Ramkrishna Mission Institute Of Culture, Golpark

Panini Tantrakora Patrani

Krishnamacharjya · 2006/05/31

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

॥पाणिनितन्त्रक्रोडपत्राणि ॥
MISSION INSTITUTE OF,
C:1 Cuina. The
॥ श्रीः॥
प्राचीनैनवीनेश्च विद्वद्भिर्विरचितानि
अभिनवभट्टयाणशब्दतर्कालंकारविद्याभूषण'
बिमदभाना वात्स्यचक्रवर्तिना
रायम्पे?
191
कृष्णमाचार्येण
संपाद्य संशोध्य
तानगरस्थ
श्री कृष्णविलासमुद्रालये
मुद्रयित्वा प्रकाशितानि ॥
१९०
LIBRARY
PHOIRE
Marine
MADE.
MAITHNA
मूल्यम् एका रूपिका.

No text on this page.

॥ श्रीः ॥ hoi ॥ उपाध्दातः॥ . विदितमेवैतद्विदुषाम् , यदुत क्रोडपत्रसंपादनं महान प्रयासः ण्डितस्य । तन्नैतदसंभावितम् , यत् स्वायत्तमेकमेवादर्शमवलम्ब्य द्रापणे प्रवृत्तस्य मे सत्यपि यावच्छास्त्रपरिश्रमं बहुशः संशोधने त्र तत्र स्युः स्खलितानीति । क्रोडपत्रप्रदानानुग्रहं साक्षात् लेख- श्च प्रार्थिता अपि बहन उचितोत्तरदानेनापि न समभावयन्निति थं वा वर्ण्यतां तेषां मुष्टिबन्धविलसितम् | न जानीमः कियदेते स्य लोकस्य चोपकरिष्यन्ति तैरन्तहमतिगृटमभिरक्षितैः कालता गणनजरैः क्रोडपत्रैः ? एवं प्रयात्याप पण्डितलोके, श्रीमन्तः श्रीनिवासाचार्याः परं कतिचन कोडपत्राणि संवादाय सदयम- रेति सुबहु धार्यते तेभ्यः । मुद्रितपत्रशोधनतत्तदवसरोचितपरि- कारप्रबोधनादिभिः सुबहु उपकृतवतां श्रीसुब्रह्मण्यशास्त्रिणां कुप्पुस्वामिशास्त्रिणाम् , सश्रद्धं सप्रेम च समीचीनं संमुद्य साह्य- चरितवतः श्रीकृष्णविलासमुद्राशालाध्यक्षम्य च अनर्घमुपकारं कदाचिदपि विस्मर्तुं प्रभवामः । . - इनि. कृष्णमाचार्य। रायम्पे? चक्रवर्ति मुनित्रयमन्दिग्म। त्रिचिनापल्लि साम्याश्विनकृष्ण सप्तमी

No text on this page.

।। श्री:11 'श्रीमत हयवदनपरब्रह्मणे नमः॥ रप्रत्याहारमण्डनम् ।। संचिन्त्य वादिप्रवरं जतारं श्रीपतञ्जलिम् । कुर्वे वादिविलासार्थ रप्रत्याहारमण्डनम् ।। लण। अत्र लकारादकारोऽनुनासिकः प्रतिज्ञायते ; ते न सहाच्चार्यमाणो रफो रलयोः संज्ञेति सिद्धमिति केयटमाधवदीक्षिता- दयः। अत्र संज्ञाप्रकरण शेखरे 'अकारश्च' इति प्रतीकमुपादाय, ‘परे तु' इत्यादिना 'आहुः' इत्यन्तन र प्रत्याहारखण्डनं कृतमः तच्चिन्त्यम्, कैयटाद्याशयानवबोधात् । तथा हि--- . ‘रदाभ्याम् -' 'रोऽसुपि' 'वनो र च' इत्यादी प्रत्या- हारग्रहणाभावाय प्रत्याहारस्य क्वाचित्कत्वज्ञापनार्थतया ‘अतो लान्तस्य' इति सूत्रे लकारोच्चारणस्य चारितार्थ्यात् । न च तत्रत्या- कारस्याच्चारणार्थत्वेन 'उरणरपरः' इत्यत्रेव अनुनासिकत्वाभावादेव प्रत्याहारग्रहणं न भविष्यतीति वाच्यम्, अनुवाद्यविषये तस्य तत्वा- भावऽपि विधेयविषये तस्य तत्त्वमस्त्येवेति 'तस्य लोपः' इति सूत्र ववरण स्पष्टमुपपादितत्वात् । ननु संध्यनन्तर्भूत श्रूयमाणे तस्मिन्पा गनिकतानुनासिकत्वप्रतिज्ञायाः केनाप्यदृष्टत्वात्कथं तन्निर्णय इति त्, तर्हि 'अतो लान्तस्य' इति सूत्रेऽप्येवं वक्तुं शक्यमिति अतो लूति सूत्रे पाणिनिर्लकारं नोच्चारयेत्' इति दूषणस्य मूर्व 5 लपितत्वापत्तिः । तस्मादनुनासिकत्वमस्त्येव । न चैवमपि तत्र प्रत्या- हारग्रहणे फलाभावादव न भविष्यतीति वाच्यम्, सोपसर्गात्फलधातोः 'अनुपसर्गात् ---' इति लविधौ पर्युदासात् निष्ठायाः ‘आदितश्च' इति इडभावे प्रफुल्त इत्यत्र निष्ठातकारादेशनकाररूपफलस्य, अह- रहरित्यत्र पक्षे लकाररूपफलस्य च वक्तुं शक्यत्वात् । यदि तु व्याख्यानादिनैव तत्र प्रत्याहारग्रहणं न भविष्यतीति तज्ज्ञापनार्थ तत्र लकारो व्यर्थ एवेत्युच्यते, तर्हि अपरमिदं लाववमिति इष्टापत्तिः। अपरत्र लग्रहणेनैव तल्लकारसार्थक्योपपादनं त्वनुचितमेव, अधि कार्धमात्रागौरवप्रसङ्गात् । अर्धमात्रालाघवार्थ हि भगवतः पाणिनेस्तथा न्यासः । तादृशार्धमात्रालाघवस्याविवक्षितत्वे ह्युभयत्र रणप्रत्याहारेणेव व्यवहरेत् । नन्वेवं सति तत्र लकारं नाच्चारयेदिति चेत्, न; वैचित्र्याथ तस्योच्चारणमित्यस्यापि वक्तुं शक्यत्वात् । तद्बलेन रप्रत्याहाराभाव रूपफलकल्पनाभिनिवेशस्तु न युक्तः, भाप्यानुक्तेः नामेडितसूत्रस्थस्व- ग्रन्थरीतिवदिति दिक। किंच यणघटितमूत्रेषु प्रत्याहारेण व्यवहारे 'इग्यणः-- 'इणो यण' 'उदात्तस्वरितयोर्यणः , इत्यादौ लाववाभावः, विमर्गस्य वा णकारस्य वा पाठेन मात्रासाम्यात। 'इको यणचि' इत्यादावनकमध्यकरणरूपप्रक्रियालाभस्तुं यणघटितववादिनामेव | यकारघटितसूत्रवादिमते तु पदलाववगोरवाभावः । कुत्रचिदर्धमात्रा- लाववसत्त्वेऽपि प्रत्याहार घटितसूत्राणाम्, 'जातरस्त्रीविषयादयोपधात ‘डयः' 'योऽचि' इत्यादीनां च विषयविभागार्थ यगत्वेनैव व्यव हारस्य वक्तव्यतया तादृशलाघवस्याकिंचित्करत्वाच्च । न च तत्रा प्रत्याहारग्रहणे को दोष इति वाच्यम्, महाशूद्रीत्यादौ योपधत्वा - .

३ डीपभावप्रसङ्गात् । 'ढर्यः' इत्यत्र पर्यायेण यकाराद्यादेशचतुष्टये सति रामायेत्यादौ स्वाद्यन्तानिष्टरूपचतुष्टयप्रसङ्गात्, इष्टरूपासिद्धि प्रसङ्गाच्च । किंच 'यणो मयः --' इति वार्तिके विनिगमनाविरहमूल कव्याख्यानमूलकविकल्पानापत्तिः, तेन पष्ठ्यन्तपञ्चम्यन्तान्यतरपाठे विनिगमनाविरहस्यैवाभावात् । किंच तुल्यास्यसूत्रस्थभाष्यप्रामाण्येन अगत्या अनन्त्येनापि इता रप्रत्याहारस्वीकारेऽपि अन्यत्र तेन प्रत्याहारस्वीकारस्यान्याय्यत्वम्; अन्यथा 'मादुपधया:-' इत्यादावपि वप्रत्याहारापत्तिः । एतेन ' अस्यानुनासिकत्वे' इत्यादिः 'व्यवहरेत्' इत्यन्तो ग्रन्थः परास्त इति दिक् । किंच भाप्योक्ततृतीयहेतोरव्यापकत्वं भवतामपि दुष्परिहरम् । तथा हि-पूर्वमन्त्यानुबन्धलोपे ततः संज्ञा प्रवर्तत इत्युक्तेऽपि मध्ये- संज्ञकवत् अन्त्येत्संज्ञकस्याप्यभावात् 'आदिरन्त्येन-' इति सूत्रार्था नापत्तौ अनादिसंज्ञानामेवानापत्तिः, 'आदिरन्त्येन-' इति सूत्रवे- यर्थ्य च । यत्तु तद्वैयर्थ्यपरिहाराय इतेत्यस्य इत्सदृशेनेत्यर्थः । एवं च सूत्रप्वित्संज्ञायामपि इगादिशब्देषु तदभावात्प्रत्याहारसिद्धिरिति 'वैयाकरणे चित्स्वरस्तु न, तस्येच्चकारसहशत्वेऽपि तत्त्वाभावात इति च स्वयमूचुः : ततु आपातरमणीयमेव, इतेत्यस्य संदशेने- त्यर्थकल्पने मानाभावात । सर्वत्र इत्संज्ञासत्वेनासंभवाच्च । किंच इत्मदशेनेत्यस्य इत्सदृशेन 'इको यण्-' इत्यादिसूत्रस्थककारा- दिना सह उच्चायमाण इकारादिमध्यगानां संज्ञेत्यर्थी वाच्यः । सच बाधितः, तत्सूत्रे मध्यगानामनुपलभ्यमानत्वात् । किंचैवम् ‘एच इग्नस्वादशे' इत्यादी गकारस्य अन्त्येत्सदृशत्वाभावेन प्रत्याहारग्रह णानापत्तिः । न च जश्त्वस्यासिद्धत्वेन ककारस्येव सवेन न दोष इति वाच्यम्, 'आदिरन्त्येन-' इति सूत्रदृष्टया त्रिपाद्याः सिद्धत्व- स्यावश्यवक्तव्यत्वेन असिद्धत्वस्य वक्तुमशक्यत्वात् । अन्यथा 'झलां जशोऽन्ते' इत्यादी प्रत्याहारसिद्ध्यनापत्त्या तद्हणानापत्तेः । किंच 'इगादिशब्देषु तदभावात्' इत्यसंगतम्. सूत्रस्थेगादिशब्दा- न्त्येषु इत्संज्ञाप्रवृत्तर्दुर्वारत्वात् । न च तत्र 'व्यवसितान्त्यग्रहणं कर्तव्यम्' इत्युक्तेः कथमत्र इत्संज्ञाप्रवृत्तिः । ते च धातुप्रातिपदिक प्रत्ययनिपातागमादेशा इति वाच्यम्, 'अइउण' इत्यादिसूत्राणां क्रमबोधकत्वेनार्थवखात्प्रातिपदिकत्वेन तदन्तणकारादीनामित्संज्ञेति भवदुक्तरीतिवत् एषामपि स्वसंज्ञिबोधकत्वेन अर्थवत्त्वात्प्रातिपदिकत्वेन व्यवसितान्त्यत्वाक्षतेरित्संज्ञाप्रवृत्तिसत्त्वात् । नन्वेवमपि 'प्रातिपदि- कानां प्रतिषेधो वाच्योऽकृत्तद्धितान्तानाम्' इति प्रतिषेधान्नेत्संज्ञा- प्रवृत्तिरिति चेत्, न; तस्य 'फलाभावान्नेत्संज्ञा' इत्यादिना प्रत्याख्या- नात् । अत एव णादीनामित्संज्ञासिद्धिः, अत्र च प्रत्याहारसिद्धि- रूपफलस्य जाकरूकत्वात् । ननु तेषामपीत्संज्ञाङ्गीकारे लोपापत्तिरिति चेत्, न; 'आदिरन्त्येन-' इत्येतत्सूत्रवैयर्थ्यापत्तेः, उच्चारणसामर्थ्या- द्वन्मतेऽपि सूत्रेषु कादिषु लोपप्रसक्तेरसत्त्वाच्च । वैयाकरणे चित्स्व- रस्तु न, प्रत्याहारसिद्धयर्थमुपात्तानुबन्धस्य तदवयवाननुबन्धत्वात् । अत्र च ज्ञापकम् 'तस्थपाम्' इति सूत्रयितव्ये 'तस्थस्थमिपाम्' इति गुरुन्यासकरणम् । अत एव महिङो ङकारस्य न तदनुवन्धत्वम्। तत्त्वे हि पप्रच्छिमहे इत्यादी संप्रसारणादि स्यात् । स्पष्टं चेदं 'तिप्तमि-' इत्यत्र भवद्भिरेवाभिहितम् । एतेन 'वैयाकरणे' इत्यादिः 'तत्वाभावात्' इत्यन्तः परास्तः । . . किंच इतेत्यस्य इत्संज्ञकनेत्येवार्थो युक्तः, लक्षणायां गौरवा. चेति दिक् । तस्मात् 'आदिरन्त्येन-' इत्येतत्मूत्रवैयर्थ्यापच्या 'लोपश्च बलवत्तरः' इत्येतत् अन्त्येत्संज्ञातिरिक्तेत्संज्ञकपरमवश्यमन्यु. पेयम् । स्पष्टं चेदमभिहितं बृहच्छब्दरत्न कारैः । एवं च तस्याव्या- पकत्वं स्पष्टमेव । दधि कारीयतीत्यत्र अनन्त्यविषय एवानेन शङ्का कृत्याशयेन 'लोपश्च' इति हेतूपन्यासाच्च । अत एवं अन्त्यानन्त्यादिसाधारणम् 'आचारात्' इत्येतत्समाधानान्तरमुक्तम् । आ एव तन्मूलकम् ‘अनुनासिक इत्यादिनिर्देशात्' इत्येव समाधा- नान्तरमुक्तम् । 'अप्रधानत्वात्' इत्येतद्धत्वन्तरं तु लक्ष्येक चक्षुष्क- दृष्टया, न तु लक्षणेक चक्षुकदृष्टया, प्रत्याहारग्रहणार्थमुपन्यस्तो ऽयम्, नेति विषयविभागस्य लक्षणेक चक्षुप्कैदुज्ञेयत्वात् । तस्मात् 'आचारात्' इत्येत्र हेतु मुख्यः, हेत्वन्तराणामव्यापकत्वेऽपि अभ्युच्च- यवशादेवोपन्यासात् 'अथ वा ऊकाल इति योगविभागः करिष्यत' इत्यनन्तरोक्तहेतूपन्यासवत् । अत एव सर्वान् हेतूनुपन्यस्य ‘एवमपि कुकुट इत्यत्रापि' इत्यन्तहेतुदूषकवाक्ये 'एवमपि' इत्यत्र अपिशब्दः प्रयुक्तः । तेन हि पूर्वोक्तहेतुद्वये अव्यापकत्वादिरूपदूषणान्तरमस्त्ये वेति ध्वनितम् । अग्रे च 'तस्मात्पूर्वोक्त एव परिहारः' इत्युपसंहृतम् । अत्र च 'पूर्वोक्त एव' इत्येकवचनस्वारस्येन पूर्वपदस्वारस्येन च 'आचारात्' इत्यस्येव सार्वत्रिकत्वम्, अन्ये च एवकारव्यवच्छे द्या इति च सूचितम् । अत एव हेतुचतुष्टयोपन्यासस्वारस्यम्, उत्तरोन- रोपमर्दैन पूर्वपूर्वोपन्यासात् । न च पूर्वपूर्वोपमर्दैन तूपन्यासो दृष्टः न तृत्तरोत्तरोपमर्दैन क्वापि दृष्ट इति वाच्यम्, वाच्यम्, 'तस्मात्स एवास्तु मध्यमः पक्षः' 'तस्मात्स एव परिहारः' इत्यादिना 'ईदूदेत्-' इत्यादिपु भाप्ये बहुशो दृष्टत्वात् । एवं च तस्याव्यापकत्वमस्तु । अथ वा तस्यापि व्यापकत्वमेव, हलप्रत्याहारसिद्धेः प्रागच्पदार्थ- निष्पत्यभावेन 'उपदेशेऽच्' इत्यस्य वाक्यार्थाभावेऽपि हलप्रत्या हारसिद्धयुत्तरमच्पदार्थनिष्पत्तो सत्याम् ‘उपदेशे' इत्यस्य वाक्यार्थो तरम् 'ला' इत्यकारस्येत्संज्ञालोपयोः प्रवृत्ती बाधकाभावात् । नहि 'लोपश्च बलवत्तरः' इत्यत्र प्रत्याहारासिद्धेः प्रागेव लोप- प्राप्तिरपेक्षिता, नततरमित्यत्र राजाज्ञास्ति । न हि तादृशनियम युक्तिरस्ति, उभयथा बलवत्वस्याक्षतः ‘संधिस्तु न प्रवतते, वर्णोप- देशकाले अनादिसंज्ञानामनिप्पादात' इति 'अइउण्' इतिसूत्रस्थं कयटमनूद्य वर्णोपदेशे इत्संज्ञायां प्रत्याहारे च निप्पन्ने प्रवर्तमानानां गुगादीनां सुध्युपास्य इत्यादौ तटस्थ इत्रोद्देश्यतावच्छेदकाक्रान्ते वर्णोपदेशेऽपि प्रवृत्तेदुर्वारत्वात्, अन्यथा 'तुल्यास्य-' इत्यादी सवर्णदीघादिर्न स्यादिति भवदुक्तरीतिवत् । तथा च लणमूत्रस्था- कारस्य हप्रत्याहारप्रवेशेऽपि हलप्रदेशेषूपस्थितेः पूर्व प्रतिबन्धका- सावेन तल्लोपे अनन्तरमुपस्थितौ अच्प्रदेशेषु लुप्तत्वात् णाद्यग्रहणवत् हलप्रदेशेषु तदग्रहणं सूपपादमेव । एतेन लसूत्रस्थाकारस्य हल्प- त्याहारे प्रवेश इत्यभिधाय महता प्रयासेनोपन्यस्तः 'मामास्त्रायस्त्र' इत्यादिदूषणाभासोऽपि निरस्तः । तस्य लोपः' इत्यादौ लोपाकरणेन, हलन्तत्वादेव एप विष्णुरित्यादौ सुलोपे सिद्धे पुनः ‘एतत्तदोः-' इति सुलोपविधानेन अकारस्य कार्यान्तरसंपादनार्थ हल्प्रत्याहारे पादेऽपि अस्य हल्त्वाभावज्ञापनाच्च । पूर्वम् ‘जातिग्रहण .

इत्यादेरभिहितत्वेन, सोऽस्तीति दूषणदानेन च 'अनुनासिकपक्षे । इत्यस्यानुपयोगाच्चेति दिक् । . , . 'अच्प्रत्याहारे शङ्का कृता, न हलप्रत्याहारे' इति तु साधक- येनोपन्यस्तं बाधकत्वे पर्यवस्यतीति 'एक संधित्सोरपरं प्रच्यवते' इति न्यायानुगुणत्वादतिस्थवीयः, प्रत्युत शङ्काविषये शङ्काया अक. रणे समाधानाकरणे च न्यूनतादोपस्य ब्रह्मणापि दुरुद्वरत्वात् । यत्तु तादृशन्यूनतापरिहाराय 'नच' इत्यादिना तद्विपयप्रयोगाणाम- नभिधानाच्च' इत्यूचुः; तत्तु आपातरमणीयमेव, ‘न पुनरन्तरेणाचं व्यञ्जनस्योञ्चारणमपि भवति' इति 'उच्चैरुदात्तः' इति सूत्रस्थभाप्यात् हकारादीनामकारविरहेण उच्चारणस्य कर्तुमशक्यतया अकारोच्चार- णस्य चारितार्थेन तस्य भवदुक्तार्थज्ञापकत्वासंभवात् । 'हकारा - दिपु' इति मूलस्य स्वयमपि तथैव व्याख्यानात् । संभवति सामान्या- पेक्षज्ञापकत्वे अक्ष्वप्येवं वक्तुं शक्यतया अच्प्रत्याहारेऽपि भाप्यरुत- प्रत्याहारेत्यादिशङ्काया अनुपयुक्तत्वेन गर्भस्रावात् । अनभिधानस्या- श्वप्येवं वक्तुं शक्यत्वात् । भवदुक्तव्याख्याने न्यूनतारूपो दोपो दुप्परि हर एव । तस्य परिहाराय 'प्रत्याहारेऽनुबन्धानाम्' इत्यत्र अज्ग्रहण प्रत्याहारमात्रोपलक्षणमिति व्याख्यायते, भवद्भिरप्युगाद्यर्थ तस्योपल- क्षणतया व्याख्येयत्वात् । यत्तु 'अणगादिप्रत्याहारेषु तेषां ग्रहणे फलाभावं मनसि निधाय अज्ग्रहणेनेत्युक्तम्' इति व्याचख्युः; तच्चिन्त्यम्, विकल्पासहत्वात् । तथा हि-फलाभाव इत्यस्य किं पथाकथंचित्फलाभावः, उताभिमतफलाभाव इत्यर्थों विवक्षितः ? नाद्यः, उगादिप्रत्याहारे णकारग्रहणे भणितो रणित इत्यादी . .

'श्युकः किति' इति इनिषेधात् रूपभेदस्य वक्तुं शक्यत्वात् । न द्वितीयः, अभिमतफलसत्त्वे दूषयितुमशक्यत्वात्, अच्प्रत्याहारेऽ- प्यभिमतफलाभावेन तत्राप्याशङ्काया निर्बीजत्वात् । तस्मादज्ग्रहणमु- पलक्षणमेव । यत्तु 'अइउण्' इत्यादिसूत्रचतुष्टयोपादानेनैवास्य प्रवृत्तिर्दर्शितेत्यतस्तद्विषयवेयं शङ्केत्यूनुः; तदतिस्थूलम्, तथा सति 'अइउण्' इति सूत्रव्याख्यावसरे 'प्रत्याहार-' इति वार्तिकोपन्यासः कृतः स्यात् । हयवरटमूत्रं व्याख्याय सूत्रचतुष्टयमुपन्यस्य तु शङ्का कृता । तेन हलच्प्रत्याहारमाधारणीयं शङ्का प्रमङ्गादत्रो पन्यस्तेति ध्वनितम् । सूत्रचतुष्टयस्यैव विवक्षितत्व तु हयवर टमूत्रे तदुपन्यासस्य निर्धनत्वप्रसङ्गो दुरुहर एव । अत एव केयटादिभि- रपि हलच्प्रत्याहारसाधरण्यनैव तदाप्यं व्याख्यातम्; तुल्यास्यसूत्रस्थं 'लपरत्वं वक्ष्यामि' इति भाप्यं व्याख्यास्यामीत्येवंपरतयेव व्याख्यातम्। वक्ष्यामीत्यस्य व्याख्यास्यामीत्यर्थकत्वं न वापि दृष्टमिति तु न शङ्कयम्, 'हिर्वचननिमित्त अचि अनादेशः स्थानिवदिति वक्ष्यामि' इति 'द्विर्वचनेऽत्रि' इति सूत्रस्थभाप्ये तस्य तदर्थकत्वत्त्य कृप्तत्वात् । यत्तु ' उरणपरः' इत्यत्र लग्रहणं कर्तव्यमेवेति व्या चख्युः; तन्न, तथा सति 'उरणपरः' इत्यत्रैव अनुक्तरुक्तचिन्तकेन वार्तिक कृता 'लपर इति वक्तव्यम्' इति वार्तकं कृतं स्यात् । भाप्यता च त्वयात्र वार्तिकं न कृतमित्युपालम्भः कृतः स्यात् तस्मात्तत्र कैयटाद्युक्तं व्याख्यास्यामीत्येवं व्याख्यानमेव युक्तम् विधिप्रत्ययस्य तव्यादेरभावाञ्च । नचैवमपि अनेकसूत्रेषु लाघवेन व्यव हारार्थ प्रत्याहारस्वीकारः । अस्य त्वनेकेषु व्यवहाराभावात्कर स्वीकारः । किं च त्र्यवराणां वर्णानां बोधनाय प्रत्याहारो न का दृष्ट इति वाच्यम्, 'नश्छव्यप्रशान्' इत्यादौ तदभावेऽपि स्वीकारात् एडादिषु दृष्टत्वाञ्च । नवमपि प्रत्याहारस्वीकारे क्वाचिकत्वस्वीकारे चातिगौरवम्। अस्माकं तु लपरत्वमानं वक्तव्यमिति वाच्यम्. 'यणः प्रतिषेधो वाच्यः' इत्यादिवार्तिकं 'न वा झल:-' इत्यादिप्रकारैर्गुरुभूतैः प्रत्याचक्षाणैवार्तिककारादिभिरपूर्ववचनकल्पनापेक्षया गुरुभूतस्यापि प्रत्याख्यानस्य लघुत्वसूचनेन गौरवामापात् । तरणानस्गानुनामिकत्वं स्पष्टमेव । अत एव 'हकारादिप्वकार उच्चारणार्थः । लकाराद- कारोऽनुनासिकः प्रतिज्ञायते । तेनोरणपर इत्यत्र प्रत्याहारग्रहणं भवति' इति काशिकायां स्पष्टमेवाभिहितम् । तथैव हरदत्तेनेति दिक् । एतेन 'वस्तुतो रप्रत्याहाराभावेन रपर इत्यस्य स्थाने लूपर इति पठनीयमिति लपरत्वं वक्ष्यामीति तुल्यास्यसूत्रभाप्याल्लभ्यते' इत्यु- रंपरसूत्रस्थशेखरः परास्तः । एवं भाप्यादिसर्वग्रन्थस्वारस्ये दृढ- दूषकयुक्तरभावे च कथमेतदूषयांचक्रुरिति त एव प्रष्टव्या इति मात्सर्यमुत्सार्य विभाव्यं विद्वद्भिरित्यलम् । इति नानापाठकपुत्ररामचन्द्रपाठककृतं रप्रत्याहारमण्डनं समाप्तम् । ॥श्रीः॥ श्रीमत्कृष्णमहीन्द्रस्य सभायां व्याकृतौ कृतम् । तमिमं श्रीनिवासायः स्फुटं विलिखति स्वयम् ॥

. नलोपः प्रातिपदिकान्तस्य । अत्र ‘पदस्य, पदात्' इति पूर्वस्मिन्पादे विद्यमानं पदस्यत्ये- तदनुवर्तते । 'न' इति, 'प्रातिपदिक' इति च लुप्तषष्ठीकं पदद्वयं तस्य विशेषणम् । 'येन विधिः-' इति तदन्तविधिः । ततश्च नकारान्तस्य प्रातिपदिकसंज्ञकस्य पदस्य लोपः स्यादिति तदर्थः । अत्र अन्तग्रहणं शक्यमकर्तुम्, अलोऽन्त्यपरिभाषयैव पदान्तस्य नकारग गेगसिके । राजत्याद्युदाहरणम् । अत्र 'प्राति- पदिकस्य' इत्युपादानात् अहम् अभूवन्नित्यादौ नलोपो नेति सिद्धान्तस्थितिः । अत्र प्रातिपदिकग्रहणं प्रत्याचिख्यासितमस्माभिः । 'नलोपोऽ- तिङः' इत्येव न्यासः कार्यः । अहन्नित्यादेः प्रत्ययलक्षणेन तिङन्त- तया अतिङ इति न्यासेन तत्र नलोपवारणस्य सुशकत्वात् । प्रातिपदिकेत्येतदपेक्षया बहुतरलाघवसद्भावाच्च । अपरं च लाघवम् 'अर्थवदधातुः-' इति सूत्रे धातुपर्युदासाकरणरूपम्, तत्र धातोः प्रातिपदिकसंज्ञावारणद्वारा नलोपाभावस्यैव प्रयोजनतया भाप्यादावु. दाहृतत्वादिति । अत्राशङ्कत - नलोपे कर्तव्ये प्रत्ययलक्षणेन तिङन्तत्वं संपादयितुं न शक्यम्, 'न डिसंबुद्धयोः' इति निषेधेन नलोपे कर्तव्ये प्रत्ययलक्षणेन तिङन्तत्वाभावस्य ज्ञापितत्वादिति । । अत्रेत्थमुत्तरमवोचाम ----सिद्धान्तरीत्या आई चर्मन, हे राजनित्यादी प्रत्ययलक्षणेन प्रत्ययान्ततया प्रातिपदिकसंज्ञाया एता ११ भावेन अप्रसक्ते नलोपे तत्प्रतिषेधो निरालम्बनः सन्, प्रत्ययलक्षणेन प्रातिपदिकसंज्ञापयुदासाभावमाक्षिपन्, उक्तार्थं ज्ञापयितुं प्रभवति । 'अतिङः' इति न्यासे तु आद्रे चन्नित्यादौ प्रसक्तस्य नलोपस्य वारणार्थमुक्तनिषेधस्यावश्यकतया मूलशैथिल्यादुक्तज्ञापकमसंभव- दुक्तिकमेव । तस्मात् 'अतिङः' इति न्यासेऽपि नलोपवारणं सुसा. धमिति । अत्रावदन्--आस्तामेवम् । अथापि यस्मिन्नस्मिन्नित्यादी नलोपः र पात्, अतिङन्तत्वात् । सिद्धान्ते तु प्रातिपदिकत्वाभावान्न- लोपा नेति । तत्र पुनरित्थमवदाम-- ‘ङसिङयोः इति सूत्रेण डे: स्मिन्नादेशो विधीयते । यद्यत्र नलोपः स्यात्, तर्हि 'ङसिङयोः स्मात्स्मी' इत्येव वदेत्, नकारोच्चारणस्य प्रयोजनान्तराभावात् । ततश्चानन्यार्थं नकारोच्चारणमेव नलोपाभावं जापयतीति । तत्र परे पुनरकल्पयन्त-सत्यम्; यद्यनन्यार्थं नकारोच्चारणं भवेत्, तर्हि उक्तदोषो न स्यात् । शक्यते च तेनान्योऽर्थो लब्धुम् । तथा हि-अस्मिन्नित्यनुकरणशब्दात् तदस्यास्मिन्-' इति मनुपि कृते नलोपे च सति अस्मिमानिति सिद्धान्ते, रूपं जायते । तम अतिङः' इति न्यासेऽप्यविशिष्टम् । 'ङसिङयोः स्मात्स्मी' इति यांसऽप्यविशिष्टमेव । परं तु स्म्यादेशविधाने 'इस्चनुइभ्याम् ति मतुप्प्रत्ययस्य अत्रोदात्तत्वं स्यात् । स्मिन्नादेशविधाने तु ध्ये जातस्य नलोपस्य 'नलोपः सुप्-' इति असिद्धत्वावश्य- रावात् नकारेणावश्यं व्यवहिततया हूचात्परत्वाभावात् 'हूचनुइ- . भ्याम्-' इति सूत्रेणोदात्तत्वं नैव भवति । न च 'स्वरविधों व्यञ्जनमविद्यमानवत्' इति वचनात्कथं . नकारेण व्यवधानमिति शक्यम, नाशपरिभाषायाः प्रकृते अप्रवृत्तेर्नुहणनैव ज्ञापितत्वात् । तत्प्रवृती हि अक्षण्वता शीर्पण्वंतत्यादी हूस्वात्परत्वादेव उदात्तत्व- सिही नुग्रहणं व्यर्थं स्यात् । 'हल्स्वरविधी----' इति तदपवादभूतं परिभाषान्तरं च जागार्ने । अत एव मरुत्वानित्यादावुदात्तत्वं न भवतीति । अत्र पुनरवदाम---'अन्नोदातादुत्तरपदात्-' इति सूत्रा दनुवृत्तमन्तोदात्तग्रहणम् 'हस्वनुभ्याम् -' इत्यत्र हूस्वस्य विशेष- णम् । तेन अग्निमान् वायुमानित्यादौ उदातात् ह्रस्वात्परस्य मतुप उदात्तत्वं भवति । न तु वसुमानित्यादो, वसुशब्दस्याद्युदात्तत्वा दिति सिद्धान्तस्थितिः । ततश्च अस्मिमानित्यत्र मतुप उदात्तत्वापादनं न संभवति, ‘अनुदात्तो सुप्पितौ' इति ङिप्रत्ययस्यानुदात्ततया तदादेशस्यापि तत्त्वावश्यंभावात् । ततश्च नकाराभावेऽपि अस्मिमा- नित्यत्र मतुप उदात्तत्वानापच्या तहारणरूपं प्रयोजनं नकारोच्चार- णस्य दुर्निरूपमिति । अत्र परे पुनः प्रत्याहुः-'उडिदंपदादि-' इति सूत्रण इदंशब्दात्परस्या असर्वनामविभक्तरुदात्तत्वं विधीयते । ततश्च डिप्रत्य- यादेशस्त्र स्मिन्नित्यस्य उदालत्वमावश्यकमिति ततः परस्य मनुपः प्रसक्तमुदातत्वं नकरव्यवधान व वारणीयमिति नकारोच्चारणस्य अनन्यार्थत्वं न संभवतीति । तत्र चेत्थं परिहारं व्याहराम-- 'उडिदम् ।' इति सूत्रेण १३ इदंशब्दात्परस्या असर्वनामस्थानविभक्तरुदात्तत्वं विधीयते । तत्र च 'अभिव्यक्तपदार्था ये--' इति न्यायेन लोकप्रसिद्धार्थकस्य इदंशब्दस्य ग्रहणम् । तेन च साक्षादनुकरणस्थस्य स्मिन्नादेशस्य उदात्तत्वं नैव संभवति । किंतु 'प्रकृतिवदनुकरणम्' इति परिभाषया प्रतिवद्भावेन उदात्तत्वं संपाद्य, मतुष्प्रत्ययस्योदात्तत्वमापादनीयम् ; तच्चायुक्तम्, अनित्यभूतनाशपरिभाषाप्रवर्तनेन उदात्तत्वं संपाद्य उपायान्तरेगानिष्ट पारणापेक्षया अनित्यभूततादृशपरिभाषाप्रवृत्तिम- नभ्युपगम्य अनिष्टनिवारणस्यैव लाववेनौचित्यात् । तस्याः परि. भाषाया अनित्यत्वं च यत्तदेतेभ्यः परिमाणे' इति सूत्रे त्यदाद्य. त्वकरणात् 'त्यदादीनि-' इत्येक शेषाकरणाच्च ज्ञापितमिति स्पष्ट. मेव । वस्तुतस्तु अस्मिमानित्यत्र नकारस्येवाप्रसक्ती, प्रसक्तस्य तस्य लोपाभ्युपगमे च मतुप्प्रत्ययस्य उदाततदभावरूपवेषम्य. पद्भावात्फलभेदे सति स्मिन्नादेशे नकारोच्चारणस्य उच्चारणार्थत्वं न संभवतीति यदुक्तम् , तदेव मूल शिथिलम् । तथा हि-नान्ता- देशविधानम्, नलोपस्य शास्त्रीयत्वं च यद्यभ्युपगम्यत. तर्हि अस्मिमानित्येतत् नलोपेन परिनिष्ठितस्य अस्मीत्यस्य साधुरूपस्यानु करणशब्दात्केवलमस्मीत्यस्मात् मतुष्प्रत्यय इति विवक्षितम् । आहो- तत् अारिनिष्ठितस्प अस्मिन्निति नान्तस्पासाधोरनुकरणरूपात भस्मिन्निति रूपान्मतुप्प्रत्यय इति । नाद्यः, अनुकरणभूत अस्मि त्यत्र नकारस्यैव अप्रसक्ततया नलोपस्यासिद्धत्वान्न कारव्य- धानादुदातत्वं न भवतीत्यस्य असंभवदुक्तिकत्वात् । न चानुकार्ये भस्मिन्नित्यत्र जातस्य नलोपस्य 'प्रकृतिवदनुकरणम्' इत्यनेन मनुकरणे अतिदेशात्तत्रोदात्तत्लापत्तिनिवारणं युक्तमेवेति शहक्यम्, १४ परिनिष्ठितस्य साधोरमुकरणमिति पक्षे 'अस्मि' इत्यस्यैवानुकार्यतया तस्मिन्नं अविद्यमानस्य नलोपस्य 'प्रकृतिवत् -' इत्यनेन कथंचि- दप्यतिदेशासंभवात् । प्रकृत्युद्देशेन विहितं यच्छास्त्रीयम्, तदेव हि 'प्रकृतिवत्-' इत्यनेनातिदिश्यते । न चेदानी प्रकृतिबहिर्भूतस्य नस्य जातो लोपः प्रकृत्युद्देशेन विहितः, येनात्रातिदिश्येत । ततश्च नकारानुच्चारणे अस्मिमानित्यत्र मतुपो यथादात्तत्वं भवति, तथा तदुच्चारणेऽपीति न कश्चित्फलभेदः । नापि द्वितीयः, अस्मिन्नित्य- साधुरूपस्य यत्किचिदुदासीननकारमेलनेन लोके प्रयुज्यमानस्य संभवात्, तदनुकरणभादस्मिन्नित्यस्मात मतुपि उदासत्ताभाववन अस्मिमानित्यस्य सुसाधत्वेन डे: स्म्यादेशविधानेऽपि तदमिर संभ पात् । नहि असाधोः 'अस्मिन् ' इत्यस्यानुकार्यतासिद्धयर्थं नकार उचारणीय इत्येतत्संभवति । तस्मादसावनुकरणेऽपि न फलभेदः । तम्मान्नकारोच्चारणस्यानन्यार्थतया यस्मिन्नित्यादी ‘नलोपा तिङ इति न्यासेऽपि नलोपो नेत्यसाधयाम | अत्र परे पुनः प्रत्याहुः-एवमपि रामानित्यादी नोपम्य प्रसत्या 'अतिङः' इति न्यासो न संभवतीति । . तदुपर्यस्माभिः–'तस्माच्छसो नः पुंसि' इति नत्वविधानस्या- नन्यार्थतया नलोपो न भवतीत्यभाणि । तत्र विसर्गव्यावृत्यर्थम व नविधानमित्यपि न संघटते, एवमपि लोपविधानादव सिन्डो तद्विधान- यानन्यार्थताया दुरित्वादिति चोक्तम् । न च न इत्यपेक्षया लोप इत्युक्ते गौरवम्, 'नलोपः प्रातिपदिकान्तस्य' इत्येतदपेक्षया 'नलो पाऽतिङः' इति न्यासे विशिष्य लाघवसत्वात् ।

