । ननु घटरूपाद्यो;संबन्धः समवायोऽस्त्वित्यत आह संबन्धान्तरेति। उक्तमर्थं मूलकारसंमत्या द्रढयति एतदभिप्रायेणेति। तादात्म्यस्याधारता- नियामकत्वेन तेन संबन्धेन बाध्यत्वाभावरूपधर्माश्रयत्वाभिप्रायेणेत्यर्थः। मिथ्यात्वशरीरप्रविष्टं सत्वं बाध्यत्वाभावरूपमित्युक्तम्, तत्र शंकते नचेति। बाध्यत्वाभावरूपसत्वाभावस्य उक्तोभयघटकस्य बाध्यत्वरूपमिथ्यात्वघटितत्वेन बाध्यत्वज्ञानं विना तद्धटितोक्तोभयवत्वज्ञानं न संभवतीति ज्ञप्तावात्मा- श्रय इति भावः। समाधत्ते ज्ञाननिवर्त्यत्वरूपेति। प्रकृते= प्रकृतमिथ्यात्वशरीरे। बाध्यत्वाभावरूपसत्व प्रतियोगित्वेनेति शेष:। अनिवेशादिति। तथाच ज्ञाननिवर्त्यत्वाभावरूपसत्वात्यन्ताभावासत्वात्यन्ता- भावोभयत्वावच्छिन्नस्यैव साध्यत्वेन तत्र सदसद्विलक्षणत्वरूबाध्यत्वस्य अप्रविष्टत्वान्नात्माश्रय इति भावः । तत्र शंकते नन्विति। ज्ञानानिवर्त्यत्वेति । ज्ञानानिवर्त्यत्वरूपं यत्सत्वं तदभावस्येत्यर्थ: । वैयर्थ्य- मिति। तुच्छस्य ज्ञानानिवर्त्यत्वेन तदभावनिवेशेनैव तुच्छव्यावृत्तिसंभवादिति भावः। ननु सामानाधि- करण्यसंबन्धेन ज्ञानानिवर्त्यत्वरूपसत्वाभावविशिष्टः य: असत्वाभाव: स एव प्रकृतमिथ्यात्वम्। तत्र च ज्ञाना निवर्त्यत्वाभावरूपविशेषणांशस्यैव मिथ्यात्वरूपत्वसंभवेऽपि न असत्वाभावरूपविशेष्यस्य वैयर्थ्य ज्ञानानिवर्त्यत्वाभावापेक्षया असत्वाभावस्य भिन्नत्वात् धूमप्रागभावं प्रति विशेषणीभूतस्य धूमस्य वह्निसाधने हेतुत्वसंभवेऽपि धूमप्रागभावस्य अवैयर्थ्यमिवेत्याशंक्याह असत्वाभावस्यैवेत्यादिना। सद- सत्वानधिकरणत्व मनिर्वाच्यत्वमित्यनेन असत्वाभावस्य विशेष्यतया निर्देशादिति भावः। असत्वाभाव- त्वेनेति। गौरवात् प्रयोजनाभावाच्चेति भाव: । दृष्टान्ते तु न धूमविशिष्टत्वेन हेतुतासंभवः, धूमविशिष्टस्य यस्य कस्यचिद्धेतुतापत्तेः । नापि प्रतियोगितासंबन्धेन धूमविशिष्टत्वेन धूमान्योन्याभावादेस्तदापत्तेः। ननु 136 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका अभावद्वयत्वेन लक्षणत्वपक्षे सत्त्वाभावेतरांशवैयर्थ्यमिति-चेन्न; ज्ञानानिवर्त्यत्वरूपसत्त्वाभावत्वेन निवेशे हि तदितरांशस्य ज्ञाननिवर्त्यत्वेतरांशस्यैव वा वैशर्थ्यं भवत्येव, परंतु तथा न निवेश:; दूषणान्तरसत्त्वात् ज्ञानोच्छेद्यत्वरूपज्ञाननिवर्त्यत्वस्य वक्ष्णमाणवादिप्रतिवाद्यादिसंमतस्यैकस्या- भावेन तदभावस्यैकरूपत्वाभावात्, ज्ञानानिवर्त्यरूपसद्भेदस्य निवेशपक्षे अस्मन्मते ब्रह्ममात्र विषयकतत्तद्धीविषयत्वरूपस्यैव लाघवेनोक्तभेदप्रतियोगितावच्छेदकत्वेन ज्ञानानिवर्त्यत्वावच्छिन्न- प्रतियोगिताकभेदाप्रसिद्धेः; उक्तधीविषयत्वावच्छिन्नप्रतियोगिताकभेदनिवेशे सिद्धसाधनतापत्तेश्च, प्रकाशः उक्तविशिष्टत्वरूपेणैव असत्वाभावनिवेशोऽस्तु, तावताऽपि असत्वाभावनिवेशोक्तिसंगते:, असत्वा- भावत्वेन तन्निवेशे तात्पर्याभावादित्याशंक्य सत्वाभावासत्वाभावोभयत्वेनाभावद्वयनिवेशपक्षे असत्वा- भावनिवेशवैद्यर्थ्यं दुरुद्धरमेवेत्याह अभावद्वयत्वेनेति। सत्वाभावासत्वाभावोभयत्वरूपलक्षणतावच्छेद- कस्य सत्वाभावत्वरूप लघुलक्षणतावच्छेदकान्तरसमानाधिकरणत्वात् सत्वाभावत्वघटितत्वाच्च। उक्तो- भयत्वं