Central Archaeological Library, Asi
Pancharatra Of Bhasa
Front matter
GOVERNMENT OF INDIA
ARCHÆOLOGICAL SURVEY OF INDIA
CENTRAL
ARCHÆOLOGICAL
LIBRARY
ACCESSION NO.
23892
CALL No. Sa 8 N/Bhaf Gan
D.G.A. 79
www www.liga
yenim in
i
W
4* .
OF THE DIRECTOR GENERAL OF ARCHEOL
dal
Library Reg Mo
r!
INI
. -- 1! 1 BY OF THE DIRECTOR GENOPAL OF ARCHÆDE TRIVANDRUM SANSKRIT SERIES NO. X111. TILE PANCHARÂTRA BHÂSA LIITEI) WITH XOTES T. GANAPATI SÂSTRÍ. Curdur in'iko lirport of dirts portllinnon oj sinalni serijutie basa's works: - alo. 3. PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF HIS HIGHNESS THE MAHARAJA OF TRAVANCORE, TRIVANDRUM. PIINTED IT THI: TRIVIURE ERSJEST 'RES, 1912 (Library Reg Alle (All Rights Reserved) F- TRIINI.. 30.0 OFFICE
1
ܝܕ
OGGAL
23892
áo . 6 sẽ
3a84/Bhal
Gan
10...,
अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः १७.
पञ्चरात्रं
महाकविश्रीभासप्रणीतं
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
त, गणपतिशास्त्रिणा
संशोधितं
लघुटिप्पण्या च संयोजितम् ।
भासनाटकचके तृतीयम् ।
तञ्च
अनन्तशयन
महामाहमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितम् ।
कोळम्बान्दाः १०८७, ऊस्ताब्दाः १९१२.
.
-
No text on this page.
पात्राणि। % 3D - % 3D भदः - दुर्योधनः हास्तिनेश्वरः। भीष्मः दुर्योधनादीनां पितामहः । द्रोणः दुर्योधनादीनां धनुराचार्यः । कर्णः अङ्गेश्वरो दुर्योधनस्य सखा । शकुनिः दुर्योधनस्य मातुलः । दुर्योधनस्य भृत्यः । वृद्धगोपालकः = गोकुलाध्यक्षः । गोमित्रकः काश्चद् गोपालः । राजा मस्यदेशाधिपतिविराटनामा । भगवान् ब्राह्मणव्यञ्जनो धर्मपुत्रः । भीमसेनः धर्मपुत्रस्यानुजः । अर्जुनः तथा । बृहन्नला अर्जुनः । अभिमन्युः अर्जुनस्य पुत्रः। उत्तर: विराटम्य पुत्रः । सूतः विराटस्य अभिमन्योश्च सारथिः । काञ्चुकीयः विराटस्य परिजनः। दूतः तथा। भटः विराटस्य मृत्यः । D - ल - - Pravel -- ५ - - அsi कथावस्तुसंक्षेपः। 1 , . दुर्योधनो यज्ञावभृथान्ते ब्राह्मणसन्तर्पणावसरे धनुराचार्य द्रोणं तस्याभी- टदक्षिणां पृष्टवान् । पाण्डवेभ्योऽर्धराज्यदानमेव मम सुदक्षिणेति तेन निवेदित शकुनिना सह सम्मन्त्र्य 'यदि पञ्चरात्रेण पाण्डवानामज्ञातवासिनां प्रवृत्तिरुपनी- यते, तर्हि तेभ्योऽर्धराज्यं दद्याम्' इति स प्रतिजज्ञे। कीचकशतविशसननिवेद- केन विराटदूतवचनेन पाण्डवानां विराटनगरेऽज्ञातं वासं निश्चिन्वन् भीष्मम्तदा- चार्यमभ्युपगमय्य खस्य विराटेनाप्रकाशं वैरमपदिशन् तदीयगोग्रहणाय दुर्योधन- मुद्योजयामास । तेन च ससैन्येन विराटनगरमुपरुध्य गोग्रहणे क्रियमाणे बृहन्न- लाव्यञ्जनोऽर्जुन उत्तराधिष्ठितं रथं वाहयन् श्मशानात् परिगृहीतनिजायुधो दुर्यो- धनादीन् सर्वान् विद्राव्य निववृते । ततः सूदरूपो भीमः सुतपरिष्वङ्गाभिलाषी हस्तेनैव रथादभिमन्युमवतार्य विराटसमीपमर्जुनसहित आनिन्ये । ततोऽभिमन्यु- स्तत्त्वापरिज्ञानेन भीमार्जुनौ शत्रुरिति विराटं चावजानन् ब्राह्मणरूपं युधिष्ठिर परं प्रणतवान् । अथ सर्वमिदं शत्रुनिराकरणमुत्तरस्यैव कर्म मन्यमानाय विरा- टायोत्तरः समागत्य बृहन्नलावेषोऽयमर्जुन इति, अनेनैव दुर्योधनादयः सर्वे परा- जिता इति च न्यवेदयत् । ततोऽर्जुने युधिष्ठिरादीनेव सर्वान् वेषप्रच्छन्नान् प्रका- श्य विजयशुल्काथै विराटेन दत्तामुत्तरां सुषार्थ परिगृह्णति धर्मराजविराटौ प्रमुदि- तावभिमन्युविवाहनिवेदनाय भीष्मादिसकाशमुत्तरं दूतं प्राहिणुताम् । भीष्मादि- प्वप्यभिमन्युहरणं प्रति किञ्चिद् विमनाय्य शरेप्वर्जुनमामावलोक्य सर्वमिदमस्म- दवमाननमर्जुनस्य कर्म, अभिमन्युश्च भीमेनैवापहृत इति निरूपयत्सु शकुनौ च तदप्रतिपद्यमाने सहसागत्योत्तरः प्रणतिपूर्वकं युधिष्ठिरसन्देशं यथावदाख्यातवान् । अथ दुर्योधनः पाण्डवेभ्योऽर्धराज्यदानमभ्युपजगाम, तेन च सर्वे प्रसन्ना बभूवुः ॥
f
F
-
'
܀
-,..." rܗܚ ܝ ܀
|
,
ܕ
ܐ
ܙ
ܕ ܀
'
1
1
॥ श्रीः॥ श्रीगणेशाय नमः। महाकविश्रीभासप्रणीतं पञ्चरात्रम्। (नान्द्यन्ते ततः प्रविशति सूत्रधारः) . सूत्रधारः * द्रोणः पृथिव्यर्जुनभीमदूतो यः कर्णधारः शकुनीश्वरस्य । दुर्योधनो.भी(म?ष्म)युधिष्ठिरः स पायाद् विराडुत्तरगोऽभिमन्युः ॥ १ ॥ (परिक्रम्य) एवमार्यमिश्रान् विज्ञापयामि । अये किन्नु- खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग! पश्यामि । 4 + (नेपथ्ये) अहो कुरुराजस्य यज्ञसमृद्धिः । सूत्रधारः भवतु, विज्ञातम् । - * द्रोण इति । द्रोणः कृष्णवर्णः । पृथिव्यामर्जुनभीमयोक्तः । शकुनीश्वरस्य गरुडस्य कर्ण- धारो नेता । दुर्योधनः शत्रुभिरनभिगम्यत्वात् । भीष्मयुधिष्टिरः भयकरश्च युद्धे स्थिरश्च । उत्तरं प्रशस्त गच्छत्याचरतीति उत्तरगः । मन्यु यज्ञम् अभिगतोऽभिमन्युः । विराड् अर्थाच्छ्रीकृष्णः पायात् । अथच द्रोणादिशब्दैरेतद्रूपककथाविषयाणां द्रोणार्जुनभीमकर्णशकुनिदुर्योधनभीष्मयुधिष्ठि- रविसटोत्तर-गोभिमन्यूनां सूचनं मुद्रालकारभङ्गाथा कृतम् । ।
२ पञ्चरात्रे सर्वैरन्तःपुरैः सार्धं प्रीत्या प्राप्तेषु राजसु । यज्ञो दुर्योधनस्यैष कुरुराजस्य वर्तते ॥ २ ॥ (निष्क्रान्तः) । स्थापना। 1 (ततः प्रविशन्ति ब्राह्मणास्त्रयः) सर्वे-- अहो ! कुरुराजस्य यज्ञसमृद्धिः । प्रथमः -इह हि, द्विजोच्छिष्टैरन्नैः प्रकुसुमितकाशा इव दिशो हविधूमैः सर्वे हृतकुसुमगन्धास्तरुगणाः। मृगैस्तुल्या व्याघ्रा वधनिभृतसिंहाश्च गिरयो नृपे दीक्षां प्राप्ते जगदपि समं दीक्षितमिव ॥ ३ ॥ द्वितीयः- सम्यग् भवानाह । तृप्तोऽग्निर्हविषामरोत्तममुखं* तृप्ता द्विजेन्द्रा धनै- स्तृप्ताः पक्षिगणाश्च गोगणयुतास्तेते नराः सर्वशः। हृष्टं सम्प्रति सर्वतो जगदिदं गर्जन्नृपे सद्गुणै- रेवं लोकमुदारुरोह सकलं देवालयं तद्गुणैः ॥ ४ ॥ तृतीयः- इमेऽत्रभवन्तो द्विजातयः, राज्ञां वेष्टनपट्टदृष्टचरणाः श्लाघ्यप्रभूतश्रवा वार्डक्येऽप्यभिवर्धमाननियमाः स्वाध्यायशूरैर्मुखैः । विप्रा यान्ति वयाप्रकर्षशिथिला यष्टित्रिपादक्रमाः शिष्यस्कन्धनिवेशिताश्चितकरा जीर्णा गजेन्द्रा इव ॥५॥ * 'अनिमुखा वै देवाः' इति श्रुतेः । * हृष्टमिति । एवं नृपे सद्गुणैर्गर्जद् नृपगतान् सद्गुणान् कर्तियत् । देवालयं देवावासभूतं सकलं लोकं तस्य नृपस्य जगतो वा गुणैः उदारुरोह अति- शिश्ये। श्रवशब्दः ख्यातिवचनः । 1 म T है ।। A rap - । प्रथमोऽङ्कः । सर्वे--भोभो माणवकाः! भोभो माणवकाः! अनवसितेऽव- भृथस्नाने न खलु तावदग्निरुत्स्रष्टव्यो भवद्भिः । प्रथमः हा धिग्, दर्शितमेव तावद् वटुचापलम् , एषा दीप्तैक(यू)पा कनकमयभुजेवाभाति वसुधा चैत्यामिलौकिकाग्निं द्विज इव वृषलं पार्श्वे न सहते । नात्यर्थं प्लुष्टपृष्ठा हरितकुशतया वेदी परिवृता प्राग्वंशं चैष धूमो गज इव नलिनी फुल्लां प्रविशति ॥६॥ द्वितीयः -- एवमेतद्, अग्निरग्निभयादेष भीतैर्निर्वास्यते द्विजैः । कुले व्युत्कान्तचारित्रे ज्ञातिर्जातिभयादिव ॥ ७ ॥ तृतीयः शकटी च घृतापूर्णा सिच्यमानापि वारिणा । नारीवोपरतापत्या बालस्नेहेन दह्यते ॥ ८॥ प्रथमः सम्यग् भवानाह, एतां चक्रधरस्य धर्मशकटी दग्धुं समभ्युद्यतो दर्भ शुष्यति नीलशाहलतया वह्निः शनैर्वामनः। वातेनाकुलितः शिखापरिगतश्चक्र क्रमेणागतो नेमीमण्डलमण्डलीकृतवपुः सूर्यायते पावकः ॥७॥ द्वितीयः-- इदमपरं पश्य, वल्मीकमूलाद् दहनेन भीता- स्तत्कोटरैः पञ्च समं भुजङ्गाः। * राष्ट्रभर्तुर्दुर्योधनस्येत्यर्थः ।
