University Library,gurukul Kangri Vishwavidyalaya
ऋजुपाठम् द्वितीयो भागः
Front matter
ऋजुपाठम्
ईश्वर चन्द्र विद्या सागर प्रणौ त म् ।
द्वितीयो भागः ।
अभि न व संस्करणम् ।
PUBLISHED BY
SIDDHESWAR PAN,
"SIDDHESWAR PRESS DEPOSITORY,"
66, COLLEGE STREET, CALCUTTA.
1909.
All rights reserved.
Caloutta:
PRINTED BY ABINASH CHANDRA MANDAL
AT THE "SIDDHESWAR MACHINE PRESS"
13, Shibnarayan Dass's Lane.
1909.
বিজ্ঞাপন
৭
ঋজুপাঠের দ্বিতীয় ভাগ রামায়ণ হইতে সংগৃহীত হইল। রচনা-
প্রণালী দৃষ্টে স্পষ্ট প্রতীতি জন্মে, রামায়ণ অতি প্রাচীন গ্রন্থ।
এই প্রাচীন গ্রন্থ মহর্ষি বাল্মীকি প্রণীত বলিয়া প্রসিদ্ধি আছে।
কোনও কোনও আলঙ্কারিকেরা রামায়ণকে মহাকাব্য মধ্যে গণনা
করিয়া থাকেন। কিন্তু তাহারা তাদৃশ কাব্যের যে সকল লক্ষণ
নির্দেশ করিয়াছেন, তৎসমুদায় কালিদাসাদি প্রণীত রঘুবংশাদি
অপেক্ষাকৃত নব্য কাব্যগ্রন্থসমূহে যেরূপ লক্ষিত হয়, প্রাচীন কাব্য
রামায়ণে সেরূপ লক্ষিত হয় না। বাল্মীকিকাব্যে পৌনরুক্ত,
প্রাসঙ্গিক বিষয়ের অতি বিস্তৃত বর্ণনা প্রভৃতি কতিপয় গুরুতর
দোষ আছে। যাহা হউক, অনায়াসে এই নির্দেশ করা যাইতে
পারে, সংস্কৃত ভাষায় এরূপ প্রাঞ্জল ও সাদগুণবিশিষ্ট পদ্য গ্রন্থ
আর নাই। রামায়ণের মধ্যে অযােধ্যাকাণ্ডের রচনা যেরূপ
চমৎকারিণী ও চিত্তহারিণী অন্যান্য কাণ্ডের রচনা সেরূপ নহে।
এই নিমিত্ত ঋজুপাঠের দ্বিতীয় ভাগে অযােধ্যাকাণ্ডের কতিপয়
উৎকৃষ্ট অংশ সঙ্কলিত হইল। সঙ্কলিত অংশ সকলের কোনও
কোনও ভাগ অনাবশ্যকুৱাৈধে পরিত্যক্ত হইয়াছে।
@
ঈশ্বরচন্দ্ৰ শৰ্মা
কলিকাতা।
ঘ
২২এ ফাল্গুন।
সংবৎ
ষষ্ঠ সংস্করণের বিজ্ঞাপন এই সংস্করণে, শিক্ষাকাৰ্য্যের সৌকৰ্য্যার্থে, অপেক্ষাকৃত দুরূহ অংশসমূহের সংক্ষিপ্ত ব্যাখ্যা নিম্নদেশে সন্নিবেশিত, এবং গ্রন্থ- কলেবরের অতিবিস্তৃতিদোষপরিহারার্থ মূলের শেষ কিয়দংশ পরিত্যক্ত হইল। ঈশ্বরচন্দ্ৰ শৰ্মা কলিকাতা। ১লা চৈত্র । সংবং ১৯২১।
ऋजुपाठ म्।
द्वितीयो भागः ।
राजा दशरथः पूर्व के केय्य हौ वरौ ददौ। अधुना सा रामस्य
राज्याभिषेकमसहमाना एकेन वरेण रामस्य वनप्रवासन.
मपरेण च स्वमुतस्य भरतस्याभिषचनं याचितवती।
तत् श्रुत्वा दशरथस्य विलापः ।
ततः श्रुत्वा महाराज: कैकेय्या दारुणं वचः ।
पपात सहसा भूमौ निश्चेष्टश्चाभवत्तदा ॥
चिरेण वृपतिः संज्ञां प्रतिलभ्य सुदुःखितः ।
कैकेयीमब्रवीत् क्रुद्धो निर्दहन्निव चक्षुषा ॥
नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि।
किं कृतं तव रामेण पाप (१) पापं (२) मयापि वा ॥
सदा ते जननौतुल्यां वृत्तिं (३) वहति (४) राधवः ।
तस्यैवं त्वमनर्थाय किं निमित्तमिहोद्यता ॥
(१) पाप दुष्टाशय ।
(२) पापम् अनिष्टम् ।
(३) वृत्तिम् आचारं शुश्रूषामिति यावत् ।
(४) वहति धारयति करीतीति यावत् ।
६
ऋजुपाठम्।
त्वं मयात्मविनाशाय भवनं खं निवेशिता ।
अविज्ञानानृपसुता व्याली तीक्ष्णविषा यथा ॥
जीवलोको यदा सर्बो रामस्याह गुणस्तवम् ।
अपराधं कमुद्दिश्य (१) त्यक्ष्यामोष्टमहं सुतम् ॥
कौशल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् (२)।
जीवितं वात्मनो रामं न वेव पिटवत्सलम् ॥
परा भवति मे प्रीतिदृष्ट्वा तनयमग्रजम् ।
अपश्यतस्तु मे रामं नष्टं भवति चेतनम् ॥
तिष्ठेल्लोको विना सूर्यं शस्यं वा सलिलं विना।
न तु रामं विना देहे तिष्ठेत्तु मम जीवितम् ॥
तदलं त्यज्यतामेष निश्चयः (३) पापनिश्चये (४)।
अपि ते चरणो मूर्खा स्मृशाम्येष प्रसीद मे ॥
न हि किञ्चिदयुक्त वा विप्रियं वा पुरा मम ।
अकरोस्त्वं विशालाक्षि तेन न श्रद्दधामि ते (५) ॥
ननु मे राघवस्तुल्यो भरतेन महात्मना।
बहुशो हि स्म कैकेयि कथाः कथयसे मम ।
(१) उद्दिश्य अवलम्बा ।
(२) श्रियं राज्यलमीम्।
(३) निश्चयः रामविवासनविषय: सङ्कल्पः ।
(४) पापनिये दुष्टसझल्पे ।
(५) न अद्दधामि ते तवेयं प्रार्थना यथार्थेति न विश्वसिमौति भावः ।
ऋजुपाठम् ।
तस्य धर्मात्मनो देवि वने वासं यशखिनः ।
कथं रोचयसे भौर नव वर्षाणि पञ्च च ॥
रामो हि भरताद्भूयः (१) तव शुश्रूषते सदा ।
विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ॥
सत्यं दानं तपो धैर्य मित्रता शौचमाजवम् (२)।
विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ।
तस्मिन्नार्जवसम्पन्ने देवि देवोपम कथम् ।
पापमाशंससे (३) राम महर्षिसमतेजसि ||
मम वृद्धस्य कैकेयि गतान्तस्य (४) तपखिनः (५) ।
दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥
पृथिव्यां सागरान्तायां यत् किञ्चिदधिगम्यते ।
तत् सर्व तव दास्यामि मा त्वं मे मृत्युमाविश (६) ॥
इति दुःखाभिसन्तप्तं विलपन्तमचेतनम् ।
प्रत्युवाचाथ कैकेयी रौद्रा (७) रौद्रतरं (८) वचः ॥
(१) भूयः अधिकतरम्।
(२) शौचं वाह्यान्तरशुद्धिः । आज वं वञ्चनाराहित्यम् ।
(३) पापं वनवासरूपमनिष्टम् आशंससे कामयसे ।
(४) गतान्तस्य प्राप्तचरमकालस्य ।
(५) तपखिनः दीनस्य शोचनीयामवस्थामापनस्येत्यर्थः ।
(६) मृत्यं मृत्युसम्पादकं रामविवासनरूपमुत्कटमनिष्टम् पाविश घटय ।
(७) रौद्रा दारुणा।
(८) रौद्रतरम् अतिदारुणम् ।
C ऋजुपाठम्। भवत्वधर्मो धर्मो वा सत्यं वा यदिवानृतम्। यत्वया संश्रुतं (१) मह्यं तस्य नास्ति व्यतिक्रमः ॥ अहं हि विषमद्येव पीत्वा बहु तवाग्रतः । पश्यतस्ते (२) मरिष्यामि रामो यद्यभिषिच्यते ॥ भरतेनात्मना (३) नूनं शपामि मनुजाधिप । यथा नान्येन तुष्यमृते रामविवासनात् ॥ श्रुत्वा तु राजा कैकेय्या वचनं तदशोभनम् । नाभ्यभाषत कैकेयीं मुहत्तं व्याकुलेन्द्रियः ॥ स देव्या व्यवसायञ्च (४) घोरञ्च शपथं कृतम् । ध्यात्वा रामेति निखस्य छिन्त्रस्तररिवापतत् ॥ दीर्घमुष्णञ्च निश्वस्य राजा परमदुमनाः । दोनयातुरया वाचा कैकयीमिदमब्रवीत् ॥ अनर्थमिममर्थाभं (५) केन त्वमुपदेशिता (६) । भूतोपहतचित्तेव (७) ब्रुवती मां न लज्जसे ॥ (१) संश्रुतं प्रतिज्ञातम् । (२) पश्यतस्ते पश्यन्त वाममादृत्य । (३) पात्मना प्राणभूतेन भरतेम पामि तपथपूर्बकं कथ- यामौत्यर्थः। (४) व्यवसायं रामविवासनसङ्कल्पम् । (५) पर्थाभम् अर्थवदाभाषमानम् पापातत इष्टवत् प्रतीयमानमित्यर्थः । (e) उपर्दशिता उपदिशा। स्वार्थे णिच । (७) भूतोपहतचित्ता भूतावेशवीन विधान्तचिना।
ऋजुपाठम्।
है
नृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि ।
किनु दुःखमलोकं वा मयि रामे च पश्यसि (१),
न कथञ्चिते रामाङ्गरतो राज्यमावसेत् (२)।
रामादपि हि तं मन्ये धर्मतो बलवत्तरम् (३) ॥
कथं द्रक्ष्यामि रामस्य वनं गच्छति भाषिते।
मुखवणं विवर्णन्तु यथैवेन्दुमुपप्लुतम् () ॥
किं मां वक्ष्यति कौशल्या राघवे वनमास्थिते।
किं न्वेनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ॥
सततं प्रियकामा मे प्रियपुत्वा प्रियंवदा ।
न मया सत्कृता देवी सत्कारार्थी कते तव ॥
नहि राममहं दृष्ट्वा प्रवसन्तं महावने ।
चिरं जीवितुमाशंसे रुदतीं चापि मैथिलीम् ।
अनृतैर्वत मां सान्वैः सान्वयन्ती सुदारुणे ।
गौतशब्देन संरुध्य लुब्धो (५) मृगमिवावधीः ।
(१) नु भोः मयि रामे च किं दुःखं दु:खकरम् पलीकमप्रियं वा
पश्यसि पहं रामो वा तव दुःखकरम् अप्रियं च किमपि
कदाचिन्न कृतवानित्यर्थः ।
(२) · राज्यमावसेत् राज्ये वासं रीचयेत् ।
(३) धर्मती बलवत्तरम् अतिशयेन धर्मवन्तम् ।
(४) उपनु तं राहुयतम् ।
(५) लुब्धः व्याधः।
१०
ऋजुपाठम्।
रममाणस्त्वया साई मृत्युं त्वां नाभिलक्षये।
बालो रहसि हस्तेन कृष्णसर्पमिवास्मशम् ॥
बालिशो (१)वत कामात्मा (२) राजा दशरथो भृशम् ।
प्रस्थापयामास वनं स्त्रोकते (३) यः प्रियं सुतम् ।
इति देशेषु देशेषु मामुद्दिश्य नृपाधमम् ।
नाना वाचश्चरिष्यन्ति राम प्रव्राजिते वनम् ।
नालं (8) द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम् ।
स वनं प्रव्रजेत्युक्तो वाढ़मित्येव वक्ष्यति ॥
यदि मे राघवः कुर्याहनं गच्छति नोदितः ।
प्रतिकूलं प्रियं मे स्यात् (५) न तु वसः करिष्यति ॥
शुद्धभावो (६) हि भावं (७) मे न तु जास्यति राघवः ।
वनं पुत्रो व्रजेत्युक्तो नैवान्यत् प्रतिवक्ष्यति ॥
प्रियं चेदरतस्यैतद्रामप्रव्राजनं भवेत् ।
माम्म मे भरतः कार्षीत् प्रेतकत्यं गतायुषः ॥
(१) बालिशः मूढः।
(२) कामात्मा यथेच्छाचारी।
(३) स्वीकृते स्त्रीनिमित्तं के कैथ्या: प्रौति सम्पादयितुमित्यर्थः ।
(४) न अखं न समर्थः ।
(५) यदि राघवी मम प्रतिकूलं कुर्थात् विपरीतमाचरेत् ममात्रा म
पालयेदिति यावत् तन्मे प्रियं स्यात् ।
(६) शुद्धभावः सरलाशयः अकपटहृदयः इति यावत् ।
(७) भावं पभिप्रायम्।
ऋजुपाठम्।
११
हन्तानार्थे ममामित्रे सुखिनो भव केकयि ।
त्यजामि भरतं त्वाञ्च जीवितं चेष्टमात्मनः ॥
मृते मयि गते राम वनं पुरुषपुङ्गवे।
सेदानीं विधवा राज्यं सपुचा कारयिष्यसि (१) ॥
रथैरबैगजैरव यो याति सततं स हि।
कथं पढ़यां महारण्ये वमो मे विचरिष्यति ।
यस्य चाहारसमये सूदाः (२) कुण्डलधारिणः ।
अहम्पूर्बाः (३) पचन्ति स्म प्रशस्तं पानभोजनम् ॥
स कथं नु कषायाणि तितानि कटुकानि च ।
फलानि भक्षयन् नित्यं सुतो मे वर्तयिष्यति (8) ॥
महाईवस्वसंवीतो भूत्वा चिरमुखोचितः (५)।
काषायपरिधानस्तु कथं रामो भविष्यति ॥
धिगस्तु योषितो नाम शठाः खार्थपरायणाः ।
न ब्रवीमि स्त्रियः सर्खा भरतस्यैव मातरम् ॥
(१) कारयिष्यसि करिष्यसि। स्वार्थे णिच् ।
(२) सदा: सूपकाराः पाचका इति यावत् ।
(३) पहम्पूर्वाः अहं पूब पचानि पई पूर्व पचानौत्येव परस्पर
स्पर्द्धमानाः ।
(४) वर्तयिष्यति जीविष्यति ।
(५) चिरमुखीचितः चिरसुखाभ्यस्तः अविच्छिन्नसुखन काखमति-
वाहितवानित्यर्थः ।
१२
ऋजुपाठम् ।
प्रतम्य वा प्रज्वल वा प्रणश्य वा
सहस्रशो वा स्फुटितां महीं व्रज।
न ते करिष्यामि वचः सुदारुणं
ममाहितं केकयवंशपांशुले ॥
अथ भूमौ महाराजं शयानमतथोचितम् (१)।
पुनराकारयामास (२) क्रूरा केकयवंशजा ॥
त्वं कथ्यसे (३) महाराज सत्यवादो दृढ़वतः (४)।
मम चेमं वरं कस्माहिधारयितुमिच्छसि (५) ॥
एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा।
प्रत्युवाच परिक्रुद्धो मुहत्तं विमृशनिव ।
मृत मयि गते राम वनं मनुजपुङ्गवे।
हन्ताना> ममामित्रे सकामा सुखिनो भव ॥
अपुचेण मया पुचः श्रमेण महता महान् ।
रामो लब्धो महातेजाः स कथं त्यज्यते मया ॥
शूरच कृतविद्यश्च जितक्रोधः क्षमापरः ।
कथं कमलपत्राक्षो मया रामो विवास्यते ॥
(१) अलथोचितं भूमिशयनामह म् ।
(२) प्राकारयामास आजुहाव सम्बोधयामासे यर्थः ।
(३) कथ्यसे नाध्यसे ।
(8) हृदनस: हदप्रतिज्ञः ।
(५) विधारयितुम् अपरिशोधयितुम्।।
रजुपाठम्।
१३
कथमिन्दीवरश्यामं दीर्घबाहुं महाबलम् ।
अभिराममहं रामं स्थापयिष्यामि (१) दण्डकान् ॥
नृशंसे पापसङ्कल्पे रामं सत्यपराक्रमम् ।
किं विप्रियेण कैकेयि प्रियं योजयसे मम ॥
तथा विलपतस्तस्य परिभ्रमितचेतसः ।
अस्तमभ्यगमत् सूर्यो रजनी चाभ्यवर्तत ॥
सा त्रियामा तदातस्य चन्द्रमण्डलमण्डिता।
राज्ञो विलपमानस्य (२) न व्यभासत (३) सर्वरी ।
सदैवोष्णं विनिश्वस्य वृद्धो दशरथो नृपः ।
विललापातिदुःखार्तो गमनासक्तलोचन: ॥
न प्रभान त्वयेच्छामि (४) निथे नक्षत्रभूषिते ।
क्रियता मे दया भट्रे मयायं रचितोऽञ्जलिः॥
अथवा गम्यतां शीघ्रं नाहमिच्छामि निघृणाम् ।
नृशंसा केकयीं द्रष्टुं यत्कृते व्यसनं महत् ॥
एवमुत्वा ततो राजा कैकेयों संयताञ्जलिः ।
प्रसादयामास पुन: प्रेयसी राजधर्मवित् ॥
प्रसीद देवि रामो मे त्वद्दत्तं राज्यमव्ययम् ।
लभतामसितापाङ्गि यशः परमवाप्सासि ॥
(१) स्थापयिष्यामि प्रस्थापयिष्यामि ।
(२) विलपमानस्य विलपतः। पात्मनेपदमार्षम् ।
(३) नव्यभासत म शुशुभे न सुखदा बभूवेति यावत् ।
(8) प्रभातं रामविवासमभयादिति भावः ।
२
१४ ऋजुपाठम्। विशुद्धभावस्य हि दुष्टभावा तावेक्षणस्याश्रुमुखस्य राज्ञः । श्रुत्वा विचित्र करुणं (१) विलापं भर्तुशंसा न चकार वाक्यम् ॥ ततः स राजा पुनरेव विह्वल: प्रियामतुष्टां प्रतिकूलभाषिणीम् । समीक्ष्य पुत्रस्य विवासकारणं (२) चितौ विसंज्ञो (३) निपपात दुःखितः ॥ पुत्रशोकार्पितं पापा विसंज्ञं पतितं भुवि । विचेष्टमानमुत्प्रेक्ष्य (४) ऐवाकमिदमब्रवीत् ॥ पापं कवेव किमिदं (५) मम संश्रुत्य संश्रवम् (६)। शेषे क्षितितले सत्रः(७) स्थित्यां(८) स्थातुं त्वमर्हसि(e) (१) करुणं दीनं शीकपूर्णमिति यावत् । (२) प्रियाँ पुचच विवासकारणं समीक्ष्ये त्यन्वयः । (३) प्रिसंश: संज्ञारहित: पचेतन अति यावत् । (8) विवेष्टमानं भूमौ लुठन्तम (५) किमिदम् -निदमुचितमिति भावः । () संश्रयं बस संश्रुत्य पङ्गीकृत्य । (७) सनः विषसः भोकाभिभूत इति यावत् । (८) स्थित्यां सत्यपालनपे सदाचारी। (e) मम संबव संश्रुत्य पापं कृत्वेव सन्नः सन् चितितले शेष किमिद- मित्यन्वयः। • .
