Scl

Kavyamala Part 1

Pandit_durga_prasad

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

KAVYAMÂLÂ.
A collection of old and rare Sanskrit Kavya
Natakas, Champûs, Bhâņas, Prahasanas,
Chhandas, Alankâras &c.
PART I.
EDITED BY
MAHẬMAHOPADHYAYA PAŅDIT DURGÂPRASAD
AND
KÂSÎNATH PANDURANG PARAB.
Third Edition,
PUBLISHED
BY
PÂNDURANG JAWAJI,
PROPRIETON OF THE “NIRNAYA SAQAR" PRESS,
BOMBAY.
1929.
Price 11 Rripiec

[ All rights reserved by the Publisher. ]
PUBLISHRIB. ---Pandarang Jawaji,
"Nirnaya Sagar" Prose,
PRINTRR:-Ramchandra Yesu Shedge, 26-28, Kolbhat Lane, Bombny.
hedge}
0

॥श्रीः॥ काव्यमाला। नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः। प्रथमो गुच्छकः। जयपूरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डित. दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः। (तृतीयं संस्करणम्) मुम्बग्यो निर्णयसागरास्ययत्रालये तदधिपति प्राकाश्यं नीतः। शकाब्दः १८५१सनाब्दाः १९२ मूल्यं शसपादरूप्यका

अनुक्रमणिका ।
पृष्ठम्॥
१
८
..
१. राघवचैतन्यविरचितं महागणपतिस्तोत्रम् (सटीकम् )
२. लङ्केश्वरविरचिता शिवस्तुतिः
३. कालिदासकृतं श्यामलादण्डकम्
४. कुलशेखरनृपतिविरचिता मुकुन्दमाला
५. जगन्नाथपण्डितराजविरचिता सुधालहरी
६. शंभुमहाकविविरचितो राजेन्द्रकर्णपूरः
७. क्षेमेन्द्रविरचितः कलाविलासः
८. जगन्नाथपण्डितराजविरचितं प्राणाभरणम् (सटीकम् )
९. अप्पयदीक्षितविरचितं वैराग्यशतकम्
१०. जगन्नाथपण्डितराजविरचितामृतलहरी
११. रत्नाकरविरचिता वक्रोक्तिपञ्चाशिका (सटीका)
क्षेमेन्द्रविरचितौचित्यविचारचर्चा
.
२२
३४
१०१
११५

काव्यमाला। श्रीराघवचैतन्यविरचितं महागणपतिस्तोत्रम् । तच्छिष्यकृतया टिप्पण्या समेतम् । योग योगविदां विधूतविविधव्यासङ्गशुद्धाशय- प्रादुर्भूतसुधारसप्रसमरध्यानास्पदाध्यासिनाम् । आनन्दप्लवमानबोधमधुरामोदच्छटामेदुरं तं भूमानमुपासहे परिणतं दन्तावलास्यात्मना ॥१॥ दन्तावलो गजस्तस्येवास्यं मुखं यस्य स गजाननस्तदात्मना तद्रूपेण परिणतं तं भूमानं परं ब्रह्मोपास्महे । कीदृशं तम् । आनन्दो ब्रह्मानन्दस्तेन प्लवमानः । लक्षणया पूर्णानन्दामिन इत्यर्थः । ईदृशो यो बोधस्तेन चिदानन्दमयं स्वरूपमुक्तम् । तद्विवर्तरूपः प्रपञ्च एव मधुरामोदच्छटात्वेन रूपितस्तेन मेदुरम् । पुनः कीदृशम् । योगविदां योगम्। कीदृशां योगविदाम् । विधूतो विविधो व्यासको थैरत एव शुद्धो य आशयस्तस्मिन्प्रा- दुर्भूतः सुधारसः शान्तिसुखं येषां ते च ते असमरं प्रसारि ध्यानं यस्मिनीदृशं यदास्पद कंदरादि तदध्यासिनश्च तेषाम् ॥ तारश्रीपरशक्तिकामवसुधारूपानुगं यं विदु- स्तस्मै स्तात्मणतिर्गणाधिपतये यो रागिणाभ्यर्थ्यते । आमध्य प्रथमं वरेति वरदेत्यार्तेन सर्व जनं खामिन्मे वशमानयेति सततं खाहादिभिः पूजितः ॥ २ ॥ १. कार्यारम्भे विनविघाताय देवतास्मरणं कर्तव्यमिति शिष्टाचारमनुसरद्भिरमाभिरपि काव्यमालाप्रारम्मे देवतास्तुतिरूपाण्येव कानिचित्काव्यानि समुद्धृतानीति ज्ञातव्यं सुधीभिः. २. राघवचैतन्यनामा कश्चिन्महाकविः शाइधरात्प्राचीन मासीत्, यतः शाई- धरपद्धतिमध्ये राघवचैतन्यनान्ना केचिच्छोकाः समुताः सन्ति. शाईपरस्य पितामहो राघवदेवनामा हम्मीरचौहाणसभायामासीत् हम्मीरस्तु १२९५ मिते खितसंवत्सरे मूतः, राषवदेवस्यैव संन्यासग्रहणानन्तरं राघवचैतन्य इति नाम जातमिति भाति.

काव्यमाला । महागणपतिमन्त्रमुद्धरति-तारः प्रणवः, श्रीलक्ष्मीबीजम्, परशक्तिर्मायायीजम् , कामः कामबीजम्, वसुधा भूमिबीजम् , इति पञ्चरूपाणां बीजानामनु गमित्यक्षरमेतादृशं यं साधका विदुस्तस्मै गणाधिपतये प्रणतिः स्तादिति योजना । यः सततं स्वाहाखधा- दिभिः शक्तिमिः पूजितः । आर्तेन रागिणा प्रथमं वरेति ततो वरदेत्यामळ्याभ्यर्थ्यते। अभ्यर्थनामेवाह-सर्व जनं खामिन्मे वशमानयेति । खाहादिभिरित्यनेन खाहान्तो मन्त्रः। अत्राधिपदं सर्वमिति च पदं छन्दोनुरोधादुक्तम् । मन्त्रे तु गणपयते तथा सर्वजन- मित्येकमेव पदम् । खामिनिति च मन्त्राबहिर्भूतम् ॥ कल्लोलाञ्चलचुम्बिताम्बुदतताविक्षुद्रवाम्भोनिधौ द्वीपे रत्नमये सुद्धमवनामोदैकमेदखिनि । मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरुहे षट्कोणाकलितत्रिकोणरचनासत्कर्णिकेऽमुं भजे ॥३॥ कल्लोलानां महोर्मीणामञ्चलाः प्रान्तास्तैराश्लिष्टा मेघततिर्येनेतादृश इक्षुरससमुद्रे सुर- Qमाणां पारिजातादीनां वनं तदामोदेन परिपुष्टे । रममयं द्वीपं वारिमध्यस्थलं तद्तस्य कल्पतरोर्मूले महामणिमयं पीठं तत्र षट्कोणयुक्तत्रिकोणकर्णीकायुक्तेऽक्षराम्भोरुहे तन्त्र- प्रसिद्ध मातृकाकमलेऽमुं महागणपतिं भजे ॥ चक्रप्रासरसालकार्मुकगदासद्वीजपूरद्विज- ब्रीह्यग्रोत्सलपाशपकजकरं शुण्डाग्रजामटम् । आश्लिष्टं प्रियया सरोजकरया रतस्फुरदूषया माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे ॥४॥ चक्र प्रसिद्धम् , प्रासस्त्रिशूलः, रसालकार्मुकमिक्षुषः, गदा प्रसिद्धा, बीजरो मातु- लिङ्गम्, द्विजः खकीयो दन्तः, ब्रीय शालिमजरी, उत्पलं प्रसिद्धम्, पाशपजे च प्रसिद्ध, एवं दशायुधानि करेषु यस्य । शुण्डाने पुष्करे आपरिस्थतो घटो रवपूर्णो हेम- कुम्भो यस्य । कमलहस्तया प्रियया दक्षिणहस्तेनालिहितं माणिक्यप्रतिमं शोणच्छविं सर्वेश्वरं महागणपतिमाशामहे ॥ दानाम्मापरिमेदुरप्रसमरव्यालम्बिरोलम्बभू- सिन्दूरारुणगण्डमण्डलयुगव्याजात्मशस्तिद्वयम् । त्रैलोक्येष्टविधानवर्णसुभगं यः पद्मरागोपमं पत्ते स श्रियमातनोतु सततं देवो गणानां पतिः ॥५॥ दानाम्भसा मदाम्बुना परिमेदुरं व्याप्तं असमरान्च्यालम्बिनो रोलम्बान्त्रमरान्ति भतीति प्रसमरव्यालम्बिरोलम्बमृत् । सिन्दूरेणारुणमेतादृशं कुम्भप्रदेशाद्वयं तस्य मिषा- महागणपतिस्तोत्रम्। ३ त्रैलोक्येष्टविधानवर्णसुभगं त्रिभुवनशुभविध्यक्षरमनोज्ञम् । पद्मरागोपमं पधरागो लोहि- तकस्तदुपमं प्रशस्तिद्वयं यो धत्ते स गणानां पतिर्देवः सततं श्रियमातनोतु । यथा मृदम्बुलिप्ते दारुफलके रक्तचूर्ण दत्त्वाक्षराणि, तथा दानाम्बुलिप्ते सिन्दूरवति कुम्भस्थले भ्रमरा इत्युक्तं भवति ॥ प्राम्यन्मन्दरघूर्णनापरवशक्षीराब्धिवीचिच्छटा- सच्छायाश्चलचामरव्यतिकरश्रीगर्वसर्वकषाः । दिकान्ताधनसारचन्दनरसासाराः श्रयन्तां मनः खच्छन्दप्रसरप्रलिप्तवियतो हेरम्बदन्तत्विषः ॥ ६ ॥ हेरम्बदन्तत्विपो मनः श्रयन्ताम् । किंभूताः । भ्राम्यतो मन्दरस्य घूर्णनावृत्तयस्त- दायत्तस्य क्षीराब्धेचियो सहयस्तासां छटा अग्रभागास्तैः सदृशाः । पुनः कीदृशाः । चलचामरव्यतिकरश्रीगर्वसर्वकृषाः । व्यतिकरो व्यतिषः । दिकान्तेत्यादिरूपकम् । घ- नयारः कर्परः। तथा खच्छन्दप्रसरप्रलिप्तवियतोऽनल्पसंचाराकीर्णांकाशाः । एतेन त्विषां बहुत्वं व्यज्यते ॥ मुक्ताजालकरम्बितप्रविकसन्माणिक्यपुञ्जच्छटा- कान्ताः कम्बुकदम्बचुम्बितघनाभोगप्रवालोपमाः । ज्योलापूरतरङ्गमन्थरतरत्संध्यावयस्याश्चिरं हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरविषः ॥ ७ ॥ मौक्तिकसमूहमिश्रितप्रवीप्तमाणिक्यसमूहच्छटावरकान्ता मनोहराः । शनासमूहसंगत- विस्तीर्णविचमसमाः। ज्योलापूरतरणे मन्यरं तरन्ती चासौ संध्या च तस्या वयस्याः साम्यात्सल्यः । एतादृशा हेरम्बस्य दन्तकिरणाप्ताः शरीरविषश्चिरं जयन्ति । शुण्डामाकलितेन हेमकलशेनावर्जितेन क्षर- मानारनचयेन साधकजनान्संभावयन्कोटिशः। दानामोदविनोदलुब्धमधुपपोत्सारणाविर्मव- कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः॥८॥ शुण्डाप्रधृतसुवर्णकलशसंगृहीतेन क्षरता बहुत्वादहिरपि निर्गच्छता मुक्कामाणिक्या- दिरनसमूहेन कोटिशः साधकजनान्संभावयनसंख्यातानुपासक्रान्संपदा वर्धयन् । दाने- त्यादि । आमोदो गन्धहर्षयोः । प्रोत्सारणमुचाटनं तदर्थमाविर्भवत्कर्णान्दोलनक्रीडः । गणानामिश्वरो देवो विजयते ॥ हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले लिया विभत्याम्बुरुहे समं मधुरिपुस्ते शहायके वहन् ।

४ काव्यमाला। न्यग्रोधस्य तले सहाद्रिसुतया शंभुस्तया दक्षिणे बिभ्राणः परशुं त्रिशूलमितया पाशाकुशाभ्यां शुभम् ॥ ९॥ शाण्डिल्यमूले बिल्ववृक्षस्याधो यस्य महागणपतेः पुरतोऽग्रभागेप में विप्रया प्रिया समं ते प्रसिद्ध शङ्खचके वहन्मधुरिपुर्विष्णुरस्ति । तथा यस्य दक्षिणे गाभण भले वटवृक्षाधः पाशाङ्कुशाभ्यामितया सहितयाद्रिसुतया पार्वत्या सह परशु निशुल नबाण: शंभुः शिवोऽस्ति । पश्चापिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले बिभ्रत्या सममैक्षवं धनुरिषून्पौष्पान्वहन्पञ्च च । वामे चक्रगदाधरः स भगवान्कोडः प्रियंगोतले हस्तोद्यच्छुकशालिमञ्जरिकया देव्या धरण्या सह ॥ १० ॥ देवस्य पश्चिमे पिप्पलवृक्षस्याध उत्पले विनत्या रल्या समक्ष : पीपा- निर्धूश्च वहन्रतिपतिः कामदेवोऽस्ति । अस्य च बागे पिगंगु शायो । शालिग. अरिकयैकसिन्करे कीरमन्यत्र कलमकणिशं बिनत्या धरण्या यह प्रसिद्धी भगवा- कोडो वराहोऽस्ति तं हेरम्ब प्रणमामीति पूर्वेणान्वयः॥ षट्कोणाश्रिषु षट्सु षड् गजमुखाः पाशाङ्कुशाभीवरा- बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्मपुलस्विषः । आमोदः पुरतः प्रमोदसुमुखौ तं चाभितो दुर्मुखः पश्चात्पार्श्वगतोऽस्य विन इति यो यो विघ्नकर्तेति च ॥ ११ ॥ षट्रकोणस्य पीठस्य षदखश्रिषु पालीषु षड् गजमुखा ध्येयाः। कीदृशाते । पाशाशा- भयवरान्हतेषु बिभ्राणाः । प्रमदानां सखाय इति प्रमदासखाः । भासासाहिता इत्यर्थः । पृथुश्चासौ महाशोणाश्मनां पद्मरागाणां पुजस्तद्वस्विट् कान्तिर्येषां ते। यदि 'पृथुमहाः' इति विसर्गान्तः पाठस्तदा मिन्नं पदम्। पृथुमहो येषां ते। अकारान्तोऽपि महशब्दोऽस्ति । तेषां नामान्याह-पुरतोऽप्रकोण आमोदः । तं चामोदमभितः प्रमोदसुमुखी । पुरः कल्पितपूर्वदिगपेक्षयाग्निकोणे प्रमोदः, एवमीशानकोणे सुमुख इत्यर्थः । पश्चात्पश्चिमकोणे दुर्मुखः । अस्य दुर्मुखस्य विघ्न इति यस्य नाम स एकस्मिन्पाये, विघ्नकर्तेति यस्य नाम स द्वितीयपार्श्वेऽस्ति । अर्थादेको नैर्ऋत्यकोणे, अपरो वायव्य वर्तते ॥ आमोदादिगणेश्वरप्रियतमास्तत्रैव नित्यं स्थिताः कान्ताश्लेषरसज्ञमन्थरदृशः सिद्धिः समृदिखतः । कान्तिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते सान्या यापि मदद्रवा तदपरा द्राविण्यमूः पूजिताः ।। १२ ।।

महागणपतिस्तोत्रम् । कान्तस्य खखभर्तुरालि नरसं जानन्त्यत एव मन्थरा रागिणी दृग्यास ताः। आ. मोदादीनां पूर्वश्लोकोक्तानां षण्णां भार्यास्तेषां समीपे स्थिता ध्येयाः । तासां नामानि च-सिद्धिः, समृद्धिः, कान्तिः, मदनावती, मदद्रवा, द्राविणी चेति ।। आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ वर्पन्तौ वसु पार्श्वयोर्विलसतस्तौ शङ्खपद्मौ निधी । अशान्यन्वथ मातरश्च परितः शक्रादयोऽब्जाश्रया- स्तहाधे कुलिशादयः परिपतत्कालानलज्योतिषः ॥ १३ ॥ वसुधया यगुमत्या च क्रमेणालिनिती शुक्लरक्तवर्णी धनं वर्षन्ती तो शपद्मसंशी प्र- सिद्धौ नीधी षदकोणपार्थयोविलसतः । तयोर्ध्यान पुर्यादित्यर्थः । अनु निधिध्यानानन्तरं हृदयादि षडमानि ध्यायेत् । परितो बाहयाथा अष्ट मातरो ध्येयाः । पदकोणावाहिःस्थिते- ऽष्टदलकमल इन्द्रादयो दिक्पालासद्धाये तेषां समीप एव परिपतत्कालानलज्योतिषः प्रदीप्तस्वरूपा इन्द्रादीनां हेतयो बज्राद्या ध्येयाः ॥ इत्थं विष्णुशिवादितत्त्वतनवे श्रीवक्रतुण्डाय हुं- काराक्षिप्तसमस्त दैत्यपृतनावाताय दीप्तत्विपे । आनन्दैकरसावबोधलहरी विध्वस्तसर्वोमये सर्वत्र प्रथमानमुग्धमहसे तस्मै परसै नमः ॥ १४ ॥ 'हेरम्ब प्रणमामि' (९।१०) इति श्लोकाभ्यां विष्णुपिावादिस्वरूपेस्तनुर्मूर्तिर्यस्य स तसै। आदिपदात्मरकोडी । हुंकारमात्रेण निरस्तसमस्तासरसैन्यसमूहाय दीप्तकान्तये । आनन्देति । निरतिशयसुखस्फुरणतरोटरीकृतसंपूर्णोमये । ऊमैयः षड्भावविकाराः । ते च-जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, नश्यतीति च । आनन्दैकरसाव- योधलहरीभिर्विध्वस्ताः सर्वेषां साधकानामूर्मयः षडिन्द्रियजन्या वृत्तयो यस्मादि- स्येके । ऊर्मिशब्देनाविद्यादयो योगशास्त्रप्रसिद्धाः वेशाः । सर्वत्र प्रथमानं मुग्धं सुन्दर महो यस्य तस्मै परस्म जगतोऽन्यस्मै नमः॥ सेवाहेवाकिदेवासुरनरनिकरस्फारकोटीरकोटी- कोटिव्याटीकमानधुमणिसममणिश्रेणिभावेणिकानाम् । राजनीराजनश्रीसखचरणनखयोतविद्योतमानः श्रेयः स्थेयः स देयान्मम विमलयो बन्धुरं सिन्धुरास्थः ॥१५॥ '. सेवायां हेवाकोऽमिलाषो येषाम् । महमप्रेऽहमने भवामीतीच्छा । महंपूर्विकेति या. 'बत् । ते च ते देवासुरनराणां समूहास्तेषां देदीप्यमानमुक्कटाप्राणां या कोटि संख्या- विशेषसत्र न्याटीकमानाः मुसंगताः सूर्मतुल्यरमपडिकान्तिप्रवाहातेषाम् । राजन्ती ६ काव्यमाला। नीराजनधीरारात्रिकशोमा तस्याः सखायस्ते च ते चरणनखान तेषां योतेन प्रकाशेन विद्योतमानः स प्रसिद्धः सिन्धुरास्यो गजमुखः। हे विमलदृशः पण्डिताः । मम कपुर रम्य स्थेयः स्थिरतरं श्रेयः कल्याणं देयात् । ममेयस्य वा विमलश इति विशेषणम् । 'विमलशा' इति पाठे तु सौम्यावलोकनेन श्रेयो दद्यादित्यर्थः । एतेन प्रकटरहस्यमन्त्रमालागर्भेण स्फुटतरसंविदा स्त्रवेन । यः स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वशंवदा त्रिलोकी ॥१६॥ स्फुटतरसंविदेत्यनेन स्तोत्रे प्रसादगुणः सूचितः । प्रचुरतरं मुहुर्मुहुः । अन्यत्साष्ठम् ॥ इति श्रीमत्परमहंसपरिवाजकाचार्यवर्यश्रीराघवचैतन्यविरचितं महागणपति- स्तोत्रं तच्छिष्यकृतया टिप्पण्या समेतं समाप्तम् । श्रीलङ्केश्वरविरचिता शिवस्तुतिः। गेले कलितकालिम प्रकटितेन्दु भालस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरहे। उदञ्चितकपालक जघनसीनि संदार्शत- द्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥१॥ वृषोपरिपरिस्फुरद्धवलधाम धामश्रिया कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत् । कचिपुनरुमाकुचोपचितकुमै रचितं गजाजिनविराजितं वृजिनभाबीजं भजे ॥२॥ उदित्वरविलोचनत्रयविसृत्वरज्योतिषा कैलाकरकलाकरव्यतिकरण चाहनिशम् । विकासितजटाटवीविहरणोत्सवप्रोल्लस- परामरतरङ्गिणीतरलचूडमीडे मृडम् ॥ ३॥ १. 'गळे कलितकालिम' इत्यादि धामविशेषणानि. २. कुबेरगिरि मासा सदैव हिमाच्छावितलादतिशुभ्रः. ३. कलानामाकरः कलाकरबन्दः एलमोः भाषा- स्कराणामाकरः किरणमाळी सूर्योऽपि कलमकर, VIRAMINon- शिवस्तुतिः। विहाय कमलालयाविलसितानि विद्युन्नटी. विडम्बनपटूनि मे विहरणं विधत्तां मनः । कपर्दिनि कुमुदतीरमणखण्डचूडामणौ कटीतटपटीभवत्करटिचर्मणि ब्रह्मणि ॥ ४ ॥ भवद्भवनदेहली विकटतुण्डदण्डाहति- त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते । ब्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसंपदः प्रमथनाथ नाथाम हे ॥ ५॥ त्वदर्चनपरायणप्रमथकन्यकालुण्ठित- प्रसूनसफलद्रुमं कमपि शैलमायामहे । अलं तटवितर्दिकाशयितसिद्धसीमन्तिनी- प्रकीर्णसुमनोमनोरम मेरुणा मेरुणा ॥ ६॥ न जातु हर यातु मे विषयदुर्विलासं मनो मनोभवकथास्तु मे न च मनोरथातिथ्यः । स्फुरसुरतरक्रिणीतटकुटीरकोटौ वस- नये शिव दिवानिशं तैव भवानि पूजापरः ॥७॥ विभूषणमुरापणाशुचितरालवालावली- वलदहलसीकरप्रकरसेकसंवर्धिता। महेश्वरसुरद्रुमस्फुरितसज्जटामञ्जरी नमज्जनफलपदा मैम नु हन्त भूयादियम् ॥ ८॥ १. अयं श्लोकः श्रीमदप्पयदीक्षितैः कुवलयानन्देऽनुज्ञालंकारोदाहरण उदाहतः, तत्र च पूर्वोत्तरार्थयोर्व्यत्ययः. व्याख्यातश्चेत्थं कुवलयानन्दटीकायां चन्द्रिकायाम्-'- जेमेति । हे प्रमथनाथ हर, पैशाविकी पिशाचसंबन्धिनी प्रकृति पिशाचतामेय प्राप्य भवतोऽन्तिक समीपदेशं मजेम । भमरसंपदः किमिति प्रार्थयामहे । यतो मधवादिभिरि- न्द्रप्रमुखैरपि भवद्भवनदेहलीषु विकटतुण्डस्य वक्रतुण्डस्य दण्डाधातैः स्फुटम्मुकटानभूयत इत्यर्थः ॥. १. 'छायाशो नमेरुः स्थाविति शब्दार्णवः' इति मेषदूतीकामां मल्लिनाथः. 'ममेरुः सुरपुनागवृक्षो रुद्राक्षवृक्षश्च' इति शब्दार्थचिन्तामणिः. ३. भव' इति द्वितीय- खकपाठ, ४. 'तदिह किन भूयामहे' इति द्वितीयपुस्तकपाका. . - काव्यमाला। बहिर्विषयसंगतिप्रतिनिवर्तिताक्षावले: समाधिकलितात्मनः पशुपतेरशेषात्मनः । शिरःसुरसरितटीकुटिलकल्पकल्पद्रुमं निशाकरकलामहं वटुविमृष्यमाणां भजे ॥ ९ ॥ त्वदीयसुरवाहिनीविमलवारिधारावल- जटागहनगाहिनी मतिरियं ममाक्रामतु । उपोत्तमसरितटीविटपिताटवीप्रोल्लस- चपखिपरिषत्तुलाममलमल्लिकाभ प्रभो ॥ १० ॥ इति श्रीलङ्केश्वरविरचिता शिवस्तुतिः समाप्ता। ।। मैंहाकविश्रीकालिदासकृतं श्यामलादण्डकम् । माणिक्यवीणामुपलालयन्ती मदालसां मक्षुलवाग्विलासाम् । माहेन्द्रनीलोपलकोमलाङ्गी मातङ्गकन्यां सततं स्मरामि ।। -IN- Imparmve 1. AINI.MirmediaIAM" १. 'वसुविमृष्यमाणम्'इतिद्वितीयपुस्तकपाठः.२. अष्टमनवमदशमलोकाःकिचिदस्फुटा एव सन्तीति विचारयन्तु विद्वांसः. ३. कालिदासस्य समयादिकमद्यापि न निभयेन वक्तुं शक्यते. आरोहकभगदत्तजहणसंगृहीतसूफिमुकावली-हरिकविसंगृहीतसुभाषितहारावल्यो राजशेखरनाम्ना समुदतात् । एकोऽपि जीयते हन्त कालिदासो न केनचित् । शहारे लाल. तोद्वारे कालिदासत्रयी किमु ॥ इत्यस्मात्पथाज्जायते यद्राजशेखरात्पूर्व त्रयः कालिदासाः समुत्पना. ते च कस्सिन्कस्सिन्देशे काले च प्रादुरभूवमिति न शायवे. अकबरीय- कालिदासस्तु चतुर्थोऽर्वाचीनः राजशेखरस्तु विस्तसंवत्सरस्य दशमे शतके समुत्पन इति पण्डितवर-रामकृष्ण गोपाल-भाण्डारकरनिर्णयः. ४. मातीदेवीस्तुतिरूपोऽयं अन्धः. अस्मिन्दण्डके सर्वत्र पादप्रारम्भे नगणद्वयम्. तदनन्तरं चानियतसंख्या रगणाः तस्मा- न्मत्तमातङ्गलीलाकर इति नामास्य दण्डकस्य. तलक्षणं दु-'यत्र रेफाकविःो. छया पाठसौकर्यसापेक्षया रोपयत्येष धीरैः स्मृतो दणको मत्तमाताजीकाकर.' मसिन्दण्डके पादपञ्चकं दृश्यते तल्लेखकादिदोषसहस्तम. अन्यथा तु पादचनुष्य- मेवापेक्षितम्. चण्डवृष्टिप्रपातादिषु तु पादप्रारम्भ नगणइत्यम्, तदनन्तरं समाधाविका नियता रगणा भवन्ति. अत्र त्वनियता इति भेदः.