उक्तोभयस्मिन्वर्तते सत्वाभावत्वमपि उभयान्तर्गतसत्वाभावे वर्तते, अत एवोभयत्वं तादृशसत्वा- भावत्वघटितमपि, यथा नीलधूमत्वं व्याप्यतावच्छेदकान्तरशुद्धधूमत्वसमानाधिकरणं तद्धटितं चेति नील- धूमत्वेन हेतुत्वे वैयर्थ्यं तद्वत् वैयर्थ्यमिति भावः। समाधत्ते नेति। उक्तरूपेण निवेशे वैयर्थ्यमङ्गीकरोति ज्ञानानिवर्त्यत्वेति। तदितरांशस्य-असत्वाभावरूपस्य। ज्ञाननिवर्त्यत्वेतरांशस्यैवेति । ज्ञाननिवर्त्यत्वा- भावरूपसत्वाभावस्य अभावाभावस्य प्रथमाभावप्रतियोगिरूपत्वाभ्युपगमेन ज्ञाननिवर्त्यत्वरूपत्वेनेति भावः। तादृशाभावस्यातिरिक्ततामते धर्म्यभेदाभावान्न वैयर्थ्यमित्यत उक्तं वेति । दूषणान्तरेति। वैयर्थ्य- भिन्नदूषणेत्यर्थः । किं तदित्यत आह ज्ञानोच्छेद्यत्वरूपेति। वक्ष्यमाणस्येति । मूले वक्ष्यमाणस्येत्यर्थः । तच्च मूलं ज्ञानप्रयुक्तावस्थितिसामान्यविरहप्रतियोगित्वं हि ज्ञाननिवर्त्यत्वम्। अवस्थितिश्च द्वेधा स्वरूपेण कारणात्मना च । सत्कार्यवादाभ्युपगमात् । तथाच ब्रह्मज्ञानं विनापि अतीतघटस्य स्वरूपेणाव- स्थितिविरहेऽपि कारणात्मना ऽवस्थितिविरहाभावात् ब्रह्मज्ञानप्रयुक्त एव स इति नातीतघटादावव्याप्ति' रिति । वादिप्रतिवाद्यादीति। वादी-वेदान्ती। प्रतिवादी माध्वादिः। प्रतिवाद्यादीत्यादिपदेन सभापत्यादिर्ग्राह्यः। एकस्याभावेनेति । सत्कार्यवादस्य मतद्वयसम्मतत्वाभावादितिभावः । तदभावस्य ज्ञाननिवर्त्यत्वाभावस्य सत्वरूपस्य । एकरूपत्वाभावादिति । सत्वस्यैकरूपत्वाभावेन तदभावस्थाप्येक- रूपत्वाभावात्तथानिवेशे मतद्वयेऽपि साध्याप्रसिद्धिरेव दूषणमिति भावः। ननु तर्हि ज्ञाननिवर्त्यत्वरूप- मिथ्यात्वसाध्यकानुमानेप्ययं दोषः, तत्र सत्कार्यवादं व्यवस्थाप्य प्रसाध्याङ्गकानुमानस्वीकारे प्रकृतेऽपि तथास्त्विति चेन्न। तत्र अगत्या तथोपगमेऽपि प्रकृते वक्ष्यमाणगत्यन्तरसत्वेन तथानुषगमात् । ज्ञाना- निवर्त्यत्वरूपसत्वावच्छिन्नप्रतियोगिताकभेदत्वेन सद्भेदनिवेशपक्षे उक्तविधसत्वस्य भेदप्रतियोगितान- बच्छेदकत्वप्रयुक्तसाध्याप्रसिद्धिमाह ज्ञानानिवर्त्यरूपेति। मतान्तरे प्रपंचस्य ज्ञानानिवर्त्यत्वादस्मन्मत- इत्युक्तम्। लाघवेनेति। ब्रह्ममात्रविषयकेति परिचायकम्। अत एव ज्ञानानिवर्त्यत्वापेक्षया तत्तद्धीविषय- अद्वैतसिद्धिः सव्याख्या 137 लघुचन्द्रिका किंतु 'सत्यं सर्वं वाच्य'मित्याकारकस्य पराभ्युपगतस्य कस्यचित् ज्ञानस्य यद्विषयत्वं तद्व्यक्त्यवच्छिन्नप्रतियोगिताकभेदत्वेन सद्भेदस्य तव्यक्त्यन्ताभावत्वेन सत्त्वाभावस्य वा निवेश:। तादृशज्ञाने चास्मदभ्युपगतबाध्यत्वविरोध्यलीकव्यावृत्तसत्यत्वप्रकारकत्वं परैः स्वीक्रियते इति प्रकाशः त्वस्य लघुत्वमिति बोध्यम्। तर्हि ब्रह्ममात्रविषयकधीविषयत्वरूपसत्वावच्छिन्नप्रतियोगिताकभेद एव निवेश्यतामित्यत्राह उक्तधीविषयत्वावच्छिन्नेति। सिद्धसाधनतापत्तेरिति । एतादृशसद्भेदस्य ब्रह्मभिन्नत्व- पर्यवसितस्य प्रपंचे परेणाभ्युपगमादिति भावः । कथं तर्हि निवेश:, तत्राह किन्त्विति । सत्यं सर्वं वाच्यमि त्याकारकस्येति । सत्यसामान्यं वाच्यमित्याकारकस्येत्यर्थः। सत्यत्वावच्छेदेन वाच्यत्वस्य प्रकारत्वेन भानलाभाय सर्वमित्युक्तम्। पराभ्युपगतस्येति। स्वाभ्युपगतस्य