ऋजुपाठम् ।
१५
पाहुः सत्यं हि परमं धर्म धर्मविदो जनाः ।
सत्यमाश्रित्य च मया त्वं धर्म प्रति नोदित: (१)
सत्यं खमनुवर्त्तख (२) यदि धर्मे धृता मतिः ।
प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥
समयञ्च (३) ममाय॒मं यदि त्वं न करिष्यसि (४)।
अग्रतस्ते ततो
राजन् परित्यक्ष्यामि जीवितम् ॥
एवं प्रणोदितो राजा कैकेय्या निर्विशङ्कया (५)।
उद्धान्तहृदयश्चापि (६) विवर्णवदनोऽभवत् ॥
विकताभ्याञ्च नेत्राभ्यामपश्यविव भूमिपः ।
कच्छाईर्येण संस्तभ्य (७) कैकेयीमिदमब्रवीत् ॥
यस्ते मन्त्रात: (८) पाणिरग्नौ (९) पापे मया धृतः ।
तं त्यजामि खज (१०) चैव तव पुच सह त्वया।
(१) धर्म प्रति नीदितः प्रतिश्रुतजरदानरूपधर्मपालने प्रेरित ।
(२) खे स्वकृतं सत्यं बुदिानप्रतिष्पराजख पालय ।
(३) समयं वरदानाव।
(४) न करिष्यसि न पालाय सि
(५) निर्विशङ्या भयशून्यवाद ।
(६) उद्घान्तहृदय: विकलचित.
(७) संस्तभ्य निरुध्य चित्तवे कल्यमिति शेषः ।
(८) मन्त्रात: वैवाहिकमन्वेण संस्कृतः ।
(६) पनी अग्निसमौ अनि साक्षिणं कृत्वेत्यर्थः ।
(१०) स्वगं वमाजातम् पौरसमित्यर्थः ।
१६
ऋजुपाठम्।
सपुत्त्रया त्वया नैव कर्तव्या सलिलक्रिया ।
व्याहन्तास्यशुभाचार यदि रामाभिषेचनम् (१) ।
तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः ।
प्रभाता शर्वरी सा तु चन्द्रनक्षत्रशालिनी ॥
पितुरालयमागत्य तं शोकपरीतं दृष्ट्वा के केयीमुखाञ्च सव्वं
यथावदुपथुल्य रानस वनप्रस्थानाङ्गीकारः
स ददर्शासने राम आसीनं पितरं शुभ ।
कैकेय्या सहितं दीनं मुखन परिशुष्यता (२) ।
स पितुश्चरणौ पूर्बमभिवाद्य विनीतवत् (३)
ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः (8) ॥
रामेत्युबा तु वचनं वाष्पपर्य्याकुलेक्षण: (५) ।
शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥
तदपूर्ब नरपतेदृष्ट्वा रूपं भयावहम् ।
रामोऽपि भयमापनो व्यथिताकुलमानस: ॥
(१) यदि रामाभिषेचनं व्याहन्तासि यदि रामाभिषेकव्याघात
करिष्यसि ।
(२) परिपुष्यता मुखेन उपलक्षितं शुष्क मुखमित्यर्थः ।
(३) विमौतवत् विनौत: विनयावनतः। नार्थे बतिरार्षः ।
(४) मुसमाहितः सम्यगवहितः सन् ।
(५) वाध्यपO कुलक्षण: वाष्पवारिपरिपूर्ण नयनः ।
ऋजुपाठम्।
अचिन्त्यकल्प (१) नृपतेस्त शोकमुपधारयन् (२) ।
बभूव संरब्धतरः (३) समुद्र इव पर्वणि (8)
चिन्तयामास चतुरो रामः पिहिते रतः ।
किंखिदद्य महाराजो न मां प्रत्यभिनन्दति (५) ॥
अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति ।
तस्य मामद्य संप्रेक्ष्य किमायामः (६) प्रवर्तते ॥
अथ दाशरथिर्दीनो विलीनवदनद्युतिः (७)।
कैकेयीमभिसम्भाष्य रामो वचनमब्रवीत् ॥
कश्चिन्मया नापराधमज्ञानात् येन मे पिता।
कुपितस्तन्ममाचच त्वमेवैनं प्रसादय॥
अप्रसबमनाः किं नु सदा मां प्रति वत्सलः ।
विषमवदनो दोनो न हि मां प्रतिभाषते ॥
शारीरो मानसो वापि कञ्चिदेनं न बाधते ।
सन्तापो दारुणो देवि दुर्लभ हि सदा सुखम् ॥
(१) अचिन्त्य कल्पम् अचिन्तनीयप्रकारम् प्रभावनीयस्वरूपमिति यावत् ।
(२) उपधारयन् चिन्तयन् ।
(२) संरब्धतरः अत्यन्तं शुभितः ।
(४) पर्वणि पौर्णमास्याम् अमावस्यायाञ्च ।
(५) पद्य महाराजो मां न प्रत्यभिनन्दति मा दृष्टा न हष्यति किंखित्
किमिदम् अभूतपूर्वमेतदिति भावः ।
(६) प्रायास: खेदः ।
(७) विलौनवदनद्युति: लुप्तमुखकान्ति: मानवदन इति यावत् ।
१८
ऋजुपाठम्।
एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः ।
किनिमित्तमपूर्बोऽयं विकारो मनुजाधिपे ।
एवमुत्बा तु कैकेयी राघवेण महात्मना।
उवाचेदं सुनिर्लज्जा पृष्टमात्महितं (१) वचः ।
म राजा कुपितो राम व्यसनं नास्य किञ्चन ।
किञ्चिन्मनोगतं त्वस्य त्वयात्रानुभाषते ।
प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते ।
तदवश्यं त्वया कार्यं यन्ममानेन संश्रुतम् ॥
एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च ।
पद्यात्तु तप्यते राजा यथान्यः प्रावतस्तथा ॥
यदि त्वभिहितं राजा त्वयि तब विपत्यते (२)।
ततोऽहमभिधास्यामि नैव वक्ष्यति तत् स्वयम् ।
एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्।
उवाच व्यथितो रामस्तां देवीं नृपसबिधौ॥
अहो धिङ्नार्हसे (३) देवि वक्तुं मामीदृशं वचः ।
अहं हि वचनाद्रान्नः पतेयमपि पावके।
भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे॥
(1) धृष्टं प्रगा' निर्लज्ज मिति यावत् । धात्महितम् पात्मनी
हितकरम्।
(२) नविपल्यते न विनाशं प्रासाति नान्यथा भविष्यतीति भावः ।
(७) पईस पहसि। पात्मनेपदमार्षम् ।
ऋजुपाठम्।
१६
तब्रूहि सत्वरं देवि रानो यदभिकाशितम् ।
करिष्ये प्रतिजाने च रामो दिर्नाभिभाषते (१)॥
तमार्जवसमायुक्तमना- सत्यवादिनम् ।
उवाच रामं कैकेयी वचनं भृशदारुणम् ॥
पुरा देवासुरे युद्धे पित्रा ते मम राघव ।
रक्षितेन वरौ दत्तौ सशल्येन (२) महारणे ।
अथाद्य याचितो राजा भरतस्याभिषेचनम् ।
गमनं दण्डकारण्ये तव चाद्यैव राघव ॥
यदि सत्यप्रतिनं त्वं पितरं कर्तुमिच्छसि ।
प्रात्मानञ्च (३) नरश्रेष्ठ मम वाक्यमिदं शृणु।
त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ।
भरतवाभिषिच्येत यदेतदभिषेचनम् (४)।
त्वदर्थे विहितं राजा तेन सर्वेण राघव (५)॥
(१) रामी हि: विधा न भाषते रामी यइदति बत् करोति किषिदुवा
न केनापि कारणेन पुनस्तबिरुद्धमाचरति वदति वेत्यर्थः ।
(२) सशल्येन अमुरशल्यवेधजनितक्षतव्यथितेन।
(२) प्रात्मानञ्च सत्यप्रतिज्ञं कर्तुमिच्छसौत्यन्वयः ।
(४) अभिषेचनम् अभिषेकीपकरणम् ।
(५) है राघव त्वदर्थे यदेतदभिषेचन विहितं तेन सव्वेष राजा
भरतीऽभिषिच्चे तेत्यन्वयः ।
ऋजुपाठम् ।
.
सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः ।
अभिषेकमिमं त्यत्वा जटाचीरधरो भव ॥
भरतः कोशलपतेः प्रशास्तु वसुधामिमाम्।
नानारत्नसमाकीणों गजाश्वरथसङ्गुलाम् ॥
एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन ।
सत्येन (१) महता राम तारयख नरेश्वरम् ॥
तदप्रियममित्रनो वचनं मरणोपमम् ।
श्रुत्वा न विव्यथे रामः कैकेयी चेदमब्रवीत् ॥
एवमस्तु (२) गमिष्यामि वने वस्तुमहं वितः ।
जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन् ।
इदन्तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः ।
नाभिनन्दति दुईर्षो यथापूर्बमरिन्दमः (३) ॥
महाननुग्रहो मे स्थादाञप्तस्य महात्मना।
मयि भृत्ये च पुचे च किं राज्ञो देवि गौरवम् ।
दैवतं हि प्रभुश्चैव पिता राजा गुरुश्च नः ।
तस्यानां शिरसादाय करिष्यामि यथात्य माम् ॥
मन्युनं च त्वया कार्यों देवि ब्रूमि (४) तवाग्रतः ।
(१) सत्येन पिप्रतिज्ञापरिपालनेन ।
(३) एवमस्तु यदुक्तं भवथा तदेव भवतु ।
(३) यथापूर्ब पूर्ववन् । परिन्दमः शत्रुतापनः ।
(४) ब्रूमि अवीमि पार्ष: प्रयोगः ।
ऋजुपाठम्।
२१
शा
यास्यामि भव सुप्रीता वनं चौरजटाधरः ।
व्यलोकमिदमेकन्तु (१) हृदयं दहते (२) मम ।
वयं यत्राह मां राजा भरतस्याभिषेचनम् ॥
अहं हि सीतां राज्यञ्च प्राणानिष्टान् धनानि च ।
हृष्टो मात्रे स्वयं दद्यां भरतायाप्रणोदितः ।
किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रणोदितः ॥
तदाश्खासय होमन्तं किं विदं (३) यन्महीपतिः ।
वसुधासक्तनयनो मन्दमणि मुञ्चति ॥
गच्छन्तु चैवानयितु (४) दूतास्तीव्रजवैहयैः (५) ।
भरतं मातुलकुलादद्यैव नृपशासनात् ॥
दण्डकारण्यमेषोऽहं गच्छाम्येव हि सत्वरः ।
अविचायी (६) पितुर्वाक्यात् समा (७) वस्तु चतुर्दश ॥
अथ मा तस्य तदाक्यं श्रुत्वा रामस्य केकयो।
प्रीतिप्रफुल्लनयना त्वरयामास राघवम् ॥
(१) व्यलोकं दुःखम्।
(२) दहने दहति। आत्मनेपदमार्षम् ।
(३) किं विदं नु भी इदं किमर्थ मितदित्यर्थः ।
(४) मानयितुम् आनेतुम्। पार्ष. प्रयोगः ।
(५) तीव्रजव: दृढ़वेगै: अनिद्रुतगामिभिरिति यावत् ।
(६) पितुराद भोऽयमयुकी युक्ती वेति विचारं विनवेति भावः ।
(७) समा: वसरान् ।
२२
ऋजुपाठम्।
एवं भवतु यास्यन्ति दूतास्तौव्रजवईयः ।
भरतं मातुलकुलादिहावर्तयितुं (१) नराः ॥
सव वह क्षमं (२) मन्ये नोत्सुकस्य (३) विलम्बनम्।
राम तस्मादितः शोध वनस्त्वं गन्तुमर्हसि ॥
ब्रोडान्वितः खयं यच्च नृपस्त्वां नाभिभाषते ।
नैतत् किञ्चिन्नरश्रेष्ठ मन्युरषोऽपनीयताम् ॥
यावत्त्वं न वनं यातः पुरादस्मादतित्वरन् (४)।
पिता तावत्र ते राम नास्यते (५) भोच्यतेऽपि वा ॥
तदप्रियमनाव्या वचनं दारुणोदयम् (६)।
श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥
यत्तत्रभवत: (७) किञ्चिच्छक्यं कर्तुं प्रियं मया ।
प्राणानपि परिव्यज्य सर्वथा कार्यमेव तत् ॥
न यतो धर्माचरणं किञ्चिदस्ति महत्तरम् ।
शुश्रूषा तस्य वा वचनक्रिया (८) ॥
यथा पितरि
(१) आवर्तयितुम् आनेतुम् ।
(२) क्षमं युक्तम्।
(३) उन्मुकस्य वनं गन्तुकामस्य ।
(४) प्रतिवरन् अतित्वरमाणः । परस्मैपदमार्षम् ।
(५) मास्यते नास्यति। पात्मनेपदमार्षम् ।
(६) दारुणोदयं दारुणार्थम् प्रतिनिठुरमिति यावत् ।
(७) तवभवत: पूज्य स्य पितुरिति शेषः ।
(८) वचनक्रिया पानासम्पादनम् ।
ऋजुपाठम्।
२३
अनुप्तोऽप्यत्रभवता
भवत्या वचनादहम्।
वने वस्यामि विहुने वर्षाणि ह चतुईश ।
यावमातरमापू । सौनाञ्चानुनयाम्या
ततोऽद्यैव गमिष्यानि दोकानां (8) महद्दतम् ।।
भरत: पालयेद्राज्यं शुश्रूषेञ्च पिता (
यथा भवत्या कर्त्तव्यं स (६) हि धर्मः सनातनः ।
रामस्य तु वचः श्रुत्वा नृपः शोकपरिणत: (७)।
वाष्यपूर्णेक्षणो दोनः प्ररुरोद महाखनम् ॥
वन्दित्वा चरणी रामः शोकार्तस्य पितुस्तदा।
कैकेय्याश्चाप्यना-या निष्पपात (८) महाद्युतिः ॥
तं वाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह ।
लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवईन: ॥
(१) अत्रभवता पूज्येन पिवेति शेषः ।
(२) पापच्छे बामन्चयामि ।
(३) तावत् क्षमखेति शेषः ।
(४) दण्डकानां तत्रामकक्षधियाणाम् ।
(५) शुश्रूषेत् शुश्रूषेत। परस्मैपदमार्ष म्। पितुः पितरम् कर्मणि
षष्ठी।
(६) स पिश थुषारुप पाचारः ।
(७) शोकपरिभुत: भोकविह्वल; ।
१) मियपात नियकाम ।
२४
ऋजुपाठम्।
गमने च मतिं चक्र वनवासाय लक्ष्मणः ।
अनुचिन्त्य विना रामं नाहं जीवितुमुत्महे ॥
न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् (१)।
सर्वलोकातिगस्येव (२) लक्ष्यते चित्तविक्रिया ॥
प्रतिषिध्य शुभं छत्रं व्यजने च खलङ्कते।
विसर्जयित्वा (३) खंजनं रथं पौरांस्तथा जनान् ॥
धारयन् मनसा दुःखमिन्द्रियाणि निराह्य (8) च ।
प्रविवेशात्मवान् (५) वेश्म मातुरप्रियशंसिवान् (६) ॥
तदा सर्वोऽप्यभिजनः (७) श्रीमत: सत्यवादिनः ।
नालक्षयत रामस्य कञ्चिदाकारमानने (८) |
(१) वसुन्धराम् पृथिवौं राज्यमिति यावत् ।
(२) सर्वदोकालिगस्य मञ्चलीकातिवर्तिन: तत्त्वज्ञानशालिन दव।
तादृशी हि पुरुषी हर्ष शोकादिभिर्नाभिभूयते रामोऽपि तथेति
भावः।
(३) विसर्जयित्वा विसज्य। पार्ष: प्रयोगः ।
(४) इन्द्रियाणि निग्रह्य इन्द्रियाणां चाञ्चल्यं निरुध्येत्यर्थः ।
(५) पात्मवान् धेर्यशालो।
(६) पप्रियर्थसिवान् अप्रियं सिष्यन् वनगमनरूपमप्रियं निवेदयितु-
मित्यर्थः। पार्ष: प्रयोगः ।
(७) अभिजनः पभितो वर्तमानी जनः ।
(८) पाकार वैखक्षण्यं विकारमिति यावत् ।
ऋजुपाठम् ।
२५
उचितञ्च (१) महाबाहुन जहौ हर्षमात्मवान् ।
भारदः समुदोणींशुः (२) चन्द्र स्तेज पवात्मनः ॥
वाचा मधुरया रामः सव्वं सम्मानयन् जनम् ।
मातुः समीपं धर्मात्मा प्रविवेश महायशाः ॥
तं गुणैः समतां प्राप्त: (३) माता विपुलविक्रमः ।
सौमित्रिरनुवव्राज धारयन् दुःखमात्मनः ॥
वनं गन्तुकृतनिश्चयस्य रामस्य मातरमामन्वयितु
तदन्तःपुरप्रवेशः।
तस्मिंस्तु पुरुषव्याने निष्कामति कृताञ्जली।
आर्तशब्दो महान् जन्ने स्त्रीणामन्तःपुरे तदा ॥
रामस्तु भृशमायस्तो (४) विश्वसचिव कुञ्जरः ।
जगाम सहितो मात्रा मातुरन्तःपुरं वशी।
सोऽपश्यत् पुरुषं (५) तत्र वृद्धं परमपूजितम्।
उपविष्ट रहहारि तिष्ठतथापरान् बहन् ।
(२) उचितम् अभ्यस्त स्वभावसिद्धमिति यावत् ।
(२) समुदौर: प्रदौतकिरणः ।
(२) गु: समता तुल्यता प्राप्तः धैर्यादिगुणे: रामस्य सदृश इत्यर्थः ।
(७) प्रायसः प्राप्तखेद: पन्तःपुरस्त्रीणामार्सनादश्रवचन दुःखित इति
यावत् ।
(५) पुरुष हाररचिणम् ।
२६
ऋजुपाठम्।
दृष्ट्वैव तु तदा रामं ते सर्वे समुपस्थिताः (१)।
जयेन (२) जयतां श्रेष्ठ वईयन्ति स्म राघवम् ।
प्रविश्य प्रथमां कक्ष्या (३) हितीयायां ददर्श सः।
ब्राह्मणान् वेदसम्पवान् हद्धान् राजाभिसरलतान् ।
प्रणम्य रामस्तान् वृद्धान् हतीयायां ददर्श सः ।
स्त्रियो बालाच वृद्धाश्च हाररक्षणतत्पराः ॥
वर्षयित्वा (8) प्रहृष्टास्त प्रविश्य च ग्रहं स्त्रियः ।
न्यवेदयन्त त्वरितं राममातुः प्रियं (५) तदा ॥
प्रविश्य तु ततो रामो मातुरन्तःपुरं शुभम् ।
ददर्श मातरं तत्र हावयन्ती हुताशनम् (६) ।
सा चिरादात्मजं दृष्ट्वा मानन्दनमागतम् ।
अभिचक्राम (७) संहष्टा किशोरं बड़वा (८) यथा ॥
(१) समुपस्थिता; रामस्य सम्मुखमागताः ।
(३) जयेन जयशब्देन विजयी भवेति वाक्ये नेत्यर्थः ।
(३) कल्या प्रकोष्ठः। महल इति भाषा।
(४) वर्डयित्वा जयशब्देनेति शेषः ।
(५) प्रियं रामागमनरूपम् ।
(६) हुताशन हावयन्तीम् ऋविभिरिति शेषः ।
(७) पभिचक्राम अभिमुखं जगाम ।
(८) बड़वा घोटकी किशोरः धीटकशिशुः ।
कनुपाठम्।
स मातरमभिक्रान्तामुपसंग्य (१) राघवः ।
पर्यध्वजत धर्मात्मा मात्रा चैव परन्तपः ।
परिष्वतच बाहुभ्यामवघ्रातच मूई नि ।
तमुवाच दुराधर्ष (२) राघवं सुतमात्मनः ।
कौशल्या पुचवासल्यादिदं प्रियहितं (३) वचः ॥
हवानां धर्मशीलानां राजर्षीणां महात्मनाम् ।
प्राप्नुयायुश्च कीर्तिञ्च धर्माच्चाप्युचितं कुले ॥
सत्यप्रतिनं पितरं राजानं पश्य राघव ।
अद्यैव तां स धर्मात्मा यौवराज्याभिषेक्ष्यति ।
दत्तमासनमालभ्य (8) विनयावनतस्ततः ।
मातरं राघवः किञ्चित् प्रसार्याञ्जलिमब्रवीत् ॥
देवि नम न जानीषे महद्भयमुपस्थितम् ।
इदं तवं च दुःखाय वैदेह्या लक्ष्मणस्य च ॥
गमिष्थे (५) दण्डकारण्यं किमनेनासनेन मे।
