Canegie Mellon Univeristy

Bhagvan Nama Kaumudi With Prakasha Commentary

Laqs-miidhara · 2006/02/28

PDF Proofread

Front matter

No text on this page.

M
अकयुतग्रन्थमालामा प्रधम पुष्पम्
श्रीलक्ष्मीधर-विरचिता
श्रीभगवन्नामकौमुदी
प्रकाशटीकोपेता
KEEKE
प्रकाशस्थानम्
अच्युतग्रन्थमाला-कार्यालयः
काशी
SKkkee sikke

No text on this page.

冬冬冬居民冬冬冬会会长长长会会会长 358-53 REE अच्युतग्रन्थमालायाः प्रथमं पुष्पम् श्रीभगवन्नामकौमुदी मीमांसाऽवारपारीणश्रीलक्ष्मीधरविरचिता मीमांसाधुरीणानन्तदेवनिर्मितया प्रकाशटीकया सहिता। श्रीमन्माध्वसंप्रदायाचार्यदार्शनिकसार्वभौम- साहित्यदर्शनाद्याचार्यतरत्नन्यायरत्न- गोस्वामिश्रीदामोदरशास्त्रिणा टिप्पन्या परिष्कृत्य संशोध्य; सम्पादिता। काश्याम् अच्युतग्रन्थमाला-कार्यालयात् प्रकाशिता वि. स. १९८४ प्रथमसंस्करणम् ] मूल्यन acca888888888 saas

प्रकाशक-श्री गौरीशंकर गोयनका, अच्युत ग्रन्थमाला कार्यालय, काशी।
मुद्रक-- श्री माधव विष्णु पराड़कर, शानमण्डल यन्त्रालय, कबीरचौरा, काशी।

श्री। प्रकाशकीय मन्तव्यम् । महदिदमस्माकं प्रमोदस्थानं यदस्याः-प्रत्नानां संस्कृतग्रन्थानां जीयतई- मामशेषतां गन्तुं चोपक्रान्तानां मुद्रणप्रचारादिभिः समुद्धाराय सत्यावश्यकत्त्वे प्रचलतामप्रचलताञ्च ग्रन्थानां हिन्दीभाषान्तरेण संयोज्य मुद्रणप्रचारादिभिः संजीवनाय-समधिगतात्मलाभाया अच्युतग्रन्थमालायाः प्रथमपुष्पभूतं श्री- भगवन्नामकौमुदीनामक पुस्तकं प्रकाशमुपगतम् । इयं हि ग्रन्थमाला गुरुवर्यश्री१०८परिव्राजकाचार्यमहर्षिकल्पानां श्रीमद- च्युतस्वामिनां नान्नाऽनुस्यूतेति महत्सौभाग्यमस्याः । एते स्वामिमहोदया धर्मस्य ज्ञानस्य चाविनश्वरां तनुमधिष्ठायाद्याप्यमा- स्व विद्योतन्त इति नूनमपरं प्रमोदस्थानम् , अस्माद्विदितवेदितव्यान्महात्मनो बहवो जिज्ञासवस्तत्तत्त्वमनायासेनाधिजग्मुर् “यद् ज्ञात्वाऽमृतमश्नुते” सर्वोऽपि भाग्यवाञ्जनः । पाखण्डपरिपूरिते दूरीकृतार्षोपदेशानुरागे स्वेच्छाप्रमाणभूतेऽत्र कलौ महान्त एते स्वामिमहानुभावा द्रष्टणां हृदि स्थापयन्ति प्रत्नपुरुषश्रद्धामिती. दृशा एव प्रणम्या दर्शनीयाश्च महाभागाः। श्रद्धया हेलया वा सकृदपि समुच्चरितं. महन्नाम व्यपनयति दुरितजालं, सूते च कल्याणपरम्परामिति महतां वचस्या- स्थामाधायैवास्या ग्रन्थमालाया नाम समधिगतात्मलाभप्रसादानामच्युतस्वामिना- नाना समुदृङ्कितं तच्चरणाश्रितैरस्माभिः। महन्नामानुस्यूतेयं ग्रन्थमाला ऋषीणा- मुपदेशाननुसरन्ती प्रचारयिष्यति ज्ञानं समुद्भासयिष्यति च धर्मस्वरूपमिति मे दृढा प्रत्याशा। अन्वर्थनाम्नीयं भगवतो नाममाहाल्यं बोधयन्ती “श्री भगवन्नामकौमुदी" पौराणिकानां नाममाहात्म्यप्रतिपादकानां वाक्यानामर्थ विशदयति, सङ्गमयति च तानि वाक्यानि स्मृतिवाक्येभ्यः । उपपत्या प्रमाणैश्च समुपेतमिदं पुस्तकं भक्तानां- मनोविनोदाय, भक्तिस्वरूपे विवदमानानां सन्देहसमुन्मूलनाय, जिज्ञासूनाञ्च कृते ( २ ) भक्तिस्वरूपप्रकाशनाय क्षमत इति सर्वोऽपि जनः प्रतीयात् । अत्र ग्रन्थस्थास्य महिमानं न साकल्येन वर्णयितुमिच्छन्ययं जनः, ग्रन्थस्य पुरोवर्तित्वादात्मनश्चा- पाटवात् । इदं पुस्तकं श्रीमद्भिराचार्यगोस्वामिदामोदरशास्त्रिमहोदयः सावधान सम्पा- दितम् । प्रसिद्धं हि वैदुष्यं श्रीमतां गोस्वामिप्रवराणां, विश्रुता चैषां विकुण्ठा प्रतिभा, प्रथिता च नवनवविषयागाहिनी शेमुषी । नूनमीदृशा एव विश्रुतवैदुष्या महान्तः पुस्तकमेतादृक् सम्पादयितुं प्रभवन्ति । तच्चान सङ्घटितमित्यपरं सौभाग्यं ग्रन्ध- मालाया अस्याः। आशास्महे पुस्तकमिदं भारतीयानामस्माकं हृदयात्प्रतिदिनं विलुप्यमानां नामश्रद्धां दृढीकरिष्यति, दूरमुत्सारयिष्यति नाममाहात्म्यपरिपन्थिनः कुतर्कान् । श्रीमतामच्युतस्वामिनां चरणयोः सश्रद्धं प्रणता वयं श्रीमत आचार्य- गोस्वामिदामोदरशास्त्रिमहोदयान् धन्यवादेोजयामः, येषां कृपयाऽसमेन परिश्र- मेण च पुस्तकमिदमद्य जनसाधारणगोचरीभूतमिति निवेदयति । विनयविनतो- गोयनकोपाख्यो गौरीशङ्करः पृष्ठे सम्पादकीयं वक्तव्यम् । श्रीमद्धनुमद्भोममध्वान्तर्यामिरामकृष्ण- वेदव्यासात्मकसच्चिदानन्दविग्रहपूर्णः तमालादिनीशत्यभिन्नीकृतस्वरूपप्रेमा- वतारभगवत्श्रीश्रीगौरकृष्णः शरणम् । निखिलश्रुतिमौलिरत्नमालाद्युतिनीराजितपादपङ्कजान्त ! अयि मुक्तकुलै रुपास्यमानं परितस्त्वां हरिनाम संश्रयामि । इह किल चेतनाचेतनात्मकत्वेन परिचीयमाने वैरिश्चप्रपञ्चे चेत- नस्यैव साक्षात्परम्परासाधाररयेनाचेतनप्रवर्तकताऽऽनुभविकोत्यत्र न कस्यापि वैमत्यं, किन्तु चेतनप्रवृत्तः स्वार्थकारुण्यान्यतव्याप्यत्व- नियमेन प्रवृत्तिम्प्रति कारणत्वेन क्लुप्तज्ञानस्येष्टसाधनत्वविषयकताया- मप्यविवादादावश्यके प्रवर्तकज्ञानीय विषयतापन्नेष्टस्य प्रवर्तमानप्रयो- जनस्वरूपत्वे फलस्य चेच्छान्तरानधोनेच्छाविषयत्वेच्छान्तराधीनेच्छा- विषयत्वाभ्यां मुख्यगौणभेदतो द्वैविध्यात् सुखतत्साधनरूपस्य पुनरपि नित्यत्वानित्यत्वाभ्यां मुख्यस्य दृष्टत्वादृष्टत्वाभ्यां च गौणस्य प्रत्येक द्विरूपतया तत्रादृष्टगौणस्याधर्मत्वेन दृष्टगौणस्यार्थत्वेनानित्यमुख्यस्य कामत्वेन नित्यमुख्यस्य मोक्षत्वेन व्यवहाराद् धर्मार्थकाममोक्षायपु. मर्थरूपत्वेन चातुर्विध्यं पर्यवस्यति । न च भूना दर्शनविशेषरीतितो दुःखसामान्याभावस्यैव मोक्षरू- पतया तस्य च नित्यत्वेऽपि सुखत्वाभावात् कथमिव नित्यमुख्यताऽनु- पदमुक्ता सङ्गच्छतामिति वाच्यम् । यत्प्रतीतीच्छया वक्त्रोच्चार्यते शब्दः स एवार्थ इत्यनुभवमनु- रुद्ध्य प्रवृत्ताद् यत्परःशब्द स शब्दार्थ' इतिन्यायाद् विविधप्रस्थानानि प्रचारयद्भिराचाराविर्भावितेषु शास्त्रत्वेन सम्प्रतिपन्नेषु महावाक्या- त्मकशास्त्रभेदापत्तिपरिजिहीर्षया प्रातिखिकरूपेण तत्तत्प्रतिपाद्यविशे- षस्यैकत्वेऽवश्यं वाच्येऽर्थादेव तत्रत्यं मुख्यत्वमपि तत्र नान्तरीयकमे- वेति तदीयेतरेषु प्रतिपाद्येषु तन्निरूपिताङ्गत्वमर्थसमाजलब्धम् एवं- चाङ्गमङ्गत्वादेव स्वाङ्गयनुरुन्धानं प्रधानान्तरेणाप्रधानान्तरेण च विसं.

( २ ) वमानमपि न क्षतिकरं, क्षतिकरश्च विरोधः प्रधानानामेव मिथः, विरोधश्चैकविषयतायामात्मानं लभते, ततश्चानधिगतार्थाधिगमकत्वरू- पप्रामाण्यरक्षाऽऽर्थ शास्त्रान्तरेण प्रधानत्वेन प्रमापितमर्थमप्रमापयदेव शास्त्रं प्रमाणतामश्नुते नापरथेति शास्त्रीयप्रधानप्रतिपाद्यानामपि सगो- त्रकलहो दूरापेतः, अतश्च मुक्तेर्दुःखाभावतां सङ्गिरमाणानि दर्शनानी- होदासीनानि खल्वन्यान्यमेव विषयं प्रधानत्वेन प्रतिपादयन्तीतीमे हि तेभ्यः श्रोतव्या आस्थेयाश्च। मुक्तितत्त्वं पुनरस्यैव प्रधानत्वेन प्रतिपादकाद्दर्शनात् श्रुत्वाऽs- स्थेयमित्येव निरपेक्षवैदुष्यसरणिः । एतत्परञ्च शास्त्र मुक्तरात्मला- भात्मकतां प्रतिजानानमात्मनः सच्चिदानन्दरूपता सिद्धान्तयतीत्य- र्थान्मुक्तिर्नित्यमुख्यफलात्मिकाऽप्युच्येत चेत् का हानिः। एतादृशैतदधिगतौ चैतदीयसाधनानामनुशीलनचिन्तायां साक्षा- दारादुपकारकताभिर्भूयसामप्येषां सङ्कलनेन पुनश्चत्वारो विभागाः कर्मज्ञानभक्तियोगाख्याः। एषु च कर्मत्वेन प्रसिद्धानामन्तःकरणशुद्धिविधायकत्वेन; निजा- ङ्गसहितस्य चित्तस्थास्नुतारूपस्य योगस्य तु कर्तव्यमात्रापेक्षणीय- त्वेन पूर्वनिर्दिष्टत्रयेऽपि सहकारित्वेनोपादेयतया सर्वपथीनैः साधन- प्रवणैः, सङ्ग्राह्यतौचित्यमावहति, भक्तिज्ञानयोरुदयस्य तु प्रथम- सीमा कर्मप्रयुक्तातिशयाधाननैरपेक्ष्यकालः, तदा हि शुद्धसत्त्वाः सिषा- धयिषवो निसर्गतो द्विविधाः-के चन विषयमात्रजातवैराग्या निर्वा- तुकामा भवन्ति; अपरे चात्मोपलब्धिकामा भगवत्कथाऽऽद्यनुरा- गिणो भवन्ति, इयांस्तु विशेषः-पूर्वे सायुज्याधिकारिणः; उत्तरे सामीप्याद्य- धिकारिणः । अयञ्च विशेषोऽनादिसंसारप्रवाहपतितानां विचित्रसं. स्कारविपक्निमरुचिभेदानां जीवानां स्वाभाविकतया न पर्यनुयोज्य- तामहति । एवञ्चात्र भक्तिशब्दोभजत्यनयेति व्युत्यत्त्या क्तिनो बाहुलिकत्वेन संज्ञाऽर्थकेन वा तिचा निप्पन्नः साधनपरो, न तु भजनं भक्तिरित्येवंप्र. कारण फलात्मिकां प्रेमलक्षणां भक्तिमभिदधाति । इत्थं च साधनभक्तित्वाकान्तेषु भूयोऽतिभूयस्स्वपि भेदेषु भज- नीयानुकूलताप्रयोजकत्वेनानुगतीभूतेष्वपि भत्त्याचार्यप्रवरमहात्ममू- ( ३ ) धन्यश्रीप्रसादसमवेतभक्तिविभाजकत्वप्रकारकतात्पर्यविषयसङ्ख्याऽऽ. श्रयाणां भक्तिविभाजकानां श्रवणत्वादीनां नववस्यैवापरसकलभेदस. झाहकत्वेनाचार्यरूपैरभ्युपगमाद् , अन्यरूपाणां भक्तित्वव्याप्यस्यापि व्याप्यत्वेन भक्तिविभाजकत्वानुपपत्तेश्च । अत्र च कीर्तनेतरेप्चष्टस्वपि वक्त्रपेक्षाऽर्चनीयादिसम्पादनमनोऽ- वधानादीनामपेक्षणात् परायत्तताया अविशिष्टतया कीर्तनमेव सजाती- यापरसाधनेभ्योऽल्पोपकरणकतामवलम्बमानमापेक्षिकं सौकर्य भजते। अस्य चनामलीलाभ्यां विधाद्वयशालित्वेऽपि श्रवणस्मरणाध्ययना- द्यपेक्षिलीलांशात्तदनपेक्षाप्रयुक्तबहुलजीवोद्धारानुगुण्यसमृद्ध्योत्कृष्यते नामांशः, श्रद्धाऽऽधन्तरङ्गदेशकालशौचादिबहिरङ्गसध्रीचीनताऽनुस्यू- ताशेपाभ्युदयिकनैःश्रेयसिकसाधनवृन्देभ्यः सर्वनियमनाडिन्धमतया निखिलपुमर्थयावदुपायपरिबढिनोत्कृप्यतेतमां च सः । तानीमानि भगवन्नामानि जीवपदमात्रभाजां सुभगम्भावुकताभा- गधेयान्येवेत्यालोच्येवैतत्प्रभावान प्रकाशयन्ती कुसंस्कारसन्तमसमु. सारयन्ती सात्वतां लोचनजीवीवान् तर्पयन्ती निर्मत्लरविपश्चिन्मा- नसकैरवाण्युल्लासयन्ती सारस्वतरहस्यविदानन्दपयोधीन् तरङ्गयन्ती निर्विचिकित्समन्वर्थाभिधाना निर्मिता श्रीभगवन्नामकौमुदी नामतत्त्व- बुभुत्सुदुर्दैवपटलीकादम्बिन्याऽद्यावधि तिरोहिताऽप्यधुनाऽधिकाशि प्रकाशमाना विजयते। परिच्छेदत्रयात्मकेऽस्मिन्निबन्धे निबन्धा तावदादिमे परिच्छेदे पुराणवचनानामैदम्पयं निर्णिनीपुरेतेषामविवक्षितस्वार्थत्वस्वार्थपरत्वे विकल्प्यान्त्येऽपि भगवन्नामकीर्तनस्य पापक्षयहेतुत्वमपराङ्गतांप्रतिपद्य स्वतो वेत्येवं वैविध्येऽपि शेषे श्रद्धाऽऽदिसापेक्ष्येण तन्नरपेक्ष्येण वेति विचाराङ्गानि संशयान् प्रदर्श्य; यदीयमते वेदेऽपि कार्यतापरभागस्यैव स्वतः प्रामाण्यं तदितरमन्त्रोपनिषदंशानां तु तदङ्गतयैव कथं चित्तत्त्वं तस्य गुरोर्मतेन पुराणीयस्वतःप्रामाण्यस्य दुराशैवेत्यविवक्षितस्वार्थ- त्वमेषामापादयन्नौपनिषदविशेषाणां रीत्या गुरुमतं प्रतिक्षिप्योपनि. षप्रामाण्यमभ्युपगम्यापि पुराणवचसामार्थवादितां व्यवस्थापय- तामेषां मतेन पुराणानामविवक्षितार्थतां पूर्वपक्षयित्वा; सिद्धान्तपथम- वतरन् पुष्कराक्षरीत्या धर्मान्तरांशे पौराणं प्रामाण्यमुररीकृत्यापि नामकीर्तनांशेऽर्थवादतां प्रतिपादयन्त्या अर्थवादत्वस्याविधित्वविधि.

( ४ ) शेषत्वातत्परत्वरूपतानुपपत्तीः प्रदय, विवक्षितार्थपरत्वं पुराणवा- क्यानां व्यवातिष्ठिपत्। द्वितीयस्मिन् तस्मिंस्तु भगवन्नामकीर्तनस्याशेषपापक्षयसाधनत्व- सिद्धान्तमाविर्भावयन् प्रतिक्षिप्तमपि तस्य पराङ्गत्वेन तथात्वं "द्विद्धं. सुबद्धं भवती"तिन्यायेन पुनः प्रतिक्षिपन् व्यवस्थाविकल्पसमुच्चयेषु शद्ववारस्यभङ्गमयेन व्यवस्थाविकल्पो विहाय स्मार्तप्रायश्चित्ता- ङ्गतामुखेन समुच्चयमवलम्ब्य तर्कप्रमाण सुदृढेन प्रबन्धेन केवलस्यैव नामकीर्तनस्य तादृशत्वमवधार्य नान्तरीयकतयोपनतं कैवल्यं- सविस्तरमुपवयं तदन्वयप्रतियोगिनं चोपदयॆ नामकीर्तनस्थाप- राङ्गताबोधकायमानवचनविशेषान् समन्वाय्य श्रवणादोनां प्रत्येकं- परमपुमर्थसम्पादकत्वपर्याप्ति प्रसाध्य कर्मजन्यसंस्कारस्थयोः शक्त्यो- नरकोत्पादकताऽवच्छेदकत्वेन सिद्धामेकामुच्छिन्दानेनापि स्मार्चप्राय- श्चित्तेनानिवां सजातीयोत्पादकताऽवच्छेदकत्वेन सिद्धां परामेना- समूलघातं नतः साधनभक्तिसामान्यस्यैवाधर्मवासनाऽत्यन्तनिरासप- टिमानं निर्णीय, स्वप्रधानमेव भगवन्नामकीर्तनं कृत्स्नपापक्षयहेतुरि- त्युपसमहार्षीत् । तृतीये तत्र नामकीर्तने प्रतितिष्ठापयिषितव्यस्य कैवल्यस्य याव- हुरितनिवर्तकताऽवच्छेदककोटौ तत्सहकारिकुक्षौ वा साधनान्तरानिवे. शफलकतायां पर्यवसन्नस्य परिपन्थिनीमपि व्यवस्था स्मात्तौपायाना. मपि शास्त्रीयत्वेनाननुष्ठानलक्षणो बाधो मा प्रसाहीदिति प्रकारान्तरेणा- श्रयन् शेषे च तादृशीमपि निराकुर्वन् श्रद्धानिवन्धनामेनो सिद्धान्तयि- प्यन् प्रासङ्गिकी भक्तरप्यधिकारितां रोचयमानो भक्त रतिरूपता- समर्थयमानो रतेश्च स्थायित्वेन रसत्वयोग्यतायामपेच्यमाणालम्बनोद्दी- पनविभावानुभावसञ्चारिभावानुद्दिशन् सकृदसकृत्कीर्तनपरत्बप्रतीतं. पौराणं च मिथो विरोधं परिहरन् मध्ये चाभ्यासपदार्थ विवृण्वन्न- धिकारिताऽवच्छेदकत्वेन विवक्षितायां श्रद्धायां साङ्केत्यादिनिबन्धन. नामकीर्तनाधिकार्यभावापादनपूर्वकतदीयाधिकारं निदर्शयन् परमसि- द्धान्तसरणिमाश्रयस्तु प्रसङ्गतः पुराणानां वेदत्वमुपपादयन् वेदत्वेन पुराणत्वेन च व्यवहारस्य प्रयोजकं निर्दिशन् पूर्वोक्तरीत्या श्रद्धाऽपेक्षणे चक्रकादिदोषानुद्भावयन् निर्वचंश्चानुषङ्गिकान् विषयान् सकृदसक- त्कीर्तनमनुतप्ताननुतप्तकर्तव्यत्वेन सङ्गमयन् सकृत्कीर्तनस्याप्रारब्धमा (५) चीनाघनिरासकत्वं प्रसाधयन् कीर्तनस्याघविधातकत्वेन मुक्तिसाधन- त्वेन च द्वैरूप्ये तदङ्गताऽऽपन्नधर्माणामपि तथात्वमुपवर्णयन् कीर्तनस्य क्रियात्वेन मोक्षोपायतामाक्षिपन् ययाप्रनाड्यामोचकताऽस्य तां निरूप- यन् पूर्वोक्तसिद्धान्तजीवातुरूपाःश्रुतीश्चात्र प्रमाणयन् समस्तव्यस्तत्वेन नाम्नां फलानुत्पादकतां विकल्पयन् व्यस्तस्यापि तस्य तत्तां प्रमिण्वन् समस्तानां तु संस्कारप्रचयाधायकत्वमपीति विशिष्टतामुपोद्वलयन् भगवन्नामकीर्तनादेव सकलाघक्षयो मोक्षश्चेति सपरिकरबन्ध निरी- धरत् , समापिपञ्चान्ते त्रिविधान्यपि मङ्गलान्याचर्यतन्निबन्धरत्नम् । एवं तर्कोपबृंहितश्रुतिस्मृतिपुराणेतिहासादिभिरवधारितमपि साधनान्तर्निरपेक्षस्यैव भगवन्नामकीर्तनस्य परमपुरुषार्थप्रापकत्वं; नान्तरीयकतया कैमुत्त्यसिद्धमशेषानर्थनिवर्तकत्वं च; तथाऽप्यनादि- विविधवासनावासितचेतसां बद्धमूलैषा विचिकित्सा नापसरत्येव यद् नाम्नः शब्दात्मकत्वेनार्थोपस्थापकत्वरूपदृष्टफलमन्तरेण नापरं- किमपि निश्चेतुं सुशकं; न हि सिताऽनलकृपाणादिशब्दोच्चारणादेवा- नने माधुर्यदाहच्छेदादयोऽनुभूयन्ते केनापीति ? अत्र के चित्-संसारिणामज्ञानामस्माकं कर्तव्याकर्तव्यनिर्णायकत्वे शास्त्रमेव परमाप्तमुपदेशकमतस्तेन यदर्थं यदुपदिष्ट तदर्थं तदस्मा- भिर्विधेयमिहान्यदनाशङ्कनीयमेवेति वदन्ति । इदश्चोत्तरं वास्तविकमपि श्रद्धालुभ्यो रोचमानसेनानेव प्रीण- यितुं क्षमते नोक्तां शङ्कामपनोदयितुम् । अन्ये पुनर्नान्ना कीय॑मानस्य नामिन एव साक्षात्तादृशफलस- म्पादकत्वं; योगक्षेमसाधारणप्रयोजकतया तु परम्परया नाम्नोऽपि तन्न निवार्यत इति प्रतिपादयन्ति । अपरे त्वाचार्यदेशीया वस्तुशक्तौ बुद्ध्यनपेक्षणादुञ्चार्यमाणनाम- निष्ठशकिसम्बद्धो भगवान् करुणया प्रसद्य नामकीर्तकोन्मुखीभूय ताननुगृह्य भवाब्धेरुद्धरतीत्येवं समादधति। एतदुत्तरमप्यापातरमणीयमेव, सिताऽऽदीनां जड़तया तादृशत्वा. पत्तिनिरासेऽपि विधित्सितकीर्तनकर्मीभूतनामार्थस्य च चेतनत्वेन सर्वज्ञत्वेन सत्यसङ्कल्पत्वेन निखिलशक्तिकत्वादिन च तथाकर्तृत्वस्य सर्वथोपपत्तावपि साङ्केत्यादिषु भगवतोऽनुद्देश्यतया तत्रत्यनामकीर्त नविधायकशास्त्राणामननुष्ठापकत्वलक्षणाप्रामाण्यापत्तेः।

( ६ ) नामतत्त्वरहस्याभिज्ञाचार्यास्तु-केवलाद् नाम्न एव पूर्वोक्तमखि- लसामर्थ्यमुपपादयन्ति। सोपपत्तिकमर्थमेनमवजिगमिषुभिरादाविदमिहावधायास्थेयम्- औचित्यप्राप्त समालोचितचर्या 'यत्परः शब्दः स शब्दार्थ' इतिन्या- यसरणेरनुसरणे प्रासङ्गिकतयाऽङ्गता वा शब्दतत्त्वं निरूपयतामेत. दनुगुणवचांस्यनास्थाय तत्तत्त्वस्यैव प्राधान्येन निरूपणं प्रतिजानतां- पद्धतिमध्यास्य शद्वीयरहस्यं निश्चिकीषुभिः प्रमातव्यम्। एवं च शब्दस्य भौतिकतां पारम्परिकाहङ्कारिकतां जडविभुतां- नानाप्रकारावस्तुतां वा प्रतियन्तो व्यवहारस्वरूपमात्रालङ्कर्मीणा एनाः प्रतीयु तावता काऽपि क्षतिः, जातु चिदुक्तेष्वन्यतमस्मिन्नपि प्रकारे तथ्यतां चेत् प्रत्तिपत्तारप्रतिपद्यरन् च्यवेरन्नेव तदा शब्दागमघण्टा पथात्, शब्दागमिनो हि शब्दस्य तदीयवाच्यार्थेन समं तादात्म्यं- सिद्धान्तयन्तोऽर्थगान् धर्मान् शब्देऽभ्युपगच्छन्तो नामिनि भगवति वर्तमानान् भवमोचकत्वादीन् नाम्न्यपि नैसर्गिकानुपापीपदन् । न चेत्थमपि सिताऽऽनलादिशब्दस्थलीयापदुद्धारः कथमिति वाध्यम् ? मायाविजृम्भणशालिन्यां पादविभूतौ वृत्तिमदर्थसामान्यस्यैध मायाऽभिभूतत्वव्याप्यत्वनियमाद्, अर्थाभेदमात्रप्रयोज्ये कार्ये शब्देन सम्पादनीयेऽर्थाभिभवाभावोऽपि सहकारीति सिताऽऽद्यर्थानामभिभूत- त्वेन सहकार्यभावाद् अर्थाभिभवरूपप्रतिबन्धकाद्वा न काऽप्यापत्तिः, प्रतिबन्धकामावस्योत्पादकसामग्रीघटकतायाः सर्वसम्मतत्वात्। न चैवं भगवदतात्पयकसाङ्केत्यादिषु बुबोधयिषितव्यपरिभाषि- तार्थानामप्यभिभूतत्वेन तत्रत्यनाम्नोऽभीष्टफलानुत्पादकत्वापत्तिः, सिद्धान्तितं तु तत्राप्यन्यत्रत्यजातीयमेव फलमिति वाच्यम् ? तत्र कालविशेषादीनामुत्तेजकत्वस्यापि क्लुप्तत्वादिति । शास्त्रसिद्धान्तसिद्धमेतनामस्वरूपं श्रीमदाचार्यपूज्यतमश्रीरूप- गोखामिपादाः- "वाच्यं वाचकमित्युदेति भवतो नाम ! स्वरूपद्वयं- पूर्वस्मात्परमेव हन्त करुणं तत्रापि जानीमहे । यस्तस्मिन् विहितापराधनिवहः प्राणी समन्तात् भवे- बा- usa दास्येनेदमुपास्य सोऽपि हि सदानन्दाम्बुधौ मज्जति" इत्थमुपन्यभान्त्सुः, विशेषस्त्वाकरादितोऽवसेयः। अस्याश्च श्रीभगवन्नामकौमुद्याः प्रणेता मीमांसापारावारीणो- विपश्चिन्मूर्धन्यो श्रीमाल लक्ष्मीधरः कदाऽऽसीदित्यस्य सूक्ष्मतमप्रमा- पकस्यानुपलम्भतो यावदुपलब्धमेव जिज्ञासुवृन्दायोपहियते, ग्रन्थ- कर्ताऽयं पञ्चदशशततमशकाब्दात् पूर्व भुवं जन्मनाऽलंचकारेति प्रमातुं शक्यं, निर्दिष्टाब्दासन्नसमयावधि श्रीवृन्दावनमध्यासीनरम- दुपजीव्यपूर्वपुरुपैः पूज्यपादैाध्वसंप्रदायाचार्यः श्रीमगोपालभट्टगो. स्वामिचरणैः सन्दृब्धे षट्सन्दर्भापराख्ये श्रीभागवतसन्दर्भ प्रकृतन- न्थीयनामनिर्देशपुरस्सरं सानुपूर्वीकवाक्यविशेषस्योद्धृतत्वात्। सौन्द- र्यलहरीव्याख्यातृप्रभृतिष्वनेकेषु लक्ष्मीधरनामकेषु कतमोऽयमस्मदी- यो महाभाग इति तु निणेतुमधुनाऽपि नापारि । एतद्देशविषयेऽपि न किश्चिदपि पर्यचायि। श्रीभगवन्नामकौमुद्याःप्रकाशाख्यटीकायाः कर्ता मीमांसाधुरन्धरा- पदेवस्य सूनुरनन्तदेवोऽनुरूपश्च वैदुष्येऽपि पितुर्देवोपाख्यमहाराष्ट्रब्राह्म- णः खिष्टीयसप्तशताब्दीतः पूर्वमासीदिति कथमपि सम्भावयितुं शक्यते। अनयोर्मूलटीकयोर्मूलस्य पुस्तकं प्रख्यातचरवैदुषीकैद्वैतरहस्य- प्रतिष्ठापकधुरीणैाध्वसम्प्रदायाचारचंनीयचरणैरस्मत्तातगोस्वामि- श्रीगोपीलालमहाराजैर्महता यत्नेन सङ्ग्रह्य पुरुषक्रमागते स्वेन वर्धिते च श्रीवृन्दावनस्थेऽस्मदीयश्रीमदनगोपालपुस्तकालये रक्षितं तत्र विराज- मानैः सङ्गीतविशिरोमणिभिर्माध्वसम्प्रदायाचार्यैः पूज्यपादास्मद्भातृ- विद्याभूषणश्रीवनमालिलालमहाराजैश्च प्रेषितमेकं शुद्धं च, द्वितीयं तु बहुत्राशुद्धं नयपालाभिजनकाशीवासिविनयाद्यलङ्कतकेसर्युपाख्यश्री- पद्मनाभशर्मपण्डितस्य सौकर्यार्थमानायि; विहितं च भूरि साहायक- मेनेनाशुद्धनापि । टीकायास्त्वेकमेव पुस्तकमुक्तकेसरिमहात्मन एव प्राप्तम् , ईदृश- मकैतवमुपकारातिशयं विद्धतं महाशयं येनोपमिमीमहे न तादृशमु- पमानमुपलभामहे । मूलप्रधानप्रतिपाद्यप्रयोजककर्मीभूतवृन्दिष्टवस्तुसम्पर्कगृभुमनसा मया परम्परापरिचर्ययाऽप्यात्मानं पिपविषमाणेन स्थलविशेषेषु टिप- न्या समयोजिषातां मूलटीके ।

(८) इत्थं विषयसूच्यादिना च सपरिकरयं कौमुदी श्रीमता विद्याऽऽ. लयादिविविधानुकरणीयसत्कर्तव्यसार्थकीक्रियमाणकमलेन विज्ञवरेण विद्याऽनुरागिणा सौजन्यादिगुणशेवधिनाभगवद्भक्तिभाजाश्रेष्ठिवर्येण गोयनकोपाख्येन श्रीगौरीशङ्करगुप्तमहोदयेन प्रकाशयितुमुपक्रान्ताया- मच्युतग्रन्थमालायां प्रथमपुष्पत्वेन भगत्कृपासूत्रेण गुम्फिता काश्यां. शानमण्डलमुद्रणालये प्रकाशं नीता। युक्तं चैतत् कः खल्वन्यो गौरीशङ्करमन्तरेण काश्यां ज्ञानमण्ड- लेन रात्रिन्दिवस्थास्तुं कौमुदी प्रकाशयितुमर्हति, शोभतेतमां किल विशिष्टसम्मानभाजनश्रीमदच्युतस्वामिकृपाप्रसादोप्तबीजमानसादुदि- त्वरलतायां कौमुदीस्वरूपः प्रसूनतल्लजः । टीकालेखादिकमन्येन विधाप्यादभ्रमानुकूल्यमाचरिष्णोरत्रत्य- विश्वविद्यालयेऽध्यापकस्य श्रीमत एम० ए० पदवीकस्य महतोपनामक- श्रीगङ्गाप्रसादशर्मपण्डितस्य सधन्यवादमुपकारगरिमाणं विश्वजनी- नतया सप्रमोदं विभ्राणो; मादृशजनमतिमान्धनिबन्धना मानुष्यकना- न्तरीयकदोषप्रयुक्तास्त्रुटीरुपेक्ष्य मरालपटिमानं गृहयालवोऽभिशाः निर्मत्सराः श्रीभगवन्नामकौमुद्याः पीयूषमास्वादयेयुः समनुभवेयुश्चैत- दुत्थनिरतिशयतृप्तिपरम्परामित्याशासानो मुधा विस्तराद् विरमन् प्रीयतां चानेन व्यापारेण सर्वान्तर्यामी भगवान् गौरकृष्णतनुः श्री- श्रीराधिकारमण इति तदीयं नाम भगवत् प्रार्थयमानः तदेव- “यदाऽऽभासोऽप्युद्यन् कवलितभवध्वान्तविभवो- दृशं तत्त्वान्धानामपि दिशति भक्तिप्रणयिनीम् । जनस्तस्योदात्तं जगति भगवन्नामतरणे ! कृती ते निर्वक्तुं क इह महिमानं प्रभवति," इत्थं कीर्तयमानः प्रकृतवक्तव्यमुपसंहरति- श्रीश्रीगौरकृष्णजयन्त्यां- श्रीमन्माध्वसंप्रदायाचार्यदार्शनिकसार्वभौम- फाल्गुनपौर्णमास्यां- साहित्यदर्शनाद्याचायतकरनन्यायरत्न- १९८३ वैक्रमाब्दे गोस्वामिदामोदरशास्त्री। काश्याम् इति शम् । mapures १ २ १ ६ " ६ श्रीभगवन्नामकौमुदीस्थविषयाणामानुक्रमिकं- मूचिपत्रम्- पुराणवचनीयविवक्षितार्थत्वप्रतिपादननामके प्रथमे परिच्छेदे- पृष्ठे पतौ १९ भगवन्नामात्मकवस्तुनिर्देशरूपं मङ्गलम् । २. विठ्ठलाख्या विग्रहस्य भगवतम्ताशं तद । आशीरूपं तद् । ३ पुनरपीदमेव भङ्ग्यन्तरेण तद । हरस्य भगवतो निर्देशात्मक तत् । स्वगुरुसंबद्धाशीरात्मकं तद् । १२ समासोक्तया गुरुभगवतोर्निर्देशरूपं तद् । १६ प्रयोजनकथनपूर्वको ग्रन्थोद्देशः । विचारारम्भः। १६ विचाराङ्गानि संशयाः। ग्रन्थस्य परमप्रयोजनोद्देशः । ६ पूर्वपक्षः। १३ मतान्तरेण पूर्वपक्षः। उक्तोभयमतीयपूर्वपक्षनिरासारम्भः । १ पुष्कराक्षमतप्रदर्शनम् । ३ पुनराक्षेपः । ६ आक्षेपनिरासोपक्रमः। ९ आक्षेपानुगुणविकल्पितपक्षत्रयेऽविधिस्वरूपप्रथमपक्षखण्डनम् । त्रि विधिशेषत्वरूपद्वितीयपक्षोच्छेदः । ९ तत्रैवातत्परत्वरूपतृतीयपक्षनिरासः । १५ पुनरप्याक्षेपान्तरम् । तत्समाधानम् । २४ प्रथमपरिच्छेदसमाप्तौ मङ्गलाचरणम् । २९ २ प्रथमपरिच्छेदसमातिः। " ८ " " " " ( २ ) MBU भगवन्नामकीर्तनस्य पुरुषार्थत्वप्रतिपादननामके द्वितीये परिच्छेदे- पृष्ठे पक्की मङ्गलाचारः। ८ नामकीर्तनस्य स्वातन्त्र्येण पापक्षयसाधनत्वविचारारम्भः । ९ तत्रैव पूर्व विचाराङ्गं संशयः । १३ भत्रैव नामकीर्तनं स्मार्तप्रायश्चित्ताङ्गमिति पूर्वपक्षः। १६ पूर्वपक्षणाश्रयणीयेषु विकल्पव्यवस्थासमुक्षयेषु कतमः प्रकारः स्वाश्रय- इति प्रस्तावः। ३२ २३ उक्तप्रकारेषु समुच्चयस्य समर्थीकरणम् । १३ नामकीर्तनस्य स्मार्तप्रायश्चित्तसमुचितस्याङ्गत्वे सप्रमाणीकरणम् । उक्तपूर्वपक्षनिरासारम्भः । ३ केवस्यैव नामकीत्तनस्याशेषपापक्षयसाधनत्वसिद्धान्तः । १२ साधनस्वरूपसाधनान्तराभावेतरासाधनत्वविकल्पैर्नामकीर्तनस्थस्य कैवल्यस्य विचारः। साधनस्वरूपात्मकस्य प्रथमस्य निरासः। साधनान्तराभावरूपस्थ द्वितीयस्य निराकरणम् । इतरासाधनत्वस्य तृतीयस्य खण्डनम् । ३ उक्तकैवल्यस्य सिद्धान्तीयस्वरूपम् । १० सिद्धान्तितकैवल्ये प्रकारान्तरेणाक्षेपः । तनिमित्तत्वापेक्षयोक्ताक्षेपनिरास: ३ कैवल्यस्य भक्तो कारणत्वे वा विशेषणतेति विचारः। २४ केवलनामकीर्तनस्य पापक्षयहेतुत्वोपपादनोपसंहारः । ५ पूर्वपक्षीयस्य नामकीर्तनाङ्गत्वबोधकत्वाभिमतप्रकारस्य समन्वयः। २४ प्रासनिको भक्तिविभागः । २२ नामकीर्तनादिभक्तिनिवर्त्यवासनाजनकाधर्मनिरूपणम् । तत्र सिद्धान्तः। २३ अवान्तरबहुलविचारघटितरादुपसंहारः। २४ मङ्गलासंशनम्। ५ द्वितीयपरिच्छेदसमाप्तिः। " २५ ( ३ ) भगवन्नामकीर्तनस्य केवलस्यैव पुरुषार्थत्वप्रतिपादननामके तृतीयस्मिन् परिच्छेदे-- पृष्ठे पङ्क्तो ११ ६ ७० " भक्तिकर्मणोः संभूय साधनत्वे निरस्ते; स्थूणानिखननन्यायेन पुनरपि विकल्पव्यवस्थयोयवस्था ज्यायसीति पूर्वपक्षः। १६ केषां चिन्मतेन विकल्पाश्रयादाक्षेपः । २२ विकल्पपक्षनिरासः । प्रकारान्तरेण नामकीर्तनस्येतराङ्गत्वोक्तयाऽवान्तरपूर्वपक्षः। ९ उक्तपूर्वपक्षखण्डनम् । प्रसङ्गतो व्यवस्थानिरासश्च । २६ मतान्तरेण पुनर्व्यवस्थाऽऽपादनम् । श्रद्धाप्रयुक्ताया व्यवस्थायाः शङ्का । ७ एतनिरासः। २१ प्रासनिकस्य भक्तरधिकारिविशेषणत्वस्य विचारः। २५ अत्रैव भक्तिशब्दः प्रीतिपरः साधनपरो वेति विचारः । ६ “देवानां गुणलिङ्गानामि"त्यादिश्रीमद्भागवतीयप्रमाणेन भक्तिपदार्थो- रतिरेवेति निरूपणम् । उक्तप्रमाणवाक्यस्य व्याख्याऽन्तरम् । ३ भवैशयेन वर्णनम् । २५ भक्तरालम्बनवर्णनम् । तस्या उद्दीपनकथनम् । ६ तदीयानुभावसंचारिप्रदर्शनम् । भक्त स्वरूपे पुनराक्षेपः। १. उक्ताक्षेपपरिहारः । १ भक्तर्नामकीर्तनाङ्गत्वम् । २१ श्रद्धाभक्तिज्ञानवदधिकारिणः पौराणं प्रायश्चित्तमितरस्य तु सात- मिति व्यवस्थाया उपसंहारः। ४ भगवन्नाम्न्येव सकृदसकृत्कीर्तनद्वारकविरोधाशङ्का । १५ तत्परिहारः। २४ आवृत्तिस्वरूपविषयिकाऽऽाका । तदुत्तरम् । १ " १ " " १ ( ४ ) १ १ " पृष्ठे पङ्क्तौ १० श्रद्धाऽऽदिमतः कीर्तनेऽधिकार इत्यत्र विरोधोद्धावनम् । ८८ १२ अत्रैव प्रसङ्गादभ्यासनिरूपणम् । ८९ २५ अत्रैव प्रसङ्गाद् गतिसामान्यनिरूपणम् । ९० १५ सांकेत्यादिनिबन्धने भगवन्नामोच्चारणेऽधिकारिकथनम् । ६ स्मृतिपुराणविरोधे सिद्धान्तीयव्यवस्था । उक्तव्यवस्थायां पुनराक्षेपः । तदुद्धारः। नामकीर्तने श्रद्धाऽऽदिनरपेक्ष्यव्यवस्थापनम् । ८ अत्रैव पुनराक्षेपः। १९ एतनिरासः। २६ प्रकारान्तरेण श्रद्धायाः पुनरधिकारिविशेषणवाशङ्का । तत्समाधानम् । ९९ २८ नामकीर्तनस्य कैवल्ये पुनराक्षेपः । २९ तत्परिहारोपक्रमः । ४ प्रसङ्गान्महद्दर्शनमाहात्म्यम् । २ भक्तरधिकारिविशेषणत्वखण्डनोपसंहारः । १०८ २५ नामकीर्तनस्य कथमप्पपरागत्वं न संभवीतिविचारसमाप्तिः । १०९ २३ आवृत्तानावृत्तनामकीर्तनव्यवस्था। १ अनागतदुरितानुपश्लेषोऽपि सकृन्नामकीर्तनतः नामकीर्तने देशकालाधनपेक्षा । क चिच्छास्ने कीर्तनाङ्गत्वेन श्रयमाणानां धर्मविशेषाणामपेक्षायां- कैवल्याक्षेपः । २६ तत्परिहारः। ४ क्रियाऽऽत्मकस्य नामकीर्तनस्य मुक्तिसाधनत्वाक्षेपः । २६ तत्समर्थनरीतिः । भगवत्यः श्रुतयोऽपि भगवन्नामकीर्तनं विदधति । ९ नामकीर्तनस्येतिकर्तव्यताऽऽदिनिरपेक्षत्त्वेऽपि कथमिव भावनाभा- व्यवमित्याक्षेपः। १२६ १३ तत्प्रतिक्षेपः । २५ कीर्तनीयानां भगवन्नाम्नांसमस्तानां ध्यस्तानांवोको महिमेतिविचार: A " "

( ५ )
१२७ १८
७
"
पृष्ठे पन्तौ
तत्र सिद्धान्तः ।
१३० १६ एवं स्थिते स्मार्तप्रायश्चित्तानां वैयथ्याशङ्का ।
१९ तन्निरसनम् ।
१३३ १६ एतन्निबन्धस्य साफल्यस्थापनम् ।
२५ ग्रन्थान्ते वस्तुनिर्देशात्मकं मङ्गलाचरणम् ।
नामकीर्तनाभिरुचिप्रार्थना।
१२ प्रकृतनिबन्धे त्रुटिरपि जाता चेन्न दोषावहेतिसमर्थनम् ।
२२ त्रुटिरप्यलंकारायमानेत्युद्गारः ।
त्रुटि वास्तीति दृढोक्तिः ।
पुनरीश्वरप्रणामात्मकं मङ्गलम् ।
५५ स्वगुरुस्तुतिः ।
२५ कैमुत्यसिद्धावहारित्वकस्य भगवान्नो निर्देशरूप मङ्गलम् ।
स्वीयकृतकृत्यताऽऽविष्कृतिः ।
१४ आशीरूपं मङ्गलम् ।
१८ तृतीयपरिच्छेदसमाप्तिः ।
२२ ग्रन्थप्रतिपाद्यनिरूपणान्ते ग्रन्थकर्तुरभीष्टप्रार्थनाऽदिः ।
ग्रन्थसमाप्तिः ।
"
"
"
"
अत्रैतद्विवेचनीयम्-
निर्दिष्टसूचिपत्रे मूलानुसारेणैव विषयाःप्रादर्शिषत, तावतैव टोका-
यामपि तत्तन्मूलानुगामिन्यां दिक्षितविषयाः सुदर्शा; नातः पार्थक्येन
टीकायां ते समसूचिषतेति ।

No text on this page.

