Sanmati Library, Jaipur

Sankhesutrvede

Babu, Chhedi Prasad · 2010/02

PDF Proofread

Front matter

No text on this page.

ओ३म्
सांख्यसूत्रवैदिकवृत्तिः
अर्थात्
श्रीमन्महर्षिकपिलमणीतसूत्राणां वेदानुसारिणी वृत्तिः ।
श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्यात्माराम
भगवत्पादशिष्यण.
श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्यपण्डितस्वामि
ज्वाहिरदासभगवत्पादाधिगतवेदवदाङ्गविद्येन ।
श्रीमन्निखिलशास्त्रनिष्णातपण्डितस्वामि
हरिप्रसादेन निर्मिता।
सान्च
विहारमान्तीय भागलपुरनिवासि महामान्य श्रीयुत चौधरी बाबू छेदी
प्रसाद हरिमोहनमिश्र बैजनाथ मण्डल महाशयैः।
मुम्बय्यां
"श्रीवेङ्कटेश्वर" यन्त्रालयेऽज्ञायित्वा प्राकाश्यनीता
सम्बत् १९६२.
प्रथमावृत्तिः १०००
मूल्यं )
१८६७ तम निस्ताव्दिक २५ तम राजनियमानुसारेण राजलेखन संबंध
पण्डितदेवदत्तशम्ायत्तीक्तोऽय ग्रन्थ ।

No text on this page.

अथ साङ्ख्यदर्शनम् । - द्रष्टव्यं यो विवेकेन प्रधानपुरुषेश्वरम् । व्याचख्या मोक्षकामानां वन्दे तं कापलं वरम् ॥ १ ॥ सांख्यसिद्धान्तजिज्ञासुबालधीबोधहेतवे। पुण्यां कपिलसूत्राणां वैदिकी वृत्तिमारभे ॥२॥ अथ परमपुरुषार्थसाधनत्वेनेप्सिततमप्रकृतिपुरुषविवेकमत्ययं विस्तरे- गोपदिदिक्षुः करुणैकनिलयो भगवान् कपिलाचार्यस्तदुपदेशपरं शास्त्रमा- रममाणः परमपुरुषार्थस्वरूपं दर्शयन् तदारम्भन्तावत्पतिजानीते- "अथ विविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थ ॥१॥ अथेति शास्त्रारम्भमाह । त्रिविधदुःखात्यन्तनिवृत्तिः आध्यात्मिका- धिभौतिकाधिदैविकति तिस्रो विधा यस्य,तव त्रिविधं, तच दुःखश्चेति त्रि- विधदुःखं, तस्य याऽत्यन्तनिवृत्तिः अन्तमतिकान्ता बाधिताबाधितसाधार. प्येन निःशेषतोनिवृत्तिः सोऽत्यन्तपुरुषार्थः अन्तमतिक्रान्तः पुरुषमानेणा- थनीयः परमपुरुषार्थ इत्यर्थः । भोगापवर्गों हि पुरुषार्थो । यकृते प्रधानप्रवृत्तिरिति सांख्याः । तत्र भौगस्तावजन्यभावतया नान्तमतिकामति । तेनेष पुरुषार्थोऽपि नात्यन्त- पुरुषार्थः। अन्तमतिकामतःपुरषार्थस्यैवात्यन्तपुरुषार्थत्वात् । अत एव तत्सा- धनोपदेशपरं शास्त्रमपि नारम्भणीयम् । मन्दप्रयोजनत्वापत्तेः । किन्तु दुःखा- त्यन्तनिवृत्तिसाधनोपदेशायैव । यतो दुःखात्यन्तनिवृत्तिवान्तमतिकामन्ती (२) सांख्यदर्शनमूत्रवृत्तौ। पुरुषमात्राभिलाषगोचरतया परमपुरुषार्थ इति । तथाच-'पुरुषमानाभि- लाषगोचरदुःखात्यन्तनिवृत्तिलक्षणपरमपुरुषार्थसाधनस्य मकृतिपुरुषविवेकम- त्ययस्योपदेशपरम् । “अथेत्यादि,"पुरुषार्थ इत्यन्तं षडध्यायात्मकं शास्त्रमेतदारब्धमिति सूत्रार्थो निष्पन्नः । यद्यपि सांख्यानां दुःखादि सर्व बुद्धरेव ।नपुरुषस्यात्मनः ।तस्य कूटस्थ नित्यत्वेन दुःखादिपरिणामानभ्युपगमात् । तथापि दुःखादिमत्या बुद्धेःसन्निधा नाव पुरुषस्यात्मनः तत्र मतिबिम्बिततया बुद्धरेव वा तत्र प्रतिबिम्बिततया दुःखादिच्छायापत्तौ विवेकग्रहाभावेन सूर्ये बिम्बे जलकम्पादिवदौपाधिक पुरुषेऽपि दुःखादिसर्वमस्त्येव, तेन तदत्यन्तनिवृत्तिः परमपुरुषार्थ इत्युपपद्यते। निवृत्तिश्चात्र न ध्वंसः । सांख्यानांसत्कार्यवादित्वेनाभावपदार्थानङ्गीकारात्, किन्वतीतानागतावस्थयोरेव तेषां ध्वंसमागभावस्थानितयाऽतीतावस्थैव । तस्याश्चात्यन्तत्वं तदुःखानागतावस्थयाऽसहवृत्तित्वमिति । तत्र चातीतं दु:खं स्वयमेवातीतावस्थां यातम् । वर्तमानश्च भोगारूढतया क्षणान्तरे स्वयमेव यास्यति । परिशेषादनागतं दुःखमेवातीतावस्था यापनीयम् । तद्यथोक्नं समानतन्त्रेऽपि । यो. पा. २ सू. १६ । 'हेयंदुःखम- नागतम्' इति । तस्य चात्मनि पुरुषेऽविवेकमूलकतया विवेकमत्यय एव सम्यगुच्छेदोपायो नान्यः कश्चनेति तदुपदेशाय शास्त्रारम्भ इति भावः, तत्रात्मानं शरीरंमनश्वाधिकृत्य प्रवृत्तंव्याध्यागुत्थं कामक्रोधाद्युत्थञ्च दुःखमाध्यात्मिकम् । भूतानि-माणिनो व्याघ्रचोरादीनधिकृत्य प्रवृत्त दुःखमाधिभौतिकम् । देवान=विद्युदग्निवाय्वादीनधिकृत्य प्रवृत्तं दाहाद्युत्थं दुःखमाधिदैविकम्।यद्यप्यतत्सर्व दुःखं मानसमेव, तथापि मनोमात्रजन्य- त्वाजन्यत्वाभ्यां विशेष इति विवेकः ॥ १ ॥ नतु भवतु त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः, तथापि सा दृष्टो- पायादेव सेत्स्यति । कृत बहायाससाध्येन शास्त्रीयोपायेन विवेकमत्ययेन । तत्राह- -- -- प्रथमोऽध्यायः ।। "न दृष्टात्तत्सिद्धिनिवृत्तेऽप्यनुवृत्तिदर्शनात्" ॥२॥ दृष्टात् लोकसिद्धादौषधाधुपाया : तत्सिद्धिः तस्याखिविधदुःखात्य- न्तनिवृत्तेः सिद्धिा-निष्पत्तिर्न-न भवति । कुतः ? निवृत्तेपि-लोकसिद्धो- पायेन कथञ्चिनिवृत्तेऽपि दुःखऽनुवृत्तिदर्शनाव-कालान्तरे पुनस्तदनुवृत्तिदर्श- नादित्यर्थः। नात्यन्तनिवृत्तं पुनरनुवर्तते । तस्मान तेन तदत्यन्तनिवृत्तिरिति भावः ॥ २॥ नन्वेवन्तर्हि दृष्टोपायजन्यायास्तदुःसनिवृत्तीकसिद्ध पुरुषार्थत्वं न स्यात् । तत्राह- प्रात्यहिकात्मतीकारक्त्तत्पतीकारचेधनात्पुरु- षार्थत्वम्" ॥३॥ दृष्टादित्यनुवर्तते । मात्यहिकात्मतीकारवत 'उपसर्गस्य पनि इति वा दीर्घः । प्रतीकारो निवृत्तिमा न त्वत्यन्तनिवृत्तिः । प्रात्यहिका भत्यहं जायमानो यःक्षुत्मतीकारः भोजनादितः क्षुतः बुभुक्षायाः प्रतीकार: निवृत्तिमानं तदत-तस्य यथा पुरुषार्थत्वं, तथा 'यदा दुःखं तदा तत्मतिक- तैव्यम्' इतिन्यायेन दृष्टाद-दृष्टोपायतोऽपि तत्मतीकारचेष्टनाव-तस्याध्या- त्मिकादिदुःखस्य यः प्रतीकार:-निवृत्तिमात्रं, तस्य चेष्टनात् अन्वेपणात कथदिजायमानायास्तदुःखनिवृत्तेः पुरुषार्थत्वं पुरुषार्थत्वमानं न त्वत्यन्त- पुरुषार्थत्वमित्यर्थः ॥ ३॥ ननु तथापि पुरुषार्थोऽसौ दृष्टोपायजन्यो दुःखमतीकारः पुरुपैरुपादेयः किन्नस्यादित्याशंक्य पुरुषैरुपादेयोऽपि निपुर्हय एवेत्याह- "सर्वासंभवात् संभवेऽपि सत्तासंभवाद्धयः प्रमाण- कुशलैः ॥॥४॥ दृष्टादित्यनुवर्तते। दृष्टादृष्टोपायादेकस्मिन् कस्मिश्रिमतिकृतेऽपि दुःखे १ अष्टा अ०६ पा०३ सू० १२२ । - - (४) सांख्यदर्शनसूत्रवृत्तौ। सर्वासंभवाद-सर्वेषामाध्यामिकादीनां तेषां प्रतीकारासंभवात् । संभवेऽपि कथञ्चित्काकतालीयन्यायेनस्थूलरूपतया तत्प्रतीकारसभवेऽपि सत्तासभवात् सूक्ष्मरूपाणांतेषां सत्तायाः संभवाव अवश्यंभावाद हेयः सर्वसाधारणवत् परमपुरुषार्थत्वबुद्ध्या नोपादेयो दृष्टोपायजन्यो दुःखमतीकारः प्रमाणकुशलैः= निपुणैरित्यर्थः ॥ ४॥ हेयत्वे हेत्वन्तरमाह- "उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः॥५॥ हेयः ममाणकुशलरित्यनुवर्तते । मोक्षस्प शास्त्रीयोपायजन्यस्य दुःखात्य- न्तनिवृत्तिलक्षणस्य कैवल्यस्योत्कर्षादपि दृष्टोपायनन्यदुःखमतीकारापेक्षयौ- त्कृष्टयादपि हेयः स प्रमाणकुशलैरिति पूर्ववत् । ननु मोक्षोत्कर्षे कि मानम् । तत्राह-सर्वोत्कर्षश्रुतेः 'अंशरीरं वाव सन्तं न प्रिया- प्रिये स्पृशतः॥ 'एषास्य परमागतिरेषास्य परमा संपत्' इति सर्वस्माद दृष्टोपायजादुःखमतीकारान्मोक्षस्यौत्कृष्ट्यश्रुतरित्यर्थः ॥ ५ ॥ ननु माभूट्ट दृष्टोपायाद् दुःखात्यन्तनिवृत्तिः । अदृष्टोपायात्तु वैदि- ककर्मणःस्यात् । तत्राह- " अविशेषश्चोभयोः"॥ ६॥ एवार्थश्चः । उभयोः दयोदृष्टादृष्टयोलौकिकवैदिकोपाययोरविशेषश्च दुः खात्यन्तनिवृत्त्यसाधकतायामविशेष एव-विशेषो नास्त्येव-तौल्यमेवेत्यर्थः यथा दृष्टोपायस्यौषधादेर्नदुःखात्यन्तनिवृत्तिसाधकत्वम् । तथाऽदृष्टो पायस्यापि केवलयज्ञादेवैदिककर्मण इति भावः ॥ ६ ॥ ननु दुःखात्यन्तनिवृत्तेक्षित्वाइःखयोग एव बन्धो वक्तव्यः, सच स्वाभाविकश्चेत् कथं दृष्टादृष्टोपायवच्छास्त्रीयोपायेन विवेकमत्ययेनापि निव १ छान्दो०प्रपा०८ खं१२-१०।२ वृहदा०अ०६घा०३-३२. - - (६) सांख्यदर्शनसूत्रवृत्तौ। अत्र स्वाभाविकापायवादिमतमाशंकते । "शुक्लपटवदं बीजवञ्चेत् ॥ १० ॥ ननु शुक्लपटवत् यथा शुक्लपटस्य रागेण स्वाभाविकं शौक्ल्यं बीनवत् यथा वा वीजस्य वह्निना स्वाभाविकं तत्तदंकुरजननसामर्थ्यमपैति, तथा पुरुषस्यापि स्वाभाविको बन्धः शास्त्रीयोपायेनापैष्यति न कश्चिदोष इति चोदित्यर्थः ॥१०॥ समाधत्ते । "शतयुद्भवानुद्भवाभ्यां नाशक्योपदेशः ॥११॥ नाशक्योपेदशः उक्तोदाहरणाभ्यामप्यशक्योपदेशो न भवति । कुतः ? शक्युद्भवानुभवाभ्याम् उत्तेजकेन मतिबन्धकेन च तत्तच्छतेरुदवानुग- वाभ्यां सर्वत्रोत्पादापायव्यवहारयोरभ्युपगमादित्यर्थः । तथा च शुक्लपटबीनयोरपिरागेण वहिनाचमतिबन्धकेन शौषल्यांकुरश- क्योरनुभव एव जायते नात्यन्तापायः। रजकस्य व्यापारण योगिनःसंकल्पेन चोत्तेजकेन पुना रक्तपटभृष्टवीजयोस्तयोः शौक्ल्यांकुरशक्त्योराविभवस्योप- लब्धः । तस्मानास्तिकुत्रापि स्वाभाविकस्यापायः शक्यनिदर्शन इति न पुरुषस्य स्वाभाविको वन्ध इति फलितम् ॥ ११ ॥ ननु मास्तु पुरुषस्य स्वभावतो बन्धः। कालवादिनो मे कालतो निमि- त्ताभविष्यति, तत्राह- "नकालयोगतोव्यापिनोनित्यस्यसर्वसंबन्धात्॥१२॥ निमित्तं तसिलर्थः । पुरुषस्य बन्ध इति मकरणलाभः । नन्नापि कालयोगतः कालसंबन्धनिमित्तकः पुरुषस्य बन्धः । कुतः ? व्यापिन:- सर्वपदार्थसयोगिनो नित्यस्य-सततस्य त्वदभ्युपगतकालपदार्थस्य सर्वस- वन्धात सर्वतः सर्वदा मुक्तामुक्तसर्वपुरुषसंयोगादित्यर्थः । वन्धकस्य कालस्य मुक्तामुक्तसर्वपुरुषसंवन्धाविशेषादमुक्तस्येव मुक्तस्यापि बन्धापत्तरिति भावः। -- प्रथमोऽध्यायः। (७) सांख्यानां तु क्षणात्मकः कालो नित्यः तदन्यः सर्वोऽप्यनित्य इत्यये विस्सष्टम् । अत्र चं प्रकरणे कालदेशकर्मादीनां निमित्तत्वसामान्य नापलप्यते । श्रुतिस्मृतियुक्तिभिः सिद्धत्वात् । किन्तु यनैमित्तिकत्वं पाकजरूपादिनिमि- त्तजन्यत्वं तदेव प्रतिषिध्यते । पुरुषवन्धस्यौपाधिकत्वाभ्युपगमात्' इति भाष्यकृतः ॥१२॥ एतेनैव हेतुना दिग्योगतोऽपि पुरुषस्य बन्धं निराचष्टे । न देशयोगतोऽप्यस्मात् "॥ १३ ॥ देशयोगतोऽपि-दिसंबन्धनिमित्तकोऽपि न-पुरुषस्य बन्धो न । कुतः? अस्मात् व्यापिनो नित्यस्य सर्वसंबन्धादित्यर्थः । कालवद् दिशोऽपि मुक्तामुक्तसर्वपुरुषसंबन्धाविशेषादमुक्तस्यव मुक्त- स्यापि बन्धापत्तरिति भावः ॥ १३ ॥ नन्वस्तु तीवस्थातो बन्धस्तत्राह- "नावस्थातो देहधर्मत्वात्तस्याः"॥ १४ ॥ अपिरनुवर्तते । नाप्यवस्थातः बाल्यकौमारयौवनादिलक्षणावस्थातः पुरुषस्य बन्धः । कुतः ? तस्याः अवस्थाया देहधर्मत्वात् आत्मातिरि- तस्यानात्मनो देहस्य धर्मत्वादित्यर्थः ॥ १४ ॥ ननु देहधर्मत्वेऽपि पुरुषस्यात्मनो धर्मः किं न स्यात्, तबाह- "असङ्गोऽयं पुरुष इति" ॥ १५ ॥ इतिशब्दो हेतुमाह । यतोऽसंगः न विद्यते संगः केनापि कथमपि विकारहेतुसंबन्धविशेषो यस्य, स तथाय-अत्यगात्मा पुरुष इति-अतोऽव. स्थाया देहमात्रधर्मत्वमेव न पुरुषधर्मत्वमित्यर्थः । अन्यथा देहवत्पुरुषस्यापि परिणामिता स्यादिति भावः ॥ १५॥ ननु मा भूत् कलादियोगतः पुरुषस्य बन्धः। कर्मणा भविष्यति, तवाह- . ।

- , (८) साख्यदर्शनसूत्रवृत्तौ। "न कर्मणाऽन्यधर्मवादतिप्रसक्तेश्च" ॥ १६ ॥ नं-नापि कर्मणा-विहितेन वा निषिद्धन वाकर्मणा पुरुषस्य बन्धः। कुतः, अन्यधर्मत्वात् कर्मणस्तस्य पुरुषातिरिक्तदेहादिधर्मत्वात् । अन्यधर्मेणान्यस्य बन्धांगीकारेऽतिप्रसक्तेश्च अन्यत्वाविशेषादमुक्तस्येव मुक्तस्यापि बन्धापत्तेश्चे- त्यर्थः ॥ १६ ॥ दूषणान्तरमाह- "विचित्रभोगानुपपत्तिरन्यधर्मत्वे" ॥१७॥ अपिरनुवर्तते । अन्यधर्मत्वे बन्धकस्यकर्मणः पुरुषातिरिक्तदेहादिधर्म- त्वेऽपि पुरुषवन्धहेतुतायामभ्युपगतायां विचित्रभोगानुपपत्तिः अनुभूयमानस्य विचित्रस्य=मिथो विलक्षणस्य भोगस्य-पुरुषाणां सुखदुःखानुभवात्मकस्य भोगस्यानुपपत्तिः अव्यवस्थितिः-संगतिर्न स्यादित्यर्थः । न ह्यनादिसंसारे केनापि सुखहेतु कर्म वा दुःखहेतु कर्म वा न कृतम् । अन्यधर्मणान्यत्र कार्यजनने तु नियमाभावात् सर्वे सुखिनो वा दुःखिनो वा मादुःष्युरिति भावः ॥ १७॥ नन्वस्तु तर्हि साक्षात्मकृतिनिमित्ततः पुरुषस्य वन्ध इत्याशक्य नेत्याह- प्रकृतिनिबन्धनाचेन्न, तस्या अपि पारतन्त्र्यम् ॥१८॥ ननु प्रकृतिनिबन्धनाच्चेव साक्षात्मकृतिनिमित्ताच्चेत्पुरुषस्य बन्ध इति न । कुतः? यतस्तस्या अपि-प्रकृतेरपि बन्धकतायां पारतन्त्र्यम् अविवेककृतसं- योगविशेषपराधीनत्वमस्तीत्यर्थः। नहि प्रकृतिरन्तरेणाविवेककृतसंयोगविशेष कस्यापि साक्षाव-संबन्ध- सामान्याद्वन्धिका भवति । भवेच्छेत् । तदा तस्या व्यापकतया सामान्यतः सर्वपुरुषसंवन्धाविशेषान्मुक्तस्यापि बन्धः स्यादिति भावः ॥ १८ ॥ ननु स्वभावतो वा निमित्ततो वा पुरुषस्य वन्धो नास्ति चेत्तर्हि कस्मात्तस्य बन्धस्तवाह- - प्रथमोऽध्यायः। (९) "न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्योगस्तद्योगाते"१९ नित्यत्व-कूटस्थनित्यत्वम् । शुद्धत्वं गुणासंगित्वम् । बुद्धत्वं अलुप्त- चिद्रूपत्वम् । मुक्तस्वभावत्वं=मुक्तशीलत्वम् । न नित्यशुद्धबुद्धमुक्तस्वभावस्य पुरुषस्यात्मनस्तद्योगः बन्धयोगः बन्ध इति यावत् तद्योगाइते अविवे- ककृतप्रकृतिसंयोगविशेष विना संभवतीत्यर्थः । अविवेककृतः प्रकृतिपुरुषसयोगो बन्धहतुरिति परमार्थः । तथा चोक्तं समानतन्त्रेऽपि । यो० पा० २ सू० १७ । 'द्रष्टदृश्यसंयोगो हेयहेतुः' इति । प्रकृतिपुरुषसंयोगस्य च बन्धकस्याविवेककृतत्वमग्रे पञ्चपञ्चाशत्तमे सूत्रे वक्ष्यते । तस्मादविवेककृत एवबुद्धिसत्वोपाधिकः पुरुषस्य बन्धो न स्वभावसिद्धो न वा निमित्तजन्य इति भावः ॥ १९ ॥ ननु नास्माभिः प्रकृत्यादिवाह्यं वस्त्वन्यदभ्युपगम्यते येनाविवेककृतत- संयोगविशेषादौपाधिकः पुरुषस्य बन्धः स्यात् । किन्तु चित्तापरपर्याय क्षणि- कविज्ञानमेवाद्वितीयं पारमार्थिकमात्मतत्वम्।तस्य च संसारलक्षणः सर्वोऽपि बन्धः सांवृत्तिकः । सवृत्तिरवस्तुभूतानिर्वचनीयाऽविद्या तन्मात्रविलसित इति यावदिति बौद्धभेदेषु योगाचाराभिमतं बन्धकारणन्तावनिराकुरुते । "नाविद्यातोऽप्यवस्तुनाबन्धायोगात्" ॥२०॥ अपि शब्दः पूर्वोक्तकालाद्यपेक्षया। तद्योग इत्यनुवर्तते । अविद्यातोऽ- पि-त्वदभ्युपगतसंवृत्तितोऽपि पुरुषस्य तद्योगः बन्धयोगो न-न संभवति । कुतः? अवस्तुना=अवस्तुभूतया-मिथ्याभूतयाऽनिर्वचनीयया त्वदभ्युपगत- याऽविद्यया पुरुषस्य बन्धायोगात स्वामरज्ज्वेव बन्धानौचित्यादित्यर्थः । इदमत्र बोध्यम् । यद्यपि वैदिकदर्शनेषु सांख्ययोगन्यायवैशेषिक- पूर्वोत्तरमीमांसास्वपिबन्धहेतुतयाऽस्त्यविद्याभ्युपगमः । तथापि सा नेदृशी। यथा सौगतैरभ्युपगम्यते । किन्तु तदिलक्षणा चित्तधर्मोऽपि वासनारूपेणा- १ नादिमियाज्ञानलक्षणाऽविवेकापरप-यैव, इति ॥ २० ॥ .

(१०) सांख्यदर्शनसूत्रवृत्तौ। ननु नाविद्या सर्वथाऽवस्तु । येन तया बन्धनं न स्यात् । तत्राह- "वस्तुत्वे सिद्धान्तहानिः ॥२१॥ वस्तुत्वे अविद्याया वस्तुत्वे सिद्धान्तहानिः सिद्धान्तस्य-स्वाभ्युपग- तस्य तदनृतत्वस्य हानिः हानं स्यादित्यर्थः ॥ २१ ॥ दूषणान्तरमाह- "विजातीयद्वैतापत्तिश्च" ॥ २२ ॥ वस्तुत्वे इत्यनुवर्तते । अविद्याया वस्तुत्वे विजातीयदैतापत्तिश्च स्यादि- त्यर्थः । सन्तानान्तःपातिव्यक्तीनामानन्त्यांत्सजातीयद्वैतमिष्यत एवेत्या- शयेन विजातीयद्रतमिति विशेषणमिति भाष्यकृतः ॥ २२ ॥ शंकते- " विरुद्धोभयरूपा चेत् ॥ ॥ २३ ॥ ननु नाविद्याऽवस्तुभूता। नापि वस्तुभूता । किन्तु विरुदोभयरूपान वस्तु, नावस्तु-वस्त्ववस्तुविलक्षणेति यावत् । वस्त्ववस्तूभयरूपा वेति चोदित्यर्थः॥२३॥ निराचष्टे- "न तापदार्थाप्रतीतेः॥ ॥ २४ ॥ न यदुक्तं तन । कुतः ? तापदार्थामतीतेः जगति तादृशो वस्त्वव स्तुविलक्षणवस्त्यवस्तुभयरूपन्य पदार्थस्यामतीतः अमसिद्धरित्यर्थः॥२४॥ पुनराशकते। "न वयं षट्पदार्थवादिनो वैशेषिकादिवत्" ॥ २५ ॥ ननु न वयम् अतिनोवौदा वैशपिकादिवतन्नैयायिक आदिपदार्थः। कणभक्षामचरणा इव पशदार्यवादिन. उपलक्षणतत पटपांडशनियत- पदार्थवदनशीलाः । तेनाप्रतीतोऽपि मिथ्याभूताविद्यालक्षणम्तादृकपदा- याऽन्युगेनन्य इत्यर्थः ॥ २५ ॥ पारदरात ।

प्रथमोऽध्यायः। (११) "अंनियतत्वेऽपि नायौक्तिकसंग्रहोऽन्यथाबालोन्मत्ता- दिसमत्वम्" ।। २६॥ अनियतत्वेऽपि वैशेषिकादिवत्पदार्थनियमाभावेऽपि नायौक्तिकस्य युक्ति मसहमानस्य लोकामसिद्धवस्त्ववस्तुविलक्षणवस्त्ववस्तूभयात्मकस्य कस्य चित्पदार्थस्य संग्रहः स्वीकारो भवदचनमात्रादर्हति भवितुम् । अन्यथा अयौक्तिकस्यापिसंग्रहे • वालोन्मत्तादिसमत्वं व्युत्पत्तिशून्यो बालः उन्मत्तो विभ्रान्तः । तदादितुल्यत्वं सङ्ग्रहीतुः स्यादित्यर्थः । तथा च लोकापसिद्धमिथ्याभूताविद्यायाः संग्रहासंभवान तया पुरुष स्यात्मनोदुःखयोगलक्षणो बन्धः शक्यसभव इति भावः । एतेन शांकरं मतमप्यपास्तं वैदितव्यम् । तत्रापि योगाचारवदनिर्वचनी याविद्यया पुरुषस्य बन्धो विद्यया च मोक्ष इत्यभ्युपगमात् ॥ २६ ॥ ननु वाह्य विषयनातमपलपतो योगाचारस्य तादृशाविद्यया क्षणिक- विज्ञानात्मनः पुरुषस्य बन्धो माभूत् । अनादिविषयवासनानिमित्ततो भवि- ष्यति । परमाणुपुन्नात्मनो बाह्यविषयजातस्यावयोः सौत्रान्तिकवैभाषिकयो- रङ्गीकारात, तत्राह- "नानादिविषयोपरागनिमित्ततोऽप्यस्य" ॥ २७ ॥ अस्य क्षणिकविज्ञानात्मनःपुरुषस्यानादिविषयोपरागनिमित्ततोऽपि प्रवाहरूपेणानादियों विषयोपराग:-उपरअकस्य बाह्यविषयस्य वासनालक्षणः सम्बन्धविशेषः । तनिमित्ततोऽपि तन्निमित्त कोऽपि न बन्धो नेत्यर्थः । मोक्षहेतोर्भावनापचयस्य स्थिरैकाश्रयाभावेन विशेषानाधायकतया वासनोच्छेदकत्वानुपपत्तौ विगतविषयाकारोपप्लवविशुद्धविज्ञानसन्तानोदयल- क्षणमोक्षानुपपत्तेरितिभावः ॥ २७ ॥ किञ्च- "न बाह्याभ्यन्तरयोरुपरज्योपराकभावोऽपि, देश- व्यवधानात्, घुघ्नस्थपाटलिपुत्रस्थयोरिव ॥ २८ ॥ - (१२) सांख्यदर्शनसूत्रवृत्तौ । वाह्याभ्यन्तरयोः विषयविज्ञानयोरुपरश्योपरञकभावोऽपि-परस्परमुपर- अकत्वमुपरभ्यत्वमपि न-न घटते । कुतः ? देशव्यवधानाद-मध्ये शरीररूपदेशेन व्यवधानात् । तत्रोदाहरणम्-सुघ्नस्थपाटलिपुत्रस्थयोरिव यथा सुनस्थपाटलिपुत्रस्थयाःपुष्पस्फटिकयोर्देशव्यवधानान्न परसरमुपरयो परञ्जकभावो घटत इत्यर्थः । यथा हि वैदिकैरात्मातिरिक्त चित्तं तद्व्यतिरिक्तश्च ज्ञानेन्द्रियपश्चकं जीवात्मनि पुरुषे विषयसमर्पणायाभ्युपगम्यते । न तथा बौद्धैरभ्युपेयते । येन वैदिकानामिव परम्परयाऽप्यात्मनि विषयोपरागःसंभवेत् । तेहि क्षणिक- मेव चित्तमात्मा । तस्यैव क्षणिकं विज्ञान, क्षणिका च बुद्धिरिति नामान्त- रम् । ज्ञानेन्द्रियपश्चकञ्च नगोलकव्यतिरिकं विषयसमर्पकमित्यभ्युपयन्ति । तस्मात्तेषां समर्पकान्तराभावनात्यन्तव्यवहितयोर्दैहाभ्यन्तरवाह्यदेशस्थयो- श्चित्तचैत्तयोः परस्परमुपरज्योपरनकभावोऽपि नोपपद्यत इति भावः॥२८॥ ननु क्षणिकमपि विज्ञानात्मा चित्त न देहाभ्यन्तरमेव । किन्तु बहिरन्तःसर्वतः पूर्णमिति न विषयोपरागानुपपत्तिस्तत्राह- "द्वयोरेकदेशलब्धोपरागान व्यवस्था" ॥ २९ ॥ एवन्तर्हि क्षणिकविज्ञानवादिनस्ते द्वयोः बद्धमुक्तात्मनोरुभयोरविशेषेणै- कदेशलब्धोपरागाव-भावप्रधानो निर्देशः । एकस्मिन् विषयदेशे लब्धो विषयोपरागो याभ्याम्, तयोर्भावस्तत्त्वम्, तस्मान व्यवस्था बन्धमोक्षव्यव- स्था नस्यादित्यर्थः ॥ २९ ॥ अहटतो व्यवस्थां चोदयति । "अदृष्टवशाञ्चेत् ॥ ३० ॥ ननु बद्धमुक्तात्मनोर्विषयसंयोगसाम्येऽपि यस्यादृष्टमस्ति, तस्यैवादृष्ट- वशादिषयोपरागलाभोनान्यस्य मुक्तस्यादृष्टाभावादिति न वन्धमोक्षाव्यवस्थेति चेदित्यर्थः ॥ ३०॥ भङ्गयन्तरण दूपयति ..- -- ३ प्रथमोऽध्यायः (१३). "न द्वयोरेककालायोगादुपकाय्ोपकारकभाव"३१॥ तथापि बौद्धस्य ते चित्तस्यात्मनः क्षणिकत्वाभ्युपगमायोः अदृष्टस्य कर्तृभाक्तचित्तात्मनोरेककालायागात् समानकालकत्वाभावान्नोपकार्योपकार कभावान कर्तृचित्तनिष्ठादृष्टेन भोक्तचित्तनिष्ठो विषयोपरागलक्षण उपकारः संभवतीत्यर्थः ॥ ३१ ॥ एककालायोगेऽप्युपकार्योपकारकभावं शङ्कते। "पुत्रकर्मवदितिचेत्" ॥ ३२ ॥ ननु यथा पितृनिष्ठेन गर्भाधानादिना कर्मणा तद्भिनकालकस्य पुत्रस्य संस्कारलक्षण उपकारो भवति, तथानापि कर्तृनिष्ठादृष्टेन भातृनिष्ठे विषयोपरागलक्षण उपकारः सेत्स्यतीति चेदित्यर्थः । पुत्रकर्मवत् तदसमा नकालकपितृकृतपुत्रसंस्कारककर्मवदित्यक्षरार्थः ॥ ३२ ॥ दृष्टान्तासिझ्या परिहरति । "न, अस्ति हि तत्र स्थिर एकात्मा, यो गर्भाधाना दिना संस्क्रियते ॥ ३३ ॥ न-यद्भवतोक्तं, तद्युक्तंन । कुतः ? हि-यस्मात् । तत्र-येषां वैदिकाना मुदाहरणं, तेषां सिद्धान्ते । यः यो जीवात्मा । गर्भाधानादिना गर्भ पात्रशोधनपूर्वकगर्भनिषको गर्भाधानं, गर्भः शुद्धतयाऽऽधीयतेऽनेनेति तदव्यु पत्तेः। तदादौ यस्य संस्कारकर्मणस्तेन संस्क्रियते-सतोऽर्थस्य गुणान्तराधा संस्कारस्तातो विधीयते । सोऽस्ति-विद्यते स्थिरः स्थास्नुरेकात्मा-एको जीवात्मा पुरुष इत्यर्थः। भवसिद्धान्ते च स तथा नास्तीत्युदाहरणासिद्धिः। तदसिद्ध्याचादृष्टस्या- व्यवस्थापकत्वेन बन्धमोक्षव्यवस्थानुपपत्तौ तवस्थैव विषयोपरागनिमित्ततो- ऽप्यस्य बन्धानुपपत्तिरिति भावः ॥ ३३ ॥ अथ वन्धविषयं बौद्धमतं निराकृत्य 'ग्रामंगच्छन्' इति न्यायेन विशेष- तस्तन्मतं निराचिकीर्वभाषिकन्तावत्पुनरुत्थापयति ।

(१४) सांख्यदर्शनसूत्रवृत्तौ। "स्थिरकाOसिद्धेः क्षणिकत्वम्" ॥ ३४ ॥ ननु स्थिरका-सिद्धः स्थिरस्य स्थायिनः कार्य्यस्य एकस्यापि भाव- कार्यस्यासिद्धेः अनुपलब्धरुदाहरणाभावान कस्यापि भावपदार्थस्य स्थिर- त्वम् । किन्तु यत्सत् तत् क्षणिकं ' यथा दीपशिखा, सच्चेदं भावनातमिति भावमात्रस्य क्षणिकत्वं स्वोत्पत्तिक्षणमात्रावस्थायित्वं स्वोत्पत्त्यव्यवहितो- त्तरक्षणवृत्तिध्वंसप्रतियोगित्वमित्यर्थः ॥ ३४ ॥ दूषयति- "न प्रत्यभिज्ञाबाधात् ॥ ३५ ॥ क्षणिकत्वमित्यनुवर्तते। न कस्यापि भावपदार्थस्य क्षणिकत्वन्न । कुतः? मत्यभिज्ञावाधात-यदेवाहमद्राक्षं तदेवाहं स्पृशामीति प्रत्यभिज्ञया घटपटा- दिसर्ववस्तुषु वदावनुष्णत्वाभाववत् क्षणिकत्वाभावस्य निश्चयादित्यर्थः३५॥ ननु प्रत्यभिज्ञेयं सादृश्यमवलम्बताम् , को दोषस्तत्राह- "श्रुतिन्यायविरोधाञ्च" ॥ ३६॥ नेति पदमनुवर्तते। 'सदेवसोम्येदमय आसीत्' इत्यादिश्रुतिः। 'कथमसतः सज्जायेत' इत्यादिश्रौतन्यायः । ' असदैकरणात् ' इत्यादिस्मार्तन्यायो वा । ताभ्यामसत्त्वपतिषेधेन भावमात्रस्य सत्त्वप्रतिपा- दकाभ्यां विरोधाच-क्षणिकत्वानुमानस्य बाधाच न प्रत्यभिज्ञेय सादृश्याव- लम्बिनीभवितुमर्हतीत्यर्थः । अथवा दूषणान्तरमाह-'श्रुतिन्यायविरोधाच' । हेत्वन्त- रापेक्षया चः । न क्षणिकत्वमिति पददयमनुवर्तते । पूर्वोक्तश्रुतिन्यायविरो- धाचन क्षणिकत्वं कस्यापि भावस्येत्यर्थः ॥ १६ ॥ ननु श्रुतिन्यायाभ्यां भावमात्रस्य सत्त्वमवगम्यते, नाक्षणिकत्वम् तचास्माकमनुकूलमेव,नप्रतिकूलम् । यत्सत् तत् क्षणिकं यथा दीपशिखा। सच्चेदं भावजातमिति प्रयुक्तत्वाव, तत्राह- १ छाप्रपा०६-खं०२-१ १२ छाप्रपा० ६-खं०२-१ | ३ साका०९। - - है 1 प्रथमोऽध्यायः। १५.) "दृष्टान्तासिद्धेश्वर ॥३७॥ न क्षणिकत्वमिति पदव्यमनुवर्तते । दृष्टान्ते दीपशिखादौ,क्षणिकृत्वा- सिद्धेश्च न क्षणिकत्वं कस्याप्यमनुमातुं शक्यमित्यर्थः। - दीपशिखादौ हि सूक्ष्मानेकक्षणानाकलनमात्रेण -क्षणिकत्वभ्रमो न परमार्थतस्तथात्वमिति भावः ॥ ३७ ॥ किञ्च क्षणिकत्ववादे कार्यकारणभावोऽपि न संभवतीत्याह- "युगपजायमानयोन कार्यकारणभावः" ॥ ३८॥ युगपज्जायमानयोर्वा ऋमिकयोर्वा कार्यकारणभावो वक्तव्यः । तत्र युगपज्जायमानयोर्मुद्घटयोः सव्येतरविषाणयोरिव न कार्यकारणभावः शक्यसंभव इत्यर्थः । कारणस्य कार्यानियतपूर्ववृत्तित्वनियमादिति भावः ॥ ३८ ॥ अथ कमिकयोरिति चेत्, तबाह- "पूर्वापाये उत्तरायोगात् " ॥ ३९॥ न कार्यकारणभाव इत्यनुवर्तते । ऋमिकयोरपि कार्यकारणभावो न संभवति । कुतः? पूर्वापाये पूर्व कारणं, तदपायवेलायामुत्तरायोगात्-उत्त- रस्य कार्य्यस्योत्पत्तेरनौचित्त्यादित्यर्थः । नहि मृदपाये घट उत्पद्यते । कार्य्यस्योपादानकारणानुगततयैवानुभ- वादिति भावः ॥ ३९ ॥ किञ्च- " तद्भावे तदयोगादुभयव्यभिचारादपि न"॥४॥ कार्यकारणभाव इत्यनुवर्तते । भावमात्रस्य क्षणिकतया. तदावे-तयोः • पूर्वोत्तरयोः कारणकार्ययोभवि सन्वे । तदयोगात्-तयोरुत्तरपूर्वयोः कार्य कारणयोरयोगात्-असत्वादुभयव्यभिचारादपि-उभयोरन्वयव्यतिरेकयोःका- यकारणभावनियामकयोयभिचारादपि । न-कार्यकारणभावो नत्यर्थः । - , .. . 4 (१६) सांख्यदर्शनसूत्रवृत्तौ। अन्वयव्यतिरेकव्यभिचारस्यैव कार्यकारणभावविघटकत्वादिति भावः ॥ ४० ॥ ननु निमित्तकारणस्येवोपादानकारणस्यापि पूर्वभावमात्रेणैव कारणत्व- मस्तु किं तस्य कार्यकाले सत्वेन, तत्राह- पूर्वभावमात्रे न नियमः ॥४१॥ पूर्वभावमाने उपादानकारणस्य कार्यापेक्षया पूर्वभावमात्रेभ्युपगम्य- माने न नियमः इदमेवोपादानकारणं नेदमिति नियमो न स्यादित्यर्थः निमित्तकारणस्यापि पूर्वभावाविशेषादिति भावः ॥ ४१ ॥ योगाचारमतं निरस्यति। न विज्ञानमात्रं बाह्यप्रतीतः ॥ ४२ ॥ विज्ञानमात्रं-विज्ञानमेव । न-तत्त्वं न । कुतः ? बाह्यमतीतः-वि- ज्ञानवद् बाह्यार्थानामपि मतीतेरित्यर्थः ॥ ४२ ॥ ननु स्वाममतीतिरिवास्तु बाह्यमतीतिस्तत्राह- तदभावे तदभावाच्छून्यन्ताह " ॥ ४३ ॥ तर्हि बाह्याभावे शून्य-शून्यमेव प्रसज्येत । कुतः ? तदभावे-तस्य बाह्यार्थस्याभावे । तदभावात्-विज्ञानस्याप्यभावादित्यर्थः । नास्ति निविषयं किमपि विज्ञानम् । स्वप्रेऽप्यर्थीनामभ्युपगमादिति भावः ॥ ४३ ॥ शून्यवादिनमुत्थापयति । "शून्यं तत्वं, भावी विनश्यति, वस्तुधर्मवाद्वि- नाशस्य ॥४४॥ अस्तु तर्हि शून्यं तत्त्व-शून्यमेवैकं तत्वम् । कुतः? यतो भावो विनश्य- ति-यो यो भावः स सर्वो विनश्यत्येव । कस्मात् ? विनाशस्य वस्तुधर्म- त्वात् वस्तुनो भावमात्रस्य धर्मत्वात् स्वभावत्वादित्यर्थः । स्वभावस्तु निरनियोज्य इति भावः ॥ १४ ॥ - प्रथमोऽध्यायः। (१७) - - - . प्रत्याह- "अपवादमात्रमबुद्धानाम् ॥४५॥ अवुद्धानाम् अज्ञातशास्त्रतत्त्वानां शून्यवादिना माध्यमिकानामपवादमात्र 'यो यो भावः स सो विनश्यत्येव' इत्यपवादमात्रम् अपवादो मिथ्या- वादस्तन्मात्रमित्यर्थः। निरवयवभावानां विनाशासंभवादिति भावः ॥ ४५ ॥ किन्तर्हि विधेयं ? तत्राह- " उभयपक्षसमानक्षमत्वादयमपि ॥ ४६ ॥ उभयपक्षसमानक्षेमत्वा सौत्रान्तिकवैभाषिकयोदयोःक्षणिकवाह्यार्थस्ता वदेकः पक्षः । तद्भिवस्य च तृतीयस्य योगाचारस्य क्षणिकविज्ञान- मात्रं द्वितीयः पक्षः । तदेतदुभाभ्यां पक्षाभ्यां समानः-तुल्यः क्षेम:- रक्षणम्-तत्तन्निरासकहेतुभिर्निरसनकोटौ व्यवस्थापनं यस्य पक्षस्य । स तथा । तस्य भावस्तत्त्वं तस्मात तुल्यनिरसनहेतुकत्यादयमपि माध्यमि- कानां तुरीयः शून्यपक्षोऽपि तदुभयपक्षवत्परित्याज्य इत्यर्थः । नहि सर्व शून्यमित्यभ्युपगमे यदेवाहमद्राक्षं, तदेवाहम्' इत्यादिप्रत्यक्ष मत्यभिज्ञा " घटोऽयं पटोऽयमित्यादिप्रत्यक्षाभिज्ञा वा कथञ्चिदुपपद्यते । तस्मात्तदनुपपत्तिरेव क्षणिकबाह्यविज्ञानपक्षयोरिव तन्निरासे हेतुः । तान रस्यत्वाच्च तदुभयवदयमपि परिहेय इति भावः ॥ ४६ ॥ नतु नायं परित्याज्यः दुःखनिवृत्तितत्साधनयोरेकरूपत्वात् तत्राह- अपुरुषार्थत्वमुभयथा "॥ ४७ ॥ अपिरनुवर्तते । शून्यस्येति विपरिणम्यान्वयः । उभयथापि-मकारदये- नाप्यपुरुषार्थत्वं शून्यस्य पुरुषार्थत्वं न संभवतीत्यर्थः । आत्मनः 'शून्यभावो दुःखनिवृत्तिरूपतया तत्साधनरूपतया वा 1 (१८) सांख्यदर्शनसूत्रवृत्तौ। पुरुषार्थो नोपपद्यते । सर्वथाऽनिष्टत्वात् । तस्मात्परित्याज्य एवायं पक्ष इति भाव: ॥४७॥ ननु क्षणिकबाह्यार्थविज्ञानमात्रशून्यानां बौद्धपक्षाणामयुक्तत्वान्माभू- त्तदभ्युपगतविषयोपरागादितः पुरुषस्य बन्धो, गतिविशेषात्स तस्य भवि- ध्यति तत्राह- "न गतिविशेषात् " ॥४८॥ पुरुषस्य बन्ध इति.प्रकरणलाभः । न गतिविशेषाद-दिव्यादिव्यशरीर- प्रवेशादि लक्षणाद्गतिभेदात्पुरुषस्य बन्धो नेत्यर्थः ॥ ४८ ॥ अत्र हेतुमाह- "निष्क्रियस्य तदसम्भवात् "॥ ४९॥ निष्क्रियस्य-क्रियोपरिणामरहितस्यतदसंभवात गत्यसंभवादित्यर्थः॥४९॥ ननु पुरुषस्यमध्यमपरिमाणत्वमभ्युपगम्यते, न तेन तदसम्भवः, तबाह- "मूर्तत्वाद्घटादिवत्समानधर्मापत्तावपसिद्धान्तः॥५०॥ घयादिवत् यथा घटादेर्मूतत्वाव-मध्यमपरिमाणत्वात्सावयवत्वादिधर्म वत्वं, तथा पुरुषस्यापिमूर्तत्वात्समानधर्मापत्तौ घटादितुल्यसावयवत्वादि- धर्ममाप्तौ सत्यामपसिद्धान्तः सिद्धान्तस्य-स्वाभ्युपगतस्य पुरुषनित्यत्व- स्यापगतिः हानिः स्यादित्यर्थः ॥ ५० ॥ ननु निष्क्रियश्चेत् पुरुषः, तदा तस्य गतिप्रतिपादिका श्रुति स्तवापि कथमुपपद्येत, तत्राह- "गतिश्रुतिरप्युपाधियोगादाकाशवत्" ॥५१॥ त्वर्थोऽपि, पुरुषस्येति प्रकरणलाभः गतिश्रुतिरपि= "पुण्येन पुण्यं लोकं नयति, पापेन पापम्' इत्यादिकागतिश्रुतिस्तूपाधियोगात्- १ प्रश्नो ०२-७ - - - प्रथमोऽध्यायः। (१९) बुद्धिसत्त्वलक्षणोंपाधिसम्बन्धात पुरुषस्यगमनागमनप्रतिपादकतयोपपद्यते, तत्रोदाहरणमाकाशवत् यथानिष्क्रियस्याकाशस्यघटोदश्चनाद्यपाधिसम्ब- न्धात्तमनेनगमनं तदागमनेनचागमनमित्यर्थः । तत्राकाशविभु, पुरु- पश्चाणुरित्युदाहरणादाहरणिकयोधर्म्यम् निष्क्रियत्वञ्चतयोःसाधर्म्यम्,उपा- धिगमनागमनाभ्यामुपधेयगमनागमनमात्रे चोदाहरणमिति विवेकः ॥५२॥ नन्वस्तु तर्हि कर्मजन्यादृष्टेन बन्धः, तत्राह- न कर्मणाप्यतद्धर्मत्वात् ॥५२॥ कर्मणापि कार्ये कारणोपचारः। कर्मजन्यादृष्टेनापि न पुरुषस्य बन्धो न । कुतः ? अतधर्मत्वात अदृष्टस्य तद्धर्मत्वाभावादित्यर्थः । पूर्व विहितनिषिव्यापाररूपेण कर्मणा बन्धो निराकृतः । अत्र तु तज्जन्यादृष्टनेत्यार्थिकविभागादपौनरुत्त्यमिति भाष्यम् ॥ ५२ ॥ नन्वन्यधर्मेणाप्यन्यस्य बन्धः स्यात्, तत्राह- " अतिप्रसक्तिरन्यधर्मत्वे ॥५३॥ अन्यधर्मत्वे-वन्धतत्कारणयोभित्रधर्मत्वेऽतिप्रसक्तिः मुक्तस्याषिबन्धाप तिरित्यर्थः ॥ ५३॥ नन्यस्त्वदृष्टं पुरुषस्यैव धर्मः को विरोधः? तत्राह- " निर्गुणादिश्रुतिविरोधश्चेति"॥५४॥ इति शब्दो बन्धकारणपरीक्षासमाप्तिमाह । अदृष्टस्य पुरुषधर्मत्वे असं- गोह्ययं पुरुषः' इति गुणसङ्गप्रतिषेधेन निर्गुणतादिप्रतिपादकश्रुतिविरोध एव स्यादित्यर्थः। भाष्यकृतस्तु-'साक्षी चेता केवलो निर्गुणश्च । इत्यादिश्रु- तिविरोधश्चेत्यर्थः इत्याहुः । तन युक्तम् । उक्तश्रुतेरीश्वरविषयत्वावानि- र्गुणत्वमात्मनोऽसङ्गत्वादिश्रुतेः' इत्यग्रिमसूत्रविरोधाच्च ॥५४॥ १ वृ०अ० ६ बा०३-१५। २ श्वेताश्च० अ० ६ मं० ११ । ३ सा० अ० ६ सू० १०॥ - (२०) सांख्यदर्शनसूत्रवृत्तौ। ननु योऽयमेकोनविशसूत्रे प्रकृतियोगः पुरुषस्य वन्धहेतू रादान्तितः सोऽपि न संगच्छताकालादियोगवत्तस्यापि मुक्तवद्धयोः समानत्वावातवाह- "तद्योगोऽप्यविवकान समानत्वम् " ॥ ५५ ॥ पुरुषस्येति संबन्धः । तद्योगोऽपि-तच्छब्दः प्रकृतिमाह । पुरुषस्य प्रक तियोगोप्यविवेकात् निमित्तत्वं पञ्चम्यर्थः । अगृहीतासंसर्गकं प्रकृतिपुरुषोः भयविषयकं वृद्धिवृत्त्यात्मकं विपर्ययज्ञानमविवेकः अविद्यास्थलाभिषिक्त- सत्त्वपुरुषानन्यतामत्यय इति यावत । तस्मात्-तनिमित्तक इति यावत् । अतो न समानत्वं भकृतिसंयोगस्य मुक्तबद्धयोः कालादियोगवत्तुल्यत्वं नेत्यर्थः । मुक्तानामविवेकाभावादिति भावः। यथा च बुद्धिधर्मोऽप्यनादिरयमविवेकस्तथाग्रे विस्पष्ठयिष्यते ॥५५॥ नन्वविवेकस्यास्योच्छेदः कथं स्यात्, येन मोक्षो भवेत्, तत्राह- "नियतकारणात्तदुच्छित्तिान्तवत् ॥५६॥ नियतकारणात् नियतम् अविवकनाशकतया शुक्तिरूप्यादिभूमोनिभितं यतारण-विवेकमत्ययलक्षण कारणं तस्मानच्छित्तिः तस्याविवेकस्यो. च्छित्तिः उच्छेदः हानमिति यावत् । तत्रोदाहरणं वान्तवन्यथा ध्वान्त स्य-तमसो नियतकारणादालीकादुच्छित्तिरित्यर्थः । तदुक्तं योगशखेऽपि । स. पा. सू० २६ । 'विवेकख्यातिर विप्लवा हानोपाय इतिगविवकेनाविवेकनिवृत्ती तनिवन्धनः माह तिपुरुषसंयोगविशेपोऽपि निवर्तते । तनिवृत्ती च तत्मयुक्तदुःखात्यन्तनि- वृत्तिलक्षणो मोक्ष इति द्रष्टव्यम् ॥ ५६ ॥ ननुमतिपुरुषविवेकेन प्रकृतिपुरुषाविवेकोच्छेदेऽप्यन्याविवेकानुच्छेमात कथं मोक्षः स्यात ? तबाह- "प्रधानाविवेकादन्याविवेकस्य तद्धाने दानम् ॥५७|| (२१) . - Pr - प्रथमोऽध्यायः। प्रधानाविवेकात्मधानस्य मूलप्रकृतरविवेकात्-पूर्वोक्तलक्षणादविवेका- पुरुषेऽन्याविवेकस्य कार्य्यभूतमहत्तत्वाद्यविवेकस्य संभव- इति शेषः । अतस्तद्धाने तस्य प्रधानाविवेकस्य हानेसम्यगुच्छेदे हानम् अन्याविवेक- स्याप्युच्छेद इत्यर्थः। कारणनाशे कार्य्यनाशस्यावश्यकत्वान्न मोक्षानुपपत्तिरितिभावः ॥५७॥ ननु विवेकमत्ययेन मोक्षाभ्युपगमे बन्धादेरवश्यं वक्तव्यतया पुरुषस्य नित्यशुद्धबुद्धमुक्तस्वभावत्वं न स्यात्, तत्राह- "वाङ्मात्रं न तु तत्त्वं, चित्तस्थितेः॥५८॥ माङमा=मोक्षान्तं सर्व बन्धादिकं पुरुषे वाइमात्रं-स्फटिके लौहित्यव- दाचारम्भणमात्रं, नतु तत्वं-पुष्पेलौहित्यवदास्तवम् । कुतः? चित्तस्थितेः पुष्पेलौहित्यवत्सर्वेवा बन्धादीनां चित्त एवावस्थानादित्यर्थः । तथा च चित्तस्थितानामेव बन्धमोक्षविवेकाविवेकसुखदुःखप्रभृतीनां तत्सन्निधानात्पुरुषे प्रतिभासो न तु स्वत इति न तस्य नित्यशुद्धबुद्धमुक्त- स्वभावत्वहानिरिति भावः ॥ ५८ ॥ ननुबन्धादीनां पुरुष वाङ्मात्रत्वे श्रवणतो मननतो वावाधो भविष्यति। किं श्रुतिस्मृत्योः साक्षात्कारपर्यन्तेन मोक्षहेतुविवेकमत्ययोपदेशेन ? तत्राह- "युक्तितोऽपिन बाध्यते दिङ्मूढवदपरोक्षाहते"।५९॥ वाङ्मात्रमित्यनुवर्तते । वाइमात्रमपि पुरुषस्य बन्धादिकं सर्वमपरो- क्षाहते-विवेकसाक्षात्कारं विना युक्तितोऽपि न बाध्यते-श्रवणतो न बाध्यते इति किमुवक्तव्यम् ? युक्तितोऽपि युक्तिर्मननं ततोऽपि न बाध्यते न निव- यते । तत्रोदाहरणं दिङ्मूढवत्यथा दिङ्मूढस्य पुरुषस्य वाङ्मात्रमपि दिग्वैपरीत्यं दिक्साक्षात्कारं विना श्रवणमननाभ्यां न बाध्यते, तथेत्यर्थः । अपरोक्षभ्रमेणापरोक्षविशेषदर्शनस्यैव विरोधादिति भावः ॥ ५९ ॥ ननु येभ्यः प्रकृत्यादिभ्यः पुरुषस्य विवेकप्रत्ययो मोक्षकसाधनमुपदि- श्यते । तात्सादिः कथं स्यात् ? तत्राह- M (२२) सांख्यदर्शनसूत्रवृत्तौ। "अचाक्षुषाणामनुमानेन बोधोधूमादिभिरिव वः१६० अचाक्षुषाणां स्थूलभूतानि, तत्कार्यभूता देहादयश्च चाक्षुपा एव । न तत्साधनापेक्षा । ये चाचाक्षुषा:-चक्षुषा ग्रहणायोग्या: अप्रत्यक्षा इति यावत् । तेषामनुमानेन अनुमानप्रमाणेन बोधः सिद्धिर्भवतीति शेषः । तत्रोदाहरणं धूमादिभिरिव वतेः यथा धूमादिभिर्जनितेनानुमानेन वह्नेः सिद्धिरित्यर्थः ॥ ६० ॥ नतु कि तदनुमान येनाचाक्षुषाणां बोध इत्याशंत्य सामान्यतो दृष्टं कार्यलिङ्गकानुमानं तत्र प्रदर्शयितुं पूर्वन्तावत्मकृत्यादीनां तेषां मियः कार्यकारणभावमाह- "सत्त्वरजस्तमसा साम्यावस्था प्रकृतिः १ प्रकृतेर्म- हान् १ महतोऽहङ्कारः १अहङ्कारात्पञ्चतन्मात्राण्युभयामि- न्द्रियं १६ तन्मात्रेभ्यः स्थूलभूतानि ५ पुरुषः ? इति पञ्चविंशतिर्गणः"॥६१॥ सत्त्वरजस्तमॉसि न्याणि । नतु गुणाः । संयोगविभागलपत्वचलत्वगुरु- स्वादिधर्मकत्वात् । गुणशब्दप्रयोगस्तु तत्र रज्जुसाम्यात्पुरुषवन्धनहतुतयो- पचारिकः । तपां त्रयाणां या साम्यावस्था अन्यूनानतिरिक्तावस्था न्यूना- धिकभावेनासंहितावस्था, सा प्रकृतिः अधानम् । वस्तुतस्त्वका-वस्था- पलक्षितं गुणसामान्यं प्रकृतिः । यथाश्रुते वैषम्यावस्थायां प्रतिनाशमस- गादिति । महान् महत्तत्वं युद्धितत्त्वमिति यावत् । अहद्वारा अभिमान?- त्तिको बुद्धितत्त्वावस्थाभेदः । शब्दस्पर्शरूपरसगन्धाः पञ्च तन्मात्राणि । बाह्यमाभ्यन्तरश्चेन्दियमुभयमिन्द्रियम् । तत्रयात्रत्वचक्षुर्निद्रामाणाव्यानि । वारूपाणिपादपायूपस्थास्यानि च जानकर्मेन्द्रियाणि दा वायमिन्द्रियम । मनर्भकमाभ्यन्तरमिन्द्रियम् ।व्योमानिलज्योतिल्दकभुमयः पयसलभूता- नि । सनत्रानोपादाने पञ्चमी । दुनिया सद्यत इतिर गेमगीयम ! ।