विष्टरासनयोग्यो (६) हि कालो मे समुपस्थितः ॥
(१) उपसंग्रह्य अभिवाद्य ।
(२) दुराधर्ष शत्रुभिरनभिभवनीयम् ।
(३) प्रियहितं प्रियं हितं च ।
(४) पालभ्य स्पृष्ट्वा न तु तत्रीपविश्येति भावः ।
(५) गमिष्ये गमिष्यामि। पात्मनेपदमार्षम् ।
(६) विष्टर: सपरिमामासमं सदुपवेशनयोग्यः ।
ऋजुपाठम्।
चतुर्दश हि वर्षाणि वस्यामि विजने वने ।
कन्दमूलफलैर्जीवन् हित्वा मुनिवदामिषम् ।
भरताय महाराजो यौवराज्यं प्रयच्छति ।
मां पुनर्दण्डकारण्यं विवासयति तापसम् ॥
स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने।
आसेवमानोऽरण्यानि फलमूलैश्च वर्तयन् ॥
सा निकत्तेव सालस्य यष्टिः (१) परशुना वने ।
पपात सहसा देवी देवतेव दिवथुप्रता (२)॥
तामदुःखोचितां दृष्ट्वा पतितां कदलोमिव ।
रामस्तूस्थापयामास मातरं गतचेतनाम् ।
सा राघवमुपासोनमसुखार्ता (३) सुखोचिता।
उवाच पुरुषव्याघ्रसुपशृण्वति लक्ष्मणे ॥
यदि वत्स न जायथा मम शोकाय राघव ।
अद्य नेतादृशं दुःखं पश्येयमहमप्रजाः ॥
एक एव हि बन्ध्यायाः शोको भवति मानसः ।
अप्रजास्मोति सन्तापो न अन्यः पुत्र विद्यते (४) ।
(१) यष्टि: शाखा।
(२) दिवः खर्गात् च्युता निपतिता।
(३) उपासौमं समीपवत्तिनम् ।
(४) बभ्याया अपना अमोत्येक एवं मानसः शोकी भवति पन्धः
सन्तापी न विद्योइयन्वयः । अपमानौति सन्धिरार्षः।
ऋजुपाडम्।
२६
'-
सा बहन्यमनोजानि वाक्यानि हृदयच्छिदाम् ।
अहं खोये (१) सपत्नीनामवराणां वरा (२) सतो।
अतो दुःखतरं (३) किं नु प्रमदानां भविश्थति ।
मम शोको विलापथ यादृशोऽयमनन्तकः ।
त्वयि सबिहितऽप्येवमहमा निराकता (४)।
किं पुन: प्रोषिते तात ध्रुवं मरणमेव हि ॥
तदक्षयं महद्दुःखं नोमहे सहितुं चिरात् (५) ।
विप्रकारं (६) सपत्नीनामेवं जीर्णापि राधव ॥
अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् ।
कपणा वर्तयिष्यामि कथं कपणजीविका (७)।
स्थिरं न हृदयं मन्ये ममेदं यन्न दीयते (८)।
प्रासषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ॥
(१) श्रीये श्रीष्यामि। पात्मनेपदमार्षम् ।
(२) बरा ज्येष्ठा प्रवरा कनिष्ठा।
(३) दुःखतरम् षधिककष्ट करम् ।
(8) निराकृता पवमानिता सपबेप्रति शेषः ।
(५) चिरात् चिरकालम् ।
(६) विप्रकार: निग्रहः सपनौविप्रकाररूपं महत् दुःखमित्यर्थः ।
(७) कृपया दौना। वर्तयिष्यामि वृत्ति सम्पादयिष्यामि। प्राणान्
चारवियानोति यावत् । कपरजीविका शीचमीयजीवना ।
(८) तब विवासनश्रवणेनापति शेषः ।
ऋजुपाठम्। ममेव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम (१)। यदन्तकोऽयेव न मां जिहीर्षति प्रसह्य (२) सिंहो रुदतीं मृगौमिव ॥ इदन्तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि (३)। तपथ तप्तं यदपत्यकाम्यया सुनिष्फलं वोजमिवोतमूषरे (४) ॥ तथा तु विलपन्तीं तां कौशल्यां राममातरम् । उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥ न रोचते मम (५) ह्येतदायें यद्राघवो वनम् । त्यहा राजश्रियं गच्छेत् स्त्रिया (६) वाक्यवशं गतः ॥ विपरीतश्च (७) वृश्च विषयैश्च प्रधर्षितः (८)। (१) यमक्षये यमालये। पवकाश: पवस्थितये स्थलम् । (२) प्रसह्य बलपूर्वकम् । (३) संयमा उपवासादिनियमा: । (e) जपरे क्षारमृत्तिकायाम् । (५) मम मल्यम्। सम्बन्धविवक्षया षष्ठी। (६) स्त्रिया: सपनीमातुः कैकय्याः । (७) विपरीतः प्राप्तप्रकतिवपरीत्यः । (८). विषयः प्रधर्षितः पाकाल: उत्कटविषयासतिषशात् उपहत- विवेकः इत्यर्थः । ....
ऋजुपाठम्।
३१
नृपः किमिव न ब्रूयात् केकेय्याभिप्रणोदितः ॥
नास्यापराधं पश्यामि नापि दोषं तथाविधम् ।
येन निर्वास्यते राष्ट्राइनवासाय राघवः ॥
न तं पश्याम्यहं लोके परीक्षमपि यो नरः ।
अमित्रोऽपि निरस्तोऽपि(१) अस्य दोषमुदाहरीत(२)।
देवकल्पमृM दान्तं रिपूणामपि वालम् ।
अवेक्षमाणः (३) को धर्म त्यजेत् पुचमकारणात् ॥
तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः (४)।
पुत्र: को हृदये कुर्याद्राजवृत्तमनुस्मरन् ।
यावदेव न जानाति कञ्चिदर्थमिमं (५) नरः ।
तावदेक (६) मया साईमात्मस्थं कुरु शासनम् ।
मया पार्वे सधनुषा तव गुप्तस्य (७) राघव ।
कः समर्थोऽप्रियं कत्तुं कतान्तस्येव तिष्ठतः ।
निर्मनुवामिमा सर्वामियोध्यां मनुजर्षभ ।
करिष्यामि शरैस्तीक्ष्णर्यदि स्थास्यति विप्रिये ।
(१) निरस्त: निराकृत: निग्रहीत इति यावत् ।
(२) उदाहरेत् कौतयेत्।
(३) पवैचमा अनुमध्यमानः पनुसरनिति यावत् ।
(४) बाल्यं बालभावम् भविमृश्यकारित्वमिति यावत् ।
(1) ममर्थं त्वत्प्रवासमरूपं विषयम् ।
(६) सावदेव सतः पूर्वमेव ।
(७) गुप्तस्य रचितख।
२२
काजुपाठम्।
भरतस्थाथ पचो वा यो वास्य हितमिति।
सांस्तांश्च वधिष्यामि सदुहि परिभूयते ।
प्रोत्साहितोऽयं कैकेय्या सन्तुष्टो यदि नः पिता ।
अमित्रभूतो नि:शङ्ख बध्यतां बध्यतामयम् ॥
गुरोरप्यवलिप्तस्य (१) कार्याकार्यामजानतः ।
उत्पथप्रतिपत्रस्य (२) कायं भवति शासनम् ॥
बलमेष किमाश्रित्य हेतुं वा कं नरोत्तम ।
दातुमिच्छति कैकेय्य उपस्थितमिदं तव ॥
त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् (३) ।
कास्य शक्तिः श्रियं दातुं भरतायारिशासन ॥
अनुरतोऽस्मि वै देवि मातरं प्रति तत्त्वतः ।
सत्येन धनुषा चैव पामि तव सविधौ ।
दीप्तमग्निमरस्थं वा यदि रामः प्रवेश्यति ।
प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ।
हरामि वोयाहुःखं ते तमः सूर्य इवोदितः।
देवि त्वं पश्य मे वीर्य राघवचैव पश्यतु ।
हनिष्ये पितरं कैकेय्यासतमानसम् ।
कपणं (४) तं खितं बाल्ये वृदभावन गर्हितम् ।
(१) अवलिप्तस्य गन्धिस्य ।
(२१ उत्पथप्रतिपत्रस्य पसत्पथप्रहात्तस्य ।
(३) अनुत्तमम् उत्कटं निरतिशयमिति यावत् ।
(8) कप दीनं शोचनीयामवस्थामापत्रमित्यर्थः ।
ऋजुपाठम्।
३३
एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः ।
उवाच रामं कौशल्या रुदतो शोकविश्वला ॥
भ्रातुस्ते वचनं पुत्र लक्ष्मणस्य श्रुतं त्वया ।
यदवानन्तरं (१) तत् त्वं
कुरुष्व यदि रोचते।
न चाधर्म वचः श्रुत्वा सपत्नया मम भाषितम् ।
विहाय शोकसन्तप्तां गन्तुमर्हसि मामितः ॥
धर्मज्ञ यदि धर्मिष्ठ धर्म चरितुमिच्छसि ।
शुश्रूष (२) मामिहस्थस्त्वं चर धर्ममनुत्तमम् ।
यथैव राजा पूज्यस्ते गौरवेण तथायहम् ।
त्वां साहं नानुजानामि (३) न गन्तव्यमितो वनम् ॥
तहियोगान मे कार्य जीवितेन सुखेन च ।
त्वया सच मम श्रेयस्टणानामपि भक्षणम् ॥
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकवितलाम् ।
अहं प्रायमिहासिष्ये (४) न च शक्ष्यामि जीवितुम् ॥
विलपन्ती तथा दीनां कौशल्यां जननी ततः ।
उवाच रामो धर्मात्मा वचनं धर्मसंहितम् (५) ।
(१) अनन्तरम् उत्तरकर्मव्यम् इतः परं यत् कर्तुमुचितमित्यर्थः ।
(२) अश्रूष अषख परस्मैपदमार्षम् ।
(३) नानुमानामि नानुमन्ये वनं गन्तुमिति शेषः ।
(४) प्रायम् अनशनव्रतम् पासिष्ये अवलम्बिष्ये अनशनेन प्राणान्
स्वक्ष्यामौति भावः।
(५) धर्मसंहितं धर्मानुगतम् ।
अनुपाठम्।
"नास्ति शक्तिः पिताका समतिक्रमितुं मम ।
प्रसादये वा शिरमा गन्तुमिच्छाम्यहं वनम् ॥
साई धर्मामपूवं ते प्रतिकूलं प्रवर्तये (१)।
पूर्बेरयमभिप्रेतो गतो मार्गोऽनुगम्यते (२) ॥
तदेतत्त मया कार्य नियतं वचनं पितुः ।
पितुर्हि वचनं कुर्वन्त्र कश्चिदवहीयते ।
तामेवमुखा जननी लक्ष्मणं पुनरब्रवीत् ।
वाक्य वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्भताम् ॥
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।
विक्रमञ्चैव सत्त्वञ्च (३) तेजश्च सुदुरासदम् ।
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् ।
धर्मसंत्रितमेतत्तु पितुर्वचनमुत्तमम् ॥
संश्रुत्व च पितुर्वाक्यं मातुर्वा प्रियदर्शन।
न कर्त्तव्यं वृथा (४) वीर धर्ममाश्रित्य तिष्ठता ॥
सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितम् ।
पितुर्हि वचनाहौर कैकेय्याहं प्रणोदितः ॥
(१) बई ते तव प्रतिकूलम् अप्रियम् अपूर्व पूर्वः पनाचरितं
नूतनमिति यावत् धर्मम् पाचारं न प्रवर्ग ये नानुतिष्ठामि ।
(२) अभिप्रेतः इष्टसाधनत्वेन अभिमतः पूर्वः पूर्वकालीन: साधुभि:
गत: अनुसूत: अयं पिटवाक्यपालनपी मानः पन्था अनुगम्यते ।
(३) सत्वं बलम् ।
(४) वृथा मिष्फनम्।
जुठम्।
तदेतां विसमानार्थी ( धर्माश्रितां मतिम्
धर्मामाश्रय मा तेक्षण्यं (२)
UN
तमेवमुबा सौहार्यात् भ्रातरं लहाणायजा
उवाच भूयः कौशल्या प्राचलिः शिरसा मत: ।
अनुमन्यख मां देवि गमिष्यन्तमितो वनम् ।
शापितासि मम प्राण: कुरु स्वस्ययनानि मे ।
शोकः सन्धार्यतां मातहदये साधु मा शुच (३)।
वनवासादिहेष्यामि पुनः कृत्वा पितुर्वचः ।
त्वया मया च वैदेया लक्ष्मणेन सुमित्रया।
पितुर्नियोग स्थातव्यमेष धर्मः सनातन: ॥
अम्ब संहत्य सम्भारान् (४) दुःखं हृदि निराश च ।
वनवासकता (५) बुद्धिर्मम धर्मयानुवर्त्यताम् (0) ।
इति ब्रुवति रामे तु लक्ष्मणोऽवाशिराव (७) ।
ध्यात्वा मध्यं जगामाथ सहसा दुःखहर्षयोः ।
(१) पनार्शम् असतौं साधुविहितामिति यावत् ।
(२) तेव्हा तीताम् उग्रभावमिति यावत् ।
(३) गुच शोच। पार्ष: प्रयोगः ।
(४) सम्भाराम् अभिषेकीपकरणानि ।
(५) बनवासकता वनवासविषया।
(8) बुवयताम् अनुगम्यताम् ।
(७) शब्दः पादपूरपार्थः ।
जुपाठम् ।
ततच बड्डा धुकुटी भुवोर्मध्ये नरर्षभः ।
निशखास महासर्पो विलस्थ इव रोषितः ॥
तस्य दुष्पतिवोच्य तत् भृकुटीसहितं तदा ।
बभौ क्रुधस्य सिंहस्य मुखस्य सदृशं सुखम् ॥
अग्रहस्तं विधुन्वंत्तु हस्ती हस्तमिवात्मनः ।
अग्राक्षणा (१) वीक्षमाणस्तु तिर्यक् खातरमब्रवीत् ॥
लोकविहिष्टमारब्ध त्वदन्यस्याभिषेचनम् ।
नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि ॥
येनेवमागता वैधं (२) तव बुद्धिमहामते ।
सोऽपि धर्मो मम द्देश्यो यत्प्रसङ्गाहिमुद्यसि (३
कथं त्वं कर्मणा शकः कैकेयौवशवर्तिनः ।
करिथसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ॥
मनसापि कथं कामं कुर्यास्त्वं (४) कामहत्तयोः (१)।
तयोरहितयोर्नित्यं शत्रोः पित्रभिधानयोः (६) ।
॥
..
(१) पयाणा अग्राण। पार्ष: प्रयोगः ।
(२) धम् भागता संशयम् आरूढा विचलितति यावत् ।
(३) यत्प्रसङ्गात् यदनुरोधात् यमिन् अवश्यकत्र्तव्यताबीपीदयादिति
यावत् । विमुह्यसि हिताहितविवेकशून्धीऽसि।
(४) काम मनोरथं कुर्या: पूरयः ।
(५) कामहत्तयोः यथेच्छाचारिणीः ।
(8) पिवभिधानयोः नाममात्र मातापित्रीः। कैकयौ दशरथप
नाममात्रेप मातापितरो कार्यतस्तु तो शबू एवेति भावः ।
ऋजुपाठम्। यदीयं प्रतिपत्तिस्ते देवो चेति तयोर्मतम् (१)। तथाप्युपेक्षणीयं ते म मे तदपि (२) रोचते । विक्लवो (३) वीर्यहोनो यः स दैवमनुवर्तते (8)। वीराः सम्भावितात्मानो (५) न देवं पर्युपासते (६) ॥ लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम् । न च कत्मास्त्रयो लोका विहन्युः किं पुनः पिता । यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः (७)। अरखे ते निवस्यन्ति चतुर्दश समा (८) ध्रुवम् ॥ अहं तदायां धक्ष्यामि पितुस्तस्याश्च या तव । अभिषेकविघातेन पुत्रराज्याय वर्त्तते । न शोभाविमौ बाहू न धनुर्भूषणाय मे। नासिराबन्धनार्थोऽयं (8) न शरा भूषणाय वै (१) यदि तयोः पित्री: इयं प्रतिपत्तिः त्वदभिषेकविघटनविषया बुद्धिः देवी देवकारितेति ते तव मतम् । (२) सदपि तादृशं विरुद्धकारि देवमपि । (३) विलय: बुद्धिविवेकरहितः । (8) अनुवर्तते अनुसरति अवलम्बते इति यावत् । (१) सम्भावितात्मानः ख्यापितमामानः वीर्यादिगुणमहिमा सच- प्रतिष्ठा इति यावत् । (६) पर्युपासते सेवन्ते अवलम्बन्ने इति यावत् । (७) समर्थितः मन्वित: स्थिरीकती वा । (८) समाः बसरान्। (२) पाबन्धनं शोभाय धारणम् । ४
ऋनुपाठम्।
अमित्रमथनार्थाय समेतचतुष्टयम्।
असिना तीक्ष्णधारण विद्युञ्चलितवर्चसा (१) ।
प्रग्रहोतन वै शवं वजिणं न समर्थये (२) ।
खनिष्पेषनिष्पिष्टः (३) गहना दुश्वरा (४) च मे ।
हत्यखरथिहस्तोरुशिरोभिर्भविता महो॥
भक्त्या रामस्य सौमित्रि संरब्ध (५) पितरं प्रति ।
अक्षणैः (६) सानुनयैर्वाक्यः शमयामास राघवः ॥
पुण्यशोलो हि धमात्मा सत्यधर्मपरायणः ।
पार्थिवो नानृत: (७) कर्तुं न्याय्यो लोकगुरुर्मया ।
सत्यप्रतिज्ञं कत्वा तु पितरं धर्मावलम् ।
पुण्यां कीर्तिमवाप्स्यामि प्रेत्य(८)चेह च शाश्वतीम्()
यदि त्वस्ति मयि नेहो भक्तिर्वा तव लक्ष्मण ।
ततो निवर्तयनां त्वं पापबुद्धिं समुत्थिताम् ॥
(१) विद्युदिव चलितं वचजी यस्य तन।
(२) न समर्थ न गणयामि।
(३) खगनिषेषनिविष्टः खङ्गप्रहारखखितः ।
(४) गहना निविड़ा पतएव दुश्वरा चरितुमशक्या दुर्गम्येति यावत् ।
(५) संरचं कुपितम्।
(६) वर्ष : मृदुमधुरः।
(0) अमृतः मिष्याप्रतिशः।
(८) प्रेत्य भन्यथिन् जन्मनि ।
(e) भावतों नित्याम् पक्षयामिति यावत् ।
:
ऋजुपाठम्।
३६
धम्मात्मनः प्रभवतः (१) कृतज्ञस्य महात्मनः ।
पितुरस्याप्रियं कर्तुं नेच्छामि मनसाप्यहम् ॥
यदीच्छसि प्रियं कत्तुं मम नित्यमभीप्सितम् ।
ततो मयि गते भक्त्या शुश्रूष्यो नृपतिस्त्वया।
निर्यलोकेन (२) मनसा प्रत्यक्षं दैवतं यथा ।
यथा यथा न तप्येयुर्वनवासं गते मयि ।
मातरश्चाविशेषेण शुश्रूष्याः सर्वशस्वया ॥
भरतश्चापि धर्मात्मा द्रष्टव्योऽहमिव त्वया ।
परिपाल्यश्च यत्नेन मम प्रियचिकीर्षुणा ॥
इत्यु तावचनं राम बभाषे लक्ष्मणस्तदा ।
अप्रकम्पा (३) स्थितं धर्मे पुरन्दरमिवानुजः (४) ।
लोकनाय गतिर्या ते सा ममापि भविष्यति ।
वनं वस्याम्यहमपि शुश्रूषानिरतस्तव ॥
त्वया त्यक्तामहमपि परित्यक्ष्ये (५) पुरीमिमाम् ।
त्वदृते न हि मे वस्तु स्वर्गेऽपि रमते मनः ॥
यद्यस्ति मयि ते नेहो भक्तोऽयं प्रति मामिति ।
तब मामनुगच्छन्तं निवर्त्तयितुमर्हसि ॥
(१) प्रभवतः प्रभीः अपराधीनस्य इत्यर्थः ।
(२) नियंलोकन व्यलोकं दुःखं तद्रहितेन ।
(३) अप्रकम्पम् पविचलितं दृढ़प्रतिजमिति यावत् ।
(४) अनुज:न्ट्रानुजी विष्णुः ।
(५) परित्यक्ष्ये परित्यक्ष्यामि। पात्मनेपदमार्षम् ।
ऋजुपाठम्।
वने निवसतस्तेऽहं नानावनविचारिणः ।
आहरिष्यामि पुष्याणि मूलानि च फलानि च ॥ .