श्यामलादण्डकम्। जय मातङ्गतनये जय नीलोत्पलद्युते । जय संगीतरसिके जय लीलाशुकप्रिये ।। जय जननि सुधासमुद्रान्तरुद्यन्मणिद्वीपसंख्ढविल्वाटवीमध्यकल्पद्रुमा- कल्पकादम्बकान्तारवासप्रिये कृत्तिवासःप्रिये सर्वलोकप्रिये । सादरारब्ध- संगीतसंभावनासंभ्रमालोलनीपस्रगाबद्धचूलीसनाथत्रिके सानुमत्पुत्रिके । शेखरीभूतसीतांशुरेखामयूखावलीबद्धसुस्निग्धनीलालकश्रेणिशृङ्गारिते लोक- संभाविते । कामलीलाधनुःसंनिभभ्रूलतापुष्पसंदोहसंदेहकृल्लोचने वाक्सुधा- सेचने । चारुगोरोचनापककेलीललामाभिरामे सुरामे रमे । प्रोल्लसद्वालिका- मौक्तिकश्रेणिकाचन्द्रिकामण्डलोद्भासिलावण्यगण्डस्थलन्यस्तकस्तूरिकापत्ररे- खासमुद्भूतसौरभ्यसंभ्रान्तभृङ्गाङ्गनागीतसान्द्रीभवन्मन्द्रतन्त्रीखरे सुखरे भावरे । वल्लकीवादनप्रक्रियालोलतालीदलाबद्धताटङ्कभूषाविशेषान्विते सिद्धसंगानिते । दिव्यहालामदोद्वेलहेलालसच्चक्षुरान्दोलनश्रीसमाक्षिप्तक- ऎकनीलोत्पले पूरिताशेषलोकाभिवाञ्छाफले श्रीफले । खेदबिन्दूल्लसद्भा- ललावण्यनिष्यन्दसन्दोहसंदेहकृन्नासिकामौक्तिके सर्वविश्वात्मिके कालिके । मुग्धमन्दस्मितोदारवक्रस्फुरत्पूगताम्बूलकर्पूरखण्डोत्करे ज्ञानमुद्राकरे सर्वसं- पत्करे पद्मभाखत्करे । कुन्दपुष्पद्युतिसिग्यदन्तावलीनिर्मलालोकसंमेलनस्से- रशोणाघरे चारुवीणाघरे पक्कबिम्बाधरे ॥ १ ॥ सुललितनवयौवनारम्भचन्द्रोदयोद्वेललावण्यदुग्धार्णवाविर्भवत्कम्बुबिब्बो- कभृत्कंधरे सत्कलामन्दिरे मन्थरे । दिव्यरलप्रभाबन्धुरच्छन्नहारादिभू- षासमुद्योतमानानवद्यांशुशोमे शुभे । रनकेयूररश्मिच्छटापल्लवप्रोल्लसद्दोर्ल- ताराजिते योगिभिः पूजिते । विश्वेदिङमण्डलव्यापिमाणिक्यतेजःस्फुर- करणालंकृते विश्रमालंकृते साधकैः सस्कृते । वासरारम्भवेलासमुज्जृम्भमा- नारविन्दप्रतिद्वन्द्विपाणिद्वये संततोद्यहये अद्वये । द्विव्यरत्नोमिकादीधिति- स्तोमसंध्यायमानाङ्गुलीपल्लवोधन्नखेन्दुप्रभामण्डले संनताखण्डले चिप्रभा- मण्डले प्रोल्लसत्कुण्डले । तारकाराजिनीकाशहारावलिसेरचारुस्तनाभोग- भारानमन्मध्यवल्लीबलिच्छेदवीचीसमुल्लाससंदर्शिताकारसौन्दर्यरत्नाकरे - १. छानामको इस्तभूषणविशेषः. २. संपूर्णम्.

काव्यमाला। लकीभृत्करे किंकरश्रीकरे । हेमकुम्भोपमोत्तुङ्गवक्षोजभारावनने त्रिलोकाव- नने । लसद्वृत्तगम्भीरनाभीसरस्तीरशैवालशकाकरश्यामरोमावलीभूपणे म- असंभाषणे । चारुशिञ्जत्कटीसूत्रनिर्भसितानङ्गलीलाधनुःशिञ्जिनीडम्परे दिव्यरत्नाम्बरे । पद्मरागोल्लसन्मेखलाभाखरश्रोणिशोभाजितखणभूतले च- न्द्रिकाशीतले ॥२॥ विकसितनवकिंशुकाताम्रदिव्यांशुकच्छन्नचारूरुशोभापराभूतसिन्दूरशो- णायमानेन्द्रमातङ्गहस्तार्गले वैभवानर्गले श्यामले । कोमलनिग्धनीलोपलोत्पा- दितानङ्गतूणीरशङ्काकरोदारजङ्घालते चारुलीलागते । नम्रदिक्पालसीमन्ति- नीकुन्तलस्निग्धनीलप्रमापुञ्जसंजातदूर्वानुराशकसारङ्गसंयोगरिङ्गरोन्तनले प्रोज्वले निर्मले । प्रहदेवेशलक्ष्मीशभूतेशतोयेशवाणीशकीनाशदैत्येशयो- शवाय्वग्निकोटीरमाणिक्यसंघृष्टबालातपोद्दामलाक्षारसारुण्यतारमालक्ष्मीग्री- ताङ्घ्रिपद्मे सुपझे उमे ॥ ३॥ सुरुचिरनवरत्नपीठस्थिते सुस्थिते । रत्नपद्मासने रलसिंहासने शापा- द्वयोपाश्रिते । तत्र विघ्नेशदुर्गाबटुक्षेत्रपालैयुते । मत्तमातङ्गकन्यासमूहानियते मजुलामेनकाद्यङ्गनामानिते भैरवैरष्टभिर्वेष्टिते । देवि वामादिभिः शक्तिगिः सेविते । धात्रिलक्ष्म्यादिशक्त्यष्टकैः संयुते । मातृकामण्डलैर्मण्डिते । यक्ष- गन्धर्वसिद्धाङ्गनामण्डलैरर्चिते । पञ्चबाणात्मिके । पञ्चवाणेन रत्या न संभा- विते । प्रीतिभाजा वसन्तेन चानन्दिते । भक्तिभाजां परं श्रेयसे कल्पसे । योगिनां मानसे द्योतसे । छन्दसामोजसा भ्राजसे । गीतविद्याविनोदाति. तृष्णेन कृष्णेन संपूज्यसे । भक्तिमन्चेतसा वेधसा स्तूयसे । विश्वहृद्येन वा- येन विद्याधरैर्गीयसे ।। ४॥ श्रवणहरणदक्षिणकाणया वीणया किंनरैर्गीयसे । यक्षगन्धर्वसिद्धानाम- ण्डलैरय॑से । सर्वसौभाग्यवाञ्छावतीभिर्वधूभिः सुराणां समाराध्यसे । सर्ववि- द्याविशेषात्मकं चाटुगाथासमुच्चारणं कण्ठमूलोल्लसद्वर्णराजित्रयं कोमलश्या- मलोदारपक्षद्वयं तुण्डशोभातिदूरीभवत्किशुकं तं शुकं लालयन्ती परिक्रीडसे। पाणिपद्मद्वयेनाक्षमालामपि स्फाटिकी ज्ञानसारात्मकं पुस्तकं चाकुशं. पाश- माविनती येन संचिन्त्यसे तस्य बान्तापामा भारती निमोन।

मुकुन्दमाला। ११ येन वा यावकाभाकृतिर्भाव्यसे तस्य वश्या भवन्ति स्त्रियः पूरुषाः । येन वा शातकुम्भद्युतिर्भाव्यसे सोऽपि लक्ष्मीसहस्रैः परिक्रीडते । किं न सियेद्वपुः श्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः । तस्य लीलासरो वारि- घिस्तस्य केलीवनं चन्दनं तस्य भद्रासनं भूतलं तस्य गीर्देवता किंकरी तस्य चाज्ञाकरी श्रीः स्वयम् । सर्वतीर्थात्मिके सर्वमन्त्रात्मिके सर्वतत्रा- त्मिके सर्वयन्त्रात्मके सर्वशक्त्यात्मिके सर्वपीठात्मिके सर्वतत्त्वात्मिके सर्व- विद्यात्मिके सर्वयोगात्मिके सर्वनादात्मिके सर्वशब्दात्मिके सर्वविश्वात्मिके सर्वदीक्षात्मिके सर्वसर्वात्मिके सर्वगे पाहि मां पाहि मां पाहि मां देवि तुभ्यं नमो देवि तुभ्यं नमो देवि तुभ्यं नमः ॥ ५ ॥ माता मरकतश्यामा मातङ्गी मदशालिनी । कटाक्षयतु कल्याणी कदम्बवनवासिनी ॥ इति महाकविश्रीकालिदासकृतं शामलादण्डकं समाप्तम् । श्रीकुलशेखरनृपतिविरचिता मुकुन्दमाला। वन्दे मुकुन्दमरविन्ददलायताक्षं कुन्देन्दुशङ्गदशनं शिशुगोपवेषम् । इन्द्रादिदेवगणवन्दितपादपीठ वृन्दावनालयमहं वसुदेवसूनुम् ॥ १॥ जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ २ ॥ १. यद्यपीयं मुकुन्दमाला कलिकातामुद्रिते काव्यसंग्रहे मुम्वयीमुद्रितेपु स्तोत्रकला- पादिषु च मुद्रितास्ति, परंतूभयत्राप्यसंपूर्णाऽशुद्धा च, तस्मादसाभिः पुनरपि गृहीता. असत्पुस्तकं तु संपूर्ण शुद्धं कश्मीरदेशलिखितमस्ति. २. मुद्रितपुस्तकेषु प्रथमश्लोकादन- न्तरमयं श्लोको दृश्यते- 'श्रीवल्लमेति वरदेति दयापरेति भकिप्रियेति भवलण्ठनको विदेति । नायेति नागशयनेति जगनिवासेत्यालापिनं प्रतिदिनं कुरु मां मुकुन्द ॥"

१२ काव्यमाला।. मुकुन्दः मूर्धा प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् । अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥ ३ ॥ श्रीमुकुन्दपदाम्भोजमधुनः परमाद्भुतम् । यत्पायिनो न मुह्यन्ति मुह्यन्ति यदपायिनः ॥ ४ ॥ नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् । रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावयेऽहं भवन्तम् ॥ ५ ॥ नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद्भाव्यं तद्भवतु भगवन्पूर्वकर्मानुरूपम् । एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ ६ ॥ दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ ७ ॥ सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमेह चित्त रन्तुम् । सुखकरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ ८॥ मा भैर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातना नामी नः प्रभवन्ति पापरिपवः खामी नतु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायख नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ ९ ॥ १. मुद्रितपुस्तकेषु नवमश्लोकादने प्रक्षिप्तं श्लोकपटकं वर्तते--- 'भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारातानाम् । विषमविषयतोये मजतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ रजसि निपतितानां मोहजालावृतानां जननमरणदोलादुर्गसंसर्गगानाम् । शरणमशरणानामेक एवातुराणां कुशळपथनियुक्तश्चक्रपाणिर्नराणाम् ॥ अपराधसहस्रसंकुलं पतितं मीमभवाणवोदरे । अगति शरणागतं हरे कृपया केवळमात्मसारकर । salNeerut NOMuskan MN I. ... - मुकुन्दमाला। १३ भवजलधिमगा, दुस्तरं निस्तरेयं कथमहमिति चेतो मा म गाः कातरत्वम् । सरसिजशि देवे तावकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ १० ॥ तृष्णातोये मदनपवनोद्भूतमोहोर्मिमाले दारावर्ते सहजतनयग्राहसंघाकुले च । संसाराख्ये महति जलधौ मज्जतां नस्त्रिधाम- पादाम्भोजे वरद भवतो भक्तिनावे प्रसीद ॥ ११ ॥ पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघु- स्तेजो निःश्वसनं मरुत्तनुतरं रन्ध्र सुसूक्ष्म नमः। क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा दृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ १२ ॥ आम्नायाभ्यसनान्यरण्यरुदितं कृच्छ्वतान्यन्वहं मेदश्छेदपदानि पूर्तविधयः सर्वे हुतं भस्मनि । तीर्थानामवगाहनानि च गजवानं विना यत्पद- द्वन्द्वाम्भोरुहसंस्तुति विजयते देवः स नारायणः ।। १३ ।। आनन्द गोविन्द मुकुन्द राम नारायणानन्त निरामयेति । वक्तुं समर्थोऽपि न वक्ति कश्चिदहो जनानां व्यसनानि मोक्षे ॥ १४ ॥ क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ १५ ॥ मा मे स्त्रीत्वं मा च मे स्यात्कुभावो मा मूर्खत्वं मा कुदेशेषु जन्म । मिथ्यादृष्टिर्मा च मे स्यात्कदाचिज्जाती जातौ विष्णुभक्तो भवेयम् ॥ कायेन वाचा मनसेन्द्रियैश्च बुद्ध्यात्मना वानुसूतिप्रभावात् । करोमि यद्यत्सकलं परस्मै नारायणायैव समर्पयामि ॥ यत्कृतं यत्करिष्यामि तत्सर्व न मया कृतम् । त्वया कृतं तु फलभुक्त्वमेव मधुसूदन ॥ एषु श्लोकेषु 'भवजलधि-' इत्यादि प्रथमः श्लोकः सुभाषितावलीमध्ये वल्लभदेवेन क्षेमेन्द्रनाम्ना समुद्धतः. अन्येऽपि केचिच्छोकाः पुराणादिषु लभ्यन्ते. तसादत्र प्रक्षिप्ता एवेति ध्येयम्, १. भवचरणारविन्दभक्तिरूपां नौका देहि.. amriwar Anima- १४; काव्यमाला । वात्सल्यानुभयप्रदानसमयादाार्तिनिर्वापणा- दौदार्यादघशोषणादगणितश्रेयःपदप्रापणात् । सेव्यः श्रीपतिरेव सर्वजगतामेकान्ततः साक्षिणः प्रह्लादश्च विभीषणश्च करिराट् पाश्चात्यहल्या ध्रुवः ॥ १६ ॥ नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति । यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥ १७ ।। भो लोकाः शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः । अन्तर्कोतिरमेयमेकममृतं कृष्णाख्यमापीयतां यत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम् ॥ १८ ॥ बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन खरगद्गदेन नयनेनोद्गीर्णबाप्पाम्बुना । नित्यं त्वच्चरणारविन्दयुगलध्यानामृताखादिना- मस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम् ॥ १९ ॥ तत्त्वं ब्रुवाणानि परं परसादहो क्षरन्तीव सुधां पदानि । आवर्तय प्राञ्जलिरसि जिह्वे नामानि नारायणगोचराणि ॥ २० ॥ इदं शरीरं परिणामपेशलं पतत्यवश्यं श्थसंधि जर्जरम् । किमौषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ २१ ॥ श्रीमन्नाम प्रोच्य नारायणाख्यं येन प्राता वान्छितं पापिनोऽपि । हा नः पूर्व वाक्प्रवृत्ता न तस्मिंस्तेन प्राप्तं गर्भवासादिदुःखम् ॥ २२ ।। मा द्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जे मा श्रौष श्रव्यबद्धं तव चरितमपास्यान्यदाख्यानजातम् । १. 'वात्सल्यात्' इत्यादिश्लोकमारभ्य समाप्तिपर्यन्तमेकोनविंशतिश्लोका मुद्रितपुस्तकंधु न सन्ति. वात्सल्यादिषु षदसु प्रहादादयः षद क्रमेण साक्षिणः.