१५ अत्र परे प्रत्याह्नः-यदि नकारमविधाय लोपो विधीयेत, तर्हि यानानित्यत्र या आ इति रूपं न भविष्यति । स्याञ्च तत्र सवर्णदीर्घः । ततश्च या इति स्यात् । नकार विधाय तस्य लोपसं- पादने तु नलोपस्यामिद्धतया नकारेण व्यवधानान्न भविष्यति । न च 'नलोपः सुप्स्वर-' इति नियमात्तस्य नासिद्धत्वमिति शक्यम्, अत्र सवर्णदीर्घविधेरपि सुविधित्वात् । अ इति प्रातिपदिकाच्छामि पूर्वसवर्णदीर्व एकादेशे कृते तस्य ‘अन्तादिवच्च' इति परादिवगावेन सुप्त्वाश्रयणसंभवात् तन्निमित्तकसवर्णदीर्घविधेः सुब्विधित्वसंभवात् । अत्रेत्थमवदाम-- 'तस्माच्छसो नुम्पुंसि' इति नुमागमा वेधातुं शक्यते । तस्य मित्त्वात् शसकारात्परं नुमागमे कृते रामान्स ति स्थिते संयोगान्तलोपे तस्यासिद्धत्वान्नलोपासंभवेन इष्टरूपसिद्धिः- स्मात् 'नलोपोऽतिङः' इति, 'तस्माच्छसो नुम्'सि' इति च न्यास. करणान्न कश्चिद्दोष इति । - अत्राशङ्कन्त—'तस्माच्छसो नुम्पुंसि' इति न्यासो न संभ- पति, राम अस् इत्यत्र पूर्वसवर्णदीर्व कृते एकादेशभूतेन तेन रासोऽपहारात्सवर्णदीर्वात्परस्य शसोऽभावेनासंभवात् । अत एव हि तस्माच्छसः-' इत्यत्र शस इत्यवयवषष्ठीमाश्रित्य 'पूर्वसवर्ण- दीर्घात्परो यः शसः सकारः' इति व्याचख्युः । न त्वलोऽन्त्य- रिभाषया शसः सकारस्य नकारः । न च नुमागमविधाने तथा याख्यानं संभवति, अन्त्यादचः परतया भाव्यस्य नुमागमस्य केवलसकारागमत्वासंभवात् । तस्मात् यथान्यासरीत्या नकारादेश एव विधातव्यः । तस्य लोपेऽपि तद्विधानप्रयोजनं पूर्वोक्तरीत्या " या आ इत्यत्र सवर्णदीर्घवारणम् । ततश्च नकारोच्चारणस्यानन्या- र्थत्वाभावेन रामानित्यादौ नलोपो दुर्वार एवेति । अनेत्थमबम-राम अस् इत्यत्र पूर्वसवर्णदीघे कनेऽपि शसस्तत्परत्वमुपपादयितुं शक्यते, 'अचः परस्मिन् --' इति सूत्रे पञ्चमीपक्षाश्रयेण स्थानीभूतप्रत्ययाकारस्य यो धर्मः पृथगवस्थिति रूपः, तस्याप्यतिदेशाभ्युपगमात् । पूर्वसवर्णदीर्घस्य निमित्तीभूतस्य स्थानीभूतस्य प्रकृत्यकारस्याचः स्थानीभूतप्रत्ययाकारात्पूर्वस्य नुम्वि धिं प्रति निमित्ततया स्थानीभूतादचः पूर्वस्मानिमित्तभूतादित्यस्यापि मुवचत्वादिति । इति श्रीश्रीनिवासाचार्यलिखितो नलोपसूत्रधादार्थः समाष्ट.। ॥श्रीः॥ उत्तरपदत्वे चापदादिविधौ प्रत्ययलक्षणप्रतिषेधः । उत्तरस्य पदत्वमित्येवं पष्ठीतत्पुरुषः । उत्तरशब्दश्च उत्तर पदपर्यायः, भीमो भीमसेन इतिवत् । स च रूढ्या समासचरमावध वार्थकः । एवं च समासचरमावयवस्य पदत्व कर्तव्य लुमता लुई प्रत्ययलक्षणं नेत्यर्थः । अपदादिविधाविति प्रसज्यप्रतिषेधः, न पर्यु दासः, पदत्वस्य पदादिविधिभिन्नत्वादव्यावर्तकत्वापत्तेः । विधिरिति कर्मणि किः । पदादेः कार्ये, कर्तव्ये प्रत्ययलक्षणप्रतिषेधो नेत्यर्थः १७ . तेन परमवाचौ, परमवाच इत्यत्र अन्तर्वतिनों विभक्तिमाश्रित्य सुबन्तत्वे वाक्शब्दस्य पदसंज्ञायां प्राप्तायाम् उत्तरपदस्य चरमावय- पीभूतवाक्शब्दस्य पदत्वे कर्तव्ये प्रत्ययलक्षणस्यानेन निषेधात चकारस्य पदान्तत्वाभावेन 'चोः कुः' इति कुत्वाभावसिद्धिः । दधिसेचावित्यादौ 'सात्पदाद्योः' इति षत्वनिषेधस्य च पदादिविधि- त्वेन तस्मिन् कर्तव्ये निषेधाप्राप्त्या षत्वाभावसिद्धिः । अत्र पदादि- विधिना प्रतिपदोक्तत्वात् 'सात्पदाद्योः' इत्येव गृह्यते । तेन परमबु- धावित्यादौ भभावो न । अत्र भाप्ये एनद्वार्तिकफलानामन्यथासिद्धे- रेतहार्तिकं न कर्तव्यमित्युक्त्वा, पुनर्नहृयाटितैतद्वचनारम्भेण वार्ति- कस्य कर्तव्यता ध्वनिता । तत्र किं प्रत्याख्यान एव भाप्यता- त्पर्यम्, उत आरम्भ एवेति विशये प्रत्याख्यान एव भाप्यस्य तात्पर्यमिति प्रथमः पक्षः । आरम्भ एवेति द्वितीयः । तथा हि- इदं वार्तिकं नारम्भणीयम् । 'स्वादिप्वसर्वनामस्थाने' इत्यत्र स्वादिष्विति योगा विभज्यते । ततः, असर्वनामस्थाने यचीति द्वितीयं वाक्यम् । ततो भमिति तृतीयं वाक्यम् । यस्मात् स्वादि- विधिः, तदादि शब्दस्वरूपं तस्मिन् स्वादो परतः पूर्व पदसंज्ञं भवतीति प्रथमसूत्रार्थः । तत्फलं तु राजभ्यामित्यादौ नलोपादिः । यजादौ सर्वनामस्थाने परतः पूर्व पदसंज्ञं न भवतीति द्वितीयसुत्रार्थः । योगविभागात् बाध्यसामान्यचिन्ताश्रयणेन 'स्वादिषु' इति, 'सुप्ति- ङन्तम् -' इति च प्राप्तयोः पदसंज्ञयोरुभयोरपि निषेधकमिदम् । तेन परगवाची परमवाच इत्यादी यजादिसर्वनामस्थानपरत्वात् पूर्वस्य पदत्वनिषधेन कुत्वाद्यभावमिद्धिः । भमिति तृतीयवाक्ये सादिप्वसर्वनामस्थाने यचीति चानुवर्तते । 'सुप्तिङन्तं पदम्' इति सूत्रात् सुवित्यनुवर्तते । सुबन्तमिति तस्यार्थः । यस्मात् यजाद्य- सर्वनामस्थानविधिः, तस्मिन्परतः पूर्वं भं भवति । तत्र यत्सुबन्तं तदपि भं भवतीति वाक्यार्थः । तेन परमवाच इत्यादौ शसादा- वुत्तरभागस्य भत्वान्न कुत्वादि । तत्र समुदायस्य संज्ञा प्रधानशिष्टा, अवयवस्यतु अन्वाचयशिष्टा । तेन राज्ञ इत्यादाववयवसुबन्ताभावे- ऽपि भसंज्ञा भवति । दधिसेचावित्यादौ तु पदात् आदिः पदादि- रिति पञ्चमीसमासस्य 'सात्पदाद्योः' इति सूत्र आश्रयणात् पत्वनिषे. धश्च सिद्धः । न चैवं स्वादिप्विति पदत्वमाश्रित्य हरिवित्यादी पत्वनिषेधापत्तिरिति वाच्यम्, साद्हणेन स्वादिष्विति यत् पदम, तदुत्तरस्य पत्वनिषेधो नेत्यर्थज्ञापनात् । एवं च वार्तिकफलानामन्य- थासिद्धेार्तिकमिदं नारम्भणीयमेव । इदं वार्तिकमावश्यकमेव, उक्तरीत्या प्रत्याख्यानस्यातीव गुरुत्वात् । तथा हि-तृतीयवाक्ये भिन्नावधिकतया भसंज्ञया अवयव- सुबन्तस्य पदत्ववारणार्थ 'सुप्तिङन्तम्' इति मूत्रात् सुबित्यस्यानु- वृतो वाक्यभेदाङ्गीकारे गौरवम् । मण्डूकप्लुत्यापत्तिश्च । तथा द्वितीयवाक्येऽपि प्रत्ययग्रहणपरिभाषया तदादेरित्यस्योपस्थित्या तदादेः 'स्वादिषु-' इति प्राप्तपदसंज्ञानिपधेऽपि अवयवस्य 'सुप्तिङन्तम्' इति माप्तपदसंज्ञानिषधो दुर्वचः । तदर्थं तत्रापि सुबित्यस्यानुवृत्त्या वाक्यभेदेन अवयवसुबन्तस्यापि पदसंज्ञानिषेधे मण्डूकप्लुतिक्केशवारणाय प्रथमवाक्येऽपि सुबित्यनुवृत्य वाक्यभेद- कल्पने निरर्थकवाक्यकल्पनाप्रयुक्तं गौरवमप्यतिरिच्यते । किन सुगवतीत्यत्र उत्तरभागस्य पदत्वेन ‘एछः पदान्तादति' इति पूर्व . रूपापत्तिः । सति वार्तिके प्रत्ययलक्षणप्रतिषेधात् पदत्वाभावेन पूर्व- रूपाभाव इति वार्तिकमारम्भणीयम् । परमवाचावित्यादिसिद्धये वार्तिकारम्भे बहुवाचावित्यादी कुत्वाभावाय 'बहुपूर्वस्य न' इति वार्तिकमारम्भणीयम् । प्रत्या- ख्यानपक्षे तु उक्तरीत्या पदत्वाभावादेव कुत्वाद्यप्राप्तिरिति 'बहु- च्यूर्वस्य न' इति, 'उत्तरपदत्वे च-' इति च नारम्भणीयम् । न न वाक्यत्रयकल्पनाप्रयुक्तगौरवम् ; त्वन्मतेऽपि 'उत्तरपदत्वे च' इत्येकम्, 'अपदादिविधी' इत्यपरम्, 'बहुच्पूर्वस्य न' इति तृतीय मित्यपूर्ववाक्यतयकल्पनस्यावश्यकतया अपूर्ववचनत्रयानारम्भप्रयुक्त- लाघवस्य मन्मत एव सुवचत्वात् । किं च मापकुम्भवापेनेत्यादौ वार्तिकारम्भवादिमते कुम्भशब्दस्य पदत्वाभावेन मापकुम्भशब्दस्य वापेति कृदन्तेन ममामान वापेत्यस्य सुतरां पदत्वाभावेन ‘पदव्य- वायेऽपि , इति णत्वांगवानापत्तिः । मम तु कुम्भत्यस्य पदत्वान पायात्ते: व्यवधानात पावनिषेधः सिध्यति । यदुक्तम्-सुगवती- त्यादौ 'एङः पदान्तादति' इति पूर्वरूपापत्तिरिति, तन्न; 'न वे संध्यक्षरमन्त्यमस्ति' इति 'इको गुणवृद्धी' इति सूत्रस्थभाप्यप्रा- माण्यात् एजन्तेभ्य आचारक्विपोऽनभिधानावदोषात् । तस्माद्वा- तिक नारम्भणीयम् । यदुक्तम् -- वार्तिकारम्भवादिमते अपूर्ववचनद्वयारम्भगौरव- मधिकमिति, तन्न; बहुसेचावित्यत्र पत्वनिषेधसिद्धये प्रत्याख्यान- वादिमते 'सात्पदाद्योः' इति सूत्रे ‘बहुच्पूर्वस्य च' इति वार्ति कारम्भस्यावश्यकतया वाक्यद्वयात्मक उत्तरपदत्वे चेति वार्तिका- . .

रम्भापेक्षया योगविभागेन वाक्यपञ्चककल्पनस्यैव गुरुतरत्वात् । यदुक्तम् - माषकुम्भवापेनेत्यादौ णत्वनिषेधानापत्तिरिति, तन्न; उत्तरपदस्य पदत्वप्रयुक्तकार्यभाक्त्वं यत्र, तत्रैव प्रत्यपलक्षणप्रतिषे- धाङ्गीकारणादोषात् । किं च त्वन्मते महेन्द्रतीत्यादी प्रत्ययलक्षण- निषेधाभावेन पदत्वादकारस्य पदान्तभिन्नत्वाभावन ‘अतो गुणे' इति पररूपानापतिः । तस्माद्वार्तिकारम्भ एव युक्तः । यदुक्तम्-'सात्पदायोः' इति सूत्रे 'बहुपूर्वस्य च' इति वचनारम्भस्तवाप्यावश्यक इति तवेव गौरवमिति, तन्न; बहुवाचा वित्यादी कुत्वव्यावृत्तये प्रत्ययलक्षणप्रतिषेधाय 'न लुमता- इति सूत्रे ‘बहुच्पूर्वस्य च' इत्यकम्, बहुसेचावित्यादी पत्वनि- पेधाय ‘सात्पदायोः' इति सूत्रे 'बहुच्पूर्वस्य च' इत्यपरमिति त्वन्मते वार्तिकत्रयारम्भप्रयुक्तगौरवस्य दुर्वारत्वात् । यत्तु-माप- कुम्भवापेनेत्यादी दोपवारणाय उत्तरपदस्य यत्र कार्यित्वम्, तंत्रेव प्रत्ययलक्षणप्रतिषेधः स्वीक्रियत इति, तन्नः तत्र कार्यित्वनिवेशे मानाभावेन उक्तदोषतादवस्थ्यात् । यत्तु-महेन्द्रतीत्यादो पररूपा- नापत्तिरिति, तन्न; 'अतो गुण' इत्यत्र 'उस्यपदान्तात' इत्यतोऽनुवृत्तस्य अपदान्तपदस्य अपदस्य अन्तः अपदान्त इति विग्रहेण पदभिन्नसमुदा- यान्तादित्यर्थन महन्द्रतीत्यादौ उत्तरखण्डस्य पदत्वेऽपि समुदायस्य पदमिन्नत्वेन अकारस्य अपदान्ततया पररूपप्रवृत्या उक्तरूपसिद्धेः। किं च काश्यपेन प्रोक्तमित्यर्थे 'काश्यपकौशिकाभ्यामृषिभ्यां णिनिः' इति णिनिप्रत्यये ततोऽधीत इत्यर्थे अणि तस्य 'प्रोक्ता. छक' इति लुकि काश्यपिनावित्यादौ उत्तरपदत्वाभावात्पदत्वनिषे- - RKHARA धानापच्या नलोपापत्तिः । मम तु पूर्वोक्तरीत्या द्वितीयवाक्येन पदत्वनिषेधान्न दोषः ।। त्य' यत्तु-बहुवाचावित्यादौ कुत्वाभावाय प्रत्ययलक्षणप्रतिषे- धार्थम् 'उत्तरपदत्वे च–' इत्यनन्तरम् ‘बहुच्पूर्वस्य' इत्येकम्, बहुसेचावित्यादौ षत्वनिषेधसिद्धयै 'सात्पदाद्योः' इति सूत्रे ‘बहुच्पू- वस्य च' इत्यपरमिति वचनद्वयारम्भे गौरवमिति, तन्मन्दम् ; उत्तरपदत्वे च-' इत्यतः अपदादिविधावित्यस्य 'बहुपूर्वस्य व' इति समनन्तरवार्तिके अनुवृत्त्या पदादिविधौ तदप्रवृत्या पत्व नेपेधसिद्ध्या 'सात्पदाद्योः' इति सूत्रे पत्वनिषेधार्थकस्य 'बहुच्पूर्व- इति वार्तिकस्यानावश्यकतया त्वदुक्तगौरवासंभवात् । पत्तु.--'उत्तरपदत्वे च--' इति वार्तिके कार्यित्वनिवेशे मानाभावेन सापकुम्भवापेनेत्यादौ स दोषस्तदवस्थ इति, तन्न ; वार्तिके अपदा- देविधाविति पर्युदासः, लाघवात् । पदत्वे इत्यस्य पदसंज्ञाप्रयोज्य- कार्ये लक्षणा । तथा च समासचरमावयवस्य पदादिसंबन्धिकार्य- भेन्नं यत्कार्य पदसंज्ञाप्रयोज्यम्, तस्मिन्कर्तव्य एव प्रत्ययलक्षण- तिषेधाङ्गीकारेण माषकुम्भवापेनेत्यादी कुम्भपदे पदत्वप्रयोज्यका- पाभावेन निषोधाप्रवृत्या 'पदव्यवायेऽपि' इति प्रतिषेधप्रवृत्तेः पपादत्वात् । यतु-अपदस्य अन्तः अपदान्त इत्याश्रयणात्म दायस्य पदभिन्नत्वेन महेन्द्रतीत्यादौ न दोष इति, तन्न; वाक्य यापि पदभिन्नत्वेन आगच्छ देवदत्तात्र स्नाहीत्यादी आगच्छ वदत्तेति वाक्यस्य अपदल्वेनाकारस्य पदभिन्नसमुदायान्तत्वेन पर- पापत्न्या तथोक्तरयुक्तत्वात् । तथा च महेन्द्रतीत्यादौ दोषो - 480822 THE RAMAKRISHNA MISSION INSTITUTE OF CULTURE LIBRARY २२ दुर्वारः । यत्तु काश्यपिनावित्यादौ नलोपापत्तिरिति, तन्न; 'छगलिनो दिनुक्' इत्यत्र नकरोच्चारणेन तद्धिताव्यवहितपूर्ववर्ति- सुब्विभक्तिमाश्रित्य पदत्वाभावज्ञापनेनादोषात् । इति मूत्र यत्तु –'बहुचपूर्वस्य च' इति वार्तिके अपदादिविधावित्य- नुवृत्त्या बहुसेचावित्यादौ षत्वनिषेधसिद्धेः 'सात्पदाद्याः' इति सूत्र 'बहुचपर्वस्य' इति नारम्भणीयम् । प्रत्याख्याने तु 'सात्पदाद्योः' बहुच्पूर्वस्य ' इति वार्तिकमारम्भणीयमिति न वार्तिकद्वयारम्भप्रयुक्तगौरवमिति, तन्नः मन्मते 'सात्पदाद्योः' इति सूत्रस्थाने प्रथम साते, इति योगः क्रियते । सातेः सस्य षत्वं नेति तदर्थः । ततः बहुच्पदाभ्याम् इति करणीयम् । आभ्यामुत्तरस्य सस्य पत्वं नेति तदर्थः । आदिग्रहणं च न कार्यम् । तदिदं बहुज्ग्रहणमादिग्रहणेन निमा तव्यम् । एवं च ‘बहुच्पूर्वस्य' इत्येकमपि वार्तिकं नारम्भणीयम् । त्वन्मते तु कुत्वपत्वाभावयोः सिद्धये 'बहुपूर्वस्य' इति वार्तिकम्, परमवाची दधिसेचावित्यादी कुत्वाद्यभावसिद्धये 'उत्तरपदत्वे च-' इति वार्तिकमित्यपूर्ववार्तिकद्वयारम्भप्रयुक्तगौरवं दुर्वारमेव । यत्तु- 'उत्तरपदत्वे च-' इत्यत्र अपदादिविधाविति पर्युदासेन उत्तरपदस्य कार्यित्व एव प्रत्ययलक्षणप्रतिषेधप्रवृत्त्या माषकुम्भवापे- नेत्यादौ । न दोष इति, तन्न; तथा सति परमदण्डिनावित्यादौ उत्तरखण्डस्य पदत्वेन ङमुडागमापत्तेः । मम तु उत्तरखण्डस्य पदत्वाभावादचो ङमन्तपदात्परत्वाभावेन न दोषः । तथा च माष- कुम्भवापेनेत्यादौ स दोषस्तदवस्थ एव । यत्तु-अपदस्य अन्तः अपदान्त इत्याश्रयणे आगच्छ देवदत्तात्र स्नाहीत्यादी पररूपाप. त्तिरिति, तन्न; शकन्धुरित्यादौ ककारस्यापि पदभिन्नत्वेन पदभि- नसमुदायान्तवादकारस्य पररूपे सिद्धे शकन्ध्वादीनां पाठेन अप- दान्तादित्यनुवृत्तस्य पदे अन्तः पदान्तः न पदान्तः अपदान्त इत्येवं विग्रहकरणेन पदपरकचरमावयवभिन्नाकारात् गुणे परतः पररूपं भवतीत्यागी कारेण वाक्य आगच्छ देवदत्तत्यादी पदपरक चरगावयवाकारस्यैव सत्त्वेन पररूपाभावात् । महेन्द्रतीत्यादौ च पदपरकचरमावयवभिनत्वेनाकारस्य पररूपं भवति । न च दैत्याग इत्यत्र प्रत्याख्यानमारीत्या उत्तास्य पदलाभावात्पररुपापत्ति गिति वाच्यम्, पदपदेन पदत्यागामिपदिकम होनादापात् । आ एव कृदन्तन समास शिवार्च इति सिन्हम् । अत एव आगन्न विशा इति संगच्छते । अन्यथा विसंतरामा इत्यर्य बहुव्रीही 'बहुव्रीही संख्यये—' इति डचि, 'ति विशक्षिति' इति तिश- व्दस्य लोप तस्याभीयत्वेनासिाहत्वात् 'यस्येति च ' इति लोपस्याप्रा- प्रत्ययालाणनिमित्तकप दत्वमादाय पदान्तत्वेन अपदान्तत्वा- भात्रात्पररूपानापतिः । यपि---- 'छगलिगा दिनुक' इति नकारा- चारणेन तद्धितापवहितपूर्ववृत्तिसुपमादाय प्रत्ययलक्षणेन पदत्वाभा वोधनान्न दोष इति, तदपि मन्दम्; नकरोचारणाभावे दिनगन्तात जसि 'जसि च ' इति गुणे छागले पय इति रूपम् । नकारोच्चारण पदत्वान्नलापे तस्यासिद्धत्वाद्गुणाप्राप्ती यणि छागलेय्य इति रूपमि- ति फले विशेषेण नकारोच्चारणस्य सार्थक्येन तस्य ज्ञापकत्वानुप पत्तिः । तथा ढिनुगन्तेन बहुव्रीही ‘इनः स्त्रियाम्' इति कसिद्धये नकारोच्चारणं चरितार्थम् । तथा च काश्यपिनावित्यादी दोषो दुवीर .

एवेति वार्तिकं नारम्भणीयमेव । यदुक्तम्-अपूर्ववचनद्वयारम्भे गौरवमिति, तन्न; त्वन्मते- ऽपि वाक्यसप्तककल्पनाप्रयुक्तगौरवस्य दुरुद्वरत्वेन 'पदलाघ- वाद्योगविभागो गरीयान्' इति न्यायेन योगविभागप्रयुक्तगौरवस्य दुर्वारत्वात् । यतु---कार्यित्वनिवेशे परमदण्डिनावित्यादौ ङमुडा- पत्तिरिति, तन्न; 'उनि च पदे' इत्यतः पदे इत्यनुवर्त्य ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्य अनाः पदस्यैव ङमुविधानेन परमदण्डिनावित्यादौ दोषवारणस्य सूपपादत्वात् । यदपि-काश्य- पिनावित्यादी नलोपापत्तिरिति, तन्न; 'छन्दोब्राह्मणानि च तद्विय- याणि' इतिसूत्रस्थविषयग्रहणेन सुवुत्पत्तेः पूर्वमेव अध्येतवदित प्रत्ययोत्पत्तः शेखरे सिद्धान्तितत्वनादापादिति दिक् । यदुक्तम् -- वचनारम्भप्रयुक्तगोरवस्य योगविभागप्रयुक्तगीर वेण निमातुं शक्यतया न दोप इति, तन्नः वार्तिकारम्भे पूर्वदण्डि- प्रिय इत्यादी नलोपानापत्तः । यदुक्तम् --- 'उनि च पदे' इत्यतः पंद इत्यनुवर्तनात् अनादेः पदस्य ङमुडागमविधानात परमदण्डिना- वित्यादो न दोष इति, तन्नः सुगण्गीय इति समासे उत्तरपदस्थेत कार्यित्वेन त्वदुक्तरीत्या प्रत्ययलक्षणप्रतिषेधात् पदत्वाभावेन ङमुडना पत्तेः । तस्मात् परमदण्डिनावित्यादो उत्तरपदत्व चतिनिषेधात् ङमुट नति भाप्यप्रामाण्यात् ङमन्तं यत्पदमित्येव व्याख्यानमुचितम् । यद पि-काश्यपिनावित्यादौ विषयग्रहणात्सुवुत्पत्तः पूर्वमेव तन्हितो त्पच्या न दोष इति, तन्न; एवमपि यजन्तमधुशब्दात् बहुवमने 'याश्च' इति लुकि 'जसि च' इति गुण अन्तर्वतिविभक्त्य पदत्वात 'एङः पदान्तादति' इति पूर्वरूपस्य दुरुद्वरत्वापत्तेः । तस्माद्वार्तिकप्रत्याख्यानमेन ज्यायः । यदुक्तम्-पूर्वदण्डिप्रिय इत्यादी नलोपानापत्तिरिति, तन्न; 'उत्तरपदत्वे च' इति वार्तिकप्रत्याख्यानपरभाष्यप्रामाण्येन मध्यमपद त्वानाक्रान्तस्यैवोत्तरपदस्य ग्रहणेन पूर्वदण्डिप्रिय इत्यादावदोपात् । यदुक्तम्-सुगण्णीश इत्यादावनादेः पदस्य ङमुडागम इत्यर्थे अनेन पदत्वनिषेधात ङमुडनापत्तिरिति, तन्नः अपदादिवि. चाविति पयुदासेन पदााद्देश्यकविधिभिन्नस्तत्सदृशो विधिद्यते । पदादित्वं च पदघटकवर्णध्वंसासमानाधिकरणोत्पत्तिकत्वम् । तद्विधि- भेन्नो विधिरपि पदघटकवर्णप्रागभावासमानाधिकरणोत्पत्तिकवर्णोद्दे- यक एवं गृह्यते । तेन पदान्तकार्य एवास्य निषेधस्य प्रवृत्त्या सुग- णीश इत्यादी समास ईशशब्दस्य पदत्वेनादोपात् । यदपि-मधव त्यादी पूर्वरूपापत्तिरिति, तन्न; उर: केश उर पणत्यादी उत्तरपदस्य दत्वाभावेन 'सोऽपदादो' इति सत्यापच्या लक्ष्यागिद्धिरूपदोषस्य वन्मतेऽपि संभवेन अनभिधानादिना तद्वारगणस्य उभयोरप्यावश्य- त्वात । यदुक्तम्-~-'उत्तरपदत्वे च' इति वार्तिके उत्तरपदेन मध्य- पदत्वानाक्रान्तस्येव उत्तरपदस्य ग्रहणेन पूर्वदण्डिप्रिय इत्यादी न षि इति, तन्न; तथा सति पञ्चगवधन इत्यादी गोशब्दस्य पदत्व- षेधाभावेन 'एङः पदान्तादति' इति पूर्वरूपापत्तेः । यदप्यु. उम् ---पदान्तकार्य एव प्रत्ययलक्षणनिषेधात् सुगण्णीश इत्यादी न प इति, तदपि न; सुकरिणौ सुसर्पिषावित्यादी णत्वषत्वयोर- 3 २६ पदान्तकार्यत्वेन प्रत्ययलक्षणनिषेधाप्रवृत्या करिन् सर्पिस इत्येतस्य पदत्वेन कार्यित्वनिवेशेऽपि वषत्वयोरनापत्तेः । यदपि उर कंग उर:पणेत्यदो उत्तरपदस्य पदत्वाभावेन 'सोऽपदादो' इति सत्याप त्तिरिति, तन्न; अपदे इति न्यासेऽपि कुप्योरित्यनुवृत्या 'यस्मिन्त्रि धिः -' इति परिभाषया कवर्गादो पवर्गादी च पदभिन्ने इत्यानं व सिद्धे आदिग्रहणसामर्थेन अपदस्यैव आदिरित्यर्थलाभेन पदत्वयों ग्यप्रातिपदिकानवयवस्यैव कवादग्रहणनाद।पात् । अत एव कद तेन समासपक्षेऽपि त्वन्मतेऽपि न दोपः । मधव इत्यत्र अनभिधान मानाभावेन दोपो दुर्वार एव । यदुक्तम्-पूर्वदण्डिप्रिय इत्यादी दापवारणाय मध्यमपद त्यानाक्रान्तेति विशेषणदानऽपि पञ्चगवधन इत्यादी दोप इति, तन्न मध्यमपदत्वानाक्रान्तेत्यत्र मध्यमपदस्य उत्तरपदाव्यवहितपरकसुब न्तस्यैव ग्रहणेनादोपात् । यदुक्तम्- -सुकारिणी सुमर्पिपावित्यादी गात्वषत्वयोरनापत्तिरिति, तन्नः णत्वस्य पदान्तकार्यत्वाभावऽपि तन्निपधस्य पदान्तकार्यत्वेन सुकरिणावित्यादावदोपात् । सुमर्पिपा 'अपदान्तस्य मूर्धन्यः' इत्यत्र प्रसज्यप्रतिपधाश्रय णात् निषेधस्यापि पदान्तकारीलेन एतन्निपधावृत्या पत्वमिद : यदुक्तम्- अपद इत्येव सिद्धे आदिग्रहाणसामथ्यात अपये आदिरित्यान्न दोप इति, तन्नः कुप्नोरिति द्वन्द्वनिर्दशन इन्हें साहित्यावच्छिन्नकवर्गपवर्गयोरेवोपस्थित्या सप्तम्यन्तस्य अल्माजवा बकत्वाभावेन ‘यस्मिन्विधिः--' इत्यस्याप्रवृत्त्या आदिग्रहणस्यान श्यकत्वात् । एवं च उरकेणत्यादी दोपो दुरि एव । यदपि- मधत इत्यत्र पूर्वरूपापत्तिरिति, तन्नः एङ: पदान्तादति' इत्यः वित्यादी तु - दि अन्तः पदान्त इत्यर्थाङ्गीकारण प्र : पपरकचरमावयवी- नङः परत्याभावनादोपात । यदुक्तम् - उत्तर पदाव्यवहितपरकमध्यमपदत्वानाकान्तोत्तर दस्थेत्र पदान्तप्रयोज्यकार्य कर्तव्ये प्रत्ययलक्षणप्रतिपेधाङ्गीकारान्न पप इति, तन्न; एवमा मय इत्यादी दोषापत्तेः । न च पदे अन्तः दान्त इति पूक्तिरीत्या मधव इत्यत्रवानापि न दाप इति वाच्यम्, नितिपरस्य गाशब्दस्यानुकरणे गो अप्रवीदित्यादी पूर्वरूपापनेः । च सय इत्यादो उत्तर पदस्य तदवटितस्य वा पदत्वे कर्तव्ये लुमता ते प्रत्ययलक्षणं नेत्यर्थ इति शेखरोक्तरीत्या न दोप इति च्यम्, एवमपि मधत्र इत्यादी दोषस्य दुर्वारत्वात् । तथा उत्तरपदस्य तदघटितस्य उत्तरपदाव्यवहितपरकमध्यमपदत्वा क्रान्तस्य पदान्तप्रयोज्ये कार्ये कर्तव्ये प्रत्ययलक्षणप्रतिषेध यर्थस्य फलितत्वेन उक्तानेकविशेषणघटितवार्तिकारम्भापेक्षया दुक्तयोगविभागेन तत्साधनस्य लघुत्वात् । यदपि जोत्यादो दोपस्तदवस्थ एवेति, तदपि न; कस्कादिपु भास्कर 'ब्दपाठेन रुदन्तेन समासे पूर्वपदस्य सत्वाभावज्ञापनात् । किं च बहुचपूर्वस्य च' इति वार्तिकेन प्रत्ययलक्षणप्रतिषेधात् बहुगेक लमित्यादी समुदायादुत्पन्नं सुपमाश्रित्य पदत्वे कर्तव्ये प्रत्ययलक्षण- नषेधापत्या कुत्यानापत्तिः । तस्मात्प्रत्याख्यानपक्ष एवं युक्तः । यदुक्तम्-गो अब्रवीदित्यादौ गोशब्दस्यापदत्वेन पूर्वरूपा- तेरिति, तन्न; प्रत्यासच्या पदपरकस्य पदचरमावयवस्यैव एङो ग्रहणेन [ अबवीदित्यादौ दोषवारणसंभवात् । न चैवं हरे अ इत्याहेत्यादी - उर:- - - अशब्दस्यैवानुकरणत्वेनापदत्वे एङः पदपरकपदचरमावयवत्वाभावात्पू- झपानापत्तिः । सिद्धान्तेतु पूर्वरूपमि प्यत इति वाच्यम्, अत्र पद- शब्देन पदत्वयोग्यस्य स्वातन्त्र्येण प्रयोगार्हस्य ग्रहणोनादोषात् । न चैवं गो अब्रवीदित्यादौ गोशब्दस्यापि स्वाव्येण प्रयोगार्हतया पदत्वयोग्यत्वात् पूर्वोक्तदोषस्तदवस्थ एवेति वाच्यम्, अत्र वार्तिके पूर्वपदस्य वृत्तिशब्दस्य लोपेन उत्तरपदशब्दस्य वृत्युत्तरखण्ड परत्वेन वृत्त्युत्तरखण्डस्य पदादिविधिभिन्ने पदान्तत्वप्रयोज्ये कार्ये प्रत्ययलक्षणप्रतिषेध इत्यर्थेन मधव इत्यादौ दोषवारणसंभवेन पदान्त- पदे यथाश्रुतार्थस्यैवाङ्गीकारात् । तथा च सय इत्यादावपि न दोपः । एवं च बहुसेचावित्यादावुक्तरीत्यैव वारणसंभवात् 'बहुच्पूर्वस्य च ' इति वार्तिकमपि नारम्भणीयम् । बहसेक् कुलमित्यादी वृत्तिचरमावय वस्य सेच् इत्यस्य पदत्वप्रयोज्ये कुत्वे कर्तव्ये तत्प्रकृतिकप्रत्ययस्येव प्रत्ययलक्षणप्रतिषेधेन समुदायादुत्पन्नं सुपमाश्रित्य प्रत्ययलक्षणेन पदत्वात् कुत्वादिकं भवत्येव । यहा वृत्तिप्रयोज्यलुक एव प्रत्ययलक्षण प्रतिषेधाङ्गीकारेण बहुसेक् कुलमित्यादावदोषः । एतेन दण्डि कुल- मित्यादौ व्यस्ते दोष इत्यपास्तम् । वस्तुतस्तु उत्तरपदशब्दः वृत्तिचर- मावयवपरः । बहुसेचावित्यादौ चकारस्य वृत्तिचरमावयवत्वेऽपि सकारस्य वृत्तिचरमावयवत्वाभावेन तस्य पदत्वप्रयोज्ये 'सात्पदाद्योः इति षत्वनिषेधे कर्तव्ये प्रत्ययलक्षणप्रतिषेधस्यैवाप्राप्त्या वार्तिके अप- दादिविधाविति न कार्यमित्यपरं लाघवमिति दिक् ॥ इति प्रत्ययलक्षणप्रतिषेधवार्तिकार्थविचारः समाप्तः ।

॥श्रीः॥ इको गुणवृद्धी॥ नन्विदं सूत्रं व्यर्थम् । न च पचतीत्यादी लिटस्तिपि 'तिङ् शित्-' इति सार्वधातुकत्वे ततः ‘कर्तरि शप्' इति शपि तदादिग्रहणेन विकरणविशिष्टस्यापि अङ्गत्वात्पचेत्यकारान्तस्य 'सार्व- धातुकार्धधातुकयोः' इति सूत्रेण, धात्वकारस्य च 'पुगन्त-' इति सूत्रेण गुणतारणार्थ सूत्रमिति वाच्यम्, अकारस्य आन्तरत- म्यादकाररूपे गुणे सत्यपि रूपे विशेषाभावात् । न च पेचिथेत्या. दो गुणशब्देन भावितत्वेन एत्वाभ्यासलोपो न स्यातामिति वाच्यम्, शराददसाहचर्यात् गुणावयवीभूताकारस्यैव ग्रहणेन शशरिथेत्यादा- वेव तनिषेधाङ्गीकारात् । न च सिद्धान्तेऽपि लुलविणेत्यादी अवा- देशस्य गुणशब्देन भावितौकारप्रयोज्यत्वेन निषेधानापत्तिरिति वा- च्यम्, 'अचः परस्मिन्-' इस्यनेन निर्वाहात् । न च अचिकीर्षी- दित्यादौ परत्वादल्लोपं बाधित्वा सिचि वृद्धिः स्यादिति वाच्यम्, चिकीर्षक इत्यत्रेव ‘ण्यल्लोपी--' इति वार्तिकेन पूर्वविप्रतिरोधेन पूर्वमल्लोपप्रवृत्त्या अकारे दोषाभावात् । न चैवमपि याता वातेत्यादी आकारे गुणव्यावृत्यर्थं सूत्रमावश्यकमिति वाच्यम्, 'गापोष्टक्' इति टकः कित्करणेन आकारस्य गुणाभावज्ञापनात् । तथा हि सामग इत्यादौ 'आनो लोप इटि च' इत्यालोपार्थ टकः कित्कर- णम् । यदि च आकारस्य गुणः स्यात्, तदा कित्करणमनर्थकमेव स्यात्; 'सार्वधातुक-' इति आकारस्य गुणे अकारे सति द्वयो- किारयोः अतो गुणे' इति पररूपे सामग इत्यादिसिद्धेः टक:

कित्त्वमतिरिच्यमानमाकारस्य गुणाभावं ज्ञापयति । . यदुक्तम्-'गापोष्टक' इति टकः कित्वम् आकारस्य गुणाभावं ज्ञापयतीति, तन्नः सामगायेत्यादी आवधातुकनिमित्त आकारस्य आन्तरतम्यादकारे गुणे ततो द्वयोरकारयोः पररूप तस्य पूर्वान्तवद्रावेन धातुत्वात्तदकारस्य 'सुपि च ' इति दार्च तस्य स्थानिवद्भावेन धातुत्वात् 'आतो धातोः' इति आल्लापः स्यात् । सति तु कित्करणे पूर्वमेवाल्लोपस्य जातत्वेन एकादेशाभावात पूर्वान्त वत्वेन धातुत्वासंभवात् 'आतो धातोः' इत्यस्याप्राप्तिरित्यत सामगायेति सिध्यतीति टकः कित्करणस्य न वयमिति न तस्य ज्ञापकत्वसंभवः । यदुक्तम् ----- सामगायेत्यादि न ज्ञापकत्वसंभव इत्गन्तम तदापाततः; सामगायेत्यत्र संनिपातपरिभाषयव आलोपस्य सुपरि हरत्वात् । तथा हि-सामगशब्दात उप्रत्यय तस्य अकारान्तत्व ततः परस्य 'डेय :' इति यादेश ने 'सुपि च ' इति दी कर्तव्ये 'कष्टाय' इति निर्देशेन संनिपातपरिभाषाया अप्रवृत्ताव आतो धातोः' इत्यालापे कर्तव्ये संनिपातपरिभाषाप्रवृत्तरित्वे तयवै सामगायेत्यत्र आल्लोपवारणासंभवेन रूपसिझेर्निष्प्रत्यूहतय कित्करणवैयर्थ्यम्य सूपपादत्वात् । अत एव 'ए ओङ' इति सूत्र सामगायेत्यत्राल्लोपव्यावृत्या टकः कित्करणस्थ चारितार्थ्यमाशङ्क अकारसंनिपातमाश्रित्य प्रवृत्तो यादेशः संनिपातपरिभाषया लोपं : प्रवर्तयति; 'सुपि च ' इति दीर्घ तु 'कप्टाय' इति निर्देशाः प्रवर्तयत्येवेति कैयटेन समाहितम् ।

३१ MISSION INSPMES यदुक्तम् --सामगायेत्यारभ्य समाहितमित्यन्तन, तच्चिन्त्यम्; सामगारोत्यत्र 'डर्यः '. इति यादेशोपजीव्यभूतस्य इवाकारस्य सुपि च ' इति दीत्रणेव निवर्तितत्वेन दीर्वोत्तरं तदुपजीव्यानुवृत्तेर- भावेन 'आता धातोः' इत्याल्लोपे कृतेऽपि तेन यादेशोपजीव्यभृत- हवाकारस्य विधातासंभवात् उपजीव्यविरोधस्य अयुक्तत्वमिति न्यायमूलकैतत्परिभाषाया एतादृशविषये अप्रवृत्तः। तस्मात 'आतो लोप इटिच' इत्यापित प्रवृत्ती कित्वमावश्यामिति न तस्य वाशना । कपि-- 'ए ओड' इति सूत्र इत्यादि, तदपि न युक्तमः व्याननित्यर्थ गूत्रमिति सिद्धान्त स्थापयिप्यमाणत्वन पूर्वपक्षिा उपन्यत्तस्य ज्ञापकस्य तात्पर्य वर्णयितुं प्रवृत्तः कयटस्तव मागव कथंचित्संनिपातपरिभाषां संचारयन टकः कित्वस्य ज्ञापकत्वं प्रतिपादियानिति तहिरोषस्याप्रयोगकत्वात् । अत एव शुभंयाशब्दस्य नपसका स्वत्वे डयादेशे 'सुपि न' इति दीर्थे 'आता धातोः' इत्यालाप 'शुभंय्य' इत्येव रूपमित माववादिभिः चीकृतं संगच्छत । तस्मात टक: कित्वं न त, कामेति मूत्र मावश्यकमेव । अथ यदक्तम्-सामगायेत्याद्यावश्यकमित्यन्तन, तदयुक्तम् सामगायत्यत्र संनिपातपरिभाषाप्रवृत्तः सपपादत्वात् । तथा हि- 'ङयः' इत्यत्र 'अता भिस ऐस' इत्यतः ‘अतः' इत्यनुवर्तते । तच 'तपरस्तत्कालस्य' इति शास्त्रेण मात्रिकत्वरूपधर्मविशिष्टा- वर्णत्वनात्यवच्छिन्नस्य उपस्थापकमिति मात्रिकत्वरूपधर्मविशिष्ट स्यावर्णस्येव यादेशं प्रत्युपजीव्यत्वेन दीर्चेण उपजीव्यभृतमात्रिकत्वां- शस्य निवृत्तावपि विशेप्यभूतस्यात्वावटित सोऽप्यनुवृत्त्या RISHAD (IRPr CUL WTHI THILA ३२ लोपेन तस्यापि निवृत्तो परिभाषाविरोधो दुष्परिहरः । अत एवं टकः कित्करणस्यानन्यार्थत्वेन' ज्ञापकत्वप्रतिपादनपरम् ‘ए ओङ्' इतिसूत्रस्थं प्रकृतसूत्रस्थं च भाप्यं संगच्छते । यदुक्तम्-नपुंसकस्य शुभंयाशब्दस्य चतुर्येकवचने आलोपे शुभंय्य इत्येव रूपं माधवे. नोक्तमिति, तदसदेव; उक्तभाप्यद्वयविरोधात् । तस्मात् टकः कित्करणं ज्ञापकर्मति सूत्रमनादरणीयमेव । अथ यदुक्तम्---- 'हुर्थः' इत्यत्र अत इत्यनुवर्तते इत्यादि, तदयुक्तम्, 'तपरस्तत्कालस्य' इति शास्त्रेण तपरस्य न मात्रि कत्वसमानाधिकरणात्वनात्यवच्छिन्ने शक्तिः कल्प्यते, गौरवात् । किंतु अवर्णत्वव्याप्या जात्यवच्छिन्न एव शक्तिः, लाघवात् । एवं च कारणीभूतव्याप्य जात्यवच्छिन्नस्य दीर्घेणैव निवर्तितत्वेन लो- पेन दीर्घस्य निवृत्तावपि उपजीव्यविरोधस्य दुरुपपादत्वात् । अत एव 'ऋत इद्धातोः' इतिसूत्रस्थधातुग्रहणस्य मातृणामित्यादि प्रयोजनं भाप्योक्तं संगच्छते । अन्यथा तुल्यन्यायेन 'हवनद्यापो नुट्' इत्यत्र इचपदेन मात्रिकत्वविशिष्टाच्त्वावच्छिन्नस्यैवोपस्थित्या मातृणामित्यादी 'नामि' इति सूत्रारम्भसामर्थ्यात्संनिपातपरिभाषां बाधित्वा पूर्व दीर्वे कृते तेन मात्रिकत्वांशस्य विनाशेऽपि विशेष्यभू. तस्य अच्त्वावच्छिन्नत्वस्यादेशेऽप्यनुवृत्त्या तस्य स्थाने प्राप्तस्य रपर- स्य 'इर्' इत्यस्य उपजीव्यभतानुवृत्ताच्वांशस्य निवर्तकतया संनि- पातपरिभाषयैव तद्वारणसंभवेन तद्वारणाय कृतस्य धातुग्रहणस्य वैयापत्तेः । तदेतत्सकलमभिसंधाय शुभंये इत्येव रूपमिति माध- वेनोक्तम् । तस्मात्पूर्वपक्ष्याशयप्रदर्शनपर भाष्यकैयटादिकमादाय ज्ञापकत्वसमर्थनमयुक्तमेव ।. .

३३ अथ यदुक्तम् -अत्पदस्य अवर्णत्वव्याप्यजात्यवच्छिन्ने श- किरिति, तदसमन्जसम्; लाढशव्याप्यमातिसचे मानाभावात् । तपर- सूत्रेण निर्दिश्यमानव्यक्तयधिकरणमात्रिकत्वादिरूपकालपरिच्छिन्ने निर्दिश्यमानव्यक्तिवृत्तिनात्यवच्छिन्ने, व्यक्तिपक्षे तत्सवणे वा अदा- दिपदस्य शक्तिग्रहेण तेन मात्रिकत्वसमानाधिकरणात्वनात्यवच्छिन्न- स्येवोपस्थित्या विशिष्टस्य यादेशनिमित्तत्वप्रतीत्या तत्र दीर्घण विशेषणीभूतमात्रिकत्वांशस्य नाशेऽपि विशेष्यभूतात्वांशस्यादेशेऽ- प्यनुवृत्त्या लोपेन तस्यापि नाशे परिभाषाविरोधस्य सूपपादत्वात् । यदपि-ऋतः-' इति सूत्रभाष्यविरोधोद्भावनम्, तदप्यसम- असमेव; संनिपातपरिभाषाया हि स्वप्रवृत्तेः प्राक् स्वनिमित्तभूतो यः संनिपातः, तादृशसंनिपातविघातुकस्य स्वातिरिक्तस्य स्वयमनिमित्त- मित्यर्थः । प्ररते च इत्वं प्रति प्रत्ययस्य कथंचिन्निमित्तत्वेऽपि हस्वसंनिपातनिमित्तस्य नुडागमस्य अप्रत्ययत्वेनानिमित्तत्वेन परि- भापाया अप्रवृत्तेः । तस्मात् टकः कित्वं ज्ञापकमेवेति पूत्रमनारम्भणीयमेव । . यत्तूक्तम्-अवर्णत्वव्याप्यजातिसत्वे मानाभाव इत्यादि, तन्न सम्यक्; अकार आकारो न, अयमाकारो न त्वकार इत्याद्यनुगता- कारप्रतीतरेव मानत्वात् । अत एव 'अइउण' इति सूत्रे तस्य वेवृतोपदेशादन्यत्रापि विवृतोपदेशः सवर्णग्रहणार्थः' इति वार्तिकस्थ- माप्यव्याख्यानावसरे ननु सर्वेषामकाराणां यत्सामान्यम्, तदनुकर- गमत्राकारः; तस्य च विवृतत्वे प्रतिज्ञायमाने सर्वेषां तत्प्रतिज्ञात- पवेति किमुच्यते अन्यत्रापि विवृतोपदेशः' इति कैयटेनाशङ्कितम् । नत्र हि सामान्यमित्यस्य अष्टादशावर्णव्यक्तिवृत्ति यत्सामान्यम्, तन्नाथः । तथा सति दीप्लुतमाहितत्वस्य स्वतःसिद्धत्वेन अंशे प्रतिज्ञाया वैयप्रिसङ्गात् । तस्यात् व्याप्य मतिरस्त्यवेति तदाशयः । अत एव कौस्तुभे अवर्णत्वावान्तर जानिरङ्गीलता । तस्मात् तादृशव्या- प्यजात्यवच्छिन्न एव अदादिपढ़ानां शफिकल्पनस्य लघुतया तेन मात्रिकत्वसमानाधिकरणानतरूपनात्यजिन्नस्यानुपस्थित्या ताह- शव्याप्यनात्यवच्छिन्नस्य दाणिव निवर्तितत्वन लापन दीर्घस्यापि निवृत्ती उपजीव्यविरोधस्य दुरुषपादत्वात् कित्करणं न ज्ञापकमिति सूत्रमारम्भणीयमेव । यदुक्तम्-अकारोऽयम्, नत्वाकारः ! अकारोऽयम्, अकारोऽय- मित्यनुगताकारप्रतीतिरेव मानमिति, तन्न; त्वदुक्तानुगताकारप्रतीतेर्म- दुक्तरीत्या ह्रस्वत्वसमानाधिकरणव्यापकजातिविपयत्वेनाप्युपपत्त्या कृशत्वस्थूलत्वादिगुणभेदेन घटादिपु जातिभेदाभाववत् अत्रापि गुण- भेदेन व्याप्यजात्यङ्गीकारे मानाभावेन फलाभावेन च तस्य अत्पदश- क्यतावच्छेदकत्वासंभवात् । अत एव जातिपक्षे अणुदित्सूत्रप्रत्या- ख्यानपरं भाप्यं संगच्छते । अन्यथा घटपदन द्रव्यत्वनांतरिव 'अस्य च्चों' इत्यादी अपदेन व्यापकजातरनुपस्थित्या तत्र एतत्सूत्रप्रवृत्त्या दीर्यादीनां ग्रहणार्थमणुदित्सूत्रस्यावश्यकत्वेन जातिपक्षमाश्रित्य तत्प्रत्याख्यानासंगतिः । एवं च अत्पदस्य मात्रिकत्वादिगुणविशि- एव्यापकजात्यवच्छिन्न एव शक्तिग्रहेण तेन तस्येवोपस्थित्या दीर्घण विशेषणांशनाशेऽपि विशेष्यांशस्थ आदेशेऽप्यनुवृत्त्या लेोपेन तस्यापि नाशे परिभाषाविरोधः स्पष्ट एव । यदुक्तम्-व्यापक जात्याच्छिन्नस्येव अत्पदेनोपस्थित्या दोघण ३५ मात्रिकत्वांशनाशेऽपि लोपेन विशेष्यभूतांशस्यापि नाशात् तद्विरोधः स्पष्ट एवेति, तदसत्; मात्रिकत्वविशिष्टीवर्णस्यैव निमित्तत्वेन तत्र दीर्वण निमित्ततावच्छेदकी भूतमात्रिकत्वांशविनाशोत्तरं तच्छ्रन्यस्य निमित्तत्वे मानाभावेन लापन तस्य विनाशऽपि निमित्तविनाशाभावेन आल्लोपो निमितं विघटयतीत्युक्तनिरालम्बनत्वेन परिभाषाया अप्रवृत्त्या आलोपवारणाय टकः कित्वस्यावश्यकत्वेन वैयभिावाज्ज्ञापकत्वा- नुपपत्या याता वातत्यादी गुणवारणार्थ सूत्रमावश्यकमेव । यहुक्तम्-निमित्ततावच्छेदकशून्यस्य निमित्तत्वे मानाभावन चोपन तस्य नाशेऽपि नापजीव्याविरोध इत्यादि, तदापाततः; धनिनं वदत्तमुप नीव्य वृहस्य यज्ञदत्तस्य स्वोपजीव्यभूतदेवदत्तस्य धन- राश इस उपजीव्यभूतदेवदत्तविनाशं प्रति प्रपोजकत्वऽपि उपजी- यवि। वस्य स्पष्टतया अत्र एकवाकारपक्तिमात्रिकत्वाद्यष्टादशधर्म- मन मिति पक्ष कारणतावदकधर्मनाशेऽपि कारणीभूतव्यक्त नुवृत्या लोपन तन्नाशे उपजीव्यनिरोधस्य स्पष्टत्वात मागगायत्यादी निपातपरिभाषायैव लापस्य मुपरिहन्त्वन टकः किरकरणस्य तापकत्वस्य सुस्थत्वात् । यदुक्तम् --- अकारण यात कारणीभूतव्यक्तिनाशस्य खन मनिपातपरिभाषानिशेधः सृषपाद इति, तन्न; सिद्धान्त अका व्यक्तीनां नानात्वन कारण मृत व्यक्तरप्यादेशेऽनुवृत्यमांतन कारणतावच्छेदकशून्यस्य कारणत्वे मानाभावन च उपजीव्यवि. राघस्य दुर्वचत्वात् । न च विशिष्टस्य यत्र निमित्तता, तत्र विशेष्य- नाश इव विशेषणांशनाशेऽपि उपजीव्यविरोधः सुनचः ।

दीर्घव्यक्तावपि कारणतावच्छेदकीभूतात्वांशस्यानुवृत्त्या लोपन उपजीव्यतावच्छेकधर्मनाशेन 'उपजीव्यविरोधस्य सूपपादत्वादिति वाच्यम्, उपजीव्यतावच्छेदकीभतात्वस्य नित्यत्वेन - साक्षात्तन्नाशा- संभवेन उपजीव्यभूतव्यक्तिनाशद्वारैव तन्नाशस्य वक्तव्यतया तस्याः पूर्वमेव नष्टत्वेन तन्नाशद्वारापि तदसंभवेन उपजीव्यव्यत्तचन्य- व्यक्तिनाशद्वारा तनाशस्थाप्रयोजकत्वात् । तस्मात् सामगायेत्यादौ आल्लोपवारणेन टकः कित्वं चरितार्थमिति तस्य ज्ञापकत्वं न संभवतीति सुत्रमारम्भणीयमेव । यदुक्तम् --अकारव्यक्तीनां नानात्वनेत्यादि, तन्न; संनिपात- लक्षणविधिः स्वप्रवृत्तेः प्रागिव स्वप्रवृत्यनन्तरमपि यः संनिपातः तद्विघातकस्याप्यनिमित्तमिति परिभाषाया अर्थाङ्गीकारेण प्रकृते संनिपातपरिभाषाविरोधस्य सूपपादत्वात् । अत एव 'एङ हूस्वात्-' इति सूत्रभाष्ये हे ज्ञानत्यादी मलोपाय हे कतरदित्यादौ ले।पाभावाय च अङ्गाक्षेपहल्पदानुवृत्तिव्यधिकरणान्वयाद्याश्रयणं संगच्छने । अन्यथा 'अतोऽम् ' इति सूत्रे म् इति च्छंदनैव हे ज्ञानेत्यादौ लोप मिया हे कतरदित्यादी हूस्वात्परत्वाभावादेव लोपाप्राप्त्या तदुभय- सिद्धये उक्तक्लेशाश्रयणं व्यर्थमेव स्यात् । मम तु म् इति च्छेदे हे ज्ञानेत्यादी उक्तरीत्या संनिपातपरिभाषाविरोधाल्लोपानापन्या अम् इति च्छेदे उक्तक्लेशाश्रायणं सफलम् । एवं स्वप्रवृत्तेः प्रागिव स्वप्रवृत्त्य- नन्तरमपि परिभाषाप्रवृत्तेः फलं तु, मतावित्यादौ 'अच्च घः' इत्यत्वे औत्वे च कृते ततोऽदन्तत्वात् प्राप्तटापः स्वनिमित्त- भूतप्रकृतिप्रत्ययानन्तर्यविधातुकस्य अप्रवृत्तिरिति 'लन्मेजन्तः'इति सूत्र आकरे स्पष्टम् । तस्मात् कित्त्वम् ज्ञापकमेवेति सूत्रं नारम्भगीयम् ।

यदुक्तम् - स्वप्रवृत्तेः प्रागिवेत्यायुक्तरीत्या सामगायेत्यादी लापस्य वारणात् टकः कित्वं व्यर्थं 'सत् ज्ञापकमिति, तन्मन्दम् प्रियाः सामगाः यासां ताः प्रियसामगाः पश्येत्यादो टापा सहका- देशस्य पूर्वान्तवत्वेन धातुत्वे प्राप्ताल्लोपवारणाय टकः कित्वस्य चारितार्थेन तेन आकारस्य गुणाभावकल्पनासंभवात् । तस्मात्सूत्र- मारम्भणीयमेव । यदुक्तम् - प्रियसामगाः पश्येत्यादावाकारस्य लोपवार- णार्थ टकः कित्करणमिति, तन्न ; प्रियसामगाः पश्येत्यादौ प्राप्तस्य आल्लोपस्य लक्षणप्रतिपदोक्तपरिभाषया वारणसंभवात् । न च वर्णग्रहणे तस्या अप्रवृत्तः 'आदेचः-' इति सूत्रस्थोपदेशग्रह णेन ज्ञापितत्वात् कथं तयात्र निर्वाह इति वाच्यम्, ओत्सूत्रे व्यन्तस्य प्रतिषेधो वक्तव्यः । अनदः अदः समभवत् अदो- भवत्' इति वार्तिकस्य फलमुक्त्वा, 'न वक्तव्यः लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्येत्येत्वं न भविष्यति' इति भाष्यप्रामाण्येन वर्णग्रहणेऽ- पि परिभाषाप्रवृत्त्या आल्लोपस्य सुपरिहरत्नात् । तस्मात् टकः किकरणं ज्ञापकमेव । " यदुक्तम्-प्रियसामगाः पश्येत्यादावाल्लोपस्य लक्षणप्रति- पदोक्तन्यायेनैव वारणं सुशकमिति, तन्न ; वर्णग्रहणे एतत्परि- भापायाः प्रवृत्ती कापयतीत्यादौ पुगागमानापत्तः । किंच 'आतो धातोः' इति सूत्रे लक्षणप्रतिपदोक्तपरिभाषायाः प्रवृत्तौ पशुपः सीरधः पश्येत्यसिद्धवत्सूत्रभाप्यप्रयोगो न संगच्छेत, उक्तरीत्या तत्रापि आलोपाप्रवृत्तिप्रसङ्गात् । किंच यस्य रूपस्य लक्षणप्रवृत्ति 4 विना नैव संभवः, तादृशलाक्षणिकस्यैव तत्परिभाषाविषयत्वम् । अत एव अतिखट्वायत्यत्र आकारस्य लाक्षणिकत्वेन न याडिति सिद्धान्तः संगच्छते । अन्यथा सूत्रस्य निशायै इत्यादी चारितार्थेन खट्वाय इत्यत्राप्याकारस्य लाक्षणिकत्वेन याडनापन्या भाप्यासंगतिः । तस्मात् प्रियसामगाः पश्येत्यादौ प्राप्तस्याल्लोपस्य वारणेन टकः कित्त्वं सार्थकमिति सूत्रमारम्भणीयमेव । यदुक्तम्-प्रियसामगाः पश्येत्यादी दोषस्य दुरुद्वरत्वेन कित्त्वस्य तदर्थतया ज्ञापकत्वासंभवात् सूत्रमावश्यकमिति, तन्नः 'आतोऽनाप: ' इति सूत्रकरणेनात्र लोपवारणात् । आबन्तप्रकृतिका चारविपोऽनभिधानात् नास्मिन् न्यासे किमपि दूषणम् । तस्मात टकः कित्वं ज्ञापकमेवेति सूत्रमनारम्भणीयमेव ।। ॥श्रीः सुडनपुंसकस्य ॥ अत्र सुडिति औटष्टकारेण प्रत्याहारः, प्रत्यामत्तिन्यायात आंटष्टकारस्यानन्यार्थत्वाञ्च । सुडागमस्य तु नात्र ग्रहणम्, 'प्रत्य- याप्रत्यययोः प्रत्ययस्यैव ग्रहणम्' इति परिभाषया प्रत्ययस्येव ग्रहणात् । अत्र सूत्रे अनपुंसकग्रहणं मास्तु । स्वमोस्तावात सर्वनाम- स्थानसंज्ञायां दोषाभावः । न च ज्ञानमित्यादौ ' नपुंसकस्य झलचः ' इति नुमापत्तिरेव दोष इति वाच्यम्, संनिपातपरिभाषया अङ्गस्य नुमभाव इति वक्तुं शक्यत्वात् । न च प्रियकोष्टुनी इत्यत्र सर्वनामस्थानत्वात् तृज्वगावः स्या- दिति अनिष्टं प्रसज्येतेति वाच्यम्, 'वृद्धयोत्वतृज्वगावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन' इति वार्तिकेन तृज्वगावं बाधित्वा प्रथमं नुम्प्रवृत्त्या अदोषात् । अत एव प्रियतिसृणी इत्यादौ 'ऋतो डि-' इति गुणोऽपि न । न च वारिणी इत्यादौ 'सर्वनामस्थाने च-' इति नान्ता- ङ्गस्य विहितो दीर्घः स्यादेवेति वाच्यम्, 'सर्वनामस्थाने चाश्यसंबु- हौ' इति न्यासेन सत्यामपि संज्ञायां दोषाभावात् । न चैवमपि कर्तृणी इत्यादौ 'अप्तृन्-' इति दीर्घः स्या- दिति वाच्यम्, 'अपतृन्-' इति सूत्रेऽपि 'सर्वनामस्थाने च-' इति सूत्रात् अश्यसंबुद्धावित्यस्यानुवृत्त्या अदोषात् । न चैवमपि ज्ञाने इत्यादौ नपुंसकस्य झलचः' इति नुमापत्तिः ; गोची इत्यादौ च 'अञ्चेश्छन्दस्यसर्वनामस्थानम्' इत्यादीनामप्र- वृत्त्यापत्तिश्चेति वाच्यम्, एवमपि 'सुडनपुंसकस्य ' इत्यत्र 'सुडशी' इति न्यासे उक्तसकलदोषाणां वारणसंभवात् । न च इमे इत्यत्र 'जसः शी' इति श्यादेशस्य 'उडिदम्-' इति स्वरानापत्तिः, तस्यासर्वनामस्थानत्वेऽपि 'एकादेश उदात्ते- नादात्तः' इत्युदात्तत्वसिद्धेः । न च इमे इत्यत्र 'यस्येति च'.इति लोपापत्तिरिति वाच्यम्, " 'औङः श्याम् -' इति वार्तिके इति वार्तिके 'औङः' इत्यस्याकरणेन अदो- पादिति दिक् ॥ श्रीः॥ अतोऽम् ॥ अत्र 'मतः' इत्येव सूत्रमस्तु ; अदन्तादङ्गात्परयोः स्वमोः म आदेश इत्यर्थः । न च विधेयस्य पूर्व प्रयोगो न दृष्ट इति वाच्यम्, 'अपृक्त एकाल---' इत्यादौ तथा दृष्टत्वात् । यद्वा, यथाश्रुतमेव 'अतो म्' इति सूत्रमस्तु ; म् इति च्छेदः क्रियताम्, न तु अम् इति । न च यथाश्रुते म् इति च्छेदे अम् इति च्छेदे वा न लाघव गोरवविचारावसर इति वाच्यम्, म इति च्छेदे 'एहखात- इति सूत्रे हल्ग्रहणानुवृत्तिर्न कर्तव्या; संबुद्धिग्रहणस्य च वैयधि करण्येन अन्वयो न स्वीकर्तव्य इति लाववसत्वात् । न च ज्ञानमित्यादौ सौर्मादेशे 'सुपि च' इति दीर्घ स्यादिति वाच्यम्, संनिपातपरिभाषया दीर्घाप्रवृत्तेः सुवचत्वात् । न च 'कष्टाय क्रमणे' इति निर्देशात् 'सुपि च' इति दीर्घविषये संनिपातपरिभाषा न प्रवर्तत इति ज्ञापितत्वात् प्रकृते दोष स्यादेवेति वाच्यम्, ज्ञापकस्य विशेषापेक्षत्वेन चतुर्येकवचने तथा - ..

. ज्ञापनेऽपि अन्यत्र परिभाषाप्रवृत्तेः सुस्थत्वात् । अत एव 'सुपि चेति दी? यद्यपि परः, तथापीह न प्रवर्तते, संनिपातपरिभाषावि- रोधात्' इति. मूलग्रन्थोऽपि संगच्छते । न च सिद्धान्ते दीर्घान्त सर्वत्र नपुंसके हूस्वस्यावश्यंभावेन 'अतः' इति तपरकरणस्य व्यावासंभवेन. आदेशं प्रति हूस्वान्ता- ङ्गस्य उपनीव्यत्वाभावेन कथं सनिपातपरिभाषाप्रवृत्तिरिति वाच्यम्, दाक्षिरित्यादौ 'अङ्गसंज्ञा तीनिमित्तं स्यादिति भाष्यप्रामाण्येन प्रक- तिविभक्तयोरानन्तर्यमुपजीव्य प्रवृत्तस्यादेशस्य दीर्वानिमित्तत्वमिति परिभाषाप्रवृत्तेः मूपपादत्वात् । न च द्वितीयकवनने 'आदः परस्य' इति अकारस्य मका- आपत्तिरिति दोप इति वाच्यम्, सत्यपि तथा आदेशे संयोगान्त- टापनष्टसिन्दः । , - न च 'यणः प्रतिषेधः' इति वार्तिकप्रत्याख्यानाय झल्प- हणमपकृप्य संयोगान्तस्य झलो लोपविधानादत्र लोपो न प्रामोतीति च्यम्, 'अमो मश्' इति सूत्रे भाष्ये शिवप्रत्याख्यानावसरे अमो म्' इत्युक्त्वा मकारान्तरप्रश्लेषेण सर्वादेशत्वमुक्तम् । यटेन च संयोगान्तलोपेनेष्टं सिद्धमित्युक्तम् । तथा च तादृशभा- यप्रामाण्येन-संयोगान्तस्य लोपो भवति, संयोगान्तस्य झलो लोपो विति-इति वाक्यद्वयाङ्गीकारेण द्वितीयवाक्येन प्रथमवाक्यस्य गचित्कत्वबोधनेन पूर्ववाक्यस्य क्वचिदझल्यपि प्रवृत्त्यङ्गीकारेण कते च प्रथमवाक्यप्रवृत्त्या अदोपादिति दिक् ।।

४२ ॥ श्रीः ।। षट्चतुभ्यश्च ॥ घट्संज्ञकेभ्यश्चतुरश्च परस्यामो नुडागमः स्यादिति सूत्रार्थः । अत्र सूत्रे चतुर्ग्रहणं न कार्यम् । न च चतुर्णामिति रूपासिद्धिरिति शक्यम्, 'प्रान्ता षट' इति न्यासेन षान्ता नान्ता रेफान्ताश्च संग्ख्याः षट्मंज्ञका इत्यर्थकेन चतुर्शब्दस्य पट्त्वाङ्गीकारेण तत्र च षटवादव नुडागमसिद्धेः । न च चत्वार इत्यादी जश्शसोलुंगापत्तिरिति वाच्यम्, 'अर्ष- इभ्यो लुक्' इति न्यासेन निर्वाहात् रेफान्तभिन्नेभ्यः षट्रसंज्ञकेभ्यः परयोश्शसोलुंगिति तदर्थात् । न चैवमामि नुडर्थमुपात्तस्य चतुश्शब्दस्य प्रत्याख्यानाय सर्वा स्वपि विभक्तिपु पटसंज्ञामभ्युपगम्य अतिप्रसङ्गे प्राप्ते तत्परिहारार्थम अपड्भ्यो लुक' इति न्यासकरणमनुचितम् 'प्रक्षालनाद्धि पङ्क- स्य दूरादस्पर्शनं वरम्' इति न्यायादिति वाच्यम्, सर्वत्र पदसंज्ञा भ्युपगमेन बहुषु स्थलेषु जायमानपदलाववानुरोधेन एकत्रातिव्याप्ति- तत्परिहारकल्पने बाधकाभावात् कल्प्यमानन्यासस्यापि लघुत्वाच्च तथा हि- 'पटूचतुर्यो हलादिः' इति सूत्रे एभ्यः परा हलादिविभक्ति रन्तोदात्ता इत्यर्थके चतुर्शब्दो न पाठ्यः, षट्त्वादेव तस्यारि संग्रहात् । ननु चतेरुरन्प्रत्यये चतुश्शब्दस्य सिध्यमानत्वेन चतुर्म्य इत्या दो परत्वात् नित्त्वप्रयुक्तायुदात्तत्वापत्तिः ; न च विशेषविहितत्वात .

विभक्तयुदात्तवं स्यादिति वाच्यम्, पञ्चभ्य इत्यादौ तस्य चारितार्थ्यात् । सिद्धान्ते तु प्रतिपदोक्तत्वान्न दोष इति चेत्, न; सुबुप्तत्तेः प्रागेव नकारस्येत्संज्ञानन्तरं निवप्रयुक्तायुदात्तत्वे सिद्धे ततः प्रातिपदिकसं- ज्ञायां सुबुत्पत्तो विभक्तयुदात्तत्वस्यानेन विधीयमानतया तुल्यकालप्रवृ- त्यभावेन विप्रतिषेधमूत्राप्रवृत्त्या 'सतिशिष्टस्वरवलीयस्त्वम्' इति न्यायाच्च विभक्तयुदात्तत्वस्यैव निरपवादत्वेन स्थितत्वात् । किंच स्वस्त्रादिगणे चतसृशब्दोऽपि न पाठ्यः, 'न षट्स्वस्त्रादिभ्यः' इति षट्त्वादेव निषेधसिद्धेः चतमशब्दस्यापि स्थानिवद्भावन चतुर्शब्द- त्वात् बहिरङ्गपरिभाषया अमिहत्वेन वा तसपि षट्त्वात् । न चैवं चतस्त्र इत्यादी जश्शमोगामतिः, स्थानिवद्भावेन पटत्वात रेफान्तत्वस्यापि अलिबधित्वेन आनयनासंभवादिति वाच्यम, 'अचि र ऋतः' इत्यस्य बाध्यसामान्यचिन्तापक्षाश्रयणन स्वविषय- प्राप्तसर्वबाधकत्वात् लुकोऽपि बाधकत्वौनित्येनादोपात् । अत एवं आमि नुटः अचि रादेशेन बाधमाशय 'न तिसृचतसृ' इति ज्ञापकान्नेति समाहितं भाष्ये । संनिपातपरिभाषया वा न लुक् । किं च 'षट्कतिकतिपयचतुरां थुक् ' इति सूत्रे चतुर्ग्रहणं कतिग्रहणं च न कार्यम् , तत्रत्यपटपदेन अनयोरपि ग्रहणसंभवात् । - न च तत्र षट्पदेन षट्संज्ञकानां ग्रहणे पञ्चन्शब्दादपि इटि थुगापत्तिरिति वाच्यम् , 'नान्तादसंख्यादेर्मट्' इति मडागमेन धुको बाधौचित्यात् । न च प्रकृतेस्थुक : कथं प्रत्ययसंबन्धिमटा बाधसंभव इति

वाच्यम् , येन नाप्राप्तिन्यायेन तक्रकौण्डिन्यन्यायेन वा सत्यपि संभवे
बाधकत्वसंभवेनादोपात्।
न चैवमपि एकादशेत्यादावपि थुगापत्तिरिति वाच्यम् , 'ना
न्तान्मट' असंख्यादेः' इति योगविभागेन निर्वाहात् नान्तात् संख्या
देर्मट्थुको न स्त इति तदर्थात् ।
न च 'अनन्तरस्य-' इति न्यायान्मट एवं निषेध : स्या-
दिति वाच्यम् , योगविभागसामर्थ्येन 'अनन्तरस्य-' इति न्यायं
बाधित्वा तस्यापि निषेधप्रवृत्तरिति दिक ॥
-
P
॥ श्री: ॥
-
-
-
हलक्यान्भ्यो दीर्घात्सुतिस्थपृक्तं हल् ॥
अत्र 'झ्यापः सोः' इत्येवास्तु । ङयावन्तात्परस्य सोर्लोप
इति सूत्रार्थः । हलन्तात्परेषां सुतिसीनां संयोगान्तलोपेनैव निर्वाहः ।
न च राजेत्यादी संयोगान्तलोपस्य असिद्धत्वात् नलोपाना-
पत्तिरिति वाच्यम्, 'न डिसंबुद्धयोः' इति
'न डिसंबुद्धचोः' इति संबुद्धिग्रहणेन
नलोपविषये संयोगान्तलोपस्य सिद्धत्वज्ञापनात् ।
न च गोमानित्यादौ नलोपापत्तिः ; ज्ञापकस्य सनाती-
यापेक्षत्वेन यत्र नकारविभक्तयोरानन्तयम्, तत्रैव सिद्धत्वज्ञापनात्
न च हे ब्रह्मन्नित्यादौ लुकि तत्र नलोपनिषेधार्थ संबुद्धि-

ग्रहणस्यावश्यकतया न ज्ञापकत्वसंभव इति वाच्यम्, 'न डिसं- बुद्धयोः' इत्यस्य सप्तम्यन्तत्वेन लुका लुप्ते प्रत्ययलक्षणाभावेन 'संबुद्धौ वा नपुंसकानाम्-' इत्यस्यावश्यकतया च संबुद्धिग्रहणस्य नपुंसकविषयत्वाभावेन उक्तज्ञापकत्वस्य सुस्थत्वात् । न च ‘वा नपुंसकानाम्-' इत्येव भाप्ये पाठेन तत्र संबुद्धिग्रह- णानुवर्तनाय तत्; इतरथा नपुंसके सर्वत्र विकल्पापत्तिः ; तस्मान्न संवृद्धिग्रहणस्य ज्ञापकतेति वाच्यम्, तथा सति वार्तिक एव संबुद्धि- ग्रहणे कर्तव्ये सूत्रे संबुद्धिग्रहणस्य ' इह किंचित्रपो' इति न्यायेन ज्ञापकत्वसंभवात् । न च अभिनोऽत्र इत्यत्र 'दश्च ' इति रुत्वे तस्य ‘अतो रोः-' इति उत्वे संयोगान्तलोपस्यासिद्धत्वात् अकारपरत्वाभावादु- त्वानापत्तिरिति वाच्यम्, 'संयोगान्तलोपो रोरुत्वे' इति वार्तिकेन तस्यासिद्धत्वनिषेधेनादोषात् । न चेदं वार्तिकमपूर्वमाश्रयणीयमिति गौरवमिति वाच्यम्, हरिवो मे दिनं त्वा' इत्यत्र हरिशब्दान्मतुपि संबुद्धौ मतुपो मस्य 'छन्दसीरः ' इति वत्वे नुमि संयोगान्तलोपे ' मतुवसो:-' इति रुत्वे 'हशि च ' इति उत्वे कर्तव्ये तलोपस्यासिद्धत्वाभावाय तस्याव श्यकत्वात् । - न चैवमपि अभिनोऽत्र इत्यत्र 'एङः पदान्तादति' इति पूर्वरूप कर्तव्ये संयोगान्तलोपस्यासिद्धत्वात् उक्तरूपासिद्धिरिति वाच्यम्, 'संयोगान्तलोपो रोरुत्वे । इति वार्तिके उत्वे इति विषयसप्तम्या- श्रयणेन 'न मु ने' इतिवदुवे कर्तव्ये कृते च आसिद्धत्वनिषेधेन दोषात् । न चैवमपि विभते गर्तेश्च लडि तिपि अबिभर्भवा अनागर्भवानित्यत्र 'रात्सस्य' इति नियमात् संयोगान्तलोपो प्राप्नोतीति तत्र विभक्तिश्रवणप्रसङ्ग इति वाच्यम् , 'रात्सस्य इत्यत्र तकारस्यापि प्रश्लेपेण संयोगान्तलोपस्य सूपपादत्वात् । न च कीर्तयतेः क्विपि णिक्किलोपयो : सौ की इत्यत्रा लोप: स्यादिति वाच्यम्, 'यथालक्षणमप्रयुक्ते' इति भाष्येण त लोपस्येष्टत्वबोधनात् तकारान्तरप्रश्लेषेण अर्थवत्तकारस्यैव लोपनि धानेनादोषाच्च। न च उखास्वत् इत्यत्र दत्वस्य असिद्धतया संयोगादिलों असकारान्तत्वात् असति दत्वे सो रुत्वविसर्गयो : 'उखास्त्रः' इत्र निष्टं रूपं स्यादिति वाच्यम् , 'वस्वादिपु दत्वं सिद्धं वाच्यम्' इ। दत्वस्य प्रवृत्तेः। न चापदान्तत्वाद्दत्वं न स्यादिति वाच्यम् , स्वादिषु अस नामस्थाने यचीति च्छेदेन सावपि पदं भवतीति पक्षाश्रयणेन दत्वप्रह तेनिधित्वात्। न च सौ पदत्वाश्रयणे राजेत्यादी संयोगान्तलोपस्यासिब तया प्रथमं नलोपे सो रुत्वविसर्गौ स्यातामिति वाच्यम् , 'इते ऽत्सर्वनामस्थाने' इत्यत्वे कृते उक्तरीत्या नलोपे च पन्था इत्यर सिद्धौ ‘पथिमथि-' इत्यात्वविधानेन प्रथमं सुलोपस्य ज्ञापनात् ।