सहायस्ते भविष्यामि दुर्गेषु विषमेषु च (१)।
प्राज्ञाकरस्ते भृत्योऽहं भविष्यामि महावने ।
सर्वभावानुरक्तं मां न परित्यत्तुमर्हसि ।
अनुगन्तुकतमतिं कृतज्ञ शरणागतम् ।
न निवर्तयितव्योऽहं सर्वथा रघुनन्दन ।
न हि राम त्वया त्यतो जौवेयमिति मे मतिः (२)
न निवर्तयितुं शक्या बुद्धिरेषा (३) मम स्थिरा।
स भवाननुजानातु ममानुगमनं वने ।
सोऽनुनीतो बहुविधं लक्ष्मणेन यशखिना।
वाढमित्यब्रवीद्रामो लक्ष्मणं चाटवसलम् ।
सह यास्यामि सौमित्रे त्वयाहं गहन वनम् ।
भवान् हि परमो बन्धुः सखा (४) भक्त: प्रियच मे ॥
एवं रामवचः श्रुत्वा लक्ष्मणानुनयं तथा।
दीर्घमुष्णञ्च निश्वस्य कौशल्या वाक्यमब्रवीत् ॥
यदि धर्म पुरस्कृत्य पुत्र वर्तितुमिच्छसि ।
(१) प्रदेशेषु इति शेष: । दुर्गेषु दुर्गमेषु
(२) मति: नियय: मिड्वान्त इति यावत् ।
(३) एषा मदनुगमनविषया।
(४) सखा सहायः सहचर ति बावत् ।
ऋजुपाठम्।
४१
ततो मे वचनं धर्मा (१) शृणु धर्मभृतां वर।
त्वं हि लब्धो मया कस्तपोभिर्नियमैस्तथा।
वचनं में त्वया कार्यमतः पुत्र विशेषतः ॥
आशया परया (२) राम शिशुस्व परिपालितः ।
तत् समर्थोऽध मां दीनां परिरक्षितुमर्हसि ॥
पश्य मामद्य पुत्व त्वं जीवितेन वियोजिताम् ।
न सकामां सपत्नी मे कैकेयी कर्तुमर्हसि ॥
नित्यं कालं सपत्नीभिभृशं विप्रकता (३) सती।
पुत्रच्छायां समाश्रित्य भवेयं सुस्थमानसा ।
मा पुच सचनं कार्षीः स्त्रीविधेयस्य (४) भूपतः ।
योऽतील धर्म पौराणम्(५) इक्ष्वाकूणां कुलोचितम्।
त्वामतिक्रम्य भरतमभिषेनुमिहेच्छति
अपि चेयं पुरा गीता गाथा सर्वत्र विश्रुता।
ममुना मानवेन्द्रेण तां श्रुत्वा मे वचः कुरु ॥
गुरोरप्यवलिप्तस्य कायाकार्यमजानतः ।
कामकारप्रहत्तस्य (६) न काये अवतो वचः ।
(१) धम्म धीदनपेतं धानुगतमिति यावत् ।
(२) परवा अतिमहत्या पाशया समर्थः सन् मामेवरविष्यतीत्येवं रूपया।
(३) विप्रकता उडेभिवा. पवमानिता का।
(8) स्त्रीविधेयस्य कयौवशवत्तिमः
(1) पौराब चिरन्तनम्।
(4) कामकार: यवेच्छाचरणं नव प्रहत्तस्य यशाचारिबति यावत् ।
४२
ऋजुपाठम्।
पितॄन् दश च मातका सवी वा पृथिवीं विभो।
गुरत्वेनाभिभवति कोऽस्ति मासमो गुरुः ॥
पतिता गुरवस्त्याज्या माता तु न कथञ्चन ।
गर्भधारणपोषाभ्यां ननु माता गरीयसी ॥
साइं ते पिटतो राम धर्मातो गौरवाधिका।
माननीया विशेषेण यथा धर्मविदो विदुः ॥
अतो ममापि ते कायं शासनं गुरुवत्सल ।
अभिषिञ्चख धर्मेण राज्ये राजीवलोचन ।
अथानुनेतुं चक्रेऽसौ मातरं यत्नमास्थितः (१)।
प्रश्रितैमधुर्वाक्यहेतुमनिश्च (२) राघवः ॥
मम चैव भवत्याश्च राजा प्रभवति प्रभुः ।
न प्रभुत्वमतस्तेऽस्ति मम देवि निवर्तने ।
दातुमर्हसि मेऽनुज्ञां देवि धर्मभृतां वरे।
वनवासाय वर्षाणि नव पञ्च च मुव्रते॥
भर्ता हि देवतं स्त्रोणां भर्ता चेखर उच्यते
अतस्ते शासनं भर्जुन व्याहन्तव्यमेव हि ।
पुनरागमनं मे त्वमाशंसयितुमर्हसि ।
पतिव्रता नित्यमेव भर्तुरानापरा सती ।
तीर्णप्रति एष्यामि त्वत्प्रसादादहं पुनः ।
(१) पास्थितः पतिः
(१) प्रश्रित: स्नेहपूर्ण:। हेतुमतिः युक्तियुक्तः।
ऋजुपाठम्।
प्रसीद देवि मा कार्पोर्मदर्थं शोकमखपि ॥
कुले जातासि विस्तीर्णे राजाममिततेजसाम्।
कुलशीलगुणाचारधर्मज्ञासि च मुव्रते ।
दैवतं ने गुरुश्चैव भर्ती देवि प्रसौद मे।
मत्स्रेहाबाईसे (१) मातमतं तस्यातिवर्तितम् ।
निर्विकारं गुरोराज्ञा मया का विशेषतः ।
श्रेयो ह्येवं भवत्याश्च मम चैव भविष्यति ।
न ते राजा किञ्चिदपि वक्तव्यो मदपेक्षया ।
प्रतीपमप्रियं (२) वापि न च कार्य प्रसीद मे ।
कैकेयी वा महाभागा भरतो वा महायशाः ।
अल्पमप्यप्रियं वाक्य न वक्तव्यः प्रसौद मे ॥
भरता सर्वथा देवि द्रष्टव्योऽहमिव त्वया।
कैकेयी भगिनीवञ्च द्रष्टव्या नेहतस्त्वया ।
पिता दत्तं यौवराज्य भरतो यद्यवासाति ।
तत्र दोषोऽस्ति कस्तस्य भरतस्य महात्मनः ॥
अभिसृष्ट' (१) पुरा राजा कैकेयी भर्तृतो वरम्।
यदि ग्यजाति कस्तस्या दोषस्तत्र ब्रवीहि (8) मे ॥
राजा च प्राक् प्रतिश्रुत्य ददात्यस्यै वरं यदि।
(१) बस पईसि। पात्मनेपदमार्षम् ।
(२) प्रतौर्ष प्रतिकूलम् ।
(३) अभिसष्टं दगम् ।
(४) ब्रवीहिब्रूहि पार्ष: प्रयोमः ।
४४
नुषाठम्।
भीतोऽनृतात्तव दोषः को राम्रः सत्यवादिनः ।
श्रुतधमार्थतत्त्वो हि साधुः सवृत्तमास्थितः ।
सत्यज्ञः सत्यवाक् राजा न हि धमाञ्चलिष्यति ।
प्रसीदानुनयामि त्वां नानुशासि कथञ्चन ।
अनुजानीहि मां मातर्वनवासाय दीक्षितम् ।
इत्युवा जननी रामो धमार्थानुगतं वचः ।
स्थितां ध्यानपरां दीनां पुनर्वचनमब्रवीत् ॥
त्वया देवि मया चैव स्थेयं नृपतिशासने ।
राजा भर्ती गुरुचैव सर्वेषामोखरच नः ॥
इमानि तानि वत्येऽहं वर्षाणि नव पञ्च च ।
वनात् पुनरुपावत्य स्थास्यामि तव शासने ॥
इत्युत्ता सा प्रियं पुच वाष्यपयाकुलं वचः ।
उवाचेदं सपनौना मध्ये वस्तुं न मे क्षमम् ॥
नय मामपि पुत्व त्वं वनं वस्ये मृगाकुलम् ।
यदि ते गमने बुद्धिः सता पितुरपेक्षया ।
तां तथा अवतीं रामः पुनर्वचनमब्रवीत् ।
श्रीवन् देवि स्त्रिया भर्ता दैवतं न पुनः सुतः ।
भवत्या मम चैवाय राजा हि भवति प्रभुः ।
ततो नाम्यिहं नेतुं त्वामितो नगराहनम् ।
नैवानुगन्तुं न्याय्योऽहं जीवपत्या (१) त्वयापि च ।
(१) नौवपत्या जीवत्पतिकया यस्या; पतिजावतीत्यर्थः ।
ऋजुपाठम्।
४५
महात्मा चामहात्मा च पतिरेव गुरुः स्त्रियाः।
किं पुनर्नृपतिर्देवि महात्मा दैवतं स ते ॥
भरतश्चापि धम्मात्मा विनीतो गुरुवमलः ।
असंशयं यथैवाहं पुत्चस्ते धर्मातस्तथा ।
मत्तोऽधिकतरां पूजां भरतादम्यवाप्स्यसि ।
न हि किञ्चिदकल्याणं तस्मादामर्षयाम्यहम् (१) ।
यथा तु मयि निष्क्रान्ते पुत्रशोकेन मे पिता।
अतिमात्रं न सन्तप्येत्तथा त्वं कर्तुमर्हसि ॥
या धर्माचारिणी नारी पतिं पतिपरायणा।
नानुवर्तेत धर्मेण स सद्भिर्न प्रशस्यते ॥
भर्तृव्रता भर्तृपरा नारी भर्तृपरायणा (२) ।
दह कीर्ति परा प्राप्य प्रेत्य खर्गे महीयते ।
तस्मात् सदैव भर्तुस्त्व शुश्रूषानिरता रहे।
स्थातुमर्हसि धर्मो हि सत्स्त्रीणामेष शाखतः ।
गाईख्यधर्मरतया देवाराधनशीलया।
भर्तृचित्तानुवर्त्तिन्या भर्ती सेव्य इह त्वया ।
सेह भर्तृसहिता ममागमनकाशिणी।
द्रव्यसे. भत्तसहिता ममाभ्यागमनं पुनः ।
(२) भामर्षयामि शो सम्भावयामीति यावत् । खार्थे थिच् ।
(२) भर्तृव्रता भर्तृसेवारता। भत्तपरा भत्तं प्रौतिसम्पादनतत्परा
भत्तपरायणा भर्तमावशरणा।
४
ऋजुपाठम्।
तं समोच्य व्यवसितं (१) पितुर्निर्देशपालने।
कौशल्या वाष्यपूर्णाक्षी वचो धर्मिष्ठमब्रवीत् ॥
पदृष्टदुःखो (२) धमात्मा सर्वभूतप्रियंवदः ।
मयि जातो दशरथात् कथमुन्छेन वर्तयेत् (३) ॥
यस्य भृत्याच दासाच स्वादुन्यत्रानि भुञ्जते ।
कथं स भोक्ष्यते रामो वने मूलफलान्ययम् ॥
कः श्रद्दध्यादिदं श्रुत्वा कस्य वा न भवेद्भयम् ।
गुणवान् दयितो राजा राघवो यदिवास्यते ।
त्वया विहीनामिह मां शोकाग्निरतुलो महान् ।
प्रवक्ष्यति यथा कचं चित्रभानुहिमात्यये ।
यथा हि धेनुः खं वत्स गच्छन्तमनुगच्छति ।
तथा वामनुयास्यामि यत्र वत्स गमिष्यसि ।
इति मात्रा निगदितं वाक्य सकरुणाक्षरम् ।
श्रुत्वा रामोऽब्रवीद्वाक्यं कौशल्यां भृशदुःखिताम् ॥
कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते।
भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ।
भः किल परित्यागो नृशंसो नियतं स्त्रियाः ।
स भवत्या न कर्तव्यो मनसापि विगतिः॥
(१) व्यवसितं निषितमतिं कृतनियमिति यावत् ।
(२) पहष्टदुःखः पमनुभूतदुःखः ।
(३) उज्छेन वर्तयेत् क्षेत्रे स्वयं पतिताना शस्थामामाहरणम् उञ्छ:
सद्रूपया प्रत्या वर्तयेत् नोबेत् प्राणान् धारयेदिति यावत् ।
ऋजुपाठम्।
यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः
शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः ।
नाहं त्वयानुगन्तव्यो भर्ता हि तव दैवतम् ।
तमिहेव वसन्ती खमाराधयितुमर्हसि ।
राजा हि ते प्रभवति प्राणानां जीवितस्य च ।
अनुगन्तुमतो देवि न मामर्हसि सर्वथा ॥
इति सानुनयं वाक्य श्रुत्वा धमार्थसंहितम् (१)।
रामणोतां बभाषेऽथ कौशल्या साश्रुलोचना ।
गच्छ पुत्र शिवं तेऽस्तु कुरु त्वं पिटशासनम् ।
खस्तिमन्तमरिष्टं (२) त्वां द्रक्ष्यामि पुनरागतम् ॥
शुश्रूषानिरता भर्तुर्भविष्यामि यथात्य माम् ।
यच्चान्दपि कर्त्तव्यं करिष्ये तत् सुखी व्रज ।
वनप्रस्थानकाले पितरमामन्त्रयितुं
रामस्य तवमप्रवेशः।
३
दत्त्वा तु सह वैदेया बामणेभ्यो धन बैंड।
जग्मतुः पितरं द्रष्टुं सौतया सह रावी ।
पौति मानलं दृष्ट्वा समीतच जनास्तदा।
अनुविधा वाचः शोकोपहतचेतसः ॥
(१) धर्मार्थसहितं धातुगतम् ।
(२) खस्तिम कामखिमम्। रिष्टम् पएभं तद्रहितम् परिष्टम् ।
" कनुपाठम्। यं यान्तमनुयाति स्म चतुरङ्गबलं (१) महत् । तमेकं सौतया साईमनुयाति हि लक्ष्मणः ॥ ऐश्वर्यस्य रसज्ञः सन् कामानाञ्चाकरो (२) महान् । नेच्छत्येवानृतं कत्तं वचनं (३) धर्मगौरवात् ॥ या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि। तामद्य सीतां पश्यन्ति राजमार्गगता जनाः । अङ्गरागोचिता सीतां रक्तचन्दनसेविनीम् । वर्षमुष्णञ्च शीतञ्च नेथित्यांशु विवर्णताम् । अब नूनं दशरथः सत्त्वमाविश्य (४) भाषते । नहि राजा प्रियं पुत्रं विवासयितुमईति ॥ निर्गुणस्थापि पुत्रस्य कथं स्यादिनिवासनम् । किं पुनर्यस्य लोकोऽयं जितो वृत्तेन (५) साधुना । पानृशंस्यमनुक्रोशः श्रुतं शीलं दमः शम: (६)। राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ॥ 7 (१) गणवाजिरथपदातिभिः चतुर्भि: अवयवः सम्पन्ना सेना। (३) कामाना भोग्यवस्तूमाम पाकरः बानि भोग्यवस्तूनि यस्य सन्नीत्यर्थः। (३) वचनं पिटवाक्यम् । (४) सत्वं भूत पिशाचादिकम् पाविश्व पाश्रित्य भूतावशवशात् उप- इतषैतनी भूत्वेवर्षः। (५) बनेन धरित्रण। (4) बानस्थम् अहिंसा। पनुकोशः दया। श्रुतं शास्त्राध्ययनम् । प्रौवं सत्खमाः । दमः बाधेन्द्रियनिग्रहः। प्रमः चित्तानियः।
ऋजुपाठम्। ४६ अद्य तस्योपघातेन प्रजाः परमपीडिताः । भोदकानोव (१) सत्त्वानि ग्रोमे सलिलसंक्षयात् ॥ पौड़या पौडितं सर्व जगदस्य जगत्पतेः । मूलस्येवोपघातेन वृक्ष: पुष्यफलोपगः (२)। मूलं होष मनुष्याणां धर्मसारो महाद्युतिः । पुष्पं फलञ्च पत्रञ्च शाखाश्चास्येतर जनाः ॥ ते लक्ष्मण इव क्षिप्रं सपनाः सहबान्धवाः । गच्छन्तमनुगच्छामो यत्र गच्छति राघवः । उद्यानानि परित्यज्य क्षेत्राणि च राहाणि च । एकदुःखसुखा (३) राममनुगच्छाम धार्मिकम् ॥ समुद्धृतनिधानानि (४) परिध्वस्ताजिराणि (५) च । उपात्तनधान्यानि (६) इतसाराणि सर्वश: (७) । (१) पौदकानि उदकवासीनि जलचराणोति यावत् । (२) पुष्पफलीपम: पुष्पफलसहितः । (३) एकदु:खसुखा: समदुःखसुखाः । (४) निधानं भूमौ निहितं धनं तत् समुद्धृतं येभ्यः तानि उत्खात- गुप्तधनानौत्यर्थः। (५) परिध्वस्तम् अधिवासिभिः परित्यक्तात्वात् मार्जनादिसंस्काररहितम् पनिरम् पङ्गानं येषु तानि । (8) सपान' गौसं धनं धान्यं च येभ्यः तानि । (१) इतः गहीतः सारः येष्ठ वस्तु येभ्य: तामि। ५ ५० ऋजुपाठम् । मूषकैः परिधावनिरुहिलैराहतानि (१) च । अपेतोदकधूमानि (२) भित्रभाजनवन्ति (३) च । । अस्मत्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् । वनं नगरमेवास्तु यत्र गच्छति राघवः । अस्माभिश्च परित्यतां पुरं सम्पद्यतां वनम् ॥ विलानि दंष्ट्रिण: सर्वे सानूनि मृगपक्षिणः । त्यजन्त्वस्मयाजौता गजाः सिंही वनान्यपि । इत्येवं विविधा वांची नानाजनसमीरिताः । शुश्राव राघवः श्रुत्वा न विचक्रेऽस्य मानेसम् ॥ स नृपस्य पुनर्वेश्म कैलासशिखरप्रभम् । अभिचक्राम धमात्मा मत्तमातङ्गविक्रमः ॥ प्राग्हारमागते रामे सभायें सहलक्ष्मणे । वाष्यपूर्णेक्षणो दोनो विललापातुरी नृपः ॥ हन्ताना> ममामिले सकामा भव केकयि । मृते मयि गते राम वनं मनुजकुञ्जरे ॥ त्यजामि भरतं त्वाञ्च जीवितञ्चेदमात्मनः । भुवेदं विधवा राज्यं निघृणा (४) रहिता मया ॥ (१) उदिखै: अधिवासगर्नेभ्यो निष्क्रान्तः मनुष्यसमागमविरहेण भय- शून्धत्वादिति भावः। (२) पाकाद्यनुष्ठानविरहात् उदकधूमशून्यानि । (३) भिन्नानि भप्रानि भाजनानि स्थास्वादिपावाहि तडिभिटानि । (४) निर्धया निठुरा।
ऋजुपाठम्।
५१
६
