Asr,melkote
Vedanta Karikavali
Front matter
No text on this page.
The Adyar Library Series No. 75
GENERAL EDITOR :
DR. G. SRINIVASA MURTI, B.A., B.L., M.B. & C.M., VAIDYARATNA
Director, Adyar Library
VEDANTAKĀRIKĀVALI
OF
BUCCI VENKATĀCĀRYĄ
No text on this page.
वेदान्तकारिकावली
बुच्चि वेंकटाचार्यकृता
VEDĀNTAKĀRIKĀVALI
OF
BUCCI VENKATĀCĀRYA
EDITED BY
PANDIT V. KRISHNAMACHARYA
WITH HIS OWN
COMMENTARY AND ENGLISH TRANSLATION
THE ADYAR LIBRARY
1950
SBN
ISBN
7229-7423-X
0-8356-7423-1
Printed by C. Subbarayudu, at the Vasanta Press,
The Theosophical Society, Adyar, Madras
PREFACE The importance of the Vis'istādvaita system of Vedānta philosophy, lies in the fact that this system derives full support from the Vedic texts. This system has successfully maintained both the difference and non-difference between the Brahman and the world of sentient and non-sentient beings as taught in the Vedic texts. The main principles of this system are based on the relation between the Brahman and the world in the shape of the soul and body. The sentient and non-sentient beings constitute the body of the Brahman as they are invariably resting on Him, and completely controlled by Him. Just as our body is sustained, controlled and engaged for his own purpose by the indwelling soul, all sentient and non-sentient beings also are sustained, controlled and engaged for His own purpose by the Inner Ruler Brahman. This sort of relationship between the Brahman and the world, enables the Vis'iştādvaitin to explain the nondifference between them. At the same time the difference between them is also proved by the clear distinction in their essential nature and characteristics. Many works have been written on the basis of this principle. The Vedāntakārikāvali of Surapuram Bucci Venkatācārya is one of them. This is a vi metrical epitome of the principles accepted in the Vis'istādvaita system of Vedānta philosophy. The author Bucci Venkatācārya was the third son of Annayārya of the Sri Saila family of Bukkapattanam, near Gutti in Andhrades'a and a protege of Venkatanāyaka, the chief of Surapuram which is said to be between the rivers Krishnā and Bhimā in Gulbarga Dt., in the Nizam's Dominions. The author's date may be fixed between the last part of the 18th century and the beginning of the 19th century A.D. The work was printed and published about 50 years ago in Telugu and Devanagari scripts. But these publications have not proved to be satisfactory as they contained many mistakes. These editions are not available now. Hence there is no need for an apology for undertaking this edition. In order to facilitate the average readers in understanding the subject correctly, an easy gloss in Sanskrit and a translation in English have been added. The edition is based on the following materials : 1. A paper MS. of the Adyar Library, written in Telugu script. This is indicated by the letter A. 2. An old edition printed in Telugu character. This is indicated by the letter B. 3. A paper MS. of the Adyar Library, written in Grantha script. This is indicated by the letter C. 4. An old edition printed in Devanagari character in the Stotraratnāvali, Part II, published by the L. Venkatesvara Press, Bombay. This is indicated by the letter D.
vii
In this connection our hearty thanks are due to:
1. The Honorary Director and the Honorary
Curator of the Adyar Library for their kind permission
to include this publication in the issues of the Adyar
Library Bulletin-Brahmavidyā,
2. Pandit K. Ramachandra Sarma of the
Adyar Library for his co-operation which proved of
great value,
3. Dr. V. Raghavan of the Madras University
for his generous help rendered by giving a copy of his
article entitled — " The Surapuram Chiefs and some
Sanskrit writers patronised by them” published in the
Journal of the Andhra Historical Research Society,
Rajahmundry, Vol XIII, 1940. His article was of
immense use in getting information regarding the Chiefs
of Surapuram and fixing the date of our author and
4. The Superintendent of the Vasanta Press,
Adyar for executing the printing of the work very
neatly and attractively.
V. KRISHNAMACHARYA
No text on this page.
उपोद्धातः जगद्ब्रह्मणोर्मेदाभेदबोधकतयापाततः परस्परव्याहतानामिव भास- मानानां श्रुतिवाक्यानामविरोधेन शास्त्रीयप्रक्रियां लोकानुभवं चानुसृत्य समञ्जसार्थप्रतिपादनादत्युत्कृष्टमिदमौपनिषदं विशिष्टाद्वैतदर्शनमिति बहु- मन्यन्ते विपश्चितः । तदिदं दर्शनमनिदंप्रथमश्रुतिप्रमाणसिद्धमपि कैश्चिन्म- तान्तरप्रवर्तकैः स्वस्वमतप्रतिष्ठापनपरैर्मध्ये समुपजनितविच्छेदप्रसरं पुन- थियामुनादिभिराचार्यवथैर्यथापुरं परिवर्धितमभूदिति सार्वलौकिकमेतत् । तथा चाहुः दृष्टेऽपढ्नुत्यभावादनुमितिविषये लाघवस्यानुसारा- च्छास्त्रेणैवावसेये विहतिविरहिते नास्तिकत्वप्रहाणात् । नाथोपज्ञं प्रवृत्तं बहुमिरुपचितं यामुनेयप्रबन्धै- स्वातं सम्यग्यतीन्द्ररिदमखिलतमःकर्शनं दर्शनं नः ॥" इति । मृषावादिभिरिव प्रत्यक्षसिद्धेऽर्थेऽपवाभावात् , वैशेषिकादिभिरिवानु- मेयेऽर्थेऽनपेक्षितकल्पनाभावात् , निरीश्वरमीमांसकादिभिरिव प्रमाणसिद्धेश्वरा- पह्नवप्रभृत्यपार्थवर्णनाभावाच, श्रीनाथमुनिभिः पुनः प्रवर्तितं बहुभिर्यामुनेय- प्रबन्धैः परिवर्धितं यतीन्द्रर्भगवद्रामानुजमुनिभिः प्रबन्धकरणादिना परित्रात- मिदमेवास्माकं विशिष्टाद्वैतदर्शनं सूर्योदयवदशेषतमोनिरसनक्षममिति तदर्थः । निष्कृष्टस्य ब्रह्मणस्तदितरचिदचिद्वस्तुवैलक्षण्यं बोधयन्ति भेदश्रुतयः । चिदचिद्वस्तूनां ब्रह्मापृथकूसिद्भविशेषणत्वात् तद्विशिष्टैक्य विवक्षयैकत्वं बोध- B यन्त्यद्वितीयत्वश्रुतयः । तादृशविशेषणतारहितवस्त्वन्तरनिषेधविवक्षयेतरनिषेध- परा नानात्वनिषेधश्रुतय इति ब्रह्मैक्यादिश्रुतीनां सामञ्जस्यमस्मिन्मत एव । मृषावाद्यद्वैतिनां मते तु भेदश्रुतीनां काल्पनिकापरमार्थभेदबोधकत्वेन तात्पर्य वर्णनीयम् । तच्च तासां पर्यायतोऽप्रामाण्याभ्युपगमपर्यवसायीति न सामञ्जस्यं तत्र । द्वैतमात्रवादिनामानन्दतीर्थीयानां मते त्वभेदश्रुतयः क्लिष्टगत्या पदच्छेदादिवर्णनेन नेया इति तत्राप्यस्वारस्यमिति भावः । तदेवं विशिष्टाद्वैतमिति पदस्यैषोऽर्थः पर्यवसन्नः-विशिष्टस्य अशेषचिदचिद्विशिष्टस्य ब्रह्मणः अद्वैतमैक्यं विशिष्टाद्वैतमिति । अशेषचिद- चिद्विशिष्टं ब्रह्मैकमेव तत्त्वमिति " एकमेवाद्वितीयम् " इत्यादिश्रुतेरर्थः । तत्र चिदचिद्ब्रह्मणां चितामचितां च मिथोऽत्यन्तभेदेऽपि विशिष्टै- क्यादिविवक्षयैकत्वव्यपदेशस्तदितरनिषेधश्चेति । स एषोऽर्थः श्रीभाष्यकारैः श्रीभाष्यादिग्रन्थेषु तत्र तत्र विशकलिततया विस्तरेणोपपादितोऽपि न व्युत्पित्सूनां क्लेशासहमतीनां सुग्रह इति कृत्वा श्रीमवेंकटनाथदेशिको न्यायसिद्धाञ्जनाख्यं प्रकरणग्रन्थं विरचय्य तत्र तानर्थान् संग्रहेण सुवि- शदमुपपादयामास । तत्र च ग्रन्थे निरूपितस्यार्थस्य स्थेम्ने तत्र तत्रोप- पादनपरा बहवो युक्तयश्च प्रदर्शिताः । तदेवं स ग्रन्थोऽप्यधुनातनानामलसमतीनां व्युत्पित्सूनां दुर्ग्रहः संजात इति मत्वा केचन तत्त्वविदस्तानेव सैद्धान्तिकानर्थान् संचित्य युक्ति- जालानि चापोह्यातिसंग्रहेण कतिचन प्रकरणग्रन्थानारचयन् । तेषु च ग्रन्थेषु यतीन्द्रमतदीपिकैका। सन्ति चान्या अप्येतादृश्यः काश्चित्कृतयोऽप्रका- शिताः प्रतीक्षमाणाश्च प्रकाशनावसरम् । परं तु सर्वा अप्येताः कृतयः कुल्या इव महानद्याः श्रीवेदान्तदेशिकोपज्ञन्यायसिद्धाञ्जनात्यकृतेरेव समुत्पन्नाः सर्वोपजीव्या भवन्तीत्यत्र न कापि विमतिः । तासु यतीन्द्रमतदीपिका विश्वविश्रुतनानो वाधूलमहाचार्यस्य साक्षादन्तेवासिना श्रीनिवासाचार्येणार- चिता नातिचिरात् श्रीरामकृष्णमठात् श्रीमद्भिरादिदेवानन्दस्वामिभिः परिशोध्य स्वकीयेनाङ्ग्लभाषापरिवर्तनेन टिप्पण्या च सह प्रकाशमुपानीयत । सुरपुराभिजनेषु विद्वत्स्वन्यतमेनाण्णयार्यतनूजेत बुच्चिवेंकटाचार्येण रचितैषा वेदान्तकारिकावली बहुभ्यो हायनेभ्यः पूर्वमान्ध्राक्षरेषु देवनागरा- क्षरेषु च विन्यस्तमुद्रणापि न समीचीनपाठानाविष्कृतवतीति तस्याः समीचीनपाठनिवेशेन प्रकाशनेऽद्य ममोद्यमो न चर्वितचर्वणमनुकरोति । किंचात्र कारिकाणामतिसंक्षिप्तार्थतया प्रतिपादितेषु विषयेषु प्रायशो व्युत्पित्सूनां विशयो जायेतेति मत्वा तदपोहनाय लघ्वी काचन टिप्पण्य- प्यत्र मुद्रणे संयोजिता । अपिच संस्कृतभाषायामतिपरिमितपरिश्रमाणां परं तु भाषान्तरावगतवेदान्ततत्त्वानां विदुषां कृते सर्वसाधारणाङ्ग्लभाषा- विपरिणतिरप्यत्र निवेशिता । एवमेभिर्विशेषैर्बहुपकरिष्यति विज्ञलोकस्येदं प्रकाशनमिति मन्ये । ग्रन्थोऽयमाहत्य त्रयोदशाधिकद्विशत्या पद्यैर्दशसु परिच्छेदेषु यतीन्द्रमतदीपिकामनुसृत्य शारीरकशास्त्रतत्त्वमवबोधयति । तत्र प्रमाणनिरूपणं प्रमेयनिरूपणं चेति द्वौ भागौ । प्रथमे प्रमाण- निरूपणे प्रत्यक्षानुमानशब्दास्त्रिभिः प्रकरणैर्निरूपिताः । तथा प्रमेयनिरूपणे प्रकृतिकालनित्यविभूतिधर्मभूतज्ञानजीवेश्वराद्रव्याणि सप्तभिः प्रकरणैर्निरूपि- तानि । आहत्य दशाभिः प्रकरणैः परिमितोऽयं ग्रन्थः । विशिष्टाद्वैतसिद्धान्तनिर्धारिता विषयाश्चेत्यमवगन्तव्याः । ज्ञानं द्विविधम् -प्रमाणमप्रमाणं चेति । तत्र यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमाणम् । तद्भिन्नमप्रमाणम् । तच्च संशयविपर्ययभेदाद् द्विधा । सामान्य- धर्मिस्फुरणे सति अप्रतिपन्नतद्विरोधप्रतिपन्नमिथोविरोधानेकविशेषस्फुरणं संशयः; यथा- अयं स्थाणुर्वा, पुरुषो वेति । अन्यस्यान्यथाध्यवसायो विपर्ययः । स च द्विधा-धर्मविपर्यः, धर्मिविपर्ययश्चेति । पीतः शङ्ख इत्याद्यः । शुक्ताविदं रजतमित्यन्त्यः । साक्षात्कारप्रमाहेतुः प्रत्यक्षम् । तच्च - XII द्विधा-सविकल्पकं निर्विकल्पकं चेति । सजातीयद्वितीयादिवस्तुदर्शने पूर्वदृष्टसजातीयमिदमिति प्रत्यवमर्शपूर्वकं ज्ञानमुदेति । तत् सविकल्पकम् । यत्र विदंप्रथमतया वस्तुनो दर्शने तादृशः प्रत्यवमर्शो न जायते, किं तु वस्तुस्वरूपं केवलं भासते तनिर्विकल्पकम् । उभयत्र वस्तु सप्रकारकमेव भासते । प्रत्यवमर्शसद्भावासद्भावाभ्यां परं भेदः। एतेन निर्विशेषं वस्तु निर्विकल्पकविषय इति परेषां मतमनभिमतं वेदितव्यम् । ननु विशिष्टज्ञानं विशेषणज्ञानपूर्वकं विशिष्टज्ञानत्वात् दण्डीतिज्ञानवदि- त्यनुमानेन विशेषणज्ञानमावश्यकम् । तच्च निर्विशेषमेवेति चेत् , तन्न । एकेन्द्रियवेधयोर्विशेषणविशेष्ययोर्युगपदेव ग्रहणसंभवेन तादृशनियमाभावात् , घटज्ञानात्पूर्व केवलघटत्वज्ञानस्यानुभवविरुद्धत्वाच्च । तत्र प्रत्यक्षप्रमे वादिनो विप्रतिपद्यन्ते । यथा-सर्वे ज्ञानं प्रमा, यथार्थ- विषयत्वात् । पञ्चीकरणप्रक्रियया सर्वेष्वपि वस्तुषु भूतान्तराणामवयवाः सन्ति । अतः शुक्तावपि रजतांशसत्त्वात् तस्य च प्रकाशाधिक्येन रजततया भानमिति । अन्ये तु तदनङ्गीकुर्वन्तो भ्रममेवं निरूपयन्ति । यथा--भ्रमस्त्रिधा; सख्यातिः, असख्यातिः, अनिर्वचनीयख्यातिश्चेति । सदेव रजतं तत्र भातीति सख्यातिः। असदेव तत् भातीत्यसख्यातिः । उभयविलक्षणं तत् भातीत्यनिर्वचनीयख्यातिः। तत्र प्रथमा त्रिधा-अख्यातिः, अन्यथाख्यातिः, आत्मख्यातिश्चेति । तदाहुः- आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा । तथानिर्वचनख्यातिरित्येतत्ख्यातिपञ्चकम् ॥" - इति । १. सत्राख्यातिः प्रामाकराणाम् । ते ह्येवमाहुः- इदं रजतमित्यत्र पानद्वयम् । इदमिति चक्षुःसंनिकृष्टशुक्तिग्रहणम् । रजतमित्यापणादौ xiii दृष्टपूर्वस्य रजतस्य शुक्तिरूपसदृशवस्तुदर्शनोत्थं स्मरणम् । उभयोर्मेदाग्रहात् इदं रजतमिति ज्ञानं समुदेतीति । एवं च ज्ञानद्वयभेदाग्रहरूपमेवेदं ज्ञान- मित्यख्यातिरित्युच्यते । २. अन्यथाख्यातिनैयायिकानाम् । वस्तुनो वस्त्वन्तरतया भान- मन्यथाख्यातिः । शुक्तेः रजतात्मना भानमन्यथाख्यातिरित्यर्थः । ३. आत्मख्यातिबौद्धैकदेशिनां योगाचाराणाम् । आत्मशब्दो बुद्धिपर्यायः । आत्मनो बुद्धेः रजतात्मना ख्यातिरात्मख्यातिः । ते हि ज्ञानाख्यं तत्त्वमेकमङ्गीकृत्य तद्व्यतिरिक्तं सर्वं ज्ञानविततिरूपमेवेति ब्रुवते । तेषां मते इदं रजतमित्यत्र ज्ञानमेव रजततया भातीत्यात्मख्यातिरियम् । ४. असख्यातिः सर्वशून्यवादिनां बौद्धकदेशिनां माध्यमि- कानाम् । ते हि शून्यमेकमेव तत्त्वम् । सर्वेऽप्यर्थाः संवृत्यैव सन्त इव भासन्ते । तथा भासमानाश्च पदार्थाः न सन्तः, बाधविषयत्वात् । नाप्यसन्तः, प्रतीयमानत्वात् । नापि सन्तोऽसन्तश्च, व्याहतेः । नापि सद्विलक्षणा असद्विलक्षणाश्च, व्याहतेरेव । किं तु सदसद्विलक्षणा इति वदन्ति । तेषां मते इदं रजतमित्यत्र रजतमत्यन्तासत् सदसद्विलक्षणं भासते । तदाहुः चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः" इति । ५. अनिर्वचनीयख्यातिर्मायावाद्यद्वैतिनाम् । ते हि ब्रह्मैकमेव सत्यम् , अन्यत्सर्वमसत्यमित्यभ्युपगच्छन्तोऽपि प्रपञ्चप्रतिभासमेवं समर्थ- यन्ते-अविद्यासंवलितं ब्रह्मैव प्रपञ्चाकारेण भासते । स च प्रपञ्चो न सन् , बाधात् । नाप्यसन् , प्रतीयमानत्वात् । नापि सदसद्रूपः, व्याहतेः । नापि सदसद्विलक्षणः, व्याहतेरेव । तस्मात् सत्त्वेन वा असत्त्वेन वा उभयात्मना वा अनुभयात्मना वा निरूपयितुमशक्य इत्यनिर्वचनीय इत्याचक्षते । ६. षष्ठीमपि निरधिष्ठानख्याति केचिन्माध्यमिकैकदेशिनो मन्यन्ते । यथा-तिमिरादितदृष्टेरस्थाने विशकलितकेशदर्शन मिति ।
xiy अत्रेदं विचारणीयम् ---प्रथमे अख्यातिपक्षे इदं रजतमिति ज्ञाने- द्वयमेकज्ञानत्वेन दोषवशादङ्गीकृतमित्यन्यथाख्यातावेव पर्यवसानम् । तथा तृतीये आत्मख्यातिपक्षेऽपि वस्तुतो ज्ञानमेव रजततयान्यथा भातमित्य- न्यथाख्यातावेव पर्यवसानम् । तथा तुरीये असख्यातिपक्षेऽपि शून्यमेव संवृतिमहिन्ना रजततया मातीत्यन्यथाख्यातावेव पर्यवसानम् । एवम निर्वचनी- यख्यातावपि सदसदनिर्वचनीयं रजतमेव सदात्मना भातीत्यन्यथाख्यातावेव पर्यवसानम् । तथान्त्येऽपि निर्विषयख्यातिपक्षेऽसन्त एव केशाः सन्त इव भान्तीत्यन्यथाख्यातावेव पर्यवसानम् । तथाच सर्वैरपि ख्यात्यन्तरवादिभिर- वर्जनीयत्वात् अन्यथाख्यातिपक्ष एव स्वरसः । परं त्वितोऽप्यख्यातिपक्षे लाघवं विद्यते । तथाहि-द्वितीये अन्यथाख्यातिपक्षे शुक्तौ रजतत्त्वाभावोऽज्ञात एव प्रान्तिमुपजनयतीत्यख्यातिरेव मूलम् । तथा तृतीये आत्मख्यातिपक्षेऽपि रजतस्य ज्ञानात्मत्वाग्रहणैव रजतमिति प्रतीतिव्यवहाराविति तत्राप्यख्याति- रेख मूलम् । एवं तुर्ये असत्ख्यातिपक्षे रजतस्य शून्यात्मत्वमगृहीत्वैव रजत- व्यवहारप्रतीती इति तत्राप्यख्यातिरेव पर्यवस्यति । एवं पञ्चमे अनिर्वचनीय- ख्यातिपक्षे अनिर्वचनीयं रजतमेव सदात्मना भातीत्यख्यातौ पर्यवसानं स्पष्टम् । एवमन्त्ये पक्षेऽपि । अतोऽन्यथाख्यातिपक्षादप्यख्यातिपक्षे लाघवसद्भावादयमे- वाङ्गीकार्य इति । तथा सर्व ज्ञानं यथार्थमिति पक्षेऽपि इदं रजतमित्यत्र पाश्चा- त्यबाधो रजतांशभूयस्त्वाभावप्रयुक्त इति वक्तव्यम् । एवं च रजतांशाल्पीय- स्त्वाख्यातिरेव तत्रापि मूलमिति सैव ज्यायसीति । तथाचाहुः सर्वैरप्यन्यथाख्यातिर्दुस्त्यजत्वाल्लघीयसी । तद्वादिनाप्यवर्ण्यत्वात्ततोऽप्यख्यातिलाघवम् ॥ स्वारस्यमन्यथाख्यातावख्यातौ लाधवं स्थितम् । इति दर्शयितुं भाष्ये द्वितयं तदनुश्रुतम् । यन्नाथमुनिमिश्राद्यैर्यथार्थख्यातिसाधनम् । तल्लोकबुद्धयनारोहाद्वैभवं केचिदूचिरे ॥
इति । ख्यात्यन्तरनिरासस्तु ग्रन्थान्तरेषु विस्तरशोऽनुसंधेयः । इतीयं न्यायपरिशुद्धिसमाता गौतमीयपक्षपरिशोधनफक्किका। वेदान्तमतनिरूप- णेदंपरतत्त्वमुक्ताकलापादिग्रन्थरीतिस्तु यथार्थख्यातिपक्षपातिनीति सैव ख्यातिर्वेदान्तकारिकावल्यां सिद्धान्ततयोपवर्णिता ज्ञातव्या । प्रत्यक्षमेकं प्रमाणमभ्युपगच्छन्तश्चार्वाकाः विशेषेऽनुगमाभावात्सामान्ये सिद्धसाधनात् । अनुमाभङ्गपङ्केऽस्मिन् निमग्ना वादिदन्तिनः ।। इत्यनुमानप्रामाण्यवादिनः परिहसन्ति । तेषामयं भावः-पर्वते धूमेन वह्निमनुमित्सन्निदं प्रष्टव्यः -किमेतत्पर्वतीयवह्निमनुमित्ससि, उत वह्नि- सामान्यमिति । नाद्यः पक्षः, एतत्पर्वतसंबन्धिनो वहेरनुमितेः पूर्वम- ज्ञातत्त्वेन तन्निरूपितव्याप्तेर्दुर्निरूपत्वात् । नान्त्यः, धूमाधिकरणे वह्नि- सामान्यसत्त्वस्य व्याप्तिग्रहदशायामेव ज्ञातत्वेन सिद्धसाधनादनुमानाप्रवृत्तेः । तस्मादनुमानाप्रसिद्धिरिति । एवं वदद्भिश्चार्वाकैरनुगमाभावात्सिद्धसाधना- दिति हेतूपन्यासेनानुमानासंभव एवानुमित्सित इति हयारूढास्ते हयमेवा- पह्रोतुमिच्छन्तीति कृतं तन्मतविमर्शनेन । तदेतदनुमानं पूर्व प्रमाणान्तरावसितस्यैव वस्तुनः पक्षसंबन्धमात्रं साधयितुमीष्टे, न तु सुतरामतीन्द्रियस्येतीश्वरानुमानं नैयायिकाद्याद्रिय- माणमसंगतमेवेति कृत्वा शास्त्रयोनित्वाधिकरणे शास्त्रैकप्रमाणत्वमीश्वरस्योक्तं वेदान्तिभिः । तदुक्तं न्यायसिद्धाञ्जने -" नन्वस्माकमीश्वरानुमाननिरासेन किं प्रयोजनम् ? न च प्रयोजनाभावमात्रम् ; अनुमानेनेश्वरं प्रतिपद्य तं भजमानान् प्रति नास्तिक्यशङ्काप्यापादितेति महत्तेषामस्माकं च पापमिति । अहो महाकारुणिकोऽसि । तादृशेभ्य एतन्नोपदिश्यताम् । प्रयोजनं च शृणु-प्रथमं तावद् यथावस्थिततत्त्वावबोधः, श्रोत्रेण गन्धग्रहणनिरास. , ?
xvi वत्" इति । व्याप्तिग्रहे च हेतोः सपक्षवृत्तित्वग्रहस्यावश्यकतया हेतु- रन्वयव्यतिरेकी केवलान्वयी चेति द्विविध एव, न तु केवलव्यतिरेकी वैशेषिकाद्यभिमतः । एतेन अनुभूतिरननुभाव्या अनुभूतित्वात् ; यदनुभाव्यं नासावनुभूतिः, यथा घट इत्यादिर्मायावादिवादो निरस्तः । अत्र नैयायिका अनुमानं स्वार्थपरार्थभेदेन द्वेधा विभज्य द्वितीये प्रतिज्ञाहेतूदाहरणोपनयनि- गमनाख्यानां पञ्चानामवयवानां नैयत्यं मन्यन्ते । मीमांसकास्तु-उदाहर- णान्तं तदादि वा त्रयं प्रयोक्तव्यं मन्यन्ते । सौगतास्तु-उदाहरणोपनयौ द्वावावश्यकौ ब्रुवते। सिद्धान्तिनां तु नैवावयवसंख्यानियमः । सूक्ष्ममन्द- धियां यावदपेक्षितं तावदुपयोक्तव्यमिति स्थितम् । गोसदृशो गवय इत्यादौ सादृश्यादप्यर्थावगतरुपमानाख्यं प्रमाणा- न्तरमातिष्ठन्ते नैयायिकाः । अनुमानशब्दयोरन्यतरेण तत्र निर्वाहसंभवात् नोपमानं प्रमाणान्तरमिति सिद्धान्तिनः । शब्दमपि केचिद् वैशेषिकादयोऽनुमानेऽन्तर्भावयन्ति । तत्तु शाब्द- बोधे व्याप्तिग्रहादिविलम्बस्यानुभवविरुद्धत्वादसंगत मिति सिद्धान्तिनः । पदपदार्थयोः शक्त्याख्योऽतिरिक्तः संबन्ध इति नैयायिकाः । तादात्म्यमेव स इति शाब्दिकाः । सिद्धान्ते तु तत्र बोध्यबोधकभावातिरिक्तः संबन्धो नास्ति । अन्विताभिधानाभिहितान्वयपक्षयोः पूर्वस्मिन्नेवादरः सिद्धान्ति- नाम् । वस्तुतस्तूत्तरस्मिन्नपि पक्षेऽङ्गीकृते न कापि क्षतिरित्यनास्थैव पक्षद्वये । निर्विशेषब्रह्मवादिनां त्वन्विताभिधाने संकटं भवतीति तत्परित्यक्तं तैः । यथा गोशब्दो गोत्ववाच्यपि तद्विशिष्टव्यक्तौ स्वरसतः पर्यवस्यति, न तु गोत्वमात्रे विश्राम्यति, एवं चिदचिद्वाचिनः सर्वे शब्दास्तत्तदर्थमात्रे- ऽपर्यवस्यन्तस्तत्तद्विशिष्टं परं ब्रह्माभिदधति । सेयमपर्यवसानवृत्तिरित्युच्यते । अतो निष्कर्षकातिरिक्तानामपृथक्सिद्धविशेषणवाचिपदानां विशेष्यपर्यव- सानस्य व्युत्पत्तिसिद्धत्वात् शरीरवाचकानां देवादिशब्दानां शरीरिवाचकत्वं ' xvii सिद्धमिति सर्वे शब्दाश्चिदचिच्छरीरके परमात्मनि पर्यवस्यन्तीति सिद्धम् । तेन “ सर्व खल्विदं ब्रह्म " " ऐतदात्म्यमिदं सर्वम्" अयमात्मा ब्रह्म " " तत्त्वमसि " " स ब्रह्मा स शिवः सेन्द्रः" इत्यादिसामानाधि- करण्यं तत्तत्प्रकारकब्रह्मपरत्वेन सुसंगतं वेदितव्यम् । शब्दानां प्रामाण्यं स्वतः, अप्रामाण्यं परत इति सिद्धान्तिनः नैयायिकास्तु वेदस्येश्वरकर्तृकत्वं प्रतिपिपादयिषवस्तदनुकूलं शब्दानां परतः प्रामाण्यं संगिरन्ते । तत्तु वेदस्य नित्यत्वादसंगतमिति ध्येयम् । अतो वेदाः पाञ्चरात्रादिस्मृतयश्च वेदाविरुद्धाः स्वतः प्रमाणभूताः । ननु वासुदेवात्संकर्षणनाम्नो जीवसमष्टितत्त्वस्योत्पत्तिवचनात् वेद- विरुद्धं पाश्चरात्रमिति चेत् , अनवधाननिबन्धनमिदं चोद्यम् । तथाहि- " अजायमानो बहुधा विजायते” “तोयेन जीवान् व्यससर्ज भूम्याम् ", "प्रजापतिः प्रजा असृजत" इत्यादौ परब्रह्मणो जीवस्य चोत्पत्तिवचनात् परस्परव्याहतत्वेनाप्रामाण्यं वेदानामिति कुचोये यः समाधिः, स एवा- त्रापीति न किंचिदेतत् । नन्वात्मनित्यत्वोत्पत्त्योर्वेद एव कथनात् यथाकथंचिन्निर्वाहस्तत्रावश्यकः :; पाञ्चरात्रे तु सर्वत्र जीवोत्पत्तिरेवोच्यते, न कुत्रापि तन्नित्यतेति न तथा निर्वाहावश्यकतेति चेत् , तदिद- मल्पश्रुतानां चोद्यम् । पाञ्चरात्र एव, “स ह्यनादिरनन्तश्च परमार्थेन निश्चितः" इत्यादिवचनानां बहुशो दर्शनात् । समत्रैगुण्या मूलप्रकृतिविश्वपरिणामिनी । सैवाव्यक्तमित्युच्यते । मूलप्रकृतित्वावस्थातः पूर्वमक्षरविभक्ताविभक्ततमोरूपास्तिस्रोऽवस्थाः प्रमाण- सिद्धाः । यस्यामवस्थायां गुणसाम्यमप्यस्फुटं तदवस्थायास्तस्याश्चेतनसमष्टि- गर्भत्वमक्षरशब्देनोच्यते । न तु चेतनमात्रं, तस्य तमोविकृतित्वविश्वोपादान- त्वायोगात् । अतः सर्व वस्तुजातं चिदचिदात्मकमिति सिद्धान्तः । तदाह पराशरः-"प्रधानादि विशेषान्तं सर्वं चिदचिदात्मकम्" इति । तस्या- , C xviii प्यक्षरस्य लयस्थानं विभक्तं तमः । सलिलविलीनलवणवत् परमात्मशरीर- तयापि यन्न विवेक्तुं शक्यं तदविभक्तं तमः । इयं मूलप्रकृतिरेव महदहंका- रेन्द्रियतन्मात्रभूतैः सह चतुर्विंशतिः प्राकृततत्त्वानि भवन्ति । शैवाद्यागमोक्तः त्रिंशत्तत्त्ववादस्तु प्रमाणविरुद्धः । इमानि च तत्त्वानि जीवस्येश्वरस्य च शरीरभावमापद्यन्ते । यस्य चेतनस्य यद् द्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यं, तत्तस्य शरीरमिति निष्कृष्टं शरीरलक्षणम् । प्राकृत- तत्वानीव जीवोऽपीश्वरशरीरभूत एवेति “ यस्यात्मा शरीरम्" इत्यादि- श्रुतिबलादवगम्यते। तस्मात् समस्तचिदचिच्छरीरकं परं ब्रह्मैकमेव तत्त्वमिति परमसिद्धान्तः । अणुत्वे सति ज्ञातृत्वं, शेषत्वे सति ज्ञातृत्वमित्यादि जीवलक्षणम् । स चाहंप्रत्ययगम्यः स्वयंप्रकाशश्च । स्वयमेव स्वस्य व्यवहारानुगुणहेतुत्वं स्वयंप्रकाशत्वम् । स्वयमेव कस्यचिद्वयवहारानुगुणहेतुत्वं ज्ञानत्वम् । एवं चात्मा ज्ञानरूपः स्वयंप्रकाशश्च । तस्य ज्ञानरूपत्वेऽपि ज्ञानाश्रयत्वं च श्रुति- स्मृत्यादिप्रमाणशतसिद्धम् । एकस्यैव ज्ञानाख्यद्रव्यस्य धर्मधर्मित्वे प्रभा- प्रभाववदृष्टान्तेनाविरुद्धे । धर्मिभूतज्ञानं न विषयावगाहि । धर्मभूतज्ञानं तु तथेति भेदः । बद्धमुक्तनित्यात्मनां त्रिविधानामपि जीवानां ज्ञानं विभु स्वयंप्रकाशं च भवति । परं तु बद्धावस्थायां तत्कर्मणा संकुचितं न सर्व विषयावगाहि । मुक्तावस्थायां तु सर्वकर्मप्रविलयादसंकुचितं सर्वावगाहि भवति । ज्ञानस्य कर्मणा संकोचो नाम प्रकाशाख्यस्य तद्धर्मस्य प्रसरा- भावः। असंकाचो नाम तस्य धर्मस्य प्रसरः । तथाच प्रकाशाख्ये ज्ञानधर्म एव साक्षात्संकोचप्रसरावभ्युपेतौ न ज्ञान इति तस्य नित्यत्वे न कोऽपि विरोधः । यस्य तु साक्षात्संकोचविकासौ प्रकाशाख्यधर्मस्य, तस्यानि- त्यत्वमिष्टमङ्गीकृतं च । अयं चार्थों वेदार्थसंग्रहे तत्तात्पर्यदीपिकायां च सुवि- शदमुपपादितः । एवं स्थिते वस्तुतत्त्वे यत् केषांचिदाधुनिकानां " यद्यपि , xix भगवद्रामानुजादयः-धर्मभूतज्ञानमिति नाममात्रं, नेदं परमार्थतो धर्मभूत- माधाराधेयभावनिबन्धनम् । किंतु तादात्म्यापन्नमात्मस्वरूपमेवेति वदन्ति" इत्युपक्रम्य, “सति चैवं कथं धर्मभूतज्ञानमपि संकोचविकासशालि च नित्यं चेति श्रीभाष्यमतं स्वविवरणस्यैव न विरुद्धम्” इति दोषोद्भावनं, तत्सर्वमपि विशिष्टाद्वैतमतप्रक्रियारहग्यानवबोधनिबन्धनमिति वेदनीयम् । अशेषचिदचिच्छरीरकं सर्वशक्ति ब्रह्मैव भगवदीश्वरनारायणादि- शब्दैर्व्यवहियते । न तु परेषामिव मायाप्रतिबिम्बत्वेन मायोपहितत्वेन वा कल्पितस्वरूप ईश्वरः परमार्थतोऽसन् मिथ्याभूतश्च । स एव सूक्ष्मचिद- चिद्विशिष्टो जगत उपादानकारणं, बहुभवनादिसंकल्पविशिष्टो निमित्त- कारणं, कालादिरूपः सहकारिकारणं चेत्यभिन्नोपादाननिमित्तादिकारणत्वं तस्यैवेति सिद्धान्तः । तस्य सर्वशरीरित्वेऽपि तद्गतदोषासंस्पर्शात् निरस्त- हेयगन्धोऽयमिति "न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र” इत्यादौ स्थापितम् । भक्तिप्रपत्तिभ्यामाराधितः स एव मोक्षप्रदो नान्यः कश्चनेति परमसिद्धान्तं " वेदाहमेतं पुरुषं महान्तम्" इत्युपक्रम्य, अयनाय विद्यते” इति श्रुतिरप्याह । एते कतिपये चान्ये सैद्धान्तिकाः प्रधानभूता विषया अस्मिन् ग्रन्थे संक्षेपेण प्रतिपादिताः । ग्रन्थकर्ता वेंकटाचार्यः बुच्चि इत्युपनाम्ना प्रथितो बुक्कपट्टणामिजनस्य शठमर्षणान्वयलब्धजन्मनो विद्वदग्रेसरस्याण्णयार्यस्य तृतीयस्तनुजन्मा । अयं चाण्णयार्यों बुक्कपट्टणाभिजनोऽपि सुरपुराधिपेन राघवनाम्ना पमिनायकेना- भ्यर्थितः सुरपुरमागत्य तस्य सभामलंकुर्वन्नास्तेति सुरपुरम् अण्णयार्य इति पश्चात्प्रथामुपगतः। पश्चात् तद्वंश्या अपि सुरपुरं विद्वांस इत्याकारिता अभूवन् । अण्णयार्यस्य सुरपुरागमनसमयश्च १७६० तमः क्रिस्तुसंवत्सर इति निर्णीतः । पमिनायको राघवः १७७३ क्रिस्तुसंवत्सरे दिष्टगतिं गतः। ततस्तदात्मजो वेंकटनायकः सुरपुराधिपत्यमूरीकृत्य विदुषोऽण्णयार्यस्य नान्यः पन्था XX विनेयो बहुमन्ता चाभूदिति ज्ञायते । अतस्तदात्मजेन वेदान्तकारिकावली- रचयित्रा बुच्चि वेंकटाचार्येण प्रायशः क्रिस्तुसंवत्सराणामष्टादशस्य शतकस्य तृतीयं पादमारभ्यैकानविंशस्य प्रथमपादपर्यन्तमुषितवता भाव्यमिति निर्णीयते । सुरपुरं विद्वद्भिः प्रणीता बहवो ग्रन्था अधुनाप्युपलभ्यन्ते । तत्परि- शीलनेन तेषां वंशावलीत्थमवगम्यते- १. वेंकटाचार्यः I २. अण्णयाचार्यः । ३. नरसिंहाचार्य: ४. श्रीनिवासताताचार्य:, अथवा श्रीनिवासाचार्यः I १.वेंकटाचार्यः II ६. अण्णयाचार्यः II ७. श्रीनिवासाचार्यः II । ८ श्रीनिवासाचार्य: III ९. वेंकटाचार्यः III १०. वेंकटाचार्यः IV सं. ५. वेंकटाचार्यः II. अयं प्रथमवेंकटाचार्यस्य शिष्यः । एतत्कृता ग्रन्थाः- - १. आनन्दतारतम्यखण्डनम् Madras Govt. Library. R. 5094. २. जगन्मिथ्यात्वखण्डनम् Adyar Library. 22-D. 83. ३. वेदान्तदेशिकदण्डकम् Madras Govt. Library D. 10597. ४. वेदान्तदेशिकाष्टोत्तरशतनामस्तोत्रम् Adyar Library.30 E.49 ५. सिद्धान्तरत्नावली Madras Govt. Library. D. 5063. ६. सिद्धान्तवैजयन्ती D. 5007. For further details on the Chiefs and Sanskrit authors of Surapuram, see Dr. V. Raghavan's article entitled-'The Surapuram Chiefs and some Sanskrit writers patronised by them' published in the Journal of the Andhra Historical Research Society, Rajah. mundry, Vol. XIII, 1940. . " xxi सं. ६. अण्णयाचार्यः II. अयं कौण्डिन्यश्रीनिवासाचार्यस्य द्वितीय- वेंकटाचार्यस्य च शिष्यः । एतत्कृता ग्रन्थाः- १ " " " " १. आचार्यविंशतिः Madras Govt. Library. D. 10600. २. आनन्दतारतम्यखण्डनम् R. 1294. ३. तत्त्वगुणादर्श: सव्याख्यः D. 12295, 12296. ४. व्यावहारिकसत्यत्वखण्डनसारः R.6089. ५. रसोदारभाण: Mysore Govt. Library list, P. 151, Vol I. ६. श्रीनिवासस्तुतिः Des. Cat. No. 69.' ७. नृसिंहविंशतिः 71. सं. ७. श्रीनिवासाचार्यः II. अयं कौण्डिन्यश्रीनिवासाचार्यस्य द्वितीयाण्णयाचार्यस्य च शिष्यः । एतत्कृता ग्रन्थाः- १. अरुणाधिकरणसरणिविवरणी Madras Govt. Library D. 4866. २. आनन्दतारतम्यखण्डनम् D.4869. ३. ओंकारवादार्थ: or नयमणिकलिका D.4871. ४. जिज्ञासादर्पणः D. 4883. ५. ज्ञानरत्नप्रकाशिका D.4886. ६. णत्वदर्पणः D.4888. ७. तत्त्वमार्ताण्डः D. 4894. ८. प्रणवदर्पणः D. 4932. ९. प्रधानप्रतितन्त्रदर्पणः R. 1304. १०. नयधुमणिः, दीपिका च R. 1287. ११. पुच्छब्रह्मवादनिरास: D.4929. १२. भेददर्पणः D.4980. १३. विरोधनिरोधः or भाष्यपादुका " D. 4996. Published in the Mysore Sanskrit College Journal. " " " " " " " " " " " 1 xxii " १४. विरोधवरूथिनीप्रमाथिनी Madras Govt. Library. D. 4998. १५. षष्ठयर्थनिर्णयः D. 5054. १६. सिद्धान्तचिन्तामणिः or उपा- दानत्वसमर्थनम् R. 2120. १७. दत्तरत्नप्रदीपिका D. 15636. १८. नीतिशतकम् D. 12053. १९. सुभाषितानि D. 12132. २०. हरिगुणदर्पणः R. 6038. " " " " " सं. ९. वेंकटाचार्यः III. अयं द्वितीयतृतीययोः श्रीनिवासाचार्ययोः शिष्यः, अय्या वेंकटाचार्य इति किरीटी वेंकटाचार्य इति च प्रसिद्धः । अनेनालंकारकौस्तुभे सुरपुरं वेंकटनायकः स्वस्य पोषको निर्दिष्टः । एतत्कृता ग्रन्थाः- - १. अचलात्मजापरिणयमु Madras Govt. Library. R. 41 Telugu. २. अलंकारकौस्तुभः R. 369. ३. कृष्णभावशतकम् D.9901. ४. गजसूत्रवादार्थः D. 1520. ६. प्रामाण्यवादखण्डनम् Adyar Library. 9 H. 76. ६. शृङ्गारतरङ्गिणी Madras Govt. Library. R. 5439. " " " " सं १०. वेंकटाचार्यः IV. अयं बुच्चि वेंकटाचार्य इति प्रसिद्धः । एतत्कृता ग्रन्थाः-- -- १. विष्णुसप्तविभक्तिस्तोत्रम् Madras Govt. Library. D. 10352. २. वेदान्तकारिकावली Now edited and published. ३. इन्द्वष्टोत्तरशतनामस्तोत्रम् Telugu Academy, Cocanada.
xxiii सुरपुरं श्रीनिवासाचार्यकृता विंशतिम्रन्थाः पूर्वनिर्दिष्टाः सर्वेऽपि तत्कृता इति निश्चिताः । सन्ति चान्येऽपि केचन ग्रन्था मैसूपुस्तक- शालायां तत्कर्तृकतया विनिर्दिष्टाः । ते च नास्माभिरध्यक्षिता इति नात्र तेषां परिगणनं कृतम् । एवमनेकेषु तत्कृतग्रन्थेषु तत्त्वमार्ताण्डः श्रीभाष्य- व्याख्यारूपोऽतिदुरूहविषयनिरूपणपरः श्रीभाष्योपरि परैरुद्भावितानां दोषाणां निरसनेन बहूपकरोति विशिष्टाद्वैतसंप्रदायस्येति तस्य मुद्रण प्रकाशनं चावश्यकरणीयं परिशिष्यत इत्यावेदयामः । वे. कृष्णमाचार्य:
No text on this page.
विषयानुक्रमः पुटाङ्काः १-२९ १-१६ १७-२१ १. प्रमाणनिरूपणम् । प्रथमपरिच्छेदः-प्रत्यक्षनिरूपणम् । पदार्थविभागः । प्रमाणप्रमेयविभागः । द्रव्यमेदाः। प्रमाणलक्षणम् । प्रत्यक्षलक्षणम् । निर्विकल्पक- सविकल्पकनिरूपणम् । प्रत्यक्षे मेदान्तराणि । द्वितीयपरिच्छेदः-अनुमाननिरूपणम् । अनुमानलक्षणम् । व्याप्तिलक्षणम् । हेत्वाभासाः । पञ्चावयवन्यायनिरूपणम् । तृतीयपरिच्छेदः-शब्दप्रमाणनिरूपणम् । शब्दप्रमाणलक्षणम् । वेदस्य कर्मब्रह्मकाण्डभेदेन द्वैविध्यम् । पूर्वोत्तरमीमांसयोरेकशास्त्रता। विध्यादि- निरूपणम् । वेदाङ्गानि । स्मृतिप्रामाण्यम् । विष्णोः सर्वशब्दवाच्यत्वम् । २२-२९ . ३०-१२७ . २. प्रमेयनिरूपणम् । चतुर्थपरिच्छेदः-प्रकृतिनिरूपणम् । प्रमेयलक्षणम् । द्रव्यलक्षणम् । जडाजडविभागः । जडभेदाः। महदादिसृष्टिक्रमः । इन्द्रियनिरूपणम् । ३०-१४ . D xxvi . पुटाकोः तन्मात्राणि | भूतपञ्चकसृष्टिक्रमः । शरीरलक्षणम् । शरीरे नित्यानित्यविभागः । सप्तद्वीपनिरूपणम् । पञ्चमपरिच्छेदः-कालनिरूपणम् । ५५-५८ काललक्षणम् । कालभेदाः । पष्टपरिच्छेदः-नित्यविभूतिनिरूपणम् । ६९-७० नित्यविभूतिस्वरूपम् । तत्परिणामाः । व्यूहविभ- वादिदेहनिरूपणम् । भगवदिव्यमङ्गलविग्रहनिरू- पणम् । श्रीवैकुण्ठनिरूपणम् । सप्तमपरिच्छेदः-धर्मभूतज्ञाननिरूपणम् । ७१-८५ बुद्धिसंकोचविकासौ । बुद्धेः स्वयंप्रकाशत्वम् । ज्ञानं द्रव्यं गुणश्च । ज्ञानभेदाः । मोक्षकारणभूते भक्तिप्रपत्ती। कर्मज्ञानभक्तियोगानां स्वरूपम् । प्रपत्त्यनानि । अष्टमपरिच्छेदः-जीवनिरूपणम् । ८६-१०१ जीवलक्षणम् । जीवभेदाः। कैवल्यनिरूपणम् । कैवल्यानङ्गीकारपक्षः । भक्तिप्रपत्त्योरधिकारि- विभागः। एकान्तिपरमैकान्तिविभागः । मुक्ता- नामीश्वरेण साम्यनिरूपणम् । नवमपरिच्छेदः-ईश्वरनिरूपणम् । १०२-११३ ईश्वरलक्षणम् । ईश्वरस्यैवोपादाननिमित्तादिकारण- त्वनिरूपणम् । कारणवाचिनां सब्रह्मादिशब्दानां नारायणैकपरत्वम् । भेदाभेदश्रुत्योः सगुणनिर्गुण- श्रुत्योश्चाविरोधेन समन्वयनिरूपणम् । . . .
xxvii पुटाङ्काः दशमपरिच्छेदः-अद्रव्यनिरूपणम् । ११४-१२७ सत्त्वादिगुणनिरूपणम् । शब्दादिपञ्चकनिरू- पणम् । शब्दादीनामाश्रयाः । संयोगनिरूपणम् । शक्तिनिरूपणम् । सुखदुःखादीनां क्लुप्तेष्वन्त- र्भावः । कर्मणः पार्थक्यपक्षः । ग्रन्थकर्तुर्वेशकथ- नादि। मूलस्थकारिकार्धानामनुक्रमणिका-Appendix I १२९-१३६ व्याख्यानोदाहृतप्रमाणानामनुक्रमः-Appendix II १३७-१४७ Abbreviation used in the Appendix II १४९-१५०
No text on this page.
वेदान्तकारिकावली वेंकटाचार्यकृता १. प्रत्यक्षनिरूपणम् श्रीमद्रमाधवोपज्ञां नवाचार्यपरंपराम् । कुर्वे लक्ष्मणसिद्धान्तकारिकां कारिकावलीम् ॥ १ ॥ श्री: वेदान्तकारिकावलीटिप्पणम् रघुवरचरणद्वन्द्वं तरणिं करवाणि संसृतेस्तरणे । यत्पांसुलेशसङ्गाद् ग्रावाप्यमवद्विकल्मषा योषा ॥ श्रीवाससंयमीन्द्रस्य पादुकामघमर्षणीम् । प्रणन्नम्य मितं कुर्वे टिप्पणं कारिकावलेः ॥ श्रीमदिति । रमाधवः श्रियः पतिः, उपज्ञा प्रथमज्ञेयो यस्याः सा, ताम् । "उपज्ञोपक्रमम् ।" इत्यादिना नपुंसकत्वं तु तत्पुरुष एव । “यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै" इति कल्पादौ वेदोपदेशक- रणात् नारायणरूपेणाष्टाक्षरमन्त्रोपदेशकरणाच भगवतः परमाचार्यत्वेनाचार्य- परंपरायास्तदुपज्ञत्वम् । तदनुसंधानं च "आचार्याणामसावसावित्या भगवत्तः" इति श्रुतिविहितम्, 15A.
