Canegie Mellon Univeristy

Janaki Parinaya

Chakra Kavi · 2006/02/18

PDF Proofread

Front matter

No text on this page.

TRIVANDRUM SANSKRIT SERIES.
VO, XXIV.
THE
JÂNAKÎPARIŅAYA
CHAKRAKAVI
EDITED)
BT
T GANAPATI SÂSTRÍ
Itzuruntur q' the Deparlament.lor the publication of Sanskrit memcmplona
TRIVINDRI
WAUMATOL
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE,
TRIVANDRUM
L'RINTEL IT THE RIVIVORE (MIERNMENT PRESS.
1913.
(All Rights Reservede)

No text on this page.

अनन्तशयनसंस्कृतग्रन्थावलिः,
ग्रन्थाङ्क: २४.
ARUDASHIOAD
जानकीपरिणयः
चक्रकविप्रणीतः
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
संशोधितः।
सच
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितः ।
कोळम्बाब्दाः १०८८, ऊस्ताब्दाः १९१३.

No text on this page.

PREFACE. Janakiparinaya is a Karya written by Chakra Kavi. It is gathered from the portions* of the verse at the end of the sargas of this Kavya that his parents were Anlâ and Lokanâtlasudhî, that his son Râmachandra was well-versal in all Sâma Vedla, that he was i poetic genius even from his l'panayana sacrament and his work was admirol br Pândya and Chera kings and also by Nilakantha Adhvari and that he wrote tiro other Kâryas named, Rukminiparinaya and Pârvatſparinaya. 4. Chitraratnâkara, a work lealing with Salxlálankan contains the following verse'. "रुक्मिणीजानकीगौरीद्रौपदीपरिणीतयः । कृतयो यस्य तस्यैषा कृतिश्चक्रकवेः श्रुभा ॥" which shows that lie has also written two more works, namely, Chitraratnákara and Draupaclipariņaya. It is probable that Nilakantha Adhvari referred to in this work is the same as the famous Nilakantha Dikshita, the author of Sivalîlârnava, Nilakanthavijaya and other works. Hence the author, Chakrakavi may be à contemporary of Nîlakantha Dikshita who lived in the first half of the 17th century A. D. * 'यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुदयः सम्मानिताम्बाभिधा। 'यत्पुत्रो भुवि वेत्ति सामनिगमं श्रीरामचन्द्रोऽखिलम्' (८ सर्गः) 'सावित्र्या सममेव यं श्रितवती वाग्देवता सादरम्' (३ सर्गः) 'पाण्ड्यमहीभुजा बहुमते नव्ये तदीये महाकाव्ये (२. सर्गः) चेरावनीवासवश्लाघासीमनि' (४ सर्गः) 'श्रीनीलकण्ठावरिश्लाघासीमनि (६ सर्ग:) 'रुक्मिणीपरिणयभ्रातरि' (५ सर्गः) 'पार्वतीपरिणयभ्रातरि' (७ सर्ग:)

निवेदना। अस्य जानकीपरिणयनाम्नः काव्यस्य प्रणेता अम्बा-लोकनाथ- सुधियोः सूनुर्निखिलसामनिगमवेदिनः श्रीरामचन्द्रस्य पिता चक्रकविर्नामेति, उपनयनात् प्रभृति कवित्वमस्य समुल्लसितमासीदिति, अस्य काव्यं पाण्ड्यभूपति- चेरावनीन्द्र-नीलकण्ठावरिभिभृशं श्लाघितमिति, अनेनान्ये द्वे काव्ये रुक्मि- णीपरिणय-पार्वतीपरिणयाभिधाने निर्मिते इत्येतावदेतत्काव्यसर्गान्तिमपद्यां- शेभ्यो* ज्ञायते । "रुक्मिणीजानकीगौरीद्रौपदीपरिणीतयः । कृतयो यस्य तस्यैषा कृतिश्चक्रकवेः शुभा ॥ इति चित्ररत्नाकरस्य शब्दचित्रपरस्यारम्भे कथनात् चित्ररत्नाकर - द्रोपदी- परिणयावपि चक्रकविना प्रणीतावित्यवगम्यते । अत्र परामृष्टो नीलकण्ठा- ध्वरी सुप्रसिद्धः शिवलीलार्णव -- नीलकण्ठविजयादिकर्ता संभाव्यते । तेन तत्समानकालोऽयं चक्रकविर्भवन् क्रैस्ताब्दीयस्य सप्तदशशतकस्य पूर्वार्धे स्थित इति शक्यमुन्नेतुम् । यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकवि सतीसमुदयः संमा- निताम्बाभिधा। 'यत्पुत्रो भुवि वेत्ति सामनिगमं श्रीरामचन्द्रोऽखिलम्' (८ सर्ग:) 'सावित्र्या सममेव यं श्रितवती वाग्देवता सादरम्' (३ सर्गः) 'पाण्ड्यमहीभुजा बहुमते नव्ये तदीये महाकाव्ये' (२ सर्गः) 'चेरावनीवासवश्लाघासीमनि' (४ सर्गः) 'श्रीनिलकण्ठावरिश्लाघासीमनि' (६ सर्ग:) 'रुक्मिणीपरिणयभ्रातरि' (५ सर्ग:) 'पार्वतीपरिणयभ्रातरि' (७ सर्ग:) * नीलकण्ठावरिणस्तु काल: शिवलीलार्णवस्य निवेदनायां द्रष्टव्यः ।

२
अस्य काव्यस्य शुद्ध एक आदर्शः शङ्करनारायणपिल्ल (नालेकाडु) महा-
शयादासादितः । तदाधारेणास्य मुद्रणं निवर्तितम् ।
अनन्तशयनम्.
त. गणपतिशास्त्री.

॥श्रीः॥ चक्रकविप्रणीतः जानकीपरिणयः। Summaprama -Rem Mara सन्ततं दृढसंसक्तं वन्दे इन्हें चिरन्तनम् । आदर्शे केवलं पश्यदाननामा परस्परन् ॥ १॥ ऐक्यं भजेते भुवनेप्वर्थतः शब्दतश्च यौ। भूयास्तामनिशं तो में भूयस श्रेयसे शिवा ॥२॥ गजरत्नं चिरब तद्भुतं श्रेयसेऽस्तु यत् । पश्चाननो लालयति क्षेणीभृभूगृहाश्रयः ॥ ३ ॥ क्षमाभिनन्दितौ श्यामावनसूयात्रिभूपिती । जनकानन्दनौ वन्दे जानकारघुनन्दनौ ॥ ४ ॥ मुखेषु वेधसो वाणी विहरन्तीमुपास्महे । विडम्बयन्तीमब्जेधु क्रीडन्ती कमलालयाम् ॥ ५॥ वन्दे कविं तं प्राम निपतन्ती निविष्टपात् । भागीरथीमिव हरो भारती वहति स्म यः॥ ६ ॥ भजे पराशरसुतं पञ्चमं वदनं विधेः । उदभून्निगमो यस्मात् पञ्चमो मारतात्मना ॥७॥ पार्वतीस्वान्दयोराश्रयः, अथच पर्वतभूमिर्गहा पश्चाननः शिवः सिंहश्च । बाश्रयो यस्य सः।

२ जानकीपरिणये कलये कालिदासं तं कविराजिशिखामणिम् । यतन्तेऽद्यापि यन्मार्गमनुसतु कवीश्वराः ॥ ८॥ सिताजनिष्ट हसिता साक्षाद् द्राक्षा पराजिता । माघस्यानल्परसया वाचा मोचा च धिकृता ॥ ९ ॥ भोजो जयति भेजे यदर्शनात् कवितां जनः। श्रमं विनैव काव्येषु देवतोपासनं विना ॥ १० ॥ मधुजित्पदजातापि जिता भागीरथी ध्रुवम् । भारत्या भवभूतेस्तत् सभङ्गाद्यापि दृश्यते ॥११॥ सारस्वतसुधासारसन्तर्पितबुधावलिः । मुरारिसमतां धत्ते मुरारिः कविकेसरी ॥ १२ ॥ माधुर्यधुर्या बाणस्य भारती भासते यया । सम्भावितो नीरतया मरन्दो मन्दतां दधौ ॥ १३ ॥ श्रीलोकनाथं जनकं भजे बुधशिखामणिम् । असङ्ख्योऽपि जनो येन सङ्ख्यावानाहितोऽद्भुतम् ॥ श्रीराम वन्द्र श्रीकण्ठभक्तं वन्दे तमग्रजम् । यत्सकाशान्मया सेयं संप्राप्ता साहितीसुधा ॥१५॥ अग्रेसरं कवीन्द्राणामग्रज तं पतलिम् । भजे यन्मुखचन्द्रस्य शारदा चन्द्रिकायते ॥ १६ ॥ गुणं खलजनः सूक्तेर्दोषत्वेनाभिपश्यति । सौरं ध्वान्ततयालोकमुलूको हि विलोकते ॥ १७ ॥ नीरतया जलत्वेन निर्गतरेफत्वेन च । पण्डितः ससंख्यश्च ।

प्रथमः सर्गः । ३ चकार प्रतिसृष्टिं किं वाचोऽपि कुशिकात्मजः । अनिशं दुष्कविमुखे वायूपा वर्तते हि सा ॥१८॥ निर्गता दुष्कविमुखाद् वाणी दोषकलङ्किता। विशदीक्रियते भूयः सभ्यानां हसितैः सितैः ॥ १९ ॥ चिकीर्षति प्रबन्धं यो विना व्याकरणे श्रमम् । स शक्नोति स्रज बन्धुं पुष्पसम्पादनं विना ॥ २० ॥ भूविक्रियां शिरःकम्पं सस्मितं च स्तवं मुहुः । अज्ञः करोति किं ब्रूमः कवेः सूक्तिवभिज्ञवत् ॥ २१ ॥ प्राणान् जनानां हरतः प्रबन्धैः परुषैनिजैः। कविपाशानहं मन्ये कालपाशान् दुरासदान् ॥ २२ ॥ कविम्मन्यपुरोभागिशुष्कतार्किकशार्करे । जगत्यस्मिन् मृदुपदा कथं वाणि! चरिष्यसि ॥ २३ ॥ वाल्मीकरिव वाचं मे वाचमङ्गीकरिष्यति । रामः क्षौममिवावस्त कदाचिद् वल्कलं न किम् ॥ २४ ॥ लसद्रामचरित्रा मे वागपि स्यात् सतां मुदे। धृतमुक्ताफला शुक्तिन किमाद्रियते जनैः ॥ २५॥ अस्ति भूषा भुवो गन्धहस्तिवाजिविराजिता । अयोध्या नाम नगरी श्रियो नर्तनरङ्गभूः ॥ २६ ॥ चन्द्राश्मसालगलितैनीरैज्योत्स्त्रीषु पूरिता । प्रतीक्षते यत्परिखा न धनान् न च सारिणीः ॥ २७ ॥ dipanwaalpanswer Jaipune-male कुल्याः ।

जानकीपरिणये गन्धवाहाः स्वनामार्धं हित्वा वाहाश्वकासति । पुरस्कुर्वन्ति तैरत्यक्तं यत्र गन्धपई गजाः ॥ २८ ॥ यदारामद्रुमा भान्ति व्याधूता मलयानिलैः। उदङ्मुखाच्चैत्ररथं जेतुं संप्रस्थिता इव ॥ २९ ॥ यत्र यूनोः सदाश्लेषाद् व्यक्तेः कस्याः कुचाविमौ । इति संशयाणर्तुरसोढालिङ्गनोऽहरत् ॥ ३० ॥ यत्र कान्ता रतिश्रान्ताः सौधेपूच्चेप्वनुक्षपम् । शयानाचन्द्रिका सान्द्रा सेवन्तेऽनन्यसेविताम् ॥ ३१ ॥ स्थिरा यत्र वसन्तीति थियोऽतिचपला अपि विद्युतो बनिता भूत्वा वर्तन्ते गतचापलाः ॥ ३२ ॥ क्षौमाणि सुध्रुवां नानारनवेश्मजरश्मिभिः । लिप्तानि चित्रपटवद् भासन्ते यत्र सन्ततम् ॥ ३३ ॥ आतपेऽर्कशिलाश्मन्ते विन्यस्तेऽग्निं विमुञ्चति । यत्पुरन्ध्रीजनास्तस्मिन् पचन्त्यन्नमनिन्धनम् ॥ ३४ ॥ मरुताभिहता स्वर्गगङ्गाम्भःकणवर्षिणा । शीतार्तवोच्चसौधस्था पताका यत्र कम्पते ॥ ३५ ॥ सौधेषु यत्र नारीणां वीक्ष्य पुम्भावसंभ्रमान् । अभ्यस्यन्तीव तटितस्तानद्यापि चलाचलाः ॥ ३६ ॥ दिवानिशं चुम्ब्यमानाः कान्तैर्यत्प्रमदाधराः। हेमन्तसमये यान्ति विश्रान्तिमुदितव्रणाः ॥ ३७ ॥ matalattes * सूर्यकान्तचुल्ल्याम् ।

प्रथमः सर्गः। ५ सकुण्डलैः कञ्चकिभिः स्फुरन्मणिविभूषितैः । भुजङ्गैर्भोगसंपन्नै ति भोगवतीव या ॥ ३८ ॥ सदानिमिषसंपर्कधन्यैरुत्कलिकान्वितैः । भासतेऽप्सरसां सङ्घः पुरन्दरपुरीव या ॥ ३९ ॥ यत्र कालागुरुभवैधूपैरुञ्चलितैः सदा । आहितां श्यामतामभ्रमद्यापि न विमुञ्चति ॥ ४० ॥ प्रभा दिक्षु प्रसर्पन्तीयंत्र हीराश्मवेश्मनाम् । चञ्च्चञ्चलैजिघृक्षन्ते चकोराश्चन्द्रिकाधिया ॥ ११ ॥ दैवज्ञैरपि दुर्जेयमर्केन्दूडुपथान्तरम् । उच्चसौधाग्रमारूढा निश्चिन्वन्ति यदङ्गनाः ॥ ४२ ॥ यज्जनालोकनवतां लुब्धः कल्पकपादपः। पामरो वासवगुरुर्दरिद्रो निधिनायकः ॥ ४३ ॥ नूतनोऽपि जनो गन्धान् घायं घायं प्रसर्पतः । यत्र गन्धापणं याति यथालिः पुष्पितं द्रुमम् ॥ ४४ ॥ शङ्के यत्सिन्धुरेन्द्राणां पुलाका नीलनीरदाः। अतो मरुद्भिनीतास्ते भ्रमन्ति हरिदन्तरे ॥ ४५ ॥ अध्यतिष्ठदयोध्यां तां राजा दशरथः पुरीम् । अलकामिव यक्षेशो मघवेवामरावतीम् ॥ ४६॥ क्षिप्तक्षीराब्धिकल्लोलशरच्चन्द्रमरीचिभिः । यत्कीर्तिपूरकपूरैरासीदामोदितं. जगत् ॥ १७ ॥ + पुलाकास्तुच्छधान्यानि बुसप्रायाणि पवनहार्याणि । सारधान्यस्थानीयत्वं तु गजानी गम्यम्।

जानकीपरिणये
उदिते सति यहाहाशौर्यसूर्ये रणाङ्गणे ।
अजायत गतच्छायं तत्क्षणाद् राजमण्डलम् ॥ ४८ ॥
प्रतापवन्तं सद्देति तरसाहितपावकम् ।
महाहवविधिज्ञो यश्चके प्राज्यसमिद्भुतम् ॥ ४९ ॥
हता येन स्थिताः स्वर्गे द्विषो यं वीक्ष्य धन्विनम् ।
असुरान् हन्तुमायान्तं त्रासं तत्रापि भेजिरे ॥ ५० ॥
असेवन्त हता येन देवभूयं गता द्विषः ।
हरेरर्धासनस्थं यं स्वपुत्राणां हितैषिणः ॥ ५१ ।।
अहर्निशं दानजलैररिक्तो यत्करोऽभवत् ।
तद्वतिरेखामत्स्यानामन्यथा जीवनं कुतः ॥ ५२ ॥
पर्वताः सागरत्वेन पर्वतत्वेन सागराः ।
यस्योन्नतत्वे गाम्भीर्ये चिन्तिते सति निश्चिताः ॥ ५३ ॥
पञ्चशाखान्वितं यस्य भुजाकल्पकभूरुहम् ।
अधिरूढा क्षितिलता फलानि समदर्शयत् ॥ ५४ ॥
यः पुमर्थानतन्द्रीको यथाकालमसेवत ।
सर्गरक्षान्तसमयेष्वात्मा मायागुणानिव ॥ ५५ ॥
एकमेव जयन् कामं क्रोधेनाभूजितो हरः ।
जिगाय यः काममुखान् वीरः षडपि विद्विषः ॥ ५६ ॥
सानोऽसाध्येष्वभूद् दानमसाध्येषु तयोभिंदा ।
तेषामसाध्येषु पुनः प्रयुक्तं तेन दण्डनम् ॥ ५७ ॥
अजयद् द्विषतः स्कन्दः शक्तिमेकां वहन्नपि ।
किमद्भुतं जिगायेति यः शक्तित्रयवान् द्विषः ॥ ५८ ॥

प्रथमः सर्गः।
स कोसलेश्वरसुतां तनयां केकयस्य च ।
पुत्री च मगधेन्द्रस्य सपत्नीरकरोद् भुवः ॥ ५९ ॥
अन्याश्च वरसौजन्या धन्या राजन्यकन्यकाः ।
पर्यग्रहीत् स माधुर्यधुर्याः सौन्दर्यशालिनीः ॥ ६ ॥
धरणीधारणे तस्य मन्त्रिणोऽष्टौ महीपतेः ।
सहायभावमभजन भोगीन्द्रस्येव दिग्गजाः ॥ ६१ ॥
ऋषिदेवऋणान्मुक्तो ब्रह्मचर्येण यागतः ।
प्रजाभिधधनालाभाद् बद्धः पितृऋणेन सः ॥ ६२ ॥
पुत्रार्थ भूपतौ तस्मिन्नश्वमेधं चिकीर्षति ।
सुमन्त्रो मन्त्रितिलको मिथस्तमिदमब्रवीत् ॥ ६३ ॥
ऋश्यशृङ्गप्रभावात्
ते भविष्यन्ति सुता इति ।
सनत्कुमारो भगवानब्रवीत् सुरसंसदि ॥ ६४ ॥
राजन्नागमनात् तस्य सन्तानं ते भविष्यति ।
पुराङ्गविषयस्येव वर्ष सन्तापवारणम् ॥ ६५ ॥
इति तद्भाषितं श्रुत्वा रोमपादान्तिकं गतः ।
अयोध्यामानयामास शान्ताकान्तं धरापतिः ।। ६६ ॥
यज्ञशाला विशालाभूत् सरयूवाहिनीतटे ।
सम्भाराः सम्भृता मुक्तो हयश्व सपुरोहितः ॥ ६७ ॥
ऋश्यशृङ्गं पुरस्कृत्य वसिष्ठप्रमुखा द्विजाः।
प्रावर्तन्त ऋतुं कर्तुं तुरङ्गे पुनरागते ॥ ६८ ॥
बिभ्रच्चलशिखाजिह्वां धूमश्मश्रुचयं दधत् ।
बुभोज भव्यहव्यानि बहिर्मुखमुखं शिखी ॥ ६९ ॥