স্থাগ , - *." . समं विपन्नस्य नरस्य देहाद विनिःसृताः पञ्च यथेन्द्रियाणि ॥१०॥ तृतीयः- इदमपरं पश्येतां भवन्तौ, दह्यमानस्य वृक्षस्य सानिलेन मखाग्निना । कोटरान्तरदेहस्थाः खगाः प्राणा इवोद्गताः ॥ ११ ॥ प्रथमः -- एवमेतत् , शुष्केणैकेन वृक्षण वनं पुष्पितपादपम् । कुलं चारित्रहीनेन पुरुषेणेव दह्यते ॥१२॥ वनं सवृक्षापगुल्ममेतत् प्रकाममाहारमिवोपभुज्य । कुशानुसारेण हुताशनोऽसौ नदीमुपस्प्रष्टुमिवावतीर्णः ॥१३॥ द्वितीयः एषएषः, गतो वृक्षाद् वृक्षं विततकुशचीरेण दहनः कदल्या विप्लुष्टं पतति परिणामादिव फलम् । असौ चाग्रे तालो मधुपटलचक्रेण महता चिरं मूले दग्धः परशुरिव रुद्रस्य पतति ॥१४॥ तृतीयः-- हन्त सत्पुरुषरोष इव प्रशान्तो भगवान् हुताशनः । एतदग्नेर्बलं नष्टमिन्धनानां परिक्षयात् । दानशक्तिरिवार्यस्य विभवानां परिक्षयात् ॥ १५ ॥ प्रथमः स्रुग्भाण्डमरणीं दर्भानुपमुझे हुताशनः । व्यसनित्वान्नरः क्षीणः परिच्छदमिवात्मनः ॥ १६ ॥ " - , 11 . प्रथमोऽङ्कः TER भी -- .. -- - द्वितीयः अवनतविटपो नदीपलाशः पवनवशाच्चलितैकपर्णहस्तः। दवदहनविपन्नजीविताना. मुदकमिवैष करोति पादपानाम् ॥ १७ ॥ तृतीयः तदागम्यताम् । वयमपि तावदुपस्पृशामः । उभौ. बाढम् । (सर्वे उपस्पृश्य) प्रथमः अये अयमत्रभवता कुरुराजो दुर्योधनो भीष्म- द्रोणपुरःसरः सर्वराजमण्डलेनानुगम्यमान इत एवाभि- वर्तते । इमे हि, यज्ञेन भोजय महीं जय विक्रमेण रोषं परित्यज भव स्वजने दयावान् । इत्येवमागतकथामधुरं ब्रुवन्तः कुर्वन्ति पाण्डवपरिग्रहमेव पौराः ॥ १८ ॥ तदागम्यताम् । वयमपि तावत् कुरुराजं सम्भावयामः । उभौ- बाढम् । सर्वे जयतु भवान् जयतु । (निष्क्रान्ताः सर्वे) विष्कम्भकः। (ततः प्रविशतो भीष्मद्रोणौ) धर्ममालम्बमानेन दुर्योधनेनाहमेवानुगृहीतो नाम । द्रोणः- पञ्चरान्ने . प . । कुतः, अतीत्य बन्धूनवलङ्घय मित्रा- ण्याचार्यमागच्छति शिष्यदोषः। बालं ह्यपत्यं गुरवे प्रदातु- नँवापराधोऽस्ति पितुर्न मातुः ॥१९॥ भीष्मः - एष दुर्योधनः, अवाप्य रूप्यग्रहणात् समुच्छ्रयं रणप्रियत्वादयशो निपीतवान् । निषेव्य धर्म सुकृतस्य भाजनं स एव रूपेण चिरस्य शोभते ॥२०॥ (ततः प्रविशति दुर्योधनः कर्णः शकुनिश्च) दुर्योधनः "कृतश्रद्धो ह्यात्मा वहति परितोषं गुरुजनो जगद् विश्वस्तं मे निवसति गुणो नष्टमयशः । मृतैः प्राप्यः स्वर्गों यदि कथय (भात्येतदनृतं परोक्षो न स्वर्गो बहुगुणमि(है)वैष फलति ॥ २१ ॥ कर्णः गान्धारीमातः ! न्यायेनागतमर्थमतिसृजता न्याय्य- मेव भवता कृतम् । कुतः, बाणाधीना क्षत्रियाणां समृद्धिः पुत्रापेक्षी वञ्च्यते सन्निधाता। .- । * 'म्ब्य' इत्यक्षरवदिदमक्षरमादर्श भासते। * गान्धारी माता यस्य, तस्य सम्बु. द्विर्गान्धारीमातरिति । मातन्मातृकमातृषु वा" इति वार्तिके बहुव्रीही व्यङः सम्प्रसारण- विकल्पविधायके मातृकमातृशब्दयोनिर्देशात् कपो वैकल्पिकत्वं बोद्धव्यम् । 8 सन्निधाता व्ययं विना धनस्य स्थापयिता।
७ - m m प्रथमोऽङ्कः । विप्रोत्सङ्गे वित्तमावर्त्य सर्व राज्ञा देयं चापमानं सुतेभ्यः ॥ २२ ॥ शकुनिः सम्यगाह गङ्गोपस्पर्शनाद् धौतकल्मषाङ्गोऽङ्गराजः । कर्णः इक्ष्वाकुशच्यातिययातिराम- मान्धातृनाभागनृगाम्बरीषाः । एते सकोशाः पुरुषाः सराष्ट्रा नष्टाः शरीरैः क्रतुभिर्धरन्ते ॥ २३ ॥ सर्वे गान्धारीमातः! यज्ञसमाप्त्या दिष्टया भवान् वर्धते । दुर्योधनः अनुगृहीतोऽस्मि । भो आचार्य ! अभिवादये । द्रोणः- एह्येहि पुत्र! अयमक्रमः । दुर्योधनः अथ का क्रमः । द्रोणः किं न पश्यति भवान् , दैवतं मानुषीभूतमेष तावन्नमस्यताम् । अ(न्ना?न्याया)चरणं मन्ये भीष्ममुत्क्रम्य वन्दितुम् ॥२४॥ भीष्मः - मा मा भवानेवम् । बहुभिः कारणैरपकृष्टोऽहं भवतः । कुतः, अहं हि मात्रा जनितो भवान् स्वयं ममायुधं वृत्तिरपह्नवस्तव । द्विजो भवान् क्षत्रियवंशजा वयं गुरुभवान् शिष्यमहत्तरा वयं ॥ २५ ॥ द्रोणः नोत्सहन्ते महात्मानो ह्यात्मानमपस्तोतुम् । एहि पुत्र! अभिवादयस्व माम्। * धरन्ते ध्रियन्ते जीवन्तीत्यर्थः । स्थितिवृत्तिरिह धातुः । - -- me पञ्चरात्र - दुर्योधनः- आचार्य ! अभिवादये । द्रोणः -- एह्येहि पुत्र ! एवमेवावभृथस्नानेषु खेदमवाप्नुहि । दुर्योधनः- अनुगृहीतोऽस्मि । पितामह ! अभिवादये। भीष्मः- एह्यहि पौत्र ! एवमेव ते बुद्धिप्रशमनं भवतु । दुर्योधनः- अनुगृहीतोऽस्मि । मातुल ! अभिवादये । शकुनिः- वत्स! त्य एवमेव क्रतून् सर्वान् समानीयाप्तदक्षिणान् । राजसूये नृपान् जित्वा जरासन्ध इवानय ॥ २६ ॥ द्रोणः अहो ! आशीर्वचनेऽपि शकुनिरुद्योगं जनयति । अहो ! प्रियविरोधः खल्वयं क्षत्रियकुमारः। दुर्योधनः वयस्य ! कर्ण ! गुरुजनप्रणामावसाने प्राप्तक्रम- मुपभुज्यतां वयस्यविस्रम्भः । कर्णः-गान्धारीमातः! क्रतुव्रतैस्ते तनु गात्रमेतत् सोढुं बलं शक्ष्यसि पीडयानि । अन्तस्त्वनामन्त्र्य न धर्पयामि *राजर्षिधीराद् वचनाद् भयं मे ॥ २७ ॥ दुर्योधनः-- एवमेव ते बुद्धिरस्तु । द्रोणः पुत्र ! दुर्योधन ! एष महेन्द्रप्रियसखो भीष्मको ना- म भवन्तं सभाजयति । .am-women-u-ram-mawat * राजर्षिधीराद राजयुचित्तधारत्नयुक्तात् । वचनात् तृमिशान्तिसम्पद्रमणीयात् 'कृतश्रद्धो खात्मेत्यादिस्पात् । m - प्रथमोऽङ्कः । दुर्योधनः- स्वागतमार्याय । अभिवादये । भीष्मः-- पौत्र ! दुर्योधन ! एप दक्षिणापथपरिघभूतो भूरिश्र- वा नाम भवन्तं सभाजयिप्यति । दुर्योधनः स्वागतमार्याय । द्रोणः पुत्र ! दुर्योधन ! भवतो यज्ञं सभाजयता वासुभद्रेण प्रेषितोऽभिमन्युभवन्तं समाजयति । शकुनिः वत्स ! दुर्योधन ! एष जरासन्धपुत्रः सहदेवो भ- वन्तमभिवादयति । दुर्योधनः- एह्येहि वत्स ! पितृसदृशपराक्रमो भव । सर्वे एतत् सर्वराजमण्डलं भवन्तं समाजयति । दुर्योधनः- अनुगृहीतोऽस्मि । भोः ! किन्नुखलु समागते स- बराजमण्डले विराटो नागच्छति । शकुनिः- प्रेषितोऽस्य मया दूतः, शङ्के पथि वर्तत इति । दुर्योधनः भो आचार्य! धर्मे धनुषि चाचार्य ! प्रतिगृह्यतां दक्षिणा। द्रोणः- दक्षिणेति । भवतुभवतु । व्यपश्र(मिमयिष्ये तावद् भवन्तम् । दुर्योधनः----कथमाचार्योऽपि व्यपथ(मिमयि)प्यते । भीष्मः भोः! किन्नुखलु प्रयोजनं, यदा- पीतः सोमो बाल्यदत्तो नियोगा- च्छत्रच्छाया सेव्यते ख्यातिरस्ति । किं तद् द्रव्यं किं फलं को विशेषः क्षत्राचार्यो यत्र विप्रो दरिद्रः॥२८॥ . , Pramme १० पञ्चरात्रे दुर्योधनः आज्ञापयतु भवान् किमिच्छति । किमनुतिष्ठामि । द्रोणः-----पुत्र ! दुर्योधन ! कथयामि । दुर्योधनः-----किमिदानी भवता विचार्यते, प्राणाधिकोऽस्मि भवता च कृतोपदेशः शूरेषु यामि गणनां कृतसाहसोऽस्मि । स्वच्छन्दतो बद किमिच्छसि किं ददानि हस्ते स्थिता मम गदा भवतश्च सर्वम् ॥ २९ ॥ द्रोणः पुत्र ! ब्रवीमि खलु तावत् । बाप्पवेगस्तु मां बा- धते। सर्वे-- कथमाचार्योऽपि बाष्पमुत्सृजति । भीष्मः ----पौत्र ! दुर्योधन ! अफलस्ते परिश्रमः। दुर्योधनः---कोऽत्र। (प्रविश्य) भटः जयतु महाराजः। दुर्योधनः----आपस्तावत। भटः यदाज्ञापयति महाराजः। (निष्क्रम्य प्रविश्य) जयतु महा- राजः। इमा आपः। दुर्योधनः ----आनय । (कलशं गृहीबा) भो आचार्य ! अश्रुपातो- च्छिष्टस्य क्रियतां शौचम् । द्रोणः --- भवतुभवतु । मम कार्यक्रियैव मुखोदकमस्तु । दुर्योधनः-- हा धिग, यदि विमृशासि पूर्वजिह्मतां मे यदि च समर्थयसे न दास्यतीति ।