वेदान्तकारिकावली २ om 'लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरंपराम् ॥" इत्यादिसदाचार्यसंप्रदायावगतं चेति ध्येयम् । श्रीमहालक्ष्म्या अप्याचार्यकोटा- वन्तर्भावमवगमयितुं रमाधव इति रमानिर्देश इत्यवगन्तव्यम् । लक्ष्मणसिद्धान्त: श्रीभगवद्रामानुजसिद्धान्तः, तस्य कारिका प्रतिपादिका, ताम् । कारिकावलीति प्रन्थनाम। 1. After bowing down in salutation to the line of spiritual teachers beginning with the Lord of Sri (Bhagavān Nārāyaṇa) I write the work Kārikāvalī on the principles of the doctrine expounded by Sri Rāmā. nuja. मानमेयविभेदेन पदार्थो द्विविधो मतः । मानं प्रत्यक्षानुमानशब्दभेदात् त्रिधा भवेत् ॥ २॥ पदार्थ इति; पदस्यार्थः पदार्थ इति यद्यत्पदेनाभिधेयं तत्सर्वं गृह्यते । तत्त्वं, पदार्थः, वस्तु, इति पर्यायशब्दाः । एवं च वस्तुसामान्यं द्विधेत्यर्थः । मानं प्रमाणम् । मेयं प्रमेयम् । विधेति; प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्य धर्मसिद्धिमभीप्सता ॥" इत्याद्याप्ततमवचनात् त्रीण्येव प्रमाणानि । अन्यैरभ्युपगतानामुपमानादीनाम- त्रैवान्तर्भावः ; यथा उपमानार्थापत्त्योरनुमाने, अनुपलब्धेः प्रत्यक्षे । प्रमाया: करणं प्रमाणमिति प्रमाणसामान्यलक्षणम् । २ 2. The entire Padarthas or entities are of two kinds--Māna (Means of valid knowledge) and Meya (The object of such knowledge). The Māna is again of मतमू.
प्रत्यक्षनिरूपणम् ३ । three divisions-Pratyaksa (Perception), Anumāna (Inference) and Sabda (Verbal testimony). प्रमेयं द्विविधं प्रोक्तं द्रव्याद्रव्यविभेदतः । जडाजडत्वभिन्नेऽत्र द्रव्ये ,तद् द्विविधं जडम् ॥ ३ ॥ प्रमाविषयः प्रमेयम् । द्रव्यम् उपादानम् | अवस्थान्तरयोगि उपादानम् । तद्भिन्नम् अद्रव्यम् ; द्रव्यत्वात्यन्ताभाववत् । परत एव प्रकाशं जडम् ; यथा घटादि । स्वयंप्रकाशम् अजडम् ; यथा ज्ञानादि । अत्र प्रकाशशब्दो न कान्ति- मत्त्वपरः । किंतु ज्ञानविषयत्वपरः । “ज्ञानमर्थप्रकाशः" इति तत्त्वमुक्ताकलापे। आत्मसिद्धौ च "व्यवहारानुगुण्यवचनः प्रकाशशब्दः” इति । एवं च जडत्वं नाम स्वगोचरज्ञानकविषयत्वमिति फलितम् । अत्र “ अभिधेयः पदार्थः स द्विविधः-भावाभावभेदात्" इति लक्षणावल्यामुदयनोक्तो विभागस्तु न वेदान्तिनां संमतः, तेषां मते अभावस्य भावान्तररूपत्वेन तथा विभागायोगात् । मिथो विरुद्धधर्मपुरस्कारेण निर्देशो हि विभागः । अभावस्य भावान्तररूपत्वं चारम्भणाधिकरणे सूत्रकारैरेवोपपादितम् । घटाभावाभावस्य घटरूपत्वं वदद्भिः परैरभ्युपगतं च । षोढासप्तधादिविभागस्तु न मुमुक्षूपयोगीत्युपेक्षितः । 3. The Meya is of two kinds-Dravya (Subs. tance) and Adravya (Non-Substance). Among these two divisions, the Dravya is of two kinds–Jada and Ajada. The Jada is of two kinds. [Note. The Jada is that which can be cognized only with the aid of external means. For instance the pot can be cognized only with the aid of our knowledge. If the knowledge ceases to function, the pot cannot be cognized. But the case of Ajada is different. It is cognizable even without the aid of external means. For instance the Ātman is cognizable by self even with out the aid of the knowledge. Likewise the cognition ३ वेदान्तकारिकावली which is an attribute of the Ātman is cognizable by him even without the aid of external means i.e. another knowledge, when it operates with an object.] प्रकृतिः काल इत्यांद्या चतुर्विशतिधा मता । कालस्तूपाधिभेदेन त्रिविधः परिकीर्त्यते ॥ ४ ॥ प्रकृतिः काल इति द्विविधं जडमिति पूर्वेणान्वयः । प्रकृतिस्त्रिगुणम् । नित्यविभूतेर्जडत्वं त्वेकदेशिनां मतं, न सिद्धान्तिनाम् । आद्या ; प्रकृतिरित्यर्थः । चतुर्विशतिधेति-प्रकृतिमहदहंकारास्त्रयः, एकादशेन्द्रियाणि, पञ्च तन्मात्राणि, पञ्च भूतानीत्याहत्य चतुर्विंशतिः । उपाधि: भूतभविष्यद्वर्तमानरूपः । त्रिविध इति; कलाकाष्ठादिरूपबहुविधभेदस्योपलक्षणम् । 4. The two kinds of Jadadravya are Prakſti (The Primary Matter) and Kala (Time). The former i.e., Prakrti is of twenty-four kinds. The Kala is said to be of three divisions due to its Upādhis (Limiting adjuncts). अजडं तु पराक् प्रत्यगिति भेदाद् द्विधा स्थितम् । पराङ् नित्यविभूतिश्च धर्मभूतमतिस्तथा ॥ ५ ॥ अजडभेदमाह-अजडमिति । वस्तुतस्तु पराक्प्रत्यग्विभेदो द्रव्य- सामान्यस्यैव । अतो जडस्य प्रकृत्यादेरपि पराक्त्वं सिद्धम् । तथाचाहुः- "द्वेधा जडाजडतया प्रत्यक्तदितरतयापि वा द्रव्यम् । षोढा त्रिगुणानेहोजीवेश्वरभोगभूमिमतिभेदात् ॥" इति । स्वस्मै भासमानं प्रत्यक् । परस्मा एव भासमानं पराक् । एवं विवक्षाभेदेन भोक्तृभोग्यप्रेरयितृरूपेण चिदचिदीश्वररूपेणापि विभागस्तत्र तत्र शास्त्रेषु कृतो ज्ञेयः । नित्यविभूति: शुद्धसत्त्वमयो लोकस्तदन्तर्गताश्च । विभूतिर्नाम स्वाति- 1 कीर्तितः 2 मतम्.
प्रत्यक्षनिरूपणम्
शयाधानार्थ नियन्तव्यं वस्तु | धर्मभूतमतिः ; जीवेश्वरयोर्धमभूतं ज्ञानम् । ज्ञातु-
ईयावभासो मतिः। जीवेश्वरयोर्धर्मिणोरपि ज्ञानव्यपदेशस्य प्रामाणिकत्वात्
तद्वयावृत्तये धर्मभूतेति विशेषणम् । धर्ममतिरित्युक्ते धर्मस्य मतिरित्यविवक्षितार्थ-
प्रतीति: स्यादिति तव्यावृत्तये भूतपदप्रयोगः ।
5. The Ajada is held to be of two kinds-Parak
and Pratyak. The Parak are-Nityavibhuti (The
eternal world) and Dharmabhūtajñāna (The attributive
knowledge).
[The Parāk is that which is not Self-aware. The
Pratyak is that which is Self-aware. These two may
be equalized with Inanimate and Animate respectively.]
प्रत्यग्जीवेश्वरभिदाशाली-जीवः पुनस्त्रिधा ।
बद्धो मुक्तो नित्य इति बद्धस्तु द्विविधो भवेत् ॥ ६ ॥
प्रत्यग्विभागमाह-जीवेश्वरेति । स्वस्मै स्वयं प्रकाशमानं प्रत्यगिति लक्षणं
पूर्वमेवोक्तम् । बद्धः कर्मबद्धः । मुक्तः कंचित्कालं बद्धो भूत्वा अनन्तरं भक्ति-
प्रपत्योरन्यतरप्रीतभगवत्प्रसादेन कर्मबन्धात् विनिर्मुक्तः । नित्यः कर्मबन्धं विना
सदा भगवदनुभवपरः।
6. The Pratyak is of two kinds-Jīva (Individual
Souls) and Isvara (The Ruling Supreme Soul). The
Jiva is again of three kinds-Baddha (Bound in
Samsāra), Mukta (Freed from Saṁsāra) and Nitya
(Eternally freed from Saṁsāra or never bound in
Samsara). The Baddha is of two kinds.
बुभुक्षुश्च मुमुक्षुश्व, बुभुक्षुश्च पुनर्दिधा ।
अर्थकामपरो धर्मपरश्चेति विवेचनात् ॥ ७ ॥
वेदान्तकारिकावली पूर्वकारिकाप्रस्तुतं बद्धभेदमाह-बुभुक्षुरिति । बुभुक्षुः प्राकृतभोगेच्छुः । मुमुक्षुः संसारनिवृत्तिपूर्वकाप्राकृतभोगेच्छुः । 7. They are-Bubhuksu (Desirous of worldly enjoyments) and Mumuksu (Desirous of freedom from Samsāra and divine bliss.) The Bubhukşu is again of two kinds-Arthakāmapara (Addicted to worldly wealth and pleasure) and Dharmapara (Addicted to Dharma). अन्यदेवपरो विष्णुपरो धर्मपरो द्विधा । मुमुक्षुरपि कैवल्यमोक्षयोगाद् द्विधा मतः ॥ ८ ॥ अर्थकामपरस्य स्पष्टत्वात्तमुपेक्ष्य धर्मपरभेदमाह-अन्यदेवेति ; देवता- न्तरपरः । अथ मुमुक्षुभेदमाह-कैवल्येति । संसारबन्धनिवृत्तिपूर्वककेवलस्वा- त्मानुभवाभिलाषी । मोक्षेति ; संसारबन्धनिवृत्तिपूर्वकभगवदनुभवाभिलाषी। ८ 8. The Dharmapara is of two kinds-Anyadevapara (Addicted to the deities other than Vişnu) and Visnupara (Addicted to Visnu alone). And the Mumu. kşu is of two kinds--Kaivalyapara (Addicted to Kaivalya) and Moksapara (Addicted to Moksa). [There is vast difference between Kaivalya and Moksa. The former is the Self-realization and the latter is the enjoyments of extreme bliss of Paramātman in his eternal abode.] भक्तप्रपन्नभेदेन स तु मोक्षपरो द्विधा । द्विधा प्रपन्न एकान्तिपरमैकान्तिभेदतः ॥ ९॥ मोक्षपरभेदमाह-भक्तेति । भक्तः भक्तियोगनिष्ठः । प्रपन्नः प्रपत्त्यपरपर्या- यन्यासयोगनिष्ठः । एकान्ती भगवत्प्रपत्तावेवोपायत्वबुद्धया तस्यामेकस्यामेवान्तो निश्चयो यस्य सः। परमपुरुषः श्रीमन्नारायण एवोपायः, प्रपत्तिस्तुतत्प्रसादौपयिकीति बुद्धया परमे एकस्मिन्नेवान्तो निश्चयो यस्य सः परमैकान्ती श्रीवैष्णवोत्तमः । ९ प्रत्यक्षनिरूपणम् 9. The Moksapara is of two kinds-Bhakta (Resorting to Bhaktiyoga) and Prapanna (Resorting to Prapattiyoga). The Prapanna is of two kinds- Ekāntin and Paramaikāntin. [He is Ekāntin who seeks the Moksa along with other worldly enjoyments from Bhagavān alone. The Paramaikāntin does not desire any other enjoyments except the Bhagavān. Or he is Ekāntin who is resolved to attain Moksa by Prapatti alone taking it as a means. But he is Paramaikāntin who is resolved to attain Moksa by the means of Bhagavān alone. That is-for him Bhagavān alone is Upāya and Upeya.] दृप्त आर्त इति द्वेधा परमैकान्त्युदाहृतः । ईश्वरः पञ्चधा भिन्नः परव्यूहादिभेदतः ॥ १० परमैकान्तिभेदमाह-दृप्त इति । दृप्तः ; प्रारब्धकर्मफलभोगविलम्बमङ्गी कृत्य तदवसाने मोक्षाभिलाषी । आर्तः ; क्षणमपि प्रारब्धकर्मफलं संसारताप- मनुभवितुमशक्नुवानोऽवतप्तेनकुलस्थितमिव दुर्दशामनुभवन् प्रपत्त्युत्तरक्षण एव मोक्षाभिलाषी । ईश्वर एक एव ; तथापि तस्मिन्नौपाधिकभेदानाह-परव्यूहा- दीति । विभवान्तर्याम्यर्चा आदिपदग्राह्याः । १० 10. The Paramaikāntin is told to be of two kinds-Drpta (Patient of delay) and Arta (Impatient of delay). Isvara is known to be in five-fold forms- Para, Vyuha and so on. [The five-fold forms are-Para, Vyūha, Vibhava, Antaryāmin and Arcā.] पर एकश्चतुर्धा तु व्यूहः स्याहासुदेवकः । संकर्षणश्च प्रद्युम्नोऽनिरुद्ध इति भेदतः ॥ ११ ॥ ।
८ वेदान्तकारिकावली परः; षाड्गुण्यपरिपूर्णः परवासुदेवः । व्यूहान्तर्गतो वासुदेवोऽपि पाड्गुण्यपरिपूर्ण उपासनासौकर्यायावस्थितः । अयं च पररूपादत्यन्ताभिन्न इति संकर्षणादिरूपेण व्यूहत्रयवर्णनं केषांचित् । ११ 11. Para is only one. But Vyūhas are fourfold, namely-Vasudeva, Samkarsana, Pradyumna and Aniruddha. मत्स्यादयस्तु विभवा अनन्ताश्च प्रकीर्तिताः । अन्तर्यामी तु भगवान् प्रतिदेहमवस्थितः ॥ १२ ॥ मत्स्यादय इति ; हंसहयग्रीवादय आदिपदग्राह्याः। प्रतिदेहमिति ; चिदचित्प्रपञ्चस्य सर्वस्यापि तदेहत्वात् तत्रान्तर्व्याप्य नियन्तेत्यर्थः । १२ 12. Vibhava forms are told as innumerable constituting Matsya (Fish) and so on. Isvara abides in every things else as Antaryāmin (Inner Ruler). अर्चावतारः श्रीरङ्गवेंकटाद्रयादिषु स्थितः । केशवादि तु तत्त्वज्ञै!हान्तरमुदाहृतम् ॥ १३ ॥ अर्चेति । अर्चा ; पूजासौकर्यार्थ प्रतिमारूपेण दिव्यालयेष्ववस्थितः । केशवादीति ; नारायणवामनादय आदिपदग्राह्याः । १३ 13. Arcās or Images are His avatāras or incarnations enshrined in sacred temples such as S'ri- Rangam, Venkatadri etc. The Kesava and other forms are mentioned by the wise as different Vyūhas. सत्त्वं रजस्तमः शब्दस्पर्शरूपरसास्तथा । गन्धः संयोगशक्ती चेत्यद्रव्यं दशधा मतम् ॥ १४ ॥ अद्रव्यं निरूपयति--सत्त्वमिति । दधेिति ; दशधैवेत्यर्थः । वैशेषि- कामिमतानां गुणान्तराणामत्रैवान्तर्भावः । तत्प्रकारश्चान्तिमे परिच्छेदे वक्ष्यते ।
प्रत्यक्षनिरूपणम् ९ 14. The Sattva (Goodness), Rajas (Motivity), Tamas (Darkness or Dullness), Sabda (sound), Spars'a (touch), Rupa (colour), Rasa (taste); Gandha (odour), Sarmyoga (union) and Sakti (Potency) are the ten kinds of Adravya (Non-Substance). प्रमायाः करणं तत्र प्रमाणं परिकीर्तितम् । यथावस्थितवस्त्वेकव्यवहारानुगा प्रमा ॥ १५ ॥ प्रमाणलक्षणमाह-प्रमाया इति । प्रमाकरणं प्रमाणमिति प्रमाणसामान्य- लक्षणम् । प्रमाया लक्षणमाह-यथावस्थितेति । पदार्थानतिवृत्तावत्र यथाशब्दः । अवस्थितं वस्तुतत्त्वमनतिक्रम्य यथावस्थितम् । यथावस्थितं यद् वस्तु, तस्यैकस्य यो व्यवहारः शब्देन निर्देशः, स: अनुगः यस्याः सा । अर्थव्यवहारं प्रति तज्ज्ञानस्य कारणत्वात् ज्ञानानन्तरमेव व्यवहार इति व्यवहारानुगत्वं प्रमायाः । संशयादिव्यावृत्तये यथावस्थितेति । यथापदेन अन्यथाज्ञानविपरीतज्ञानयोः, अवस्थितपदेन संशयस्य च व्यावृत्तिः । १५ 15. The Pramana is that which is an instrument or means for the Prama (Valid knowledge). The Prama is the knowledge from which proceeds the verbal usage of a thing in its true and essential nature, सा संशयान्यथाज्ञानविपरीतधियो न हि । एकथर्मिकनानार्थविषया धीस्तु संशयः ॥ १६ ॥ विवक्षितां व्यावृत्तिमेव विशदयति-सेति ; प्रमेत्यर्थः। न हि ; संशयादि- भिन्नत्यर्थः । संशयलक्षणमाह-एकधर्मिकेति । एकविशेष्यकनानाप्रकारकं ज्ञान- मित्यर्थः । यथा 'अयं स्थाणुर्वा पुरुषो वा' इति पुरोवर्तिपदार्थविशेष्यकमिथो- विरुद्धस्थाणुत्वपुरुषत्वप्रकारकं ज्ञानं संशयः । १६ . 2
वेदान्तकारिकावली
16. The Pramā is distinct from Sams'aya (doubt)
Anyathājñāna (error) and Viparītadhi (error in reverse
nature). Samsaya is the knowledge of a thing with
various contrary attributes.
[For instance-Is this a post or a man?]
धीस्तु धर्मविपर्यासेऽन्यथाज्ञानमुदाहृतम् ।
सैव धर्मिविपर्यासे विपरीतमतिर्मता ॥ १७ ॥
अन्यथाज्ञानं लक्षयति-धीस्त्विति । धर्मस्य विपर्यास: अन्यथात्वम् ;
यथा पीत: शङ्ख इति । अत्र शके पीतत्वस्यावर्तमानस्य ग्रहणम् । विपरीतधियं
लक्षयति-सैवेति । धीरेव धर्मिणो विपर्यासे भ्रम इत्युच्यते ; यथा शुक्तिं दृष्ट्वा
रजतधीः । अन्यथाज्ञाने शङ्खत्वेन शङ्को ज्ञातः । पीतत्वे परमन्यथा ज्ञानम् ।
भ्रमे तु शुक्तित्वेन शुक्तिर्न ज्ञाता; किंतु इदंत्वेन सामान्यत इति विशेषः ।
अत्रेदमवधेयम्--अन्यथाज्ञानं नाम धर्मिणि ज्ञात एव धर्मस्यान्यथाभूतस्य
ज्ञानम् । तत्र धर्म एकोऽनेको वा भवितुमर्हति । यथा पीतः शङ्ख इत्याद्यः ।
एकमेव वस्तु सद्विलक्षणम् असद्विलक्षणं सत् अनिर्वचनीयमित्यन्त्यः । संशयादस्य
भेदस्तु संशये धर्मयोविरोधप्रतिभासः। अत्र तु वस्तुतस्तयोविरोधेऽपि अवि-
रोधाभिमान इति ।
१७
17. The Anyathajiiana (error) is the knowledge
of a thing with a false attribute. The Viparitadhi
(error in revese nature) is the knowledge mistaking a
thing itself for another thing.
[Anyathājñāna is—The conch is yellow. Viparī.
tadhi is-This (shell) is silver.]
साक्षात्कारप्रमाहेतुः प्रत्यक्षं मानमीरितम् ।
सविकल्पो निर्विकल्पः साक्षात्कारो द्विधा भवेत् ॥ १८ ॥
प्रत्यक्षनिरूपणम् ११ प्रत्यक्ष लक्षयति-साक्षात्कारेति । साक्षात्काररूपा इन्द्रियजन्या या प्रमा, तस्या हेतुरित्यर्थः । साक्षात्त्वं विभजते-सविकल्पक इति । प्रमायाः प्रमाणस्य च प्रत्यक्षमिति व्यवहारस्तत्र तत्र परिदृश्यते । 18. The Pratyaksapramana is that which causes the perceptive and valid congnition. The perception is of two kinds-Savikalpa and Nirvikalpa. ग्रहः प्रथमपिण्डस्य निर्विकल्पक उच्यते । द्वितीयपिण्डग्रहणं सविकल्पकधीर्भवेत् ॥ १९ ॥ निर्विकल्पकं लक्षयति-ग्रह इति । प्रथमपिण्डस्य प्रत्यवमर्शरहितस्य गवादेः। एवं च विकल्पपदं प्रत्यवमर्शपरम् । प्रत्यवमर्शरहितं ज्ञानं निर्विकल्पकम् । तत्सहितं ज्ञानं सविकल्पकमित्यर्थः । प्रथमपिण्डग्रहणे तस्य पूर्वदृष्टसजातीयतया प्रत्यवमर्शो नास्तीति तन्निर्विकल्पकमित्युच्यते । द्वितीयपिण्डग्रहणे तु तस्य पूर्वदृष्टसजातीयतया प्रत्यवमर्शोऽस्तीति तत् सविकल्पकमित्युच्यते । एतेन निर्विकल्पके विशेषरहितस्य सन्मात्रस्य ग्रहणमिति मतं, जात्यादीनां पृथक्पृथक् ग्रहणमिति च मतं न सिद्धान्तिनामभिमतमित्युक्तं भवति । १९ 19. The Nirvikalpaka is the cognition of a first thing perceived for the first time. The Savikalpaka is the cognition obtained by the perception of another thing of the same kind that was perceived once before with a recollection on it. एतदिन्द्रियसापेक्षमनपेक्षं च दृश्यते । अनपेक्षं स्वतः सिद्धं दिव्यं चेति द्विधा मतम् ॥ २० ॥ एतत् साक्षात्त्वम् । इन्द्रियेति ; प्राकृतबाह्येन्द्रियेत्यर्थः । अनपेक्षम् ; इन्द्रियानपेक्षम् । तत्रेन्द्रियापेक्षमयोगिष्वस्मादृशेषु सुप्रसिद्धमिति तदुपेक्ष्य तदन- पेक्षमुपपादयति-अनपेक्षमिति । स्वत: सिद्धम् ; स्वप्रयत्नेन योगादिना सिद्धम् । दिव्यं स्वप्रयत्नमनपेक्ष्य देवप्रसादात् समासादितम् । अत्रेदं बोध्यम् - - वेदान्तकारिकावली योगिप्रत्यक्षं प्रकृष्टादृष्टविशेषजं युक्तावस्थायां मनोमात्रजन्यम् । अयुक्तावस्थायां तु बाह्येन्द्रियजन्यम् । दिव्यप्रत्यक्षमपि ईश्वरप्रसादसमधिगतदिव्येन्द्रियजन्यमेव । यथोक्तम् , "दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् । तत्सर्व धर्मवीर्येण यथावत्संप्रपश्यसि ॥" इति । २० 20. This perception is also of another two kinds : Indriyāpeksa (Dependent on senses) and Indriyānapeksa (Independent on senses). The latter is also of two kinds : Svatassiddha (Self-acquired) and Divya (Divine). योगजं तु खतः सिद्धमन्यत्स्वामिप्रसादजम् । अर्वाचीनमिदं सर्वमामनन्ति विचक्षणाः ॥ २१ ॥ अर्वाचीनम् ; आधुनिकम् । इदं सर्वम् ; अयोगियोगिदिव्यरूपमित्यर्थः। २१ 21. Svatassiddha is a perception acquired through the power of yoga and the other i.e. Divya is obtained by the grace of the Lord Bhagavān. The wise men call all these as recent. नित्यमुक्तेश्वरज्ञानमनर्वाचीनमुच्यते । स्मृतिः प्रमैव प्राचीनानुभवाज्जायते हि सा ॥ २२ ॥ अनर्वाचीनम् ; अनाधुनिकं । मुक्तानां मुक्तिप्राप्त्यनन्तरं दृष्टं ज्ञानं नित्य- मेवेत्यर्थः । स्मृतेरप्रामाण्यं नैयायिकादय आमनन्ति ; तन्निराकरोति-स्मृति- रिति । प्रमैव ; प्रत्यक्षप्रमैव । तत्र हेतुमाह-प्राचीनेति । २२ 22. The perception of the Nityas, Muktas and Isvara is called ancient. The Smrti (Recollection) also is Pramā (Valid Cognition) since it is produced by the previous apprehension (Anubhava).
प्रत्यक्षनिरूपणम् सदृशादृष्टचिन्तायैः संस्कारोबोधने सति । स्मृतिवत्प्रत्यभिज्ञापि प्रत्यक्षेऽन्तर्भवत्यसौ ॥ २३ ॥ सदृशेत्याद्य पूर्वान्वयि । प्रत्यभिज्ञा ; सोऽयं देवदत्त इत्यादिरूपा। २३ 23. The Smrti is produced when the Samskara (Reminiscent impression) is aroused by seeing a similar thing, Adrsta (Invisible effect of Karman) and Cinta (Deep thinking) etc. Like recollection, Pratyabhijñā (Recognition) also is included under Perception. पुण्यपूरुषनिष्ठापि प्रतिभात्रैव संमता । यथार्थ सर्वविज्ञानमिति यामुनभाषितम् ॥ २४ ॥ प्रतिभा ; “बुद्धिर्नवनवोन्मेषशालिनी प्रतिभा मता" इति लक्षिता । अत्रैव ; प्रत्यक्ष एव । सर्वविज्ञानम् ; परैरयथार्थतयाभ्युपगतं भ्रमादिकमपि यथार्थमेवेत्यर्थः । तथाहि-पञ्चीकरणप्रक्रियया सर्वेषु प्राकृतेषु वस्तुषु सर्व- भूतांशाः सन्त्येव । अत एव शुक्तिकायामपि रजतांशस्य विद्यमानत्वात् रजतसंबन्धि भास्वरत्वादि प्रतीयते । अतस्तत्र रजतज्ञानं नात्यन्तायासत्या- लम्बनम् , किंतु सत्यालम्बनमेव । तर्हि तस्य भ्रमत्वव्यवहारः कथमिति चेत् , विषयव्यवहारबाधात् । अयं भावः-पञ्चीकरणरीत्या सर्वत्र सर्वांशानां सत्त्वेऽपि यत्र वस्तुनि यस्यांशा भूयांसस्तत्र तत्त्वेन व्यवहारः । शुक्तिकायां तु रजतां- शस्याल्पीयस्त्वात् तत्र रजतत्वव्यवहारः पश्चाद्वाध्यत इति तज्ज्ञानस्य भ्रमत्व- व्यवहार इति । एवं स्वप्नादिज्ञानमपि सत्यमेव । तत्तत्पुरुषकर्मानुरूपं तत्तत्पुषमात्रानुभवाय तत्तत्कालिकान् पदार्थान् स्वप्ने परमपुरुषः सृजतीति सिद्धान्तात् । २४ 24. Pratibha (The intuitive faculty of Mind) seen in blessed persons also is included under Perception. It is said by Srī Yamunācārya that all knowledge is real.
१४ वेदान्तकारिकावली भूतले तु घटाभावो भूतलात्मैव नेतरः । मृद् घटस्य प्रागभावो ध्वंसस्तस्य कपालकम् ॥ २५ ॥ अभावस्य पदार्थान्तरत्वं निराकरोति-भूतल इति । घटाभावो भूतलरूप एव । घटस्य प्रागभावो मुद्रूप एव । एवं घटध्वंस: कपालरूप एवेत्यर्थः । २५ 25. The Non-existence of a pot on the earth is nothing but the surface of the earth. The Prāgabhāva (Antecedent non-existence) of a pot is nothing but the clay. And the Pradhvamsa (destruction) of a pot is nothing but the kapāla (the pot-sherds). खासाधारणधर्मो हि भेदशब्देन कीर्त्यते । शब्दस्वाभाव्यजा कापि प्रतियोगित्वधीः कृता ॥ २६ ॥ अन्योन्याभावस्य पार्थक्यं निराकरोति-स्वासाधारणेति । घटस्य पटाद्भेदो नाम घटत्वरूप एव । तर्हि घटत्वमित्यत्र न पटाकाङ्क्षा, भिन्न इति व्यवहारे तु पटादिति प्रतियोग्याकाङ्क्षा कुत इत्यत्राह-शब्दस्वाभाव्येति । शब्दस्वभावप्रयुक्तैषा व्यवस्थेति भावः । २६ 26. The peculiar or uncommon quality of a thing is mentioned by the term Bheda. That the word Bheda invariably requires the Pratiyogin (The counter correlate) is due to the nature of that word. अन्तःकरणचैतन्यं तवृत्त्या चैतन्यं समतापन्नं साक्षात्कारमजीजनत् ॥ २७ ॥ इत्यादि वचनं सर्व परोक्तं नात्र संमतम् । सामान्यं समवायश्च विशेषो नात्र संमतः ॥ २८ ॥ विषयेण च ।
प्रत्यक्षनिरूपणम् १५ ७. २७, २८ अत्र श्रीशांकराणां मतमनूद्य तत्र स्वानभिमतिमाह-अन्त:करणेति । चैतन्यमात्माभिन्नं ब्रह्मैव । तच्च चैतन्यमुपाधिमेदात् त्रिधा ; प्रमातृचैतन्यम् , प्रमाणचैतन्यम् , प्रमेयचैतन्यं चेति । तत्र यदा चैतन्यमन्त:करणावच्छिन्नं भवति, तदा तत्र प्रमातृत्वव्यवहारः । वस्तुतोऽन्तःकरणमेव प्रमात । तन्निष्ठं प्रमातृत्वं तदवच्छिन्ने चैतन्ये भासत इत्यर्थः। यदा चैतन्यमन्त:करणवृत्त्य- वच्छिन्नं भवति, तदा तत्र प्रमाणत्वव्यवहारः । यदा तु घटादिविषयावच्छिन्नं भवति, तदा प्रमेयत्वव्यवहार इत्यर्थः । एतत्सर्व नात्र संमतम् । तथा सामान्य- समवायविशेषाख्याः पदार्थाः न पृथक्परिगणनीयाः, तेषामुक्तेष्वेवान्तर्भावात् । तथाहि-सामान्यं नाम सर्वव्यक्त्यनुगत आकारापरपर्यायोऽवयवसंस्थानविशेष एव । समवायोऽपि संयुक्तविशेषणतैव, नान्यत्पदार्थान्तरम् । विशेषोऽपि तत्तत्पदार्थासाधारणधर्मान्नातिरिच्यते । 27. “The consciousness limited by Antahkarana (The internal organ) when becomes closely joined with and non-different from its two other manifestations due to the connection with Vịtti (activity) and Visaya (the object) brings forth the perceptual consciousness." 28. These and other similar sayings of the philosophers of other schools are not acceptable to us. The Sāmānya (generality), Samavāya (Inherent contact) and Vis'eşa (particularity) are not acceptable to us. संख्यादिगुणवर्गस्य गुणपार्थक्यकल्पनम् । सूत्रकारविरुद्धं यत्तत्सर्व परिहास्यते ॥ २९ ॥ अद्रव्येष्वपि दशातिरिक्तानामनभ्युपगममाह-संख्यादीति । संख्यापरि- माणादीनां पृथक्त्वकल्पनमित्यादिकं सूत्रकारमतविरुद्धमिति तत्सर्वं नानु- मन्यत इत्यर्थः । संख्यादीनां क्लुप्तेष्वन्तर्भावप्रकारोऽत्रैव दशमेऽद्रव्यपरिच्छेदे वक्ष्यते । २९
वेदान्तकारिकावली
29. The enumeration of Samkhya (number) etc.
as separate guņas (qualities) as distinct from our ten
guņas is contradicted by the Sūtrakāra himself and
therefore is rejected.
इति वेदान्तकारिकावल्यां प्रत्यक्षनिरूपणं प्रथमं प्रकरणम् ।
२. अनुमाननिरूपणम् अनुमित्यात्मविज्ञानेऽनुमानं करणं स्मृतम् । तच्च लिङ्गपरामर्शस्तहेतुर्व्याप्तिधीर्मता ॥ १ ॥ प्रत्यक्षनिरूपणानन्तरमनुमानं निरूपयति -अनुमितीति । आत्मशब्दः स्वरूपपरः । अनुमितिरूपे ज्ञाने करणमनुमानमित्यर्थः । अनुसृत्य प्रवर्तमानं मानमनुमानम् । लिङ्गप्रत्यक्षमनुसृत्य प्रवर्तमानत्वादनुमानं भवति । तदाह न्यायभाष्यकार:-तत्पूर्वकमनुमानमिति । योगरूढं चेदम् । अत: स्मृति- प्रत्यभिज्ञयोः प्रत्यक्षानुगामित्वेऽपि नानुमानत्वम् । लिङ्गपरामर्श इति । लिङ्गस्य साध्यचिह्नभूतस्य हेतोः परामर्श: विवेचनं, साध्यव्याप्यतया पक्षवृत्तितया च विविच्य ज्ञानमित्यर्थः । व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्श इति पर्यव- सितम् । तद्धेतुः; परामर्शहेतुः। व्याप्तिधीः; व्याप्तिज्ञानम् । अनुमिति प्रति व्याप्तिज्ञानं करणम् । व्यापारवदसाधारणकारणं करणम् । परामर्शी व्यापार इति प्राञ्चः । नव्यास्तु-परामर्श एव करणम् । व्यापारवत्त्वं न करणलक्षणनिविष्टम् | अपितु साधकतमं करणमित्येव तल्लक्षणम् । परामर्शजन- कतया अङ्गीकृतं व्याप्तिज्ञानं तु घटं प्रति कुलालपितेवान्यथासिद्धमित्याहुः । तत्र नव्यमतमवलम्ब्य लिङ्गपरामर्शस्यात्र करणत्वोक्तिः । 1. Anumāna (Inference) is the instrument of Anumiti (Inferential cognition). The Anumāna is defined as Linga-Parāmars'a (Consideration of middle term). Vyapti-jfiana (Apprehension of invariable concomitance) is said to be the cause of Parāmars'a (consideration). 3 वेदान्तकारिकावली साध्याभावाधिकरणावृत्तित्वं व्याप्तिरुच्यते । व्याप्यस्य पक्षवृत्तित्वधीः परामर्शनामभाक् ॥ २ ॥ साहचर्यनियमो व्याप्तिरिति लक्षणे नियमपदार्थ नद्वयघटितवाक्येन विविनक्ति-साध्याभावेत्यादि । साध्यस्य वयादेर्योऽयमभावः, तदधिकरणं तटाकादिः, तदवृत्तित्वं धूमादेरिति लक्षणसमन्वयः । परामर्शलक्षणमाह- व्याप्यस्येति । व्याप्यस्य हेतोः पक्षे पर्वतादौ वर्तमानत्वधीः परामर्श इत्यर्थः । २ 2. Vyāpti (Invariable concomitance) is that the Hetu (Reason) does not exist where Sādhya (The property to be established) is not found. Parāmars'a (consideration) is the knowledge of Vyāpya (the middle term) as existing in Paksa (Minor term or the subject). तज्जा पक्षे साध्यमतिरनुमित्यात्मिका मता । भूयिष्ठसाहचौंकज्ञानेन व्याप्तिधीर्भवेत् ॥ ३ ॥ तज्जा; परामर्शजा । पक्षे; पर्वतादौ । साध्यस्य वयादेः मतिः अनुमितिरित्यर्थः । व्याप्तिज्ञानोत्पत्तौ कारणमाह-भूयिष्ठेति । साहचर्य सामा- नाधिकरण्यम् ; भूयिष्ठेन साहचर्यज्ञानेन, साहचर्यस्य भूयोदर्शनेनेत्यर्थः । 3. Anumiti is the Cognition produced by Paramars'a, with reference to the fact that Sādhya is existant in Pakşa (the subject). Vyāpti-jñana (Apprehension of invariable concomitance) springs from frequent observation of Sadhya and Reason as invariably concomitant each other. तत्सपक्षे सपक्षस्तु पूर्व निश्चितसाध्यकः । संदिग्धसाध्यकः पक्षो विपक्षस्तदभाववान् ॥ ४ ॥ ३ ४ अनुमाननिरूपणम् १९ तत् ; साहचर्यज्ञानम् । निश्चितसाध्यवान् सपक्षः, यथा धूमेन वह्नौ साध्ये महानसादिः । संदिग्धसाध्यवान् पक्षः, यथा तत्रैव पर्वतादिः । निश्चित- साध्याभाववान् विपक्षः, यथा तत्रैव हृदादिः । 4. That observation should be held in Sapaksa (Definite instance). The Sapaksa is that in which the Sadhya is definitely known to have existed. The Paksa (the minor term or the subject) is that in which the existence of Sadhya is doubtful. The Vipaksa (the nagative instance) is that in which Sadhya is known definitely non-existent. अन्वयी व्यतिरेकी च किंच हेतुर्द्धिलक्षणः । व्यभिचारी विरुद्धश्वासिद्धः सत्प्रतिपक्षकः ॥ ५ ॥ बाधितश्चेति पञ्चैते हेत्वाभासा न साधकाः । एवं स्वार्थानुमानस्य प्रपञ्चस्तु निरूपितः ॥ ६ ॥ हेतुं विभजते-~अन्वयीति । अन्वयो नाम यत्सत्त्वे यत्सत्त्वमित्य- भिलप्यः साहचर्यनियमः । यथा धूमसत्त्वे वह्निसत्त्वम् । तद्वान् हेतुरन्वयी- त्युच्यते । व्यतिरेको नाम यदभावे यदभाव इत्यभिलप्यः साहचर्यनियमः । यथा वढ्यभावे धूमाभावः । तद्वान् व्यतिरेकी हेतुः । द्विलक्षणः द्विरूपः । व्याप्तिः पक्षधर्मता चेति द्वयमप्यनुमानाङ्गम् । तत्रोभयोरन्यतरस्य वा विरहे हेतवो दुष्टा भवन्तीति ते हेत्वाभासा इत्युच्यन्ते । हेतुवदापाततो भासन्त इति हेत्वाभासाः । तानाह-व्यभिचारीति । व्यभिचारोऽनियमः । हेतुसा- ध्ययोः साहचर्ये योऽयमनियमः स व्यभिचारः । तद्वान् हेतुर्व्यभिचारी । स एवानैकान्तिक इत्यप्युच्यते । यथा-पर्वतो धूमवान् वह्नेः इत्यत्र यत्र यत्र वह्निः तत्र तत्र धूम इति नियमो वक्तुं न शक्यते, अयोगोले वह्निमत्यपि धूमादृष्टेः । अतोऽत्र वहिर्व्यभिचारी हेतुः । विरुद्ध इति । साध्याभावव्याप्तो हेतुविरुद्धः । यथा--शब्दो नित्यः कार्यत्वात् इत्यत्र कार्यत्वरूपो हेतुः साध्या- - - , वेदान्तकारिकावली भावेन नित्यत्वाभावेन व्याप्तो भवति । असिद्ध इति । स च त्रिधा- स्वरूपासिद्धः, आश्रयासिद्धः, व्याप्यत्वासिद्धश्चेति । तत्र प्रथमो यथा- जीवोऽनित्यः, चाक्षुषत्वात् घटवत् इति । अत्र जीवे पक्षे चाक्षुषत्वं स्वरूपतोऽ- सिद्धमिति नानुमानं प्रभवति । द्वितीयो यथा--गगनारविन्दं सुरभि, अरविन्द- त्वात् इत्यत्र आश्रयभूतं गगनारविन्दमप्रसिद्धम् । सोपाधिकस्तृतीयः । यथा- यज्ञियपशुहिंसा अधर्मावहा, हिंसात्वात् इत्यत्र निषिद्धत्वमुपाधिः । तद्विशिष्टत्वा- दयं व्याप्यत्वासिद्धो हेतुः । साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः । सत्प्रतिपक्षकः; सन् प्रतिपक्षः साध्याभावसाधको हेतुर्यस्य स सत्प्रतिपक्षकः । अयं प्रकरणसम इत्यप्युच्यते । यथा-शब्दो नित्यः, श्रावणत्वात् इत्युक्ते, शब्दो. ऽनित्यः कार्यत्वादित्यनित्यत्वरूपस्य साध्याभावस्य साधको हेतुः कार्यत्वमिति। ५ बाधित इति । अयमेव कालात्ययापदिष्ट इत्यप्युच्यते । साध्याभाववत्प- क्षको हेतुर्बाधितः । यथा वह्निरनुष्णः पदार्थत्वात् जलवदिति । अत्र वह्नौ अनुष्णत्वं नास्ति । एते पञ्चापि हेत्वाभासा: हेतुवदापाततो भासन्ते । निष्कर्षे तु न हेतव इत्यर्थः । तस्मात् ते न साध्यस्य साधकाः । अनुमानस्य स्वार्थपरार्थत्वभेदेन द्वैविध्यमभिप्रेत्य पूर्वोक्तः प्रपञ्चः स्वार्थानुमानस्येत्याह- एवमिति । स्वस्य निष्कर्षार्थ प्रवृत्तं स्वार्थम् । परबोधनार्थ प्रवृत्तं परार्थम् |२६ 5-6. The Hetu (Reason) is of two kinds-Anvayin (Positive) and Vyatirekin (Negative). The faulty Reasons are unfit to establish the Sadhya by inference. They are five in number, namely-Vyabhicarin (Transgressing), Viruddha (Adverse), Asiddha (Not-established), Satpratipaksa (Having counter-Reason) and Badhita (Contradicted). Thus the inference of Svartha (For one's own) has been described in detail. न्यायजन्यः परामर्शः परार्थानुमितेः कृते । न्यायोऽवयववाक्यानि प्रतिज्ञादीनि पञ्च तु ॥ ७ ॥ 1 पश्चच-C.
अनुमाननिरूपणम् २१ परार्थानुमाने विशेषमाह-न्यायेति । वक्ष्यमाणं प्रतिज्ञादिपञ्चकं न्यायः । तजन्यः परामर्शः परार्थानुमितिं जनयति । न्यायावयवानाह-प्रतिज्ञादीति । प्रतिज्ञा, हेतुः, उदाहरणम् , उपनयः, निगमनमिति पञ्चावयवाः । 7. In the case of Parārthānumāna (Inference for other's sake), the Parāmars'a (the consideration of Reason) is produced by the Nyāya (syllogism). The group of the five argumentative sentences namely- Pratijñā (Assertion) etc. is called Nyāya. प्रतिज्ञा साध्यनिर्देशो हेतुस्तद्वचनं मतम् । व्याप्त्युक्तिपूर्वदृष्टान्तवागुदाहरणं भवेत् ॥ ८ ॥ तत्र प्रतिज्ञा नाम साध्यनिर्देशः ; यथा वह्निमानिति । हेतुर्नाम हेतूक्तिः यथा धूमादिति । उदाहरणं नाम व्याप्तिनिर्देशपूर्वकं दृष्टान्तस्य वचनम् ; यथा यो यो धूमवान् स सोऽग्निमान् यथा महानस इति । ८ 8. Pratijñā is mentioning the Sadhya. Hetu is mentioning the Reason. Udāharaṇa is mentioning the example with the statement of Vyāpti (concomitance). व्याप्यस्य पक्षवृत्तित्वबोधश्चोपनयो मतः । उपसंहावचनं भवेन्निगमनं पुनः ॥ ९॥ व्याप्यस्य हेतोः पक्षे पर्वतादौ वर्तमानत्वबोधनमुपनयः । यथा-तथा चायं धूमवानिति । पक्षे साध्यस्योपसंहारवचनं निगमनम् । यथा-तस्मादग्नि- मानिति । इदं च पञ्चावयववाक्योपन्यसनं नैयायिकरीत्या । वेदान्तसिद्धान्तरीत्या तु नैवावयवसंख्यानियमः । मृदुमध्यमोत्तमधियां संग्रहविस्तराभ्यां यावदपेक्षं प्रयोग इति भाव्यम् । ९ 9. Upanaya is the statement of Vyāpya (Middle term) as existing in Paksa (the subject). Nigamana is the statement concluding the syllogism. इति वेदान्तकारिकावल्यामनुमाननिरूपणं द्वितीयं प्रकरणम् ३. शब्दनिरूपणम् . अनाप्तानुक्तवाक्यं यत्तच्छाब्दकरणं स्मृतम् । वेदस्यापौरुषेयत्वात्तत्र लक्षणसंगतिः ॥ १ ॥ अनाप्तेत्यादि । अनाप्तैरयथार्थभाषिभिरनुक्तं यद्वाक्यं तच्छाब्दप्रमिते: करणम् ; शब्दप्रमाणमित्यर्थः । आप्तोक्तवाक्यमित्युक्तौ वेदस्यापौरुषेयस्यासंग्रहः स्यादिति नत्रद्वयघटितं लक्षणमुक्तम् । तदेवाह-वेदस्येति । ईश्वरोऽपि वेदस्य प्रवर्तयितैव; नोत्पादक इति भावः । 1. The sentence which is not uttered by nontrustworthy person, is considered as the means of the verbal cognition. Because there is no any human origin for the Veda, this definition is applicable in the case of Veda also. सिद्धे व्युत्पत्तिसद्भावावेदों निष्पन्नबोधकः । तत्कार्यपरताहानेरप्रामाण्यं न शङ्कयताम् ॥ २ ॥ ननु मीमांसकैः शब्दस्य कार्यपरतयैव प्रामाण्याङ्गीकारात् सिद्धब्रह्मावबोध- कानां वेदान्तवाक्यानां कथं प्रामाण्यमित्याशक्याह-सिद्ध इति । सद्भा- वादिति । अम्बा तात इत्याद्यङ्गुलिनिर्देशपूर्वकं बालानां व्युत्पत्तिसंभवात् कार्यपरत्वनियमो नास्तीत्यर्थः । एतद्विस्तरश्च श्रीभाष्यादावनुसंधेयः । निष्पन्नम् ; सिद्धं ब्रह्म । तत् ; तस्मात् । कार्यपरताहानेः ; वेदान्तवाक्यानामिति शेषः। २ सिद्धत्युत्पत्ति-C. 1 शब्दनिरूपणम् २३ 2. The Veda can teach us about the Brahman which is already in existence, as the words are capable of denoting the things already existent. Therefore the authoritativeness of the Vedānta passages should not be questioned as there is no truth in saying that a word can denote only the thing which is to be accomplished. कर्मब्रह्माभिधायित्वात्स च भागद्वयात्मकः । पूर्वभागः कर्मपर उत्तरो ब्रह्मगोचरः ॥ ३ ॥ वेदस्य भागद्वयात्मकतां तावदाह-कर्मेत्यादि । कर्मकाण्डब्रह्मकाण्डभेदेन द्वेधा विभाग इत्यर्थः । तत्र पूर्वभागः कर्मपरः । उत्तरभागो ब्रह्मपर इति विवेकः। ३ 3. The Veda has two parts-one dealing with the Karman and the other with the Brahman. The former part deals with the Karman and the latter with the Brahman. तदैक्यात्पूर्वपरयोर्व्याख्ययोरेकशास्त्रता' । अध्यायभेदवझेदे शास्त्रैक्यं न विरुध्यते ॥ ४ ॥ तदैक्यात् ; भागद्वयात्मकस्य वेदस्यैक्यात् । व्याख्ययोः ; वेदार्थविचार- परयोः कर्मब्रह्ममीमांसयोः । एकशास्त्रता; मीमांसारूपैकशास्त्रता । अत्र तदैक्यादिति हेतुनिर्देशः । व्याख्येयस्य वेदस्यैक्यात् व्याख्यानरूपयो: पूर्वोत्तरमीमांसयोरैक्यमित्यर्थः । यथा शारीरकचतुर्लक्षण्यां समन्वयाविरोधसाधन- फलरूपावान्तरविषयभेदेऽपि ब्रह्ममीमांसारूपत्वात् विशिष्टमेकं शास्त्रमिति तद्भाष्यस्याप्येकशास्त्रत्वं तद्वदिति भावः । अत्रेदमवधेयम्-अथातो ब्रह्मजिज्ञासेत्यत्राथशब्दः कर्मविचारानन्तर्यपरः। अथ कर्मविचारानन्तरम् , अत: कर्मविचारस्य वृत्तत्वाद्धेतोः, ब्रह्मजिज्ञासो- 1 व्याख्येया ह्येकशास्त्रता-C. 2 वेदे-c.