प्रकाशसहिता श्रीभगवन्नामकौमुदी। || श्रीगणेशाय नमः ।। श्रीगोपाल गुरुं भजे ॥ नाग्नेव नाशयति यो भवपाशबन्धं- दान्नैव यो ब्रजवधूभिरयत्नबद्धः ।। एवं दयाजलनिधिर्निजवर्गवश्यः सेव्यः स मेऽस्तु सततं सुखसिन्धुरेकः ॥१॥ नमस्कृत्य गुरून्सर्ववेदान्तार्थाविरोधतः ।। भगवन्नामकौमुद्याः प्रकाशः प्रवितन्यते ॥२॥ सम्यङिरूपितमिदं यदि नाद्रियन्ते दुष्टा निकृष्टमतयो हृदि मत्सरेण ॥ किं तावता ज्वरवतामरुचेर्न जातु दुग्धस्य शुद्धमधुरस्य विदूषणं स्यात् ॥३॥ प्रेक्षाक्तामधिकारिणां भगवन्नाममाहात्म्यविषये निर्णयज्ञानाय चिकीर्षितस्य निर्विघ्नपरिसमान्यादिकामो भगवन्नाममाहात्म्यवर्णन- मेव मङ्गलमाचरति- ॐ नमः श्रीकृष्णाय। अंहः संहरदखिलं सकृदुदयादेव सकललोकस्य ।। तरणिरिव तिमिरजलधि जयति जगन्मङ्गलं हरेनीम ॥१॥ कारुण्यामृतनिर्भरः सुरसरिजमाकरः श्रीवधू- लीलाजं व्रजकामिनीकुचतटीकस्तूरिकास्थासकः ।। उत्तंसः सुरयोषितां मुनिमनोवश्यौषधीपल्लवो- यस्यानिः सुरवल्लभः स जयति श्रीपुण्डरीकप्रियः ॥२॥ :

प्रकाशसहिता कराहकुलिशैर्दिषतां चरणाम्बुजनखरकान्तिभिर्भजताम् हृदयग्रन्थीन् भिन्दन् मनसि नृसिंहः समुल्लसतु ॥३॥ यदधिरेणुबीजानि जनैरुतानि मूर्द्धसु ॥ सद्यः सुरद्रुमायन्ते श्रीधरः स श्रियेऽस्तु वः ॥४॥ उल्लसति लोचनानौ जगवदानानि जुह्वतो यस्य । प्रथमाहुतिर्मनोजः स जयति देवः पुरां भेत्ता ॥५॥ यत्पादपद्मनखकान्तितरङ्गजीर्य- जम्बालजाडिकधियां न धियामभूमिः ॥ निःसीमसौख्यजलधिर्जयतादनन्तः सोऽस्मद्गुरुर्जगदनुग्रहजागरूकः ॥३॥ अपि च अधीशं निःस्वानां शमनदतटीषु प्रवसता- मशेषाणामाद्यं गुणगरिमनिर्मुक्तमपि यम् ।। मृषामानाद् दूरं श्रुतिरुपचरन्ती सविनयं- शनैर्यत्नादन्तर्णयति सुभगानां परिबृढम् ॥७॥ चेतश्चकोरसन्तोषपीयूषाम्बुधिबृद्धये ॥ इयं विस्तार्यते श्रीमद्भगवन्नामकौमुदी ॥८॥ अंह इति । दुरितं पापं दुःखं चत्यर्थः, दुरितनिवर्तकत्वं वचनाद् दुःखनिवर्तकत्वं तु श्रान्तानां सद्यो विश्रान्त्यनुभवात् संशद्वेन रोगा- दिनिवर्तकत्वं सूच्यते, तदुक्तं- सर्वरोगोपशमनं सर्वोपद्रवनाशनम् । शान्तिदं सर्वरिष्टानां हरेर्नामानुकीर्तनमिति ॥ अखिलं समस्तं, न विद्यते खिलं परिशिष्टं वासनारूपं यत्रेति संह- रणक्रियाविशेषणं वा, सकृदित्यभ्यासानपेक्षत्वं- "सकृदुचरितं येन हरिरित्यक्षरद्वयमि"- त्यादिवचनात्, सकलेति सर्वाधिकारित्वं, जगन्मङ्गलं जगतां सक- लकल्याणप्रदं- श्रीभगवन्नामकौमुदी। ३ १ सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः । यद्वाऽभिरोचते नाम तत्सर्वार्थेषु योजयेदिति- वचनात् । हरेरिति विशेषणत्वनिर्देशेन पापक्षये भगवत्स्वरूपा- नुसंधानानपेक्षत्वम्- अवशेनापि यन्नाम्नि कार्तिते सर्वपातकः । पुमान्विमुच्यते सद्यः सिंहत्रस्तैकेरिवेति- वचनाद्, अत्र हरिशद्वेन सर्वज्ञः सर्वेश्वरः सर्वाधारः परमात्मा यो वेदान्तिभिर्मायोपहितं चैतन्यमित्यभिधीयते, पाट्या च सम्बन्धवा- चिन्या वाचकत्वं, ततश्च विश्ववषट्कारादिशद्वानां सहस्रनामस्तोत्रा. न्तर्गतानामपि न बहिः पापक्षयार्थ प्रयोगः तेषां परमेश्वरवाचकत्वा- भावाद्, नाप्यात्मादिशद्वानां जीवेश्वरसाधारणानां वस्त्वादिशद्ववत् । श्रीश्रीगौरकृष्णः शरणम् । भगवत्प्रेमदं तस्य नाम नाम नमन् यते । सव्याख्यभगवन्नामकौमुद्याष्टिप्पनी प्रति ॥ -अत्रेदं विवेचनीयम्-भगवदवाचकता सहस्रनामस्तवघटकनाना- या टीकाकृतोक्ता सा न प्रामाणिकी, तथा हि तेषां नाम्नां भगवद्विषयकबोधजन- कत्वाभावे वैयर्थ्यमेव, बोधकत्वे चार्थबोधौपयिकः संबन्धः शब्देप्वावश्यकः, स चाभिधा लक्षणा वा, आद्या चेद्वाचकत्वं दुर्निवारमेव, द्वितीया चेत् कथमादिमां- विनाऽन्यस्या अवसरः, शक्यसंबन्धी हि लक्षणा, शन्यभावे कथमिव लक्षणाया- उम्मेषो, पाचकत्वाभावे च कुतन्या शक्तिरिति सुधियो विदाङ्कुर्वन्तु, । यदप्युक्तं- सहस्रनामस्तोत्रान्तर्गतानां नानां न बहिःपापक्षयार्थ विनियोग इति तदपि निर्मूलं, स्तोत्राद्वहिस्तेषां पापानाशकत्त्वं; किं कस्यापि प्रतिबन्धकस्य सद्भावादुत भगवदनुपस्थापकत्वाद्, नाद्यः; तस्य दुर्वचत्वाद, नान्त्यः, तथात्वे सुकृतोत्पाद- कत्वमपि तेषां दुरुपपादम् , एवं च "प्रमाणं प्राणनिल्य” इत्यादितः प्रमाणशब्दस्य भगवदुपस्थापकत्वेन मङ्गलार्थकतेत्यादिरूपा न्यायदर्शनप्रथमसूत्रच्याख्याने विश्व- नाथन्यायपञ्चाननाधभियुक्तानामुनयो विरुध्येरन् , स्वयं च स्वपितृकृतन्यायप्रका- शटीकाभाहालंकारे ग्रन्थारम्भमङ्गलपद्यव्याख्याने "आनन्दो नन्दनो नन्द इति सहस्रनामघटकानन्दनाम भगवत्परत्वेन व्याचक्षाणः कथमिवात्र प्रतीपमाचरन्न संचुकोच । एतेनानुपदमेवात्मादिशब्दानां भगवदवाचकत्वोक्तिरपीदमीयाऽनुपादेय व, आत्मशब्दस्य जीवेश्वरसाधारणस्य चेतनत्वं चैतन्यत्वं वा वाच्यताऽवच्छेदक- नेश्वरत्वमित्यन्यदेतद् ।

प्रकाशसहिता ननु रामकृष्णादिशद्वानामसंग्रहापत्तिः तेषां परमेश्वरवावकत्वा- भावाद् भावे वा रामे कृष्णपदप्रयोगापत्तिः कृष्णे रामपदप्रयोगापत्तिः न चैवं पुराणेषु लोके वा दृश्यत इति चेत् ? तेऽपि तद्वाचका एव किंतु यदुकुलप्रसूतत्वं कृष्णशद्वे रघुकुलप्रसूतत्वं रामशद्ध उपाधिः; तद्विशिष्ट परमेश्वरे वा शक्तिः, एवमन्येप्वपि शद्वेषु द्रष्टव्यम् । नामशद्वेन प्राति- पदिकं, तञ्च द्विविध रूढं यौगिकं च, रामकृष्णगोविन्दनारायणशिवश- करेत्यादि रमारमणपार्वतीरमणत्यादि च, तच्च विभक्तिसाहितं तद्र. हितं वा यथा रामः कृपण इत्यादि हरि विष्णु इत्यादि, न च विभक्ति- रहितस्यापशद्वत्वात्तस्य च निषिद्धत्वादनुच्चारणमिति वाच्यं, "विष्णो र्नामानुकीर्तयेदि" ति विधिविहिते निषेधाप्रवृत्तः, किंच शक्तिशून्यत्वम् अपशद्वत्वं, न च हरिविष्यवादिप्रातिपदिकस्य शक्तिशून्यत्वं तथा सति गावीगोण्यादिभ्य इव विभत्त्यनुत्पादप्रसङ्गाद्, न हि गोप्रातिपदिक- स्थापशद्वत्वं व्यवहरन्ति; वाक्यार्थानुपयोगितया न प्रयुञ्जते परं, विष्णुनाम तु विधिवशाददृष्टार्थमुच्चार्यत एवमेव च शिष्टाचारः, तदयं- श्लोकतात्पर्यार्थः, विष्णोर्नाम शास्त्रीयवैराग्यवतां श्रवणाद्यधिकारिणां- तत्त्वमस्यादिवाक्यार्थमखण्डं चैतन्यं लक्षणयोपस्थापयतु; भक्तानां च भगवन्तमुपस्थापयतु; तदुभयविलक्षणानामतिरागिणां च चण्डालप- य॑न्तानां तु किंचिद्रुपस्थापयतु तत्सर्वथा संकीर्त्यमानं सर्वदोषराशी- विनाशयति सूर्य इव तमोजालं सर्वाभीष्टं च प्रयच्छतीति ॥१॥ अत्र ग्रन्थे भगवान्महाविषयः भगवद्भक्तिर्महाप्रयोजनं मुक्तिश्चेति सूचयन भगवन्तं स्तौति-कारुण्येति । पुण्डरीकनामा भक्तः प्रियो यस्येति विठ्ठल इत्यर्थः, यस्याधिः कारुण्यमेवामृतं तस्य निर्भर इव, सुरस रिद् गङ्गा तस्या श्राकरः खनिरिब, श्रीवध्वा लीला क्रीडा तत्सम्बन्धि अब्ज कमलमिव, व्रजकामिनीकुचतटीसम्बन्धी कस्तूरिकास्थासकः , १-इदमापाततो, योगरूढयौगिकरूढे अपि बोध्ये । तत्र पदाघटितशक्त- ताऽवच्छेदकसमुदायत्ववत्त्वं रूढत्वम् । पदघटितशक्तताऽवच्छेदकरवाभाववरसमु- दायत्ववत्त्वं यौगिकत्वम् । रूढिशक्यताऽवच्छेदकविशिष्टधर्मावच्छिन्नशक्तपदघटित- समुदायत्ववत्त्वं योगरूढत्त्वं, वैशिष्टयं च सामानाधिकरण्यसंसर्गेण | रूढ्याश्रयता. ऽवच्छेदकं यद् रूढ्यर्थताऽवच्छेदकव्यधिकरणधर्मावच्छिन्नशक्तपदघटितसमुदायत्वं. तद्वत्त्वं यौगिकरूढत्वम् ।

श्रीभगवन्नामकौमुदी। ५ कस्तूरिकाया लेप इव, सुरयोषितां कृष्णपत्नीत्वं गनानामुत्तंसो भृयण- मिव, मुनिमनसां वशीकरणार्थोषध्याः पल्लव इव ॥२॥ कररुहाणि करनखानि तान्येव कुलिशानि बज्राणि तैद्विषतां हिरण्यकशिपुप्रभृतीनां हृदयग्रन्थीन् वक्षस्थलानि ग्रन्थय इव तान भिन्दन् विदारयन् , भजतां प्रह्लादादीनां हृदयग्रन्थीन् पदकमलनख- दीप्तिभिर्मिन्दन ॥३॥४॥ उल्लसति प्रदीने नत्राग्नौ जगतो हविःस्थानीयस्यावदानानि जुव्हतो यस्य महारुद्रस्य मनोजो मदनः प्रथमाऽऽहुतिः स पुरा भेत्ता त्रिपुरारिर्जयतीति ॥५॥ यत्पादपद्मनखकान्तेस्तरङ्गेणेकदेशेन जीयनश्यजम्बालं पङ्क इवैता- दृशं जाड्यं तेन जाचिकधियां प्रसरणशीलबुद्धीनां शिष्याणां धियां- चित्तवृत्तीनां निःसीमसौख्यजलधिरभूमिरविषयो न यच्छिप्या अति- सुखिन इत्यर्थः । यद्वा यच्छिष्यधियामविषयो नास्ति सर्वज्ञा इत्यर्थः। सोऽस्मद्गुरुर्जयताद्, जागरूकः सावधानः ॥६॥ निर्गतं स्वं ममताऽऽस्पदं येषां विरक्तानामित्यर्थः अधीशं. स्वामिनं; शम एव नदस्तत्तटीषु प्रवसतां तिष्ठतामशेषाणामाद्यं. मुख्यं, गुणा विषयास्तेषां गरिमा गुरुत्वं भारस्तेन निर्मुक्तं रहितं- सर्वसंन्यासिनम् , अपिशवोऽनुक्तदमादिविशेषणसमुच्चयार्थः, मृषा- मानादहंकाराद् दूरं निरहंकारं ये गुरुं श्रुतिः श्रवणोपलक्षिता विद्योपचरन्ती सेवमाना; अन्तर्णयति = अन्तर्मुखं प्रत्यक्प्रवणं संपा- दयति सविनयं विनीतं शनैर्यत्नादित्यभ्यस्तत्वं सूचितम् । अत्र शमा- दिसंपन्नत्वं सर्वसंन्यासित्वं निरहंकारत्वं विनीतत्वं चेति श्रवणाधि- कारिविशेषणानि पञ्चभिर्विशेषणैरुक्तानि श्रुतिरुपचरन्ती शनैर्यत्नादिति श्रवणाद्यभ्याससंपत्तिरुक्ता अन्तर्णयतीति श्रवणादिफलं साक्षात्कार- उक्तः अत एव सुभगानां परिबृढं भाग्यवन्तम् , अत्रायं श्लेष प्रतिभासः १-चिन्त्यमेतद्, यत्रार्थद्वयस्यापि प्रकृतत्वमप्रकृतत्वं वा तत्रैव श्लेषः, प्रकृते श्रुतेः प्रकृतत्वेन कामिन्याश्चाप्रकृततया न श्लेषव्यवहारः, यद्यपि प्रकृताप्रकृ- तविषयोऽपि श्लेषो नव्यैः स्वीकृतस्तथाऽप्यसौ विशेषणमाश्लिष्टतास्थले, यदि तु विशेष्यस्यापि श्लिष्टतायां श्लेष एव स्यात्तदा शब्दशक्तिमूलध्वनिस्तूच्छियेतैव, न चाप्ययदीक्षितादिभिः प्रकृताप्रकृतश्लेषोऽङ्गीकृतो विशेष्यश्लेषसत्त्वेऽपीति वाच्यम्, ६ प्रकाशसहिता यथा प्रौढा कामिनी निःस्वानामधीशमतिनिर्धनमपि तत्तद्देशेषु प्रवस. स्तमपि बहुगुणशून्यमपि कं चन पुरुष सुभगानां परिबृढमतिसुन्दरं मृषामानाद् दूरं मनःपूर्वकं मानेन सत्कारेण सविनयं शनैर्यत्नाइतप्रे- पणादिनाऽन्तर्णयतीति, यद्वा श्रुतिस्तत्त्वमस्यादिवाक्यम् अधीशं परमे- श्वरम् अशेषाणामाद्यं गुणगरिमनिर्मुक्तं निर्गुणं मृपामानाद् दृरं प्रत्यक्षा- दिमानागोचरं परिबृढमपरिच्छिन्नं यं गुरुस्वरूपं निःस्वानां विरक्ताना- शमनदतटीषु प्रवसतां शान्तानामत एव सुभगानां "न वैराग्यात्परंभा- ग्यमिति" प्रसिद्धः साधनचतुष्टयसंपन्नान्प्रतीत्यर्थः, अन्तर्णयति अभे- देन बोधयति सविनयं शनैर्यत्नादित्यभ्यासादितात्पर्यलिङ्गोपेतत्वं सूच्यते, निर्गुणमप्युपचारेण प्रतिपादयतीत्याह-उपचरन्तीति ॥७॥ चिकीर्पितं प्रतिजानीते-चेत इति भगवन्नामकौमुदीति ग्रन्थनाम कौमुदी चन्द्रप्रकाशः चकोराणां पक्षिविशेषाणां संतोषवृद्धये समुद्रबृद्धये च भवति, इयमपि प्रेक्षावतां चेतश्चकोरसंतोष एव पीयूषममृतं तस्या- म्बुधिः समुद्रस्तस्य वृद्धये क्रियते ॥८॥ अत्र श्रीमद्भगवन्नाममाहात्म्यप्रतिपादकानि पुराण- वचनान्युदाहृत्य विचार्य्यन्ते-किमेतान्यविवक्षितखा- र्थान्युत खार्थपराणीति ? यदा स्वार्थपराणि; तदाऽपि कि- साक्षात्पापक्षयहेतोःकस्य चिदङ्गभावेन भगवन्नामकीर्तनं- पापक्षयहेतुः; उत स्वप्राधान्येन ? यदाऽपि स्वप्राधान्येन तदाऽपि किं श्रद्धाभक्तिज्ञानवैराग्याभ्यासदेशकालविश- पादिसापेक्षत्वेन; उत तन्नरपेक्ष्येणेति ? अस्य विचारस्य सकलश्रुतिस्मृतीतिहासपुराणागमा- र्थसतरवसन्देहसन्दोहलतालवित्रचरणनखचन्द्रिकाञ्चल- अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृद् व्यावृत्तिरञ्जनमि- त्यादिसिद्धान्तविरोधाद्, एवं चात्राप्रकृतविशेष्यस्य पार्थक्येनानिर्देशान दलेषो, नापि शब्दशक्तिमूलध्वनिः प्रकृतविशेष्योपस्थापकपदस्यानुभयार्थकन्वात् किन्तु प्रकृतविशेष्यभूतायाः श्रतेररिकष्टतया समासोक्तिः ।

श्रीभगवन्नामकौमुदी। स्य श्रीमदनन्तानन्दरघुनाथस्य करुणाकादम्बिनीमुक्तस- क्तिसुधौद्धारामारः स्मृतिपुराणवचनविरोधाभासभावि- ननितान्तममृणशङ्कापङ्कप्रक्षालनेन तस्यैव रघुराजशिरा- मणेः सर्वतः प्रममरपरमकारुण्यसुधाऽर्णवस्य निरङ्कुशम- हिमधामनि श्रीरामनामनि वचेतमः समाधानमेव प्रयो- जनं, नत्र केषाश्चिदतिसाहसिकानामत्यावेशोऽयमनूद्य- मानोऽपि महापतनहेतुरपि भगवन्नाममाहात्म्यमननस्य भगवदुपासनासमानसौभाग्यत्वान्निराकरणार्थमन्द्यते- ग्रन्थस्य साक्षाद्विषयमाह-अत्रेति ग्रन्थइत्यर्थः। पुराणवचनानि सर्वेषामप्यघयतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मति- रित्यादीनि, विचाराङ्गं संशयमाह-किमेतानीति। एतेषां स्वार्थः नामोच्चारणस्य पापक्षयहेतुत्वरूपो विवक्षितोन वेत्यर्थः, संशयबीजं च पापविशेषो लोके वेदे चोभयविधवाक्यदर्शनं, संशयान्तरमाह-यदेति। कस्य चिदिति। मन्वायुक्तप्रायश्चित्तस्येत्यर्थः। स्वप्राधान्येन स्वातन्त्र्येणे- त्यर्थः, संशयान्तरमाह, तदाऽपीति । स्वातन्त्र्येऽपीत्यर्थः। श्रद्धा=आस्ति- क्यबुद्धिः, भक्तिः = परमेश्वरविषयज्ञानं, विवेको = वैराग्यं विषयेषु, अभ्यासो नामावृत्तिः, देशः काश्यादिः, कालः कर्मोपरमादिः, आदि शब्देन शुचित्वादि, विचाराङ्गमवान्तरप्रयोजनमाह-अस्येति । अस्य विचारस्य रघुराजशिखामणेः श्रीरामनामनि चेतसः समाधानं स्थैर्य- विश्वासविशेष एव प्रयोजनमित्यन्वयः । तत्र द्वारमाह स्मृतीति, स्मृतीनां मन्वादिप्रणीतानां च द्वादशाब्दादिनाशस्य पापस्य कथं- तन्नाममात्रेण निरास इत्येवंरूपो विरोधाभासो न तु विरोधः तेन भावितः कृतो नितान्तं मसृणश्चिकणो दृढ़ः शङ्कापकः तस्य प्रक्षालनेनेति संशयनिराकरणं द्वारमित्यर्थः। तत्र हेतुमाह-श्रीमदिति। श्रीमदनन्ता- नन्दो नाम गुरुः स एव रघुनाथस्तस्य करुणैव कादम्बिनी मेघमाला तया मुक्ता ये युक्तिसुधोद्धारा युक्तय एव सुधा = अमृतं तस्योद्धारा- उत्कटधारा आसारा वृष्टयः ताभिरित्यर्थः युक्तिपदस्थाने सूक्तिपद- पाठः क्व चित् तत्र सूक्तयो वाक्यानि, किंलक्षणस्येत्यत आह-सकलेति।

प्रकाशसहिता श्रागमो मन्त्रशास्त्रं श्रुत्यादीनामर्थस्य सतत्त्वं तत्त्वं तत्र संदेहसंदोहः संशयसमूहः स एव लता तस्या लवित्रं लवनसाधनं चरणनख- चन्द्रिकाया अञ्चल एकदेशो यस्येति, अनेनानायासतः सकलसंशय- निवर्तनसामर्थ्य गुरोः सूचितं तस्यैव पूर्व गुर्वभेदेनोक्तस्य प्रसृमरं प्रसरणशीलं परमकारुण्यं सैव सुधा तस्या अर्णवस्य, परमकारुणिक- त्वमेवाह-निरङ्कशेति । निरवधिकशक्तियुक्त; नानोऽस्ति यावती शक्तिःपापनिहरण हरेः । तावत्कर्तुं न शक्नोति पातकं पातकी जन- इति वचनाद् द्वादशाब्दादिप्रायश्चित्ते क्लिश्येयुर्जना इति परमका- रुणिकतया तादृशं नाम निर्मितं भगवतेति भावः । स्वचेतस इति । स्वश- ब्देनौद्धत्यपरिहारः, परीक्षकाणां चेतःसमाधानं प्रयोजनमित्युक्त औद्ध त्यमिव भायाद्, वस्तुतस्तु तदेव प्रयोजनं, विचाराङ्गपूर्वपक्षरचनां- प्रतिजानीते-तत्रेति। भगवन्नाम्नि विषय इत्यर्थः । अयं वक्ष्यमाणः केषां- चिदतिसाहसिकानामावेशोऽनूद्यत इति संबन्धः, परमपुरुषार्थप्रच्युत- त्वान्नरकपातोन्मुखत्वाचातिसाहसिकत्वमनूद्यमानोऽपि महापातक- हेतुः किमुत कृतः अर्थवादं हरेर्नानि संभावयति यो नरः। स पापिष्ठो मनुष्याणां निरये पतति स्फुटमि- त्यादिवचनात्, तादृशोऽप्यनूद्यते निराकरणार्थम् । ननु तथाऽपि महापातकं स्थान्नेत्याशयेनाह-भगवदिति । निराकरणार्थानुवादस्य भगवन्नाममाहात्म्यमनने पर्यवसन्नत्त्वात्तस्य च भगवदुपासनासमान- वात्पापक्षयहेतुरेवायमनुवादो न पापहेतुरिति भावः । मननस्येति । युक्तिनिरूपणात्मकग्रन्थकरणस्येत्यर्थः । उपासना भजनं राजानमुपास्त- इत्यादौ तथा दर्शनात् , तत्समानफलत्वं चापातत उक्तं मननस्य, तथा हि भजनं श्रवणकीर्तनादिरूपं नवविधं, कीर्तनं च द्विविधं नामकीर्तनं गुणकीर्तनं च, तत्र यथा भगवञ्चरणारविन्दस्य माहात्म्यनिरूपणं लाव- ण्यनिरूपणं वा भगवद्गुणकीर्तनमेव, एवं भगवन्नाममाहात्म्यनिरूपणं- विशेषतो युक्तिभिः क्रियमाणं भगवद्गुणकीर्तनमेव । नन्वेवमेतस्य ग्रन्थस्य भगवत्स्तुतित्वमापद्यतेति चेद् इष्टमेवैतद् न स्वेतायता क्षुद्रप्रभुषु त्वमिन्द्रस्त्वं चन्द्र इत्यादिवदसद्गुणारोपो भगवति मन्तव्यो “विष्णोर्नु कं वीर्याणि"इत्यादिश्रुतिभिर्भगवतोऽसंख्यगुणवत्त्वावधारणाद्, यद्वा १ , श्रीभगवन्नामकौमुदी। & STANDEEEN उपासना = अनन्यविषयतया सप्रेम ध्यानं, तन्समानफलं भगवन्नाम- माहात्म्यनिरूपणं गुणकीर्तनात्मक ध्यायन कृते यजन् यज्ञस्रोतायां द्वापरऽर्चयन् । यदामोति तदाप्नोति कला संकीर्त्य केशवमि- न्यादि वचनादिति। नद्यथा--अविवक्षितस्वाथान्येव पुराणवचनानीति, नथा हि कार्य एवार्थे वेदस्य प्रामाण्यं न सिद्धेः तत्रैव शब्दस्य शक्तितात्पर्ययोरवधारितत्वात् ततश्च विधिवा- क्यस्यैव स्वार्थे प्रामाण्यं न मन्त्रार्थवादोपनिषदां किन्तु तासां कथं चित् ऋतुविध्युपयुक्तार्थत्वं जपार्थत्वं वा, इतिहासपुराणयोस्तु तन्मूलत्वान्नतरां स्वार्थे प्रामाण्यग- न्धोऽपीति। गुरुमतेन पूर्वपक्षं दर्शयति-तद्यथेति । नाममाहात्म्यप्रतिपाद. कानीति शेषः । कार्ये कृतिसाध्ये, सिद्धे कृत्यसाध्ये तत्रैव कार्य एव गवादिपदानां शक्तः, वाक्यानां गामानयेत्यादीनां च तात्पर्यस्याव- धारणादित्यर्थः । कार्यान्विते स्वार्थे पदानां शक्तिः, तत्तत्पदार्थवि- शिष्ट कार्य वाक्यानां तात्पर्यमिति प्राभा कराः। ततः किं ? तत्राह- । 1-एषामिदमाकूतम्-अगृहीतशक्तिकाच्छब्दादर्थप्रतीत्यनुदयाच्छक्तिज्ञान- स्यापेक्षायां सत्म्वपि व्याकरणादिषु तद्ग्राहकंषु प्रवृत्तिनिवृत्तिरूपव्यवहारादेव साधारण्येन जगति सर्वेषां शक्तिग्रहाद् व्यवहार एव तद्ग्राहकशिरोमणिरिति स्थितौ चैत्र गामानयाश्वं वधानेत्याद्याकारोत्तमवृद्धप्रयुक्तप्रवर्तकादिवाक्यात् प्रयोज्ये तथा कुर्वतीदमीयचेष्टया प्रयोजकवाक्यस्य तादृशार्थबोधकतामनुपाय ब्युटिपासुः परस्ताद् गां नयाश्वमानयेत्यादिप्रयोजकवाक्यात्तदनुसारिकार्यदर्शनादन्वयव्यति- रेकाभ्यां मिथोऽन्वितयोरेव क्रियाकारकपदार्थयोः शक्ति निश्चिन्वान उपजीव्यतयाs. वगतचरान्वयांशमपरिहरनेवगवादिपदम्,आनयनात्मककार्यान्वितगवाद्यर्थशक्तम्, अस-यनुपपत्तिप्रतिसंधाने तथाविधकार्यान्वितगवादिबोधतात्पर्यनिवन्धनप्रयोज- कोच्चरितत्वादित्यादिव्यतिरेक्यनुमानतः कार्यान्वितार्थ एव पदानां शक्तिमव. धारयति, ततोऽवधारितशक्तिकतादृशपदघटितवाक्यतोऽपि कार्य एव तात्पर्यमध्य- वस्यतीति । २ प्रकाशसहिता । , ततश्चेति । स्वाथै लिड्वाच्ये कार्ये, उपनिषदामित्यस्योपरि कार्याप्रतीते- रिति शेषः, तासां मन्त्रार्थवादोपनिषदां, तत्र मन्त्राणां प्रयोगसमवेतार्थ. स्मारकतया; अर्थवादानां प्राशस्त्यसमर्पकतया; उपयोगित्वं कर्मसु, उपनिषदांतूक्तप्रकारद्वयाभावादध्ययनविध्युपात्तत्वेनानर्थक्यानुपपत्ते- जपार्थत्वं; न तु प्रामाण्य कार्यार्थत्वाभावादिति भावः । एवं च सति नाममाहात्म्यप्रतिपादकवाक्यानां पोराणानां प्रत्यक्षवैदिकविधिमूल- स्वाभावान्मन्त्रादिमूलत्वात्तदप्रामाण्य सुतरामप्रामाण्यमित्याह-इति- हासेति। नाममाहात्म्यप्रतिपादकयोरिति शेषः। तन्मूलत्वादिति। मन्त्रा. दिमूलत्वादित्यर्थः। अतश्च सकलपुराणवचनप्रामाण्याक्षेपोऽयमिति न भ्रमितव्यं, प्रत्यक्षविधिमूलकानामग्निहोत्रादिबोधकाराणवाक्यानां-- प्रामाण्यसंभवाद् नाममाहात्म्यप्रतिपादकानि पुराणवचनान्युदाहृन्य विचार्यन्त इत्युपक्रमविरोधाच्चेति । अन्ये तु मन्यन्ते, न कार्य एवार्थ वेदस्य प्रामाण्य- मपि तु सिद्धेऽपि तत्रापि शक्तितात्पर्ययोराचाय्यरेष निरूपितत्वाद्, मन्त्रार्थवादयोस्तु मानान्तरानधिगतं- तविरुद्धमर्थमवगमयतोरन्यपरत्वेऽपि स्वार्थे प्रामाण्यं- भवत्येव, तात्पर्य हि न प्रमितिमुत्पादयति किन्तु केवलं- तत्र प्रतिबन्धं निरन्धे तद्यदि स्वरसत एवं निष्प्रतिबन्ध मवधारितरूपमनधिगतविषयञ्च विज्ञानमुत्पद्यते शब्दात् तदाऽन्तरेणापि तात्पर्य तस्य प्रामाण्यं किं न स्यात् तत्सं. गानविगानयोः पुनरनुवादत्वगुणवादत्वे, उपनिषदां पुन- रनन्यशेषत्वादपास्तसमस्तानर्थमनन्तानन्दानुभवैकरसम- नधिगतात्मतत्त्वमवगमयन्तीनां प्रमाणान्तरविरोधेऽपि तस्यैवाभासीकरणेन च स्वार्थ एच प्रामाण्यं भवत्येव, तदुक्तं भवपादैः “अथ वेतिहासपुराणप्रामाण्यात् सृष्टिप्रलयाव- पीष्येत" इति ।

श्रीभगवन्नामकौमुदी। ११ नथाऽपि देवतातत्त्वतत्पराणां पुराणानामनुष्ठेयार्थ- पराणां स्मृतीनां च स्वे स्वे गोचरे गरीयस्त्वाद् गुरुतर- प्रायश्चित्तविधायिमन्त्रादिवाक्यविरोधे दुस्तरदुरितक्षयो- दृशेन नामसंकीर्तनमानं विधातुमशक्रुवन्ति पुराणवच- नानि भजनीयदेवतास्तावकत्वमेवाश्रयन्ते यस्याः सकृ- कीर्तनमप्यतादृक् सा पुनरामायणमुपासिता किं न करो- नीति तस्मादविवक्षितार्थत्वमेवैपामिति । अत्राभिधीयत-यथा कार्य सिढे च वेदस्य प्रामा- एयमविशिष्टं तथा पुराणानामपि, सर्वेषु पुराणेषु वर्णा- श्रमधर्माणां प्रबन्धेन प्रतिपादनात् , श्रीमद्भागवते तावद्- धम्म प्रोभितकैतवोऽत्र परमोनिमत्सराणां सतां- वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।। श्रीमद्भागवते महामुनिकृते किंवा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणा- दिति पुराणस्य त्रिकाण्डरूपत्वप्रतिपादनात्, श्रीमहाभारते च धर्मे चार्थे च कामे च मोन च भरतर्षभ ! ॥ यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क चिदिति धर्मब्रह्मणोरविशेषेण प्रतिपाद्यत्वप्रतिज्ञानात् प्रति- पादनाच. भविष्योत्तरमत्स्यपुराणादिषु च धर्मप्रतिपादनसौ- भाग्यस्यैव भूयस्त्वाच्च नातिशङ्कनीयमेव धर्मे प्रामाण्यं- पुराणानां, तत्र यथा काण्डभेदेन नानार्थत्वमविरुद्धं- वेदानां, तथा पुराणानामपि भविष्यति ।

সাহালি। अथ पुष्कराक्षसिद्धान्ततात्पर्यालोचनया वेदा ब्रह्मा- त्मविषया एव ब्रह्मात्मविषया वेदास्त्रिकाण्डविषया इमे। एरोवादा ऋषयः परोनं च मम प्रियम् ॥ परोक्षवादी वेदोऽयं बालानामनुशासनम् । कर्ममोक्षाय कार्माणि विधत्तं ह्यगदं यथे- त्यादिशास्त्रपालोचनया च त्रिकाण्डस्यैकवाक्यत्वं- वेदेषु; एवं पुराणेष्वपि, ततश्च यस्माद्वाक्याद्योऽर्थः स्वर- सतोऽवगम्यते सिद्धः कार्यो वा तत्र तत्प्रमाणमेव पुराण- वचन मिति। वेदान्ति मतानुसारेण पूर्वपक्षन्दर्शयन् गुरुमतं निराकरोति-अन्ये विति।कार्य एव प्रामाण्यं विधिवाक्यस्यैव च प्रामाण्यमिति द्वैधाव- धारणं गुरुमते, तत्र प्रथमं दूषयति-ने कार्य एवेति । पुत्रस्ते जात इत्यादिवाक्यश्रवणसमनन्तरं श्रोतुर्मुखविकासादिना हर्षमनुमाय तेन च तजनकं ज्ञानमलुमाया तत्र चोक्तवाक्यास्यान्वयव्यतिरेकाभ्यां कारणत्वं निर्णाय स्वतनयजन्मैवानेन वाक्येन प्रतिपाद्यत इति व्युत्पित्सुः सिद्धेऽपि तात्पर्यमवधारयति, पुत्रस्ते देशान्तरादागत इत्यादिवाक्यान्तरपर्यालोचनयाऽऽवापोद्धाराभ्यां पुत्रपदस्य शक्ति- चावधारयति, तदेवं सिद्धेऽपि शक्तितात्पर्यग्रहः संभवतीति । द्विती- यमवधारणं दूषयति-मन्त्रेति । "वायुर्वै क्षेपिष्ठा देवते"त्यादिवा क्यानां प्रामाण्यं निवारयितुं मानान्तरानधिगतमित्युक्तं, “धूम एवाग्ने र्दिवा ददृशे नाचिरि"त्यादिवाक्यानां प्रामाण्यं निवारयितुं तदविरुद्धमि- त्युक्तम् अन्यपरत्वेऽपि विधिपरत्वेऽपीत्यर्थः। अत्रोदाहरणं "वज्रहस्तः १-औपनिषदप्रस्थानास्तु तावदद्वैतविशिष्टाद्वैतशुद्धाद्वैतद्वैताद्वैतद्वैतसिद्धा- न्तवादिनः पञ्चापि गुरुमतं गुरुतयैवावधीरयन्तो गुरुमतीयकार्यपरत्वजीवातुभूतो. पजीव्यविरोधमतिविशेषशक्तिमहादतिविशेषान्तरशाब्दबोधस्यानुभविकतया दुनि- वारमुपदर्शयन्तोऽन्वित्तोपस्थित्यादिदुराग्रहमरोचयमानाः सिद्धवाक्यतोऽपि शाब्द. बोधमभिप्रयन्तीति भावः।

श्रीभगवन्नामकौमुदी। २३ happine पुरंदर" इत्यादिवाक्यानि। ननु विधिपरयोर्मन्त्रार्थवादयोः स्वार्थे तात्प- र्याभावे कथं प्रमितिजनकत्वं तात्पर्यस्य निर्णीतस्य प्रमितिजनकत्त्वा-- तत्राह-तात्पर्य होति। कल्पनागौरवान्मानाभाञ्चेति भावः। तत्प्रतिब न्धं प्रमितिप्रतिबन्धं निरुन्धे निवर्त्तयति, यथैकमेवाद्वितीयमित्यादिवा- क्येष्वस्मिन्नामेऽयमेक एवाद्वितीयः पुरुष इत्यादिवदुपचरितार्थत्वशङ्क- याऽद्वैतप्रमाप्रतिबन्ध उपक्रमादिलिऑस्तात्पर्यनिर्णये तन्निवृत्तिः, प.वं च यत्र प्रतिबन्धकानवतारो विषयश्चासंदिग्धःप्रमाणान्तरानधिगतश्च प्रमा- रणान्तराविरुद्धश्च यथा पुरन्दरस्य बज्रहस्तन्वादि तत्र प्रामाण्यं मन्त्रार्थ- वादयोः स्यादेवेत्याह-नद्यदीति । चशद्वात्प्रमाणान्तराविरुद्धविषयं, तत् तर्हि, तात्पर्यमिति। नितिमिति शेषः। तस्य शद्वस्य । वायुर्वेनेपिष्ठे- त्यादीनां, धूम एवेत्यादीनां वाक्यानां गतिमाह-तत्संगानेति । तस्य विषयस्य, संगानं प्रमाणान्तरसंवादः, विगानं तद्विसंवादः क्रमेणोत्त- रेणान्वयो, गुणवादत्वम् औपचारिकत्वं, ततश्च वायुर्वै क्षेपिष्ठेत्यादीनां प्रमाणान्तरसंवादादनुवादत्वं, धूम एवेत्यादीनां प्रमाणान्तरविसंवादा- दौपचारिकत्व, वज्रहस्तः पुरन्दर इत्यादीनांप्रमाणान्तरसंवादविसंवा. दाभावात्प्रामाण्यस्थ च स्वतस्त्वात्स्वार्थे प्रामाण्यमेव युक्तम् । उप- निषदां गतिमाह-उपनिषदामिति । अनन्यशेषत्वादिति मन्त्रार्थवादवैल- क्षण्यं, मन्त्रादीनां विधिशेषत्वाद्, आत्मतत्त्वमबगमवन्तीनामिति विधि वैलक्षण्यम् , अनुवादत्वपरिहारायाह-अनधिगतमिति। अपुरुषार्थत्व. परिहाराय-अपास्तेति । दुःखाभावमात्रं परिहरति-अनन्तानन्देति। ननु द्वैतावभालिप्रमाणान्तरविरोधादप्रामाण्यं स्यान्नेत्याह-प्रमाणान्तरेति। तस्यैवेति । प्रमाणान्तरस्यैवेत्यर्थः । उपकमोपसंहारादितात्पर्यलिङ्गो- पेतत्वादुपनिषदामिति भावः । पुराणानां गतिमाह-तन्मूलत्वादिति। मन्त्रार्थवादोपनिषन्मूलत्वादित्यर्थः। स्वार्थे सिद्ध इति शेषः। विधौ विवा- दाभावात्, तत्रैव सिद्धार्थे प्रामाण्ये भट्टाचार्यसंमतिमाह-उक्तं चेति । न चैवं नाममाहात्म्यप्रतिपादकानां पुराणवाक्यानामपि प्रामाण्यं स्याने- त्याह-तथाऽपीति। यद्यपि मन्त्रादीनां प्रामाण्यं तथाऽपीत्यर्थः। पुराणव- चनानि भजनाय देवतास्तावकत्वमेवाश्रयन्त इति संवन्धः। अशेषपाप- क्षयफलकनामकीर्तनविधिपरत्वं किन्न स्यादत आह-दुस्तरेति । दुरितं. ब्रह्महत्याऽऽदि, मात्रशद्वेनाल्पत्वं द्योत्यते प्रतिज्ञातेऽर्थे हेतुमाह-मन्वा दिवाक्यविरोध इति । विरोधं सूचयति-गुरुतरेति। यदि नामकीर्तन- ।

१४ গামাঝি १ - मात्रण ब्रह्महत्याऽऽदिपापक्षयः तर्हि द्वादशाब्दादिप्रायश्चित्तवैयर्थ्यं स्या- दिति विरोध इतिभावः। ननुविपरीतं किन्न स्यात् तथा हि मन्वादिवाक्य. विरोधे नामकीर्तनवाक्यानामर्थवादत्वमाश्रीयतेनामकीर्तनवाक्यविरोधे मन्वादिवाक्यानामेव ब्रह्महत्याऽऽदिनिषेधार्थवादत्वमाश्रीयतामिति शङ्कां निराकरोति-देवतेति। देवताखरूपपराणां पुराणानां स्वविषये गरी- यस्त्वाद् अनुष्ठेयार्थपराणां च स्मृतीनां स्वविषये गरीयस्त्वाद्, मन्वादि- वाक्यविरोधे पुराणवचनानि स्तावकत्वमेवाश्रयन्त इति योजना, पुरा- णानां देवताखरूपपरत्वंस्कृतीनामनुष्ठेयार्थपरत्वंचोपक्रमोपसंहारादि- नात्पर्यलिङ्गैर्द्रष्टव्यम् । गरीयस्त्वादिति। दृढतरप्रमाणोपेतत्वादित्यर्थः, अतश्च नामकीर्तनवाक्यानां विष्णुरूपदेवतास्तावकत्वं मन्वादिवाक्या- नां प्रायश्चित्तविधायकत्वमेव युक्तमिति भावः । ननु किं देवतास्तुत्या ? अताह-भजनोयेति। भजनमुपासना, ततश्चोपासनाविधिशेषत्वं नाम- कीर्तनवाक्यानामिति भावः। अत एवाह-यस्याइति। आप्रायणमामरणम् अतश्चमरणपर्यन्तमुपासनाऽनुष्ठान विधेयं, ततश्च नामकीर्तनवाक्याना- मविवक्षितार्थत्वमित्युपसंहरति-तस्मादिति । नामकीर्तनवाक्यानां स्वार्थे प्रामाण्यं वक्तुं प्रथमतः पुराणवाक्यानां प्रामाण्यं दर्शयति-यथेति। विधि- वाक्यानां कार्य; उपनिषदादीनां सिद्ध परमात्मनि तथा पुराणानापि प्रामाण्यमविशिष्टमित्यनुषङ्गः, धर्माणां परमात्मनश्चेति शेषः । प्रबन्धेन विस्तरेण, तदेव विवृणोति-श्रीभागवत इति । पञ्चम्यन्तानां नाति- शङ्कनीयं धर्मे प्रामाण्यं पुराणानामित्युत्तरेणान्वयः। प्रथमतः श्रीभाग- वतग्रहणं पुराणेषु श्रेष्ठत्वात् श्रेष्ठत्वेचप्रमाणमयमेव श्लोकः तथा हि-पत्र भागवते परमो धर्मो निरूप्यते, धर्मस्य परमत्वमेवाह-प्रोज्झितं कैतवं. कपट स्वर्गापवर्गलक्षणं फलाभिसंधिरूपं यत्रेति, ततश्च काम्यधर्मप्रधा- नेभ्यः परमेश्वराराधनाख्यधर्मप्रधानं श्रीभागवतं श्रेष्ठमिति भावः,निर्म- त्सराणां सतामिति तस्यैव धर्मस्याधिकारिपर्यालोचनया परत्वमुक्तं न केवलं तादृशधर्ममात्रनिरूपकत्वं किं तु वास्तवं वस्तु परमात्मरूप- मत्र वेद्यं कीदृशंवस्तु शिवदं सुखदम् आध्यात्मिकाधिभौतिकाधिदैवि- कतापत्रयनिवर्तकं चाराधितं सदिति भावः, ततश्च फलाभिसंधि- शून्यमपि परमेश्वराराधनं परिपक्वं सकलफलप्रदमिति सूचितम् , अनेन तादृशवस्तुनिरूपकत्वादपि पुराणान्तरेभ्यः श्रेष्ठत्वं श्रीभागवतस्योक्तं, यद्यपि पुराणान्तरेवपि तादृशं वस्तु निरूप्यते तथाऽप्यत्र यथा ।

। श्रीभगवन्नामकौमुदी। प्राधान्येन निरूप्यते तथा नान्येषु धर्मार्थकामप्रधानेविति भावः । प्रकारान्तरेण श्रेष्ठन्वमाह-किं वा परिति । पर्गः पुराणैः श्रुतैः सन्दिरी- श्वरी हृदि सद्यः किं वाऽवरुध्यते नावरुध्यत इत्यर्थः। अत्र शुश्रूषुभि श्रवणेच्छावद्भिस्तन्मणादवरुध्यते कृतिभिरिति श्रवणेच्छाऽपि श्रीभा- गवतस्य पुण्यवतां भवति न सर्वेषामिति सूचितम्, अवरुध्यत इति वर्तमानत्वनिर्देशेन भागवतश्रवणे हृदि परमेश्वरावरोधनं कृतिनामनु- भवसिद्धमिति सृचितम् , पुराणस्य श्रीभागवतस्य, त्रिकाण्डेति । कर्म- काण्डज्ञानकाण्डदेवताकाण्डरूपत्वप्रतिपादनादित्यर्थः । तत्र प्रथमपादे कर्मकाण्डरूपत्वं, द्वितीयपादे वास्तवपरब्रह्मनिरूपकतया ज्ञानकाण्डरू- पत्वं, किंवा परैरिन्यादिना देवताकाण्डरूपत्वं प्रतिपाद्यत इति। भूय- स्त्वादिति । परमात्मप्रतिपादनमपि तत्राल्पं वर्तत इति भावः। नाति- शङ्कनीयमिति। संशयविपर्ययो न मन्तव्यावित्यर्थः। धर्म इति । पर- मात्मन्यपीति शेषः । न चैवं नानाऽर्थत्वं दोषायेत्याह-तत्रेति । वेदान्ये- कदेशिनस्तु सा वेदः परमात्मपर एव, न च यागस्वर्गयोहिंसानरक- योश्च साध्यसाधनभावासिद्धिप्रसङ्गोऽन्यपरत्वादिति वाच्यम् ,अन्यपरे- भ्योऽपि वज्रहस्तःपुरन्दर इत्यादिभ्यो देवताविग्रहसिद्धिवत्तदुपपत्तेरिति वदन्ति, तत्पक्षावलम्बनेन पुराणवचनानामपि परमात्मपरत्वमेव, नाम- कीर्तनवाक्यानांतुस्वार्थपरत्वाभावेऽपि यजेत स्वर्गकाम इत्यादिवत्स्वार्थे प्रामाण्यं स्यादेवेत्याशयेनाह-अथ पुष्कराक्षेति। नन्वेवं सर्वस्य वेद- स्यैकवाक्यत्वं स्यादित्याशङ्कामिष्टापत्त्या परिहरति-वेदा इति । त्रिकाण्डविषया वेदा ब्रह्मात्मविषयाः, कथमन्यविषयाणामन्यविषयत्वं. तत्राह-परोक्षेति । गूढवादा इत्यर्थः। ऋषयो वेदाः, तदुक्तमृषिणे- त्यादौ वैदिकप्रयोग ऋषिशद्वस्य वेदार्थत्वदर्शनाद्, विषं भुवेत्या- दिवा-त्यवद् गूढवादत्वं वेदानामिति भावः । गूढ़वादं स्तौति-परोक्ष- मिति। ममेति परमेश्वरोक्तिः, अनुशासनं विधिनिषेधात्मा वेदोऽयं- बालानामज्ञानां परोक्षवादः । ननु कर्माणि विधत्ते; सत्यं विधत्ते न तु तत्र तात्पर्य किंतु कर्ममोक्षाय संसारनिवृत्तये, यथा वालानामगदं- भेषजं रोगनिवृत्तये न तु तदनन्तरं पित्रा दीयमानगुडावाप्तये, अतः परमात्मपर एव वेद इति सर्वे वेदा यत्पदमामनन्ति सर्वैश्च वेदैरह- मेव वेद्य इत्यादिशद्वार्थः । स्वमतेनोपसंहरति-ततश्चेति । स्वरसतइति । पूर्वमतेऽस्वरसप्रदर्शनम् । उदाहृतवाक्यानि तु साक्षात्परम्परया परमा- ।

, प्रकाशसहिता त्मविद्यायां शेषभूतः सर्वो वेदइत्येवं व्यारव्येयानि, सिद्धः परमात्मा- दिरूपः कार्यस्तदुपासनानामकीर्तनादिरूपः। ननु भवतु च धर्मेऽपि तात्पर्य पुराणानां; नामकी- निविषयाणां पुनः पौराणार्थवादानां स्मार्तप्रायश्चित्त- विधिविरोधे प्रामाण्यन्न युज्यते ? इयमविदितमीमांसावृत्तान्तानां विभीषिका, तथा हि किमिदमर्थवादत्वम् ; अविधित्वं, विधिशेषत्वं, वाऽ- नत्परत्वं वा? यदि तावद्विधित्वं तत् किं लिङादिप्रत्य- यविरहात् तद्राच्यविरहाद् वा, न तावल्लिङादिप्रत्य- यविरहात् “पूषा प्रपिष्टभागो यदाग्नेयोऽष्टाकपालो- भवती” त्यादीनामप्यविधित्वप्रसङ्गात् । ननु तत्र लिङा- दिप्रत्ययविरहेऽपि तद्वाच्यमस्ति कालत्रयानवच्छिन्नेन द्रव्यदेवतासम्बन्धेन यागविधिपरिकल्पनाद्, इह तु न तदस्तीत्यविधित्वं, तयुक्तम् , इहापि "प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परमि-" त्यादौ कालत्रयानवच्छिन्नेन साध्यसाधनसम्बन्धेन विधेः कल्पनात् । अथ "हरिरित्यवशेनाह पुमान्नाहति यातनामि' त्यादौ वर्तमानापदेशादविधित्वं? तर्हि "तरतिब्रह्म- हत्यां योऽश्वमेधेन यजते” “अग्निहोत्रं जुहोती"त्यादी- नामप्यविधित्वप्रसङ्गः। अथ तत्रापूर्वत्वाल्लकारपरिणामेन पञ्चमलकाराश्रयणेन वा विधित्वम् , इहापि तथैव भविष्यति। ननु मन्वादिवाक्यविरोधे नामकीर्तनवाक्यानामर्थवादत्वमेव युक्त- मिति पूर्वोक्तं स्मारयति-नन्विति। दूषयति-इयमिति । अविधित्व. मविधायकत्वम्, अतत्परत्वमविधिपरत्वम् । तद्वाच्येति । लिङ्वाध्य- मा , । । श्रीभगवन्नामकौमुदी। शाब्दभावनाऽऽन्मकविधिविरहाकार्यविरहादिति वाऽर्थः। श्रविधि- व्यप्रसङ्गादिति । अविधायकन्यप्रसङ्गादित्यर्थः । द्वितीयपनावलम्बनेन वैषम्यं शङ्कते-नन्विति । तत्र पूपादिवाक्येष्विन्यर्थः। तद्वाच्यमिति। शादी भावना कार्य वा, कथं गम्यतेन ग्राहकालत्रयेति । भूतभवि- प्यद्वर्तमानकालत्रयसंबन्ध हि विधिन घटतेऽन उक्तं.-कालत्रयानव- च्छिन्नेन । विधिकल्पनादिति । शाब्दभावनायाः कार्यस्य वा कल्प- नादित्यर्थः । इह विति । नामकोतनवाक्येविन्यर्थः । तदिति। लिवा- च्यमित्यर्थः इतिशो हतो। अविधित्वम् = अविधायकत्वम्। साम्येन समाधत्ते-तड्युक्तमिति । विष्णुपुराणे "कृते पापेऽनुतापो वै यस्य पुंसः प्रजायत" इति श्लोकस्य पूर्वार्धम् , अत्र लोके हरिस्मरणपापक्ष- ययोः साध्यसाधनसंवन्धः प्रतीयते तेन च कालत्रयानवच्छिन्नेन विधिः कल्ल्यते पापक्षयकामोहरिमरणं कुर्यादिति । वर्तमानापदेशाद. विधायकत्वं विष्णुनामकोर्तनयाक्यानाभिति तृतीयं पक्षं शङ्कते- अथेति । प्रतिवन्द्या परिहरति-तहाँति । अपूर्वत्वादिति । ब्रह्महत्या- तरणाश्वमेधयोः साध्यसाधनसंबन्धस्य लोकानधिगतत्वादित्यर्थः । लकारविपरिणामा तमो लिङ्त्वकल्पनं यजेतेति, इहापि हरिनामो- ञ्चारणपापनिहरणयोः साध्यसाधनसंबन्धस्यापूर्ववाद्विधित्वं भवि- ध्यतीत्याह-इहापीति । अथ विधिशेषत्वं; कोऽसौ विधिर्यच्छेषत्वमेषां, किं- नामकीर्तनविषयोऽन्यो वा ? न तावदन्यः. अन्यस्य विधे- रसन्निधानाद् नामसंकीर्तनस्यैव स्वातन्त्र्येणोपसंहाराच्च, अथ नामकीर्तनविषय एव; तर्हि तस्य नियोज्यविशेष- णान्तराश्रवणादन्यस्य कथंभावे वा श्रवणादार्थवादिक- पापनिहरणमेव नियोज्यविशेषणत्वन सम्बध्यते रात्रिस- न्यायेन; ततश्च कार्यान्वयान्न विधिशेषत्वं, प्रतिपत्ति- मात्रान्वयिनो हि विधिशेषाः । ननु प्रदेशान्तरस्थितमपि नामसंकीर्तनं प्रदेशान्तरस्थस्यापि "विष्णुरुयांशु यष्टव्यो- जामित्वाय"त्यादेः ऋतुविधेरङ्गमुपासनाविधेर्चा; तद्- व्यभिचारिविष्यवाख्यदेवतासम्बन्धमुखेन पर्षमयीत्व प्रकाशसहिता वत् । ततश्च “यस्य पर्णमयी जुर्भवति न सपापं श्लोक- शृणोती त्यादिफलश्रुतेरिव पापक्षयफलश्नुतेरप्यर्थवा- दत्वं परार्थत्वात् , तदयुक्तं; परार्थत्वासिद्धः, ध्यायन् कृते यजन् यज्ञस्त्रेतायां द्वापरेऽर्चयन् । यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवमिति, ध्यानयज्ञार्चनकार्ये युगभेदेन कीर्तनस्य व्यवस्था- पितत्वादु । नन्वस्यार्थवादत्वात् कथं तहलेन पर्णमयी- न्यायप्रतिक्षेपः? उच्यते-फलांशस्ताबदास्तांध्यानयज्ञार्च- नानां युगभेदेन व्यवस्थया श्रेयोहेतुत्वानुवाद एवार्थवा- दत्वे नावकल्पते, स्तुतावनुपयोगात् स्तुतिर्हि न देशका- लव्यवस्थामवलम्बते, अपि स्वदेशकालेऽपि स्तुत्यर्थस्य पुरुषार्थत्वम् । ननु न कीर्तनमिह स्तूयते, अपि तु कलिः, युगा- न्तरेषु महता प्रयासेन यत्साध्यते तत्कलावल्पेनेति, एवमपि कृतादिषु ध्यानादीनां व्यवस्था नोच्यते किं तु यत् कृतादिषु ध्यानयज्ञार्चनैराप्नोति तत्कलो कीर्तने- नैवेति वक्तव्यं, न च तथोच्यते, उत्तरोत्तरयुगोत्कर्ष- मुखेन प्रतिपादने कलेः सर्वोत्कर्षविवक्षायां विरम्य व्यापारः प्रसज्जेत, तस्मान्न स्तुतिपरमिदम् अपि तुफल- परमिति । ननु व्यवस्थावाक्यं तावदास्ताम् इतरेषां पुनः पर्णमपीन्यायेनार्थवादत्वं भविष्यति, ततश्च व्यवस्थावा- क्यस्यापि कीर्तनविषयत्वादर्थवादत्वमेव भविष्यति, मैत्र, सिद्धे व्यवस्थावाक्यस्यार्थवादत्वे पर्णमयीन्या- यावतारः; अवतीर्णे पर्णमयीन्याये च तेषामर्थवादत्वम् ; अर्थवादत्वे च तेषां व्यवस्थावाक्यस्य चार्थवादत्वमिति , श्रीभगवन्नामकौमुदी। चक्रकप्रसङ्गाद्, अपि च वैष्णवेषु यागेपु विष्णोः स्वरूपेण न देवतात्वम् अपि तु विष्णुशब्दानुविद्धनया तत्संज- ल्पितस्यैव तस्य नत्रोद्देश्यतया विधानाद् अतएव हि तेनैव शब्देनोदेशो न शब्दान्तरेण "विष्णवे शिपिविष्टाय शृते चरुमि"त्यादौ देवनाभेदोऽपि; कीर्तने तु न विष्णु- शब्दानुविद्धस्यैव तस्य विषयत्वं नामान्तराणामपि तत्र विनियोगात् ततश्च वैकुण्ठनामग्रहणमशेषायहरं विदुरि- त्यादेः पदार्थसम्बन्धमुखेनापि क्रती नानुप्रवेशः, अतो न स्तुतिपरत्वं फलश्रुतेरिति, अपि च संभवान फलपरत्वे न स्तुतिपरत्वं युक्तं, गौणमुख्ययोमुख्य कार्य- संप्रत्यय इति न्यायात्। पर्णमयीवाक्ये हि पर्णमयीत्व- स्य द्रव्यस्य क्रियामनाश्रित्य फलसाधनत्वानुपपत्तेः प्रदे- शान्तरवर्तिनी च क्रियामप्रातामाश्रित्य विधानायोगात् क्रियासम्बन्धे फलसम्बन्धे च विधेये वाक्यभेदप्रसङ्गात् ऋतुविधिशेषत्वमेव विधीयते, ततश्च फलश्रुतेरर्थवा- दत्वम्, इहः पुनः संकीर्तनस्य क्रियात्वात् तस्याश्च स्वतः फलसाधनत्वोपपत्तेः फलार्थमेव विधानं "पृथग्यः प्रति- बन्धः फलमि" ति न्यायेन; तस्माद्यथाऽर्थवादा एताः फल- श्रुतयो न गुणवादाइति । मौलिकं द्वितीयं शङ्कते-अथेति । दूषयति-काऽसाविति । एषां नामकीर्तनवाक्यानां, कोऽसावित्युक्तं विवृणोति-किमिति । उपस्थितत्वादांदो द्वितीयं दूषयति-न तावदिति । स्वातन्त्र्येति । अन्यविधिनिरपेक्षत्वेनेत्यर्थः । श्राद्यं शडते-अथेति । विधिरिति शेषः। तस्येति। नामकीर्तनविषयस्य विधेनियोगापरपायस्यास्ति नियोज्याकाङ्क्षा तत्र स्वर्गकामो यजेतेत्यादौ यथा स्वर्गकामना नियो- ज्यविशेषणं श्रूयते न तथाऽत्र किंचिच्छ्रयते नियोज्यविशेषणं येन ।