प्रथमोऽङ्कः। - . (सोद्वेगम्) मा तावद - शरशतकठिनं प्रयच्छ हस्तं सलिलमिदं करणं प्रतिग्रहाणाम् ॥ ३०॥ द्रोणः हन्त लब्धो मे हृदयविश्वासः । पुत्र! श्रूयतां, येषां गतिः कापि निराश्रयाणां संवत्सरैर्दादशभिर्न दृष्टा। त्वं पाण्डवानां कुरु संविभाग- मेषा च भिक्षा राम दक्षिणा च ॥ ३१ ॥ शकुनिः भोः! उपन्यस्तस्य शिष्यस्य विश्वस्तस्य च गौरवे । य(द)प्रस्तुतमुत्पाद्य युक्तेयं धर्मवञ्चना ॥ ३२ ॥ द्रोणः -- कथं धर्मवञ्चनेति । मा तावद् भो गान्धारविषयवि- स्मित! शकुने! त्वदनार्यभावात् सर्वलोकमनार्यमिति मन्यसे । हन्त भोः! भ्रातृणां पैतृकं राज्यं दीयतामिति वञ्चना । किं परं याचितैर्दत्तं बलात्कारेण तैर्हतम् ॥ ३३ ॥ सर्वे--कथं बलात्कारेण नाम। भीष्मः ---- पौत्र! दुर्योधन! *अवभृथस्नानमात्रमेव खलु तावत् । मित्रमुखस्य शत्रोः शकुनेर्वचनं न श्रोतव्यम् । पश्य पौत्र! यत् पाण्डवा द्रुपदराजसुतासहायाः कान्ताररेणुपरुपाः पृथिवीं भ्रमन्ति । पर TONE न पुनीतमिदानी वनत इत्यर्थः । Pom पश्चरात्रे (तीय)त् त्वं च तेषु विमुखस्त्वयि ते च वामा- स्तत् सर्वमेव शकुनेः परुषावलेपः ॥ ३४ ॥ दुर्योधनः- भवतु, एवं तावदाचार्य ! पृच्छामि । द्रोणः पुत्र! कथय। दुर्योधनः- यत् पुरा ते सभामध्ये राज्ये माने च धर्षिताः। बलात्कारसमथैस्तैः किं रोपो धारितस्तदा ॥ ३५ ॥ द्रोणः-अत्रेदानी धर्मच्छलेन वञ्चितो द्यूताश्रयवृत्तियुधिष्ठिरः ' प्रष्टव्य येन भीमः सभास्तम्भं तुलयन्नेव वारितः । यद्येकस्मिन् विमुक्तः स्यानास्माञ्छकुनिराक्षिपेत् ॥ ३६॥ भीष्मः अन्यत् प्रस्तुतमन्यदापतितम् । भी आचार्य ! का- यमत्र गुरुतरं, न कलहः । द्रोणः मात्र कार्द दीनं कार्य, कलह एव भवतु । भीष्मः प्रसीदत्वाचार्यः । पश्य पौत्र! ये दुर्बलाश्च कृपणाश्च निराश्रयाश्च त्वत्तश्च (शर्म) मृगयन्ति न गर्वयन्ति । ज्येष्ठो भवान् प्रणयिनस्त्वयि ते कुटुम्बे तान् धारयिष्यसि मृगैः सह वर्तयन्तु ॥ ३७ ॥ शकुनिः- वर्तयन्तुवर्तयन्तु। - क . धारविष्यास, वर्तयन्तु इन्युभयत्रापि प्रश्नवातः । तथाच तान् कुटुम्बे स्वीयत्वेन कि प्रहीष्यसि, किंवा त्यापेक्षिनास्ने मृगः सह वन वृत्तिमाश्रयन्ताम् इति प्रश्नार्थः । द प्रथमोऽङ्कः। ।। -- . कर्णः भो आचार्य ! अलममर्षेण । दुर्योधनो हि नाम, हितमपि परुषार्थ रुष्यति श्राव्यमाणो वरपुरुषविशेषं नेच्छति स्तूयमानम् । गतमिदमवसानं रक्ष्यतां शिष्यकार्य गज इव बहुदोषो मार्दवेनैव बाह्यः ॥ ३८ ॥ द्रोणः वत्स! कर्ण! तेजस्वि ब्राह्मण्यम् । काले सम्बोधि- तोऽस्मि । एषोऽहं भवच्छन्दमनुवर्ते। पुत्र! दुर्योधन ! अहं तव प्रभावी ननु । भीष्मः एष इदानीं मार्गेणारब्धः। सान्त्वं हि नाम दुर्विनी- तानामौषधम् । दुर्योधनः--न ममैव, कुलस्यापि मे भवान् प्रभुः । द्रोणः एतत् तवैव युक्तम् । तत् पुत्र! वं वञ्च्यसे यदि मया न तवात्र दोष- स्त्वां पीडयामि यदि वास्तु तवैष लामः। भेदाः परस्परगता हि महाकुलानां धर्माधिकारवचनेषु शमीभवन्ति ॥ ३९ ॥ दुर्योधनः -तेन हि समर्थयितुमिच्छामि । द्रोणः -- पुत्र ! केन समर्थयितुमिच्छसि । भीष्मेण कर्णेन कृपेण केन किं सिन्धुराजेन जयद्रथेन । किं द्रौणिनाहो विदुरेण सार्ध पित्रा स्वमात्रा वद पुत्र ! केन ॥ ४० दुर्योधनः- नहि नहि , मातुलेन । वाक्यादी (स्वगतम्) इत्यपेक्षितम् । awr topdatApAnimnepal, पञ्चरात्रे - -- maam PATI वत्स! द्रोणः शकुनिना। *हन्त विपन्नं कार्यम् । दुर्योधनः- मातुल ! इतस्तावत्। व्यस्य ! कर्ण ! इतस्तावत् । द्रोणः भवतु, एवं तावत् करिष्ये । 'वत्स ! गान्धारराज! इतस्तावत्। शकुनिः अयमस्मि । द्रोणः क्रोधप्रायं वयो जीर्ण क्षन्तव्यं वटुचापलम् । अस्य रूक्षस्य वचसः परिष्वङ्गः शमीक्रिया ॥४१॥ भीष्मः- (मात्मगतम्) एष शिष्यस्य वात्सल्याच्छकुनि याचते गुरुः । एवं सान्वीकृतो ह्येष नैव मुञ्चति जिह्मताम् ॥ ४२ ॥ शकुनिः --- (आत्मगतम्) अहो शठः खल्वाचार्यः स्वकार्यलोभा- न्मां सान्त्वयति । (सर्वे परिक्रम्योपविशन्ति) दुर्योधनः- मातुल ! पाण्डवानां राज्याध प्रति को निश्चयः। शकुनिः न दातव्यमिति मे निश्रयः । दुर्योधनः --- दातव्यमिति वक्तुमर्हति मातुलः । शकुनिः- यदि दातव्ये राज्ये किमरभाभिः सह मन्त्रयसे। ननु सर्वमेव प्रदीयताम्। दुर्योधनः -वयस्य! अङ्गराज ! भवानिदानी न किञ्चिदाह । कर्णः - इदानीं किमभिधास्यामि , रामेण भुक्तां परिपालितां च सुभ्रातृतां न प्रतिषेधयामि । (स्वगतम् / इत्यपेक्षितम् । + (प्रकाशम् ) इन्यपेक्षितम् । | " । . -- Pariww- . - प्रथमोऽङ्कः। १५ KAR हन्त भोः! की क्षमाक्षमत्वे तु भवान् प्रमाण सञ्जामकालेषु वयं सहायाः ॥ ४३ ॥ दुर्योधनः- मातुल! बलवत्प्रत्यमित्रोऽनुपजीव्यश्च कश्चित् कुदे- शश्चिन्त्यताम् । तत्र बसेयुः पाण्डवाः । शकुनिः शून्यमित्यभिधास्यामि कः पार्थाद् बलवत्तरः । ऊषरेष्वपि सस्यं स्याद् यत्र राजा युधिष्ठिरः ॥ ४४ ॥ दुर्योधनः--अथेदानी , गुरुकरतलमध्ये तोयमावर्जितं में श्रुतमिह कुलवृद्धैर्यत् प्रमाणं पृथिव्याम् । तदिदमपनयो वा वञ्चना वा यथा वा भवतु नृप ! जलं तत् सत्यमिच्छामि कर्तुम् ॥४५॥ शकुनिः-- अनृतवचनान्मोचयितव्यो भवान् ननु । दुर्योधनः -अथकिम् । शकुनि-तेन हि इतस्तावत् । (उपसृत्य) भो आचार्य ! इहा- त्रभवान् कुरुराजो भवन्तं विज्ञापयति । द्रोणः वत्स! गान्धारराज! अभिधीयताम् । शकुनिः- यदि पञ्चरात्रेण पाण्डवानां प्रवृत्तिरुपनेतव्या, राज्य- स्याई प्रदास्यति किल । समानयतु भवानिदानीम् । द्रोणः मा तावद् भोः! (यैःये) कर्तुकामैश्छलनं भवद्भिः संवत्सरैर्दादशभिर्न दृष्टाः। Inameswoman 11 १६ সুষ । । ते पञ्चरात्रेण मयोपनेया वरं ह्यदन्तं विशदाक्षरेण ॥ ४६ ॥ भीष्मः----पौत्र! दुर्योधन ! अच्छलो धर्मः। वयमपि तावद- स्मिन्नर्थे प्रीताः स्मः । पश्य पौत्र! वर्षेण वा वर्षशतेन तेषां त्वं पाण्डवानां कुरु संविभागम् । तस्मात् प्रतिज्ञां कुरु वीर! सत्यां सत्या प्रतिज्ञा हि सदा कुरूणाम् ॥ ४७ ॥ दुर्योधनः एष एव मे निश्चयः। द्रोणः (आत्मगतम्) अद्य में कार्यलोभेन हनूमत्त्वं गता स्पृहा । लङ्घयित्वार्णवं येन नष्टा सीता निवेदिता ॥ ४८ ॥ तत् कुतोनुखलु पाण्डवानां प्रवृत्तिरुपनेतव्या । (प्रविश्य) भट: जयतु महाराजः। विराटनगराद् दूतः प्राप्तः । सर्वे शीघ्रं प्रवेश्यताम् । यदाज्ञापयथ । (निष्क्रान्तः) (प्रविश्य) जयतु महाराजः । सर्वे किमागतो विराटेश्वरः। भटः विषादेनावृतो नोपगच्छति, यत्तत्सम्बन्धि सन्निकृष्टं कीचकानां भ्रातृशतं, । . mmmmpMAL mom- Mhome- प्रथमोऽङ्कः। १७ ! - - - कथं भवान् रात्रौ छन्नेन केनापि बाहुभ्यामेव हिंसितम् । दृश्यते हि शरीराणामशस्त्रजनितो वधः ॥ १९ ॥ इति । भीष्मः कथमशस्त्रेणेति । *भो आचार्य ! अभ्युपगम्यता पञ्चरात्रम् । द्रोणः किमर्थम् । भीष्मः भीमसेनस्य लीलैषा सुव्यक्तं बाहुशालिनः। योऽस्मिन् भ्रातृशते रोषः स तस्मिन् फलितः शते॥ ५० ॥ द्रोणः जानाति । भीष्मः- कथं पण्डित ! कूलेषु भ्रान्तानां बालचापलम् । नाभिजानन्ति वत्सानां शृङ्गस्थानानि गोवृषाः॥५१॥ द्रोणः - गोवृषा इति । हन्त सिद्ध कार्यम् । पुत्र! दुर्योधन ! अस्तु पञ्चरात्रम्। दुर्योधनः--अथकिम् । द्रोणः भोभो यज्ञमनुभवितुमागता राजानः! शृण्वन्तुच- ण्वन्तु भवन्तः । इहात्रभवान् कुरुराजो दुर्योधनः, न, न, मातुलसहितः यदि पाण्डवानां प्रवृत्तिरुपनेतव्या, राज्य- स्यार्ध प्रदास्यति किल । ननु पुत्र! दुर्योधनः-- अथकिम्। द्रोणः एतद् द्विस्त्रि. सम्प्रधार्यताम् । शकुनिः-- काले ज्ञास्यामि । * (जनान्तिकम् ) इत्यपेक्षितम् । (प्रकाशम् ) इत्यपेक्षितम् । measana -- wamwome ।