न च हे पन्था इत्यत्र ‘सर्वनामस्थाने च -' इति दीर्घाप्र- ल्या तत्राकारविधानं चरितार्थमिति वाच्यम्, एवं तर्हि 'न डिसंबु- इयोः' इत्यस्यैवोक्तार्थे ज्ञापकत्वसंभवनादोषात् । तथा हि-ङिसंबु- व्योरिति षष्ठचन्तम्; ङचन्तस्य संबुद्धचन्तस्य च नलोपो नेति व्या- यायते ; न हि नलोपात्पूर्व संयोगान्तलोपं विना संबुद्धयन्तप्राति दिकान्तनकारो लक्ष्यते । अतो ज्ञायत-नलोपात्पूर्वमेव संयोगान्त- टोप इति । - न चवं विद्यानित्यत्र 'सान्तमहतः-' इति दीर्घान्नित्यत्वा- परत्वाच्च दत्वे तस्यैव संयोगान्तलोपे विद्वन्निति स्यात् । दीर्घविधिस्तु वेद्वांसावित्यत्र चरितार्थः। किंच पिपठीरित्यत्र संयोगादिलोपे रुत्वे वेमर्गे च रुपधायाः इति दीर्थो न स्यात् । एवं शकघातो- लुगन्तात् लङितिपि सिपि वा अशाशक इत्यत्र संयोगादिलोपः न्यादिति वाच्यम् , न वयं सो पदत्वमाश्रित्य मिद्धकाण्डे दत्वं नाश्रित्य उखास्त्रत् इत्यादिरूपसाधने प्रवर्तामहे, येन भवदुक्तदृपणं हुरुवरं स्यात्। अपि तु संयोगादिलोपात्प्राक विभक्तिसंयोगान्त- छापा भवतीति ज्ञापयाम : । तथा हि-'लिप्यनस्तेः' इति सूत्रण स्य तिपि परे दत्वं विधीयते । यदि अचकात इत्यत्र संयोगान्त- होपात्पूर्व संयोगादिलोप : स्यात् , तर्हि व्यर्थमन स्याद्दत्वविधानमिति दुक्तार्थे ज्ञापकं भवति । . न च भूयादित्यत्र दोप :, धात्ववयवसंयोगादिलोपात्पूर्व वि- यक्त : संयोगान्तलोप इति ज्ञापनेनादोपत् । न चैवमपि राजेधते चक्रयत्र राजा च्छत्रमित्यादी वृद्धियण - ४८ . तुगादिकं न स्यात् संयोगान्तलोपस्यासिद्धत्वादिति वाच्यम् , 'संयो- गान्तलोपो रो रुत्वे' इति वार्तिके 'रो रुत्वे ' इत्यपनीय ‘संयोयान्त- लोप: संघी' इति करिष्यते । तथा च संयोगान्तलोप : संधी सिद्ध इत्यर्थेनादोषात् । यहा 'न ङिसंबुद्धयोः' इति सूत्रेण विभक्तिसंयोगान्त- लोपस्य नलोपविषये असिद्धत्वाभावो ज्ञाप्यते। 'न मु ने' इतिवत् नलोपे कर्तव्ये रुते च संयोगान्तलोपो नासिद्ध इति तदर्थः। एवं च 'ड्याप : सो:' इति न्यासे न किंचिदनिष्टम् । न च अबिभा राज्यमित्यादौ संयोगान्तलोपस्यासिद्धत्वात् दीर्वो न स्यादिति वाच्यम् , लीढ : अनर्घा इत्यादिभाष्योदाहरणे 'दूलोप :- इति दार्चे कर्तव्ये ढत्वरुत्वयोरसिद्धत्वात् दीर्वाप्राप्ती तथोदाहरपरभाप्य- प्रामाण्येन 'पूर्वत्रासिद्धम् ' इति सूत्रस्थपूर्वपदेन द्रलोपसूत्रस्याग्रहणे नादोपात् । अत एव चतू राजते इत्यत्र सुचः संयोगान्तलोपस्या मिद्धत्वाभावेन दीर्व : सिध्यतीति दिक् । 11 श्री:॥ सर्वस्य दे॥ 'नित्यवीप्सयोः' इत्याद्युत्तरसूत्रेषु विधेयानिर्देशात् अस्य विधित्वे तेषां नियामकतापच्या अधिकारत्वे विधायकतापत्या तत्र च विधिनियमयोर्विधरेव ज्यासस्त्वाच्च अयमधिकार :। तथा च 'नित्य- वीप्सयो: इत्युत्तरसूत्रे उपस्थित्या आभीक्ष्ण्ये वीप्सायां च गम्यमा. नायां सर्वस्य द्वे भवत इति पदेकवाक्यतया अन्वयः।

अत्र सूत्रे किं स्थाने द्विवचनम् , उत द्विःप्रयोगा द्विवचन- मिति विशयः । तत्र तावद्विचार्यते---इदं स्थान द्विवचनमेव । तथा हि- द्वे इत्यनन्तरं शब्दानुशासनप्रस्तावात शब्दस्वरूपे इति पद- मध्याहियते। तेन च सर्वस्येति स्थानषष्ठीति लभ्यते । अत एव सर्व स्येति पदमपि सार्थकम् । अन्यथा धातुवाकव्ययाढित्ववारणाय आव- श्यकन पदस्येत्यपकर्पणनैव सिद्धेस्तत् व्यर्थं स्यात् । किं च हि : योगरूपत्वे पचसि पचमीत्यादौ समुदायस्य पदत्वाभावेन आम पचास पचसि देवदत्तेत्यादौ एकान्तरता न स्यात् । स्थानेद्विवचनल्वे तु समुदायस्यादेशत्वेन स्थानिवद्भावेन च तत्र पदत्वस्य सुलभतया पा सिध्यतीति इदं द्विवचनं स्थानेद्विवचनमेव ।। यदुक्तम् द्वे इत्यनन्तरं शब्दस्वरूप इति पदाध्याहारण यानेद्विवचनत्वं सेत्स्यतीति, तन्न; उच्चारणे इति पदाध्याहारे टेःप्रयोगरूपत्वस्यापि संभवात् । पाष्ठद्वित्वस्य द्विःप्रयोगरूपत्वं प्रवमवोपपत्तवर्णनीयत्वात् । यदपि-सर्वपदं षष्ठ्याः स्थानार्थकत्व साधन द्वारा स्थानेद्विवचनपक्ष एव चरितार्थम् । अन्यथा पदस्यत्य- कर्पणेनैव इष्टसिद्धस्तत व्यर्थं स्यादिति, तदपि न ; सर्वशब्दस्याव- विकाय॑वृतितया सर्वावयवोपेतस्य द्वित्वम्, न तु कश्चिदप्यवयवो ज्यत इत्यर्थबोधकत्वेन चारितार्थ्यात् । अन्यथा यत्किचिदवयवस्य इन्वेऽपि अवयवान्तरस्य तदसिन्दिप्रसङ्गात् । यदपि-द्विः प्रयोगरूपत्वे नाम् पचसि पचसि देवदत्तत्यादौ एकान्तरता न स्यादिति, तदपि ; प्रथमसिपः प्रकृतिभागमध्ये प्रवेशेन तद्ब्रहणेन ग्रहणात् द्वितीय- चः प्रत्ययमध्यपातेन तद्हणेन ग्रहणाद्वा समुदायस्य पदत्वसिद्धेः । # च आदेशरूपत्वे विसं बिसमित्यादी सकारस्य पत्ववारणाय 5 । .. 'आदेशप्रत्यययोः' इति सूत्रे आदेशरूपः सकार इति व्याख्या- नमाश्रयणीयम् । तच्च प्रत्ययशब्दस्य प्रत्ययावयपरत्वसिद्धयर्थम एकापि पष्ठी-' इति न्यायाश्रयणे प्रत्ययशब्दमात्रस्य लक्षणया तदवयवपरत्वे वा उपपद्यत इति क्लेशः । द्विःप्रयोगरूपत्वे तु तत्र पत्वाप्राप्तया तादृशः क्लेशो नाङ्गीकरणीय इति द्विःप्रयोगरूपत्व- मेवोचितम् ॥ यदुक्तम्-उच्चारणपदाध्याहारेण द्विःप्रयोगत्वं सेस्पतीनि, सत्यमिदम् ; तथापि विनिगमनाविरहात् शब्दस्वरूप इत्यध्याहारण स्थानेद्विवचनत्वमेवास्ताम् । यदपि- सर्वावयवोपेतस्य द्वित्व, न तु कश्चिदप्यवयवो वर्ननीय इत्येतद्वोषकतया सरस्यत्यस्य सार्थक्यमिति, तदपि न ; विनिगमनाविरहेण एका चन्द्रिवननन्यायेन समुदायस्य द्वित्वे सर्वस्याप्यवयवस्य द्वित्वसंभवन तत्पदवययस्य तदवस्थत्वात । अनस्तत्पदं तदुत्तरपष्टयाः स्थानार्थकत्वबोधनद्वारा स्थान द्विवचनपक्ष एवं सार्थकमिति तत् तस्य ज्ञापकमेव । यदपि---- प्रथमसिपः प्रकृतिमध्ये प्रवेशेन तद्हान ग्रहणात् द्वितीयपचः प्रत्ययमध्ये प्रवेशेन तद्हणेन ग्रहणाढा समुदायस्य पदत्वं सिध्य तीति, तदपि न ; एकैकस्य एकप्रकृतित्वादिपर्याप्तयधिकरणल्वेन तत्समुदायमध्यपतितस्य तद्ब्रहणेन ग्रहणायोगात् । तदन्तमंज्ञासूत्र भाप्ये अस्य न्यायस्य 'नेदमदसोरकोः' इति ज्ञापकमूलकत्वोक्तया शास्त्रीयमध्यपानविषयत्वाञ्च । तथा च आम् पचति पचसि देवदत्त त्यादी समुदायस्य पदवाभावन एकान्तरला न स्यादिति द्विप्रयोग- पक्षी दुष्ट एव । यदपि --विसं वितमि यादी द्वियोगरूपत्वं पत्ता प्राप्तिरिति आदशराः प्रत्ययावयाश्च यः सकार इति लक्षणेन याख्यानमनावश्यकामिति न क्लेश इति, तदपि न; तिसृणामित्यत्र त्ववारणाय तादृशव्याख्यानस्यावश्यकतया तत्र उभयोस्तारतम्यान- प्रकाशात् । तथा च युक्तिबलात् निर्दुष्टत्वाच्च स्थानेद्विवचनत्वमेव सुक्तम् । यदुक्तम्-एकाद्विवचनन्यायेन समुदायस्य द्वित्वसिद्धचा उर्वस्येति पदस्य पष्ठ्याः स्थानार्थकत्वबोधनद्वारा स्यानेद्विवचनत्व- पक्ष एव सार्थक्यमिति, तन्न; वृक्षाभ्यामित्यादौ ' स्वादिषु-' इति पदसंज्ञामादाय प्रतिभागमात्रस्य द्वित्वे प्राप्ते सर्वावयवोपेतस्य द्वेत्वमित्यर्थकरणं विना तन्निवृत्त्ययोगेन तादृशार्थबोधनाय तत्सार्थ- स्यात् । यदपि- आम् पचसि पचसि देवदत्तेत्यादौ पचसि पचसीति समुदायस्य पदत्वाभावेन एकान्तरता न स्यादिति, तदपि न ; पचसि चसीत्यादौ हि स एव धातुः प्रत्ययश्च द्विः प्रयुज्यते । ततश्च यस्माद्विहितस्तदादि तदन्तमिति विधीयमानायाः पदसंज्ञायाः समु- दाये सुलभत्वात् । अत एव सिषेधेत्यादौ 'सात्पदाद्योः' इति पत्व- निषेधो न । उक्तं च भाप्ये -'तावेवमौ सुप्तिङो, यौ ततः परौ । सैव च प्रतिराद्या । समुदायपदत्वमतेन' इति । यदपि-तिसृणा- मित्यत्र पत्ववारणाय सिद्धान्तेऽपि 'आदेशप्रत्यययोः' इत्यत्र पूर्वो करात्या वैरूप्येण व्याख्यानमावश्यकमिति, तदपि न ; तत्र सकारो चारणसामर्थ्यादेत पत्ववारणसंभवेन ताटशव्याख्यानस्य सिद्धान्ते- अनुपयोगात् । किंच स्थान द्विवचनपक्षे समुदायस्येवादेशत्वेन स्थानि- बदायेन समुदायस्य पदत्वेऽपि प्रत्येकं पदत्ताभावेन पयः पयः पपीः पपीरित्यादौ ‘सोऽपदादो' 'ण : पः' इति सत्वपत्वे स्याताम् । द्विःप्रयोगपक्षे तु सुपः प्रत्येकर्माप विहितत्वबुद्धिसत्त्वेन पदत्वाक्षत्या न दोष इति द्विःप्रयोगपक्ष एव ज्यायान् ॥ यदुक्तम्-वृक्षाभ्यामित्यादौ प्रकृतिमात्रस्य द्विलवारणाय सर्वस्येति चरितार्थमिति, तन्न ; सर्वस्येति पदसत्वेऽपि सर्वावयापे- तस्य पदत्वपर्याप्त्यधिकरणस्येत्यर्थसंभवेन प्रकृते दोषस्य दुरुन्द्वरत्वात् । यदि तु तत्र द्वित्ववारणाय अनभिधानम्, 'सुप्तिङन्तं पदम्' इति पदसंज्ञाविशिष्टस्यैव ग्रहणमिति व्याख्यानं वा आश्रीयते ; तर्हि ममापि तावतेवेष्टसिद्धिः । यदपि--तिसृणामित्यत्र सकारोचारणसाम- र्थ्यात् षत्वं नेति तादृशव्याख्यानमनाश्रयणीयमिति, तदपि न : तिस्त्र इत्यत्र 'न रपर--' इति निषेधेन तत्र सकारोच्चारणस्य चारितार्थ्यात् । एवं च तिसृणामित्यत्र षत्ववारणाय सिद्धान्तेऽपि तादृशं व्याख्यानमाश्रयणीयमिति न तद्विषये गौरवलाघवविचाराव- काशः। यदप्युक्तम्-स्थानेद्विवचनपक्षे समुदायस्यैव पदत्वेन प्रत्येक पदत्वाभावेन पयः पयः पपीः पपीरित्यादी सत्वपत्वे स्यातामिति, तदपि न ; 'पाशकल्पककाम्येषु' इति नियमेन तत्र दोषवारणसंभ- वेन अवयवयोः पदत्वाभावेऽपि क्षतिविरहात् । तथा च सर्वस्येत्यु. पादानेन स्थानेद्विचनपक्ष एन युक्तः ॥ यदुक्तम्-वृक्षाभ्यामित्यादौ प्रतिभागमात्रस्य द्वित्ववार- णाय अनभिधानं पूर्वोक्तं व्याख्यानं वा आश्रयणीयमिति सर्वस्येति पदं व्यर्थं सत् स्थानेद्विवचनपक्षमेव गमयतीति, तन्न ; तादृशव्याख्याने सर्वस्यति पदस्यैव मूलत्वात् तत्सत्व एवं प्रकृतिप्रत्ययविशिष्टस्य सर्वस्य पदस्य ग्रहणमिति वक्तुं युक्तत्वात् । यदपि-पयः पयः पपीः पपीरित्यादौ 'पाशकल्प .' इति नियमेन सत्वषत्वयोवारण- संभवावयवयोः पदत्वाभावेऽपि न क्षतिरिति, तदपि न ; अश्नी- , -- ताश्नीत इत्यत्र 'अतो गुणे' इति पररूपापत्तेः, अपचन्नपचन् वृक्षा- न्वृक्षान् अग्रेऽग्रे इत्यादौ ङमुटो णत्वनिषेधस्य पूर्वरूपस्य चाप्रवृत्ति- प्रसङ्गाच्च । अत एव 'समुदाये वाक्यपरिसमाप्तिस्तया पदत्वम् ' इति भाप्ये उक्तम् । तस्मात् द्विःप्रयोगपक्ष एव युक्तः ॥ यदुक्तम्-स्थानेद्विवचनपक्षे समुदायस्यैवादेशत्वेन तस्यैव पदत्वेन अवयवानां पदत्वाभावात् अनीता नीत इत्यदौ पररूपादी- नामनापत्तिरिति, तन्न ; मुजन्ते द्विरावृत्त आदेशो भवतीत्यर्थके 'सर्वस्य द्विः' इति वक्तव्ये 'डे' इति वचनबलेन अनस्तमितावय- वभेदस्य उपस्थितस्थानिसदृशपदसमुदायात्मकस्य आदेशत्वेन स्वत एव अवयवानां पदत्वसत्त्वेन उक्तदोषाणां वारणसंभवात् । समुदा- यस्य तु स्थानिवद्भावेन पदत्वं सुलभमेव । यदपि-- समुदाये वाक्यपरिसमाप्तिस्तया पदत्वमिति भाप्यम्, तदपि तयापि पद- त्वमित्येवं व्याख्येयमिति न तद्विरोधः । किंच द्विःप्रयोगरूपत्वे पोनःपुनिकः पौनःपुन्यमित्यत्र समुदायात ठप्यत्रो न स्याताम् । तत्र हि पुनः पुनर्भवितर्यर्थ वर्तमानात् पुनःपुनश्श- द्वात् भवे भावे च प्रत्ययः । यदि द्वि:प्रयोगरूपमिदं स्यात्, तर्हि अन्तरङ्गत्वात् सुपि लुक्त्वाच्चाव्ययत्वात्सुपो लुकि वीप्सारूपे अर्थे द्वित्वप्रवृत्त्या — यत्र संबाते -' इति 'स्वातन्त्र्येण --' इति वा नियमेन समुदायस्य प्रातिपदिकत्वाभावेन तदनुत्पत्तिः स्पष्टच । आदेशरूपत्वे तु स्थानिवद्भावेन तत् सुलभम् । तत्प्रकृतिकसुबन्तत्वं च समुदायात्सुपा सूपपादम् । वस्तुतस्तु तत्संबन्धिभाव इत्याद्यर्थे प्रातिपदिकात्प्रत्य- यइत्येवार्थः । तत्र सति संभवे सुव्यवहित एव प्रत्यय इति नात्र मुपोऽपेशेति बोध्यम् । कस्कादिषु कोतस्कृतशब्दपाठस्य रुताप्ट मिकद्वित्वादप्रातिपदिकत्वेऽपि तद्धितोत्पत्तिरिति ज्ञापकत्वापेक्षया स्थानेद्विवचनपक्षज्ञापकतैव युक्ताः । तस्मात् युक्तिवलात् दोषाभा- वाच स्थानेद्विवचनपक्ष एव न्याय्यः ।। ॥ श्री: ॥ अम्बार्थनद्योईस्वः॥ अम्बार्थानां नद्यन्तानां च हूस्वः स्यात् संबुद्धी इति सूत्रार्थः । अम्बार्थानाम् अम्ब इत्यादीनि, नद्यन्तानां गौरि इत्यादीनि च उदा हरणानि । अत्र नद्यन्तानां हस्ते कृते हे गौरि इत्यादौ 'हूस्वस्य गुणः' इति गुणो न भवति, ह्रस्वविधानसामर्थ्यात् । अन्यथा हि 'अम्बा र्थनद्योर्गुणः' इत्येव ब्रूयात् । न च पदलाघवाभावः, तदभावेऽपि मात्रालाघवानपायात 'हस्वस्य गुणः' इत्युत्तरसूत्रे गुणग्रहणत्यागेन सुतरां लायवसद्भावाचेति प्राञ्चो व्याख्यातारः। अत्र विचार्यते-- यदुक्तम् 'अम्बार्थनद्यार्गुणः' इत्येव वक्तव्ये ह्रस्वविधान- सामर्थ्यान्न गुण इति, तन्न ; प्रकृतपूर्वपक्षप्रतिपादनपरे 'हूस्वस्य गुणः' इति सूत्रभाप्ये एवमनुक्तेः, 'अनः क्लीवं जले शोके मातृ स्यन्दनयोरपि ' इति रभसायुक्तया अम्बार्थके अनःशब्देऽपि गुणापत्तेश्च। इक्परिभाषोपस्थित्या दोपवारणं तु अब न संभवति, तथा मति अम्बेत्यादीनामासहिप्रसङ्गात्। किंतु 'हस्वस्य गुणः' इति सूत्रस्थ- भाप्यरीत्या 'अम्बार्थानां ह्रस्वः' 'हवनद्योगुणः' इत्येव वक्तव्य हस्वविधानसामर्थ्यात् न गुण इत्येव व्याख्येयम् । एवं च सति अनः , , .. शब्देऽपि न इस्वप्रसक्तिः, हूस्वविधानेन 'अचश्च' इति परिभापो- पस्थित्या अम्बार्थकस्याजन्तस्यैव तछिधानादिति नव्याः ॥ अत्र प्राञ्चः--- यदुक्तम्- 'हवस्य गुणः' इति सूत्रभाप्ये नैवं समाहितमिति तथा कथनमसंगतमिति, तन्न; तस्योपलक्षणत्वेना- दोषात् । अन्यथा तत्र 'नदीहूस्वयोर्गुणः' इत्येवोक्ततया 'हूस्वनद्यो- गुणः' इति वदतां भवतामपि भाप्यानुक्तवक्तृतापत्तेः। अथ भाप्योक्त- प्रकार एव प्रकटीकृतोऽस्माभिः; भवद्भिस्तु नैवमिति चेत् , अस्त्वेवम् ; न हि तावता समाधानान्तरं न वक्तव्यामिति सेत्स्यति । अत एव हि तत्र तत्र भाप्यानुक्तमपि व्याख्यातृभिरुक्तं समाधानं संगच्छते। यद- प्युक्तम् --- अनःशब्द अम्बार्थके गुणापत्तिरिति, तदप्ययुक्तम् ; तस्य क्लीवतया सोलुंकि संबुद्धिपरकत्वाभावेनैव गुणाप्रसक्तेः । यदपि 'अम्बार्थानां ह्रस्वः' 'हूस्वनद्योगुणः' इत्येव वक्तव्ये इस्वविधि- सामर्थ्यान्न गुण इति, तदपि न ; तथा सति 'जसि च ' इत्युत्तरसूत्रे हस्वनद्योरित्यस्य अनुवृत्त्यापत्ती गौर्य इत्यादौ नद्यामपि गुणापत्तेः । तथा च अस्मदुक्तन्यासे न कोऽपि दोषः ।। अत्र नव्याः-यदुक्तम्-अनःशब्दस्य नपुंसकत्वेन सो. लुकि संबुद्धिपरकत्वाभावेन न गुणप्रसक्तिरिति, तन्न ; सोलुंक्यपि प्रत्य- यलक्षणेन गुणस्य निधित्वात् । 'न लुमताङ्गस्य' इति तु न , तस्या- नित्यत्वेन संबुद्धिगुणविषये अप्रसक्तेः। अत एव वारे वारि इति रूप इयमपि संबुद्धी भवति । यदपि- 'हस्वनद्योर्गुणः' इति न्यामे जसि च' इत्युत्तरसूत्रे नदीपदस्याप्यनुवृत्यापत्तौ गोर्य इत्या- दावपि गुणः स्यादिति, तदपि न ; एकदेशानुवृत्या इष्टसिद्धेः । तस्मा दस्मदुतन्यास एवं समीचीनः ।। " अत्रं प्राञ्चः --यदुक्तम् --संबुद्धिनिमित्तकगुणविषये 'न लुम ताङ्गस्य' इत्यस्यानित्यत्वेनाप्रवृत्त्या सोलुक्यपि प्रत्ययलक्षणेन अन शब्दस्य संबुद्धिपरकत्वानपायात् गुणो दुरि एवेति, तन्न 'अम्बार्थनद्योगुणः' इति न्यासेऽपि नदीसाहचर्येण स्त्रीलिङ्गस्यै वाम्बार्थकस्य ग्रहणेन अनःशब्दे दोषाभावात् । यदपि-एकदेशानुवृ क्या गौर्य इत्यादी न गुणप्रसक्तिरिति, तदपि न ; तन्मात्रानुवृत्त एकदेशे स्वरितत्वप्रतिज्ञाया आवश्यकतया गौरवात् । अत एव अप रितोषात् भाप्ये 'एवं तर्हि योगविभागः कारप्यते- अम्बार्थनद्योई स्वः । ततो हूस्वस्य हूस्वस्य च इस्वो भवति, किमर्थमिदम् । गुण वक्ष्यति। तद्वाधनार्थम् । ततो गुण : । गुणश्च भवति हूस्वस्य' इत्यु क्तम् । तस्मादस्मदुक्तो न्यासो निर्दुष्ट एवेति वदन्ति । - अत्र नव्याः- यदुक्तम्-- साहचर्यपरिभाषया स्त्रीलिङ्ग स्यैवाम्बार्थकस्य ग्रहणेन न दोष इति, तन्न ; एवं सति इगन्तत्वेना। साहचर्यस्य ग्रहीतुं शक्यतया अम्बेत्याद्यसिद्धे : । सूत्रं तु मातृश चरितार्थम् । यदपि- एकदेशानुवृत्तये तन्मात्रे स्वरितत्वप्रतिज्ञाय आवश्यकतया गौरवम् । अत एव भाप्ये समाधानान्तरमाढतमिति तदपि न ; 'दामहायनान्ताञ्च' इत्यत्र 'संख्याव्ययादींप्' इति पूर्व सत्रात् संख्यादेरित्येकदेशानुवृत्तेष्टतयां एकदेशानुवृत्तौ विवादाभा वात् । भाप्ये चोपायस्योपायान्तरादूपकत्वात् समाधानान्तरानुसरण मिति बोध्यम् । अत एव च भाष्ये योगविभागमभिधाय 'अथव स्वस्य गुण इत्यत्र अम्बार्थनद्योरित्येतदनुवर्तते ' इत्युक्तम् । अन्य था पूर्वस्मिन्पले कं वा अस्वरसं भवन्तो ब्रूयुः । योगविभागस्य गरी यस्त्वमिति तु न ज्याय इत्यन्यत्र स्पष्टम् । तस्मादस्मदुक्तन्यास ए . समीचीन इत्याहुः। अत्र प्राञ्चः-यदुक्तम् - साहचर्याश्रयणे इगन्तत्वेनापि तत् ग्रहीतुं शक्यमिति दोषः स्यादिति, तन्न ; लक्ष्यानुरोधेनास्मदुक्तसा- हचर्यस्यैव आश्रयणीयत्वात्, प्रमाणानाममति बाधके सामान्य एवं पक्षपातात् । अत एव 'डलकवतीनां प्रतिषेधः' इति वार्तिकसंगतिः : अन्यथा तद्वैयर्थ्य स्पष्टमेव । यदपि---मातृशब्दे सूत्रं चरितार्थमिति, तदपि न ; 'न टेकमुदाहरणम्- 'न टेकमुदाहरणम्-' इति न्यायात्, 'मातृनद्योः' इत्येव वक्तव्ये एवमुक्तर्वैयर्थ्यात्, तत्र 'ऋतो ङिसर्वनामस्थानयोः इत्येव गुणस्य सिद्धत्वाच्च । किंच अनःशब्दे 'न लुमता- ति निषेधेन संबुद्धिपरकत्वाभावान्न गुण इत्यपि सुवचम्, स्यानित्यत्वेऽपि लक्ष्यानुरोधेनैव प्रवृत्त्यप्रवृत्योर्वाच्यत्वात्, अन्यथा पवत्रैव रूपद्वयप्रसङ्गात् । किंच न वयमेकदेशानुवृत्तिः कुत्रापि स्तीति बमः । परंतु तावन्मात्रे स्वरितत्वकल्पनया गौरवम् । अग- या तु तत्र तत्र तादृशः क्लेशः सह्यत इति सत्यामन्यथा गती न | आश्रयणीय इत्येव कथयामः । स्पष्टं चेदमभिहितं भवद्भिरेव कद- तशेखरे । तस्मादस्मदुक्तो न्यासः सर्वथा निर्वाध इति प्राहुः ।। - ॥ श्रीः ॥ अनुपसर्जनात् ॥ इदं सूत्रं तदन्तविधिज्ञापनद्वारा कोम्भकारयसिद्धयर्थमिनि तुर्थे भाप्ये व्यवस्थापितम् । सर्वादिसूत्रभाप्ये तु 'अनुपसर्जना- दित्येष योगः प्रत्याख्यायते। तमेवमभिसंभन्त्स्यामः-अनुपसमान अ अदिति । अनुपसर्जनस्य अकारात्कारो द्रष्टव्यो' इत्युक्तम् । तस्या- --अनुपसर्जनादिति सूत्रं प्रकारान्तरेण व्याख्यास्यामः । परिभाषेयम् । अनुपसर्जनेति लुप्तपष्ठयन्तम् । अश्च अचेति समाहार- द्वन्द्वः । अकारश्चान्यः प्रश्लिप्यते । स च लुप्तपञ्चम्यन्तः । अकाग- त्परस्य स्थाने विधीयमानः अकारः अत्कारश्च अनुपसर्जनस्यवेति नियमोऽनेन क्रियते । तेन त्यदाद्यत्वम् अद्डादेशश्च उपमर्जनस्य नेति 'संज्ञोपसर्जनीभूताः-' इति वार्तिके उपसर्जनग्रहणं न कार्यमिति । एवं च भाप्यद्वयं परस्परविरुद्धम् । तत्र तदन्तविधि वि- नापि कौम्भकारेयस्य सुसाधत्वेन प्रयोजनान्तराभावात्प्रत्याख्यान एवं भाप्यतात्पर्यम्, उत तदन्तविधिज्ञापनार्थ तदारम्भे तात्पर्यमिति संशयः । अत्र प्रत्याख्यान एव तात्पर्यमिति प्रथमः पक्षः, नेति सिद्धान्तस्थितिः । तत्र सूत्रप्रत्याख्यानपक्ष एव युक्तः । तथा हि-अनुपस- र्जनात् वक्ष्यमाणाः प्रत्ययाः । अनुपसर्जनीभूतो यो गृह्यमाणाष्टिदादिः, तदन्तात्प्रातिपदिकात् डीविति सूत्रार्थः । अत्र गृत्यमाणटिदादेरुप- सर्जनत्वमर्थद्वारकं बोध्यम् । अत्र अनुपसर्जनादिति तत्पुरुषः, न तु बहुव्रीहिः, सुपर्णीत्यादौ 'पाककर्ण-' इति डीपनापत्तेः । तत्पुरुपत्वे तु समुदायस्य उपसर्जनभिन्नत्वेन न दोषः । न च साम- ादेव तत्र डीपिति किं तत्पुरुषाश्रयणेनेति वाच्यम्, टिदादीनाम- नुपसर्जनादिति विशेषणे बहुकुरुचरेत्यत्र टित उपसर्जनरहितत्वेन बहुव्रीहिपक्षे तस्य तद्द्यावय॑त्वासंभवेन अधिकारवैयापत्तेः ।

न च 'दामहायनान्ताच' इति सूत्रे अन्तग्रहणेन हायना- न्तस्यापि गृह्यमाणतया द्वौ द्विहायनौ. यस्याः सा द्विविहायना बाल- त्यादौ ङीव्यावृत्तये अयमधिकारः । अन्यथा समुदायस्य हायना- न्तत्वेन उपसर्ननभिन्नत्वेन च ङी वापत्तिः । बहुव्रीही तु हायनान्तस्य बहुव्रीहेः उपसर्ननवटितत्वेन उपसर्जनराहित्यरूपानुपसर्जनत्वाभावान्न दाप इति वाच्यम्, बहुव्रीही सर्वत्रैव उपसर्जनबटितत्वेन द्विहाय- नीत्यत्रापि ङीवनापच्या बहुव्रीहिग्रहणसामर्थेन अत्र सूत्रे बहुव्रीह्य- वयवोपसर्जनतामादाय तनिषेधाप्रवृत्तेरदोपात् । न चैवं ‘विभापा सपूर्वस्य' ' इति सूत्रे सपूर्वग्रहणेन पत्य- न्तम्यापि गृह्यमाणतया कर्मधारयोत्तरपदबहुव्रीही बहुवृषलपतिः स्त्री इत्यत्र ङीव्यावृत्तये सः । अन्यथा पत्यन्तस्य उपसर्जन भिन्न- त्वात् डीवापत्तिरिति वाच्यम्, तथा सति गृहपत्नीत्यत्रापि उपसर्ज- नीमतगृहघटितत्वेन ङीवनापत्या मूत्रस्यैव वैयपित्तेः । अतोत्रापि समासावयवगतोपसन्नतामादाय निषेधाप्रवृत्त्या अधिकारवेयर्यस्य ताइवस्थ्यात् । तस्मात् तत्पुरुष एव । तथा च 'टिइन -' इति सूत्रेण जायमानो डीप् कुरुचरेत्यत्रैव भवति, न तु उपसर्जनीभूतटि- दाद्यन्ते बहुकुरुचरेत्यादावपि ।। स्यादेतत् । कुरुचरीत्यौव डीयू न प्राप्नोति, किं पुनः बहु- कुरुचरेत्यत्र । तथा हि-प्रातिपदिकाधिकारेण टितः प्रातिपदिक- स्येव ग्रहणौचित्येन कुरुचरीत्यत्र 'चरेष्टः' इति सूत्रेण अधिकरणे उपपदे टप्रत्ययस्य प्रवृत्या प्रत्ययस्य टिवऽपि प्रातिपदिकस्य टित्वासंभवात् । सूर्य तु नदी बोरीत्यत्र चरितार्था । न च 'अब- यो अचरितार्थम् --- ' इति न्यायेन जुगुप्सत इत्यादावात्मनेपदादि । - ६० - , वत् प्रातिपदिकावयवनिष्ठटित्त्वस्य प्रातिपदिकेऽप्यारोपात् कुरुचरीत्य- त्रेवात्रापि डीपः प्राप्तिरिति वाच्यम्, तथा सति बहुकुरुचरेत्यत्र अनु- पसर्जनत्वेन उक्तरीत्या टिस्वेन च ङीपो दुरितया तस्य तद्द्यावर्त्य त्वासंभवादिति चेत्, मैवम् ; 'अवयवे अचरितार्थम् ---' इति न्यायेन च यं समुदायं योऽवयवो न व्यभिचरति तत्रैव तादृशावय वगतधर्मारोपो बोध्यते ; यथा गोः सक्थिन कर्णे वा कृतं लिङ्गं तमा चरितार्थ सत् गोरेव व्याकम् न त्ववयवस्य, तदत् । एवं च तद व्यभिचार्यवयवगतधर्मस्य तत्समुदाये आरोपः, न तु तद्व्यभिचार्य वयवनिष्ठधर्मस्यापीति बहुकुरुचरशब्दव्यभिचारितदवयवटप्रत्ययगत टित्वस्य बहुकुरुचरेति समुदाये आरोपाभावेन तदन्तविधि विना तत्र डीपोऽप्राप्त्या तदन्तविधेश्च 'समासप्रत्ययविधौ प्रतिषेधः' इति निपे- धेनाप्रवृत्त्या तस्य तद्द्यावर्त्यत्वासंभवात् तत् व्यर्थ सत् तदन्तविध पिकम् ॥ ननु यं समुदायं योऽवयवो न व्यभिचरति इत्यनेन स्वा- व्यभिचार्यवयवनिष्ठस्य अचरितार्थस्य टिस्वादिरूपधर्मस्य स्वस्मिन्ना- रोप इति फलितम् । टप्रत्यये समुदायाव्यभिचारित्वं च समुदाय चटकत्वमेव । इत्थं च टप्रत्ययाकारस्य कुरुचरशब्दघटकत्ववत् बहुकुरुचरशब्दघटकत्वस्यापि सत्वेन तत्रापि टिचारोपेण ङीपो दुर्वारत्वात् कथमनुपसर्जनाधिकारेण तद्व्यावृत्तिरिति चेत्, न : स्वा- व्यभिचारीत्यनेन ग्रन्थेन स्वव्याप्यावयवनिष्ठधर्मस्य स्वस्मिन्नारोप इत्येव बोध्यते, न तु स्वघटकनिष्ठस्यापि । स्वव्याप्यत्वं च स्वासम वाथिप्रयोगासमवारिले सति स्वयमवायिप्रयोगसमवायित्वम् । अस्ति च कुरुनर शब्दावयवीभूतटकारे कुरुचरशब्दाघटितो यः प्रयोगः-- .

