Scl

Nitiprakashika

Vaisampayana

PDF Proofread

Front matter

No text on this page.

MADRAS GOVERNMENT ORIENTAL MANUSCRIPTS
SERIES24
RNMENT
MADRAS
सत्यमेव
जयते
वैशम्पायननीतिप्रकाशिका
(सीतारामकृततत्त्वविवृतिसहिता)
NĪTIPRAKĀSIKĀ
BY
VAISAMPAYANA
WITH
TATTVAVIVĶTI
OF
SITARAMA
EDITED BY
T. CHANDRASEKHARAN, M.A., L.T.,
Curator, Government Oriental Manuscripts
Library, Madras
(Prepared under the orders of the Government of Madras)
PRINTED BY THE SUPERINTENDENT
GOVERNMENT PRESA
MADRAS
1958

No text on this page.

PREFACE DHANURVEDA or the branch of knowledge which deals with the different varieties of weapons and arms is one of the four Upa-Vedas, namely, AYURVEDA, DHANURVEDA, GANDHARVA VEDA and NĀTYA VEDA which are attached to the Rgveda, Yajurveda, Sāmaveda and Atharvaņaveda respectively. (Vide) Commentary यजुर्वेदस्योपवेदो धनुर्वेद उदाहृतः । ऋचोपवेद आयुः स्यात्साम्नो गान्धर्व उच्यते ॥ अथर्वणस्य भरतमिति वेदोपवेदकाः । (नीतिप्रका० व्या १-१६) Dhanurveda is defined as follows: खड्गविद्यादिकं यत्तु धनुर्वेदाङ्गकं हि तत् । (नीतिप्रका० • ज्या १-१८) The present work NĪTIPRAKAŠIKĀ of Vaišampāyana is a good illustration of this branch of knowledge. Dhanurveda had its origin from Brahmā who revealed it first to Pșthu, son of Vena, pleased with his good administration even in Kali age. लक्षाध्यायान् जगौ ब्रह्मा राजशास्त्रे महामतिः । पंचाशच सहसाणि रुद्रः संक्षिप्य चाबवीत् ॥ वेदव्यासस्तु भगवान् तत्संक्षिप्य महामतिः । शतत्रयाध्यायवती नीतिं चक्रे महामते ॥ संक्षिप्तमायुर्विज्ञाय मानां बुद्धिदोषतः । तल्लक्षणोद्देशमानं मया तव निवेद्यते ॥ (नीतिप्रका० १-२३, २७, २८) This Upaveda as revealed by Brahmã consisted of one hundred thousand chapters. But foreseeing the mental and physical deterioration of the later generations, the subsequent writers on the subject simplified it to enable ther people to comprehend it easily. Brahma, Maheśvara, Skanda, Candra, Pracetas, Manu, Bệhaspati, Sukra, Bhāradvāja, Vedavyāsa and Gaurasiras are the subsequent writers on the subject. Vaišampāyana reduced this Upaveda to eight chapters (Adhyāyas). The first five Adhyāyas deal with the classification and definition of the various weapons and arms. The other three Adhyayas deal with military strategy, recruitment of soldiers to the army, appointment of officers and thểir emoluments and the duties of kings.

12 PREPACE NITIPRAKASIKA is the title of the present work as designated by the author in the opening stanza. The term năti in this context connotes a wider sense and it is probably meant to include Rājaniti dealing with politics and state administration and Dandanīti dealing with military strategy. This work comes in the category of works like Kämandakiya-Nītisāra and Kautilya-Arthaśāstra, Harihara-Caturanga, Sargrāma-Vijayodaya, etc. But, while these latter works deal either with military strategy or state politics or both, Nitiprakāśikā alone deals with the different varieties of weapons besides military and state administration. Agnipurāņa also deals with certain varieties of weapons. But the classification and description of weapons given in this work are more definite and elaborate based on an accurate knowledge of the weapons which were used in ancient India. More than 136 weapons are mentioned and described in this work and they are all classified under four groups or varieties, namely: (1) Mukta, (2) Amukta, (3) Muktāmukta and (4) Mantra-mukta. These four varieties are considered to be the four feet of the Dhanurveda personified. मुक्तं चैव ह्यमुक्तं च मुक्तामुक्तमतः परम् । मन्तमुक्तं च चत्वारि धनुर्वेदपदानि वै ॥ (aitfastante , 11) But the Agnipurāna, which also deals with weapons, mentions the four divisions of the army, namely, ratha, gaja, turaga and padāti as tho four feet of Dhanurveda and gives a different classification of the weapons consisting of five varieties. चतुष्पादं धनुर्वेदं वदे पञ्चविधं द्विज । स्थनागाश्वपत्तीनां योधांश्चाश्रित्य कीर्तितम् ॥ यन्त्रमुक्तं पाणिमुक्त मुक्तसंधारितं तथा । अमुक्तं बाहुयुद्धं च पञ्चधा तत्प्रकीर्तितम् ॥ (अग्निपुग० भ० २४९. श्लो० १, २) Particulars regarding the identity of Vaišampāyana, the author of the present work, are not available. This work is accompanied by a commentary called Nītiprakäsikā-Tattvavivști. The name of the com. mentator is Sītārāma of Kauņdinya family. He was the son of one Natijuņņa, a name which is familiar in Mysore and some parts of Karnāțakai PREFACE iii This edition containing the text and commentary of Nītiprakäsikā is based respectively on the manuscripts described under D. Nos. 3875 and 3878 preserved in the Government Oriental Manuscripts Library, Madras. Our thanks are due to Messrs. M. S. Vaidyanathan, T. H. Vigwanathan, V. R. Kalyanasundaram and N. S. Ramanujam of this Library who rendered help in the publication of this work. MADRAS-5, 17th December 1952. T. CHANDRASEKHARAN, Curator.

No text on this page.

अभिमुखम् विदितमेवेदं सर्वेषां यन्नीतिप्रकाशिकारव्योऽयं ग्रन्थसंदर्भः ऋग्यजुःसामाथर्वानुषङ्गिणामायु- वैदधनुर्वेदगन्धर्ववेदनाव्यवेदात्मकानां चतुर्णामुपवेदानामन्यतमे धनुर्वेदेऽन्तर्भवतीति । धनुर्वेदस्य चास्य चत्वार्यङ्गान्युपाङ्गानि च त्रयोदश । अत्रैव व्याख्याने I-18- यजुर्वेदस्योपवेदः धनुर्वेद उदाहृतः । ऋचोपवेद आयुःस्यात् साम्नो गन्धर्व उच्यते ॥ अथर्वणस्य भरतमिति वेदोपवेदकाः । खड्गविद्यादिकं यत्तु धनुर्वेदाङ्गक हि तत् ॥ स चायं धनुर्वेदः पाषण्डप्रचुरेऽप्यस्मिन् कलियुगे धर्ममनतिक्रम्य प्रजाः पालयते वेनवंश्याय पृथव उपदिश्यमानो दृश्यते । नीतिप्रकाशिकादिधनुर्वेदग्रन्थजातस्य मूलभूतः लक्षाध्यायात्मकः ब्रह्मकृतः कश्चनासीदिति ज्ञायते । तस्यातिविस्तृततामिदानीन्तनजनानां बुद्धयादिसंकोचं च समीक्ष्य महेश्वरप्रभृतयो ब्रह्मणोऽर्वाचीना आचार्याः संक्षिप्य प्रबन्धान निर्ममिरे । क्रमेण संकुचितो धनुर्वेदः नीतिप्रकाशिकायां वैशम्पायनेन तल्लक्षणोड्लेशमात्र- कथनेनाष्टाध्यायतां नीतः । अत्रैव I-23, 27, 28- लक्षाध्यायान् जगौ ब्रह्मा राजशास्ने महामतिः । पञ्चाशच सहस्राणि रुद्रः संक्षिप्य चाब्रवीत् ॥ वेदव्यासस्तु भगवान् तत्संक्षिप्य महामतिः । शतत्रयाध्यायवती नीति चक्रे महामते ॥ संक्षिप्तमायुर्विज्ञाय मानां बुद्धिदोषतः । तल्लक्षणोद्देशमात्रं मया तव निवेद्यते ॥ इति । ब्रह्ममहेश्वरप्रभृतयः एकादशाचार्या धनुर्वेदस्य प्रवर्तकाः स्मर्यन्ते तेषां कृतयो नोप- लभ्यन्ते । तत्परिगणनान्तभूतौ शुकबृहस्पती इदानीमुपलभ्यमानशुक्रनीतिबृहस्पतिसूत्रयोः प्रणेतारावेवेति निश्चयेन वक्तुं न शक्यते । कृतिद्वयस्य शुक्रबृहस्पतिकर्तृत्वेऽप्येतद्न्थोक्त- सहस्राद्यध्यायपरिमितत्वस्याभावात् । नीतिप्रकाशिकायामध्यायपञ्चकेन षट्त्रिंशदधिकशतसंख्याकानामायुधानां लक्षणादिक्मुच्यते । अनन्तराध्यायत्रिकं तु व्यूहनिर्माणादिक सेनापतिनियमनादिकं च वर्णयति । दण्डनीतिपरत्वेनास्य ग्रन्थस्य दण्डनीतिप्रकाशिकेत्येतस्मिन्नर्थे नीतिप्रकाशिकेत्याख्यायत इति विभाव्यते । दण्डनीतिप्रकाशनपरेऽस्मिन् प्रबन्धे राजधर्मोपदेशस्तु राजनीतौ निष्णा- तानामेव दण्डनीतावधिकारसूचनायेवेति भाति ।

vi अभिमुखम् अत्रैव व्याख्यायां 1.49. धनुर्वेदाधिकारिणा राजनीतिमता भाव्यमिति मनसि निधाय ब्रह्मा पृथोः मुख्यान राजधर्मानुपदिशति इति । कामन्दकीयनीतिशास्त्रकौटिल्यार्थशास्त्रादिराजनीतिप्रतिपादकानां हरिहरचतुरङ्गसङ्गामविजयो. दयादियुद्धशास्त्रप्रतिपादकानां ग्रन्थानां सत्वेऽपि धनुरादीनां लक्षणस्यावान्तरभेदादेश्च कथने- ऽयमनितरसाधारणो विजयते । अग्निपुराणे धनुरादीनां केषां चिल्लक्षणकथनेऽप्यवान्तरमेदमि- नानां तेषां विविच्य लक्षणादिकं नैतस्मिन्निव कथ्यते । मुक्त, अमुक्त, मुक्तामुक्त, मन्त्रमुक्त इति चतुर्धा मिन्नान्यायुधानि धनुर्वेदस्य चत्वारः पादाः इत्युच्यन्ते । अत्र विषयेऽस्यायुधानां पञ्चविधत्वं चतुरङ्गस्य पादत्वं च कथयतो- ऽग्निपुराणस्य च वैमत्यं दृश्यते । अत्र 1.11.- : मुक्तं चैव ह्यमुक्तं च मुक्तामुक्तमतः परम् । मन्त्रमुक्तं च चत्वारि धनुर्वेदपदानि वै ॥ अग्निपुराणे 249 तमेऽध्याये 1 and 2.- चतुष्पादं धनुर्वेदं वदे पञ्चविधं द्विज । रथनागाश्वपत्तीनां योधांश्चाश्रित्य कीर्तितम् ॥ यन्त्रमुक्तं पाणिमुक्तं मुक्तसंधारित तथा । अमुक्तं बाहुयुद्धं च पञ्चधा तत्प्रकीर्तितम् ॥ अस्य च कर्ता वैशंपायनः । सुमन्तुजैमिन्यादिऋषिवर्गेऽन्तर्भूतस्य वैशंपायनस्य कर्तृत्वेऽस्यातिप्राचीनत्वं वेदसमीपकालत्वमपि वा वचनसिद्धम् । शैल्यादिकमपि तत् द्रढयति । अयं च धनुर्वेदोऽद्य तत्वविवृत्याख्यव्याख्यासंवलितः प्रकाश्यते । व्याख्याता चास्य कौण्डिन्यगोत्रजः नजुण्डाख्यविद्वन्मणिपुत्रः सीतारामामिधः कश्चित् । नझुण्ड इति नान्नः महींसुरपुरप्रान्ते बल्लारिप्रान्ते च बहुलतया दृश्यमानत्वात् सीतारामोऽयं महीसुरपुरवास्तव्य बल्लारीप्रान्तवास्तव्यो वेत्यूह्यते । अस्य मुद्रणविषये राजकीयप्राच्यविद्याहस्तलिखितपुस्तकभाण्डागारे D. No. 3875 संख्याङ्कितं मूलपुस्तकं तत्रैव, D. No. 3878 संख्यातितं व्याख्यानपुस्तकं चादर्शतयोपयुक्तम् । उभयोरपि मातृकान्तराभावाद्यथाशक्ति परिशोध्य प्रकाश्यते । किश्चास्य शोधनविषये साहाय्यं कृतवद्भयः श्रीयुत-वैद्यनाथविश्वनाथकल्याणसुन्दररामानुज- महाशयेभ्यः कृतज्ञता निवेद्यते । मद्रपुरी, १७ दिसंबर, १९५२ ति. चन्द्रशेखरः.

श्रीः ॥ वैशम्पायननीतिप्रकाशिका ॥ सीतारामकृततत्वविवतिसहिता प्रथमः सर्गः (राजधर्मोपदेशः) मू.-~श्रीमद्गजाननं वाणी नत्वा ब्रह्मादिसद्गुरून् । नीतिप्रकाशिका सेयं तन्यते सादरान्मया ॥ १ ॥ तत्वविवृतिः श्रीमज्जगन्नाथमादौ भक्तया नत्वा यथामति । नीतिप्रकाशिकातत्वविवर्ति करवाण्यहम् ॥ दुर्वादिद्विरदेन्द्रकुम्मदलनाशक्तिस्ववाग्वैखरी- हस्तायादवलब्धमौक्तिकयशः सिंहः सुधीन्द्राग्रणीः । नजुण्डाख्यबुधस्तदीयतनुजः सीतापदेनाञ्चितो रामः कौण्डिनगोत्रजः स कुरुते ग्रन्थं बुधान् प्रार्थयन् ।। अथ तावद्भगवतो वेदव्यासस्यान्तेवासी वैशम्पायननामा महर्षिः कल्युत्पन्नराजानुनिघृक्षया सूक्ष्मनीतिबुभुत्सवे जनमेजयाय चतुर्मुख- पृथुसंवादरूपेण धनुर्वेदमुपदेष्टुं ग्रन्यादौ शिष्टनियमितप्रत्यूहापनोदन मंगलमन्तेवासिशिक्षायै निबध्नाति श्रीमदित्यादिना । गजस्याननं यस्य सः । श्रीमांश्वासौ गजाननश्च । तं । वाणी सकलविद्याधिदेवताम् । बह्मा आदिर्येषां । ते च सद्गुरवश्च । नीतिदेशिकान् तांश्च नत्वा । नीतिप्रकाशिका तदाख्या कृतिः ॥ सा अनादिसिद्धा । इमां मद्बुद्धिस्थां । सादरात् जनमेजयानुग्रहवशात मया वैशम्पायनेन तन्यते विस्तार्यते । तदुक्तं विक्रमार्कचरित्रे- 'श्रुत्वा वैशम्पायनमुखादृष्टो जन्मेजयस्तदा । अष्टाध्यायवती नीति प्रावर्तयत तां तदा' ॥ इति ॥१॥ ते

नीतिप्रकाशिकायां
मू.- श्रीमत्तक्षशिलायां तु सूपविष्टं वरासने ।
जनमेजयं महाराजं द्रष्टुकामो महातपाः ॥ २ ॥
व्या.-श्रीमत्यां तक्षशिलायां. तदाख्यायां नगर्याम् वरासने
सिंहासने । सूपविष्टं सुखोपविष्टम् ॥ २ ॥
मृ.-वैशम्पायन नामा तु महर्षिः संशितव्रतः ।
अभ्यागात् सहितः शिप्यैः व्यासशिष्यो महामुनिः ॥ ३ ॥
व्या.- सम्यक् शितं तीक्ष्णं व्रतं यस्य सः संशितव्रतः। धर्मान्
जानातीति मुनिः । अभ्यागात् । शिप्यैः स्वशिष्यैः सहितः ।
एतच्छलोकद्वयमेकं वाक्यम् ॥ ३ ॥
मू.-तमायान्तमृषि श्रुत्वा जनमेजयभूपतिः ।
प्रत्युज्जगाम सहसा सह मन्त्रिपुरोहितैः ॥ ४ ॥
व्या.-प्रत्युजगाम अभ्युज्जगाम । मन्त्रिपुरोहितैः सह युक्तः
इत्यर्थः ॥ ४ ॥
पाद्यमर्थ्य तथा गाश्च मधुपर्क विधाय च ।
तस्मिन् प्रोवाच कुशलं प्रहृष्टेनान्तरात्मना ॥ ६ ॥
व्या.- गां पूजार्थम् । तेनानुष्टष्ट इति शेषः । कुशलं खकुशलं
वक्षेमं प्रोवाचाकथयत् । पूर्व गुरोः कुशलं पृष्ठेनि भावः । सद्गुरुदर्श-
नान्मनोहर्षः राज्ञः ॥ ५ ॥
मू.--धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे दर्शनमागतः ।
तारिताः पितरः सर्वे पावितोऽहं त्वया मुने ॥ ६ ॥
व्या.-धन्यः धनाहः । अनुगृहीतः ऐहिकामुष्मिकफलं प्रापितः ।
यत् यस्मात् कारणात् मे दर्शनं मदृष्टिगोचरतामागतः प्राप्तः ॥ तारिताः
पापादुद्धारिताः । पावितः परिशुद्धीलतः ॥ ६ ॥
मू.- इत्युक्तवन्तं राजानं प्रयुयोजाशिषः शुमाः ।
धर्मे ते रमतां बुद्धिरित्युक्तागात्सभां ततः ॥ ७ ॥

प्रथमस्सर्गः राजधौपदेशः 8 - - व्या.-राजानम् । उद्दिश्रोति शेषः । 'धर्मे तव बुद्धी रमतां । आसक्ता भवतु' इत्याद्याशीःवरूपं । ततः प्रत्युद्गमनयोग्यप्रदेशात् । सभां तक्षशिलाख्यनगर्या विद्यमानां राजसभामगात् प्राप्तः । राज्ञा सहति शेषः ॥ ७ ॥ मू.- उपविष्टे मुनौ तस्मिन्भद्रपीठे नृपोत्तमः । परिवृच्यासनाभ्याशे कृताञ्जलिरुपाविशत् । ८॥ भद्रपीठे - मुन्युपवेशार्थक्लुप्ताष्टकोणयुतमङ्गलपीठे । उपविष्टे सति । आसनाभ्याशे वैशम्पायनासनसमीपे । परिवृत्य मुनेरभिमुख निवृत्य ॥ ८॥ मू-कथान्तरमथासाद्य जनमेजयम्पति' । प्रणम्य तमृषि भक्तया कृताञ्जलिरभाषत ॥ ९ ॥ व्या.-अथ सोपवेशानन्तरं । कथानां वेदशास्त्रोक्तमहाराज- प्रतिपादकानां कथानामन्तरमवकाशं विश्रान्तिकालमासाद्य स्वाभिलषित- प्रश्नावकाशं प्राप्य भक्तिराराध्यत्वप्रकारकज्ञानरूपा तया गत्वा । अभाषत प्रश्नवाक्यमुपाकम- तेत्ययः ॥ ९ ॥ मू.-राजधर्माः कथास्सर्वे भारतीयास्त्वयोदिताः । हृदि मे संशयः कश्चित्तं भवान् छेत्तुमर्हति ॥ १० ॥ व्या.-भारतीयाः महाभारतप्रतिपादिताः । त्वयोदिताः उदाहृताः । सर्वे वेदपुराणोक्ताश्च : भाविमनुप्यजीवनसन्देहयुक्तः संशयः । तं विरुद्धकोटिद्वयजातं । भवान् छेत्तुमर्हतीति योजना ॥ १० ॥ व्या.-कलिधर्मान् प्रपञ्चयति-इत इति । म.--इतश्चानुदिनं धर्मः सत्यं शौच क्षमा दया । कालेन बलिना ब्रह्मन् क्षरत्यायुर्बलं स्मृतिः ॥ ११ ॥ व्या.-इतः इमं कालमवधीकृत्य । अनुदिनमुत्तरोत्तरदिवसेषु । अत्य- न्तसंयोगे द्वितीया । बलिनाशक्यप्रतीकारेण । कालेनायुः परिभेदका । धर्मः इष्टापूर्तादिजन्यः । सत्यं यथार्थवचनम् । शौचमेहिकाचरणजन्य- । प्रणम्य जानुभ्याम्वनि Neethi-IA 4 नीतिप्रकाशिकायां शुचित्वम् । क्षमा परापकारसहिष्णुता । दया परदुःखप्रहरणेच्छा । बलं देहदाढर्यम् । स्मृतिः पूर्वानुभवजन्या । क्षरति हसति । उत्तरोत्तरं नश्यतीत्यर्थः ॥ ११ ॥ मू.-वित्तमेव कलौ नृणां जन्माचारगुणोदयः । धर्मन्यायव्यवस्थायां कारणं बलमेव हि ॥ १२ ॥ व्या.-जन्माचाराभ्यां यः गुणोदयः स वित्तमेव । द्रव्यानिमित्तक- एव । धर्मेण क्रियमाणा य न्यायव्यवस्था तस्यां बलमेव प्रबला- लम्बनरूपमेव कारणम् ॥ १२ मू.-दाम्पत्येऽभिरुचिर्हेतुर्मायैव व्यावहारिके । स्त्रीपुंस्त्वे कौशलरतिः विप्रत्वे सूत्रमेव च ॥ १३ ॥ व्या.- दाम्पत्ये जायापतिभावे । अभिरुचिस्सम्मतिः कुलगोत्रादि । व्यावहारिके क्रयविक्रयादी मायैव कौटिल्यमेव । स्त्रीत्वे पुंस्त्वे च श्रेष्ठये कौशलरतिः चातुर्यरुचिः न तु स्वाचारः विप्रत्वे ब्राह्मण्ये। सूत्रमेव यज्ञोपवीतमेव । न त्वध्ययनाध्यापनादि । न मू-लिङ्गमेवाश्रमख्यातावन्योन्यापत्तिकारणम् । अवृच्या न्यायदौर्बल्यं पाण्डित्ये चापलं वचः ॥ १४ ॥ व्या.-आश्रमयोः गार्हस्थ्ययतीकयोः । ख्यातावन्योन्यापत्तावाश्रमा- दाश्रमप्राप्तौ च कारणीभूतं लिङ्गमेव । शुभकाषायवस्त्रधारणमेव । अवृच्या द्रविणादिदानासामयन | न्यायदौर्बल्यम् । सभायामवक्तृत्वं पराजय इति भावः । पाण्डित्ये सदसवृत्तिवे चापलं वचः विशेषवचनाक- थनम् ॥ १४ ॥ -अनाव्यतैव साधुत्वे स्नानमेव प्रसाधनम् । स्वीकार एव चोराहे लावण्ये केशधारणम् ॥ १५ ॥ व्या. साधुत्वेऽनाढ्यतैव दारिद्रयमेव कारणम् । न त्वाव्येषु साधुत्वमित्यर्थः । प्रसाधनमलङ्कारः स्नानमेव । सौवर्णाद्यभावात् । मू.- - प्रथमस्सर्गः राजधर्मोपदेशः 5 न त्वैहि- स्नातारोऽपि न भविष्यन्तीत्याशयः। उद्दाहे विवाहे स्वीकार एव सम्मति- रेव । न तु सांबन्ध्यविचार इत्यर्थः । लावण्ये विषये केशधारणम् । न तु दीक्षादिनिमित्तमित्यर्थः ॥ १५ ॥ मू.-उदरम्भरिता स्वार्थः यशोऽथ धर्मसेवनम् । दाक्ष्यं कुटुम्बभरणे सत्यत्वे धाष्टयमेव हि ॥ १६ ॥ व्या.--स्वार्थः स्वप्रयाजनमुदरम्भरिता कुक्षिपूरणमेव । कामुष्मिकम् । यशोऽथ लोकप्रसिद्धयर्थ । न त्वामुष्मिकेच्छयेति भावः । कुटुम्बभरण एव दाक्ष्यम् समर्थत्वं, न तु परोपकारादिषु । सत्यत्वे याथार्य पाष्टर्यमेव वाक्प्रयोगप्रौढिमैव । न तु कार्यन्याय इति भावः ॥ १६ ॥ मू.-शूद्रप्रायेषु वर्णेषु छागप्रायासु धेनुषु । पाषण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु ॥ १७ ॥ कथं तेषामियं नीतिविस्तृता वशमेष्यति । धनुर्वेदविवेकश्च शस्त्रास्त्रज्ञानमेव च ॥ १८ ॥ व्या.-धर्मे पाषण्डप्रचुरे पाषण्डमात्रोपदेश्ये सति । दम्युप्रायेषु ईधन्यूनचोरवृत्तिषु । मार्गदुर्गादी प्रत्यक्षप्रहाराभावादीषम्यू- नवं राज्ञाम् ॥ १७ ॥ तेषां तादृशबुद्धिसंकोचवतां विस्तृता बहुप्रबन्ध- प्रतिपादिता मनस्सन्देहविषयेयं नीतिः । शिक्षा शास्त्रम् । कथं वशं बुद्धयघीनम् । एष्यति प्रामोति । धनुर्वेदविवेकः धनुर्विद्याधिदैवतध्यान- प्रकार: 1 शस्यते हन्यते जनोऽनेनेति शस्त्रम् । अस्यते देहे परिक्षिप्यत इत्यस्त्रम् । तयोः अमन्त्रकप्रयोगसमन्त्रकप्रयोगवतोः ज्ञानं विवेक । ननु धनुर्वेदस्य किं पृथग्वेदत्वमिति चेन्न । " यजुर्वेदस्योपवेदो धनुर्वेद उदाहृतः । चोपवेद आयुस्स्यात्साम्नो गान्धर्व उच्यते । अथर्वणस्य भरतमिति वेदोपवेदकाः । खङ्गविद्यादिकं यत्तु धजुर्वेदाङ्गक हि तद् ॥" इति महोदपिसारवचनादुपवेदस्वीकारात् ॥ १८ ॥ राजसु

co
नीतिप्रकाशिकायां
त्यमरः ।
मू.-इति तद्वचनं श्रुत्वा हृदयज्ञो महानृषिः ।
अर्थोपहितया वाचा राजानमिदमबवीत ॥ १९ ॥
व्या. हृदयज्ञो भावज्ञानवान् । अर्थोपहितया
अर्थोपहितया बर्थयुक्तया
॥ १९ ॥
मू - इङ्गितं ते मया ज्ञातं सूक्ष्मनीतिप्रबोधने ।
लब्धानुयोगः प्रब्रूयात् शास्त्रं नो चेदघी भवेत् ॥ २० ॥
व्या-ते तव । इङ्गितमाभप्रायः । " पराभिप्राय इङ्गित " मित्य-
मरः। सूक्ष्मनीतिप्रबोधने संक्षिप्तशब्दबोध्याखिलनीतिज्ञानविषये । प्रश्नं
विना शास्त्रकथने बाधकमाह-लब्धेत्यादिना । अनुयोगः प्रश्नः ।
" प्रश्नोऽनुयोगः पृच्छा चे"
अधी भवेत् । नापृष्टः
कस्यचिद्व्याच्छुभं वा यदि चेतर" दिति निषेधशास्त्रोल्लङ्घनजन्यपापवान्
भवेत् । अतोऽहं प्रब्रूयामिति शेषः ॥ २० ॥
व्या. नीतिशास्त्रावबोधने स्वसामर्थ्याविष्करणाय नीतिशास्त्रकर्तृन्
तद्न्थाध्यायसंख्यां चाह-ब्रह्मेत्यादिना ।
ब्रह्मा महेश्वरः स्कन्दश्चन्द्रः प्राचेतसो मनुः ।
बृहस्पतिश्च शुक्रश्च भारद्वाजो महातपाः ॥
वेदव्यासश्च भगवांस्तथा गौरशिरा मुनिः ।
एते हि राजशास्त्राणां प्रणेतारः परन्तपाः ॥ २१ ॥
व्या.-गौरशिरास्तन्नामकः ।
प्रणेतारः प्रवर्तकाः ॥ २१॥
मू.-लक्षाध्यायाञ्जगी ब्रह्मा राजशास्त्रे महामतिः ।
पञ्चाशञ्च सहस्राणि रुद्रस्संक्षिप्य चाबवीत् ॥ २२ ॥
पञ्चविंशत्सहाताण स्कन्दः संक्षिप्य चावदत् ।
दशाध्यायसहस्राणि द्विसहस्त्रे च वासवः ॥ २३ ॥
व्या.-जगी उक्तवान् । राजशास्त्रेऽपारनीतिशास्त्रे ॥ २२ ॥
सक्षिप्य शब्दसंक्षेपं कृत्वा | स्कन्दः सुब्रह्मण्यः । चकारस्समुच्चयार्थकः ।
द्वादशसहस्राणित्यर्थः ॥ २३ ॥

प्रथमस्सर्गः राजधर्मोपदेशः
7
मू.-प्राचेतसमुनिश्चापि षट्सहस्राण्यथाब्रवीत् ।
त्रीण्यध्यायसहस्राणि बृहस्पतिरुवाच ह ॥ २४ ॥
काव्यस्तु तत्समालोक्य चक्रेऽध्यायसहस्रकम् ।
सप्ताध्यायशतं शास्त्र भारद्वाजस्तथाभणत् ॥ २५ ।।
भुनिर्गौरशिराश्चापि पश्चाध्यायशतं जगौ ।
वेदव्यासस्तु भगवांस्तत्संक्षिप्य महामतिः ॥ २६ ॥
शतत्रयाध्यायवतीं नीतं चके महामतिः ।
संक्षिप्तमायुर्विज्ञाय मानां बुद्धिदोषतः ॥ २७ ॥
व्या. काव्यः शुक्र :
"शुक्रो दैत्यगुरुः काव्य इत्यमरः । समा-
लोक्य सम्यग्विचार्य । अध्यायानां शतं सप्त यस्मिन् तत् ।
शाताध्यायवच्छास्त्रमित्यर्थः । अभणत् अदर्शयत् ॥ २४ ॥ २५ ॥
लक्षाध्यायप्रतिपादिताखिलार्थस्य शतत्रयाध्यायप्रतिपादनतामर्थ्यवत्वात्
महामतित्वविशेषणं वेदव्यासस्य । संक्षिप्तमित्यादि सार्ध श्लोकमेकं वाक्यम् ।
बुद्धिदोषतः । अनभ्यासाच्च वेदानामाचारस्य च लङ्घनात् । आलस्या-
दन्नदोषाच्च मृत्युमाजिघांसति इत्यादिशास्त्रानभिज्ञत्वरूपबुद्धि-
दोषात् । पञ्चम्यास्तसिः ॥ २६ ॥ २७ ॥
मू.-तल्लक्षणोदेशमात्रं मया तव निवेद्यते ।
सावधानमना भूत्वा राजशास्त्रं निबोध मे ॥ २८ ॥
सप्त-
।
व्या.-तल्लक्षणं नीतिलक्षणं । उद्देशमा निर्देश एव । विषयान्तर-
सञ्चारराहित्यरूपशिष्यावधारणाय राजानं स्वामिमुखीकरोति । सावधाने-
में मत्तः ॥ २८ ॥
त्यादिना ।
धनुर्वेदोपदेशयोग्यं पृथु विशेषतो निर्दिशति-पृथुरित्यादिना-
मू-पृथुर्वैन्यः प्रजा रक्षन् मृत्यु जित्वा पुरा किल ।
क्षतत्राणात् प्रजास्तं तु क्षत्रियञ्चाबुवंस्तथा ॥ २९ ॥

8 नीतिप्रकाशिकायां . ब्रुवन् । व्या.-वैन्यः वेनपुत्रः। मृत्यु जित्वा स्वधर्मेण निर्जित्य, पुरा प्रजा अरक्षत्। किलोत वार्तायाम् । क्षतत्राणान्मृत्योः सकाशात् परिपालनात् क्षत्रियम- क्षताकिल वायत इत्युदनः क्षत्रस्य शब्दो नृवरेषु रूढ " इति न्यायात् ॥ २९ ॥ मू.-नामापि तस्य राजेति प्रजारागादजायत । अकृष्टपच्या पृथिवी चासीद्वैन्यस्य कामधुक् ॥ ३० ॥ व्या.–प्रजासु रागादनुरागात । राजेत्यपि नामामवत् । वैन्यस्य पृथोः । पृथिव्यकृष्टपच्या कर्षणबीजावापादिकं विनापि फलप्रदायिनी । अत एव कामधुक मनोऽनुरूपफलप्रदायिनी आसीदिति योजना ॥३०॥ मू.-आसन् हिरण्मया दर्भास्सुखस्पर्शा मनोहराः ॥ तेषां चीरैस्सुसंवीताः प्रजास्तेष्वेव शेरते ॥ ३१ ॥ व्या-तन्महिम्नात्याश्चर्याण्यपि जातानीत्याह-आसन्नित्यादिमि- स्त्रिमिः । तेषां चौरैस्तत्कृतवरकलैः ॥ ३१ ॥ मू.-प्रविभागो न राष्ट्राणां पुराणाश्चाभवत्तदा । यत्र यत्र प्रजा आसन् तत्र दोग्ध्री मही सुरवम् ॥ ३२॥ तेन संस्तम्भिता ह्यापः समुद्रमभियास्यता । पर्वताश्च ददुर्मार्ग ध्वजभङ्गश्च नाभवत् ॥ ३३ ॥ व्या.–ददुस्तस्येति शेषः ॥ ३२ ॥ ३३ ॥ मू.-षष्टिनागसहस्राणि षष्टिनागशतानि च । सौवर्णान्गकरोगाजा ब्राह्मणेभ्यश्च तान्यदात् ॥ ३४ ! व्या.--नागाः गजाः । पर्वताः । अदात षोडशदानानि कृतवा- नित्यर्थः । सौवर्ण सुवर्णखचितम् ॥ ३४ ॥ मू.-इमाश्च पृथिवीं सर्वां मणिरत्नविभूषिताम् । सौवर्णामकरोद्राजा ब्राह्मणेभ्यश्च तां ददौ ॥ ३५ ॥ ताननन्यान् गुणान् बुद्ध्वा तस्य राज्ञश्चतुर्मुखः आत्मानं दर्शयामास वरदोऽस्मीति चाबवीत् ॥ ३६ ॥ व्या.-बुद्ध्वा ध्यात्वा । दर्शयामासादर्शयत् । तमागच्छदिति भावः । ३६ ॥ आत्मानं

प्रथमस्सर्गः राजधर्मोपदेशः
to
मू.-ब्रह्माणश्च ततो दृष्ट्वा श्रुत्वा चैव स तद्वचः ।
पृथुः परमसंहृष्टो ववे तं वरमुत्तमम् ॥ ३७ ॥
व्या.तद्वचः वरदोऽस्मोति
स्वाभीष्टदायकवचनम् ॥ तं प्रसिद्ध
मू.-चतुष्पाञ्च धनुर्वेदः साङ्गोपाङ्गरहस्यकः ।
शस्त्रास्त्रभूषितो मह्यं प्रदेयस्तु त्वया भवेत् ॥ ३८ ॥
व्या.-चतुष्पात मुक्तामुक्तमन्त्रमुक्तमुक्तामुक्तात्मकपादचतुष्टयवान् ।
पात् पादौ पाद इत्यस्य रूपं । अङ्गानि चत्वारि । लक्ष्याणि
तान्यग्रे वक्ष्यन्ते ॥ उपाङ्गानि शब्द-स्पर्श-गन्ध-रस दूर-चलादर्शन
पृष्ठस्थित स्थिर-भ्रमण-प्रतिबिम्वोदेश लक्ष्याख्यानि
त्रयोदश ॥
तेषां
क्रमेणोदाहरणानि ॥ दशरथकर्तृ कमुनिकुमारक-अर्जुनकर्तृकद्रोणग्राहकमकरी-
मन्मथकर्तृकपुष्पबाणकरणकविरहिजन · बभ्रुवाहनकर्तृकमध्वस्त्रकर्मक-अर्जुन-
कर्तृ फजयद्रथशिरोहरणपूर्वकवृद्ध-क्षत्रक - अर्जुनकर्तृकरेवचरपक्षि - रामकर्तृक-
पातालदानव-भूरिश्रवसो बाहु-शत्रुद्रुपदकृतमत्स्यतुलाप्रतिबिम्ब-मत्स्यभित्तिपत्र-
भेदादीनि रहस्यानि तपोगुप्तानि । तैः सह वर्तत इति सांगोपांग.
रहस्यकः । बहुव्रीही कप्रत्ययः । शस्त्रममन्त्रकप्रयोगः । अस्त्रं
समन्त्रकप्रयोगः ॥ ३८ ॥
मू.-आत्मानं परमं मन्ये लोकेभ्यो लोकपूजित ।
यस्य मे दर्शनं प्राप्तो भवान्वेदमयो निधिः ॥ ३९ ॥
व्या.-लोकेभ्यः जनेभ्यः । आत्मानं मां निधिः निक्षेपवत्स-
न्तोषकारी ॥ ३९ ॥
मू – इत्युक्त्वानन्ददुग्धाब्यौ मज्जमानं पृथु तदा ।
प्रोजहार जगत्स्रष्टा वाचाथ प्लवरूपया ॥ ४० ॥
व्या.-प्लवरूपया प्रस्तावकथायुक्तत्वेन मज्जनोद्धारतरिरूपं प्राप्तया
॥ ४० ॥
मू.-दिष्टया ते बुद्धिरुत्पन्ना धनुवैदपरिग्रहे ।
अहमप्येतदेव त्वां वक्तुकाम इहागतः ॥ ४१ ॥

नीतिप्रकाशिकायां व्या.-दिष्ट्या त्वत्कीर्तिसम्पादकादृष्टेन ॥ ४१ ॥ व्या.-वङ्गस्य ब्रह्मसृष्टत्वेन भृशाश्वपुत्रत्वाशवादसिसृष्टिमादी विविनक्ति ॥ आसिरिति- मू.-असिः पूर्व मया सृष्टो दुष्टनिग्रहकारणात् । भवादशसमीपस्थो लोकान् शिक्षञ्चरत्यसौं ॥ ४२ ॥ व्या.--पूर्व देवयजनसमये शिक्षन्प्रजाः स्वस्खधर्मेण स्थापंयन्नसाविदानी तव समीपे वर्तमानः ॥ ४२ ॥ मू.---धनुराद्यायुधव्यक्तौ त्वमेवादिस्स्मृतो मया । तस्माच्छस्त्रागि चास्त्राणि ददामि तव पुत्रक ॥ ४३ ॥ व्या-धनुरादीनामायुधानां व्यक्तौ लोकप्रचारणे त्वमेवादिरुपज्ञान- खेन स्मृतः ध्यातः ॥ ४३ ।। व्या.-शस्त्रज्ञानाय तेषां पितरं मातरचाह -भृशाश्व इति । मू.-भृशाश्वो मानसः पुत्रो द्वे जाये तस्य संमते । जया च सुप्रभा चैव दक्षकन्ये महामती ।। ४४ ॥ व्या.-कृशाश्व इति पाठान्तरम् ॥ मानसो मन्मथसंकल्पजः । जया तन्नामिका, सुप्रभा तन्नाम्नी । दक्षप्रजापतिपुत्र्यो । महामती! शस्त्रास्त्रप्रसवचातुर्यबुद्धियुक्ते । ४४ ॥ मू. वै . .-जया लब्धवरा मत्तः शस्त्राण्यस्त्राण्यसूत पञ्चाशदपरा चापि तावत्पुत्रानजीजनत् ॥ ४५ ॥ -भृशाश्वज्येष्ठा भार्या । लब्धवरा ऐच्छिकसृष्टिसामर्थ्य प्राप्तिरूपवराश्रया । मत्तो मत्सकाशात् । अपरा कनीयसी सुप्रभा- नामिका सहधर्मिणी तावत् पञ्चाशत्संख्याकान् पुत्रानजीजनत असूत ॥ ४५ ॥ मू.-संहारान्नाम दुर्धर्षान दुराकामान् बलीयसः । मन्त्रदेवतसंयोगाच्छस्त्राण्यस्त्रत्वमाप्नुवन् ॥ ४६ ॥ व्या.-संहाराञ्छत्रुमुक्तास्त्रशामकान् ॥ तदुक्तं मन्त्रमहोदधौ- प्रथमस्सर्गः राजधर्मोपदेशः 11 . " - खमुक्तास्त्रस्य खायत्तीकरणं मुष्टिरुच्यते । परोन्मुक्तास्त्रशमनमुपसंहार ईरितः ॥ इति ॥ दुर्धर्षान्प्रवर्षयितुमशक्यान् ॥ दुराकामानस्त्रानभिभूतान् ॥ बलीयसोऽस्त्रोपशमनबलयुक्तान् । ननु वजशक्त्यांदीनामपि शस्त्राणामस्त्रसामर्थ्यम्य दृष्टत्वात्पृथगस्त्र- ग्रहणं व्यर्थमित्याशङ्कय शस्त्रास्त्रयो(लक्षण्ये युक्तिमाह- मन्त्रेति । मन्त्रप्रतिपादितदैवतसंयोगात् सामीप्यमहिम्नास्त्रत्वम् तत्सामर्थ्य न तु स्वतः सिद्धम् । अत एव तृणादीनामपि दम्भोद्भवादिनिग्रह- सामर्थ्य दृष्टम् । न बल्बजतृणानि शस्त्राणीति तयोर्भेदः ॥ ४६ ॥ मू.-मत्सकाशाद्धनुर्वेद प्रगृह्य जयतां वर । धनुर्वेदग्रहणे प्रयोजनमाह- सर्वाः पालय धर्मेण प्रजाः पुत्रानिवौरसान् ॥ ४७ ॥ धनुदाधिकारिणा राजनीतिमता भाव्यमिति मनसि निधाय ब्रह्मा पृथोः मुख्यान् राजधर्मानुपदिशति सन्धिविग्रहेत्यादिना- मू.-सन्धिविग्रहतत्त्वज्ञस्त्वनुमानविभागवित् । पाडण्यविधियुक्तश्च सर्वशास्त्रविशारदः ॥ ४८ ॥ तो राजगुणैष्षडिस्सप्तोपास्तिदाचर । बलाबलेन सम्यक्त्वं समीक्षस्व चतुर्दश ॥ ४९ ॥ व्या.-सन्धिः साम । विग्नहो निग्रहः । दण्ड इत्यर्थः । तयोस्तच्वज्ञस्तत्तत्कालप्रयोगविवेकवान् । भवेति सर्वत्र शेषः । अनु- मानविभागवित् खपरशक्तिबलाबले अनुमानविभागवित् । निश्चित्य विभागो विभजनं । परामात्यादिभ्यो धनप्रदान तद्वत । अनुमाय विभागविदिति पाठान्तरम् । एवञ्च नीतिशास्त्रप्रसिद्धोपायचतुष्टया- मिज्ञत्वमुक्तम् । षाडुण्यविधियुक्तश्च । षड्डुणाः सन्धि-विग्रह-याना सन-कै- धीभाव समाश्रयाख्याः । त एव षाड्ण्यं खार्थे ष्यन् । तस्य विधि- रज्ञातावबोधनम् । तेन युक्तः । तत्र सन्धिविग्रही प्रत्येकं द्विविधौ ।

12 नीतिप्रकाशिकायां A प्रबलदुर्बलयोर्विजिगीषावतोः समभूमौ युद्धप्रसङ्ग आद्यो विग्रहमिच्छति । इतरस्तु तेन सहाल्पतरग्रहेणापि सन्धिमेवच्छति । तथा च दुर्बल- द्वारको सन्धि विग्रहावन्यौ । प्रबरूद्वारकावन्यौ । तदिदमुक्तं रामायणे "द्वियोनी सन्धिविग्रहा"विति । तत्र प्रबलयोनिविग्रहो यानासनयोः प्रयोजकः । दुर्बलयोनिस्सन्धिः । द्वैधीभावसमाश्रययोः । यथोक्तं कामन्दकीये- "सन्धेश्च विद्महस्यापि द्वैगुण्यं सम्प्रचक्षते । यानासने विग्रहस्य रूपं सन्धेः परं द्वयम्" इति ॥ द्वौ गुणभूतौ यस्य सः द्विगुणः । सच सच तौ । तयोः भावः बैगुण्यम् । तत्र यानं विजिगीषोररि प्रति यात्रा । आसनं कदाचि- च्छक्तिप्रतिबन्धे तत्रैव शत्रोर्दुर्गमावेष्टय तत्र धान्यादिप्रवेशनं प्रतिबध्न- तावस्थानम् । बलवता विग्रहे बलवत्तरेण तच्छत्रुणा सन्धि कृत्वो- भयत्र दासोऽस्मीति वाचवात्मसमर्पणं कर्तव्यं न कर्मणति बैधीभावः ।। यथोक्तं कामन्दकीये- बलिनोषितोर्मध्ये वाचात्मानं समर्पयन् । द्वैधीभावेन वर्तेत काकासिवदलक्षितः" ॥ इति ॥ आरिणा पीडयमानस्य बलवदुर्गभूपालाद्याश्रयणं सर्वशास्त्रविशारदः षट्छास्त्रनिपुणः । "पाणिने (?) त्यादि शास्त्र. षट्रमुदाहृन "मिति शौनकवचनात् । षड्डिः राजगुणै तो युक्तः । वक्ता प्रगल्भो मेघावी स्मृतिमान्यायवित्कविः । परावरविभागज्ञः प्रमाणकृतनिश्चयः " इति नारदस्तुतावुक्ता वेदितव्याः । न केवलं ज्ञातुमेव कुशलोड- पि तु वक्तुमपीत्याह-- वक्तति । समानाधिकरण एवेत्याह-प्रगल्भ इति । असम्बद्धप्रलापी नेत्यर्थः । यतो मेधावी उहापोहकुशलः । तादृशोऽपि स्मृतिमानधीतं न नाशितवानित्यर्थः । नयवित् दायविभागा. दिव्यवहारवित् । कविरनागतदर्शी । वक्तृत्वप्रगल्भत्व मेधावित्व स्मृतिमत्व- नयवित्व-कवित्वाख्याः षड्गुणा परावरविभागज्ञो काण्डणेः यथायोग्यं शिष्येषु विभाजनज्ञः । यतः प्रमाणकृतनिश्चयः । समाश्रयः । जानकाण्ड कर्म.

