Bharatiya Vidya Bhavan Library, Mumbai

Shankarjivanakhyanam

Pandit,raghvendra · 2012/08

PDF Proofread

Front matter

प्रिंटर:-रामचंद्र येसू शेडगे, निर्णयसागर प्रेस,
घर नं० २६-२८, कोलभाट स्ट्रीट, मुंबई.
पब्लिशरः-सौ. क्षमा राव, २७ न्यू मरीनलैन, मुंबई.

॥ श्रीः-
शङ्करजीवनाख्यानम्।
॥ ग्रन्थार्पणम् ॥
अदृष्टपितृसौख्यायाः शैशवादपि या मम ।
जनकस्थानमापन्ना खयं बोधमजीजनत् ॥
कथयन्ती च या नियं पितृसम्बन्धिनी कथाः ।
हृदि प्रेमातरं देवयाण्यां मे समरोपयत् ।।
तस्यै श्रीमदुपादेव्यै कृति शान्तात्मने मुदा ।
उपश्शोभातिशायिन्यै मातृदेव्यै समर्पये ॥

प्रस्तावः।
(केळकरोपनाना चिन्तामणिसूनुना नृसिंहशर्मणा कृतः)
महाराष्ट्रभुवः कण्ठमुक्ताहारनिभाः पुरा ।
पण्डिताः पण्डितोपाव्हा जाताः शङ्करनामकाः १
उदारं चरितं तेषां पन्थेस्मिन्पद्यरूपिणि ।
क्षमया कन्यया तेषां पितृभक्या निवेदितम् ॥२॥
अभ्यर्थितोऽहं क्षमया देव्या सुनेहबद्धया।
किश्चित्प्रास्ताविकं वक्तुं अन्थरूपविवेचकम् ॥३॥
गीर्वाणवाणीनिपुणा लेखिकेयं रसान्विता ।
सुवर्णनिधिसंयुक्का क्षमेयं मेव भाति मे ॥४॥
नाहं गीर्वाणवाण्यां तु कृतभूरिपरिश्रमः ।
अक्षमोऽपि नियोगस्य मेहेनास्मिन्नियोजितः॥५॥

५
पण्डितः सार्थनामासौ शङ्करः संस्कृतप्रभुः।
कन्यास्य पुत्रतां याता पालयन्ती कुलव्रतम् ॥६॥
कथं हि न करिष्यन्ति कन्याभ्यः पितरः स्पृहाम् ।
ऋणं तत्पैतृकं पुण्यमपाकुर्युर्यदीह ताः ॥७॥
धन्या सा लेखिका मन्ये क्षमादेवी यशखिनी।
खतातचरणानां या गुणान्भच्याभिगायति ॥८॥
अतः किमधिकं श्रेयो नराणामिह जन्मनि ।
पूर्वजानां यशोगाने प्रीत्या व्याप्रियते यदि ॥९॥
गार्गी वाचनवी यद्वा मैत्रेयी सुलभा पुरा ।
ज्ञानविज्ञानसम्पन्ना विदुष्यः कीर्तिमाप्नुवन् ॥१०॥
तासां परम्परा किञ्चिद् रक्षिताऽधुनिके युगे।
क्षमया रावपत्या च रमया पण्डिताख्यया ॥१॥

६
पुरुषाः पण्डिताः सन्तु तेषां कर्तव्यमेव तत्।'
व्यासक्तिर्देववाण्यां तु शोभते स्त्रीपुरस्कृता॥१२॥
परिचर्यापि 'वृद्धानां स्वीकृतैव विशिष्यते ।
स्निग्धतामार्दवाद्यास्ते गुणाः स्त्रीणां खभावजाः १३
लीलाप्रिया हि तटिनी स्पृशतीह तटद्वयम् ।
मन्ये गीर्वाणवाणीयं तच्छीलमनुरुध्यते ॥१४॥
पुरा सा पूर्वगोलार्धं पुष्यन्ती रससम्पदा ।
भवितव्यविलासेनाऽभवत् पश्चिमवाहिनी ॥१५॥
आङ्ग्लशार्मपयदेशीयाः पण्डिताः शोधकास्तथा ।
अभ्यस्यन्त्यधुना भाषां गैर्वाणी प्रेमनिर्भरम् ॥१६॥
अत एव हि कर्तव्यो भारतीयजनैः पुनः।
प्रयत्नः सततं तस्याः पुनरुज्जीवने मुदा ॥ १७ ॥

७ . प्राच्यसंस्कृतिविज्ञानज्ञानद्वारमपावृतम् । निखिलैस्तत्प्रवेष्टव्यमार्यभूतिहितैषिभिः ॥ १८॥ श्लाघ्या विद्या निजगुणैः पाश्चात्या भुवि यद्यपि । विरुणद्धि न सा नूनं मनागप्यार्यसंस्कृतिम् १९ निष्ठे वे ते, ज्ञानमार्गों तौ, खीकार्यों पृथक् पृथक् । संयुक्तौ तु परं नृणां द्विगुणीकुरुतो हितम् ॥२०॥ देववाणी मृता नेव, गुप्तचैतन्यशालिनी। अदृश्यवाहिना दुग्धस्रोतसा पाति संस्कृतिम्॥२१॥ नैकापि देशभापाणां स्थातुं शक्नोति तां विना । तदाधारः प्रभवति तासां संसारकर्मणि ॥ २२ ॥ , । चरित्रं शङ्करस्यैतत् प्रयागसदृशं शुचि । सङ्गमो रुचिरः सोऽत्र प्राच्यपाश्चात्यविद्ययोः २३

,
पाण्डित्यमेव न परमितरेऽपि पितुर्गुणाः ।
वर्णिताःक्षमया ग्रन्थेरीतिसौन्दर्यशालिनि ॥२४॥
सौहार्द शङ्करस्येदं माधवस्य च धीमतः ।
श्रेयसे जगतो भाति शिवकेशवयोरिव ॥ २५ ॥
अधिक्षेपेऽभिमानित्वं, वीर्य विप्रकृतौ तथा ।
दीने दया धृतिः काले सर्वदा सत्कृतौ रुचिः २६
औदार्य परमं चापि देशकालानुवर्तनम् ।
प्रथयन्ति गुणानेतांश्चरितानि महात्मनः ॥२७॥
प्रसन्ना सरसा वाणी क्षमादेव्या गुणान्विता ।
सूक्तिभिर्मण्डिता नूनमलङ्कारविभूषिता ॥२८॥
कृतिनं पण्डितं मन्ये यस्य कन्या क्षमासमा ।
क्षमापि कृतिनी नूनं शङ्कराल्लब्धसम्भवा ॥२९॥

उभाभ्यां संयुतं मन्ये धन्यं भारतमण्डलम् । ईदृशो दृश्यते यत्र योग्यो गुणिसमागमः ॥३०॥ अध्येतन् निखिलान् सद्यः कुरुतात् कार्यतत्परान्। इत्याशास्य मया सोऽयं ग्रन्थस्तेभ्यः समप्यते ३१ LA लोकाः २१ २८ २३ १४ ३० ४० श्रीशङ्करजीवनाख्याने विषयानुक्रमणिका। विभागः विषयः पृष्ठे प्रथमोल्लासः बाल्यवर्णनम् १ द्वितीयोडासः विद्यारम्भनर्णनम् तृतीयोल्लासः विद्याभ्यासवर्णनम् १० चतुर्योडासः विद्यासमाप्तिवर्णनम् पञ्चमोल्लासः काव्यसंशोधनम् २५ पष्ठोल्लासः श्रुतिप्रशंसनम् ३४ सप्तमोल्लासः द्वितीयपाणिग्रहणम् अष्टमोल्लासः प्राचीनलेखगवेषणम् नवमोल्लासः लोकसङ्कटनिवारणम् ५४ दशमोडासः शङ्करप्रकृतिवर्णनम् ६२ एकादशोल्लासः राजप्रकोपसमुत्थापनम् द्वादशोल्लासः चिन्तासन्तानवर्णनम् त्रयोदशोल्लास: श्यामलागिरिनिवासः चतर्दशोल्लासः व्याख्यानविलासः पञ्चदशोल्लासः समाजपरिष्करणम् १०८ पोडशोल्लासः सुधामपुरीनिवासः ११५ सप्तदशोल्लासः दीपनिर्वाणम् १३१ ४८ ३२ ७० ३४ ६२ ३८ ११५

शङ्करजीवनाख्यानम् ।
re+
ग्रन्थगता: काश्चन सूक्तयः॥
.
पृले लोके
निर्धनोऽपि वरं प्राज्ञो निर्बुद्धर्धनिकादपि ।
फलत्येव हि कल्याणं फलं तीग्रतपस्तरुः ।
१८
अहितं हितमेव साद्देवयोगेन देहिनाम् । ९ २८
अहो देवस्य वैचित्यं दीना निर्दीपपाठिनः ।
विद्युद्दीपविभूत्यापि धनिकास्तु निरक्षराः ।।
स नाम्ना भास्करोऽप्यासीन्न प्रचण्डः स्वकर्मणा । २०
अनाथयोपि लोकेशसिन् शुद्धात्मा न निरसते ।
वीक्षितः पुंपिशेपेण प्रभुणा दीनबन्धुना ।। ११ ११
सुसावासोचिताम्यासः सम्यामोचितसंस्कृतिः ।
संस्कृतेः सदृशारम्भः शङ्करः शरोऽभवत् ॥ १३ १३
को नाम ययमि प्रौढ विमरेनिजधानिकाम् ।

७७
शकरजीवनाख्यानम् ।
पृष्ठे लोके
दिव्यः परिचयोऽनेन घनीभूय दिनादिनम्
सञ्जातः सौहृदप्रन्थिरपुनर्भवलक्षणः ॥
१८ २९
मनो हि महनीयानां प्रेमहेतुर्न संनिधिः । ३२ ४६
अध्रुवं यातु नो वित्तं न पुनमयो निधिः । ५२ २३
आलाधिकारिणो नूनं निपुणाः स्वार्थसाधने ।
तिले तालं हि पश्यन्तः करिष्यन्त्यधरोचरम् ॥
परपिण्डोपभुग् यः सात् स्वतत्रः स कथं भवेत् ।
आत्मनोऽपि वरं भङ्गो न पुनः शिरसो नतिः ।
पदोन्नतिकृतैश्चर्य शक्यते हि व्यपोहितम् ।
सद्विद्यारूपमैश्वयं तव हर्तु क्षमेत कः ।,
११
उक्तं हि पूर्वजैः प्राज्ञैः श्रेष्ठयत्तिः कृषीवलः ।
वाणिजो मध्यमो वृत्या कनिष्ठः परसेवकः ८३ २९
यदवार्य सहेत तत् ।
शैशवे सुखदः पुत्रो बाललीलाप्रजल्पनैः ।
प्रयच्छति सदानन्दं माधवस्तु सुहन्मणिः ॥ ९५ ६०

शहरजीवनाल्यानम् ।
+
पृछे लोके
अहो वः संनिधौ साक्षादेवगणा यदा स्थिता ।
किमागमेन युष्माकं तदीयोपनदी प्रति ।। ९९ १६
यो हि कालानुगुण्येन प्रगति नानुवर्तते ।
स देशो भ्रष्टकल्याणः सुदूरमपहीयते ॥
१०६ ५८
नानृतं प्रभवेदन्ते सत्यस्यैव ध्रुवो जयः ।
ऋणमगिरिव ध्वंसं ननु कुर्यादुपेक्षितम् । ११७ १५
विद्याभ्युदयसम्पचिः प्रथमा सर्वसम्पदाम् ।
शिष्यवृद्धिविशेषेण मियते शिक्षणक्रमः । १२८ ७८
शासितः परमो धर्मः प्रजानामनुरजनम् । १३५ १७
दुर्जनोऽपि यचं ननं नीयते मधुरोतिमिः।
सअनः कुत्सितैः शब्दैर्विमुखीक्रियते क्षणात् ॥ १३६ ३०
नास्ति हीनतरं लोके मानिनः परयाचनात् । १३८ ४७
धनादप्यधिका विद्या विद्या कीमहत्तरा।
विवाधिका प्रतिष्ठापास्तसाद्विद्यामुपार्जय ॥
१३९ ५२
निर्धनोऽपि वरं विद्वान त मुग्यो महीपतिः ।
१४० ५८

शङ्करजीवनाध्यानम् ।
पृष्ठे , लोके
धनी या निर्धनो वापि माननीयोऽतिथिः सदा । १४५ ८४
जित्वामयात्मकं शत्रुमात्मलक्ष्मीविलम्पकम् ।
प्रियागमेन हृष्टोऽसौ निर्वृतोऽभूद्रमापतिः ।।
४६ ३८,
खबले श्रद्धधानोऽपि दैवतम्रो हि मानवः ।
कुर्वाणेऽपि नरे यत्नमीश्वरेच्छैच साधिका ।।
किं निसर्गसुरूपाया रत्नकाञ्चनभूषणैः ।
शरदिन्दुविभासिन्या रजन्याः किं प्रदीपतः॥
१४९ १०८,
सङ्कटे निस्पृहा प्रीतिर्यस्या धैर्यमनश्वरम् ।
यस्था नास्ति हितादन्यत्पत्युः सैव पतिव्रता ॥ ८२ २१
वस्था हि भूषणैः कार्य यस्सा रूपं न विद्यते ।, १४९ १०९

॥ श्रीः॥
गुरुदेवस्मृतिः।
नमः शङ्करदेवाय निराकारखरूपिणे ।
गुरवे विनुधेल्याय क्षमादितनुधारिणे ॥

। -सौ. क्षमा गन. -

॥श्रीः॥
शङ्करजीवनाख्यानम् ।
॥ प्रथमोल्लासः॥
वाम्बोलीनामनि ग्रामे कोकणावनिमण्डले।
साधैकशतवर्षेभ्यः पूर्वमासीत्कुलं महत् ॥ १॥
पण्डिताख्यान्विते यस्मिन् जज्ञे कश्चिट्विजोत्तमः।
नारायण इति ख्यातो निर्धनोऽपि धनी गुणैः २
लिपिचुञ्चुर्विनीतोऽसौ सुशीलश्चात्मसंयमी ।
चकार जीवनं क्षेत्रात्तथा पत्रविलेखनात् ॥३॥
वीरद्विजन्मनां वंशे सांता तस्य गेहिनी।
अस्याः पिता हि सङ्ग्रामे लन्धकीर्तिरभूपुरा ॥४॥

२
शङ्करजीपनाख्यानम् ।
पञ्चकन्याऽष्टपुत्रा च भवेत्युक्ताऽऽशिष पुरा ।
अमोघं कर्तुकामेव गुरूणां मगलं वचः ॥ ५॥
सुषुवे तस्य भार्याप्टौ पटूनोजखिनस्सुतान् ।
शोभनाः पञ्च कन्याश्च चतुराः शुभलक्षणाः ॥६॥
अथ नारायणस्यासीदनपत्यः सहोदरः ।
पाण्डुरङ्ग इति ख्यातः स च कालवशं गतः ॥७॥
तदीयमन्दिरे वालास्तदारभ्य रुजार्दिताः।
पदे पदे भवन्ति स्म नित्यक्लेशकराः पितुः॥८॥
प्रेतेन पाण्डुरङ्गेण सन्तानाभावकारणात् ।
आविश्य पीडिता एते वालका मे मुहुर्मुहुः ॥९॥
इति नारायणो ध्यायन् प्रेतमामध्य चेतसा।
शङ्करस्य करं धृत्वा जगादासजनाग्रतः ॥१०॥

३ - 4 शङ्करजीवनाल्यानम् । अपये पुत्रकामाय पाण्डुरङ्गाय ते प्रिय । शिशुं मे तव वंशार्थं प्रसन्नो भव वान्धव ॥११॥ मुश्च मे बालकानन्यान्मा पुनस्तानिपीडय ।। इत्युक्त्वा देवभूताय तस्मै शङ्करमार्पयत् ॥ १२ ॥ इत्थं निजकुमाराणामुत्तमं स वितीर्णवान् । दत्तकं पुत्रहीनाय पाण्डुरङ्गाय वालकम् ॥ १३ ॥ स च तद्भार्यया पश्चाद्विधिना स्वीकृतोऽभवत् । नचावत्कोऽपि यहालो भविता सुप्रसिद्धिमान् १४ यदसौ खश्रमेणैव संस्कृतज्ञानसम्पदम् । सम्पाय न चिराल्लोके भविता च सुकीर्तिमान् १५ यदसावचिराद्भूत्वा पूज्यः पण्डितमण्डले। पण्डितख्यातिमन्वा कर्ता च निजसन्ततः॥१६॥ ।

शङ्करजीसनाख्यानम् । उद्धृत्य वान्धवान् नतृभ्रातृखसमुखांश्च सः। अलङ्कर्ता कुलं कीर्त्या यथात्मानं सुविद्यया ॥१७॥ अथ कालोपनीतेऽसिन्नेकादशवयस्स्पृशि । जनकश्चिन्तयामास वटोरक्रिया प्रति ॥ १८॥ निश्चित्य कन्यकामेकां दुर्गानाम्नी शुचेः कुलात् । अनुक्त्वैव कुमारं च शुभकार्योद्यतोऽभवत् ॥१९॥ व्यवसायं पितुर्दृष्ट्वा भीतविभ्रान्तचेतनः। वालः पल्लवगुल्मेषु क्वचिदस्थादिनद्वयम् ॥ २० ॥ अथान्विष्य बटुं नष्टं बन्धुरेकः समानयत् । हठाद्विवाहितः सोऽपि हन्त निश्चितकन्यया ॥२१॥ इति सौ. क्षमायाः कृतिषु शङ्करजीवनास्याने बाल्यवर्णनो नाम प्रथमोल्लास ॥

शक्करजीवनाख्यानम् । ॥ द्वितीयोल्लासः॥ अथाष्टादशवर्षीयो मातृवाच्येव शिक्षितः। स वत्रे लिपिकारस्य वृत्तिमेवात्मवृत्तये ॥१॥ खैरं सञ्चरमाणोऽसौ पथा पुपयेऽहनि क्वचित् । ग्रामकार्यालयस्यागात्सन्निकर्ष यदृच्छया ॥२॥ मन्दिरस्य वहिर्वेदौ तत्र लोकान् ददर्श सः । निपपणानुच्चपीठेषु लिखतः फलकोपरि ॥३॥ सदाभूमितलासीनः स्वयमेप व्यचिन्तयत् । अहो लेखनसोकर्यमिदं पीठोपवेशिनाम् ॥४॥ अपि नाम कदाप्येष प्रामुयां पीठयोग्यताम् । न हि संभाव्यते यावदाग्लविद्या न शिक्षिता ५

शङ्करजीवनाख्यानम् ।
उत्सुकस्यापि मे स्थानमीदृशं भाति दुर्लभम् ।
पूर्णेन्दुरिव डिम्भस्य लिप्सोः कन्दुकमानिनः ॥६॥
अकिञ्चनः कथं कुर्यां तदभ्यासं महाव्ययम् ।
इति निर्वेदमापन्नो निराशप्रायतां गतः ॥ ७ ॥
कांश्चित्तथापि कृच्छ्रेण सङ्ग्रह्य स्खल्पनाणकान् ।
बालशिक्षामुपकीय स्वयं पठितुमुद्यतः॥८॥
अथ प्रोत्साहितो यजिज्ञासुश्चाधिकाधिकम् ।
विद्यासम्पादनार्थाय प्रवृत्तोऽभूदिवानिशम् ॥९॥
नाहं सम्यक् पठेयं चेदाङ्ग्लभापां नृपार्चिताम् ।
तदज्ञानतमक्लेशो यावज्जीवं भवेन्मम ॥१०॥
निर्धनोऽपि वरं प्राज्ञो निर्बुद्धेर्धनिकादपि ।
निर्धनस्याज्ञता नाम मरणादतिरिच्यते ॥ ११ ॥

५
शङ्करजीवनाध्यानम् ।
अतः प्राणव्ययेनापि प्राप्स्यामि ज्ञानमर्थदम् ।
इति निश्चित्य चानेकानुपायान् सव्यचिन्तयत् १२
आसीत्कश्चियुवा ग्रामे वणिक्पुत्रः सुशिक्षितः।
योऽस्मै पठितमुक्तानि पुस्तकानि ददौ प्रियः॥१३॥
वृत्तेपु दिनकृत्येषु पठति स स शङ्करः ।
निशि मार्गप्रदीपेषु निर्जने. दूरतो गृहात् ॥ १४ ॥
परिश्रान्तो मिताहारः पपाठानन्यचेतसा ।
न च सूर्योदयात्पूर्व व्यरंसीद्वायुपासनात् ॥ १५ ॥
चलन्मृदुपदं गेहमदृष्टः सहवासिभिः।
प्रविश्य भूतलास्तीर्णे सुप्वाप शयने ततः॥१६॥
एवं दिवसमायस्यन् कुटुम्बभरणाय सः।
जीविकां साधयन्नेव निशि विद्यामशिक्षत ॥१७॥

शहरजीवनाख्यानम् ।
व्युत्पत्तिराङ्ग्लभाषायामस्य वृद्धिमगाच्छनैः ।
फलत्येव हि कल्याणं फलं तीव्रतपस्तरुः ॥ १८ ॥
तथाप्यस्याग्रजो
दृष्ट्वा
पितरं वृत्तिकर्शितम्।
साह्यमस्य चिकीर्षुः सन् कर्तव्यं समचिन्तयत् १९
स नाम्ना भास्करोऽप्यासीन्न प्रचण्डस्वकर्मणा ।
मृदूपायेन केनापि धनमर्जयितुं हि सः ॥ २० ॥
वेणुग्रामं समासाद्य न्यवसद्वत्सरद्वयम् ।
अथेतः शङ्करोऽन्वेष्टुं लेखकोद्योगमेकदा ॥ २१ ॥
आङ्ग्लस्य कस्यचित्पार्श्वगत्वा निष्कासितोऽभवत्।
अपमानाद्विपण्णश्च चिन्तयामास सत्ववान् ॥२२॥
आङ्ग्लवाणी विनाभीष्टं नैव सिध्येकदापि मे ।
तदझ्यासो धनापेक्षः का गतिर्मेऽत्र कर्मणि ॥२३॥

शङ्करजीवनाख्यानम् । तावच्च भास्करो दिष्ट्या प्रियो ज्येष्ठसहोदरः। वेणुग्रामात्पुनर्गेहमाययौ कार्यहेतुना ॥ २४ ॥ स तत्र शङ्करं दृष्ट्वा नितरां खिन्नमानसम् । वेणुग्रामस्य सौन्दर्य प्रशंसन्नववीन्मुदा ॥ २५॥ मा स्म खिन्नो भवो वत्स नेष्यामि वा मया सह । घेणुग्रामं यतस्तत्र वेतनं मे द्वयोरलम् ॥ २६ ॥. इति प्रोत्साहितस्तेन प्रवासाय विनिश्चितः गुरूणामप्यनावेद्य विद्यार्थी निर्जगाम सः ॥२७॥ अहितं हितमेव स्यादेवयोगेन देहिनाम् । अपमानोऽपि सातः शङ्करस्य सुखोदयः॥ २८ ॥ । M इति सी. क्षमायाः कृतिपु शारजीवनात्याने विद्यारम्भवर्णनो नाम द्वितीयोल्लासः॥

