Bharatiya Vidya Bhavan Library, Mumbai

Prashast Paad Bhasya Tika Sangrah

Misr,shankar · 2012/08

PDF Proofread

Front matter

कणादरहस्यम् । तत्र पदार्थत्वसाक्षायाप्याः पडेव धर्माः द्रव्यत्व- गुणत्वकर्मत्वसामान्यत्वविदोपत्वसमवायत्वलक्षणाः ।। तत्र द्रव्यत्वं गुणात्यन्ताभावानाधिकरणत्वं गुणात्य- न्ताभावश्च गुणात्वावच्छिन्नप्रतियोगिताकात्यन्ताभावः । अन्यथा गुणविशेषात्पन्नाभावमादाय स्वरूपासिद्धिः स्यात् । परिमाणात्यन्ताभावानधिकरणत्वं पृथक्त्वात्य- न्ताभावानधिकरणत्वं संख्यात्यन्ताभावानधिकरणत्वं वा समवायिकारणतावच्छेदकत्वेन वा तत्सिद्धिः । सम- वायिकारणता हि गुणादिभ्यो व्यावर्तमाना अवश्यं किञ्चिदर्मात्रच्छेदेन बाच्या स च धर्मों द्रव्यत्वमेव । तच्च जातिरूपं जातित्वे वाधकाभावात् । न च गुण- वत्त्वमेवोपाधिव्यत्वव्यपदेशभागिति याच्यं गुणवत्त्वा- कारानुगतप्रत्यये प्रत्येकं गुणानामसामयेन परम्परास- 'म्बद्धया गुणस्वजात्यानुगतप्रत्ययो 'वाच्यः । तथा च साक्षात्सम्बहा द्रव्यत्वं जातिरेवास्तु लाघवात् । न च क्लुप्तेनान्यथासिद्धी गौरवमप्यड्डीकार्यमिति वाच्यम् द्रव्याकारानुगतमतेः सिद्धतया तन्निबन्धन- चिन्तायां साक्षातसम्बद्धधर्मकल्पनाया(१) एवोचितत्वा. तु । गुणत्वस्यापि द्रव्यत्वसिड्युपजीवकत्यात् । (१) साक्षात् सम्बन्धिर्मिकल्पनाया-पा०२ पु।

प्रशस्तपादभाष्यटीफासदहे सामान्यवानचलनात्मकः परिमाणानाश्रयो गुण इति तल्लक्षणात् । असमवेतसमवेतसत्तासाक्षाद्व्याप्यजातिर्वा द्रव्य- खम् । प्रत्यक्षवे सति मनोवृत्त्यवृत्तिमनोवृत्तिजाति- र्वा आकाशवृत्त्यवृत्तित्वे सति आकाशवृत्तिजाति आकाशवृत्त्यवान्तरजातिर्वा द्रव्यत्वम् । तत्र पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नव द्रव्याणि । अन्धकारसुवर्णयोरातिरेक्यशङ्काया निवर्तनीयत्वात् । आकाशकालदिगात्ममनसां साध- नीयत्वात् । तत्र गन्धात्यन्ताभावानधिकरणत्वं गन्धसमानाधि- करणगन्धासमानाधिकरणगुणासमानाधिकरणजात्यधिक- रणत्वम् शुक्लेतररूपसमानाधिकरणद्रव्यत्वसाक्षायाप्य- जात्यधिकरणत्वं वा लक्षणम् । एवं मधुररसेतरसमाना- धिकरणद्रव्यत्वसाक्षाव्याप्पजात्यधिकरणत्वं चेत्या- ह्यम् । तादशी च जातिः पृथिवीत्वमेव तत्र लो. किकपरीक्षकसाधारणानुगतप्रतीत्यभावेऽपि गन्धस- मवायिकारणतावच्छेदकत्वेन तत्सिद्धिः । जलादावपि गन्धोऽस्ति भवति हि सुरभि जलं सुरभिः समीरण इति प्रतीतिरिति चेत् न तत्र तस्योपाधिकत्वात् । न कणादरहस्यम् । हि कुसुमाद्यधिवासावसरमपहाय प्रतीतिरियमुदेति । अन्यथा रक्तः स्फटिक इति प्रतीतिबलात् तत्रापि रक्ति- मस्वीकारापत्तेः । सा चेयमितरेभ्यो भिद्यते गन्धवत्वा- तु यन्नेतरेभ्यो भिद्यते न तद् गन्धवत् यथा जलम् इतरभेदाभावव्यापकगन्धवत्त्वाभावाभाववती चेयं त. स्मादितरेभ्यो भिद्यते । यहा इयं पृथिवीति व्यवहियते गन्धवत्त्वात् यन्न पृथिवीति व्यवहियते न तद्गन्धव. तु यथा जलं पृथिवीतिव्यवहाराभावव्यापकगन्धवत्त्वा- भावाभाववती चेयं तस्मात् पृथिवीति व्यवाहियते इति व्यतिरेकी । इतरपदेन जलादीनि द्रव्याण्यष्टौ गुणादयः पञ्च पदार्थाः अभावश्चोच्यते तथा च जलादिचतु- दशकप्रतियोगिकान्योन्याभाववती पृथिवीति साध्यम् । तचाप्रसिद्धं न हि जलादीनामन्योन्याभावः क्वचित् प्रसिद्ध इति न व्याप्तिग्रहो न वा साध्यविशिष्टप्रती- त्युदय इति चेन्न घटादात्र प्रत्यक्षतस्तत्सिद्धेः । घटा- दिरपि पक्ष एवेति चेन्न ताद्रूप्येण पक्षत्वाभावात् । कि- न्तु पृथिवीत्वेनैव रूपेण घटादिरपि पक्षः तादृप्पेण च ततरभेदाग्रहात् । एकस्यैव घटस्य निश्चितसाध्यव- तया सपक्षता सन्दिग्धसाध्यवत्तया च पक्षता इत्यवि. रोधात । कथमेवमिति चेत् न घटत्वावच्छेदेनेत- ६ प्रशस्तपादभाष्यटीकासनहे रभेदज्ञाने पृथिवीत्वावच्छेदेनापि तज्ज्ञाने प्रमाणा- भावात् । पक्षभिन्नत्वं दृष्टान्ते(१) तन्तमिति चेन्न नि- श्चितसाध्यवत्त्वस्यैव तन तन्तत्वात् । अभेदानुमाने त थादर्शनात् । भवति ह्ययं देवदत्ताभिन्नः तद्गतसकल- धर्मवत्त्वात् पूर्वदृष्टदेवदत्तवत् । पक्षस्यैव तदन्ता- वच्छेदेन यदेव पक्षत्वं सपक्षत्वं च । एतेन व्यतिरोकिणि साध्यं प्रसिद्धं चेत् तदा यत्र यत्प्रसिद्ध तत्र हेतोवृत्ता- वन्वयित्वं व्यावृत्तावसाधारण्यमित्यपास्तम्। घटदृष्टान्ते- नान्वयित्वे सत्यपि(२)व्यतिरेकिणोऽपि निर्दोपत्वात् । तदुक्तम् उपायस्यानुयायतोपालम्भः न तु नानात्वमिति । ऋजुमार्गेण सिध्यन्तं को नु वक्रेण साधयेदिति चेन्न । वक्ररुचिं प्रति वकमार्गस्यानिर्दोपस्योचितत्वात् । तर्हि घटे मनःप्रभृतीनामन्योन्याभावः कथं प्रत्यक्षः स्पादिति चेन्न अन्योन्याभावस्यातीन्द्रियप्रतियोगिकस्यापि प्रत्यक्षत्वात्। भवति हि स्तम्भः पिशाचो न भवतीति प्रतीतिः स्तम्भा- त्मकतया पिशाचानुपलम्भस्य योग्यानुफ्लम्मरूपत्वात् । तस्पैयाधिकरणप्रतियोगिसत्त्वविरोधिरूपत्यात् । यो- ग्यानुपलम्मस्य चेन्द्रियसहकारित्वात् । संसर्गाभावग्रह. मात्रे योग्यप्रतियोगित्वं तत्रं न त्वन्योन्याभावग्रहेऽपीति (१) सपसस्ये 1-पा०२ पु०। (२) सम्मयत्यपि-पा०२०।

कणादरहस्यम् । घटे जलादिप्रतियोगिकभेदस्य प्रत्यक्षादवगमात् । कथं न साध्यप्रसिद्धिः कथं वा पृथिवीत्वावच्छेदेन व्यवहारेत- रभेदयोः सिपाधयिषया न घटस्य पक्षत्वं तर्हि व्याप्तिपक्ष- धर्मत्वयोःपम्याद(१)व्यतिरेकी नानुमानं न ह्यन व्याप्ति- विशिष्टः पक्षधर्मश्च व्यतिरेकेण व्याप्तेः अन्वयेन च पक्षध- मत्वादिति चेन्न व्यतिरेकसहचारेणान्वयव्याप्तरेव ग्रहणात् व्यतिरेकव्याप्त्या अन्वयव्याप्तरनुमानाहा । तथा च साध्याप्रसिद्धिपम्यं व्यर्थतोपनयस्य च । 'अन्वयेनैव तत्सिद्धेव्यतिरेकिणि दूषणम्॥ अपास्तम्। यद्वा जलादीनामितरेपां प्रसिद्वाना प्रमेयत्वा- ड्रेदप्रतियोगित्वं साध्यमितीतरभेदः प्रसिद्ध एव । यहा जलादीनां त्रयोदशान्योन्याभावासापोदशसु प्रसि- द्वाः पृथिव्यां साध्यन्ते इति नाप्रसिद्धिः । त्रयोदशान्यो- न्याभांवमेलको न प्रसिद्ध इति चेन्न अपेक्षावुद्धिविशेष- विषयत्वमेव हि तेषां मेलको वनादिवत् स च प्र. सिद्ध एव । यहा पृथिवीत्यासमानाधिकरणधर्मात्यन्ता- भाव एवं पृथिव्यां साध्यते जलादीनामत्यन्ताभावः तेजःप्रभृतिषु प्रसिद्ध एवेति न साध्याप्रसिद्धिः। तेपा- मभावानां वैशिष्ट्यमप्रसिद्धमेव सिद्ध्यति पर्वते वह्नि.

८ प्रशस्तपादभाष्यटीकासङ्घहे वैशिष्ट्यवत् । न च पृथिवी जलं पृथिवीत्वात् यन्न ज. लं तन्न पृथिवी यथा तेज इति सत्प्रतिपक्षः स्यादिति वाच्यम् घटे जलभेदस्य पृथिवीत्वस्य च प्रत्यक्षसिद्ध- तया व्यभिचारेणास्य न्यूनबलत्वात् । आत्मसाधकस्तु व्यतिरेकी तत्रैव समर्थनीयः । सा चेयं पृथिवी चतुर्दशगुणवती । ते च गुणा. रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसयोगविभागपर- त्वापरत्वद्वत्वगुरुत्वसंस्काराः । संस्कारपदेन वेग- स्थितिस्थापकयोरुपग्रहः । अत्र च द्रवत्वपर्यन्ताः प्रत्यक्षत एव सिद्धाः । गुरुत्वं पतनानुमेयम् । अधःसं. योगावच्छेदेनापि प्रत्यक्षमिति वल्लभाचार्याः । वेगः प्र- सक्षसिद्ध एव । काष्टादौ कर्मकारणत्वेनानुमेयश्च । नो- दनादाद्यमिपोः कर्म तत्कर्मकारिताच संस्कारादुत्तरमुत्तरं चेति पारमर्षसूत्रात् । स्थितिस्थापकस्तु प्रतिनियत- संयोगविशेषानुमेयो न तु प्रत्यक्षः वेगेन गच्छतीतिवत् तत्प्रत्ययाभावात् । दन्तशृङ्गधनुःशाखानां चर्वणरोमन्था. कर्पणानन्तरं तद्देशनिपतसंयोगान्यथानुपपत्त्या तदनुमा- नात् । न हि नोदनामिघातवेगगुरुत्वद्वत्वप्रयत्नेभ्य उ. त्पन्नस्य कर्मणः पूर्वदेशसंयोगं प्रति नियमेन जनक- स्वमुपलब्धमतस्ताहासंयोगजनकः स्थितिस्थापकनामा कणादरहस्यम् । संस्कारविशेषः कल्प्यते । तत्र रूपमनेकप्रकारं पृथिव्यामेव । रसोऽपि तिक्तकटकषायादिः पृथिव्यामेव । गन्धो द्विविधः सुरभिरसुरभिश्च । सशस्त्वनुष्णाशीनः । एते चा. वयविनि कारणगुणपूर्वकाः । परमाणी तु पाक- जाः । संख्यायामेकत्वं कारणगुणपूर्वकम् । द्वित्वा- दिकमपेक्षाबुद्धिजन्यम् । परिमाणं तु परमाणौ नित्यम् द्यणके द्वित्वसंख्याजन्यं सरेणी बहुत्वसंख्याजन्य महत्त्वम् । एते च द्वित्वबहुत्वे अनुमितिरूपाक्षा- बुद्धिजन्ये ईश्वरापेक्षाबुद्धिजन्य वा । न चैत्रं तद- विनाशापत्तिः अदृष्टविनाशात् तन्नाशोपपत्तः । अन्यत्रा- वयविनि महत्वं संख्यापरिमाणप्रचयानामन्यतमेन जन्यं द्वाभ्यां त्रिभिवी जन्यते । व्युत्पाद्यं चैतत् परिमाणनि- रूपणावसरे । पृथक्केष्वेकपृथत्वं कारणगुणपूर्वक द्विपृथत्वादि त्वपेक्षावुद्धिजन्यम् । संयोगो विभुपरमा- पबोरन्यतरकर्मज एवं विभ्वत्रयविनोरन्यतरमज एवं संयोगजश्च परमानोरन्यतरकर्मज उभयकर्मजो वा परमाण्यवयविनोरन्यतरकर्मज उभयकर्मजः सयो- गजो वा । विभागोऽप्येवमन्यतरकर्मज उभयकर्मजन्यः विभागजस्त विमाको रिमामाक्सर एव व्युत्पाः ।

प्रशस्तपादभाष्यटीकासनहे परत्वापरत्वे कालिके दैशिके च । उभे अप्यपेक्षावुद्धि- जन्ये । कालिके कालपिण्डसंयोगासमत्रायिकार- णके । दैशिके दिपिण्डसंयोगासमवायिकारणके । द्रवत्वं नैमित्तिकम् ।निमित्तं तु तेजःसंयोगः । क्षीरतैल- योः कथं सांसिद्धिकमिति चेन्न तत्र तदुपष्टम्भकजल. द्रवत्वस्यैवोपलम्भात् स्नेहवत् । तादृशजलसत्त्वे तै- लस्य दहनप्रातिकूल्यं स्यादिति चेन्न तदीयस्नेहप्र- कर्पण दहनानुकूल्याचरणात् घृतवत् । गुरुत्वं तु कारणगुणपूर्वकमेव । 'समन्यूनाधिकानुपपचिरेवं स्या- दिति चेन्न अधिकगुरुत्वस्यैयोत्पादनात् । अथ मन्यसे रुचकाम्यामारब्धे स्वस्तिके रुचकद्वयस्य यावदगुरुत्वं तावद्यदि जननीयं तदा गुरुत्वबैगुण्यादवनमनविशेषः स्यात् । अथ न्यूनं जननीयं तदा रुचकापेक्षया स्व- स्तिकगुरुत्वमन्यदेवेति तदधीनोऽवनमनविशेषः स्यात् । अथाविकं गुरुत्वं तदा सुतरामवनमनविशेषः स्यादिति । न स्मात् रुचकगुरुत्वाभ्यामवयविनि न्यूनमेव गुरुत्वमु- लायते न च तथाप्यवनमनविशेपापचिः यथा गुरुणि पाषाणादौ उन्नीयमाने तृणादिगुरुत्वानप्रवेशे ऽपि नाव- नमनविशेषस्तथा प्रकृतेऽपीत्यदोपात् । कार्य च पृथिव्याः शरीरेन्द्रियविषयरूपम् । तत्र कणादरहस्यम् । शरीरं योनिजमयोनिजं च। इन्द्रियं तु घ्राणम् । तत् कथं पार्थिवमिति चेत् ।घ्राणं पार्थिवं रूपादिपु मध्ये गन्धस्यैव व्यञ्जकत्वात् मृगमदगन्धाभिव्यञ्जककुक्कुटोच्चारवत् । न च दृष्टान्ते गन्धमात्रव्यजकत्वमसिद्ध स्वकीयरूपा. देरपि व्यञ्जकत्वादिति वाच्यं गन्धव्यञ्जकत्वे सति परकीयरूपाव्यञ्जकत्वादिति हेतुत्वात् । विषयस्तु मृत्पापाणमणिबज्रादयः । ननु मणिः कथं पू. थिवी गन्धविग्हादिति चेन्न तहस्मनि गन्धानुभ- वेन तत्रापि गन्धकल्पनात मण्यारम्भकपरमाणनामेव भस्मारम्भकत्वात् । अनुभूतगन्धरुभूतगन्धारम्भः कथमिति चेत् अनुभूतरूपेण तेजसा तैलादावुभूत- रूपतदारम्भवदुपपत्तेः। सा चेयं नित्याऽनित्या च तत्र नित्या परमाणुरूपा। अनित्या त्ववयविरूपा(१)। अवयविनं न मृण्यामहे वि- रुद्धधर्माध्यासेनैकस्यैव पटादिभावेनाभिमतस्यावयविनो- ऽनेकत्वात् । परमाणुः स्वभिन्नोपादेयोपादानं न वेत्यवय- विनि विप्रतिपतिः। रक्तारक्तविरोधादवयवकोटिर्नास्तीति चेन्न रक्तत्वेनाभिमतस्य भागस्य रक्तत्वात् । रक्त- प्रत्ययस्तु महारजनाद्योपाधिकः । ०२ .. प्रशस्तपादभायटीकासबहे अस्तु तर्हि चलाचलत्वविरोध इति चेन्न पाण्यव- च्छेदेन यत्र चलत्वमुपलभ्यते तत्र पादावच्छेदेनाचलत्वं तत्रावय विनोऽचलत्वमवयवस्य परं चलत्वमविरोधात् । तात्रयघावयविनोर्युतसिद्धिः स्यात् वस्त्रोदकवदिति चेत् । चलाचलत्वं चेद् युतसिद्धिः तदेष्टापत्तिः पृथगाश्रयाश्र. यित्वं चेत्तदापि तथा अश्यविनः स्वावयववृत्तित्वात् तदवयवस्य च स्वावयववृत्चित्वात् । परस्परविभागाहतु- क्रियावत्वं चेत् तत्र समवायाभावयत्त्वस्योपाधित्वात् । अस्तु नर्हि कात्स्यकदेशविकल्पासहत्वादवयविभङ्गः तद्यथा अवयवी स्वावययेषु यदि कारन्येन वर्त्तते तदा अवयवान्तरावृत्तित्वान्न व्यासज्यवृत्तिता । अथैकदेशेन वर्तते तदा अवयवातिरिक्तस्यैकदेशस्याभावात् क वर्त- तामिति चेन्न अवयवी स्वाश्येषु स्वरूपेण वर्चत इत्य- भ्युपगमात् ॥ अथ जलम् । स्नेहसमानाधिकरणस्नेहासमा- नाधिकरणगुणासमानाधिकरणजात्यधिकरणत्वं जल- त्वम् । स्नेहस्थाने सांसिद्धिकद्रवत्वप्रक्षेपाहा तल्ल- क्षणम् मधुररसमात्रसमानाधिकरणद्रव्यत्वसाक्षायाप्य- जात्यधिकरणत्वं सांसिद्धिकद्रवत्वस्थाने(१) शी- (१)हस्थाने-पा.२ पु०।

१३ कणादरहस्यम् । तसर्शप्रक्षेपाहा तल्लक्षणम् । नित्यरससमानाधिक- रणद्रव्यत्वसाक्षायाप्यजात्यधिकरणत्वं वा । गन्धा- समानाधिकरणरससमानाधिकरणजात्यधिकरणत्वं वा । गन्धासमानाधिकरणगुरुत्वसमानाधिकरणजात्यधिकरण- खं वा । गन्धात्यन्ताभवसमानाधिकरणरससमाना- धिकरण(द्रव्यत्वसाक्षाव्याप्य)(१)जात्यधिकरणत्वं वा। रसस्थाने गुरुत्वं वा प्रक्षेप्तव्यम्। द्रवत्वाधिकरणत्वे सति नैमितिकद्रवत्वानधिकरणत्व(२) वा । तच्च जलमित- रेभ्योभियते नेहवस्यात् न यदेवं न तदेवं यथा पृथिवीति पूर्ववदूह्यम् । हिमकरकासरित्समुद्रादिषु जलाकारानुगत- प्रत्ययाभावान्न जलत्वं जातिरति चेन्न अनित्यस्नेहसम- वाधिकारणतावच्छेदकतया तत्सिद्धिः । तर्हि परमाणुपु कथं तदिति चेन्न जलारम्भकः परमाणः स्त्रोपादेयवृ- चिद्रव्यत्वसाक्षादव्याप्यजातिमान् परमाणुवात् पार्थि- वपरमाणुवत् इति तत्रापि स्नेहवन्माननिष्ठसंयो- गसमवायिकारणतावच्छेदकतया वा परमाणुसाधार- ण्येन तसिद्धिः । संयोगस्थाने विभागविहिप- थक्त्वादिपरत्वापरत्वप्रक्षेपाहा तत् साधनीयम् । पृथि- (१)() एतन्मभ्यस्थः पाठो नास्ति २ पु०। (२)द्रपत्यानधिकरणजातित्व-पा० ११०।

प्रशस्तपाद्भाप्पटीकासङ्ग्रहे व्यामपि घृतादौ स्नेहोऽतस्तद्गर्भ जललक्षणमनुप- पन्नमिति चेत् न तन संयुक्तसमवायेन तदुपल- म्भात जलेनापि संग्रहदर्शनात स्नेहद्रवत्वयोश्च संग्रह- कारणत्यात तनावश्यं स्नेहकल्पनात् । शुक्लमेव रूपमपामित्यसिद्धम् कालिन्दीजलादी नीलिमोपलम्भा- दिति चेन्न ततायोपाधिकत्वात् तस्य कथमन्यथा वियद्विक्षिप्तानामपां धावल्यमुपलभ्यते । ननु मधुर एव रसोऽम्भसीति कथं यतो रसमात्र- स्यैवानुपलम्भात् । लवणोदधौ(१) लबणरसोपलम्भात् । करवीरफलादौ तैक्त्योपलम्भादिति चेन्न हरीतकीभ- क्षणानन्तरं माधुर्योपलम्भात् । न च हरीतकीमाधुर्यमेव जलेनाभिव्यज्यत इति वाच्यम तदीयरसान्तराभि- व्यक्तिप्रसङ्गात् । तत्र रसान्तरं नास्त्येवेति चेन्न पडूसा हरीतकीति व्यवहारोच्छेदापत्तेः(२) तत्तद्रसकार्यकारि- तया तथा व्यवहार इति चेन्न पडूसले वाधकामावात् । तत्तद्रसोत्पत्ती गुणविरोध एवं बाधकमिति चेत् तर्हि पटादावपि चितं रूपं न स्यात् । एवं सति पटस्य नीरू- पतया तदनुपलमापत्तिरिति चेतू न पटस्य चाक्षुपत्ता(३)- (१) लयणजलादी-पा० २ पु। (२)व्ययहारविरोधापत्तः-पा०२ पु०। (३) प्रत्यक्षरया-पा०२पु०॥

कणादरहस्यम् । न्यथानुपपत्या चितं रूपं विजातीयमेव यथा कल्प्यते तथा च विलक्षणरसकल्पने पोढा परिगणनविरोधात् । पण्णामपि रसानां हरीतक्या वृत्ती व्याप्यवृत्तिाभङ्गप्र- सङ्गात् हरीतक्या नीरसत्वकल्पने बाधकाभावात् । नीरसैव हरीतकी कषायादिरसानां तदवयवगतानामु- पलम्भ इति हरीतक्या जलमाधुर्याभिव्यक्तेरेवौचितत्वा- त् । हरीतक्या जलसंयोगेन माधुर्यमेवोत्पद्यतामिति चेन्न पृथिवीरसस्याकारणगुणपूर्वकस्यामिसंयोगमातो- त्पाद्यत्वात् । कर्कटीभक्षणानन्तरं तेक्त्यमुपलभ्यत इति चेत् न तत्र कर्कटीतैक्त्यस्यैव जलेनाभि- व्यक्तः । विनिगमकं किमति चेन्न कर्कट्यां ज- लपानात् पूर्वमपि तैक्स्योपलम्भात् कर्कटीभक्षणेन रस- नाग्रवर्तिपित्तक्षोभो वा क्रियते तदीयमेव तैक्त्यमनुभूयत इति वैद्यकप्रसिद्धः। ननु शीत एव स्पर्शो जल इत्यनुपपन्नम् । उष्णो- दकादौ औरण्यस्याप्युपलम्भादिनि चेन तत्रातपसं. योगादेरुपाधेः सत्त्वात् । श्रीखण्डेऽपि शैत्यमस्तीति चेन्न तत घर्षकजलशैत्यस्योपलम्भादिति । ततो. ऽप्यधिक तत्रानुभूयत इति चेन्न श्रीखण्डसंयो. गादिलक्षणजलशैत्याभिव्यक्तिः श्रीखण्डान्तरवर्तिनो प्रशस्तपादभाष्यटीकासबहे जलस्य घर्षणात् वहिरानीतस्य वा तच्छत्यमिति न किञ्चिदनुपपन्नम् । गन्धस्थले संहप्रक्षेपादुक्ता एवं चतुर्दशगुणाः । तेषामुत्पादविनाशावपि तहदेव रूपादी- नामिहापाकजत्वमिति विशेषः । कार्यमपामपि शरीरेन्द्रियविषयरूपं त्रिविधमेव(१)। तत्र शरीरमयोनिजमेव वरुणलोके प्रसिद्धम् । पार्थिव- भागोपष्टम्भाच्चोपभोगसमर्थम् । इन्द्रियं तु पार्थिवाद्यनु- पष्टब्धजलावयवैरारब्धं रसनमाप्यं गन्धादिपु मध्ये रसस्यैवाभिव्यञ्जकत्वात् सक्तुरसाभिव्यञ्जकसलिलव- दित्याप्यत्वे मानम् । विषयस्त सरित्समुद्रहिमक- रकादिरूपः । करका पृथिवी कठिनसंयोगवत्त्वादघटब- दिति चन्न अनुप्णाशीतस्पर्शस्योपाधित्वात् । धनव्यापकत्वान्नायमुपाधिरिति चेन्न पक्ष एवं सा- धनाव्यापकत्वात् । पक्षे कठिनसंयोगवस्वं नास्ति कि. न्तु अदृष्टवशात् द्रवत्वं प्रतिरुद्वमित्येव तत काठिन्यब- द्विरिति चेन्न तदा त्वदुक्तहेतोः स्वरूपासिद्धत्वा- देवानुमानभङ्गात् । उपाधिस्त्यदुक्तस्तावभग्न इति चेन्न कचित् साधनव्यापकस्याप्युपाधित्वोपगमान् । तहि साध्यव्यापकले सति साधनाव्यापकत्वमुपा- (१) विषयलक्षणं प्रियिधर्मय-पा० २ पु०। .