जानकीपरिणये मखधूमो हविर्गन्धी पावनः पवनेरितः। विचित्रमात्मसंसर्गाद् विदधे निर्मलान् जनान् ॥ ७० ॥ मन्त्रपूतं हुतवहे धाय्याकृतसमिन्धने। ऋत्विजस्तत्यजुर्हव्यद्रव्यमुद्दिश्य देवताम् ॥ ७१ ॥ हव्यैः सुरास्तथा स्फीतास्तदाराः पुनरागतान् । नानुक्तैश्चित्रवचनैः श्रद्धास्यन्ति यथा पतीन् ॥ ७२ ॥ ब्रह्मा तस्मिन् मखे बिभ्रचतुराननतामपि । श्रुतीश्चतस्रोऽधिमुखं यद् बभार तदद्भुतम् ॥ ७३ ॥ होता क्रतुवरे तस्मिन्नुच्चचारोच्चकैर्ऋचः । यजुर्वेदविद्ध्वर्युर्जुहाव ज्वलने हविः ॥ ७४ ॥ उद्गाता सप्तधा भिन्नं साम सामविशारदः। उज्जगौ ज्ञापयन्नुच्चैरङ्गुलीवलनैः स्वरान् ॥ ७९ ॥ अन्तैर्दिवसम्पन्नः प्राज्यैराज्यैश्च पायसैः । सूपैरपूपैर्दधिभिस्तत्र सन्तर्पिता जनाः ॥ ७६ ।। जनानां भोजनेप्वाज्यवर्षमाकर्ण्य तत्कतौ । षडब्धिमध्यमाज्याब्धिः स्वरक्षार्थ विवेश किम् ।। ७७ ॥ दिशति क्षितिपे तस्मिन्नत्विग्भ्यो यागदक्षिणाम् । दक्षिणा न दिगेकैव सर्वा अपि तथाभवन् ॥ ७८ ॥ विसृज्य राज्यं ते तस्मिन्नशक्ताः परिपालने । तदत्तममितं वित्तमभजन्नापमित्यकम् ॥ ७९ ॥ तथाभवन् दक्षिणा जाताः कृत्नराज्यदानादित्यर्थः। 8 अपमित्यं याचितकं विनिमान- लब्धम् ।'

प्रथमः सर्गः। निर्वर्तिते ऋतौ तस्मिन्नित्थमुर्वीशतक्रतोः। इष्टिं विधातुं पुत्रीयामुपचक्रमिरे द्विजाः ॥ ८० ॥ विधिवत् क्रियमाणायामिष्टौ तत्र महर्षिभिः । रावणोपप्लुता देवा भेजुः शरणमच्युतम् ॥ ८१ ॥ उन्मीलकैतकोद्यत्परिमलमिलितैनालिकेद्रुमाली- च्छायाजस्रप्रचारोपचितजडिमभिर्मन्थरैर्गन्धवाहैः । शान्ताध्वश्रान्तयः श्रीसहचरमचिराद् वीक्षितुं काङ्क्षमाणाः क्षाराम्भोराशितीरं विविधमणिगणैर्भासुरं भेजिरे ते ॥ ८२ ॥ यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुदयैः संमानिताम्बाभिधा । सर्गस्तस्य कृतौ निरर्गलगिरो भव्ये गुणालक्रिया- सान्द्रे श्रीमति जानकीपरिणये हृद्योऽयमाद्योऽजनि ॥ ८३ ॥ इति जानकीपरिणये प्रथमः सर्गः 0.- Khesemoisonact

10
अथ द्वितीयः सर्गः।
अथ प्रपेदे त्रिदिवालयानां
क्षीरोदधिर्लोचनगोचरत्वम् ।
प्रत्युत्थितं क्षिप्रमिवादधान-
स्तेषाममन्दोचलितैस्तरङ्गैः ॥ १॥
कोणे क्वचिन्निर्मथितेऽनि लक्ष्मी-
सुधासुधांशुप्रमुखैर्बभूवे !
कृत्स्ने पुनर्यत्र सतः पदार्थान
को वा विशिष्टानवगन्तुमीष्टे ॥ २ ॥
मणीषु काचिद् रमणीयु काचि-
लुब्धात्र भूयोऽपि तथाविधाः स्युः।
इतीव ता हर्तुमना यदन्त-
र्जागर्ति देवो न करोति निद्राम् ॥ ३ ॥
कलत्रभावं कमलेक्षणस्य
चूडामणित्वं पुरशासनस्य ।
जीवातुभूयं विबुधावलीनां
बिभ्रत्सहो यत्पयसां विवर्ताः॥ ४ ॥
ऐरावतोच्चैःश्रवसौ सुधां च
कल्पद्रुमानप्सरसोऽखिलाश्च ।
मुदा ददानेन दधाति येन
व्युत्पादित खर्पतिरिन्द्रशब्दम् ॥ ५ ॥

द्वितीयः सर्गः। ११ त्रिविष्टपं यत्र खलु स्थिताना शक्यं तरङ्गैरधिरोदुचैः । आवर्तपालीसुपिरैरगाधैः शक्यं प्रवेष्टुं फणिविष्टपं च ॥६॥ येनानिशं सन्निहितावीत सायुज्यविश्राणनमध्धुतात् किम् । आसाद्य यं मुक्तजलस्वरूपाः क्षीरात्मतां यत् सरितो भजन्ते ॥ ७ ॥ नेता नदीनां ननु बाडबेना कुक्षावकारीति पुराणवाणी । शुचिं ज्वलन्तं जठरे वितन्वन् विराजते बाडवलन्वहं यः ॥ ८ ॥ मुक्ताफलैः पाकविदीर्णशुक्ति- मुक्तैस्तरङ्गोत्करशीकरैश्च । समुत्थितैः सत्वरमन्तरिक्ष तनोति यस्तारकितं दिवापि ।। ९ ॥ कर्पूरधूलीशरदनशुभे शङ्खावली यत्र भृशं सवर्णा । आलक्ष्यतामञ्चति सान्द्रसान्द्र चन्द्रातपे तारकमण्डलीय ॥ १० ॥ SINES Haryakamugalam व ब्राह्मणेनागस्त्यनाना। दाब वाइनानि ब्राह्मणं च ।

१२ जानकीपरिणये विक्षुण्णपक्षा मकरार्भकाणां वालावलीनां वलनेन यत्र । जम्भारिदम्भोलिविलूनपक्षान् धराधरेन्द्रा बहुमन्वतेऽद्रीन् ॥ ११ ॥ कल्लोलमाली स्फटिकावदातो वहञ्छिखा बाडबशुष्मणो यः । सञ्चितस्यानुकरोति शम्भो- भस्माङ्गरागस्य जटाधरस्य ॥ १२ ॥ निमोकनिर्मोचनमाचरन्ती तनुं फणीन्द्रस्य विडम्बयन्ती। विराजते यत्र तरङ्गरेखा फेनच्छदां शुभ्ररुचि क्षिपन्ती ॥ १३ ॥ क्षीराणि यस्मिन् सुलभानि तेभ्यः सम्पादयन्तो दधिसर्पिषी च । पार्श्वये यस्य जना वसन्तो गाः पञ्चगव्यार्थमवन्त्यजस्रम् ॥ १४ ॥ गावो वितीर्णा भुवि बिजेभ्यः क्षीराणि दत्तानि च यैः शिशुभ्यः। यैस्तर्पिताः पायसतो द्विजेन्द्रा- स्तेषां भवेद् यत्सविधे निवासः ॥ १५ ॥ आदाय दुग्धानि यतो यदीय- पाचवयद्वीपमहीधरेषु ।

द्वितीयः सर्गः। १३ : वर्षेण तेषां जनयन्ति धारा- धराः सदा क्षीरमयीः सवन्तीः ॥ १६ ॥ तुङ्गाः प्रकामं धरणीधरेन्द्रा- स्तेभ्यः पुनस्तुङ्गतरास्तरङ्गाः। तिमिङ्गिलास्तुङ्गतमाश्च तेभ्यो यत्र स्थिति सन्ततमाश्रयन्ते ॥ १७ ॥ तत्रामरास्तामरसालयायाः कान्तं निवासं जगतामपश्यन् । तल्पे पयःसिन्धुतरङ्गकल्पे *वातूलतूलैभरिते शयानम् ॥ १८ ॥ फणीन्द्रनिःश्वासमरुत्तरङ्गैः प्रतिक्षणक्षितकुचोत्तरीयाम् । वक्षःस्थलस्थां कमलां कटाक्ष- परम्पराणां पदमादधानम् ॥ १९ ॥ उरस्तटे कौस्तुभनामधेय- मम्भोविवर्त मणिमुहहन्तम् । अधीतकाठिन्यमिवाब्धिकन्या- पयोधराभ्यां परिरम्भणेषु ॥ २०॥ निविष्टमारान्निजवैजयन्ती- सौरभ्यलोभादिव चञ्चलीकम् । * धातूलै; वातसमूहैरेव तूलैः भरिते पूरिते। तल्पभूतस्य शेषस्य बाताशनत्वादेव- मुक्तिः।

जानकीपरिणये
श्रीवत्ससंज्ञं दधतं विशाले
वक्षःस्थले लक्ष्म विराजमानम् ॥ २१ ॥
नाभीसरोजानिशबोधनार्थ
बालातपेनेक सना गोध
पीताम्बरेणाञ्चित्तममनोली
सन्ध्याधनाश्लिष्टभिवाचनाद्रिम् ॥ २२ ॥
सदाधिकण्ठस्थलि वैजयन्ती
समार्दवां श्यामरुचि वहन्तम् ।
रागेण कण्ठग्रहणं वितन्वद्
भुवो भुजहन्द्वमिव प्रियायाः ॥ २३ ॥
नाभीसरोजेऽद्भुतमुद्दहन्तं
चतुर्मुखं कञ्चन चञ्चलोकन् ।
झङ्कारिणं निष्कपटैचोभिः
कुन्देन्दुगौरभ्रमरीसमेतम् ॥ २४ ॥
लक्ष्मीभुवोर्वल्लभयोरजन-
मालिङ्गनानि क्रममन्तरेण ।
विधातुमिच्छन्तमिव स्फुरन्तं
भुजैश्चतुर्भिधृतरत्नभूषैः ॥ २५ ॥
भोगीन्द्रफूत्कारमरुद्वितीणे-
नाभिप्ररूढाब्जभवैः परागैः।
पिशङ्गितेनेव विहङ्गराजा
संसेवितं सालिना पुरस्तात् ॥ २६ ॥

द्वितीयः सर्गः। वेषं स्वयं पौरुषमुहहनि- निजायुधानां निवहः समन्तात् । उपस्थितं साझलिभिः एन्जि दैतेयराजीविजयापदानम् ॥ २७ ॥ श्रिया समेतं नवकजनाभ दयालसन्मानसमझनामम् । गुणाकरं पत्ररथेन्शयान फणाधराणां प्रवरे शयानम् ॥ २८ ॥ (एकादशभिः कुलकम्) यावत् प्रपेदे त्रिदशावली सा क्षीरोदधिं तावदवाप बोधम् । तदर्शनोदित्वरलज्जयेव द्राङ् निद्रया कैटभजिद् विमुक्तः ॥ २९ ॥ अथामरास्तं प्रणिपत्य देवं सुराहितोज्जासनजागरूकम् । प्राचीनवाचामपि गोचरत्व- मनश्नुवानं विभुमस्तुवन्ते ॥ ३० ॥ नमो जगन्निमितिकर्मठाय नमो जगद्रक्षणदीक्षिताय । नमो जगन्निग्रहसाग्रहाय नमस्त्रिधाकल्पितमूर्तये ते ॥ ३१ ॥ जगन्ति सर्वाणि जगन्निवास! कर्तुं च धर्तुं च तथापहर्तुम् ।

१६ जानकीपरिणये वेधा हरिः शम्भुरिति त्वमेको भिदा गुणैराकलितां बिभर्षि ॥ ३२ ॥ बोद्धा च बोधश्च तथैव बोध्यं यष्टा च यागश्च हरे ! तथेज्यम् । भोक्ता च भुक्तिश्च तथैव भोज्यं वक्ता वचो वाच्यमपि त्वमेव ॥ ३३ ॥ स्तुत्यं कथं वा कथयन्ति वाचा- मगोचरत्वं दधतं भवन्तम् । ध्येयं च धीराः कथमामनन्ति पारे भवन्तं मनसां स्फुरन्तम् ॥ ३४ ॥ अनीश्वरत्वं च तथेश्वरत्व- मनुत्तमत्वं पुनरुत्तमत्वम् । अनादितां किञ्च तथादितां च धत्से विचित्रं कमलेक्षण! त्वम् ॥ ३५ ॥ पितेति गीतः पुरुषोत्तम ! लं माता कथं वा जगतां पुराभूः । किं चादितेः पुत्र इति प्रतीतः *पुत्री कथं वा 'विधिना त्वमासीः ॥ ३६ ॥ त्रिस्रोतसं त्वच्चरणारविन्दं त्रयीं पुनस्ते वदनारविन्दम् । * विधिना नियत्या हेतुना अथ च ब्रह्मणा * पुत्री तनया अथ च पुत्रवान् । अभेदे त्वेषा तृतीया ।

द्वितीयः सर्गः। १७ त्वन्नाभिरूढं च तथारविन्द विश्वस्य कर्तारमसूत देवस् ॥ ३७ ॥ इति स्तुतिं निर्जरसां निशम्या पीताम्बरे प्रीतिभरं प्रपन्ने । आरेभिरे शंसितुमाशराणा- मुपप्लवं ते रभसेन तस्मै ॥ ३८ ॥ लङ्कापुरे तिष्ठति निर्विशङ्को रात्रिञ्चरो रावणनामधेयः। बहिर्मुखैरिन्द्रमुखैरजस्त्र- मुपासितश्चण्डभुजप्रतापः ॥ ३९ ॥ उरस्तटे तस्य दृढे निपत्य यदा विशीर्ण शतकोटिधाभूत् । वज्रं तदारभ्य पुरन्दरस्य बिभर्ति नूनं शतकोटिसंज्ञाम् ॥ ४० ॥ तं सङ्गतः सङ्गररङ्गभूमौ देवस्य सूनुर्दिवसेश्वरस्य । अकीर्तिपङ्केन यदानुलिप्त- स्तदादि तं काल इतीरयन्ति ॥ ४१ ॥ स्थातुं तद्ने समराङ्गणेषु प्रभुर्न यस्मादभवत् प्रचेताः।

जानकीपरिणये तस्मादभूत् तस्य किलाप्प्रभुत्वं व्याकुर्वते तत् परथानभिज्ञाः ॥ ४२ ॥ तेनाददानेन समस्तमर्थ- मकिञ्चनत्वं गमितः कुबेरः। सखानुरूपो भवति स्मरारे- श्चिराय भिक्षोर्हरिदम्बरस्य ॥ ४३ ॥ आमोदिताद् गन्धसमर्पणेन गृह्णाति तस्मात् पवनोऽनुवेलम् । तदङ्गलग्नं सुरतान्तजात- स्वेदाम्बुबिन्दूत्करभारहारम् ॥ ४४ ॥ उपास्यते भूमिसुरैः सदा यद् धत्ते मुखत्वं दनुजद्विषा यत् । हविर्यदश्नाति च मन्त्रपूर्त तेजश्च तत् सम्प्रति सेवते तम् ॥ ४५ ॥ सेवां सदा मन्मथशासनस्य कुर्वन् क्षयं नोज्झति शीतभानुः । उपासनं तस्य पुनर्वितन्वन् क्षयं न जानाति कदापि चन्द्रः॥ ४६ ॥ दुर्दर्शतां न श्रयते न तापं तनोति न स्वेदकणान् विधत्ते । * अप्प्रभुत्वं जलप्रभुत्वम् अथचाशक्तत्वम् । अर्थान्तरे 'अनचि च' (८. ४. ४७) इति द्वित्वेन पकारद्वयोपपत्तिः ।

द्वितीयः सर्गः।
१९
नखंपचं नातनुते च वर्म
तस्य प्रसादं तपनोऽभिकाङ्क्षन् ॥ ४७ ॥
सुधान्धसस्तं विधुमाश्रयन्तं
सदा समग्रं सविधे निरीक्ष्य ।
सेवागता वह्निमुखाः सतृष्णा-
स्तिष्ठन्ति लीढोभयमुक्कजिह्वाः ॥ ४८ ॥
बन्दीकृतानां सुरसुन्दरीणां
करस्फुरच्चामरमारुतेन ।
तदुष्णनिःश्वाससमेधितेन
स सेव्यते पञ्चशरज्वरातः ॥ ४९ ॥
दिगन्तदन्तावलदन्तकुन्त-
निरन्तरोट्टननिष्ठुरेण ।
उरस्तटेन प्रधने करोति
स कुण्ठिताश्रीणि सुरायुधानि ॥ ५० ॥
इत्थं समस्तानभिभूय देवान्
निजप्रतापेन निशाचरेन्द्रः ।
उपेक्षितो व्याधिरिवैधमानः
पीडामजस्रं जगतां विधत्ते ॥ ५१ ॥
सबन्धुवर्ग जहि रावणं त्वं
सङ्ग्रामभूमौ शरधोरणाभिः
तपस्विहिंसाकलितादरं तं
दारान्
परेषां प्रसभं हरन्तम् ॥ ५२ ॥

जानकीपरिणाये इतीरिते खेचरमण्डलीसि- सुखान्दुरारेरजनिष्ट वाणी। यथारविन्दान करन्दधात स्था सुधा मण्डलतः सुधांशोः ॥ ५३ ।। उपप्लुतानि क्षणदाचरे जाने समस्तानि अगान्ति तेन । वरप्रदानात कमलासनस्य क्षान्तं मया हन्त जिरं तथापि ॥ ५४ ॥ पितामहं प्रीततमं तपाभिः स यातुधानापशवे ययाचे अवध्यतां तावदमलजाते. गर्वण कुर्वन् जनुजे नवज्ञाम् ॥ ५५ ॥ भवनहं दाशरथिनूशंस- নিহাস্পসালতাল । सन्तर्पणं सायकपन्नगानी बुधा! विधास्यामि समीकभूमौ ॥ ५६ ॥ दशाननेनोहहता कृपाणं शुभ मुहूर्त स्वयमात्ममूर्नाम् । आरब्धमासील्लवनं पुरा यत् समापयिष्यामि शरैरहं तत् ॥ ५७ ॥ गोप्ताशराणां कुहनाप्रगल्भः क्षेप्ता गिरेरन्तकशासनस्य ।