-- २ - . प्रथमोऽध्यायः। (२३) पुरुषोऽत्र जीवेश्वरोभयपरः । स तु न कस्य चित्कार्य नापि कारणम् । तस्यह ग्रहणं सांख्याभ्युपगततत्त्वसंख्यापरिपूर्णार्थम् । इति इत्येवं पञ्च- विंशतिः पञ्चविंशतिसंख्याको गणः तत्त्वव्यूहः कापिलानामित्यर्थः । 'गुणकर्मसामान्यादयो वैशेषिकोक्ताः शक्तिसादृश्यादयो मीमांसकोक्ताश्च नातिरिक्ताः पदार्थाः। किंतु धर्मधर्म्यभेदादत्रैवान्तर्भूताः। दिकालौ चाकाशमेवा 'दिक्कालावाकाशादिभ्यः' इत्यागामिसूत्रात् । अभावस्तु धर्मि- स्वरूप एवाभ्युपगम्यते नार्थान्तरमिति न काचन न्यूनता । तत्र प्रकृतित्वञ्च तत्त्वान्तरोपादानत्वमित्यध्यवसेयम् ॥ ६१ ॥ नन्वस्त्वेवं प्रकृत्यादीनां कार्यकारणभावः । तथापि कस्मात्कार्या- • कस्य कारणस्यानुमानेन बोधस्तत्राह- स्थूलात्पञ्चतन्मात्रस्य"॥ ६२ ॥ अनुमानेन बोध इत्यनुवर्तते । स्थूलात् बाह्येन्द्रियग्राह्यगुणवत्वं, शान्तघोरमूढरूपत्वं वा स्थूलत्वम् । तदाश्रयात्पृथिव्यादिस्थूलभूतपञ्चकाका- उत् पञ्चतन्मात्रस्यगन्धादिपञ्चतन्मात्रस्यतत्कारणस्यांनुमानेनन्यत्कार्य, तत्कारणपूर्वकमिति व्याप्तिमता सामान्यतोदृष्टानुमानेन बोधः सिद्धि- रित्यर्थः ॥ ६२॥ " बाह्याभ्यन्तराभ्यां तैश्चाहङ्कारस्य" ॥३६ ॥ अनुमानेन बोध इत्यनुवर्तते । बाह्याभ्यन्तराभ्यां मनआदिज्ञानकर्मेन्दि- •. याभ्यां कार्याभ्याम् । तैश्च स्थूलभूतकारणैः शब्दादिपञ्चतन्मात्रैश्च कार्य- रहङ्कारस्य-कारणभूताहङ्कारप्रकृतेरनुमानेन बोध इति पूर्ववत् ॥ ६३ ॥ "तेनान्तःकरणस्य"॥६४ ।। अनुमानेन बोध इत्यनुवर्तते । तेन अहङ्कारण कार्याणान्तःकरणस्य- महत्तत्वाख्यायाः कारणभूताया बुद्धरनुमानेन बोध इति पूर्ववत् ।। इदमत्र बोध्यम् । यद्यप्यन्तःकरणं मनोबुद्धिश्चित्तमहङ्कार इति चर्तुष्ट- यम्, तथापि बुद्धिसत्त्वावस्थाविशेषत्वान तत्परमार्थतो बुद्धिसत्त्वव्यतिरिक्तम्, . - - , । (२४) सांख्यदर्शनसूत्रवृत्तौ। बुद्धिसत्वमेव हि तत्तदवस्थाविशेषमापन्नं तत्तनाम्नाव्यपदिश्यते । यदा संकल्प- यति तदा मनः । यदाऽध्यवस्यति तदा बुद्धिः । यदा चिन्तयति तदा चित्तम् । यदाऽहंकरोति तदाऽहंकार इत्यभिधीयते । अवस्थाऽवस्थावतोश्च भेदाभेदाभ्युपगमाञ्चतुष्टयत्वे सत्यप्युक्तमन्तःकरणं बुद्धिरिति ॥ ६४ ॥ "ततः प्रकृतेः॥६५॥ अनुमानेन बोध इत्यनुवर्तते । ततः अन्तःकरणात्कार्यात्मकृतेः-सर्व- कारणभूताया मूलमकृतेरनुमानेन बोध इति पूर्ववत् ॥ ६५ ॥ ननु प्रकृत्यन्तानां तत्त्वानां मिथः कार्यकारणभावानुमानेन सिद्धि- रस्तु । कार्यकारणभावशून्यः पुरुषो जीवः पुनःकथं सिध्येत् ? तबाह- "संहतपरार्थत्वात्पुरुषस्य"॥६६ ॥ अनुमानेन बोध इत्यनुवर्तते । संहतपरार्थत्वात् संहतानां परस्परमिलि तानांप्रकृतितत्कार्याणां परार्थत्वात-स्वेतरभोगापवर्गप्रयोजनकत्वं परार्थत्वम्। तस्मात् भरपयोजनकत्वात्पुरुषस्य प्रकृत्यादिभ्यः परस्य भोक्तुः पुरुषस्यानु- मानेन ये ये संहताः पदार्थास्ते सर्वे शय्यासनादिवत्परार्थाः संहतञ्च प्रकृतितत्कार्यमिति सामान्यतोदृष्टानुमानेन बोधः सिद्धिरित्यर्थः । संहननमारम्भकसंयोगः । स चावयवावयव्यभेदात्मकृतिकार्यसाधारणः। तथा च संहतानां प्रकृतितत्का-णामिति भाष्यम् ॥ ६६ ॥ ननु महदादिवन्मूलमकृतेरपि फिश्चिन्मूलान्तरं सिध्येत्, तबाह- "मूलमूलाभावादमूलं मूलम्" ॥ ६७ ॥ मूलं महदादित्रयोविंशतितत्वानां मूलकारणं प्रधान-प्रकृतिरमूलं- मूलान्तरवय॑म् । कुतः ? मूले-मूलकारणे तस्मिन् मूलाभावात्-मूलस्य मकृत्यन्तरस्याभ्युपगमाभावादित्यर्थः ॥ ६७ ॥ नतु हेतुना सिद्धी किमभ्युपगमाभावेन ? तबाह- .

प्रथमोऽध्यायः
(२५)
." पारम्पयेऽप्येकत्र परिनिष्ठति संज्ञामात्रम् ॥ ६८॥
पारम्पय्येऽपि-प्रकृतेः प्रकृत्यन्तरम् । तस्यापि प्रकृत्यन्तरमित्येवं प्रकृ-
तिपारम्पय्ये सिद्धेऽप्येकत्र अन्ततोगत्वा यस्मिन् कस्मिंश्चिदेकस्मिन् प्रकृ-
त्यन्तरे परिनिष्ठा-पर्यवसानं वक्तव्यम् । अन्यथाऽनवस्थापत्तेः । यत्र वः
परिनिष्ठा, सैवास्माकं मूलपकृतिरिति अत: संज्ञामात्रं-विवादास्पदं केव-
छमिहावयोनाममात्रं स्यादित्यर्थः ॥ ६८ ॥
'नतु कुत एतद ? तत्राह-
समानः प्रकृतेयोः ॥६९॥
यत इति शेषः । यतो द्वयोः वादिपतिवादिनोरावयोः प्रकृतेः मूलका-
रणस्य समाना=अभ्युपगमस्तुल्य इत्यर्थः ॥ ६९ ॥
नन्ववं प्रकृतिपुरुषादीनामनुमानतः सिद्धौ सुकरोऽयं विवेकप्रत्ययः
शास्त्रश्रवणादेव सर्वेषां किं न स्यात् ? तत्राह-
अधिकारित्रविद्यान्न नियमः॥ ७० ॥
अधिकारित्रविद्यात्-मन्दमध्यमोत्तमभेदेनाधिकारिणां त्रिप्रकारत्वाननि-
पमा शास्त्रश्रवणमात्रेण सर्वेषां दृढविवेकप्रत्ययोदयनियमो नेत्यर्थः॥७०॥
ननु 'प्रकृतेर्महान् ' इत्येकाधिकषष्टितमसूत्रेण प्रकृत्यादीनां कार्य
कारणभाव एव प्रतिपादितो नतु क्रम इति भ्रमसंभवात्कि तत्राद्यं कार्य
किञ्च तदनन्तरामति कथं विज्ञेयं ! तत्राह-
महदाख्यमाद्यकार्य तन्मनः॥॥ ७१ ॥
महदाख्यं महत्तत्वनामकमायं कार्य-प्रकृतेः प्रथमं कार्य विज्ञातव्यम्
तन्मनः तदेव च महदाख्य तत्त्वं मननवृत्तिकत्वान्मनः मननमत्र निश्चय
स्तवृत्तिकं बुद्धिसत्वमित्यर्थः ॥ ७१ ॥
" चरमोऽहङ्कारः॥ ॥ ७२ ॥
चरमः महत्तत्त्वानन्तरस्तत्कार्यभेदोऽहंकाररा अहंवृत्तिफस्तत्त्वविशेष इ-
.
।
त्यर्थः ॥ ७२ ॥

(२६) सांख्यदर्शनसूत्रवृत्तौ। "तत्कायंत्वमुत्तरेषाम् ॥ ७३ ॥ तत्कार्यत्वम् अहंकारकार्यत्वमुत्तरेषाम् एकादशेन्द्रियपञ्चतन्मात्राणा- मित्यर्थः। पञ्चतन्मात्रकार्यत्वं भूतानामित्यपि द्रष्टव्यम् ॥ ७३ ॥ नन्वेवं चेत् कार्यकारणभावक्रमः, तदा प्रकृतिहेतुकं सर्वमिति कथ- मुपपद्येत ! तत्राह- "आद्यहेतुता तद्दारा पारम्पयऽप्यणुवत् ॥७४॥ पारम्पर्येऽपि साक्षादहेतुत्वेऽपि तद्वारा=महदादिद्वाराऽऽद्यहेतुता-आ- यस्य मूलकारणस्य प्रधानस्य हेतुता सर्वत्र कारणताऽस्त्येव । तत्र निदर्श नमणुवत-यथा वैनाशिकसमयेऽणूनां परमाणूनां घणुकादिद्वारा सर्वत्र सङ्घातेषु हेतुतेत्यर्थः ॥ ७४ ॥ ननु प्रकृतिपुरुषयोरुभयोर्नित्यत्वेन निखिलकार्यपूर्वभावित्वसाम्येऽपिक-, थं प्रकृतिरेव जगतः कारणं न पुरुषः? तत्राह- " पूर्वभावित्वे द्वयोरेकतरस्य हानेऽन्यतरयोगः ॥७५ ॥ इयोः पुम्मकृत्योरुभयोःपूर्वभावित्वे अपिरनुवर्तते निखिलकार्यपूर्वभा- वित्वसाम्येऽप्येकतरस्य दयोरेकस्य पुरुषस्य हाने-अपरिणामित्वेन कारण- त्वासंभवेऽन्यतरयोगः अन्यतरस्य पुरुषभिन्नस्य प्रधानस्पैव कारणतायोग इत्यर्थः ॥ ७५ ॥ ननु प्रकृतिव्यतिरिनं किञ्चिदेक परिच्छिन्नं जगतःकारणं कल्प्या, किंकल्पितया महत्या प्रकृत्या, तत्राह- "परिच्छिन्नं न सर्वोपादानम् ॥ ७६॥ परिच्छिन्नं यदेकदेशि, तत्सर्वोपादान यत्किञ्चिदुपादानं भवदपि मह- दादिसर्ववस्त्वात्मकजगदुपादानकारणं न=न संभवति । परिच्छिन्नत्वान्मृदा दिवदिति शेष इत्यर्थः ॥ ७६ ॥ क्षेत्र हेत्वन्तरमाह- A , - . . . - प्रथमोऽध्यायः । (२७) "तदुत्पत्तिश्रुतेश्च" ॥ ७७॥ पूर्वसूत्रमनुवर्तते 'तेद्धेदंतमुव्याकृतमासीत्तन्नामरूपाभ्या- मेव व्याक्रियत'इत्यादिना प्रकृतेः सकाशात्तव्यतिरिक्तस्य सर्वस्य तस्य प- रिच्छिन्नस्योत्पत्तिश्रवणाचन परिच्छिन्नं सर्वोपादानं संभवतीत्यर्थः ॥७७॥ नन्वस्तु त भाव एव जगतः कारणमपरिच्छिन्नत्वात् , तबाह- "नावस्तुनो वस्तुसिद्धिः"॥७८॥ अवस्तुनः=अभावाद वस्तुसिद्धिा वस्तुनः-भावस्य सिद्धिः उत्पत्ति - न संभवतीत्यर्थः । कार्यकारणयोः सारूप्यस्यैव लोके दर्शनादिति भावः ॥ ७८ ॥ ननु तत्कार्य जगदपि शुक्तिरजतादिवदवस्त्वेवास्तु, तत्राह- "अबाधाददुष्टकारणजन्यत्वाञ्च नावस्तुत्वम्" ॥७९॥ अवाधात् शुक्तिरजतादिवढ बाधाभावाददुष्टकारणजन्यत्वाञ्च-शखपीति- मादिवढुष्टकारणनन्यत्वाभावाच नावस्तुत्व-जगतोऽवस्तुत्वं नेत्यर्थः ।।७।। नन्वेवश्चेत्तदाऽवस्नुनस्तस्माद वस्तुभूतमेव जगदुत्पद्यतां, तबाह- "भावे तद्योगेन तसिद्धिरभावे तदभावात्कुतस्तरां- तसिद्धिः ॥८॥ भावे कारणस्य भावरूपत्वे तद्योगेन-तस्य भावरूपकारणस्य सबन्धन तत्सिादिः तस्य भावरूपकार्य्यस्य सिद्धिः-उत्पत्तिः संभवति। सतोः संवन्धो- पपत्तरिति शेषः । अभाव-कारणस्याभावरूपत्वे पुनस्तदभावात् तद्यो- गासंभवात्कुतस्तरां तत्सिद्धिः तस्य भावरूपकार्य्यस्य जगतः सिद्धिः- उत्पत्तिः संभवेदित्यर्थः ॥ ८ ॥ नन्बस्तु तर्हि कमव जगतः कारणम् । आवश्यकत्वात, तबाह- "न कर्मण उपादानत्वायोगात् ।। ८१ ।। १ वृ० अ१ वा. ४-७!

-- (२८) साख्यदर्शनसूत्रवृत्तौ। तत्सिद्धिरित्यनुवर्तते । न कर्मणः अदृष्टात् तसिद्धिः जगदुत्पत्तिः संभवति । कुतः ? उपादानत्वायोगात्=कर्मणो निमित्तत्वेऽप्युपादानत्वानी- चित्त्यादित्यर्थः ॥ ८१ ॥ ननु कर्मणो निमित्तत्व मोक्षोऽपि तेनैव सेत्स्यति कि परिणामित्वापार- णामित्वपरार्थत्वापरार्थत्वादिना पुम्मकृत्योर्विवेकपदर्शनेन ? तबाह- "नानुश्रविकादपि ससिद्धिः साध्यत्वेनावृत्तियोगा- दपुरुषार्थत्वम्" ॥ ८२॥ कर्मण इत्यनुवर्तते । दृष्टावकर्मणो न तत्सिद्धिरिति किमुवक्तव्यम् । आनुश्रविकादपि-गुरुपाठादनुश्रूयत इत्यनुश्रवः वेदस्तदिहित यागादि- कं कर्मानुश्रविक, तस्मादपि कर्मणो न तसिद्धिः तस्य दुःखात्यन्तनिवृ- त्तिलक्षणस्य मोक्षस्य सिद्धिः निष्पत्तिन । कुतः ? यतः साध्यत्वेन-मोक्षस्य कर्मसाध्यत्वेनावृत्तियोगातू-तद्यथह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकःक्षीयते । "क्षीणे पुण्ये मर्त्यलोकविशन्ति" इति पुनरावृत्तिसंबन्धावश्यभावादपुरुषार्थत्वं पुरुषार्थत्वं न संगच्छत इत्यर्थः । पूर्व कर्मणा बन्धो निराकृतः सम्मति मोक्ष इत्यपौनरुत्यम् ॥८२ ॥ नन्वेव पश्चाग्निविद्यारूपेणोपासनाख्यकर्मणा मोक्षसुखभोगाय ब्रह्मलोकान् गतानामपुनरावृत्तिश्रुतिः कथमुपपद्येत, तत्राह- "तत्र प्राप्तविवेकस्यानावृत्तिश्रुतिः।। ८३ ॥ अनावृत्तियुतिः='तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति, तषां न पुनरावृत्तिः' इति अतिम्तव ने ब्रह्मलोकपु प्राप्तविवेकस्य माप्नो विवेको येन, तस्य-विश्यत्व पठ्ययस्तदिषयैव मन्तन्या । नान्यविषये- त्यर्थः ॥ ८३॥ छा० पाठ ८ खं०१-६॥२ गी०-०२-शोक २१॥ ३ पदा०अ०८ त्रा०२-१५॥ ।

- प्रथमोऽध्यायः। (२९) ननु किन्तर्हि कर्मणः फलं, तत्राह- "दुःखादुःखं जलाभिषेकवन्नजाड्यविमोकः" ॥ ८४ ॥ कर्मण इति पूर्वसूत्रांदनुषज्यते । दृष्टानुश्रविकाद हिंसाबहुलाकर्मणः पुरुषस्याधिकारिणो दुःखाद्दुःख-दुःखमनुदुःख-दुःखधारैवेति यावत् फलं भवति, न जाडयविमोका जाड्यमविवेकस्तस्यात्यन्तनिवृत्तिर्विमोकः फलं नेति, शेषः । तत्रोदाहरणं जलाभिषेकवत् यथा जाड्यातस्य पुरुषस्य जलाभिषेकात्कर्मणोदुःखाइःखं फलं भवति न जाड्यविमोक इत्यर्थः॥४४॥ ननु काम्यस्य कर्मणो दुःखादुःखं फलमस्तु । निष्कामस्य तु तस्य श्रुतिस्मृतिभ्यां मोक्षफलकत्वसिद्धौ तथा फलं कथं स्यात्, तत्राह- "काम्येऽकाम्यपि, साध्यत्वाविशेषात् ॥ ८५ ॥ काम्ये यथा काम्ये,कर्मणि दुःखाडुःख फलम् । तथाऽकाम्येऽपि निष्कामकर्मण्यपि बोव्यम् । कुतः ? साध्यत्वाविशेषाव-कर्मसाध्यत्वस्यो- भयत्रापितुल्यत्वादित्यर्थः । निष्कामकर्मणः फलं हि न साक्षान्मोक्षः। तस्य 'तमेवं विदि- त्वातिमृत्युमेति'' इति श्रुत्या ज्ञानमात्रैकफलतानिश्चयात् । किन्तु 'तमेतं ब्राह्मणाविविदिषन्ति यज्ञेन दानेन कर्मणाऽनाश- केन' इति श्रुतेरन्तःकरणशुद्धिद्वारा मोक्षहेतुसत्वपुरुषान्यताप्रत्ययः । स च त्रिगुणात्मकमकृतिसत्वकार्य्यतया दुःखमेव । न सुखमिति भावः । यस्तु, निष्कामकर्मणि श्रुतिस्मृत्योः साक्षान्मोक्षसाधनत्वपवादः । स च ग्राममार्ग दर्शयितरि ग्रामं दर्शयतीतिवदौपचारिको, न मुख्य इति द्रष्टव्यम् ॥ ८५ ॥ । नन्वेवं भवतां मोक्षोऽपि दुःखमेव स्यात् ,साध्यत्वाविशेषात् । तत्राह- "निजमुक्तस्य बन्धध्वंसमात्रं परं न समानत्वम्॥८६॥ १ श्वे०अ०३ मं०८।२७०अ०६ वा० ४ कं० २२-1 - - - ..

(३०) सांख्यदर्शनसूत्रवृत्तौ। निजमुक्तस्प-निजेन आत्मीयेनविवेकमत्ययेन मुक्तस्य मुक्तिभाजः पुरुषस्य यत्परम् आत्यन्तिकं वन्धध्वंसमात्रम् अविवेकनाशेनतत्कृतदुःखयोगलक्षण- बन्धस्य निवृत्तिमात्रं तदेव विवेकप्रत्ययस्य फलामति शेषः । तस्मान समा- नत्वं तस्यकर्मफलनुल्यत्वं नेत्यर्थः । अतीतावस्थालक्षणस्यध्वंसस्याविनाशितया पुनर्वन्धासंभवेनादुःखत्वादि- तिभावः ॥ ८६ ॥ नम्बस्तु प्रकृतिपुरुषयोविवेकप्रत्यय एव साक्षान्मोक्षस्योपायः । तथापि - प्रमाणोपदेशाभावे तसिद्धिः कथं स्यात् ? तत्राह- "द्वयोरेकतरस्यवाऽप्यसन्निकृष्टार्थपरिच्छित्तिःप्रमा, तत्साधकतमं यत् तत्रिविधं प्रमाणम्" ॥ ८७ ॥ द्वयोः बुद्धिपुरुषयोरुभयोरेकतरस्यवापि तयोरेकस्य बुद्धिसत्त्वस्यैव वा पुरुषस्यैव वा येयमसनिकृष्टार्थपरिच्छित्तिः असनिकृष्टस्य-मातर्यारोहोत्र सनिकर्षः । तदहितस्य-पूर्वमनधिगतस्येति यावत् । अर्थस्य-सामान्यविशे- पात्मनो घटपटादिभेदभिन्नस्य विषयजातस्य परिच्छिात्तिः स्वनिष्ठतयावधारणं, सा प्रमा-ममितिः यथार्थानुभूतिः फलमिति यावत् । तत्साधकतमयत तस्याःफलरूपप्रमाया यदतिगयन साधकम् असाधारणकारणमिति यावत् । तत्पमाणं माणसामान्यम् । तचास्माकं सांख्यानां प्रत्यक्षानुमानशब्दभेदात त्रिविध-त्रिपकारमित्यर्थः । तत्र यदि प्रमारूप फलं बुद्धिनिष्ठमिप्यते।तदा प्रमात्रीबुद्धिः,तदुपहितः पुरुषः साक्षी, घटोऽयंपटोऽयमित्याद्याकारा बुद्धिवृत्तिःप्रमा, चक्षुरादयः प्रमाणम् । यदा तु पुरुपनिष्ठं तदिष्यते, तदा बुद्धौ प्रतिविम्वितः पुरुषः ममाता । शाखे तनिष्ठस्यैव पुरुषनिष्ठत्वव्यपदेशात् । स एव विम्बलक्षण: साक्षी । घटमहं जानामि, पटमह जानामीत्याद्याकारः परेरनुव्यवसायनाम्ना परिभा- पितस्तत्तद्विषयोपरतवुद्धिवृत्तिविषयो बोधः प्रमा। घटोऽयं पोऽयमित्या- प्रथमोऽध्यायः। दिबुद्धिवृत्तिः ममाण मुख्यम् । चक्षुरादिकं तु गौणम् । यदा तूभयनिष्ठ तदा यथायथं तदुभयमिति विवेकः । इदमत्र बोध्यम् । यद्यप्यत्राचायः ममाविकल्पः सूत्रितः । तथापि पौरुषेयबोध एव फलं प्रमेति मुख्यः सिद्धान्तः । पुरुषार्थ करणानां प्रवृत्ते वक्ष्यमाणत्वात् । तत्र पौरुषेयबोधोऽपि न पुरुषस्य काचन वृत्तिः, न वा बुद्धिवृत्तिजन्यः कश्चन धर्मः, परिणामित्वमङ्गात् । किन्तु बुद्धौ प्रतिबिम्बि तस्तत्तदाकारया बुद्धिवृत्त्या तदाकारतामापद्यमानस्तदुभयांवभासकश्चेतनः पुरुष एवेति वाचस्पतिमिश्राः । तत्तदिषयोपरक्तबुद्धिवृत्तिमतिचिंबोपहिता केवला चितिरेवेति भाष्यकृतः । पौरुषेय इत्याधाराधेयभावश्चोभयत्रापि समारोपित एव न मुख्य इति ॥ ८७ ॥ ननु त्रिविधं प्रमाणमिति नोपपद्यते । ममाणाधिक्यस्यापि सिद्धत्वात् । तत्राह- "तसिद्धो सर्वसिद्धनाधिक्यसिद्धि ॥ ८८ ॥ तसिद्धौ तस्य त्रिविधप्रमाणस्य सर्वार्थसाधकत्वसिद्धौ सर्वसिद्धः सर्वेषां प्रतिवादिभिरभ्युपगतानामुपमानादीनामपि तेष्वेवान्तर्भावसिद्धर्नाधिक्यसि- दि: प्रमाणाधिक्यस्य सिदिन भवतीत्यर्थः । अन्तर्भावस्तु सौख्यतत्त्वकौमुद्यां विस्पष्टः ॥ ८८ ॥ ननु प्रत्यक्षममाणस्य फि लक्षणं ? तत्राह- - यत्सम्बद्धं सत्तदाकारोल्लेखि विज्ञानं तत्प्रत्यक्षम्मा ९॥ सम्बदं सद-इन्दियसन्निकर्षद्वारा विषयसम्बद्धं भवत् तदाकारोलोखि विषयाकारणार यक्वटोऽयं पटोऽयमित्येवमादियदिशानं-ववृित्यात्मक ज्ञानं तत्प्रत्यक्ष प्रत्यक्षप्रमाणमित्यर्थः ॥ ८९ ॥ मनु योगिप्रत्यक्षेऽव्याप्तिः । तत्सत्यक्षस्यातीतानागतव्यवहितविप्रकृष्टव- स्तुविषयत्वेन विषयेन्द्रियसन्निकर्षद्वारा संबद्धवस्त्वाकारत्वाभावाद. तत्राह- " योगिनामवाह्यप्रत्यक्षत्वान्न दोषः"॥९० ॥ योगिनां योगजधर्मवता पुरुषाणामवायनक्षत्वादन विद्यते बाह्य-वाले -

(३२) सांख्यदर्शनसूत्रवृनौ।
न्द्रियप्रयोज्यं विषयेन्द्रियसन्निकर्षप्रयोज्यमिति यावद् मत्यक्ष येषां, ते तथा,
तेषां भावस्तत्त्वं, तस्मात् इन्द्रियसनिकर्षामयोज्यवाह्यविषयमत्यक्षत्वान
दोषः तत्मत्यक्षेऽव्याप्तिलक्षणो दोषो नेत्यर्थः ।
इन्द्रियसनिकर्षप्रयोज्यवाह्यविषयप्रत्यक्षस्यैवात्र लक्ष्यत्वेन योगिमत्य-
क्षस्यातक्ष्यत्वादिति भावः ॥ १० ॥
अथवा भवतु तदपि लक्ष्यमेवेत्याह-
लीनवस्तुलब्धातिशयसंबन्धाद्वाग्दोषः ॥११॥
लीनवस्तुषु अतीतानागतव्यवहितविप्रकृष्टवस्तुविषयेषु लब्धातिशयसं-
बन्धादा योगप्रभावेन लब्धोऽतिशयो येन योगीन्द्रियेण तत्संबन्धस्य सद्भा-
वादाऽदोषः उक्ताव्याप्तिलक्षणो दोषो नेत्यर्थः ॥ ९१ ॥
नन्वस्मदीश्वरसत्यक्षेऽव्याप्तिः । तस्य जन्यत्वेऽपीन्द्रियसनिकर्षाप्रयो
ज्यत्वाभ्युपगमादिति जैनमाशङ्कयनिराचष्टे-
"ईश्वरासिद्धेः॥ ९२॥
अदोष इत्यनुवर्तते । यस्येश्वरस्य भवता प्रत्यक्षमुदाहियते । तस्यैवा-
सिद्धरदोषः उक्ताव्याप्तिलक्षणो दोपो नेत्यर्थः ॥ ९२ ॥
ननु कस्मान्न तसिद्धिः। तत्राह-
मुक्तंबद्धयोरन्यतराभावान तसिद्धिः॥ ॥ ९३ ।।
साधितोऽपीश्वरः पुरुषविशेष एव वक्तव्यः । स च मुक्तबद्धयोरेन्यतरः
स्यात् ।तस्य च मुक्तवद्धयोरन्यतरस्येश्वरत्वासंभवान्न तत्सिद्धिरित्यर्थः॥१३॥
ननु कस्मादसंभवः ? तत्राह-
उभयथाप्यसत्करत्वम्
यत इति शेषः । यतो मुक्तो वा स्यादवद्धो वा स्यादुभयथापि-
प्रकारद्वयेनापि तस्यासत्करत्वं-सतः विद्यमानस्यास्य जगतः करत्वम् उत्पा
दकत्वं न संभवतीत्यर्थः । मुक्तस्य प्रयोजनाभावाद् वदस्य च सामर्थ्या
भावाढत्पादकत्वासम्भवः। तदसम्भवे च तदसम्भव इति भावः ॥ ९४
-
"॥ ९४॥

प्रथमोऽध्यायः। (३३) ननु जगजन्मानभ्युपगमादेवमीश्वरोमासैसीव, अस्मदागमविहित तत्म शंसोपासान्यथानुपपत्या सेत्स्यति, तत्राह- "मुक्तात्मनः प्रशंसोपासांसिद्धस्य वागण॥९५ ।। चार्थीवाकारः । मुक्तात्मनः भवदागमेषु तु मुक्ति प्राप्तस्य जीवात्मनः प्रशंसा-निर्दुःखत्वादिसाम्यादीश्वररूपतयास्तुतिः, सिद्धस्यवा-तपामभावा- सिदिङ्गतस्य जीवविशेषस्थ चोपासा मोक्षमाणानांहितार्थमुपास्तिर्विद्यते, न भगवती विश्वभर्तुरीश्वरस्येत्यर्थः ॥ नहि भवदागमास्तावज्जगतांपति मीश्वर मशंसन्ति, तदुपासनश्च विदधति, येन तदन्यथानुपपत्त्याकश्चिदीश्वरः सिध्येत् । अपिच मुक्तात्मनः प्रशंसां सिद्धस्यचोपासां विदधते । तत्रच मुक्तात्मनोऽसङ्गत्वेन ज्ञानासम्भवाद, सिद्धस्य च शरीरित्वेन तज्ज्ञानस्ये वयसान्निकर्षमयोस्यत्वावश्यंभावान्नतत्प्रत्यक्षेऽव्याप्तिलक्षणः कश्चिद्दोषःसम्भ वतीतिभावः ॥ ९५ ॥ ननु तवापि सांख्यस्य नित्यशुद्धबुद्धमुक्तस्वरूपत्वेनेश्वरस्य प्रकृतिपुरु- पाधिष्ठातृत्वं नोपपपद्यते, तत्राह- "तत्सन्निधानादधिष्ठातृत्वमणिवत्" ।। ९६ ॥ सांख्यानामस्माकन्तु तत्सन्निधानाव-प्रकृतिपुरुषाभ्यां सन्निधानंतत्सनि धान,तस्माद्भगवतःपरमेश्वरस्याधिष्ठातृत्वं प्रकृतिपुरुषनियन्तृत्व-जगदचना- यमकृतिपुरुषमेरफत्वमुपपद्यते, मणिवत्-यथाऽयस्कान्तमणेः शल्यनिष्कर्ष- णायं सन्निधिमात्रेणलोहोरकत्वामित्यर्थः।। यद्यपि क्लेशकर्मविपाकाशयरपराम ष्टत्वानित्यशुद्धबुद्धमुक्तस्वरूपः परमात्मा,तथापि स ज्ञानक्रियाशक्तिकोऽप्य- भ्युपगभ्यते, ज्ञानक्रियाशक्तिश्च तस्य सर्वथा साम्यातिशयविनिर्मुक्ता न जातु, ज्ञानान्तरेण क्रियान्तरेण च केनचिदतिशय्यत । अतोऽस्यसनिधिमात्रेण प्रकृ- तिपुरुषाधिष्टातृत्वमपि नानुपपत्रं भवति । सविधानञ्चानेश्वरस्य प्रकृतिपुरुषा भ्यांसाक्षासम्बन्धविशेषः, सच न संयोगो नापि समवायोऽपिच स्वस्वामि- भावः।प्रकृतिपुरुषयोस्तवस्वत्वाव, ईश्वरस्य च स्वामित्वात । सचापि पाह्या .

(३४) सांख्यदर्शनसूत्रवृत्तौ। नामिव नागन्तुकः किन्तु सदातन एव मन्यते, अतएव च स सदैवश्वरः सदैव मुक्त इति वैदिकानामचलोराधान्तः । अतस्तस्य नित्यशुदबुद्ध- मुक्तस्वरूपत्वेऽपिनिसिळशक्तिसम्पन्नत्वात् प्रकृतिपुरुषाधिष्ठातृत्वे न कश्चिदो- पइति भावः ॥ ९६ ॥ ननु चेतनत्वाविशेषाज्जीवानामिवेश्वरस्यापि सङ्कल्पादिदारवाधिष्ठातृत्वं कि न स्यात् ? कृतं सनिधिमात्रेण, तबाह- विशेषकार्येष्वपि जीवानाम् ॥ ९७ ॥ भिन्नक्रमोऽपिः । तत्सविधानादधिष्ठातृत्वमित्यनुवर्तते । जीवानामपि बुद्धिप्रतिविम्विताहङ्कारविशिष्टचेतनानामपि विशेषकार्येषु आहारविहारादि लक्षणेषु कार्यभेदेषु तत्सन्निधानाव-बुद्धिसनिधिमात्राबुद्ध्यधिष्ठातृत्वं न सङ्कल्पादिनेत्यर्थः ॥ ९७ ॥ ननु सन्निधिमात्रेण चेदीश्वरस्याधिष्ठातृत्व, न सङ्कल्पादिना, तदा सर्गा- रम्भे जीवानां वेदवाक्यार्थोपदेशः कथं स्यात् ? तत्राह- "सिद्धरूपबोवृत्वाद्वाक्यार्थोपदेशः ॥ ९८॥ सिद्धरूपवोद्धृत्वाद-सिद-निखिलशक्तिसम्पनं रूपं-स्वरूपं यस्य, स सिदरूपः परमात्मा,तस्य बौद्धृत्वाव-सनिधिमात्रेणवोधकत्वाद, बोधोज्ञानं, तत्मदातृत्वादितियावद् वाक्यार्थोपदेशः अम्यादिमहर्षिदारा वेदवाक्या- नुशासनं सम्भवतीत्यर्थः ॥ ९८ ॥ ननु पुरुषमात्रस्य चेत्सनिधिमात्रेणाधिष्ठातृत्वं गौण, तदा सल्ला दिदारकं मुख्य कस्य ? तबाह- अन्तः करणस्य तदुज्ज्वलितत्वाल्लीहवद- धिष्ठातृत्वम् " ॥१९॥ लोहन यथास्तमानिहितनगटनशक्रिमिना लादपिण्डस्योग्यरित मनात तयाऽन्तःकरणप-दिसत्यस्य तललितलाद-तेन स्नानादित - प्रथमोऽध्यायः। (३५) - चेतनशक्तिपुरुषेणोज्ज्वलितत्वात् चेतनायमानत्वादधिष्ठातृत्वं संकल्पाद्याश्र- यत्वसंभवात्तवारकं मुख्यमधिष्ठातृत्व-नियन्तृत्वमित्यर्थः ॥ ९९ ॥ एवं विस्तरेण प्रत्यक्ष लक्षितम् । क्रममाप्तमनुमानं लक्षयति । "प्रतिवन्धदृशः प्रतिबद्धज्ञानमनुमानम्" ॥१०॥ प्रतिबन्धदृशः प्रतिबन्धो व्याप्तिस्तविशिष्टो हेतुरत्र लक्ष्यते । तं पक्षधर्म- तया पश्यतीति प्रतिवन्धहक । तस्य-व्याप्तिविशिष्टपक्षधर्मताज्ञानवतः सिषा- धयिषोर्जीवस्य यत्मतिबद्धज्ञान प्रतिबद्धस्य-निरूपकत्वेन प्रतिवन्धाश्रयस्य साधनीयधर्मस्य ज्ञान-पक्षनिष्ठतया जायमानं बुद्धिवृत्त्यात्मकं ज्ञानं, तद- नुमानम् अनुमानप्रमाणमित्यर्थः । अत्र फलमनुमितिः पौरुषेयो बोध इति पूर्ववत् ॥ १०० ॥ शब्दं लक्षयति- "आप्तोपदेशः शब्दः ॥१०१।। आमोपदेशः उपदिश्यतेऽनेनेत्युपदेशःवाक्यम् । अर्थाव्यभिचारित्वमा- प्तिस्तया वर्तत इत्यातः । आप्तश्चासाबुपदेशश्चेत्याप्तोपदेशः वेदवाक्यम् । तन्ननितं बुद्धिवृत्यात्मकं वाक्यार्थज्ञानं शब्दः-शब्दप्रमाणमित्यर्थः । अत्रापि फलं पौरुषेयो बोधः शाब्दी प्रमेति पूर्ववद्रष्टव्यम् ॥१०१॥ यदर्थोऽयं प्रमाणोपदेशस्तत्स्वयमाह- "उभयसिद्धिःप्रमाणात्तदुपदेशः"॥ १०२॥ यतोऽत इति पूरणीयम् । यत उभयसिद्धिः उभयोः प्रकृतिपुषयोः सिद्धिः-मिथो विवेकेन ज्ञप्तिः प्रमाणात्-उक्तलक्षणात्ममाणादेव भवति । अतस्तदुपदेशः=भमाणानुशासनमित्यर्थः ॥ १०२ ॥ ननूक्तममाणानां मध्ये कस्माममाणातदुभयसिद्धिर्भवति ? तत्राह- "सामन्यतो दृष्टादुभयसिद्धिः ॥१०३ ॥ पूर्ववच्छेषवत्सामान्यतादृष्टश्चेति त्रिविधमनुमानम् । अन्वयमात्रव्याप्तिकं पूर्ववत् । व्यतिरेकमात्रव्याप्तिकं शेषवत् । सामान्यतोदृष्टान्वयव्यतिरेकव्या- - सांख्यदर्शनसुत्रवृत्तौ। तिक सामान्यतोदृष्टम् । तत्रोभयसिद्धि प्रकृतिपुरुषोभयसिद्धि. सामान्यतो- दृष्टाव-सामान्यतो दृष्टसंज्ञकादनुमानादित्यर्थः ॥ १०३ ॥ नन्विष्टानिष्टविषयः प्रमाणजनितो बोधः पौरुषेयो न सगच्छते । तस्य बुद्धिवृत्त्यात्मकत्वेन पुरुषनिष्ठत्वाभावात्, तत्राह-. "चिदवसानो भोगः ॥१०४॥ भोगः इष्टानिष्टविषयानुभवलक्षणो भोगश्चिदवसानः चिति-पुरुषेऽवसा- न-पर्यवसानं यस्य स तथेत्यर्थः । यद्यपि विषयानुभवलक्षणो भोगो बुद्धिवृत्त्यात्मकः, तथापि नासौ बुद्धौ- पर्य्यवस्यति । तस्या जडत्वेन भोक्तशक्तिहीनत्वात् । पुरुषस्त्वकर्तापि चेतनत्वान्न भोक्तृशक्तिहीनः । तस्मात्तस्य तत्तविषयोपरक्तबुद्धिवृत्तिमतिबि- म्बिते पुरुषे पर्यवसानमिति भावः ॥ १०४ ॥ ननु चिदवसानो भोग इत्ययुक्तम् । लोके कर्तुरेख क्रियाफलोपभोगदर्श- नाद, तत्राह- "अकर्तुरपि फलोपभोगोऽन्नाद्यवत्" ॥ १०५ ॥ अकर्तुरपि कर्माकर्तुरपि पुरुषस्य स्वामिनः फलोपभोगः बुद्धिकर्तृक- कियाफलोपभोग उपपद्यते । अन्नाद्यवत्-दिगादित्वाद्यत । यथाऽन्यकृताना- देरुपभोगस्तत्स्वामिनो नृपतरित्यर्थः । अदनीयमाद्य, तच्च तदन्नश्च अन्नाचं तददिति माधवाचार्यः ॥ १०५ ॥ नन्वेव शास्त्रफलं प्रयोक्तरि' इति शास्त्रं व्याकुप्येत, तबाह-- "अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः ॥१०॥ स्वाभिमतपक्षान्तरसूचनार्थ वा शब्दः । अविवेकादा प्रकृतिपुरुषयो- विवेकग्रहाभावादा तसिद्धः कर्तृभूताया बुद्धरुपरागात्पुरुषस्य कर्तृत्वसिद्धेः कर्तुः कर्तुरेव फलावगमः क्रियाफलोपभोगो नान्यस्येत्ययः ॥ १०६ ॥ १ पूर्वमी० अ० ३,पा० ७ सूत्र १८.

प्रथमोऽध्यायः (३७) नन्ववं भोक्तृत्वं तस्य वास्तवं प्रसक्तं, तथाचानिर्मोक्षमसङ्गस्तत्राह- "नोभयश्च तत्त्वाख्याने"॥१०७॥ तत्त्वाख्याने प्रकृतिपुरुषयोःस्वरूपं तत्त्वं, तस्याख्याने साक्षात्कारे जाते नोभयञ्च-कर्तृत्वभोक्तत्वोभयमपि नावतिष्ठते इत्यर्थः । + कर्तृत्वस्येव तत्समकक्षभोक्तृत्वस्याप्योपाधिकत्वाभ्युपगमादितिभावः१०७॥ ननु यत्मत्यक्षण नोपलभ्यते तन्नास्त्येव, कुतः?सामान्यतो दृष्टात्तदुभय- सिद्धिः, तत्राह- "विषयोऽविषयोऽप्यतिरादहीनोपादाना- भ्यामिन्द्रियस्य "॥ १०८ ॥ चोऽनुवृत्तिःपूर्वसूत्रात् । भिन्नक्रमोऽपिः । हानं घातः । उपादान-विमो- हकरविषयान्तरोपादान-मनोऽनवस्थानमिति यावत् । न प्रत्यक्षणानुपलब्धे- रर्थस्याभावः साधयितुं शक्यते । यतोऽतिदूरादेः भावप्रधानो निर्देशः । अतिदूरत्वादेषात् । आदिपदेन 'अतिसामीप्यसौम्यव्यवधानाभिभवस- मानाभिहाराणां सङ्ग्रहः' । हानोपादानाभ्याञ्चेन्द्रियस्य-चक्षुरादीन्द्रियस्य घातानवस्थानाभ्याश्च विषयोऽपि प्रत्यक्षस्य विषयोऽप्यविषयो भवती- त्यर्थः ॥ १०८॥ ननु कस्मात्पुनरेतेषु दोषेषु प्रकृतिपुरुषयोःमत्यक्षणानुपलब्धिस्तत्राह-- "सौक्षम्यासदनुपलब्धिः॥॥१०९॥ सौक्ष्म्यात्-निरवयवद्रव्यत्वं सौक्ष्म्यं, तस्मात्तदनुपलब्धिः तयोः प्रकृ- तिपुरुषयोरनुपलब्धिः अत्यक्षत्वाभाव इत्यर्थः ॥ १०९ ॥ नत्वभावादेव तदनुपलब्धिः किं न स्यात्कृतं तत्र सौक्ष्म्यकल्पनया तत्राह- "कार्यदर्शनात्तदुपलब्धे ॥११॥ कार्य्यदर्शनात् महदादिभूतान्तकार्य्यस्य दर्शनात् । तत्कारणतया तदो- .