कणादरहस्यम् । धिलक्षणमव्यापकं स्यादिति चेत्(१) न यव्यावृत्या पक्षे साध्यसाधनसम्बन्धव्यावृत्तिः स उपाधिरित्युपा- धिलक्षणात् । व्यावर्तते ह्यनुप्माशीतस्पर्शवत्व- व्यावृत्त्या करकातः साध्यसाधनसम्बन्धस्तत्र साध्य. साधनयोरुभयोरपि व्यावृत्त्या सम्बन्धव्यावृत्तिरन्यत्र तु साध्यमात्रव्यावृत्त्यत्यन्यदेतत् । स्वरूपासिद्धी(२) सत्या किमुपाधिनेति चेन्न उपाधेः सर्वत्र दूपणान्तरसङ्कीर्ण- त्वादिति। अथ तेजः । तत रसववृत्तिरूपववृत्चिद्र- व्यवसाक्षाव्याप्यजातिमत्त्वं तेजस्त्वम् । गुरुत्वास- मानाधिकरणरूपसमानाधिकरणजात्यधिकरणत्वं वा । न च धूमेऽतिव्याप्तिः । तत्राप्यलं धूमदशायां गुरु- त्योपलम्भाव । वह्निना नोदनादत्यन्तापकृष्टगुरुत्वस्य 'धूमस्योर्ध्वगमनादायुनोदनाहा धूलीपटलतूलकादिवत् । गुरुत्वाधिकरणानधिकरणरूपानधिकरणानधिकरणजात्य- धिकरणत्वं वा।गुरुत्वसमानाधिकरणद्रव्यत्वसाक्षाप्यजा- त्यधिकरणानधिकरणरूपसमानाधिकरणजातिमत्त्वं वा। अभास्वररूपाधिकरणानधिकरणरूपसमानाधिकरणजा- । (१) अव्यापकत्वाद्भग्नमिति चेत्-पा० २ पु०। (२) निरुपाधिसिद्धौ-पा० १ पु०।

१८ प्रशस्तपादभाष्यटीकासङ्ग्रहे तिमत्त्वं या । गुरुत्वासमानाधिकरणद्रवत्वसमाना- धिकरणजात्यधिकरणत्वं वा । उष्णस्पर्शानाधिकरणान- धिकरणजात्यधिकरणत्वं वा । चन्द्रचामीकरादावप्य. नुतोष्णस्पर्शवत्त्वात रसवदवृत्तिद्रवत्वववृत्तिजाति- मत्त्वं वा । साधयिप्यते च तेजसि द्रवत्वम् । भा- स्वररूपसमानाधिकरणभास्वररूपासमानाधिकरणगुणा- समानाधिकरणजात्यधिकरणत्वं वा । औष्ण्यसमाना- धिकरणापण्यासमानाधिकरणगुणासमानाधिकरणजात्यधि- करणत्वं वा । ननु ताशी जातिस्तेजस्त्वं वाच्या सा चासिद्धा(१) चन्द्रचामीकरादिसाधारण्येनानुगतप्रतीत्यभावादिति चेन्न उष्णस्पर्शसमवायिकारणातावच्छेदकतयाऽवयविनितजा- तिसिद्धेः तेजःपरमाणुः स्वोपादेयवृत्तिद्रव्यत्वसाक्षाद- व्याप्यजातिमान् द्रव्यसमवायिकारणत्वात् द्रव्यासम-, वायिकारंणसंयोगाधारत्वात् अवयवत्वात् स्पर्श- वत्ते सति अनन्यावययित्वात् स्पर्शासमवायिकारण- स्पर्शाधारत्वात् रूपासमवायिकारणकरूपाधारत्वात्. द्र- व्यारम्भकपरमाणुसंयोगप्रतिद्वन्द्विविभागसमवायिकारण- त्वात् तन्तुवत् कपालबत् पार्थिवपरमाणुवदित्यायूछम् । (१) तेजस्वं पाच्यं तचाप्रसि-पा०२ पु०।

कणादरहस्यम् । मनु बारुणकपिलादिरूपोपलन्नात् शुक्लमेव रूपं तेजसीत्यसिद्धमिति चेन्न तत्रापि तेजस्त्वेन शुक्लरूपवत्व- साधनात् । तर्हि तादृशं रूपमुपलभ्येतेति चेन्न शुक्लत्व- जातेस्तत्राभिभूतत्वात् । आरुण्याद्युपलम्मा कथमिति चेन्न दाखलक्षणोपाधिसामर्यात् । किमिति कल्पने- यमिति चन्न भास्वररूपबत्तया उष्णस्पर्शवत्तया च बह्र- स्तेजरत्यसिद्धौ शुक्लरूपानुमानात् । तत्र रूपस्पर्शसंख्या- परिमाणपृथक्त्वसंयोगविभागपरत्यापरत्वद्रवत्वसंस्कारा एकादशगुणाः रूपं शुक्लं भास्वरम् भास्वरत्वं च पररूपप्रकाशत्वव्यङ्गया रूपगता जाति: प्रभायाम- पि तेजस्वादोण्यमनुमेयम् । कनके शुक्लभास्क- रत्वं चाभिभूतं न तु रूपमेव कनकाप्रत्यक्षत्वप्रसङ्गा- त् । यद्वा रूपमप्यभिभूतं कनकस्य ग्रहणं तु प. ररूपोपग्रहेण यथा महारजनरक्तस्य पटादेः । अन्ध- कारे तर्हि वलवरसजातीयग्रहणाभावात् कनकरूपान- भिमवे अहणप्रसङ्गः न हि तेजोरूपग्रहे ऽपि तेजोन्तरा. पेक्षति चेन्न वलवत्सजातीयसम्बन्धमानस्यैवाभिमवला- त् । स च रात्रावपि इति तमसि कनकानुपलम्भ एव । उमापि तेजः उष्णस्पर्शवत्वात् तर्हि स्पर्शोहत्र रूपो- बोऽपि स्यादिति चेन तेजसि तादृशव्यासेरभावा- प्रशस्तपादभाष्यटीकासबहे प्रभायां रूपोहयेऽपि स्पर्शानुद्भवस्य च स्पोद्भवेऽपि रूपानन्द्वसम्भवात् । अत एव तेजधातुर्विध्याभ्युपगमः । किश्चिदुर्- तरूपरपर्श यथा सौरम् । किश्चिनुतोभयं यथा चक्षुः । किश्चिदनुहूतरूपमा यथोमा तैलादिगतं च तेजः । किञ्चिदनुहतस्पर्शमानं यथा चन्द्रचामीकरादि । ननु चामीकरोदस्तेजान्तरवैधतिज एव न भ. वतीति चेन्न सुवर्ण तैजसमत्सन्तानलसंयोगे सति अनु- च्छिद्यमानानित्यद्रवत्वाधिकरणत्वात् । यन्न तैजसं तन्ना. त्यन्ताग्निसंयोगानुछियमानानित्यद्रवत्वाधिकरणं यथा घटः । अतैजसत्यव्याप्यात्यन्ताग्निसंयोगानुच्छिद्यमा. नानित्यद्रवत्वाभावाभाववच्चैतत् तस्मात्तैजसमिति त- • रिसडेः । सुवर्ण पार्थिवं गुरुत्वाधिकरणवात् पीतिमाधिकरणत्वात् नैमित्तिकद्रवत्वाधिकरणत्वात् । यहा सुवर्ण न तेजसमोपण्यानधिकरणत्वात् पीत. खात् अभास्वररूपवत्त्वादित्यादिना सत्प्रतिपक्षत्वमिति चेन्न एतेषां हेतूनां स्वरूपासिद्धखेन हीनयलत्यात । नैमित्तिकद्रवत्वपत्ता न सिद्धेदिति चेन्न पृथिवीवृत्तिद्रव- त्वविलक्षणद्रवत्ववत्वेन तैजसत्वस्यैव सिद्धेः । अन्यथा जलं पृथिवी रूपवत्त्वात स्पर्शवत्वादित्याधपि स्यात् ।

कणादरहस्यम् । अथ वायः। समवेतद्रव्यसमेवतत्वे सति रूपबदस- मवेतजातिमत्त्वं वायुत्वम् । रूपासमानाधिकरणस्पर्शस- मानाधिकरणजात्यधिकरणत्वं वा स्पर्शसमानाधिकरणा- तीन्द्रियद्रव्यत्वसाक्षादव्याप्यजातिमत्त्वम् अवयविवृत्ति- रूपवदवृत्तिजातिमत्त्वं वारूपासमानाधिकरणज्ञानासमा- नाधिकरणविशेषगुणसमानाधिकरणजातिमत्वं वारूपाधि- करणानधिकरणस्पर्शानधिकरणानधिकरणजात्यधिकरण- त्वं द्रवत्वासमानाधिकरणस्पर्शसमानाधिकरणद्रव्यत्वसा- क्षाव्याप्यजातिमत्त्वं वा(१)अपाकजानुष्णाशीतस्पर्शस- मानाधिकरणापाकजानुष्णाशीतस्पर्शासमानाधिकरणगुणा- समानाधिकरणजत्यधिकरणत्वं वा रूपात्यन्ताभावसमा- नाधिकरणविशेषगुणवन्मूर्त्तमात्रवृतिजासधिकरणत्वं वा रूपवदवृचिद्रव्यारम्भकसंयोगसमानाधिकरणजातिमत्त्रं वेत्साह्यम्। स्पर्शवन्नीरूपं द्रव्यमेव नास्ति प्रमाणाभावा- दिति चेन्न सर्शन तदनुमानात। स्पर्शः पार्थिव एवायं किन्न- स्यान स्यात् रूपासहचरत्वाद । अनुभूतं तत्र रूपं स्यादिति चेन्न उदभूतस्पर्शवत्पृथिव्या उदभूतरूपवत्त्वनि- यमात् । नियम एवायं नेष्यत इति चेन्न निरुपधिसहचा- रेण तसिद्धः । उद्भूतरूपा धूमादिलक्षणा पृथि- (१) जात्यधिकरणय या-पा०२ पु०॥

२२ प्रशस्तपादभाष्पटीकासाहे वी यथा स्पर्शोहवं व्यभिचरत्यैवमुद्भुतस्पर्शा रूपोहवं व्यभिचरेदिति चेन्न धूमेऽपि' चक्षुर्गोलकावच्छेदेन स्पर्शग्रहात् । तर्हि विततचम्पकादिभागे गन्धोहबो- ऽपि रूपोद्भवं न व्यभिचरेत् विततावयवजलशैत्योहवी- ऽपि रूपोद्भवं न व्यभिचरेदिति चेन्न गन्धशैत्ययोः पार्थि: वाप्यत्वनिश्चयात् तब रूपानुद्भवकल्पनैचित्यात् । एवं मेघादिसंयोगादाकाशे उत्पद्यमानः शब्दः स्पर्शव- ता द्रव्यान्तरेण मेघादिसंयोगान्निमित्तकारणाहेरीदण्डसं. योगादिवोत्पद्यते तत्र स्पर्शवतोऽन्यस्य द्रव्यस्याभाराहा. युरेव कल्पनीयः । एवं मेधादिधृतिरपि आकाशे स्पर्श- वत्संयोग विनानुपपद्यमाना स्पर्शवतोर्वायोः संयोगं कल्प- यति अन्यस्याभावात् नौकाधृतिरिव जलसंयोगम् । एवं तृणादी कम्पः स्पर्शवद्रव्याभिघातजन्य इति ततोऽपि वायुसिद्धिः। तदुक्तं यायुः स्पर्शशब्दधृतिकम्पलिङ्ग इति। कार्य चास्य चतुर्विधम् । शरीरेन्द्रियविषयमाणलक्ष- णम्। शरीरं वायुलोके प्रसिद्धम्।पार्थिवभागोपष्टम्माचोप- भोगसमर्थम् । इन्द्रियं त्वगधिष्ठानं शरीरस्य शहजावरणं वक् वायूपादानमिन्द्रियं वगिन्द्रियं खगधिष्ठानमिन्द्रय शरीरस्प सहजावरणमित्यर्थः । तच स्पर्शग्राहक तदुपष्टम्भन द्रव्यादेहिकम् । वायवीपखे तस्य किं प्रमा- .

कणादरहस्यम् । २३ (७) त्वगिन्द्रियं वायवीयं गन्धादिषु मध्ये स्पर्शमात्रया- कत्वात् । अङ्गसगिसलिलशैत्याभिव्यञ्जकव्यजन- तिवात् । विषयस्तूपलभ्यमानस्पीश्रयो वायुः । त- य चानेकलं प्रतिघात्याद्वायोः प्रतिघातकस्थान्यत्वात् । प्रतिघातच तृणादेरूर्ध्वगमनानुमेयः तिर्यग्गतिशीलादूर्ध्व- गतिशीलंद्रव्यान्तरमेव किं न स्यादिति चेत् न तिर्यग्ग- तिशीलस्यापि जलस्य प्रतिघातादृर्ध्वगतिदर्शतात् । प्रा- णश्च शरीरान्तश्चारी वायुः । स एक एव तत्तवाकिया- कारित्वात् पञ्चसंज्ञा लभते । शारीराः पश्चवायव इत्यपि क्रियापश्चकनिवन्धन एव प्रवादः । ननु वायुः प्रत्यक्ष एवं किन्न स्यात् । त्वगिन्द्रि- ‘यव्यापारानन्तरं वायुर्वातीति प्रतीतेः । तथा च प्रयोगः वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् यदेवं तदेवं यथा घट इति चेत् न उद्भूतरूपवत्त्वस्योपाधित्वात । आत्मनि साध्याच्यार्पकमिदमिति चेन्न साधनावच्छि- नसाध्यव्यापकत्वात् । तदुक्तम् ।। वाद्युक्तनियमच्यतोपि कथकैरुपाधिरुहाव्यः । पर्यवसितं नियमयन् दूपकतावीजसाम्राज्यात् ॥ चाक्षुषप्रत्यक्षतायामेव तत्चन्त्रं न तु सार्शन- (१)किं मान-पा०२ पु०।

२४ प्रशस्तपादभाप्पटीकासकहे प्रत्यक्षतायामपीति चेन्न सामान्ये वाधकामावाद । किञ्च वायोः प्रत्यक्षवे तद्गतसंख्यापरिमाणादिग्रहण प्रसङ्गः ।ननु यज्जातीयं प्रत्यक्ष तजातीयस्य संख्यादिकं प्रत्यक्षमिति व्याप्तिभेदभिमता तदा फूक्तारे संख्यादि- ग्रहोस्त्योव। अथ या व्यक्तिः प्रत्यक्षा तदीयं संख्यादिकं गृह्यत एवेति नियमस्तदा पृष्ठलग्नवस्रादी व्यभिचार इति चेन्न फूत्कारादापि संख्याप्रतीतेरानुमानिकत्वात पृष्ठलग्नवस्त्रादेरपि करपरामर्शेण संख्यापरिमाणादे- हणाद । द्वितीयनियमे ऽपि न, व्यभिचार चक्षुषा वस्त्रसंख्यादिग्रहणात । न घेतादृशो नियमो यत् प्रत्यक्षं तत्संपादिविषयकमेव किं तर्हि या व्यक्ति प्रत्यक्षा तदीयसंख्यादिकं गृह्यत एवेति । वायौ च तथा नास्तीति वायुरप्रत्यक्ष एवेति । उदभूतरूपवत्वं उद्- भूतस्पर्शवत्वं च मिलितं तन्त्रमिति तात्पर्याचार्याः । तन्मते चान्द्रं तेजो नपनगतपिचद्रव्यं पारागादिप्रमा-' दिकं च किमपि न प्रत्यक्षम् । तथा चोदभूतरूपयवस्पो. द्भुतस्पर्शवत्वसहकृतस्य वा तस्य प्रयोजकस्वे वायुरप्र- त्यक्ष एवेति। वायुत्वजातिरनित्यापाकजानुग्णाशीतपशंग- मवायिकारणतावच्छेदकतया साध्या परमाणी तु पूर्व साधनीयेति दिक् । अत्र च पसंरपारिमाणपृथक्व- कणादरहस्यम् । २५ संयोगविभागपरत्वापरत्वसंस्कारा नवगुणाः। द्वित्वहि- पृथक्त्वपरवापरत्वानामिहानुमानिक्यापेक्षाबुद्ध्योत्पत्तिः॥ अथाकाशम् । अब्दः क्वचिदाश्रितो गुणत्वादिति सामान्यतो दृष्टेन पृथिव्याद्याश्रितत्ववाधसहकारिणाष्टट्र- व्यातिरिक्तद्रव्याश्रितत्वपर्यवसापिना सिद्धस्य नवमद्रव्य- स्पाकाशमिति संज्ञा । सामान्यतो दृष्टावतारानन्तरं वाधावतारदशायां तु शब्दोऽष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यानाश्रितत्वे सति द्रव्याश्रितत्वात् यदष्टद्र- व्यांतिरिक्तद्रव्याश्रितं न भवति तदष्टद्रव्याना- श्रितत्वे सति द्रव्याश्रितं न भवति यथा रूपमिति व्यतिरेकिणा वा तत्सिद्धिः । लक्षणं तु शब्दसमवा- यित्वं ज्ञानानाधिकरणविशेषगुणाधिकरणविभुत्वं वा एवमिच्छायत्नयोरपि पुरणादूह्यम् सुखादिपूरणे वी- श्वरात्मन्यतिव्याप्तिः । नित्यविशेषगुणवचिद्रव्यत्व- व्याप्यजातिशून्यत्वे सति विशेषगुणवत्त्वं वा निःस्पर्श भूतत्वं वा । तचीतीन्द्रियं नीरू वाह्यद्रव्यत्वात् स- कलमूर्तसंयोगिपरममहत्त्वाश्रयत्वात् । न चापरिमितमे- घाकाशम् द्रव्यत्वव्याकोपात द्रव्यत्वव्याप्यजातिशून्य चैकत्वात् । तदुक्तम् । व्यक्तरभेदस्तुल्यत्वं सङ्करोधानवस्थितिः । .