. पश्चराने Ramma- द्रोणः ननु गाङ्गेय! भीष्मः (आत्मगतम्) आचार्यस्य यदा हर्षों धैर्यमुत्कम्य सूचितः। शङ्के दुर्योधनेनैष वञ्च्यमानेन वञ्चितः ॥ ५२ ॥ (प्रकाशम्) पौत्र ! दुर्योधन ! अस्ति मम विराटेनाप्रकाशं वैरम् , अथ भवतो यज्ञमनुभवितुमनागत इति । तस्मात् क्रियतां तस्य गोग्रहणम् । ब्राह्मणार्जवबुद्धे ! धर्षिता रथशब्देन रोषमेष्यन्ति पाण्डवाः । अस्ति तेषां कृतज्ञत्वमिष्टं गोग्रहणे स्थितम् ॥ ५३ ॥ (प्रविश्य) भटः *सज्जाः खलु रथा वाहाः प्रवेशाभिमुखाय ते । दुर्योधनः एभिरेव रथैः शीघ्रं क्रियतां तस्य गोग्रहः । गदा यज्ञप्रशान्ता च पुनमें करमेष्यति ॥ ५४॥ द्रोणः तस्मान्मे रथमानयन्तु पुरुषाः, शकुनिः हस्ती ममानीयतां, कर्णः- भारार्थ भृशमुद्यतैरिह हयैर्युक्तो रथः स्थाप्यताम् । भीष्मः बुद्धिर्मे त्वरते विराटनगरं गन्तुं धनुल्यतां सर्वे- मुक्त्वा चापमिहैव तिष्ठतु भवानाज्ञाविधेया वयम् ॥५५॥ -- A d A - (जनान्तिकम् ) इत्यपेक्षितम् । * पद्यगन्धीदं वाक्यं स्यात् ।
प्रथमोऽङ्कः।
१९
व
द्रोणः पुत्र ! दुर्योधन ! आवां तव युद्धे पराक्रमं द्रष्टुमिच्छावः।
दुर्योधनः- यदभिरुचितं भवते ।
द्रोणः वत्स! गान्धारराज! अस्मिन् गोग्रहणे तव खलु
प्रथमरथः।
शकुनिः बाढम् । प्रथमः कल्पः ।
(निष्क्रान्ताः सर्वे)
प्रथमोऽङ्कः।
अथ द्वितीयोऽङ्कः। 1 (ततः प्रविशति वृद्धगोपालकः) RANA वृद्धगोपालकः (क) गावो मे अहीणवच्छा होन्तु । अवि- हवा अ गोवजुवदीओ होन्तु। णो ळाआ विळाडो एक- च्छत्तप्पुहुवीपदी होदु । महाळाअष्ष विळाडश्श वष्ष- वडणगोप्पदाणणिमित्तं इमषि णअळोववणवीहीए आ- अन्तुं गोधणं पव्वे च किदमङ्गळमोदआ गोवदाळआ दाळिआ अ दाव । एषु ज्जेष्ठं* गच्छिअ अणुभविष्षम् । (विलोक्य) किण्णुहु एषो वाअघो षुक्खळुक्खं आळुहिअ षुक्खषाखाणिघट्टिअतुण्डं आदिचाहिमुहं विष्षळं वि- ळवदि । पन्ती होदु षन्ती होदु अह्माणं गोधणष्ष अ। जाव एषु जेष्ठं गच्छिअ गोवदाळआणं दाळिआणं वा- हळामि । गोमित्तअ! गोमित्तअ ! " (क) गावो मेऽहीनवत्सा भवन्तु । अविधवाश्च गोपयुवतयो भवन्तु । अस्माकं राजा विराट एकच्छत्रपृथिवीपतिर्भवतु । महाराजस्य विराटस्य वर्षवर्धनगोप्रदाननिमि- तमस्यां नगरोपवनवीथ्यामायान्तु गोधनं सर्वे च कृतमझलमोदका गोपदारका दारि- काश्च तावत् । एषु ज्येष्टयं गत्वानुभविष्यामि । किंनुखल्वेष वायसः शुष्कवृक्षमारुह्य शुष्कशाखानिघटिततुण्डमादित्याभिमुखं विस्वरं विलपति । शान्तिर्भवतु शान्तिर्भवतु अस्माकं गोधनस्य च । यावदेषु ज्येष्ट्यं गत्वा गोपदारकाणां दारिकाणां व्याहरामि । गोमित्रक! गोमित्रक! * 'जे' इति स्यात् ।
द्वितीयोऽः | (प्रविश्य) गोमित्रकः-- (क) मातुळ ! वन्दामि । वृद्धगोपालकः-(ख)षन्ती होदुषन्ती होदु अमाअंगोधणष्ष । अळे गोमित्तअ! महाळाजष्ष विळाडश्श वष्षवडण- गोप्पदाणणिमित्तं इमष्षि णअळोववणवीहीए आअन्तुं गोधणं षव्वे च किदमङ्गळमोदआ गोवदाळआ दाळि- आ अ । अळे गोमित्तअ! गोवदाळआणं दाळिआणं वाहळ । गोमित्रकः -- (ग) जं मादुळो आणवेदि । गोळक्खिणिए ! घिदपिण्ड ! षामिणि! वषभदत्त ! कुम्भदत्त ! महिषदत्त! आअच्छहआअच्छह सिग्छ । (ततः प्रविशन्ति सर्वे) सर्वे ---- (घ) मादुळ ! वन्दामो । वृद्धगोपालकः --- (ङ) षन्ती होदु षन्ती होदु अह्माणं गोव- (क) मातुल! वन्दे। (ख) शान्तिर्भवतु शान्तिर्भवतु अस्माकं गोधनस्य च । अरे गोमित्रक! महारा- जस्य विराटस्य वर्षवर्धनगोप्रदाननिमित्तमस्यां नगरोपवनवीथ्यामायान्तु गोधनं सर्वे च कृतमङ्गलमोदका गोपदारका दारिकाश्च । अरे गोमित्रक ! गोपदारकाणां दारिकाणां व्याहर। (ग) यन्मातुल आज्ञापयति । गोरक्षिणिके! घृतपिण्ड ! स्वामिनि ! वृषभदत्त ! कुम्भदत्त ! महिषदत्त! मागच्छतागच्छत शीघ्रम् । (घ) मातुल! वन्दामहे । (ड) शान्तिर्भवतु शान्तिर्भवतु अस्माकं गोपदारकाणां दारिकाणां च । महाराजस्य पञ्चराने - P- दाळआणं दाळिआणं (अ)।महाळाअष्ष विळाडष्प वष्ष- वडणगोप्पदाणणिमित्तं इमर्षि णअळोववणवीहीए आअन्तुं गोधणं । तत्तअं वेळं गाअन्तो णच्चन्तो होम । सर्वे (क) जं मादुळो आणवेदि । (सर्वे नृत्यन्ति) वृद्धगोपालकः (ख) हीही षुटु णच्चिदम् , षुङ गाइदं । जाव अहं पि णचेमि । सर्वे--- (ग) हाहा मादुळ ! अदिमहन्तं ळेणुं उप्पदिदो । वृद्धगोपालकः--(घ) ण हु ळे' एव, पंक्खुदुन्दुभिघोषं । उप्पदिदो। सर्वे--(ड) दिवाचन्दप्पभापण्डुळजोहाव(गु)ण्ठिदो षुदमण्डळु षुय्यो अत्थि अ णत्थि अ । गोमित्रकः (च) हाहा मादुळ ! एदे के वि मणुष्षा दहि- पिण्डपण्डरेहि छत्तेहि घोडअषअडिअं आळुहिअ पव्वं घोषु विद्दवन्ति चोळा। . विराटस्य वर्षवर्धनगोप्रदाननिमित्तमस्यां नगरोपवनवीध्यामायातु गोधनम् । तावती वेलां गायन्तो नृत्यन्तो भवामः | (क) यन्मातुल आज्ञापयति । (ख) हीही सुष्ठु नर्तितं , सुष्टु गीतं, यावदहमपि नृत्यामि । (ग) हाहा मातुल! अतिमहान् रेणुरुत्पतितः । (घ) न खलु रेणुरेव, शङ्खदुन्दुभिधोष उत्पतितः । (ङ) दिवाचन्द्रप्रभापाण्डुरज्योत्सावगुण्ठितः शतमण्डलः सूर्योऽस्ति च नास्ति च । (च) हाहा मातुल ! एते केऽपि मनुष्या दधिपिण्डपाण्डरैश्छत्रै|टकशकटिकामा- रुह्य सर्व घोषं विद्रवन्ति चोराः ।
. द्वितीयोऽङ्कः । २३ वृद्धगोपालकः ---- (क) हीही परषंपादा उद्विदा । दारआ! दाळिआ! पिग्धं पक्कणं पविषह । सर्वे ~~~ (ख) जं मादुळो आणवेदि । (निष्क्रान्ताः) वृद्धगोपालकः --- (ग) हाहा चिट्ठहचिट्ठह । पहरहपहरह । गलह- गह्नह । इमं वुत्तन्तं महाळाअविळाडश्श णिवेदइष्षामो। (निष्क्रान्त:) प्रवेशकः। - E (ततः प्रविशति भटः) भटः - भोभो निवेद्यतांनिवेद्यतां महाराजाय विराटेश्वराय- एता हि दस्युकर्मप्रच्छन्नविक्रमैर्धार्तराष्ट्रह्रियन्ते गाव इति । तत्र हि, द्रुतैश्च वत्सैर्व्यथितैश्च गोगणै- निरीक्षणत्रस्तमुखैश्च गोवृषैः । कृतार्तनादाकुलितं समन्ततो गवां कुलं शोच्यमिहाकुलाकुलम् ॥१॥ इति । (नेपथ्ये) किं धार्तराष्टैरिति । भट: आर्य! अथकिम् । (प्रविश्य) काञ्चुकीयः- सदृशमेतद् भ्रातृजनेष्वपि द्रोहिणाम् । (क) हीही शरसंपाता उत्थिताः । दारकाः! दारिकाः! शीघ्र पक्कणं प्रविशत । (ख) यन्मातुल भाज्ञापयति । (ग) हाहा तिष्ठततिष्ठत । प्रहरतप्रहरत । गृह्णीतगृह्णीत । इमं वृत्तान्तं महाराज- विराटाय निवेदयिष्यामः। -- -- पञ्चरात्रे सज्जैश्चापैर्बद्धगोधाङ्गुलित्रा वर्मच्छन्नाः कल्पितस्यन्दनस्थाः। वीर्योत्सित्ता युद्धसज्जाः कृतास्त्रा राज्ञो वैरं गोषु निर्यातयन्ति ॥ २॥ जयसेन ! जन्मनक्षत्रक्रियाव्यापृतस्य महाराजस्य ता- वदकालनिवेदनं मन्युमुत्पादयति । तस्मात् पुण्याहाव- साने निवेदयिष्ये। भट: आर्य! अतिपाति कार्यमिदं, शीघ्रं निवेद्यताम् । काञ्चुकीयः इदं निवेद्यते। (ततः प्रविशति राजा) em- , मा तावद् व्यथितविकीर्णबालवत्सा गावो मे रथरवशङ्कया ह्रियन्ते । पीनांसश्चलवलयः सचन्दनाद्रों निर्लज्जो मम च करः कराणि* भुते ॥ ३ ॥ जयसेन! जयसेन! (प्रविश्य) भटः जयतुजयतु महाराजः। राजा अलं महाराजशब्देन । अवधूतं मे क्षत्रियत्वम् । उच्यतां रणविस्तरः। -- * कराणि अनविशेषान् । 'मिस्सा नी दीदिविर्न घण् । पुनपुंसकयोश्चोरं करमादायमित्यपि' इति वैजयन्ती।