२४ वेदान्तकारिकावली १ देतीति सूत्रार्थः । अध्ययनविधिर्हि साङ्गसशिरस्कवेदाध्ययनविषयः । निर्वृत्ते च तथाविधेऽध्ययने रागतो विषितो वा पुरुषः कृत्स्नवेदार्थविचारे प्रवर्तमानो- ऽधीतक्रमेण प्रथमं कर्मविचारे प्रवर्तते । ततो विचारितानां कर्मणामल्पास्थिर- फलत्वमवगम्यानल्पस्थिरफलब्रह्मविचारे प्रवर्तते इति वेदार्थविचाररूपाया मीमांसाया एकाधिकारिकत्वादेकशास्त्रत्वमेव प्रामाणिकमिति सिद्धान्तः । तथाचाह श्रुतप्रकाशिकाकार:-" अथातःशब्दोपस्थापितोऽधिकारिविशेषः प्रदर्शितो भवति। समधिगतकर्मा सांसारिकफलनिर्विण्णोऽनन्तस्थिरफलाकाङ्क्षी हि शास्त्र- मधिकरोति" इति । न चैवं शारीरकस्य विरक्ताधिकारिकत्वे स्वर्गादिसाधन- काम्यानुष्ठाता न कश्चित्स्यादित्यननुष्ठानलक्षणमप्रामाण्यं पूर्वकाण्डस्य स्यादिति चेत् , मैवम् ; मोहात् विघ्नसंचयाच ये कर्ममात्रं विचार्य विश्रान्ताः, ये च ख्यात्यादिकामाः, ते श्रुतशारीरका अपि प्रवृत्तिधर्म न जयुरिति तस्य सार्थक्य- संभवात् । एवं स्थितेऽत्राथशब्दस्य साधनचतुष्टयसंपत्त्यानन्तर्यार्थकत्वं श्रीशंकरा- चार्यैरुपवर्णितमवलम्ब्य सर्वज्ञात्मना संक्षेपशारीरके कर्मब्रह्ममीमांसयोभिन्नफल- कत्वाद्भिन्नाधिकारिकत्वं शास्त्रभेदे बीजमुपक्षिप्तम् । तच्च तदनुगामिभिः क्रमेण युक्तिजालसलिलसेकेन परिवर्धितम् । तत्र युक्तयश्चैवमुपपादिताः-तत्त्वज्ञानस्यैव मोक्षसाधनत्वात् कर्मणां तत्र न कथंचिदप्युपयोगः । प्रत्युत कर्मज्ञानयोविरोधोऽपि। कर्माणि हि आविद्यकपुरुषाधिकृतानि । तत्त्वज्ञानं त्वविद्योच्छेदकामाधिकृतमिति कर्मज्ञानयोरालोकतमसोरिव परस्परं विरोधात् तयोर्न कथंचित्समसमुच्चयोऽङ्गाङ्गि- भावसमुच्चयो वा संभवति । अतस्तत्प्रतिपादिके उभे अपि मीमांसे नैकस्य शास्त्रस्य शाखाभूयमर्हतः । किंतु पृथक्शास्त्रे इति । तन्निराकरोति-तदैक्यादिति । कर्मज्ञानयोः समसमुच्चयासंभवेऽप्यङ्गाङ्गिभावेन समुच्चयः संभवत्येव। अनभि- संहितफलविशेषतया क्रियमाणैर्हि कर्मभिः ज्ञानोत्पत्तिविरोधिपापनिर्हरणात् कर्माणि ज्ञानस्येतिकर्तव्यतामापद्यन्ते । अतो भगवदाराधनरूपकर्मप्रतिपादनपरः पूर्वकाण्डः । उत्तरकाण्डस्तु सर्वकर्मसमाराध्यभगवत्प्रतिपादनपर इति कुतस्त- योविरोधः । कुतस्तरां च तद्विचारपरयोर्मीमांसयोर्विरोध इति नैकशास्त्रत्व- व्याघातः। पूर्वोत्तरमीमांसारूपो व्यवहारोऽप्यत्रानुकूल इति वदन्ति । उत्तर- मीमांसाया अथातःशब्दपुरस्कारेण प्रतिज्ञान्तरेण चारम्भात् शास्त्रभेदः ४ शब्दनिरूपणम् सूत्रकृत्संमत इत्यत्राह-अध्यायेति । यद्यथातःशब्दश्रवणमात्रेण प्रतिज्ञान्तरेण च शास्त्रभेदः, तदा अथात: शेषलक्षणम् ” “अथात: क्रत्वर्थपुरुषार्थयो- जिज्ञासा" इत्यादावपि शास्त्रभेदः स्यादिति प्रतिबन्धभिप्रेता । 4. As the text of entire Veda comes under one head (Veda) with its two parts, its explanatory treatise also should come under a single head (Mimāṁsā) with its two parts (Pūrva and 'Uttara). The internal difference of the subjects of each of the parts does not stands in the way of oneness of Mīmāṁsā as in the case of adhyāyas of each part. विध्यर्थवादमन्त्रात्मा त्रिविधः स प्रतीयते । अनुष्ठेयार्थगमको मन्त्रः स्यादर्थवादगीः ॥ ५ ॥ प्रकारान्तरेण त्रैविध्यमाह-विधीत्यादि। विधिः, अर्थवादः, मन्त्र इति त्रिधा विभाग इत्यर्थः । तेषां प्रत्येकं लक्षणमाह-अनुष्ठेयेति । अनुष्ठेयार्थप्रकाशको मन्त्र इति मन्त्रलक्षणम् । यथा “इषे त्वा" इत्यादिः । ५ 5. It is of three kinds: Vidhi, Arthavada and Mantra. Mantra is that which indicates the thing to be performed by the agent. The term Arthavāda may be defined thus: प्रवृत्त्युत्तम्भिका या स्यादिधिर्वाक्यं प्रवर्तकम् । स विधापूर्वनियमपरिसंख्याविभेदतः ॥ ६ ॥ अर्थवादो नाम पुरुषप्रवृत्तिनिवृत्त्युत्तम्भकं वचनम् । यथा वायुर्वै क्षेपिष्ठा देवता" इति वचनं वायव्येष्टौ पुरुषप्रवृत्तिमुत्तम्भयति । “सोऽरोदीत्" इत्यादिकं रजतदानादौ पुरुषनिवृत्तिमुत्तम्भयति । पुरुषस्य कर्मणि प्रवर्तकं वाक्यं विधिः । स त्रिधा–अपूर्वविधिः, नियमविधि:, परिसंख्याविधिश्चेति । "यजेत स्वर्गकामः" इत्यपूर्वविधिः । “व्रीहीनवहन्ति” इति नियमविधिः । पञ्च पञ्चनखा भक्ष्याः” इति परिसंख्याविधिः । तेषां लक्षणं तु- वेदान्तकारिकावली 1 "विधिरत्यन्तमप्राप्ते नियम: पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥" इति । ६ 6. Arthavāda is that which induces the agent to perform the action. Vidhi is that which enjoins something on the agent. Vidhi is of three varieties : Apurva, Niyama and Parisamkhya. नित्या, नैमित्तिकाः काम्या इति ते बहुधा मताः । श्तेषां स्वरूपलक्ष्माणि मन्तव्यानि नयान्तरे ॥ ७ ॥ प्रकारान्तरेणापि विभागमाह-नित्या इति । अहरहः संध्या- मुपासीत" इति नित्यविधिः । “उपरागे स्नायात्" इति नैमित्तिकविधिः । "ज्योतिष्टोमेन स्वर्गकामः" इत्यादिः काम्यविधिरिति ज्ञेयम् । एतेषां विस्तरेण स्वरूपलक्षणादीनि शास्त्रान्तरेषु ज्ञातव्यानि । विस्तरभियात्र न विस्तृतानीत्याह -तेषामिति 7. Again Vidhis are of various kinds: Nitya, Naimittika, Kāmya and so on. The nature and characteristics of these varieties may be understood from other works. छन्दः कल्पश्च शिक्षा च निरुक्तं ज्यौतिषं तथा । व्याकृतिश्चेति वेदस्य षडङ्गानि प्रचक्षते ॥ ८ ॥ वेदाङ्गान्याह-छन्द इत्यादि । शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा । कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः ॥" इत्यस्यार्थतोऽनुवादोऽयम् । 1 नित्यनैमित्तिके काम्यादिकास्ते-A.C. तलक्षणस्वरूपाणि द्रष्टव्यानि-C. ८ 2 शब्दनिरूपणम् 8. Chandas, Kalpa, Sikşā, Nirukta, Jyautisa and Vyakaraņa. Wise men say that these are six auxiliary works of the Veda. अनुष्टुबादिकं छन्दः कल्पः श्रौतादिबोधकः । वर्णनिर्णायिका शिक्षा निरुक्तं स्वार्थबोधकम् ॥ ९॥ अनुष्ठानादिकालस्य निर्णये ज्यौतिषं भवेत् । सौशब्द्याय व्याकरणमिति साङ्गे प्रमाणता ॥ १० ॥ षण्णामङ्गानां प्रत्येकं स्वरूपं संगृह्याह-अनुष्टुबादिकमिति । स्वार्थ- बोधकम् ; वैदिकपदार्थबोधकम् । कालस्येति; "वसन्ते वसन्ते यजेत" इत्याद्युक्तवसन्तादिकालस्येत्यर्थः । साङ्गे; षडङ्गसहिते वेदे। ९, १० 9. Chandas treats on metre such as anuştubh etc. Kalpa deals with the rules and regulations on the performance of Srauta and other rites. S'ikşā is a treatise on phonetics. Nirukta gives a glossary on certain important Vedic words. 10. Jyautisa is a science dealing with the fixation of proper time for the performance of Vedic rites etc. Vyākaraņa gives the grammatical rules for correct formation of the words. Thus the Veda together with its auxiliaries is to be held authoritative. एतन्मूलतया स्मृत्यादीनां प्रामाण्यमीरितम् । एतद्विरुद्धं यत्किंचिन्नाश्नुवीत प्रमाणताम् ॥ ११ ॥ एतन्मूलतया ; वेदमूलतया। स्मृत्यादीनामिति ; आचारादिकमादि- पदार्थः । एतद्विरुद्धम् ; वेदविरुद्धम् ; यथा चैत्यवन्दनादिबोधिका बाह्यानां स्मृतिः । नाश्नुवीत; न लभेत । ११
२८
वेदान्तकारिकावली
11. It is also said that the Smrtis and other works
which are based on the Veda are held as authoritative.
The work whichever is opposed to the Veda is not
authoritative.
आकाङ्क्षादिकमेतच्च शाब्दबोधककारणम् ।
तद्विचारोऽत्र संक्षिप्तो ग्रन्थविस्तरभीरुणा ॥ १२ ॥
आकाङ्क्षादिकमिति । योग्यतासंनिध्यादिरादिपदार्थः । शाब्दबोधेति;
शब्देन शाब्दप्रमितौ जनयितव्यायामाकाङ्क्षायोग्यतासंनिध्यादयः सहकारिण
इत्यर्थः । ते च ग्रन्थविस्तरभयादत्र न विवृताः ।
१२
12. Akanksa (mutual expectancy of words) and so
on are the means to understand the correct meaning
of a sentence. They are not explained here for the
fear of bulkiness of the work.
मुख्यौपचारिकत्वाभ्यां स शब्दो द्विविधो मतः ।
अभिधा मुख्यवृत्तिः स्याद वृत्तिरन्यौपचारिकी ॥ १३ ॥
शब्दस्य प्रभेदमाह-मुख्येति । मुख्य औपचारिकश्चेति शब्दो
द्विधा । तत्राभिधावृत्त्या बोधको मुख्यः; यथा—घटशब्दः कलशबोधकः ।
तदन्यया गौण्यादिकया बोधक औपचारिकः ; यथा-पुरुषोत्तमे मुख्यवृत्तस्य
भगवच्छब्दस्यान्यत्र देवतान्तरादौ तद्गुणलेशयोगात् प्रवृत्तिः । १३
13. Words are of two kinds : Mukhya (of primary
denotation) and Aupacārika (of secondary denotation).
Mukhya is a word that which denotes its natural
meaning. Aupacārika is a word other than the Mukhya.
शरीरवाचकाः शब्दाः शरीरिकृतवृत्तयः ।
सर्वशब्दैकवाच्यत्वं हरेरिति गदिष्यते ॥ १४ ॥
शब्दनिरूपणम् २९ अस्मिन् प्रसङ्गे विशिष्टाद्वैतप्रधानप्रतितन्त्रसिद्धान्तमपि प्रकटयति- शरीरवाचका इति । लोके हि शरीरवाचकाः शब्दाः शरीरिपर्यन्तमर्थ बोधयन्ति । तथाहि-देवत्वमनुष्यत्वपुंस्त्वस्त्रीत्वादयो न जीवधर्माः, अपितु शरीरधर्मा इति सर्वसंप्रतिपन्नम् । तथापि 'देवो वन्द्यः' इत्यादौ देवादिशब्दा न शरीरमात्रबोधनेन विरतव्यापारा भवन्ति । किंतु तच्छरीरात्मनि पर्यवस्यन्ति । तत्र च निदानं देवादिशरीराणामात्मानं प्रत्यपृथसिद्धविशेषणत्वमेव । किं चाकृत्यधिकरणन्यायेन गवादिशब्दा गोत्वे शक्ता इत्यपि निर्विवादम् । तथापि ते गवादिव्यक्तिबोधका इत्यपि सर्वसंप्रतिपन्नम् । तत्रापि जातिव्यक्त्योरपृथ- क्सिद्धः संबन्ध एव निदानम् । अपिच शुक्लादयः शब्दा रूपवाचका अपि शुक्ल: पट इत्यादौ गुणिसामानाधिकरण्येन प्रयुज्यमाना गुणिपरा इत्यपि सर्वसंप्रतिपन्नम् | तत्रापि गुणगुणिनोरपृथक्संबन्ध एव निदानम् । एवमत्रापि भगवतोऽपृथसिद्ध- विशेषणभूतचिदचिद्वाचकाः सर्वे शब्दाः प्रकारिणि भगवति मुख्ययैव वृत्त्या बोधका इति । एवं च भगवतः सर्वशब्दवाच्यत्वं सिद्धम् । अत एव " सर्वे वेदा यत्पदमामनन्ति” “स ब्रह्मा स शिवः सेन्द्रः" "तदेवाग्निस्तद्वायु:" "ज्योतींषि विष्णुर्भुवनानि विष्णुः” इति च श्रुतिस्मृतीतिहासेषु गीयत इत्यवगन्तव्यम् । गदिष्यत इति; ईश्वरनिरूपणावसर इति भावः । १४ 14. Words denoting the body, naturally denote also the thing embodied. Therefore Bhagavān Hari is the meaning of every word. This fact will be explained clearly later on. इति वेदान्तकारिकावल्यां शब्दनिरूपणं तृतीयं प्रकरणम् । प्रमाणनिरूपणं समाप्तम् ।
४. प्रकृतिनिरूपणम् यत् प्रमाविषयं तत् स्यात्प्रमेयमिति तद् द्विधा । द्रव्यमद्रव्यमित्याद्यं तदुपादानकारणम् ॥ १ ॥ प्रमाणनिरूपणानन्तरं प्रमेयनिरूपणमारभते-यदिति । प्रमाविषयमिति । अत्र च द्वेधा व्याख्या–प्रशब्दस्य प्रथमं माशब्देनान्वये प्रकृष्टा मा प्रमा यथार्थज्ञानम् , तस्या विषय इत्येका। मायाः विषयः माविषयः, मेयमित्यर्थः । प्रकृष्टं मेयं प्रमेयमित्यन्या । प्रथमपक्षे प्रकर्षः संशयविपर्ययादिभिन्नत्वम् । द्वितीये संशयविपर्ययाद्यविषयत्वमिति भिदा। तत् ; प्रमेयम् । द्विधा ; द्विप्रकारा । प्रकारद्वयमेवाह-द्रव्यमिति । आद्यं तदिति ; द्रव्यरूपं प्रमेयमित्यर्थः । उपादा- नेति ; उपादानकारणत्वं द्रव्यत्वमिति द्रव्यलक्षणम् । 1. Prameya is that which is the object of Pramā (Valid Knowledge).. Prameya is of two kinds : Dravya (Substance) and Adravya (Non-Substance). The former (the Dravya) is that which acts as the material cause to the effect. अवस्थान्तरयोगित्वमुपादानत्वमुच्यते । 'गुणाश्रयं वा द्रव्यं स्यात्तच्च द्वेधा प्रकीर्तितम् ॥ २ ॥ समवायिकारणमुपादानम् । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारण- मिति च नैयायिका: परिभाषन्ते। वेदान्तिनां मते समवायानङ्गीकारात् दिव्याश्रयं त्वद्व्यं स्यात्-B.
प्रकृतिनिरूपणम् तद्घटितं लक्षणमुपेक्ष्यान्यथा लक्षयति-अवस्थेति । अन्या अवस्था अवस्था- न्तरम् , तद्योगित्वं तदाश्रयत्वमित्यर्थः । अवस्था नाम आगन्तुकोऽपृथसिद्धश्च धर्मः । कार्यकारणयोरनन्यत्वात् मृदेव कम्बुप्रीवादिमत्त्वरूपागन्तुकधर्मिणी घट इत्युच्यत इति मृदुपादानं भवति । लक्षणान्तरमाह-गुणेति । पदार्थसामान्य- स्य द्रव्याद्रव्यात्मना विभागस्याभिहितत्वात् अत्र गुणपदेनाद्रव्यमुच्यते । घटादीनां रूपाद्याश्रयत्वात् लक्षणसंगतिः । एवं द्रव्याद्रव्यविभागेन तलक्षणकथ- नेन च निर्धर्मका निराधारा रूपादय एव पदार्था इति वैभाषिकणां मतमसंगत- मिति द्योतितम् । 'रूपी घटः' इति ह्यनुभवो जायते, नतु 'रूपं घटः' इति । 'घट: रूपादिभिन्नः अवस्थाश्रयत्वात् , यन्नैवं तन्नैवं यथा रूपम्' इत्याद्यनुमानं चात्र बोध्यम् । द्रव्यं विभजते-तच्चेति । द्वेधेति ; जडाजडात्म- । नेत्यर्थः। لم 2. The material cause is that which undergoes a change in its state. Or, it is Dravya which is the abode of Gunas (Attributes). Dravya is said to be of two kinds : Jada and Ajada. अमिश्रसत्त्वराहित्यं जडत्वमनुगद्यते । जडं प्रकृतिकालौ द्वौ सा' सत्त्वादिगुणत्रया ॥ ३ ॥ तत्र जडलक्षणमाह-अमिश्रेति । रजस्तमोभ्यामित्यादिः । रजस्तमो- भ्याममिश्रितं यत् सत्त्वं सत्त्वगुणः, तद्रहितमित्यर्थः । मिश्रसत्त्ववत्त्वमिति तु लक्षणं न वक्तुं शक्यते, जडभेदे काले अव्याप्तेः । कालो हि सिद्धान्ते गुणत्रय- रहितो नित्यश्च । अत एव तस्याप्राकृतनित्यविभूतावपि सद्भाव उपपद्यते । अत एव-"कालं स पचते तत्र न कालस्तत्र वै प्रभुः" इत्यादिकं संगच्छते । पूर्व प्रत्यक्षनिरूपणे प्रकृतिः काल इति जडस्य द्वैविध्ये उक्तेऽपि प्रकृतौ विशेष वक्तुं पूर्वोक्तमनुभाषते-जडमिति । सेति ; प्रकृतिरित्यर्थः । सत्त्वादिगुणत्रयेति ; सत्त्वादिगुणानां त्रयं यस्यामिति बहुव्रीहिः। सत्त्वादिगुणाश्रयेति पाठस्तु तल्लक्षणस्य शुद्धसत्त्वाश्रये नित्यविभूतावतिव्याप्ते दर्तव्यः । स्त:-B. गुणाभ्रया-C. ३ वेदान्तकारिकावली 3. The Jada is that which is devoid of non-mixed Sattvaguna. Jada is of two kinds : Prakrti and Kala. Prakrti is that which has the three-fold Guna:- Sattva, Rajas and Tamas. प्रकृतिः सा क्षराविद्यामायाशब्दैनिगद्यते । कार्योन्मुखत्वावस्था स्यादव्यक्तव्यपदेशभाक् ॥ ४ ॥ प्रकृतिरिति ; पूर्वकारिकोक्तस्य लक्षणस्य लक्ष्यनिर्देशः । प्रकरोति विकारानस्या ईश्वर इति प्रकृतिः। अपादाने क्तिन् प्रत्ययः । सेति प्रकृतेरेव विशेषाभिधानार्थे पुननिर्देश;। क्षरेत्यादि । प्रकृतेरेव क्षरेति अविद्येति मायेति च नामान्तरैस्तत्र तत्र व्यपदेशः क्रियत इत्यर्थः । क्षरति विकरोतीति क्षरम् , "क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः" इति श्रुतेः । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” इति स्मृतेश्च । महदहंकारादिरूपेण विकारित्वादिदं नाम । न विद्येत्यविद्या । नत्र विरोधे । विद्याविरोधित्वादविद्ये- त्युच्यते, “क्षरं त्वविद्या ह्यमृतं तु विद्या" इत्यादिश्रुतेः । विचित्रसृष्टयुपकरण- त्वात् मायेत्युच्यते । मायाशब्दस्य हि विचित्रकार्यकरत्वं प्रवृत्तिनिमित्तम्, "तेन मायासहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहमैकैकश्येन सूदितम् ॥" इत्यादौ तथा प्रयोगात् । “मायां तु प्रकृतिं विद्यात्” इति श्रुतिश्च प्रकृतिपर्याय मायाशब्दमाह । इदं चाचेतनाप्रधानादिनाम्नामप्युपलक्षणम् , परार्था च नित्या सततविक्रिया " "प्रधानपुंसोरजयोः” इत्यादिवचनात् । सैव प्रकृतिर्दशान्तरापन्ना अव्यक्तेत्युच्यत इत्याह-कार्येति । सा प्रकृतिर्यदा महत्त्वाद्यवस्थान्तरहेतुभूतं शक्तिविशेषमवलम्बते तदा अव्यक्तमित्युच्यते । इदमुपलक्षणम् -ततः पूर्वतनावस्थान्तराणामपि । तथाहि-मूलप्रकृतेर्महत्त्व- हेतुभूतावस्था अव्यक्तावस्थेत्युच्यते । तत: पूर्व तिस्रोऽवस्थाः सन्ति । तत्र प्रथमा अविभक्ततमोऽवस्था, यस्यां सा केदारनिक्षिप्तबीजवत् विकारोन्मुख्य- 'देशनात्-B. "अचेतना प्रकृतिनिरूपणम् ३३ रहिता पानकविलीनगुडवत् परमात्मनैकीभावमापन्ना तच्छरीरतयापि चिन्तयि- तुमशक्या परमात्मैकवेद्या सूक्ष्मावतिष्ठते । ततो द्वितीया विभक्ततमोऽवस्था, यत्र सा मृन्निःसृतबीजवत् अक्षरावस्थाप्राप्त्युन्मुखी भवति । अस्मिन्नवस्थाद्वये तस्यां सदपि चिद्गर्भत्वं न स्फुरति । ततस्तृतीया अक्षरावस्था, यत्र सा सलिलसंसृष्टाशिथिलावयवबीजतुल्यावस्था मनाक् स्फुरितचिद्गर्भा च वर्तते । अक्षराख्यचिद्गर्भत्वस्येषत्स्फुरणात् तदा सा अक्षरेति व्यपदेशं लभते । ततस्तु- रीया पूर्वोक्ता अव्यक्तावस्था, यत्र सा उच्छूनबीजवदङ्कुरस्थानीयमहदुत्पाद- नोन्मुखी भवति । एवं चतस्रोऽवस्था व्यतीत्य पञ्चम्यामवस्थायां महदाख्या- मापद्यते । एताश्वावस्था: “अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयते, तमः परे देव एकी भवति" इति सुबालोपनिषदि प्रतिपादिताः । 4. Prakrti is also named as Ksara, Avidya and Māyā. It is also called Avyakta when it assumes the kinetic state of becoming manifest. अव्यक्तान्महदुत्पत्तिः सात्त्विकत्वादिभेदतः । अहंकारस्ततस्त्रेधा सात्त्विकत्वादिभेदभाक् ॥ ५ ॥ महदादिसृष्टिमाह-अव्यक्तादिति | कार्योन्मुख्यविशिष्टाया मूलप्रकृतेरेव महदादिकारणत्वम् ; न तु नैयायिकाभिमतपरमाणूनामित्यर्थः । अनुमानेन परमाणुसाधने तु तस्य लाघवात् त्रसरेणावेव विश्रान्तिरस्तु । यदाहुः- " अनुमितिविषये लाघवस्यानुसारात्” इति । अतश्च प्रकृतिविकारो महानिति सिद्धम् । सांख्यास्तु-महान्तमेव बुद्धिपदेन व्यवहरन्तोऽध्यवसायमेव बुद्धिमा- चक्षते । तत्तु अध्यवसायस्यात्मधर्मत्वान्न संगतम् । यदि तु 'आयुर्घतम् । इति वदध्यवसायहेतुत्वात् महत्यध्यवसायव्यवहार इत्युच्यते, तदा तस्य नाध्य- वसायरूपत्वमित्यायातम् । महतस्त्रैविध्यमाह—सात्त्विकत्वेति । सात्त्विकराज- सतामसभेदेन त्रिविधो महानित्यर्थः । महतस्त्रैगुण्येऽपि तत्तद्गुणप्राचुर्यभेदात् तथा तथा व्यपदेश इति भावः। महतोऽहंकारसृष्टिमाह-अहंकार इति । ततः; महत इत्यर्थः । अहंकारस्यापि त्रैविध्यमाह-त्रेधेति । सात्त्विकराजसतामसभेदेना- 5 ३४ वेदान्तकारिकावली हंकारस्त्रिविध इत्यर्थः । अभिमानोऽहंकार इति सांख्याः । तच्चाभिमानस्यात्मधर्म- त्वादसंगतमिति ज्ञेयम् । पूर्ववत् अभिमानहेतुत्वात् अभिमानत्वव्यपदेशो वा भवतु । अस्याहंकारशब्दवाच्यत्वे निदानं तु अनात्मनि देहादावहंभावहेतुत्वम् , न तु परेषामिवाहमर्थत्वम् । सर्वत्राहमर्थो हि प्रत्यगात्मा, न तु महद्विकारोऽ- हंकारः । एवं चाहंकारशब्दे द्वयी व्युत्पत्तिः । एका अहमर्थभिन्ने देहादौ अहमिति प्रतीतिः । अस्यां व्युत्पत्तौ अहंशब्दात् च्चिप्रत्ययमुत्पाद्य प्रक्रिया कर्तव्या । अन्या तु च्चिप्रत्ययं विना अहमिति प्रतीतिरहंकार इति । तत्राहंकारस्य दोष- त्वात् त्याज्यत्ववचनं च्चिप्रत्ययान्तव्युत्पन्नाहंकारशब्दार्थमभिप्रेत्य। “अथातोऽ- हंकारादेशः” इत्यादि तु च्चिप्रत्ययरहितव्युत्पन्नाहंकारशब्दार्थमभिप्रेत्येति विवेकः । जडस्यैवाहंकारस्य ज्ञातृत्वमिति मायावादिनः । 5. The Mahat comes forth from the Avyakta with three divisions :-Sāttvika, Rājasa and Tāmasa. The Ahamkāra comes forth from Mahat with three divisions:-Sattvika, Rajasa and Tamasa. वैकारिकस्तैजसश्च भूतादिरिति भेदतः । नामान्तराणि 'सन्त्येषामहंकारात्मना सताम् ॥ ६ ॥ त्रिविधानामहंकाराणां नामान्तराण्याह-वैकारिक इत्यादि । सात्त्वि- काहंकारस्य वैकारिक इति, राजसाहंकारस्य तैजस इति, तामसाहंकारस्य भूतादिरिति च नाम । अहंकारात्मना सतामेषां वैकारिकादिनामान्तराणि सन्तीत्यन्वयः। 6. For these three Ahamkāras there are three other names---Vaikārika, Taijasa and Bhutadi respectively. तेषु वैकारिकात् सात्त्विकाहंकारादुपस्कृतात् । एकादशेन्द्रियाणि स्युर्ज्ञानकर्मेन्द्रियात्मना ॥ ७ ॥ सन्त्येवं . वैकारिकाः . ६ प्रकृतिनिरूपणम् अनन्तरमिन्द्रियाणामुत्पत्तिमाह---तेष्विति । तेषु ; त्रिविधेष्वहंकारेषु मध्ये । उपस्कृतात् ; तैजसापरनामकराजसाहंकारसहकृतात् । सात्त्विकाहंकारात् वैकारिकापरनामकात् एकादशेन्द्रियाणि स्युरियन्वयः । तानि च ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि चेति द्विधा। 7. Among these, from the Sattvikahamkara alias Vaikārika, assisted by the Taijasa, the eleven Indriyas (Organs) come forth with two divisions :-Organs of sense and those of action. ज्ञानप्रसरणे शक्तं ज्ञानेन्द्रियमुदाहृतम् । तन्मनःश्रोत्रचक्षुस्त्वग्घ्राणजिह्वात्मना मतम् ॥ ८ ॥ ज्ञानेन्द्रियं लक्षयति-ज्ञानेति । प्रसरणम् ; विकासः । ज्ञानस्य नित्यविभु- त्वाङ्गीकारात् ज्ञानजनकत्वं न लक्षणमुक्तम् | सिद्धान्ते ज्ञानस्य संकोचविकासा- भ्युपगमात् तद्विकासहेतुत्वसंभव इति ज्ञेयम् । तद्विभजते-तदिति । तत्रापि बाह्यान्तरविभागे आन्तरं मन: एकं, बाह्यानि तु श्रोत्रादीनि पञ्चेत्याहत्य षडपि ज्ञानेन्द्रियाणीति ज्ञेयम् । सांख्यास्तु-सर्वप्रवृत्तीनां मनःपूर्वकत्वात् मन: कर्मे- न्द्रियमपीति मन्यन्ते । यदाहु:- "बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनात्वगाख्यानि । वाक्पाणिपादपायूपस्थं कर्मेन्द्रियं ह्याहुः ॥ उभयात्मकमत्र मनः ॥" इति; तन्न, तत्रापि मनसो ज्ञानोत्पादनद्वारैव कर्महेतुत्वमिति ज्ञानेन्द्रियत्वमेवा- यातम् । तच्चैकमेव हृदयदेशवति । कामसंकल्पादयस्तस्यैव वृत्तिभेदाः । यत्तु मायावादिवेदान्तिनो मनस इन्द्रियत्वं नाभ्युपगच्छन्ति, यच्च सांख्या: "त्रिविधमन्त:करणम्" इति वदन्तो मनोबुद्धयहंकारभेदेन तस्य त्रैविध्यमाहुः, तत्सर्वमप्रामाणिकमिति हृदयम् । 8. Those are the sense-organs which have the power of spreading the knowledge. They are considered ८ वेदान्तकारिकावली - to be Manas (mind), S'rotra (organ of hearing) Cakşus (organ of seeing), Tvak (organ of touching), Ghrana (organ of smelling) and Jihva (organ of tasting). मनः स्मृत्यादिहेतुस्तद्वन्धमोक्षादिकारणम् । शब्दमात्रग्रहे शक्तमिन्द्रियं श्रोत्रमुच्यते ॥ ९ ॥ मनो निरूपयति-मन इति । स्मृत्यादीति । प्रत्यभिज्ञादिरादिपदार्थः । बन्धेति । यदाह- "मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्गि मुक्त्यै निविषयं तथा ॥" इति। श्रोत्रं लक्षयति-शब्दमात्रेति। मनोवारणाय मात्रपदम् । शक्तमिति स्वरूपयोग्यता विवक्षिता; न तु फलोपधायकत्वमपि । अतोऽन्यासक्तचित्तस्य शब्दाग्रहणेऽपि न दोषः । तच्च मनुष्याणां कर्णशष्कुल्यवच्छिनदेशवति । चक्षुःश्रवसां तु नेत्रगोलकवृत्ति । नैयायिकादयस्तु श्रोत्रस्य नाभसत्वमाहुः ; तच नास्माकमिष्टमिति भावः । 9. Mind is the cause for recollection and other mental functions. It also leads to bondage and liberation. The sense-organ which has the power to cognise the sound alone is called Srotra. रूपमात्रग्राहि चक्षुस्त्वक् स्पर्शग्रहकारणम् । गन्धैकग्राहकं घ्राणं रसनं रसभासकम् ॥ १० ॥ चक्षुनिरूपयतिरूपमात्रेति । अत्रापि मात्रपदं पूर्ववत् । चक्षुर्नयन- गोलकवृत्ति । त्वचं लक्षयति-त्वगिति । अत्रापि स्पर्शमात्रेति मात्रपदं निवेश्य लक्षणं वक्तव्यम् । त्वगिन्द्रियं च कृत्स्नदेहाश्रितम् , तत्र सर्वत्रापि स्पर्शो- पलम्भात् । नखदन्तकेशादिषु स्पर्शानुपलम्भस्तु प्राणमान्द्यात् । एवं च सहकारिकारणवैधुर्यप्रयुक्तस्तत्र स्पर्शानुपलम्भ इति ज्ञेयम् । त्वगिन्द्रियं ९ प्रकृतिनिरूपणम् ३७ च संयोगेन साक्षाद्वायुतेजोजलपृथिवीग्राहि । स्पर्श तु तत्संबद्धतया गृह्णातीति विवेकः। गन्धैकेति; गन्धमात्रेत्यर्थः । मात्रशब्दः पूर्ववत् । घ्राणं च प्रायः प्राणिनां नासाग्रवर्ति | गजानां तु नासैव हस्त इति घ्राणपाण्योरेकमेवाधिष्ठानम् । जिह्वां लक्षयति-रसेति । अत्रापि मात्रपदं निवेश्य व्याख्येयम् । १० 10. The sense of sight cognises colour alone. The sense of touch is the means for cognising touch. The sense of smell cognises smell alone. The sense of taste cognises taste alone. एषां विषयसंबन्धः संयोगादिः प्रकीर्तितः । उच्चारणादिकमैकशक्तं कर्मेन्द्रियं मतम् ॥ ११ ॥ एषामिति ; श्रोत्रादीन्द्रियाणामित्यर्थः । विषयेति ; शब्दादीत्यर्थः । संयोगादीत्यादिपदेन संयुक्ताश्रयत्वादि गृह्यते । कर्मेन्द्रियाणि लक्षयति- अच्चारणादीति । आदिपदेन संचारादि गृह्यते । कमैकेति; कर्ममात्रेत्यर्थः । अनेन मनोव्यावृत्तिः। ११ 11. The contact between these (senses) and their objects is said to be direct conjunction etc. The sense of action is considered to be helpful in the action, utterance of words etc. पञ्चधा वाक्पाणिपादपायूपस्थप्रभेदतः । वर्णोच्चारणहेतुर्वाक पाणिः शिल्पादिकारणम् ॥ १२ ॥ कर्मेन्द्रियाणि विभजते-पञ्चधेति ; वागिन्द्रियं लक्षयति-वर्णेति । तच्च हृदयादिस्थानाष्टकवति । यदाह- “ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥"
. वेदान्तकारिकावली इति । पाणीन्द्रियमाह-शिल्पादीति ; चित्रविलेखनादीत्यर्थः। आदानादि- रादिपदार्थः । स च प्रायो मनुष्याणामगुल्यादिवृत्तिः । कचिद् गजादौ तु नासावृत्तिः । कचित्पादादिवृत्तिश्च । १२ 12. They are of five kinds :-the organ of speech, hand, foot, the organ of execretion and that of generation. The organ of speech is the cause for the utterance of letters. Hand is helpful for manual work. संचारकारणं पादः पायुर्मलनिवृत्तिकृत् । उपस्थः परमानन्दहेतुः स्त्रीपुंसयोर्मतः ॥ १३ ॥ पादं लक्षयति --संचारेति । स च मनुष्याणां चरणवृत्तिः, पतगादीनां तु पक्षादिवृत्तिः । पायुमाह-मलेति । स च मनुष्यादीनां तत्तदवयववृत्तिः । कचिन्मान्धालादीनामास्यदेशवृत्तिः । १३ 13. Foot is helpful for (physical) movement. The organ of excretion brings about the removal of excreta. The organ of generation produces great pleasure between a man and a woman. राजसाहक्रियायुक्ततामसाहंकृतेः पुनः । जायते शब्दतन्मात्रादिकं भूतादिकारणम् ॥ १४ ॥ एवमेकादशानामिन्द्रियाणां सात्त्विकाहंकारजत्वं निरूप्य तामसाहंकारा- भृतोत्पत्तिक्रममाह-राजसेति। अहंक्रिया; अहंकारः। शब्दतन्मात्रादिक- मित्यादिपदेन स्पर्शतन्मात्रादिकं गृह्यते । अत्रेदमवधेयम्-तामसाहंकारात् शब्द- तन्मात्रमेव साक्षात् जायते । शब्दतन्मात्रादाकाशः । आकाशात् स्पर्शतन्मात्रम् । ततो वायुरित्यादिरीत्या अन्येषां तन्मात्राणां भूतानां चोत्पत्तिरिति । सांख्यास्तु "प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥" - प्रकृतिनिरूपणम् ३९ इति वदन्तः पञ्चापि तन्मात्राणि साक्षात्तामसाहंकारादेवोत्पन्नानि । तत्र शब्द- तन्मात्रमाकाशारम्भकम् । इतराणि तु तन्मात्राणि पूर्वपूर्वतन्मात्रसहकृतान्युत्त- रोत्तरभूतारम्भकाणीति मन्वते। सा च प्रक्रिया, शब्दतन्मात्राकाशाद्यनन्यथा- सिद्धोपादानक्रमदर्शन्या स्मृत्यादिकया विरुध्यत इत्यनुपादेया। भूतादिकारणम् ; । भूतानामुपादानकारणमित्यर्थः । १४ 14. From the Tamasahamkara associated with (assisted by) the Rājasāhamkāra are produced the subtle elements of sound etc. which produce the elements and the rest. भूतानामेव सूक्ष्मैकपूर्वावस्थाविशेषकृत् । द्रव्यं तन्मात्रमित्याहुः पञ्चधा भूतपञ्चभिः ॥ १५ ॥ तन्मात्रसामान्यलक्षणमाह-भूतानामिति । भूतानामव्यवहितपूर्वसूक्ष्मा- वस्थाविशिष्टं द्रव्यं तन्मात्रमित्यर्थः । १५ 15. It is called Tanmātra (subtle element) which assumes the specific and primary subtle forms of the elements. They are five according as the elements are. तन्मात्रपञ्चकं शब्दाद्याश्रयत्वेन संमतम् । भूतानां स्यादुपादानं शब्दतन्मात्रमादिमम् ॥ १६ ॥ स्पर्शतन्मात्रकं रूपरसतन्मात्रके अपि । गन्धतन्मात्रमेतत्स्यात् खानिलज्योतिरब्भुवः ॥ १७ ॥ प्रत्येकतन्मात्रलक्षणं तु आकाशादिकं भूतपदस्थाने निवेश्योहनीयम् । तानि च तन्मात्राणि पञ्चधा-शब्दतन्मात्रस्पर्शतन्मात्ररूपतन्मात्ररसतन्मात्र- गन्धतन्मात्राणीति । भूतपञ्चभिः आकाशवायुतेजोऽबवनिरूपैः पञ्चभिर्भूतैः सह 1 विशेषवत् B. मन्धतन्मात्रमेतेभ्य: B.
वेदान्तकारिकावली तन्मात्राणि पञ्चधेति पूर्वेणान्वयः । तन्मात्रलक्षणादिकमुक्त्वा तत्स्वरूपमाह- तन्मात्रेति। शब्दाद्यश्रयत्वेनेति; अनभिव्यक्तविशेषसूक्ष्मरूपशब्दाद्याश्रयत्वे- नेत्यर्थः । एतेन शब्दतन्मात्रं स्पर्शतन्मात्रमित्यादिव्यवहारबीजमुक्तम् । तच्च तन्मात्रपञ्चकं तत्तद्भूतानामुपादानं भवति । तत्रादिमं शब्दतन्मात्रम् । १६ तन्मात्राणि नामतो निर्दिशति-स्पर्शेति । भूतानि नामतो निर्दिशति--- खेति । पञ्चभूतानीत्युत्तरेणान्वयः । १७ 16 & 17. The five subtle elements are held to be the abodes of the respective qualities sound and others and are the inherent causes of the gross elements. The subtle elements are those of sound, touch, colour, taste and smell. The gross elements are Akasa, air, fire, water and earth. पञ्च भूतानि तन्मात्रस्वरूपं तु निरूप्यते । तामसाहंकृतिखयोर्मध्यावस्थायुगादिमम् ॥ १८ ॥ तन्मात्रस्वरूपमिति ; शब्दादितन्मात्राणां स्वरूपमुच्यत इत्यर्थः । तामसाहंकाराकाशयोर्या मध्यमावस्था, ताक् आदिमं शब्दतन्मात्रमित्यर्थः। १८ 18. The essential nature of the subtle, elements is described as following. The first subtle element is in the stage intermediate between Tāmasāhamkāra and Akasa. शब्दतन्मात्रमस्माच्च वियदुत्पद्यते तथा । खमेव सूर्यस्पन्देन दिगिति व्यपदिश्यते ॥ १९ ॥ आकाशोत्पत्तिमाह--अस्माच्च ; शब्दतन्मात्राच्च । वियदुत्पद्यत इति; अनेनाकाशस्य नित्यत्वादुत्पत्यादिराहित्यवादिनो नैयायिका: प्रत्युक्ताः । प्रत्यक्षश्चायमाकाशः, उन्मीलितेन चक्षुषा गृह्यमाणत्वात् । खमेवेति ; आकाश प्रकृतिनिरूपणम् ४१ एव सूर्यपरिस्पन्देनोपाधिना प्राच्यादिदिग्व्यवहारभागित्यर्थः । एतेन दिशो द्रव्यान्तरत्ववादिनो नैयायिकाः प्रत्युक्ताः । १९ 19. It is the subtle element of sound from which is produced the sky (Akās'a). The sky itself is called Dik (directions) due to the movement of the sun. द्रव्यं तदाकाशवाय्वोर्मध्यावस्थासुसंयुतम् । स्पर्शतन्मात्रमस्माच्च वायुरुत्पद्यते क्रमात् ॥ २० ॥ स्पर्शतन्मात्रं लक्षयति-द्रव्यमिति | आकाशादनन्तरं वायोः पूर्वं च या अवस्था, तद्युतं द्रव्यं स्पर्शतन्मात्रमुच्यते । अस्माच्च ; स्पर्शतन्मात्रात् । वायुश्च स्पार्शनप्रत्यक्षविषयः । २० 20. The subtle element of touch is in the stage between the sky (Akasa) and the air. From this is produced the air. मध्यावस्थायुतं वायुतेजसोर्द्रव्यमुच्यते । रूपतन्मात्रमित्यस्मात्तेज उत्पद्यते क्रमात् ॥ २१ ॥ रूपतन्मात्रं लक्षयति-~मध्येति । वायुतेजसोर्मध्यावस्थायुतं द्रव्यं रूप- तन्मात्रमित्यर्थः । अस्मात् तेज उत्पद्यते । २१ 21. The subtle element of colour is in the stage between air and fire. From this is produced fire. मध्यावस्थायुतं तेज:पयसोर्द्रव्यमुच्यते । रसतन्मात्रमित्यस्मात्सलिलं खलु जायते ॥ २२ ॥ रसतन्मात्रं लक्षयति-मध्येति । तेजःपयसोर्मध्यावस्थायुतं द्रव्यं रसतन्मात्रमित्यर्थः । अस्मात् पय उत्पद्यते । २२ 22. The subtle element of taste is in the stage between fire and water. From this water is produced. 6 ४२ वेदान्तकारिकावली मध्यावस्थायुतं वारिपृथिव्योर्द्रव्यमुच्यते । गन्धतन्मात्रमित्यस्मात्पृथिवी समुदेत्यसौ ॥ २३ ॥ गन्धतन्मात्रं लक्षयति–मध्येति । वारिपृथिव्योर्मध्यावस्थायुतं द्रव्यं गन्धतन्मात्रम् । अस्मात् पृथिव्युत्पद्यते । २३ 23. The subtle element of smell is in the stage between water and earth. From this is produced the earth. आद्यं शब्दवदन्यच्च शब्दस्पर्शवदुच्यते । रूपशब्दस्पर्शवत्स्यात्तृतीयं च तुरीयकम् ॥ २४ ॥ रूपशब्दस्पर्शरसयुक्तं गन्धाधिकं परम् । तन्मात्रपञ्चकं भूतपञ्चकं चैवमीरितम् ॥ २५ ॥ आद्यमिति ; शब्दतन्मात्रमित्यर्थः । शब्दवदिति ; अविशिष्टशब्दवदि- त्यर्थः । अन्यत् ; स्पर्शतन्मात्रमित्यर्थः । २४ परम् ; पृथिवीतन्मात्रमित्यर्थः । अनेन भूतानामपि एकद्वित्रादिगुणयोग उक्तप्रायः। २५ 24 & 25. The first subtle element has sound; the next sound and touch; the third colour, sound and touth; the fourth colour, sound, touch and taste and the last has smell in addition (to these). The five Bhūtas (gross elements) also are said to be of similar nature. एवं प्रकृतिरव्यक्तमहदादिक्रमाद्रिदाम् | चतुर्विशतिसंख्यानां प्रापिता सुनिरूपिता ॥ २६ ॥ । संमेदं B.
प्रकृतिनिरूपणम् चतुर्विशतीति ; प्रकृतिमहदहंकारास्त्रयः; एकादशेन्द्रियाणि ; तन्मात्र- पञ्चकं, भूतपञ्चकं चेति चतुर्विंशतिः । २६ 26. Thus Prakrti has been described with its twenty-four manifestations as Avyakta, Mahat and so on. भूतानि भगवान्सृष्ट्वा द्वेधैकैकं विभक्तवान् । एकमेकं विधायांशं चतुर्धान्यं विभक्तवान् ॥ २७ ॥ अनन्तरं पञ्चीकरणमाह-भूतानीति । पञ्च भूतानीत्यर्थः । एकैकम् ; आकाशादि प्रत्येकम् । एकमिति ; द्वयोरन्यतरं प्रथम भागम् । एकम् ; अविभक्तम् । अन्यमंशम् ; द्वितीयं भागम् । चतुर्धा विभक्तवान् । २७ 27. After creating the elements, the Lord divided each of them into two equal parts. Keeping one of the parts unsplit, He split the other into four equal parts. चतुर्धा रचितानंशांस्तत्तदंशे युनक्ति सः । चतुर्थाशयुतस्वांशैः पञ्च भूतान्यजीजनत् ॥ २८ ॥ तत्तदंशेः; तस्य तस्य भूतस्य द्विधा कृतस्याविभक्तेनार्धभागेन । युनक्ति ; संयोजयति । चतुर्थाशेति ; द्विधाकृतभूतान्तरभागयोर्योंऽश: चतुर्धा कृतः तस्य चतुर्थेनांशेन युतैः स्वांशैरित्यर्थः । पञ्च भूतानि; आकाशादीनि । अयमत्राशयः-अण्डसृष्टे: पूर्वतनी सृष्टि: समष्टिसृष्टिपदवाच्या । ततो- ऽनन्तरसृष्टिस्तु व्यष्टिसृष्टिरित्युच्यते । आकाशं प्रथमतो द्विधा विभज्य तत्रैकमंशमविभक्तं स्थापयित्वा, अन्यमंशं चतुर्धा विभजनीयम् । एवं विभागेन प्राप्तेषु चतुर्वशेष्वेकैकमशं भूतान्तराणां चतुर्णा द्वितीयार्धचतुर्थ- भांगं परिकल्पयेत् । एवं वायुम् ; तेजः, अपः, पृथिवीं च कुर्यात् । एवं कृते पञ्चीकृताकाशे प्रथममर्धमाकाशांशः; द्वितीयस्मिन्नर्धे प्रथमश्चतुर्थोऽशो वायोर्भागः, द्वितीयस्तेजसः ; तृतीयोऽपाम् ; तुरीयः पृथिव्याः । एवं वाय्वादा- " वेदान्तकारिकावली वपि । एवंच सर्वेष्वपि भूतेषु सर्वेषामपि भूतानां भागाः सन्ति । तथाप्यधिक भागमनुरुध्य तत्तद्भूतत्वव्यवहारः । शुक्तिरिति व्यवहारे शुक्तावर्धभागः शुक्तेरेव । अन्यस्मिन्नर्धभागे एकश्चतुर्थोऽश आकाशस्य, अन्यो वायोः, अन्योऽपाम् ; अन्यस्तेजस इति सर्वभूतांशसंघात एव शुक्तिः । सैव यदि रजतमिति व्यवह्रियते, तदा तेजोभूतरजतांशोऽष्टम: सन्नपि बहुलं भासमानतया रजतमिति व्यवह्रियत इति । एवंच, “यथार्थ सर्वविज्ञानमिति वेदविदां मतम् सिध्यति । तथाचाहु:- "द्वेधा भूतानि भित्त्वा पुनरपि च भिनत्त्यर्धमेकं चतुर्धा तैरेकैकस्य भागैः परमनुकलयत्यर्धमध चतुर्भिः । इत्थं पञ्चीकृतैस्तै नयति स जगद्धेतुरण्डादिकार्या- ण्यैदंपर्यं त्रिवृत्त्वश्रुतिरधिकगिरामक्षमैका निरोद्धुम् ॥" इति । २८ 28. Then He took the part which was unsplit and had it combined with the other half formed by the combination of the one eighth parts of the other four elements. Thus He created the five gross elements. अन्यभूतांशसत्त्वेऽपि स्वांशभूयस्त्वतः कृतः । पृथ्व्यप्तेजोऽनिलव्योमव्यपदेशो जगत्यभूत् ॥ २९ ॥ यदि सर्वत्र भूतेषु सर्वभूतानामंशा: सन्ति, तीतरव्यावृत्ततया पृथि- व्यादिव्यवहारः कथमित्याशङ्कय परिहरति-अन्येति । यत्र यस्य भूतस्यांशो भूयान्, तत्र तद्भूतत्वेन व्यवहारः । यथा पृथिव्या आद्यमर्ध पृथिव्यंशः । अन्यस्मिन्नर्धे भूतान्तराणामष्टमांशा इति पृथिव्यंशस्य भूयस्त्वात् तत्त्वेन व्यवहारः। २९ 29. Each gross element is composed of its own major portion, though each has parts of other elements.