द्वितीयः सर्गः।
२१
भेत्ता स्थितीनां निजदुर्विनीते-
भॊक्ता फलानां भविता स युद्धे ॥ ५८ ॥
हवींषि भूयः सवनेषु भुवं
कल्पद्रुपुष्पाणि कचेषु धद्ध्वम् ।
सुरा! विमानेषु विशङ्कमाध्वं
चित्तानुरोधेन वधूरुपाध्वम् ॥ ५९ ॥
आधूसरानाशरचक्रवाल-
विनाशसंसूचनधूमकेतून् ।
चिरेण बद्धान् सुरलोकबन्दी-
वेणीभरान् मोक्ष्यथ निर्विशङ्कम् ॥ ६० ॥
इति प्रतिज्ञाय निशाचराणां
वधं सुधासारमुचात्मवाचा।
आश्वास्य बृन्दारकबृन्दमारा-
दन्तर्दधे सत्वरमब्जनाभः ॥ ६१॥
अहार्यधैर्ये सुरकार्यधुर्ये
तिरोहिते दैवतसार्वभौमे।
आशा वितन्वन् मुखराश्चतस्र-
श्चतुर्मुखो वाचमिमामुवाच ॥ १२ ॥
आश्चर्यचर्याननिवार्यवीर्यान्
गाम्भीर्यचातुर्यनिधीन् सधैर्यान् ।
देवीषु ऋक्षीषु च वानरीषु
प्लवङ्गरूपांस्तनयान् प्रसूध्वम् ॥ १३ ॥

जानकीपरिणये आत्मेति पुत्रं श्रुतयो यदाहु- स्तत् पुत्ररूपं दधतो भवन्तः । सहायभूयं कलयन्तु भूमौ कार्य चिकीर्षोर्भवतां मुरारेः ॥ ६४ ॥ प्रागेव भल्लूकवरो बलेन विजृम्भमाणोऽजनि जृम्भतो मे । त्रिविक्रमस्य त्रिगुणानि सप्त प्रदक्षिणानि प्रकटं व्यधाद् यः ।। ६५ ॥ तथेति तच्छासनमादितेयाः शिरोभिरादाय विनीतिनत्रैः। अजीजनन्नात्मसमान् कुमारान् सौजन्यधन्यान् बलिनो वदान्यान् ॥ ६६ ॥ शतक्रतुलिनमुनवीय सुग्रीवमर्को वरुणः सुषेणम् । वायुहनूमन्तममन्दवेग वहिश्व नीलं जनयाम्बभूव ॥ ६७ ॥ इत्थं सुतैर्देवमहर्षिसिद्ध- गन्धर्वविद्याधरकिन्नराणाम् । प्लवङ्गरूपैः सवनाचला भू- राच्छादिताभूज्जलदैरिव द्यौः ॥ ६८ ।। ॐ अनुदात्तत्त्वलक्षणस्यात्मनेपदस्यानित्यत्वान परस्मैपदम् ।

द्वितीयः सर्गः। २३ अथाविरासीत् क्षितिभर्तुरिष्टे- रन्ते पुमान् कश्चन वीतिहोत्रात् । पात्रं दधानः परमान्नपूर्ण स्फुरत्सुधासारमिवेन्दुबिम्बम् ॥ ६९ ॥ पत्नीरिदं प्राशय भूपते! ते पुत्रोदयस्तासु भविष्यतीति । वदन् ददौ क्षोणिभुजे स तूर्ण- मनुप्रविष्टं हरिणा तदन्नम् ॥ ७० ॥ पयश्वरं भूपतये वितीर्य तदाहितां च प्रतिगृह्य पूजाम् । ऋत्विग्भिरालोकितमादरात् त- दन्तर्दधे भूतमभूतपूर्वम् ॥ ७१ ॥ प्राजापत्येऽथ तस्मिन् गतवति पुरुष पायसं तद् विभज्य प्रीतामर्धेन चक्रे क्षितिपतितिलकः कोसलाधीशपुत्रीम् । अर्धस्यार्धन कन्यां मगधनरपतेः केकयेन्द्रात्मजां तां शिष्टस्यार्धेन भूयो मगधपतिसुतामष्टमांशेन चासौ ॥ ७२ ॥ आस्वाद्य पायसमकृत्रिममिन्दुबिम्ब- निर्यत्ननिर्यदमृतौघलसद्रसधि । भूमीपुरन्दरपुरन्ध्रिजनेन गर्भः क्षेमाय सर्वजगतां बिभरांबभूवे ॥ ७३ ॥ ..

जानकीपरिणय यं सूनुं जनयांबभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकवि सतीसमुदयैः संमानिताम्बाभिधा । सर्गः पाण्ड्यमहीभुजा बहुमते नव्ये तदीये महा- काव्ये दीव्यति जानकीपरिणये चारुर्द्वितीयोऽजनि ॥७॥ इति जानकीपरिणये द्वितीयः सर्गः। Padmaamparan

अथ तृतीयः सर्गः।
अथावनीपालवधूषु दौहृद-
व्यथासमाश्लिष्टशरीरयष्टिषु ।
विशेषतः कोसलभूपजा बभौ
सितासु राकारजनीव रात्रिषु ॥ १ ॥
कुचद्वयेनासितचूचुकश्रिणा
स्फुरच्छरस्तम्बरुचा मुखेन च ।
नितम्बिनी स्निग्धतरेण चक्षुषा
विनाक्षरं व्याहरति स्म दौहृदम् ॥ २ ॥
तनोर्यदाहुः समवायिकारणं
भुवं ततो गर्भजुषो मधुद्विषः।
नरेन्द्रभार्या वपुषः सिसृक्षया
मुदा मृदास्वादनमाचरद् ध्रुवम् ॥ ३ ॥
स्तनद्वयी भूपतिसुभ्रुवोऽसिता
मुखे बभौ श्रीदयिताय शैशवे
चिराय पातुं जतुमुद्रिता सुधा-
घटद्वयीव प्रहितादरात् सुरैः ॥४॥
प्रियां निजोत्सङ्गभुवो विभूषणं
विधाय पप्रच्छ तदीप्सितं मिथः।
समुन्नमय्य त्रपया नतं मुखं
मुदा समाघ्राय च मेदिनीश्वरः ॥ ५ ॥

जानकीपरिणये तदक्षयं शोकहरं सुखावह मनोवचोगोचरतामनाश्रितम् । भवत्प्रसादान्मयि वस्तु वर्तते किमर्थयेयान्यदनीदृशं विभो! ॥ ६ ॥ इति ब्रुवाणामभिनन्ध वळुभां चुचुम्ब मृद्गन्धि तदीयमाननम् । तदुक्तिसारं स सुधीः पदे पदे विनिस्सरन्तं तरसालिहन्निव ॥ ७ ॥ अपाङ्गमेवासितमब्जचक्षुषो वतंसनीलोत्पलभावमानशे। श्रमोदबिन्दूत्कर एव हारतां भृशालसायाः प्रतिकर्मकर्मणि ॥ ८ ॥ हरिविसस्मार वधूदरे वसन् फणाधराधीश्वरभोगमायतम् । तपोधनानामपि पावनं मनो वटद्रुमस्यापि च मञ्जुलं दलम् ॥ ९॥ क्रमेण पुष्टिः क्षितिपालसुध्रुव- स्तथा प्रतीकैरखिलैः समाददे । अदृश्यतायाः प्रथमं निकेतनं विलग्नमणोविषयो यथा भवेत् ॥ १० ॥ वधूदरे गर्भभरात् सगौरव गभीरतामुज्झति नाभिगड्ढरे ।

तृतीयः सर्गः
२७
बभौ स्थिता तत्र चिरात् प्रधाविनी
तमश्छटेवोपरि रोमवल्लरी ॥ ११ ॥
चकार कर्माणि यथाविधि क्रमाद्
विधानवित् पुंसवनादिकानि सः।
प्रणीतसंस्कारतया विशेषतो
रराज गर्भश्च नरेन्द्रध्रुवः ॥ १२ ॥
अणोरणीयस्त्वमधत्त यत् पुरा
तदा महत्त्वं महतो बभार यत् ।
वधूदरे तत्र चिरस्थिते हरी
ततोऽभिसंक्रान्तमवैनि तद् द्वयम् ॥ १३ ॥
विलम्बिनीमभ्रघटामिवाम्भसा
फलौघभारेण नतां लतामिव ।
ननन्द गर्भेण सगौरवेण तां
विराजितां वीक्ष्य विशामधीश्वरः ॥ १४ ॥
असूत तारेऽदितिदैवते सुतं
नरेन्द्र पत्नी प्रथमा सुखेन सा ।
तिथौ नवम्यां स्फुटमुच्चगेषु च
ग्रहेषु पञ्चस्वधिकर्किलमकम् ॥ १५ ॥
अरिष्टदीपास्तदनल्पवर्चसा
क्षणादभूवन्नभिभूततेजसः।
तदन्वयाधीश्वरभानुरोचिषा
ग्रहा इवान्ये गगनाङ्गणस्थिताः ॥ १६ ॥

२८ जानकीपरिणये अजीजनद् वैजनने सुतं ततो निरामनस्याश्वपतेः कुमारिका । त्रयीव धर्म खनिभूरिवोज्ज्वलं मणिं दिगैन्द्रीव मयूखमालिनम् ॥ १७ ॥ शुभे मुहूर्ते सुषुवेऽथ मागधी यमौ सुतौ विद्विषतां यमोपमौ । यथादितिर्वासवदानवद्विषो यथाश्विनी निर्जरसां चिकित्सकौ ॥ १८ ॥ तथोच्चकैमङ्गलसूचकः श्रुति- प्रहर्षदोऽजृम्भत तूर्यनिस्वनः। नभस्तले निर्जरदुन्दुभिध्वनि यथा जनोऽमन्यत तत्प्रतिध्वनिम् ॥ १९ ॥ प्रहर्षतो वारविलासिनीजनाः स्फुटं नटन्तो जननोत्सवे हरेः। सताण्डवा नूतननीरदोदये शिखण्डिनीनामिव मण्डला बभुः ॥ २० ॥ प्रदक्षिणाकारशिखः प्रसन्नतां प्रशान्तधूमौघतया प्रकाशयन् । मुखं सुराणां स्फुरति स्म तन्मुख- प्रसादमग्निः कथयन्निव स्वयम् ॥ २१ ॥ सुरैविमुक्ता सुरभूरुहोद्भव- प्रसनवृष्टिर्दुतमासदद् भुवम् ।

तृतीयः सर्गः।
महोत्सवे तत्र वधूमुखेरितः
क्षणादुलूलुध्वनिरानशे दिवम् ॥ २२ ॥
निधाय रहोभरमञ्जनोद्भवे
सुते समस्तं सुरकार्यसिद्धये।
चचार सामोदमितस्ततः शनै-
ध्रुवं नभस्वानुदये जगत्पतेः ॥ २३ ॥
असौ यशश्चन्द्रिकयाग्रजः शिशुः
क्षणेन नस्तापमपाकरिप्यति ।
मुजप्रतापोदितमाशरप्रमो-
रित प्रसन्ना हरितोऽभवंस्तदा ॥ २४ ॥
जनाय पुत्रोदयशंसिने मुदा
तथा वसूनि प्रददौ धरापतिः।
धनाधिनाथोऽपि तदर्थसम्पदे
यथानुवेलं स्पृहयेत विस्मितः ॥ २५ ॥
विशामधीशो विहितावगाहनः
सितांशुगौरं सिचयं नवं दधत् ।
विभूषितश्चन्दनचर्चितः सज
वहन्
द्विजैः
सङ्कुलमाप मन्दिरम् ॥ २६ ॥
सुताननाम्भोजचतुष्टयीं मुहु-
ननन्द पश्यन्नवनीपुरन्दरः ।
विलोकयन् दानवसूदुनो यथा
चतुर्मुखी नाभिभुवः स्वयम्भुवः ॥ २७ ॥

जानकीपरिणये अनुष्ठिते ब्रह्मभुवा महर्षिणा कृतप्रजाशमणि जातकर्मणि । विशेषतो राजसुता विजिरे यथा सुधांशोः शरदागमे कराः ॥ २८ ॥ धरासुरेभ्यः प्रदिशन् धरापतिः सुवर्णभूषाम्बररत्नसञ्चयान् । ससर्ज बह्वीरपवर्जनोदकैः सखीः सरय्वा जितकल्पपादपः ॥ २९ ॥ त्रिहायनीोणदुधाः सतर्णकाः प्रभुहिजेभ्यः प्रदिदेश नैचिकीः । महोत्सवे तत्र भुवश्च भूयसीः फलान्वितोच्चावचसस्यमालिनीः ॥ ३० ॥ धनस्तदाशा वसुधासुधान्धसां न केवलं पूरयति स्म भूपतिः । यशोभिराशा अपि निन्दितेन्दुभिः शचीपतिप्रष्ठसुधान्धसामहो ॥ ३१ ॥ श्रुतेन यागेन ऋणाद् विमोचित- श्चिरादृषीणां मरुतां च पार्थिवः । ऋणात् पितॄणां च विसर्जितस्तदा विराजते स्म प्रसवेन देववत् ॥ ३२ ॥ अथाभिधां राम इति क्षितीश्वर- श्वकार सूनोः प्रथमस्य धर्मवित् ।

तृतीयः सर्गः !
३१
0
अघौघतूलावलिपावकार्षि
पुमर्थविश्राणनकल्पवल्लरीम् ॥ ३३ ॥
ततः सुतेषु त्रिषु वल्लभो भुवो
निनाय कञ्चिद् भरताभिधार्थताम् ।
तथेतरं लक्ष्मणशब्दवाच्यतां
परं च शत्रुघ्नपदाभिधेयताम् ॥ ३४ ॥
निपीय धात्रीवदनाद विनिर्गतां
चिरेण गीति मणिमञ्चशायिनः ।
सुखं निद्रुः शिशवो मुहुर्मुहुः
सरोदनारम्भमुदश्चितस्मितम् ॥ ३५ ॥
द्वयेन जान्वोः कनकाङ्गणे कर-
द्वयीसहायेन निरूढचक्रमाः ।
विजहिरे ते नरपालबालका-
स्तटे सुमेरोरिव सिंहशाबकाः ॥ ३६ ॥
वचांसि धात्रीकथितानि दारका
धरापतेरन्ववदञ्छुका इव ।
जनस्य सिञ्चन्त इव श्रुतीः सुधा-
रसेन वर्णैरनतिस्फुटोदितैः ॥ ३७ ॥
दृढं गृहीत्वा जननीकराङ्गुलीः
समर्पयन्ति स्म पदानि कानिचित् ।
शनैश्शनैरङ्गणमेदिनीषु ते
पदकणत्काञ्चनकिङ्किणीगणाः ॥ ३८ ॥

जानकीपरिणये विजहिरे वीथिषु बालकैः समं नृपालबालाः क्षितिरेणुरूषिताः। वनीषु दीव्यत्कुसुमासु षट्पदाः प्रसूनधूलीपरिधूसरा इव ॥ ३९ ॥ प्रणीतचौलः प्रचलच्छिखण्डकः कुमारवर्गोऽक्षरवेदिकां गतः । लिपि समस्तां जगृहे न केवलं धियो विलासैर्हदयं गुरोरपि ॥ ४० ॥ अथोपनीता विधिवत् पुरोधसा धृतोपवीताजिनदण्डमेखलाः। चकासति स्म प्रथमाश्रमस्य ते यथावताराः क्षितिपालनन्दनाः॥४१॥ वसिष्ठतो ब्रह्मविदां वरिष्ठत- स्त्रयीं तदङ्गैः सममध्यगीषत । अनेहसाल्पेन च ते प्रपेदिरे तथा समस्तासु कलासु कौशलम् ॥ ४२ ॥ सुधन्वनोऽस्त्राणि समुज्ज्वलानि ते सुखादशिक्षन्त सुता महीक्षितः। प्रकाशितास्तैरभवन् दुरासदाः प्रभाकरोनैरिव धर्मवासराः ॥ ४३ ॥ दृढव्रतैर्धर्मरतैर्यशस्विभि- दयालुभिर्दानपरैर्विचक्षणैः।

३ तृतीयः सर्गः । बहुश्रुतैः सज्जनसम्मतैः स तैः सुतैश्चतुभिः शुशुभे महीपतिः ॥ ४४ ॥ उवास रामेण विना न लक्ष्मणः क्षणं न चोवास स तं विना पुनः । वसेत् प्रसादो विधुमन्तरेण किं विना प्रसादेन बसेद् विधुत्र किम ॥ ४५ ॥ परस्परं तौ भरतश्च लक्ष्मणा- नुजश्च सौहार्दमुभावपुप्यताम् । यथा शचीवल्लभकैटभडिपो यथाश्विनौ मारुतपावको यथा ॥ ४६ ॥ अथासदत् तं क्षितिपाकशासनं *विकल्पपङ्केरुहसम्भवो मुनिः । अभूत् त्रिशङ्कोस्त्रिांदेवाधिरोहणे यदीयवाणी प्रगुणाधिरोहणी ॥ ४७ ॥ अनयमादिभिरीश्वरः क्षिले- स्तमर्चयित्वा विधिवत् तपोधनम् । प्रहृष्टचेताः कुशपूतविष्टरे निविष्टमाचष्ट वसिष्ठसन्निधौ ॥ ४८ ॥ अनुग्रहोऽयं मयि दर्शितस्त्वया ततः प्रतिष्ठां गतमद्य मत्कुलम् । * विकल्पब्रह्मा विश्वामित्र इत्यर्थः ।

जानकीपरिणये
मुने! निकेतं परिपूतमद्य मे
जनिर्मदीया च फलान्विताजनि ॥ ४९ ॥
त्वया यदुद्दिश्य मुनीन्द्र ! भूरियं
पदारविन्दार्पणमानिताधुना ।
तदर्पयिष्यामि रयादसंशयं
विहाय शङ्कामभिधेहि वाञ्छितम् ॥ ५० ॥
इति प्रहर्षादनुकूलवादिनं
घराधिनाथं मुनिरभ्यभाषत ।
भवान् हरिश्चन्द्रनृपश्च वीक्षितौ
मनोः कुले द्वाविह सत्यसङ्गरौ ॥ ५१ ॥
अहं विधित्सुः सवनं महीपते!
तदन्तरायप्रशमाय पूर्वजम् ।
कुमारमानेतुमिहागतोऽस्मि ते
सहायवन्तं धनुषा प्रयच्छ तम् ॥ ५२ ॥
सुबाहुसुन्दप्रभवौ दुरासदौ
निशाचरावध्वरविनकारिणौ ।
निहन्तुमीष्टे सुत एव ते रणे
हिमान्धकाराविव चण्डदीधितिः ॥ ५३ ॥
इतीरयित्वा विरतं मुनीश्वर
गतप्रहर्षः पतिरब्रवीद् भुवः ।
क मे कुमारः सुकुमारविग्रहो
निशाचराः कर्कशमूर्तयः क वा ॥ ५४ ॥