१०
शकरजीवनाख्यानम् ।
॥ तृतीयोल्लासः॥
कस्यचित्तक्षकस्यासौ संश्रये भास्करोऽवसत् ।
अङ्गणे तस्य गेहस्य पचन्नश्नन् पठन् वपन् ॥१॥
पाठयंश्च वटून् कांश्चिल्लेभेऽसौ रूपकद्वयम्। . :
आङ्ग्लवाणीमधीयानः श्रमेण खयमन्तरा ॥२॥
खान्नस्यार्धं ददाति स शङ्करायानुजप्रियः।
शङ्करोऽपि स्वयं विद्यां शिक्षते स्म परिश्रमी ॥३॥
कस्याश्चित्पाठशालायाः स तिष्ठन् वहिरन्वहम् ।
शृणोति स्म गुरुनन्तः पटुः शिक्षयतो वुटून् ॥४॥
उभावपि प्रयस्यन्तौ निर्धनावपि सात्विको ।
तैलं ऋतुमसामर्थ्याद्दीपार्थं क्लेशमापतुः ॥ ५॥

"m शङ्करजीवनाख्यानम् । वर्धकेरङ्गणे काष्ठखण्डान् संगृह्य भूरिशः। ज्वालयन्तौ निशाकाले पेठतु नतर्पितौ ॥६॥ जाण्यामाग्निनिर्वाणमिति रज्ज्वा स शङ्करः । भित्तिकीलावलम्बिन्या शिखां वध्वावतस्थिवान् ७ अहो देवस्य वैचित्र्यं दीना निर्दीपपाठिनः । विद्युद्दीपविभूत्यापि धनिकास्तु निरक्षराः ॥८॥ अथ गच्छत्सु मासेषु वियोगः समभूत्तयोः । कराचीनगरं याते कार्यलाभेन भास्करे ॥ ९ ॥ सोदरेण वियुक्तस्य शङ्करस्योपजीविनः । निपेतुर्दुःसहाः क्लेशा भग्ननौकस्य वाम्बुधौ ॥१०॥ अनाश्रयोऽपि लोकेऽस्मिन् शुद्धात्मा न निरस्यते। वीक्षितः पुंविशेपेण प्रभुणा दीनवन्धुना ।। ११ ॥

शहरजीरनाल्यानम् । आसीत्तथा हि विप्रेन्द्रो धार्मिको दीनवत्सलः। वासुदेव इति ख्यातो वेणुग्रामे कृतस्थितिः॥१२॥ स च शङ्करमाहूय कुमारं साधुरब्रवीत् । विद्यासम्पादनार्थाय त्वमेतत्पुरमागतः ॥ १३ ॥ सहसे दुःसहान्क्लेशानिति भूयो हि नः श्रुतम् । तधन्योऽसि प्रशस्या ते ज्ञानतृष्णा कुमारक ॥१४॥ धन्यां तपखिनी मन्ये या प्रसूता भवादृशम् ।। धन्योऽहं च यदातिथ्यं कर्तु पूज्याय ते क्षमः१५ तदात्मीयं गृहं मत्वा निवसात्र यथेप्सितम् । मा स्म भीतो,भवो भद्र सहिष्ये निखिलव्ययम् १६ इति वागमृतं पीत्वा निर्व्याजकरुणानिधेः । सवाष्पो वाढमित्याह युवा दीनः सगद्गदम् १७ - . शङ्करजीवनाख्यानम् । बभूव वासुदेवोक्तिः शर्मदा शङ्करस्य सा। पिपासितस्य कान्तारे यथा स्वच्छतरङ्गिणी ॥१८॥ सन्तः पुण्यसमाचारा ईदृक्षा हि मनखिनः । नैकस्याः केवलं व्यक्तर्देशस्याप्युपकोरिणः ॥१९॥ यावजीवं कृतज्ञोऽभूत्तस्मिन् कृतिनि शङ्करः। चक्रे च तद्गृहावासी विद्याभ्यासं यथासुखम् ॥२०॥ आसीदर्पत्रयेणैव पूर्णसाप्ताब्दिकक्रमः । महाविद्यालयेऽध्येतुं लेभे च च्छात्रवेतनम् ॥२१॥ प्रतिष्ठासुरथ ग्रामात्कृतज्ञत्वभरानतः । द्रवीभूतान्तरोऽनुज्ञां वासुदेवमयाचत ॥ २२ ॥ . सुखावासोचिताभ्यासः स्वभ्यासोचितसंस्कृतिः संस्कृतेः सदृशारम्भः शङ्करः शङ्करोऽभवत् ॥२३॥ इति सी. समाया एतिषु शहरजीयनाख्याने विद्याभ्यासवर्णनो नाम एसीपोल्लासः॥ !

१४
शकरजीवनाख्यानम्।
॥ चतुर्थोल्लासः॥
तदाशीर्वर्धितो दृष्टशुभारम्भफलोदयः ।
अगान्मुम्बापुरी हृष्टो विद्यामृतपिपासया ॥१॥
एल्फिन्स्टनिति विख्याते महाविद्यालये युवा।
प्रचण्डोत्साहसम्पन्नः प्रविष्टोऽभूयथाविधि ॥२॥
अथ पारंगतं वर्षद्वयान्ते तं परीक्षणे।
शालाध्यक्षो ह्युलिङ्गार्यः प्राह तद्बुद्धितोपितः॥३॥
द्वितीयोपगुरोः कार्यमङ्गीकर्तुमिहार्हसि ।
पाठ्यन्तां विषयाः केचित्पूर्ववर्गे सवेतनम् ॥४॥
इति तस्य वचः श्रुत्वा शङ्करः समचिन्तयत् ।
विच्छेदः स्यान्ममाभ्यासे परशिक्षणकार्यतः॥५॥

॥
शङ्करजीवनाख्यानम् ।
न व्यतिक्रमितुं युक्तमिदं च वचनं गुरोः।
इति.मत्वा प्रतिप्राह विनीतस्तस्य तुष्टये ॥६॥
मितज्ञोऽपि जनोऽयं चेद्भवद्भिर्मन्यते क्षमः।
त्रिवार पाठयिष्यामि सप्ताहे वेतनं विना ॥७॥
इत्युक्त्वा लाटिनाग्लेये नव्यविद्यार्थिनो युवा।
वाड्मये शिक्षयामास खयं चाध्यैष्ट तत्परः॥८॥
पडर्षाभ्यन्तरे सोऽभूत्समारभ्यांग्लशिक्षणम् ।
पूर्वाभ्यस्तगिरोऽप्यन्यानहो पाठयितुं क्षमः ॥९॥
तत्काले भूसुरश्रेष्ठः संस्कृताचार्य पुरवः ।
रामकृष्ण इति ह्यासीद् भाण्डारकरवंशजः ॥१०॥
वीएपरीक्षामुत्तीर्णः शङ्करोऽध्यापकत्वतः।
पुण्यपुर्या नियुक्तोऽभून्महाविद्यालये क्वचित् ॥११॥

- शकरजीरनाख्यानम्। अथैकस्मिन् दिने सोऽयं देवभाषाभिमानिनः । सहसाभिमुखं प्राप्तो रामकृष्णमनीषिणः ॥१२॥ स युवानं समालोक्य ब्रह्मवर्चसभाखरम् ।, विमितोऽपि किलावादीत्कर्कशं संस्कृताधिपः १३ किमहो पण्डिताख्येन विप्रेणापि तिरस्कृता। देवभाषा त्वया हन्त लांटिनी च पुरस्कृता ॥१४॥ सुखेन साध्ययी चापि किं गिरा परकीयया । खदेशमेव नज्ञात्वा परदेशाटनेन किंम् ॥ १५॥3; त्यक्त्वा निजाइनां साध्वी किमन्या सेव्यते बुधैः। जननीवापरित्यज्य किमन्याऽऽश्रीयतेऽर्भकैः ॥१६॥ अथ वा देवभाषायाः काठिण्यावासितोऽसि किम यदेतां दूरतः कृत्वा प्रणामोऽस्यै समर्प्यते ॥१७॥ 1 शङ्करजीवनाख्यानम् । अक्षमोऽसि श्रमं सोढुमलसत्वाच्च मन्यसे । विमलामपि तां वाणी काठिण्येन कलहिताम् १८ को नाम वयसि प्रौढे विस्मरेन्निजधात्रिकाम् । शैशवे पायितः स्तन्यं रक्षितश्च प्रयत्नतः॥ १९ ॥ निशम्य वचनं धृष्णोर्लजितो नितरां युवा । उपालब्ध स्वमेवासौ प्रतिजज्ञे च निश्चितः ॥२०॥ एप प्राणव्ययेनापि साधयिष्यामि संस्कृतम् । पण्डितव्यपदेशो मे यथान्वर्थो भवेदयम् ॥२१॥ अथ दक्षिणशालायां पाठयन्नेव शङ्करः। संस्कृताभ्यसनं चक्रे तीनसंवेगमास्थितः ॥२२॥ पण्मासाभ्यासमात्रेण विश्वविद्यालयोद्भवाम् । परीक्षा कठिनामेकामुदतारीत्त लीलया ॥ २३ ॥ १

१८
शङ्करजीवनाख्यानम् ।
अथ प्रौढतराभ्यासः परीक्षामन्तिमां ददौ ।
एम् एइति सुविख्यातां सिद्धार्थश्वाभवत्पुनः॥२४॥
शिक्षकः पाठशालायां शिशिक्षे वयमप्यसौ ।
कुतश्चित्सैनिकाद्वाणीशार्मण्यविषयोद्भवाम् ॥२५॥
विश्वविद्यालये तस्य सद्भिः परिचयोऽजनि ।
भारतस्य द्विजश्रेष्ठैः सहविद्यार्थिभिः स्थितैः ॥२६॥
तत्रैवासीत्सुविख्यातः श्रीमान्माधवरानडे।
सद्गुणानां निधी रत्नश्रेष्ठानामिव सागरः ॥ २७॥
दिव्यः परिचयोऽनेन घनीभूय दिनादिनम् ।
संजातः सौहृदग्रन्थिरपुनर्भेद्यलक्षणः ॥ २८ ॥
महान्तौ पुरुषावेतौ स्निग्धवृत्ती परस्परम् ।
निसर्गादिव संजातो यथा श्रीरामलक्ष्मणौ ॥२९॥

-
शकरजीवनाध्यानम् ।
कथमेतादृशं सख्यं तयोभिन्नखभावयोः।
प्रथमाद्दर्शनादेवेत्यासील्लोकस्य विस्मयः ॥ ३०॥
आसीच्छ्रीमाधवः शान्तः सत्त्ववान् माधवोपमः ।
शरश्चापि तेजस्वी वशी शङ्करसंनिभः ॥ ३१ ॥
न विचित्रा हि मे भाति मैत्री तत्ताहशी तयोः ।
सख्ये नैसर्गिके यस्मात्प्रेमवन्धो महत्तमः ॥ ३२॥
समानवुद्धियुक्तानां स्नेहः शीघसमुद्भवः ।
सच निष्कामतायां स्याचिरस्थायी च निश्चलः ३३
तस्मादाजीवपर्यन्तममू दाशरथी इव ।
चद्धावकृत्रिमप्रेम्णा ववृताते परस्परम् ॥ ३४ ॥
चिरायाथ पृथग्भूतौ स्वस्वकार्यपरायणो.।
लोकसेवासमासको न्यूपतुः पण्डिताविमो ॥३५॥

१० शङ्करजीवनाश्यानम् । प्रवासानन्तरं भूयः समेतौ सुहृदावुभौ। निमग्नौ नित्यमालापे निन्यतुर्निखिलां निशाम् ३६ बुभूषुः संस्कृताचार्यों विश्वविद्यालयेऽथसः। आसीदवसरान्वेषी लेभे च पदमीप्सितम् ॥३७॥ तथाह्यभून्नियुक्तोऽसौ दक्षिणाध्ययनालये। पुण्यपूर्या स्वतःप्राप्तवैदुष्योऽब्दत्रयान्तरे ॥ ३८ ॥ अथ कार्यवशात्तेन धूमयानेन गच्छता । एकदा ददृशे दैवात्कश्चिदाङ्ग्लो महाजनः ॥३९॥ अचिरादेव पाश्चात्यो बुबुधे यत्सहाध्वगः। शङ्करः परमो विद्वान् ग्रन्थकर्ता च विश्रुतः॥४०॥ तयोः क्रमेण साते प्रचुरान्योन्यसंस्तवे । विस्मितः शङ्करस्याभूदृष्ट्वाग्लो बुद्धिकौशलम् ४१

..
शकरजीवनाल्यानम्।
११
अबवीच्च भवत्कीर्तिः केन वा भुवि न श्रुता।
मन्ये संस्कृतमभ्यस्तं भवता सुचिरं श्रमात् ॥४२॥
सस्मितं शङ्करोऽवादीन मे तत्र चिरश्रमः। ..
तस्य गन्धोऽपि मे नासीत्नागितोऽन्दचतुष्टयात् ४३
पठिता हि मया लाटिन भाषा विद्यालये पुरा ।
इतिश्रुत्वाब्रवीदाङ्ग्लो नूनं सा दुर्गमाऽस्ति वः १४
अपि शको भवान् वक्तुं तया वाण्येति वादिनम् ।
पृच्छयतां प्रतिवक्ष्यामीत्यभापत स शङ्करः ॥१५॥
प्रचक्रमेऽथ सँल्लापमानलो लाटिनभापया।
चिन्तयन् भारतीयोऽयं न वक्तुं पारयेदिति ॥१६॥
शङ्करस्तु सुविस्पष्टं वाक्पटुः प्रत्यवोचत ।
तमाङ्ग्लेयं चमत्कुर्वन् हेपयंश्चात्ममानिनम् ॥१७॥

३२
शङ्करजीवनाख्यानम् ।
अथाङ्ग्लः प्राह तुष्टोऽस्मि नितरामार्य ते गिरा।
अभिनन्द्यं हि ते ज्ञानं परकीयवचस्यपि ॥४८॥
खप्नेऽपि न मया वाचः. पटुत्वं दृष्टमीदृशम् ।
मद्देशेऽपि न दृश्यन्ते वक्तारो हि भवादृशाः॥४९॥
न विद्मो लाटिनज्ञेषु भारतीयेषु सत्स्वपि ।
शिक्षकाः किमिहानेयाः शासकैः परदेशतः ॥५०॥
इति चित्रीयमाणेन वैदेशिकविपश्चिता ।
भ्लाध्यमानः खकार्यान्ते न्यवृतन्निजमन्दिरम् ५१
मातृवाचि परा भक्तिस्तस्य वाल्यादपि स्थिता ।
वेणुग्रामाश्रयोऽप्यासीत्सर्वदा तत्परायणः ॥५२॥
विश्वविद्यालयोयुक्तः काव्यामृतरसं सदा ।
कवीनां वामनादीनामपिवत् परमादरात् ॥५३॥

शङ्करजीवनाख्यानम् ।
२३
मोरोपन्तस्य काव्येषु परं गौरवमावहन् ।
तानि लोकसुवोधत्वात्प्रकाशयितुमुद्यतः ॥ ५४॥
आसीत्सुशिक्षितानां च भक्तिरल्पीयसी तदा ।
मातृवाचीति तेनापि चिरादेव निरूपितम् ॥५५॥
शास्त्रिणा केनचित्साधु वेणुग्रामनिवासिना ।
वर्वेनाम्नाऽकरोन्मातृवाङ्मयस्य सुशोधनम् ॥५६॥
पदवर्णवचोलोपमवलोक्य क्वचित्कचित् ।
वाक्यानि पूरयामास व्यञ्जयन् निजनैपुणीम् ५७
बृहद्दशमकाव्यस्य समाप्य परिशीलनम् ।
ग्रन्थं समार्पयत्प्रीत्या भाऊदाजीमहात्मने ॥५॥
देशभापावचःप्रौढिं महती परिपुष्णते ।
आत्मनेवापरैः सद्भिः पण्डितैर्मानिताय च ॥५९॥

२१ शकरजीवनाख्यानम् । कविचूडामणेरेवं मोरोपन्तस्य शङ्करः । काव्यामृतरसैलॊकानन्दयामास सर्वतः ॥ ६॥ ततश्चकार गाथानां तुकाराममहात्मनः । संशोधनममूल्यानां साहाय्याद्विष्णुशास्त्रिणः ६१ नानाग्रामपुरेभ्योऽयं लेखान् संगृह्य यत्नतः। चके ग्रन्थपरिष्कारं जागरूका परिग्रहे ॥३२॥ गाथावलिरियं पुण्या लोकेषु प्रथिताभवत् । आविद्वत्पामरं सर्वे शान्तिमापुस्तया भृशम् ॥६३॥ ततोऽसौ मातृवाग्भक्तः पराङ्मुखजनानपि । विदानभिमुखीचक्रे सुधानिष्यन्दिवाड्मयैः ॥६॥ ज्ञानेश्वरतुकाराममुकुन्दादिकवीश्वरान् । स्तुवन् तत्काव्यपीयूषं सर्वलोकानपाययत् ॥६५॥ इति सौ. क्षमायाः कृतिषु शङ्करजीवनाख्याने विद्यासमाप्तिवर्णनो नाम चतुर्थोल्लासः॥

शङ्करजीवनाख्यानम् ।
२५
॥ पञ्चमोल्लासः॥
नवविंशतिवर्षीयः सञ्जातः शङ्करो यदा ।
संस्कृतग्रन्थसंशोधं तदारब्ध सुदुष्करम् ॥१॥
पञ्च वर्षाणि कार्येऽस्मिन् व्याप्तोऽभूनिरन्तरम् ।
गैर्वाणीप्रेमवन्धेन न कीर्यं न च सम्पदे ॥२॥
तृपा पिवन्नहोरात्रं साहित्यामृतनिर्झरे ।
कालिदासस्य दासोऽभूद्रसमाधुर्यनिर्जितः ॥३॥
अत एव कवीन्द्रस्य प्रवन्धानपूर्वमग्रहीत् ।
चिकीर्षुः सर्वलोकानां सुखाखादक्षमानमून् ॥४॥
रघुवंशमधीत्यादी बहुभाष्यपुरस्सरम्।
सूक्ष्मदृष्ट्या स्वयं कृत्वा गुणदोपविमर्शनम् ॥ ५॥

शङ्करजीवनाख्यानम् । हस्तलेखांश्च सह्य सर्वतः सुप्रयत्नतः। शुभं तत्कार्यमारेभे प्राच्यपाश्चात्यपूजितम् ॥६॥ खदेशस्य ऋणं पूर्वमपाकर्तुमिव श्रमैः । प्राचकाशदसौ काव्यमचिराटिप्पणीमयम् ॥७॥ सर्गाणामादिमं पदं काव्यस्य समशोधयत् । आङ्ग्ललाटिनटिप्पण्या भूषितं पण्डितोचितम् ८ लाटिनीवागभिज्ञस्य तथा संस्कृतवेदिनः । अद्वितीयप्रवन्धोऽयं भापाज्ञानोपकारकः ॥९॥. असमाप्तेऽपि शेषेऽस्य प्रवन्धस्य स शङ्करः । शोधनं कर्तुकामोऽभून्नाटकानां महाकवेः ॥ १० ॥ श्रीविक्रमोर्वशीयस्य संशोधनमथाकरोत् । कुमारसम्भवस्यापि ततो मालविकंस्य च ॥११॥.

शङ्करजीनाख्यानम् ।
२७
तत्र निर्वचनं कृत्वा सूत्रधारपदस्य सः।
शब्दप्रवृत्तितत्त्वज्ञो व्याचख्यौ विशदं यथा ॥१२॥
महाराष्ट्रीयदेशेषु पुत्रिकाणां प्रदर्शनम् ।
क्रियते स पुरा सूत्रं हस्ते धारयता नृणा ॥१३॥
नेपथ्येऽसौ नरस्तिष्ठन् नर्तयामास पुत्रिकाः ।
रङ्गे कौतुकिनो लोकान् रअयन्नात्मवृत्तये ॥१४॥
तावच्च संस्कृतज्ञेन स्यापितं विल्सनेन यत् ।
कृतेर्मालविकाख्यायाः कालिदासो न लेखकः १५
अन्येन हि प्रणीतेयमव्दानां दशमे शते ।
न रसोऽत्र न माधुर्य यथा तन्नाटकद्वये ॥ १६ ॥
तदेतन्मतमानलस्य खण्डयामास शङ्करः।
नाटकाभ्यां कवेस्तस्य शब्दश्लोकसमुच्चयम् ॥१७॥

२८ शकरजीवनाच्यानम् । कृत्वा प्रयत्नतः साम्यमत्रापि समदर्शयत् । अपूर्वपदलालित्ये रसमाधुर्यभावने ॥ १८ ॥ सुपात्राणां समावेशे संविधानस्य कौशले । गुणालङ्कारसम्पत्तौ ध्वनियोगे विशेषतः ॥ १९ ॥ अन्यानि च प्रमाणानि तत्कर्तृत्वे न्यदर्शयत् । यथास्य नाटकस्यादौ नाम तस्यैव कीर्तितम् ॥२०॥ उपक्रमविधानं यत्तस्यान्यग्रन्थयोः समम् । शिवस्य स्तुतिरत्रापि वाहन्ताखण्डनं तथा ॥२१॥ बौद्धधर्मोन्नतेः काले तदेतल्लिखितं भवेत् । यत्परित्राजिका तस्मिन् पात्रं पूज्यं हि चेष्टते २२ अतोऽर्धशतकात्पूर्वं मृतेः क्रिस्तस्य निर्मितम् । न दशम्यां शताब्द्यांतु यथाङ्ग्लैः कल्पितं बुधैः २३

शङ्करजीवनाख्यानम्।
तदा हि श्रमणी नासील्लोकसम्माननास्पदम् ।
न च तां कविरुत्कद्देशकालविचक्षणः ॥ २४ ॥
यदस्य विक्रमादित्यसभावस्थितिवादिनः।
अर्वाचीनमिमं प्राहुस्तत्र हेतुर्विचार्यते ॥ २५ ॥
बभूवुर्वहवो भूपा विक्रमादित्यसंज्ञकाः ।
नामसाम्यभ्रमेणैते विवदन्ते मनीषिणः ॥ २६ ॥
यस्त्वष्टमशताब्दीतः पूर्वमासीन्महीपतिः ।
मालवे विक्रमादित्यो नाम सोऽन्यो ह्यविश्रुतः २७
यस्य राज्ञः सभायां तु कालिदासो व्यराजत ।
स विक्रमोऽपरश्चासीचक्रवर्ती सुविश्रुतः ॥२८॥
स च क्रिस्तशकारम्भात्पूर्वभावी परंतपः।
शकानां समरे हन्ता शककर्ता जगत्यभूत् ॥२९॥

शङ्करजीवनात्यानम् ।
दशम्यां भोजराजेन शताव्द्यां वद्धसौहृदः।
कविरेप बभूवेति निर्मूलं चानृतं वचः ॥ ३०॥
मेघदूतकुमाराख्यौ तस्य काव्यमणी उभौ ।
समानौ रघुवंशस्य भातः सप्रसवाविव ॥३१॥
इति काव्यत्रयीमध्याद्रघुवंशं स शङ्करः ।
विमृशन् विमतप्रश्नान् विचिच्छेद सविस्तरम् ॥३२॥
नचिरादथ पाश्चात्या वेवर्मोक्षम्लुरादयः।
प्राच्यभापासभां चक्रुर्महतीं लण्डने पुरे ॥३३॥
अथ लब्धप्रतिष्ठोऽसौ पूज्यमानोऽधिकारिभिः ।
प्रातिनिध्यं समासाद्य शङ्करो लण्डनं ययौ ॥३४॥
पट्त्रिंशद्वर्षदेशीयस्तदानीमभवावा ।
देवभाषाभिमानेन गच्छन् सलिलवर्मना ॥३५॥

. - ॥ आङ्ग्लदेशे शङ्करः-

शङ्करजीयनास्पानम् ।
सुप्रवन्धमुखेनामै मतभेदप्रदर्शिने ।
पाश्चात्यविवुधास्तत्र शङ्कराय यशखिने ॥ ३६॥
अर्हणामहते चक्रुः संस्कृताभ्युदयैपिणे ।
ख्यापयन्तः शुभप्रज्ञां तस्य संस्कृतवेदिपु ॥३७॥
यण्मासाभ्यन्तरे तस्य विदेशस्थायिनो महान् ।
प्राच्यसंस्कृतिसम्प्रीतैः सातः संस्तवो जनैः ३८
अथैकस्मिन् दिने वस्तुप्रदर्शनमहारहे।
आङ्ग्लया योपिता दृष्टः कयाचित्स द्विजोत्तमः३९
सा हि सत्कवयित्रीति मानिता विश्रुताऽभवत् ।
दृष्ट्वैव शङ्करं साभूचकिता तस्य तेजसा ॥४॥
सैकाग्रं पश्यति सेनं तालपत्रेः समावृतम् ।
चेदपर्णेरिवाकीणं साक्षाज्ञानतरं यथा ॥ ४ ॥

शकरजीवनाख्यानम्। संनादेस्तालपत्राणां सूच्यते स्म तदागमः।.. मर्मरैर्मृगसंसर्पो.मुनीनामाश्रमे यथा ॥ ४२ ॥ अतिकौतुर्किनी जाता साध्वी प्राच्यबुधोत्तमे। न शशाक पुनस्तस्य सद्यः परिचयार्जने ॥४॥ कालेन काकतालीयस्तयोरासीत्समागमः। कथालापविशेषेण हर्षकारी परस्परम् ॥ ४४ ॥ नचिरान्निर्गमें प्राप्ते विदुपोऽस्य विदेशतः ।, उभौ च नव्यमैत्रीको परं खिन्नो वभूवतुः ॥४५॥ स्नेहं पयोधिना दूरीकृतावपि ररक्षतुः । मनो हि महनीयानां प्रेमहेतुर्न सन्निधिः ॥४६॥ गतेषु त्रिंशदव्देषु मनीषिण्या तया सह। देवयोगात्समाजग्मे वामनः शङ्करोत्मजः॥४७॥ .