प्रकाशसहिता नद्वान्नियोज्यः स्याद् अतोऽर्थवादोपस्थितं पापनिहरणमेव नियो- ज्यविशेषणन्वेन संबध्यते, ततश्च पापनिहरणकामो नियोज्यः कल्पनीय इति भावः। ननु प्रयाजादिविधिवन्निनियोज्यत्वमेवास्तु; अन्यथा तत्रापि वर्म भ्रातृव्याभिभूत्यै इत्यर्थवादोपस्थितो भ्रातृ- व्याभिभूतिकामो नियोज्यः कल्प्येत तत्राह- अन्यस्येति । कथ म्भावोऽङ्गत्वं प्रयाजादिविधेर्दर्शपूर्णमासाङ्गत्वेन श्रवणात्तन्नियोज्येनैव नियोज्यवत्त्वान स्वतन्त्रओ नियोज्यः कल्प्यते: नामकीर्तनविधेस्त्वन्याङ्ग- त्वेनाश्रवणादार्थवादिकपापनिहरणकाम एव नियोज्यः कल्प्यत इति भावः, एतत्प्राभाकरमतेन । भट्टमते तु नामकीर्तनविधेः फलाकाताया- मार्थवादिकं फलं पापक्षयरूपं कल्प्यत इति ज्ञातव्यम् । रात्रिसत्रेति । "प्रतितिष्ठन्ति ह वै य एता रात्रीरुपयन्ती"ति रात्रिसत्रविधेर्मतभेदेन फलाकाङ्क्षायां नियोज्याकाङ्क्षायां वा न स्वर्गः फलं न स्वर्गकामो वा नियोज्यः उपस्थापकाभावाद्, “विश्वजिता यजेते त्यादावगत्या तदा श्रयणं, ततः प्रतितिष्ठन्तीत्यर्थवादोपस्थिता प्रतिष्ठा फलं, तत्कामो वा नियोज्यः कल्प्यत इति चतुर्थे निर्णीतम्। फलितमाह-ततश्चेति। कार्या- न्वयाद् विधिपरत्यादित्यर्थः, नामकीर्तनवाक्यानामिति शेषः। विधि परत्वे विधिशेषत्वानुपपत्ति स्पष्टयति-प्रतिपत्तीति। प्रतिपत्तिमात्रान्व- यिनः प्राशस्त्यप्रतिपत्तिमात्रपरा इत्यर्थः । मात्रशद्वेनानुष्ठेयार्थशून्यतो- च्यते यथा वायुर्वै क्षेपिष्ठा देवतेत्याद्याः, नामकीर्तनवाक्यानां- त्वनुष्ठयार्थवत्त्वाद्विधिपरत्वमेवः न विधिशेषत्वमिति भावः। श्राक्षि. पति-नन्विति । नामकीननं क्रतुविधेरङ्गमिति संबन्धः, कस्य क्रतु विधेरित्यपेक्षायामाह-विष्णुरिति । यद्यपि "विष्णुरुपांशु यष्टव्य" इति । १-पूर्वमीमांसादर्शने चतुर्थस्य तृतीयेऽष्टमाधिकरणे "प्रतितिष्ठन्ति ह वै यएता रात्रीरुपयतीति विषयवाक्यमादाय रात्रिरूपक्रतुबोधकवाक्ये श्रयमाणा प्रतिष्ठा फलम् , अर्थवादो वेति संशय्य; "ऋतौ फलार्थवादमङ्गवत् काष्णाजिनिः" ११३। १५॥ इतिसूत्रेण जुह्वां पर्णताऽऽन्मकाङ्गन्ववोधकवाक्य इवेहापि फलस्यार्थवादतै वेति कार्णाजिनिमतेन पूर्वपक्षीयावा, "फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्याद्, ४।३।१६ इतिसूत्रेण फलत्वानिर्देशात् फलमेव प्रतिष्टा विधीयतेऽशुतोऽपि विधि रध्याहार्य इत्यानेयमतेन सिद्धान्तितम् ।

श्रीभगवन्नामकौमुदी। न विधिः, द्वितीयेऽध्यायेऽर्थवादत्वसमर्थनात्', तथाऽपि तद्वाक्यस्या. देरुपांशुयाजमन्तरा यजतीत्यस्येत्यर्थः । ननु प्रकरणाद्यभावे कथ- मङ्गत्वमित्याशङ्कायां वाक्यादङ्गत्वं वक्तुं प्रकरणाद्यभावमङ्गीकरोति- प्रदेशान्तरस्थितमिति । अपिशद्वाच्छ्रन्याद्यभावाङ्गीकारः । पक्षान्तर- माह-उपासनाविधैरिति । विष्णूपासनाविधेर्वाऽङ्ग नामकीर्तनमित्य न्वयः। उभयत्र हेतुमाह-तदव्यभिचारीति । उपांशुयाजेन विष्णू- पासनया वाऽव्यभिचारिणी विगवाख्या देवता तत्संबन्धमुखेन तदनु- प्रवेशाद् उपांशुयाजे विष्णूपासनायां वाऽनुप्रवेशात् । पर्णेति । यथा पर्णमयोत्वमव्यभिचरितक्रतुसंबन्धिजुहद्वारा क्रत्वङ्गं यस्य पर्णमयी जुहूर्भवतीतिवाक्यात् तथा नामकीर्तनमन्यभिचरितक्रतुसंबन्धि. विष्णुदेवताद्वारा क्रत्वङ्गम् , अव्यभिचरितोपासनासंवन्धिविष्णुदेवता- द्वारोपासनाऽङ्ग वा नामकीर्तनप्रतिपादकतत्तद्वाक्यादिति भावः । किं सर्व नामकीननवाक्यं पर्णतान्यायेन नामकीर्तनस्याङ्गत्वं बोधयेत् कतिपयं वा ? नाद्यः ध्यायन्कृत इत्यादेरङ्गत्वबोधकत्वानुपपत्तेः ध्यानयज्ञार्चनसाध्ये फले संकीर्तनस्य युगभेदेन व्यवस्थापरत्वात् , यपरत्वे वाक्यभेदादित्याशयेनाह-परार्थत्वासिद्धेरिति । ननु यथा यस्य पर्णमयी जुरिति क्रत्वङ्गतया पर्णताविधानं, न स पापं श्लोकं शृणो- तीत्यर्थवादः; तथा संकीर्त्य केशवमिति क्रत्वङ्गतयोपासनाङ्गतया वा नामकीर्तनविधानम् , इतरद्ध्यायन् कृत इत्याद्यर्थवादः, ततश्च नास्य व्यवस्थापरत्वं येन वाक्यभेदः स्यादिति-शङ्कते-नन्विति । दृषयति- उच्यतइति । फलांश इति। ध्यायन् जपन् अर्चयन् यदाप्नोति तदा- नोतीत्येवंरूपः फलांशस्तावदास्ताम, अर्थवाद इति शेषः, न स पापं. श्लोकं शृणोतीतिवत्सतर्थवादत्वस्य संभावितत्वादिति भावः । कृते ध्यायन् त्रेतायां यजन् द्वापरेऽर्चयन् इत्येवं युगमेदेन श्रेयोहेनुत्वव्य- वस्थानवादस्तु नार्थवाद इत्याह-ध्यानेति । अर्थवादत्वइति सप्तम्यन्तं,- तत्र हेतुमाह-स्तुतावनुपयोगाद्, अनुपयोगमेवाह-स्तुतिरिति । अव- १-जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशी, उपांशयाजम. न्तरा यजति, विष्णुरुपांशु यष्टच्योऽजामित्चाय, प्रजापतिरुपांशु यष्टव्योऽजामित्वाय, अग्नीपोमावुपांशु यष्टच्यावजामित्वायेति, विषयवाक्यानि, अत्र विवादिवा- क्यानि विधायकानीति पूर्वपक्षे उपांशुयाजेन्यादिवाक्यं विधायकं, शिष्टाम्यनुवाद- इति राद्धान्तः।

प्रकाशसहिता लम्बते = आश्रयति,अस्मिन्नेव नामेऽयंसमीचीनोऽस्मिन्नेव काल इत्यादी स्तुत्यपकर्षादिति भावः। अदेशकालेऽपीति। देशकालव्यवस्थारा. हित्येऽपि स्तुत्यस्य पुरुषार्थपर्यवसन्नत्वमवलम्बते स्तुतिरित्यनुषङ्गः, ततश्चापूर्वत्वाव्यवस्था विधेयाऽस्मिन्वाक्यै पर्णतान्यायो नास्तीति भावः। न पर्णतान्यायो नापि व्यवस्थाविधानमिति तटस्थः शङ्कते-नन्विति- समाधत्ते-एवमिति । पर्णतान्यायाङ्गीकारे यथा व्यवस्थाक्तिन घटते एवं कलिस्तुतिपरत्वेऽपि सा न घटत इति तस्मादस्मिन्वास्ये कृतादिषु ध्यानादीनां श्रेयोहेतुत्वव्यवस्थैव विधीयते न च तथोच्यत इति, यद्यपि तथैवोच्यते कृते ध्यायन् त्रेतायां यजन् द्वापरेऽर्चयन् यच्छेयामोति तत्कलौ केशवं संकीत्यति एवकारः परं न श्रूयते, न च तावताऽस्ति क्षतिःसर्वथा कलिस्तुत्युपपत्ते; तथाऽपि कलिस्तुतेरनुपयोगादुक्तव्य- वस्थायाश्चापूर्वत्वाट् यदामोतीति यच्छदस्य यदाग्नेयोऽष्टाकपालो भव- तोतिवदुपपत्तेः, कृतादिषु ध्यानादीनां श्रेयोहेतुत्वव्यवस्थाविधिपर- मेवेदं वाक्यमिति भावः । कृते ध्यायन्यच्छ्यानोति तन्त्रेतायां यजन्ना- नोति, यत्तायां यजन्नाप्नोति तद्वापरेऽर्चयन्नाप्नोति, यद्द्वापरेऽर्च- यन्नाप्नोति तत्कली संकीर्त्य केशवमानोतीति पूर्वपूर्वयुगापेक्षयोत्त- रोत्तरयुगस्याल्पप्रयामसाध्यश्रेयोहेतुत्वप्रतिपादनेनोत्कर्षमुखेन सर्वो- स्कर्षः कलियुगस्य प्रतिपाद्यत इत्याशङ्कयाह-उत्तरोत्तरेति। विरम्येति। सकृदुत्का पुनरुक्तिविरम्य व्यापारः श्रावृत्तिरिति यावत्। फलपरमिति। श्रेयोहेतुत्वव्यवस्थाविधिपरमित्यर्थः। नन्वितरवाक्यानां पर्णतान्यायेन नामकीर्तनस्य त्वङ्गत्वबोधकत्वं भविष्यतीति द्वितीयं कतिपयमिति पक्षं शङ्कते-नन्विति । इतरेषामिति । “हरिरित्यवशेनाह पुमान्नार्हति यातनामि"त्यादीनामित्यर्थः । पर्णमयीन्यायेनेति । यथा यस्य पर्ण- मयी जुहूरिति पर्णतायाः क्रत्वङ्गत्वेन विधि,न स पापं श्लोक शृणोति इत्यर्थवादस्तथा हरिरित्यवशेनाहेति नामकीर्तनस्य ऋत्वङ्गत्वेन विधि हतियातनामित्यर्थवादः,एवमन्यत्रापियोज्यम्।नन्वितरवाक्ये- भ्यः क्रत्वङ्गत्वेऽपि नामकीर्तनस्य व्यवस्थावाक्यात्पुरुषार्थत्वमपि भवि. ध्यति-तत्राह-ततश्चेति । व्यवस्थावाक्यमर्थवादः नामकीर्तनविषयत्वादि- तरवाक्यवदित्यनुमानात्तस्यार्थवादत्वे केवलक्रत्वर्थत्वमेव नामकीर्तन- स्येति भावः। अपूर्वव्यवस्थाविधिपरत्वाव्यवस्थावाक्यस्य तद्विरोधे सामान्यतो दृष्टमनुमानमप्रमाणमित्याशयेनाह-मैवमिति।दूषणान्तरमाह- । श्रीभगवन्नामकौमुदी सिद्ध इति । यद्यपीतरवाक्येषु पर्णतान्यायो न व्यवस्थावाक्यस्यार्थवाद- वमपेक्षते कि त्वव्यभिचरितक्रतुसंबन्धमात्रमपेक्षते तथाऽपि पुरुषार्थ- तापरिहारेण पर्णतान्यायो न व्यवस्थावाक्यस्यार्थवादत्वमपेक्षते ततश्च सिद्धे व्यवस्थावाक्यस्यार्थवादत्वे इतरवाक्येषु हरिरित्यवशेनाहेत्या दिषु पुरुषार्थतापरिहारेण पर्णतान्यायः, तस्मिंश्च सति नाहति यात- नामित्यादीनामर्थवादत्वं, ततश्च तत्सामान्यायवस्थावाक्यस्यार्थवा- दत्वमिति चक्रकम् । प्रकारान्तरेण पर्णतान्यायं दृषयति-वैष्णवेविति। विष्णुशद्वानुविद्धतयेति। विष्णुशोपहिततयेत्यर्थः। तस्य विष्णोः, तत्र यागेषु, तत्संजल्पितस्यैव विष्णुशद्वसंजल्पितस्यैवोद्देश्यतया यागान्त गतोद्देशाविषयतया विधानादित्यर्थः । तेनैव विष्णुशद्वेनैवोद्देशः सकी- तैनं यागेषु न शब्दान्तरेणान्यथा दाशमि कन्यायविरोध इति भाव. । विष्णव इति । शृते पक्कदुग्धे विष्णोरन्यो विप्णुः शिपिविष्ट इति देवता. भेदो मीमांसकसंमतः सोऽप्यत एवेति संबन्धः अन्यथाशद्वान्तरप्रवेशे. ऽपि सैत्र देवता स्यात् तस्माच्छब्दोपहित एवार्थो देवता न स्वरूपेणेति भावः। अस्तु ततः किं तत्राह-कीर्तने विति। विष्णुशद्वोपहितस्यैवोपांशु. याजे देवतात्वं कीर्तनेऽपि विष्णुशद्वोपहित एव गदि विषयः स्यात्स्या- १-अयमभिप्रायः, "हरिरित्यवशेनाह पुमानार्हति यातनामित्यादिषु पर्णतान्यायावतारेणार्थवादत्वं तदाऽऽशङ्कयत; यदि नामकीर्तनस्य ऋत्वङ्गत्वं नि- गीयेत, तत्तु न संभवि ध्यायन् कृत इत्यादिभिर्व्यवस्थाविधानेन पुरुषार्थताप्रतीते- नामकीर्तनस्य क्रत्वङ्गत्वप्रतिबन्धकत्वात् , तथा च पूर्व,व्यवस्थावाक्यम् ; अर्थ- वादः; नामकीर्तनविषयकत्वाद्; इतरनामकीर्तनवाक्यवदित्यनुमानेन व्यवस्था. वाक्यस्यार्थवादता वक्तव्या, ततो "हरिरित्यवशेनाहे" त्यादौ पर्णतान्यायावतारः सुघटः, एवं चेतरवाक्येषु पर्णतान्यायः स्पष्टमेव व्यवस्थावाक्यस्यार्थवादत्वमपेक्षते, व्यवस्थावाक्यस्यार्थवादत्वेन नाहतीत्यादीनामर्थवादत्वमपेक्ष्यतेऽनुमानप्रयोगे दृष्टा. न्तविधयानाहति यातनामि"त्यादिष्वर्थवादत्वं पर्णतानिदर्शनेनैव वाच्यमिति तत् पर्णतान्यायमपेक्षत,इति स्वग्रहसापेक्षग्रहसापेक्षमइसापेक्षग्रहविषयत्वरूपं. चक्रकमनिवार्यमत्रेति। २-पूर्वतत्रस्य दशमेऽध्याये तुरीयपादे हि--विधिवाक्ये भूयमाणेन देवतावाचकपदेनैवानुष्ठाननियमासम्भवं पूर्वपक्षयित्वा, विधिशब्दस्य मन्नत्वे भावः स्यात्तेन चोदना, २०४२॥ इति सत्रेण विधिधाक्यघटकेनैव शाब्देना. नुष्ठाननियमः सिद्धान्तितः।

प्रकाशसहिता त्तदाऽव्यभिचरितक्रतुसंबन्धिदेवताद्वारा कीर्तनं पर्णतान्यायेनक्रत्वङ्ग न चैवमस्ति ततश्च हरिरित्यवशेनाहेत्यादौ हरिशद्वेनाभिहितस्योपांशु- याजदेवतात्वे मानाभावान्नाव्यभिचरितक्रतुसंबन्ध इति भावः । पदा. र्थसंबन्धमुखेनेति। अव्यभिचरितक्रतुसंबन्धिपदार्थद्वारेत्यर्थः। पर्णम- यीवाक्येऽपि फलपरत्वं किन्न स्यादत श्राह-पति।क्रियामनाश्रित्येति । दनेन्द्रियकामस्येत्यादौ शिक्यस्थस्यापि दध्न इन्द्रिय फलसाधनत्वापत्ते रिति भावः । ननु तर्हि होमनियामाश्रित्य यथा दनः फलसाधनत्वं विधीयते तथा पर्णत्वस्यापि ऋतु क्रियामाश्रित्यापापश्लोकश्रवणफलसा- धनत्वं विधीयतां तत्राह-प्रदेशान्तरेति। प्रकरणप्राप्तायां हि क्रियायामा- श्रयायिसंबन्धोऽनूद्यते फलसंबन्धो विधीयते दध्नेन्द्रियकामस्येत्यादी, न चात्र क्रतुक्रिया प्रकरणप्राप्ता प्रदेशान्तरवर्तित्वादिति भावः। नन्वने- नैव वाक्येनाश्रयाश्रयिसंबन्धो विधीयतां तत्राह-क्रियेति । पर्णमयीत्व- स्येतिशेषः। क्रियासंबन्धःक्रियया सहाश्रयाश्रयिसंबन्धः विधीयत इति। पर्णमयीवाक्य इति शेषः । फलश्रुतेन स पापमित्याद्यायाः नामकीर्तन- वाक्येषु वैषम्यमाह-इहेति । पृथध्येति । उत्तरमीमांसायांतृतीय उद्गीथो- १--उदीच्यमीमांसायां तृतीयाध्याये तृतीयपादे कर्मागावबद्धोपासना. नियमराहित्याधिकरणे "तन्निर्धारणानियमस्तदृप्टेः पृथग्भ्यप्रतिबन्धः फलम् ।३।३ ४२ इति सूत्रे अद्वैतभाष्ये "डोमेत्येतदक्षरमुद्गीथमुपासीत"त्यादीनि कर्माङ्गा- श्रितानि विज्ञानानि नित्यान्यनित्यानि वेति संदिहा, प्रयोगवचनपरिग्रहानि- त्यानीति पूर्वपक्षयित्वा, तेपूयासनाकर्मसु निर्धारणस्योपासनस्यानियमोऽनि- त्यता सिद्धान्तिता श्रुत्यैव तेतोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदे' त्यैवंरूपया छान्दोग्ये; तद्दष्ट = अनियमदर्शनाद्, युक्तं चैतद् हि-यतः कर्मापेक्षयोपासनायाः पृथक् फलमप्रतिबन्धः कर्मसमृद्धिः, तत्रैव वीर्यवत्तरं भवतीत्यत्रत्यतरपा पक्ष- द्वयेऽपि फलसूचनादिति शंकराचार्यपादा अभिप्रयन्ति स्म । विशिष्टाद्वैते श्रीभाष्ये रामानुजाचार्यपादा अप्येवमेव व्याचचक्षिरे । शुद्धाद्वैतेऽणुभाष्ये तु प्रकृतसूत्रभावं वल्लभाचार्यपादा यादृशं प्रत्यपीपदन् तादृशोऽत्र टीकाकृदभीष्टानुगुण्यमाधातुमुदा- सीनः । द्वैताद्वैत वेदान्त पारिजातसौरभमाध्येऽपि निम्बार्काचार्यपादाः प्रथमप- थद्वयमेवातुसत्रुः । द्वैते पूर्णप्रज्ञदर्शने श्रीगोविन्दभाष्ये च श्रीमदानन्ततीर्थभगव- त्पादतदनुगाचार्यविहिताऽनत्यव्याख्याऽन्यादृशसिद्धान्तपरा नैतट्टीक्केष्टोपोलि- नीति, अनौपनिषदपञ्चप्रस्थानीप्रदर्शनस्ये दमेव तात्पय्ययन्मूलकार्याशार्थ प्रमाप- यितुं समुपन्यासि नैनमुत्तरमीमांसाप्रस्थानेषु कोऽपि विरुद्ध मनागपीति । ..

श्रीभगवनामकौमुदी। २५ पासनादीनां पर्णतान्यायेनाव्यभिचरितक्रतुसंबन्ध्युद्दीथद्वारा क्रत्वङ्गत्व- नियममाशङ्कय सिद्धान्तितं. "तन्निर्धारणानियमस्तदृष्टेः पृथग्भ्यप्रति- बन्धः फलमि"ति तनिर्धारणस्य ऋत्वगत्वनिर्धारणस्यानियमोऽसत्त्वं- तद्दष्टेः अनि यमदृष्टेः तेनोभी कुरुतो यश्चैवं वेद यश्च न वेदेत्युपास- नारहितकतुप्रयोगदर्शनादिति, किमर्थं तर्युद्गीयोपासनादीनि विधीय- न्तइत्याशयोक्तं पृथक् स्वतन्त्रम् अप्रतिबन्धः कर्मफलसमृद्धिः फलम् उनीथोपासनादीनां कियात्वात्स्वतन्त्रफले साधनत्वमुपपद्यत इति भावः। अथातत्परत्वं, तदपि स्वार्थपरत्वे बाधकभावात् साधकाभावाडा, न तावदाधकभावाद् अर्थान्तरपरत्व- मेव हि तस्य बाधकं तदिह नास्तीत्यवोचाम, नापि साधकाभावाद् अध्ययनविधेरेव साधकत्वात् स हि प्रयोजनशून्यमक्षरमात्रमपि न ग्राहयति; अत एव कुत्र चिदेकत्र तात्पर्यमागृह्णाति, तत्रान्यपरत्वस्य पराकृत- त्वात् स्वार्थपरत्वं परिशिष्यते. अपि च, उपक्रमोपसंहा- रयोरेकरूपत्वं पौन:पुन्यमनधिगतत्वमर्थवत्त्वमुपपत्तिः प्रशंसा चेति षद्विधानि तात्पर्य्यलिङ्गानि, तानि चाजा- मिलोपाख्यानादिषु स्पष्टमुपलभ्यन्ते व्याकरिष्यन्ते च यथाऽवसरं, तस्मान्नैवातत्परत्वं नामसंकीर्तन विषयाणां- वचनानाम् , अतो यत्किंचिदेतदर्थवादरूपत्वमिति, अपि च मानान्तरानधिगतं कृतियोग्यमिष्टसाधन- मेव विधिः स च लिङादियुक्तन वाक्येनावगम्यतां- वाक्यान्तरेण वा कस्तत्राग्रहः । इहापि सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मति- रितिप्रमाणान्तरानधिगतं पापक्षयसाधनत्वमवग- म्यते नामकीर्तनस्य, कृतियोग्यं च तत्क्रियात्वात् काल- २६ प्रकाशसहिता संस्पर्शानवगमाद् । ननु यन्न सहतएव कालसंसर्ग तल्का- य॑यथा यजेतेत्यादिना विहितं, पदान्तराभिहितं तुन तथा, नामकीर्तन मित्यादेरस्तीत्यादिना सामानाधिकर- रायेऽप्यविरोधात्, तदयुक्त, कृत्यानामविधित्वप्रसङ्गात्, ते हि कालसंबन्धेनावरुध्यन्ते कर्तव्यमस्तीत्यादिन- योगदर्शनात् , तस्मात् कालसंस्पर्शानवगमएव कार्यत्वो- पयोगी न तदसहत्वं सव्वथा कालासंबन्धे शून्यत्वप्रस- गाद्, च उक्तं च भाष्ये "भविष्यश्चैषोऽर्थ” इति, तस्माद् दुर्वार एव नामसंकीर्तनविषयो विधिः, भवतावाऽर्थवा- दत्वमेषां, तबलादेव विधित्वमनुमिमीमहे, विधि विना तस्यैवानुपपत्तेः विधिशेषो ह्यर्थवादः तत्र च विधावार्थ- वादिकमेव फलं भविष्यति, अपि च स्पष्टमुपलभ्यन्त- एव नामसंकीर्तनविषया विधयः, तस्मादेकेन मनसा भगवान् सात्वतां पतिः। श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ "गीतानि नामानितदर्थकानिगायन्निलजोविचरेदसः" "संकीर्तयेजगन्नाथं "गोविन्देति सदा वाच्यं" "नामानि तद्रतिकराणि पठेदलजः" "हित्वा लज्जां कलिमलकुलच्छेदकानीरयेता निष्णो मान्यनिशममृतप्राप्तिरेषा चतुर्धे" त्येवंजातीयका बहनः। अविदितमीमांसावृत्तान्तस्येत्यादिग्रन्थोक्तं तृतीयपक्षमाशते- अथेति।नामकीर्तनवाक्यानामविधिपरत्वमित्यर्थः। दूषयति-तड्पीति । भावःसस्वम् । अर्थान्तरेति।स्तुतिपरत्वं पर्णतावत् कत्वङ्गत्वपरत्वं वा पापक्षयफलोद्देशेन नामकीर्तनविधिपरत्वे वाधकं तत्त् नास्तीत्युतमि स्यर्थः । अध्ययनविधेरिति । यदि त्वध्ययनविधिः पुराणानां नास्तीतु.

भीमगवनामकौमुदी। । ब्येत नहिं पुराणश्रवणविधेरिति शेयं साधकत्वमेव दर्शयति-स हीति । मावतीति। अध्येतब्यत्वेन श्रोतव्यत्वेन वान प्राहयतीत्यर्थः । नतोड. शयनविधिः भवविधिर्धा पुराणानां प्रयोजनशून्यमक्षरमात्रमपि न ग्राहयत्यत एव कस्मिंश्चिदेकस्मिन्फलवति तात्पर्य नतत्पुगणवाक्याना- माहेणखीकरोतीत्याह-अतएवेति। ततः किं,तत्राह-सति। नामकीत- नवाक्येग्वित्यर्थः। अन्यपरत्वस्येति । स्तुत्यादिपरत्वस्येत्यर्थः। स्वार्थति। पापक्षयोद्देशेन नामकीर्तनविधिपरत्वमित्यर्थः । न केवलमध्ययनविधि- विभवणविधिरेव वा नामकीर्तनवाक्यानां तात्पर्यग्राहकोऽपि तृपक्रमो- पसंहारावीन्यपीत्याह-अपि चेति। पौनःपुन्यमभ्यासः, अनधिगतत्वम- शातत्वम् अर्थवत्वं फलवत्वं, प्रमाणान्तरानवगता कृतियोग्येष्ठसाधनता लियइतिमतेऽप्याह-अपि चेति।साधनशद्वोभावप्रधानः। लिङादियु- हेनेति । यजेत स्वर्गकाम इत्यादिनेत्यर्थः। वाक्यान्तरेणेति । पूषा प्रपिष्ट- भाग इत्यादिनेत्यर्थः। प्रकृत श्राह-इहापीति। कृतियोग्यं च तद्नामकोर्त- ममित्यर्थः। क्रियात्वे हेतुःकालसंस्पर्शानवगमादिति। सर्वेषामप्यधवता- मित्यादिवाक्ये भूतभविष्यवर्तमानकालसंसगों नावगम्यते ततो नाम- कीर्तनं क्रियेत्यभिप्रायः । ननु कालसंस्पर्शायोग्यत्वं क्रियात्वगमकं यथा यजेतेत्यादौतत्प्रकृतेनामव्याहरणं विष्णोरित्यादिवाक्ये नास्तीति शङ्कते- मन्विति कार्य क्रियेत्यर्थः। पदान्तरेति।सुबन्ताभिहितं तुनकाल संस्प- योग्यमित्यर्थः। तत्र हेतुमाह-नामेति। एवं हि पूषा प्रपिष्ठभाग इत्या. देरविधायकस्वप्रसङ्ग इत्याह-तदयुक्तमिति। तत्राप्यस्तीतिसामानाधिक- रएयाविरोधादितिभावः। दूषणान्तरमाह-कृत्यानामिति । कृत्यप्रत्यया. मामित्यर्थः कालसंबन्ध इति सप्तम्यन्तम्। स्वार्थस्येति शेषः। तत्र हेतु:- कर्तव्यमिति । तस्माद्वाक्ये कालसंसर्गाप्रती तिरेव क्रियात्वगमिकेत्यु- पसंहरति-तस्मादिति । कार्यत्वोपयोगी क्रियात्वगमकः, न तदसहस्र्थ- मकालसंसर्गासहत्वं, कार्यस्योपयोगीत्यनुषङ्गः । दृषणान्तरमाह-सर्व तिवस्तुतःकालसंसर्गायोग्यत्वंशधरस्वामिनामप्यसंमतमित्याह-उक्तं- चेति। एष इति। विधेयो यागादिरित्यर्थः। परमप्रकृतमुपसंहरति-तस्मा दिति। एवमर्थवादस्वं नामकीर्तनवाक्यानां प्रतिकूलमिति मत्वा दृषितम् । वस्तुतस्तु तदनुकूलं विधेयस्यैव स्तुतिसंबन्धेनार्थवादत्वादेव विधिक ल्पनादित्याह-भवतु वेति। ननु तथाऽपि फलामावादकर्तव्यं नामकीर्तन- मित्याशयार्थवादोपस्थितं पापक्षयात्मकमेव फलमित्याह-तत्र चेति।

प्रकाशसहिता
एवं च विधिविभक्तिरहितानां नामकीर्तनवाक्यानां विधिपरत्वमुक्त्वा
विधिविभक्तिमन्ति वाक्यान्युदाहरति-अपि चेति । एकनैकाग्रेण सति
कथके श्रोतव्यः, सति श्रोतर्यसति वा कीर्तितव्यः, अनेन गुणकीर्तनं ना
मकीर्तनं च विधीयतेऽ विशेषात्. श्रवणकीर्तनयोरसंभवेध्येयास्मर्तव्यः,
स्मरणस्याप्यसंभवे पूजनीयः, नित्यदेत्येवं यथा कथंचित्सर्वासमयोभग
वत्परतयैव नेतव्य इतिभावः।गीतानि पूर्वैरिति शेषः । अध्याहास्भया
गीतिविशिष्ठनामोच्चारणविधानं वा तदर्थकानि भगवत्प्रतिपादक्रानि
तस्येति वक्तव्येऽर्थग्रहणात्तत्फलकानि च ततश्च नामकीर्तनेऽस्य भग
वत्प्राप्तिः फलमिति भावः। विलज इत्युच्चैरुच्चारणविधानम् असर इति
नाधिकारिविशेषणं सर्वाधिकारत्वात्कि त्वसङ्गो- विपयासङ्गरहितो
विचरेद्भवेदिति यावत्, ततश्च नामकीर्तने विषयासङ्गो गच्छतीति
भावः । तद्रतिकराणि भगवत्प्रीतिकराणि कर्तुरेव वा तस्मिन्भनति
प्रीतिकराणि । चतुर्द्धति । प्रणवाभ्यासोवाराणसीवसतिः शतरुद्रिय.
जपो नामोश्चारणं चेति तदेनदने मूल एव वक्ष्यते।
ननु भवतु नामकीर्तनविषयो विधिः, तथापि
नित्य एवासानहरहः खाध्यायमधीयतेतिक्त
संकीर्तयेजगन्नाथं वेदं वाऽपि समभ्यसेदि-
तिसमभिव्याहारात्, ततश्च घृतकुल्याऽऽदिफलश्रुते.
रिव पापक्षयफलश्रुतेरर्थवादत्वं, तदयुक्तम् अविशेषात
न हि नित्योऽनित्यो वा विधिः फलं विना समाप्यते
ततश्चाश्रुतफलकल्पनादार्थवादिकफलस्वीकरणमेव न्या-
य्यं तस्माद्विवक्षितार्थस्यैव नामकीर्तनस्य पापक्षयहेतुत्व
प्रतिपादकानि पुराणवचनानीति ।
कृष्ण कृष्ण मधुसूदन विष्णो
कैटभान्तक मुकुन्द मुरारे।
पद्मनाभ नरसिंह हरे श्री-
राम राम रघुनन्दन ! पाहि ।।
इति श्रीमदनन्तानन्दरघुनाथपादपद्मोपजीविनो लक्ष्मी-

श्रीनगवन्नामकोमुदी । धरस्य कृतौ भगवन्नामकौमुद्यां पुराणवचनानां विवक्षि- तार्थत्वप्रतिपादनं नाम प्रथमः परिच्छेदः ।। नामकीर्तनविधिमङ्गीकृत्य फलमाक्षिपति-नन्विति । तत्र हेतु- माह-संकीर्तयेदिति-समभिव्या हारादिति । नित्यवेदाभ्याससहपाठा- दित्यर्थः। ततश्चेति । पयसः कुल्या ह्रदान् पितॄन्स्वधा अभिवहन्ती- त्यादिफलश्रवणमध्ययनस्य यथाऽर्थवाद: एवं पापक्षयफलश्रवणं नाम- कीर्तनविधेरर्थवाद इत्यर्थः । अविशेषादिति । निन्यस्य काम्यस्य वा विधेः फलाकाक्षाया अविशेषादित्यर्थः । तदेवाह-न हीति। अहरहः स्वाध्यायाध्ययनस्यापि नित्यत्वात्पापक्षय एव फलम् । उपसंहरति- तस्मादिति । प्रथमपरिच्छेदसमासौ नामोच्चारणरूपं मङ्गलं कुर्वन्ना- ममाहात्म्यप्रतिपादकम्य ग्रन्थस्य प्रचयगमनरूपं फलं प्रार्थयते. कृपणेति । यन्नामकीर्तनं सद्यः सर्वपापनिवर्तनम् । तं वन्दे परमानन्दसिन्धुं श्रीनन्दनन्दनम् ॥ MAHI इति श्रीमदापदेवसूनुनाऽनन्तदेवेन कृते श्रीभगवन्नामकौमुदीप्रकाशे प्रथमः परिच्छेदः समाप्तः ॥ sar

No text on this page.

श्रीभगवन्नामकौमुदी । द्वितीयः परिच्छेदः- श्रीकृष्णाय नमः। श्रीकान्त कृष्ण करुणाकर कञ्जनाभ कैवल्यवल्लभ मुकुन्द मुरान्तकेति । नामावली विमलमौक्तिकहारलक्ष्म- लावण्यबन्धनवती करवाणि कण्ठे॥ एवं स्थिते नामकीर्तनस्य पापक्षयं प्रति साधनत्वे पुनरिदं विचार्यते-किं कस्य चित् साधकतमस्याङ्गभूनं- तद् उत स्वयमेव साधकमिति ? ननु निर्णीतमेतत् फलश्रुतरर्थवादत्वनिराकरणन, सत्यं तदेव पुनराक्षेपान्तरनिराकरणेन दीक्रियते स्थू- णानिखननन्यायेन । तत्र मन्वाद्युक्तप्रायश्चित्ताङ्गमिति तावत्प्राप्तं, तथा हि-विकल्पसमुच्चयव्यवस्थानामन्यत- माश्रयणेन स्मृतिपुराणविरोधस्ताबदवश्यं परिहर्तव्यः, समानमूलत्वेनान्यतरस्याप्यनतिलङ्घनीयत्वात् , तत्र वि- कल्पव्यवस्थे तावन्न युज्येते नित्यवदवगतस्य पाचिकत्वे सामान्यश्रुतस्य च विशेषविषयत्वे शब्दवचनस्वारस्य- भङ्गप्रसङ्गाद्, अतः समुच्चयोऽन्न परिशिष्यते। प्रकाशस्य द्वितीयः परिच्छेदः। ॥ श्रीगोपीरमणाय नमः ॥ द्वितीयपरिच्छेदार्थ प्रतिजानीते-पवमिति । पूर्वपरिच्छेदेन पौनरु- स्वं शङ्कते-नन्विति । नामकीर्तनस्यकिचिदङ्गत्वे फलश्रुतिरर्थवाद एव प्रकाशसहिता स्थादतः स्वप्रधानमेवं तदेतदिति भावः। तदेवेति । स्वप्रधानमेवेत्यर्थः। आक्षेपान्तग्माह-तत्रेति । विकल्पेति । पापक्षयकामेन नामकीर्तनं कर्त- व्यं; मन्वाद्युक्तप्रायश्चित्तं वेति विकल्पः । उभयंकर्तव्यं न त्वेकेन पापक्षय- इति समुच्चयः । कस्य चिदधिकारिणो नामकीर्तनं पापक्षयसाधनं- कस्य चिन्मन्वाद्युक्तप्रायश्चित्तमित्यादि व्यवस्था। स्मृतीति । पापक्षयो देशेन मन्वादिस्मृतिभिदिशाब्दादि विधीयते पुराणवचनैस्तु नामकी तनं विधीयते तत्र विकल्पसमुच्चयव्यवस्थानामन्यतमस्यानाश्रयणे स्मृ- तिपुराणवचनानामप्रामाण्यमेव स्यादिति भावः । अयमेव विरोधश- ब्दार्थः। तयोरप्रामाण्यमेव किं न स्यादताह-समानेति । श्रुतिमूलक- त्वात्स्मृतिपुराणवाक्यानामप्रामाण्यायोगादित्यर्थः। श्रङ्गप्रधानभावेन समुश्चयं वक्तुं विकल्पपक्षं व्यवस्थापक्षं च निराकरोति-तत्रेति। नित्यव- दिति । पापक्षयोद्देशेन नामकीर्तनं द्वादशाब्दादि च नित्य बच्छूयते तयो- विकल्पेतु पाक्षिकत्वं स्यात् ततश्च नित्यवच्छवणबाधाच्छद्वस्वारस्यभङ्गः स्यात्, अधिकारिविशेषेण वादेशविशेषेण वा व्यवस्थाऽऽश्रयणे सामान्य- श्रुतस्य विशेष लक्षणया शद्वस्वारस्यभङ्गः स्यादित्यर्थः । ननु समुच्चयेऽपि निरपेक्षसाधनत्वेनावगतस्य सापे- क्षत्वे वारस्यभङ्गस्तदवस्थ एव, मैवं, नैरपेक्ष्यं हि साध- नान्तराभावः स च नानयोरन्यतरस्यापि विषयः खवि- षयस्य साधनत्वे साधनान्तरस्य चाभावे प्रमेये वाक्य- भेदप्रसङ्गात् , स तु योग्यप्रमाणान्तरानुदयस्य विषयः, उपलभ्यते तु प्रमाणान्तरं साधनान्तरग्राहकम् , अतः प्रमाणद्वयपालोचनायां परस्परसापेक्षत्वात् स्मार्तपौरा- णयोः समुच्चय एव श्रेयान् । नन्विति। नामकीर्तनवाक्येभ्यो हि तदेव निरपेक्षसाधनं पाप- क्षयस्य प्रतीयते; मन्वादिस्मृतिभ्यस्तु द्वादशाब्दादि निरपेक्षसाधनं- पापक्षयस्य प्रतीयते तयोः समुश्खये तु सापेक्षत्वाच्छब्दस्वारस्यभङ्गः स्थादेवेति भावः। नामकीर्तनवाक्यात्तस्य पापक्षयसाधनत्वं प्रतीयते न -तु निरपेक्षत्वं तस्याशाद्वत्वादेवं मन्वादिवाक्याद् द्वादशाद्वादेः पापक्षयसाधनत्वमेव प्रतीयते न तु निरपेक्षत्वमुक्तहेतोरिति परिह ७ श्रीभगवन्नामकौमुदी रति। मेवमिति। नैरपेक्ष्यस्याशाद्वन्वे कारणमाह-नरपेक्ष्यमिति । अनयोरिति ।नामकीर्तनमन्वादिवाक्ययोरित्यर्थः। साधनत्वं निरपेक्षत्वं- च शद्वप्रमेयं किं न स्यात्तत्राह-स्वविषयस्येति । नामकीर्तनवाक्यं- मन्वादिवाक्यं च स्वस्वविषयस्य साधनत्वं साधनान्तराभावात्मकं- निरपेक्षत्वं च बोधयद्भिद्यतेत्यर्थः । शब्ददूषणं वाक्यभेदरूपमुक्त्वाऽर्थ- दूषणमाह-स विति । योग्यानुपलब्धेरित्यर्थः। तया ह्यभावो गृह्यते न चात्र साऽस्ति, प्रमाणद्वयेन साधनद्वयोपलम्भादित्यर्थः, अतो न शब्दस्वारस्यभङ्गः, प्रत्युत शब्दसामञ्जस्यमेव समुञ्चयपक्ष स्यादित्युप- संहरति-अत इति । स्मातेति । द्वादशाब्दादिनामकीर्तनयोरित्यर्थः। नन्वेवमपि समुच्चितयोरनयोहापौर्णमासयोरिव का. रणत्वमेव किं न स्याद् विपरीतो वाऽङ्गप्रधानभावः? पुरा- णवचनेभ्य एव भगवद्भजनस्य प्रायश्चित्तकाङ्गत्वाव- गमादिति ब्रूमः-श्रीभागवते तावत् प्रायश्चित्तानि चीर्णानि नारायण पराङ्मुखम् । न निष्पुनन्ति राजेन्द्र ! सुराकुम्भमिवापगा- इति भगवद्भजनस्य प्रायश्चित्ताङ्गत्वमवगम्यते, प्राय- श्चित्तानि न पुनन्तीति न तस्यार्थः, मन्वादिवचनव्या- कोपाद्, नारायणपराङ्मुखमिति विशेषणवैयर्थ्याच्च, अपि च प्रायश्चित्तान्यनुष्ठितान्यपि नारायणपराङ्मुखं- न पुनन्ति नारायणपरायणन्तु पुनन्तीत्यर्थः । अतः स्वतः पुनतां तेषां नारायणपरायणत्वमङ्गमित्यवगम्यते, तथा तत्रैव- मन्त्रतस्तन्त्रतश्छिन्द्र देशकालाईवस्तुतः । सव्वं करोति निश्छिद्रं नामसङ्कीर्तनं हरेरिति, तवेति वा, सर्वकर्मसाद्गुण्यार्थत्वं हि हरि- कीर्तनस्य सिद्धवदनूद्यते, तथा स्कन्दपुराणेऽपि । ।

प्रकाशसहिता यस्य स्मृत्या च नामोत्या तपोयज्ञक्रियाऽऽदिषु । न्यून सम्पूर्णतां याति सद्यो धन्दे तमच्युतमिति ॥ अनुवादश्च प्राप्तिमनुमापयति निवीताधिकरणन्या- येनोपव्यानविधायकवाक्यशेषे निवीतानुवादवत् । श्रीविष्णुपुराणेऽपि वासुदेवे मनो यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय ! देवेन्द्रत्वादिकं फलमिति- काङ्गत्वमवगम्यते हरिस्मरणस्य, यद्यत्र स्मरणं- स्वातत्र्येण विवक्षितं किमिदं जपहोमार्चनादिष्विति, अतःसर्चकाङ्गत्वाद् भगवत्कीर्तनस्मरणयोः, प्रायश्चि- त्तस्यापि तदन्तः पातित्वात्प्रायश्चित्ताङ्गत्वेनैव नामकीर्त- नं पापक्षयहेतुन्न स्वतन्त्रमिति । ननु समुच्चयेऽपि मन्वाद्युक्तप्रायश्चित्तं प्रधानं नामकीर्तनं तदङ्गमेव- मेव कुतः ? किं तु स्वर्गफले दर्शपूर्णमासयोरिव पापक्षये मन्धाधुक्तप्रा- यश्चित्तनामकीर्तनयोः समत्वेन समुच्चयः किं न स्यादिति शङ्कते- नन्विति । विपरीत इति । नामकीर्तनं प्रधान मन्वाधुक्तप्रायश्चित्तमङ्ग- मित्येवंरूपः किं नस्यादित्यर्थः । पूर्वपक्षी परिहरति-पुराणेति । न च भजनस्य कर्माङ्गत्वेऽपि किं नामकीर्तनस्येति वाच्यं, भजनस्य नव- विधत्वेन कीर्तनस्यापि तदङ्गत्वावगमात् । नारायणपराङ्मुखमिति द्वितीयान्तं पुरुषविशेषणं, प्रायश्चित्तचरणक्रियाविशेषणं 'वा, तदेव दर्शयति-प्रायश्चित्तानि नेति। तस्येति । भागवतवचनस्येत्यर्थः । अपि त्विति । नारायणपराङ्मुखशब्दस्य द्वितीयान्तत्वे स्पष्टैव योजना। फलितं वचनार्थमाह-नारायणपरायणमिति । भागवतवचनार्थमुप- संहरति-अत इति । स्वतइति । प्राधान्येनेत्यर्थः। परायणत्वं भजनम् । मन्त्रतो न्यूनं तन्त्रतो न्यूनं देशतो न्यूनं कालतो न्यूनम् अर्हशब्दवाच्य- शुचित्वादियोग्यतातो न्युनं वस्तुतो द्रव्यतो न्यूनं सर्वं कर्म निश्छिद्रं- पूर्ण करोति नामकीर्तनमिति वचनार्थः । साद्गुण्यं साङ्गत्वं, तदर्थत्वं- तदङ्गत्वं । सिद्धलकारेणानूद्यत इत्यर्थः । न चानुवादेऽपि कथं. ।

श्रीभगवन्नामकौमुदी। ३५ । नामकोर्तनस्य प्रायश्चित्ताङ्गत्वेन विधिस्तत्राह-अनुवाद इति । प्रायश्चि- ततपोयज्ञाद्यङ्गतया विधिमनुमापयति कल्पयति; निवीताधिकरणन्या- येनेत्युक्तं विवृणोति-उपव्यानेति । “उपव्ययते देवलक्ष्ममेव तत्कुरुते इत्युपव्यानविधेः शेषे "निवीतं मनुष्याणामिति निचीतानुवादो यथा निवीतस्य मनुष्यप्रधानातिथ्यादिकर्माङ्गतया विधि कल्पयति तथे. त्यर्थः । तृतीये-विधिशेषे "निवीतमिति मनुष्यधर्मः शब्दस्य तत्प्रधा. नत्वाद" ।।४।३। इति, इदं च कृत्वाचिन्ताऽधिकरणं, निवीतं मनु. ध्याणामित्यस्यार्थवादत्वात् । मैत्रयेति संबोधनम् । तदेवाह-यद्य- त्रेति । उपसंहरति-अतइति। नन्विह सर्वकाङ्गतया पापक्षयहेतुत्व मुच्यते नामकीर्तनस्येति तत्राह-प्रायश्चित्तस्येति । अत्र समाधीयते-स्वप्रधानमेव पुरुषोत्तमकीर्तनं- पापप्रध्वंसनहेतुः, श्रीभागवते तावत् कर्मणा कर्मनिहोरो न ह्यात्यन्तिक इष्यते । अविद्वद्धिकारित्वात् प्रायश्चित्तं विमर्शन मिति, कर्मात्मकप्रायश्चित्तनिन्दापूर्वक- के चित्केवलया भक्त्या वासुदेवपरायणाः। अघं धुन्वन्ति कात्स्न्येन नीहारमिवभास्कर- इति ब्रह्मविद्यासमानस्कन्धतया केवलायाः कीर्त- नादिलक्षणाया भगवद्भक्तःप्रायश्चित्तत्वेनावधारितत्वात्, 1--पूर्वतन्त्रस्य नृतीयाध्याये तुरीयपादे प्रथमेऽधिकरणे---"निवीत- मनुष्याणां, प्राचीनावीतं पितणाम् , उपवीतं देवानाम्, उपव्ययते देवलक्ष्ममेव तत्कुरुते” इति विषयवाक्यमादाय; निर्वातस्य विधित्वमाशङ्कयः प्राचीनाची- तोपवीतयोसिसोऽधःपातनिबन्धनासौकर्यसम्पादनया किल स्वरसप्राप्ते निवीते विधरनपेक्षणादर्थवादत्वं सिद्धान्तितं, श्रयमाणस्य प्रशंसाऽर्थवादस्यान्य- थाऽनुपपत्योपच्यानस्यावश्यके विधेयत्वे निवीतादेरपि विधित्सनीयतायां वाक्य. भेदापाता निीतप्राचीनावीतयोर्मनुष्यपितृसंबद्ध तया देवकर्मानहतयोपवी. तस्य तदर्हता व्यतिरेकद्वारा स्तुवन्निवीतमर्थवादो यथा भवति, नथा प्रकृतेऽपि नामकीर्तनविषयकानुवादतोऽपि विधिक रूपना निष्प्रत्यहंति भावः ।