द्वितीयोs २५ तेन हि, भटः-न विस्तरार्हाणि विप्रियाणि । एष समासः, एकवर्णेषु गात्रेषु गवां स्यन्दनरेणुना। कशापातेषु दृश्यन्ते नानावर्णविभक्तयः ॥ ४ ॥ राजा धनुरुपनय शीघ्रं कल्प्यतां स्यन्दनो मे मम गतिमनुयातुच्छन्दतो यस्य भक्तिः । रणशिरसि गवार्थे नास्ति मोघः प्रयत्नो निधनमपि यशः स्यान्मोक्षयि(ला) तु धर्मः ॥ ५ ॥ भट: यदाज्ञापयति महाराजः । (निष्क्रान्तः ) भोः! किन्नुखलु दुर्योधनस्य मामन्तरेण वैरम् । आ यज्ञमनुभवितुमनागत इति । कथमनुभवामि । कीच- कानां विनाशेन वयमुन्नीतसन्तापाः संवृत्ताः। अथवा परोक्षमपि पाण्डवानां स्निग्ध इति सर्वथा योद्धव्यम् । हस्तिनपुरनिवासाच्छीलज्ञो भगवान् दुर्योधनस्य । अथवा, कामं दुर्योधनस्यैष न दोषमभिधास्यति । अर्थित्वादपरिश्रान्तः पृच्छत्येव हि कार्यवान् ॥ ६॥ कोऽत्र। (प्रविश्य) भट: जयतु महाराजः। राजा भगवांस्तावदाहूयताम् । यदाज्ञापयति महाराजः। (निष्क्रान्तः) (ततः प्रविशति भगवान्) भगवान् - (सर्वतो विलोक्य) भोः! किन्नुखल्विदम् ।
। । . २६ ঘাস P- 1 - - गजेन्द्राः कल्प्यन्ते तुरगपतयो वर्मरचिताः रथाः सानूकर्षाः कृतपरिकरा योधपुरुषाः। समुद्योगं दृष्ट्वा भयमननुभूतं स्पृशति मां नि खल्वात्मन्यस्तं कृतमतिरहं ते तु चपलाः॥७॥ राजा जयतु भगवान् जयतु। विराटो भगवन् ! अभिवादये। भगवान् - स्वस्ति। विराटः -- भगवन् ! एतदासनमास्यताम् । भगवान् (उपविश्य) भो राजन् ! उद्योगः प्रस्तुतः कस्माच्छ्रीन सन्तोषमिच्छति । पीडयिष्यति सोत्सेकान् पीडितान् मोक्षयिष्यति ॥ ८ ॥ राजा भगवन् ! गोग्रहणादवमानितोऽस्मि । भगवान् -केन कारणेन । राजा-धार्तराष्ट्रः । भगवान् -- (आत्मगतम्) भोः कष्टम् , एकोदकत्वं खलु नाम लोके मनविनां कम्पयते मनांसि। वैरप्रियस्तैर्हि कृतेऽपराधे यत्सत्यमस्माभिरिवापराद्धम् ॥९॥ "स NIM * अनुको रथस्याधोधरणदारु तेन सहिताः । 'उपमर्गस्य घञ्यमनुष्ये बहुलम्' (६. ३. ११२) इति । S न खल्वात्मविषयकं मे किश्चिद् भयं, यतोऽहमचपलबुद्धिः । ते तु मम भ्रातरक्षपला युद्ध- कण्डल बात कदाचिद युद्धसंरम्भेण स्वात्मानं प्रकाशयेयुरिति तदाश्रयं मे भयमस्तीति भावः । "
-
द्वितीयोऽकः
२७
विराटः भगवन् ! किमिदानी विचार्यते।
भगवान्
न खलु किञ्चित् । तेषामुत्सुकः।
राजा-अद्यप्रभृति निभृता भविष्यन्ति । यदि शक्तोऽपि
युधिष्ठिरो मर्षयति , अहं न मर्पयामि ।
भगवान्-(आत्मगतम्)
अद्येदानी पर्णशय्या (च) भूमौ
राज्यभ्रंशो द्रौपदीधर्षणं वा।
वेषान्यत्वं संश्रितानां निवासः
सर्व श्लाघ्यं यत् क्षमा ज्ञायते मे ॥१०॥
(प्रविश्य)
जयतु महाराजः।
राजा-अथ किं चेष्टते दुर्योधनः ।
भट: न खलु दुर्योधन एव, पृथिव्यां राजानः सर्वे प्राप्ताः ।
द्रोणश्च भीष्मश्च जयद्रथश्च
शल्योऽङ्गराजः शकुनिः कृपश्च ।
तेषां रथोत्कम्पचलत्पताकै-
भग्ना ध्वजैरेव वयं न बाणैः ॥११॥
राजा (उत्थाय कृताञ्जलिः) कथं तत्रभवान् गाङ्गेयोऽपि प्राप्तः।
भगवान् - साधु धर्षितेनापि नातिकान्तः समुदाचारः ।
[(आत्मगतम्)] भोः,
किमर्थ खलु सम्प्राप्तः कुरूणां गुरुरुत्तमः।
शङ्के तीर्णा प्रतिज्ञेति स्मारणं क्रियदे मम ॥ १२ ॥
२८ पञ्चरात्रे कोऽत्र। . । , . -- । - * (प्रकाशम्) राजा (प्रविश्य) भटः जयतु महाराजः। विराटः -सूतस्तावदाहृयताम् । भटः - यदाज्ञापयति महाराजः । (निष्क्रान्तः) (प्रविश्य) जयत्वायुष्मान् । विराटः रथमानय शीघ्रं मे श्लाघ्यः प्राप्तो रणातिथिः । तोषयिष्ये शरैर्भाप्म जेष्यामीत्यमनोरथः ॥ १३ ॥ सूतः यदाज्ञापयत्यायुष्मान् । आयुष्मन् ! रिपूणां सैन्यभेदेषु यस्ते परिचितो रथः । रथचर्या बहिष्कर्तुं तमास्थायोत्तरो गतः ॥ १४ ॥ विराटः -- कथं निर्यातः कुमारः। भगवान् - भो राजन् ! संवार्यतां संवार्यतां कुमारः। अगणितगुणदोषो युद्धतीक्ष्णश्च बाल्या- न च दहति न कश्चित् सन्निकृष्टो रणाग्निः। अथच परिहरन्ते धार्तराष्ट्रा न किञ्चि- न खलु परिभवात् ते युद्धदोषान् ब्रवीमि ॥१५॥ राजा तेन हि शीघ्रमन्यो रथः कल्प्यताम् । सूतः यदाज्ञापयत्यायुप्मान् । राजा-अथवा एहि तावत् । सूतः- आयुष्मन् ! अयमस्मि । अत्र कतिपयवाक्यभ्रंश इव भाति । ton- द्वितीयोऽङ्कः । - + - - राजा त्वमिदानी कुमारस्य किं न वाहितवान् रथम् । अनुज्ञातोऽसि किं तेन न राज्ञां सारथिर्भवान् ॥१६॥ सूतः-प्रसीदत्वायुष्मान् । रथं (सं?)कल्पयित्वा तु सूतसमुदा- चारेणोपस्थितः खल्वहम् । कुमारेण, किन्नु तत्परिहासार्थ किन्नु तत्रास्ति कौशलम् । मामतिक्रम्य सारथ्ये विनियुक्ता बृहन्नला ॥ १७ ॥ भगवान् राजन् ! अलमलं सम्भ्रमेण । यदि स्वचक्रोडतरेणुदुर्दिनं रथं समास्थाय गता बृहन्नला । परान् क्षणैर्ने मिरवैर्निवारयन् विनापि बाणान् रथ एव जेष्यति ॥ १८ ॥ राजा तेन हि शीघ्रमन्यो रथः कल्प्यताम् । सूतः यदाज्ञापयत्यायुष्मान् । (निष्क्रान्तः) (प्रविश्य) भट:-भग्नः खलु कुमारस्य रथः । राजा कथं भग्नो नाम । श्रोतुमर्हति महाराजः। बहुभिः समराभिज्ञैराच्छिन्नोऽश्वपथः परैः । भग्नो (वा)हनलोभेन श्मशानाभिमुखो रथः ॥ १९ ॥ भगवान्- (आत्मगतम्) आः अत्र खलु गाण्डीवम् । (प्रकाशम् ) भो राजन्! ---- Mmmm - पञ्चरात्रे MA निमित्तं किञ्चिदुत्पन्नं श्मशानाभिमुखे रथे । धार्तराष्ट्राः स्थिता यत्र श्मशानं तद् भविष्यति ॥ २० ॥ भगवन् ! अकाले स्वस्थवाक्यं मन्युमुत्पादयति । भगवान् --- अलं मन्युना । कदाचिदनृतं नोक्तपूर्वम् । राजा-आ अस्त्येतत् । गच्छ भूयो ज्ञायतां वृत्तान्तः । यदाज्ञापयति(आयुष्मान् ? महाराजः)। (निष्क्रान्तः) राजा को नु खल्वेष सहसा कम्पयन्निव मेदिनीम् । (*गदिस्रोत इवाविडो?) क्षणात् संवर्तते ध्वनिः ॥२१॥ ज्ञायतां शब्दः। (प्रविश्य) भटः जयतु महाराजः। श्मशानान्मुहूर्तविश्रान्ततुरगेण कुमा- रेण तु। भगवान् एष मामनृतयादिनं न कुर्यात् । भटः कृता नीला नागाः शरशतनिपातेन कपिला हयो वा योधो वा न वहति न कश्चिच्छरशतम् । शरैः स्तम्भीभूताः शरपरिकराः स्यन्दनवराः शरैश्छन्ना मार्गाः स्रवतिमा धनुरुग्रां शरनदीम् ॥ २२॥ 4 - भगवान् - (आत्मगतम्) mmad * यदि स्रोत इवाविद्धम्' इति स्यात् । अन्तर्भावितण्यर्थोऽत्र नवतिः । va - द्वितीयोऽ - 7 एतदक्षयतृणीत्वं येन शकस्य खाण्डवे । यावत्यः पतिता धारास्तावन्तः प्रेषिताः शराः ॥ २३ ॥ राजा अथ परेष्विदानी को वृत्तान्तः । भट: अप्रत्यक्षं हि तत्र मे । प्रवृत्तिपुरुषाः कथयन्ति- धनुर्घोषं द्रोणस्तदिदमिति बुड्वा प्रतिगतः स्वजे बाणं दृष्ट्वा कृतमिति न भीष्मः प्रहरति । शरैर्भग्नः कर्णः किमिदमिति चान्ये नृपतयो भयेऽप्येको बाल्यान्न भयमभिमन्युर्गणयति ॥२४॥ भगवान् - कथमभिमन्युः प्राप्तः । भो राजन् ! युध्यते यदि सौभद्रस्तेजोग्निवंशयोईयोः । सारथिः प्रेष्यतामन्यो विक्लबान बृहन्नला ॥२५॥ राजा-मा मा भवानेवम् । भीष्मं रामशरैरभिन्नकवचं द्रोणं च मन्त्रायुधं कृत्वा कर्णजयद्रथौ च विमुखौ शेषांश्च तांस्तान नृपान्। सौभद्रं स्वशरैर्न धर्षयति किं भीतः पितुः प्रत्ययात् संसृष्टोऽपि वयस्यभावसदृशं तुल्यं वयो रक्षति ॥ २६ ॥ भटः एष खलु कुमारस्य रथः, आलम्बितो भ्रमति धावति तेन मुक्तो न प्राप्य धर्षयति नेच्छति विप्रकर्तु (?म्)। आसन्नभूमिचपलः परिवर्तमानो योग्योपदेशमिव तस्य रथः करोति ॥ २७ ॥ राजा गच्छ । भूयो ज्ञायतां वृत्तान्तः । - .