शहरजीवनाल्यानम् । अपूर्वश्रुतदृष्टं च सुहृत्पुत्रोऽयमित्यसौ । अनुक्तापि व्यजानात्तं चित्रलेखसमुद्यतम् ॥४८॥ भवेत्स्वप्ने कथायां वा समापत्तिः किलेशी।.. इदं परमहो चित्रमिति मेने स वामनः॥४९॥ इति सौ. क्षमायाः तिषु शहरजीवनाख्याने, काव्यसंशोधनो नाम पञ्चमोलासः।।

३४ शकरजीवनाख्यानम् । ॥ षष्ठोल्लासः ॥ पाश्चात्यैरपि स ज्ञातः पण्डितत्वेन पण्डितः । अन्वर्थीकृतवंशाङ्कः खदेश पुनरोययौ ॥१॥ विदेशे विश्रुतो विद्वान् विमलां कीर्तिमाप सः। खदेशे खर्चितश्चासीत्सुधीभिश्चाधिकारिभिः॥२॥ विविधं च विदेशीयं खदेशीयं च वायम् । वशीकृत्य वभूवासी नचिरेण बहुश्रुतः॥३॥ तदपूर्वपटुत्वेन विश्वविद्यालयादसौ । अपनीय नियोक्तव्यः पदे कापि महत्तरे ॥४॥ इति निश्चित्य सम्राझ्याः किङ्करैरधिकारिभिः। त्याजितः शिक्षकोद्योगं नितरामात्मनः प्रियम् ५

शकरजीयनाक्ष्यानम् ।
नगरान्नगरं गच्छन् नियुक्तो राष्ट्रकर्मणि ।
नैपुणी दर्शयामास नैककार्यधुरन्धरः ॥६॥
व्यापृतो राजकार्येषु भूयिष्ठमपि वासरम् ।
कर्तुं देवगिरः सेवा यथेष्टं न शशाक सः ॥७॥
तथापि प्रेरितो भच्या विरामेषु दिने दिने।
करोति स्व.शुश्रूषां यथाकालं यथाविधि ॥८॥
प्रवन्धान कालिदासस्य पूर्वोक्कान् परिशोध्य.सः।
ऋग्वेदं शुभमध्येतुमारेभे सूक्ष्मदृष्टितः ॥९॥
देशे जिज्ञासुभूयिष्ठे शार्मण्यानी मनीपिणाम् ।
प्रसिद्धिर्मचिरादेपं भूयसीमधिजग्मिवान् ॥१०॥
ततः सार्धद्विवर्षान्ते श्रुतेनिखिलमष्टकम् ।
सुवोधसंरलैक्यैिर्विवरीतुमुपादे ॥ ११ ॥

३६
शकरजीवनाख्यानम्॥
मत्वा दिव्यमिदं शास्त्रं पुरुषार्थप्रसाधकम् ।
सुखबोधाय बन्धूनां सर्वेषामात्मनः सताम् ॥१२॥
महाराष्ट्रीयवाचैव व्याख्येयमिति निश्चितः ।
वहन् गुर्वीमविश्रान्तं राजकार्यधुरं दिवा ॥ १३॥
ऋचामुपासनानन्दे निशां चैकान्ततो नयन् ।
संहितामखिलां देशभाषया पर्यवर्तयत् ॥ १४ ॥
एवं विविधसूक्तानां शतकान्येकविंशतिम् ।
महर्षीणां शतेः प्राचां निर्मितानि तपखिनाम् १५
विदेशीयगिरा रम्यं प्रतिमासमनूद्य च ।
वुल्वरादिप्रतीच्यानां विदुषां प्राहिणोदसौ ॥१६॥
आसीत्काथवटे नाम कश्चिदस्य सुहृन्मणिः ।
चिरकालात्सहाध्यायी संस्कृतज्ञः परिश्रमी ॥१७॥

शक्करजीवनात्यानम् । तस्य वेदार्थयत्नाख्यां मित्रस्य सहकारतः। अनुवादान्वितामेकां पत्रिका समपीपदत् ॥ १८ ॥ तस्य चाभूतपूर्वस्य प्रवन्धस्य मुखे सुधीः। विनीतो व्यालिखवेदप्राधान्यख्यापनं यथा ॥१९॥ विदेश्या गृण्हते वेदानर्थवोधपुरस्सरम् । भारतीयास्तु दृश्यन्ते तद्विमर्शपराङ्मुखाः ॥२०॥ जन्मभूः सर्ववेदानामिदं भारतमण्डलम् । तथाप्यहो अमोघा वागियं लोकैरुपेक्ष्यते ॥२१॥ पाश्चात्यापेक्षयाऽभ्यासः श्रुतीनां सुकरो हि नः। ज्ञानतो गुरुस्तेपामस्ति नः संस्कृतिः शुभा ॥२२॥ सुबहून्वेदसम्बद्धान्पाश्चात्य रचितान्बुधैः । टीकासंवलितग्रन्थान् समालोच्य पुनः पुनः २३ ३८ शङ्करजीवनाख्यानम् । मया हि निरणायीदं मन्त्राः कतिपये श्रुतौ । न दुर्योधाः खदेश्यानां यथा पश्चिमवासिनाम् २४ नव्यप्राचीनवर्गाणां भारतेऽत्र विशेषतः। आर्याणां न हि भेदोऽस्ति शुद्धसंस्कृतिदृष्टितः२५ परं प्राच्यप्रतीच्यानामस्ति भेदो महत्तमः । अत एव विदेशीया बहुश्रुतबुधा अपि ॥ २६ ।। निर्मायापि घहून् ग्रन्थान् वैदिकान् हितकारिणः । न पारयन्ति वेदार्थ विज्ञातुं सूक्ष्मतत्त्वतः ॥२७॥ सूते ज्ञानमवत्यातॆनिरस्यति हृदस्तमः। त्रयी मूर्तित्रयीवेति प्राज्ञैरुद्भुप्यते मुहुः ॥२८॥ अन्वभावि यथानन्दः श्रुतिसंशीलनान्मया। तथैव वान्धवाश्चापि नन्देयुर्नात्र संशयः॥ २९ ॥ , शङ्करजीवनाख्यानम्। इति संवोध्य देशीयान् मासपत्रमुखेन सः। आरेभेऽथर्ववेदस्या व्याख्यानं देशभाषया ॥३०॥ इति सौ. क्षमायाः कृतिषु शकरजीवनाख्याने श्रुतिप्रशंसनो नाम पष्ठोल्लासः॥

शहरजीवनाश्यानम् ।
॥ सप्तमोल्लासः॥
तावच्च दैवयोगेन प्रेपितोऽभूत्पुरात्पुरम् ।
राजकार्यवशाद्भूयः स्वपदेऽभ्युदयं गतः॥१॥
अथास्य गृहिणी दुर्गा बत कालवशं ययौ ।
विहायोपत्रिवर्षीयां कृष्णाभिधसुतां शुभाम् ॥२॥
बालिका बहुकार्येषु निमग्नस्य दिवानिशम् ।
रक्षितुं न गृहे नारी निपुणा काप्यवर्तत ॥३॥
राजदुर्गे निजभ्राता सीतारामस्तदावसत् ।
तदेनामस्य भार्यायाः सकाशं प्राहिणोदसौ ॥४॥
अथ गच्छति कालेऽसौ सुहृद्भिोधितोऽभवत् ।
परिणेतुं पुनः काञ्चित्सुजातां विधवामपि ॥ ५ ॥

शङ्करजीवनाख्यानम् ।
नवीनशिक्षितान्मुक्त्वा तदान्यैरखिलैरपि।..
न्यपेधि विधवोदाहो जनैः खार्थकदृष्टिभिः ॥६॥
विधवां वोढुकामोऽपि न लेभे शङ्करस्ततः ।
कुलशीलवयोरूपैरनुरूपां वराङ्गनाम् ॥ ७ ॥
परिणेयामथान्वेष्टुं प्रवृत्तोऽभूकुमारिकाम् ।.
वालिका च शुभा काचित्प्रदेया श्रुतिमागता
सा हि शिक्षकवर्यस्य कस्यचित्तनयाऽभवत् । ..
श्रुतसगुणसम्पत्तेः सोलापुरनिवासिनः ॥ ९ ॥
रामचन्द्र इति ख्यातो नायकाख्यकुलोद्भवः।
प्रियशिष्यः पिता सोऽभूत्कन्यारत्नविभूपितः १०
आसीत्तस्य द्विजेन्द्रस्य राधा नाम मनखिनी।
मार्या रूपगुणाचारैः श्रीमद्राधानुकारिणी ॥११॥

J शङ्करजीवनाल्यानम् । अनयोर्वरदम्पत्योर्विश्रुता गोजराख्यया.। सुकुमारी च कन्यासीत्पद्मिनींव मनोहर ॥१२॥ दृष्ट्वैववालिकामेनां कमलाक्षी सुमध्यमाम् ।. . रूपसंवादिसौगुण्यां चकमे शङ्करो भृशम् ॥१३॥ सम्प्रार्थ्य पितरं तस्याः शङ्करः प्राप्तसम्मतिः। जग्राह पाणिना पाणिं शोभनायाः शुभे दिने १४ शुचिस्मितजुपस्तस्याः सुन्दाः शान्तचेतसः। उपःशोभाविशिष्टाया उपानाम चकार सः ॥१५॥ त्रयोदशवयोजुष्टामपुरोज्झितमन्दिराम् । कृपामृदुरुपादाय राजदुर्गमगान्मुदा ॥ १६ ॥ यत्रासीदुक्तपूर्वो यः सीतारामः सहोदरः। पालयन् शीलसम्पन्नो वृत्तिमर्थकरी निजाम् १७ L

TAAR
RA
नयोदा श्रीमती उपादेवी-

४३ शङ्करजीवनाख्यानम् । नवोढा सुकुमाराङ्गी लक्षणीयां प्रभावतीम् ।. तस्थौ प्रतीक्षमाणोऽसौ सपत्नीकः कुतूहलात् १८ असाम्येऽप्युभयोः कामं दम्पत्योर्वयसा तयोः । तत्प्रौढाचरणाझेदों नाभवदृष्टिगोचरः ॥ १९ ॥ ननान्दृभ्रातृजायासु सपत्नीदुहितर्यपि । देवरेष्वप्युपादेवी विनीता प्रियमाचरत् ॥ २० ॥ सपलीवालिका कृष्णा वयसा पञ्चवत्सरा । वर्णेन यद्यपि श्यामा विशुद्धा चेतसाऽभवत् २१ सा मृगाक्षीमुपां रम्यां दृष्टमात्रां विमातरम् । स्नेहेन समुदाचारीच्चिरात्परिचितामिव ॥ २२ ॥ पञ्चवर्षकनीयस्यामुपा तस्यां समनिहत् । बद्धव प्रेमपाशेन प्रगाढं पूर्वजन्मनः ॥ २३ ॥ . . ए

शहरजीवनारूपानम् ।
निरूढे च तयोरेवं सख्ये महति निस्पृहे।
आविवाहमभूत्कृष्णा विमातुः सहवर्तिनी ॥२४॥
अथ वर्षद्वयादूर्ध्वमुपाशङ्करयोर्यदा ।
पुत्रोऽजनि तदा कृष्णा जननीव जुगोप तम् २५
तनोति म पितुः क्लेशं वालविद्यापराङ्मुखी।
विमातुस्तोपदात्वासींदूर्णाम्बरकरी शिशोः ॥२६॥
एकदा सुखमासीने शङ्करे पत्रमागमत् ।
सुहृन्माधवभाया रमादेव्याः स्वहस्ततः ॥२७॥
विषूचिकासमाक्रान्तः श्रीमान्माधवरानडेः ।
इति वार्तामतःप्राप्य व्याकुलः शङ्करोऽभवत् २८
एकतः पीडितं मित्रं स्वरया गन्तुमुत्सुकः ।
अन्यतो वालपत्नीं खामजिहासुरतिप्रियाम् ॥२९॥

शङ्करजीवनाख्यानम् । १५ . इतिकर्तव्यतामूढः कियन्तं कालमाकुलः । दोलायमानचित्तोऽभूदाकृष्टः स्नेहवन्धनैः॥३०॥ यदि शीघ्रं न गच्छेयं प्रियमित्रत्य सन्निधिम् । चिन्तया परितप्येय पापशी पदे पदे ॥ ३१ ॥ अथासौ यदि दुर्दैवादसूनेव परित्यजेत् । तदा दुर्लभमेव स्यात्तन्मुखस्यापि दर्शनम् ॥३२॥ अत्यन्तमनुतापाय:प्रमादोऽयं भविष्यति । इति भूयः परामृश्य निश्चिक्ये गन्तुमेव सः.३३ निवसेह क्वचित्कालं सीतारामो ममानुजः।। कर्ता कालविनोदं ते शीघ्रमेष्यामि मा शुचः ३४ इति प्रियां.समाश्वास्य प्रतस्ये राजकोहतः। चेतसा शुभमाध्यायन्नातमित्रस्य नित्यशः ॥३५॥ .

शकरजीवनाल्यानम् ।
लक्यन् दीर्घमध्वानं चतुःपञ्चप्रयाणकैः ।
जवात्पुण्यपुरीं प्राप सुहृद्दर्शनलालसः ॥ ३६ ॥
अथ शङ्करमालोक्य नवोदाहसुखोज्वलम् ।
भृशमार्दीवभूवासौ लघूभूतरूजाव्यथः ॥ ३७ ॥
जित्वामयात्मकं शत्रुमात्मलक्ष्मीविलुम्पकम् ।
प्रियागमेन हृष्टोऽसौ निर्वृतोऽभूदमापतिः ॥३८॥
ततः कैश्चिदहोरात्रैः शुभोदन्तः समागतः।
शङ्करो यन्नियुक्तोऽभूदायशुल्कग्रहालये ॥ ३९ ॥
द्विगुणं वेतनं तस्मानियोगादपि शङ्करः।
इदं चोपानमदेवादतर्कितमयाचितम् ॥ ४०॥
निशम्येदं.रमादेवीं मुदिता प्राह शङ्करम् ।।
अहो पुण्योदयो भूयानुपाया पूर्वजन्मनः ॥४४॥

शङ्करजीवनाख्यानम् । इतः परमवाप्तासि द्विगुणं यद्धनागमम् । सौभाग्यमेव कान्तायाः खभर्तुः सुखकारणम् ४२ सुहृत्पत्या वचः श्रुत्वा रमादेव्याः सुमङ्गलम् । प्रत्याह शङ्करो भद्रे पे सत्यं प्रियं च मे ॥ ४३ ॥ धन्योऽहं यद्रमादेवि सुहृदो प्राप्तवानहम् । माधवं भंवतीं चापि प्राणेभ्योऽप्यधिकप्रियो हर कृत्वा विदितवृत्तान्तं सीताराममथानुजम् । मुम्बापुरीमुपाकृष्णे प्रेपयेति तौदिशत् ॥४५॥ तत्र भूयः स गार्हस्थ्ये सुखितः पर्यवस्थितः। रघुवंशस्य पसर्गानवशिष्टांनुपाददे ॥ १६ ॥ इति सी. क्षमाया. गृतिपु सदरजीयनास्याने द्वितीयपाणिप्रहलो नाम सप्तमोहासः । , 1

शकरजीवनाख्यानम्।.
॥ अष्टमोल्लासः॥
एकदा राजकार्येण विजापुरमधिष्ठितः।
ताम्रशासनवृत्तान्तमेकं शुश्राव लोकतः॥१॥
पुरा कृपीवलस्येदं कस्यचित्करमागतम् ।
वक्षेत्रे करतो ग्रामे तिलगुण्डीति विश्रुते ॥२॥
आसीद्वामटिका सेयं दशक्रोशान्तरे पुरात् ।
यत्र लेख्यमिदं दैवारकाम्यति स्म करात्करम् ॥३॥
आकस्मिकमिदं वृत्तं शासनस्य निशम्य सः।
तदीप्सुरभवद्यलात्तृषार्तः सलिलं यथा ॥४॥
महार्ह मिति तद्भूमौ निचखान कृषीवलः ।
चिराय तच्च भूगर्भ लीनं निधिरिव स्थितम् ॥५॥

शङ्करजीवनाख्यानम् ।
स कदाचिदिदं लोभाद्रक्षितुं चोरवर्गतः।
खयं गात्समुद्धृत्य ततो ग्रामान्तरं ययौ ॥६॥
तच तत्र विचिक्रीपुः वर्णतुल्यं विभाव्य.सः।
दर्शयामास लोकेभ्यो रत्नं गारुडिको यथा ॥७॥
न कोऽपि नगरावासी व्यश्वसीत्तदनर्घताम् ।
अथ क्षेत्री तदुद्विग्नो वाधुपौ वन्धनेऽक्षिपत् ॥
देयं तु नियते काले प्रत्यर्पयितुमक्षमः ।
न्यासत्यागेन मुक्तोऽभूद् ऋणतः स कृषीवलः ९
यत्पुरा कृतयत्नोऽपि न लेभे वस्तु शङ्करः।
तदेव सुमुखे दैवे सुखेन प्राप वावुपेः ॥१०॥
तद्गत विषयं दृष्ट्वा बभूवानन्दतुन्दिलः।।
अमूल्यं संस्कृतज्ञानां मणिज्ञानां मणिर्यथा ॥११॥

A शङ्करजीवनाल्यानम। आसीविक्रयलेखोऽयं येन चालुक्यवंशजः । मुञ्जो नाम महीपालो ग्रामवृन्दं वितीर्णवान् १२ कपणसामन्तसंज्ञाय कस्मैचिद्वेवडाव्हयम् । गुणदिग्गजशून्येन्दुमिते संवत्सरे पुरा ॥ १३ ॥ ताम्रलेखमिमं सर्वमितिहासार्थसंयुतम् । यतादाङ्ग्लेयभारत्या शङ्करः पर्यवर्तयत् ॥ १४ ॥ प्राकाशयदथेदं च कस्मिंश्चिन्मासपत्रके । बीनाकादमीनामपत्रिकायां. ततः पुनः॥ १५॥ जेस्लमीराख्यशार्मण्यनगरे चिरकालतः।। भण्डारं,हस्तलेखानामासीदिति विवेद सः ॥१६॥ आसन् ग्रन्थालये तस्मिन् पोषिते वुल्वरादिभिः । काव्यनाटकशास्त्राणां हस्तलेखाः सहस्रशः ॥१७॥ १ गुणात्रयः, दिग्गजा अष्टौ शून्य बिन्दुः, इन्दुरेकः, इति सङ्केतमादित्य वामतो गत्या भष्टनिंशदुत्तरकसइस (२०३९) सल्या विवक्षिता भवति । - * ܡ शङ्करजीवनाख्यानम् । लुण्ठिताः सर्व एवैते पाश्चात्यैर्भारतादिति । अवधार्य स तत्त्वेन विपादमगमद् भृशम् ॥१८॥ अथ त्रैमासिके पन्चे रानडेसुप्रचारिते। विवने वञ्चनावृत्तिं विदेशविदुषां यथा ॥ १९ ॥ शङ्करस्य लेखः॥ भारतस्यावशिष्टोऽयं हस्तलेखात्मको निधिः। बहिनिस्सरणाद्यनै रक्षणीयोऽधिकारिभिः ॥२०॥ रिक्थमेतदमूल्यं नः पूर्वजेभ्यः'समागतम् । भूतिकामैस्तदस्माभिर्गोपनीयं प्रयत्नतः ॥ २१ ॥ हस्तलेखनिधिस्थानाद्वन्थरत्नानि भारतात् ।' हतानि च हियन्ते च पाश्चात्यैर्मूरिशः किल ३२ 4 शङ्करजीवनात्यानम् । निषेद्धव्या.इमेऽस्माभिः परखापजिहीर्षवः । अधुर्वे यातु नो वित्तं न पुनर्वाङ्मयो निधिः २३. अहो निन्द्यमिदं चौर्य परतन्त्रप्रजागृहात् । कः साधुर्बालकं लुण्ठेद्विवशं रत्नभूषितम् ॥ २४॥ शोचनीयमिदं नूनं यदज्ञान्वचनच्छलैः । प्रलोभ्य लघुमूल्येन हरेयुस्ते परं निधिम् ॥२५॥ श्रूयते हि बुधः कोऽपि प्रतीच्यो हागनामकः । जहार हस्तलेखानां राशिमीदृशवर्तनः ॥२६॥ अथास्य मरणादूर्ध्व भार्या तल्लेखविक्रयात् । लेभे लक्षाधिकद्रव्यं ग्रन्थकोशान्युनिक्पुरे ॥२७ कथमीहशमन्याय्यं दण्डनीयं न दण्ड्यते। नास्ति कि भारते विद्वान् लेखानामुपयोगवित् २८ .