प्रकृतिनिरूपणम् ३० Hence the five elements have the respective names as earth, water, fire, air and Ākās'a. पञ्चीकरणमेतागुपलक्षयति श्रुतिः । भूतैर्महदहंकृत्योः सप्तीकृतिरुपस्कृता ॥ ३० ॥ नन्वेतत् पञ्चीकरणं श्रुतिविरुद्धम् । श्रुतौ हि, “ तत्तजोऽसृजत इत्यादिभिर्वाक्यैः तेजोऽबन्नसृष्टिमुक्त्वा तेषां त्रिवृत्करणमेवोच्यत इत्याशङ्कय समाधत्ते--पञ्चीकरणमिति । श्रुतिः ; त्रिवृत्करणश्रुतिः । एतादृक् पञ्चीकरणमुप- लक्षयति । त्रिवृत्करणवचनं पञ्चीकरणस्याप्युपलक्षकमित्यर्थः । न केवलं पञ्ची- करणस्य, सप्तीकरणस्याप्युपलक्षकमित्याह-भूतैरिति । त्रिवृत्करणश्रुतिः, पञ्च- भूतानि महान् अहंकारः इति सप्तानां पदार्थानां मिथो मिश्रीकरणेन सृष्टेरप्यु- पलक्षणमित्यर्थः। 30. The Vedic passage purports also this Paficikarana (Five-fold combination). When Mahat and Ahamkāra also are taken into consideration for the process, then is formed Saptikarana (Seven-fold combination). भूतपञ्चकमव्यक्तमेते महदहंकृती। उपादानानि देहस्येन्द्रियाणि प्रतिपूरुषम् ॥ ३१ ॥ मिन्नान्याकल्पकल्पानि शरीरं भूषयन्ति हि । चेतनैकनियाम्यं यच्छरीरं तन्निगद्यते ॥ ३२ ॥ नन्वेतावता प्रबन्धेनेन्द्रियाणामाहंकारिकत्वादभौतिकत्वमभ्युपगतमिव भाति । तच्चासंगतम् , प्रमाणविरोधात् । तथाहि भगवद्गीतायाम्- 'महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥
४६ वेदान्तकारिकावली इच्छा द्वेषः सुखं दुःखं संघातश्चेतनाधृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥" इति क्षेत्रशब्दवाच्यस्य शरीरस्य महाभूतेन्द्रियाद्यात्मकत्वमुक्तम् । शरीरस्य भौतिकत्वात् तदवयवानामिन्द्रियाणामपि भौतिकत्वमङ्गीकृतमेव । तथाच पारमर्षे सूत्रम् ; “घ्राणरसनाचक्षुस्त्वक्छ्रोत्राणीन्द्रियाणि भूतेभ्यः । पृथिव्याप- स्तेजो वायुराकाशमिति भूतानि" इति, “भूतविशेषगुणोपलब्धेस्तादात्म्यम् ।', इति च । किंच शरीरेण सहैवेन्द्रियाण्यपि विनश्यन्ति दृश्यन्ते । अतो भौतिका- न्येवेन्द्रियाणीत्याशङ्कायामाह-भूतपञ्चकमित्यादि । भूतपञ्चकम् , पृथिव्यादि- पञ्चकम् ; अव्यक्तम् , प्रकृतिः ; महान् , अहंकारो भूतादिनामा तामसाहंकारः; आहत्याष्टकमिदं शरीरस्योपादानं भवति । इन्द्रियाणि त्विति । तुशब्दोऽत्र वैलक्षण्ये, इन्द्रियाणां भौतिकत्वं निषेधति । अनुपूरुषम् ; प्रतिपुरुषम् । भिन्नानीत्यनेनैकेन्द्रियवादोऽपि निरस्तो भवति । यदीन्द्रियाणि न भौतिकानि, नापि शरीरावयवभूतानि ; कस्तर्हि तैः शरीरस्योपकार इत्यत्राह-आकल्पेति । आकल्पोऽलंकारः । यथा कटकादीनि शरीरस्यालंकरणाय शरीरमाश्रित्यावतिष्ठन्ते, तथेन्द्रियाण्यपि शरीरालंकरणाय तदाश्रित्य वर्तन्त इत्यर्थः । अनेन पूर्वोदाहृत- गीतावचनमपि व्याख्यातं भवति । यथा अध्यायारम्भे- "तत्क्षेत्रं यच्च याहक् च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥" इत्यत्र यच्चेत्यनेन क्षेत्रं यद्रव्यात्मकमिति, यादृक् चेत्यनेन येषामाश्रयभूतमिति, यद्विकारीत्यनेन यादृशविकारास्पदमिति, यतश्चेत्यनेन यस्मै प्रयोजनायेति, यदित्यनेन यत्स्वरूपमिति च वक्तव्यांशान् प्रस्तुत्य, “महाभूतान्यहंकारः" इत्यादिना तत्सर्वे विवृतम् । तत्र महाभूतानीत्यर्धन क्षेत्रं महाभूताधुपादानकमि- त्युक्तम् । “इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः" इत्यनेन क्षेत्रमेकादशे- न्द्रियाणां शब्दस्पर्शादीनां चाश्रयभूतमित्युक्तम् । “इच्छा द्वेषः सुखं दुःखम् " इति क्षेत्रविकारा उच्यन्ते । यद्यपीच्छादय आत्मर्धाः, तथापि तस्य ते क्षेत्र- संबन्धप्रयुक्ता इति प्राप्ताप्राप्तविवेकनयेन क्षेत्रविकारा उच्यन्ते । “संघातश्चेतना- धृतिः" इत्यनेन तत्प्रयोजनं तत्स्वरूपं चोक्तम् । अनेनेन्द्रियाणां देहाश्रितत्व-
प्रकृतिनिरूपणम्
मेवोक्तम् । न तु तदवयवत्वमिति भावः । पारमर्षवचनं तु यथाकथंचिदागमा-
विरोधेन नेयम् । आगमो हि लयप्रकरणे, "आकाशमिन्द्रियेश्विन्द्रियाणि
तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते” इति सेन्द्रियाणां तन्मात्राणामहंकारे
लयमाह । यदीन्द्रियाणि भौतिकानि, तदा तेषां भूतेष्वेव हि लयो वक्तव्यः ।
आगमविरोधादेव तेषां भौतिकत्वसाधनतयाभिमतान्यनुमानान्यपि दुष्टान्येव ।
एवंच शरीरे विनष्टेऽपीन्द्रियाणामाप्रलयं सूक्ष्मरूपेणावस्थितिरिति सिद्धम् ।
अथ प्रसक्तस्य शरीरस्य लक्षणमाह-चेतनैकेति । एकशब्दोऽत्र
नयत्यपरः। नियमेन यत् यस्य चेतनस्य नियाम्यं तत्तस्य शरीरमित्यर्थः ।
भृत्यानां स्वामिनियाम्यत्वेऽपि तन्नियमनस्य नैयत्याभावेन न तेषां तं प्रति
शरीरत्वम् । नन्वेवं चेतनाचेतनानां सर्वेषां नियमेनेश्वरनियाम्यत्वात् ईश्वरं प्रति
तेषां शरीरत्वं स्यादिति चेत् , हन्त स एवास्माकं परम: सिद्धान्त इति महता
कुतूहलेन तदिष्टापत्त्याभ्युपगच्छामः । चेष्टाश्रयः शरीरम् , इन्द्रियाश्रयः शरीरम् ,
भोगोपकरणं शरीरमित्यादीनि तु अव्यात्यतिव्याप्त्यादिदुष्टानीति हेयानि ।
चेष्टाश्रयत्वं घटादावतिव्याप्तम् । इन्द्रियाश्रयत्वं यदीन्द्रियसंयोगित्वं तदा
घटादावतिव्याप्तिः । यदीन्द्रियसंमवायित्वं तदा सिद्धान्ते समवायानङ्गीकारात् स
एव दोषः । परमतरीत्या इन्द्रियावयवेष्वतिव्याप्तं च । भोगायतनत्वं तु
गृहारामादावतिव्याप्तम् । शिरःपाण्यादिमत्त्वं तदिति चेत् , तद्रहितेषु स्थावर-
शरीरेष्वव्याप्तिः । अतोऽस्मदुक्तमेव लक्षणं साध्विति भावः । ३१, ३२
31, 32. The five gross elements together with
Avyakta, Mahat and Ahamkāra act as the inherent or
material cause of the human body. But the Indriyas
(senses) possessed by different persons are distinct from
each other. They adorn the body like the jewels.
That which is invariably controlled by the sentient
being is called its body.
शरीरं द्विविधं नित्यमनित्यमिति भेदतः ।
भगवन्नित्यसूरीणां नित्यं नैसर्गिकं तु तत् ॥ ३३ ॥
४८ वेदान्तकारिकावली शरीरस्य द्वैविध्यमाह-शरीरमिति । नित्यम् ; उत्पत्तिनाशरहितम् । अनित्यम् ; तद्वत् । भगवतः त्रिगुणकालजीवादीनि नित्यशरीराणि । तथा अनन्तगरुडादिनित्यसूरीणां शरीरं नित्यं स्वाभाविकं च । ३३ 33. Body is of two types-eternal and non-eternal. The Lord and the Nityasūris have the eternal one which is natural to them. अनित्यमपि तद् द्वेधा कर्माकर्मकृतत्वतः । अकर्मकृतमीशादेरिच्छया परिकल्पितम् ॥ ३४ ॥ अनित्यशरीरस्य द्वैविध्यमाह-अनित्यमपीति । कर्मकृतमकर्मकृतं चेति द्वैविध्यमित्यर्थः । तत्राकर्मकृतमाह-ईशादेरिति । महदादिकार्यवर्गः सर्वोऽपी- श्वरस्याकर्मकृतदेह इत्यर्थः । ईश्वरस्याकर्मकत्वात् तस्याकर्मकृतत्वम् । किंतु केवलस्वेच्छाकृतत्वमेवेति भाव्यम् । तथाहि गीयते भगवतैव- "अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृति स्वामधिष्ठाय संभवाम्यात्ममायया ॥" इति । आत्ममायया ; मदीयया इच्छयेत्यर्थः । 34. The non-eternal one is two-fold according as it is produced and not produced by Karman. That which is not produced by Karman is possessed by the Lord and Nityasūris as contrived at their will. तच्च कर्मकृतं वेधा खेच्छासहकृतं तथा । कर्ममात्रकृतं चेति सौभर्यादेर्यथादिमम् ॥ ३५ ॥ कर्मकृतशरीरभेदमाह-तच्चेति । स्वेच्छासहकृतकर्मकृतं तदसहकृतकेवल- कर्मकृतं चेति द्विधेत्यर्थः । आदिमं स्वेच्छासहकृतं सौभर्यादीनामित्यर्थः । 35. That which is produced by Karman is of two types--produced with the assistance of one's own . प्रकृतिनिरूपणम् desire and produced by Karman only. The bodies of the sage Saubhari and other blessed individuals, belong to the former type. द्वितीयमस्मदादीनां सामान्येन पुनदिधा । स्थावरं जङ्गमं चेति शिलादि स्थावरं मतम् ॥ ३६ ॥ केवलकर्मकृतमाह-द्वितीयमिति । अस्मदादीनामिति; कर्मपरवशानां संसारिणामित्यर्थः । सामान्येनेति; नित्यानित्यविभागानादरेण शरीरसामान्य स्थावरजङ्गमात्मना द्विविधमित्यर्थः । शिलादीति ; काष्ठादय आदिपदग्राह्याः। ३६ 36. Bodies like those of ours come under the latter type. Again the bodies could be generally classified under two heads of immovable and movable. Stones and similar things are considered immovable. जङ्गमं च द्विधा प्रोक्तं स्याद्योनिजमयोनिजम् । योनिज देवमानुष्यतिर्यगादिविभागवत् ॥ ३७ ॥ जङ्गमस्य द्वैविध्यमाह-जङ्गमं चेति । योनिजायोनिजभेदेन द्विविध- मित्यर्थः । तत्र योनिजजङ्गमभेदानाह-देवेत्यादि । शुक्रशोणितसंयोगाज्जातं योनिजमित्युच्यते। 37. The movables are two-fold-those born of the womb (Yonija) and not born of the womb (Ayonija). The devine beings, men and animals are Yonijas (viviparous). 'उहिजखेदजाण्डोत्थनारक्यारव्यमयोनिजम् । एवं पञ्चीकृतानां स्यादण्डोत्पादकता स्मृता ॥ ३८ ॥ 'तिर्यङ्नारकिमेदवत A.B. भेदत: G. उद्भिजस्वेदजजरायवण्डजाख्य A.B.G, - 7 . वेदान्तकारिकावली अयोनिजजङ्गमभेदानाह-उद्भिज्जेत्यादि । उद्भिद्य जायन्त इतीन्द्रगोप- मण्डूकादय उद्भिज्जा इति सुश्रुते । स्वेदजाः यूकामत्कुणादयः । अण्डोत्थाः पक्षिसरीसृपादयः। नारकि नरकवासिनां शरीरम् । तच्च तेषां पापैरेवोपज- नितमयोनिजमित्यर्थः । अनन्तरं पञ्चीकरणप्रयोजनमाह-एवमिति । पञ्चीकृताना- मिति ; पञ्चीकृतानामेवेत्यर्थः । तदुक्तम्- "नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य कृत्स्नशः ॥" इति। ३८ 38. Those which are not born from the womb (Ayonijas) are frog etc. (coming out from the earth), insects and vermin (produced by sweat or warm vapour), born from the eggs and those inhabitant of the hell. It is those which are thus combined in five that are considered to produce the Anda (cosmic Egg). अण्डोत्पत्तेः पूर्वसृष्टिः समष्टिरत उत्तरा । व्यष्टिसृष्टिरिति द्वेधा सृष्टिर्वेदान्तिसंमता ॥ ३९ ॥ सृष्टिर्द्विधा-समष्टिसृष्टिः, व्यष्टिसृष्टिश्चेति । तत्र अण्डोत्पत्तेः पूर्वतनी या सृष्टिः सा समष्टिसृष्टिरित्युच्यते । अण्डोत्पत्तेरुत्तरं संपद्यमाना सृष्टिः व्यष्टि- सृष्टिरित्युच्यत इत्यर्थः । ३९ 39. The creation which precedes the production of the Aạļa is called the collective creation and the other which follows it is called the distributive creation. This two-fold creation is acceptable to all Vedantins. 'अव्यक्तादेर्महत्त्वादिरवस्थान्तरमिष्यते । विजातीयान्तरावस्था चेत्तत्त्वान्तरमीयते ॥ ४०॥ अकादे: A.B.
प्रकृतिनिरूपणम् क अवस्थान्तरयोगित्वमुपादानत्वमुच्यते' इति पूर्वोक्तस्यावस्थान्तर- पदस्यार्थ विवृणोति--अव्यक्तादेरिति । महत्त्वादिरिति । अव्यक्तमेव यदा अव्यक्तावस्थां विहाय महद्रूपावस्थामाधत्ते, सैवावस्थान्तरापत्तिरित्यर्थः । तदेवं तत्त्वानामेव तत्त्वान्तरात्मना परिणतौ विजातीयमवस्थान्तरं निमित्तीकृत्य तत्त्वान्तरत्वेन परिगणनं क्रियत इत्यर्थः । 40. The manifestation of Avyakta etc. as Mahat etc. is considered to be a condition different from the previous one. If that condition is dissimilar to the previous one, then it is considered to be a different Tattva. इत्थमव्यक्तमहदहंकारेन्द्रियनामकैः। तन्मात्राणीति तत्त्वानि चतुर्विंशतिधाभवन् ॥ ४१ ॥ तदेवं परिनिष्पन्नां तत्त्वसंख्यामाह -इत्थमिति । तत्त्वानि अव्यक्ता- द्यात्मना चतुर्विशतिधा परिगण्यन्त इत्यर्थः । 41. Thus came the twenty-four Tattvas-Avyakta, Mahat, Ahamkāra, Indriyas and Tanmātras. भोग्यभोगोपकरणभोगस्थानानि चेशितुः । जीवस्य च प्रकृत्यादीन्युद्भवन्ति यथायथम् ॥ ४२ ॥ एषां जडानां विधान्तरेण विभागमाह-भोग्येत्यादि । ईशितुरीश्वरस्य जीवस्य च भोग्यभोगोपकरणभोगस्थानरूपेण जडतत्त्वानि भवन्तीत्यर्थः । ४२ 42. Matter etc. become the objects, means and places of enjoyments for the Lord and the finite souls. विषयो भोग्यमक्ष्यादि भोगोपकरणं मतम् । भोगस्थानं तु भुवनं तद्वर्तीन्यण्डजानि हि ॥ ४३ ॥ 1 भोगस्थानानि भूम्यादिभुवनान्यण्डमीदृशम् . G.
वेदान्तकारिकावली भोग्यादीन् विविनक्ति-विषय इति | विषयः श्रोत्रादीन्द्रियविषयः । भोगोपकरणं तु अक्ष्यादि । भोगस्थानानि तु समस्तं भुवनं तदन्तर्वर्तीनि च ब्रह्माण्डजानि। 43. Bhogya is the object. Eye etc. are considered as the means of enjoyment. The world and those contained therein are places of enjoyment. एवं पञ्चीकृतैर्भूतैरारब्धं प्राकृतं भवेत् । कपित्थफलकाकारमण्डं नाम निगद्यते ॥ ४४ ॥ अनन्तरमण्डोत्पत्तिमाह-एवमिति । भूतैः आकाशादिभिः पञ्चभि- स्तत्त्वैः । प्राकृतमण्डम् ; प्राकृतैर्भूतैरारब्धत्वात् प्राकृतत्वमण्डस्य । कपित्थ- फलकाकारमिति निदर्शनम् । यथा कफित्थफलस्यान्तर्भागे सूक्ष्माणि बहूनि बीजानि, तत्संबद्धा मधुरा अमधुराश्च फलांशा अपि विद्यन्ते, तद्वत् अण्डस्यान्त- र्भागेऽपि सूक्ष्माणि बहूनि जीवतत्त्वानि तत्संसृष्टाः सुखदुःखात्मकाः प्राकृत- भागाश्च विद्यन्त इत्यर्थः । 44. The material world is thus envolved out of the five-fold elements. Anda is in the form of woodapple (Kapittha). जम्बूद्वीपमिदं सर्व लवणोदधिनावृतम् । प्लक्षद्वीपं ततोऽपीक्षुसमुद्रेण प्रवेष्टितम् ॥ ४५ ॥ "सप्त द्वीपा वसुमती" इत्युक्तरीत्या सप्त द्वीपान्याह-जम्बूद्वीप- मिदमिति । इदमित्यस्मत्प्रत्यक्षगोचरतामाह । इदं च लवणोदधिना परिवृतम् । ततः लवणसमुद्रादनन्तरं प्लक्षद्वीपं वर्तते । तच्चेक्षुसमुद्रेण परिवृतम् । 45. This whole Jambudvipal is encircled by the salt ocean. Beyond this, there is Plakşadvīpa with the sea of sugar-cane juice.
प्रकृतिनिरूपणम् ततस्तु शाल्मलिद्वीपं सुरासागरवेष्टितम् । कुशद्वीपं ततः सर्पिःसमुद्रेण प्रवेष्टितम् ॥ ४६ ॥ ततः इक्षुसमुद्रादनन्तरं शाल्मलिद्वीपं वर्तते । तच सुरासमुद्रेण वेष्टितम् । ततः सुरासमुद्रादनन्तरं कुशद्वीपं वर्तते । तच्च सर्पिःसमुद्रेण परिवेष्टितम् । ४६ 46. Then there is Salmalidvipa with the sea of wine. Then there is Kus'advipa with the sea of clarified butter. क्रौञ्चहीपं ततः पश्चाद्दध्यर्णवसमावृतम् । शाकद्वीपं ततः क्षीरसमुद्रेण प्रवेष्टितम् ॥ ४७ ॥ ततः सपि:समुद्रादनन्तरं क्रौञ्चद्वीपं वर्तते । तच्च दधिसमुद्रेण परिवेष्टि- तम् । ततः दधिसमुद्रादनन्तरं शाकद्वीपं वर्तते । तच्च क्षीरसमुद्रेण वेष्टितम् । ४७ 47. Then there is Krauficadvipa with the sea of curds and then S'ākadvīpa with the sea of milk. पुष्करद्वीपमभितः शुद्धाम्बुधिसमावृतम् । सर्वमेतद्धैमभूम्या ततो वलयपर्वतः ॥ ४८ ॥ अभितः क्षीरसमुद्रस्य समन्तात् पुष्करद्वीपं वर्तते । तच्च शुद्धाम्बुधिना समावृतम् । एतत्सर्वम् निखिलमप्येतत् हैमभूम्या परिवृतम् । ततः वलयपर्वत: वलयाकारपर्वतो वर्तते । 48. Then there is Puskaradvipa encircled by the sea of fresh water. All these are encircled by the golden land. Then there is a circle-shaped mountain. अन्धकारावृतः सोऽपि सोऽपि गर्भोदकेन च । ततोऽण्डमेकमेवं स्याद्भूमेरूलमधोऽपि च ॥ ४९ ॥ ४८ वेदान्तकारिकावली वलयपर्वतोऽप्यन्धकारेण तमसा निबिडो भवति । सोऽपि वलयपर्वतोऽपि गर्भोदकेन परिवृतो भवति । ततोऽण्डं भवति । एवं भूमौ यथा वर्णितं तथा भूमेरूलमधश्च बहवो देशा वर्तन्त इत्यवगन्तव्यम् । 49. It is encircled by darkness, that too by Garbhodaka. Anda is thus only one which is above and below.the earth. अण्डान्येतादृशानि स्युरनन्तानि महाहरेः । जलबुबुदकल्पानि पुराणोक्तान्यनुक्रमात् ॥ ५० ॥ एतानि सर्वाण्यप्यण्डानि अनन्तानि । तानि सर्वाण्यपि हरेविभूतयः जले बुबुदानीव भासन्ते । एष चाण्डानां क्रमः पुराणेषूक्तः । २६० 50. . Endless (countless) are the Andas of the Great Hari. They are like bubbles of water. They have been enumerated in the order in the Purāņas. इति वेदान्तकारिकावल्यां प्रकृतिनिरूपणं चतुर्थ प्रकरणम् OF ५. कालनिरूपणम् mer गुणत्रयविहीनो यः स जडः काल उच्यते । अखण्डखण्डभेदेन स कालो द्विविधो मतः ॥ १ ॥ तदेवं प्रकृतिकालशुद्धसत्त्वधर्मभूतज्ञानजीवेश्वरभेदभिन्नेषु द्रव्येषु प्रकृति निरूप्यानन्तरं प्राप्तकालं कालं निरूपयितुं प्रकरणान्तरमारभ्यते । सांख्यसौगत- चार्वाकाः कालतत्त्वमत्यन्ताय निर्दवते । पाशुपतास्तु कालतत्त्वमभ्युपयन्तोऽपि द्रव्यान्तराणामिवास्यापीश्वरमायासृज्यत्वमातिष्ठन्ते। यदाह तत्त्वप्रकाशे भोजः- नानाविधशक्तिमयी सा जनयति कालतत्त्वमेवादौ । भाविभवद्भूतमयं कलयति जगदेव कालोऽतः ॥" इति । वैशेषिकास्तु अस्य नित्यविभुत्वमङ्गीकुर्वन्तोऽप्यनुमानगम्यत्वं संगिरन्ते । तथाचाहुः :-"अपरस्मिन्नपरं युगपच्चिरं क्षिप्रमिति काललिङ्गानि" इति । तत्सर्वे प्रतिक्षिपन् सिद्धान्तमाह-गुणत्रयेति । 'प्रकृतिः काल इत्याद्या' इति प्रकृतेवि- लक्षणतया निर्देशादप्राकृतोऽयं कालः। अतः प्रकृतिधर्मत्रगुण्यरहितः । सात्त्विकः काल इत्यादिव्यवहारस्तु तथाभूततत्तद्वस्तुव्यतिकरनिबन्धनः । जड इति; अने- नास्य पराक्त्वमप्युक्तं भवति । तस्य द्वैविध्यमाह-अखण्डेति । कलामुहूर्त- दिवसपक्षमासादयः खण्डकालाः तत्तदुपाधिनिबन्धनास्तद्विकारभेदा अव- गन्तव्याः। 1. Time is said to be Jada (an inert substance) devoid of the triad of Gunas. It is of two kinds: Akanda (Undivided) and Kanda (Divided).
- वेदान्तकारिकावली आद्यो विभुर्भूतभाविवर्तमानत्वधीकरः । निमेषादिप्रभेदेन बहुभेदस्त्वसौ मतः ॥ २ ॥ आद्य इति; अखण्डकाल इत्यर्थः । विभुरिति ; सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम् । न तु परममहत्परिमाणत्वम् । तस्य सामान्येन त्रैविध्यमाह- भूतेति । भूतो घटः, भावी घटः, वर्तमानो घटः इत्यादिरूपेण भूतत्व- भावित्ववर्तमानत्वप्रकारकधीभेदकारीत्यर्थः । कालस्य सर्वत्र पदार्थविशेषणतयैव प्रतीते: पदार्थप्रत्यक्षे कालस्यापि प्रत्यक्षत्वमनेनोक्तं भवति । एतेन त्रिविधभेदे प्रमाणमपि दर्शितं भवति । प्रभेदान्तराण्याह-निमेषादीति । आदिपदेन काष्ठाकलामुहूर्तदिवसादयो ग्राह्याः । असौ खण्डकालो बहुभेदो मत इत्यर्थः । २ 2. The former is Vibhu (all pervading). It gives rise to the cognition as per past, future and present and has also many divisions as Nimeșa and so on. अखण्डकाल एवायं नित्य इत्यवगम्यते कालः स्वकार्य प्रति तु स्यादुपादानकारणम् ॥ ३ ॥ सिंहावलोकनन्यायेन पुनश्चाखण्डकाले विशेषमाह-अखण्डकाल एवेति। एवकारः खण्डकालं 'व्यवच्छिनत्ति । नित्य इति ; उत्पादविनाशरहित इत्यव- गम्यते । खण्डकालस्तूत्पादविनाशशालीति फलितोऽर्थः । ननु नित्यस्य विभोश्चाखण्डकालस्य निमेषादिरूपेण विकाराभ्युपगमे नित्यत्वविभुत्वे भज्ये- यातामिति चेत्, अत्र ब्रूम:-विकारो हि द्विधा । अवयवोच्छूनताह्रासलक्षणः, नामान्तरभजनार्हतालक्षणश्च । द्विविधोऽप्येष विकारो न नित्यत्वविरोधी । नित्याया एव प्रकृतेरीदृशविकारभजनस्य प्रमाणप्रतिपन्नत्वात् । तथाच श्रूयते- "अजामेकां लोहितशुक्लकृष्णाम्" इति । अजामिति नाशराहित्यस्याप्युप- लक्षणम् । अनेन नित्यत्वमुक्तं भवति । एकामिति नैकविधविकारजातमूलत्व- मुच्यते । लोहितशुक्लकृष्णामिति तेजोऽबन्नात्मना परिणतिरुच्यते । तेजोऽबन्ना- त्मना परिणाममापन्नापि सा अजा एकैवेति विवक्षितोऽर्थः । तथा स्मृटिरपि- - ३ कालनिरूपणम् "अचेतना परार्था च नित्या सततविक्रिया" इति । महदहंकारभूताद्यात्मना सततं परिणममानापि नित्येति विवक्षितोऽर्थः । तथा अवयवोच्छूनताहासलक्षणो विकारो यद्यपि विभुनि न संभवति, तथापि नामान्तरभजनार्हतालक्षणस्तु संभव- त्येव । अन्यथा प्रपञ्चशरीरके ब्रह्मणि तत्तन्नामभाजि विभुत्वं भज्येतेति सिद्धान्त- व्याकोप: स्यात् । स चायमखण्डः कालः कार्यसामान्यं प्रति सहकारिकारणं भवति । स्वस्य यत्कार्य निमेषकाष्ठादि तत्प्रति तु स्वयमुपादानकारणं भवति। 3. The undivided Time is known to be Nitya (eternal). It acts as Upadana (material cause) for its various manifestations (as Nimesa etc.). कार्यरूपस्ततो नैव नित्य इत्यवधार्यताम् । लीलाविभूतावीशानः कालमालम्ब्य कार्यकृत् ॥ ४ ॥ तत: अखण्डकालकार्यतया कार्यरूपो निमेषादिः खण्डकालो नैव नित्यः । किंत्वनित्य इत्यवधार्यताम् । ईशानः सर्वेश्वरः कालं सहकारितया- लम्ब्यैव लीलाविभूतौ प्राकृतप्रपञ्चे सर्वमपि कार्य करोति । 4. Hence, the effected Time is Anitya, (noneternal). The Lord in His sportive sphere functions as dependent on Time. एष नित्यविभूतौ तु न कालमवलम्बते । क्रीडापरिकरः सोऽयं कालस्तु परमात्मनः ॥ ५ ॥ एष इति । एष ईश्वरः । कालं नावलम्बते, कालमपेक्ष्य न करोतीत्यर्थः । अनेन नित्यविभूतावपि कालसद्भाव उक्तः । तदुक्तम् "कालं स पचते तत्र न कोलस्तत्र वै प्रभुः" इति । अतः सोऽयं काल: परमात्मनः क्रीडा- परिकरः; लीलोपकरणमित्यर्थः । ४ - 8 ५८ वेदान्तकारिकावली 5. But in His eternal sphere He functions not dependent on Time. But Time serves as an instrument in his sport. नित्यनैमित्तिकप्राकृतलयाः कालहेतुकाः। एवं प्रकाशितं कालस्वरूपस्य निरूपणम् ॥ ६ ॥ नित्येति । प्रलयस्त्रिधा-नित्यप्रलयः, नैमित्तिकप्रलयः, प्राकृतप्रलयश्चेति । त्रिविधेऽपि प्रलये कालो भगवत: सहकारिकारणं भवतीत्यर्थः । त्रिविधप्रलय- स्वरूपं चैवमुपवर्णितं पुराणेषु । यथा कौM- “योऽयं संदृश्यते नूनं नित्यं लोके क्षयस्त्विह। नित्यः संकीर्त्यते नाम्ना मुनिभिः प्रतिसंचरः ।। ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भविष्यति । त्रैलोक्यस्यास्य कथितः प्रतिसों मनीषिभिः ।। महदादिविशेषान्तं यदा संयाति संक्षयम् । प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ॥" इति । नित्यप्रलयो नाम दैनंदिनसुषुप्तिरूपः । सुषुप्तौ हि जीवानां ब्रह्मप्राप्तिः श्रूयते--एवमेवेमाः सर्वाः प्रजा अहरहर्गर्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः" इति । नैमित्तिकप्रलयो नाम चतुर्मुखब्रह्मणो दिवसावसानात्मकः । प्राकृतप्रलयो नाम चतुर्मुखब्रह्मणा सह ब्रह्माण्डस्य तत्स्थानां च विनाशरूपः । एते त्रिविधाः प्रलया: कालहेतुका भवन्ति । ६ 6. The Pralaya (Dissolution) which is known of three kinds namely Nitya (frequent), Naimittika (occasional) and Prakrta (material) is subject to Time. Thus the nature and characteristics of Time have been explained. इति वेदान्तकारिकावल्यां कालनिरूपणं पञ्चमं प्रकरणम् ६. नित्यविभूतिनिरूपणम् शुद्धसत्त्वे धर्मभूतज्ञानजीवेश्वरेषु च । अजडत्वं भवेल्लक्ष्म तत्पुनः स्वप्रकाशता ॥ १ ॥ कालनिरूपणानन्तरं क्रमप्राप्तं शुद्धसत्त्वं निरूप्यते । शुद्धसत्त्वमेव नित्यविभूतिरिति च व्यवहियते । रजस्तमोभ्यामकरम्बितसत्त्ववत्त्वात् शुद्धसत्त्वं भवति । तत्रादौ शुद्धसत्त्वसद्भावे प्रमाणान्याकलयामः । “ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः" इति श्रुतिरप्राप्तत्वात् सदापश्यदनेकसूरिपरि- कर्मितं स्थानविशेषं विधत्ते । “अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः" इति हि प्रमाणविदः । अत्र च विष्णोरिति व्यधिकरणषष्ठया पदशब्दस्य स्वरूपपरत्वा- दपि स्थानविशेषपरत्वं स्वारसिकम् । तथा "आदित्यवर्ण तमसः परस्तात्", “विश्वं पुराणं तमसः परस्तात् क्षयन्तमस्य रजस: पराके" इत्यादावपि तद्विधिः । रजस्तमोभ्यामुपलक्षितप्राकृताण्डबहिर्देशोऽत्र प्रतीयते । अस्य रजसः पराके परस्तात् दिव्यदेशे क्षयन्तं निवसन्तमित्यर्थः । तथा जैमिनीयब्राह्मणे शाटयायनिनः, “सहस्रस्थूणे विमिते दृढ उग्रे यत्र देवानामधिदेव आस्ते" इति सहस्रस्थूणादिमद्देशविशेषपरां श्रुतिमधीयते । एवं कौषीतकिनोऽपि पर्यऋविद्यायां प्रजापतिलोकानन्तरं ब्रह्मलोकं प्रस्तुत्य, "तस्यारो हृदो मुहूर्ता यष्टिहा:" इत्यादिना अपराजिताभिधानं शुद्धसत्त्वमधीयते । अपि च छान्दोग्ये, “तृतीय- स्यामितो दिवि तदैरंमदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता पू:" " च ण्यं चार्णवौ ब्रह्मलोके" इत्यादिना नित्यविभूतिर्वर्णिता । सन्ति चात्रोपबृंहणानि परःशतानि वचनानि । एवं स्थिते यदत्र केषांचित्प्रत्यवस्थानम्-“सदेव सोम्येदमग्र आसीत् ।" सजातीयविजातीयस्वगतभेदशून्यस्यैकस्य वस्तुनः प्रतिपादना- ""अरं इति सृष्टेः प्राक् , ६० वेदान्तकारिकावली नित्यविभूतिनामा देशविशेषोऽङ्गीकर्तुं न शक्यते । पूर्वोदाहृतप्रमाणवचनानि सर्वाणि सगुणब्रह्मविद्यानिष्ठप्राप्यकाल्पनिकदेशविशेषपराणि, न तात्त्विकप्रति- पादकानीति । तत्र चेत्थं प्रतिविधानम्-तत्र तावत् ब्रह्मविद्यासु सगुणनिर्गुण- विभाग एव सुतरामप्रामाणिकः । सर्वा अपि ब्रह्मविद्याः सगुणविषया एव; यतो ब्रह्म सगुणमेवेति श्रुत्यन्तसिद्धान्तः । अपिच "सदेव" इति श्रुतौ स्रक्ष्यमाण- प्रपञ्चस्य सृष्टेः पूर्वमविभक्तनामरूपतया केवलमेकत्वमवधार्यते, न पराभिमत- सजातीयविजातीयस्वगतभेदविधुरतया। वाक्यशेषे च सैव श्रुतिः “तद्धेदं तहव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत" इति तमेवार्थ प्रपञ्चयति । यद्येषा रीतिर्नाङ्गीक्रियते, तर्हि तदा तदभिमतमायाया अपि प्रविलयापत्त्या मायोपहिताद् ब्रह्मणः प्रपञ्चसृष्टिरिति तदीयः सिद्धान्तो व्याकुप्येत् । तदेवं बहुप्रमाणसिद्धे शुद्धसत्त्वे तथा धर्मभूतज्ञाने जीवेषु ईश्वरे च विषये अजडत्वं लक्षणं भवति । अजडत्वं जडभिन्नत्वम् । तच स्वप्रकाशत्वरूपम् । इतरानपेक्षप्रकाशत्वमिति यावत् । तर्हि संसारिणामस्माकं कुतो न प्रकाशत इति चेत् कर्मावरणादिति ब्रूमः । 1. Ajadatva (Being other than Jada or inert) is the common characteristic of Suddhasattva (The substance of pure Sattvaguņa), Dharmabhutajñāna (Attributive knowledge), Jiva and Isvara. Ajadatva is nothing but Svayamprakās'atā (Self-luminosity). पराक्त्वे सत्यजडता लक्ष्म प्रथमयोर्मतम् । परस्मै भासमानत्वं पराक्त्वमिति गद्यते ॥ २ ॥ तत्र शुद्धसत्त्वधर्मभूतज्ञानयोः साधारणं लक्षणमाह-पराक्त्व इति । पराक्त्वं च परस्मा एव भासमानत्वम् । शुद्धसत्त्वं धर्मभूतज्ञानं च न स्वं स्वयमधिगन्तुं प्रभवतः । किंतु परस्मै पुरुषायैव प्रकाशेते । अजडत्वं च तयोर्ज्ञानरूपत्वात् । तथाच श्रुतिः शुद्धसत्त्वमधिकृत्य श्रूयते ---" किमात्मिकैषा मनुगद्यते B. कथ्यते . 1 नित्यविभूतिनिरूपणम् भगवतो व्यक्तिः ? यदात्मको भगवान् । किमात्मको भगवान् ? ज्ञानात्मकः" इति । परस्मै भासमानत्वमित्यत्र सर्व वाक्यं सावधारणमिति न्यायेन परस्मा एव भासमानत्वमित्यर्थों विवक्षितः । अतो जीवेश्वरयोः परस्मै स्वस्मै च भासमानसो- नातिप्रसङ्गः । २ 2. Parāktva (Being the object of the knowledge of others only) along with Ajaďatva is the common characteristic of the first two categories (Suddhasattva and Dharmabūtajñāna). Parāktva is defined as the state of being knowable for others only. सत्त्वैकमूर्तिको देशः शुद्धसत्वमचेतनम् । परिच्छिन्नमधो देशेऽनन्तमूर्ध्वप्रदेशतः ॥ ३ ॥ शुद्धसत्त्वपदार्थमाह-सत्त्वैकेति । एकशब्दः केवलपरः । रजस्तमोभ्या- ममिश्रितकेवलसत्त्वगुणक इत्यर्थः । पराक्त्वादचेतनम् । चेतनं नाम चैतन्यगुणक वस्तु । शुद्धसत्त्वस्य ज्ञानरूपत्वेऽपि ज्ञानानाश्रयत्वादचेतनत्वम् । अधोदेशे परिच्छिन्नम् । “तमसः परस्तात्" इत्यादिश्रुतिभिस्तमस ऊर्ध्वमिति वर्णनादधः प्रदेशे तमसा परिच्छिन्नम् । ऊर्ध्वप्रदेशे तु अपरिच्छिन्नम् । शुद्धसत्त्वस्योपरिष्टात् कस्यापि देशादेरभावात् तत्र परिच्छेदरहितमिति भावः । 3. Suddhasattva is a non-sentient substance full of pure Sattva guņa (i.e., not mixed with Rajas and Tamas). It is limited downward and unlimited upward. स्वयंप्रकाशरूपेयं पञ्चोपनिषदात्मिका । विष्णोनित्यविभूतिः स्यान्नित्यमानन्दरूपिणी ॥ ४ ॥ स्वयंप्रकाशरूपेति । नित्यविभूतिरिति निर्देशानुरोधेन स्त्रीलिङ्गनिर्देशः । स्वप्रकाशे जडपदार्थैरिवेतरानपेक्षणात् स्वयंप्रकाशरूपेयम् । तच्च किंद्रव्यात्म- سم वेदान्तकारिकावली कमित्यत्राह-पञ्चोपनिषदिति । पञ्चोपनिषन्मन्त्रप्रतिपादितपराकाशाद्यप्राकृत- पञ्चभूतमयी । सा चेश्वरादीनां परमपदनिलयानां तत्तदिच्छानुरोधेन शरीरेन्द्रिय- विषयादिरूपेणावतिष्ठते । तत्रेयान् विशेष:-यत्प्राकृतानि भूतानि महदादिभ्य उत्पद्यन्ते । अप्राकृतानि तु न तथा। तानि स्वत एव प्रतिष्ठितानि । अतो नित्यानि । तर्हि, “अशरीरं वाव सन्तम्" इत्यादिश्रुतयः शरीररहितस्यैव कथं मोक्षमभिदधतीति चेत् , इत्यम्-कर्मकृतशरीरराहित्यस्यैय तत्र विवक्षा । परम- पदनिलयानां तु शरीरमकर्मकृतमित्यदोषः। विष्णोरिति विभूतावन्वेति । विष्णोः शेषभूता नित्यविभूतिरित्यर्थः । आनन्दरूपिणीति ; तत्रानन्दमया भोगा लोकाश्चानन्दलक्षणाः।" "आनन्दं नाम तं लोकं परमानन्दलक्षणम् ।" इत्याधुपबृंहणात् नित्यविभूतिरानन्दैकरूपेत्यर्थः । 4. This kind of substance is formed with divine elements described in the hymns of Pancopanişad. This is the Eternal Wealth of the Lord Vişnu and is in the form of Ananda (Bliss). सेयं विभूतिरीशस्य नित्यमुक्तात्मनामपि । भोग्यभोगोपकरणभोगस्थानमयी मता ॥ ५ ॥ ४ सेयं विभूतिरिति ; नित्यविभूतिरित्यर्थः । तस्या विविधरूपतामाह- भोग्येति ; भोगकमभोगसाधनभोगाधिकरणदेशमयीत्यर्थः । मतेति ; प्रामाणिक- अन्थेष्वित्यर्थः । 5. This eternal substance is considered to have assumed different forms of the objects of enjoyment, the means of enjoyment and the places of enjoyment of the Lord Isvara, the Nityas (Eternal souls) and Muktas (Released souls).
६
नित्यविभूतिनिरूपणम्
भोग्यमीश्वरदेहादि द्वितीयं चन्दनादिकम् ।
भोगस्थानं तु माणिक्यगोपुरादिकमुच्यते ॥ ६ ॥
भोग्यादीन् निर्दिशति-भोग्यमिति । ईश्वरस्य देहादि भोग्यमित्यर्थः ।
ईश्वरदिव्यमङ्गलविग्रहोऽन्येषां नित्यसूरीणामिवेश्वरस्यापि भोग्यो भवति । यदाहुः
- "मूर्तं ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतम्" इति । भोगोप-
करणमाह-चन्दनादिकमिति । नित्यविभूतावप्राकृतचन्दनादिकं शास्त्रसिद्धम् ।
भौगस्थानान्याह-माणिक्येति । माणिक्यमयं गोपुरप्रासादवितर्दिकादिकं
भोगस्थानमित्यर्थः।
6. The objects of enjoyment are the Lord's
body and so on. The means of enjoyment are Candana
(sandal) etc. The places of enjoyment are the towers
of precious gems and so on.
देहा ईश्वरनित्यानां नित्येच्छाकल्पिता हरेः ।
मुक्तानां तु शरीरादिस्तत्संकल्पकृतो मतः ॥ ७ ॥
तत्र भोग्यभूतदेहे विशेषमाह-देहा इति । ईश्वरस्य नित्यानां च देहो
हरेनित्येच्छापरिकल्पितः । मुक्तानां तु ईश्वरेच्छाधीनस्वेच्छाकल्पितः ।
भगवदाज्ञामनुरुन्धाना यथा यथा भूत्वा भगवन्तं तत्कल्याणगुणांश्चानुबुभूषन्ति
तथा तथा स्वदेहं परिगृह्णन्तीत्यर्थः ।
7. The bodies of the Lord and Nityas take their
form on the eternal wish of the Lord Hari. But those
of Muktas are brought about by His (Lord's) Samkalpa
(Will).
श्रीपतेषूहविभवार्चावतारतया सतः ।
अप्राकृतशरीराणि प्रतिष्ठानन्तरं हरेः ॥ ८ ॥
६४ वेदान्तकारिकावली प्रसादोन्मुखतापत्तौ प्रकटानि भवन्ति हि । तच्च प्रकटनं तस्य संकल्पाधीनमीर्यते ॥ ९॥ श्रीपतेरिति । व्यूहाः वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाख्याश्चत्वारः । विभवाः रामकृष्णादिबहुभेदाः । अर्चा: श्रीरङ्गादिदिव्यदेशेषु प्रतिमारूपाः । एवं व्यूहाद्यात्मना वर्तमानस्य भगवतः श्रीपतेः शरीराणि दिव्यमङ्गलविग्रहाः अप्राकृतानि प्राकृतभिन्नानि शुद्धसत्त्वमयानि ज्ञातव्यानि । ननु व्यूहविभवानां सन्तु नामाप्राकृतविग्रहाः । अर्चारूपाणां तु विग्रहाः कथमप्राकृताः ? अर्चा हि प्राकृतलोहै: रजतकाञ्चनादिभिः शिल्पिमिनिमिता दृश्यन्ते । सन्ति च प्रतिमानिर्माणे तेषु तेषु शास्त्रेषु परिदृश्यमाना विधय इत्यत्र समाधानमाह- प्रतिष्ठानन्तरमिति । प्राकृतलोहनिर्मितानामप्यर्चाविग्रहाणां यथाशास्त्रं वैदिक- तान्त्रिकमन्त्रैः प्रतिष्ठाकरणानन्तरं त एव विग्रहा अप्राकृततामापद्यन्त इत्यर्थः । यथाह:-"न तस्य प्राकृता मूर्तिीसमेदोऽस्थिसंभवा” इति, न भूतसंघ- संस्थानो देहोऽस्य परमात्मनः" इति च । तत्र च हेतुः भगवत्प्रसादौन्मुख्यमेवेत्याह-प्रसादेति । महामन्त्रैः प्रतिष्ठाकरणे तादृशमन्त्रमहिम्ना भगवानाराधकस्य प्रसन्नो भूत्वा तत्र बिम्बे स्वसांनिध्यं कुरुते । तत्सांनिध्यसमय एव तबिम्बमप्यप्राकृत भवतीति यावत् । एष च महिमा मन्त्रबलाधीन इति न तत्र लेशतोऽपि कुचोदनाया अवकाशः । तदेवाह-तच्चेति । संकल्पाधीनमिति । मन्त्रविशेषैः प्रतिष्ठिते बिध्बे सांनिध्यं करवाणीति तस्यावितथः संकल्पः । अप्रतिहतसंकल्पे भगवति प्रसन्ने किं किं न संभाव्यत इत्यर्थः । ८ 8 and 9. The bodies possessed by the Lord of Sri in his various incarnations as Vyūha, Vibhava and Arcă are of the non-material and eternal substance. In the case of Arcā the non-materiality of the image appears immediately after the performance of Pratişthā (consecration) when the Lord becomes graceful. This नित्यविभूतिनिरूपणम् state of thing happens only on His divine Will (Samkalpa). प्राकृताप्राकृततनुसंसर्गः कथमित्यलम् । रामकृष्णावतारादौ दृष्टत्वात्तस्य भूयसा ॥ १० ॥ ननु भगवदर्चामूर्तेरप्राकृतत्वे कथमस्याः प्राकृतलोकावतारः ? कथं वा प्राकृतैर्द्रव्यैः संसर्ग इत्याशङ्क्य समाधत्ते-प्राकृतेति । प्राकृताप्राकृतलोकयो- रुभयोरपि भगवद्विभूतित्वात् यथा अखिलहेयप्रत्यनीककल्याणगुणैकतानस्य भगवतो रामकृष्णाद्यात्मना दोषबहुलप्राकृतलोकेऽप्यवतारः प्राकृतद्रव्यैश्च योग उपपद्यते तद्वदिति भावः । १० 10. The objection, viz.-how can can there be a contact between the non-material body and material world?--is not sound, because such a contact is often proved in the case of the Lord's incarnations such as Rama, Krsna and so on. औज्ज्वल्यादिगुणा ये' स्युर्दिव्यमङ्गलविग्रहे । हरेस्तांस्तु विजानीहि गद्यत्रयविचारतः ॥ ११ ॥ भगवत्स्वरूपस्य यथा ज्ञानशक्त्याद्यसंख्यातकल्याणगुणाश्रयत्वं तथा शुभाश्रयस्य तद्दिव्यमङ्गलविग्रहस्याप्यनन्तगुणाश्रयत्वं शुद्धसत्त्वमयत्वात् प्रामाणिक- मुपपद्यत इत्याह-औज्ज्वल्यादीति । आदिपदेन सौगन्ध्यसौकुमार्यलावण्यादि- संग्रहः । गद्यत्रयेति ; श्रीभगवद्रामानुजीयभगवदनुसंधानपरे पृथुगद्यमितगद्य- श्रीवैकुण्ठगद्यसंघटिते गद्यत्रयाख्यग्रन्थ इत्यर्थः । विचारत इत्यनेन तद्भाष्यार्था- वगमोऽपि विवक्षितः। ११ 11. The excellence of brilliancy etc. in the divine body of the Lord Hari, should be understood fully by referring to the work Gadyatraya. ये तु A.C. 9 वेदान्तकारिकावली मुक्तानामशरीरत्ववचनं यत्तु दृश्यते । तत्कर्मकृतशारीरसंबन्धाभावगोचरम् ॥ १२ ॥ "अशरीरं वाव सन्तम्” इति श्रुतिर्मुक्तौ देहाभावं ब्रवीतीति तद्विरोध इत्यत्राह—मुक्तानामिति । सशरीरत्वाशरीरत्वपरयो: श्रुत्यो: सगुणनिर्गुणश्रुत्यो- रिवशरीरस्य कर्मकृतत्वाकर्मकृतत्वाभ्यां विरोधः परिहरणीय इति भावः । १२ 12. The statement that the Muktas have no body, should mean the absence of such body as caused by Karman. रूपयन्ति श्रीनाथदिव्यमङ्गलविग्रहम् । पुराणोक्तक्रमादस्मादाद्या वेदान्तदेशिकाः ॥ १३ ॥ तथाहि "चेतश्चक्रति चेतनासिरमतिस्तत्संवृतिर्मालिका भूतानि स्वगुणैरहंकृतियुगं शङ्खेन शाङ्गीयते । बाणाः खानि दशापि कौस्तुभमणिर्जीव: प्रधानं पुन: श्रीवत्सं कमलापते तव गदामाहुर्महान्तं बुधाः ॥" इति । पुराणरत्नास्त्रभूषणाध्यायोक्तप्रकारेण भगवतो दिव्यमङ्गलविग्रहमनुसंधत्ते- निरूपयन्तीति । श्रीनाथेत्यनेन " उभयाधिष्ठानं चैकं शेषित्वम्' इति न्यायेन दिव्यदंपतिशेषित्वमुक्तं भवति । निरूपणप्रकारमेवाह-चेत इति । चक्रति चक्रमिवाचरति । चेतना ज्ञानम् । असिः खड्गरूपतामपद्यते । अमति:, अज्ञानम् | तत्संवृतिः ; तस्य खड्गस्य संवृतिः आवरणभूतः कोशः । भूतानि आकाशादीनि पञ्च भूतानि पञ्च तन्मात्राणि च स्वगुणैः शब्दस्पर्शादिभिः सह मालिका भवति ; यस्या भूतमालेत्यपि प्रसिद्धिर्लोके । अहंकृतियुगं सात्त्विकतामसाहंकारद्वयं शङ्खन 1 अस्मदाद्यवेदान्तदेशिका: A.