पञ्चरात्रे भटः यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) जयतु महा- राजः । जयतु विराटेश्वरः । प्रियं निवेदये महाराजाय। अवजितं गोग्रहणम् । अपयाता धार्तराष्ट्राः । भगवान् दिष्टया भवान् वर्धते । राजा ---न न । भगवतो वृद्धिरेषा । अथ कुमार इदानीं क। भटः - दृष्टपरिस्पन्दानां योधपुरुषाणां कर्माणि पुस्तकमारोप- यति कुमारः। राजा अहो श्लाघनीयव्यापारः खल्वयं कुमारः । ताडितस्य हि योधस्य श्लाघनीयेन कर्मणा । अकालान्तरिता पूजा नाशयत्येव वेदनाम् ॥ २८ ॥ अथ बृहन्नलेदानी क। भटः प्रियनिवेदनार्थमभ्यन्तरं प्रविष्टा । राजा बृहन्नला तावदाहूयताम् । भटः यदाज्ञापयति महाराजः। (ततः प्रविशति बृहन्नला) बृहन्नला (निरूप्य सविमर्शम् ) गाण्डीवेन मुहूर्तमाततगुणेनासीत् प्रतिस्पर्धितं बाणानां परिवर्तनेष्वविशदा मुष्टिर्न मे संहता। गोधास्थानगता न चास्ति पटुता स्थाने हृतं सौष्ठवं स्त्रीभावाच्छिथिलीकृतः परिचयादात्मा तु पश्चात् स्मृतः॥ मया हि, mmmm mon- + Nume द्वितीयोऽकः । अनेन वेषेण नरेन्द्रमध्ये लज्जायमानेन धनुर्विकृष्टस् । यात्रा तु तावच्छरदुर्दिनपु शीघ्रं निमग्नः कलुपश्व रेणुः ॥ ३० ॥ भोः! जित्वापि गां विजयमप्युपलभ्य राज्ञो नैवास्ति मे जयगतो मनसि प्रहर्षः । दुःशासनं समरमूर्धनि सन्निगृह्य बड्वा यदद्य न बिराटपुरं प्रविष्टः ॥ ३१ ॥ उत्तराप्रीतिदत्तालङ्कारणालङ्कृतो बीळित इवास्मि राजा- नं द्रष्टुम् । तस्माद विराटेश्वरं पश्यामि । अये! अय- मार्यो युधिष्ठिरः, सयौवनः श्रेष्ठतपावने रतो नरेश्वरो ब्राह्मणवृत्तमाश्रितः। विमुक्तराज्योऽप्यभिवर्धितः श्रिया त्रिदण्डधारी न च दण्डधारकः ॥ ३२ ॥ (उपगम्य) भगवन् ! अभिवादये। भगवान् - स्वस्ति । वृहन्नला ----- (क) जेदु भट्टा। राजा अकारणं रूपमकारणं कुलं महत्सु नीचेषु च कर्म शोभते। .. . . J (क) जयतु भर्ता।
पञ्चरात्र www- -- . oem- इदं हि रूपं परिभूतपूर्व तदेव भृया अनुमानमागतम ॥ ३३ ॥ बृहन्नले! परिश्रान्तामपि भवती भूयः परिश्रमयिय । उच्यता रणविस्तरः। वृहन्नला (क) सुणादु भट्टा। राजा अजितं कर्म । संस्कृतमभिधीयताम् । बृहन्नला ----- श्रीतुमर्हति महाराजः । (प्रविष्य। भटः जयतु महाराजः। राजा अपूर्व इव ते हो घृहि केनापि विस्मितः। भटः अश्रद्धेयं पियं प्राप्त सौभद्रो ग्रहणं गतः ॥ ३४ ॥ वृहन्नला कथं गृहीतः । (आत्मगतम् । तुलितबलमिदं मयाद्य संन्यं परिगणितं च रणाय मे स दृष्टः। सदृश इह तु तेन नाति कश्चित् क इह भवनिहत कीचकेषु ॥ ३५ ॥ भगवान् ---- बृहन्दले ! किमेतत् । वृहन्नला भगवन् ! न जान तस्य जनारं बलवाञ्छिक्षितन्तु सः । पितॄणां भाग्यदार्पण प्राप्नुवादपि धर्षणम् ॥ ३६ ॥ (को गातु मा। Heman ཁ་ -- द्वितीयोऽङ्कः । Hemand- , राजा राजा कथमिदानी गृहीतः। भट:- रथमासाद्य निःशकं बाहुभ्यामततारितः । राजा-केन । भटः यः किलैष नरेन्द्रेण निनियुक्ती महानसे ॥ ३७ ॥ बृहन्नला (अपवार्य एवमार्य भीमेन परिष्वक्तः, न गृहीतः। दृरस्था दर्शनादेव वयं सन्नोपमागताः । पुत्रस्नेहस्तु निविष्टो थेन सुव्यक्तकारिणा ॥ ३८ ॥ - तेन सत्कृत्य प्रवेश्यतामभिमन्युः । भगवान् -- भो राजन् ! वृष्णिपाण्डवनाथस्याभिमन्योः पूजा भयादिति लोको ज्ञास्यति । तबधीरणमस्थ न्याय्यम् । राजा नाबधीरणमर्हति यादवीपुत्रः । कुतः, पुत्रो ह्येष युधिष्ठिरस्य तु व्यस्तुल्यं हि नः गृनुना सम्बन्धी द्रुपदेन नः कुलगतो नशा हि तस्माद् भवेत् । जामातृत्वमदृरतोऽपि च भवेत कन्यापितृलं हि नः पूजा)ऽप्यतिथिर्भवेत् स्वविवरिष्टा हि नः पाण्डवाः ॥ ३९ ॥ भगवान् एवमेतत् । वक्तव्यं परिहर्तव्यं च । राजा-अथ केनायं प्रवेशयितव्यः । भगवान् बृहन्नलया प्रवेशयितव्यः। राजा-- बृहन्नले ! प्रवेश्यतामभिमन्युः । वृलजला ----- यदाज्ञापयति गहागजः । (आभगनम् । चिरस्य ख- ल्वाकासितोऽयं नियोगो लब्धः । भगवान् -- (आगगतम्) H- -- হ্বান্ত - - m अद्येदानी यातु सन्दर्शनं वा शून्ये दृष्ट्वा गाढमालिङ्गनं वा। स्वैरं तावद् यातुमुबाष्पतां वा मत्प्रत्यक्षं लज्जते ह्येष पुत्रम् ॥ ४० ॥ राजा पश्यतु भवान् कुमारस्य कर्म । नृपा भीमादयो भन्नाः सौभद्रो ग्रहणं गतः । उत्तरेणाद्य संक्षेपादर्थतः पृथिवी जिता ॥४१॥ (ततः प्रविशति भीमसेनः) भीमसेनः आदीपित जतुगृहे स्वभुजावसक्ता मडातरश्च जननी च मयोपनीताः । सौभद्रमेकमवतार्य रथातु बालं तं च श्रमं प्रथममद्य समं हि मन्ये ॥ ४२ ॥ इत इतः कुमारः। (ततः प्रविशत्यभिमन्युः) अभिमन्युः -- भोः! को नु खल्वपः, विशालवशास्तनिमाजितोदरः स्थिरोन्नतांसोरुमहान् कटीकृशः । इहाहृतो येन भुजैकयन्त्रितो बलाधिकेनापि न चास्मि पीडितः ॥ ४३ ॥ बृहन्नला--- इत इतः कुमारः । अभिमन्युः-- अये अयमपरः कः, । . . " 5 . " 1 .
हितीयोऽङ्कः । mmun अयुज्यमानैः प्रमदाविभूषणैः करेणुशोभाभिरिवार्पितो गजः । लघुश्च वेषेण महानिवौजसा विभात्युमावेषभिवाश्रितो हरः ॥ ४४ ॥ बृहन्नला ---- (आवाय) इममिहान यता किमिदानीमार्येण कृतम् । अवजित इति तामद् दृषितः पूर्वयुद्धे दयितसुतवियुत्ता शोचनीया सुभद्रा । जित इति गुनानं त्याने बानुभदो भवतु बहु मिला पिनो हस्तसारः ॥ ४५ ॥ भीमसेनः-----अर्जुन! बृहन्नला अथकिमथकिमर्जुनपुत्रोऽयम । भीमसेनः (अपवार्य जानाम्यतान् निग्रहादस्य दोषान् को बा पुत्रं मर्धयेच्छत्रुहस्ते । इष्टापत्त्या किन्तु दुःने हि मन्ना पश्यत्वेनं द्रौपदीत्याहतोऽयम् ॥ ४६॥ बृहन्नला - (अपवार्य) आर्य! अभिभाषणकौतूहलं में महत् । वाचालयलेनमार्यः । भीमसेनः बाढम् । अभिमन्यो! अभिमन्युः-- अभिमन्यु म । भीमसेनः रुप्यत्येप गया। त्वमेवेनमभिभाषय । बृहन्नला अभिमन्यो! -Rama Homen- HAMIN-maintan ** रुध्यत इति कर्मवद्रावादामनेपदं स्यात् । महाकविप्रामाण्यान स्वरितत्त्वं वा कल्प्यम् ।
पञ्चरात्रे अभिमन्युः - कथं कथम् । अभिमन्यु माहम् । भोः! नीचैरप्यभिभाष्यन्ते नामभिः क्षत्रियान्वयाः । इहायं समुदाचारो ग्रहणं परिभूयते ॥४७॥ बृहन्नला अभिमन्यो! सुखमास्ते ते जननी । अभिमन्युः --कथं कथम् । जननी नाम । किं भवान् धर्मराजो मे भीमसेनो धनञ्जयः । यन्मां पितृवदाक्रम्य स्त्रीगतां पृच्छसे कथाम् ॥ ४८ ॥ बृहन्नला-अभिमन्यो ! अपि कुशली देवकीपुत्रः केशवः । अभिमन्युः-- कथं तत्रभवन्तमपि नाम्ना । अथकिम् अथ- किम । कुशली भवता संसृष्टः । (उभौ परस्परमवलोकयतः) अभिमन्युः-कथमिदानी सावज्ञमिव मां हस्यते । बृहन्नला- न खलु किञ्चित् । पार्थ पितरमुद्दिश्य मातुलं च जनार्दनम् । तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः॥ १९ ॥ अभिमन्युः अलमात्मस्तवं कर्तुं नास्माकमुचितं कुले। हतेषु हि शरान् पश्य नाम नान्यद् भविष्यति ॥ ५० ॥ बृहन्नला -(आत्मगतम्) सम्यगाह कुमारः । सर(थ) तुरगदृप्तना(ग)यौधे शरनिपुणेन न कश्चिदप्यविद्धः । अयमपि च परिक्षतो भवेयं यदि न मया परिवर्तितो रथः स्यात् ॥ ५१ ॥ 'पृच्छमि स्त्रीगतो कथाम्' इति तु पाठकरणं पाणिनीयानां हृद्यम् । Home । vity 1 . द्वितीयोऽङ्कः । R (प्रकाशम्) एवं वाक्यशौण्डीर्यम् । किमर्थ तेन पदातिना गृहीतः। अभिमन्युः- अशस्त्रो मामभिगतस्ततोऽस्मि ग्रहणं गतः । न्यस्तशस्त्रं हि को. हन्यादर्जुनं पितरं स्मरन् ॥ ५२ ॥ भीमसेनः- धन्यः खल्वर्जुनो येन प्रत्यक्षमुभयं श्रुतम् । पुत्रस्य च पितुः श्लाघ्यं सङ्ग्रामेपु पराक्रमः ॥ ५३ ॥ राजा त्वर्यतां त्वर्यतामभिमन्युः । वृहन्नला---- इत इतः कुमारः । एष महाराजः । उपसर्पतु कुमारः। अभिमन्युः आः कस्य महाराजः । वृहन्नला -~~-नन । ब्राह्मणेन सहास्ते । अभिमन्युः --ब्राह्मणेनेति । भगवन् ! अभिवादये । भगवान् --- एह्यहि वत्स! शौण्डीयं धृतिविनयं दयां खपले माधुर्य धनुषि जयं पराक्रमं च । एकस्मिन् पितरि गुणानवामुहि त्वं शेषाणां यदपि च रोचते चतुर्णाम् ।। ५४ ॥ राजा-एह्येहि पुत्र। कथं न मामभिवादयसि । अहो उत्सितः खल्वयं क्षत्रियकुमारः । अहमस्य दर्पप्रशमनं करोमि । अथ केनायं गृहीतः । भीमसेनः महाराज! मया।
সয়দ
M
.