प्रथमस्सर्गः राजधर्मोपदेशः 18 प्रमाणं प्रत्यक्षानुमानागमादि । तच्च द्विविधम् । लौकिकमलौक- कञ्चेति । आद्यं घटवह्निस्वर्णादिविषयम् । द्वितीयं निर्विशेषात्मवस्तु. तच्वविषयम् । अत्र श्लोके राजगुणेषु वक्तृत्वं, चारामात्यादिषु यथायोग्यं कार्योपदेशकौशलम् । प्रागल्भ्यं शत्रुदमनादावुत्कर्षप्रदर्शनम् । मेधावित्वं तर्ककौशलम् । स्मृतिमान् कविरित्यतीतानागतयोः परामर्शि- त्वम् । नयविदिति नीतिशास्त्रविच्चम् । एतैः राजगुणैः । उपायान् बलाबलं । अन्यान् । चतुर्दश । वं समीक्षस्वेति योजना । चतुर्दशभी राजदोषैविरहितो भव ॥ ते च वक्ष्यन्ते ॥ " नास्तिक्यमनृतं क्रोधः प्रमादो दघिसूत्रता । अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तित्ता । एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् । निश्चितानामनारम्भो मन्त्रस्यापरिरक्षणम् । मङ्गलाद्यप्रयोगश्न प्रत्युत्थानश्च सर्वशः । कञ्चित्वं वर्जयस्येतान् राजदाषांश्चतुर्दश ।" इति रामायणोक्ताः । नास्तिक्यं परलोकापलापः । प्रमादोऽ. नवधानता। दीर्घसूत्रता चिरक्रियत्वम् । पञ्चवृत्तिता पञ्चेन्द्रियपर- अर्थानां प्रयोजनानामेकचिन्तनम् एकेनैव चिन्तनम् अनर्थ विपरीतार्थदर्शिभिस्सह चिन्तनं मङ्गलमुत्सवः । आदिपदादेवपूजादि तस्याप्रयोगोऽननुष्ठानम् । प्रत्युत्थानश्च सर्वशः । युगपत्सर्वदिगबस्थितशत्रुद्देशेन दण्डयात्रेति तदर्थः । विंशतिवर्गरहितोऽपि भवेत्यर्थः । विंशतिवर्गस्तु कामन्दकीय उक्तः ॥ बालो वृद्धो दीर्घरोगी तथा ज्ञातिबाहष्कृतः । भीरुको भीरुजनको लुब्धो लुब्धजनस्तथा ॥ विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्तमन्त्रश्च देवब्राह्मणनिन्दकः ।। दैवोपहतकश्चैव देवचिन्तक एव च । दुर्मिक्षव्यसनोपेतः खलव्यसनसङ्कुलः ॥ वशता । मन्त्रः । अत्र चकारा.

14 1 नीतिप्रकाशिकायां किमनेन शत्रुणा अदेशस्थोऽबहुरिपुर्युक्तोऽकालेन यश्च सः । सत्यधर्मव्यपेतश्च विंशतिः पुरुषा अमी ॥ एतैस्सन्धिं न कुर्वीत निग्रहस्स्यात्तु केवल"मिति ॥ सप्तापायाः साम दान भेद-दण्ड मन्त्री-षधीन्द्रजालाख्याः बलाबलं स्वपरपक्षयोस्साम्यम् । परस्य हीनता स्वस्थ वा हीनतेति । त्रिविचं यथायोग्यं बुद्ध यादिभिः सामाइयः परीक्षणीयाः । साम कर्तव्यं न वा, कर्तुमारब्धञ्चेत्सिद्धयति न वा, सिद्धञ्चेदन्ते कुशलं न वेति चारप्रेषणादिना बलाबलप्रभृतिकं परीक्षणीयम् । तथा चतुर्दशदेशादयोऽपि परीक्षणीयाः ॥ ते च नीतिशास्त्रोक्ताः- " देशो दुर्ग रथो हस्ती वाजी योधाधिकारिणः । अन्तःपुरान्तगणना शास्त्र-लेख्य धना-सवाः । परीक्ष्या ह्याधपास्तषां चतुर्दश नरेश्वरैः " ॥ इति ॥ योधाः अधिकारिणः देशपाल-दुर्गपाल सेनापत्यादयः । श्वरथधनादीनां संख्या । लेख्यमायव्ययनिर्णयाय सर्वस्य पत्रारोहकरणम् । धनं पर्याप्तमपर्याप्तञ्चेति विचार्यम् । आसवाः मद्यवदपकारिणः । आसव इति पाठे बलमित्यर्थः ॥ ४८, ४९ ॥ मू. -अथ खात्मानमन्वीक्ष्य परांश्च रिपुसूदन । तथा सन्धाय कर्माणि सेवस्वाष्टौ सदा नृप ॥ ५० ॥ गणना- प्रच्छन्नशत्रवः । व्या.-अथात्मानं बालेन परान्दुर्बलान्परीक्ष्य सेवस राज्यमिति शेषः । तथा विपरोते जयमूलस्य कोशस्य वृद्धये सन्धाय परैस्सह भष्टौ कर्माणि- साम कृत्वा । - कृषिर्वणिक्पयो दुर्ग सेतुकुञ्जरबन्धनम् । खन्याकरः करादानं शून्यानाञ्च निवेशनम् । भष्टौ सन्धानकर्माणि प्रयुक्तानि मनीषिभिः ॥ इति ॥

प्रथमस्सर्गः राजधर्मोपदेशः
16
कुञ्जरबन्धनं बहुभक्षकत्वात्तेषां यथाविभाग्रामीणधनिकैरेव ग्रामे ग्रामे
पोषणार्थ बन्धनम् ।
खनिः रत्नाद्युत्पत्तिस्थानम् । आकरः सुवर्णाधु-
त्पत्तिस्थानम् । खननमात्रेण धमनादिनाभिमुरवीकरणन च तयोस्तल्लाभ-
हेतुत्वात् ॥ ५० ॥
मू.-भवानष्टादशान्येषु खपक्षे दश पञ्च च ।
त्रिभिस्त्रिभिरभिज्ञातैवेत्ति वीथीविचारकैः ॥ ५१ ॥
व्या.--भवानिति ॥ तीर्थानि मन्त्रिप्रभृतीरष्टादश ॥ यान्यवगाह्य
राजा कृतकृत्यो भवति तानि चोक्तानि नीतिशास्त्रे-
मन्त्री पुरोहितश्चैव युवराजश्च भूपतिः ।
पञ्चमो द्वारपालश्च षष्ठोऽन्तर्वशिकस्तथा ।
कारा राधिकारी च द्रव्यसञ्चयकृत्तथा ।
हत्याकृत्येषु चार्थानां नवमो विनियोजकः ।
प्रदेष्टा नजराध्यक्षः कार्यनिर्माणकृत्तथा ।
धर्माध्यक्षः सभाध्यक्षो दण्डपालस्त्रिपञ्चमः ।
षोडशो दुर्गपालश्च तथा राष्ट्रान्तपालकः ।
अठवीपालकान्तानि तीर्थान्यष्ठादशैव तु ।
चारैर्विचारयेत्तार्थानात्मनश्च परस्य च ।
पाषण्डादीनवज्ञातानन्योन्यमितरेप्वपि ।
मन्त्रिणं युवराजञ्च हित्वा स्वेषु पुरोहितम् ॥ इति ॥
एषां तीर्थशब्दवाच्यत्वे हलायुधः-
यौनौ जलावतारे च मन्याद्यष्टादशस्वपि ।
पुण्यक्षेत्रे तथा पात्रे तीर्थ स्यादर्शनेष्वपि ।
परेषामष्टादशनु स्वस्य मन्त्रिपुरोहितयुवराजवर्ज पञ्चदशसु च
तीर्थेषु । चारानन्यैः परस्परञ्चाविज्ञातान् त्रीस्त्रीन्प्रयुज्य तत्र तत्रत्यां
वाता सर्वचारसंवादे तथ्यां जानीयात् । ज्ञात्वा च स्वप्रजानामनुरञ्जनेन
पुरप्रजानां दुःखितानामभयदानेन धनादिदानेनाकर्षणेन च खराष्ट्र
वर्धयेदित्युक्तं भवति ॥ ५१ ॥

16 नीतिप्रकाशिकायां एवं विजेतुं प्रकृतिसम्पदमुक्ता विजयकालमाह-तथा व्यसनिन- मिति- मू.-तथा व्यसनिनं शत्रु निशम्य नृपसत्तम । अभियाहि जवेनैव समीक्ष्य त्रिविधं बलम् ॥ १२ ॥ व्या-व्यसनानि । - " स्त्री द्यूतं मृगया मद्यं नृत्यं गीतं तथाटनम् । वाद्यं निन्दा दिवाखापो व्यसनानि नृणां दशे" त्युक्तेर्युक्तम् । त्रिविघं बलं | मन्त्र कोश-भृत्यबलानि प्रभुमन्त्रोत्साहशक्तिर्वा । समीक्ष्य स्वबुद्धया विचार्य | अभियाहि यात्रां कुर्वित्यर्थः ॥ ५२ ।। मू.-धृत्वा यात्रामारभख प्राप्तकालमरिन्दम । पाणिमूलश्च विज्ञाय व्यवसायं पराजयम् ॥ ५३ ॥ व्या.-पाणिमूलं पाणग्राहक आदिर्यस्य तद्वादशविधं मण्डलम् । तञ्चोक्तं कामन्दकीये- अमात्यराष्ट्रदुणि कोशो दण्डश्न पञ्चमः । एताः प्रकृतयस्तज्ज्ञविजिगीषोरुदाहृताः ॥ सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः । जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः ॥ अरिमित्रमरेर्मित्रं मित्रमित्रमतः परम् । अधारिमित्रं मित्रश्च विजिगीषोः पुरस्कृताः ॥ पाणिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरः आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः ॥ अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोय॑स्तयोनिग्रहे प्रभुः ॥ मण्डलाबहिरेतेषामुदासीनो बलाविकः । अनुग्रहे संहतानां, व्यस्तानाञ्च वधे प्रभुः ॥ इति ॥

प्रथमस्सर्गः राजधर्मोपदेशः 17 कृत्यश्च । इति । विजिगीषुः शत्रुः तयोमित्रे तान्मिने इति त्राणि इन्द्वानि । क्रमेण पुरतः विजिगीषोः पृष्ठतः पाणिग्राहाकन्दौ | पाणिग्रहः पृष्टरक्षकः । आक्रन्दः प्रोत्साहकः । एतयोरनुग्राहकावासारौ | तत्तत्पृष्ठगती पाणिग्रहसार आक्रन्दासारश्चेति दश पुरुषाः विजिगीषोः शत्रोः पावें । मध्यमः सर्वेषां पार्वे उदासीन इति मण्डलम् । पाणिमूलमित्युच्यते । व्यवसायं कृत्यनिश्चयम् । अलब्धवेतनो लुब्धो मानी चाप्यपमानितः । क्षुद्रश्च कोपितोऽकस्मात्तथा भीतश्च भीषितः ।। यथाभिलषितैः कार्भिन्द्यादेतांश्चतुर्विधान् । परकीयान् स्वकीयांस्तु रक्षद्विजयकामुकः ॥ इति नीतिशास्त्रोक्तः । पराजय पराजयमूलानां व्यसनानां परपक्षे सद्भावं स्वपक्षे चाभावं विज्ञाय दिष्टयाऽविशेषतो दैवज्ञादिद्वारा ज्ञात्वा । तत्र देवं व्यसनं पञ्चविधम् । मानुषं पञ्चाविधम् । यथोक्तं कामन्दकीये- हुताशनो जलं व्याधिदुर्भिक्षं मारकस्तथा । इति पञ्चविधं देवं व्यसनं मानुषं परम् ।। अयुक्तेभ्यश्च चोरेभ्यः परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयम् ॥ इति ॥ मारः माहेश्वरीमायादिरूपः ॥ १३ ॥ मू.-स्वमूलं तु दृढं कृत्वा परान्याहि विशां पते । विक्रमख विजेतुं ताजित्वा च परिपालय ॥ १४ ॥ व्या.- स्वमूलं खराज्यं । दृढं दृढप्रत्ययिमिः शूरैराधिष्ठितम् । परानभिभाव्यं कृत्वा । परान् याहि प्राप्नुहि । तांश्च विनेतुं विक्रमस्व प्रयत्नवान् भव । तान् जित्वा वशगान् कृत्वा । परिपालय अन्नवस्त्रादिदानेन स्वाधीनान् कुरु । न तु तेषां स्वतन्त्राधिकार देहीत्यर्थः ॥ ५४ ॥ - Neethi_2 18 नीतिप्रकाशिकायां प्रथमस्सर्गः राजधर्मोपदेशः - मू. दृढमष्टाङ्गसंयुक्ता चतुर्विघबला चमूः । बलमुख्यैस्सुनीता ते द्विषतां प्रतिवर्धिनी ।। ५५ ॥ व्या.--अष्टाङ्गसंयुक्ता- यथा नागा हया योधाः पत्तयः कर्मकारकाः । चारा दैशिक नुख्याश्च ध्वजिन्यष्टाङ्गिता मता ॥ चतुर्विधवला मौल-बैत्र-भूत्याटविकैवलयुक्ता ! बलमुख्यैस्तेनापतिभि- स्सुनीता सम्यक्प्रापिता शिक्षिता वा । तव चमूः द्विषतां त्वच्छत्रूणां । प्रतिवर्धिनी प्रातिकूल्येन मेदिनी । दृढं भवतीति शेषः :: ५५ ॥ .-इत्येवमनुशास्यैवं ब्रह्मा लोकगुरुः पुनः । धनुर्वेदं ग्राहयितुं वक्तुमेवोपचक्रमे ।। ५६ ॥ । इति वैशम्पायननीतिप्रकाशिकायां सङ्गतिप्रदर्शनपूर्वक- राजधर्मोपदेशो नाम प्रथमस्सर्गः । व्या.- इत्येवमितिप्रकारणे । अनुशास्य शिक्षयित्वा । तद्योग्य- धर्मानुपदिश्येत्यर्थः । एवं पृथु धनुर्वेद शस्त्रविद्यां । ग्राहयितुं प्रापयितुम् । पुनरपि वक्तुं धनुर्वेदं वेदस्वरूपं तन्मन्त्रं च कथयितुं । उपचक्रमे लोकगुरुः । परमकारुणिकतया लोफ़प्रवर्तनाय खदर्शनजनित- सन्तोषपरवशतयावस्थितं पृथु बुभुत्सुं स्वयमेव मत्वा . तेनाऽपृष्टोऽपि रहस्यं कथयतीति वेदितव्यं सुधीभिरिति । ॥ इति श्रीसीतारामकृतायां नीतिप्रकाशिकातत्वविवृती प्रथमः सर्गः ॥

अथ द्वितीयस्सर्गः (धनुदविवेककथनम् ) मू.- चतुष्पाच्च धनुर्वेदो रक्तवर्णश्चतुर्मुखः । अष्टबाहुस्त्रिणेत्रश्च सात्यायनसगोत्रवान् ॥ १ ॥ व्या.-चतुष्पाञ्चेत्यादि ॥ धनुर्वेद पुरुषध्यानप्रकार दर्शयितुं तदाकारमाह । चतुप्पात्पादचतुष्टयवान् । रक्तवर्णो जातरूपसहशरक्तः । चतुर्मुखः मण्डलाकारेण कण्ठलग्नमुखचतुष्टयं धृतवान् । सांख्यायन- सगोत्रवान् साङ्यायनो ब्रह्मा तत्समानं गोत्रं यस्य सः॥ तन्मानस- पुत्रत्वात्तद्गोत्रः । तथा च निरुक्ती सङ्ख्या परार्धपर्यन्ता तदयं साङ्य उच्यते । अयनं तस्य यस्मात्तत् ब्रह्मा साङ्ख्यायनस्स्मृतः ॥ इति ॥ १ ॥ सः वज्र खड्गो धनुश्चक्रं दक्षबाहुचतुष्टये । शतनी च गदाशूलपटिशा वामबाहुपु ॥ २ ॥ व्या.-दक्षो दक्षिणः । वामेतरः । पुण्यकर्मा दक्षो वे दक्षिणश्च " इति भारविः ॥ २ ॥ . म.--प्रयोगकोटीरयुतो नीत्यङ्गो मन्त्रकञ्चुकः । उपसंहारहृदयः शस्त्रास्त्रोमय कुण्डलः ॥ ३ ॥ अनेकवरिंगताकारभूषणः पिङ्गलेक्षणः । जयमालापारिवृतो वृषारूढस्स उच्यते ॥ ४ ॥ व्या.—प्रयोग आयुधप्रयोग एव । कोठीरं किरीठम् । तेन युतः । नीतिशास्त्रमेवाङ्गानि राजशास्त्रम् यस्य । मन्त्राः चिन्तनं गायच्यादि- मन्त्रा वा कञ्चुकं कवचं यस्य । उपसंहार एव हृदयम्मनो यस्य । Neethi-2A 20 नीतिप्रकाशिकायां शस्त्रास्त्र एवोभयकुण्डले काँभयपार्श्वलम्बिनी यस्य सः । अनेक- वल्गितानि शस्त्राभ्यासाः तदाकाराणि तत्स्वरूपाणि भूषणानि यस्य । पिङ्गलेक्षणो हरितनेत्रद्वयवान् । हरितनेत्रद्वयवान् । ललाटनेत्रान्ते रक्तवर्णः । शत्रुपराजयलब्धमहिमा । स एव माला तया परिवतः ॥ ४ ॥ मू.. एतं मन्त्रं प्रवक्ष्यामि वैरिजालनिकृन्तनम् । आत्मसैन्यस्वपक्षाणामात्मनश्यामिरक्षकम् ॥ ५ ॥ व्या.-एतं मन्त्रमेतद्देवताकमन्त्रम् ॥ ५ ॥ मन्त्रोद्धारमाहादावित्यादि-- मू...आदी प्रणवमुच्चार्य नम इत्यक्षरे ततः । वतेति भगपूर्वं तु धनुर्वेदाय चोच्चरेत् ॥ ६॥ व्या--भगपूवम् । मा इत्यक्षरद्वयपूर्वकम् । वतेति परं । भगवत इत्यर्थः ॥ ६ ॥ मू...मां रक्ष रक्षत्युच्चार्य मम शत्रूनथो वदेत् । मक्षयति द्विरुच्चार्य हुंफट् स्वाहेत्यथोच्चरेत् ॥ ७ ॥ व्या.-अथो अन्त्यभागे ॥ ७ ॥ मू.-अहमेव ऋषिश्चास्य गायत्री छन्द उच्यते । महेश्वरो देवतास्य विनियोगोऽरिनिग्रहे ॥ ८ ॥ व्या.-अहमेव ब्रह्मैव ॥ ८ ॥ मू.-द्वात्रिंशद्वर्णकमनुं वर्णसंख्यासहस्रकैः । जपित्वा सिद्धिमाप्नोति रिपुंश्चाप्यधितिष्ठति ॥ ९ ॥ व्या.-मनु मूलमन्त्रम् । वर्णसङ्ख्यासहस्रः । मान्त्राक्षरवृत्ति द्वात्रिंशत्सहस्त्रैः इत्यर्थः ॥ ९ ॥ म्:-सत्यं सत्यं पुनस्सत्यं त्रिर्वदामीह वेनज । धनुर्वेदस्य विवृतिमथाख्यास्ये निबोध मे ॥ १० ॥ च्या--विवृति विवरणम् । निबोधावेहि ।

द्वितीयस्सर्गः धनुर्वेदविवेककथनम् 21 जो - "ओं भगवते धनुर्वेदाय मां रक्ष रक्ष मम शत्रु बन्धय भक्षय हुं फट् स्वाहा" इति मन्त्रप्रकारः ॥ १० ॥ नक्षत्र शस्त्रास्त्रखरूपधनुर्वेदस्य पादचतुष्टयमाह-मुक्तमित्यादिना- मू-मुक्तञ्चैव ह्यमुक्तञ्च मुक्तामुक्तमतः परम् ! मन्त्रमुक्तञ्च चत्वारि धनुर्वेदपदानि वै ॥ ११ ॥ व्या-मुक्तं हस्तमुक्तमायुधजातम् । अमुक्तं हस्त एव तिष्ठच्छत्रु. मारकम् । मुक्तञ्च तदमुक्तश्च मुक्तामुक्तम् । सोपसंहारमस्त्रम् । मन्त्रैर्मुक्तमुपसंहाररहितं मन्त्रमुक्तमिति शेषः ॥ ११ ॥ मू:--मुक्तं बाणादि विज्ञेयं खड्गादिकममुक्तकम् । सोपसंहारमस्त्रं तु मुक्तामुक्तमुदाहृतम् ॥ १२ ॥ उपसंहाररहितं मन्त्रमुक्तमिहोच्यते । चतुर्भिरेभिः पादस्तु धनुर्वेदः प्रकाशते ॥ १३ ॥ व्या.-तस्यैव विवरणं मुक्तमित्यादि द्वाभ्याम् ।। १२, १३ ॥ मू.--शस्त्रमस्त्रश्च प्रत्यस्त्रं परमास्त्रमिनीव च । चातुर्विध्यं धनुर्वेदे केचिदाहुर्धनुर्विदः ॥ १४ ॥ -पादचातुर्विध्य मतान्तराण्याह शस्त्रमित्यादिना । प्रत्यस्त्रं निवारकास्त्रम् ॥ परमास्त्रं ब्रह्मास्त्रादि । १४ ॥ मू-आदानश्चैव सन्धान विमोक्षस्संहृतिस्तथा । धनुर्वेदश्चतुर्धेति वदन्तीति परे जगुः ॥ १५ ॥ व्या.-आदानं ग्रहणम् । सन्धान प्रयोगः । विमोक्षः मोचनम् । संहतिस्संहारः ॥ १५ ॥ मू-तत्राद्यं मतमालम्ब्य मुक्तामुक्तायुधान्यहम् । द्वात्रिंशद्भेदतो वच्मि तत्रायं विस्तृतिक्रमः ॥ १६ ॥ व्याः-द्वात्रिंशद्वेदतो विद्यमानानीत्यर्थः । विस्तृतिः प्रपञ्चः ॥ १६ ॥ मू-धनुरिषुमिण्डि पालश्शक्तिद्रुघणतोमराः । नलिका लगुडाः पाशश्चक्रं वै दन्तकण्टकः ॥ १७ ॥ .- 22 नीतिप्रकाशिकायां भुसुण्डीति द्वादशैने मुक्तभेदाः प्रकीर्तिताः । धनुर्वेदस्याद्यपादम्तवायं कथितो नृप ॥ १८ ॥ व्या-धन्यते प्रार्थते शूरैरिति धनुः । धन ध्याने । इष्यतै इच्छाविषयः क्रियत इति इषुः । इष इच्छायां । भिण्डिमस्त्रधारणं वलयति श्थययतीति भिण्डिवालः । शत्रूनर्दयतीति शक्तिः । दुःवृक्षो हन्यतेऽनेनेति द्रुघणः। एवमग्रेऽप्यायुधवाचकशब्देषु व्युत्पत्तिरूह्या । द्वात्रिंशदायुधविवरणमग्रे वक्ष्यते । दन्तकण्टकस्तन्नामकायुधविशेषः । इति पूर्वोदाहृतप्रकारण मुक्तभेदा मुक्तनामकधनुर्वेदाद्यपादप्रतिपादितद्वादशायुधविशेषाः ॥ १८ ॥ धनुर्वेदाद्वितीयपादप्रतिपादितविंशतिविधायुधानां नामानि क्रमेण- कथ्यन्ते । वजामित्यादिश्लोकहोन- मू.-वजमाली च परशुर्गौशीर्षमासिधेनुका । लवित्रमास्तरः कुन्तस्स्थूणः प्रासः पिनाककः ॥ १९ ॥ गदा मुदगरः सीरा मुसलः पदिशं तथा । यौष्टिकं परिघश्चैव मयूरवी च शतनिका ॥ २० ॥ अमुक्ता विंशतिरिमे द्वितीयः पाद उच्यते । मुक्तामुक्तानि शस्त्राणि द्वात्रिंशद्गणितानि ते ॥ २१ ॥ -अमुक्ताः स्थितिस्वभावाः । द्वात्रिंशत् । शस्त्रप्रतिपादक- धनुर्विद्या प्रथमद्वितीयपादाभ्यां प्रतिपादिताः हात्रिंशदेवेत्यर्थः । गणितानि गणनपूर्वकं कथितानि || २१ ।। तृतीयपादप्रतिपादितान्यस्त्राणि नामतो निर्दिशति ।। मित्यादिना ॥ मू.-दण्डचक्रं धर्मचक्रं कालचक्र तथैव च । ऐन्द्रचक्रं शूलवतं ब्रह्मशीर्ष च मोदकी ॥ २२ ॥ शिरवरी धर्मपाशश्न तथा वरुणपाशकम् । पैनाकास्त्रश्च वायव्यं शुष्का शिखरास्त्रकम् ॥ २३ ॥ कौश्चास्त्रं हयशीर्षश्च विद्याविद्येऽस्त्रसंज्ञिके । गान्धर्वास्त्रं नन्दनास्त्रं वर्षणं शोषण तथा ॥ २४ ॥ दण्डचक्र- द्वितीयस्सर्गः धनुर्वेधविवेककथनम् 23 il नन्दनास्त्रं जनकम् । प्रस्तापनप्रशमने सन्तापनविलापने । मदनं मानवास्त्रश्च नायनं तामसं तथा ॥ २५ संवर्त मौसलं सत्यं सौर मायास्त्रमेव च । त्वाष्ट्रमस्त्रञ्ज सोमास्त्रं संहारं मानसं तथा ॥ २६ ॥ नागास्त्र गारुडास्त्रश्च शैवेषांकेऽस्वसंज्ञिके । चतु* त्वारि चैतानि सोपसंहारकाणि वै ॥ २७ ॥ व्या.-शूलवतं शूलवतनामकम् । कचिच्छूलवरमिति वा पाठः । ब्रह्मशीर्ष ब्रह्मास्त्रादन्यत् । मोदकीत्युपनामक गदासंज्ञास्त्रम् । शिवर्युप नामकगदासज्ञकास्त्रम् । शुप्काढ़े अशन्युपनामकेऽस्त्रे । पिनाकि नोऽमेरिदं पैनाकम् ॥ २३ ॥ विद्याधरदेवताकम् । तदस्त्रादसीनां प्रादुर्भावः इति भावः । नन्दनस्यैवासिरत्नमिति नामान्तरम् ॥ २४ ॥ प्रशमनं शत्रूणां क्रोधशामकम् । मदनं रिपूणामुन्माद- जनकं मानवास्त्रं शत्रुमपसार्य दूरे प्रक्षेपकम् । तामसं रिपूणामज्ञान सर्वेष्वस्त्रेषु स्वस्वनामानुरूपकार्यकारित्वं व्युत्पत्तिमहिम्ना सुधीभिर्विभावनीयम् ॥ २५ । मौसलं मुसलव्यूहनिर्माणसामर्थ्यवत् । असुरादन्यविधं मायास्त्रम् इन्द्रजालादिमायाकारकम् ॥ संहारं प्राणवियोजकम् । मानसं मनस्सङ्कल्पसाधकम् ।। २६ ॥ नागास्त्रं सर्परूपेण शत्रुबन्धकमस्त्रम् । शैलं वायव्याद्यस्त्रवाधावारणायपर्वतपति. सृष्टिहेतुकम् । उपसंहारकाणि मुक्तामुक्तानीत्यर्थः ।। उपसंहाराणामपि तृतीयपाठकथनीयत्वादत्रैव तानपि नामतो वक्ति क्रमप्राप्तान् । मू.-- वक्ष्यामि चोपसंहारान् क्रमप्राप्तान्निबोध मे । याज्ञात्वा वैरिमुक्तानि चास्त्राणि शमयिष्यसि ॥ २८ ॥ व्या.—क्रमप्राप्तानुपसंहारकतयानुपदमेव बुद्ध यधिरूढान् । मम । वदनादिति शेषः। वैरिमुक्तानि चेत्यत्र चकारात् स्वप्रयुक्तस्यास्त्रस्य मन्त्रविशेषेण पुनरात्मनि स्थापनरूपसामर्थ्यमपि द्योत्यते । उपसंहार- परिज्ञाने पुनः प्रयोगानहतयास्त्राणां प्राप्तप्रायत्वमापद्यते इत्युपसंहार कथनमिति भावः ॥ २८ ॥ मे का नीतिप्रकाशिकायां मू-सत्यवान् सत्यकीर्तिश्च रभसो दृष्ट एव च । प्रनिहारतरश्चैवावाङ्गमुखपराजुम्मस्वौ ॥ २९ ॥ दृढनाभोऽलक्ष्यलक्ष्यावाबिलश्च सुनामकः । दशाक्षश्शतवक्त्रश्च दशशीर्षशतोदरौं ॥ ३० ॥ धर्मनाभो महानाभस्तुन्दनाभस्तु नामकः । ज्योतिषो विमलश्चैव नैरास्यकृशनावुभौ ॥ ३१ ॥ योगन्धरस्सनिद्रश्च दैत्यः प्रमथजस्तथा । साचिमाली धृतिर्माली वृत्तिमान् रुचिरस्तथा ॥ ३२ ॥ पित्र्यस्सौमनसश्चैव विधूतमकरौ तथा | करलारो धनरती धान्यं वै कामरूपकः ॥ ३३ ॥ जृम्मकावरणौ चैव मोहः कामरुचिस्तथा । वरुणसर्वदमनस्सन्धानस्सर्वनामकः ॥ ३४ ॥ व्या.~भनिलस्तन्नामा । सुनाभ एव सुनाभकः । साथै कप्रत्ययः ॥ ३० ॥ नैरास्यश्च कृशनश्चेत्युभौ द्वित्वसङ्ख्यावन्तौ । तूमाविति पृथग्रहणम् ।। ३१ ॥ दैत्यस्तन्नामकः । न तु दितिगर्भसंभूतः । अत्रावयवार्थेनार्थग्रहणस्यायुक्तत्वात् इत्यादिः ॥ ३२ ॥ धनश्च रतिश्व धनरती । पुल्लिङ्गद्विवचनम् ॥ ३३ ॥ ननूपसंहारेप्वेकोनपञ्चाशदुद्देशात्पूर्व चतुश्चत्वारिंशदस्त्रकथनादुपरितनपश्चोपसहार्याणि कानीत्याशङ्कच कङ्कालादि पश्चास्त्राण्युक्त्वा चैतेषु तदुपसंहारांश्च विवेचयन् तां शङ्कां परिहरति । कङ्कालेत्यादिना- कङ्कालास्त्रं मौसलास्त्रं कापालास्त्रञ्च कङ्कणम् । पैशाचास्त्रश्चेति पञ्चाप्यसुरास्त्राणि भूपते ॥ ३५ ।। व्या.- असुरास्त्राणि मयशम्बरमारीचविद्युजिह्वेन्द्रजित्सृष्टानि । कानिचित् सृज्यमानान्यपि सर्वज्ञतयासुप्रभया पूर्वमेव तदुपसंहाराः सृष्टा इत्यविरोधः ॥ ३४ ॥ मू.-सत्यवान् सर्वदमनः कामरूपस्तथैव च । योगन्धरोऽप्यलक्ष्यश्चाप्यसुरास्त्रविघातकाः ।। ३६ ॥ न . - तत्र 25 द्वितीयस्सर्गः धनुर्वेदविवेककथनम् चतुश्चत्वारिंशदेते पञ्चान्योन्यविमर्दनाः । मेलयित्वा च पश्चाशदेकोना बस्नशामकाः ॥ ३७ ।। सर्वमोचननामा तु सुप्रभातनयो महान् । मुक्तामुक्तारिवलशमो मद्वरात्प्रथितः परः ॥ ३८ ॥ अयं तृतीयपादस्स्याद्धनुर्वेदस्य भूपते । व्या.-मन्त्रमुक्तषडस्त्रप्रतिपादनेन जयापुत्रपञ्चाश च्वं बोधयति- मन्त्र- मुक्तचापीत्यादिना सार्थ श्लोकेन ॥ मू.-मन्त्रमुक्तश्चाऽपि वक्ष्ये सावधानमनाश्णु ॥ ३९ ।। विष्णुचक्रं वज्जमस्त्रं ब्रह्मास्त्रं कालपाशकम् । नारायणं पाशुपतं नाशाम्यमितरास्त्रकैः ॥ ४०॥ खान्यसंहारकाभावान्मन्त्रमुक्तान्यमूनि षट अयश्चतुर्थपादस्स्याद्धनुर्वेदस्य सम्मतः ॥ ४१ ॥ व्या.—विश्वामित्रवसिष्ठयोयुद्धे ब्रह्मास्त्रेणैव तच्छान्तम् । ब्राह्म ब्राह्मण तेजसेत्यादिना ब्रह्मास्त्रादीनामुपसंहारदर्शनात् कथं मन्त्रमुक्तत्वमित्या- शङ्कां मन्त्रमुक्तपदस्य विशेषार्थपर्यवसायित्व थनेन परिहरति- खान्यसंहारकाभावादित्यादिना तथा खव्यतिरिक्तोपसंहारकमन्त्र- रहितमेव मन्त्रमुक्तमित्युच्यते । इति सर्वञ्चतुरस्रम् । अयं मन्त्रमुक्तविचारः । सम्मतः नीतिज्ञानुमत इत्यर्थः ॥ ४१ ॥ शस्त्राणि द्वात्रिंशदेवेति बोधयितुमितिहासमाह-शण्वित्यादिना- मू-शृणु चाप्यपरं भूयो विशेष वच्मि तेऽनघ । पुरा दैवासुरे युद्धे निर्जिता दानवैस्सुराः ॥ ४२ ॥ व्या.-अपरं विशेषं जयासृष्टयनन्तरजातप्रभेदम् ।। ४२ ॥ मू.-धनुर्वेदाविशेषज्ञाः पलायनपरायणाः । दधीचिऋषिमालोक्य तस्मै दत्वायुधानि ते ॥ ४३ ॥ व्या.- धनुर्वेदाविशेषजाः धनुर्वेद विशेषानभिज्ञाः । पलायनपरायणास्सन्तो दधीचि तन्नामकं महर्षिमालोक्य पलायनमार्ग इति शेषः । दत्वा दैत्येभ्यो रक्षणार्थ न्यासविधिना तत्सात्कृत्वा ॥ ४३।। च अत एवं

26
नीतिप्रकाशिकायां
मन्दरं पर्वत श्रेष्ठं वस्तुकामा द्रुतं ययुः ।
ते तत्रोषुर्बहूनब्दानिन्द्रमुख्या भयात्सुराः ।। ४४ ॥
व्या.-पर्वतश्रेष्टमुद्दिश्येति शेषः । ऊषुः स्थिताः ॥ ४४ ॥
दधीचिरपि तानत्वा दैतेयेभ्यो ह्यरक्षत ।
शल्य भूतानि तस्यरायुधानि तपोबलात् ॥ ४५ ॥
व्या.-अच्वा भक्षायित्वा (१) । तपोबलाच्छत्यभूतानि शरीरास्थ्य-
न्तर्गतानि ।। ४५ ॥
मू.-अथ मां शरणं प्राप्ता देवास्सेन्द्रपुरोगमाः ।
पराजिता विलीनाश्च मन्दरे भयविह्वलाः ।। ४६ ॥
व्या.-अथ बहुकालमन्दरप्रवासानन्तरम् । मां ब्रह्माणम् ॥ ४६ ॥
मू.-- अथाददां धनुर्वेदं देवेभ्यस्सरहस्यकम् ।
चतुष्पादयुतं साङ्गं तेषामनुजिघृक्षया ॥ ४७ ॥
व्या.-अथ मामुद्दिश्य शरणप्राप्त्यनन्तरं । अददां दत्तवानस्मि
मू.-अथ लब्धवरा मन्तो योद्धं देतेयसत्तमान् ।
दधीचिं प्रस्थिता दृष्ट्वा तान्ययावन्त सङ्गताः ॥ ४८ ॥
व्या.–लब्धवराः प्राप्तधनुर्विद्याः ।
प्रस्थिताः ।
अभिषणन-
कौतुकाः । दधीचिं दृष्टा, तदाश्रम इति शेषः । तानि पूर्वदत्तायुधानि ।
अयाचन्त । युद्धे जयसाधनार्थ देहीत्यब्रुवन् इत्यर्थः ॥ ४८ ॥
मू.-आयुधापेक्षिणां श्रुत्वा वचनं ऋषिसत्तमः ।
शल्यभूतानि सञ्चिन्त्य कृपास्तानथाबावीत् ॥ ४९ ॥
शल्यभूतानि तदवलेपदर्शनजनितस्वकृतास्येन महिम्ना च
शल्यभूनानि ॥ ४९ ॥
साधनान्यस्थिमूतानि मम देहे दिवौकसः ।
गोजिह्वया लेहयित्वा विशसित्वायुधानि वः ॥ ५० ॥
व्या.~-साधनानि युद्धोपकरणानि । लेहयित्वा लेहनव्याजेनमद्देहं
शकलीकृत्य विशसित्वा । कर्तनपूर्वक लेहयित्वा ॥ ५० ॥

द्वितीयस्सर्गः धनुर्वेदविवेककथनम्
21
मू.-मदंशात्तन्युपादाय जयध्वं युधि शात्रवान् ।
मम चैवं वधो दृष्टो नात्र कार्या विचारणा ॥ ५१ ॥
व्या.-न चैवं दुर्मरणं तव स्थादित्याशङ्कयाह-ममेति । दृष्टो
ब्रह्मणा सङ्कल्पिन इत्यर्थः ॥ इदं तपसा दृष्टमिति ।। ५१ ॥
देवकार्यार्थ देहविनियोगे मम नरकं
इत्याद
न
घटत
---.
देवेति ॥
-
-देवोपयोगिनं देहमिमं कृत्वा दिवं व्रजे ।
यूयं स्वकार्य संसाध्य मम लोहान्प्रयच्छत ।। ५२ ॥
ते तस्य वचनं श्रुत्वा तथा चक्रुर्दिवौकसः ।
आत्मकार्यगरीयस्त्वात्तत्कायं प्रतिपेदिरे ॥ ५३ ॥
व्या-आत्मकार्यगरीयत्त्वादवश्य करणीयत्वेनात्मकार्यस्य श्रेष्ठत्वात् ।
प्रतिपेदिरेऽङ्गीकृतवन्तः ।। ५३ ।।
तर्हि ब्रह्महत्याश्रयीभूतं किमित्याशङ्कयाह गोमुख मिति ।
मू. -जोमुरवं ब्रह्महत्यापि विवेश नृपसत्तम ।
देवसन्तोषणालोंकान् शाश्वतान् स ऋषिर्ययौ ॥ ५४ ॥
तदाप्रभृति लोका वै न पश्यन्तीह गोमुखम् ।
प्रातः पुरुषशार्दूल तद्दोषगतमानसाः ॥ ५५ ॥
व्या.—प्रातः पुण्यवस्तुदर्शनं । प्रातः । कालविहितम् । मध्याह्वादी
कदाचित्पापिदर्शनेऽपि तावद्दोषो नास्तीति प्रातःपदेन सूचितम् ।
कुतः, तद्दोष तमानसाः स्मृततदोषा इत्यर्थः ॥ ५५ ॥
मू.-एकत्रिंशच्च कङ्कालास्ता चैका च कशेरुका ।
द्वात्रिंशन्निर्गता देहात्तस्यरेस्पुमहात्मनः ॥ ५६ ॥
व्या. कङ्कालश्शरीरास्थि । कशेरुका पृष्ठास्थि !
" स्याच्छरी-
रास्थि कङ्कालः पृष्ठास्थि च कशेरुका" इत्यु भयत्रामरः ॥ ५६ ।
मू.-यद्यदङ्गाश्रितञ्चास्थि यद्यद्रूपमगान्मुनेः ।
तत्तदस्थ्युद्धतं शस्त्रं तत्तदाकारकं ह्यभूत् ॥ ५७ ॥

28 नीतिप्रकाशिकायां व्वा.-केषाञ्चिदायुधानां हूखत्वम् । केषाश्चिदुच्चत्वं विलक्षण वर्णत्वचैकजातास्थीनां कथमित्याशङ्कयोचावचत्वप्राप्तिकं कारणमाह यदिति मू.-तीक्ष्णस्वभावाद्र्वाञ्च दधीचिमुपताप्य तु । तद्रक्षितान्यायुधानि तेन शल्यीकृतानि वै ॥ ५८॥ व्या. तीक्ष्णखभावात्खभावतैक्ष्ण्यात् गर्वात आस्थिनिगरण- कर्तुरन्तर्धानतीक्ष्णस्वभावादन्तर्दाहः कर्तव्य इत्यहङ्कारात् तेन तपश्शक्ति- मता शल्यीकृतान्यस्त्राकारकाणि कृतानि । वै निश्चये ॥ ५८ ॥ मू.-शस्त्राणि लोके द्वात्रिंशत्प्रचरिष्यन्ति पार्थिव । कशेरुकोद्गतं वज्रमिन्द्रहस्तगतं विना ॥ ५९ ॥ व्या.-लोके भूलोके । वजायुधधारणे नराणामसामर्थ्याचद्विनेति म.-धनुर्वेदस्य माहात्म्याग्निर्जिता दानवास्सुरैः । भूलोके त्वावधीकृत्य धनुरादि चरिष्यति ॥ ६० ॥ व्या.-धनुर्वेदस्य धनुर्विद्याग्रहणस्य । त्वा त्वाम् । अवधकृित्य प्रवर्तकगुरुमाश्रित्य धनुरादि चरिष्यतीत्यन्वयः ॥ मू----धनुर्वेदविदं त्वां तु समाश्रित्य नृपोत्तमाः । नीतिमन्तो भविष्यन्ति मत्प्रसादान संशयः !! ६१ ॥ व्याः-नीतिमन्तो राजशास्त्राभिज्ञाः । न वेढताशा दृष्टा मया । कुत इत्याशङ्कयाह-मत्प्रसादादिति ॥ मू.-इत्येतत्कथितं वत्स माहात्म्यं वेदसम्मितम् । शस्त्रोत्पत्तिश्च कथिता किं भूयश्श्रोतुमिच्छसि ॥ ६२ ॥ व्या.- वेदसम्मितं धनुर्वेदप्रतिपाद्यम् । उत्तरकथाप्रश्नं बाधयति किं भूय इति ॥ ६२ ॥ मू--धनुर्वेदस्योपदेशमिमं योऽधिगमिष्यति । त्वत्कृते मत्कृते सोऽथ सर्वान् कामानवाप्नुयात् ।। ६३ ॥

द्वितीयस्सर्गः धनुर्वेदविवेककथनम् व्या.-अधिगमिष्यति ज्ञास्यति । सर्वान् कामानवाप्नुयादिति शास्त्राध्ययनस्य प्रयोजनकथनम् ॥ म् —पारीक्षित महाबुद्धिः पृथुश्श्रुत्वा विधर्वचः । हृदयस्थं ततो भावं द्रष्टुं समुपचक्रमे ॥ ६४ ॥ ॥ इति वैशम्पायननीतिप्रकाशिकायां धनुर्वेदविवेककथनं नाम द्वितीयस्सर्गः ॥ व्या.–पारीक्षित जनमेजय । महाबुद्धिरिति पृथुविशेषणम् । भावमामिप्रायम् ॥ ॥ इति श्रीसीतारामकृतायां नीतिप्रकाशिकातत्वविरतो द्वितीयस्सर्गः ... ...