मुकुन्दमाला । १५ मा स्पाक्षं माधव त्वामपि भुवनपते चेतसापहृवानं मा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरेऽपि ॥ २३ ॥ मदन परिहर स्थिति मदीये मनसि नुकुन्दपदारविन्दधानि । हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं नुरारेः ॥ २४ ॥ दारा चाराकरवरसुता तेऽङ्गजोऽयं विरिञ्चः स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः। मुक्तिर्मध्ये जगदविकलं तावके देवकी ते माता मित्रं बलरिपुसुतस्तत्त्वतोऽन्यन्न जाने ॥ २५ ॥ जिहे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथां श्रोत्रद्वय त्वं शृणु । कृष्णं लोकय लोचनद्वय हरेर्गच्छाड्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन्नमाधोक्षजम् ॥ २६ ॥ यत्कृष्णप्रणिपातधूलिधवलं तद्वै शिरः स्याच्छुभं ते नेत्रे तमसोज्झिते सुरुचिरे याभ्यां हरिदृश्यते । सा बुद्धिर्नियमैर्यमैश्च विमला या माधवध्यायिनी सा जिह्वामृतवर्षिणी प्रतिपदं या स्तौति नारायणम् ॥ २७ ॥ भक्तद्वेषिभुजंगगारुडमणिस्त्रैलोक्यरक्षामणि- र्गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः । श्रीकान्तामणिरुक्मिणीधनकुचद्वन्द्वैकभूपामणिः श्रेयो ध्येयशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ २८ ।। शत्रुच्छेदैकमचं सकलमुपनिषद्वाक्यसंपूज्यमचं संसारोत्चारमन्त्रं समुदितमनसां सङ्गनिर्याणमन्त्रम् । सर्वैश्वर्यैकमन्नं व्यसनभुजगसंदष्टसंत्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्र जप जप सततं जन्मसाफल्यमन्त्रम् ॥ २९ ॥ व्यामोहोद्दलनौषधं मुनिमनोवृत्तिप्रवृत्यौपधं दैत्यानर्थकरौषधं त्रिजगतां संजीवनकौषधम् । १. समुद्रसुता लक्ष्मीः. २. अर्जुनः, Homeowne १६ काव्यमाला। भक्तार्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौपधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णनामौषधम् ॥ ३० ॥ आश्चर्यमेतद्धि मनुष्यलोके सुधां परित्यज्य विपं पिबन्ति । नामानि नारायणगोचराणि त्यक्त्वान्यवाचः कुहकाः पठन्ति ॥३१॥ लाटीनेत्रपुटीपयोधरघटीरेवातटीदुष्क्रुटी- पाटीरद्रुमवर्णनेन कविभिऍटैर्दिनं नीयते । गोविन्देति जनार्दनेति जगतां नाथेति कृष्णेति च व्याहारैः समयस्तदेकमनसां पुंसामतिकामति ॥ ३२ ॥ अयाच्यमक्रेयमयातयाममपाच्यमक्षय्यमदुर्भरं मे । अस्त्येव पाथेयमितः प्रयाणे श्रीकृष्णनागामृतभागधेयम् ॥ ३३ ॥ यस्य प्रियौ श्रुतधरौ कविलोकगीतौ मित्रे द्विजन्मपरिवारशिवावभूताम् । तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता स्तुतिरियं कुलशेखरेण ॥ ३४ ॥ इति श्रीकुलशेखरनृपतिविरचिता मुकुन्दमाला समाप्ता । Marwamirateam- पैण्डितराजश्रीजगन्नाथविरचिता सुंधालहरी। उल्लासः फुल्लपङ्केरुहपटलपतन्मत्तपुष्पंधयानां निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् । १. मायाविनः. २. लाटदेशस्त्रीणां नेत्रपुटकुचकलशादिवर्णनेन रेवातटस्थितनि- कुलचन्दनादिमवर्णनेन च मूढाना कवीनां दिनान्यतिक्रामन्ति. लाटीत्युपलक्षणम् . ३. तैलजवंशोद्भवः पेरमभट्टसूनुरनेसप्रन्थकर्ता पण्डितराजजगमायो दिल्लीबादशा- हस्स शाहजहानसूनोर्दाराशाहस्य सभायामासीत् , यतोऽनेन अगदामरणकाव्ये दारा- शाहस्यैव यशोवर्णनं कृतमस्ति. भामिनीविलाससमाप्ती च दिल्लीबालभपाणिपाल- वतले नीतं नवीनं वयः' इत्युक्तम् . स च दाराशाहः १६५९ मितविस्वसंवत्सरपर्यन्त- मासीत् . ४. सूर्यस्त्रवरूपोऽयं प्रन्थः. ५. रसगाघरे प्रथमानन उदाहतोऽयं लोक, सुधालहरी । १७ उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥ १॥ पद्मद्रोहोद्धराणां धवलितहरितामैन्दवीनां द्युतीनां दर्प द्राग्द्रावयन्तो विदलदरुणिमोद्रेकदेदीप्यमानाः । दूरादेवान्धकारान्धितधरणितलद्योतने बद्धदीक्षा- स्ते दैन्यध्वंसदक्षा मुदमुदयदिनोद्वेलदुला दिशन्तु ॥ २ ॥ त्रातामीवार्तलक्षाः प्रतिदिनविहितानेकगीर्वाणरक्षा भक्तानां कल्पवृक्षाः स्फुरदनलगतवर्णभासां सहक्षाः । लोकक्षेमात्तदीक्षा नलिनपरिषदां दत्तसौर्भाग्यलाक्षा दुर्वृत्तध्वंसदक्षा मम रविकिरणाः सन्त्वधानां विपक्षाः ॥ ३ ॥ प्रालेयानां करालाः कवलितजगतीमण्डलध्वान्तजालाः स्त्रातस्वलॊकपाला विदलदरुणिमक्षिप्तबालप्रवालाः । विश्लिष्यत्कोकबालाज्वरहरणभवत्कीर्तिजालैर्जटाला व्योमव्याप्तौ विशालास्त्वयि दधतु शिवं भाखतो भानुमालाः ॥ ४ ॥ निर्भिध मारहाणामतिधनमुदरं येषु गोत्रां गतेषु द्राधिष्ठवर्णदण्डअमभृतमनसः संनिधित्सन्ति पादान् । यैः संभिन्ने दलामप्रचलहिमकणे दाडिमीबीजबुद्ध्या चञ्चूचाञ्चल्यमञ्चन्ति च शुकशिशवस्तेऽशवः पान्तु भानोः ॥ ५॥ अहि क्रीडोचितानां सरसिरहलसन्मन्दिराणां प्रभाते प्रोद्घाय्य द्राकपाटान्यथ कुमुदगृहान्मुद्रयन्तो विमुक्तान् । 'उल्लास इति । रविवर्णनम् । उदयाचलप्रान्तभागादयं कोऽपि विलक्षणो धाम्नां तेजसां समूहः प्रादुर्भवति । तत्र रूपकं चतुर्धा। विकसितकमलसमूहमध्यावधिकनिःसरणयुतर- सपानजोन्मादवद्धमराणामुडासः। तादृशकोकीनां निस्तरो दुःखोद्धर्ती । नाशिततेजसा तामसानां तमःसमूहानां उत्पातो नाशकः । नेत्राणां पक्षपातः सहकारी।' इति तत्र -- नागेशभव्याख्यानम्. १. आधिक्य. २. किरणाः. ३. बातममीवेन पापेन रोगेण वातस्तेषां लक्षं यैः. ४. सौभाग्यवत्यो हस्तपादादिषु लाक्षारसेन रअनं कुर्वन्ति. ५. शुकशावकानां रविकर- गेषु सुवर्णदपत्रान्तिः किरणकान्त्यरुणीकृतेषु जलकणेषु च दाडिमीबीजभ्रान्तिर्भवति. ६. विवो कमलेषु, रात्री कुमुदेषु च लक्ष्मीनिवसतीति प्रसिद्धिः १८ काव्यमाला। सिञ्चन्तः किं च भूमीतलमखिलमपि क्षुण्णकाश्मीरनीरैः पायासुः श्रीसपर्याविरचनपटवः पद्मबन्धोः करा नः ॥ ६॥ आलेपा हिङ्गुलानामिव धरणिभुजामच्छसौधाग्रमौलि- प्वग्रेषु मारहाणामभिनवविदलत्पल्लवोल्लासलीलाः । प्रौढपालेयपुञ्जोपरि चितखदिराङ्गारभारा इवारा- त्पारावारात्प्रयान्तो दिनकरकिरणा मालं नः कृपीरन् ॥ ७ ॥ कीलालैः कुङ्कुमानां निखिलमपि जगज्जालमेतन्निपिक्तं मुक्ताश्चोन्मत्तभृङ्गाविदलितकमलकोडकारागृहेभ्यः । उत्सृष्टं गोसहस्रं बहलकलकलः श्रूयते च द्विजानां भाग्यैर्वृन्दारकाणां हरियहरिता सूयते पुत्ररलम् ॥ ८ ॥ या सूते सर्वभूतेप्वनुदिनमुदये चेतनाया विलासा- न्यान्ती सायं निकायं जलनिधिजठरं संजरीहर्ति सद्यः । अत्यर्थं वर्धयन्ती मणिगणसुषमासंपदं रत्नसानोः सा नो भानोः प्रभा नो नयनसरणितो दृरतो जातु यातु ।। ९ ।। नीहारैनीरजानां निबिडतमतमोराशिभिले.चनानां श्रौतस्मातक्रियाणामपि खलु निशया नाशमालक्ष्य दृरात् । सद्यः सिन्धोः सकाशादधिकतरजवेनागता वासवाशा- माशापाशानशेषानपहरतुतरां तीक्ष्णभानोः प्रभा नः ॥ १० ॥ शीते शोकं शशाङ्के कृशतमरुचितामाशुनाशं निशायां धिक्कारं ध्वान्तवर्गे कुमुदपरिषदि प्रोगमं दीनतायाः। पाण्डित्यं पुण्डरीकेष्वनुदिनमधिकां कान्तिमाशासु तन्व- नन्वञ्चत्यन्वहं द्यामुषसि करुणया विश्ववन्द्यो विवखान् ।। ११ ।। खापं खापाकुलानां गदमथ गदिनामन्धकारं त्रिलोक्याः पापं पापाविलानां सपदि परिहरन्नागतो वासवाशाम् । १. रक्तवर्णो धातुविशेषः. २. कुर्वन्तु. ३. जलैः ४. धेनुसहस्र किरणसहसं . ५. ब्राह्मणानां पक्षिणां व. ६. पूर्वदिशा. ७. हरवि. ८. सुमेरो. ९. विकासम्. १०. प्रतिदिनमाकाशमारोहति. ----- सw-... . 1.

सुधालहरी। १९ नित्यप्रस्थानलीलाकुपितकमलिनीनर्मनिर्माणकर्मा विश्वार्तित्राणधर्मा गगनमणिरसौ पातु शर्मानिशं वः ॥ १२ ॥ अन्तीरे नदीनामनुदिनमुदये बिम्बिता ये समन्ता- गीर्वाणाद्वेरुदञ्चन्मणिगणजटिलां मेदिनी दर्शयन्ति । विप्रप्रोक्षिप्तसंध्याञ्जलिजलकणिकाजालमाकाशमध्ये माणिक्यत्रातयन्तो मम मिहिरकरा गान्यमुन्मूलयन्तु ॥ १३ ॥ प्रत्यग्रोढाः प्रगल्गा गुवतिमरिगदः प्रोणियामनाथा यसिन्नरताद्रिगौलेरुफरिमणिमयच्छबली दधाने । सत्रासं सप्रसादं परिणतकरुणं लोचनान्युरिक्षपन्ति स्थेमानं स प्रियाणां घटयतु भगवान्पमिनीवल्लभो वः ॥ १४ ॥ अन्तर्यावापृथिव्योरविरजनि भृतानन्धकारानुदारा- विद्राव्य द्राक्तनीयरिय जयदरुणं शोणितद्विधते । सायं प्रातश्च संध्याञ्जलिगवनिसुराः संपन्छन्ति यस्मै तस्मै कमेचिदेतनमम परमहसे देवतायै नमोऽस्तु ॥ १५ ॥ त्राणं त्रविष्टपानां तरणमथ पयस्तोमताम्यत्तनूनां नद्यन्तानामतय त्रिगुणमयतया यत्रयाणां तुरीयम् । तत्चाहक्तुन्दिलायास्तरुणतरतमःसंततेरन्तकृत्त्या तेजस्त्रैलोक्यताम्रीकरणचतुरिम त्रायत तीक्ष्णभानोः ॥ १६॥ गीर्वाणग्रामणीभिर्गगनतलगतैगीमिरुद्गीथगामि- गन्धर्वेश्चापि गीता गुणगणगारभोद्गारिंगाथासहस्त्रैः । गाहं गाहं गृहालीरगतिकगदिनां गन्धयन्तो गदार्ति ग्लानिग्राम ग्रसन्तां ग्रहरुचिगुरवो गोपतेगोविलासाः ॥ १७ ॥ जीवातुर्जाड्यजालाधिकजनितरुजां तप्तजाम्बूनदाभ जैवालं जाचिकानां जलधिजठरतो जृम्भमाणं जगत्याम् । १. रक्तवर्णत्वान्माणिक्यरामूहसदृशं दर्शयन्तः. २. नवोढाः. ३. विरहिण्यः. ४. स्थै र्यम् . ५. 'तमस्तोम' इत्यपि पाठः. ६. पुष्टायाः. अतिमहत्या इति यावत् . ७. सामभेदः, ८. नाशयन्तः. ९. जीवनौषधम् . १०. जाचिकानां वेगवतां मध्ये जसालं वेगवत् . . MMA THI " .UNNI...

काव्यमाला। जीवाधानं जनानां जनकमथ रुचो जीवजैवातृकादे- ज्योतिर्जाज्वल्यमानं जलजहितकृतो जायतां वो जयाय ॥ १८ ॥ प्रातर्निर्गत्य गोभिः सह रुचिविषये संचरन्त्योऽहि ताभिः साकं सायं निकायं प्रति पुनरपि याः संप्रयातुं त्वरन्ते । यासां दिव्यप्रभावस्त्रिजगदघवनश्रेणिदाहैकदावः क्षे तन्वन्तु ता वः शिवमयवपुषो वासरेशस्य गावः ॥ १९ ॥ वृन्दैर्वृन्दारकाणां दनुतनुजनुषां रक्षसां च क्षपान्ते गन्धर्वाणां धुरीणैः प्रणतमहिवरैः किंनरैर्यन्नरैश्च । विद्यां हृद्यां निजेभ्यो वितरदविरतं दीप्तिभिर्दीपयट्या- मद्यादाद्यामविद्यामिदमुदयगिरेरुद्यदर्कस्य बिम्बम् ॥ २० ॥ आ पाथोजासनायुः क्षणलवघटिकाद्यात्मकं कालचक्र प्राहुः पूर्वे पुराणागमविषयविदो यस्य लीलाविलासम् । भावानां षड्डिकारानथ खलु गतिभिर्यश्च नित्यं प्रसूते स प्रातः पौरुहूते परिलसति हरिन्मण्डले चण्डभानुः ॥ २१ ॥ अङ्गानि ब्राह्मणानामुषसि हिमभरासङ्गतो भङ्गुराणि व्यालक्ष्य द्राक्प्रपाता रिपुजनितरुषेवारुणा वासवाशाम् । धर्मध्वंसोद्धराणामखिलमपि कुलं जैक्षतः शोभितक्ष्मा यक्ष्माणं मे हरन्तु त्वरितमघभिदो भानवश्चण्डभानोः ॥ २२ ॥ 'विश्रान्तिं ब्राह्मणानां सुखमतिशयितं कामिनां स्थायिलीला- मम्भोजानां प्रबोधं कुमुदपरिषदां यश्चिकीर्षन्दयाः । निर्यात्यन्तःसमुद्रं सकलमपि नृणां भारमाधाय वहा- वहायाहामधीशः स भवतु भवतां भूयसे मङ्गलाय ॥ २३ ॥ द्रागाहत्य प्रभाते रजनिहिमवतः कौमुदीः कौतुकेन प्रोद्यत्प्रौढानुकम्पाः पुनरपि खलु ये सायमुज्जीवयन्ति । १. बृहस्पतिचन्द्रादेः. २. किरणाः. ३. यद्विम्बं नरैरपि प्रणतम् . ४. सनातनमज्ञानं भक्षयतु. ५. ब्रह्मण आयुःपर्यन्तम् . परार्धद्वयपर्यन्तमिति यावत् . ६. जायते, अति, वर्धते, विपरिणमते, अमचीयते, नश्यतीति भावविकारषटकम् . ७. नाशयन्तः, ८. शी- घ्रम्...चन्द्रस्य.

सुधालहरी। २१ आरुण्ये पल्लवानामथ गुरुचरणाः शक्रगोपावलीनां ते युष्मद्भावलीनां दिनकरकिरणाः क्लान्तिमुन्मूलयन्तु ॥ २४ ॥ द्रागद्वैतं वितन्वंस्त्रिभुवनमभितः कौङ्कुमीनां द्युतीनां न्यक्कुर्वन्मान्द्यमुद्रामथ रजनिरुजां कोकसीमन्तिनीनाम् । तन्द्रान्धानान्ध्यसिन्धोरिह वितततरैरुद्दधानं करात्रैः खान्तध्वान्तं धुनीतामुदयगिरिशिरश्शुम्बि मार्तण्डबिम्बम् ॥ २५ ॥ शुद्धं ब्रह्मालवालं प्रकृतिशबलितं यस्य मूलं करास्त- ड्राषिष्टवर्णशाखा विकसदरुणिमा पल्लवानां विलासः । नीलं व्योमालिमाला सुरसफलभरो धर्मकामार्थमोक्षाः स श्रीमान्वाञ्छितार्थ वितरतु सततं सूर्यकल्पद्रुमो वः ॥ २६ ॥ नीहारं निम्नगाभ्यो निखिलनयनतो नीरजेभ्यश्च निद्रां नीडेभ्यो नीडेजानां निकरमुषसि ये नित्यमुद्रासयन्ति । सायं तेष्वेव तेषां पुनरपि घृणया कल्पयन्ते च वासं ते वः सन्तु प्रयासं घृणिधनवृणयो हन्तुमाबद्धकक्षाः ॥ २७ ॥ संहृत्य द्राग्बहिःस्थं तिमिरकुलमथाभ्यन्तरं हतुकामा रन्ध्रालीभिर्गृहाणामुदरमनुदिनं ये विशङ्ख विशन्ति । भानोस्तेऽमी हृषीकाण्यखिलतनुभृतां हर्षयन्तो हितेहा हृद्रोगं संहरन्तां हिममहिमहृतो हेमहृयाः करा नः ॥ २८ ॥ ब्रह्माण्डं मण्डयन्तो वियति वलयिनो मण्डलैण्डजानां पाखण्डान्दण्डयन्तो दनुतनुजनुषां शोभिताखण्डलाशाः। ये खण्डान्पौण्डरीकान्विदलयितुमथोद्दण्डपाण्डित्यभाज- ते चण्डांशोरचण्डास्त्वरितमिह कराः पाण्डुतां खण्डयन्तु ॥२९॥ ॐवं पापावलिभ्यः स्थित इति जगदे यस्य वेदैरुदाख्या निन्युः केऽप्यासनार्थ खलु सहचरतां नेत्रयोः पुण्डरीकम् । १. उपदेष्टारः. अरुणत्वसंपादका इति यावत्. २. शुद्धं ब्रह्म यस्यालबालमू. ३. श- बलं ब्रह्म यस्य मूलम्. ४. नीलवर्ण आकाश एव भ्रमरपतिः. ५. पक्षिणाम्. ६. सूर्यस्य निबिडाः किरणाः. ७. इन्द्रियाणि. ८. पक्षिणाम् . ९. रोगम् . १०. अन्तिमश्लोक- स्त्वस्फुट एव. women २२ काव्यमाला। ओष्ठावृक्साम यस्य द्रुतकनकनिभश्मश्रुकेशाखिलाङ्गः सोऽयं सर्वान्तरात्मा तव दिशतुतरां वासरेशः शिवानि ॥ ३० ॥ इति पण्डितराजश्रीजगन्नाथविरचिता सुधालहरी समाप्ता । महाकविश्रीशंभुविरचितो राजेन्द्रकर्णपूरः। बद्धस्पर्धः क्षितिघरसुताभूलतावक्रतायं भूयाद्भूत्यै तव हरशिरःशेखरो रोहिणीशः । यं निष्पीड्य स्तनमुखनखोल्लेखरेखासु देव्याः संभोगान्ते वितरति सुधास्यन्दमर्धेन्दुमौलिः ॥ १॥ अव्यात्स वरताण्डवविभ्रमेण मौलौ विलीना हरिणा लेखा । सा यस्य वामे कुचमण्डलाये कर्पूरपत्राङ्कुरटैकमेति ॥ २ ॥ प्रेमाणं विनिमील्य मल्लिकलिकाकर्णावतंसे रसं मुक्त्वा मौक्तिककुण्डले कुरुत भोः शंभोगिरः कर्णयोः । युष्माकं रतिकान्तकार्मुकलता–कारकान्ते रुते सोत्कण्ठं कलकण्ठकण्ठकुहरोद्भूतेऽपि मा भून्मनः ॥ ३ ॥ व्याप्तव्योमलते मृगाधवले निर्धातदिमण्डले देव त्वद्यशसि प्रशान्ततमसि प्रौढे जगत्प्रेयसि । कैलासन्ति महीभृतः फणभृतः शेषन्ति पाथोधयः क्षीरोदन्ति सुरद्विपन्ति करिणो हंसन्ति पुंस्कोकिलाः ॥ ४ ॥ १. अयं शंभुमहाकविः कश्मीरदेशे श्रीहर्षदेवराज्यसमये समुत्पन्नः, अस्मिमेव राजे- न्द्रकर्णपूर एकोनविंशे श्लोके श्रीहर्षदेवस्य, द्विचत्वारिंशे श्लोके च कश्मीरदेशस्य नाम गृहीतमस्ति. श्रीहर्षदेवस्य राज्यसमयस्तु १०८८ मितात्निस्तसंवत्सरादारभ्य ११०० खिस्तसंवत्सरपर्यन्तमासीत्. स एव समयोऽस्य प्रन्थस्य. श्रीकण्ठचरितस्य पञ्चविंश सर्गेऽपि शंभुमहाकवेर्नाम गृहीतमस्ति. अस्यैकमेव पुस्तकमस्मामिः कश्मीरवेशे कथं- चिदधिगतम्. सुभाषितावलावत्रत्या बहवः श्लोकाः समुताः सन्ति. २. कश्मीराधिपतेः श्रीहर्षदेवस्य स्तुविरूपोऽयं प्रन्थः. ३. शोभातिशयम्. ४. कोकिलः, ५, ऐरावतः शुक्लवर्णोऽस्ति. AMARHI Anmour-MIRAN २३ राजेन्द्रकर्णपूरः। कैलासाचलसानुसीमनि मरुत्सीमन्तिनीभिस्तथा गीतास्ते कलकण्ठकण्ठनिनदश्रव्यैः खरैः कीर्तयः । अप्युत्तंसविलासवानपि रते रत्नप्रदीपो यथा चूडाचन्द्रकलाङ्कुरः पुरजिता सद्यः प्रसादीकृतः ॥ ५॥ चौडीचूडाभरणहरणः कीर्णकर्णावतंसः कर्णाटीनां मुषितर्मुरलीकेरलीहारलीलः । कुर्वन्नुव/तिलक तिलकोत्सृष्टलाटीललाटं जीयादेकस्तव नवयशःवर्णशाणः कृपाणः ॥ ६ ॥ शान्त्यै दर्पवतां जयाय जगतां संपत्त्ये याचतां संमानाय सतां हिताय महतां तापाय पृथ्वीभृताम् । सोल्लासेन सकौतुकेन शमितध्यानेन दूरीकृत- स्वाध्यायेन समाप्तसर्वतपसा त्वं वेवसा निर्मितः ॥ ७ ॥ किं वान्यद्वसुधापुरंदर पुरस्त्वत्पौरुषस्य कचि- नाहत्यस्खलितक्रमोऽपि गगने त्रैविक्रमो विक्रमः ॥ ८॥ देवाकर्णय नाकिनां पुरि नृणां लोके पुरे भोगिना- मासन्केचन सन्ति केचन तथा स्थास्यन्ति ये केचन । तन्मध्ये न बभूव नास्ति भविता ताहङ् न नीतौ नतो कान्तौ काव्यरतौ मतौ रिपुहतौ कीर्ती च यस्ते समः ॥ ९ ॥ आनन्दं मुचुकुन्दकन्दलि भज स्वस्थासि वासन्तिके कल्याणं तव मल्लिके कुशलिनी जातासि हे मालति । अद्यैतद्यशसि श्रुतिप्रणयितां याते न कुर्वन्ति वः कर्णोत्सरसानवीनकलिकाभङ्गं कुरङ्गीदृशः ॥ १० ॥ १. देवाजनामिः. २. शिवेन. ३. चोलदेशोद्भवा नारी. ४. मुरलकेरलौ च देश- विशेषी. ५. तिलकरहितं लाटदेशाशनाललाटम्. ६. आदर्शपुस्तकेऽस्य श्लोकस्य पूर्वार्ध श्रुटितमस्ति. ७. सर्पाणाम्. ८. पुष्पवृक्षविशेषः. ९. कन्दलं नवाकुरम्, अल्पत्वविवं- क्षायां स्त्रीलिङ्गम्. Meann-murmeewan. 4.04 म. R mereiiowwwmanus काव्यमाला। चैत्रं मा स्मर विस्सर सर रति किं सायकारकै- गोधा मुग्ध मुधा बधान जहिहि ज्याबन्धधीरं धनुः । देवेऽस्मिन्हि सकृत्स्मृतेऽपि न मतिर्नैव स्मृतिर्न स्थिति- नासक्तिर्न धृतिर्न निर्वतिरपि क्वाप्यस्ति वामझुवाम् ॥ ११ ॥ जहाति नगरी गलत्कनककरणः कौक्षणो वनं विशति विह्वलः स्खलितकुन्तलः कौन्तलः । किमन्यदुदितक्रुधि त्वयि मृगेन्द्रभीमारवं तटं विशति मारवं च्युतरमालवो मालवः ॥ १२ ॥ तां संक्रन्दनमन्दिरे सुरवधूकर्णामृतस्यन्दिनी त्वत्सौन्दर्यकथां निशम्य गदितामानन्दिर्भिवन्दिभिः । चापं मुञ्चति बाणमुज्झति शुचं धते रति नेक्षते चित्रं चैत्रमुपेक्षते परिणमन्मन्दव्यथो मन्मथः ॥ १३ ॥ कीरीहारलतासु केरलवधूधम्मिल्लमालासु या चोलीदन्तचतुष्किकासु मुरलीलीलासितेषु द्युतिः । अग्रे त्वद्यशसां सुधाकरकरन्यक्कारपारंगमा- मप्येतामसितामहो सुकवयो विन्दन्ति निन्दन्ति च ॥ १४ ॥ विषमेषुविगलितरसाश्चपलतरंगालिभिजडैः क्षुभिताः । तिमिरचितवसतयस्तव रिपुसुदृशो निन्नगा जाताः ॥ १५ ॥ अङ्के केरलसुन्दरीकचभरश्यामं कलङ्क वह- न्मिथ्यारोहति पूर्वपर्वतशिखां मुग्धस्तैमीबान्धवः । यचापिच्छतरुच्छदच्छवि तमो लुम्पन्ति लिम्पन्ति च प्रालेयैरिव पारदैरिव जगत्कोशं भवत्कीर्तयः ॥ १६ ॥ १. धनुर्गुणघातवारणाय प्रकोष्ठबद्धा चर्मपट्टी. २. कुन्तलनामकदेशस्य राजा, ३. लक्ष्मीलेशरहितः, ४. कीरदेशोद्भवा स्त्री. ५. मुख्यं दन्तचतुष्टयम्. ६. (रिपुत्रीपक्ष) विषमेषुः कामः, रसो रागः, जडैमूर्खालिभिरवाच्यैः क्षुमिताः, तिमिरेण ज्याला वसति- र्यासाम्, (नदीपक्षे) विषमेषु नतोन्नतप्रदेशेषु, रसो जलम्, चपलतरणपक्षिमिर्जलेः क्षोभ नीताः, तिमयो मत्स्यास्तै रचिता स्थितिर्यासु. ७. चन्द्रः.