३६ प्रकाशसहिता Ramanna तथा सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः॥ एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम्। यदा नारायणेत्येतजगाद चतुरक्षरम् ॥ नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः। अजामिलोऽपि येनैव मृत्युपाशादमुच्यतेति- तत्र तत्रैवकारश्रवणाद्, एवं नामकीर्तनप्रायश्चित्तयोः पापक्षयेऽङ्गाङ्गिभावेन समुश्चपक्ष मुपपाद्य दूषयति-श्रोति । कर्मणा हादशाब्दादिना कर्मनिहारो- नेष्यते हि । नन्वेवं स्मृतिवचनविरोधः स्यादत पाह-आत्यन्तिक- इति । कृतेऽपि द्वादशाब्दे पापवासनासद्भावादात्यन्तिकपापनाशो- नास्ति, अन्यथा पुनः पापाचरणं न स्यादिति भावः। तत्रैव हेतुरवि- द्वदधिकारित्वादिति। तत्त्वज्ञानाभावात्स्मार्तप्रायश्चित्तानुष्ठातृणां पुनः पुनः पापाचरणमेव भवतीति नात्यन्तिकः पापनाशइति भावः । किं- तात्यन्तिकनाशे प्रायश्चित्तं तत्राह-प्रायश्चित्तमिति । विमर्शन- ब्रह्मविद्येत्यर्थः । कर्मात्मकेति । द्वादशाब्दादिरूपेत्यर्थः। के चि- दिति। "मनुष्याणां सहस्त्रेषु कश्चिद्यतति सिद्धय"इति विरलत्वात् । नीहारं तमः। ब्रह्मविद्येति । यथा हि ब्रह्मविद्या सवासनं पापं क्षपयति; एवं कीर्तनादिलक्षणा भक्तिरिति भावः । सर्वेषामिति । महापात- कानुपातकोपपातकप्रकीर्णकादिसकलपापाचरितृणामित्यर्थः। सुनि- कृतमिति । सुनिष्कृतमिदमेवेति योजना। द्वादशाब्दादि निष्कृतं- १-ब्रह्माहा मद्यपः स्तेनस्तथैव गुरुतल्पगः । एते महापातकिनो यश्च तैः सह संवसेदितियोगियाज्ञवल्क्यसूचितानि ब्राह्मणहत्याऽऽदीनि महापापानि, स्तेनस्तु ब्राह्मणस्वामिकसुवर्णचोरः “ब्राह्मणसुवर्णापहरणं महापातकमि"तिवच- नेनापस्तम्बीयेन संवादात् । अनुपातकानि पितृपितृव्यादिभार्थ्यागमनादीनि । उपपातकानि गोवधादिभााविक्रयान्तानि योगियाज्ञवल्क्योक्तानि । महापात- कातिपातकानुपातकोपपातकभिन्नं पातकं प्रकीर्णमुच्यते । अनादिशब्देनातिपातक- प्रायमिति संक्षेपः। - श्रीभगवन्नामकौमुदी। ३७ भवति न तु सुनिष्कृतं वासनाक्षयाभावादिति भावः । यतो नाम ध्याहरणात्तद्विषया विष्णुविषया मतिस्तत्त्वज्ञानं भवतीत्यर्थः । यद्वा यतः कारणाद्विष्णोः स्वनामव्याहर्तृसर्वपातकिविषया मतिरभि. मानो भवतीत्यर्थः। अघोनः अघवत इत्यर्थः। अस्याजामिलस्ये. त्यर्थः । अवधारितत्वाच्छवणादिति पञ्चम्यन्तयोः स्वः धानं पुरुषोत्तम कीर्तनमिति प्रतिज्ञयाऽन्वयः । एतावताऽलमघनिहरणाय पुंसां- मङ्कीर्तनं भगवतो गुणकर्मनानाम् । विक्रुश्य पुत्रमघवान यदजामिलोऽपि नारायणेति म्रियमाण उपैति मुक्तिमि- त्यनेनापि केबलस्य कीर्तनस्य कृत्स्नपापक्षयहेतुत्वमेव समयते, यदि हि पर्याप्तवचनोऽयमलंशब्दस्तदा प्रथमा- प्रयोगेण भवितव्यम् ; अलं मल्लो मल्लायेतिवद्, इह तुत- तीया दृश्यतेऽतो निवारणवचनोऽयमलंशब्दइत्यलमतिप्र- सङ्गनेतिवत् । ततश्चायमर्थः,भगवतो गुणकर्मनाम्नां सङ्की- निमिति यत्पुंसामघनिहरणायेत्येतावताऽलम् एताव- नानुष्ठेयं पापक्षयमात्रस्यातितुच्छत्वाद् भगवत्कीर्तन- स्यातिगरीयस्त्वादेतदेव विवृणोति-विक्रश्येति, रणमभ्यस्तमहापापोऽजामिलोऽपि पुत्रं विक्रुश्य न हरि- कीर्तयित्वा तदपि न स्पष्टं म्रियमाणत्वेन शिथिलकरण- त्वात् तथाऽपि दैवगत्या पुत्रनाम्न एव भगवन्नामत्वाद् मुक्तिं समस्तानर्थनिवृत्तिलक्षणां निरतिशयानन्दरूपाञ्च प्राप्तो नानथैकदेशस्य पापस्य निवृत्तिमात्रं तत्रापि मुक्तिः किल बभूवेति नैतदेतिह्यमानं किन्त्वयमधुनैव मुक्तिमुप- यातीति साङ्गलिनिर्देशमभिधीयते धर्मराजेन, तत्समये तस्यार्थस्य वर्तमानत्वाद् उक्तलक्षणाया मुक्तरबहिष्ट्वेना- श्राम- प्रकाशसहिता नन्यवेद्यत्वेऽपि भगवल्लोकप्राप्तिलक्षणाया अपि मुक्त- स्तात्पय्य, तस्माद्विवक्षितार्थलाभः, एतावताऽलमित्यस्यार्थमाह-अनेनापीति । केवलस्य साधना- न्तरनिरपेक्षस्य यस्य मुक्तिः फलं तस्य किमु वक्तव्यं कृत्स्नपापक्षय. हेतुत्वमिति कैमुतिकन्यायेन समर्थ्यत इति भावः। तदेवाह-यदीति । पर्याप्तावेतावानलमिति प्रयोगः स्यादित्यर्थः । एतावतेति तृतीयया निवारणवचनत्वेऽलंशब्दस्य साधनान्तरनिषेधः पर्यवस्यति । श्लोक- स्योत्तरार्द्ध व्याचष्टे-एतदेवेति। उपतीतिवर्तमानापदेशस्य तात्पर्यः मवबुध्यैवोक्तं धर्मराजेन यमेन । ननु सर्वानर्थनिवृत्तिपरमानन्दरूपा मुक्तिरजामिलस्य कथं धर्मराजेनाज्ञातैवेहोक्तति, अबहिष्टुनादृश्यत्वेन, भगवल्लोकप्राप्तिरूपा मुक्ति स्तु ज्ञायत एव सा च परममुक्तिस्वरूपैवेति परममुक्तिमुपैतीति विवतितार्थो लभ्यत-इति भावः । ततश्चापातालवनितले निमनमुपरिच खायंभुवभुव- नमुल्लिखन्तं सर्वतो विसारिविविधशाखोपशाखं संसा- रमहामहीमहमेव समूलं गिलतो भगवन्नामग्रहणमहादा- वदहनस्य जननमरणमध्यवर्तिनः सर्वानेव क्षणेन शून्यतां नयन्तीभिरनन्तजन्मानुयन्धिनीभिरतिबहला- भिरप्यंहःस्थूलपटलीभिः कुक्षिकोटरकुहरप्रान्तोऽपि म- नाङ्न पूर्यते तस्य कथं तद्सने साधनान्तरसाकाक्ष- त्वशङ्काऽवतारः, अपि च न तथा ह्यघवानाजन् पूयेत तपत्रादिभिः । यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया ।। १-मोक्षः किलानादिदुःखपरम्पराऽत्यन्तोच्छेदो, नित्यसुखं चेति प्रथम- द्विधा, शेषोऽपि नित्यसुखात्मता तदनुभवश्चेति, अत्रादिमः सायुज्याख्यः, चरमस्तु सालोक्यसाटिसारूप्यसामीप्यभेदाच्चतुर्विधः, सर्वमेतदवसरविशेषे सप्रमाणं निरू- पयिष्यते । मुलधात्वर्थानुगुण्यतो दुःखात्यन्तनिवृत्तिरेव तत्स्वरूपं, शिष्टाः पञ्चविधास्तु तदौत्तरकालिक्योऽधिकारिविशेषभागिन्यो भवन्ति, दुःखात्यन्तनि. वृत्तिस्तु तन्नान्तरीयिकेति व चित्तदनुल्लेखोऽपि न न्यूनताऽऽवहः । १ , श्रीभगवन्नामकौमुदी ३8 तस्य कृष्णस्य पुरुषाणां निषेवया, कृष्ण निवेशि- तन्द्रियः कीर्तनादिपर इति, न निष्कृतदिनैब्रह्मविड़ि- स्तथा विशुद्धयत्यघवान् व्रतादिभिः । यथा हरेन्ामपदैरुदाहृतै- स्तदृत्तमश्लोकगुणोपलम्भकम्- इति च कर्मभक्तिसाध्ययोः शुद्धोसादृश्यमुप- दिश्यते; तदपि नाङ्गाङ्गिभावे संभवति, अङ्गप्रधानयोरेक- फलत्वात्. श्रीविषाणुपुराणेऽपि प्रायश्चित्तान्यशेषाणि तपाकात्मकानि वै। यानि तेषामशेषाणां कृष्णानुस्मरणं परमि- ति कर्मात्मकभ्यः सकाशात् कृष्णानुस्मरणस्यो- त्कृष्टत्वमभिधीयते तदपि प्रायश्चित्ताङ्गत्वे हरिस्मरणस्य न संजाघटीति, अगिनः सकाशादङ्गस्योत्कृष्टत्वायोगात्, प्रायश्चित्तं तु नस्यैकं हरिसंस्मरणं परमि- त्यत्रकशब्दोऽपि नरपेक्ष्यमेव प्रतिपादयति, यो हि सजातीयस्मरणमपि द्वितीयं न सहते स कथं जात्यन्तरं- सहेत, कैमुतिकन्यायमुपसंहरति-ततश्चेति । महादावदहनस्य कुक्षिकोटरकुहरप्रान्तोऽप्यंहस्तूलपट लीभिर्न पूर्यत- इत्यन्वयः। संसार एव महान्महीरुहो वृक्षस्तम् , एवकारःसाकल्यवाची, समूलं गिलतइति दहनविशेषणम्, आपातालमवनीतले निमग्नमिति उल्लिखन्तमिति विविधशाखोपशाखमिति च संसारवृक्षविशेषणं, जनन- मरणमध्यवर्तिन इति द्वितीयान्तम् , एकतिक्षणविशेषणं, शून्यतांव्यर्थतां- कदाऽपि भगवन्नामग्रहणप्रभावान्नयन्तीभिःप्रापयन्तीभिरिति पटलीवि- शेषणं, कोटरंवृक्षस्यान्तरावकाशवान्प्रदेशः, कुतिरेव कोटरंतस्य कुहरं- भगवन्नामग्रहगरूपस्य प्रकाशसहिता छिद्रं, मनाग अल्पः, तस्य नामग्रहणदावदहनस्य तद्ग्रसने अंहःपटली, दहने, ततश्च प्राधान्यमेव नामग्रहणस्येति भावः, तत्पूरुषनिषेवयेत्यस्य कृष्णार्पितप्राण इत्यत्रान्वयमाह-तस्येति । अर्पितप्राण इत्यस्यार्थमाह- निवेशितेन्द्रिय इति । तस्यैव प्रकारमाह-कीर्तनेति । वागिन्द्रियं कीर्तन परं, श्रोत्रं श्रवणपरमित्यादि । ब्रम्हविद्भिरुदितैव्रतादिभिरिति योजना। उदाहृतः उच्चरितः। हरिनामोच्चारणस्य फलान्तरमाह-तदिति । उत्तमः श्लोकः कीर्तिर्यस्य हरेस्तस्य गुणा ऐश्वर्यादयस्तेषामुपलम्भक- प्रापकमित्यर्थः । भक्तिः कीर्तनादिरूपा संबोभवीति संभवति । पुराणा- न्तरपलोचनान्नामकीर्तनस्य प्राधान्यमाह-श्रीविष्णुपुराण इति । संजाघटीति घटते । जात्यन्तरं तपःकर्मादिरूपं प्रायश्चित्तम् । श्रीनरसिंहपुराणेऽपि इत्युदीरितमाकर्ण्य कृष्णवाक्यं यमेरितम् । नारकाः कृष्ण कृष्णेति श्रीनृसिंहेति चुक्रुशु- रित्यारभ्य प्राप्सनरकाणामपि पापिना कीर्तनमात्रा- देव नरकार्णवादुत्तीर्णानां वैकुण्ठसङ्कमउपवयेते, श्रीस्कन्दपुराणेऽपि हरहरहरशब्दमादितो वै मुहुरभिधाय मुनीन्दवृन्दवर्यः । अपठदखिलमेघघोषतुल्यं- सकलहिताय नमः शिवाय शब्दमि- त्यारभ्य; श्रवणमात्रादेव नरकान्निर्गत्य शिवपुरणा- तिरभिहिता, श्रीविष्णुधर्मे तु स्पष्टमेव निरपेक्षसाधनत्वमुपवर्णितम् , अथ पातकभीतस्त्वं सर्वभावेन भारत । विमुक्तान्यसमारम्भो नारायणपरो भवेति॥ HD तथा तत्रैव गोविन्देति समुच्चार्य पदं क्षपितकिल्विषः। चत्रबन्धुर्विशुद्धात्मा गोविन्दत्वमुपेयिवानि- श्रीभगवन्नामकौमुदी। नि प्रायश्चितपराङमुखस्थापि क्षत्रबन्धोः कीर्तनमा- त्रादेव पापक्षयो दर्शिनः, तस्मात्केवलमेव हरिकीर्तनं- कृलपापक्षयहेतुः, नान्यसमुच्चितं नतरामन्याङ्गभूतमिति! विष्णुनामकीर्तनस्य वैकुण्ठप्राप्तिफलकवादपि प्राधान्यमित्याह- श्रीति । श्रीनृसिंहति। शिवनामकीर्तनस्य कैलासमाप्तिफलकत्वात्प्रा धान्यमाह-हरहरेति । सकलहिताय नमः शिवायेति शब्दमपठदि. त्यन्वयः। अखिलमेघोषतुल्यं यथा स्यात्तथेति । उच्चरित्यर्थः । विमुक्तति। त्यक्तप्रायश्चित्तान्तरारम्भ इत्यर्थः। श्रवणकीर्तनादिना नारायणपरो भवेत्यर्थः । गोविन्दसायुज्यप्राप्तिफलत्वाञ्च नामकीर्तनस्य नाङ्गत्वमित्यभिप्रेत्याह-गोविन्देति । उपसंहरति-तस्मादिति। के चित् केवलया भत्त्येत्यादिवाकयादित्यर्थः । ननु किमिदं कैवल्यं नाम ? किं साधनस्य स्वरूपमेव उत साधनान्तराभावः, उतान्यस्यासाधनत्वं, ? तत्र यदि स्वरूपं तर्हि समुच्चयेऽपि स्वरूपस्यानपापादविरोधः, अथ साधनान्तराभावः तदोभयविधानाद्वाक्यं भिद्यते- त्यवादिष्म, विशिष्टविधानेतु सति साधनान्तरे; कृतेऽपि कीर्तने पापक्षयो नाभविष्यत् साधनान्तराभावविशिष्ट- स्यैव साधनत्वाद्, अथान्यस्यासाधनत्वं तदाऽपि वाक्य- भेद एव, एकेन वाक्येनोभयविधानायोगाद, अथ विशिष्टविधानमिति चेत्तदाऽप्यन्यगतस्यासाधनत्वस्या- न्यविशेषणत्वेन विधानायोगात् । कैवल्यमाक्षिपति-नन्विति । नामकीर्तनस्वरूपं वा द्वादशा- ब्दाद्यभायो वा द्वादशाद्वादेरसाधनत्वं वेति विकल्पाः । उभयेति । पापक्षये नामकीर्तनविधानात्साधनान्तराभावविधानाश्चेत्यर्थः । अवा- दिप्मेति ! नैरपेक्ष्यं हि साधनान्तराभाव इत्यादिपूर्वपक्षग्रन्थ इत्यर्थः । साधनान्तराभावविशिष्टं नामकीर्तनं पापक्षयसाधनमिति विशिष्टविधा- वाह-विशिष्टेति । कृतेऽपि साधनान्तरे नामकीर्तनात्पापक्षयो भवति सन स्यादित्यर्थः । कृते साधनान्तरे विशिष्टाभावादिति । नामकीर्तन. । ६ प्रकाशसहिता , -- स्य साधनत्वं द्वादशाब्ददेरसाधनत्वं च यदि विधीयते तदा वाक्यभेद- इत्यर्थः। अन्यासाधनत्वविशिष्टसाधनत्वं विधीयतां तत्राह-अन्येति। उच्यते-कारणस्य पौष्कल्यं कैवल्यं, तदेव च निर- पेक्षं पौष्कल्यं कार्यपूर्वक्षणनियतिः; यां सामग्रीमाच- क्षते तद्विदः, यदनन्तरं कार्यमवश्यमात्मानं लभते तत्पु- कलं कारणमिति यावद्, तच्च न साधनान्तरसव्य- पेक्षत्वेऽवकल्पते, तच्च के चिदेकस्य क चिद् द्वयोः क चिद्बहूनां तत्र यदा इयोर्वहूनां वा तदा स्वाश्रये व्यास- ज्य वर्तते पौष्कल्यं, यदा पुनेरकस्य तदा कात्स्न्येन । ननु समवाय्यसमवायिनिमित्तजन्यं सर्व कार्यमा- रम्भवादे, परिणामविवर्त्तयोः पुनरुपादाननिमित्तजन्यं, तत् कथमेकस्य पोष्कल्यम् ? सिद्धान्तीकैवल्यं निर्वक्ति-कारणस्येति। पौष्कल्यमेव तावदाह- यदनन्तरमिति । तच्चेति । पुष्कलत्वमित्यर्थः। अन्यापेक्षत्वे पुष्कल. त्वमेव न स्यादित्यर्थः । क्वचिदेकस्येति । यथा विभागस्य पूर्वदेश- संयोगनाशे। द्वयोरिति । दर्शसमुदायापूर्वपूर्णमाससमुदायापूर्वयोः परमापूर्वे यथा। बहूनामिति । घटे दण्डादीनाम्। तत्रापि विशेष. माह-यदेति-कात्स्नेति । स्वाश्रये वर्तत इत्यनुषङ्गः। ततश्च नाम- कीर्तनमेकमेव पुष्कलकारणं पापक्षय इति भावः। एकस्य पुष्कल- कारणत्वमाक्षिपति-नन्विति । श्रारम्भो नामात्यन्तभिन्न कार्यो. त्पत्तिः, परिणामो नाम कार्यकारणयोः परमार्थतो भेदाभेदो, विवर्तो- नाम कार्यस्य मिथ्यात्वम् । श्रारम्भवादो नैयायिकादीनां, परिणा- मवादो भास्करीयाणां, विवर्तवादो वेदान्तिनाम् । अतः कथमेकस्य तदुक्तं, केवलया भक्त्यैत्यादिरूपमित्यर्थः। उच्यते-निमित्तकारणविषयमेतत् पौष्कल्याभि- धानं, नोपादानविषयं, फलोपादानस्यात्मनः प्रसिद्धत्वेन 9-एतच्चान्धपरम्यरागतकुसंस्कारमूलकमेव प्रायो निरुपपदाभिधानं, वस्तुतस्तु वेदान्तिष्वद्वैतवादिनामित्येवोक्तिया॑यसी । १ , श्रीभगवन्नामकौमुदी। शास्त्रानपेक्षणाद्, उक्तं हि भाष्यकृद्भिः "ज नात्येवासौ मयैतत् कर्तव्यमिति, उपायन्तु न वेद तस्योपायः कथ- नीय" इति । ननु निमित्तकारणस्यापि कथमेकस्य पौष्क- ल्यं?.न हि निमित्तकारणमात्रात् किंचित् कार्य सिध्यति, तदयुक्तम् , आलोकसंयोगमात्रादन्धकारनिवृत्तईर्शनात् । ननुयदि पौष्कल्यमेव निरपेक्ष कथं तर्हि व्रीहियवयोः ? उ- च्यते-तत्र कारणत्वस्यैव प्रत्येकं परिसमाप्तत्वात्। अन्यो- न्यनिरपेक्षत्वमेव न सर्वनरपेक्ष्यमितिकर्तव्यतासाकाङ्- क्षत्वात् पौष्कल्यं तु स्वव्यतिरिक्तसर्वनैरपेक्ष्यम् , अतश्च केवलया भत्तयेत्यमर्थः, मधुभिभिधानमेव मनागुद्दिश्य- मानमशेषपापप्रध्वंसस्य पुष्कलं कारणं तरणिरिवगगनाङ्ग- नमवतीर्णस्तिमिरपटलपाटनस्य,तच्च पौष्कल्यं कारणत्वस्य विशेषणं न भक्तः, भक्तः कैवल्ये कारणत्वे च विधेये वाक्यभेदो मा प्रसाक्षीदिति । प्रसिद्धत्वेनेति। अहंप्रत्ययगम्यन्वनेत्यर्थः । प्रात्मनः शास्त्रानपेक्ष- णं शवरस्वामिसंमत्याऽपि दर्शयति-उक्तहीति। असौ पुरुष एतत्फलं- मया कर्तव्यं साधनीयमिति जानात्येवेति योजना, एवकारान्नैतच्छा- स्त्रगम्यमिति भावः । नन्वित्यादिचोद्यपरिहारौ स्पष्टौ। कारणस्य पौष्कल्यं कैवल्यं तदेव च नैरपेक्ष्यमिति पूर्वग्रन्थोक्तमाक्षिपति-ननु यदीति । कथं तीति । नरपेक्ष्यमित्यनुपङ्गः। व्रीहिभिर्यजेत यवैर्यजे- तेति तृतीयाभ्यां नैरपेक्ष्यं ब्रीहियवयोः प्रतीयते तन्न संभवति प्रोक्षणा- दीतिकर्तव्यतासापेक्षत्वादिति भावः। तत्र = व्रीहियवस्थले । अन्यो- न्येति । व्रीहीणां यवनिरपेक्षत्वं यवानां ब्रीहिनिरपेक्षत्वमित्यर्थः। उप- संहरति-अतश्चेति । मनाग = ईषत् । उल्लिख्यमानमुच्चार्यमाणमि- त्यर्थः । केवलया भत्तयेत्यादेविवक्षितं वाक्यार्थमाह-तच्चेति । विपक्ष प्रकाशसहिता । arth .. दण्डमाह-कैवल्य इति । भक्तः पापक्षयं प्रति कारणत्वे तस्याश्च कैवल्ये विधीयमाने वाक्यभेदः स्यादिति भावः। ननु भक्तरेव विशेषणं कैवल्यं केवलया भत्त्येति भक्तिसामानाधिकारण्याद् ? मैवं, कारणत्वविशेषणत्वे- ऽपि तत्सामानाधिकाण्योपपत्तेः, तन्तुभिरुपादानैः पर्ट- कुविन्दः करोतीतिवत् , तत्र हि कारणं विशिंषदुपादा- नत्वं तद्वारेण तन्तूनपि विशिष्टि तथेहापि; अन्यथा कैवल्यस्य भक्तिविशेषणत्वे वाजपेयोक्तो वैरूप्यदोषोऽपि प्रसज्येत, तत्र हि बाजपेयशब्दस्यान्नादिद्रव्यवचनत्वे करणभूतं द्रव्यं प्रति यजत्यर्थस्य प्राधान्यात् फलापूर्व प्रति च गुणभावात् प्रधानत्वगुणत्वोद्देश्यत्वविधेयत्वज्ञातत्वा- ज्ञातत्वानि परस्परविरुद्धान्येकस्यां प्रतीतावेकस्यैव प्रस- ज्येरन्निति नामधेयत्वमेव तस्य समर्थितं तथेहापि केव- लया भत्त्येति कैवल्यगुणयुक्ताया भक्तो फलसाधनत्वे विवक्षिते तस्याः कैवल्यं प्रति प्राधान्यात् फलं प्रति च गुणभावाविरुद्धत्रिकद्धयापत्तिरनिवार्यैव; तस्मात्कारण- विशेषणमेव पौष्कल्यम् । पाक्षिपति-नन्विति । सामानाधिकरण्यादिति । समानविभत्त्य- न्तत्वादित्यर्थः। तत्सामानाधिकरण्येति ।भक्तिसामानाधिकरण्यैत्यर्थः। तत्र दृष्टान्तमाह-तन्तुभिरिति । उपादानस्य कारणत्वविशेषणन्वेऽपि तन्तुसामानाधिकरण्यं यथा तथेत्यर्थः । तत्रापि तन्तुविशेषणत्वं- प्रतीयत इत्याशङ्कयाह-तत्र होति। विशिषव्यावर्त्तयत्। विशिनष्टि १-अयंभावः--विधेयभेदाद्वाक्यभेदो दुर्निवारो यतो विधेयभेदाद् विधि- भेद आवश्यकः "सकृदुचरितः शब्दः सकृदेवार्थमवगमयति नासकृदि" तिन्याये- नैकः शब्द एकया वृत्त्या खलु सकृदर्थं बोधयेद, असकृदर्थबुवोधयिषायामावृत्तिः कार्या सा च सति गत्यन्तरेऽप्रामाणिकीति प्रमाणप्रतिपन्नायामस्यां भवत्यपि क चिद्वाक्यभेदो नान्यथेति भावः ।

श्रीभगवन्नामकौमुदी। ४५ , व्यावर्त्तयति । तथेहापोति। कैवल्यं कारणत्वं विशिषद्भक्तिं विशिनष्टी- त्यर्थः । कैवल्यस्य भक्तिविशेषण वे दोपान्तरमाह-अन्यथेति। वाज पेयोक्त इति । वाजपेयाधिकरणोक्त इत्यर्थः। तमेव प्रपञ्चयति- तत्र हीति। वाजपेयेन स्वाराज्यकामो यजेतेति वाक्ये वाजपेयपदं- विधेयगुणसमर्पकं प्रसिद्धम् । वाजशब्दार्थमाह-अन्नेति । पेयश- ब्दार्थमाह-आदीति । ततश्च सुराद्रव्यं लभ्यते । करणभूतमिति । वाजपदेनोक्तमित्यर्थः। फलापूर्वमिति गुरुमते । फलभावनामिति भट्टमते बोध्यम् । एकस्य यागस्य वाजपेयपदवाच्यद्रव्यं प्रति प्राधान्यम् फलभावनां फलापूर्ववाप्रति गुणत्वम् , एवमुद्देश्यत्वं विधेयत्वंचोद्देश्य- त्वाज्ज्ञातत्वं विधेयत्वादज्ञातत्वम् , एवमेतानि परस्परविरुद्धान्येकरयां. प्रतीतो वाजपेयेन स्वाराज्यकामो यजेतेतिवाक्यजन्यायां प्रसज्येरनिति हेतोर्नामधेयत्वमेव तस्य वाजपेयशब्दस्य समर्थितं वाजपेयाधिकरण- इति शेषः । तथेहापि विरुद्धत्रिकद्वयापत्तिरनिवार्यैवेति योजना। प्राधान्यगुणत्वोद्देश्यत्वबिधेयत्वज्ञातत्वाज्ञातत्वानि विरुद्धत्रिकद्वयम् । तस्मादिति । अयं भावः-केवलया भक्त्याऽप्य, धुन्वन्तीति वाक्ये यद्यपक्षयं प्रति भक्तिः कारणत्वेन विधीयते भक्ति प्रति च कैवल्यं- विधीयते तदा विरुद्धत्रिकद्वयापत्तिः पूर्वोक्तो वाक्यभेदश्च । अथ कैवल्यविशिष्टा भक्तिः पापक्षये कारणत्वेन विधीयते सोमेन यजेते- ति सोमविशिष्टो याग इव फले, तन्न, तथा सति केवलशब्दस्य कैवल्यवाचित्वेन भक्तिसामानाधिकरण्यानुपपत्तमत्वर्थलक्षणा स्यात् कैवल्यवत्या भक्त्येति सोमवता यागेनेतिवत् तस्मादग्नये शुचय इत्या. दिवत्केवलया भक्त्येति सामाधिकरण्याद्विशिष्ट मेकं कारक विधीयते, अतोऽघक्षये भक्तिः पुष्कलं कारणमिति वाक्यार्थोऽग्निः शुचिर्देव- तेतिवत् । १-वाजपेयाधिकरणे विरुद्धत्रिकद्वयापत्तितो गुणविधिमुपेक्ष्य नामता स्वी- कृता, प्रकृतेऽपि पापक्षयं प्रति तः कारणवस्य विधाने भक्तिं प्रति च कैवल्य- स्य विधाने साधनस्य साध्यसिद्धयङ्गतया शेषत्वरूपं गुणत्वं, कैवल्ये च साध्यत्वेन शेषित्वरूपं प्राधान्यं भक्तो वाच्यं, तथा साध्यत्वेन विधेयत्वं, सिद्धत्वेनोद्देश्य- त्वम् , एवमज्ञातत्वेनोपादेयन्वं, ज्ञातत्वेनानुवाद्यन्वमिति निरुक्तदोषः प्रसज्येतेति भावः। , ४६ DAN प्रकाशसाहिता ननु तृतीयया साधकतमत्वमभिधीयते तमबर्थश्च सातिशयः स चापेक्षिकः, अपेक्षा च नासति साधकान्तरे- ऽवकल्पते केवलप्रातिपदिकेन च पौष्कल्यमभिधीयत इति परस्परव्याहतमेतत् , तदयुक्तम् , अतिशयोऽप्यत्र कार्य- सन्निकर्षोऽभिप्रेतः स च नापेक्षिक एव; अपि त्वनापेक्षि- कोऽपि, तदाहुर्तिककारमिश्रा:- यझेन्द्रियं प्रमाणं स्यात् तस्य चार्थेन संगतिः । मनसो वेन्द्रियैर्योग आत्मना सर्व एव वेति ॥ अत्र चात्मन इन्द्रियार्थपर्यन्तानामापेक्षिकं साध- कतमत्वं, सर्व एव वेत्यत्र त्वनापेक्षिकम् , अवधि- भूतस्य साधनान्तरस्याभावात्, तत्राप्यापेक्षिकत्वे कथं चिद्विप्रकर्षस्थापि संभवाद् अनापेक्षिक एव मुख्यः सन्निकर्षः स एव चौत्सर्गिकस्तृतीयाऽर्थः, साधनान्तरेषुतु प्रमाणान्तरैरुपस्थापितेषु तद्वलादापेक्षिकोऽपि खीक्रियते, अत इह कार्यप्रत्यासन्नत्वमनापेक्षिकमेव मुक्तप्रग्रहया तृतीययाऽभिधीयते, ततश्च सिद्धमेव पौष्कल्यं स्पष्टार्थ- मनूद्यते केवलयेति न व्याधातः, न चैकहायन्यादिभिर- न्वितः सोमक्रय इव भत्त्या कैवल्येन चान्वितमहोविधू- ननमेव प्रतीयते परस्परान्वयस्तु तयोः पार्टिक इति वक्तव्यम्, अघधूननस्य फलस्योद्दिश्यमानत्वेन विधेयत्वानुपपत्तः, तस्मादस्मदुक्तंव वाचोयुक्तिवरीयसी, तस्मानिरपेक्षमेच भगवन्नामकीर्तनं पापक्षयहेतुर्नान्याङ्गभूतं न चान्यसमु- चितमिति।

श्रीभगवन्नामकौमुदी। शङ्कते-नन्विति । प्रापेक्षिक इति। साधकान्तरापेक्षयाऽतिशयितं- साधकंसाधकतममुच्यते साधकान्तराभावे किमपेक्ष्य साधकतमंस्याद् अतस्तृतीयाबलादापेक्षिकत्वं प्रतीयते केवलप्रातिपदिकेन च तदभावः प्रतीयत इति विरोध इति भावः । परिहरति-तदयुक्तमिति । अत्रेति तृतीयाऽर्थे निर्धारण सप्तमी तृतीयाऽर्थमध्ये योऽतिशयः स कार्यलंनि- कर्पोऽव्यवधानरूपोऽभिमत इत्यर्थः । कार्यसंनिकर्षरूपोऽतिशयः साध- कान्तरमपेक्ष्यैव भवतीति न नियमः किन्तु तदनपेक्ष्यापि भवति। तदेत- द्भट्टाचार्यसंमत्या दर्शयति-तदाहुरिति। प्रमाणं साधकतमं तञ्चेन्द्रिय मिन्द्रियार्थसंयोगोवेन्द्रियमनःसंयोगो वाऽऽत्ममनःसंयोगोवा सर्व वेति कारिकार्थः। यदेन्द्रियसंन्निकर्षःप्रमाणं तदैकैकस्य सापेक्षत्वम्, एवं च तस्य तस्य प्रमासाधकतमत्वं तत्तत्साधकान्तरमपेत्यैव भवति । सर्वेपां. प्रमाणत्वे सर्वेषां समुदितत्वात्साधकान्तराभावादनापेक्षिकं साधक- त्वम् ।अवधिभूतस्येति। अपेक्ष्यमाणस्येत्यर्थः। अत्र सर्वेषां प्रमाणत्वेऽपि समुदितानां प्रमाणत्वं न प्रत्येक परिसमाप्तं तथा सति प्रमाणभेदे प्रमा- भेदापत्तेः, ततश्च प्रत्येकं यानि प्रमासाधकानि तदपेक्षया समुदितानां साधकतमत्वमिति तदप्यापेक्षिकम्, एवं च नानापेक्षिकः कुत्राप्यतिशयः, अत एव तत्राप्यापेक्षिकत्व इत्यादिःप्रौढिवादस्तथाऽपि केवलया भत्त्ये- त्यत्र न विरोधः। भत्त्येति तृतीयया साधकतमत्वमुक्तं केवलशब्देन च पौष्कल्यमुक्तं, तञ्च यदनन्तरं कार्यमवश्यमात्मानं लभते तत्त्वं, त. तश्च पापक्षये प्रतियोगितया साधकीभूतपापाद्यपेक्षया भक्तेः साधक- तमत्वेऽपि कथं चिद्विप्रकर्षस्यापि संभावितत्वात्तनिवृत्त्यर्थ केवल- येति पदं ततश्च नायमनुवादः । तत्रापीति । तयोरापेक्षिकानापेक्षिक- योरपि मध्येऽनापेक्षिक एव मुख्यःसन्निकर्ष इत्यन्वयः। अत्र हेतुरापेक्षि. कत्वे कथं चिद्विप्रकर्पस्यापि संभावितत्वादित्यर्थः । श्रौत्सर्गिकइति । सर्व विषयत्वमुत्सर्गस्तत्सिद्ध इत्यर्थः । अपेक्षायां कारणमाह-साधना- न्तरेविति।यथेन्द्रियस्य प्रमाणत्वपक्ष। प्रकृत श्राह-अत इहेति। प्रत्या. सत्तौ । हेतुमाह-मुक्तेति।प्रग्रहः प्रतिबन्धः । उपसंहरति-श्रतश्चेति । नवरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणातीत्यादावारुण्यादिविशि- टक्रयविधानवत्केवलया भत्तयेत्यादिवाक्येऽपि कैवल्यविशिष्टया भत्त्या ऽघधूननविधानमस्त्वित्याशङ्क्याह-न चेति । तयोर्भक्तिकैवल्ययोररु. रणैकहायन्योरिव, पार्टिकः पृष्ठतः सिद्धः पश्चात्कृत इत्यर्थः । इति न च । ।

प्रकाशसहिता वक्तव्यमिति सम्बन्धः। तत्र हेतुरघविधूननस्येति । वाचोयुक्तिर्वा. कप्रयोगः । परमप्रकृतमुपसंहरति-तस्मादिति । अन्यशब्देन मन्वाद्य- क्तप्रायश्चित्तम् । यत्तक्तं पुराणवचनैरेवाङ्गत्वमवगम्यत इति, तद्- युक्तं, प्रायश्चित्तानि चीणानीत्यस्यायमर्थः-प्रायश्चि- त्तानि न निष्पुनन्ति न सम्यक् पुनन्तीति, सम्यक्त्वं- चात्र वासनापरिक्षयः स च न कर्मसाध्यः तानि हि नारायणपराङ्मुखमधिकुर्वन्ति तस्य चकथं वासना- विध्वंसं विद्ध्युः, तस्य अक्तिज्ञानैकसाध्यत्वाद्, यस्तु नारायणप्रवणः स कात्मकेषु प्रायश्चित्तेषु न प्रवर्तत- एव, एवं च पापक्षयं कुर्वतामेव प्रायश्चित्तानां तद्वा- सनाक्षयहेतुत्वं निवार्यते । न चैवं सति; मन्वादि- वचनविरोधो न वा विशेषणानर्थक्यं, हेतुत्वेनोपयो- गाद, इदमेव च स्पष्टीकृतं कर्मणा कर्मनिहार इति, न हि तस्य कर्मणा कर्मनिर्हारो नास्तीत्यर्थोऽपि तु नात्यन्तिक इति, आत्यन्तिकत्वं च सह वास- नाभिः परिक्षय इति, अविद्धिकारत्वादिति हेतुत्वमेव प्रकटयति, अधिक्रियतेऽस्मिन् पुरुष इत्यधिकारः, अविदु- षोऽधिकारोऽविद्वद्धिकारस्तस्य भावस्तस्माद्, भगवत्प- राङ्मुखविषयत्वात्प्रायश्चित्तानामित्यर्थः। विमर्शन मिति च ब्रह्मविद्या दृष्टान्तत्वेनान्द्यते न विधीयते, भक्तरेव प्राकरणिकत्वात् , तथा क चित्रिवर्ततेऽभद्रात्क चिच्चरति तत्पुनः। प्रायश्चित्तमतोऽपार्थ मन्ये कुञ्जरशीवधदिति सतीषु पापवासनासु पापप्रवृत्तरवश्यंभावात् "प्रायश्चित्तमनर्थकमि"ति ब्रवतेदमेवोपजीव्यते, श्रीभगवन्नामकौमुदी। Aam- पुराणवचनैः प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् । न निष्पुनन्ति राजेन्द्र सुराभाएडमिवापगा- इत्यादिभिः। न निप्युनन्ति निष्कर्षेण न पुनन्ति निष्कर्षश्च सजातीयारम्भकपायसंस्कारक्षय इत्यभिप्रायेणाह-न सम्यगिति। वाक्यार्थमाह-स चेति । -स चेति । नारायणपराङ्मुख मिति विशेषणस्य तात्पर्यमाह-तानि हीति । तानि प्रायश्चित्तानि, तस्य नारायणपराङ्मु- खस्य, विदध्युः कुयुः, तस्य वासनाध्वंसस्य । भक्त्या नामोच्चारणा- दिरूपया जन्यं यज्ज्ञानं तदेकसाध्यत्वाद् भत्त्येकसाध्यत्वादिति वक्तव्ये ज्ञानग्रहणम् भक्तो सत्यां ज्ञानस्यानुषङ्गिकत्वेनावश्यकत्वाद्, भनयकसाध्यस्य वासनातयस्य. तेस्तान्यघानि पूयन्ते तपादानव्रतादिभिः । नाधर्मजं तहृदयं तदपीशाघिसेवये- न्यादिबहुवाक्यैरवगम्यते, कर्मात्मकप्रायश्चित्तेषु नारायणपराङ् मुखाधिकारिकत्वे फलितमाह- यस्त्विति अनधिकारित्वादिति भावः। फलितं वाक्यार्थमाह-एवञ्चेति । पापक्षयं कुर्वताम् प्रायश्चित्ताना. मित्युक्त फलितमाह-न चैवमिति । वासनाक्षयहेतुत्वं निवार्यत- इत्युक्तेः फलितमाह-न वेति। अन्यथा प्रायश्चित्तानि चीनीत्या- दिवाक्ये नारायणपराङ्मुखमिति विशेषणमनमर्थकं स्यादिति भावः। हेतुत्वेनेति । कर्मात्मकप्रायश्चित्तानाम् पापवासनाक्षयहेतुत्व- निवारणे न निष्पुनन्तीत्यनेनोक्ते नारायणपराङ्मुखमिति विशेषणस्य हेतुत्वेनोपयोगादित्यर्थः । हेतुत्वेनोपयोगश्च तस्य च कथमित्यादिपूर्व- ग्रन्थ उपपादितः । ननु किमिति मन्वादिवचनानामविशेषप्रवृत्तानां- नारायणपराङ्मुखाधिकारित्वेन संकोचः क्रियते, न च विशेष- णानर्थक्यं, नारायणपराङ्मुखस्य वासनाक्षयं न कुर्वन्तीतरस्य तु तं- कुर्वन्तीति तत्सार्थक्यादित्याशक्य: कर्मणा कर्मनिहारो न ह्यात्यन्तिक इष्यते। अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शनमि- न्येतद्वाक्यवशेन समाधत्ते-इदमेव चेति । कर्मणा प्रायश्चित्तेन । कर्मनिहारः पापध्वंसः। हेतुत्वमिति । पूर्ववाक्ये नारायणपरा- मुखमितिविशेषणचितमेवेत्यर्थः । अविद्वदधिकारित्वादि- অক্ষাহানি त्यस्य विग्रहमाह--अधिक्रियत इति । अविद्वत्शब्दार्थमाह-भग. वत्पराङ्मुखेति । प्रायश्चित्तं विमर्शनमित्यस्यार्थमाह-विमर्शन- मिति। विद्येति प्रथमान्तम् । प्राकरणिकत्वादिति । प्रकरणप्रति- पाद्यत्वादित्यर्थः । ब्रम्हविद्या ह्यविद्यानिवृत्तिद्वारा सर्वसंसारनिव- र्तिकेति दृष्टान्तत्वेनानूद्यते न विधीयते प्रकरणविरोधापत्तेरिति भावः । यद्वा नकारी मध्यमणिन्यायनोभयत्र सम्बन्धनीयः ब्रम्ह- विद्या नानूद्यते न विधीयते भक्तरेव प्राकरणित्वासैव विमर्शन- शब्देनोच्यत इति भावः। कर्मात्मकप्रायश्चित्तस्थ सजातीयारम्भकपाप- संस्कारनिवर्तकत्वाभावे संमत्यन्तरमाह-तथेति । अभद्रात्पापात् । वाक्यार्थमाह-सतीश्विति । त्रुवता वाक्येन, इदमेव = प्रायश्चित्तस्य पापसंस्कारानिवर्तकत्वमेव, । तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभिः । नाधर्मजं तद्धृदयं तदपीशाधिसेवये- त्येतदपि संवादकं, यस्मिन् यस्मिन्निमित्तं यद्यत्प्रा- यश्चित्त विहितं तपोदानव्रतादि च तैः प्रायश्चित्तैस्तान्य- घान्येव पूयन्ते नश्यन्ति; न पुनरधर्मजम् अधर्मेभ्यो- जातम् , अन्यैषुग्रहणाड्डः । ततश्च नत्तत्संस्कारविशिष्ट- तयोत्पन्नं हृदयम्, ईशाघिसेवया तु तदपि पूयते, अपि- शब्दान्न केवलमघानि नश्यन्ति; अपि तु तत्संस्कारा- अपीति । ईशाधिसेवा चात्र न चतुर्थी पादसेवनलक्षणा भक्तिर्विवक्ष्यते; किंतहि कीर्तनलक्षणा तद्धिकारत्वात् , तथा हि सेवा भजनं भक्तिरिति पर्यायाः, सा चात्र श्रवणं कीर्तनं विष्णोः स्मरणं पादमेवनम् । अर्थनं वन्दनं दास्यं सख्यमात्मनिवेदनमि- ति नवधा भिद्यते, सा च प्रत्येक कृत्लपापक्षयहतुः तत्तन्माहात्म्यप्रतिपादकवचनानां पुराणेषु भूयस्त्वाद् । भीभगवन्नामकौमुदी। इह तु कीर्तनस्यैव सेतिहासमाप्रकरणपरिसमाप्तः प्रति- पादनात् कीर्तनलक्षणोपादीयते। भोपापवासनानिवर्तकत्वे संमत्यन्तरमाह-तथेति । वाकया- र्थमाह-यस्मिन्निति । न चाधर्मजमिन्यसाधुः प्रयोगः. सप्तम्यन्त- उपपदे जनेर्धातोर्डप्रत्ययविधानाद्, यथा कुलजमिति, पञ्चम्यन्ते, तृपपदे जातिव्यतिरिक्तवाचिनि उप्रत्ययविधानाद् यथा तजमिति, अधर्मशब्दस्य जातिवाचित्वाड्डप्रत्ययानुपपत्तेस्तत्राह-अन्येग्विनि। "अन्येप्यपि दृश्यते” २२।१०१। इति दृशिधातुग्रहणस्य सर्वोपा- धिव्यभिचारार्थत्वात्सर्वप्रयोजनकत्वात्केवलादपि सप्तम्यन्तोषपदा- भावेऽजातिवाचिपञ्चम्यन्तोपपदाभावेऽपि जनर्डप्रत्ययः। अधर्मज. त्वं ह्रदयस्य कथं ? पूर्वनिष्पन्नत्वात्तत्राह-ततश्चेति । तद् हृदयं- संस्कारविशिष्टतयोन्पन्नं,--श्लोकस्य चतुर्थचरणं व्याचष्टे-ईशेति । नन्वीशाङ्घिसेवनस्य पापसंस्कारनिवर्तकत्वेऽपि किमायानं कर्ति- नस्य तत्राह-ईशाघ्रिसेवा चेति । अत्र = श्लोके। चतुर्थी वक्ष्यमा- णश्लोके । तदेवाह-तथा हीति । इह त्विति । तैस्तान्यघानि पूयन्त- इत्यादिश्लोके । सेतिहासमिति । अजामिलोपाख्यान इत्यर्थः । अथ वा सर्वप्रकाराऽपि भक्तिरत्र प्रकरणिनी केव- लया भक्त्येत्यविशेषेण प्रक्रमात् कीर्तनवदन्येषामपि शृङ्गमाहिकया पापन्यहेतुत्वप्रतिपादनाच, तत्र सकृन्मनः कृष्णपदारविन्दयो- निवेशिनं तद्गणरागि यैरिह । न ते यमं पाशभृतश्च तद्भटान् स्वप्नेऽपि पश्यन्ति हि चीनिष्कृता- इति स्मरणस्य तदपीशाघिसेवयेति पादसेवनस्य; कृष्णार्पितप्राणस्तत्पूरुषनिषेवयत्यात्मनिवेदनस्प भगवजनसेवायाश्च; तस्या अपि मुख्यभगवद्भक्तित्वात सर्वपुराणेषु पुनः पुनरत्यादरेण मद्भक्तजनवात्मन्यमि- त्यादिभिावधीयमानत्वात् , । Anand प्रकाशलहिता . जिह्वा न वक्ति भगवद्गणनामधेयं- चेतश्च न स्मरति तच्चरणारविन्दम् । कृष्णाय नो नमति यच्छिर एकदापि नानानयाममनोऽकृतविष्णुकृत्यान् ।। इति तु यमवाक्यं नवविधाया अपि, तथा हि यदि- ति व्यस्तमव्ययम् , अन्यथा यच्छिर इति समासे जिह्वा- चेतःशब्दाभ्यां मम्बध्यमानस्य यच्छब्दस्यादःसापेक्ष- त्वेनासामर्थ्यप्रसङ्गाद. विष्णुकृत्यमिति च कीर्तनस्मरण- वन्दनेभ्योऽवशिष्टं श्रवणादिषटकं गृह्यते गोबलीवईन्या- येन, न कृतं विष्णुकृत्यं यैस्तेऽकृनविष्णुकृत्यास्तानानय- ध्वमिति नवविधभक्तिहीनानामानयनप्रतिपादनेनैकैक- भक्तियुक्तानामनानयनं प्रतीयते, एकाङ्गवैकल्येन प्रत्यु- दाहरणनियमात् , तत्रापि “वैवस्वतं संगमनं जनानामि" तिश्रुत्याऽऽनयनस्योत्सर्गतःप्राप्तत्वाद्, भक्तानामनानय- नमेव विधीयते, अप्राप्तत्वात् ,ततश्च नवविधाया भक्तरेकै- कश्येन कृत्लपापक्षयहेतुत्वमिति भावः । श्रवणादीना- तु माहात्म्यं स्वस्व प्रकरणे विशेषतोऽवगन्तव्यम् । प्रसङ्गा- गतं चैतत् , प्रस्तुतं पुनरधर्मवासनानिवृत्तिहेतुत्वं भक्त- रेव न कर्मणामिति । मुख्यं पक्षमाह-श्रथ वेति । सर्वप्रकारा नवविधेत्यर्थः । अन्येषा- मिति । श्रवणादीनामित्यर्थः । शृङ्गग्राहिकयेति । यथा गोविशेषः शृङ्गे गृहीत्वा प्रदर्श्यते; एवं श्रवणादीनां प्रत्येकं पापक्षयहेतुत्वं- प्रतिपाद्यत इत्यर्थः । तदेवाह-तत्रेति । श्रवणादिषु मध्ये। तद्गणेति । कृष्णगुणानुरागि मन इत्यर्थः । चीर्णेति । चीणं कृतं निष्कृतं प्राय- श्चित्तं कृष्णचरणारविन्दस्मरणरूपं यैस्त इत्यर्थः । स्मरणस्येति । पापक्षयहेतुत्वप्रतिपादनादित्यनुपङ्गः । एवं पादसेवनस्यात्मनिवेदन- स्य भगवजसेवायाश्च नवविधाया अपीत्येषु पदेवयमेवानुषङ्गः । , । - ।

श्रीभगवन्नामकौमुदी। । - कृष्णार्पितप्राण इत्यात्मनिवेदनोक्तिः । तत्पुरुषनिषेवयति भगवजनसं. बोक्तिः भगवद्भक्तिप्रस्तावे किमर्थ भगवजनसेवोदाहियते ? तत्राह-- तस्या अपीति। तत्र हेतुमाह-सर्वेति।मद्भक्तजनवात्सल्यं-नव विधाया- अपि भक्तरित्यर्थः, पापक्षयहेतुत्वप्रतिपादनादिन्यनुषङ्गः पूर्वमेवोक्तः । कथमत्र नवविधायाभक्तो पापक्षयहेतुत्वंप्रतीयते? तबाह-तथा हीति। व्यस्तं पृथक् पदंयेषामित्यर्थे, अदःसापेक्षत्वेनेत्यर्थः, जिह्वाऽऽदिसापे- क्षत्वेनेत्यर्थः, असामर्थ्यप्रसङ्गादिति । निरपेक्षत्वं हि सामर्थ्य, समर्थश्च पदविधिः, अतः समासो न स्यादित्यर्थः । गोवलीवर्दन्यायनेति । यथा- गोपदं बलीवदंपदसहोचरितं तदितरपर तथा विष्णुकृत्यपदं कीर्तना दिसहोचरितं तदितरपरमित्यर्थः। पदार्थमुक्का वाक्यार्थमाह-इतिन - विधेति एकाङ्गवैकल्यनेति। एकमङ्गविशेषणं तस्य वैकल्यमभावस्तेन प्रतिकूलमुदाहरणम् प्रत्युदाहरणं, यथाऽरुणयैकहायन्या क्रीणातीत्यु. दाहते शुक्लयैकहायन्याऽप्यनेकहायन्याऽरुणयाऽपिन क्रीणातीति गम्य- ते, एवं नवविधभक्तिहीनानामानयनप्रतिपादनेनैकभक्तिमतामनानयनं. प्रतीयते । एवं भक्तानामनानयनस्यार्थिकत्वमुक्त्वा संप्रति तस्यैव विधेयत्वमाह-तत्रापीति। अनानयनस्यार्थिकत्वेऽपीत्यर्थः। वैवस्वतं. यमम् । सङ्गमनम् नेतारम् । फलितमाह-ततश्चेति। उपपत्त्यन्तरमाह- श्रवणादीनामिति । पुराणेष्विति भावः । प्रसङ्गेति । एतत् श्रवणादीनाम् पापक्षयहेतुत्वम् प्रसङ्गागतमित्यर्थः। यस्य प्रसङ्गागतं तन्निर्दिशति- प्रस्तुतमिति । नामकीर्तनस्य प्रायश्चित्ताङ्गत्वशङ्कानिरासाय प्रायश्चि. त्तानि चीनीत्यादि वाक्यार्थत्वेन प्रस्तुमित्यर्थः । ननु कोऽयमधर्मो नाम यहासनानां निवृत्तये न प्रभवन्ति कर्माणि ? किं हननादि कम्मैव. किं वा नजन्यः संस्कारः, किं वाऽन्यः, न नावन कर्म तस्य म्वयमेव निवृत्तत्वात् तादर्थेन प्रायश्चित्तविधानानुप- पत्त, अथ संस्कारः न तजन्यामन्यां वासनामङ्गीकुर्मः -सामध्यं चात्रैकार्थीभावरूपं ग्राह्यं, "संमृष्टार्थ समर्थमि"ति महा- भाष्ये भगवत्पतअल्युक्तः, निरूप्यनिरूपकभावापनविषयताप्रयोजकोपस्थिति-- जनकत्वात्मकं पय्यवस्थति, तथा चात्र यच्छब्दस्य समस्तत्वे तदर्थम्यान्यत्रान्वयोs- संभवी स्याद् वृत्तवाद, वृत्तम्य विशेषणयोगासंभवादित्यर्थः प्रकाशसहिता संस्कारस्य संस्कारान्तरायोगादनवस्थाप्रसङ्गाद्, न वाऽन्यः प्रमाणाभावाद्, यदाहुर्तिककारमिश्राः- तस्मात्कलप्रवृत्तस्य यागादेः शक्तिमात्रकम् । उत्पत्तौ वाऽपि पश्वादेरपूच न ततः पृथगि- ति, शक्तिमात्रमिति च यागादिजन्यः संस्कार एवो- च्यते, शक्तिमन्तमन्तरेण मुख्यशक्तरवस्थानायोगाद्, उत्पत्तौ वाऽपि पश्चादेः शक्तिमात्रत्वमित्यपि फलस्य पूर्वावस्था, यथोक्तं निबन्धकृतिः “फलस्य चाडराव- स्थे"ति । सा च यागादिजन्यः संस्कार एव, धर्मवदेवा- धर्मः, तथा चाधर्मवासनाक्षयो नाम न कश्चिद्, इदम. पेशलम् , जात्यन्तरमेव धर्माधम्मो न संस्कारजातीयो. अभियुक्त देनानुक्रान्तत्वात् , तत्र च क्रियाज्ञानयोरेव संस्कार इति तार्किकाः । वयन्तु सर्वेषामेव संस्कारव्य- तिरिक्तानां विनश्यतां मोऽस्तीति बृमः, विनश्यत्त्वेन- वानुमातुं शक्यत्वात् श्रीविष्णुपुराणे चैनदेव स्पष्टीकृतं- हिंसाऽहिंसे मृदुक्ररे धर्माधर्मावृतान्ते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचत- इति तैहिंसाऽऽदिभिर्भाविता वासितास्तान्येव प्रति- पद्यन्ते, न चात्र धर्माधर्मशब्दाभ्यां विहितप्रतिषिद्धयोः क्रिययोरुपादानं तयोः पृथगेव हिंसाऽऽदिशब्दरुपात्तत्वात्। यद्यपि मुख्यवृत्त्याऽग्निहोत्रहननक्रिययोरेवार्थानर्थहेतुत्वेन धर्माधर्मशब्दवाच्यत्वं तथाऽपि यद्वारेण तयोरर्थानर्थहे- तुत्वं तदेवापूर्व प्रायेण धर्माधर्मशब्दाभ्यां शास्त्रेषु व्यवहियते। .