अथ तृतीयस्सर्गः (खडोत्पत्तिकथनम्) मू.लोकनाथ नमस्तेऽस्तु सर्वाश्चर्याश्रय प्रभो ! । उत्पादितो मया खड़ः पूर्वभित्युदिनं त्वया ॥ १ ॥ व्या.--अथ पृथुः खङ्गोत्पत्ति प्रष्टुं ब्रह्माणं गुरुं नमस्करोति- लोकनाथेति । सर्वेषाचतुर्दशभुवनान्तर्गतानां आश्चर्याणां बुद्धन्द्रि- यविकासकानां । आश्रय आवासभूतः ॥ १ ॥ मू.खगः कदा हि जनितस्त्वया केनेह हेतुना । कस्त्वत्तकाशात्प्रथममग्रहीदसिमुत्तमम् ॥ २ ॥ व्या. --प्रश्नप्रकारः । खड इत्यादिना ॥ २ ॥ मू.परम्परा तु का तस्य भूलोकप्रापणी विभो । पूर्वाचार्यश्च खङ्गस्य मम ब्रूहि पितामह ॥ ३ ॥ व्या.---परम्परा शिष्यप्रशिष्वसन्ततिः। तस्य खड्गस्य भूलोकप्रापणी लोके प्रचारयित्री । पूर्वाचार्य प्रथमप्रतिगृहीतारम् ॥ ३ ॥ -स तद्वचस्तमाकर्ण्य प्रोवाचेदं पितामहः । यत्र येन निमित्तेन यथासौ जनितः पुरा ॥ ४ ॥ व्या. पितामाहः ब्रह्मा । येन निमित्तेन येन कारणेन । यथा थेन प्रकारणेन । असौ खगः ॥ ४ ॥ मू.-वेनपुत्र प्रवक्ष्यामि खड्गसम्भवमुत्तमम् । सावधानमनाश्श्रुत्वा सर्वत्र जयमाप्स्यसि ॥ ५ ॥ व्या.-वेनस्य तन्नामकराज्ञः पुत्रः ।। ५ ॥ मू.-विशीणे कामुके राजन्प्रक्षीणेषु च वाजिषु । खड्ड्रेन शक्यते युद्धे साध्वात्मा परिरक्षितुम् ॥ ६ ॥ व्या. विशीणे खण्डिते । प्रक्षीणे] मृतेषु। साधु सभ्यक् ॥

तृतीयस्सर्गः खगोत्पत्तिकथनम्
1
मू.-शरासनधरांश्चैव गदाशक्तिघरांस्तथा ।
एमः रवङ्गधरो वीरस्समर्थः प्रतिबाधितुम् ॥ ७ ॥
व्या.-शराः बाणाः । आसनं तस्याधारः तान् । एक्कारश्चाप्यर्थकः ।
सर्वायुधधरांश्चापीत्यर्थः । प्रतिबाधितुं वैपरीत्येन हन्तुम् ॥ ७ ॥
मू.- आयुधेभ्यो वरः वङ्गः तस्माल्लोकेषु विश्रुतः ।
मया सृष्टः पुरा राजन् कस्मिंश्चित्कारणान्तरे ॥ ८ ॥
व्या.--यस्मात्सर्वेभ्य आयुधेभ्यश्वोत्कृष्टतामर्थ्यवान् । तत्र हेतुमया
सृष्टत्वम् कारणान्तरे निमित्तान्तरे :
व्य -तत्कारणमाह-हिरण्यकशिपुरिति
मू...-हिरण्यकशिपुचव हिरण्याक्षो विरोचनः ।
शम्बरों विप्रचित्तिश्च प्रह्लादो नमुचिबलिः ॥ ९ ॥
एते चान्ये च बहवस्स गणा दैत्य दानवाः ।
धर्मसेतुमतिक्रम्य देवैर्योद्धमुपाक्रमन् ॥ १० ॥
व्या.--दैत्या दितिकुमाराः ! दानवा दनुनाम्न्यास्सुताः । धर्मसेतुं
धर्मसीमानम् । अतिक्रम्योल्लङ्घय । उआक्रमन्नारमन् ॥ १० ॥
व्या.-खड्गसृष्टिप्रदेशमाह तदेत्यादिना ।
मू.-तदा हिमवाने नानाधातुविराजिते ।
शतयोजनविस्तारे पुष्पितद्रुमकानने ॥ ११ ॥
व्या. तदा धर्महाससमये नानाघातुमिस्वर्णरूप्यादिभिः विराजिते ।
शतयोजनविस्तारे शतयोजनसङ्ख्याकपरिमण्डलवति । हिमवतश्शृङ्गे
प्रधानशिखरे ॥ ११ ॥
म.-यज्ञं एकरवरतत्र सर्वलोकार्थसिद्धये ।
ततो वर्षसहस्रान्ते त्वद्भुतं समजायत ॥ १२ ॥
व्या.-अकरवं कृतवानस्मि । स्वस्य यज्ञकरणे प्रयोजनमाह-सर्वेति
सर्वलोकानां । समस्तजनानां । अर्थः परलोकसाचनरूपः तस्य
सिद्धिश्शिक्षा । तस्यैतत् । यज्ञोपक्रमणानन्तरं वर्षसहस्रान्ते यज्ञावसाने ।
अद्भुतमाश्चर्यम् ॥ १२ ॥

32 नीतिप्रकाशिक.या . मू.-नभोऽमिज्वालयोद्भास्यं द्योतयञ्जगतीतलम् । विकीर्याग्निं तथा भूतमुत्थितञ्चामिकुण्डतः ॥ १३ ॥ व्या.-नभोऽन्तरिक्षम् । अनेराहवनीयाग्नेः । ज्वालयोद्भास्य उत्थानसमये वेगादग्निज्वालायां चिरं प्रकाश्येत्यर्थः । जगतीतलं भूप्रदेशं । द्योतयत्स्वदेहकान्त्या प्रकाशयत् । आत्रं स्वोत्पत्तियोग्यम् । विकीर्य प्रसार्य । अग्निकुण्डतो भूतमुत्थितमिति योजना ॥ १३ ॥ मू.-नीलोत्पलसवर्णन्ततीक्ष्णदंष्ट्रं कृशोदरम् । सुप्रांशु दुर्धर्षतरं ज्वालमालासमाकुलम् ॥ १४ ॥ व्या.-मूतमेव वर्णयति नीलोत्पलेत्यादिना । सुप्रांश्वत्युन्नतम् । दुर्धर्षतरमितरैरत्यन्तमघर्षणीयम् । ज्वालानाम् देहभासां मालासमाकुलं व्याप्तम् ॥ १४ ॥ मू.-रक्ताक्षं क्रूरनिदिं सर्वप्राणिभयङ्करम् । खतेजसातिरौद्रेण द्रष्टुईष्टिविलोपकम् ॥ १५ ॥ व्या.- क्रूरनिहूदिं भयङ्करक्रेङ्कारयुक्तं । द्रष्टुणां दृष्टेविलोपकं । अतिक्रूराकारत्वाद्दष्टुमशक्यमित्यर्थः ॥ १५ ॥ व्या.- तादृशभूतसमुत्पत्तिकाल उत्पातानाहः-तस्मिन्नित्यादिना । मू.- तस्मिन्नुत्पतमाने च प्रचचाल वसुन्धरा । महोर्मिकलिलावर्तश्चुक्षुभे स महोदधिः ॥ १६ ॥ व्या.-उत्पतमाने प्रोद्यमाने । महोर्मिभिः कलिला व्याकुलाः आवर्ता अम्भसा भ्रमयः यस्य सः । तादृशस्सन् चुक्षुमे क्षुब्धोऽभूत् । १६ ॥ मू-पेतुरुल्का दिवो घोराश्शारवाश्च मुमुचुर्दुमाः । तदृष्ट्वा सर्वभूतानि प्राव्यथन्त मुहुर्मुहुः ॥ १७ ॥ व्या.-दिव अन्तरिक्षात् । उरुका अङ्गारमात्रशेषकाष्ठाः । उल्का स्यानिर्गतज्वाले "त्यमरः । शाखा द्रुमशाखाः ॥ मू.-महर्षिसुगन्धर्वानबवं भयविह्वलान् । मयैवं चिन्तितं भूतमसि मैष वीर्यवान् ॥ १८ ॥ व्या.-अब्रुवं । तमिति । शेषः ।

तृतीयस्सर्गः खड्डोत्पत्तिकथनम् 33 रक्षणाय लोकस्य वधाय च सुरहिषाम् । ततस्तद्रूपमुत्सृज्य वभौ निस्त्रिंश एव सन् ॥ १९ ॥ व्या.-निस्त्रिंश एव सन् खडाकार एव सन् । बभौ स पुरुषः । विधेयप्राधान्यात्पुल्लिङ्गता ॥ १९ ॥ म.-विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः । पञ्चाशदगुल्युत्सेघश्चतुरङ्गुलिविस्तृतः ॥ २० ॥ व्या.-तीक्ष्णा धारा यस्य सः । काले प्रलयकाले अन्तक उद्यतः संहारोद्युक्तः । पञ्चाशदङ्गुलीनामुत्सेध औन्नत्यं यस्य सः ॥ २० ॥ व्या.-तस्य प्रथमप्रगृहातारमाह-तत इत्यादिना । मू.-ततस्त्वृषभकेतोस्स हस्ते दत्तो मया ह्यसिः । राक्षप्तान्तकरस्तीक्ष्णस्तदाधर्मनिवारकः ॥ २१ ॥ व्या.तीक्ष्णो निशितः । अस्यते क्षिप्यते शत्रूपरीत्यासः । असु क्षेपणे। अधर्मनिवारक इति छेदः ॥ २१ ॥ मू.-तमुद्धृत्य महादेवस्सर्वशत्रुभयङ्करम् । त्रिकूटश्चर्मचोद्यम्य सविद्युतमिवाम्बुदम् ।। २२ ॥ व्या.–त्रिकूटन्त्रिशिखरम् । त्रिकोणं वा । चर्मखेटकं नैल्यान्मेषस्थानीयम् । विद्युत्स्थानीयः खड्गः ॥ २२ ॥ मू.-चचार विविधान्मार्गान्महाबलपराक्रमः । छिन्दन्भिन्दन्रुजकन्तन्दारयन्पोथयन्नरीन् ॥ २३ ॥ व्या.-भिन्दन्द्वैधीमावं प्रापयन् । छिन्दन् छेदनं कुर्वन् । रुजन् व्यथयन् । कृन्तन्सावशेष कर्तयन् । दारयन् पाटयन् । पोथयन् झरियन् ॥ २३ ॥ म. द्वात्रिंशत्करणानि स्युर्यानि खङ्गप्रयोधने । चित्रशीघ्रपदं तानि दैत्यसझे व्यदर्शयत् ॥ २४ ॥ व्या.-खड्गप्रयोधने खड्गयुद्धे । चित्राणि विन्यासचतुराणि, शीघ्राणि त्वरितानि, पदानि पादविन्यासा . यस्मिन् कर्मणि तथा तानि । वक्ष्यमाणत्वेन प्रसिद्धानि द्वात्रिंशत्करणानि वलिंगतानि दैत्यसङ्के ऽदर्शयदिति योजना ॥ २१ ॥ तत्

नीतिप्रकाशिकायो
मू.
पाशः
व्या.-द्वात्रिंशत्करणानि विशदयति । भ्रान्तमित्यादिना-.
...भ्रान्तद्धान्तमाविद्धमाप्लुतं विप्लुतं सृतम् ।
संयान्तं समुदीणश्च निग्रह प्रग्रहौ तथा ॥ २५ ॥
व्या- भ्रान्तं भ्रमणम् । उद्भान्तमूलभ्रमणम् । आविद्धं भुग्नम् ।
आविद्धङ्कुठिलम्भुन "मित्यमरः । आप्लुतं हरिणवत्प्लुतम् । विप्लुतं
विशेषप्लवनम् । सृतमनुसरणम् ।
संयातं सम्यग्यानम् । समुदी]
सम्यक्तरणम् । निग्रहोऽधिक्षेपः ।
निग्रहोऽधिक्षपः । प्रग्रहो दृढग्रहणम् ॥ २५ ॥
मू.-पादावकर्षसन्धाने शिरोभुजपरिभ्रमौ ।
पाशपादाविबन्धाश्च भूम्युमणके तथा ॥ २६ ॥
व्या.-~पादावकर्षः पादप्रान्तेन खड्गनमनम् । सन्धान शत्रूपरि
विन्यासः शिरोभ्रमणं भुजपरिभ्रमणम् ।
खड्गयोपॅथनं
प्रसिद्धम् । पादः त्सरुमिश्रणं । खङ्गयोमिश्रणम् । पाशः पादो
मुष्टिविमिश्रणम् 'इति मेदिनी । विबन्धः खड्गनिरोधनम् । भूमिरघोविन्यासः
उद्भूमणक मुच्चैरुद्धृतिः ॥ २६ ॥
मू-गतप्रत्यागताक्षेपाः पातनोत्थानके प्लुतम् ।
लाघवं सौष्टवं शोभा स्थिरत्वं दृढमुष्टिता ॥ २७ ॥
व्या.~गतं पश्चाद्गमनम् । प्रत्यागतं शत्रूद्देशेनाभिमुरवगमनम् ।
आक्षेपा रिपुमुष्टिस्वालनम् । पातनं रिपुकराद्भूमौ खड्गन्यासनम् । उत्थानकं
स्वरवडोद्धृतिः । प्लतं स्वस्थानप्राप्तिः । लाघवं शीघ्रप्रयोगः । सौष्ठवं
खड्धारणनैपुण्यम् । शोभा एकेनैव खड्ड्रेन समन्ताच्चालितेन सर्वदिगवच्छे.
देन झळझळायमानता । स्थिरत्वं दृढावस्थितिः ।
दृढमुष्टिता त्सरो-
हूंढग्रहणम् ॥ २७ ॥
मू.-तिर्यगूर्वप्रचरणे द्वात्रिंशत्करणान्यहो ।
विजित्य दानवान् संङ्ख्ये हृष्टो रुद्रो बभूव ह । २८ ॥
व्या-तिर्यक्प्रचरणं .तिर्यग्गतिः । उर्ध्वप्रचरणमुन्नतदेशावस्थितिः ।
इति द्वात्रिंशत्वङ्गवल्गितानीत्यर्थः । सङ्घये युद्धे । हृष्टरूपस्तन्तुष्टाकारः
॥ २८ ॥

35 " तृतीयस्सर्गः खड्गोत्पत्तिकथनम् व्या.-अथ खड़विद्यायाश्शिष्यप्रशिष्यान्कथयितुं तदादौ विष्णोः खड्गप्राप्ति कथयति-तत इति मू.-ततस्तु भगवान् रुद्रो विष्णुं दृष्ट्वा सभीपगं । सत्कृत्य धर्मगोप्तारमति तस्मै ददौ मुदा ॥ २९ ॥ व्या.-समीपगं खड़ग्रहणार्थमन्तेवासिनम् सत्कृत्य महागुणवत्यादि कथनेन संपूज्य। धर्मगोप्तारमित्यपि विशेषविशेषणम् । तस्मै विष्णवे । मुदा प्रापणजन्यसन्तोषण ॥ २९ ॥ मू----विष्णुमरीचये प्रादान्मरीचिभगवानपि । महर्षिभ्यो ददौ खड़मृषयो वासवाय च ॥ ३० ॥ व्या.–भगोऽस्यास्तीति भगवान् । तथा 'ऐश्वर्यस्य समग्रस्थ वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चव षण्णां भग इतीरणा' इत्युक्तेः ॥ ३० ॥ मू.-महेन्द्रो लोकपालेभ्यो लोकपाला ददुश्च तं । मनवे पूर्यपुत्राय ततस्ते तमथाब्रुवन् ॥ ३१ ॥ व्या.-महेन्द्रो वृत्रहन्ता । 'इन्द्रो वृत्रमवधीत् तन्महेन्द्रस्य महेन्द्र- त्वम् ' इति श्रुतेः । ते लोकपालाः तं मनुम् ॥ ३१ ॥ मू.-धर्मसेतुमतिकान्ताश्लोकधर्मार्थकारणात् । असिना धर्मगर्भेण शिक्षयव प्रजापते ॥ ३२ ॥ व्या.-लोके जगति । धर्मार्थकारणाद्धर्मार्थादीनां संरक्षगनिमित्तं । धर्मगर्भेण धर्मसंरक्षणार्थमुत्पन्नत्वात् धर्मगर्भवव्यपदेशः । शिक्षयस्वाका- योन्निवर्तय । हे प्रजापते मनो ॥ ३२ ॥ म. -स तयेति प्रतिश्रुत्य गृहीत्वा स्वमुत्तमम् ! लोके प्रवर्तयामास राजघारामुरवेन वै ॥ ३३ ॥ व्या-प्रतिश्रुत्य प्रतिज्ञाय । राजधारामुखेन राजपरम्परद्वारा Neothi-31

--
नीतिप्रकाशिकायां
मू-त्वमप्येतमर्सि मत्तो गृहाण नृपसत्तम ।
पालयस्व च धर्मेण प्रजाः पुत्रानिवौरसान् ॥ ३४ ।।
व्या. हे नृपसत्तम । पुरोग्रहणमन्त्रोपदेशपूर्वकं प्रयच्छ ॥ ३४ ॥
मू-कृत्तिकास्तस्य नक्षत्रमसेरामश्च देवता ।
रोहिणी गोत्रमप्यस्य रुद्रस्तस्याधिदैवतम् ॥ ३५ ॥
व्या...नामाष्टकरूपमन्त्रमुपदेष्टुं नक्षत्रगोत्रदेवताधिदैवतानि कथयति
तथा चोक्तं मन्त्रसारे ‘नाममन्त्रेषु नक्षत्र देवतां
पुरः।
गोत्राधिदैवते चैव कथयन्मन्त्रमुच्चरेत्' इति ॥
.
.
व्या--मनुमाह-असे रित्या दिना
म.----असेरष्टौ हि नामानि रहस्यानि निबोध मे ।
असिर्विशसनः खड्गस्तीक्ष्णधर्मा दुरासदः ॥ ३६ ॥
श्रीगो विजयश्चैव धर्ममालस्तथैव च ।
अग्र्यः प्रहरणानाञ्च रुद्रेणैवं समीरितः । ३७ ।।
व्या.-प्रहरणानामायुधानां मध्ये । अग्र्यः प्रथमं ब्रह्मणा सृष्टः ।
एतेन द्वात्रिंशदायुघेष्वगणनाप्रयुक्ता न्यूनता परास्ता। रुद्रेण नीलकण्ठेना-
प्येवं श्रेष्ठ इति समीरितः ॥ अथवा रोदयति प्रजा अन्तकाले दाहेनेति
तेनायुधसृष्टेः प्रागेव मयि जात इति ।
अग्यश्श्रेष्ठस्समीरितः ॥ ३७ ॥
जयं कीर्ति लभन्ते ते येऽसिं सम्पूजयन्ति वै ॥ ३८ ॥
व्या.-एते पूजकाः ॥ ३८ ॥
व्युत्पत्च्या रुद्रोऽग्निः ।
मू-कथेयं कथिता तुभ्यं खड्गमाहात्म्यसंयुता ।
न कस्यचिन्मया प्रोक्ता किं भूयश्श्रोतुमिच्छसि ॥ ३९॥
व्या. -स्यचित त्वदतिरिक्तस्य ॥ ३९ ॥

तृतीयस्सर्गः खगोत्पतिकथनम् 37 मू. ---जिगीषवोऽरीन् राजग्नस्त्वभिषणनकौतुकाः । ये पठेयुरिमञ्जय्यं जयं युद्धे लभन्ति ते ॥ ४० ॥ । इति वैशम्पायननीतिप्रकाशिकायां खड़ोत्पत्तिकथनं नाम तृतीयस्सर्गः । व्या.-अरीनुदिश्याभिषणने सेनया सह गमने । कौतुका यत्सेनयाऽभिगमनमरी तदाभिषेणन" मित्यमरः जय्यं अथसाधनम् । इमं सनम् । ते राजनः । पठेयुर्यदीति शेषः । तदा जयं युद्धे लभन्त इत्यर्थः । ४० ॥ ॥ इति श्रीसीतारामकृतायां नीतिप्रकाशिकातत्वविवृतौ तृतीयस्सर्गः ॥ उत्सुकाः ।

. मे मह्यम् । ॥ अथ चतुर्थस्सर्गः ॥ (मुक्तायुधनिरूपणम्) मू.-खयम्भूवचनं श्रुत्वा पृथुः परमहर्षितः । प्रश्रयावनतो भूत्वा भूयः पप्रच्छ चाब्जजम् ॥ १ ॥ व्या.-स्वयम्भवतीति खयम्भूः तस्य प्रश्रयो विनयः । अवनतो नम्रः । अब्ज कमलजातम् ॥ १ ॥ मू.... द्वात्रिंशदायुधानीति मुक्तामुक्तोदितानि मे । तेषां वरूपं वर्णञ्च प्रयोगान्वक्तुमर्हसि ॥ २ ॥ व्या-मुक्तञ्चामुक्तञ्च मुक्तामुक्ते । द्वे धनुवैदपरे । ताभ्यां प्रति- पादितानि द्वात्रिंशदायुधानीति । खरूपमेव संस्थानम् । वर्णं नीलपीतादि प्रयोगान् लक्ष्योपरि प्रयोजनानि । तेषामायुधानां । चात् तद्देवतानामपीति द्योत्यते । वक्तुमर्हसीति प्रश्नः ॥ २ ॥ मू.--इति पृष्टस्तु पृथुना भगवान् भक्तवत्सलः । तत्सर्वं कथयामास तस्य विस्तारयन् यशः ॥ ३ ॥ व्या.-तत्सर्व प्रश्नगतप्रमेयजातम् । यशः यतस्सम्यग्धनुर्वेद- प्रचारं कृतवानिति यशः । विस्तारयन् प्रसारयन् । कथयामासे- त्यन्वयः॥ ३ ॥ व्या.-आयुधानाचैकसंस्थानरूपतया न पृथक्त्वेनोच्यत इत्याह- यस्येति मू. -यस्य देवस्य यद्रूपं यो वर्णों यश्च यारशः । आयुधस्याथ तन्नाम्नस्तानवेहि महामते ॥ ४ ॥ व्या.-तान् देहौनत्यस्थौल्यवर्णप्रयोगान् ॥ ४ ॥ मू.- पूर्व वक्ष्यामि मुक्तानां संस्थानानि निबोध मे । विदित्वा कारयन्नेवमायुधानां प्रकल्पनम् ॥ ५ ।' व्या.-प्रकल्पनं निर्माणम् ॥ - चतुर्थस्सर्गः मुक्तायुधनिरूपणम् 39 मू.-धनुस्वरूपमाख्यास्ये प्रथमं नृपसत्तम । तत्प्रमाणश्च संस्थानं तस्याभ्यासक्रम तथा ॥ ६ ॥ व्या.-धनुषस्तदाख्यदेवस्य स्वरूपं देहः । तत्प्रमाणं तदौन्नत्यपरि- ध्यादि । संस्थानमङ्गसम्बन्धादि ध्यानत्रयमनुसन्धानप्रकारः तं चाख्याले वक्ष्यामीत्यर्थः ॥ मू.-तत्रावान्तरभेदांश्च शराभ्यासक्रमं तथा । लस्तकग्रहणश्चापि लक्ष्य भेदं चतुर्विधम् ॥ ७ ॥ व्या.-तत्र धनुषोऽवान्तरभेदान् वैतस्तिकादिबाणक्षेपकचापादि- रूपान् शराभ्यासक्रमं बाणप्रयोगविधिम् । लस्तकस्य धनुर्मध्यस्य ग्रहणं परिग्रहः तं । लस्तकस्तु धनुर्मध्यामित्यमरः । चतुर्विधलक्ष्यभेदो व्याख्यातः ॥ ७ ॥ व्या.-तदाकारमाह-पृथुग्रीवमिति । मू.- पृथुग्रीवं सूक्ष्मशिरस्तनुमध्यं सुपृष्ठवत् । चतुष्किष्कुप्रांशुदहें त्रिणतं दीर्घजिह्वकम् ॥ ८ ॥ व्या.-पृथुः ग्रीवा कन्धरम् यस्य तत् । सूक्ष्मं शिरोऽग्रभागो तनु कृशं मुष्टिसम्मितमिति यावत् । मध्यः यस्य तत् । सुपृष्ठवत् व्यङ्गुलिविस्तृतपश्चाद्भागवत् । चतुष्किष्कुप्रांशुदेहं । हस्तचतुष्ठयोत्सेधदेहवत् । त्रिणतं मध्ये ग्रीवाभागयोश्च नम्रम् । दीर्घा जिह्वा यस्य तत् ॥ ८ ॥ मू-दंष्ट्राकरालवदनं रक्ताभं धर्धरस्वनम् । आन्त्रमालापरिक्षिप्तं लेलिहानं च सृक्वणी ॥ ९ ॥ व्या.-दंष्ट्राभिः करालं भयङ्करं वदनं यस्य । आन्त्रमालाभिः परितः । क्षिप्तं बद्धम् । सृक्वणी ओष्ठप्रान्तभागौ ॥ ९ ॥ मू.-जयायाञ्च कृशाश्वाद्यज्जातं वै लोकरक्षणे । तद्धयात्वा मनसा सम्यग्गुरुं नत्वा विधानतः ॥ १० ॥ व्या. लोकरक्षणे प्रजापरिपालनविषये । तत् धनुषः आदिदेव । गुरुं धनुर्वेदाचार्यम् । विधानतः स्मृत्युक्तप्रकारेण ॥ १० ॥ यस्य तत् ।

40 नीतिप्रकाशिकायां - मू.- धनुर्वेद विधानेन नाम्य वामकरण तत् । दक्षिणेन ज्यया योज्य पृष्ठे मध्ये प्रगृह्य तत् ॥ ११ ॥ व्या.-धनुर्वेदविधानेन धनुर्विद्योक्तविधिना ॥ तद्विधिस्तु-- " नामनं वामकरतो ज्यायोगो दक्षिणेन तु । कर्षणं कर्णपर्यन्तं मोचनश्चेति तद्विधिः" इति ॥ दक्षिणेन करणेत्यनुकर्षः । ज्यया शिजिन्या। मध्ये पृष्ठभागे । तत् धनुः ।। ११ ॥ मू.-वामाङ्गुष्ठं तदुदरे पृष्ठे तु चतुरङगुलीः । पुङमध्ये ज्यया योज्य स्वाङ्गुलीविवरेण तु ॥ १२ ॥ व्या.-तदुदरे लस्तकाधोभागे। पृष्ठे उर्ध्वभागे । चतुरङ्गुलीः वामकराङ्गुलिचतुष्टयं योजयेदिति शेषः । पुङ्ख हिंदलीकृतं बाणमूलम् । मध्ये मध्यदेशावच्छेदेन । ज्यया गुणेन । खाङ्गुलिविवरेणापुष्ट- सहकृतस्वदक्षिणहस्तशावारन्ध्रण | योज्येत्यन्वयः ॥ १२ ॥ मू.--आकर्ण तु समाकृष्य दृष्टिं लक्ष्ये निवेश्य च । लक्ष्यादन्यमपश्यस्तु कृत पुनः प्रयोगवित् ॥ १३ ॥ व्या. लक्ष्ये शरव्ये । निवेश्य स्थापयित्वा । अन्यल्लक्ष्यप्रान्त- विद्यमानवम्त्वपि । अपश्यन् । कृतपुङ्खः सम्यक्कृतबाणमूलः । सुप्रयोगं सम्यग्बाणमोक्षं वेत्तीति तादृशो भूत्वेत्यर्थः ॥ १३ ॥ मू-~~-यदा मुञ्चेच्छरं विध्ये कृतहस्तस्तदोच्यते । एवं बाणाः प्रयोक्तव्या ह्यात्मा रक्ष्यः प्रयत्नतः॥ ११ ॥ व्या.-विध्ये लक्ष्ये । "विध्यं शरव्यं लक्ष्यश्चे" कृतहस्तः कृतः शिक्षितो हस्तो यस्य सः । न केवलं लक्ष्यपातनं युद्धादौ । किन्वात्मसंरक्षणमप्यावश्यकमित्याह आत्मेति । हिरप्यर्थकः अव्ययानामनेकार्थत्वात् ॥ १४ ॥ व्याः-प्रसङ्गालक्ष्यविभागं तद्दाहरणान्यप्याह- अविचाल्येत्यादिभि- लिमिः त्यमरः ।

41 चतुर्थस्सर्गः मुक्तायुधनिरूपणम् मू.-अविचाल्यं च सूक्ष्मं च सुकुमारमथो गुरु । चातुर्विध्यञ्च लक्ष्यस्य धनुर्वेदविदो विदुः ॥ १५ ॥ भूभृद्भेदश्वाविचाल्यं सूक्ष्मं गुञ्जादिभेदनम् । कुक्कुठाण्डोदकुम्भानां भेदनं सुकुमारकम् ॥ १६ ॥ व्या.-भूभृद्भेदः पर्वतभेदनम् । गुञ्जादीत्यादिपदात् तद्वन्धककेशीदि- खण्डनमपि द्योत्यते ॥ १६ ॥ मू.—रक्षोगजादिदेहानां पातनं गुरु चोच्यते । एवञ्च लक्ष्यविवृतिविज्ञेया नीतिमत्तरैः ॥ १७ ॥ व्या. रक्षासि कुम्भकर्णादीनि । निपातनं कर्तनम् ॥ १७ ॥ व्या.--बाणमोक्षे चतुर्दशवल्गितान्याह-लक्ष्यस्येत्यादिना मू.-लक्ष्यस्य प्रतिसन्धानमाकर्षणविकर्षणे । पर्याकर्षानुकर्षों च मण्डलीकरणं तथा ॥ १८ ॥ व्या-~-प्रतिसन्धानमनुप्तन्धानम् । आकर्षणं सिञ्जिनीमात्रस्य । विकर्षणम् धनुषोऽपि विनामकम् । पयार्कर्षस्समन्ताभ्ननम् । अनु- कर्षशत्रुमनुसृत्य कर्षणम् । मण्डलीकरणं कुण्डलाकारण कर्षणम् ॥ १८॥ मू.-पूरणं स्फारणञ्चैव धूननं भ्रामणं तथा । आसन्नदूरपातौ च पृष्ठमध्यमपातने ॥ १९ ॥ एतानि वलितान्याहुश्चतुर्दश धनुर्विदः । व्या.-पूरणं शब्देन सर्वासां दिशां प्रतिध्वनिमत्करणम् । स्फारणं धनुर्विष्फारः । धूननं हस्तप्रसारणभेदः भ्रामणं शत्रुमोहनार्थ खइस्त एव धनुषो विलक्षणसञ्चरणम् । आसन्नपातः समीपशत्रुपातनादिकं । प्रसिद्धम् ॥ १९ ॥ मू.-धनुर्भेदान्प्रवक्ष्यामि तत्तत्कार्यानुसारतः ॥ २० ॥ शाकि त्रिणतं प्रोक्तं वैणवं सर्वनामितम् । वैतस्तिकधनुश्श्स्त्रं वैणवं तद्धि हस्तकम ॥ २१ ॥ - 42 नीतिप्रकाशिकायां . उपलोत्क्षेपकं चाप वैगर्व तद्विरजकम् । त्रिहस्तोत्सेधसाहत इयङ्गुलीविस्तृतं तु तत् ॥ २२ ॥ बद्धगोधाङ्गुलित्राणः पृष्ठबद्धेषुधिस्सदा । योग्यं कुर्यादन्यथा स्यादपराद्धपृषककः ॥ २३ ॥ व्या.-धनुर्भेदान् धनुष्षु मेदान् भिन्नभिन्नधषीत्यर्थः । शृङ्गनिर्मित হার্জি तत् त्रिणतम् : वैणवं वेणुचितम् । तत्तु सर्वमिन्द्र धनुराकारेण नामितं कर्तव्यम् चतुर्हस्तप्रमाणकमेतदपि । “चतुर्हस्तप्रमाण यत्तालमात्रं धनुर्हि त"दिति मेदिनीनिघण्टुपर्यालोचनया धनुर्विशेष- णस्थले तालमात्रपदार्थों ज्ञेयः । दैवासुरादिभावेषु यथायोग्यमृह्यम् । वैतस्तिकानां द्वादशाङ्गुलप्रमाणबाणानां क्षेपकं यद्धनुः तच्छस्त्रमित्युच्यते । तत्तु वैणवम् हस्तकं हस्तप्रमाणोन्नतियुक्तम् ॥ ते च वैतस्तिका बाणा ये वै चासन्नयोधिनः । तद्धनुश्शस्त्रमित्यहुर्धाय तबुद्धिमत्तरैः ।। इति नीतिसारे ॥ २०-२१ ॥ व्या.--उपलोत्क्षेपकं पाषाणगुळिकाप्रेरकं द्विरज्जुकम् मध्यसम्बद्धगुण- द्वपवत्। हुघाळीविस्तृतमङ्गलिद्वयविस्तृतिकाण्डफलकवत् ॥ २२ ॥ व्या.-गुध्यति परिवेष्टयति प्रकोष्ठमिति गोधा | अङ्गुलीनां त्राणं रक्षणं यस्मादलित्राणम । गोधापरनामकं यदलित्राणमाल्याधारमत- हस्तकवचं तत् बद्धं येन सः । योग्यं शस्त्राभ्यासं । सस्तु योग्यस्स्यात् ' इति मेदिनी। अपराद्धपृषककः लक्ष्यात्स्वलित- सायकः। “ अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः" इत्यमरः ॥ २३ ॥ व्या.–पञ्च धनुर्धारिपादतिस्थितीविशदयति–प्रत्यालीढमित्यादिना मू.-प्रत्यालीढकमालीढं तथा समपदं स्मृतम् । विशालं मण्डलञ्चेति पञ्च धानुष्कवृत्तयः ॥ २४ । व्या.-प्रत्यालीढं भूपर्यन्तनमनम् । आलीढं वामपादप्रसारणपूर्व- कार्यनमनम् । समपदं पादाम्यां सम्यगवस्थितिः विशालं पादहयान्तः प्रादेशमात्रावकाशतयावस्थितिः। पादौ संवेष्टयावस्थितिमण्डलमिति । पश्च धानुष्कवृत्तयः । धनुर्धारिस्थितयः ॥ २४ ॥ शस्त्राम्या-

चतुर्थस्सर्गः मुक्तायुधनिरूपणम्
48
मू.-गोधोपासङ्गकवचशिरस्त्राणपरीकराः ।
गलपट्टीसंग्रहश्व रथिनस्साधनानि वै ॥ २५ ॥
व्या.-शिरस्त्राणं शिरःकवचम् । परिकरः कठिवेष्टनम् ।
गळ टीसङ्ग्रहः कन्धररक्षापहिसङ्ग्रहः । आयुधपतनप्रतिबन्धकमणि
बन्धबद्धचर्मा । साधनान्युपकरणानि ॥ २५ ।।
मू.-प्रदक्षिणञ्च शैघ्रयश्चाप्यप्रदक्षिणमेव च ।
गतं प्रत्यागतश्चैव मण्डलश्चाप्यवस्थितिः ॥ २६ ॥
मिश्रणं स्फोटनं वीथी रथमार्गास्स्मृता दश
धनुर्विद्यां विदित्वैवं निर्दयस्तरणो भवेत् ॥ २७ ॥
व्या.-प्रत्यागतं शत्रुसम्मुखगमनम् । मण्डलं भ्रमणम् ॥ २६ ॥
मिश्रणं शत्रुरथेन । स्फोटनम् शत्रुव्यूहनिमदः । वीथी अवक्रगतिः । एते
इति शेषः ॥ २७ ॥
मू. इषुर्नीलवृहदेहो द्विहस्तोत्सेधसंयुतः ।
परिध्या चाञ्जलिमितो नल्वमात्रगतिस्तु सः ॥ २८ ॥
व्या.-इषुर्नाम
हस्तद्वयोन्नतहस्तपरिमितस्थौल्ययुक्तदारुलगुडः ।
नीलस्तैलधौतत्वान्नीलवर्णः । बृहत् गुरुदेहो यस्य सः । हस्तद्वयो
त्सेधेन हस्तद्वयोन्नत्येन संयुतो युक्तः । पारध्या परिमण्डलेन अञ्जलिमितः
संयुतकरद्वयमध्यमेयपरिधिः । नवमात्रगतिः चतुश्शतकि कुप्रमाणदूरवर्ति-
शत्रुपातनयोग्यगतिमान् ॥ २८ ॥
मू.-भ्रामणं क्षेपणश्चेति । गती स्थूलसङ्गते ।
इमे गती भगो ज्ञात्वा युद्धारीन्विजयेाधि ॥ २९ ॥
व्या--स्थूलसङ्गते इपुगते । इषुस्थूलसमाविति मेदिनी ॥ २९ ।।
मू-भिण्डिवालस्तु वक्राङ्गो नम्रशी! बृहच्छिराः ।
हस्तमात्रोत्सेधयुक्तः करसस्मितमण्डलः ॥ ३० ॥
न्या-भिण्डिमस्त्रधारणं वलयति श्लथयतीति व्युत्पत्या भिण्डिवाली
नाम हस्तमात्रोन्नतनताग्रभागबृहदन्थियुक्तधककाष्ठम् । एकहस्तधारण-
योग्यमण्डलः ॥ ३० ॥

नीतिप्रकाशिकायां
तथा
मू.-विभ्रामणं विसर्गश्च वामपादपुरस्तरम् ।
पादघाताद्रिपुहणो धार्यः पादातमण्डलैः ॥ ३१ ॥
व्या.-वामपादपुरस्सरं यथा विसर्गाख्यवल्गितवान् ।
तत्कर्म पादघातनम् । पादातमण्डलैः पत्तिसमूहैः ॥ ३१ ।
मू.-शक्तिहस्तद्वयोत्सेधो तिर्यग्गतिरनाकुला ।
तीक्ष्णजिबोगनखरा घण्ठानादभयङ्करी ॥ ३२ ॥
व्या.-'शक्तिर्नाम
हस्तद्वयप्रमाणदृढकाष्ठप्रत्युप्ताश्मसार फलि काग्रेवति
सिंहमुखयुक्ता घण्ठमालारतत्सरुमुक्तायुधावशेषः । तिर्यग्गतिस्सं-
हार्यवस्तुकतेनार्थ परिवृत्तगमना । अनाकुलेतरायुधभयरहिता ।
उग्रनखरा । नरवस्थानीयमायुधे लोहकण्टकजालम् ॥ ३२ ।'
मू.--व्यादितास्यातिनीला च शत्रुशोणितरञ्जिता ।
आन्त्रमालापारीक्षप्ता सिंहास्या घोरदर्शना ।। ३३ ।।
व्या.-व्यादितास्या सिंहमुखीत्वात् । आन्त्रमालापरिक्षिप्तत्वमायुधे
मध्ये मध्ये निबन्धनार्थम् । घोरदर्शना भयङ्कराष्टः । शत्रुशोणित
रञ्जितेत्यनेन शत्रुदेहोन्मजनत्वं व्यज्यते ॥ ३३ ।।
मू.-बृह सरुर्दूरगमा पर्वतेन्द्रविदारिणी ।
भुजद्वयप्रेरणीया युद्धे जयविधायिनी ॥ ३४ ॥
व्या.–बृहसरुः । बृहसरुः खड्गमुष्टिर्यस्य सः ।
सरुः खङ्गादि-
मुष्टिः स्यादि"त्यमरः । दूरं गमः गमनं यस्यास्सा दूरगमा ।
पर्वतेन्द्रान्विदारयतीति तथा । भुजद्वयाभ्यां प्रेरयितुं योग्या भुजद्वयप्रेरणीया
॥ ३४ ॥
मू.-तोलनं प्रामणश्चैव वल्गनं नामनं तथा ।
मोचनं भेदनश्चेति षण्मार्गाशक्तिसंश्रिताः ॥ ३५ ॥
व्या--तोलनं प्रयत्नपूर्वकोद्यमः । वल्गनं हस्ताभ्यां धृत्वा तिर्यक्
चालनम् । नामनं लक्ष्योदेशेन मोचनार्थमधोवल्गनम् । शक्तिसंश्रिता
मार्गस्साधकरूपाः ॥ ३५ ॥

चतुर्थस्सर्गः मुक्तायुधनिरूपणम् 46 नाम अवक्रगः मू.---द्रुघणस्त्वायसाङ्गस्याहकवीवो बृहच्छिराः । पञ्चाशदगुल्युत्सेधो मुष्टिसम्मितमण्डलः ॥ ३६ ॥ व्या.-दुघणो चतुर लन्यूनहस्तद्वयमितोन्नतवकाग्रस्थूल- भागयुक्तलोहलगुडः ॥ ३६ ॥ मू.-उन्नामनं प्रपातश्च स्फोटनं दारणं तथा । चत्वार्यतानि द्रुघणे वल्गितानि श्रितानि वै ॥ ३७ ॥ व्या.--स्फोटनं विदलनकरणम् । श्रितान्याश्रितानि ॥ ३७ ॥ मू-तोमरः काष्ठकायस्स्याश्लोहशीर्षस्तुगुच्छवान् । हस्तत्रयोन्नताङ्गश्च रक्तवर्णस्त्ववक्रगः ॥ ३८ ॥ व्या.-तोमरो नाम लोहशल्यप्रत्युप्तकोशेयगुच्छयुक्तत्रिहस्तोन्नत- रक्तकाष्ठम् । सुगुच्छवान् कौशेयनिर्मितगुच्छवान् । ऋजुगतिः ॥ ३८ ॥ मू.-उद्धानं विनित्तिश्च वेधनञ्चेति तान्त्रिकम् । वलिंगत शस्त्रतत्वज्ञाः कथयन्ति नराधिपाः ॥ ३९ ॥ व्याः-उद्धानं उर्वतोलनम् । विनिवृत्तिः पश्चात्सरणम् | वेधनं कृन्तनम् । तचिकं तोमरवृति च तत् विसङ्ग्यावच्च तादृशं वल्गितम् ॥ ३९ ॥ मू-नलिका ऋजुदेहा स्यात्तन्वङ्गी मध्यरन्ध्रिका । मर्मच्छेदकरी नीला द्रौणिचापशरासनी ॥ ४० ॥ व्या.---नाळिका नाम हस्तद्वयोन्नता धमनी । वावदङ्गलिस्थूला। द्रौणिवापाख्या । ऋजुदेहा । अवककाण्डा । तन्वङ्गी । सूक्ष्ममध्य- रन्ध्रकान्तर्बिलवती। मर्मभेदनी मर्मकर्तनी। नीला नीलवर्णा । द्रौणिचाप शराः कौशेयगुच्छग्रथितस्थूलसूच्यः आस्यन्त अनयेति द्रौणिचापशरासनी ॥ १० ॥ मू-ग्रहणं मापनञ्चैव स्यूतञ्चेति गतित्रयम् तामाश्रितं विदित्वा तु जेतासन्नान रिपून्युपि ॥ ११ ॥ व्या.- मापनं मुखवायुपूरणम् । स्यूतं ग्रथनम् । आसन्नान्स मीपवर्तिनः ॥ ४१ ॥ . .