। (३८) सांख्यदर्शनसूत्रवृत्तौ। कृतयां च तदुपलब्धे तयोः प्रकृतिपुरुषयोरनुमित भाव इत्यर्थः॥११०॥ : ननु कार्य्यदर्शनात्कारणमात्र गम्यते न प्रकृतिरिति शंकते । "वादिविप्रतिपत्तस्तदसिद्धिरिति चेत् ॥ १११ ।। वादिविमतिपत्तेः वादिनां जगत्कारणतया शून्यब्रह्मपरमाणुवदनशीला- नां सौगतादतिचार्वाकाणां विप्रतिपत्तेः कारणगोचरविरुद्धमतिपत्तेस्तदसि- द्धिः-तस्याः प्रकृतेन सिद्धिरिति चेदित्यर्थः ॥ १११ ॥ अभ्युपेत्य परिहरति । "तथाप्येकतरदृष्टयाऽन्यतरसिद्ध पलाप" ॥११२॥ तथापि प्रकृती. वादिनां विमतिपत्तावप्येकतरदृष्टया कार्यकारणयारे- कस्य कार्यस्य दृष्ट्या दर्शनेनान्यतरसिद्धः तयोरन्यस्य नित्यकारणस्य सिद्धः अनुमिते पलापः न तदपन्हवः संभवतीत्यर्थः ॥ ११२ ॥ ननु न कारणमपलप्यते । किन्तु प्रकृतिस्तत्राह- "विविधविरोधापत्तेश्च ॥११३।। नापलाप इत्यनुवर्तते । 'अंजामेकाम् । इत्येकः श्रुतिविरोधः । 'प्रेकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः' इति स्मृतिवि- रोधो द्वितीयः । यादृश कार्य्य तादृशं कारणम् । कार्यश्च त्रिगुणात्मकम् । तस्मात्तत्कारणमपि तथेति न्यायविरोवस्तृतीय इत्येतस्य विविधविरो- धस्यापत्तेः माधनापलापः-न कारणभूतायाः प्रकृतेरपलापःसंभवतीत्ययः । विविधो गुणः सत्वरजस्तमामि, तद्विरोधः तच्छून्यं जगद्भवेन, न चैवं दृश्यत इत्यनिन्दः ॥ ११३ ॥ ननु तदा हि कार्याधारतया नित्या प्रकृतिः सिध्यत, नेदुत्पत्तेः प्राक कार्य सद्भवेतान नोत्पत्तेः प्रागस्तिकाम्यं सत् । अमदुत्पादाभ्युगमाव,तबाद-- "नासदुत्पादो नृश्ङ्गवत्" ।। १२४ ।। १० अ०४ मा ५। २ गीता ३०२५॥ - - - -- - प्रथमोऽध्यायः (३९) नासदुत्पादः कारणव्यापारात्मागसतः कार्य्यस्य कारणव्यापारणोत्पादों न संभवति, नृशृङ्गवत् यथाऽसतो नृशृङ्गस्य कारणव्यापारणोत्पादो नेत्यर्थः ॥ ११४॥ ननु कस्मान संभवति ? तत्राह- "उपादाननियमात्" ।। ११५ ॥ उपादानस्य-उपादानकारणस्य नियमात-घटं प्रति मृद इव ज्ञान प्रति चिद इव प्रतिकार्य नियमादित्यर्थः । वेदसदुत्पद्येत तदा प्रतिकारणं कार्यमानासत्त्वतौल्यातनियमोन स्यादिति भावः ॥ ११५ ।। . किञ्च । "सर्वत्र सर्वदा सर्वासंभवात्" ॥ ११६ ॥ नासदुत्पाद इत्यनुवर्तते । सर्वत्र सर्वस्मिन् कारणे सर्वदा सर्वस्मिन् काले सर्वासंभवात-सर्वस्य कार्य्यस्योत्पादासंभवानासदुत्पादः संभवतीत्यर्थः । असदुत्पादे चासत्वाविशेषात्सर्वत्र सर्वदा सर्व संभवेदिति भावः॥ ११६॥ किच। "शक्तस्य शक्यकरणात्" ॥ ११७ ॥ नासदुत्पाद इत्यनुवर्तते । शक्तस्य-कारणेकाऱ्यांनागतावस्थाऽत्र शक्तिः। तदाश्रयस्य कारणस्य, शक्यकरणात्-शक्यस्य तादृशक्तिविषयस्य कार्य्यस्य करणा-उत्पादनानासदुत्पाद इत्यर्थः । असतः कार्य्यस्य कारणशक्तिविषयत्वायोगादिति भावः ॥ ११७ ॥ किञ्च। "कारणभावाच ॥ ११८॥ नासदुत्पाद इत्यनुवर्तते । कार्य्यस्येति शेषः । तत्साधकसर्वहेतुसमुच्चये चः । कारणभावाच-भावोत्रात्मा । कारणस्य भावोभावो यस्य, तत्तथा। तस्माच कारणात्मकत्वाच्च कार्य्यस्य नासदुत्पाद इत्यर्थः ।

। (४०) सांख्यदर्शनसूत्रवृत्तौ। कार्य हि कारणात्मकं दृष्टम् । यथा मृत्कार्य घटादि मृदात्मकम् तन्तुकार्य वा पटयदि तन्त्वात्मकम् । कारणश्च दण्डादिकारणव्यापारात्मा- क्सदिति तदात्मकं कार्य्यमपि तदा सदेव, नासत् । सदसतोरक्यायोगादिति भावः । कार्यस्य कारणात्मना भेदाभावेऽपि कार्यात्मना कारणान्देद इति भेदाभेदाभ्युपगमात्कार्यकारणभावोपपत्तिरित्यपि द्रष्टव्यम् ॥ ११८ ॥ शकते । न भावे भावयोगश्चेत" ॥ ११९ ॥ नतु भावे कारणव्यापारात्मागपि विद्यमाने भावात्मके कार्य भावयो- गश्चेत् कारणाव्यापारेणोत्पत्तिसंवन्धश्चेत्तदा कार्य्यस्योत्पादानुत्पादावस्थायां विशेषाभावात्तनिवन्धनौ तद्विषयौ व्यवहाराव्यवहारौ नम्न स्याता- मित्यर्थः ॥ ११९ ॥ परिहरति । "नाऽभिव्यक्तिनिबन्धनो व्यवहाराव्यवहारौ"॥१२०॥ न-सांख्यानामस्माक कार्य्यस्योत्पादानुत्पादनिवन्धनो तद्विपयो तदुत्पत्तिव्यवहाराव्यवहारौ न, कि त्वभिव्यक्तिनिवन्धनौतदभिव्यक्त्यन- भिव्यक्तिनिमित्तको व्यवहाराव्यहारी-कारणव्यापारेण कार्याभिव्यक्तौ तदु- त्पत्तिव्यवहारस्तदनभिव्यक्तौ च तदुत्पत्तिव्यवहाराभाव इत्यर्थः । अभिव्यक्तिश्चात्र कार्य्यस्य वर्तमानावस्थैव । तेन कारणव्यापारात्माक तस्यावस्थान्तरेण सत्त्वेऽपि न कश्चिद्दोष इति निश्चयम् ॥ १२० ॥ नन्वेवं कार्य्यस्यानादिभावमाप्त शो न स्यात्, तबाह- "नाशः कारणलयः" ॥ १२१ ॥ सत्कार्यवादिना नः कार्यस्य नागो न ध्वंसः, किन्तु नाशः कारण- लया निमित्तयोगादतीतावस्यां प्राप्तस्य तस्य कारणेऽविभागेन संश्लेप इत्यर्थः ॥ १२१ ॥ - 1 प्रथमोऽध्यायः (४१) ननु तथाप्यसहुत्यादभिया कार्याभिव्यक्तेरप्यभिव्यक्तिरेव वक्तव्या । तस्याश्च पुनरभिव्यकिरन्येत्यनवस्थादोषस्तत्राह- "पारम्पर्यतोऽन्वेषणा बीजाकुरवत् " ॥ १२२ ॥ अदोष इत्ययिमसूत्रादनुकृष्यते । पारम्पर्य्यतः अनागतावस्थस्य कार्य- स्य कारणव्यापारणाभिव्यक्तिः तस्याः पुनरभिव्यक्तिस्तस्याः पुनरिति परम्प- राभावतोऽन्वेषणा अभिव्यक्तर्गवेषणा। वीजाङ्करवत्-वीजादंकुरोऽङ्खराबी- जमिति बीजाश्रयोः पारम्पर्यतोऽन्वेषणावन्मन्तव्या । न ततो विलक्षणे- त्यदोषः यामाणिकत्वादनवस्थालक्षणो दोषो नेत्यर्थः ॥ १२२ ॥ ननु कार्याभिव्यक्तः कथञ्चित्मामाणिकत्वेऽपि तदभिव्यक्तिपरंपराया- स्तथात्वाभावाद् बीनाङ्गुरवदित्यनुपपन्नं, तबाह- " उत्पत्तिवद्वाऽदोषः" ।। १२३ ।। समाधानान्तरपरो वा । यथा भवतामसत्कार्यवादिनां कार्योत्पत्ते- रुत्पत्तिरनवस्थाभिया काय्र्योत्पत्तिरूपैव । न ततोऽतिरिक्ता । तथाऽस्माकं सत्कार्यवादिनांसांख्यानामपि कार्याभिव्यक्तरभिव्यक्तिः कार्याभिव्यक्तिरू- पैवान ततो व्यतिरिक्ता। तेनोत्पत्तिवत् भवदभ्युपगतकार्योत्पत्तिवददोषः- अस्मदभ्युपगतका भिव्यक्तावप्यनवस्थादोषो नेत्यर्थः ॥ १२३ ॥ । नन भनतूत्पत्तेः माक्कार्य सत् । सिध्यतु च वदाधारतया नित्या प्रकृतिः । तथापि कार्यमेतत्कारणञ्चैतदिति विवेकज्ञानं कथं स्यादुभयोरै- क्यादित्याशंक्य तदुपयुक्तं साधर्म्यवैधर्म्यप्रकरणमारभमाणः पूर्वन्तावन्मह- दादिभूतान्नव्यक्तस्य कार्यस्य साधर्म्यमाह- "हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् ॥ १२४ ॥ यलिहं-लीनमर्थ गमयति, लयं वा गच्छतीति लिंग-महदादिभूतान्तं कार्यजातं व्यक्तम् । तद् हेतुमत्-हेतुः कारणं, स विद्यते यस्य, तत्तथा कारणवत् । अनित्यम् अर्धवं-नाशशीलमिति यावत् । अव्यापि-सर्व परि-

(४२) सांख्यदर्शनसूत्रवृत्तौ।
णामिनं व्याप्तुं शीलं यस्य न । तत् । सक्रिय परिस्पन्दः क्रिया तत्सहि-
तम् । अनेक नाना । आश्रितं साधारमित्यर्थः।
याल्लिङ्ग तदेतुमत्त्वादिधर्मकमिति भावः ॥ १२४ ॥
ननु हेतुमत्वादिक साधर्म्य महदादिकार्य्यस्य निरूप्यमाण न सङ्गच्छतो
हेतुभूतायाः प्रकृतेस्ततोऽतिरेकेणासिद्धेस्तत्राह-
आक्षस्यादभेदतो वा गुणसामान्यादेस्तसिद्धिः
प्रधानव्यपदेशाद्वा" ॥ १२५ ॥
प्रमाणभेदप्रदर्शनार्थ वा दयम् । लिङ्गस्यान्वयव्यतिरेकशालित्वमाज-
स्यम् । सुखदुःखमोहलक्षणः साधारणो गुणो गुणसामान्यम् । आदिना
परिणामशीलत्वसग्रहः । तदभेदः कार्य्यमात्रेऽन्वयः । तथाच-विमतं
कार्य सुखदुःखमोहात्मकप्रकृतिपूर्वकम् । तदन्वितत्वात् । यद्येनान्वीयते,
तत् तत्प्रकृतिपूर्वकम् । यथा मृदन्वितं घटादि मृत्मकृतिपूर्वकं, तथाचेदम् ।
तस्मात्तथा' इत्येवमानास्यात्-अन्वयव्यातरेकशालिनोगुणसामान्यादेरभेदतो
वा-सुखदुःखमोहादिसाधारणगुणान्वयलक्षणलिङ्गतोवा, प्रधानव्यपदेशादा-
प्रधीयते-लीयते कार्य्यनातमस्मिन्नितिप्रधानशब्देन शास्त्रे व्यवहारादा
तत्सिद्धि.कार्यातिरेकेण प्रकृतिसिद्धिरित्यर्थः ॥ १२५ ॥
कायमात्रस्य व्यक्तस्य साधर्म्यमुक्त्वा कार्यकारणयोर्व्यक्ताव्यक्तयो-
रुभयोः साधर्म्यमाह-
" त्रिगुणाचेतनत्वादिद्वयोः ॥ १२६ ॥
आदिशब्देनाविवेकित्वविषयत्वसमानत्वप्रसवधर्मित्वानां सङ्कहः । त्रि-
गुणवत्रीणि सत्वरजस्तमांसि गुणाः कारणतया स्वरूपतया च संति
ययोस्ते तथा, तयोर्भावस्तत्त्व-गुणत्रयवत्वम् । अचेतनत्वं चेतनभिन्नत्वम्।
अविवेकित्व-सभूयकारित्वम् । विषयत्वग्राह्यत्वम् । समानत्व-सर्वपुरु-
पसाधारणत्वम् । प्रसवधर्मित्वं-सरूपविरूपपरिणामशालित्वम् । दयोः-
कार्यकारणयाळताव्यक्तयो साधर्म्यमित्यर्थः ॥ १२६ ॥

। प्रथमोऽध्यायः (४३) ननु गुणानामपि मिथः साधर्म्य वैधय॑श्च वक्तव्यम् । अन्यथा तेषा त्रित्वानुपपत्तेरित्याशक्य पूर्व वैधर्नामाह- 'प्रोत्यप्रीतिविषादाद्यैर्गुणानामन्योऽन्यं वैधर्म्यम्" ।। १२७ ।। प्रीतिः सुखम् । अभीतिः-दुःखम् । विषाद: मोहस्तदाद्यैः तदादि- भिरसाधारणमर्गुणानां सत्त्वरजस्तमसामन्योऽन्य परम्परं वैधय॑विरु- धर्मन्वमित्यर्थः । तत्र प्रसादलाचवाभिष्वङ्गमीति तितिक्षा सन्तोपार्जवमार्दवहीश्रद्धाक्षमा- नुकम्पा ज्ञानादिरूपनानाभेदं सत्त्वम् । दुःसशोकदेषद्रोहमत्सरनिन्दा परा- भवादिकपनानाभेद रजः । मोहभयविपलम्भ नास्तिक्यकोटिल्यकार्पण्याज्ञा- नादिरूपनानाभेदं तम इति विवेकः ॥ १२७ ॥ वैधयं प्रदर्य साधर्म्यवैधयें दे पदर्शयति । "लवादिधर्म साधय वैधर्म्यञ्च गुणानाम्" ॥ १२८॥ गुणानां सत्वरजस्तमसां लघ्वादिधर्मः भावमधानो निर्देशः । लघुत्व- चलत्वगुरुत्वपुरुषार्थत्वान्योऽन्याभिभववृत्तित्वादिभिधर्मः साधर्म्य वैधय॑ञ्च पुरुषार्थत्वादिभिः साधर्म्य, लघुत्वादिभिश्च वैधर्म्यमित्यर्थः ॥ १२८ ॥ ननु महदादेर्निरूप्यमाण हेतुमत्त्वादिकं साधयं न संभवति । तस्य कार्य्यत्वासिद्धस्तत्राह- "उभयान्यत्वात्कार्यत्वं महदादेघटादिवत् ॥ ॥१२९॥ महदादेरुभयान्यत्वात्-प्रकृतिपुरुषोभयभिन्नत्वात्कार्थत्वं-जन्यत्वमनुमे यम् । तत्रोदाहरण घटादिवत् यथा. घटादेः प्रकृतिपुरुषान्यत्वात्कार्य- त्वमित्यर्थः। तदुभयान्यत्वञ्च भोग्यत्वादविनाशित्वादिति बोध्यम् ॥ १२९ ॥ हेल्वन्तरमाह- "परिमाणात् ॥ १३० ॥ - - । +- - -- - (४४) सांख्यदर्शनसूत्रवृत्तौ। कार्य्यत्वं महदादर्घयादिवदित्यनुवर्तते । परिमाणात्-परिमितत्वात परिच्छिन्नत्वान्महदादेर्घयादिवत्कार्य्यत्वमित्यर्थः ॥ १३० ॥ तृतीय हेतुमाह- समन्वयात् ॥ १३१॥ कारणगुगानां कार्ये समानरूपतयाऽन्वयः समन्वयः । तस्माल्लिङ्गान्म- हदादेः कार्य्यत्वमित्यर्थः ॥ १३१ ॥ चतुर्थ हेतुमाह- "शक्तितश्चेति ॥ १३२ ॥ इतिशब्दः कार्य्यत्वसाधकहेतूनां समाप्तिमाह । शक्तितश्च-सातिशयश- क्तिमत्वाच्च महदादेः कार्य्यत्वं घटादिवदित्यर्थः । शक्तितश्च-करणतश्चेत्यर्थः । पुरुषस्य यत्करणं, तत्कार्य चक्षुरादिव- दिति भावः । इतिभाष्यम् ॥ १३२ ॥ ननु मास्तु तस्य कार्यत्वं को दोषस्तत्राह- " तद्धाने प्रकृतिः पुरुषो वा ॥ १३३ ॥ तद्धाने कार्यत्वाभावे प्रकृतिः पुरुषो वा महदादिकं प्रकृतिर्वा स्यात्यु- रुषो वा स्यादित्यर्थः। तयोरेवाकार्य्यत्वात् ।तच्च नेष्ट भोग्यत्वादिनाशित्वादितिभावः॥१३३॥ नन्वकार्य सदपि तदुभयभिन्नमेव किश्चित्सेत्स्यति । तत्राह- "तयोरन्यत्वे तुच्छत्वम् "॥ १३४ ॥ तयोः पञ्चम्यर्थे षष्ठी । प्रकृतिपुरुषाभ्यामन्यत्वे-भिन्नत्वे तुच्छत्वं-शश- शृङ्गादिवत् तुच्छत्वमेव स्यादित्यर्थः । तद्भिन्नाकार्य्यस्य तुच्छत्वदर्शनादिति भावः ॥ १३४ ॥ तदेव महादेः कार्य्यत्वं प्रसाध्य तेन कारणानुमानऽनुक्तं विशेषमाह- "कार्याकारणानुमानं तत्साहित्यात् " ॥ १३५ ॥ कार्यात्-महत्तत्त्वादेः कारणानुमान-प्रकृतेरनुमान तत्साहित्यात्- -- - प्रथमोऽध्यायः। (४५) कार्य्यसाहित्य कारणे वैशिट्यं तस्माद्भवति । नतु ताटस्थ्यादित्यर्थः । कार्यकारणयोरभेदाभ्युपगमादिति भावः ॥ १३५ ॥ यादृशं कारणं तदाह- "अव्यक्तं त्रिगुणाल्लिङ्गात् ॥ १३६ ॥ त्रिगुणात्-त्रिगुणात्मका लिङ्गात् महदादेर्व्यक्तात्कारणं प्रकृतिरव्यक्तं सूक्ष्मतरमित्यर्थः ॥ १३६ ॥ नन्वव्यक्तं चेत्तर्हि नास्त्येव । तत्राह- " तत्कार्यतस्तसिद्ध पलाप:"॥ १३७॥ तत्कार्य्यतः तस्य कारणस्य प्रकृतेर्यकार्य महत्तत्वादिकम् । तस्मात्त- सिद्धः तस्य कारणस्य भकृतेरनुमिते पलापः न तदपहवःसंभवती- त्यर्थः ॥ १३७ ॥ नन्वेवं जगतः कारणं प्रकृतिः साध्यताम् । तत्कायॊपलब्धेः। पुरुषसा- धनन्तु कथं स्यात् ? तत्राह- "सामान्येन विवादाभावाद्धर्मवन्न साधनम् ॥१३८।। विशेषतः पुरुषे विवादेऽपि सामान्येन-सामान्यतो विवादाभावान साधन तस्य प्रकृतिवत्साधनं नापेक्षितं । धर्मवत् यथा धर्म विशेषतो विवादेऽपि सामान्यतो विवादाभावात्तत्साधनानपेक्षेत्यर्थः ॥ १३८ ॥ ननु सामान्यतः सिद्धेऽपि पुरुष शरीरादिप्रकृत्यन्तेषु तत्त्वेषु कोऽसा पुरुषः किस्वरूपश्चेति जिज्ञासा न निवर्तते विशेषतो निरूपणाभावादित्याशंक्य तस्य विशेषतो निरूपणार्थ पूर्वन्ता च्छरीरादिव्यतिरिक्तत्वं मतिनानीते। "शरीरादिव्यतिरिक्तः पुमान्" ॥ १३९ ॥ आदिशब्दः प्रकृत्यन्ततत्वमानपरः । शरीरादिव्यतिरिक्ता शरीरादिभ्यों भिन्नः पुमान्-पुरुष इत्यर्थः ॥ १३९ ॥ प्रतिज्ञायां हेतुमाह-- "संहतपरार्थत्वात् "॥१४०॥ - 4 -- S (४६) सांख्यदर्शनसूत्रवृत्तौ। 'सहतपरार्थत्वात्पुरुषस्य ' इति पूर्वमुक्तोऽपि हेतुः प्रसगादिह पुनरुक्त इत्यदोषः । हेतुवर्गसकलनार्थ पुनरुक्तिरिति भाष्यम् । शरी- रादि प्रकृत्यन्तं संहतम् । तत्साध्यौ भोगापवर्गों परार्थो । तच्छालित्वा- दित्यर्थः ॥ १४० ॥ द्वितीयहेतुमाह- "त्रिगुणादिविपर्ययात् ॥ ॥ १४१ ॥ आदिपदमचेतनत्वादिसंग्रहार्थम् । प्रकृतितत्कार्य त्रिगुणमचेतमविवेकि । तद्वैपरीत्यादित्यर्थः ॥ १४१ ॥ तृतीयहेतुमाह- " अधिष्ठानाचति" १४२॥ पुरुषातिरिक्तत्वसाधकहेतुपरिममाप्तिपरमितिपदम् । अधिष्ठातृत्वाच्चैत्यर्थः। यथा रथस्याधिष्ठाता पुरुषस्तद्यतिरिक्तः । तथा शरीराद्यधिष्ठाता पुरुषोऽपि तदधिष्ठयेभ्यः शरीरादिप्रकृत्यन्तेभ्यस्तत्त्वेभ्यो व्यतिरिको मनसि पर्तव्यः । जडस्याधिष्ठातृत्वायोगादिति भावः । इदमत्र बोध्यम् । यद्यपीश्वरःप्रकृतेरधिष्ठाता। नजीवः । तथापि तस्य तदधिष्ठातृत्वोक्तिभक्तृित्वाददृष्टाभिप्रायेण वा । बुद्धिसत्त्वाधिष्ठातृत्वात्कार्यका- रणयोरभेदाभिप्रायेण वा द्रष्टव्या। तेन न कश्चिद्दोप इति ॥ १४२ ॥ ननु हेतुरस्तु | मास्तु साध्यमित्याशंक्य दाभ्यामनुकूल तर्कमाह- भोकृभावात् "॥ १४३ ॥ शरीरादिव्यतिरिक्तःपुमानित्यनुवर्तते । पुमान् शरीरादिव्यतिरिक्तो भोक्तृत्वादित्यर्थः । चेच्छरीरादिव्यतिरिक्तो न भवत् । किन्तु । तदन्यतम एव स्यात्, तदा भोक्तापि न स्यात् । अत एव चतनोऽपि न स्यात, । शरीरादेडलेन भोक्तृत्वासंभवादिति भावः । १ सांख्य अ० १ सन ६६ । - १ - प्रथमोऽध्यायः। (४७), एतेन साध्याभावे प्रथमाद्वितीयहेतू अपि न स्यातामित्यनिष्टमापादितं वेदितव्यम् ॥ १४३ ॥ द्वितीयं तर्कमाह- "कैवल्यार्थ प्रवृत्तेश्च" ॥ १४ ॥ अधिष्ठानाभावः कैवल्यं मोक्ष इति यावत् । तदर्थ प्रवर्तनाचेत्यर्थः । चेत्पुमान् शरीरादिव्यतिरिक्तो न भवेत् । किन्तु तदन्यतम एव स्यात् । तदा कैवल्यार्थ न प्रवर्तेत । चेतनस्यैवाधिष्ठान कुर्वतः परिश्रान्त- चित्तस्य केवलीभावाय प्रवृत्तिदर्शनात् । शरीरादेश्च तदयोगेन कैवल्यासं- भवादिति भावः। एतेन साध्याभावे तृतीयहतुरपि न स्यादित्यनिष्टमापादितं द्रष्ट- व्यम् ॥ १४४ ॥ नतु तथापि किस्वरूपः पुरुषस्तत्राह- जडप्रकाशायोगात्प्रकाशः ॥ १४५ ॥ शरीरादिव्यतिरिक्तः पुमानिति सम्बध्यते । स च प्रकाशः अमाकृत- प्रकाशात्मकः ज्ञानस्वरूप इति यावत् । कुतः? जडप्रकाशायोगात्माकृतः प्रकाशो जड़मकाशः । तस्यात्मत्वायोगादित्यर्थः । एतेन बुद्धिसत्त्वमात्मेति मतं निराकृतं वेदितव्यम् ॥ १४५ ॥ ननु प्रकाशस्वरूपत्वेऽपि तेजोवद्धर्मधर्मिभावः किन्न स्यात्, तत्राह- " निर्गुणत्वान चिद्धर्मा" ॥१४६ ॥ निर्गुणत्वात गुणानाश्रयत्वान चिद्धर्मानज्ञानधर्मा पुमानित्यर्थः१४६॥ नन्वहमुपलभे जानाम्यहमिति धर्मधर्मिभावस्य प्रत्यक्षत्वाचिधर्मा पुमान् किन्न भवेत्, तत्राह- "श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबाधात् ॥१४॥ श्रुत्या 'असङ्गोह्ययं पुरुषः, इत्यादि श्रुत्या सिद्धस्य-सिदि १० अ० ६ वा०३ शु० १५ ।

(४८) सांख्यदर्शनसूत्रवृत्तौ। गतस्य निर्गुणत्वस्य नापलाप.नापह्नवः संभवति । तत्प्रत्यक्षबाधा तत्सत्यक्षस्य गौरोहमिति प्रत्यक्षवच्छुत्यैव वाधनादित्यर्थः ॥ १४७ ॥ ननु युक्तिप्रधानमेतच्छास्त्र न श्रुतिप्रधानम् । तेन पुरुषस्य प्रकाशरूप- त्वाभावे को दोषः तत्राह- सुषुत्याद्यसाक्षित्वम" ॥ १४८॥ आदिपदार्थः स्वनः । प्रकाशरूपत्वाभावे पुरुषस्य सुषुझ्यादिसाक्षित्वं- नस्यादित्यर्थः ॥ १४८॥ तदेवं पुरुषस्य प्रकाशरूपत्वमुपपाद्य वहुत्वमुपपादयति । "जन्मादिव्यवस्थातः पुरुषबहुत्वम् " ॥ १४९ ॥ जन्मादिव्यवस्थातः कश्चिजातः कश्चिन्मृतः कश्चिद्धः कश्चिन्मुक्त इत्या- दिव्यवस्थाऽन्यथानुपपत्तितः पुरुषबहुत्वं नानापुरुष इत्यर्थः ॥१४९॥ ननु पुरुषैत्येऽप्युपाधिभेदानन्मादिव्यवस्था सभवति । तत्राह- " उपाधिभेदेऽप्येकस्य नानायोग आकाशस्येव घटादिभिः" ॥ १५०॥ आकाशस्येव पटादेभिः ययैकस्यैवाकाशस्य नानोपाधिभूतैर्वटादिभियो- गस्तैथैकस्यैव पुरुषस्य नानायोगः नानाभूतैरुपाधिभिः सवन्धो वक्तव्यः। तथा चोपाधिभेदेऽपि तत्तदुपाधिनानात्वेऽप्युपधेयभेदाभावान जन्मादिव्यव- स्था संभव इत्यर्थ. ॥ १५० ॥ ननु स्वतश्चैतन्यस्यैक्यपि तत्तदुपाधिविशिष्टस्य तस्य भेदाद्यवस्था- सेत्स्यति तत्राह- "उपाधिभिद्यते न तु तद्वान् " ॥ १५१ ॥ तत्राप्युपाधिभिद्यते-उपाधिरेव नाना । नतु तदान-नवोपाधिमान् विशिष्ट इत्यर्थः । विशिष्टस्य वस्तुतो भेदाभ्युपगमे तु नानात्मवाद एवाभ्युपगतः स्यादिति भावः ॥ १५१ ॥ । - १- -प्रथमोऽध्यायः। (४९) किञ्च । "एवमेकत्वेन परिवर्तमानस्यन विरुजु- धर्माध्यासः" ॥ १५२॥ अपिरनुवर्तते । एवं यथा जन्मादिव्यवस्थाऽनुपपत्तिरेवमेकत्वेन- सर्वोपाधिष्वेकरूपत्वेन परिवर्तमानस्य सर्वतो विद्यमानस्य पुरुषस्य युगप- विरुद्धधर्माध्यासोऽपि-विरुद्धानां सुखदुःखादिधर्माणां सुख्यहं दुःख्यह- मित्यादिरूपसम्बन्धोऽपि न नोपपद्यत इत्यर्थः ॥ १५२ ॥ ननु सुखदुःखादयोऽपि तत्तदुपाधिधर्मा एवाभ्युपगम्यन्ते । तेन तेषां पुरुष समारोपादेककालावच्छेदेनापि व्यवस्था सेत्स्यति, तत्राह- "अन्यधर्मत्वेऽपि नारोपात् तत्सिद्धिरकत्वात्मा१५३॥ अन्यधर्मत्वेऽपि-सुखदुःखादीनां तत्तदुपाधिधर्मत्वेऽप्यारोपात्=पुरुषे समारोपात्तत्सिद्धिः-सुखदुःखादिव्यवस्थासिद्धिर्न-न संभवति । कुतः एकत्वात् आरोपाधिष्ठानस्य पुरुषस्यैकत्वादित्यर्थः ॥ १५३ ॥ नन्वेवं तर्हि पुरुषनानात्वेऽदैतश्रुतिविरोधस्तत्राह- "नाद्वैतश्रुतिविरोधी जातिपरत्वात् ॥१५४॥ नादैतश्रुतिविरोधः नानात्मवादिनामस्माकमात्मैक्यपतिपादिकाभिः श्रु- तिभिर्विरोधो न । कुतः ? जातिपरत्वात्-तासां चित्त्वेन पुरुषकरूपत्वप्रति- पादनपरत्वादित्यर्थः ॥ १५४ ॥ ननु यथा पुरुषकत्वं तन्नानात्वपत्यक्षेण विरोधात्परित्यज्यते,तथा पुरुष- करूपत्वमपि तन्नानारूपत्वप्रत्यक्षेण विरोधात् परित्यक्तव्यम् , तत्राह- "विदितबन्धकारणस्य दृष्टयाऽतद्रूपम् ॥ १५ ॥ विदितबन्धकारणस्य-विदितं-लब्धवृत्तिकं बन्धकारणं अविवेकलक्षणे मिथ्याज्ञानं यस्य, तस्याज्ञपुरुषस्य दृष्टयाऽतद्रूपं श्रुतिमतिपादितं चित्त्वेन पुरुषैक्यरूप नेत्यर्थः । N (५०) सांख्यदर्शनसूत्रवृत्तौ। ज्ञातवन्धकारणस्य दृष्टया तद्रूपं श्रुतिप्रतिपादितं रूपमित्यनि- रुद्धः ॥ १५५ ॥ नतु पुरुषैकरूपत्वं चेत् स्यादुपलभ्येत । नोपलभ्यते । तस्मानास्त्येव, तत्राह- नान्धदृष्टया चक्षुष्मतामनुपलंभः॥॥१५६ ।। अन्धदृष्ट्या अन्धानां विवेकचक्षुःशून्यानां दृष्ट्याऽनुपलंभेऽपिन चक्षुष्म- तां-विवेकचक्षुषामार्याणां दृष्ट्याऽनुपलंभः-पुरुषकरूपत्वानुपलम्भ इत्यर्थः। तथा च नाद्वैतश्रुतिचिरोष इति भावः ॥ १५६ ॥ किच। - वामदेवादिर्मुक्तो नाद्वैतम् ॥ १५७ ॥ आदिना भरतादेः संग्रहः। वामदेवादिर्मुक्तो जातः। तदतिरिक्ता बद्धनी- वाश्चाद्याप्युपलभ्यन्ते । तस्मानाद्वैत-नात्मैकत्वमित्यर्थः । चेदेक एवात्मा भवेत्, तदा वामदेवादिमुक्ती सर्वमुक्तरिदानी वद्धजीवो न कश्चिदुपलभ्येत । विद्यते तावदुपलम्भस्तस्मानाद्वैतमिति भावः॥१५७॥ ननु वामदेवादेरपि न मुक्तिर्माता, तबाह- "अनादावद्य यावदभावाद्भविष्यदप्येवम्" ॥ १५८ ॥ ' अनादौ-अनादिकालकेसंसारेऽद्ययावत् अद्यपर्यन्तमभावात्-मुक्तेरना- यमानत्वाद भविष्यदपि भविष्यकालके संसारेऽप्येवं-न कस्य निन्मु- तिर्भविष्यतीत्यर्थः ॥ १५८ ॥ ननु नानात्मवादेऽपि मुक्तेरवश्यंभावात् कमेण सर्वमुक्ती संसारस्यात्य- न्तोच्छेदः प्रसन्यते, तबाह- इदानीमिव सर्वत्र नात्यन्तोच्छेदः ॥१५९॥ इदानामिव योदानीमीश्वरनियमात फेचिन्मुक्ताः फेचिददा वर्तन्ते, प्रथमोऽध्यायः। (५१) तथा सर्वत्र भूतभविष्यतोरपि कालयोरवर्तन्त । वय॑न्ते च । तस्मानात्य- न्तोच्छेदः संसारस्यात्यन्तोच्छेदो न कदापि शंकनीय इत्यर्थः ॥ १५९ ॥ ननु प्रकृतिपुरुषव्यतिरिक्तः कोऽयमीश्वरः। यस्य नियमवशासंसारचकं सततमनुवर्तते, तत्राह- व्यावृत्तोभयरूपः ॥१६०॥ व्यावृत्तं भिन्न-विलक्षणमितियावदुभयस्मात्-प्रकृतेः पुरुषाच रूपं स्वरूपं यस्य, स तथा-नित्यं क्लेशकर्मविपाकाशयैरपरामृष्टःपुरुषविशेष इत्यर्थः ॥१६०॥ ननु प्रकृतिविलक्षणत्वेऽपि पुरुषविलक्षणत्वमस्य कथमनुजानीमः ? तत्राह- "साक्षात्संबन्धात्साक्षित्वम्" ॥ १६१ ॥ यत इति शेषः । यस्मात् साक्षात्संबन्धात्-प्रकृतेः पुरुषाणाश्वेश्वरा- स्मीयतया तादात्म्यलक्षणः संबन्धः साक्षात्सम्बन्धः । स्वस्वामिभावलक्षणः शरीरशरीरिभावलक्षणः संवन्धोऽप्ययमेव परिभाष्यते । तस्मादस्य भगवतो जमदधिपतेः साक्षित्व-विश्वसाक्षित्वं साक्षात्सर्वदष्ट्रत्वमित्यर्थः । तथा चाह भगवान् मन्त्रः । ऋ०अष्ट०२अ०३ वर्ग १७मं२०॥ द्वा, सुपर्णा, सयुजा, सखाया, समानं वृक्षं परि- षस्वजाते। तयो रन्यः पिपलं स्वाद्वत्त्यन- श्रन्नन्यो अभिचाकशीति ॥ इति ॥ पुरुषस्तावदात्मोपाधिभूतबुद्धिसत्त्वस्य तद्धर्माणाञ्च केषाञ्चित्साक्षी भवनपि न विश्वस्य साक्षी । तेन तद्विलक्षणः श्रीपतिरीश्वर इति भावः ॥ १६१॥ अन्यं विशेषमाह- "नित्यमुक्तत्वम् " ॥ १६२॥ यत इति शेषः । यस्मादस्य भगवतो नित्यमुक्तत्व-नित्यं मुक्तिभावत्व- मित्यर्थः ।

-
-
(५२) सांख्यदर्शनसूत्रवृत्तौ।
पुरुषस्य बन्धकोटिरुपावर्तते, भगवतो जगदीश्वरस्य तु न साऽभून
भवति न भविष्यतीति महदैलक्षण्यमिति भावः ॥ १६२ ॥
ननु कस्मादस्य नित्यमुक्तत्वमभ्युपेयते ? तत्राह-
"औदासीन्यश्चेति ॥ १६३ ॥
इति हेत्वथें । पर्याप्तकामत्वादिधर्मान्तरसमुच्चयार्थश्वः । यस्मादस्य
जगदधिपतेरौदासीन्यं नित्यं माध्यस्थ्यं पक्षपातराहित्यमित्यर्थः ॥१६३॥
नवीदृशश्चेदीश्वरस्तर्हि श्रूयमाणं जगत्कर्तृत्वं तस्य कथमुपपद्येत,
कथश्च तदा कर्को प्रकृतिरिति सांख्यडिण्डिमोऽपि सङ्गच्छेत ? तबाह-
"उपरागात्कर्तृत्वं चित्सान्निध्यात्,
चित्सानिध्यात" ॥ १६४ ॥
अध्यायपरिसमाप्तिसूचनार्था वीप्सा । यथायोग्यमन्वयः । उपरागात्=
प्रकृतिसन्निधानादस्य कर्तृत्वं अयोजककर्तृत्वम् । प्रकृतेश्च चित्सान्निध्यात्-
ईश्वरश्चित् । तत्सनिधानान्मुख्यं कर्तीत्वमित्यर्थः ।
तत्र प्रयोजककर्तृत्वं निमित्तत्वम् । मुख्यकर्तृत्वमुपादानत्वमिति विवेकः १६४
अथात्यन्तपुरुषार्थों बन्धोऽनुप्रकृतिस्तथा ॥
सविस्तरं पुमानीशः प्रथमेऽस्मिन्निरूपितः ॥ १॥
इति श्रीमत्परमहंसपरिव्राजकाचाय्यौदासीनवर्या-
मारामभगवत्पादशिष्यहरिप्रसादकृतायांसांख्य-
सूत्रवृत्ती प्रथमो विषयाध्यायः ॥ १ ॥

- - , द्वितीयोऽध्यायः। (५३) अथ द्वितीयोऽध्यायः। ननु प्रकृतेः प्रयोजनाभावान्मुख्यं जगतः कर्तीत्वं न संभवति, तत्राह- "विमुक्तमोक्षार्थ स्वार्थ वा प्रधानस्य ॥ १॥ कर्तृत्वमिति प्रथमाऽध्यायशेषसूत्रादनुवर्तते । विमुक्तमोक्षार्थ-विवेकेन मुक्तो विमुक्तः पुरुषः, तस्य मोक्षार्थ मुक्त्यै स्वार्थ वा भोगापवर्गप्रदातृत्व- लक्षणस्वाधिकारसमात्य वा प्रधानस्य-प्रकृतेः कर्तृत्वं जगत्स्स्रष्ट्रीत्वमित्यर्थः । यद्यपि मोक्षवदोगोऽपि सृष्टेः प्रयोजनं, तथापि प्रधानत्वान्मोक्ष एवं सूत्रित इति ध्येयम् ॥ १॥ ननु विमुक्तमोक्षार्थश्चेत्मकृतेः स्रष्ट्रीत्वं, तर्हि सकृत्सृष्टयैव मोक्षसंभवे कृतमसकृत्सृष्टचा, तत्राह- "विरक्तस्य तत्सिद्धेः॥२॥ विरक्तस्य-विवेकप्रत्ययोत्पन्नपरवैराग्यस्य तसिद्ध मोक्षोत्पत्तेर्न सकृ- सृष्टया निर्वाह इत्यर्थः ॥ २॥ ननु सकृत्सृष्टयैव श्रवणमात्रादैराग्यं सेत्स्यति, तबाह- न श्रवणमात्रात् तत्सिद्धिरनादिवासनाया बलवत्त्वात् ॥३॥ अनादिवासनायाः वैराग्यप्रतिबन्धकीभूताया अनादिसंसारवासनाया बल- वत्त्वाद-प्रबलत्वान श्रवणमात्रा-बहुजन्मकृतपुण्यसञ्चयलभ्यात्सत्त्वपुरुषा- न्यताश्रवणमात्रात्तात्सद्धिः तस्य वैराग्यस्य सिद्धिरित्यर्थः ॥ ३ ॥ असकृत्सृष्टौं युक्त्यन्तरमाह- बहुभृत्यवद्वा प्रत्येकम् ॥४॥ वा अथवा प्रत्येकं बहुभृत्यवत् यथैकैकं सद्गृहस्थं पति स्त्रीपुत्रादिभेदेन बहवो भृत्याः भर्तव्याः सन्ति, तथा प्रकृतेरापि बहवः पुरुषा विमोचनीयाः सन्तीत्यर्थः । १ .