घट इति, तदसमवायित्वस्य, तत्समवायी यः प्रयोगः बहकुरुनरेति, तत्समवायित्वस्य च सत्यात् कुरुचरशब्दव्याप्यत्वमिति तद्तटिव स्य तत्र आरोपः । बहुकुरुचरशब्दे तु तदसमवायिकुरुचरशब्दरूप प्रयोगसमवायित्वस्य टप्रत्यये सत्त्वेन निरुक्ततद्वयाप्यत्वासंभवात् तत्र न टिवस्यारोप इति तत्र तदन्तविधिं विना डीपोप्राप्त्या तस्य तदन्तविधिज्ञापकता सुस्था । ज्ञापनफलं तु अतिधीतरीत्यादी डोप्सिन्द्रिः । अन्यथा अतिधीवनशब्दस्य वन्नन्तत्वाभावेन डीव. नापत्तिः । सिद्धान्ते तु वन्नन्तान्तमित्यर्थेन तस्य स्त्रियां वृत्त्या न दोष इति सिद्धान्तस्थितिः ।। अत्रोच्यते--तदन्तविधिज्ञापनार्थमनुपसर्जनाधिकारो मास्तु । अतिधीवरीत्यत्र न दोषः, 'उगितश्च' इत्यत्र उगिचस्य प्रत्यया- प्रत्ययसाधारणत्वेन प्रत्ययमात्रग्रहणाभावात् प्रत्ययग्रहणपरिभाषाया अप्रवृत्तिवदत्रापि अप्रवृत्या अतिधीवरीत्यत्रापि वन्नन्तप्रातिपदिकत्वेन डीप्सिडेः। न च 'उगितश्च' इत्यत्र ‘उगिद्वर्णग्रहणवर्नम्' इनि तदन्तविधिप्रतिप्रसवन तत्र तदन्तविधिसंभवेऽपि 'वनो र च' इत्यत्र 'ममासप्रत्ययविधी प्रतिषेधः' इति तदन्तविधिनिषेधात् तदन्तविधि- दुर्लभ इति वन्नन्तात् प्रातिपदिकादित्यर्थो दुर्लभः। सूत्रं तु वनतेः विपि विचि वा चरितार्थमिति वाच्यम् , तथा सति वनरूपात् प्रातिपदिकादित्यापल्या प्रत्ययस्य ग्रहणासंभवेन ‘वनो न हशः' इति वार्तिकस्यैव वैयाच्या तत्सामर्थ्यात् तत्र प्रत्ययग्रहणस्या- प्यावश्यकतया तत्र प्रत्ययांशे प्रातिपदिकेनान्वयात् तदन्तविधिना वन्नन्तं प्रातिपदिकमित्यर्थेन धीवरीत्यत्रेत अतिधीवरीत्यत्रापि डी टिम- हः। एवं च 'टिइह -' इति मुत्रे .' समास-' इति निषधेन 6 ६२ तदन्तविधेरप्राप्तया टिदन्तादित्यर्थाभावेन बहकुरुचरेत्यत्र डीप प्राप्तिरेव नेति अनुपसर्जनाधिकारो व्यर्थः ॥ - यदुक्तम् 'वनो र च' इत्यादौ प्रत्ययमात्रग्रहणाभावात 'उगितश्च' इत्यत्रेव प्रत्ययग्रहणपरिभाषाया अप्रवृत्त्या अतिधीवरीत्याद न दोष इति, तन्न ; 'प्रत्ययाप्रत्यययोः--' इति न्यायेन 'यङोऽ चि च' इत्यत्र यङ्साहचर्यादचोऽपि प्रत्ययस्यैव ग्रहणवत् ङीप्साह चर्याच्च प्रत्ययस्यैव वनो ग्रहणेन प्रत्ययग्रहणपरिभाषायाः प्रवृत्य द्वितीयतदन्तविधिं विना अतिधीवरीत्यस्यासिंद्धयापत्त्या 'समास- इति निपधं बाधित्वा द्वितीयतदन्तविधिसिद्धये सूत्रस्यावश्यकत्वात . - यदुक्तम्-'वनो र च' इत्यत्र 'प्रत्ययाप्रत्यययोः इति परिभाषया डीप्साहचर्येण च प्रत्ययस्यैव ग्रहणेन 'समास- ' इति निषेधात् द्वितीयतदन्तविधेरभावात् वन्नन्तान्तमित्यर्थासंभवात् अतिधी वरीत्यसिद्धयापत्त्या तसिद्धये स्त्रीप्रत्ययेषु तदन्तविधिज्ञापनार्थमधि कार इति, तन्न ; 'नित्यं समासे-' इति मंत्र पदस्येत्यधिकारेग इसन्तपदावयवविसर्गस्यैव पत्वविधानेन परममर्पिःकुण्डिकेत्यादें प्रत्ययग्रहणपरिभाषया इसन्तमर्पिश्शब्दस्य 'उत्तरपदत्वे च-' इति निपधेनापदत्वात् उत्तरपदे पत्वाप्राप्त्या नित्यं समास---' इति सूत्रस्थानुत्तरपदस्थग्रहणेन प्रत्ययग्रहणेषु क्वचिदुपात्तविशेप्यसत्वेऽपि शब्दरूपविशेप्याध्याहारेण द्वितीयतदन्तविधिज्ञापनात् अतिधीवरी त्यस्य सिद्ध्या तदन्तविधिज्ञापनार्थमनुपसर्जनाधिकारस्यानावश्यकतय त्वदुक्तप्रयोजनासंभवात् । तस्मात् सूत्रमिदं नारम्भणीयमेव ॥ यदुक्तम्-अनुत्तरपदस्थग्रहणेन प्रत्ययग्रहणेषु क्वचित् द्वितीयतन नविधापनात् बन्नन्तान्तमित्यर्थसिद्धया अनुपसर्जनाधिकारस्य तदन्त- वेधिज्ञापकत्वे प्रयोजनामंभव इति, तन्न; पूर्व सर्पिः प्रियं यस्येति त्रिपद- दुबी ही मध्यमपदे 'उत्तरपदत्वे च ' इति निषधाप्रवृत्त्या इसन्तप तयवत्वेन तत्र विसर्गस्य पत्वव्यावृत्या 'अनुत्तरपदस्थस्य' इति निपे- स्प चारितार्थन तस्य त्वदुक्तार्थे ज्ञापकत्वासंभवात् । तस्मात वनो र च' इत्यत्र तदन्तविधिज्ञापनार्थमनुपसर्जनाधिकार आवश्यकः ॥ यदुक्तम्--- 'नित्यं समासे---' इति सूत्रस्थानुत्तरपदग्रह स्य पूर्वसर्पिःप्रिय इत्यादित्रिपदबहुव्रीही मध्यमपदे षत्ववारणाय वारितार्थ्यात्तस्य वैयर्थाभावात् ज्ञापकत्वासंभव इति, तन्न; सूत्रे मासग्रहणेन पूर्वपदाक्षेपेण इसन्तपूर्वपदावयवस्य विसर्गस्य पत्तमि- यर्थेनैव उत्तरपदे पत्वाप्राप्त्या अनुत्तरपदस्थग्रहणस्य पूर्वसर्पिःप्रिय त्यादौ पत्नवारणार्थत्वासंभवेन तस्य ज्ञापकत्वोपपत्तेः । तस्मात् दन्तविधिज्ञापनार्थमनुपसर्जनाधिकारो नारम्भणीय एव ।। यदुक्तम्-समासग्रहणेन पूर्वपदाक्षेपात् अनुत्तरपदसंबन्धि- नेसर्गस्यैव ग्रहणेन उत्तरपदे षत्वाप्राप्त्या अनुत्तरपदस्थग्रहणस्य दन्तविधिज्ञापकत्वसंभव इति, तन्न; सूत्रे समासग्रहणेन पूर्वपदा- सपे परमसपिप्रिय इत्यादौ त्रिपदवहुव्रीही पत्वानापत्तेः । किं च उणादिपु अव्युत्पत्तिपक्षस्यैव सिद्धान्तितत्वेन इस्त्वादेः प्रत्ययाप्रत्यय- गधारण्येन तत्र प्रत्ययग्रहणपरिभाषाया अप्राप्त्या परमसर्पिःकुण्डि- त्यादी षत्ववारणाय तस्य चारितार्थेन तस्य त्वदुक्तार्थे ज्ञापकत्वा- भवेन अतिधीवरीत्यादेः सिद्धयर्थं तदस्तविधिज्ञापनाय अधिकार- ६४ स्यावश्यकत्वात् । तस्मात् तदन्तविधिज्ञापनार्थ सूत्रमारम्भणीयमेव ।। यदुक्तम्-अतिधीवरी इत्यादिसिद्धये तदन्तविधिज्ञापनार्थ- मनुपसर्जनाधिकार इति, तन्न; 'वनो र च' इति सून्ने ङीबनुवादेन रादेशस्यैव विआनेन अस्य प्रत्यविधायकत्वाभावात् । किंच राद- शानुरोधेन वन इत्यस्य पष्ठयन्तत्वेन ‘ऋन्नेभ्यः-' इति पूर्व- सूत्रात् नकारग्रहणानुवृत्त्या वनोऽवयवीभूतो यो नकारस्तदन्तात्प्रा- तिपदिकात् डीप भवति वनश्च रादेश इत्यर्थेन अतिधीवरीत्यस्य सिद्ध्या तदन्तविधिज्ञापनार्थमनुपसर्जनाधिकारस्यानावश्यकत्वान् । तस्मात्सूत्रमनारम्भणीयमेव ॥ - यदुक्तम्- 'वनो र च' इत्यत्र नकारग्रहणानुवृत्या पूर्वोक्तव्याख्यानरीत्या अतिधीवरीत्यादिसिद्धस्तदन्तविधिज्ञापना- र्थमनुपसर्जनाधिकारो नावश्यक इति, तन्न; अस्य तदन्तविधिज्ञापना- र्थमनावश्यकत्वेऽपि अन्यार्थ तस्यावश्यकत्वात् । तथा हि--- आपिशलिना प्रोक्तम् आपिशालं शास्त्रम्, तदधीते भापिशला ब्राह्मणी। अत्र 'पोक्ताल्लुक ' इति अध्येत्रणो लुकि 'यः शिप्यते--' इति न्यायेन प्रोक्ताणन्तस्यैव स्त्रियां वृत्त्या स्त्रियां वर्तमानं यत अणन्तं तस्मात् ङोबित्यर्थेन अत्रापि डीप दुर्वारः । अनुपसन नाधिकारे सति तु तस्य गृह्यमाणविशेषणत्वेन अनुपसर्जनी- भूतो योऽण् तदन्तात्प्रातिपदिकात् स्त्रियां डीप स्यादित्यर्थेन अ श्रूयमाणस्य अण उपसर्जनत्वेन डीपो निवृत्तिः सिध्यति । न तथाप्यध्येत्रणोऽनुपसर्जनत्वेन प्रत्ययलक्षणेन तदन्ततया डीप दुर्वाः एवेति वाच्यम्, स्त्रीप्रत्ययप्रकरणे सर्वत्र ' अनाद्यतष्टाप् ' इत्यत अत इत्यनुवृत्या तदनुरोधेन 'टिड्ढ~' इति सूत्रे 'करपः . इति पठयन्ततया टिदादीनामवयवो योऽकारस्तदन्तात् डीबित्य- र्थेन वर्णाश्रये प्रत्ययलक्षणाप्रवृत्त्या तदप्राप्तेः । तस्मादनुपसर्जनाधिकार आवश्यकः ॥. यदुक्तम्---आपिशला ब्राह्मणीत्यादी प्रोक्तार्थकाग्नि- मित्तकङीव्यावृत्तये अनुपसर्जनाधिकार आवश्यक इति, तन्न ; स्त्रियाम् ' इत्यस्य गृह्यमागविशेषणत्वेन स्त्रियं वर्तमानो योऽण तदवयीभूतो योऽकारस्तदन्तात्प्रातिपदिकात् वित्यर्थेनैव आपि- शलेत्यत्र ङीवारणसंभवेन तदर्थं तदधिकारानपेक्षणात् । तस्मात्सूत्रं नारम्भणीयमेव ॥ यदुक्तम् ---आपिशलेल्यत्र ' स्त्रियाम् ' इत्यस्य गृह्यमाणवि- शेपणत्वेनेव न दोप इति सूत्रमनावश्यकमिति, तन्न ; काशकत्स्निना प्राक्ता मीमांमा काशकृत्स्नी, तामधीते काशकृत्स्ना ब्राह्मणीत्यत्र प्रोक्तार्थकस्याणोऽपि स्त्रियां वर्तमानत्वात स्त्रियामित्यस्य गृह्यमा. विशपणत्वेऽपि अनुपसर्जनाधिकाराभावे ङापो दुर्वारत्वापत्तेः । मति त्वस्मिन प्रोक्ताण उपसन्नत्वान्न दोष इति सूत्रमिदमारम्भणीय- मंत्र॥ यदुक्तम्-काशकृत्स्ना ब्राह्मणीत्यादी प्रोक्ताण उपसर्जन- त्वेन तत्र डीपो निवारणाय अनुपसर्जनाधिकार आवश्यक इति, तन्नः प्रोक्तार्थगतस्त्रीत्वमादाय डीपः पूर्वमेव प्रवृत्तत्वेन अध्येत्रणो लुका लुप्तत्वेन 'लुक्तद्धितलुकि ' इति छीपो लुकि पुनः प्रोक्तार्थग- तस्त्रीत्वमादाय तदणन्तात् 'लक्ष्ये लक्षणस्य---' इति डीपोड- प्राप्त्या तदारणार्थमधिकारस्यानावश्यकत्वात् । न च चित्रायां - जाता चित्रत्यत्रेव काशकृत्स्नेत्यत्रापि अध्ययन ययनकर्तृब्राह्मण्यर्थकस्य प्रोक्ताणन्तमीमांसार्थक शब्दात् भेदेन डीवापत्तिदुवारैवेति वाच्यम्, अर्थभेदेन शब्दभेदेऽपि पूर्वत्रेव पुनरपि प्रोक्तार्थगतस्त्रीत्वस्यैव डीप्रवृत्ती हेतुत्वेन ब्राह्मण्यर्थगतस्त्रीत्वस्य ङीप्नवृत्तौ हेतुत्वासंभ- वेन ' लक्ष्ये लक्षणस्य-' इति न्यायप्रवृत्तेवुवारत्वात् । चित्रे त्यादौ तु प्रकृतेरैक्येऽपि जातार्थगतस्त्रीत्वस्येव टाप्प्रवृत्ती हेतुत्वेन प्रकृत्यर्थगतस्त्रीत्वस्य पुनष्टाप्प्रवृत्ती अनिमित्तत्वेन तनो वैलक्षण्यस्य सूपपादत्वात् । न चैवमत्र छीपा व्यवधानात् प्रोक्तार्थकात्परत्वा भावात् कथमध्येत्रणो लुगिति वाच्यम्, दारदिक इत्यादौ 'इसु- सुक्तान्तात्कः' इति कादशव्यावृत्तिसिद्धये 'सिद्धश्च प्रत्ययविधी इति वार्तिकेन तद्धितविवक्षायामेव पुंवच प्रवृत्त्या प्रोक्तार्थकान्ता त्परत्वसंभवेन लुकप्रवृत्तेः सूपपादत्वात् । तस्मादनुपसर्जनाधिकारी नारम्भणीय एव ॥ यदुक्तम्-काशकृत्स्नेत्यादौ लक्ष्ये लक्षणन्यायेन डीवार णसंभवात् अनुपसर्जनाधिकारी नारम्भणीय इति, तन्नः तस्य स्त्रीप्रत्ययेषु तदन्तविधिज्ञापनार्थमेवावश्यकत्वात् । तत्फलं तु कौम्भ कारेयसिद्धिः । अन्यथा प्रत्ययग्रहणपरिभाषया कारेत्यस्य अणन्त तया कुम्भकारेति समुदायस्याणन्तत्वामावेन ततो ङीवभावे विशि टात् ढगनापच्या तन्निमित्तकादिवृद्धेराकारे प्रवृत्त्या तदसिद्धिः काहणपरिभाषया तु नात्र निर्वाहः, तस्याः सन्मात्रग्रहणविषयत्वेन 'टि--' इति सूत्रे अणूपदेन सदकतोरुभयोरपि ग्रहणेन तदप्र वृत्तेः । सति तु तदन्तविधौ समुदायस्याणन्तान्ततया समुदायात् डीपि ततो ढंकि आदियया तत्सिद्धिः । एवं च कोम्भकारेयसिद्ध्यर्थमनु - PAX AISHI MISSION IN मनुपसर्जनाधिकार आवश्यकः ॥ यदुक्तम्- कौम्भकारेय इत्यादी समुदायात् डीप्सिद्धये तदन्तविधिज्ञापनाय सूत्रमिदमिति , तन्न ; कारशब्दात् ङीप्यपि अनु- पसर्जनस्त्रीप्रत्यये तदादिनियमाभावेन समुदायस्यापि तदन्ततया कुम्भ- कर्मकोत्पत्यनुकूलक्रियाश्रयसंबन्ध्यपत्यविवक्षायां समुदायादेव ढक प्रवृत्या तन्निमित्तादिवृद्धी तत्मिहे : सुपपादत्वेन मूत्रस्यानावश्यक त्वात॥ यदुक्तम्- 'स्त्रीप्रत्यये च --- स्त्रीप्रत्यये च --' इति तदादिनियमनिषेधात समु- दायस्यापि तदन्ततया समुदायादेव ढकि न दोष इति , तन्न ; 'स्त्री- प्रत्यये च-' इति निषेधेन प्रत्ययग्रहणन्यायव्यावर्तितस्याधिकस्यापि तदन्तत्वं बोध्यते ; न तु कारीशब्दस्यापि तदन्तलाभावः । तथा च कुम्भकर्मकोत्पत्त्यनुकूलक्रियाश्रयसंवन्ध्यपत्यविवक्षायां सामान्यत उत्पत्त्यनुकूलक्रियाश्रयसंवन्ध्यपत्यविवक्षाया अप्यनपायात तस्यापि प्रथमाचारितत्वात् अवयवादपि कदाचित् दगापल्या पाक्षिकदोपस्य दुवारत्वात् । एकाद्विवननन्यायेन तु न निस्तारः, समुदायकार्येण अवयवानामननुग्रहेण तन्न्यायविषयत्वाभावात् । तस्मात् तदन्ताव घिसिद्धये सूत्रमावश्यकम् ॥ यदुक्तम्-कारीशब्दस्यापि स्त्रीप्रत्ययान्तत्वानपायात ततोऽ- पि कदाचित् ढकि दोष इति, तन्न; कुम्भंशब्दनेकार्थीभूतस्य कारी- शब्दस्य स्त्रीप्रत्ययान्तत्वेऽपि निप्कृप्य तावन्मात्रस्यापत्येन योगा- भावादवयवात् ढकोऽप्राप्त्या समुदायादेव कि तत्सिर खदुक्त- 1.1RARY GUL दोषानवतारात्। तस्मात्तदन्तविधिज्ञापने फलाभावेन सूत्रं नारम्भणी- यम्॥ यदुक्तम्- कारीशब्दस्य निष्कृयापत्येनायोगात् न तस्मात् दगिति, तन्न; कारीत्यस्य निकृष्य असत्येन एकार्थीभावाभावेऽपि समुदायेनैकार्थाभावे नान्तरीयकतया तस्य सत्येन सामक्षिते : । विशिष्टसंबन्ध्यपत्ये विवक्षिते विशेष्य संबन्धस्याप्यव्याहतत्वात् । अन एव परमगाायण इति येनविधिमूत्रस्थं भाप्यं संगच्छते । एवं च अवयवात् ढग्वारणाय तदन्तविधिज्ञापनार्थ मूत्रमिदमावश्यकम् ।। यदुक्तम्- अवयवात् ढग्वारणाय सूत्रमिति, तन्न; केवल कारीशब्दस्य अर्थवत्सूत्रोक्तार्थवत्त्वाभावेन अप्रातिपदिकत्वात् ढकोऽ प्राप्त्या समुदायादेव तत्प्रवृत्या अपयवात् ढगापत्तेरसंभवात् । अत- स्तदन्तविधिज्ञापनार्थं सूत्रमिदं नारम्भणीयम् । यदुक्तम्- कारीशब्दस्याप्रातिपदिकत्वेन ततो ढगनापल्या तदन्तविधिज्ञापने फलाभाव इति, तन्न; तदन्तविधिज्ञापकत्वानङ्गी- कारे कारत्यस्याणन्तत्वेऽपि उक्तरीत्या अप्रातिपदिकत्वात् समुदायस्य प्रातिपदिकत्वेऽपि अणन्तत्वाभावात् समुदायात् ङोपोऽप्रवृत्या को- म्भकारेयासिद्धिदुवारेव। तस्मात् तदन्तविधिज्ञापनार्थ सूत्रमावश्य- कम्॥ यदुक्तम्- तदन्तविधिद्वयानङ्गीकारे कारेत्यस्याणन्तत्वेऽपि अप्रातिपदिकत्वात् डीवनापत्तिरिति , तन्न ; अत्र कारशब्दस्य कद- न्तत्वेन तद्धेतुभूतैकार्थीभावस्य तावन्मात्रेऽपि सत्वेन तन्मात्रवृत्येका. .

भावन लोकिके प्रयोगे प्रसिद्धत्वस्य तत्र सुवचत्वेन तस्यापि प्राति- पदिकत्वेन डीबुत्पत्तेः सुवचत्वात्। अत एव भाप्ये अवयवात् ढगा- पादन संगच्छते.। अन्यथा प्रथमोपस्थितत्वेन ङीवनापत्तरेव वक्तु मुचितत्वेन तदभ्युपेत्य ढकपर्यन्तानुधावनप्रयासस्य असंगत्यापत्तः । गम तु एकाहिर्वचनन्यायेन समुदायोदव ढकि कौम्भकारयसिद्ध्या सूत्रं नावश्यकम् । यदुक्तम्- कारेत्यवयवेऽपि अणन्तत्वप्रयुक्तका भावम्य सत्त्वेन प्रातिपदिकत्वात् ङीबादिसिन्डिरिति, तन्न; एतादृशे विषय वृत्तिद्वयस्य भिन्नत्वेन तहेतुभूतस्यैकार्थीभावस्यापि भिन्नत्वाङ्गोकारे पञ्चगवधन इत्यत्रापि वृत्तिद्वयस्य सत्त्वेन टजन्तस्यापि तत्पुरुषप्रयुक्त- का भावेन अर्थबोधजनकत्वात् प्रातिपदिकत्वापत्त्या डोबापत्तेदुर्वार- त्वात्। मम तु समुदायका भावेनैव अवयवयोरपि कार्यसिद्ध्या अवयवमात्रे पृथगेकार्थीभावाभावात् न पञ्चगवधन इत्यत्र डीप । एवं कुम्भकारत्यत्रापि कारेत्यस्यैकार्थीभावेन अर्थबोधजनकत्वाभावात् न डोबादेः प्राप्तिरिति तदन्तविधिज्ञापनार्थ सूत्रमावश्यकम् ॥ यदुक्तम्- समुदायवृत्त्येकार्थीभावस्य अवयवयोरपि नान्न- रीयकतया सत्त्वेन तेनैव तत्कार्यसिद्धेः पृथगेकार्थीभावकल्पने न मानम् ; अन्यथा पञ्चगवधन इत्यादौ ङीबापत्तिरिति , तन्न ; पञ्चग- वधन इत्यादी बहुव्रीह्ययं समुदायका भावस्य प्रथमं कल्पनीयतया व्यापकेन तदेका भावनैव तहटकयोरपि कार्यसिद्धया पृथक् तत्र तदङ्गीकारे न मानम्। कुम्भकारत्यत्र तु पूर्व कद्देत्तरेव वक्तव्यतया व्याप्यन प्रकृतिप्रत्ययपर्याप्तका भावेन समासासिद्ध्या तत्पर्याप्तस्य भिन्नस्य तत्रावश्यकत्वात्। अत एव अवयवात् ढगापादनपरं येन विधिः--' इति सूत्रस्थं भाप्पं संगच्छते । तस्मात्सूत्रमिदं नारम्भ णीयमेव ।। * श्रीः। न धातुलोप आर्धधातुके ॥ गुणवृद्धी भवतः सार्वधातुकार्धधातुकपरत्वे इति सामान्यतः प्राप्तो तन्निषेधार्थ ' न धातु-' इति योगमारभत सूत्रकारः । पचा- द्यपरकय ङ्लुगन्तानि लोलुवादीन्युदाहरणानि । अत्र च 'यस्य हल: इत्यत्र यस्येति योगं विभज्य अत इति चानुवर्त्य लुग्बाधकमतो लोपं विधाय अवशिष्टं च यकारं 'यडोऽचि च' इति लुग्विषयं कृत्वा योग- विभागसिहाल्लोपस्थानिवद्भावेन गुणातिपत्तिं च व्यावर्त्य लोलुवादिसि- द्विमभिप्रेत्य भगवान् भाप्यकारः सूत्रमिदं प्रत्याख्यत् । पृथगल्लोपस्य स्थानिवद्भाव एव उवढं प्रापयति । तत उत्तरं लघूपधलक्षणं गुणमपि स एव वारयति । अनन्तरमापाद्यमानगुणनिवर्तकस्थानिवद्भावाश्रयणे परमोपकारकमुवङादी स्थानिद्वार कमनादिष्टादचः पूर्वत्वमशास्त्रीयमपि न पदान्तमूत्र सवर्णग्रहणमनुगृह्णानः सूत्रकदेवासाधयत् । तथा वरेन- हणमाद्रियमाणः स एव यङवयवाकारे यलोपात्पूर्वमेव लुप्यमाने * अत्र प्रतिज्ञोपसंहाग्यो विसंवादी दृश्यते। तेन इतोऽपि कक्ष्या स्यादि- त्यूह्यते । परं तु एतावानेव भाग। बहुत्रोपलभ्यते ॥ • - • - प्रत्ययत्वादिकं संभावनाविषयमपि व्यवातिष्ठिपत् । मरीमृज इत्यादी 'मृजेरजादौ संक्रमे' इत्यादिना प्राप्यमाणवृद्धिविकल्पशङ्काम अंजा- दावित्यादिग्रहप्पबललब्धमुख्यानादिपरिग्रहः, व्यवस्थितविकल्पों वा दवयति । जङ्गम इत्यादौ 'गमहर्न-' इत्युपधालापं च 'अनङि' इति पर्युदासमूलकौपदेशिकानादित्वमुद्रा विद्रावयति । दरीदृश इत्यत्र 'ऋदृशोऽङि' इति गुणस्यापादयितारं च लक्षणप्रतिपदो- तपरिभाषा क्षादयति । देद्य इत्यत्र 'दीङो युट्-' इति युटं च 'श्तिपा शपा-' इति प्राचीनाभ्युपगतपरिभाषा निःसारयति । सनी- ख्रसो दनीध्वंसः यायाः वावाः इत्यादौ नलोपालोपौ तु ' संज्ञापूर्वको विधिरनित्यः' इति परिभाषा - अङ्गवृत्ते पुनर्वृत्तावविधिः' इति परिभाषा वा विनिर्गमयतीति सूत्राभिमन्तॄन् हरदत्तादीन स्थवयित्वा प्रत्या- ख्यातन भाप्यकारान् अस्त्र नयत् । 'अङ्गवृत्ते---.' इत्यादीनां नवीनरना. दरणमपि न संभवति । उभयवादिसंप्रतिपन्नेषु क्विविजन्यतरपरक- यङन्तेषु याया वावा इत्यादिषु ण्वुल्परकयङन्तेपु दरीदशक इत्यादिपु चाल्लोपगुणव्यावृत्तये तैरप्युररीकरणीये ते । एवं हासयति अस्मभ्यं युप्मभ्यं दवयति स्त्रनयति यशसयति स्थवयति महान्तमा- चष्टे महयति यवयतीत्यादिसंप्रतिपन्नोदाहरणान्येव अङ्गवृत्तपरिभाषा- द्यनादरणं नवीनानां साहसिकमित्युदयोगयन्ति । 'ज्यादादीयसः ' इति सूत्रीयाद्ग्रहणं च अङ्गवृत्तपरिभाषा शापमानीत्युक्त्वा किम- स्य-' इत्यादिना प्रयोननं विचार्य पिचतेर्गुणप्रतिपेधकमपर्व वचनं नारम्भणीयमिति प्रयोजनमप्यचकथत भाप्यकारः । एवं स्वायंभुवादिसिद्धिप्रतिपादक संज्ञापूर्वकपरिभापाम् आगुणः' इति सूत्रीयगुणग्रहणं बोधयतीति प्रावीचन्नभियुक्ताः । 'ज्ञाजनोर्ग' ७२ - 'ज्यादादीयसः' इति सूत्रहयभाप्योपात्ता अङ्गवृत्तपरिभाषा कथं प्रत्याख्यायताम् । 'श्तिपा शपा-' इत्यदावपि एषैव रीतिः सुलभा । 'सनीट्प्रतिषेधो वक्तव्यः । बिभिन्सति' इत्यादी दोषोपन्यासवत् यङ्लुकि तदनुपन्यासेन बेभेदितेत्यादियङ्लुगन्न इष्ट एवेति स्पष्टः पन्थाः। तस्मात् स्थवयति दवयति स्वग्विणमाचष्टे स्त्रनयतीत्याद्यन्यथानुपपत्या 'ज्यादादीयसः' इत्यावहणबललभ्याम वृत्तपरिभाषां शरणीकृत्य, विभेदेत्यादावतिव्यापकं धातुलोप इति तत्पुरुषपक्षेऽपि भेद्यत इत्यादौ णिलोपस्थानिवत्वेन गुणनिषेधनिमि तभूतधात्वंशलोपाभावादेवोपपन्ने गुरुभूतबहुव्रीहिपक्षानुधावनळेशावह याया इत्याद्यन्यथासिद्ध कतिपयलक्ष्याभिप्रायकतयाभिमन्यमानं भूत्र त्यज्यतामिति निरवद्यम् ॥ स्थवयति दवयति स्त्रजयतीत्यादो णिजन्ते इष्ठवद्भावेन यणा दिलोपे विन्मतो कि च कने 'अत उपधायाः' इति वृद्धिप्राप्तो तहा रणमङ्गवृत्तपरिभाषैव साधयतीति यदुक्तम् ; तन्न संघटते, यणादि लोपस्य स्थानिवद्भावात् इटवद्भावस्य अभावातिदेशपरत्वाभ्युपगमाह वृहयभावसिद्धेः परिभाषा नारब्धव्येति चेत्, अरोच्यते-स्थवयती त्यादी यणादिलोपस्य स्थानिवद्भावः स्थानिवत्सूण वक्तव्यः । वृद्वय भावस्य अशास्त्रीयत्वात् तस्मिन् साध्ये स्थानिवत्सूत्रं कथमिवात्मा दर्शयेत्। अर्थवत्येव स्थान्यादेशभावविश्रान्तिरिति सिद्धान्तिम तु सुतराम् । स्रनयतीत्यादौ ' लुका लुप्तं न स्थानिवत् इति कण्ठोक्तो निषेधो जागर्ति । इष्ठवद्भावस्य अशास्त्रीयाभावाति देशपरत्वमादाय वृद्धयभावोपपादनमयुक्ततमम् । यन्निमित्तसगाव प्रयुक्ता यत्का प्रवृत्तिः, तनिमित्तवैकल्यसंपादनहीं। तत्कार्यनि " .. . वृत्तिरूपाभावातिदेशस्य उपपाद्यत्वेऽपि अचः परस्मिन्-' इति सूत्रे ' काममतिदिश्यतां वा सच्चासच्च-' इत्यभावातिदेश प्रापकभाप्यवनात्र किंचित्पश्यामः । कथंचिदङ्गीकारे प्रियस्थिर- इत्यादिना प्राद्यादेशेषु 'प्रकृत्येकाच् ' इति प्रकृतिभावे प्रेष्ठ इत्या- दाविव प्रापयतीत्यादावपि 'अचो णिति' इति वृद्धयभावस्याप्य- निदेशापत्तिः। प्रत्युत अभियुक्तपरिगणितामु पुंवद्भावरभावटिलोपवि. न्मतुलोपप्रस्थस्फाद्यादेशमसंज्ञामु मध्ये अभावातिदेश : कुत्रेत्यन्वि- प्यताम् । एवं च अशास्त्रीयाभावातिदेशाङ्गीकारः , सुखेन बहुलक्ष्य साधनप्पहायभूतां 'उपादादीयमः' इत्यादिमूत्रधर्मभूतां तत् सूत्रीया- प्रहगमपि प्रयोजनयन्तीमङ्गवृतारिभाषां वाचते ; विभेदेत्यादावात व्यापकबहुतरलंशपुरःसराविबाधकर्मिभूतं 'न धातु--' इनि सूत्रं च याया इत्याद्यन्यथासिद्ध कतिपयलक्ष्याभिप्रायेण स्थापय- तीति चोपपादनं स्वनेत्र पर्यालोच्यताम्। 'धर्मिकल्पनातो वरं धर्म कल्पनम्' इति न्यायश्चानुसंधीयताम् । स्त्रजयतीत्यादौ ‘लुका टुप्तम्-- इति स्थानिवत्त्वनिषेधस्य नपदान्तसूत्रे वरे इत्यत्र वर इति विभागपूर्वकं प्रत्याख्यानमस्तीति यद्यपि चोदनीयम् ; तथापि मत्रान्ने श्रयमाण सप्तम्या अनन्वयापत्तिः । कथंचिदन्वयोपपादनेन आमटक्यां फलं आमलकम् पञ्च इन्द्राण्यः अनाय्यो वा देवता अस्य पञ्चेन्द्रम् पञ्चाग्नि इति कतिपयलक्ष्यसाधनेऽपि पञ्चभिः कर्कन्धूभिः, अलावृभिर्वा क्रीनः पञ्चकन्धः पञ्चालाबूः, तथा पञ्चभिः श्वश्रूभिनित पञ्चश्वशुरम्, पञ्चभियुवतिभिर्दीव्यति पञ्चयुवा इत्यादेरसंग्रहः । मर्वत्र 'द्विगालगनपत्ये' इति ठको लुकि लुक्तद्धितलुकि , इति 'अप्राणिजातेः श्वशुरस्योकाराकारलेोपश्च' 'यूनस्तिः . เป 1 " . . 7 - इति प्राप्तस्त्रीप्रत्ययभूतोङादिलुकि सति अलाबकर्कन्धविषये उङः स्थानिवद्भावात् 'गोस्त्रियोः :--' इति इस्वापत्तिः । श्वश्रशन्ने तत्स्थानिवत्वेन उकाराकारलोपापत्तिः । युवतिशब्दे स्थानिवत्त्वे नलोपापत्तिश्चेति बहुवैयाकुल्या 'लुका लुप्तम् -' इत्यवश्यमङ्गी करणीयम् । तस्मात् परिभाषाशरणीकरणं मुख्यमिति सूत्रं त्यक्त्वा सुखं स्थीयताम् ॥ इष्ठनदित्यभावातिदेशाङ्गीकारे 'प्रियस्थिर-' इत्यादिना प्राद्यादेशेषु कृतेषु 'प्रकृत्यैकान्' इति प्रकृतिभावे प्रेष्ठ इत्यादी वृद्धयभाववत् प्रापयतीत्यादौ 'अचो णिति' इति प्राप्यमाणवृद्धय भावस्याप्यतिदेशापत्तिः । तस्मादभावातिदेशे बाधकसाधकप्रमाणा. भावम्, गौरवम्, सूत्राभ्युपगमे विदेत्यादौ अतिव्याप्तिम्, भाव मात्रातिदेशे प्रमाणम्, सूत्रप्रत्याख्यानपरभाप्यानुकूल्यम्, लाघवमया धमिति सहृदयाः पश्यन्तु मध्यस्थाः । ननु विभेदेत्यादौ कथमनुप पत्ति ? पाठद्वित्वस्य द्विरुच्चारणरूपत्वाभ्युपगमेऽपि समुदाये धातुत्व स्वीकारे भ्वादिपाठाभावेन क्रियावाचकत्वाभावेन च पूर्वभागे तत्स्वी कारे प्रत्ययप्रावर्तित्वामानेन अर्थनलाभावेन च बाधात् उत्तरग्वण्ड धातुत्वं स्वीकुर्मः । अन च ' दयतेर्दिगि लिटि' इति मृत्रस्थं भाप्यं अस्तेः परत्वात् द्विले ततो भूभावे द्वितीयोच्चारणविषयस्य कने पूर्वस्य श्रवणं प्राप्नोतीत्याद्यर्थप्रतिपादकं प्रमाणीकुमह इति विभेदे- त्यादावपि उत्तरखण्ड एवं धातुत्वस्वीकारेण पूर्वखण्डस्थस्य अभ्यास संबन्धिनो हल: 'हलादिः शेषः' इति लोपेऽपितस्य धातुसंबन्धित्वा- भावात् 'न धातु-~-' इति सूत्रस्य व्यापारः क्वेति चेत्, उच्यते- पाउद्वित्वस्य विरुच्चारणरूपले स्थानेधिर्वननरूपत्वे वा समुदाय एव - धातुत्वमवशेनाप्युररीकरणीयम् । चिचीपति तुत्पतीत्यादौ सन्विशि- दृस्य नटभायान्यायेन द्वित्वे प्रकृतिप्रत्ययविभागसंमोहेन प्रत्ययावय- बस्व विधीयमानं पत्वं कथमिति चोदनं तु उभयोः समम् ; वस्तुतः • पूर्वत्रासिद्धमद्विर्वचने' इत्यतोऽपि सुपरिहरम् । किंच प्रकृतिप्रत्यय- विशिष्टस्य द्विरुच्चारणेऽपि प्रकृत्यंशे प्रकृतित्वग्रहस्य प्रत्ययांश प्रत्ययत्वग्रहस्य च शुक्लकृष्णरक्तपीततन्त्वारब्धपटे तत्तदंशे तत्तद्व- द्विवत् किं वाधकमिति सम्यगृह्यताम् । एतेन अत्रैव सन्परत्वबुद्धय भावात् 'अझनगमा सनि' इति दीर्घत्वं न प्राप्नोति । तथा जुहष- तात्यादौ 'हः संप्रसारणम् ' इति संप्रसारणाप्राप्तिः। एवं यियक्षतीत्यत्र 'सन्यतः' इति इत्वं न सिध्यतीत्यादिदूषणानि दूरापास्तानि । स्तुतस्तु परभागे धातुत्वस्वीकारे सिषेच सिषेवे सिषेध इत्यादावुत्तर- इण्डस्य तिङन्तत्वात् 'सुप्तिङन्तं पदम्' इति पदत्वात् 'सात्पदाद्योः' ति निषेधापत्तिः । तथा अभिसुषाव इत्यादौ ' उपसर्गात्सुनोति- त्यादिना धात्ववयवस्य विधीयमानं षत्वमाशक्य 'स्थादिप्वभ्या- न -' इति नियमपराभियुक्तग्रन्थाः कुप्येयुः । किंच उत्तरखण्ड- येव तिङन्तत्वेन समुदायस्यातिङन्तत्वात् देवदत्तः पपाच बनती- यादो ‘तिङतिङः' इति निघातापत्तिः, पदत्वेन व्यवहारानापत्तिश्च । लिटि धातोः-' इत्यत्र अनभ्यासग्रहणवैयर्थ्यापत्तिश्च । प्रत्युत आगन्तूनामन्ते निवेशः' इति न्यायेन द्वितीयोच्चारणस्यैव विधेय- वान् प्रथमभाग एवं धातुत्वे स्वीकृते तु सिषेचेत्यादावनुपपत्तिले. ताऽपि नेति वैपरीत्यमपि सूपपादम् । ' इयतेर्दिगि-' इति सूत्र माप्यं तु 'आर्धधातुक' इत्यस्य परसप्तमीत्वमभ्युपगम्य प्रोट्या वृत्तम्, विषयसप्तमीत्वेनाप्युपपत्तेः । तस्मान्मध्यस्थदृष्टया अङ्गत्वा दिवत् धातुत्वादिकमपि समुदाय एवेति नात्र कश्चन भर इति विभेद त्यादी अतिव्याप्त्युपपादनं संगतमवेति तदुपपादकं बहुदोपतुष्टं सूत्र त्यक्ता याया इत्यादिकतिपयलक्ष्याणि परिभाषयैव प्रसाव्य मुखमा- ध्वम् । अहमपि निर्भरो वर्ते ॥ Hश्रीः ॥ इको झल् ॥ इकः, झल् , रति द्विपदमिदं सूत्रम् । 'रुदविदि-' इत्य तः सन्पदमनुवर्तते। सन्पदेन आक्षिप्तो धातुरिकपदेन विशेष्यते तेन तदन्तविधिः । तथा चायं सूत्रार्थः-इगन्तात् धातोः परो झलादि सन् कित्स्यादिति । उदाहरणम्- चिचीपति, तुष्ट्रपनि, चिकीर्पती त्यादि। अत्र च चेतुमिच्छतीत्यादिविग्रहे 'धातोः कर्मणि -' इति मनि 'एकाचः--' इति इडभावे 'अझनगमां सनि' इति दी द्वित्वे अभ्यासकार्ये सन्प्रत्ययस्य आर्धधातुकत्वात् 'सार्वधातुक- इति गुणे प्राप्ते अनेन किवद्भावविधानात् ‘डिति च ' इति निषेधान्न भवति। इक इति किम्- पिपासतीत्याकारान्तात् सनः कित्वं म भृत् । सति तु कित्त्वे 'घुमास्था---' इति इत्वं स्यात् । झलिति किम- शिशयिपते । अत्र सति तु कित्वे गुणो न स्यात् । नन्विदं मूत्रमनारम्भणीयम् । चिचीपतीत्यादी प्रकारान्तरे णापि गुणाभावस्य सिद्धत्वात् । तथा हि- चिनोत्यादिभ्यः सन्न - - -- . त्यये कृते 'सार्वधातुकार्धधातुकयोः' इति गुणस्यापि प्राप्तिरास्ति; 'अझनगमां सनि ' इति दीर्वस्यापि प्राप्तिरस्ति । तत्र येन नाप्राप्ति- न्यायेन नाप्राप्ते गुणे आरभ्यमाणेन दीर्घविधिना गुणस्य बाधितत्वात् गुणाभावः सिद्ध इति सूत्रमिदमनावश्यकमिति चेत्, न ; येन नाप्रा- प्रिन्यायन निरवकाशत्वेन हस्वान्तस्य गुणं बाधित्वा दीर्घशास्त्रे प्रवृ- तेऽपि दीर्वान्तस्यापि इगन्तत्वात् गुणः प्रामोतीति तनिषेधार्थ किन्वस्य आवश्यकत्वात् । न च दीर्घविधानं व्यर्थमिति वाच्यम्, अनिगन्नेषु चरितार्थत्वात् शास्त्रप्रवृत्त पार्दिवद्धर्मसाधनत्वात् । ननु नेतदस्ति प्रयोजनम्, दीर्षशास्त्रारम्भसामदेिव दीर्वा- तस्य गुणाभावसिद्धेः । न च अनिगन्तेपु चरितार्थत्वम्, दीर्घशास्त्र- प्रयोगकानिगन्ताभावात् । तथा हि-- अकारान्तेषु अतो लोपेन भाव्यम्। आकारान्तपु एनन्तपु च कृतात्वेषु दार्च सत्यसति च विशेषाभावः । न च शास्त्रप्रवृत्तिमात्रं जपादिवधर्मसाधनम्, शास्त्र- प्रवृत्तिपूर्वक प्रयोगस्यैव एकः शब्दः इत्यादिना धर्ममाघनत्वा- वगमा इह दीर्वान्तस्य प्रयोगाभावेन धर्मसाधनत्वस्य दुरुपपादत्वात् । अनो दाविधानमामात् गुणो बाध्यत इति न तनिषेधाय सूत्र- मारम्भणीयमिति चेत् , न; 'सनि मीमा----' इत्यत्र मीग्रहणेन मि नोतिमपि ग्राहयित्वा दीर्यः कृतार्थ इति तस्य सामर्थ्याभावेन दीव विधान सामर्थ्यात गुणो बाध्यत इति वक्तुमशकयतया चित्रीपती. त्यादी कते दीर्चे पश्चाद्गुणप्रवृत्यापत्तेः । ननु नैतदस्ति। मिनातेर्दीर्वाभावेऽपि तत्र 'मीनातिमिनानि इति सूत्रेण आत्वे 'गामादाग्रहणेप्वविशेषः' इति माग्रहणनेव तस्यापि ग्रहणसंभवेन तदर्थ दीर्घविधानमनावश्यकमेव। तथा च दोविधानसामर्थ्यात् गुणो बाध्यत इति तन्निषेधाय सूत्रं नारम्भ- णीयमिति चेत्, न; निनीषति, बुभूवति, तितीपतीत्यादो गुणनिषे- धार्थ कित्त्वस्यावश्यकत्वात् । न च तत्रापि दीर्वविधानसामथ्यात गुणाभाव इति वाच्यम, दीर्घरूपसंपत्तिफलकस्य दीघशास्त्रस्य प्रागमि द्वदीरूपेषु हूस्वान्तेष्वेव प्रवर्तनात् दीर्घान्तेपु प्रागेव सिद्धदीवरूपे फलाभावादप्रवर्तनात् सामर्थ्याभावात् । न हि भुक्तवान पुनर्भुक्त, न वा कृतश्मश्रुः श्मश्रुणि कारयति । अकृतकारि खलु शास्त्रम् अग्नि- वत् । तद्यथा---- अग्निर्यददग्धं तदेव दहति, दग्धं पुनर्न दहति अयोग्यत्वात् । एवमिहाप्ययोग्यत्वात् दीर्घान्तधातुषु दीर्वशास्त्रस्य अप्रवृत्त्या गुणप्राप्तौ तद्वारणायेदं सूत्रमावश्यकमेव । ननु नैतदस्ति प्रयोजनम् ; दीर्यान्तेष्वपि दीर्घशास्त्र प्रवर्तत एव, दीर्वरूपसंपत्तिरूपफलाभावेऽपि दीघरूपप्रतिबन्धकगुणाप्रवृत्ति रूपप्रयोजनसद्भावात्, इष्टप्राप्तिवदनिष्टनिवृत्तेरपि फलत्वात् । अन एव सम्राडित्यत्र ‘मो रानि----' इति मकारस्य पुनर्मकारोऽनुस्वार- निवृत्तये विधीयते । लोके च पुनः प्रवृत्तिर्दृश्यते प्रयोजनविशेषसद्भावे भुक्तवानपि हि पुराने दधि खलु भविष्यति पयः खलु भवि प्यति दना खलु नुऔय पयसा खलु भुआयेति । कृतश्मश्रुर्रा मणि कारयति शिल्पविशेषात् । कृतकारि खल्वपि शार भवति पर्जन्यवत् । तद्यथा--- पर्जन्यो हि सजलेऽपि स्थले वर्षति अतो दीर्वान्तप्वपि दीर्वशास्त्रप्रवृत्त्या गुणस्य बाधितत्वात् गुणनिये धाय सूत्रमनारम्भणीयमिति चेत्, न; यदि दीर्घशास्त्रारम्भसामध्य दविकतेन दीर्घेण स्थातव्यामिति दीर्घरूपप्रतिबन्धको गुणो बाध्येत - तर्हि निकोर्षतीत्यादौ दीयं कृते प्राप्यमाणम् ऋत इद्धातोः' इति उत्वं च दीर्वरूपप्रतिबन्धकत्वात् बाध्येत । अतः प्रतिबन्धकनिवृत्ति- दीवविधन प्रयोजनमिति कुन इत्ववत् गुणस्यापि प्राप्तिरस्तीति गुग- निषेधाय मृत्रमारम्भाणीयमेव । ननु नैतदस्ति । प्रतिवन्धकनिवृत्तिरपि दीर्घविधेः प्रयोनन- मेति गुणो बाधिप्यते । न चैवम् ऋदित्वस्यापि बाधप्रसङ्गः, तदा- श्रयत्वेन विशेषसद्भावात् । तथा हि-- यद्यन्तरेण दीर्घविधानं चि- कीर्यतीत्यादी गुणः ऋदित्वं च प्रामुयात् तदा तद्वदेव बाध्येत । यतस्तु खलु दीर्घाश्रयमेव ऋदित्वम्, तदा तदेव दीविधेः फलं सं- जातमिति ऋदित्वं प्रवर्तिप्यते । तथा चोक्तम्-- 'यं विधि प्रत्युपदे- शोऽनर्थकः, स विधिर्वाध्यते । यस्य तु विधेनिमित्तम्, नासो बाध्यते' इति । तथा च दीर्वशास्त्रेण गुणस्य बाधितत्वात् गुणाभावाय सूत्र- मिदमनारम्भणीयमिति चेत्, न ; ऋदित्वस्य गुणापेक्षया नास्ति वि- शेषः , दीशास्त्रनिमित्तकत्वाभावात् । न हि सर्वत्र दीर्घशास्त्रेणेव दीर्घरूपता संपादनीयेति नियमः, स्वभावत एव ऋदन्तानाम् 'तृ लवनतरणयोः' इत्यादीनां संभवात् । तत्र च ऋदित्वस्य सावकाशत्वात् । अतो दीर्वशास्त्रमन्तरेणापि प्रवर्तमानस्य ऋदित्वस्य न दीर्मशास्त्रनिमि- तत्वम् । नहि तदभावेऽपि प्रवर्तमानस्य तन्निमित्तकत्वमुचितमिति दीर्घशास्त्रनिमित्तकत्वाभावात् 'यं विधिम्- ' इति न्यायानवतारा- दित्वगुणयोस्तोल्यात् बाधः स्यात् । अतः प्रतिबन्धकनिवृत्तिर्दी धविधेन प्रयोजनमित्येव कल्पनीयम् । तथा च इत्ववत् गुणस्यापि प्राप्तो तनिषेधाय सूत्रमारम्भणीयमेव । - ..