46 नीतिप्रकाशिकायां मू.-लगुडस्सूक्ष्मपादस्स्यात्पृथ्वंसस्थूलशीर्षकः । लोहबहाग्रभागम हरवदेहस्सुपीवरः ॥ ४२ ॥ व्या.-लगुडो नाम लोहपदद्वयबद्धगजदन्तः । सूक्ष्मपादः अधो- भागकृशः । पृथ्वंसो बृहदूर्ध्वभागः । स्थूलशीर्षकः स्थूलतराप्रभागः ॥ ४२ ॥ म.---दन्तकायो दृढाङ्गश्च तथा हस्तद्वयोन्नतः । उत्थानं पतनचैव पेषणं पोथनं तथा ॥ ४३ ॥ व्या.-पेषण धर्षणमित्यर्थः ॥ ४३ ॥ म्.-चतस्रो गतयस्तस्य पञ्चमी नेह विद्यते । दृढकायः पत्तिवर्गस्तेन युध्येत शत्रुभिः ॥ ४४ ॥. व्या..--दृढकायो दृढदेहः । तेन लगुडेन ॥ ४४ ॥ मू.-~~-पाशस्सुसूक्ष्मावपवो लोहयातुस्त्रिकोणवान् । प्रादेशपरिघिस्सीसगुळिकाभरणाञ्चितः ॥ १५ ॥ व्या. --पाशो नाम प्रादेशप्रमाणलोहतन्तुरचितसीसगुळिकायत्तोद्वन्धन- विशेषः । सूक्ष्मावयवः सूक्ष्मतन्तुः । लोवृत्ति । नीलवर्णवान् । प्रोदशपरिधिः प्रादेशमात्रविस्तृतिः । सीसगुळिका- रूपाण्येवाभरणानि । तैरश्चितः ॥ ४५ ॥ मू.-प्रसारणं वेष्टनश्च कर्तनञ्चेति ते त्रयः । योगाः पाशाश्रिता लोके पाशाः क्षुद्रसमाश्रिताः ॥ ४६ ।। व्या...योगाः वलिगतानि । क्षुद्रसमाश्रिताः भिल्लपुलिन्दादिनीच- समीपवतिनः ॥ ४६॥ म.-चक्रं तु कुण्डलाफारमन्ते खश्रसमान्वतम् । नीलीसलिलवण तत्प्रादेशद्वयमण्डलम् ॥ १७ ॥ व्या.-चक्रं नाम मध्यरन्ध्रयुक्तकुण्डलाकाराग्रातितीक्ष्णलोहफलकम् । खधं । अरं धारा इत्यर्थः । स्वश्रि तेन समन्वितं । नीली सन्नामिका काचन लता । तस्यास्सलिलमतिनीलमिति प्रसिद्धम् । तद्वर्णम् लोहधातुः .

चतुर्थस्सर्गः मुक्तायुधनिरूपणम् मू.--ग्रथनं भ्रामणश्चैव क्षेपण परिकर्तनम् । दलनं चेति पञ्चैव गतयश्चक्रसंश्रिताः ॥ १८ ॥ व्या---ग्रथनं योजनं तर्जन्यामित्यर्थः ॥ १८ ॥ मू.-दन्तकण्ठकनामा तु लोहकण्टकदेहवान् । अग्रे पृथुस्सूक्ष्मपुच्छश्चाङ्गारकनिभाकृतिः ॥ १९ ॥ व्या.-दन्तकण्टको नाम बाणप्रत्युप्तफलकविशेषः । लोहकष्ठक- देहवान् उभयपार्श्वप्रत्युप्ततीक्ष्णलोहकण्टकाकारयुक्तः। अङ्गारकनिमाकृति- रग्निवर्णः । अनेन ज्ञायते ताम्रफलक इति ॥ ४९ ॥ मू.-बाइन्नतस्तुत्सरुश्च दण्डकायोऽग्रलोचनः । पातनं ग्रथनञ्चेति दे गती दन्तकण्टके ॥ ५० ॥ व्या.-सुत्सरुस्समीचीनमुष्टिः दण्डकायः फलकाधारदण्डप्रधानः नाम म.-भुसुण्डी तु बृहद्रन्थि ह हिस्सुसत्सरुः । बाहुबयसमुत्सेधः कृष्णसपोग्रवर्णवान् ।। ५१ ॥ व्या.-मुसुण्डी हस्तत्रयोन्नतग्रन्थियुक्तत्सरुयुतवकदारुः । कृष्णसपोग्रवर्णवान् नीलाहिवद्भयङ्करनीलवर्णवान् ॥ ११ ॥ मू.-यापनं घूर्णनश्चति द्वे गती तत्समाश्रिते । मुक्ता ह्येते समाख्याता नृपामुक्तानथो शृणु ॥ ५२ ॥ । इति वैशम्पायननीतिप्रकाशिकायां मुक्तायुधनिरूपणं नाम चतुर्थस्सर्गः । व्या.—यापनं प्रेरणम् । घूर्णनं मूर्छाजनकत्वम् । मुक्ता मुक्ता. ख्यायपादप्रतिपादिताः ॥ ५२ ॥ ॥ इति श्रीसीतारामकृतायां नीतिप्रकाशिकातत्वविवृती चतुर्थस्सर्गः ॥

. अथ पञ्चमस्सर्गः (अमुक्तायुधनिरूपणम्) मू.--अमुक्तप्रथम वज्रं वक्ष्यामि तव तच्छृणु । अप्रमेयबलं वजं कामरूपधरश्च तत् ॥ १ ॥ व्या.-अमुक्तायुधेषु प्रथमं वज्रं विशिष्टि ब्रह्मा । वनं नाम शतको- टीकाण्डप्रत्युप्तासिव्यूहसमावृतवज्रादिनवरत्नखचितत्सरुसहितमायुधम् अप्रमेयबलं निरुपमसारम् । कामरूपधरम् इन्द्रेच्छानुरूपाकारकरण- सामर्थ्यवत् ॥ १॥ मू.-दधीचिपृष्ठास्थिजन्यं सर्वतेजःप्रशामकम् । वृत्रासुरनिपाताथै दैवतेजोपबृंहितम् ॥ २ ॥ व्या.-सर्वतेजःप्रशामकं रिपुसर्वायुधसामर्थ्यनाशकं । देवं सकलदे- वसंबन्धि यत्तेजस्तेनोपबृंहितं वर्षितम् ॥ २ ॥ म्:-कोठिसूर्यप्रतीकाशं प्रलयानलसन्निभम् । योजनोत्सेधदंष्ट्राभिर्जिह्वया चातिघोरया ।। कालरात्रिनिकाशं तच्छतपर्वसमावृतम् । पञ्चयोजनविस्तारमुन्नतं दशयोजनम् ॥ ४ ॥ आसमण्डलसंवीतं परितस्तीक्ष्णकोठिमत् । तडिद्गारेन्च पृथुना त्सरुणा च विराजितम् ॥ ५ ॥ चालनं धूननश्चैव छेदनं भेदनं तथा । वरिगतानि च चत्वारि सदा वज्रं श्रितानि वै ॥ ६ ॥ व्या...योजनोत्सेधयुक्ताभिः योजनप्रमाणौन्नत्यसाहताभिः । क्षितमिति शेषः ॥ ३ ॥ कालरात्रि म सकलजगत्सही देवता । तया निकाशं समानं । शतपर्वभिस्समावृतं युक्तम् । पम्चयोजनप्रमाणविस्तृतिमत् ॥ ४ ॥ उपल.

पञ्चमस्सर्गः अमुक्तायुधनिरूपणम् 49 असिमण्डलैः वङ्गसमूहैः । संवीत परितो मण्डलाकारेण शारोप शखितया समास्तम् । पारतस्समन्तात् । तीक्ष्णकोठिमत सिताश्रीमत् । तटिदिन गौरं पीतवर्णवदित्यर्थः । पृथुना तादृशभारोहहनसमर्थेन ॥५॥ वगितानि चेत्यत्र चकारादपरिमितवलिगतानि ज्ञेयानि ॥ ६ ॥ म.-ईली हस्तद्वयोत्सेधा करवरहितत्सरुः । श्यामा भुमाग्रफलका पञ्चांगुलिसुविस्तृता ॥ ७ ॥ व्या.—ईली नाम हस्तद्वयोन्नतपञ्चांगुलिविस्तृताप्रविशालकरत्राण- रहितमुष्टियुक्तरवगविशेषः ॥ ७ ॥ मू.-सम्पानं समुदीर्णञ्च निग्रहप्रग्रहौ तथा । इलीमेतानि चत्वारि वल्गितानि श्रितानि वै ॥ ८ ॥ परशुस्सूक्ष्मयष्ठिःस्यादिशालास्यः पुरोमुरवः । अर्धचन्द्रायकोटिस्तु मलिनाङ्गस्फुरन्मुखः ॥ ९ ॥ सरुपादस्तशिखरो बाहुमात्रोन्नताकृतिः । पातनं छेदनञ्चेति गुणौ परशुमाश्रितौ ॥ १० ॥ पुरोमुरवः धाराप्रदेशनतशीर्षः । अर्धचन्द्रवल्लोह फलकयुक्तत्सरुयुत- लोहमयद्विहस्तोत्रोधायुतायुधविशेषः । स्फुरन्मुरवो द्योतमानास्यः ।।९-१०॥ मू.-गोशीर्ष गोशिरःप्रख्यं प्रसारित पदद्वयम् । अधस्तादारुयन्त्राव्यमर्धायःफलकाञ्चितम् ॥ ११ ॥ -गोशीर्ष नाम दारुयन्त्रप्रत्युप्तत्रिकोणलोहफालकायुक्तषोडशा- कुल्युन्नतमायुधम् । गोशिरःप्रख्यं शृङ्गगोमुखाकारम् ॥ ११ ॥ . नीललोहितवर्ण तात्त्रिराशि च सुससरु । षोडशाङ्गुत्युन्नतञ्च तीक्ष्णाग्रं पृथुमध्यकम् ॥ १२ ॥ व्या. नीललोहितवर्णमने नीलवर्णयुकम् । अधस्ताद्रकवर्णम् । तत्रिराश्र परितः कोणत्रये तीक्ष्णपारासहितम् ॥ १२ ॥ Noethi 60 नौतिप्रकाशिकायां म.-सत्कृत्य मनवे दत्तं मेहन्द्रेण समुद्रिकम् । प्रभुत्वसूचके लोके राज्ञां गोशीर्षमुद्रिके ॥ १३ ॥ व्या---मुद्रिका साक्षरोमिका । अङ्गुलीयमिति यावत् ॥ १३ ॥ मू.-मुष्टिग्रहः परिक्षेपः परिधिः परिकुन्तनम् । चत्वार्यतानि गोशी वल्गितानि प्रचक्षते ॥ १४ ॥ 1.-परिधिः परितः क्षतानिमित्तं शत्रुदेहार्पणम् ।। १४ ॥ '-अतिधेनुस्समाख्याता हस्तीन्नत्यप्रमाणतः । अतलवत्सरुयुत। श्यामा कोटित्रयाश्रिता ॥ १५ ॥ व्याः- अतिधेनुका नाम हस्तप्रमाणछुरिका। कोटितथे पाश्वयोरिशरास चेत्यर्थः । अश्रिर्धारा यस्यास्ता कोटित्रयाश्रिता ।। १५ ।। -अङ्गलिस्यविस्तीर्णा शासनरिपुधातिनी । मेखलाग्रथिनी सा तु प्रोच्यते खड्गपुत्रिका ।। १६ ॥ व्या-आसन्नास्समीपवर्तिनो थे रिपवस्तान् घातयतीति तथा ॥ १६॥ मू.-मुष्टयग्रग्रहणश्चैव पाटनं कुन्तनं तथा । वलिंगतत्रयक्त्येषा सदा धार्या नृपोत्तमैः ॥ १७ ॥ लवित्रं भुग्नकायं स्यात्पृष्ठे गरु पुरश्शितम् । श्यामं पञ्चांगुलिव्याम सार्धहस्तसमुन्नतम् ॥ १८ ।। सरुणा गुरुणा नई महिषादिनिकर्तनम् । बाहुद्वयोद्यमक्षेपो लवित्रे वलिंगते मते ॥ १९ ॥ व्या –लवित्रं नाम महिषादिकर्तनयोग्यः परितः पश्चागुलिविस्तृतः सार्धहस्तसमुन्नतः खड्गः । भुग्नकार्य त्रुमारभ्यानपर्यन्तं नतः कायो यस्य पृष्ठभागे गुरु स्थूलम् । पुरः उदो शितं तीक्ष्णम् ॥ १७-१९॥ म.--आस्तरो अन्थिपादस्स्याघमौलिहत्करः । भुमहस्तीदरसितः श्यामवर्णो द्विहस्तकः ॥ २० ॥ तत् ।

51 पञ्चमस्सर्गः अमुक्तायुधनिरूपणम् व्या-आस्तरो नाम गलकर्तनयोग्यबृहतङ्कुशः । ग्रन्थिपादः जम्बीरमात्रमितलोहग्रन्थियुक्तमूलः । मुग्नहस्तो नतकरः । उदराशितः अघस्तीक्ष्णः ॥ २० ॥ मू-भ्रामणं कर्षणश्चैव त्रोटनं तत्त्रिवलिगतम् । ज्ञात्वा शत्रुन् रणे हन्याद्धार्यस्सादिपदातिकः ॥ २१ ॥ व्या. त्रोटनं कर्तनम ! सादिनो गजारोहाः ॥ २१ ॥ म.-कुन्तस्त्वयोमयाङ्गरस्यातक्ष्णशृङ्गप्पडाश्रमान् । पञ्चहस्तस मुत्सेधो वृत्तपादो भयङ्करः ॥ २२ ॥ व्या.-कुन्तो नाम वर्तुलाकारपादयुक्तपञ्चहस्तोन्नततीक्ष्णाग्रलाहदण्डः । पडश्रिमान् हस्तप्रमाणाग्रभागे षट्कोवान् ॥ २२ ॥ मू-उड्डीनमवडीनच निडीनं भूमिलीनकम् । तिर्यग्लीन निरवातश्च षण्मार्गाः कुन्तमाश्रिताः ॥ २३ ॥ व्या.-उड्डोनमूर्ध्वविनम् । अवडीनमधःप्लवनम् । निडीनं पार्श्व- प्लवनम् । भूमिलीनकं हस्ताभ्यां शिरसा च भूम्पर्शनम् । तिर्यग्ली- नं पार्धाभ्यां भूमिस्पर्शः । निरवात कृन्तनम् ॥ २३ ॥ म.-स्थूगस्तु रक्तदेहस्स्यात्समीपदृढपर्वः । पुस्प्रमाण ऋजुत्तस्मिन्भ्रमणं पातनं द्वयम् ॥ २४ ॥ व्या. स्थूणो नाम समीपपर्वसहितपुरुषप्रमाणोन्नतहलस्थूलवेणुदण्डः मू.-प्रासस्तु सप्तहस्तस्स्यादौन्नत्येन तु वैणवः । लोहशीर्षस्ताक्षणपादः कौशेयस्तबहाश्चितः ॥ २५ ॥ व्या. प्रासो नाम मूलाग्रयोलोहशल्ययुक्तसप्तहस्तोत्सेधयुतरक्तवेणु- दण्डः । कौशेयानि क्रिमिकोशोत्थसूत्राणि । तैनिमितो यः स्तबका पुलस्तेनाश्चितः शल्याधोभागालङ्कतः ॥ २५ ॥ म.-आकर्षश्च विकर्षश्च धूननं वेधनं तथा । चतस्त्र एता गतयो रक्तप्रासं समाश्रिताः ॥ २६ ॥ Noethi-4A

62
नीतिप्रकाशिकायां
पिना :स्तु विशीर्षस्स्यात्सितानः क्रूरलोचनः ।
कांस्यकायो लोहशीर्षश्चतुर्हस्तप्रमाणवान् ॥ २७ ॥
ऋक्षरोमस्तबकझल्लीवलयश्रीवदेहवान् ।
धूननं प्रोतनश्चेति त्रिशूलं हे श्रिने गती ॥ २८ ॥
व्या..-पिनाको नाम लोहमयत्रिशीर्षयुतकांस्यदण्डस्यूतझल्लीवलयसमेत-
ऋक्षरोमस्तबकयुक्तहस्तचतुष्टयोन्नतकांस्याधोभागयुतदण्डः । 'पिनाको-
ऽस्त्री रुद्रचापे पांसुवर्षत्रिशुलयः' इ इति मेदिनी। कांस्यकङ्कणका तत्तु झल्ली-
वलयसमितम् इति च मोदनी ॥ २७-२८ ।।
मू-गदा शैक्यायसमयी शतारपृथुशीर्षका ।
शङ्कषावरणा घोरा चतुर्हस्तसमुन्नता ॥ २९ ॥
व्या...-गदा नाम वृहद्रन्थिशीर्षयुक्ता चतुर्हस्तोन्नतदृढत्सरुयुताति-
गुरुोहदण्डः । शतार पृथुशीर्षका शतकोणयुक्तबृहदान्यशीर्षकाशङ्कुप्रावरणा
अग्रे लोहशङ्कप्रत्युप्ता ॥ २९ ॥
:-रथाक्षमात्रकाया च किरीटाञ्चितमस्तका ।
सुवर्णमेरवला गुप्ता गजपर्वतभेदिनी ॥ ३० ॥
व्या..--सुवर्णमेरवला महारजतपट्टबद्धा ॥ ३० ॥
D.-मण्डलानि विचित्राणि गतप्रत्यागतानि च ।
अस्त्रयन्त्राण चित्राणि स्थानानि विविधानि च ॥ ३१ ॥
व्या-अस्त्रयन्त्राणि अस्त्रवदग्न्यादिनिर्माणप्रयुक्तोरणानि । विचि.
त्राण्याचर्यजन्मस्थानि विलक्षणोपदेशानि ॥ ३१ ॥
म...परिमोक्ष प्रहाराणां वर्जन परिधावनम् ।
अभिद्रवणमाक्षेपमवस्थान सविग्रहम् ॥ ३२ ॥
वर्जन व्यसनम् । परिधावनं पृष्ठपलायनम् । अभिद्रवणं
शत्रूद्देशेन द्रुतगमनम् । आक्षेपं भीतिजननार्थ सभ्रूमङ्गवल्गनम । विग्रह-
शत्रुदेहमेळनकरणम् ॥ ३२ ॥

पञ्चमस्सर्गः अमुक्तायुधनिरूपणम्
63
मू.-परावृत्तं सन्निवृत्तमवछतमपपुतम् ।
दक्षिणं मण्डलचैव सव्यं मण्डलनेव च ॥ ३३ ॥
व्या...परावृत्तं पृष्ठभ्रमणम् । सान्निवृत्तं पुरो भ्रमणम् । अवपुतं खोपरि
शत्रोः प्लवनम् । उपप्लुतं शत्रूपरि स्वष्ठवनम् । दक्षिणमण्डलं
प्रदक्षिणकरणम् ॥ ३३ ॥
मू.-आविद्वञ्च प्रविद्धञ्च स्फटेनज्वालनं तथा ।
उपन्यस्तमपन्यस्तं गदामार्गाश्च विंशतिः ॥ ३४ ॥
व्या-आविडमीषद्धातः । 'प्रविडं प्रबलाघातः । स्फेटनं बाहु-
शब्दकरणम् ।
ज्वालनं कोपकारणम् । उपन्यस्तं स्वगदोपरि परगदा.
घातग्रहणम् । अपन्यस्त तगदोपरि स्वादाघातः । अत्रायुधवलिगतेषु
किञ्चित् किञ्चिद्भेदः स्वमत्योन्नेयः ॥ ३४ ॥
मू.-मुद्रस्सूक्ष्मपादस्स्याडीनशीर्षस्त्रिहस्तवान् ।
मधुवर्णः पृथुस्कन्धश्चाष्टमारगुरुश्च सः ॥ ३५ ॥
व्या-मुद्रो नाम सरुसहितबृहच्छङ्कुरूपी । हीनशीर्षों वितशिरवः
सम्यक्त्ताग्रमाग इत्यर्थः । अष्टभारगुरु राष्टकमितगुरुत्ववान् ॥ ३५ ॥
मू-सत्सरुर्वर्तुलो नीलः परिध्याकारसम्मितः ।
भ्रमणं पातनञ्चेति द्विविधं मुद्रो श्रितम् ॥ ३६ ॥
व्याः-नीलः कृष्णदारुनिर्मितत्वात् ।
सत्सरुरेककरसम्मितमण्डलः ।
तद्धस्तक्रमेण द्विचतुःपञ्चमितपरिधिरिति ज्ञेयः ॥ ३६ ।।
मू.-सीरो द्विवको विशिरवो लोहपट्टमुखः कृषन् ।
पुम्प्रमाणस्निग्धवर्णस्वाकर्षविनिपातवान् ॥ ३७ ॥
व्या.-सीरो नाम हलः । विशिरवरिशखारहितः। कृषन् कर्षण-
सामर्थ्यवान् ॥ ३७ ।।
मू.-मुसलं त्वक्षिशीर्षाभ्यां करैः पादैर्विवर्जितम् ।
मूले चान्तेऽतिसम्बन्धः पातनं पोथनं द्वयम् ॥ ३८ ॥ .
व्या'-मुसलः प्रसिद्धः ॥ ३८ ॥

b4
नीतिप्रकाशिकायो
नाम
म.-पट्टिशः पुम्प्रमाणस्स्यादिद्वधारस्तीक्ष्णशृङ्गकः ।
हस्तत्राणलमायुक्तमुष्टिः खड्गसहोदरः ॥ ३९ ॥
व्या..-पहिशो अजुदेहोभयगर्वधारासहितहस्तत्राणसमे-
तत्सरुयुतखड़विशेषः । खडसहोदरस्त हलिंगतवान् ॥ ३९ ॥
मू-मौष्टिकं सुत्सरु इयं प्रादेशोन्नतिभूषितम् ।
सिताग्रमुन्नतग्रीवं पृथूदरसितं तथा ॥ ४० ॥
व्या- मौष्टिकं नाम मल्लैः हस्तधायी छुरिका । सुसम.चीनमुष्टि
शुक्तः यः स सुत्सरुरुच्यते । “सरुः वङ्गादिमुष्टिस्स्यादि"त्यमरः ।
पृथूदरतितमुन्नतोदरभागध.रावत् ॥ ४० ॥
८
मू -मण्डलानि विचित्राणि स्थानानि विविधानि च ।
गोमूत्रकाणि चित्राणि गतप्रत्या रातानि च ॥ ४१ ॥
व्या.-विचित्राणि मण्डलानि चारीकरणखण्डमहामण्डलाख्यमण्डल
भेदात् ।
तानि तु-" एकपादप्रचारेण चारीसंज्ञं तु मण्डलम् ।
द्विपादक्रमणं यत्र करणाख्यं तु मण्डलम् करणानाञ्च संयोगात्खण्ड-
मण्डलमीरितम् । रवण्डौस्त्रिभिश्चतुर्भिर्वा महामण्डलमुच्यते" इति
भा.तोक्तानि । विविधानि स्थानानि । "वैष्णवं समपादश्च वैशाख
मण्डलन्तथा । प्रत्यालीढमनालीढं स्थानान्ये नि षण्णाम्" || इति भारत-
शास्त्रोक्तानि । एतानि पादयोः पूर्वारक्षिपतिर्यग्विक्षेपादिविन्यासवि-
शेषरूपाणीत्यर्थः । गोमूत्ररेवरूपकठिलगमनानि । चित्राणि गतप्रत्यारा-
तानि नानाप्रकारोपतर्पणापतर्पणानि ॥ ४१ ॥
मू.-तिरश्चीनगतान्येव तथा वक्रगतानि च |
परिमाक्षं प्रहाराणां वर्जन परिधावनम् ॥ १२ ॥
व्या.-तिरश्चीनगतानि वक्रगतानि ।
सव्यापसव्यसश्चरणानि ।
प्रहाराणां परदत्तमहाराणां परिमोक्षं स्थानचलनादिना व्यर्थीकरणम् ।
वर्जन खप्रहारवैफल्यापदकस्थाने तहर्जनम् । परिधावनमेकस्य तिष्ठतः
परितो धावनम् । भ्रमणमित्यर्थः ॥ ११ ॥

पञ्चमस्सर्गः अमुक्तायुधनिरूपणम्
66
मू-अभिद्रवणमाठावमवस्थान सविग्रहम् ।
परावृत्तमपावृत्तमपद्रुतमवप्लुतम् ॥ ४३ ॥
उपन्यस्तमपन्यस्तमाघातं स्फालनं तथा ।
एतानि वलिंगतान्याहुर्राष्टिके नृपसत्तम ॥ ४४ ॥
व्या.-अभिद्रवणमाभिमुख्येन शीघ्र गमनम् । आछावमीषगमनम् ।
अवस्थानं यदायहाऽवस्थितिः । सविग्रहं विगृह्याभिमुख्यनोवस्थानम् ।
परावृत्तं पराङ्मुरवगमनम् । अपावृत्तं पार्श्वतोऽपसरणम् । अपद्रुतं परस्प-
रजान्वादिग्रहायावनतकायतया धावनम् । अवलुतं मण्डूकवदुत्प्लवनम् ॥
उपन्यस्तं प्रसारितशत्रुबाहुग्रहणम् । अपन्यस्तं प्रतिभटबाहु-
ग्रहणार्थ खबाहुप्रसारणम् !
आघातं शत्रुभुजेन साकं स्वभुजाधातः ।
स्फालनमूरुभुजयोश्शब्दकरणम् । मौष्टिक इति तथाविधायुधकरणकयुद्धे
एनानि वलिंगतानीत्यन्वयः ॥ ४४ ॥
मू.- परिधो वर्तुलाकारस्तालमात्रस्सुतारवः ।
बलैकसाध्यसम्पातस्तस्मिन् ज्ञेयो विचक्षणैः ॥ १९ ॥
व्या.-परिघो नाम बृहत्कवाठोडाटनप्रतिबन्धककार्यर्गलविशेषः ।
" परिघो योग मद'त्स्यान्मुद्गरोऽर्गलघातयो "रिति विश्वः । वर्तुलाकारः
कोटिरहितः । तालमात्रश्चतुर्हस्त माणोन्नतिमान् । " चतुर्हस्तस्तालमात्रः
इति वैजयन्ती । सुतास्यो दृढवृक्षजन्यः। बलैकसाध्यसम्पातः महाबलमात्र-
निर्वागतनाख्यवरितवान् ॥ ४५ ॥
मू -मयूरवी कृतयष्टिः स्यान्मुष्टियुक्ता नरोन्नता ।
किङ्किणीसंवृता चित्रा फलिकासहचारिणी ॥ ४६ ॥
व्या--- मयूरवी नाम क्षुद्रवष्टिकासहितत्सरुयुतनरन्नतवेणुदण्डः ।।
फलिका नेत्रत्वमित्तवेटकम् ' तया सहचरतीति तथा । फलिका
नेत्रविदलग्रथिताघातवारिणी' इति केशषः ॥ १६ ॥

56
नीतिप्रकाशिकायां
मू.- आवातश्च प्रतीघतं विघातं परिमोचनम् ।
अभिद्रवणमित्येते मयूरवीं पञ्च संश्रिताः ।। ४७ ॥
व्या.-" प्रतिघातं प्रतीघातमिति" द्विरूपकारः । पञ्चयोगा इति
शेषः ॥ १७ ॥
मू -शतनी कण्टकयुता कालायसमयी दृढा ।
मुद्रामा चतुर्हस्ता वर्तुला त्सरुणा युता ॥ १८ ॥
व्याः-शतघ्नी नाम शतमेकप्रयोगेन हन्तीति व्युत्पच्या लोहकण्टक-
प्रत्युप्तकालायसमयमुद्रामा गदा ।।
शतन्त्री च चतुर्हता लोह कण्टकिनी गदा इति वैजयन्ती ॥
शतनी च चतुर्हस्ता लोहकण्ठकसञ्चिता। यष्टि" रिति केशवश्च ।।
" चतुष्काधिकविंशत्या स्वङ्गुलैर्हस्त कल्पना ।
सहस्रष्टभिः ख्यातं हस्तकः क्रोशमानकम् ।।
इति त्रिकाण्डशेषः । कालायसमयी अश्मसारविकारा । कालायसं दृढ-
लोहः । " कालयसञ्चाश्मसारो दृषद्वेदिसुलोहक 'मिति केशवः । सरुणा
मुष्टिना ।। ४८ ॥
मू-गदा वल्गितवत्येषा मयेति कथिता तव ,
अमून्यमुक्तायुधानि विंशतिनृपसत्तम ॥ ४९ ।।
व्या.-गदायां यानि वरिगतानि तावहरुिगतवत्येषा शतघ्नी । इति.
शब्दरसमाप्तिवाचकः ।। ४९ ॥
मू.-मुक्तामुक्तपदोक्तानि द्वात्रिंशदिति निर्णयः ।
ब्रह्मणा निर्मितः खड्गः पृथक् ते परिकीर्तितः ॥ ५० ॥
व्या. मुक्तामुक्ताख्ये हे पदे । तयोरुक्तानीति पूर्वोक्तप्रकारेण
हात्रिंशदायुधानीति शेषः । ते जनमेजयाख्यस्य तव । पृथक् द्वात्रिंशदा-
युधाधिकतया ॥ ५० ॥
मू.-एतानि विकृतिं यान्ति युगपर्यायतो नृप ।
देहदाानुसारेण तथा बुद्ध्यनुसारतः ॥ ५१ ॥

पञ्चमस्सर्गः अमुक्तायुधनिरूपणम् 67 यन्त्राणि लोहसीसांनां गुलिकाक्षेपकाणि च । तथा चोपलयन्त्राणि कृत्रिमाण्यपराणि च ॥ ५२ ।। कूटयुद्धसहायानि भविष्यन्ति कलौ नृप । व्या..-एतानि खड्ड्रेन सह त्रयस्त्रिंशसंख्याकानि । विकृति रूपाकारसामर्थ्यभेदरूपां । युगपर्यायतरतादिव्यत्यासात् । बुद्धयनुसारतश्शूरबुद्ध यनुरोधेन || ५१ ॥ लोहमीसानां गुलिकाप्रक्षेपहाण यन्त्राणि । बहुलोहनिर्मित- सननलिकारूप णि । चूर्णः क्षोदे च पिष्टे च शकले पांसुकल्पयोः । लोहामिसारिके चैव. पुप्पधूपे च क्थ्यत इति केशवः | उपलयन्त्राणि पाषाणाक्षेपकाणि । अपराणि सेतुशलाका- दीनि ॥ ५२ ॥ कूटयुद्ध सङ्कुलयुद्धम् ॥ मू-तप्ततैलं सर्जर सो गुडलालोग्रवालुका ॥ ५३ ॥ मधु साशीविषघटाबडिशानि बृहच्छिलाः । क्रकचा धूमगुलिकास्तुषाङ्गारादिकं तथा || ५४ ॥ अधर्मवडया चैतानि भविष्यन्त्युत्तरोत्तरम् | साधनानि महीपाल कूटयुद्धानिकांक्षिणाम् || ५५ ॥ -ताततैलं क्वयिततैलम् ! - गुडलाला सद्रवगुडम् । उग्रवालुका तप्तसिकता || ५३ ॥ मधु क्षौद्रम् । साशीविषघटः ससर्पकलशः । बडिशं दन्तोत्पाटक- शङ्कुविशेषः । कीलकवाच्याः बृहच्छिलाः पृथूपलाः । ऋकचाश्शरपत्राणि । धूमगुलिका घूमचूर्णगुलुच्छानीति यावत् । “अन्तरुद्धृतसारं यत्तगुगुलुच्छ- मुदाहृतम्" इति वामनः । शत्रुसम्मःषु स्वस्फुटनेन घूमोत्पादक किटचूर्णमञ्जूषाः । तुषाङ्गारादि मुर्मुराग्न्यादि । एतत्सम्पादनं राज्ञां दुर्नातीहक शत्रुदेहोपरि क्षेपतत्पाद- स्खलनादिना तदपसारणार्थम् ॥ ५४ ॥ .

58 नीतिप्रकाशिकायां पञ्चमस्सर्ग अमुक्तायुधनिरूपणम् .- अधर्मस्य वृद्धा धर्मस्य हासेन चत्यर्थः । कूटयुद्धासाक्षिणामे- नानि साधनानि । उत्तरोत्तरं त्रेताद्वापरकलिषु भविष्यन्तीत्यन्वयः ॥ ५५ ॥ हूणाः पुलिन्दाश्शबरा: बर्बराः पल्लबारशकाः । मालवाः कोकणा ह्यान्ध्राभोलाः पाख्याः सकेरलाः ॥५६॥ म्लेच्छा गोयोनयश्चान्ये चण्डालाश्वपचा' रखलाः ! मावल्लका ललित्थाश्च किराताः कुक्कुरास्तथा ॥ ५७ ॥ पापा ह्येते कथं धर्म वेत्स्यन्ति च वियोनयः । सार्यदोषनिरता भविप्यन्त्यधमे युगे ॥ ५८ ॥ व्या.-हणाद्यन्त्यजातिभटानां धर्मज्ञाने सामर्थ्याभावं कथयितुं तानिर्दिशति हूणा इत्यादिना ।। ५६ ॥ गोयोनयः नन्दिन्युद्भूताः ॥ ५७ ।। वियोनयो विरुद्धयोनिजन्याः । धर्माज्ञाने करणमाह साङ्कर्यदोषः विलोमयोनिसंपर्कजन्यदोषः । तस्मिनिरता आसक्ताः । तथा च दुष्टानां न धर्मबुद्धिरिति भावः । सायदोषषला इति पाठे सार्यदोषेणान्यवर्णीयधर्माचरणप्रत्य- वायेन वृषला धर्मोपकाः | "वृषो हि भगवान् धर्मस्तस्य यः कुरुते डलम् । वृषलं तं विदुर्देवास्तस्माद्धर्भ न लोप"दिति मनु ॥ ५८॥ म.-- इत्येतत्कथितं वत्स मया लोकहितैषिणे । तुभ्यं शुश्रूषवे धर्मान् किं भूयः कथयाम्यहम् ॥ ५९ ॥ इति • वैशम्पायननीतिप्रकाशिकायाममुक्तायुधनिरूपण नाम पञ्चमस्सर्गः ॥ व्या-खोक्ति निगमयति ब्रह्मा इतीति ॥ ५९ ॥ इतिश्रीसीतारामकृतायां नीतिप्रकाशिकातत्वविवृती पञ्चमस्सर्गः ॥ इ . अथ षष्ठस्सर्गः (सेनानयनकथनम् ) मू-अथ व्यूहान्प्रवक्ष्यामि शत्रुसैन्यप्रमर्दनान् । बलाङ्गासङ्खलार्थाय शत्रुसम्मोहनाय च ॥ १ ॥ व्या.-व्यूहान् बलविन्यासान् । " व्यूहस्तु बलविन्यास" इत्यमरः । बलाङ्गानां रथगजनुरगपत्तिरूपाणाम् । असङ्कलार्थीयासम्मर्दननिमित्तम् । मू-स्वशक्त्युपचयं ज्ञात्वा रिपुव्यसनमेव च । शत्रोस्त्रिगुणसैन्येन व्यूह्य सेनामार व्रजेत् ॥ २ ॥ व्या.-उपचंय वृद्धिम् । व्यसनमपचयम् । शत्रोस्तत्सम्बन्धिनः । सैन्येन सेनास्थजनसमूहेन । व्यूह्य योजयित्वा ॥ २ ॥ मू.-दण्डो भोगोऽसंहतश्च मण्डलव्यूह एव च । व्यूहात्वार एवैते तेषु भेदान् बबीम्यहम् ॥ ३ ॥ व्या-व्यूहाः मुख्यव्यूहाः । भेदानवान्तरव्यूहान् ॥ ३ ॥ म.- प्रदरो दृढकस्सत्यश्चापमस्वक्षिरेव च । सुप्रतिष्ठोऽप्रतिष्ठश्च श्येनो विजयसञ्जयो ॥ ४ ॥ विशालो विजयस्सूचीस्थूणोऽकर्णश्चममरवः । सुस्वास्यो विजयश्चेति द डस्सप्तदशात्मकः ॥ ५ ॥ व्या.-प्रथमोद्दिष्टदण्डव्यूहस्य सप्तदशावान्तरभेदानाह ॥ १-५॥ मू.-गोमूनिका हंसिका च सञ्चारी शकटस्तथा । एवं करपतन्तीति भोगभेदास्तु पञ्च वै ॥ ६ ॥ व्या--भोगव्यूहस्य पञ्चविधत्वमाहैतेन ॥ ६ ॥ मू- अर्धचन्द्रकटडारो वज्रश्शर्कटकस्तथा शृङ्गी च काकपादी व गोषिकेत्यपरस्स्मृतः ॥ ७ ॥ हाभ्याम् -

60
नीतिप्रकाशिकायां
असंहतष्षद्विधः स्यादित्याहुव्यूहकोविदाः ।
सर्वभद्रो दुर्जयश्च मण्डलोऽपि द्विधा इति ॥ ८ ॥
व्या. -अतहतव्यूहस्य षड्डिधत्वमाहार्धचन्द्रेत्यादिना सार्ध श्लोकेन ।
अपरस्तृतीयः मण्डलद्वैविध्यं सर्वभदेत्यादिना ।
इतीति मुख्यव्यूह-
भेदाः ॥ ८ ॥
मू.- वराही मकरव्यूहो गारुडः क्रौश्व एव च ।
पद्माद्याश्चाङ्गवैकल्यादेतेभ्यस्ते पृथक् स्मृताः ॥ ९ ॥
व्या.-~-अङ्गवैकल्यात् रथगजादिसेनाङ्गस्य व्यत्यासेन । राहित्याहा
प्रदरादित्रिंशद्वेदभिन्नेभ्यः । पृथग्भिन्ना. ॥ ९ ॥
मू.--रक्षो देवमनुष्याणां बुद्धिचैचित्र्यनिर्मिताः ।
व्यूहास्सहस्रशो राजनिति ज्ञेया मनीषिभिः ॥ १० ॥
व्या.-रक्षःपदं दैत्यदानवभूतप्रेतपिशाचासुरोपलक्षकम् । देवपदं
गन्धनिराक पुरुषतिद्धविद्याघरोपलक्षकम् । इति मनीषिभिज्ञयाः
इति योजना ॥ १० ॥
मू.-उरः कक्षौ च पक्षौ च मध्यं पृष्ठः प्रतिग्रहः ।
कोठी च व्यूहशास्त्रज्ञेम्सप्ताङ्गो व्यूह उच्यते ॥ ११ ॥
व्या. उर इत्युरोभागस्थित व्यूहः । कक्षाबुरस्थोमबपाश्र्वस्थि-
तव्यूहौ । एतौ दावे कतया वा पार्श्वव्यूहयोरग्रे स्थितप्रपक्षापरनामकव्यूही
कोठी । इमे द्वे एकाङ्गत्वेनेष्येते एवं व्यूहस्य सप्ताङ्गत्वम् ॥ ११ ॥
मू.-अग्रे नागान् रथान्पश्चात्पार्श्वयोस्तुरगानुपः ।
पदातीन्पृष्ठतो व्यूहे चारयन् विजयी भवेत् ॥ १२ ॥
तत्तत्कार्यानुसारेण रथान्नागांस्तुरङ्गमान् ।
नरानश्वान् रथानागानरानश्वानथांस्तथा ॥ १३ ॥
व्या...सेनाङ्गचालनक्रममाह अग्रे-इति । अथाये चारयन्निति
पूर्वेण सम्बध्यते ॥ १२ -- १३ ॥
मू...-जांश्योग्र प्रेषयेच्च योजयित्वा यथाक्रमम् + :
देशकालौ निरीक्ष्यैव परिवारसमन्वितान् ॥ ११ ॥

षष्ठस्सर्गः सेनानयनकथनम्
81
सर्वाभि ारसहितो यात्रोद्युक्तो नृपोत्तमः ।
प्रचक्रममथो दृष्ट्वा प्रसारे विनियोजयेत् ॥ १५ ॥
ध्या-पक्षपार्श्वव्यूहौ। एतद्वितयमध्य एकतयष्टम्। मध्यमुरः पृष्ठतोऽ-
वस्थितमनीकं मध्यम् पृष्ठः मध्यस्यापि पृष्ठतोऽवस्थितं पृष्ठमुच्यते । प्रतिग्रहः
प्रतिष्ठाख्यानिका तद्विशतधनुर्व्यवहितं राजावस्थानं प्रतिग्रहः । कोटिपार्श्व-
काग्रं नाग्रभागे योजयित्वा सजान् कृत्वा यथाक्रमं ध्यजपताकागजप्रेषण-
पूर्वकं । देशकालौ शत्रुदेशतज्जयकालौ। परिवाराः पादरक्षकाः । तद्युक्तान्
॥ १२-१४ ॥
सर्वामिसारेण युद्धोद्युक्तसैन्येन । सर्वामिसारस्साघस्सर्वसन्नहना-
र्थक" इत्यमरः ।
यात्रा जिगीषुराजयानम् । यात्रा प्रव्रजनमित्यमरः ।
प्रचक्रमम् परितः प्रचलितसैन्यम् ।
प्रसार अग्रतो व्याप्तौ।
प्रसार-
स्त्वग्रतो व्याप्तिरि" ति मेदिनी ॥ १५ ॥
मू.- अभिषणनमन्विच्छन्नभिक्रममथावरेत् ।
सङ्घाहिणः कौक्षिकांश्च जङ्घालाननुगामिनः ॥ १६ ॥
उर्जस्खलान्सांयुगानान्सैन्यमध्ये प्रचारयेत् ।
व्या-- अभिषेणनं सेनया सह शत्रूपरि गमनम् । “ यत्सेनयामिगम-
नमरी तदभिषणन" मित्यमरः । अभिक्रम. निर्भयेन शत्रोरभिमुखगमनम् ।
सभाह आयुधस्खलनप्रतिबन्धकमणिबन्धबद्धचर्म ।
स येषामस्तीति ते
तथा । कुक्षिश्चर्मनिर्मितकोशः। तत्रत्यः खङ्गः स येषां ते कौक्षिकाः ।
रखड़िनः इत्यर्थः । जङ्घाला अतिजवाः ।
अनु मिनः युद्धे यथेच्छं
जिगमिषवः । "कामं गाम्यनुगामिन " इत्यमरः । तानू खलान्
बलिनः सांयुगीनान्युद्धसमर्थान् ॥ १६ ॥
मू-उद्दान्तं हास्तिकश्चापि घण्टापथचरं भवेत् ॥ १७ ॥
बालान्
पोतांश कलमान्
विकांश्चैवोपवाह्मकान्
मदोत्कटांश्च कलभान् सान्नाधानेव कारयेत् ॥ १८ ॥