(५४) सांख्यदर्शनसूत्रवृत्तौ। . तथा च सकृत्सृष्टया कियत्पुरुषमोक्षेऽपि पुरुषान्तरमोक्षार्थ पुनः पुनः सृष्टिरिति भावः ॥ ४ ॥ ननु "तस्माद्वा एतस्मादात्मन आकाशः संभूत इत्यादिना परमेश्वरस्यापि स्रष्टुत्वश्रवणात्कथं प्रकृतिरेव स्रष्टी, तबाह- "प्रकृतिवास्तवे च पुरुषस्याध्याससिद्धि" ॥५॥ चोऽप्यर्थः पुरुषस्याये योज्यः। प्रकृतिवास्तवे अकृतर्मुख्य स्रष्ट्रीत्वे सिद्ध पुरुषस्य च-पुरुषेश्वरस्याप्यध्याससिद्धिः अध्यासः प्रकृत्युपरागस्त- स्मात् स्रष्टुत्वसिदिरस्तीत्यर्थः। तेन युक्ता श्रुतिवागिति भावः ॥ ५ ॥ ननु प्रकृतेर्मुख्यं खष्ट्रीत्वमेवासिद्ध, तत्राह- "कार्यातस्तत्सिद्ध" ॥ ६ ॥ कार्यतः महदादिभूतान्तकार्य्यतो लिङ्गात् तसिद्धेः मुख्यत्रष्ट्रीत्वस्य तस्यसिद्धरित्यर्थः ॥ ६ ॥ ननु प्रकृतेर्मुख्य स्रष्ट्रीत्वे सिद्धे तत्मवृत्तिनिवृत्तिनियमो नस्यात, तबाह- "चेतनोदेशानियमा कण्टकमोक्षवत् ॥७॥ चेतनोद्देशात् नगदधिपतिरीश्वरोऽन चेतनः 'चेतनश्चेतनानाम् इति श्रुतेस्तस्योद्देशः अभिलाषस्तस्मानियमः स्वार्थ परार्थ का प्रकृतिम- त्तिनिवृत्तिनियमः, कण्टकमोक्षवत्-सूच्यग्रभागः कण्टकस्तस्य यथा राजा भेलाषाददण्डयेषु मोक्षस्य, दण्डयेषु च प्रयोगस्य, नियम इत्यर्थः ॥७॥ ननु यस्याभिलाषमात्रात्मकृतेः प्रवृत्तिनिवृत्तिनियमस्तस्य साक्षात्लहत्वं के न स्यात, किमन्ययोगकल्पनया ? तत्राह- "अन्ययोगेऽपि तसिद्धिर्नाञ्जस्येनायोदाहवत्॥ ॥८॥ अपिरवधारणे । अन्ययोगेऽपि प्रकृतियोगे सत्येव तत्सिद्धिा-पुरुपेश्वर- त्य सष्टत्वसिद्धिर्भवति नान्नस्येन-ने साक्षात् । अयोदाहवत्-अयसो दाहक- ववादित्यर्थः। १ तै० ब्रह्मानं० १० अनु०१ । " - - द्वितीयो ऽध्यायः। (५५) - प्रकृतियोगाभावे कस्येश्वरः स्यात् ? जीवानामिति चेत् तदागतस्तदो- गापवर्गप्रदान्याः प्रकृतेरपि सनातनो योग इति भावः ॥ ८ ॥ ननु केयं सृष्टिर्नाम ? तत्राह- "रागविरागयोर्योगः सृष्टिः ॥९॥ रागविरागयोः रञ्जनात्मकत्वादागः प्रकृतिः, नित्यमुदासीनत्वाद् विगत रागो जगदीश्वरः । तयोर्योगः-संबन्धः सृष्टिः-सृष्टिहेतुत्वात्सृष्टिारित्यर्थः । योगः सनातन इत्यसकृदुक्तं तेन सृष्टिरपि सनातनीति बोध्यम् । रागविरागयोरिति निमित्तसप्तमी, सांसारिकविषयेषु स्नेहो रागस्तद- भावो विरागः । तत्र रागनिमित्ता सृष्टिविरागनिमित्तो योगः-मोक्ष इति भाष्यकृतः ॥९॥ ननु सा केन क्रमेण भवति ? तत्राह- महदादि क्रमेण पञ्चभूतानाम् ॥१०॥ सृष्टिरित्यनुवर्तते । महदादिक्रमेण-प्रकृतर्महान् महतोऽहङ्कारोऽ हङ्कारात्पञ्चतन्मात्राणि पश्चतन्मात्रेभ्यः पञ्चभूतानीतिमहदादिकमेण पञ्च- भूतानां क्षितिजलज्योतिरनिलविहायसां सृष्टिरित्यर्थः । यद्यप्येतस्मादात्मन आकाशः संभूत इत्यादिश्रुतावादावेव पञ्चभू- तानां सृष्टिः श्रूयते, तथापि महदादिक्रमेणैव तत्सृष्टिारिष्टेति भाष्यम्॥१०॥ ननु प्रकृतिसृष्टितो महदादिसृष्टौ को विशेषः ? तबाह- "आत्मार्थत्वात्सृष्टेनैषामात्मार्थ आरम्भः ॥ ११॥ सृष्टेः महदादिसृष्टेरात्मार्थत्वात् आत्मा पुरुषस्तदर्थत्वान्नैषां महदादी- नामात्मार्थः प्रकृतिवत्स्वार्थ आरम्भः-सृष्टिरित्यर्थः । प्रकृतिक!का सृष्टिः परार्था स्वार्था च । महादादिकर्तृका तु केवलं पराथैवेति विशेषः ॥ ११ ॥ ननु सर्वव्यवहारसिद्धौ दिकालौ कुतो न गणितौ, तत्राह- "दिकालावाकाशादिभ्यः" ॥ १२ ॥ आदिपदेनोपाधीनां सङ्ग्रहः । तेनाकाशस्यैकत्वेऽप्युपाधिसंबन्धाद - सांख्यदर्शनमूत्रवृत्तौ। बहुत्वम् । दिकालौ-पूर्वपश्चिमदिनमासादिदिकालावाकाशादिभ्यः तत्तदुपा- घिसंबन्धविशिष्टाकाशेभ्यो व्यवहार्यावित्यर्थः । आकाशान्तर्भूताविति भावः । नित्यौ यो दिकालौ, तावाकाशप्रकृतिभूतौ प्रकृतेर्गुणविशेषावेव । यौ खण्डदिकालौ, तौ तु तत्तदुपाधिविशिष्टमाकाशमेवेति भाष्यकृतः ॥ १२ ॥ संप्रति महदादिकं लक्षणतः कार्य्यतश्च क्रमेण दर्शयति । "अध्यवसायो बुद्धिः॥ ॥ १३ ॥ अध्यवसाय: ईक्षणपूर्वक एवमेवेति निश्चयात्मको व्यापारः । किया वृत्तिापार इत्यनान्तरम् । बुद्धिः बुद्धः महतो लक्षणमित्यर्थः । कियाक्रियावतोरभेदविवक्षया सामानाधिकरण्यमितिवाचस्पतिमिश्राः॥१३॥ "तत्कायं धर्मादि" ॥ १४ ॥ तत्का>=तस्याः महत्तत्त्वाख्याया बुद्धेः कार्य्य धर्मादि-धर्मों ज्ञानं वैराग्यमैश्वर्यमित्यर्थः ॥ १४ ॥ "महदुपरागाद्विपरीतम् ॥ १५॥ महद् तदेव बुद्ध्याख्यं महत्तत्त्वमुपरागाव-रजस्तमसोः संवन्धाद् विपरी- तं-विपरीतकार्यक-अधर्माज्ञानावैराग्यानैश्वर्यकार्यकं भवतीत्यर्थः ॥१५॥ अहंकारं लक्षयति । "अभिमानोऽहङ्कारः"॥ १६ ॥ आभिमानः अहमित्याभिमानोऽहङ्कारः अहङ्कारस्यलक्षणमित्यर्थः । अभेदविवक्षया सामानाधिकरण्यम् ॥ १६ ॥ "एकादशपञ्चतन्मात्रं तत्कार्य्यम्" ॥ १७॥ एकादशेन्द्रियाणि । शब्दादिपञ्चतन्मात्रश्चेति षोडशकोगणस्तत्कार्यम्= महङ्कारकार्यमित्यर्थः ॥ १७ ॥ -तत्रावान्तरविशेषमाह- . द्वितीयोऽध्यायः। (५७) "सात्त्विकमेकादशकं प्रवर्तते वैकृतादहङ्कारात्॥ १८॥ एकादशकम् एकादशेन्द्रियं सात्त्विकं वैकृता-सात्विकादहकारात्- अभिमानवृत्तिकात्मवर्तते-जायते इत्यर्थः । शिष्टंपञ्चतन्मात्रश्चतामसंतामसाहंकारात्मवर्तते । चालकतया रजस्तू- भयत्रान्वयीति शेषः ॥ १८ ॥ ननु कानि तान्येकादशेन्द्रियाणि ? तबाह- "कर्मेन्द्रियबुद्धीन्द्रियरान्तरमेकाशदशकम् ॥ १८॥ कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि पञ्च । बुद्धीन्द्रियाणि%3D ज्ञानेन्द्रियाणि-चक्षुःश्रोत्रत्वासनघाणाख्यानि पञ्च । एतैर्दशभिर्बाह्येन्द्रियः सहान्तरं अभ्यन्तरेन्द्रियं मन इत्येकादशकम् एकादशेन्द्रियाणीत्यर्थः । इन्द्रस्य-संघातेश्वरस्य पुरुषस्य कर्मज्ञानसाधनामन्द्रियामिति व्युत्पत्तिः। अहङ्कारकार्य्यत्वे सति करणत्वंमिति लक्षणम् ॥ १९ ॥ ननु भूतविशेषगुणग्राहकानि तानि भौतिकानि किं न भवयुः ? तबाह- "आहङ्कारिकत्वश्रुतेन भौतिकानि" ॥२०॥ आहंकारिकत्वश्रुतेः अहङ्कारकार्य्यत्वश्रवणान्न भौतिकानि भूतका-- णीत्यर्थः । यद्यपीन्द्रियाणामाहङ्कारिकत्वप्रतिपादिका श्रुतिर्न काचन साक्षान्मिलति, तथापि एतस्माज्जायतेप्राणो मनःसर्वेन्द्रियाणि च' इति भूतों- सत्तेःमागिन्द्रियोत्पत्तिमतिपादनाव । तदेक्षत' “सोहमस्मीत्यग्रे व्याहरत्ततोऽहन्नामाभवत्" इत्यादिश्रुत्यन्तरे महदहकारोत्पत्तेश्चेतः 'पूर्वश्रवणादेषैव सा श्रुतिरिति कल्प्यतेऽनयैव चैषामाहङ्कारिकत्वश्रवणम् । 'अन्नमयं हि सोम्य मन' इत्यादिश्रुतिस्तु तेषामनकृतपटु- स्वाभिमायतया नेतव्यति ध्येयम् ॥ २० ॥ १ मुं०२-खं०१-३॥२ छां००६-ख०२॥३॥३०अ०२ना.४॥४ छांमपाल ६ खं० ५। - ----- (५८) सांख्यदर्शनसूत्रवृत्तौ। नन्विन्द्रियाणामाहकारकत्वं नोपपद्यते अनिवागप्येति ।वातं प्राणश्चक्षुरादित्यम्' इत्यादिश्रुत्या तेषामन्यादिषु भूतेषु लयश्रवणात कारणे हि कार्य्यस्य लयो भवति, तत्राह- "देवतालयश्रुतिरिम्भकस्य" ॥२१॥ देवतालयश्रुतिः-देवतासु-दिव्यगुणकेष्वन्यादिष्विन्द्रियाणां लयमतिपा- दिका श्रुति रम्भकस्य आरम्भककारणस्यावेदिका भवितुमर्हति । कुतः अनारम्भकेऽपि भूतले जलविन्दोरकार्यस्य लयदर्शनादित्यर्थः ॥ २१ ॥ नन्वेवन्तर्हि तानि नित्यानि सन्तु, तत्राह- "तदुत्पत्तिश्रुतेविनाशदर्शनाच" ॥ २२ ॥ इन्द्रियाणीति प्रकरणलाभः । नेति पूर्वसूत्रादनुवर्तते । नित्यानीति शेषः। तदुत्पत्तिश्रुतेः='एतस्माज्जायते प्राणी मनः सर्वेन्द्रियाणि च' इति तेषामुत्पत्तिश्रुतेरुत्पन्नानां विनाशदर्शनाच न तानि नित्यानीन्द्रियाणी- त्यर्थः ॥ २२ ॥ नन्वत एव गोलकमात्राणि तानि, नतु तव्यतिरिक्तानि, तबाह- "अतीन्द्रियमिन्द्रियं धान्तानामधिष्ठानम्" ॥ २३ ॥ इन्द्रियं चक्षुरादीन्द्रियमतीन्द्रियम्-इन्द्रियजन्यज्ञानागम्यम्।भ्रान्तानां- भ्रान्तिमापन्नानां बौद्धानां त्वधिष्ठानं तदधिष्ठानं गोलकमेवेन्द्रियमि- त्यर्थः ॥ २३ ॥ ननु गोलकातिरिक्तं चेदिन्द्रियं, तडॅकमेव शक्तिभेदात् तत्तबोलकस्थं सन्नानाकार्य करिष्यति, कि नानाभ्युपगमेन? तबाह- "शक्तिभेदेऽपि भेदसिद्धौ नैकत्वम्" ॥२४॥ शक्तिभेदेऽपि शक्तीनां भेदाभ्युपगमेऽपि भेदसिद्धौ इन्द्रियभेदसिद्धौ सत्यां नैकत्वं-नेन्द्रियस्यैकत्वमभ्युपगन्तुं शक्यमित्यर्थः । शक्तिभेदेन शक्याश्रयभेदस्य कल्पनादितिभावः ॥ २४ ॥ १ वृहद-अ०५-३०२६ २ मं० २-२०१३ na द्वितीयोऽध्यायः। (५९) ननु शक्तिभेदेन भेदकल्पनायां विरोधः प्रसज्येत । शक्तिभेदेऽपि ते- : जोभेदादर्शनाद, तत्राह- "न कल्पनाविरोधः प्रमाणदृष्टस्य" ॥२५॥ कल्पनाविरोधा-इन्द्रियभेदकल्पनायां विरोधो न-न प्रसज्यते । कुतः? । प्रमाणदृष्टस्य-प्रमाणेन दृष्टस्य भेदस्य कल्पनादित्यर्थः । तेजसि तु न प्रमाणेन दृष्टो भेद इति भावः ॥ २५ ॥ तत्र मनसि विशेषमाह- "उभयात्मकं मनः ॥ २६ ॥ उभयात्मकं-ज्ञानकर्मेन्द्रियात्मक मना-मन इन्द्रियमित्यर्थः ॥२६॥ नन्वेकस्याहंकारस्य भूतेन्द्रियात्मकं कार्य्यनानात्वं कुतो जातं? तबाह- "गुणपरिणामभेदानानात्वमवस्थावत्" ।। २७ ।। गुणपरिणामभेदात्-गुणानां सत्वरजस्तमसामुद्भवाभिभवलक्षणपरिणाम विशेषान्नानात्वम् एकस्याप्यहंकारस्य कार्यानानात्वम् ।तत्रोदाहरणमवस्थाव- त् । यथैकस्यापि देहस्य गुणपरिणामभेदादवस्थानानात्वमित्यर्थः ॥ २७ ॥ संप्रति ज्ञानकन्द्रिययोरसाधारणी वृत्तिं दर्शयितुं तद्विषयमाह- "रूपादिरसमलान्त उभयोः॥२८॥ रूपमादौ रसमलः अन्नरसमलः पुरीषादिरन्ते यस्य स तथाभूतो विषय उभयोः ज्ञानेन्द्रियकर्मेन्द्रिययोरित्यर्थः । दर्शनाद्यात्मिका द्वयोरसाधारणी वृत्तिरिति भावः । तत्र रूपरसगन्धस्पर्शशब्दा ज्ञानेन्द्रियविषयाः। वचनविहरणादानानन्द- मलाः कर्मेन्द्रियविषया इति विवेकः ॥ २८ ॥ ननु प्रकाशकत्वादिन्द्रियाणामेव द्रष्टत्वादिकमस्तु, कृतं तदतिरिक्तपुरु: पाभ्युपगमेन, तत्राह- "द्रकृत्वादिरात्मनः करणत्वमिन्द्रियाणाम् ॥ ॥२९॥ द्रष्टुत्वादिः द्रष्टुत्वादिकं वक्तृत्वादिकश्चात्मनः-पुरुषस्यैव, केवलं दर्श- नादिवृत्तौ करणत्वंसाधनत्वमिन्द्रियाणां चक्षुरादीन्द्रियाणामित्यर्थः । -- (६०) सांख्यदर्शनसूत्रवृत्तौ। तथैव संकल्पयितृत्वादिकमित्यपि द्रष्टव्यम् ॥ २९ ॥ अन्तःकरणत्रयस्यासाधारणी वृत्तिमाह- त्रयाणांस्वालक्षण्यम् "॥३०॥ त्रयाणां महदहंकारमनसां स्वालक्षण्यं महतोऽध्यवसायोऽहंकारस्या- भिमानो मनसः संकल्प इति स्वस्वं लक्षणमेवासाधारणीवृत्तिर्येषां तानि स्वल- क्षणानि तेषां भावस्तत्त्व-स्वलक्षणासाधारणवृत्तिकत्वमित्यर्थः ॥ ३० ॥ बाह्याभ्यन्तरकरणानामसाधारणी वृत्तिमुक्त्वा साधारणी वृत्तिमाह- "सामान्यकरणवृत्तिःप्राणाद्या वायवः पञ्च" ॥३१॥ सामान्यकरणवृत्तिः सामान्या साधारणी चासौ करणवृत्तिः समस्तकरण- वृत्तिः प्राणायाःमाण आदिभवो येषां ते तथाणापानसमानोदानव्यान- नामानो वायवः वायुवत्सञ्चरणशीलाः पश्च-पञ्चसंख्याका इत्यर्थः । - वायुवत्सश्चरणशीला माणाद्याःपञ्च साधारणी समस्तकरणवृत्तिरिति भावः। तथा चोक्तं योगभाष्यकृदिरप्येकोनचत्वारिंशसूत्रे विभूतिपादस्थे भाष्ये- "समतोन्द्रयवृत्तिः प्राणादिलक्षणा इति।" यत्तु योगभाष्यटिप्पण्याम् 'अत्र समस्तेन्द्रियशब्देनाऽन्तःकरणत्रयमेव गृह्यते,नतु बाह्येन्द्रियाण्यपि । सुषुप्तौ चक्षुराद्यपगमेऽपि माणव्यापारदर्शनात् । अत एव कपिलाचारीश्वरकृष्णैश्वान्तःकरणप्रस्तावे'त्रयाणां स्वालक्ष- ण्यम्' इत्यनेनासाधारणीरध्यवसायादिवृत्तीर्यथायथमुक्त्वा 'सामान्यक- रणवृत्तिःप्राणाद्या वायवः पञ्च'इत्यभिहितम्, इति प्रलपति वालरा- मोदासीनः। तन्नितान्तामङ्गलम् । पूर्वोत्तरानुसन्धानाभावात्।नहि कपिलाचा- य्यरीश्वरकृष्णैश्वान्तःकरणप्रस्तावे 'त्रयाणां स्वालक्षण्यम्'इत्यनेनासा- धारणीरध्यवसायादिवृत्तीरुत्वा 'सामान्यकरणवृत्तिः माणाद्या वायवः पञ्चे- त्यभिहितम, येन बालोक्तिःकथञ्चित्मामाणिकी भवेत् । किन्तु करणमात्रमस्ता- वे पूर्वज्ञानकर्मेन्द्रियाणामसाधारणीरालोचनादिवृत्तीरन्तःकरणत्रयस्यचासा- - - द्वितीयोऽध्यायः। धारणीरध्यवसायादिवृत्तीरभिधाय पश्चात-' सामान्यकरणवृत्तिः प्राणाद्या वायवः पश्च' इत्यभिहितम् । अत एव च वाचस्पतिमित्रैः 'द्वयीन्द्रियाणां वृत्तिर्बाह्याभ्यन्तरीच बाह्या रूपाद्यालो चनलक्षणा, आभ्यन्तरी तु जीवनम् । स हि प्रयत्नभेद: शरीरोपगृहीतमारुतक्रियाभेदहेतुः सर्वकरणसाधारणो यथाचाहुःकापिलाः इति ससाक्षिक व्याख्यातांचेदत्र समस्तेन्द्रियश- ब्देनान्तःकरणत्रयस्य ग्रहणं युक्तममस्यताकथं नाचार्यो व्याख्यास्यत्।कथश्च प्रत्युत सर्वकरणसाधारण इति व्यारेत्, कथञ्च तत्र कापिलानां साक्ष्यमुदा- हरेद, नचाचार्या अपि वञ्चका भवन्ति । येनान्यथा ग्राहयेयारेति स्वयमेवो- ह्यम् । किञ्च समस्तोन्द्रियशब्देनान्तःकरणत्रयस्य ग्रहणे जिज्ञासापि न निव- तेते, किन्त्ववशिष्यते । कस्मादाचायॆाह्याभ्यन्तरेन्द्रियाणामसाधारणी- रालोचनादिवृत्तीरभिधाय पश्चादन्तःकरणत्रयस्यैव साधारणी वृतिरभिहिता न बाह्येन्द्रियदशकस्येति । तनिवृत्तेश्वावश्यकत्वात्कोऽन्यस्तदुपायः स्याद बालकस्येति नावाच्योऽसौ महद्भिः। किञ्च 'सुषुप्तौ चक्षुराद्यपगमेऽपि प्राणव्यापारदर्शनादित्युपपत्तिरपि बालस्वामिनस्तस्यानुपपत्तिसमैव । नहि सुषुप्ताविन्द्रियाणामपगमः कस्यापीष्टतमः । किन्तु तदुपरमः। तस्य च ज्ञान- कर्मलक्षणवृत्त्युपरमेणाप्युपपत्तिः सुसाध्वीति न किञ्चिदवद्यमस्ति । तथा चा- य॑मर्यादामतिक्रम्य सर्वथा विरुद्धमलापेन वार्तिककारं मृषाभिपीडयन वालोऽसौ कथं नार्यसंसदि गलहस्तितो भवेदिति स एव प्रष्टव्यो निखिल- शास्त्रनिष्णातंमन्यो वालिशो वाल इत्यलमिह विस्तरेण । तस्य सांख्यतत्त्वको मुदीटीकायां चित्तप्रसादिन्यांदर्शितत्वात् ॥ ३१ ॥ बाह्याभ्यन्तरभेदेन त्रयोदशविधं करणम् । साधारणासाधारणभेदेन तद्वृत्तिदैविध्यञ्च प्रदर्शितम् । इदानी तदसाधारणीषु वृत्तिषु क्रमाक्रमों प्रदर्शयति ।

(६२) सांख्यदर्शनसूत्रवृत्तौ। "क्रमशोऽक्रमशश्चेन्द्रियवृत्तिः ॥ ३२ ॥ क्रमशः कस्मिंश्चिद्विषये कुतश्चिनिमित्तात् क्रमेण, कस्मॅिश्चिच्च कुत- चिनिमितानुक्रमशश्च अन्तरेणापिक्रम-युगपदितियावादिन्द्रियवृत्तिः चक्षु- रादिबुद्धयन्तानामिन्द्रियाणां वृत्तिः दर्शनसङ्कसाभिमानाध्यवसायलक्षणा क्रिया भवतीत्यर्थः ॥ ३२ ॥ नन्विन्द्रियलक्षणदारभेदेन भिन्ना अपि बुद्धिवृत्तयो वस्तुतः कतिधा- सन्ति ? तत्राह- "वृत्तयः पञ्चतय्यः किष्टाक्लिष्टाः ॥ ३३ ॥ वृत्तयः बुद्धिसत्त्ववृत्तयः पञ्चतय्यः-प्रमाणविपर्ययविकल्पनिद्रास्मातिभे- दात् पञ्च प्रकारा भवन्ति । तत्र यास्तावद्राजस्यास्तामस्याश्च ताः क्लिष्टाः । याः पुनः सात्विक्यस्ता अक्लिष्टा इत्यर्थः ॥ ३३ ॥ ननु वृत्तिनिवृत्तौ सत्यामसत्यां च कीदृशः पुमान् ? तत्राह- "तनिवृत्तावुपशान्तोपरागः स्वस्थ ॥ ३४ ॥ तनिवृत्तौ तासां वृत्तीनां विरामंदशायामुपशान्तोपरागः निवृत्ततत्संबन्धः पुरुषः स्वस्थ: स्वरूपस्थितस्तदनिवृत्तौ तु तत्मतिविम्बिततया तदाकारतां भजमान इवास्वस्थो भवतीत्यर्थः ॥ ३४ ॥ तत्रोदाहरणमाह- "कुसुमवच्च मणिः ॥ ३५॥ कुसुमवच्च-यथा जपाकुसुमेन मणिः स्फटिको मणिरस्वस्थः, कुसुम- निवृत्तौ च रागशून्यः स्वस्थ इत्यर्थः ॥ ३५ ॥ नतु किमर्थ करणप्रवृत्तिः ? कुतश्च ? तत्राह- " पुरुषार्थ करणोद्भवोऽप्यदृष्टोल्लासात् ॥ ॥ ३६ ॥ अदृष्टोल्लासाद अभिव्यक्ताददृष्टनिमित्तात्करणोद्भवोऽपि-प्रधानप्रवृत्तिनि द्वितीयोऽध्यायः। (६३) दर्शनार्थोऽपिः । प्रधानप्रवृत्तिवत्करणमवृत्तिरपि पुरुषार्थ-पुरुषस्य स्वामिनः कृते स्वत एव भवतीत्यर्थः ॥ ३६ ॥ परार्थ स्वतः प्रवृत्ती निदर्शनमाह- "धेनुवद् वत्साय" ॥ ३७॥ धेनुवत् यथा धेनुर्वत्साय वत्सार्थ स्वयमेव क्षीरं स्रवति । नान्यं मय- समपेक्षते । तथा पुरुषार्थ स्वयमेव करणानि प्रवर्तन्ते इत्यर्थः ॥ ३७ ॥ ननु कतिविषं करणं ? तत्राह-- "करणं त्रयोदशविधमवान्तरभेदात् "॥३८॥ अवान्तरभेदात्म्याह्याभ्यन्तरभेदात्करणं त्रयोदशविध-बुदयहङ्कारमा- सीत्यन्तस्त्रयम् । बाह्यानि चक्षुरादीनि दशेति त्रयोदशविधा यस्य, त- दित्यर्थः ॥ ३८ ॥ ननु कस्मादिन्द्रियेषु करणत्वं? तत्राह- "इन्द्रियेषु साधकतमत्वगुणयोगात्कुठारवत्" ॥३९॥ इन्द्रियेषु-चक्षुरादियाह्याभ्यन्तरेन्द्रियेषु साधकतमत्वगुणयोगात अति- शयेनज्ञानक्रियासाधकत्वलक्षणगुणसंवन्धात्करणत्वं व्यापारवदसाधारणकार- णत्वम्। कुठारवत्-यथा छिदादिनियासाधकतमत्वगुणयोगात्कुठारे करणत्व- मित्यर्थः । व्यापारत्वञ्च तजन्यत्वे सति तजन्यजनकत्वमिति ध्येयम् ॥३९ ॥ नन्वनयोर्वाह्याभ्यन्तरयोरुभयोः कि प्रधानं, तबाह- "द्वयोः प्रधान मनी लोकवद्धृत्येषु " ॥ ४० ॥ द्वयोः बाह्याभ्यन्तरयोरुभयोः प्रधान मुख्यं मना-मननवृत्तिकं बुद्धि- सत्त्वमेव, भृत्येपु-भृत्यवर्गेपु लोकवन-लोकसिद्धस्वामिवदित्यर्थः। तत्र बाह्येभ्यः प्रधान मनः, मनसः प्रधानमहंकारः, ततश्च बुद्धिसत्त्वमि- ति विवेकः ॥ ४०॥ ननु तत्माधान्ये को हेतुः १ तत्राह- - - (६४) सांख्यदर्शनसूनवृत्तौ। "अव्यभिचारात्"॥४१॥ इन्द्रियान्तराणां व्यभिचारेऽपि ज्ञानमात्रे मनसो व्यभिचाराभावादि- त्यर्थः ॥ ४१॥ द्वितीयहेतुमाह- " तथाऽशेषसंस्काराधारत्वात् ॥ ४२ ॥ हेत्वन्तरसूचनाय तथाशब्दः । अनुभवजन्यनिखिलसंस्काराश्रयत्वादि- त्यर्थः ॥ ४२ ॥ नृतीयहेतुमाह- स्मृत्याऽनुमानाच ॥४३॥ स्मृत्या पूर्वानुभूतपदार्थविषयिण्या स्मृतिलक्षणयाऽसाधारणवृत्याऽनुमा- नाच-मनःप्राधान्यानुमानाचेत्यर्थः । यद्वा संस्कारा एव न सन्ति कुतो बुद्धस्तदाधारत्वम् । तत्राह-'स्मू- त्याऽनुमानाच' । पूर्वानुभूतस्मृत्या लिङ्गभूतया तजनकसंस्काराणाम- नुमानाच मनसस्तदाधारत्वमित्यर्थः ॥ ४३ ॥ नन्वेवं बुद्धिरेव करणमस्तु कि करणान्तराभ्युपागमेन, तत्राह- "संभवेन्न स्वतः॥४४॥ दारभूतैश्चक्षुरादिकरणैर्विना बुद्धः स्वतः करणत्वं न सभवेत्-न संभ- चतीत्यर्थः। बहिरस्वातन्त्र्यादिति भावः ॥ ४४ ॥ ननु किन्निबन्धनस्तर्हि करणेषु गुणप्रधानभावः ? तबाह- "आपेक्षिको गुणप्रधानभावः क्रियाविशेषात्" ॥४५॥ क्रियाविशेषाव करणत्वे समानेऽपि व्यापारविशेषानिमित्तादापेक्षिकः परस्परापेक्षानिवृतो गुणप्रधानभावः-गुणभावः प्रधानभावश्चेत्यर्थः । चक्षुरादिदशकमपेक्ष्य मनः प्रधानम् । तदपेक्ष्य चाहंकार,स्तदपेक्ष्य च बुदिरिति भावः ॥ ४५ ॥ -

.
द्वितीयोऽध्यायः। (६५)
नन्वेवं गुणप्रधानभावमापन्नानि तानि कस्मात्पुरुषार्थ चेष्टन्ते तत्राह-
"तत्काजितत्वात्तदर्थमभिचेष्टा लोकवत्" ॥४६॥
तत्कासित्वात् पुरुषस्य कर्म-तत्कर्म, तेन-पुरुषादृष्टेनार्जितत्वात-
संपादितत्वात् तदर्थ पुरुषार्थमभिचेष्टा करणानामीहा।लोकवत्-यथा लोके
देवदत्तकर्जितं कुठारादि देवदत्तार्थ छिदादिक्रियां करोतीत्यर्थः ॥४६॥
नन्वेवं पुरुषार्थ करणानां क्रियातौल्ये कस्माद् बुद्धेरेव प्राधान्यं नेत-
रेषा? तत्राह-
"समानकर्मयोगे बुद्धःप्राधान्यं लोकवल्लोकवत् ॥४७॥
अध्यायपरिसमाप्तिसूचनाय वीप्सा । समानक्रियायोगे-बुद्ध्यादिकरणानां
पुरुषार्थत्वेन समानेऽपि कियासम्बन्धे बुद्धेः बुद्धरेव प्राधान्यं-क्रियाविशेष.
निमित्तं मुख्यत्वम् । लोकवक्-यथा लोके रानामात्यप्रभृतीनां राजाज्ञा
परिपालनरूपकर्मयोगे समानेऽपिरानामात्यस्यैव प्राधान्यं नेतरेषामित्यर्थः ।
चक्षुसदीनि विषयानादाय बुद्ध्यै प्रयच्छन्ति । बुद्धिश्चात्मने पुरुषाय
राजमन्त्रिवत्पुरुषेश्वराय प्रयच्छति । तस्मान्मन्त्रिवत्मधानं बुद्धिारति
भावः ॥ ४७॥
प्रकृतेरीधराधीनं पुरुषाय प्रवर्तनम् ।
ततोऽष्टादशतत्त्वानि द्वितीयेऽस्मिनिरूपितम् ॥ १ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्या-
त्मारामभगवत्पादशिष्यहरिप्रसादकृतायां सांख्य-
सूत्रवृत्तौ प्रधानकार्याध्यायो द्वितीयः ॥२॥

(६६) सांख्यदर्शनसूत्रवृत्ती -- । -- --- अथ तृतीयोऽध्यायः। क्रमप्राप्त महाभूतोत्पादमाह- "अविशेषाद्विशेषारम्भः॥१॥ अविशेषात शान्तघोरमूढतालक्षणविशेषरहितात्तन्मात्रपञ्चकाद्भूतसूक्ष्माद विशेषारम्भः विशेषाणां-शान्तघोरमूढतालक्षणविशेषवतां व्योमानिलतेजोऽ- पृथिवीनां पञ्चमहाभूतानामारम्भः उत्पाद इत्यर्थः ॥ १ ॥ ननु महाभूतपञ्चकात्कस्य पुनरुत्पादः ? तबाह- "तस्माच्छरीरस्य" ॥२॥ तस्माद-महाभूतपश्चकाच्छरीरस्य-स्थूलस्यास्य शरीरस्यारम्भ इत्यर्थः॥२॥ ननु स्थूलस्यास्य दृष्टनष्टमायत्वादशरीरः पुमान् कथं भोगापवर्गाय दे- हादेहान्तरं गच्छेत् ? तत्राह- "तवीजात्संमृतिः॥३॥ तीजात-तस्य स्थूलशरीरस्य वीज-निमित्त यत् साहङ्कारबुद्धीन्द्रिय- तन्मात्रसप्तदशकारब्धं साशयं लिङ्गशरीरम् । तस्मादस्य भोक्तुरात्मनः संसृतिः ऐहिकामुष्मिका गतिरित्यर्थः ॥ ३ ॥ ननु कि पर्यन्तं महदादयः शरीरमारभन्ते? तबाह- "आ विवेकाच्च प्रवर्तनमविशेषाणाम। ॥४॥ आविवेकाच-चोऽवधारणे । विवेकमत्ययपर्यन्तमेवाविशेषाणां-शान्त- घोरमूढतालक्षणविशेषरहितानां महदादीनां प्रवर्तन शरीरारम्भाय प्रवर्तन- मित्यर्थः ॥ ४॥ ननु कुत एतदवगम्यते ? तत्राह- "उपभोगादितरस्य" ॥५॥ . -

तृतीयोऽध्यायः। (६७)
इतरस्य अनुत्पन्न विवेकप्रत्ययस्य पुरुषस्योपभोगात्मकृत्या सांसारिक-
भोगावश्यंभावादित्यर्थः ॥ ५ ॥
ननु संसृतिवेलायामस्य भोक्तुरात्मनः सुखदुःखोपभोगो भवति न वा !
तत्राह-
"सम्प्रति परिमुक्तो द्वाभ्याम् ॥६॥
सम्पति-संसृतिवेलायां पुरुषो दाभ्यां सुखदुःखाभ्यां परिमुक्तः सर्वतो
मुक्तः निर्मुक्तो भवतीत्यर्थः ।
सम्मूर्छितत्वादिति भावः ॥ ६ ॥
ननु यस्माल्लिङ्गशरीरादस्य पुंसः संसृतिस्तस्य स्थूलशरीरात्को विशेषः?
तत्राह-
"मातापितजं स्थूलं प्रायश इतरन्न तथा"॥७॥
स्थूलं स्थूलं शरीरं प्रायशः बाहुल्येन मातापितृज-योनिजं भवति।सर्गा-
दावयोनिजस्यापि स्मरणात् प्रायश इत्युक्तम् । इतरत्-सूक्ष्मं शरीरं तु न
तथा-न मातापितॄनमित्यर्थः ॥ ७ ॥
ननु तथापि भोगायतनत्वं कस्य ? तत्राह-
"पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य" ॥८॥
पूर्वोत्पत्तेः पूर्वसर्गादावेवोत्पत्तिः जन्म यस्य,तस्य लिङ्गशरीरस्यैकस्य-
प्रतिपुरु नियमेनैकस्यैव भोगाव-सुखदुःखानुभवाद तत्कायंत्वं भोगायत-
नत्वम् । भोगकर्तव्यताया अत्रैव युक्तत्वात् । नेतरस्य स्थूलशरीरस्येत्यर्थः ।
मृतशरीरे व्यभिचारादिति भावः ॥ ८ ॥
ननु किं तल्लिङ्गशरीरं? तत्राह-
"सप्तदशैकं लिङ्गम्॥ ॥९॥
सप्तदश-एकादशेन्द्रियाणि, पञ्चतन्मात्राणिभूतसूक्ष्माणि, साहङ्कारा
बुद्धिश्चेति सप्तदश मिलित्वा लिङ्ग-लिंगशरीरम् । तच्चैकं प्रतिपुरुषमेकमि-
त्यर्थः ॥ ९॥

-
-
--
(६८) सांख्यदर्शनसूत्रवृत्तौ।
ननु लिङ्गशरीरस्य तस्य सर्वत्र तुल्यत्वात् कथं देवतिर्यगादिभेदेन
भेदः तत्राह-
"व्यक्तिभेदः कर्मविशेषात् ॥१०॥
व्यक्तिभेदः व्यक्तर्लिङ्गशरीरस्य भेदः कर्मविशेषाद-जीवानामदृष्टविशे-
पादित्यर्थः ॥ १०॥
नतु तथापि लिङ्गशरीरस्य भोगायतनत्वे तत्रैव शरीरव्यवहारे स्थूलेऽ-
स्मिन् लोकसिद्धः शरीरव्यवहारः कथं स्यात् ? तत्राह-
"तदधिष्ठानाश्रये देहे तद्बादात्तद्वाद" ॥११॥
तदधिष्ठानाश्रये-तस्य कर्मविशेषस्य यदधिष्ठानं बुद्धितत्त्वं, तस्याश्रये
लिङ्गशरीरे तदादात्-तस्य शरीरस्य वादः व्यवहारस्तद्वादस्तस्माद् देहे-
लिङ्गशरीरस्याश्रयीभूते स्थूलशरीरेऽपि तदादा-शरीरव्यवहार इत्यर्थः।११॥
नन्वस्तु तर्हि बुद्धित एव पुरुषस्य भोगः, कृतं सूक्ष्मशरीरेणाप्रामाणि-
केन, तत्राह-
"न स्वातन्त्र्यात् तहते, छायावच्चित्रवञ्च" ॥ १२ ॥
तहते-लिगशरीरंविना न स्वातन्त्र्यात्-स्वतन्त्रतया बुद्धिसत्त्वमव-
स्थातुमर्हति, दूरे ततो भोगः । तत्रोदाहरणं, छायावचित्रवञ्च यथाश्रयं
विना छाया चित्रञ्च न तिष्ठतीत्यर्थः ॥ १२ ॥
नन्वस्तु तर्हि लिगशरीरणैव पुरुषस्य भोगः, कृतं स्थूलशरीरेण,
तत्राह-
"मूर्त्तत्वेऽपिन संघातयोगात् तरणिवत्" ॥ १३ ॥
स्वातन्त्र्यादिति पूर्वसूत्रादनुवर्तते । मूर्त्तत्वेऽपि-लिङ्गशरीरस्य स्थूलश-
रोरवन्मूर्त्तत्वेऽपि न तेन स्वातन्त्र्यात् पुरुषस्य भोगः संभवति । किन्तु
संघातयोगात स्थूलशरीरसंबन्धात् । तत्रोदाहरणं तरणिवत्-यथा संघात-
योगादेव सहस्ररश्मितो भोग इत्यर्थः ॥ १३ ॥

. तृतीयोऽध्यायः- ननु तत्सूक्ष्मं शरीरं किं परिमाण ? तबाह- "अणुपरिमाणं तत्कृतिश्रुतेः॥ १४ ॥ न इति पूर्वसूत्रादनुवर्तते । तत्-लिङ्गशरीरमणुपरिमाणं न, किन्तु मध्य- मपरिमाणम् । कुतः ? कृतिश्रुतेः= 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति तत्कृतेःकरणस्य निर्माणस्य श्रुतेः श्रव- णादित्यर्थः ॥ १४ ॥ मध्यमपरिमाणत्वे हेत्वन्तरमाह- "तदन्नमयत्वश्रुतेश्च"॥ १५ ॥ 'अन्नमयं हि सोम्य मन आपोमयःप्राणस्तेजोमयी वाग' इति तस्य लिङ्गशरीरस्यांशतोऽनमयत्वस्य-अन्नसंसृष्टसजातीयांशप्रचुरत्व- स्य श्रवणाच मध्यमपरिमाणं तदित्यर्थः ॥ १५ ॥ ननु भवतु मध्यमपरिमाणं लिङ्गम् । तथाप्यचेतनानि तानि किमर्थ संस- रति ? तबाह- "पुरुषार्थ संसृतिलिङ्गानां सूपकारवत्" ॥१६॥ पुरुषार्थ-पुरुषाणां भोगापवर्गार्थ लिङ्गाना-लिङ्गशरीराणां संसृतिः ऐहि कामुष्मिकागतिः । तत्रोदाहरणं सूपकारवत् यथा राज्ञः सूपकाराणां पाक- शालायां गतिस्तदर्थमेव भवति नात्मार्थमित्यर्थः ॥ १६ ॥ एवं लिङ्गशरीरं स्वरूपपारमाणाभ्यां विचार्य स्थूलशरीरं विचार- यन्नाह- "पाश्चभौतिको देहः॥ १७॥ 'पाश्चभौतिकः व्योमानिलतेजोऽप्पृथिवीनां पञ्चभूतानां परिणामो देहः- स्थूलशरीरमित्यर्थः॥ १७ ॥ मतान्तरमाह- १ मुं०२ खं० १-३॥ २ छाप्रपा. ६-खं० ५॥ -

(७०)
सांख्यदर्शनसूत्रवृत्तौ।
"चातुभौतिकमित्येके ॥ १८ ॥
चातुभौतिकव्योमापहाय चतुर्णा भूताना परिणामः स्थूलदेह इत्येके
इत्यर्थः ॥ १८॥
अपरं मतमाह-
"ऐकभौतिकमित्यपरे ॥ १९ ॥
एकभूतस्य पृथिवीमात्रस्य परिणामः स्थूलो देह इत्यपरे इत्य-
र्थः ॥ १९ ॥
प्रसंगादेहचैतन्यवादं निरस्यति ।
"न सांसिद्धिकं चैतन्यं प्रत्येकादृष्ट" २०॥
प्रत्येकादृष्टः-पृथक्कृतेषु भूतेष्वेककस्मिन् चैतन्यादर्शनाद् भौतिकस्य
देहस्य न सांसिद्धिकं न स्वाभाविक चैतन्यं, किन्तु पुरुषोपाधिकमि-
त्यर्थः ॥ २० ॥
स्वाभाविक चैतन्ये बाधकान्तरमाह-
"प्रपञ्चमरणाद्यभावश्च" ॥ २१ ॥
आदिना सुषुप्तेः संग्रहः । देहस्य स्वाभाविके चैतन्येऽभ्युपगमे प्रपञ्चे-
जगत्यां मरणस्य सुषुप्तेश्चाभावः मसज्येतेत्यर्थः ।
स्वभावसिद्धस्य चैतन्यस्याशक्यलोपतया कस्यापि सुषुप्तिमरणे न स्या-
तामिति भावः ॥ २१ ॥
यदुक्तं प्रत्येकादृष्टरिति, तत्राशंक्य दृष्टान्तवैषम्येण निराचष्टे ।
"मदशक्तिवञ्चेत प्रत्येकपरिदृष्टे साहत्ये तदुद्भवा२२॥
मदशक्तिवत-ननु यथा मदशक्तिः प्रत्येकद्रव्यावृत्तिरपि मिलितेषु तेषू
द्भवति, तथा प्रत्येकभूतादृष्टमपि चैतन्य मिलितेषु तेषूद्धविष्यतीति चेद-
याच्यते, तदा न-न वाच्यम् । कुतः? प्रत्येकपरिदृष्टेभ्यतस्तत्रापि सूक्ष्मत-
न्या प्रत्येकं मादकत्वे परिदृष्टे सति सांहत्ये-समुदाये तदुद्भवः तस्या मदश-
केरुद्भवः प्रभवो नतु प्रत्येकादृष्टरित्यर्थः ॥ २२ ॥

- तृतीयोऽध्यायः। (१) नन्वस्तु देहस्य पुरुषोपाधिकं चैतन्यं, तथापि पुरुषस्य तस्य मुक्ति कथं स्यात् । तत्राह- "ज्ञानान्मुक्ति: ॥२३॥ ज्ञानात्-सत्त्वपुरुषयोविवेकज्ञानान्मुक्तिः शरीरसंवन्धहेतुकस्य विविधदुः खस्यात्यन्तनिवृत्तिरित्यर्थः ॥ २३ ॥ ननु वन्धः कथं ? तत्राह- बन्धी विपर्ययात्" ॥ २४ ॥ विपर्ययात्-विवेकज्ञानविपरीतादविवेकाइन्धः शरीरसंबन्धहेतुकदुःख- त्रययोग इत्यर्थः ॥ २४॥ ननु ज्ञानान्मुक्तिरित्ययुक्तं, कर्मणोऽपि तत्र हेतुत्वाव, तत्राह- "नियतकारणत्वान्न समुच्चयविकल्पौ" ॥ २५ ॥ नियतकारणत्वात् ज्ञानस्य मुक्तिं प्रति नियमेन कारणत्वान समुच्चयवि- कल्पोन मोक्षोपजनने तस्य कर्मणा समुच्चयः, कदाचिज्ज्ञानात्कदाचित्क- मण इति विकल्पो वेत्यर्थः ॥ २५ ॥ किञ्च। "स्वमजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य" ॥ २६ ॥ पूर्वसूत्रात्समुच्चयविकलौ विभक्तिविपरिणामेनानुवर्तते । नोभयोः-ज्ञान- कर्मणोर्विकल्पसमुच्चयाभ्यां पुरुषस्य मुक्तिः । किन्तु, ज्ञानादेव । 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय' इति- श्रुतेः । तत्रोदाहरणं स्वमजागराभ्यामिव मायिकामायिकाभ्यां यथा मायि- कामायिकाभ्यां कल्पिताकल्पिताभ्यां स्त्रमनागराभ्या-स्वमनागरपदार्था- भ्यां, विकल्पिताभ्यां वा समुचिताभ्यां वा, न पुरुषस्य बुभुक्षातो मुक्तिः, किन्तु जागरपदार्थादेव, तथेत्यर्थः ॥ २६ ॥ १ यजु:- अ० ३१-मं० १८॥

(७२) सांख्यदर्शनसूत्रवृत्तौ। ननु माभूतां नित्येन कर्मणा ज्ञानस्य विकल्पसमुच्चयौ । नैमित्तिकेन तु तौ कि न स्यातां ? तत्राह- "इतरस्यापि नात्यन्तिकम्" ॥२७॥ इतरस्यापि-नित्यवन्नैमित्तिकस्यापि कर्मणो नात्यन्तिक-नान्तमतिकान्तं फलम् । अतस्तेनापि विकल्पसमुच्चयो ज्ञानस्य नेत्यर्थः ॥ २७ ॥ ननु माभूतां नैमित्तिकेनापि कर्मणा ज्ञानस्य विकल्पसमुच्चयो । काम्मेन कर्मणा सेत्स्यतः, तत्राह- "सङ्कल्पितेऽप्येवम्" ॥२८॥ नात्यन्तिकमित्यनुवर्तते । संकल्पितेऽपि-काम्ये कर्मण्यप्येवं नित्यनैमि- त्तिककर्मवनात्यन्तिकं फलम् । अतस्तेनापि तस्य तौ न स्त इत्यर्थः॥२८॥ नन्वेवं यस्य मोक्षोपजनने केनापि कर्मणा विकल्पसमुच्चयौ नस्त स्तज्ज्ञानं कुतो जायतां ? तत्राह- "भावनोपचयाच्छुद्रस्य सर्व प्रकृतिवत्" ॥ २९ ॥ सर्व-निखिलं वेदोक्तं कर्म कुर्वतः शुद्धस्य शुद्धान्तःकरणस्य भावनोप- चयाव-भावना-ध्यानं, तस्योपचय उत्कर्षस्तस्माज्ज्ञान जायते इति शेषः। तत्रोदाहरणं प्रकृतिवत्मकृत्या शुद्धान्तःकरणवदित्यर्थः ॥ २९ ॥ ननु किं तद्ध्यानं ? तत्राह- "रागोपहतिया॑नम्" ॥ ३० ॥ रागोपहतिः चित्तचाञ्चल्यहेतुविषयानुरागो रागः, तस्योपहतिः अभि भवो ध्यानमित्यर्थः ॥ ३०॥ ननु कुतो ध्यानस्य सिद्धिः ? तत्राह- "वृत्तिनिरोधाचत्सिद्धिः ॥ ३१ ॥ चात्तानीपिात प्रमाणविपर्पयविकल्पनिद्रास्मृतयः पञ्च वृत्तप, स्तासा - १ नृतीयोऽध्यायः विषयानुरागहेतूनां निरोधात्तात्सादिः तस्य ध्यानस्य सिद्धिः निष्पत्तिरि- त्यर्थः ॥ ३१॥ नतु वृत्तिनिरोधस्य सिद्धिः कुतः ? तत्राह- "धारणासनस्वकर्मणा तसिद्धि" ॥३२॥ धारणासनस्वकर्मणा वक्ष्यमाणलक्षणेन धारणाध्यानस्वकर्मणा तत्सि- दिः तस्य वृत्तिनिरोधस्य सिद्धिः-निष्पत्तिरित्यर्थः ॥ ३२ ॥ धारणां लक्षयति । "निरोधश्छदिविधारणाभ्याम्" ॥ ३३ ॥ छर्दिविधारणाभ्यां रेचनं छर्दिस्तेन पूरणस्यापि संग्रहास्तम्भनं विधारणं, ताभ्यां यः प्राणस्य निरोधः सा धारणेत्यर्थः ॥ ३३ ॥ आसनं लक्षयति । "स्थिरसुखमासनम्" ॥ ३४ ॥ यद्यपि स्वस्तिकादिभेदनासनं बहुविधं,तथापि यवस्थिरसुख-स्थिरं सत्सु- खपदं, तदेवासनमित्यर्थः ॥ ३४ ॥ स्वकर्म लक्षयति। "स्वकर्म स्वाश्रमविहितकानुष्ठानम्" ॥ ३५ ॥ स्वाश्रमविहितकर्मानुष्ठानम् आश्रमाश्चत्वारस्तवस्वस्वाश्रमस्य वेदेन विहितानां कर्मणां यथाशास्त्रमनुष्ठानं स्वकर्मेत्यर्थः ॥ ३५ ॥ वृत्तिनिरोधस्योपायान्तरमाह- वैराग्यादभ्यासाच ॥ ३६॥ समुच्चये चः। दृष्टानुअविकविषयवैतृष्ण्यं वैराग्यम् । स्थितौ यत्नोऽ भ्यासः, ताभ्यां समुचिताभ्यां वृत्तिनिरोध इत्यर्थः ॥ ३६॥ 'बन्धो विपर्ययात् । इत्युक्तं, तत्र विपर्यायभेदानाह- "विपर्ययभेदाः पञ्च" ॥ ३७॥ १ स०अ० ३ सू० २४ । .

(७४) सांख्यदर्शनसूत्रवृत्तौ। अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च विपर्ययभेदाः-विपर्ययस्य विवेकज्ञानविपरीतस्याविवेकस्य भेदा इत्यर्थः ॥ ३७ ॥ विपर्ययस्य भेदानुक्त्वा तत्कारणभूतामशक्तिमाह- अशक्तिरष्टाविंशतिधा"॥३८॥ अष्टाविशतिधा-एकादशेन्द्रियाणि, तेषां वैकल्यादेकादशधा, सप्तदश तुष्टिसिद्धी, तयोर्विपर्ययात् सप्तदशति मिलित्वाऽष्टाविशतिधाऽशक्ति:-बुन धेरशक्तिरित्यर्थः ॥ ३८ ॥ ययोर्विपर्ययात्सप्तदशधा बुद्धरशक्तिस्ते तुष्टिसिद्धी सूत्रद्रयेनाह- "तुष्टिर्नवधा" ॥ ३९॥ स्पष्टम् । नवधात्वं वक्ष्यति ॥ ३९ ॥ "सिद्धिरष्टधा"॥४०॥ स्पष्टम् । अष्टधात्वं वक्ष्यति ॥ ४० ॥ 'विपर्ययभेदाः पञ्च' इत्युक्तं, तत्रावान्तरभेदान् निरूपयति । अवान्तरभेदाः पूर्ववत् " ॥४१॥ पूर्ववत् यथा पूर्व विपर्ययस्य पञ्च भेदा उक्तास्तथाऽवान्तरभेदाः-वि- षयभेदादवान्तरभेदा अपि दापष्टिरवगन्तव्या इत्यर्थः । तत्राव्यक्तमेहदहकारतन्मानेष्वष्टास्वनामस्वात्मख्यातिरविद्या तमोऽ- ष्टधा ८ अणिमाद्यष्णुविधैश्वर्येष्वणुरस्मिा महोनस्मीति तादात्म्याभिमानोs- स्मितामोहोवधा ८ दिव्यादिव्यभेदेन विधेषु शब्दादिविषयेषु लोभो रागो महामाहा बाधा.१० अस्सिताया अष्टौ ये विषया, ये च रागस्य दशविषयास्तविघातका कोष देवस्तामिस्रोऽष्टादशधा १८ तेषामेवाष्टा- दशानां विनाशस्यानुसन्धानाजायमानस्त्रासोऽभिनिवेशोऽन्धतामिस्रोऽष्टादश- धा १८ इति दापष्टिभेदो विपर्यय इति भावः ॥ ४२ ॥ अशरष्टाविंशतिधात्वमवधारयति । १ सां० अ०३ सू० ३७॥

गलाल तृतीयोऽध्यायः। (७५) "पवमितरस्या" एवं-विपर्ययवदितरस्याः अशक्तेरायटाविंशतिरखान्तरभेदाः अवगाहने न्तव्या इत्यर्थः । ते च भेदा अष्टात्रिंशत्तमे सूत्रे उक्ता इति ध्येयम् ॥ ४२ तुष्टेनवधात्वमाह- "आध्यात्मिकादिभेदान्नवधा तुष्टिः॥४३ ।। आध्यात्मिकादिभेदात् आत्मानमधिकृत्य प्रवर्तन्ते इत्याध्यात्मिक्यः. प्रकृत्युपादानकालभाग्याख्याश्चतस्त्रस्तुष्टय आदौ यस्य पारसुपारपारापारा- नुत्तमाम्भोत्तमाम्भाख्यपञ्चविधतुष्टिभेदस्य, स तथा, तस्मात् नवधा-नव- मकारा तुष्टिरित्यर्थः। विवेकसाक्षात्कारपर्यन्तः सर्वोऽपि परिणामः प्रकृतेरेव, तञ्च प्रकृतिरेक करोति, अहन्तु कूटस्थः पूर्ण इत्यात्मभावनादयः परितोषः सा प्रकृत्याख्या दृष्टिः। इयश्चाम्भ इत्युच्यते । ततश्च प्रव्रज्योपादानेन या तुष्टिःसोपादानाख्या सलिलमित्युच्यते । तदनु प्रव्रज्यायां बहुकालं योगानुष्ठानेन या तुष्टिः सा कालाख्या ओघ इत्युच्यते । पश्चात् प्रसंख्यानापरनामधेयविवेकख्यातिपर- मकाष्ठारूपे धर्ममेघसमाधौ सति या तुष्टिः सा भाग्याख्या वृष्टिरित्युच्यते। ता एताश्चतस्त्र आध्यात्मिक्यः । यास्तु शब्दादिषु पञ्चसु बाह्यविषयेष्वर्जन- रक्षणक्षयभोगहिंसादोषनिमित्तकोपरमाज्जायन्ते ता यथाक्रमं पारसुपार- पारापारानुत्तमाम्भोत्तमाम्भा इत्याख्यायन्ते । ताश्चैता बाह्यविषयत्वात् बाह्याः पञ्च तुष्टय इति नवधा तुष्टिरिति भावः ॥ ४३ ॥ । सिद्धेरष्टधात्वमाह- "ऊहादिभिः सिद्धि ॥४४॥ आदिपदेन 'शब्दाध्ययनसुहृत्माप्तिदानदुःखविघातानां संग्रहातन विह- न्यमानस्य दुःखस्य त्रयत्वात्तद्विघाता आपि त्रय, इतीमा मुख्यास्तिस्त्रः सि- - (७६) सांख्यदर्शनसूत्रवृत्तौ। यः तदुपायभूतास्त्वितराः पञ्च गौप्य इत्येवमूहादिभिर्भदैरष्टधा सिद्धिरि- त्यर्थः । - उपदेशादिकं विनैव प्राग्भवीयाभ्यासक्शा तत्वस्य स्वयमूहनमूहा? अन्यदीयपाठमाकर्ण्य स्वयं वा शास्त्रमाकलय्य यज्ज्ञानं जायते तच्छन्दः २ शिष्याचार्यभावेन शास्त्राध्ययनान्जायमानं ज्ञानमध्ययनं ३ स्वयमुपदेशार्थ गृहागतात्परमकारुणिकाज्ञानलाभः सुहत्माप्तिः ४ धनादिदानेन परितोषि- ताज्ज्ञानलाभो दानमित्युपायभूताः पञ्च सिद्धयः । आध्यात्मिकादिदुःख- त्रयविधातात्मिकाः फलभूतास्तिस्रः सिद्धय इत्यष्टौ ता इति भावः॥४४॥ ननूहादिपञ्चकं सिद्धिहेतुत्वात्सिदिरित्युक्तमयुक्तम् । तप आदेरपि तदे- तुत्वाव, तत्राह- "नेतरादिनरहानेन विना" ॥ ४५ ॥ सिद्धिरिति पूर्वसूत्रादनुवर्तते। नेतरात्सिद्धिा ऊहादिपञ्चकेतरात्तप आदे- र्जायमाना सिद्धिर्न सिद्धिः, किन्तु सिद्ध्याभासः कुतः? इतरहानेन विना- विपर्ययस्य हानमितरहानं, तेन विना विपर्ययविनाशमन्तरैव जायमानत्वा- दित्यर्थः ॥ ४५ ॥ एवमन्तःसृष्टिभेदानुक्त्वा बाह्यसृष्टिभेदानाह- "देवादिप्रभेदा" ॥ ४६॥ सृष्टिरित्यग्रिमसूत्रादनुकृष्यते । मानुष्यभेदस्य तैर्यग्यौनभेदस्य चादि- पदेन परिग्रहः । प्रभेदोऽवान्तरभेदः । देवादिः प्रभेदो यस्याः सा तथा भौतिकी सृष्टिरित्यर्थः । तत्र दैवी सृष्टिरष्टविधा । तैर्यग्योनिः पञ्चविधा । मानुषी चैकविधेति भाष्यम् ॥ ४६॥ ननु किमर्थमेषा सर्वा सृष्टिः किमवधिका च? तबाह- • "आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिराविवेकात्"॥४७॥ + - तृतीयोऽध्यायः। (७७) आब्रह्मस्तम्बपर्यन्तम्-आदिमो ब्राह्मणवर्णो ब्रह्मा, स्तम्बः स्थावर:, ब्राह्मणादि स्थावरान्ता सृष्टिः-यावती भौतिकी सृष्टिः, सा सर्वाऽभौतिक- सृष्टिवत् तत्कृते पुरुषकृते वेदितव्या। साऽप्याविवेकाव यावद्धिवेकज्ञानं न जायते तावदेवेत्यर्थः ॥ ४७ ॥ तत्रविस्पष्टप्रतिपत्तये स्वयं तद्विभागमाह- "ऊर्ध्व सत्त्वविशाला"॥४८॥ सृष्टिरित्यनुवर्तते।सत्त्वविशाला-सत्त्वं विशालं-बृहद् रजस्तमसीच लघुनी यस्यां सृष्टी, सा तथा सत्वगुणबहुला, सृष्टि: या सृष्टिः, सोर्ध्वम् ऊर्ध्वग तिका दैवीत्यर्थः ॥ ४८॥ "तमोविशाला मूलतः॥४९॥ सृष्टिरित्यनुवर्तते । तमोविशाला-तमोगुणवहुला या सृष्टिः सा मूलतः मूलगा-शिफगेति यावत् । पश्वादिस्थावरान्ता तैर्यग्योनीत्यर्थः ॥४९॥ मध्यरजोविशाला" ॥ ५० ॥ सृष्टिरित्यनुवर्तते । रजोविशाला-रजोगुणवहुला या सृष्टिः सा मध्ये- नोर्ध्व न मूलतः,किन्तुभयोर्मध्ये वर्तमाना मध्यगतिका मानुषीत्यर्थः॥५०॥ ननु कस्मादीविचित्रसृष्टयै प्रकृतेश्चेष्टा ? तत्राह- "कर्मवैचित्र्यात्प्रधानचेष्टा गर्भदासवत " ॥५१॥ कर्मवैचित्र्याव=पुरुषादृष्टवैलक्षण्यात मधानचेष्टा=विचित्रसृष्टचैप्रकृते- ापृतिः । गर्भदासवत्-यथा दास्यवासनावैचिच्याद्गर्भदासस्य = गर्भादार भ्य सेवकस्य पुरुषसेक्य विचित्रा चेष्टेत्यर्थः ॥ ५१ ॥ नन्वन्तर्हि पुरुषस्यास्य कमवैचित्र्यादूर्ध्वगतिलाभेनैव कृतार्थत्वमस्तु किं मोक्षण ? तत्राह- "आवृत्तिस्तत्राप्युत्तरोत्तरयोनियोगाद्धयः" ॥५२॥ तत्रापि ऊर्ध्वगतिलाभेऽप्युत्तरोत्तरयोनियोगाव-उत्तरस्माइत्तरस्य योने