शङ्करजीवनाख्यानम् । लेखानां प्रतिरूपाणि काममादाय यान्त्विमे। मूलं न हर्तुमर्हन्ति लिखितं.ग्रन्थकर्तृभिः ॥२९॥ भारतीयदशामेवमनुशोचन् स शङ्करः । निनिन्द निर्भयं हूणान् हस्तलेखापहारिणः॥३०॥ कालेन देशजोऽस्माकं भविष्यत्येव शोधकः। रलानि यः समुद्धृत्य दर्शयेद्वाङ्मयोदधेः ॥ ३१ ॥ अतो लोकहितार्थाय प्रकल्प्यं राजशासनम् । इति न्यायोर्जितैर्वादेः शङ्करः समसूचयत् ॥३२॥ इति सौ. क्षमायाः रुतिपु सदरजीवनास्याने प्राचीनलेखगवेपणो नामाएमोल्लासः॥

‘शकरणीवनाच्योनम् । निषेद्धव्या इमेऽस्माभिः परखापजिहीर्षवः ।. अधुवं यातु नो वित्तं न पुनर्वाङ्मयो निधिः २३. अहो निन्द्यमिदं चौर्य परतन्त्रप्रजाग्रहात् । का साधुर्बालकं लुण्ठेद्विवशं रत्नभूषितम् ॥ २४॥ शोचनीयमिदं नूनं यदज्ञान्वचनच्छलेः । प्रलोभ्य लघुमूल्येन हरेयुस्ते परं निधिम् ॥२५॥ श्रूयते हि बुधः कोऽपि प्रतीच्यो हागनामकः । जहार हस्तलेखानां राशिमीदशवर्तनः ॥ २६ ॥ अथास्य मरणादूर्ध्व भार्या तल्लेखविक्रयात् । लेभे लक्षाधिकद्रव्यं ग्रन्थकोशान्म्युनिकपुरे ॥२७ कथमीदृशमन्याय्यं दण्डनीयं न दण्ड्यते। नास्ति कि भारते विद्वान् लेखानामुपयोगवित् २८ - .

शकरजीवनाख्यानम् । लेखानां प्रतिरूपाणि काममादाय यान्त्विमे । मूलं न हर्तुमर्हन्ति लिखितं ग्रन्थकर्तृभिः ॥२९॥ भारतीयदशामेवमनुशोचन् स शङ्करः । निनिन्द निर्भयं हूणान् हस्तलेखापहारिणः॥३०॥ कालेन देशजोऽस्माकं भविष्यत्येव शोधकः। रत्नानि यः समुद्धृत्य दर्शयेद्वाङ्मयोदधेः ॥ ३१ ॥ अतो लोकहितार्थाय प्रकल्प्यं राजशासनम् । इति न्यायोर्जितैर्वादैः शङ्करः समसूचयत् ॥३२॥ इति सौ. क्षमायाः रुतिपु शङ्करजीवनात्याने प्राचीनलेखगवेषणो नामाएमोल्लासः॥ ~

शङ्करजीवनाल्यानम् ।
॥ नवमोल्लासः॥
-
अथ कार्यवशादलिन् खानदेशमधिष्ठिते ।
बभूव सहसोत्पातः कश्चिद्विश्वभयङ्करः॥ १ ॥
अदूरे धुलियाग्रामाद्वर्याकाले समागते ।
एका नदी प्रवृद्धाभून्महौधेन भयानका ॥ २ ॥
नदीमुभयतो ग्रामाः केचिदासन परिप्लुताः ।
जलौघेन कुटीराणि विध्वस्तानि वहूनि च ॥३॥
जलप्रलयतुल्येऽस्मिन् सकटे ग्रामवासिनः ।
निपेतुः सलिले भ्रान्ताः परं पारं यियासवः ॥४
महासत्वाः परे केचिजलौघेन युयुत्सवः।
बभूवुः क्षिप्तपर्यस्ता विवशा मरणोन्मुखाः॥५॥

५५ शक्करजीवनाख्यानम् । गृहेभ्यो निर्गता ये तु प्रत्यायाताः कुटुम्बिनः । नदीप्रकोपमालोक्य स्थितास्ते मुग्धचेतसः॥६॥ श्रुतमात्रेऽथ वृत्तान्ते त्यक्त्वा कार्याणि शङ्करः । नाविकैः सह निष्णातैः सरित्तीरमुपागमत् ॥७॥ दत्वा तेभ्यः प्लवान् प्राह शङ्करः प्रौढया गिरा। प्रयात त्वरितं सर्वे रक्षतागतिकान् जनान् ॥८॥ इत्युक्त्वा खयमासीनः प्लवेऽन्यस्मिन् विनिर्भयः। प्राणसंशयमारूढो जलोघमभिसम्प्लवन् ॥९॥ मजतो विवशान्मानूप्रमाकृष्य धारयन् । दीनानुद्धृत्य वेगेन खप्लवं पर्यप्रयत् ॥ १० ॥ प्रापय्य तान्नदीतीरमवगाह्य पुनर्जले।. भृयश्चान्यान्समानेपीद्रक्षिला मरणोन्मुसान्.११

शङ्करजीवनाल्यानम् ।
निनाय दिवसं कृत्स्नं गतागतपरिश्रमैः ।
प्रेरयन्नाविकांश्चापि निर्धूय सुखमात्मनः ॥ १२॥
जले वीक्ष्य भयाक्रान्तान्मनोन्मग्नकलेवरान् ।
अवप्लुत्य स्वयं वेगानदीष्णस्तानतारयत् ॥१३॥
बालकान्मूच्छितान् कांश्चिदुडुपात्पतितान् पुनः ।
केशग्राहं समुद्धृत्य जीवयामास यत्नतः॥ १४ ॥
वहूनेवं समुत्तार्य वलबुद्धिपराक्रमैः ।
ब्राह्मणोऽपि यशः प्राप शङ्करः क्षधियोचितम् १५
.
कर्पकाणामयं यामः कोसंबीति सुविश्रुतः।
इत्यं निर्मार्जितः पूरैर्नामशेषोऽभवत्किल ॥१६॥ .
क्षेत्रावलम्विनः सर्वे नष्टसर्वधना अपि।
प्राणसंरक्षणादेव परमानन्दमामुवन् ॥ १७ ॥

.
शङ्करजीरनाख्यानम्।
अचिन्त्यदुर्दशामेषां दृष्ट्वाचिन्तयदाधीः ।
सदुपायं निवासार्थे दीनग्रामनिवासिनाम् ॥१८॥
खाधिकारवलादर्थ समुत्पाद्याविलम्बितम् ।
पुनरुत्थापयामास तदामं शङ्करः खयम् ॥ १९ ॥
सुखमावासिताः सर्वे कृतज्ञा ग्रामिकास्ततः ।
चक्रुः शङ्करपेठाख्यं ग्रामं नूतनकल्पितम् ॥२०॥
इदं कदाप्यविस्मयं कर्म तिष्ठति शाश्वतम् ।
प्रत्युत्पन्नमतेस्तस्य धार्मिकस्य मनखिनः ॥ २१ ॥
अद्यत्वे विद्यते ग्रामः सोऽयं जनसमृद्धिमान् । '
तथापि कति वा विद्युः पुरावृत्तमिदं जनाः ॥२२॥
अयैकदा स्थिते तस्मिन् कार्ययोगादिजापुरे।
अनावृष्टिवशात्तन दुर्भिक्षं समजायत ॥ २३ ॥

शङ्करजीवनाख्यानम् ।
क्षुधया पीडिता लोका अस्थिशेषकलेवराः।
मक्षिकानिर्विशेषेण म्रियन्ते स्म प्रतिक्षणम् ॥२४॥
न पूर्वमनुभूतोऽभूदीकालविपर्ययः।
मेनिरे तदमुं लोकाः प्रकोपं दैवसम्भवम् ॥२५॥
सङ्कटे घोररूपेऽस्मिन्नुपकर्तुं प्रजाः पुनः।
धर्मबुद्ध्या प्रवृत्तोऽभूदविश्रान्तं स शङ्करः ॥२६॥
अटता प्रत्यहं तेन ग्रामे ग्रामे प्रयत्नतः।
दृश्यते स्म बुभुक्षूणामवस्यात्यन्तदुःसहा ॥ २७॥
प्रभूतं धनमाढ्येभ्यो ग्राहं ग्राहं सुसत्वरम् ।
दीनेभ्यो दापयामास वस्त्रमन्नं च शङ्करः ॥२८॥
प्रशंसां महती चकुस्तस्य राजाधिकारिणः ।
कृतज्ञाश्च जना दीनास्तमाशीमिरवर्धयन् ॥२९॥

शङ्करजीवनाख्यानम् ।
अथैकस्मिन् दिने तस्य सहसा गृहमागतः ।
वेस्त्राप इति विख्यातः कश्चिदाङ्ग्लो दिदृक्षया३०
निशम्य श्रुतपूर्व तन्नाम भृत्यमुखादसौ।
तद्यक्रनभिज्ञानादीपदान्त इवाभवत् ॥ ३१ ॥
भूयो भूयश्च तन्नाम गृणन् स्वयमचिन्तयत् ।
अहो श्रुतिपथं नूनं नाम निश्चितमागतम् ॥३२॥
न स्मरामि पुनः कोऽयं पुरुपः स्यादुपागतः ।
इत्यागमयदाङ्ग्लं तं किङ्करेण खसन्निधिम् ॥३३॥
आङ्ग्ले प्रविष्टमात्रेऽस्मिन् प्रकोष्ठं शङ्करो निजम्।
वभूव चकितोऽत्यन्तं प्रेतदर्शी नरो यथा ॥३॥
स एवायं हि गर्विष्ठः शङ्करो येन.निर्दयम् ।
पूर्वमष्टादशाव्देभ्यो निरकास्यत मन्दिरात् ॥३५॥

शङ्करजीवनाख्यानम् ।
स एवाद्य विनीतः सन् शङ्करं समुपस्थितः।
प्राञ्जलिश्च जगादैतं सादरं मृदुभाषया॥ ३६ ॥
अयि भोःक्षम्यतामार्य स्थितोऽन्धःप्रागयंजनः।
येन मन्दधिया ज्योतिर्भवदीयं न लक्षितम् ३७
भवदीयमनीषार्ककिरणा हृदयें मम ।
तमोमये कथं नाम नाविशन्निति विस्मये ॥३॥
प्रार्थयेऽहमतः सौम्य पुनश्च भवतः क्षमाम् ।
उदारचेतसा श्रीमन् क्रियतां मय्यनुग्रहः ॥३९॥
निशम्य प्राञ्जलेस्तस्य वचनं नम्रचेतसः।
सस्मितः शङ्करोऽवादीत्तमाङ्ग्लेयाधिकारिणम् ४०
मदर्थे भवता चिन्ता नैव कार्य महोदय ।
कदापि नापराद्धं मे भवता हि मनागपि ॥४१॥

शक्करजीवनाख्यानम्। अहो निष्कासितः पूर्व नाभविष्यं यदि त्वया । आङ्ग्लभापानभिज्ञः सन्नजीविष्यं मुधैव हि ४२ तदा मे भवतः कृत्यं प्रत्यभादपकारवत् । वस्तुतस्तु त्वयादर्शि मयि भूयाननुग्रहः ॥ ४३॥ प्रथमे वयसि प्राज्ञैरभूवं यन्निराकृतः । तदेव मे शुभोदकं पर्यणसीत्सुदैवतः॥४४॥- इति प्रतिवदन्नाङ्ग्लं विधाय भृशविस्मितम् । हस्तेन हस्तमालम्व्य तेन मैत्री ववन्ध सः॥४५॥ प्रति सौ. समायाः पृतिपु शकरजीयनारयाने लोकसहरनियारणो नाम नवमोलासः॥ - ६२. . शङ्करजीवनाख्यानम् । '॥ दशमोल्लासः॥ अथ प्राचीनलेखानां शोधनोद्यमतत्पराः। श्रीभाण्डार्करतेलंगप्रमुखाः केचिदुत्थिताः॥१॥ न्यरुत्स्यन्तन चेदेतैर्लेखा निस्सरणादितः। अभविष्यन् वरग्रन्था वहिःकर्णपथादपि ॥ २॥ उहाधिता बुधास्त्वेते शङ्करस्य सदुक्तिभिः । लेखानन्वेषमन्वेपं शोधनानि प्रचक्रिरे ॥३॥ . अथ कैश्चिदसौ वर्भाषाणामनुपूर्वशः। विधाय शङ्करोऽभ्यासं वभूवानेकवाक्प्रभुः ॥ ४॥ चतुर्दशगिरां वेत्ता न्ययोजि प्रमुख पदे । मुम्यापुर्यामसौ प्राच्यभाषाणां परिवर्तकः ॥ ५॥ .

.
६३
शङ्करजीयनाख्यानम् ।
पदमेतदतिश्रेष्ठं मन्यते स्म पुरा जनः। .
पदासीत्कार्यभारोऽस्य पण्डितेतरदुर्वहः ॥ ६ ॥
ऋजुर्विस्पष्टवक्ता च विनीतः प्राज्ञपुङ्गवः।
शासकैः सत्यसन्धोऽयं पदयोग्योऽभिमानितः॥७॥
पदमुच्चमधिष्ठाय व्यवजहेऽधिकारिभिः ।
निर्भयं राजभृत्योऽपि देशकल्याणकाम्यया ॥८॥
यद्वदन्ति जना मानी सत्यवान्दुष्टवर्जकः ।
राजकीयपदे स्थातुं न शक्नोतीति तन्मृपा ॥९॥
शङ्करो हि महामानी नितरामनृताक्षमी।
दुष्कृतां परिपन्थी च पदे महति सुस्थितः ॥१०॥
संस्कृतानन्यवागार्थी ख्यातिलोभविवर्जितः।
अकरोदात्मनः कायं निखिलेनान्तरात्मना ॥११॥

--
शङ्करजीवनाख्यानम्।
रक्षिताऽनाथसाधूनां परिहर्ता च दुष्कृताम् ।
असोढाऽनृतवक्तृणामधृष्योऽभूत्स कर्मसु ॥१२॥
विदेश्य,वा खदेश्यं वा कामवृत्तिं स शङ्करः।
तपति स्म ऋजुर्वाचा प्रौढतेजोविशिष्टया ॥१३॥
अदोषे प्रहरिष्यन्तं हणमप्यधिकारिणम् ।
प्रतिरुध्य स वाग्वाणैरवति स्म निरागसम् ॥१४॥
शुभमावसथं प्राप्य सकुटुम्बः सुखी वसन् ।
शङ्करो बन्धुवात्सल्याहान्धवानप्यपोपयत् ॥१५॥
आसीदेकतमस्तेषां घनश्यामः सहोदरः।
मुम्बापुर्यामधीयानो विश्वविद्यालये क्वचित् ॥१६॥
आह्वयन्ननुजं प्रीत्या धनुरित्येकदेशतः ।
सदा साक्षापितेवास्य योगक्षेममुवाह सः ॥१७॥

शङ्करजीवनाख्यानम् । बहुकार्यनिमग्नोऽयमलब्धावसरोऽनुजम् । स्नानकाले यथायोगं शिक्षयामास नित्यशः॥१८॥ धर्मपत्नीमुपादेवीं स्पृशत्प्रथमयौवनाम् । खयं प्रावर्तयत्पाठे शिक्षणे सुविचक्षणः ॥ १९ ॥ अनत्यभ्यस्तविद्या सा सपनीसुतया ततः। आपुत्रप्रसवं विद्यामन्दिरं नियमादगात् ॥ २० ॥ अथास्य दुहिता कृष्णा वभूव प्राप्तयौवना । प्रदेयासाच कस्मैचित्सज्जनायेति चिन्तयन् ॥२१॥ शङ्करः सदरं यत्नादन्वेष्टुमुपचक्रमे । अथ विद्यार्थिनं कश्चित्सुविनीतं द्विजात्मजम् ॥२२॥ प्राप्य सत्कुलसम्भूतं दत्तात्रेयाह्वयं वरम् । प्रददौ विधिना तस्से कुमारी शोभने दिने ॥२३॥ J

शङ्करजीवनाख्यानम् ।
खभर्तुरसमाप्तत्वाद्विद्याभ्यासविधेरसौ
नवोढा वालिका कृष्णा न्यवसज्जनकालये ॥२१॥
यथापुरमसौ साध्वी पितृशुश्रूपणे रता।
विमातृजानपि स्निग्धा विनिन्ये सोदरानिव ॥२५॥
अचिरादथ तत्कालमेका संस्थापिताऽभवत् ।
संस्था श्रीरानडेभाण्डार्करशङ्करपूर्वकैः ॥ २६ ॥
आर्यधर्मप्रचाराय समाजस्य च शुद्धये ।
साप्रार्थनासमाजाख्या ख्यापितानव्यशिक्षितैः२७
ततः प्रागेव वङ्गेपु संस्थां श्रीराममोहनः ।
एकां ब्रह्मसमाजाख्यां प्रतिष्ठापितवान् सुधीः २८
तत्समाजमवष्टभ्य पूर्वोक्तैर्हि विनिर्मितम् ।
संभूयप्रार्थनाहेतोर्मुम्बापुर्या सुमन्दिरम् ॥ २९ ॥

६७ शकरजीवनाल्यानम् । मण्डलस्य नवीनस्य तत्वमासीत्सुमुख्यतः । मूर्तिपूजावहिष्कारो भ्रातृभावश्च सर्वतः ॥३०॥ स्त्रियश्च पुरुषाश्चापि प्रयताः शुभ्रवाससः। नियमात्प्रतिसप्ताहं समाजग्मुः समूहशः ॥ ३१॥ प्रार्थनामन्दिरं काले प्रार्थनाय जगत्पतेः। तथा सदुपदेशस्य श्रवणाय मनीपिणाम् ॥ ३२ ॥ प्राचीनसम्प्रदायस्थाः केचिच्चिप्लुण्करादयः । निनिन्दुःसमिति नव्यां पुरोभागित्वमाश्रिताः३३ तथाहि तेऽत्रुवन् भो भोः पश्यतेमान् विलक्षणान्। सर्वदेवान्धवम्लेच्छक्रिस्ताचारानुकारिणः॥३४॥ किं त्यागेन खदेवानां स्थापितानां गृहे चिरात् । किं गत्वा मन्दिरं शून्यं स्मरणाय जगत्पतेः ३५

६८
शङ्करजीवनाख्यानम् ।
नार्यों चितुमर्हन्ति खखगेहेष्ववस्थिताः ।
तुलसीवटसावित्रीदुर्गादिकुलदेवताः ॥३६॥
अथ तं विमतप्राज्ञं चिप्लुपकरमहाशयम् ।
शङ्करः कुशलो वादे प्रत्युवाच सदुत्तरम् ॥ ३७ ।।
अयं सनातनो धर्मो न पुनः कोऽपि नूतनः
देवं विश्वविधातारमेकमेव वयं स्तुमः॥३०॥
उत्सवेषु पुरा तद्वद्यागहोमार्चनेषु च ।
त्रियोऽपि मिलिता एव पुरुषैः संव्यवाहरन् ॥३९॥
अनादिकालमारभ्य प्रार्थनास्तुत्युपासनाः।
सम्भूयैव क्रियन्ते स्म प्रमाणं श्रुतिरेव नः॥४०॥
कण्वगोतमसन्तानाः संजग्मुः क्तमन्दिरम् । :
जगदीश्वरपूजार्थमिति हि श्रूयते कथा ॥ ११ ॥

शङ्करजीवनात्यानम् । यात्राश्च सह पत्नीभिः क्रियन्ते स्म समूहशः। अद्यापि सम्मिलन्ति स्त्रीपुरुपा हरिकीर्तने ॥४२॥ अतो नास्मसमाजेन किञ्चिदन्यदनुष्ठितम् । प्राचीनसंप्रदायस्य पुनरुज्जीवनाहते ॥ ४३ ॥ एवं हि शङ्करो विद्वान् प्रार्थनामन्दिरे मुहुः । निरस्यन् विमताक्षेपानिमां संस्थामसेवत ॥४॥ इति सी. क्षमायाः कृतिषु शहरजीवनाख्याने शहरप्रकृतिपर्णनो नाम दशमोल्लासः॥

शङ्करजीवनाख्यानम् ।
॥ एकादशोल्लासः॥
स्त्रीभिराग्लेयविद्यायाः शिक्षणं भूरिसाधकम् ।
इति खानुभवाजानन् प्रयेते तत्प्रसारणे ॥१॥
आङ्ग्लवाणीविदः पूर्व वर्षेभ्यः पञ्चसप्ततेः।
नावर्तन्ताङ्गनाः काश्चित्सुशालानामभावतः ॥२॥
एकैव कन्यकाशाला मुम्बापुर्यामभूत्पुरा ।
अल्पा एवाङ्गनास्तस्मादाङ्ग्लभाषाविदोऽभवन् ३
आङ्ग्लविद्यालयस्तादृक् कन्याभ्यः पुण्यपत्तने ।
निमेंय इति निश्चित्य शङ्करस्तीत्रमुद्यतः॥ ४ ॥
श्रीमान् वेडरवन्नाख्यो बभूव सचिवोत्तमः ।
हितैपीभारतीयानां खयमाङ्ग्लोऽप्युदारधीः ॥५॥

शङ्करजीवनाख्यानम् । सोऽयं विज्ञापितोऽर्थ च शङ्करेण विनिश्चितम् । कन्यामन्दिरनिर्माणं सपद्येवान्वमोदत ॥६॥ ददौ दश सहस्राणि रूप्यकाणामसौ मुदा । विद्याप्रचारसिद्धयर्थे महात्मा भारतप्रियः ॥७॥ प्रहृष्टः शङ्करश्चापि त्रिसहस्रमदात्खयम् । सञ्चिकाय ततः शीघ्रं सार्धलक्षं च लोकतः ॥८॥ सञ्चितेनाथ वित्तेन मित्राणां सहकारतः । विद्यामन्दिरनिर्माणे प्रवृत्तोऽभवदुद्यमी ॥९॥ पुण्यपत्तनमध्यस्ये हुजुर्वांगेतिसंक्षिते । निर्ममे मञ्जलोद्देशे विद्यागारं सुशोभनम् ॥१०॥ कस्मिंश्चिदिवसे पुण्ये शारदेन्दुविनिर्मले । वेदाष्टवसुचन्द्राव्दे होणे नवममासके ॥ ११ ॥ भनेन 10 संख्या दिया।

७२
शङ्करजीवनाख्यानम् ।
कन्याविद्यालयस्यासीत्प्रवेशसुमहोत्सवः ।
लौकिकानां सहस्राणां परमानन्ददायकः ॥ १२ ॥
अपूर्वा चाद्वितीया च खल्पकालेन चोत्थिता ।
संस्थेयं महदाश्चर्य लोकानामुदपादयत् ॥ १३ ॥
शिक्षणागारवाहुल्यादद्यत्वे विस्मयं जनः ।
न कोऽपि कुरुते दृष्ट्वा संस्थानिर्माणमीदृशम् १४
पुरा तु विरलत्वेन स्त्रीविद्याभ्यासपद्धतेः ।
प्रत्यभादद्भता संस्था शङ्करश्रमशंसिनी ॥ १५॥
अथैका समितिः कार्यनिर्वाहाय विनिर्ममे ।
मण्डिताऽनेकविद्वद्भिरन्यैरुत्साहिभिस्तथा ॥१६॥
श्रीरानडेप्रभृतिभिः समितेरधिकारिभिः ।
शङ्करस्तत्पदाहत्वात्संस्थासञ्चालकः कृतः ॥१७॥