अहं विहीनो रामेण नूनं त्यक्ष्यामि जीवितम् ।
भविष्यामि न ते पाप भूय एवं वशानुगः (१) ।
केन मन्वयसे मूढ़े किं समुबयसे (२) शुभम् ।
मज्जीवितविनाशाय कस्यैतन्मतमोदृशम् ।
भरण्यं भजतां रामो भरतश्चाभिषिच्यताम् ।
इति कस्य मतं पापे मोघाशस्य (३) दुरात्मनः ॥
बालो घसौ कथं राज्यं भरत: पालयिष्यति ।
ज्येष्ठे तिष्ठति राज्याई रामे राजीवलोचने ॥
कालरात्रिहिं विहिता (8) नारीरूपण केकयि ।
कथं त्वं क्षीणपुण्येन मयोढ़ा मन्दबुद्धिना ॥
स्त्रीणां (4) धिगस्त्वनार्याणां कतनानां विशेषतः ।
त्यजन्तिा वशगान् भर्तृन् या लुब्धा धनष्णया ॥
नृशंसे मास्तु ते लोकः परोऽपि हि सुखावहः ।
यमा प्रियण पुत्रेण वियोजयसि दुःखितम् ॥
हा शुद्धभाव धर्मात्मन् विनीत गुरुवत्सल ।
मयासि पिटमान् पुत्र स्त्रीवश्येन हतात्मना ।
(१) वशानुगः वशवर्ती।
(२) समुन्नयसे सम्भावयसि ।
(३) मोघा निष्पला आशा यस्य सः तस्य हताशम्ये त्यर्थः ।
(४) विधात्रेति शेषः। कालराविः प्रलयराविः।
(५) स्त्रीणां स्त्रिय: धिक्शब्दयोगे द्वितीयाविधानात् अष्टौप्रयोग पार्षः ।
५२
ऋजुपाठम्।
॥
C
नृशंसोहमनार्योऽहं सर्वथैव धिगस्तु माम् ।
शुश्रूषं दयितं पुच्च स्त्रीजितो यस्त्यजाम्यहम् ॥
किं मां वक्ष्यति लोकोऽयं नृशंसं पापकारिणम् ।
यः पुत्त्रं स्त्रोतते मूढस्त्यजाम्यनपकारिणम् (१) ।
वशिष्ठो वामदेवश्च जावोलि: काश्यपस्तथा ।
कि मां वक्ष्यन्ति ते दृष्ट्वा तथान्ये ब्रह्मवादिनः (२) ॥
विश्वामित्रादयः सिद्धास्तपोवननिवासिनः ।
पृथिव्यां पृथिवीपालाः किञ्च वक्ष्यन्ति साधवः ॥
युक्तोऽस्मायशसा लोके पतितश्चास्मि सर्वथा
कैकेय्यै राज्यलुब्धायै अतिसृज्य (३) वरदयम् ॥
हा हतोऽस्मि प्रनष्टोऽस्मि दग्धोऽस्मि व्याकुलेन्द्रियः ।
कैकेय्या वशमागत्य लुब्धायाः पापमोहितः ।
इति राजा दशरथः पुत्रशोकाकुलेन्द्रियः ।
अनिन्ददात्मनात्मानं सुरां पीत्वेव वेदवित् ।
एवं विलपंतस्तस्य दुःखार्तस्य महीपतेः ।
उपत्यावेदयामास सुमन्त्रो राममागतम् ॥
प्रवेश्यतां राम इति वाक्यमुत्वा नराधिपः ।
(१) अनपकारिणम् अनपराधिनम् ।
(२) ब्रह्मवादिनः वेदविदः ।
(३) पतिज्य दत्त्वा ।
ऋजुपाठम् ।
५३
तीव्रशोकसमाविष्टो (१) भूयो मोहमुपागतः ॥
मुहर्तमथ निश्चेष्टो (२) भूत्वा मोहपरायणः ।
प्रतिलेमे पुन: संज्ञां सिंहासनगतो नृपः ॥
लब्धसंज्ञञ्च तं भूयः सुमन्त्रः पृथिवीपतिम् ।
राममेवानुशोचन्तं सूतः प्राञ्जलिरब्रवीत् ॥
अयं स पुरुषव्याघ्रो हारि तिष्ठति ते सुतः ।
ब्राह्मणेभ्यो धनं दत्त्वा सर्वेषां चोपजीविनाम् (३) ।
स त्वां पश्यतु भद्रं ते रामः सत्यपराक्रमः ।
सर्वान् सुहृद आपृच्छा त्वां होदानी दिदृक्षते ।
गमिति महारण्यं तं पश्य जगतीपते।
वृतं (8) राजगुणः सर्वैरादित्य मिव रश्मिभिः ॥
स सत्यवाक्यो धमात्मा गाम्भीर्ये सागरीपमः ।
उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥
स सूतो राममादाय लक्ष्मणं मैथिली तथा।
जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ।
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः ।
तमसंप्राप्य दुःखात: पपात भुवि मूर्छितः ॥
(१) तीव्रशीकसमाविष्टः दुःसहशोकेन अभिभूतः ।
(२) निश्चेष्टः स्पन्दरहित: ।
(३) सर्वेभ्यः उपजोविन्यः सम्प्रदाने शष्ठीप्रयोग पार्षः ।
(४) इतम् पाहतम् अलङ्गातमिति यावत् ।
५४ ऋजुपाठम् । तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च मझेरथः । विसंजमिव दुःलेन सेन सशोक नृपति तथा । संवरिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ। व्यङ्ग्रे सोतया साई (१) रुदन्त: समवेशयन् ॥ अथ रामो मुहर्तेन लब्धसंज्ञं महीपतिम् । उवाच प्राञ्जलिर्वाष्पशोकार्णवपरिनुतम् ॥ आपृच्छे त्वां महाराज सर्वेषामौखरोऽसि नः । प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् (२) ॥ लक्ष्मणञ्चानुजानीहि सोता चान्वेतु मां वनम् (३)। कारणबहुभिस्तथ्यैर्वार्यमाणो न चेच्छतः (४) ॥ अनुजानीहि नः सर्वान् शोकमुत्सृज्य कामद। लक्ष्मणं माश्च सीताञ्च प्रजापतिरिवात्मजान् (५) ॥ . (१) सौतया साईम् उभौ रामलक्ष्मणी राम: सौता लक्ष्मणश्चेति वय दूत्यर्थः । (१) कुशलेन मां पश्य स्नेहपूर्णेन चक्षुषा माम् अवलोकय येनाई वनवासकाले कुशलं प्राप्नुयामिति भावः । (३) मा वनं प्रस्थिवमिति शेषः । (४) सौतालक्ष्मणौ मया तथ्यः यथार्थः बहुभि: कारण: हेतुभिर्वार्य- माचावपि मच पूच्छतः मया विरहितावित स्थातुं मामिलषत दूयर्थः। (५) प्रजापतिः ब्रमा पात्मजान् मनकादीन् सपांसि चरितमुद्यतान यथा अनुज्ञातवान् तहत् त्वमपि चमान् अनुजानीधि।
ऋनुपाठी
॥
प्रतीक्षमाणमव्यग्रमनुज्ञा जस्तापतिः
उवाच राजा संप्रेक्ष्य वनवासायचिवम् (१)
अहं राधव कैकेय्या वरदानेन मोड
अयोध्यायां त्वमेवाद्य भर्व राजो निरा
एवमुक्तो नृपतिना रामो धर्मभृतां वरः ।
प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥
भव वर्षसहस्राय पृथिव्या नृपते पतिः।
अहं त्वरण्ये वत्स्यामि (३) न मे राज्यस्य कांक्षिता ॥
नवं पञ्च च वर्षाणि वनवासे विहृत्य ते।
पुनः पादौ ग्रहिष्यामि प्रतिज्ञान्ते नराधिप ।
रुदन्नातः प्रियं पुत्त्रं सत्यपाशन संयतः (४)।
कैकेया नोद्यमानस्तु मिथो (५) राजा तमब्रवीत् ॥
श्रेयस वृद्धये तात पुनरागमनाय च ।
(१) वनवासाय जगतीपते: अनुज्ञा प्रतीक्षमा प्रार्थयमानम् भव्यग्रम्
पञ्चञ्चलं वनगमननिमित्त कविषयादिभिः अस्पृष्टमिति यावत्
राघवं संप्रेक्ष्य राजा उवाचेत्यन्वयः ।
(२) बुद्धिवंशविवेकक्षयादिदीषस्पृष्टतया राज्यामई इति भावः ।
(३) वो सत्यप्रतिशं कर्तुमिति शेषः ।
(४) संयतः बदः ।
(५) अरव रामस्थ बमगमनम् अनुमन्यखेति मिथो रहसि कैकय्या
नीद्यमानः।
५६
ऋजुपाठम्।
गच्छखारिष्टमध्यग्रः पन्यानमकुतौभयः ॥
न हि सत्यात्मनस्तात धर्माभिमनसस्तव (१)।
सनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन ॥
वसेह रजनौमतो (२) पुत्र मा गच्छ सर्वथा
एकाहं दर्शनेनापि साधु तावञ्चराम्यहम् (३) ॥
मातरं माञ्च सम्पश्यन् वसमामद्य शर्वरोम् ।
तपितः सर्वकोमेस्त्वं (8) खः कल्ये साधयिष्यसि (५) ।
दुष्करं क्रियते पुत्र सर्वथा राघव प्रिय।।
त्वया हि मप्रियार्थन्तु वनमेवमुपाश्रितम् ।
न चैतन्मे प्रियं पुत्र शपे सत्येन राघव ।
छनया(६)छलितस्त्वस्मि स्त्रिया भस्माग्निकल्पया(७)।
(१) सत्यात्मनः सत्य व्रतपरायणस्य! धर्माभिमनसः धर्ममभिमनी
यस्य धम्माचरणभिविष्टचित्तस्येत्यर्थः ।
(२) इदानौं वनगमने अवधारिते सतौति भावः ।
(३) अहं दर्शनेन त्वदर्शनेन एकाइमपि तावत् साधु सम्यक् सुखेनेति
यावत् चरामि तिछामि।
(४) सर्चकाम: सर्पितः सः भीग्य वस्तुभिः प्तिमापादितः सर्वान्
कामान् उपभुनान इत्यर्थः ।
(५) भाविनि दिने। कल्ये उपसि माधयिष्यसि गमिष्यसि ।
(8) नया गूढङ्कराभिप्रायया ।
(७) भन्माग्रिकल्पया भखाच्छादिसवनितुल्यया।
M. । जपाठम् । ५७ वञ्चना या तु मे लब्धा(१)तां त्वं निस्तत्र्तुमिच्छसि(२)। अनया वृत्तसादिन्या (३) कैकेय्याभिप्रणोदितः । न चैतदाश्चर्यतमं यत्त्वं ज्येष्ठः सुतो मम । अपातकथं (४) पुत्र पितरं कर्तुमिच्छसि । अर्थ रामस्तदा श्रुत्वा पितुरातस्य भाषितम् । लक्ष्मणेन सह मात्रा दोनो वचनमब्रवीत् ॥ प्राप्स्यामि यानद्य गुणान् को मे खस्तान् प्रदास्यति । अपक्रमणमेवातः सर्वकामेरहं वृणे ॥ इयं सराष्ट्रा सर्जना धनधान्यसमाकुला। मया विसृष्टा वसुधा भरताय प्रदीयताम् । यस्तु युद्ध (५) वरो दत्त: कैकेय्य वरद त्वयो। दीयतां निखिलेनैव (६) सत्यस्त्वं (७) भव पार्थिव । (१) मे मया या वञ्चना प्रतिश्रुतवरग्रहणच्छ लेन त्वहिवासनरूपा प्रतारणा लचा कैकयीसकाशादिति शेषः । (२) निस्तर्नु नितरोतम्। पार्ष: प्रयोगः । (३) वृत्तसादिन्या सर्वज्येष्ठाभिषेकरूपकुलीचिताचारनाशिन्या । (४) पप अपगतम् अतं यस्याः तादृशौ कथा यस्य तम् सत्यप्रतिज्ञ- मित्यर्थः। (५) युद्धे देवासुरसंगामे । () निखिलन साकल्येन। . भावप्रधानी निर्देशः। (७) सस्थ: सत्यप्रतिज्ञः।
कजुपाठम्।
मह निदेशं भवतो यथोक्तमनुपालयन् ।
चतुईश समा वस्ले (१) वने वनचरैः सह ।
मोविमर्शो (२) वसुमती भरताय प्रदीयताम् ।
न हि में कान्तिं राज्यं न सुखं वा तथा प्रियम् ।
यथा निर्देश कत्तुं वै तवैव रघुनन्दन ॥
अपगच्छतु ते दुःखं मा भूर्वाष्पपरिनुतः ।
न हि क्षुभ्यति दुईषैः समुद्रः सरिताम्पतिः ।
नैवाहं राज्यमिच्छामि न सुखं न च मेदिनीम् ।
त्वामहं सत्यमिच्छामि नानृतं (३) पुरुषर्षभ ।
प्रत्यक्ष तव सत्येन सुकतेन च वै शपे।
नं च शक्यं मया तात स्थातुं क्षणमपि प्रभो ॥
स शोक धारयखेमं न हि मेऽस्ति विपर्ययः (४)।
अर्थितो यस्मि कैकेय्या वनं गच्छति राघव ।
मया चोक्तं व्रजामौति तत् सत्यमनुपालये ॥
मा चोकण्ठो कथा देव वने रंस्यामहे (५) वयम् ।
प्रशान्तहरिणाकोणे नानाशकुनिनादिते ॥
MA
(१) वल्यामि। पात्मनेपदमार्षम् ।
(२) मा विमर्शः विमर्श: संशयी मास्तु संशयं मा कार्षीरित्यर्थः ।
(३) अनृतं मिथ्याप्रतिज्ञम् ।
(४) 'विपर्ययः पद्यैव वनं गमिष्यामीति प्रतिभाविपरीताचरणम् ।
(५) रस्यामह विहरिष्यामः इति यावत् ।
ऋजुपाठम्। ५६ पिता हि देवतं तीत देवतानामपि स्मृतम् । तस्माइवतमित्येव (१) करिथामि पितुर्वचः । चतुर्दशसु वर्षेषु गतेषु नृपसत्तम। ". पुन यसि मां प्राप्तं (२) सन्तापोऽयं विमुच्यताम् । येन संस्तम्भनीयोऽयं (३) सर्बो वाष्पाकुलो जनः । से त्वं पुरुषशार्दूल किमर्थं विक्रियां (४) गतः ॥ फलानि मूलानि च भक्षयन् वने गिरीश्च पश्यन् सरित: सरांसि च । वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः (५) ॥ एवं सं राजी व्यसनाभिपत्र- स्तापन (६) दुःखेन च पौद्यमानः । पालिङ्य पुत्र सुविनष्टसंशो- भूमि गतो नैव विवेद किञ्चित् । (१) देवतमित्येव पिता हि परमं देवतमित्यमार्दव हतोरित्यर्थः । (२) प्राप्तं वनवासात् प्रतिनिहत्तम्। (३) संस्तम्भनीय: सान्त्वनौय: । (8) विक्रिया विकारं शोकाभिभवजनितं धीममिति यावत् । (५) तव निवृति: शोकशानिरस्तु भोकं मा कार्बोरिति भावः । (६) तापन भोकेन।
ऋजुपाठम्।
देव्यः समस्ता रुरुदुः समेता-
स्तां वै विना केकयराजपुचीम् ।
रुदन् सुमन्त्रोऽपि जगाम मूच्छां
हाहाकतं तत्र बभूव सर्वम् ॥
मातामहावासात् प्रत्यागतस्य भरतस्य पितुरालये
पितरमपश्यती मातुरालयप्रवेशः ।
अपश्यंस्तु ततस्तत्र पितरं पितुरालये।
जगाम भरतो द्रष्टुं मातरं मातुरालये ॥
अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् ।
उत्पपात तदा हृष्टा त्यत्वा सौवर्णमासनम् ॥
स प्रविश्यव धम्मात्मा स्वग्रह (१) श्रीविवर्जितम् ।
भरतः प्रतिजग्राह जनन्याश्चरणौ शुभौ ॥
तं मूद्धि समुपध्रिाय (२) परिवज्य यखिनम् ।
अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे ॥
प्रद्य ते कतिचिद्रानाथुप्रतस्यायकवेश्मन: (३) ।
अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव ॥
(१) खग्रह खमाराम् ।
(२) ममुपात्राय चुम्बयित्वा ।
(1) पार्यकंवग्मनः मातामहावासात् युतख पखितस्य ।
ऋजुपाठम्।
पायकस्ते नु कुशली युधाजिमातुलस्तव ।
प्रवासाच्च (१) सुखं पुच सर्व में वक्तुमर्हसि ॥
एवं पृष्टस्तु कैकेय्या प्रियं (२) पार्थिवनन्दनः ।
पाचख्ये भरत: सर्व माने राजीवलोचनः ॥
अद्य मे सप्तमी रात्रिथुप्रतस्यायंकवेश्मनः ।
अम्बायाः कुशली तातो युधाजिन्मातुलश्च मे ॥
राजवाक्यहरे तैस्त्वर्यमाणोऽहमागतः ।
यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हति ॥
शून्योऽयं शयनीयस्ते (३) पर्यडो हेमभूषितः ।
न चायमिक्ष्वाकुजन: प्रहृष्टः प्रतिभाति मे ॥
राजा भवति भूयिष्ठमिहाम्बाया निवेशने । ।
तमहं नाच पश्यामि द्रष्टुमिच्छबिहागतः ॥
तं प्रत्युवाच कैकेयो प्रियवहोरमप्रियम् ।
प्रजानन्तं (8) प्रजानन्ती (५) राज्यलोभन मोहिता ॥
या गतिः सर्वभूतानां तां गतिं ते पिता गतः ।
राजा महात्मा
तेजखी
यायजूकः (६) सतां गतिः ।
(१) प्रवासात् प्रवासारम्भात् इत: प्रस्थामदिवसमारभ्येति यावत् ।
(२) प्रियं प्रौतिकरं मार कुलकुशलहनान्तरूपविषयम् ।
(३) शयनीय: शयनाई शयने मुखद पति यावत् ।
(a) रामविकासमदशरथमरणादिकमयोध्याहत्तासमिति ईषः ।
(५) धीरमप्रिय प्रियवत् प्रजामती प्रियमिव मन्धमाना। प्रजामन्ती-
त्याः प्रयोगः।
(4) थायजूकः यजमीलः ।
.