(७८) सांख्यदर्शनसूत्रवृत्तौ।
सम्बन्धादावृत्तिः पुनरावृत्तिरस्ति । तस्मादुत्तरोत्तरगतिलाभोऽपि हेयः मुमु
क्षुभिस्त्याज्य इत्यर्थः ॥ ५२ ॥
किश्च ।
-
समानं जरामरणादिजं दुःखम् ॥ ५३ ।।
हेय इत्यनुवर्तते । यत इतिशेषणीयम्, आदिना शोकमोहादयो ग्राह्याः।
यस्माज्जरामरणादिकं दुःख समानम् ऊर्ध्वाधोमध्यगानां ब्रह्मादिस्तम्ब-
पर्य्यन्तानां सर्वेषां जीवानामविशिष्टम् । तस्मादप्युत्तरोत्तरगतिलाभो मुमु-
शुभिहेय इत्यर्थः ॥ ५३॥
नत्वस्तु तर्हि कारणलयादेव कृतार्थत्वं, तबाह-
न कारणलयात्कृतकृत्यता मनवदुत्थानात" ॥५४॥
कारणालयाव-कारणे प्रकृती लपादपि न कृतकृत्यता-कृतार्थत्वमस्य
पुंसः संभवति । कुतः ? मनवदुत्थानाद-जलनिममपुरुषोत्थानवत्पुनरुत्थान
संभवादित्यर्थः।
यस्य विवेको न जातः, केवलं वैराग्यं वर्तते, तस्यात्मबुद्ध्योपास्यमा-
नायां प्रकृतौ लय इति द्रष्टव्यम् ॥ ५४ ॥
नन्वखिलकारणं प्रकृतिः कस्मादात्मलीनं पुमांसं पुनरुत्थानेन योज-
यति ? तत्राह-
"अकार्यत्वेपि तद्योगः पारवश्यात् ॥ ५५ ॥
अकार्यत्वेपि-निखिलकारणत्वेऽपि प्रकृतेः पारवश्याव-पर ईश्वरस्त
दधीनत्वाधथानियमं पुरुषस्य तद्योगः तया प्रकृत्या पुनरुत्थानयोगः संभ-
वतीत्यर्थः ॥ ५५ ॥
ननु कुलवधूरिव जगज्जननी प्रकृतिः कथं परस्य वशवर्तिनास्यात ?
तत्राह-
"सहि सर्ववित् सर्वकर्ता" ॥ ५६ ॥

1 न तृतीयोऽध्यायः। (७९) हि यस्मात् सम्परः परमेश्वरः । सर्वविद सर्वज्ञः । सर्वकर्ता-सर्वस्य जगतः पितेत्यर्थः । तेन प्रकृतस्तदशवर्तिनीत्वे न कश्चिद्दोष इति भावः ॥ ५६ ॥ नन्वनुमानतः केवलं परसामान्यस्य सिद्धिर्जायते, नवीहशेश्वरस्य, तत्राह- "ईदृशेश्वरसिद्धिः सिद्धा"॥१७॥ ईदृशेश्वरसिद्धिा ईदृशस्यम्भकृतिनियन्तुरीश्वरस्य-सर्वज्ञेश्वरस्प सिद्धिः- ज्ञप्तिःसिद्धा-वेदमात्रनन्येत्यर्थः । तथा च तत्रभवान् वेदः । यजुः श्वेताश्व० अ० ६ मं० १६॥ "स विश्वकृद्विश्वविदात्मयोनिः कालकालो गुणी सर्वविद्यः । प्रधानक्षेत्रज्ञपतिर्गुणेशः समसारमो- क्षस्थितिबन्धहेतु:" ॥ १६ ॥ इति ॥ ५७ ॥ नन्वस्तु परवशवर्तिनी प्रकृतिस्तथापि जीवसृष्टिरिव तत्सृष्टिरात्मकृते किन्न भवेत् ? तत्राह- "प्रधानसृष्टिः परार्थ स्वतोऽप्यभोक्तृत्वा- दुष्टकुडमवहनवत" ॥५८॥ एवार्थोऽपिः। परार्थमित्यस्याये योजयितव्यः प्रधानसृष्टिः परार्थमेव भवि- तुमर्हति न स्वार्थम् । कुतः? स्वतोऽभोक्तृत्वात् स्वयं तस्य भोक्तृत्वाभावात् । तत्र निदर्शनमुष्टककमवहनवत्-यथोष्टः परार्थमेव कुडमं वहति न स्वार्थ- मित्यर्थः ॥ ५८ ॥ ननु तथाप्यचेतना प्रकृतिः कथं परवशवर्तिनी सत्यपि परार्थ चेष्टेत? तत्राह- "अचेतनत्वेऽपि क्षीरवञ्चष्टितं प्रधानस्य" ॥१९॥ -- -- - (८०) सांख्यदर्शनसूत्रवृत्तौ। प्रधानस्य-प्रकृतेरचेतनत्वेपि-चेतनत्वाभावेऽपि चेष्टितं-पुरुषकृतेजग- त्सर्जनलक्षणो व्यापारविवशेष उपपद्यते । क्षीरवत्=यथा परवशवर्तिनः क्षीर- स्याचेतनत्वेऽपि वत्सार्थ चेष्टितमित्यर्थः ॥ ५९॥ निदर्शनान्तरमाह- "कर्म वदृष्टा कालादेः" ॥ ६ ॥ आदिपदेनादृष्टस्य संग्रहः। प्रधानस्येत्यनुवर्तते । कालादेः कर्मवदा यथा वा कालादेरचेतनत्वेऽपि परार्थ हेमन्तशिशरादिलक्षणं कर्म-चेष्टितम्, तथा प्रधानस्यापि चेष्टितम् । कुतः ? दृष्टेः दर्शनादित्यर्थः । यथा दर्शनश्चान्यत्र कल्पनमिति भावः ॥ ६० ॥ नन्वचेतनायाः प्रकृतेर्ममेदकर्तव्यमित्यनुसन्धानाभावालथं परार्थ चेष्टितं स्यात् ? तत्राह- "स्वभावाच्चेष्टितमनभिसन्धानामृत्यवत् ॥ ६१ ॥ प्रधानस्येत्यनुवर्तते । स्वभावाद-निसर्गतः प्रधानस्य चेष्टितं परार्थ चेष्टनमनभिसन्धानात् अभिसन्धानमत्रानुसन्धानम्, न 'ममेदं कर्तव्यम्' इत्यनुसन्धानाताभृत्यवत्-यथा भृत्यस्य-गर्भदासस्य स्वभावादेव स्वामिकृते चेष्टितं नाभिसन्धानादित्यर्थः ॥ ६१ ॥ समाधानान्तरमाह- "कर्माकृष्ट नादित"॥ ६२॥ प्रधानस्य चेष्टितमिति पददयमनुवर्तते । अनादितः कर्माकृष्ट- संसारस्यानादित्वादनादीनि कर्माणि, तेषामनादित्वात्तैराकृष्टिः आकर्षण मप्यनादि । तस्मादनादिभूतात्कर्मभिराकर्षणादा प्रधानस्य चेष्टित- मित्यर्थः ॥ ६२ ॥ ननु स्वभावादा कर्मभिराकर्षणादा प्रधानस्य चेच्चेष्टितं, तदा कदापि सृष्टिनिवृत्तिर्न स्यात्, तत्राह- तृतीयोऽध्यायः। (८१) "विविक्तबोधात्मृष्टिनिवृत्तिः प्रधानस्य सूदवत्पाके" ॥६३॥ विविक्तवोधामकृतितत्कार्येभ्यो विविक्तस्य पुरुषस्य बोधो विविक्त- बोधः सत्त्वपुरुषान्यताप्रत्ययस्तस्मात् तदुपजननात् प्रधानस्य-प्रकृतेःस- ष्टिनिवृत्तिः सर्जनलक्षणव्यापारस्य निवृत्तिर्भवति । सूदवत्साके-यथा पाके निष्पन्ने सूदस्य पाचकस्य पाकानुकूलव्यापारस्य निवृत्तिरित्यर्थः । चरिताधिकारत्वादिति भावः ॥ ६३ ॥ ननु प्रकृतेरेकत्वादजातविविक्तबोधं प्रतीव तदितरं प्रत्यपि तस्याः सृष्टि- निवृत्तिः स्यात्, तत्राह- इतर इतरवत् तदोषात् ॥ ६४ ॥ तदोषात्-तच्छब्दः प्रधानमाह । विविक्तबोधानुपजननलक्षणो दोषस्तद्दों- षस्तस्मादितरः विविक्तवोधरहितः पुमानितरवत्-अबुद्धवदवतिष्ठते । तेन तं प्रति न प्रधानस्य सृष्टिनिवृत्तिरित्यर्थः ॥ ६४ ॥ ननु विविक्तबोधाचेत्सृष्टिनिवृत्तिस्तर्हि सैवापवर्गोऽस्तु कृतं तदन्येन तेन, तत्राह- द्वयोरेकतरस्य वौदासीन्यमपवर्गः ॥६५॥ विविक्तबोधादित्यनुवर्तते । विविक्तबोधाद्वयोः प्रकृतिपुरुषयोरुभयोरेक- वरस्य वाद्वयोरेकस्य वा पुरुषस्य यदौदासीन्यं एकाकिता-मिथोऽन- नुषङ्ग इति यावत्, सोऽपवर्गः मोक्ष इत्यर्थः ॥ ६५ ॥ नन्वेवमेकस्मिन्नौदासीन्यंभजतःप्रधानस्यान्यस्मिन्नप्यौदासीन्यस्यात, तबाह- " अन्यसृष्टयुपरागेऽपि न विरज्यते, प्रबुद्धर- ज्जुतत्त्वस्येवोरगः ॥६६॥ अपिएकमुपजातविविक्तवोधं प्रत्यौदासीन्यं भजदपि प्रधानमन्यसृष्टयु- - --

(८२) सांख्यदर्शनसूत्रवृत्तौ।
परागे अन्यम् अनुपजातविविक्तबोधं मति सृष्टयुपराग-सृष्टयुपजनने न
विरज्यते-नौदासीन्यं भजते । मबुद्धरज्जुतत्त्वस्येवोरगा यथोरगारज्जुसर्पः
मबुद्धरज्जतत्त्वस्य-ज्ञातरज्जुस्वरूपस्य पुरुषस्यार्थमुदासीनोऽपि भयकम्पा
दिजनने नामवुद्धरज्जतत्वस्य कृते विरज्यते इत्यर्थः ।। ६६ ॥
अनौदासीन्ये हेत्वन्तरमाह-
"कर्मनिमित्तयोगाच॥ ॥ ६७ ॥
अन्यसृष्युपरागे न विरज्यते इत्यनुवर्तते । सृष्टौ कर्मलक्षणनिमित्तस्य
सद्भावाचान्यसृष्टयुपरागे न विरज्यते प्रकृतिरित्यर्थः ॥ ६७ ॥
ननु पुरुषान् प्रति प्रकृत्युपकारे कि तन्निमित्तं, येन प्रत्युपकारनिरपे-
क्षापि प्रकृतिः पुनःपुनः प्रवर्तते ? तत्राह-
"नरपेक्ष्येऽपि प्रकृत्युपकारेऽविवेको निमित्तम्॥६॥
नरपेक्ष्येऽपि-प्रत्युपकारापेक्षाभावेऽपि पुरुषान् प्रति प्रकृत्युपकारे भोगा.
पवर्गलक्षणे तस्मिनविवेको निमित्तमित्यर्थः ॥ ६८ ॥
नतु तथापि प्रवृत्तिस्वभावायाः प्रकृते विवेके सत्यपि निवृत्तिः कथमु-
पजायत? तबाह-
"नर्तकीवत्मवृत्तस्यापि निवृत्तिश्चारितार्थ्यात्" ॥६॥
प्रवृत्तस्यापि स्वभावदः प्रवृत्तिमतोऽपि प्रधानस्य निवृत्तिः निवर्तन
नायते । कुतः ? चारितार्थ्यात्-कृत कार्य्यत्वात् । नर्तकीवत् यथा पारिषदांन
मति नृत्यप्रदर्शनाय मवृत्ताया नर्तक्याश्चारितार्यानिवृत्तिरित्यर्थः ॥६९||
किश्च।
"दोषवोधेऽपि नोपसर्पणं प्रधानस्य कुलवधूवत्" ७०॥
समाधानान्तरसूचकोऽपिः।दोषबोधे परिणामित्वदुःखात्मकत्वादयःमकृ-
तिदोषास्तेषां वोधे-ज्ञाने जाते नोपसर्पण-न पुनर्जातदोषं प्रति प्रवर्तन
प्रधानस्य संभवति । कुलवधूवत्-यथा परेण दोषस्य वोधे लज्जितायाः कु-
लीनस्त्रियाः पुनः परं प्रत्यनुपसर्पणमित्यर्थः ॥ ७० ॥

"
तृतीयोऽध्यायः।
(८३)
ननु प्रकृत्युपसर्पणानुपसर्पणाभ्याश्चेत्सुरुषस्य बन्धमोक्षौ । तर्हि तस्य
परिणामापत्तिस्तत्राह-
"नैकान्ततो बन्धमोक्षौ पुरुषस्याविवेकाहते' ॥७॥
[:अविवेकाहते अन्तरेणाविवकमेकान्ततः परमार्थतः पुरुषस्य जीवस्य
बन्धमोक्षौ बन्धो मोक्षश्च न-नस्त इत्यर्थः ।
अविवेकादेवं तौ पुरुषस्येति भावः ॥ ७१ ॥
ननु पुरुषस्याविवेकादेव चेद् बन्धमोक्षी न परमार्थतस्तर्हि परमार्थतः
कस्य? तत्राह-
"प्रकृतेराञ्जस्यात्ससङ्गत्वात्पशुवत्" ॥७२॥
वन्धमोक्षौ पूर्वसूत्रादनुवर्तते । प्रकृतेराअस्यात् परमार्थतो बन्धमाक्षौ ।
कुतः ? ससङ्गत्वात् बन्धमोक्षहेतुधर्माधर्मादिभिर्गुणैः संबन्धः सङ्गस्त-
दत्त्वात् । पशुवत्-यथा गुणसंबन्धवतः पशोः परमार्थतो बन्धो मोक्षश्चे-
त्यर्थः ॥ ७२ ॥
ननु कतिभिर्गुणैः प्रकृतिरात्मानं बध्नाति मोचयति च ? तत्राह-
"रुपैः सप्तभिरात्मानं बध्नाति प्रधान कोश-
कारवद्विमोचयत्येकरूपेण ॥ ७३ ॥
कोशकारवत्-यथा कोशकारः कीटविशेषः स्वगुणैरात्मानं बध्नाति तथा
प्रधान-प्रकृतिः सप्तभिः-धर्मवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वय्य रूपैः-
गुणैरात्मानं स्वं बध्नाति । विमोचयति मोचयति चैकरूपेण-एकेन विवेक-
ज्ञानेन गुणेनेत्यर्थः ।
तत्राज्ञानमविवेक इति ध्येयम् ॥ ७३ ॥
नन्वेवमविवेकाइन्ध इति पूर्वोक्ता पञ्चमी नोपपद्येत, लोके गुणानां
निमित्तकारणत्वस्यैव दृष्टेः, तत्राह-
"निमित्तत्वमविवेकस्येति न दृष्टहानि:॥ ७४॥

(८४) सांख्यदर्शनसूत्रवृत्ती। अविवेकस्य पूर्वोक्तलक्षणस्याविवेकस्य पुरुषेषु बन्धादिकं प्रति निमि- तत्त्वं-निमित्तकारणत्वमवसेयमिति अतो न दृष्टहानिः लोके दृष्टस्य हानि- नेत्यर्थः। निमित्तेऽपि पञ्चमी स्मरणादिति भावः ॥ ७४ ॥ ननु भवत्वविवेकात्पुरुषस्य बन्धादिकं, तथापि तनिवर्तकस्य विवेकस्य सिद्धिः कथं स्यात् ? तत्राह-- "तत्त्वाभ्यासानेति नेतीति त्यागाद् विवेकसिद्धिः" ॥ ७५ ॥ नेति नेतीति त्यागात् इदमर्थकमत्रेति पदम् । प्रकृत्यन्तानां चतुर्विश- तितत्त्वानां नेदमात्मानेदमात्मेति एवं प्रकारेण परित्यागात् तत्त्वाभ्यासात परिशिष्यमाणस्यात्मतत्त्वस्य पुनः पुनश्चिन्तनलक्षणादभ्यासादादरनरन्तर्य- दीर्घकालासेविताद्विवेकसिद्धिा निरस्तसमस्तसंशयविपर्ययस्यात्मसाक्षात्का- रलक्षणस्य विवेकस्य सिद्धिः निष्पत्तिर्भवतीत्यर्थः ॥ ७५ ॥ ननु तत्वाभ्यासाच्चेद् विवेकस्य निष्पत्तिस्तयकस्मिन् जन्मन्येव सर्वेषाम- भ्यासं कुर्वतां तनिष्पत्तिः किन स्यात् ? तबाह - "अधिकारिप्रभेदान्न नियमः" ॥ ७६ ॥ अधिकारिमभेदात-उत्तममध्यमाधमभेदेनाधिकारिणां भेदादभ्यासे क्रिय- माणेऽपि नानियमा नैकस्मिन् जन्मनि सर्वेषां विवेकनिष्पत्तिनियम॥इत्यर्थः ।। किन्तूत्तमानामेवेति भावः ॥ ७६ ॥ ननु विवेकनिष्पत्याऽविवेकनिवृत्तौ तदविनाभूतनिःशेषदुःखनिवृत्ते- विवेकिनः पश्चादुपभोगो न स्यात्, तबाह- "बाधितानुवृत्त्या मध्यविवेकतोऽप्युपभोग"॥ ७७॥ उत्तमविवेकतो बाधितानामनुवृत्तिन भवतीति मध्यपदमुपात्तम् । अपि- अब्दो मुक्तिसमूचायको भिन्नक्रमः । मध्यविवेकतः मन्दमध्योत्तमभेदा तृतीयोऽध्यायः। (८५) SANA . विवेकोऽपि त्रिविधः । तत्र मध्यावस्थादं विवेकाद बाधितानुवृत्त्या बाधि- तानां दुःखादीना प्रारब्धबलेनानुवृत्त्योपभोगोऽपि-भोगोऽपि संभव- तीत्यर्थः ॥ ७७ ॥ ननु विवेके सत्यपि चेदुपभोगस्तदा विवेकेन किं कृतं ? तबाह- "जीवन्मुक्तश्व" ॥ ७८॥ अप्यर्थश्वः । बाधितानुवृत्त्योपभोगं कुर्वाणोऽपिविवेकमाहात्म्याज्जीव- न्मुक्त: जीवन् सन् मुक्त इव भवतीत्यर्थः ॥ ७८ ॥ ननूपभोगं कुर्वाणोऽपि जीवन्मुक्त इति न सिध्यति, तबाह- "उपदेश्योपदेष्टुत्वात् तत्सिद्धि" ॥ ७९ ॥ उपदेश्योपदेष्टुत्वात् लोकवेदयोरुपदेश्योपदेष्टुभावस्य दर्शनात् तत्सि- दिः तस्य जीवन्मुक्तस्य सिद्धिरित्यर्थः। मन्दविवेकस्योपदेश्यत्वादुत्तमविवेकस्य चोपदेष्टत्वासंभवादादुपदेष्टा मध्यविवेको जीवन्मुक्त इति भावः ॥ ७९ ॥ नन्वनुमानमेतन्न श्रुतिस्तत्राह- "श्रुतिश्च ॥ ८॥ तस्य तावदेव चिरम्' इति श्रुतिश्च जीवन्मुक्तस्य सद्भावे प्रमाण मित्यर्थः ॥ ८०॥ विपक्षे दण्डमाह- इतरथाऽन्धपरम्परा"॥८१॥ इतरथा जीवन्मुक्तानगीकारेऽन्धपरम्परा-उपदेष्टुरभावादन्धपरंपरापत्ति- परित्यर्थः । सम्यविवेकचथूरहितत्वादन्धोगुरुस्तच्छिष्योऽपि तथात्वात्तथा, एवम- ग्रेऽपीत्यन्धपरम्परेति भावः ॥ ८१ ॥ - १ छां० प्र० ६ खं० १४+२।

(८६) सांख्यदर्शनसूत्रवृत्तौ। ननु विवेकसाक्षात्कारेण निवृत्तायां प्रकृती कथं पुनर्जीवन्मुक्तस्तिष्ठेत ? तत्राह- चक्रभ्रमणवद्धृतशरीरः॥ ॥८२॥ चकत्रमणवत्-यथा दण्डेन भ्राम्यमाणं चक्रं निवृत्तेऽपि दण्डे भ्रमण- वदवतिष्ठते, तथायं धृतशरीरः निवृत्तायां प्रकृतौ प्रारब्धकर्मणा धृतशरीर- स्तिष्ठतीत्यर्थः ॥ ८२॥ ननु तथापि जीवन्मुक्तस्य भोगादिवासनाक्षये शरीरधारणं न सिध्य- ति, तत्राह- "संस्कारलेशतस्तत्सिद्धिः" ॥ ८३ ॥ शरीरधारणहेतवो ये विषयभोगादिसंस्कारास्तेषां लेशः आभासस्त- स्मा-विषयभोगादिवासनाभासात्तत्सिदिः तस्य शरीरधारणस्य सिद्धि- रित्यर्थः ॥ ८३॥ सम्प्रति भोगेन प्रारब्धकर्मक्षये परममुक्तिमुपसंहरनाह- "विवेकानिःशेषदुःखनिवृत्तौ कृतकृत्यो नेतरानेतरात्"॥ ८४ ॥ अध्यायपरिसमाप्तिवचना वीप्सा । विवेकात्-आत्मसाक्षात्कारलक्षणात्स- त्वपुरुषान्यताप्रत्ययानिःशेषदुःखनिवृतौ बाधिताबाधितसाधारण्येनाखिल- दुःखनिवृत्तौ सत्यां पुरुषः कृतकृत्या कृतकार्य: मुक्तो भवतिनेतराव ने तरस्मात्केवलात्कर्मण इत्यर्थः ॥ ८४ ॥ स्थूलं लिंगं तथा सृष्टि ना वैराग्यसाधनम् । विवेकोऽथ द्वयी मुक्तिः सम्यगस्मिनिरूपितम् ॥ १ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनव- ात्मारामभगवत्पादशिष्यहरिप्रसादकृतायां मांख्यसूत्रवृत्तौ वैराग्याध्यायस्तृतीयः॥३॥ --

चतुर्थोऽध्यायः।
(८७)
अथ चतुर्थोऽध्यायः।
ननु कस्मात्स विवेको जायते येन निःशेषदुःखनिवृत्तिः? तत्राह-
"राजपुत्रवत् तत्त्वोपदेशात्" ॥१॥
विवेक इति विपरिणम्यानुवर्तते । तत्त्वोपदेशात्स विवेको गुरुभिरा.
त्मतत्त्वोपदेशाज्जायते । राजपुत्रवत् यथा वसिष्ठेनात्मतत्वोपदेशादाजपुत्रस्य
रामस्य विवेको जात इत्यर्थः ॥ १ ॥
ननु यदर्थ गुरूणामुपदेशः किं तस्यैव विवेक उत्पद्यते, उत तदन्य-
स्यापि समीपस्थस्य? तत्राह-
"पिशाचवदन्यार्थोपदेशेऽपि" ॥२॥
विवेक इति पूर्ववदनुवर्तते । अन्यार्थोपदेशे-अन्यस्मै शिष्याय गुरुभि-
रात्मतत्त्वोपदेशे क्रियमाणेऽपि तत्समीपस्थस्यान्यस्यापि यथाविधिश्रवणाद्
विवेको जायते । पिशाचव-यथा स्वप्रियायै पार्वत्यै शिवेनात्मतत्त्वोपदेशे
क्रियमाणे तत्पार्श्ववर्तिनः पिशाचनानो भृत्यस्य विवेकोऽजायतेत्यर्थः॥२॥
ननु सकृत् तत्त्वोपदेशाच्चेद् विवेको नोपजायेत । तदा कि कर्तव्यं ?
तत्राह-
"आवृत्तिरसकृदुपदेशात्" ॥ ३ ॥
आवृत्तिः सकृदुपदेशाद विवेकेऽजायमाने तदाऽऽवृत्तिः कर्तव्या। कुतः?
असकृदुपदेशात छान्दोग्योपनिषदि षष्ठमपाठके श्वेतकेतुं पुत्रं प्रति पितु-
रारुणेरसकृदुपदेशदर्शनादित्यर्थः ॥ ३ ॥
ननु पुत्रं प्रति पितुरसकृदुपदेशः संभवति । न तु शिष्यं प्रति गुरोः।
तत्राह-
"पितापुत्रवदुभयोईष्टत्वात्" ॥ ४ ॥

'-(८८) सांख्यदर्शनसूत्रवृत्तौ। पितापुत्रवत्-पितापुत्रयोरिवोभयोः गुरुशिष्ययोरुपदेश्योपदेष्टुभावो भ- वति। नतदिलक्षणः।कुतः? दृष्टत्वात् लोकेप्रायेण तथा दृष्टत्वादित्यर्थः॥४॥ नन्वेवमुत्पन्नविवेकप्रत्ययस्य तदााय कि कर्तव्यमित्याकांक्षायां पूर्व तस्य सर्वथा विषयपरित्यागमाह- "श्येनवत्सुखदुःखी त्यागवियोगाभ्याम्" ॥५॥ सर्वथा विषयपरित्यागः कर्तव्यः । यतस्त्यागवियोगाभ्यां सुखदुःखी विषयस्य त्यागात्पुरुषः सुखी । तस्य स्वयं वियोगाच्च दुःखी भवति । श्येनवत् यथाऽऽहितः श्येनः श्येनान्तरैरामिषत्यागेन सुखी । तस्य स्वयं वियोगेन च दुःखी भवतीत्यर्थः । स्वयं त्यागः श्रेयानिति भावः ॥ ५ ॥ ननु कथं स्वयं विषयपरित्यागः स्यात् ? तत्राह- "आहिनिल्वयनीवत्" ॥६॥ यथा सो निलयनी-स्वकीयां त्वचंभुक्तभोगां विज्ञाय स्वयमनायासेन परित्यनति, तथा भुक्तभोगान् विषयान् परिज्ञाय स्वयं मेधावी परित्यजे- दित्यर्थः ॥ ६ ॥ निदर्शनान्तरमाह-- "छिन्नहस्तवद्वा" ॥ ७॥ यथा वा कश्चित्स्वकीयं छिन्नं हस्तं दुःखहेतु मत्वा स्वयं परित्यजति, तथा परित्यजेदित्यर्थ ननु विषयाणां परित्यागेऽपि मनसानुचिन्तने को दोषः तत्राह-- "असाधनानुचिन्तनं बन्धाय भरतवत्" ॥८॥ असाधनानुचिन्तनम् असाधनानां-विवेकज्ञानासाधनानांविषयाणामनु- चिन्तन-मनसाऽनुचिन्तन पुरुषस्य बन्धायबन्धनाय भवति । भरत- वत्-यया राजर्षिभरतस्य हरिणीशावकानुचिन्तन बन्धाय बभूवेत्यर्थः । विषयानुचिन्तनं न कार्यमिति भावः ॥ ८॥ ७ ॥

--
चतुर्थोऽध्यायः। (८९)
ननु विषयानुचिन्तनाभावेऽपि बहुभियोंगे को दोषः ? तत्राह--
"बहुभियोगे विरोधी रागादिभिः
कुमारीशंखवत" ॥९॥
बहुभिः स्वभावतोविपरीताशयैर्बहुभियोगे-संगे सति रागादिभिः-
सङ्गदोषादभिव्यज्यमाने रागद्वेषादिभिर्विरोध: परस्परं विराधो भवति ।
कुमारीशंखवत् यथा कुमार्या हस्ते सङ्गतानां बहूनां शहानामन्योऽन्य-
योगेन झणत्कारलक्षणो विरोध इत्यर्थः ॥ ९ ॥
ननु बहुभिर्योगे भवतु विरोधो दूषणम् । द्वाभ्यां योगे किं दूषणं ?
तत्राह-
"द्वाभ्यामपि तथैव ॥१०॥
योगे विरोध इति पदद्वयमनुवर्तते । दाभ्यामपि द्धाभ्यां योगेऽपि
तथैव बहुभियोगवदेव विरुद्धसंलापादिना विरोधो दूषणमित्यर्थः ॥ १० ॥
नन्वेवन्तर्हि कि कुर्यात् ? तत्राह-
"निराशः सुखी पिङ्गलावत्" ॥ ११ ॥
निराशः परिवर्जितसर्वाशः सुखी-सन्तोषमुखभाग्भवेत् । पिङ्गलावत्-
यथा पिङ्गला काचित्सर्वाशां परित्यज्य सुखिनी बभूवेत्यर्थः ॥ ११ ॥
नन्वेकाकी स्वगृहारम्भेऽशक्तः कथं सुखी भवेत् ? तत्राह-
"अनारम्भपि परगृहे सुखी सर्पवत्" ॥ १२ ॥
अनारम्भेऽपि स्वगृहारम्भाभावेऽपि परगृहे-परनिर्मितशून्यालये वसन्
सुखी-नित्यं सुसभाग्भवेत् । सर्पवत् यथा सर्पःस्वगृहमनारम्भमाणोऽपि पर-
गृहे वसन् सुखी भवतीत्यर्थः ॥ १२ ॥
ननु परगृहे वसन्नपि विवेकी बहुशास्त्राध्ययने गुरूणामुपासने च सक्तः
किं कुर्यात् ? तत्राह-
"बहुशास्त्रगुरूपासनेऽपि सारादानं पटपदवत्" ॥१३॥

-
९०) सांख्यदर्शनसूत्रवृत्तौ ।
बहुशास्त्रगुरूपासनेपि-बहूनां शास्त्राणां तदर्थ गुरूणाश्चोपासनेअपि सक्को
विवेकी सारादानं सारस्य-विवेकमत्ययोपयुक्तस्यार्थस्यादानं ग्रहणं कु-
यात् । षट्पदवत्-यथा षट्पदः भ्रमरः कुसुमेभ्यः सारमेवादत्ते नान्यदि-
त्यर्थः ॥ १३ ॥
ननु सारमाददानस्यापि विवेकिनो जनाकुले संसारे समाधिभ्रेषः सेत्स्यति,
तत्राह-
'इषुकारवन्नैकचित्तस्य समाधिहानिः ॥ १४ ॥
एकचित्तस्य-सारैकचित्तस्य-एकाग्रमनसो विवेकिनः कथमपि समाधि-
हानिर्न न भवति । तत्रोदाहरणमिषुकारवत्-यथा शरैकचित्तस्य शरकार-
स्य पार्धाभ्यां ससैन्यराजगमनेऽपि न समाधिभ्रषो जात इत्यर्थः ॥ १४ ॥
नन्वेकचित्तस्यापि कथञ्चित्ममादाच्छास्त्रीयनियमोल्लंघने कि स्यात् !
तत्राह-
कृतनियमलनादानर्थक्यं लोकवत्" ॥१५॥
कृतनियमलंघनान्-शास्त्रेण कृतस्य नियमस्य लद्धनाद-उल्लंघनादान-
र्थक्यम् अनर्थभावः-स्वार्थहानिर्भवति। लोकवत्-यथा लोके रुग्णस्य पुंसः
शास्त्रकृतपथ्यादिनियमोल्लङ्घनादानर्थक्यमित्यर्थः ।
कथमपि नियमस्य लंघनं न कुर्यादिति भावः ॥ १५ ॥
नतु नियमज्ञाने तदुल्लङ्घनादानर्थक्येऽपि तद्विस्मरणे को दोषः ? तत्राह-
"तद्विस्मरणेपि भेकीवत् ॥ ॥ १६ ॥
आनर्थक्यमित्यनुवर्तते । तद्विस्मरणेऽपि तस्य शास्त्रेण कृतस्य नियमस्य
विस्भरणेऽप्यस्यानर्थक्यं भवति । भेकीवत्-यथा कया चिढ़ राजकन्यकया
नाना भेक्या पाणिग्रहसमये 'भो आर्यपुत्र कदापि त्वदियोगो मे माभूद-
न्यथा मदियोगस्ते भविष्यति' इति कृतस्य नियमस्य विस्मरणे देवादेका-
किनो बहिर्गतस्यतर्तुर्वसुधाधिपस्य भेकीवियोगलक्षणमानर्थक्यं बभू-
वैत्यर्थः ॥ १६ ॥

N - चतुर्थोऽध्यायः। (९१) नन्वेतदुत्पन्नविवेकप्रत्ययस्य कर्तव्यमुक्तं । यः पुनर्विवकोत्पत्त्यर्थ केवलं गुरुमुखादुपदेशमात्रं शृणोति तस्य किं कर्तव्यं ! तत्राह- " नोपदेशश्रवणेऽपि कृतकृत्यता, परामर्शाहते । विरोचनवत् ॥ १७॥ उपदेशश्रवणेऽपि-गुरुमुखात्सत्यप्युपदेशश्रवणे परामर्शादृते-गुरुवाक्य- विचारः परामर्शस्तं विना कृतकृत्यता-कृतार्थता न-न भवति। विरोचन- व यथा विरोचनस्य गुरुमुखादुपदेशश्रवणेऽपि परामर्शादृते कृतकृत्यता नाभूदित्यर्थः। श्रवणानन्तरं परामर्शः कर्तव्य इति भावः ॥ १७ ॥ मनु श्रवणानन्तरं कस्यायं परामर्शी दृष्टः ? तत्राह- "दृष्टस्तयोरिन्द्रस्य" ॥ १८॥ परामर्श इति विपरिणम्यानुवर्तते । तयोः विवेकार्थ गुरुं प्रजापति- मुपसर्पतोरिन्दविरोचनयोरिन्द्रस्य परामर्शदृष्ट इत्यर्थः ॥ १८ ॥ नन्वेवं तर्हि श्रवणानन्तरं परामर्श सति झटित्येव विवेकमत्ययस्य सिद्धिः स्याद, तत्राह- "प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिर्ब- हुकालात तद्वत"॥ १९॥ प्रणतिब्रह्मचर्योपसर्पणानि-नम्रीभावः प्रणतिः । सर्वेन्द्रियसंयमी बन- चर्यम् । श्रद्धाभक्तिभ्यां यथाविधि गुरुं प्रत्युपगमनमुपसर्पण । तान्येतानि कृत्वा=नियमेनानुष्ठाय सिद्धिः श्रवणपरामर्शाभ्यां विवेकमत्ययस्य निष्पत्ति- बहुकाला=बहुकालानन्तरं भवति । न दागित्येव । तदत्तच्छब्दे- नेन्द्रस्य परामर्शः । यथा मजापतौ गुरौ प्रणतिब्रह्मचर्योपसर्पणानि कुर्वत इन्द्रस्य श्रवणपरामर्शाभ्यां विवेकमत्ययस्य सिद्धिर्वहुकालादभव- दित्यर्थः ॥ १९ ॥ ननु किमेवमेव सर्वत्र सर्वथा कालनियमः ? तबाह- - - (९२) सांख्यदर्शनसूत्रवृत्तौ। "न कालनियमो वामदेववत् ॥ २० ॥ कालनियमः विवेकप्रत्ययस्य सिद्धौ सर्वथा कालस्य नियमों न नास्ति । वामदेववत् यथा वामदेवस्यैहिकसाधनाभावेऽपि मागूभवीयसा- धनेभ्यो द्रागित्येव विवेकमत्ययोदयो बभूवेत्यर्थः ॥ २० ॥ ननु प्रणतिब्रह्मचर्योपसर्पणानि कुर्वतो गुरूणां तत्त्वोपदेशाचे- द्विवेकसिद्धिस्तर्हि कुतो बहुकालापेक्षा ? तत्राह- "अध्यस्तरूपोपासनात्पारंपर्येण यज्ञो- पासकानामिव" ॥ २१ ॥ यत इति शेषः । सिद्धिरित्यनुवर्तते । यस्मादध्यस्तरूपोपासनाव-गुरु- भिरुपदिष्टं रूपमध्यस्तरूपम्।परोक्षत्वात् । तस्योपासनं श्रद्धाभक्तिभ्यामनु- ष्ठान धारणामिति यावत्तस्मात्पारम्पर्येण ध्यानादिपरंपरया विवेकमत्ययस्य सिद्धिर्भवति । यज्ञोपासकानामिवन्यथा यज्ञादिकर्मानुष्ठायिनामदृष्टादि पारम्पयेणाभ्युदयसिद्धिरित्यर्थः । तत्र प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा श्रवणमाश्रुतस्यासंभावनानिवृत्त्यै श्रद्धाभक्तिभ्यां परामृश्य धारणं मननम् । मतस्य विपरीतभावनोप- शान्त्यर्थ ध्यानं निदिध्यासनम् । तस्य पाकोऽङ्गभूतः समाधिः । तस्य प्रपाकोऽङ्गी समाधिः संप्रज्ञातः । ततश्चित्साक्षात्कारलक्षणानाम्ना ऋतम्भरा मज्ञा सत्त्वपुरुषान्यताख्यातिरिति बहुकालविवेकः ॥ २१ ॥ नन्वेवञ्चेत्तर्हि कर्मभिर्ध्वगत्यैवालम् । कृतं परंपरायाससाध्येन मोक्ष- हेतुना विवेकप्रत्ययेन, तत्राह- "इतरलाभेऽप्यावृत्तिः पञ्चाग्नियोगतो जन्मश्रुतेःगा२२॥ इतरलाभेऽपि वेदोक्तनिष्कामकर्मादिभिमेक्षितरस्योगमनस्य लाभेऽ- पि- पाप्तावप्यावृत्तिः पुनरावृत्तिरस्ति न मोक्षवदनावृत्तिः।कुतः? पञ्चानियो- गत' छान्दोग्योपनिषदि पश्चममपाठके युपर्जन्यधरानरयोषितां पञ्चाग्रीनां चतुथोऽध्यायः। संबन्धतो जन्मश्रुतेः 'असौ वावलोको गौतमाग्नि इत्यादि- नोर्ध्वगतिमतोऽपि जन्मश्रवणादित्यर्थः । तत्रोर्ध्वगमनं ब्रह्मलोकपर्यन्तमिति सर्वे श्रुतिविदो भाष्यकृदादयः। ते च लोकाः सप्त पुरुषस्य कर्मिणः प्राकृतावस्थाविशेषा नेदृशो नगरभेदा इत्यनुसन्धेयम् ॥ २२ ॥ नन्वेवं विवेकमत्ययोत्पत्त्यर्थ ब्रह्मलोकान्तस्य निखिलसंसारस्य हानं तदिलक्षणस्य च मोक्षस्योपादानं कस्य स्यात् ? तत्राह- "विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत्" ॥२३॥ विरक्तस्य-ऐहिकामुष्मिकविषयवितृष्णस्य हेयहानं हेयस्य संसारस्य हानमुपादेयोपादानम्-उपादेयस्य मोक्षस्य चोपादानं संभवतिहिंसक्षीरवत यथा हंसपक्षिणो नीरेण मिश्रिते क्षीरे नीरस्य हानं क्षीरस्य चोपादान- मित्यर्थः ॥ २३ ॥ ननु विरक्तस्यैतदुभयश्चेत्तदा कृतं सत्सङ्गमाहात्म्येन, तत्राह- "लब्धातिशययोगाद्वा तद्वत्" ॥ २४ ॥ हेयहानमुपादेयोपादानमित्यनुवर्तते । लब्धातिशययोगात-लब्धः संपा- 'दितो विवेकप्रत्ययकाष्ठालक्षणोऽतिशयो येन, तस्य सतः पुरुषस्य योगात्- संगादा अपि हेयहानमुपादेयोपादानश्च संभवति । तदत हंससंगाद् हंस- स्येवेत्यर्थः ॥ २४ ॥ नन्वेवं रागिणोऽपि तदुभयं स्यात, तत्राह- न कामचारित्वं रागोपहते शुकवत् " ॥ ३५॥ रागोपहते-रागेण गुणेनाभिभूते पुरुषे कामचारित्वं यथेष्टसञ्चारित्वमेव न-न संभवति । कुतस्तदुभयम् ? तत्रोदाहरणं शुकवत् यथा रागोपह- तस्य शुकपक्षिणः कामचारित्वाभाव इत्यर्थः ।। २५ ।। ननु कुतोऽयं रागिणः कामचारित्वाभावः ? तत्राह- "गुणयोगाद बद्धः शुकवत् " ॥२६॥ १ छो० प्रपा० ५-ख० ४-५-६-७-८-९ ।

(९१) सांख्यदर्शनसूत्रवृत्तौ। यत इति शेषः यस्मादसौरागी गुणयोगात् रागादिगुणसंवन्धादवद्धा बन्धनं गतोऽस्ति । शुकवतन्यथा गुणयोगाढ वद्धः शुकः पक्षी कामचारी न भवतीत्यर्थः ॥ २६ ॥ ननु भोगाद्रागशान्तौ रागिणोऽपि वैराग्यं सेत्स्यति, तत्राह- न भोगाद्रागशान्तिर्मुनिवत् ॥ २७ ॥ भोगात्-विषयभोगादागशान्तिः रागस्य निवृतिर्न न भवति। मुनिवत्- यथा सौभारनाम्नो मुनेर्विषयभोगान रागस्य शान्तिरजायतेत्यर्थः ॥२७॥ ननु कस्मात्तर्हि रागोपशान्तिः ? तबाह- " दोषदर्शनादुभयोः ॥ २८ ॥ उभयोः प्रकृतितत्कार्ययोर्दयोर्दोषदर्शनाव परिणामित्वदुःखात्मकत्वा- दिदोषदर्शनादागः शाम्यतीत्यर्थः ॥ २८ ॥ ननूपदेशादेव विवेकप्रत्ययः सेत्स्यति किमुभयोर्दोषदर्शनादागस्य शान्त्या ? तत्राह- न मलिनचेतस्युपदेशबीजप्ररोहोऽजवत् "॥ २९ ॥ मलिनचेतसि-रागादिमलेन मलिने चित्ते नोपदेशबीनप्ररोहः-उपदेश- बीनस्य प्ररोहो न भवति । तत्रोदाहरणमजवत्-यथाऽजस्य राज्ञो भा-- शोकादिना मलिने चेतसि वसिष्ठोपदेशवीजस्य प्ररोहो नाभूदित्यर्थः॥२९॥ ननु मलिने चेतसि यथाकाममुपदेशबीनं मा प्ररोहतु यत्किचित्तु परोहिष्यति, तत्राह- " नाभासमात्रमपि मलिनदर्पणवत् ॥३०॥ आभासमात्रमपि-दूरे तावदुपदेशबीजमरोहः, मलिनचेतसि तु तदाभा- समात्रमपिन न भवति । मालिनदर्पणवत्-यथा मलिने दर्पणे मुखाभासाभाव इत्यर्थः ॥ ३०॥ ननु तथापि गुरूणामुपदेशो न व्यर्थोऽवश्यं ततो ज्ञानं भविष्यति, तबाह- चतुर्थोऽध्यायः। (९५) " न तज्जस्यापि तद्रूपता-पंकजवत्" ॥ ३१ ॥ तज्जस्यापि तस्माद्गुरूणामुपदेशाज्जायमानस्यापि ज्ञानस्य न तद्रूपता नोपदेशानुरूपता भवति । चेतोदोषात् । पङ्कजवत्-यथा बीनाजायमानस्या- पि पङ्कजस्य न वीजानुरूपता पंकदोषादित्यर्थः ॥ ३१ ॥ तदेवं श्रवणादिषु वैराग्यस्यैव प्राधान्येन विवेकप्रत्ययोत्पत्तिसाधन- त्वमभिधाय यः पुनरणिमादिभूतियोगेनैव कृतकृत्यतां मन्यते तं प्रत्याह " न भूतियोगेऽपि कृतकृत्यतोपास्यसिद्धि- वदुपास्यसिद्धिवत्" ॥ ३२॥ अध्यायपरिसमाप्ती बाप्सा । भूतियोगेऽपि कथश्चिद्योगमभ्यस्यतोऽणि- मादिविभूतियोगेऽपि कृतकृत्यता-कृतार्थत्वं न-न जायते। योगे विप्रयोग- स्यावश्यंभावात् । उपास्यसिद्धिवत् व्यतिरेक्युदाहरणामदं, यथोपास्यस्य- मुमुक्षुभिरुपास्यमानस्य विवेकज्ञानस्य सिद्धितः कृतकृत्यतेत्यर्थः ॥३२॥ आत्मतत्त्वोपदेशादिविवेकज्ञानसाधनम् । निरूपितं तुरीयेऽस्मिबितिहासैःपुरस्कृतम् ॥ १॥ इति श्रीमत्परहंसपरिव्राजकाचार्योदासीनवर्ध्यात्मा- रामभगवत्पादशिष्यहरिप्रसादकृतायां सांख्यसू- त्रवृत्तौ चतुर्थोऽयमाख्यायिकाध्यायः॥४॥ 2 ग . “ (९४) सांख्यदर्शनसूत्रवृत्तौ। यत इति शेषः यस्मादसौरागी गुणयोगात्-रागादिगुणसंवन्धादवदः- बन्धनं गतोऽस्ति । शुकवत यथा गुणयोगाद बदः शुकः पक्षी कामचारी न भवतीत्यर्थः ॥ २६ ॥ ननु भोगादागशान्तौ रागिणोऽपि वैराग्यं सेत्स्यति, तत्राह- न भोगाद्रागशान्तिर्मुनिवत् ॥ २७ ॥ भोगात्-विषयभोगादागशान्तिः रागस्य निवृतिर्न न भवति। मुनिवत्- यथा सौभारनाम्नो मुनेविषयभोगान रागस्य शान्तिरजायतेत्यर्थः ॥ २७ ॥ ननु कस्मात्तर्हि रागोपशान्तिः ? तत्राह- दोषदर्शनादुभयोः ॥२८॥ उभयोः प्रकृतितत्कार्ययोर्दयोषिदर्शनात्-परिणामित्वदुःखात्मकत्वा- दिदोषदर्शनाद्रागः शाम्यतीत्यर्थः ॥ २८ ॥ ननूपदेशादेव विवेकप्रत्ययः सेत्स्यति किमुभयोर्दोषदर्शनादागस्य शान्त्या ? तत्राह- न मलिनचेतस्युपदेशबीजप्ररोहोऽजवत् " ॥ २९ ॥ मलिनचेतसि रागादिमलेन मलिने चित्ते नोपदेशवीनमरोहः उपदेश- बीजस्य मरोहो न भवति । तत्रोदाहरणमजवत् यथाऽनस्य राज्ञो भा-- शोकादिना मलिने चेतसि वसिष्ठोपदेशवीजस्य प्ररोहो नाभूदित्यर्थः॥२९॥ ननु मलिने चेतसि यथाकाममुपदेशवीन मा मरोहतु यत्किचित्तु प्ररोहिष्यति, तत्राह- " नाभासमात्रमपि मलिनदर्पणवत्" ॥३०॥ आभासमात्रमपि-दूरे तावदुपदेशवीजमरोहः, मलिनचेतसि तु तदाभा- समात्रमपिन-न भवति । मालिनदर्पणवत्-यथा मलिने दर्पणे मुखाभासाभाव इत्यर्थः ॥ ३०॥ ननु तथापि गुरूणामुपदेशो न व्ययोऽवश्यं ततो ज्ञान भविष्यति, तबाह- “

चतुर्थोऽध्यायः। (९५)
न तज्जस्यापि तद्रूपता-पंकजवत्" ॥३१॥
तज्जस्यापि-तस्माद्गुरूणामुपदेशाज्जायमानस्यापि ज्ञानस्य न तद्रूपता
नोपदेशानुरूपता भवति । चेतोदोषात् । पङ्कजवत्-यथा बीजाज्जायमानस्या-
पि पङ्कजस्य न बीजानुरूपता पंकदोषादित्यर्थः ॥ ३१ ॥
तदेवं श्रवणादिषु वैराग्यस्यैव प्राधान्येन विवेकमत्ययोत्पत्तिसाधन-
त्वमभिधाय यः पुनरणिमादिभूतियोगेनैव कृतकृत्यतां मन्यते ते
मत्याह
"न भूतियोगेऽपि कृतकृत्यतीपास्यसिद्धि-
वदुपास्यसिद्धिवत्" ॥३२॥
अध्यायपरिसमाप्तौ वीप्सा । भूतियोगेऽपि कश्चिद्योगमभ्यस्यतोऽणि-
मादिविभूतियोगेऽपि कृतकृत्यता-कृतार्थत्वं न-न जायते। योगे विप्रयोग-
स्यावश्यंभावाद । उपास्यसिद्धिवत् व्यतिरेक्युदाहरणामदं, यथोपास्यस्य-
मुमुक्षुभिरुपास्थमानस्य विवेकज्ञानस्य सिद्धितः कृतकृत्यतेत्यर्थः ॥३२॥
आत्मतत्त्वोपदेशादिविवेकज्ञानसाधनम् ।
निरूपितं तुरीयेऽस्मिन्नितिहासैःपुरस्कृतम् ॥ १ ॥
इति श्रीमत्परहंसपरिव्राजकाचार्योदासीनवर्यात्मा-
रामभगवत्पादशिष्यहरिप्रसादकृतायां सांख्यसू-
प्रवृत्ती चतुर्थोऽयमाख्यायिकाध्यायः॥४॥

(९६) सांख्यदर्शनसूत्रवृत्तौ। अथ पञ्चमोऽध्यायः। चतुर्भिरध्यायैः स्वसिद्धान्तं निरूप्य तद्दाक्य परसिद्धान्तमपाकर्तु पञ्चमाध्यायमारभमाणो ननु विवेकमत्ययाचेनिःशेषतो दुःखनिवृत्तिस्तर्हि किं मगलेन लौकिकवैदिकाचारेणेति शङ्कान्तावदपाकरोति । "मङ्गलाचरणं शिष्टाचारात्फलदर्शनाच्छुतितश्चेति॥१॥ इति शब्दो हेत्वन्तराकांक्षां निरस्यति । मङ्गलाचरणं मङ्गलानां- शुभानांलौकिकवैदिककर्मणामाचरणम् अनुष्ठानं विवेकिभिरवश्यं कर्तव्यम्। कुतः? शिष्टाचारात्-शिष्टेः-स्वधर्मनिष्टर्वेदिकैः पुरुषैराचारार-आचरणात् । फलदर्शनात् अनुष्ठितानां तेषां तत्तदभ्युदयादिलक्षणस्य फलस्य दर्शनाद श्रुतितश्च 'कुर्वन्नेवेह कर्माणि जीजीवेच्छत समा" यान्यन- वद्यानि कर्माणि, तानि सेवितव्यानि, नो इतराणि, इत्यादि श्रुतितश्चेत्यर्थः ॥ १ ॥ नन्वस्तु विवेकिनामपि कर्तव्यं लौकिकं वैदिकं कर्म । तथापि तत्फल, दानायेश्वराभ्युपगमो व्यर्थः कर्मणैव फलनिष्पत्तेस्तस्य तदधिष्ठितत्वा- सिद्धेश्च । तत्राह- "न, ईश्वराधिष्ठिते फलनिष्पत्तिः कर्मणातत्सिद्धेगा। चोऽनुवर्तते । न-कर्मणोजडत्वात्स्वतः फलदातृत्वं नाकिन्त्वीश्वराधिष्ठिते- तदधिष्ठानविषयीभूते तस्मिन् फलनिष्पत्तिः तत्तदभ्युदयादिलक्षणस्य फलस्य सिद्धिः । कर्मणा च-कर्महेतुना च तत्सिः यत्कर्म, तत्सर्व पराधिष्ठितं सत् फलदं, यथा मजानाथाधिष्ठितं प्रजाकर्म, तथा चेदं वैदिक कर्मेति तस्य ईश्वराधिष्ठितत्वस्य सिद्धरित्यर्थः ॥ २ ॥ - १ यजुः अ० ४० म० २१ २ तै० २० १- अनुवा० ११-२-३ ।