62
नीतिप्रकाशिकायां
।
व्या:--उद्दान्तं निर्मदं समं । "उद्दान्तनिर्मदा नित्यमरः ।
हास्तिकं गजव्यूहसमूहम् ।
हास्तिकं गजता वृन्द" इत्यमरः ।
घण्टापधः शतधनुः परिणाहराजमार्ग इत्यर्थः । अत्र चरं सञ्चारयोग्य
कुर्यादित्यर्थः । एतेन युद्धकालेऽपि राजमार्गा व्यूहकरप्या इति भावो
न्यज्यते ॥ १७ ॥
बालान् पञ्चवार्षिकान् । पोतान् दशवार्षिकान् कलभास्त्रि-
शद्वर्षान् । विक्कान् विंशतिवार्षिकान् । उपवाह्यकान् ! राजवहनोचिनान् ।
मदोत्कटानुत्कटमदवतः कलभान् गजाशशून् । एतानेतान्सानित्यर्थः ।
सान्नाह्यान्युद्धसन्नद्वान् । कारयेदेवेति योजना ॥ १८ ॥
मू-वीतमन्तःपुरश्चव पृष्टयान्वै प्रातिवेश्यकान् ।
शारवानगरवासांश्च राजधानीवाणग्जनान् ॥ १९ ॥
सौविदल्लावर्षवरान् वृद्धान् बालांश्च रोगिणः ।
ससतानक्षिरहितान् पङ्गुन व्यङ्गान् सुदुर्बलान् ॥ २० ॥
तथा पुष्यस्थांश्चैव भद्रासनयुतानपि ।
प्रक्रियानुपुवांश्चैव युद्धोपकरणानि च ॥ २१ ॥
कोष्ठागारायध गारयन्त्रागाराणि यानि च ।
मन्थरान् धान्यकोशश्च यच्चान्यत्कृशदुर्बलम् ॥ २२ ॥
प्रतिग्रहे वासयेच्च योधासम्मर्दहेतवे ।
तस्य रक्षाश्च विधिवच्छ्रैः कुन्निराधिपः ॥ २३ ॥
व्या.-वीत युद्धासमर्थम् । “ीतन्त्वसार"मित्यमरः । अन्तःपुरं
राजप्रतिग्रहः । पृष्ठयान्टष्ठतोऽवस्थानोचितान् । प्रतिवेश्यकान-
वरोधवध्वादिरक्षणसहायान् । शारवानगरवास्तव्यान् प्रधाननगरसम्मन
बहिर्वद्वतुच्छग्रामस्थान् । वणिग्जनान्यापारिजनान् ॥ १९ ॥
सौविदल्ला कञ्चुकिनः । वर्षवरान् षण्डान् । "पण्डो वर्ष-
वरस्तुल्या" वित्यमरः । सक्षतान् शस्त्रकर्तनसहितान् ।
व्यङ्गा-
विरुद्धाङ्गात् । सञ्चारप्रतिबन्धस्थूलवृषगगुदशलाटुशाहङ्गवत ' इत्यर्थः
॥ २० ॥

68 षष्ठस्सर्ग: सेनानयनकथनम् पुप्यरथान्यात्रामात्रोपगेगिरथान् । असौ पुष्यरथश्चक्रयानं न समराय यत् । इत्यमरः । भद्रासनानि राजोपवेशयोग्यपीठानि । तगुतनरानिति शेषः । प्रक्रियानुष्ठवान् । प्रक्रियाधिकारी षान्ते च तेऽनुप्लवा अनुगामिनश्च तान् "प्रक्रिया त्वधितारःस्या" दित्यमरः ॥ २१ ॥ कोष्ठागाराणि कुशूलान्तर्गृहादीनि । यन्त्रागाराणि लोहगुलिका- क्षेपकनलिकाद्यगाराणि । मन्थरात् मन्दगामिनः मन्द मी तु मन्थर इत्यमरः। धान्यकोश धान्यागारम् । कृशश्च तदुर्बलञ्चेति समानाघि करणन समासः ॥ २२ ॥ प्रतिग्रहे बृहत्सैन्यपृष्ठस्वल्पसैन्ये वासयेत्। तत्र हेतुः ॥ योधानामसम्मानिमित्तमिति ॥ २३ ॥ मू.-उर्जस्वलांश्च जबालानभ्यमित्रियकांस्तथा । आत्यन्तिकान् स्पशान्दूतांश्चैत्रान्सांयुगिकांस्तथा ॥ २४ ॥ जैत्रध्वजपताकञ्च खगजञ्च महोन्नतम् । नासीरे प्रेषयेदेतानूर्जस्खद्भिर्बलस्सह ॥ २५ ॥ व्या उर्जखलान् बलिनः । जङ्घालानतिजवान् । अभ्यमित्रीय- कानाभिमुख्येन शत्रूनलं गच्छन्तीति तान् आत्यन्तिकान्मुडे यथेच्छगन्तॄन् । दूतान्बाहारकान् जैत्राओतुं शीलवतः । सायुगीनान्युद्धतमर्थान् ॥ २४ ॥ जैत्रो जयशीलो यो ध्वजः केतनापापर्याय पताकाधारदारुविशेषः तस्मिन्विद्यमाना पताका वैजयन्ती यस्मिन् सः। तादृशं महोन्नतमत्यु. न्नतम् । खगज राजहस्तिननिति योजना । सेनामुरवन्तु नासीरमिति" मेदिनी । उर्ज धैर्यमेषां तान्यूर्जखन्ति । तबलस्सैन्यैः । " वरूथिनी बलं सैन्य" मित्यमरः ॥ २५ ॥ मू.-पुरोगानुचरांश्चैव सहायाभिचरांस्तथा । घृष्ठांश्च जाचिकांश्चैव वेत्रिणोऽनुप्लवांस्तथा ॥ २३ ॥ असिचर्मधरांश्चैव शंसकान्मा घांस्तथा । खपुरश्चारयेद्राजा सरक्षणकारणात् ॥ २० ॥ नासीरे सेनामुखे ।

64
नीतिप्रकाशिकायां
पृष्ठरक्षका
व्या.-पुरो।। अग्रे गन्तारः : तत्सहिता येऽनुचराः ।
इति यावत् । तान् । सहायास्सहवागन्तारः । अभिचरा आमित
आगन्तारः । पृष्ठाः प्रतिष्ठन्ति अग्ने गच्छंतीति व्युत्पच्या कार्यकरास्तान् ।
जाविधाः । जङ्घया जीवति यः सः जाचिकः । मुद्रं गत्वा तत्रत्य-
वाता राज्ञे निवेद्य तस्मात्पारितोषिकं गृहीत्वा तेन जीविनः तान् ।
वेत्रिणः यप्टिघरानित्यर्थः।
अनुप्लवान् शुचीन् दूरे पृष्ठभागे सहायार्थ.
मागच्छतः ॥ २६ ॥
चाक्रिकान् पुञ्जीभूय स्तुवन्तः मागधान् वंशावलिप्रस्तावकान् ॥ २७ ॥
मू-~-आजानयांश्च जवनान्पृष्ठयान् रथ्यांश्च कर्कशान् ।
पृष्ठेऽश्वान्वासयेद्राजा सविधे व्यूहकङ्कटान् ॥ २८ ॥
व्या.-आजानयान् पृष्ठयान् पृष्ठेन वहनोचतान् ।
रथ्यान्
रथोद्वहनयोग्यान् । कर्कशान् धवलान् । सितः कर्कश (?) इत्यमरः ।
सविध समीपे। व्यूहकङ्कटान् सन्नद्धान् ।
इत्यमरः ॥ २८ ॥
मू-आश्विनं वप्रसहितं सालं काष्ठविनिर्मितम् ।
बृहत्कूटं सपरिषं धनधान्यायुधान्वितम् ॥ २९ ॥
व्या.–आश्विननश्वगतेनैकदिनसाध्यप्राप्तिकम्। "त्रिष्वाश्वीनं यदश्वेन
दिनकेन गम्यते ।
इत्यमरः । बप्रेण सालमित्तिमूलरचितमृत्कूटेन
सहितं युक्तम् । शाकटी निर्मित काठे रचितम् । बृहस्कूठम् बृहन्ति
कटानि सालमिरचितव लम्सादिकूटानि यस्मिन् । कूटं समूहे शिखरे
वाणप्रान्तपादक
इति नानार्थकारः। सपरिवं परितः खन्यत इति
परिवम् । सालपान्तगतविशेषः। तत्सहितम् । सालं समाश्रयेत् ।
आचारतया स्थापयेत् ॥ २९ ॥
" सन्नद्धो व्यूहक्कङ्कट
मू.-सकाण्डपृष्ठं सजलं सतुषागारशिल्पकम् ।
समाश्रयेद्युध्यमानश्शत्रुर्नृिपसत्तमः ॥ ३० ॥

षष्ठस्सर्गः सेनानयनकथनम् " मुर्मुरस्तु तुषाङ्गारः । सैन्यस्य पृष्ठतः । व्या.-सकाण्डपृष्ठ शस्त्राजीविसहितम् । " शस्त्राजीवी काण्ड- पृष्ठः इत्यमरः । तुषाङ्गारा मुर्मुराः। इत्यमरः । शिरिपनश्च तेस्त हितं पालयेदिति ॥ ३० ॥ मू-बहूदयान्प्रात्ययिकान्छलान्तर्वशिकान्नृपः । प्राज्ञान्मूलप्रतीकारान्वैरनिर्यातनवरेत् ॥ ३१ ॥ व्या:-बहूदयाननेकोपस्करवतः । प्राययिकानातान् । अन्तर्व- शिहानन्त पुराधिकारिणः । मूलप्रतीकारान् धनदानरक्षकान् । वैरनि- र्यातनं शत्रुषु द्वेषप्रत्यर्पणम्। चरेत् ॥ ३१ ॥ मू.-मूलप्रतिग्रहं कृत्वा प्रत्यासारं प्रकल्प्य च । पौर श्रेणीस्स्वराष्ट्रश्च पालयन् कृतप्राभृतः ॥ ३२ ॥ व्या.-मूलप्रतिग्रहं सैन्यपृष्ट समूहं । द्विधनुश्शतके देशे बृह- मूलप्रतिग्रहः प्रोक्तो व्यूहश्शूरविनिर्मित इति कामन्दकीये । प्रत्यासारो व्यूहपार्श्वस्थवलः । पौर श्रेणीरेकनायकस्स- जातीयनागप्रजाः । स्वराष्ट्र स्वदेशभिलिनपट्टणव्यूहम् । कृतप्रामृतः प्रतिगृहीतोपायनकः । उपायनमुपग्राह्यमुप- हारस्तथोपदे"त्यमरः ॥ ३२ ॥ मू.-सैनिकान् परिधिस्थांश्च स्थापयित्वा नृपोत्तमः । प्रस्थापयेन्मार्गकरान् पुरस्ताच्छिल्पिना बहून् ॥ ३३ ॥ व्या. सैनिकान् सेनारक्षणार्थ राजा कृतभृतिकान् । परिधिस्थान् सेनायाः परितः संरक्षणार्थ सञ्चरमाणान् ॥ ३३ ॥ म.-कन्तिकान् यष्टिधरान् खनकांस्तक्षकानपि । सूत्रिणो रोपकांश्चैव सेतुबन्धकरानपि ॥ ३४ ॥ व्या.-कर्मान्तिकान् कार्यसमापनसमर्थान् । तक्षकान् दार्वादित क्षणसमर्थान् । सूत्रिणस्सूत्रधारिणः ॥ ३४ ॥ मू.-तथा भूमिप्रदेशज्ञान् व्याधान्वनविशारदान् । विषमस्थं रिबलं ये विदुस्तान् बहुश्रुतान् ॥ ३५ ॥ प्रामृतन्तु प्रवेशनं ।

66
नीतिप्रकाशिकायां
व्या:--विषमस्थं निम्नप्रदेशप्रच्छन्नं । विदुवैत्तारः । बहुश्रुतान्
श्रुतसकलवृत्तान्तान् ॥ ३५ ॥
मू...-प्रेषयित्वा नयेत्सेनां गुप्तिकर्म विधाय च ।
परिहत्य श्मशानानि देवतायतनानि च ॥ ३६ ॥
व्या.-गुप्तिकर्म संरक्षणकृत्यम् ॥ ३ ॥
म.-आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ।
नाधितिष्ठेतुषाङ्गारभस्मकेशकपालिकाः ॥ ३७ ॥
व्या.-आधि आश्रित्य तिष्ठेत् । तासु सेनानिवेशो न कार्य
इति भावः ॥ ३७ ॥
मू.-मधुरानूषरे देशे शिवे पुण्ये जलावृते ।
निवेशं कारयेद्राजा सेनायास्तु स्ववृद्धये ॥ ३८ ॥
व्या.-खवृद्धथै स्वाभ्युदयाय ॥ ३८ ॥
मू-विद्रावयच्छत्रुगुल्मांस्तथा चैकचराहितान् ।
परिक्रमेच्च सेनायां परितो योधसंवृतः ॥ ३० ॥
व्या.-शत्रुगुल्मान् शत्रुमिस्तनिरोधार्थं यूथशस्स्थापितभटान् ।
एकचराहिताने कैक एव गूढभरतीति तादृशरिपून् ॥ ३९ ॥
मू.-दूष्याणि च नरेन्द्राणां खयमेव विचारयन् ।
शत्रूद्योगविघातार्थ परितश्चारयेद्धलम् ॥ ४० ॥
गुप्तकर्म समादिश्य चाराननुविधाय च ।
शिबिराणि महाणि खयोधानां पृथक पृथक् ॥ ४१ ॥
प्रभूतजलकाष्ठानि दुराधर्षतराणि च ।
मक्ष्यभोज्योपपन्नानि धनधान्ययुतानि च ॥ ४२ ॥
कृत्वा सुशिल्पिनः प्राज्ञान् शतशो दत्तवेतनान् ।
सर्वोपकरणैर्युक्तान्वैधांश्च सुविशारदान् ॥ १३ ॥
ध्या.-दूष्याण्युपगृहाणि । “दूप्याचं वस्त्रवेश्मनी" त्यमरः ॥१०॥
॥१०-४२॥
दत्तवेतनानियोतितभूतिकान् । वैद्यान् चरकमौलिकचिकित्सा-
कोविदान् । क्षतचिकित्सका रोगचिकित्सानिपुणा वा ॥ १३ ॥

षष्ठस्सर्गः सेनानयनकथनम् 67 प्रदेयानि तु योधानां वस्त्राण्याभरणानि च । वित्तं बहु च संस्थाप्य निश्शङ्को योधयेदरीन् ! ४४ ॥ व्या.-प्रदेयानि पारितोषिकाणि । 'दद्यात्प्रहृष्टो नियतं वर्वाणां राजघातिने" त्यादिना वक्ष्यमाणानि। निकटे खासन्न प्रदेशे। अरीन् योधयेत् वकीर्यबलैरिति शेषः ॥ ४ ॥ मू.-गतवाहनयोघानां वाहनानि प्रकल्पयेत् । विशस्त्राणाश्च शस्त्राणि दापरेधुधि भूमिपः ॥ १५ ॥ व्या. गतवाहनयोधानां गतानि युद्धैर्हतानि मृतानि वा वाहनानि ते च ते योधाश्च तेषां प्रकल्पयेत् । दापयेत् विशस्त्राणां विगतायुधानां दापयत् । आयुधागा धिकृतैरिति शेषः ॥ १५ ॥ पल्याणानि खलीनानि पत्ययाङ्कादिकानि च । प्रकीर्णकानि शीर्षण्यान्यथो कङ्कटकान् कुथाः ॥ ४६ ॥ व्या–पल्याणानि हयपृष्ठे उपवेशार्थ कृप्तासनानि । “पल्याणं स्यात्पल्यएन" मित्यमरः । खलीनान्यश्वविवर्तनाथ क्लृप्तमुखरज्जुविशेषाः । " स्खलिका तु स्वलीनोऽस्त्री" इत्यमरः । पत्ययाङ्कान्यश्वारोहार्य कृप्त- पार्श्वद्वयविलम्बिसोपनानि । प्रकीर्णकानि चामराणि । चामरन्तु प्रकीणक "मित्यमरः । शीर्षण्यानि शिरस्त्राणानि । “शीर्षण्यन्तु शिरस्त्रऽथ" इत्यमरः । कङ्कटानुरश्छदान् । उरश्छदः कङ्कटक इत्यमरः । कुथाः परिस्तोमाः । परिस्तोमः कुथा द्वयोः । गजपृष्ठपिधानानि .- . " . मू-ज्याधनुर्म शस्त्राणि चापानि यवस बहु । महायन्त्राणि नाराचास्तोमरांश्च परश्वधान् ॥ ४७ ॥ व्या.-ज्या मौवीं । धनूंषि । वर्माणि कवचानि । शस्त्राणि खड्गादीनि चापानि वैतस्तिकबाणप्रयागसाधनत्रिवक्रधनूंषि । यवसं श्वेतदूर्वाः । " यवतं तृणमर्जुनमि " त्यमरः महायन्त्राणि शिलालोहगुलिकाक्षेपकनलिकारूपयन्त्राणि ॥ १७ ॥ Neethi-51

68
नीतिप्रकाशिकायां
मू.--रज्जून् शङ्कन्छङ्कुरोपान् लोहपादनिबन्धनान् ।
धात्राणि च कुढारांश्च वाश्यांश्च छुरिका अपि ॥ १८ ॥
व्या.-रज्जून पटग्रहगजतुरगादिबन्धनार्थान् । शङ्करोपाञ्छङ्कुस्था-
पनसमर्थतिर्यग्दारुलगुडान् । लोहपादनिबन्धनान् लोहनिर्मिततुरगवृषभपाद-
मृदुत्वपरिहारकलोहचन्द्रकान् । "अश्वादिपादरक्षायां लोहचन्द्रक ईरित"
इति मेदिनी । दात्राणि वाश्यान् दारुतक्षणसाधनानि ॥ १८ ॥
मू.-चक्राणि लोहपट्टान क्रकचांश्चर्मभस्त्रकान् ।
पटकानि खनित्राणि सूचीश्च ग्रथनोचिताः ॥ ४९ ॥
व्या-लोहपट्टो रथचक्रनेमिवन्धनः । चर्मभस्त्रिकाः जलाहरण-
योग्यनर वृषपृष्ठहार्यचर्मकोशान् ॥ १९ ॥
मू.-पृष्ठयान् वृषानश्वतरीनुष्ठान्वै दूरगामिनः ।
गजानाञ्च हयानाञ्च नराणामगदानि च ॥ ५० ॥
व्या.-पृष्टयान् पृष्ठेन भारवहनसमर्थान् । अश्वतरीन् गर्दभ्यां
तुरगादुत्पन्नान् । दूरगामिनः । उष्ट्रान् वार्तिककरमान् । अगदान्यौष-
घानि ॥ ५० ॥
मू-विविधानि च वाद्यानि तथा कैरातकं मधु ।
शाल्मलीतूलिकाचैवाप्यश्मसाराश्मसंयुतान् ॥ ५१ ॥
व्या.-कैरातकं युह्रोत्साहजनक मद्यम् । "युद्धोत्साहकरं मा
यन्तु
कैरात कं हि तत् ।" रणे भाविनि घोरे तु सेव्यं तत् क्षत्रियैर्नृतम् ।
इति नीतिविवेके ।
अश्मसारो लोहविशेषः । अश्माग्न्युपलः तत्संयुतां
शाल्मलीतूलिकामित्येतत्त्रयमग्न्युत्पादकामति लोकप्रसिद्धम् ॥ ११ ॥
मू. वराकी श्चैव तरुजाः कठाहाँलोहताम्रकान् ।
आरकूठांश्च टंकाश्च शाणांश्च पृधनानपि ॥ ५२ ॥
व्या.- तरुजाः वार्ताः। वराकीरसूलपट्टीः । धान्यादिपुरणयोग्याः ।
" रीतिः स्त्रियामारकूठः" इत्यमरः ।
शाणान् कर्षान् ।
पृधनान् गुजादितोलन-
आरकूटान् पित्तल्यपरनामकरीतीः ।
टङ्कान् पाषाणभेदनान् ।
करान् ॥ ५२ ॥

षष्ठस्सर्गः सेनानयनकथनम् 69 प्रतोदान । जालाः । मू. -आरा उपानह श्रेवाप्यरुत्राणि कशास्तथा । विश्वकद्रूश्च वेणूंश्च वागुरा बडिशान्यपि ॥ ५३ ॥ व्या.-आराधर्मभेदकशस्त्राणि । "आरा चर्मप्रभेदिके"त्यमरः । उस्त्राणि पादमारभ्योरुपर्यन्ताच्छादकानि । कशाः अश्वादिताडनार्थ- " अश्वादेस्ताडनी कशे"त्यमरः । विश्वकद्रून्मृग्याकुशलशुन- कान् । विश्वकद्रुZगयाकुशल" इत्यमरः । वागुरा मृगबन्धनयोग्य- "वागुरा मृगबन्धिनी "त्यमरः । बडिशानि मत्स्यबन्धनयोग्य- वक्रशल्यानि । “बडिशं मत्स्यबन्धन" मित्यमरः ॥ १३ ॥ --पताबाहान् गन्धले पतिकादीनि यानि च । प्रस्थानिकानि सेनायास्तानि सुष्टु प्रकल्पयेत् ॥ ५४ ॥ व्या.-पतवाहाँस्ताम्बूलश्लेष्मादि गृह्णाति खपृथुकण्ठभोगेनेति पतवाहः । मेच्छभाषायां पीकुदानीति प्रसिद्धः । पतबाह: पतहह" इत्यमरः । प्रास्थानिकानि प्रस्थानयोग्यानि तानि पूर्वोक्त- वस्तूनि । सुष्ठु प्रकल्पयेत् सम्यक् सम्पादयेत् ॥ ५१ ॥ मू-योधेषु रथिकान् कुर्यादश्वपृष्ठविशारदान् । अश्वारूढांस्तथा कुर्याद्रथेषु परिनिष्ठितान् ॥ १५ ॥ व्या.-योघेषु चतुरङ्गबलविद्यमानमटेषु मध्ये रथिकान् । पृष्ठविशारदान् तुरङ्गयुद्धकुशलान् । कुर्यादिति सर्वत्रान्वयः ॥ ५५ ॥ मू-उभौ तौ नृपतिः कुर्याद्गजपृष्ठसुयोधिनौ । तान्हि कुर्यात्पदातीन्वै पदातीनपि तादृशान् ॥ ५६ ॥ व्याः-तावुभौ रथिकावसादिनौ। तान् रथिक ाजारूढ तुरगारूढान् । त्रीन्यादातवलिंगतनिपुणान् कुर्यात् । तादृशान् रथिकगजारूढतुरगाधिष्ठित- तुल्यान् ॥ १६ ॥ मू.-सारथ्ये च गजस्कन्धे चक्ररक्षाविधौ तथा । अन्येषु वा साहसेषु तान् कुर्यानिपुणान्नृपः ।। ६७ ॥ व्या. ताश्वतरङ्गयोपान् ॥ १७ ॥ अश्व-

70
नीतिप्रकाशिकायां
मू. द्वात्रिंशत्करणानि स्युयुद्धे यानीह नीतितः ।
चतुरङ्गबलं सर्वं तेषु कुर्यात्सुनिष्ठितम् ॥ ५८ ॥
व्याः- किंबहुना ? पूर्वोक्तद्वात्रिंशदायुधविद्यानिपुणान्पुर्यादित्याह-
द्वात्रिंशदित्यादिना ॥ १८ ॥
मू.--प्रयाणपूर्वयायित्वं वनदुर्गप्रवेशनम् ।
अकृतानाच मार्गाणां कृतानाच प्रवर्तनम् ॥ ५९ ।।
विभीषिकाविघातश्च तथा प्राकारभञ्जनम् ।
कोशनीतिभयत्राणं भिन्नसन्धानमेव च ॥ ६० ॥
शत्रुपच्यश्वराधश्च दुर्गे भारोहहस्तथा ।
वृक्षावभञ्जन चैव हस्तिकर्म प्रचक्षते ॥ ११ ॥
व्या-चतुरङ्गबलकार्याण्याह-प्रयाणपूर्वयायित्वमित्यादिना । प्रयाणे
यात्रायां पूर्वयायित्वम् प्रथमगन्तृत्वम् । वनात्मकं यदुर्ग दुखेन गन्तुं
शरुयं तत्प्रवेशनम् ॥ ५९ ॥
विभीषिकाणां कृत्रिमदारुमृन्निर्मितयन्त्राणाम् । द्रव्यप्रापणम् ।
भिन्नसन्धानं गुद्धकाले परकृतछिद्रपूरणम् ॥ ६० ॥
शत्रूणां पत्तयश्च अश्वाश्च तेषां रोधो निरोधः । भारोहहो
मारनिहरणम् ॥ ६१ ॥
म.-द्वितीयसैन्ययायित्वं गजसंरक्षणं तथा ।
मिन्नसन्धानकारित्वं दूरे शत्रुनिवारणम् ॥ ६२ ॥
शत्रूणामभिरोधश्च व्यूहद्वारे व्यवस्थितिः ।
महाघोषविविश्शेति रथकर्म प्रचक्षते ॥ ६३ ॥
व्या-रथकर्माह-द्वितीयेति । द्वितीयसैन्यं प्रथमगतस्य स्कन्धा-
वारार्थक्लुप्तसैन्यं । तत्र गमनं ।। ६२ ॥
शत्रूणामभिरोचोऽभिमुखनिरोधः। व्यूहद्वारेषु शत्रुसैन्यप्रवेशविवरेषु।
महाघोषविषिः रिहृदयस्फोटकशब्दकरणम् ॥ १३ ॥

षष्ठस्सर्गः सेनानयनकयनम्
71
म.--बनदिकार्गविज्ञानं वीरुधासाररक्षणम् ।
प्रसारकरणञ्चापि हेषिताच्छत्रुभीषणम् ॥ ६४ ॥
अनुयानापसरणे शीघ्रकार्योपपादनम् ।
लुण्ठनं शत्रुमैन्यानामश्वकर्म प्रचक्षते ॥ ६५ ।।
व्या.-अश्वकार्यमाह-वने दिशां मार्गाणाश्च विज्ञानम् । वीरुवस्य
धान्यादिप्राप्तेः । आसारस्य सुहृद्वलस्य । रक्षणम् खसैन्यप्रवेश रणम् ।
प्रसाररय तृणकाष्ठादिप्रवेशस्य करणं
"धान्यादेवी-
सधः प्रप्तिः आसारस्तु सुहृद्बलम् ।
प्रसारस्तृणकाष्ठादेः प्रवेश इति
कथ्यते।" इति वैजयन्ती। हेषितात्स्वध्वनः । शत्रुभीषणम् शत्रुभयसंपादनम्
प्रापणम् ।
न्या.-अनुयानमनुसृत्य यानम् । अपसरणं कार्यार्थ निर्गमः | शीघ्रकार्याणां
शत्रुकृतकपटादीनाम् । उपपादनं स्वराज्ञे निवेदनम् ॥ ६५ ॥
मू.-शोधनं कूपतीर्थानां मार्गाणां शिबिरस्य च ।
स्कन्धावारस्य करणं विष्टिकर्मप्रसाधनम् ॥ ६६ ॥
कोशागारायुधागारधान्यागारादिरक्षणम् ।
व्यूहप्राकारकरणं पत्तिकर्म प्रचक्षते ॥ ६७ ॥
व्या.-शिबिरस्थाननिवेशस्य स्कन्धावारस्य
रक्षणस्य । विष्टयो मृति विना कर्मकराः । तेषां कर्मणः प्रसाधनं
करणम् ॥ ६६ ॥
व्या.- कोशो धनम् । व्यूहस्य प्राकारकरणम् प्राकाराकोरणावस्थितिः
प्रधानबलरक्षकबाह्य-
मू-अवक्षस्थूलपाषाणगुल्मवल्मीककण्टका ।
सापसारा पदातीनां भूर्नातिविषमा मता ॥ ६८ ॥
अपङ्का . शङ्खरहिता तथा पाषाणवर्जिता ।
खुराधातक्षमाभिन्ना समा भर्वाजिनां मता ॥ ६९ ॥

72
नीतिप्रकाशिकायो
सापसारा
.
व्या.- अथ चतुरङ्गनिवेशभूमिमाह-अवृक्षेत्यादिना । तत्र प्रत्युपवेशो.
चितां भूमिमाह-~-अवृक्षेत्यादिना ।
पादसञ्चारयोग्यप्रदेश-
सहिता । " पादसञ्चारयोग्यो यस्त्वपसारः प्रकीर्तितः " इति मेदिनी
॥ ६८ ॥
व्या...-आभिन्ना अस्फुटिता । वाजिनामश्वानां । मतोपवेशनयोग्यत्वेन
सम्मता ॥ ६९ ।
मू.-अकेदारा कृतश्वभ्रा वृक्षगुल्मविवर्जिता ।
खुरचक्रसहा सौम्या रथ भूस्सम्प्रकीर्तिता ॥ ७० ॥
व्या.-खुरचक्रयोराघातसहनवती ॥ ७० ॥
मू.-मर्दनीयतरुश्रेष्टव्रततिः पङ्कवर्जिना ।
निर्दरा गभ्यशेला च विषमा गजमंदिनी ॥ ७१ ॥
-मर्दनीयाः शुण्डापचयनोग्या ये तरवो वृक्षाः तेषां श्रेष्ठा निबिडा
व्रततिरसमूहो यस्याः सा । निर्दरा गुहरहिता ॥ ७१ ॥
मू.-सर्वसेनाधिपः कार्यः कुलपुत्रो जितेन्द्रियः ।
दृष्टापदानो दक्षश्च रूपवान जबल्लभः ॥ ७२ ॥
व्या.–दृष्टापदानः परीक्षितसाहसचरित्रः । "अपदानं कर्मवृत्तमि"-
त्यमरः । राजबल्लभो नृपे भक्तिमान् ॥ ७२ ॥
मू.-लालाटिकश्चणितज्ञः सेनानयविशारदः ।
धृष्टस्सान्त्वायता चैव वयोधानां रणाजिरे ॥ ७३ ॥
व्या.- लालाटिकः प्रभोर्भावदर्शी ।
इङ्गितज्ञः पराभिप्रायवित् ।
"पराभिप्राय इजितमि"त्यमरः । सेनाया नयः शिक्षण तत्र विशारदः
निपुणः । धृष्टो धैर्यवान् । रणाजिरे युद्धरङ्गे । खयोधानां सान्त्वयिता
समाधाता ॥ ७३ ॥
मू.-अक्षौहिणीनां पतयः पृथक्वार्यास्तथाविधाः ।
सेनापतिवशे तेऽपि तिष्ठेयुस्तेन पालिताः ॥ ७४ ॥
व्या.-अक्षौहिणीनां तत्सङ्ख्यासेनानां । पृथक् सर्वसेनाधिपति-
भिन्नाः । तथाविधाः पूर्वोक्तसर्वसेनाधिपतिगुणतुल्यगुणकाः । तेऽप्यक्षौ-
हिणीपतयोऽपि ॥ ७४ ॥

षष्ठस्सर्गः सेनानयनकथनम्
78
मू.-पत्तेस्सेनामुखस्यापि गुल्मस्य च गणस्य च ।
वाहिन्याः पृतनायाश्च चम्वाश्चाप्यधिपाः पृथक् ॥ ७५ ॥
अनाकिन्याश्च कार्या वै योघशिक्षासु निष्ठिताः ।
द्वयोस्त्रयाणाम्पतयः कार्याः कार्यानुसारतः ॥ ७६ ॥
व्या.-द्वयोः पत्तिद्वयस्य सेनामुखस्येत्यादिक्रमेण ।
बयाणां
पत्तीनां सेनामुखस्येत्यादिक्रमेण । कार्यानुमारतः पतिद्वयपत्तित्रयादि-
साध्यकार्यवशात् ॥ ७५-७६ :
मू-दिवसे दिवसे संज्ञाः पृथक्कास्विके बले ।
ता जानीयुस्सैन्यपाला न भटा नेतरे जनाः ॥ ७७ ।।
व्या.-संकेतानि ताः संज्ञाः । भटानां यतो भिन्नाः । इतरे
जना उदासीना न जानीयु.िति योजना ॥ ७७ ॥
मू-स्वाज्ञासश्चरणार्थाय सञ्चरेयुस्स्वचिह्निताः ।
शत्रूणामुपघातार्थ गुप्तिकर्म प्रचक्षते ॥ ७८ ॥
व्या.- स्वाज्ञासञ्चरणार्थाय राजकार्यचालनाय स्वचिह्निता राजमुद्रो-
पलक्षिताः गुप्तिकर्मेत्थं गोपनकरणम् । शत्रूगामुपघातार्थम् शत्रुकृत-
कपटप्रतिक्रियामिति प्रचक्षते । तथा च निशि संकेतविरुडाभिधायिनः
शिक्षणीया इति भावः ॥ ७८ ॥
मू-यादृक् सैन्याधिपत्ये तु पूर्व योऽधिकतो भवेत् ।
स ज्येष्ठभावे नियतस्तत्पाश्चात्यास्तु तहशे ॥ ७९ ॥
व्याः-याहक्सैन्याधिपत्ये
यत्संज्ञिकसेनापतित्वे स पूर्वाधिपः ।
ज्येष्ठमावे ज्येष्ठत्वे नियतः क्लृप्तः । तत्पाश्चात्यास्तदनन्तराधिपतयः ।
'तद्वशे तत्पूर्वाधिपत्याज्ञायां वसेयुरिति शेषः । अयं भावः एकः पच्याख्य-
सैन्याधिपः तस्य गणाख्यसैन्याधिपत्यं दचा चानन्तरं पत्तेरधिपः क्रियते ।
यस्खपूर्वपच्यधिपाज्ञां नोल्लचेत । एवं गुल्माद्यघिरतिषु तरतमभावानोह-
नीयाः ॥ ७९ ॥

74
नीतिप्रकाशिकायां
मू.-पच्याद्यङ्गपतीनष्टावक्षोइण्यविपानुगान् ।
रुवा ज्येष्ठानुसोरण नियम्यास्सर्वतैनिकाः ॥ ८० ॥
व्या---लियम्याश्शिक्षणीयाः ॥ ८ ॥
मू-राज्ञा नियमितांस्त्यक्ता तथातज्ञोत्तरप्रदान् ।
हन्यानिशिचरान्सैन्ये नृपाज्ञःपरिपन्थिनः ।। ८१ ॥
व्या.-नियमितान् कृतमुद्रादिचिह्नान् । त्यक्ता विना । संज्ञो-
त्तरप्रदानानभिज्ञान असंज्ञोत्तरप्रद,निति भेदः ।
राज्ञा गुल्मस्थापनाधिपे
कर्णेजपविरुद्ध भाषिणः । शत्रब इति जेय इति भावः ॥ ८१ ॥
मू.अधिपाः प्रतिसेनायास्त्रयः कार्यास्सुशिक्षिताः ।
'उत्तमाधममध्यस्था ज्येष्ठाज्ञावशवर्तिनः ।। ८२ ॥
व्या.-.ज्येष्ठः उत्तमः ॥ ८२ ॥
मू ---दिवसे दिवते सेनां परिवृत्य प्रचोदयेत् ।
एकत्र सुस्थितं सैन्य शङ्कां स्वस्यापि साधयेत् । ८३ ॥
व्या.-परिवृत्य व्यत्ययं कृत्वा ।
स्थानविनिमयं कृवेति यावत् ।
स्वस्यापि मृतिदाय राज्ञोऽपि । शङ्कामुपचापरूपभयं साययेत् कुर्यात
मू.-यस्त्वमात्योऽनुकूलस्स्याद्राजकार्यधुरन्धरः ।
सैन्यपालस्य तस्याज्ञां स्वयं राजा समाश्रयेत् ॥ ८४ ॥
व्याः-तस्यापत्सहायभूतामात्यस्य वयं राजापि समाश्रयेच्छृणुयात् ।
मू-समुत्पिओ स्वसैन्ये च संशप्तै|धयेदरीन् ।
वीराशंसनके तिष्ठद्विजिगीषुपस्वयम् ॥ ८५ ॥
व्या --स्वसैन्ये समुत्पिओ भृशमाकुले सति “समुत्पिञ्जिका भृशमाकूले"त्य
मरः । संशप्तकैः शपथपूर्वकं युद्धादनिवर्तिभिः ! संशप्तकास्तु समया-
संग्रामाइनिवर्तिनः" इत्यमरः । वीराशंसनके खण्डितगजाश्चादिभिरति-
भयङ्करयुद्धभूस्थाने ।
" सा वीराशंसनं युद्धभूमियोतिभयप्रदा" इत्यमरः ।
खयं नृपो विजिगीषुरसन् । तिष्ठेत्पूर्वोक्तद्वादशराजमण्डलसहित इत्यर्थः
॥ ८५ ॥

षष्ठस्सर्गः सेनानयनकथनम्
75
मू.- कान्दिशीके स्वसैन्ये तु मुण्डानीके वसेत्स्वयम् ।
कृतलोहाभिसारस्सन् पश्चाद्गत्वा रिपून जयेत् ॥ ८६ ॥
व्या.-कान्दिशोके देवकृताद्वयात्पलायमाने सति ।
"कान्दिशीको
भयाद्भुनः" इत्यमरः । मुण्डानीक वक्ष्यमाणलक्षण व्यूहे ।
लोहाभिसारोऽस्त्रधारणसमये कृतारार्तिकस्सन् । लोहाभिसारोऽस्त्रभृतां
राज्ञां नीराजनाविपिरि" त्यमरः ॥ ८६ ।।
कृतः
यु
स्तकल्पना ।
मू-गव्यूतिमात्रे यो व्यूहो बृहस्सैन्यस्य निर्मितः ।
अच्छत्रचामरैशरैमुण्डानाकं स चोच्यते ।। ८७ ॥
व्या.—बृहत्सैन्यस्य स्वप्रधानबलस्य गव्यूतिमात्रे गवोः क्रोशयोः
मिश्रणं गव्यतिमात्रम् । गोशब्दः क्रोशवाचीति दण्डी ।
मिश्रणे । तस्मिस्तद्वयवधान दंशे । “चतुष्काधिकविंशत्याचाङ्गुलैई-
सहस्ररष्टभिः ख्यातं हस्तकैः क्रोशमानकमिति ।"
अच्छत्रचामरैः छत्रचामरादिबहिःप्रकाशोपकरणरहितैः शूनर्मितः
मुण्डानी संजित इत्युच्यते ॥ ८७ ॥
मु-प्रत्यग्रे कणि कृते श्लाघमानः कृतादरः ।
योघेभ्यः पूर्णपात्रं हि दद्याद्राजा विशेषतः ॥ ८८ ॥
व्या.-चारसंग्रहणार्थ बहुमानदानं वक्तुं प्रथमतः तत्कारणीभूतकत्यमाह
प्रत्यग्रेति लोकेन । प्रत्यग्रे नूतने कमणि, साहसे । श्लाघमानः वीर्यश्लाघां
कुर्वन् । कृतः आदारः योघेषु विश्वातो येन तथाभूतः सन् । विशेषतो
मृत्यधिकं । पूर्णपात्रं सन्तोषश्रवणानन्तरदीयमानबहुमानम् । "खप्रियन्तु
भृशं (कृत्वा) श्रुत्वा दृष्ट्वा वा दीयते च यत् ।
पारितोषिकरिक्थं
तत् पूर्णपात्रं वदन्ति ही" ति निबन्धनकारः ॥ ८८ ॥
व्या. कीडशकार्य कियद्धनाधिकं देयमित्यत्राह-दद्यादिति ।
मू.-दद्यात्प्रहृष्टो रियुतं वर्वाणां राजघातिने ।
तदधं तत्स्तवघे सेनापतिवधे तथा ॥ ८९ ॥

76
नीतिप्रकाशिकायां
दद्यात्पा-
व्या.-राजघातिने शत्रुराजशिरश्छेत्रे ।
वयोधाय प्रहृष्टःसन्
वर्वाणामष्टाविंशतिगुञ्जापरिमितमुवर्ण नद्रिकाणाम् । "गुनाष्टाविंशतिमि-
तमहारजतमुद्रिका । बर्व स्यान्निष्कमित्यन्ये तामेवाहुस्सुवर्णकमि " ति
मेदिनी। नियुतं लक्षमिति कामन्दकटीकायां व्याख्यातम् ।
रितोषिकविधिनेत्यादि । तत्तुतवधे राजपुत्रवधे कृते तदधं पञ्चाशत्सहस्रा
णोत्यर्थः । सेनापतिस्त्र सर्वसेनानायकः ॥ ८९ ॥
मू.- अक्षौहिणीपतिवधे तदध परिचक्षते ।
मन्यमात्यवधे चैव तदर्थं तु प्रदापयेत् ॥ ९० ॥
-~-अक्षौहिणीपतिबंधे एकाक्षौहिणीनायकवधे पञ्चविंशत्सहस्राणि ।
बुद्धिसहायो मन्त्री । आपत्सहायोऽमात्यः । तदर्धम्पञ्चशताधिकद्वादश-
सहस्त्राणीत्यर्थः ॥ ९० ॥
मू--- अनीकिनी चमश्चैव पृतना बाहिनीगणः !
गुरुमं सेनामुखं पत्तिरेतेषां पतिघातिने ॥ ९१ ॥
व्या.—अनीकिन्यादीन्यक्षौहिण्यंशानि। एतेषामुक्ताङ्गानां पतिघातिने
नायकहन्त्रे ॥ ९१ ॥
मू.-क्रमाद|शहासेन तत्तदर्घानि दापयेत् ।
वेतनादधिकञ्चैतत्प्राप्य कुर्युश्च साहसम् ॥ ९२ ॥
व्या.—क्रमाज्येष्ठन्यूनभावक्रमात् । अर्घाशहासेना(शसङ्कोचकरणेन ।
तत्तदर्धानि पूर्वपूर्वनायकहन्तृदीयमानादर्घानि । दापयेत् कोशाधिकारि-
णेति शेषः । एतत्पतिदानस्य फलमाह-वेतनादधिक मिति ॥ ९२ ॥
मू:--अक्षौहिण्याः पतिं हत्वा द्वितीयं वा तृतीयकम् ।
चम्बोरधिपतिश्चैव पृतनानां पति तथा ॥ ९३ :
व्या.-द्वितीयं पतिं तृतीयं वा पतिं । तथा चोत्तममध्यमादिषु ।
उत्तमं त्यक्तेतरौ हत्वेत्यर्थः । चम्वोश्चमूद्वयस्य पृतनां पृतनानामकसेनानां
पाति हत्वा ॥ ९३ ॥
मू.-अनीकिनी हता यावत्तावत्प्रामोति राजतः ।
इत्थमग्रेऽपि योक्तव्यं सन्मानमधिपापहे ॥ ९४ ॥

षष्ठस्सर्गः सेनानयनकथनम् योज्यम्। व्या.—अनीकिनीनामसैन्यपालहन्ता यावत्प्राप्नोति वर्वान् लभते तावदेव पूर्वोक्तसैन्यपालहन्ता इत्यर्थः। अग्रेऽप्यनीकिन्याः द्वितीय तृतीय पृतनयोरधिपं बाहिनीनामधिपं हत्वा चम्वाख्याधिपहन्ता यावत्पञ्चविंशत्युत्तर शताधिकत्रितहनसङ्ख्याकवर्वान्प्राप्नोति । एवं चम्बोद्धितीयं तृतीयं वाहिन्योः पति गणाख्यसेनानां पति हत्वा । पृतनाधिपहेति यावत् । एवम- धिकहिषष्ट उत्तरपश्वशताधिकसहस्रबन्मिाप्नोतीत्यादिरीत्या वाहिनीपतिहन्तुस्सपादकाशीत्यधिकसप्तशतवर्धाः । गणादिसनापति- हन्तृप्वर्धाशन्यूनाः ॥ ९४ ॥ मू.-पलायितं सायुधन्तु घृत्वा स्वभटदायिने । वर्वागां पञ्च वै दद्यात्तस्मै सस्कृत्य भूमिपः ॥ ९५ ॥ व्या-खभटदायिने स्वशूरस्य स्वाधीनक ॥ ९५ ॥ मू.-पलायितं स्वभृतिक विशस्त्रं देहलोमिनम् । धृत्वा निवेदिने दद्यावीणाश्च त्रिकं नृपः ॥ ९६ ॥ व्या.-स्वभृतिकं स्वस्माद्धृतिर्वैतनं यस्य सः खभृतिकः तम् । विशस्त्रं शस्त्ररहितम् । देहलोभिनं युद्धे छेदभेदादिरूपोपद्रवध्यायिन. मित्यर्थः । निवदिने वशीकरणसमर्थाय । त्रिकं त्रीन् बनित्यर्थः - -गजश्च गजसादिश्च महारथिकमस्तकम् । छित्वा निवेदयेद्राज्ञो हिसाहस्रं स चाहति ॥ ९७ ॥ व्या-गजलादिनं गजपृष्ठमधिरुच शत्रुयोधनसमर्थशूरश्चेत्यर्थः । महारथिक:- एकादशसहस्राणि योधयेद्यस्तु धन्विनाम् । स वै महारथः प्रोक्तस्ततश्चातिरथस्स्मृतः ॥ इत्युत्तलक्षण । तस्य मस्तकं शिरः । निवेदयेद्रणादाहृत्य दर्शयेत् ॥ १७ ॥ मू-हयारूढवरं हत्वा पादाताधिपति तथा । वर्वागाश्च सहस्रस्य योग्यो मबति राजतः । ९८ ॥ .