तृतीयः सर्गः ३५ अशिक्षितास्त्रः सकलास्त्रकोविदै- रपेतमायः कपटाहवप्रियैः। अवाहिनीको ध्वजिनीयुतैः कथं निशाचरैयुद्धमसौ करिष्यति ॥ ५५ ॥ न दीयते वत्स इति त्वदग्रतो बिभेमि वक्तुं तदये मुनीन्द्र ! मे । स्वयं विदित्वाशयमत्र दारके दयस्व लब्धे विविधैर्ऋतैर्मया ॥ ५६ ॥ इतीरिते भूतलशीतलत्विवा तथा स जज्वाल तपोधनः क्रुधा । भयेन मेने तमिमं यथा जनो जगद् दिधद्धं प्रलयाशुशुक्षणिम् ॥ ५७ ॥ चचाल भूमिर्जलधिः प्रचुक्षुभे शिखी न जज्वाल ववौ न मारुतः। प्रपेदिरे त्रासभरं सुधान्धस- स्तपोधने क्रोधवशं गते सति ॥ ५८ ॥ अथाब्रवीदग्रसरस्तपस्विना- महं गमिष्यामि पुनर्यथागतम् । चिरं भवाञ्जीवतु भूपते ! न चे- न्मृषा प्रतिज्ञां भुवि कः करिष्यति ॥ ५९ ॥ उदीरितायामिति वाचि तत्क्षणा- दमर्षिणा गाढतरं महर्षिणा।

३६
जानकीपरिणये
अरुन्धतीजानिरुवाच मानसी
व्यथां विधून्वन्नवनीबिडौजसः ॥ ६ ॥
कुले मनोरश्रुतपूर्वमर्थिभि-
ब्रवीति नास्तीति पदं कथं भवान् ।
ननु प्रतिष्ठा भुवनेषु विश्रुता
वदान्यतोपज्ञभमुप्य भूपते ! ॥ ६१ ॥
महीपते! नूतनवेधसे विना
विचारलेशं तनयं त्वमर्पय ।
अयं क्षमो राक्षसनिग्रहे स्वयं
तथापि भाग्याद् भवतः स चागतः ॥ ६२ ॥
त्रिशङ्कसंस्थापनमातनोजग-
अयं विनिर्मातुभिवायमादितः।
विधूय च क्षात्रमसौ तपश्चयैः
समासदद् ब्रह्मऋषित्वमञ्जसा ॥ ६३ ॥
पुरा मदीयैस्तनयैः सहात्मनः
सुताननेनाकलितोऽपि निग्रहः।
कृतोऽमुना किञ्च तथा त्रिशङ्कुना
समं शुनःशेफमनुग्रहोऽस्पृशत् ॥ ६४ ॥
इत्थं वसिष्ठवचनैरपनीतशोक-
भूमा प्रसन्नहृदयः कुशिकात्मजाय ।
रामं धनुर्धरमदान्मदनाभिरामं
राजा गृहीतधनुषा सह लक्ष्मणेन ॥ ६५ ॥

तृतीयः सर्गः । ३७ यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुदयैः संमानिताम्बाभिधा । सावित्र्या सममेव यं श्रितवती वाग्देवता सादर तत्काव्येऽत्र हि जानकीपरिणये सर्गस्तृतीयोऽजनि ॥ ६६ ॥ इति जानकीपरिणये तृतीयः सर्गः। Image अथ चतुर्थः सर्गः । पुरमुच्छ्रितध्वजमुदग्रतोरणं कदलीतरुक्रमुकषण्डमण्डितम् । जलसिक्तमुक्तकुसुमप्रतोलिकं तदभून्नरेन्द्रसुतयोर्विनिर्गमे ॥ १॥ अभिवाद्य मातृजनमश्रुशीकरै- रहिमैस्तदक्षिगलितैः समुक्षितौ । पितरं प्रणम्य च पुरोधसा समं सविधं मुनेरभजतां क्षणेन तौ ॥ २ ॥ अथ रामलक्ष्मणसमेतपार्श्वभू- निरगान्नरेन्द्रभवनात् तपोधनः । सविधे सुरासुरपुरोधसौ दधत् प्रथमाचलादिव तुषारदीधितिः ॥ ३ ॥ समवाकिरन सपदि लाजसञ्चयः पुरयोषितः क्षितिपतेः कुमारको । कुसुमैर्वनेषु चिरिबिल्वशाखिका मधुमाधवाविव समुज्झितैनिजैः ॥ ४ ॥ सरयूजलाचमननिर्मलात्मने रघुनन्दनाय सकनीयसे मुनिः। अदिशद् बलामतिबलां च विद्ययो- रनुभावतः स न तयोः क्लमं ययौ ॥ ५ ॥ - सः सकनीयान् रामः ।

चतुर्थः सर्गः ।
सरयूतटे विततयागकर्मणां
तपनान्ववायधरणीभुजाममी।
अधिवेदि यूपकुलमालुलोकिरे
पुलकाङ्कुरौघमिव हर्षजं भुवः ॥ ६ ॥
विषयेषु वा गिरिषु वा नदीषु वा
पथि यद्यदक्षिसरणीमगाहत ।
विनयेन तत्तदभिधामपृच्छता
मुनिमात्मजौ नरपतेः कुतूहलात् ॥ ७ ॥
सरसैः फलैः क्षितिरुहा विहङ्गमाः
कलनिस्वनैः कुसुमसञ्चयैलताः ।
हरिणीगणाश्च तरलैर्विलोकितैः
समपूजयन् सपदि राजनन्दनौ ॥ ८ ॥
तरसा तमाश्रमममी प्रपेदिरे
हरकोपदग्धवपुषो मनोभुवः ।
वहता परागचयमङ्गभस्मनां
मरुता विमोहितमृगद्विजव्रजम् ॥ ९ ॥
अयमाश्रमः पशुपतेस्तदक्षिभू-
शिखिदग्धमङ्गमिह पुष्पधन्वनः ।
अपतत् तदाप्रभृति दिवसौ पुनः
प्रथतेतरां जनपदोऽङ्गसंज्ञया ॥ १० ॥

जानकीपरिणये रजनीचरी वसति काचिदत्र तां जहि सायकेन निशितेन ताटकाम् । रघुवंशरत्न! भवतामनामयौ विषयौ करूशमलदाभिधाविमौ ॥ ११ ॥ इति वाचमूचिषि तपस्विनां वरे धनुराततज्यमतनिष्ट तत्क्षणात् । हरितां मुखानि मुखराणि शिञ्जिनी- जनितैश्वकार च स भैरवै रवैः ॥ १२ ॥ धनुषः स्वनं रघुपतेर्घनाघन- ध्वनिगर्वचर्वणचणं निशम्य सा । कलुषा रुषा परुषभाषणापतत् पुरुषादिनी विषमवेषभीषणा ॥ १३ ॥ द्धतीभचर्मपरिधानमायतं स्तनमण्डलार्पितकपालमालिका । नररक्तचन्दनरसेन रूषिता शवभस्मकल्पितकपोलमण्डना ॥ १४ ॥ प्रलयान्धकारपटलैरिवोद्गतै- (वनत्रयीदुरितसञ्चयैरिव । अयशोभरैरिव कुलस्य रक्षसां द्रुहिणेन मेचकरुचिर्विनिर्मिता ॥ १५ ॥ ज्वलदग्निकुण्डनयना विशङ्कट- भृकुटीविटाङ्कितभयङ्करानना।

चतुर्थः सर्गः।
चपला कडारचिकुरोत्करा जव-
द्रुतपातितद्रुमविकीर्णपद्धतिः ॥ १६ ॥
रदनान्तरेषु चिरलमजाङ्गल-
ग्रहणेच्छया विदधती विलोलनम् ।
रसनाञ्चलेन मुहुरास्यगहरे
विकटाट्टहासमुचि विस्रगन्धिनी ॥ १७ ॥
अथ राघवोऽध्वनि निरीक्ष्य राक्षसी
प्रजिहीर्षयोद्यतभुजाप्रमायतीम् ।
वहता शरेण यमदण्डचण्डतां
जगदापदा सह निनाय तां क्षयम् ॥ १८ ॥
रघुनन्दनः समतनोनिशाचरी-
कदनं प्रयासलवमन्तरेण यत् ।
समशिश्रियत् सपदि पूर्वरङ्गतां
क्षणदाचरोन्मथननाटकस्य तत् ॥ १९ ॥
अथ ताटकानिधनहर्षितान्मने-
रधिगम्य तावखिलमन्त्रमण्डलम् ।
रघुनन्दनावभवतां दुरासदी
शिखिभास्करौ प्रचुरतेजसाविव ॥ २० ॥
अभजन्त ते तद्नु वामनाश्रम
श्रमहारिशाखितलवर्तितापसम् ।
कुशवल्कलाजिनविराजितोटज-
प्रकरं प्रशान्ततरसत्वसङ्कुलम् ॥ २१ ॥

जानकीपरिणये अथ तत्र गाधितनुभूस्तपोवने विधिवत् समारभत कर्तुमध्वरम् । प्रथमानभव्यरसहव्यतर्पित- त्रिदिवालयोज्झितसुधारसादरम् ॥ २२ ॥ अथ रामलक्ष्मणभुजाभिरक्षिते महिते मुनेश्चलति यज्ञकर्मणि । वपुषा विडम्बितवलाहकैरभूत् क्षणदाचनिबिडमम्बरं क्षणात् ॥ २३ ॥ विततप्रयोगमाधिवेदि ऋत्विजां कुलमाकुलं विदधतो निशाचराः। क्षतजं पुरैव मुमुचू रघुबह- प्रहितज्वलद्विशिखजालघट्टनात् ॥ २४ ॥ दधिरे मखोपकरणानि शोणतां रुधिरेण तेन पतता नभस्स्थलात् । नयनाञ्चलानि नरपालबालयो- रभजत् क्षणादरुणताममर्षतः ॥ २५ ॥ समधत्त यत् पवनदैवतं दुरा- सदमस्त्रमुद्भटजवं शरासने । रघुनन्दनः सपदि तेन ताटका- तनुजं जले जलनिधेरपातयत् ॥ २६ ॥ अदहत् सुबाहुमपि पावकास्त्रतो रजनीचरं सरभसं रघूहहः।

चतुर्थः सर्गः। ४३ अथ रक्षसां तदखिलं बलं भया- दभजद् दिशासु लघु कान्दिशीकताम् ॥ २७ ॥ इति राघवक्षपितविघ्नमध्वरं निरवर्तयत् सपदि ऋत्विजां गणः । प्रमदाश्रुभिः प्रथममाप्लुतः शनै- मुनिरातनोदवभृथाप्लवं ततः ॥ २८ ॥ शुभसूचकाक्षरमनोज्ञया गिरा कलयन् प्रमोदभरितं रघूहहम् । अवदन्मुनिः कुशिकभूनिमन्त्रितो मिथिलाधिपेन सवनं विधित्सुना ॥ २९ ॥ आयि राम! सिद्धमिह ते प्रभावतः क्रतुकर्म शर्म च विनिर्मितं मम । जनकाज्ञया विहितधर्मवर्धनो भवताद् भवान् क्षितिजयान्वितोऽचिरात् ॥ ३० ॥ जनकश्चिकीर्षति मखं विलोकितुं तमहं ब्रजामि मिथिलाभिधां पुरीम् । धनुरैश्वरं त्वमपि तत्र वीक्षितुं समुपेहि पार्थिवसुत! क्षणादिति ॥ ३१ ॥ अथ निर्ययौ मुनिवरस्तपोवना- मिथिलापुरं प्रति सरामलक्ष्मणः। क्षितिजयान्वितः जनकस्य पितुः अथच तन्नामकस्य विदेहराजस्य आज्ञया । महीविजयोपेतः अथच सीतोपेतः ।

जानकीपरिणये
अनुजग्मुरध्वनि सुदूरमाकुला
हरिणार्भकाः परिचिताश्विरेण तम् ॥ ३२ ॥
विषयान् पुराणि विपिनानि पर्वतान्
सरितः सरांसि च विलङ्घय ते जवात् ।
वसुपालितां वसुमती प्रपेदिरे
धनधान्यरत्नपशुजालसंकुलाम् ॥ ३३ ॥
कथयन् कुशान्वयचरित्रमद्भुतं
मुनिपुङ्गवो रघुवराय सादरम् ।
अचलाधिराजतनयामुदन्वतो
महिषीमवाप मरुतां तरङ्गिणीम् ॥ ३४ ॥
अवदन्मुनिस्तदनु दिव्यवाहिनी-
चरितं बुभुत्सति नरेन्द्रनन्दने ।
तनयायं हिमवतोऽभवत् तयोः
प्रथमां नदी सुरगणोऽनयद् दिवम् ॥ ३५ ॥
स्मरशासनाय तनयां कनीयसी
प्रदिदेश हर्षभरितो महीधरः।
शिवयोश्चिरं मिलितयोः परस्परं
धरणी बभार खलु वीर्यमाहितम् ॥ ३६ ॥
ज्वलने क्षमा सपदि वोढुमक्षमा
विससर्ज तत् स च सुधान्धसां पुनः ।
निदधे जवात् सरिति सा च तीरभू-
प्रभवे जहौ शरवणे हिरण्मये ॥ ३७॥

चतुर्थः सर्गः। १५ अजनिष्ट तत्र किल धाम षण्मुखी- परिपीतभव्यरसकृत्तिकास्तनम् । दनुजावलीदलनकेलिसादरं प्रणतार्तिभञ्जनकलाविशारदम् ॥ ३८ ॥ अथ राघवे कथमगाहत क्षिति विबुधापगेति विनयेन पृच्छति । उपचक्रमे निगदितुं मुनिमरु- त्सरितोऽवतारचरितं यथाक्रमम् ॥ ३९ ॥ अजनिष्ट कश्चन पुरा धरापतिः सगराभिधस्तरणिवंशभूषणम् । विधित्सुरध्वरशिखामणि हयं विससर्ज धन्विनिकुरुम्बरक्षितम् ॥ ४० ॥ अथ कीर्तिसञ्चयमिवावनीपते- हरिदन्तरेषु कृतचङ्मक्रमम् । हरति स्म धन्विनिवहरलक्षितो हयपुङ्गवं मखभुजामधीश्वरः ॥४१॥ हयरत्नमध्वनि विनष्टमञ्जसा हयरक्षिणः क्षितिभुजे न्यवेदयन् । स च मार्गणाय तुरगस्य सत्वरं निखिलेन पुत्रनिवहानचूचुदत् ॥ ४२ ॥ सरितः सरांसि विपिनानि पर्वतान् विषयान् पुराणि विविधाश्च मेदिनीः ।

जानकीपरिणये
सहसा विचित्य ददृशुर्न कुत्रचित्
सगरात्मजा हयहयापहारिणौ ॥४३॥
अहरत् तुरङ्गमयमेप मोषक-
स्तुरगस्य वाजिनमसावचूचुरत् ।
इति जम्मुरध्वनि समस्ततो जनां-
श्वरतः क्रुधा सगरभूपतेः सुताः ॥ ४४ ॥
क्षितिमण्डले तमनवेक्ष्य वाजिनं
विचिचीषवस्तदनु ते रसातले।
अवदारणं विदधिरे तथा क्षितेः
स्थितिमाशशाङ्करवि तद्यथा भजेत् ॥ ४५ ॥
अथ ते निमीलितविलोचनं शनै-
रवलोकयन्तमधिचित्तमीश्वरम् ।
विलुलोकिरे कपिलमुग्रतेजसं
तुरगं च तस्य विचरन्तमन्तिके ॥ ४६ ॥
अयमत्र तिष्ठति तुरङ्गतस्करो
लघु बध्यतां झटिति वध्यतामिति ।
कटुभाषिणः कपिलरोषपावके
सुमतेः सुताः शलभतां प्रपेदिरे ॥४७॥
समचोदयत् तदनु वाजिलिप्सया
सगरोंऽशुमन्तमसमञ्जसम्भवम् ।
स च तान् निरीक्ष्य भुवि भस्मसात्कृतान्
सलिलं प्रदातुमुदयुत दुःखितः ॥ ४८ ॥

चतुर्थः नर्गः । अमरापगाजलनिवापतो गतिः सुलभा भवपितृकुलस्य नान्यतः। भज यत्नमङ्ग! कुलदीप! तत् स्वयं सुरनिम्नगानयनकमणि द्रुतम् ॥ १९ ॥ इति वैनतेयवचसा जलाञ्जली शमितादरः प्रतिनिवृत्य वाजिना ! निरवर्तयन्निजपितामहक्रतुं स महीं ररक्ष च वनं गते नृपे ॥ ५० ॥ स दिलीपनाम्नि तनुजे धुरं क्षिते- निदधेऽभजच्च तपसे तपोवनम् । स भगीरथे निजसुते महारथे विनिवेश्य भारमवनेर्वनं ययौ ॥ ५१ चरितं निशम्य सगरात्मजन्मनां विनिवेश्य च क्षितिधुरां स मन्त्रिषु । अवतारणाय सरितः सुपर्वणां चरितुं समारभत दुश्वरं तपः॥ ५२ ।। तपसा प्रसन्नमवनीपतिर्मरु- तटिनीमयाचत सरोजविष्टरम् । स च वाहिनीमनुशशास तां पुन- स्त्वमलङ्कुरुष्व तरसा रसामिति ॥ ५३ ॥ क्षितिपं जगाद सुरवाहिनी स्मयात् त्वमितो निवर्तय मनो मनोरथात् ।

जानकीपरिणये
अवलोकयेऽद्य तमहं न कुत्रचि-
जवमुटं जगति यः सहेत मे ॥ ५४॥
तदनु स्मयं शमयितुं विधिर्मरु-
त्सरितोऽवदत् क्षितिपते! त्वमञ्जसा ।
तपसा प्रसादय कपर्दिनं स ते
फलितं करिष्यति मनोरथद्रुमम् ॥ ५५ ॥
इति चोदितो नरपतिः स्वयम्भुवा
तपसा प्रसन्नमकरोत् पिनाकिनम् ।
धरणीभुजे त्रिदिवसिन्धुधारणं
प्रभुणा च तेन दयया प्रतिश्रुतम् ॥ ५६ ॥
अपतत् सगर्वभरमभ्रवाहिनी
हरमूर्तिं तं झटिति हर्तुमुद्यता ।
समशिश्रियत् स्वयमदृश्यतां जटा-
पटले भ्रमीविदधती चिरं प्रभोः॥ ५७ ॥
सुरनिम्नगां क्षितिपुरन्दरस्तुतो
विससर्ज बिन्दुसरासि स्मरान्तकः।
अभवंस्ततः सपदि सप्त सिन्धवः
शरदिन्दुकुन्दधनसारबन्धवः ॥ ५८ ॥
अथ तासु वासवहरिद् विभूषिता
तिसृभिर्दिशा च तिसृभिः प्रचेतसः।
रथमन्वगात् सपदि काचिदापगा
सजवं भगीरथमहीशतक्रतोः ॥ ५९॥