२५ राजेन्द्रकर्णपूरः। तस्थौ कम्पतरङ्गितस्तनतटं बाष्पाम्बुधौताधरं शोकाक्रान्तकपोलकीलितकरं द्यां मुञ्जराजे गते । संजाते त्वयि हारिहारवलयवाणं कणकवणं चञ्चत्काञ्चनकाञ्चि सा भगवती नर्ति वाग्देवता ॥ १७ ॥ आलेख्यं चिरमुल्लिलेख विजने सोल्लेखया रेखया संकल्पानकरोद्विकल्पबहुलाकल्पाननल्पानपि । अद्राक्षीदपरप्रजापतिमतं चक्रे च तीव्रतं त्वन्निर्माणविधौ कियन्न विदधे बद्धावधानो विधिः ॥ १८॥ शेष क्लेशमशेषमुत्सृज भज त्वं कूर्म कर्म खकं खैरं खेलत सिन्धुसैकतलताकुलेषु दिक्कुञ्जराः । अप्येतां सकुलाचलां सनगरां साम्भोनिधि सापगां सद्वीपां च भुवं बिभर्ति हि भुजः श्रीहर्षपृथ्वीभुजः ॥ १९ ॥ हेरम्ब त्यज कर्णतालनिनदं चूडापगे गर्ज मा मा मा काञ्चनकिङ्किणीकलकलं कण्ठे ककुद्मन्कृथाः। प्रक्रान्तासु सुरैः पुरः पुररिपोर्युष्मद्यशोगीतिषु व्यग्रस्येति परिस्फुरन्ति वचनान्यानन्दिनो नन्दिनः ॥२०॥ अकङ्कणममेखलागुणमहारमस्ताङ्गदं व्रजन्ति चतुरैः पदैर्मरुमरातिवामझुवः । करोत्यसिलतां करे यदसिगर्वमुर्वीभुजो भुजस्य परिपन्थिनामयमदक्षिणे दक्षिणे ॥ २१ ॥ राकाकान्तकलाङ्कुरं कुरु चिरं चण्डीश चूडान्तरे कच्छं गच्छ पुराणकच्छप परं गम्भीरमम्भोनिधेः । ध्यानं मुञ्च विरश्च किं च पयसा सिञ्चासनाम्भोरुहं येनायं परितः प्रभो प्रसरति प्रौढः प्रतापानलः ॥ २२ ॥ १. अतीव गुणिवत्सलो वाक्पतिराजदेवापरनामा श्रीमुजराजः श्रीहर्षदेवात्किंचिदेव पूर्वमासीत्. निवसंवत्सरस्य ९९४ मिते काले श्रीमुखमहीपालो राज्यं कुर्वनासीदित्य- मितगतिप्रणीतसुभाषितरत्नसंदोहनामकग्रन्थसमाप्तिश्लोकाज्ञायते. २. इदमुत्तरार्ध- मस्फुटमस्ति. amam २६ ६ काव्यमाला। कंदर्प नलकूबरे कुमुदिनीकान्तेऽप्यवज्ञावतां त्वत्सौन्दर्यकथासु तासु मरुतां वृत्तासु कौतूहलात् । प्राप्ता तानवमुर्वशी रतिरतिक्लान्ता हता रोहिणी जाता किं च खरसरज्वरभरारम्भापि रम्भातनुः ॥ २३ ॥ सोल्लासा अपि सोधमा अपि घनोत्कण्ठा अपि कापि नो यान्ति श्यामनिशान्तरेऽपि रमणोपान्तं कुरशीदृशः । सद्यस्त्वद्यशसा हि कुञ्जररदच्छेदच्छविच्छादिना नीतं कान्तपुरंभ्रिकुन्तलभरश्यामं विरामं तमः ॥ २४ ॥ न क्वाप्यौर्वज्वलनमहसा यस्य चक्काथ पाथः शोषं तस्मिन्भजति जलधौ त्वत्प्रतापानलेन । शङ्के पके पतति यतते बालशेवालमूले कूले लोलः किमपि कुरुते कर्म वैकुण्ठकूर्मः ॥ २५ ॥ उल्लेखं निजमीक्षते भणितिपु प्रौढिं परां शिक्षते संघत्ते पदसंपदः परिचयं धत्ते ध्वनेरध्वनि । वैचित्र्यं वितनोति वाचकविधौ वाचस्पतेरन्तिके देव त्वद्गुणवर्णनाय कुरुते किं किं न वाग्देवता ॥ २६ ॥ शान्तध्वान्तकलङ्क शंकरशिखालंकार तारापते राकाकान्त सविभ्रमं श्रम सदा निःशकमक्के दिवः । अद्यैतद्यशसैव सप्तसु कृतालोकेषु लोकेषु हि खर्भानोर्भवितोसि नासि नभसि च्छिन्नाकृतेर्गोचरः ॥ २७ ॥ त्वय्युत्पन्ने गुणवति सतां नाभिरामः स राम- स्त्यागव्यग्रे भवति भवति म्लानवर्णः स कर्णः । ब्रूम किं वा बहु ननु धनुर्वेदविद्याविदस्ते सङ्ग्रामोर्वीपुरहर पुरः स्यादपार्थः स पार्थः ॥ २८ ॥ १. कृतप्रकाशेषु. २. 'असि' इति विभक्तिप्रतिरूपकमव्ययम्, त्वमित्यर्थः. ३. युद्ध- भूमौ रुद्रतुल्य. ४. निष्फलः. ५. अर्जुनः, राजेन्द्रकर्णपूरः। २७ कान्ति कल्पय तान्तिमल्पय सखि खलनापि नैवास्ति ते मुक्ताशुक्तिपु वारिराशिरमणि श्रीताम्रपर्णि क्षतिः । अस्यालोक्य कुरङ्गकेतनकलालावण्यचौरं यशो वर्तन्ते हि विसुक्तमौक्तिकलतोत्कण्ठाः कुरङ्गीदृशः ॥ २९ ॥ निद्रा न द्रविणाधिपस्य भजते शकां स लदापति- योनि व्याकुलतामलं कमलिनीकान्तस्य धत्ते वपुः । किं वान्यत्तव देव वेल्लति यदि भ्रूवल्लरीपल्लवः सोऽपि क्षामकपोलकीलितकरः संक्रन्दनः क्रन्दति ॥ ३०॥ अस्त्रं याति ययातिधाम विगत दुष्यन्तवार्ताशतैः शान्तं शंतनुकीर्तिभिर्लघु रघोलॊकेषु जातं यशः । किं चान्यत्त्वयि मेदिनीकुमुदिनीराकाशशाहोदये जाते हन्त तथा कथा अपि विभो रामे विरामं गताः ॥३१॥ लोलन्मौक्तिकवल्लि वेल्लदलकं वाचालकाचीगुणं चञ्चत्काञ्चनकक्षणं च गिरिजा जातोत्सवा नृत्यतु । त्वत्कीर्तिश्रवणोन्मुखेन विलसत्कल्लोलकोलाहला यन्मुक्ता मुकुटान्मृगाकशकलोत्सेन मन्दाकिनी ॥ ३२ ॥ कपूरैरिव पारदैरिव सुधास्यन्दैरिवाप्लाविते जाते हन्त दिवापि देव ककुभां गर्भं भवत्कीर्तिभिः । धृत्वाङ्गे कवचं निबध्य शरधिं कृत्वा पुरो भावं कामः कैरवबान्धवोदयधिया धुन्वन्धनुर्धावति ॥ ३३ ॥ अधिकंसमाप्तसमरः प्रथितो भुवनेषु गोपनरसोत्कः। भाति सदानवविजयं कुर्वन्कृष्णस्तवायमसिः ॥ ३४ ॥ Mammon १. सूर्यस्य. २. चलति. ३. तूणीरम्. ४. वसन्तम्, ५. (राजपक्षे) तवायमसिः साः कृष्णः कृष्णवर्णो भाति. साविशेषणानि--अत्यन्तं समाप्तयुद्धः शत्रूणामभावात्, गोपने रक्षणे यो रसमास्मिनुत्कण्ठितः, सर्वदा नवीनं विजयं कुर्वन; (कृष्णपक्षे) अधिकंस कंसविषये प्राप्तयुद्धः, गोपालरूपनरेषु पुरुषेषत्कण्ठितः, स प्रसिद्धः, दानवानां विजयं कुर्वन्.

२८ काव्यमाला । राकाकान्तकलाङ्कुराङ्कितजरत्कीशो निशीथक्षणे गायन्तीषु सुराङ्गनासु भवतः कैलासकु यशः । निष्पीड्य प्रियमौलिचन्द्रकलिकां कंदर्प केलिकम- खापं दूरयितुं दृशोगिरिजया दत्ताः सुधाविन्दवः ॥ ३५ ॥ किं तान्तिः किमनिर्वृतिः किमधृतिर्वाग्देवि मुळे गते किं शून्यासि किमाकुलासि किमिति क्लान्तासि कोऽयं क्रमः । एतं विद्धि तमेव सास्य हि मतिः सा विश्रुतिः सा गुतिः स त्यागः स नयः स सूक्तिपु रसस्ताः संमताः संपदः ॥३६॥ कस्मादम्ब विलम्बसे कुरु कृपां केनापि रूपेण मे जिह्वाग्रे वस संनिधेहि हृदये वाग्देवि तुभ्यं नमः । यन्मे साहसिकस्य भूपचरितव्यावर्णने सादरं सप्रेमप्रसरं सकौतुकरसं सोल्लासमास्ते मनः ।। ३७ ॥ नाके मुग्धमधुव्रतप्रणयिनीहंकारहारिखनै- श्व रु त्वञ्चरितं यदैव चतुरैरुचारितं चारणैः । कान्तं मौक्तिकदामनद्धचिकुरवःसुन्दरीणां पुरः प्राप्तो देव तदैव सूत्रितशरासारः ससारः स्मरः ॥ ३८ ॥ श्रीखण्डद्रवनिर्झरन्ति हृदये पीयूषकल्लोलिनी- निःष्यन्दन्ति तनौ रसायनरसस्यन्दन्ति कर्णान्तिके । नासीरप्रसरन्ति दिक्परिसरे भूमण्डले मौक्तिक- प्रस्तारन्ति सुधाकरन्ति गगनोत्सङ्गे भवत्कीर्तयः ॥ ३९॥ किं बालेन मृणालतन्तुमलिनच्छायेन खण्डेन्दुना निःशङ्कोऽद्य वृषाङ्क शेखरपदे राकाशशाङ्क कुरु । देवस्यास्य हि केतकोदरदलच्छायैर्यशोभिर्निशि व्योन्नः सीनि च मण्डले च ककुभां व्यस्तं समस्तं तमः॥४०॥ नो चैत्रः सहकारकुड्मलकुलैः क्लुप्तं न तत्कार्मुकं नामी क्रूरशिलीमुखाः शितमुखा नो कोकिलापैञ्चमः । १. 'मौक्तिकदाम-' इत्यादि विशेषणमनुपयुक्तमिव भाति. २. बेनामुखं नासीरमित्यु- च्यते. ३. स्वरविशेषः.

२९ राजेन्द्रकर्णपूरः। नैवोदामकरः शशी न मकरः केतुस्थितो नो रति स्तत्रापि त्वमहो समस्तरमणीमानव्यघो मन्मथः ॥ ११ ॥ तन्मूत भुवने मुहूर्तममृतं मन्ये भृशं वासरं सारं वेनि तदेव सैव च गुणैरायामिनी यामिनी । श्रीवासो यशसां पदं सुमनसामप्यास्पदं संपदा यत्रागच्छति गोचरं नयनयोः काश्मीरमीनध्वजः ॥ ४२ ॥ संजाते जलदात्ययेऽपि फणभृत्पर्यशय्यातलं मा मा मुञ्च मुकुन्द कान्तकमलादोःकन्दलालिङ्गितः । जागर्ति स्थितये सतां विरतये येनासतामप्यय संनद्धो गुणिमौलिमण्डनमणिभूमण्डलाखण्डलः ॥ १३ ॥ श्लाघा राघव लाघवं तव गता दुष्यन्त विश्वं तव म्लानिं याति यशो गता तव तथा पार्थ प्रथापार्थताम् । जातेऽसिन्गुणिवान्धवे नैरपतिश्यामाधवे क्ष्माधवे कस्याप्यत्र न कर्ण कर्णपदवीं याता भवत्कीर्तयः ॥ १४ ॥ ज्ञाता भूरियमम्बुराशिरसना किं नाम नालोचितं तत्राखण्डलमण्डले मणिपुरे वार्तापि वृत्तव नः । कान्तौ कीर्तिरतौ नये परिचये काव्यक्रमप्रक्रमे यावत्कापि कदापि कोऽपि भवतः स्पर्धापरो नापरः ॥ ४५ ॥ एवं त्वामहमर्थये विरमितखाध्यायकौतूहलो ब्रह्माण्डोदरमैम्बुजासन पुनर्यलेन विस्तारय । देवस्यास्य यतो न माति विततं राकेन्दुरोचिर्लता- लीलोन्मीलितकैरवोदरदलद्धौतावदातं यशः ॥ १६ ॥ उर्वी मौर्वीकिणभृति भवदोष्णि विनत्यशेषां शान्तक्लान्तिः किमपि कुरुते नर्मणा कर्म कूर्मः । कृत्वा वेलापुलिनलवलीपल्लवग्रासगोष्ठी दियातनाः सममथ सरिन्नाथपाथः पिबन्ति ।। १७॥ १. संपूर्णम्. २. महीपतिचन्द्रे. ३. हे ब्रह्मदेव. Pawan काव्यमाला। किं मौनं ननु मेनके किमु शुचं धत्से शचि क्षामता केयं वाचि घृताचि साचि किमिदं रम्भे मुखाम्भोरुहम् । याते त्वच्चरणामृते श्रुतिपथं गीर्वाणवामझुवा- मेवं देव खरस्सरज्वरजुषामुक्ताः सखीभिर्गिरः ॥ ४८ ॥ किं राकेन्दुकरच्छटाभिरुदितं किं मौक्तिकैरुद्वतं किं मल्लीमुकुलैः मितं विकसितं किं मालतीकुड्मलैः । किं रूढं रमणीविलासहसितैः किं तत्र कीर्ण सुधा- स्यन्दैर्यत्र जगत्रयैकतिलक भ्रान्तं भवत्कीर्तिभिः ॥ १९ ॥ नोद्दामानि दिशां मुखानि न धनागोगा नभोगण्डली नैवोत्तालतलं रसातलभियं पृथ्वी न पृथ्वी पुनः । एवं देव कथं नु कुञ्जररदच्छेदावदातास्तव खैरं यान्ति च मान्ति च श्रुतिसुधाधारामुचः कीर्तयः ॥ ५० ॥ यो वैरिष्वनलो नलो वसुमतीदीपो दिलीपोऽथ यो यो मानेन पृथुः पृथुर्जगति यो निर्लाघवो राधवः । यः कीर्ती भरतो रतो नृपगुणैर्यः शंतनुः शंतनुः संजाते त्वयि कस्य न क्षितिपते सर्वेऽपि ते विस्मृताः ॥५१॥ अपारपुलिनस्थलीभुवि हिमालये भालये निकामविकटोन्नते दुरधिरोहणे रोहणे । महत्यमरभूधरे गहनकंदरे मन्दरे भ्रमन्ति न पतन्त्यहो परिणता भवत्कीर्तयः ॥ ५२ ।। तात्पर्य कमलासने विरचितं गौरीहितैः पालिता त्रैलोक्याद्भुतकृत्सदानवजये दोबिक्रमो दर्शितः । १. तिर्यक्. २. कल्याणशरीरः. ३. लक्ष्मीनिवासभूते. ४ अन्यस्तु परिणतो वृद्धश्चेत्पर्वतारोहणावसरे पतत्येव. ५. कमलाया लक्ष्म्या असने क्षेपणे. याचकेभ्यो दान इति यावत् ; अथ च कमलरूपे विष्टरे, ब्रह्मणः पपासनत्वात. ६. गौः पृथ्वी, इहिते- रमीटैः; (पक्षे) गौरी पार्वती, हितैः प्रेममिः, ७. सर्वदा नवीने अये; (पक्षे) रा प्रसिद्धः, दानवानां जये.

राजेन्द्रकर्णपूरः । ३१ एकेनैव कृतं तु देव भवता तत्रापि ते न स्मयो यद्वेधाश्च पुरान्तकश्च कमलाकान्तश्च देवोऽकरोत् ॥ ५३ ॥ औदार्य सधने नयो गुणिजने लज्जा कुलस्त्रीजने सत्काव्यं वदने मदो द्विरदने पुंस्कोकिलः कानने । रोलम्बः कमले नखाकरचना कान्ताकपोलस्थले तन्वी तल्पतले भवानपि विभो भूमण्डले मण्डनम् ॥ ५४ ॥ जाता तोमरसोदरे भगवतो धातुः कृतार्थी स्थिति- युक्तं यद्यचिरात्करोति जलधौ संस्थां रमावल्लभः । सर्वत्रैव विभो तव प्रसरति प्रौढे प्रतापानले धत्ते सोऽपि पिनाकिनः सफलतां मौलीन्दुरेखाङ्कुरः ।। ५५ ।। कण्ठान्तःकणितं दिवाकरकरक्लान्त्या रजोविप्लवे- स्तन्नेत्राञ्चलकुञ्चनं शितकुशप्रान्तक्षतैः सीत्कृतिः । श्वासोर्मिप्रभवो वनेचरभिया त्वद्वैरिवामध्रुवा- मेवं देव मरोतटेऽपि सुरतक्रीडानुरूपः क्रमः ॥ ५६ ॥ संदिष्टं वसुधासुधाकर शचीकान्तेन मुञ्चोधर्म देव त्वं प्रबलप्रतापदहनोद्रेकाय बैद्धाञ्जलिः । एते मानुभवन्तु नाकतरुणीकर्णावतंसोचिताः क्लान्ति नन्दनकन्दलीपु कलितव्यापल्लवाः पल्लवाः ॥ ५७ ।। शक्तिं मानसतीव्रतापदहने धत्ते गलत्संयमा कामाशां प्रकटीकरोति न सतां सर्वत्रपापासनात् । प्रेम प्रौढमनारतं वितनुते वृद्धेति शुद्धेति च प्रख्यातापि महीमनोभव भवत्कीर्तिर्विचित्राः स्त्रियः ॥ ५८ ॥ रूपं यन्मदने युतिः शशिनि या गम्भीरता याम्बुधौ यो मेरो गरिमास्ति या कमलिनीकान्ते प्रतापोन्नतिः । -- NAMAAR manmar1 १. गर्वः. २. शिवः. ३. कमलमध्ये. ४. सुरतेऽपि कण्टकूजितं नेत्रकुचनं सी- रकारः श्वासाधिक्यं च भवत्येव. ५. क्रियाविशेषणम्. ६. सर्वस्यास्त्रपाया अपासना- दूरीकरणात् : (पक्षे) सर्वत्र पापस्यासनात.