पञ्चमोऽध्यायः। (९७) ननु कस्मादीश्वरः परेषां कर्माण्याधितिष्ठति ? तत्राह- "स्वोपकारादधिष्ठानं लोकवत्" ॥३॥ वोपकारात्-स्वीयानामुपकारः स्वोपकारः 'तस्यात्मानुग्रहाभा- वेऽपि भूतानुग्रहप्रयोजनम्' इति योगभाष्योक्तेः । तस्मात् जी- वोपकृतिमात्रादीश्वरस्याधिष्ठानं जीवकर्मसुसंबन्धविशेषः अधिष्ठातृत्वमिति- यावत् । लोकवत्-यथा लोके कारुणिकस्य प्रजानाथस्य प्रजाकर्मस्वधिष्ठा- नमित्यर्थः ॥ ३ ॥ ननु यथेश्वरस्य स्वीयोपकारस्तथा स्वोपकारोऽपि स्यात्को दोषस्तत्राह- "लौकिकेश्वरवदितरथा" ॥ ४॥ इतरथा-स्वीयोपकारवत्स्वोपकारेसद्भवतिलौकिकेश्वरवत्-लोकसिद्धमजे- अरवदपर्याप्तकामः स्यादित्यर्थः ॥ ४ ॥ नन्वात्मानमुपकुर्वाणोऽपि नासौ लौकिकेश्वरवन्मन्तव्यस्तत्राह- "पारिभाषिको वा" ॥५॥ वा-आत्मानमुपकुर्वाणोऽपि चेदीश्वरस्तर्हि पारिभाषिक: स्वपरिभाषा- मात्रक्लप्तः स्यान सर्वसंमत इत्यर्थः ॥ ५ ॥ ननु पर्याप्तकामत्वात्तस्य स्वोपकाराभावेऽपि रागाभावात्कथमधिष्ठातृत्वं सिध्येत् ? तत्राह- "न रामादृते तत्सिद्धिः प्रतिनियतकारणत्वात् ॥६॥ न रागाहते-नान्तरेण रागम् । किन्तु करुणालक्षणादागादीश्वरस्य तत्सिद्धिः अधिष्ठातृत्वसिद्धिः । कुतः? प्रतिनियतकारणत्वात्मवृत्ति प्रति रागमात्रस्य नियमेन कारणत्वादित्यर्थः ॥ ६ ॥ ननु रागी भवन्नीश्वरो.नित्यमुक्तो न भवेद, तत्राह-: "तद्योगेऽपि न नित्यमुक्तः ॥७॥ १ यो.पा. १-"तत्रनिरतिशयं सर्वज्ञबीजम्" इति सूत्रभाष्यम् । - . ७

(९८) सांख्यदर्शनसूत्रवृत्ती।
नेत्यनुवर्तते । तद्योगेऽपि तस्य करुणालक्षणस्य रागस्य योगे-संबन्धे
सत्यपि स नित्यमुक्तो नेति न । किन्तु नित्यमुक्तः सदैवेश्वरः सदैव
मुक्त इत्यर्थः।
तत्रेश्वरस्य क्लेशात्मको रागो नाभिधीयते । किन्तु करुणात्मकः । स्तेन
तयोगे सत्यपि न तस्य नित्यमुक्तत्वक्षतिः। क्लेशात्मरागस्यैव तत्क्षतिकर-
त्वात् । नाप्यधिष्ठातृत्वानुपपत्तिः । ताग रागाभावेऽपि करुणालक्षणरागस्य
सद्भावात्कारुणिकानामिवेश्वरस्यापि तदुपपत्तेः । करुणा चास्य भगवतो
जगदधिपतेरागन्तुकी न, किन्तु स्वाभाविकी, नित्यत्वादिति न कश्चिद्दोष
इत्यनुसन्धेयम् ॥ ७ ॥
ननु जीव एवेश्वरः संपद्यते, न तदयातिरिक्तः कश्चनेश्वरः, तस्य
तत्संपत्तिश्च न स्वभावाद, किन्तु प्रकृतियोगात्, तत्राह-
"प्रधानशक्तियोगाचेत्संगापत्तिः॥८॥
प्रधानशक्तियोगात्-प्रधानात्मिका शक्तिःप्रधानशक्ति, प्रकृतिस्तस्या यो-
गः संयोगस्तस्मात् चेद्-यदि जीवस्यैश्वर्य, तदा तस्य संगापत्तिः-नि:-
संगताभंगापत्तिः स्यादित्यर्थः ॥ ८ ॥
नन्वस्तु तर्हि तत्सत्तामात्राजीवस्यैश्वर्य, तत्राह-
" सत्तामात्राञ्चत् सर्वैश्वर्यम्" ॥९॥
सत्तामात्राचे प्रधानशक्तेस्ताटस्थ्येनविद्यमानता सत्ता,
तन्मात्रा-
बैदेश्वर्य, तदा सर्वेश्वर्य-सर्वेषां समानमैश्वय्य स्यादित्यर्थः ।
प्रकृतिसत्तायाः सर्वान् मत्यविशेषादितिभावः ॥ ९ ॥
ननु समानत्वात्सर्व एवेश्वराः सिध्यन्तु को दोपस्तत्राह-
"प्रमाणांभावान तसिद्धिः॥ १० ॥
प्रमाणाभावात-यमाणमत्र प्रत्यक्षम् । तदभावानसिद्धि-तस्य सर्व-
वर्यस्य-सर्वेषामीश्वरभावस्य सिद्धिर्न न भवतीत्यर्थः ॥ १० ॥

पञ्चमोऽध्यायः।
(९१)
--
"
ननु मास्तु प्रत्यक्षमनुमानं भविष्यति, तत्राह-
"संबंधाभावानानुमानम्" ॥११॥
संबन्धाभावात्-संवन्धोव्याप्तिः, तदभावस्तद्गहाभावः तस्मानानुमानम्
अनुमानमपि तत्साधकं नेत्यर्थः ॥ ११ ॥
ननु श्रुत्या तर्हि नीवस्य नित्येश्वरभावः सिध्यतु, तत्राह-
"श्रुतिरपि प्रधानकार्य्यत्वस्य" ॥ १२ ॥
श्रुतिरपि वैदिकी श्रुतिरपि प्रधानकार्यत्वस्य नीवैश्वये प्रकृतिकार्य
वस्य बोधिका विद्यते, न नित्येश्वरभावस्येत्यर्थः ॥ १२ ॥
ननु मास्तु नीव ईश्वरः, विज्ञानात्मकंब्रह्मैवाविद्याशक्तियोगादीश्वरो
नविष्यति, तत्राह-
नाविद्याशक्तियोगी निःसंगस्य " ॥ १३ ॥
अविद्याशक्तियोगः-विद्यावाध्या, सदसद्विलक्षणा, मायाशक्तिरविद्याश-
केस्तस्या योग: संगो नि.सङ्गस्य-निष्कान्तसर्वसंगस्य ब्रह्मणो नन
संभवतीत्यर्थः ।
तदसंभवे तु तदसंभव एवेतिभावः ॥ १३ ॥
नन्धविद्यायोगोऽपि तस्याविद्यक एवाभ्युपगम्यते न पारमार्थिकः,तबाह-
" तद्योगे तत्सिद्धावन्योन्याश्रयत्वम् "॥ १४ ॥
अविद्यायां सिद्धायामाविद्यकस्तद्योगः सिध्यति, नचाद्याप्यविद्या
सिद्धाऽस्ति, तद्योगे अविद्यायोगे सिद्धे सति तत्सिद्धौ अविद्यासिद्धी
चान्योन्याश्रयत्वं-परस्पराश्रयत्वं दूषणं स्थादित्यर्थः ॥ १४ ॥
नन्वविद्यातद्योगयोीजापुरवदनादित्वाचान्योऽन्याश्रयत्वं दोषः,तत्राह-
"न बीजाङ्कुरवत्सादिसंसारश्रुतेः" ॥ १५ ॥
मीनाङ्गुरवत्-बीजाइरयोरिव न-अनादित्वं न । कुतः ? सादिसंसार-
श्रुतेः- सादिभूतस्याविद्यातयोगलक्षणसंसारस्य श्रवणादित्यर्थः ॥ १५ ॥

(१००) सांख्यदर्शनसूत्रवृत्तौ । नन्वविद्यैवासिद्धति न युक्तम् । विद्यान्यत्वस्यैवाविद्यात्वाद, तबाह- "विद्यातोऽन्यत्वे ब्रह्मबाधप्रसंगः ॥ १६ ॥ विद्यातोऽन्यत्वे-विद्यान्यत्वस्यैवाविद्यात्वे ब्रह्मवाधमसंगा-विद्याऽन्यत्वा- विशेषाद् ब्रह्मणोऽप्यविद्यावद वाधः प्रसज्येतेत्यर्थः ॥ १६ ॥ विपक्षे दण्डमाह- अबाधे नष्फल्यम्" ।। १७ ।। अबाध-ब्रह्मवाधाभावे नष्फल्य-विद्याया निष्फलत्वं स्यादित्यर्थः।। १ ।। ननु विद्याऽन्यत्वं न विद्याभिनत्वं विवक्षितम् । अपि च विद्यावाव्य- त्वम् । तेन न ब्रह्मवाधप्रसंगस्तत्राह- "विद्याबाध्यत्वे जगतोऽप्येवम्" ॥ १८॥ विद्यावाध्यत्वे-विद्यावाध्यत्वस्यैवाविद्यात्वेजगतोऽपि-अपञ्चस्याप्येवम्- अनया रीत्याऽविद्यात्वं स्यादित्यर्थः । विद्यावाध्यत्वाविशेषादिति भावः ॥ १८ ॥ नन्वस्तु जगतोऽप्यविद्यात्वम् । कि तेन ? तबाह- "तपत्वे सादित्वम्" ॥ १९ ॥ तदृपत्वे-जगतोऽप्यविद्यास्वरूपत्वे सादित्वं जगदिवाविद्याया भी सादित्वं स्यानानादित्वमित्यर्थः । तथा च नेष्टसिद्धिरिति भावः ॥ १९ ॥ ननु तवापि जीवानां धर्माधर्मादृष्टसिद्धी तत्कलमदाता कचिदागरः सिध्यति । तदेव नास्ति । कुतस्तत्सिदिस्तवाह- "न धर्मापलापः प्रकृतिकार्यवैचित्र्यात्" ॥२०॥ धर्मापलापः धर्मलक्षणादृष्टस्यापहवा नन्न संभवति । कुतः ? मानि कार्यवेचिन्यात कृतिकार्याणां मुग्मादीनां विचित्रताया दर्शनादित्यः । - - 1386) - - पञ्चमोऽध्यायः। (१०१) कश्चित्सुखी, कश्चित्सुखितरः, कश्चित्सुखितम इति प्रकृतिकार्य्यवचि- न्यान्यथानुपपत्त्या धर्मसिद्धिरिति भावः ॥ २० ॥ ननु स्वभावादेव वैचित्र्यमस्तु । किमसिद्धेन धर्मेण ? तत्राह- "श्रुतिलिङ्गादिभिस्तत्सिद्धिः" ॥२१॥ 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन' इत्यादि- श्रुतिः । सुम्पभोगोऽदृष्टजन्यो भोगत्वाद् दुःखभोगावदित्यादिलिङ्गम् । आदिना योगिप्रत्यक्षमित्येभिस्त्रिभिः प्रमाणैस्तत्सिद्धिः तस्य धर्मस्य सिद्धिरित्यर्थः । स्वभाववैचित्र्यकल्पने गौरवान्न स्वभावाश्रयणं युक्तमिति भावः॥२१॥ ननु यदस्माकं न प्रत्यक्षं, तनास्त्येव, तत्राह- न नियमः प्रमाणान्तरावकाशात्" ।। २२॥ न नियमः यदस्माकं न प्रत्यक्ष तन्नास्त्येवेति नियमो नाकुतःप्रमाणा न्तरावकाशात् अमत्यक्षे वस्तुनि प्रमाणान्तरयोः शब्दानुमानयोग्य- गोचरत्वस्य संभवादित्यर्थः ॥ २२ ॥ धर्म प्रसाध्याधर्म साधयन्नाह- "उभयत्राप्येवम्" ॥ २३ ॥ उभयत्रापि धर्मवद्धर्मेऽप्येवं-पूर्वोक्तप्रकारेण श्रुतिलिङ्गादिक प्रमाण बोध्यमित्यर्थः ॥ २३ ॥ ननु धर्मवधर्मसाधनं न युक्तम् । अर्थादेव तत्सिद्देस्तत्राह- "अर्थात् सिद्धिश्चत्तमानमुभयोः" ॥२४॥ अर्थात् सिदिश्चत् एकस्मिन् सिद्ध तदपरस्य तत्संबन्धितया : सिद्धि- रथसिद्धिस्तत्र धर्मे सिद्ध तत्प्रतिद्वन्दित्वाधर्मस्य सिद्धिश्चेत्तदा समानमु- भयोः एतद धर्माधर्मयोरुभयोरपि समानमित्यर्थः । अधर्मवद् धर्मेऽपि पर्य्यनुयोगोऽयं तुल्य इति भावः ॥ २४ ॥ १ बृहदा. अ०५-त्रा २-१३ । - Acc. No 13 नगर - . . 1 - (१०२) सांख्यदर्शनसूत्रवृत्तौ। ननु धर्मादिस्वीकारे पुरुषस्य निर्गुणत्वं न स्यात्, तत्राह- अन्तःकरणधर्मत्वं धर्मादीनाम् ॥ ॥ २५ ॥ धर्मादिनां धर्माधर्मसुखदुःखरागदेषज्ञानेच्छायलादीनामन्तःकरणधर्म वं-बुद्धिधर्मत्वं न पुरुषधर्मत्वमित्यर्थः ॥ २५ ॥ ननु धर्मादीनामन्तःकरणधर्मत्वे पुरुषे तत्समारोपो वक्तव्यः । समारो- पितानाच तेषां विवेकज्ञानेनात्यन्तबाधे सत्कार्य्यवादो न सिध्येव, तबाह- "गुणादीनाच नात्यन्तबाध" ॥२६॥ गुणादीनाच-उपचाराकार्यकारणभयोगस्तद्वाधापाप्लेः । वैशेषिकपरि- भाषय वा प्रयोगोऽयम् । धर्मादीनाच नात्यन्तवाधान स्वरूपतो बाप इत्यर्थः। अयस्योष्ण्यवदात्मनि संसर्गतो वाधाभ्युपगमादिति भावः ॥ २६ ॥ ननु स्वस्य धर्मादिज्ञाने जातेऽपि परस्य तज्ज्ञानं कथं भवेत् ? तबाह- पञ्चावयवयोगात्सुखसंवित्तिः ॥ २७ ॥ गुणादीनामित्यनुवर्तते । पञ्चावयवयोगात् पञ्चाना प्रतिज्ञाहेतूदाहरणो- पनयनिगमनानामवयवानां योगःम्मेलनं यस्मिन् परार्थानुमाने नस्माह धर्मादीनां सुखसंवित्तिः सुखेनानायासेन सवित्तिः ज्ञानं भवतीत्यर्थः॥२७॥ ननु व्याप्तिसिद्ध्यधीनजन्म ह्यनुमानम् । सा तावत्कथं भवेद ? तबाह नसकृद्रहणात संबन्धसिद्धिः" ॥ २८ ॥ नसकृद्रहणात्-नैकवेत्यादिवत्समासः, साध्यसाधनयोरसकृत्सहचारग्रह- णात्संबन्धसिद्धिः-संवन्धो व्याप्तिस्तत्सिदिर्भवतीत्यर्थः ॥ २८ ॥ ननु केयं व्यामिः? तबाह-- "नियतधर्मसाहित्यमुभयोरेकतरस्य वाव्याप्तिः॥२९॥ उभयोः साध्यसाधनयोईयोरेकतरस्य वा साधनमात्रस्य वा यत्रियत. धर्मसाहित्यं नियतम् अव्यभिचरितं, धर्मतायां साहित्य, धर्मसाहित्य- सहनारः। अन्यभिचारतसंबन्ध इति यावन्सा च्यामिरित्यर्थः ।

पञ्चमोऽध्यायः। (१०३) समव्याप्तिमदर्शनार्थमुभयोरिति, विषमव्याप्तिमदर्शनार्थमेकतरस्यवेति ग्रहणमातत्रानित्यत्वकृतकत्वयोः समव्यानिः । धूमस्य च विषमन्याप्तिरिति विवेकः ॥ २९ ॥ ननु नियतधर्मसाहित्यं न व्यातिः, अपि च तत्त्वान्तरं, तबाह- न तत्त्वान्तरं वस्तुकल्पनाप्रसक्तः ॥ ३० ॥ न तत्त्वान्तरं-नियतधर्मसाहित्यातिरिक्तं पदार्थान्तरं व्याप्तिन । कुतः? बस्तुकल्पनामसक्तेः तत्त्वान्तरकल्पनामसंगादित्यर्थः । "धर्मकल्पनापेक्षया धर्मिकल्पने गौरवं स्यादिति भावः ॥ ३० ॥ ननु नियतधर्मसाहित्य कीदृशं विवक्षित? तबाह-- "निजशक्त्युद्भवमित्याचाO:॥३१॥ निनशक्त्युद्भव-वस्तुनो नैसर्गिकी शक्तिर्निनशक्तिस्तयोद्भवः अभिव्य- तिर्यस्य, तत्तथाभूतं साहित्यमित्याचार्याः सांख्याचार्याःमाहुरित्यर्थः । तत्रस्वभावप्रतिबद्धं व्याप्यम् । येन च मतिबद्धं तद्व्यापकम् । स्वभावाभिव्यक्तः प्रतिबन्धो व्याप्तिरीति विवेकः ॥ ३१ ॥ "आधेयशक्तियोग इति पश्चशिखः ॥ ३२ ।। आधेयशक्तियोगः आधानं सङ्केतः, तद्विषयीभूता शक्तिः इदं व्याप्यं- व्यापकञ्चेदमिति सांकेतिकी शक्तिराधेयशक्तिः । तल्लक्षणो योगः वस्तुनो- रव्यभिचरितसंबन्धःसाहित्यमिति पञ्चशिखः पञ्चशिखाचार्याइत्यर्थः३२॥ ननु स्वरूपशक्तिरेव व्याप्तिरस्तु । किमायशक्त्या ? तत्राह- "न स्वरूपशक्तिनियमः पुनर्वादप्रसक्तेः" ॥३३॥ स्वरूपशक्तिः वस्तुनःस्वरूपभूता शक्तिः स्वरूपशक्तिर्नियमा व्याप्तिन- न भवति । कुतः ? पुनर्वादप्रसक्तेः-घटः कलश इत्यादिवत्पौनरुत्यासंगा- स्त्यिर्थः ॥ ३३ ॥ ननु कुतः पौनरुत्य ? तनाह-- . -

।
-
1
(१०४) सांख्यदर्शनसूत्रवृत्तौ।
"विशेषणानर्थक्यप्रसक्तः ॥३४॥
शक्तो देवदत्त इत्यादौ विशेषणस्य 'शक्त, इत्यस्यानर्थक्यमसक्तेः=
नरर्थक्यप्रसंगादित्यर्थः।
यदास्वरूपात्मिका शक्तिः, तदा 'शक्तो देवदत्त,इत्यादौ देवदत्त इत्युक्ते
शक इत्यप्ययुक्त एव । तदात्मकत्वात् । तथा च पुनस्तत्मयोगः कलशो' घट
इत्यादी कलश इव निरर्थकः । नैरर्थक्यासक्तिरेव च पौनरुत्यासक्तिरिति
भावः ॥ ३४ ॥
ननु स्वरूपशक्तेर्व्याप्तित्वानुपपत्तेरनुपलम्भात्पुनर्वादप्रसक्तिर्न दोषस्तत्राह-
"पल्लवादिष्वनुपपत्तेः ॥ ३५ ॥
पल्लवादिषुवृक्षादिभ्यश्च्छिन्नेषु पल्लवादिषु वर्तमानायाः स्वरूपशक्तेरनु-
पपत्तेश्व-व्याप्तित्वानुपपत्तेचेत्यर्थः ।
तत्र स्वरूपात्मिकायाः शक्तेर्व्याप्तित्वे यथा दूरतो दृष्टिपथमारोहन्तो
वृक्षादिसंलग्राः पल्लवादयो वृक्षादिकमनुमापयन्ति । तथा छिन्ना अप्यनु-
मापयेयुः । वर्तमानस्वरूपत्वात् । न च ते तथाऽनुमापयन्ति । तस्मात्स्व-
रूपशक्तिर्न नियम इति भावः ॥ ३५ ॥
ननु मास्तु स्वरूपशकिाप्तिः । निजशत भिव्यको योग एवं व्याप्ति-
रस्तु । कृतमाधेयशक्त्या, तत्राह-
"आधेयशक्तिसिद्धौ निजशक्तियोगः समान-
न्यायात्" ॥ ३६॥
आधेयशक्तिसिद्धौ-संकेताभिव्यक्तशक्तेर्व्याप्तित्वसिद्धौ निनशक्तियोगः-
निजशक्यभिव्यक्तो योगोऽपि व्याप्तित्वेन सिद्ध एव । कुतः? समानन्यायात-
युक्तिसाम्यादित्यर्थः।
तत्र निनशक्त्यभिव्यक्तो योगो व्यातिरिति सांख्याचााः । सकेताभि
व्यक्तशक्तिलक्षणो योगो व्याप्तिरिति पश्चशिखाचार्या इति निवेकः ॥ ३६॥

पञ्चमोऽध्यायः - (१०५) नन्वनुमानं प्रमाणीकर्तु यथालिङ्गालिङ्गिनोः संबन्धा निरूपितस्तथा शब्दं प्रमाणीकर्तु शब्दार्थसंबन्धोऽपि निरूपणीयः, कश्च भवतां शब्दार्थयोः संबन्धः। तत्राह- "वाच्यवाचकभावः संबन्धः शब्दार्थयो॥ ३७॥ शब्दार्थयोः शब्दस्यार्थस्य च मिथो वाच्यवाचकभावः वाच्योऽयों वाचकः शब्दस्तद्भावः वाच्यवाचकत्व तलक्षणः संबन्धः सनातनः संबन्ध इत्यर्थः । अयमेव संबन्धो वृत्तिरित्याख्यायते । तत्र साक्षात्संबन्धः शक्तिवृत्तिः । परम्परासंबन्धो लक्षणावृत्तिः । सा च स्वशक्यसंबन्धिनिस्वशक्यगुणसंबन्धि- नि च नियतेति बोद्धव्यम् ॥ ३७ ॥ ननु ज्ञातः संबन्धो बोधको भवति नाज्ञात इतितत्संबन्धनप्तिः कथं स्यात, तनाह- "त्रिभिः संबन्धसिद्धिः ॥ ३८ ॥ त्रिभिः आप्तोपदेशः, वृद्धव्यवहारः, प्रसिद्धपदसन्निधानमित्येभिस्त्रि- भिः संबन्धसिद्धिः संबन्धस्य-वाच्यवाचकभावलक्षणस्यशब्दार्थसंबन्धस्य सिद्धिः-ज्ञप्तिर्भवतीत्यर्थः ॥ ३८ ॥ ननु भवतु त्रिभिः संबन्धसिद्धिः । तथापि तत्सिद्धिनियमः कस्यात् कार्य वा कार्याकार्ययोरभयत्र वा, तबाह- "न कार्य नियम उभयथादर्शनात्" ॥ ३९ ॥ अस्माकं सांख्यानां कार्य-कार्यबोधके "गामानय शुक्लां दण्डेन इत्या- द्यात्मके चोदनावाक्ये नियमः संबन्धसिदिनियमो न मास्ति।कुतः उभय- थादर्शनात् कार्यवदकार्य्यबोधके "जगदधिपतिरीश्वरः पुत्रस्ते जातः" इ- त्याद्यात्मके सिद्धवाक्येऽप्याप्तोपदेशादिना संवन्धसिद्धिदर्शनादित्यर्थः३९॥ नन्वेवं संवन्धसिद्धौ लोके शब्दार्थपतीतिसंभवेऽपि वदे तदर्थमतीतिः कथं स्यात्, तत्राह- . ३ . * (१०६) सांख्यदर्शनसूत्रवृत्ती। "लोकेव्युत्पन्नस्य वेदार्थप्रतीतिः ॥ ४० ॥ लोके-लौकिक शब्दे व्युत्पन्नस्य आप्तोपदेशादिना गृहीतार्थसंवन्धस्य बेदार्थप्रतीतिः वैदिकशब्दानामर्थस्य प्रतीतिः-ज्ञप्तिः संभवतीत्यर्थः । यादृशा 'लौकिकाः शब्दास्तादृशा वैदिका इत्यभ्युपगमादिति भावः॥ ५० ॥ ननु लौकिकशब्दानांपौरुषेयत्वादाप्तोपदेशेन, अर्थस्यातीन्द्रियत्नाभा- वाच्च वृद्धव्यवहारादिना संबन्धसिद्धौ तदर्थप्रतीतिः संभवति । वेदे तदिप. र्ययात्संबन्धासिद्धौ तदर्थप्रतीतिः कथं संभवेदित्याशकंते । "न त्रिभिरपौरुषेयत्वाद् वेदस्य तदर्थस्यातीन्द्रि- यत्वात्" ॥४१॥ संबन्धसिद्धिरित्यनुवर्तते वेदस्य ऋग्यजुःसामाथर्वनानो भगवतो वेद- स्यापौरुषेयत्वाद-पुरुषमणीतत्वाभावात्तदर्थस्य वेदार्थस्य चातीन्द्रियत्वात् इन्द्रियगोचरत्वाभावाचाप्तोपदेशादिभिस्त्रिभिः सबन्धसिद्धिः संभवती- त्यर्थः ॥ संबन्धसिद्धयसंभवे दूरे तदर्थमतीतिसभव इति भावः । तत्रापौरुषेयत्वादाप्तोपदेशासंभवः तदर्थस्यातीन्द्रियत्वावृद्धव्यवहारम- सिद्धपदसविधानयोरसंभवस्तदसंभवेचसंवन्धसिद्धयसभव इति विवेकः४१॥ तत्रादो वेदस्यातीन्द्रियार्थत्वं निरस्पति ।। "न यज्ञादे: स्वरूपतो धर्मत्वं वैशिष्टयात्" ॥४२॥ न-यदुक्तं तन्न । यतो यज्ञादेः यजदानतपआदिकर्मणः स्वरूपतः-सा- क्षाधर्मत्वं वेदार्थत्वमभ्युपगम्यते । वैशिष्ट्यात्-विशिष्टफलजनकत्वादि. त्यर्थः ॥ ४२ ॥ अपौरुषेयत्वादाप्तोपदेशासंभवं निराकरोति ॥ "निजशक्तिव्युत्पत्या व्यवच्छिद्यते" ॥ ४३ ॥ .

पञ्चमोऽध्यायः (१०७) निजशक्ति: वेदानामपौरुषेयत्वेऽपिया स्वाभाविकी शक्तिः शब्दानामयः स्वाभाविकः संबन्धः, सैवात्तैरन्तर्वाणिभिरयमस्यार्थ इत्येवंरूपया व्युत्प- त्या शब्दार्थावबोधकशत्या व्यवच्छिद्यते व्यावोपदिश्यते इत्यर्थः । तथाचाप्तोपदेशादीनां त्रयाणां संभवानापारुषयवेदेऽपि संबन्धसिद्धय- संभवः । तदसंभवाभावे चोपपन्ना लोकवत्तदर्थमतीतिरिति भावः ॥ ४३ ॥ ननु यज्ञादेः क्रियात्मकत्वेन योग्यत्वात्तत्राप्तोपदेशादिभिः संबन्धसिद्धि- संभवेऽप्ययोग्येषु वेदार्थेषु तत्सिद्धिःकथं स्यात्, तत्राह- "योग्यायोग्येषुप्रतीतिजनकत्वात्तत्सिद्धिः॥४४॥ योग्यायोग्येषु-निदर्शनार्थं योग्यपदम् । इन्द्रिययोग्येषु यज्ञादिकर्मस्विक तदयोग्येष्वर्थेष्वपि पदानां प्रतीतिजनकत्वात्-प्रतीतिजनकत्वसाम्यात्तत्सि- दिः तस्य स्वाभाविकसंबन्धस्य सिदि:-ज्ञप्तिः संभवतीत्यर्थः ॥४४॥ ननु शब्दार्थसंबन्धस्य स्वाभाविकत्वे शब्दराशिवेदा अपि स्वाभाविकाः स्युस्तत्राह- " ननित्यत्वं वेदानां कार्य्यत्वश्रुतेः॥ ४५ ॥ वेदानां ऋगयजुःसामार्थवणां चतुर्णा वेदानां नित्यत्वं स्वाभाविकत्वं न=नभवति । कुतः १ कार्य्यत्वश्रुतेः तस्माद्यज्ञात्सबहुतऋच: सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मा- दजायत' इति तेषां कार्य्यवस्य ईश्वरजन्यत्वस्य श्रुतेः-श्रवणा- दित्यर्थः ॥ १५॥ ननु वेदानां कार्यत्वे भारतादिवत्पुरुषमणीतत्वमेवकिनस्यात् । तत्राह- न पौरुषेयत्वं, तत्कर्तुः पुरुषस्याभावात् " ॥ ४६ ॥ वेदानामित्यनुवर्तते । वेदानां पौरुषेयत्व-कार्यवापि जीवकर्तृकत्वं " २ यजु.-३ । ३१ मं. ९ ।

(.१०४) सांख्यदर्शनसूत्रवृत्तौ। नन्न संभवति। कुतः ? तत्कर्तुः वेदकर्तुः पुरुषस्य-जीवस्याभावात् अनु- पलम्भादित्यर्थः ॥ ४६ ॥ नतु माचीनतमेषु धर्ममन्दिरेषु व्यभिचारात्कर्तुरनुपलम्भो न वेदाना जीवकर्तृकत्वं प्रतिक्षेप्तुमर्हति । कथं तेषां तदसंभवस्तवाह- मुक्तामुक्तयोरयोग्यत्वात् ॥ १७ ॥ मुक्तामुक्तयो-मुक्तस्य जीवस्य निःसङ्गत्वेनामुक्तस्य बद्धस्य सर्वज्ञ- त्वाभावेनायोग्यत्वात् वेदकरणे योग्यत्वाभावादित्यर्थः ॥ ४७ ॥ नतु येषां कर्ता नोपलभ्यते जीवाश्च न तद्योग्यास्तेषामपौरुषेयत्वा- नित्यत्वं किन्नस्यात्, तबाह- " नापौरुषेयत्वान्नित्यत्वमंकुरादिवत् " ॥४८॥ अपौरुषेयत्वात् पुरुषो जीवस्तत्कर्तृकत्वाभावान्नित्यत्वं वेदानां नित्यत्वं नन भवति, तत्रोदाहरणमड्डरादिवत् यथाऽमुरादीनां जीवकर्तृकत्वाभावे पिन नित्यत्वमित्यर्थः । यदुपौरुषेयं तन्नित्यमिति नियमो नास्ति, अङ्गुरादौ व्यभिचारादिति भावः ॥ ४८ ॥ नन्वड्डुरादीनां कार्य्यत्वाजीवकर्तृकत्वमनुमेयं, तबाह- "तेषामपि तद्योगे दृष्टवाधादिप्रसक्तिः॥४९॥. - तेषामपि सस्यादिवदवरादीनामपितद्योग-तस्यजीवकर्तृकत्वस्प योगे प्रयोगे दृष्टबाधादिमसक्तिः आदिपदेनादृष्टकल्पनं गृह्यते । दृष्टबाधस्या- दृष्टकल्पनस्य च मसक्तिः स्यादित्यर्थः ॥ ४९ ॥ नन्वेवं तर्हि जीवकर्तृकमेतदीश्वरकर्तृकश्चेदमिति कथं विज्ञेय ? तत्राह- "यस्मिन्नदृष्टेऽपि कृतवुद्धिरुपजायते तत्पौरुषेयम्" ॥५०॥ अदृष्टेऽपि दृष्टिगोचराभावेऽपि तत्कतरि यस्मिन् यदस्तुनि कृतबुद्धिः- जीवेन कृतमित्येषा धीरुपजायते समुत्पद्यते । तत्-तबस्तु पौरुषेयं जीवक- र्तृक-मित्यर्थः । - ܀ - - - . पञ्चमोऽध्यायः (१०९) यत्र तु वेदांकुरादौ जीवकर्तृकत्वबुद्धिनापजायते अयोग्यत्वात् । तत्रेश्वरः क्तति मन्तव्यम् ॥ ५० ॥ ननु वेदानामीश्वरोक्तत्वे परतः प्रामाण्यं किं न स्यात्, तत्राह- "निजशत्यभिव्यक्तः स्वतः प्रामाण्यम्" ॥५१॥ निजशक्त्यभिव्यक्तः शब्दार्थसम्बन्धलक्षणया स्वाभाविक्या शक्त्याऽभि- व्यक्तेः मतिसर्ग भगवतो जगदधिपतेः प्रादुर्भावावेदानां स्वतः मामाण्य=- स्वार्थसिद्धौ प्रमाणान्तरनिरपेक्षपमात्वमित्यर्थः । ईश्वरोच्चरितत्वेऽप्यनादित्वानिजया शक्त्या प्रामाण्यं स्वतःप्रामाण्यं रुपविषये रवरिवति सांख्या इति भावः ॥ ५१ ॥ ननु शब्दप्रमाणविषयं सांख्यानामीदृशं मतमस्तु । भ्रान्तिविषये पु. नस्तेषां कीदृशं मतमित्याकांक्षायामात्ममतं दिदर्शयिषुरादौ परमतं निरा- कुर्वनाह- "नासतः ख्यानं नृशृङ्गवत्" ॥५२॥ असतः शुक्तिशकलादौ नितान्तालीकस्य रजतादेः ख्यानम् इदं रजत- मित्यादौभ्रान्तिज्ञाने विषयतया भानं न-नो पपद्यते ।अयोग्यत्वात् । नृशृङ्ग वतः यथा नितान्तासतोनृशृङ्गस्य कचिदपि ख्यानं नेत्यर्थः ॥ ५२ ॥ नन्वसतो रनतादेः ख्यानं मास्तु विज्ञानात्मनः सत एव ख्यानमस्तु, तत्राह- "न सतो बाघदर्शनात्" ॥५३ ॥ ख्यानमित्यनुवर्तते । सतः शुक्तिशकलादौ विज्ञानात्मनः सदनतादेः ख्यानम् इदं रजतामित्यादौ भ्रान्तिज्ञाने विषयतया भानं न नोपपद्यते । कुतः? बाधदर्शनात नेदं रजतमित्यादिना तदाधस्य दर्शनादित्यर्थः । रजतस्य विज्ञानात्मकत्वे शुक्तिशकलादिव बाधो न स्यादिति .

. (११०) सांख्यदर्शनसूत्रवृत्ती। अनिर्वचनीयवादिनं प्रत्याह- "नानिर्वचनीयस्य तदभावात् "॥५४॥ ख्यानमित्यनुवर्तते । अनिर्वचनीयस्य सदसदिलक्षणस्यरजतादेःख्यानं भ्रान्तिज्ञाने भानं न नोपपद्यतो कुतः ? तदभावात् तादृपदार्थस्यैवाभावा- दित्यर्थः ॥ ५४ ॥ अन्यथाख्यातिवादं निरस्यति । "नान्यथाख्यातिः स्ववची व्याघातात्" ॥५५॥ अन्यथाख्यातिः इदरजतमित्यादी पुरोवर्तिनः शुक्तिशकलादेर- न्यथा-रजताद्यात्मना ख्यातिः-ख्यानं न-समीचीनं न । स्वर- चोव्यावाताव-ज्ञेयानुरूपं ज्ञानम्' इति स्ववचसो व्याहतिप्रसंगादि- त्ययः॥ ५५ ॥ आत्ममतमाह- "सदसत्ख्यातिर्वाधावाधात्" ॥५६॥ सदसत्ख्यातिः= सांख्यानामस्माकं हट्टादौ सतः पुरोवर्तिनि चासतो रजतादेः पुरोवर्तिसामान्यांशेनेदमाऽसंसार्गाग्रहाख्यातिः इदं रजतमित्या- दो भ्रान्तिज्ञाने विषयतया भानम् । कुतः ? बाधाबाधात् तस्य रजतादेः संसर्गतः पुरोवर्तिन बाधेऽपि स्वरूपतोऽबाधात् बाधाभावादित्यर्थः । अख्यातिवादिनस्तावत्सांख्या इदं रजतमित्यादौ सर्वत्र ज्ञानद्वयमाचक्षते। तिमरादिना ममाणदोषण पुरोवर्तिविशेष्यांशस्याग्रहात्सामान्यांशविषयमि- दमाकारं सनिकर्षमात्रजन्यमेकं ज्ञानम । लोभादिममातृदोषसमीचीनसाह- श्यादिदोषोबुदरनतादिसंस्कारमात्रजन्यश्च सदनतादिविषयं स्मृत्यात्मकं द्वितीयमातयोधयोनियोःममाणादिदोषवशेन स्वरूपतो विषयतश्चासंसर्गा- ग्रहलक्षणो 'मयि मित्राविषयं ज्ञानदयं जातम्' इति विवेकमतिदन्दी योऽयमेक ज्ञानमित्यपिवेकः, स एव तेषां तद्रूपामतिष्ठितत्वाव भ्रमो विपर्ययो मिथ्या- पञ्चमोऽध्यायः। (१११) शानं, नापरः कश्चनपदार्थः । अत एव रजतादिज्ञानस्य विषयो रजतादिदेशा- न्तरे सन्नपिन पुरोवर्तिनि सन् । तेन नेदं रजतमित्यादिना बाधकज्ञानेन दे- शान्तरे वर्तमानस्य तस्य स्वरूपतोबाधासंभवात्पुरोवर्तिनि संसर्गतोवाध इति भावः। तत्रासत्सदनिर्वचनीयेति ख्यातित्रयं बाह्यानाम् अन्यथाख्यातिः सदस- ख्यातिश्चति दयं वैदिकानाम् । वाधश्च प्रतिपनर्मिणि निषेधबुद्धिविषयः, स्वमिति विवेकः ॥ ५६ ॥ एवं भ्रान्तिविषये स्वमतं प्रदर्य शब्दविषयं तत्मदर्शयितुमादौ परेण संमतं शब्दस्य स्फोटात्मकत्वं प्रतिषेधाति । "प्रतीत्यप्रतीतिभ्यां न स्फोटात्मक शब्द:"॥५॥ शब्द: गौरित्यादिशब्दः स्फोटात्मकः हस्तपादाद्यवयवेभ्यो व्यति- रिकोऽखण्डेकमूर्तिरवयवीच गकारादिवणेभ्यो व्यतिरिक्तोऽखण्डकमूर्तिरर्थ- मत्ययहेतुः पदादिसंज्ञाभाग गौरित्यादिशब्दविशेषः स्फोटस्तदात्मकः-त- स्वरूपो नम्न भवति।कुतः? प्रतीत्यप्रतीतिभ्यांगकारादिवर्णानां प्रतीतेस्त- यतिरिक्तस्य स्फोटस्य चापतीतेरित्यर्थः ॥ ५७ ॥ ननु शब्दस्य स्फोटात्मकत्वाभावेऽपि नित्यत्वं किं नस्यात् ? तत्राह- न शब्दनित्यत्वं कार्यताप्रतीतः"॥५८॥ शब्दनित्यत्वं शब्दस्य गकारादिवर्णस्य नित्यत्वम्-उपत्तिविनाशशू- न्यत्व न नभवति। कुतः? कार्यतामतीतेः उत्पनो गकार इत्यादिना तदु- पादकताप्रतीतरित्यर्थः ॥ ५८ ॥ शब्दनित्यलवादी शंकते। "पूर्वसिद्धसत्वस्याभिव्यक्तिीपेनेव घटस्य ॥१९॥ ननुन कारणव्यारेण शब्दस्योत्पत्तिर्भवति,येन तस्य नित्यत्वं नस्यात्। किंतु पूर्वसिद्धसत्त्वस्य कारणव्यापागत्पूर्व सिद्धं सत्त्वं यस्य, तस्याभिव्य-

११२)
सांख्यदर्शनसूबवृत्तौ।
क्तिः भादु तिर्दीपनेवघटस्यम्यथा पूर्वसिद्धसत्त्वस्यघटस्य दीपेना-
भिव्यक्तिरित्यर्थः ।
उत्पन्नो गकारो नष्टः, ककार इत्यादिपतीतिस्तु ध्वन्युपाधिकृता न
स्वतः। कारणव्यापारेण वनेरेवोत्पत्तिविनाशयोरभ्युपगमादिति भावः।।५८॥
परिहरति।
" सत्कार्यसिद्धान्तश्चेत्सिद्धसाधनम् ॥६०॥
अभिव्यक्त्या नित्यत्वं साधायतस्ते का सिद्धान्तः। सत्कार्यसिद्धान्तश्चेत्=
कारणव्यापारात्पूर्व सतः कार्य्यस्य तेनाभिव्यक्तिरिति ते सिद्धान्तश्चेत
तदा सिद्धसाधनम् अस्माकं सिद्धस्यैवैतत्साधनमित्यर्थः ।
तादृशनित्यत्वस्यास्माकं कार्यमाने सिद्धत्वादिति भावः ॥ ६ ॥
आत्मौदैतवादं प्रतिक्षिपति ।
"नाद्वैतमात्मनो लिंगात्तरेदप्रतीते"॥ ६१ ॥
आत्मनः = पुरुषात्मनोऽद्वैतम् ऐक्यं न=न सभवति । कुतः? लिङ्गाद
सुखदुःखजरामरणादिलिगात् तद्भेदमतीतेः तस्यपुरुषात्मनोभेदस्य सिद्धे-
रित्यर्थः ।
आत्मैक्ये प्रतिपुरुष सुखदुःखादिभेदो न स्यादिति भावः ॥ ६१ ॥
ननु मा भूत्सजातीयाद्वैत, विजातीयाद्वैत भविष्यति, तबाह-
" नानात्मनापि, प्रत्यक्षबाधात् ॥ ॥६२॥
अदैतमात्मन इत्यनुवर्तताआत्मनोऽनात्मनापि =भोग्येन जगताऽपि ना-
दैतम् =नात्यन्ताभेदः संभवति । कुतः ? प्रत्यक्षबाधात् भेदग्राहकप्रत्य-
क्षेण बाधादित्यर्थः ॥ ६२ ॥
नन्वस्तु तर्हि समुचिताभ्यामात्मानात्मभ्यामदैतं,तत्राह-
" नोभाभ्यां तेन ॥६३ ॥
अद्वैतमात्मन इत्यनुवर्तते । नोभाभ्यां न समुच्चिताभ्यामात्मानात्मभ्याम-
प्यात्मनोऽदैतं संभवति । कुतः १ तेनैव पूर्वोक्तहेतुयेनैवेत्यर्थः ॥ ६३ ॥

पञ्चमोऽध्यायः। (११३) “ . नन्वेवमदतमतिपादकश्रुत्या विरोधः स्याव, तत्राइ- अन्यपरत्वमविवेकानां तत्र ॥६४ ॥ तत्र अद्वैतमतिपादकश्रुतावन्यपरत्वंद्वैतादन्यददैतंतत्परत्वम् आत्मादै तप्रतिपादिकत्वमविवेकानां-शाखव्युत्पत्तिशन्यानांमतिभाति न जातविवेका- नामिति न विरोध इत्यर्थः। क्वचित्कार्यकारणयोरभेदविवक्षया कचिच्चात्मतयैक्यप्रतिपादिकत्वमदै- तश्रुतीनामिति भावः ॥ ६४ ॥ नत्वात्मोपादानकं जगदात्माभिन्नं कि न स्यान्मृदुपादानकस्य मृदभि- नत्वदर्शनाद, तत्राह- "नात्माऽविद्या नोमयं जगदुपादानकारणं निःसङ्गत्वात् " ॥ ६ ॥ आत्मोपादानकं जगदिति कोऽभिप्रायः ? किमात्ममात्रोपादानकम्, उ- तात्माश्रिताविद्योपादानकम् ? आहोस्विदात्माविद्योभयोपादानकं ? तत्रात्मा कुटस्थत्वादविद्याकल्पितत्वादुभयम् आत्माऽविद्या चेति दयं निःसङ्गत्वा- त-परस्परसंगाभावाद् जगदुपादानकारण न संभवतीत्यर्थः । तदभावे कुतस्तदभेद इति भावः ॥ ६५ ॥ आत्माऽद्वैतं निराकृत्य सच्चिदानन्दस्वरूप ईश्वरः,सच्चित्स्वरूपो जीवः, सती च केवला प्रकृतिारत्यात्ममतं दृढीकर्तु पराभिमतं जीवात्मनः पुरुषस्य तावदानन्दरूपत्वं निराचष्टे । नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् "॥६६॥ एकस्य अतिशरीरमेकस्य-जीवात्मनः पुरुषस्येतियावदानन्दचिद्रपत्वे सुख्मानन्दो ज्ञानं चित्तदुभयस्वरूपत्वंन नभवति । कुतः ? दयोः-सुखज्ञा- नयो रुभयो भैदाव भेदनावरमादित्यर्थः । - - (११४) सांख्यदर्शनसूत्रवृत्तौ। यथाऽऽत्मनोज्ञानं स्वरूपं, तथा चेदानन्दोऽपि । तदा तयाभेदेनावगमो न स्यात् । तदभिन्नाभिन्नस्य तदभिनत्वनियमाव । भवति च दुःखानुभवोटापा सुखाननुभवेन तद्देदावगमः । ततो भवति मतिपत्तिः ज्ञानवनात्मनः स्वरूपमानन्द" इति भावः ॥ ६६ ॥ ननु पुरुषस्यानन्दरूपत्वाभावे कदाचिदस्यात्मनिनायमानः "मुखमहम स्मीति सुखप्रत्ययो नोपपद्येत-तत्राऽह दुःखनिवृत्तेगौणः" ॥ ६७ ॥ दुःखनिवृत्तेः कस्यचित्तीबतरदुःखस्य निवृत्तगौणः-जायमानःसुखमत्य- यो गौणो मातो मन्तव्य इत्यर्थः । दुःखाभावहि तदा सुखं मत्येतीति भावः ॥ ६७ ॥ ननु कथन्तर्हि मुक्यवस्थायामात्मनः केचिदानन्दरूपतामाचक्षते तत्राह- "विमुक्तिमशंसामन्दानाम्" ॥ ६८ ॥ मन्दानां कर्तरिषष्ठीयम् । अत्र वैदिकसिद्धान्तानभिज्ञा मन्दास्तेषां सा विमुक्तिमशसाश्रुतिस्मृतिविरुदा मुत्पवस्थायामानन्दरूपानात्मनः स्तुति- रित्यर्थः । मनोवैभवं निराकरोति । "न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा" ॥ १९ ॥ मनसो व्यापकत्व-विभुत्वं न-न सम्भवति । कुतः रणवाद-सा क्षाव क्रियासापकत्वादास्यादिवदिन्दियत्वादा चक्षुरादिवदित्यर्थः ॥ १९॥ किच- "सक्रियत्वाद्गतिश्रुतेः " ॥७॥ न व्यापकत्वं मनसइत्यनुवर्तते । गतिश्रुतेः = मनःसहातम्यात्मना लोकान्तरे गमनश्रुतमनसःसक्रियत्वा-शक्रियत्वावगनाब तस्य या सम्भवतीत्यर्थः ॥ ७॥ ननु मास्तु मनसो व्यापकत्वम् । अगुत्वं नारम्पनि, तबाद- पञ्चमोऽध्यायः। (११५) "न निर्भागत्वं तद्योगाद घटवत्" ॥ ७१ ॥ मनस इत्यनुवर्तते । मनसो निर्भागत्वं भागोऽवयवस्तदहितत्व-निरवय- वत्वम् अणुत्वमिति यावन्न-न संभवति । कुतः ? तद्योगात् भागयोगस्तद्यो- गस्तस्मात्-सावयवत्वात् । घटवत् यथा घटम्यसावयवत्वान्नाणुत्वमि- त्यर्थः ॥ ७१॥ ननु मनसो नित्यत्वात्कथं सावयवत्वंतत्राह- "प्रकृतिपुरुषयोरन्यत्सर्वमनित्यम्" ॥७२॥ जीवेश्वरोभयपरोऽत्र पुरुषशब्दः, सांख्यानां पदार्थत्रयस्यैव नित्यत्वाभ्यु- पगमात, स्पष्टमन्यत् । मनसोपि प्रकृतिपुरुषान्यत्वान्न नित्यत्वमिति भावः ॥ ७२ ॥ नन्वीश्वरस्य भागयोगाभावेऽपि पुम्मकृत्योभीगयोगः किं न स्यात्, तत्राह-- "न भागलाभो भोगिनो निर्मागत्वश्रुतेः ॥ ७३ ॥ भोगिन'नीवात्मनः पुरुषस्य प्रधानस्य च भागलाभः भागयोगः सावयवत्वमिति यावन्न न संभवति । कुतः ? निर्भागवश्रुतेः "अजो नित्यः शाश्वतोऽयम्""अजामेकाम् इति निरवयवत्वस्य श्रवणा- दित्यर्थः ॥ ७३ ॥ परस्य मुक्ति निराकुरुते । "नानन्दाभिव्यक्तिर्मुक्तिनिर्धमत्वात्" ॥ ७४ ॥ आनन्दाभिव्यक्ति संसारावस्थायामनभिव्यक्तस्यानन्दस्याभिव्यक्तिः मोक्षावस्थायां प्रादुर्भूतिर्मुक्तिः कैवल्यं न=न संभवति । कुतः निधर्मवाव: आत्मनस्तादृग्धर्मानाश्रयत्वाभ्युपगमादित्यर्थः ॥ ७४ ॥ नन्वस्तु तयशपविशेषगुणोच्छित्तिर्मुक्तिस्तत्राह- "न विशेषगुणोच्छित्तिस्तद्वत् ॥ १ को अ.१-वल्ली. २-१८ । २ श्वे०अ०४ । मं० ५॥ - - -- (११६) सांख्यदर्शनसूत्रवृत्तौ। - मुक्तिरित्यनुवर्तते । तदत् आनन्दाभिव्यक्तिवद् विशेषगुणोच्छित्ति आत्ममनःसंयोगेननातानांज्ञानादिविशेषगुणानामुच्छित्तिः निवृत्तिरपि मुक्ति- न-न संभवतीत्यर्थः। मन:संयोगसत्वेतदुच्छित्तेरसंभवादितिभावः ॥ ७५ ॥ नन्वस्तु तर्हि निरन्तरोगतिरेव मुक्तिस्तत्राह- न विशेषगतिनिष्क्रियस्य"॥ ७६ ।। मुक्तिरित्यनुवर्तते । विशेषगतिः लोकसिद्धगतिव्यावर्तनाय विशेषपदम् । निरन्तरोर्ध्वगतिरपि मुक्तिन । कुतः ? निष्क्रियस्य-स्वतःक्रियारहितस्य गत्यसंभवादियथः ॥ ७६ ॥ जैनमुक्ति दूषयित्वा बौद्धमुक्ति दूषयति । "नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात्" ।। ७७ ॥ मुक्तिरित्यनुवर्तते । आकारोपरागोच्छित्तिः आत्मनि क्षणिकविज्ञाने यो विषयाकाराणामुपरागः तदासनालक्षणः संवन्धविशेषस्तस्योच्छित्तिा उच्छे दोऽपि मुक्तिन-न संभवति । कुतः ? क्षणिकत्वादिदोषात-आदिपदेन तदुच्छेदोपायाभावस्यसंग्रहः । क्षणिकत्वादिदोषात्तस्याः पुरुषार्थत्वानु- पपत्तरित्यर्थः। सर्वस्य क्षणिकत्वात्का मुक्ति ? कस्य वा मुक्तिः स्यादिति भावः॥७७॥ नन्वस्तु तर्हि सर्वोच्छित्तिर्मुक्तिस्तत्राह- ".न सर्वोच्छित्तिरपुरुषार्थत्वादिदोषात् ॥ ७ ॥ मुक्तिरित्यनुवर्तते।सर्वोच्छत्तिा-सर्वस्य-विषयोपरागस्य तदाश्रयक्षणिक- विज्ञानात्मनोनीवस्यचोच्छित्तिरपि मुक्तिन=न संभवति । कुतः ?अपुरुषार्थ त्वादिदोषात-आदिपदेनात्मोच्छेदासंभवदोषस्यसंग्रहः, पुरुषार्थत्वाभावादि दोषप्रसंगादित्यर्थः ॥ ७८ ॥ शून्यवादिनं बौद्धं निरस्यति ।