६२
रजुपाठम्।
nadiya
तच्छुत्वा भरतो वाक्य धम्माभिजनवान् (१) शुचिः।
पपात सहसा भूमौ पिटशोकबलाहितः ।
हा हतोऽस्मीति कपणं दौनां वाचमुदीरयन् ।
निपपात महाबाहुर्बाइ विक्षिप्य वीर्यवान् ।
तमात देवसङ्काशं समीक्ष्य पतितं भुवि ।
निकत्तमिव सालस्य स्कन्धं परशुना वने ॥
माता मातङ्गसङ्काशं चन्द्रार्कसदृशं सुतम्
।।
उत्थापूयित्वा (२) शोकात वचनञ्चेदमब्रवीत् ।
उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः ।
त्वविधा न हि शोचन्ति सन्तः सदसि सम्मताः (३) ।
से रुदित्वा चिरं काल भूमौ परिविहत्य (8) च ।
जननी प्रत्युवाचेर्दै शोकबहुभिरावत: (५) ।
अभिषेक्ष्यति राम नु राजा यनं नु यक्ष्यते (६)।
इत्यहं कृतसङ्कल्पो (७) दृष्टो यावामयाचिषम् (८) ॥
T१) धाभिजनवान् धर्मसम्पन्नवंशसम्भत इत्यर्थः ।
(२) उत्थापयित्वा उत्थाप्य । पार्षः प्रयोगः ।
(३) सदसि सभायां सम्मताः पूजिताः ।
(8) परिविवत्य लुठित्वा ।
(५) पात: बाच्छन्नः पभिभूत इति यावत् ।
(६) यक्ष्यते करिष्यति ।
(७) रति वनसङ्कल्पप्रति कृतनिश्यः मनस्वमवधायेंत्यर्थः ।
(८) याचां मातामहावासात् प्रस्थानम् अयाचिषम् भातामहसनिधा-
बिति शेषः। अथवा यात्रामयाचिषम् प्रस्थानमकामये।
ऋजुपाठम् ।
weade
तदिदं अन्यथाभूतं व्यवदीर्ण मनो मम ।
पितरं यो न पश्यामि नित्यं प्रियहिते रतम् ॥
अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते (१)।
धन्या रामादयः सर्वे ये: पिता संस्कृतः स्वयम् ।
न नूनं मां महाराज: प्राप्तं (२) जानाति कीर्तिमान् ।
उपजिनेत्तु मां मूटि तात: सन्नम्य (३) सत्वरम् ।
कस पाणिः सुखस्पर्शस्तातस्यालिष्टकर्मणः (8)।
यो हि मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति (५) ॥
यो मे माता पिता बन्धुर्यस्य दासोऽस्मि सम्मतः ।
तस्य मा (६) शीघ्रमाख्याहि रामस्याक्लिष्टकर्मणः ॥
पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानत: (७)।
तस्य पादौ ग्रहीष्यामि स होदानी गतिमम
m
(१) प्रत्यगात् ममार। अनामते प्रोषिते ।
(२) प्राप्तम् आगतं प्रवासात् प्रतिनिहत्तमिति यावत् ।
(३) सबम्य नमयित्वा मूर्खानमिति शेषः ।
(8) अविष्ट कर्मणः अथान्तव्यापारस्य।
(१) परिमार्जति परिमार्टि। पार्ष: प्रयोगः।
(६) माम् पामतमिति शेष: ।
(७) धम्मै जानत: धर्मशस्य बार्यस्य सदवृत्तसम्पनस्य जनस्व ज्येष्ठी
धाता पिता हि पिचव भवति। हिरवधारखे।
६४
४
ऋजुपाठम्।
आये किमब्रवीद्राजा पिता मे सत्यविक्रमः।
पश्चिमं साधु सन्देशमिच्छामि श्रोतुमात्मनः (१) ।
इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् ॥
रामेति राजा विलपन हा सोते लक्ष्मणेति च ।
स महात्मा परं लोकं गतो गतिमतां (२) वरः ॥
इति मां पथिमां वाचं व्याजहार पिता तव ।
कालधर्मपरिक्षिप्तः (३) पाशैरिव महागजः ॥
सिद्धार्थास्तु (8) नरा राममागतं सह सौतया।
लक्ष्मणञ्च महाबाहुं द्रक्ष्यन्ति पुनरागतम् ॥
तच्छुत्वा विषसादेवं (५) द्वितीयाप्रियशंसनात् ।
विषमवदनो भूत्वा भूयः पप्रच्छ मातरम् ॥
क्क चेदानी स धर्मात्मा कौशल्यानन्दवईनः ।
लक्ष्मणेन सह नाता सौतया च समागतः ।
तथा पृष्टा यथान्यायमाख्यातुमुपचक्रमे ।
(१) चात्मनः मम मामुद्दिश्येति यावत् पितुः पश्चिमम् अन्तिम सन्देश
वाचिकं साधु सम्यक् श्रोतुमिच्छामि ।
(२) गतिमता सद्गतिमापनानाम् ।
(३) काखधर्मः मृत्यु: तत्परिचितः तदभिभूत: ।
(४) सिद्धार्थाः सिद्धकामाः।
(५) एवं पूर्वोक्रप्रकारण।
ऋजुपाठम्।
मातास्य युगपहाक्यं (१) विप्रियं प्रियशङ्कयां (२) ॥
स हि राजसुतः पुत्र चौरवासा महावनम् ।
दण्डकान् (३) सह वैदेह्या लक्ष्मणानुचरो गतः ॥
तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया (४)।
खस्य वंशस्य माहात्मयात् (५) प्रष्टुं समुपचक्रमे ॥
कञ्चिन्न वै परधनं हृतं रामेण कहिचित् ।
कञ्चिन्नाव्यो दरिद्रो वा तेनापापो (६) विहिंसितः ॥
कञ्चित्र परदारान् वा राजपुत्वोऽभिमन्यते ।
कस्मात् स दण्डकारण्ये भ्रूणहेव विवासितः ।
एवमुना तु कैकेयी भरतेन महात्मना।
उवाच वचनं हृष्टा वृथापण्डितमानिनी॥
न वै परधन किञ्चित् हृतं रामेण कर्हिचित् ।
कश्चिबायो दरिद्रो वा तेनापापो विहिंसितः ।
(१) युगपत् राजमरण कथनसमकालमेव ।
(२) प्रियशकया प्रियबोधन रामविवासनं श्रुत्वा भरती दृष्टो भवि-
ष्यतीत्येवं मत्वेत्यर्थः ।
(२) दण्डकान् दण्डकाख्यमहावनमित्यर्थः ।
(४) चारित्रशङ्गया धर्माभं शमाशोत्यर्थः ।
(५) खस्य वंशस्य खवंशसम्भूतानामित्यर्थः । माहात्माम् घसदा-
चारविरतिसदाचारनिरतिरूपम्। न हिं कश्चित् ऐखाक:
कदाचित् पसदाचारदूषिती भवतीति भावः ।
(e) चपाय: निरपराधः ।
६६
ऋजुपाठम्।
न रामः परदारांश चतुर्थ्यामपि पश्यति॥
मया तु पुत्र श्रुत्वैव रामस्येहाभिषेचनम् । .
याचितस्ते पिता राज्यं रामस्य च विवासनम् ।
स खत्तं समास्थाय पिता ते तत्तथाकरोत् (१)।
रामस्तु सहसौमित्रि: प्रोषित: सह सौतया ।
तमपश्यन् प्रियं पुत्रं महीपालो महायशाः।
पुत्रशोकपरिघुनः (२) पञ्चत्वमुपपेदिवान् ।
त्वया त्विदानीं धर्मान राजत्वमवलम्बाताम् ।
वत्वते हि मया सर्वमिदमवंविधं कृतम् ॥
मा शोक मा च सन्तापं धैर्यमाश्रय (३) पुत्रक।
त्वदधीना हि नगरी राज्य चैतदनामयम् (४) ॥
श्रुत्वा तु स पितुर्वृत्तं (५) भ्रातरौ च विवासितौ।
भरतो दुःखसन्तप्त इदं वचनमब्रवीत् ॥
किबु कार्य हतस्येह (६) मम राज्येन शोचतः ।
(१) खतं खचरित्रं सत्यपालनरूपं समास्थाय पाश्रित्य तव पिता तत्
तथा पकरीत् तुभ्यं राज्यं दत्त्वा राम विवासयामासेत्यर्थः ।
(२) परिघुनः दोषः सन्तप्ती वा।
(३) पावति क्रियाया: चिभिः कर्मपदरचयः ।
(४) अनामयं निरूपद्रवम् ।
(५) इतं मृत्युम्।
(e) इतस्य अपारदुःखसागरे चिन्नस्य।
ऋजुपाठम्।
विहीनस्याथ पित्रा च भ्रात्रा पिटसमेन च ।
दुःखे मे दुःखमकरोण (१) क्षारमिवाददाः ।
राजानं प्रेतभावस्थं कृत्वा रामञ्च तापसम् ।
कुलस्य त्वमभावाय (२) कालरात्रिरिवागता।
अङ्गारमुपगुद्यासौ (३) पिता मे नावबुद्धवान् ॥
त्वां प्राप्य हि पिता मेऽद्य सत्यसन्धो (४) महायशाः ।
तीव्रदुःखाभिसन्तप्तो वृत्तो (५) दशरथो नृपः ।
विनाशितो महाराज: पिता मे धर्मवाल: (६)।
कस्मात् प्रवाजितो राम: कस्मादेष वनं गतः ।
नवार्योऽपि च धर्मात्मा त्वयि वृत्तिमनुत्तमाम् ।
वर्तते शुरुवृत्तिनो (७) यथा मातरि वर्तते (८)।
तथा ज्येष्ठा हि मे माता कौशल्या दीर्घदर्शिनी।
(१) दु:खे दुखमकरी: दुःखस्य उपरि दुःखं योजयामासिथैत्यर्थः ।
(२) अभावाय ध्वंसाय।
(३) पङ्गारसुपगुह्य ज्वलन्तमङ्गारमालिका।
(७) सम्धा प्रतिज्ञा सत्यसन्धः पूर्ण प्रतिज्ञः ।
(५) वृत्त: मृतः।
(६) कन्मादित्ययम्।
(७) गुरुषु कतव्या वृत्तिम् पाचार जानातौति गुरुहविज्ञः ।
(८) वर्तते चरति करीतीत्यर्थः। धमा गुरुहत्तिमः पायौँ यथा
मातरि अनुत्तमा इतिं वर्तते तहत् स्वधि अनुत्तमा उत्तिं वर्चत
इत्यन्वयः । खमातुरविशेषण त्वयि गुमातिचरतीति भावः ।
ऋजुपाठम्। त्वयि धर्म समास्थाय भगिन्यामिव वर्तते ॥ तस्या पुत्र महात्मानं चौरवल्कलवाससम् । प्रस्थाप्य वनवासाय कथं पापे न शोचसि । अहं हि पुरुषव्याघ्रावपश्यन् रामलक्ष्मणौ। केन शक्तिप्रभावेण राज्यं रक्षितुमुमहे । अथापि मे भवेच्छक्तिर्योगेर्बुद्धिबलेन वा (१)। सकामां(२) न करिष्यामि त्वामहं राज्यगर्दिनीम्(३) । न मे विकाङ्क्षा (४) जायेत त्यां त्वां पापनिश्चयाम् । यदि रामस्य नावेक्षा (५) त्वयि स्यान्माटवत् सदा ॥ उत्पना तु कथं बुद्धिस्तवेयं (६) पापदर्शिनी। साधुचारित्रविभ्रष्टे पूर्वेषां नो विगहिता ॥ , असिन् कुले हि सर्वेषां ज्येष्ठो राज्येऽभिषिच्यते । अपर भ्रातरस्तस्मिन् प्रवर्तन्ते समाहिताः (७) ॥ (१) शक्ति: राज्यरक्षणसामर्थ्य म्। योगे: नोतिशास्त्रीन: उपाय: ताशीपायावलम्बनिनेति यावत् । (२) सकामां पूर्णकामाम् । (२) राज्यगधिनों राज्यलीभाक्रान्तां राज्यलोभवशेन हिताहितविवेक- शून्यामिति यावत् । (४) विकासा इच्छाविरहः । (५) अपेक्षा पाचारः व्यवहार प्रति यावत् । (४) इयं ज्येष्ठे विद्यमाने कनिष्ठस्य अभिषेकविषया। (७) तमिन् समाहिता: तदधौनाः प्रवर्तने पितरमिव तमनु- बीवन्तीत्यर्थः।
ऋजुपाठम्। ६६ न हि मन्ये नृशंसे त्वं राजधर्मामवेक्षसे । गतिं च न विजानासि राजवृत्तस्य शाश्वतीम् । न तु कामं करिष्यामि (१) तवाहं पापनिश्चये। यया व्यसनमारब्धं जीवितान्तकरं मम ॥ एष विदानीमेवाहमप्रियार्थं तवानधे । निवर्तयिष्यामि वनाभ्रातरं स्वजनप्रियम् ॥ निवर्तयित्वा (२) रामञ्च तस्याहं दीप्ततेजसः । दासभूतो भविष्यामि सुस्थितेनान्तरात्मना (३) । इत्येवमुक्ता भरतो महात्मा प्रियेतरैर्वाक्यगणैस्तुदंस्ताम् (४)। शोकाहितश्चापि ननाद भूयः सिंहो यथा मन्दरकन्दरस्थः ॥ तां तथा गईयित्वा तु मातरं भरतस्तदा। रोषेण महताविष्टः पुनरेवाब्रवीदचः ॥ राज्यादभ्रंशव कैकेयि नृशंसे दुष्टचारिणि । परित्यक्तासि धर्मेण मा मृतं रदती भव (५)। (१) कामं करिष्यामि अभिलाषं पूरयिष्यामि । (२) निवर्तयित्वा निवर्त्य वनात् प्रत्यानौयेत्यर्थः । निवर्तयित्वे त्यार्ष: प्रयोगः। (३) सुस्थितेन प्रशान्नेन पन्तरात्मना मनसा । (४) प्रियतरः अप्रियः वाक्यगणे: वचन: ता कैकयों तुदन व्यथयन् । (५) मृतं भर्तारम् उद्दिश्य रुदती मा भव रोदनं मा कार्ड: धर्म- त्यागेन तव तव पधिकारविरहादिति भावः ।
ऋजुपाठम्।
कित्रु तेऽदूषयद्रामो राजा वा भृशधार्मिकः ।
ययोर्मुत्युर्विवासश्च त्वत्वते तुल्यमागतो (१) ॥
कैकेयि नरकं गच्छ मा च तातसलोकताम् (२)।
यत्वया हीदृशं पापं कृतं घोरण कर्मणा ॥
तत्क्षते मे पिता वृत्तो रामधारण्यमाश्रितः ।
अयशो जीवलोके च त्वयाई प्रतिपादितः (३) ॥
मापे ममामिने नृशंसे राज्यकामुके।
न तेऽहमभिभाथोऽस्मि दुर्वृत्ते पतिघातिनि ॥
कौशल्या च सुमित्रा च याश्चान्या मम मातरः।
दुःखेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम् ॥
न त्वमखपतेः कन्या धर्मराजस्य धीमतः ।
राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः ॥
यत्वया धार्मिको रामो नित्यं सत्यपरायणः ।
वनं प्रस्थापितो वोरः पितापि त्रिदिवं गतः ।
एकपुत्वा तु कौशल्या विवसा (४) यत्त्वया कता।
तस्मात्वं सततं दुःखं प्रेत्य चेह च लप्सासे ।
पामाय्य च महाबाहुं कोशलेन्द्रं महाबलम् ।
(१) तुल्यं समकालं युगपदिति यावन् ।
(२) तातेन सलीकताम् एकखोकवामित्वम् । मा खर्गमाप्नुहोति भावः।
(३) प्रतिपादित: प्रापितः ।
(४) विकमा पुचविधुता।
ऋजुपाठम्।
स्वयमेव प्रवेच्यामि वनं मुनिनिषेवितम् ।
नई पापसङ्कल्पे पाप पापं त्वया कृतम् ।
शक्तो धारयितुं पौररकण्ठैनिरीक्षितः (१) ।
सा त्वमग्निं प्रविश वा स्वयं वा विथ दण्डकान् ।
रज्जु बधान वा कण्ठे न हि तेऽन्यत् परायणम् (२) ।
अहमप्यवनी (३) प्राप्ते रामे सत्यपराक्रमे ।
कृतज्ञत्यो भविष्यामि विप्रवासितकल्मषः
इति नाग इवारण्यस्तोमराङ्कुशतोदितः।
पपात भुवि संक्रुहो निश्वसबिव पब्रगः ॥
अथ तत्राययौ धातुस्तत् श्रुत्वा लक्ष्मणानुजः ।
स तमुस्यापयामास शत्रुघ्नो भरतं तदा ।
श्रुत्वा प्रवाजितं राम कुमादितया तया।
कैकेय्या दुःखशोकातः शत्रुघ्नोऽथाब्रवीदिदम् ।
विद्वानार्योऽनृशंसश्च सर्वभूतहिते रतः ।
स्त्रिया नाम वनं रामः कथं प्रवाजितोऽवशः ॥
बलवीर्यास्त्रसम्पन्बो लक्ष्मणो भाववालः।
किं नाभिषिक्तवान् रामं कत्वापि पिटनिग्रहम् ॥
(৫) অন্ধ: অম্বুজ।
(२) परायचं मतिः तब नान्या गतिरस्तीत्यर्थः ।
(३) पवनौं पथिवौं राज्यमिति यावत् ।
(४) विप्रवासितकसष: दूरीकतकलाः ।
७२ काजुपाठम्। इत्येवं भाषमाणेऽथ शत्रुघ्ने लक्ष्मणामुजे । प्राग्हारेऽभूत्तदा कुना शुभ्राभरणभूषिता । चन्दनागुरुदिग्धाङ्गी महाम्बिरसंहता ॥ समीक्ष्य तां ततो हाःस्थो (१) भृशं पापस्य कारिणीम्। गृहीत्वा त्वरितं कुलां शत्रुघ्राय न्यवेदयत् ॥ यस्याः कृते गतो रामो न्यस्तदेहः (२) पिता च ते। सेयं पापा नृशंसा च कुरुष्वास्या यथामति । तामभ्यासगतां (३) दृष्ट्वा शत्रुनो मन्थरां तदा । चकर्ष विनिहत्योयां गले ग्राह्य (४) रुषान्वितः ॥ क्रोशन्या वदनं तस्याः पूरयामास पांशुना। अन्तःपुरचरान् सर्वान् प्रत्युवाच रुषान्वितः । यन्मूलन्तु महहुःखं भ्रातृणां मे तथा पितुः । 'तामिमा मन्थरां तुदी नेष्यामि यमसादनम् ॥ शत्रुनेनैवमुक्ता तु सखोजनसमाता। ग्रहीतोरःस्थले कुना रुतैर्गृहमनादयत् ।। ततच भृशसन्तप्तस्तस्याः सर्वसखोजनः । क्रुधमाज्ञाय शत्रुघ्नं न्यवारयत सर्वशः । (१) हाःस्थ: द्वारपालः । (१) यसर्दः त्यनकलवरः मृत रति यावत् । (३) अभ्यासगतां निकटवर्तिनीम् । (४) गरी एघ रहीत्वा विनिहत्य प्रहत्य उयी भूमौ चकर्ष पासष्ट- बान्। होत्यार्षः प्रयोगः ।
कनुपाठम् ।
७३
धामन्बयति (१) चैवात: कुलापरिजनस्तदा।
यथायमभिसंक्रुही नि:शेषान् न: करिष्यति ॥
सानुक्रोशांसारख्याच दीनार्तानाथबान्धवाम्।