भीभगवन्नामकोमुदी। । । भक्तरधर्मवासनानिवृत्तिहेतुत्वमाक्षिपति-नन्विति । वार्तिक- कारमिश्राः = भट्टाचार्याः। पूर्वार्द्धन यागादेरुत्तरावस्थाऽपूर्वमुत्तरार्द्धन पश्यादिफलस्य पूर्वावस्थाऽपूर्वमुच्यते। नत इति । शक्तरित्यर्थः । ननु शक्तिमात्रकमिन्यन्यपन्न एव दृश्यते तत्राह-शक्तिमात्रमिति । मुख्यशक्तिरेव शक्तिशब्दवाच्या, संस्कारस्तु लाक्षणिकः किमर्थ परि. परिगृहाते तत्राह-शक्तिमन्तति । यागमित्यर्थः । उत्तरार्द्धस्य तात्पर्यमाह-उत्पत्ताविति। पूर्वावस्थापदार्थमाह-सा चेति । नन्वेत- धर्मे सिद्धं किं तावता प्रकृतेऽत श्राह-धर्मवदिति। उपसंहरति- तथा चेति । ततश्च नासौ भक्तिसाध्य इति भावः । दूषयति-इदमिति । अभियुक्तैरक्षपादप्रभृतिभिः । ननु तथाऽपि कथमधर्मसंस्कारः क्रिया- ज्ञानयोरेव संस्कारजनकत्वात्तत्राह-तत्र चेति। विनश्यत्त्वेनेति विमतं, संस्कारजनकं, संस्कारभिन्नत्वे सति विनश्यत्वात्क्रियाज्ञा- नवदिति । तत्रैव स्मृति प्रमाणयति -श्रीविष्णुपुराण इति । श्लोकं ब्या- चष्टे-तैरिति । वासिताः संस्कृतास्तान्येवेति हिंसाऽहिंसे मृदुकरे धर्माधर्मावृतावृते इत्यर्थः । ऋतम् सत्यम् । अतश्च न क्रियाज्ञानयोरेव संस्कारजनकत्वं,हिंसाऽऽदीनामपि संस्कारजनकत्वाम्नानात् । जात्य- न्तरभूतधर्माधर्मयोरपि संस्कारजनकत्वमेतद्वचनेनैव सिद्धयतीत्याह- न चेति । ननु धर्माधर्मशब्दयोहामहिंसाऽऽदिक्रियास्वपि प्रयोगो दृश्य- तेऽताह-यद्यपीति। वार्तिककाराणामपि स्वर्गयागयोरन्तराले किञ्चि- दतीन्द्रियं तयोरेव साध्यसाधनसंबन्धनिर्वाहकं वस्तु श्रुतार्थापत्तिप्रमेयमपूर्वन्नाम न परपरिकल्पितं कार्यनि- योगापरपर्यायशब्दैकसमधिगम्यं किञ्चिदिति मनीषितं- न पुनः संस्कार एव । मण्डनमिश्ररप्ययमेवार्योऽङ्गीकृतः प्रारब्धक्रिययैव जीवन्मुक्तिं समर्थयद्भिः। अथ वाऽग्निहो- बहननादिक्रियाणां विहितप्रतिषिद्धत्वानिवन्धनः स्वर्ग- नरकहेतुरेकः संस्कारः श्रुतार्थापत्तिप्रमेयः तासामेवान्या- ऽपि सजातीयोत्पत्तिहेतुः क्रियानिबन्धनोऽनुमेयः, यथा योगिशैववैष्णवशिवलिङ्गशालिग्रामादिदर्शनस्य पुरुषार्थ- দুজ্জামাহি हेतुरतिशयः शास्त्रसमधिगम्यः कश्चिदस्ति, पाषण्डिया. ण्डालादिदर्शनस्य पुनर नर्थहेतुः, नयोरेवानुभवनिमित्तः स्मृतिहतुरन्योऽपि । अस्मिंश्च विभागे नैकान्तिकं तद्धि कृतेऽपि निष्कृत मनः पुनर्धावति चेदसत्पथे। तत्कर्मनिहारमभीप्सतो हर- गुणानुवादः खलु सत्त्वभावन- इत्येवंजातीयकं वचनजानं प्रमाणं, तथा हि न सावत्सजातीयोत्पादकः संस्कारो नास्त्येवेति वक्तं शक्यते यः सकृत्पातकं कुर्यात् कुर्यादेनस्ततोऽपरमित्यादि श्रुतेः, तेषां ये यानि कर्माणि प्राक् मृष्ट्यांप्रतिपेदिरे। तान्येव ते प्रपद्यन्ते स्मृज्यमानाः पुनः पुनरि- त्यादिस्मृतेश्च,स्वर्गनरकसृष्टाविव पुण्यपापसृष्टाव- ध्यविषमस्य कृपालोः परमेश्वरस्य प्राचीनपुण्यपापसापे- क्षत्वाच परमसिद्धान्तेऽप्यनपाकृत्यैव सापेक्षत्वं सृष्टर्मा- यामयत्वेन वैषम्यदोषसमाधानाच्च । कथं तर्हि वार्तिककारैः संस्काररूपत्वमुक्तं धर्मस्य तत्राह- वार्तिकेति। वार्तिककाराणामपीति। मनीषितमित्यन्वयः। वार्ति- कस्थं शक्तिपदं व्याचष्टे-किंचिदतीन्द्रियमिति । क्षणभङ्गुरस्य यागादेः कालान्तरभाविफलजनकत्वानुपपत्तिः श्रुतार्थापत्तिः। परेति । परै. परिकल्पितं स्वीकृतमित्यर्थः। शद्वो लिङादिः। न पुनः संस्कार- एव, अपूर्वमित्यनुषङ्गः। शास्त्रकाराणां प्रायेण जात्यन्तर एव धर्माधर्मश ब्दप्रयोगादिति भावः । ननु मण्डनमिश्रादिभिर्वेदान्तविद्भिः संस्कार मादाय जीवन्मुक्तिसमर्थनं क्रियते, सर्वसंस्कारो धर्माधर्मशब्दवाय. एव, अन्यथा तस्य सुखदुःखभोगानुपपत्तेस्तत्राह-मण्डनेति । अयमेव जान्यन्तरभूतौ धर्माधर्मा इत्ययमेवेत्यर्थः । संस्कारशब्देन चाज्ञानले. । ।

श्रीभगवन्नामकौमुदा। । । । शानिरिति भावः। प्रारब्धक्रिययेति । धर्माधर्मरूपेण प्रारब्धेनत्यर्थः । प्रकारान्तरमाह-अथवेनि। श्रुतार्थापत्तित्तिरिति। क्षणभङ्गुरायाःक्रिया याः कालान्तरभाविफलसाधनत्वानुपपत्तिगम्य इत्यर्थः । अनुमेय इति । लिमता यागादिक्रिया सजातीयोत्पादकसंस्कारहेतुः क्रियावाद्वेष्टनादि- क्रियावदिति । एकस्याः क्रियाया विविध संस्काररूपातिशयजनकत्व. मुक्तं तत्र दृष्यानमाह-यथेति। योगिनश्च शैवाश्च वैष्णवाश्च शिवलिङ्गं च मालग्रामाइश नयां दर्शनस्येत्यर्थः। पुरुपार्थधर्महेतुरतिशयो धर्माः रूमः । चगडालादोत्यादिशब्देन चन्यादि । अनर्थहेतुः पापाख्यः । तयारवेति । ग्यादिपापण्डादिदर्शनयोरित्यर्थः। अतः परमेश्वरभने- निषिद्धक्रियाजन्यस्य नरकहेतोः संस्कारस्य निवर्त्तकावमित्युपसं- हारो द्रष्टव्यः । नत्रैव प्रमाणन्तरमाह-अनिश्चेति । तद्धि निष्कृतं नैका- न्तिकं न सत्रमिना पापनिवर्तकं, तत्र हेतुः कृतेऽपि निष्कृतेऽसत्पथे मनः पुनर्धावनि, चेच्छन्दो यत इत्यस्यार्थे, तत्तस्मात्कर्मणो निहरिः, आत्यन्तिको नाशस्तमभीप्सत इच्छतः पुंसो हरेर्गुणानुवाद ऐका. न्तिक इत्यनुपङ्गः। यतः सत्त्वभावनः सत्त्वशोधक इति श्लोकार्थः। सजातीयोत्पादकसंस्कारं प्रमाणतः साधयति-तथा हीति । तेषांसृज्य- मानानां मध्ये सृष्ट्यां जन्मनि ये सृज्यमानाः तान्येव कर्माणि प्रतिप- धन्ते संस्कारवशादिति भावः। तत्रैव युक्तिमाह-स्वर्गेति । ईश्वरो- हि कं चित्पुण्ये प्रवर्त्तयति कं चित्पातके तत्र पूर्वसंस्कारमपेक्षते, अन्यथा वैषम्यमेव स्याद्, न च तत्संभवति परमकृपालुत्वादितिभावः। परमसिद्धान्त इति । वेदान्तिसिद्धान्त इत्यर्थः । सृष्टर्मायामयत्वेऽ- पीश्वरस्य वैषम्यं प्रसज्यते प्रतिपुरुषं सुखदुःखवैचित्र्यजननात्तश्च वैषम्यं प्राचीनसंस्कारादिसापेक्षत्वमवलम्ब्यैव समाहितमिति भावः । यदि परं स्वर्गनरकहेतुरेव सजातीयोत्पादकोऽपीति वक्तव्यं तथा च सति १ ma -अयमभिप्रायः-सृज्यमानशरीरिकर्मसापेक्षतया भगवतो न वैषम्या- दिदोषः, एतद्देव "वैषम्यनैपुण्ये न सापेक्षत्वात्तथा हि दर्शयति" ॥२॥३४।इत्यु- त्तरमीमांसासूत्रेण सिद्धान्तितम्, “पुण्यो वै पुण्येन कर्मणा भवति पापः पापेने" ति भगवती श्रुतिः, ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहमि" नि भगवद्वाक्यं- चैनमर्थमुपोबलयत प्रकाशसहिता विद्यातपःप्राणनिरोधमैत्री- तीर्थाभिषेकवतदानजप्यैः । नात्यन्तशुद्धिं लभतेऽन्तरात्मा यथा हृदिस्थे भगवत्यनन्त- इत्यादिना वेदाभ्यासजपोपासनादिखाध्यायः शुद्ध- रनान्यन्तिकत्वाभिधानं नावकल्पेत; निरंशस्य संस्कारस्य सान्वयविनाशायोगात् , तस्मात्स्वर्गनरकहेतुः सजातीयों- त्पत्तिहेतुश्चेति संस्कारद्वयं कर्मणामवश्यमभ्युपगन्तव्यं- ततश्च नरकहेतुः संस्कारः प्रायश्चित्तनिवयते न सजा- तीयोत्पादकः, भक्त्या पुनरुभयविधोऽपीति भक्तरेवात्य- न्तिकशुद्धिहेतुत्वं न कर्मणामिति, अतश्च प्रायश्चित्तानि चीनीत्येतदप्यनात्यन्तिकतया कर्मात्मकानि प्रायश्चि- तानि विनिन्द्य प्रकरणिनीमत्यन्तपावनी भगवद्भक्ति- मेव प्रशंसति । यत्पुनः सर्वकर्म साद्गुण्यार्थत्वमिति, तदविरुद्धं, दध्यादिवदुभयार्थत्वोपपत्तः, यथा दध्ना जुहोति नेन्द्रियकामस्य जुहोतीत्यादिशास्त्रात्क्रत्वर्थत्वं- पुरुषार्थत्वं च दध्यादिवरूपस्य तथेहापि, “वासुदेवे मनो- यस्ये" ति तु गुणफलाधिकारः, फलश्रवणाद् । नच पर्ण- मयीत्वादिवत् फलश्रुतेरर्थवादत्वं, स्मरणस्य भावार्थत्वेन खतः फलसाधनतोपपत्तः पर्णतावैषम्यात् , तस्मादन्या- ङ्गत्वेप्रमाणाभावात् वातन्त्र्येण च सर्वपुराणानां गति- सामान्यात् खप्रधानमेव भगवत्कीर्तनं कृतलपापक्षयहे- तुरिति स्थितम् । श्रीरामेति जनाईनेति जगतां नाथेति नारायणे- त्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च ।

श्रीभगवन्नामकौमुदी। y श्रीमन्नाममहामृताधिलहरीकल्लोलमग्नं मुहु- मुह्यन्तं गल नेत्रमवशं मां नाथ नित्यं कुरु ॥ इति श्रीमदनन्तानन्दरघुनाथपादपद्मोपजीविनोलक्ष्मी- धरस्य कृतौ श्रीभगवन्नामकौमुद्यां नामकीननस्य पुरुषार्थत्वप्रतिपादनं नाम द्वितीयः परिच्छेदः । नरकहेतुसंस्कार एव सजातीयोत्पादकोऽस्तु किमिति संस्कारद्व- यमित्याशङ्कय समाधत्ते-तथा सतीनि विद्या देवतान्तरोपासना तपः कृच्छादि, प्राणनिरोधः प्राणायामः, तीर्थाभिषेकस्तीर्थे स्नानम् , अना- त्यन्तिकत्वाभिधानं हि सजातीयोत्पादकसंस्कारसत्वादिति भावः । एक एव संस्कारः सांशोऽस्तु तत्र प्रायश्चित्तेनैकांशा नश्यत्वंशान्तरं तु सजातीयारम्भकमस्तु तत्राह-निरंशस्येति । उपसंहरति-तस्मा. दिति । परमप्रकृत मुपसंहरति-अत इति । ननु मन्त्रतस्तन्त्रतश्छिद्र- मित्यादिवाक्यैरङ्गत्वं नामकीर्तनस्येत्युक्तं तत्राह-यत्पुनरिति । वासुदेवे मनो यस्येत्यादि तु न कर्माङ्गत्वं बोधयतीत्याह-वासुदेव इति । अधि. कारः सम्बन्धः फलश्रवणादिति । तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिक- फल मिति । ततश्च जपहोमार्चनादिषु वासुदेवस्मरणम् महाफलहेतुरि- त्यभिप्रायः। नन्वङ्ग फलश्रुतिरर्थवाद इत्याशय पूर्वोक्तं स्मारयति- न चेति । भावार्थत्वेन धात्वर्थत्वेन । द्वितीयपरिच्छेदार्थमुपसंहरति- तस्मादिति । गतिसामान्यात्समानार्थत्वात् । नाम्नि कृतनिश्चयो ग्रन्थ. कृत्परमेश्वरभक्तिम् प्रार्थयते--श्रीरामेति । । इति श्रीमदापदेवमूनुनाऽनन्तदेवेन विरचिते भगवन्नामकौमुदीप्रकाश द्वितीयः परिच्छेदः समातः ॥

श्रीभगवन्नामकौमुदी तृतीयः परिच्छेदः। श्रीकृष्णाय नमः। यस्य नामान्यधीयानः शुकैरपि शुकायितम् । विनेयैवल्लवस्त्रीणां स कृष्णः कुरुतात् कृपाम् ।। प्रकाशस्य तृतीयः परिच्छेदः। ॥ श्रीकृष्णाय नमः ॥ उत्तरविचारार्थ मङ्गलमाचरति-यस्येति। गोपीनां शिप्यः शुकैः पक्षिभिः यस्य नामान्युञ्चारयद्भिः शुकयोगीन्द्रवदाचरितं- स कृष्णः कृपां करोत्वित्यर्थः। एवं भक्तिकर्मणोः संभूय साधनत्वे निरस्ते पुन- रिदं विचार्यते-किमनयोर्व्यवस्था विकल्पो वेति ? तत्रा- धिकारिभेदेन व्यवस्थायामधिकारिविशेषणस्य किंचि- करत्वात् श्रद्धाऽऽदिसहकृतस्यैव कीर्तनस्य पावनत्वं- फलिष्यति, विकल्पे तु तन्निरपेक्षस्यैव, तत्र गुरुलधुनोर्वि- कल्पे गुरुणो ह्यत्यन्तबाधप्रसङ्गाद् व्यवस्थैव साधीयसी। निरूपणीयं प्रतिजानीते-एवमिति । कर्म द्वादशाब्दादि । संभू. येति । अङ्गप्रधानभावेन समप्राधान्येन वा समुच्चित्येत्यर्थः । व्यवस्था, अधिकारिविशेषस्य नामकीर्तनं तद्विलक्षणस्याधिकारिणो द्वादशाद्वा- दीति। विकल्पस्तु येन केनाप्यधिकारिणा नामकीर्तनं द्वादशाब्दादि वा कार्यमिति । कस्मिन्सति किं स्यात्तत्राह-तत्रेति। किंचित्क- रत्वात् , फलोपयोगित्वादित्यर्थः । श्रादिशब्देन शुचित्वादि । पूर्वप. क्षमाह-तत्रेति । द्वादशोब्दादि गुरुभूतं, नामकीर्तनं लघुभूतं, तत्र लघुनैवपापक्षये गुरुभूतं न केनाप्यनुष्ठीयेत ततो व्यवस्थैव युक्तत्यर्थः । ।

- श्रीभगवन्नामकौमुदी। ननु नामकीर्तनविषयं शास्त्रं न द्वादशवार्षिकादेः साधनत्वमपलपति तत्कथं बाधः ? उच्यते-अननुष्ठान- मेवात्र बाधितत्वं, नविषयापहारः। यथोक्तं भट्टैः "एतेन प्रवृत्तिश्च फलं प्रमाणानां प्रवृत्त्याख्यफलापहारश्च बाध"- इति । नत्र यदा समशिष्टयोयोरपि नोपलभ्यते विशषः नदा निरङ्कुशत्वादिच्छायाः कस्य चित्कदा चित्कस्मिंश्चि- त्प्रवृत्तिरिति न्योरपि पाक्षिकमनुष्ठान: यदा पुनरुपलभ्यते विशेषः सुकरदुष्करत्वभेदेन तदा सुकरानुरागिणीमि- च्छां न कश्चिदपि कदा चिदप्यपाक्रष्टुमीष्ट इति दुष्क- रस्यात्यन्तबाध एव तस्माद् व्यवस्थैव वरीयसी। अाशयानभिज्ञः शङ्कते-नन्विति । श्राशयमाविष्करोति-उच्यत- इति । उवेकाचार्यसंमतिमाह-यथोक्तमिति । प्रवृत्तिरनुष्ठानम्। अन- नुष्ठानाख्यं बाधं विवृणोति-तत्रेति। विशेष मेवाह-सुकरत्वदुष्करत्व- भेदेनेति । सुकरानुरागिणीं सुकरे कर्मणि स्वारस्येन प्रवर्तमानाम् । आक्रष्टुं = दुष्करे कर्मणि प्रवर्त्तयितुम् । ईष्टे समर्थः । इतिशब्दो हेतौ। तत्र के चिन्नितान्तमनुरक्ताः स्मृतिषु पुराणोभ्यश्च मनाग्बिभ्यतो महदल्पपापभेदेन वा ज्ञाताज्ञातकृतभेदेन वा प्रकाशरहस्यभेदेन वा स्मात पौराणश्च प्रायश्चित्तं- व्यवस्थापनीयमिति वदन्ति, ततश्चाल्पाज्ञानादिकृतविषयैः स्मात्तैर्विकल्प्यते पौराणमित्युक्तं भवति । तन्न साधीयः पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः। प्रायश्चित्तानि मैत्रय जगुः स्वायंभुवादयः ॥ प्रायश्चित्तान्यशेषाणि तपाकर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणं परमि- ति गुरुलघुसर्चपापानामविशेषेण कृष्णानुस्मरणस्य मुख्यप्रायश्चित्तत्वाभिधानाद् ।

प्रकाशसहिता । Ans केषां चिद् व्यवस्थामाह-तत्रेति । स्मृतिषु नितान्तमतिशयेनानु- रक्ता अभिनिविष्टा इत्यन्वयः । मनाग = अल्पम् । अनेनानुवादसमय एवाखरसः सूच्यते, श्रुतिमूलत्वेन स्मृतिपुराणयोर्विशेषाभावादिति । महत्सु वा ज्ञानकृतेषु वा प्रकाशकृतेषु वा पापेषु स्मात्तं प्रायश्चित्तम् , इतरेषु पौराणमिति व्यवस्था, कर्तृव्यतिरिक्तनाज्ञातं रहस्यम् तस्मिन्नेव मते परं विशेषमाह-ततश्चेति । अल्पेऽज्ञानकृते रहस्यकृते च पातके स्मातं प्रायश्चित्तमस्त्येव किंतु तस्य नामकीर्तनेन विकल्प इति भावः। तदेतद्दषयति-तन्नेति । गुरुणि पापे गुरूणि प्रायश्चित्तानि, अल्पे. ऽल्पानि, स्वायंभुवो मनुस्तदादयो जगुः । तेषामिति निर्धारणे षष्ठी । तेषामशेषाणां गुरुलघुप्रायश्चित्तानां मध्य इत्यर्थः ! परशब्दार्थमाह- मुख्येति। ननु को नाम न ब्रूते कृष्णानुस्मरणं महापातकादि- प्रकीर्णान्तसाधसंहरणमिति, सा हि ब्रह्मविद्या, तथा हि कृषति विलिखति विदारयति संसाराटवीमिति वा कर्षति-अाकर्षति अात्मसात्करोति वाऽज्ञानमिति वा कृष्णः परमात्मा सदानन्दरूपो वा कृषिभूषाचकः शब्दो पाश्च निवृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयत- इति च स्मृतेः, तस्य चायमर्थः, भवनं भूः सत्ता तद्वा- चको भूवाचको न तु पृथिवीवाचक इति; निर्वृतिवच- नेन णकारेणानन्वयात् , पृथिवीवर्त्तिनां जीवानामानन्दो- यस्मादिति विग्रहे लक्षणाप्रसङ्गाद्, प्रास्थावरमाचतुराननं- च सर्वेषां जीवानामानन्दयितरि खसमयपरिपच्यमान- नानापुण्योपसादितविविधविषयसन्निधिसंमृज्यमानम- नोमुकुरमण्डलान्तरभिव्यज्यमानतया तत्तदानन्दतयोप- धीयमाने परमात्मनि पृथिवीगतानन्दत्वस्य तद्हेतुत्वस्य चाविवक्षितत्वाद्, विवक्षितत्वेवा “ये वाऽमुष्मात्पराश्चो- लोकास्तेषां चेष्टे देवकामानां चे"त्यादिशास्त्रविरोधात्, ६३ श्रीभगवन्नामकौमुदी। तस्मान्निरवद्यस्य सर्वेषामात्मभूतस्य मदानन्दस्यानुस्म- रणं पुनः पुनश्चिन्तनं सजानीयप्रत्ययावृत्तिलक्षणं विजा- नीयप्रत्ययनिरोधलक्षणं वा निदिध्यासनमिहोपाटीयते तस्य चात्ममतत्वसाक्षात्कार कारणभृतं श्रवणं प्रति फ- लोपकार्यङ्गभनस्यासम्भावनानिरासवत् तत्प्रतियन्धक- पातकप्रध्वंसोऽपि द्वारकाय्यं भवत्येव, ज्ञानमुत्पद्यत पुंमां क्षयात्पापस्य कम्मण- इति स्मरणात् . कीर्तनस्य महापातकादिनिवर्त्तकत्वे नेदं प्रमाणम् । नात्र नामकीर्तनस्य मुख्यप्रायश्चित्तत्वमभिधीयत इति शङ्कते- नन्विति । कृष्णानुस्मरणस्य ब्रह्मविद्यात्वं साधयति-तथा हीति । विलिखतेरर्थमाह-विदारयति । आकर्पतेरर्थमाह-श्रात्मसादिति। अज्ञानमिति छेदः । विलापयतीत्यर्थः । परमात्मा निर्गुणं ब्रह्मेत्यर्थः । अर्थान्तरमाह-सदानन्द इति । निर्वृतिरानन्दः। नन्वेवं सद्रूपत्वेना- नन्दरूपत्वेन द्वैतापत्तिस्तत्राह-तयोरैक्यमिति । सदानन्दयोरित्यर्थः। ऐक्यस्य धर्मान्तरत्वं वारयति-परं ब्रह्मेति । ननु भूवाचकस्य कथं- सद्वाचकत्वमत आह-तस्य चेति । अनन्वयानन्वयप्रसङ्गात् । ननु किमित्यनन्वयः कृषिवाच्यभुवोणवाच्य भानन्दो यस्मादिति विग्रहादत- आह-पृथिवीवर्तिनामिति । पृथिव्या नानन्दो जडत्वात्तद्गतजीवलक्ष- णायां च स एव दोषः । भूवाचकेनतद्वर्तिजीवलक्षणा, जीवानामिति षष्ठयर्थंलक्षणा चेत्यभिप्रायेण लक्षणाद्वयप्रसङ्गादिति व चिव चि. पाठः । दोषान्तरमाह-स्थावरमिति । स्वसमये परिपच्यमानानि फन्टोन्मुखानि नानापुण्यानि तैरुपसादिता विविधा विषयास्तेषांसन्नि- धिरव्यवधानं तेन संसृज्यमानं मन एव मुकुरमण्डलमादर्शमण्डलं त- दन्तरभिव्यज्यमानतयेत्यर्थः। तत्तदानन्दतयेति।नगानन्दश्चन्दनानन्द- इत्यादिरूपेणेत्यर्थः । उपधीयमाने = उपाधितः प्रतीयमाने। अविवक्षि- तत्वात्तात्पर्याविषयत्वाद् । विपक्षे दोषमाह-विवक्षितत्वे वेति । अमुष्मादादित्यमण्डलाद् देवकामा देवानन्दाः,अतश्च सर्वजनानन्दप्रदे परमात्मनि पृथिवीगत वानन्दप्रदत्वविवक्षा न युक्तिमतीति भावः। । ॥

प्रकाशसहिता , उपसंहरति-तस्मादिति । कथं निदिध्यासनस्य पापक्षयहेतुत्वं ज्ञान- करणत्वादित्याशझ्य, नेदं ज्ञानकरणं किं तु श्रवणं, तदङ्ग निदिध्या. सनं, तस्य च द्वारंपापक्षय इत्याह-तस्य चेति । श्रवणस्याङ्गत्वं निदि- ध्यासनस्य फलोपकार्यङ्गत्वं चास्माभिः सिद्धान्ततत्त्वे प्रपञ्चितम् । असंभावनेति । यथा श्रवणमननयोः प्रमाणप्रमेयासंभावनानिरासो- द्वारं तथेत्यर्थः । तत्प्रतिबन्धकेति । तच्छवेन साक्षात्कारो निर्दिश्यते । परमप्रकृतमुपसंहरति-कीर्तनस्येति । नेदमिति । पापे गुरूणि गुरु- णीत्यादिवचनद्वयं न प्रमाणमित्यर्थः । इद्मसुन्दरम् , कृष्णशब्दस्य तमालश्यामलत्विषि यशोदास्तनन्धये ब्रह्मणि रूढत्वाद्, रूढियोगमपहरतीति न्यायात्। यौगिकत्वे वा दुर्वारमदनमहाग्रहगृहीततया समुल्लड्डितसकलसेतूनांगोकुलकामिनीना, मतिविषमरो- पावेशविवश विशृङ्खलसकलकरणवृत्तीनां पूननाप्रभृती- नामरातीना, मत्यन्तपराचीनचेतसां यमुनाचनपशुपक्षि- सरीसृपाणा,मतिबहलमोहपटलीपिनद्धसःन्द्रियाणांवृन्दा- वनतरुगुल्मलतावीरुधामपि मुक्तिसुखमनिवारितं वित- रतो नित्यनिरस्तनीहारतया निरन्तरखमहिमसमुल्लस- दनन्तानन्दस्य गोपालशिरोमणः सर्वप्रकारोऽपि योगो- ऽस्यैवेति तस्यैवेह ग्रहणं न निर्गुणस्य ब्रह्मणः प्रयोग- प्राचुर्य्यात् तत्रैव प्रथमतरप्रतीतेरुदयात्, दूषयति-कृष्णशब्दस्येति । कृषि वाचकइत्यादिशास्त्रसिद्धोयोगः कथं त्यज्यत इत्याशङ्कय; तेनापि श्रीकृष्ण एवोच्यत इत्याह- यौगिकत्वइति । सेतवो धर्ममर्यादाः। विश्ङ्खला उच्छृङ्खलाः। करण- वृत्तय इन्द्रियवृत्तयः, पराचीनं विषयाभिभुखम् । सरीसृपाः सर्पादयः। पिनद्धानि = आच्छादितानि । वितरतो ददतः । नीहारमज्ञानम्। अन- न्तोऽपरिच्छिन्नः। सर्वप्रकार इति । कृषतिविलखतीत्यादिपूर्वग्र- न्थोक्तयोगाभिप्रायेण । उभयत्र योगाविशेषे कथं तस्यैव ग्रहणंतत्राह- प्रयोगेति। प्राचुर्याद्वाहुल्यात् , यथा गोशब्दस्य दशस्वर्थेषु रूढत्वाविशे- श्रीभगवन्नामकोमुदी। पेऽपि प्रयोगवाहुल्यान्लास्मोदिमपिण्डप्रतातिःप्रथमं जायते नर्थत्यर्थः। तत्रैव = श्रीगोपाल एव, विद्ययसप्तमी। नस्य चानुस्मरणं कीर्तनमेव न ध्यानं वाक्यशेष कीर्तनस्यैव प्रशंसनात् क नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क जपो चासुदेवति मुक्तिबीजमनुत्तममि- ति, न चान्यद्विधीयतेऽन्यत्प्रशस्यत इति मङ्गच्छते. अपि च प्रतीचीनमात्मवस्तु न कदा चिदपि स्मरणाङ्गन- मवतरति, प्रतीचीनत्वस्यैव व्याघाताद, अतस्तस्य नान्ना रूपेण वातदुभयनिरासेन बोपाधिना तद्विषयत्वं वक्तव्यं- तत्र नामोपाधिकं स्मरणमिह गृह्यते तच्च कीर्तनमेव, स्मरणशब्देन च कीर्तनमुपादानस्य मानसमपि भग- वन्नाम्नोऽनुसन्धानं सर्वाघसंहारि न केवलं वाचिकमिति विवक्षितं, पुराणान्तरेच समानप्रकरणे नानाविधनरकया- तनाकन्दकुद्दालस्य कीर्तनस्यैव वर्णितत्वादु; इहाप्यस्मिन् प्रकरणे सङ्कीर्तनमेवोपादीयते न ध्यानं; तस्य च गुरुल- घुभेदानादरेण सर्वाघसंहारहेतुत्वेनावधारितत्वान्न मह- दल्पपापभेदेन व्यवस्थापन गरीयः, अत एव न ज्ञाना- ज्ञानप्रकाशरहस्यभेदावपि व्यवस्थापको, स्वरूपेण वा ग- रिमलघिमानौ स्यातां निमित्तान्तरेण वा; गरिमलघिमाना- वेव तौ कस्तत्र विशेषः, गुरुलधुनोश्वांहसोरविशेषेण नि- वर्तकं भगवत्कीर्तनमित्यभ्यधायि, तत्कथं तद्भेदेन व्य- वस्थेति? ननु तथाऽपि कथं नामकीर्तनस्य प्रायश्चित्तत्वाभिधानं तत्राह- तस्य चेति। वाक्यशेषे = उत्तरश्लोके । नाकपृष्ठं स्वर्गः। अनुत्तमं न वि- द्यत उत्तमं यस्मात्। प्रतीचीनं प्रत्यग्रूपम् । स्मरणेति। स्मृतिविषयीभवती- है ६६ प्रकाशसहिता । त्यर्थः । कथं तर्हि तत्र तत्र स्मरणविषयत्वोपन्यासः पुराणादौ तत्राह- अत इति । नाम्ना कृष्णरामेत्यादिना, रूपेण मेघश्यामत्वादिना वा, तदुभयनिरासरूपेण वोपाधिना स्मरणविषयत्वं वक्तव्यमित्यर्थः। इहेति । कृष्णानुस्मरणं परमित्यादिवाक्य इत्यर्थः। यदि कीर्तनम- त्राभिप्रेतं किमिति स्मरणशब्दप्रयोगस्तत्राह-स्मरणेति । युक्त्यन्तर- माह-पुराणान्तरे चेति । तथाऽपि नामकीर्तनं पौराणमल्पाज्ञानकृत- रहस्यपापनिवर्तकं भविष्यति तत्राह-तस्य चेति । अवधारितत्वा- दिति । पुराणस्वारस्येनेति शेषः। महति पातके स्मार्तं प्रायश्चित्तम्, अल्पे नामकोर्तनमिति व्यवस्था नोचितेति भावः । स्वरूपेणेति । ब्रह्म हत्याऽऽदिषु स्वरूपेण गरिमा। अनृतवदनादिषु स्वरूपेण लधिमा । निमित्तान्तरेण वा स्यातामित्यनुषङ्गः। लघुनोऽपि पातकस्याभ्यासा. दिनिमत्तान्तरवशेन गरिमा। गुरुणो रहस्यत्वादिनिमित्तवशेन लघिमा। ताविति। स्वरूपनिमित्तान्तरकृतावित्यर्थः। गरिमलघिमानावेवेति विधेयः कस्तत्रेति । उभयकृते गरिमलधिमस्वरूपे न कोऽपि विशेष. इत्यर्थः। फलितमाह-गुरुलधुनोरिति। अंहसोः पापयोः । तद्भेदेन गुरुलधुत्वादिभेदेन । यस्मिन्यस्तमतिर्न याति नरकं स्वर्गोऽपि यचिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राम्होऽपिलोकोऽल्पकः । मुक्तिं चेतसि यः स्थितोऽमलधियां पुंसां दात्यव्ययः किं चित्रं यद्यं प्रयाति विलयं तत्राच्युते कीर्त्तित- इत्यनेनापि व्यवस्था न प्रतीयते, कथम् ? अल्पपापनि- वर्तकत्वे कीर्तनस्य न चित्रवुद्धिः, किन्तु नितान्तमही- यसामप्यंहसां कीर्तनमात्रानिवृत्तिरित्युच्यमाने कस्य चिदनवगतभगवन्नाममहिम्नः पुंसश्चित्रवुद्धिरुत्पद्यते सा निवर्त्यते कैमुत्यन्यायेन, तथा हि यस्मिन्न्यस्तमति,र्यच्चि- न्तने, यत्र निवेशितात्ममनसः, चेतसि यःस्थित इति च स्मरणमेव शब्दभेदेन प्रतिवाक्यमलंकारार्थमावर्त्यते- विकसन्ति कदम्बानि स्फुटन्ति कुटजोद्मा- , , - श्रीभगवन्नामकौमुदी। इतिवत् । उत्तरोत्तरभूमिकागतस्तु विशेषो विद्यमा- नोऽपि न विवक्ष्यते कैमुत्यानुपयोगाद्, नरकशब्देन तुना- धर्मफलस्य ग्रहणं, तन्निवृत्तः कैमुत्येन सिषाधयिषितत्वा- त्, ततश्चायमर्थः-यस्मिन्नच्युते निविष्टबुद्धिनरकं नराणां- कं सुग्वं मानुषमानन्दं सार्वभौमत्वादिकम् अन्तरायत्वे- नापि न प्राप्नोत्येव यदि कथं चिदसावमरपुरीपारमैश्व- यमधिगच्छति तर्हि स विघ्नः, द्विपरार्द्धस्थायी हैरण्यग- भॊऽपि लोकोऽल्पकः, मुरमथनचरणस्मरणस्यातिवि- सदृशं फलं, सार्वभौमसेवाया इव खोदरम्भरित्वं, किं- तर्हि ? तेषां स्मरता पुंसां मुक्तिं सकाऱ्यांविद्याविध्वंस- द्वारेण निरतिशयानन्दे निजमहिमन्यवस्थानमेव ददाति भगवान् , अमलधियो हि ते न हि तेषां समलधिया- मिवान्येषां देशकालावच्छिन्नं फलमुचितम् इदमेवामलत्वं- धियो यदुत पुरुषोत्तमपादपल्लवप्रवणत्वं, विषयद्वारेणैव हि समलत्वममलत्वं च धियः, ततश्च येषां धी वनत्रि- तयान्तरे वर्तमानं यं कं चिदमरमन्यमवलम्बते तेषा- मुचितान्येव साम्राज्यादीनि, येषां पुनर्भुचनत्रितयो- त्तीर्णभक्तानुगृहीतमूर्तिमुत्तमश्लोकशिखामणिमवलम्बते तेषान्तु विविधपरिच्छेदविरहिणी मुक्तिरेवोचिता न तु परिच्छिन्नान्यन्यानि फलानीति । अव्यवस्थायां प्रमाणान्तरमाह-यस्मिन्निति । नात्राव्यवस्था प्रतीयत इत्याशङ्कते-कथमिति। समाधत्ते-अल्पेति। अत्र हि विचित्रबुद्धिः कैमुत्यन्यायेन परिह्रियते, सा च प्रसक्ता परिहर्तव्या, प्रसङ्गश्च चित्रबुद्धेर्महापापनिवर्तकत्वे नामकीर्तनस्योच्यमाने भवति; नाल्पपापनिवर्तकत्वे,तस्मादव्यवस्थैव युक्तेति भावः। कस्य चिदिति। भगवदनुग्रहावगतभगवन्नाममाहात्म्यानां महापुरुषाणां तु न तत्र चित्रबुद्धिरिति भावः। कैमुत्यन्यायं विवरिष्यन्नक्षरशः श्लोकार्थमाह- Synise प्रकाशसहिता तथा होति । तत्र पौनरुक्त्यं परिहरति-यस्मिन्निति । उत्तरोत्तरेति । नरकशद्ववाच्यसार्वभौमानन्दस्वर्गब्रह्मलोकमुक्तीनामुत्तरोत्तरमस्त्युत्कर्षः परं तु न विवक्ष्यतइत्यर्थः। कैमुत्यानुपयोगादिति । अस्मिन्वाक्ये- ऽच्युतकीर्तनस्य महापापक्षयहेतुत्वे कैमुत्यन्यायः प्रयते तत्रैषामु. त्तरोत्तरोत्कर्षो नोपयुज्यत इत्यर्थः । नरकशब्दस्य सार्वभौमानन्द- परत्वं दर्शयति-नरकेति । तन्निवृत्तेर्नरकनिवृत्तरित्यर्थः । न प्राप्नोत्ये- वेति । अतितुच्छत्वादिति भावः। स्वर्गोऽपि यच्चिन्तने विघ्न इत्यस्य तात्पर्यमाह-यदीति। यत्र निवेशितेत्यादेस्तात्पर्यमाह-द्विपराद्धेति । मुक्ति चेतसीत्यादेस्तात्पर्यमाह-किं तहत्यिादि। अमलधियामिति हेतुगर्भ विशेषणमित्याह-अमलेति। तदुपपादयति-न हीति । धियोऽमलत्वं च विषयकृतमित्याह-इदमेवेति । फलितमाह-तत. श्चेति । भुवनत्रितयादुत्तीर्णा भक्ता निष्कामत्वादित्यर्थः । तेष्वनुग्रहाय गृहीता मूर्तियन स तथा । उत्तमेति । पुण्यकीर्तिचूडामणिमित्यर्थः। त्रिविधेति। देशतः परिच्छेदो मूर्तत्वं, कालतः परिच्छेदो विनाशित्वं- वस्तुतः परिच्छेदो भेदः, तद्विरहिणीत्यर्थः। इह दातृदानसंप्रदानभावस्यौपचारिकत्वाद् न षष्ठी- पर्यानुयोगः, मुक्तिमपिन कतिपयानां वितीर्य विरमति मुरभिदितरदानिवद्, अपि तु येषां मनसि स्थितः तेषां- सर्वेषामेवेति बहुव्रीहौ सिद्धस्य सर्वनानो विवक्षा, अपि च अन्येषां दाढणां यद्यर्थिनो मनसि स्थिताः तर्हि तेभ्योऽर्थ वितरन्ति, अयं पुनरथिनामेव मनसि स्थितो- मुक्तिं ददाति, अन्यच्चान्ये दातारो वनीयकेभ्यो धन- विभज्य वितरन्तो वियन्ति; अयं पुनरव्ययः प्रतिवनी- यकं सर्वस्वं वितरन्नपि न व्येति, य एवं मनोमात्रेणा- प्यभिमुखानां सर्वाननर्थानपनयति निरतिशयं चार्थ- मुपनयति तस्मिन्बहिरन्तःकरणद्वयीं वाझनसलक्षणां- प्रणिधानानामनथैकदेशपरिहारमात्रं किं चित्रं ? नैव चित्रमिति। ततश्च ज्ञानकृतप्रकाशमहापातकपरिहारो- श्रीभगवन्नामकौमुदी ६४ ऽपि मनसः क्षतिमेवावहति न पुनः पूत्ति, तत्कथं तत्रापि सङ्कोचेन व्यवस्थाऽऽशङ्कति । एवं च अवशेनापि यन्नानि कीर्तिते सर्वपातकः । पुमान्विमुच्यते सद्यः सिंहजस्तैगरिवे- त्येतदप्यनुसृतं भवति, वर्णितव्यवस्थायांतु प्रकीर्णक- विषयत्वे पातकशब्दो बाध्यत, अतिपातकादिविषयत्वे सव्वशब्दः, न च पातकशब्दस्येव सर्वशब्दस्यापि वि- शेषान्तरे पर्यवसानं, प्रयोगवैफल्यात् पातकशब्देनैव तत्सिद्धेः, अस्मत्पक्षे तु पातकशब्देनैव सर्वपातकग्रह- णेऽपि न्यायाभासपरिकल्पितव्यवस्थाबाधेन सर्वशब्दः, तस्मान्नैव व्यवस्था । ननु ददातियोगे चतुर्थी स्यान्न षष्ठी तत्राह-इहेति । औपचा- रिकत्वादिति। त्रिविधपरिच्छेदशून्याया मुख्यदात्यर्थयोगाभावान्न चतुर्थीप्रसङ्ग इति भावः। अमला धीर्ये पामिति बहुव्रीहावन्तर्गतस्य सर्वनाम्नस्तात्पर्यमाह-मुक्तिमिति । मुरभिन्मुरारिः । इतरदानिवदिति वैधय॑दृष्टान्तः। पुंसां चेतसि स्थित इत्यस्य तात्पर्यमाह-अपि चेति । अर्थिनामिति संपातायातं यतो निष्कामानामपि मनसि स्थितो- मुक्तिं ददाति। अव्ययपदतात्पर्यमाह-अन्यञ्चेति। वनीयका याचकाः। किं चित्रमित्यादेस्तात्पर्यमाह-य एवमिति । सर्वाननानिति । अवि. द्या हंकारादीनित्यर्थः। अपनयति = निवर्तयति । निरतिशयं चार्थ परमानन्दरूपं स्वात्मानम् उपनयति प्रापयति । तस्मिन्परमात्मनि, बहिःकरणं वाग् , अन्तःकरणं मनः, एतद्द्वयीम् , प्रणिधानानामेका- ग्रोकुर्वताम् । कीर्तने हि वाङ्मनसप्रणिधानं, “यन्मनसा ध्यायति तद्वाचा वदती"ति श्रुतेः। अनर्थंकदेशेति । यदधं प्रयाति विलयमि- त्युक्तमित्यर्थः । परमप्रकृतमुपसंहरति-ततश्चेति । परिहारो नाशः। मनसः क्षतिमिति । कीर्तने वाङमनससाध्ये मनोमात्रसाध्यमुक्तिफला- पेक्षया फलाधिक्यमुचितं, न तु पापप्रविलयमात्रफलकत्वेन तहास- इति भावः। अल्पाशानकृतोपपातकादिनिरासहेतुभूतं नामकीर्तनमिति व्यवस्था दुरापास्तेत्याह-तत्कथमिति । वर्णितव्यवस्थाया वाधका- ।

प्रकाशसहिता RAND न्तरमाह-एवं चेति । महापातकाद्यपपातकान्तपातकव्यतिरिक्तं पापं- प्रकीर्णकं, महापातकसममतिपातकम् । श्रादिपदेनोपपातकम्। ननु प्रकीर्णकविषयत्वेऽपि नामकीर्तनस्य न पातकशब्दो बाध्यते तस्य पापमात्र प्रयोगदर्शनात्तत्राह-न चेति। वैकल्याद्वैयर्थ्यादित्यर्थः । ननु त्वत्पतेऽपि सर्वपदवैयर्थ्यमविशेषेणाशेषपापविषयत्वात्पातकश- ब्दस्य तत्राह-अस्मदिति । श्रीभागवते तु शृङ्गग्राहिकयैव महापातकान्यनुक्रम्य सङ्कीत नेनैव तन्निवृत्तिरभिहिता- स्तेनः सुरापो मित्रध्रुक् ब्रह्महा गुरुतल्पगः । स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ।। सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिरिति ॥ न च तदज्ञानकृतविषयं रहस्यविषयं वेति वक्तव्यं, वुद्धिपूर्वमखिलजगत्प्रख्यातं पातकं कृतवतोऽजामिल- स्यापि नामकीर्तनादेव तन्निवृत्तेवर्णनाद्, न च तदप्युप- पातकादिविषयमिति वक्तव्यं, तस्मिन्महापातकानाम- प्यनुक्रान्तत्वाद् यतस्ततोऽप्युपानिन्ये न्यायतोऽन्यायतो धनमि- त्यादिना। तत्रैव युक्त्यन्तरमाह-श्रीभागवत इति । न चेति । सर्वेषामिति श्रुत्या बुद्धिपूर्वकारिणामपि संगृहीतत्वादिति भावः। उपक्रमविरोध- श्चत्याह-बुद्धिपूर्वमिति । अन्यायतो धनमिति सुवर्णस्तेयसंग्रहः । श्रीविष्णुधर्मे च बुद्धिपूर्वप्रकाशमहापातकिनः क्षत्र- बन्धोरपि नामकीर्तनमात्रात् परमपूतत्वप्रतिपादनाद् नेयं व्यवस्था न्यायविदां हृद्यमधिरोहति, तस्मादन्यथा व्यवस्थाप्यते तद्यथा यस्य पुराणेषु मातृवचनेष्विव न कदा चिदिमान्यपथ्यमतथ्यं वाऽभिद्धति; अपि तु षथ्य- DEHATI , श्रीभगवन्नामकौमुदी। ७१ मेव तथ्यमेवेति दृढतरश्रद्धाऽनुबद्धा, भगवति च भक्त- जनमनःसरोजिनीजीवितेश्वरे नमदमरमण्डलमौलिमाला- शलाकालिखितनिजविजयवर्णनावर्णश्रेणीसनाथपादपीठे पुरभिदि मुरभिदि वा भक्तिभरगरिमगर्भिणी स्तम्भस्वे- दरोमोद्गमादिसात्त्विकभावसहचरी चित्तवृत्तिः साऽपि नगतानुगतिकत्वेन;अपितुतदीयमहिममहार्णवावगाह- नेन, तस्य पौराणानां श्रवणकीर्तनादीनामन्यतमं गुरु- लघुविशेषानादरेण सर्वेषामेव निरशमंहसां परमं- प्रक्षालनम् , इतरस्य पुनः प्रतिपदोक्तं स्मार्त्तमिति। प्रतिपादनादिति । गोविन्देति समुच्चार्य पदं क्षपितकल्मषः । क्षत्रबन्धुर्विनष्टात्मा गोविन्दत्वमुपेयिवानि- त्यादिवाक्यैरिति भावः । मतान्तरमाशङ्कते-तस्मादिति । यस्य पुरुषस्य । पुराणेवितिपदस्य श्रद्धापदेन सम्बन्धः। भगवतीत्यस्य चित्तवृत्तिरित्यनेन सम्बन्धः। नमताममराणाम् , मण्डलं समूहस्तस्य मौलिषु मुकुटेषु माणिक्यानि तेषां शलाका लेखन्यस्ताभिलिखिता ये निजस्य भगवतो विजयवर्णनासम्बन्धिनो वर्णास्तेषां श्रेणी तया सनाथं युक्तं पादसम्बन्धि पोठं यस्येति भगवद्विशेषणम् । भक्ते- भरो भारस्तस्य गरिमा तेन गर्भिणोति चित्तवृत्तेर्विशेषणम् । स्तम्भो नि ापारता । श्रादिशब्देनानन्दाश्रुग्रहणम् । एते सात्त्विका भावा--- स्तेषां सहचरीत्यर्थः । चित्तवृत्तिर्वर्त्तत इति शेषः। तदीयेति । तच्छब्देन भगवान् । तस्य पुरुषस्य । गुरुलघुविशेषेति । सर्वपापनिव- तकत्वश्रवणादिति भावः। रहो वेगः । इतरस्येति। अश्रद्धस्याभक्तस्य चेत्यर्थः । प्रतिपदोक्तं तत्र तत्र विस्पष्टोक्तम् । तत्र श्रद्धावतोऽधिकारे नारदीयवचनं प्रमाणं- यस्य यावांश्च विश्वासस्तस्य सिद्धिश्च तावतीति, श्रीभागवते च- यदृच्छया मत्कथाऽऽदौ जातश्रद्धश्च यः पुमान् । ।

प्रकाशसहिता DRIBauda BHABHITERS meena ननिर्विएणोनातिसक्तोभक्तियोगोऽस्य सिद्धिद् इति, तावत्कर्माणि कुर्वीत न निर्विद्येत यावता। मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायत, इति च पुराणेषु श्रद्धावतां भक्तियोगाधिकारं दर्शयति निवर्त्तयति तु कर्माधिकारम् । श्रीभगवद्गीतासु अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति। नायं लोकोऽस्ति न परो न सुखं संशयात्मन- इति श्रद्धाहीनस्य सर्वत्रानधिकारं दर्शयति । शिवधर्मोत्तरेऽपि- विधिवाक्यमिदं शैवं नार्थवादः शिवात्मकः । लोकानुग्रहकर्ता यः स मृषाऽर्थ कथं वदेदिति- गुणवादनिराकरणेन शिवशासनेषु श्रद्धामुत्पादयन् श्रद्धावतोऽधिकारं दर्शयति । श्रुतिरपि कर्मकाण्डे ज्ञानकाण्डे च श्रद्धावत एवा- धिकार दर्शयति, तत्र कर्मकाण्डे श्रद्धयाऽग्निःस मिध्यते श्रद्धया हूयते हविरित्यादिका, ज्ञानकाण्डे श्रद्धावित्तो- भूत्वाऽऽत्मन्येवात्मानं पश्येदित्यादिका । तस्मात्सर्वत्र श्रद्धावत एवाधिकारः, भक्तियोगःश्रवणकीर्तनादिः। शिवात्मकः कल्याणप्रतिपादकः । गुणवाद औपचारिकत्वम् । सा च पुरुषभेदेन विषयभेदेषु व्यवतिष्ठते तस्माद् व्यवस्थितोऽधिकार इति। युक्तं चैतद् विधिपुरुषसम्बन्धो- वा तद्धतुर्वा व्युत्पत्तिभेदेनाधिकारशब्दार्थ इति न्याय- विदां स्थितिः । तत्र श्रेयःसाधनलक्षणस्य विधेः स्वसाध्य- श्रीभगवन्नामकोमुदी। भोग्ययोद्वारेण भोका पुरुषेण सम्बन्धो विधिपुरुषस- म्बन्धः, तद्धेतुर्जीवनकामनाऽऽदिः । नियोगवादिनस्तु नियोज्यनियोगयोर्योधूयोद्धव्यल- क्षणः सम्बन्धो विधिपुरुषसम्बन्धः स च कर्मण्यैश्वर्य- मित्येवलक्षणाधिकारादन्य एवेति मन्यन्ते। स सर्वोऽपि न श्रद्धामन्तरेण संभवति, अनवगता- प्तभावस्य पुंसो वाक्याद्विशिष्टप्रवर्तकविषयाद् वस्तुवृत्त्या विसंवादशून्यादपि ममेदमिष्टसाधनमिति वा ममेदं- कार्यमिति वा प्रतिपत्तेः प्रवृत्तेश्चादर्शनात् । सा चेति । स स पुरुषस्तत्र तत्र श्रद्धत्त इत्यर्थः । व्युत्पत्तिभे- देनेति । अधिकरणमधिकार इति व्युत्पत्त्या विधिपुरुषसम्बन्धः। अधिक्रियते येनेति व्युत्पत्त्या तद्धतुः। तदेव विवृणोति-तत्रेति । गुरुमते विधिपुरुषसम्बन्धं विवृणोति-नियोगेति । उभयमतेऽपि श्रद्धाऽपेक्षामाह-स सर्व इति । अनवगतेति । यस्याप्तत्वं न ज्ञायत- इत्यर्थः। विशिष्टेति । इष्टसाधनत्वप्रतिपादकादित्यर्थः। प्रतिपत्तरद- शंनादित्यन्वयः। ननु यस्य वेदस्तन्मूलं च स्मृतिपुराणादि सर्व शास्त्रं- प्रमाणमिति निर्णिक्तशङ्कापङ्कवुद्धिरस्ति स एव शास्त्रे- ऽधिक्रियते, तत्र यदि कथं चिदेकदेशेऽप्यश्रद्धा तत्कथ- मेकदेशान्तरेऽप्यधिकारः, अपि च नैकदेशविषयिणी श्रद्धव संभविनी, सा हि शास्त्रस्य प्रमाणान्तरसंवादनि- बन्धना वा स्वतः प्रामाण्यनिबन्धना वा, न तावदाद्यः प्रमाणान्तरैटुरवगाहत्वादतिगहनस्य धर्मतत्त्वस्य, नापि द्वितीयः स्वतः प्रामाण्यस्यैकदेशान्तरेऽप्यविशेषात् तन्नि- बन्धना चेभविष्यत् सर्वत्रापि श्रद्धा, न वा कुत्रचित्, तत् कथं तन्निबन्धना व्यवस्थेति? १० प्रकाशसहिता पुराणेषु श्रद्धावतः पौराणषु श्रवणकीर्तनादिष्वधिकारः, इतरस्य स्मार्तेष्व धेकार इत्युक्तमाक्षिपति-नन्विति । निर्णिक्तः प्रक्षालितः शङ्का- पङ्को यस्याः। एकदेशे पुराणादिरूपे, एकदेशान्तरे स्मृत्यादिरूपे । एक- देशविषयां श्रद्धाम् प्रकारान्तरेण दूषयति-अपि चेति । तनिबन्धना चेत् = स्वतःप्रामाण्यनिवन्धना चेत् । तन्निबन्धना श्रद्धानिबन्धना व्यवस्थति। इदमसांप्रतं धर्मब्रम्हविषयशास्त्रयोः प्रामाण्यस्या- विशिष्टत्वेऽपि श्रद्धाया व्यवस्थितत्वात् । यो ह्यकर्त्तार- मात्मानमवगमयन्तीरुपनिषदोऽपि न श्रद्धत्ते स एव कर्मविधीनाद्रियते, अत एव हि तस्यैव तत्राधिकारो- नेतरस्य, अन्यथा हि सर्वस्यापि सर्वत्राधिकारोऽभ- विष्यद्, न च तथाऽस्ति, एवमिहापि वक्तदोषविरहा- देकतुलाऽऽरूदेषु सर्वशास्त्रेषु समानगरिमसत्सर्गसिद्धा- ऽपि श्रद्धा कुत्र चित् कुतश्चित् प्रतिबन्धकादृष्टादुदा- हरणाभासदर्शनाचार्थान्तरपरत्वशङ्काकलङ्कन कुण्ठीक्रि- यते तदुपपन्नं तन्निबन्धना व्यवस्थेति । दूषयति-इदमिति । श्रद्धाकृतव्यवस्थामुपपादयति-यो होति। विपक्षे वाधकमाह-अन्यथेति । कुतश्चिदित्येतद्विवृणोति-अदृष्टादि- त्यादिना । उदाहरणाभासैर्वा ग्रामेऽयमेक एवाद्वितीयः पुरुष इतिवदे- कमेवाद्वितीयमित्यादिवेदान्तानामर्थान्तरपरत्वमिति भवति शङ्का। भक्तरप्यधिकारिविशेषणत्वं पुराणवचनैरेवावग म्यते, श्रीविय्णुपुराणे तावद्- यन्नामकीर्तनं भक्तथा विलापनमनुत्तमम् । मैत्रेयाशेषपापानां धातूनामिव पावक इति, अत्र च भक्तिशब्देन भगवदालम्बनो रत्याख्यः स्थायी भावोऽभिधीयते, न भजनमानं तस्य कीर्तनश- ब्देनोपायेषूपात्तत्वात् , 4 - । maa - श्रीभगवन्नामकौमुदी! प्रहलादचरिते चायमर्थः स्फुटतरमवगम्यते- नाथ योनिसहनेषु येषु येषु ब्रजाम्यम् । तेषु तेष्वच्युता भक्तिरन्युतास्तु सदा.त्वयि ।। या प्रीतिरविवेकानां विषयेष्वनपायिनी। त्वामनुस्मरतः सा मे हृद्यान्मापसपंतु ॥ इति श्लोकव्यस्यैकवाक्यत्वाद् । भक्तरप्यधिकारिविशेषणत्वमाह-भक्तरिति । विलापनं निवर्त- कम् । ततश्च विष्णुभक्तस्य नामकीर्तनं सकलपापक्षयहेतुरितरस्य मन्वाद्युक्तम् प्रायश्चितमिति व्यवस्थेति भावः। भक्तिशब्दार्थमाह- अत्रेति । रतिः प्रीतिः। स्थायी भावो धर्मः। भक्तिशब्दस्य प्रीतिवा. चित्वं समर्थयते-प्रल्हादेति । पूर्ववाक्ये भक्तिशब्देनोदाहृत्य प्रीतिश- ब्देनोत्तरवाक्य निर्देशादिति भावः। नन्वन्यैव भक्तिरन्यच च प्रीतिः; निर्देशभेदादेव, अन्यथा हि पौनरुक्तय प्रसज्येत, अन्यच्च नेह प्रीतिः प्रार्थ्यते, अपि तु हे माप लक्ष्मीपते! अविवेकिनां विष- येषु या प्रीतिः सा त्वामनुस्मरतो मे हृदयात्सर्पतु गच्छ- तादिति रागनिवृत्तिःप्रार्थ्यते तत्कथमेकवाक्यत्वमिति? भक्तिप्रीत्योर्मेदं शङ्कते-नन्विति । नेहेति । उत्तरश्लोक इत्यर्थः । मां पातीति मापः। रागनिवृत्तिस्तद्ध्वंसः । रागविरोधी चेतोवृत्ति- विशेषो विरक्तिः। असुभगमेतद्, यदि भक्तरेन्या प्रीतिः प्रार्थ्यते विर- क्तिर्वा, तर्हि तस्या अपि भगवद्वाक्ये भक्तरिवानुभाष- णेन ग्रहणेन च भवितव्यं भक्तिर्मयि तवास्त्येव भूयो- ऽप्येवं भविष्यतीतिवद् मयि प्रीतिस्तवास्त्येवभूयोऽप्येवं- भविष्यतीति, विषयेषु विरक्तिस्तु तवास्त्येव भूयो- ऽप्येवं भविष्यतीति च तथा, न चैवमभवत्, तस्मात्पूर्व- श्लोकोद्दिष्टाया भक्तः स्वरूपवर्णनमुत्तरश्लोकेन क्रियत- ।