पञ्चमोऽध्यायः (११७) "एवं शून्यमपि" ॥ ७९ ॥ मुक्तिनॆत्यनुवर्तते । एवं यथाऽपुरुषार्थत्वादिदोषात् सर्वांच्छित्तिर्न मुक्ति- रेवं शून्यमपि ज्ञानज्ञयात्मकनिखिलमपश्चनाशोऽपि मुक्तिर्न संभवती- त्यर्थः ॥ ७९ ॥ देशविशेषादिलाभो मुक्तिरित मतं व्युदस्यति । "संयोगाश्च वियोगान्ता इति न देशादिलाभोऽपि॥८॥ मुक्तिरित्यनुवर्तते।चन्यस्मात्संयोगाः सर्वे माप्तिलक्षणाः संबन्धा वियो- गान्ताः-विभागसीमान इति-अस्माद्देशादिलाभोऽपि प्रकृष्टदेशधनाङ्गनादि- माप्तिरपि मुक्तिन-न संभवतीत्यर्थः ॥ ८० ॥ जीवस्य परमात्मयोगो मुक्तिरिति मतं दूषयति । "न भागियोगो भागस्य" ॥८१ ॥ संयोगाश्च वियोगान्ता इत्यपि मुक्तिरित्यनुवर्तते । भागस्य ईश्वरां- शस्य जीवस्य भागियोग. ईश्वरयोगोऽपि मुक्तिन संभवति।संयोगानां वियो- गातन्त्वनिर्णयादित्यर्थः। निरंशस्य वास्तवांशासंभवाद्, भावेवासावयवत्वप्रसंगादौपाधिकस्य च प्रत्याख्यानाच्चेत्यपि द्रष्टव्यम् ॥ ८१ ॥ नन्वस्तु तह्मणिमादियोगो मुक्तिस्तत्राह- "नाणिमादियोगोऽप्यवश्यंभावित्वात्तदुच्छित्तेरितर- योगवत्" ।। ८२॥ मुक्तिरित्यनुवर्तते । अणिमादियोगोऽपि अणिमा, लपिमा, महिमा, 'माप्तिः, माकाम्यं, वशित्वम्, ईशितृत्वम्, यत्र कामावसायित्वमित्यणिमा- अष्टविधैश्वर्यमाप्तिरपि मुक्तिन।कुतः? तदुच्छित्तेरवश्यंभावित्वात् तस्याणि- मादियोगस्योच्छित्तेः वियोगस्यावश्यंभावित्वाद-आवश्यकत्वात् इतरयो- गवत्यथैश्वान्तरयोगस्योच्छित्तेरवश्यंभावित्वमित्यर्थः ॥ ८२ ॥ नन्विन्द्रादिपदयोगस्तर्हि मुक्तिरस्तु, तत्राह- - , (११८) सांख्यदर्शनसूत्रवृत्ती। "नेन्द्रादिपदयोगोऽपि तद्वत् ॥८३ ॥ मुक्तिरित्यनुवर्तते । तदव अणिमादिमाप्तिक्त्तदुच्छित्तेरवश्यंभावित्वादि- न्द्रादिपदयोगोऽपि इन्द्रवृहस्पतिप्रजापत्यादिपदमाप्तिरपि मुक्तिनेत्यर्थः ८३॥ नतु 'घ्रोणरसनचक्षुस्त्वश्रीवाणीन्द्रियाणिभूतेभ्या इति नैयायिका वैशेषिकाश्च मन्यन्ते । सांख्यानामत्र कः सिद्धान्तः तत्राह- "न भूतप्रकृतित्वमिन्द्रियाणामाहङ्कारिकत्वश्नुते ॥८॥ सांख्यानामस्माकमिन्द्रियाणांघाणादीनामिन्द्रियाणांभूतप्रकृतित्व-भूतो पादानकत्वं न । किन्त्वहंकारोपादानकत्वम्।कुतः? आहंकारिकत्वश्रुतेः-ते पामहंकारकार्यत्वश्रवणादित्यर्थः । नैयायिका वैशेषिकास्तु यस्मादिन्द्रियाणां भौतिकत्वमाहुस्तत्स्वयम वक्ष्यति ॥ ८४ ॥ नन्ववं तदुक्तपदार्थनियमोऽपि भवतां न स्यात्, तत्राह- "न षट्पदार्थनियमस्तद्वोधान्मुक्तिः॥८५ ॥ घटपदार्थनियमः व्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्पानां नियमः नियतिरस्माकं सांख्यानां न-नास्ति, न वा तद्दोधात तेषां षण्णां पदार्थानांवोधात्-विवेकप्रत्ययान्मुक्तिः त्रिविधदुःखात्यन्तनिवृत्तिलक्षणकैव ख्यामित्यस्माकं नियमः । किन्तु पञ्चविंशतितत्त्वानां बोधादित्यर्थः ॥८५॥ अतिदिशति । षोडशादिष्वप्येवम्" ॥ ८६ ॥ एवं यथा वैशेषिकोक्तेषु षट्सु पदार्थेषु तदोधान्मुक्तौ च सांख्यानाम स्माकं नियमो न, तथा षोडशादिष्वपि नैयायिकादिमोक्तेषु-प्रमाण-प्रमेयसं. शय-प्रयोजन-दृष्टान्त-सिद्धान्ताऽवयव-तर्क-निर्णय,वाद-जल्प-वितण्डा-हेत्वा १ न्याय.अ. १-आ. १-सूत्रं १२ ।

। . বলী (११९) भास-च्छल-जाति-नियहस्थानदिषुपदार्थेष्वपि, तबोधान्मुक्ती च बोव्य इत्यर्थः। आदिशब्देन मीमांसकोक्ताः पदार्थाः संगृह्यन्ते ॥ ८६ ॥ वैशेषिकैकदेशिमोकंत्रसरेणुनित्यत्वं प्रत्याह- "नाणनित्यता, तत्कार्य्यत्वश्रुतेः" ॥८७ ॥ अणुनित्यताअणूनां परमाणुनाम्नाऽभ्युपगतानात्रसरेणूनां नित्यता=नि- त्यत्वं न-न संभवति । कुतः ? तत्कार्यत्वश्रुतेः तेषां प्रकृतिकार्यत्वस्य श्रवणादित्यर्थः। इदमत्र बोध्यम् । यद्यपि सांख्या अप्येताहपरमाणून् मन्यन्ते तथापि तेषां वैशेषकैकदेशिवन ते नित्याः । किन्नु पञ्चतन्मात्रकार्यभूता इति ॥ ८७॥ ननु निरवयवाः परमाणवः कथमनित्याः स्युः ? तत्राह- न निर्मागत्वं कार्यत्वात् ॥ ॥ ८८ ॥ निर्भागत्वं निरवयवत्वं न भवदभ्युपगतपरमाणूनां न संभवति।कुतः ! कार्यत्वात-जन्यवाद् घटवदित्यर्थः ॥ ८८ ॥ केवलरूपनिबन्धन बहिरिन्द्रियैर्द्रव्यमत्यक्षनियमं निरस्यति । न रूपनिबन्धनात्प्रत्यक्षनियमः॥ ८९ ॥ रूपनिवन्धनात् रूपमात्रानिमित्तात्मत्यक्षनियमः वाह्यद्रव्यमत्यक्षस्य नियमो न न भवति । कुतः ? व्यणुकादेरपिप्रत्यक्षत्वपसङ्गादित्यर्थः ॥८९॥ अणुमहद्दीर्घ हस्वमिति चतुर्विधं परिमाणमिति वैशेषिकाक्तं परि- . माणचातुर्विध्य दैविध्येनचरितार्थयत्राह । “न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात् ॥९॥ परिमाणचातुर्विध्यम् अणुमहद्दीर्घ हस्वमिति परिमाणस्य चतुःप्रकार- त्वं न-युक्तं न । किन्तु दिप्रकारत्वम् । कुतः ? दाभ्यां तद्योगात अणु- महत्परिमाणाभ्यामेवं तस्य परिमाणचातुर्विध्यस्य सर्वत्र प्रतिपादनसंभवा- दित्यर्थः । . - (१२०) सांख्यदर्शनसूत्रवृत्तौ। मध्यादिवद्रस्वदीर्पयोरपि महत्परिमाणावान्तरभेदत्वेनैवोपपत्तरिति भावः। तत्राणुपरिमाणमाकाशस्य कारणं शब्दतन्मावलक्षणंगुणविशेष वर्जयित्वा भूतन्द्रियाणां मूलकारणेषु सत्त्वादिगुणेषु मन्तव्यमिति भाष्यम् ॥ ९० ॥ इदानी स्वमतेन प्रत्यभिज्ञायाः सामान्यविषयत्वमुपपादयिष्यन् तदप- लापिन बौद्धं प्रत्याचक्षाण आह- "अनित्यत्वेऽपि स्थिरतायोगात्प्रत्यभिज्ञानं सामान्यस्य"॥९१॥ प्रत्यभिज्ञानंस एवायमित्यादिप्रत्याभिज्ञान सामान्यस्य-विषयत्व षष्ठय र्थः । अनुगतधर्माविशेषःसामान्यं, तद्विषयमवगन्तव्यम् । कुतः ? अनित्य- त्वेऽपिस्थिरतायोगात्-तस्यप्रकृतिपुरुषाभ्यामन्यत्वेन नित्यत्वाभावेऽपि चिर- स्थायित्वाभ्युपगमादित्यर्थः ॥ ९१ ॥ नन्वस्तु सामान्यविषयं प्रत्यभिज्ञानं, कि तेन ? तबाह- न तदपलापस्तस्मात् "॥९२॥ तस्माव-मत्यभिज्ञाविषयत्वात्तदपलापः-तस्यसामान्यस्यापह्नवो नन्न संभवतीत्यर्थः ॥ ९२ ॥ नन्वतझ्यावृत्तिरूपमेव सामान्यं न किञ्चित्तत्त्वान्तरं, तबाह- "नान्यनिवृत्तिरूपत्वं भावप्रतीतः ॥९३ ॥ सामान्यस्येत्यनुवर्तते । घटत्वादिसामान्यस्यान्यनिवृत्तिरूपत्वं-घटादि. भ्योऽन्ये पटादयस्तदभावस्वरूपत्वं न-न संभवति । कुतः ? भावमनीत:- तस्य स एवायं घट " इति भावत्वेन ज्ञप्तरित्यर्थः ॥ ९३ ॥ नवस्तु तर्हि सादृश्यनिवन्धनमेवैतत्मत्यभिज्ञानं न सामान्यनिवन्धन, तत्राह- न तत्त्वान्तरं सादृश्यं, प्रत्यक्षोपलव्धेः ॥९४ ॥ -

पञ्चमोऽध्यायः
( १२१॥
-
'. सादृश्यं भवदभ्युपगतं सादृश्यं तत्त्वान्तरं भूयोऽवयवसामान्यातिरिक्तं
पदार्थान्तरं न न भवति । कुतः? प्रत्यक्षोपलब्धेः गोसदृशो गवय इत्यादि-
वत्सएवार्य घट इत्यादौ सर्वत्र भूयोऽवयवसामान्यस्यैव प्रत्यक्षेणापलब्धे-
रित्यर्थः ॥ ९४ ॥
ननु सापेक्षपतीतिविषयभूतं सादृश्यं कथं सामान्यतोऽतिरिक्तं तत्त्वा-
न्तरं न स्यात्तत्राह-
" निजशत्यभिव्यक्तिर्वा वैशिष्टयात्तदुपलब्धेः॥ ९५॥
सादृश्यमित्यनुवर्तते । वा अथवा निनशक्त्यभिव्यक्तिः वस्त्वन्तरदर्शन-
मापेक्षा वस्तुनःस्वाभाविक्याः शक्तेरभिव्यक्तिः अभिव्यक्ता स्वाभाविकी श-
क्तििितयावत्सादृश्यं मन्तव्यम्।नतत्त्वान्तरम् । कुतः वैशिष्टयात्तदुपलब्धेः
तादृशशक्तिसंबन्धोऽत्र वैशिष्टयम् । तस्मात्तस्य सादृश्यस्य प्रतीतरित्यर्थः ।
तत्तत्पदार्थनिष्ठस्तादृक्शक्तिभेद एव सर्वत्र सादृश्यप्रतीतिविषयो न
तत्त्वान्तरमिति भावः ॥ ९५ ॥
ननु सादृश्यस्य शक्तिरूपत्वकल्पनं न युक्तम् । संज्ञासंज्ञिसंबन्धग्रहहेतु-
त्वेन पृथक् तत्सिद्धेस्तत्राह-
न सज्ञासंज्ञिसंबन्धोऽपि ॥९६ ॥
वैशिष्टयात्तदुपलब्धेरित्यनुवर्तते।संज्ञासंज्ञिसंवन्धोऽपि-विषयेण विषयिणं
लक्षयति।गवयादिशब्दः संज्ञा, तदर्थो व्यक्तिविशेषः संज्ञी,तत्संबन्धग्रहोऽपि
न-सादृश्यहेतुको न। कुतः ? वैशिष्टयात्तदुपलब्धेः आप्तोपदेशादिसंवन्धोत्र
वशिष्टयम् । तस्मात्तस्य संवन्धस्य प्रतीतेरित्यर्थः ॥ ९६ ॥
संप्रति दिकालादीनां संवन्धो नित्य इति मतमपाकरोति ।
न संबन्धनित्यतोभयानित्यत्वात् ॥ ९७ ॥
संबन्धनित्यता-दिकालादीनां संबन्धस्य नित्यत्वं न-न सम्भवति ।
कुतः ? उभयानित्यत्वात-दिकालयो; कालाकाशयोर्वा संबन्धधर्मिणोरुभ-
योः प्रकृतिपुरुषान्यत्वेन नित्यत्वाभावादित्यर्थः ॥ ९७ ॥

। (१२२) सांख्यदर्शनसूत्रवृत्तौ। ननु संबन्धिनामनित्यत्वेऽपि तत्संबन्धो नित्यः कि न स्यात् ? तनाह- "नाजः संबन्धो धर्मिग्राहकमानबाधात्" ॥ ९८ ॥ । संवन्धः संवन्धिनामनित्यत्वे सति संयोगादिलक्षणस्तत्संबन्धोऽनः= नित्यो न=न संभवति। कुतः? धर्मिग्राहकमानबाधात् धर्मिणः संबन्धस्य ग्राहकं यन्मान-प्रमाणं तैनैव तन्नित्यत्वस्य बाधात् अभावनिश्चयादि- त्यर्थः। यो यः संवन्धः स सर्वः कादाचित्कविभागपूर्वक इति संवन्धं ग्राहय. त्प्रमाणं तदजत्वाभावमपि ग्राहयतीति भावः ॥ ९८ ॥ नन्ववम् 'इहेदमितियतः कार्यकारणयोःस समवायः' इति वैशेषिकोक्तः समवायसंवन्धोऽपि नित्यो न स्यात्तत्राह- "न समवायोऽस्ति प्रमाणाभावात" ॥ ९९ ॥ समवायः समवायाख्यः कश्चित्संवन्धो नास्ति न विद्यते। कुतः?ममा- णाभावाद-तत्साधकप्रमाणानुपलम्भादित्यर्थः । तदाख्यःसम्बन्धएवास्माकं नास्ति दूरे तन्नित्यत्वमिति भावः ॥ ९९ ॥ ननु कथं तत्साधकप्रमाणाभावः प्रत्यक्षानुमानयोरेव तत्र प्रमाणत्वात्, तबाह- "उभयत्राप्यन्यथासिद्धर्न प्रत्यक्षमनुमानं वा" ॥ १०० ॥ प्रत्यक्ष-शुक्लः पट इत्यादिप्रत्यक्षमनुमानं वा-विशिष्टवुद्धिः विशेषण- वशेष्यसंवन्धविषया, विशिष्टबुद्धित्वात्, दण्डीपुरुष इति विशिष्ट्युद्धिवाद- याद्यनुमानं वा न-तत्र प्रमाणं न भवति । कुतः ? उभयत्राप्यन्यथासिद्धेः- माणदयेऽपि स्वरूपसंबन्धेनैवोपपत्तेरित्यर्थः । ? --- ? वैशेषिक-अ०७-आ०२-०२६ ।

पञ्चमोऽध्यायः। (१२३) प्रमाणदयं स्वरूपसंबन्धं गोचरयति । न समवायसंबन्धमिति भावः इदमत्रबोध्यम् यहि वैशेषिका नैयायिकाश्च समवायसंबन्धमाचक्षते तमेव सांख्या योगाश्च स्वरूपसम्बन्धं वैदान्तिकाश्चतादात्म्यसम्बन्धं व्याचक्षत इति न वैदिकदर्शनानां कश्चिन्मिथो विरोध इति ॥ १०० ।। सर्वथाऽनुमेया कियेति बौद्धस्तं प्रत्याह- "नानुमेयत्वमेव क्रियाया नेदिष्ठस्य तत्तद्वतोरेवापरी- क्षप्रतीत"॥१०१॥ क्रियायाः कर्मणोऽनुमेयत्वमेव केवलंसंयोगविभागलिङ्गकानुमानविष- यत्वमेव न=न मन्तव्यम् । कुतः ? नेदिष्ठस्य अतिनिकटवर्तिनः पुरुषस्य तत्तदतारेव-कियाक्रियावतोरुभयोरप्यपरोक्षप्रतीतेः-चलतीति प्रत्यक्षोपलब्धे रत्यर्थः ॥ १०१ ॥ समप्रधानानां क्षित्यादिपञ्चभूतानां परिणामः स्थूलो देह इत्येकदेशि- नस्तान् निराकरोति। "नपाञ्चभौतिक शरीरं, बहूनामुपादानायोगात्"॥१०२॥ शरीरं-स्थूलं शरीरं पाश्चभौतिकं पञ्चानांसमप्रधानानां क्षित्यादिभू. तानां कार्य न न भवति । कुतः? बहूनां भिनजातीयानां बहूनामुपादानायो- गात् एकं कार्य प्रति सममधानभावेनोपादानत्वासंभवादित्यर्थः । तन्तूनां बहुत्वेऽपि समाननातीयत्वानदोष इति द्रष्टव्यम् ॥ १०२ स्थूलमेवैकं शरीरमिति बाह्यास्तान् मत्याह- "न स्थूलमितिनियम आतिवाहिकस्यापि विद्यमान- त्वात् ॥ १०३ ॥ स्थूलमितिनियमः = स्थूलमेवैकंशरीरनितिनियमो न = नोपपद्यते । कुतः ? आतिवाहिकस्यापि जीवात्मानं पुरुषं देहादेहान्तरमतिबाहयतीत्या- तिवाहिक सूक्ष्म शरीरम् । तस्यापि विद्यमानत्वात् स्थूलाभ्यन्तरे सत्त्वा- दित्यर्थः ।

(१२४) सांख्यदर्शनसूत्रवृत्तौ। लोकवल्लोकान्तरेऽपि निराश्रयस्य पुंसो गमनासंभवात्स्थूलादन्यदाति- वाहिक शरीरमभ्युपेतव्यमिति रहस्यम् ॥ १०३ ॥ अप्राप्तार्थप्रकाशकानीन्द्रियाणीति बौद्धास्तान् पराजयते । "नाप्राप्तप्रकाशकत्वमिन्द्रियाणामप्राप्तःसर्वप्रातर्वा"१०४ इन्द्रियाणां-चक्षुरादिज्ञानेन्द्रियाणाममाप्तमकाशकत्वम्-आत्मासम्बद्धा- विभासकत्वं नन्न संभवति । कुतः ? अमाप्त:-माप्तिरत्र ज्ञानम् । व्यव- हितवस्तुज्ञानाभावात्, सर्वमाप्तेर्वा=व्यवहिताऽव्यवहितसर्ववस्तुज्ञानप्रसंगारे- त्यर्थः ॥ १०४॥ नन्वेवं चक्षुरिन्द्रियस्य तैनसत्वमेव सिध्येद, नाहङ्कारिकत्वम् । लो- के तेजस एव विषयमकाशार्थ किरणरूपेण विषयदेशापसर्पणदर्शनाव, तबाह- न तेजोऽपसर्पणातैजसं चक्षुर्वृत्तितस्तत्सिद्ध" ॥१०॥ तेजोऽपसर्पणात दूरदेशस्थविषयप्रकाशार्थ किरणरूपेण तेजसोऽपसर्पण- दर्शनाचक्षुः चक्षुरिन्द्रियं तैजसं तेनःकार्य न-न संभवति । कुतः ? वृत्तितस्तसिद्धः तैजसत्वाभावेऽपितस्यशरीरमपरित्यज्यवृत्तिविशेषेण विष- यदेशापसर्पणोपपत्तेरित्यर्थः। यत्स्वाश्रयमपरित्यज्य बहिरपसर्पति, तत्तनसमिति नियमो नास्ति । प्राणानामतैनसत्वेऽपि नासाग्रतो बहिरपसर्पणदर्शनादिति भावः ॥१०५॥ ननु तद्वत्तेरेवासिदत्वात्कथं वृत्तितस्तत्सिविस्तवाह- " प्राप्नार्थप्रकाशलिङ्गावृत्तिसिद्धिः " ॥ १०६ ॥ प्राप्तार्थप्रकाशलिङ्गाद-इन्द्रियः माप्तस्य-संबद्धस्यार्थस्य विषयस्य जाय- मानो यः' प्रकाश अर्थीकारःमत्ययस्तल्लक्षणाल्लिङ्गादृत्तिसिद्धिा-चक्षुरादी- नां तेषां वृत्तेः सिद्धिर्भवतीत्यर्थः आत्मासंबंद्धममन्द्रियाणि न प्रकाशयन्ति, प्रकाशश्चानुभवसिद्धः ।

पञ्चमोऽध्यायः। (१२५) स एवान्यथानुपपन्नः संबन्धमयोजिकां वृत्तिं साधयति । तसिद्धौ च सुतरां नतस्तत्सिद्धिरिति भावः ॥ १०६॥ ननु सा किं विस्फुलिङ्गादिवचक्षुरादिभागविशेषो वा रूपादिवत्तद्- णविशेषो वा, तत्राह- "भागगुणाभ्यां तत्त्वान्तरं वृत्तिासंबन्धार्थ सर्पतीति"१०७ वृत्तिः चक्षुरादीन्द्रियाणां विषयैः संबन्धमयोजिका वृत्तिर्भागगुणाभ्यां तद्विभक्तांशो भागः, गुणः प्रसिद्धो रूपादिस्ताभ्यां द्वाभ्यां तत्त्वान्तरम्- अन्यः पदार्थः-आहङ्कारिकश्चाक्षुषादिपरिणामविशेष इति यावत् । कुतः ? संबन्धार्थ सर्पतीति हेत्वर्थक इतिः । यस्मादेषा संबन्धार्थम् इन्द्रियार्थ- संयोगाय सर्पति-विषयदेशं गच्छतीत्यर्थः । वृत्तविभक्तांशवे तद्वारा चक्षुरादीनामर्थसंबन्धो न भवेव, गुणत्वे चा क्रियत्वात्स्वयं न सर्पत्संबध्नाति सर्पति च । तस्माद्वाभ्यां ताभ्यां तत्त्वान्तरं वृत्तिरिति भावः ॥ १०७॥ नतु चक्षुरादीनां द्रव्यत्वे वृत्तिभिर्विषयदेशोपगमनं संभवति नाहंकारिकत्वे । लोके द्रव्यस्यैव तथात्वदर्शनात, तत्राह- "न द्रव्यनियमस्तद्योगात्" ॥ १०८ ॥ न-सांख्यानामस्माकं द्रव्यत्वात् क्रियानियमो न । किन्तु तद्योगात्-क्रि- योगाद् द्रव्यनियमा यत्क्रियायोगि तव्यमिति नियम इत्यर्थः । तथा चेन्द्रियाणामाहंकारिकत्वेऽपि नद्रव्यत्वव्याघात इति भावः॥१०८॥ नन्वत्राहङ्कारिकाणि सन्त्यपीन्द्रियाणि देशान्तरे भौतिकानि भवि- प्यन्ति । देशभेदवत्कार्यभेदस्यापि संभवात्, तत्राह- "न देशभेदेऽप्यन्योपादानताऽस्मदादिवनियमः॥१०९॥ इन्द्रियाणामिति शेषः । चक्षुरादीन्द्रियाणां देशभेदेऽपि बाझादिदेशवि- शेषेऽपि देशान्तरेऽपीतियावदन्योपादानता अहंकारातिरिक्तभूतोपादानता --

(१२६) सांख्यदर्शनसूत्रवृत्तौ।
भौतिकत्वमिति यावन्न-नास्ति । किन्त्वस्मदादिवन्नियमः अत्रेव सर्वत्र
तेषामाहङ्कारिकत्वनियम इत्यर्थः ॥ १०९ ॥
नन्वेवंतहि कथं वैदिकानां दर्शनान्तरे"भूतेभ्य इति भौतिकत्वव्यपदे-
शः? तत्राह-
"निमित्तव्यपदेशात्तद्वयपदेशः॥ ११०॥
निमित्तव्यपदेशात-उपष्टम्भकत्वानिमित्तभूतेषु तेजआदिभूतेषूपादानतो-
चारो निमित्तव्यपदेशस्तस्मात्तव्यपदेशः भौतिकत्वव्यपदेश इत्यर्थः ।
यथेन्धनोपष्टम्भेन तदनुगतात्तेजसो जायमानो वह्निरिन्धनादगिरि-
। व्यपदिश्यते । तथा तेजआदिभूतोपष्टम्भेन तदनुगतादहकाराज्जाय-
नानीन्द्रियाणि भूतेभ्य इति व्यपदिश्यन्ते । नोपादानताऽभिप्रायादिति
दर्शनान्तरविरोध इतिभावः ॥ ११० ॥
अण्डजजरायुजस्वेदजोद्भिजमिति चतुर्विधं शरीरमिति केचित, तान्
ह-
"ऊष्मजाण्डजजरायुजोद्भिजसाङ्कल्पिकसांसिद्धिक
श्वेति न नियम"॥ १११॥
हेत्वर्थकश्चकारः। सर्वेषां भौतिकत्व समानमिति सूचनाय समाहाराय-
स्मादूष्मनाण्डनजरायुजोदिज्नसांकल्पिकसांसिद्धिकम् ऊष्मणो जातं कृमि.
दशादिशरीरमूष्मजम् । अण्डानातं पक्षिसरीसृपादिशरीरमण्डजम् । गर्भवेष्टनं
चर्म जरायुस्तस्माज्जातंमनुजगवादिशरीरंजरायुजम् । भूमिमुद्भिद्य जातं
तरुगुल्मादिशरीरमुदिज्जम् । सृष्टयादौ प्रजापतिसङ्कल्पान्जातमार्ष शरीरं
सांकल्पिकम् । योगसाधना-जाता सिद्धिः ससिद्धिस्ततोजातं योगिनां
यथाकामं शरीरं सांसिद्धिकमिति षाविधं शरीरमिति अस्मानियमः-
चतुर्विधमेव स्थूलं शरीरमिति नियमो न=न संभवतीत्यर्थः ॥१११ ॥

पञ्चमोऽध्यायः। (१२७) नन्वेषुसर्वेषु लोके पार्थिवत्वव्यपदेशदर्शनात्कथं "पाञ्चभौतिको देह" इति तृतीये सूत्रितं, तबाह- "सर्वेषु पृथिव्युपादानमसाधारण्यात्तद्वयपदेश: पूर्ववत् "॥ ११२ ॥ यतोऽत इति शेषः । यस्मात् सर्वेषु पूर्वोक्तेषु षड्विधशरीरेष्वसाधार- ण्यात्-माधान्यात्पृथिव्युपादानं भूमिरुपादानकारणमितराणि च जलादीनि साधारण्याव,अतस्तव्यपदेशः शरीरेषु तेषु पार्थिवत्वव्यपदेशः तत्रोदाहरणं पूर्ववव यथेन्द्रियेष्वाहङ्कारिकत्वव्यपदेश इत्यर्थः ॥ ११२ ॥ ननु शरीराणां भौतिकत्वे तदन्तर्वर्तिनः प्राणस्यापि भौतिकत्वं कि न . स्यात् ? तत्राह- “नदेहारम्भकस्यप्राणत्वमिन्द्रियशक्तितस्त सिद्धेः ॥ ११३॥ देहारम्भकस्य- शरीरोत्पादकस्य भूतपञ्चकस्य प्राणत्वं-माणोत्पादकत्वं न-नास्ति । कुतः ? इन्द्रियशक्तितः इन्द्रियाणांशक्तिविशेषात्तत्सिद्धेः तस्य माणस्योत्पत्तरित्यर्थः ॥ ११३ ॥ नन्वेतानि शरीराणि भोक्ता जीवः कदाधितिष्ठति ? तत्राह- “भोक्तुरधिष्ठानाद्भोगायलननिर्माणमन्यथापूति- भावप्रसङ्गाद॥॥ ११४ ॥ भोक्त:-जीवात्मनः पुरुषस्याधिष्ठानाद अधिष्ठात्रधिष्ठयभावलक्षण सम्ब- न्धविशेषोऽधिष्ठानं, तस्मात्सतो भोगायतननिर्माण भौतिकाभ्यां शुक्रशोणि- ताभ्यां भोगायतनस्य शरीरस्य निर्माणम् आरम्भो भवति । अन्यथा-पुर- स्तात्तदधिष्ठानाभावे पूतिभावमसङ्गात् मृतशरीरवच्छुकशोणितयोस्तयोःपूति त्वप्रसत्तरित्यर्थः ॥ ११४ ॥ १ सां. अ. ३ सू. १७ ॥

( १२८) सांख्यदर्शनसूत्रवृत्तौ। ननु परमात्मनोऽधिष्ठानात्कार्यमात्रारम्भश्रुतेः कथमुच्यते भोत्तुरधि छानादोगायतननिर्माण, तत्राह- भृत्यद्वारा स्वाम्यधिष्ठितिनैकान्तात् ॥११५ ॥ भृत्यदारा-परमात्मना सर्वदाभरणीयत्वाभृत्योनीवात्मापुरुषः । तद्वारा तत्रस्वाम्यधिष्ठितिः-स्वामिनः परमात्मनोऽधिष्ठानम् । 'ये आत्मनि तिष्ठन् ' इति श्रुतेः । नैकान्ताव न साक्षादित्यर्थः । भोक्तारं जीवात्मानं पुरुषमधिष्ठाय जगदधिपतिरीश्वरस्तदाधष्ठितं भो ग्यजातमधितिष्ठतीति भावः । यद्वा नतु जीवात्मनः पुरुषस्य कूटस्थत्वेन स्वतो व्यापाराभावात्क थं तत्र तस्याधिष्ठानं स्यात् ? तबाह । भृत्यद्वारा भृत्यतुल्यमत्र बुद्धिस- त्वमधानं सूक्ष्म शरीरम् । तद्वारा तत्र स्वाम्यधिष्ठितिः-स्वामिनः पुरुष. स्याधिष्ठानं नैकान्तावन्न साक्षादित्यर्थः ॥ ११५ ॥ नन्वेवं परमात्मनोऽप्यधिष्ठातृत्वन सनिहिततरत्वाद् बुद्धिसत्त्वसकर तावत्तत्सरूपताऽपि जीवात्मनः स्यात, तबाह- समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता " ॥ ११६ ॥ भोक्तरित्यनुवर्तते । जीवात्मनः पुरुषस्य जायदादौ बुदिसत्त्वसरूपतार समाधिसुषुप्तिमोक्षेषु-समाधिर्योगः, सुपुप्तिर्निद्रा, मोक्षो विदेह कैवल्यम् । समाधिश्च सुषुप्तिश्च मोक्षश्य, ते तथा, तेषु ब्रह्मरूपता परमात्मसरूपता भवतीत्यर्थः। यथाहिजायदादी बुद्धिधर्मान् दुःखादीन धारयन् नीवोऽयं बुद्धिरूप सम्पद्यते यत्रेदमुक्तं भवति ध्यायतीव लेलायतीव । वृत्तिसारू प्यमितरत्र' इत्यादीति । तथैव समाधिमपुप्तिमोक्ष निःसादीन ब्रह्मधर्मान धारयन् तत्स्वरूपानन्दमुपभुनानो ब्रह्मरूपः सद्यते । न तद १३.-अ. ५-जा. ७-२२॥रवृ.अ.६ मा ३-७॥ पो पा. ! । ३ पञ्चमोऽध्यायः। (१२९) भेदमापद्यते । 'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसासह । बुाद्धश्च न विचेष्टते तामाहुः परमां गतिम्' 'संता सोम्य तदा सम्पन्नो भवति' 'जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः । निरञ्जनः परमं साम्यमु- पैति' 'ब्रह्मविदामोति परम्' 'आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचन' इत्यादिश्रुतेरिति मन्तव्यम् ॥ ११६ ॥ ननु ब्रह्मरूपतातौल्ये समाधिसुषुप्तिभ्यां मोक्षस्य विशेषो न स्याव, तत्राह- " द्वयोः सबीजमन्यत्र तद्धतिः॥ ११७ ॥ ब्रह्मरूपत्वमित्यनुवर्तते । द्वयोः समाधिसुषुप्त्योः सबीनं क्लेशकर्मादि- वासनान्तेन बन्धबीजेन सहितं ब्रह्मरूपत्वम्, अन्यत्र मोक्षे तु तद्धतिः तस्य बन्धबीजस्य हानं भवतीत्यर्थः। बन्धवीजहानाहानाभ्यां विशेष इति भावः ॥ ११७ ।। ननु समाधिसुषुप्ती दृष्टे न मोक्षस्तत्राह- द्वयोरिव त्रयस्यापि दृष्टत्वान्न तुद्वौ ॥ ११८ ॥ दयोरिव-समाधिसुषुप्त्योरिवत्रयस्यापि-तृतीयस्यमोक्षस्यापिदृष्टत्वाद- : श्रुतिस्मृतिभ्यामवगतत्वान्न तु दौ-न समाधिसुषुप्ती एव स्तोऽपि च मोक्षोऽप्यस्तीत्यर्थः ॥ ११८ ॥ ननु समाधौ क्लेशकर्मादिवासनायाः कौण्ठयात्सर्ववृत्तिविलये जीवात्मनः पुरुषस्य ब्रह्मरूपत्वमस्तु । सुषुप्तौ पुनस्तदभावात्कथमस्य ब्रह्मरूपता स्याव, तत्राह- "वासनथाऽनर्थख्यापनं दोषयोगेऽपि न, निमित्तस्य प्रधानबाधकत्वम् ॥ ११९॥ १ कठो. व.६+१०। २ छो. प्र. ६ खं. ८+१। ३ मुं.३ खं. १-२-३।. ६ ४ तै. ब. व. अनु. १+१। ५.व. व अनु. ४-१ । “ . m om / (१३०) सांख्यदर्शनसूत्रवृत्तौ । दोषयोगेऽपि यथा समाधी तथा निदादोषयोगेऽपि सुषुप्तावपीति- यावद् वासनया क्लेशकर्मादिवासनयाऽनर्थख्यापनम् आत्मातिरिक्तार्थानु- भावनं न=न संभवति । कुतः? यतो निमित्तस्य सुषुप्तिप्रति निमित्तभूतस्य- निद्रादोषस्य प्रधानबाधकत्वं ख्याति प्रति प्रधान कारणं वासना, तदाप- कत्वं-तदभिभावकत्वमस्तीत्यर्थः । तथा च समाधिवत्सुषुप्तावपि वासनाकौण्ठ्यात्सर्ववृत्तिविलये ब्रह्मरूपता संभवतीति भावः ॥ ११९ ॥ यत्नेनेष्वादिक्षेपे जायमानादाद्यकर्मणो वेगाख्यः सस्कारो जायते ततः कर्म, ततश्च संस्कारः, पुनरप्येवमितिनैयायिकैकदेशिनस्तान्निरा- कुर्वनाह- एकः संस्कारः क्रियानिर्वतको न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तः॥ ॥ १२० ॥ एक: आद्यकर्मनिवर्त्यः प्रथम एव संस्कारः वेगाख्यः संस्कारः क्रियानिर्वर्तकः यावदिष्वादिपतनंतावत्क्रियासन्तानस्य जनको, नतु पति- कियं-क्रियां क्रियां पति संस्कारभेदाः वेगाख्यसंस्कारभेदाः सन्ति । कुतः बहुकल्पनाप्रसक्तेः बहुसंस्कारकल्पनामसङ्गादित्यर्थः ॥ १२० ॥ नतु यदुक्तमुदिनं भोक्तशरीरं, तन्न युक्तम् । तत्र शरीरत्वमयोनि- काया वाह्यबुद्धरनुपलम्भात्तत्राह- " न वाह्यबुद्धिनियमो वृक्षगुल्मलतोषधिवनस्पतित- णवीरुधादीनामपि भोक्तभोगायतनत्वं पूर्ववत" ॥१२१॥ वाह्यबुद्धिनियमः वहिरिन्द्रियजन्यं बाह्यवस्तुविषयं ज्ञानं वाह्यबुद्धिः सा यत्र, तदेवभोक्तशरीरमिति नियमो न-न भवति । किन्तु ज्ञानमात्रम्, अतो वृक्षादिवीरुधन्तानामप्यन्तःसंज्ञत्वाभोक्तभोगायतनत्वं भोक्तशरीरत्वं पू- T र्ववत्-उष्मनादिवन्मन्तव्यमित्यर्थः ।

4 पञ्चमोऽध्यायः (१३१) तत्र पुष्पाज्जायमानफलाश्चूतादयस्तरवो वृक्षाः,गुल्माकाराः सोमलता- प्रभृतयो गुल्मलताः, ओषधयः फलपाकान्ता व्रीहियवादयः,पुष्पाहते जाय- मानफलाः पनसोदुम्बराश्वत्थादयो वृतविशेषा वनस्पतयः,नडमभृतीनि तृणा- नि, शाखादिभिर्विस्तृता लता वीरुधः, फलहीनाः केवलपुष्पिणो वृक्षविशेषा आदिपदार्था इति विवेकः ॥ १२१ ॥ तत्र श्रुतिस्मृती प्रमाणयति । " स्मृतेश्च ॥ १२२ ॥ वृक्षादीनां भोक्तभोगायतनत्वमित्यनुवर्तते।श्रुतिसमुच्चयाय चः 'अस्य यदको शाखो जीवो जहात्यय सा शुष्यति' इत्यादिश्रुतेः शेरीरज: कर्मदोषैर्याति स्थावरतो नरः। वाचकै पक्षि- भूगता मानसैरन्त्यजातिताम्' इत्यादिस्मृतेश्च वृक्षादीनां भोक्तभो- गायतनत्वमित्यर्थः ॥ १२२ ॥ नतु वृक्षादीनां भोक्तभोगायतनत्वे तेषां लौकिकवविककर्माधिकारिता- ऽपि स्यात्तत्राह- "न देहमात्रतः कर्माधिकारिता, वैशिष्टयश्नुते ॥१२॥ देहमात्रतः शरीरमात्रात्कर्माधिकारिता लौकिकवैदिककर्माधिकारित्वं न कस्यचिन्न भवति । कुतः वैशिष्ट्यश्रुतेः मनुष्यत्वब्राह्मणत्वादिवशिक्ष्य- स्यापि तत्र श्रवणादित्यर्थः ॥ १२३ ॥ ननु समाने देहे कुत एप भेदः तत्राह- "विधा त्रयाणां व्यवस्था कर्मदेहोपभोगदेदोभय- देहाः ॥ १२४॥ यत इति शेषः । यस्मात् त्रयाणाम्-उत्तममध्यमाधमानां सर्वदहिनां कर्मदहोपभोगदेहोभयदेहा इति विधा-त्रिपकारा व्यवस्था देहव्यवस्थे- त्यर्थः। १ छां. म. ६-ख. ११-२।२मनु-अ. १२-श्लोक ८ - (१३२) सांख्यदर्शनसूत्रवृत्तौ। तत्र ब्रह्मचारिवानप्रस्थानां कर्मदेहः पश्वादिस्थावरान्तानामुपभोगदेहः। गृहस्थानामभयदेह इति विवेकः । यद्यपि ब्रह्मादिस्तम्बान्तानां सर्वेषामुपभोगदेहत्वतौल्यात्रिधा विभागो न संभवति, तथापि प्राधान्यनैष विभाग इति विज्ञेयम् ॥ १२४ ॥ ननु चतुर्थाश्रमिणः शरीरं न गणितं, तत्राह-- न किञ्चिदप्यनुशयिनः"॥१२५ ॥ अनुशयिनः भारब्धकर्मावशेषोऽनुशयः, स विद्यते यस्य, तस्य त्यक्तस- वकर्मणो विवेकवतः संन्यासिनः किश्चिदपि-पूर्वोक्तेिषु त्रिविधशरीरेषु किमपि शरीरं न नास्तीत्यर्थः । उपदेशादिकन्तु तस्य स्वाभाविकी लीलति सर्वमवदातम् ॥ १२५ ॥ ज्ञानेच्छाकृत्यादयोबुद्धिसत्त्वगुणास्तादात्म्यात्पुरुष व्यपदिश्यमाना बु- दिसत्त्वपरिणामविशेषत्वादनित्या इति सिद्धान्तः। तत्रैकस्मिन् कस्मिभिः दाश्रये तेषामनित्यत्वदर्शनेऽप्याश्रयान्तरे नित्यत्वं भविष्यति, किमवशेषेण सर्वनानित्यत्वाभ्युपगमेनति परेणाशाईत माह- "न बुद्धचादिनित्यत्वमाश्रयविशेशेऽपि वहिवत्"॥१२६।। आश्रयविशेषेऽपि एकाश्रयवदाश्रयान्तरेऽपि बुद्ध्यादिनित्यत्वं बुदिा- नम् । आदिपदेनेच्छाकृत्यादिसंग्रहः । तेषां ज्ञानेच्छाकृत्यादीनां नित्यत्वम्- उत्पत्तिविनाशशून्यत्वं नंन संभवति । वह्निवत्-यथा महानसादावकत्रा- श्रयेऽनित्यत्वेन दृष्टस्य वढेराश्रयान्तरे न नित्यत्वमित्यर्थः ॥ १२६ ॥ ननु ज्ञानादयो न बुद्धिसत्त्वगुणाः किन्तु जीवगुणाः, जीवाश्च नित्या इति तदूणा अपि नित्याः किं न स्युस्तवाह- " आश्रयासिद्धश्च ॥ १२७ ॥ न बुद्धयादिनित्यत्वमित्यनुवर्तते । पक्षे पक्षतावच्छेदकाभाव आश्रया- सिद्धिः । पक्षश्चात्र जीवगुणावुल्यादयः, तेषां जीवगुणत्वस्यासिद्धेश न नित्यगुणत्वेन हेतुना नित्यत्वं सिध्यतीत्यर्थः ।

पञ्चमोऽध्यायः। (१३३) अत्र वृत्त्यात्मनो ज्ञानस्य नित्यत्वं प्रतिषिध्यते न स्वरूपभूतस्य ज्ञानस्यति द्रष्टव्यम् ॥ १२७ ॥ सांसिदिकं शरीरमित्युक्तम् । तदुपपत्तये योगसिद्धीरभ्युपाययति । "योगसिद्धयोऽप्यौषधादिसिद्धिवन्नापलपनीया॥१२८॥ औषधादिसिदिवत् आदिनामणिमन्त्रतणसि संगृह्यन्ते । तत्पयोगेण जायमानरोगहरणादिसिद्धिवद् योगसिद्धयोऽपि योगाभ्यासेन जायमाना- अणिमादिसिद्धयोऽपि नापलपनीयाः नापोतुमर्हाः सन्तीत्यर्थः । औषधादिसिद्धिवत्ता अप्यभ्युपगन्तव्या इति भावः ॥ १२८ ॥ - सम्प्रति परमतनिराकरणाध्यायमुपसंहरनन्ते पुरुषसिद्धिमतिकूल- तया भूतचैतन्यवादिनं चार्वाकं प्रत्याचष्टे । "न भूतचैतन्यं प्रत्येकाष्ठः साहत्येऽपि च सांह- त्येऽपि च ॥१२९ ।। अध्यायपरिसमाप्तिपरावीप्ता । भिन्नक्रमश्वः । भूतचैतन्यं भूतानां= वियन्मरुत्तनोऽम्बुपृथिवीनां चैतन्य भत्येकं चेतनत्वं नन दृश्यतेोमत्येका- दृष्टेश्व=एकैकस्मिन्नदर्शनाचसाहत्येऽपि देहाकारेण परिणते तसंपातेऽपि चैतन्यं न युक्तमित्यर्थः । तृतीयाध्यायेचेदं स्वसिद्धान्तविधयोक्तम् । अत्र च परमतनिराकर- गायति न पौनरुत्यमिति भाष्यम् ॥ १२९ ॥ स्वसिद्धान्तं दृढीकर्तु परसिद्धान्तनिर्जयः । प्रसङ्गाचात्मसिद्धान्तः पञ्चमेऽस्मिनिरूपितः ॥ १॥ इति श्रीमत्परमहंसपरित्राजकाचार्योदासीनवर्ध्यात्मारामभगवत्पादशिष्यहरिप्रसा दकृतायां सांख्यसूत्रवृत्ती परमतनिर्नयाध्यायः पञ्चमः ॥ ५॥ . - (१३४) सांख्यदर्शनसूत्रवृत्तौ। अथ षष्ठोऽध्यायः। पञ्चमाध्यायेन परसिद्धान्तं निराकृत्य चतुर्भिःपूर्वाध्यायैर्निरूपित- स्यात्मसिद्धान्तस्य स्थूणानिखननन्यायेन पुनः स्थिरीकर्तु षष्ठाध्यायमारभ• माणः पूर्वन्तावदात्मास्तित्वमाह- अस्त्यात्मा, नास्तित्वसाधनाभावात् ॥ ॥१॥ आत्मा देहेन्द्रियादिसंघातद्रष्टा जीवात्मा पुरुषोऽस्ति-विद्यते । कुतः? नास्तित्वसाधनाभावात्-तनास्तित्वसाधकस्य हेतोरनुपलम्भादित्यर्थः ॥१॥ ननु नास्माभिरात्मा प्रतिषिध्यते, किन्तु तस्यदेहादिव्यतिरिक्तत्वं, तत्राह-- देहादिव्यतिरिक्तोऽसौ वैचित्र्यात् ॥२॥ असौजीवात्मा पुरुषो देहादिव्यतिरिक्त:-देहादिप्रकृत्यन्तेभ्यस्तत्त्वेभ्यों भित्रो भवितुमर्हति । कुतः ? वैचित्र्यात्-ततो विलक्षणत्वादिययः॥२॥ व्यतिरिक्तत्वे हेत्वन्तरमाह- षष्ठीव्यपदेशादपि ॥३॥ देहादिव्यतिरिक्तोऽसावित्यनुवर्तते । ममेदं शरीरं ममेयं बुद्धिरित्यादि- भैदव्यपदेशादपि देहादिव्यतिरिक्तोऽसौ पुरुष इत्यर्थः ॥ ३ ॥ ननु शिलापुत्रकस्य शरीरं, पुरुषस्य चैतन्यं, राहो शिर इत्यादिश्य- पदेशवदयमपि गौणो व्यपदेशो न मुख्यस्तत्राह- "न शिलापुत्रवद्धर्मिग्राहकमानबाधात् " ॥४॥ शिलापुत्रवत्-शिलापुत्रकस्य शरीरमित्यादिवन-ममेदं शरीरमित्यादि व्यपदेशो गौणोन कुतः धर्मिग्राहकमानबाधा-धर्मिणः जीवात्मनः पुरुन पस्य ग्राहक-शरीरादिभ्यो भेदेनानुभावकंयन्मान-भत्यक्षानुमानशब्दल क्षणं प्रमाणं, तेन वाधाव भेदगौणत्वस्य वाधनादित्यर्थः । - । 4 - षष्ठोऽध्यायः। (१३५) शिलापुत्रादौ तु न तद्राहकमानेन भेदगौणत्ववाध इति भावः ॥४॥ नन्वस्तु देहादिव्यतिरिक्तः पुमान, तथापि दुःखिनस्तस्य कृतकृत्यता कथं स्यात् ? तत्राह- अत्यन्त दुःखनिवृत्या कृतकृत्यता"॥५॥ अत्यन्तदुःसनिवृत्त्या अन्तमतिकान्ता विविधदुःखनिवृत्तिरत्यन्तदुःख निवृत्तिस्तयैवास्य कृतकृत्यता-कृतकार्य्यता कृतार्थत्वं भवतीत्यर्थः ॥ ५॥ ननु कस्मादस्य दुःखात्यन्तनिवृत्त्यैव कृतकृत्यता, न सुखावात्या, तत्राह- यथा दुःखात्लेशः पुरुषस्य न तथा मुखादभि- लाषः ॥६॥ यत इति शेषः । यस्मात्पुरुषस्य-भोर्जीवात्मनो यथान्येन प्रका- रेण दुःखात्-दुःखसंवन्धाकशः तद्विषयोदेषस्तथा तेनप्रकारेण सुखा- -सुखसंवन्धादभिलाषः तदिषयः कामो न-न भवतीत्यर्थः । सुखाभिलापतो दुःखदेपस्य बलीयस्त्वात्तदत्यन्तनिवृत्तिरेवोत्कटेच्छा विषयत्वात् परमपुरुषार्थो न सुखावाप्तिरिति भावः ॥ ६ ॥ ननु कस्मादस्य दुःखनिवृत्तिवत्सुखमभिलाषगोचरो न भवति, तत्राह- "कुनापि कोऽपि सुखीति" ॥७॥ इतिहतौ। यस्मात्कुत्रापि ब्रह्माण्डमध्ये क्वचिदेव कोप-ब्रह्मादिस्तम्ब- पर्यन्तानां जीवानां मध्ये कश्चिदेव सुखी-सुखभाग्भवतीत्यर्थः ॥ ७ ॥ नन्वतेन सुखस्य दौर्लभ्यमायातं नाभिलाषाविषयत्वं, तबाह- " तदपि दुःखशवलमिति दुःखपक्षे निक्षिपन्ते विवेचका"॥८॥ तदपि ब्रह्माण्डमध्ये कदाचित्कुत्रचित्कस्यचित्कथंचिन्जायमानं सुखमाप, विवेचकाः विवेकिनो जना दुःखपक्षे दुःखकोटौ निःक्षपन्त-व्यवस्थापय- न्ते । कुतः । दुःखशवलमिति हेत्वर्थक इतिः। यतो दुःखसंभिन्नमित्यर्थः ।