शङ्करजीवनाख्यानम् ।
हन्त विश्वजनीनं तत्कार्यमझीचकार सः 1.
अवितर्कितवर्षान्तभाविक्लेशपरम्परः॥९॥
॥
.
तृणप्रायोऽपि वृत्तान्तः कदाचिद्दारुणो भवेत् ।
साधुश्च दोपहीनोऽपि जायेत क्लेशभाक् तथा १९
तथा हि निश्चितं सङ्घ संस्थाया वार्षिकोत्सवे.।
पारितोपिकदानेन प्रोत्साह्या बालिका इति ॥२०॥
श्रीसयाजीमहीपालो न्यमनि च वटोदरात् ।
अग्रासनमलङ्कतुं विद्वन्नृपपुरोगमः ॥ २१ ॥
अथ सज्जीकृते सम्यक्कार्यसञ्चालनक्रमे।
भल्लूकः शिवपूजायामिवालः कश्चिदागतः ॥२२
स हि लीवानराख्योऽभूत्तरुणो राजकिङ्करः ।
विद्याभ्यासविभागस्य प्रधानः पर्यवेक्षकः ॥ २३ ॥

७४ शङ्करजीवनात्यानम् । विद्वेष्टा भारतीयानां विदुषां तु विशेषतः । निर्धनानां निराकर्ता प्रतिष्ठावत्सु मत्सरी ॥२४॥ अथ किं नु विचित्रं चेद्विप्रकुर्यादयं शठः । अव्यापारेऽपि चापल्याझ्यापारं कर्तुमुत्सुकः॥२५॥ अयि भोः सूचनापत्रमयोग्यं प्रतिभाति मे । मदोन्मत्तैर्हि युष्माभी राजगीतं विवर्जितम् ॥२६॥ आदौ तबीयतां नो चेद्गापयिष्याम्यहं स्वयम् । इति सन्तर्जयामास शालाकार्याधिकारिणः ॥२७॥ व्याचल्यौ शङ्करस्तस्मै तद्विवर्जनकारणम् । गीतस्याश्रुतपूर्वस्वान्नियमानामवेदिनः ॥ २८ ॥ नोत्तिष्ठेयुः समं गीतेः कीर्तनावसरे जनोः । इति शङ्कासमाकान्तरस्माभिः सा विलोपिता २९

७५
शङ्करजीवनाख्यानम्।
इति वादिनि तत्त्वेन शङ्करे वानरोऽब्रवीत् ।
क्रियतां तर्हि भापायां राष्ट्रगीतेर्विवर्तनम् ॥३०॥
शङ्कर उवाच.॥
कथमाङ्ग्ला विजानीयू राष्ट्रगीति विवर्तिताम् ।
अनभिज्ञा हि ते देशभापाणामविशेषतः ॥३१॥
उत्तिष्ठेयुरतः केचिन्निपण्णाः स्युः परे तथा ।
मा भूत्सदसि विक्षोभ इति तत्खल्लु वर्जितम् ॥३२॥
विघ्नवीजमुपक्षिप्य प्रचलन्मंगलोत्सवे ।
सहसोत्थाय मत्तोऽयमगर्जद्वातुमुद्यतः ॥ ३३ ॥
समूहं चकितं दृष्ट्वा दृप्तस्य कपिचेष्टया।
चुक्रुधुः कार्यकर्तारः शङ्करेण पुरस्कृताः ॥ ३४ ॥

४ शङ्करजीवनाख्यानम् । कन्दुका इव पाश्चात्याः समुत्पेतुः स्वपीठतः। तदाचारविदः केचिदुत्तस्थुर्देशजा अपि ॥३५॥ इतिकर्तव्यमूढास्तु पौराः केचिद् गृहं ययुः। सम्मुग्धाः कीटवत्तस्थुः पीठलनास्तथाऽपरे ॥३६॥ व्यर्थयन्नधिकारेण प्रमत्तोऽसौ महोत्सवम् । दुर्मेधाः समिति सर्वामनैषीदुपहास्यताम् ॥३७॥ अतृप्तः कर्मणानेन द्विषाणो देशजान्मृदून् । कर्तुं भूयोऽपि विध्वंसं प्रवृत्तोऽभूदनागसाम् ३८ आङ्ग्लेये दैनिके पन्ने प्राकाश्यमुपनीतवान् । शङ्करनासनं लेखं निन्दनोक्तिपरिप्लुतम् ॥ ३९ ॥ अणुं च पर्वतीकुर्वन् राजद्रोहीति शङ्करम् । घोपयामास सर्वाग्लांश्चिकीर्षुस्तद्विरोधिनः ४० ७७ शङ्करजीवनाख्यानम् । अथैप क्षुद्रवृत्तान्तः सलिले तैलविन्दुवत् ।, विसर्पन सर्वतः शीघ्रं प्राप.रूपं भयङ्करम् ॥४॥ राजप्रतिनिधे राज्ञा ततः शङ्करमागमत् । राष्ट्रगीतविलोपस्य कारणं कथ्यतामिति ॥ ४२ ॥ प्रवृत्तेऽथ तयोर्मध्ये विवादे पत्रलेखनैः । मित्रानुमोदन प्राप्य शङ्करोऽदात्संदुत्तरम् ॥४३॥ परन्तु दुष्टसङ्कल्पैः कुटिलैरधिकारिभिः। कलुपीक्रियते हन्त साधोरपि मनःप्रभो ॥४॥ आङ्ग्लाधिकारिणो नूनं निपुणाः खार्थसाधने । तिले तालंहि पश्यन्तः करिप्यन्यधरोत्तरम् ॥१५॥ परपिण्डोपभुग यः स्यात्वतन्नः स कथं भवेत् । त्यक्त्वा मानापमानं च सोऽनुवर्तेत शासकम्॥६॥ ।

शकरजीवनाख्यानम् । आत्मनोऽभ्युदयार्थ वा खीयदेशहिताय वा । नहि स्वयं पराधीनः प्रवर्तितुमिहार्हति ॥ ४७ ॥ शङ्करस्तु. स्वतन्त्रोऽभूद्राजभृत्योऽपि सत्यवान् । अत एव वत व्याजैः पदान्निष्कासितोऽभवत् ४८ खजातिपक्षपातोऽयमहो आङ्ग्लाधिकारिणाम् । अन्याय्यस्य परां कोटिं श्रयन्ते यन्निरर्थकम् ॥४९॥ इति सौ. क्षमायाः कृतिपु शङ्करजीवनास्याने राजप्रकोपसमुत्थापनो नामैकादशोल्लासः ॥

शङ्करजीवनाख्यानम् ।
॥ द्वादशोल्लासः॥
तस्मिन् शुद्धात्मनि प्राज्ञे निरागसि निराकृते ।
उद्बभूव तदा लोके विक्षोभः सुमहत्तमः ॥१॥
धिगन्याय्यमिदं वृत्तमाङ्ग्लानां पक्षपातिनाम् ।
इति सर्वे निनिन्दुस्तान् शङ्करस्यानुकम्पया ॥२॥
चिराय वृत्तपत्रेषु प्रकाश्यन्ते स्म सर्वतः।
लेखाः शङ्करपक्षीयाः सत्यासत्यविवेचकेः॥३॥
अकाण्डसङ्कटे तस्मिन्नाकुलः शङ्करोऽभवत् ।
अदण्ड्यो दण्डितोऽस्मीति न तु सम्पद्विनाशतः४
सन्धानं युक्तमति मन्वानः प्राह रानडेः ।
सचिवस्य क्षमा मित्र प्रार्थयखेति शङ्करम् ॥५॥

८०
शङ्करजीवनाख्यानम् ।
विस्मितः सुहृदो वाचा शङ्करः प्रत्युवाच तम् ।
विजानन्नपि निर्दोपं कथमेवं ब्रवीपि माम् ॥६॥
स्वीकृतो ह्यपराधः स्यायस्तैरारोपितो मयि ।
'आत्मनोऽपि वरं भङ्गो न पुनः शिरसो नतिः ॥७॥
पतिं निर्विष्णमालोक्य स्वयं पर्याकुलाप्युषा ।
नियम्य निजसन्तापं.जगाद मधुरं वचः॥ ८॥
वृथैव मा शुचः कान्त प्रहारोऽयं हि दुर्विधेः ।
पातितस्त्वयि निदोंपे तव सत्त्वं परीक्षितुम् ॥९॥
अन्यथा हि कथं दोपस्त्वयि शुद्धात्मनि प्रिय ।
निर्व्याजे पापभीरौ च तादृगुत्थापितो भवेत् ॥१०॥
पदोन्नतिकृतैश्वयं शक्यते हि व्यपोहितुम् ।
सद्विद्यारूपमैश्वर्य.तव हतुं क्षमेत कः ॥ ११ ॥

शङ्करजीवनाख्यानम् ।
वेदार्थविशदीकाराद्यशः प्राप्तासि शाश्वतम् ।
करिष्यसि यथार्थं च पण्डितोपाधिमात्मनः ॥१२॥
त्वमेव ननु जानासि सत्यस्यैवान्ततो जयः।
यदद्य दुस्सहं भायाचदन्ते मङ्गलाय नः॥ १३ ॥
अलं वृथा विपादेन हृदये धैर्यमाश्रय ।
मत्वा दुःखप्तमेवैतं वृत्तान्तं विस्मराथवा ॥१४॥
युवत्या सान्वितः पत्या तन्दिरा विस्मितोऽभवत् ।
शिथिलीकृत्य शोकं च प्रत्यभापत शङ्करः॥१५॥
उपे सत्यं ब्रवीपि त्वं सूक्तिस्ते सुखदा मम ।
उपामन्दानिलस्पर्शो यथा सवरितात्मनः ॥१६॥
मया कृतमुपानाम स्वयेदं सार्थकीकृतम् ।
मन्ये कृतार्थमात्मानं चरितेन तवेदशा ॥१८॥

.८२ शङ्करजीवनाख्यानम् । वचनानि तव श्रुत्वा युक्तानि मधुराणि च । दुःसहोऽपि मया क्लेशो विस्मर्तव्यो हि सर्वतः१९ मया सहोपभुज्यापि सुखानि विभवोत्तरम् । समदुःखसुखा नूनं खेदमल्पीकरोपि मे ॥२०॥ सङ्कटे निस्पृहा प्रीतिर्यस्या धैर्यमनश्वरम् । यस्या नास्ति हितादन्यल्पयुः सैव पतित्रता ॥२१ पश्यन्नपि च ते धैर्य जह्यां शोकं न चेदहम् । लज्जाकरमिदं मे स्याल्लघुचेतोनिदर्शकम् ॥ २२ ॥, दैवयोगाद्यदि प्राणास्त्यजेयुम कलेवरम् । किं करिष्यसि सापत्या स्वल्पसंभारसंयुता ॥२३॥ अनयैव दिवारानं चिन्तया गिलितोऽस्म्यहम् । शिक्षणं नहि वालानां सुसाधं स्याद्धनं विना २४ uA

शङ्करजीवनाख्यानम् ।
अदृष्टपूर्वकार्पण्या न जानासि मनागपि ।
निर्धनस्य महत्कष्टं जीवनं चातिदुःखदम् ॥२५॥
अथ वाऽलं विचारेण हितायेव हि देहिनाम् ।
सर्व भविष्यतीत्येव करिप्ये संस्कृते श्रमम् ॥२६॥
दातुं मेऽवसरं मन्ये कर्मणीह चिकीर्पिते ।
विधिरेव शुभाशंसुस्त्याजयामास मां पदम् २७
अवेदं पूर्वमेवाहं यद्यशो राजसेवया।
न कदापि मया लभ्यं परिश्रम्यापि भूरिशः ॥२८॥
उकं हि पूर्वजेः प्राज्ञः श्रेष्टवृत्तिः कृषीवलः।
वाणिजो मध्यमो वृत्त्या कनिष्टः परसेवकः ॥२९॥
एकमात्रोऽभविप्यञ्चेदहास्यं राजशृङ्खलाम् ।
खयमेव चिरात्पूर्व देववाणीमुपासितुम् ॥ ३० ॥

शङ्करजीवनाख्यानम् । त्वामहं पुत्रिणीं पश्यन् स्थितोऽस्मि विनियत्रितः। तथा हि श्रूयते गाथा यदवार्य सहेत तत् ॥३१॥ बहुधा चिन्तयत्यस्मिन् पूर्वकार्याद्विनिर्गते । पदमेकं ततोऽल्पीयं शासको दातुमिष्टवान् ॥३२॥ स्वीकरोमि यदि क्षुद्रं पदं यास्यामि लाघवम् । इति वर्षद्वयः कार्यात्स विश्रान्तिमयाचत ॥३३॥ अथानुमोदिते तस्य विश्रामे राजकार्यतः। त्यक्त्वा मुम्बापुरी सद्यः प्रययौ पुण्यपत्तनम् ३४ इति सौ. क्षमायाः कृतिषु शङ्करजीवनाख्याने चिन्तासन्तानवर्णनो नाम द्वादशोल्लासः॥

शकरजीवनाख्यानम् ।
त्रयोदशोल्लासः ॥
आश्वास्यापि प्रियामेवं तत्सन्तापजिहीर्पया।
खयमन्तर्विषण्णोऽभूत्प्रसन्नो नाम वाह्यतः ॥१॥
नियन्तुं यतमानोऽपि शुचमन्तर्गतां पराम् ।
अक्षमः सन् कृशाहोऽभूज्वरितश्चिन्तयाऽनिशम् २
चिरादस्य खभावज्ञो महात्मा रानडेः सखा ।
क्षीयते प्रत्यहं खेदादित्यवेदीदसंशयम् ॥३॥
अत्रान्तरे नियुकोऽभूद्रानडेः सिमलागिरौ ।
केपुचिद्राजकार्येषु राष्ट्रकोशानुवन्धिषु ॥ ४॥
तवस्यं परित्यक्तुं शहरं जीवितप्रियम् ।
अनिच्छू रानडे(सान्मृदु वाचा जगाद तम् ॥५॥

-
शकरजीवनात्यानम् ।
सखे याहि मया साकं सिमलां सकुटुम्बकः ।
कार्यान्तेऽनुदिनं कालं नेष्यावः सर्वथा समम् ६
रमणीयप्रदेशेषु तुहिनाचलसन्निधौ ।
सर्वतः कुशलं ते स्यात्प्रवासे हि महान्गुणः ॥७॥
कृतज्ञः शङ्करोऽवादीद्वाढमेष्यामि केवलः ।
गमिष्यति द्वितीया मे सार्भका पितुरालयम् ॥८॥
अथ सोलापुरं पत्नी सापत्यां प्रेष्य शङ्करः ।
श्रीरमामाधवार्याभ्यां प्रतस्थे सिमलागिरिम् ॥९॥
अहो साध्व्या रमादेव्याःप्रवासस्य कथा शुभा।
मातृवाचा तथा घद्धा शोभते सुमनोहरा ॥१०॥
वान्धवानां च भृत्यानां सहासीत्पञ्चविंशतिः ।
जग्मुः केचन सेवार्थमन्ये देशं दिदृक्षवः॥११॥

w महादेव गोविंद रानटे शंकर पांढरंग पंरिन.

१
शकरजीवनाख्यानम् ।
रमया रञ्जितावास्तां मार्गे माधवशङ्करौ ।
सीतया राघवौ पूर्व यथा पञ्चवटीपथि ॥ १२ ॥
पश्यन्तो विविधान् देशान् खादयन्तः फलानि च।
कथालापविनोदेन निन्युर्दिनचतुष्टयम् ॥ १३ ॥
अम्बालानगरं प्राप्ताः प्रत्यूपे धूमयानतः।
तुरहरथमारूढाः प्रचेलुः पुरतस्ततः॥ १४ ॥
अवतेरुः परिश्रान्ता मध्याहे कालिकापुरे ।
ईक्षितुं किञ्चिदुद्यानमुडीयानामतः श्रुतम् ॥१५॥
इदं पुष्पवनं रम्यं रमामसारयदलात् ।
कादम्बरीगतं दिव्यं वनोद्देशस्य वर्णनम् ॥१६॥
अत एव निजग्रन्थे प्रियस्मृतिमनोहरे ।
वर्यते हि रमादेव्या तदुद्यानावनी यथा ॥१७॥

शकरजीउनाल्यानम् ।
बृहतः पादपस्याधस्तले प्रच्छायशीतले ।
विश्रामायोपविष्टाभूजनानां पञ्चविंशतिः ॥ १८ ॥
श्रूयते स विहङ्गानां सर्वतो मञ्जुकूजितम् ।
नित्यनादेन सम्भिन्नं निर्झराणामितस्ततः ॥१९॥
सेवमानाः सुखस्पर्श गन्धवाहं सुशीतलम् ।
मन्दसूत्कारमधुरं कुसुमामोदहारिणम् ॥ २० ॥
हस्खमेकं ततं दृष्ट्वा फलभारसमन्वितम् ।
रसालं मन्यमानां तामवादीच्छङ्करो रमाम् ॥२१॥
नायमाम्रद्रुमो भद्रे पेरनाम्ना तु विश्रुतः।
आस्वादितं फलं तस्य विदेशे वहुधा मया ॥२२॥
मुहूर्तमथ विश्रभ्य शिविकायानमाश्रिताः।
आरोहन्नभिपश्यन्तः सौन्दर्य सिमलागिरेः ॥२॥

शक्करजीवनाख्यानम् ।
अथाष्टवादने रात्रौ शैलशृङ्गमुपागताः ।
प्रासादं भाटकेनाप्तमर्चिदेशपतेर्ययुः ॥ २४ ॥
चत्वारिंशजनावासपर्याप्तं तनिकेतनम् ।
रम्यसौधतलोपेतं दर्शनीयहिमाचलम् ॥२५॥
मा विषण्णो भवत्वार्यः शङ्करः पुनरेककः ।
इति भर्तुः समीपे तं वासयामास गेहिनी ॥२६॥
तथापि नहि विस्मर्तुं नवक्लेशं शशाक सः।
बहुधा चिन्तयाक्रान्तं रानडेः पश्यति स्म तम् २७
नैच्छदेकाकिनं हातुं दयालुस्तं सुहृन्मणिम् ।
यावच्छक्यमहोरात्रं तेन साधं निनाय सः ॥२८॥
शयितावेकपर्यके निशायां भोजनोत्तरम् ।
अनेकनिभृतालापेरप्रीयेतां परस्परम् ॥ २९ ॥

शङ्करजीवनाख्यानम् ।
समाप्य गृहकार्याणि विशति स्म रमाम्विका ।।
दुग्धपात्रद्वयं हस्ते दधाना तत्प्रकोष्ठकम् ॥ ३० ॥
अथालोक्य प्रहृष्टौ तौ साध्वी साप्राह सस्मितम्।
ननु वां सर्वरात्रोऽपि न पर्याप्नोति गोष्टये ॥३१॥
उत्थाय शयनादाशु प्रहसन् शङ्करोऽब्रवीत् ।
किमुल्लासकर भानुं वासरो हातुमिच्छति ॥३२॥
खभा निर्गमिष्यन्ती प्राह चन्द्रोऽयमुत्थितः।
आनिशान्तमिदानीं त्वां स एवोल्लासयिष्यति ३३
हिमाद्रेरनिलेन त्वं सेव्यमानः सुहृन्मणे।
सुखेन वालवजोपमेको निद्रातुमर्हसि ॥ ३४ ॥
ततः परेधुरारभ्य कल्पयामासतुः क्रमम् ।
दम्पती दिनचर्यायाः शङ्करस्यानुरञ्जकम् ॥ ३५ ॥

शङ्करजीननाख्यानम् । ९१ निजकार्यालयं यास्यन् ददौ मित्राय रानडेः । घटिकात्रयनिर्वत्यं व्यासङ्गं लेखनादिकम् ॥३६ ।। प्रत्यागतो गृहं प्राह रानडेः सुहृदां वरम् । इयचिरं त्वया ब्रूहि किं कृतं मदसन्निधौ ॥३७॥ शङ्करः प्रत्युवाचैनं यदुक्तं तदनुष्ठितम् । शंस मेऽद्यतनं वृत्तं कार्यालयगतं सखे ॥ ३८॥ इत्यादिलघुसंलापैर्वहिविहरतोस्तयोः। स्वयं मध्ये प्रसर्पन्ती नन्दति स्म रमान्वहम् ॥३९॥ प्रत्यागतेषु सर्वेपु गृहमस्तमिते रखो। पपाठ शहरः कश्चिद्वन्थमुच्चैर्मनोहरम् ॥१०॥ सुहृदोऽस्य सदुच्चारं स्निग्धगम्भीरपाठिनः। अभिनन्दन रमाकान्तःशृणोति स्म मुदान्वहम् ११

शङ्करजीरनाख्यानम् ।
अध्यायमसमाप्यैव विरतः पठनादसौ।
प्राप्ता भोजनवेलेति हसन जोपमुपाविशत् ॥४२॥
शिथिलाङ्गमुपासीनं लालयन्नाह रानडेः।
पठ्यतां पठ्यतामग्रे किमिदं वालचेष्टितम् ॥४॥
ततश्च प्रार्थितो भूयः पठित्वा किञ्चिदेव सः ।
पृच्छति स्म क्षुधार्ताय देहि भद्रेऽन्नमाशु मे ॥४॥
विनोदवचनैरेवं प्रविष्टौ भोजनालयम् ।
गृहिण्या सेव्यमानौ तौ भुनाते स्म सुभोजनम् ४५
उपाविशततः पीठे भोजनाय रमा स्वयम् ।
शङ्करस्य मिताहारं पश्यन्ती जननीव सा॥४६
अथ कैश्चिदहोरात्रैर्वयस्यः प्राह माधवः ।
अपि ते विद्यते मेधा नवमद्यापि शिक्षितुम् ॥४७॥

शङ्करजीवनाख्यानम् ।
प्रश्नहेतुमवुद्धासौ शङ्करोऽस्थान्निरुत्तरः।
पुनःप्राह रमानाथो नातिदूरमितः सखे ॥१८॥
कुसुमाद्री कृतावासा काचिदस्ति कुलाङ्गना ।
अध्यापयितुमत्रस्यान् स्वभाषांफ्रान्सदेशजा ॥४९॥
यदीच्छेः पाटवं प्रातुं मुदा त्वां पाठयिप्यति ।
ज्ञानकोशे नवं रत्नं भूयः सम्भृत्य मोदसे ॥५०॥
तदारभ्य किलाभ्यास महोत्साहन शङ्करः ।
होरात्रयं करोति स्म प्रत्यहं शिक्षितस्तया ॥५१॥.
यलेन प्राप्तनैपुण्यो वाचि मासचतुष्टये ।
विस्मृतप्रायसलेशः प्रसन्नः शङ्करोऽभवत् ॥५२॥
फ्रेन्चवामयसम्पत्त्या सन्तुष्टं सुहृदं पुनः।
पश्यन्तीसारमादेवी सविनोदं जगाद तम् ॥५॥