प्रशस्तपादभाष्पटीकासाहे रूपहानिरसम्बन्धो जातिबाधकसंग्रहः ॥ इति ।। तर्हि किमाकादापदप्रवृत्तिनिमित्तं न किश्चित् किंतु शब्दाश्रयत्वं तटस्थलक्षणम् एवं सत्याकाशपदानि- विकल्पकमेव स्यादिति चेत् न इष्टापत्तरिति केचित् । स्मृत्युपनीतस्यापि शक्तिग्रहप्रकारवादशक्यमपि तन्न शब्दाश्रयत्वमेव नियमतो भासत इति केचित । शब्दा- श्रयत्वमपि शक्यमेवेत्यपरे । अत एवाकाशं कालो दि- मिति पारिभाषिक्यः तिस्रः संज्ञा इति भाष्यम् । संज्ञा हि पञ्चविधा भवति शृङ्गग्राहिकया यधासौ देवदत्त इति । पारिभाषिकी यथाकाशमिति इयमेव तटस्थलक्षणे. त्युच्यते शब्दाश्रयत्वस्योपलक्षणस्य तटस्थत्वात् । का. चिदन्तर्भूतोपलक्षणा यथा पाचक इत्यादि । अन्न ह्युप- लक्षणं पाकक्रिया सापि पाचकपदजन्ययुद्धावन्तर्भवति। काचित् सनिमित्ता या गवादिसंज्ञा अत्र हि गोत्यादिक प्रवृत्तिनिमित्तम् । काचित्तु निमित्तसङ्कोचनियमेन(१) यथा स्वर्गादिसंज्ञा अन हि सुखत्वमेव प्रवृत्तिनिमित्तं तच दुःखासम्भिन्नत्यादिना निमित्तेन सङ्कोच्यने । ननु देवदत्तादिसंज्ञा कथं गृङ्गग्राहिकया यावता देवदत्तत्वा- दिजातेः प्रवृत्तिनिमित्चस्य सत्यापिति चेत् सत्यम् (१) सोचनिकया-पा०२०।

२७ कणादरहस्यम् । अचेतने स्तम्भकुम्भादौ देवदत्तसंज्ञायास्तादूप्येणाभिमत- खात् । यहा समानकालीनानेकावृत्तिः शरीरवृत्तिजा- तिदेवदत्तत्वं तया बहूनामवच्छेदमजानानं प्रति देवदत्तो- यमिति संज्ञा शृङ्गग्राहिकैव तावत् तदेवाकाशं कर्णशष्कु- ल्पवच्छिन्नं श्रोत्रम् । ननु वीणावेणुमृदङ्गानामेव श्रोत- स्वं तावता वीणायां शब्दो वेणौ शब्द इति प्रतिपत्तिः । ननु वीणायामुत्पन्नेन शब्देन भवदभिमतस्य श्रोत्रस्य सम्बन्धोऽस्तीति चेत् न वीणादीनां प्रत्येकमेकैकस्य पुरुषस्य प्रोत्रत्वकल्पनायां कल्पनागौरवात शब्देन कर्णशःकुल्यवच्छिन्नेन नभसा समवाय एव सम्बन्धः । तर्हि दवीयानपि शब्द उपलभ्येतेति चेन्न कर्णश- एकुल्यवच्छेदेन तत्समवायस्य विवक्षितत्वात् । तर्हि वीणावच्छिन्ने नभसि समुत्पन्नेन शब्देन तदवच्छेदेन कथं समवाय इति चेत् न वीणादिदण्डसंयोगनिमित्त. केन भेयाकाशसंयोगासमवायिकारणकेनायेन शब्देन दशसु दिक्षु दश शब्दा आरभ्यन्ते तैरपि प्रत्येकं तावन्त एवं तावद्यावच्छ्रोत्रप्रतीतिरिति । अत एव चतुर्दिक्षु सर्वेषां शब्दोपलब्धिः(१) अथ कुड्यादिदेशेन निमित्तबायोः प्रतिघातादग्रे वायोः संसरणाभावादन्त्यः शब्दः शब्दा- (१) शब्दोपलम्मा-पा०२ पु०।

२८ . प्रशस्तपादभाष्पटीकासह न्तरं नारभते अतो महति दुरे नोपलम्भः । नन्वेकः शब्दो बहुभिश्चन्न श्रूयते तदा य एव वीणाशब्दः त्वया श्रुतः स एव मयापीति कथं प्रत्य- भिज्ञेति चेत् न तज्जातीयत्वेन प्रत्यभिज्ञानोपपत्तेः । य एव शालिस्त्वया भुक्तः स एव मयापीतिवत् । यहा वीचीतरङ्गन्यायेनैकैकेन शब्देन एक एव हि शब्दो जन्यते तथा च व्यक्त्यभेदकृतैव प्रत्यभिज्ञा । नन्वाकाशस्य नित्यत्वाहिभुत्वाच्च व्यतिरेकामा- वात् सकलकार्यपूर्ववर्णितया सर्व प्रति कारणता स्यात् न स्यात् अन्यथासिद्धत्वात् शब्द प्रति पूर्वव- तित्वे ज्ञात एवं कार्यान्तरं प्रति पूर्ववर्तित्वग्रहात् । तर्हि स्वनिष्ठसंयोगादिकं प्रत्यपि न कारणता अन्यथासिद्ध- त्वादिति चेत् नैवं स्वनिष्ठसंयोगादिकं प्रति ना- काशवेनास्य कारणता किन्तु द्रव्यत्वेनेति गृहाण । ननु शन्दं प्रत्यपि कथमस्य कारणता स्यात् व्य. तिरेकासम्भवादिति चेत् न शब्दं प्रति तत्कारणताया धर्मिग्राहकमान()सिद्धत्वात् । तदुक्तम् । व्यापकस्यापि नित्यस्य धर्मिधारन्यथा नहीति । यहा आकाशे शब्दः आकाशादन्यत न शब्द इत्यन्योन्याभावरूप(२)व्यति. (१) प्रमाण-पा०२ पु०। (२) अन्योन्यामायमेव-पा०२०। .

२९ कणादरहस्यम्। रेकमादाय कारणताग्रहात् । शब्दस्य नित्यत्वात् त प्रति कथमाकाशं कारणमिति चेत् न एतस्य तवाभि- मानस्याग्रे निरस्तत्वादिति(१)॥ अथ कालः । स च परापरव्यतिकरयोगप- चायोगपद्यचिरक्षिप्रप्रत्ययलिङ्गः संयोगविषयापेक्षाबुद्धि- जन्यपरत्वासमवायिकारणसंयोगाधिकरणविभुत्वं काल- त्वम् । संयोगविषयापेक्षाबुद्धिजन्यपरत्यासमवायिकारण- संयोगाश्रयत्वे सति परममहत्त्वाश्रयत्वं वा । संयोग- विषयापेक्षाबुद्धिजन्यपरत्वासमवायिकारणसंयोगाश्रयत्वे सति विशेषगुणासमानाधिकरणमहत्त्वाधिकरणलं या संयोगानुपनायकत्वे सति विशेषगुणासमानाधिकरणमह- त्वाश्रयस्वं वा संयोगविषयापेक्षावुद्धिजन्यपरत्वासमाना- धिकरणसंयोगानाश्रयत्वे सति विशेषगुणासमानाधिकर- णमहत्त्वाधिकरणत्वं वाएवमपरत्वंप्रक्षेपादिदमेव लक्षणम्। दिगन्यत्वे सति विशेषगुणानाधिकरणविभुत्वं वा कालत्वं योगपद्यप्रत्ययासाधारणनिमित्त्वमपोगपद्यप्रत्ययासाधा- रणनिमित्तत्वं क्षिप्रमत्ययासाधारणनिमित्तत्वं वेस्पायुधम् । ननु कालासिद्धौ आश्रयासिद्धानि लक्षणानीति चेत् न परत्वापरत्वविशेषगुणादेव तत्सिद्देः । भवति हि (१) निरसनीयत्वात्-पा० ३ पु० ।

4 प्रशस्तपादभाष्यटीकासङ्ग्रहे युवानमवधिं कृत्वा स्थविरे परप्रत्ययः । स्थविरं चावधिं कृत्वा यून्यपरप्रत्ययः । स च परत्वापरत्व- लक्षणगुणविशेपाधानः पत्वापरत्वे च जन्यत्वे(१) सति कादाचित्कस्वात् अत एवासमवापिकारणसापेक्षे तदसमवायिकारणं च न रूपरसगन्धरसर्शानामन्यतमत् पृथिव्यप्तेजोवायुमनस्सुप्रत्येक व्यभिचारात् । न च मन- सि परस्वोत्पत्ती प्रमाणाभावात् स्पर्शवन्मात्रवृत्तित्वात् तस्य स्पर्श एवासमवायिकारणं स्पादिति वाच्यम स्पशी- स्कर्षाद्यननुविधानात् स्पर्शस्य विजातीयगुणासमवायि- कारणत्वानभ्युपगमाच्च । शब्दबुयादीनां च प्रसङ्गबाधित- त्वात् गुरुत्वद्रवत्वस्नेहादीनां च वायुवृत्तिपरत्वापरत्वे व्यभिचारात् संपोगोऽसमवायिकारणं बोध्यव्यः(२)। ननु संख्यादीनामप्यसनवायिकारणत्वसंभयात् कथ- मयं परिशेष इति चेत् न विभुवृत्तिषु गुणेषु संयोगस्यै- व स्वविजातीयसामान्यगुणासमवायिकारणात्वस्वीकारा- त् । विभुसंयोगोऽसमवायिकारणं परत्वापरत्वयोरस किं . नियामकमिति चेत् सत्यं बहुतरतपनपरिस्पन्दान्तरित. जन्यत्वयुद्धत्वमल्पतरतपनपरिसन्दान्तरितजन्यत्वबुद्धि- (१)चानिस्यत्वे-पा०२०। (२)पाच्यम्-पा०२ पु०।

कणादरहस्यम्। त्वापेक्ष्य परवापरलयोरुत्पत्तिर्वाच्या अन्वयव्यतिरे- काभ्यां तथैवावधारणात सा च सन्निकृष्टबुद्धिविप्रकृष्ट- बुद्धिः सूर्यक्रियोपनयनद्वारा स्यात् । तथा च युवपिण्ड- स्थविरपिण्डयोर्तिण्डकिया मार्तण्डसंयोगिना द्रव्येण केनोपनेयात् तदुपनये प्रत्यासत्यपेक्षणात तादृशं च द्रव्यं विभु पर्यवस्यति । न चाकाशमात्मा वा त- था स्यात् किं कालकल्पनयेति वाच्यम् आकाशस्य आत्मनो वा परधर्मोपनायकत्वे सर्वधर्माणां सर्वत्रो- पनयप्रसङ्गः । न च कालेऽप्येवं तस्य नियतपरधर्मा- पनायकतर्यव कल्पनात । वस्तुतो नाकाशात्मानी सूर्यक्रियोपनायको विशेषगुणवत्वात् पृथिव्यादिवत । न च तत्राव्यापकत्वमुपाधिः दिशि साध्याव्यपक- स्वात् । न च साधनावच्छिन्नसाध्यध्यापकता अतिप्रस. सकतया सूर्यगत्युपनायकत्वसिद्धौ पक्ष एव साध्या-. व्यापकत्वात् । एवं च काकार्यसमवायलक्षणया प्र- त्यासत्त्या युवपिण्डकालसंयोगोऽनमवायिकारणमपर- वोत्पत्तौ स्थविरपिण्डकालसंयोगश्च परत्वोत्पत्तावपति सिद्धम् । एवं योगपद्यादिप्रत्ययोऽपि काललिङ्गं भवति हि युगपजातोऽयुगपजातश्चेत्यादि तत्र युगपदित्येक- स्मिन् काल इति एकसूर्यगत्यवच्छिन्ने काल इति या.

प्रशस्तपादभाष्यटीकासाहे वत सा तु सूर्यगतिघंटादौ विशेषणत्वेन सम्बन्धमन्त- रेण न भासते इति तत्र संयुक्तसंयुक्तसमवायः स- म्बन्धो वाच्यः पिण्डसंयुक्तः कालस्तत्र संयुक्तः सूर्यस्त- त्समवेतक्रियोपनायकत्वेनापि(१) कालसिद्धिः । न च क्रियया समं विशेषणतासम्बन्ध एवास्तामिति वाच्यम् विशेषणतासम्बन्धस्य सम्बन्धान्तर्गर्भत्वनियमात । अभावभूतलयो तथेति चेत् न भावगर्भत्वायाप्तः । ज्ञानेन तथेति चेत् न तदन्यत्वेन विशेषणाद । क्रिय- या समं साक्षात्सम्बन्ध एव घटादावरतीति चेत् न तथा सति घटादी चलतीति प्रत्ययप्रसङ्गात् । तेन काल एवं सम्बन्धघटकः सम्बन्धो वा मार्तण्डक्रियया घटादौ वा- च्यः । ननु प्रतीतः कालो विशिष्टप्रत्ययं जनयेत् वि- शिष्टप्रत्ययेन च कालज्ञानमित्यन्योन्याश्रय इति चेत् न स्वरूपसतैव कालेन सम्बन्धेन विशिष्टप्रत्ययजनना- त् । वैशिपिकमते समवायस्यातीन्द्रियत्वात् नैयायिका- नामपि मम शरीरमित्यतादृष्टस्याज्ञायमानस्यैव सम्बन्ध- त्वाम्युपगमात् । क्षणादयश्व कालोपाधयो न तु तदनु- रोधात् कालनानात्वं तत्र कालोपाध्यव्यापकः कालोपा- धिः क्षणः । स्वाधेयकादाचित्काभावप्रतियोग्यनाधा- (१) तत्समवेता क्रिया तेन क्रियोपनायकत्वेनापि-पा०२० ।

कणादरहस्यम् । ३३ रः कालोराधि; उपाधिय गुणप्रागभावावच्छिन्न द्रव्य- म् द्रव्यगुणप्रागभाषयोरनेककालवृत्तिवे ऽपि तदु- भयवैशिष्टयं क्षणव्यवहारहेतुः कार्यनागभावोपहिता सामग्री वा क्षणव्यवहारहेतुः(१) उपाधीनामनन- गमे ऽपि कालोपाध्ययापककालोपाधिस्वनानुगमात् । एवं वर्तमानत्यादयोऽपि कालोपराधय एव । घटस्य हि स्वप्रागभावकालावच्छिन्न: कालो भविष्यत्कालः स्वध्वं. सावच्छिन्नस्तु भूतकालः स्वध्वंसप्रागभावावच्छिन्नो व- र्तमानकालः स्वावच्छिन्न इति यावत् । तेन वर्तते व्योमेत्यादि समाहितं भवतीति दिक् ।। अथ दिक् । सन्दविषयकापेक्षाबुद्धिजन्यार- वापरल्यासमवायिकारणसंयोगानाश्रयत्वे सति विशेष- गुणासमानाधिकरणमहत्त्वाश्रयत्व(२) दिक्त्वम् | सं- योगविपयकापेक्षावुद्धिजन्यपरत्वासमवापिकारणसंयोगा- धिकरणले सति मूर्त्यनधिकरणत्यम् । एवमपरत्वप्रक्षेपा- दूह्यम् । कालान्यत्वे सति विशेषगुणासमानाधिकरणसं- योगाधिकरणामूनत्वं महत्वाश्रयत्वे सति विशेषगुणास- मानाधिकरणसंयोगाधिकरणत्वे सति स्पन्दगोचरापेक्षाबु- द्धिजन्यपरत्वासमत्रायिकारणसंयोगानधिकरणत्यम् । वि. (१) क्षणोपाधिः-पा०२ पु०। (२) महत्यप्रत्ययाय-पा०२ पु०।

३४ प्रशस्तपादभाप्यटीकासन हे शेषगुणाधिकरणानधिकरणमहत्त्वाधिकरणखे सति का- लप्रतियोगिकान्योन्याभावाधिकरणत्वं विशेषगुणत्याव- छिन्नप्रतियोगिकात्यन्ताभावप्तमानाधिकरणकालप्रति- योगिकान्योन्याभावसमानाधिकरणमहत्त्वाधिकरणत्वं वा महत्त्वसमानाधिकरणविशेषगुणत्वावच्छिन्नप्रतियोगिका. त्यन्तामावाधिकरणत्वे सति स्पन्दगोवरापेक्षायद्धिजन्य- परत्वासमवापिकारणसंयोगानधिकरणत्वं विशेषगुणास- मानाधिकरणैकस्वाश्रयत्वे(१) सति क्रियानुपनायक निष्क्रियद्रव्यत्वं वा(२) विशेषगुणवन्निष्ठान्योन्याभावप्र- तियोगित्वे सति कालमनःसंयोगानधिकरणद्रव्यत्वं या प्राचीव्यवहारासाधारणकारणत्वे सति साधारणकारणत्वं वा एवं दिगन्तरप्रक्षेपादूह्यम् । दिगसिद्धावाश्रयासिद्धान्येतानि लक्षणानीति चेत् न प्राच्यादिपवहारान्यथानुपपत्त्या तत्सिद्धेः तथाहि यदपेक्षया या सूर्योदयसन्निहिता(३) दिक् सा तदपेक्षया प्राची या यदपेक्षया सूर्यास्ताचलसन्निहिता सा तदपेक्षया प्रतीची सन्निधानं च संयुक्तसंयो- गाल्पीयस्त्वं संयुक्तसंयोगाश्चाङ्गल्यादिप्राचीति व्य- (१) विशेषगुणसमानाधिकरणत्यानाश्रयत्वे-पा० १ पु०। (२) क्रियानुपनायकं निक्षिप्य द्रव्यत्वं वा-पा०२ पु। (३) सूर्योदयाचलसग्निहिता-पा० २ पु०।

पदिश्यमाने वृक्षादौ विशेषणतया भासमाना: केन. विद्विभुना द्रव्येणोपनेपाः अविभुद्रच्याणां तदुपनयता- सामर्थ्यात् ।आकाशात्मानौ च न तथा अतिप्रसजकत्वा- दित्युक्तम् । कालस्तु नियमेन क्रियोपनायक(१)त्वेनैव धर्मिग्राहकमानसिद्धस्तस्य च स्वभावान्तरकल्पने पुनरति- प्रसङ्ग एवेति संयुक्तसंयोगोश्नायकं यद् द्रव्यं सैव दिक् ।। परत्वापर यथा दिशा लिङ्गे तथा वक्ष्येते । किं च कालस्य सकलप्रमातृसाधारणव्यवहारविषयविशे- पणोपनायकत्वमपि दिग्वधर्म्यम् । वर्तमानादिहि कालः सर्वेषां वर्तमानादिरेव । प्राचीति प्रतिनियतेनैव पुरुपे. ण व्यवहियत इति भवति तधर्म्यम् । प्राचीप्रतीच्यौ निरुक्त एव ।प्राध्यभिमुखस्य पुरुषस्य वामप्रदेशावच्छिन्ना दिगुदिची तादृशपुरुषदक्षिणप्रदेशावच्छिन्नादिग् दक्षिणा । वामत्वदक्षिणले च शरीरावयववृत्तिजातिविशेषौ प्रत्य- क्षसिद्धौ । गुरुत्वासमवायिकारणकक्रियाशून्यत्वे सति तजन्यसंयोगाश्रया दिगधः अदृष्टवदात्मसंयोगजन्या- ग्निक्रियाशून्यतजन्यसंयोगाश्रया दिगू; । अन्तराले च दिशान्ते ते दिशावत्र व्यपदेशिके यथा पूर्वदक्षिणा द. क्षिणपश्चिमा पश्चिमोत्तरा उत्तरपूर्वेति विनिमयेनाप्येत- (१) नियतक्रियोपमायक-पा०२ पु०।

प्रशस्तपादभाष्पटीकासगृहे नाम लाप्यं(१) तदेती दिकालौ सपूर्वोत्पत्तिमन्निमित्त- कारणे इहेदानीं जात इनि प्रतीतिघलादधिकरणस्य कारणलात् । गेहे जोतो गोष्ठे जात इति प्रतीतिबला- नेहगोष्ठयोरपि(२) कारणत्वं रयादिति चेत् किं न स्यात परं त्वनुगतरूपाभावान्न तथेति घूमः 1 संख्यापरिमाण- पृथक्त्वसंयोगविभागाः पञ्चैव गुणा एतयोरिति दिक् ।। अथात्मा । तत्र ज्ञानानाधिकरणानधिकरणजाति- मत्त्वमात्मत्वम् । एवं यत्नानाधिकरणानधिकरणजाति- मत्वम् इच्छानविकरणानधिकरणजातिमत्त्वं दाब्दस्स- ाधिकरणानाधकरणविशेषगुणसमानाधिकरणजातिमत्त्वं मूर्तिव्यधिकरणगुणाधिकरणानधिकरणद्रव्यत्वव्याप्यजा- तिमत्त्वं वा प्रत्यक्षपरममहत्त्वाश्रयत्वं वा मानसैकत्वा- श्रयत्वं वा मनोमात्रग्रान्धगुणवत्त्वं वा वहिरिन्द्रियाण. त्यक्षप्रत्यक्षविशेषगुणवत्त्वं वा सुखसमानाधिकरणद्रव्यत्व. साक्षादव्याप्यजातिमत्त्वं वा एवं दुःखादिप्रक्षेपाह्यम् । अस्य गुणाः संख्यापरिमाणपृथक्त्वसंयोगविभागयु- डिसुख(३)दुःखेच्छाहेपप्रयत्नधर्माधर्मसंस्काराश्चतुर्दशसं- (१) नियमेनाप्येतनाम बोध्यम्-पा०२ पु० । (२) गेहगोष्ठादीनामपि-पा०२ पु०। (३)हानसुप-पा०२ पु०।

कणादरहस्यम् । ३७ ख्याका संस्कारश्च भावनाख्यः । तत्र ज्ञानसुख- दुःखेच्छाद्वेषप्रयत्नाः प्रत्यक्षसि हाः धर्माधर्मभावना- स्वतीन्द्रियाः संख्यापरिमाणे अपि प्रत्यक्षे इत्यके । अस्पैव कर्तृत्वं भोक्तृत्वं च कर्तृत्वं कृतिमदृत्तिजा. तिगत्त्रं वा उपादानगोचरापरोक्षज्ञानचिकीकृतिम्- त्वम् वा । ज्ञानेच्छाप्रयत्नानां योगपद्याभावे ऽपि ज्ञानजन्येच्छाजन्यकृतिमत्त्वमित्यर्थः । कृतिमात- समवधायित्वे ऽन्याद्देशेन क्षिप्तनाराचमृतगवादिवधक- र्तृत्वापत्तिः । न चैवमेवमेवास्त्विति वाच्यं प्रायश्चित्तर- पम्योपदेशानर्थक्यप्रसङ्गात् । भोक्तृत्वं च भोगस- मवायः भोगश्च समानकालीनसमानाधिकरणसाक्षा- कारविषयताव्याप्यजातिमत्साक्षात्कारः । सुखस्व- दुःखत्वे हि समानकलीनसमानाधिकरणसाक्षात्का- रविषयताव्याप्ये न हि सम्भवति सुखं दु.ख वा स्वो. त्पत्त्यव्यवहितोत्तरकालीनसाक्षात्काराविषयः तयोरया. नमात्रवेत्वाभ्युपगमात् । सुखयत्वमस्यासिद्धं सुखस्वरूपत्वादिति चेत् न अहं सुखीत्यनुभवात् अन्यथाऽहं सुखमिति स्या- त् । एवं तर्हि नित्यं विज्ञानमानन्दं ब्रह्मेति श्रुतिविरोध इति चेत् न श्रुतेरानन्दवत्वाधिगतेः प्रशस्तपादभाप्यटीकामहे मत्वर्थीयाचप्रत्ययादानन्दशब्दात्तथैव प्रतीतः । अ- न्यथा नपुंसकलिङ्गत्वानुपपतेः । छान्दसत्यादयगदोप इति चेत् न उक्तनैवोपपत्ते: अहं सुखीत्यादिप्रत्ययो- पलम्भाच्च । विज्ञानमिति सामानाधिकरण्यश्रुनेनिव- स्वमनुपपन्नमिति चेत् न अहमज्ञासिपमहं जाना- म्यहं ज्ञास्यामीति ज्ञानक्रियाया भेदेनोपलम्भात् । अई च्छिनीतिवत् विज्ञानशब्दस्य विजानातीति कर्तृव्युत्प- तेः । कथमसौ नित्य इति चेत् न योऽहमद्राक्षं सोऽहं- स्पृशामीति योऽहमस्प्राक्षं सोऽहं पश्यामीति प्रत्यभिज्ञा. नबलात् । लूनपुनर्जातकदलीकाण्डादिप्रत्यभिज्ञानवद् भ्रान्तमिदमिति चेत् न तत्र विरुद्धधर्माध्यासेन भेदसिद्धी भ्रान्तत्वकल्पनात् इह तु तथानवसायात् । प्रत्यभिज्ञा- नात् स्थैर्यमानं न तु नित्यत्वमपि सिध्यतीति चेत् सत्यम् जातमानस्य चालकस्य स्मितकम्परुदि- तैरनुमितानां हर्षभयशोकानां पूर्वजन्मानुभूतनिमित्त- स्मृतिमन्तरेणानुपपत्तेः एतत्पूर्व तत्पूर्वमित्यनादित्व- सिद्धौ अनादिभावस्य चानन्तत्वात् । तथा च पार- मर्प सूत्रं “पूर्वाभ्यस्तस्मृत्यनुबन्धाजातस्य हर्षभय- शोकसम्प्रतिपचे"रिति कश्चिविद्वान् कश्चिन्मूर्खः क- श्चिदुच्चाभिजनः कश्चिन्नीचाभिजन इत्यादिप्रतिनियता- कणादरहस्यम् । दृष्टाधीनव्यवस्थादर्शनाच नानात्मानः एकले व्यवस्था- नुपपत्तेः । औपाधिकीय व्यवस्थेति चेत् न अदृष्टादन्य- स्योपाधेरदर्शनात अदृष्टस्य च प्रत्यात्मनियतभोगसा- धनत्वेन प्रत्यात्मनियतत्वात् । सोऽयं द्विविधः क्षेत्रज्ञः सर्वज्ञश्चेति । द्वितीयं न मध्यामह इति चेत् न क्षितिः सकर्तृका कार्यत्वात यद यत् कार्य तत् तत् सकर्तृकं यथा घटा सक- तृकत्वव्याप्यकार्यत्ववती चेयं तस्मात् सकर्तृका इत्यस्म- दादिविलक्षणकर्तृसिद्धेः : । अङ्कुरादौ सन्दिग्धानका- न्तिकमिदमिति चेत् न तत्राप्यनेनैव हेतुना गृहीतव्या- सिकेन साध्यसिद्धः(१) । तत्र क्षितायेव सन्दिग्धानका- न्तिकत्वमिति चेत् न तत्रापि विशिष्टहतुमत्तया साध्य- सिद्धः । एवं सत्यन्योन्याश्रय इति चेत् न क्षित्यङ्कुरा- वादाय समूहालम्बनानुमितिसम्भवात् । प्रतिज्ञायामधि- पीभूतमङ्कुरमादाय कथं साध्यसिद्धिरिति चेत न स- न्दिग्धसाध्यवत्वस्यैव तन्त्रत्वे प्रतिज्ञाविषयत्वस्यात. न्नत्वात् । तथा चोक्तं नहि पक्षे पक्षसमे वा व्यभिचार इति । अस्मदादिना सिद्धसाधनमति चेत् न अस्म- दादेः क्षिति प्रत्यकर्तृकत्यात(२) । उपादानगोचरापरी- (१) तत्सिद्दे-पा०२०। (२) प्रति कर्तृत्वाभावात्-पा०२पुन * A प्रशस्तपादभाप्पटीकासाहे क्षज्ञानचिकीर्षाकृतिमत्त्वं हि तत् । अदृष्टद्वारा तथा स्यादिति चेत् न क्षिनियणुफरप परमाणुरुपादानं तद्गोचरेण साक्षात्कारेणादृष्टद्वारापि क्षितिजनकत्व- सम्भवात् । कर्तृमात्र सिद्धावपि कथं नित्यमर्वज्ञसि- द्विरिति चेत् न पक्षधर्मनावलेन तरिसः द्वयणुकमा- रम्य भूगोलपर्यन्तं क्षित्युपादानाभिज्ञः सर्वज्ञ एवं स्यात् । तथा च तं प्रकारमादाय कथं प्रतीतिः पर्यव- स्येत् व्याप्तिरमुं विशेषं न सहत इति विशेषविरोध इति चेत् न पक्षधर्मतावललभ्यं विशेषमादाय विशेप- विरोधयेत् तदा सर्वानुमानोच्छेदप्रसङ्गात् । ज्ञानमनि- त्यमेवेनि व्याप्तेनित्यं ज्ञानं न सहत इति चेत् न व्याप्तेर- स्मदादिज्ञानविपयस्वात् । नित्यज्ञानस्योपस्थित्यनुपस्थि- तिहपविरोधात्(१) । ज्ञानत्यमनित्यवृत्तिरिति व्याप्ति- रिति चेत् न उत्तानुमानवलेन नित्यज्ञानसिद्धावेव व्या- तिभङ्गात् । उक्तव्याप्तिबलात् तदेव न मिष्यतीति चेत् न उक्तव्याप्तेः प्रकृनानुमान दोपत्यानुपपत्तेः । अस्तु तर्हि त्वदुक्तानुमाने वाध इति चेत् न परमात्मनो- ऽयोग्यत्येन प्रत्यक्षबाधानुपपत्तेः । व्यापकानुपलब्धि- वाधस्तु शङ्कापथमवतरेदपि यदि शरीरित्वं कर्तृत्वव्या- (१) अनुपस्थितिदशयोरविरोधात्-पा०२ पु०।