नित्यविभूतिनिरूपणम् सह शार्ङ्ग भवति । सात्त्विकाहंकारः शङ्खः, तामसाहंकारश्च शार्ङ्ग भवतीत्यर्थः । शङ्खस्य सात्त्विकत्वादेव ध्रुवानुग्रहे भगवता ध्रुवस्य ज्ञानोदयहेतुभूतं शङ्खसंमार्ज- नमुक्तं पुराणे । दशापि खानि ज्ञानकर्मेन्द्रियाणि बाणा भवन्ति । जीवः जीव- समष्टिरूपं चेतनतत्त्वं कौस्तुभ: कौस्तुभमणिः । प्रधानं प्रकृतिः पुनः श्रीवत्सं भवति । बुधाः महान्तं महत्तत्त्वं तव गदामाहुरिति श्लोकार्थः । १३ 13. Our revered and ancient Ācāryas in Vedānta explain the blissful body of the Lord of Sri thus as said in Purana : "O Lord of Kamala, the sense of mind is your disc, knowledge is your sword, ignorance is your sheath, the elements with their guņas are your garland, the two-fold Ahamkara.s are your Saikha (conch) and Sariga (bow), the ten senses are your arrows, Jīvatattva is your Kaustubha Gem, the Prakſti is your S'rī-Vatsa mole, and the Mahat is your Gada (club)." त्रिपाहिभूतिवैकुण्ठपरव्योमादिशब्दिता । विभूतिरियमीशस्य महती सुमहीयते ॥ १४ ॥ नित्यविभूतेर्नामान्तराण्याह-त्रिपादिति । त्रिपाद्विभूतिरिति, श्रीवैकुण्ठ- मिति, परव्योम चेति शब्दभागिनी, ईशस्य सर्वशेषिणो भगवत इयं विभूतिः महती लीलाविभूत्यपेक्षयात्यन्तं महती सुतरां महीयते पूज्यते । मह पूजायामिति धातुः। " तद्विप्रासो विपन्यवो जागृवांसः समिन्धते” इत्युक्तरीत्या नित्यसूरिभिः सदा स्तूयमाना वर्तत इत्यर्थः । १४ 14. This Nityavibhūti (Eternal Wealth) is of great excellence and mentioned with different names such as Tripādvibūti, Vaikuntha, Paravyoman etc. belongs to the Lord. It is vast and honoured by all with great reverence.
वेदान्तकारिकावली द्वादशावरणोपेतमनेकशतगोपुरम् । वैकुण्ठं नाम नगरमेतस्यां प्रविजम्भते ॥ १५ ॥ तत्र नित्यविभूतौ दिव्यनगरमाह-द्वादशेति । तत्र नित्यविभूतौ द्वादश- भिरावरणैः प्राकारैरावृतमनेकशतसंख्याकगोपुरविराजितं वैकुण्ठाख्यं श्रीवैकुण्ठ- नामकं दिव्यनगरमपि एतस्य भगवतो भोगार्थ विजृम्भते प्रकाशते । १५ 15. In this world shines an extensive celestial city called Sri-Vaikuntha with 12 enclosures and many hundreds of towers. आनन्दनामकस्तत्र सुदिव्यनिलयः स्फुटः । तत्र रत्नमयस्तम्भसहस्रा भासते सभा ॥ १६ ॥ श्रीवैकुण्ठनगरे भगवतो दिव्यमन्दिरादिकमाह-आनन्देति । तत्र नगरे आनन्दनामक: दिव्यनिलयः स्फुटः स्वयंप्रकाशो वर्तते । तत्र दिव्यनिलये सभामण्डपः रत्नमयैः स्तम्भसहरन्वितो भासते । १६ 16. In this city exists a huge divine mansion called Ananda. In that mansion shines a beautiful Assembly Hall with thousand pillars made of gems. अनन्तस्तत्र च फणामणितेजोविराजितः । तस्मिन् धर्मादिसहितसिंहासनमुपस्थितम् ॥ १७ ॥ तत्र च दिव्यसभामण्डपे फणामणितेजोभिर्विशेषभास्वरः अनन्तः सिंहा- सनमुद्धरनास्ते । तस्य दिव्यमहामणिमण्डपस्थनित्यसूरिसभायामास्तरणभूत- स्यानन्तस्य सेवामाह-अनन्त इति । तत्र च सभायाम् । फणामणीनां सहस्रसंख्यस्फटास्थरत्नानां तेजसा कान्या विराजितोऽनन्त: तदाख्यया प्रसिद्धो भगवत्पारिषदेषु प्रधानभूतः राजति विद्योतते । अनन्तस्य बहुधा भगवत्सेवा- प्रकारो वर्णित: स्तोत्ररत्ने- नित्यविभूतिनिरूपणम् तया सहासीनमनन्तभोगिनि प्रकृष्टविज्ञानबलकधामनि । फणामणिव्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि ॥ निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः । शरीरभेदैस्तव शेषतां गतैर्यथोचितं शेष इतीरिते जनैः ।। इति । तस्मिन् अनन्ते ; अधिकरणे सप्तमी । तद्धारितं दिव्यं सिंहासनमुपस्थित वर्तत इत्यर्थः । तस्य सिंहासनस्य पादानाह-धर्मादीति । धर्मज्ञानवैराग्यश्वर्या- ख्याश्चत्वारः पादास्तस्य । तैः पादैः सहितं सिंहासनं वर्तत इत्यर्थः । १७ 17. In this Hall is seen Ananta, brilliant with the luster of gems of his hoods. There is on him a throne (Simhasana) attended by Dharma and other attendants. तत्र चामरवहस्तैर्विमलादिभिरचितम् । पद्ममष्टदलं भाति तत्र शेषोऽस्ति धीमयः ॥ १८ ॥ तस्य सिंहासनस्य मध्ये पद्मासनमाह-तत्रेति । तत्र ; सिंहासने । चामरवीजनेन भगवत्कैंकर्यप्रसिताभिर्विमलादिभिर्दिव्यपरिचारिकाभिरञ्चितमलं- कृतमष्टदलयुक्तं पद्मं भाति । विमलादयश्चाष्टौ परिचारिकाः परिगण्यन्ते भगव- च्छास्त्रे । तासां नामानि यथा-विमला, उत्कर्षणी, ज्ञानाख्या, क्रिया, योगाख्या, प्रभ्वी, सत्या, ईशाना चेति । एताश्च पद्मासनस्याग्नेयाद्यष्टदिग्दलेषु प्रतिष्ठिता वेदितव्याः । तत्रेति । अष्टदलपमें धीमय: ज्ञानस्वरूपः शेषोऽस्ति दिव्य- पर्यङ्करूपेण वर्तते । भगवच्छेषतैकरसत्वात् भगवत्पारायकरूपप्रवृत्तिनिमित्तानु- गुणां शेषाख्यां बिभ्रदयं स्वयंप्रकाशत्वरूपज्ञानस्वरूपोऽपि विशिष्य पञ्चविध- ज्योति:सिद्धान्तप्रवर्तकतया ज्ञानप्रकर्षवानिति धीमयत्वमस्येति मन्तव्यम् । १८ 18. In it is seen a lotus flower with 8 petals worshipped by Vimalā and other maid attendants with chowries in their hands. There is on the lotus, Sesa who is an embodiment of intellect.
वेदान्तकारिकावली तत्रानन्दमयः साक्षात्सर्ववाचामगोचरः। अद्भुतज्योतिराकारो भाति नारायणात्मना ॥ १९ ॥ अनन्तरं शेषपर्यङ्कासीनं भगवन्तं निर्दिशति-तत्रेति । तत्र ; शेषपर्यके। आनन्दमयः; मानुषानन्दादिप्रजापत्यानन्दपर्यन्तशतगुणितोत्तरानन्दादप्यति- शयितानन्दरूपः । साक्षात् ; विगलितनिखिलकर्मबन्धस्याविर्भूतस्वस्वरूपस्या- त्मनः प्रत्यक्षवेद्यः । सर्ववाचाम् , “ यतो वाचो निवर्तन्ते” इत्युक्तरीय ब्रह्मा- दीनां सर्वदेवानामपि वाचामविषयः । अद्भुतज्योतिः, “परं ज्योतिरुपसंपद्य," “न तत्र सूर्यो भाति न चन्द्रतारकम्" इत्यादिश्रुत्युक्तरीत्या युगपदुदित- कोटिकोटिसूर्यलावण्यज्योतिराकारः । नारायणात्मनेति सदात्मपरब्रह्मादिशब्दानां सामान्यविशेषन्यायेन नारायणे पर्यवसानमभिप्रेत्यात्र देवताविशेषनिर्देशः । अनेन मुक्तप्राप्यं निर्विशेषं परं ब्रह्मान्यत् । उपसनागोचर आविद्यकः सगुणो नारायणोऽन्य इति परेषां मते तत्क्रतुन्यायविरोधरूपमनौचित्यमपि सूचितम् । ब्रह्मणि सगुणनिर्गुणविभाग एव प्रमाणं नास्ति । तथा कृत्वा चिन्ताया- मपि सगुणब्रह्मोपासकस्य सगुणब्रह्मप्राप्तिरेवोचिता, न निर्गुणब्रह्मप्राप्तिरिति युक्तम्। १९ 19. There shines pre-eminently a wonderful Light in the form of S'rīman-Nārāyaṇa who is the eternal Bliss and beyond the scope of all speech. इति वेदान्तकारिकावल्यां नित्यविभूतिनिरूपणं षष्ठं प्रकरणम् -- ७. धर्मभूतज्ञाननिरूपणम् 'धर्मो भवति यज्ज्ञानं प्रभा दीपे यथात्मनोः । तहर्मभूतविज्ञानं नित्यं नित्येश्वरेषु तत् ॥ १ ॥ अथ धर्मभूतज्ञानं निरूपयितुमुपक्रमते-धर्म इति । यथा प्रभा दीपधर्मतया भाति, तथा ज्ञानमप्यात्मधर्मतया भातीत्यर्थः । ज्ञानस्वरूपस्यात्मनो व्यवच्छेदाय धर्म इति विशेषणम् । धर्मीभवतीति पाठे धर्मो भवतीत्यर्थे, “कृभ्व- स्तियोगे संपद्यकर्तरि च्विः" इति च्विप्रत्ययः । अभूततद्भावश्चात्र यथावदनवस्थि- तोऽपि शब्दसाधुत्वसंपत्तये यथाकथंचिन्निर्वाह्यः । अत्रायमाशयः-- ज्ञानं द्विविधं धर्मिभूतं धर्मभूतं चेति । तत्राद्यं जीवा ईश्वरश्च । अन्त्यं तेषां गुणभूतं मतिबुद्धय- नुभूत्यादिपदवाच्यम् । अवभासत्वमुभयानुगतं प्रवृत्तिनिमित्तम् । अर्थप्रकाशत्वं तु धर्मभूतज्ञानस्य । ज्ञानस्वरूपस्यात्मनो ज्ञानमेव कथं गुणो भवितुमर्हतीति विशये दीपप्रभादृष्टान्तेन समाधानमुक्तं भवति । यथा तेजोरूपाया एव दीप- ज्वालायास्तेजोरूपा प्रभा गुणो भवति तथेति । ननु ज्ञानं नामाद्रव्यं द्रव्याश्रितो गुण इति प्रसिद्धिः । तथा सति कथमात्मनो द्रव्यस्याद्रव्यात्मकज्ञानरूपत्वमिति चेत् , ज्ञानस्य द्रव्यात्मकत्वादिति ब्रूमः । आगमोऽपि हि " सत्यं ज्ञानमनन्तं ब्रह्म” इति ब्रह्मणो ज्ञानस्वरूपता- माह । ननु तत्र ज्ञानशब्दे अन्तोदात्तबलादर्श आद्यचि ज्ञानवत्त्वमेवार्थ इति चेत् ; तन्न, "विज्ञानमानन्दं ब्रह्म' इति श्रुत्यन्तरानुगुण्येनात्रापि बाहुलकाद- न्तोदात्ततामाश्रित्य ज्ञानस्वरूपत्वस्यैव वक्तव्यत्वात् । नन्वेवमप्यागमबलात् ज्ञानरूपगुण एव ब्रह्मास्तु । तथा च केवलमनुभूतिरेव ब्रह्म । अनुभूतेश्च 1 धर्मीभवति-A. B.
वेदान्तकारिकावली गुणत्वात् तत्र ज्ञानान्तरासंभवः, गुणे गुणानङ्गीकारात् । न हि रूपादौ गुणे गुणान्तरं रूपाद्युपलभामहे इति चेत् , अनेत्थं वक्तव्यम्-यदि नैयायिकपक्ष- पातेनाद्रव्यं गुण इति पक्षमवलम्ब्य वितय॑ते, तदा गुणस्याद्रव्यस्य कंचिदा- श्रयमन्तरावस्थितिरपि न दृष्टचरेति ज्ञानरूपस्य ब्रह्मणः कश्चिदाश्रयोऽभ्युप- गन्तव्यो भवति । यदि “निराधारं निराश्रयम्" इत्याद्यागमबलादाश्रयमन्तरापि तद्वर्तत इत्यभ्युपगम्यते, तर्हि काममागमबलादेव तस्य ज्ञानगुणकत्वमप्यभ्युपग- म्यताम् । अस्ति चायमागम:-" परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" "सोऽकामयत बहु स्यां प्रजायेय" इत्यादिः । इदमत्रावधेयम्-पदार्थजातं द्रव्यगुणकर्मसामान्याद्यात्मना विभजतां नैयायिकानां यथा गुणा अद्रव्यभूताः, न तथास्माकं सिद्धान्ते । यो यदाश्रित्य वर्तते, स तस्य गुण इति गुणलक्षणम् । स च क्वचिद् द्रव्यं भवति, यथा-दण्ड: पुरुषस्य । कचिदद्रव्यं भवति, यथा-शुक्लादि रूपं पटस्य । तथा गुणगुणिनो: संबन्धोऽपि द्विविधः-पृथक्सिद्धसंबन्धः, अपृथक्सिद्धसंबन्धश्चेति । तत्र पृथक्- सिद्धसंबन्धस्थले मत्वर्थप्रत्यययोगादेव गुणगुणिनो: सामानाधिकरण्यनिर्देशः, यथा-दण्डी पुरुष इति । अपृथक्सिद्धसंबन्धस्थले तु मत्त्वर्थप्रत्ययापेक्षा विनापि तयोः सामानाधिकरण्यम् , यथा-शुक्ल: पटः, ब्राह्मणोऽयम् , पीनोऽय- मित्यादि । अत्र शुक्लरूपपटयोः देहात्मनोश्चापृथक्सिद्धसंबन्धः । प्रकृते च ज्ञानब्रह्मणोरपृथक्सिद्धसंबन्धात् इति व्यवहार इत्येका गमनिका । तथा शाह सूत्रकार:- तद्गुणसारत्वात् तद्वयपदेशः" इति । स्वयंप्रकाशत्वरूपप्रवृत्तिनिमित्तपौष्कल्यात् तथा व्यवहार इत्यन्या गमनिकेति । तत्र विशेषान्तरमाह-नित्यमिति । तत् ; धर्मभूतं ज्ञानं नित्येषु ईश्वरे च नित्यम् उत्पादविनाशरहितम् । आह च श्रुतिधर्मभूतज्ञानस्य नित्यत्वम् ; यथा- "न विज्ञातुर्विज्ञातेविपरिलोपो विद्यते" "न हि द्रष्टुईष्टेविपरिलोपो विद्यते" इति । उपबृंहणमपि- "यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणे: । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ॥" इत्यादि । ईश्वरस्य नित्यसूरीणां च ज्ञानं सदा सर्वविषयावगाहीत्यर्थः । "विज्ञानं ब्रह्म - धर्मभूतज्ञाननिरूपणम् 1. Knowledge which is an essential quality of the Ātmans (Individual and Supreme) is called Dharmabhuta-jñāna (Attributive Knowledge). It is eternal in Nityas (Eternal souls) and Isvara (The Lord). बद्धेषु तत्तिरोभूतं मुक्तेषु प्राक्तिरोहितम् । संकोचनविकासाभ्यां नाशोत्पत्तिविपाकभाक् ॥ २ ॥ बद्धमुक्तज्ञानयोविशेषमाह-बद्धेष्विति । तत् नित्यमपि ज्ञानम् । बद्धेषु कर्मबद्धेषु जीवेषु । तिरोभूतम् आवृतं भवति । अतः स्वतः सर्वविषयावगाह- स्वभावमपि तत् संसृतिदशायां कुण्ठितप्रसरं भवतीत्यर्थः । मुक्तेषु तु प्राक् मुक्तेः प्राक् तिरोभूतम् । मुक्त्यनन्तरं तु नित्येश्वराणामिव सर्वत: प्रसरमित्यर्थः, " परमं साम्यमुपैति” इति श्रुतेः । संसृतिदशायां संकोचविकासाभ्यां नाशो- त्पादव्यवहार इत्यर्थः । एवं चात्मधर्मभूतज्ञाने संकोचविकासाभ्युपगमात् तस्यैव विकारित्वम् , न त्वात्मन इति तस्याविकारित्वश्रुत्या न विरोध: । केवलसंवि- देवात्मेति वादिनां मते तु ज्ञानेऽभ्युपगतो विकार आत्मन्येव पर्यवस्य- स्तस्याविकारित्वबोधन्या श्रुत्या विरुध्येत । नित्यस्यापि ज्ञानस्य विकारित्वं तु प्रमाणप्रतिपन्नतयाभ्युपगम्यत इति भावः । ज्ञानस्य संकोच एव नाशः, एव नाशः, विकास एव चोत्पत्तिरिति व्यवह्रियते । २ 2. In respect of those who are under bondage it (Knowledge) is concealed. In respect of those who are freed from bondage it was formerely concealed. Knowledge is said to be the subject of loss and production, because of its contraction and expansion. संकोच इन्द्रियद्वारा ज्ञानं संकोच्यते यदि । विकास इन्द्रियहारा ज्ञानप्रसरणाद्भवेत् ॥ ३ ॥ 10 ३ senses. वेदान्तकारिकावली ज्ञानाख्यं द्रव्यमिन्द्रियद्वारा निर्गत्य विषयसंनिधानमाप्नुवद्विषयावभासं जनयति । यदा इन्द्रियद्वारा निर्गमने तत् संकोच्यते तदा तस्य संकोचो भवति । यदा तु प्रसरणमापद्यते तदा विकासो भवतीत्यर्थः । 3. Contraction of knowledge happens when it becomes shrunk due to the contact with the Its expansion takes place when it becomes expanded due to the contact with the senses. स्वप्रकाशं स्वतो मानमेतदित्यत्र संमतम् । स्वान्यनिर्वाहकत्वेन दीपवत्स्वप्रकाशता ॥ ४ ॥ एवं ज्ञानस्य नित्यत्वं प्रतिपाद्य स्वयंप्रकाशत्वं स्वतः प्रामाण्यं च प्रतिपादयति-स्वप्रकाशमिति । स्वयंप्रकाशमित्यर्थः । 'घटमहं वेभि' इत्युप- लम्भे ज्ञेयज्ञातृज्ञानरूपत्रिपुटीप्रतिभासः सर्वानुभवसिद्धः । तत्र ज्ञेयनिष्ठविषयता- निरूपकं वेनीति विदधात्वर्थज्ञानमिति सुप्रसिद्धम् । ज्ञातृज्ञाननिष्ठविषयता- निरूपकं ज्ञानं किंरूपमिति विवेचनीयम् । उभयोर्मानसाध्यक्षविषयत्वात् . मानसमध्यक्षमिति नैयायिकाः । ज्ञातुरात्मनोऽहंप्रत्ययविषयत्वाद्भानम् ; ज्ञानस्य तु प्राकट्यलिङ्गकेनानुमानेन भानमिति भाट्टाः । तन्मतं निरस्यन् स्वसिद्धान्तमाह -स्वप्रकाशमिति । स्वः स्वनिष्ठः प्रकाशो विषयता यस्येति व्युत्पत्त्या स्वप्रकाशशब्दस्य स्वनिरूपितविषयताकमित्यर्थः फलितः । एवं च ज्ञानं स्वनिरूपितविषयताकमित्युक्ते एकमेव ज्ञानं विषयो विषयि चेति पर्यवसानात् स्वगोचरज्ञानान्तरानपेक्षं ज्ञानं स्वयमेव भासत इत्यर्थः पर्यवसन्नः । ज्ञानं स्वयंप्रकाशमपि न सर्वदा सर्वस्य भासते; किंतु विषयप्रकाशनवेलायां ज्ञातुरात्मन एव । कालान्तरीयपुरुषान्तरीयज्ञानं तु स्मृत्या, अनुमानेन च ज्ञायत इति सिद्धान्तः । एवं च “यानुभूतिरजामेया" इतीष्टसिद्धिकारवचने- ऽप्यजत्वांशे न विप्रतिपत्तिः, ज्ञानस्य नित्यत्वात् । अमेयत्वांशेऽपि विषय- प्रकाशनवेलायां ज्ञातुः स्वयंप्रकाशत्वात् ज्ञानान्तरामेयेत्यर्थकरणे न विप्रति- पत्तिरिति ज्ञेयम् ।
७५ , - धर्मभूतज्ञाननिरूपणम् एतच्च ज्ञानं स्वतो मानं स्वतः प्रमाणमित्यत्र सिद्धान्ते संमतम् । अयं भावः-ज्ञानस्य प्रमाण्यं विषयास्तित्वेन व्यवस्थाप्यम् । अप्रामाण्यं च विषयनास्तित्वेन । तच विषयास्तित्वं स्वत एव प्रतीयते । 'घटोऽस्ति' इति ज्ञाने घटास्तित्वरूपं प्रामाण्यं तेनैव ज्ञानेन प्रतीयते । अतः स्वतः प्रमाणमिदं ज्ञानम् । यत्र तु शुक्तौ रजतप्रतीतिः, तत्रापि रजतास्तित्वमेव प्रतीयते, न पुनस्तन्नास्तित्वम् । तन्नास्तित्वं तु बाधकेन ज्ञानेन । अत: सर्वेषां ज्ञानानां प्रामाण्यं स्वतः, अप्रामाण्यं तु परत इति । एतदप्रामाण्यमपि न धर्म्यशे, किंतु धर्माशे । 'इदं रजतम् ' इत्यत्र इदमंशे न भ्रान्तिः । किंतु तत्प्रकारांशे। प्रकारश्च द्वेधा-स्वरूपनिरूपकः, निरूपितस्वरूपविशेषकश्चेति । 'इदं रजतम् । इत्यत्राद्यम् , 'पीतः शङ्खः' इत्यत्रान्त्यमिति विवेकः । स्वयमेव स्वस्य प्रकाशकं कथं भवेदिति शङ्कायां दृष्टान्तप्रदर्शनेन समाधत्ते-स्वान्येति । दीपो यथा स्वान्यद्वस्तु प्रकाशयन् स्वात्मानमपि प्रकाशयति तथा ज्ञानमपि स्वेतरत् गृह्णत् स्वात्मानमपि गृह्णातीत्यर्थः । यदाहुः "ग्राह्यत्वं ग्राहकत्वं च द्वे शक्त तेजसो यथा" इति । 4. In this system, it (knowledge) is held as selfluminous and self-valid. Its self-luminosity is due to the fact that it reveals itself as well as other objects just as the light. तमोविशेषसांनिध्याज्ज्ञानं स्वापे तिरोहितम् । द्रव्यत्वमस्य ज्ञानस्य प्रभावद्गुणतापि च ॥ ५ ॥ यदि ज्ञानं नित्यं स्वयंप्रकाशं च तदा तस्य सदातनत्वात् सर्वदापि भासेत ; कुतः स्वापादौ न भासत इत्याशङ्कायामाह-तमोविशेषेति । अति- शयिततमोगुणेनावरणात् स्वापादौ न प्रकाशते । तमोऽपगमे च भासत इत्यर्थः । एतच्च स्वापे ज्ञानं न भासत इति सिद्धान्तपक्षमङ्गीकृत्य । केचित्तु तदाप्यान्तर- वस्त्ववगहि स्फुरणमस्त्येव । बहिर्विषयावगाहि ज्ञानं परं नास्तीति वदन्ति । संकोचविकासरूपविकारभागित्वात् सिद्धं ज्ञानद्रव्यत्वं धर्मभूतत्वेऽपि न विहन्यत वेदान्तकारिकावली इत्याह-द्रव्यत्वमिति । न हि परेषामिवास्माकं मते गुणत्वं द्रव्यत्वविरोधि, मणिद्युमण्यादिप्रभायामुभयोरपि दृष्टत्वात् । नन्वेवं परस्परव्यधिकरणयोः धर्मयो- रेकत्र समावेशात्सांकर्यप्रसङ्गः। द्रव्यत्वं विहाय गुणत्वं रूपादौ, गुणत्वं विहाय द्रव्यत्वं घटादौ । उभयोधर्मभूतज्ञाने समावेशादिति चेत् , नैवम् । सांकर्य हि जातित्वे बाधकमिति परेषां मतम् । न वयं जातिमेवाभ्युपगच्छाम इति । 5. During sleep, knowledge (of men) is eclipsed by the vicinity of Tamas. Knowledge is considered as both a substance and quality like the rays (of the sun). धीभेदाः सुखदु:खेच्छाद्वेषयना न ते पृथक् । द्वेष्मीच्छामीति वादस्तु स्मरामीत्यादिवन्मतः ॥ ६ ॥ पराभिमतानां सुखदुःखेच्छादीनां पार्थक्यमाशङ्क्य समाधत्ते-धीभेदा इति । एवं च न तेषां पृथक् पदार्थगणनावसर इति भावः । यदि सुखादयो धीभेदाः, तदा कथं द्वेष्मीत्यनुभव इत्यत्राह-द्वेष्मीति । यथा स्मृते: धीरूपत्वेऽपि स्मरामीत्यनुभवो लोकसिद्धः, तथा प्रकृतेऽपीति भावः । 6. Happiness, sorrow, desire, enmity, effort etc., are only the various manifestations of knowledge and not different from it. The usage as I hate, I desire' etc., must be considered like 'I recollect' etc. स्मृत्यादयो ज्ञानभेदा अनन्ता जीववृत्तयः । ज्ञानशक्त्योर्विततयोऽनन्ताश्च भगवद्गुणाः ॥ ७ ॥ ते च धीभेदा अनन्ता इत्याह-स्मृत्यादय इति । व्यवसायमोहरत्यादय आदिपदार्थः । एते च जीवधर्माः । अथेश्वरधर्मानाह-ज्ञानेति । ज्ञानविततयः सौशील्यवात्सल्यादयः । शक्तिविततयः स्थैर्यशौर्यादय इति विवेकः । ६ ७ धर्मभूतज्ञाननिरूपणम् 7. Recollection and other manifestations of the knowledge resting on jīva are endless. The numerous qualities of the Lord are the different forms of His knowledge and power. गद्यत्रये महाचार्यैरयमर्थ उदीरितः । तत्तत्स्वरूपविज्ञानं तद्भाष्येणावगम्यते ॥ ८ ॥ धीविततिभूतानाममीषां विस्तरजिज्ञासून् प्रत्याह-गद्यत्रयेति । पृथुगद्य- श्रीरङ्गगद्यवैकुण्ठगद्याख्यगद्यत्रयग्रन्थ इत्यर्थः । महाचार्य:, श्रीवैष्णवसंप्रदाय- कुलगुरुभिर्भगवद्रामानुजमुनिभिः । अयमर्थः-ज्ञानशक्तिविततिभूता भगवद्गुणा इति विषयः । उदीरित:, विस्पष्टं प्रपञ्चितः । तत्तत्स्वरूपेति ; सौशील्य- वात्सल्यादिगुणस्वरूपेत्यर्थः । तद्भाष्येण ; गद्यत्रयभाष्येण श्रीवेदान्तदेशिक- विरचितेन रहस्यरक्षाख्येन । महतो मन्दैः सह नीरन्ध्रेण संश्लेषः सौशील्यम् । स्वरक्षणीयतयाभिमतेषु दोषतिरस्कारिणी प्रीतिर्वात्सल्यमित्यादि- रीत्येति भावः । 8. The facts mentioned above have been disclosed by the Great Ācārya (S'ri Rāmānuja) in his Gadyatraya. A clear understanding of the characteristics of these qualities is gained from the commentary thereon. भक्तिप्रपत्तिसुप्रीत ईश्वरो मुक्तिदायकः । अतो भक्तिप्रपत्ती हि मुक्तौ परमकारणम् ॥ ९ ॥ अथ मोक्षकारणमाह-भक्तीति । "स्नेहपूर्वमनुध्यानं भक्तिरित्यभि- धीयते" इत्यादिलक्षिता महनीयविषये निरतिशयप्रीतिरूपा भक्तिरत्र विवक्षिता। प्रपत्तिः, शरणागतिः; "अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकोपायता याच्या प्रपत्तिः शरणागतिः ॥" ८ ९ वेदान्तकारिकावली इत्यादिलक्षणलक्षिता । एते भक्तिप्रपत्ती एव मोक्षसाधिके, नान्यत्किचिदित्याहा- हिर्बुध्नियसंहितायां भगवान्, भक्त्या परमया वापि प्रपत्त्या वा महामते । प्राप्योऽहं नान्यथा प्राप्यो मम कैंकर्यलिप्सुभिः ॥" इति । तदाह सुप्रीत ईश्वरो मुक्तिदायक इति । अनेन भक्तिप्रपत्त्योरपि व्याज- मात्रत्वमेव । सुप्रसन्नो भगवानेक एव मोक्षसाधनमिति परमसिद्धान्ततत्त्वमुक्तं भवति । मुक्तौ परमकारणमिति; भगवत्प्रसादजननद्वारा मुख्यकारणमित्यर्थः । एतेन तत्त्वमस्यादिमहावाक्यार्थज्ञानमेव मोक्षसाधनमिति परेषां मतं न सम्यगि- त्युक्तं भवति । तादृशवाक्यार्थज्ञाने सत्यपि मोक्षादृष्टेः श्रवणमननादिभिनिर्धूत- द्वैतवासनस्य शास्त्रजन्यः साक्षात्कारस्तथेत्यपि न सम्यक् । अन्योन्याश्रय- बाधादिदुष्टत्वात्। 9. The Lord grants final liberation (to men), when He is well pleased by the means of Bhakti (Uninterrupted meditation with love) or Prapatti (Unconditional Self-Surrender). Therefore Bhakti and Prapatti alone are the principal means for the attainment of Mukti. कर्मयोगज्ञानयोगौ भक्तौ' साधनमूचिरे । फलाभिसंधिरहितं कर्माराधनमीशितुः ॥ १० ॥ तर्हि कर्मयोगज्ञानयोगयोर्भगवदुपदिष्टयोः क उपयोग इत्याकाङ्क्षाया- माह-कर्मेति । कर्मयोगज्ञानयोगयोर्भक्तियोगाङ्गत्वेन तत्र कीर्तनमित्यर्थः । तदुक्तं यामुनाचार्यैः, " मध्यमे भगवत्तत्त्वयाथात्म्यावाप्तिसिद्धये । ज्ञानकर्माभिनिर्वयों भक्तियोगः प्रकीर्तितः ॥" इति । कर्मयोगलक्षणमाह-फलेति । फलकामनारहितमीशितुरीश्वरस्य परम- पुरुषस्याराधनं कर्म कर्मयोग इत्युच्यत इत्यर्थः। तत्स्वरूपं च निगमितं 1 भक्ति. C धर्मभूतज्ञाननिरूपणम् गीतार्थसंग्रहरक्षायां वेदान्तदेशिकैः, “ स्वकीयेनात्मना क; स्वकीयैश्चोप- करणैः स्वाराधनैकप्रयोजनाय परमपुरुषः सर्वशेषी सर्वेश्वरः स्वयमेव स्वकर्माणि कारयति" इति । "कर्मयोगस्तपस्तीर्थदानयज्ञादिसेवनम्" इति च श्रीयामुनाचार्येण तन्निदर्शितम् । १० 10. Karma-yoga and Jñāna-yoga are said to be the means of Bhakti-yoga. The ritual worship of the Lord without any regard for its fruits is called Karmayoga. विनिर्मलान्तःकरणे चिन्तनं ज्ञानयोगकः । साक्षादितरथा वापि भक्तो कारणतानयोः ॥ ११ ॥ ज्ञानयोगं लक्षयति-विनिर्मलेति । कर्मयोगपरिशीलनेन विमले अन्त:- करणे परिशुद्धस्वात्मस्वरूपस्य यच्चिन्तनं स ज्ञानयोग इत्यर्थः । तदुक्तं यामुनाचार्यैः, “ज्ञानयोगो जितस्वान्तः परिशुद्धात्मनि स्थितिः” इति । एवं च ज्ञानयोगो नाम परिशुद्धजीवात्मोपासनमिति स्थितम् । कर्मज्ञानयोगयोभक्ति- योगे इतिकर्तव्यतामाह-साक्षादिति । अनयोः ; कर्मज्ञानयोगयोः । साक्षात् ; इतराव्यवधानेन, कर्मयोगस्य ज्ञानयोगाव्यवधानेनेत्यर्थः। इतरथा वा व्यवधानेन वा ज्ञानयोगव्यवधानेन वा ज्ञानयोगस्य तु योगान्तराव्यवधानेन भक्तियोगे कारणत्वमित्यर्थः । अयमत्राशयः-भक्तियोगात्पूर्वमात्मावलोकनमपेक्षितम् । तच्च कर्मयोगस्यात्मतत्त्वज्ञानपूर्वकत्वात् तत्रात्मतत्त्वज्ञानपौष्कल्यतारतम्येन मध्ये ज्ञानयोगव्यवधानमन्तरापि कचिद्भवति । क्वचित्तु ज्ञानयोगद्वारेति । 11. The meditation (on the Self) with a stainless mind is called Jfiana-yoga. These two Yogas directly or indirectly are the means of Bhakti-yoga. भक्तियोगोऽयमष्टाङ्गोऽविच्छिन्ना स्मृतिसंततिः । विवेकादिभिरूत्पाद्या दर्शनाकारतां गता ॥ १२ ॥ ।
८० वेदान्तकारिकावली अनन्तरं भक्तियोगं लक्षयति-भक्तियोग इति । अष्टाङ्गः, यमनिय- माद्यष्टाङ्गयुक्तः । तैलधारावदविच्छिन्नप्रसरा विवेकविमोकाभ्यासक्रियाकल्याणा- नवसादानुद्धर्षरूपसहकारिकलापात्परिपोष्य दर्शनसमानाकारतां प्रापिता स्मृति- संततिरेव भक्तियोग इत्यर्थः। वस्तुनः संततमव्यग्रमनसा चिन्तने तदेव वस्तु प्रत्यक्षदृष्टमिव भवतीत्यनुभवसिद्धम् । १२ 12. The uninterrupted stream of meditation (on the Lord) which is practised with its eight-fold auxiliaries and developed by the application of Viveka and other disciplines so as to reach the state on a par with direct intuition, is called Bhakti-yoga. तत्तच्छरीरावसानसमये परिणामिनी । सेयं साधनभक्तिः स्यात्प्रपत्त्यङ्गवती मता ॥ १३ ॥ स च भक्तियोगः तत्तच्छरीरावसानसमय एव परिपाकावस्थामुपेत्य साधकस्य संसिद्धा भवति । अतः सः शरीरावसानपर्यन्तमनुष्ठेयः । तथा च " स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते न च पुनरावर्तते” इति, “प्रायणान्तमोंकारमभिध्यायीत" इति च । सूत्रकारोऽपि, “आ प्रायणात्तत्रापि हि दृष्टम् ' इत्याह । इयं पूर्वमुपवर्णिता साधनभक्तिरित्युच्यते । सा च प्रपत्यङ्गवती भवति । भक्तियोगविनिष्पत्तये भगवन्तमुद्दिश्य प्रपत्तिस्तदङ्गतया कर्तव्या। तेन च प्रसन्नो भगवान् प्रत्यूहान् निरस्य भक्तियोगं यथावत्परिपूर्ण करोति । तदाह भगवान्- "दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥" इति । एवं च प्रपत्तिद्विधा-अङ्गप्रपत्तिः, अङ्गिप्रपत्तिश्चेति । भक्तियोगाङ्गतया- नुष्ठिता अङ्गप्रपत्तिः, भक्तियोगानधिकारिभिः स्वतन्त्रतयानुष्ठिता अङ्गिप्रपत्तिरिति विवेकः । तथा च अङ्गतया वा अङ्गितया वा यथाकथंचिद्भगवन्तं प्रपद्यैव मोक्षः श्रुतिः ।
- धर्मभूतज्ञाननिरूपणम् ८१ प्राप्यः, नान्यथेत्युक्तं भवति । तथाचाह वेदान्ततत्त्वासारवर्षको वेदान्त- देशिकः, “प्रपन्नादन्येषां न दिशति मुकुन्दो निजपदम्" इति । १३ 13. This Yoga will grow ripe at the end of the material body. This is called Sadhanabhakti (Bhakti as the means). It requires Prapatti (Self-Surrender) as its auxiliary. फलभक्तिस्तु भगवदनुग्रहकृता भवेत् । अत एव हरिः साक्षात्सिद्धोपायत्वमश्नुते ॥ १४ ॥ एवं भक्तियोगरूपां साधनभक्तिमुपपाद्य प्रपत्तियोगरूपांसाध्यभक्तिमाह- फलभक्तिस्त्विति । भगवदनुग्रहेति ; "नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनू५ स्वाम्॥" "जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थचिन्तकः ॥" इत्यादिश्रुतिस्मृतिमिः यस्मिन् भगवदनुग्रहो भवति, स एव साध्यभक्तौ प्रवर्तते नान्य इत्यर्थः । अनेन प्रपन्नेषु भगवदनुग्रहपौष्कल्यमुक्तं भवति । साध्यभक्तेः प्राशस्त्यमप्यन्यत्रोपवर्णितम् , साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी" इति। अत एव ; प्रपन्नानामनन्यगतिकतया भगवत्कृपैकावलम्बित- यैव । हरिः साक्षात् अव्यवधानेन सिद्धोपायो भवति । एतदुक्तं भवति । उपायो द्विविधः-साध्योपायः, सिद्धोपायश्चेति । भक्तिप्रपत्ती साध्योपायौ। भगवान् सिद्धोपायः । भक्तिप्रपत्ती तु तत्प्रसादनकपर्यवसायिन्याविति । १४ 14. But Phalabhakti (Bhakti as the effect) takes place only by the grace of the Lord. Hence, Hari occupies the place of the direct and self-accomplished means.
वेदान्तकारिकावली अन्तरादित्यविद्यादिभेदात्सा बहुधा मता । सर्वापि ब्रह्मविद्येयं ब्रह्मप्राप्त्युपयोगिनी ॥ १५ ॥ भक्तियोगप्रसङ्गात् तत्संगतब्रह्मविद्याभेदानाह–अन्तरादित्येति । आदि- पदात् दहरभूमन्यासविद्यादयो गृह्यन्ते । ताश्च विद्यास्त्रयस्त्रिंशदिति प्रायोवादः। वासुदेवादिव्यूहोपासनान्यपि गृह्यन्ते । तदाह-बहुधेति । सर्वापीयं ब्रह्मविद्या ब्रह्मप्राप्तावुपकरोति । अनेन न्यासविद्याया ब्रह्मविद्यात्वे संदिहानान् परान् प्रति तस्या विद्यान्तरसाम्यं प्रदर्शितं भवति । यदाङः, यद्वा शब्दादिभेदादिति तु कथयता सूत्रकारेण सम्यङ् न्यासोपासे विभक्ते यजनहवनवच्छब्दभेदादभाक्तात् । आख्यारूपादिभेदः श्रुत इतरसमः किंच भिन्नोऽधिकारः शीघ्रप्राप्त्यादिभिः स्याजगुरिति च मधूपासनादौ व्यवस्थाम् ||" इति । 15. It is considered to be of various kinds due to the division as Antarādityavidyā and so on. All these Brahmavidyās are helpful in attaining the Brahman. न्यासविद्या प्रपत्तिः स्यादड़यञ्चकयोगिनी । आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् ॥ १६ ॥ रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा । आत्मनिक्षेपकार्पण्ये अङ्गपञ्चकमीरितम् ॥ १७ ॥ एवं सामान्यतो ब्रह्मविद्या उपवर्ण्य न्यासविद्यायां विशेषमाह-न्यास- विद्येति । प्रपत्तिरेव न्यास इत्युच्यते । “तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः" इत्यादिश्रुतौ न्यासपदेन प्रपत्तिरेवोच्यते । उपासना यथा चाष्टाङ्गो योगः, तथा न्यासः पञ्चाङ्गो योग इत्युच्यते । तानि च पञ्चाङ्गानि लक्ष्मीतन्त्रोदि- तान्याह-आनुकूल्यस्येति । आनुकूल्यसंकल्पः, प्रातिकूल्यवर्जनम्, महा- धर्मभूतज्ञाननिरूपणम् ८३ विश्वासः, गोप्तृत्ववरणम् , कार्पण्यमिति पञ्चाङ्गानि । आत्मनिक्षेपोऽङ्गी । एवं चाङ्गिना सह न्यासः षोढा परिगण्यते । यथा ध्यानेनाङ्गिना सहाष्टाङ्गो योग इति परिगणनम् । आनुकूल्यसंकल्पादीनां स्वरूपमुक्तं लक्ष्मीतन्त्रे- आनुकूल्यमिति प्रोक्तं सर्वभूतानुकूलता। तथैव प्रातिकूल्यं च भूतेषु परिवर्जयेत् ॥ स्यागो गर्वस्य कार्पण्यं श्रुतशीलादिजन्मनः । अङ्गसामग्र्यसंपत्तेरशक्तरपि कर्मणाम् ॥ अधिकारस्य चासिद्धेर्देशकालगुणक्षयात् । उपाया नैव सिध्यन्ति ह्यपायबहुलास्तथा ॥ इति या गर्वहानिस्तदैन्यं कार्पण्यमुच्यते । शक्तेः सूपसदत्वाच कृपायोगाच्च शाश्वतात् ॥ ईशेशितव्यसंबन्धादनिदंप्रथमादपि । रक्षिष्यत्यनुकूलान इति या सुदृढा मतिः ॥ स विश्वासो भवेच्छक सर्वदुष्कृतनाशनः । करुणावानपि व्यक्तं शक्तः स्वाम्यपि देहिनाम् ॥ अप्रार्थितो न गोपायेदिति तत्प्रार्थना मतिः । गोपायिता भवेत्येवं गोप्तृत्ववरणं स्मृतम् ॥ तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता । केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते ॥ निक्षेपापरपर्यायो न्यास: पञ्चाङ्गसंयुतः । संन्यासस्त्याग इत्युक्तः शरणागतिरित्यपि॥" इति । 16 & 17. Nyāsavidyā is the Prapatti (Self-surrender to God) which has five-fold auxiliaries-namely -determination to be always agreeable to the Lord and His devotees, abstaining from hostility towards them, faith as 'He will surely save me', seeking Him
वेदान्तकारिकावली
as the saviour, surrendering one's self to Him, and
helplessness.
गुरूपसदनादेषा विज्ञातव्या मनीषिभिः ।
इयमुत्तरपूर्वाधाश्लेषनाशकृदुच्यते ॥ १८ ॥
न्यासविद्यास्वरूपं तन्महिमा तदधिकार इत्यादिकं सर्व गुरुमुखादव-
गन्तव्यमित्याह-गुरूपसदनादिति । मनीषिभिरित्यनेन सारासारविवेकज्ञाना-
नामेवात्र प्रवृत्तिः संभवति, नान्येषां कौतस्कुतानामिति व्यञ्जितम् । भक्तियोगा-
दस्य न्यासस्य वैशिष्टयमाह-इयमिति । उत्तराघाश्लेषः पूर्वाधनाशश्च न्यास-
महिम्ना संभवतीत्यर्थः । तत्र भक्तियोगनिष्ठस्य प्रारब्धेतरपूर्वाधमेव नश्येत् ।
प्रारब्धं तु भोगैकप्रणाश्यम् । प्रपन्नविषये तु प्रारब्धमपि यथाभिलषितं सद्य एव
प्रणश्यतीति विशेषः । तथोक्तम्-
"साधनं भगवत्प्राप्तौ स एवेति स्थिरा मतिः ।
साध्यभक्तिस्तथा सैव प्रपत्तिरिति गीयते ॥
उपायो भक्तिरेवेति तत्प्राप्तौ या तु सा मतिः ।
उपायभक्तिरेतस्याः पूर्वोक्तैव गरीयसी ॥
उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशनी ।
साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी ।"
इति ।
१८
18. Men of intellect should know fully about this,
by sitting at the feet of the teacher. It is said that
this (Prapatti) will effect the non-connection with future
sins and the destruction of past sins.
अपचारान्विना ब्रह्मविदां नास्या विरोधकृत् ।
अन्योऽस्तीति महाचार्यशासनं व्यवसीयते ॥ १९ ॥
धर्मभूतज्ञाननिरूपणम् प्रपन्नस्य मुक्तिप्राप्तौ न कोऽपि विघातको विना ब्रह्मविदपचारमित्याह- अपचारान्विनेति । ब्रह्मविदां भागवतानामपचारान् विना अस्याः प्रपत्ते: फलजनने न कोऽपि विरोधकृदिति महतामाचार्याणां शासनं निश्चीयते। १९ 19. Except the offence to Brahmavedins (knowers of Brahman) there is nothing which can resist the Prapatti from functioning. This is the decision contained in the teaching of great Ācāryas. इति वेदान्तकारिकावल्यां धर्मभूतज्ञाननिरूपणं सप्तमं प्रकरणम् ८. जीवनिरूपणम् अणुत्वे सति चैतन्यं जीवलक्षणमुच्यते । स च देहेन्द्रियादिभ्यो विलक्षणतया मतः ॥ १ ॥ अथ क्रमप्राप्तं जीवनिरूपणमारभते-अणुत्व इति । अणुत्वमल्परिमाण- वत्त्वम् । चैतन्यं ज्ञानाश्रयत्वम् । आभ्यां विशेषणाभ्यां क्रमेण ईश्वरस्य घटादेश्च व्यावृत्तिः । जीवस्याणुत्वं च श्रुत्यादिप्रमाणसिद्धम् । तथाच श्रूयते- 'एषोऽणुरात्मा चेतसा वेदितव्यः" वालाप्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्याय कल्पते ॥" इति । सूत्रकारोऽपि “उत्क्रान्तिगत्यागयाबीनाम्" इति सूत्रयंस्त- स्याणुत्वं प्रसाधयति । एतेन जीवविभुत्ववादनिरासः । तथा तस्य ज्ञातृत्वमपि श्रूयते-“यो वेदेदं जिघ्राणीति स आत्मा" "जानात्येवायं पुरुषः" "न हि द्रष्टुईष्टेविपरिलोपो विद्यते” इत्यादि । सूत्रकारश्च "ज्ञोऽत एव" इति वदन् ज्ञातृत्वं तस्य प्रसाधयति । एतेन केवलज्ञप्तरात्मत्ववादनिरासः । स च जीवो देहेन्द्रियादिभ्योऽन्यः, तेषां ज्ञातृत्वाद्ययोगात् । 1. Minuteness and consciousness jointly con. stitute the characteristic of the Jiva. He is held to be distinct from his body, senses etc. जीवस्यानेकविषयानुभवोऽणोरपि स्मृतः। यद्धर्मभूतविज्ञानव्याप्तिस्तत्रोपयोगिनी ॥ २ ॥ १ स्फुट: B.