शङ्करजीवनाल्यानम् ।
मिताहारोऽपि पुष्टोऽभूत् फ्रेन्चवाक्सुधया भवान्।
तन्मन्ये शिक्षिकां धन्यां भिपरत्नातिशायिनीम्५४
निशम्य शङ्करः प्रीतो रमादेव्याः शुभं वचः ।
प्रत्युवाच सदा भद्रे भवती प्रियभापिणी ॥५५॥
धन्योऽहं यद्रमादेवि सुहृदौ प्राप्तवानहम् ।
माधवं भवतीं चापि प्राणेभ्योऽप्यधिकप्रियौ॥५६॥
तवाशीर्वचनैः साध्धि शुभं सर्वं भविष्यति ।
माधवस्य च वात्सल्ये ममात्मा संप्रसीदति ॥५७॥
सस्मितं प्राह सा नूनं माधवस्ते सुतः प्रियः ।
प्राणिनां
खल
सर्वेपामपत्यं स्नेहबन्धनम् ॥५८॥
उवाच शङ्करः पुत्रो माधवो मे न चिन्तितः।
मित्ररत्ने हि मे चेतो निमग्नं माधवेऽधुना ॥ ५९॥

९५
--
शङ्करजीवनाख्यानम् ।
शैशवे सुखदः पुचो चाललीलाप्रजल्पनैः।
प्रयच्छति सदानन्दं माधवस्तु सुहृन्मणिः ॥६॥
सदा मदीयमित्रस्य गुणेरनुकरोत्विति ।
सुतं माधवनामानमकार्ष हितकाम्यया ॥ १ ॥
नहिसा शिक्षिकास्तुत्या न त्वं निन्द्यासि भोजिका
तस्य पुष्टिस्तदायत्ता बुद्धिपोप्याः सुवुद्धयः ॥२॥
इत्युक्ते माधवेनासौ शङ्करः प्रत्यभापत ।
सत्यमाह भवान् बुद्धया युवयोरस्मि पोपितः॥६॥
युवां हि कारणीभूतो महत्तमसुखस्य मे।
कियदल्पोऽद्य मे भाति छेशःप्रागतिदुस्सहः॥६॥
इत्यादिभिः कथालापेर्मासास्ते क्षणवद्ययुः ।
समाप्तिमगमत्कार्य माधवस्यापि राष्ट्रियम् ॥६५॥

९६ शङ्करजीवनाख्यानम् । ततः प्रास्थानिकं सर्व समाप्य सिमलागिरेः। प्रदोपे निर्ययुः सर्वे शरदिन्दुमनोहरे ॥ ६६ ॥ इति सौ. क्षमायाः कृतिपु शङ्करजीवनाख्याने श्यामला- गिरिनिवासवर्णनो नाम त्रयोदशोल्लासः॥

९६ शङ्करजीवनाल्यानम् । ततः प्रास्थानिक सर्व समाप्य सिमलागिरेः । प्रदोपे निर्ययुः सर्वे शरदिन्दुमनोहरे ॥ ६६ ॥ इति सौ. क्षमायाः कृतिपु शङ्करजीवनारयाने श्यामला- गिरिनिवासवर्णनो नाम त्रयोदशोल्लासः॥

शङ्करजीवनात्यानम् ।
॥ चतुर्दशोल्लासः ॥
सुहृन्मणिद्वितीयोऽसौ निवृत्तः शङ्करो गिरेः।
निवासमग्रहीदल्पं कुटुम्बी पुण्यपत्तने ॥१॥
विश्रान्तिकालशेपेऽथ त्यक्तकार्यान्तरो मुदा ।
शोधनेऽथर्वमत्राणामभवन्निरतः पुनः ॥२॥
नानादिग्देशतः प्रातः श्रुततन्मतिवैभवैः ।
मन्दिरं पण्डितैः पूर्ण दृश्यते स दिवानिशम् ॥३॥
विद्वज्जनगुणग्राही देववाणीध्वनिप्रियः ।
चकार स्वागतं तेभ्यो गुरुलाघववर्जितम् ॥६॥
नानाप्रश्नोत्तरालापैः परमानन्दतुन्दिलः ।
निनाय पण्डितैः कालं खाहारमपि विस्मरन् ॥५॥

शङ्करो वेदिकविन्द्वन्मुसादध्ययन शृणोति ॥ -

शक्करजीवनाख्यानम् ।
पुरातनपुरे तस्मिन् परिपत्परिकल्पिता।
नाना व्याख्यानमालेति जिज्ञासुजनमण्डिता १२
चभापे शङ्करस्तत्र श्रद्धावेशसमन्वितः।
लोकोदोधकरानान् वेदशास्त्रनिवन्धनान् ॥१३॥
अथ कार्यवशात्तस्य चिरदृष्टः सुहृन्मणिः ।
आययौ सहसा तत्र श्रीमान्माधवरानडेः ॥१४॥
अस्मद्याख्यानमालायां कर्तुमर्हथ भापणम् ।
इति स प्रार्थितः पोरैरुपेत्य प्रत्युवाच तान् ॥१५॥
अहो वः सन्निधौ साक्षाद्देवगना यदा स्थिता ।
किमागमेन युष्माकं तदीयोपनदी प्रति ॥ १६ ॥
प्रशंसावचनैरेवं व्यायामास रानडेः।
विद्वत्त्वे गोरवं सख्युरद्वितीयं गुणप्रियः ॥ १७॥

शङ्करजीवनाख्यानम् । अथ वर्षद्वयान्तेऽसौ नियुक्तोऽभूत्वकर्मणि । अहमदनगर्याख्ये तत्पूर्वालोकिते पुरे ॥ ६ ॥ इतिहासप्रसिद्धेऽस्मिन्नगरे विद्वदागमम् । हर्षादुत्प्रेक्षमाणोऽसौ स्त्राधिकारं गृहीतवान् ॥७॥ महाराष्ट्रगिरोद्धारात्कीर्तिरस्य यशखिनः । श्रूयते स्म चिराल्लोकैरहमदपुरस्थितैः॥८॥ श्रुत्वा तमागमिष्यन्तं पौरा मुमुदिरे भृशम् । एप लोकहितं कर्ता सर्वथेति विनिश्चिताः॥९॥ नगरे प्राप्तमात्रोऽयं जनैरामनितोऽभवत् । क्वचित्संभाषणं कर्तुं महाराष्ट्रीयसंसदि ॥ १० ॥ सुव्याख्यानं ततस्तस्य श्रुत्वा नानार्थवोधकम् । पुनश्च श्रवणे तृष्णामदधुः पुरवासिनः ॥ ११ ॥ ।

शकरजीवनाख्यानम् ।
पुरातनपुरे तस्मिन् परिपत्परिकल्पिता ।
नाम्ना व्याख्यानमालेति जिज्ञासुजनमण्डिता १२
वभापे शङ्करस्तत्र श्रद्धावेशसमन्वितः।
लोकोद्दोधकरानर्थान् वेदशास्त्रनिवन्धनान् ॥१३॥
अथ कार्यवशात्तस्य चिरदृष्टः सुहृन्मणिः ।
आययौ सहसा तन श्रीमान्माधवरानडेः ॥१४॥
अस्मद्व्याख्यानमालायां कर्तुमर्हथ भापणम् ।
इति स प्रार्थितः पौरैरुपेत्य प्रत्युवाच तान् ॥१५॥
अहो वः सन्निधौ साक्षाद्देवगङ्गा यदा स्थिता ।
किमागमेन युष्माकं तदीयोपनदी प्रति ॥ १६ ॥
प्रशंसावचनेरेवं व्यायामास रानडेः ।
विद्वत्त्वे गोरवं सरयुरद्वितीयं गुणप्रियः ॥ १७ ॥

..
शकरजीनाल्यानम् ।
अथ व्याख्यानमालायामारेभे शङ्करः क्रमात् ।
महाराष्ट्रीयभाषायां भापणानि दिने दिने॥१८॥
वेदे वद्धादरोऽत्यन्तं चक्रे प्रथमभाषणम् ।
अस्मद्वेद इति ख्यातं विषयं परिगृह्य सः ॥१९॥
जगतः प्रथमो ग्रन्थः सोऽयं वेद' इति श्रुतः।।
अभावेऽपि लिपीनां यः पारम्पर्येण रक्षितः ॥२०॥
न कोऽपि भुवि देशोऽन्यस्सदृशग्रन्थभूपितः। .
तथाप्यल्पे विजानन्ति रत्नमेतदनुत्तमम् ॥ २१॥
वोधन्तोऽपि जनाः केचिद् वेदानां परमार्थ्यताम्।
अहो तिष्ठन्त्युदासीना ननु शोच्यमिदं भृशम् २२)
धन्यधन्यो जनो येन दिव्यकोशचतुष्टयम् ।
'परस्सहस्रवर्षेभ्यो यत्नेन परिपालितम् ॥ २३ ॥

।
..
शङ्करजीवनाख्यानम्।
१०१
अतो धन्यतमा विप्रा येषां वनसरोजतः।
श्रूयमाणा गिरो दिव्या लोकानामुपचक्रिरे ॥२४॥
नासील्लेखनसौकर्य न वा मुद्रणवैभवम् ।
अतः संरक्षणं तस्य वभूवात्यन्तदुष्करम् ॥ २५॥
खरेषु स्खलितं मा भूदिति श्रुतिगणं द्विजः।
यथाविधि मुखे कृत्वा भक्त्या खयमधारयत् ॥२६॥
एतादृशनिधेोता सर्वलोकोपकारकः ।
न किमर्हति धन्योकिं निरन्तरमिह द्विजः ॥२७॥
अनादिकालमारभ्य श्रुतीनामभिरक्षणात् ।
नृपेण सत्कृतः सोऽभूजनैरन्यैश्च-पूजितः ॥२८॥
न प्रशंसामिदं मेने शङ्करो द्विजवर्णनम्।
न सवर्णाभिमानेन श्रद्धयैव तथाब्रवीत् ॥ २९ ॥

१०२
शङ्करजीवनाख्यानम् ।
विद्यन्ते भारतीयेषु भूयांसो ब्राह्मणद्विपः ।
न ते श्रद्धान्विता वेदे न वा तद्गुणवेदिनः ॥३०॥
शङ्करस्य महोत्साहं दधुरल्पे हि मानवाः ।
कुशलक्षत्रियादन्यः कः स्यात्खड्गमहत्त्ववित् ॥३१॥
को वाऽपरो वणिकपुत्राद्वणिज्यामर्मविद्भवेत् ।
तन्न चित्रमनेके स्युलोंके श्रुतिपराङ्मुखाः॥३२॥
अर्थ तवेदसम्बद्धं शङ्करस्य सुभापणम् ।
जनस्य हृदये स्थानं सपदि प्रत्यपद्यत ॥ ३३ ॥
सम्प्रार्थितः पुनः पौरैर्भाषणाय स कोविदः ।
यज्ञोपवीतमाहात्म्यं सप्रमाणमवर्णयत् ॥ ३४॥
यथा त्रैवर्णिको यज्ञं यजते स्म पुरा जनः।।
पावनोऽयममोघोऽयमिति श्रद्धासमन्वितः॥३५॥

शङ्करजीवनाख्यानम् ।
सूत्रं यज्ञसमारम्भे धार्यते स्म द्विजातिभिः।
कर्मानुष्ठानयोग्यत्वसिद्धये जागराय च ॥ ३६ ॥
अद्य सप्रतिवन्धोऽयं यज्ञः सूत्रं तु रक्ष्यते ।
कर्तव्यज्ञापनार्थाय न चिह्वाय द्विजन्मनः ॥३७॥
इति श्रद्धाय माहात्म्यं तत्सूत्रं यदि धार्यते ।
द्विजः प्रवृत्तिशीलः स्याद्विन्देच्च हितमात्मनः॥३८॥
अथान्यस्मिन् दिने चक्रे भापणं शङ्करः पुनः ।
किमाग्लेभ्योऽवयोद्धव्यमिति वस्तु समाश्रितः
गरीयांसः किलाङ्ग्लेयाःप्रायो भारतलोकतः।
तद्देशे हि कृतावासो वक्तुमेतत् क्षमोऽस्म्यहम् ४०
तदीयराष्ट्रसम्पत्तेस्तदुत्कर्षस्य च क्षिती।
हेतुः सर्वप्रजावर्गे साधुविद्याप्रचारणा ॥ ११ ॥

१०४ शङ्करजीवनाख्यानम् । सुशिक्षिततरा ह्याङ्ग्लाः खदेशस्याभिमानिनः ।। अन्योन्यहितकारः सत्यसन्धाश्च धार्मिकाः ४२ सर्वेऽप्येते गुणाः पूर्व भारतीयानभूपयन् । देशे वधोगति प्राप्ते सद्गुणास्ते तिरोऽभवन् ॥४३॥ आङ्ग्लप्रामाणिकत्वस्य ब्रवीम्येकं निदर्शनम्। . येनान्येऽपि प्रतीयेरन्गुणाः स्थालीपुलाकवत् ४४, अटन् कतिपयाब्देभ्यः पूर्वमाङ्ग्लेयभूमिपु । सत्यचारित्रमेकस्य श्रुत्वाहं विस्मितोऽभवम् ॥१५॥ धनिकः स महानासीदाङ्ग्लो भूरिधनागमः। न्यायतस्तेन दातव्यं भूरिशुल्कमितिस्थितम् ॥४॥ किन्तु शुल्कग्रहस्थाने. प्रमादादधिकारिणाम् ।। स लेखतः समादिष्टः प्रदातुं शुल्कमल्पकम्॥४॥ . .

१०५
शङ्करजीवनाख्यानम् ।
एतेन सुवहुद्रव्यं रक्षितं मे भविष्यति ।
अप्रकाशितमर्थ मे न विद्युरधिकारिणः ॥४८॥
इति ज्ञात्वापि सत्यात्मा लाभमन्यायदूपितम् ।
नाभिमेने विपस्पृष्टां सुधामिव जिजीविपुः ॥४९॥
शुल्काधिकारिणे स्वीयं पारमार्थिकमागमम् ।
निवेद्य दर्शयामास स्खलितं लेखमुद्रितम् ॥५०॥
ततः शुल्कमनेनाभूद्देयं शतगुणोचरम् ।
शुल्को देशहितायेति प्रमोदेन ददौ हि सः॥५१॥
अहो भारतवर्षेऽस्मिन् कियन्तः सन्ति तादृशाः।
अलोभवृत्तयः सत्यव्रता राष्ट्रहितैपिणः ॥ ५२ ॥
शुल्काधिकरणे तत्र प्रधानपदवर्तिना।
बहूनां वचनावृत्तिः शोचनीया मयेक्षिता ॥ ५३॥

शङ्करजीवनाख्यानम् ।
इति वान्धवदोषज्ञो वर्णयामास शङ्करः ।
तदीयकुहनाश्चित्रा निजानुभवगोचराः ॥ ५४ ॥
अथोपनिषदः सूक्तेभों उत्तिष्ठत जाग्रत । .
इत्यादिपदगुम्फाया व्यख्यानमकरोत्परम् ॥ ५५ ॥
अयि भोः श्रूयतामार्याः सुप्ताः किल वयं स्थिताः ।
अद्यावधि जगद्वृत्तं न ह्यजानीम वस्तुतः ॥ ५६ ।।
अस्मासु निद्रितेष्वेवं प्रचलुरितरे जनाः ।
तस्मादुन्मील्य नेत्राणि वहिरीक्षामहै क्वचित्॥५७॥
यो हि कालानुगुण्येन प्रगति नानुवर्तते।
स देशो भ्रष्टकल्याणः सुदूरमवहीयते ॥ ५८ ॥
परःसहस्रवर्षेभ्यो नानादेशसमुद्भवः।
इतिहासो न चास्माभिः प्रमत्तैरुपलक्षितः ॥ ५९॥

१०७ शङ्करजीननाख्यानम् । प्रतीकार्यः प्रमादोऽयं भारतीयैः सुशिक्षितैः। इति ज्ञात्वा स्वकर्तव्यं शीघ्रमुत्थाय जायत ॥६०॥ इत्थमार्जवसम्पन्नैर्हृदयग्राहिभापितैः। जनमुत्तेजयामास देशाभ्युदयसाधने ॥ ६१ ॥ सर्वतः श्रूयतेऽद्यत्वे वाक्यजालं किलेदृशम् । तदात्वे तु नवीनत्वादभवत्कौतुकास्पदम् ॥ १२ ॥ इति सौ. क्षमायाः कृतिषु शहरजीवनात्याने व्याख्यान विलासो नाम चतुर्दशोलासः॥

१०८
शकरजीवनाख्यानम् ।
॥ पञ्चदशोल्लासः॥
.
आसीद्यज्ञेश्वरो नाम पुरे तस्मिन्महाशयः।
स चके शङ्करं मित्रं गुणज्ञः परमादरात् ॥१॥
लेखेष्ववर्णयत्सोऽयं तस्य शारीरसम्पदम् ।
तथा हि स कृशाङ्गोऽभून्नातिप्रांशुर्न वामनः ॥२॥
विद्वत्तारुणविद्योतो वभौ तस्य मुखाम्बुजे।
नैसर्गिकं च तेजोऽन्यद्दीप्यते स्म विलक्षणम् ॥३॥
उग्रता तन्मुखे नासीत्तथापि विकटप्रभा ।
दृढसङ्कल्पवीर्योत्थां व्यनक्ति स्म मनखिताम् ॥४॥
वक्तृता महती नास्य न वा तारः खरोदयः।
तथापि युक्तिभिर्वाचां वशीचक्रे वशी जनम् ॥५॥

शङ्करजीवनाख्यानम् ।
तन्मुखास्निग्धगम्भीरा प्रसन्नसुमनोहरा ।
निर्झरस्य झरीवोक्तिनिःससारं निरर्गलम् ॥६॥
तदीयभारती यूनां महोत्साहमजीजनत् ।
हृदि प्रौढवयस्कानां पूज्यबुद्धिं च भूयसीम् ॥७॥
पुरे तत्र कृतावासस्ततो लोकहितेच्छया ।
सामाजिकेपु कार्येषु प्रवृत्तः शङ्करोऽभवत् ॥ ८॥
समाजस्य परिष्कारं विमतध्वंसपूर्वकम् ।
चिकीर्षुर्वाधयामास पौरजानपदान् यथा ॥ ९ ॥
सुधारकेण भो आर्याः प्रजाहितचिकीर्षुणा।
जनापवादसत्रासः परित्याज्यो हि दूरतः ॥१०॥
ध्येयमेव पुरस्कृत्य स चेष्टेत. खकर्मसु ।
जलक्केशभयं हित्वा तितीऍखि निम्नगाम् ॥११॥

शङ्करजीवनाख्यानम् ।
आजग्मुरेकदा केचिन्मतं जिज्ञासवो मम ।
पष्टिवीयवृद्धेन वालिकोद्वाहनं प्रति ॥ १२ ॥
असाम्ययोजनामेतामचिरादेव भाविनीम् ।
रुरुत्सवोऽपि ते धैर्य न दधुः कर्मणीशि ॥१३॥
श्रुतनिःशेयवृत्तान्तः समये तानुपादिशम् ।
यदि सघटनामेनां वेत्थानर्थकरी परम् ॥ १४ ॥
'सर्वथा सा निरोद्धव्या विचारेण किमत्र वः।
मन्तव्याः पापिनो यूयं यदि तूष्णीमवस्थिताः १५
तन्निरोधे प्रवृत्तानां यदि दण्डः पतेदपि ।
युष्माभिर्नहि भेतव्यं न च स्थेयं पराङ्मुखैः ॥१६॥
मतमेतन्मम श्रुत्वा विवाहं ते न्यवारयन् ।
युष्माभिरपि कर्तव्यं तथैव सति सम्भवे ॥ १७॥

शङ्करजीवनात्यानम् ।
प्राचीनाचारभूयिष्ठं दृश्यते नगरं हि वः ।
तत्र रक्ष्यः सदाचारो लोकोत्कर्पप्रसाधकः ॥१८॥
दृश्यते तु वहोः कालात्प्ररूढा सम्प्रदायतः।
वृत्तिः सामान्यलोकेषु कुत्सिता होलिकोत्सवे १९
हठाद्वर्णोदकक्षेपः साक्रन्दमुखताडनम् ।
इत्यादि चेष्टितं नृणामसभ्यं न हि शोभते.॥२०॥
तस्मात्प्रतिकुटीरं वो नानावृत्तिजुपामहम् ।
गत्वा ब्रवीमि साक्रोशं तुच्छमेतज्जहीत भोः २१
प्राचीनोऽपि दुराचारः सैप भूयो जुगुप्सितः ।
मदोन्मत्तजनस्यैव योग्यो नार्यकुटुम्विनाम् ॥२२॥
प्राचीनत्वं पुरस्कृत्य न चेत्त्यजथ गर्हितम् ।
मनुष्यत्वस्य युष्माकमहो गुर्वी विडम्वना ॥२३॥

११२ शकरजीवनाख्यानम् । शुभाशुभप्रवृत्तीनां जनस्त्यक्त्वा विवेचनम् । पशुवद्यदि चेष्टेत सर्वथा पशुरेव सः ॥२४॥ ऋतूनामखिलानां च वसन्तः सुमनोहरः। फलपुष्पभरैर्नानाशकुन्तकलकूजितैः ॥ २५ ॥ साक्षाद्भगवतो रूपमित्येप परिगीयते । तस्मात्तत्प्रीतये कार्यों वसन्ते होलिकोत्सवः ॥२६॥ तदेय दिवसोऽस्माभिर्नेतव्यः कर्मभिः शुभैः।। स्नानभोजनसङ्गीतपुराणश्रवणादिभिः ॥ २७ ॥ सूक्तीरश्नुतपूर्वास्ता निशम्य पुरवासिनः। आत्मनो वालिशं भावं वुवुधुः स्पष्टमाशु ते॥२८॥ तदारभ्य पुरे तस्मिन् श्रूयते स्म जनश्रुतिः। नूनं नवावतारोऽयं महर्षेः कस्यचिद्भुवि ॥ २९॥ , -

शङ्करजीवनाख्यानम् ।
अथ प्रदर्शनं चित्रं शङ्करो नगराहाहिः ।
कारयित्वा कुमारेभ्यस्तद्विनोदमदर्शयत् ॥३०॥
विडम्बनां समालोक्य स्वदुश्चेष्टाप्रदर्शिनीम् ।
बटवो लजितास्त्यागं निन्द्यस्य प्रतिशुश्रुवुः ॥३१॥
अथोत्सवदिने प्रास्ते परं मुमुदिरे जनाः।
देवदर्शनसङ्गीतपानभोजनवर्तनः ॥३२॥
शङ्करोऽत्रावसद् यावचावत्तद्वाक्यगौरवात् ।
विरेमुः कुत्सिताचारादहम्मदपुरे जनाः ॥ ३३ ॥
कार्यमन्यद् यदेतेन पामराणां कृते कृतम् ।
वभूव तदतिश्लाघ्यं नूतनं कौतुकास्पदम् ॥ ३४॥
'अन्त्यजानां तथा ह्यासीत्पाठशाला पुरावाहिः ।
द्रष्टुं कुतूहलाविष्टः शङ्करस्तामगात्स्वयम् ॥ ३५ ॥

शङ्करजीरनाख्यानम्। पाठयिष्यामि वः शिष्यान् सप्ताहे सकृदप्यहम् । इति शिक्षणतत्वज्ञस्तध्यापकमब्रवीत् ॥ ३६ ॥ तथेति प्रतिपन्नेऽसौ सम्यगध्यापयत्सुधीः । बटूनुल्लासयन् दीनांस्तथा विस्मापयन् गुरुम् ॥३७॥ जातिभेदमनादृत्य प्रजासु समदर्शिनः । विद्याप्रदानतो नान्यदस्य सम्मोदमातनोत्॥३८॥ . इति सौ. क्षमायाः कृतिषु शङ्करजीवनाख्याने । समाजपरिष्करणो नाम पञ्चदशोल्लासः ॥

शङ्करजीवनाख्यानम् ।
॥ षोडशोल्लासः॥.
अहम्मदपुरे वर्षद्वयं स्थित्वाऽथ शङ्करः।
राजप्रतिनिधः प्रापदालापत्रमतर्कितम् ॥ १॥
अवेदि च ततो लेखाद्यदयं नूतने पदे।
नियुक्तोऽभूत्खदेश्यानां दुर्लभे राष्ट्रनायकः ॥ २॥
सौराष्ट्रमण्डले राज्यं पोरवन्दरनामकम् ।
अदूरे द्वारकापुर्याः सुप्रसिद्धं विराजते ॥३॥
पुरा तन्नृपतिवृद्धः कुतश्चित्कारणान्तरात् ।
निजराज्यात्परिभ्रष्टस्तस्यौ सामान्यलोकवत् ॥४॥
श्वेताम्बरधरः सोऽभूत्खदेशोष्णीपमण्डितः।
रुद्राक्षमालया कण्ठे मुनिवरसमलवृतः ॥५॥

शकरजीवनाख्यानम् । तस्य. राजपदभ्रंशो नापहर्तुमपारयत् । खस्य नैसर्गिक सत्त्वं नृपसत्तमभूषणम् ॥६॥ आसीत्तस्यात्मजो वालो भावसिंह इति श्रुतः। यस्याप्राप्तवयस्कत्वाद्राज्यधूः शङ्करेऽपतत् ॥७॥ तत्पदे हि ततः पूर्व न्ययुज्यन्ताधिकारिणः । आग्लेया. एव भूयांसो न चैकोऽपि खदेशजः पदमुच्चमिदं प्राप्य मुमुदे शङ्करो भृशम् । न च स्थानमहत्त्वेन शासकैस्तु गुणग्रहात् ॥ ३॥ नानृतं प्रभवेदन्ते सत्यस्यैव ध्रुवो जयः। इत्यात्मचरितेनैव शङ्करेण निदर्शितम् ॥ १०. । शासितुं च प्रवृत्तेऽस्मिन् सुधामनगरी तदा। बहुभिर्नवनिर्माणै.रूपान्तरमिवागमत् ॥ ११ ॥ ..