कणादरहस्पम् । ४१ पकं स्यात् न त्वेवं । यः कर्ता स शरीवेति व्याप्ति- रस्तीति चेत् न शरीरनिष्पाद्यकार्ये कर्तृलोपाधिवि- श्रान्तत्वायाप्तेः । एवं सति शशे शृङ्गं सेत्स्यतीति चेत किन सिद्धयेद यदि योग्यस्थानाभिव्यङ्गयत्वनियमः शृङ्गे न स्यात् । अयोग्यमेव हि तत्र तत् स्यादिति चेत् न कर्तृत्वे कार्यत्ववच्छशशृङ्गसाधकस्य हेतोरनुप- लम्भात् । पशुत्वादिकमेवास्तीति चेत् न स्वशिरःश- सिद्विसाधारणस्य हेनोर्जिज्ञासितत्वात् तत्र चोक्त- हेतोरभावात् । तत्र प्राणित्वादिकमेव हेतुरिति चेत् तर्हि वाधकमपश्यतस्तव किं न स्यादिति । अस्तु तर्हि व्याप्यत्वासिद्धिरिति चेत् न सहचारदर्शनव्यभिचारा. दर्शनाम्यां घटादार व्यातिसिद्धेः । तत्र शरीरजन्य- स्वमुपाभिरिनि चेत् न साधन साध्यनिर्विशेपिनत्वादुपा- धेः(१) आकाशादी जन्यत्त्रमानव्यावृत्यैव कर्तृत्वव्या- वृत्तेईष्टत्वात् शरीरविशेषणस्प व्यर्थत्वात् । अत एव क्षित्यादिकं न सकर्तृकं शरीराजन्यत्वादिति सत्प्रतिप- क्षाऽपि निरस्तः । अन्यथा नीलधूमवत्त्वादीनामपि हेतुत्वं स्यात् । तन को दोष इति चेत् व्याप्यत्वासिद्धि- रिति गृहाण । अथ विशिष्टे ऽपि व्यभिचाराभावा- (१) साधनविशेपित्तत्वादुपाधेः-पा० १ पु०। ६ ४२ अथ मनः प्रशस्तपादभाष्पटीफासवादे द्व्याप्तिरेवेति चेत् न व्याप्तिसत्त्वेऽपि विशिष्टधूमस्वरूप गौरवेण व्याप्यतानवच्छेदकत्वात्(१)। अजन्यत्वमात्रं यधुपादीयेत तदा स्वरूपासिद्धिरिति । विशिष्टमुपादीयत इति चेत्(२) न व्यभिचारवारणार्थमेव विशेषणोपा- दानानौचित्यात् ॥ । स्पीत्यन्ताभावयत्त्वे सति मूर्त- स्वं मनस्त्वं विशेषगुणासमानाधिकरणद्रव्यवृत्तिजा- तिमत्त्यं वा आरम्भकसंयोगानधिकरणाणुत्वं वा मह- स्वसमानाधिकरणद्रव्यत्वव्याप्यविभुत्वोपाध्यनधिकरणद्र- व्यत्वं वा विशेषगुणासमानाधिकरणपरत्वाश्रयत्वं वा ज्ञानासमवापिकारणसंयोगाधारमतत्वं वा विशेषगुणास- मानाधिकरणसंस्कारवत्वं वा । एवमपरत्वप्रक्षेपादूधम् । विशेषगुणवदवृत्तिसंस्कारववृत्तिजातिमत्त्व वा संस्का- रस्थाने परत्वापरत्वे दातव्ये । स्पर्शवदवृत्तिद्रव्यत्वव्या- प्यातीन्द्रियजातिमत्त्वं वा ज्ञानासमवायिकारणसंयोगा. धारमूर्तलं वा विशेषगुणानाधिकरणेन्द्रियत्वं वा(३)। तदेतत्संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसं (१) व्यापकत्वेनानवच्छेदकत्वात्-पा०२ पु०। (२) विशिष्टभाप्रमुपात्तमिति चेत-पा० २ पु०। (३)विशेषगुणासमानाधिकरणेन्द्रियत्व वेत्याह्यम्-पा०२ पु०।

४३ कणादरहस्यम्। स्कारवत् आत्मविशेषगुणासमवायिकारणसंयोगवत् । ननु ज्ञानमेव ज्ञानासमवापिकारणं किन्न स्यात सुखादि वा सुखादिज्ञानासमवायिकारणमस्तु का- कार्थसमयायिप्रत्यासत्तेस्तुल्यत्वादिति चेत् न आत्म- विशेषगुणान् प्रति तत्तद्विजातीयानेकासमवायिकार- णकल्पनायां गौरवात् न सुखादीनामसमवायिकारणत्वं किं च तदा जागरायज्ञानं कथं स्यात् चिरनष्ट- स्यासमवापिकारणत्याभावात(१) । एवं सुखादावपि द्रष्टव्यम्। तदेतदबुभृत्साप्रणिधानाम्यामदृष्टेन वा सं. चार्यते । मनोवहनाड्याः प्रत्यक्षतया बुभुत्साजनितेन प्रयत्नेन तत्र क्रियोत्पाद्यते । क्रियया च नाड्यां वेगो वेगे च सति स्पर्शवद्वेगवन्नाडीसंयोगादभिहतं नुन्नं वा मनोऽभिमतविषयग्राहिणा इन्द्रियेण सम्बध्यते । न च मनोवहनाडीगोचरप्रयत्नानुपपत्तिः जलपानादौ तत्तन्नाडीगोचरप्रयत्नाभ्युपगमात् । रोमन्थन मृगादीना- मशितपीतस्यैकनाडीत आकृप्य नाट्यन्तरानुप्रवेश- (१) गौरवात् कि च ज्ञानं प्रति वानस्य चेदसमवायिप्रत्या- सत्तेस्तुल्यत्यादिति चेत् न आत्मविशेषगुणान् प्रति तचद्विकारण- स्वाभावात-पा०२पु०।

४४ प्रशस्तपादभाप्यटीकासबहे दशनात् । तदेतन्नाडीप्रत्यक्षतामन्तरेण कथमुपपद्यताम् अदृष्टसहकृतेन त्वगिन्द्रियेणिव प्रत्यक्षत्वसंभवात् । त. देतत् सर्वज्ञानजनकम् । अनुमित्यादीनामपि मानस- त्वप्रसङ्ग इति चन् न नेदममिन्नं जातिसार्यमेवं सति स्यादिति चेत् न मानसत्वजातेरनुमित्यादिव्यापकत्वात् । ज्ञानत्वेन सहान्यूनानतिरिक्तव्यक्तिकता स्यादिति चेत् न ईश्वरज्ञाने मानसत्वासत्त्वात् । यहा मनसः कार- णत्वमिन्द्रियत्वेन मनस्त्वेन च एवं मनरत्वेन कारणता. यां न मानसलं किं विन्द्रियत्वेन मनसो जनकता यन्न सुखादिसाक्षात्कारे तवैव मानसत्वमिति । ननु मनसोऽणुये सर्वमिदं स्यात् तदेव च नास्ति तथाहि मनो विभु विशेषगुणशून्यद्रव्यत्वात् कालब- त निःस्पर्शद्रव्यत्यात, तहदेव द्रव्यानारम्भकानन्त्याव- यविद्रव्यत्वात्, तद्वदेव नित्यत्वे सतीन्द्रियत्वादाका- शवत्, ज्ञानासमवाधिकारणसंपोगाधारत्वात् आत्म- वत्, विभुविशेषगुणसाक्षात्कारकारणत्वात् श्रोतयदिति चेत् न सर्वेषामनुकूलतर्कशून्यत्वात् प्रतिकूलतर्क- प्रतिहतत्वात् सत्प्रतिपक्षितत्वात् धर्मिग्राहकमानवाधित- त्वाच्च । न हि विशेषगुणशून्यतायां(१) मूर्तत्वेन विरोधी (१) शून्यत्वे-पा०२ पु०।

कणादरहस्यम् । विरोधे मानाभावात् । एवं. निःस्पर्शद्रव्यत्वादीना- मपि द्रष्टव्यम् । व्यासङ्गानुपपत्रिंबाप्रतिकूलतर्कः(१)। वैभवे सति सकलेन्द्रियसम्बन्धे सति व्यासङ्गो न स्यात् स चानुभवसिद्धः यदा त्वयाहं बाधितस्तदा नृत्यदर्शन- व्यासक्तोऽहमासमित्यनुभवात् । बुभुत्साविरहात्तदुपपत्ति- रिति चेत् न सत्यामपि बुभुत्सामां तदनुभवात् । नृत्यदर्शनव्यासक्तोऽई बुभुदिसतमपि त्वयोच्यमानं ना- कलयामात्यनुभवात् किश प्रणिधानं मनोवैभवे ऽनुप- पन्नम् तच्चाभिमतार्थग्राहिणा(२) वहिरिन्द्रियेण मन:- स्थिरीकरणानुकूलः प्रयत्नः सर्वोन्द्रियसम्बन्धे ज्ञान- योगपद्यं चस्पात् । भवत्येव दीर्घशकुलीभक्षणस्थल इति चेत् न तत्रापि क्रमानुमानात । तत्र योगपद्ये किं बाध- कमिति चेत् व्यासङ्गानुपपत्तिरेव । एवं ज्ञानकरण- मेकदा एकत्रैकमेव ज्ञानं जनयतीति करणधर्मसाम- भान योगपद्यमिति चेत् तर्हि सर्वेषामिन्द्रियाणां वि- पयसम्बन्धे ज्ञानमेकमेव किन्न स्यात् । परस्सरप्रतिबन्धा- न्न भवतीति चेत् न सम्भय जनने प्रतिबन्धकत्वानुपए- चेः । तत्र चाक्षुपत्वादिजातिविरोधः स्यादिति चेत् (१) अनुकूलस्तके -पा० २ पु०॥ (२)वच्चानुमतानुप्राहिणा-पा०२ यु०॥

प्रशस्तपादमाप्पटीकासङ्घहे न ज्ञानसामग्याः कार्यविरोधानाकलनात् । किञ्च च. न्दनादिसुखं प्रादेशिकं नोपलभ्येत सकलशरीरावच्छेदे- न तदसमवाधिकारणस्यात्ममन:संयोगस्याविद्यमानत्वा- त् । निमित्तचन्दनादिप्रादेशिकत्वाधानं सुखादिप्रा- देशिकत्वं निमित्तवाह्यप्रादेशिकत्वात् शब्दप्रादेशिक- त्ववत् । अत एव निदाघे सरसि मानस्य संकलशरी- रावच्छेदेनैव 'सुखमिति चेत् न विभुकार्यमसमघायिका- रणावच्छेदनोत्पद्यत एवेति नियमात् तदवच्छिन्नदेश- परिहारः कदापि न स्यादित्युक्तत्वात् । न चैवमस्मा- कमप्यनुद्देश्यत्वं स्यादिति वाच्यम् अधिकदेशत्वेप्यु- क्तनियमनिर्वाहात् । किञ्च सुखादिकं मूर्तसंयो- गासमवायिकारणकगुणवृत्तिगुणत्वावान्तरजातियोगिनि- त्सवृत्त्यनित्यविशेषगुणत्वात् शब्दवत् पाकजवच्चे- ति सत्प्रतिपक्षोऽपि । अत्र च नित्यवृत्तिविशेषणादवय- विस्नेहे ऽनित्यविशेषणात् परमाणुस्नेहे विशेषपदात् पर- माणुद्वित्वादी न व्यभिचारः । जातिगत्वाचं साध्यस्य न शब्दजशब्दे व्यभिचारः । किश्च मनो मूर्त विभुसं- योगाधिकरणत्वात् विभुविभागाश्रयत्वात् । न चाज- संयोगेनाश्रयासिद्धः चाजविभागस्यापत्ता- बुभयोच्छेदात । विरुद्धधर्मिग्राहकमानवाधिता अपि तथा कणादरहस्यम्। वैभवसाधकहेतवः । तथाहि व्यापकमनवच्छिन्नमेव यदि मनस्तदातिप्रसङ्गः स्पादित्याकाशे कर्णशप्कुली. वदवश्यमबछेदकं वाच्यं तव न शरीरं तदवयवमानं वा नानावपवाद्यवच्छेदेनाव्याप्पवृचिसुखाद्यनुपलब्धः । तत्र सूक्ष्ममतीन्द्रियमुपाधित्वेन कल्पनीयं तथा च तदेव मन इति मनसोऽणुत्वसिद्धेः । किश्च नृत्यदर्शनासक्तस्य देवदत्तस्य स्वस्वविषयसम्बडानीन्द्रियाणि घ्राणरसनत्व- श्रोत्राणि स्वाविपयसाक्षात्कारजनकसंयोगशून्यानि तदानी स्वविषयसाक्षात्काराजनकत्वात् अन्धकारस्थघ- विदित्यणुस्वसिद्धेः परिशेषादिह मनःसंयोगाभाव एवं वाच्यः। स च मनसोऽणुल्वमन्तरेणानुपपन्नमित्ति दिक् ॥ नन्वस्ति तमोऽपि द्रव्यं क्रियावत्यात रूपवत्वात परत्वापरत्वाश्रयत्वाच नच क्रियायत्त्वमसिद्ध चलति- च्छायेति प्रत्ययात् नीलं तमं इति प्रत्ययाच रूपयत्त्वमपि सिद्धम् इदं तमः परमिदं तमोऽपरमिति प्रतीतेश्च परवा- परले अपि तदुक्तम् । तमः खलु चलं नीलं परापरविभागवत् । प्रसिद्धद्रव्यवैधयान्नवभ्यो भेतुमईति ।। इति चेत् मैवंरूपयत्वे क्रियावत्त्वे च बाह्यालोकनिरपेक्ष- पक्षुर्वेधत्वानुपपत्तेः। किश्च रूपयाचे स्पर्शवत्वमपि स्यात्।

४८ प्रशस्तपादभाष्यटीकासवहे अस्त्येवासावनुभूत इति चेत् न रूपोहवे स्पशोंइवधौ- पात् । पृथिव्यामियं व्याप्तिरिदं तु दशमद्रव्यमिति चेत् न नीलरूपवत्त्वसिद्धी पार्थिवत्वसिद्वेः । पृथिव्यामपि नायं नियमो धूमे रूपोहवेऽपि स्पर्शानुवादिति चेत् न गो-' लकावच्छेदेन धूमस्पर्शस्यापि ग्रहात् । प्रभायां व्य- भिचार इति चेत् न प्रभायास्तेजस्त्वात् । इन्द्र- नीलप्रभायां तर्हि कथं नीलिमप्रतीतिरिति चेत् न प्र. भानुगनपार्थिवभागस्यैव नत्र नीलिमोपलम्भात । तदेव पार्थिवमुद्भूतरूपमनुभूतस्पर्शमिति चेत् न इन्द्रनीलमणेन लिम्नानुभूयमानस्य प्रभायामारोपात् । सर्वदा कथं तत नीलिमधीरिति चेत् न मणेरेव तत्र दोपत्वेन सदा तथारीपात् । नीलरूपारोपोपि कथं तम- सि बाह्यालोकमन्तरेणेति चेत् न स्मर्यमाणनीलरूपारोपे तदपेक्षाया अभावात् फलबलात् तथैव कल्पनात्(१) । यहा पीतादिव्यावृत्तिनियन्धन एव नीलव्यवहारः सपयोरिव सव्यवहारे गौडानां चलतीति धीरपि भ्रान्ता आवरकद्रव्ये चलति यथायथा तेजसोऽसान्निध्यं तथातथा तत्प्रत्ययोपपत्तः । आवरकद्रव्यगतेरेय . (१) नीलरूपस्योपस्थितस्य याद्यालोक विनापि विशेषणतया ऽपि प्रहणात् प्राधान्येनैव तद् तदपेक्षणात्-मधिकं २ पु०।

कणादरहस्यम् । ४९ तत्रारोपाहा । परत्वादिधीरप्यवच्छेदभेदमादाय । ननु तामसमेवेन्द्रियं तमोमातग्राहकमस्तु तस्य च न वाद्या- लोकापक्षेति चेत् न कल्पनागौरवात्()। तत्प्रकृतिभूतं च न तम एव तस्य निःस्पर्शत्वेनानारम्भकत्वात् । इ. न्द्रियारम्भकरय शरीरारम्भकरवनियमात् । न च तामसं शरीरमुपलभामहे । न चाभावत्वे ऽपि(२) तमसः कथं विधिमुखप्रत्ययवेद्यत्वं कथं च बाह्यालोकनिरपेक्षचक्षु- ग्राह्यत्वं कथं च प्रतियोगिस्मरणमन्नरेण तदुपलम्भ इति चेत् नपदसमभिव्याहाराभावाहिधिमुखप्रत्यय- वेधत्वाभिमानात् । अभावग्रहे प्रतियोगिसन्निधा- नानपेक्षणात् प्रतियोगिनश्व तेजसः कचिदनुभवात् क- चिच्च स्मरणात् तदुपपत्तेः कन्दरास्वपि तमाव्यवहारः प्र. तियोगिस्मरणसापेक्ष एव तचैतत्तेज संसर्गाभावरूपं सच कचित् प्रागभावः कचित् प्रध्वंसः क्वचिश्चात्यन्ताभावः । सत्यपि प्रदीपादौ पूर्व प्रदीपवंसनिबन्धनस्तमोम्पयहारः स्यादिति चेत् न यावत्तेजःसंसर्गाभावस्य तेजोऽसम- वहिततेजःसंसर्गाभावस्य वा तमत्त्वात् । एतत्कृत एवान्धतमसा च तमसो भेदः यावत्तेजःसंसर्गाभावस्य कतिपयतेजःसंसर्गाभावस्य च भेदात् । (१) गौरबापत्तेः-पा०२ पु । २) अमायवमपि-IC Gan ७ प्रशस्तपादभाष्यटीकासकहे यत्तु प्रामाकराणां ज्ञानाभाव एव तम इति तत्तु तदा स्याद्यदि तहत्त्वगुणलक्षणं किश्चिन्नोपलभत इति प्रत्ययः स्यात् किवन्धकारमुपलभ इति प्रत्ययस्तथा च सुप्ठूक्तं भाभावस्तम इति ॥ इति महामहोपाध्यायश्रीभवनाथमिश्रात्मजमहा- महोपाध्यायसन्मिश्रश्रीशङ्करविरचित कणादरहस्ये द्रव्य- पदार्थः समाप्तः ॥

कणादरहस्यम् । अथ गुणाः । नत नित्सद्व्यवृत्तिवृतिसत्तासाक्षाद्या- प्यजातिर्गुणत्वं तद्वत्वं गुणलक्षणम् विभुवृत्तिवृचित- तासाक्षायाप्पजातिर्वा गुणत्वजातौ च प्रमाण द्रव्यत्वं कर्मावृत्तिसत्तासाक्षाद्याप्यजातिभिन्नं मेयत्वात घटत्ववत् दृष्टान्तो द्रव्यत्वभिन्नत्वेनैव सिद्धः पक्षधर्मतावलाद् गुण- त्वसिद्धिः। न हि द्रव्यत्वमेव द्रव्यत्वभिन्नमिति संभवति। विपक्षे बाधकामाव इहेति चेत् न गुणत्वासिद्धौ संयोगनि- भागोभयसमवायिकारणत्वासमवायिकारणत्वशून्ये सा. मान्यवति यत कारणवं तदनुगतधर्माबच्छेद्यं न स्यात् अस्ति च चतुर्विंशति(१)गुणानां स्वस्वकार्य प्रति कारण- त्वं द्वित्वहिपृथक्त्वादीनामकारणत्वं यदुक्तं मूले ततप्र. तिनियत कार्यापेक्षया नतु खविषयज्ञानापेक्षयापीति तदा- दायापि गुणत्वसिद्धिः। यद्वा रूपं रूपत्वतयाप्येतरसत्ता- साक्षायाप्यजातिमत् जातिमत्त्वात् घटादिवदिति गुण- त्वसिद्धिः । एवं रसादिकं पक्षयित्वा वाच्यम् । कर्मलं वा द्रव्यावृत्तिसचासाक्षायाप्यजातिभिन्न जातित्वात(२) घटवादिवत् । यहा · रूपत्वं स्वासन्ताभावसमा- नाधिकरणसत्ताव्याप्यजातिव्याप्यं कर्मवान्याकाशा- त्तिजातिवाद घटत्यादिवत् यहा गुणस्वमुदेषश- (१) चतुर्दश-पा० १ पु०। (२) मेयत्वात्-पा०२ पु.।