जीवनिरूपणम् न्नु जीवस्याणुत्वे कथं तस्य युगपदनेकविषयानुभवसंभवः ? सुगन्धि चन्दनं हि नरो युगपदेव चक्षुर्यों पश्यति । घ्राणेन जिघ्रति । हस्तेन स्पृशति । तदा च तद्गतरूपादीनुपलभत इत्याशङ्कय समाधत्ते-जीवस्येति । अणोरपि जीवस्य युगपदनेकविषयानुभवः स्मृतः । यतस्तत्र धर्मभूतज्ञानस्य बहुत्र व्याप्तिरुपयोगिनी । तदाह “गुणाद्वा लोकवत्" इति | आत्माणुरपि स्वगुणेन ज्ञानेन सकलं देह व्याप्यावतिष्ठते । यथा मणेरेकदेशवर्तिनोऽप्यालोकोऽनेक देशव्यापी, तद्वत् हृदयकुहरान्तःस्थस्याप्यात्मनो ज्ञानं सकलं देह व्याप्य वर्तत इति सूत्रार्थः । २ 2. Though Jiva is subtle, his experience of different objects, is accountable to the expansion of his knowledge. पूर्वानुभूतविषयप्रतिसंधानयोगतः । नित्यः प्रतिशरीरं स भिन्नो भोक्त्रादिशब्दितः ॥ ३ ॥ अथ तस्य नित्यत्वं प्रसाधयति-पूर्वेति । पूर्वमनुभूतो यो विषयः देवदत्तादिः, तत्प्रतिसंधानयोगान्नित्य इत्यर्थः । उपदशेभ्यो वत्सरेभ्यः पूर्व काश्यां दृष्टस्य देवदत्तस्य संप्रति मद्रपुर्यो पुनदर्शने 'सोऽयं देवदत्तः' इति प्रतिसंधानं जायते। यद्यात्मा न नित्यः स्यात्, तदा तन्नोपपद्येत । अन्येन दृष्टस्यान्येन प्रतिसंधानं हि न संघटते । एतेन क्षणिकात्मवादो निरस्तः । जीवश्च प्रतिशरीरं भिन्नः । स्मृत्यनुभवादीनां व्यवस्था हि तदैव संगच्छते । यद्येक एवात्मा नानादेहेष्वभविष्यत् तदा येन पूर्व घटो दृष्टः तस्यैव स्मृतिरुदेति नान्यस्येति व्यवस्था नाघटिष्यत । तदाह-" नानात्मानो व्यवस्थातः" इति । सांख्या अप्याहु:- जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाञ्चैव ॥" 1 शब्दत: B, اس वेदान्तकारिकावली इति । अनेनैकजीववादो निरस्तः । तथा तत्रैव विशेषान्तरमाह-भोक्त्रादीति । "भोक्ता भोग्यं प्रेरितारं च मत्वा" "एष हि द्रष्टा श्रोता" इत्यादौ जीवस्य भोक्तृत्वं कण्ठोक्तमिति भावः । अनेन प्राकृतस्यान्तःकरणस्यैव भोक्तृत्वादि, नात्मन इति वादो निरस्तः । 3. He is permanent because of his recollection on the objects formerely experienced. The Jivas dwelling in different bodies are individually different and called as Bhoktr (enjoyer) etc. प्रकृत्यपेक्षया देही देहः श्रीमदपेक्षया । तस्य स्वयंप्रकाशत्वं प्रत्यक्षश्रुतिबोधितम् ॥ ४ ॥ अथ सिद्धान्तिना प्रतितन्त्रसिद्धान्तभूतं शरीरशरीरिभावमाह-प्रकृतीति । प्राकृतस्वदेहापेक्षयाय देही, तज्जन्यसुखदुः :खादिभोगवान् । श्रीमन्तं भगवन्तम- न्तर्यामिणमपेक्ष्यायं देहो भवति, तन्नियाम्यत्वतदाधारत्वादिशरीरलक्षणैर्लक्षित- त्वात् । एवं च यथैकस्यैव देवदत्तस्य स्वपितरं प्रति पुत्रत्वं स्वपुत्रं प्रति पितृत्वं च न विरुध्यते, तथैकस्यैव जीवस्य स्वदेहं प्रति शरीरित्वमीश्वर प्रति शरीरत्वं च न विरुध्यत इति भावः । स चायं जीवः स्वयंप्रकाश:, अनन्याधीनप्रकाश इत्यर्थः । स्वगोचरज्ञानान्तरमनपेक्ष्यापि स्वयमेव प्रकाशत इति यावत् । ननु तथा सति स किं सर्वदा भासते ? ओमिति ब्रूमः । सुषुप्तावपि हि ‘अहमहम्' इत्यात्मनः प्रतिभासः सर्वानुभवसिद्धः । कथं तर्हि सुप्तोत्थितस्य 'न किचिद- वेदिषम्' इति प्रतिसंधानमिति चेत् , बाह्यवस्तुविशेषावेदनादिति वेदितव्यम् । नन्वात्मापि नित्यः सर्वदा संनिहितः, ज्ञानमपि विभु नित्य चाभ्युपगतम् ; तथापि कुत: सुषुप्तौ बाह्यवास्त्ववेदनमिति चेत्, कथं वा जागरेऽपि सर्ववस्त्वग्रहण- मिति पृच्छामः । यदीन्द्रियव्यापाराभावादिति, तदात्रापि तथेति तुल्य: समाधिः। जागरे कतिपयबाह्यवस्तुग्रहणम् । सुषुप्तौ तु तदपि नास्तीति परं विशेषः । ननु किमनेन प्रयासशतोपपादनीयेन जीवस्वयप्रकाशत्वेन? तदेव 'वेदितम् B.
जीवनिरूपणम् ८९ . मास्त्वित्यत्राह-प्रत्यक्षश्रुतिबोधितमिति । "अत्रायं पुरुषः स्वयंज्योतिर्भवति" इत्यादिप्रत्यक्षश्रुत्यवगतमित्यर्थः । 4. He is the soul in respect of his body. He is the body in respect of the Lord of S'rī. That he is self-luminous is taught by clear Sruti passages. देशान्तरफलादीनामुपलब्धिरणोरपि । 'कर्मजन्याददृष्टाप्यविज्ञानादिति संजगुः ॥ ५ ॥ ननु कथं तर्हि सौभरिप्रभृतीनामनेकशरीरपरिग्रहेण भिन्नभिन्नदेशेषु सुखाद्युपलम्भः; आत्मना ह्यणुनैकस्मिन्नेव शरीरे संनिहितेन भाव्यम् , न सर्वत्र ; शरीरान्तरेष्वात्माभावे च कथं तत्रत्यसुखाद्युपलम्भसंभव इत्यत्राह- देशान्तरेति । उपलब्धिः; अनुभवः । कर्मजन्यात् अदृष्टप्राप्याच्च विज्ञाना- दिति शब्दार्थः । अयं भावः-यद्यप्यणोर्जीवस्य नानाशरीरसंबन्धो न संभवति, तथापि तद्धर्मभूतस्य ज्ञानस्य विभुनस्तावत्पर्यन्तप्रसरात् तत्संबन्धोऽस्तीति तत्रत्य- सुखोपलब्धिसंभवः । कथं तर्हि सर्वेषां पुंसां न तथा प्रसर इति चेत्, अदृष्टविशेषाभावादित्युच्यते । अदृष्टं चास्माकं मत ईश्वरप्रीत्याद्यात्मकमेव । तच्चादृष्टं तत्तत्पुरुषीयकर्मविशेषतारतम्याधीनमिति नातिप्रसङ्ग इति । 5. Wise men say that though he is atomic, his experience of the objects in different places, is accountable to his knowledge which extends by virtue of his Karman. बद्धो मुक्तो नित्य इति जीवः स त्रिविधो मतः । ब्रह्मादिस्तम्बपर्यन्ता बद्धाः संसारयोगिनः ॥ ६ ॥ बद्धो मुक्त इत्यादि निगदव्याख्यातम् । स्तम्बः सूक्ष्मः कीटविशेषः। ६ 1 कर्मजन्याददृष्टाख्य A. D. कीटपर्यन्ता A. D. 12 वेदान्तकारिकावली 6. The Jivas are of three kinds--Fixed in bondage, Released and Eternal. Of these those fixed in bondage are connected with Samsāra (transmigration) and include all Jīvas from Brahman (the creator) to small insects. त्रैवर्गिकार्थनिष्णाता बुभुक्षव' उदाहताः । अर्थकामपरास्तत्र स्वदेहात्माभिमानिनः ॥ ७ ॥ बुभुक्षुमुमुक्षुभेदेन बद्धजीवानां द्वैविध्यमभिप्रेत्यादौ बुभुक्षून् निरूपयति- त्रेवर्गिकेति । धर्मार्थकामास्त्रिवर्गः; तद्रूपेऽर्थे विषये निष्णातास्तत्परा बुभुक्षव इत्यर्थः । ते च द्विधा-अर्थकामपरा:, धर्मपराश्चेति । ये स्वदेहे प्राकृतदेह एवा- त्माभिमानेन ऐहिकसुखाभिलाषेण तदुपभोगसाधनशरीरपोषणायार्थान् कामांश्चा- भिलषन्ति ते अर्थकामपराः । 7. Those are Bubhuksus (desirous of worldly enjoyments) who are longing for Dharma, Artha and Kāma. Of these those who wrongly think that the body is the self are called Arthakāmapara (devoted to wealth and passion). ते तु धर्मपरास्तत्र यागाद्यर्थानुषङ्गिणः । धर्मरत्वलौकिकश्रेयःसाधनं चोदनोदितम् ॥ ८ ॥ धर्मपरानाह–ते त्विति । ये तु देहातिरिक्तात्मनोऽलौकिकपारत्रिकश्रेय- स्कामास्तत्साधनानि यागादिकर्माण्यारचयन्ति ते धर्मपरा इत्यर्थः । प्रसङ्गात् धर्मलक्षणमाह-धर्मस्त्विति। अत्र “चोदनालक्षणोऽर्थों धर्मः" इति जैमिनीयं सूत्रं विवक्षितम् । चोदनोदितमित्यनेन चोदनालक्षण इति, अलौकिकश्रेयःसाधन- मित्यनेनार्थ इति च पदं विवृतं भवति । 8. But those who are engaged in performing various sacrifices are called Dharmaparas (devoted to ८ 1 बुमुत्सवः A. D. 'अभिमानका: B.
जीवनिरूपणम् ९१ Dharma). That is Dharma which is ordained by the Vedic injunction as the means of heavenly pleasure. रुद्राद्याराधनपरा अन्यदेवपरा मताः । आर्तो जिज्ञासुरर्थार्थीत्येवं भागवताः स्मृताः ॥ ९ धर्मपरेष्वेव देवतान्तरपरत्वेन भगवत्परत्वेन च द्वैविध्यमभिप्रयन्नाद्या- नाह-रुद्रेत्यादि। रुद्रादीन् देवान् भगवच्छरीरत्वेन स्वातन्त्र्येण वाभिमत्य ये आराधयन्ति, ते देवतान्तरपराः । भगवत्परानाह-आर्त इति । अतः; अनुभूतभ्रष्टैश्वर्यकामः । अर्थार्थी ; अननुभूतापूर्वैश्वर्यकामः ! उभयोरेतयोरैश्वर्या- थित्वाविशेषेऽपि मुखभेदेन पृथगुक्तिः । जिज्ञासुः ; प्रकृतिवियुक्तात्मस्वरूपानु- भवेच्छुः । ज्ञानमेवास्य स्वरूपमिति तदिच्छोजिज्ञासुत्वम् । एते सर्वेऽपि स्वस्वाभिलषितसिद्धयर्थ देवतान्तरपरित्यागेन भगवदेकध्यानपरा इति तेषां भागवतत्वम् । अत्र चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्को जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥" इति भगवद्गीतावचनमनुसंधेयम् । तत्र हि देवतान्तरपरित्यागेन भगवत्परा हि सुकृतिन उक्ताः। e 9. Those who worship the other deities Rudra are called Anyadevaparas (devotees of other gods). The Bhāgavatas are those who worship Bhagavān Vişņu alone. They are of three kinds- Arta (distressed) Jijfiasu (desirous of getting Jiiana i.e. self) and Arthārthin (ambitious in getting wealth). मुमुक्षूणां च कैवल्यपराणां लक्ष्म कथ्यते । प्रकृतेस्तु वियुक्तस्य स्वात्मनोऽनुभवः परम् ॥ १० ॥ and so on ९२ वेदान्तकारिकावली अत्र केचित् सिद्धान्त्येकदेशिनो मुमुक्षुन् परममुक्तिपरत्वेन कैवल्या- ख्यमुक्तिपरत्वेन च द्वेधा विभज्य वर्णयन्ति । तन्न युक्तमित्यभिप्रयंस्तान् प्रत्येकं लक्षयितुमुपक्रमते-मुमुक्षूणामिति । प्रथमं सूचीकटाहन्यायेन कैवल्यपरानाह—कैवल्यपराणामिति । प्रकृतेः सकाशात् विमुक्तस्य स्वात्मनोऽनु- भवपराणामित्यर्थः। केवलस्य इतरसंसर्गरहितस्य भावो हि कैवल्यम् । प्रकृतिवियुक्तस्वात्मानुभवपरः केवल इति फलितम् । १० 10. Now the characteristics of the Mumuksus (ambitious for the Eternal Bliss) and Kaivalyaparas (desirous of being aloof from material connection) are described. Kaivalya is the enjoyment of one's own self after the release from material connection, कैवल्यमचिर्मार्गेण गत्वापि परमं पदम् । रमणत्यक्तपत्नीवत् कचित्कोणेऽवतिष्ठते ॥ ११ ॥ कैवल्यमिति पूर्वेणान्वेति । ते च केवलाः केन मार्गेण प्राकृतलोकान्निर्ग- च्छन्ति ? कुत्र स्थित्वा स्वात्मानमनुभवन्तीत्यत्राह-अचिर्मार्गेणेति । अचिरादि- मार्गेण गत्वा परमपदं प्राप्नुवन्ति । परं तु परमपदं प्राप्तानां परब्रह्मानुभवस्य शास्त्रसिद्धत्वात् तद्विधुरास्ते परमपद एव कुत्रचित्कोणे लब्धास्पदा यथा पतिपरित्यक्ताः साध्व्यः पातिव्रत्यमनुपालयन्त्यः पतिसांनिध्यानन्दानुभवं विहा- यावतिष्ठन्ते, तथैतेऽपि परब्रह्मानन्दानुभवं विना वर्तन्त इत्यर्थः । ११ 11. Even on reaching the Highest Region (Paramapada) through the path of Arcis (Light) etc., they remain in a corner of that Region like a beloved wife on separation from her lover. कैवल्यमेतत्केषांचिदार्याणामेव संमतम् । अस्मदास्तु' कैवल्यं न मन्यन्त इति स्थितम् ॥१२॥ 2 आद्यास्तु A.D. स्फुटम् C. D.
जीवनिरूपणम् एष च कैवल्याख्यो मोक्षः परमसिद्धान्तिनामनभिमतमित्याह-कैवल्य- मिति । अचिरादिमार्गेण परमपदं प्राप्तस्य परब्रह्मानन्दानुभवस्यावश्यंभावित्वात् तत्र तद्वैधुर्येण स्वात्ममात्रानुभवः सुतारामसंभावितः । “सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिता" इति हि श्रूयते । तत्र काम्यन्त इति कामा इति व्युत्पत्त्या कामपदेनानन्दादयो ब्रह्मगुणा उच्यन्ते । अत: कैवल्याख्यो मोक्षो नास्तीत्यर्थः । यदि परेषां जीवन्मुक्तव्यवहारवत् मुक्तिकल्पतया तत्र गौणो मुक्तिव्यवहारस्तदा कामं व्यवह्रियताम् । ननु केवलात्मोपासकानां तत्क्रतुनयात् स्वात्मानुभव एव फलं भवितुमर्हति ; ते च केन मार्गेण निर्गच्छन्ति ? कुत्र वावस्थितिस्तेषामिति चेत् , येन केनापि मार्गेण निर्गच्छन्तु । यत्र कुत्र वा प्रकृतिमण्डल एव तिष्ठन्तु । न त्वचिरादिना निर्गमः, न वा परमपदावस्थिति- स्तेषामिति सिद्धान्तः । १२ 12. This state of Kaivalya is acceptable only to some of our philosophers. But our preceptors do not accept Kaivalya (as Mukti). This is their conclusion, 'भक्ताः पूर्वोक्तभक्त्यैव मुक्तिसंप्राप्त्यपेक्षिणः । अपशूद्रनये भक्तौ शूद्रानधिकृतिः स्फुटा ॥ १३ ॥ अथ मोक्षपरानाह–भक्ता इति । पूर्वोक्तेति ; धर्मभूतज्ञाननिरूपण- प्रकरणोक्तरीत्येत्यर्थः । ये भक्तियोगेन मोक्षं प्राप्तुमिच्छन्ति ते भक्ताः । तत्र च भक्तियोगे त्रैवर्णिकानामेवाधिकारः, तस्य वैदिकमन्त्रकरणकत्वात् । न शूद्रस्य, तस्य वैदिकमन्त्रानधिकृतत्वात् । किंच भक्तियोगे हि वर्णाश्रमधर्मा इतिकर्तव्य- तामापद्यन्ते । तदाह--"विहितत्वाचाश्रमकर्मापि" इति। आश्रमविधुराणा- माश्रमकर्मप्रसक्त्यभावात् अङ्गाधिकाराभावात् नाङ्गिन्यधिकारः । एष च विषयो भगवद्भाष्यकारैनिर्णीत इत्याह-अपशूद्रनय इति । प्रथमाध्यायतृतीय- पादस्य नवमाधिकरण इत्यर्थः । १३ 1शका: B.
९४ वेदान्तकारिकावली - 13. Bhaktas (engaged in Bhaktiyoga) are eager to reach Mukti (Eternal Bliss) by the means of Bhaktiyoga (Devotional meditation) as described before. From the rule of Apaslūdrādhikaraņa of the Brahmasūtra, it is evident that S'ūdras are not qualified for Bhaktiyoga. साध्यसाधनभक्तिभ्यां भक्ताः स्युढिविधा मताः । पराङ्कुशादिकानाद्यान् व्यासादीनपरान् विदुः ॥ १४ ॥ तत्र भक्तानां द्वैविध्यमाह–साध्येति । भक्तिद्विधा'साध्यभक्तिः, साधनभक्तिश्चेति। यत्रावस्थायां परिनिष्पन्नभक्तियोगैर्भगवदनुध्यानं स्वयंप्रयो- जनतया परमस्वादुतया च निरन्तरमनुष्ठीयते, साधनं तु भगवानेवेति सुदृढो विश्वासः सा साध्यभक्तिः । प्रपत्तिरपि तथा गीयते । यदाहुः- " साधनं भगवत्प्राप्तौ स एवेति स्थिरा मतिः । साध्यभक्तिस्तथा सैव प्रपत्तिरिति गीयते ॥ उपायो भक्तिरेवेति तत्प्राप्तौ या तु सा मतिः । उपायभक्तिरेतस्याः पूर्वोक्तैव गरीयसी ॥" इति । पराङ्कुशपरकालादयः साध्यभक्तिनिष्ठाः । ते हि परिनिष्पन्नपरभक्ति- योगाः परमभक्तिमास्थिताः स्वयंप्रयोजनतया समाधिपरा भगवदनुभवैकपरा अवर्तन्त । साधनभक्तिनिष्ठाः पराशरपाराशर्यादयः । ते हि यमनियमाद्यष्टाङ्ग- योगनिरता आसन् । व्युत्थानकाले च शास्त्राणि प्राणैषुरिति विद्मः । स्यादेतत् । भक्तियोगे त्रैवर्णिकानामेवाधिकार इति पूर्वस्मिन् श्लोके निर्णीतम् । अस्मिन् श्लोके तु पराङ्कुशादयः साध्यभक्तिनिष्ठा इत्युच्यते । पराङ्कुशो हि तुरीयवर्णजन्मेति वदन्ति । तत्कथमिदं संगच्छतामिति चेत्, अत्रेदं तत्त्वम्-नित्यसूरिष्वन्यतमावतारभूतः पराङ्कुशो न प्राकृतचतुर्थवर्णज- तुल्यतया मन्तव्यः । स हि भगवद्भक्तिमहिमानं भगवदनुभवरसास्वादतत्त्वं च लोकानवबोधयितुं भूमाववतीर्य परमभक्तिमन्वतिष्ठत् । नित्यसूरयोऽपि हि " तद्वि-
जीवनिरूपणम्
सो विपन्यवो जागृवा५स: समिन्धते" इति श्रुत्या "बद्धाञ्जलिपुटा हृष्टाः"
त्यादिस्मृत्या च भगवद्धयानपरा इत्यवगम्यते । नित्यसूरित्वावस्थायां या भक्ति-
नुष्ठिता, सैव पराङ्कुशावतारावस्थायामप्यन्ववर्ततेति न किंचिदनुपपन्नम् |
पन्यथा रामकृष्णाद्यात्मना क्षत्रियवंशेऽवतीर्णस्य भगवतो विष्णोर्ब्राह्मणोत्तमैमहर्षि-
भर्वन्द्यत्वं कथमिति पर्यनुयोगे किमुत्तरम् ? किंच सर्वत्र भक्तियोगप्रारम्भ एव हि
'वर्णिकाधिकारनियमः । न तु तस्य साधितस्यानुवृत्तिदशायामपि । परिनिष्पन-
वक्तेरपि प्रारब्धकर्मवशात् तत्तदेहावाप्तिरवर्जनीया । तदात्वे च भगवदनुभवरूप-
लभक्तेरनुवृत्तौ को निर्बन्ध: ? को वा वारयिता भवतुमर्हति ? लोकोत्तरव्यक्तिविशेष-
चूततन्निदर्शनेन पामरेष्वन्यत्राप्यतिशङ्कामापाद्य वर्णाश्रमधर्मसंकरकरणे समुद्यमस्तु
न केवलं स्वस्य, किंतु सर्वस्यापि लोकस्य महतेऽनायेति विभावनीयम् । १४
14. Bhaktas are of two kinds because of the two-
old division of Bhakti as Sadhya and Sadhana (effect
and means). The former group includes Parānkusa
and others while the latter Vyāsa and others.
मुमुक्षवः प्रपन्नाश्वाकिंचन्यादिकयोगिनः ।
त्रैवर्गिकपरा मोक्षपराश्चेति च ते द्विधा ॥ १५ ॥
तत्रं साध्यभक्तिपरेषु मुमुक्षुषु विशेषमाह-मुमुक्षव इति । त एव
प्रपन्ना इत्युच्यन्ते । ते च प्रपत्त्यङ्गभूताकिंचन्याद्यङ्गपञ्चकयोगिनः । प्रपन्नेवेव
वैविध्यमाह- त्रैवर्गिकेति । धर्मार्थकामाख्यत्रिवर्गपराः, मोक्षपराश्चेति ते द्विधा
भवन्ति।
१५
15. Among the Mumuksus (desirous of Moksa)
Prapannas (Self-surrendering devotees) have for their
qualifications 'the helplessness' etc. Again they are of
two kinds-aspirant for Trivarga and Moksa.
धर्मार्थकामान् स्वाम्यर्थ येऽन्वतिष्ठस्त आदिमाः ।
सत्सङ्गादर्थवैराग्ये मुमुक्षायां कृतादराः ॥ १६ ॥
९६ वेदान्तकारिकावली तत्र त्रिवर्गपरानाह-धर्मेति । स्वामिप्रीतिमेकामेव फलमुद्दिश्य तत्साधन- तया धर्मार्थकामान् भगवत्प्रपदनेन ये संपादयन्ति ते त्रिवर्गपरा इत्यर्थः । कर्मयोगिनः स्वयमेव धर्मार्थकामान् संपाद्य तैर्भगवन्तमारिराधयिषन्ति । त्रिवर्गपराः प्रपन्नास्तु तान् स्वयमेव संपादयितुमशक्नुवन्तस्तदर्थं भगवन्तं प्रपद्य तत्प्रसादेन तान् लब्ध्वा तैर्भगवदाराधनपरा इति विशेषः । मोक्षपरप्रपन्नानाह- सत्सङ्गादिति । अर्थवैराग्य इत्यनेन तन्मूलधर्मकामवैराग्यमपि विवक्षितम् । धर्मपदेनात्र न नित्यनैमित्तिककर्माणि ; किंतु तदतिरिक्तानि तपस्तीर्थदान- यज्ञादीनि विवक्षितानि । अतो न नित्यनैमित्तिककर्मप्रहाणं प्रपन्नानामनुमन्यते । धर्मार्थकामवैराग्येण मोक्ष एव येषां त्वरातिशयः, तेऽत्र मोक्षपराः । १६ 16. The former group consists of those who devote themselves for Dharma, Artha and Kāma for the sake of the Lord. The members of other group are those who are dispassionate for wealth by the association of good men and eager to get Mokşa. 'भगवद्भोगसंप्राप्स्यै महाचार्य समाश्रिताः । असामर्थेन भक्त्यादौ प्रपत्त्येकाश्रयाः परे ॥ १७ ॥ किंच भगवत्स्वरूपरूपगुणाद्यनुभवसंपादनाय सदाचार्यमुपसद्य तदु- पदिष्टभगवत्स्वरूपगुणविभवादयस्तादृशमनवधिकातिशयानन्दमयं भगवन्तं लब्धं भक्तिरूपे साधनान्तरे स्वासामर्थेन ये भगवत्प्रपत्तिमेव साधनतयावलम्बन्ते ते मोक्षपराः प्रपन्ना इत्यर्थः। १७ 17. To acquire the enjoyment of the Lord they rest on great preceptors. They resort to Prapatti alone due to their inability for practising Bhaktiyoga etc. 'सर्वाधिकारितां धीराः प्रपत्तेराचचक्षिरे । एकान्तिनः फलं मुक्त्या सहान्यद्य उशन्ति ते ॥ १८ ॥ 'भगवरोध B. सर्वाधिकारतां B. 2 इत्यर्थः । जीवनिरूपणम् भक्तयपेक्षया प्रपत्तेविशेषमाह-सर्वेति। धीराः धीमन्तो मनीषिणः,प्रपत्ति: सर्वाधिकारा सर्वेषामपि वर्णानां तथा देवमनुजपशुपक्ष्यादिरूपाणां सर्वेषां प्राणि- नामधिकर्तुं योग्येत्याचक्षते । पुनश्च प्रपन्ना द्विधा-एकान्तिनः परमैकान्तिनश्चेति। तत्राद्यानाह-एकान्तिन इति । ये मोक्षण सहान्यत् धनधान्यादिकं फल- मिच्छन्तः प्रपत्तिमनुतिष्ठन्ति त एकान्तिन इत्यर्थः । चतुर्वर्गफलेच्छया ये देवतान्तरं परित्यज्य भगवन्तमेव प्रपद्यन्ते त इत्यर्थः । एकस्मिन् भगवत्ये- वान्तः फलप्रदत्वेन निश्चयो येषां त एकान्तिनः । "ये त्वन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् । लभते च ततः कामान् मयैव विहितान् हि तान् ॥" इति भगवद्वचनानुसंधानेन भगवानेक एव सकलफलप्रदानसमर्थ इति निश्चयवन्त १८ 18. Wise men say that all are qualified for Prapatti. Of these Ekāntins are those who long for other objects also along with Mukti. परमैकान्तिनस्त्वैच्छन् भगवत्प्रीतिमेव ये। प्रारब्धं कर्म भुक्त्वैव यो मोक्षमभिकाङ्क्षति ॥ १९ ॥ दृप्त आर्तस्तु संसारे वह्नाविव समुत्तपन् । प्रपत्त्यनन्तरे काले यो मोक्षमभिकाङ्क्षति ॥ २० ॥ अथ परमैकान्तिन आह-परमेति । ये भगवत्प्रीतिमेकामेव फल- तयोद्दिश्य भगवन्तं प्रपद्यन्ते, ते परमैकान्तिन इत्यर्थः । परमे सर्वोत्कृष्टे भगवत्प्रीतिरूपे फल एवैको मुख्योऽन्तो निश्चयो येषां ते परमैकान्तिनः । ते किल परब्रह्मानन्दानुभवरूपं मोक्षमपि फलतया नोद्दिशन्ति । किंतु भगवत्प्रीति- मेकामेव । अथ दृप्तार्तभेदेन तेषां द्वैविध्यमभिप्रेत्याद्यानाह–प्रारब्धमिति । "दह्यमानेन्धनान्त:स्थो विष्फुरन्निव कीटकः । अलब्धनिर्गमस्तिष्ठन्मध्ये मरणजन्मनोः ॥" भगवद्भक्किमेव D. 13 ९८ वेदान्तकारिकावली इत्युक्तरीत्या वह्नितप्तः कीट इव नितरां संतप्यमानमानसाः प्रपदनसमये प्रारब्धकर्मणामपि विनाशपूर्वकं सद्यो मुक्तिमभिलषन्तो ये प्रपद्यन्ते ते आर्त- प्रपन्नाः। किंचित्कालपर्यन्तं प्रारब्धकर्मफलभोगमभ्युपगम्य तदेहावसानसमय एव ये मुक्तिमभिलषन्ति ते दृप्तप्रपन्ना इत्युच्यन्त इति भावः । १९, २० 19, 20. Paramaikāntins do care only for the satisfaction of the Lord and wish to obtain Mokşa only. He who after experiencing the fruit of his Karman which has begun to give effect wishes to obtain Mokşa, is called Dępta. But he is called Arta who feels himself greatly afflicted in Saṁsāra as if inflamed in fire and wishes to obtain Moksa immediately after the performance of Prapatti. सत्सङ्गादिति सुश्लोकहयोक्तगतिमान्नरः । आविर्भूतस्वस्वरूपो मुक्तो ब्रह्मानुभूतिभा ॥ २१ ॥ सत्सङ्गादिति । इदमत्र श्लोकद्वयम्- " सत्सङ्गाद्भवनिःस्पृहो गुरुमुखाच्छ्रीशं प्रपद्यात्मवान् प्रारब्धं परिभुज्य कर्मशकलं प्रक्षीणकर्मान्तरः । न्यासादेव निरङ्कुशेश्वरदयानि नमायान्वयो हार्दानुग्रहलब्धमध्यधमनिद्वाराबहिनिर्गतः ॥ मुक्तोऽचिदिनपूर्वपक्षषडुदङ्मासाब्दवातांशुमद्- ग्लौविद्युद्वरुणेन्द्रधातृमहित: सीमान्तसिन्ध्वापलुतः । श्रीवैकुण्ठमुपेत्य नित्यमजडं तस्मिन् परब्रह्मणः सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् ॥" इति । अनेन मार्गेण गच्छन् नरः स्वयंप्रकाशरूपं स्वस्वरूपं प्राप्य ब्रह्मानु- भवन् भवतीत्यर्थः । अत्राविर्भूतपदेन जीवस्य मुक्तौ नाभूतपूर्व स्वरूपमुत्पद्यते । पर: A, B, 2 मानू B.
मुक्तस्य भोगमात्रे जीवनिरूपणम् ९९ किंतु स्वाभाविकमपि मध्ये कर्मणा तिरोहितं स्वरूपमाविर्भवति । तदाह श्रुति:: :-" परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते” इति । सूत्र- कारश्चाह-संपद्याविर्भावः स्वेन शब्दात्" इति । २१ 21. He goes on the path described in the couple of verses beginning with Satsangāt (through the association of good people) etc., and enjoy the bliss of the Brahman after getting back his real and essential nature. तु साम्यं श्रुतिषु चोदितम् । खेच्छया सर्वलोकेषु संचारोऽस्य न रुध्यते ॥ २२ ॥ मुक्तौ ब्रह्मणा सहामेदं जीवस्य केचिदाचक्षते । तन्निरासार्थ तत्र तस्यावस्थामाह-मुक्तस्येति । “निरञ्जनः परमं साम्यमुपैति" इत्यादिश्रुतिषु मुक्तस्येश्वरेण सह परमसाम्यमुच्यते । तच साम्यं भेदगर्भमिति नाभेदवर्णनं युक्तम् । किंतु भगवत्स्वरूपरूपगुणाद्यनुभवे भगवता सहात्यन्तसाम्यं मुक्तस्य । यदाह श्रुति:-"सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चिता" इति । अत्र ब्रह्मणा सहेति सहयोगे तृतीया । न प्रकृत्यादित्वादभेदे, अनन्वयात् । सूत्रकारोऽपि, “भोगमात्रसाम्यलिङ्गाच्च” इत्याह इत्याह । अस्य मुक्तस्य स्वेच्छया सर्वेषु लोकेषु कामचारो भवति । तत्र न कोऽपि प्रतिबन्धः । तथा च श्रूयते- “सर्वेषु लोकेषु कामचारो भवति" . 'इमान् लोकान् कामानी कामरूप्यनु- संचरन्" इत्यादि। २२ 22. Equality of the Muktas with the Brahman is only in enjoyment. This fact has been laid down in the Srutis. His free movement in all worlds is not obstructed. खेच्छा च 'हरिसंकल्पायत्ता मुक्तस्य लभ्यते । अनावर्तनशास्त्रं तु 'कर्मावर्तनिषेधकृत् ॥ २३ ॥ सादि A. D. 'हश्यते A. कर्मायत्त D. 3 १०० वेदान्तकारिकावली ननु भगवत्पारतन्त्र्यैकस्वरूपस्य मुक्तस्य कथं स्वेच्छया संचार इत्यत्राह--स्वेच्छा चेति। अयं मुक्तः स्वेच्छया संचरतामिति भगवतः संकल्पः। तमनुरुध्य प्रवर्तमानस्यास्य न भगवत्पारतन्त्र्यहानिः । तथाचास्य स्वेच्छा- चारोऽपि भगवदधीन इति तादधीन्यं न व्याहत्यत इति भावः । ननु तर्हि यदि मुक्तः स्वेच्छया प्राकृतलोके संचरति, तदा तस्य परमपदादावृत्तिरेव फलति । मुक्तस्य पुनरावृत्तिश्च "इमं मानवमावर्त नावर्तन्ते" "ब्रह्मलोक- ममिसंपद्य न च पुनरावर्तते न च पुनरावर्तते" इत्यादिश्रुतिभिः "अनावृत्ति: शब्दादनावृत्तिः शब्दात्" इत्यादिस्मृतिभिश्च निषिध्यते । तत्कथमित्यत्राह- अनावर्तनेति । आवृत्तिनिषेधः सर्वोऽपि कर्मनिबन्धनावृत्तिनिषेधपरः, न तु सर्वकर्मविनिर्मुक्तस्य स्वेच्छानिमित्तावृत्तिनिषेधपर इति भावः । २३ 23. The self-will of the Muktas is got subject to Hari's will. The rule that there is no return of Muktas from Mokşa, prohibits only the return caused by Karman. नित्यासंकुचितज्ञाना नित्यं भगवदाज्ञया । तत्कैंकर्यरता' नित्या अनन्तगरुडादयः ॥ २४ ॥ स्वेच्छावतीर्णान् कांश्चिन्निदर्शयिष्यन् प्रथमं तेषां नित्यत्वमाह- नित्येति । नित्यानामनन्तगरुडविष्वक्सेनादीनां ज्ञानं नित्यमसंकुचितप्रसरं भवति । तथा ते भगवदाज्ञानुसारेण नित्यभगवत्कैंकर्यरता भवन्ति । एतेन तेषां नित्यत्वं न केवलं स्वरूपेण, स्वरूपनित्यत्वस्य . बद्धमुक्तनित्यसाधारण्यात् ; किंतु गुणतः क्रियया च । बद्धमुक्तयोस्तु गुणक्रिये न नित्यप्रसरे, बद्धदशायां प्रतिबद्धत्वादिति भावः । २४ 24. The Nityas viz. Ananta, Garuda and others are endowed with eternal knowledge which is never narrowed. They are engaged in the Lord's service on His command. करा: B.
जीवनिरूपणम् एतेषामवतारादिरिच्छयैव हरेवि' । आधिकारिकतामीषामीश्वरेण निरूपिता ॥ २५ ॥ अनन्तगरुडादयस्तत्तदिव्यसूर्यात्मना तत्तदाचार्यात्मना चावतीर्णा दृश्यन्ते । तेववतारेषु भगवदिच्छैव नियामिका । तथाच ते भगवदिच्छानुगुणमाचार्य- रूपेणावतीर्य धर्मसंस्थापनमाचरन्त आधिकारिकव्यपदेशं कंचित्कालमवाप्या- नन्तरं यथापूर्व परमपदमारोहन्ति । २५ 25. Their incarnations etc., take place only on the Lord's will. Their authority and power are determined by the Lord. इति वेदान्तकारिकावल्यां जीवस्वरूपनिरूपणमष्टमं प्रकरणम् 1 इह B. नियन्त्रिता C.D.
९. ईश्वरनिरूपणम् खेतराखिलशेषित्वमीश्वरस्य तु लक्षणम् । स सूक्ष्मचिदचिन्मिश्रो विश्वोपादानकारणम् ॥ १ ॥ अथेश्वरो निरूप्यते-स्वेतरेति । स्वस्मादितराणि यान्यखिलानि वस्तूनि चेतनाचेतनात्मकानि, तेषां सर्वेषामपि विषये शेषित्वमीश्वरस्य लक्षणम् । स चेश्वरो विश्वस्य प्रपञ्चस्योपादानकारणं भवति । ननु तर्हि घटोपा- दानस्य मृद इव सविकारत्वं प्रसज्येतेत्यत्राह-सूक्ष्मेति । ब्रह्मणो विश्वोपा- दानत्वं न निष्कृष्टस्वरूपस्य। किंतु चिदचिद्विशिष्टस्यैवेति तदात्वे तस्य सवि- कारत्वमिष्टमेव । विकारनिषेधपराणि वचनानि तु विशेष्यभूतब्रह्मविषयकाणीति भावः । अयमत्राशयः-अवस्थान्तरयोगित्वमुपादानत्वम् । अवस्थायोगित्वं च साक्षात्परंपरासाधारणम् । मृदादेः साक्षादवस्थान्तरयोगः। ब्रह्मणस्तु स्वप्रकार- भूतचेतनाचेतनद्वारा । सूक्ष्मचेतनाचेतनविशिष्टं ब्रह्म जगदुपादानम् । तत्रा- चेतनांशे साक्षादवस्थान्तरयोगः चेतनांशे तु स संकोचविकासयोगितदीयज्ञान- द्वारा। एतदुभयपरंपरया स ब्रह्मणीति ब्रह्मोपादानं भवति । परैरपि निविशेषब्रह्मणो जगदुपादानत्वमेतादृश्यैव रीत्या समर्थ्यते । ते किलैवमाड:-अविद्योपहितं ब्रह्म जगदुपादानम् । तत्राविद्यांश एव वस्तुत उपादानत्वम् । तदुपहितब्रह्मांशे तु पारंपरिकस्तद्वयपदेशः । तथा च श्रुतिः, “मायां तु प्रकृतिं विद्यात्" इति । ब्रह्मोपाधिभूतां मायामेव प्रकृतिमुपादानकारणं विद्यादिति तदर्थः । प्रकृति- शब्दश्चोपादानपरः प्रसिद्धः-"प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्" इत्या- दाविति । वाचस्पतिमित्राश्चाविद्यासंवलितस्यैव ब्रह्मण उपादानत्वमाहुः- a ईश्वरनिरूपणम् । १ "अनिर्वाच्याविद्याद्वितयसचिवस्य प्रभवतो विवर्ता यस्यैते वियदनिलतेजोऽबवनयः ॥" इति । ननु यद्यचेतनगतमवस्थान्तरयोगित्वमवलम्व्य तद्विशिष्टे ब्रह्मण्युपा- दानत्वं परंपरया साध्यते, तदा मृगतमवस्थान्तरयोगित्वमवलम्व्य तद्विशिष्टे कुलालेऽपि घटोपादानत्वत्र्यवहारः कुतो नेष्यत इति चेत् , अपृथसिद्धि- संबन्धेन तद्वैशिष्टयस्य विवक्षितत्वादिति ब्रूमः । कुलालश्च नापृथसिद्धिसंबन्धेन मृद्विशिष्टः । 1. The characteristic of Is vara is that He is Sesin (the Lord) of all things other than Himself. He is the material cause of the universe by His nature of being qualified by the sentient and non-sentient ele. ments in their subtle forms. 'संकल्पयुक्त एवैष निमित्तं कारणं मतम् | कालाद्यन्तर्यामितया सहकारि च कारणम् ॥ २ ॥ अथेश्वरस्य निमित्तकारणतामाह-संकल्पेति । सूक्ष्मचिदचिद्विशिष्टत्व- रूपेणोपादानत्ववत् "बहु स्यां प्रजायेय" इति बहुभवनसंकल्पविशिष्टत्वरूपेण निमित्तकारणत्वमपि तस्यैत्यर्थः । एवं च ब्रह्मणोऽभिन्ननिमित्तोपादानत्वमुक्तं भवति । उपादाननिमित्तयोर्भेदावश्यंभावसाधकान्यनुमानादिप्रमाणानि त्वीश्वर- धर्मिग्राहकप्रमाणविरोधादनादरणीयानि | ब्रह्मण एव सहकारिकारणत्वमप्याह- कालेत्यादि । कार्यसामान्यं प्रति कालस्य सहकारिकारणत्वमभ्युपेतं सर्वैरपि । तादृशकालाद्यन्तर्यामितया ब्रह्मणोऽपि सहकारिकारणत्वमिष्टमेवेति भावः । असमवायिकारणं तु नैयायिकपरिभाषितं नास्माकमिष्टम् , कल्पनागौरवादिति भावः। २ 2. The very same Lord is also the efficient cause of the universe by His nature of being qualified by the संकल्पयुक् स एवैष A. B. 1 ३ वेदान्तकारिकावली Will. He is also the concurrent cause of the universe by His nature of being immanent in time etc. कार्यरूपेण वैविध्ययोग्युपादानमुच्यते । परिणामयितृत्वेन निमित्तमपि तन्मतम् ॥ ३ ॥ पूर्वव्याख्यातमेवोपादानत्वादिकं लक्षयति-कार्येति । वैविध्यमव- स्थान्तरम् । परिणामयितृत्वं कार्यरूपेण परिणामस्य प्रयोजकत्वम् । 3. That is called the material cause which undergoes different modifications in the form of effect. That is the efficient cause which brings about such modifications. कार्योत्पत्त्युपकारेण सहकारि च तद्भवेत् । एकविज्ञानसहितसर्वविज्ञानवादतः ॥ ४ ॥ उपादानत्वमेवोक्तं मृदादाविव चेश्वरे । तदैक्षतेति संकल्पान्निमित्तत्वं कुलालवत् ॥ ५ ॥ कार्योत्पत्तौ यदुपकरोति तत्सहकारिकारणं भवति । यथा घटोत्पत्तौ दण्डादिनैयायिकानाम् । तत्रोपादानत्वसाधकं प्रमाणमाह-एकेति । श्रुतौ, "आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्व विदितम्" इति ब्रह्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञायते । स च प्रतिज्ञावादो जगद्ब्रह्मणोरुपादानोपादेयभावा- दनन्यत्व एव संभवति, नान्यथा । अतो ब्रह्मण उपादानत्वमेष्टव्यमिति भावः । तदेवाह-उपादानत्वमिति। उक्तमित्यनेन ब्रह्मण उपादानत्वं नास्माभिः कल्प- नीयम् । किंतु श्रुत्यैव कण्ठरवेणोक्तप्रायमित्यर्थः । “यथा मृत्पिण्डेन" इत्यादि श्रुतिमभिसंधायाह-मृदादाविवेति । आदिपदेन लोहमणिनखकृन्तनादिग्रहणम् । निमित्तत्वमुपपादयति-तदैक्षतेति । यथा कुलालस्य घटकरणसंकल्पादिना निमित्तत्वं तद्वत् ब्रह्मणोऽपि बहुभवनसंकल्पादिना निमित्तत्वमित्यर्थः । ४,५ ईश्वरनिरूपणम् . 4, 5. That is the concurrent cause which is help. ful in the production of effect. There is a wise saying When that one is known every thing becomes known'. By this saying it has been asserted that the Lord is the material cause like the clay. In consideration of His Will mentioned in the words 'It thought' etc. He is also the efficient cause like the potter. सहकारित्वमप्यस्यान्तर्यामिब्राह्मणोदितम् । सब्रह्मात्मादयः शब्दाः कारणत्वावबोधिनः ॥ ६॥ "ब्रह्म "आत्मैवेदमन सहकारित्वमाह-सहेति । अन्तर्यामीति। “यः पृथिवीमन्तरो यमयति" इत्यादिश्रुत्युदितमित्यर्थः । ननु सर्वेश्वरस्यापि भगवतो हरेर्जगदुपादानत्वमप्रा- माणिकम् । श्रुत्यादिप्रमाणानि हि सदादीनामेवोपादानत्वं कथयन्ति, न तु हरेः। तथा हि--" सदेव सोम्येदमग्र आसीत्" इति सत्प्रस्तुत्य, " तदैक्षत बहु स्यां प्रजायेय" इति तस्यैव संकल्पपूर्वकबहुभवनम् “ अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति नामरूपभाक्त्वं च श्रूयते । तथान्यत्र, वा इदमग्र आसीत् ” इति ब्रह्म प्रस्तुत्य, तस्यैव "तदेतद् ब्रह्म क्षत्रं विट् शूद्रः इत्यादिना ब्रह्मक्षत्रादिनामभाक्त्वं श्रूयते । तथान्यत्र च, आसीदेक एव" इत्यात्मानं प्रस्तुत्य, तस्यैव "इदं सर्वं यदयमात्मा इति विविधनामरूपभाक्त्वं श्रुतम् । तथा "एको ह वै नारायण आसीन्न ब्रह्मा नेशानः" इति नारायणं प्रस्तुत्य, ब्रह्मा च नारायणः शिवश्च नारायणः इत्यादिना तस्यैव ब्रह्मशिवादिनामरूपभाक्त्वं श्रुतम् । एवमव्यवस्थिते विषये कथं भगवतो नारायणस्यैवोपादानत्वमुच्यत इत्यत्राह-सद्ब्रह्मात्मादय इति । कारणत्वावबोधिनः सद्ब्रह्मादयः शब्दाः छागपशुन्यायात् नारायणैकपरा इत्यर्थः । अयं भाव:-शङ्कास्पदतया प्रतीयमानाः सदादयः शब्दा: सामान्य- शब्दाः। सच्छब्दो हि सत्ताश्रयत्वं प्रवृत्तिनिमित्तमादाय प्रवर्तमानः 'घट: सन्' 'पट: सन्' इत्यादिप्रतीतिबलात् घटादिसाधारणः । एवं ब्रह्मशब्दोऽपि 14 १०६ वेदान्तकारिकावली तत्र तत्र जीवप्रधानादिष्वपि प्रयुक्तो दृश्यत इति साधारण एव । आत्मशब्दोऽपि जीवपरसाधारणतया प्रयुज्यमानः साधारण एवेति न ते कारणभूतं वस्तु विशिष्य निर्देष्टुमीशते । कारणभूतवस्तुविशेषज्ञानमन्तरा कारणवाक्यानि न निवृत्ता- काङ्क्षाणि भवन्तीति सदादयः शब्दा नारायणरूपदेवताविशेषे पर्यवस्यन्ति । नारायणशब्दस्तु न साधारणो भवितुमर्हति । नरसंबन्धिनो नाराः; तेषामयनं, ते अयनं यस्येति वा व्युत्पत्त्या निष्पन्नोऽपि नारायणशब्दो न भगवन्तमन्तरा देवतान्तरपरो भवितुमर्हति, तस्य संज्ञाशब्दत्वात् । संज्ञात्वादेव हि " पूर्व- पदात्संज्ञायामगः" इत्यनुशासनबलात् णत्वं भवति। “विश्वं नारायणं हरिम् ।। इति च श्रुतिरेव हरेनारायणसंज्ञामाह, “विष्णुर्नारायणः कृष्णो वैकुण्ठः” इति लौकिककोशोऽपि । ननु श्रुतौ देवतान्तराणामपि नमस्कारः श्रूयत इति चेत्, किं तेन? न हि नमस्करणमात्रेण तेषां जगत्कारणत्वं मोक्षप्रदत्वं चाभिसंहित- मिति शक्यते वक्तुम् , कामनान्तरैपि नमस्कारसंभवात् । “नमस्ते अस्तु मा मा हिश्सी:" इत्यादौ हि सान्त्वनार्थमपि नमस्कारः श्रूयते । ननु "एको हि रुद्रो न द्वितीयाय तस्थुः” इति रुद्रस्याप्यद्वितीयत्वं श्रूयत इति चेत् , तत्र- त्यरुद्रशब्दः भूयसां. न्यायानुसारेण विरोधिनो रोदयतीत्यादिव्युत्पत्त्या भगवति यौगिक आस्थेयः । न हि नारायणशब्दे णत्ववत् रुद्रशब्दे यौगिकत्वबाधकं दृढतरं किंचित्प्रमाणमुपलभ्यत इत्यास्तां तावत् । 6. His concurrent causation also has been stated in the Antaryāmi-Brāhmaṇa (The portion of Vedic Text teaching His immanency). The terms such as Sat, Brahman and Atman refer to Him as the cause (of universe). तत्र च्छागपशुन्यायान्नारायणपरा मताः । नामरूपविभागानहत्वावस्थासमन्वितम् ॥ ७ ॥ सुसूक्ष्मचिदचिद्युक्तमेकं ब्रह्मात्मकं मतम् । नामरूपविभागात्प्राङ न हि भेदोऽवसीयते ॥ ८ ॥ ur ईश्वरनिरूपणम् १०७ HAND मृद्घटादावपि ततस्तदेकमिति गीयते । नामरूपाद्यभावेन सच्छब्देनापि गीयते ॥ ९ ॥ सामान्यवचनस्य विशेषे पर्यवसानं निदर्शनमुखेन द्रढयति-तत्रेति । पशुना यजेत ” इति विधौ सामान्यत: श्रुतोऽपि पशुशब्दः, “ अग्नये छागस्य वपाया मेढसः" इति मन्त्रलिङ्गप्राप्ते छागे यथा पर्यवस्यति तद्वदिति भावः । ननु सदादिशब्दानां नारायणरूपदेवताविशेषे पर्यवसानं न युक्तम् । तथाहि- "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्” इति श्रूयते । तत्र एकमिति पदेन स्वगतसजातीयविजातीयभेदरहितं सद्वस्तु जगत्कारणतया प्रतीयते। नारायणस्तु पतिं विश्वस्य" इत्यादिना विश्वपतित्वेन “ह्रीश्च ते लक्ष्मीश्च पत्न्यौ” इत्यादिना लक्ष्मीपतित्वेन च प्रतीयते । अतो द्वितीय- वस्तुरहितं सदाख्यं ब्रह्मैव जगस्कारणम् । किंच “नेह नानास्ति किंचन" इत्यादिना ब्रह्मणि कृत्स्नभेदप्रतिषेधः क्रियते ; इत्याशङ्कयाह-नामरूपेत्यादि । नारायणख्यं परं ब्रह्मैव प्रपञ्चसर्गात् पूर्व नामरूपविभागानहसुसूक्ष्मचिदचि- च्छरीरकमभूत् । तदात्वे तत् परं ब्रह्म केवलमेकमेवाभूत् । विभक्तनामरूपवत्त्वं हि सर्गानन्तरभावि । श्रुतावेकशब्दो वक्ष्यमाणबहुभवनपूर्वावस्थापरतया प्रयुक्तः । ब्रह्मणोऽनेकनामरूपमाक्त्वाद्बहुत्वम् । “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति संकल्पपूर्वकजीवरूपानुप्रवेशकृतमिति ततः पूर्वं तस्यैक- त्वात् एकमेवेति निर्देशो युज्यते । अत एवाग्र इति पदसार्थक्यमपि । परेषां मते तु ब्रह्मणः सर्वदा सजातीयविजातीयमेदरहितत्वादन इति पदस्य वैयर्थ्यमस्वारस्यं च दुरपह्नवम् । “नेह नानास्ति किंचन" इत्यत्रापि न ब्रह्मणि सर्वात्मना पराभिमतभेदप्रतिषेधः। किंत्वब्रह्मात्मकवस्तुनानात्वं प्रतिषिध्यते | तथाहि-तत्र " यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः" इति पूर्ववाक्ये ब्रह्मण इन्द्रियभूतपञ्चकाधिष्ठानत्वं प्रतिपादितम् । तत्कथमेक- स्यात्मनः संभवतीत्याशङ्कायामिदं वाक्यं प्रवृत्तम्-'नेह नानास्तीति" । इह यस्मिन् पञ्च पञ्चजनाः" इत्यादिवाक्यनिर्दिष्टे ब्रह्मणि किंचन नानात्वं नास्तीत्यर्थः। पूर्वस्मिन् वाक्य इन्द्रियादीनां ब्रह्मात्मकत्वकण्ठोक्त्या तद-
१०८
वेदान्तकारिकावली
विरोधेनाब्रह्मात्मकवस्तुप्रतियोगिकनानात्वं ब्रह्मणि निषिध्यते । न तु निष्कृष्ट-
तत्तद्वस्तुभेदः, ब्रह्मणि स्वेतरवैलक्षण्यस्य प्रमाणशतप्रतिपन्नत्वात् । तस्य
सच्छब्दवाच्यत्वमेव निदर्शनमुखेन निगमयति-मृदिति । अपराह्ने कुलालगृहे
प्रसारितान् घटशरावादीन् दृष्ट्वा कश्चिद्वक्ति 'इदं सर्व प्राक् कुलालव्यापारात्
पूर्व पूर्वाह्ने मृदेकैवासीत्' इति । तत्र घटादिकरणात्पूर्व मृदस्तत्तन्नामरूप-
भाक्त्वाभावात् यथैकैव मृदासीदिति
व्यवहारः,
तथा सृष्टे: पूर्व हिरण्यगर्भादि-
प्रपञ्चाभावात् तदैकमेव ब्रह्मासीदिति व्यवहारो युज्यते। नैतावता प्रपञ्चमिथ्यात्वं
सिध्यतीति भावः ।
७-९
-
7-9. The terms mentioned above do mean the
Lord Nārāyaṇa in accordance with the rule of inter-
pretation viz. Chāga-Pas'u (Goat and Animal). The
Brahman has been held to be only one because He was
qualified by the sentient and non-sentient things only
in their subtlest forms and stood in such a state which
did not permit Him to have any classification with
different names and forms. Indeed no classification
in the clay can be admitted before it takes any modifi-
cation like pot etc. with different shapes and names.