शङ्करजीवनाख्यानम् ।
११७
सम्पन्नेऽपि पुरे तस्मिंश्चिरादपि न केनचित् ।
चिन्तितं लोककल्याणं राज्ञा वा सचिवेन वा ॥१२॥ .
आसीत्तदागमापूर्वमवमर्दो महान् यथा ।
चौर्यदुर्भिक्षरोगाणां भयालोकाश्चकम्पिरे ॥ १३॥
ऋणेन महता अस्तं राष्ट्रमासीत्समाकुलम् ।
अतश्च शङ्करः कोशे कटाक्षं पूर्वमक्षिपत् ॥ १४ ॥
राष्ट्र निर्मोचयामास नचिराणवन्धनात् ।
ऋणमग्निरिव ध्वंसं ननु कुर्यादुपेक्षितम् ॥ १५ ॥
देशस्यालोचयन्भूयः शोचनीयां परिस्थितिम् ।।
दुःखहेतुप्रतीकारे प्रययास दिवानिशम् ॥ १६ ॥
समृद्धि राष्ट्रकोशस्य जानन्कृपिनियन्धनाम् ।
वापीकूपतटाकादीन कारयामास सर्वतः ॥१७॥

११८ शङ्करजीवनाख्यानम् ।
सम्प्राप्य जलसौकर्य वर्धमानाः कृषीवलाः ।
मोचयामासुरात्मानं कुसीदिकऋणग्रहात् ॥१८॥
जागरूकः प्रजारोग्ये निर्ममे शङ्करोऽचिरात् ।
उपयुक्तस्थलेष्वारागुग्णशालाः सुसज्जिताः ॥१९॥
ततश्च स्थापयामास पाठशालाद्वयं शुभम् ।
बालिकायोषितामर्थे तदुत्कर्षसमुत्सुकः ॥ २० ॥
रञ्जनार्थं च लोकानां विभागेषु पुरस्य सः।
कारयामास रम्याणि विहाराणि पृथक् पृथक् ॥२१॥
अग्रतो गणनीयेऽपि राष्ट्रेऽस्मिन्नोपकल्पितम् ।
तत्रीसन्देशसौकर्यसिति स्म क्लिश्यते जनः ॥२२॥
शङ्करो नचिरेणैव नुनुत्सुयूँनतामिमाम् ।
तत्रीकार्यालयान् राष्ट्रे सर्वतो निरमापयत् ॥२॥

२ शङ्करजीवनाख्यानम् । इत्यादिवहुकार्याणि सर्वाधिकरणेष्वपि चिरसंस्मरणीयानि चक्रे राष्ट्रहितङ्करः ॥ २४ ॥.. भूरिकार्यनिमग्नेऽस्मिन्नाययुः प्रत्यहं गृहम् । तस्य भोजेश्वराभिख्यं विद्वांसो दर्शनेच्छया॥२५॥ सर्वोऽपि निरगात्तस्य संस्कृतज्ञो गृहाबहिः। सुसस्कृतः प्रहृष्टात्मा प्रशंसन्गुणगृह्यताम् ॥ २६ ॥ आगतेषु सुविख्यातस्तस्यासीदतिथिर्महान् । विवेकानन्दयोगीन्द्रः खामी संसर्गपावनः ॥२७॥ देशं निवर्तमानोऽयं यतीशो द्वारकापुरात् । भोजेश्वरगृहस्याग्रं नौकास्थः समवैक्षत ॥२८॥ किमेतदिति जिज्ञासुमवोचन् परिवारिणः । श्रीमतः शङ्करस्यायं निवासो हि यशखिनः॥२९॥ ।

१२०
शकरजीवनाख्यानम् ।
महती वैदुषीमस्य निशम्य मुनिपुङ्गवः ।
द्रष्टकामोऽभवच्चैतं मणिज्ञ इव मौक्तिकम् ॥३०॥
नौकानिवेशनं प्राप्य खामी विद्यातपोधनः ।
भावयन् विदुपा सङ्ग सानन्दः समवातरत् ॥३१॥
खामिनेऽभ्यागतायास्मै भोजेश्वरमतर्कितम् ।
चकार खागतं भक्त्या शङ्करोऽतिथिवत्सलः ३२
स्नानपूजादिकार्यान्ते विश्रान्तं मुनिसत्तमम् ।
अनयद्भोजनागारं गन्धयष्टिसुवासितम् ॥ ३३ ॥
प्रविष्टस्यास्य शालायामुभी माधववामनौ ।
प्राञ्जली चक्रतुः पूजां यतिनः शङ्करात्मजौ ॥३४॥
स्थितास्तु वालिकास्तिस्रो लज्जानतमुखाम्बुजाः।
तारा क्षमा च भद्रा च तदर्शनचमत्कृताः॥३५॥

L
शङ्करजीवनाख्यानम् ।
१२१
एता निःशब्दमासीनास्तं मुनीन्द्रमनन्दयन् । .
अधिकं किल पुत्राभ्यां प्रजल्पद्भ्यां प्रतिक्षणम् ३६
भुक्तोत्रमथ खामी ब्रह्मतेजस्समुज्वलः।
अनेकरम्यसंलापैर्मुमुदे गृहमेधिना ॥ ३७॥
परेयुः शङ्करस्तीरं समुद्रस्यानयन्मुनिम् ।
दर्शयन् विविधान्यस्मै दर्शनीयस्थलानि सः ३८
आलोक्य नूतनाः संस्था निर्मिताः शङ्करेण ताः।
बभूव विस्मितः खामी तदीयमतिसम्पदा ॥३९॥
अथ तो तीरमापन्नौ मन्दानिलमनोहरम् ।
अपश्यतां कुमारौ द्वौ प्लवमानौ सशिक्षकौ ॥४०॥
तिस्रश्च वालिका धात्र्या विनोदं गमिता भृशम्।
सकौशलं विनिर्मान्त्या मन्दिरं सिकतामयम् ॥४१॥

१२२
शङ्करजीवनाख्यानम् ।
सपाणितालमानन्दात् परितः क्रीडनालयम् ।
नृत्यन्ति स्मोपगायन्त्यः कलमान्दोलगीतिकाम् ४२
तासामव्यक्तमधुरां निशम्य खरसम्पदम् ।
अनुचक्रे मुनीन्द्रोऽपि तत्क्रीडागीतिनर्तनम् ॥४॥
शिशुवत् खेलनोयुक्तं यतिमालोक्य वालिकाः।
प्रहृष्टाश्चक्रिरे सद्यस्तमेनं सहचारिणम् ॥४४॥
स्थापयित्वा ततो बालाः स्कन्धोपरि
हसन्मुखः।
अवातरजले किञ्चित्तरणच्छद्मना मुनिः॥ ४५ ॥
अशिक्षयत्तदारभ्य शङ्करस्य कुमारको ।
जलविद्यारहस्यानि सर्वक्रीडाविशारदः ॥ ४६॥.
खामी च शङ्करः सायं समारूढौ तुरङ्गमौ ।
जग्मतुर्दीर्घमध्वानं पश्यन्तौ ग्राममण्डलम् ॥४७॥

शङ्करजीवनाख्यानम् ।
पाकशास्त्रेऽपि निष्णातो मुनीन्द्रोऽयमुपादिशत्।
उपादेवीं विशिष्टान्नशाकसम्भारचातुरीम् ॥४८॥
अथात्मनो निवासेन पुरी मासचतुष्टयम् ।
पावयन् सस्कृतो. लोकैः खदेशं प्रययौ मुनिः ४९
अथ गच्छत्सु वर्षेषु शङ्करः समचिन्तयत् ।
सेतुरेको विधातव्यः प्रजासौकर्यसिद्धये ॥ ५० ॥
तदर्थमेकमाङ्ग्लेयं प्रतिश्रुतसुवेतनम् ।
ऋजुनियोजयामास यनशिल्पविचक्षणम् ॥ ५१॥
आङ्ग्लस्य वचनावृत्तिरचिरादृष्टिगोचरः।
चभूव
सर्वलोकानां छादिताऽपि प्रयत्नतः ॥ ५२ ॥
द्रोहमस्य विनिश्चित्य शङ्करोऽथ समादिशत् ।
राष्ट्रकोशस्य रक्षार्थे विराम सेतुकर्मणः ॥ ५३ ॥

१२४
शङ्करजीवनाख्यानम्।
अर्थचोरमथाङ्लेयमपच्छदनृताक्षमी।
मया निश्चितपूर्वेऽपि कार्यान्तावधिके व्यये ॥५॥
किमर्थ भो व्यतिक्रान्ता मर्यादा ब्रूहि विस्तरम्।
यदहं राष्ट्रकोशस्य निखिलस्यापि रक्षकः ॥ ५५ ॥
नो चेत्कारागृहे वासं कारयिष्यामि ते ध्रुवम् ।।
लोकेष्ववाप्य चाकीर्ति पदभ्रष्टो भविष्यसि ॥५६॥
आङ्ग्लस्तु गर्धनोऽनिच्छन् विहातुं मुपितं धनम्।
अपलप्य तदारोपमवमेनेऽधिकारिणम् ॥ ५७ ॥
तस्मादसत्यविद्वेषी,शङ्करः शीघ्रमादिशत् ।
तस्य प्रग्रहणं दस्योराङ्ग्लराज्यादशङ्कितः ॥५८॥
वृत्तमश्रुतपूर्व तत् प्रचलन्मुखतो मुखम् ।'
सासरत्सर्वसौराष्ट्रे दावे दावानलो यथा ॥ ५९॥

शङ्करजीवनाख्यानम् । बभूवुरतिसङ्घद्धाः सर्वेऽप्याग्लाधिकारिणः । न कदापि पुरा ह्याङ्ग्लो भारतीयेन दण्डितः६० शङ्करो राजदुर्गस्थां न्यायशालामनीनयत् । .. बन्दीकृत्य तमाङ्ग्लेयं सत्यवानकुतोभयः ॥१॥ आङ्ग्लेयो बीमनो नाम प्राड्विवाकोऽभवत्तदा । यस्याये स्थापयामास शङ्करोह्यपराधिनम् ॥१२॥ जानन्नपि सदोपं तं पक्षपाती सभापतिः । वन्धनान्मोचयामास देशवन्धुं रिरक्षिषुः ॥ ६३.॥ पराभवमसत्यस्य कर्तुकामस्तु शङ्करः । व्यवहारं निनायैतं प्रधानन्यायसंसदम् ॥ ६४ ॥ निःपक्षपातिना तत्र प्राड्विवाकेन दण्डितः। , आङ्ग्लोऽयमन्वभूक्लेशं पदाच भ्रंशितोऽभवत् ६५

१२६
शङ्करजीवनाख्यानम् ।
ततः कतिपयैर्मासैः शुभोदन्तः समागतः ।
श्रीमतो रानडेरुच्चपदप्राप्तिनिवेदकः ॥ ६ ॥
स हि मुम्बापुरीवर्तिप्रधानन्यायमन्दिरे ।
धर्मासनपदं लेभे शङ्करश्च परां मुदम् ॥ ६७ ॥
अथाधिकारसम्बद्धमहाकार्येषु सर्वदा ।
निमग्नो न क्षणं चापि विश्रान्ति प्राप शङ्करः॥६॥
तथापि व्यसनी तीव्रमाम्नायपरिशीलने।
अथर्वश्रुतिसम्मन्नो निनायाब्दचतुष्टयम् ॥ ६९ ॥
वहतापि धुरं गुर्वी नोपैक्षि निजसन्ततेः।
विद्याभ्युदयसम्पत्तिः प्रथमा सर्वसम्पदाम् ॥७॥
तथा हि स्नानवेलायामलव्धावसरान्तरः।
खपुत्रौ पाठयामास महाराष्ट्रीयवामयम् ॥७१॥

.
शङ्करजीयनाख्यानम् ।
१२७
कथाश्च पञ्चतत्रादेराचख्यौ सुविनोदिनीः।
अर्भकाणां सुषुप्सूनां प्रागसौ रात्रिभोजनात् ॥७२॥
अथ भोजनवेलायर्या प्रत्यहं पृच्छति स्म सः।
अध्यापकं गणेशाख्यं वालानांसहवासिनम् ॥७३॥
किमद्य पठितं वालैः कस्तेपामतिमन्दधीः।
कतरेण समीचीनः पुत्रयोरुद्यमः कृतः ॥ ७४ ॥
इति पृष्टोऽब्रवीद्विप्रस्तारतम्यं द्वयोरपि ।
उद्यमी माधवः पाठे वामनश्चित्रलेखने ॥ ७५ ॥
इति संश्लाघयन्नेक विनिन्दन्नपरं च सः।
अस्नेहयद् वटुं पूर्वमद्वेषयदथापरम् ॥ ७६ ॥
धीमन्तमपि मूढेति कनीयांसं समाह्वयन् ।
चकार खयमेवैनं द्विजः पाठपराङ्मुखम् ॥ ७७ ॥

१२८ शङ्करजीवनाख्यानम् । शिष्यवुद्धिविशेषेण भिद्यते शिक्षणक्रमः। इत्यवोधन्नसौ चक्रे विग्रहं पटुंना सह ॥ ७८ ॥ कुमारं चतुरोपायैः खवशे कर्तुमक्षमः । मुमोच शिक्षकः खैरं चित्रकर्मप्रवृत्तये ॥ ७९ ॥ अथोद्यमेन हृष्टोऽपि माधवस्य स्थिरात्मनः। मूढमस्यानुजं ध्यायन् पिताऽभूचिन्तयाकुलः ८० अरे वामन शतस्त्वमिति संज्ञाप्य सोऽब्रवीत् । उद्यमी माधवो विद्वान् भूत्वा कीर्तिमवाप्स्यति ८१ आलस्याद्वालका ये तु स्थिता ज्ञानविवर्जिताः। सेवकास्ते भविष्यन्ति माधवस्यालये ध्रुवम् ॥८॥ वचः श्रुत्वा पितुस्तारा ज्येष्ठा कन्या ततः परम् । वभूव चालशिक्षायां परमोत्साहशालिनी ॥८३॥ . मुग्ध इस्पर्थे महाराष्ट्रभाषायामिय परिपाटी।

शङ्करजीवनाख्यानम् ।
१२९
क्षमा त्वशृण्वती भूयो वालखेलारुचिः सदा ।
उद्याने हिण्डमानैका गृह्णाति स्म पतङ्गिकाः ॥८॥
अथात्यल्पवयस्कां तां बालशिक्षापरामुखीम् ।
सुवर्णा पितृवात्सल्यं दधानो जनकोऽब्रवीत् ॥८५॥
चाले त्वद्भगिनी तारा भविष्यति सुशिक्षिता।
पण्डितोपाधिमन्वथं करिष्यति निजश्रमैः ॥८६॥
कालेऽथ सद्वरं प्राप्य विबुधं तद्विवाहिता ।
विद्याभिमानमात्मीयं प्रजायां च तनिष्यति ॥७n
क्षिपमाणां वृथा कालं पर्यटन्तीमशिक्षिताम् ।
न हि त्वां निर्धनादन्यः परिणेष्यति दुर्मते ॥८॥
अवश्यं ते वसुगैहं श्रयणीयं भविष्यति ।
निवासः परगेहेषु लाघवं हि महत्तरम् ॥ ८९ ॥

शरजीवनाख्यानम् । शिशुभावात्तु तत्काले नावगन्तुं क्षमा क्षमा । महत्वं जनकस्योक्तोंषमासीनतानना ॥ ९ ॥ किन्तु वर्षेषु गच्छत्सु तस्या दशवयस्पृशः। हृदये पितुरुक्तीनां प्रतिध्वनिरजायत ॥ ९१ ॥ अदृष्टपितृसौख्यां तां वर्धमानां दिने दिने । ज्ञानाध्वनि ध्वनिः पुण्यः शनकैः प्रोदसाहयत् ९२ इति भूयोऽतिवात्सल्यापितुर्वक्त्राम्बुजोद्गताः। हितोक्तयः सुतामेनां व्यधुर्विद्यापरायणाम् ॥९३॥ इति सौ. क्षमायाः कृतिपु शङ्करजीवनात्याने सुधामपुरीनियासो नाम पोडशोल्लास.॥

शङ्करजीननाख्यानम् ।
॥ सप्तदशोल्लासः॥
अथ राष्ट्रीयकार्यस्तैः शङ्करः क्लेशदायिभिः ।
निरन्तरं समाक्रान्तः परिश्रान्तोऽभवन्मुहुः॥१॥
ननु श्रान्तोऽसि कान्त त्वं न कर्तव्यो
बहुश्रमः।
इति प्रणयवाचोऽपि प्रियाया जज्ञिरे वृथा ॥२॥
प्रयासैर्जर्जरीभूते शरीरे ग्लानिमाप सः।
अथ व्याधिः पदं चक्रे ववृधे च दिनेदिने ॥३॥
जानन्नपि निजात्मानं महारोगेण पीडितम् ।
तीवसंवेगतो हन्त कार्याणि विदधेऽन्वहम् ॥४॥
दिनान्तेऽभूत्स निस्सत्त्वो भारवाही वृपो यथा ।
अक्षमश्चेष्टितुं भूयः शयने पतितोऽभवत् ॥ ५॥

१३२
शङ्करजीवनाख्यानम्।
उपया कश्चिदाहूतो गृहमाशु भिपग्वरः।
परीक्ष्य प्रकृतिं यत्नादथ शङ्करमब्रवीत् ॥ ६॥
विरम्यतामहो आर्याः सर्वकार्यादितः परम् ।
अपेक्ष्यते हि विश्रान्तिर्वाडानःकायगोचरा ॥७॥
त्यक्त्वा स्थानमिदं शीघ्रमन्यः कोऽपि मनोहरः ।
पवनाम्बुगुणश्लाघ्यः श्रीयतां देश उत्तमः ॥८॥
इति वैद्यवचः श्रुत्वा निश्चिक्ये पोरवन्दरात् ।
महावलेश्वरं गन्तुं यत्रासीद्तहमात्मनः ॥९॥
अथानुमोदिते तस्य विश्रामे राजकार्यतः।
नियुक्तोऽभूत्पदे तस्मिन् कश्चिदाङ्ग्लोऽधिकारिभिः
सातु सत्वरमागन्तुं न शशाक पदग्रही।
लैडाख्यं प्राहिणोत्तस्मान्निजप्रतिनिधि पुरीम् ॥११॥

शङ्करजीवनाख्यानम् ।
नियते शङ्करः काले तरुणस्यागमिष्यतः।
खागताय खयं तस्य धूमयानस्थलं ययौ ॥ १२ ॥
धूमयाने समायाते घण्टावादनतः परम् ।
आङ्ग्लमभ्युजगामासौ प्रणयेन स्मिताननः ॥१३॥
पश्यन्नपि तमायान्तमपश्यन्निव नाटयन् ।
'अवमेने पदोन्मत्तः शङ्करं युवको लघुः ॥ १४ ॥
प्रचचाल पुरः शीघमुद्रीवोऽतिप्रतिष्ठया।
विहाय शङ्करं पश्चाद्भूलग्नमपमानतः॥१५॥
दुरहङ्कारिणः प्राज्ञश्चरितादाकुलोऽपि सन् ।
शङ्करः खं वशीकृत्य न्यवर्तत निकेतनम् ॥ १६ ॥
परेयुः पदमुद्रां च राजकार्यधुरं तथा ।
आङ्ग्लोग्रहीतुमायातो विनापूर्वनिवेदनम् ॥१७॥

१३४ शङ्करजीवनाख्यानम् ।
तमेनं शङ्करः कार्ये निमग्नः क्वचिदाग्रही।
चिरप्रतीक्षिणं चक्रे मनःपूर्व विलम्बयन् ॥१८॥
अधस्तनप्रकोष्ठेऽसौ प्रतीक्ष्य घटिकात्रयम् ।
क्रुद्धः क्रमितुमारेभे बुभुक्षुः श्वापदो यथा ॥१९॥
प्रविष्टं कार्यिणां शालामथ शङ्करमब्रवीत् ।
तारस्वरेण तारुण्यमदोन्मत्तः स आङ्गलः॥२०॥
अहो आङ्ग्लमपि त्वं मां विलम्वयसि भृत्यवत् ।
किमियं भारतीयानां सभ्यता लौकिकी जने ॥२१॥
शङ्करस्त्वेक्माक्षिप्तो ददौ गम्भीरमुत्तरम् ।
खागतं कर्तुमायातो.येनाहं सुतिरस्कृतः॥ २२ ॥
सोऽयं ननु त्वमेवासि सभ्यतागुणशिक्षकः ।
खदेशाचारभिन्ना ते प्रवृत्तिः प्रतिभाति मे ॥२३॥