३२ काव्यमाला। यो लक्ष्मीरमणेऽपि विक्रमगुणस्तत्सर्वमेकत्र चे- दृष्टुं वाञ्छसि दृश्यतामयमये देवस्त्रिलोकीगणिः ॥ ५९ ॥ स ख्यातो जगति त्रिविक्रम इति त्वद्विक्रमा भूरय- स्तेनैको निहतो बलिर्बलिशतध्वंसी भुजस्तावकः । तं वैकुण्ठमवैति को न जगतीं जेतुं त्वकुण्ठो भवा- नस्त्येवं महदन्तरं तव तथा देवस्य दैत्यद्रुहः ॥ ६० ॥ चक्रे यत्र मदोर्जितार्जुनभुजस्तम्भाइति भार्गवो यत्रासीद्दशकण्ठकण्ठविपिनच्छेदी रघूणां पतिः । पार्थेनापि जितः स यत्र गिरिजाकान्तः किराताकृति- गीतः पल्लविताद्भुतैरतव न कैस्तत्रापि दोर्विक्रमः ॥ ६१ ॥ राकेन्दोरुदयभ्रमेण मुखतो मुक्त्वा मृणालाहुरं तान्ति तत्र वहन्ति हन्त विलसद्धृक्षा रथानानाः । किं चोदश्चितचञ्चुरश्चति शरच्चन्द्रप्रभा[भ्रान्तितो हर्ष हन्त) चकोरपतिरमलं यत्रोदितं ते यशः ।। ६२ ॥ प्रालेयैः स्लपयन्ति कल्पलतिकाः सेकाननेकानथ श्रीखण्डाम्बुगलज्जलैरविरलैरतन्वन्ति संतानके । सान्द्रश्चन्द्रमणिद्रवैरपि विभो मन्दारवल्लीमलं सिञ्चन्त्यद्य भवप्रतापदहनत्रासेन नाकाशनाः ॥ ६३ ॥ यातं रामविरामविक्लवतया दुष्यन्तविश्रान्तिजः संतापो विगतो [विलीनमखिलं दुःखं नलाभावजम् । किं चान्यत्त्वयि देव बिन्नति महासाम्राज्यलक्ष्मीमिमां शान्तः शांतनवोऽपि कोऽपि विपुलाभोगो वियोगोभुवः ॥६४॥ किंचित्कुब्यलितकलोचनपुटं कण्डूं मुहुर्गण्डयो- झम्पाकम्पितकुमले कुरबके निर्वाप्य वन्यद्विपैः । १. वै निश्चयेन कुण्ठं जडम्; (पक्षे) वैकण्ठनायकम्, २. विष्णोः. ३. परशुरामा. ४. दुष्यन्तमहीपालवियोगजनितः.

राजेन्द्रकर्णपूरः । देव स्मेरसरोजससुरभि खैरंभवद्वैरिणां पीतं प्राङ्गणवापिकामकरिणीपीतावशेष पयः॥ ६५ ।। कूर्मे धैर्य शिथिलय धृतिं मुच्च शेषस्य शेषा- माशामाशाकरिषु वसुधे देवि मा मा दधीथाः । शक्तः सप्ताम्बुनिधिपरिखामेखलामप्ययं त्वां वोढुं मौर्वाकिणपरिचितो भूपतेरस्य बाहुः ॥ ६६ ।। कान्तारेषु च काननेषु च सरित्तीरेषु च मामृता- मुत्सङ्गेषु च पत्तनेषु च सरिद्भर्तुस्तटान्तेषु च । प्रान्ताः केतकगर्भपल्लवरुचः श्रान्ता इव क्षमापते कान्ते नन्दनकन्दलीपरिसरे रोहन्ति ते कीर्तयः ॥ ६७ ॥ राकेन्दोरुदयः किमेष किमयं गौरीगुरुर्वा गिरिः क्षीरोदः किमयं किमेष पुरजिल्लीलाविलासोरगः । किं मन्थाद्रिरयं सुधाजलनिधे(तस्तरङ्गैरिति त्वत्कीती वसुधापुरंदर सदा संदेहिनो देहिनः ।। ६८ ॥ विलोकनकथापि मे न नलकूबरे न स्मरे किमन्यदमृतधुतेरपि न दर्शनं प्रार्थये । अयं नयनगोचरं व्रजति चेदृशामुत्सवः समग्ररमणीमनोमधुपमाधवः क्षमाधवः ।। ६९ ॥ कुंन्दः कन्दलितव्यथं विचकिलः कम्पाकुलं केतक: सातकं मदनः सदैन्यमलसं मुक्तोऽतिमुक्तद्रुमः । मोक्तुं किं तु न पारितस्तव रिपुस्त्रीभिः पुरीनिर्गमे तत्कालं कृताधवीपरिणयः सत्केसरः केसरः ॥ ७० ॥ तयुक्तं ननु कुम्भसंभव भवत्प्रज्ञारहस्येन य. क्ष्यां च मां च तिरोदधन्निरवधिविन्ध्योऽपि वन्ध्यः कृतः । १. दिग्गजेषु. २. हिमालयः, ३. शेषः. ४. मन्दराचलः, ५.कुन्दविच किलादयः पुस्पक्षविशेषा.. ६.. लताविशेषः ७. हे भगस्त्य.

काव्यमाला । देवस्यास्य शरन्निशाकरकरन्यक्कारपारंगमं मात्येतत्कथमन्यथा परिणतं द्यावापृथियोर्यशः ॥ ७१ ।। धिक्तं मल्लीकुसुमकलितं केलिकर्णावतंसं ध्वंसं सोऽपि व्रजतु विफलो रत्नताटकटकहः । हे राजानः प्रकृतिसरलैः शीभवैरेव सूक्तै- र्युक्तः कर्तुं भवति भवतां केवलं कर्णपूरः ॥ ७२ ।। उद्भिन्ना कलकण्ठकण्ठकुहराकर्णामृतस्यन्दिनी युक्ता यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः । अन्यस्तन्वि तथापि ते पशुपतिप्लुष्टस्य जीवाणे पश्चेषोरुचितः अपश्चितरसः पाकाञ्चितः पञ्चमः ।। ७३ ।। किं हारैः किमु कङ्कणैः किमु सुमैः किं कर्णपूरैरलं केयूरैर्मणिकुण्डलैरलमलं साडम्बरैरम्बरैः । पुंसामेकमखण्डनं पुनरिदं शंभोर्मते मण्डनं यन्निष्पीडितपार्वणेन्दुशकलस्यन्दोपमाः सूक्तयः ।। ७४ ।। पीयूषद्रवहारिणी सुमनसां भ्रूलास्सविस्तारिणी त्वत्सेवाभिरवापि काप्यभिनवा वाग्देवते भारती। अस्त्येका तु कृताञ्जलेर्जननि मे शंभोरियं प्रार्थना मद्वाचां क्वचिदस्तु वस्तुनिपुणः श्रोता सचेता जनः ।। ७५ ॥ इति काश्मीरदेशोद्भवमहाकविश्रीशंभुविरचितो राजेन्द्रकर्णपूरः समाः । MAMANNAats. M-0" महाकविश्रीक्षेमेन्द्रविरचितः कलाविलासः। प्रथमः सर्गः। अस्ति विशालं कमलाललितपरिष्वङ्गमङ्गलायतनम् । श्रीपतिवक्षःस्थलमिव रनोज्ज्वलमुज्ज्वलं नगरम् ॥ १॥ १. शंभुकविसंबन्धिमिः. २. पुष्पैः. ३ अनेकान्यकर्ता व्यासदासापरनामा क्षेमेन्द्र महाकविः कश्मीरदेशे श्रीमदनन्तरजस्य राज्यकाळे समुत्पः, यतोऽनेन सपत्त- कलाविलासः। मणिभूबिम्बितमुक्ताप्रलम्बनिवहेन यत्र शेषाहिः । भवनानि बिभर्ति सदा बहुधात्मानं विभज्येव ॥ २ ॥ विनोऽभिसारिकाणां भवनगणस्फाटिकप्रभानिकरः। यत्र विराजति रजनीतिमिरपटप्रकटलुण्ठाकः ॥ ३ ॥ यत्र त्रिनयननयनज्वलनज्वालावलीशलभवृत्तिः । जीवति मानसजन्मा शशिवदनावदनकान्तिपीयूपैः ॥ ४ ॥ रतिललितललितललनाक्लमजललववाहिनो मुहुर्यत्र । श्थकेशकुसुमपरिमलवासितदेहा वहन्त्यनिलाः ॥ ५ ॥ नवबिसकिसलयकवलनकषायकलहंसकलरवो यत्र । कमलवनेषु प्रसरति लक्ष्म्या इव नूपुरारावः ॥ ६॥ नृत्यन्मुग्धमयूरा मरकतधारागृहावली सततम् । सेन्द्रायुधधननिवहा प्रावृण्मूतव यत्रास्ते ॥ ७ ॥ शशिकिरणप्रावरणस्फाटिकहर्येषु हरिणशावाक्ष्यः । यत्र विभान्ति सुधाम्बुधिमुग्धतरङ्गोत्थिता इवाप्सरसः ॥ ८ ॥ तत्राभूदभिभूतप्रभूतमायानिकायशतधूर्तः । - तिलकादिप्रन्थसमाप्तिध्वनन्तराजस्य वर्णनं कृतमस्ति. अनन्तराजस्य राज्यकालस्तु १०२८ मितात्तिस्तसंवत्सरादारभ्य १०८० मितसंवत्सरपर्यन्तमासीत्. तस्मिन्नव समये मालवाधीशो भोजराजोऽप्यासीत्. स च भोजनरेन्द्रश्च दानोत्कर्पण विश्रुतौ । सूरी तस्मिन्क्षणे तुल्यं द्वावास्तां कविवान्धवौ ॥' इति राजतरङ्गिणी (७॥२५९). सोऽन- न्तराज इत्यर्थः क्षेमेन्द्रेण बहवो प्रन्या विरचिताः,तन्मध्यादद्यावधि ज्ञाता मन्यास्त्वेते- (१) अमृततरणकाव्यम् , (२) औचित्यविचारचर्चा, (३) कनकजानकी, (४) कलाविलासः, (५) कविकण्ठाभरणम्, (६) चतुर्वर्गसंग्रहः, (५) चारुचर्या, (८) चित्रभारतनाटकम् (९) दशावतारचरितकाव्यम्, (१०) देशोपदेशः, (११) नीतिकल्पतरुः, (१२) पद्यकादम्बरी, (१३) पवनपञ्चाशिका, (१४) बृहत्कथामरी, (१५) बोधिसत्त्वावदानकल्पलता, (१ भारतमजरी, (१५) मुक्तावली,(१८) राजावली, (१९) रामायणमचरी, (३०) लावण्य- वती, (२१) लोकप्रकाशकोषः, (२२) वात्स्यायनसूत्रका(सा)रः, (२३) व्यासाष्टकम् , (२४) अविवंशमहाकाव्यम्, (२५) समयमातृका, (२६) सुवसतिलकम, (२७) सेन्य- सेनकोपदेशः, (२८) हस्तिजनप्रकाशः, काव्यमाला। सकलकलानिलयानां धुर्यः श्रीमूलदेवाख्यः ॥ ९ ॥ नानादिग्देशागतधूर्तरुपजीव्यमानमतिविभवः । स प्राप विपुलसंपदमात्मगुणैश्चक्रवर्तीव ॥ १०॥ भुक्तोत्तरं सहृदयरोस्थानीसंस्थितं कदाचित्तम् । अभ्येत्य सार्थवाहो दत्तमहार्होपहारमणिकनकः ॥ ११ ॥ प्रणतो हिरण्यगुप्तः सहितः पुत्रेण चन्द्रगुप्तेन । प्राप्तासनसत्कारः प्रोवाच मुहूर्त विश्रान्तः ॥ १२ ॥ (युग्मम्) अतिपरिचयसप्रतिभा तव पुरतो मादृशामियं वाणी । प्राम्याङ्गनेव नगरे न तथा प्रागल्भ्यमायाति ॥ १३ ॥ पिहितबृहस्पतिधिषणो रुचिरः प्रज्ञामरीचिनिचयते । तीक्ष्णांशोरिव सहजः प्रोषिततिमिराः करोत्याशाः ॥ १४ ॥ आजन्मार्जितबहुविधमणिमौक्तिककनकपूर्णकोषस्य । एको ममैष सूनुः संजातः पश्चिमे वयसि ।। १५ ॥ मोहस्थानं बाल्यं यौवनमपि मदनमानसोन्मादम् । अनिलावलोलनलिनीदलजलचपलाश्च वित्तचयाः॥ १६ ॥ हारिण्यो हरिणदृशः सततं भोगाजमधुकरा धूर्ताः । पतिता परम्परैषा दोषाणां मम सुतस्यास्य ॥ १७ ॥ (युग्मम् ) धूर्तकरकन्दुकानां वारवधूचरणन पुरमणीनाम् । पनिकगृहोत्पन्नानां मुक्तिर्नास्त्येव मुग्धानाम् ॥ १८ ॥ अज्ञातदेशकालाश्चपलमुखाः पङ्गयोऽपि सप्लुतयः । नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमानीरैः ॥ १९ ॥ १. मूलदेवनामा कश्चिदतिप्राचीनः कालशास्त्रप्रवर्तक आसीत. अस्यैव कणीसुतः, कलाकुरः, मूलभद्रः, एतान्यपि नामान्तराणि सन्ति. सुबन्धुप्रणीतायां वासवरतायो नाम- बदत्तास्वयंवरवर्णने 'तत्र च केचित्कलाहुरा इब विजितनगरमण्डनाः' इत्यस्ति तहकाया व 'कलारा इव मूलदेवा 'इव । 'कर्णीसुतो मूलदेवो भूलभवः कलाएर' इति हारावली' इत्यादि वर्तते. कादम्बरीकथायो विन्भ्याटवीवर्णने 'कर्णीसुतकब सेनिहितविपुलाचला' इखावस्ति, कथासरित्सागरे च नवाशीतितमे चतुर्विधोतरशततमे व तर मूलदेवकया बर्तते. तत्र च विक्रमादित्यसभायां मूलदेव आसीविलादि वर्णितमति, २. समा..बडी.

कलाविलासः। आश्रितजनतनयोऽयं तव विद्वन्निजसुताधिक: सत्यम् । न यथा प्रयाति नाशं तथास्य बुद्धिं प्रयच्छ पराम् ॥ २० ॥ इति विनयनम्रशिरसा तेन वचो युक्तमुक्तमवधार्य । तमुवाच मूलदेवः प्रीतिप्रसरैः प्रसारितौष्ठानः ॥ २१ ॥ आस्तामेष सुतस्ते मम भवने निज इव प्रयत्नपरः । ज्ञास्यति मयोपदिष्टं शनकैः सकलं कलाहृदयम् ॥ २२ ॥ इति तस्य शासनेन खसुतं निःक्षिप्य तद्गृहे मतिमान् । नत्वाथ सार्थवाहः प्रययौ निजमन्दिरं मुदितः ॥ २३ ॥ अथ शिथिलकिरणजालो धूसरकान्तिनिरम्बरस्तरणिः । अभवददृश्यः शनकैतैरिव निर्जितः कितवः ॥ २४ ॥ अस्तमिते दिवसकरे तिमिरैभरद्विरदसंसक्ता । सिन्दूरपटलपाटलकान्तिरिवाग्रे बभौ संध्या ॥ २५ ॥ त्यक्तापि प्रतिदिवसं दिवसद्युतिरनुजगाम दिवसकरम् । न तु रक्तापि हि संध्या हृदयं जानाति कः स्त्रीणाम् ॥ २६ ॥ गगनाङ्गणकमलवने संध्यारागे गते शनैः कापि । अप्राप्तस्थितिविकलं बभ्राम भ्रमरविश्रमं तिमिरम् ॥ २७ ॥ तीक्ष्णांशुविरहमोहैस्तिमिरैरिव मीलिता बभूव मही। तीव्रोऽपि जनस्य सदायातः खलु वल्लभो भवति ॥ २८ ॥ रजनी रराज सिततरतारकमुक्ताकलापकृतशोभा । शबररमणीव परिचिततिमिरमयूरच्छदामरणा ॥ २९ ॥ अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः । कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणाम् ॥ ३० ॥ मन्मथसितातपत्रं दिग्वनितास्फटिकदर्पणो विमलः । विरराज रजनिरमणीसिततिलको यामिनीनाथः ॥ ३१ ॥ १. अम्बरे वनमाकाशव. २. द्यूतकारः. ३. तिमिरसमूह एष हवी. ४. अमरसह- शम्. ५. मोईरिव तिमिररित्यन्वयः मोहस्य कृष्णवर्णत्वं कविसंप्रदायसिद्धम्.

काव्यमाला। निजकरमृणालवल्लीवलयविलासी ललास सितकान्तिः । गगनतटिनीतटान्ते रजनिकरो राजहंस इव ॥ ३२ ॥ श्यामा शुशुभे शशिना तया मनोभूमधूत्सवस्तेन । मदमुदितमानसानां तेनापि मृगीदृशां लीला ।। ३३ ।। धूर्ताः समृद्धिसचिवा विच्छायां पद्मिनी परित्यज्य । फुल्लानि विविशुरलयः सानन्दाः कुमुदवृन्दानि ॥ ३४ ॥ ज्योत्स्नाभस्मस्मेरा सुललितशशिशकलपेशलकपाला । तारास्थिपटलहारा शुशुभे कापालिकीव निशा ॥ ३५ ॥ तस्मिन्प्रौढनिशाकरकिरणप्रकरप्रकाशिताशेषे । निजमणिभवनोद्याने निर्वर्तितभावनासमाधानः ।। ३६ ॥ स्फटिकासनोपविष्टः सह शशिना निर्विभागमित्रेण । कन्दलिमुख्यैः शिष्यैः परिवारितपादपीठान्तः ॥ ३७ ।। प्रोवाच मूलदेवो वीक्ष्य चिरं सार्थवाहस्तमो । कुर्वन्दशनमयूखैर्लज्जालीनामिव ज्योत्स्नाम् ॥ ३८ ॥ (विशेषकम्) शृणु पुत्र वञ्चकानां सकलकलाहृदयसारमतिकुटिलम् । ज्ञाते भवन्ति यसिन्क्षणरुचिचपलाः श्रियोऽप्यचलाः ॥ ३९ ॥ एकोऽस्मिन्भवगहने तृणपल्लववलयजालसंच्छन्नः । कूपः पतन्ति यस्मिन्मुग्धकुरका निरालम्बे ॥ १० ॥ सोऽयं निधानकुम्भी दम्भो नाम खभावगम्भीरः । कुटिलैः कुहकभुजंगैः संवृतवदनः स्थितो लोके ॥ ११ ॥ मायारहस्यमत्रश्चिन्तामणिरीप्सितार्थानाम् । दम्भः प्रभावकारी धूर्तानां श्रीवशीकरणम् ॥ ४२ ॥ मत्स्यस्येवाप्सु सदा दम्भस्य ज्ञायते गतिः केन । नास्स करौ न च पादौ न शिरो दुर्लक्ष्य एवासौ ॥ १३ ॥ * १. 'ज्योत्लाभरमच्छुरणधवला विनती तारकास्थीनन्तर्धानन्यसनरसिका रात्रिकापा- लिंकीयम् । द्वीपाडीपं श्रमति दधती चन्द्रमाकपाले न्यख बिसामनपरिमल मानस च्छलेन ॥ इति काव्यप्रकाशोदाहृतं रूपकालंकारोदाहरणपथमनुकरोतीयमार्या. २. विद्युत सर्गः] कलाविलासः। ३९ मन्त्रबलेन भुजंगा मुग्धकुरङ्गाश्च कूटयन्त्रेण । स्थलजालेन विहंगा गृह्यन्ते मानवाश्च दम्भेन ॥ १४ ॥ जनहृदयविप्रलम्भो मायास्तम्भो जगज्जयारम्भः । जयति सदानुपलम्भो मायारम्भोदयो दम्भः ॥ ४५ ॥ सततावर्तभ्रान्ते दुःसहमायासहस्र कुटिलारे । मूलं दम्भो नाभिर्विपुलतरे चक्रिकाचक्रे ॥ ४६ ॥ नयननिमीलनमूलः सुचिरं स्नानार्द्रचूलजलसिक्तः । दम्भतरुः शुचिकुसुमः सुखशतशाखाशतैः फलितः ।। ४७ ।। व्रतनियमैर्बकदम्भः संवृतनियमैश्च कूर्मजो दम्भः । निभृतगतिनयननियमै|रो मार्जारजो दम्भः ॥ १८ ॥ बकदम्भो दम्भपतिर्दम्भनरेन्द्रश्च कूर्मजो दम्भः । मार्जारदम्भ एष प्राप्तो दम्भेषु चक्रवर्तित्वम् ॥ ४९ ।। नीचनखश्मश्रुकचश्थूली जटिलः प्रलम्बकूओं वा । बहुमृत्तिकापिशाचः परिमितभाषी प्रयत्नपादत्रः ॥ ५० ॥ स्थूलमन्धिपवित्रकपृष्ठाप्तिहेमवल्लीकः । कक्षार्पितपटपल्लवरुद्धभुजो भाण्डहस्त इव ॥ ५१ ॥ अङ्गुलिभङ्गविकल्पनविविधविवादप्रवृत्तपाण्डित्यः । जपचपलोष्ठः सजने ध्यानपरो नगररथ्यासु ॥५२ ॥ साभिनयाश्चितचुलकैराचमनैः सुचिरमज्जनैतीर्थे । संरुद्धसकललोकः पुनः पुनः कर्णकोणसंस्पर्शी ॥ ५३ ।। सीत्कृतदन्तनिनादावेदितहेमन्तदुःसहस्त्रानः । विस्तीर्णतिलकचर्चासूचितसर्वोपचारसुरपूजः ॥ ५४ ॥ शिरसा बिभर्ति कुसुमं विनिपतितां काकदृष्टिमिव रचयन् । एवंरूपः पुरुषो यो यः स स दाम्भिको ज्ञेयः ॥ ५५ ॥ निर्गुणलोकप्रणतः सगुणे स्तब्धः खबन्धुषु द्वेषी । परजनकरुणाबन्धुः कीर्त्यर्थी दाम्भिकी धूर्तः ॥ ५६ ।।