योग्यः पात्रम् ।
व्या.-हयाख्ढानां वरो नायकः
तम् ।
राजतो राज्ञस्तकाशात् ॥ ९८ ॥
मू-शत्रुसैन्यात्कुञ्जरं वा रथं वा यस्समाहरेत् ।
पञ्चाशद्वर्वसम्मानं स प्राप्नोत्विह राजतः ॥ ९९ ।।
व्या.-कुञ्जररथावनधिष्ठित पुरुषो। इह युद्धे । प्राप्तात्विति लोक-
शिक्षणे || ९९ ॥
मू-प्रतिप्रयाण भृत्यानां भक्तं देयं स्थितौ न हि ।
मायात विदित्वैषां वेतनादाधिकं त्विदम् ॥ १०० ।।
व्या--प्रतिप्रयाणं प्रयाणे प्रयागे।
भक्तं व्रीहितण्डुलादिधान्यम् ।
स्थिती निवेशनसमये । देयमित्यर्थेन भक्तमित्यनुकर्षः । मृतिस्तु
देयैवेत्यर्थः। कुतस्तेषां वेतनादधिकं धान्यादिदानं कर्त०. मित्याशङ्कयाह-
मार्गायासमिति । तेषां शूराणां । न वितरेषामित्यर्थः । इतरेषां मार्गा-
द्यायात वत्वेऽपि युद्धादिरूपदुर्घटकार्याभावावेतननैव तेषां निर्वाहः ।
शराणान्तु पथ्यशनमाप देयमिति भावः ॥ १० ॥
मू -- अन्येषु वा साहसेषु वेतनादधिकं नृपः ।।
लोकसंग्रहणार्थश्च दद्यादै पारितोषिकम् ॥ १०१ ॥
व्या.-अन्येषु साहसेषु शत्रुसैन्ये स्थित्वा तद्वाता स्वराज्ञे निवेदनम् ,
युद्धे प्रथममभिमुखशत्रुगमनं, मागे वृक्षबापीस्थितशत्रुकर्तनमित्यादिरूपेषु ।
लोकसंग्रहार्थ शरजनमेलनार्थम् ।
पारितोषिकं वसन्तोषसूचकं द्रव्य-
वस्त्रभूषणादिरूपम् ॥ १०१ ॥
मू.--भटेभ्यश्चैव वस्त्राणि रजकानाच वेतनम् ।
तवेतनेनैव कल्प्यान्यौषधानि च रोगिणाम् ॥ १०२ ॥
व्याः-रजकानां शूरवस्त्रक्षालक मृत्यानां । रजक इति श्मश्रुवर्ष-
कदिवाकीर्त्याधुपलक्षणम् । भटेभ्यो गृहीत्वति शेषः । तइतनैनेव
भठभृत्यैव तेषां वेतनं करप्यामिति योजना ।
रोगिणां रोगमनुभूयमानाः
नाम् । औषधान्यगदानि करप्यानीत्यनुकर्षः ॥ १०२ ॥

षटस्सर्गः सेनानयनकथनम्
मू.-परराष्ट्रार्जितं द्रव्यमधं राजा विभज्य तु ।
योधेभ्यो-धं प्रदेयं स्यादधं च स्वयमाहरेत् ॥ १०३ ।।
व्या.-परराष्ट्रार्जितं शत्रुराज्याच्रैराहतं द्रव्यं तदुपलक्षितवस्त्र-
भूषगादिरूपमधं यथा तथा विभज्य योघेभ्य आहृतेभ्यः तत्सहायेभ्य-
श्वाध प्रदेयम् । उर्वरितं स्वयमाहरेत् ॥ १०३ ॥
मू. हयं वा शकटीं वापि हरेत्सोपस्कृतां भटः ।
तदधं तुर्यमशन्तु स लभेद्राजसस्कृतः ॥ १०४ ॥
व्याः-सोपस्कृतामुपकरणसहितां । इदं हयस्यापि लिङ्गव्यत्ययेन ।
तदर्घस्य तन्मूल्यस्य "मूल्ये पूजाविधावर्ष" इत्यमरः ।
तुर्य चतुर्थमंशं
भागम स आहर्ता ॥ १० ॥
मः-शिथिलानि च शस्त्राणि लुण्ठितं शत्रुभियुधि ।
खयोधानां नृपो दद्यावेतनं परिहाप्य च ॥ १०५ ॥
व्या-शिथिलानि जीर्णानि । शस्त्राणि शस्यन्ते हन्यन्ते यैरिति
शस्त्राणि खनादीनि । लुण्ठितं बलात्परिमुषितं । वेतनं परिहाप्य
भाति विना । भृतावन्तीवमकृत्वा । राज्ञा वहस्तादेतानि देथानीति
मावः ।। १०६ ।।
-युद्धे स्वार्थ मृता ये च शत्रुमिस्तत्वबन्धुषु ।
सेवया जीरिता ये च देयं तेषान्तु जीवनम् ॥ १०६ ॥
व्या.-स्वार्थ राजकार्यार्थ । तेषां मृतानाम् । खबन्धुषु पुत्रपत्नी-
मातापितृषु । ये च सेवया राजसेवया ।
जीरिता जरां प्राप्ताः
.
मू.-मृतानां जीवताश्चापि पूर्व सेवापरात्मनां ।
तदीयानान्तु तेषां वा पूर्वभर्धिजीवनम् ॥ १०७ ॥
व्या.-मृतानां मृतसम्बन्धिनां पूर्वसेवापरात्मनां जीवतां वृद्धानां ।
पूर्वमर्घिजीवनम् । सेवाकालक्कृप्तवेतनार्धरूपम् जीवनं । भृतयो भर्म
वेतन मित्यमरः ॥ १०७ ॥

80 नीतिप्रकाशिकायां व्या.-अवृद्धानामपि राजकार्यार्थ सक्षतानां अर्धवेतनं-देयमित्याह सङ्घामेति । मू-सङ्ग्रामाभिमुरवाः कृन्ता युवानो न मृता भटाः । राजसेवास्वशक्ता ये तेषां पूवार्धजीवनम् !! १०८ ॥ शत्रूणामुपघातार्थ तस्य मर्माणि योऽर्पयेत् । खस्मै तस्यापि कर्मण्या द्विगुणा परिकीर्तित्ता ॥ १०९ ॥ व्या.-उपघातार्थमुपद्रवार्थ । तस्य शत्रोः । जातावकवचनम् । मर्माणि विवराणि स्वस्मै राज्ञे योऽर्पयेत् ज्ञापयेत् रपि कर्मण्या कर्मसाध्या भृतिः । कीर्तिता । नीतिशास्त्राभिज्ञैरिति शेषः तस्यापि आख्यातु- मू.-शत्रुसेनाविभेत्तारं दुर्गारोहणतत्परम् । स्वराज्यवृद्धिकर्तारं योजयेद्रविणोत्करैः ॥ ११० । व्याः-शत्रुतन्यानां रिपुसैन्यानां विभत्तारं विशेषतो विद्रावकम् । मारकं वा । दुर्गारोहणतत्परं शत्रुदुर्गसालग्रहणार्थं तदारोहणचतुरम् । आसक्तमिति यावत् । स्वराज्यवृद्धिकर्तारं । स्वराष्ट्रीयेभ्योऽधिकतरग्रहणश्च । भरणराष्ट्रदानादिमिस्सत्कुर्यादिति फलितार्थः ॥ ११० ॥ मू.-इत्थं विधामिस्तु भटान् नियोज्य राजा कृतार्थस्तु रिपूनिहत्य । संप्राप्य कीर्ति महतीं श्रियश्च महीयते राजवराभिवन्द्यः ॥ १११ ॥ ॥ इति वैशम्पायननीतिप्रकाशेिकायां सेनानयनकथनं नाम षष्ठः सर्गः ॥ --एवं प्रीतिदाने कृते राज्ञां फलमाह । इत्थं विधामिरेता- शप्रकाराभिः "विधा विधी प्रकारचे"त्यमरः। रिपूनिहत्य कृतार्थस्सन् कृत- प्रयोजनो भूत्वा । राजवराभिवन्धः मूर्धाभिषिक कृतामिवादनः । महीयते सर्वोत्कर्षेण तिष्ठतीत्यर्थः ॥ १११ ॥ ॥ इति श्रीसीतारामकृतायां नीतिप्रकाशिकातत्वविवृतौ षष्ठस्सर्गः॥

॥ अथ सप्तमस्सर्गः ॥ (सैन्ययोगकथनम् । मू.- अथ बैन्य प्रवक्ष्यामि सेनानयविवृद्धये । पत्तिमारभ्य गणनां यावदक्षौहिणी तव ॥ १ ॥ इत्यमरः । व्याः हे वैन्य वेनुपुत्र ; पृथो इत्यर्थः । पत्तिं तदाख्यां ध्वजिनीम् । आरभ्योपक्रम्य । यावदक्षौहिणी अक्षौहिणीपर्यन्तम् । तव वक्ष्यामीत्यन्वयः ॥ १ ॥ मू-शताङ्गानामिभानाञ्च सैन्धवानां महीपते । पदातीनाश्च भद्रं ते सैन्यस्थानां विशेषतः ॥ २ ॥ व्या.-शताङ्गानां रथानां । शताङ्गस्स्यन्दनो रथ" इत्यमरः । इमानां गजानां । सैन्धवानां हयानां । " हयसैन्धवसप्तय भद्रं ते इति वाक् सौमङ्गल्यद्योतनाथम सैन्यस्थानां सेना- समूहविद्यमानानां । गणनामिति पूर्वश्वोकेनान्वयः । २॥ मू.-पत्तिस्सेनामुख गुल्मं गणो वै वाहिनी ततः । प्रतना चम्वनीकिन्यौ ततश्चाक्षौहिणी स्मृता ॥ ३ ॥ एते सेनाविशेषा वै पत्तौ मुख्यान् वदामि ते । रथं नागं तुरङ्गांश्च पदातीश्च विशेषतः ॥ ४ ॥ एको रथो गजश्चैको नराः पञ्च हयास्त्रयः । यस्यां सा पत्तिरेतेषां सहायान्प्रबुवेऽधुना ॥ ५ ॥ व्या-एतेषां रथगजतुरगपदातीनाम् ॥ ५ ॥ मू----नागा दश रथस्यास्य शतमश्वास्सहानुगाः । सहस्रं तु नराः प्रोक्ताः परिवारा नृपाज्ञया ॥ ६ ॥ व्या:-अस्य रथस्य पत्तिरूपसेनामुख्यनायकसमेतरथस्य शतमश्वाः । नागा: गजाः दश । सहस्रं सहस्रसङ्कयाकाः नराः पादचारिणः Noothi_h

82
नीतिप्रकाशिकायां
सहान्योन्यसहायभूताः । अनुगा अनुसारिणः । परिवारास्सेवकाः
नृपाज्ञया राजशासनेन प्रोक्ताः नियमिता भवेयुरिति शेषः । शतं ब्राह्मणा
इतिवत् ॥ ६ ॥
मू.-एकस्यैकस्य नागस्य शतमश्वाः प्रयायिनः ।
पदातयस्तहस्रं तु प्रत्यङ्गेष्वनुयायिनः ॥ ७ ॥
व्याः-एकस्यैकरथरक्षाविधौ नियमितदशगजेषु प्रत्येक प्रत्येकमेकै
कस्येत्यर्थः । शतमश्वाः प्रयायिनः पादरक्षार्थ नियमिताः सेनाङ्गेषु
चतुर्विधसेनाङ्गघटकभूताः अनुयायिनस्सेवकाः ॥ ७ ॥
व्याः-
पश्च हयास्त्रयः
मू.-एकस्यैकस्य चाश्वस्य सहस्रं तु पदातयः ।
दश चैतान् पतीन् युता कात्स्न्यन गणना त्वियम् ॥ ८ ॥
-एकस्यैकस्य चाश्वस्य च गनपादसंरक्षणनियामिताश्वशतेषु
प्रत्येकमेकस्यैकस्य हयस्य च सहस्रं पदातयः पादचारिणः अनुयायन
इति पूर्वेण सम्बन्धः । दशैतान् । एको रथो गजश्चैको नराः
इत्यादिनोक्तान् पत्तीन् । सर्वनायकरथिकसहितरथ-
नवगजनायकाधिपैकगनपतिसहितगजसप्तनवत्युत्तरनवश तहयपतिसहिताश्वसा-
दित्रयाश्वत्रयपश्चनवत्युत्तरशतनवकाधिकनवकवतिसहस्रनायकपञ्चपदातिनाय-
युता मलयित्वा । रथिकादिनिष्ठपत्तित्वस्य रथादिषूपचारः ।
कात्स्न्येन साकल्येन । इयं वक्ष्यमाणगणना बोध्येति शेषः। तथाचायं
फलितोऽर्थः । सर्वाधिपो रथिकः । गजाधिपाज्ञायां न थिकः ।
अश्वाधिपाज्ञायां न गजी । पत्तिनायकाज्ञायां नाश्वपतयः त्रयो
यथाभागं स्वखपरिवारसहितानां सजातीयानां गजपतिप्रभृतयः सेनामुखादिषु
रथिकारस्वतन्त्रपतयः तेऽपि स्वोत्कृष्टसेनापतिवशवर्तिनस्स्युरिति ॥ ८ ॥
कान् ।
मू.-एको रथो दश गजाः सहस्रश्चापि वाजिनः ।
लक्षसङ्ख्या नराः पत्तावेवमग्रेऽपि योजना ॥ ९ ॥

सप्तमस्सर्गः सैन्ययोगकथनम् 83 व्या.—मिलितानां पच्यादिसेनास्थानां सर्वेषां गगनां वक्ति-एको रथ इत्यादिना | पत्तौ पच्याख्यप्तमहेषु । घटकाः : रथः एकः । गजा १० वाजिनः १००० नराः पदातयः १००००० । अग्रेऽपि सेनामुखादावस्येवं योजना ॥ ९ ॥ मू.-पच्यङ्गैस्त्रिगुणैस्सर्वैः क्रमादाख्या यथोत्तरम् । अनीकिनी दशगुणामाहुरक्षौहिणी बुधाः ॥ १० ॥ व्या.–यथोत्तरमनीकिनीपर्यन्तम् दशगुणा अक्षौहिणी ॥ १० ॥ म. सेनामुखे तु गुणितास्त्रयश्चैव रथा गजाः । त्रिंशत्रिलक्षपदगास्त्रिसहस्रं हि वाजिनः ॥ ११ ॥ व्या.-सेनामुरवे रथाः ३, गजाः ३०, वाजिनः ३०००, पदगाः ३००००० ॥ ११ ॥ मू.- गुल्मे नब रथाः प्रोक्ता नागानां नवति विदुः । अश्वानां नव साहस्रं नवलक्षाः पदातयः ॥ १२ ॥ व्या. · गुल्मे रथाः ९. गजाः ९०, अश्वाः ९०००, पदातयः ९०००००, विदुर्नीतिज्ञा इति शेषः ॥ १२ ॥ मू.—गणाख्ये तु शताङ्गानां वराणां सप्तविंशतिः । स्तम्बेरमाणां द्विशत सप्तति प्राहुरार्यकाः १३ ॥ सप्ताबंशतिसाहस्रं गन्धर्वाः परिकीर्तिताः । सप्तविंशतिलक्षास्तु स्मृताश्चात्र पदातयः : १४ ॥ व्या.-गणाख्ये गणनामकचतुर्थव्यूहे २७ । "शताङ्गस्स्यन्दनो रथ" इत्यमरः। गजाः २७० । आर्यका मारिषाः वासुगर्यस्तु मारिषः”। इत्यमर. । गन्धर्वा अश्वाः २७००० पदातयः २७०००००। अत्र गणे ॥ १४ ॥ मू.-वाहिन्यां स्यन्दनाः प्रोक्ता ह्येकाशीत्या नियोजिताः । दशोत्तराष्टशतकाः पद्मिनश्चात्र कीर्तिताः ॥ १५ ॥ शताङ्गा रथाः Neethi-GA नीतिप्रकाशिकायां पनी, इत्यमरः दन्तिनो गजाः एकाशीतिसहस्रास्तु तुरङ्गाः सम्प्रकीर्तिताः । एकाशीतिकलक्षा वै विख्याताः पादचारिणः ॥ १६ ॥ व्या.-वाहिन्यां तदाख्यध्वजिन्यामेकाशीत्या एकाशीतिसंख्यया नियोजिना युक्तीकृताः स्यन्दनाः ८१ । पद्मिन इभाः “इभःस्तम्भरमः <१०. कीर्तितास्तिष्ठन्तीति विख्याताः। तुरङ्गाः ८१००. पादचारिणः ८१००००० ॥ १५-१६ ॥ मू.-त्रयश्च चत्वारिंशच द्विशतं पृतनारथाः । चतुश्शतच त्रिंशच्च द्वे सहस्त्रे च दन्तिनाम् ॥ १७ ॥ तुरङ्गाणां सहस्राणि त्रिचत्वारिंशदेव तु । हे लक्षे चैव राजेन्द्र द्वे कोटी च नृणां मवेत् १८ ॥ त्रिचत्वारिंशच्च लक्ष पदातीनां निबोध मे । व्या-पृतनायां पृतनाख्यसेनायां रथाः २४३ । २४३० । तुरङ्गाः २४३०००। पदातीनां सङ्ख्यामाह हे कोठी चेत्या- दिना । पदानीनां नृणामित्यन्वयः । पादचारिणः २४३००००० । में मत्ता, निबोध अवेहि ॥ १७-१८६ श्रोतृणाममुपेक्षणीयत्वरूपशिष्यावधानाय मध्ये मध्ये प्रतिज्ञा कार्येति मत्वा तामाह । चम्वाख्येत्यादिना । मू.-चम्वाख्ये सप्तमव्यूहे गणनां वच्मि विस्तरात् ॥ १९ ॥ चम्वां सप्तशतञ्चैकन्यूनत्रिंशद्रथास्स्मृताः । सप्तैव च सहस्राणि हे शते नवतिस्तथा ॥ २० ॥ गजानां सप्तलक्षाणि चैकोनत्रिंशदेव सहस्राणि हयानाञ्च पदातीनामथो श्रृणु ॥ २१ ॥ सप्तकोठयश्च चैकोनविंशल्लक्षाणि भूपते । जगुर्गणिततत्वज्ञा गणानां बुद्धिजीविनः ॥ २२ ॥ व्या.-सप्तमे व्यूहे पत्तिमारभ्य सप्तमसैन्ये गणानां रथगनतुरग- पदातीनां सङ्घयां विस्तराद्वक्ष्यामि ॥ १९ ॥ तु

सप्तमस्सर्गः सैन्ययोगकथनम्
-
*त्र विशेषः । उद्योगपर्वणि १५४ तमेऽध्याये यथा-
यथा रथास्तथा नागाः वह कक्ष्याः खलङ्कृताः ।
वभवुस्सप्तपुरुषा रत्नपस्तुलवाद्रयः । (१)
द्वाबङ्कशधरौ तेषु हावुत्तमधनुर्धरौ ।
वरासिधरी राजन्नेकः छत्रपताकघृत ॥
गमत्तैस्समाकीर्ण सर्वमायुधकोशकैः ।
रथस्यासन् दश गजा गजस्य दश वाजिनः ।
नरा दश हयस्यासन्पदरक्षाः समन्ततः ।
रथस्य नागाः पचासन्नागस्थासंस्तथा हयाः ।।
यस्य पुरुषास्सप्त भिन्नसन्धानकारिणः ।
सेना पञ्चशतं नागाः रथास्तावन्त एव च ॥
पञ्चाशच्च शतश्चाश्वा नराः पञ्चगुणास्ततः ।
दशसेना च पृतना" इत्यादि ।
चम्बां रथाः ७२९ ।
गजाः ७२९० ॥ २० ॥
सप्तलक्षाणीत्यादिना अश्वसंख्या । . गजानामिति पूर्वान्वयी
हयाः ७२९००० । अथो इत्यश्वसङ्घयानन्तर्यबोधकमव्ययम् ।
'मङ्गलानन्तरारम्भप्रश्नकास्न्येष्वथो अथ
इत्यमरः ॥ २१ ॥
पादचारिणः ७२९००००० । गणानां पादातगणानाम् ॥ १२ ॥
मू.-अनीकिन्यां वे सहस्रे सप्ताशीत्यधिकं शतम् ।
रथानामथ नागानां गणनां वच्मि तेऽनघ ॥ २३ ॥
एकविंशत्सहस्राणि तथाचाष्टशतं नृप ।
सप्ततित्यथाश्वानां संख्यां शृणु समाहितः ॥ २४ ॥
एकविंशतिलक्षाणि सप्ताशीति सहस्रकम् ।
एकविंशतिकोटयश्च पदातीनां नराधिप । २५ !
सप्ताशीतिश्च लक्षाणां विदि बुद्धिमतां वर ।
एतद्दशगुणा या स्यात्तान्त्वमक्षौहिणी श्रृणु ॥ २६ ॥

86
नीतिप्रकाशिकायों
व्या..-अनीकिन्यां तदाख्यसेनायां रथाः २१८७ । नागाः
२१८७० । अनघ अमोषपराक्रम ! । समाहितः सावधानचित्तः ।
अश्वाः २१८७०००। पदातयः पत्तयः २१८७०००००। हे नरा-
विप पृथो । जनमेजयतम्बोधनं वा ।। २५ ॥ एतद्दशगुणानीकिनी
दशगुणां शृणु गणनापूर्वकमाकर्णयेत्यर्थः ॥ २६ ॥
मू ---अक्षौहिण्यान्त्वेकविंशत्सहस्राणि जनाधिप ।
तथाचाष्टशतश्चैव सप्ततिं रथगां विदुः ।। २७ !
अष्टादश सहस्राणि हे लक्षे च नरेश्वर ।
तथा सप्तशतश्चैव गजानां गणना त्वियम् ॥ २८ ॥
द्वे कोठी चैव लक्षाणामष्टादश महीपते ।
तथा सप्ततिसाहस्रा गन्धर्वाशीघ्रयायिनः ॥ २९ ॥
हे चार्बुदे च कोटिश्चाप्यष्टादश समीरिता' ।
लक्षाणां सप्ततिश्चैव पदातीनामितीयते ॥ ३० ॥
एतानक्षौहिणीसंस्थान्विना राज्ञो रथा गजाः ।
अश्वास्वतन्त्रास्सन्त्यन्ये पृष्ठगोपी नृपस्य ते ॥ ३१ ॥
रथं गामिनीति रथगा ।
व्या.-अक्षौहिण्यां स्थाः २१८७० ।
सप्ततिमित्यर्थः ॥ २७ ॥
तां ।
गजाः २१८७०० । इयं तावती गणना ॥ २८ ॥
गंधर्वा अश्वाः २१८७००००। लक्षाणामष्ट दश अष्टादशलक्षसङ्ख्या-
कास्सप्ततिसाहस्त्राः । सहस्राण्येव . साहस्राणि सप्ततिसहस्राणि
गणिता येषां ते सप्ततिसाहस्राः । शीघ्रयायिनो जवप्रयातारः ॥ २९ ॥
पदातयः २१८७०००००० । लक्षाणां सप्ततिः । सप्तति-
लक्षाणीत्यर्थः । इयती एतावत्प्रमाणवती पदातीनां गणनेति शेषः ।
इतीति चाक्षौहिण्या गणनासमाप्तिवाचकश्शब्दः ॥ ३० ॥

सप्तमस्सगैः सैन्ययोगकथनम्
87
अक्षौहिणीसंस्थान् तस्यां गणितान्विना । अन्ये तद्भिन्ना इत्यर्थः ।
रथाः । गजाः अश्वाः । नृपस्य पृष्ठगोपाः देहरक्षकाः।
स्वतन्त्रा
अधिराजनिन्नाज्ञायामवर्तमाना इत्यर्थः । सन्ति नीतिशास्त्रतिद्धास्तिष्ठन्ति
मू.-पच्याद्यङ्गे ध्वजपटाः पृथक्कार्या विशेषतः ।
स्वसैन्यस्य च शत्रोच वैलक्षण्यस्य सिद्धये । ३२ ॥
व्या. -विशेषतो विविधवर्ण भेदतः ॥ ३२ ॥
मू.-युवगजाय वर्वाणां पञ्चसाहस्त्रिकी भृतिः ।
पर्वसेनाप्रणेत्रे च चतुस्साहस्त्रिकी च सा ॥ ३३ ॥
व्या.–प्रसङ्गायुवराजादिराजकीयानां मातिकवेतनं विविच्याह युव-
राजायेत्यादिना । युवराजाय राज्यतन्त्रविचारणकुशलराजपुत्रतद्भातृदो-
हित्रादिरूपाय “पुत्रो भ्राताथ दौहित्रो राक्षा यो राज्यचिन्तकः ।
खन वकृत्येऽधिकृतो युवराज हि तं विदुरि "ति शानकस्मरणात् । पर्वाणां
पूर्वोक्तमुद्रिणां पञ्चसाहस्त्रिको पञ्चसहस्रसङ्ख्याका । मृतिर्मासिमाति
दीयमानवेतनभित्यर्थः ।
सा भृतिरित्यर्थः ॥ ३३ ॥
मू.-भृतिश्चातिरथे देया वर्वाणां द्विसहस्त्रकम् ।
महारथाय साहस्रद्वयंराज्ञाऽधिमासकम् ॥ ३१ ॥
व्या.–अतिरथे पूर्वोक्तलक्षणे । अधिमासिकं त्रिशद्दिननियमितं
जीवनम् ॥ ३४ ॥
मू-वेतनं रथिकायाथ साहस्रं गजयोधिने ।
दद्यादर्घस्थायाथ वेतनं शतपञ्चकम् ॥ ३५ ॥
व्या. साहस्र सहस्रवर्वसङ्ख्याकवेतनम् ।
शतपथकं पञ्चशत-
सङ्ख्याकमित्यर्थः । रथिकाय रथाधिपतये
गजयोधिने गजैर्युक्तो यो
युध्यति तस्मै शत्रूनुदिश्य युद्धतत्पराय । गजाधिपतय इति यावत्
मू.-एकस्मै रथिकायाथ तादृशे गजसादिने ।
निकाणां त्रिंशतं दद्याद्यतस्तो तत्कुटुम्बिनी ॥ ३६ ॥

००
नीतिप्रकाशिकायां
व्या...-एकस्मै रथिकाय एकरथनाथाय ।
तत्कुटुम्बिनी
तद्रक्षको
मू.-सर्वाश्वाधिपती राज्ञः त्रिसाहस्रं स चार्हति ।
पादाताधिपतिश्चापि हिसाहस्रस्य भाजनम् ।। ३७ ॥
व्या.-.-सर्वाश्वानामधिपतिनीयकः । राजस्सकाशात् ॥ ३७ ॥
पादातानां सहस्रस्य नेत्रे पंचशतं स्मृतम् ।
तथाचाश्वसहस्रशे सहस्रं वेतनं भवेत् ॥ ३८ ॥
पदातथे सुवर्णानां पञ्चकं वेतनं भवेत् ।
शतपच्याधिपे सप्त वर्वाणां हययायिने ॥ ३९ ॥
व्या.-नेत्रे नायकाय । "अधिभूर्नायको नेता" इत्यमरः
सहस्रं सर्वत्र बर्वाणामित्यनुषज्यते ॥ ३८ ॥
सुवर्णानां वर्वाणां ! हययायिने । एकाश्वनायकाय । वर्वाणां
सप्त वेतन-पदातिशतनायके इवेत्यर्थः ॥ ३९ ॥
मू:-गजयन्तुस्सारथेश्च ध्वजिने चक्रपाय च ।
पदातित्रिशतेशाय पथिकोष्ट्रचराय च ॥ ४० ॥
वातिकाधिपतेश्चाऽपि वेत्रिणां पतये तथा ।
सूतमागधवन्दीनां पतये वविधाधिपे ॥ ४१ ॥
सेनाया मृतिदात्रे च भठानां गणनापरे ।
मासि मासि तु वर्वाणां दश पञ्च च वेतनम् ॥ ४२ ॥
व्या. --गजयन्तुहस्तिपकाय ।
ध्वजिने ध्वजस्तम्भाधारकाय ।
चक्रपाय चक्ररक्षकाय । पथिकोष्ट चराय पन्थानमेकदिनेन त्रिंशत्को-
शमितमार्ग यच्छति य. पथिक । तादृशश्वासावुष्टश्च तेन चरायोष्ट्र-
वार्तिकायेत्यर्थः ॥ ४० ॥
वार्तिकानां शत्रुराष्ट्रवार्ताहराणां । अधिपतेः ।। वेत्रिणां यष्टिधर-
दूतानाम् । वीवधाधिपे । वीवो धान्यादेः प्राप्तिः । तस्याधिपः ।
तद्विचारणकर्ता । “धान्यादेविधप्राप्ति"रिति कोशः ॥ ११ ॥

सप्तमस्सर्गः सैंन्ययोगकथनम्
89
व्या. तच्च
तत्त.
भृतिदाने वेतनदानाधिकृताय । भठानां गणनापरे अन्यूनाधिक-
विचाराधिकृताय । दशपञ्च पञ्चदशेत्यर्थः ॥ ४२ ॥
म.-तत्तत्कार्यानुसारेण कुलपर्यायतस्तथा ।
भठानान्तु भृतिः कल्प्या तत्तत्कालानुसारतः ।! ४३ ॥
तच्च तत्तत् । तत्तञ्च तत् कार्यञ्च तत्तत्कार्य ।
तस्यानुसारोऽनुरोधः । तेन । कुलपर्यायतः कुलक्रमानरोधेन ।
कालानुसारतः दूरगमनयुद्धकालानुसारात् ॥ ४३ ॥
म.--आहवेषु -िथश्शूरा जिघांसन्तो महक्षितः ।
युध्यमानाः परं शक्तया स्वर्ग यान्त्यपराङमखाः । ४४ ॥
व्या.-ननु
बुद्धिपूर्वक युद्धे मृतस्यात्मघातरूपदोषस्स्यादित्या-
शङ्कयाह-प्रत्यबायो नास्ति प्रत्युत पुण्यलोहावाप्तिास्तीत्याह आहबेष्विति ।
अपराङ्मुखा अभिमुवं युध्यमानाः । शक्तया पर खसामर्थान-
सारेण स्वर्ग यान्ति । इह देहं त्यक्तेति शेषः । “हाविमौ पुरुषौ
लोके सूर्यमण्डलभेदिनौ । परिबाड्योगयुक्तश्च रणे चाभिमुखो हत इति"
पराशरोक्तेः ॥ ४४ ॥
मू.-न कूटैरायुधैर्हन्यायुध्यमानो रणे रिपून् ।
दिग्धैरग्न्युज्वलैर्यन्त्रैस्तन्त्रैश्चैव पृथग्विधैः ॥ ४५ ॥
व्या.-कूटैः कपटप्रहारसाधनैः ।
तान्येव विवृणोति दिग्धैरित्या-
दिना । दिग्धैर्विषलिप्तैः । अग्न्युज्वलैबलत्काष्ठैः । यन्त्ररुपलोक्षेपकैः ।
तन्त्रैः कृत्यादिक्षुद्रप्रयोगैः ॥ ४५ ॥
मू.-न हन्यादृक्षमारूढं न क्लीवं न कृताञ्जलिम् ।
न मुक्तकेशं नासीनं न तवाऽस्मीति वादिनम् ॥ ४६ ॥
व्या-तवास्मीति वादिनं शरणागतम् ॥ ४६ ।।
मू-न प्रसुप्तं न प्रणतं न ननं न निरायुधम् ।
नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ ४७ ॥
व्या.-अयुध्यमानं युद्धश्रान्तम् । पश्यन्तं विनोंदार्थिनम् । राज.
मृत्यत्वरहितमित्यर्थः ।
परेण समागतमन्येन सह युद्धं कुर्वन्तम् ।
उदासीनं न हन्यादित्यर्थः ॥ ४७ ॥

90
नीतिप्रकाशिकायां
.
.
मू.-आयुधव्यसनम्प्राप्तं नातं नातिपरीक्षितम्
न हीनं न परावृत्तं न च वल्मीकमाश्रितम ॥ ४८ ॥
व्या-आयुधव्यसनमुपकरणसवलनं प्राप्तम् । वस्तुत आयु-
घरहितमिति न पौनरुक्तयम् । नातिपरीक्षितं शस्त्रशिक्षापरीक्षारहितम् ।
परावृत्तं युद्धात्पश्चानिवृत्तम् ॥ १८ ॥
मून मुरखे तृणिन हन्यान्न स्त्रियो वेषधारिणम् ।
एतादृशान् मटैपि घातयन् किल्बिषी भवेत् ॥ ४९ ॥
व्या.-मुरवे तृणिनं मुरवावच्छेदेन तृणधारिणम् । स्त्रियोवेषधाणिन् ।
स्वयं न हन्यादिति सर्वत्र योज्यम् ॥ ४९ ॥
मू.-हन्यमानस्य यत्किञ्चिदुष्कृतं पूर्वसचितम् ।
तत्सह्य खसुकृतं तेभ्यो दद्यात्तथाविधः ॥ ५० ॥
न्या,-हन्यमानस्य हननशीलस्य । हननकर्मीभूतस्य । खस्य
हनन हर्तुः । सुकृतम् तेभ्यो हन्यमानेभ्यः ।
तथाविधः घातकः
मू.-मार्गशीर्षे शुभे मासि कुर्याद्यात्रां महीपतिः ।
फाल्गुने वापि चैत्रे वा यदा पश्येद्धवं जयम् ॥ ५१ ॥
व्या.- यात्राकालमाह-मार्गशीर्षेत्यादिना ।
जय जयसाधनस्व-
शक्त्युपचयादि ॥ ५१ ॥
मू.-शत्रुसेविनि मित्रे च गूढयत्नतमो भवेत् ।
गतप्रत्यागते चैव स हि कष्टतमों रिपुः । ५२ ।।
व्या.-शत्रुसेविनि शत्रूपजापवति । मित्रे मित्रप्रवादे । गतप्रत्यागते
गतसहितप्रत्यागते । गते गमने प्रत्यागते चेत्यर्थः । स हि कष्टतमो-
ऽतिकरः । रिपुर्वा ॥ ५२ ।।
मू.-दण्डव्यूहेन सेनान्तु नयेत्तु शकटेन वा ।
बराहगरुडाभ्यां वा सूच्या वा मकरेण वा ।। ५३ ।।
व्या. नयेत् चारयेत् ॥ ५३ ॥

सप्तमस्सर्गः सैन्ययोगकथनम्
91
म -. यतो भवेद्भयं शत्रोस्ततो विस्तारयेद्दलम् ।
सेनापरिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ॥ ५४ ॥
व्या.--शत्रोः भयं शत्रुसकाशादीतिः । यतो यादशप्रदेशात् ।
ततस्तदभिमुखितया विस्तारयेदधिकगुरुमस्थापनपूर्वकस्कन्धावारकल्पनया
प्रसारयेत् । सेनापनि सर्वसेनानायकः बलाध्यक्षः स्वल्पसेनानायक इति
भेदः ॥ ५४ । सर्वदिक्षु सेनायाः परितः प्रवेशनिर्गममार्गेषु ।
मू.—यतश्शङ्का भवेद्रीतः तां प्राची कल्पयेद्दिशम् ।
सूच्या वक्रेण चैवैनान् योधयेयूह्य वैरिणः ॥ ५५ ॥
व्या.--तां दिशं प्राचीमभिमुखदिशं कल्पयेत् । कुर्यात् ! एना.
न्वैरिण इत्यन्वयः ॥ ५५ ।।
मू.- गुरुमांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः ।
स्थाने युद्धे च कुशलानभीरून भिघातिनः ॥ १६ ॥
व्या.-कृतसंज्ञानराजमुद्राचिह्नान् । ध्वजादिचिह्नवतो
स्थानेऽवस्थितौ ।। ५६ ॥
मू-यवसान्नोदकधनान्युपरुन्ध्याद्रिपायुधि
चेष्टाचैव विजानीयादरीन् योधयता स्वयम् ॥ ५७ ॥
व्या.- रिपोर्यवसानोदकधनानि यवसधान्यजलद्रव्याण्युपरुन्ध्यान्मध्ये-
मार्ग स्वसैन्यं संस्थाप्य निरुध्यादित्यर्थः ।
चेष्टा अकपटकृत्यानि स्वयमेव विजानीयात् ॥ ५७ ॥
वा ।
अरीन्योधयतां वशूराणां
मू-उपजप्यानुपजपेद्वेद्यांश्चैव विभेदयेत् ।
लुब्धान् दानेन बिभ्याच्छवोर्योपान्यथोचितम् ॥ ५८ ॥
व्या.-उपजप्यान् जनान्तिकपूर्वकम्बुद्धिभेदकान् । भेद्यान् कलह-
प्रियान् । भेदयन्मिथो वैरिणः कुर्यात् ।। ५८ ॥
म.-ताशानेव स्वीयांरतु शिक्षयेदविचारयन् ।
गोपयेत्स्वीयमार्गाश्च परमर्म परो नृपः ॥ ५९ ॥

. 92 परमर्मपरः शत्रुः नीतिप्रकाशिकायां सैन्ययोगकथनम् व्या – तादृशान् शत्रुकृतोपजापैतत्परान् परस्परभेइपरान बुद्धेति शेषः : अविचारयन् शास्त्रप्रामाण्येन निश्चिन्तं शिक्षयेत् । मर्मग्रहणतत्परः ॥ ५९ । प.-युद्धकाले घनुप्राप्ते स्वीयाज्ञापरिपन्थिनाम् । पलायनपराणाञ्च स्वयोधानामुपेक्षिणाम् ॥ ६० ॥ व्याजेन युद्धचताञ्चैव सैन्यपानां सुलोमिनाम् । पराङ्मुरवपराणाञ्च मिथो योधविभेदिनाम् ॥ ६१ ॥ शत्रुषु स्वीयमाश्चि व्याजात् ख्यापयतो स्फुटम् । रिपूणां मार्गदातृणां स्वापदञ्चाभिनन्दताम् ।। ६२ ॥ तेषां प्राणान्तिको दण्डो राज्ञा कार्यों विजानता । सुमहत्यषराधेऽपि दूतवध्या विगार्हता ।। ६३ ॥ ज्या.-स्वीयाज्ञापरिपन्थिनां स्वकृताज्ञाविरोधिकृत्यवतामित्यर्थः । उपक्षिणां स्वस्वामिजयोपेक्षावताम् ॥ ६० ॥ व्याजेन युद्धयताम् । शत्रुयोधाऽपातनं यथा तथा युद्धं कुर्वताम् सुलोमिनां परदत्तद्रव्यलोभयुक्तानाम् । मिथः । अन्योन्यं स्वसैन्ययोध- विमेदिनाम् । शत्रुजयानुकूलान्कुर्वताम् ॥ ६१ ॥ व्याजादन्यार्थतया पत्रलेखनपूर्वकं वस्तुप्रेषणपूर्वकं वा कपठात् मार्गदातॄणां सस्यादिग्रहणार्थ विवरदातॄणाम् । स्वापदं गजावमानमभि- नन्दताम् ।। ६२ ।। विजानता शिक्षाशास्त्रनिपुणेन । दूतानां शत्रोर्वार्ताहराणाम् । स्यात्सन्देशहरो दूत" इत्यमरः ।। ६३ ॥ मू.-योऽदण्डयान्मोचयेद्राजा सम्यग्दण्डयाच घातयेत् । इष्टं भवेत्क्रतुशतैस्तेन धर्मानुयायिना ॥ ६४ ॥ ॥ इति वैशम्पायननीतिप्रकाशिकायां सैन्ययोगकथनं नाम सप्तमस्सर्गः ॥ व्या.-धर्मानुवर्तिना धर्मशास्त्रानुसारिणा ॥ ६४ ॥ ॥ इति श्रीसीतारामकृतायां नीतिप्रकाशिकातत्वविवृतौ सप्तमस्सर्गः ॥