५२ प्रशस्तपादभाप्पटीकासबहे सहकृतेन्द्रियग्राह्यमेव पद्मरागत्वादिवत् । यथा प्रभाविशेषाश्रयो मणिः पद्मराग इत्युपदेशसह- कृतेनीन्द्रयेणैव पसरागत्वं गृह्यते तथा कर्मान्यत्वे सति सामान्यवानगुणो गुण इत्युपदेशसहकृतेनैव चक्षुपा गुणत्वमपि गृह्यत एव । तत्र पद्मरागत्वादिग्र- हे नोपदेशापेक्षा किन्तु तत्पद्वाच्यमात्रेणेति चेत् न प्रकृते ऽपि तथात्याविरोधात । कर्मान्यत्वे सतीत्यनपेक्ष- व्यावृत्तिरतिप्रसक्तेति चेत् सत्यम् चलतीतिप्रतीनिवलात् संयोगविभागोभयासमवायिकारणत्वरूपवैलक्षण्याच क- मणो गुणभिन्नत्वसिद्धी तयावृत्तेरावश्यकत्वात् । सा च तदन्यत्वे सतीत्यनेनैव सुप्रतिपाद्या रूपादीना च गुणभिन्नत्वासिद्धर्गुणलक्षणे रूपान्यत्वादिना विशेषणे भागासिद्धिप्रसङ्गात् ।। तत्र गुणाः रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्व- संयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वैपप्रयत्नाः कण्ठोक्ताः सप्तदश चशब्दसमुचिताश्च गुरुत्वद्रवस्य. स्नेहसंस्कारधर्माधर्मशब्दाः(१) सप्तेति चतुर्विशतिः । रूपत्वं सामान्यविशेषो गुणत्वसाक्षायाप्यरतद्यो- गादूपमितरेभ्यो मिद्यते । अत्रेतरपदेन रसादीना (१) संस्काराहएशम्दा.-पा० २ पु० ।

कणादरहस्यम् । त्रयोविंशतेद्रव्यकर्म सामान्यविशेपसमवायाभावानां च पण्णां ग्रहणादेकोनत्रिंशदभिधानं(१) व्यवहारो वा साध्यः प्रत्यक्षेषु रूपेषु इतरभेदः प्रत्यक्षत एव सिन्हः सामान्यावच्छेदेन तु साध्यत इति न साध्या- प्रसिद्मशतः सिद्धसाधने लक्षणस्य च व्यतिरे- किण इतिकर्तव्यता पृथिव्यामुक्तः । चक्षुर्मात्रग्राह्य- गुणत्वमुपाधिरेव रूपत्वमस्तु किं जात्येति(२) चेत न रूपत्वस्यातीन्द्रियत्वापचेः अतीन्द्रियचक्षुर्घटितत्वात । ग्राह्यत्वं च ग्रहणविषयत्वं ग्रहणस्य चाक्षुषत्वात् एवमपि रूपत्वस्याचाक्षुषत्वापत्तेः । उपनीतभाने मा- नाभावाद(३) जात्यवेक्षयोगधेर्गुरुत्वाच सर्वजातिवि- प्लवापचेध । अतीन्द्रिये च परमाणुरूपे च त्वदुक्तोपाधे- रसत्त्वाता तदेततुल्लाद्यनेकप्रकारकं पृथिव्युदकतेजोमात्र- वृत्ति पार्थिवपरमाणुपु तेजः(४)संयोगादुत्पद्यते विनश्य- ति च । सलिलतेजसौ(५) परमाणुषु नित्यम् अवयविषु कारणगुणासमवायिकारणकम् कपालादिरूपात घटा- (१) ग्रहणमित्यूनविशदभिधानं-पा०२ पु० । (२)जातापिति-पा०२०। (३) प्रमाणामावात-पा०२ पु०॥ (४) भग्नि-पा०२ पु०। (५) जलतेजसो-पा० २ पु० ।

प्रशस्तपादभाष्यटीकासबाहे दिरूपोत्पत्तेः तत्साजात्योपलम्भात | कंचिच्चितं तच्च नी- लपीतादिविजातीयमेव गुणविरोधात् कथं तदुत्पत्तिरिति चेत् न तश्वयवानामपि चित्रत्वात् गुणविरोधाभावात् । परमाणावपि चित्ररूपसत्तात् । अवयवानां कथं नीलपी- तादिरूपोपलम्भो न तु चित्रस्यैवेति चेत् न चित्र एवं नी- लपीतभागस्योल्वणत्वात् । यहा घटादिचाक्षुषत्वान्यथा- नुपपत्त्या गुणविरोधमत्रधार्यापि चित्ररूपोत्पत्तिस्वीकारः। शुक्लः पट इत्यादिसामानाधिकरण्याद्रूप(१)रूपिणोः भेदोस्त्विति चेत् न अन्धेनापि त्वचा रूपग्रहणप्रसङ्गात् रूपानुपलम्भवद् ' द्रव्यानुपलम्भापतेः(२) । अन्धेन रूपं गृह्यत एवं रूपत्वशुक्लत्वादि परं न गृह्यत इति चेत् न व्यक्तियोग्यतायां रूपत्वादिग्रहे प्रतिबन्धका- भावान् । किं च शुक्लमानयेत्युक्तः पटमानयेत् पट- मानयेत्युक्तो यं कश्चिच्छुल्लमानयेत् । अवयविनि सत्येत्र रूपोत्पादविनाशदर्शनाविरुद्धधर्माध्यासादपि रूपरूपि- भेदात् । उत्पादविनाशधीः समवायगोचरति चेत् न तथा सति रूपसमवायो नष्ट इति धीप्रसङ्गात् । बै- शेषिकदर्शने नैवमिति चेत् न रूपादौ मास्तु द्रवत्यादौ (१) सामानाधिकरण्ययलाए-पा०२०। (२)च्यानुफ्लम्मप्रससात-पा० २ पु०॥

फणादरहस्यम् । तधोपलम्भेन गुणगुणिभेदसिद्धौ अन्यत्रापि तथा क. ल्पनात् । अन सामानाधिकरण्यप्रतीतिर्बाधिकेति चेत् न मतुव्लोपादच्प्रत्ययाहा सामानाधिकरण्यव्यपदेशोप- पत्तेः शुक्लादिशब्दानां गुणगुणिवाचकतया नानार्था- वाहा, यदाह गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वती- ति । विषयस्थं रूपं वहिर्द्रव्याद्युपलम्भकमन्वयव्यतिरेक- बलात्तु रूपवतां घटादीनामुपलम्भान्नीरूपाणां महतामपि वाग्वाकाशादीनामनुपलम्भात् गुणकर्मसामान्यानामपि कियतां रूपोपलम्भेनैव ग्रहणम् । उपलभ्यन्ते हि कापि द्रव्यसमवेताः संख्यापरिमाणपृथक्त्वसयोगविभागपर- वापरत्वद्रवत्ववेगस्नेहाः कर्माणि च सामान्यानि कियन्ति च(1) रूपैकार्थसमवायात् कानिचिच्च रूपैकार्थसमवे- तसमवायात् कानिचिच्च समवायादेव एतदन्येषां पुनर. नुपलम्भात् । स्वगतमपि रूपं चक्षुःसहकारि आलोक- रूपं च तदुक्तं स्वकीयेनैव रूपेण आलोकचक्षुषी द्र- व्यं प्रकाशयत इति सगुणानामिन्द्रियमावाच्चस्रूपं न चक्षुःसहकारीति तन्न इन्द्रियत्वस्य द्रव्यधर्मत्वात् । सगुणत्वं स्वगुणसहकारित्वमात्रम् । न च रूपयदेव द्रव्यमुत्पद्यते विनश्यतीति वाच्यम् रूपस्य कार्यत्वे स- (१) कियन्तिविद्-पा०२०।

प्रशस्तपादभाष्यदीकासजन्हे . मवायिकारणापेक्षायां घटादिरेव तथा वाच्यः तच्च कार- णत्वेन पूर्ववत्येव । रूपसाक्षात्कारश्चक्षस्तैजसत्वसाधक: तथाहि चक्षुस्तैजसं रूपादिषु मध्ये रूपस्यैव व्यञ्जकत्वात आलोकवत । रूपादिष्विति प्रतिनियतेन्द्रियग्राह्याणां रूप. रसगन्धस्पर्शानां ग्रहणम्। न च शुक्लत्वादिजात्यसिद्धिः शुक्लादीनामेकैकत्वान्नित्यत्वाचेति वाच्यं शुक्लं रूपं नष्टं रक्तमत्पन्नमिति प्रतीतिबलात् तदनेकत्वस्यानित्यत्वस्य च सिद्धेः। न च शुक्लसमवायो नष्ट उत्पन्नधेति तदर्थः । एवं सति घटादीनामपि नित्यत्वप्रसङ्गः । तदुत्पादवि- नाशप्रतीतेः समवायविषयत्वेनान्यथासिद्धेः । साधयि- प्यते च समवायस्य नित्यत्वमेकत्वं च ॥ रसनमानग्राह्यो गुणो रसः । मनसापि तद्हणाल्ल. क्षणानुपपचिरिति चेत् न रसनेन्द्रियजन्यसाक्षात्का- रविषयवृत्तिगुणत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् तेजोवृत्त्यवृत्तिपृथिवीजलवृत्तिवृत्तिप्रत्यक्षगुणत्वसाक्षा- द्वयाप्यजातिमत्त्वं चारसत्वं गुणत्वानधिकरणानधिकर. णगुणत्वसाक्षायाप्यजातिमत्त्वं वा। सोऽयं जीवनपुष्टि- बलारोग्यमरणकृशत्वदौर्बल्यकारणम् । गन्धादीनामपि रसौपग्रहेणैव जीवनादिहेतुत्वात् । आत्मविशेषगुण- जनकात्ममनःसंयोगस्तादृशः शरीरसंयोगोवा जीवनम्।

। कणादरहस्पम् । शरीरावयापचयः पुष्टिः । आयासक्षमता बलम् । धातुसाम्पावरथा आरोग्यम् । दोषधातुमलानां समतेति यावत् । ज्ञानजनकमानःसंगांगजनकस्पन्दजन्यविभाग- जन्यज्ञानजनकमनःसंयोगध्धसो मरणम् । कृशत्वं शारीरावयवापचयः । दौर्बल्यमायासासहिष्णुता । पोदा चायम् । मधुराम्ललवणकटुतितकपाय- भदात् । रूपयदेव विनाशकोत्पादकनित्यत्यानित्यस्यानि ग्सस्यापि ॥ प्राणमात्रमाद्यो गुणो गन्धः । प्राणकरणक- साक्षात्कारविषयगुणत्वव्याप्यजातिमत्त्वं गन्धत्वम् । रसवदिन्द्रियजन्य साक्षात्कारविषयनित्यावृत्तिजातिमवं या । पर्शवदिन्द्रियग्राह्यविशेषगुणवृत्तिनित्यावृत्तिजा- तिमत्वं वा । प्रागभावानधिकरणकालानधिकरणय- हिरिन्द्रियग्राघशब्देतरविशेषगुणवृत्तिगुणस्त्रज्याप्यजाति- मत्वं वा । सचायं द्विविधः। सुरभिरसुरभिश्व । सुरभिविपरीतो गन्धोऽसुरभिः। धर्मविपरीताधर्मयत्। तेन सुरभिस्वमसुर- मित्वं च गन्धवव्याप्ये जाती। अयोगान्ययोगव्यवच्छे. दाम्यां पृथिवीवृत्तिः । पापाणादावपि भरमदशायां गन्धो-- पलम्भात् गन्धवदारभ्यत्वेन गन्धानुमानात 'जलादी ८ १८ प्रशस्तपादभाष्यटीकासाहे चोपाधिकत्वात् । उपाध्यन्वयव्यतिरेकानुविधानात् । घ्राणसहकारी घृनादिगन्धसहकृतेन घ्राणेन मृगमदादि- गन्धग्रहणात् । अयं च परमाणावप्यनित्य एव अमि- संयोगोत्पाद्यः तद्विनाश्यश्च । अवयविषु कारणगुण. पूर्वकः । आश्रयध्वंसजन्यध्वंसप्रतियोगी ॥ अथ स्पर्शः । रूपन्यापकविशेषगुणत्वं स्पर्शत्व- म । नीरूपावयवीन्द्रियग्राह्यविशेषगुणवृत्तिस्नेहद्रवत्वावृ- तिजातिमत्वं वा । लगिन्द्रियमात्रकरणकसाक्षात्- कारविषयविशेषगुणवृत्तिस्नेहद्वत्वावृचिजातिमत्त्वं वा। सोऽयं त्रिविधः शितोष्णानुष्णाशीतभेदात् स्वगि- न्द्रियसहकारी व्यजनादिवातसहकृतेन स्थगिन्द्रियेण पशोपलम्भात् । पृथिव्युदकज्वलनपवनवृत्तिः । अ. योगान्यपोगव्यवच्छेदाभ्या पार्थिवपरमाणुषु पाकजः सलिलादिपरमाणुप नित्यः । अवयविषु कारणगुण- पूर्वकः आश्रयनाशनाश्यः ॥ एतेषु च गुणेषु प्रत्यक्षमेव प्रमाणम् । अतीन्द्रिय. रूपादौ च कार्यरूपादि प्रमाणमिति ।। अथ पाकजप्रक्रिया | तबादौ परमाणुष्वेव पाक- जोत्पत्ति पिठरे ऽपि वेति विचारः। तत विप्रतिपत्तिः । पार्थिा अश्यविरूपरसगन्धस्पर्शा अमिसंयोगजन्या न न कणादरहस्यम् । या घटोऽमिसंयोगासमवाधिकारणकरूपवान का अग्निसं. योगो घटसमवेतरूपादिजनको न वा घटत्वमग्निसंयो- गजन्यरूपसमानाधिकरणं न वा । तत्र पाकेनामि- संयोगेनावयविष्वपि रूपादिकं जन्यत इति नैयायि- काः । तेषामयमभिप्रायः । आपाकनिक्षिप्ताना घ- टादीनां पूर्वरूपादिविजातीयरूपानुभूयते । तन च पा- कस्यैवान्वयव्यतिरको दृश्येते न तु तेषां घटादीनामा. परमाण्वन्तविभागेन धणुकपर्यन्नावयविनाशे स्व- तन्त्राः परमाणवः पच्यन्ते । अनन्तरं घणुकादि. क्रमेण घटपर्यन्तावयविषु नष्ट' कारणगुणप्रक्रमेण रूपायुत्पत्तिः कल्पनागौरवपराहतस्यात् । किश्चापा- कादुत्तारितेषु स एवायं घट इति प्रत्यभिज्ञाऽप्येवं स. समाहिता स्यात् । सर्वास्ववस्थासु घटादीनामापाके दर्शनमुपपन्नं भवेत् । घटापुपरि मुन्तिरवारणम- प्येवमुपपन्नं स्यात् । संस्थानमपि प्राचीनं यत् तथोक्ल. भ्यते तदप्युपादितं स्यात् । स्याच तादृशरेखापरेखादि- वैशिष्टयमुपपादितम् । संख्या च परिमाणं चौपपादित स्यात् । । अन्तःस्थितानामवयवानामनिसंयोगाभावात पूर्वरूपादिरक्ताद्युत्पत्ती न स्यातामिति चेत् न सन्छि. द्रादेवावयविनां तदुपपचेः । अवविसच्छिद्रताया प्रशस्तपादभाप्पटीकासकहे च कि प्रमाणमिति चेत् अन्तर्हितधृननैलादिस्पन्दन- सवणयोस्तव प्रमाणत्वात् । अनुमानाणुप्रवेशात् स- ववियवावच्छेदेन कथं पाक; स्यादिति चेत् न अन्त:- स्थितानां तण्डलादीनामपि भस्मीभावदर्शनाहहुनेजो- नुप्रवेशोन्नयनादिति ॥ अत्रोच्यते । प्रत्यभिज्ञादिकं तावत् सूची- विदलितत्रसरेणुक घटादावपि दर्शनादुभयं समाधे. यम् । नहि तत द्रव्यं न नश्यति आरम्भकसं- योगनाशस्य द्रव्यनाशकत्वात् । यचोक्तं यहुतेजोनु. प्रवेशात सर्वावयवावग्छेदेन पाक इति तत् तदा स्यात् यदि तावचेजोनुप्रवेशेऽप्यवयवी न नश्येत् । तेजसो हि भास्वरतया अतिवेगवतया तीघ्रतया च नोदनाभिघातयो. रन्यतरः संयोगोऽवयवविश्लेपहेतुकियाजनक इति कथं नावयवी नश्येत येनाग्निमयोगेनान्तःस्थितोप. लादीनामपि भस्मीभावस्तेन पिठरकं न नश्यदिति महती प्रत्याशा तथा च तेजोनुप्रवेशानोदनाक्ष्ययवकर्म ततोऽपविभागस्ततस्तदारम्भकसंपोगनाशादयविना- श इति स्वतन्त्राः परमाणव एव पश्यन्त इति स्थिते ह्यणुकविनाशमारभ्य कतिमिः क्षणैः पुन्यरन्यद् ध. शुकमुउप.. रूपादिमदभवनीति शिष्यवृद्धिवेशनाम कणादरहस्यम् । प्रक्रिस तत्र विभागजविभागो यैर्नेष्यते तन्मने नवक्षणा। विभागजविभागाङ्गीकर्तृमतेऽपि विभागः सापेक्ष,एव वि. भागान्तरं जनयेत निरपेक्षस्य जनकले कर्मत्वापत्ति संयोगविभागयोरनरेक्षकारणं कर्मेति तल्लक्षणात् । तत्र यदि द्रव्यारम्भकसंयोगविनाशविशिष्टं कालमपेक्ष्य त्रिभागेन विभागजननं तदा दशक्षणा । अथ द्रव्यना- शविशिष्टं कालमवय वारेक्ष्य विभागेन विभागजननं तदैकादशक्षणा । तथाहि वह्निना नोदनादभिधाताद वा हाणुकारम्भक परमाणौ कर्म तेन कर्मणा परमा. णोः परमाण्वन्तराद्विभागः तनधारम्भकसंयोगनाशस्ततो ध्यणुकनाशस्ततः केवले परमणी श्यामादिनि- वृत्तिस्ततस्तत्रैव रक्ताद्युत्पत्तिः । अथ रूपादिमति परमाणी द्रव्पारम्भानुगुणा क्रिया तया चाकाशादिवि- भागरततः पूर्वसंयोगनाशस्ततो झणुकारम्भकतंयोग- स्तता अणुकोत्पत्तिरथ तत्र रूपाद्युत्पत्तिरिति घणु- कविनाशमारभ्य रणके रक्ताधुत्पत्तिर्नरमे क्षणे परमा- गुरूपादिना न त्वनिसंयोगात अवयविनि तदनभ्युप. गमात् । ननु श्यामादिनिवृत्तिक्षणे रक्ताधुत्पत्तिक्षणे षा परमाणो द्रव्यारम्भानुगुणा क्रियाभ्युपगम्यताम एतावता सप्तमे ऽष्टमे या क्षणे रक्तादयुत्पचिररित्यति चेत् न प्रशस्तपादमाप्पटीकामबारे आग्निना नुन्नभिहत वा परमाणौ यत् कर्म तहिनाश- मन्तरेण गुणोत्पत्तिमन्तरेण च तत्र परमाणौ कि- यान्तरानवकाशात् कर्मवति कर्मानुत्पत्तेः निर्गुणे द्रव्या- रम्भानुगुणक्रियानुत्पत्तेः तथापि परमाणौ यामादिनि- वृचिसमकालमेव रक्तादयुत्पत्तिररिस्वति चेत् न पूर्व- रूपादिध्वंसस्यापि रूपाद्यन्तरोत्पत्तौ कारणत्वात् कारण. स्य च पूर्ववर्तित्वात् ॥ अथ दशक्षणाप्रक्रिया । मा चेयमारम्भसंयो. गविनाशविशिष्ट कालमपेक्ष्य विमागेन विभागजनने सति स्यात् । तथाहि वह्निना नोदनादभिघाताहा घणु- कारम्भके परमाणौ कर्म तेन परमाण्वन्तरविभाग. स्तत आरम्भकसंयोगनाशस्ततो झणकनाशविभा- गजविभागौ ततश्च श्यामादिनिवृत्तिपूर्वसंयोगनाशौ ततो रक्तायुस्पत्युत्तरसयोगौ ततो वह्निनोदनजन्यपरमाण- कर्मणो विनाशस्ततस्तत्रैव परमाणावदृष्टवदारमसंयोगाद् द्रव्यारम्भानगुणा क्रिया ततो विभागस्ततः पूर्वसयोग- नाशोऽथ द्रव्यारम्भकसंयोगस्ततो घणुकोत्पत्तिरथ रक्तापुत्पत्तिरिति दशक्षणा! अधैकादशक्षणा । वहिनोदनाभिघातान्यतरे- ण धणुकारम्भकपरमाणी कर्म ततो विभागस्ततो कणादरहस्पम् । .. १३ द्रव्यारम्भकसंयोगनायास्ततो न्यणुकनाशः ततो हाणुकनाशविशिष्टं कालगपंक्ष्य विभागजविभागस्ततः पूर्वसंयोगनाशस्तत उत्तरमयोगस्ततः परमाणुकर्म- नाशस्तदनन्तरमदृष्टवतात्ममंगोगात् तत्रैव परमाणी द्रव्यारम्भानुगुणा क्रिया ततो विभागस्ततः पूर्वसंयो- गनाशस्ततो द्रव्यारम्भकसंयोगस्ततो द्वयणकोत्पत्ति- स्ततो रक्ताद्युत्पत्तिरित्येकादशक्षणा । एताश्च तिस्रः प्रक्रिया मतभेदानुविधानेन दर्शिता विस्तरस्तु बि- भागजविभागव्युत्पादनावसरे दर्शयिष्यामः ॥ मनु पुनरन्यस्मादग्निसंयोगाद्रक्तावत्पत्तिरिति भाष्यमनुषपन्नम् यत एकस्यैवाग्निमयोगस्य पूर्वरूपा- दिनाशकरवमग्रिमरूपायुत्पादकत्वं च स्यान्मध्यशब्दत् । अथवोगन्त्यशब्दवद्रूपाद्युत्पाचैव विनाशयतु को दोप इति चेत् मैत्रं पिठरे वा परमाण्वन्तरे वा चिरान्तरितो- स्पादविनाशस्थले तत्रैव परमाणौ वा पूर्वरूपादिविनाशो- त्तररूपापुत्पादौ भिन्नकारणकायेवोपलम्येते तेन विवा- दाध्यासितस्थिले तथैवोनीयते । नहि सहवारदर्शनव्य- भिचारादर्शनाम्यामविनाभावो न परिच्छिद्यते तथा चै- तद्वयाप्तिवलेन प्रयोगः । परमाणौ रक्तं रूपमेतत् पूर्व रूपनाशकाग्निसंयोगमिमाग्निसंयोगजन्यं पार्थिवार.