-
.
--- .....
*
.
अभिमन्युः-- अशस्त्रेणेत्यभिधीयताम् ।
भीमसेनः-शान्तं शानं पार !
सहजी में प्रहर
की।
तावाश्रित्य प्रयुष्य सुलगते धनुः ॥ ५५ ॥
अभिमन्युः----मा तावद् भोः !
बाहुरक्षौहिणी यन्म नियाजो यस्य विक्रमः ।
किं भवान् मध्यमस्तातस्तस्यैतत् सदृशं वचः ॥ ५६ ॥
भगवान् --पुत्र! कोऽयं मध्यमाना।
अभिमन्युः --- श्रूयताम् । नन्वनुत्तरा बर्थ बामणषु, साध्वन्यो
ब्रूयात् ।
राजा भवतु भवतु । महचनात् पुन! कोऽयं मध्यमो नाम ।
अभिमन्युः ----श्रूयताम् । येन,
तु(ल)यित्वा जरासन्धं कण्टलिटन बाहुना ।
असह्यकर्म तत कृत्वा नीतः कृष्णोऽतदर्हताम् ॥ ५७ ॥
राजा
न ते क्षपण रुप्यामि रुप्यता भवता रम।
किमुक्ता नापराडोऽहं कथं तिष्ठति यात्विति ॥ ५८ ।।
अभिमन्युः- यद्यहमनुग्राह्यः,
पादयोः समुदाचारः क्रियतां निग्रहोचितः ।
बाहुभ्यामाहृतं भीमो बाहुभ्यामेव नेप्यति ॥ ५९ ॥
(ततः प्रविशत्युत्तरः)
-
hd
-
मिथ्याप्रशंसा खलु नाम कष्टा येषां तु मिथ्यावचनेषु भक्तिः ।
अहं हि युद्धाश्रयमुच्यमानो वाचानुवर्ती हृदयेन लज्जे ॥६०॥
द्वितीयोऽङ्कः । ११ - - . (उपसृत्य) भगवन् ! अभिवादये । भगवान् --स्वस्ति । तात! अभिवादये। राजा • एह्येहि पुत्र! आयुष्मान् भव । पुत्र! पूजिताः कृतक- र्माणो योधपुरुषाः। -पूजिताः । पूज्यतमस्य क्रियतां पूजा । पुत्र! कस्मै । उत्तरः -इहात्रभवते धनञ्जयाय । राजा कथं धनञ्जयायेति । उत्तरः-- अथकिम् । अत्रभवता, श्मशानाहनुरादाय तूणी चाक्षयसायके । नृपा भीष्मादयो भग्ना वयं च परिरक्षिताः ॥ ६१॥ बृहन्नला---प्रसीदतु प्रसीदतु महाराजः । अयं बाल्यात्तु सम्भ्रान्तो न वेत्ति प्रहरन्नपि । कृत्स्नं कर्म स्वयं कृत्वा परस्येत्यवगच्छति ॥ ६२ ॥ व्यपनयतु भवाञ्छङ्काम् । इदमाख्यास्यते, प्रकोष्ठान्तरसङ्गुढं गाण्डीवज्याहतं किणम् । यत्तद् द्वादशवर्षान्ते नैव याति सवर्णताम् ॥६३॥ बृहन्नला- एतन्मे पारिहार्याणां व्यावर्तनकृतं किणम् । सन्निरोधविवरण वा?र्णत्वाद् गोधास्थानमिहागतम् ॥ ६४ ॥ राजा-पश्यामस्तावत् । 1 - पश्चरात्रे ne // । । बृहन्नला- रुद्रबाणावलीढाङ्गो यद्यहं भारतोऽर्जुनः । अव्यक्तं भोमसेनोऽयमयं राजा युधिष्ठिरः ॥ ६५ ॥ भो धर्मराज! वृकोदर! धनञ्जय! कथं न मां विश्वसिथ । भवतु भवतु प्राप्तकाले । बृहन्नले! प्रविश त्वमभ्यन्तरम्। बृहन्नला--- यदाज्ञापयति महाराजः । भगवान् अर्जुन! नखलु नखलु प्रवेष्टव्यम् । तीर्णप्रतिज्ञा वयम्। अर्जुनः- यदाज्ञापयत्यार्यः । राजा शूराणां सत्यसन्धानां प्रतिज्ञां परिरक्षताम् । पाण्डवानां निवासेन कुलं मे नष्टकल्मषम् ॥ ६६ ॥ अभिमन्युः-इहात्रभवन्तो मे पितरः । तेन खलु, न रुष्यन्ति मया क्षिप्ता हसन्तश्व क्षिपन्ति माम् । दिष्टया गोग्रहणं स्वन्तं पितरो येन दर्शिताः ॥ ६७ ॥ (भीमसेनमुद्दिश्य) भोस्तात! अज्ञानात्तु मया पूर्व यद् भवान् नाभिवादितः। तस्य पुत्रापराधस्य प्रसादं कर्तुमर्हसि ॥ ६८ ॥ भीमसेनः- एोहि पुत्र! पितृसदृशपराक्रमो भव । पुत्र! अभिवादयस्व पितरम् । . . । ।' . , दर ज f $ स्वन्तं शोभनावसानम् ।
द्वितीयोऽङ्कः १३ अभिमन्युः-भोस्तात! अभिवादये । अर्जुनः- एह्येहि पुत्र! अयं स हृदयह्लादी पुत्रगात्रसमागमः । इयत्तद् द्वादशवर्षान्ते प्रोषितः पुनरागतः ॥ ६९ ॥ पुत्र! अभिवाद्यतां विराटेश्वरः। अभिमन्युः-अभिवादये । राजा एह्येहि वत्स! यौधिष्ठिरं धैर्यमवाप्नुहि त्वं भैमं बलं नैपुणमर्जुनस्य। माद्रीसुतात् कान्तिमथाभिरूप्यं कीर्ति च कृष्णस्य जगत्प्रियस्य ॥ ७० ॥ (आत्मगतम्) उत्तरासन्निकर्षस्तु मां बाधते । किमिदानी करिष्ये । भवतु दृष्टम् । कोऽत्र । (प्रविश्य) भटः जयतु महाराजः। राजा आपस्तावत् । भटः यदाज्ञापयति महाराजः । (निष्क्रम्य प्रविश्य) इमा आपः । राजा अर्जुन ! गोग्रहणविजयशुल्कार्थ प्रतिगृह्यतामुत्तरा । भगवान् -एतदवनतं शिरः । अर्जुनः--कथं चारित्रं मे तुलयति । भो राजन् ! - - - इयत्तदिति सामान्ये नपुंसकम् । यस्स इत्यर्थः । (प्रकाशम् ) इत्यपेक्षितम् ।
४४ पञ्चरात्रे इष्टमन्तःपुरं सर्व मातृवत् पूजितं मया । उत्तरैषा त्वया दत्ता पुत्रार्थे प्रतिगृह्यते ॥ ७१ ॥ भगवान् --- एतदुन्नतं शिरः । राजा भवतु पितामहसकाशमुत्तरं प्रेषयामः । धर्मराज! वृकोदर! धनञ्जय! इत इतो भवन्तः। - (निष्क्रान्ताः सर्वे) द्वितीयोऽङ्कः। । = । - -- . .
- । अथ तृतीयोऽङ्कः। (ततः प्रविशति भटः) भटः -भो भोः! निवेद्यतां निवेद्यतां सर्वक्षत्राचार्यपुरोगाणां क्षत्रियाणाम । एष हि, अपास्य नारायणचकजं भयं चिरप्रनष्टान् परिभूय बान्धवान् । धनुःसहायैः कुरुभिर्न रक्षितो हतोऽभिमन्युः क्रियतां व्यपत्रपा ॥१॥ इति । (ततः प्रविशतो भीष्मद्रोणी) द्रोणः सूत! कथय कथय । रण(भुव उ)पनीतः केन मे शिष्यपुत्रः क इह मम शरैस्तैर्दैवतैर्योडुकामः । कथय "पुरुषसारं यावदस्त्रं बलं वा बलवत इव दूतास्तत्र सम्प्रेषयामि ॥२॥ भीष्मः सूत! कथय कथय । भिग्नापयानेष्वनभिज्ञदोष- स्तारुण्यभावेन विलम्बमानः । केनैष हस्तिग्रहणोद्यतेन यूथे प्रयाते कलभो गृहीतः ॥ ३ ॥ * पुरुषसारं पुरुषश्रेष्ठम् । ६ भनापयानयु अनभिज्ञ इत्येवरूपो दोषो यस्य सः, निर्देशे भावप्राधान्याद् अनभिज्ञत्वं दोषो यस्य स इति वा । तारुण्यभावेन तारुण्यस्वाभाव्यन, यौवनसा- धारणधैर्यावष्टम्भेनेत्यर्थः । विलम्बमान: अपयातुमत्वरमाणः ।
पञ्चरात्रे habita - (ततः प्रविशति दुर्योधनः कर्णः शकुनिश्च) दुर्योधनः-- सूत ! कथय कथय । केनापनीतोऽभिमन्युः । अ- हमेवैनं मोक्षयामि । कुतः, मम हि पितृभिरस्य प्रस्तुतो ज्ञातिभेद- स्तदिह मम च दोषो वत्तृभिः पातनीयः । अथच मम स पुत्रः पाण्डवानां तु पश्चात् सति च कुलविरोधे नापराध्यन्ति बालाः ॥ ४ ॥ कर्णः-- अतिस्निग्धमनुरूपं चाभिहितम् । गान्धारीमातः ! मा तावत् स्वजनधिया तु बालभावाद् व्यापन्नः समरमुखे तव प्रियार्थम् । अस्माभिर्न च परिरक्षितोऽभिमन्यु- गुह्यन्तां धनुरपनीय वल्कलानि ॥ ५ ॥ शकुनिः-बहुनाथः खलु सौभद्रः । मुक्त एवेति सम्प्रधार्य- ताम् । कुतः, मुश्चेदर्जुनपुत्र इत्यवगतो राजा विराटः स्वयं *स्मृत्वा चाद्य रणाजिरादपगतं मुञ्चेत् स दामोदरम् । क्रोधोडूतहलात् प्रलम्बमथनाद् भीतेन मुच्येत वा भीमस्त्वेनमिहानयेद् बलमहान् हत्वा रिपूर्जितान् ॥६॥ द्रोणः-सूत! कथय कथय । कथमिदानी गृहीतः । पर्यस्तोऽस्य रथो हया नु चपलाश्चक्राक्षमा मेदिनी तूणी क्षीणशरे त्वमस्य विगुणो ज्याच्छेदवन्ध्यं धनुः । । । . * स्मृत्वेति दामोदरमित्यनेन सम्बध्यते ।
m . तृतीयोऽकः एता दैवकृता भवन्ति रथिनां युद्धाश्रया व्यापदो बाणैरप्यवकृष्यते खलु परैः स्वाधीनशिक्षस्तु सः॥७॥ आयुष्मन् ! परुषमयो धनुर्वेदः । किमायुष्मता न ज्ञायते । न चापि दोषा भवताभिभाषिताः स चापि बाणोधमयो महारथः । अवातचक्रप्रतिमस्तु मे रथो गृहीत एवापतता पदातिना ॥ ८॥ सर्वे-कथं पदातिनेति । अथ कीदृशः स पदातिः। किमभिधास्यामि रूपं वा पराक्रम वा भीष्मः--रूपेण स्त्रियः कथ्यन्ते । पराक्रमेण तु पुरुषाः। तत् पराक्रमोऽस्याभिधीयताम् । सूतः----आयुष्मन् ! दुर्योधनः किमर्थ स्तूयते कोऽपि भवता गर्विताक्षरैः । कथ्यतां नास्ति मे त्रासो यद्येष पवनो जवे ॥९॥ सूतः- श्रोतुमर्हति महाराजः । तेन खलु, लऋयित्वा जवेनाश्वान् न्यस्त आपस्करे करः। प्रसारितहयग्रीवो निष्कम्पश्च रथः स्थितः ॥ १० ॥ भीष्मः तेन हि न्यस्यन्तामायुधानि । सर्वे-किमर्थम् । भीष्मः हृतप्रवेगो यदि वा न वा रथो वृकोदरस्याङ्कगतः स चिन्त्यताम् । .