. अथाष्टमस्सर्गः। (राजव्यापारकथनम्) मू.-राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नरः । लोकरञ्जनमेवात्र राज्ञो धर्मः सनातनः ॥ १ ॥ व्या.-राजधर्मान्प्रातरारभ्य स्वापपर्यन्तं राजकृत्यानि ॥ १ ॥ मू.-यथा हि गर्भिणी हित्वा स्व प्रियं मनसोऽनुगम् । गर्भस्य हितमाधत्ते तथा कुर्यात्प्रजाहितम् ॥ २ ॥ व्यो.--जनसन्तोषकरणे दृष्टान्तमाह . यथा हीति--मनसोऽनुगं मनोऽनुकूलं स्वं प्रियं स्वभर्तारं हित्वा निविडतरालिङ्गनादिषु त्यक्ता “स्वप्रियमिति पाठे तिक्तकटुकषायाद्याहारं त्यक्तेत्यर्थः । गर्भस्थजन्तोर्हितं पथ्यादिरूपं गर्भिणी पाण्मासिकादिगर्भधारिणी यथा तथा प्रजाहितं कुर्यादित्यर्थः ॥ २ ॥ -अप्टमिर्लोकपालानां मात्राभिर्निर्मितो यतः । तस्मादभिवेद्राजा सर्वभूतानि तेजसा ॥ ३ ॥ व्या.–मात्राभिः कलाभिः ॥ ३ ॥ मू.-सोऽग्निर्भवति वायुश्च सोऽर्कस्सोमस्स धर्मपः स कुबेरस्स वरुणः स महेन्द्रः प्रभावतः ॥ ४ ॥ व्या.--प्रभावतोऽग्न्यादिगुणसाधादग्निः क्रोधे । वायुः स्वविरोध्यप- सारणे । अर्कः प्रतापे । सोम आह्लादकल्पने । धर्मों न्यायविचारे । कुबेरः धनदाने । वरुणः क्षेमकृत्ये । महेन्द्रः परमैश्वर्ये ॥ ४ ॥ बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपण तिष्ठति ॥ ५ ॥ राजा सन्मानमर्हतीति न्यायमनुसृत्य तेजोवतां न वयः कारणमित्याह ! वालोऽपीति- महती देवता विष्णुरूपा देवता । नाविष्णुःपृथिवीपतिरिति न्यायात् । "एको विष्णुमहद्भूतमिति" स्मृतेश्च ।। ५ ।। मू. -

94
नीतिप्रकाशिकायां
...
राजाविरोधिनां कुलहानिरित्याह एकमेवेति-
मू.--एकमेव दहत्यग्निर्नर दुरुपसर्पिणम् ।
कुलं दहति राजाग्निस्सपशुद्रव्यसञ्चयम् ॥ ६ ॥
व्या-दुरुपसर्पिणं दुर्बुद्धयोपसर्पमाणं तत्र पतन्तमित्यर्थः ॥ ६ ॥
मू.-तस्य प्रसादे पद्मश्रीविजयश्च पराक्रमे ।
मृत्युश्च वसति क्रोधे तस्मात्सर्वाश्रयस्तु सः ।' ७ ॥
व्या.–प्रसादेऽनुग्रहे पद्माश्रया श्रीः सम्पदाद्यधिदेवता !
कोपे महाबाधः प्रसादश्च महाफल ” इति न्यायादिति भावः । सर्वाश्रयः
सम्पद्विपदुभयफलप्रद इत्यर्थः ॥ ७ ॥
मू.-अगूढविभवा यस्य पुरराष्ट्रनिवासिनः ।
नयापनयवेत्ता यस्स राजा त्विदमाचरेत् ॥ ८ ॥
राज्ञः पुरवासिनः अगूढविभवाः निर्भयमनाच्छा-
यस्य
व्या.-यस्य
दितैश्वर्याः ।
अयं भावः-दुष्टे राजनि स्वैश्वर्य जना न प्रकटयन्तीति तदैश्वर्या-
मोदको य इति बोध्यम् । नयापनयवेत्ता च यः नीत्यपनीतिपरिज्ञाता ।
स इदं वक्ष्यमाणम् ॥ ८ ॥
मू.-उत्थायापररात्रषु चिन्तयेदर्थनिर्णयम् ।
गुणदोषान् स्वयं बुद्धा कर्तव्यार्थे प्रसन्नधीः ॥ ९ ॥
व्या. अर्थनिर्णयं प्रयोजननिश्चयम् । कर्तव्यार्थे मन्त्रिभिः पूर्वदिने
कर्तव्यत्वेन निर्दिष्टे अभिधेये । गुणदोषौ स्वयं स्वयेमव । बुद्धा
विचार्य । प्रसन्नधीरितिकर्तव्यताबुद्विस्सन् इत्यर्थः ॥ ९ ॥
मू.-दैवं हृदा दृढं ध्यात्वा कृत्वा मङ्मलपाठकम् ।
शुचिर्भूत्वा तु विधिवन्मङ्गलालम्बनं चरेत् ॥ १० ॥
व्या.-मङ्गलपाठकं स्तुतिपाठ विधिवदाचारकाण्डोक्तप्रकारेण । शुचिः
'एका लिङ्गे गुदे तिस्रः तथा वामकरे दश। पादयोर्मृत्तिकाषट्कं उभये
सप्तमृत्तिका' इति शास्त्राचरणलब्धशुद्धिस्सन्नित्यर्थः । मङ्गलालम्बनं
श्वेतगोपुच्छादिस्पर्शनरूपम् ॥ १० ॥

अथाष्टमस्सर्गः राजव्यापारकथनम्
98
माह-वनस्थाश्चैवेति ।
-नित्यकर्म समाप्याथ नित्यदानं विधाय च ।
त्रैविद्यवृद्धान्नत्वा तु तिष्ठेदेषाञ्च शासने ॥ ११ ॥
व्या.--विद्यवृद्धान् साङ्गवेदत्रयाध्ययनाध्यापनेन ज्ञानवृद्धान् ।
नत्वा । एषां धनुर्वेदपराणां, शासने धनुर्विद्यादिशिक्षणरूपे । तिष्ठेदम्यसे-
दित्यर्थः ॥ ११ :
मू.-तभ्योऽधिगच्छेद्विनयं विनीतात्मा हि नित्यशः ।
वनस्थाश्चैव राज्यानि विनयात्प्रतिपेदिरे ॥ १२ ॥
व्या. तेभ्यः त्रीविद्यवृद्धेभ्यः । विनयं नीति, विनयाभ्यासप्रयोजन
वनस्था राज्यं हित्वा वने विद्यमाना विदुरापुत्रस
अयादयः(2) ॥ १२ ॥
मू.--इन्द्रियाणां जये योगमधितिष्टेद्दिवानिशम् ।
जगज्जितेन्द्रियस्येदं वशे भवति नित्यदा ॥ १३ ॥
व्या.---जये तद्विषये योगं योगाभ्यासमुपायं वा । इन्द्रियजयस्य
प्रयोजनमाह जगदिति ॥ १३ ॥
मू.-अरिषड्वर्गरहितो वेदशास्त्रपरश्शुचिः ।
प्रातः काले व्यतीते तु भूषितस्तु सभां व्रजेत् ॥ १४ ॥
व्या.-अरिषड्वर्गः कामक्रोधलोभमोहमद मात्सर्यरूपः तेन रहितः ।
वेदशास्त्रपरोऽभ्यासतत्परः। अत एव शुचिः स्वाध्यायरूपतपसा शुद्धः ।
"तपो हि स्वाध्याय" इति श्रुतेः ॥ १४ ॥
मू.-उच्चासनस्थो नृपती राज्यतन्त्रं विचारयेत् ।
धर्मासने समारोप्य विप्रं सुज्ञं पुरोहितम् ॥ १५ ॥
व्या.-धर्मासने धर्मविचारार्थ क्लुप्तस्वद्वितीयासने ॥ १५ ॥
मू.--जातिमात्रोपजीवी वा कामं स्याब्राह्मणब्रुवः ।
धर्मप्रवक्ता नृपते न तु शूद्रः कथञ्चन ।। १६ ॥
मू.--ब्राह्मणेतरस्य धर्मनियन्तृत्वे निषेधमाह-जातीति । जाति-
मात्रोपजीवी जातिमात्रेण जीवन् अकृतवेदशास्त्राध्ययनपूर्वकसत्क्रियः ।
अत एव ब्राह्मणब्रुवः अधमब्राह्मणः । वा शब्दस्समुच्चये । धर्मप्रवक्ता
भवेत् । किंपुनस्सद्राह्मण इति भावः ॥ १६ ॥

96 नीतिप्रकाशिकायां मू.-यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् । तस्य सीदतिं तद्राष्ट्रं पङ्के गौरिव पश्यतः ॥ १७ ॥ व्या.-धर्मविवेचन धर्मविचारः । पश्यतः पश्यन्तं राजानमनाहत्यर्थः । पङ्के कर्दमे हदे गौरिव सीदति नश्यति ॥ १७ ॥ मू.-मौलाञ्छास्त्रविदश्शूरांल्लब्धलक्षान् कुलोद्भवान् । सचिवान् सप्त चाष्टौ वा कुर्वीत सुपरीक्षकान् ॥ १८ ॥ व्या.--मातापितृपितामहान् । शास्त्रविदो नीतिशास्त्रज्ञान् । शस्त्र विद इति पाठान्तरम् । लब्धलक्षान्विचक्षणान् । कुलोद्भवान् कुलीनान् । सुपरीक्षकांल्लोकमर्यादापरीक्षातत्परान् । सचिवानापत्सहायार्थक्लुप्तमूलबल- नायकान् ॥ १८ ॥ मू.--सुमन्त्रिणः प्रकुर्वीत द्वौ वा त्रीन्यायवादिनः । तैस्सार्धं चिन्तयेदर्थान् पत्तनेऽर्थपरो नृपः ॥ १९ ॥ द्वारपालान् पृष्ठगोपान् सभानेतूनथाश्रवान् । समाज्ञाप्य विधानेन सावधानमना भवेत् ॥ २० ॥ आश्रव" व्या. न्यायवादिनो राज्यतन्त्रवक्तृन् ॥ १९ ॥ सभानेतॄन् सभ्यमर्या- दाव्यवस्थापनाधिकृतान् । आश्रावानाज्ञाचालकान् । " वचने स्थित इत्यमरः । विधानेन प्रामुख्येन ॥ २० ॥ मू.--दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् । इङ्गिताकारचेष्टाशं शुचिं लालटिकं हितम् ॥ २१ ॥ व्या.--दूतं सन्देशहरणनायकम् । इङ्गितं पराभिप्रायः । रोऽभिप्रायसूचकमुखविकासादिः । "आकारस्त्विङ्ग इङ्गितम्" इत्यमरः । चेष्टा हस्तभ्रूचलनादिः । ताः जानातीति इङ्गिताकारचेष्टाज्ञः । तं । लालाटिकं प्रभुभारदर्शिनम् । हितं राजाहतङ्करम् ॥ २१ ॥ मू.-धर्मशास्त्रानुसारेण सामात्यस्सपुराहतः । व्यवहारान्नृपः पश्येद्विद्वद्भिाह्मणैस्सह ॥ २२ ॥ आका- अष्टमस्सर्गः राजव्यापारकथनम् 97 नृप इत्यनेन व्या.--धर्मशास्त्रानुसारेण धर्मनियामकव्यवहारकाण्डरीत्या । सपुरोहितः धर्मधिकारिब्राह्मणसहितः। व्यवहारानन्यविरोधेन स्वसम्बन्धितया कथनरूपान् । तेषामनेकविधत्वं व्यवहारनीतिबहुवचनस्वारस्यात् । क्षत्रियमात्रस्यायं न धर्मः किन्तु प्रजापालनेऽधिकृतस्याऽन्यस्यापीति दार्शतम् । विद्वद्भिर्वेदशास्त्राभिज्ञैर्ब्राह्मणैस्सहेति तृतीयानिर्देशात्तेषामप्राधान्यम् । सहयुक्तेऽप्रधानमिति स्मरणात् । अतश्चादर्शनेऽन्यथा दर्शने च स दोषो राज्ञ एव न ब्राह्मणानाम् । यथाह मनु:- मू.--अदण्ड्यान् दण्डयत्राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकञ्चाधिगच्छति ॥ इत्यलम् ॥ २२ ॥ सेनाकर्म समालोक्य भृतिं तेभ्यो विधाय च । दीनान्धकृपणानाञ्च वृत्तिं सम्यग्विचार्य च ॥ २३ ॥ आयव्ययेच विज्ञायायत्यभ्युदयं तदा । कृषीवलानां कृत्वा तु योगक्षेमौ च जीवनम् ॥ २४ ॥ दुर्भिक्षव्यसनोपेतान्विदित्वा तु परोक्षतः । तेभ्यः प्रदाय स्वद्रव्यं यथायोग्यं विवर्ध्य तान् ॥ २५ ॥ स्वद्रव्यमाहरेत्तेभ्यस्सुपुष्टेभ्यस्समाहितः । अवधेः पत्रिकां तेभ्यो लेखयित्वा स्वहस्ततः ॥२६ ॥ व्या.--वृत्तिं जीवनम् ॥ २३ ॥ आयमादायं ॥ व्ययम् व्रयम् । आयत्यभ्युदयमुत्तरकाललाभानुकूलकृत्यम् । उत्तरः रित्यमरः। कृषीवलानां कृप्या जीवनकर्तृणाम् । योगक्षमा । अप्राप्तस्य प्राप्तियोंगः । स्थितस्य संरक्षणं क्षमः । तौ कृत्वेत्यर्थः ॥ २४ ॥ परोक्षतस्तद्वचनं विना स्वचारमुखेनेत्यर्थः । तेभ्यो दुर्भिक्षव्यसन- युक्तेभ्यः। कृषीवलेभ्यः स्वद्रव्यं प्रदाय न्यासविधिना दत्वा । तत्रापि यथायोग्यं दानं निस्वेभ्योऽधिकद्रव्यदानम् । स्वद्रव्यस्य हान्यापत्तेरित्यर्थः ॥ २५ ॥ स्वहस्ततो लेखयित्वा तद्धस्तचिह्नतां कृत्वा ॥ २६ ॥ मू.--उन्मोच्य चाधिकारिभ्यो भयात् क्षुद्रान् स्वयं नृपः । पारितोषिकवस्त्राणि तेषां दत्वा यथाविधि ॥ २७ ॥ काल आयति" 98 नीतिप्रकाशिकायां वाचा तान् भीषयित्वा तु हृदयादो महीपतिः ॥ व्यवस्थां विदधन्नेभ्यस्सामदानविचक्षणः ॥ २८ ॥ व्या.--अधिकारिभ्यो जनपदाधिकृतेभ्यः भीतान् क्षुद्रान् दुर्बलान् । पारितोषिकवस्त्राणि तेषां स्वोपरिसन्तोषजननार्थम् ॥ २७ ॥ वाचा वाड्मात्रेण । न तु कार्यतः । हृदयार्द्रः हृदये दयया युतः । एभ्यो नीवृजनेभ्यः । व्यवस्थामनेन प्रकारेण “युष्मान् परिपालयामीति वाक्प्रामाण्यरूपान् सामदानविचक्षणः सामदानप्रचारनिपुणस्सन् विदधन् । कर्ता भूयादित्यर्थः ॥ २८ ॥ मू.--चरितानि विचार्यैवं चारेभ्यश्चाधिकारिणाम् । दुष्टानां शिक्षणं कुर्याद्दण्डनीतिप्रवर्तकः ॥ २९ ॥ व्या.--अधिकारिणां तत्तदुद्योगनियमितानां चरितानि दुष्टादुष्टकृत्यानि । दुष्टानामविहितशत्रूणां शिक्षणं । अग्रे दुष्कृत्यनिरासकशिक्षा दण्डः । शिक्षणम् । नीतिप्रवर्तको नीतिशास्त्रचालकः ॥ २९ ॥ मू. -यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ ३० ॥ व्या.--दण्डदेवतास्वरूपमाह यत्रेत्यादिना । पश्यति सम्यक् दण्डं प्रचारयति चोदित्यर्थः ॥ ३० ॥ मू.---अकालक्रयविक्रेयकर्तृणां स्वार्थकामिनाम् । प्रनाभ्यो दायकर्तृणां स्वामिकार्यविघातिनाम् ॥ ३१ ॥ प्रजोद्वेजनकर्तृणांमुपदण्डेन दुःखतः । गोदेवब्राह्मणस्वानां हतॄणां लोभदोषतः ॥ ३२ ॥ राजाज्ञाप्रतिबन्दीनां राजद्रोहपरात्मनाम् । स्वराजचरिताख्यानकर्तृणां शत्रुराजके ॥ ३३ ॥ सतुभेदकराणाञ्च चोरमोचनकारिणाम् । राजस्वे च प्रपात्तानां राजकोशापहारिणाम् ॥ ३४ ॥ स्वाधीनादिकृतानांतु वेतनाधं प्रगृह्णतां । स्वयोधभेदकतणामभिचाररतात्मनाम् ॥ ३५ ॥ -- नेता राजा. साधु अष्टमस्सर्गः राजव्यापारकंथनम् 99 अपलापप्रसक्तानां स्ववाक्यं राजसन्निधौ । राजस्वेऽन्यत्वकर्तृणां तटाकारामवातिनाम् ॥ ३६ ॥ शिक्षणार्थ चरा योज्यास्तेभ्यो विज्ञाय तत्वतः । तेषां व्यतिक्रमं पश्चात् शिक्षयेन्नीतिमार्गतः ॥ ३७ ॥ व्या.--अकाले स्वराज्याननुकूलसमये । क्रयों धान्यादिकं दत्वा द्रव्यग्रहणम् । विक्रयो राजद्रव्यं दत्वा धान्यादिक्रयं दत्वा धान्यादिग्रहणं । तत्कर्तृणां । स्वार्थकामिनां अकाले राजधान्यादिकयं स्वयं कुर्वतामित्यर्थः । दायहर्तृणां गुप्तद्रव्यहारिणाम् ॥ ३१ ॥ दुःखतः अन्तः स्वस्य द्रव्याचदानदुःखवशात् ॥ ३२ ॥ राज्ञां द्रोहोऽनिष्टचिन्तनम् । तत्र परः आसक्तः आत्मा चित्तं येषां । स्वराजा स्वस्वामी। तस्य यानि चरितानि किञ्चिदन्यायव्यवहारदर्शनादीनि । तेषामाख्यान कुर्वन्तीति तादृशाः । शत्रुराजके तत्समूहे ॥ तेषां । सेतुभेदकराणां मर्यादाविच्छेदनकराणां अथवा नद्यादिसेतुव्यापादि- नाम् । राजकोशपूरणार्थ प्रजाभ्यो गृहीतस्वाधीनकल्पकोशस्थद्रव्यहारिणाम् ॥ ३४ ॥ स्वाधीनाधिकृतानां । कृतं यद्वतनं तन्मध्येऽर्धवेतनग्राहिणाम् । आभिचाररतात्मनां । कृत्रिमकृत्यायुत्पादनाग्निविषप्रयोगादिरूपकृत्यासक्त- चित्तानाम् ॥ ३५ ॥ राजस्वे ग्रामादावन्यत्वकर्तृणाम् राज्ञ इदं न भवतीति । अपित्वन्य- स्येत्यन्यस्वामिनं प्रदर्शयित्वा गूढ तस्मात् द्रव्यग्राहिणमित्यर्थः ॥ ३६ ॥ तेभ्यश्चरेभ्यः ॥ ३७ ॥ मू.--अधिकारप्रच्यवैश्च कारागाराधिवासनैः । निगलालम्बनैश्चैव राष्ट्रनिष्कासनैस्तथा ॥ ३८ ॥ सर्वस्वहरणैश्चैव नीचकृत्यप्रचोदनैः । प्रावारेणैकवस्त्रण चतुष्पथनिवेशनैः ॥ ३९ ॥ NT..... -

100
नीतिप्रकाशिकायां
प्रच्यवैः ।
"
परिवर्तनाधिकारैश्च कायक्लेशोपपादनैः ।
मृद्वाहैश्च कराघातैर्विरूपकरणैस्तथा ॥ ४० ॥
एतैरन्यैर्यथाशास्त्रं शिक्षयेदधिकारिणः ।
राज्ञा तु शिक्षितान् दृष्ट्वा ये हसेयुश्च तानपि ॥ ४१ ॥
व्या.-शिक्षाप्रकारमाह-अधिकारप्रच्यवैश्वेत्यादिना । अधिकाराण
निष्कासनैः । कारागारेषु ।
कारास्याद्वन्धनालय
इत्यमरः। अगारशब्दः वैलक्षण्यद्योतकः ।
अधिवासनैर्विन्यासैः। निगडानां पादबन्धनानां । आलम्बनैरसज्जनैः
रा निष्कासनैः स्वदेशानिर्वासनः । पुरुषभेदविवक्षया बहुवचनप्रयोग
॥ ३८ ॥
नीचकृत्यप्रचोदनैदौवारिकाद्याज्ञायां प्रेरणैः । प्रावारेण कटिबद्धेनैकेनैव
वस्त्रेण । सहचतुष्पथे नगरमध्ये वीथ्यां निवेशनैः ।
"प्रावारस्स्यात्कटितट" इति मेदिनी ॥ ३९॥
परिवर्तनाधिकारैरधिकारविनिमयैरित्यर्थः ।
मृदां मृत्तिकानां वाहैः
सालादिबन्धनार्थवहनैः ॥ ४० ॥
राज्ञापराधानुसारेण शिक्षितान्प्राप्तशिक्षान् । राजहेलनार्थ येऽपहसंति
तानपि शिक्षयेदिति पूर्वेणान्वयः । इदं शिक्षणं लोके स्वगुरुत्वसम्पादनामिति
ज्ञेयम् ॥ ४१ ॥
आसायं ।
मू.- राज्ञोऽपहासनिन्दे च राजदारान् हसंति ये ।
नीवृजनानमार्गस्थान् ज्ञात्वा संशिक्षयेन्नृपः ॥ ४२ ॥
व्या.~ राज्ञोऽपहासस्तत्सभायां स्थित्वा दन्तभूदर्शनपूर्वकोपहासः ।
तन्निन्दाञ्च ये कुर्वन्तीति शेषः । राजदारान् राजावरोधवधूजनान् ।
नीवृति देशे ये जनाः-~-तानमार्गस्थान् दुर्मार्गस्थान् । स्वस्वधर्मस्थापनया
शिक्षयदित्यर्थः ॥ ४२ ॥
मू.-मृदुर्हि राजा सततं लघुर्भवति सर्वशः ।
तीक्ष्णाचोद्विजते लोकस्तस्मादुभयमाचरेत् ॥ १३ ॥

अष्ठामस्सर्गः राजव्यापारकथनम्
101
व्या.-मृदुर्लधुः अल्पतरशिक्षापरः । अलघुभृत्यैरपि परिभूतः तर्हि
उग्रदण्डवता भवितव्यमित्याशङ्कय नेत्याह । तीक्ष्णादिति । उद्विजते
बिभेति । तस्मात्कारणात् । उभयं कालविशेषमृदुत्वं तदन्यकाले चोग्रत्वं
च सेव्यमिति भावः ॥ ४३ ॥
मू.-राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम् ।
राजन्यसति लोकेऽस्मिन्कुतो भार्या कुतो धनम् ॥ ४४ ॥
व्या.-- राजन्वति प्रदेशे प्रजाभिःस्थेयमित्याह राजानमिति । प्रथम
मुख्यतया विन्देत्सम्पादयेत् । ततो भार्यां धनञ्च स्वकीयत्वेन विद्यादित्यर्थः
अस्मिन् लोके प्रपञ्चे राजन्यसति असत्पुरुषे सति भायर्या च धनञ्च कुतः।
" नाराजके जनपदे भार्या वा वर्तते वश इत्यादि रामायणवचनात्
॥ ४४ ॥
मू.---आयानुकूलं कुर्वीरन् भृत्या राजहितैषिणः ।
पश्चान्निवेदयेयुस्तदन्यथा दण्डभागिनः ॥ ४५ ॥
व्या. --राजहितैषिणो भृत्या आयानुकूलमापूर्वप्राप्तचनुसारिकर्म स्वयं
राजाज्ञां विना स्वतन्त्रं कुर्वीरन् । कर्तु शास्त्रसम्मताः । पश्चात्कर्म कृत्वा
निवेदयेयुः । पत्रद्वारा स्वयं वापि ज्ञापयेयुरिति भावः । अन्यथा राज्ञो-
ऽनुकूलकृत्याकरणे दण्डभागिनो दण्डार्हाः ॥ ४५ ॥
मू.-- ग्रामस्याधिपतिः कार्यों दशग्रामाधिपस्तथा ।
विंशतीशश्शतेशश्च सहस्त्रेशो नृपेण तु ॥ ४६ ॥
राज्यपालनक्रममाह ग्रामस्येति ।
नृपेणाधिराजेन स्वेन
व्या.
मू.--ग्रामीयान् ग्रामदोषांश्च ग्रामिकः परिपालयेत् ।
तानाचक्षेत दशिने दशको विंशतीश्वरे ॥ ४७ ॥
विशतीशश्च तत्सर्व वृत्तं जानपदे जने ।
ग्रामाणां शतपालाय सर्वं वै विनिवेदयेत् ॥ १८ ॥
व्या.- ग्रामीयान् ग्रामे भवान् परिपालयेत् ।
लक्षणया विचारये-
दित्यर्थः ॥ १७ ॥

102
नीतिप्रकाशिकायां
जानपदेशविद्यमानकाले ॥ ४८ ॥
मू.---यानि ग्रामिकभोज्यानि ग्रामिकस्तान्युपाश्नुते ।
हिरण्यधान्यभागेन यतो राष्ट्रीयकस्स्मृतः ॥ ४९ ॥
व्या.—ग्रामीयको ग्रामीययोगक्षेमाधिकृतः । यानि ग्रामिकभोज्यानि
तानि हिरण्यधान्यभागेन हिरण्यांशधान्यांशग्रहणेन तानि हिरण्यधान्यादी-
न्युपाश्नुते । भोक्तुमर्हति । तदेव तस्य जीवनमित्यर्थः । यतो राष्ट्रीयकः
कुलक्रमेण तद्रक्षकः ॥ ४९ ॥
मू.- दशी तेन विभक्तव्यो विंशतीशस्तथा स्मृतः ।
ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः ॥ ५० ॥
व्या.-दशी दशग्रामाधिपः तेन दशग्रामीयधनधान्येन विभक्तव्यो
विभागं प्रापणीयः । पोषणीय इति यावत् । विंशतीशो विंशति-
ग्रामाधिपोऽपि तथः । तादृशजीवनवान् । ग्रामशताध्यक्षस्य जीवनमाह-
ग्राममिति । ग्रामं पर्वशतोत्पादकं । एकग्रामजन्यपर्वान्या । सत्कृतो
ग्रामवासिभिरिति शेषः ॥ ५० ॥
मू...-शाखानगरमहंस्तु सहस्रपतिरुत्तमम् ।
दिक्पालासनयोग्योऽसौ शतादिग्रामनायकः ॥ ११ ॥
व्या.-सहस्त्रनामपतेवेतनमाह शाखानगरमिति ।
शाखानगरं नाम
प्रधाननगरे स्थलसङ्कोचेनावरणाबहिर्बद्धघोषविशेषः । " तच्छाखानगरं वेशो
वेश्याजनसमाश्रय"
इत्यमरः ॥ शाखानगरन्तु त्रिंशत्पर्वसम्पादकम् ।
ते शतग्राममधिकृत्य सहस्रान्तनायका. । दिक्पालासनयोग्याः अष्टवर्णकह-
सन्तिकादिवराकीनिर्मितसोपधानोपवेशयोग्याः ।
दिक्पालांशवता राज्ञा निर्दिष्टं यद्वरासनम् ।
दिग्वर्णचित्रितं राज्ञां दिक्पालासनमुच्यते ॥
इति नीतिविवेके ॥ ११ ॥
मू.-तेषां यदामकृत्यं स्याद्राष्टकृत्यञ्च यद्भवेत् ।
धर्मज्ञस्सचिवः कश्चित्तदपेक्षेदतन्दितः ॥ १२ ॥

अष्टामस्सर्गः राजव्यापारकथनम् 103 राज- व्या.---अतन्द्रितः आलस्यशून्यः । कश्चिद्विलक्षणस्सचिवः । समीपवर्तीति राष्ट्राधिकारकृत्यम् । अपेक्षेत् ॥ ५२ ।। मू.-नगरे नगरे च स्यादेकस्सर्वार्थचिन्तकः । उच्चस्थानो घोररूपो नक्षत्राणामिव ग्रहः ॥ ५३ ॥ व्या.-सर्वार्थचिन्तकस्सर्वाधिकारी। घोररूपस्सर्वनिग्राहकाकृतिमान् । ग्रहश्चन्द्रः ॥ १३ ॥ मू.–स च तान् सम्परिकामेत्सर्वानेव सदा कृती । तेषां वृत्तिं हि गणयेत्सम्यग्राष्ट्रैस्स्वचारकैः ॥ ५४ ॥ व्या.-स प्रधाननगरनीचैर्विद्यमाननगराधिकृतः : तान् जनपदान् । सम्परिकामेत्सम्यक् सञ्चरेदित्यर्थः । तेषां तद्देशवासिनां । वृत्ति मर्यादाम् ॥ ५४ ॥ मू.- जिघांसवः पापकामाः परस्वादायिनः शठाः । तत्तद्रक्षास्वधिकृतास्तेभ्यो रक्षेदिमाः प्रजाः ॥ ५५ ॥ व्या.- अधिकृता अधिकारिणः । पूर्वार्धबोधितगुणकाः मदान्धा भवन्तीति प्रसिद्धिः । तस्माद्रक्ष्या इत्यर्थः ॥ ५५ ॥ मू.--उच्चावचाः कराः न्याया पूर्वराज्ञां युधिष्ठिर । यथा यथा न हीयेयुस्तथा कुर्यान्महीपतिः ॥ १६ ॥ • व्या.-- कराः बलयः ॥ १६ ॥ म.- ब्राह्मणेभ्यो नाददीत शुल्कं राजा तथा करम् । .न ब्राह्मणधनस्वामी कदाचित्स्यान्नराधिपः ॥ १७ ॥ व्या.-शुल्कं घट्टादिषु नूतनवस्नधान्यकैशेयाद्याहरणनिमित्तकद्रव्यम् । “घट्टादिदेयं शुल्कोऽस्त्री त्यमरः ॥ १७ ॥ मू.- आय तु विपुलं कुर्याद्वययं कुर्यात्सुसूक्ष्मकम् । नीवृद्यात्रां तथा भूपो लोकानुग्रहकृत्स्वयम् ॥ ५८ ॥ व्या.-आयमागाति । विपुलं महान्तम् । व्ययं स्वहस्ताद्व्ययम् । सुसूक्ष्मकं । पादेनैकेन सेनायाः पादार्धेन स्वजविनम् । तद्धनार्धाद्धर्म- कृत्यं कोशपूर्तिस्तृतीयतः। तुरीया पृथक् स्थाप्यं शेषार्धन्तु यथैच्छिकम् । -

104
नीतिप्रकाशिकायां
राजा त्वेवं हि विभजन् चिरमैश्वर्यमश्नुते ।" इति स्मृत्यनुरोधात्कुर्यादित्यर्थः ।
नीवृद्यात्रा देशसञ्चारः। स्वयं लोकानुग्रहकृत् सन् कुर्यादित्यन्वयः ।
प्रतिवर्षसञ्चारेण बहुवृत्तान्तज्ञाने सति तत्तजीवनधर्मपालनं भवतीत्यर्थः
॥ १८ ॥
मू.-बन्धयेच्च तटाकानि सरांसि स्वगृहाणे च ।
श्रेणीवृक्षांस्तथारामान्गोपयेच्च सुमार्गकृत् ॥ ५९ ॥
व्या.-स्वगृहाणि तत्तन्नगरविद्यमानानि । श्रेणीवृक्षावाजमार्गेषुभय-
पार्श्वयोः श्रेण्याकारतया विद्यमानपादपान् । सुमार्गकृान्लेनोतसमीकरणेन,
जलमार्गबन्धनेन, गुल्मस्थापनपूर्वकं होराद्युपद्रवपरिहारेण च सम्यङ्मार्ग-
का भवितव्यमित्यर्थः । ५९ ॥
मू.- सम्मानञ्चैव कुर्वीत विद्यावृद्धद्विजातिषु ।
अवमत्यादिभिर्दण्डैर्विप्रान्विद्यासु योजयेत् ॥ ६ ॥
व्या.-~-विद्यया स्वस्वकुलोचितवेदशास्त्राद्यभ्यासेन ।
या वृद्धाः ।
उत्तमा द्विजातयः । ब्राह्मणाः । तासु संमानं स्वसन्मुखागमन पूर्वनी-
वनादधिकं ।
वस्त्रभूषणदानादिरूपं । विप्राननधीतवेदशास्त्रादिकान्
मू.- अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत् ।
पालितं वर्धयेन्नित्यं वृद्धं पात्रेषु निक्षिपेत् । ६१ ॥
व्या.-~-अलब्धं शत्रुराज्यस्वर्गादिकं ।
धर्मेण राज्यपालनतपः-
करणरूपेण । वृद्धमैश्वर्यम् । पात्रेषु सत्पात्रेषु । " योग्यभाजनयोः
पात्र" मित्यमरः ॥ ६१ ॥
-भोगञ्च दद्याद्विप्रेभ्यो वसूनि विविधानि च ।
अक्षयोऽयं विधी राज्ञां यद्विप्रेषूपपादनम् ॥ ६२ ॥
व्या.~ अक्षयो जन्मान्तरोपयोगितया क्षयरहितः ॥ ६२ ।।
मू.- दत्वा भूमिनिबन्धं वा कृत्वा लेख्यन्तु कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिगः ॥ ६३ ॥

अष्टमस्सर्गः राजव्यापारकथनम्
105
व्या.- निबन्धं पौरश्रेणिभिर्वाप्यमानदेवब्राह्मणजीवनं कृत्वा कारयित्वा
चेत्यर्थः । आगामिनो ये भद्रनृपतयः धार्मिका राजानः तेषां परिज्ञाना-
यावबोधनाय ।
भद्रपदादृष्टैः राजभिः न चाल्यत इति ध्वनितम्
॥ ६३ ॥
मू.- दत्वा भूम्यादिकं राजा ताम्रपट्टेऽथवा पटे ।
शासनं कारयेद्धर्म स्थानवंशादिसंयुतम् ॥ ६४ ॥
व्या.-~-धर्मं धर्मसूचकम् ॥ ६४ ॥
मू.-स्वदत्ताद् द्विगुणं पुण्यं परदत्तानुपालनम् ।
परदत्तापहारेण स्वदत्तं निष्फलं भवेत् ॥ ६५ ॥
व्या.-स्वदत्तवत्परदत्तपालनं परमो धर्म इत्याह । स्वदत्तादिति ।
परदत्तापहारे धर्महानिरपीत्याह-परदत्तापहारेणेति ।
उत्कटधर्मः धर्म
नाशयतीति भावः ॥ ६५ ॥
मू.-पूर्व राजकृता या तु मर्यादा जनजीविका ।
तां न च व्यंसयेद्राजा नाशयनिन्दितो भवेत् ॥ ६६ ॥
व्या.–जनजीविका जनजीवनयोग्या । न च व्यसयेत् नैव गमयेदि
त्यर्थः । तदपहारे हानिमाह-निन्दितो भवेदिति ।
" यावल्लोकेष्वकी-
र्तिस्स्यात्तावन्नरकमश्नुते । यावत्कीर्तिर्मनुष्यस्य तावत्स्वर्गे महीयते ।"
इत्यनुशासनिकभारतवचनात् ॥ ६६ ॥
व्या.-विजयहेतुभूतमन्त्रो राज्ञामत्यावश्यक इत्याह-मन्त्र इति
मू.- मन्त्रो विजयमूलं हि राज्ञां भवति नित्यदा ।
अतस्तु मन्त्रिमिर्मत्रं सह राजा विचिन्तयेत् ॥ ६७ ॥
व्या.—नित्यदा निरन्तरं । निरन्तरमन्त्रप्रस्तावे राज्ञां बहुकार्यवत्त्व
निमित्तम् ॥ ६७ ॥
व्या.-गिरिपृष्ठं समागत्य प्रासादं वा रहो गतः ।
अरण्ये निश्शलाके वा मन्त्रयेत्पृथिवीपतिः ॥ ६८ ॥ .
व्या.-मन्त्रस्थानान्याह-गिरिपृष्ठमित्यादिना । निश्शलाके व्याघ्रा
दिभयरहिते । " जन्तोर्मीतिश्शलाका स्या"दिति मेदिनी ॥ ६८ ॥

106 नीतिप्रकाशिकायां मूका निर्वाचः । मू.-निस्तम्भे निर्गवाक्षे च निर्मित्त्यन्तरसंश्रये । प्रासादाग्रेऽप्यरण्ये ह मन्त्रयेत् सावधानतः ॥ ६९ ॥ व्या.--निर्मित्यंतरसंश्रये अंतस्तिम्भिात्तरहिते । सावधानतोऽप्रमादात् । मंत्रस्थानस्य मन्त्रिव्यतिरिक्तप्राकृतजनराहित्यादिरूपगुणासत्वे बुद्धिस्थैर्य- दातृत्वं न संघटत इति तत्तद्विशेषणयोगः ।। ६९ ।। व्या.---मंत्रगुप्तेः प्रयोजनमाह-यस्येत्यादि । मू.--यस्य मंत्रं न जानन्ति समागम्य पृथग्जनाः । स चिरं पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥ ७० ॥ व्या.-पृथग्जनाः प्राकृताः : "प्राकृतश्च पृथग्जन" इत्यमरः । कोशही- नोऽपीत्यनेन मंत्रस्य कोशादिसंपादकहेतुत्वमपि दर्शितम् ॥ ७० ॥ मू.-जडन्धमूकबधिरःन् काणशौण्डाधमानपि । स्त्रीम्लेच्छव्याधितव्यंगान् मंत्रकाले विवर्जयेत् ॥ ७१ ॥ व्या.-जडा अज्ञाः । अंधा जात्यंधाः । बधिराः श्रोत्रेन्द्रियसामर्थ्यहीनाः । काणा एकनेत्रहीनाः। शौण्डा मत्ताः। अधमाः संकरजातीयाः । म्लेच्छा अपप्रयोगकर्तारः । तुरुष्कादय व्याधिताः श्वासखासादिदीर्घरोगिणः । व्यंगाः पौगण्डानि । विकलांगस्तु पौगण्ड' इत्यमरः । एतेषां प्रविभेत्तारमिति । मन्त्रगो- गोपनविषये वणिमाघः । " मन्त्रो योध इवाधीरः सर्वांगैस्संवृतैरपि । चिरं न सहते स्थातुं परेभ्यो भेदशंकये" ति । व्या.-मन्त्रोपयुक्तप्रमेयानाह --उपायानित्यादिना मू.---उपायांश्चतुरो युद्ध्यात्षड्गुणानुदयांश्च त्रीन् । तिस्त्रः शक्तीश्च सिद्धीश्च मन्त्रयेन्मन्त्रिभिः सह ॥ ७२ ।। व्या.–उपायान्विमजते--सामेत्यादिना । मू.-साम दानं च भेदश्च दण्डश्चेति चतुर्विधः । उपायस्सर्वकृत्येषु प्रयोज्यो बुद्धिजीविभिः ॥ ७३. ॥ व्या.-प्रथमोद्दिष्टं साम विभजते-सामेति । इत्यन्ये ।

अष्टमस्सर्गः राजव्यापारकथनम्
107
मू.-साम पश्चविधं ज्ञेयं परानुसरणं तथा ।
परस्परोपकारश्च तदीयगुणकीर्तनम् ॥ ७४ ॥
बन्धुत्वज्ञापनं स्वात्मसमर्पणमितीव च ।
एवं पञ्चविधं ज्ञात्वा समासव्यासतस्सुखी ॥ ७९ ॥
व्या.-स्वात्मसमर्पणं भवदीयोऽहमिति वाचात्मसमर्पणम् ।
सतस्सामान्यतो विशेषतश्चेत्यर्थः ।
सुखी राज्यसुखवान् भवतीत्यर्थः ।
समासव्या-
आमोदः
.
व्या.-द्वितीयमुपायं विभजते-
मू.- दानं पञ्चविध प्राहुः स्वधनस्य समर्पणम् ।
अन्यद्रव्यग्रहामादोऽपूर्ववस्तुप्रदानकं ॥ ७६ ॥
व्या.- अन्यद्रव्यस्य ग्रहे ग्रहणतन्त्र अनुमोदनम् ।
अपूर्ववस्तुप्रदानमिमि भेदः !! ७६ !!
मू.-परद्रव्यप्रेरणञ्च ऋणमोचनमेव च ।
स्वदौर्बल्ये प्रयोगोऽस्य शत्रुपक्षे स्वयं विधिः ॥ ७७ ॥
व्या.–परद्रव्यप्रेरणं शत्रुद्रव्यग्रहणविषये प्रोत्साहनमित्यर्थः ।
दान-
प्रयोगकालमाह-स्वदौर्बल्य इति । दान कुत इत्यत्राह-शत्रुपक्षे ।
रिपोरधने ? इत्यर्थः ।। ७७ !!
व्या.-तृतीयमुपायं विभजते-भेद इति ।
मू.-भेदस्निधान्यतरस्नेहसंपादनं पुरा ।
परस्परं मित्रभेदस्तथा सन्तर्जनं परम् ॥ ७८ ॥
व्या. एकेन स्नेहसम्पादनं पुरा प्राथमिक इत्यर्थः । परस्परं मित्रभेदः
अन्योन्यमित्रत्वच्यावनमुपजापेन । परं तृतीयमित्यर्थः ॥ ७८ ॥
व्या.-चतुर्थमुपायं विभजते-दण्ड इति ।
मू.-दण्डस्त्रिधार्थहरणं परिक्लेशस्तथैव च ।
देहसशिक्षणं चेति दण्डभेदाः प्रकीर्तिताः ॥ ७९ ॥
व्या.–परिक्लेशस्तुदनम् ॥ ७९ ॥

- 108 नीतिप्रकाशिकायां व्या.- सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाख्यषडणेषु सन्धद्वैविध्यमाह —तदात्वेति । मू.- तदात्वायतिसंयुक्तः संन्धि यो द्विलक्षणः । राज्ञा कृतश्च कार्यार्थमकाले काल एव वा ॥ ८० ॥ व्या.-तदात्वसन्धिः । उत्तरकालसंयुक्तसन्धिश्चेतिद्विलक्षणः द्विप्रकारः । कार्यार्थ जयार्थं ॥ ८० ॥ मू.-अमित्रे चैव विकृते द्विविधो विग्रहः स्मृतः । एकाकी वाच्यैककारिकार्ये प्राप्ते यदृच्छया ॥ ८१ ॥ संभूय चैः मित्रेण द्विविधं यानमच्यते । व्या.-अमित्रे विकृत शत्रौ विकारं प्रापिते सति तदा अकाले वर्षादिकाले शरत्काले वा विग्रहः कार्यः । तथा चाकालविग्रहः कालविग्रहश्चेति द्विप्रकारः विग्रहः । विरोध इति न दण्डेन पौनरुक्तयम् । यानस्य द्वैविध्यमाह-एकाकीति एकाकी वाचक मुद्दिश्यैककारि तदन्यस्वा- भिलषितविधायकं इदमेव सन्धाययानम् । मू. क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा ॥ ८२ ॥ मित्रस्य चानुरोधेन द्विविधं कृतमासनम् बलस्य स्वामिनश्चैव स्थितिकार्यस्य सिद्धये ॥ ८३ ॥ व्या.—मित्रानुरोधेनासनश्चेति द्विविधम् । कार्यस्थ सिद्धये कालसह- कृतजयाय ॥ ८२, ८३ ॥ मू.-द्विविधं कीर्त्यते द्वैध सद्गुणागुणवेदिभिः । यदावगतन्यूनत्वमाधिक्यं ध्रुवमात्मनः ॥ ८४ ॥ व्या.--द्वैधं द्वैधीभावः । शत्रुन्यूनत्वकृतः आत्माधिक्यकृतश्चेति द्विप्रकारः द्वैधीभावः ॥ ८४ ॥ मू.-अर्थसम्पीडनार्थश्च पीड्यमानस्य शत्रुभिः । साधुभिर्व्यपदेशार्थों द्विविधस्तु समाश्रयः ।। ८५ ॥ व्या.-अर्थसम्पीडनार्थः शत्रुपीडनजन्यव्यपदेशार्थः । व्यवहारार्थो- ऽर्थसम्पीडनार्थः । साधुभिर्व्यवहारार्थश्चेति समाश्रयो द्विविधः ॥ ८५ ॥ --