११
काव्यमाला।
कार्योपयोगकाले प्रणतशिराश्चाटुशतकारी ।
सभ्रूभङ्गो मौनी कृतकार्यों दाम्भिकः क्रूरः ॥ ५७ ॥
स्तम्भितविबुधसमृद्धिर्दैत्यो योऽभूत्पुरा जम्भः ।
दम्भः सोऽयं निवसति भूमितले भूतदेहेषु ॥ ५८ ।।
शुचिदम्भः शमदम्भः स्नातकदम्भः समाधिदम्भश्च ।
निःस्पृहदम्भस्य तुलां यान्ति तु नैते शतांशेन ॥ ५९॥
शौचाचारविवादी मृत्क्षयकारी खबान्धवस्पर्शी ।
शुचिदम्भेन जनोऽयं विश्वामित्रत्वमायाति ॥ ६ ॥
संहृतबहुविधसत्त्वो निःक्षेपद्रविणवारिबहुतृष्णः ।
सततमहिंसादम्भो वडवानिः सर्वभक्षोऽयम् ॥ ६१ ।।
मुण्डो जटिलो नमश्छन्नी दण्डी कषायचीरी वा ।
भस्मस्मेरशरीरो दिशि दिशि भोगी विजृम्भते दम्भः ॥ ६२ ।।
खल्वाटः स्थूलवपुः शुष्कतनुर्मुनिसमानरूपो वा।
शाटकवेष्टितशीर्षश्चैत्योन्नतशिखरवेष्टनो वापि ॥ ६३ ॥
लोभः पितातिवृद्धो जननी माया सहोदरः कूटः।
कुटिलाकृतिश्च गृहिणी पुत्रो दम्भस्य हुंकारः ॥ ६४ ॥
भगवान्पुरा स्वयंभूः कृत्वा भुवनानि भूतसर्ग च ।
विरतव्यापारतया सुचिरं चिन्तान्वितस्तस्थौ ॥ ६५ ।।
दृष्ट्वा स मर्त्यलोके दिव्यदशा मानुषानिरालम्बान् ।
आर्जवयोगविशेषादप्राप्तधनादिसंभोगान् ॥ १६ ॥
मीलितनयनः क्षिप्रं स्थित्वा मायामये समाधाने ।
असृजन्नृणां विभूत्यै दम्भ संभावनाधारम् ॥ ६७ ॥
बिभ्राणः कुशपूली पुस्तकमाले कमण्डलं शून्यम् ।
निजहृदयकुटिलश्रृंङ्ग दण्डं कृष्णाजिनं खनि च ॥१८॥
स्थूलतरकुञ्चपवित्रकलान्छितकर्णः पविभपामिम ।
सुव्यक्तमुण्डमस्तककुशवेष्टितचूलमूलसितकुसुमः ॥ १९ ॥

१ सर्गः] कलाविलासः। काष्ठस्तब्धग्रीवो जपचपलौष्ठः समाधिलीनाक्षः । रुद्राक्षवलयहस्तो मृत्परिपूर्ण वहन्पात्रम् ॥ ७० ॥ नयनाञ्चलैः सकोपर्ध कुटीहुंकारवदनसंज्ञाभिः । बहुविधकदर्थनाभिः कथिताखिलहृदयवाञ्छितो मौनी ।। ७१ ।। रक्षन्परसंस्पर्श शौचार्थी ब्रह्मलोकेऽपि । दम्भः पुरोऽस्य तस्थाबुस्थित एवासनाकाङ्क्षी ॥ ७२ ॥ आकल्पेन सुमहता सहसास्य वशीकृताः परं तेन । सप्तर्षयोऽपि तस्मै प्रणतास्तस्थुः कृताञ्जलयः ॥ ७३ ॥ तं दृष्ट्वा परमेष्ठी लीलगकृतसकलसर्गवर्गोऽपि । गौरवविस्मयहनिःस्पन्दान्दोलितस्तस्थौ ॥ ७४ ॥ तस्यातितीवनियमावस्तेऽगस्त्येऽतिविस्मयेनेव । अल्पतपोव्रतलज्जाकुञ्चितपृष्ठे वसिष्ठे च ।। ७५ ।। अतिसरलनिजमुनिव्रतपरिगतकुत्से च कूणिते कौत्से । डम्बररहितात्मतपोनिरादरे नारदे विहिते ॥ ७६ ॥ निजजानुसंघिशिखरे जमदग्नौ ममवदने च । त्रस्ते विश्वामित्रे वलितगले गालवे भृगौ ममे ॥ ७७ ।। सुचिरोत्थितमतिकोपादासनकमले निविष्टदृष्टिं च । शूलपोतमिवाने निःस्पन्दममन्दगर्वगुरुगात्रम् ॥ ७८ ॥ ज्ञात्वा तमासनार्थिनमवदद्देवश्चतुर्मुखः प्रीत्या । विकसन्निजदशनरुचा विहसन्निव वाहनं हंसम् ॥ ७९ ॥ उपविश पुत्र ममाके नियमेन महीयसातिचित्रेण । अर्होऽसि गुणगणोद्भतगौरवसंवादिनानेन ॥ ८० ॥ इत्युक्तो विश्वसृजा तस्याङ्कमशङ्कया ससंकोचः । अभ्युक्ष्य वारिमुष्ट्या कृच्छ्रेणोपाविशद्दम्भः ।। ८१ ।। दम्भ उवाच-नोचैर्वाच्यमवश्यं यदि वाच्यं हस्तपझेन । आच्छाद्य वक्ररन्ध्र स्पृष्टो न सां यथास्यवाशिः ॥ ८२ ॥ १. मुखमारतः ४२ काव्यमाला। तत्तस्य शौचमतुलं दृष्ट्वा स्मेराननो ब्रह्मा । दम्भोऽसीति जगाद प्रायो हस्ताग्रमाकम्प्य ॥ ८३ ॥ उत्तिष्ठ सकलजलनिधिपरिखावलिमेखलां महीमखिलाम् । अवतीर्य भुझ्व भोगान्विबुधैरपि तत्त्वतो न विज्ञातः ॥ ८४ ।। इत्यादराद्विसृष्टो विधिना संसारसागरगतानाम् । कण्ठे शिलां निबध्नन्मानामवततार महीम् ।। ८५ ।। अथ मर्त्यलोकमेत्य भ्रान्त्वा दम्भो वनानि नगराणि । विनिवेश्य गौडविषये निजजयकेतुं जगाम दिशः ॥ ८६ ॥ वचने बाहीकानां व्रतनियमे प्राच्यदाक्षिणात्यानाम् । अधिकारे कीराणां दम्भः सर्वत्र गौडानाम् ॥ ८७ ।। एते दम्भसहायाः प्रतिग्रहश्राद्धसिद्धचूर्णेन । कुर्वन्ति ये प्रभाते यतस्ततो भसना तिलकम् ॥ ८८ ॥ तुणं सहस्रभाग वनतले संविभज्य भूतानि । मूर्तः सततं निवसति दम्भो वदनेऽधिकरणभट्टानाम् ॥ ८९ ॥ गुरुहृदयमविशदने बालकहृदयं तपखिहृदयं च । कुटिलं नियोगिहृदयं दीक्षितहृदयं वयं दम्भः ॥ ९० ॥ तदनु च गणकचिकित्सकसेवकवणिजां सहेमकाराणाम् । नटभटगायनवाचकचकचराणां च हृदयानि ॥ ९१ ।। अंशैः प्रविश्य हृदयं विविध विकारैः समस्तजन्तूनाम् । दम्भी विवेश पश्चादन्तरमिह पक्षिवृक्षाणाम् ॥ १२ ॥ मत्स्यार्थी चरति तपः सुचिरं निःस्पन्द एकपादेन । तीर्थेषु बकतपखी तेन विहंगागतो दम्भः ॥ १३ ॥ विपुलजटावल्कलिनः शीतातपवातकर्शिताः सततम् । वृक्षा जलार्थिनो यहम्भस विजृम्भितं तदपि ॥ ९ ॥ एवं विचारणीयः सर्वगतः सर्वहृत्सदा दम्भः । ज्ञाते तसिन्विविधे विफला मायाविनां माया ।। ९५॥

१ सर्गः] कलाविलासः। ४३ दम्भविकारः पुरतो वञ्चकचक्रस्य कल्पवृक्षोऽयम् । वामनदम्भेन पुरा हरिणा त्रैलोक्यमाक्रान्तम् ॥ ९६ ॥ इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे दम्भाख्यानं नाम प्रथमः सर्गः । द्वितीयः सर्गः। लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम् । कार्याकार्यविचारो लोभाकृष्टस्य नास्त्येव ॥ १ ॥ मायाविनिमयविभ्रमनिववैचित्यकूटकपटानाम् । संचयदुर्गपिशाचः सर्वहरो मूलकारणं लोमः ॥ २ ॥ सत्त्वप्रशमतपोभिः सत्त्वधनैः शास्त्रवेदिभिर्विजितः । लोभोऽवटं प्रविष्टः कुटिलं हृदयं किरीटानाम् ॥ ३ ॥ क्रयविक्रयकूटतुलालाघवनिःक्षेपरक्षणव्याजैः । एते हि दिवसचौरा मुष्णन्ति मुदा जनं वणिजः ॥ ४ ॥ हृत्वा धनं जनानां दिनमखिलं विविधकूटमायाभिः । वितरति गृहे किराटः कष्टेन वैराटकत्रितयम् ॥ ५ ॥ आख्यायिकानुरागी ब्रजति सदा पुण्यपुस्तकं श्रोतुम् । दष्ट इव कृष्णसः पलायते दानधर्मेभ्यः ॥ ६ ॥ द्वादश्यां पितृदिवसे संक्रमणे सोमसूर्ययोर्ग्रहणे । सुचिरं स्वानं कुरुते न ददाति कपर्दिकामेकाम् ॥ ७ ॥ दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽवगुण्ठनं कृत्वा । चौर इव कुटिलचारी पलायते विकटरथ्याभिः ॥ ८॥ न ददाति प्रतिवचनं विक्रयकाले शठो वणिौनी । निःक्षेपपाणिपुरुषं दृष्ट्वा संभाषणं कुरुते ॥ ९ ॥ उत्तिष्ठति नमति वणिक्पृच्छति कुशलं ददाति च स्थानम् । निःक्षेपपाणिपुरुषं दृष्ट्वा धया कथां कुरुते ॥ १० ॥ - १. गतम्. २. वैश्यजातिविशेषाणाम्. ३. गृहव्ययार्थमविखल्प ददातीति भावा.

काव्यमाला। कश्चिद्वदति तमेत्य द्रविणं निःक्षिप्य हन्त गन्तासि । प्रातः परं प्रभाते विष्टिदिनं किं करोम्यद्य ॥ ११ ॥ तच्छ्रुत्वा विकसितग्वदति स मिथ्यैव नाटयन्खेदम् । कार्ये प्रसारिताक्षः पुनः पुनः पार्श्वमवलोक्य ॥ १२ ॥ त्वदधीनं स्थानमिदं किं तु चिरं न्यासपालनं कठिनम् । विषमौ च देशकालौ साधोस्तव तदपि दासोऽहम् ॥ १३ ॥ भद्रा न दूषितैषा निःक्षेपक्षेमकारिणी शस्ता । इत्यनुभूतं बहुशः कार्य स्त्वं तु जानासि ॥ १४ ॥ विष्टिदिने किमपि पुरा न्यस्तं केनापि मित्रेण । तूर्णं पुनश्च शनकै तं क्षेमेण कुशलेन ॥ १५ ॥ इत्यादि मुग्धबुद्धरसमञ्जसवर्णनं रहः कृत्वा : गृह्णाति कनकनिकरं नृत्यस्तत्तन्मनोरथैः पापः ॥ १६ ॥ तत्संचूर्णनजातैः क्रयविक्रयलाभराशिभिरनन्तैः । भाण्डप्रतिभाण्डचयैरुपहसति धनाधिनाथं सः ।। १७ ।। पूर्णाः कदर्यवणिजां निःसंभोगा निधानधनकुम्भाः । सीदन्ति कुचतटा इव दुःखफला बालविधवानाम् ॥ १८ ॥ दानोपभोगविरहितहिरण्यरक्षाकृतक्षणाः सततम् । संसारजीर्णमन्दिरविषममहामूषका वणिजः ॥ १९ ॥ अटति समुत्कटवेष्टितविकटपटस्फुटफटाटोपः । कुटिलः कण्टकनिचितः पुरपतिनामा निधिव्यालः ॥ २०॥ अथ पुरुषः स दिगन्तं प्रान्त्वा केनापि दैवयोगेन । नष्टधनो जनरहितः प्राप्तः सुचिरान्निज देशम् ॥ २१ ॥ पृच्छति कमपि सशङ्कः स किराटः कनु गतो महासत्त्वः । तमुपेत्य वदति कश्चित्तस्याद्य सखे विभूतिरन्यैव ।। २२ ॥ विविधनवांशुकसृगमदचन्दनकर्पूरमरिचपूगफलैः । खटिकाहस्तः स सदा गणयति कोटीमहर्लेव ॥ २३ ॥ १. भदानाबकदुष्टकरणयुक्कं दिनम्. २. शळेनेलाधिकमिव भाति. maye २ सर्गः] कलाविलासः। ४५ असिन्मेरुविशाले वरभवने रुचिरभित्तिकृतचित्रे । पुरपतिनाप्यनुयातो वसति सुखं स हि महाजनो यत्र ॥ २४ ॥ श्रुत्वैतदतुलविस्मयलोलितमौलिः स तद्गृहं गत्वा । द्वारे स्थगितस्तिष्ठति निष्प्रतिभो जीर्णकर्पटः सुचिरम् ॥ २५ ॥ तं तुङ्गभवनवलभीजालान्तरतो वणिक्परिज्ञाय । नोच्छुसिति नष्टचेष्टस्ताडित इव मूर्ध्नि वज्रेण ॥ २६ ॥ उपसृत्य मन्दमन्दं कथमपि संप्राप्तनिर्जनावसरः । तं याचते स पुरुषो द्रविणं खं प्रकटिताभिख्यः ॥ २७ ॥ तं वदति सोऽन्यदृष्टिः सभ्रूभङ्गं विधूतहस्तानः । वञ्चकवचनः पापो वृत्तिक्षीणः कुतोऽयमायातः ॥२८॥ कस्त्वं कस्य कुतो वा दर्शनमपि न स्मरामि किं कथनैः । अहह कदा कुत्र त्वं वद कस्य किमर्पितं केन ॥ २९ ॥ पश्यत कष्टमनिष्टः कलिकालः कीदृशोऽयमायातः । मत्तोऽर्थमेष वाञ्छति लोको जानाति वा सर्वम् ।। ३० ।। हरगुप्तकुलेऽसाकं निःक्षेपग्रहणमप्यसंभाव्यम् । किं पुनरपह्नवोद्गतघोरमहापातकस्पर्शः ॥ ३१ ॥ तदपि सतताभिशंसी प्रत्याख्येयो जनः कथं महताम् । कथय दिनं तदिवसे लिखितं सर्व खयं पश्य ॥ ३२ ॥ वृद्धोऽहं न्यस्तभरः पुत्रे सर्व ममास्ति लिखितं हि । इति तेन विनष्टधृतिः स विसृष्टस्तत्सुतान्तिकं प्राप्तः ।। ३३ ।। तातो जानाति सुतो जानाति पितैव लिखति सकलं यत् । इति तस्य भवति सुचिरं गतागतं कन्दुकस्येव ॥ ३४ ॥ राजकुलद्वारगते तसिन्प्राप्तप्रवासदत्वार्थे । सहते नरपतिकोपं त्यजति किराटो न रूपकस्यांशम् ॥ ३५ ॥ परिपीडितः स राज्ञा विविधैरपि यातनाशनः । मम हस्ते निक्षिप्तं किंचिन्नास्तीति वक्त्येव ।। ३६ ॥

काव्यमाला।
एवं खभावलुब्धा भवन्ति धनलवणवारिबहुतृष्णाः ।
तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ॥ ३७ ॥
देवं धनाधिनाथं वैश्रवणं सकलसंपदां निलयम् ।
शुक्रः प्रोवाच पुरा वित्तार्थी बालमित्रमभ्येत्य ॥ ३८ ॥
पूर्णः सखे तवायं विभवो विजितामरासुरैश्वर्यः ।
हर्ष विदधाति परं सुहृदां शोकं च शत्रूणाम् ॥ ३९ ।।
त्वयि सुहृदि वित्तनाथे निःखोऽहं बहुकुटुम्बसंभारः ।
समदुःखसुखं मित्रं खाधीनतयोदितं प्रशंसन्ति ॥ ४० ॥
यशसि विहितादराणामर्थिभिरुपजीव्यमानविभवानाम् ।
अभिजातवंशजानां सुहृदुपभोग्याः श्रियो महताम् ॥ ४१ ॥
उपनतमतिपुण्यचयैः संपूर्ण रक्षितं च यतेन ।
संपदि विपदि त्राणं भवति निधानं च मित्रं च ॥ ४२ ॥
इत्युक्तः सप्रणयं दैत्याचार्येण निर्जने धनदः ।
तमुवाच विचिन्त्य चिरं संरुद्धः स्नेहलोभाभ्याम् ॥ ४३ ।।
जानामि बालमित्रं त्वामहमत्यन्तसंभृतस्नेहम् ।
किं तु न जीवितजीवं द्रविणलवं त्यक्तुमीशोऽस्मि ॥ ४४ ॥
नेहार्थी बन्धुजनः कार्यंबहुभिर्भवन्ति मित्राणि ।
दाराः सुताश्च सुलभा धनमेकं दुर्लभं लोके ॥ ४५ ॥
अतिसाहसमतिदुष्करमत्याश्चर्य च दानमर्थानाम् ।
योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥ ४६॥
इत्याशापरिहारैः प्रत्याख्यातो धनाधिनाथेन ।
भममुखो लुलितमतिर्लज्जावक्रो ययौ शुक्रः ॥ १७ ॥
स विचिन्त्य गृहे सुचिरं सचिवैः सह मायया महायोगी ।
हर्तुं द्रविणमशेष विवेश हृदयं धनेशस ॥४८॥
शुक्राविष्टशरीरो वैश्रवणः सकलमद्भुतत्यागः ।
तत्कृतसंकेतेभ्यः प्रददौ वित्तं द्विजातिभ्यः ॥ १९ ॥

२ सर्गः] कलाविलासः। कौबेरं धनमखिलं हृत्वा यातेऽथ दानवाचार्ये । सुचिरं धनाधिनाथः शुशोच विज्ञाय तां मायाम् ॥ ५० ॥ हस्तन्यस्तललाटः सह शङ्खमुकुन्दकुन्दपद्माद्यैः । संचिन्त्य शुक्रविकृतिं स जगादोष्णं विनिःश्वस्य ॥ ५१ ॥ सुहृदा मर्मज्ञेन व्याजान्मायाविनातिलब्धेन । धूर्तेन वञ्चितोऽहं दैत्याश्रयदुर्जयेन शुक्रेण ॥ ५२ ॥ अधुना द्रव्यविहीनः क्षणेन तृणलाघवं प्राप्तः । कथयामि कस्य दुःखं करोमि किं वा क गच्छामि ॥ ५३ ॥ धनरहितं त्यजति जनो जनरहितं परिभवाः समायान्ति । परिभूतस्य शरीरे व्यसनविकारो महाभारः ॥ ५४ ॥ दयितेषु शरीरवतां बत धर्मलतालवालेषु । द्रविणेषु जीवितेषु च सर्व याति प्रयातेषु ॥ ५५ ॥ विद्वान्सुभगो मानी विश्रुतकर्मा कुलोन्नतः शूरः । वित्तेन भवति सर्वो वित्तविहीनस्तु सद्गुणोऽप्यगुणः ॥ ५६ ॥ इति दुःसहधनविरहक्लेशानलशोषिताशयो धनपः । सुचिरं विमृश्य सचिवैर्देवं शर्वं ययौ शरणम् ॥ ५७ ॥ प्राक्प्रतिपन्नसखोऽसौ विश्वशरण्यो महेश्वरस्तेन । विज्ञतो निजवृत्तं दूतं विससर्ज शुक्राय ॥ १८ ॥ दूताहूतं सहसा प्राप्तं शुक्र धनप्रभाशुक्रम् । अञ्जलिविरचितमुकुटं प्रोवाच पुरःस्थितं पुरजित् ॥ ५९ ॥ मित्रमयं द्रविणपतिर्भवता बत वञ्चितः कृतज्ञेन । मित्रद्रोहे प्रसरति नहि नाम जनः कृतघ्नोऽपि ।। ६० ॥ अगणितयशसा त्यक्तस्थितिना क्रियतेऽथ याकृतज्ञेन । स्निग्धे सुहृदि सरागे मिश्रे तव वञ्चना न युक्ता सा ॥ ६१ ।। एतत्किं श्रुतसदृशं त्वगतयोग्यं कुलानुरूपं वा । कृतवानसि यत्सुमते परिभूतगुणोदयं कर्म ॥ ६२ ।। १. शहादयो निधयः कुबेरसमीपे तिष्ठन्ति. २. धनप्राप्तिजनितकान्त्या शुक्र शुक्ला, देवीप्यमानमिति यावद meewane