चेति शेषः। अतो न स्वमते साध्या- प्रसिद्धिः। अस्मिन् ज्ञाने परमते ब्रह्मप्रपंचयोरुभयोरपि विशेष्यत्वं, वेदान्तिमते तु ब्रह्ममात्रस्येत्यनुपदं स्फुटीभविष्यति। यद्विषयत्वमिति। यद्विशेष्यत्वमित्यर्थः। तद्व्यक्त्यवच्छिनप्रतियोगिताकेति । उक्त ज्ञानीयविषयतायाः तद्व्यक्तित्वेन निवेशाल्लाघवमिति न तदवच्छिन्नप्रतियोगिताकभेदाप्रसिद्धिः। सद्भेदस्य प्रकृतसाध्यघटकसद्भेदपदार्थस्य। सत्वाभावस्य प्रकृतसाध्यघटकसत्वाभावपदार्थस्य । अत: ज्ञान निवर्त्यत्वरूपसद्भेदज्ञानानिवर्त्यत्वरूपसत्वाभावयोस्तुच्च्छव्यावृत्तत्वेन तुच्छसाधारणोक्तज्ञानीयविषयता व्यक्त्यवच्छिन्नप्रतियोगिताकभेदतादृशव्यक्त्यत्यन्ताभावरूपत्वाभावेऽपि न क्षतिः। ननु सत्यं सर्वं वाच्य मित्याकारकज्ञानीयविषयताव्यक्त्यवच्छिन्नप्रतियोगिताकभेदस्य तादृशव्यक्त्यत्यन्ताभावस्य वा साधने कथं न सिद्धसाधनमित्यत आह तादृशज्ञाने चेति। ब्रह्मणि प्रपंचे चेति शेषः। बाध्यत्वाविरोधिसत्वं सत्तादात्म्यरूपम् , वाच्यत्वधर्मितावच्छेदकतया तत्प्रकारकज्ञानविशेष्यतायाः प्रपंचे स्वेनाप्युपगमात्तद- भावसाधने बाधः, परमते ब्रह्मवत्प्रपंचस्य बाध्यत्वासिद्ध्या अर्थान्तरंचेत्यत: बाध्यत्वविरोधित्वं सत्त्वे विशेषणमुक्तम्। तादृशं च सत्वं बाध्यत्वाभावप्रकारकप्रमाविषयत्वं, प्रमाविषयत्वमेव वा। शुक्तिरजतादि- बाध्यविषयकज्ञानस्य अप्रमात्वात्, न तु बाध्यत्वाभावरूपं तत् । तस्य अलीकसाधारण्येन तत्प्रकारक- ज्ञानविषयत्वनिवेशे जगतोऽसत्तुल्यतापत्तिरिति सत्वस्य अलीकव्यावृत्तत्वमुक्तम्। सत्यत्वप्रकारकत्व मिति। वाच्यत्वविशेष्यतावच्छेदकतयेत्यादिः। अत्र च उक्तज्ञानीयविषयतात्वावच्छिन्नप्रतियोगिताक भेदस्य तादृशविषयतात्यन्ताभावस्य वा साध्यता न संभवति। स्वमते ब्रह्मनिष्ठातादृशज्ञानविषयता निष्ठतव्यक्ति त्वापेक्षया तादृशज्ञानविषयतात्वस्य गुरुत्वेन उक्तविषयतानिष्ठभेदप्रतियोगितावच्छेदकतां प्रति अत्यन्ताभवीयप्रतियोगिता प्रति चानवच्छेदकत्वेन तयोरप्रसिद्धत्वात्। अतस्तादृशज्ञानीयविषयता - व्यक्त्यवच्छिन्न प्रतियोगिताकभेदः तादृशविषयताव्यक्त्यत्यन्ताभावो वा साध्यत्वेन स्वीकर्तव्यः। तत्र च परमते तज्ज्ञानीयविषयता: विशेष्यतावच्छेदकतासंसर्गताप्रकारता विशेष्यतारूपेण नानाविधाः। तत्र च उक्तज्ञानीयविशेष्य तावच्छेदकतादिकं स्वमते अप्रसिद्धं, ब्रह्मविषयकज्ञानस्य निर्विकल्पकत्वस्य अनुपदं वक्ष्यमाणत्वात् । तथा च तद्वद्भेदादेः साधने अप्रसिद्धिः । परमते घटादिप्रपंचे सिद्धसाधनं चेत्यत आह - - 138 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका तदीयमुख्यविशेष्यताव्यक्तेरत्यन्ताभावादिसाधने सिद्धसाधनं तैर्वक्तुमशक्यम् । मुख्यविशेष्यतात्वं च प्रकारतासांसर्गिकविषयतान्यविषयतात्वम्। तच्च विशेष्यताविशेष इव निर्विकल्पकज्ञानीय तुरीय . विषयतायामप्यस्तीति परमते आद्यस्य मन्मते द्वितीयस्य नासंग्रहः। मन्मते हि 'सत्यं सर्वं वाच्य मिति वाक्ये सत्यादिसमानाधिकरणनामभिः सत्यत्वाद्युपलक्षितशुद्धब्रह्मणो निर्विकल्पक धीरेव जायते इति तदीयविषयतालाभः। सर्वपदमहिम्ना सत्यत्वव्यापकविषयतालाभः। तेन किचित्सत्यनिष्ठविषयताया: कुत्रचित्सत्ये