८० ननु नंतदस्ति । सर्वत्र दीर्वशास्त्रेणेव दीर्घरूपता संपादनीया। स्वभावत ऋकारन्तेप्वपि तितीर्षतीत्यादिपु दीर्वशास्त्रमन्तरेण दीर्घ- रूपता न संभवत्येव । ' इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन ' इति गुणेन दीर्वरूपहानिप्रसङ्गात् गुणवाधनार्थं दीर्वविधेरवश्यापेक्षणीय- त्वात् । ओ दीवशास्त्रनिमिनकत्वेन अदित्वस्य गुणापेक्षया विशेषसद्भावात 'यं विधिम--- ' इति न्यायन गुण एव बाध्येत, न अपदित्वमिनि गुणनिधाय मृत्रं नारम्भणीयमिति चत्, न : चिचीपतीत्यादी कित्वमन्तरेण गुणाभाव सिंहऽपि जीप्यतीत्यत्र गिलोपसिद्धयर्थ कित्यस्य वक्तव्यत्वात् । - न च वाच्यम्---कास्ताः, क निपतिताः । क कित्वम, क णिलोपः । को वाभिमंबन्धः-इति । स एपोऽभिसंवन्धः--यत्सति कित्त्वे सावकाशं दीवत्वं गिलोपो बाधते । असति पुनर्न बाधते । के ? किन्वानारम्भे ज्ञाप्तीत्यत्र ज्ञयः सनि 'सनीवन्तर्ध- इति इडभाव ' आपज्ञपि- इति इत्व अत्र लोपः इत्यभ्याम लोपे सति जीपि स इति स्थित गुणो णिलोपो दीवत्वं गति त्रीणि कार्याणि प्राप्नुवन्ति । तत्र यशा अनकाशेन दीर्वेण गुणो वाध्यत, एवं णिलापोऽपि बाध्येत, विशेपामावात । कित्त्वारम्भे तु निची पनी त्या सावकाशं दीर्घत्वं णिलोन बाध्यत इति णिलोपे सति जीप्सतीति रूप सिध्यति । अतो णिलापसिद्धयर्थ कित्वं वक्तव्य मिति मूत्रमारम्भणीयमेव । ननु नतदस्ति । कित्त्वानारम्भेऽपि णिलापः सिध्यति । तथा हि-ज्ञीपि स इति स्थिते गाणां प्राप्तावपि अनवकाशन दीर्वण . ८१ गुण एव वाध्यत, यन नाप्राप्तिन्यायात् दीर्घविषये सर्वत्र गुणस्य प्राप्तत्वात् । णिलापस्तु तेचित्प्राप्तत्वात न बाध्यते । गुणबाधनेन चरितार्थं च.दीवशास्त्रं परत्वाधिणलोपेन वाध्यत इति णिलोपस्य मिहत्वात् न तदर्थ सूत्रमारम्भणीयमिति चेत्, न; अत्र तावत्पक्ष द्वयम्- बाध्यसामान्यपक्षो विशेषपक्षश्चेति । तत्र बाध्यसामान्य- चिन्तापक्षे दीर्वशास्त्रेण स्वविषये प्राप्तविधिमात्रस्य बाधात् गुणस्येव णिलोपस्यापि बाधः प्रसज्येत । बाध्यविशेषचिन्तापक्ष हि येन ना प्राप्तिन्यायं बाधित्वा 'पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्त रान्' इति पुरस्तादपवादन दीर्वशास्त्रेण अनन्तरस्य णिलोपविधरेव बाधः स्यात्, न तत्तरस्य गुणविधेरिति णिलोपो न स्यात, गुणश्च स्यादिति णिलापसिद्धयर्थ कित्वमावश्यकमिति सूत्रमारम्भणीयमेव । - - ननु नैतदस्ति । दीवस्यापवादत्वमेव नास्ति, सावकाशत्वेन निरवकाशत्वाभावात् । तथा हि- 'कुङ शब्दे' 'गु पुरीपोत्सर्ग' 'ध्रु गतिस्थैर्ययोः' इत्येतेभ्यः सनि चुकूपने जुगूपति दुध्रपतीत्यत्र 'गाङ्कुटादिभ्यः ----' इति सनो ङित्वात् गुणनिषेधे दी शास्त्रस्य अवकाशः संभवत्येवेति अपवादत्वाभावात् णिलोपः परत्वादीर्घशास्त्रं वाधते ; 'यल्लोपावियड़.--' इति वचनाञ्च गुणशास्त्रं वाचत इति ज्ञीप्यतीति रू' य निर्वाचत्वात् णिलोपसिद्धचर्थ मूत्रमनारम्भणीय- मिति चेत्, न; यदि अज्ग्रहणस्य धातुत्रय एवावकाशः स्यात, तर्हि 'कुगुध्रुहनगमां सनि' इत्येव बयात् ; प्रत्याहारग्रहणं न कुर्यात, वर्णमात्रापेक्षया प्रगाहारग्रहणमेव गुरुभूतमिनि 'क्रस्चानुप्रयुज्यते इति कम्विति वा वगात' इति मूलव्याख्यानावसरे व्याख्यानृभिरुतत्वात । गट्ठा 'उहनगमा मनि' इत्येव वदेत् । तावताप्युक्तस्थल इष्टसिद्धेः ।

न च 'गमेरिकादेशस्य' इति वार्तिकं प्रत्याख्यातुं तन्त्रादिना संभव- व्यभिचाराभ्यां गमेरचा विशपयिष्यमाणत्वात् तदर्थमज्ग्रहणमावश्य- कमिति वाच्यम्, एवमपि 'उतः सनि' 'इहनोः' इति सूत्रयितुं शक्यत्वात् । इणिकोरादेशस्यापि ग्रहणमिति पक्षेऽपि 'इहनोः' इति मुवचम्, हना साहचर्यात् इधातुरेव ग्रहीप्यते न तु इवर्णान्त इति व्याख्यातुं शक्यत्वात् । यद्वा यथान्यासेऽपि हनिमाहचर्यात लुग्विकरणस्य आदेशगमर्ग्रहणं संभवत्येव । किंच कुटादी 'कुशब्द इति हूस्वान्तस्य पाठ एव नास्ति, दीर्घान्तस्यैव पाठात् । अत एव लोकवेदयोराकृतिशब्द एव प्रयुज्यते । ततश्च 'अज्झन--' इति प्रत्या- हारेण दीविधरनवकाशत्वात् अपवादत्वात् ' पुरस्तात्-' इति न्यायेन गिलापो न स्यात्, गुणश्च स्यादिति णिलोपसिन्हयर्थ गुणीनेषधार्थं च सूत्रमारम्भणीयमेव ।। || श्रीः ॥ इको यणचि ॥ अत्र सूत्रे अचीति पदं मास्तु, ज्ञापकवलादेव हरति याती- त्यादी यणभावमिहः । तथा हि-चेता स्तोतेत्यादी इटं वारयितुं एकाच उपदेश-' इत्यारब्धम् । यदि हलि परताऽपि यण स्यात् तर्हि इटो यणादेशे वलिलाप चेष्टसिद्धिरिति तदर्थमिदं वचनं नारम्भणीयम् ।

८३ নগা প भवितेत्यादावप्युक्तरीत्या इटोऽश्रवणप्रसङ्गादिडागमविधान- मामर्थ्यात् यण् न भवतीत्यवश्यमभ्युपगन्तव्यम् । 'एकाचः-'. इति सूत्रं तदर्थमावश्यकमिति उक्तज्ञापकत्वं न युक्तम् । 'इट ईटि' इति सलोपो येन नाप्राप्तिन्यायेन यणोऽपवादः, संयोगान्तलोपसंयोगादिलोपयोरिव विषयभेदेऽपि उत्सर्गापवादभाव त्यावर्जनीयत्वात् । तथा च अचेतीदित्यादो इटागमशास्त्रं लब्धाव- काशमिति न तत्मामात् यण् बाध्यत इति पूर्वोक्तज्ञापकत्वं सुस्थम् । यदि सिज्मात्रमिटोऽवकाशः स्यात, तर्हि 'इटमिचः' इत्येव बयात् । तथा अनुक्त्वा आर्धधातुकस्येति सामान्यतः मूत्रं प्रणयत आचार्यस्य वलाद्यार्धधातुकमात्रे इड्विधानमामर्थ्यात् यण बाध्यत इत्येवाशयो वर्णनीयः । तथा च पूर्वोक्तरीत्या ज्ञापकत्वासंभवः । इट सिचः' इति न वक्तुं शक्यम् । ग्रहीता ग्रहीप्यती. न्यादेरसिद्धिप्रसङ्गात् । न च तत्रापि उक्तरीत्या यणि वलिलोपे गुरु शरीरसूत्रप्रण यनवैयर्थ्यमेवेति वाच्यम्, तत्र यणपवादस्य ‘ग्रहो लिटि-' इति दीर्यस्य प्राप्तत्वात् । तथा न ग्रहीतेत्यायथं गुरु- शरीरं सूत्रमावश्यकमिति न तद्विधानमामथ्यात् यणबाधसंभवः । 'इट् सिचः' 'आर्धधातुकस्य कलादेहः ' ' अलिटि दीर्घः' इति न्यासाश्रयणेन अचेतीत् ग्रहीता ग्रहीण्यतीत्यादिसिहो तथाविध न्यासमनाढत्य 'आर्धधातुकस्य-' इति पठन आचार्यस्य भवितेत्या. - ८४ . दो इटः श्रवणमावश्यकमित्यभिप्रायो विज्ञायते । ततश्च इविधान सामर्थ्यात् यग् बाध्यत इति न प्रोक्तं ज्ञापकं सम्यक् । आर्धधातुकस्य वलादेहः' इति न सूत्रयितुं शक्यम, वरीता तरीतेत्याद्यसिद्धयापत्तेः ; ग्रहरेव इविधानाङ्गीकारात् वृषस्त- रंतश्च इट एवाभावात् ; 'वृतो वा' इति यणपवाददीर्वेण यथाश्रु- तन्यासाङ्गीकर्तृमते निरुक्तरूपसिद्धिसंभवात । 'वृतो वा' इति इटो दीर्वविधानलामात् वरीतेत्यादी इटः सिद्धिः । तथा च पूर्वोक्तं ज्ञापकं दुर्वचम् । 'आर्धधातुकस्य वलादेग्रहः' इति न्यासाश्रयणे शेकिथ पचिथेत्यादेरसिद्धिप्रसङ्गात् थिलि च सेटि' इति सूत्रं निर्विषय- मेव स्यात् । यथा श्रुतन्या तु यणपवाद एत्वाभ्यासलोप इति निरु कलक्ष्यसिद्धिरप्रत्यहा । इत्थं च प्रागुक्तं लिङ्गं सुवचम् । 'दीधीवेवीटाम्' इति सूत्रप्रत्याख्यानाय इट इंडव भवति न तु विक्रियत इति भाप्ये व्याख्यातम् । तथा च गुणवद्यणोऽय प्राप्त्या वलि लोपासंभवन चता स्तोतत्यादिसिद्धये एकाचः --- इति सूत्रमावश्यकमिति तस्य हलि परतो यणभावज्ञापकत्वं । संभवति । . इट इंडवेत्यङ्गाधिकारे क्रियमागो नियम आङ्गमेव गुणरूप विकारं व्यावर्तयति, न त्वनाङ्गम् ; अन्यथा पिपठीरित्यादी दीवा नापत्तेः । स्पष्टं चेदं तत्रैव भाष्ये । एवं च इटोऽनाङ्गयणाद बाधकाभावेन प्रागुक्तं लिङ्गं सुस्थमेव ।

- - 'एचोऽयवायावः' इत्युत्तरार्थ स्पष्टप्रतिपत्तये इहैव कृतम् । ओदोतोः प्रत्ययस्थयकारे परत एव वान्तादेशो नान्यत्रेनि नियमपरतया 'वान्तो यि प्रत्यये' इति सूत्रं व्याख्यायते । अतो नानिप्रमङ्गः । 'एक हस्वात् ' इति सूत्रे प्रत्याहारग्रहणस्य हरे इत्यादी संवृद्धिलोपः प्रयोजनम् । यदि हलि परतोऽपि एकारस्य अयादेशः स्यात्, तर्हि वलि लोपात् हुस्वात्परत्वेनैव लोपः संभवति। यदि वा परत्वाहलिलापं बाधित्वा हल्ङ्यादिना सुलोपः; तदा प्रत्याहार ग्रहगं व्यर्थम् । अतो ज्ञायते-एकारस्याचि परतोऽया. देश इति । अत एव एत्येधतीति सूत्रे एनादित्वविशेषणं संगच्छते । दविकायां भतं दावि कमित्यादिसिद्धये 'देविकाशिशपा-' इति मत्रेण आदिवृद्धयपवाद आकारो विहितः । यदि हलि परतोऽपि ऐकारस्य आयादेशः स्यात्, तर्हि आयादेशे वलि लोपे च दाविक- मिति मिद्धमिति वृद्धिवाधनार्थमात्वविधानमनर्थकम् । अतो ज्ञायते-- आयादेश ऐकारस्याचि परत एव भवतीति । अत एव 'अनुवादे चरणानाम् ' 'धातोस्तन्निमित्तस्यैव' 'वोतो गुणवचनात् ' 'संबु- हो शाकल्यस्य-' इत्यादिमौत्र निर्देशाः संगच्छन्ते । तस्मात् 'एचोऽयवायावः' इत्येतदर्थमज्ग्रहणं न कर्तव्यम् । एवमपि ' आद्गुणः' इत्यत्रानुवृत्त्यर्थमज्ग्रहणमावश्यकम् । एतदपि न साधीयः, 'दिव औत् ' इति ज्ञापकनैव अति- प्रयङ्गवारणासंभवात् । तथा हि- 'दिवोऽम्' इत्यमागम एवं विधीयताम् । तथा च दिवम् इति स्थिते अमागमे कृते द्यत् इति भवति । यदि हलि परतोऽपि गुण एकादेशः स्यात्, तर्हि अमागम- . 8 वकारयोरान्तरतम्यादोकाररूपे गुणे ‘ओतो णिदिति वाच्यम्' इति वार्तिकेन णिढदावात् आदिवृद्धौ च द्योरिति रूपसिद्धौ किमौ- त्वविधानेन । तस्मात् हलि परतो न गुण इति ज्ञायते । 'ओतो णित्' इति वार्तिकव्याख्यानावसरे 'विहितविशे- षणान्नेह-हे भानो भानवः' इति कौमुद्यादिषु व्याख्यातम् । तत् कथमुक्तदिशा अमागमविधानेन द्यौरिति रूपसिद्धिः ? 'पुंसोऽसुङ्' इत्यत्रेव सौ विवक्षिते अमागम इति व्याख्या- नान्नानुपपत्तिः ॥ अथात्र इग्ग्रहणं व्यर्थम्, 'दीर्घात् ' इत्यतो दीर्घग्रहणास्य 'हस्वस्य पिति--' इत्यतो हूस्वग्रहणस्य चानुवृत्या हस्वदीर्वयो- यविधानेनेष्टसिद्धेः । प्लुतस्य तु प्रकृतिभावेन भवितव्यम् । न च 'दीर्घात्' इति पञ्चम्या अचीति सप्तम्याः षष्ठीप्र- कल्पनापत्तिः, 'सेनासुरा ' इति ज्ञापकेन दीर्घादिति पञ्चम्याः षष्ठ्यर्थकत्वस्य कृप्तत्वात तस्यैवानुवृत्या दीर्घस्येत्यर्थलाभसंभवात् । न च ‘पदान्ताहा' इत्यत्र हस्वस्येत्यस्यापि संबन्धन दधि च्छादयतात्यत्र तुम्विकल्पापत्तिरिति वाच्यम्, हूस्वस्येत्यस्य मण्ड़क- पु. या संबन्धानुवृत्त्या वा तन्मात्रस्यैव संबन्धाङ्गीकारेणादोपादिनि चत् न; हरये उपेन्द्रः कृष्णैकत्वमित्यादावपि यणापत्तेः । न च तेषामपवादत्वात् न दोषः, एवं तर्हि तितउश यणापत्तेः । न च निर्देशात् गुणस्येव यणोऽपि वारणसंभवः, आद्गु , , . डो इति निर्देश संभवादिति तर्कवत् अकारस्यान्तरतमयणोऽभावेन चतुर्णामपि पर्यायण प्रवृत्या तथा तर्कस्य कर्तुमशक्यत्वात् । न च देवदत्तहन्तृहतन्यायेन युप्माकमित्यादौ ससुटकनिर्दे- शेन नुइचाधकसुटो निवृत्तौ नुनिवृत्तिवत् यण्वाधकगुणनिवृत्ती यनिवृत्तिरपि सुकरेति वाच्यम्, एतादृशे विषये तन्न्यायाप्रवृत्ते रन्यत्र स्पष्टत्वात् । चिनु हि अत्रेत्यादी अनुतवद्भावेन प्रकृतिभाव. निवृत्तावपि प्लुतस्य यणादेशानापत्तेः । न च प्लुतस्यासिद्धत्वात् तत्सिद्धिः, 'प्लुतप्रगृह्या अचि इति ज्ञापकेन 'सिद्धः प्लुतः स्वरसंधिषु' इति भाप्ये कण्ठरवेण 'ईदूदेत्----' 'अतो रोः--' इति सूत्रयोरुक्तत्वेन तस्यासिद्ध- त्वासंभवात् । न च 'प्लुतप्रगृह्याः' इत्यत्र प्लुतस्य प्रकृतिभावं प्रति आ- श्रयात्सिद्धत्वं स्वीक्रियताम् । तावतैवेष्टसिद्धया 'सिद्धः प्लुतः- इति वचनाभ्युपगमे न फलमिति वाच्यम्, एहि कर्तृ आशेत्यत्र परत्वात् प्लुते 'ई चाकवर्मणस्य' इत्यत्र ईग्रहणप्रत्याख्यानाद- प्लुतवद्भावे यणि ' उदात्तस्वरितयो:--' इत्यादिना आशेत्यागारस्य स्वरितत्वसिद्धरेव फलत्वात् । न च कशब्दस्य 'चितः---' इत्यन्तोदात्तत्वात् प्लुता- त्पूर्व यणि कृतेऽपि स्वरसिद्धिरिति वाच्यम्, तृन्नन्तकर्तृशब्दे दोषापत्तेः । किंच तृनन्तत्वेऽपि 'आमन्त्रितस्य' इत्याष्टमिकनि- घातप्रवृत्त्या अन्तोदात्तत्वासंभवात् एहि दण्डिन्याशेत्यत्र डीपोऽनु- दात्तत्वेन प्लुतेन विना यण उदात्तस्थानिकत्वासंभवात् । ,

८८
-
ननु 'अप्लुनवदुपस्थिते' इत्यत्र अप्लुते इव अप्लुतव
दित्यर्थन प्लुतः अप्लुतवत् कार्य लभत इति कार्यातिदेशाङ्गीकारेण
अप्लुतहस्वदीर्घयोर्भवतो यणादेशस्य अत्रापि प्रवृत्त्या इष्टसिद्धय
न दोष इति चेत्, सत्यम् ; इको यणेवाचि यथा स्यात्, यदन्या
प्रामोति, तन्मा भूदित्येतदर्थ तस्य सत्वात् । अन्यच्चात्र शाकलम्
न च तस्यात्यन्तबाधः , आरम्भसामर्थ्यात् । एवं च 'मिनित्यसमा
सयोः शाकलप्रतिषेधो वक्तव्यः' इति यत्पूर्वाचार्यैः स्मयंत , तदनेन
इग्रहणेन संपाद्यत इत्याहुः ॥
-
॥ श्रीः॥
इको इस्वोऽङयो गालवस्य ।
इह — उत्तरपदे ' इत्यधिकारः । तेन पूर्वपदाक्षेपः। तस्य
विशेष्यत्वात् तद्विशेषणे इपदे तदन्तविधिः। अङय इति
प्रत्ययग्रहणपरिभाषया तदन्तपरम् । ततश्च ङ्चन्तभिन्नस्य इगन्तस्य
पर्वपदस्य हूस्वः स्यादुत्तरपदे इति सूत्रार्थः । ग्रामणिकुलम, ग्रामणि
पुत्र इत्यादीन्युदाहरणांनि । कुमारीपतिरित्यादी तहारणाय अङ्य
इनि । रमापतिरित्यादिव्यावृत्तये इक इति ।
इह अङय इति विशेषणादेव ड्यन्तभिन्नस्य ड्यन्तमहशस्य
इगन्तस्येत्यर्थेनैव इष्टसिदो इक्पदं व्यर्थम् ।
न च तदभावे अच्परिभाषया उपस्थितस्य अत्र इत्यस्यव
सादृश्यानुयोगितया विवक्षणे ड्यन्तभिन्नानन्तस्यत्यापत्ती रमापति