Therefore the Brahman was only one. He has also
been mentioned by the term 'Sat (Being)' because
there were no different names and shapes to qualify
Him.
तदेवान्तःप्रवेशेन नामरूपविभागकृत् ।
यथा जीवोऽन्तराविष्टो नामरूपविभागभाक् ॥ १० ॥
देवोऽहमिति शब्दैश्च मुख्यवृत्त्याभिधीयते ।
यथा नीलादयः शब्दा नीलाद्यव्यभिचारिणम् ॥ ११ ॥
ईश्वरनिरूपणम् १०९ विशिष्टमेव मुख्यार्थ वदन्ति निरुपाधिकम् । तथैव भगवानन्तर्यामी सन्नामरूपयोः ॥ १२ ॥ विभागकृत्स तैः शब्दैर्मुख्यवृत्त्याभिधीयते । अमुख्यार्थत्वमेतेषां परैरुक्तं न युक्तिमत् ॥ १३ ॥ तच्च बहुभवनं नामरूपव्याकरणं च तत्तद्वस्त्वन्तरात्मनानुप्रवेशकृत- मित्याह-तदेवेति । यद् ब्रह्म सदेवेति वाक्ये एकमेवेति निर्दिष्टं तदेवेत्यर्थः । " तदैक्षत" इति श्रुतिवाक्येऽपि तच्छब्देन सदेवेति वाक्यनिर्दिष्टं ब्रह्मैव हि प्रतिपादितम् । अन्तः प्रवेशेनेति ; “अनेन जीवेनात्मनानुप्रविश्य " तत्सृष्ट्वा, तदेवानुप्राविशत् , तदनुप्रविश्य, सच्च त्यच्चाभवत्' इत्यादिवाक्या- न्यत्राभिप्रेतानि | तत्र दृष्टान्तमाह-यथेति । यथा जीवो ब्राह्मणादिशरीरान्त:- प्रवेशेन "ब्राह्मणेभ्यो वेदविद्भयो दिवे दिवे नमस्कुर्यात्" इत्यादौ ब्राह्मणादिव्य- पदेशं लभते, तद्वदिति भावः । एवं ब्रह्मणस्तत्तदनुप्रवेशकृतं तत्तन्नामरूपभा- क्त्वमुपपाद्य तस्य ब्रह्मणस्तत्तच्छब्दैर्मुख्यवृत्त्याभिधानं स्वसिद्धान्तसंमतमुपपाद- यति-मुख्यवृत्त्येति । ब्राह्मणादिशब्दास्तत्तच्छरीरवाचिनोऽपि यथा तदन्तर्गत- जीवेषु मुख्यवृत्तास्तथेति भावः । तत्रैव निदर्शनान्तरमाह-यथा नीलादय इति । नीलादयः शब्दा आकृत्यधिकरणन्यायात् गुणवाचिनोऽपि यथा नीलादिरूपविशिष्टं वस्तु मुख्यवृत्त्याभिदधति, तथेति भावः । तैः शब्दैः; ब्रह्मेन्द्रादिशब्दैः। आह च श्रुति:-“स ब्रह्मा स शिव: सेन्द्रः सोऽक्षरः परमः स्वराट् ” इत्यादि । परे तु मीमांसकादय: नीलादिशब्दानाममुख्यार्थे द्रव्ये पर्यवसानमाहुः ; तन्न सम्यगित्याह-अमुख्यार्थत्वमिति । १०-१३ 10-13. The Brahman effected different names and forms by penetrating all beings as immanent Self just as the individual soul got different names and forms by entering various bodies. Just as the individual soul is denoted by the words like Deva (Divine being) etc. in their primary sense and just as the words like 'blue' ११० वेदान्तकारिकावली etc. denote by their very nature the substance possessed with colour in primary sense, so also the Lord is denoted by all the words in their primary sense because He penetrates all the things and brings about different names and forms. Some philosophers opine that these words denote their objects only in the secondary sense. But this view is not proper. शरीराद्यपृथग्भावाच्छब्दा निष्कर्षकेतरे । विशिष्टमेव श्रीमन्तमभिधास्यन्ति युक्तितः ॥ १४ ॥ शब्दा हि द्विविधाः--निष्कर्षकाः, विशिष्टवाचिनश्चेति । तत्रापृथक्- सिद्धिसंबन्धेन संबद्धान् विशेषणांशान् विशेष्यांशांश्च पृथग्व्यवहर्तुमिच्छया यदा शब्दाः प्रयुज्यन्ते, तदा ते निष्कर्षका इत्युच्यन्ते । यथा पदार्थास्त्रिधा- चितः, अचितः, ईश्वरश्चेति । अत्र चिदादिपदानि केवलचिदादिवाचकानि, न तु तद्विशिष्टेश्वरवाचकानि । एवमीश्वरशब्दः चिदचित्संवलितमपीश्वरं चिद- चिद्भयः पृथक्कृत्य बोधयतीति स निष्कर्षकः शब्दः । तेभ्य इतरे शब्दा- स्तत्तत्प्रकारकमीश्वरमेव भगवन्तं श्रियः पतिमभिदधति, पूर्वोक्तयुक्तिबलादिति श्लोकार्थः। १४ 14. All the words, except those which are intended to specify Him in exclusion of His adjuncts, denote Him appropriately as qualified by adjuncts because He is inseparably connected with them. सर्व ब्रह्मेत्यैतदात्म्यमित्यादिव्यपदिष्टयः । सामानाधिकरण्येन संयुज्यन्तेऽत एव हि ॥ १५ ॥ निर्विशेषाद्वैतवादिभिर्यानि श्रुतिवाक्यानि स्वमतसर्वस्वतयोद्घोष्यन्ते, तानि वाक्यान्यस्माकमेवानुकूलानि ; न परेषामित्याह—सर्वमिति । " सर्व 1 तत्त्वतः C.
ईश्वरनिरूपणम् खल्विदं ब्रह्म" "ऐतदात्म्यमिदं सर्वम् ।” इति । आदिपदेन " तत्त्वमसि" इत्यादयो गृह्यन्ते । एते व्यपदेशा: । अत एव ; सर्वेषां शब्दानां ब्रह्मपर्य- वसायित्वादेव ! सामानाधिकरण्येन संयुज्यन्ते संगता भवन्ति । भिन्नप्रवृत्ति- निमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यमिति सामानाधिकरण्य- शब्दार्थों वर्णितः । स चास्मन्मत एव संगतः, न परमत इति भावः । १६ 15. By the same reason the usages like "All are Brahman" "All are in the form of Brahman etc. can be sensibly explained in the sense of Sāmānādhikaranya. (A term which denotes a single thing as possessed with different attributes.) वरूपभिदया भेदश्रुतयोऽस्मन्मते स्थिताः । विशिष्टाभेदतोऽभेदश्रुतयोऽपि सुनिर्वहाः ॥ १६ ॥ श्रुतयो हि द्विधा भवन्ति-भेदपराः, अभेदपराश्चेति । द्विविधा अपि ता अस्मन्मत एव सुसंगताः, न परेषां मत इत्याह-स्वरूपेति । -स्वरूपेति । “पृथगात्मानं प्रेरितारं च मत्वा" द्वा सुपर्णा सयुजा सखाया" “प्रधानक्षेत्रज्ञपति- गुणेशः” इत्यादयोऽचितां जीवानामीश्वरस्य चात्यन्तवैलक्षण्यं बोधयन्ति । अस्माकं मते चिदचिदीश्वरस्वरूपेषु भेदाङ्गीकारादत्यन्तमेताः श्रुतयोऽनुकूला: । "सर्वं खल्विदं ब्रह्म" ऐतदात्म्यमिदं सर्वम् " "ब्रह्मैवेदं सर्वम् ।" इत्याद्यभेदबोधिकाः श्रुतयश्चिदचिद्विशिष्टब्रह्मबोधकत्वात् सुनिर्वाहा इति भावः । परैस्तु अभेदश्रुतीनां प्राधान्यमभ्युपगम्य भेदश्रुतीनां कल्पितभेदपरत्वेन समन्वयः क्रियते । भेदस्य पारमार्थिकत्वेन कल्पितत्वासंभवात् तेषां तथा निर्वाहस्तासां श्रुतीनामप्रामाण्याभ्युपगमपर्यवसायीति हृदयम् । 16. According to our doctrine the Vedic passages teaching the difference (between the Brahman and world) will stand firm because they mean the difference in the essential nature of them. The passages teaching the non-difference (between the Brahman and world) ११२ वेदान्तकास्किावली can be explained to mean the non-difference in His gross form. कारणात्सूक्ष्मचिदचियुक्तास्थूलैतदाहितम् । कार्य नान्यदिति व्यक्तमारम्भणनयादिषु ॥ १७ ॥ ननु सिद्धान्ते “यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रुति- बलादीश्वरस्य प्रपञ्चोपादानकारणत्वमङ्गीकृतम् । ईश्वरस्य प्रपञ्चस्य च भेदो- ऽप्यङ्गीकृतः । तथा सति कथं कार्यकारणयोरनन्यत्वसिद्धिः । तयोरनन्यत्वं च सर्ववेदान्तिसंमतम् । “तदनन्यत्वमारम्भणशब्दादिभ्यः' इति व्याहरतः सूत्रकृतः संमतं चेत्याशङ्क्य समाधत्ते-कारणादिति । सृष्टे: पूर्व सूक्ष्मचिदचिद्विशिष्टात् ब्रह्मणः कारणात् सृष्टौ स्थूलचिदचिद्विशिष्टं ब्रह्मोत्पद्यते । तत्र विशेष्यांशे निष्कृष्टे ब्रह्मणि प्रपञ्चात्मना विकारासंभवेऽपि प्रकारांशे अचिति सततविक्रियात्मके तत्संभवात् प्रकारभूताचिद्वारा तत्प्रकारिणो ब्रह्मणोऽप्युपादानत्वसंभव इति भावः । एवं परंपरया विकारास्पदत्वं तु प्रामाणिकत्वात् ब्रह्मण इष्टमेवेति भावः । एतदुक्तं भवति । अविकारश्रुतयो विशेष्यभूतब्रह्मपराः । विकारश्रुतयस्तु विशेषणभूताचित्पराः, तत्परंपरया चिदचिद्विशिष्टेश्वरपराश्चेति । 17. In the Arambhaņādikaraṇa and other topics, it has been clearly stated that the effect qualified by the sentient and non-sentient things in their gross form is not different from the cause qualified by the subtle forms of the sentient and non-sentient things. निर्गुणत्वपराः काश्चिच्छ्रुतयः सन्ति ता इमाः । 'तद्धेयगुणराहित्यं बोधयन्ति ततो ध्रुवम् ॥ १८ ॥ एवं परस्परं व्याहततयापाततो भासमानानां सगुणनिर्गुणश्रुतीनां समन्वय- प्रकारमाह-निर्गुणत्वपरा इति । “निर्गुणम् ।” “निरञ्जनम्" इत्यादयः श्रुतयो १७ 1 यद्धेय C.
ईश्वरनिरूपणम् ब्रह्मणो निर्गुणतामाहुः । "प्रधानक्षेत्रज्ञपतिर्गुणेश: " "स्वाभाविकी ज्ञानबल- क्रिया च" "सत्यकामः सत्यसंकल्पः” इत्यादयः श्रुतयस्तस्यैव सगुणतामाहुः । एवं परस्परं व्याहततयेव भासमानाः श्रुतय एवं समर्थनीयाः-सामान्यनिषेधवा- क्यानि वाक्यान्तरविहितविशेषेतरविषयाणि परिकल्पनीयानि। यथा “न हिंस्यात्सर्वा भूतानि" इति भूतहिंसानिषेधः “चित्रया यजेत पशुकाम: इत्यादिवाक्यान्तरविहितयज्ञियचित्रादिहिंसाव्यतिरिक्तविषयतया सर्वैरपि प्रमाण- तन्त्रैर्वर्ण्यते, तथात्रापि निर्गुणवाक्यं विहितज्ञानशक्त्यादिकल्याणगुणव्यतिरिक्त- हेयगुणविषयतया नेयमिति न परस्परं व्याघात इति । यथाह- "उत्सर्गेणापवादं न खलु नयविदः क्षोभणीयं क्षमन्ते तस्माद्राह्मे गुणादौ विधिविषयमतिक्रम्य तिष्ठेनिषेधः । एवं शान्ते विरोधे नहि समविषयापच्छिदान्यायसिद्धि- दृष्टो नित्यं निषेध: पर इह तत: स्यादुपक्रान्तिनीतिः ॥" इति । १८ 18. There are some Vedic passages mentioning the Brahman as devoid of qualities. They teach the absence of bad qualities in Him. इति वेदान्तकारिकावल्यामीश्वरनिरूपणं नवमं प्रकरणम् 15 १०. अद्रव्यनिरूपणम् १ द्रव्यमेवं निरूप्याथ तदद्रव्यं निरूप्यते । शुद्धसत्त्वं मिश्रसत्त्वमिति सत्त्वं द्विधा मतम् ॥ १ ॥ पूर्वापरसंगतिप्रदर्शनपूर्वकमद्रव्यनिरूपणं प्रतिजानीते-द्रव्यमिति । अद्र- व्यमिति । आगन्तुकावस्थावद् द्रव्यम् । तदन्यदद्रव्यम् । अद्रव्याणि च दशधा--सत्त्वरजस्तमांसि, शब्दस्पर्शरूपरसगन्धाः, संयोगः, शक्तिश्चेति । इमानि च द्रव्यं प्रत्यपृथक्सिद्धविशेषणानि भवन्ति । अतस्तेषां गुणत्वेन व्यवहारः शास्त्रेषु । वैशेषिकाद्यभिमतानां गुरुत्वद्रवत्वादीनां यथासंभवं क्लुप्तेषु पदार्थेष्वेवान्तर्भावः सिद्धान्तिसंमतः । तत्र प्रथम सत्त्वं निरूपयिष्यन् तस्य द्वैविध्यमाह-शुद्धसत्त्वमिति । 1. Subsequent to the treatment of the substance, now the non-substance is explained. Sattva is considered to be of two kinds-Pure and Mixed, रजस्तमोभ्यामस्पृष्टमद्रव्यं पूर्वमुच्यते । रजस्तमोविमिश्रं तु मिश्रसत्त्वं प्रकीर्तितम् ॥ २ ॥ तत्र शुद्धसत्त्वस्वरूपमाह-रज इति । सत्त्वस्य रजस्तमोभ्यामस्पर्शी नाम सामानाधिकरण्यसंबन्धेन तद्रहितत्वम् । रजस्तम:शून्यद्रव्यवृत्ति सत्त्वं शुद्ध- सत्त्वमित्यर्थः । तच्च नित्यविभूतौ ईश्वरादिदेहे च । मिश्रसत्त्वमाह-रजस्तम इति । सामानाधिकरण्यसंबन्धेन रजस्तमोविशिष्टं सत्त्वं मिश्रसत्त्वमित्यर्थः । तच्च अंद्रव्यनिरूपणम् ११५ त्रिगुणे तद्विकारेषु च । शुद्धरजः शुद्धतमश्च न स्तः । एवमेषामद्रव्यत्वपरि- गणनेन तेषां द्रव्यत्ववादः सांख्याद्यभिमत: प्रत्युक्तः । २ 2. Sattva which is not associated with Rajas and Tamas is called the former (Pure-Sattva). Sattva which is associated with Rajas and Tamas is called Mixed-Sattva. अतीन्द्रियं प्रकाशादिनिदानं सत्त्वशब्दितम् । रजो लोभप्रवृत्त्यादिनिदानं कीर्त्यते तमः ॥ ३ ॥ सत्त्वादीनां स्वरूपमाह- अतीन्द्रियेति । अतीन्द्रियत्वे सति प्रकाशादि- कारणमद्रव्यं सत्त्वमिति तल्लक्षणम् । शब्दादिव्यावृत्त्यर्थमतीन्द्रियत्वविशेषणम् । रजस्तमोव्यावृत्त्यर्थ द्वितीयं विशेषणम् । तादृशद्रव्यव्यावृत्त्यर्थमद्रव्यमिति विशेष्यम् । रजसो लक्षणमाह-लोभेति । अत्राप्यतीन्द्रियत्वादिविशेषणं तत्प्रयोजनं चानुसंधेयम् । तम इत्युत्तरत्रान्वितं लक्ष्यनिर्देशः । 3. Sattva which is beyond the range of the senses brings about the brightness to the objects. Rajas is said to give rise to avarice, activity etc. Tamas is described as following: प्रमादमोहादिहेतुरित्थं 1 त्रैगुण्यरूपणम् । लये समानि चैतानि विषमाण्युदयादिषु ॥ ४ ॥ प्रमादेति । अत्राप्यतीन्द्रियत्वादिविशेषणं तत्प्रयोजनं चानुसंधेयम् । एवं त्रैगुण्यनिरूपणं कृतमित्युपसंहारः । सत्त्वादीनां स्वभावः कार्याणि च भगवता स्पष्टमगायिषत | यथा-- "सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत | ज्ञानमावृत्त्य तु तमः प्रमादे सञ्जयत्युत । त्रैगुण्यस्य निरूपणम् B.
वेदान्तकारिकावली रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा । सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत । लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ । अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ।" "ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः।" "यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥" "आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः । कटुम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः । यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ।" इत्यादि । एतानि सत्त्वरजस्तमांसि लये प्रलयकाले समानि; परस्परं न्यून- ताधिक्यवर्जितानि समप्रमाणानि भवन्ति । उदयादिषु उत्पत्तिस्थितिषु विरूपाणि विषमाणि । तत्तत्पुरुषीयादृष्टभेदात् तत्तद्देहेषु तद्वारा पुरुषेषु च न्यूनाधिकभावेन संबद्धानि सुखादिकार्यजनकानि भवन्तीत्यर्थः । 4. It (Tamas) is the cause for carelessness, delusion and others. Thus is triad of qualities. During the dissolution of the world, these qualities remain in the state of equilibrium. But when the creation takes place, they become divercified.
अद्रव्यनिरूपणम् ११७ श्रोत्रग्राह्यो गुणः शब्दो वर्णावर्णात्मना द्विधा । तालुभर्यादिजत्वेन भूतपञ्चकवय॑सौ ॥ ५ ॥ गुणत्रयं निरूप्यानन्तरं शब्दं लक्षयति-श्रोत्रेति । गुण इति स्वरूप- कथनम् । न तु लक्षणकोटिप्रविष्टं, प्रयोजनाभावात् । नैयायिकानां तु शब्दत्व- जातिव्यावृत्तये गुणशब्द आवश्यकः । अस्माकं तु जात्यनङ्गीकारानावश्यक इति भावः । स च शब्दो द्विधा-वर्णात्मकः, ध्वन्यात्मकश्चेति । मानुष- ताल्वादिस्थानजन्यो वर्णात्मकः । भेरीमृदङ्गादिजन्यो ध्वन्यात्मकः । तत्र वर्णात्मकोऽकारादिक्षकारान्त एकपञ्चाशत्प्रकारः। मातृकापाठे लळयोरभेदात् कचित्पञ्चाशत्प्रकारतया व्यपदेशः । क्रत्यादयः संध्यक्षरा इति न पृथक्परि- गण्यन्ते । एचां तु संध्यक्षरत्वेऽपि पृथग्वर्णतया सर्वजनप्रसिद्धेः पृथक्परि- गणनम् । तेषामपि ह्रस्वदीर्घभेदाः सन्त्येव । प्रयुज्यन्ते च ते वेदे कचित् शाखासु लोके च प्राकृतद्रमिडादिषु भाषासु च । संस्कृते तु तद्घटितपदाभावात् न माहेश्वरादिसूत्रेषु तत्परिगणनं कृतम् । शब्दश्चैष पृथिव्यादिभूतपञ्चकवर्ती । न वैशेषिकादीनामिवाकाशमात्रवर्ती, भेर्यो शब्दः, गङ्गाप्रवाहे शब्द इत्यादि- प्रतीतेः । स चायं शब्द आकाशेन सहोत्पत्पद्यते विलीयते च । ६ 5. The quality which is cognoscible by the sense of hearing is called Sound. It is of two kinds-lettered and non-lettered according to their production from the organs palate etc. and instruments drum etc. respectively. It abides in all the five elements. स्पर्शस्त्वगिन्द्रियग्राह्यः पृथिव्यादिचतुष्टये । शीतोष्णादिप्रभेदस्तु शास्त्रान्तरनिरूपितः ॥ ६ ॥ स्पर्श लक्षयति-स्पर्श इति । स च पृथिव्यादिभूतचतुष्कवर्ती । स च शीतोष्णानुभयभेदात् त्रिधा । अप्सु शीतः, अग्नावुष्णः, पृथिवीवाय्वोरनुभय इति विवेकः । भूतान्तरसंसर्गात् स्पर्शसंकरानुभवः । ६ ११८ वेदान्तकारिकावली ७ 6. The quality which is cognoscible by the sense of touch is called Touch. It abides in the four elements earth etc. Its division as cool, warm etc. has been described in other sāstras. चक्षुरिन्द्रयनिर्लाह्यं रूपमेतच्चतुर्विधम् । श्वेतरक्ते पीतकृष्णे इति भेदाद् द्विधादिमम् ॥ ७ ॥ रूपं लक्षयति-चक्षुरिति । रूपस्य चातुर्विध्यं श्वेतादिना । श्वेतस्य द्वैविध्यमाह-द्विधादिममिति । 7. The quality which is cognoscible by the sense of vision is called colour. It is of four kinds-white, red, yellow and black. Again the first (white) is of two kinds: भास्वराभास्वरत्वाभ्यां भास्वरं तेजसि स्थितम् । पृथिवीजलयोश्चैतदभाखरमुदाहृतम् ॥ ८ ॥ द्विविधमेव श्वेतरूपं निर्दिशति-भास्वरत्वेति । तेजसि भास्वरशुक्लम् , जले त्वभास्वरशुक्लमित्यर्थः । एवं च रूपं पृथिव्यादित्रिकवृत्तीत्युक्तं भवति । चित्रं नाम पञ्चमं रूपमिति वैशेषिकादयः ; तन्न, संघातवर्तिनामेषामेव तथा व्यवहारादिहेतुत्वात् । ८ 8. One of them is brilliant and the other nonbrilliant. The brilliant colour is seen in luminous things. The non-brilliant colour is said to exist in earth and water. रसनेन्द्रियनिर्लाह्यो रसः षोढा स कीर्तितः । घ्राणग्राह्यो गुणो गन्धो द्विधा शास्त्रान्तरेष्विव ॥ ९ ॥ रसं लक्षयति-रसनेति । षोढेति। मधुरामललवणतिक्तरूक्षकषायभेदात् । एषामेव संघातश्चित्ररस इति न तस्य पृथक्परिगणनं कृतम् । गन्धं लक्षयति- ..
अद्रव्यनिरूपणम् ११९ घ्राणेति । अत्रापि गुण इति स्वरूपकथनं न लक्षणकोटिप्रविष्टम् । द्विधेति; सुरभ्यसुरमिभेदेन द्विवेत्यर्थः । पटीरमृगमदादौ सुरभिः । विण्मूत्रादावसुरभिः। ९ 9. The quality which is cognoscible by the sense of taste is called Taste. It is said to be of six kinds. The quality which is cognoscible by the sense of smell is called Odour. It is held to be of two kinds like in other s'āstras. पृथिव्यामेव गन्धः स्यात्पृथिवीजलयो रसः । पृथिवीजलतेजःसु रूपं स्पर्शः सवायुषु ॥ १० ॥ गन्धादीनामाश्रयानाह-पृथिव्यामेवेति । जलादौ तत्प्रतीतिस्तु पृथिवी- भागसंसर्गकृता । सवायुष्विति ; वायुसहितेषु पृथिवीजलतेज:स्वित्यर्थः । १० 10. Odour abides in earth only. Taste abides in earth and water. Colour abides in earth, water and luminous objects. Touch abides in all the three mentiond above and in wind. शब्दः पञ्चसु भूतेषु प्राधान्येनैवमुच्यते। पञ्चीकरणरीत्या तु सर्वे सर्वत्र संगताः ॥ ११ ॥ पञ्चस्विति । पृथिव्यप्तेजोवाय्वाकाशेष्वित्यर्थः । इदं चाश्रयविशेषकथनं तत्र तत्र तत्तद्गुणभूयस्त्वनिबन्धनमित्याह-प्राधान्येनेति । पञ्चीकरणरीत्या तु सर्वे शब्दादयो गुणाः सर्वेष्वपि भूतेषु वर्तन्त इत्याह-पञ्चीकरणेति । पञ्चीकरण- प्रक्रिया तु प्रथमपरिच्छेदे व्याख्यातावगन्तव्या । ११ 11. Sound abides in all the five elements. The above classification is based on their predominance. But according to the process of Pañcīkaraña (fivefold combination of the elements) all these qualities abide in all the five elements.
१२० वेदान्तकारिकावली संयुक्तप्रत्यये हेतुः संयोग इति कथ्यते । कार्याकार्यप्रभेदेन स संयोगो द्विधा मतः ॥ १२ अनन्तरं संयोगाख्यमद्रव्यं निरूपयति-संयुक्तेति । घटपटौ संयुक्ता- वित्यादिप्रत्यये व्यवहारे च हेतुतया संयोगः सिध्यन् संयुक्तव्यवहारहेतुत्वमेव स्वस्य लक्षणमवगमयति । यद्यपि तादृशव्यवहारे घटपटावपि विषयतया हेतू इति तत्रातिव्याप्तिः प्रसजेत् , तथापि लक्षणकोटावद्रव्यत्वस्यापि प्रक्षेपान्न दोष इति हृदयम् । स च संयोगः कार्यः, अकार्यश्चेति द्विविधः । १२ 12. That is called Samyoga (conjunction) which is the cause of the cognition of the substances as conjoined together. Conjunction is considered to be of two kinds-effected and non-effected. मेषहस्तादिसंयोगः कार्योऽकार्यों विभोविभोः । विभुद्वयस्य संयोगः श्रुत्या युक्त्या च मन्यते ॥ १३ ॥ तत्र कार्यसंयोगमाह-मेषेत्यादि । परिमितयोर्वस्तुनोः संयोगः कदाचिदेव तयोः क्रियया जायत इति स कार्य इत्यर्थः । स च पुनधिा-उभयनिष्ठक्रिया- जन्यः, अन्यतरनिष्ठक्रियाजन्यश्चेति । तत्राद्यो मेषयोः हस्तयोर्वा संयोगः । द्वितीयः स्थाणुश्येनयोः संयोग इति ज्ञेयम् । अकार्यसंयोगमाह--विभोरिति । विभोविभोश्च संयोगोऽकार्य इत्यर्थः । वैशेषिकादयस्तु संयोगसामान्यस्य जन्यत्वं मन्यमाना विभुद्वयसंयोगे तस्य नित्यत्वप्रसङ्गात् तं नाङ्गीकुर्वन्ति । तान् प्रत्याह- विभुद्वयस्येति । श्रुत्येति; " अन्तर्बहिश्च तत्सर्व व्याप्य नारायणस्थितः" इति श्रुत्या विभोरीश्वरस्य विभ्वन्तरेण संयोगस्य श्रुतत्वात् । युक्त्या चेति ; ईश्वरः कालसंयुक्तः कालनैरन्तर्यात् घटवत् इत्याद्यनुमानेनेत्यर्थः । वैशेषिकास्तु संयोगजसंयोगमपीच्छन्ति; यथा--हस्तपुस्तकसंयोगात् कायपुस्तकसंयोग इति; तन्न, अवयवपृथक्त्वेनावयव्यनङ्गीकारात् । यः किल हस्तपुस्तकसंयोग: स एव हस्ताद्यवयवसंघातरूपकायपुस्तकसंयोग इति न ततः पृथगिति भावः । १३ अद्रव्यनिरूपणम् १२१ 13. The conjunction which is seen between the goat and the hand is the effected conjunction. The conjunction which is seen between two all-pervading things is the non-effected conjunction. The conjunction between two all-pervading things is accepted on the strength of the scripture and reasoning, तस्मात्कालस्येश्वरेण संयोगोऽपि सुसंमतः । संयोगाभावरूपो हि विभागो न गुणान्तरम् ॥ १४ ॥ तदेवाह-तस्मादिति । श्रुतियुक्तिसद्भावादित्यर्थः । कालस्येश्वरस्य च विभुत्वेऽपि तयोः परस्परं संयोगः सम्यक्तया मन्तव्य इत्यर्थः । वैशेषिकादयो विभागाख्यं पृथग्गुणमिच्छन्ति । तान्निराकरोति-संयोगाभावेति । संयोगाभाव एव विभाग इत्युच्यते । अभावस्य च भावान्तररूपत्वात् पूर्वदेशसंयोगनाश- पूर्वकोत्तरदेशसंयोग एव विभाग इत्यर्थः । १४ 14. Therefore the conjunction between Isvara and time is well approved. Disunion is only the absence of conjunction. Hence it is not a separate quality. सर्वहेतुषु हेतुत्वनिर्वोढ़ी शक्तिरिष्यते । मणिमन्तादिकेष्वेषा प्रसिद्धा सा वतीन्द्रिया ॥ १५ ॥ अथ शक्तिं निरूपयति-सर्वहेतुष्विति । हेतुनिष्ठः कार्योत्पादनयोग्यो धर्मविशेषः शक्तिरित्यर्थः । यथा वह्नौ दाहानुकूलो धर्मविशेषः शक्तिरित्युच्यते । तथा मणिमन्त्रादिषु दाहादिप्रतिवन्धजननसाधनभूतो गुणविशेषः शक्ति- रित्युच्यते । सा च नेत्रेन्द्रियग्राह्या । किं त्वागमादिग्राह्या । आगमश्च- "शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥ भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता।" 16 १२२ वेदान्तकारिकावली इत्यादिः । नन्वेवं तर्हि शब्देष्वर्थबोधनानुकूला शक्तिरङ्गीकरणीया। तथा सति शब्दस्य गुणाश्रयत्वात् द्रव्यत्वापत्तिरिति चेत्, अत्रोच्यते-शब्दे शक्तिर्नाम न काचिदतिरिक्ता शक्तिविद्यते । किंतु स स्वरूपेणैवार्थ बोधयति । व्याकरणादयस्तत्र सहकारिण इति नातिरिक्ता शक्तिस्तत्रेति । तथा चाहुः- 'शब्दादिष्वस्ति शक्तिर्यदि कथमिव न द्रव्यतैषां गुणित्वे सा चेन्नास्त्येव कार्य किमपि कथमित: स्यादितीदं न युक्तम् । शक्तिः शक्ता न वेति स्वयमवमृशत: स्वोक्तदोषप्रसङ्गे निस्तारश्चेत्स्वभावात्फणिमरणमिह प्रस्तुते किं प्रवृत्तम् ॥" इति । १५ 15. Potency is that quality which helps the causation in all This is seen mystical spell etc. But it is beyond the scope of the causes. in gems, senses. बुद्धयादयोऽष्टौ विज्ञाने भावना चान्तराविशन् । द्रवत्वस्नेहसंख्यानपरिमाणानि वेगकः ॥ १६ ॥ द्रव्यस्वरूपरूपत्वान्नाधिक्यं यान्ति केवलम् । स्थितस्थापकमेतस्मिन् संयोगेऽन्तर्भवत्यतः ॥ १७ ॥ संयोगाभावरूपत्वात्पृथक्त्वस्य विभागवत् । गुरुत्वस्यापि शक्तित्वान्नाधिक्यं वापि विद्यते ॥ १८ ॥ वैशेषिकाद्यभिमतानां बुद्धयादिगुणानां धर्मभूतज्ञानेऽन्तर्भावमाह-बुद्धया- दय इति । अष्टाविति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्माख्याः, तथा वास- नाख्यः संस्कार इति नवापि गुणा ज्ञानेऽन्तर्भवन्ति । तत्र बुद्धिसुखदु:- खेच्छाद्वेषप्रयत्ना: षडपि ज्ञानविकाररूपा इति ज्ञान एवान्तर्भवन्ति । धर्माधर्मा- वपीश्वरप्रीत्यप्रीतिरूपावितीश्वरज्ञानेऽन्तर्भवतः । वासनाख्यः संस्कारोऽपि ज्ञाना- वस्थाविशेषः स्मृतिवत् । एवं च धर्मभूतज्ञानस्य द्रव्यत्वेन तस्य विविधा- अद्रव्यनिरूपणम् १२३ वस्थास्पदत्वं युज्यते। तत्रात्मा निर्विकारः। धर्मभूतज्ञानं तु सविकारमिति प्रमाणसंप्रतिपन्नम् । धर्मभूतज्ञानगताः सर्वे विकारा ज्ञानद्वारा तदाश्रयात्मपर्यन्तं व्यवह्रियन्त इत्यवगन्तव्यम् । अत्रेदं बोध्यम् - -बुद्धयादीनामष्टानां बुद्धिविका- रत्वात् तेषामात्मनिष्ठत्वं युज्यते । भावना तु ज्ञाननिष्ठेव, नात्मनिष्ठा । सा हि बुद्धेयस्य पूर्वमर्थविशेषे सकृत्प्रसृतस्य पुनस्तत्रैवार्थविशेषे तस्य प्रसरणोप- योगिनीति सिद्धान्तः। तथा च तस्या बुद्धिनिष्ठत्वमेवोचितम् । आत्मनिष्ठत्वे तु तद्धर्मभूतधीविकासहेतुत्वं तस्याः कथ्यमानं न युक्तिमनुसरतीति । द्रवत्वस्नेह- संख्यापरिमाणवेगा द्रव्यस्वरूपान्नातिरिच्यन्ते, तावतैव प्रतीतिव्यवहारयोरुपपत्तेः। एवं स्थितस्थापकमप्यवयवसंयोगविशेष एव, नातिरिक्तम् । एतेन वेगो भावना स्थितस्थापकमिति त्रिविधः संस्कार इति वैशेषिकमतमपास्तम् । पृथक्त्वस्या- तिरिक्तगुणतां निरस्यति-संयोगाभावेति । यथा संयोगाभावरूपो विभाग इति तस्य न पार्थक्यमङ्गीकृतं, तद्वत् पृथक्त्वस्यापीति भावः । एवं गुरुत्वमपि पतनानुकूलशक्तिरूपमिति न शक्तरतिरिच्यते । १६-१८ 16-18. The eight qualities vis. cognition, etc. and reminiscence included in Consiousness. Fluidity, vicidity, number, size and speed are nothing but the nature of the relevant substances. Therefore they do not exceed the number of qualities enumerated. Elasticity is included in conjunction. Like disunion, separateness also is of the nature of the absence of contact. Weight also is a kind of potency. Therefore these is no separate quality in excess of the qualities enumerated. कर्मणामपि शक्तित्वं केचिदाहुर्मनीषिणः । पदार्थान्तरतामन्ये प्राहुर्वेदान्तवेदिनः ॥ १९ ॥ अथ वैशेषिकाद्यभिमतं कर्मपार्थक्यं निराचष्टे-कर्मणामिति । संयोग- विभागजनकं कर्म । तच्च उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनभेदेन पञ्चविधमिति are १२४ वेदान्तकारिकावली वैशेषिका: कथयन्ति ; तन्न, उत्तरदेशसंयोगानुकूलशक्तेरेव कर्मत्वात् । पञ्च- विधत्वोक्तिरपि न सम्यक् । उत्क्षेपणम् ऊर्ध्वदेशप्रक्षेपः, अवक्षेपणम् अधोदेशप्रक्षेप इत्यादिरीत्या भेदश्चेत् प्राच्यादिदिग्भेदेनापि विभागप्रसङ्गः । अत उत्तरदेशसंयोगानुकूला शक्तिरेव कर्मेत्येतावता संतोष्टव्यम् । त एव वैशेषिकाः कर्मणामसवयायिकारणत्वमाहुः; तन्न, समवायिनिमित्तसहकार्य- तिरिक्तस्यासमवायिकारणस्याप्रसिद्धेः । यदि समवायिकारणप्रत्यासन्नं कारण- मसमवायिकारणमिति परिभाष्यते, तदा निमित्तकारणप्रत्यासन्नमनिमित्तकारण- मिति किंचित्प्रकल्प्येत । न हि तदस्ति । तस्मात् तदप्यप्रामाणिकमिति मन्तव्यम् । इत्थं कर्मणां शक्तावन्तर्भावमुपपाद्य केषांचिद्वेदान्तिनां मतेन कर्मणां पार्थक्यमाह-पदार्थान्तरतामिति । अयमत्र पृथक्परिगणयतां भाव:--विभाग- पूर्वकोत्तरसंयोगानुकूला शक्तिः कर्मेति पक्षे एकेन जलधरेण विभज्यमाने जलधरान्तरेण तेन वा पुनः संयुज्यमानशिलोचये चलतीति प्रत्ययव्यवहारयोः प्रसङ्गः । यदि देशपदप्रक्षेपेण पूर्वदेशविभागपूर्वकोत्तरदेशसंयोगेत्यादिना लक्ष्यते, तदापि महाप्रवाहपतितनिष्कम्पमकरे चलतीति प्रत्ययप्रसङ्गः । तस्मात्कर्माख्यं पदार्थान्तरमङ्गीकरणीयमिति । १९ 19. Some wise men say that Karman (action) also is included in potency. But other Vedāntins say that it is a separate quality. प्राचीनग्रन्थपदवीमनुसृत्य यथामति । विशिष्टाद्वैतसिद्धान्तफकिकेत्थं निदर्शिता ॥ २० ॥ ग्रन्थमुपसंहरति-प्राचीनेति । प्राचीनग्रन्थोऽत्र न्यायसिद्धाञ्जनादिः । फकिकेत्यनेन विस्तरभिया केवलं दिक्प्रदर्शनं कृतमित्युक्तं भवति । २० 20. Following the way of the earlier texts, the logical exposition of the Vis'istādvaita system is exemplified to the best of my judgment.
अद्रव्यनिरूपणम् १२५ अण्णयार्याध्वरीन्द्रस्य तार्तीयीकतनूभुवा । श्रीमढेंकटदासेन निर्मिता कारिकावली ॥ २१ ॥ स्वस्याभिजनसंपत्तिमाह--अण्णयार्यति । तार्तीयीक इति। "तीयादीका स्वार्थे " इतीकक्प्रत्यये रूपम् । वेंकटदासेनेति स्वनामनिर्देशः । कारिकावलीति ग्रन्थनाम। २१ 21. This string of concise verses has been com. posed by Venkatadāsa, the third son of Aņņayārya. निरमायि रमायत्तपरमाद्भुततेजसः । मुदमाधातुकामेन मयेयं कारिकावली ॥ २२ ॥ स्वस्य ग्रन्थकरणे परमं प्रयोजनं भगवत्प्रीतिरेकैवेत्याह-निरमायीति । रमायत्तेति । भगवतः सर्वोऽपि महिमातिशयो महालक्ष्मीसंबन्धकारित इति भावः। यथोक्तम् , "अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा" इति। स्वतः- प्रामाण्यमूर्धाभिषिक्तया श्रुत्यापि विध्यादिसाधारण्येन संशयास्पदे परतत्त्वनिर्णये चिकीर्षिते, “ह्रीश्च ते लक्ष्मीश्च पत्न्यौ” इति विनिर्दिश्य, लक्ष्मीपतित्व- पुरस्कारेणैव हि तस्मिन् परदेवतात्वं निर्णेतव्यमासीत् । अमुमेवाशयमभियुक्ताः सरसयोक्तयाविष्कुर्वन्ति । यथा- अपाङ्गा भूयांसो यदुपरि परं ब्रह्म तदभू- दमी यत्र द्वित्राः स च शतमखादिस्तदधरात् । अतः श्रीराम्नायस्तदुभयमुशंस्त्वां प्रणिजगौ प्रशस्तिः सा राज्ञो यदपि च पुरीकोशकथनम् ॥" इति । २२ 22. This string of concise verses was composed by me with a desire to please the Lord of great marvellous lustre which is dependent on Lakşmi. - वेदान्तकारिकावली भक्तिप्रपत्त्योरधिदेवताभ्या- मिवाब्जनाभस्य पदाम्बुजाभ्याम् । समर्पयेऽस्मन्मतकारिकावली तदङ्गुलीसंख्यनिरूपणाढ्याम् ॥ २३ ॥ “यत्करोषि यदनासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ इत्युक्तरीत्या सात्त्विकत्यागं कुर्वन् स्वग्रन्थं भगवत्पादाम्बुजयोः समर्पयति- भक्तीति । पदाम्बुजाभ्यामिति चतुर्थी । पदाम्बुजे प्रीणयितुमित्यर्थः । "क्रियार्थोपपदस्य च" इत्यादिना चतुर्थी। तदङ्गुलीति तच्छब्देन पदाम्बुजे विवक्षिते । तदङ्गुलीसंख्या दश । दशसंख्याकनिरूपणैराढ्यामित्यर्थः । २३ 23. I dedicate at the lotus-feet of the Lord (having the lotus in the navel) which feet seem as presiding deities of Devotional meditation and Self-surrender, the string of concise verses of our system of thought, whose chapters are in the same number as that of the fingers of those feet. यः श्रीमच्छठमर्षणान्वयपयःसिन्धोः सुधांशुर्महा- नण्णायः समभूद्विभूषितचतुस्तन्त्रो वचःकान्तिभिः । तस्यासौ तनयः समार्जितनयः श्रीवेंकटार्यः सुधीः श्रुत्यन्तान्वयकारिकालिमकरोत्प्रीत्यै महत्यै सताम्॥२४॥ इति श्रीमच्छठमर्षणान्वयपयोधिचन्द्रमःषड्दर्शनीपारदृश्वनोऽण्णयार्य- सोमपीथिनस्तृतीयसुतेन बुच्चिवेंकटाचार्येण विरचितायां वेदान्त- कारिकावल्यामद्रव्यनिरूपणं नाम दशमं प्रकरणम् स्वग्रन्थस्य श्रद्धेयताभिव्यक्त्यै स्वाभिजनादिसंपत्तिं वर्णयति–य इति । यः शठमर्षणवंशादेव क्षीरसमुद्रादुदितश्चन्द्रोऽभूत् , येन च चतुस्तन्त्री न्याय- अद्रव्यनिरूपणम् व्याकरणमीमांसाशारीरकाख्यशास्त्रचतुष्टयं वचःकान्तिभिर्विभूषिता अलंकृता, तस्य अण्णयार्यस्य तनयः सदाचार्यसेवासमधिगतनयसरणि: वेंकटाचार्यनामा सुधी: वेदान्तकारिकावलीनामकमिमं ग्रन्थं सतां महत्यै प्रीत्य अकरोदित्यर्थः । २४ वेदान्तार्थनितान्तचिन्तनरताः सन्त्येव सन्तो बुधा- स्तेषां तोषकृते कृतेति विवृतिर्वेदान्तपद्यावलेः। अन्ये मत्सरिणो मितंपचधियो निन्दन्तु नन्दन्तु वा नैवातो मनसो मनागपि भवेत्सादः प्रसादोऽथवा ॥ इत्थं श्रीशैलसच्चक्रवर्तिवंश्यः सतां मतः । श्रीकृष्णोऽकृत वेदान्तकारिकावलिटिप्पणम् ॥ अनेन भगवान् विश्वसर्गस्थित्यन्तकर्मठः। सर्वकर्मसमाराध्यः प्रीयतां देवनायकः ॥ इति वेदान्तकारिकावल्यामद्रव्यनिरूपणं दशमं प्रकरणम् प्रमेयनिरूपणं समाप्तम् 24. Great Annayarya who was the moon of the milky ocean of the family of S'athamarşaņa, beautified the four s'āstras with his brilliance of expression. His son Venkațārya of great intellect, well equipped with the philosophical thought, wrote this string of concise verses on Vedānta to the entire satisfaction of the good. Thus here ends the tenth chapter entitled the treatment of non-substance, of the work called the Vedāntakarikāvali composed by Bucci Verkațācārya, the third son of Annayāryasomapithin, who was the moon of the ocean of Sathamarşaņa family and seer of other shore of six dars'anas. C and D read the following verses after the colophon: शृणु वेंकटशैलशेखराये कृतवासं नृहरे भवन्तमद्य । निशितेन मदात्मना शरेण प्रणिविध्यामि हृदन्तरेऽवधेहि ॥ रामानुजायौरससत्तनूजैः स्थितैः सुनारायणवाटिकायाम् । मुक्तावलीयं महदार्यनामभिदृष्टा परिष्कारवती बभूव ॥
No text on this page.