अभावमादाय परेषां न सिद्धसाधनम् । प्रकाशः - तदीयमुख्यविशेष्यताव्यक्तेरिति । अत्यन्ताभावादीत्यादिपदेन तद्वद्भेदसंग्रहः । ननु तदीयमुख्यविशेष्यता व्यक्ते: न तद्व्यक्तित्वेन निवेशसंभवः, स्वमते तादृशज्ञानीयविषयताया: निर्विकल्पकज्ञानीयत्वेन परमते च सविकल्पकज्ञानीयत्वेन भेदात्। तथाच एकव्यक्तेरपरमतासिद्धत्वेन तद्व्यक्तित्वेनोपादानं न संभवति, किन्तु मतद्वयसाधारणेन तादृशज्ञानीयत्वविशिष्टमुख्यविशेष्यतात्वेन। मुख्यविशेष्यतात्वं च यदि प्रकारताभिन्नविशेष्यतात्वं तदा स्वमतसिद्धब्रह्मविषयकनिर्विकल्पकज्ञानीयविषयतात्वस्य असंग्रहः, तस्य तथाविधत्वाभावात्, यदि प्रकारतादित्रितयान्यविषयतात्वं तदा. परमते सविकल्पकतादृशज्ञानीय विषयतात्वस्यासंग्रहः, अत: उभयसाधारणं तन्निर्वक्ति मुख्यविशेष्यतात्वं चेति। अस्य च मतद्वय साधारण्यमाह तच्चेति । उक्तविधमुख्यविशेष्यतात्वं चेत्यर्थः। विशेष्यताविशेष इति । सविकल्पकज्ञानीय- प्रकारतासंसर्गतान्यविषयतायामित्यर्थः। आद्यस्य सविकल्पकज्ञानीयविशेष्यतानिष्ठस्य। द्वितीयस्य निर्विकल्पकज्ञानीयतुरीयविषयतानिष्ठस्य। अत्र च तादृशज्ञानीयत्वानिवेशे प्रपंचो मिथ्येत्याकारकस्वमत - सिद्धसविकल्पकज्ञानीयविषयतायामपि उक्तमुख्यविशेष्यतात्वस्य सत्वेन तदवच्छिन्नाभावसाधने बाध इत्यतस्तादृशज्ञानीयत्वं निवेशितम्। स्वमते तादृशविषयतालाभप्रकारमाह मन्मते हीति। वाक्य इति। वाक्यघटकीभूतै रित्यर्थः। नामभिरिति। नामपदेरित्यर्थः। अत्र वाक्ये नामपदत्रयसत्वान्नामभिरिति बहुवचनम्। सत्यत्वादीत्यादिपदेन वाच्यत्वं ग्राह्यम्। सर्वपदलब्धमर्थमाह सर्वपदमहिम्नेति। विषयतायां सत्यत्व व्यापकताया: प्रयोजनमाह तेनेति । किंचित्सत्यनिष्ठेति । घटादिरूपसत्यनिष्ठेत्यर्थः । कुत्रचित्सत्ये पटादिरूपसत्ये। न सिद्धसाधनमिति । परमते प्रकारतासांसर्गिकविषयतान्यविषयतात्वरूपमुख्यविशेष्यता- त्ववत्यः घटपटादिनिष्ठा: बयो विषयताः। सत्यत्वव्यापकत्वानिवेशे पटादिरूपसत्ये घटादिरूपसत्यनिष्ठ- विषयताया अभावस्य परेणाङ्गीकारासिद्धसाधनम्। व्यापकत्वनिवेशे च न तत्। उक्तज्ञानीयमुख्य- विशेष्यतावृत्तिसत्यत्वव्यापकतावच्छेदकरूपावच्छिन्त्रप्रतियोगिताकाभावत्वेनाभावनिवेशात, पटनिष्ठ . विषयतायामपि तादृशरूपस्य सत्वेन तदवच्छिन्नप्रतियोगिताकाभावस्य पटे सत्यत्वव्यापकविषयता नास्तीति प्रतीते स्तन्मते अभावेन असत्वात् । तच्च रूपं निरुक्तमुख्यविशेष्यतात्वमेव। ननु वाच्यत्वं सर्वज्ञत्वादिविशिष्टनिष्ठमेवेति तदुपलक्षितत्वं विशिष्टस्यैव, सत्यत्वोपलक्षितत्वं तु शुद्धस्येति न सत्यपदवाच्यपदयोरेकार्थबोधकत्वरूपसामानाधिकरण्यसंभवः, सत्यपदस्यापि विशिष्टार्थबोधकत्वाभ्युप- अद्वैतसिद्धिः सव्याख्या 139 - लघुचन्द्रिका बाध्यत्वेनोपलक्षितं शुद्धं ब्रह्मापि भवति; विशिष्टब्रह्मनिष्ठस्य तस्य विशेष्यीभूतशुद्धेऽपि सत्त्वात्। वाच्यत्स्थले ज्ञेयत्वं वा निवेश्यम्। तज्ज्ञानीयमुख्यविशेष्यतानिष्ठानवच्छिन्नावच्छेदकताकप्रति- योगितानिरूपकभेदत्वेन मुख्यविशेष्यतासंबन्धावच्छिन्नतज्ज्ञानव्यक्तित्वावच्छिन्नप्रतियोगिताका त्यन्ताभावत्वेन वा निवेशान्न व्यापकत्वादिनिवेशकृतगौरवादिकम्। तेन–'घटादिकं ब्रह्मवृत्तित्व . विशिष्टतादृशविशेष्यतावन्ने ति प्रतीतेः घटादौ तादशविशेष्यतावद्भेदसत्त्वात्सिद्धसाधनमिति- परास्तम्; तादृशप्रतीतिविषयीभूताया: भेदप्रतियोगितावच्छेदकताया: ब्रह्मवृत्तित्वावच्छिन्नत्वेना- नवच्छिन्नत्वविशेषणेन तस्या: वारणात्। ननु- बाध्यत्वाभावरूपो धर्मोऽपि न शुद्धे ब्रह्मणि, प्रकाशः . गमे एतद्वाक्यस्य निर्विकल्पकबोधजनकत्वसिद्धान्तभङ्गः। विशिष्टधीविशेष्यत्वस्य विशिष्टवृत्ते: शुद्धे अभावान्मिथ्यात्वलक्षणस्य अतिप्रसंगोपीत्यत आह वाच्यत्वेनेति। तस्य वाच्यत्वस्य। शुद्धेऽपि सत्वादिति। विशिष्टशुद्धयोर्भेदाभेदोपगमादिति भावः। तथाचोक्तदोषद्वयं नेत्याशयः। विशिष्टं शुद्धाद- त्यन्तभिन्नमेवेति पक्षेप्याह वाच्यत्वस्थल इति। ज्ञेयत्वमिति । इदं च शुद्धे ब्रह्मण्यपि, वेदान्तजन्यवृत्ति - ज्ञानविषयतायास्तत्र स्वीकारात्,अन्यथा शुद्धविषयकाज्ञाननिवृत्तिर्न स्यात् । ज्ञानाज्ञानयोर्निवय॑निवर्तक . भावे समानविषयकत्वस्य तन्त्रत्वादिति भावः । ननु निरुक्तज्ञानीयमुख्यविशेष्यतावृत्तिसत्यत्व व्यापकता. वच्छेदकरूपावच्छिन्नप्रतियोगिताकात्यन्ताभावस्य, तादृशरूपावच्छिन्नावच्छेदकताकप्रतियोगिताकान्यो. न्याभावस्य वा निवेशे तयोरप्रसिद्धिः, व्यापकतावच्छेदकत्वेन अविशेषितस्यैव तादृशज्ञानीयमुख्य- विशेष्यतात्वस्य लघुभूतस्य अत्यन्ताभावीयप्रतियोगितावच्छेदकत्वे अन्योन्याभावीयप्रतियोगितावच्छेद- कतावच्छेदकत्वे संभवति तादृशगुरुधर्मस्य प्रतियोगितातदवच्छेदकतानवच्छेदकत्वात्। किंच न व्यापक- तावच्छेदकत्वेन अविशेषितस्यापि तादृशज्ञानीयमुख्यविशेष्यतात्वस्य स्वमते प्रतियोगितावच्छेदकत्वा. दिसंभवः, ब्रह्ममात्रवृत्तिमुख्यविशेष्यतावृत्तितद्व्यक्तित्वापेक्षया तस्य गुरुत्वादित्यत आह तज्ज्ञानीयेति। सत्यं सर्वं वाच्यमित्याकारकज्ञानीयेत्यर्थः। भेदत्वेनेति । सच सत्यं सर्वं वाच्यमित्याकारकज्ञानीयमुख्य . विशेष्यतावन्नेति प्रतीतिविषयीभूतः। अत्यन्ताभावीयप्रतियोगिताया अनवच्छिन्नाया अप्रसिद्धत्वात् अनवच्छिन्नप्रतियोगिताकात्यन्ताभावत्वेन वेति नोक्तम्। अत्यन्ताभावघटितसाध्यनिर्वाहाय लाघवाय च मुख्यविशेष्यतां प्रतियोगितावच्छेकसंबन्धतया निवेशयन्नाह मुख्यविशेष्यतासंबन्धेति। स्वमते उक्तज्ञान- विषयब्रह्मनिष्ठतव्यक्तित्वापेक्षया उक्तज्ञानव्यक्तेर्गुरुत्वेन तदवच्छिन्नप्रतियोगिताकभेदाप्रसिध्या तस्य साध्यत्वानादरः। तज्ज्ञानगततव्यक्तित्वापेक्षया तादृशज्ञानत्वस्य गुरुत्वात्प्रतियोगितानवच्छेदकत्वेन तद्व्यक्तित्वस्य प्रतियोगितावच्छेदकत्वोक्तिः। व्यापकत्वादीत्यादिना तदवच्छेदकत्वोपादानम्। भेदप्रति- योगितावच्छेदकतायामनवच्छिन्नत्वनिवेशप्रयोजनमाह तेनेति । अनवच्छिन्नावच्छेदकताकप्रतियोगिताक- भेदरूपसाध्यादरेणेत्यर्थः। तेन सिद्धसाधनवारणप्रकारमाह तादृशप्रतीतीति । घटादिकं ब्रह्मवृत्तित्वविशिष्ट- तादृशविशेष्यतावन्नेति प्रतीतीत्यर्थः। तस्या:=उक्तभेदप्रतियोगितावच्छेदकतायाः। एवं च सद्भेदपदार्थस्य .. - 140 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता सद्रूपत्वेन ब्रह्मण: तदत्यन्ताभावानधिकरणत्वात् निर्धर्मकत्वेनैवाभाव रूपधर्मानधिकरणत्वा . च्चेति दिक्। ॥ इति सदसद्विलक्षणत्वरूपप्रथममिथ्यात्वविचार:॥