चतुर्थः सर्गः । लघु जहुरध्वरभुवं विनुहृता- मवलोक्य दिव्यसरिता चलन रुपा । पिबति स्म तां क्षितिभुजा समीडितो विजहौ पुनः श्रवणवलना क्षगात् ॥ ६० ॥ जलसेकशुद्धनिजदेहभस्मनो नरपालनिर्मितनिवापकर्मणः ! त्रिदिवातिथीन् सगरजान् विधाय ता- नभजत् सुपर्वसरिदम्भसां निधिम् ॥ ६१ ॥ पुरमाससाद सुरलोकवाहिनी तपसा विधाय नरलोकवाहिनीम् । रथमास्थितः सरभसं महारथ- श्चरितार्थतामधिगतो भगीरथः ॥ ६२ ॥ इति राघवौ मुनिमुखेन्दुनिःसृता परिपीय निर्जरनदीकथासुधाम् । *वसता चिरादधिविशालमादरा- दभिपूजितौ सुमतिना महीभुजा ॥ ६३ ।। अभजन्त ते तदनु कञ्चिदाश्रम सुरराजदुश्चरितगूढसाक्षिणम् । शिथिलोटजं हिरदभग्नपादपं चिरलुप्तकुम्भजलसेकवल्लिकम् ॥ ६४ ॥ * 'बसता' इत्यस्य स्थाने 'मुदितौ इति पाठ्वं भाति ।

५०
जानकीपरिणये
अथ तत्र गौतमकलत्रसंश्रयां
मुनिपुङ्गवे कथयति स्वयं कथाम् ।
उदभूत् तपोधनवधूः शिलात्मता-
मपहाय राघवपदार्पणक्षणात् ॥६५॥
अजनिष्ट गौतमवधूविनिर्मिती
रघुवीरपादरज एव कारणम् ।
सुधियो रजः सकलसर्गकारणं
प्रवदन्ति यद् भवति किं तदन्यथा ॥ ६६ ॥
रघुनाथपादरजसामनुग्रहा-
दखिलैः क्षणादवयवैः समुज्झितम् ।
उपलत्वमुच्चतरकर्कशस्तन-
द्वयमन्तरेण मुनियोषितोऽद्भुतम् ॥ ६७ ॥
द्रुतमागतेन निजमाश्रमं वधू-
सहितेन दीर्घतपसाभिपूजिताः ।
अभजन्त ते निखिलसम्पदां पदं
मिथिलाभिधां जनकपालितां पुरीम् ॥ ६८ ॥
उत्पन्ना वसुधातलादिह वरा सीताभिधा कन्यका
किञ्च ब्रह्मविदां शिखामणिरिह क्षोणीपतिवर्तते ।
अत्रास्ते खलु चण्डमन्तकरिपोः कोदण्डमित्यादराद्
रामस्तां नगरीमवैक्षत मणिप्रासादरुद्वाम्बराम् ॥६९॥

चतुर्थः सर्गः। यं सूनुं जनयाम्बभूव माहितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुदयः सम्मानिताम्बाभिधा। सर्गस्तस्य कृतौ निरर्गलगिरश्चेरावनीवासब- श्लाघासीमनि जानकीपरिणये तुर्योऽतिवर्योऽजनि ॥७॥ इति जानकीपरिणये चतुर्थः सर्गः। HUMAN

अथ पञ्चमः सर्गः।
अथ राववदर्शनोत्सुकाः
प्रमदाः सौधगवाक्षनिर्गतैः।
विशिखा विदधुः सतोरणा
मिथिलायां निजलोचनांशुभिः॥१॥
किमिमौ मधुपुष्पसायको
किमिमौ निर्जरसां चिकित्सको।
किमिभौ हरिणाङ्कभास्करा-
विति तो पौरजनाः शशङ्किरे ॥२॥
विधिवजनकप्रगीतया
समतुष्यत् स महर्षिरर्चया।
सुजनैः स्वयमादरेण यत्
क्रियते तत् कुरुते मुदं सताम् ॥ ३ ॥
रघुनन्दनरूपदर्शन-
प्रभवानन्दनिमममानसः ।
तमपृच्छदिदं धराधिभू-
रुपविष्टं कुशविष्टरे मुनिम् ॥ ४॥
मुनिपुङ्गव! शंस काविमौ
सुखयन्तौ हृदयानि दारको ।
वियवचरौ मणिक्षिता-
विह दस्रो प्रतिबिम्बिताविव ॥ ५ ॥

पञ्चमः सर्गः। निजरूपनिरस्तमन्मथौ भुजतेजोविजितप्रभाकरौ। गतिधिकृतगन्धसिन्धुरी मतिनिधूतमरुत्पुरोहितौ ॥६॥ प्रचलत्तपनीयकुण्डलौ मुखभासा जितचन्द्रमण्डलौ। शतपत्रसमानलोचनौ वचसा माक्षिकगर्वमोचनौ ॥७॥ जनचित्तहरस्फुरद्रुचौ नवजीमूतसमुल्लसत्कचौ। समुपस्थितयौवनावुभौ तनुमन्माधवचित्तभूनिभौ ॥ ८ ॥ भुवनत्रयरक्षणे क्षमौ युवकण्ठीरवचण्डविक्रमौ। खलनिग्रहणोत्सुकौ क्षिता- ववतीर्णौ त्रिदिवादिवामरौ ॥ ९ ॥ ( पञ्चभिः कुलकम् ) किमुभौ सुरराजनन्दना वुत गन्धर्वपतेः कुमारको। अथवा निजयानरंहसा भुवि सिद्धौ वियध्वनश्च्युतौ ॥ १० ॥ स्फुरति स्फुटमेनयोरयं कतरः श्यामलकोमलच्छविः ।

जानकीपरिणये
तरसा हृदयं विलीयते
दृढमस्मिन् परमात्मनीव मे ॥ ११ ॥
अपरो द्रुतहाटकप्रभो
विनयी कुञ्चितनीलकुन्तलः ।
वयसा गुणतः प्रमाणतः
सदृशस्तस्य चकास्ति नन्वसौ ॥ १२ ॥
विविधेषु कुलेषु जन्मना
कुलमाभ्यां किमभूदलकृतम् ।
समसूत च कः पुमानिमौ
जलधिः कौस्तुभकल्पकाविव ॥ १३ ॥
भुवने पदयोः कयोरिमा-
वदधातामभिधेयतामुभौ ।
भुवमाचरतां किमात्मनः
पदविन्यासपवित्रितामिमाम् ॥१४॥
इति संसदि तेन गाधिभू-
रनुयुक्तो धरणीबिडोजसा ।
अवदत् तमकद्वदो मुनिः
स्मितभासा जितचन्द्रदीधितिः ॥ १५ ॥
मनुवंशमणी महाभुजौ
तनयौ पङ्किरथावनीभुजः।
प्रथितौ भुवि रामलक्ष्मणा-
विति सर्वास्त्रविशारदाविमौ ॥ १६ ॥

'पञ्चमः मर्गः। ५५ निजघान शितेन ताटकां विशिखेन प्रथमोऽयमेनयोः । अवधीच्च सुबाहुमम्बुधे- लघु मारीचमपातयजले ॥ १७ ॥ निजपादपरागपावित- प्रमदासङ्गतगौतमार्चितः। विलुलोकिषयैव धूर्जटे- धनुषः सत्त्वनिधिः समागतः ॥ १८ ॥ अयि दर्शय चापमैश्वर रघुवीराय विदेहभूपते! तदसौ पुनराततज्यतां भुजवीर्येण रयेण नेष्यति ॥ १९ ॥ धनुरस्तु तदैन्दुशेखरं नरपालरपरैर्दुरानमम् । तदयं स्ववशं करिष्यति प्रसभं सर्पमिवाहितुण्डिकः ॥२०॥ धनुषोऽयममुक्तशैशवः कथमारोपणमाचरिष्यति । इति चेदयि शङ्कसे श्रुता न कथा वामनसंश्रया त्वया ॥ २१ ॥ भुजवीर्यममुष्य शाम्भवे धनुषि व्यक्ततरं भविष्यति ।

जानकीपरिणये
वितरिष्यति वीर्यशुल्कतो
मुदितोऽस्मै तनयां भवानपि ॥ २२ ॥
इति शंसति संसदि हिजे
जनकश्छिन्नसमस्तसंशयः।
धनुरानयनाय पार्श्वगान्
पुरुषान् प्रेषयति स्म भूरिशः ॥ २३ ॥
अथ ते विशिखासनं धनं
धरणीपालसमे तदानयन् ।
सुरराजशरासनप्रभ
भुजगाधीश्वरभोगभीषणम् ॥ २४ ॥
धनुरुपतरं तदग्रही-
दनयच्च द्रुतमाततज्यताम् ।
विचकर्ष च विस्मयान्वितान्
विदधानो रघुनन्दनो जनान् ॥ २५ ॥
दलितात् तदमन्दघर्षणा-
हनुषोऽजायत भैरवो रवः।
विपुलेषु दिगन्तदन्तिनां
श्रुतिरन्ध्रेषु पदं समर्पयन् ॥ २६ ॥
इति दर्शितवीर्यसम्पदं
रघुवीरं पुरभिच्छरासने।
प्रशशंस तरङ्गितो मुदा
जनकः संसदि सत्यसङ्गरः॥ २७॥

पञ्चमः सर्गः । ५७ अथ राजनिदेशतः सखी- निकुरुम्बैः सममायती सभाम् । रघुनाथविलोचनातिथि- मिथिलाधीशसुता बभूव सा ॥ २८ ॥ रुचिशालि पुरैव यद्वपुः पुनरुक्ताभमभूत् सयौवनम् । स्वत एव हि रत्नमुल्लसद्- द्युति शाणोल्लिखितं तु किं पुनः ॥ २९ ॥ निखिलावयवा धराभुवो निजसौन्दर्यसुधापयोनिधौ । रघुवंशमणेरमज्जयन् इयमणोरनिमेषमादरात् ॥ ३० ॥ समता कथमस्तु यत्कचै- रलिनां निन्दितचारुचामरैः । भजतां कुसुमौघमन्वहं कुसुमौघेन सदा निषेवितैः ॥ ३१ ॥ अभिभूतमभूदु घनश्रिया ननु यत्केशभरेण चामरम् । अत एव तदन्वितं ह्रिया चमरीपृष्ठत एव तिष्ठति ॥ ३२ ॥ दधतानिशमेकरूपतां तुलितोऽयं निटिलेन चन्द्रमाः ।

५८ जानकीपरिणये भविता क्षयवृद्धिवर्जितः स चतुर्थीगत एव चेत् सदा ॥ ३३ ॥ अपि यं प्रतिपद्गतं जनो नमतीन्दं गतदोषमादरात् । यदलीकरुचेर्मलीमुचं न चतुर्थीगतमीक्षते हि तम् ॥ ३४ ॥ वदनं वनिताशिखामणे- विरराजान्वयि रेखया भ्रुवोः । दयितेन रतेः सुधाकरः सुहृदा न्यस्तमिवोहहन् धनुः ॥ ३५ ॥ विललास यदानने सुधा- सरसि भूलसदञ्जनच्छविः। स्फुटमुच्चलितेव वीचिका नवशैवालकुलेन सकुला ॥ ३६ ॥ क्षयमुज्झति नो न लक्ष्मणा रहितो भाति न वा दिवानिशम् । अमुखावयवो मुखेन तत् सदृशः स्यात् सुदृशः कथं शशी ॥ ३७ ॥ अजयत् स्वयमब्जयो ईयं युगली लोचनयोन केवलम् । * अब्जयोः पद्मयोः, अथ च पद्मचन्द्रयोः ।

पञ्चमः सर्गः। अपि निर्भरविभ्रमावली- सदनं तद् वदनं नतभ्रुवः ॥ ३८ ॥ भजता श्रवणावतंसतां ध्रुवमन्ते वसता सदा दृशोः । सुषमाधिगता सुखादभू- दसिताब्जेन धरातनूभुवः ॥ ३९ ॥ रमणीमणिकर्णपाशयो- विरराज प्रचुरश्रियोईयी। युगली परिवेषयोरिव स्फुटताटङ्कसुधांशुबिम्बयोः ॥ ४० ॥ सुदतीशुभकर्णकुण्डल- स्फुरदुद्दाममणीगणश्रियः। अभजन्त कपोलमण्डली- मधि कर्णे क नु भूषणश्रियः ॥ ४१ ॥ मकरेण बभौ मनःशिला- कलितेन क्षितिभूकपोलभूः । मुकुरो मकराङ्कमुद्रितः कथयन्मान्मथतामिवात्मनः ॥ ४२ ॥ वनितामणिनासिका ध्रुवं शरधिः पुष्पशरस्य काञ्चनी । अधि कर्णे श्रोत्र इत्यर्थः । 'अधिपरी अनर्थका' (३. ४. ९३) इति अधेः कर्मप्र- वचनीयता । अथच अधिकर्ण इत्येकं पदम् । अधिकम् ऋणं यस्य तस्मिन् ऋणग्रस्ते जने इति तदर्थः ।

जानकीपरिणये तत उच्चलिताः ससौरभा बहवः श्वासमया यदाशुगाः ॥ ४३ ॥ तुलितः सुधया सह ध्रुवं सुदतीदन्तपटः स्वयम्भुवा । अधरत्वमवाप गौरवा- दधरं तत् कथयन्ति तं जनाः ॥ ४४ ॥ सुहितानतनिष्ट यः पुरा सुधया निर्जरसः पुरं गतम् । विदधे क्षितिजाधरं विधिः सुधया तर्पयितुं तमच्युतम् ॥ ४५ ॥ दधतः परिमृष्टरागता- मपि मुख्या द्विजभावमाश्रिताः। शुचयोऽधिगताश्च दान्ततां ननु मुक्ताः प्रमदामणे रदाः ॥ ४६ ॥ शुभदन्तजवर्णसम्पदा युवतेमौक्तिककुन्दनिर्जयात् । अतुलत्वजुषापि यद् दधे 'सतुलत्वं न किमेतद्भुतम् ॥ १७ ॥ सुतनोर्मुखभाषितस्मितै- विजिताश्चन्द्रसुधौघचन्द्रिकाः। + आशुगा वायवो बाणाश्च । वर्गलकारात्मरत्वमिति विरोधपरिहारः। तुलायामारोप्य परीक्षित इत्यर्थः । सकारत- A पञ्चमः सर्गः । ६१ अमिलन्नधिकेन कुत्रचिद् विजितानामुचितं हि मेलनम् ॥ ४८ ॥ अतनिष्ट समध्यमां सितां वचनं केन वसुन्धराभुवः । अकरोच्च मरन्दमञ्जसा निजमाधुर्यभरैरमध्यमम् ॥ ४९ ॥ महिलास्वरमाधुरी यदा कपटेनापजहार वल्लकी। सुधियः परिवादिनीं तदा- प्रभृति क्षोणितले वदन्ति ताम् ॥ ५० ॥ कवयश्चिबुकं कथं धरा- तनुजायाः कथयन्ति निस्तुलम् । अनिशं दधदात्मनस्तुलां प्रतिबिम्बस्य च भासुरश्रियः ॥ ५१ ॥ रमणीरमणीयकण्ठतो हतलक्ष्मीः समयं विलोकयन् । ननु निर्गमनेषु भूभुजां पुरतः कोशति कम्बुरुच्चकैः ॥ ५२ ॥ युवतेः करभूषिताञ्चला दधती कोमलतां भुजद्वयी। * केन अज्ञातेन कारणेन, अथच ककारेण !

जानकीपरिणय विरराज शिरीषमालिका- युगलीवाग्रनिबद्धपल्लवा ॥ ५३ ॥ अजनिष्ट करेण मेदिनी- तनुजाया जलजं विनिर्जितम् । तमसेवत तन्निरन्तरं ननु लेखात्मकतामतोऽवहत् ॥ ५४ ॥ मिथिलावनिपालकन्यका- कुचपङ्केरुहकुङ्मलद्वयी। न कदापि विकासमासदद् वदनेन्दोरिव सन्निधानतः ॥ ५५ ॥ अभिषेक्तुमनल्पविष्टप- त्रयराज्ये रतिपुष्पसायको । नवयौवनशिल्पिना ध्रुवं कलितौ हेमघटौ वधूकुचौ ॥ ५६ ॥ धरणीमघवत्कुमारिका- स्तनयोः सङ्गतयोरहर्निशम् । रजनीष्वपि चक्रवाकयो- मिथुनं चेन्मिलितं समं भवेत् ॥ ५७ ॥ सुषमामृतपूरपूरिते सुमुखीनाभिबिलेऽधियौवनम् maunia Maupasana + पद्मरेखात्मकत्वं देवात्मकत्वं च ।

पञ्चमः सर्गः ।
६३
असिता भुजगी तदुद्गता
नियतं रोमलतापदेशतः ॥ ५८ ॥
स्फुटया नवरोमरेखया
क्षितिजामध्यवियत्प्ररूढया ।
पिशुनेन निशाचरावली-
विपदोऽभूयत धूमकेतुना ॥ ५९ ॥
मणिभूषणभूषितानि य-
निखिलाङ्गानि निरीक्ष्य यौवनम् ।
अकरोदुदरं धराभुव-
स्त्रिवलीकाञ्चनभूषणाश्चितम् ॥ ६ ॥
जगतो यदुवाच गौतमः
परमाणुं समवायिकारणम् ।
अणुता नियतं तदुहवे
समभूद् भूमिसुतावलग्नके ॥ ६१ ॥
मणिकाश्चिमयूखशैवले
वलिसोपानपथे पदार्पणात् ।
अपतञ्जनलोचनानि भू-
तनुभूनाभिसरोवरे मुहुः ॥ ६२ ॥
अभजन्त गभीरतास्पदे
प्रमदानाभिबिलेऽन्धकारताम् ।
अवलग्ननिबद्धमेखला
विलसज्जम्भभिदश्मरश्मयः ॥ ६३ ॥

जानकीपरिणये दृढमात्मपटुत्वमक्षर- च्युतके किं विववार यौवनम् । जघनं विदधे धनं यत- स्तनुजाया मनुजाधिभूमणेः ॥ ६४ ॥ कुचयोर्युगमेव केवलं न करोति स्म रथाङ्गविभ्रमम् । दुहितुर्धरणीबिडौजसो विपुलं तच्च नितम्बमण्डलम् ॥ ६५ ॥ घनपङ्कभरेण रूषितो यदि जम्बूसरिदम्बुखेलने । वलभित्करिणः करो ब्रजेत् सुदतीपीततरोरुचारुताम् ॥ ६६ ॥ मृदुशीतलमूरम्भयो- ईयमाश्लिष्य दृढं चलभुवः । हरलोचनपावकार्चिषा जनितं तापभरं जहौ स्मरः ॥ ६७ ॥ स्मरयौवनयोः सचापयोः कुटिलभूयुगलेन योषितः। अतनोदिषुधियश्रियं युगलं वल्गु तदीयजङ्घयोः ॥ ६८ ॥ क्षितिपालसुतापदद्वयं युगलं नीरजयोरसंशयम् ।