शङ्करजीसनाख्यानम् ।
१३५
सुज्ञाः सभ्यसमाचारा वहवस्तव देशजाः ।
दिष्ट्याधुनापि विद्यन्ते पूर्व परिचिता मया ॥२४॥
अनुभावयितुं हि त्वामपमानस्य लाघवम् ।
व्यलम्बयमहं नूनं वयसा पितृसन्निभः ॥ २५ ॥
आग्लो वा भारतीयो वा सत्कार्यः सममेव हि ।
वयः पूज्यं च जानीहि नापचर्यमितः परम् ॥२६॥
अन्यच्च यदि शुश्रूषा शृणु भोः कथयामि ते ।
शासितुः परमो धर्मः प्रजानामनुरञ्जनम् ॥२७॥
अज्ञातपूर्वहणश्चेत्त्वयान्यः स्याद्विमानितः।
आङ्ग्लानां देशजानां च वैमनस्यं स्थिरीभवेत् २८
त्वद्वदन्ये करिष्यन्ति खदेशस्याहितं महत् ।
दुराचारैर्वचोभिश्च रभसोच्चारितैनराः ॥ २९॥

शङ्करजीरनाख्यानम् ।
दुर्जनोऽपि वशं नूनं नीयते मधुरोक्तिभिः ।
सजनः कुत्सितैःशब्दैविमुखीक्रियते क्षणात् ॥३०॥
इत्येवं शङ्करे तस्मिन् ऋजुविस्पष्टवादिनि ।
दुर्विनीतो युवाग्लेयस्तूष्णीको लजया स्थितः ३१
दोषमात्मकृतं जानन्नपि दर्पोदयं युवा।
न ययाचे क्षमामेनं न च पश्चादतप्यत ॥ ३२ ॥
शङ्करोऽथ पदं मुक्त्वा राजदुर्गपुरी ययौ ।
सीतारामघनश्यामौ द्रष्टुकामः सहोदरौ ॥ ३३ ॥
निवृत्याल्पदिनैरेव स पुनः पोरवन्दरम् ।
संविधान समारेभे निर्गमाय पुराचतः ॥ ३४ ॥
सकुटुम्वपरीवारः प्रजाभिरभिनन्दितः ।
ततो.मुम्वापुरी प्रातः प्रतस्थे जलवम॑ना ॥३५॥

शङ्करजीवनात्यानम् । तिस्रो दुहितरः पुत्रा वामनो माधवस्तथा । '.: जयश्च विजयो डिम्भः प्रमोदं प्रापुरध्वनि ॥३६॥ द्वाभ्यामामश्रितः पुर्या सुहृद्भयां न्यवसंत्सह । वासतेयं गृहं लिप्सू रानडेः सद्मसन्निधौ ॥ ३७॥ तयोः सन्मित्रयोरेकः श्रीघनश्यामनामकः। नाडकर्णिकुलोत्पन्नश्चिरात्परिचितोऽभवत् ॥३८॥ आसीत्समवयस्कोऽयमावाल्यकृतसंस्तवः । सौहार्दमपुपत्तेन विश्वविद्यालयेऽपि सः ॥.३९ ॥ द्वितीयो लोकनिष्णातः श्रीमान्मनेशनामकः । : कनीयान् वयसा विद्वज्जनसंसर्गवत्सलः॥ ४०॥ चकार महती सेवां शङ्करस्य निजालये। तथापि व्याधिवेगोऽस्य वर्धते स्म शनैः शनैः४१ १३८ शङ्करजीवनाख्यानम् । एकदा शकटारूढः शङ्करो गृहमानजन् । ददर्श क्रीडतो वालान्निजान्मित्रहाङ्गणे ॥ ४२ ॥ क्षमामालोक्य चूपन्ती मोदकान् शर्कराकृतान् । कुतश्चिद्वणिजःक्रीतान् वयं गृहमुपागतात् ॥४३॥ नाणकः केन ते दत्तः क्षमे केतुमिदं वद । इति पृष्टा भयाक्रान्ता स्थिता वाला निरुत्तरा ४४ पृष्टा भूयोऽपि साऽवादीत्कश्चित्ते तात वान्धवः । प्रार्थितः सन्मयाक्रीणान्नाणकैर्मोदकं मम ॥४५॥ आच्छिद्य वालिकाहस्तान्मोदकं सामिभक्षितम् । दूरादपाक्षिपद्भूमौ रुदती चाब्रवीत् पिता ॥ ४६॥ नास्ति हीनतरं लोके मानिनः परयाचनात् । क्षुधितोऽपि न याचेत बन्धुमित्राणि कहिचित् ४७ शङ्करजीवनाख्यानम् । ०१३९ यदि स्त्रां सज्जनः कोऽपि सौजन्यागोजयेत् क्षमे। तदास्मै द्विगुणं दद्याः काले प्रत्युपकारिणी ॥४८ नृपोऽपि चेन्महौदार्यात्प्रयच्छेत् पारितोषिकम् । नैव तत्प्रतिगृह्णीयास्तदनौसि चेत् क्षमे ॥ १९॥ यदि कश्चिन्मनुष्यस्ते हितं कुर्यात्सुचेतसा । कुरु तस्य प्रियं भूयस्तदानृण्यं भजख च ॥५०॥ दिष्ट्या तु यदि विद्यां ते वितरेत् पण्डितः क्वचित्। सर्वथानुग्रहं तस्य प्रतीच्छ परमादरात् ॥ ११ ॥ धनादप्यधिका विद्या विद्या कीर्तेमहत्तरा। विद्याऽधिकाप्रतिष्ठायास्तस्मा विद्यामुपार्जय॥५२॥ भावार्थमवगच्छन्ती लेशमात्रमिव क्षमा । सवाप्पावस्थिता जोपं ध्यायन्ती नष्टमोदकम् ५३

शङ्करजीवनाख्यानम् ।
'समालिङ्गय सुतामेनामुवाच जनकः पुनः ।
इदं तस्मै गृहस्थाय प्रदेहि पणकद्वयम् ॥ ५४॥
विस्मितायाः पुनस्तस्याः खिन्नाया निष्ठुरोतिभिः।
समाश्वासकरं नाण्यं तृतीयं च न्यधाकरे ॥५५॥
अजानत्यपि तत्कालं तातस्य वचनं क्षमा ।
सस्मार वयसि प्रौढे साक्षादुच्चारितं यथा ॥५६॥
न कदापि ययाचे सा नाणकान् हि ततः परम् ।
मित्रं वा वान्धवं वापि नित्यमागामुकं गृहे ॥ ५७॥
न विद्यायाः परं ते स्यादपरं पारितोषिकम् ।
निर्धनोऽपि वरं विद्वान् न तु मुग्धो महीपतिः ५८
इति प्रतिध्वनिस्तस्याः पितुर्वाचः सदा हृदि ।
तरङ्गितः समुल्लासं कवेः सूक्तिरिवातनोत् ॥५९॥

शङ्करजीवनास्यानम् ।
१४१
निवासं कर्तुकामोऽपि नातिदूरात् सुहृन्मणेः ।
श्रीमतो रानडे सौ प्राप गेहं यथोचितम् ॥६॥
व्याधिरत्रान्तरे तस्य व्यवर्धत दिने दिने ।
निपात्य शयनीये तं निस्सत्त्वमकरोइत ॥ ६१ ॥
शोचनीयदशामस्य प्रेक्ष्यं चिन्ताकुलः सुहृत् ।
जगाद रानडेः प्रीत्या कुरु वासं ममालये ॥१२॥
अवेहि मित्र यद्यन्मे तत्र तेऽपि स्वकीयता।
नूनं भविष्यति प्रीत्यै त्वन्निवासो गृहे मम ॥३॥
प्राणाधिकः प्रियोऽसि त्वं ननु तद्वेत्सि शङ्कर ।
गेहं मे स्वनिवासेन पवित्रीकर्तुमर्हसि ॥ ६ ॥
इत्युक्त्वा खालयं शान्तिभुवनाख्यं मनोरमम् ।.
रानडेः सकुटुम्वं तं, निनायाशु सुहृन्मणिः ॥६५॥

१४२ शङ्करजीवनाख्यानम् । भिपग्वर्यास्ततः सर्वे मुम्बापुर्या सुविश्रुताः। तेनाहूताश्चिकित्सायै व्याधेर्मित्रस्य यत्नतः ॥६६॥ सर्वोपायेषु तच्छान्यै प्रयत्नेन कृतेष्वपि । न प्राप शङ्करः स्वास्थ्यं देहे वत मनागपि ॥६॥ खकार्यान्नियतान्मुक्तः सचिन्तस्त्वरया गृहे। सन्निधिं प्रियमित्रस्य रानडेः स्म निवर्तते ॥६॥ गृहमासन्नमात्रोऽसौ पृच्छति स्म कुटुम्विनीम् । समुत्सुको रमादेवीं सुहृदः प्रकृतिस्थितिम् ॥६९॥ शकटादवतीर्णोऽथ त्वरितं गच्छति स्म सः। प्रकोष्ठं शङ्करस्यादौ प्रणुन्नस्तद्दिदृक्षया ॥ ७० ॥ न चासौ गणयामास क्षुधामपि तृषामपि । व्याप्तोऽपि स्वकार्येषु सखायं चिन्तयन् सदा ७१ शङ्करजीवनाख्यानम् । १४३ अथ कैश्चिदिनैर्दिष्ट्या शङ्करः स्वस्थवद्बभौ । महारोगात्समुत्तीर्णः सुविश्रान्तिसुखं ययौ ॥७२॥ भिषजामनुमोदेन नीयते स्म प्रकोष्ठतः । उद्याने वा वहिर्वेद्यां स्थाप्यतेम सुखासने ॥७३॥ आस्तां च निकटे तस्य कपिरादमनामकः । कोलिन म शुनी चापि चिरात्तेनैव पालितौ ॥७॥ द्वावपि प्राणिनावेतौ खामिभक्तिपरायणौ । मुहूर्तमपि तत्पाचं नाजहीतां दिवानिशम् ॥७५॥ रक्षितुः कुशले नित्यं सावधानी प्रतिक्षणम् । आहाराय समाहूतावपि स्थानान्न चेलतुः॥७६ ॥ आकृष्टौ किङ्करैरेतो परं चुकुशंतू रुपा । परिहातुमनिच्छन्तौ हसतः खामिनोऽन्तिकम् ७७ .

१४४
शङ्करजीवनाख्यानम् ।
शङ्करं वहिरासीनं प्राङ्गणे सह भार्यया ।
विनोदितं रमादेव्या शुनीमर्कटसेवितम् ॥७॥
विलोकयन् दिनस्यान्ते निवृत्तो निजकार्यतः।
रानडेमुमुदेऽत्यन्तं पुनर्जातमिव स्थितम् ॥.७९ ॥
अथायान्ति स्म.गेहेऽस्मिन् रमामाधवयोस्तयोः ।
दीना विद्यार्थिनः केचिद्भोजनार्थ दिवानिशम् ८०
वारागन्तुपु तत्रासीद्दामुर्नाम द्विजात्मजः ।
न रूपवान्न धीरोऽसौ परं विद्यार्जनोत्सुकः ॥८॥
प्रेक्षमाणा वन्नित्यं शङ्करस्यात्मजा.क्षमा ।
पृच्छति.स्म सदा तातं जननी च कुतूहलात् ८२
क एते वटवस्तात किमस्त्येषां प्रयोजनम् ।
यदिमे नित्यमायान्ति भोक्तुं परभृतो यथा ॥३॥

१४५
..
शङ्करजीवनाख्यानम् ।
धनी वा निर्धनो वापि माननीयोऽतिथिः सदा ।
इति बोधयितुंबाला सोपहासं पिताब्रवीत् ॥४॥
दास्यामि त्वां क्षमे यूने दामुनाम्ने विवाहतः।
सुन्दरीं वोढुकामस्त्वामिहायाति हिसोऽन्वहम् ८५
अपि मां मन्यसे मूढां तात बालेति मां विदन् ।
परिणेष्यति किं लोके निर्धनं पण्डितात्मजा ॥८६॥
इप्टो यदि कुमारस्ते वहिःपति किमास्यते।
कुतश्च रौप्यपात्रेषु त्वत्सम नहि भोज्यते ॥ ८७॥
अथ सायं प्रविष्टेयं वालिका भोजनालयम् ।
तातरानडयोर्मध्ये ददर्शासनयुग्मकम् ॥ ८८ ॥
आसिष्ट दामुरेकस्मिन् रौप्यपात्रपुरस्कृतः।
शून्यमासीद्वितीयं तु क्षमाय परिकल्पितम् ॥८॥

१४६
शङ्करजीवनाख्यानम् ।
वधु स्वागतमेहीति करताडनपूर्वकम् ।
कृतमामन्त्रणं श्रुत्वा क्षुभिता वालिकाभवत् ॥१०॥
यथोक्तं जनको यूने हठान्मामर्पयिष्यति ।
इति सा भीतविभ्रान्ता क्रन्दन्ती प्रपलायिता ९१
अहःकतिपयानेवं विहरन्मित्रसद्मनि ।
शनैरुल्लाघमानोऽसौ नयति स्म मुदान्वितः ॥१२॥
अथ प्रत्यायितो वैद्यैर्विकृतेरवरोहणम् ।
जगाद शङ्करो हर्षाद्रमादेवीं च माधवम् ॥ ९३ ॥
गमिष्यामो वयं सर्वे सत्वरं वालकैः सह ।
महाबलेश्वरस्यं मे शोणदुर्गाख्यमालयम् ॥ ९४ ॥
खवले श्रद्दधानोऽपि दैवतम्रो हि मानवः ।
कुर्वाणेऽपि नरे यत्नमीश्वरेच्छैव साधिका ॥ ९५॥

शकरजीवनाख्यानम् ।
१४७
तथा हि सहसा तस्य शङ्करस्याभवत्पुनः।
नचिरादुत्कटोव्याधिरचिकित्स्यो भिषग्वरैः ॥१६॥
असह्यवेदना तेन सह्यते स्म सहिष्णुना ।
चिन्तया त्वेकया तप्तो जगाद गृहिणीमुपाम्।।९७॥
किं करिष्यसि हा कान्ते मद्वियुक्ता भवेर्यदि।
चालान् कथमिमान् सप्त खवशे स्थापयिष्यसि ९८
मम वालदशायाश्च पुत्राणामुत्तमा दशा ।
चतुर्णानपि सद्विद्यासम्पत्तिः सुलभा भवेत् ॥१९॥
जीवत्येव मयि ख्याति लभेरन्नचिरादिमे ।
देशसेवां च कुर्वीरन्नित्यासीन्मे मनोरथः ॥१०॥
कथमेकाकिनी तु त्वं साधयिप्यसि मे मतम् ।
इति शोचन्नहोरात्रं विनिद्रः शङ्करोऽभवत् ॥१०१॥

१४८ शङ्करजीवनाख्यानम् । चिन्ताकुलाप्युपादेवी पतिसान्त्वनतत्परा । आश्वासयद्वचोभिस्तं मधुरैधैर्यमाश्रिता ॥१०॥ हास्यार्थं सैकदा प्राह दुःखितापि स्मितानना । किं न चिन्तयसि प्रेयन्नावयोः प्रियवालिकाः १०३ काञ्चनं केतुमिच्छामि त्वयाहमनुमोदिता । अलङ्कर्तुमिमास्तिस्रस्त्वदीयविभवोचितम् ॥१०४॥ शङ्करः प्रत्युवाचैनां त्वयि मे प्रत्ययो दृढः । त्वदन्या नास्ति कन्यानांरक्षिका तद्धितैषिणी १०५ विद्याविनयसम्पन्ना.द्विजेन्द्राः सत्कुलोद्भवाः । वराः सन्निपतिष्यन्ति खयं कन्यार्थिनः प्रिये १०६ अभ्यस्तवालशिक्षास्ता नवोढाः पतिसंश्रयात् । प्राप्स्यन्ति कन्यकास्तिस्रः कलासाहित्यसम्पदम् शङ्करजीवनाख्यानम् । किं निसर्गसुरूपाया रत्नकाञ्चनभूषणैः। शरदिन्दुविभासिन्या रजन्याः किं प्रदीपतः १०८ अपि न स्मरसि प्रोक्तं मया पूर्वमनेकशः। तस्या हि भूपणैः कार्य यस्या रूपं न विद्यते ॥१०९॥ अथ तस्य महान्याधिः परां कोटिं समस्पृशत् । वैद्याश्च सूचयामासुनैराश्यं स्पृष्टभूतलाः ॥१०॥ असह्ययातनाग्रस्तं मित्रं कालवशे स्थितम् । दर्श दर्शमभूद्वाष्पै रानडे रुद्धलोचनः ॥ १११ ॥ अनिच्छन्निजसन्तापं कर्तुं मित्राक्षिगोचरम् । सप्रकोष्ठादहिःस्थित्वाहाहा मित्रेति शोचति ११२ अथ फाल्गुनमासस्य वासन्तोत्सवसंभ्रमे । रमणीय दिने पुण्ये समासन्नेऽर्कवासरे ॥ ११३ ॥ । रिम्पये इति पाठान्तरम् ।

१५० शङ्करजीवनाख्यानम् । खोत्तरं खकुटुम्बस्य रक्षा मित्राय सूचयन् । आलिङ्गय तं प्रणम्याथ रमादेव्यै च नीरवम् ॥११५॥ उपायामाप निर्वाणं शङ्करः कुलदीपकः । अथापि भूर्तिभेदेन दीप्यते यशसोज्वलः ॥११५॥ इति सौ. क्षमायाः कृतिपु शङ्करजीवनाख्याने दीपनिर्वाणो नाम सप्तदशोल्लासः॥

शुद्धाशुद्धिपत्रम् । अशुद्धम् शुद्धम् ३८ २० ३६ " २० ४३ ४९ ६२ वध्वा पुण्यपूर्या अनुध व्यालिखद गृण्हते प्रभावतीम् तदनघताम: तेलंग अद्रता अन्यत्प्युः अल्पीयं वर्षद्वयः व्यख्यान नापचर्यम् १ बद्धा पुण्यपुर्या अनूध व्यलिखद् गृहते प्रजावतीम् तदनर्घताम् तेलङ्ग अद्धता अन्यत्पत्युः अल्पीयः वर्षद्वयं व्याख्यान नापचार्यम् १५ २१ ८२ ३३ १०६ १३५ सौ० क्षमया प्रणीताः संस्कृतग्रन्थाः । १. सत्याग्रहगीता २. कथापञ्चकम् ३. विचित्रपरिपद्यात्रा ४. शङ्करजीवनाख्यानम् ५. ग्रामज्योतिः एतानधिकृत्य प्रकाशितानि विद्वन्मतानि संक्षेपतो यथा- प्यारिसनगरे-"सत्याग्रहगीतानामनि ग्रन्धेऽसिन् इण्डिया- देशे महात्मना गान्धिना प्रवर्तितं निरुपमं सत्याग्रहयुद्धं गीयते । महाभारतान्तर्गतायां भगवद्गीतायामिवात्रश्लोकमया अष्टादशा- ध्यायाः सन्ति । यथा भारते पाण्डवानां जन्मसिद्धस्याप्यधिका- रस्य निरोधः प्रतिपक्षैः सार्थपरैः कृतस्तथा भारतीयानामाजन्म- सिद्धस्वतायाः प्रत्याख्यानमालसाम्राज्यप्रचालकैः कृतमिति द्वयोरपि समानो युद्धहेतुः । ललितमधुरा सरलसुवोधा च हृदय- ग्राहिणी प्रपन्धस्य सरणिः । ऐतिहासिकोऽयं ग्रन्यः स्त्रियापि गाण्यां व्यरचीति नितराममिनन्दनीया कवयित्री। मुप्रभातनाम्नि मासिकवृत्तपत्रे-"अस्या अष्टादशाध्यायेषु सत्याग्रहस्पेतिहासः, तदपेक्षया च गान्धिमहोदयस्य जीवनवर्ण- नमपि कृतम् । आफ्रिका-देशादारम्य लवणसत्याग्रहं यावत् , मोहमयीप्रभृतिनगरेषु च जातस्य वैदेशिकानामत्याचारस्य स- जीयं प्रत्यक्षमिव चित्रं चित्रितम् । रचना व्यामवाल्मीकिसर- २ . णिमनुसरन्ती सरलसरला, प्रसन्नमधुरा, मसृणमसृणा पाठकानां हृदयङ्गमा आकर्षणकारिणी च विद्यते ॥ टैम्स आफ इण्डियानामके सुप्रसिद्धदैनिकवृत्तपत्रे कथापञ्चक प्रति (सरलानुवादः)-'पञ्चभिर्विचित्रलघुकथाभिः संवलितोऽयं ग्रन्थः । अनुष्टमा सरससुमनोहरैर्वचनकुसुमैर्गुम्फिता कथामालि- केयं भरतखण्डे प्रजानां लौकिकं कौलिकं च जीवनचरितं प्रका- शयन्ती पाठकानां कण्ठमलङ्करोति । सरणिश्च हृदयङ्गमं कमपि विशेष पुष्यति । तथा हि कथायाः सहसोपक्रमः, लाक्षणिकप्र- योगाणां सौन्दर्य, गुप्तकथांशानां क्रमविकासकारिणी संविधा- नचित्री कथायाः पराकाष्ठा तदनु प्रसह्यान्तगमनं चेत्यादयो गुणाः प्रत्यक्षीभवन्ति । पाश्चात्यकवीनां लघुकथाप्रणयनसरणि- मनुरुन्धाना कृतिरियं शुद्धसंस्कृतमयी सहृदयानां चित्तमाव- जयतीति वयं प्रतीमः॥ विचित्रपरिपद्यात्रा-लघुपुस्तिकेयमनन्तशयने अनतिपूर्वप्र- त्तमखिलराष्ट्रीयप्राच्यभाषापरिपत्संमेलनं प्रति मोहमयीनगराद्ग- तवत्या ग्रन्थका यद्यदृष्टश्रुतानुभूतं तत्सर्व श्लोकैरूपवर्णयति ।। शङ्करजीवनाख्यानम्-स्वपितुर्जीवनचरितोल्लेखनात्मकं रम- णीयं सप्तदशोल्लाससमुपेत छन्दोमयं काव्यम् ॥ ग्रामज्योतिः-कथात्रयात्मको ग्रन्थः। त्रयाणां भारतीय- ग्रामस्त्रीरत्नानां प्रबुद्धचरितोपवर्णनेन सुप्तराष्ट्रप्रयोधं साम्प्रतिक प्रख्यापयति । अयमद्यापि न प्रकाशितः। संस्कृतनानि मासि- कपत्रे तु खण्डशः प्राकट्यं नीतः ।।

Shankarjivanakhyanam

Author
Pandit,raghvendra
Title
Shankarjivanakhyanam
File name
Shankarjivanakhyanam
Text
OCR done
Citation
1939
Published
2012/08
Publisher
Bombay.,kshama Rao New Marin Lane
Language
Sanskrit
Pages
177
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
312584
Barcode
99999990321357.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
9bHIDKQwx3p
Download PDF

Shankarjivanakhyanam