* HA लघुचन्द्रिका किंतु स्वोपहिते; भाववदभावेऽपि युक्तेस्तुल्यत्वात्-तत्राह-निर्धर्मकत्वेनैवेति। अभावरूप धर्मानधिकरणत्वात् सत्त्वाभावरूपधर्माधिकरणत्वस्याप्यभावापातात्। तथाच सत्त्वाभावं ब्रह्मणि स्वीकृत्यातिव्याप्तिदानं तवासङ्गतम्। तस्मादभावरूपधर्मस्य न भावरूपधर्मतुल्ययुक्तिकत्वम्; प्रपंचे कल्पितस्य व्यावहारिकबाध्यत्वादेरभावस्याधिष्ठानब्रह्मस्वरूपत्वात्; अन्यथा तस्यापि व्यावहारिकत्वे उक्तबाध्यत्वप्रतिपक्षेपकत्वासंभवात्, तत्संभवस्वीकारपक्षेऽपि सत्यब्रह्मस्वरूपा दतिरिक्तस्य तादृशाभावस्वरूपस्य कल्पने गौरवात्; अतिरिक्ततादृशस्वरूपस्वीकारपक्षेऽपि . प्रकाश: निरुक्तभेदस्य, सत्वात्यन्ताभावपदार्थस्य निरुक्तज्ञाननिष्ठतद्व्यक्तित्वावच्छिन्नाभावस्य च तुच्छेऽपि सत्वेन तत्रातिव्याप्तिवारणाय मिथ्यात्वलक्षणे असद्भेदस्य असत्वात्यन्ताभावस्य वा निवेशस्सार्थक इति भावः । सत्वात्यन्ताभावस्य ब्रह्मण्यनतिप्रसक्तेरुक्तत्वेन निर्धर्मकत्वेनेत्यादिना मूले समाधानान्तरोक्तित्थेत्यत आह नन्विति। स्वोपहिते बाध्यत्वाभावोपहिते। भाववदिति। भावशब्दात्सप्तम्यन्ताद्वतिप्रत्ययः । अभाव इति । उपगम्यमान इति शेषः। युक्ते:= निर्धर्मकत्वव्याघातरूपायाः। केवलो निर्गुण इति श्रुतौ गुणपदस्य भावमात्रार्थकत्वे नास्ति मानम्। तथात्वे लक्षणापातादिति भावः। तुल्यत्वादिति । तथाच बाध्यत्वाभाव. रूपसत्वस्याभावो ब्रह्मण्यस्तीत्यतिव्याप्तिर्दुवीरेति भावः। निर्धर्मकत्वेनैवेत्यादिमूलं यथाश्रुते भावा भावयोयुक्तितौल्योपगमेऽप्यतिव्याप्तिनिराकरणपरं भाति, तच्च न युक्तम्, अधिकरणीभूतब्रह्मरूपाभाव. तदतिरिक्ताभावयोर्युक्तेरतुल्यत्वस्य टीकायां वक्ष्यमाणत्वात्, अतस्तन्मूलं बाध्यत्वाभावांशे भावाभावयो. र्निर्धर्मकत्वव्याघातरूपस्य युक्तितौल्यस्याभ्युपगमे बाध्यत्वाभावरूपं यत्सत्वं तदभावांशेऽपि युक्तितौल्यं स्यादित्यर्थपरतया व्याचष्टे अभावरूपेत्यादि। सत्वाभावरूपधर्माधिकरणत्वमपि मास्त्वित्यत आह तथाचेति। सत्वाभावरूपधर्माधिकरणत्वस्याप्यभावे चेत्यर्थः। असंगतमिति । स्यादिति शेषः । तस्मात् अतिव्याप्तिसंगमनानुरोधात्। न भावरूपधर्मतुल्ययुक्तिकत्वमिति । कुत इत्यत आह प्रपंच इति । व्याव- हारिकेति। ब्रह्मज्ञानेतराबाध्यत्वादिति भावः। अभावस्येति । पारमार्थिकत्वानुरोधादिति शेषः। तथाच न तेन ब्रह्मण: सधर्मकत्वप्रसंङ्गः। धर्मधर्मिभावस्य भेदप्रयुक्तत्वेन स्वातिरिक्तधर्मवत्वस्यैव सधर्मकत्व रूपत्वादिति भावः। अन्यथा- बाध्यत्वाभावस्य पारमार्थिकाधिष्ठानब्रह्मरूपत्वानङ्गीकारे। तस्यापि बाध्यत्वाभावस्यापि। व्यावहारिकत्वे= ब्रह्मज्ञानेतराबाध्यतया प्रातिभासिकत्वासंभवेन व्यावहारिकत्वा - वश्यंभावेन। उक्तेति । व्यावहारिकेत्यर्थः। प्रतिक्षेपकत्वासंभवादिति। प्रतियोगिसत्ताधिकसत्ताकस्यैवा . भावस्य प्रतियोगिविरोधित्वेन तत्प्रतिक्षेपकत्वादिति भावः । स्वाप्नभावाभावयोरिव प्रबोधगतभावा- HA अद्वैतसिद्धिः सव्याख्या 141 लघुचन्द्रिका तस्य ब्रह्मणि त्वया संबन्धास्वीकारे सत्त्वाभावस्याप्यतिरिक्तस्य शुद्धब्रह्मसंबन्धा -संभवात् न कोऽपि दोष इति भावः। यत्तु-सत्त्वेन प्रतीयमानत्वरूपोऽसत्त्वाभावोऽलीकेऽप्यस्तीति