पञ्चमः सर्गः। ६५ मधुरस्वरहंसकस्थितिः परथा तत्र कुतो भवेत् सदा ॥ ६९ ॥ केशादारभ्य पादावधि नलिनमुखीमेवमेषोऽनिमेषं पश्यन् सानन्दमुच्चैः स्मरपरवशतां चेतसा संश्रितोऽपि । कुर्वन्नाकारगुप्तिं रघुकुलतिलकः सन्निधाने महर्षे- स्तस्थौ रोमाञ्चपुजैः समजनि विवृता चित्तवृत्तिस्तदीया ॥७॥ यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुदयैः संमानिताम्बाभिधा। सर्गोऽसौ जनकात्मजापरिणये नव्ये तदीये महा- काव्ये चारुणि रुक्मिणीपरिणयभ्रातर्यभूत् पञ्चमः ॥ ७१ ॥ इति जानकीपरिणये पञ्चमः सर्गः।

अथ षष्ठः सर्गः। अथ सुतां प्रणमय्य तपस्विने जनकभूमिपतिस्तदनुज्ञया। दशरथानयनाय पुरोहितं सपदि संप्रहितो* धरणीसुरम् ॥ १ ॥ स खलु यावदवाप न मेदिनी- शतमखं जनकस्य पुरोहितः । उपहरन् कुसुमानि सिषेविषु- स्तमिव तावदभून्मधुवासरः ॥ २ ॥ समसमुन्मिषितैः कुसुमोत्करै- मलयशैलभवैर्मरुदर्भकैः। श्रुतिसुखैरपि कोकिलकूजितै- रनुमितस्तरसा समभून्मधुः ॥ ३ ॥ अधिगतस्य दिशं शमनास्थितां स्फुटमुदेति निरूष्मलता मम । इति विचिन्त्य खरांशरुपेक्ष्य ता- मुद्चलद् धनदस्य दिशं प्रति ॥ ४ ॥ मलयनिर्झरशीकरशीतलो मुषितपाण्ड्यवधूकचसौरभः। * कर्तरि क्तः।

षष्ठः सर्गः।
निबिडचोलविलासवतीस्तन-
स्खलनमन्दगतिमरुदाववौ ॥ ५ ॥
प्रचलपल्लवकेतुपटाञ्चला
भ्रमरराजिमनोहरतोरणाः ।
मधुझरोदकसिक्ततरा बभु-
मधुसमागमने वनवीथयः ॥ ६ ॥
मलयशैलभवेन नभस्वता
रचितगाढलसत्परिरम्भणा ।
समजनिष्ट लतावलिरुन्मिप-
न्मुकुलपालिमिषात् पुलकान्विता ॥ ७ ॥
तुवरचूतनवाङ्कुरचर्वणाद्
विशदकण्ठपुटा पिकमण्डली ।
श्रवणयोर्निजकोमलपञ्चम-
स्वरमिषेण ववर्ष सुधाझरीम् ॥ ८ ॥
मधुसखोऽधिगतो विपिनस्थली
कुसुमभारनमत्तरुमण्डलाम् ।
विशिखशून्यतरामिषुधिं चिराद्
विकचपुष्पशरैः समपूरयत् ॥ ९ ॥
मधुरसं परिपीय वनेषु त
बहुतयान्तरमान्तमिवोद्गिरन् ।
मधुरनादमिषाद् भ्रमरोत्करः
कुसुमितां वनभूमिमभूषयत् ॥ १० ॥

६८ जानकीपरिणये सुरभिलो वकुलप्रसवोद्गल- न्मधुरसस्त्रपितो मलयानिलः । रतिपतेः पथिकासुसमीरण- ग्रहणदीपकभावमशिश्रियत् ॥ ११ ॥ प्रियजनेन चिरेण पिपासितं विरतमञ्जुलवेणु चलद्भुवाम् अधरबिम्बमजायत चुम्बन- क्षममपेतहिमोपहितवणम् ॥ १२ ॥ प्रमदया खलु यः प्रियदुर्लभैः स्फुटमपूजि यदा पदताडनैः । भुवि तदाप्रभृति प्रमदाञ्चितं तरुमशोक इति प्रवदन्ति तम् ॥ १३ ॥ स किल धन्यतमस्तरुषु द्रुमो युवजनेन चिरादभिकाक्षितम् । सपदि यः समशिश्रियदङ्गना- घनतरस्तनमण्डलघट्टनम् ॥ १४ ॥ विविधरत्नमयूखविराजित- त्रिदिववर्त्मसु सद्मसु सत्स्वपि । उपवनेषु रतिः समभून्मधौ विकचपुष्पचयेषु विलासिनोः ॥ १५ ॥ भ्रमरलोचनमुत्थितमुच्चकैः किमहितः शिशिरो गतवानिति ।

षष्ठः सर्गः।
सरसि तद्विलुलोकिषयाब्जिनी-
मुखमिवोन्नमितं जलजं बभौ ॥ १६ ॥
अथ सुखानुभूय ऋतूत्सवा-
नुपवनेषु समं प्रमदाजनैः।
क्षितिमहेन्द्रमवाप सभागतं
जनकराजपुरोहितभूसुरः ॥ १७ ॥
क्षितिभुजा विधिवद् विहितार्चनः
समुपविश्य सुखं कुशविष्टरे ।
इदमुदीरयति स्म तदाशयं
प्रमदमेदुरमाकलयन् द्विजः ॥ १८ ॥
अयि भवन्तमपृच्छदनामयं
जनकभूमिपतिर्जगतीपते!।
पुनरुदीरयति स्म च तद्वचः
शतमखस्य सखे! शृणु मन्मुखात् ॥ १९ ॥
तनुभुवा भवतो धनुरैश्वरं
दलयता विजिताजनि मे सुता ।
त्वमुभयोरमुयोरनुरूपयो-
रनुमनुष्व विवाहमिहागतः॥ २० ॥
इति भवन्तमभाषत मैथिलो
नरपतिर्भवदागमनोत्सुकः।
कलय तस्य मनोरथभूरुहं
सफलमागमनेन धरापते! ॥ २१ ॥

जानकीपरिणये इति तदाननचन्द्रसुधां गिर श्रुतिपुटेन निपीय विशां पतिः । सरयमोमिति वाचमुदीरय- ञ्जिगमिषामभजन्मिथिलां प्रति ॥ २२ ॥ अथ समाप्य विधि निखिलं सुधी- दिनमुखोचितमह्नि शुभंयुनि । जवनवाजियुतं रथमास्थितो दशरथो मिथिलामभि निर्ययौ ॥ २३ ॥ जिगमिषोनरपालशिखामणे- रुदचलत् पटहध्वनिरुच्चकैः विघटिताचलसन्धिरनुक्षण- क्षुभितसागरमन्द्ररवैधितः ॥ २४ ॥ रचितमक्षिपिधानमाहिद्विषो रजसि नेत्रनिरोधिनि जृम्भिते । अपिदधे किमहिप्रभुरुत्थिते श्रुतिकटौ पटहारटिते दृशः ॥ २५ ॥ तदनु लाजचयैः समवाकिरन् क्षितिपतिं किल पौरपुरन्ध्रयः। नभसि नीरदसंहतयो धरा- धरमिवाभिनवैरुदबिन्दुभिः ॥ २६ ॥ उपरि भूमिपते?तमुहृतं विशदमातपवारणमाबभौ ।

षष्ठः सर्गः।
१
उदयभूमिधरोपरि सत्वरं
कुमुदिनीपतिबिम्बमिवोदितम् ॥ २७ ॥
उभयपार्श्वगते धरणीपते-
विलसतः स्म शुभे सितचामरे ।
निजभुजायुगलेन समार्जिते
तनुमती यशसी इव पाण्डरे ॥ २८ ॥
क्षितितलाद् द्रुतमुच्चलिताम्बरे
प्रविललास परागपरम्परा ।
वसुमतीव नरेन्द्रवरूथिनी-
श्रियमिवेक्षितुमुच्चपदं गता ॥ २९ ॥
मणिमयीः पिहिताःप्रतिसीरया
प्रसभपूरित(?)पूरुषसंहतीः ।
अधिगताः शिबिका धरणीपते-
रुदचलन्नवरोधवधूजनाः ॥ ३० ॥
उपरि केतुभिरुल्लिखिताम्बरा-
श्चटुलचक्रविदारितभूतलाः।
घनतरध्वनिरुद्धदिगन्तराः
समवलन्त शताङ्गचया रयात् ॥ ३१ ॥
भुजगलोकतमोभिरिवोद्गतै-
जलभरादिव खात् पतितैर्घनैः ।
अचलतामपहाय समागतैः
क्षितिधरैरिव हस्तिचयैर्यये ॥ ३२ ॥

७१ जानकीपरिणये नभसि दुःखतरं विचरन्तु मा दिनमणेस्तुरगा निजबन्धवः । इति चमूतुरगैः प्रहिता ध्रुवं खुररजोमिषतः क्षितिरुच्चकैः ॥ ३३ ॥ करलसन्मुसलासिलताधनु:- परिघतोमरशक्तिपरश्वधाः। दृढविशङ्कटकङ्कटधारिणः प्रययुरुहटशौर्यभुजा भटाः ॥ ३४ ॥ विघटिताखिलपर्वतसन्धिनि प्रसभकम्पितभूमितले बले । चलति भारनतैः फणमण्डलै- मुंवमधत्त कथञ्चन भोगिराट् ॥ ३५ ॥ विस्मरैरनुलोममरुञ्चल- ध्वजपटप्रभवैः पवनैर्मुहुः । द्रुतविनीततरश्रमखेचरा दशरथस्य चचाल वरूथिनी ॥ ३६ ॥ दशरथः समतीतमहापथो वननदीतटमाप दिनात्यये। चरमसानुमतस्तटमंशुमा- नपि विलङ्घय वियत्सरणी ययौ ॥ ३७ ॥ विपुलतामधिजग्मुषि सन्ततं त्रिदशवमनि सञ्चरणादिव ।

पष्टः सर्गः । AN अरुणतामधिपादमशिश्रियत् परिणतौ दिवसस्य दिनेश्वरः ॥ ३८ ॥ निमिषदब्जविनिर्गतया रुचा दृढतरं परिरब्ध इव क्षणात् । कमलबन्धुरभूदृ दिवसाञ्चले स्फुटजपाकुसुमस्तवकोपमः ॥ ३९ ॥ श्रुतिवधूपदपङ्कजयावकै- विगलितैनिजमण्डलखेलनात् । सपदि रञ्जितमूर्तिरिवाबभी दिनमाण?तहाटकसन्निभः ॥ ४० ॥ मसृणिता घुसृणैरिव दिग्वधू- गिरितटीः कुनटीभरिता इव । किसलयैश्छुरितानिव पादपान् दिनमणेररुणाः किरणा व्यधुः ॥ ४१ ॥ विलपतो मिथुनस्य रथाङ्गयो- विरहविह्वलतामभिवीक्षितुम् । दधदिवाक्षमतां दिवसेश्वरः क्वचिददर्शनमाप दिनात्यये ॥ ४२ ॥ घुसृणयावकविद्रुमदाडिमी- कुसुमपल्लवलोहितकश्रिया । कुनटी मनश्शिला।

जानकीपरिणये
स्फुटमुपासितया द्विजमण्डलै-
श्वरमया समभूयत सन्ध्यया ॥ ४३ ॥
पिशितकीटफलाकुरतण्डुल-
प्रमुखभक्षणवन्ति यथोचितम् ।
सपदि सायमधिष्ठितमर्भकैः
खगकुलानि कुलायमशिश्रियन् ॥ ४४ ॥
चरमसानुमतः शिखराजवा-
जलनिधौ पतिते रविमण्डले ।
सरभसोच्चलितोदकशीकर-
भ्रममुडुप्रकरा विदधुर्दिवि ॥ ४५ ॥
भरितमुद्भटमन्दरघूर्णनो-
चलितपायससैन्धवशीकरैः ।
गुरु विडम्बयति स्म वपुर्हरे-
रुडुकदम्बकरम्बितमम्बरम् ॥ ४६ ॥
अनिशसङ्गमशालि रथाङ्गयो-
विघटितं कलयन् मिथुनं मिथः ।
न खलु वेद्मि चिरं दिवसात्ययः
क नरके निपतिष्यति निर्दयः॥ ४७ ॥
सरभसं समभूदभिसारिका-
जनचिरन्तनपुण्यफलं तमः।
जरठवारवधूपलितासिती-
करणसिद्धरसायनसेवनम् ॥ ४८ ॥

पष्ठः सर्गः । दिनविरामनभस्यघनाघनै- वियदरण्यतमालमहीरहैः। स्मरधरापतिबन्धुरसिन्धुरै- झटिति सन्तमसरुदभूयत ॥ ४९ ॥ युवतिभिर्विहिता दयितं प्रति स्मितकटाक्षमुखा निजविभ्रमाः। समभवन् वनचन्द्रिकया समा- स्तमसि नेत्रनिरोधिनि जृम्भिते ॥ ५० ॥ जलनिधेर्जठरात् कुमुदोत्करैः सह चकोरमनांसि विकासयन् । उदयति स्म विधुर्नलिनैः समं निखिलचक्रमनांसि निमीलयन् ॥ ५१ ॥ मकुटतां प्रथमस्य महीभृतो वदनतां हरिदिग्वनितामणेः । चषकतां पुनरुत्पिबसंहते- रवहदुत्पलिनीपतिमण्डलम् ॥ ५२ ॥ कुमुदिनीपरिषत्कुलदैवतैः कमलिनीसदसामपमृत्युभिः। स्मरविलासविजृम्भणहेतुभिः शशधरस्य विनिःसृतमंशुभिः ॥ ५३ ॥ * उत्पिबानां चकोराणां संहतेः।

जानकीपरिणये विमलतामभजद् भुवनं क्षणात् कुमुदबन्धुमहःकतकार्पणात् । निबिडपङ्क इवास्य घनीभवन् स्फुटमधः समलक्ष्यत भूतलम् ॥ ५४ ॥ भ्रमरसङ्गमशोभि विपाण्डर जलजमाकलयन्नवधीरितम् । उडुपतिर्विरराज सलाञ्छनो दधदिवाङ्कभुवि क्षणदां प्रियाम् ॥ ५५ ॥ इति वियत्सरणौ शशिमण्डले स्फुरति यामवतीमणिकुण्डले । तरुणसंसदभूत् सकुतूहला युवतिभिः सममासवसेवने ॥ ५६ ॥ चषकमिन्दुमुखीवदनाभिधं मणिमयाच्चषकादपि कामिनाम् । अधिकमिष्टमभून्मधुसेवने न किमकृत्रिमकृत्रिमयोर्मिदा ॥ ५७ ॥ मुखसुरं भवदीयमपेक्षते वकुलभूरुह एष नितम्बिनि! । इति वदन्तमभीकमपाययद् युवतिरिङ्गितविद् वदनासवम् ॥ ५८ ।। विदलतः स्मरगाढविकर्षणाद् रसमिव स्रुतमिक्षुशरासनात् ।

पष्टः सगः ।
प्रणयराशिमिव द्रवतां गतं
मधु वधूराभिकाः समपाययन् ॥ ५९ ॥
कलितहासमहेतु चरन्मुहुः-
स्खलितमञ्जुलमस्फुटमालपत् ।
मधुमदे सति यौवतमाबभौ
पुनरिवागतशैशवचेष्टितम् ॥ ६ ॥
मदभरेऽभ्युदिते मधुसेवया
नयनयोर्युगलं कुटिलभ्रुवाम् ।
अजनि घूर्णनवद् वपुषा समं
निबिडरागमभून्मनसा सह ॥ ६१ ॥
मधुरसद्रुतमृष्टघनत्रपा-
कलुषजालतया विशदे सति ।
अभजदनमुखीहृदयाम्बरे
झटिति रागभरो दृढलग्नताम् ॥ ६२ ॥
मधुरसेन हिमेन विलासिनोः
प्रविशतान्तरिवाहितसेचनः ।
निबिडया रहितः खलु तन्द्रया
प्रबुबुधे तरसा हृदयेशयः ॥ ६३ ॥
अधिगतान्युपधानसनाथतां
बहुपरिच्छदभाजि मृदूनि च ।
प्रणयिनो रभसादभजन समं
युवतिभिः शयनानि रिरंसवः ॥ ६४ ॥

जानकीपरिणये रतिपतेरपि विस्मयकारि यद् विटजनैरपि यन्न विचारितम् । कविगिरां च न यत् खलु गोचर- स्तदुदभूद् वनिताभिकयो रतम् ॥ ६५ ॥ अपहृते रभसेन कुचांशुके प्रणयिना सुदृशः करयोईयम् । शिशिरधर्मजलैः किल सात्त्विकैः समभिषिक्तमिवाजनि तत्पदे ॥ ६६ ॥ लघु निरस्य पटं जघनस्थला- निहितचक्षुषि मन्मथमन्दिरे। प्रियतमे स्वविलोचनमीलनं समतनोत् तददर्शनमिच्छती॥ ६७ ॥ विविधचुम्बनमाचरतो रतौ प्रणयिनो मधुरत्वमुपागताः । वरतनोरधरादविशेषता- मवयवा निखिलाः समशिश्रियन् ॥ ६८ ॥ विरचिता इव शर्करया सुधा- रसचिरलपिता इव सुभ्रवः । अवयवाः सुरते परिचुम्बिता विदधिरे दयितस्य न सौहितीम् ॥ ६९ ।। जलधरैः स्थगितं शशिमण्डलं नटनशालि युगं च रथाङ्गयोः।

पटः सर्गः। मरुतहसमभृत् कमलयं वपुपि नर्मविशेषपुषि स्त्रियाः ॥ ७० ॥ .. त्वमसि मे कलभाषिणि ! जीवितं त्वमसि मे नयनवयचन्द्रिका । त्वमसि भे निधिसम्पदिति प्रिय- श्वटुगिरा समुदं विदधे वधूम् ॥ ७१ ॥ सुरभिनिःश्वसितैरधरामृतै- स्तनुरुचां निचयै रतिकूजितैः । युवतयो निबिडैः परिरम्भणैः प्रणयिनामहरन् करणावलीम् ॥ ७२ ॥ विषमसायककेलिषु भूषणे- विगलितै रहितं कुटिलभ्रुवाम् । नखपदैः कमितुर्दशनक्षतै- रखिलमङ्गमशोभत भूषितम् ॥ ७३ ॥ विपुलनिःश्वसितप्रचलत्कुचं गलितभूषणमाकुलकुन्तलम् । श्रमपयःकणतारकितं रते- स्वसितौ वनितावपुराबभौ ॥ ७४ ॥ इत्थं स्मरोत्सवसुखं तरुणेषु साकं कान्ताजनैरनुभवत्सु विभावरी सा।

जानकापरिणये लिप्ता सुधाकरकरैर्घनसारगौरै- याता निमेषवदमीषु समत्सरेव ॥ ७५ ॥ यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुत्यैः सम्मानिताम्बाभिधा । सर्गः षष्ठ इहाजनिष्ट मधुरः श्रीनीलकण्ठावरि- श्लाघासीमनि जानकीपरिणये काव्ये तदीये नवे ॥७६॥ इति जानकीपरिणये षष्ठः सर्गः।