प्रशस्तपादभाष्पटीकासबहे माणुरूपत्वात् चिरान्तरितसम्प्रतिपनत्परमाणुरूपव- त् । यहा विवादाध्यासिती रूपविनाशोत्पादौ भिन्ना- साधारणकारणको रूपोत्पादविनाशत्वात् पिठररूपोत्पा. दविनाशवत् । यहा रूप न स्वध्वंसकासमवाधिकारणकं रूपत्वात् मतवत् । यहा रूपध्वंसो न रूपासमवायि. कारणजन्यः रूपध्वंसत्वात् मतवत् रूपासमरायिका- रणं वा न रूपध्वंसजनकं रूगसमवायिकारणत्यात् मतवत् । न चाग्निसंयोगत्वेनैव रूपासमवायिकारण- खमिति बाधोऽत्रेति वाच्यं सहकारियोग्यतागर्भस्य कारणत्वस्यैव विवक्षितत्वात् । विपक्षबाधकतर्कशून्या हेतय इति चेत् न निरुपधिसम्बन्धशालिवात् । किश्च कार्यविनाशविशिष्टं कालमपेक्ष्य रूपादिविनाशात् रूपा- दिध्वंसविशिष्ट कालमपेक्ष्य रूपाद्युत्पाददर्शनात् सनि कार्य कार्यावष्टम्मस्य प्रतियन्धकत्वात् सति च रूपादी रूपान्तरानुपपत्तेः । न चैतावन्तं कालमेकोग्निसंयो- गोनुवचितुमीष्टे तेजसोऽपिलम्बगमनशीलत्वात् तेजो- न्तरेण नुघमानस्यादमिहन्यमानत्वाच्च । किश्च ययु- सादक एवाग्निसंयोगो नाशकस्तदा रूपाती नष्टेऽग्नि- नाशे नीरूप एंव परमाणुश्चिरंस्तिष्ठेत् नाशकश्चेदुत्सा- दकस्तदा पाकेन रक्तसारता न स्यात् परमाण्वन्तरे ततः कणादरहस्यम् । कर्मचिन्तनाच पश्चमे पष्टे सप्तमे ऽष्टम नवमे घा क्षणे गुणोत्पत्तिः एकत्र परमाणौ कर्म ततो विभागः ततश्चारम्भकसंयोगनाशक्षण एवापरत पर- माणौ कर्म ततधारम्भकसयोगनाशाद यणुक- नाश: परमाण्वन्तरकर्मणा च विभाग इत्येकः क्षणः । केवले परमाणौ श्यामादिध्वंसः विभागाच पूर्वसंयोगनाश इत्येकः क्षणः । ततो रक्का- यत्पत्तिः द्रव्यारम्भकः संयोग इलेकः क्षणः । अथ व्यणुकोत्पत्तिरथ तत्र रूपाद्युत्पत्तिरिति पञ्च- क्षणा । द्रव्यविनाशसमकालं परमाण्वन्तरे कर्मचिन्त- नात् षष्ठे गुणोत्पत्तिः । तथाहि परमाणुकर्मणा परमा- वन्तरविभागः ततो द्रव्यारम्भकसंयोगनाशोध द्वयण- कनाशः अस्मिन्नेव क्षणे परमाण्वन्तरे कर्म ततः श्या- मादिनिवृत्तिक्षण एव परमाण्वन्तरकर्मणा विभागस्ततो रक्ताद्युत्पत्तिक्षण एव परमाण्वन्तरे कर्म चिन्तनात् पूर्व- संयोगनाशस्ततः परमाण्वन्तरसंयोगस्ततो इयणुकोत्प- त्तिः अथ रक्ताद्युत्पत्तिरिति पक्षणा । श्यामादिनाशस- मकालं परमाण्वन्तरे कर्मचिन्तनात् सप्तक्षणा । तथाहि पूर्वन्यायन उवणुकनाशानन्तरं श्यामादिनिवृत्तिरेत- स्मिन्नेव क्षणे परमाण्वन्तरे कर्म ततो विभागः रक्ताधु- मशस्तपादभाप्यटीकासाहे त्पत्तिरित्येकः क्षणः ततः पूर्वसंयोगनाशस्तत उत्तरसंयो- गः अथ द्वयणुकमथ तत्र गुणोत्पचिरिति सप्तक्षणा । रक्ताद्युत्पत्तिसमकालं परमाण्वन्तरे कर्मचिन्तनादष्टक्ष- णा । रक्ताद्युत्पत्त्यनन्तरं परमाण्वन्तरे कर्मचिन्त. नान्नवक्षणा । तथाहि घ्यणुकविनाशानन्तरं इथ- णुकान्तरमुत्पद्य द्वितीये तृतीये चतुर्थे वा क्षणे गु. णवद्भवतीति न सम्भवति । तथाहि एकत्र पर- माणी घ्यणुकविनाशानुगुणक्रियासमकालमपरपरमाणी विभागचिन्तनाद द्विक्षणा । यदा एकत्र परमाणी द्रव्यविनाशानुगुणकर्मकालमपरपरमाणौ द्रव्यारम्भा- नुगुणा क्रिया तदा त्रिक्षणा । द्रव्यविरोधिविभागस. मकालं परमाण्वन्तरे कर्मचिन्तनाचतुःक्षणा । ननु पीलुपाकविचारो निःप्रयोजनत्वादनारम्भणीय एवेति चेत् न पार्थिवावयविविशेषगुणानां(१) यावदद्रव्यमा- विवे सिद्धे ऽयाबद्न्यभाविना सुखादीनां तहै- धर्म्यदर्शनात् पार्थिवविशेषगुणस्वनिरासेन पृथिव्यन्य- द्रव्यविशेषगुणत्वसिद्धी भूतचैतन्यनिरासस्य प्रयो- जनत्वात् । तथाहि सुखादयो न भूतविशेषगुणाः(२) (१) पापिषविशेषगुणानां-पा०३ पु०। (२) मूर्तविशेषगुणा:-- -पा०२०.

कणादरहस्यम् । अयावद्रव्यमावित्वात् शब्दवत् । अयावद्रव्यभावित्वं च स्वसमानाधिकरणध्वंसप्रतियोगित्वम् ॥ अथ संख्या । तत्र गणितव्यवहारासाधारणकार. जवं संख्यात्यम् । एकमात्रवृत्तिवृत्तिवे सति पृथक्त्वा- स्याने फवृत्तिवृत्तिगुणलव्याप्यजातिमत्वं वा व्या. सज्यवृत्तिवे सति अव्यासज्यवृचिवृत्तिपृथक्ला- न्यगुणत्वव्याप्यजातिमत्त्वं वा । संख्या नास्त्येव ए. कादिप्रत्ययस्य घटादिस्वरूपनिवन्धनत्वादिति चेत् न घटव्यक्तेस्तत्प्रयोजकत्वे घटान्तरे तत्प्रत्ययाभाव. प्रसङ्गात् घटत्वस्य प्रयोजकत्वे पटादौ तत्प्रत्ययाभाव- प्रसङ्गात् न चायं प्रत्ययो भ्रान्तः बाधकाभावात् । तथा च निमित्तापेक्षायां संख्यैव निमित्तमिति । नन्वेकत्वं जातिरेवास्तु भवति हीदमैकमिदमेकमित्यनुगतप्रत्ययः । एकत्वगुणवृत्तिजात्या स्वनुगमसमर्थने गौरवम् । सत्तया सहान्यूनातिरिक्तव्यक्तिकत्वं जातित्वे जातित्वे बाधकमिति चेत् तर्हि सत्तैव गुणः स्यादेकत्वं तु जातिरिति वैपरी- समेव किं न स्यादिति चेत् मैवम् एकत्वान्यगुणाविषय- कः शाब्द एकत्तप्रत्ययो गुणविषयकः एकमत्ययस्वात् चाक्षुपैकप्रत्यपवत् चाक्षुपैकप्रत्यपे रूपादीनां भानाद दृष्टान्तता यहा । द्वित्वमेकमात्रवृत्तिवृत्तिगुणत्यव्याप्य- ६८ মহাসঘাষণাগামঃ जातिगत् अपेक्षाजन्यत्यात् द्विपृथक्यान् किं च यकरय जाति. स्यात् तदा द्वयमेनापितिपत् हयमादे- कमित्यपि स्यात् नन्वसमुच्चयमेव समुघयस्तु द्वित्या- दिकमिति चेत् न पुरस्वासमुच्चयत्वात् द्वयादिस- ख्यागा एय समुच्चयधात् । ननु दधादिसंख्या समुचयः किं तर्हि भिन्नानामभिनयुद्ध्युपग्रहमानं तदिति चेत् न एर सति द्वित्यनित्यादिविचित्रव्यवहाररिलोपप्र. सङ्गात् । ननु समुच्चये द्विसाधुत्पत्तिप्रयोजी यो विशेपस्त्यापेक्षाशुद्धिगना पापस्तमे विशेषमादाय द्वित्वादिव्यहारचिव्यं स्यादिति चेत् न एकत्रद्वय- गोचरयापेक्षानुढ्या हित्योत्पदात् । एर दित्यादापपि एकत्वे गुणेकर द्वित्वमिति चेत् न चतुर्विशतिर्गुणा. पञ्च कर्माणीनिवदारोपात् तदुपपत्तेः। समुच्चयोऽपि तर्हि विशेषः स्पादिति चेत् न दित्यादीनां कचित्ताधि. कस्यमन्तरेण समारोपानुपपत्तेः । नन नित्यमेर दित्वादिकमपेक्षानुद्ध्या व्यज्यत इति चेत् न अपे- क्षाद्वित्वेनैव व्यञ्जकर दित्यव्यञ्जकापेक्षानुदया त्रित्वादीनामप्यभिव्यक्तिप्रसङ्गात् । अपेक्षानुद्विविशेषो दिवव्यञ्जक एवेति चेत् समानदेशानां समानेन्द्रि- पग्राह्याणां प्रतिनियतव्यञ्जक्व्यडग्यत्यानुपपत्तेः ।

। फणादरहस्यम् । अवयविसंयोगपोर्यभिचार इति चेत् न एकायच्छेदेन समानदेशत्यस्य विवाक्षितत्वात् अवयपिनोाप्यवृत्ति- स्येनाव्याप्यवृत्त्यवयवसंयोगस्यैकावच्छेदेनावृत्तेः। अई- निखातवंशसंख्यापरिमाणयाव्यभिचार इति चेत् न त- बेन्द्रियसन्निकर्पण द्वयोरपि ग्रहणात् हस्ताद्यवच्छेदमात्र तत्र न गृह्यत इत्यन्यदेतत् । अत एव लीलाबला- केत्यत्र रूपपरिमाणयोर्न व्यभिचारः पररसरव्यभिचा- रिव्यञ्जकाव्यङ्ग्यत्वं वा विवक्षितम् तस्मादपेक्षावुद्धि- दिस्वादीनामुत्पादिकैच न तु व्यक्षिका किं च द्वि- स्वाद्यपेक्षाबुद्धिजन्य कार्यस्वे सति नियमेनेकप्रतिप- तृवेद्यत्वात् सुखयत् अथ प्रागभावादी व्यभिचारवा- रणाय कार्यत्वे सतीति विशेषणम् न चैतदसिद्ध द्वित्वादीनामनेकवृत्तीनां नित्यत्वे जातित्वापत्तेः । न चेष्टापत्तिः जातिग्रहे व्यक्तिस्वरूपयोग्यतामात्रस्य तन्त्राचे ऽपेक्षाबुद्धचनपेक्षाप्रसङ्गात् । ननु कारणगु- णेभ्य एव नित्वादिकमुत्पन्नमपेक्षाबुद्धया व्यज्यतामि- सनुमानमप्रयोजकमिति चेत् न तथा सति दित्या- दीनामेकद्रव्यत्वप्रसङ्गात् एकत्वयत् वाम्यामवयग- भ्यामारव्धे वित्यादिकं च न स्यात् कारणाभावात् द्रव्यान्तरेकत्वमादाय पराईपर्यन्तमुत्पद्यतामिति चेत -- प्रशस्तपादभाप्पटीकासाहे न द्रव्यान्तराणां तत्र अस्यैव नियमस्थानभ्युपगमात् . कारणत्वात् अकारणगुणेनापि जन्यताम्. कारणाका- रणसंयोगजसंयोगवदिति चेत् एवं सत्यकरीतरु(?). संयोगादुत्पन्नस्य संयोगस्य यथाङ्कुरी(?) नाश्रय- स्तथा नित्यादिकमपि कारणाश्रयं न स्यात् तथा च कारणपरमाणुदपमादाय व्यणुके नित्यव्ययहारानु- पपतिः किञ्च हित्वादीनां कारणगुणपूर्यकरये नित्यद्र- व्येषु शित्वादिकं नोत्पयेत तस्मादपेक्षायुद्धिनिमित्तका. रणं समानाधिकरणमेकत्वमसमवायिकारणं हिस्वादि. परार्धपर्यन्तसंख्यानामिति स्थितम् । तत्रैतचिन्त्यते। स- मवाय्यसमवायिनिमित्तानां साम्ये द्वित्यादिकार्यवैचित्र्यं कथं स्थादिति । द्वाभ्यामकत्याभ्यां समानाधि. करणं द्वित्वं त्रिभिरेकत्वैस्त्रित्वमिति चेत् न एक- वे हित्वाद्यभावात् । हाम्यां द्रव्याभ्यां द्वित्वमिति चेत् न द्वित्वोत्पत्तेः पूर्व द्रव्ये द्वित्वाभावात् । भावे वा द्वित्वान्तरवैयर्थ्यात् । एकवेवेव द्वित्वाद्युत्पत्ति प्रति' किश्चिदैलक्षण्यमिति चेत् न तत एव वित्यादिव्यवहा- रोत्पत्ती बित्वायभ्युपगमविरोधात् । अपेक्षापहावेव तथा विशेषोऽस्तीनि चेत् न विषयवैलक्षण्यं विना तदनुपपचे अननुभवाच्च। अदृष्टविशेषादेव विशेष इति चेत् एवं ती-- कणादरहस्यम् । स्याव्यवस्थिततया द्वयोरेव कदाचित् त्रित्वं त्रिपु कदा. चित द्वित्वं व्यवहियेत । दृष्टनियामकमन्तरेणादृष्टे तथा- भ्युपगमे सर्वत्र कार्यवैचिव्ये तदङ्गीकारे कारणान्तरवैचि. त्र्यानुपपत्तेः। आरोपितं द्वित्वादिकमेकरवे ऽविशेषा स्या- दिति चेत् न द्वित्वादिकं विना तादृशाभिमानासिद्धे। तादृशाभिमानमन्तरेणापेक्षायुद्धेरविशेषात् । अभि- मानान्तरेण तथापेक्षायुरुत्पत्तौ चानवरथानादिति चेत् । मैवम् । प्रागभावभेदात् कार्यभेदोपपत्तेः । प्रा- गमावोऽपि साधारण एवेति चेत् घटसामग्न्यां सत्याम- प्युत्पन्न एव घटः पुनर्नोत्पद्यते ऽनुत्पन्नश्वोत्पद्यत इत्यन्व- यव्यतिरेकाभ्यां स्वस्वप्रागभावस्यैव कारणत्वोपगमात् । यदि च नैवं तदा पाकजस्थले रूपरसादीनामपि वैलक्षण्यं न स्यात् । नहि तत्र स्वप्रागभावमन्तरेण कार्यभेदप्रयो- जकमन्यत् पश्यामः | समवाय्यसामवायिनिमित्ताना साधारण्यात् प्रागभावस्यान्यथानुपपत्त्या स्वध्वंसस्यापि तत्तत्कारणत्वात् तत्कृतमेव वैलण्यं स्यादिति चेत न ध्वंसानामप्यन्वयव्यतिरेकयोः सर्वाणि प्रति साम्यात् । यत्र गन्धमावलक्षण्यं घटादी दृश्यते रसादीनां साम्य तत्र गन्धमानस्यैव पाकजस्वाभ्युपगमे ऽन्येपांप्रागभावा- ना'व्यभिचारान् स्वस्वप्रागभावमात्रस्यैव तत्र कारणत्वा- ७२ प्रशस्तपादभायटीकासनहे वधारणात् प्रकृते व्यभिचाराभावात् । द्विस्वादिप्रागमा- वाना सर्वसाधारण्यमिति चेत न एवं सति चनुष्ट्वाद्युत्पत्ती द्वित्वादिप्रागभावानामावश्यकरखेन द्वयमिदं त्रयं चतुष्टयं चेति स्यात् । अत एव व्यङ्ग्यस्यं चूम इति चेत् न तत्र दोपस्योक्तत्वात् । प्रागभावानां चासाधारणकारणत्वस्य समर्थितत्वात । यद्दा शुन्दया अपेक्षाबुद्ध्या द्वित्वं द्वि- स्वसहितया त्रित्वमित्याधुन्नेयम् । शुद्धत्वं चैकत्वान्न सं. ख्याविषयत्वम् । ननु हे द्रव्ये त्रीणीमानीति संख्या- विशिष्टप्रत्यक्ष एव विशेषणस्य द्वित्वादेविनाशात् विशे- पणसम्बन्धाधीनत्याद्विशिष्टज्ञानस्य प्रत्यक्षस्य वर्तमान. विशेषणविषयत्वादिति विशिष्टज्ञानमनुपपन्नमिति चेत् न विशेषणस्य विशिष्टज्ञानजनकत्वात् जनकत्वं च पूर्व- मत एव द्वित्वादरिति या ॥ अथ परिमाणम् । कालवृत्तिवृत्तित्वे सति एक- वृत्तिमात्रवृत्तिगुणत्वसाक्षायाप्यजातिमत्त्वं परिमाणत्वं परिमितव्यवहारासाधारणकारणगुणलं वा विधम् । अणुत्वं महत्त्वं हस्त्रत्वं दीर्घत्वं च । तता- गुत्वं परमाणुवृत्चि तच्च पारिमाण्डिल्यं(१) तवसमाना- धिकरणं परमहस्वत्वम् । अवान्तराणुलं घणुकमात्र. (१) पारिमाण्डल्य-पा० ३ पु०। । तच्चतु कणादरहस्पम् । वृत्ति तत्समानाधिकरणमेवावान्तरस्वत्वं व्यणुक- मारभ्ध महीमहीधरसागरादिपर्यन्तमवान्तरमहत्वं त- तुसमानाधिकरणमेवावान्तरदीर्घत्वम् । आकाशकाल- दिगात्मसु परममहत्त्वं तत्समानाधिकरणं च परमदीर्घत्वं एवं सर्वमेव द्रव्यं परिमाणहययोगि । हूस्वत्वदीर्घत्वे न परिमाणे इति केचित् । तन्न महत्सु दीर्घमानीयता- मिति निर्धारणवलात् तत्सिद्धिः । न च महत्त्वविशे- पविषयकत्वेनावयवसंस्थानविशेषविषयकत्वेन वा नि - रणोपपत्तिरिति वाच्यम् । इदमस्मान्न महत किं तु दीर्घ- मिदमस्मान्न दीर्घ किं तु महदिति प्रतीतिवैलक्षण्यात् तसिद्धिः। एवं महत्तरेषु दीर्घतरमानीयतामिनि प्रतीते- रपि तद्भेदसिद्धिः । न च महत्सु वर्तुलं चतुरस्रं त्रिकोणं चानीयतामिति निर्धारणबलाद लादिकमपि परिमाणं स्यादिति वाच्यम् तेषां महत्त्वविशेषत्वात अन्यथा गौर- वात् । सङ्कोचविकाशवदवयत्रसंस्थानविशेपत्याहा दीर्घ- लहस्यत्वे न नित्ये इत्येके । तन्न परममहत्ववादितरापे- क्षया आकाशादीनां परमदीर्घत्यस्य परमाणुप परमहस्व- त्वस्य चौरपचिकमतीतेः । यदि परमहस्वत्वं परमा- शुप्ववान्तरहस्वत्वं च घणुकेष्वेव तदा एवं सापेक्षया स. मिदादिषु कथं ह्रवत्वव्यवहारः कुवलयापेक्षया कथमा- ७४ प्रशस्तपादभाप्पटीकासाहे मलकादावणुत्वव्यवहार इति चेत् न तयवहारस्य भाक्तत्वात् । भक्तिश्च प्रकर्षाभाव एव उभाभ्यां भज- नात् । यत्र वास्तवं हस्वत्वं यत्र चावास्तवमुभयत्रापि प्रकर्षामावस्य सत्त्वात । नन्ववान्तरमहत्वदीर्घत्वयोः प्रत्यक्षमेव प्रमाणं परमदीर्घत्वहस्वत्वयोः किं प्रमाण- मिति चेत् यौगिप्रत्यक्षमेव । तद्विधियान्याप्युच्यते(१) अणुपरिमाणं स्वसमानाधिकरणपरिमाणभिन्नं परिमाण- स्वात महत्त्ववत् एवं परममहत्त्वं स्वसमानाधिकरण. परिमाणभिन्नं परिमाणत्वात् महत्त्ववत् । यहा परि- माणत्वं स्वसमानजातीयसमानाधिकरणत्वव्याप्यं का- लवृत्तिवृत्तित्वात् दिग्वृत्तिवृत्तित्वाहा संयोगत्व- वत् विभागत्ववत् । तत्रानित्यमहत्त्वं संख्यापरि- माणप्रचययोनि प्रसरेणुमहत्वं सख्यामात्रयोनि ईश्वरा- पेक्षाबुद्धा घणुकेषु त्रिपु वर्चमानया बहुत्वसंख्यया तदु- त्पत्तेः अवयवमहत्त्वप्रचययोस्तनाभावात् । समानमह- वसमानबहत्वावयवारब्धद्रव्यापेक्षया तूलकादिपरिमा- णोत्कर्षदर्शनात् प्रचयस्य कारणत्वमवयवप्रचयमहत्त्वसा- म्ये भूयोवयवारब्धे महत्वोत्कर्षदर्शनात बहुत्वस्य समा- नप्रचयवहुत्वावयवारब्धापेक्षया महावयवारब्धे महत्त्वो- (१) तद्विश्वासायान्यदप्युल्यते-प --पा० ३ पु०॥

कणादरहस्यम् । स्कर्षदर्शनान् गहत्वस्य साकल्पे तु सर्वेषाम् । यहान्यप- व्यतिरेकित्वात घणुकपरिमाणं परमाणुद्वयनिष्ठपेश्वरापे- क्षावुद्धिजनितथा द्वित्वसंख्यया जन्यते हस्त्रत्वमपि तयैव कार्यभेदस्तु प्रागभावभेदात् महत्त्वकारणमिव दीर्घत्वका- रणभेदस्तु पागभावभेदादेव । विनाशस्त्वनित्यपरिमाणानां सर्वेषां स्वाश्रयविनाशादेवा परिमाणत्वजातिसिहौ प्रमा- णमनुगतप्रत्यक्षमेव । यहा महत्परिमाणं महापरि- माणासमानाधिकरणगुणवृत्तिगुणत्वव्याप्गजातिमत् मू- तगुणत्वाद् रूपवत् मूर्तपदं ज्ञानादी व्यभिचारवा. . रणाय तेषां गहापरिमाणासामानाधिकरण्याभावात् ।। अथ पृथक्त्वम्। प्रक्रियान्तरमस्य संख्यावत् । अ- वधिव्यङ्ग्यत्वे सस्पेकमात्रवृत्तिवृत्त्यनेकवृत्तिवृत्तिगुण- त्वव्याप्यजातिमत्त्वं पृथक्त्वम् | प्रमाणं चात्रेदमस्मात् पृथगित्यवाधितं प्रत्यक्षमेव । तत्र विप्रतिपत्ती संख्यात्वमे- कानेकवृत्तिवृत्तिगुणत्वसाक्षायाप्यजातिसमानाधिकरणा- त्यन्ताभाषप्रतियोगि गुणलव्याप्यजातित्वात् रूपस्व- वत् । रूपत्वादीनां संख्यावृत्यत्यन्ताभावप्रतियोगित्वेनैव वा साध्यसत्त्वात् । ननु पृथक्त्वबुद्धिरितरेतराभावन. वान्यथासिहेन तद्गुणान्तरमिति चेत् न पृथक्त्वस्या- वधिनिलप्यत्वादन्योन्याभावस्य च प्रतियोगिनिरूप्य- प्रशस्तपादभाप्पटीकामहे त्वात् इदमस्मात् पृथगिदमिदं न भवतीति प्रतीतिमे- ददर्शनात् । प्रातिपदिकार्थमात्र एवं पञ्चम्यनुशास- नवलादिति चेत् तर्हि अन्यारादितरर्ते इत्यत्रान्यशब्द. स्पार्थपरतया तदर्थकनप्रयोगेऽपि पञ्चम्यापत्तेः । तथा च घटान्न पट इति स्यात् । एवं तर्हि अन्यदर्थान्तर- मितर भिन्नमित्यादिशब्दा अपि पृथक्त्वपर्याया एय स्यु- रिति चेत् कः सन्देहः । नार्थविशिष्टः पृथक्त्वशब्दार्थों न तु नार्थमात्रमिति चेत् न अपटो घट इत्यत्रापि पश्च- 'म्यापत्तेः । वैशिष्ट्यमेव पृथक्त्वम् भवति हि तस्मात् पृथ- गिति तस्माद्विशिष्ट इत्यर्थ इति चेत् न दण्डविशिष्टोऽयं देवदत्तो न तु दण्डाविशिष्टात् पृथगिति प्रतीतेः । न च वैधर्म्यमेव पृथक्त्यं श्यामादक्तो विधर्मा न तु पृथगिति प्रतीतेः न च सामान्यविशेष एव पृथक्त्वं पदार्थतय. वृतित्वे सत्तया द्रव्यमात्रवृत्तित्वे द्रव्यत्वेन सहान्यू. नानतिरिक्तवृत्तित्वात् । यदि पृथक्त्वं गुणः कथं गुण- कर्मादौ तत्प्रतीतिरिति चेत् न तत्र तहयवहारस्य गौणत्वात् । अन्योन्याभाववत्वैव च गुणयोगः प्र- तीतिश्च कथं गौणीति चेत् न प्रतीतेरारोपरूपत्वा- त् महान् शब्द इतिवत् अन्योन्यावधिकं प्रति- दव्यमेव पृथक्त्वं प्रतीयत इति प्रतिद्रव्यविश्रान्त- .