तद्धटितं लक्षणमित्युक्तमिति। तन्न । सत्त्वेन प्रतीयमानत्वस्य सत्तादात्म्यतद्वदन्यतरत्वपर्यवसितस्य निवेश - संभवात् । नचैवं- सत्प्रतियोगिकत्वविशिष्टतादात्म्यस्य ब्रह्मण्यसंभवात् ब्रह्मवारणस्य तेनैव संभवेन सत्त्वाभावोपादानं व्यर्थमिति वाच्यम्; परमते घटाद्यात्मकसत्प्रतियोगिकत्वविशिष्ट प्रकाशः भावयोरपि समसत्ताकयोरस्ति विरोध इति पक्षमवलम्ब्याह तत्संभवेति । गौरवादिति । तस्य ब्रह्मस्वरूप . त्वावश्यकत्वादिति शेष:। बाध्यत्वाभावस्य ब्रह्मस्वरूपत्वे तादृशाभावत्वमात्रं ब्रह्मणि कल्पनीयम्, अन्यथा तु तादृशाभावः तत्र च तादृशाभावत्वं कल्पनीयमिति गौरवमिति भावः । यदि वैयात्यादुक्तगौरवं स्वीक्रियेत तदा यथाश्रुतार्थग्रहणेऽपि न दोष इत्याह अतिरिक्तेति। ब्रह्मस्वरूपादतिरिक्तेत्यर्थः। तादृश स्वरूपेति । बाध्यत्वाभावस्वरूपेत्यर्थः। त्वया= भावस्येव अभावस्यापि निर्धर्मकत्वव्याघातकत्वं वदता। अतिरिक्तस्येति। अतिरिक्तत्वावश्यकत्वादिति भावः । शुद्धब्रह्मसंबंन्धासंभवा दिति। तत्स्वीकारे निर्धर्मकत्वव्याघातादिति भावः। न कोऽपि दोष इति । न कथमप्यतिव्याप्तिरित्यर्थः । यदि पुनर्बाध्यत्वा भावरूपसत्त्वस्याभावो बाध्यत्वरूपस्तदा तस्य शुद्धब्रह्मणि संबन्धलेशोपि नास्तीति नातिव्याप्तिरिति मन्तव्यम्। असत्वाभावघटितस्य लक्षणस्यालीके अतिव्याप्तिं वदतां मतमनुवदति यत्त्विति । असति असत्वाभावः कथमित्यत आह सत्वेन प्रतीयमानत्वरूपोऽसत्त्वाभाव इति। असत्वाभावो नाम सत्त्वेन प्रतीयमानत्वमेव। तच्च सत्वप्रकारकवृत्तिविषयत्वम्। सत्वप्रकारिका वृत्तिश्च विकल्परूपापीति तद्विषयत्वस्य अलीकेऽपि संभवादतिव्याप्तिरित्यभिमान:। अभिमानं निराकुर्वन्नतिव्याप्ति परिहरति तन्नेति। सत्तादात्म्यतद्वदन्यतरत्वपर्यवसितस्येति। सत्त्वेन प्रतीयमानत्वं सत्त्वेन प्रतीयमानत्वयोग्यत्वं, तच्च सत्त्वप्रकारकप्रतीतिविषयताप्रयोजकरूपवत्वं, तच्च सत्तादात्म्यमेव, प्रतीतिपदेन विकल्पेतरवृत्ते. विवक्षणात्। सत्तादात्म्यस्य च अलीके अभावान्नातिव्याप्तिरिति भाव: । नचैवमपि प्रातीतिकसत्तादात्म्य- मादाय अलीके अतिव्याप्तितादवस्थ्यमिति वाच्यम्, तस्य माध्वमते शुक्तिरूप्ये बाधशंकापरिहारसंदर्भ निरासात्। सत्त्वेन प्रतीयमानत्वस्य सत्तादात्म्यवत्त्वमात्ररूपत्वे सत्तादात्म्ये अव्याप्ति:, अनवस्थापातेन सत्तादात्म्ये सत्तादात्म्यान्तरानुपगमात्, अत: सत्तादात्म्यतद्वदन्यतरत्वनिवेश:। यदि च घटाभावे घटाभाव- स्येव सत्तादात्म्ये स्वस्यैव स्वरूपसंबन्धेन वृत्तिरात्माश्रयमंगीकृत्य स्वीकियत इत्युक्तं स्मर्यते तदा सत्तादात्म्यवत्वमात्रनिवेशेऽपि नाव्याप्तिरित्यवधेयम्। उक्तविधासत्वाभावस्य निवेशे सत्वाभावोपादान- वैयर्थ्यं शंकते नचैवमिति। एवं सत्तादात्म्यतद्वदन्यतरत्वरूपासत्वाभावस्य निवेशे। सत्प्रतियोगिकत्व. विशिष्टेति। सत्प्रतियोगिकत्वोपलक्षिततादात्म्यस्य संबंधतया संयोगवत् द्विष्ठत्वेन ब्रह्मण्यपि संभवा- द्विशिष्टेत्युक्त त्म् । यद्यपि सत्प्रतियोगिकत्वोपलक्षिततादात्म्यस्य ब्रह्मणि सत्वेऽपि सत्वाभावस्य तत्रासत्वा त्तद्धटितलक्षणस्य तत्र नातिव्याप्तिरिति सत्वाभावोपादानसार्थक्यम्, तथापि उक्तविशिष्टघटित.