109
एतद्धि नीतिसर्वस्व भूप किं विस्तरेण ते ॥ ८७ ।।
अष्टमस्सर्गः राजव्यापारकथनम्
मू.-क्षयस्स्थानञ्च वृद्धिश्चेत्युदयस्त्रिविधस्स्मृतः ।
प्रभुमन्त्रोत्साहभेदाच्छक्तिस्तु त्रिविधा मता ॥ ८६ ॥
तत्साध्यसिद्धयस्तिस्रः तेषु भेदा बहुस्मृताः ।
अन्नाज्ये अन्नञ्चाज्य-
एवं सर्वमिदं राजा सह समन्व्य मन्त्रिभिः ।
मध्याहेऽर्थागमं कृत्वा भोक्तुमन्त पुरं व्रजेत् ॥ ८८ ॥
व्या. एवं पूर्वोक्तसामादिकमिदं मन्त्रिभिस्सह सम्मन्व्य अर्थागमञ्च
कृत्वा मध्याह्ने सति भोक्तुमन्तःपुरं व्रदित्यन्वयः ॥ ८८ ॥
मू.-सुपीक्षतमन्नाज्ये अद्यान्मन्त्रौर्वषापहैः ।
भुक्ता स विहरेञ्चैव स्त्रीभिरन्तः पुरे सह ॥ ८९ ॥
व्या.--विषापहेमन्त्रैस्सुपरीक्षितं निर्दोषीकृतं ।
ञ्चेति अन्नसहितमाज्यमित्यर्थः । केवलसमाहारो वा ।
अद्यात् भक्षयेत् ।
संविहरेत् आलोपादिना सन्तोषयेन्नतु संभोगादिनेत्यर्थः । दिवास्वापमैथुनयोः
धर्मशास्त्रविरोधादिति भावः ॥ ८९ ॥
मू.--धर्मशास्त्रपुराणानि ह्यपराले समभ्यसेत् ।
संध्याञ्चोपास्य विधिवदग्निं हुत्वा समाहितः ॥ ९० ॥
भुक्ता भागवतं शास्त्रं पठित्वा ध्यानसंयुतः ।
संविशेच्च यथाकालमुत्तिष्ठद्विगतक्लमः ।। ९१ ॥
व्या.-- संध्यामुपास्य सन्ध्याकाले जाते सतीति शेषः ।
भुक्त्वा
"कालयोोजन"मित्यापस्तम्बवचनरीत्या रात्रौ · भुक्ता भगवत्प्रतिपादक
शास्त्रं पठित्वा । अनन्तरं भगवद्ध्यानसंयुतस्सन् संविशेत् । स्वपेत्
विहरद्वा । यथाकालमपररात्रौ विगतक्लमो गतपरिश्रमः ॥ ९०, ९१ ॥
एवं वृत्तस्येत्यादिना नीत्यभ्यासप्रयोजनं वक्ति ।
मू.- एवंवृत्तस्य नृपतेर्नीतिमार्गानुसारिणः ।
धर्मार्थकाममोक्षश्च सिद्धयेयुर्नात्र संशयः ॥ ९२ ॥

110
नीतिप्रकाशिकायां
"
पृथुमेवं प्रशास्यैवं ब्रह्मा लोकगुरुःस्वयम् ।
तत्रैवान्तर्दधे देवो दैवतैस्सहितस्तथा ॥ ९३ ॥
व्या.-अन्तर्दधे अदर्शनं गतः ॥ ९२, ९३
मू.-वैन्योऽपि तत्तथा चक्रे ब्रह्मप्रोक्तं पुरातनम् ।
भुक्त्वा ससागरामुर्वी अन्ते ब्रह्म जागम ह ॥ ९४ ॥
व्या.-ब्रह्म आनन्दो ब्रह्मेति व्यजानादिति श्रुत्या शाश्वतमानन्द
प्राप ॥ ९४ ॥
प्रकृतप्रश्नसमाधान निगमयति-पारीक्षितेति ।
मू.-पारीक्षित त्वमप्येवं कृत्वा सौख्यं भविष्यसि ।
ख्यातिञ्च लोके संस्थाप्य परां गतिमवाप्स्यसि ॥ ९५ ॥
व्या. --हे पारीक्षित परीक्षित्पुत्र जनमेजय । ख्याति कीर्ति ।
ख्यातिः कीर्ती प्रसिद्धौ चे"ति मेदिनी ॥ ९५ ॥
मू.-यावत्कीर्तिर्मनुष्यस्य लोकेषु विचरिष्यति ।
तावद्वर्षसहस्राणि ब्रह्मलोके महीयते ॥ ९६ ॥
व्या.--इह कीर्तिमतः उत्तमलोकप्राप्तिरित्यत्र धर्मशास्त्रवचनमुदाहरति-
यावदिति । महीयत स्थित्वा प्रकाशते ॥ ९६ ॥
मू.-पठेच्च य इदं काव्यं शृणुयाद्वा समाहितः ।
ब्राह्मणः क्षत्रियो राजा विशेषेण नराधिप ।। ९७ ॥
वैश्यो वा शूद्रजातीयः स्त्रियो राजपरिग्रहाः ।
ते कीर्तिमन्तो भूत्वेह परत्र गतिमाप्नुयुः ॥ ९८ ।।
व्या.-अस्य काव्यस्य पठनश्रवणादौ शिष्टप्रवृत्तये फलं दर्शयति ।
पठेदित्यादिना। विशेषण राजा पठेत् । तस्यैव नीतिप्रवर्तकत्वादिति
भावः । हे नराधिप ॥ ९७ ॥
स्त्रियो राजपरिग्रहा राजमार्याः । अन्यस्त्रीणां नीतौ प्रयोजनामावात् ।
राजपरिग्रहा इति स्त्रीविशेषणम् इत्यन्ये । परगतिमत्त्वे कीर्तिमत्वं निमित्तम् ।
॥९८॥

अष्टमस्सर्गः राजव्यापारकथनम 111 व्या. मू.-नीतिशास्त्रमिदं प्रोक्तं मया ते जनमेजय ! संक्षेपण गमिष्यामि यत्र व्यासो गुरुर्मम ॥ ९९ ॥ 1.-स्वगमने राजानुमतिं पृच्छति--नीतिशास्त्रमित्यादिना ॥९९ ॥ मू.-वैशम्पायन इत्युक्त्वा तत्रैव स जगाम ह । पारीक्षितोऽपि मुमुदे सुनीत्या पालयन् प्रजाः ॥ १०० ॥ ' इति वैशम्पायननीतिप्रकाशिकायां राजव्यापारकथनं नामाष्टमः सर्गः ॥ ॥ नीतिप्रकाशिका समाप्ता ।। व्या. - तमेव व्यासमुद्दिश्यैव वैशम्पायनः : पारीक्षितोऽपि जनमेजयोऽपि । सुनीत्या प्रजाः पालयन् मुमुदे सन्तोषेण स्थितवानित्यन्वयः ।। १०० ॥ ।। इति श्रीसीतारामकृतायां नीतिप्रकाशिकातत्वविवृतावष्टमस्सर्गः ।। ॥ नीतिप्रकाशिकातत्वविवृतिः समाप्ता ॥

No text on this page.

. सर्गः श्लोकः VI 101 VI 69 श्री श्लोकानुक्रमणिका सर्गः श्लोकः अन्येषु वा साहसेषु VIII 31 अपंकाः शङ्करहिताः VI 70 अपलापप्रसक्तानां VI 74 अपि मण्डलसंवीतं VI 90 अभिद्रवणमाप्लावं VI 93 अभिषेणनमन्विच्छन् VII 27 अमुक्त प्रथमं वंज VIII 8 अमुक्ता विंशतिरिमे VIII 36 .. V 18 V 43 VI 16 .. 1 V II 21 अयं तृतीयपादः स्यात् II 39 VI 12 V 16 अरिषड्वर्गरहितः अर्थसंपीडनार्थ च VIII 14 VIII 85 II 46 अर्धचन्द्रः कटद्धारः VI 7 II 48 VIII 61 - VI IV 15 अकालक्रयविक्रेय अकेदाराकृतश्वभ्राः अक्षौहिणीनां पतयः अक्षौहिणीपतिवधे अक्षौहिण्याः पतिं हत्वा अक्षौहिण्यामेकविंश अगूढविभवा यस्य अग्रे नागान् रथान् पाश्चात् -अङ्गलिद्वयविस्तीर्णा अथ मां शरणं प्राप्ता अथ लब्धवरा मत्तः अथ व्यूहान् प्रवक्ष्यामि अथ सैन्यं प्रवक्ष्यामि अथ खात्मानमन्वीक्ष्य अथाददां धनुर्वेदम् अधर्मवृद्धया चैतानि अधिकारप्रच्यवैश्च अधिपाः प्रतिसेनायाः अनाव्यतैव अनीकिनी चमूश्चैव अनीकिनीपहा यावत् अनीकिन्यां द्वे सहने अनीकिन्याश्च कार्या वै अनुयानापसरणे अनेकवल्गिताकार VII I 50 II 47 VI 68 VII 28 VIII 3 VI . I 42 . अलब्धमीहेद्धर्मेण अविचाल्यं च सूक्ष्मं च अवृक्षस्थूलपाषाणा अष्टादशसहस्राणि अष्टामिलोकपालानां असंमतःषड्डिधःस्यात् असिः पूर्व मया सृष्टः असिचर्मचरांश्चैव असिधेनुःसमाख्याता असेरष्टौ हि नामानि असेश्च पूजाकर्तव्या अहमेवऋषिश्चास्य V 55 VIII 38 VI 27 VI 82 V 16 I 15 III 36 VI 91 III 38 VI 94 II 8 VII 23 VI 176 VI 65 आकर्णं तु समाकृष्य IV 13 •. II 4 आकर्षश्च विकर्षश्च V 26 ii i श्लोकानुक्रमणिका सगः श्लोक सेर्गः श्लोकः VIII 13 V 47 VI 28 इन्द्रियाणां जये योगं इमां च पृथिवीं सर्वा इषुर्नीलबृहद्वेहः I 35 I 39 IV 28 II 15 IT 6 ईली हस्तद्वयोत्सेधा V 7 VIII 58 उ VIII 24 VIII 56 VIII 45 VIII 15 VII 48 आधातं च प्रतीधातं आजानेयांश्च जवनान् आत्मानं परमं मन्ये आदानं चैव संधानं आदौ प्रणवमुच्चार्य आयं तु विपुलं कुर्यात् आयव्ययं च विज्ञाय आयानुकूलं कुरिन् आयुधव्यसनं प्राप्त आयुधापेक्षिणं श्रुत्वा आयुधेभ्यो वरः खगः आरा उपनह.हा आविद्धं च प्रविद्धं च आश्रयांश्च महर्षीणां आश्विन वप्रसहितं आसन् हिरण्मया दर्भाः आस्तरो अन्थिपादः स्यात् आहवेषु मिथः शूराः IV 39 VIII 9 IT 49 III 8 I 16 VI 53 V 25 V 34 IV 37 VI 37 VIII 27 उच्चावचाः करा:न्यायाः उच्चासनस्थो नृपतिः उत्थानं विनिवृत्तिश्च उत्थायापररात्रेषु उदरंभरिता स्वार्थः उद्दीनमवदीनं च उन्नामनं प्रपातश्च उन्मोच्य चाधिकारिभ्यः उपजप्यानुपजपेत् उपन्यस्तमपन्यस्तं उपलोत्क्षेपकं चापं. उपविष्टे मुनौ तस्मिन् उपसंहाररहितं उपायांश्चतुरो युज्यात् उभौ तौ नृपतिः कुर्यात् उर ऋक्षौ च पक्षौ च VI 29 VII 58 I 31 V 44 V 20 IV 22 VII 44 I 8 II 13 hor VIII 72 I 20 VI 56 I 11 .. .VI 11 I 19 इङ्गितं ते मया ज्ञातं इतश्चानुदिनं धर्मः इति तद्वचनं श्रुत्वा इति पृष्टस्तु पृथुना इत्थं विधाभिस्तु भटान् इत्युक्तवन्तं राजानं IV 3 IV 24 .. VI 111 ऊर्जखलांश्च जंघालान् ऊर्जस्वलान् सांयुगीनान् VI 17 I 7 I 40 इत्युक्तानन्ददुग्धाब्धौ II 62 II 66 इत्येतत् कथितं वत्स इत्येतत् कथितं वत्स रत्येवमनशाम्यैनं V 59 एकत्रिंशच कंकाला एकमेव दहत्यग्निः एकविंशतिलक्षाणि VIII 6 .. I 56 VII 25 श्लोकानुक्रमणिका सर्गः श्लोकः सर्ग: श्लोकः VII 24 VI 80 V 43 VII 36 VIII 8 V 3 VII 7 VI 67 कृत्वा ज्येष्ठानुसारेण कृत्वा सुशि ल्पनः प्राज्ञान् कोटिसूर्यप्रतीकाश कोशागारायुधागार कोष्ठागारायुधागार क्रमाद(शहासेन क्रौञ्चास्त्र हयशीर्ष च क्षयस्थानं च वृद्धिश्च VII 16 VI 62 IT VI 92 VII 9 II 24 VII VIII 86 एकविंशत्सहस्त्राणि एकस्यै रथिकायाथ एकस्यैकस्य चाश्वस्य एकस्यैकस्य नागस्य एकाशीतिसहस्रास्तु एको रथो गजश्चैकः एको रथो दश गजाः एतन्मन्त्रं प्रवक्ष्यामि एतानक्षौहिणीसंस्थान एतानि वल्गितान्याहुः एतानि विकृति यान्ति एते चान्ये च बहवः एते सेनाविशेषा वै एतैरन्यैर्यथाशास्त्र एवंवृत्तस्य नृपतेः एवं सर्वमिदं राजा VII 31 IV 20 खगः कदा हि जनितः III 2 V 51 III 10 ग VII 4 .. VI 97 VIII 41 VII 40 .. VIII 92 .. VI 14 VIII 88 VII 21 VII 13 II 35 III 27 I 18 VI 45 I 9 II 20 .. III 39 गजं च गजसादि च गजयन्तुस्सारथेश्व गजांश्वाग्रे प्रेषयेच गजानां सप्तलक्षाणि गणाख्ये शताङ्गानां गतप्रत्यागाताक्षेपाः गतवाहनयोधानां गदामुद्रसीरा च गदावल्गितवत्येषा गदा शैक्यायसमयी गव्यूतिमात्रे यो व्यूहः गिरिपृष्ठं समारुह्य गुप्तकर्म समादिश्य गुल्मांश्च स्थापयेदाप्तान् गुल्मे नव रथाः प्रोक्ताः गोधोपासङ्गकवच गोमुखं ब्रह्महत्यापि . V 49 VI 34 क कङ्कलास्त्रं मौसलास्त्रं कथं तेषामियं नीतिः कथान्तरमथासाद्य कथेयं कथिता तुभ्यम् कर्मान्तिकान् यष्टिधरान् कांस्यकायो लोहशीर्षः कान्दिशीके स्वसैन्ये तु कालरात्रिनीकाशं तत् काव्यस्तु तत्समालोड्य कुन्तस्त्वयोमयागः स्यात् कूटयुद्धसहायानि कृत्तिकास्तस्य नक्षत्रं V. 29 V 28 VI 87 •. VI 86 VIII 68 V 4 . VI 41 I 25 VII 56 V 22 VII 12 V 53 IV 25 III 35 II 54 iv श्लोकानुकमणिका सर्गः श्लोकः सर्गः VI 6 त V 2 II] IV 48 IT) गोमूत्रिका हंसिका च गोशीर्ष गोशिरः प्रख्यं ग्रन्थनं भ्रामणं चैव ग्रहणं ध्मापनं चैव ग्रामस्याधिपतिः कार्य ग्रामीयान् ग्रामंदोषांश्च IV 41 V VI VIII 46 . VIII 47 I] IT च ततस्तु भगवान् रुद्रः ततस्त्वृषभकेतोः स तत्तत्कार्यानुसारेण Do. तत्राचं मतमालंब्य तत्रावान्तरभेदांश्च तत्साध्यसिद्धयस्तिस्रः तथा पुष्यरथांश्चैव तथा भूमिप्रदेशज्ञान तथा व्यसनिनं शत्रु तदा त्वायतिसंयुक्तः तदा प्रभृति लोका वै तदा हिमवतः शृङ्गे .. VII. VI IV 47 V] VI 49 ] III 23 VII] IV 44 II ' II 37 चक्र तु कुण्डलाकारं चक्राणि लोकपट्टांश्च चचार विविधान् मार्गान् चतस्रो गतयस्तस्य चतुश्चत्वारिंशदेते चतुष्पाच्च धनुर्वेदः Do. चम्बां सप्तशतं चैक चारेभ्यश्चाधिकारीणां चालनं धूननं चैव IT] I 38 II तमायान्तमृर्षि श्रुत्वा 1 لا .. II] VII 20 तमुद्धृत्य महादेवः ] VIII 29 II] V 6 IV ज VII] VI] VIII 71 -- IV 10 तल्लक्षणोद्देशमात्रं तस्मिन्नुत्पतमाने च तस्य देवस्य यद्रूपं तस्य प्रसादे पद्मा श्रीः तादृशानेव खीयांस्तु तानन्यानगुणान् तिरश्चीनगतान्येव तिर्यगूर्ध्वप्रचरणे तीक्ष्णखभावाद्गच्च तुरङ्गाणां सहस्राणि ते तस्य वचनं श्रुत्वा तेन संस्तंभिता ह्यापः तेभ्योऽतिगच्छेद्विनयं तेषां प्राणान्तिको दण्डः V I 45 IT] VIII 16 जडान्धमूकबधिरान् जययां च कृशाश्वायत् जया लब्धवरा मत्तः जातिभात्रोपजीवी वा जिगीषवोऽरीन् राजानः जिघांसवः पापकामाः जृम्भकावरणाश्चैव जैनध्वजपताकं च ज्याधनुर्वर्मशास्त्राणि I] III 40 VI]] . .. VIII 55 I] II 34 ] VI 25 VII) •. VI 47 VI) श्लोकानुक्रमणिका v सर्गः श्लोकः सर्गः श्लोकः VIII 52 VIII 21 IV 38 VI 40 IV 35 II 30 VII 17 I 55 तेषां यङ्ग्रामकृत्यं स्यात् तोमरः काष्टकायः स्यात् . तोलनं भ्रामण चैव त्रयश्च चत्वारिंशच्च त्रिचत्वारिंशच्च लक्ष त्रिभ्रामण विसर्गश्च त्वमप्येतमसिं मत्तः त्सरुणा गुरुणा नद्धं सरुपादः सशिखरः VII 19 II 52 IV 31 दृढं ध्यात्वा VIII 10 III 34 IV 36 V 19 दूतं चैव प्रकुर्वीत दूष्याणि च नरेन्द्राणां दृढनाभोऽलक्ष्यलक्ष्य दृढमष्टाङ्गसंयुक्ता देवोपयोगिनं देह दैवं हृदा द्रुघणस्त्वायसाङ्गःस्यात् द्वात्रिंशत्करणानि स्युः द्वात्रिंशत्करणानि स्युः द्वात्रिंशदायुधानीति द्वात्रिंशद्वर्णकमर्नु द्वारपालान् पृष्ठगोपान् द्वितीयसैन्ययायित्वं द्विविधं कीर्त्यते द्वैध द्वे कोटी चैव लक्षाणां द्वे चार्बुदे च कोटिश्च III 24 V 10 VI 58 to IV 2 II 9 IV 9 VIII 20 II 22 VI 62 . VI 3 VIII 84 VII 53 .. VII 29 .. VIII 79 VII 30 VIII 63 VIII 64 ध .. VI 89 V 2 I 43 दंष्ट्राकरालवदनं दण्डचक्रं धर्मचक्र दण्डभोगोऽसंहताश्च दण्डव्यूहेन सेनां तु दण्डस्त्रिधार्थहरणं दत्वा भूमिनिबन्धवा दत्वा भूम्यादिकं राजा दद्यात् प्रहृष्टो नियुतं दधीचिपृष्टास्थिजन्यं दधीचिरपि तान् हृत्वा दन्तकण्टकनामा तु दन्तकायो दृढाइश्च दशी तेन विभक्तव्यः दानं पञ्चविधं प्राहुः दाम्पत्येऽभिरुचिर्हेतुः दिवसे दिवसे संज्ञाः दिवसे दिवसे सेनां दिष्टया ते बुद्धिरुत्पन्ना दुर्भिक्षव्यसनोपेतान् II 45 II 17 IV 49 II 61 .. IV 43 IV 11 VIII 50 धनुरायायुधब्यक्ती धनुरिपुर्मिण्डिवाल धनुर्वेद विदं त्वां तु धनुर्वेदविधानेन धनुर्वेद विशेषज्ञाः धनुर्वेदस्य माहात्म्यात् धनुर्वेदस्योपदेश धनुस्वरूपमाख्यास्ये धन्योऽस्म्यनुगृहीतोऽस्मि II 43 VIII 76 II 60 I 13 II 63 VI 77 IV 6 VI 83 I 6 I 41 धर्मनाभो महानाभः II 31 VIII 25 धर्मशास्त्रपुराणानि VIII 90 vi लोकांनुक्रमणिका सर्गः श्लोक. .. VIII 22 धर्मशास्त्रानुवादेन धर्मसेतुमतिक्रांतान् धृत्वा यात्रामारभव III 32 . . I 53 न VII 45 .. VIII 53 स . VII 47 III 13 VII 49 IV 40 VII 46 VII 6 II 27 न कूटैरायुधैर्हन्यात् नगरे नगरे च स्यात् न प्रसुप्तं न प्रणतं नभोऽग्निज्वालयोद्भास्य न मुखे त्रिणिनं हन्यात् नलिका ऋजुदेहा स्यात् न हन्यावृक्षमारूढ़ नागा दशरथस्यास्य नागास्त्रं गारुडास्त्रं च नामापि तस्य राजेति नित्यकर्म समाप्याथ निस्तंभे निर्गवाक्षे च नीतिशास्त्रमिदं प्रोक्तं नीलोत्पलसवर्ण तत् नीललोहितवर्ण तत् प पञ्चविंशत्सहस्राणि पट्टिशः पुंप्रमाणःस्यात् पठेच य इदं काव्यं I 30 सर्गः पदातये सुवर्णानां .. VII] पदातीनां सहस्रस्य VI] परंपरा तु का तस्य II] परद्रव्ये प्रेरणं च VIII परराष्ट्रार्जितं द्रव्यं V] परशुः सूक्ष्मयष्टिः स्यात् परावृत्तं सान्नवृत्त परीघो वर्तुलाकारः V परिमोक्षं प्रहाराणां परिवर्तनाधिकारैश्च VII] परीक्षित स्वमप्येवं VII) परीक्षितमहाबुद्धिः I] पलायितं सायुधं तु V] पलायितं स्वभृतिकं V] पल्याणानि स्वलीनानि vi पादावकर्षसन्धाने II पाद्यमध्य तथा गां च पापा ह्येते कथं धर्म V पाशस्सुसूक्ष्मावयवः IV पित्र्यस्सौमनसश्चैव I] पिनाकस्तु त्रिशीर्षः पुरोगानुचरांश्चैव पूरणं स्थारणं चैव IV पूर्वराजकृता या तु VII] पूर्व वक्ष्यामि मुक्तानां IV पृष्ठयान् वृषानश्वतरीन् V] पृथुग्रीवं सूक्ष्मशिरः IV पृथुमेवं प्रशास्यैव VII) VIII 11 VIII 69 VIII 99 - III 14 V 12 . I 23 . V 39 V] . . VIII 97 .. पताझं गन्धतैलं VI 54 VII 3 VI 75 पत्तिः सेनामुख गुल्म पत्तेः सेनामुखस्यापि पत्त्यजै स्त्रिगुणैः सः पत्त्याद्यङ्गपतीनष्टौ पत्त्याधङ्गे ध्वजपटाः VII 10 VI 80 . VII 32 पृथुर्वैन्यः प्रजा रक्षन् - श्लोकानुक्रमणिका vii सर्गः श्लोक सर्ग: श्लोकः III 17 भ VIII 32 VI 102 VI 23 I bl VI 100 VI 88 IV 30 IV 91 IV 24 II 18 IV 26 IV 16 VI 4 VI 44 भटेभ्यश्चव वस्त्राणि भवानष्टादशान्येषु भिण्ठिवालस्तु वक्राङ्गः भुक्ता भागवतं शास्त्रं भुसुंडीति द्वादशैते मूभृद्भेदश्चाविचाल्यं भृतिश्चातिरथे देया भृशाश्वो मानसः पुत्रः भेदस्त्रिधान्यतरस्नेह भोग च दद्याद्विप्रेभ्यः भ्रान्तमुद्धान्तमाविद्ध भ्रामणं कर्षणं चैव भ्रामणं क्षेपणं चेति VII 34 VI 42 I 44 .. VI 59 VIII 78 VIII 62 II 3 III 25 I 32 IV 46 II 25 '.. V 21 IV 29 पेतुरुल्का दिवो घोरा प्रजोद्वेजनकर्तृणां प्रतिग्रहे वासयेच्च प्रतिप्रयाणं मृत्यानां प्रत्यग्रे कर्मणि कृते प्रत्यालीढकमालीढं प्रदक्षिण च शैध्यं च प्रदरो दृढकः सत्यः प्रदेयानि तु योधानां प्रभूतजलकाष्ठानि प्रयाणपूर्वयायित्वं प्रयोगकोटीरयुतः प्रविभागो न राष्ट्राणां प्रसारणं वेष्टनं च प्रस्वापनप्रशमने प्राचेतसमनुश्चापि प्रासस्तु सप्तहस्तःस्यात् प्रेषयित्वा नयेत् सेनां ब बद्धगोधाडुलीलाणः बन्धयेच्च तटाकानि बन्धुत्वज्ञापनं स्वात्म बहूदयान् प्रात्ययिकान् बालोऽपि नावमन्तत्यः बाहून्नतस्सुत्सरुश्च बिभीषिकांविधातं च बुसुण्डी तु वृहद्भन्थिः बृहत्त्सरुर्दूरगमा ब्रह्माण च ततो दृष्ट्वा ब्रह्मा महेश्वरः स्कन्दः ब्राह्मणेभ्यो नाददीत I 24 म V 25 .. VI 36 V 31 V 41 .. मण्डलानि विचित्राणि Do. मत्सकाशाद्धनुर्वेद मदङ्गात्तानुपादाय I 47 IV 23 II 51 VIII 59 मदोत्कटांश्च कलमान् VI 18 VIII 75 VI 31 VI 38 V. 54 VIII 5 VIII 67 IV 50 II 44 VI 60 मधुरानूषरे देशे मधु साशीविषघटा मन्त्रों विजयमूलं हि मन्दरं पर्वतश्रेष्ठ मयूखी कृतयष्टिः स्यात् मर्दनीयतरुश्रेष्ठा महर्षिसुरगन्धर्वा महेन्द्रो लोकपालेभ्यः मां रक्ष रक्षेत्युच्चार्य V 46 IV 51 VI 71 .. IV 34 III 18 IN 31 I 37 I 21 VIII 57 TT ..

Vill श्लोकानुक्रमणिका सर्गः श्लोकः सर्गः श्लोकः VII 51 VIII 70 VIII 83 VI 79 VIII 81 VIII 17 IV 27 VIII 49 यस्य मन्त्रं न जानन्ति यादृक् सैन्याधिपत्ये तु यस्य शूद्रस्तु कुरुते यानि ग्रामिकभोज्यानि यापनं घूर्णनं चेति यावत्कीर्तिमनुष्यस्य युद्धकाले ह्यनुप्राप्ते युद्धे स्वार्थ मृता ये च II 11 IV 52 II 12 VIII 96 V 50 VII 60 .. V 35 मार्गशीर्ष शुभे मासि मित्रस्य चानुरोधेन मित्रेण चैव विकृते मिश्रण स्फोटनं वीपी मुक्तं चैव ह्यमुक्तं च मुक्तं बाणादि विज्ञयं मुक्तामुक्तपदोकानि मुद्गरः सूक्ष्मपादः स्यात् मुनिरौरशिराश्चापि मुष्टिग्रहः परिक्षेपः मुष्टयग्रग्रहणं चैव मुसलस्त्वक्षिशीर्षभ्यां मूलप्रतिग्रहं कृत्वा मृतानां जीवतां चापि मृदुर्हि राजा सततं मौलान् शास्त्रविदः VI 106 I 26 युवराजाय वर्वाणां VII 33 .. V 14 योगन्धरः सनिद्रश्च II 32 V 17 यो दण्ड्यान् मोचये- VII 64 VI 38 VI 32 VI 107 .. VIII 43 VIII 18 III 16 मौष्टिकं सुत्सरु ज्ञेयं V 40 म्लेच्छा गोयोनयश्चान्ये V 52 .. य द्राजा योधेषु रथिकान् कुर्यात् IV 56 र रक्ताक्ष क्रूरनिर्हादं III 15 रक्षणार्थाय लोकस्य रक्षोगजादिदेहानां IV 17 रक्षोदेवमनुष्याणां VI 10 रज्जून् शङ्कन् शङ्कुरोपान् .. VI 48 रथाक्षमालका या च V 30 राङ्गिकं त्रिणतं प्रोक्तं IV 21 राजधर्माः कृताः सर्वे I 10 राजधर्मान् प्रवक्ष्यामि VIII राजाज्ञाप्रतिबन्दीनां VIII 33 राजानं प्रथमं विन्देत् VIII 44 राज्ञा नियमितांस्त्यक्त्वा VI 81 राज्ञोऽपहासनिन्दे च VIII 42 V 52 III 12 .. VII.55 . VIII 54 VIII 30 यन्त्राणि लोहसीसानां यज्ञ ह्यकरवं तत्र यतः शंका भवेत् भीतः यतों भवेत् भयं शत्रोः यत्र श्यामो लोहिताक्षः यथा हि गर्भिणी हित्वा यदा मुञ्चेच्छरं विध्येत् यद्यदङ्गाश्रितं चास्थि यवसान्नोदकधनानि यस्त्वमात्योऽनुकूलः स्यात् VIII 2. IV 14 II 57 VII 57 I 22 लक्षाध्यायान् जगौ लक्ष्यस्य प्रतिसन्धानं VI 84 IV 18 श्लोकानुक्रमणिका ix सर्गः श्लोकः सर्गः श्लोक: IV 42 I 21 V 18 III .. लगुडः सूक्ष्मपादः स्यात् लवित्रं मुग्नकायं स्यात् लालाटिकश्चेङ्गितज्ञः लिङ्गमेवाश्रमख्याती लोकनाथ नमस्तेऽस्तु VI 73 VIII 94 .I 14 VIII 100 वेदव्यासश्च भगवान् वेनपुत्र प्रवक्ष्यामि वैन्योऽपि तत्तथा चक्रे वैशंपायन इत्युक्त्वा वैशंपायननामा तु वैश्यो वा शूद्रजातीयः व्याजेन युध्यतां चैव व्यादितास्यातिनीला च III I 3 VIII 98 व VII 61 .. IV 33 . IV 32 V 48 शक्तिहस्तद्वयोत्सेधा शतघ्नी कण्टकयुता शतत्रयाध्यायवती शतामानाभिभानां च शत्रुपत्त्यश्वरोधश्च .. I 27 VII 2 VI 61 शत्रुषु स्वीयमार्गाश्च VII 62 VI 110 .. VII 52 VI 99 वक्ष्यामि चोपसंहारान् II 28 वज्रं खङ्गो धनुश्चक्रं II 2 वज्रमाली च परशुः II 19 वनदिङमार्गविज्ञानं VI 64 वराकीश्चैव तरुजाः VI 52 वाचा तान् भीषयित्वा तु VIII 28 वामांगुष्ठं तदुदरे IV 12 वाराही मकरव्यूहः VI 9 वार्तिकाधिपतेश्चापि VII 41 वाहिन्यां स्यन्दनाः प्रोक्ताः.. VII 15 विशतीशश्च तत्सर्व VIII 48 वित्तमेव कलौ नृणां I 12 विद्रावयेच्छत्रुगुल्मान् VI 39 विभीषिकां विघातं च VI 60 विमलस्तीक्ष्णधारश्च III 20 विविधानि च वाद्यानि VI 51 विशालो विजयः सूची VI 5 विशीर्णे कार्मुके राजन् III 6 विष्णुचक्र वन्नमस्त्रं II 40 विष्णुमरीचये प्रादात् III 30 वीतमन्तःपुरं चैव VI 19 वृतो राजगुणैः षड्भिः I 49 वेतनं रथिकायाथ VII 35 VI 63 VI 109 III 7 I 14 शत्रुसेनाविभेत्तारं शत्रुसेविनि मिले च शत्रुसैन्यात् कुञ्जरं वा शत्रूणामभिरोधश्च शत्रूणामुपघातार्थ शरासनधरांश्चैव शस्त्रमस्त्रं च प्रत्यस्त्र शस्त्राणि लोके द्वात्रिंशत् शाखानगरमहंस्तु शिक्षणथं च ये योज्याः शिखरी धर्मपाथं च शिथिलानि च शस्त्राणि शूद्रप्रायेषु वर्णेषु शृणु चाप्यपरं भूयः शोधनं कूपतीर्थानां II 59 VIII 51 VIII 37 II 23 VI 105 I 17 II 42 VI 66 श्लोकानुक्रमणिका सर्गः: श्लोकः सर्गः श्लोकः III 37 सर्वाश्वापती राज्ञः .. VII 37 श्रीगर्भो विजयश्चव श्रीमत्तक्षशिलायां तु श्रीमदजाननं T 2 II 50 I 1 VIII 73 ष VIII 74 षष्टिनागसहस्राणि I 34 VI 57 V 37 स संपातं समुदीर्ण च V8 VIII 89 ताफ्नान्यस्थिभूतानि साम दानं च भेदं च साम पञ्चविघं ज्ञेयं सारथ्ये च गजस्कन्धे सीरो द्विवक्तो विशिखः सुपरीक्षितमन्नाज्यं सुपन्त्रिणः प्रकुर्वीत सेतुभेदकराणां च सेनाकर्म समालोक्य सेनामुखे तु गणिताः सेनायाः भृतिदाने च सैनिकान् परिधिस्थांश्च संभूय चैव मित्रेण VIII 82 VIII 19 .. II 26 .. VIII 34 I 46 VIII 23 VI 30 VII 1) संवर्त मौसलं सत्यं संहारान्नाम दुर्धर्षान् सकाण्डपृष्ठं सजलं सङ्कनमेऽभिमुखाः कृत्ताः स च तान् संपरिकामेत् स तथेति प्रतिश्रुत्य VII 42 VI 108 VI 33 VIII 54 सोऽग्निर्भवति वायुश्च III 33 VIII 4 VI 20 III 4 स तद्वचः समाकर्ण्य सत्कृत्य मनवे दत्त V 24 V 13 सौविदल्लान् वर्षवरान् स्थूणस्तु रक्तदेहः स्यात् . स्वदत्तात् द्विगुणं पुण्यं स्वद्रव्यमाहरेत् तेभ्यः स्वमूलं तु दृढ कृत्वा VIII 65 II 10 VIII 26 II 29 II - 36 I 54 स्वयंभोर्वचनं श्रुत्वा IV 1 V 36 VI 2 I 48 सत्यं सत्यं पुनः सत्यं सत्यवान् सत्यकीर्तिश्च सत्यवान् सर्वदमनः सत्सरुर्वर्तुलो नीलः सन्धिविग्रहतत्वज्ञः सन्मानं चैव कुर्वीत सप्तकोट्यश्च चैकोन सप्तविंशतिसाहस्राः सप्ताशीतिं च लक्षाणां समुत्पिब्जे स्वसैन्ये च VI 78 VIII 60 स्वशक्तयुपचयं ज्ञात्वा स्वाज्ञासंचरणार्थाय स्वाधीनादिकृतानां तु स्वान्यसंहारकाभावात् VII 22 VIII 35 II 41 .. VII 14 VII 26 है VI 85 VII 50 सर्वमोचननामा तु VI 104 .. II 38 VI , 72 हन्यमानस्य यत्किचित् हयं वा शकटीं वापि हयारूढवरं हत्वा हिरण्यकशिपुश्चैव हूणाः पुलिन्दाः शबराः VI 98 सर्वसेनाधिपः कार्यः सर्वस्वहरणैश्चैव सर्वामिसारसहितः VIII 39 . III 9 VI 15 V 56 श्रीः विषयसूचिका पुटः पुटः प्रथमोऽध्यायः 45 -- 45 ... 1 2 45 4 46 मङ्गलाचरणम् उपोद्धातः कलियुगाचारकथनम् (राजशास्त्रे) पूर्वग्रन्थपरिचयः धनुर्वेदोपदेशः शस्त्रास्त्रजननम् धर्मप्रजापरिपालनोपदेशः द्रुघणस्वरूपादिकथनम् तोमरस्वरूपादिकथनम् नलिकाखतपादिकथनम् लगुडस्वरूपादिकथनम् पाशस्वरूपादिकथनम् चक्रस्वरूपादिकथनम् दन्तकण्टकखरूपादिकथनम् बुसुण्डीस्वरूपादिकथनम् 6 ... 46 46 10 47 11 पञ्चमोऽध्यायः 48 ... 49 ... द्वितीयोऽध्यायः धनुर्वेदस्वरूपनिरूपणम् 19 धनुर्वेदस्य मतभेदेन चातुर्विध्यकथनम् 21 पादचतुष्टयस्य प्रत्येकमवान्तरभेदवर्णनम् 21 दधीचिनिकटे देवैः खायुधन्यासः 25 तदङ्गात् सवज्रशस्त्राणामुद्गमः 26 धनुर्वेदमाहात्म्यम् ... 28 49 49 वज्रलक्षणम् ईलीलक्षणम् परशुलक्षणम् गोशीर्षखरूपादि असिधेनुखरूपादि लविनखरूपादि आस्तरखरूपादि कुन्तखरूपादि 50 50 ... 50 तृतीयोऽध्यायः 51 स्थूणखरूपादि 30 51 36 ... .. 51 52 असिवृत्तान्तकथनम् असेः रहस्यनामानि चतुर्थोऽध्यायः धनुस्वरूपादिकथनम् इषुखरूपादिकिथनम् भिण्डिवालखरूपादिकथनम् शक्तिखरूपादिकथनम् 38 प्रासखरूपादि पिनाकस्वरूपादि गदास्वरूपादि मुद्गरस्वरूपादि सीरस्वरूपादि मुसलस्वरूपादि पट्टिशस्वरूपादि : : 53 43 53 43 53 ... 44 ... xii विषयसूचिका 54 87 55 कूटयुद्धनिषेधः युद्धयात्रादि दण्ड्यशिक्षणम् : : 88 55 90 मौष्टिकस्वरूपादि ." परिघस्वरूपादि मयूखीस्वरूपादि शतघ्नीस्वरूपादि कूटयुद्धवर्णनम् षष्ठोऽध्यायः 56 57 अष्टमोऽध्यायः राजप्रभावः 91 व्यूह भेदाः 59 92 60 61 93 70 राज्ञार्थचिन्तनम् राज्यतन्त्रविचारः धर्मप्रवक्तादिनियमनम् दुष्टशिक्षणम् ग्रामाधिपत्यादिषु अधिकारविभागः ... 93 व्यूहनिर्माणप्रकारः युद्धसज्जीकरणम् चतुरङ्गकर्मादि सेनापत्यादिनियमनविधिः रहस्यगोपनप्रकारः पारितोषिकदानादि जीवनदानम् ... 72 96 73 99 75 ... 79 करग्रहव्यवस्था 101 मन्त्रप्रकार: 103 सप्तमोऽध्यायः सेनाविशेषकथनम् भृतिव्यवस्था 81 राज्ञः कृत्यन्तरााण . 107 :: 85 ग्रन्थोपसंहारः 108 -awar

No text on this page.

तृतीयस्सर्गः खगोत्पत्तिकथनम्
81
मू.-शरासनधरांश्चैव गदाशक्तिधरांस्तथा ।
एक: स्वगधरो वीरस्समर्थः प्रतिबाधितुम् ॥ ७ ॥
व्या.-शराः बाणाः । आसनं तस्याधारः तान् । एवकारश्चाप्यर्थकः ।
सर्वायुधधरांश्चापीत्यर्थः। प्रतिबाधितुं वैपरीत्येन हन्तुम् ॥ ७ ॥
मू.- आयुधेभ्यो वरः खड्गः तस्माल्लोकेषु विश्रुतः ।
मया सृष्टः पुरा राजन् कस्मिंश्चित्कारणान्तरे ॥ ८ ॥
व्या.--यस्मात्सर्वेभ्य आयुधेभ्यश्चोत्कृष्टतामर्थ्यवान् । तत्र हेतुर्मया
सृष्टत्वम् कारणान्तरे निमित्तान्तरे ।
व्य':-तत्कारणमाह-हिरण्यकशिपुरिति
मू..-हिरण्यकशिपुचव हिरण्याक्षो विरोचनः ।
शम्बरों विप्रचित्तिश्च प्रह्लादो नमुचिबलिः ॥ ९ ॥
एते चान्ये च बहवस्स गणा दैत्य दानवाः ।
धर्मसेतुमतिकम्प देवैर्योधुमुपाकमन् ॥ १० ॥
व्या.--दैत्या दितिकुमाराः ! दानवा दनुनाम्न्यास्सुताः । धर्मसेतुं
धर्मसीमानम् । अतिक्रम्योल्लङ्घय । उपक्रमन्नारमन् ॥ १० ॥
व्या.–खड्गसृष्टिप्रदेशमाह तदेत्यादिना ।
मू. तदा हिमवतश्शृङ्गे नानाधातुविराजिते ।
शतयोजनविस्तारे पुष्पितद्रुमकानने ॥ ११ ॥
व्या. तदा धर्महाससमये नानाधातुभिस्वर्णरूप्यादिभिः विराजिते ।
शतयोजनविस्तारे शतयोजनसङ्ख्याकपरिमण्डलवति । हिमवतश्शृङ्गे
प्रधानशिखरे ॥ ११ ॥
म.-यज्ञं एकरवंस्तत्र सर्वलोकार्थसिद्धये ।
ततो वर्षसहस्रान्ते त्वद्भुतं समजायत ॥ १२ ॥
व्या.-अकरवं कृतवानस्मि। स्वस्य यज्ञकरणे प्रयोजनमाह-सर्वेति
सर्वलोकानां । समस्तजनानां ।
अर्थः परलोकसाचनरूपः तस्य
सिद्धिश्शिक्षा । तस्यैतत् । यज्ञोपक्रमणानन्तरं वर्षसहस्रान्ते यज्ञावसाने ।
अद्भुतमाश्चर्यम् ॥ १२ ॥

Nitiprakashika

Author
Vaisampayana
Other authors
Ccl
Title
Nitiprakashika
File name
Nitiprakashika
Text
OCR done
Citation
1953
Publisher
The_superintendent_government_press
Language
Sanskrit
Pages
135
Library
Scl
DLI number
369045
Barcode
2020010006536.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
PAR Informatics, Hyderabad
VMLT id
9y7ot1SepkA
Download PDF

Nitiprakashika