कौशयां शरणं यामः सा हि नोध परायणम् ।
स चापि रोषताम्राक्ष: शत्रुघ्नः शत्रुतापनः ।
विचवर्ष भृशं कुना क्रोशन्सी पृथिवीतले ।
तामाकृष्य च शत्रुघ्नः कैकेयोसबिधौ तदा।
कैकेयीमभिनिर्दिश्य प्रोवाच परुषं वचः ।।
ययासत्वाशुभं कर्म कुलक्षयकरं छतम्।
असत्स्त्री साद्य कैकेयी कथं त्वां मोक्षयिषति ।
मूलं नस्त्वमनर्थस्य कुलक्षयकरस्व हि।
तस्मात कुऽहमद्य त्वां नयामि यमसादनम् ।
इत्युका मशसंक्रुद्धः शत्रुघ्नो लक्षणानुजः ।
विचकर्ष बलात् कुनां निष्टनन्ती (२) महीतले ।
इत्येवं पराक्यैः कैकेयो तेन तर्जिता।
शत्रुनभयसंविग्ना पुच शरणमभ्यगात् ।
तं प्रेम भरतः क्रुद्धं शत्रुघ्नं वाक्यमनवीत् ।
अवध्या सर्वभूतानां प्रमदा क्षम्यतां खया
(१) बामन्वयति धामन्बयामास भूतसामौष्ये ।
(२) निटननीम् उ भब्दायमानाम् ।
७४
ऋजुपाठम् ।
हन्यामहमिमां पापां कैकेयीं स्वयमेव हि।
यदि रामो न धर्मात्मा त्यजेन्मा माघातिनम् ॥
रोषं संयच्छ धर्मन्न हतैवेयं खकर्मणा।
यदैवयं परप्रेष्या कुक्षा स्त्री च विशेषतः ॥
इमामपि हतां कुनां यदि जानाति राघवः ।
त्वाच माञ्चैव धर्मात्मा नाभिसम्भाषयिष्यति (१)।
इति तद्वचनं श्रुत्वा शत्रुघ्नो भरतेरितम् (२)।
संयच्छवात्मनो रोषं तां मुमोच च मन्थराम् ।
सा क्षिप्ता सहसोत्याय मन्थरा भयविला।
कैकेयीमभिगम्या" ययाचे शरणं तदा ॥
सा पादमूले कैकेय्या मन्थरा निपपात ह।
विनिश्वसन्ती (३) दुःखार्ता करुणं विललाप च ।
गहयन्नेव जननी दुःखशोकाकुलेन्द्रियः ।
भरतोऽवेक्ष्य शत्रुघ्नमिदं वचनमब्रवीत् ॥
पुत्रशोकपरियूनां भर्तृव्यसनकर्शिताम् ।
कौशल्यामेव सहितो मया पश्याध दुःखिताम् ॥
माता मम च शत्रुघ्न कैकेयो भत्तुंघातिनी।
इदं कृतवती पापं सर्वलोकविगहितम् ।
(१) माभिसम्भाषयिष्यति न मम्भाषित। स्वाथै पिच् ।
(२) भरतेरितम् भरतेन ईरितं प्रीनाम् ।
(३) विनिवसन्ती। विनियसती। पार्ष: प्रयीमः ।
ऋजुपाठम्।
७५
इदन्तु मे महहुःखं शत्रुघ्न हृदि वर्त्तते।
किं नु वक्ष्यामि कौशल्यामतिमात्रं विलज्जितः ॥
इत्युबा भरतो वाक्यं शत्रुघ्नसहितस्तदा।
करोदातखनेनोः पूरयबिव तद्ग्रहम् ॥
तस्य श्रुत्वार्तनादं तं भरतस्य महात्मनः ।
कौशल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत् ॥
आगतः क्रूरकर्ममाया: (१) कैकेय्या भरतः सुतः ।
तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम् ॥
एवमुत्ता सुमित्रां तां विवर्णवदना कशा।
प्रतस्थे भरतो यत्र वेपमाना विचेतना (२) ।
स तु रानात्मजश्चापि शत्रुघ्नसहितस्तदा।
प्रतस्थे भरतो यत्र कौशल्याया निवेशनम् ॥
ततः शत्रुघ्नभरतौ कौशल्यां प्रेक्ष्य दुःखितौ।
पर्यष्वजेता दुःखात्ती पतितां नष्टचेतनाम् ॥
रुदन्तौ रुदती दुःखात् समेत्या- (३) मनस्विनी ।
भरतं प्रत्युवाचेदं कौशल्या भृशदुःखिता ॥
इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम् ।
सम्प्राप्तं तव कैकेय्या शीघ्र क्रूरैण कर्मणा ॥
(१) क्रूरकभाया: क्रूरकर्मणः ।
(२) विचेतना विचेतभप्राया।
(३) समेत्य पालिन।
७६.
ऋजुपाठम्।
प्रस्थाप्य चौरवसनं पुत्रं मे वनवासिनम् ।
कैकेयी के गुणं तन पश्यति क्रूरदर्शिनी।
क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति ।
दीर्घबाहुः स यत्रास्ते सुतो मे सुमहायशाः ॥
अथवा स्वयमेवाद्य तत्र मां नेतुमर्हसि ।
स तपस्तप्यते यत्र पुत्रो मे पितुराज्ञया ।
इदं हि तव विस्तीर्ण धनधान्यसमाचितम् ।
हस्त्यश्वरथसम्पूर्ण राज्यं भोगाय वर्तताम् ।
एवं विलपमानां (१) तां प्राञ्जलिर्भरतस्तदा।
कौशल्या प्रत्युवाचेदं शोकबहुभिराहताम् ।
भार्ये कस्मादजानन्तं (२) गईसे मामकल्मषम् (३)।
विपुलाञ्च मम प्रीति स्थिरां जानासि राघवे ।
कृतशास्त्रानुगा (४) बुद्धिर्मा भूत्तस्य कदाचन ।
सत्यसन्धः सतां श्रेष्ठो यस्यार्योऽनुमते गतः ।
कारयेत् यो महत् कर्म भर्ता भृत्यमनर्थकम् (५) ।
अधर्मो योऽस्य सोऽस्थास्तु यस्यार्योऽनुमते गतः ॥
(१) विलपमानां विलपनीम् पात्मनेपदमार्षम् ।
(२) प्रजानन्तम् भवत्यं हत्तान्तमिति शेषः ।
(३) अकल्मषम् अपापं निरपराधमिति यावत् ।
(४) सातशास्त्रानुगा कृतं गुरुसन्निधौ अधीतं शास्त्रं श्रुतिस्मत्यादि
तदनुगा तदनुसारिणी। वेदादिशास्त्राध्ययन तस्य सर्वथा निष्फलं
भवलिति भावः ।
(५) अनर्थकम् भवेतन वेतनम् पदवेत्यर्थः ।
ऋजुपाठम्।
७७
परिपालयमानाय राजे भूतानि पुलवत्।
तस्यास्तु द्धतां पापं (१) यस्यार्योऽनुमते गतः ।।
बलिषडूभागमुवृत्य (२) नृपस्यारक्षितुः प्रजाः ।
अधर्मो यस्तु सोऽस्यास्तु यस्यार्योऽनुमते गतः ।
जल्पता पक्षमाश्रित्य कृत्ये विवदमानयोः ।
पापं स समवानोतु (३) यस्यार्योऽनुमते गतः ॥
यद्धि पापं कृतघ्रस्य यत् पापं तस्करस्य च ।
स तत् सर्वमवाप्नोतु यस्यार्योऽनुमते गतः ॥
पुचैर्दारैश्च भृत्यैश्च स्वग्राहे परिवारितः ।
स एको मृष्टमश्नातु (४) यस्यार्योऽनुमते गतः ॥
राजस्त्रीबालवृद्धानां बधे यत् पापमुच्यते ।
भृत्यत्यागे च यत् पापं तत् पापं प्रतिपद्यताम् (५) ॥
कपालपाणि: (६) पृथिवीमटतां (७) चौरसंहसः ।
(१) भूतानि प्रजा: पुचवत् परिपालयमामाय राज्ञे ट्रया पापं तस्थास्तु
त्यन्वयः । न्यायमार्गानुवर्तिराजद्रोहिणां पापमवाप्रीतु इत्यर्थः ।
(२) बलिः करः षड्भागः षष्ठो भाग: उद्धृत्य ग्टहीत्वा प्रजाम्य पायस्य
षष्ठांशरू कर रहौत्वेत्यर्थः ।
(३) पक्षपातिना पापं तस्य बस्तु इत्यर्थः ।
(8) मृष्टं सुसंस्कृतं खाद पनम् ।
(५) यस्यार्योऽनुमने गतः इति परणीयम् । एवं परवापि।
(६) कपालपाणि: नरकपालधारी।
(७) घटता पटतु। चामनेपदमार्षम् ।
ऋजुपाठम् ।
मिक्षमाणी यथोन्मत्ती यस्यायोऽनुमते गतः ।
मधे प्रसती भवतु स्त्रीष्वक्षेषु च नित्ययः ।
कामक्रोधाभिभूतच यस्यार्योऽनुमते गतः ।
मास्य धर्मे मनो भूयादधम्म स निषेवताम् ।
अपाववर्षी (१) भवतु यस्यार्योऽनुमते गतः ।
सञ्चितान्यस्य वित्तानि विविधाभि सहस्रशः।
दस्युभिर्विप्रलुप्यन्तां (२) यस्याोऽनुमते गतः ।
अनिदाने हि यत् पापं यत् पापं गुरुनिन्दने ।
मित्रद्रोहे च यत् पापं तत् पापं प्रतिपद्यताम् ॥
सता लोकात् सतां कोत्तः सज्जुष्टात् (३) कर्मणस्तथा ।
भ्रश्यतु क्षिप्रमधव कार्योऽनुमते गतः ॥
अपाश्य माटशुश्रूषामन (४) सोऽवतिष्ठताम् ।
दीर्घबाहुमहावक्षा यस्थार्थोऽनुमते गतः ॥
बहुभृत्यो दरिद्रय ज्वररोगसमन्वितः ।
स यायात् (५) सततं लशं यस्यार्योऽनुमते गतः ॥
(१) पाववर्षों अपाचे दाता।
(२) विप्रलुप्यन्ताम् पपडियन्ताम् ।
(३) सज्जुष्टात् साधुसवितात् सद्धिः अनुसतादिति यावत् ।
(४) पन स्त्रीवशवाद्यनयंकर व्यापार प्रवतिष्ठता प्रवत्तताम् ।
(५) यायात् प्राघुयात् ।
ऋजुपाठम्। .७६ आशामा समानानां (१) दीनानामूचक्षुषाम् (२) । अर्थिनां वितां कुर्यात् यस्यार्योऽनुमते गतः । धर्मादारान् (३) परित्यज्य परदारान् निषेक्ताम् (४)। त्वक्ताधर्मरतिमंढो (५) यस्थार्योऽनुमत गतः । पानीयदूषके पापं तथैव विषदायके । यत्तदेकः स लभतां यस्यार्योऽनुमते गतः । हषात सति पानीये विप्रलम्भेन योजयन् (६)। यत् पापं लभते तत् स्थात् यस्यार्योऽनुमते गतः । एवमाखासयन्नेव दुःखार्ती निपपात ह । विहीनां पतिपुत्वाभ्यां कौशल्या पार्थिवात्मजः ॥ तमेव शपथैः कष्टः (मानमरबातम् (८)। भरत शोकसन्तप्तं या वाक्यमानौत। (१) पाशंसमानानां धनमाका गार्थयमानानां वा । (२) अईचक्षुषां चक्षुरुन्नमय दाखमशीकयताम् । (३) धर्मदारान् धर्मपत्रौं यथाविधि माता स्त्रियमिति यावत् । (8) परकीयभार्यासु प्रसक्ती भवतु। (५) त्यनधभरतिः त्यक्ता धम् रति: अनुरागी येन सः । (६) विप्रलम्भेन वचनवा योजयन् नास्तीत्येवमभिधाय तसे पानीय- मप्रयच्छनित्यर्थः। (७) कष्ट : उत्कट: प्रखतामपि शकररिधर्षः। (८) अचेतन शीकावेगवशात् पचेतनप्रायम्।
ऋजुपाठम्।
मम दुःखमिदं पुच भूयः (१) समुपजायते।
शपथैः शपमानो हि प्राणानुपरुणसि (२) मे ।
दिध्या (३) न चलितो धर्मादात्मा ते शुभलक्षण।
वस सत्यप्रतिज्ञो (४) हि सतां लोकमवासासि ॥
इत्युक्त्वा चाइमानीय भरतं भावमलम् ।
परिष्वज्य महाबाहुं रुरोद भृशदुःखिता ॥
एवं विलपमानस्य (५) दुःखार्तस्य महात्मनः ।
मोहाच शोकसम्भाराबभूव (६) लुलितं (७) मनः ।
लालप्यमानस्य विचेतनस्य
प्रनष्टबुद्धेः पतितस्य भूमौ।
मुहुर्मुहुर्निवसतश्च दीर्घ
सा तस्य शोकेन जगाम रात्रिः ॥
स प्राप्तो व्यसनं घोरं होनवर्णखरन्द्रियः ।
भरतो न रराजातः शशीव समभिभुत: (८) ।
(१) भूय: अधिकतरम् ।
(२) उपरुणमि व्यथयसि।
(३) दिच्या भाग्यन ।
(४) सत्यप्रतिज्ञः पालितप्रतिज्ञः केकयोसनिधी कृतारामानयनप्रतिज्ञा
कुर्वप्रित्यर्थः ।
(५) 'विलपमानस्य विलपतः। चात्मनेपदमार्षम् ।
(६) शोकसम्भारात् शोकाधिक्यात् ।
(७) लुलित मितम् पाकुलमिति यावत् ।
(८) समभिशुत: राहुयतः ।
ऋटनुपाठम्। १ मरणेन पितुर्दीनो रामप्रव्राजनेन च । कैकेय्यावार्थलुब्बाया धर्मत्यागेन पीड़ितः । उवाच भरतो धीमान् शोकाकुलितमानसः ॥ उत्क्रामत्या (१) जनन्याई धर्ममार्यनिषेवितम् (२)। अगाधपार (३) महति पातितः शोकसागरे । मनिमित्तं मृतो राजा रामश्चापि विवासितः। अपापः पापतां नीतो मात्राहं पापकृत्तया (४) ॥ विहीनश्चन्द्रसूर्याभ्यां यथा मेरुन शोभते। तथा भ्रात्रा च पित्रा च शून्यं पुरमिदं ध्रुवम् ॥ सोऽहं पित्रा सहाग्निं वा वनं रामण वा सह। प्रवक्ष्यामि विना ताभ्यां न हि जीवितुमुत्महे ॥ श्रान्तस्य यदि रामस्य पादौ तौ शुभलक्षणी। संवाहये (५) वनस्थोऽहं तन्मे राज्याइरं भवेत् ॥ शुश्रूषमाणश्चरणौ वने वन्येन जीवतः । अहमायस्य (६) वत्यामि तस्यार्थायोञ्छमाहरन् । (१) उत्क्रामत्या उल्लवमानया। (२) आर्यनिषेवितं साधुभिः अवलम्बितम् । (३) अगाधपार दुस्तर। (४) पपापः शुद्धाशयः। पापता दुटाशयताम्। पापमया दुष्ट- चरिचया। (५) संवाध्ये मईयामि। (६) पार्यस्य चरणावित्यन्वयः ।
८
ऋजुपाठम्।
नूनमार्यस्य पूर्णेन्दुसदृशं चारलोचनम् ।
मम शोको मुखं वीक्ष्य न स्यात् पिटवियोगजः ॥
इति श्रुत्वा वचो धर्म भरतस्य महात्मनः ।
अमात्या बन्धुवर्गाश्च दुःखादण्यवर्तयन् ।
तमवाशिरसं भूमिं चरणाग्रेण राघवम् ।
विलिखन्तमुवाचिदं वशिष्ठो भगवानृषिः ।
आपत्खमूढ़ो तिमान्(१) यः सम्यक् प्रतिपद्यते(२)।
कर्माण्यवश्यकार्याणि तमाहुः पण्डितं बुधाः ॥
स त्वं धैर्यमुपाश्रित्य विधूय हृदयज्वरम् (३)।
कर्तुमर्हस्यसम्मूढ़ आनन्सयक्रियां (8) पितुः ॥
पिता ते पुचशोकातॊ राम प्रवाजिते वनम् ।
त्वय्यनागच्छति प्राणानिष्टांस्त्यका दिवं गतः ॥
अनाथ इव धम्मात्मा लोकनाथः पिता तव ।
निहियेत (५) कथं नाम मृतस्तात त्वया विना ।
इत्यस्माभिर्विचार्यैव तैलद्रोण्यां स शायितः ।
तस्य निहरणं (.) नाथ पितुस्तत् कर्तुमर्हसि ॥
(१) अमूढः पविभान्सहदय: डिवाहितविवेकसमर्थः इति यावत् ।
धृतिमान् धर्यसम्पन: पक्षुभितचित्त इति यावत् ।
(२) प्रतिपद्यते अवलम्बते पनुतिष्ठतीत्यर्थः ।
(३) हृदयज्वरं चित्तवैकल्यम् ।
(४) पानसर्य क्रियाम् इतः परं कन्या क्रियाम् अन्त्येष्टिमिति यावत् ।
(१) निङ्गियत प्रेतभूमि नौयेत ।
(६) निहरणं प्रेतभूमिनयनम् ।
ऋजुपाठम्।
परिसाधय (१) मातृत्वमा च भोके मनः कथाः ।
अवश्यम्भाविनी येऽर्थास्ते (२) न शोथा भवविधैः ॥
तस्मात् संस्तम्भयात्मानं मा भूर्भरत बालिश: (३) ।
काकुत्स्थ बलवान् काल:(४) शक्यते नातिवर्तितुम्(५)।
एवमुक्तो वशिष्ठेन भरतो धौमतां वरः ।
वशिष्ठमभिवीक्ष्येदमुवाचार्त्ततरो या
भवत्येवं ब्रुवति मे दीर्यतीव मनो सुने।
लोकनाथे स्थिते रामे नाथत्वं मयि कीदृशम् ॥
किन्तु तत्र नयध्वं मां यत्र राजा पिता मम ।
करिष्ये तस्य संस्कारं भवद्भिः सहितो यहम् ।
नेदानी हृदयं चेन्मे स्फुटिष्यति सहस्रधा ।
दर्शयान्तु भवन्तस्तं राजानं होनजीवितम् ॥
तलो वशिष्ठप्रमुखाः सर्वे ते नृपमन्त्रिणः ।
अनयन् भरतं तत्र यत्र राजः कलेवरम् ।
ततः प्रविश्य भरतः सह राजपरिग्रहः (4)।
ददर्श पितरं प्रेतं राममातुनिवेशने ॥
(१) परिसाधय समाश्वासय ।
(३) पर्थाः विषया:।
(३) वालिश: मूढः हिताश्विविवेकविरुख इति यावत् ।
(४) कालः कालगति: देवनिबंधः ति यावत् ।
(५) पतिवर्षितुम् अतिक्रमितुम् पन्धधाक मिति यावत् ।
(८) राजपरियहः राजमहिलाभिः ।
८४
ऋजुपाठम्।
सतं गतासुं पितरं दृष्ट्वैवोपहतविषम् ।
हा राजनिति विक्रुश्य पपात धरणीतले ॥
संचाविहीनः संज्ञान्तु लब्धा भूयः सुदुर्मनाः ।
जीमान्तमिव संप्रेक्ष्य पितरं सोऽभ्यभाषत ॥
राज किं शेषे भरतोऽहमुपागतः ।
तवानन्या महाराज शत्रुघ्नसहितस्वरन् (१) ।
मम मालामहस्तात कुशलं त्वा नु पृच्छति (२) ।
प्रणम्य शिरसा तद्दद्युधाजिन्मातुलश्च मे ॥
यतः सतचित् (३) संप्राप्तमझमाधाय मां नृप।
वं हि मूर्धन्युपाघ्राय प्रतिनन्दसि भूमिप ॥
स इदानीमनुप्राप्तं कस्मान्मां नाभिभाषसे ।
नापराध्यामि ते किञ्चिदहं राजन् प्रसौद मे ॥
धन्यः स रामो येनानी कृता ते व्रजता वनम् ।
लक्ष्मणवापि धन्योऽसौ यो राममनु निर्गतः ॥ . .