अथ सप्तमः सर्गः। अथाधिभूरुत्तरकोसलानां तल्पे शयानः शरदभ्रशुभ्रे । वैतालिकैरञ्चितवाग्विलासैः प्रबोधितोऽभूत् क्षणदावसाने ॥ १॥ धरामरुत्वन् ! विरता निशाभू- निद्रामिमामक्षिगतां जहीहि । प्रतीक्षमाणा कमलालया ते विलोचनाम्भोजविकासमास्ते ॥२॥ पतिष्यतीन्दौ सति तारकाभि- रन्तर्हितं चन्द्रिकयापयातम् । शान्तं निशा मीलितमुत्पलिन्या क भर्तुराततॊ सुखमाश्रितानाम् ॥ ३ ॥ रथाङ्गन्यूनां विरहाकुलानां बाष्पेण निःश्वासमरुद्भवेन । किं प्रापितो धूसरतां प्रचेतो- हरिद्वधूदर्पण एष चन्द्रः॥ ४ ॥ यस्मिन्नसंकीर्णतया प्रसिद्धि- ईस्वस्य दीर्घस्य तथा प्लुतस्य । स श्रूयते सम्प्रति वासतेयी- विरामशंसी पततो विरावः ॥५ ।

८२ जानकीपरिणये उद्यन्ननूरुः :: प्रसभं तमिस्रं दूरे समुत्सारयति क्षणेन । अम्भोनिधेरम्भ इव प्रयुक्तः पुरा कुठारो भृगुनन्दनेन ॥ ६ ॥ यावन्न मृष्टं निखिलं तमोऽर्क- सूतेन यावन्न बहिर्जनेन । विनिर्गतं तावदलम्भि गेहं सङ्केतदेशादभिसारिकाभिः ॥ ७ ॥ सगीति मनन्ति दधीनि गोप- वध्वश्चलत्केशगलत्प्रसूनाः। मुहुर्मुहुः सस्तकुचोत्तरीयाः कराग्रवल्गलयावलीकाः ॥ ८ ॥ विनिद्रपङ्केरुहसान्द्रगन्ध- धुरन्धरो नर्तितवल्लरीकः। आचान्तकान्तासुरतान्तजात- स्वेदोदको वाति विभातवातः ॥ ९ ॥ त्रयीमयं सुप्तसमस्तलोक- चैतन्यसंपादनजागरूकम् । द्विजव्रजैराकलितार्क्ष्यमुच्चै- रैन्द्रीं दिशं ज्योतिरलङ्करोति ॥ १० ॥ अम्भोरुहैः सार्धमशीतभानु- रुन्मीलयल्लोकविलोचनानि ।

सप्तमः सगः ।
८१
नीहारजालेन समं समन्तात्
सान्द्रं तमिस्रं शमयन्नुदति ॥ ११ ॥
अलक्तकस्येव रसः प्रसित्ता
लिप्तेव पङ्कुर्नवकुङ्कुमानाम् ।
कीर्णेव पूर्वाचलधातुचूर्णैः
प्राची नवैरर्ककरैर्विभाति ॥ १२ ॥
बालातपेनाषसि रूषितानि
विभान्ति पङ्केरुहकाननानि ।
क्रीडगमापादतलच्युतेन
लाक्षारसेनेव समुक्षितानि ॥ १३ ॥
न केवलं योजयति प्रियाभि-
श्चक्रान् प्रभाते सविता वियुक्तान् ।
अपि हिरेफानरविन्दकोशाद्
विमोचितानंशुविधूतनिद्रात् ॥ १४ ॥
इति प्रजानामधिपो वचोभि-
वैतालिकानां गतसुप्तिरासीत् ।
प्रातः सरोज कुमुदाद् गतानां
स्वैरलीनामिव राजहंसः ॥ १५ ॥
उत्थाय तल्पादुषसि क्षितीशो
निवर्त्य सन्ध्यानियमं समस्तम् ।
रथं समास्थाय रयादयासीत्
पुरी विदेहेन्द्रभुजाभिगुप्ताम् ॥ १६ ॥

जानकीपरिणये साधु वसिष्ठेन समं वधूभि- स्तमागतं साकमनीकिनीभिः । प्रत्युञ्जगाम प्रमदोत्तरङ्गः पुरस्सरस्तत्त्वविदां नरेन्द्रः॥ १७ ॥ प्राप्तौ चिरादर्शनजं प्रहर्ष विदेहराजोत्तरकोसलेन्द्रौ। परस्परं तौ परिषस्वजाते सदेहबन्धाविव मोक्षधर्मों ॥ १८ ॥ अथार्यपाद्यप्रमुखामशेषां पूजां प्रणीतां सपुरोहितेन । विदेहभूमीपतिना वसिष्ठः प्रत्यग्रहीद् ब्रह्मविदां वरिष्ठः ॥ १९ ॥ विदेहराजो निजराजधानी प्रावेशयत् प्राग्रसरं रघूणाम् । सतोरणाली जलसिक्तराज- पथां नभस्वत्प्रचलत्पताकाम् ॥ २० ॥ तत्रोपकार्या विविधोपदाभिः पूर्णा प्रदिष्टां मिथिलाधिपेन । वितानसंशोभितकायमानां रघुप्रवीरः सुखमध्युवास ॥ २१ ॥ अधिष्ठितां ब्रह्मविदां समूहैः सभां प्रभाते मिथिलेश्वरस्य ।

सप्तमः सर्गः ।
पुरोधसा गाधिभुवा च साकं
विवेश तिग्मांशुकुलप्रदीपः ॥ २२ ॥
मुनिद्वये विष्टरभाजि तस्मिन्
रघुप्रवीरस्तदनुज्ञयारात् ।
तेन प्रदिष्टं क्षितिवल्लभेन
रत्नासनं भास्वरमध्यतिष्ठत् ॥ २३ ॥
महर्षिणा ब्रह्मभुवा रघूणां
वंशावलौ संसदि कीर्तितायाम् ।
विदेहराजः कथितात्मवंश-
क्रमो रघूणामृषभं बभाषे ॥ २४ ॥
भवत्सुतो भग्नपुरारिचापो
गृह्णातु सीताकरमेष रामः ।
अथोर्मिलापाणिमये नरेन्द्र!
गृह्णातु पुत्रस्तव लक्ष्मणोऽपि ॥ २५ ॥
इतीरितायां गिरि मैथिलन
कुशध्वजो राघवमाबभाषे।
दिशामि काञ्चिद् भरताय कन्या-
मन्यां कनिष्ठाय च लक्ष्मणस्य ॥ २६ ॥
इति प्रतिज्ञामुभयोर्निशम्य
प्रीतो बभाषे रघुनन्दनस्तौ।
अद्यास्मि धन्योऽहमियान् भवद्भ्यां
प्रदर्शितो यन्मयि पक्षपातः ॥ २७ ॥

८६ जानकीपरिणये सम्बन्धतो या भविता भवयां कुलस्य भानोर्महती प्रतिष्ठा । नाभूदुदन्वत्खननाखिलस्व- प्रदानगङ्गानयनादिभिः सा ॥ २८ ॥ इति ब्रुवन्तं मिथिलाबिडोजाः सखायमूचे वलशासनस्य । न वक्तुमित्थं नरपाल ! युक्तं महाकुलीनस्य महीयसस्ते ॥ २९ ॥ सम्बन्धमिच्छन्ति समस्तभूपाः साकं त्वया सत्कुलसम्भवेन । मया स लब्धो निधिराद्रियेत न कैर्भजेत् कश्चन भाग्यतस्तम् ॥ ३० ॥ विधाय गोदानविधि सुतानां श्वः प्रातरागत्य सबन्धुवर्गः। निर्वतयैषां विधिवद् विवाह- महोत्सवं राजशिखामणे ! त्वम् ॥ ३१ ॥ इत्थं वदन्तं मिथिलाधिराज- मापृच्छय राजा स निजोपकार्याम् । भेजे पुरस्कृत्य गुरुं रघूणा- मानन्दरत्नाकरमग्नचेताः ॥ ३२ ॥ गोदानकर्माकलयत् सुतानां धराधिराजो धरणीसुरेभ्यः। ॥ .

मनमः सर्गः। वसूनि रत्नानि वगम्बगणि ददौ गवां लक्षचतुष्टयं च ॥ ३३ ॥ करोल्लसत्कौतुकसूत्रबन्धाः कालाञ्जनोद्भासितलोचनाब्जाः । शरत्तुषारांशुमयूखरेखा- विपाण्डगन क्षौमपटान् वमानाः ॥ ३४ ॥ काश्मीरजन्मागुरुगन्धसार- कस्तूरिकापङ्कविलिप्तगात्राः । माणिक्यमुक्तागरुडाश्मवज्र- वैदूर्यनीलोत्पलभूषिताङ्गाः ॥ ३५ ॥ कुरङ्गनाभीतिलकानुबन्ध- तरङ्गितश्रीकविशालफालाः । निबद्धचूडामणयः सहार- केयूरहस्ताभरणाङ्गुलीयाः ॥ ३६ ॥ नरेन्द्रपुत्रा निजदृष्टिसृष्टि- फलं भजन्ति स्म मनोभवाभाः। आत्मानुबिम्बं मुकुरेषु दर्श- दर्श विवाहोचितचारुवेषाः ॥ ३७ ॥ (चक्कलकम) न भूषिता यावदमी कुमारा- स्तावद् विदेहाधिपकन्यकानाम् ।

जानकीपरिणये
प्रसाधिकाभिः प्रतिकर्म कर्तु-
मन्तःपुरेऽभूयत सङ्गताभिः ॥ ३८ ॥
अभ्यज्य तैलेन सुगन्धिनाने
सीताजनिष्ट स्लपिता वधूभिः ।
पतिव्रताभिः शुचिना जलेन
क्षोणीव वर्षासु धनावलीभिः ॥ ३९ ॥
स्नात्वा दुकूलं विशदं वसाना
सा प्राङ्मुखी भास्वररत्नपीठे ।
निवेशिता भूषयितुं वधूभिः
सपत्यपत्याभिरशोभतोच्चैः ॥ ४० ॥
तदङ्गसङ्गे सति भूषणानां
शोभाविशेषो भवितेति वध्वः ।
आसज्जयामासुरनल्पशोभे
गात्रे तदीये किल भूषणानि ॥४१॥
अङ्गे तदीये हरितालगौरे
मवेदलक्ष्या तपनीयभूषा।
इति स्त्रियस्ताः परभागभाभि-
रभूषयन् रत्नविभूषणैस्ताम् ॥ ४२ ॥
पित्रादरेण प्रहितं मणिं सा
चूडापदे राजसुता बभार ।
प्रदाहशक्तिप्रतिबन्धकत्वं
रामस्य यो यास्यति शोकवतेः॥ ४३ ॥

सप्तमः सर्गः। mane फाले तदीये तिलकं प्राचीन कस्तूरिकापङ्कमयं कथाचित । तदानतभूरतिकान्तचापत समुत्पतन्ती गुलिकेव रंजे ॥ ४४ ॥ प्रसाधिका किञ्चन पालाच्या विलोचनं साञ्जनमा कलव्य । आदाय भूयोऽञ्जनमक्षमासुद्धा विलोचनं ज्ञातुमलन सा ॥ ४५ ॥ जले तपःस्फूर्तिभिस्तका सारूप्यमिच्छन्नयनन्य तस्याः । नीलाब्जमासाद्य वतनदा त सारूप्यरूपं भजति म भद्रम ॥ ४६ ॥ चिन्तामणिच्छायमुषा भिस्त- बालार्कभासा जितकौस्तुभेन । विराजमानं तरलेन हार काचित् सखी तत्कुचयोरकार्षीत् ॥ ४७ ॥ पदं रुचेदर्दीव्यति नायकस्य गाढानुरागस्य कुचद्वयं ते । इति ब्रवीति स्म सखी सहासं रज्यत्कुचां तां तरलप्रभाभिः ॥ ४८ ॥ वधूमणेराकलितः कयाचित् काञ्चीकलापोऽधिनितम्बबिम्बम् । :

जानकीपरिणये
नीलाश्मरश्मिच्छरितो नितम्ब-
स्पर्शात सरोमाञ्च इवाबभासे ॥ ४९ ॥
चकार काचिच्चरणारविन्द-
द्वन्द्वं तुलाकोटियुतं तदीयम् ।
समानवस्त्वन्तरदुर्विधत्वात्
तथापि तन्निन्तुलतां प्रपेदे ॥ ५० ॥
सखीजनैर्या निजरूपवेप-
विलोकनेनानिशमार्जिताभूत् ।
आत्मानमादर्शतले सभूष-
मालोक्य तां प्रीतिमवाप सीता ॥ ५१ ॥
तथापरासामपि कन्यकानां
निर्वर्तिताभ्यञ्जनमजनानाम ।
आसजितानि प्रमदाभिरासन्
गात्रेषु नानामणिभूषणानि ॥ ५२ ॥
विभूषणश्रेणिविराजिताभि-
स्ताभिर्धरित्रीदुहिता परीता ।
रसालवल्लीव बभौ लताभि-
मधौ प्रसूनावलिशालिनीभिः ॥ ५३ ॥
जलोक्षितासूभयपाश्चदेश-
निखातरम्भाक्रमुकद्रुमासु ।
मरुच्चलच्चेलपताकिकासु
वीथीषु दीव्यन्मणितोरणासु ॥ ५४ ॥

सप्तमः सगः ।
११
.
पुरन्ध्रिवर्गनिबिडेष्वगार-
द्वारेषु नीराजनपात्रहस्तः ।
संपूर्णकुम्भासु सदीपिकासु
प्रतोलिकापार्श्ववितर्दिकासु ॥ ५५ ॥
पक्षे वलर्ड्स दिवसे शुभंया
युक्ते तिथावुत्तरफल्गुनीभिः ।
मुहूर्तविद्भिर्विहिते च शुद्ध-
जामित्रिके सन्निहित मुहूर्त ॥ ५६ ॥
निजादगारान्निरगादभ्र-
मदं विभिन्दन् पटहस्वनेन ।
राजा सुतानां तरसा विवाह
निवर्तयिष्यन् मनुवंशदीपः ॥ ५७ ।।
(चकलकम्)
पुत्रैः कलत्रैश्च पुरोहितैश्च
मित्रैस्तथा बन्धुजनैः परीतः।
अलङ्कृतां तां पुरमीक्षमाणः
स मैथिलस्यालयमाससाद ॥ ५८ ।।
स तत्र काश्विन्निबिडा जनौधैः
क्रमेण कक्ष्याः समतीत्य गच्छन् ।
चढूंषि मुष्णन्तमिवात्मभासा
वैवाहिकं मण्डपमालुलोके ॥ ५९ ॥

जानकीपरिणय
प्रवालमुक्ताफलपद्मराग-
नीलाश्मराजीखचितस्थलीकम् ।
कर्पूरधूलीकृतभक्तिरेखा-
समुल्लसच्चन्दनपङ्कलेपम् ॥६० ॥
विताननीलाम्बरलम्बमान-
विशुद्धमुक्तास्तबकाभिरामम् ।
हिरण्मयैः स्फाटिकसालभञ्जी-
विराजितैः स्तम्भचयैरुपेतम् ॥ ६१ ॥
मुग्भिः सुवैः काञ्चनपालिकाभिः
कुशैः समिद्भिः कुसुमेरुपेतम् ।
युक्तं च गन्धाक्षतलाजधूप-
प्रदीपसर्पिर्मधुपर्कपात्रैः ॥ ६२ ॥
अधिष्ठितं श्रोत्रियधोरणीभिः
स तं समासाद्य सुतैः समेतः ।
जग्राह पूजां जनकप्रणीतां
मुदा सखा जम्भनिसूदनस्य ॥ ६३ ॥
(चक्कलकम्)
अरुन्धतीबन्धुमुखे समस्त-
ब्रह्मर्षिसङ्घ प्रथमोपविष्टे ।
अथोपविष्टे जनकहये च
रामः ससीतो निषसाद पीठे॥ ६ ॥

सप्तमः सर्गः। तत्राबभौ हाटकपीठवी रामो विदेहेन्द्रसुतासमेतः। पार्श्वस्फुरत्कल्पकवल्लरीक- स्तमालशाखीव सुमेरुसानौ ॥ ६५ ॥ हुतं वसिष्ठो विधिवद् विवाहे हुताशनं साक्षिणमाकलय्य । ब्रीडाजडान्योन्यकटाक्षमोक्षौ संयोजयामास वधूवरौ तौ ॥ ६६ ॥ विदेहभूवासवजप्तकन्या- प्रदानमन्त्रस्थितविष्णुशब्दः । रामे न भेजे किल गौणवृत्ति- मर्थेष्वमुख्येषु हि तत्प्रवृत्तिः ॥ ६७ ।। विभूषणं हेममयं ससूत्रं धरासुतायाः स बबन्ध कण्ठे। दिनोदयो रश्मिनिबद्धमिन्द्र- दिशो रवेबिम्बमिवोपकण्ठे ॥ ६८ ॥ करेण जग्राह करं तदीयं रत्नाङ्गुलीयच्छविरञ्जितेन । रामो नलिन्या नलिन प्रभाते करेण भास्वानिव पाटलेन ॥ ६९ ॥ प्रदक्षिणप्रक्रमणानि वह्ने- स्तन्वच्चकाशे मिथुनं तदुच्चैः ।

९४
जानकीपरिणये
नीराजनासु भ्रमतः समन्तात्
क्षणाणं तस्य किलापनेतुम् ॥ ७० ॥
पदं न्यधत्ताश्मनि भक्तिरेखा-
विराजिते कान्तकरोघृतं सा ।
विडम्बयन्ती कमलां मुरारे-
रुरस्तटारोहणमाचरन्तीम् ॥ ७१ ॥
विभावसौ प्रज्वलिते समिद्भि-
मुमोच लाजावलिमुत्पलाक्षी ।
सधातुरागे चस्माद्रिसानौ
प्रभातवेलेव घटामुडूनाम् ॥ ७२ ॥
मामाश्रितानां पदमीदृशं स्या-
दिति प्रभाव प्रथयन्निव स्वम् ।
ध्रुवं विदेहेन्द्रभुवे खलूच्चैः-
स्थानस्थितं दर्शयति स्म रामः ॥ ७३ ॥
यां व्योम्नि पश्यन्ति नवान्यवध्वो
यत्नाद् विवाहे रमणैनियुक्ताः ।
पार्श्व वसिष्ठस्य निषेदुषीं ता-
मरुन्धती सा सुखमालुलोके ॥ ७४ ॥
मधूकपुष्पग्रथितानि दूर्वा-
युक्तानि दामानि मिथोऽधिकण्ठम् ।
नर्मोत्तरैर्बन्धुजनैनियुक्ती
तौ दम्पती चिक्षिपतुः प्रहर्षात् ॥ ७५ ॥