APPENDIX I मूलस्थकारिकार्धानामनुक्रमणिका अकर्मकृतमीशादेः, ४८ अन्तरादित्यविद्यादि, ८२ अखण्डकाल एवायं, ५६ अन्तर्यामी तु भगवान्,८ अखण्डखण्डभेदेन, ६५ अन्धकारावृतः सोऽपि, ५३ अजडं तु पराक्प्रत्यक, ४ अन्यदेवपरो विष्णु, ६ अजडत्वं भवेल्लक्ष्म, ५९ अन्यभूतांशसत्त्वेऽपि, ४४ अणुत्वे सति चैतन्यं, ८६ अन्योऽस्तीति महाचार्य, ८४ अण्डान्येतादृशानि स्युः, ५४ अन्वयी व्यतिरेकी च, १९ अण्डोत्पत्ते: पूर्वसृष्टिः, ५० अपचारान्विना ब्रह्म, ८४ अण्णयार्याध्वरीन्द्रस्य, १२५ अपशूद्रनये भक्तो, ९३ अत एव हरिः साक्षात् , ८१ अप्राकृतशरीराणि, ६३ अतीन्द्रियं प्रकाशादि, ११५ अभिधा मुख्यवृत्ति: स्यात्, २८ अतो भक्तिप्रपत्ती हि, ७७ अमिश्रसत्त्वराहित्य, ३१ अद्भुतज्योतिराकारः, ७० अमुख्यार्थत्वमेतेषां, १०९ अध्यायभेदवद्भेदे, २३ अर्चावतारः श्रीरङ्ग,८ अनन्तस्तत्र च फणा, ६८ अर्थकामपरास्तत्र, ९० अनपेक्षं स्वत: सिद्धं, ११ अर्थकामपरो धर्म, ५ अनाप्तानुक्तवाक्यं यत् , २२ अर्वाचीनमिदं सर्वे, १२ अनावर्तनशास्त्रं तु, ९९ अवस्थान्तरयोगित्वं, ३० अनित्यमपि तद् द्वेधा, ४८ अव्यक्तादेमहत्त्वादिः, ५० अनुमित्यात्मविज्ञाने, १७ अव्यक्तान्महदुत्पत्तिः, ३३ अनुष्टुबादिकं छन्दः, २७ असामर्थ्येन भक्त्यादौ, ९६ अनुष्ठानादिकालस्य, २७ अस्मदास्तु कैवल्यं, ९२ अनुष्ठेयार्थगमकः, २५ अहंकारस्ततस्त्रेधा, ३३ अन्तःकरणचैतन्यं, ४१ आकाङ्क्षादिकमेतच्च, २८ 17 १३० वेदान्तकारिकावली आत्मनिक्षेपकार्पण्ये, ८२ आद्यं शब्दवदन्यच्च, ४२ आद्यो विभुर्भूतभावि, ५६ आधिकारिकतामीषां, १०१ आनन्दनामकस्तत्र, ६८ आनुकूल्यस्य संकल्पः, ८२ आर्तो जिज्ञासुरर्थार्थी, ९१ आविर्भूतस्वस्वरूपः, ९८ इत्थमव्यक्तमहद्, ५१ इत्यादि वचनं सर्व, १४ इयमुत्तरपूर्वाघ, ८४ ईश्वरः पञ्चधा भिन्नः, ७ उच्चारणादिकर्मैक, ३७ उद्भिजस्वेदजाण्डोत्थ, ४९ उपसंहारवचनं, २१ उपस्थः परमानन्द, ३८ उपादानत्वमेवोक्तं, १०४ उपादानानि देहस्य, ४५ एकधर्मिकनानार्थ, ९ एकमेकं विधायांशं, ४३ एकविज्ञानसहित, १०४ एकादशेन्द्रियाणि स्युः, ३४ एकान्तिन: फलं मुक्त्या, ९६ एतदिन्द्रियसापेक्षं, ११ एतद्विरुद्धं यत्किचत्, २७ एतन्मूलतया स्मृत्या, २७ एतेषामवतारादिः, १०१ एवं पञ्चीकृतानां स्यात् , ४९ एवं पञ्चीकृतैर्भूतैः, ५२ एवं प्रकृतिरव्यक्त, ४२ एवं प्रकाशितं काल, ५८ एवं स्वार्थानुमानस्य, १९ एष नित्यविभूतौ तु, ५७ एषां विषयसंबन्धः, ३७ औज्ज्वल्यादिगुणा ये स्युः, ६५ कपित्थफलकाकार, ९२ कर्मजन्याददृष्टाप्य, ८९ कर्मणामपि शक्तित्वं, १२३ कर्मब्रह्माभिधायित्वात् , २३ कर्ममात्रकृतं चेति, ४८ कर्मयोगज्ञानयोगौ, ७८ कारणात्सूक्ष्मचिदचिद् , ११२ कार्य नान्यदिति व्यक्तं, ११२ कार्यरूपस्ततो नैव, ५७ कार्यरूपेण वैविध्य, १०४ कार्याकार्यप्रभेदेन, १२० कार्योत्पत्त्युपकारेण, १०४ कार्योन्मुखत्वावस्था, ३२ काल: स्वकार्य प्रति तु, ५६ कालस्तूपाधिभेदेन, ४ कालाद्यन्तर्यामितया, १०३ कुर्वे लक्ष्मणसिद्धान्त, १ कुशद्वीपं तत: सर्पिः, ५३ केशवादि तु तत्त्वज्ञैः, ८ " १ मूलस्थकारिकार्धानामनुक्रमणिका १३१ कैवल्यमचिर्माण, ९२ जलबुद्बुदकल्पानि, ५४ कैवल्यमेतत्केषांचित् , ९२ जायते शब्दतन्मात्रादि, ३८ क्रीडापरिकरः सोऽयं, ५७ जीवस्य च प्रकृत्यादीनि, ५१ क्रौञ्चद्वीपं ततः पश्चात् , ५३ जीवस्यानेकविषय, ८६ खमेव सूर्यस्पन्देन, ४० ज्ञानप्रसरणे शक्तं, ३५ गद्यत्रये महाचाय:, ७७ ज्ञानशक्त्योर्विततयः, ७६ गन्धः संयोगशक्ती च, ८ तच्च कर्मकृतं द्वेधा, ४८ गन्धतन्मात्रमित्यस्मात्, ४२ तच प्रकटनं तस्य, ६४ गन्धतन्मात्रमेतत्स्यात् , ३९ तच लिङ्गपरामर्शः, १७ गन्धैकग्राहक घ्राणं, ३६ तज्जा पक्षे साध्यमतिः, १८ गुणत्रयविहीनो यः, ५५ ततस्तु शाल्मलिद्वीपं, ५३ गुणाश्रयं वा द्रव्यं स्यात्, ३० ततोऽण्डमेकमेवं स्यात् , ९३ गुरुत्वस्यापि शक्तित्वात्, १२२ तत्कर्मकृतशारीर, ६६ गुरूपसदनादेषा, ८४ तत्कार्यपरताहाने:, २२ ग्रहः प्रथमपिण्डस्य, ११ तत्केंकर्यरता नित्याः, १०० घ्राणग्राह्यो गुणो गन्धः, ११८ तत्तच्छरीरावसान, ८० चक्षुरिन्द्रियनियं, ११८ तत्तत्स्वरूपविज्ञानं, ७७ चतुर्थाशयुतस्वांशैः, ४३ तत्र चामरवद्धस्तैः, ६९ चतुर्धा रचितानंशान् , ४३ तत्र च्छागपशुन्यायात्, १०६ चतुर्विशतिसंख्यानां, ४२ तत्र रत्नमयस्तम्भ, ६८ चेतनैकनियाम्यं यत् , ४५ तत्रानन्दमयः साक्षात्, ७० चैतन्यं समतापन्नं, १४ तत्सपक्षे सपक्षस्तु, १८ छन्दः कल्पश्च शिक्षा च, २६ तथैव भगवानन्तर्यामी, १०९ जङ्गमं च द्विधा प्रोक्तं, ४९ तदेवान्त: प्रवेशेन, १०८ जडं प्रकृतिकालौ द्वौ, ३१ तदैक्यात्पूर्वपरयोः, २३ जडाजडत्वभिन्नेऽत्र, ३ तदैवतेति संकल्पात्, १०४ जम्बूद्वीपमिदं सर्व, ५२ तद्धर्मभूतविज्ञानं, ७१ १३२ वेदान्तकारिकावली , तद्धेयगुणराहित्यं, ११२ तद्विचारोऽत्र संक्षिप्तः, २८ तन्मनःश्रोत्रचक्षुस्त्वक्, ३५ तन्मात्रपञ्चकं भूत, ४२ तन्मात्रपञ्चकं शब्दादि, ३९ तन्मात्राणीति तत्त्वानि, ५१ तमोविशेषसांनिध्यात् , ७५ तस्मात्कालस्येश्वरेण, १२१ तस्मिन् धर्मादिसहित, ६८ तस्य स्वयंप्रकाशत्वं, ८८ तस्यासौ तनयः, १२६ तामसाहंकृतिखयोः, ४० तालुभेर्यादिजत्वेन, ११७ ते तु धर्मपरास्तत्र, ९० तेषां स्वरूपलक्ष्माणि, २६ तेषु वैकारिकात्सात्त्विक, ३४ त्रिपाद्विभूतिवैकुण्ठ, ६७ त्रैवर्गिकपरा मोक्ष, ९५ त्रैवर्गिकार्थनिष्णाता:, ९० दृप्त आर्त इति द्वेधा, ७ दृप्त आर्तस्तु संसारे, ९७ देवोऽहमिति शब्दैश्च, १०८ देशान्तरफलादीनां, ८९ देहा ईश्वरनित्यानां, ६३ द्रवत्वस्नेहसंख्यान, १२२ द्रव्यं तदाकाशवाय्वोः, ४१ द्रव्यं तन्मात्रमित्याहुः, ३९ द्रव्यत्वमस्य ज्ञानस्य, ७५ द्रव्यमद्रव्यमित्याचं, ३० द्रव्यमेवं निरूप्याथ, ११४ द्रव्यस्वरूपरूपत्वात् , १२२ द्वादशावरणोपेत, ६८ द्वितीयपिण्डग्रहणं, ११ द्वितीयमस्मदादीनां, ४९ द्विधा प्रपन्न एकान्ति, ६ द्वेष्मीच्छामीति वादस्तु, ७६ धर्मस्त्वलौकिकश्रेयः, ९० धर्मार्थकामान् स्वाम्यर्थ, ९५ धर्मो भवति यज्ज्ञानं, ७१ धीभेदाः सुखदुःखेच्छा, ७६ धीस्तु धर्मविपर्यासे, १० नामरूपविभागात्प्राक्, १०६ नामरूपविभागानह, १०६ नामरूपाद्यभावेन, १०७ नामान्तराणि सन्त्येषां, ३४ नित्यः प्रतिशरीरं सः.८७ नित्यनैमित्तिक, ५८ नित्यमुक्तेश्वरज्ञानं, १२ नित्या नैमित्तिकाः काम्याः, २६ नित्यासंकुचितज्ञाना:, १०० निमेषादिप्रभेदेन, ५६ निरमायि रमायत्त, १२५ निरूपयन्ति श्रीनाथ, ६६ निर्गुणत्वपराः काश्चित्, ११२ मूलस्थकारिकार्धानामनुक्रमणिका १३३ न्यायजन्यः परामर्शः, २० प्रकृतिः सा क्षराविद्या, ३२ न्यायोऽवयववाक्यानि, २० प्रकृतेस्तु वियुक्तस्य, ९१ न्यासविद्या प्रपत्ति: स्यात्, ८२ प्रकृत्यपेक्षया देही, ८८ पञ्चधा वाक्पाणिपाद, ३७ प्रतिज्ञा साध्यनिर्देशः, २१ पञ्च भूतानि तन्मात्र, ४० प्रत्यग्जीवेश्वरभिदा, ५ पञ्चीकरणमेताइक्, ४५ प्रपत्त्यनन्तरे काले, ९७ पञ्चीकरणरीत्या तु, ११९ प्रमादमोहादिहेतुः, ११५ पदार्थान्तरतामन्ये, १२३ प्रमायाः करणं तत्र, ९ पद्ममष्टदलं भाति, ६९ प्रमेयं द्विविधं प्रोक्तं, ३ पर एकश्चतुर्धा तु, ७ प्रवृत्त्युत्तम्भिका या स्यात्, २५ परमैकान्तिनस्त्वैच्छन् , ९७ प्रसादोन्मुखतापत्तौ, ६४ परस्मै भासमानत्वं, ६० प्राकृताप्राकृततनु, ६५ पराक्त्वे सत्यजडता, ६० प्राचीनग्रन्थपदवी, १२४ पराङ्कुशादिकानाद्यान् , ९४ प्रारब्धं कर्म भुक्त्वैव, ९७ पराङ् नित्यविभूतिश्च, ४ प्लक्षद्वीपं ततोऽपीक्षु, ५२ परिच्छिन्नमधोदेशे, ६१ फलभक्तिस्तु भगवद् , ८१ परिणामयितृत्वेन, १०४ फलाभिसंधिरहितं, ७८ पुण्यपूरुषनिष्ठापि, १३ बद्धेषु तत्तिरोभूतं, ७३ पुराणोक्तक्रमादस्मात् , ६६ बद्धो मुक्तो नित्य इति, ५, ८९ पुष्करद्वीपमभितः, ५३ बाधितश्चेति पञ्चैते, १९ पूर्वभागः कर्मपरः, २३ बुद्धयादयोऽष्टौ विज्ञाने, १२२ पूर्वानुभूतविषय, ८७ बुभुक्षुश्च मुमुक्षुश्च, ९ पृथिवीजलतेज:सु, ११९ ब्रह्मादिस्तम्बपर्यन्ताः, ८९ पृथिवीजलयोश्चैतत् , ११८ भक्तप्रपन्नभेदेन, ६ पृथिव्यामेव गन्धः स्यात् , ११९ भक्ताः पूर्वोक्तभक्त्यैव, ९३ पृथ्व्यप्तेजोऽनिलव्योम, ४४ भक्तिप्रपत्तिसुप्रीतः, ७७ प्रकृति: काल इत्याद्या, ४ भक्तिप्रपत्त्योरधि, १२६ वेदान्तकारिकावली भक्तियोगोऽयमष्टाङ्गः, ७९ भगवद्भोगसंप्रात्यै, ९६ भगवन्नित्यसूरीणां, ४७ भास्वराभास्वरत्वाभ्यां, ११८ भिन्नान्याकल्पकल्पानि, ४५ भूतपञ्चकमव्यक्तं, ४५ भूतले तु घटाभावः, १४ भूतानां स्यादुपादानं, ३९ भूतानामेव सूक्ष्मैक, ३९ भूतानि भगवान् सृष्वा, ४३ भूतैर्महदहंकृत्योः, ४५ भूयिष्ठसाहचर्यैक, १८ भोगस्थानं तु भुवनं, ५१ भोगस्थानं तु माणिक्य, ६३ भोग्यभोगोपकरण, ५१, ६२ भोग्यमीश्वरदेहादि, ६३ मणिमन्त्रादिकेष्वेषा, १२१ मत्स्यादयस्तु विभवाः, ८ मध्यावस्थायुतं तेज:, ४१ मध्यावस्थायुतं वायु, ४१ मध्यावस्थायुतं वारि, ४२ मनः स्मृत्यादिहेतुत्वात् , ३६ मानं प्रत्यक्षानुमान, २ मानमेयविभेदेन, २ मुक्तस्य भोगमात्रे तु, ९९ मुक्तानां तु शरीरादि, ६३ मुक्तानामशरीरत्व, ६६ मुख्यौपचारिकत्वाभ्यां, २८ मुदमाधातुकामेन, १२५ मुमुक्षवः प्रपन्नाश्च, ९५ मुमुक्षुरपि कैवल्य, ६ मुमुक्षूणां च कैवल्य, ९१ मृघटस्य प्रागभावः, १४ मृद्धटादावपि ततः, १०७ मेषहस्तादिसंयोगः, १२० यः श्रीमच्छठमर्षण, १२६ यत्प्रमाविषयं तत्स्यात् , ३० यथा जीवोऽन्तराविष्टः, १०८ यथा नीलादयः शब्दाः, १०८ यथार्थ सर्वविज्ञानं, १३ यथावस्थितवस्त्वेक, ९ यद्धर्मभूतविज्ञान, ८६ योगजं तु स्वतः सिद्धं, १२ योनिजं देवमानुष्य, ४९ रक्षिष्यतीति विश्वासः, ८२ रजस्तमोभ्यामस्पष्टं, ११४ रजस्तमोविमिश्रं तु, ११४ रजो लोभप्रवृत्त्यादि, ११५ रमणत्यक्तपत्नीवत् , ९२ रसतन्मात्रमित्यस्मात् , ४१ रसनेन्द्रियनिर्ग्राह्यः, ११८ राजसाहक्रियायुक्त, ३८ रामकृष्णावतारादौ, ६५ रुद्राद्याराधनपराः, ९१ मूलस्थकारिकार्धानामनुक्रमणिका १३५ " रूपतन्मात्रमित्यस्माम् , ४१ रूपमात्रग्राहि चक्षुः, ३६ रूपशब्दस्पर्शरस, ४२ रूपशब्दस्पर्शवत्स्यात्, ४२ लये समानि चैतानि, ११५ लीलाविभूतावीशानः, ९७ वर्णनिर्णायिका शिक्षा, २७ वर्णोच्चारणहेतुर्वाक्, ३७ विकास इन्द्रियद्वारा, ७३ विजातीयान्तरावस्था, ५० विध्यर्थवादमन्त्रात्मा, २५ विनिर्मलान्तःकरणे, ७९ विभागकृत्समैः शब्दैः १०९ विभुद्वयस्य संयोगः, १२० विभूतिरियमीशस्य, ६७ विवेकादिभिरुत्पाद्या, ७९ विशिष्टमेव मुख्याथै, १०९ विशिष्टमेव श्रीमन्तं, ११० विशिष्टाद्वैतसिद्धान्त, १२४ विशिष्टाभेदतो भेद, १११ विषयो भोग्यमक्ष्यादि, ५१ विष्णोनित्यविभूति: स्यात् , ६१ वेदस्यापौरुषेयत्वात् , २२ वैकारिकस्तैजसश्च, ३४ वैकुण्ठं नाम नगरं, ६८ व्यभिचारी विरुद्धश्च, १९ व्यष्टिसृष्टिरिति द्वधा, ५० व्याकृतिश्चेति वेदस्य, २६ व्यात्युक्तिपूर्वदृष्टान्त, २१ व्याप्यस्य पक्षवृत्तित्व, १८, २१ शब्दः पञ्चसु भूतेषु, ११९ शब्दतन्मात्रमस्माच्च, ४० शब्दमात्रग्रहे शक्तं, ३६ शब्दस्वाभाव्यजा कापि, १४ शरीरं द्विविधं नित्यं, ४७ शरीरवाचकाः शब्दाः, २८ शरीराद्यपृथग्भावात् , ११० शाकद्वीपं तत: क्षीर, ६३ शीतोष्णादिप्रभेदस्तु, ११७ शुद्धसत्त्वं मिश्रसत्त्वं, ११४ शुद्धसत्त्वे धर्मभूत, ५९ श्रीपतेयूहविभव, ६३ श्रीमद्रमाधवोपज्ञं, १ श्रीमद्वेकटदासेन, १२५ श्रोत्रग्राह्यो गुणः शब्दः, ११७ श्वेतरक्त पीतकृष्णे, ११८ संकर्षणश्च प्रद्युम्नः, संकल्पयुक्त एवैषः, १०३ संकोच इन्द्रियद्वारा, ७३ संकोचनविकासाभ्यां, ७३ संख्यादिगुणवर्गस्य, १५ संचारकारणं पादः, ३८ संदिग्धसाध्यकः पक्षः, १८ संयुक्तप्रत्यये हेतुः, १२० वेदान्तकारिकावली ० संयोगाभावरूपत्वात् , १२२ संयोगाभावरूपो हि, १२१ स च देहेन्द्रियादिभ्यः, ८६ सत्त्वं रजस्तम: शब्द, ८ सत्त्वैकमूर्तिको देशः, ६१ स त्रिधापूर्वनियम, २५ सत्सङ्गादर्थवैराग्ये, ९५ सत्सङ्गादिति सुश्लोक, ९८ सदृशादृष्टचिन्ताद्यैः, १३ सद्ब्रह्मात्मादयः शब्दाः, १०५ समर्पयेऽस्मत्कारिका, १२६ सर्व ब्रह्मेत्यैतदात्म्यं, ११ सर्वमेतद्वैमभूम्या, ५३ सर्वशब्दैकवाच्यत्वं, २८ सर्वहेतुषु हेतुत्व, १२१ सर्वाधिकारितां धीराः, ९६ सर्वापि ब्रह्मविद्येयं, ८२ सविकल्पो निर्विकल्पः, १० स सूक्ष्मचिदचिन्मिश्रः, १०२ सहकारित्वमप्यस्य, १०५ साक्षात्कारप्रमाहेतुः, १० साक्षादितरथा वापि, ७९ साध्यसाधनभक्तिभ्यां, ९४ साध्याभावाधिकरणा, १८ सामानाधिकरण्येन, ११० सामान्य समवायश्च, १४ सा संशयान्यथाज्ञान, ९ सिद्धे व्युत्पत्तिसद्भावात् २२ सुसूक्ष्मचिदचिद्युक्तं, १०६ सूत्रकारविरुद्धं यत् , १५ सेयं विभूतिरीशस्य, ६२ सेयं साधनभक्ति: स्यात्, ८० सैव धर्मिविपर्यासे, १० सौशब्द्याय व्याकरणं, २७ स्थावरं जङ्गमं चेति, ४९ स्थितस्थापकमेतस्मिन् , १२२ स्पर्शतन्मात्रकं रूप, ३९ स्पर्शतन्मात्रमस्माच्च, ४१ स्पर्शस्त्वगिन्द्रियग्राह्यः, ११७ स्मृतिः प्रमैव प्राचीन, १२ स्मृतिवत्प्रत्यभिज्ञापि, १३ स्मृत्यादयो ज्ञानभेदाः, ७६ स्वप्रकाशं स्वतो मानं, ७४ स्वयंप्रकाशरूपेयं, ६१ स्वरूपभिदया भेद, १११ स्वान्यनिर्वाकत्वेन, ७४ स्वासाधारणधर्मो हि, १४ स्वेच्छया सर्वलोकेषु, ९९ स्वेच्छा च हरि संकल्प-, ९९ स्वेतराखिलशेषित्वं, १०२ हरेस्तांस्तु विजानीहि, ६५
APPENDIX II
व्याख्यानोदाहृतप्रमाणानामनुक्रमः
अगसामग्रयसंपत्तेः, ८३ ल. त. १७, ६७.
अचेतना परार्था च, ३२, ५७. परम. १.
अजामेकां लोहित, ५६ श्वे. ४-५.
अजोऽपि सन्नव्ययात्मा, ४८ भ. गी. ४-६.
अतः श्रीराम्नायः, १२५ श्री. को. ३०.
अत्रायं पुरुषः, ८९ बृ. ४. ३-९.
अथातः क्रत्वर्थ, २५ मी. सू. ४-१-१.
अथातः शब्दोपस्थापितः, २४ श्रुत. १-१-१.
अथात: शेषलक्षणम् , २९ मी. सू. ४-१-१.
अधिकारस्य चासिद्धेः, ८३ ल. त. १७, ६८.
अनन्यसाध्ये स्वाभीष्टे, ७७ नाव्य.
अनावृत्तिः शब्दात्, १०० ब्र.
सू. ४-४-२२.
अनिर्वाच्याविद्या, १०३ भाम. १-१-१.
अनुमितिविषये, ३३ त. मु. ५-१३६.
अनेन जीवेनात्मना, १०५, १०७, १०९, छा. ६-३-२.
अन्तर्बहिश्च तत्सर्वे, ११७ म. ना. ११-६.
अपरस्मिन्नपरं. ५५ वै-सू. २-२-६.
अपाङ्गा भूयांसः, १२५ श्री. को. ३०.
अप्रकाशोऽप्रवृत्तिश्च, ११६ म. गी. १४-१३.
अप्रमेयं हि तत्तेजः, १२५ रामा. ३-३७-१८.
अप्राप्ते तु विधीयन्ते, ५९ त. वा. २-२-३.
अप्रार्थितो न गोपायेत्, ८३ ल. त. १७-७२.
18
वेदान्तकारिकावली
अभिधेयः पदार्थः, ३ लक्ष.
अरं च ण्यं चार्णवौ, ५९ छा. ८-६-४.
अलब्धनिर्गमस्तिष्ठन् , ९७ वशी. ६.
अव्यक्तमक्षरे, ३३ सु. २.
अशरीरं वाव, ६२, ६६ छा. ८-१२-१.
अष्टौ स्थानानि, ३७ पा. शि. १३.
अस्मदाचार्य, २, नित्या- १.
अहरहः संध्याम्, २६.
आकाशमिन्द्रियेषु, ४७, सु. २.
आख्यारूपादिभेदः, ८२ अधि. ३-३-५६.
आचार्याणामसौ, १.
आत्मनि खल्वरे, १०४ बृ. ४-५-६.
आत्मैवेदमग्र आसीत्, १०५ बृ. १-४-१.
आदित्यवर्ण तमसः, ६९ श्वे. ३-८.
आनन्दं नाम तं, ६२.
आनुकूल्यमिति प्रोक्तं ८३ ल. त. १७-६९.
आ प्रायणात्तत्रापि, ८० ब्र. सू. ४-१-१२.
आयुःसत्त्वबलारोग्य, ११६ भ. गी. १७-८.
आर्तो जिज्ञासुरर्थार्थी, ९१ भ. गी. ७-१६.
आहारा राजसस्येष्टाः, ११६ भ. गी. १७-९.
इच्छा द्वेषः सुखं दु:खं, ४६ भ. गी. १३-६.
इति या गर्वहानिस्तत् ; ८३ ल. त. १७-६९.
इत्थं पञ्चीकृतैः, ४४ त. मु. १-१७.
इदं सर्व यदयमात्मा,
१०५ बृ. २-४-६.
इन्द्रियाणि दशैकं च, ४५, ४६ भ. गी. १३-५.
इमं मानवमावर्त, १०० छा. ४-१५-६.
इमान् लोकान्, ९९ तै. ३-१०.
व्याख्यानोदाहृतप्रमाणानामनुक्रमः
इषे त्वा, २९ तै-सं. १-१-१-१.
ईशेशितव्यसंबन्धात् , ८३, ल. त. १७-७०.
उच्छिष्टमपि चामेध्यं, ११६ भ. गी. १७-१०.
उत्क्रान्तिगत्यागत्यादीनां, ८६ ब्र. सू. २-३-१९.
उत्सर्गेणापवादं, ११३ अधि. ३-२-११.
उपज्ञोपक्रम, १ अष्टा. २-४-२१.
उपरागे स्नायात्, २६.
उपायभक्तिः प्रारब्ध, ८४ न्या. सि. २.
उपायभक्तिरेतस्याः, ८४, ९४ न्या. सि. २.
उपाया नैव सिध्यन्ति, ८३ ल. त. १७-१८.
उपायो भक्तिरेवेति, ८४, ९४ न्या. सि. २.
उभयात्मकमत्र, ३९ सां. का. २७.
उभयाधिष्ठानं चैकं, ६६ षडर्थ.
ऊर्ध्व गच्छन्ति सत्त्वस्थाः, ११६. भ. गी. १४.१८.
एको ह वै नारायणः, १०५ म. ना. १.
एको हि रुद्रः, १०४ महो. १.
एतत्क्षेत्रं समासेन, ४६ भ. गी. १३-६.
एवमेवेमाः सर्वाः, ५८ छा. ८-३-२.
एवं शान्ते विरोधे, ११३ अधि. ३-२-११.
एष हि द्रष्टा श्रोता, ८८ प्र. ४-९.
एषोऽणुरात्मा, ८६ मु. ३-१-९.
ऐतदात्म्यमिदं सर्वं, १११ छा. ६-८-७.
कटुम्ललवणात्युष्ण, ११६ भ. गी. १७-९.
करुणावानयि व्यक्तं ८३ ल. त. १७-७१.
कर्मयोगस्तपस्तीर्थ, ७९ गी. सं. २३.
कल्पश्चेति षडङ्गानि, २६.
कालं स पचते, ३१, ६७ शान्ति. १९६-९.
१४०
वेदान्तकारिकावली
कृभ्यस्तियोगे, ७१ अष्टा. ५-४-५०.
केशवार्पणपर्यन्ता, ८३ ल. त. १७-७३.
क्रियार्थोपपदस्य च, १२६ अष्टा. २-३-१४.
क्षयन्तमस्य रजस:, १९ तै. आ. २-२-१२-६.
क्षरं त्वविद्या, ३२ श्वे. ५.१.
क्षरं प्रधानं, ३२ श्वे. १-१०.
क्षरः सर्वाणि, ३२ भ. गी. १५-१६.
गुणाद्वा लोकवत्, ८७ ब्र.
सू. २-३-२५.
गोपायिता भवेत्येवं, ८३ ल. त. १७-७२.
ग्राह्यत्वं ग्राहकत्वं च, ७५ वाक्य. १-६५.
घ्राणरसनाचक्षुः, ४६ न्या. सू. १-१-१२.
चतुर्विधा भजन्ते मां, ९१, भ. गी. ७-१६.
चित्रया यजेत पशुकामः, ११३ तै. सं. २-४-६-१.
चेतश्चक्रति, ६६.
चोदनालक्षणार्थो धर्मः, ९० मी. सू. १-१-२.
छागस्य वपाया मेदसः, १०७ तै. आ. ३-६-८.
जघन्यगुणवृत्तस्थाः ११६ भ. गी. १४-१८.
जननमरणकारणानां, ८७ सां. का. १४.
जानात्येवायं पुरुषः, ८६.
जायमानं हि पुरुषं, ८१ शान्ति. ३५८-७३.
जिह्वामूलं च दन्ताश्च, ३७ पा. शि. १३.
ज्योतिष्टोमेन स्वर्गकामः, २६.
ज्योतींषि विष्णु:, २९ विष्णु. २-१२-३८.
ज्ञानं यदा तदा विद्यात्, ११६ भ. गी. १४-११.
ज्ञानकर्माभिनिवर्त्यः, ७८ गी. सं. ३.
ज्ञानमर्थप्रकाशः, ३ त-मु. २-३.
ज्ञानमावृत्त्य तु तमः, ११५ भ. गी. १४-९.
व्याख्यानोदाहृतप्रमाणानामनुक्रमः
ज्ञानयोगो जितस्वान्तैः, ७९ गी. सं. २३.
ज्ञोऽत एव, ८६ ब्र.
सू. २-३-१८.
ज्योतिष्टोमेन स्तर्गकामः २६. तै. ब्रा. १-६-११.
तत्क्षेत्रं यच्च यादृक् च, ४६ भ. गी. १३-३.
तत्तेजोऽसृजत, ४५. छा. ६-२-३.
तत्त्वमसि, १११ छा. ६-८-७.
तत्र चान्यत्र च प्राप्तौ, २६ त. वा. १-२-४.
तत्रानन्दमयाः, ६२.
तत्सर्व धर्मवीर्येण, १२.
तत्सृष्ट्वा, १०९ तै. २-६-१.
तथैव प्रातिकूल्यं च, ८३ ल. त. १७, ६६.
तदनु प्रविश्य, १०९ ते. २-६-१.
तदेकोपायतायाञ्चा, ७७ नाव्य.
तदेतद् ब्रह्म, १०६ बृ. १-४-१५.
तदेवाग्निस्तद्वायुः, २९ म. ना. १-७.
तदेवानुप्राविशत्, १०९ तै. २-६-१.
तदैक्षत बहु स्यां, १०५, १०९ छा. ६-२-३.
तद्गुणसारत्वात्, ७२ ब्र. सू. २-३-२९.
तद्धेदं तहव्याकृतमासीत् . ६० बृ. १-४-७.
तद्विप्रासो विपन्यवः, ६७, ९४ ऋ. १-२२-२१.
तद्विष्णोः परमं, १९ तै. सं. १-३-६-२.
तमस्येतानि जायन्ते, ११६ भ. गी. १४-१३.
तया सहासीनं, ६९ स्तो. र. ३९.
तस्मादपि षोडश, ३८ सां. का. २२.
तस्मान्न्यासमेषां, ८२ म. ना. २४-१.
तस्यारो हृदः, ५९ कौ. १-२२.
तृतीयस्यामितः, ५९ छा. ८-६-३.
१४२ वेदान्तकारिकावली तेन मायासहस्र, ३२ विष्णु. १-१९-२०. तेन संरक्ष्यमाणस्य, ८३ ल. त. १७-७३. तेऽपि मामेव कौन्तेय, ९७ भ. गी. ९-१३. त्यागो गर्वस्य कार्पण्यं, ८३, ल. त. १७, ६७. त्रयं सुविदं कार्य, २ मनु. १२-१०५. त्रैलोक्यस्यास्य, ५८ कू. पु. ४४. दह्यमानेन्धनान्त:स्थः, ९७ वङ्गी. ६. दिव्यं ददामि ते चक्षुः, १२ भ. गी. ११-८. ११-८. दैवी ह्येषा गुणमयी, ८० भ. गी. ७-१६. दोषप्रहाणान्न ज्ञानं, ७२ वि. ध. १०४-६५. द्वा सुपर्णा सयुजा, १११ श्वे..४-६-१११. द्वधा जडाजडतया, ४ न्या. सि. १. द्वेधा भूतानि, ४४ त. मु. १.१७. न तत्र सूर्यो भाति, ७० क. ६-१५. न तस्य प्राकृता, ८४ व. पु. ३४-४०. न भूतसंघसंस्थानः, ६३. शान्ति. २०६-६०. नमस्ते अस्तु, १०६ काठ. १. न विज्ञातुर्विज्ञाते:, ७२ बृ. ४-३-३०. न हि द्रष्टुदृष्टेः, ७२, ८६ बृ. ४-३-२३. न हिंस्यात्सर्वा भूतानि, ११३. नानात्मानो व्यवस्थातः, ८७ वै. ८७ वै. सू. ३-२-२०. नानाविधशक्तिमयी, ६५ त. प्र. ३-४. नानावीर्याः पृथग्भूताः, ६० विष्णु. १-२-५२. नायमात्मा प्रवचनेन लभ्यः, ८१ क. १-२३. नाशक्नुवन्प्रजाः स्रष्टुं, ५० विष्णु. १-२-६२. निक्षेपापरपर्यायः, ८३ ल. त. १७-७४. नित्यः संकीर्त्यते नाम, ५८ कू. पु. ४४.
व्याख्यानोदाहृतप्रमाणानामनुक्रमः
निरञ्जनं, ११२ श्वे. ६-१९.
निरञ्जनः परमं, ९९ मु. १-३.
निराधारं निराश्रयं, ७२ तेजो. ६.
निर्गुणं, ११२ चू. १४.
निवासशय्यासन, ६९ स्तो. र. ४०.
नेह नानास्ति किंचन, १०७ बृ. ४-४-१९.
न्यासादेव निरङ्कुश, ९८ पर. १
पञ्च पञ्चनखा भक्ष्याः, २५ रामा. ४-१७-३७.
पतिं विश्वस्य, १०७ म. ना. ११-३.
परं ज्योतिरुपसंपद्य, ७६, ९९ छा. ८-३-४.
परमं साम्यमुपैति, ७३ मु. ३-१-३.
परास्य शक्तिः, ७२ श्वे. ६-८.
पशुना यजेत, १०७.
पुरुषबहुत्वं सिद्धं, ८७ सां. का. १८.
पूर्वपदात्संज्ञायामगः, १०६ अष्टा. ८-४-२.
पृथगात्मानं प्रेरितारं, १११ श्वे. १-६.
प्रकृति स्वामधिष्ठाय, ४८ म. गी. ४-६.
प्रकृतिश्च प्रतिज्ञा, १०२ ब्र.
सू. १-४-२३.
प्रकृतेर्महांस्ततः, ३८ सां. का. २२.
प्रत्यक्षमनुमानं च, २ मनु. १२-१०५.
प्रधानक्षेत्रज्ञपतिः, १११, ११३ श्वे. ६-१६.
प्रधानपुंसोः, ३२ कू. पु. ५४.
प्रपन्नादन्येषां, ८१ र. सा. ८.
प्राकृतः प्रतिसर्गोऽयं, ५८ कू. पु. ४४.
प्राप्योऽहं नान्यथा प्राप्यः, ७८.
प्रायणान्तमोंकारं, ८० प्र. ५-१.
प्रेतान् भूतगणांश्चान्ये, ११६ भ. गी. १७-४.
वेदान्तकारिकावली
फणामणिबात, ६९ स्तो. र. ३९.
बन्धाय विषयासङ्गि, ३६ विष्णु. ६-७-२८.
बहु स्यां प्रजायेय, १०३ ते. २-६-१.
बाणाः खानि, ६६.
बालस्य रक्षता, ३२ विष्णु. १-१९-२०.
बुद्धिर्नवनवोन्मेष, १३ रुद्र.
बुद्धीन्द्रियाणि, ३५ सां. का. २६.
ब्रह्मणा विपश्चिता, ९३, ९९ ते. २-१-१.
ब्रह्मलोकमभिसंपद्य, १०० छा. ८-१५-१.
ब्रह्म वा इदमग्रे, १०९ बृ. १-१०.
ब्रह्मैवेदं सर्वे, १११ नृ. उ. ७.
ब्राह्मणेभ्यो वेदविद्भयः, १०९ ते. आ. २-१५.
ब्राह्मो नैमित्तिको नाम, ५८ कू. पु. ४४.
भक्तया परमया वापि, ७८.
भवन्ति तपतां श्रेष्ठ, १२१ विष्णु. १-३-३.
भागो जीवः स विज्ञेयः, ८६ श्वे. ५-९.
भाविभवद्भूतमयं, ५५ त. प्र. ३-४.
भूतविशेषगुणोप, ४६ न्या. सू. ३-१-५९.
भोक्ता भोग्यं प्रेरितारं, ८८ श्वे. १. १२.
भोगमात्रसाम्यलिङ्गाच्च, ९९ ब्र. सू. ४-४-२१.
मध्यमे भगवत्तत्व, ७८ गी. सं. ३.
मन एव मनुष्याणां, ३६ विष्णु. ६-७-२८.
महदादि विशेषान्त, ५८ कू. पु. ४४.
महाभूतान्यहंकारः, ४५, ४६ भ. गी. १३-५.
मामेव ये प्रपद्यन्ते, ८० म. गी. ७-१६.
मायां तु प्रकृति, ३२, १०१ श्वे. ४-१०.
मुक्तोऽचिदिनपूर्व, ९८ पर, २०
व्याख्यानोदाहृतप्रमाणानामनुक्रमः
१४५
मूर्त ब्रह्म ततः, ६३ चतुः. ४.
यः पृथिवीमन्तरः, १०६ बृ. ३-७-३.
यजन्ते सात्त्विका देवान् ११६ भ. गी. १७-४.
यजेत स्वर्गकामः, २५.
यतोऽतो ब्रह्मणस्तास्तु, १२७ विष्णु. १-३-२.
यतो वा इमानि, ११२ ते. ३-१-१.
यतो वाचो निवर्तन्ते, ७० ते. २-४-१.
यत्करोषि यदश्नासि, १२६ भ. गी. ९-२७.
यत्तपस्यसि कौन्तेय, १२६. भ. गी. ९-२७.
यथा न क्रियते ज्योत्स्ना, ७२ वि. ध. १०४-६५.
यथा मृत्पिण्डेन, १०४ छा. ६-१-४.
यथार्थ सर्वविज्ञानं, ४४ श्रीभा. १-१-१.
यद्वा शब्दादिभेदात् , ८२ अधि. ३-३-६६.
यमेवैष वृणुते, ८१ क. २-२३.
यस्मिन् पञ्च, १०७ बृ. ४-४-१७,
यातयामं गतरसं, ११६ भ. गी. १७-१०.
यानुभूतिरजामेया, ७४ इष्ट. १.
यो ब्रह्माणं विदधाति १ श्वे. ५-१८.
ये त्वन्यदेवताभक्ताः ९७ भ. गी. ९-२३.
योऽयं संदृश्यते नूनं, ५८ कू. पु. ४४.
यो वेदेदं जिघ्राणि, ८६ छा. ८-१२-४.
रक्षिष्यत्यनुकूलानः, ८३ ल. त. १७-७०.
रजः सत्त्वं तमश्चैव, ११६ भ. गी. १४-१०.
रजस्तमश्चाभिभूय, ११६ भ. गी. १४-१०.
रजस्येतानि जायन्ते, ११६ भ. गी. १४-१२.
रस्याः स्निग्धा: स्थिराः, ११६ भ. गी. १७-८.
लक्ष्मीनाथसमारम्भा २, नित्या. १.
9
वेदान्तकारिकावली
लभते च तत: कामान् , ९७ भ.गी. ७-२२.
लोभः प्रवृत्तिरारम्भः, ११६ भ. गी. १४-१२.
वसन्ते वसन्ते यजेत, २७ आप. श्री. १०-२-६.
वाक्पाणिपाद, ३५ सां. का. २६.
वायुर्वै क्षेपिष्ठा, २९ तै. सं. २-१-१.
वालाग्रशतभागस्य, श्वे. ५-९.
विज्ञानं ब्रह्म, ७२ ते. २-५-१.
विज्ञानमानन्दं, ७१ बृ. ३-९-२८.
विधिरत्यन्तमप्राप्ते, २६ त. वा. १-२-४.
विश्वं नारायणं, १०६ म. ना. ११-२.
विश्वं पुराणं, ६९ म. ना. १-९.
विष्णुर्नारायणः, १०६ नाम. १-१-१८.
विहितत्त्वाचाश्रमकर्मापि, ९३ ब्र. सू. ३-४-३२.
ब्रीहीनवहन्ति, २५ आ. श्री. १-१९-११.
व्यवहारानुगुण्यवचनः, ३ आत्म.
शक्तयः सर्वभावानां, १२१ विष्णु. १-३-२.
शक्तिः शक्ता न वेति, १२२ त. मु. ५-१००.
शक्तेः सूपसदत्वाच्च, ८३ ल. त. १७-६९.
शब्दादिष्वस्ति, १२२ त. मु. ५.१००.
शरीरभेदैस्तव ६९ स्तो. र. ४०.
शिक्षा व्याकरणं छन्दः, २६.
श्रीवैकुण्ठमुपेत्य, ९८ पर. २.
षोढा त्रिगुणानेहः ४ न्या. सि. १.
संघातश्चेतना धृतिः, ४६ भ. गी. १३-६.
संन्यासस्त्याग इत्युक्तः, ८३ ल. त. १७-७४.
संपद्याविर्भावः, ९९ ब्र. सू. ४-४-१.
स खल्वेवं वर्तयन् , ८० छा. ८-१५-२,
व्याख्यानोदाहृतप्रमाणानामनुक्रमः
स च यो यत्प्रभावश्च, ४६ भ. गी. १३-३.
सच्च त्यच्चाभवत् , १०९ ते. २-६-१.
सत्यं ज्ञानमनन्तं, ७१ तै. २-१-१.
सत्यकामः सत्यसंकल्पः, ११३ छा. ८-१-५.
सत्त्वं सुखे सञ्जयति, १७५ भ. गी. १४-९.
सत्सङ्गाद्भवनि:स्पृहः, ९८ पर. १.
सदेव सोम्येदम् , ६९, १०५, १०७, छा. ६-२-१.
सप्तद्वीपा वसुमती ५२ म. भा. १-१-१.
स ब्रह्मा स शिवः, २९, १०९ पु. सू.
सर्वं खल्विदं ब्रह्म, १११ छा. ३-१४-१.
सर्वद्वारेषु देहेऽस्मिन् , ११६ भ. गी. १४-११.
सर्वे वेदा यत्पदमामनन्ति, २९ क. २-१५.
सर्वेषु लोकेषु कामचार: ९९ छा. ८-१-६.
स विश्वासो भवेच्छक, ८३ ल. त. १७-७१.
सहस्रस्थूणे विमिते, ५९ जे. ब्रा. ४-३८४.
सात्त्विकः स तु विज्ञेयः ८१ शान्ति. ३५८-७३.
साधनं भगवत्प्राप्तौ, ८४, ९४ न्या. सि. २.
साध्यभक्तिस्तथा सैव, ८४, ९४ न्या. सि. २.
साध्यभक्तिस्तु सा, ८१, ८४ न्या. सि. २.
सोऽकामयत बहु स्यां, ७२ तै. २-६-१.
सोऽरोदीत् , २५ तै. सं. १-५-१.
सोऽश्नुते सर्वान् , ९३, ९९ ते. २-१-१.
स्नेहपूर्वमनुध्यानं, ७७ लि. पु. उत्तर. ९-१९.
स्वकीयेनात्मना, ६९ गी. र. ७.
स्वाभाविकी ज्ञानबलक्रिया च, ११३ श्वे. ६-८.
हीश्च ते लक्ष्मीश्च १०७, १२५. ते. आ. ३-१३-२.
No text on this page.
ABBREVIATIONS USED IN THE APPENDIX II अधि. तै-आ. तै-ब्रा. तै-सं. नाव्य. नाम. ऋ. नित्या. अधिकरणसारावलिः अष्टा. अष्टाध्यायी. आत्म. आत्मसिद्धिः आप-श्रौ. आपस्तम्बश्रौतसूत्रम् इष्ट. इष्टसिद्धिः ऋग्वेदः क. कठोपनिषत् काठ. काठकम् काव्य. काव्यप्रकाशः कू-पु. कूर्मपुराणम् कौ. कौषीतक्युपनिषत् गी-सं. गीतार्थसंग्रहः चतु:. चू. चूलिकोपनिषत् छा. छान्दोग्योपनिषत् जै-ब्रा. जैमिनीयब्राह्मणम् त-प्र. तत्त्वप्रकाशिका त-मु. तत्त्वमुक्ताकलापः त-वा. तन्त्रवार्तिकम् तेजो. तेजोबिन्दूपनिषत् तै. तैत्तिरीयोपनिषत् नृ-उ. न्या-सि. न्या-सू. पर. परम. पा-शि. पु-सू. प्र. तैत्तिरीयारण्यकम् तैत्तिरीयब्राह्मणम् तैत्तिरीयसंहिता नाट्यशास्त्रम् नामलिङ्गानुशासनम् नित्यानुसंधानम् नृसिंहोत्तरतापिन्युपनिषत् न्यायसिद्धाञ्जनम् न्यायसूत्रम् परमार्थस्तुतिः परमसंहिता पाणिनीयशिक्षा पुरुषसूक्तम् प्रश्नोपनिषत् बृहदारण्यकोपनिषत् ब्रह्मसूत्रम् भगवद्गीता भामती महानारायणोपनिषत् मनुस्मृतिः महाभाष्यम् चतुःश्लोकी बृ. ब्र-सू. भ-गी. भाम. म-ना. मनु. म-भा.
१५० वेदान्तकारिकावली महो. मी-सू. मु. र-सा. रामा. महोपनिषत् मीमांसासूत्रम् मुण्डकोपनिषत् रहस्यत्रयसारः रामायणम् रुद्रकोशः लक्षणावली लक्ष्मीतन्त्रम् लिङ्गपुराणम् वङ्गीश्वर कारिका वराहपुराणम् वाक्यपदीयम् वि-ध. विष्णु. वै-सू. शान्ति. श्री-को. श्रीभा. श्रुत. श्वे. षडर्थ. सां-का. सु. स्तो-र. विष्णुधर्मः विष्णुपुराणम् वैशेषिकसूत्रम् शान्तिपर्व श्रीगुणरत्नकोशः श्रीभाष्यम् श्रुतप्रकाशिका श्वेताश्वतरोपनिषत् षडर्थसंक्षेपः सांख्यकारिका सुबालोपनिषत् स्तोत्ररत्नम् लक्ष. ल-त. लि-पु. वङ्गी. व-पु. वाक्य. ERRATA Page 25 Line 9 45 5 Read 'Stand' तत्तेजो रुत्पाद्या " For Stands तत्तजो रूत्पाद्या 79 Last "