७६ प्रकाशसहिता इति व्याख्येयं, तद्यथाऽनुस्मरत इति षष्ठी पञ्चमी वा पुरुषस्य हृदयस्य च विशेषणम्, प्रीतिशब्देन च सुखं वा तभिव्यञ्जिका वा बुद्धिवृत्तिर्गृह्यते, तत्र सुखपक्षे तस्य सर्वत्रैकरूपत्वात्तदुपरागस्यैव भेदाद्विषयेष्वनुभूयमा. नेषु या प्रीतिर्यत्सुखमभिव्यज्यते सा त्वामनुस्मरतो मे हृद्यान्माऽपसर्ग्यतु नापयातु त्वदनुस्मरणेनैव तत्सुखम- भिव्यज्यतामिति सुखाभिव्यञ्जकं भगवदनुस्मरणं प्रा- र्थितं भवति,वृत्तिपक्षेऽपि तथैव तत्रापि तत्स्वरूपसमान- योगक्षेमस्यापितद्भेदस्य विषयावच्छेदमन्तरेणानवगमाद- वच्छेदकविषयान् बहिर्भाव्य प्रीतेरेवोपादानेऽविवेकिना- विषयेषु सुखसाधनेषु या प्रीतिः सा त्वामनुस्मरतो मम हृद्यान्नापयातु विषयानुल्लङ्घ्य त्वामेव निरतिशयसु- खात्मानमालम्बतामितियत्तच्छब्दयोःसामानाधिकरण्यं- स्फुटमेव, ततश्च पक्षद्वयेऽपि श्रीमन्मुरमथनचरणारबिन्द- मकरन्दमन्दाकिनीमवगाहमानस्य मनसः कोऽपि समुल्ला- सः खानन्दमाविर्भावयन् भक्तिरित्यभिहितं भवति, सा च रतिरेवेति। दूषयति-तौति । तस्याःप्रीतेः, विरक्तश्च । भगवद्वाक्येऽग्रेतने। भवितव्यमित्युक्तं विवृणोति-भक्तिर्मयोति । तथा = विस्पष्टम् । पौन. रुक्त्यं परिहरति-तस्मादिति । तदेव विवृणोति-तद्यथेति । षष्ठी. पक्षे पुरुषविशेषणम्, पञ्चमीपक्षे हृद्यविशेषणम् । प्रीतिशब्दार्थ द्वधा निरूपयति-प्रीतीति । ननु विषयेषु यत्सुखमविवेकानां तत्कथं- भगवन्तमनुस्मरतः स्यात्तत्राह-तस्येति । सुखस्येत्यर्थः। तत्तदुपराग. स्येति । उपरजकतत्तदुपाधेरेवेत्यर्थः । तथैवेति । सुखाभिव्यञ्जकं भग- वदनुस्मरणम् प्रार्थितम् भवतीत्यर्थः। तदेव दर्शयति-तत्रापीति । तत्स्वरूपेति।बुद्धिस्वरूपसमानयोगक्षेमस्य जन्यत्वात्।तभेदस्य बुद्धि- वृत्तिविशेषस्य, बहिर्भाव्य व्युत्थाप्य, प्रीतेरेवेति । वृत्तिमात्रस्येत्यर्थः ।

। SHALDWINNERAIBAR HINADIATER श्रीभगवन्नामकौमुदी। फलितमर्थमाह-विषयानिति । ततश्च भगवति प्रीतिरेव भक्तिरित्यु- त्तरश्लोकगतयत्तच्छब्दसामानाधिकरण्येन सिद्धमिन्युपसंहरति-यत्त. दिति । समुल्लासो वृत्तिभेदः। श्रीभागवते च- रतिरेव भक्तिरित्यवगम्यते- देवानां गुणलिङ्गानामानुश्रविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ अनिमित्ता भागवती भक्तिः सिद्धगरीयसीत्यत्र, तस्य ह्ययमर्थः-गुणलिङ्गानां गुणमयशरीराणा- मानुश्रविकं श्रुतिपुराणादिगम्यं कर्म चरितं येषां ते तथोक्ताः तेषां देवानां मध्ये सत्त्व एव शुद्धसत्त्वमय- मङ्गलमूतौं सरस्वतीतीरवासिभृगुमुग्व्यमुनिजनसिद्धान्त- प्रसिद्धमहिमनि श्रीवत्सलाञ्छन एकमनसः पुरुषस्य एकाग्रस्य वा मनसो या वृत्तिरनिमित्ता फलाभिसंधि- शून्या स्वरसत एव विषयसौन्दर्य्यादयत्नेनैव जायमाना न बलादापाद्यमाना सा भागवती भक्तिः सा च सिद्धे- ज्ञानाद् गरीयसीति । गरीयस्त्वमेव विवृणोति- जरयत्याशु या कोशं निगीर्णमनलो यथेति । यथा निगीर्णमन्नपानादि जाठरो जातवेदा जरयति तथा या कोशमन्नमयादि पञ्चप्रकारमाशु नाशयति, अनुभवशिरस्कत्वाद्, न ज्ञानमिव तत्त्वयुक्तिभिः क्रमेणे- कैकमपोहति, ततश्च तस्या गरीयस्त्वे कतमः सन्देह- इति, मुक्तगरीयसीति वा व्याख्येयम् , सालोक्यसार्टिसामीप्यसायुज्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जना- इत्यादिदर्शनात् । जरयत्याशु या कोशमिति तु स्वय- BARHARDHAN प्रकाशसहिता मेव भक्तिरन्विष्यमाणा मुक्ति बलादविलम्बनापाय- तीति दर्शयति । एवंलक्षणश्च मनसः परिणामः कथं नु रतेरन्यः स्याद् । भागवतपालोचनयाऽपि रतिरेव भक्तिरित्याह-श्रीभागवत. इति । देवानाम् ब्रम्हविष्णुमहेशानाम् । शुद्धसत्त्वमयत्वं विवृणोति- सरस्वतीतोरेति । भृगुणा हि विष्णुवक्षसि पदाघातः कृतः विष्णुस्तु भूषणन्वेनाङ्गीकृतवानतः शुद्धसत्त्वमय इति भावः। फलाभिसन्धिशू. न्या चेद्भक्तिः कथं जायेत ? तत्राह-स्वरसत एवेति । सार्टिःसारूप्यं, सायुज्यं तादात्म्यम् , एकत्वमभेदः । उपसंहरति-एवमिति । अन्या व्याख्या-एकमनसः पुंसो देवानां या वृत्तिः सा भक्तिरित्यन्वयः, तत्र देवशब्दस्य नानार्थत्वादिन्द्रि- यग्रहणार्थमुपपदं गुणलिङ्गानामिति, शब्दादिग्रहकारणा- नामित्यर्थः। अनेनैव कर्मेन्द्रियाणामपि ग्रहणं छत्रि- न्यायेन, कर्मशब्दैनैव बुद्धरपि, अन्यथा विशेषण- विशेष्ययोरनन्वयप्रसङ्गात्। कर्म कर्तव्यं, तच्च द्विविधं- दृष्टमानुश्रविकं च, तत्र प्रत्यक्षादिभिः कर्त्तव्यत्वेना- वगतं दृष्टं, यस्य तु शास्त्रावगम्यते कर्त्तव्यत्वं तदा- नुश्रविकं, तत्र रागादिनिबन्धनप्रवृत्तिवारणार्थ विशेष- णमानुश्रविककर्मणामिति, प्रानुश्रविकेऽपि काम्ये रागा- दिनिवन्धनत्वात्प्रवृत्तस्तनिवृत्तये विशेषणमनिमित्तेति, अनिमित्ताऽपि कदा चिदन्यदेवताऽऽलम्बनी वृत्तिः स्याद् न च सा भागवती भक्तिरत आह-सत्वएवेति । शेषं- पूर्ववत् । व्याख्यानान्तरमाह-अन्येति । छत्रिन्यायेनेति । छत्रिणो गच्छ. न्तीत्यत्र यथा छत्रिशब्दः छत्र्यच्छत्रिसमुदायलक्षकः, एवं गुणलिङ्गश- ब्दोऽपि कर्मेन्द्रियज्ञानेन्द्रियसमुदायलक्षकः। तद्विशेषणमानुश्रविक- कर्मणामिति । तत्र कर्मशब्दो बुद्धिवृत्युपलक्षणमित्याह-कर्मेति ।

। । श्रीभगवन्नामकौमुदी अन्यथेति । ज्ञानेन्द्रियाणां काभावादिति भावः। इन्द्रियाणाम् भग. वति वृत्तः क्रममाह-तच्चेति । अनेनैव क्रमेण श्रीमदच्युते चित्तावतारस्य विव- क्षितत्वाद्, न प्रातिलोम्येन विशेषणानर्थक्यं शङ्क- नोयम् । अयमन्त्र निष्कर्षः-रागादिदोषनिबन्धनाभ्यः प्रवृत्तिभ्यः परावृत्तानां अतिपुराणवैष्णवागमविहित- श्रवणादिकर्मप्रवणानामिन्द्रियाणां किं चिदपि फलम- नभिमन्दधानानां सकलनुबनसौभाग्यसारसर्वस्वमृत मुरमहने परिचयप्रचयादनपेक्षितविधिः स्वरसत एव समु- ल्लसन्ती विषयान्तरैरव्यवच्छिद्यमाना वृत्तिर्भागवती वृत्तिभक्तिरिति । तत्र दहिरिन्द्रियाणां श्रवणादिव्यति- रेकेण वृत्त्यभावात् श्रवणादीनां चान्योन्यं भिन्नजाती- यत्वान्मनोवृत्तेस्तु भावलक्षणायाः सर्वत्रैकरूपत्वाद् मनोवृत्तिरेव मुख्यो भक्तिशब्दार्थः, श्रवणादिषु तु तद्नु- विधानादेव भक्तिशब्द इति । भक्तियोगो बहुविधो मागैर्भामिनि भाव्यते । स्वभावगुणमार्गेण पुंसां भावो हि भिद्यत- इत्यनेनापि भक्तिभावयोरभेद एवावगम्यते, अन्यथा हि भक्तवैविध्यं प्रतिज्ञायौत्पत्तिकसत्त्वादि- गुणभेदेन भावभेदप्रतिपादनायोगात्, अनेनेति। उक्तेनेत्यर्थः। प्रातिलोम्येनेति । अन्तिममेव विशे- पणमस्त्विन्द्रियाणां, भागवती वृत्तिभक्तिरिति न शङ्कनोयमित्यर्थः । निष्कर्षः तात्पर्यार्थः । एवं सामान्यतः सर्वेन्द्रियवृत्तभंग- वद्विषयाया भक्तिशब्दव्यपदेश्यत्वमुक्त्वा तत्रापि विशेषमाह- तत्रेति । श्रवणादीनामननुगतत्वात्तेष्वनुस्यूता मनोवृत्तिरेव भक्तिशब्द- वाच्येति भावः। युक्त्यन्तरेणाह-भक्तियोग इति । भावो मनोरुचिः। वैविध्यमनेकत्वम् । BOOR । । ।

प्रकाशसहिता श्रीनरसिंहपुराणेऽपि-इक्ष्वाकुचरिते- चकार मेघे तद्वर्णे बहुमानरतिं नृपः । पक्षपातेन तन्नानि मृगे पद्म च तादृशी- त्यादिप्रमातिशयस्यैव भक्तित्वं दर्शितम् , श्रीस्कन्दपुराणेऽपि बीभत्सिते दुर्विषये कदाचि- द्यो वाऽपि रागो भविता जनस्य । स चेद् भविष्यत्यपि नाम रुद्रे को नाम मुक्तो न भवेद्भवाब्धेरि- त्येतदेव दर्शितं भक्तिप्रक्रमात् , श्रीलिङ्गादिषु च- वरनेत्राङ्गविक्रियेत्यत्रानुभावानामनुक्रान्तत्वात् तेषां- च भावानामङ्गभावादशी भाव एव भक्तिरिति गम्यते। स चायमाद्यो भावो वृत्यन्तरैरन्तरा निविशमानैरप्यने- कजन्मवासनावासिते चेतसि न व्यवच्छिद्यमानो विभा- वादिभीरसरूपतामापाद्यमानो निजसुखसंविदा निर्भर- मालिङ्गितः स्वयमेवानन्दसंविदभिधानमुपचारासहं द- धानो भक्तिरित्यभिधीयते । तद्वर्णे कृष्णसदृशवणे। तन्नाम्नि कृष्णनाम्नि, तद्दशि कृष्ण. तुल्य इत्यर्थः। सोऽपि चेदुद्रे भविष्यतीति संबन्धः। खरविक्रिया सगद्गदत्वम् । नेत्रविक्रिया अश्रु, अङ्गविक्रिया रोमाञ्चाः । भक्तेरनुज्ञा- यमाना भावा अनुभावाः। भावाङ्गभावाद् = भत्त्यङ्गत्वात्। अङ्गी प्रधानम् । आद्य इत्यनुभावापेक्षया, वृत्त्यन्तरैर्विषयविष यैर्न व्यव- च्छिद्यमानः । तत्र हेतुरनेकजन्मेति । तस्य चालम्बनविभावोऽवज्ञाऽऽकृष्टकुसुमायुधसौ- न्दर्यसबखः कमलाकुचतटीपत्रभृङ्गो भगवाननन्तो वा श्रीभगवन्नामकोमुदी। मनागवलोकनखर्वोकृतमदनगवा मुग्धमृगलाञ्छनशे- ग्वरः शंको वा, तावपि अतिपुराणवाक्यः कर्णाभ्यर्णम- वनाणी वाअभिनयैरभिनयप्रतिभानमार्गमनुसरन्तौ वा मजन्मकाभिनयइत्येतदर्थमेवाभिनयनस्य विहि- तत्वाद्। उद्दीपनविभावास्तु विलसदमलमरकतमणि- मरीचिमचरीपिञ्जरालिभ्रान्तिभूमयो नियन्मकरन्दविन्दु- जालजम्यालितगगनाङ्गनाः परिमलतर्पितपवनातिथ- यस्तरुणतुलसीवनवीथयः, मुरमथनरथाङ्गलाञ्छनच्छटा- परिष्वङ्गसुव्यङ्ग्यसौभाग्यश्रेणिश्रीमद्गोपीचन्दनविदला- नि, प्रसिद्धसकलाभरणसौन्दर्यासर्वस्ववञ्चनचणा नय- नाह्लादिन्यो नलिनाक्षमालाच, हरनयनदहनदग्धसहच- रस्मरविरहशुष्कावशिष्टकतिपयकलस्य कलावतः कला- भरचूर्णचय इव धवलिना बहिरन्तस्तमसो तिरो धानं- मनोमुकुरमण्डलीमुज्ज्वलां विद्धद् भासुरं भसितं, सकलपुरुषार्थसंपत्सुरलताबीजश्रेणीश्रियो रुद्राक्षमा- लाञ्च, हरिदिनहरयामिनीमहोत्सवादयश्च । अनुभावा- व्यभिचारिणश्च भरतादिमुनिमनीषिताएव न पुनरिहा- भिनवाः, सर्वेषां चैतेषामुदाहरणानि श्रीभागवते स्फु- टतरमुपलभ्यन्ते; पुराणान्तरेषु च केषां चित्, तत्रालम्ब- नविभावस्य च- स्वयं त्वसाम्यातिशयस्यधीशः खाराजलदम्याससमस्तकामः। वलिं हरद्भिश्चिरलोकपालैः किरीटकोट्यर्हितपादपीठः ॥ इत्यादि । उद्दीपनविभावस्य च- प्रकाशसहिता तस्यारबिन्दनयनस्य पदारविन्द- किचल्कमिश्रतुलसीमकरन्दवायुः। अन्तर्गतः स्वविवरेण चकार तेषां- संक्षोभमक्षरजुषामपि चित्ततन्यो- रित्यादि। एवंव्रतः स्वप्रिंयनामका जातानुरागो द्रुतचित्त उच्चैः। हसत्यथो रोदिति रौति गाय- त्युन्मादद्वन्नृत्त्यति लोकबाह्य- इत्यादि। स्वरनेत्रगात्रविकाररूपाणामनुभावानां- तत्रापि सात्त्विकानां-- क चिदुत्पुलकः तूष्णीं प्रेमप्रसरसंप्लतः । अस्पन्दप्रणयानन्दमलिलामीलितेक्षण इत्यादि, निर्वेदादीनां च व्यभिचारिणां- क वाऽहं कितवः पापो ब्रह्मनो निरपत्रपः । क च नारायणेत्येतद् भगवन्नाममङ्गलमित्यादि । एवं शैवेऽपि- अस्ति कश्चिदपर्यन्तरमणीयगुणार्णवः । षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः ।। प्रात्मशक्त्यमृतावादप्रमोदरसिको युवा । अखण्डजगदण्डानां पिण्डीकरणपण्डितः॥ अनन्तानन्दसंदोहमकरन्दमधूव्रतः। औदार्यधैर्यगाम्भीर्यमाधुर्य्यमकरालयः॥ इत्यादीन्यालम्बनादीनामुदाहाया॑णि । विभावो जनको भावः। श्रादिशब्देनानुभावव्यभिचारिभावन- हणम् । निजस्वं सुखं तदेव संविद्, अत एवानन्दसंविदित्यभिधा- श्रीभगन्नामकौमुदी। नम् । शृङ्गारादिरसेषु प्रमदाऽऽदिरिवानालम्बनविभावः श्रीगोविन्दः शंकरो वेत्याह-तस्येति । तयोरालम्बनत्वमुपपादयति-तावपीति । अभिनयैरनुकारप्रदर्शनैः, स्वकर्तृकैः परकर्तृकैर्वा । अभिनेयानां तत्तत्प- रमेश्वरचरित्राणां प्रतिभानं स्फुरणं तन्मार्गो विषयता, यथा कथं चिदु- पस्थितः परमात्माऽऽलम्बनविभावो भक्तिरसस्येत्यर्थः। मरीचीनां- मञ्जर्यस्तद्वत्पिञ्जरा अलयस्तेषां भ्रान्तिभ्रमणं तद्भूमयः, निर्यन्तो निर्ग: च्छन्तो मकरन्दस्य बिन्दवस्तेषां जालोनि तैर्जम्बालितं शबलीकृतं. गगनमेवाङ्गनं याभिः, परिमलेन तर्पितः पवनो याभिस्ताःप्रथमान्तत्रयं. वीथीनां विशेषणं, रथाङ्गं सुदर्शनं तदीयलाञ्छनच्छटानां परिष्वङ्गः सम्बन्धस्तेन सुव्यङ्गया सौभाभ्यश्रेणियस्तानि गोपीचन्दनविदलानि खण्डानि। सौन्दर्यसर्वस्वस्य वञ्चने चणा निपुणाः । नलिनं पद्मम् । शिवभक्तिरसस्योद्दीपनविभावमाह-हरेति । हरमस्तकचन्द्रः पूर्व- पूर्णकल एवासीद्धरनेत्राग्निना दग्धस्य मदनरूपस्य सहचरस्य विर- हेण काश्चन कलाः क्षीणास्तासां चूर्णानीव भसितं, मुकुरो दर्पणः । भरतादीनां शृङ्गारादिरसनिरूपकाणामभिमता एवानुभावादय इति । अक्षरं निर्गुणं ब्रम्ह । अनुभावोदाहरणमाह-एवंव्रत इति । तदवा- न्तरभेदानामुदाहरणमाह-तत्रापीति । षड्विधेति। कामक्रोधमद. मोहलोभमत्सरात्मकषड्डिधपापमयस्येत्यर्थः। प्रात्मेति । स्वगुणामृ. तास्वादप्रम दा भक्तास्तेषु रसिको बत्सलः, युवा जरारहितः, पिण्डी- करणम् = एकीकरणं संहारो, मधुव्रत इव मधुव्रतः पूर्णानन्द इत्यर्थः। मकरालयः = समुद्रः, एतादृशः शिव आलम्बनं विभावः। एवं स्थिते यत्कश्चिदुक्तं भक्तिरुत्साहेऽन्तर्भवतीति तल्लौकिकभक्त्यभिप्रायं, तस्य समरार्थमेव स्वामिना खीकृतत्वाद्, इह तु न तथा, यथोक्तं श्रीमता प्रह्लादेन अहं त्वकामस्त्वद्भक्तस्त्वं तु खाम्यनपाश्रयः । नान्यथेहावयोरों राजसेवकयोरिवेति, तस्माद्रत्याख्यो भावो भक्तिरिति । सेवाजनक उत्साहो भक्तिरिति मतान्तरं दूषयति-एवमिति । लौकिकेति। राजसेवाऽऽदिसंबद्धा भक्तिरुत्साहेऽन्तर्भवतीत्यर्थः।

प्रकाशसहिता AND , राजादिः समराद्ययं सेवकं स्वीकरोति तच्च नोत्साहमन्तरेण सेवकस्य संभवतीति भावः। अहं त्विति । राजसेवको हि स्वस्वकार्योद्देशेन प्रवर्तेते नैवमावयोरित्यर्थः । ननु श्रीविष्णुपुराणे विहिताचरणं प्रतिषिद्धवर्जन- च भक्तिरित्युक्तं- न चलति निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किं चिदुच्चैः- सितमनसन्तमवेहि विष्णुभक्तमित्यादौ, सत्यमुक्तम् , उपलक्षणं तु तत् शाखाऽग्रमिव चन्द्रस्य न स्वरूपं भक्तः प्रकृष्टः प्रकाश इव, भावल- क्षणाया भक्तः पृथगुपादानाद्, मनसि कृतजनाईनं मनुष्यं- सततमवेहि हरेरतीव भक्तमिति । अत्र हि सततं मनसि कृतजनाईनमिति संबन्धः, सातत्यं च न भावमन्तरेणावकल्पते, अतीव भक्तमिति च स एव मुख्यो भक्त इति दर्शयति, सममतिरात्मसुह- द्विपक्षपक्ष इति च सर्वात्मनि वासुदेवेभावमन्तरेण नोप- पद्यते,उपपद्यते चोपलक्षणत्वम्। विधिप्रतिषेधातिक्रमोहि रागादिनिबन्धनः, न च पुरुषोत्तमप्रवणे चेतसि रागादयो- ऽवकाशं लभन्ते, अत एवाभाणि भगवता श्रीशुकेन- विकर्म यच्चोत्पतितं कथं चि- दुनोति सर्वं हृदि सन्निविष्ट इति । लोकेऽपि भक्तसेवकयोआंदो दृश्यते, समानेऽपि राजसेवाकर्मणि भक्तोऽयमभक्तोऽयमिति व्यपदे- शदर्शनात् , तस्माद् भाव एव भक्तिः। सा च कीर्तनाङ्ग- DRESS श्रीभगवन्नामकौमुदी यन्नामकीर्तनं भत्त्येतिश्रुतः, न चासाविच्छ्या संपाद- यितुं शक्यते, अतोऽनुपादेयवादाधिकारिविशेषणं- भविष्यति फलवत् । एतदेव स्पष्टीकृतं- के चित्कंवलया भत्तया वासुदेवपरायणा इति । अत्र वासुदेवपरायणा इति तदेकलक्षणस्य भाव- स्याधिकारिविशेपणभावनोद्देशः, भत्त्येति भजनक्रिया कीर्तनादिरादीयते, के चिदिति च दुःसंपादत्वनाधि- कारिविशेषणमेव दर्शयति- स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः। विकर्म यच्चोत्पतिनं कथं चिढुनोति सर्व हृदि सन्निविष्ट- इति । नत्रापि त्यक्तान्यभावस्येति भावस्योद्देशः, भजत इति कीर्तनादरुपादानं,तस्माद् भक्तस्यैवाधिकारः। ज्ञानस्याप्यधिकारहेतुत्वमवगम्यते, “यतस्तद्विपया म- ति"रिति यतो नानस्तद्विषया मतिर्भवति, तस्य नानो- व्याहरणं पापक्षयहेतुरित्यतो यस्य तज्ज्ञानमस्ति स एवाधिकारीत्यर्थादुक्तं भवति, तदुत्तमश्लोकगुणोपलम्भक- इति ज्ञानवतो हरेर्नामपदैस्तद्वाचकैः शब्दैरुत्तमश्लो- कं तद्गुणांश्वोपलभते यः; स एवात्राधिकारीति व्यक्तम- वगम्यते, ज्ञानं चात्र परोक्षपदार्थमात्रविषयं न पुनरप- रोक्षमोपनिषदम् , एवं च श्रद्धाभक्ति ज्ञानसंपन्नस्याधिका- रिणः पौराणं प्रायश्चित्तमितरस्य तु स्मार्त्तमिति व्यव- स्थितम् । प्रकृष्टप्रकाशो यथा चन्द्रस्य स्वरूपं न तथैतदित्यर्थः । उपसं- हरति-तस्मादिति ।प्रकृतमाह-सा चेति । तावता कथमधिकारिवि- शेषणत्वम् ? तत्राह-न चेति। असौ भक्तिः। भक्त्येति वासुदेवपरायण.

८६ - HI- प्रकाशसहिता इत्यनयोरर्थभेदमाह-तत्रेति । उद्देशोऽभिधानम् । झानस्येति । नामो- ञ्चारणं पापक्षयहेतुरित्यस्य परमेश्वरज्ञानस्य चेत्यर्थः। ननु भवतु स्मृतिपुराणवचनानामन्योन्यविरोधव्य- वस्थेयम्, इह पुनः पुराणवचनानामेवान्योन्यविरोधो- विलोक्यते-कानि चित्सकृत्कीर्तनादेव पापक्षयमभि- दधति, कानि चिदावय॑मानानीति, तथा हि- श्रीलङ्गे- ॐ नमो नीलकण्ठाय इति पुण्याक्षराष्टकम् । मन्त्रमाह सकृद्यस्तु पातकैः स विमुच्यत इति । श्रीभागवते तु हरेगुणानुवादः खलु सत्त्वभावन इति, नातः परं कर्मनिबन्धकृन्तनं- मुमुक्षतां तीर्थपदानुकीर्तनादिति च, कस्तत्र विरोधपरिहार इति ? उच्यते । तत्राप्यनुतप्ताननुतप्तविषयत्वेन व्यवस्था, तथा हि श्रीवैष्णवे "कृष्णानुस्मरणं परमि"त्यविशेषे- ण प्राप्तामावृत्तिमनुतसविषयेऽपवदति कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते । प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परमिति, अतोऽननुतप्तविषयैव सा व्यवतिष्ठते। प्रकारान्तरेण शङ्कते-नन्विति। अनुतप्तस्य सकृन्नामकीर्तनमित. रस्यावय॑मानमिति परिहारग्रन्थार्थः। अननुतप्तविषयैव सा,प्रावृ- त्तिरित्यर्थः। ननु नेह निर्धारणमावृत्तः, इयतो वारानितीयन्तं- कालमिति वा, ततश्च कथमनिर्धारिता सा विधीयते ? नापि यावत्फलमावृत्तिरवघातादाविव, पापवत्तनिवृत्ते- रपि शास्त्रकगम्यत्वात् , , श्रीभगवन्नामकौमुदी। उच्यते । आवृत्तिश्रवणादेव पापतारतम्यादावृत्ति- तारतम्यं कल्प्यते, श्रूयते च तदष्टाक्षरब्रह्मविद्यायां- गोमूत्रयावकाहारो ब्रह्महा मासिकर्जपैः। पूयते तत एवार्वाङ् महापातकिनोऽपर,- इत्यादि, तस्माद्यस्य पापं कृतवतो भाराकान्तस्येव न कदा चिदितः परं पापे प्रवर्त्त इति पश्चात्तापो जायते तस्य सकृत्कीर्तनं शोधनम् , इतरस्य पुनरावय॑मानमिति। आवृत्तिस्वरूपेऽविनिगमं शङ्कते-नन्विति । पापतारतम्येनावृ. त्तितारतम्यमिति समाधत्ते-उच्यत इति । नन्वेवमपि सांकेत्यं पारिहास्यं वा स्तोभं हेलनमेव वा। वैकुण्ठनामग्रहणमशेषाघहरं विदुरि- त्येवमादीनां का गतिः ? परिहासानादयोहि न भक्तिश्रद्धाऽनुतापाः सम्भवन्ति, स्तोभसाकेत्ययोस्तु न ज्ञानमपि, आवृत्तिरपि नापेक्ष्यते यद् यक्षरं नाम गिरेरितं नृणां- सकृत्प्रसङ्गाघमाशु हन्ति तद् । पवित्रकीर्ति तमलयशासनं- भवानहो देष्टि शिवं शिवेतर- इति सकृच्छब्दप्रयोगादाशुशब्दाच श्रद्धादयोऽप्यु- पेक्षिताः । अस्य ह्ययमर्थः-यदिति व्यस्तमव्ययं, यस्य नाम यक्षरं सुखोचार्य, तदपि गिरेरितं न तु हृदयेन तदर्थमवधार्य; तच्च सकृन्न बहुवार; तदपि प्रसङ्गान्न तु श्रद्धादेः अघम्, अवधीरितमहदल्पभेदम् प्राशु शीघ्रमेव न तु कालान्तरव्यवधानेन हन्ति हिनस्ति तत्रापि न नामि नश्चित्तमावणं किन्तु तत्वयमेव, तच सर्वेषां नृणां न - , प्रकाशसहिता द्विजानामेव, किं च कियदेतद् यदुत पापक्षयहेतुरस्य नामेति, अयं हि पवित्रकीर्तिः पराग्भावेन प्रतिपन्नः पर- मेश्वर एव पविर्वजं “महद् भयं वज्रमुद्यतमि"ति श्रुतेः, भूतानां महदादीनां यतो भिन्नदृशां भयमिति स्मृतेश्च । तस्मात् त्रायते भक्तं भेदभ्रान्तिमुन्मूल्य निरातङ्क निजमहिमन्यवस्थापयन्ती कीर्तिर्यस्यास पवित्र- कीर्तिस्तं पवित्रतीति ब्रह्मादीनामप्यनतिक्रमणीय- शासनं शिवं परममङ्गलं भवान् इष्टीति अहो शिवेतर- इति वाक्यान्तरं शिवेतरः पर्युदस्तमङ्गलः, अमङ्गल इति यावद् । अन्येऽप्यमङ्गलाः सन्ति, अयं पुनरपूर्वोऽमङ्गल- इति दक्षं देवी निन्दति । न चैषामतत्परत्वम् , अभ्यासाद गतिसामान्याच्च, अभ्यासस्तावद्जामिलोपाख्याने- अयं हि कृतनिवेशो जन्मकोयंहसामपि । ययाजहार विवशो नाम स्वस्त्ययनं हरेरिति, निवेशो भोगा, "निवेशो भृतिभोगयोरिति नैघण्टुकाः, स च प्रायश्चित्त उपचर्यते, भोगप्रायश्चि- त्तयोः कर्मनाशहेतुत्वाविशेषाद् अत्र विवश इति विव क्षितं, विवशस्य तु न श्रद्धाऽऽदयः सम्भवन्ति एतेनैव ह्यधोनोऽस्य कृतं स्यादघनिष्कृतम् । यदा नारायणेत्येतजगाद चतुरक्षरमिति, अघोनः अघवतः, एतेनैवेति श्रद्धाविरहः, यदा जगाद तदैवेति अनावृत्तिः, चतुरक्षरमिति च श्रद्धाऽन- पेक्षा, अक्षरसमाहारस्यैव विवक्षितत्वात् , संख्याकथनस्य चाधिकमिमित्यभिप्रायः, एवमस्मिन् प्रकरणे भूयान- , " भ्यासः।

श्रीभगवन्नामकौमुदी। श्रद्धाऽऽदिमतः संकीर्तनेऽधिकार इत्यत्र विरोधं शकते-न. न्वेवमिति। श्रावृत्त्यादिप्रतिपादकवाक्यानां विरोधं निरूपयति आवृत्तिरपोति । तत्र हेतुः-सकृच्छदप्रयोगादिति । व्यस्तं = पृथ- क्पदम् । श्लोकस्य पदशस्तात्पर्यव्याख्यानं सुगमम् । न चैषामिति । सांकेत्यादिवाश्यानामतत्परत्वं श्रद्धाऽऽद्यनपेक्षवपरत्वमिति न च वाच्यम् अभ्यासादेकत्रैव ग्रन्थे पुनःयुनः श्रवणाद्, गतिसामा- न्याद्धि ग्रन्थान्तरे च गतिसामान्यादित्यर्थः । अभ्यासं प्रपञ्चयति- अभ्यासत्तावदिति । चतुरक्षरमित्यत्राक्षरग्रहणस्य तात्पर्यमाह- चतुरतरमिति । चतुस्संख्यायास्तात्पर्यमाह-संख्येति । एकेन द्वयेन वा पापनिप्कृतिसंभवाच्चतुष्टयमधिकमिति भावः। नन्वेकस्माद्वाक्याद्यावानर्थोऽवगम्यते किं तावानेवा- न्यस्मादपि; उताधिकः ? यदि तावद्धिकस्तर्हि नाभ्या- सस्तस्यैव तत्र विधेयत्वाद्, उक्तस्यैव पुनरुक्तिरभ्यासः। अथ तावानेव तथाऽपि नतरामभ्यासः, भिद्यते हि तदा वाक्यार्थः; "एकस्यैवं पुनः श्रुतिरविशेषादनर्थक- हि स्यादिति न्यायेन, “श्रानन्दमयोऽभ्यासादि"त्यत्र तु ब्रह्मणों दुर्भेदत्वाद् दुर्बोधत्वाच्च व्यतिरेकेणान्वयेन च पुनः पुनरुपादानं न विरुध्यते "असन्नेव स भवति असद् ब्रह्मेति वेद चेद अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरि"ति इह तुन तथेति, तद्युक्तम् इहापि विधेयस्यैकत्वेऽपि सुकरत्वेनाश्रद्धातिरस्कृतत्वाद्, “नीहारमिव भास्करः" "दहत्येधो यथाऽनलः” “यथा गदं वीर्य्यतममि" त्यादि- भिरुदाहरणैरुपपत्तिभिश्च पुनः पुनः प्रतिपादनं न विरु- ध्यते, एवमभ्यासो निरवद्यः।गतिसामान्यं चस्कन्दोक्तो- अवशेनापि संकीर्त्य सकृद्यन्नाम मुच्यते । भयेभ्यः सर्वपापेभ्यस्तं नमाम्यहमच्युतम् ॥ १२ प्रकाशसहिता अवशेनापि यन्नानि कीर्तिते सर्वपातकैः। पुमान् विमुच्यते सद्यः सिंहास्तैर्मृगैरिवेति ॥ श्रीनारदीये च- हरिरिति सकृदुचरितं दस्युकलेनापि यैर्मनुजैः । जननीमार्ग मुक्त्वा मम पदवीं निविशते मर्त्यः ॥ एवं सर्वत्र। अभ्यासमाक्षिपति-नन्विति । एकस्यैवेति । एकस्य पुनःश्रुति- रेव भेदिका, अविशेषाद् = विधेयविशेषाभावात् , किं ततस्तत्राह- अनर्थकं हि स्याद्, यथा समिधो यजति तनूनपातं यजतीभ्यासस्यै. कार्थतात्पर्यगमकत्वं दृश्यतेऽत आह-आनन्दमय इति । असन्नेवेति व्यतिरेकः। अस्ति ब्रह्मेत्यन्वयः । इह तु न तथा, दुर्बोधत्वादित्यर्थः । तिरस्कृत्वादिति पञ्चम्यन्तं न विरुध्यत इत्यनेन संबध्यते। न केवलं. दुर्बोधत्वमभ्यासहेतुः किं तु सुकरत्वेनाश्रद्धेयत्वशङ्काऽपीति भावः। गतिसामान्यं निरूपयति-गतीति । अत एतेषु कोऽधिकारी तत्रेति ? अत्रोच्यते-आसन्नमरणोऽधिकारी, विकुश्य पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण उपैति मुक्ति- मिति दर्शनाद्, यस्थाचतारगुणकर्मविडम्बनानि नामानि येऽसुविगमे विवशा गृणान्त । तेऽनेकजन्मशमलं सहसैव हित्वा संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥ इति च, श्रीनारदीये- ब्राह्मणः श्वपची भुञ्जन् विशेषेणारजखलाम् । अनाति सुरया पक्कं मरणे हरिमुच्चरन् ।

, श्रीभगवन्नामकौमुदी। मुच्यते पातकात्तस्मान्नात्र कार्या विचारणेति निर्धारणाच्च, युक्तं च तस्मिन्नवसरे श्रद्धादिनैर- पेक्ष्यं नान एव सुदुर्लभत्वात् , तस्मान्न केन चित् किञ्चि- द्विरुध्यत इति सर्व सुस्थम् । एवं मध्यमश्रद्धानामधि- कारिणां मनांसि समाधातुमुत्प्रेक्षते पन्थानमविरोधस्य । अन्य एव पुनः पन्थाः पारमार्थिकः, तथा हि स्मृतिपुरा- णविरोधे व्यवस्थादयो नैव निविशन्ते, विषमं हि प्रामा- एयमनयोः, वेदादवगतेऽर्थे पदान्तररुपनिवद्धानि महर्षि- वाक्यानि खलु स्मृतयः पुराणानि पुनर्वेदा एव श्रीमहा- भारते मानवीये च- इतिहासपुराणभ्यां वेदं समुपबृंहयेदिति वचनात् , पूरणात्पुराणमिति व्युत्पत्तश्च, न चात्रा- वेदेन वेदस्य बृंहणं संभवति, न ह्यपरिपूर्णस्य कनकव- लयस्य त्रपुणा पूरणं संभवति । ननु यदि वेदशब्दः पुराणमितिहासं चोपादत्ते तर्हि पुराणमन्यदेवान्वेषणीयं; यदि तु न, न तर्हि इतिहास- पुराणयोरभेदो वेदेन ? उच्यते-विशिष्टकार्थप्रतिपादकस्य पदकदम्बकस्या- पौरुषेयत्वादभेदेऽपि स्वरक्रमभेदाद् भेदनिर्देशोऽप्युपप- द्यते, अपि च साक्षादेव वेदशब्दः प्रयुक्तः पुराणेषु- "पुराणं पञ्चमो वेदः", "इतिहासपुराणं च पञ्चमो वेद उच्यते”, "वेदानध्यापयामास महाभारतपञ्चमानि", त्यादौ, अन्यथा पञ्चमत्वं च नावकल्पेत, समानजा- तीयनिवेशित्वात् संख्यायाः, ब्रह्मयज्ञाध्ययने च विनि- PHONETION , प्रकाशसहिता योगो दृश्यतेऽमीषां यदु "ब्राह्मणानीतिहासान्पुराणानी" ति, सोऽपि नावेदत्वे संभवति, अत एवाह भगवान्- कालेनाग्रहणं मत्वा पुराणस्य द्विजोत्तमाः।। व्यासरूपमहं कृत्वा संहरामि युगे युगइति पूर्वसिद्धमेव पुराणं सुखग्रहणाय संकल्पयामीति हि तस्यार्थः। मात्स्यं कौममित्यादि समाख्यास्तु प्रवचन- निबन्धनाः; न तन्निर्माणनिबन्धनाः, काठकादिवद् , अानुपूर्वीनिर्माणनिबन्धना वा, अत एव श्रुतिपुराण- विरोधे पुराणदौर्बल्यमानुपूर्वीभेदात्कदाचिदर्थोऽप्यन्यथा स्यादिति, स्मृतिपुराणविरोधे पुनः पुराणान्येव बलीयांसि। अत इति । श्रद्धाद्यपेक्षाया असंभवाद् । एतेषु = सांकेत्यादिनि- बन्धेषु नामोच्चारणेषु कोऽधिकारीत्यर्थः। तत्र नामोच्चारणे। मध्य- माधिकारिणां मनःसमाधानाय परिहरति-अत्रोच्यत इति। वस्तुतः समाधानमाह-अन्य एवेति । तत्र के चन मन्दाः पुराणेषु स्मृत्य- पेक्षमपकर्ष वदन्ति तानिराकर्तुं पुराणेष्वाधिक्यं संभावयति-तथा होति । श्रादिशब्देन विकल्पादि । तावता कथं वेदत्वं तत्राह-न चात्रेति । इतिहासपुराणाभ्यां वेदं समुपबृंहयेदित्यत्र वेदशब्दो नेति हासपुराणयोः संग्राहकस्तयोर्भेदनिर्देशादतो भेद एव वेदादेतयोरिति शङ्कते-ननु यदीति । ब्राह्मणपरिव्राजकन्यायमभिप्रेत्य समाधत्ते-वि. शिष्टेति । स्वरेति। अनियतस्वरोच्चारणं पुराणानां स्वरभेदः, आनुपूर्वी- भेदः क्रमभेदः । तदेतदुभयं प्रत्यक्षभेव । कथं तर्हि मात्स्यं कौर्ममित्या. दिसमाख्यास्तत्राह-मात्स्यमिति । एवं हि पुराणेषु दृढकर्तृस्मरण- मनुषपन्नम्, इतिहासपुराणाभ्यां वेदं समुपबृंहयेदित्यस्य वेदार्थनि. र्णायकत्वाभिप्रायत्वात् , पुराणं पञ्चमो वेद इत्यस्य वेदवत्प्रामाण्यनि- र्णयार्थत्वात्। पौरुषेयाणामपि धारयाऽनादिसिद्धत्वाद् ब्रह्मयज्ञविधि- विषयत्वोपपत्तेः पक्षान्तरमाह-आनुपूर्वीति । पूर्वोक्तभ्य एव हेतुभ्यः पुराणबलीयस्त्वमाह-स्मृतीति । एवं समुल्लचितसकलशृङ्खलेषु यथास्त्रमेवस्वं स्वमर्थम- भिधानेषु पुराणवचनेषु मनागपि क चिदेकमवकाशम- श्रीभगवन्नामकौमुदी। लभमानानां स्मृतीनां यदि नाम विषयसबखापहारः प्रसज्येत? प्रसज्ज्यतां नाम, कथन्नु पुराणानामाञ्जस्यमु- पमृद्य व्यवस्थापनप्रस्तावः, उक्तं हि नारदीये- वेदार्थादधिकं मन्ये पुराणार्थ वरानने !। वेदः प्रतिष्ठितो देवि पुराणे ! नात्र संशयः ।। पुराणमन्यथा कृत्वा तिर्यग्योनिमवाप्नुयात् । सुदान्तोऽपि सुशान्तोऽपि न गतिं प्राप्नुयात्क चिदिति, स्कान्दे च श्रुतिस्मृती हि नेत्रे हे पुराणं हृदयं स्मृतम् । श्रुतिस्मृतिभ्यां हीनोऽन्धः काणः स्यादेकया विना ॥ पुराणहीनाद् हृच्छून्यात्काणान्धावपि तौ वरौ । ननु न वयं व्यवस्थापयामः; अपि तु पुराणवचना- न्येव व्यवस्थापयन्ति तावत्कर्माणि कुर्वीतेत्येवमा- दीनि ? मैवं, तेषां मुमुक्षुविषयत्वाद्, मुमुक्षौ च दशाभे- देन क्रियाभक्तिज्ञानानां समावेशो न विरुध्यत एव, यत्पुनारदीयं वचनं- "यस्य यावांश्च विश्वासस्तस्य सिद्धिश्च तावती"ति; तस्यापि न विश्वासपरिमाणप्रभाव इत्यभिप्रायः "एतावानिति नैतस्य प्रभावः परिमीयते" इत्युत्तरार्द्धविरोधाद्, अथ परिमाणान्तरनिराकरणार्थ तद्, एवमप्यर्थक- प्रसज्येत, इतरपदार्थमहिनामपि स्वस्वपरिमाणातिरेकेण परिमाणान्तराभावात् , तस्मादयमर्थः-निरङ्कश एव मन्त्रस्य प्रभावः, तथाऽपि यस्य यावान् विश्वासः स- तावत्येव मन्त्रं विनियुक्त इति तस्य तावदेव फलमिति। .