रित्यादी तदापत्तिरिति वाच्यम्, सति संभवे व्यायधर्मयुरस्कारेणैव साढश्यस्य वाच्यतया सिद्धान्ते उपस्थितस्य अच इत्यस्य विशेष- णत्वेन अपस्येक इत्यर्थवत् अत्रापि पक्षे उक्तलाघवानुरोधादि- गन्तत्वेन साहश्यग्रहणेन इपानन्तपूर्वपदस्येत्यर्थेनादोषात् । न चैवमीकारान्तत्वस्य तद्व्याप्यत्वात् तेनैव सादृश्यग्रहणेन यन्नभिन्नस्य ईकारान्तस्य पूर्वपदस्येत्यर्थापत्तो वधूपतिरित्यादी हूस्वा. नापत्तिरिति वाच्यम्, एवं सति भ्रूभङ्ग इत्यादी हूस्ववारणाय ' इयङ- वङभाविनामध्ययानां च नेति वाच्यम् ' इति वार्तिकस्थोवङ्ग्रहण - यापच्या उकरूपेण सादृश्यग्रहणस्य वक्तुं शक्यत्वात् ।। न च तत्मार्थक्याय नदीत्वोपलक्षितस्य ग्रहणेन नदीत्वोपल- क्षितङयन्तभिन्नपूर्वपदस्येत्यर्थेन भुवे श्रियै इत्यत्र नदीसंज्ञाया दृष्ट- तया भ्रभङ्ग: श्रीमद इत्यत्र तदुपलक्षितत्वेन न वार्तिकासंगतिः । एवं च लक्ष्मीपतिरित्यादौ हूस्वप्राप्तावपि ग्रामणिपुत्र इत्यादी हूस्वो न स्यादिति तदर्थमिग्ग्रहणमावश्यकमिति वाच्यम्, तावतापि वार्ति- कस्थाव्ययग्रहणवैयर्थ्यस्य तदवस्थतया तथा सादृश्याविवक्षणेन लाववानुरोधेन केवलगन्तत्वेनैव सादृश्यविवक्षया सर्वेष्टसिद्धेरि- त्याहुः॥ Hश्रीः ॥ कर्वकर्मणोः कृति ॥ अत्र कृतीत्यत्र प्रत्ययग्रहणपरिभाषया कृदन्त इत्यर्थी लभ्यते । तच्च कर्तृकर्मणोविशेषणं । कृदन्तपदं च तदुपस्थाप्यक्रिया परम् । कृदन्तोपस्थाप्यक्रियाकर्तृकर्मणोः षष्ठीति सूत्रार्थः । यहा कृतीति सति सप्तमी । कृदन्ते सति कर्तरि कर्मणि च. षष्ठी भवतीति सूत्रार्थः । अत्र पक्षेऽपि प्रत्यासच्या कृत्प्रकृत्युपस्थाप्यक्रियानिरू पित एव कर्ता कर्म च गृह्यते । सूत्रोदाहरणम् --- भवतः शायिका, अपां स्रष्टा । कर्तृकर्मणोः किम् ? शस्त्रेण भेत्ता । नन्वत्र कृतहणं व्यर्थम् । कर्तृकर्मत्वे क्रियापेक्षे । तहाची च धातुरेव । धातोहि दृये प्रत्यया विधीयन्ते-तिङः कृतश्च । तत्र लादेशेषु 'न लोकाव्ययः इति निषेधेन तदिन्नकदन्तयोग एव षष्ठी भविष्यति । किमत्र रुद्रहणेन ? न च पाचयति यज्ञदत्तो देवदत्तनेत्यत्र प्रयोज्यकर्तरि षष्ठी वारयितुं रुद्हणम् । णिच् तु न कृदिति वाच्यम्, लयोगे नेत्यनेनैव निषेधसिद्धेः; लप्रकृत्यर्थक्रियायोगे नेति तदर्थात् । सा च गुणभूता प्रधानभूता वेत्यदोषः । न चात्र रुद्वहणाभावे 'उभयप्राप्ती कर्मणि' इत्युत्तरसूत्रे उभयप्रवृत्तिप्रयोजक इत्यर्थकस्य उभयोः प्राप्तिः यस्मिन् कृदन्त इति बहुव्रीहेरनापत्तिः, षष्ठीविधायक रुद्हणाभावे षष्ट्या अनैमित्तिकत्वेन तत्प्रयोजकत्वस्य कृत्यसंभवेन अन्यपदार्थाप्रसिद्धः । तथा च तत्पुरुष एव स्यात् । तस्मिन् सति ओदनस्य पाकः, ब्राह्मणानामागमनमिति भिन्नक्रियानिरूपिते कर्तरि षष्ठी न स्यात्, कर्मण्यवेति नियमनात् । सति तु कदहणे कृतस्तत्प्रयोजकत्वात् अन्यपदार्थस्य स्पष्टत्वेन 'उभयगतिरिह भवति' इत्यादाविव 'उभयप्राप्तो' इत्यत्रापि बहु- बीहिः सिध्यतीति वाच्यम्, कृत्पदोपादानेऽपि देवदत्तकर्तृकयज्ञदत्त- कर्मकगमनहननमित्यर्थे देवदत्तस्य यज्ञदत्तस्य च हननमित्यत्र एक- धातुवाच्यभिन्नक्रियानिरूपिते कर्तरि पष्ठीनियमवारणाय एककृत्प्रत्य- यप्रतिनिरूपितक्रियाकमणीत्यर्थस्य व्याख्यानलभ्यत्ववत् ममापि कर्तृत्वकर्मत्वयोः क्रियासापेक्षत्वेन क्रियायोगमन्तरा कर्तृकर्मव्यपदे- शासंभवन ताभ्यामाक्षिप्तक्रियावाचकातोरेव अन्यपदार्थत्वसंभवेन तस्य सौत्रकृत्पदेनानुल्लेखेऽपि वस्तुतस्तस्य षष्टीप्रयोजकत्वेन ‘एकाचो- हे-' इत्यादाविव व्याख्यानादेव बहुव्रीहिणा तल्लाभेन तदर्थ कृत्पदानपेक्षणात् । न च करोतीति रूदिति व्युत्पत्त्या गुणभूते णिच्प्रत्यय कर्तरि भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानामित्यादौ षष्ठ्यर्थमिति वाच्यम्, तृतीयावत् गुणभूते कर्तरि पष्ठया अपि सिद्धेः । न च नदी नाविकः, आभ्रिको भूमिमित्यादौ तद्वितोपस्थाप्य- क्रियानिरूपितकर्मणि पष्ठीवारणार्थ कृद्हणमिति वाच्यम्, तद्विता- दिना कारकान्वययोग्यतावच्छेदकसाध्यत्वेन तरणादेर्भानाभावेन तक्रियामादाय कारकविभक्ते१र्वचत्वात् । न च कृतपूर्वी कटमित्यत्र तद्धितान्ते षष्ठीवारणार्थ कदहणम् । अन्यथा कृतं पूर्वमनेनेति विग्रहे सुप्सुपेति तयोः समासे ततः 'सपूर्वाञ्च' इति सूत्रेण कर्तरि इनिप्रत्यये कृते तत्र कटस्य कर्मत्वेन पठी स्यात् । सति तु कृद्ग्रहणे तत्सामर्थ्यात् कदन्तमात्रोपस्थाप्य - क्रियामात्रनिरूपितकर्तृकर्मणोरेव पष्ठी ; न तद्वितोपस्थाप्यक्रियाया- मपीति न दोष इति वाच्यम्, निष्ठान्तधातूपात्तक्रियायोगे न इत्य- नेन निषेधनैव षष्ठ्यप्राप्तया तदर्थ सद्भहणस्यानावश्यकत्वात् । न च कर्तव्यपूर्वी कटभित्यादौ पठ्यप्रवृत्तये रद्हणमिति वाच्यम्, कनः सकर्मकत्वेन 'तयोरेव-' इति नियमेन कर्मण्येव तव्यस्य प्रवृत्त्या तेन कर्मणोऽभिधानेन द्वितीयाषष्ठयोरुभयोरप्यप्राप्तया तादृशवाक्यस्यैवासंभवात् । किं च कर्तव्यः कटः पूर्वमिति विग्रहे 'मविशेषणानाम्-' इति निपेयेन वृत्तेरव दुर्लभता । तस्मात कृतहणं व्यर्थमेवेति चेत्, अत्र कौस्तुभकृतः- नेह पच्यते शक्यं क्षुदुपहन्तुमित्यादाविव कर्ममामान्ये प्रत्यये सति पूर्व कटरूपकर्मविशेषसंबन्धमप्रतिपद्यमान एव कृतशब्द पूर्वशब्देन समस्यते । पश्चात् किं कृतमिति विशेषनिज्ञामायां कटरूप कर्मविशेषसंवन्धे सति तत्र पष्टी स्यात् । तत्र पष्ठीवारणार्थ कुद्रहणम् न च कर्मसामान्ये प्रत्ययेऽपि शक्यं क्षुदुयहन्तुमित्यत्रेव केटस्या भिधानं दुरिमिति वाच्यम्, तद्वितार्थेन एकार्थीभूतस्य कृतशब्दस्य कटेन सह निष्कृष्य सामानाधिकरण्येनान्वयासंभवेन तदभिधानासं भवात् । शक्यं क्षुदुपहन्तुमित्यादौ तु तयोः सामानाधिकरण्येनान्वया दभिहितत्वात् न द्वितीया, गुणभूतक्रिययापि कारकाणां योगात् प्रकृते च कटस्य कृधात्वर्थफलाश्रयत्वात् ततो द्वितीया । इनिप्रत्ययस्य आश्रयोऽर्थः । धात्वर्थस्य कस्तत्रान्वयः । कटपदार्थस्य कर्मणों धात्वर्थे अन्वयः । क्तप्रत्ययार्थस्य कर्मणोऽपि तत्रैवान्वयः । तथा = कटकमविषयकप्राकालिककृत्याश्रय इति बोध इत्याहुः ॥ अन्ये तु कर्मसामान्ये कृत्प्रत्ययेऽपि विशेषानालिङ्गित सामान्याभावेन कर्मत्वावच्छिन्नस्य सर्वस्याप्यभिधानं दुर्वारम् । कट पदार्थस्य धात्वर्थे अन्वयोऽयुक्तः, समानपदोपात्तक्तप्रत्ययबोध्यकर्मणव कमीकाक्षाया निवृत्त्या बाह्यकटादिरूपकर्माकाङ्क्षाभावेन तदर्थे तदन्वयासंभवात् । किंच कारकाणां तदर्थप्रत्ययान्तधातुसमभिव्याहारे धात्वर्थे अन्वयोऽव्युत्पन्नः । अन्यथा तण्डुलं पचति इत्यर्थे तण्डुलः पचति इति प्रयोगापत्तर्दुरित्वात् । मति संभवे तत्रैवान्वय औत्स- निकः । यत्र तु तथान्वये बाधकमुपलभ्यते- 'वृत्तस्य विशेषणयोगा न' इति । तत्र तु धात्वथें अन्वय इत्यपि न युक्तम्, तण्डुलं पक्कीयति इत्यादिप्रयोगापत्तः । सिद्धान्ते तु तण्डुलं पक्वीयतीति न, कारकाणां तदर्थकप्रत्ययार्थेऽप्येकदेशत्वेनान्वयासंभवात् 'अहस्य राजपुरुषः' इतिवत् तथा प्रयोग एव न । किं च तण्डुलः पच्यतेतमा- मित्यादौ कर्मणः क्रिययैव योगात् द्वितीयापत्तिः । यदि तत्र क्रियाविशेषणीभूतेन लकारार्थेन कर्मणान्वयः, तर्हि कार्थेना- प्यन्वयो दुर्वार एव । तस्मात् कारकाणां तदर्थकप्रत्ययसमभिव्याहारे धात्वर्थान्वयोऽव्युत्पन्न एव । कर्मसामान्ये प्रत्यय इति पक्षोऽपि न युक्त एव । तस्मात् पच्यते तण्डुलः स्वयमेवेत्यादी व्यापाराणामविव- सावत् अत्र कान्वययोग्यधात्वर्थफलांशस्याविवक्षया अकर्मकत्वात भाव एवं प्रत्ययः । कृतं पूर्वमनेनेति विग्रहे सुप्सुपेति समासः, तद्वितश्च । ततश्च कनपूर्वीत्ययं पूर्व कृतवानित्यनेन समानार्थकः । समासताहतानन्तरं च वृत्तिभेदात् पूर्व त्यक्तस्य फलांशस्य विवक्षया कटस्य गुणभूतक्रियया संवन्धः । तथा च एतादृशविषये षष्ठीवारणार्थ कृदहणम् । न च कृतोऽविवक्षितकर्मकतया अकर्मकत्वेन भावे क्तप्रत्यये पश्चादपि कमांन्वयो दुवंत्रः । अन्यथा ग्रामं गम्यते इत्या- दिप्रयोगापत्तैरिति वाच्यम्, विवक्षायाः प्रामाणिकप्रयोगानुरोधित्वेनास्म- " .. दीयवितक्षया' अतिप्रसङ्गापादनस्यायुक्तत्वात् अप्रयुक्ते यथ लक्षणं प्रयोक्तव्यमिति ' भाप्योक्तन्यायात् । अन्यथा अमूर पश्या राजदारा इत्यादिष्वसमर्थसमासवत् अन्यत्राप्यसमर्थयम सापत्तेः । अत एव कृतपूर्वीत्यत्र 'न लोक-' इति निषे न । अन्यथा तेन निषेधेनैव षष्ठचप्राप्तया भाष्यासंगतिः सिद्धान्ते तु निष्ठान्तपदशक्तिज्ञानसहकारेणोपस्थितक्रियाकर्तृकर्मणारे तेन निषेध इति नात्र तत्प्राप्तिः, सकर्मककृञ्धातुप्रकृतिकभावक्ता स्य ईदृशवृत्तिविषय एव साधुत्वाङ्गीकारण अन्यत्राप्रयोगात् तदन्त मात्रस्य पृथक शक्तिग्रहे मानाभावात् । प्रकृते च कृधातुक्तप्रत्ययपूर्वश इनिप्रत्ययशक्तिज्ञानसहकृततद्धितान्तसमुदायशक्तयैव तदर्थोपस्थिर पूर्वकालक्रियाककर्तृणां परस्परविशिष्टानां बोधः ; न तु तादृशार्थ पस्थितौ कृदन्तशक्तिज्ञानमपि सहकारीति कृदन्तशक्तिज्ञानसहक रेण उपस्थित्यभावान्न दोषः । न च गत्यर्थेभ्यो भावे तर 'गत्यकर्मक-' इति सूत्रेणानुशासनेन तस्य लोके स्वातन्त्रयो प्रयोगसंभवात् तदन्तशक्तिग्रहप्रयोज्योपस्थितिविषयक्रियाकर्मत्वात गतपूर्वी ग्रामनित्यादौ षष्ठी दुवीरेवेति वाच्यम्, उक्तरीत्या 'न लोक- इति निषेधेनादोषात् । न च पक्कपूर्वी सूपम् अधीतपूर्वी वेदमित्यादिप्रये गासंभवः, सकर्मकप्रकृतिकभावक्तान्तस्यान्यत्रानभिधानादिति वाच्यम् कृतपूर्वी कटं भुक्तपूर्वी ओदनमिति द्वहणप्रत्युदाहरणप्रदर्शनपर भाष्यण कद्हणप्रत्युदाहरणयोग्यदृशवृत्तिविषय एव तस्य साधुन नान्यत्रेत्यङ्गीकारेणादोषादित्याहुः ॥ केचित्तु भाष्योक्तकृतपूर्वी कटमिति प्रत्युदाहरणान्यथानुपपत्त्य सकर्मकाणामप्यविवक्षितकर्मतया अकर्मकत्वात् भावे क्तः । सा + . . . विवक्षा ईदृशविषय एवेति नातिप्रसङ्ग इति कल्पनमयुक्तम् , तस्या- न्यथाप्युपपत्तिसंभवात् । तथा हि- कृतपूर्वी कटमित्यत्र कर्मण्येव क्तप्रत्ययः, न तु भावे । न चैवं तेनाभिधानात् द्वितीयानापत्तिः कृञ्धातूपस्थाप्यक्रियाकर्मणः तेनोक्तत्वेऽपि 'सपूर्वाच्च ' इति सुत्रेण इनिप्रत्ययस्य कर्तर्यनुशासनेन तदुपस्थाप्यगुणीभूतक्रियानि- रूपितकर्मणोऽनुक्तत्वात् द्वितीयोपपत्तेः । एवं च कटरूपकर्मण- स्तद्धितार्थभावनाकर्मत्वेऽपि कृदन्तोपस्थाप्यभावनाकर्मत्वाभावात् न पष्ठीति बोधयितुं कृद्हणमिति न किंचित्प्रतिकूलम् । न च क्रियाभेदस्यैव कर्मभेदनियामकतया तद्धितस्यापि एतादृशे विषये समभिव्याहृतक्रियार्कतर्यव प्रवृत्त्या तेनापि तस्या एवोपस्थित्या प्रकृते तयोः कृत्योर्भदासंभवेन क्तप्रत्ययेन कृब्धात्वर्थकर्माभिधाने तद्वितोपस्थाप्यकृतिकर्मणोऽप्यभिहितत्वं दुरिमिति वाच्यम्, शयन शेते आसने आस्ते इत्यादौ गुणक्रियानिरूपिताधिकरणत्वस्यक्तित्व ऽपि प्रधानक्रियानिरूपिताधिकरणत्वस्यानुक्तत्वेन सप्तमीवदत्रापि द्वितीयोपपत्तरित्याहुः ॥ तदेतच्चिन्त्यम् : ईक्षांचक्रे इत्यादी आमन्तोपस्थाप्यव्यापार- विशेषस्य अनुप्रयुज्यमानकृनुपस्थाप्यव्यापारापेक्षया विभिन्नकर्तृकर्म- कत्वव्यावृत्तये सामान्यविशेषयोर्भेदाङ्गीकारण तयारैक्यावगतिद्वारा एतत्साधनयोरपि ऐक्यावगतिवत् कृतीत्यत्रापि तद्वितार्थकृतः कृञर्थकृत्यपेक्षया विभिन्न कालिकत्वविभिन्नकर्तृकत्वतिभिन्नकर्मकत्वव्या- वृत्तये तथोरभेदान्वयस्यावश्यकतया प्राप्तोदको ग्राम इत्यत्रेव वृत्ती क्तप्रत्ययार्थस्य प्रकृत्यर्थं प्रति विशेषणत्वेन पूर्वकालिकसविषयक- कृत्यभिन्नकृत्याश्चय इति बोधात् तेन तयारक्यावगतो तद्वार. तत्सा- . धनयोरपि ऐक्यानुमानेन एतादृशविषये अन्यतरक्रियाकर्मण उक्तत्वेन अन्यतरस्मिन्ननभिहितत्वस्य दुर्वचत्वात । शयने शेते आसने आस्ते इत्यादौ साधनभेदात् कालभेदात् क्रिययोर क्यप्रतीतेरनावश्यकतया क्रिययोर्भेदेन गुणक्रियाधिकरणस्यो- क्तत्वेऽपि प्रधानक्रियाधिकरणस्यानुक्तत्वेन न सप्तम्यनुपपत्तिः । किंच वाचकभेदेन क्रियाभेदाङ्गीकारेऽपि कृतपूर्वपदे विशे- प्यतयोपस्थितस्य तार्थकर्मगस्तद्धितार्थकतावनन्वयेन तयोः पर- स्परं सामर्थ्याभावात तद्वितवृत्तरेवानुपपच्या तहारणाय तद्धितार्थकता- वन्वये पूर्वकालिककृतिविषयीभृतव्यक्निविषयककल्याश्रया देवदत्त इति बोधेन स्वान्वितक्तप्रत्ययोपस्थाप्यकर्मणैव तद्धितार्थकतेः कर्मा- कामानिवृत्त्या कटादिरूपबाह्यकर्मणस्तत्र कर्मत्वेनान्वयासंभवेन हिनीयोपपत्तेरसंभवात् ; अन्यथा धात्वर्थमंगृहीतकर्मकभावनायामपि बाह्यकमांन्वयापच्या वायुं जीवतीति प्रयोगापत्तिः । किं च विभक्त य- र्थकर्मादेर्धात्वर्थान्वयस्यैव व्युत्पन्नत्वेन तद्धितार्थगुणभतक्रियान्वयोऽ- युक्तः ; अन्यथा पूर्वी कटमिति प्रयोगापत्तेदुवारत्वात् तन्दितार्थभाव-- नायां द्वितीयार्थ कर्मत्वान्वये धातुममभिव्याहारस्यात्र सन्चात् । न च यत्र तन्द्रितवाच्यक्रियायाः समभिव्याहृनधातुवाच्याक्रियया अभेदः, तत्रैव कारकान्वय इति न दोष इति वाच्यम् , एवमपि तर्या तरति तारिको नदीम् . देवनेन दीपति देवनिको दुर्योधनः पाण्डवमिति प्रयोगापत्तः । यदपि- इनिप्रत्ययस्य कृत्याश्रयरूपः कर्ता अर्थः । कान्तं च इनिनिरुक्तार्थे तात्पर्य ग्राहकम् ; न तु कृतिकमार्थकम् ; तथा च तान्तेन कमानभिधानान न द्विनीयानुपपत्तिः । तहितेन च धात्वर्थकतरेवापस्थित्या तत्र कटोत्तरश्रयमाणाम्प्रत्ययान्वयमत्वेऽपि . न कारकाणां धात्वर्थान्वयनियमभङ्गः, तान्तस्य तात्पर्यग्राहकतया तद्धितार्थभावनाया धातुप्रयोज्योपस्थितिविषयत्वानपायात् । एवं च तहितार्थभावनान्वये षष्ठीवारणाय कृद्रहणमिति, तन्न सुन्दरम् ; गभीरायां नद्यां घोष इत्यादी नदीपदस्य गभीरनदीलक्षकत्ववत् इनिप्रत्ययस्य कृत्याश्रये शक्तस्य समभिव्याहृतकृतपदार्थान्तर्भावण वृत्त्यभानेन अस्य तात्पर्यग्राहकत्वासंभवात् । न च कृत्याश्रये शक्तस्यापि लक्षणया कृतिविषयबोधकत्वेन तस्य तात्पर्यग्राहकत्वं संभवतीति वाच्यम्, तथा सति कृतपूर्वी देवदत्त इति देवदत्त पदेन मामानाधिकरण्यानुपपत्तेः । न च कृतेत्यत्र भासमानप्रत्य- यार्थान्तविण वृत्त्यनङ्गीकारेऽपि क्तप्रत्ययप्रकृत्यर्थान्तर्भावेण वृत्यङ्गी- कारातस्य तात्पर्यग्राहकत्वं सुवचमिति वाच्यम्, प्रत्ययशक्तयेव कृतेः प्रकारतयोपस्थितिसंभवेन तदंशेऽपि तात्पर्य ग्राहकानपेक्षणात् । न च कारकाणामन्वयसिद्धये धातुना येन रूपेण उपस्थितिः, तेन रूपेण प्रत्ययन लक्षणया उपस्थितिसिद्धयर्थं तात्पर्य ग्राहकापेक्षा ; अत एव पूर्वीत्यत्र इनिप्रत्ययार्थकतो कटमित्यस्य नान्या इति वाच्यम्, तथा मनि कर्मपदे लक्षणया व्यापार 1 Aile :-"- बाये तण्डुलं देवदत्तेनेति प्रयोगापत्तेः । किंच नाविक ३. सत्ययस्य तरणार्थबोध कल्वे · नौद्वयचः ... ' इत्यत्राधिकरतरतीनाङ सदन- कृतिभृततृधातोरपि प्रयोजकत्वेन तस्यापि या प्रयोज्योपस्थिा । वय- वन तत्र नदी मिस्यस्याप्यन्वयापत्तेः । एवमाक्षिक इत्यादावपि देव- दत्तमित्यादेरन्वयो दुर्वारः स्यात् । यदपि- प्रधानीभूतकृत्तद्धिता- ख्यातान्यतमानभिहितत्वं द्वितीयाप्रयोजकमिति , तदपि न ; पक्कस्त- ण्डुलोऽस्तीत्यादौ द्वितीयापत्तः, तण्डुलं पक्त्वा ओदनो भुज्यत

इत्यादी द्वितीयानापत्तेश्च । न च गुणप्रधानभावापन्नक्रियानिरूपित :
कर्तुः कर्मणो वा यत्रैकत्वम्, तत्र प्रधानक्रियानिरूपिततच्छक्तयभि
धाने गुणक्रियानिरूपिततच्छतेरप्यभिहितवद्दानमिति वाच्यम
ओदनं पक्त्वा ओदनो भुज्यते चत्रेण पक्त्वा चैत्रो भुङ्क्ते इत्यः
द्वितीयातृतीययोरनापत्तेः, ' श्रुत्वाप्यर्थं नानुमतस्तेन सोऽर्थः कुत्रु
विना ' इत्यादौ द्वितीयानापत्तः, पूर्वोक्तनदी नाविक इत्यादिप्रयोगा
णामापत्तेश्चेति दिक् ॥
.
॥ श्रीः ॥
॥ माधवाभरणम् ॥
श्रीभमिनीळासहितं सर्वविद्याधिदैवतम् ।
कुन्दमन्दारसुभगं नौमि श्रीहयकंधरम् ॥
कोमुदीयुतमनोरमोत्सुकैदुर्निबाधविभवः स माधवः ।
वदमौलिगुरुसूक्तिदृश्वभिर्दोपहीनगुणवान्विबुध्यते ।।
सुवृत्ती तावत् वृत्रनो वृता इति रूपवयं माधवनोद
हाम् । तत्र तदाशयानिज्ञानोपज्ञावज्ञानिरसनाय तदाशयः स्फुटोकि
यो ।
अत्रेत्थं तदाशयः-
आधुनिकरस्माभिलक्षणैकचक्षुष्कता
लक्षणप्रवृत्यनुरोधेन प्रवर्तितव्यम् । तत्र च प्रमाणानामैककण्ठ्ये संभ
वति तेषां परस्परपराङ्मुखीभावकल्पनं न प्रामाणिकहृदयंगमम्

तथा च सूत्रवार्तिकभाप्याणामैकमत्यं नीत्वा वैयाकरणेलक्ष्य निर्धार- यितव्यम् । वृत्रध्न इत्यादौ च सूत्रकारमते वैकल्पिकमेव णत्वं प्रव- तितुमर्हति ; न तु नित्यम् , न वा निषेधः । तथा हि- अखण्डपदस्थत्वाभावेन 'रषा पाम्--' इत्यस्य 'अट् कु- प्वाङ्' इत्यस्य नियमविधित्वेन प्रापकान्तरसापेक्षतया अत्र च नि- त्यगत्वापकविध्धन्तराप्रवृत्त्या 'अकुप्वाङ्--' इत्यनेनैव नित्यस्य च केवलयौगिकत्वेन 'पूर्वपदात्-' इत्यस्य चाप्रवृत्तिः । अल्वि- धौ स्थानिवद्भावनिषेधेन उत्तरपदस्यकाच्त्वाभावेन न एकाजुत्तर- पदे' इत्यस्य प्रवृत्तिः । न च समासचतुष्टयेऽपि 'अनल्विधौ । इत्यस्य प्रसक्तिरस्तीति कथमत्र स्थानिवद्भावनिषेध इति तु न शङ्कि- तव्यम् ; अलः परस्य विधिरिति पञ्चमीसमासे तन्निषेधसंभवात् । न च सूत्रे पञ्चम्यन्तस्योपादानाभावान्न तनिषेधसंभवइ ति वाच्यम्, निमि- तत्वेनोपादानावश्यकतायां मानाभावात्, किं च वक्ष्यमाणवार्तिकस्य अत्पूर्वग्रहणस्य च लक्ष्यसाधने भाष्यकता विशेषाभावसूचनात् आतः परत्वेन प्राधानीत्यादौ णत्वाप्रवृत्तिसंपादनेन सामर्थ्यवर्णनायोगाच्च प्रघ्न- लीत्यादौ स्थानिवद्भावेन अत्पूर्वत्वमाश्रित्य 'हन्तेः-' इति णत्वप्रसक्ती तत्र स्थानीभूतादलः परस्य विधित्वेनाल्विधित्वस्य वर्णनीयतया निमित्तत्वनोपादान एवालिधित्वमित्ययुक्तत्वाच, हलङ्यादिसूत्रे भाष्ये प्रथमहल्ग्रहणाभावेऽपि संयोगान्तलोपेनैव तल्लक्ष्यसिन्द्विमुपवर्ण्य नलापरुत्वयारेव दोपतत्समाधानयोरभिधानात् द्यौरित्यादी त्वद्रीत्या स्थानिवद्भावेन संयोगान्तलोपप्रसक्तावपि तच्छङ्कासमाधानयोरकरणेन निमितत्वेनानुपादानेऽपि वस्तुतोऽलः परस्य विधित्वेन 'अनल्विधी' इत्यस्य प्रवृतेः स्वीकारावश्यंभावाच्च, क्षीरपेणेत्यादौ अल्विधित्वेन , - स्थानिवद्भावाप्रवृत्तरेकाच्त्वातिदेशार्थताया अन्तादिवत्सूत्रस्य शेखर उक्तत्वेन तत्र च निमित्तत्वेनोपादानाभावेऽपि वस्तुतः स्थान्यल: परत्वेनैव तस्य वक्तव्यत्वाच्च, समासचतुष्टयस्यैवाकरे उपलभ्यमानतया प्रकारान्तरेणाल्विधित्ववर्णनायोगात् त्वद्रीत्या तादृशशेखरविरोधाप- तेश्च, हे गौरित्यादौ पञ्चमीसमासपक्षे अचः परस्मिन्-' इति स्थानिवद्भावेन 'एङ्हूस्वात्-' इति संवृहिलोपमाशझ्य, 'प्रविगणय्य' इति भाप्योदाहरणन पञ्चमीसमासपक्षे स्थानिवद्भावस्य अनित्यत्वज्ञाप नान्न दोष इत्युक्त्वा, निमित्तत्वनिवेशे तु न मानमिति शेखरकता वर्णितत्वेन त्वन्मते पूर्वोत्तरसूत्रयारूप्यापत्तश्च, मन्मतरीत्या संभ- वति सारूप्ये वैरूप्याभ्युपगमस्यान्याय्यत्वाच्च ॥ नन्वेवमपि भूतार्थे ' ब्रह्मभ्रूण इति नियमेन उपपदा- न्तरे विपोऽप्रवृत्तावपि वर्तमानाद्यर्थे 'क्विप् च ' इत्यनेन तत्संभवात प्रकर्षेण हन्तीति प्रहा तस्माच्छसि प्रघ्न इत्यादौ वार्तिकमतविरुद्धमपि णत्वं सूत्रमते ' हन्तेर त्पूर्वस्य ' इति नित्यं प्राप्नोत्येव, स्थानिवदा- वात् । नहि तत्र प्रागुक्तरीत्या अल्विधित्वेन स्थानिवद्भावनिषेधः संभवति, ‘अल्लोपोऽनः' इत्यल्लोपरूपादेशविधौ ‘हन्तेरत्पूर्वस्य' इति णत्वविधौ च अदिति विशिष्ट समुदायाश्रयण नाल्लिधित्वाभावात । यथोक्तम् 'भो भगो-' इति सूत्रे शेखरेण-अग्रहीदित्यत्र दो लोपे च इट्त्वेनैव निर्देश इति न दोष इति । स्थानिवत्सूत्र- शखरेऽपि-शब्दतः स्थानिस्थान्यवयवान्यतराल्वृत्तिधर्मवतो विशे- प्यतया विशेषणतया वा यत्राश्रयणम्, तत्र निपधः । शब्दत इत्युक्तेरग्रहीदित्यत्र ' इट इंटि' इति सिध्यति, दीर्घविधावत्र च इट इति समुदायाश्रयणात् ; अन्यथा टकारस्य अनुवन्धत्वान .

१०१ इकारमात्रस्यैवोभयत्राप्याश्रयणमिति अनिधित्वं स्यादित्युक्तम् । तया च आदेशविधौ कार्यान्तरविधौ च शब्दतो यत्र समुदायान- यणम्, तत्र अल्बिधित्वं नेति शेखरमतं सिद्धम् । उभयत्रग्रहणात् दीर्वविधावत्र च समुदायाश्रयणादित्युपादानाच्च स्थानिविधावपि समुदायाश्रयणं शेखरकाराभिप्रेतमिति तत्तात्पर्यकल्पनमयुक्तमेवेति सुधीभिरवगन्तव्यम् । एवं च सति 'अल्लोपोऽनः' इत्यल्लोपरूपादेश- विधी 'हन्तेः-- ' इति णत्वविधौ च उभयत्रापि शब्दतः 'अत्' इति समुदायाश्रयगात् नालिबधित्यसंभवः । अत एव 'भो भगो- इति सूत्रे अश्ग्रहणाभावे पयस्सु इत्यादी 'रोः सुपि' इति रुत्व- विधानात् तत्रादेशविधा भी भगो-' इति यत्वविधौ च शब्दतः 'रोः' इति समुदायाश्रयणात् 'अनल्विधो' इति निषेधाप्रवृत्या स्थानिवत्वेन रुत्वात् यत्वं स्यादिति अश्ग्रहणस्य तदप्रवर्तनं प्रयोजन मिति, देवाः सन्तीत्यादो 'खरवसानयोः-' इति सूत्रेण शब्द- ता रेफस्थाने विसर्गविधानात् यत्वविधो 'रोः' इति समुदाश्रयणे- ऽप्युभयत्रापि समुदायाश्रयणाभावात् अल्विधित्वेन स्थानित्त्वाप्रसक्ते- तत्र अश्ग्रहणाभावेऽपि न दोष इति च शेखरोक्तं संगच्छते ।। - . अथ 'अत्' इत्यनेन अकारस्यैवोपस्थितिः, 'तपरस्तत्का- लस्य' इति संज्ञाकरणात् । ‘इट्' इत्यनेन तु समुदायस्यैवोप स्थितिः । शब्दत इत्यस्य प्राथमिकोपस्थितिविषयो निर्दिष्ट- समानानुपूर्वीकः समुदाय इत्यर्थोऽभिप्रेतः । तथा च इट्शब्देन प्रथमतः समुदायोपस्थितेरनन्तरमनुबन्ध न्धविनिर्मोकेऽपि न दोषः । अत्' इति शब्दन तु प्रथमत एव अकारमात्रस्योपस्थितिरिति .

१०२ वैषम्यं तु न शङ्कितव्यम्, इट्शब्देनापि टित् य इकार इत्येवं प्राथमिकोपस्थितेरभ्युपगमादविशेषात् । अत एव निष्ठासूत्रे भाष्यप्रदीपोद्दयोते- 'गुप्ति किद्भयः सन् ' 'सन्योः' इत्यादी धातोः नित् सकारो भवति । नित् यः सकारस्तदन्तस्य द्वित्वमित्या- द्यर्थ इत्युक्तं संगच्छते । अत एव 'क्याच्छन्दसि' इति सूत्रे कित यो यप्रत्ययस्तदन्तादुप्रत्यय इति व्याख्याय क्यजन्तादिव कण्ड़वा- दियगन्तादपि 'तुरण्यवोऽङ्गिरसः' 'सपर्येम सपर्यवः' 'शकुनं भुरण्युम्' इत्युप्रत्ययः कयटहरदत्तादिभिरुदाहृतः संगच्छते । लक्ष्यानुरोधेन आनुपूर्वीविशेष विवक्षित्वा अतिप्रसक्तिनिरसनीया । एतेन 'घनः सास्याम् -' इति अप्रत्ययान्तादपि 'टिड्डाणञ्--' इति डीप स्यात्, तत्रापि जित् यः अकारप्रत्ययस्तदन्तादित्यर्थस्यैव उक्तरीत्या संभवादिति शङ्का परास्ता; तत्र लक्ष्यानुरोधेन स्वाव्य- वहितोत्तरत्वरूपविशेषणस्यापि विवक्षणेन स्वाव्यवहितोत्तरप्रकारेत्को योऽकारप्रत्ययस्तदन्तात् ङीवित्यर्थाभ्युपगमेनादोषात् । 'ताच्छी लिके णे अणकार्यम्' इति तु उक्तप्रकारतात्पर्यकमेव सनातीय- नियमार्थकमिति न तदनुपपत्तिरिति ध्येयम् । 'टिङिन्मित्सु प्रतिषेधः' इति वार्तिकेन अनुबन्धविनिर्मुक्तस्येव प्राथमिकोपस्थितिविषयत्वलाभाञ्च। अत एव ' हलन्त्यम् ' इति सूत्रे ‘पदार्थोपस्थितिरनुबन्धविनि मुक्तस्यैव उपदेशकाल एवेत्संज्ञेति 'नाज्झली' इति सूत्रभाप्यात् । अत एव 'इदम इश् ' इत्यादी अण्त्वात्सवर्णग्रहणमाशय 'अप्र त्ययः' इति निषिध्यत इति भाष्योक्तं संगच्छते ' इति शेखरोक्तं संगच्छते । अनुबन्धविशिष्टस्योपस्थितौ हि इश इत्यनेन इश् इत्य स्यवोपस्थित्या तादृशसमुदायस्यानण्त्वात् तदाशङ्कासमाधाने निर्दले १०३ स्यातामिति तदाप्यासंगतिः । अस्य च्चौ' इत्यादौ प्रथमोपस्थितेन सार्णग्रहणबोधनेन चरितार्थत्वात्समुदायोपस्थित्यनन्तरमनुबन्धवि- निर्मोके अण्त्वात्सवर्णग्राहकतापादनमयुक्तमिति तद्गावः । किंच इटूशब्दस्य इकार आदिरित्यर्थः , अच्छब्दस्यं हूस्वाकार इतिवत् । तपरसूत्रस्येव 'आद्यन्ती --' इत्यस्यापि संज्ञाविधित्वस्यापि भाप्ये प्रदर्शितत्वात् । तथा च सति इत्संज्ञकटकारककारौ क्रमेण आद्य- न्तशब्दयोः संज्ञेति 'आद्यन्तो इत्यस्यार्थः सिद्धो भवतीति संज्ञात्वभिटशब्दस्यापि तुल्यम् । न च संज्ञाविधित्ववर्णने ऽपि पारभा- पात्वस्यैव स्थापनात् अस्थितपक्षाश्रयणेन वैषम्यनिरासो न युक्त इति वाच्यम्, भाप्यसता तत्सूत्रस्य संज्ञाविधित्वे लक्ष्यासिद्धिरूप- दूषणानुपन्यासेन पक्षद्वयेऽपि लक्ष्यसिद्धो तुल्यकक्षतावबोधनात् । अत एव मनपायां नअर्थनिरूपणावमरे-अव्ययीभावस्य नित्यत्वात मूतले न घट इति वाक्यं दुर्लभमित्याशक्य अस्थितेऽपि 'पूर्व- पदार्थप्रधाना नञ्तत्पुरुषः' इति पक्षे तत्पुरुषस्याव्ययीभावेन बाध- प्राप्त्यां सत्यामपि भाप्पकता तदाशङ्का या अफरणेन नोऽव्ययी भावाभावानुमानात्तादृशवाक्यं निव्यूढं संगच्छते । अन्यथा तत्रेवा- त्रापि लक्ष्यानिध्यनाशङ्कोऽपि अस्थितपक्षत्वान्नेदं भाप्यं स्वाभिमत साधकत्वेन प्रमाणीकर्तुं गुतमिति तुल्यमिति मञ्जूषाया असं- गत्यापत्तिः ॥ एवं च प्रश्न इत्यादी 'अनल्विधा' इति निषेधानवतारात 'हन्तेः--' इति णत्वं दुरिमवेति चेत्, सत्यम् : अत्रत्यशब्दत इत्यादिशेखरमतस्य बहुतरदूषणग्रस्तत्वेन हेयत्वादुक्तदोषाप्रवृत्तः ।

--- - अन्यथा तदुक्तरीत्यभ्युपगमे 'नाभ्यस्तयोरातः' इत्यत्र शब्दतः 'आतः' इति समुदायाश्रयणात् 'लङः शाकटायनस्य' इत्यत्रापि 'भातः' इत्यनुवृत्तेः सत्त्वात् उभयत्रापि शब्दतः समुदायाश्रयणात् दरिद्रातेलङि आलोपे स्थानिवद्भावेन झिप्रत्ययस्य स्थाने 'लङ: शाकटायनस्य' इति जुमो वैकल्पिकत्वापत्तिरिति दिक् । दूषणा- न्तराणि तु अस्मत्कृतसाक्तिरत्नावल्यां द्रष्टव्यानीत्यलं प्रसक्तानुप्र सक्तपरिधावनेन ॥ - . नन्वेवमपि पञ्चमीसमासपक्षे अचः परस्मिन---' इति स्थानिवद्भावात् वृत्रन इत्यत्र णत्वं दुर्वा रमेव । अत एव 'अल्वि धित्वेन स्थानिवद्गावाभावात्' इति माधवग्रन्थमुपन्यस्य, अचः परस्मि- नित्यस्य अल्विध्यर्थत्वात् तद्न्थस्य अयुक्ततोक्ता तत्त्वबोधिन्या- मिति चेत्, नैतद्युक्तम् ; अल्विधित्तेन स्थानिवद्भावो नेति वदतोऽ- भिप्रेतार्थस्यानुपदमेव स्फुटीकृतत्वात्, प्रत्युत स्वस्यैव तत्त्वबो- धनवैधुर्यसूचनात्, अचः परस्मिन्-' इति स्थानिवद्रावस्य पञ्चमीसमासपक्ष अनित्यत्वात्तदप्रवृत्तः मुपपादत्वाच्च । न च तस्य दोषः - ' इति वार्तिके गाग्रहणात् णत्वविषये अवश्यं स्थानिवद्भा- वनेव भवितव्यमित्यभ्युपगन्तव्यमिति वाच्यम्, तथा सति व्यूढार- स्कनेत्यादी अयोगवाहानामट्सु पाठन अच्वात् विसर्गस्थानिकस- कारव्यवधानऽपि पञ्चमीसमासपक्ष । अचः परस्मिन्-' इति स्थानिवद्भावावश्यंभावेन णत्वापत्ते: । यदि तत्रायोगवाहपाठस्य 'अनल्विधौ' इति निषेधसिद्धिफलकतया वार्तिककाराभिमतत्वेन तत्प्रामाण्यात् णत्वविधावपि अनित्यत्वात्तदप्रवृत्तिः ; अन्यथा ताह- ..

१०५ शफलकथनासंगत्यापत्तेरिति मन्यते ; तदा वार्तिका पूर्वग्रहणयोल. शासिहो तुल्यकश्यतासूचकवश्यमाणभाष्यप्रामाण्यादनित्यत्वं शक्य- माश्रयितुमित्युपशाम्यनु भवान् । 'कुमति च' इति णत्वं तु न वृत्रघ्न इत्यत्र शङ्काम, संनिपातपरिभाषाविरोधप्रसक्त्या तत्र तन णत्वाप्रवृत्तरिति बाध्यम् । एवं च सूत्रकारमते वृत्रन इत्यादी शसाद्यन्ते नित्यणत्वाप्रवृत्या 'प्रातिपदिकान्त-' इति वैकल्पिकणत्वमेव सिहमित्यवगन्तव्यम् ॥ . वार्तिककारमतेऽपि विकल्पस्यैव प्राप्तिः ; न वा नित्यस्य, नापि निषेधस्य । तथा हि-इदममीभिर्वार्तिककारमतं प्रथममवधा. रयितव्यम् - ‘रपाभ्यां णो न:-' इत्यत्र समानपदशम्देन समासरूपसमानपदस्यापि ग्रहणम् । पूर्वपदात-' इत्यनेन पूर्वपदाचेत् संज्ञायामवेति तस्य नियमात् रामनामेत्यादो 'रषाभ्यां णो नः' इत्यनेन णत्वं न भवति । प्रकरणे प्रकरणमसिद्धं न योगे योगोऽसिद्धः' इत्यभ्युपगमेन णत्वप्रकरमा पूर्वयोग प्रति परशास्त्रस्य 'पूर्वत्रासिद्धम् ' इति असिद्धत्वं नास्तीति 'रषाभ्याम् इत्यादि यावण्णत्वशास्त्रमडादिव्यतिरिक्तव्यवधाने न प्रवर्तत इति 'अकुपु--' इत्यनेन नियम्यते--इति । तथा च सति अकुप्वाङ्-' इति ‘पूर्वपदात्-' इत्यनयोर्नियमविधित्वेन निवृतावेव तात्पर्यात् विधिनिषेधयोरुभयोरपि तात्पर्यकल्पने गौरवात सकदुच्चरितः शब्दो न वृत्तिद्वयमर्हति ' इति न्यायात सकृदुचरितेन शस्यलक्ष्ययोरुभयोरुपस्थापकत्वासंभवात् तथा सत्यावृत्तिप्रसङ्गाच विधिशास्त्रस्यासंकुचितप्रमरस्य नियमशास्त्रस्य विधिमुखेन प्रवृत्य- .