জ্ঞান . + स -- . पुरा हि तेन द्रुपदात्मजां हरन् पदातिनैवावजितो जयद्रथः ॥११॥ द्रोणः सम्यगाह गाङ्गेयः । बाल्योपदेशात् प्रभृत्यहं तस्य जवमवगच्छामि । इण्वस्त्रशालायां हि, कर्णायते तेन शरे विमुक्ते विकम्पितं तस्य शिरो मयोक्तम् । गत्वा तदा तेन च बाणतुल्य- मप्राप्तलक्षः स शरो गृहीतः॥१२॥ शकुनिः- अहो हास्यमभिधानम् । नास्त्यन्यो बलवाल्लोके सर्वमिष्टेषु कथ्यते। जगद्व्याप्तान् भवन्तः किं सर्वे पश्यन्ति पाण्डवान् ॥ १३ ॥ भीष्मः --गान्धारराज ! सर्वमनुमानात् कथ्यते । वयं व्यपाश्रित्य रणं प्रयामः शस्त्राणि चापानि रथाधिरूढाः । द्वावेव दोर्ध्या समरे प्रयातौ हलायुधश्चैव वृकोदरश्च ॥ १४ ॥ शकुनिः एकेनैव वयं भग्नाः सहसा साहसप्रियाः। उत्तरं च तमप्येके कथयिष्यन्ति फल्गुनम् ॥ १५ ॥ द्रोणः भो गान्धारराज! अत्रापि तावद् भवतः सन्देहः । किमुत्तरेणापि रणे विकृष्यते निसृष्टशु(ल्का ? ष्का)शनिगर्जितं धनुः । किमुत्तरस्यापि शरैर्हतातपः कृतो मुहूर्तास्तमितो दिवाकरः ॥ १६ ॥ - me- .
--- -- तृतीयोऽङ्कः । भीष्मः, ---- गान्धारीमातः! विस्पष्टं खलु कथ्यते । ननु जानी ते भवान् । बाणपुङ्खाक्षरैर्वाक्यैाजिह्वापरिवर्तिभिः । विकृष्टं खलु पार्थेन न च श्रोत्रं प्रयच्छति ॥ १७ ॥ (मविश्य) सूतः जयत्वायुष्मान् । शान्तिकर्मानुष्ठीयताम् । भीष्मः--किमर्थम्। सूतः- उचितं ते पुरा कर्तुं ध्वजे बाणप्रधर्षिते । अयं हि बाणः कस्यापि पुढे नामाभिधीयते ॥ १८ ॥ भीष्मः आनय । (सूत उपनयति) भीष्मः (गृहीत्या निरीक्ष्य) वत्स! गान्धारराज! जराशिथिलं मे चक्षुः । वाच्यतामयं शरः । शकुनिः (गृहीत्वानुवाच्य) अर्जुनस्य । (इति क्षिपति । द्रोणस्य पादयोः पतति) द्रोणः - (शरं गृहीत्वा) एह्येहि वत्स! एष शिष्येण मे क्षिप्तो गाङ्गेयं वन्दितुं शरः । पादयोः पतितो भूमौ मां क्रमेणाभिवन्दितुम् ॥ १९ ॥ शकुनिः यौधः स्यादर्जुनो नाम तेनायं चोज्झितः शरः । लिखितं चोत्तरेणापि प्रकाशमुपनीयताम् ॥२०॥ 8 वाणपुलस्थैरक्षरैः अर्जुननामघटकैः । वाक्यः लक्षगया ध्वनिभिरित्यर्थः । ताहापि सम्बध्यते। -- -- * भवानि- - पञ्चरात्रे man दुर्योधनः- तेषां राज्यप्रदानार्थमकृतं कथ्यते यदि । राज्यस्यार्धं प्रदास्यामि यावद् दृष्टे युधिष्ठिरे ॥ २१ ॥ (प्रविश्य) -- 1 - । भट: जयतु महाराजः । विराटनगराद् दृतः प्राप्तः । दुर्योधनः- प्रवेश्यताम्। भट: यदाज्ञापयति महाराजः । (निष्क्रान्तः) (ततः प्रविशत्युत्तरः) उत्तरः अध्वानमल्पमतिमुक्तजवैस्तुरङ्ग- रागच्छता पथि रथेन विलम्बितं मे । कौन्तेयवाणनिहतैर्हिरदैः समन्ताद दुःखेन यान्ति तुरगा विषमा हि भूमिः ॥ २२ ॥ (प्रविश्य कृताञ्जलिः) भो भो आचार्य ! पितामहपुगेगं सर्व- राजमण्डलमभिवादये। सर्वे--आयुष्मान् भव । द्रोणः ---- किमाह तत्रभवान् विराटेश्वरः । नाहं तत्रभवता प्रेषितः । अथ केन त्वं प्रेरितः। -तत्रभवता युधिष्ठिण। द्रोणः -किमाह धर्मराजः। द्रोणः उत्तरः तृतीयोऽङ्कः । न उत्तर: श्रूयताम् , उत्तरा मे स्नुषा लब्धा प्रतीक्षे राजमण्डलम् । तत्रैव किमिहैवास्तु विवाहः क्व प्रवर्तताम ॥ २३ ॥ शकुनिः ---तत्रैव तत्रैव । द्रोणः इत्यर्थं वयमानीताः “पञ्चरात्रोऽपि वर्तते । धर्मेणावर्जिता भिक्षा धर्मेणैव प्रदीयताम् ॥ २४ ॥ दुर्योधनः बाढं दत्तं मया राज्यं पाण्डवेभ्यो यथापुरम् । मृतेऽपि हि नराः सर्वे सत्ये तिष्ठन्ति तिष्ठति ॥ २५ ॥ द्रोणः हन्त सर्वे प्रसन्नाः स्मः प्रवृद्धकुलसङ्ग्रहाः । इमामपि महीं कृत्वां राजसिंहः प्रशास्तु नः ॥ २६ ॥ --- -- (निष्क्रान्ताः सर्वे) तृतीयोऽङ्कः अवसितं पश्चगन्त्रम् । शुभं भूयात.। * पचानां रात्रीणां समाहारः पञ्चरात्र, 'सङ्खयापूर्व रात्रं क्लीवम्' इति श्रीवन्वम् । तदस्या स्तीत्यचि पञ्चरात्रः । अद्यापि प्रतिश्रुतरात्रिपकानयवात् तद्युक्तः काल दन्त्यर्थः।
No text on this page.
श्लोकानुक्रमाणका। पृष्ठम् पृष्ठम् अकारणं रूप उत्तरा मे झुषा उद्योग: प्रस्तुतः २८ अगणितगुण अग्निरनिभया अज्ञानात्तु मया ३ ४२ २५ अतीत्य बन्धून उपन्यस्तस्य शि एकवणेषु गा एकेनैव वयं भ एकोदकत्वं स्वल एतदक्षयतूणी एतदमेबलं एतन्मे परिहा एतां चक्रधर एभिरेव रथै ४ ३ ३ अद्य मे कार्यलो अधेदानी पर्ण अद्येदानी यातु अध्वानमल्पमति अनेन वेषण अपास्य नाराय अपूर्व इव ते अयं बाल्यात्तु स अयं सहृदय अयुज्यमानः प्र अलमात्मस्तवं अवजित इति एवमेव क्रतून एष शिष्यस्य एष शिष्येण मे एषा दीप्तकयू ३ अवनतविट २५ ६ - अवाप्य रूपयन अशस्त्रो मामभि अहं हि मात्रा आचार्यस्य यदा भादीपिते जतु आलम्बितो भ्रम इक्ष्वाकुशय्याति इत्यर्थ वयमामी इष्टमन्तःपुर उचितं ते पुरा कथं पण्डित! कू कणीयते तेन कामं दुर्योधन किं भवान् धर्म किन्नु तत्परिहा किमर्थ खलु स किमर्थ स्तूयते किमुत्तरेणापि कृतश्रद्धो ह्यात्मा कृता नीला नागाः को नु खल्वेष स ऋतुव्रतैस्ते न क्रोधप्रायं वयो " .
1. पृष्ठम् पृष्ठम् गजेन्द्राः कल्प्यन्ते ४६ गतो वृक्षाद् वृ गाण्डीवेन मुहू ३ १५ ९ ३७ १८ न गुरुकरतल जानाम्येतान् जित्वापि गां वि तस्मान्मे रथ ताडितस्य हि यो तु(लयित्वा जरा तुलितवलमि तृप्तोऽग्निहविषा तेषां राज्यप्रदा त्वं वञ्च्यस यदि त्वमिदानी कुमा दह्यमानस्य पर्यस्तोऽस्य र पादयोः समुदा पार्थ पितरमु पीतः सोमो बाल्य पुत्रो ह्येष युधि प्रकोष्ठान्तरस प्राणाधिकोऽस्मि बहुभिःसमराभि बादं दत्तं मया वाणपुङ्खाक्षरै वाणाधीना क्षत्रि बाहुरक्षौहिणी भग्नापयानेष्व भीमसेनस्य ली भीष्मेण कर्णन भीष्मं रामशरै २ ur ५० १३ ४ १३ दूरस्था दर्शना भ्रातृणां पैतृक ११ १ ४६ २ २५ ४६ दैवतं मानुषी द्रुतैध वसव्य द्रोणः पृथिव्यर्जुन दोणव भीष्मश्च द्विजोच्छिष्टैरनेः धनुरुपनय शी धनुषं द्रोण धन्यः खल्वर्जुनो धर्षिता रथश न चापि दोषा न जाने तस्य जे न ते क्षेपेण रु न रूष्यन्ति मया नास्त्यन्यो बल निमित्तं किञ्चि नांचैरप्याभिभा ११ मम हि पितृभिर मा तावद् व्यथि मा तावत् स्वजन मिथ्याप्रशंसा मुश्चेदर्जुनपुत्र यज्ञेन भोजय यत् पाण्डवा द्रुप यत् पुरा ते सभा यदि विमृशसि यदि स्वचक्रोद्ध युध्यते यदि सौ ये दुर्बलाश्च कृ येन भीमः सभा येषां गतिः कापि (यैः? ये) कर्तुकामै यौधिष्ठिरं धैर्य १२ १० ३४ ३१ ४८ ३० ३८ नृपा भीष्मादयो Ani ४३ पृष्ठम् पृष्ठम् ४ १५ योधः स्यादर्जु रण (भुव उ)पनी रथमानय शी रश्रमासाद्य नि: राज्ञां वेष्टनप रात्रौ छन्नेन रामेण भुक्तां रिपूणां सैन्यभे रुद्रयाणावली २ ४१ १७ २४ १४ शुष्केणैकेन वृ शून्यमित्यभिधा शूराणां सत्यस शौण्डीर्य धृतिवि श्मशानाद्धनुरा सज्जैश्चापद्ध सयौवनः श्रेष्ठ सर(थ)तुरग सर्वैरन्तःपुरैः सहजी मे प्रहरणं सुग्भाण्डमरणी हन्त सर्वं प्रस हितमपि परु हतप्रवेगो यदि ૨ ૮ वनं सवृक्षक्ष १६ "- वयं व्यपाधिल्ल वर्षेण वा वर्ष बल्मांकमूलाद् विशालवक्षास्त १३ शकटी च घृता my --- 11.
Cel N 16176
WW
Central Archaeological Library,
NEW DELHI.
Call No. Sa 8N/Bhal Gau.
Author-Ganapati Sastri, T
Title Pancharat of
1
Bhasa. Non
Borrower No.
Date of losbe
Date of Retora
A baot Bad shut ts but he
ARCHAEOLOGIC
NTRAL
GOVT OR INDIA
Depitinent of Architoni
NEW DELHI
ties to keep the book