प्रकाशसहिता अपि च किं कीर्तनादौ प्रवृत्तिमात्रहेतुः श्रद्धा; किं वा कीर्तनादेः फलसाधनेऽन्तर्भवति ? तत्र यदि तावत्प्रवृ- त्तिमात्रहेतुस्तदन्तरेणापि श्रद्धांकीर्तनादौ प्रवृत्तस्य पाप- क्षयो भवेदेव तस्यैव निरपेक्षसाधनत्वाद्, अथ फलसा- धनेऽन्तर्भवति तर्हि तस्याः शास्त्रण वा साधनत्वं- प्रमीयते प्रमाणान्तरेण वा? तत्र यदा शास्त्रेण तदा श्रद्धा- सहकृतं कीर्तनं पावनमित्युच्यते, तत्र पृच्छामः सा स- हकारिणी श्रद्धा कीर्तनमात्रमवलम्बते श्रद्धासहकृतं- ति? न तावत् कीर्तनमात्रं, तस्यासाधनत्वात् साधन- विषयत्वाच्च श्रद्धायाः; साधनत्वे वा श्रद्धासहकारव्या- घातः, अथ श्रद्धासहकृतं वेति, तत् किमात्मना सहक- तं श्रद्धाऽन्तरेण वा ? न तावदात्मना तस्यैव विषयत्वं. विषयित्वं चेति व्याघाताद्, नापि श्रद्धाऽन्तरेण तत्रापि विकल्पापातात् , तदपि कि केवलमवलम्बते स्वसहकृतं- श्रद्धाऽन्तरसहकृतं वेति, तत्राद्ययोरुक्तो दोषः, तृतीयेऽ- पि श्रद्धाऽन्तरं नाम किं प्रथमा श्रद्धा तृतीया वा ? न तावत्प्रथमा अन्योन्याश्रयापाताद, द्वितीयश्रद्धानिरूपणे हि तत्सहकृतालम्बना प्रथमा निरूप्यते प्रथमश्रद्धानिरू- पणे च तत्सहकृतालम्बना द्वितीयेति, अथ तृतीया सापि यदि द्वितीयासहकृतमालम्बते; आयातमन्यो- न्याश्रयत्वं, प्रथमासहकृतश्चेत् चक्रकमापद्यते प्रथमास- हकृतं तृतीयाऽऽलम्बते; तृतीयासहकृतं द्वितीया द्वितीया- सहकृतं प्रथमेति, चतुर्थादिसहकृतत्वेऽनवस्थापातः, त- स्मान्न शास्त्रेण श्रद्धायाः सहकारित्वावगतिः संभवति । ननु कीर्तनस्य कारणत्वविषयिणी श्रद्धा; न पुष्कलं sy तः श्रीभगवन्नामकौमुदी। कारणत्वविषयिणी, कीर्तनमात्रविषयत्वेऽपि तस्या न सहकारित्वव्याघातः, तदयुक्तं, श्रद्धा हि; सा- धनमिदं साध्यं न कदाचिद् व्यभिचरतीति प्रत्ययः स च पुष्कलकारण एवावकल्पते न कारणमात्रे तस्माद्द- वार एवायं दोषः। ननु शास्त्रतः कीर्तनादेरेव पावनत्वं विश्वासस्य तु प्रमाणान्तरावसेयं सहकारित्वम् , सोऽपि शास्त्रावगतं- कीर्तनमात्रादेरेव पावनत्वमवलम्बते, तत्र च नोक्तो- दोषः। एवं तर्हि यस्मिन्नारोग्यादावन्वयव्यतिरेको दृश्यते विश्वासस्य तत्र सहकारित्वमस्तु; पापक्षयः पुनरतीन्द्रि- यत्वान्न श्रद्धाकिंचित्कारमपेक्षते । स्मृतिपुराणयोः श्रुतिमूलत्वाविशेषेऽपीतिहासपुराणाभ्यामित्या- द्युक्तवाक्यैर्वक्ष्यमाणैश्च वेदार्थादधिकं मन्यइत्याद्यैः पुराणेप्वाञ्जस्यभङ्गो- न युक्त इत्याह-एवमिति । समुल्लविताः सकलाः शृङ्खलाः प्रमोत्पत्ति- प्रतिबन्धका दोषा यैस्तेषु वचनेषु सत्सु। क्रियाभक्तिज्ञानानामिति । मुमुक्षुरविरक्तः कर्माणि कुर्याद्, ईषद्विरक्तः श्रीहरिभक्तिम्, अतिवि- रक्तस्तु ब्रह्मविचारमिति व्यवस्थाप्यते, न तु तावत्कर्माणि कुर्वीत न निर्विद्येत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायत- इति वचनात् श्रद्धावत्त्वमधिकारिविशेषणमिति व्यवस्थेति भावः। भारदीयवचनस्यापि नाधिकारिविशेषणं श्रद्धेत्यर्थ इत्याह- यत् पुनरिति । विश्वासस्य परिमाणमिव परिमाणं यस्य स विश्वास- परिमाणः। प्रभाव इति श्लोकस्थसिद्धिशब्दव्याख्यानम् । शङ्कते- अथेति। तद्वचनम्, तत्किमनर्थकं वचनं १ नेत्याह-तस्मादिति। प्रका. रान्तरेण श्रद्धाया अधिकारिविशेषणत्वं दूषयति-अपि चेति । तस्याः श्रद्धायाः। कीर्तनमात्रमिति । केवलं कीर्तनमित्यर्थः। साधनत्वा- दिति ।श्रद्धायाः कीर्तनगतफलसाधनत्वान्तर्भावप्रतिज्ञानादिति भावः। केवलकीर्तनस्य फलसाधनत्वे श्रद्धासहकारः प्रतिज्ञातो व्याहन्येत । अथेति। श्रद्धासहकृत कीर्तनं श्रद्धामवलम्बत इत्यर्थः। सहकृतं- - १६ प्रकाशसहिता विशिष्टम्। व्याधाताद्वात्माश्रयात्। विकल्पापाताद् विकल्पदूषणात्। उक्तो दोष-इति । असाधनत्वादिति व्याघातादिति चक्रमेण पक्षद्वय- निराकरणम् । अन्योन्याश्रयादिति । तृतीयाया अनभिधानाच्छद्धाद्वये परस्पराश्रयत्वमिति भावः। तदाह-द्वितीयेति । द्वितीयं शङ्कते-तथेति । साऽपि द्वितीयासहकृतमालम्बते द्वितीया च तृतीयासहकृतमालम्बत. इत्यन्योन्याश्रयत्वम् । प्रथमासहकृतालम्बनत्वे चक्रकम् । चतुर्थादिस- हकृतत्वालम्बनत्वेऽनवस्थेति भावः । उत्तरो ग्रन्थः स्पष्टार्थः। ननु यद्यवगम्यते सहकारित्वमेकत्र श्रद्धायाः तर्हि शक्यत एवानुमानुमन्यत्रापि, तथा हि-पापक्षयः श्रद्धाऽदिसहित साधनवान् ; कर्मफलत्वादु, आरो- ग्यादिवत्, तदयुक्तं कालात्ययापदिष्टत्वाद्धेतोः, अवशे- नेत्यादिशास्त्रविरोधात् , सोपाधिकत्वाच; मानान्तरयो- ग्यत्वं हि तत्रोपाधिः, तस्य च साधनोव्यापकत्वे सति साध्यव्यापक उपाधिरित्यस्मिन्नुयननये युज्यत एवो- पाधित्वं, साध्यसमव्याप्तिरिति तु मतान्तरे व्यापकानु- पलब्धिलिङ्गकानुमानबाधएवेत्यलमतिप्रसङ्गेन । का तर्हि गतिः "श्रद्धावित्तो भूत्वाऽत्मन्येवात्मानं पश्येदि” त्यादी- नाम् ? उच्यते-न तत्र श्रवणादिविधिवाक्यार्थविषयिणी श्रद्धा श्रवणादेः सहकारित्वेन विधीयते, किन्तर्हि ? तत्त्वमस्यादिवाक्यार्थविषयिणी, सा च न प्रतीचः परत्वे वाक्यार्थेऽन्तर्भवति; अपि तु प्रमाणेतिकर्तव्यतात्वेन बहिरेवावतिष्ठते, न च तत्रोक्तदोषप्रसङ्गः, “श्रद्धयाऽग्निः समिध्यत” इत्यादि तु प्रवृत्तिहेतोः श्रद्धायाः स्तावकप्रवृ- तिं विना पुरुषार्थस्यैवासिद्धः। ननु यदि प्रवृत्तिहेतुः श्रद्धा, आयातमधिकारिविशे- षणत्वं श्रद्धायाः ? मैवम् , अशाब्दत्वात् । नन्वशाब्दमपि ६७ श्रीभगवन्नामकौमुदी। सामर्थ्यवद् विद्वत्तावच्चाधिकारिविशेषणं भवत्येव शब्दा- पेक्षितत्वात्, श्रद्धा च शब्दापेक्षिता भवति, असमर्थ- स्याविदुषोऽश्रद्धधानस्यानुष्ठानायोगाद्, अतोऽधिकारि- विशेषणमेव श्रद्धति, असार्वत्रिकमेतद्, यद्धि बहुलाङ्ग- बहुधनसाध्यं वा बहुकालव्यापि वा खरूपेण वा दुष्करं- कर्म तत्र न कश्चिदपि श्रद्धांविना प्रवर्तत इति भवत्य- धिकारहेतुः श्रद्धा, यत्र पुनः सुकरे कीर्तनादौ प्रकारान्त- रेणापि प्रवृत्तिः संभवति तत्रानुपपत्तेरभावाद् अश्रुत- त्वाच नियमपरिकल्पनाऽयोगान्नवाधिकारहेतुः श्रद्धति । भक्तरप्यधिकारिविशेषणत्वं न संभवति, सा हि श्रवणा- दिनवविधभजनलक्षणा भावलक्षणा वा? न तावद् भज- नलक्षणा तस्यामेवाधिकारहेतोर्जिज्ञासितत्वाद, नापि भावलक्षणा; सा हि फलं निमित्तं वा ? तत्र यदि फलं- काम्यमानतयैव तस्या अधिकारिविशेषणत्वं न खरूपेण, तथा च सति भक्तिकामस्याधिकारः स्यान्न भक्तस्य, चास्याप्यधिकारः, ब्रह्महादेहननादिजनितदोषनिरासा- र्थिनोऽधिकृतत्वादु, न च भक्तिकामाधिकारे दोषनिरा- सोऽप्यन्तर्भवति, अक्षीणदोषस्य भक्तरनुयाद्- नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायत- इतिवचनादिति वक्तव्यं, तस्य द्वारमात्रत्वनानुद्देश्यत्वात्। ननु तर्हि निमित्तं भक्तिः श्रवणादिविधेः तत्र च तस्थाः पापक्षयकामनायाश्च संवलितयोरधिकारहेतुता जातेष्टाविव पुत्रजन्मनः तत्पूतत्वादिकामनायाश्च, इदमध्यसाधीयः, भक्तरेव श्रवणाद्यनुष्ठानात्मागसिद्धे, यथोक्तं श्रीभागवते- - &E प्रकाशसहिता शृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः । हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ।। नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया । भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ अत एवेदमपि प्रत्युक्तं; यद् भावोदयादुपरितनानां- पापानां भगवद्भजनं प्रायश्चित्तं, प्राचीनानांतुस्मार्तमिति, श्रवणादिधौतपापस्यैव भावोदयप्रतिपादनाद्, नष्टप्रायेति च नष्टानामप्यभद्राणां सत्सु कामादिषु पुनः पुनरुद्भवात् तन्निवृत्तेश्च भावैकसाध्यत्वात् तदा रजस्तमोभावाः कामलोभादयश्च ये। चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदतीति वचनात् । ननु तर्हि नैष्ठिकी भक्तिरास्तांतस्याः श्रवणाद्यभ्या- सपटिमसाध्यत्वात् प्रीतिमात्रं पुनः प्रागपि जन्मान्तर- संस्कारवशात्संभवतीति तस्यैवाधिकारहेतुतेति, तदस- त्, प्रमाणाभावात् सर्वात्मना विद्धते खलु भावयोग- त्यक्तान्यभावस्य हरिः परेश- इत्यादि तत्र प्रमाणं तच्च नैष्ठिकीमेवावलम्बते, अनुमानावष्टम्भेन शङ्कते-ननु यदीति। एकत्रारोग्यादौ। अन्यत्रापि पापक्षयेऽपि,। अवशेनापि यन्नाम्नीत्यादिश्रुतिबाधितमनुमानमित्याह- कालेति । व्यापकं मानान्तरयोग्यत्वं तस्यानुपलब्धिरभावस्तल्लिङ्गका. नुमानबाधः । पापक्षयो न श्रद्धासाधनवान् ; तथाऽर्थे मानान्तरायोग्य. त्वादिति । प्रतोचः परत्वे = परब्रह्माभेदे। भक्तरधिकारिविशेषणत्वे दूषणभेदमाह-भक्तरिति। भावलक्षणा = भगवति निरतिशयप्रीति. लक्षणा । न च तस्येति । भक्तिकामस्येत्यर्थः । ब्रह्महादेनिरासार्थिन- इति सामानाधिकरण्यम् । अधिकृतत्वादिति । रात्रिसत्रे प्रतिष्ठाया इव नामकीने दोषक्षयस्यार्थवादावगतत्वादिति भावः। न वक्तव्यमिति । श्रीभगवन्नामकौमुदी। संबन्धः। अन्तर्भवन्तीति । कामनाविशेषणत्वेनेति भावः । तत्र हेतुः- अक्षीणेति । तत्र प्रमाणमाह-नराणामिति । न वक्तव्यमिति प्रतिज्ञायां- हेतुमाह-तस्येति।दोषक्षयस्येत्यर्थः। जातेष्टिवत्संवलिताधिकारतां- शङ्कते-ननु तीति । पुढे जात इति सप्तमीवद्भक्तर्निमित्तत्वज्ञाप- काभावान्न संवलिताधिकारतेत्याह-इदमपीति । दूषणान्तरमाह- भक्तरिति। प्रकारान्तरेण पौराणस्मार्तयोर्व्यवस्थामाशय परिहरति- अतएवेति । भावो भक्तिः श्रवणादीनि, तत उदिते भावे श्रवणादिरूपे भगद्भजने प्रवृत्तिस्ततश्च भावोदय इति परस्पराश्रयत्वमिति भावः। उत्तरो चोद्यपरिहारौ स्पष्टौ । यत्तु यन्नामकीर्तनं भत्त्येति; तस्यापि न कीर्तनाङ्गं- भक्तिरित्यर्थः, गुणफलाधिकारोहि सः, स्वत एव पापक्षय- साधनं कीर्तनकाश्रित्य फलगतातिशयमुद्दिश्य भक्त- विधानादनुत्तमं विलापममिति;यदेव विद्यया करोतिश्रद्ध- योपनिषदा तदेव वीर्यवत्तरं भवतीतिवत् , फलगतातिश- यश्चात्र पापकारणानां रागादीनां निवृत्तिः रागादिनिवृत्ते- भक्तिसाध्यत्वस्याभिधानात् “के चित्केवलया भक्त्या" इत्यत्रापि भजनक्रियैव भक्तिः; न भावः, तस्या एवाप्र- करणसमासः प्रपञ्चनाद्, “वासुदेवपरायणा” इत्यत्रापि न भावः कैवल्यविरोधात् । ननु यन्नामकीर्तनं भक्त्येतिवाक्याद्भक्तरङ्गत्वं प्रतीयते ततश्चार्थाद. धिकारिविशेषणता भविष्यतीत्यत पाह-यत्त्विति । कोऽसौ फलगतो- ऽतिशयस्तत्राह-फलगतेति । केनाभिधानं तत्राह-केचिदिति। किमत्र भक्तिशद्ववाच्यं तत्राह-अत्रापीति । अपिशद्वाद्यन्नामकीर्तनं भत्त्येति वाक्यसमुच्चयः । न भाव इति । ततश्च भावोदयादुपरितनानां पापानां- भगवद्भजनंप्रायश्चित्तं नाशङ्कनीयमिति।ननु वासुदेवपरायणा इत्यनेना- स्मिन्नेव वाक्ये भावः प्रतीयते पापक्षयसाधनत्वेन तत्राह-वासुदे- वेति। कैवल्येति । के चित्केवलया भत्तयेति कैवल्यविरोधादित्यर्थः। ननु समानवाक्योपात्तस्य भावस्य व्यवच्छेदायोगात् ततिरिक्तसाधनव्यवच्छेद एव कैवल्यं? नैवं, श्रुतिविरो- प्रकाशसहिता धिनो वाक्यस्य दुर्बलत्वात् श्रुतिरिह केवलया भत्त्येति तृतीया, वासुदेवपरायणा धुन्वन्त्यमिति तु वाक्यम्, अतो गर्भितोऽयं हेतुः यस्माद्वासुदेवपरापणास्तस्मात्सक- लमघं धुन्वन्तीति सानुस्यूतः सर्वाधारश्च देवः परम- यनमाश्रयो येषां तेषां सर्वेश्वरसनाथानामुचितमेव सर्वाविजयित्वमिति भावः । अपि च स्वरूपेण तदा- श्रयत्वे मुख्योऽयं शब्दः, भावस्य तु तदालम्बनत्वे गौणः, तस्मान्न भावस्य कीर्तनाङ्गत्वे प्रमाणमिदम् । सकृन्मनः कृष्णपदारबिन्यो- निवेशितं तद्गुणरागि यैरिहे- त्यत्रापि विषयसौन्दर्यादेव प्राप्तस्य रागस्मरणस्य सुकरत्वप्रतिपादनार्थमनुवादः । एवं विमृश्य सुधियो भगवत्यनन्ते सर्वात्मना विदधते खलु भावयोगम् । ते मे न दण्डमहन्त्यथ यद्यमीषां- स्यात्पातकं तदपि हन्त्युरुगायवादः । इत्यत्रापि पातकाभावादेव दण्डानहत्वं तदभावश्च तत्कारणाभावाद्, अत एवोक्तमथ यद्यमीषां स्यात्पात- कमिति । रागाद्यभावेऽपि यदि कथञ्चित्प्रमादात्पातकं- स्यादित्यर्थः; तदपि हन्त्युरुगायवाद इत्यपि न भावस- हकृतं कीर्तनम् , अपिशब्दाद् न केवलं भावोदयात्प्राची- नमेव अपि तूपरितनमपि पातकं हन्त्युरुगायस्य बहूभि- धानस्यानन्तानन्दसुधासिन्धोबहुभिर्गायमानस्य वा सक- लजगत्प्रशस्यपुण्यकीर्तेर्वादः कीर्तनं, भावस्तु विद्यमानो- ऽप्युदास्ते, अतितुच्छत्वात्पापनिवृत्तेरिति हि तस्यार्थः ।

SERIROINTAND ? श्रीभगवन्नामकौमुदी। ये देवसिद्धपरिगीतपवित्रगाथा- ये साधवः समदृशो भगवत्प्रपन्नाः। तान्नोपसीदत हरेर्गदयाऽभिगुप्ता- नैषां वयं त्वधिकृताः प्रभवाम दण्ड- इत्यस्याप्ययमेवार्थः, कथं ? ये समदृशः सर्वात्मभा- वेन भगवन्तं पश्यन्ति, अत एव साधबो रागादिदोषर- हितास्तान्नोपसीदत तेषां समीपमपि मा यात, न ह्येषां- वयं स्वामिनः पापिनां हि निग्रहे वयमधिकृताः, न तेषां- पापगन्धोऽपि; अथ कथञ्चित्स्यात् पातकं तथाऽपि वयं- दण्डे न प्रभवामः भगवत्प्रपन्ना हि ते भगवत्प्रपदनेन कीर्तनादीनामन्यतमेन दास्यलक्षणेन वा भजनेनैव निर- स्तपापाः, अत एव सकलजगत्प्रसिद्धां पापोत्पत्तिं प्रति- पद्यमानाः श्रुतिपुराणसिद्धान्तरहस्यगहनगर्भितां तु तन्निःसरणसरणिमविदुषां भवादृशां भ्रान्त्याऽपि कथं- चिदुपगमनं स्यादिति हरेर्गदया सर्वतो गुप्तास्तानोपसी- दतेति, अपि च देवानां मध्ये ये सिद्धा माहात्म्यविशेष- संपन्नाः पुरन्दरायः तैः स्वतःपूतैरप्यतिशयेन पूतत्वाय परिगीता पवित्रभूता गाथा येषां लक्षणापेतमपि यन्ना- माङ्कितं पद्यं वा प्राकृतभाषारचितं वा तेषां पूतत्वे कतमः सन्देह इति । "खपादमूलं भजत” इत्यत्र तु विविदिषावाक्यविनियुक्ताकर्मणोऽन्यत्सर्वमेव मुक्ति- विरुद्ध कर्म विकर्मशब्देनोच्यते न निषिद्धकर्ममात्रं तस्य कीर्तनादिमात्रानिवृत्तेर्दर्शितत्वात्, श्रीपराशरसंहितायामपि न चलतीत्यादिभिरुपल- क्षितानां सततं मनसि जनार्दनं धानानां पापहेतूनां- प्रकाशसहिता रागादीनामुच्छेदो विविक्षितः पापक्षयः पुनः कीर्तन- मात्रात् कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे ! भव शरणमितीरयन्ति ये वै त्यज भट ! दूरतरेण तानपापानिति वचनाद् भक्तानां नरकपातस्यानाशङ्कनीयत्वादेव न तदर्थमयमारम्भः, अपि तु तत्रत्यासन्नजनवर्जनार्थ,- यदाह-"व्रज तान् विहाय दृरात्" "त्यज भट दूरतरेण तानपापान” "ब्रज भट दूरतरेण मानवानामि" ति च, अतएवोपक्रमेऽपि “परिहर मधुसूदनप्रपन्नान्” दूरत इति व्याख्येयं, न च स्तुतिमात्रत्वमेषाम् , उपपत्तिमत्त्वात् , तथा हि- सकलमिदमहश्च वासुदेवः परमपुमान्परमेश्वरः स एकः । इति मतिरचला भवत्यनन्ते हृद्यगते ब्रज तान् विहाय दूरादित्यस्या- नन्ते श्रवणादिभिरावर्जिते हृदयगते सति तत्प्रसा. दादेवाहमिदमिति भोक्तभोग्यरूपं सकलं जगद्वासुदेवो- माययाच्छन्नचित्प्रकाश एव न तस्मादतिरिच्यते, स हि परमपुमान् पुरुषस्य निरुपाधिकं स्वरूपं परमेश्वरश्च सर्वाधिष्ठानं स एकः स्वरूपेण, एवं सजातीयविजाती- यस्वगतभेदविरहान्नितान्तनिर्भेदभगवत्तत्त्वमिति मतिर- चला भवति येषां तान् दूराद्विहाय ब्रज भट; तवलो- कनपरिपवित्रिता हि प्राणिनो नैवास्मद्गोचरे वर्तन्त- 3 श्रीभगवन्नामकौमुदी। १०३ इत्यर्थः। एतदेव स्पष्टीकृतं पुरुषवरस्य चैतस्य दृष्टिपाते न तव गतिरथ वा ममास्तीति, महदर्शनस्य च पावनत्वं- प्रसिद्धमेव- न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः। ते पुनन्त्युरुकालेन दर्शनादेव साधव- इत्यादौ । शङ्कते-नन्विति । समानवाक्योपात्तस्येति । के चित्केवलया भत्त्या वसुदेवपरायणा इत्यत्र कैवल्यं वासुदेवपरायणशद्वोक्तभावव्याव. तकत्वं न सहते तद्विरोधादित्यर्थः । तदतिरिक्तं साधनं स्मात प्रायश्चि- त्तम् । अतो वासुदेवे भावुकानां केवलं भगवद्भजनं पापक्षयसाधनमिति वाक्यार्थः । केवलयेति श्रुत्या कीर्तनादिरूपाया भक्तरविशेषतोऽन्य- निरपेक्षत्वं प्रतीयते, वासुदेवपरायणा इति वाक्येन भावुकानामिति संकोचः क्रियते, न च श्रतिविरोधे वाक्यं प्रवर्तत इति समाधत्ते- मैवमिति। तर्हि वासुदेवपरायणा इत्यनर्थकं ? नेत्याह-अत इति । वासुदेवपदार्थमाह-सर्वेति । परायणशद्वार्थमाह-परमिति । तात्प- ार्थमाह-सर्वेश्वरेति। भाव इति । वासुदेवपरायणा इत्यस्य तात्पर्यं- वासुदेवपरायणशद्वशक्यो न । दूषणान्तरमाह-अपि चेति । ननु सकृन्मन इत्यादिवाक्ये गुणरागिशद्वेन भावः पापक्षयसाधनत्वेन प्रती- यते तत्राह-सकृदिति । विषयः परमात्मा। तत्सौन्दादेव प्राप्तराग- स्य पुरुषस्य स्मरणसौकर्यप्रतिपादनार्थमित्यर्थः । नन्वेवं विक्रश्येत्यादि- वाक्ये स्पष्टं भावयुक्तानां पुंसां पापक्षयसाधनं कीर्तनं प्रतीयते तत्राह- एवमिति । उरुगायशद्वार्थमाह-बहूभिधानस्येति । अनन्तानन्देति तात्पर्यर्थः । पापान्निःसरणमार्गमविदुषां भवादृशां दूतानाम् । गाथाश- द्वार्थमाह-लक्षणेति । स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः। विकर्म यच्चोत्पतितं कथं चिद्धनोति सर्व हृदि सन्निविष्ट- इति श्लोके भावुकस्य पुंसो विकर्मपदवाच्यनिषिद्धनिवृत्तिप्रति- पादनान्न कीर्तनमात्रात्पापनिवृत्तिरतश्राह-वपादेति। तमेतं वेदानु- वचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति विविदि- वावाक्यम् । मुक्तिविरुद्धं काम्यमित्यर्थः। दधानानां पुंसाम् ननु भक्ता- १०४ प्रकाशसहिता नामुपक्रमात्कथं तेषां नरकपातशङ्का ? अत आह-भक्तानामिति। दूरतरे. णेति तरप्शदप्रयोगाद्विष्णुभक्तप्रत्यासन्नजनवर्जनार्थमयमारम्भ इति भावः। ISRO दर्शनं चात्र तत्कर्तृकं तत्कर्मकं वा, उभयस्यापि पावनत्वाविशेषाद्, "ब्रज भट दूरतरेण तानपापानि"- त्यपि न स्तुतिपरं, कमलनयनकीर्तनध्वनिर्हि सर्वतो विसारी कुझ्यादिव्यवधानेऽपि वेधकश्च, अतस्तदन्तराले वर्तमानानामन्धबधिराणामपि सर्वेषामनङ्गुलिप्रेक्षणी- यत्वात् तान् दूरतरेण व्रजेत्युपपन्न एव तरबर्थः, अपापा- निति च न स्वगतपापाभावो विवक्षितः किन्तु परगत- पापनिषेधकत्वं प्रयोजनवशाद् यमनियमविधूतकल्मषाणा- मनुदिनमच्युतसक्तमानसानाम् । अपगतममानमत्सराणां- व्रज भट ! दूरतरेण मानवाना- मित्यत्रापि नियमे स्वाध्यायस्यान्तर्भावात् तस्य च परदेवताप्रकाशकमन्त्रोचारणात्मकत्वाद् भक्त्यावेशवशा- दुच्चैरुच्चारणस्यापि संभाद् विवक्षितएव तरयर्थः। उत्त- मभागवतास्तु दुर्लभदर्शनास्तेषां हि बहिर्विरलः प्रचारः प्रचरन्तोऽप्यनुपासितशरीरतया न सर्वैरुपलभ्यन्ते तेषा- मपि युगमात्रावलोकिनां कथं चित्कश्चिल्लोचनगोचर- मवतरतीति दूरादित्युक्तम्, यस्य देवे च मन्त्रे च गुरौ च त्रिषु निश्चला। न व्यवच्छिद्यते भक्तिस्तस्य सिद्धिर्न दूरत- इत्यादौ तुसिद्धिरपवर्गादिलक्षणा; न पापक्षयलक्षणा, वचनान्तरानुरोधात् , तस्मात्केवलं कीर्तनादि पापक्षय- , १०५ - Nawa श्रीभगवन्नामकौमुदी। हेतुः, न तत्र भक्तिरङ्गम् अधिकारिविशेषणं वा, अभि- धेयज्ञानमपि नाङ्गं प्रमाणाभावादेव । प्रसङ्गान्महदर्शनमाहात्म्यं निरूपयति-दर्शनं चेति । ननु ब्रज भट दूर- तरेण तानपापानित्यर्थवाद एव किं न स्यादत श्राह-ब्रज भटेति। तद- न्तराल इति । यावति देशे नामकीर्तनध्वनिस्तदन्तराल इति । अनङ्गुलि- प्रेक्षणीयत्वादिति । येष्वङ्गुलिरपि दर्शयितुं न शक्यते तावतैवेश्वरनि- गृहीतत्वात्तेषामानयनं दुरापास्तमिति भावः। परगतेति। स्वसन्निहि. तगतपापनिवर्त्तकमित्यर्थः। नियम इति । तपःस्वाध्यायसंतोषाः शौचं च हरिपूजनम् । संध्योपासनमुख्याश्च नियमाः परिकीर्तिताः॥ इत्यत्रोक्ता इत्यर्थः कथं तर्हि सकलमिदमहं च वासुदेव इत्यादि- श्लोके नतरप्संकीर्तनं? तत्राह-उत्तमभागवतास्त्विति । परमप्रकृतमुप- संहरति-तस्मादिति। नन्वभिधेयपरमेश्वरज्ञानं कीर्तनाङ्गं स्यान्नेत्याह- अभिधेयेति । ननु दर्शितं प्रमाणं; सत्यं दर्शितंन तु तदङ्गत्वेप्रमाणं, यद्व्याजहारविवशो,” "हरिरित्यवशेनाह" "सांकेत्यं पारिहास्यं वा” "हरिरवशाभिहितोऽप्यघौघनाशः" "अ- वशेनापि यन्नानि कीर्त्तिते" "हरिरिति सकदुच्चरितं दस्यु- छलेनापि यैर्मनुजैः” इत्यादिबहुतरप्रमाणविरोधाद्, न चैतेषामतत्परत्वम्, अभ्यासगतिसामान्याभ्यामित्यवा- दिष्म । नन्वपिशद्वयोगादेषामतत्परत्वंमैवं, भागासिद्ध- त्वाद्धेतोः, “यद् व्याजहार विवशोइत्यादावदर्शनाद् । ननु तत्राप्यध्याहार्योऽपिशद्धः; तदर्थस्य विवक्षित- त्वाद्, अन्यथा ज्ञानपूर्वककीर्तनस्यापावनत्वप्रसङ्गात् ? तदयुक्तं, न हि श्रुतबाधायाध्याहरन्ति, अपि तु श्रुतो- पपत्तये, एवं च सिद्धमेवाक्शात् कीर्तनस्य पावनत्वम् । अपि च; अपिशद्धयोगे तदपि स्याद्, न तु तदेवेत्येतावद्, " न पुनस्तन्न भवत्येव।

प्रकाशसहिता नन्वपिशद्वयोगे तात्पर्यमन्यत्र स्याद; अतात्यर्यवि- षये बाधकामावसव्यपेक्षमेव प्रामाण्यम् , एषां च बाध- कस्य विद्यमानत्वान्न प्रामाण्यमिति ? इदमसाधु । ज्ञानाख्यगुणविधायकं हि तस्य बाधकं न च यतस्तद्वि- षया मतिरित्यादेविधायकत्वम् , उपपत्त्यर्थवादो ह्यसौ सर्वार्थनिबर्हणीं ब्रह्मविद्यामुत्पादयतः पापनिहरणे कियान् प्रयास इति, "नाम खस्त्ययनं हरे” रिति स्वस्तिशद्धेन मोक्षोऽभिधीयते, स्वस्तीत्यविनाशिनामेति नैरुक्ताः, मोक्षसाधनत्वं च न विधीयते पदार्थशक्तरवि- धेयत्वात्, किन्तु सिद्धमेव सङ्घीयते श्रुतलाध्यत्वोपप त्यर्थ, तहदत्रापि । दर्शितं कीर्तनकर्तव्यताबोधकं प्रमाणं; तन्न प्रमाणमिति शङ्कते- नन्विति । अभिधेयज्ञानस्याङ्गत्वे न प्रमाणमिति परिहरति-सत्यमितिक तत्र तत्र विवशत्वसंकोर्त्तनादिति भावः । अतत्परत्वं-विवशत्वपरत्व. भावः। प्रतिज्ञातार्थे हेतुमाह-अभ्यासे ति। अभ्यास एकत्र पुराण आवृत्तिः । गतिसामान्यमनेकपुराणप्रतिपन्नत्वम् । अपिशब्दादिति । श्र. वशेनापि दस्युच्छलेनापीति । एषां वाक्यानां भागासिद्धिमेवाह- यदिति । तदर्थस्य = अपिशब्दार्थस्य । विवशेनापि संकीर्तनं पावनं- किमुत ज्ञानपूर्वकमित्यस्येत्यर्थः । अत्र हि विवशत्वेन नामकोर्तनस्य पावनत्वं श्रुतं; तस्य न बाधोऽपिशब्देनेत्युपसंहरति-एवं चेति। तदपि स्यादित्यर्थः । न तु तदेवेति । एकमेवेत्यर्थः । एतावदित्यपिशब्दाद्विव- क्षितमिति, ततश्च विवशत्वेन ज्ञानपूर्वकं च नामकीर्तनं पावनमिति भावः। न पुनस्तदिति। तच्छूयमाणं न भवत्येवेत्यपि विवक्षितं नेति भावः। शङ्कते-नन्विति। अन्यत्रेति । विवशत्वादिति शेषः। तदेवोपपा- दयति-अतात्पर्येति । बाधकाम.वेन दूषयति-ज्ञानेति । उपपत्त्यर्थवा. दत्वमेवाह-सर्वेति । नामकीर्तनस्येति शेषः। ननु सर्वानर्शनिबर्हण ब्रम्हविद्योत्पादकत्वे किं मानं? तत्राह-नामेति। किमत्र मोक्षसाधनत्वे विधिनेत्याह-मोक्षेति । श्रतं पापक्षयसाधनत्वं तदुपपत्तय इत्यर्थः । अत्रापि = यतस्तद्विषयामतिरित्यत्रापि, न विधिरित्यर्थः। । ।

२०७ श्रीभगवन्नामकौमुदी। नन्वर्थवादाद्विधिः श्रेयान् , तत्र श्रेयान् यत्र गुण- वादः प्रसज्येत, इह पुनरर्थवादत्वेऽपि यथार्थवाद एवेति नायं न्यायः, अपि च बहुतराणां स्वरसत एव प्रतीयमानं- प्रमाणान्तरैरविरुद्धभनधिगतमुपयुक्तमर्थमनुवाद्य; छि- त्राणांवा विधित्वं कल्प्यता; सर्वेषां च स्वं स्वमर्थमजह- तामर्थवादत्वमितिमीमांसायामपङ्क्तिभेद एव श्रेयान् , अपि च कैमुत्यविवक्षायां दृष्टान्ता नोपपद्यन्ते-- अज्ञानादथ वा ज्ञानादुत्तमश्लोकनाम यत् । संकीर्तितमघं पुंसां दहत्येधो यथाऽनलः ॥ यथाऽगदं वीर्यतममुपयुक्तं यदृच्छया। अजानतोऽप्यात्मगुणान् कुर्य्यान्मन्त्रोऽप्युदाहृतः॥ हरिहरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावक- इत्यादयः, साध्यवैकल्पाद्, न हि तेषु कैमुत्यमस्ति; अपितुज्ञानाज्ञानयोः साधारण एव साधनभावः, अपि च नारायणेत्येतजगाद चतुरक्षरं" "हरिरित्यक्षर- द्वयमि"ति वदन शब्द एव विवक्षितोनार्थानुसंधानमित्य- भिसंधत्ते, अन्यच्च " यतस्तद्विषया मतिरि" त्यादौ न विधिः कल्पयितुं शक्यते, साधिकार हीदं वाक्यं, न च साधिकारे वाक्ये गुणविधिमनुमन्यन्ते न्यायविदः, वैरूप्यं- हि तदा प्रसज्येत, प्रवृत्तिरपि स्वविषयज्ञानापेक्षिणी न पुनामिज्ञानापेक्षिणी, तस्मान ज्ञानमहं कीर्तनस्य,नाप्य- धिकारहेतुः । यदप्युक्तम्-अनुतप्माननुतप्तभेदेन सकृत् कृतमावर्तितं च कीर्तनं व्यवस्थितमिति; तदपि नाती- वाभिप्रेतं, तथा हि-विधाद्वयमप्येत किं विधिसामर्थ्या- an प्रकाशसहिता निवर्तकं पातकस्य; किंवा खसामर्थ्यात् ? तत्र यदि विधि- सामर्थ्यात् तर्हि भवितव्यमुभयत्राप्यनुतापेन, अनुतप्ता- एव हि प्रायश्चित्तविधावधिक्रियन्ते, यदि खसामर्थ्यात् तर्हि न कुत्रचिदनुतापोपयोगः, न खलु पदार्थस्वभावः पुरुषगतां योग्यतामपेक्षते, न हि तपनस्तपखिनयना- गानगतामेव तमस्तमालण्डलीमुन्मूलयति न तु चाण्डाल- चक्षुश्चत्वरवर्त्तमानामित्यस्तिनियमः,अपि चेह खमहिम्नव पावनत्वमुचितं न तु विधिसामर्थ्याद्, विधेर्हि विधाद्वयं लिङादियुक्तं वाक्यं; लिङाद्यर्थश्च, तत्र प्रथमोविधिः प्रमा- णमेव, प्रमाणं च प्रमेये न कथं चिदविद्यमानं महिमान- मुत्पादयति, अपि तु यथाऽवस्थितमेव वस्तुतत्त्वमनवगत- मवगमयत्येव, उक्तं हि मीमांसाभाष्यकृद्भिः "उपायं तु न वेद तस्योपायः कथनीय” इति, नैष्कर्म्यसिद्धिकारैरपि "उपायान् प्राप्तिहानार्थान् शास्त्रं भासयतेऽवदि". ति, द्वितीयः पुनः फलसाधनत्वमेव न तस्य पुनः साध- नाधीनसाधनत्वं, तस्मात्स्वमिहन्नैव पावनत्वं खमहिम्नव चेदमंहसां निवर्तकं कीर्तनमावृत्तेरुच्चाटनमन्त्री जप्तएव श्रद्धाऽऽदीनामपि, न हि मिहिरस्तिमिरं विहन्तुमुदयमाव- यति श्रद्धाऽऽदिकं वाऽपेक्षते, न च मन्तव्यमावृत्तस्यैव तादृशः प्रभावः न तु सकृत्कृतस्येति ? सकृत्कृतस्यापि पावनत्वप्रतिपादकानां वचनानामनेकेषां दर्शितत्वाद् । न च तेषामवयवानुवादानां द्वादशकपालप्रशंसाऽर्थता- वदावृत्तिगुणयुक्तकीर्तनप्रशंसाऽर्थतेति वाच्यं, स्वार्थे प्रामाण्यस्य प्रबन्धेन प्रतिपादितत्वात् , तस्माद् व्यवस्थैव परं परिशिष्यते, सा च न संभवतीत्यभिहितमेव । द्वित्राणामिति। यतस्तद्विषया मतिरित्यादीनामित्यर्थः। मीमांसायां.

। श्रीभगवन्नामकौमुदी। १०६ संदेहे । अपङ्क्तिभेद-इति । अवैषम्यमित्यर्थः। कैमुन्येति । अज्ञानादपि नामकीर्तने पापक्षयो भवति किमुत ज्ञानपूर्वक इति विवक्षायामित्यर्थः । अगदमोषधम् । साध्यवैकल्यमेवाह-न हीति । साधिकारमिति। सर्वेषामप्यघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिरिति- वाक्ये नामोच्चारणस्य पापक्षयफलसंबन्धात्मकोऽधिकारः प्रतिपा. द्यत इत्यर्थः। तावताकिं ? तत्राह-नचेति।वैरूप्यमिति । पापक्षयोद्देशेन नामोच्चारणं विधीयते, तदुद्देशेन चाभिधेयज्ञानात्मकगुणविधानमित्ये. कस्य नामोच्चारणस्योपादेयत्वोद्देश्यत्वविधेयत्वानुवाद्यत्वगुणत्वप्रधा- नत्वमिति विरुद्धत्रिकद्वयापत्तिरित्यर्थः। अभिधेयज्ञानाभावे कथंनामो- च्चारणे प्रवृत्तिः? तत्राह-प्रवृत्तिरपीति । स्वविषयो नामोच्चारणम्। नामी- परमात्मा । नाप्यधिकारेति । अभिधेयज्ञानवानधिकारीत्यपि नेत्यर्थः। मानाभावादेवेति भावः । विधाद्वयमिति । अनुतप्ताननुतप्तकृतं नामकी. निमित्यर्थः । इह नामोच्चारणे । प्राप्तिरिष्टस्य हानमनिष्टस्य तदर्था- नित्यर्थः। द्वितीयो लिङाद्यर्थः। पावनत्वं पापक्षयसाधनत्वं, ततश्चा. त्माश्रयतेत्यर्थः। खमहिनेति । नामकीर्तनमहिनेत्यर्थः। फलितमाह- स्वमहिम्नैवेति । अंहसां पापानाम् । उच्चाटनमभावः। अतएव श्रद्धाऽऽ. दीनामप्युश्चाटनमित्यनुषङ्गः । मिहिरः सूर्यः । अवयवानुवादानामिति । "यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेनपुनाती"त्यादीनां "वैश्वा. नरं द्वादशकपालं निर्वपेदि"त्यैतद्विधिविहितयागार्थवादत्वं यथा; तथेत्यर्थः। प्रबन्धेन = विस्तरेण । अनुतप्तस्य सकृन्नामोच्चारणमित- रस्यासकृदिति व्यवस्था। ननु तर्हि कथमनुतापमावृत्तिं चाभिधद्वाक्यजातं- व्याख्येयम् ? व्याख्यायते-कृते पापेऽनुताप इत्यस्य तावत्पापक्षयसाधनं कीर्तनमित्येतावानेवार्थः, तथा हि-प्रायश्चित्तशब्दस्तावत्कीर्तने न मुख्यः, "प्रायो नाम तपः प्रोक्तं चित्तं निश्चयउच्यत" इति व्याख्यानाद्, न च कीर्तनं तयोरन्यतरदुभयं वा, अतो- गौणोऽयं, यथा प्रायश्चित्तं हितसाधनं; तथेदमपि, हितं. ।

प्रकाशसहिता च विविधं सुखप्रातिरनर्थपरिहारश्च, तत्राप्यनर्थपरि- हारलक्षणं हितं विध्यपेक्षितत्वं समर्पयति, "कृते पापेऽनुतापो वै यस्य पुंसः प्रजायत इति यो हि यस्मादनुतप्तस्तस्य तन्निवृतिरेव हितं ततश्च पापादनुतप्तस्य कीर्तनं हितसाधनमित्युक्त पापक्षय- साधनमित्युक्तं भवति, परशब्दश्च केवलशब्दपायः, कीर्तनमेव पुष्कलं साधनमित्यर्थः। एकमिति सकृदिति- च हरिकीर्तनस्य सर्वस्यैव स्मारकत्वात् संस्मरणमित्य- नुवादः, स च प्ररोचनफलः; समीचीनं ह्येतदिति, स्वर्ग- कामादिपद्मपि समीहितलक्षणस्य विधेः प्रथमापेक्षित- समीहितविशेषणसमर्पणपरमेव न पुरुषपरम् , अर्थतस्तु स्वर्गकामोऽधिकारीति मीमांसाहृदयवेदिनांनिर्णयः । नन्विहापि तयनुतप्तस्याधिकारः प्राप्त एव ? मैवम् , अत्यन्तसुकरत्वेनान्यथाऽपि प्रवृत्तिसंभवाद्, अशाब्द- त्वादेव च फलकामनायाः प्रकारान्तरेणापि प्रवृत्तस्य पापक्षयो भवेदेव। नन्वेवं तह्यवर्गकामस्यापि यागादौ प्रवृत्तस्य स्वर्गः किं न स्यात् ? को वा ते प्रवृत्तस्य न स्यादिति ? किन्तु प्रवृत्तिरेव तस्मिन्फलकामनामन्तरेण न संभाव्यते; दुर्भर- गरिमत्वात् , कौतूहलादिकमपि न सकलाङ्गकलापव्या- पिनी प्रवृत्तिमुत्पादयितुमलम्, अतस्तत्कामस्यैव तत्रा- धिकारः, इह पुनः फलाभिसंधिमन्तरेणापि स्वभावसुभ- गतया सुकरतया च सुलभा प्रवृत्तिरिति सर्वस्यैवावि- कलवागिन्द्रियस्याधिकारः, अत एव सुकरेषु कर्मसु फलकामनां विनाऽपि प्रवृत्तिः संभवति, प्रवृत्तस्य च ?

श्रीभगवन्नामकौमुदी। फलसिद्धरनिवार्यन्वात् तस्त्राश्च संमारहेतुभावाद् मुमुक्षोः काम्यकर्मत्यागं समादिशद्भगवान्- "काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुरि"ति, तस्मादनुतापो नाधिकारे हेतुः: नाप्यङ्ग कीर्तनस्य; अवशेनेत्यादिप्रमाणविरोधात् , कृष्णानुस्मरणं परमित्य- नापि परमुत्कृष्टं प्रायश्चित्तमत्यन्तशुद्धिसाधनमावृत्ति- गुणकं कृष्णकीर्तनमिति विवक्षितम् , अत्यन्तशुद्धिश्च सह वासनाभिः पापानां परिक्षय इति प्रपञ्चितमेव, ततश्च भविष्यद्भिः पापैरनुपश्लेषः फलमावृत्तः, कीर्तन- मात्रस्य पुनः प्राचीनपापक्षए इत्युक्तं भवति, अत एवो- क्तमुत्तरश्लोकेन “कृते पापेऽनुतापो वै यस्ये"ति, अन्यथा हि सामान्येन पापादनुतापो यस्येत्यवदिष्यद् । एवं सर्व- त्रावृत्तानावृत्तकीर्तनविषयाणि वचनानि व्याख्येयानि । अत्रावृत्तिविषयाणि तावद्- नैकान्तिकं तद्धि कृतेऽपि निष्कृते मनः पुनवति चेदसत्पथे। तत्कर्मनिरिमभीसतो हरे- गुणानुवादः खलु सत्त्वभावन- इत्यत्रावृत्तस्य भगवत्कीर्तनस्यात्यन्तशुद्धिहेतुत्वं- स्पष्टमेव । नातः परं कर्मनिबन्धकृन्तनं- मुमुक्षतां तीर्थपदानुकीर्तनादि- त्यत्रापि मुमुक्षूणामधिकृतत्वादत्यन्तशुद्धिरेव वि- वक्षिता। किंकरा दण्डपाशौ वा नियमो न च यातनाः ११२ प्रकाशसहिता समर्थास्तस्य यस्यात्मा केवलालम्बनः सदे- त्यत्रापि यस्यात्मा केवलालम्बनस्तस्य सदा न सम- र्थाइत्यन्वयः, वचनान्तरानुरोधाद्, गोमूत्रयावकाहारो ब्रह्महा मासिकैर्जपै- रित्यदावपि मोक्षसाधनत्वादष्टाक्षरब्रह्मविद्यायाः, मोक्षस्य च परमशुद्धिरेव विवक्षिता न पापक्षयमात्रं, ततश्च तत्तदावृत्तिविशेषात्तत्तत्पापवासनाविनिवृत्ति- स्ततश्च पुष्कलशुद्धिरिति । अथ वा सकृत्कीर्तनादेव प्रक्षीणेऽपि पापे कस्य चिशद्धारोपितमपूतत्वमात्मनि मन्यमानस्य तन्निबन्धनं दुःखं न निवर्तते; तस्य तदार- म्भकपातकप्रध्वंसायावृत्तिविशेषयुक्तं मन्त्राध्ययनं विधी- यते, प्रारब्धपरिक्षये च युक्तमेवावृत्त्यपेक्षणम् , अारोग्या- दिषु तथादर्शनात् । ननु यथोक्तावृत्तिविहीनाभ्यामपि श्रवणकीर्तना- भ्यां प्रारब्धपरिक्षयोऽपि श्रीस्कन्दपुराणनरसिंहपुराण- योदृश्यते ? सत्यं, तत्तु श्रीमत्पञ्चाक्षरनारदादिमहापु- रुषानुग्रहसहचारितयेति निश्चीयते; तस्मादावृत्तिविधी- नामन्यार्थत्वादमारब्धप्राचीनपापक्षये सकृत्कीर्तनमेव साधनमिति निरपवादम् , अत्र वचनानि सन्त्यनन्तानि, तथा हि- सकृदुचरितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रतीति, परिकरबन्धश्चात्र प्रक्षीणपापत्वमेव, तत् खलु प्रथमं- सोपानमपवर्गप्रासादारोहणस्य, तथा हत्याऽयुतं पानसहस्रमुग्रं- , ७ atrumendhim , श्रीभगवन्नामकौमुदी। गुङ्गानाकोटिनिवेवणं च । स्तेयान्यसंख्यानि हरेः प्रियेण गोविन्दनाना निहतानि सद्य- इत्यत्रापि सद्यस्तदानीमेवेत्यावृत्तिनरपेक्ष्यं दर्शयति, प्रातर्निशि तथा संध्या- मध्यान्हादिषु संस्मरन् । नारायणमवाप्नोति सद्यः पापत्तयं नर- इत्यत्रापि सद्य इत्युपजीव्यते, नरमात्रस्याधिकृतत्वाद् विश्वासादिनिरपेक्षता, प्रातरादीनां च विकल्पो; न तु समुच्चयः, सद्यस्त्वव्या वातात्, सद्यस्त्वव्यावानात्, ततश्च कालविशेषो- नादरणीय इत्यर्थः। ननु कृते पापेऽनुतापो वै यस्य पुंसः प्रजायत इत्यादिवाक्या- दनुतप्तस्य सवन्नामोच्चारणेऽधिकारः प्रतीयते ? तत्राह-कृतइति । तयोरिति। तपोनिश्चययोरित्यर्थः। उभयं त्रा; न चेत्यनुषङ्गः।ततःकि- प्रकृते ? तत्राह-तत्रेति। विध्यपेक्षितमिति । विधेः पुरुषार्थपर्यवसायि- त्वादिति भावः। कथमनेन हितविशेषः समय॑ते? अताह-योहीति। परशब्दार्थमाह-परेति । एकशब्दार्थमाह-एकमिति । नन्वत्र स्मरणस्य फलसंवन्धःश्रयते न कोर्त्तनस्य ? तत्राह-हरीति। किमर्थोऽनुवादः? तत्राह-सचेति । प्ररोचना प्राशस्त्यज्ञानं फलं यस्य सः। प्ररोचना- मेवाह-समीचीनमिति। एतत्कीर्तनं संसारनिवर्तकं हरिस्मरणफलक- स्वादिति भावः। तदेवं कृते पापेऽनुतापो वैइत्यादिकं नानुतप्ताधिकारि. समर्पकं किं तु पापक्षयफलपर, तत्र दृष्टान्तमाह-स्वर्गेति। कथं तर्हि स्वर्गकामाधिकारित्वसिद्धिः? तत्राह-अर्थतस्विति। प्राप्त एवेति- अर्थतइति भावः। अन्यथा प्रवृत्तावपि पापक्षयो न भवेदत आह-अशा- द्वत्वादेवेति।प्रकारान्तरं सांकेत्यपरिहासादि। नन्वित्यादिशङ्कापरिहारौ प्रौढिवादेन, अर्थात्वर्गकामाधिकारिसिद्धः । इह पुनरित्यादिकमपि प्रौढिवादो ज्ञानादथ वाऽज्ञानादित्यादिवचनादेव सर्वाधिकारसिद्धः, किं तु सांकेत्यपरिहासादिकृतनामकीर्तनेऽपि पापक्षयं कत्तुं प्रवृत्ति mpan । । ।

प्रकाशसहिता संभव एवोच्यते; अत एवेत्यादिरपि प्रौढिवादः,सुकरासुकरसाधारण- काम्यकर्मत्यागस्य भगवतोपदिश्त्वात्। प्रायश्चित्तान्यशेषाणोति बाश्य- नामावृत्तिपरत्वेन व्याचष्टे-कृष्णेति । उत्तरश्लोके कुत इत्युपजीव्यम् । सदापदस्य व्यवधानेन संबन्धमाह-यस्यात्मेति । वचनान्तरेति । सकृन्नामोच्चारणस्य सकलपापक्षयहेतुत्वप्रतिपादकवचनान्तरानुरो. धादित्यर्थः । अष्टाक्षरेति। नारायणविद्याया इत्यर्थः। श्रीमान् पञ्चा. क्षरश्च नारदादिमहापुरुषानुग्रहश्च तत्सहचारितयेत्यर्थः । उत्तरो ग्रन्थः । स्पष्टार्थः। LOOD अवशेनापि यन्नानि कीर्तिते सर्वपातकः । पुमान् विमुच्यते सद्यः सिंहनस्तै गरिवे- त्यत्रापि; सद्य इति विवक्षितम् । सिंहन्त्रस्त गैरि- वेत्यस्यायमर्थः-यथा कश्चिद्राजकुमारः सिंहशिशुं- परिगृह्य पञ्चरे निधाय पुष्णाति तेन च यूना परिचय- प्ररूढानुरागेण वनान्तरे विहरति तस्माचकितैर्वनगज- व्याघ्रादितिर्मुच्यते दूरात्; तथा बदनपङ्कजस्थान्नर- हरिनामधेयकएठीरवाद् भीतैः पातकैः पुरुषः परिहियत- इति । तथा यत्कीर्तनं यच्छवणं यदर्पणं- यद्वन्दनं यत्स्मरणं यदहणम् । लोकस्य सद्यो विधुनोति किल्बिषं- तस्मै सुभद्रश्रवसे नमो नम इति, अस्यार्थः-अर्पणमन्त्रात्मनिवेदनम् , अहणमर्चनम् , अत इह षड्भक्तयो गृह्यन्ते, ताश्च प्रत्येक किल्बिषविधू- ननेन संबध्यन्ते, न च ताभिर्विशिष्टं किल्विषविधूनन- मेव वाक्यार्थः, तस्य फलत्वेनाविधेयत्वाद्, न च तासां- पाठिकः परस्परान्वयः, क्रियात्वाद्, न चात्र चादिः Mondawata श्रीभगवन्नामकौमुदी। ११५ श्रूयते समासो वा इन्द्रः, येनाग्नेयादीनामिव समुच्चयः स्यात्, तस्मा"लोकस्य सद्यो विधुनोति किल्बिषमि"ति पदचतुष्टयस्य तन्त्रणावृत्त्या वा पडिमानि वाक्यानि, ततश्च तासांतमशिष्टत्वादन्योन्यनिरपेक्षाणां पापक्षयसा- धनत्वं, तच्च सद्य एवेति श्रावृत्तिनिरपेक्षतेति, अनुवादो- ऽप्ययमेतादृशं विधिमनुमापयतीति तदारेण प्रमाणमेव, श्रीरामवाक्यं च- सकृदेव प्रपन्नाय तवास्मोति च याचते। अभयं सर्वदा दास्य इति जन्मव्रतं ममेति। अवतारान्तराणि कदा चित्कपटमप्परिषु प्रयुञ्जते प्रयोजनवशाद् न भक्तेषु, श्रीरामचन्द्रः पुनः परिपन्थि- ध्वपि न मनामनोविसंवादिनी वाणीं प्रयुङ्क्ते । अन्या- न्यप्येवंजातीयकान्युदाहा-णि, तस्मादप्रारब्धप्राची- नपापक्षयः सकृत्कीर्तनादेवेति। अवशेनापीत्यत्र सिंहस्तैगैरित्यसम्बद्धं, न हि सिंहास्तैः पुमान्विमुच्यतेऽतो व्याचष्ठे-यथा कश्चिदिति । कण्ठीरवः सिंहः । यत्कीर्तनमित्यादिवाक्ये पड्भक्तीनां समुच्चितानाम् पापक्षयसाधनत्वं- निराकरोति-तथेति । विशिष्टम् = महत् । न च तासामिति। अरु- णयैकहायन्येत्यादौ क्रियासाधनानामारुण्यादीनां पार्टिकोऽन्वयो; न क्रियाणां, क्रियाश्चैताः कीर्तनाद्या इति न तासां पार्टिकान्वयेनारुणा- दिवत्समुच्चय इत्यर्थः। चाद्यो निपाताः समुच्चयावेदकाः; दर्श- पूर्णमासाभ्यामितिवद् द्वन्टो वा न श्रूयत इत्याह-न चेति । तन्त्रेणेत्या- पाततः। सकृदुच्चरितस्य पटसु वाक्यार्थेष्वन्वयानुपपत्तेः । तासां- भक्तीनाम् । तथापि कथं सकुनामकीर्तनस्य पापक्षयसाधनत्वं ? तत्राह-तश्चेति । नयास्मिन्वाश्ये विधिर्न श्रूयते कथम् प्रामाण्यं ? तत्राह- अयोऽपीति । तद्धारेण = विधियारेण । विधिश्च सकृन्नाम कीर्तदित्यादिरनुमेयः। श्रीरामेणोकत्वात्तकृत्त्वं तत्तात्पर्य विषय इत्याह-अवतारान्तराणीति । परिपन्थिनो विरोधिनः। -~- ॥ ।

SUSA সাহাবি नन्वनागतानामनुपश्लेषोऽपि सकृत्कीर्तनादेव दृश्यते- वर्तमानं च यत्पापं यद्भतं यद्भविष्यति । तत्सव निईहत्यांशु गोविन्दानलकीर्तनमिति ? तदसद्, अत्राप्यावृत्तेरुपमहाराद्, न चाशुशब्दस्तदु- पसंहारविरोधी, प्राशुभावो हि शीघ्रता, सा च साति- शया, अतिशयश्चापेक्षिकः ततश्च, साधनान्तरेभ्यः सका- शादाशुत्वं न पुनः सद्यः साधनत्यमिति, यत्पनरुक्तं- मरणावसरे कृतस्य कीर्तनस्य विश्वासाद्यभावेऽपि सा- घसंहारित्वमिति ? तप्यसद्, म्रियमाणो हरेनाम गृह्णन पुत्रोपचारितम् । अजामिलोऽप्यगाद्धाम किमुत श्रद्धया गृणन्निति स्वयमेव मरणकालस्याविवक्षितत्वप्रतिपादनाद्, नन्वपिना ग्रस्तमविवक्षितं भवति तत्प्रतियोगि च कैमुत्येन संबध्यते तत्र श्रद्धायाः कैमुत्येनान्वयादश्रद्धे- यमेवापिशब्देन संबध्यते; पुत्रोपचरितमपि हरेर्नाम गृणनिति; तस्मात्तस्या एवाविवक्षा न म्रियमाणतायाः ? अत्रोच्यते-हरेन्नामग्रहणमिह विशेष्यं तस्य च निय- माणः पुत्रोपचारितं श्रद्धया चेति विशेषणानि; प्रधाना- न्वयित्वाद् गुणानां, विशेषणं च विवक्षितमविवक्षितं- वा, तत्र कैमुत्येनान्वयो विवक्षितस्य, अविवक्षितस्य पुनरपिना, तत्र यदि ब्रियमाणो मुख्योऽधिकारी तर्हि खस्थोऽप्येवं किमुत नियमाण इत्यवक्ष्यद्, न चैवमचोचत, तस्माद् नियमाणो नश्यचेताः अद्धातुमसमर्थोऽपि पुत्रोप- चरितमपि गृणन्नजामिलो हरर्धामैवागात् किमुत श्रद्धया 3