अधेन्योऽरमपुण्यश्च यस्त्व मा प्रति मन्युमान् (४)।
दुःखेन महताविष्टः प्राणान् संत्यतवानसि ।
(१) वर त्वरमाथ: । परस्मैपदमार्षम् ।
(२) वा त्वाम्।
(३): सामादिति शेषः ।
(४) मन्युमान् कुपितः ।
.
ऋजुपाठम् । ८५ नूनञ्च तौ न जानौतों मृत्यु ते रामलायौ। यथा हि वनमुत्सृज्य नागताविह दुःखितौ । माटदोषादप्रियस्ते यदि तावदहे नृप । शत्रुघ्नमपि तावत्वमभिमार्षितुमर्हसि ॥ निर्वास्य चौरवसनं राम लक्ष्मणमेव च का स्त्रोतो: किमसि प्राणांस्थत्वा राजन् कि गतः ।। एवं विलपतस्तस्य भरतस्य महात्मन श्रुत्वा (१) नृपतिपत्नास्ता रुदुर्भुगदुःनि विलपन्त तथा तन्तु भरतें शोकविलम् । वशिष्ठी वदतां श्रेष्ठो जावालिबेदमूचतुः ॥ मा शोच भरत प्रान्न नेष शोची महीपतिः। पानन्तयमसन्मूढः (२) कर्तुमस्थ त्वमसि । नायं शोचस्तष पिता खकर्मजितलोकभाष ()। मृतो नायं सुता यस्य यूयं रामपुरोगमा: । धम्मात्मानो महात्मानी लोक प्रधितपौरुषाः ।। (8 मिखापवासीमिति शंषः । (e) भामार्यम् मरमानन्तरकतम्या क्रियाम् पत्येष्टिमिति यावत् । (३) खकर्मभि: स्वकतंकवलेन जितं लभ लोकं भजते खाचिस- सनबासीत्यर्थः।
टजुपाठम्। एवमुक्तो वशिष्ठेन भरतो धर्मकोविदः । त्यक्षा शोकमिदं वाक्यमुवाच वदतां वरः ॥ मुवन्ति यवन्तो मां तथा तदिति मे मतिः । बलवांस्तु पिसनेहो भृशं पौड़यतीह माम् ॥ संस्तम्भितो भवद्विस्तु गुरुभिहितवादिभिः । त्यक्षा शोकं करिष्यामि पितुरस्यौ देहिकम् ॥ पानयन्तु यथादिष्टं भवन्तो नृपमन्त्रिणः । सांस्कारिकं पितुर्मेऽद्य सर्व सम्भारमुत्तमम् (१) ॥ तस्यां रावयां व्यतीतायां भरतं सूतमागधाः (२)। सुप्तं प्रबोधयिष्यन्तस्तुष्टुवुर्मधुरखराः ॥ सहसा चाभ्यहन्यन्त दुन्दुभ्यः सुमहाखनाः । प्राभाप्यन्त सुघोषाच शहवेणुगणाः पृथक् । स तूर्यघोष: मुमहान् पूरयबिव तां पुरीम् । बोधयामास भरतं शोकव्याकुलमानसम् ॥ प्रतिषिध्याथ भरतस्तं प्रबोधकनिखनम् । नाहं राजेति चाप्युबा ततः शत्रुघ्नमब्रवीत् ॥ (१) सांस्कारिकं सम्भारं संस्कारः बौदेहिकं कर्म तदुपयोगिन सांस्कारिकं सम्भारम् उपकरणम् पौशिकीपयोगिद्रव्यमात- मित्यर्थः। न (२) मूतमागधा: मूता: मागधास ते च राजा स्तुतिपाठकाः।
कनुपाठम्।
पश्य शत्रुघ्न कैकेय्या कुलत्या लोकगहितम् ।
अयशः पातितं मूर्षि ममासयमनागस: (१)।
राजधानुगा राज्ञः पितुर्मे तहिनाकता (२)।
परिचमति राजश्रीविकर्णा (३) नौरिवाम्भसि ॥
इत्येवं भरतं तत्र विलपन्तं पुन: पुनः ।
दृष्ट्वा प्ररुरुदुः सर्वाः शोकार्ता नृपयोषितः ॥
भरतेन ततः साई वशिष्ठो वेदवित्तमः ।
प्रविवेश तदा राज्ञः सभा मन्त्रयितुं हितम् ॥
तवासने रत्नचिवे (४) स्पईयास्तरणसंवते (५)।
उपविश्य ततः सर्वानानयामास मन्त्रिणः ।।
जनौघः सुमहांस्तत्र समुपायात् समन्ततः ।
सभायो भरतं द्रष्टुं शत्रुघ्नसहितं तदा ॥
ततो लहलाशब्दः सुमहानभवत्तदा।
कौतूहलाज्जनौघस्य सभा प्रत्यभिधावत: ॥
(१) बनागस: निरपराधस्य ।
(२) सहिनाकता पिचा विहीमा।
(३) नावां गति नियामको दण्डविशषः कर्ण: तेन विहीना विकर्ण ।
(४) रबचिवे रबालहते।
(५) स्पान महामूल्येन पास्तरणन पाच्छादनपटेन संबते
बाच्छादिते।
८८
ऋजुपाठम्।
तवाथ भरतं दृष्ट्वा सभायां सपुरोहितम् ।
अभ्यनन्दन्
प्रकृतयो यथा दशरथं तथा ॥
समाहत्ते (१) जने तस्मिबुदिते च दिवाकरे ।
वशिष्ठस्तमुवाचेदं भरतं तांश्च मन्त्रिण: ॥
उत्तिष्ठ भरत क्षिप्रं मा भूत् कालात्यय: (२) प्रभो।
पितुः कुरु यथान्यायं संस्कारं भूरिदक्षिणम् ॥
सज्जिता शिविका चेयं पितुस्ते रत्नभूषिता।
अवैनं शिविकायां त्वं संवेशय नराधिपम् ।
शिविकागतमुक्षिष्य नयैनं वहिराशु च ॥
एवमुक्तो वशिष्ठेन भरत: प्रत्युवाच तम् ।
वशिष्ठं वदतां श्रेष्ठं पितुर्बहुमतं गुरुम् ॥
यदाज्ञापयसे राजः करवाणि तदाहितः (३)।
दैवतं ह्यसि मान्यच गुरोचापि गुरुर्मम ||
वाक्येन तेन तस्याथ भरतस्य महात्मनः ।
आजगाम परं हर्ष वशिष्ठो विजसत्तमः ॥
शोकवेगमसह्यं तं धारयन् भरतस्ततः ।
कलेवरं भूमिपतेः स तदा समुदक्षत (४)।
(१) समाइते भरतम् अभिनन्ध प्रतिनिबने।
(२) कालात्यय: काखातिपातः ।
(३) पापित: पवहितः ।
(४) समुदैवत अवलोकयामास ।
ऋजुपाठम् ।
न चाशनोत् स शोकस्य वेगं धारयितुं तदा ।
महार्णवस्थापततस्तोयवेगमिवोहतम् ॥
तदार्त्तिमान् (१) वेपमानस्तत्तत् स विलपन् बहु ।
शत्रुनसहितः क्षिप्र शिविकामनयबृपम् ॥
शिविकावं स राजानमलनात्य विधानतः ।
वाससा च महाईण समाच्छाद्य सुसंहतम् ॥
अवकोयं च माल्येन दिव्यधूपावधूपितम् ।
गन्धचूर्णैः सुरभिभिः परिकार्य च सर्वशः ॥
उवाहोतक्षिप्य शिविकां शत्रुघ्नसहितस्ततः ।
हा राजन् कासि गन्तेति रुदवातः पुनः पुनः ।
अग्रतः प्रययुश्शाथ सत्कर्मस्तुतिभिर्नुपम् ।
अभिटुमन्तो मधुर सूतमागधवन्दिनः (२) ।
तस्मिन् निहरण राजः करुणस्तु महास्तदा ।
आर्तनादोऽभवत् स्त्रीणां यथास्य मरण तथा ॥
ततः पौरजन: सधः सस्त्रीवकुमारकः ।
अनु राजशरीरं (२) तबिययौ नगराईहिः ।
(1) पानि पौड़ा तहान् व्यथित इत्यर्थः ।
(२) सूतमामधवन्दिनः मूता: मागधा: वन्दिन। सब एवं राज्ञा
स्तुतिपाठकाः।
(३) पर राजशरीर भिविकया नीयमानस्य राजशरीरस पवान् ।
६०
जुपाठम्।
तथा भरतशत्रुघ्नौ शिविका परिएछ तौ।
शोकदुःखसमाविष्टौ रुदन्तावनुजग्मतुः ॥
कौशल्या च सुमित्रा च कैकेयी च तथापराः ।
रुदत्यः शोचमानाथ (१) कुरय॑ इव कातराः ।
अनुजग्मुः शरीरं तद्रानो राजीवलोचनाः ॥
अथास्य सरयूतोरे विविक्ते मृदुशाहले (२)।
चन्दनागुरुकाष्ठस्ते राज्ञश्चक्रश्चितां तदा ॥
तस्यां चितायां नृपतेः शरीरं तत् सुहज्जनः ।
अशाययत् समुत्क्षिप्य शोकव्याकुलचेतनः ।
चितां प्रज्वालयाञ्चक्रे भरतः सह बन्धुभिः ॥
प्रजज्वाल ततो वह्निः सहसैव समेधितः (३)।
महार्चिमान् (४) दहन् राजश्चितारूढ़ कलेवरम् ॥
विधिवत् संस्कृतो राजा गुरुभिर्वेदपारगैः ।
जगाम परमं स्थानं यज्वनां पुण्यकर्मणाम् ।
अवकीर्य च माल्येन चितां तामपसव्यतः (५) ।
प्रणेमे स पितुः पादौ निपत्य धरणोतले ॥
(१) श्रीचमाना: शीचन्त्य: पात्मनेपदमार्षम् ।
(२) विविक्के विजने। मृदुशाइले कोमलहरितवणशीभिते ।
(३) समेधित: उद्दीपितः ।
(४) महाभिान दौशिखायुक्रः ।
(५) अपसव्यत: वामावन ।
ऋजुपाठम्।
६१
तमार्तरूपं पतितं विलपन्तमचेतनम् ।
उत्थापयामास बलात्
परिग्रह्य
सुहज्जनः ।।
अवेच्य स पितुर्दीप्तं सर्वगावेषु पावकम् ।
विललापातिकरुणं भरतः शोकविह्वलः ॥
यस्था गतिरनाथायाः पुत्रः प्रवाजितस्वया ।
तामम्बां तात कौशल्यां किमर्थं नाभिभाषसे ।
एवमाद्यतिदुःखार्तो विलपमेव राघवः ।
विसंज्ञकल्पो न्यपतच्छोचन् पितरमात्मनः ॥
उन्मत्त इव विप्रेक्ष्य विललाप निपत्य सः ।
गुणसंकीर्तनं कुर्वन् पितुर्वे पिटवालः ॥
सुकुमारञ्च बालञ्च सततं लालितं त्वया।
व तहत भरतं हित्वा विलपन्तं गमिष्यसि ॥
भोज्याभरणपानस्त्वं वासोभिच पृथग्विधैः (१)।
संवईयसि नः सांस्तवः कोऽद्य करिष्यति ।
त्वयि राजन् गते स्वर्ग रामे चारण्यमाश्रिते।
न जीवितुं व्यवस्यामि (२) प्रवेश्यामि हुताशनम् ।
एवमादि तयोः श्रुत्वा धात्रोविलपितं तदा।
सर्वः परिजनो भूयो भृशमार्त्ततरोऽभवत् ॥
(१). पृथग्विधैः बहुविधः ।
(२) व्यवस्थामि उत्सह पछामौति यावत् ।
१२
ऋजुपाठम्।
तत: शोकपरिचान्तौ शत्रुघ्नमरतावुभौ।
विलपित्वातिकरणं (१) ध्यानमेवान्वपद्यताम् ।
तौ ध्यानमास्थितौ दृष्ट्वा पितुरिष्टः पुरोहितः ।
वशिष्ठो भरतं वाक्यमुत्थाप्येदमुवाच ह ॥
इन्ददुःखैर्जगत् (२) सर्वमभिभूतमिदं सदा।
अवश्यम्भाविनं भावं (३) न त्वं शोचितुमर्हसि ॥
जातस्य हि ध्रुवो मृत्युभ्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥
सुमन्वचापि शत्रुघ्रमुत्थाप्य धरणीतलात् ।
श्रावयामास तत्वज्ञः सर्वभूतभवाभवम् (8)।
उस्थितौ तौ नरव्याघ्रावश्रुतिम्रो विरजतः ।
वर्षातोयपरिलिबौ पृथगिन्द्रध्वजाविव ॥
अधूणि परिमार्जन्ती रताक्षौ दीनभाषिणी (५) ।
अमात्यास्वरयामासुः पितुः प्रति जलक्रियाम् () ॥
(१) वितपिला विलय। पार्षः प्रयोगः ।
(२) हन्ददुःखः हर्षशीकरागहेषादिहन्दननितनः।
(२) भावं पिटवियोगरूपं विषयम्।
(४) सर्वभूतभवाभवम् सव्वेषा प्रापिना जन्ममृत्युनियमम् ।
(५) दीनभाषिणी करुषविलापिनौ। भरतशघुनापिति मेषः।
(1) पितुजलक्रिया प्रति सलिलामचिदानेन पितरं तर्पयितुमित्यर्थः ।
ऋजुपाठम्। ६३ RA एवं संस्करणं बवा भरतः पृथिवीपतेः । जलक्रियां पितुर्थीमान् कत्तुं समुपचक्रमे । पुण्या पुण्यजलाकीणों महर्षिगणसेविताम् । उदकं स पितातुं (१) सरयूं सरितं ययौ । अवगाद्य ततः पुण्यां सरयूं समुहब्बनः । ददौ पितरमुहिश्य भरतः सलिलावलिम् । स सर्वमानसंयुक्तः सामात्यः सपुरोहितः । तर्पयामास राजानं सलिलेन विधानतः ततः कत्लोदकं सर्वे पौरजानपदा (२) मनाः । . पृथगाश्वासयामामुर्भरतं शोकविलम् ॥ आश्वास्यमानस्तथाथ प्रययौ भरतस्ततः । तैरेव सहितः सर्वैरयोध्यां शोककर्शिताम् । दूरादेव च तां दृष्ट्वा दोनातुरजनावताम् । पुरीमयोध्यां भरतः पौरान् वचनमब्रवीत् । गते नरपतौ स्वर्ग रामे च वनमाश्रिते। भातीयं मे निरानन्दा श्मशानसदृशी पुरी। (१) पितुर्दातुं पित्रे दातुम्। सम्प्रदाने पोपयोग: पार्ष: सम्बन्ध- विवचया वा षष्ठी। (२) पौरजानपदाः पौराः जानपदाय। पौराः पुरवासिनः जानपदाः बनपदवासिनः जनपईभ्यः पासता या ।
६४
ऋजुपाठम्।
प्रमदा हतौरव (१) विचन्द्रेव च सर्बरो।
विहीना नरदेवेन पुरीयं न विराजते ॥
नेच्छाम्येतामहं द्रष्टुं न प्रवेष्टुं हतत्विषम् ।
इहैव प्रायमासिष्ये पितुर्दशनकाझ्या ।
किं मे पित्रा विहीनस्य जीवितेन सुखेन वा।
इच्छामि जीवितुं नाहमनुयास्यामि भूमिपम् ॥
अथ राज्ञो सहामात्यो धर्मपाल इति श्रुतः ।
परिदेवयमानं (२) तं भरतं वाक्यमब्रवीत् ॥
शोचतो मुद्यतश्चैव (३) मोघं ते भरत श्रुतम् (8)।
कुरु वाक्यं ममैवेदमनुरूपं (५) नृपात्मज ॥
शोके भरत निबन्ध (६) नात्यर्थं कर्तुमर्हसि ।
सर्वखजननाशेऽपि न हि शोचन्ति पण्डिताः ॥
रुदतः शोचतो वापि यदि नाम पुनर्मृतः
सञ्जीवेत् खजन: कश्चिबनु शोचेम सर्वशः (७) ॥
(१) हतौरा हतपतिका।
(२) परिदेवयमानं विलपन्तम् ।
(३) मुह्यत: मोहम् भापद्यमानस्य ।
(४) शुसं शास्वाध्ययनम् ।
(५) पनुरूपम् एतत्काखसदृशम् ।
(६) निबन्धम् अभिनिवेशम् ।
(७) सर्वशः सर्वथा सञ्चरव प्रकाररिति यावत् ।
काजुपाठम्।
यदा ववश्यं गन्तव्यं सईरस्माभिरागतः ।
मृत्युकाले तदा शोके नास्ति सामर्थ्यमण्खपि (१) ।
एयाशु त्वं सहास्माभिरयोध्यां प्रविश प्रभी।
खजनं शोकसन्तप्तं समाखासय मानद ।
त्वं यद्य नाथः सर्वेषामस्माकं खजनस्य च ।
शोचितुं नाहसि त्वं तत् प्रजानां नाथतां गतः ॥
एवमुक्तः स विप्रेण धर्मपालेन धार्मिकः ।
प्रविवेश निरानन्दामयोध्यां स्वजनतः ॥
(१) सामय फलीपधायकता सार्थक्यमिति यावत् ।
सम्पूर्णम्।
No text on this page.