(१३६) सांख्यदर्शनसूत्रवृत्तौ। यथा विषसंसृष्टमन्नं बुद्धस्याभिलाषगोचरो न भवति तथैव दुःखश- बलत्वात्सुखमपि दुःखनिवृत्तिवदस्यमुमुक्षुपुरुषस्याभिलाषगोचरो न भव- तीति भावः ॥ ८॥ ननु केवला दुःखनिवृत्तिरपि परमपुरुषार्थो न संगच्छत्ते, लोके सुखी- स्यां दुःखी न स्यामिति दुःसनिवृत्तिवत्सुखस्याप्यभिलाषाविषयत्वदर्शनादि- त्याशंक्य दुःखात्यन्तनिवृत्त्या ब्रह्मानन्दोपभोगावश्यभावादभिलापोपपत्तर- दोष इति तात्पर्येण समाधान आह- सुखलाभाभावादपुरुषार्थत्वमिति चेन्न दै- विध्यात्" ॥९॥ ननु सुखलाभाभावात् मुक्ती सुखावाप्त्यभावादपुरुषार्थत्व केवळदुःख- निवृत्तेरपि पुरुषार्थत्वं न स्यादिति चेन्न दैविध्यात्-दुःखात्यन्तनिवृत्तिरूप- तया परमपुरुषार्थस्यैकमकारत्वेऽपि तदविनाभूतेन ब्रह्मानन्दोपभोगेन तस्य दिमकारत्वाभ्युपगमादित्यर्थः। इदमत्रबोध्यम् । यद्यपि सांख्यानां दुःखात्यन्तनिवृत्तिरेवैकः परमपुर- पार्थो न सुखावाप्तिः, तेषां जायमानसुखमात्रस्य माकृतत्वेन दुःसशरलतया दुःखवत्परिहार्यत्वात्। तथापि ते मुक्त्यवस्थायां जीवात्मनः पुरुषस्य ब्रह्मा- नन्दोपभोगं मन्यन्ते 'सोऽश्रुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता 'आनन्दं ब्रह्मणो विद्वान् न विभेति कुतश्चन' इत्यादिश्रुतेः । स च दुःखात्यन्तनिवृत्तिवन स्वतन्त्रःकश्चित्पुरुषार्थः, पुरु- पपुरुषकारेण तस्य साक्षात्साध्यत्वाभावात् । किन्तु दुःसात्यन्ततिानी सि- छायामवश्यंभावित्वात्तनान्तरीयकः, तेनदैविध्ये सत्यपि प्रधानतः परम- पुरुषार्थस्यैकत्वान पूर्वापरविरोध इति ॥ ९ ॥ १ तै. प. अनु. १ । २ ते. ब्रह्मा, प.अनु ९/ षष्ठोऽध्यायः। (१३७) ननु साख्यानां दुःखमात्रस्य बुद्धिधर्मत्वेनात्मनिष्ठत्वासिद्धः कथं तन्नि- वृत्तिरपि परमपुरुषार्थः स्यादिति शंकते । "निर्गुणत्वमात्मनोऽसङ्गत्वादिश्रुते" ॥ १० ॥ नन्वात्मनः-जीवात्मनः पुरुषस्य निर्गुणत्वं-दुःखादिनिखिलगुणसंवन्ध- शून्यत्वं स्वतः सिद्धमस्ति । कुतः ? असङ्गत्वादिश्रुतेः 'अंसोह्ययं पुरुषः' इत्यादिना तस्यासगलादिश्रवणादित्यर्थः । यस्य यत्संवन्धो न भूतो न भवति न भावता,तस्य तनिवृत्तिः कथम- भ्यर्थनीया स्यादिति भावः ॥ १० ॥ समाधत्ते। " परधर्मत्वेऽपि तत्सिद्धिरविवकात् " ॥ ११ ॥ परधर्मत्वेऽपि दुःखादेवुद्धिसत्त्वधर्मत्वेऽप्यविवेकात पूर्वोक्तलक्षणादवि- वैकावुद्धिसत्त्वतादात्म्यापत्त्यातत्सिदिः तस्य दुःखादे पुरुषनिष्ठत्वसि- दिस्तीत्यर्थः । यथा वह्नितादात्म्याल्लोहस्य दाहादिमत्त्वं, तथा पुरुषस्यापि बुद्धिसत्त्व- तादात्म्याइदुःखादिमत्त्वमस्ति, तेन तस्य तदत्यन्तनिवृत्तिः परमाभ्यर्थनी- येति भावः ॥ ११ ॥ नन्वस्त्वविवकमूलकंपुरुषस्य दुःखादिगुणनातमविवेकः पुनः किं- मूलकः ? तबाह- "अनादिराविवेकोऽन्यथादोषद्वयप्रसक्त" ॥ १२ ॥ अविवेकः पूर्वोक्तलक्षणोऽविवेकोऽनादिः आदि कारणं, तनविद्यते यस्य, स तथा । कुतः? अन्यथा दोपदयमसक्ते: अन्यथा-सादित्व दोषद्धय- प्रसक्तेः स्वोत्पत्ती कारणान्तरापेक्षायामनवस्था, तदनपेक्षणेचमुक्तस्या- पिपुनर्वन्ध इति दोषद्वयस्य प्रसंगादित्यर्थः ॥ १२ ॥ १ वृ.अ. ५ मा.३-१५।

(१३८) सांख्यदर्शनसूत्रवृत्तौ। नन्वनादिश्चदविवेकस्तर्हि नित्यः सेत्स्यति, तत्राह- न नित्यः स्यादात्मवदन्यथाऽनुच्छित्तेः" ॥ १३ ॥ अनादिरविवक इत्यनुवर्तते। अनादिः सन्नप्यविवेको न नित्यः स्यात- पागभाववन्नित्यो न भवेत् । अन्यथा-नित्यत्वेत्वात्मवदनुच्छित्तिः यथाऽऽ- त्मनोनित्यत्वानाशो न भवति।तथाऽविवेकस्यापि नाशो न स्यादित्यर्थः १३॥ ननु किन्नाश्यस्तयविवेकः ? तत्राह- " प्रतिनियतकारणनाश्यत्वमस्य ध्वान्तवत् ॥ १४ ॥ अस्य अविवेकस्यप्रतिनियतकारणनाश्यत्वम् अविवेकनाशंपतियनियतं- कारणविवेकस्तन्नाश्यत्वं, ध्वान्तवत्यथा ध्वान्तस्य तमसःस्वनाशं प्रति नियतकारणेनालोकेन नाश्यत्वमित्यर्थः ॥ १४ ॥ ननु ध्वान्तालोकयोरन्वयव्यतिरेकाभ्यां नाश्यनाशकभावनियमोऽवग- म्यते न विवेकाविवेकयोस्तत्राह- " अत्रापि प्रतिनियमोऽन्वयव्यतिरेकात्" ॥ १५ ॥ अत्रापि-ध्वान्तालोकयोरिव विवेकाविवेकयोरपि प्रतिनियमः नाश्य- नाशकभावनियमोऽन्वयव्यतिरेकात्-विवेकसत्वेऽविवेकनाशसत्वम् । विवे- कासत्वेऽविवेकनाशासत्वमित्यन्वयव्यतिरेकादवगन्तव्य इत्यर्थः । शुक्तिरजतादौ तथा दर्शनादिति भावः ॥ १५ ॥ नन्वेवं विवेकेनाविवकनाशेऽपि बन्धनिवृत्तौ किमायातं, यत्कृते पुरुषस्य महान् प्रयत्नस्तत्राह- प्रकारान्तरासंभवादविवेक एव बन्धः" ॥ १६ ॥ प्रकारान्तरासंभवात् प्रथमाध्यायोक्तानामविवेकातिरिक्ताना स्वभावादि- बन्धप्रकाराणामसंभवादविवेक एव बन्धः वन्धकत्वाइन्ध इत्यर्थः ॥१६॥ “ षष्ठोऽध्यायः : नन्वविवेकस्य बन्धत्वे तनिवृत्तिरूपाया मुक्तेविवेकसाध्यत्वेन कार्य- त्वापत्तौ विनाशावश्यंभावान्मुक्तस्यापि पुनर्बन्धयोगोदुरिणः प्रसम्येत तत्राह- "न मुक्तस्य पुनर्बन्धयोगोऽप्यनावृत्तिश्रुतेः ॥ १७ ॥ अपि-मुक्तेर्विवेकसाध्यत्वेऽपि मुक्तस्य मुक्तपुरुषस्य पुनर्बन्धयोगः-पुन- रविवेकसंबन्धो न न भवति।कुतः अनावृत्तिश्रुतेः "नेच पुनरावर्तते, न च पुनरावर्तते" इत्यादिना तस्यापुनरावृत्तिश्रवणादित्यर्थः ॥१७॥ ननु श्रुतिरुता न युक्तिस्तत्राह- "अपुरुषार्थत्वमन्यथा ॥१८॥ अन्यथा मुक्तस्यापि पुनर्वन्धयोगेऽपुरुषार्थत्वं-मुक्तेः परमपुरुषार्थत्वं न स्यादित्यर्थः । भावि क्षयानुसन्धानादिति भावः ॥ १८ ॥ युक्त्यन्तरमाह- अविशेषापत्तिरुभयो" ॥ १९॥ उभयोः बद्धमुक्तयोईयोरविशेषापत्तिः अविशेषत्वं-तुल्यत्वमापद्यते- त्यर्थः- मुक्तस्य पुनर्वन्धयोगे संसारितो विशेषो न स्यादिति भावः ॥१९॥ ननु का सा मुक्तिर्यल्लाभादस्य पुनरावृत्तिर्न भवति? तत्राह- " मुक्तिरन्तरायध्वस्तेन परः ॥२०॥ अन्तरायध्वस्तः अन्तरायोऽविवेकस्तस्य ध्वस्तिः-विवेकेनध्वंसस्त- स्मात्परः अन्यः पदार्थो मुक्तिनन भवतीत्यर्थः । अविवेकनिवृत्तिर्मुक्तिरिति भावः ॥ २० ॥ १ छा.प्रपा. ८ खं. १५ ।

(१४०) सांख्यदर्शनसूत्रवृत्ती। जनु दुःखात्यन्तनिवृत्तिर्मुक्तिरिति पुरस्तादुक्तम् । इदानीमन्तरायध्व- स्तर्मुक्तिरित्युक्तौ विरोधः स्यात, तत्राह- " तत्राप्यविरोधः ॥ ॥ २१ ॥ तत्रापि अन्तरायध्वस्तिर्मुक्तिरित्युक्तावप्यविरोधः विरोधोनास्तीत्यर्थः। निमित्तापाये नैमित्तिकापायस्यार्थसिद्धत्वादिति भावः ॥ २१ ॥ नन्वन्तरायध्वस्तिश्चेन्मुक्तिस्तर्हि सर्वेषां श्रवणमात्रादेव विवेकज्ञाने जाते || सेत्स्यति । कि मनननिदिध्यासनादिभिः साधनान्तरैस्तत्राह- " अधिकारित्रैविध्यान्न नियमः॥॥२२॥ अधिकारित्रैविध्यात्-अधिकारिणां विवेकज्ञानाधिकारिपुरुषाणां त्रैवि- ध्यात्-उत्तममध्यमाधमभेदेन त्रिपकारत्वाननियमः श्रवणमात्रादेव सर्वेषां हदविवेकज्ञानोदयनियमों नेत्यर्थः । असंभावनाविपरीतभावनयोरुपमर्दकत्वादपरोक्षं विवेकज्ञानं हटामित्या- ख्यायते । तदेवानादित्वादृढीभूतमविवेक समूलकार्षकषितुं पारयति, नेत- रख । तच्च न सर्वेषांश्रवणमात्रादुत्पत्तुमर्हति । शब्दमात्रस्य परोक्षज्ञानो- पजननस्वाभाव्यात् । किन्तु भगवदनुगृहीतानां पूर्वजन्माभ्यस्तश्रवणमनन- निदिध्यासनादिसाधनानां केषां चित्पुण्यात्मनामुत्तमानामेवेति भावः॥२२॥ ननु येषां श्रवणमात्रादिविवेकज्ञानं दृढं नोत्पन्नं, तैस्तद्दार्थ किं विधेयं ? तत्राह- " दाढार्थमुत्तरेषाम् ॥ ॥ २३ ॥ दाढार्थ श्रवणाज्जायमानस्य विवेकमत्ययस्यदृढीभावायोत्तरेषांक श्रवणादुत्तरेषां मनननिदिध्यासनादीनांदीर्घकालनरन्तय॑सत्कारादिपूर्वक नियमेनानुष्ठान विधयमित्यर्थः ॥ २३ ॥ .

षष्ठोऽध्यायः। ( १४१) नन्वासनाभावे ध्यानादिकंन संभवति तत्र कस्यासनस्य नियमः तत्राह- " स्थिरसुखमासनमिति न नियमः ॥ ॥ २४॥ स्थिरसुखं यदेवस्थिरं-निश्चलंसत्सुख-ध्यायिनः सुखावहं, तदेवास- नम् आसनपदवाच्यमिति अतो ध्यानादौ नियमः कस्य चित्पद्माद्यासन- विशेषस्य नियतिर्न नास्तीत्यर्थः ॥ २४ ॥ ननु ध्यानस्य कि लक्षणं ? तत्राह- "ध्यानं निर्विषयं मनः ॥२५॥ निर्विषयं यदात्मातिरिक्तसर्व विषयानिष्क्रान्तं मनःचाश्चल्यहेतुविष- यानुरागाभावादात्मैकप्रत्ययकं चित्तं, तक्ष्यान-ध्यानपदवाच्यं निदिध्यास- नमिति यावदित्यर्थः। अत्र ध्यानमित्युक्तौ तदवस्थाभेदः समाधिस्तदवस्थाभेदः संमज्ञाता- दिसमाधिरप्युक्तोभवतीतिद्रष्टव्यम् ॥ २५ ॥ ननु ध्यानाध्यानयोःपुरुषस्यविशेषाभावास्किंध्यानेनेत्याशक्य विशे- षमाह- "उभयथाप्यविशेषश्चेन्नैवमुपरागनिरोधाद्विशेषः ॥२६॥ उभयथापि-ध्यानादिकं स्यान वा स्यादुभयमकारेणाप्यविशेषः पुरुषस्य विशेषो न भवति, निःसङ्गत्वादन्यथा विकारित्वापत्तरिति चेत् यदि शंकसे, नैवम् एवं मा शतिष्ठाः । कस्मात् ? यस्मादुपरागनिरोधात्-ध्यानादौ केशकर्मादिनानावियवासनालक्षणस्योपरागस्यापगमादिशेषः पुरुषस्य विशे- षोऽस्त्येवेत्यर्थः ॥ २६ ॥ नतु निःसङ्गे निर्विकारिणि पुरुषे कथमुपरागस्तत्राह- " निःसंगेऽप्युपरागोऽविवेकात्" ॥ २७ ॥ निःसंगेऽपि केशकर्मादिनानाविधवासनावासितबुद्धिसत्त्वसंसर्गरहितेऽपि । पुरुषेऽविवेकाव-सत्त्वपुरुषानन्यतापत्ययमात्रलक्षणादविवेकादुपरागः-उक्त- वासनलक्षणोपरागोऽस्त्येवेत्यर्थः ॥ २७ ॥ - A-

(१४२)
सांख्यदर्शनसूत्रवृत्तौ।
ननु कीदृशोऽयं पुरुषस्योपरागः तत्राह-
जवास्फटिकयोरिव नोपरागः किन्त्वभिमान॥२८॥
जवास्फटिकयोरिव नोपरागः यथा जवास्फटिकयोः परस्परसंसर्गात्स्फ-
टिके जवावर्णोपरागो,न तथा सत्त्वपुरुषयोः संसर्गात्पुरुषे वासनोपरागः, कि-
न्त्वभिमानः बुद्धिसत्त्वतादात्म्यात्पुरुषस्य तदासनाभिमान इत्यर्थः ॥२८॥
नतु तनिरोधः कि ध्यानमात्रेण संभवति, तबाह-
"ध्यानधारणाभ्यासवैराग्यादिभिस्तनिरोध ॥ २९ ॥
आदिपदेन दोषदर्शन-यमनियमादिसाधनसंग्रहादोषदर्शनादिना विषयेषु
वैराग्य, तदनु यमनियमादिचित्तस्थैर्यसाधनानुष्ठानमभ्यास, स्तदन्वात्मनि
चित्तवन्धो धारणा, तदनु पूर्वोक्तलक्षणं ध्यानादिकमित्येवंविधधारणादिस-
हितेनध्यानेनतनिरोधः तस्योक्तलक्षणोपरागस्यनिरोधाभवतीत्यर्थः ॥२९॥
ननु ध्यानादिभिरेभिः कि साक्षादुपरागनिरोधो भवति ? तत्राह-
" लयविक्षेपयोावृत्त्येत्याचार्याः ॥ ३०॥
पूर्वसूत्रं समग्रमनुवर्तते । पूर्वोक्तानादिभिर्लयविक्षेपयोः निदावृत्तिर्ल-
यः,प्रमाणविपर्ययविकल्पस्मृतिलक्षणावृत्तिर्विक्षेपस्तयोावृत्या-निवृत्त्या
तनिवृत्तिदारेतियावत्तनिरोधः वासनानिरोधोभवतीत्याचार्याः सांख्याचा-
- मन्यन्त इत्यर्थः।
तथा च न पवापरावराध इति द्रष्टव्यम् ॥ ३० ॥
ननु लयविक्षेपयोावृत्त्यर्थ क ध्यानादिकं कर्तव्यं ? तबाह-
"नस्थाननियमश्चित्तप्रसादात् " ॥ ३१ ॥
चित्तप्रसादाद-चित्तमसन्नतातो ध्यानादिकं भवति । तस्मात्स्थाननि:-
माध्यानाद्यर्थ कस्य चित्स्थानविशेषस्य नियमो नम्नास्तीत्यर्थः ।
यत्र वित्तमसादआलक्ष्येत, तत्र ध्यानादिकं कर्तव्यमिति भावः॥३१॥

. षष्ठोऽध्यायः। (१४३) नतु येषां बुद्ध्यादीनां तादात्म्यात्सुरुषस्य तदासनाभिमानस्तेषु मूलका- रणता कस्यास्ति ? तत्राह- "प्रकृतेराद्योपादानताऽन्येषां तत्कायंत्वश्रुतेः" ॥३२॥ आद्योपादानता प्रथमोपादानकारणता-मूलकारणतेति यावत् , प्रकृतेः- त्रिगुणात्मकम्य प्रधानस्य सर्वत्र मन्तव्या । कुतः ? अन्येषां महदादीनां तेषां तत्काभ्वश्रुतेः='मोयां तुप्रकृति विद्यात् ' इत्यादिना प्रकृ- तिकार्यत्वस्य श्रवणादित्यर्थः ॥ ३२ ॥ ननु पुरुषस्यापिनित्यत्वात्तस्यैवाद्योपादानताऽस्तु, कृतंमकृत्या,तबाह- "नित्यत्वेऽपि नात्मनो,योग्यत्वाभावात् ॥ ३३ ॥ आद्योपादानतेत्यनुवर्तते, आत्मनः पुरुषस्य नित्यत्वेऽपि प्रकृतिवन्नित्यत्वे सत्यप्याद्योपादानता न=न संभवति। कुतः? योग्यत्वाभावात तदयोग्यत्वा- दित्यर्थः। न केवलं नित्यत्वमेव तद्योग्यत्वप्रयोजकं किन्तु परिणामिनित्यत्वं । पुरुषस्य च नित्यत्वेऽपि परिणामिनित्यत्वाभावान्नतद्योग्यत्वमितिभावः । गुणवत्त्व सङ्गित्वञ्चोपादानतायोग्यत्वमिति भाष्यम् ॥ ३३ ॥ ननु केवलात्मनस्तद्योग्यत्वाभावेऽप्यविद्यासहकृतस्य तस्य तद्योग्य- त्वसंभवादसिद्धो हेतुस्तत्राह- "श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभः" ॥ ३४ ॥ कुतर्कापसदस्य-इत्थं कुतर्केण कुत्सिततर्केण वेदविरुद्धनतर्केणेति यावदात्मानं गदुत्पादानकारणं मन्वानस्य ते पुरुषाधमस्यात्मलाभा-अ- खण्डैकरससदात्ममाप्तिन=न भवेत् । कुतः । श्रुतिविरोधात्='असन्नेव स भवति असद्भह्मति वेदचेत्' इत्यादिश्रुतिविरोधादित्यर्थः । 4 १ श्वे. अ. ४-१० । २-तै ब्राह्म. वल्ली, २ अनु. ६-१ ।

.
:(१४४) सांख्यदर्शनसूत्रवृत्तौ।
खया कार्यकारणयोस्तादात्म्यस्याभ्युपेतत्वात्कारणस्यात्मनः स्वरूप-
तोऽसत्त्वाभावेऽपि कार्यात्मनाऽसत्त्वं वक्तव्यं, तदसत्त्वे च कुतस्तल्लाभ इति
भावः ॥ ३४ ॥
ननु स्थावरादिषुसर्वेषुक्षित्यादीनामेवोपादानकारणतादर्शनात्कथं स-
वत्र प्रकृतेराद्योपादानता, तबाह-
"पारम्पर्येऽपि प्रधानानुवृत्तिरणवत्" ॥ ३५ ॥
पारम्पर्येऽपि स्थावरादिषु साक्षात्कारणत्वाभावेऽपि प्रधानानुवृत्तिः-
धानस्य-प्रकृतेरनुवृत्तिः तेषु कारणतयाऽन्वयोऽस्त्येव । तत्रोदाहरणमणु-
-यथा वैनाशिकसमयेऽणूनां परमाणूनां साक्षात्कारणत्वाभावेऽपि सद्धा-
आदिषु कारणतयानुवृत्तिरित्यर्थः ॥ ३५ ॥
ननु प्रकृतेरायोपादानवे निश्चितेऽपि विभुत्वं कुतो निश्चयं ? तत्राह-
"सर्वत्र कार्यदर्शनाद्विभुत्वम्" ॥३६ ॥
मकृतरिति संबन्धः । सर्वत्र कार्य्यदर्शनात्-सर्वासु दिक्षु सर्वेषु लोकेषु
तद्धिकारोपलम्भात्मकृतेवि त्वं निश्वेतव्यमित्यर्थः ।
अन विभुत्वं सापेक्षं मन्तव्यं, ननिरपेक्षं, तस्य परमात्मन्ये वा भ्युप-
गमादिति दिक् ॥ ३६ ॥
ननु प्रकृतर्विभुत्वे तस्या जगत्सर्जनानुकूलक्रियायोगो न भवेत् । कथ-
श्चित्तद्योगे वा तन्त्वादिवदाद्योपादानकारणता न सिध्येत, तत्राह-
"गतियोगेऽप्याद्यकारणताऽहानिरणवत्" ॥३७॥
गतियोगेऽपि भगवदिच्छया जगत्सर्जनानुकूलक्रियायोगे सत्यपि प्रकृ-
तेरायकारणताहानिः मूलकारणताया हानि भवति । अत्रोदाहरणमणु-
वद-यथा वैनाशिकसमयेऽणूनां परमाणूनां सङ्घातादिस नानुकूलक्रियायो-
गेऽपि मूलकारणताया हानिनत्यर्थः ॥ ३७ ॥

- षष्ठोऽध्यायः। (१४५) ननु प्रकृतेर्गतियोगे द्रव्यत्वावश्यंभावात्पृथिव्यादिषु द्रव्येषु क तस्या अन्तर्भावो भविष्यति? तत्राह- "प्रसिद्धाधिक्यं प्रधानस्य न नियमः" ॥ ३८ ॥ प्रधानस्य-प्रकृतेः प्रसिदाधिक्यं प्रसिद्धेभ्यः पृथिव्यादिद्रव्येभ्योऽधि- कत्वमस्ति । मूलकारणत्वात् । अतो न नियमः भ्यव्यं तेन मसि- देष्वेवान्तर्भवितव्यमिति नियमो नेत्यर्थः ॥ ३८ ॥ ननु प्रकृतेर्दव्यत्वे कियावत्सत्त्वादीनामपि तद्धर्मत्वमेव सिध्येत, न तद्रूपत्त्वं, गुणत्वाद, तत्राह- "सत्त्वादीनामतद्धमत्वं, तद्रूपत्वात्" ॥ ३९ ॥ सत्त्वादीनां सत्त्वरजस्तमसांत्रयाणामतधर्मत्वं प्रकृतिधर्मत्वं न भवति । कुतः? तद्रूपत्त्वाद-प्रकृतिस्वरूपत्वादित्यर्थः । गुणशब्दमयोगस्तु तत्र केवळ रज्जुबइन्धनहेतुत्वादिति भावः ॥३९॥ ननु प्रधानस्य जड़त्वेनात्मोपभोगाभावात् किमर्थ तस्यैषा सृष्टिः? तत्राह- "अनुपभोगेऽपिपुमर्थसृष्टिःप्रधानस्योष्ट्रकुङ्कामवहन- वत्" ॥ ४० ॥ प्रधानस्य-प्रकृतेरनुपभोगेऽपि आत्मोपभोगाभावेऽपिपुमर्थ-पुरुषार्थ सृष्टिः-जगतः सर्जनम् । तत्रोदाहरणमुष्टकुङ्कमवहनवत् यथोष्ट्रस्यात्मोपभो- गाभावेऽपि पुरुषार्थ कुङ्कुमवहनमित्यर्थः ॥ ४० ॥ नन्वकाकिन्याः प्रकृतेः सृष्टिवैचित्र्यं कुतो जातं? तत्राह- "कर्मवैचित्र्यात्सृष्टिवैचित्र्यम् ॥ ४१ ॥ कर्मवैचित्र्यात्मकृतरेकत्वेऽपि सहकारिभूतानां पुरुषकर्मणां वैचित्र्या- त्सृष्टिवैचित्र्यं तत्सृष्टिवैचित्र्यं जातमित्यर्थः ॥ ४१ ॥ ननु भवतु कर्मसहकृतात्मधानादिचित्रा सृष्टिः,मलयः पुनः कस्माद- विष्यति ? न ।कस्मात्कारणाविरुद्धकार्य्यदयं घटते । तत्राह- , 4 । (१४६) सांख्यदर्शनसूत्रवृत्ती। "साम्यवैषम्याभ्यां कार्यद्वयम्" ॥ ४२ ॥ साम्यवैषम्याभ्यां प्रकृतेरेव समभावविषमभावाभ्यां सरूपविरूपपरिणा- माभ्यामिति यावत्कार्यदयं सृष्टिप्रलयलक्षणं कार्यद्वयं भवतीत्यर्थः। प्रकृतेःसरूपपरिणामात्मलयो विरूपपरिणामाचसृष्टिरितिभावः॥४२॥ ननु कदा पुनः प्रकृतेः पुरुषार्थ सृष्टिर्न भवति? तबाह- "विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत" ॥१३॥ विमुक्तबोधाद-विवेकेनमुक्तस्यपुरुषस्यविवेकमत्ययोदयात्पश्चात् मधान- स्य कृतकाव्या प्रकृतेःसृष्टिः-तविवेकि पुरुषप्रतिजगतः सर्जन न-नमवति, लोकवत यथाकृतकार्य्यस्यलोकस्यनपुनःप्रवर्तनमित्यर्थः ॥ ४३ ॥ ननु प्रकृतेर्व्यापकत्वादन्यान् प्रति भोगार्थमुपसर्पणे मुक्तस्यापि पुन- भौगो भवेद, संवन्धाविशेषाद, तत्राह- "मान्योपसर्पणेऽपि मुक्तोपभोगो निमित्ताभावाव"॥४॥ अन्योपसर्पणपि अन्यानविवकिपुरुषान् प्रति प्रकृतरुपभोगार्थमवर्तनेऽपि मुक्तोपभोगः=मुक्तस्य पुनरुपभोगो न=न भवति । कुतः निमित्ताभावाद= भोगनिमित्तस्याविवेकस्याभावादित्यर्थः । अविवेककृतः पुरुषस्योपभोग इति भावः ॥ ४४ ॥ नन्वन्योपसर्पणेऽपीत्येतद्युक्तम्, अद्वैतात्मवादिनामस्माकंपुरुषबहुत्वा- भावात्तत्राह- पुरुषबहुत्वव्यवस्थातः ॥ ॥ ४५ ॥ पुरुषबहुत्वं-पुरुषाणां जीवात्मनां बहुत्वं नानात्वमस्ति । कुतः व्यव- स्थातः जन्ममरणबन्धमोक्षादिव्यवस्थात इत्यर्थः । अन्यथा व्यवस्था न स्यादिति भावः ॥ ४५ ॥ नतु पुरुषैकत्वेऽप्युपाधिबहुत्वाद्व्यवस्था सेत्स्यति कि पुरुषबहुत्वाभ्यु- पगमेन, तत्राह- -

षष्ठोऽध्यायः। (१४७)
" उपाधिश्चेत्तत्सिद्धौ पुनद्वैतम्॥ ॥ ४६ ॥
चेत यदि जन्ममरणादिव्यवस्थासिद्ध्यर्थमुपाधिः अविद्यालक्षणोपाधिः
साध्यते, तर्हि मा साध्यताम् । कुतः ? यतस्तत्सिद्धौ-उपाधिसिद्धौ सत्यां
पुनदैत पुनस्ते द्वैत मसज्येतेत्यर्थः ॥ ४६ ॥
ननु साध्यमानाउपाधयोऽपि न परमार्थभूताः, किन्त्वाविद्यकाः, तेन
तसिद्धावपि न नः पुनतप्रसङ्गः, तत्राह-
"द्वाभ्यामपि प्रमाणविरोधः॥४७॥
अपि-तथापि दाभ्याम् अविद्या, पुरुष इति द्वाभ्यामभ्युपगताभ्यां
सद्भया प्रमाणविरोधः अद्वैतसाधकत्वेनाभिमतेन प्रमाणेन विरोधस्त स्या-
दित्यर्थः ॥ ४७॥
किश्च-
"द्वाभ्यामप्यविरोधानपूर्वमुत्तरश्चसाधकाभावात्॥४८॥
दाभ्यामप्यविरोधात प्रकृतिपुरुषौ चेदविद्यात्मानौ ते, तर्हि द्वाभ्याम-
प्यस्माकं विरोधाभावात्पूर्वम्-उपाधितो जन्ममरणादिव्यवस्थोपपादनं न=
न सङ्गच्छते । परमार्थतः पुरुषनानात्वाभ्युपगमात् । उत्तरञ्च तथा पुरुषा-
दैतसाधनमपि न=न सङ्गच्छते, साधकाभावात्-पुरुषादैतसाधकप्रमाणा-
भावादित्यर्थः ॥ ४८ ॥
ननु स्वप्रकाशत एवाद्वितीय पुरुषः सेत्स्यति, कि साधकममाणेन, तत्राह-
"प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः॥४९॥
प्रकाशतः स्वस्यप्रकाशतस्तत्सिद्धौ-तस्य-प्रकाशरूपस्याद्वितीयात्मनः
स्वस्य सिद्धौ कर्मकर्तृविरोधः एकस्मिन् मकाश्यपकाशकभावसंबन्धासंभ-
वाद् यत्कर्म स एव कर्तेति कर्मकर्तृभावविरोध आपतेदित्यर्थः ।
अस्मन्मतेतुबुद्धिवृत्त्याख्यममाणाङ्गीकारात्तद्वारा प्रतिविम्वरूपस्य स्व-
स्य बिम्बरूपे स्वस्मिन् सम्बन्धो घटते, यथा सूर्ये जलदारा प्रतिबिम्बरू-
पस्वसंबन्ध इति भाष्यम् ॥ ४९ ॥

LI (१४८) सांख्यदर्शनसूत्रवृत्तौ। नन्वस्तु तर्हि प्रकाशाश्रयतया तसिद्धिः ? तत्राह- "जड़व्यावृत्तो जई प्रकाशयति चिद्रूपः" ॥ ५० ॥ यत इति शेषः।यस्माज्जड़व्यावृत्तः जाडयधर्मकात्साक्ष्यभूतायुद्ध्यादे- भिन्नो जईजड़नातं मकाशयति भासयति,तस्माञ्चिद्रूपः चित् प्रकाशो ज्ञा- नमित्यनान्तरं, प्रकाशस्वरूपः पुरुषो न प्रकाशाश्रय इत्यर्थः । तत्र जडव्यावृत्त इति प्रकाशाश्रयत्वंप्रतिषिद्धं, जई प्रकाशयतीति सर्व- साक्षित्वमुक्तं, चिद्रूप इति पुरुषस्वरूपं निर्धारितमिति विवेकः ॥ ५० ॥ नन्वेवमद्वैतासिद्धेः "सएषनेतिनेति ॥ इति जगन्निषेधेनात्मै- कयाहयन्त्या श्रुत्या विरोधः किन्न स्यात्, तत्राह- "नश्रुतिविरोधोरागिणवैराग्यायतत्सिद्धेः ॥५१॥ श्रुतिविरोधः पुरुषबहुत्वेऽपि जगनिषेधकश्रुत्या विरोधो न न भवति । कुतः ? रागिणां विषयासक्तचेतसां वैराग्याय-विषयेषु हेयत्वबुद्ध्युत्पादनाय तसिद्धः जगनिषेधोपपत्तेरित्यर्थः । जगतोविरक्तःसन्नात्मानंगृह्णातीति श्रुतेराशय इति भावः ॥ ५१ ॥ ननु जगत्सत्यत्वे कल्पनैपा युज्यते, तदेव कुतः ? तत्राह- "जगत्सत्यत्वमदुष्टकारणजन्यत्वाद्वाधकामा- वात् " ॥५२॥ जगत्सत्यत्वं-जगतः=महदादिप्रपञ्चस्यसत्यत्वं-त्रिषु कालेषु विद्यमा- नत्वमस्ति । कुतः? अदुष्टकारणजन्यत्वात-निद्रादिदोषयुक्तं कारणं दुष्टका- णं,तद्धिनमदुष्टकारण भगवद्भुद्धिसहकृता प्रकृति स्तजन्यत्वं तदुपादेयत्वं, तस्मात् भगवदुद्धिसहकृतप्रकृतिकारणकत्वाद, वाधकाभावात बाधकज्ञान विषयत्वाभावाच्चेत्यर्थः। तत्रायेनहेतुना स्वानार्थशखपीतिमादिव्यावृत्तिः, द्वितीयेनशक्तिरजता- दिव्यावृत्तिरितिविवेकः ॥ ५२ ॥ १-०अ०६-त्रा०२-४।

षष्ठोऽध्यायः (१४९) A. ननु वर्तमानकाळेसवदपिजगदुत्पत्तेःमाक्कथंसद्भवेत् ? तत्राह- "प्रकारान्तरासंभवात्सद्वत्पत्तिः" ॥५३ ॥ प्रकारान्तरासंभवात् प्रथमाध्यायोक्तरीत्या प्रकारान्तरस्य संभवाभावा- सदुत्पत्तिः सतः-उत्पत्तेःपूर्व सूक्ष्मरूपेण विद्यमानस्यैव जगतः कारणव्या पारेणोत्पत्तिः अभिव्यक्तिर्भवतीत्यर्थः ॥ ५३ ॥ ननु जगतः सत्यत्वे पुरुषस्य कर्तृत्वमपि सत्यं किन्न स्याव ? तबाह- "अहंकारः कर्ता न पुरुष" ॥ ५४॥ अहंकारः-चित्लतिबिम्बसमन्वितमहंकारावस्थापन्नं बुद्धिसत्त्वमेव क- ता-कर्तृत्वाश्रयो, न पुरुषः न पुमान, अपरिणामित्वादित्यर्थः ॥ ५४ ॥ ननु पुरुषस्य कर्तृत्वाभावे भोक्तृत्वमपि न स्यात्, तबाह- "चिदवसाना भुक्तिस्तत्काजितत्वात्" ॥१५॥ भुक्तिः सुखदुःखयोरनुभूतिश्चिदवसाना-चिति=पुरुषेऽवसानं-पर्यवसानं यस्याः सा तथा । कुतः ? तत्कर्मार्जितत्वात् अहंकारेणासनितंपुरुषे कर्म, तत्कर्म, तेनार्जितत्वं-संपादितत्वं, तस्माव-तत्पुरुषीयाहंकारकर्तृ कर्मजन्यत्वादित्यर्थः। 'यद्यपि कर्तृत्वमिवतत्समकक्षभोक्तृत्वमपिपुरुषस्यनास्ति, तस्यविशिष्ट- धर्मत्वात् । तथाप्यहंकारस्य जड़त्वेन भोक्तत्त्वासंभवात्तदवसानं चित्येवेति भावः ॥ ५५ ॥ नन्वेवं कर्मणामानन्त्याभोगार्थचन्द्रादिलोकंगतानांततःपुनरावृत्तिन स्याव, तबाह- "चन्द्रादिलोकेऽप्यावृत्तिनिमित्तसद्भावात् ॥५६॥ चन्द्रादिलोकेऽपि भूलोकवचन्द्रादिलोकेगतानामप्यावृत्तिः तल्लोकोचि- तकर्मफळभोगानन्तरं पुनरावत्तिर्भवत्येव । कुतः ? निमित्तसद्भावाव=पुनरावृ- तिनिमित्तस्याविवेककर्मादेः सत्त्वादित्यर्थः ॥ ५६ ॥ . .

( १५०) सांख्यदर्शनसूत्रवृत्तौ। ननु तल्लोकवासिपुरुषोपदेशात्तत्र गतानांविवेकेनाविवकादिनष्टे पुनरावृ. त्तिर्न भविष्यति, तत्राह- "लोकस्य नोपदेशासिद्धिः पूर्ववत्" ।। ५७ ॥ लोकस्य-तल्लोकवासिपुरुषस्योपदेशाव-उपदेशमात्राव सिद्धिा स्वकर्म फलोपभोगाथै तल्लोकं गतानां विवेकज्ञाननिष्पत्तिर्न न संभवति । पूर्ववत् यथा पूर्वस्मिन् भूलोके भोगासक्तचेतस्कतयोपदेशमात्रान्नविवेकज्ञाननिष्प- त्तिर्जातत्यर्थः ।। ५७ ॥ नतु किमर्थन्तर्हि "चन्द्रमसो विद्युतं, तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयत्येष देवपथी ब्रह्मपथ एतेन प्रतिप- धमाना इमं मानवमावत नावर्तन्ते" इति श्रुतिश्चन्द्रादिलोकं गतानामपुनरावृत्तिमभिधत्ते? तत्राह- "पारम्पर्येण तत्सिद्धौ विमुक्तिनुतिः ॥ १८ ॥ पारम्पर्येण-कथञ्चिदराग्योदयाच्छ्रवणमनननिदिध्यासनाद्यनुष्ठानपरम्प- रया तसिद्धौ-विवेकज्ञाननिष्पत्ती सत्यां विमुक्तिश्रुतिः एषाऽपुनरावृत्ति- श्रुतिरित्यर्थः ॥ १८ ॥ ननु सांख्यानां पुरुषस्यागुत्वेऽपिकूटस्थनित्यतया गतिपरिणामासम्भवाद कथं तस्यकर्मफलोपभोगार्थ देशविशेषस्य लाभो भवेद, तत्राह- "गतिश्रुतेश्च व्यापकत्वेऽप्युपाधियोगाद्भोगदेशकाल- लाभो व्योमवत् ॥ ५९ ॥ व्यापकत्वेऽपि यथास्वशास्त्रमनुरुन्धतां विभुवादिनां भवतामात्मनो व्या- पकत्वेऽपिशरीरोपाधिसम्बन्धादेशविशेषस्यलाभः, तथैव गतिश्रुतेश्व-स्मृत्य- भ्युच्चयार्थश्चः, गतिमतिपादिकायाः 'श्रुतेः स्मृतेश्चक्शवर्तिनामस्माकं सां ख्यानामुपाधियोगाव-बुद्धिसत्त्वप्रधानलिङ्गशरीरलक्षणोपाधिसंयोगाभोगदे- शकाठलाभः स्वकर्मफलोपभोगार्थतदुचितदेशविशेषस्य कालेन लामा-माप्तिः १-छा०प्रपा०४-खं० १५२६ ।

षष्ठोऽध्यायः (१५१ संभवति । तत्रोपाधिसम्बन्धादेकदेशतो देशान्तरस्य लाभमाचे निदर्शनं व्योमवत् यथान्योनो घटोंदञ्चनाद्युपाधिसंयोगादेकदेशतो देशान्तरस्य लाभ इत्यर्थः ॥ ५९ ॥ ननु यथा पुरुषोपभोगार्थ पूर्व तदनधिष्ठितस्यैव लोकविशेषस्य सिद्धि- जायते, तथैव भोगायतनसिद्धिपि किन जायेत ? तत्राह- "अनधिष्ठितस्य पूतिभावप्रसंगान तसिद्धिः॥६॥ तसिद्धिः तच्छब्दो बुद्धिस्थत्वादोगायतनमाचष्टे । भोक्तपुरुषाधिष्ठान विना तस्य भोगायतनस्य सिद्धिा-निष्पत्तिनम्न संभवति। कुतः अनधिष्ठित- स्य-भोक्तृपुरुषानाधिष्ठितस्य तदीनभूतस्य शुक्रशोणितस्य पूतिभावमसङ्गात्- पूतित्वमसक्तरित्यर्थः ॥ ६ ॥ नतु भोक्तुपुरुषादृष्टवशादपूतित्वमसक्तेस्तसिद्धिर्भविष्यति । किंतदार्थ- ठानेनेत्याशंक्य समाधत्ते । अदृष्टद्वाराचेदसम्बद्धस्यतदसंभवाजलादि- वदगुरे" ॥६१॥ न तसिद्धिरित्यनुवर्तते । अदृष्टद्वारा भोकृपुरुषादृष्टद्वारा चेव यदि तसिद्धिरित्याशङ्कयते, तर्हि न-नाशयम्, कुत; असम्बदस्य-भोगायतन- बीजभूते शुकशोणिते सम्बन्धरहितस्यादृष्टस्य तदसंभवात भोगायतन- सिदिहेतुत्वासंभवात् । तत्रोदाहरणंजलादिबदरेव्यथाबीजासम्बदस्य जलादेरकुरे हेतुत्वं न संभवतीत्यर्थः ॥ ६१ ॥ किश्च- 4 . निर्गुणत्वात्तदसंभवादहंकारधर्मा ह्येते " ॥ ६२ ॥ - एते अदृष्टादयोऽहंकारधर्मा हि अहंकारावस्थापनबुद्धिसत्त्वधर्मा एवं १-० अ०६त्रा०४॥ -- " - (१५२) सांख्यदर्शनसूत्रवृत्तौ। सन्ति न पुरुषधर्माः । कुतः १ तदसंभवाव तेषां पुरुषधर्मत्वसंभवाभावात् । कुतोऽसंभवः ? निर्गुणत्वात् पुरुषस्य सर्वधर्मासंगित्वाभ्युपगमादित्यर्थः । तथा चादृष्टादीनां पुरुषधर्मत्वासंभवान तत्र तत्संबन्धसंभव इति भावः ॥ ६२॥ नन्वेवन्तर्हि कथमदृष्टादीनां जीवधर्मत्वव्यपदेश ? तबाह- "विशिष्टस्यजीवत्वमन्वयव्यतिरेकात् ॥ ६३ ॥ विशिष्टस्य महंकारविशिष्टपुरुषस्य जीवत्वं-जीवभावो न तु केवल- पुरुषस्य । कुतः? अन्वयव्यतिरेकादम्यत्राहंमत्ययस्तवनविभावो, यत्र न तत्र नेत्यन्वयव्यतिरेकादित्यर्थः ॥ वैशिष्टयञ्च तच्छायापत्तौतादात्म्यम् । तेनयुक्तोव्यपदेशइतिभावः॥६३॥ ननु जीवस्ययेयंलौकिकवैदिककार्यसिद्धिःसाकिंतस्यात्मतन्ना, परत- त्रा वा ? तत्राह- "अहंकारकर्बधीना कार्यसिद्धिनेश्वराधीना, प्रमाणा- भावाद ॥ ६४॥ अहंकारकर्बधीना पुरुषमतिविम्बसमन्विताहंकारकर्तृतन्त्रा कार्यसिद्धिः कार्य कर्म, तस्य लौकिकवैदिककर्मणःसिद्धिः अनुष्ठितिर्विद्यते नेश्नरा. धीनान परमात्मतन्त्रा । कुतः? प्रमाणाभावाद भोगवत्कार्यसिद्धेरीभर. तन्त्रले प्रमाणाभावादित्यर्थः । कर्मणि स्वतन्त्रो, भोगे परतन्त्रो जीव इति भावः ॥ ६४ ॥ ननु यथानेश्वरतन्त्राकार्यसिद्धिस्तथाहंकारकर्तृतन्त्रापिन, किन्तु जीवा दृष्टतन्त्रा, तबाह- " अदृष्टोद्भूतिवत्समानत्वम् " ॥६५॥ अदृष्टोद्भतिवद्-उद्धतिरनुष्ठितिः,नीवादृष्टतन्त्रा कर्मानुष्ठितिरित्युक्तिन- M . षष्ठोऽध्यायः। (१५३) इत्युक्तिसमैवेतियावसुरुषपुरुषकारतन्त्रा कर्मानुष्ठितिरित्युक्तिः, नास्ति किश्चि- दन्तरम् । अपि च समानत्वम् उक्तिद्वयस्यार्थतस्तुल्यत्वमस्तीत्यर्थः । अदृष्टस्यापि पुरुषपुरुषकारसाध्यकर्मत्वाविशेषादिति भावः ॥ ६५ ॥ ननु' पुरुषपुरुषकारसाध्यञ्चेदखिलंकर्म, तदादुःखात्यन्तनिवर्तकं प्रकृ- तिपुरुषविवेकात्मकमानसंकर्मास्यपुरुषस्ययथाकामंकुतोनजायत ? तत्राह- "महतोऽन्यत् ॥६६॥ महतः अनेकजन्माभ्यासपाटवनजायमानशुद्धसत्त्वगुणमयसूक्ष्मतमबु- दिसत्त्वतोऽस्थकल्याणभाण:पुरुषोत्तमस्यान्य दुःखफलकेभ्योलौकिकवैदि- काखिलकर्मभ्योविलक्षणंप्रकृतिपुरुषविवेकात्मकंमानसंकर्मोद्भवतीत्यर्थः । तथा च पुरुषपुरुषकारसाध्यमपि प्रकृतिपुरुषविवेकदर्शनं बुद्धितत्त्वमा- लिन्यादस्य पुरुषस्य यथाकामनोत्पद्यते, तस्मान्मुमुक्षुणाऽनेन तच्छोधनो- पायभूतं यमनियमादिकं यत्नतोऽनुष्ठेयमिति भावः ॥ ६६ ॥ ननु ययोः प्रकृतिपुरुषयोविवेकदर्शनादस्य पुरुषस्य तत्संबन्धोच्छित्ति- पूर्विका दुःखात्यन्तनिवृत्तिः शास्त्रेणोपदिश्यते, तयोः संबन्धः किनिमित्तकः? पत्रकदेशिमतमाह- "कर्मनिमित्तम्प्रकृतेःस्वस्वामिभावोऽप्यतादि- बीजाङ्कुरवत्" ॥ ६७ ॥ प्रकृतेः-उपलक्षणमेतव, बुद्धिसत्त्वात्मिकायाः प्रकृतेः पुरुषस्य च परस्परं स्वस्वामिभावः प्रकृतेर्भोग्यत्वात्पुरुषस्य च भोक्तृत्वात्स्वस्वामिभावलक्षणः सं- बन्धः कर्मनिमित्तः कर्मनिमित्तकारणकः, स चापि-कर्मनिमित्तोऽपि बीजा- कुरव-बीनारयोरिवानादिः अवाहरूपेणकर्मानादित्वादनादिरित्यर्थः ६७ तत्रात्मसंमतं पञ्चशिखाचार्याणां मतमाह- "अविवेकनिमित्तोवापश्चशिखः।-६८॥ प्रकृतेः स्वस्वामिभाव इत्यनुवर्तते । पूर्वतो भेदसूचनाय वाकारः । मा

-
.
(१५४) सांख्यदर्शनसूत्रवृत्तौ ।
तिपुरुषयोरविवकनिमित्तकः स्वस्वामिभावलक्षणः संबन्ध इति पञ्चशिख:-
पश्चशिखाचार्यों मन्यते इत्यर्थः ॥ ६८ ॥
मतान्तरमाह-
"लिङ्गशरीरनिमित्तक इति सनन्दनाचार्य: ॥६॥
भकृतेः स्वस्वामिभाव इत्यनुवर्तते। प्रकृतिपुरुषयोः स्वस्वामिभावसंबन्धो
लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यों मन्यत इत्यर्थः ॥ ६९ ॥
उपसंहरति ।
यद्वातद्वातदुच्छित्तिःपुरुषार्थस्तदुच्छित्तिः
पुरुषार्थः ॥ ७० ॥
अध्यायपरिसमाप्त्यर्था वीप्सा । यत्तदिति हेत्वर्थकमव्ययम् । प्रकृतेः
स्वस्वामिभाव इत्यनुवर्तते । यतो वा ततो वा कर्मनिमित्ततो वाऽविवेक-
निमित्ततो वा, लिङ्गशरीरनिमित्ततो वा बुद्धिसत्त्वप्रकृतिपुरुषयोः स्वस्वा-
मिभावः संबन्धोऽस्तु । सर्वथाऽपि तदुच्छित्तिः विवेकज्ञानं विना दुरुच्छे-
द्यस्य तस्य सबन्धस्योच्छंदः पुरुषार्थः दुःखात्यन्तनिवृत्तिहेतुत्वात्परमपुरु-
पार्थ इत्यर्थः ॥ ७० ॥
आत्मास्तित्वादिमोक्षान्तो विषयोऽपूर्वयुक्तिभिः ।
स्थूणान्यायेन तन्त्राख्ये पुनः षष्ठे निरूपितः ॥ १॥
कपिलेन प्रणीतेयं वैदिकी सांख्यकमपा ॥
मया हरिप्रसादेन वृत्त्या सम्यकपरिष्कृता ॥२॥
यत्मसादादियं वृत्तिनित्यं स्थास्यति निश्चला ॥
मीभावेन वन्द्योऽसौ विद्यादातेश्वरस्सदा ॥३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्या-
स्मारामभगवत्पादशिष्यहरिप्रसादकृतायां
सांख्यसूत्रवृत्तौ तन्वाध्यायः षष्ठः ॥ ६ ॥

No text on this page.

Sankhesutrvede

Author
Babu, Chhedi Prasad
Title
Sankhesutrvede
File name
Sankhesutrvede
Text
OCR done
Citation
1905
Published
2010/02
Publisher
Shri Venkateshvar Steam Press, Bombay
Language
Sanskrit
Pages
159
Library
Sanmati Library, Jaipur
DLI number
322310
Barcode
99999990248884.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
AE2i0nz6FHw
Download PDF

Sankhesutrvede