श्रीभगवन्नामकौमुदी।
हरिमेव गृणन्निति; अविवक्षितैव म्रियमाणता, श्रद्धाऽपि
मुक्तयर्थमेव विधीयते न पापक्षयमात्रार्थम् , अगाधामेति
वचनात्, सा च
यद्यस्तीति न वक्तव्यं पुत्रसंदिग्धकं वचः ।
सर्वस्मादधिकोऽस्त्येत शिवः परमकारणमि-
त्याधुक्तलक्षणा, न तु कीर्तनविधिविषयिणी, तस्याः
फलोपकारित्वस्य निराकृतत्वाद् । अपि चाजामिलस्यापि
न मुख्या म्रियमाणता कीर्तनोत्तरकालमप्यवस्थानप्रति-
पादनात्, तस्य च तावतैव पापक्षयप्रतिपादनाद्, अवि-
वक्षित एव मरणकालः:"नामानि येऽसुविगमे विवशा गृ-
णन्ती”त्यत्रापि विवशसाहचर्यादसुविगमोन विवक्षितः,
न हि विवशत्वं विधीयते; तद्वसुविगमोऽपि, ततश्चासु-
विगमेऽपीत्यर्थः न पुनरसुविगमएवेति, एवं मरणे हरि-
मुच्चरेदित्यत्रापि मरणेऽपि हरिशब्दमुच्चरेदिति व्याख्येयं-
समानविषयत्वात् , तत्सालोक्यादिफलेषु पुनरुपासने-
ध्वन्त्यप्रत्ययोऽभ्यर्हितः, "यथा ऋतुरसिंल्लोके पुरुषो
भवति तथेतः प्रेत्य भवती"तिश्रुतेः, ततश्च
प्रयाणकाले मनसाऽचलेन
वुद्ध्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यमि-
त्यादिषु विवक्षित एव कालः । ये पुनर्ग्रहणादयः
कालविशेषाः पर्वताग्रादयश्च देशविशेषाः तत्र तत्रो-
तास्ते पुरश्चरणादिकाङ्गभूताः, पुरश्चरणं च मन्त्राणां-
संस्कारकम् श्राधाममिवाग्नीनां, संस्कृतानां च तेषामैहि-

। ११८ प्रकाशसहिता कामुष्मिकफलसाधनेषु कर्मसु विनियोग इति तत्रैवो- पयोगस्तेषां न तु पापक्षयोपयोग इति । ये च प्रत्याहा- रादयो धर्माः मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनम् । अव्यग्रत्वमनिर्वेदो जपसंपत्तिहेतव- इत्यादिशास्त्रोक्ताः, तेऽपि न जपमात्रोपयोगिनः तत्संपत्तिहेतुत्वाभिधानात्, संपत्तिश्च विशिष्टेष्टप्राप्ति- साधनत्वलक्षणा; तस्यां चोपयुज्यन्त एव ते, पापक्षयः पुनः कीर्तनादेवेति पटहघोषः पुराणानाम् । उपसंहारादिति । अध्याहारादित्यर्थः। नन्वाशुशब्दात्मकृत्वम् प्रतीयते ? तत्राह-न चेति । अपिनाऽजामिलोऽपीत्यपिशब्देन, तत्प्रति- योग्यविवक्षाविरुद्धम् । ततः किं ? तत्राह-तत्रेति । किमुत श्रद्धया गृणनिति वचनादिति भावः। अश्रद्धेयमेवाह-पुत्रेति । गृणन्नित्यस्यो- परि हरेर्धामागादिति द्रष्टव्यम् । तस्या इति । अश्रद्धाया इत्यर्थः । विशेष्यं प्रधानं फलत्त्वादिति भावः। तस्य चेति । विशेषणानीति सम्बन्धः। तत्र हेतुमाह-प्रधानेति। विशेषणद्वैविध्यमाह-विशे- षणं चेति। कैमुत्यान्वयस्यापिशब्दान्वयस्य च व्यवस्थामाह- तत्रेति । प्रकृत आह-तत्र यदीति । फलितमाह-तस्मादि.. । न चैवं श्रद्धाऽपेक्षत्वं प्रतोयते किमुत श्रद्धया गृणनितिवचनात्तत्राह- श्रद्धाऽपीति । तत्र गमकमाह-अगाद्धामेति । सालोक्यस्य मुक्तिमध्ये गणनादिति भावः । ननु कीर्तनविधिविषयिणी श्रद्धा कीर्तन- फलोपकाररिणी न मुक्तयर्था ? तत्राह-सा चेति । परमात्मविषयिणी श्रद्धति भावः । कीर्तनश्रद्धायाः फलोपकारित्वं च नास्तीत्याह-तस्या- इति । असुविगमो मरणं, विधीयते विवक्षितमित्यर्थः । ततश्चाविवक्षि- तविवशत्वसाहचर्यादसुविगमोऽप्यविवक्षितइत्यभिप्रायः । विवक्षासूचकोऽपिशब्दोऽध्याहर्तव्य हत्याह-ततश्चेति । ननु नामोच्चारणे मरणकालाविवक्षायामुपालनेऽप्यविवक्षा मरणकालत्य प्रसज्येत ततश्च प्रयाण काल इत्यादि वचनविरोधः तत्राह-तत्सालोक्येति । हरिस्तच्छ- द्वार्थः। ननु नामात्मका मन्त्राः पुरश्चरणं च तेषामुच्चारणं तत्र देशकाल- । ततश्या- ।

११४ श्रीभगवन्नामकौमुदी। विशेषादयोऽङ्गत्वेन स्मर्यन्ते ततः कथं निरपेक्षं नामोच्चारणं पापक्षय. हेतुः?तत्राह-ये पुनरिति । न तु पापेति।पाप जयस्तु देशकालाद्यपेक्षपु- रश्चरणसंस्कृतानामपि नामात्मकमन्त्राणामुच्चारणादेवेत्यर्थः । विशिष्ट- मिष्टं मोक्षः। अथ वा जपस्यैवैते धर्मा न तु कीर्तनस्य; अन्यो- हि जपोऽन्यच्च कीतनं भिन्नविषयत्वात्तयोः, तत्र मन्त्रो- चारणं जपः, नामोच्चारणं तु कीर्तनं, मन्त्रोऽपि नाम सः; यः स्वरादिविशिष्टो देवताप्रकाशको वर्णसमुदायः, विशि- प्टदेवताबाचकं तु पदमानं नाम, "क जपो वासुदेवेति मुक्तिबीजमनुत्तममि त्यत्र तु कीत्तनमेव जपशब्देनोच्यते संवुद्ध्यन्तत्वाद्वासुदेव- शब्दस्य, श्रीमद्वादशाक्षरविवक्षायां हि चतुर्थ्यन्तेन तेन भवितव्यम् । ननु जपगता एव धर्मा देवतासामान्यातकीर्तनेऽति- दिश्यन्ते श्रीविष्णुधर्म- चक्राङ्कितस्य नामानि सदा सर्वत्र कीर्तयेत् । नाशौचं कीर्तने तस्य स पवित्रकरो यत इति देश- कालशौचानामनपेक्षणीयत्वप्रतिपादनादेव केवलश्रुति- विरोधाच? +ननु कीर्तनेऽपि श्रूयन्ते धर्माः- नक्तं दिवा च गतभीर्जितनिद्र एको- निईन्द्व ईक्षितपथो मितभुक् प्रशान्तः । यद्यच्युते भगवति खमनो न सज्जे- नामानि तद्रतिकराणि पठेदलज्ज- इति? सत्यं श्रूयन्ते; ते तुमोक्षसाधनस्य कीर्तनस्या- , , १२० प्रकाशसहिता गभूताः; न पुनरघविधातकस्य, यद्यच्युते मनो न सज्जे- दिति समाधेरनुकूलत्वेन कीर्तनस्य विधानात् , समा- घेश्च मोक्षफलत्वेन प्रसिद्धः । ननु कीर्तनं क्रिया, न च क्रियासाधनो मोक्षः, तस्य श्रुतिस्मृतीतिहासपुराणागमयुक्तिभिर्ज्ञानकोपायत्वेना. चारवधारितत्वाद् ज्ञानसाधनत्वमेव तस्य मोक्षसा- धनत्वम् , अत एव समाधे कार्ये विधानं, न हि समाधि- रपि मोक्षसाधनं, किं तर्हि ? ज्ञानसाधनमेव, तदपि न साक्षात् श्रवणवद्, अपि तु प्रतिबन्धनिरासद्वारेण, एवं- कीर्तनमपि। जपकीर्तनयो देन समाधानान्तरमाह-अथ वेति । विषयभेदेन तयोर्भेदमाह-तत्रेति । मन्त्रनाम्नोभैदमाह-मन्त्रोपीऽति । आदिशद्वेन बीजादि।नानो लक्षणमाह-विशिष्टेति।ननु कीर्तनेऽपि जपशब्दो दृश्यते तत्राह-क्क जप इति। लाक्षणिक इति भावः। किमिति लाक्षणिकं; वासु- देवविद्यैव विवक्ष्यतां ? तत्राह-संबुद्ध्यन्तत्वादिति। संबोधनान्तत्वादि- त्यर्थः। संबोधनान्तत्वेऽपि म वासुदेवविद्याविवक्षा, न चापशद्वत्वेनानु- शारणप्रसङ्गः, हरिनामानि कीर्तयेदिति प्रातिपदिकमात्रोच्चारणस्य विहितत्वात् । ननु जपगताः शौचापेक्षत्वादयः कीर्तनेऽप्यतिदिश्यन्तां- देवतासामान्याद् ? नेत्याह-न विति। केवलेति । देशकालशौचापे- क्षारहितस्य नामकीर्तनस्य पापक्षयसाधनत्वे विरोधाभावाच्चैत्यर्थः । नन्विति। श्रूयन्ते धर्मा इति । मोक्षसाधना इति शेषः, समाधत्ते- सत्यमिति । ज्ञानोपायत्वेनेति बहुव्रीहिः । श्राचार्यैः = व्यासादिभिः । समाधत्ते-ज्ञानेति।श्रवणवदिति व्यतिरेकदृष्टान्तः-यथा श्रवणं प्रमा- णस्वरूपान्तःपातितया साक्षात्साधनं नैव समाधिरित्यर्थः । प्रति- बन्धो विपरीतभावना। परम्परासाम्येनाह-एवमिति। तत्रायं क्रमः-कीर्तनात् पापक्षयः, तदावृत्त्या तद्विष- याणां वासनानां प्रचयः, अपचयश्च पापवासनानां,- ततो भगवजनसेवासातत्यं, ततस्तदुपवर्णितमहिमनि नत्र आभगवन्नामामुदा। भगवति पुण्यश्लोकशम्बर भगवती नैष्ठिकी भक्तिः, ततः शोकादीनामन्यन्तोच्छेदः, ततः सत्त्वस्य परमोत्कर्षः, ततस्तत्त्वमाक्षात्कारः, ततो मुक्तिरिति, अपमर्थः श्री भागवत मविस्तरमुपवर्णितः, तत्र तत्रोक्तं च भगवता. मक्त एतद्विज्ञाय मावायोपपद्यत इति, श्रुतिशिरःसिद्धान्तं यस्य श्रुतवतोऽपि कुतश्चित्प्रतिवन्धात्तत्त्वज्ञानमुत्पन्नमपि निमीलितमिव तस्य भगवद्भक्तिरुक्तया रीत्या प्रतिबन्धं निरुध्य तत्त्व- ज्ञानमुन्मीलयति, यः पुनरश्रुतवेदान्तसिद्धान्त एव जग- देकनियन्तुनिर्यन्त्रणदयाऽमृतमहार्णवस्य महाविष्णोः प्रह्लादहृदयसुधासरित्पतिपर्यङ्कशायिनः श्रीनृसिंहस्य नामानि निरन्तरमावर्त्तयतिः तस्य भगवान् स्वयमेव देहावसानसमये संसारतारकमात्मज्ञानमनुगृणाति, श्रूयते हि तापनीये-"देहान्ते देवः परं ब्रह्मतारकंव्याचष्टे- इति तान् प्रजापतिरब्रवीद् एनमन्त्रैर्देवं स्तुध्वं ततो- देवः प्रीतो भवति स्वात्मानं दर्शयति य एतैर्मन्त्रीनि- त्यं देवं स्तौति स देवं पश्यति सोऽमृतत्वं च गच्छति, य एवं वेदेति च,” अत्र च स्तुतो देवः प्रीतो भवति खात्मानं दर्शयतीत्येतावदुपजीव्यते, जपकीर्तनयोः साधारण्यात् , साधारण्यं च प्रसिद्धमेव, तथा हि- स्तुतःप्रीतो भवतीति खात्मनि परत्र च दृष्टमेव, प्रीतश्च खात्मानं दर्शयेदेव, अवञ्चनरसत्वात् प्रेम्णः। परम्परामेव प्रपञ्चयति-तत्रेति। तत्र प्रमाणमाह-अयमर्थ इति । व्यवस्थाऽन्तरमाह-तत्रेति । अनुगृणाति = उपदिशति । कथमशरीर- उपदिशेद् ? अताह-श्रूयते हीति । अतएवाह-अत्र चेति। ननु जपमात्रस्येदं प्रयोजनं न कीर्तनमात्रस्येति ? अताह-जपेति ।

। १२२ प्रकाशसहिती साधारण्यं समानफलत्वम् । नन्वेवमपि मन्त्रराजेनैव स्तुतिरेवंफ- लिका स्याद् ? नेत्याह-स्तुतिस्त्विति । तत्र हेतुमाह-नाम्नामिति । दीर्घतमा मन्त्रस्यर्षिः। तच्छदार्थमाह-अस्तीति । अधिष्ठानमुपा- दानम् । अधिष्ठातारं कर्तारम् । औपनिषदा वेदान्तिनः । विपरिणामो. विध्यर्थत्वेन व्याख्यानात् । ननु गुणकीर्तनं सर्वाधिकारमुच्यते न च वैदिकर्मन्त्रैः सर्व गुणकीर्तनं कत्तुं शक्नुवन्ति ? तत्राह-न चैव- मेवेति । श्रौतै दिकैः। तान्त्रिकैरागमिकैः पौरुषेयैः संस्कृतैःप्राकृतैश्च। न च प्राकृतानामपशद्वत्वान्न म्लेच्छतवा इति निषेधविषयत्वं ? विहिते निषेधाप्रवृत्तेः। न च विहितत्वासिद्धिः ? यथा विद तथा स्तुध्वमि. त्यनेनैव संस्कृतानभिज्ञान्प्रति विहितत्वात्। न च मन्त्रत्वादविधायकत्वं? मूलकृतैवानुपदं निराकरिष्यमाणत्वात् । न चैतावता संस्कृतान- भिज्ञानां प्राकृतेन परमेश्वरगुणानुवादेऽनधिकार इति वाच्यम् ? यथा विदेत्यस्य विधेः संकोचप्रसङ्गात् । तथा हि श्रुतिस्मृति. पुराणादिषु भगवद्गुणानुवादः कर्तव्य इति विधिः सुप्रसिद्धः। तत्र करणाकाङ्क्षायां सामर्थ्याज जिव्हा संबध्यते तत्र चाधिकाराकासायां- सामर्थ्यान्मनुष्यमात्राधिकारत्वं, विशेषग्राहकमानाभावाच्च । न च संस्कृतवाक्यैरिति व चिच्छूयते सामर्थ्यात्तु संस्कृतप्राकृतसाधारण वाक्यमात्रमन्वेति । न च लेच्छतवै, म्लेच्छो ह वा एप यदपशब्द इति निषेधादर्थासंस्कृतवाक्यैर्गुणानुवादः कर्त्तव्य इति वाच्यं ? निषेधो. हि प्राप्तिमपेक्षते, प्राप्तिश्च रागतो विधितश्च, तत्र प्राकृतवाक्यैर्भगवद्गु- रणानुवादो न रागतः प्राप्तो भोजनवद् दृष्टफलत्वाभावाद्, विधितः प्राप्तत्वे सिद्धं नः समीहितं तत्र निषेधाप्रवृत्तः, विहितनिषिद्धत्वे विक- ल्पापत्तेः षोडशिग्रहणवत् पक्षे विहितत्वसिद्धः। न च यथा कथंचिद्भ- गवद्गुणानुवादो लोकपूज्यताहेतुरिति रागतः प्राप्तिरिति शङ्कनीयं ? तथा सति । संस्कृतवाक्यैरपि भगवद्गुणानुवादस्याविहितत्वापत्तेः । अग्निहोत्राद्यनुष्ठानस्यापि तत्त्वाच्च, सवत्र पूजाविधाषु गीतवाद्यादि- विधानाच्च, यथा- अन्नाद्यगीतवाद्यानि पर्वणि स्पुरुतान्वहमि- त्येकादशस्कन्थे, तत्रैव पूजाप्रकरण- स्तवेरुचावचैः स्तोत्रैः पौराणैः प्राकृतैरपी- ति प्राकृतानामेव कण्ठरवेण गृहीतत्वाच्च । अत्र स्तवस्तोत्रयो- |दो विशदीक्रियते-पौराणैः प्राकृतैरिति, यद्वाऽप्रगीतवाक्यसा- . , , meani , श्रीभगवन्नामकौमुदी। ध्यानि स्तवाः प्रगीतवाक्यसाध्यानि स्तोत्रागीति बैदिकम्तोत्रम्य नाह शत्वाद्. अथ वास्तवा गुणकीर्तनानि, स्तोत्ररिनि अन्धनामधेयम् । तपा- मुञ्चत्रिचत्वं दर्शयति-पोगणेः प्राशनारनि । उच्चावचवं प्राकृतविशे. पणं वा, नञ्च कर्तृकतं, भगवद्गुरणको नम्य म्वरूपेगोचावचन्वाभा- बाद, ग्रन्थक तस्योच्चावचत्वस्य पौराणः प्राकृतरित्यनेनैव सिद्धत्वात् , मर्वथाऽपि प्राकृतानांकगठरवेण विधानम् । किं च विष्णुपुराणादौ चैद्य. स्य भगवति वंकथाऽऽदिभियं विदधतोऽपि भगवत्प्राप्तिः श्रूयते, न चासी संस्कृतवाक्यैरेव भगवद्वेषं विदध इति प्रमाणमस्ति, तस्मा- द्यथा कथं चिद्भगवद्गुणानुवादो विहित एव, अन्यथा पौराणिकानां- प्राकृतवाक्यरर्थकथनाचारो बाध्येत । अत एव गोपीरधिकृत्य; यासां हरिकथागीतं पुनाति भुवनत्रय- मित्युक्तं श्रीभागवते । अत एव तच्छ्रवणमपि विहितमेव भगवत्स्मा. रकत्वात् । तत्स्मरणस्य "चापवित्रः पवित्रो वे"त्यादिवाक्यैः पाप- क्षयहेतुत्वप्रतिपादनात् । अत एव "ग्राम्यगीतं न शृणुयादिति वाक्ये भगवद्गीतं तु शृणुयादेवेत्युक्तं श्रीधरस्वामिभिः, अतश्च प्राकृतवाक्य- रहर्निशं परनिन्दाऽऽदि कुर्वन्तो ये प्राकृतवाक्यैर्भगवद्गुणानुवादमकर्त- व्यं निरूपयन्ति तेषां भगवदनुरागाभाव एवापराध्यतीत्यलमतिवि. स्तरेण । स्तुतिस्तु श्रीमन्मन्त्रराजेन मन्त्रान्तरैर्वा नामभिर्चा, नाम्नां च सर्वेषामेव श्रुतिसंमतत्वात् , “तमु स्तोतारः पूज्य यथा विद ऋतस्य गर्भ जनुषा पिपर्तन । आस्य जानन्तो नाम चिद्विविक्तन महस्ते विष्णो सुमतिं भजामहे” इति, श्रूयते दीर्घतमसो वाक्यमेतदु, अस्यार्थ:-उकार: छन्दःपूरणार्थः, हे जानन्तः ! स्वार्थकुशला जनास्तं देवम् , अस्ति कश्चिदीश्वर इत्यावालगोपालप्रसिद्धः पूयं पुरातनं- सर्वस्याधिष्ठानमधिष्ठातारं च; तस्य गर्भम् उपनिषद- स्तजन्यज्ञानस्य वा जठरे वर्तमानम् ; औपनिषदसिद्धान्त- १२३ प्रकाशसहिता सिद्धयाथात्म्यं, स्तोतार; औतैस्तान्त्रिकैः पौराणिकैः पौरुषेयैर्वा स्तुध्वमिति विपरिणामः, न चैवमेव स्तोतव्य- मिति कश्चिदस्ति नियमः, यथा विद यथा जानीथ तथा स्तुध्वं मन्त्रः स्तुध्वमिति भावः, ततश्च जनुषा पिपर्तन छान्दसस्तनबादेशः कर्मकत्तु व्यत्ययश्च जनुषा जन्मना पिपर्तन पिपृत पूर्यध्वं जन्मनः पूर्ति' प्राप्मत जन्मानि समापयतेति भावः, अथ वा तं देवं जनुषा पिपतन खच्छन्दचरितेन बहुविधेन जन्मना पूरयत मत्स्याद्यव- तारैरन्वितं वर्णयतेत्यर्थः। अथैवमपि क्यं स्तोतुमसमर्थाः, अस्य भगवतः श्रीमन्नामाप्याविवक्तन सदा कीर्तयत, हे विष्णो व्यापक ! ते महः प्रकाशं त्वत्स्वरूपप्रकाशिकां- सुमतिं शोभनां मतिं भजामहे इति, अत्रापि व्यत्ययः भजामह इति ब्रह्मविद्यामाशासानाः कीर्तयतेत्यर्थः, ततश्चापवर्गफलकज्ञानसाधनत्वमेवापवर्गसाधनत्वं कीर्त- नस्य, मन्त्रोऽप्ययं विधायको भविष्यति, विधिशक्तिर्न मन्त्रस्य नियोगेनापनीयते । खतो विधास्यति ह्येष नियोगात् स्मारयिष्यतीति न्यायेन । एवमन्येऽपि नाममन्त्रस्यैव पुरुषार्थसाधन- त्वद्योतका मन्त्राः सन्त्यनेकशः- "कस्य नूनंकतमस्यामृतानांमनामहे चारु देवस्य नाम”। "सदा ते नाम स्वयशो विवक्मि” । "भूरि नाम मनामहे" इत्यादयः, तेषां च तैस्तैरसाधारणेरमृतानां प्रथमस्ये- त्यादिभिलिङ्गभगवद्विषयत्वमाकाशस्तल्लिङ्गादिति न्यायेन पुरुषार्थसाधनत्वं च नान्नो ज्ञानद्वारेणैवाभिप्रेतं पूर्वेण समानार्थत्वात् ।

। । श्रीभगवन्नामकांमुढ़ी। छान्दसइति । पिपृतेति वक्तव्ये पिपर्ननेति छन्दसि भवति । कर्मेति । जन्म पूर्यतामिति कर्मक्तुप्रयोग कर्तव्ये जनुषेनि करणत्व- निर्देशो व्यत्यस्तः छान्दसः । फलितमाह-ब्रम्हेति । ननु मन्त्रस्याम्य कथं विधायकत्वं तत्राह-मन्त्रोऽपीनि। नियोगो विनियोगः । यथा वसन्ताय कपिजलानालभतेति मन्त्रोऽपि विधायकोऽपीति कथमेतेषां- परमात्मविषयत्वं ? तत्राह-तेषां चेति । प्रथम मन्त्रे-"अग्नवयं प्रथम- स्यामृतानामि ति पूर्वणदो भगवद्विषयत्वे लिङ्गम्। द्वितीये "न ते गिरो अपि मृप्येतुरस्य न सुष्टुतिमसुर्यस्य विद्वानि"ति वाङ्मनसागा. चरत्वे लिङ्गम् । तृतीये "म" अमर्त्यस्य ते” इति पूर्वपादोक्त लिङ्गम् । अाकाशइति । "अस्य लोकस्य का गतिरित्याकाश इति होवाचे". त्यत्राकाशशद्वो ब्रम्हपरः। सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्तइति ब्रम्हणो लिङ्गादित्यर्थः। "प्रतत्ते अद्य शिपिविष्ट ! नामार्यः शंसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसमतव्यान् क्षयन्तमस्य रजसः पराके" इत्यादिषु स्पष्टमेव भगवद्विषयत्वम् । अस्यार्थः-शिपिः शरीरं,- हे शिपिविष्ट अन्तर्यामिन् ! तत्प्रसिद्धं ते तव नाम प्रशंसामि प्रकर्षण कीर्तयामि, यद्यप्युत्तमपुरुषोऽयं विधिशक्तिप्रतिबन्धकस्तथाऽपि मन्त्र- लिङ्गकल्पितो विधिः स्मृतोनां मूलमभिप्रेयते, कीर्तनस्य फलमाह- आर्य इति, श्रेष्ठ इत्यर्थः, वयुनानि सामर्थ्यानि नाम्नस्तवैव वा विद्वान् जाननित्यर्थः, अनेन तत्रैव प्रवृत्तिहेतुरुक्तः। उत्तरार्धे त्वा त्वांगृणामि स्तोमि तवसं महान्तम् मतव्यानल्पोऽहं क्षयन्तं निवसन्तमस्य रजसो लोकस्य पराके परे पारइत्यर्थः । ननु नामकीर्तनस्य क्रियारूपस्य कथं मोक्षसाधनत्वं? तबाह-पुरुषार्थेति । पूर्वेण तमु स्तोतार इत्यनेन । पुराणवाक्यं च- यावज्जीवं प्रणवमथ वाऽऽवर्तयेगुद्रियं वा याजुर्वेदं वसतिमथ वा वारणस्यां विद्ध्यात् । हित्वा लजां कलिमलकुलच्छेदकानीरयेदा विष्णो मान्यनिशममृतत्वाप्तिरेषा चतुर्धे- ति, वाराणसीवासस्य तारकब्रह्मबोधद्वारेणामृतत्वप्राप्ति- साधनत्वं काशीखण्डादिषु प्रसिद्धं, तत्समभिव्याहारा- प्रकाशसहिता दनुकीर्तनस्यापि तहदेवेति । एवं चामृतत्वसाधनस्य कीर्तनस्य धर्मागतभीत्वादयो न पापक्षयसाधनस्य, पाप- क्षयस्तु यथा कथं चिजिहाऽङ्गनमागतानाममात्रादेवति, अत एव सौरपुराण निरन्तरं हननापहारादिषु प्रवृत्त- स्थापरानपि तत्रैव प्रवर्त्तयितुमाहर प्रहर संहरेति व्याह- रतो व्याडिनानो व्याधस्य पदान्तरावयवत्वेन प्रसङ्गाग- तादपि हरशब्दात् माघसंहारो वर्णितः, तद्भ्यासाहि- नात्संस्कारप्रचयादनन्तरजन्मनि तत्त्वज्ञानमपि वर्णितम्। ननु यदि न का चिदितिकर्तव्यता कीर्तनस्य कथं- विधानम् अङ्गप्रधानवत्यां भावनायां युगपत्पुरुषनियोग- इति शावरभाष्यं, भवार्तिकं च- किमाद्यपेक्षितैः पूर्णः समर्थः प्रत्ययो विधाविति ? सत्यवदनादीनामिवेति ब्रुमः, न हि तत्र किं चिदङ्ग- मुपदिश्यते, नाप्यतिदेष्टुं शक्यते, तल्लिङ्गाभावाद्, न चैतावता प्रतीयमानो विधिरपलपितुं शक्यते, तथेहापि भविष्यति। ननु तत्रापि लौकिकं किं चिदुपकारकमस्त्येव सर्च- थैवानुपकृतत्वे तु तत्रापि विधानं नाभविष्यदेव ? इहापि तर्हि मनोवाकायस्थानानामन्योन्यसंयोगो लौकिकएखो- पकारको भविष्यति येन विना शब्दोच्चारणमेव न संभ- वति, अथ वा किमस्माकं विध्यन्तरसाधर्म्यसमर्थनेन ? ईदृश एवायमपूर्वो विधिः स्वरूपकथनं वा प्रमाणान्तरान- वगतं कीर्तनस्य पापक्षयसाधनत्वमवाधितमवगम्यमान- मपन्होतुं न शक्तुमः। ननु किं समस्तानामेव भगवन्नाम्नामेतादृशं साम- यमुत व्यस्तानामपि ? न तावत्समस्तानामेव, अवशेने- श्रीभगवन्नामकोमुदी त्यादिविधिना विरोधाद्, न धवशेन समस्तानामुबारण- संभवनि, अथ व्यस्तानां नत्रापि किं सर्वेषामेवः उत केषां चिदेव ? नत्र यदि मयामपि नरकस्टष्टंगनर्धक्यं- प्रसज्येन; न ह्यजातिबधिरस्य कस्याप्यनत्संभाव्यत यन्नामसहस्रमध्ये किं चिदपि कदा चिदपि कथं चिदपि न शृणोति न गृहाति,अपि च यदि सर्वषां समानं सामर्थ्यम् एकनैव पुरुषार्थसिद्धरन्येषामानर्थक्यं प्रसज्येत, अन्यच्च समानमहिम्नां नाम्नां समाहारे तन्महिम्नामपि समा- हाराद एकस्य श्रीरामनाम्नो नामसहस्रसाम्याभिधानं- नावकल्पने, न हि प्रदीपसहस्रस्य यावान् प्रकाशः तावा- नेकस्य प्रदीपस्य भविष्यति, सामर्थ्यस्य च वैषम्ये भवत्येव, यावत् स्वलु ग्वद्योतसहस्रस्य तेजस्तावदेक- स्यापि प्रदीपस्य, अथ केषां चिदेव तर्हि सर्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः । याँभिरुचितं नाम तत्सर्वार्थेषु योजयेदिति श्रीविष्णुधर्मगनवचनबिरोधः, अन्येषामानर्धक्यं- च तदवस्थमेवेति ? अत्राभिधीयते-सर्वेषामपि भगवन्नाम्नां प्रत्येकमे- तादृशं सामर्थ्य, न च नरकसृष्टेरानर्थक्यं, दग्धेऽपि कथं- चित्प्राचीन पाप्मनि तदुत्तरकालभाविभिरहोभिर्मह- दवमानश्च नरकपातस्यापि संभवाद्, न चाय- त्तिगुणकमेव कीर्तनं मर्वस्यापि भविष्यतीति कश्चिदस्ति नियमः, अत एव भरतदेवस्थापि ऋषभदेवनानुगृहात- स्यापि प्रतिबद्वापरोक्षानुभवत्वाद् अन्तरायैरत्यन्तस- मुच्छिन्नभगवदुपासनत्वाच्च तदुत्तरकालभाविना मृगा- सक्तिम्पेण कर्मणा निकृष्टदेहारम्भः, अथ वा मृगत्व- 3 HIROID प्रकाशहिता मपि तजातिस्मरणवैराग्यभूतदयाऽऽदिगुणोपेतत्वान्मो- क्षानुकूलमेवेति न तदारम्भकस्य कर्मणो निवृत्तौ प्रयतते भक्तिः। जयविजययोश्च वैकुण्ठवासिनोरपि ब्रह्मवि- वमानादधःपतनं, ब्रह्मविदवमानजनितं हि दुरितं- दुरत्ययं भगवदुपासनेनापि भगवद्भक्तावमानजनितं. च, प्रपश्चिनं चैतत्तृतीयस्कन्धे- सोऽहं भवत्समुपलब्धसुतीर्थकीर्ति- श्छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृतिमि- त्यादिना, नवझे चाम्बरीषोपाख्याने- अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज ! साधुभिर्ग्रस्तहृदयो भक्तभक्तजनप्रिय- इत्यादिना। अमृतत्वं मोक्षः। गतभोत्वादयो “नक्तंदिवा च गतभीर्जितनिद्र एक" इत्यादिपूर्वोदाहृतश्लोकोक्ताः । यथा कथं चिज्जिव्हाऽङ्गनमागता- दित्युक्तं सौरपुराणेतिहासेन द्रढ़यति-अतएवेति । किमादीति । किं केन कथमित्यपेक्षितैः फलकरणेतिकर्तव्यतांऽशैः पूर्णःप्रत्ययो विधाने समर्थ- इत्यर्थः। सत्येति। "सत्यं ब्रूयाद्धेयं कुर्यात्प्राङ्मुखोऽन्नान्यनीते"त्या- दयः। स्वरूपकथनेऽपि पापक्षयसाधनत्वमस्त्येवेत्याह-प्रमाणान्तरेति। अनधिगतमबाधितमिति हेतुगर्भ विशेषणद्वयम्। नन्विति। मिलिताना- मेतत्सामर्थ्य प्रत्येक वेति विकल्पार्थः । नरकसृष्टेरानर्थक्यं परिहरति- दग्धेऽपोति। आवृत्तनामकीर्तने तर्हि कथं नरकपातस्तत्राह-न चेति । नामकीर्तनावृत्तिशून्यानामुत्तरकाले पापाचाराणां नरकपात इति भावः । तत्रोदाहरणमाह-अतएवेति । प्रतिबद्धोऽपरोक्षानुभवो यस्य तस्य भाषस्तत्त्वम् अत्यन्तसमुत्पन्नं भगवदुपासनं यस्य तस्य भाव- स्तत्त्वम्। नन्वावर्त्यमाना हरिभक्तिः कथं मृगासक्तिं नोन्मूलयेत् ? तत्राह-अथ वेति । भवद्भ्यः समुपलब्धा सुतीर्थरूपा कीर्तिर्येन सः। खबाहुमिन्द्रमपि; इति सनकादीन्प्रति भगवद्वाक्यम्। वेनस्य तु भगवन्निन्दाप्रतिबद्धसामर्थ्य सकृत्कीर्तन- ।

श्रीभगवन्नामकोमुदी। मावय॑मानमपि न पापक्ष्यायालं, शिशुपालादीनां- पुननिर्भरवैरानुवन्धपरिकल्पितसंपदः समाधेरिव निन्दा- दोपस्यापि दग्धवात पुरुषार्थप्राप्तिरिति स्वयमेव सप्त- माये समर्थितं श्रीशुकेन । यदप्युक्तम्-एकनैव पुरुषार्थसिद्धरन्येपामानर्थक्य- मिति, नदप्ययुक्तं, पुरुषभेदेन सर्वेषामपि पुरुषाथसाध- नत्वोपपत्तः। यत्तु ममानमहिम्नां समाहारे तत्तन्महिनामपि समाहाराराद् नैकस्य नादृशो महिमेति ? तदपि परि- च्छिन्नप्रभावेषु प्रदीपादिपु घटते न पुनर्निरङ्कशमहिमसु भगवन्नामसु, न खलु चिन्तामणीनां निचयस्य; एकस्य वा चिन्तामणेः, कल्पशाखिनां वमस्य; एकस्य वा कल्पशा- खिनः, कामधेनूनां यूथस्य; एकस्या वा कामधेनोः, कश्चि- दस्ति विशेषः, समाहृतानामुच्चारणमपि नानर्थकं संस्कारप्रचय- हेतुत्वाद् एकैस्यवोच्चारणप्रचयवत् , तस्मात् श्रद्धा- भक्तिज्ञानवैराग्याभ्यासदेशकालविशेषादिनिरपेक्षं भग- वन्नामकीर्तनमेव महदवमानातिरिक्तमप्रारब्धं प्राचीन- मंहः सर्वमेव संहरति, आवर्त्यमानं पुनर्वासनाविध्वं- सद्वारेण श्रद्धाभक्तिवैराग्यज्ञानान्युत्पादयदपवर्गसाधनं; प्रारब्धपापनिवर्तकं च कदा चिदुपासकेच्छावशाद्, महद्वमानस्य तु भोगएव निवर्तकः तदनुग्रहो वा, न पुनरन्यत् किं चिदिति स्थितम् । ननु वेनस्य कथमसद्गतिस्तेनापि भगवन्निन्दायै भगवन्नामावृत्तः कृतत्वाद् ? अताह-वेनस्येति । भगवन्निन्दया प्रतिबद्धं सामर्थ्य. , प्रकाशसहिता. ब्रह्महा द्वादशाब्दानि चरेद्, ब्रह्महा हरि कीर्तयेदित्य- नयोरपि भिन्नत्वाद् विकल्पः, तस्मादबाधितार्था एव स्मृतयः, न चाविदुषः कर्मानुष्ठानायोगवद् अकृताधान- स्योत्तरक्रतुकरणायोगवच्च, अकृतभगवत्कीर्तनस्य प्राय- श्चित्तान्तरासंभवः, येन विद्वद्वाक्यवत् पूर्णाहुत्या सर्वान् कामानवामोतीतिवाक्यवदा कीर्तनविषयाणामपि वाक्यानामानर्थक्यादर्थवादत्वलाश्रीयेत, तस्माद्यथाश्रुत- एवार्थः पुराणवचनानामुदाहृतानामिति । एकेति । "चमसेनापः प्रणयेगोदोहनेन पशुकामस्येति चमस. मोदोहनयोरपप्रणयननिष्पत्तिरूपैकोपकारकत्वेऽपि न विकल्पस्तत- उक्तम्-एकापूर्वप्रयुक्तमिति । तयोस्तु नैकापूर्वप्रयुक्तत्वं गोदोहनस्य काम्यत्वेन दर्शाद्यपूर्वप्रयुक्तत्वाभावात् । अवघातमोक्षणयोरेकाग्नेया- पूर्वप्रयुक्तत्वेऽपि न विकल्पोऽत उक्तम्-एकमुपकारं कुर्वदिति । दृष्टमिति । अदृष्टार्थानां विकल्पायोगादिति भावः। उक्तं विकल्पप्रयोजकमङ्गीकृत्य दूषयति-तत्रेति । न च तस्या- पोति । स्मृतिप्रामाण्यादिति भावः । उक्तं विकल्पप्रयोजकं दूषयति- एकेति । तत्र हेतुलौकिकानामिति हेतुगर्भ विशेषणम् । एकमुपकारं- कुर्वदित्यंशं दूषयति-भावार्थेति । भावार्थभेदो धात्वर्थभेदस्तेन चोप- कारभेदो लक्ष्यते । विकल्पदर्शनादित्यनुषङ्गः। चिकित्साफलत्वे- ऽपि दाहच्छेदयोर्धात्वर्थयोभिन्नत्वादुपकारभेदेनावश्यं भवितव्यमिति भावः। श्रादिशब्देन भेषजपानम् । अथ तत्रेति । ग्रहणाग्रहणयोरि. त्यर्थः । इहापीति । नामकीर्तनस्मार्तप्रायश्चित्तयोरित्यर्थः । तत्र ब्रीहि- यववदश्वशिबिकावदिति दृष्टान्तद्वयं द्रष्टव्यम् । क्रममुक्त्यर्थानामिति । तुल्यार्थत्वं विकल्पहेतुरुक्तः । न च शाण्डिल्यादिविद्यानां विकल्पे मानाभावः, उत्तरमीमांसायां तत्साधनादिति भावः। वाऽऽदीनामि- त्यादिशब्देन विकल्पशद्वः। स्वयं विकल्पप्रयोजकमाह-तस्मादिति । ननु दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो- यजेतेत्यैकस्वर्गार्थत्वेऽपि न विकल्पस्ततः कथं तुल्यार्थत्वं विकल्प- प्रयोजकं? यदि च न तत्रैकः स्वर्गस्तर्हि प्रकृतेऽपि नैकः पापक्षय इति । - , , , श्रीभगवन्नामकौमुदी। १३३ न विकल्प इत्याशङ्क्याह-नचेति। एकस्य पापस्येति हेतुगर्भ विशेषणं,- स्वर्गे हि वैजात्यं, प्रकृते त्वेकस्य पापय विनाशमुद्दिश्य नामकीर्तन- स्मार्तप्रायश्चित्तयोर्विधानाद्विकल्प इति भावः । ननु यथा “तरति ब्रम्ह- हत्यां योऽश्वमेधेन यजते य उ चैनमेवं वेदे"त्यश्वमेधज्ञानस्य ब्रम्हहत्या- विनाशकत्वं, यथा वा "पूर्णाहुत्या सर्वान्काम नाप्नोति" इत्याधानाङ्ग- पूर्णाहुतेः सर्वकामहेतुत्वं श्रूयमाणमर्थवादमात्रमेवं नामकीर्तने पापक्ष- यहेतुत्वं श्रूयमाणमर्थवादमात्रमस्तु ? तत्राह-न चेति ! अश्वमेधज्ञान- पूर्णाहुत्योरश्वमेवाधानाङ्गन्यात्तावन्मात्रेण फलसिद्धौ ऋत्वनुष्ठानवैय- •दर्थवादत्वं युक्तं, नामकीर्तनस्य तु सार्त्तप्रायश्चित्ताङ्गत्वे मानाभा- वात्पूर्वोक्तविधया स्मार्तप्रायश्चित्तानुष्ठानवैयर्थ्याभावाच्च पापक्षयश्रवणं. नार्थवाद इति भावः । अक्षरार्थस्तु-अविदुषः कर्मानुष्ठानायोगो, ऽशक्तरलताधानस्योत्तरकतुकरणायोगोऽयभावादाधानसाध्यत्वादग्नी- नाम् , एवमकृतनामकीर्तनस्य मार्तप्रायश्चित्ताभावो, न चेत्यन्वयः। विद्वद्वाक्यं “यउ चैनमेवं वेदेति पूर्वोत्तम् । ननु यदि विनैव श्रद्धा कीर्तनादेव पापक्षयः तर्हि किमस्य प्रकरणस्य प्रयोजनम् ? अनेन हि श्रद्धव साध्यते, सत्यम्, अपगतेऽपि पापे मनोगतमश्रद्धानिबन्धनं. दुःखं न निवर्तते, ततस्तदपगमलक्षणाय मनःसमा- धानाय प्रकरणमेतदिति प्रकरणस्य प्रयोजनं, तस्मात्स- वमनवद्यम् । सत्यमिति। नामकीर्तनाङ्गश्रद्धतगन्थप्रयोजनमिति न ब्रूमः किं- तु श्रद्धाऽस्तु वा मा वा, नामकीर्तनं पापक्षयहेतुरेव, एतद्रन्थसा- ध्यश्रद्धायास्त्वश्रद्धानिबन्धन दुःखनिवृत्तिः प्रयोजनं, ततश्च मनसः समाधानम्। आकृष्टिः कृतचेतसां सुमहतामुच्चाटनं चांहसा- माचण्डालममूकलोकसुलभो वश्यश्च मोक्षश्रियः। नो दीक्षां न च दक्षिणां न च पुरश्चयां मनागीक्षते मन्त्रोऽयं रसनास्पृगेवफलति श्रीरामनामात्मकः॥१॥ ग्रन्थं परिसमाप्य नाममाहात्म्यानुसंधानलक्षणं मङ्गलं विधत्ते- .

प्रकाशसहिता प्राकृष्टिरिति । आकर्षणं वुधानामित्यर्थः। वश्यं = वशीकरणम् । मूकाः केवलं मुक्तिस्त्रियं वशीकर्तुमसमर्थाः; इतरे वाचण्डालं नामम- न्त्रेण वशीकत्तुं समर्था इत्यर्थः । प्रसिद्ध मन्त्रवैलक्षण्यमाह-नो दीक्षामिति । एवशब्देनाभ्यासाद्यनपेक्षत्वम् ॥ १॥ श्रीरामेति जनार्दनेति जगतां नाथेति नारायणे- त्यानन्देति दयाधरेति कमलाकान्तेति कृष्णेति च । श्रीमन्नाममहामृताब्धिलहरीकल्लोलमग्नं मुहु- मुह्यन्तं गलदश्रुधारमवशं मां नाथ नित्यं कुरु ॥२॥ नामकीर्तनाभिरुचिं प्रार्थयते-श्रीरामेति । नामैवामृताब्धिस्तल्लह- रोकल्लोले मग्नं नाममात्रासक्तमित्यर्थः । मुह्यन्तं विषयानुसंधानशून्य- त्वात् । अवशं देहानुसंधानरहितम् ॥ २॥ यदङ्कमालोकितुमाशु धावतां- मुकुन्दयात्रोत्सवमीक्षितुं च यद् । अतच्च तच्च स्खलितं समं सता- मतो न लज्जा स्खलतामपीह नः ॥३॥ भगवन्नाममाहात्म्यनिरूपणे स्वकृते संभावितं स्खलितं न दोषा- येत्याह-यदङ्कमिति । अङ्कः कलङ्कः दुष्टं कर्मत्यर्थः। दुष्टकर्माव- लोकनाय धावतां यत्स्खलितं परमेश्वरोत्सवदर्शनाय धावतां यत्स्ख- लितं तवयं सतांनसमं पूर्व लज्जाऽऽवहं; द्वितीयं तद्विपरीतमित्यर्थः । इह भगवन्नाममाहात्म्यनिरूपणे स्खलतोमप्यस्माकं न लज्जेति भावः॥३॥ अपि च- सुरसरित इव महामहाचल- गहनगुहाजायजालभेदिन्याः। हरिचरणजन्मभूमेः स्खलितमपि कृतेरलंकृतिननु नः ॥४॥ प्रत्युत तदेतत्स्खलितं गुण इत्याह-सुरसरित इति।महान्तोऽचला- स्तेषांगहना गुहास्ता जाड्यजालानि मोहजालानि च भिनत्ति सुरस. रित्,कृतिरपि महाचलगुहावजाड्यजालानि मोहजालानि भिनत्ति॥४॥ Rame श्रीभगवन्नामकौमुदी। १३५ अथवा- हरिभक्तिराजमार्ग गुरुपदनखचन्द्रिकाधौते। श्रतिजननीपदपद्धतिमनुसरतांनः कुतः स्खलितम्॥ इदानीं नः स्खलितमेव नास्तीत्याह-हरिभक्तीति । हरि भजतां- गुरुसंप्रदायवतां श्रुतिमनुसरतां च न स्खलितं न संभवतीति भावः॥५॥ धर्मः संविद्विषयविरतिः सिद्धयश्चाणिमाद्या- यस्य श्रीमचरणनलिनद्वन्द्वपीठे लुठन्ति । यस्योन्मेषः सकलभुवनाम्भोजराजीनिमेषः सोऽमत्वामी जयति जगतां मङ्गलं यस्य नाम ॥६॥ महेशं प्रणमति-धर्म इति । संविद् ज्ञानं । विषयविरतिर्वैराग्यम् । नलिनं कमलम् । उन्मेषस्तृतीयनेत्रस्य, भुवनान्येवाम्भोजानि तेषां. राजी पङ्क्तिस्तस्या निमेषः संकोचो नाश इति यावत् ॥ ६॥ अपि च- खपादपङ्केतहसीकरस्य निमज्य माहात्म्यमहार्णवे यः। दधौ पुनस्तं स्वयमेव मौलो स नो गुरुस्तत्कुलदैवतं नः ॥७॥ गुरु हरिहरकुलदैवतैरभेदेन चिन्तयन्स्तौति-स्वपादेति । स नोऽ. स्माकं गुरुर्जयतीति शेषः । स्वशब्दो हरिणा सहाभेदाभिप्रायेण हरिचरणोदकमाहात्म्यनिरूपणमहार्णवे निमज्येति संकीर्तनरूपहरि- भक्तिप्रदर्शनम् । तं स्वपादपङ्केरुहसोकरं गङ्गाऽऽत्मकं स्वयमेव मौलौ धाविति हरेणाभेदनिर्देशः, तत्र कुलदैवतमिति कुलदेवतया सहा- भेदः ॥७॥ यदद्धिनखमण्डलाद्विगलितस्य पूर्व पुन- यदीयकवरीभरार्णवमुपेयुषः पाथसः। अशेषजगदंहसां किमपि नाम निर्णेजनं- दयाऽमृतमहाम्वुधेः किमुत नाम तस्यैव तत् ॥८॥ ANSARANEMAMTARA प्रकाशसहिता यद्ध्रीति । यस्य विष्णोरञिकमलात्सदाशिवस्य च कबरी- भराजटामण्डलाद्भमिभागमागतस्य पाथसो जलस्य गङ्गाऽऽत्मकस्य नाम; अंहसां पापानां निवर्तकं, "गङ्गा गङ्गेति यो व्यादित्यादि"वा- क्यात् , तस्य परमात्मनो; विष्णोः शिवस्य वा नाम पापनिवर्तक- मिति किं वक्तव्यमित्यर्थः ॥८॥ नाधाय किं चिदपनीय न किं चिदन्तः खात्मैव येन सुखसिन्धुरगाधयोधः । आविष्कृतः करुणया करवै किमस्य तन्नान्नि मग्नमिदमेव मनोऽस्तु पूजा ॥६॥ स्वकीयकृतार्थतामभिनयति-नाधायेति। वस्तुतोऽनाधेयातिश- यत्वान्निष्कलङ्कत्वाच्चात्मन इयमुक्तिः। येन गुरुणा परमात्मना वा करुणयाऽऽत्माऽऽविष्कृतस्तस्य किं करवै? अतस्तन्नानि नम्रमभिमुखं. मन एव पूजाऽस्तु ॥६॥ झटिति जगतामहस्तूलं दहद्दहनो मह- दहरकुहरध्वान्तं ध्वंसं नयनभसो मणिः । किरणलहरी चान्द्री चेतश्चकोरचमत्कृति- र्भवतु भवतां नामज्योतिर्मुदे मदनद्रुहः ॥१०॥ इति श्रीमदनन्तानन्दरघुनाथपरमहंसपरिव्राजकाचा- यंपादपद्मोपजीविनः श्रीमन्नृसिंहसनोलक्ष्मीधरस्य कृतौ भगवन्नामकौमुद्यां नामकीर्तनस्य केवलस्यैव पुरुषार्थसाध- नत्वप्रतिपादनं नाम तृतीयः परिच्छेदः। नन्दानन्दकरं करम्बितकरं हैयङ्गवीनैनवैः शोभामाद्धतं नवीनजलदे मीलत्सुधांशोः स्फुटम् । भक्तानां हृदयस्थितं सततमप्याभीरदृग्गोचरं- गोपालं भजतां मनो मम सदा संसारविच्छित्तये ॥ वद् जिह्व वद् जिह्वे चतुरे श्रीराम रामेति । पुनरपि जिह्वे वद वद जिह्वे वद राम रामेति ।

श्रीभगवन्नामकौमुदी। अनादौ संसारे निरवधिक जन्मम्वविरतै- महाघेरैवान्तश्चितकलुषताया हि दहनम् । महीघ्राणां भस्मीकृतिगहनसंवर्तशिखिनो- भवन्नानः कुनेः कियदिव हरे ! खण्डनलवत् ।। इति । शम् । । झटितीति । मदनदुहः सदाशिवस्य नामज्योतिर्भवतां मुदे भवतु, ज्योतिष्टुं विवृणोति-जगतामहस्तूलं दहन दहनः महतां दहरकुहरे स्वान्ताकाशे ध्वान्तमज्ञानलक्षणं नाशं नयन् नभसो मणिः सूर्यः, चान्द्री किरणलहरीति : चेतश्चकोराणां चमत्कृतिर्यस्याः सकाशादिति ॥१०॥ भगवन्नामकौमुद्याः प्रकाशोऽयं विनिर्मितः। संतोषयतु भक्तानां चेतःकुमुमण्डलीम् ॥१॥ इत्येषा वाङ्मयी पूजा श्रीमद्गोपालपादयोः। अर्पिता तेन मे देवः प्रीयतां गोकुलेश्वरः ॥२॥ इति श्रीमदापदेवसूनुनाऽनन्तदेवेन विरचिते श्रीभगन्नामकौमुदीप्रकाशे तृतीयः परिच्छेदः समाप्तः ॥

No text on this page.

६।२८ ते १२६ निज हणम्, निज ६३२२१ व्यर्थ सटिप्पनीकटीकासहित- श्रीभगवन्नामकौमुद्याः शुद्धिपत्रम्- पृ०प० अशुद्धिः शुद्धिः पृ० प० अशुद्धिः शुद्धिः ३२२० उम्मेयो उन्मेषा ८०१३ भावानामङ्ग भावाङ्ग श्रुते ,, ११६ निजसुख निजस्व १७२३ वा श्र वाऽश्र ८२।१६ धाव १६१० भवत भवति १२७ चिच्छ चिच्छू ६०२१ गान्त गन्ति २४॥२१ तेतो तेनो प्यनर्थ 1२८ वातु वानु ६५ ४स्माद स्मादु ।३१ सत्र सूत्र १००१२२ बट्ट बहु २६। ७सव सर्व १०३।२० क्रश्ये क्रुश्ये २७। ५ सत्र सूत्रे ।२२ बहू ३८ १ मुक्त मुक्त नर्थ ४२।२शाब्द शाब्दा १११॥ ६नापि त्रापि ४३॥ १जना जाना ११६/११ कीत्त कीतं अन्ये १२२।२६सव सर्व ५०२१ तद तद्भु १२५।२३ माक्ष मोक्ष भिर्वि १२७।२३ हात हीत ५७। २ पत्तित्ति पत्ति १२६। २ नान्न नर्नि ,। ७माद मादे ।६षाथ पार्थ ६१।१६ णोभ्य णेभ्य कस्यै ६२। तब तहू ।२५ वृत्तः वृत्तः ७४।१२ वक्त वक्तृ निर्दिष्टाशुद्धीविहायापि बहुत्र बवयोमिथो जातो व्यत्ययो विविवेच्यः। किंच- द्वशतितमपृष्ठस्थ टीका ह्यशीतितमपृष्ठीयटीकाया अग्रिमा बोध्येति । " १०६॥ ६मर्थ ५०१८ अन्य २८भिव ।१७ कैस्य 90

No text on this page.

Bhagvan Nama Kaumudi With Prakasha Commentary

Author
Laqs-miidhara
Title
Bhagavannaama Kaumudii Laqs-miidhara
File name
Bhagvan Nama Kaumudi With Prakasha Commentary
Text
OCR done
Citation
1931
Published
2006/02/28
Publisher
Achutha Granthamala,kashi
Language
Sanskrit
Pages
159
Library
Canegie Mellon Univeristy
Classification
Hinduism Narrowly
Keywords
eulogy on Lord Krishna
DLI number
496615
Barcode
1990020084639.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
9p01fQE2ZNq
Download PDF

Bhagvan Nama Kaumudi With Prakasha Commentary