सप्तमः सर्गः। स्फीतानि गीतानि तदुत्सवर्द्धि- शंसीनि पङ्केरुहलोचनानाम । वधूवरौ कर्णपुटैः पिबन्ती दोलाविहारं सुखमन्वभूताम् ॥ ७६ ॥ आर्द्राक्षतारोपणकैतवेन जनस्तमानर्च वधूसनाथम् । निशाचराणां कदनाय भूमौ कान्तं रमायाः कलितावतारम् ॥ ७७ ॥ अथोपयेमे प्रथमः सुमित्रा- पुत्रः किलान्यां जनकस्य कन्याम् । तौ रामरामानुजयोः कनिष्ठौ धन्ये कुमार्यौ च कुशध्वजस्य ॥ ७८ ॥ इत्थं विवाहविधिमात्मभुवां चतुर्णा निवर्त्य दत्तमखिलं मिथिलाधिपेन । आदाय यौतकधनं विपुलं समं तै- दौरान्वितैर्दशरथः स्वपुरं प्रतस्थे ॥ ७९ ॥ यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुदयैः संमानिताम्बाभिधा । सर्गोऽसौ मिथिलाधिराजतनुजापाणिग्रहे तन्महा- काव्ये चारुणि पार्वतीपरिणयभ्रातर्यभूत् सप्तमः ॥ ८० ॥ इति जानकीपरिणये सप्तमः सर्गः।

अथ अष्टमः सर्गः।
आदरादनुजगाम सबन्धु-
मैथिलो दशरथं पथि यान्तम् ।
व्योमसीम्नि वलमानमिवाने
गन्धवाहनिवहं घनसङ्घः ॥ १॥
बन्धुवत्सलतयाध्वनि दूर
तं व्रजन्तमनुगम्य नरेन्द्रम् ।
मैथिलो निववृते तनयाभि-
वीक्षितोऽनुपदमश्रुमुखीभिः ॥ २ ॥
क्षोभयन् क्षितिपतेरथ सेना-
माजगाम पवनः प्रतिकूलः ।
यत्नमश्वनिवहस्य शताङ्गा-
कर्षणेषु विफलं विदधानः ॥ ३ ॥
तादृशमलयपावकनिर्य-
हीमधूममभूमहरेण ।
धूसराणि रजसा समभूवन्
दिङ्मुखानि तरसा निखिलानि ॥ ४ ॥
उत्थितं करभकायनिकाय-
च्छायमुग्रनिजरूपमुदग्रम् ।
अम्बरे जलमुचां निकुरुम्ब
स्फारघोरतरघोषविशेषम् ॥ ५॥

अष्टमः सर्गः। : अन्तरा प्रतिभयं परिवेष क्षीणदीधितिरलक्ष्यत भानुः । केतुनेव परुषेण समन्ताद् वेष्टितः सरभसग्रसनाय ॥६॥ तर्पयन्तमवनीपतिमांसै- वीक्ष्य भार्गवमिवागतमारात् । सङ्कुलं सरभसापतिताभिः श्येनसंहतिभिरम्बरमासीत् ॥ ७ ॥ तिष्ठति स्म खलु यत्र विवस्वान् दिङ्मुखं तदभिपूरितमुच्चैः। भैरवैर्झटिति फेरवयूथ- क्रन्दितैः समभवत् प्लुतरूपैः ॥ ८ ॥ इत्थमुत्थितमुदीक्ष्य समन्ताद दुनिमित्तशतमाकुलचित्तम् । पार्थिवं न विपदस्ति दुरन्ता मुञ्च शोकमिति तं गुरुरूचे ॥ ९ ॥ अग्रतोऽथ विकटभृकुटीकः प्रादुरास धृतघोरशरासः। भार्गवः परुषरोषकठोरः क्षत्रियक्षतिपटिष्ठकुठारः ॥ १० गर्जदर्जुनभुजावनराजि- ध्वंसदावदहनीभवदोजाः।

८ जानकीपरिणये योऽलुनात् परशुना युधि वारान् सन्तति क्षितिभुजामुपविंशान् ॥ ११ ॥ रेणुकावधभुवा दुरितानां मार्जनाय किल यस्य कुठारः भूभुजां गलगलद्रुधिराम्भो- निर्झरेष्वविरताप्लवनोऽभूत् ।। १२ ॥ जन्मभूर्जगति यः पितृभक्तेः साहसस्य परमस्य निधिर्यः । पात्रमिन्दुमहसां यशसा यो विक्रमस्य च विहारगृहं यः ॥ १३ ॥ 'सिन्धुबन्धुवलयेन परीतां काश्यपाय दिशति स्म भुवं यः। किञ्च खण्डपरशोरुपकण्ठात् प्राप चापनिगमं निखिलं यः ॥ १४ ॥ वल्कलं वपुषि बिभ्रदजिह्म- ब्रह्मचर्यनिधिरुज्ज्वलतेजाः । क्षत्रगात्ररुधिरेण पितॄणां तर्पणं कलयति स्म पुरा यः ॥ १५ ॥ स्कन्धसीम्नि परशुं शितधारं दक्षिणेतरकरे च शरासम् । मिन्धुबन्धूनां समुद्राणां वलयेन ।

अष्टमः सर्गः
आशुगं दधदवामकरेयः
क्रूरताजितयुगान्तकृतान्तः ॥ १६ ॥
उज्झितं मघवता कुलिशं यत्-
पक्षमात्रदलनं किल चके।
आयुधं दलयति स्म यदीयं
क्रौञ्चभूधरमुग्रतरं तम् ॥ १७ ॥
तं निरीक्ष्य तरसा मुनिमारा-
दुग्रविग्रहमुदनकुठारम् ।
तस्य भूशतमखस्य दुरन्ता
प्रादुरास किल चेतसि चिन्ता ॥ १८ ॥
यस्य निष्ठुरकुठारविलूना
क्षत्रजातिरखिला बहुवारान् ।
न प्ररोहति मनागधुनापि
भ्रूणहा क पुनरापतितोऽसौ ॥ १९ ॥
उद्धतः परशुपावकदुग्ध-
क्षवसन्ततिरमर्षभरेण ।
पापमेष कलयिष्यति किंवा
शैशवाविरहितेषु सुतेषु ॥ २० ॥
चिन्तयन्तमिति भूपमपश्य-
नय॒मय॑मिति तं कथयन्तम् ।
राममेव भृगुसूनुरयासी-
दाहितेश्वरशरासनिरासम् ॥ २१ ॥

१०६ जानकीपरिणय सञ्चरन्तमिव आगते सति मुनौ क्षितिपाल- स्त्रासकम्पमभजन्न तु रामः । कम्पते क्षितिरुहः पवमाने वाति तिष्ठति हि पूर्ववदद्रिः ॥ २२ ॥ सगुणराशि मूर्तिमन्तमिव कीर्तिपदार्थम् । अक्षिलक्षितमिवार्जवसारं चेतनान्वितमिवाखिलधर्मम् ॥ २३ ॥ पश्यति स्म जमदग्निकुमारः कोसलेन्द्रसुतमेकनिकेतम् । शौर्यधैर्यविनयप्रियवाद- क्षान्तिशान्तिनयसत्यदयानाम् ॥ २४ ॥ (युग्मम्) भीतिगन्धरहितं गतशङ्क मुक्तविक्रियमनाकुलचित्तम् । अब्रवीद् रघुपति यमदंष्ट्रा- कारघोरपरशु गुसूनुः ॥ २५ ॥ क्षत्रडिम्भ! जरठो जनकस्ते मुक्त एष निरपत्य इति प्राक् । सूदितो यदि तदैव कुतस्त्वं तत् कुतो हरधनुर्दलनं वा ॥२६॥ हेहयक्षितिभुजो भुजवंशान् केवलं न खलु घोरतरोऽसौ ।

अष्टमः सर्गः ।
१.१
अञ्जसा क्षितिभुजामपि वंशान्
निर्बिभेद समरे परशुमें ॥२७॥
अपमन्त्रमखिलं भवते यो
बालिशाय तरसोपदिदेश ।
लोकविप्रियकरं बत विश्वा-
मित्रमाहुरत एव जनास्तम् ॥२८॥
यच्चिरादपरिशीलनतोऽभू-
निष्पतधुणगणव्रणरेणु।
तस्य रुद्रधनुषो मथनात् ते
क्षत्रियार्भक! कियानवलेपः ॥२९॥
एकविंशतिमहीपतिवंशो-
न्मूलनेन शमितां भुजकण्डूम् ।
उत्थितां पुनरिमां रघुवंश-
च्छेदनात् प्रशमितां कलयामि ॥ ३०॥
ताटकाहरशराससुबाहु-
ध्वंसनात् समुदितं हृदये ते ।
अस्मदीयपरशुः स्वयमद्यो-
न्मूलयिष्यति रयादवलेपम् ॥ ३१॥
पौरुषोटभुजेन मया चेद्
द्वन्द्वयुद्धमधुना कलयेथाः।
क्षत्रदारक! यशो भवतः स्या-
दस्तु संयति जयोऽपजयो वा ॥३२॥

१०२ जानकीपरिणये बिस्रसौषधिबलेन पिता ते रक्षितोऽजनि मदीयकुठारात् । ओषधि नतिमयीं कलयंस्त्वं प्राणरक्षणविधि रचयास्मात् ॥ ३३ ॥ किं मया समरमाचरसि त्वं किं तनोषि धनुरेतदधिज्यम् । किं करोषि शिरसा प्रणिपातं तत् कुरु त्रिषु यदिष्टतमं ते ॥ ३४ ॥ एवमूचुषि मुनौ भृगुसूनौ रोषशोणतरलोचनकोणे। राघवस्य हृदयं न जगाम क्षोभमीषदपि सिन्धुगभीरम् ॥ ३५ ॥ सङ्गरे सति भवेद् द्विजहिंसा कीतिहानिरहितप्रणिपाते। नात्र दोषकणिकेति स चापा- रोपणे निहितधीनिजगाद ॥ ३६ ॥ क्षत्रवंशदलनार्जुनबाहा- खण्डनादि वदता निजशौर्यम् । रैणुकेय! जननीवधशौर्य विस्मृतं कथमिदं भवताभूत् ॥ ३७॥ क्षिप्तमायुधमिदं पितृघाती- त्यर्जुने सरभसं भवता चेत् ।

अष्टमः सर्गः।
HEND
शस्त्रमुज्ज्वलतरं त्वयि तह-
न्मातृघातिनि कुतो न विसृष्टम् ॥ ३८ ॥
भूसुरोऽयमिति जातविशङ्का-
नप्रयुक्तविविधास्त्रसमूहान् ।
त्वद्वधात् क्षितिभुजो विनिवृत्तान
का स्तुतिः कथय संहरतस्ते ॥ ३९ ॥
आजघान पितरं भवतो यः
स त्वयैव समरे निगृहीतः।
मातरं निहतवान् खलु यस्ते
तस्य निग्रहमहं कलयामि ॥ ४० ॥
शक्तिमान् दलयति स्म कुमारः
क्रौञ्चमद्रिमिति मत्सरतस्त्वम् ।
ख्यातिमाप्तुमभिनः शकुनि त-
तुल्यसंज्ञमपशक्तिरये किम् ॥४१॥
ब्राह्मणे त्वयि जिते सति शस्त्रैः
क्षत्रियस्य न यशो जगति स्यात् ।
शंस राम! समरे यशसो मे
का प्रसक्तिरजिते त्वयि दैवात् ॥ ४२ ॥
अग्रहीदिति वदन् रघुवीर-
स्तत्करान्मधुनिसूदनचापम् ।
तत्क्षणाद् भृगुपतिर्गततेजा-
श्चण्डभानुरुपरक्त इवासीत् ॥ ४३ ॥

१०१ जानकीपरिणये दुर्निरीक्षतरतां प्रतिपदे राघवोऽधिगतभार्गवतेजाः । सायमग्निरिव भानुसकाशात् सत्वरापतितनिर्भरधामा ॥४४॥ मुक्तदर्पभरमुज्झितयुद्धो- त्साहमस्तमितभीषणरोषम् । क्षीणतेजसमुपागतदैन्यं वीक्ष्य राममवदद् रघुवीरः ॥ ४५ ॥ आयुधानि विमुखानि रघूणां ब्राह्मणेषु यदतस्तरसा ते। लुम्पतु त्रिदिववर्त्म गतिं वा संहितो धनुषि सायक एषः ॥ ४६ ॥ शंसतीति रघुवंशवतंसे व्याजहार जमदग्निकुमारः। अध्वरार्जितमनेन जहि त्वं नाकलोकमिषुणा न गतिं मे ॥ १७ ॥ दीनदीन इति शंसति तस्मि- न्नुज्झितो दशरथस्य सुतेन । मार्गणो झटिति भार्गवतादृक्- स्वर्गमार्गविपुलार्गलमासीत् ॥ १८ ॥ किं फलं प्रहरणग्रहणेन ब्राह्मणस्य दुरहतियया वा।

भष्टमः सर्गः।
१०५५
शान्तिमान् भव समस्तजनेषु
त्वं दयां कलय गच्छ यथेच्छम् ।। ४९ ॥
व्याहरन्निति ननाम स रामो
राममाप्तशममुज्झितदर्पम् ।
उद्धतेप्वनुचितः प्रणिपातो
युक्ततां व्रजति शान्तिमितेषु ॥ ५० ॥
राघवेण विहितानुमतिः सन्
भार्गवो द्रुतमवाप महेन्द्रम् ।
खं पुरं दशरथोऽपि सदारै-
दारकैरनुगतो भजति स्म ॥ ५१ ॥
तोरणावलिविराजितमम्भ-
स्सिक्तराजपथमुच्चपताकम् ।
तत् पुरं जनघनं परिपश्य-
नाससाद भवनं क्षितिपालः ॥ ५२ ॥
राघवश्व भरतश्च सुमित्रा-
नन्दनौ च पितरं प्रणिपत्य ।
शासनात् तदनु तस्य सदारा
भेजिरे निजनिजावसथानि ॥ ५३ ॥
मैथिलस्य च कुशध्वजनाम्नः
कन्यकाः क्षितिभुजोरुभयोस्ताः।
लालनाभिरनिशं दयिताना-
मस्मरन् न जनको मनसापि ॥ ५४ ॥

जानकीपरिणये रूपधेयमधुरास्तरुणिम्ना भूषिता दशरथस्य कुमाराः। ताभिरुज्ज्वलतराभिरजस्रं सङ्गताः सुखमभुञ्जत भोगान् ॥ ५५ ॥ क्रीडति स्म मणिधाम्नि कदाचि- न्मन्दिरोपवनसीम्नि कदाचित् । केलिभूमिधरमूर्ध्नि कदाचित् सीतया सह सुखेन स रामः॥ ५६ ॥ तं विना क्षणमुवास न सीता तां विना स च नरेन्द्रकुमारः। कौमुदी विरहिता हिमभासा किं वसेद् विरहितः स तया वा ॥ ५७ ॥ भक्तिमान गुरुषु बन्धुजनेषु प्रीतिमांश्च कृपणेषु कृपावान् । रोषवान् प्रतिभटेषु रणेपू- त्साहवान् समजनिष्ट स वीरः॥ ५८ ॥ स स्मरन्नुपकृति लघुमेकां नास्मरद् गुरुतरानपकारान् । ईरितासु परुषोक्तिषु रुष्टै- राह नोत्तरमपि प्रतिभावान् ॥ ५९ ॥ राघवः प्रदिशति स्म धनौघं भूरिशः खलु तथार्थिजनाय ।

अष्टमः सर्गः। २०७ सन्ततावपि न तस्य यथा स्याद् दुर्गतिः प्रभवभूर्दुरितानाम् ॥ ६ ॥ तादृशेन भुजविक्रमभूम्ना केवलं न जमदग्निकुमारम् । श्लाघनीयतरया पितृभक्त्या- प्यत्यशेत रघुवंशवतंसः ॥ ६१ ॥ निष्ठुराक्षरमलीकमसारं ग्राम्यमुद्धततरं कृपणं वा। उज्झितार्जवमधर्म्यमयुक्तं व्याजहार न वचो रघुवीरः ॥ ६२ ॥ वीक्षणेन सदयेन सुधौघं वर्षतेव वचसा मनसा च । प्रेमभूमभरितेन रघूणां नायको निखिलचित्तमहार्षीत् ॥ ६३ ॥ राजसूनुषु चतुर्वपि रामः सम्मतोऽजनि जनस्य विशेषात् । एक एव हि विशिष्य पुमर्थे- प्वचितो भवति मोक्षपदार्थः ॥ ६४ ॥ जानकीपरिणयोत्सवशंसि- ग्रन्थनिर्वहणसर्वधुरीणम् । हर्षितं समतनोत् कविचक्र राघवः प्रवितरन् सदभीष्टम् ॥ ६५ ॥ $ कविचक्र कविसमूहम् , अथच प्रकृतकाव्यकर्तारं चक्राख्यं कविम् ।

१०८ जानकीपरिणये इत्थं सद्गुणरजिताखिलजनं गाम्भीर्यधैर्यक्षमा- शौर्योत्साहविनीतिशान्तिकरुणाविश्राणनैकाश्रयम् । रामं सत्वरमन्ययेव चकमे विश्वंभराकन्यया संयोक्तुं दिवसे शुभे दशरथस्तं यौवराज्यश्रिया ॥ ६६ ॥ यं सूनुं जनयाम्बभूव महितः श्रीलोकनाथः सुधीः ख्यातं चक्रकविं सतीसमुदयैः सम्मानिताम्बाभिधा । यत्पुत्रो भुवि वेत्ति सामनिगमं श्रीरामचन्द्रोऽखिलं काव्ये तस्य हि जानकीपरिणये सर्गोऽजनिष्टाष्टमः ॥६७॥ दृप्यन्मन्मथगाढकर्षणदलत्पर्वेक्षुचापक्षर- त्सारस्फाररसोर्मिनिर्मितरणक्रीडा यदीया गिरः । यत्कीर्तः शरदिन्दुसुन्दरमहःसन्दोहसन्देहदा सोऽयं चक्रकविर्विभाति विनयी सौजन्यसम्पन्निधिः॥ ६८ ॥ गुरूणां चरणाम्भोजं यस्यां दिशि विराजते । तस्यै दिशे नमस्कुर्मः कायेन मनसा गिरा ॥ ६९ ॥ इति जानकीपरिणये अष्टमः सर्गः। समातश्चार्य ग्रन्थः। शुभं भूयात् । Paam

No text on this page.

Janaki Parinaya

Author
Chakra Kavi
Other authors
Ganapati Sastri T
Title
Jaanakii Parind-aya:
File name
Janaki Parinaya
Text
OCR done
Citation
1913
Published
2006/02/18
Publisher
Trivendrum Governemt Press,trivendrum
Language
Sanskrit
Pages
117
Library
Canegie Mellon Univeristy
Classification
Poetry. Poems. Verse
Keywords
Janaki parinaya Nataka is poetics by chakra kavi
DLI number
495497
Barcode
1990020084899.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
9cLSUwP5H2o
Download PDF

Janaki Parinaya