कणादरहस्यम् । मेव । अनेकद्रव्यमपि द्विपृथक्त्वादिकमित्यत्र न प्रमाणं द्वौ पृथगिति प्रतीतेर्दित्वसमानाधिकरणा- भ्यां पृथक्त्वमेवान्यथासिद्धत्वात् । द्वौ पीताविति- चदिति चेत् न प्रत्येकविश्रान्तपृथक्त्वयोरन्योन्या. वधिकत्वात् । भवति हि चैत्रान्मैत्रः पृथगिति चैत्र- मैत्री हौ पृथगिसत्र तु चैत्रमैत्रयोः प्रत्येकं नावधित्वं नहि भरति चैत्रमैत्रौ चैत्रान्मनाहा पृथगिति द्विपरव- बन्दीग्रहस्तु तत्रैव मोचनीयः । हिपृथक्त्वादी पृथक्त्वजातेरन्यावान्तरजातिर्न वर्तते प्रतीतिवैलक्षण्यं हित्रादिघटितमेवेति । यद्यपि भाष्यस्वरसस्तथापि द्विपृथक्त्वादाववान्तरजातिवर्तत एव द्वित्वत्वादिजा- तिः परं तत्र न वर्तते तद्विशिष्टबुद्धिस्तु द्वित्वा- दिगुणाधीनैवेसाचार्याः । तत्रापि द्विपृथक्त्वोत्पत्ति- काले यदि द्वित्वमुत्पद्यत एव तदा तत्र समाना- धकरणं द्वित्वं विशेषणमन्यथोपलक्षणं द्विपृथक्त्वादि- प्रक्रिया द्वित्वादिप्रक्रियावद द्रष्टव्या । एकत्ववदेकपृथ- रत्वस्यापि कारणगुणपूर्वकत्वमाश्रयनाशनाश्यत्वं हि- खादिवत् द्विपृथक्त्वाद्यपेक्षाबुद्धिजन्यत्वं तन्नाशनाश्य. वं च । समानदेशानां समानेन्द्रियग्राह्याणां च द्वि- अहिपृथक्त्वादीनां परस्परव्यभिचारिव्यञ्जकव्यङ्ग्यत्वं - प्रशस्तपादभाप्पटीकासन नास्तीत्यदोपः॥ अथ संयोगः । विभागप्रतियोगिकान्योन्याभाव. बत्त्वे सत्यनेकवृत्तिमात्रवृत्तिगुणत्वसाक्षायाप्यजातिमवं संयोगत्वम् । द्रव्यासमवायिकारणवृचिगुणत्वसाक्षा- याप्यजातिमत्त्वं वा । पार्थिवपरमाणुरूपासमवायि. कारणवृत्तिगुणत्वंसाक्षायाप्यजातिमत्त्वं या सादिप्रक्षेपेणापि द्रष्टव्यम् । प्रमाणं त्वत्र प्रत्यक्ष- मेव । भवति हि संयुक्ताविमावितिधीः प्रात्य. क्षिकी । स चायं विविधः अन्यतरकर्मज उभ- यकर्मजः संयोगजश्चेति । तर अन्यतरकर्मजो यथा स्थाणुश्येनयोः । उभयकर्मजो यथा मल्लयोपयो- र्वा । संयोगजश्च यथा तन्तुतुरीसंयोगात पटतुरीसंयो- गः यथा वाङ्गुलीतरुसंयोगाद्वरततरुसंयोगः का- रणाकारणसंयोगात कार्याकार्यसंयोगः सर्वत्र द्रष्टव्यः । कारणसंयोगिना हि कार्यमवश्यं संयुज्यते । भवति ह्यगुलीमातकर्मणा तरुसंयोगे जाते निश्चलस्यापि पाणेस्तरुसंयोगप्रतीतिर्मुजतरुसंयोगप्रतीतिः शरीरतरु- संयोगप्रतीतिश्च । कचिवाम्यां तन्त्वाकाशसंयोगाम्यां द्वितन्तुकाकाशसंयोगः बहुभ्यश्च तन्तुतुरीसंयोगेभ्य एकः पटतुरीसंयोगः। कचिदेकरमादेव कारणाकारणसंयोगाद कणादरहस्यम् । इयोः कार्याकार्यसंयोगयोगत्पत्तिः यथा पार्थिवाप्य- परमाण्वोः संयोगे सति तयोरेव सजातीयापरपर- माणुहपसंयोगे सति घणुकहयारम्भे वा रूपाधुसति- समकालमितरेतरकारणाकारणगतात संयोगादितरे- तरका कार्यगतौ भवतः तत्र मानं पार्थिवष्णु- कमाप्यनाणुनाऽऽप्यं च ह्यणुकं पार्थिवेनाणुना संयुज्यते तदकार्यत्वे सति तत्संयोगिकार्यत्वात् यद्यदायत्वे सति यत्संयोगिकार्य तत्तेन संयुज्यते तथा तुरीसंयु- क्ततन्तुकार्यः पटस्तुयेति । अत्र च पार्थिवः परमाणुरा- प्ययणुकसंयोगी आप्यम्यणुकाजनकत्वे सत्या- प्यह्यणुकसमानाधिकरणसमानकालीनसंयोगाश्रयत्वा- तु यदेवं तदेवमित्यनुमानमसङ्गतं प्रकारान्तरेण त- संयोगसिद्धौ विवक्षितासिद्धेः । सोऽयमनेकवृ- त्तिरव्याप्यवृत्तिश्च तत्र यावदन्योन्याभावसमानाधिक- रणत्वमनेकवृत्तित्वम् आश्रयान्योन्याभावसमानाधिक- रणवं वा स्वसमानाधिकरणकत्वात्यन्ताभावसमा. नाधिकरणत्वम् स्वसमानाधिकरणपरिमाणात्यन्ता- भावसमानाधिकरणलं वा गुणानेकवृत्चित्वम् अ- व्याप्यवृत्तित्वं च स्वात्यन्ताभावसमानाधिकरणत्यम् स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं वा स्वा.

८० प्रशस्तपादभाष्यटीकास त्यन्ताभावाविरोधित्वं वा स्वाविरोध्यत्यन्ताभावप्रतियो- गित्वं था । कथमेवमिति चेत् अनुभवबलात् भवति हि मूले वृक्षः कपिसंयोगवान्न(१) शाखापामिति धीः । मूलशाखे एव संयोगतदभावाश्रयाविति चेत् न वृक्षग- त्वेन हयोरनुभवात् । विरोधिनोरेकाश्रयत्वाभावादनुभवो भ्रम एवायं किं न स्यादिति चेत् अबाधितानुभवरले- नानयोर्विरोधस्यैवाभावात् नहि विरोधाविरोधावनुभवम- भिभूयावकाशमासादयतः । अन्येषां पदार्थानां नेयं रीतिरिति चेत् माभूत् सर्वेषां स्वभावस्य साधारण्ये जग- द्वैचित्र्यभङ्गप्रसङ्गात । यहा संयोगो व्याप्यवृत्तिरेव कि विदवयवावच्छेदेन तु तदाधारता निरूप्यते इत्येवा- व्याप्यवृत्तित्वार्थः । यद्वा अवयवसंयोगे उपलभ्यमान एवाययविसंयोग उपलभ्यते यत्रावयवे संयोगाभावस्त- स्मिन्नुपलम्यमानेऽपि नोपलभ्यत इत्यव्याप्यवृत्तित्वा- थः। सोऽयं द्रव्यगुणकर्मणामसमवायिकारणं तत्र द्रव्यार- म्भे निरेपक्षः नहि तन्तूनां परस्सरसंयोगे पटारम्भे कस्य- चिदपेक्षा । रूपादीनामारम्भेऽग्निसंयोग औपण्यमपेक्षते । कर्मारम्भे नोदनाभिघातौ स्पर्शवेगावपेक्षेते इति गुणक. रिम्भे सापेक्षः । विभुनोरजोऽपि संयोग इति चेत् न १) किं तु शासायां-पा०२ पु०।

फणादरहस्यम् । संयोगव्यापिकाया युतसिद्धस्तत्राभावात् नहि पृथगान- याश्रिततं पृथग्गतिमत्त्वं वा युतसिद्धिर्विभुनोः सम्भव- ति । यद्यपि प्रत्येकमनोन व्यापकता संयोगित्वेऽपि विभुपरमाण्वोः पृथगाश्रयाश्रयित्वाभावात संयोगित्वेऽपि । शरीरत्यगिन्द्रिययोः पृथग्गतिमत्त्वाभावात् पृथग्गति- मत्वं हि परस्परविभागहेतक्रियावत्वं तच्च तयोनास्ति तथाप्येतद्वयान्यतरत्वं संयोगव्यापकं द्रष्टव्यम | अ- वयवावयविनोः पृथग्गतिमत्त्वेऽपि युतसिहव्यतिरेकः परस्परविमागहेतुः क्रियाविरहादेव । इपेनाश्यवकर्म- जन्यविभागसमकालं' श्यनकर्मचिन्तायां कर्मसं- योगौ सम्भूयापि संयोग' जनयत इति कन्दली. कृतः । तथाहि श्येनावयवकर्मजन्यविभागश्येनकर्म - णी पूर्वसंयोगनाशविभागी श्येनावयवस्थाणुसंयोग- श्येनकर्मजनितविभागजन्यसंयोगनाशी तदुत्तरं श्येना- वयवस्थाणुसंयोगश्येनकर्मभ्यां श्येनस्थाणुसंयोगः । प्र- त्येकमवधृतसामर्थ्याभावात् नैवमिति किरणाचलीकृतः । तथाहि संयोगजश्व संयोगो विभागाविरोधी संयोगेना- निनात् । कर्मजस्तु संयोगोविभागविरो- धी कर्मणान्तरा विभागजननात् न चैकस्यैव विभागवि- रोधित्वं तदविरोधिलं सम्भवतीति किस श्येनकर्मसम. न्तरा विम प्रशस्तपादभाप्पटीकासद्वारे कालमवश्यं तवयवकर्मणा भवितव्यम् अवयविकर्मणां यावदवयवकर्मव्याप्तत्वात् ।तथा च कर्मवति कर्मानुत्पन्चे- स्वपं श्येनावयवकर्मनाशानन्तरमेव श्यनकर्मणा भवि- • तव्यमिति कुतो योगपघम् । योगपये च तदुभयजनि- तसंयोगविरुद्धजातिहयसमावेशः स्यात् । न च तदुभय- विजातीय एवापं संयोगस्तादृशजातेयोग्यानुपलब्धिप्रति- हतत्वात संयोगस्य निविधस्यापि समानाधिकरणा- द्विभागाद्विनाशः । यदा निष्क्रियमेव द्रव्यं विनश्यति तदाश्रयनाशादपि संयोगनाशः कचिदाश्रयनाशवि- भागाभ्यामपि । तद्यथा अंशुकर्मजनितविभागाद् यदा तन्वारम्भकसंयोगनाशस्तदेव तन्त्वन्तरे कर्म तन्त्वार- म्भकसंयोगनाश इति कन्दलीकृतः । तदसत् द्रव्य- विनाशकाले विभागानुत्पत्तेः समवायिकारणस्य कार्य- समानकालीनस्वनियमादिति किरणावलीकृतः ।। अथ विभागः । स्वजनककर्मोत्पत्यधिकरणक्षणा- व्यवहितोत्पत्तिकवृचिगुणत्वसाक्षायाप्यजातिमत्त्वं वि- भागत्वम् । द्रव्यासमवायिकारणावृचिवे सत्येकमात्र- वृत्त्यवृत्तिगुणत्वसाक्षायाप्यजातिमत्त्वं वा विभक्तप्रत्यय- विशेषणत्वं वा । संयोगाभाव एव विभाग इति चेत् असन्ताभावले रूपादिष्वपि प्रसङ्गात् । द्रव्यवृत्तिखेन .

है कणादरहस्यम् । ८३ विशेपितोयमिति चेत् न अवयवावयविनोरपि प्रसङ्गात् । संयोगवसांसाविति चेत् न एकसंयोगिनाशेऽपि- विभागप्रत्ययप्रसङ्गात् । संयोगिंदर्यवृचिः संयोगवं- सो विभाग इति चेत् न द्वित्वस्यातन्त्रत्वात् । न हि' घटत्वनिबन्धनो(१) घटव्यवहारस्तदेकत्वानेकत्वनिब- न्धनः(२)। ननु विभागस्य क्षणद्वयमातावस्थायितया तदुत्तरकालमपि विभक्तप्रत्ययानुवृत्त्या संयोगलाव- च्छिन्नप्रतियोगिकः संयोगध्वंसो वा संयोगासमानकाली- नः संयोगधंतो वा संयोगिद्वयनिष्ठो विभागः स्यादिति चेत् न उक्तोत्तरत्वात् । प्रमेयाधिक्याधीनो हि विलक्ष- णप्रत्ययो न विशेषणैकत्वमात्राधीन इति । किच संयो- गस्य समानाधिकरणविरोधिगुणनाश्यत्वात् स एव गुणो विभागः । कर्मैव संयोगनाशकमस्त्विति चेत् न कारण- नाशविरोधिगुणयोरेव गुणनाशकत्वकल्पनात किञ्च य- त्राकुरीकर्मणाकरीतरुसंयोगस्तस्माइस्ततरुसंयोग- स्ततो भुजतरुसंयोगस्ततः शरीरतरुसंयोगस्तवाङ्कु- मुत्पन्नेन कर्मान्तरेणाङ्कुरीतरुविभागादकुरीतरुसं- योगनाशसम्भवेऽपि हस्ततरुसंयोगादीनां नाशकः स- मानाधिकरणो, गुण एवं धाग्यः अकुरीकर्मणो व्य- (१) परतन्त्रो-पा०२ पु०॥ (२)परतन्त्रो-पा० ३ पु०। :

८४ मशस्तपादभाष्यटीकासकहे धिकरणस्यापि संयोगनाशकत्वप्रसङ्गात् । विभागः सन्नित्यवाधिनप्रत्ययात् घटात् : पटोऽयं विभक्त इति सावधिकत्वात् शब्दसंयोगाजन्यशब्दासमवायिकारण- त्वात् त्रिभागाभावस्यैव संयोगापची विनिगमकाभा- वात् न संयोगध्वंसो विभागः । हिमबिन्ध्यौ विभ- ताविति धीस्तु संयोगाभावे विभागारोपरूपा विभा- गपदस्य नानार्थत्वाहा । किञ्च संयोगत्वं द्विष्ठमात्र- वृत्तिगुणत्वसाक्षाद्व्याप्यजातिभिन्न जातित्वात् मेय- त्वात् घटवदित्यनुमानादपि विभागसिद्धिः । सोऽयं विभागस्त्रिविधोऽन्यतरकर्मज उभयकर्मजो विभागज- श्व । उभयकर्मजे यद्यपि दण्डद्वयजन्ये घटे एकदण्डज- न्यो न विशेषस्तथा न विशेषो युक्तः तथाप्यन्यतरक- मजे विभागे पटाद् घटो विभक्त इति धीरुभयजे तु मल्ली मेषौ वान्योन्यं विभक्ताविति धीरिति प्रत्ययकृत "एव विशेपो द्रष्टव्यः । विभागजस्तु द्विविधः कारण- मात्रविभागपूर्वकः कारणाकारणविभागपूर्वकश्च त- नायो वंशे पाव्यमाने दलहयविभागाइलाकाशविमा- गः दलकर्मत एवं किं न स्यादिति चेत् न कर्मणो ट्रन्यारम्भकसंयोगविरोधिविभागजनकतया तदविरोधि- विभागजननासामर्थ्यात् न छक कर्मोभयं विरुद्धं का- कणादरहस्यम् । र्य कर्तुमीष्टे कार्यविरोधेन कारणविरोधस्यापि कल्पयि- तु महत्वात् कारणविरोधस्तु कर्मवैलक्षण्यकल्पननि- वर्तनीय एवं कर्मवैचित्र्यं तु किश्चिदारम्भकसंयोग- प्रतिद्वन्द्विविभागजनकस्य तत्प्रतिद्वन्द्विविभागमात्र- जनकम् किञ्चिच्च तदविरोधिविभागमात्रजनकमिति । दृष्टं हि विकसत्कमलकुड्मलादी द्रव्यारम्भकसंयोगा- तिद्वन्द्विविभागजनकस्य तत्प्रतिहन्हिविभागाजनकल- म् । अन्यथा कमलकुड्मलमपि नश्यदिति । तथा च वंशदलकर्म यदि द्रव्यारम्भकसंयोगाविरोधिवंशदला- काशविभागमपि जनयेत दलहयविभागं न जनयेत् तस्प द्रव्यारम्भकसयोगिविरोधित्वात् । ननु कर्मवैज्ञात्य- मन्यथापि सम्भवति किश्चित् कर्म विराधिनमविरोधिनं घ विभागं जनयेत् किश्चिदा विरोधिनमेवेति चेत्न एता- वतापि विरुद्वकार्यजनकत्वविरोधस्यानिवृत्तः । वैजात्य- कल्पना वस्तुस्वाभाव्यमेवाविरोधं निवर्तयिष्यतीति चेत् न कार्यविरोधस्य प्रत्यक्षसिद्धतया तदधीनकारणवैजा. सस्यैव कल्पयितुमुचितत्वात् । उमयजनकस्य च स. न्दिह्यमानस्त्रान तदनुरोधिवेजात्यकल्पनम् । ननु वंश- दलकर्म विरोधिविभागजनक विरोधिविभागजनकल्ला- दित्यत्रान्वयेन दृष्टान्ताभावो द्रव्ये व्यभिचारात । न च प्रशस्त पादभाष्पटीकासवहे यदविरोधिविभागजनक न तद्विरोधिविभागजनकं य- था कमलदलकतिव्यतिरेकीति वाच्यम् । द्रव्ये व्य. भिवारादिति चेत् मैवं दलाकाश विभागो न'द्रव्या- रम्भकसंयोगप्रतिद्वन्द्विविभागजनककर्मजन्यः द्रव्या- रम्भकसंयोगाप्रतिद्वन्द्विविभागत्वात कमलदलविभागव- दिति भावार्थत्वात् । ननु संयोगे ऽप्ययं न्यायः क- थं न स्यात् द्रव्यारम्भकसंयोगजनकस्य कर्मणो द्रव्या. नारम्भकसंयोगजनने विरोधात् तथा च कारणद्वयसं- योगपूर्वकाः कारणाकारणसंयोगाः स्वीक्रियन्तामिति चेत् न संयोगस्वरूपतो विरोधाभावात् अनारम्मक- द्रव्यसमवायाधीनं हि संयोगस्य द्रव्यानारम्भकत्वं न स्वरूपतः । नन्वारम्भकेऽपि तन्वादी रण्डाकरण्डावस्थिते वर्तमानानां संयोगानामनारम्भकत्वदर्शनाता नूनं संयोगे वैजात्यं तदधीनं च कर्मण्यपि वैजात्यमिति कथमारम्भ- कसंयोगजनके नानारम्भकोऽपि संयोगो जननीय इत्यव- श्यं कारणमात्रसंयोगात कारणाकारणसंयोग उत्पाद नीय इति चेत् न सहकारिभेदसमवधानादेव तदुपपत्ती- वैजास्यकल्पने मानाभावात सोऽयं विभागः का- रणहयवर्ती कार्यनाशविशिष्टं स्वतन्त्रं वावयवमपेक्ष्या- काशादिविभागं जनयति निरपेक्षस्य जनकले कर्मः ८७ कणादरहस्यम् । स्वापत्तेः । संयोगविभागयोरनपेक्षं कारणं कर्मति तल्ल- क्षणात कार्यविनाशो द्रव्यारम्भकसंयोगनाशः स्वातन्त्र्यं चावयवानां द्रव्यनाशवैशिष्ट्यमिति भाप्यकारीयविक- रूपार्थ इति कन्दलीकृतः । कार्यनाशो द्रव्यनाश एव स्वातन्त्र्यं चावयवानां द्रव्यनाशवैशिष्ट्यमेव विवक्षामात्रा. ६यंविकला इति किरणावलीकृतः। एवं कारणाकारणवि- भागपूर्वकोऽपि विभागो द्रष्टव्यः । अङ्गुली(१)तरुविभा- गाद्धस्ततरुविभागस्तेन शरीरतरु(२)विभाग इति कथ- मन्यथा संयोगपरम्पराविनाशः । विनाशस्तु सर्वेषां विभागानां : समानाधिकरणात संयोगादेव अन्यथा संयुक्तप्रत्ययवत् विभक्तप्रत्ययानुवृत्तिप्रसङ्गः ।। अथ ‘परत्वापरत्वे । कालपिण्डसंयोगासमवा- येकारणले सत्यपरत्वभिन्नैकवृत्तिमात्रवृत्तिगुणत्वं का- लिकपरत्वम् । स्पन्दविषयकापेक्षायुद्विजन्यत्वे सत्यप- त्वानाश्रयत्वं । यद्विशिष्टे द्रव्ये परमिति प्रत्ययस्त- स्परत्वम् यद्विशिष्टेऽपरमिति प्रत्ययरतदपरत्वमित्या- कार्याः । ननु दैशिकयोस्तयोर्न प्रमाणं परापरवुद्धोः सं- पुक्तसंयोगाल्पयिस्त्वभूयस्त्वाम्यामेवान्यथासिद्धेरिति चेत न तथा सति प्रमातर्यपि तद्व्यवहारप्रसङ्गात् । भवति (१) अङ्कुरी-पा०'३ पु०। (२) भुजतरु-पा० ३ पु. 1, .. प्रशस्तपादभाष्यटीकासनहे हि वाराणसी मत्तः परेतिधीः न तु वाराणसीतो- ऽहं पर इति संयुक्तसंयोगाल्पीयस्त्वभूयस्त्वाविशेषे ऽपि प्रमातरि परत्वापरत्वयोरनुत्पादः कारणशक्ति- नियमात् । यथा भेर्याकाशसंयोग आकाश एव शब्दं जनयति न भेामपि तद्वत् संयुक्तसंयो- गाल्सीयस्ववहुत्वाहिशेषेऽपि प्रमेय एव परवापरत्वे न प्रमातर्यपीति । ननु परवापरत्वव्यवहारे ऽपि कारण शक्तिः कथं नाश्रीयते इति चेत् न कारणशक्त कार्यों- त्पाद एव नियमात व्यवहारस्तु निमित्तमात्राधीन एवेति विशेषात् । एकस्यां दिशि वर्तमानयोर्मूर्चयोरल्पतरसं- युक्तसंयोगादपरत्वं तदपेक्षं च बहुतरसंयुक्तसंयोगा- त् परत्यम् । विनाशस्तु परत्वापरत्वयोः क्वचिदपेक्षाबु- द्विनाशात् क्वचिदसमवायिकारणसंयोगनाशात् क- चिदाश्रयनाशात कचिदाश्रयनाशसंयोगनाशाम्यां क- चिदपेक्षाबुद्धिनाशसंयोगनाशाम्यां कचिच्च सर्वनाशेरिति सप्तधा(?) तदुक्तम्- अपेक्षाबुद्धिसंयोगद्रव्यसंयोगनाशनात् । पृथक् द्वाभ्यां च सर्वेभ्यो विनाशः सप्तधानयोः ॥ इति। अथ बुद्धिः। विषयप्रवणत्वं बुद्धित्तम् । इच्छासा- क्षारकारणात्मविशेषगुणवृत्तिगुणस्वसाक्षाध्याप्यजातिमत्त्वं कणादरहस्यम् । वा । सा च द्विविधा विद्या चाविधा च । तत्र विशेष्यावृत्यप्रकारकं ज्ञानं विद्या मिथ्याज्ञा- नमविद्या तत्र विद्या चतुर्विधा प्रत्यक्षलै- ङ्गिकरमृत्यापलक्षणा । ततेन्द्रियार्थसन्निकर्पोत्पन्न ज्ञानं प्रत्यक्षम् । अर्थजन्यं ज्ञानं वा ज्ञानाकरणकं ज्ञानं वा साक्षात्कारिज्ञानं वा । साक्षात्वं सामान्यविशेष- स्तत्वमित्यर्थः । एतदद्वयमीश्वरप्रत्यक्षसाधारणम्। स्मृत्य- जनकज्ञानकारणमनःसंयोगाश्रयत्वमिन्द्रियत्वम् । शब्दे. तरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयो- गाश्रयत्वं वा । नक्तवरनयनरश्मिः नेन्द्रियं किन्तु तेजो. न्तरमेव । शब्दरूपेतरोद्भनविशेषगुणानाश्रयत्वमिति त- दुपग्रहाय कर्त्तव्यमित्यन्ये । इन्द्रियाणि तु घ्राणरसनत्वक चक्षुःश्रोत्रमनांसि पट(१)। सन्निकर्ष चैषां संयोगः संयुक्त- समवायः संयुक्तसमवेतसमवायः समवायः समवेतसम- यायो विशेषणविशेप्यभावश्च । संयोगेन द्रव्याण संयुक्त- समवायेन द्रव्यगनजातीनां गुणानां कर्मणां च(२) संयु- क्तसमयेतसमवायेन गुणकर्मगतजातीनां समवायेन शा- उदस्य समवेतममवायेन शब्दत्वकत्वगत्वादीनां विशेषण- (१)प्राणग्सनचक्षु श्रोत्यड्मनासि पद्-पा० ३ पु०। (२)प्रहणमिस्पधिक ३ पु०॥ १२ प्रशस्तपादभाग्यटीकासवहे विशेष्यभावेनाभावस्य ग्रहणम् । तत्र वहिर्दव्याणां महत्त्वे सत्युभूतरूपवत्वं योग्यता बाह्यद्रव्यगतसामान्यगुण- कर्मणामुभूतरूपवचमहत्वैकार्थसमवेतन्वं सामान्यानां च योग्यव्यक्तिगतत्वं शब्दस्य कर्णशष्कुल्यवच्छेदे- नोत्पत्तिः तत्सामान्यस्य योग्यशब्दगतत्वमेव सं- सर्गाभावस्य योग्यप्रतियोगिकत्वम् अन्योन्याभाव- स्प योग्याधिकरणत्वम् स्वरूपयोग्यता भवति हि स्तम्भः पिशाचो न भवतीति चाक्षुषी प्रतीतिः । विशे- पणता च सम्बन्धान्तरगर्भा शुद्धा चेति द्वयी। तत्रा- घा संयुक्तविशेषणतादिभेदेन घोढा यथा संयुक्तवि- शेषणतया द्रव्यविशेषणीभूताभावग्रहणम् संयुक्तसमव- तविशेषणतया रूपादौ रसाभावग्रहणम् संयुक्तसमवेतस- मवेतविशेषणतया रूपत्वादौ रसत्वाद्यन्योन्याभावग्रहणम् समवेतविशेषणतया ककारादौ गत्वाद्यभावग्रहणम् सम- घेतसमयेतविशेषणतया कत्यादौ गत्वाधन्योन्याभावादि- ग्रहणम् । विशेषणविशेषणतया चाभावादिवैधादिग्र- हणम् । सामान्यलक्षणा च प्रत्यासत्तिविशेषणताविशेष एव । भासन्ते ह्यतीतानागतधूमादयो धूमत्वसामान्यवि. शेणतया सेयं संयुक्तसमवेतविशेषणता । संयुक्तस- मवेतसमयेतविशेषणतया च रूपस्वादिसामान्याधिशे.