142 प्रकाशव्याख्यासहितलघुचन्द्रिकायुता लघुचन्द्रिका तादात्म्यस्य सद्रूपघटत्वादौ संभवेन प्रपंचस्य सद्रूपाढ्यावृत्त्यसंभवेन अनुमाने सिद्धसाधनात्, विजातीयव्यावृत्त्यसंभवेन लक्षणालाभाच्च। ।। इति लघुचन्द्रिकायां सदसद्विलक्षणत्वरूपप्रथममिथ्यात्वविचारः। । प्रकाशः लक्षणेऽपि तत्सार्थक्यं शक्यसमर्थनमित्यभिप्रायेण समाधत्ते परमत इति । घटाद्यात्मकसत्प्रतियोगिक - त्वेति। घटाद्यात्मकं यत् सत् तत्प्रतियोगिकत्वेत्यर्थः । संभवेनेति। घटघटत्वयोः सद्रूपयो: भेदाङ्गीकारा- दिति भावः। सद्रूपाढ्यावृत्त्यसंभवेन सद्रूपत्वविरोधिमिथ्यात्वसिद्ध्यसंभवेन। सिद्धसाधनादिति। सत्प्रतियोगिकत्वविशिष्टतादात्म्यस्य सद्रूपत्वाविरोधिनः प्रपंचे परेणाभ्युपगमादिति भावः। सत्वाभाव- सहितस्य तस्य प्रपंचे परेणानभ्युपगमान्न तन्निवेशे सिद्धसाधनम्। नन्वनुमाने सिद्धसाधनवारकत्वेन तत्सार्थक्येऽपि लक्षणे सत्वाभावोपादानं व्यर्थमेवेत्यत आह विजातीयेति । लक्षणालाभाच्चेति । अय माशयः। लक्षणं नाम व्यावर्तको धर्मः। व्यावर्तकत्वं च लक्ष्यात्मकपक्षधर्मिकेतरभेदानुमितिजनकत्वम् । जनकत्वं च प्रकृते स्वरूपयोग्यतारूपम्। तच्च लक्ष्यवृत्तित्वे सति लक्ष्येतरप्रतियोगिक भेदव्याप्यत्वम्। मिथ्यात्वलक्षणस्य च लक्ष्यं मतद्वयेऽपि व्यवस्थाप्यानिर्वचनीयतावच्छुक्तिरजतादिकम्। तत्र च प्रकृत लक्षणस्य हेतो: सत: इतरभेदानुमापकत्वं वाच्यम्। एवं च यदि मिथ्यात्वस्य लक्षणं सत्वाभावाघटितं सत्प्रतियोगिकत्वविशिष्टतादात्म्यं तदा तस्य परमते सद्रूपघटत्वादिनिष्ठत्वेन तदन्तर्भावेण इतरभेद व्यभिचारित्वान्नेतरभेदानुमितिस्वरूपयोग्यत्वम्। अत्र च सत् असच्च इतरपदार्थः। तदुभयभिन्नस्यैव शुक्तिरजतादेर्लक्ष्यभूतपक्षरूपत्वात्। घटत्वादे: सद्रूपत्वे वैमत्येऽपि व्यभिचारसंशयस्यावश्यंभावात्। सत्वाभावघटितस्य लक्षणत्वस्वीकारे तु तादृशलक्षणवति शुक्तिरजतादौ दृष्टान्ते परेणापि सदसद्रूपेतर - भेदस्यैव अंगीकार्यत्वेन, घटत्वादौ हेतुसत्वेऽपि विवादेन उक्तविधमिथ्यात्वलक्षणस्य इतरभेदव्याप्यत्व - सहितलक्ष्यवृत्तित्वरूपस्वरूपयोग्यत्वमक्षतमिति। ॥ इतिलघुचन्द्रिकाव्याख्याने प्रकाशाख्ये प्रथममिथ्यात्वम्॥

Laghuchandrikaprakaashah

Author
Vedanta Kesari Veda Brahmashri K Narayana Bhatta
Title
Laghuchandrikaprakaashah
File name
Laghuchandrikaprakaashah
Text
OCR done
Published
2004/10/20
Publisher
Sankara Advaita Shodha Kendram
Language
Sanskrit
Pages
152
Library
Sri Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
383652
Barcode
1990030051916.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sri Sringeri Sharada Peetham
Rights
Not Available
VMLT id
9YvOoATVHn6
Download PDF

Laghuchandrikaprakaashah