१०६ भ्युपगमे निरर्थकसंकोचकल्पनाप्रमङ्गाच्च अडादिव्यवधाने संज्ञायां च 'रघाभ्याम्-' इत्यनेनैव णत्वं युक्तमित्यभ्युपगन्तव्यम् । अडादिव्यवधाने प्रातिस्विकप्रातिपदिकत्यादिशास्त्रान्तरेणापीति वि- शेषः ; तत्सूत्रस्य प्रकरणनियामकत्वात् । तथा च अडादिव्यति- रिक्तव्यवधाने न णत्वमिति पूर्वस्यार्थः ; असंज्ञायां पूर्वपदस्थानिमि- तात्परस्य नकारस्य न णत्वमित्युत्तरस्यार्थ इति सिद्धत्वेन तयानिपे- धतुल्यकारिता सिहा भवति । अत एव 'कुव्यवाये हादेशेषु प्रतिषधी वक्तव्यः' इति ‘अट् कुपु-' इति सूत्रे प्रतिषेधवक्तव्यता वार्तिक- कृतोक्ता युक्ता । अन्यथा नियमविधित्वेनाभिमतस्य 'अकुपु-' इत्यस्य विधिमुखेन प्रवृत्यभ्युपगमे 'हन्तेहकारणैव व्यवाये णत्वं वक्तव्यम्' इति 'उब्युपधाग्रहणं कर्तव्यम्' इतिवत् 'कवर्ग हकारानादे- शग्रहणं कर्तव्यम् ' इति वा वार्तिकं निर्दिष्टं स्यात्, ‘अटकुपु- इत्यनेन विधिमुखेन प्रवृत्तिमत्वरूपसारूप्ये संभवति तत्परित्यागानो- चित्यात् । अत एव 'ङमो इस्त्रात्-' इति सूत्रे ङमुटो नकाराद्यागमत्वे कुर्वन्नास्ते इत्यादौ 'रषाभ्याम् --' इत्यनेनैव णत्वमापादितं भाप्ये ; न तु 'अट्रकु-' इत्यनेन । 'अट्कुप्वाङ्--' इति सूत्रमडादिव्यवधाने अप्राप्ती विधायकमिति तु एकदेशिमतम् ; न तु सिद्धान्ते वार्तिकमतमिति स्पष्ट नुक्तं शेखरे । एवं च सति 'हन्तेरत्पूर्वस्य ' इत्यत्र अत्पूर्व ग्रहणाभावेऽपि हन्तेरित्यनेन प्रकरणविषयनियामकाटकुप्वाङिति- सूत्रसाचिव्येन प्रहण्यादित्यादौ णत्वप्रवृत्तिवत् प्रश्नन्तीत्यादावपि तेन णत्वप्राप्तो हन्तेरित्यनेन विहितं णत्वम् 'अट्कुपु-' इति सुत्रेण व्यवधाने प्रवर्तते चेत् , तर्हि हकारस्वाभाविकाकाररूपाय- वायतदन्यतरव्यवधान एवं नान्यत्रेति भावितार्थकं सत् अत्पूर्व- % B १०७ 3B ग्रहणम् ' अटकुप्वाङ् -' इत्यस्य नियामकं संपद्यते । अत एवा- तिदुर्वाधोपदर्शितैतादृशगूढाभिसंधि बालानामवबुवाशयिपुभिरेव वार्ति ककार: ‘अट्कुपु.-' इति सूत्रानन्तरम् ' कुव्यवाये--' इति वार्तिकं पठितम् । भाष्यकाराश्च 'कुव्यवाये हादशेष प्रतिषेधो वक्तव्यः' इति वार्तिकमुपादाय 'मत्रारम्भं नैकं प्रयोजयति ' इति न्यायेन आनुपङ्गिकफलद्वयमपि मुख्यफलेन साकं वार्तिककाराभि- प्रेतं क्रमादुदाहरणत्रयेण मयितुं स्तुध्ना वृत्रनः प्राघानीत्युदा- हृत्य 'हन्तरत्पूर्वस्येत्यत्पूर्वग्रहणमपि न कर्तव्यं भवति' इत्यनेन अत्पूर्वग्रहणगृढायांवबुबोधयिषायामेव मुख्यतात्पर्य वार्तिककारस्य स्फुटतरं प्रकटीकृतवन्तः । एवं च सति इदं वार्निक पूर्वोक्तगृढाभिसं- धबोधकमेव ; न तु अत्पूर्वग्रहणप्रत्याख्यानपरमिति भाप्यस्वारस्या ल्लभ्यते । अन्यथा प्रयोजनं विना गुरुतरवचनेन सूत्रकारकतपूर्व मत्रेकदशलघुतरैकपदप्रत्याख्यानस्यायुक्तत्वेन भाष्यकारस्य तदभ्यु- पगमानाचित्यापत्तेः । ' अगारकदेश प्रवणः प्रवाणश्च ' इति सूत्र स्प अत्र अत्पूर्वग्रहण मत्व वृद्धिविकल्प एव तात्पर्यम् , तथा कल्प- नाया एव लापवात् । तत्प्रत्याख्याने तु णत्ववृद्धिविकल्पयोरुभयो रपि निपातनस्य तात्पर्यकल्पनापत्त्या गौरवाच्च । अत एव अन्यत्र तता तत्र वचनेन वचनप्रत्याख्यानमसति विशेषे न युक्तमित्युक्तत्वात आप च सुज्ञानत्वात् उपदर्शितौरवाच नदं प्रत्याख्यानपरमिति सुबोधमेवेति तात्पर्यण भाप्यता, अत्र अवशिष्टात्पूर्वग्रहणं कर्त व्यम् , उत वार्तिकम् । किं ज्याय इत्येवमन्यत्रेव न प्रवर्तितम् । अत्पूर्वग्रहणस्य ' अट्कु- अट्कु-' इति सूत्रनियामकत्वरूपगूढार्थाव- वोधनस्यैव वार्तिककाराभिप्रतत्वेन तावन्मात्रार्थकत्वे ' हन्तरत्पूर्वस्य' . इन्यनन्तरं पठनीयस्य ' कुव्यवाये हादेशेष---' इत्यस्य — अटकुपु-' इत्यनन्तरं पठनात् चार्तिककारेण मध्येऽपवादन्यायेन रपाभ्यामि- त्यस्य बाधमिद्धिरूपप्रयोजनान्तरमप्यभिप्रेतमिति त्रुघ्नो वृत्रघ्न इत्यु- दाहृत्य वक्ष्यमाणरीत्या स्तुध्ना वृत्रान इत्यादी णत्वाप्रवृत्तेरुक्तपाठ- प्रयोजनं मन्दमित्यभिप्रायेण अत्पूर्वग्रहणवार्तिकयोराद्यस्यार्थमवबो- धयितुं पूर्वोपवर्णितात्पूर्वग्रहणतादृशार्थबाधेकप्रयो ननत्वमेव वात- कस्य युक्तमिति व्यक्तीकतुं च 'हन्तात् पूर्वस्येत्यत्पूर्वग्रहणं न कर्तव्यं भवति' इत्युक्त्वा ततः किमप्यवदता भगरता अवहेलन- मभिप्रेतमवगम्यते । प्रयोजनान्तरस्य त्वदभिनय ‘रपाभ्याम् -' इति वाधस्य अनावश्यकतया किपथ गुरुसर ननम् । स्ववचन सति अत्पूर्वग्रहणं न कर्तव्यं भवति वा, न मानली यमः । भवतीत्यत्र काकुस्वरो बाध्यः । तथा च प्रयोजनाविशेषात् च यथान्यास- मेव युक्तमिति परिशीलनशालिनां हृदयमधिराहतांति दिक ।। किं न वार्तिककारमतरीत्यापि न उक्तवार्तिकं मध्येऽपवाद न्यायेन रपाभ्यामित्यस्य बाधकम् । किं तु अत्पूर्वग्रहणममानफलक- त्वन हन्तरित्यस्यैव बाधकं तदिति सिद्धं भवति । तथा च प्रागुक्त युक्तरेव 'एकाजुत्तरपदे णः ' 'कुमति च ' इत्यनयोरप्राप्त्या वार्ति- कमतेऽपि शसाद्यन्ते वृत्रम्न इत्यादौ 'प्रातिपदिकान्त-...' इति णत्वमवेति सिद्धं भवति ॥ अथ त्रुध्न इत्यत्र ‘रपाभ्याम् ----' इत्यस्य प्रवृत्त्या मध्येड- पवादन्यायेन 'कुव्यवाय' इति वार्तिकेन तनिषेधोऽस्तु । केवल- योगिकत्वेन संज्ञात्वाभावात् असंज्ञायां 'रषाभ्याम्---' इत्यप्रवृ- वृत्त्या निषेधकत्वाच तेव॒त्रघ्न इति भाप्योदाहरणानुपपत्तिरिति न वाच्यम्, वार्तिककारमते अटकुपु--' इति 'पूर्वपदात्--' इत्यनयोर्नियमविधित्वेन निषेध मुखेन प्रवृत्तरुपवर्णितत्वेन तयोरपि निषेधकत्वाविशेषेऽपि समुदाय- निष्ठसंज्ञात्वाभावसापेक्षपूर्वपदादिति निषेधापेक्षया अन्तरङ्गत्वात् प्राघा- नीत्याद्यर्थत्वेऽपि संभवत्फलसंग्रहौचित्याच प्रतिपदोक्तत्वाच्च वाच्य- 'कुव्यवाये हानादेशः। इति वक्तव्ये 'प्रतिषेधो वक्तव्यः' इति वार्तिकस्वारस्येन इतरनिषेधसूत्रप्रवृत्तेः पूर्व- मेव स्ववचननिषेधान्तरोभयप्रवृत्तियोग्यस्थले वार्तिककृता स्ववार्तिक- प्रवर्तनमेवाभिप्रेतमित्यवगमाच्च भाष्यकता तत्तात्पर्यसूचनार्थ वृत्रन इत्युदाहरणदानेनादोषात् ।। अत्रेदं बोध्यम्-वार्तिककता 'कुव्यवाये~-' इत्यस्य वार्ति कस्य प्रयोजनत्रयमभिसंहितम् -स्थानस्वारस्येन 'रषाभ्याम्- इत्यस्य त्रुघ्न इत्यादावप्रवर्तनम्, प्रतिषेधस्वारस्येन वृत्रन इत्यादी पूर्वपदात्-' इत्यतः पूर्वमेव वार्तिकेन तस्य निषेधः, अत्यन्त स्वारस्येन अत्पूर्वग्रहणफलसंग्रहः । तत्र पूर्वप्रयोजनद्वयमयुक्तम् ; सूत्रमत इव स्त्रुध्नशब्दस्यान्यथासिद्धत्वात्, वृत्रघ्न इत्यादौ 'पूर्व- पदात्-~-' इत्यनेनापीष्टसिद्धेः, ततः पूर्व प्रवृत्त्यर्थ प्रतिषेधारम्भ- स्य निरर्थकत्वादिति परिशेषात् तृतीयं प्रयोजनं स्फारयितुम् 'अत्पू- वग्रहणं न कर्तव्यं भवति' इत्युक्त्वा, वार्तिकं न प्रत्याख्यानपरं गौरवादिति सुबोधमिति तत्तन्न्याय्यताविचारो भाष्यकता न कृतः । इत्थं भाप्यतात्पर्य च प्रागुक्तरीत्या प्रयोजनत्रयमुदाहरणत्रयेण प्रद- ये प्राक्तनद्वयमुपेक्ष्य तृतीयोपपादनेन तद्भाष्यस्वारस्यादेवावगम्यते ।। - , 10 • .

११० अत्र च भाष्योदाहरणे वृत्रं हन्ति हनिष्यति वा वृत्रघ्न इति मूलविभुनादित्वात् कप्रत्ययान्तः त्रुघ्नशब्दसाहचर्यात् प्रथमान्तः, न तु शसन्त इति बोध्यम् । वृत्रन इति प्रतीकमुपादाय 'प्रातिप- दिकान्तेति प्राप्तिः' इति कैयटस्यायमाशयः-कप्रत्ययान्तवृत्रघ्न- शब्दे यद्यप्यनेन णत्वं निषिद्धम् । 'प्रातिपदिकान्त-' इति सूत्रेण शसाद्यन्तवृषध्नइत्यादिस्वविषये वैकल्पिकस्य णत्वस्य प्राप्ति- रस्त्येव-इति । एवं च वृत्रन इति भाग्योदाहरणे 'प्रातिपदि- कान्त-' इति णत्वप्राप्तरेव वक्तव्यतया तद्वाति .. य ‘रपाभ्याम्-' 'हन्तेः-' इत्येतन्मात्रबाधकतेत्युक्तिर्न युक्तिमतीति शङ्काया नाव- सरलाभः; तथा सति मध्येऽपवादन्यायस्य बाधापत्तश्च, त्वन्मते तादृशन्यायान्तरसाचिव्यालाभाच्च, तद्वाधां विनैव भाप्योदाहरणसां- गत्यस्योपवर्णितत्वाच्च, नित्यविधिनिषेधकत्वे न्यायतो लब्ध सति विकल्पविधिनिषेधकत्वायोगाच्च, वार्तिक कृता 'प्रकरणे प्रकरणम सिद्धम्' इत्याश्रयणादसिद्धत्वाभावेन परस्ताहिकल्पप्राप्तेरेवोचित त्वाच, अन्यथा 'नित्यं समासेऽनुत्तरपदस्थस्य' इति सूत्रे भाप्ये अनुत्तरपदस्थस्य इति किम् ? इह माभूत्-परमसर्पिःकुण्डिका । इह नित्येन मुक्ते 'इसुसोः सामर्थे' इति विभाषा कस्मान्न भवति' इत्याशय, सामर्थ्यभेदप्रयुक्तोपाधिभेदाश्रयणेन परिहृतम् ; तत्र त्वद्रीत्या नित्यविकल्पयोरपि निषेधकत्वे 'इसुसोः सामर्थे' इति विकल्पाशङ्काया अनुचितत्वापत्त्या तद्भाप्यविरोधापत्तश्च ।। - . अत्रेदमवधेयम्-तत्र 'अनन्तरस्य- इति न्यायन 'नित्यं समासे-' इत्यस्य तत् बाधकम् । अत्र तु मध्येऽपवाद १११ न्यायेन 'रषाभ्याम् इत्यस्य बाधकं 'कुव्यवाये--' इति वार्तिकमिति तुल्यम् । 'ङिति च' इति सूत्रे कैयटेन विधिनि- षेधशास्त्रयोरेकवाक्यतायाः प्रदर्शितत्वात् नित्यविध्येकवाक्यता उभ- यत्र समाना । तत्र विकल्पस्य प्रवृत्तौ निषेधस्य वैयर्थ्यम् ; अथापि शास्त्रस्य स्वविषये प्रवृत्त्यवश्यंभावेन भाव्यमित्यभिप्रेत्य वैयर्थ्यमना- लोच्येव विकल्प आशङ्कितः । अत्र तु 'रषाभ्याम्--' इत्यस्य निषेध्यस्य सद्भावात् न वैयर्थ्यगन्ध इति विशेष एव । किं च तत्र पूर्वत्वेऽपि विकल्प आशङ्कितः । अत्र तु 'विप्रतिषेधे परम्-- इति सूत्रबोधितप्रवृत्तिकेन परेणेति महानेव विशेषः स्फुटतर इत्येवं स्थिते कथंकारं नाम विकल्पमप्येतहार्तिकं प्रतिरुन्ध्यादिति विभातयतु भवान् ।। - किंच स्वृत्वा सूत्वा इत्यादौ निषेधात्परत्वात् 'स्वरतिसू- ति--.' इति वैकल्पिकमिडागममाशय 'रुकः किति' इति निषेधस्य पुरस्तादपवादन्यायेन नित्येडागममात्रविषयकत्वमभिप्रेत्य पुरस्तात् प्रतिषेधकाण्डारम्भसामर्थन 'रुकः किति' इति निषे- धो विकल्पविषयेऽप्याश्रीयते; तदत्र पूर्वप्रतिषेधाद्यभावात् तदा- श्रयणे दृढतरप्रमाणानुपलम्भाच्च परत्वाद्विकल्पप्राप्तेः प्रतिबन्धकं न किंचिदुपलभामहे । तथा च भाप्योदाहृते शसन्तत्वस्य दुरुपपादत्वात् कप्रत्ययान्तत्वमित्यवशेनाप्यभ्युपगन्तव्यमिति सिद्धम् ॥ अथ 'अट्कुप्वाङ्-' इति सूत्रं प्रकरणनियामकम् ; तत्सूत्रपठितवार्तिकं तु तत्सूत्रपाठस्वारस्यात् 'रपाभ्याम्--' इत्यस्य, अत्पूर्वग्रहणतुल्यार्थकतासूचकभाष्यस्वारस्यात् 'हन्तेः-' इत्य- ११२ स्यापि बाधकं नान्यस्येत्यायातत्वात् तत्सूत्रवार्तिकयो।रूप्यं स्या- दिति चेत्, न; 'अट्कुपु-' 'पूर्वपदात् -~-' इत्यनयोर्वाति कमते नियामकत्वाविशेषेऽपि पूर्वस्य प्रकरणविषयकत्वम्, उत्तरस्य तु 'रपाभ्याम् -' इत्येतन्मात्रविषयकत्वं लक्ष्यानुरोधादित्यभ्युपग न्तव्यत्वेन तत्र प्रामाणिकवरूप्याभ्युपगमवत् अत्पूर्वग्रहणतुल्यफल- कतासूचकप्रागुक्तभाप्यस्वारस्यादेतादृशवैरूप्यस्याङ्गीकर्तव्यत्वादित्य- किंचित्करमेतत् ॥ यत्तु एतद्वार्तिकस्य प्रकरणविषयत्वमित्यभिप्रायेण पूर्वोदाह- तभाष्यसूचितसूत्रवार्तिकसमफलकतासिद्धये कौमुदीकारैर्योगविभाग: प्रदर्शितः । यच्च व्याख्यातृभिः 'वार्तिकार्थ योगविभागेन संगृह्य व्याचष्टे' इत्यवतारितम्; तदुभयमपि अयुक्तमेव; योगविभागस्य भाष्ये अनुपलम्भात्, हन्तेरत्पूर्वस्येत्यत्र अत्पूर्वग्रहणं न कर्तव्यं भवतीति भाष्ये हन्तेरत्पूर्वस्येति संपूर्णसूत्रोपादानस्वारस्यादेकसुत्रत्व एव तात्पर्यावगमात्, अत एव योगविभागस्यामभिमतत्वसूचनाच, योगविभागस्याभिमतत्वे लाघवात् अत्पूर्वग्रहणं न कर्तव्यं भव- तीति निर्देशस्यवौचित्याच, किं च योगविभागेन ‘अत्पूर्वस्य ' इत्यस्य नियामकत्वाङ्गीकारे तत्र उपसर्गग्रहणानुवृत्त्ययोगेन तथा सति 'एकाजुत्तर-' इत्यादिनियमासंभवेन मध्ये विच्छेदकल्पना पत्तश्च , उत्तरत्र मण्डूकत्याश्रयणापत्तेश्च, तहिनैव सिहौ तदाश्रय- णस्यायुक्तत्वाच्च, प्रागेव स्थानिवद्भावाप्रवृत्तेरुपपादितत्वेन । जुत्तरपदे' इत्यस्य संनिपातपरिभाषया 'कुमति च' इत्यस्य च प्राप्तरेवाभावेन तन्निवृत्त्यर्थम् ' योगविभागसामर्थ्यात् एकाजुत्तरपद - - इति णत्वमपि निवत्यते' इत्युक्तेयुक्तिविहीनत्वाच, 'एकाजुत्तर-' इत्यस्यापि नियामकत्वाङ्गीकारे बहुवृत्रहाणि इति वार्तिकानुमतनि- त्यगत्वाप्रवृत्तिसङ्गाच्च । अत एव योगविभागेन यार्तिकार्थसंग्रहा. शापि गलहस्तितेति बोध्यम् ॥ यत्तु ' अत्पूर्वग्रहणं हस्थानिककार्गाभापदन्तेल्पलक्षणम् । तेन बहुवृत्रहाणीत्यत्र न दोषः' इति शेखरकारः, तन्न ; अत्पूर्व- त्वस्य प्रकृते विद्यमानत्वेन ‘अविद्यमानत्वे सति व्यायतकत्यनुप- लक्षगत्वम् ' इति लक्षणलक्षितोपलक्षणत्वस्यायोगात् । प्रकृतिग्रन्थे उपलक्षगत्वं च लक्षणयोपस्थापकत्वमित्यपि न वक्तव्यम् , लक्षणा- कल्पनाबीनभूतार्थानुपपत्तितात्पयीनुपपत्यन्यतरासंभवेन लागाया असंभवात् , किं न 'उभे अभ्यस्तम् ' इत्यत्रापि उभेग्रहणं ममु- दायोपलक्षणमित्यभिप्रेत्य प्रवृत्तम् उभेग्रहणं समुदायलाभार्थमिति मतम् अशब्दार्थत्वादिति हेतुना स्वेनैव निराळतत्वेन आकरानुपल- व्यलक्षणाया अनभ्युपगन्तव्यत्वाच, अत एव स्वोत्तरग्रन्थविरोधा- पत्तेश्च , किं च आद्यन्तशब्दयोर्लक्ष्यसिद्धयपयुक्ताापलक्षणत्यस्या- गीकारेण सिद्धे 'अपूर्वानुत्तरलक्षणत्वात्' इति वार्तिकायुक्त- त्वोपपादनपराद्यन्तवत्सूत्रावश्यकतास्थापकभाप्यतात्पर्यविरोधापत्तेश्च । अपि च अत्पूर्वग्रहणस्य हन्त्युपलक्षणत्वस्यैव स्वाभिमतत्वेन शब्द. तोऽवगमात् बाधां विना स्वार्थस्य त्यागायोगेन तारकरणावरोधेन जहल्लक्षणाया अयोगात् तदानीम् 'हन्तेरपूर्वस्य ' इति निर्देष्टमुचि- तत्वेन वस्तुतः 'हन्तेरघः' इति वचनव्यक्तरुचितत्वेन तथा निर्द- शाकरणेन अजहलक्षणाया एव वक्तव्यत्वात् 'अत्पूर्वस्य ' इत्यत्र . .

११४ पञ्चमीतत्पुरुषाश्रयणे प्रघ्नन्तीत्यादी धातोरकारात्पूर्वत्वेन बहुव्री- हित्वे त्वन्मते प्रनि वृत्रध्नीत्यादी धातोरकारात्परत्वेन णत्वापत्तेः । तथा च अत्पूर्वत्वकवर्गरहितत्वोभयविशिष्टस्यैव णत्वमिति स्वीकारा- दुदाहृतस्थले कवर्गरहितत्वाभावान्न णत्वमिति कल्पना तु न निस्ता- रावधिका : तथा सति बहुवृत्रहाणीत्यादी कवर्गराहित्ये सत्यपि अत्पूर्वत्वविरहेण णत्वस्यानिष्टत्वापच्या बहुवृत्रहाणीत्यत्र न दोषः' इत्युक्तेरयुक्तत्वध्रौव्यात् , अन्यतरविशेषणसत्वेऽपि प्रवृत्ती तु समासद्वयेऽपि दोषापत्तेरुक्तत्वात् । हकारोपलक्षणत्वेऽपि अनहल्ल- क्षणावश्यकतास्थापनेन बहुवृत्रहाणीत्यत्र दोपस्तदवस्थ एवेति ताद- शदोषाभावकथनमवधानवैधुर्यनिबन्धनमेवेति सुधीभिर्विभावनीयम् ।। एवं च बहुवृत्रहाणीत्यादिलक्ष्यासिरुपलक्षणत्वेऽपि दुरुद्वर- त्वात् , तपरकरणविरोधेन जहल्लक्षणाया अयुक्तत्वात् , 'हन्तरवः' इति सूत्ररूबसूत्रितत्वात् , उक्तदोपाप्रवृत्तये लाघवात् 'छत्वमणि' इतिवत् 'हन्तेरवः' इति वार्तिकता वक्तव्ये तथा अनुक्ते:, भाष्यकृता ' अत्पूर्वस्य ' इति न कर्तव्यं भवतीति वक्तव्ये 'हन्ते- रत्पूर्वस्य ' इत्यत्रेति संपूर्णसूत्रप्रयोगाच्च सूत्रकाराधनभिमतो योग- विभागो हेयहेयः ॥ किं च अव्यभिचारात् हस्यानिकेति विशेषणमुपलक्ष ग- णत्ववादिनोक्तं निष्फलमेव , कवर्गविशेपाकाक्षाशान्त्यै वार्तिके 'हादेशेषु' इत्यस्यावश्यकत्वेऽपि उपलक्षणत्वे तदनावश्यकत्वात्, हन्तेरित्यनुवृत्तेरेव तत्सिद्धेः । यदपि 'एकाजुत्तरपद इति णत्वमपि ' इति प्रतीकमुपादाय - . - ११५ 'अपिना प्रातिपदिकान्तेत्यस्य कुमति चेत्यस्य च संग्रहः । वाध्य- सामान्यचिन्ताअयणात्सर्वबाधः' इत्युक्तं शेखरकता ; तदपि न युक्तम् ; मुनित्रयानुमतेवक्तुमशकयत्वस्योपदर्शितत्वात् योगविभागा- योगात् उपलक्षणत्ववर्णनकथाया निधूनत्वात् , उपलक्षणत्वेऽपि तपरकरणविरोधेन बहुवृत्रहाणीत्याद्यसिद्धेरुपपादितत्वाच्च, योगवि- मागासंभवेन 'प्रातिपदिकान्त-' इति णत्व नियामकत्वासंभवेन तत्संग्रहायोगात् प्रागुक्तरीत्या 'कुमति च ' इत्यस्य विभक्ति वपये अप्रवृत्त्या तत्संग्रह कथनवैयचि, अपिना प्रातिपदिकान्तति संग्रहस्य मूलकदभिमतत्वेन वक्तुमयुक्तत्वाच्च, तथा सति 'प्रातिपदि. कान्तेति णत्वमपि निवत्यते' इति तद्वाक्यप्रसङ्गात् वस्तुत आवश्य- कत्वात्प्राथमिकत्वाच्च, शब्दप्रयोगस्य स्वाधीनत्वेन प्रातिपदिकान्ते- त्येव मूल कता वक्तव्यलेन तदनुक्की बीजाभावात् त्वदुक्तरीत्या मूलतः स्वाभिप्रायसूचनाय स्वाधीनशब्दप्रयोकृताविरहेण प्रोटिः हान्यापत्तश्च, 'अनन्तरस्य---' इति न्यायबाधेन एकान्तरितवाध- स्यैव तदभिप्रेतत्वसूचनाच्च, वचनप्रामाण्यादेकवर्णव्यवधान एव येन नाव्यवधानन्यायेन कार्यप्रवृत्तिदर्शनेन तत्साम्पादेकान्तरितवावस्यैव तत्स्वारस्यानुरोयेन युक्तत्वाञ्च । तस्मात् अपिना प्रातिपदिकान्ते- त्यस्य संग्रह इत्य युक्तमा कमक्कमेव ।। , : अत एव बाध्यसामान्यचिन्ताश्रयणमपि मूलस्वरसविरुद्ध ध्येयम् , 'अनन्तरस्य-' इति न्यायवाघस्यैव योगविभागसामर्थ्य- लब्धत्वकथनात् , प्रकृतावुपाकरणादिपशुसंस्काराणामव्यवहितोत्तर- क्षणक्रमवत्वेऽपि ' सप्तदश प्राजापत्यान् पशूनालभते ' इति विकृती - ११६ सहश्रुत्या उपाकरणादिसंस्कारागां षोडशक्षणमात्रव्यवधानसहनेऽरि न ततोऽधिकविलम्बसहन, प्रतिप्रातकनानन्तर्यस्य तावन्मात्रेय सहश्रुतेश्चारितार्थ्यादिति पूर्वतन्त्रे क्रमलक्षणे सिद्धान्तितत्वेन ततुल्यन्यायतया अवापि योगविभागस्य एकान्तरितबाधेन चरि तात्वेिन 'एकाजुतरपदे णः' इत्यस्येव बाधे मूलकत्तात्पर्यस्य युक्तत्वात् । अत एव मूलकता 'एकाजुत्तरपदे-' इत्येव उपात्तम. नतु 'प्रातिपदिकान्त- ' इति । तथा च प्रदर्शितमूलशब्दस्वारस्य- परिशीलनदशायामभ्युपगतेऽपि योगविभागे 'प्रातिपदिकान्त-' इति णत्वबाधोऽन्याय्य इति स्वाभिप्रायं परमरहस्यत्वेन सूचयति स्म मूलकार इति विभावनीयं कुशाग्रबुद्धिभिः । . - , नन्वेवं सति 'यतु वृत्रनो वृत्रा इति वैकल्पिकं णत्वं माधवेनोक्तम्, तद्वाप्यवार्तिकविरुहम्,' इति स्वोत्तर ग्रन्थो विरुध्येतति चेत, किं कुर्मो वयम् ; उत्तरग्रन्थानुसरणे शब्दस्वारस्यविरोधादि- बहुदोपप्रसङ्गात् । तस्मात्स एव स्वाभिप्रायो द्रष्टव्य इत्यलमसदा- वेशेन । एवं च वार्तिकमतेऽपि वैकल्पिकं णत्वं निर्वाधमवेति सिद्धम् ।। अर्थवमपि भाप्यकारमतमाश्रित्येव लक्ष्यं लक्षणेक चक्षुप्के- रास्थेयम्, यथोत्तरं मुनीनां प्रामाण्यात् । तथा च भाप्यकार: प्रकर- णेऽपि प्रतियोगमसिद्धत्वाभ्युपगमात् प्रथममेव वृत्रध्न इत्यादो 'रपाभ्याम्--' इत्वेव णत्वं प्राप्नोति । नन्वखण्डपदत्वाभावान्न तेन णत्वं संभवतीति प्रागुक्तमिति चेत्, तदयुक्तम् ; 'गतिकारकोपपदा- नाम् -' इति समासे उत्तरखण्डस्य पदत्वविरहेण अखण्डपदत्वान- पायादिति चेत्, मैवम् ; निमित्तावटितप्रकृत्यघटकत्वस्यैव समानपद- ११७ स्थत्वेन प्रकृतं च वृत्रशब्दवटकरेफरूपनिमित्ताघटितक्विप्प्रत्ययप्रकृति- भूतहन शब्दबटकत्वनाखण्डपदस्थत्वाभावात् ॥ नन्वयमपि । व्यवायेंऽपि ' इति योगविभागेन विधित्वाङ्गीका- रण तत्र समानपदग्रहणानुवृतरयोगन णत्वं दुर्वारमिति चेत्, न; व्यवायऽपि ' इत्यस्य सर्वणत्वविधीनां व्यवधाने अप्रवृत्तौ ' तस्मा- दित्युत्तरस्य' इति बाधित्वा व्यवधानेऽपि प्रवृत्त्यभ्यनुज्ञापकत्वेन तादृशपरिभाषावाधन चरितार्थत्वाण्णत्वविधावपि व्यापारकल्पने गौरवात्, अपिशव्दवैयर्थ्यप्रसङ्गाच्च, तथा सति रामनामेत्यत्र णत्वा- पत्तेश्च, पूर्वसूत्रे समानपदवैयापत्तेश्च, एतद्दोषपरिहाराय अत्रापि समानपद इत्यनुवर्त्य उत्तरसूत्रे अट्कुप्वाङित्यादिव्यवायइत्यन्तानु- वृतिकल्पने गौरवादपिशब्दवैयर्थ्यतादवस्थ्याच्चति दिक् ॥ अथ यद्यपि यौगिकत्वेन 'पूर्वपदात्-' इत्यस्य पूर्वोक्त- युक्त्या 'एकाजुत्तरपदे णः' इत्यस्य च न प्राप्तिः ; तथापि 'कुमति च ' इति तु स्यादेव, त्रिपाद्या असिद्धत्वेन तत्र तदप्रवृत्त्या पूर्वोक्तसंनिपातपरिभाषाविरोधासंभवादिति न वाच्यम्, उपजीव्यवि- रोधन्यायमूलकत्वेन तादृशपरिभाषाया लौकिकत्वात् त्रिपाद्यामपि प्रवृत्ते : शेखरशब्दरत्नयोरुतत्वात् । न चैवं प्रान्तीत्यादावपि तत्परिभाषाविरोधादव णत्वाप्रवृत्तेरत्पूर्वग्रहणवैयमिति वाच्यम्, अटकुप्वाङ्- ' इत्यस्येव ' हन्तेः' इत्यस्य प्रवृत्ती हकारघकार- योरविशेषात् तत्परिभाषाया अप्रवृत्तेः, प्राघानीत्यादिव्यावृत्यर्थमत्पूर्व- ग्रहणस्यावश्यकत्वाच ॥ न चैवं नित्यणत्वप्राप्तेरयोगे ' कुव्यवाये-' इति वार्तिकेन - . - ११८ , सामर्थ्याद्विकल्पस्य निषेधः प्राप्नोति । न हि भाप्यमते णत्वान्त निषेधुं शक्यते । अत एव वृत्रघ्न इत्गुदाहृतमिति · वाच्यम् येननाव्यवधानन्यायेन वचनप्रामाण्यादसिद्धत्वाभावस्थ भाप्यस्ता भ्युपगतत्वेन 'हन्तेः' इत्यस्य सिद्धत्वेऽपि 'प्रातिपदिकान्त- इत्यस्यासिद्धत्वाहार्तिकेन निषेद्धमशक्यत्वात्, अत्पूर्वग्रहणतुल्यफल ताया असंभवेन तन्मते तदाप्यविरोधापत्तेच, योगविभागेन तत्तुल्य फलतासंपादनाशाया अवस्तादेव विघटितत्वाच्च, वृत्रघ्नशब्दस्य कप्रत्ययान्तत्वेन तदुदाहरणासंगत्यापादनायोगाच, तस्य च वार्तिक कारमतानुसारेण उदाहृतत्वस्य प्रागेव प्रपञ्चितत्वाच्च । अत एक वार्तिककाराभिसंहितप्रयोजनत्रये एकस्यैव भाप्यकारकटाक्षविषय त्वमिति प्राक् प्रपञ्चितत्वात्, अत एव तत्सूत्रानन्तरं तद्वार्तिकपाठ फलपर्यनुयोगे नातीवाभिनिवेष्टव्यामति सूचितत्वात्, स्वरूपकतला घवात्, प्रघणप्रवाणशब्दयोवृद्धिविकल्पमात्रतात्पर्यकल्पनारूपप्रयो जनलाघवात्, अतिसंनिहितत्वेन अर्थज्ञानक्लेशविरहात्, अन्यथ एतादृशगौरवस्य स्फुटतरत्वात्, सूत्रसदुपदिष्टपूर्वत्वाच्च स्वयमेव कुशला युक्तं जानन्तीति तात्पर्येण भगवता भाष्यकृता व्यक्तमनुक्तत्वे. ऽपि अत्पूर्वग्रहणमेव कटाक्षपात्रीकृतमिति रहस्यमिति परिशीलिता पद्धतिः । अथैवं प्रघनाघन इत्यत्र णत्वापत्तिः । घनाघनशब्दस्य रूढत्वेन तद्घटकधात्वर्थान्वयित्वायोगेन उपसर्गसंज्ञाविरहादत्र णत्व वारणेऽपि सुनढुघ्नशत्रुघ्नादिशब्देषु 'पूर्वपदात्-' इति णत्वापत्ति १ वरिवेति चेत्, मैवम् ; तेपा क्षुम्नादिषु पाठेनादोषात्, 'येषां णत्वं ..

RISHNA MISSION INSTUE OF Mv8 381CALCUTIA टं ते क्षुम्नादिपु बोध्याः । निषेधसूत्राण्यपि एतस्यैव प्रपञ्चाः' इत्ये- सूत्रे कैचंटनैवोक्तत्वात् । अत एव भाप्यस्ता लक्ष्यसिद्धौ वार्तिका. र्वग्रहणयोस्तुल्यकारितोक्ता संगच्छते । तथा च भगवतो भाप्य- रस्य मतेऽपि शसाद्यन्ते वृत्रघ्न इत्यादी 'प्रातिपदिकान्त-' इति कल्पिकणत्वप्राप्तरेव निबांधत्वेन माधवोदाहृतस्य वृत्रनो वृत्रष्ण ते रूपढयस्यैव सूत्रवार्तिकभाप्यानुगृहीतत्वेन माधमतमेव महद- हृदयंगमिति सिद्धम् ॥ श्रीचक्रवर्तिकवितार्किकमिहलक्ष्मी- वेदान्तदेशिकपदेन कृतं सुवर्णैः । श्रीमाधवाभरणमर्पितमद्भुतं श्री- लक्ष्मीपतेर्हदि चिराय जयाय भूयात् ।। LIBRARY SULTURES B.C. R.S 12MAR 196. naved

No text on this page.

No text on this page.

No text on this page.

Panini Tantrakora Patrani

Author
Krishnamacharjya
Title
Panini Tantrakora Patrani
File name
Panini Tantrakora Patrani
Text
OCR done
Citation
1909
Published
2006/05/31
Publisher
Krishnabilas Press
Language
Sanskrit
Pages
129
Library
Ramkrishna Mission Institute Of Culture, Golpark
Classification
Literary Studies. Literary Criticism
DLI number
345184
Barcode
4990010220674.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
9opT1XUIiSQ
Download PDF

Panini Tantrakora Patrani