फणादरहस्यम्। पणतया च अतीतानागतरूपादय इत्याधुह्यम् । यो. गजधर्मश्च प्रत्यासत्यन्तरमेव ततसंस्कृतेन मनसाती- तानागतस्वरूपायोग्यपरमाण्याकाशादीनामनिरासात् । ज्ञानलक्षणा तु संयुक्तसमयेतविशेषणतैव । मन:- सयुक्तात्मसमवेतज्ञानविशेषणतया परमाणुप्रभृतीनाम- पि भानात् । भवति हि परमाणुमहं जानामीति प्रत्यक्षम् बहिर्द्रव्यग्रहे चतुर्विधः सनिकर्षः तन्त्रं स- चेन्द्रियार्थयोरन्योन्यामिन्द्रियावयवार्थावयवयोरन्योन्यमि. न्द्रिपारपत्रार्थयोरावयवेन्द्रिययोश्च । तदेतद् द्वित्रि- धम् । निर्विकल्पकं सविकल्पकं च । तत्राचं वैशि- प्ठ्याविषयकं निष्प्रकारकं वा । न तत्र प्रमाणमिति घेत न विशिष्टज्ञानस्यैव तत प्रमाणत्वात् । न हि विशेषणज्ञानमन्तरेण विशिष्टज्ञानमुस्पद्यते अ- नुमित्यादी तथा दर्शनात् । तथा च गौरिति प्रत्यक्ष विशेषणज्ञानजन्यं विशिष्टज्ञानत्वादनुमितिवत न च परोक्षत्वमुपाधिः प्रत्यभिज्ञाने साध्यान्यापकस्यात नापि विशिष्टविशेषणवं पक्षेतरत्वात् न च व्याप्य. स्वासिद्धिः अनुमितौ साध्यस्य शाब्दज्ञाने पदार्थस्य विशेषणस्य ज्ञातविशिष्टधीमात्रे जनकत्वदर्शनात् । न च विशेषणतावच्छेदकप्रकारकज्ञानं तत तन्त्रं न तु ।

प्रशस्तपादभाप्यटीकासकरे विशेपणज्ञानमिति वाच्यं लाघवेन विशेपणज्ञानस्यैव' जनकत्वकल्पनात् । किश्च प्राथमिकगौरिति प्रत्यक्ष गोत्वस्य · विशेषणस्य पूर्वानुभूतस्य कथं निर्विकल्पक- मन्तरेण ज्ञानं स्यात् । पूर्वजन्मानुभवस्य प्राग्भवीय-' संस्कारद्वारा कारणत्वकल्पनापेक्षया तजन्मानुभवस्यैत्र कल्पनौचित्यात् । जागराधज्ञाने च विशिष्ट(१). ज्ञानत्वेनाव्यवहितविशेषणज्ञानजन्यत्वमनुमेयं विशि- टज्ञानत्वात् । न च विशेषणवैयर्थ्य निर्विकल्पके व्यभि- चारवारकत्वेन(२) सार्थकत्वात् । तदसिद्धिदशाया तत्र कथं व्यभिचार इति चेत् न असिद्धेः परेण व्यभि- चारोद्भावनस्य दृष्टत्वात् । अनवस्थया व्याप्तिग्रह एव न स्याद्यदि विशिष्टज्ञानत्वादिति न क्रियेत । ततो येन विशेषणेन विना व्याप्तिप्रहितुं न श- क्यते तदेव सार्थकं न तु व्यभिचारवारकमेवेत्य- पि वदन्ति । विशिष्टज्ञाने च विशेषणज्ञानविशेष्येन्द्रि- यसन्निकर्पस्तदुभयासंसर्गाग्रहम कारणम् । विशेषण- सन्निकर्पोपीसके । तच्चैतदुभयमपि साक्षात्कारि इन्द्रिय-- जन्यत्वस्यैव साक्षात्त्वप्रयोजकत्वात् । अयं गौरितिसा- क्षात्कार गौशब्दोप्युपनीतो भासते चन्दने सौरभवत् । १) विशेष-पा०३ पु०। (२) धारणेन-पा० ३ पु० ।

फणादरहस्यम् । यहा तटस्थ एव शब्दः न तु विशिष्टप्रत्ययविषयः हे द्रव्ये इति विशिष्टज्ञाने द्वित्ववत् तस्माद् वृत्तिरूपं तु वैशिष्टयं तत्रापि स्फुरति संज्ञास्मारकं तु निर्विकल्प- कमेव यदुक्तम् । यत् संज्ञास्मरणं नाम न तदप्यन्यहेतुकम् । पिण्ड एव हि दृष्टः सन् सज्ञा स्मारयितुं क्षमः ॥इति । अथ लैङ्गिकम् । तत्र व्याप्तिविशिष्टः पक्षधर्मो लिङ्गं तत्परामर्शः परामृश्यमाणं वा तदेवानमितिकरणम् । ननु कथमुत्तर: पक्षः अतीतानागतधूमादेरसतः करणत्वानु- पपत्तरिति चेत् न तत्र धमादिप्रागभावप्रध्वंसयोरे- व विद्यमानयोः करणत्वात् । तयोरपि सामान्यतो व- ह्रिव्याप्यत्वात् । नहि यत्र धूमप्रागभावप्रध्वंसौ तत्र न बहिरिति । अधूमाद् धूलीपटलादेः कथं वह्नयनुमितिरिति चेत् न ब्रूमो धूमः करणमपि तु व्याप्पत्वेन परामृश्यमा- णं करणमिति । तथा च ताद्रूप्पेण परामृश्यमाणं धूलीप- टलमपि कथं न करणं स्यात् पूर्वदिनवृत्तितया निश्चिता- दिवानी सदसत्वाभ्यां सन्दिह्यमानात् कथमनुमितिः स्या- तु धूमध्वंसयोरुभयोरपि सन्दिग्धत्यादिति चेत् न श्वस्त- नत्वविशिष्टधूमघसस्य तत्रापि निश्चितत्वात् सत्यपि धू- में विशेषणतायग्छेदकस्य श्वस्तनत्वस्याभावादित्यलमनेन।

प्रशस्तपादभाप्पटीकासकहे तत्र साम्यात्य- तत्रापि व्याप्तिरव्यभिचरितः सम्बन्धः । ननु व्यभिचारः साध्यात्यन्ताभावसामानाधिकरण्यं तदभावश्चाव्यभि- चारः कथं केवलान्वयिनि स्यात् न्ताभावाप्रसिद्वेरिति चेत् न केवलान्वयिनि सम्बन्ध. मात्रस्यैव व्याप्तित्वात् तदतिरिक्तस्थले त्वन्यभिच- रितत्वस्योक्तत्वात् । एवं सत्सननगम इति चेत् न अननुगतस्यैवानुमितिजनकत्वात् । । अनुमितित्वाव- च्छिन्नं प्रति पक्षधर्मताज्ञानस्यैव जनकत्वात् अनुमि- तिविशेपं प्रति व्याप्तिविशेषस्य प्रयोजकत्वात । यहा अविनाभावसम्बन्धो(१)व्याप्तिः। ननु साध्यं विना सा- धनस्याभायो वाऽविनामावः साध्यसद्भावे साधनसहावो घा इयमपि व्यभिचारि साधारणमिति चेत् न साध्यं वि. नेति साध्यात्यन्ताभावति साधनस्याभाव इत्यर्थवा- त् । तथा च साध्यात्यन्ताभावासामानाधिकरण्यमे- व पर्यवस्यति साध्यविशेषमादायानुपपन्नमिदं नहि म- हानसीयवदयमाववति पर्वतीयोपि धूमो न वर्चत इति चेत् न साध्यसामान्याभावस्य विवक्षितस्यात् । वि. शेषाभााधिकस्य सामान्याभावस्पानुभवसिद्धत्वात । भवति हि वहिरन नास्ति महानसीयो पहिरन ना. (१) अधिनाभूतः सम्यम्घो-पा० ३ पु०।

कणादरहस्यम्। ९५ स्तीति प्रतीतिमदः प्रतियोगितावच्छेदकभेदादभावमे. दानुभवात् यहित्यमहानसीयवह्नित्वयोः प्रतियोगि- तावच्छेदकयोमेंदात विशेपामावस्य विशेषान्तरा- विरोधित्वात् सामान्याभावस्य तद्विरोधित्वात् विशेषाभावनिश्चयेऽपि सामान्याभावसन्देहाच्च । भवति हि वायो पार्थिवादिरूपविशेषाभावनिश्चयेऽपिवायौ रूपं न. घेति सन्देहः । स कथं सामान्यामावमन्तरेण स्थाद वि. शेषाभावानां निश्चितत्वात् । यद्वा कात्स्न्येन सम्बन्धी व्या- तिः । नन कृत्स्नपद साध्यपरं चेत् तदा कृत्लस्य सा- ध्यस्थ साधनेन सम्बन्धी नास्त्येव नह्ययोगोलकीयेनापि चह्निना धूमस्य सम्बन्धः । अथ कृत्स्नस्य साधनस्य सा- ध्येनं सम्बन्ध इत्युच्यते तदपि नास्ति नहि कृस्नस्य महा- नसीयादे मस्यैकेन साध्येन सम्बन्धः संभवति । एते- न कृरस्नस्य साधनस्य कृत्स्नेन साध्येन सम्बन्ध इत्यर्थो विनिरस्तः । मैवं साधनसमानाधिकरणयावर्मसमाना- धिकरणसाध्यसामानाधिकरण्यस्य विवाक्षितस्यात् । य. द्वा प्रतियोगिव्याधिकरणसाधनसमानाधिकरणा(१)त्य- न्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यस्थ विवक्षि- तत्वात् । यहा प्रतियोगिविरुद्धस्वसमानाधिकरणा- (१) स्थसमानाधिकरणा-पा०३ पु०॥

साध्यं संयोगस्याव्याप्यवृत्तित्वादत उक्तं प्रतियोगि- विध. प्रशस्तपादायीकासबहे त्यस्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यस्य क्षितत्वात् । इदं संयोगि द्रव्यत्वादित्यत्र यद्यपि द्रव्यत्वं यत् साधनं तत्समानाधिकरणात्यन्ताभातस्य प्रतियोगिच व्यधिकरणेत्यत्यन्ताभावविशपणे संयोगात्यन्ताभावस्या. प्रतियोगिसमानाधिकरणत्वात् । यद्यपि संयोगमात्रमत्र साध्यं न तु संयोगविशेष. संयोगत्वावच्छिन्नस्य चात्य- न्ताभवो न द्रव्यत्वसमानाधिकरणः यत्रैकस्य संयोग- स्थामावस्तत्र संयोगान्तरसत्त्वात् । न च सर्वेषां संयोगा- नामव्याप्यवृत्तितया संयोगसामान्याभावस्याप्यव्याप्य- वृत्तित्वमिति वाच्यम् विशेषाभावाव्याप्यवृत्तित्वेऽपि सामान्याभावस्य व्याप्यवृत्तित्वात् । तथाप्याकाशं मन.संयोगि विभुत्वादित्यत्र विभुत्वसमानाधिकरणा- त्यन्ताभावप्रतियोगि भवत्येव मनःसंयोगित्वमिति तदु- पग्रहार्थ विशेषणस्यार्थवत्त्वात । वस्तुतो द्रव्यं संयोगि द्रव्यत्वादित्यत्र संयोगवत्वं साध्यते तच्च व्याप्यवृत्त्येव संयोगवत्वं हि संयोमरामवायः कृतद्वितसमासेभ्यः सम्पन्धाभिधानं त्यतल्म्यामिति कात्यायनवचनात् स- योगस्याव्याप्यवृत्तित्वेऽपि तत्समवायस्य व्याप्यवृत्तित्वा- व तस्यैव च साध्यत्वात् संयोगात्यन्ताभाववत्यपि प्रदेश .

कणादरहस्यम् । तत्समवायस्य सत्त्वात्। वायौ रूपात्यन्ताभाववत्यापि रू- पसमवायाभ्युपगमादिति प्रतियोग्यसमानाधिकरणेत्यादि- विशेषणमनादेयमेव । यहा अनौपाधिकः सम्बन्धी व्या- प्तिः । ननूपाधिः साध्यव्यापकत्वे सति साधनाव्यापकः व्यापकत्वं च तद्वनिष्ठात्यन्ताभावाप्रतियोगित्वं प्र- तियोगित्वं च विरोधित्वं तच्च सहानवस्थाननियमः नियमच व्याप्तिरेवेति चक्रकमिति चेत् न यावत् स्वव्यभिचारिसाध्यसामानाधिकरण्यरयानोपाधिकत्वेनोक्त- त्वात । स्वसाधनं व्यभिचारि येभ्य इति स्वव्यभिचा- रिणः साधनाध्यापकाः तान् व्यभिचरितुं शीलं यस्य साध्यस्य तेन सामानाधिकरण्यमित्यर्थात् । तेन साध- नाव्यापकाना यात्रता साध्यमव्याप्यं चेत् तदा साध्या- व्यापकत्वादनौपाधिकलं पर्यवस्यति । ननु साध्यव्याप- कत्वे सति साधनाव्यापकत्वमुपाधिलक्षणं वायुः प्रत्यक्षः प्रत्यक्षरपश्रियत्वादित्यत्रोद्भूतरूपवयमेवं स श्यामो मित्रातनयत्वादित्यत्र शाककजत्वं चोपाधिन व्याप्ताति प्रत्यक्षत्वस्यात्मनि शामत्वस्य काक कोकिलादौ सत्यपि तत्रोपाधेरसत्वात न च पर्यवतितमाध्यध्यापकले सति साधनाव्यापकलं तलक्षणं प्रकृते ऽपि वहिव्यप्रत्य- क्षस्वस्य पर्यवसितस्य साध्यस्योत्पत्तिकनरशामत्वस्य च 3 ... A५ . साध्यव्यापकत्वसंशयेन तत तन्निश्चयगर्भतल्लक्षणागमना दिति चेत् न उपाधिस्वापादनपक्षेपि स्वव्याघातकवा दनुपाधिस्वमिति न सम्भवति व्यभिचारोन्नयनादेषक- पक्षेतरेसम्भवत्येव पक्षे साध्यव्यापकत्वसन्देहेऽपि तदन्यत्र प्रशस्तपादभाष्पटीकासाहे व्यापकत्वात् तदुक्तम् । वायुक्तसाध्यनियमच्युतोपि कथकैरुपाधिरुहाव्या पर्यवसितं नियमयन् दूपकतावीजसाम्राज्यात ॥ इति वाच्यम् जलं प्रमेयं रसववादित्यत्र गन्या. स्योपाधित्वप्रसङ्गात।भवति हि सव. स्प गन्धवत्वं व्यापकम् । अत एवं व्यापकरवे सति साधनाव्यापकत्वमित्याद्यपि निरस्तम् किश्च पक्षेतरोप्येवमुपाधिः स्यात् सोपि हि सा साधनाव्यापकचेति । वाधोनीतः पक्षेतर उपाधिरेव घह्निरनुष्णः कृतकत्वादित्यत्र वहीतरत्वमिति चेत् तदन्यत्रातिव्याप्तरुक्तत्वात । ननु पक्षेतरस्योराधिस्वम पायते तत्रोपाधिलक्षणस्यातिव्याप्तिर्वा बोध्यते । स्वव्याघातकत्वेनानुमानमात्रोच्छेदकतया स्वव्यावृति "हारा साध्यव्यावृत्तिवत् साध्याभावव्यावृत्चैरपि तेन पादयितुं शक्यत्वात्तस्यानुपाधित्वात् । न द्वितीय लप्रपोजकस्यैवमपि सत्त्यात् उपाधिलक्षणेऽप्यतिव्यासः हमत्तं धूमवत्वव्याप्यं धूमववव्यापकान्धनप्रभववाहि- कणादरहस्यम् । नेश्वपात् । अन्यथा पक्षे तत्सन्देहेनानुपाधित्वे सन्दि- पाच्यु(१)च्छेदप्रसङ्गात् । मैवं पर्यवसितसाध्यव्याप- वे सति साधनाव्यापकत्वमुपाधित्वं पर्यवसितवं च व्यप्रसिद्ध्यनुगुणरूपावच्छिन्नं साध्यं यथा स श्यामो त्रातनयत्वादित्सत्र शाकपाकजत्वम् कोकिलादिश्या- वाव्यापकमप्योत्पत्तिकनरझ्यामत्वावच्छेदेन वैद्यकात् कपाकजत्वस्य व्यापकत्वम् यथा वा वायुः प्रत्यक्ष दूतस्पर्शवत्वादित्यवोडूतरूपवत्त्वं वहिर्द्रव्यप्रत्यक्षा यन्वयव्यतिरेकाभ्यां तद्यापकत्वनिधयात् । यद्यपि व्य- चारित्वेन साधनस्य साध्यव्यभिचार उन्नीयते स उपा- । तथाहि वहिवं धूमवस्वम्पभिचारि धूमवत्वव्यापका- धनप्रभववह्निमत्त्तव्यभिचारित्वादेवमन्यत्रापि कवि- राप्यत्यासिद्ध्युन्नायकत्वमुपाधेर्दूषकत्वमाहुः तथाहि य- वाव्याप्यत्वात् । यद्यव्यापकान्याप्यं तत्तदव्याप्यमिति पातेः । अन्ये तु सत्प्रतिपक्षोत्थारकतयोपाधर्दूषकत्वमा- तथाहि पर्वतोऽयं धूमवान् वा वह्निमत्वादित्यनार्दैन्धनप्र- स्ववहिमत्त्येनोपाधिना खव्यतिरेकद्वारा सत्प्रतिपक्षत्वम् र्वतोऽयं निधूमः आन्धनप्रभववक्षिरहितत्वादिति । (१) सोपायु-पा० ३१०।

in यदभावो व्यभिचारं विरुणहि स धर्मस्तत्र हे.
हेत्यांभासास्तु विरुद्धासिद्धसन्दिग्यास्त्रय एव न त
प्रशस्तपाद्माप्पटीकासवहे
ययावृत्त्या पक्षे साध्यसाधनसम्बन्धो व्यावर्तते स धर्म
स्तन हेतावुपाधिरित्यन्ये । आचार्यास्तु समव्यातस्यैवोपा-
धित्वमाहुः(१) नथाहि योन्यत्र प्रतिविम्बते स उपा-
चिरित्युच्यते नदुपाधाप्यत्वं धर्मः स्यात् तदा साधनस्या
भिमने स प्रतिबिम्बेत तेन साध्यव्याप्यवमायाति
दूषकत्वार्थ च साध्यव्यापकत्वमपेक्षितं साध्याध्यापक
व्यभिचारित्वेन हेतोः साध्यव्यभिचारित्वसम्भवाव ।
तथा च साध्यसमव्याप्तले सनि साधनाव्यापकत्वमिति
तल्लक्षणं तदेवमाहुः ।
अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः ।
तैष्टैरपि नैवेष्टा व्यापकांशायधारणा ॥
किश्च ।
एकसाव्याविनाभावे मिथः सम्बन्धशून्ययोः ।
साध्याभावाविनाभावी(२) स उपाधिर्यदत्यपः ॥ इति
तावुपाधिरित्यादि । विषमव्याप्तोप्युपाधिदूंपकताचीजसा
म्यादित्यपरे ।
.
(१) समव्याप्तमेवोपाधिमाहु-पा० ३ पु०।
(२) पिनामा-पा०१पुर।

Prashast Paad Bhasya Tika Sangrah

Author
Misr,shankar
Title
Prashast Paad Bhasya Tika Sangrah
File name
Prashast Paad Bhasya Tika Sangrah
Text
OCR done
Citation
1921
Published
2012/08
Publisher
Xxxx
Language
Sanskrit
Pages
98
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
311247
Barcode
99999990320154.00
Scanning centre
Banasthali University
Digital publisher
Calcutta.,The Asiatic Society
VMLT id
9Z4q8jkdlgV
Download PDF

Prashast Paad Bhasya Tika Sangrah