काव्यमाला।
किमयं सुनयाभ्यासः प्रशमो वा गुरुजनोपदेशो वा ।
मतिविभवः सहजो वा वश्चकतां येन यातोऽसि ॥ १३ ॥
कस्य न दयितं वित्तं चित्तं हियते न कस्य वित्तेन ।
किं तु यशोधनलुब्धा वाञ्छन्ति न दुष्कृतैरर्थान् ॥ ६४ ॥
मा मा मलिनय विमलं भृगुकुलममलं मलेन लोभेन ।
लोभजलदो हि शत्रुर्विशदयशोराजहंसानाम् ॥ ६५ ॥
त्यक्त्वा कीर्तिमनन्तामनिलाकुलतृणलवोपमानर्थान् ।
गृह्णाति यः स मध्ये धूर्तानां कीदृशो धूर्तः ॥ ६६ ॥
उत्सृज्य साधुवृत्तं कुटिलधिया वञ्चितः परो येन ।
आत्मैव मूढमतिना कृतसुकृतो वञ्चितस्तेन ॥ ६७ ॥
नियता दूषितयशसां बत किसलयकोमला प्रकृत्यैव ।
अपवादविषतरूत्थैरामोदैमूर्छिता लक्ष्मीः ॥ ६८ ॥
नहि नाम सज्जनानां शुद्धयशःस्फटिकदर्पणो विमलः ।
परिभवदुःखितजनतानिःश्वासैर्मलिनतामेति ॥ ६९ ॥
असमञ्जसमतिमलिनं मोहाब्यक्ति समागतं कर्म ।
तस्य विशुद्धिः क्रियतां परवित्तसमर्पणेनैव ॥ ७० ॥
अपवादधूलिधूसरममलयशो मृज्यतां वहस्तेन ।
अस्मद्वचनं क्रियतां परधनमुत्सृज्यतामेतत् ॥ ७१ ।।
इत्युक्तः सानुनयं त्रिभुवनगुरुणापि देवदेवेन ।
परधननिबद्धतृष्णः प्रोवाच कृताञ्जलिः शुक्रः ।। ७२ ॥
भगवन्भवतः शासनममरेन्द्रकिरीटकोटिविश्रान्तम् ।
लङ्घयति को नु मोहाद्दौर्गत्यं सत्त्वहारि यदि न स्यात् ।। ७३ ॥
यस्य क्षीणस्य गृहे भृत्या दाराः सुताश्च सीदन्ति ।
कार्याकार्यविचारो द्रविणादानेषु कस्तस्य ॥ ७१ ॥
मित्रमयं धननाथो विपदि त्राणं विचिन्तितः सततम् ।
वृद्धिं यातः सुमहानाशाबन्धश्च मे हृदये ॥ ७५ ॥

१ सर्गः] कलाविलासः। अभ्येत्य याचितोऽपि त्यक्त्वा लज्जां मया विगतलजः । चिच्छेदेष ममाशां सहसा प्रतिषेधशस्त्रेण ॥ ७६ ॥ तेन प्रहतमशस्त्रं दाहोऽनग्निश्च निर्विषं मरणम् । विहितं शठेन मोहादाशाभङ्गः कृतो येन ॥ ७७ ।। तस्मान्ममैष शत्रुः सुकृतसमं शत्रुवञ्चनापापम् । रिक्तस्य निरपवादो व्याजेनोपार्जितोऽप्यर्थः ॥ ७८ ।। अणु धनमपि न त्याज्यं मम भवता ज्ञापिते सत्यम् । वित्तं जीवितमयं जीवितहानिर्धनत्यागः ॥ ७९ ॥ इति संभाषिणमसकृदैत्यगुरुं प्रार्थित पुनर्बहुशः । कवलीचकार सहसा प्रतिषेधरुषा विरूपाक्षः ॥ ८० ॥ जठरान्तरे पुरारेः प्रलयानलविपुलभीषणाभोगे । प्रक्वाथ्यमानकायः शुक्रश्चक्रोश साक्रोशः ॥ ८१ ॥ त्यज धनमिति विषमदृशा पुनः पुनः प्रेरितोऽवदच्छुक्रः । निधनं ममास्तु भगवन्धनदधनं न त्यजामि किंचिदपि ॥ ८२ ।। अथ धारणाप्रवृद्धज्वलनज्वालासहस्रविकराले । शुक्रश्चक्रोश भृशं घोरगीरे हरोदरे पतितः ।। ८३ ।। तमुवाच देवदेवस्त्यज दुर्गहदग्ध परवित्तम् । अस्मिन्नुदरमहोदधिवडवानौ मा गमः प्रलयम् ॥ ८४ ॥ सोऽवददतिशयतापस्फुटितास्थिवसाप्रवाहबहलामौ । परमिह मरणं श्रेयो द्रविणकणं न त्यजामि सोच्छासः ॥ ८५ ॥ पुनरपि घोरतरोद्गतकालानलधारणानलज्वलितः । शुक्रश्चक्रे देव्याः स्तोत्रं क्षणलेशशेषायुः ॥ ८६ ॥ स्तोत्रपदाराधितया गौर्या प्रणयप्रसादिते रुद्रे । तद्वचसा लब्धधृतिः शुक्रद्वारेण निर्ययौ शुक्रः ॥ ८७ ॥ एवं खभावलुब्धास्तीव्रतरां यातनामपि सहन्ते । न तु संत्यजन्ति वित्तं कौटिल्यमिवाधमः सहजम् ॥ ८८ ।।

५० काव्यमाला। तस्माल्लोभसमुत्था कपटकला कुटिलवर्तिनी माया । लुब्धहृदयेषु निवसति नालुब्धो वञ्चनां कुरुते ॥ ८९ ॥ इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे लोभवर्णनं नाम द्वितीयः सर्गः। तृतीयः सर्गः । कामः कमनीयतया किमपि निकामं करोति संमोहम् । विषमिव विषमं सहसा मधुरतया जीवनं हरति ॥ १॥ एते हि कामकलिताः परिमललीनालिवलयहुंकारैः । सूचितदानाः करिणो बध्यन्ते क्षिप्रमबलाभिः ॥ २ ॥ पादाघातशिताङ्कुशघटनानिगडादिसंरोधम् । विषयमुषितः करीन्द्रः किं न स्मरवञ्चितः सहते ॥ ३ ॥ दीर्घव्यसननिरुद्धो भ्रूभङ्गज्ञो विधेयतां यातः । विषयविवशो मनुष्यः केलिशिखण्डीव नय॑ते स्त्रीभिः ॥ ४ ॥ रक्ताकर्षणसक्ता मायाभिर्मोहतिमिररजनीषु । नार्यः पिशाचिका इव हरन्ति हृदयानि मुग्धानाम् ॥ ५ ॥ रागिमृगवागुराणां हृदयद्विपबन्धशृङ्खलौघानाम् । व्यसननववल्लरीणां स्त्रीणां नहि मुच्यते वशगः ॥ ६ ॥ संसारचित्रमायां शम्बरमायां विचित्तिमायां च । यो जानाति जितात्मा सोऽपि न जानाति योषितां मायाम् ॥ ७॥ कुसुमसुकुमारदेहा वज्रशिलाकठिनहृदयसद्भावाः । जनयन्ति कस्य नान्तर्विचित्रचरिताः स्त्रियो मोहम् ॥८॥ अनुरक्तजनविरक्ता नम्रोसिक्ता विरक्तरागिण्यः । वञ्चकवचनासक्ता नार्यः सद्भावशविन्यः ॥ ९॥ जातः स एव लोके बहुजनदृष्टा विलासकुटिलागी । धैर्यध्वंसपताका यस्य न पत्नी प्रभुर्गेहे ॥१०॥ विजितस्य मदविकारैः स्त्रीमिर्मूकस्य नष्टसंशस्य । गृहधूलिपटलमखिलं वदने निःक्षिप्यते भर्तुः ॥ ११ ॥ १ शम्बरो विचित्तिश्चातीव मामानिपुणो दैत्यो.

३ सर्गः]
कलाविलासः।
कृतकापरिस्फुटाक्षरकामकलाभिः खभावमुग्धेव ।
तिलकाय चन्द्रबिम्बं मुग्धपतिं याचते प्रौढा ॥ १२॥
खैरविहारगतागतखिन्नायास्तीर्थदर्शनव्याजैः ।
भर्ता विलासविजितश्चरणौ मृद्गाति चपलायाः ॥ १३ ॥
नयनविकारैरन्यं वचनैरन्यं विचेष्टितैरन्यम् ।
रमयति सुरतेनान्यं स्त्री बहुरूपा खभावेन ॥ १४ ॥
निजपतिचपलकुरङ्गी परतरुभृङ्गी खभावमातङ्गी ।
मिथ्याविभ्रमभृङ्गी कुटिलभुजंगी निजा कस्य ॥ १५ ॥
बहुविधतरुणनिरर्गलसंभोगसुखार्थभोगिनी वेश्या ।
धन्येति वदन्ति सदा सोच्छ्वासा निर्जने नार्यः ॥ १६ ॥
चपला तिष्ठति हर्ये गायति रथ्यावलोकिनी खैरम् ।
धावत्यकारणं वा हसति स्फटिकाश्ममालेय ॥ १७ ॥
पशुरिव वक्तुं कर्तुं किंचिदयं मम पतिर्न जानाति ।
उक्त्वेति गृहे स्वजनं पुरुषव्यापारमङ्गना कुरुते ॥ १८ ॥
प्रत्युत्थानं कुरुते व्यवहारगतागतैः खयं याति ।
उच्चैर्वदति च गेहे गृहिणी जीवन्मृतस्यैव ॥ १९ ॥
ईर्ष्यालवृद्धभार्या सेवकपली नियोगिभार्या वा ।
कारुकुशीलवनारी लुब्धवधूः सार्थवाहवनिता वा ॥ २० ॥
गोष्ठीविहरणशीला तरुणजने वत्सला प्रकृत्यैव ।
परगुणगणने सक्ता निजपतिदोषाभिधायिनी सततम् ॥ २१ ॥
अल्पधना बहुभोगा रूपवती विकृतरूपभार्या वा ।
मुग्धवधूः सकलकलामानवती नीचसंगमोद्विमा ॥ २२ ॥
द्यूतमधुपानसक्ता दीर्घकथागीतरागिणी कुशला ।
बहुपुंश्चलीवयस्या शूरजने प्रकृतिपक्षपातैव ॥ २३ ॥
त्यक्तगृहव्यापारा बहुविधवेषा निरर्गलाभ्यासा ।
प्रत्युत्तरसप्रतिभा सत्यविहीना खभावनिर्लज्जा ॥ २४ ॥

काव्यमाला ।
कुशलानामयवार्ताप्रश्नपरा प्रीतिपेशलालापा ।
विजने विविधक्रीडाडम्बरशौण्डा प्रकाशसावित्री ॥ २५ ॥
क्रतुतीर्थसुरनिकेतनगणकभिषग्बन्धुगेहगमनपरा ।
भोजनपानबहुव्यययात्रोत्सवकारिणी स्वतन्त्रेव ॥ २६ ॥
भिक्षुकतापसमका वजनविरक्ता मनोरमासक्ता ।
दर्शनदीक्षारक्ता दयितविरक्ता समाधिसंयुक्ता ॥ २७ ॥
गोष्ठीरञ्जनमित्रा विज्ञेया नष्टचारित्रा ॥ २८ ॥ (कुलकम् )
सततानुरक्तदोषा मोहितजनता बहुग्रहाश्चपलाः ।
संध्याः स्त्रियः पिशाच्यो रक्तच्छायाहराः क्रूराः ॥ २९ ॥
कस्य न वाहनयोग्या मुग्धधियस्तुच्छसाधने लग्नाः ।
प्रीततया प्रशमरुचश्चपलासु स्त्रीषु येऽदान्ताः ॥ ३० ॥
शृङ्गारशौर्यकत्थनमसमञ्जसदानवर्णना विविधाः ।
एतावदेव तासाममन्त्रयन्नं वशीकरणम् ॥ ३१ ॥
कलिकालतिमिररजनीरजनिचरीणां सहसमायानाम् ।
स्त्रीणां नृशंसचरितैः कस्य न संजायते कम्पः ॥ ३२ ॥
निर्जितधनपतिविभवो बभूव भुवि विश्रुतो वणिङ्नाथः ।
धनदत्तो नाम पुरा रत्नारामाश्रयः पयोधिरिव ।। ३३ ।।
तस्याभवद्विभूतिमूर्तेव मनोभुवः सुललिताङ्गी ।
तनया नयनविलासैर्विजिताशा वसुमती नाम ॥ ३४ ॥
प्रददौ स तामपुत्रः पुत्रपदे विनिहितां प्रियां पुत्रीम् ।
वणिजे विभवकुलोदयतुल्याय समुद्रदत्ताय ॥ ३५॥
रममाणः स तया सह हरिणाझ्या श्वशुरमन्दिरे सुचिरम् ।
प्रययौ कदाचिदग्रे द्वीपायातस्य सार्थस्य ॥ ३६ ॥
पत्यौ याते तरुणी जनकगृहे हर्म्यशिखरमारूढा ।
विललास विलासमही केलिविलोला सखीभिः सा ॥ ३७ ॥
सौधे मन्मथरूपं पृथुनयना पथि ददर्श पुरुषं सा ।
यं दृष्ट्वैव गतास्याः कापि धृतिः कुमतिकुपितेव ॥ ३८॥

३ सर्गः] कलाविलासः। सा तेन चपलनयना सहसा मुषितेव हारितविचारा । अभवदशक्ता नितरां संवरणे स्मरविकारस्य ॥ ३९ ॥ शीलं पालय चपले मा पातय निम्नगेव कुलकूलम् । इति तामवददिवोच्चैः कम्पाकुलमुखरमेखला सुचिरम् ॥ ४० ॥ सा कृत्वा विदितकथां रहसि सखीमानिनाय तं तरुणम् । चलितं हि कामिनीनां धर्तुं शक्नोति कश्चित्तम् ॥ ४१ ॥ कामं कामविकासैः सुरतविलासैः सुनर्मपरिहासैः । सहजप्रेमनिवासैर्मुमुदे सा खैरिणी तेन ॥ ४२ ॥ अथ कृतनिजधनकृत्यस्त्वरितं दयिताविलोकनोत्कण्ठः । अविशत्समुद्रदत्तः श्वशुरावासं महारम्भः ॥ १३ ॥ विपुलमहोत्सवलीलाव्यग्रजनैर्भोगसंपदा निचयैः । अतिवाय दिनं दयितासहितः शय्यागृहं स ययौ ॥ ४४ ॥ विरचितवरतरशयने बद्धविताने मनोरमस्थाने । जृम्भितसौरभधूपे सुरगृहरूपे प्रदीप्तमणिदीपे ॥ ४५ ॥ तत्र स मधुमदविलुलितलोचनकमलां प्रियां समालिङ्गय । मदगज इव नवनलिनीं भेजे रतिलालसः शय्याम् ॥ ४६॥ सापि हृदयान्तरस्थितपरपुरुषध्यानबद्धलक्षैव । तस्थौ निमीलिताक्षी ध्यानपरा योगिनीव चिरम् ॥ ४७ ॥ आलिङ्गनपरिचुम्बननीविविमोक्षेषु बहुतरोच्छासा । पत्यौ संकुचिताङ्गी सस्मार तमेव शीलहरम् ॥ १८ ॥ प्रणयकुपितेति मत्वा मुग्धपतिस्तां समुंद्रदत्तोऽपि । प्रणिपत्य चाटुकारैः किमपि ययाचे प्रसादाय || ४९ ॥ परपुरुषरागिणीनां विमुखीनां प्रणयकामवामानाम् । पुरुषपशवो विमूढा रज्यन्ते योपितामधिकम् ॥ ५० ॥ किं क्रियते कामोऽयं परगतकामः स्वतन्त्रकामश्च । घनशतरक्तायामपि संध्यायां भास्करो रागी ॥ ५१ ।।

काव्यमाला । गूढोपवननिकुञ्जे न्यस्तं सा वल्लभं ससंकेतम् । संचिन्त्य चिरं खपति विषमिव संमूर्छिता मेने ॥ ५२ ॥ निद्रामुद्रितनयने प्रणयश्रान्ते समुद्रदत्ते सा । उत्थाय रचितवेषा शनकैर्गमनोन्मुखी तस्थौ ॥ ५३ ।। चौरः क्षणे च तस्मिन्मधुमत्तजनं प्रविश्य तद्भवनम् । गमनोत्सुकामपश्यन्मुखराभरणामलक्ष्यस्ताम् ॥ ५४॥ अत्रान्तरे शशाङ्कः शनकैः सुरराजवल्लभां ककुभम् । चकित इवाशु चकम्पे मीलिततारां समालिङ्मय ॥ ५५ ॥ संकोचितकमलायाः कुमुदविजृम्भाविराजमानायाः । प्रससार तुहिनकिरणो यामिन्याः कपटहास इव ।। ५६ ॥ रविपरितापश्रान्तां वीक्ष्य दिवं प्रसरदिन्दुसानन्दाम् । जहसुरिव कुमुदवृन्दैरलिकुलहुंकारनिर्भरा बाप्यः ।। ५७ ॥ जग्राह रजनिरमणी शशिकरहृततिमिरकञ्चुकाबरणा । लज्जान्वितेव पुरतः कुमुदामोदाकुलालिपटलपटम् ॥ ५८ ॥ सुप्तजनेऽथ निशाधे चन्द्रालोके च विपुलतां याते । तमसीव निर्विशद्धा सा शनकैरुपवनं प्रत्ययौ ॥ ५९॥ अथ सा विवेश विवशा विषमशरप्लोपिता निजोपवनम् । छन्नं भूषणलोभादनुयाता विलितेन चौरेण ।। ६० ॥ तत्र ददर्श विभूषितमुज्ज्वलललितांशुकं लसत्कुसुमम् । शङ्काजनक विपिने पक्षिभिरुपलक्षितं दयितम् ॥ ६१ ॥ हृदयदयितावियोगज्वलनज्वालावलीतप्तम् । दिङ्मुखविलसितरुचिना चन्द्रेण करानलैर्दग्धम् ।। ६२ ॥ चिरसंकेतस्थित्या मुक्ताशं प्रियतमापुनर्मिलने । वृक्षालम्बितवल्लीवलयालम्बेन विगलितप्राणम् ॥ ६३ ॥ तं दृष्ट्वैव विलीना विलपन्ती व्यसनशोकसंत्रासैः । निफ्पात वल्लरीव कणदसिवलयाकुला तन्वी ।। ६४ ॥

सर्गः] कलाविलासः। संमोहमीलिताक्षी स्थित्वा सुचिरं महीं समालिङ्गय । शनकैरवाप्तजीवा विललाप लघुखरैः खैरम् ॥ ६५ ।। हा हा नयनानन्द क नु ते विशदेन्दुसुन्दरं वदनम् । द्रक्ष्यामि मन्दपुण्या किमिदं वाहं क मे कान्तः ॥ ६६ ॥ इति तरुणकरुणमबला विलप्य पाशं विमुच्य यत्लेन । अङ्के धृत्वास्य मुखं चुचुम्ब जीवं क्षिपन्तीव ।। ६७ ॥ सा तस्य वदनकमलं निजवदने मोहिता कृत्वा । ताम्बूलगर्भमकरोत्प्रकटितसाकाररागेव ॥ ६८ ॥ अथ तस्याः कुसुमोत्करमृगमदधूपादिसौरभाहूतः । आविश्य शवशरीरं नासां चिच्छेद वेतालः ॥ ६९ ॥ सा प्राप्य चापलोचितमनयफलं छिन्ननासिका गत्वा । भवनं प्रविश्य भर्तुतारं हाहेति चुक्रोश ॥ ७० ॥ प्रतिबुद्धे सकलजने नादत्रस्ते समुद्रदत्ते च । सा नासिका गमेयं भी छिन्नेति चक्रन्द ।। ७१ ।। श्वशुरादिबन्धुवगैः पृष्टः कुपितैः समुद्रदत्तोऽपि । विक्रीतः परदेशे मूक इवोचे न किंचिदपि ॥ ७२ ॥ अथ चास्य सुप्रभाते बन्धुभिरावेदिते नृपसभायाम् । तत्राभून्नृपकोपो बहुधनदण्डः समुद्रदत्तस्य ।। ७३ ।। चौरोऽपि निखिलवृत्तं प्रत्यक्षमवेक्ष्य विस्मयाविष्टः । आवेद्य भूपपुरतः प्राप्य च वलयादिसत्कारम् ।। ७४ ।। उद्याने शववदने तस्यास्तां नासिकां च संदर्य । निष्कारणसुहृदुचितां शुद्धिं विदधे समुद्रदत्तस्य ॥ ७५ ।। इत्येताः कुटिलतराः क्रूराचारा गतत्रपाश्चपलाः । यो नाम वेत्ति रामाः स स्त्रीभिर्नेव वश्चयते मतिमान् ॥ ७६ ।। इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे कामवर्णनं नाम तृतीयः सर्गः। 10 xn-- काव्यमाला। चतुर्थः सर्गः। तत्रापि वेशयोषाः कुटिलतराः कूटरागहतलोकाः । कपटचरितेन यासां वैश्रवणः श्रमणतामेति ॥ १ ॥ हारिण्यश्चटुलतरा बहुलतरङ्गाश्च निम्नगामिन्यः । नद्य इव जलधिमध्ये वेश्याहृदये कलाश्चतुःषष्टिः ॥ २॥ वेशकला नृत्यकला गीतकला धक्रवीक्षणकला च । कामपरिज्ञानकला ग्रहणकला मित्रवचनकला च ।। ३ ।। पानकला केलिकला सुरतकलालिङ्गनान्तरकला च । चुम्बनकला परकला निर्लजावेगसंगकला च ॥ ४ ॥ ईर्ष्याकलिकेलिकला रुदितकला गानरांक्षयकला च । खेदभ्रमकम्पकला पुनरेकान्तप्रसाधनकला च ॥ ५ ॥ नेत्रनिमीलननिःसहनिस्पन्दकला मृतोपमकला च । विरहासहरागकला कोपप्रतिषेधनिश्चयकला च ॥ ६ ॥ निजजननीकलहकला सहगमनोत्सवेक्षणकला च । हरणकला जातिकला केलिकला चौरपार्थिवकला च ॥ ७ ॥ गौरवशैथिल्यकला निष्कारणदोपभाषणकला च । शूलकलाभ्यङ्गकला निद्राक्षिरजसलाम्बरकला च ॥ ८ ॥ रूक्षकला तीक्ष्णकला गलहस्तगृहार्गलार्पणकला च । संत्यक्तकामुकातिदर्शनयात्रास्तुतिकला च ॥ ९॥ तीर्थोपवनसुरालयविहरणहेलाकला गृहकला च । वश्यौषधमन्त्रकला वृक्षकला केशरखनकला च ॥ १० ॥ भिक्षुकतापसबहुविधपुण्यकला द्वीपदर्शनकला च । खिन्ना कलात्रिषष्ट्या पर्यन्ते कुट्टनीकला वेश्या ।। ११ ।। अज्ञातनामवर्णेष्वात्मापि ययार्यते धनांशेन । तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः ॥ १२ ॥ १. श्रमणो बौदामिक्षुः वेश्यानुरागी धनाधिनायोऽपि भिक्षुकत्वं प्रामोतीति भायः

? सर्गः]
कलाविलासः।
निखिलजनवञ्चनार्जितमलिनधनं रागदग्धहृदयानाम् ।
खादति गुणगणभग्नो नग्नो हीनोऽथवा कश्चित् ॥ १३ ।।
नीचस्तुरगारोहो हस्तिपकः खलतरोऽथवा शिल्पी ।
वञ्चितसकलजनानां तासामपि वल्लभो भवति ॥ १४ ॥
राजा विक्रमसिंहो बलवद्भिभूमिपैः पुरा विजितः ।
मानी ययौ विदर्भान्गुणयशसा मन्त्रिणा सहितः ॥ १५ ॥
तत्र स वेश्याभवनं प्रविश्य भुवि विश्रुतां विलासवतीम् ।
भेजे गणिकां बहुधनभोग्यामप्यल्पविभवोऽपि ॥ १६ ॥
तं राजलक्षणोचितमाजानुभुजं विलोक्य पृथुसत्त्वम् ।
विविधमणिकनकको चक्रे सा तव्ययाधीनम् ॥ १७ ॥
सहजमनुरागमद्भुतमौचित्यं वीक्ष्य भूपतिस्तस्याः ।
विसयविवशः प्रेम्णा जगाद विजने महामात्यम् ॥ १८ ॥
चित्रमियं बहु वित्तं क्षपयति वेश्यापि मत्कृते तृणवत् ।
प्रीतिपदवी विसृष्टो वेश्यानां धननिबन्धनो रागः ॥ १९ ॥
मिथ्या धनलवलोभादनुरागं दर्शयन्ति बन्धक्यः ।
तदपि धनं विसृजति या कस्तस्याः प्रेम्णि संदेहः ॥ २० ।
इति वचनं भूमिपतेः श्रुत्वा मन्त्री विहस्य सासूयः ।
तमुवाच कस्य राजन्वेश्याचरितेऽस्ति विश्वासः ॥ २१ ॥
एताः सत्यविहीना धनलवलीनाः सुखक्षणाधीनाः ।
वेश्या विशन्ति हृदयं मुखमधुरा निर्विचाराणाम् ॥ २२ ॥
प्रथमसमागमसुखदा मध्ये व्यसनप्रवासकारिण्यः ।
पर्यन्ते दुःखफलाः पुंसामाशाश्व वेश्याश्च ॥ २३ ॥
अद्यापि हरिहरादिभिरमरैरपि तत्त्वतो न विज्ञाताः।
भ्रमविभ्रमबहुमोहा वेश्याः संसारमायाश्च ।। २४ ।।
इति सचिववचो नृपतिः श्रुत्वा कृत्वा च संविदं तेन ।
मिथ्यामृतमात्मानं चक्रे वेश्यापरीक्षायै ॥ २५ ॥

काव्यमाला । तस्मिन्कुंणपशरीरे विन्यस्ते मन्त्रिणा चितावह्नौ । सहसैव विलासवती वह्निभुवं भूषिता प्रययौ ॥ २६ ॥ तां प्रबलज्वलितोज्ज्वलवह्निज्वालानिपातसावेगाम् । दोामालिङ्गय नृपो जीवामीत्यभ्यधान्मुदितः ॥ २७ ॥ तत्तस्याः प्रेम दृढं सत्यं च विचार्य संभृतस्नेहः । राजा निनिन्द मन्त्रिणमसकद्वेश्यागुणाभिमुखः ॥ २८ ॥ अथ वेश्याधनसंचयमात्माधीनं महीपतिर्विपुलम् । आदाय गजतुरंगमभटविकटामाददे सेनाम् ॥ २९ ।। संभृतविपुलबलौधैर्जित्वा वसुधाधिपान्स भूपालः । निजमाससाद मण्डलमिन्दुरिवानन्दकृत्पूर्णः॥ ३० ॥ सा चान्तःपुरकान्तामूर्ध्नि कृता भूभुजा विलासवती । शुशुभे श्रीरिव चामरपवनाकुलितालका तन्वी ॥ ३१ ॥ साथ कदाचिन्नरपतिमेकान्ते विरचिताञ्जलिः प्रणता। ऊचे नाथ मया त्वं कल्पतरुः सेवितश्चिरं दास्था ॥ ३२ ॥ यदि नाम कुत्रचिदहं याता ते हेतुतां विभो लक्ष्म्याः । तन्मम सफलामाशामर्हसि कर्तुं प्रसादेन ॥ ३३ ॥ पुण्यफलप्राप्यानां हृतपररजसां खभावविमलानाम् । तीर्थानामिव महतां नहि नाम समागमो विफलः ॥ ३४ ॥ अभवन्मम' कोऽपि युवा दयितो धनजीविताधिकः प्रणयी । बद्धः स विदर्भपुरे दैववशाचोररूपेण ॥ ३५ ॥ तन्मुक्तये मया त्वं शक्ततरः सेवितो महीनाथः । अधुना क्रियतामुचितं सत्त्वस्य कुलस्य शौर्यस्य ॥ ३६॥ इति वचनामवाप्तो विस्मित इव तद्वचो नृपः श्रुत्वा । सुचिरं विलोक्य वसुधां ससारामात्यवचनं सः ॥ ३७ ॥ १. शवशरीरे.

५ सर्गः कलाविलासः। ५९ - अथ तां तथैव राजाश्वास्य विदर्भेषु भूभुजं जित्वा । बन्धनमुक्तेनास्याश्चोरेण समागमं चक्रे ॥ ३८॥ . इत्येवं बहुहृदया बहुजिहा बहुकराश्च बहुमायाः। तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः ॥ ३९ ॥ वर्णनदयितः कश्चिद्धनदयितो दासकर्मदयितोऽन्यः । रक्षादयितश्चान्यो वेश्यानां नर्मदयितोऽन्यः ॥ ४० ॥ इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे वेश्यावृत्तं नाम चतुर्थः सर्गः । -- पञ्चमः सर्गः। मोहो नाम जनानां सर्वहरो हरति बुद्धिमेवादौ । गूढतरः स च निवसति कायस्थानां मुखे च लेखे च ॥ १॥ चन्द्रकला इव पूर्णा निष्पन्ना सस्यसंपत्तिः । प्रस्ता क्षणेन दृष्टा निःशेषा दिविरंराहुकलयैव ॥ २ ॥ ज्ञाताः संसारकला योगिभिरपयातसंमोहैः । न ज्ञाता दिविरकला केनापि बहुप्रयत्नेन ॥ ३ ॥ कूटकलाशवशिविरैर्जनधनविवरैः क्षयक्षपातिमिरैः । दिविरैरेव समस्ता प्रस्ता जनता न कालेन ॥ ४ ॥ एते हि कालपुरुषाः पृथुदण्डनिपातहतलोकाः । गणनागणनपिशाचाश्चरन्ति भूर्जध्वजा लोके ॥ ५॥ १. कायस्थपदं राज्याधिकारिमात्रोपलक्षका. राज्याधिकारिणो हि प्रायः प्रजाः पी- डयन्ति, कायस्थाश्च विशेषेण. तथा हि याज्ञवल्क्यमुनिनाप्यमाणि-'चाटतस्करदुर्व- तमहासाहसिकादिभिः । पीज्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥ (१।३३६). कायस्थः 'कायथ' इति प्रसिद्धो जातिविशेषः. २. दिविर इति कायस्थस्यैव संज्ञान्त- रम्. 'विना मद्यं विना मांसं परखरहणं विना । विना परापकारेण दिविरो दिवि रो- दिति ॥ इति लक्ष्यान्तरं च. ३. पूर्वकाले दक्षिणदेशेषु तालपत्रे, उत्तरदेशेषु च भू- जपत्रे, राज्यव्यवहारमायव्ययादि च लिखन्ति स कायस्थाः, अत एव भूर्जध्वजा. इति रूपकम्. कालपुरुषहस्तेषु च ध्वजैर्भाव्यम्, काव्यमाला। कस्तेषां विश्वासं यममहिषविषाणकोटिकुटिलानाम् । ब्रजति न यस्य विषक्तः कण्ठे पाशः कृतान्तस्य ॥ ६॥ कलमाग्रनिर्गतमी बिन्दुव्याजेन साञ्जनाश्रुकणैः । कायस्थलुण्ठ्यमाना रोदिति खिन्नेव राज्यश्रीः ॥ ७ ॥ अङ्कन्यासविषमैर्मायावनितालकावलीकुटिलैः । को नाम जगति चरितैः कायस्थैर्मोहितो न जनः ॥ ८॥ मायाप्रपञ्चसंचयवञ्चितविश्वैर्विनाशितः सततम् । विषयग्रामग्रासैः कायस्थैरिन्द्रियैर्लोकः ॥ ९ ॥ कुटिला लिपिविन्यासा दृश्यन्ते कालपाशसंकाशाः । कायस्थभूर्जशिखरे मण्डललीना इव व्यालाः ॥ १० ॥ एते हि चित्रगुप्ताश्चित्रधियो गुप्तकारिणो दिविराः । रेखामात्रविनाशात्सहितं कुर्वन्ति ये रहितम् ॥ ११ ॥ लोके कलाः प्रसिद्धाः खल्पतराः संचरन्ति दिविराणाम् । गूढकलाः किल तेषां जानाति कलिः कृतान्तो वा ॥ १२ ।।. वक्रलिपिन्यासकला सकलाङ्कनिमीलनकला च । सततप्रवेशसंग्रहलोककला व्ययविवर्धनकला च ।। १३ ।। ग्राह्यपरिच्छेदकला देयधनादानकारणकला च । शेषस्य विवेककला संकलिताराशिसर्वभक्षणकला च ॥१४॥ उत्पन्नगोपनकला नष्टविशीर्णप्रदर्शनकला च । क्रयमाणैर्भरणकला योजनचर्यादिभिः क्षयकला च ॥ १५ ॥ निःशेषभूर्जदाहादागमनाशश्च पर्यन्ते । येन विना धनहारी भूर्जग्रहणे निरालोकः ॥ १६ ॥ सकलङ्कस्य क्षयिणो नवनवरूपस्य वृद्धिमाजश्च । दिविरस्य कलाः कुटिलाः षोडश दोषाकरस्यैताः ॥ १७ ॥ कूटस्थाः कायस्थाः सर्वनकारेण सिद्धमत्रेण । गुरव इव विदितमाया वृत्तिच्छेदं क्षणेन कुर्वन्ति ।। १८ ॥

: सर्गः] कलाविलासः। हारितधनपशुवसनश्चौर्यभयाइन्धुभिः परित्यक्तः । बभ्राम महीमखिलां तीव्रव्यसनः पुरा कितवः ॥ १९ ॥ स कदाचिदाप पुण्यैरुज्जयिनी तत्र मजनं कृत्वा । विचरन्विजने पुरहरमन्दिरमवलोकयामास ॥ २० ॥ शून्यायतने गत्वा वरदं देवं सदा महाकालम् । उपलेपनकुसुमफलैर्निर्व्यापारः सिषेवे सः ॥ २१ ॥ स्तोत्रजपगीतदीपैर्विपुलध्यानैर्निशासु निर्निद्रः । तस्थौ तत्र च सुचिरं दुःसहदौर्गत्यनाशाय ॥ २२ ॥ तस्य कदाचिद्भत्त्या शुभशतकृतया प्रसादितः सहसा । भवभयहारी भगवान्भूतपतिः संबभाषे तम् ॥ २३ ॥ पुत्र गृहाणेत्युक्ते देवेन कपालमालिना शिखरे । एकं कपालमसकृच्चक्रे संज्ञां पुरारातः ॥ २४ ॥ अर्घोक्त स्थगिततरः संपीडनसंज्ञया कपालस्य । तूष्णीं बभूव रुद्रो दारिद्यारिकतवपुण्यानाम् ॥ २५ ॥ खातुं याते तस्मिन्विजने देवः कपालमवदत्तम् । दन्तांशुपटलपाली गङ्गामिव दर्शयन्नने ॥ २६ ॥ अस्य कितवस्य साधोभक्तस्य चिरस्थितस्य वरदाने । कस्मात्त्वया ममैषा विहिता संपीडनैः संज्ञा ॥ २७ ।। इति भगवता कपालं पृष्टं प्रोवाच समितं शनकैः । विषमनयनोष्मविगलन्मौलीन्दुसुधारसैर्जीवत् ॥ २८ ॥ शृणु भगवन्येन मया विज्ञप्तोऽसि खभावसरलात्मन् । सुलभोऽपि बोध्यते वा निष्कारणमीश्वरः केन ॥ २९ ॥ एष कितवोऽतिदुःखी दारिद्याद्विरतसकलनिजकृत्यः । प्रासादेऽस्मिन्रचयति लेपनबलिकुसुमधूपाम् ॥ ३० ॥ दुःखी भवति तपस्सी धनरहितः सादरो भवति । भ्रष्टाधिकारविभवः सर्वप्रणतः प्रियंवदो भवति ॥ ३१ ॥ १. धूतकार:

६२
काव्यमाला।
अर्चयति देवविप्रान्नमति गुरून्वेत्ति निर्धनो मित्रम् ।
कठिनोऽपि लोह पिण्डस्तप्तः कर्मण्यतामेति ॥ ३२ ॥
व्यसनपरितप्तहृदयस्तिष्ठति सर्वः सदाचारे ।
विभवमदमोहितानां कर्मस्मरणे कथा कैव ।। ३३ ॥
ऐश्वर्यार्थी भगवन्नाशापाशेन लम्बमानोऽसौ।
कुरुते परां सपयाँ प्राप्तार्थो दृश्यते न पुनः ॥ ३४ ॥
खार्थिनः प्रयत्ताः प्राप्तार्थाः सेवकाः सदा विफलाः ।
नहि नाम जगति कश्चित्कृतकार्यः सेवको भवति ॥ ३५ ॥
देव प्रासादेऽस्मिन्फलजलकुसुमादिभोगसामग्रीम् ।
पूर्णे जाते कितवे विजने नान्ये करिष्यन्ति ॥ ३६ ।।
तस्मात्पुण्यायतने कितवं संरक्ष सेवकं सततम् ।
वरदानमस्य भगवन्निर्वासनमात्मपूजायाः ॥ ३७ ॥
श्रुत्वैतद्वक्रतरं वचनं पृथुविसयमेरः ।
तं पप्रच्छ पिनाकी कस्त्वं तत्त्वेन मे कथय ॥ ३८ ॥
इति पृष्टं पुनरूचे सपदि कपालं विचिन्त्य सद्भावम् ।
मगधेनामहमभवं कायस्थकुले स्वकर्मणो विमुखः ।। ३९ ॥
खानजपव्रतनिरतस्तीर्थरतो विदितसकलशास्त्रार्थः ।
त्यक्त्वा भागीरथ्यां शरीरकं त्वत्पदं प्राप्तः ॥ ४० ॥ (युग्मम् )
आकयैवं भगवानूचे कायस्थ एवं सत्यं त्वम् ।
चित्रं कौटिल्यकलां न त्यजसि कपालशेषोऽपि ॥ ११ ॥
इत्युक्त्वा सितकिरणः कुर्वन्नाशालताः कुसुमशुभ्राः ।
स्नात्वागताय तस्मै कितवाय वरं ददौ वरदः ॥ १२ ॥
कृत्वा तत्कितवहितं पश्यत एवाशु तस्य शशिमौलिः ।
निष्कासितवास्तच्छिर उत्तमतममालिकापलेः ॥ १३ ॥
इत्येवं कुटिलकलां सहजां मलिनां जनक्षये निरताम् ।
यमदंष्ट्रामिव मुञ्चति कायस्थो नास्थिशेषोऽपि ॥ १४ ॥

। सर्गः ]
कलाविलासः ।
६३
सुस्थः को नाम जनः सतताशुचिभावदूषितकलानाम् ।
दोषकृतां शकृतामिव कायस्थानामवष्टम्भैः ॥ ४५ ॥
असुररचितप्रयत्नाद्विज्ञाता दिविरवञ्चना येन ।
संरक्षिता मतिमता रत्नवती वसुमती तेन ॥ ४६ ॥
इति महाकविश्रीक्षेगेन्द्रविरचिते कलाविलासे कायस्थचरितं नाम पञ्चमः सर्गः ।
पाठः सर्गः ।
एकः सकलजनानां हृदयेपु कृतास्पदो मदः शत्रुः ।
येनाविष्टशरीरो न शृणोति न पश्यति स्तब्धः॥१॥
विजितात्मनां जनानामभवद्यः कृतयुगे दमो नाम ।
सोऽयं विपरीततया मदः स्थितः कलियुगे पुंसाम् ॥२॥
मौनं वदननिकूणनमूर्वेक्षणमन्यलक्ष्यता चाक्ष्णोः ।
गात्रविलेपनवेष्टनमग्र्यं रूपं मदस्यैतत् ॥ ३ ॥
शौर्यमदो रूपमदः शृङ्गारमदः कुलोन्नतिमदश्च ।
विभवमदमूलजाता मदवृक्षा देहिनामेते ॥ ४ ॥
शूलारूढसमानो वातस्तब्धोपमोऽथ भूतसमः ।
बहुभोगे विभवमदः प्रथमज्वरसंनिपातसमः ॥ ५ ॥
शौर्यमदो भुजदर्शी रूपमदो दर्पणादिदर्शी च ।
काममदः स्त्रीदर्शी विभवमदश्चैव जात्यन्धः ॥ ६ ॥
अन्तः सुखरसमूर्छामीलितनयनः समाहितध्यानः ।
धनमद एष नराणामात्मारामोपमः कोऽपि ॥ ७ ॥
उन्मादयत्यविषये विविधविकारः समस्तगुणहीनः ।
मूढमदस्त्वन्योऽयं जयति विचित्रो निरालम्बः ॥ ८॥
स्तम्भान्न पश्यति भुवं खेचरदर्शी सदा तपस्विमदः ।
भक्तिमदोऽद्भुतकारी विस्मृतदेहश्चलः प्रकृत्यैव ॥ ९ ॥
आकोपरक्तनयनः परवाड्यात्रासहः प्रलापी च ।
विषमः श्रुतमदनामा धातुक्षोभो नृणां मूर्तः ॥ १० ॥

६४ काव्यमाला । सततभ्रुकुटिकरालः परुषाकोशी हठाभिघातपरः । अधिकारमदः पुंसां सर्वाशी राक्षसः क्रूरः ॥ ११ ॥ पूर्वपुरुषप्रतापप्रथितकथाविस्मृतान्यनिजकृत्यः । कुलमद एकः पुंसां सुदीर्घदर्शी महाज्ञानः ॥ १२ ॥ वर्जितसकलस्पर्शः सर्वाशुचिभावनानिरालम्बः । आकाशेऽपि सलेपः शौचमदो नित्यसंकोचः ॥ १३ ॥ सावधयः सर्वमदा निजनिजमूलक्षये विनश्यन्ति । वरमद एकः कुटिलो विजृम्भते निरवधिर्भोगी ।। १४ ।। पानमदस्तु जघन्यः सर्वजुगुप्सास्पदं महामोहः । क्षणिकोऽपि हरति सहसा वर्षसहस्रार्जितं शीलम् ।। १५ ।। विद्यावति विप्रजने गवि हस्तिनि कुक्कुरे श्वपाके च । मद्यमदः समदर्शी खपरविभागं न जानाति ॥ १६ ॥ विगलितसदसद्भेदः समकाञ्चनलोष्टपाषाणः । प्राप्तो योगिदशामपि नरके क्षीवः वयं पतति ॥ १७ ॥ रोदिति विहसति गायति विलपत्युच्चैरुपैति संमोहम् । भजते विविधविकारान्संसारादर्शमण्डलः क्षीबः ॥ १८ ॥ परपतिचुम्बनसक्तां पश्यति दयितां न याति संतापम् । क्षीबोऽतिगाढरागं पीत्वा मधु वीतरागः किम् ।। १९॥ विसृजति वसनं दूरे व्यसनं गृह्णाति दुःसहं क्षीवः । अञ्जलिपात्रे पिबति च निजमूत्रविजृम्भितं चन्द्रम् ॥ २० ॥ च्यवनः पुरा महर्षियौवनमश्विप्रयोगतो लब्ध्वा । यज्ञे खयं कृतज्ञस्तौ चक्रे सोमपानाहौं ॥ २१ ॥ क्रुद्धस्तमेत्य शक्रः प्रोवाच मुने न जानासि । भिषजावपतियोग्यौ सोमाविश्विनौ यज्ञे ।। २२ ॥ इति बहुशः सुरपतिना प्रतिषिद्धोऽपि खतेजसा च्यवनः । न चचाल निश्चितामा निजकृत्यादश्विनोः प्रीत्या ॥ २३ ।।

६५
७ सर्गः]
कलाविलासः।
तत्कोपोद्यतवजं जम्भारेरायतं भुजस्तम्भम् ।
अस्तम्भयन्मुनीन्द्रः प्रभावसंभावनापात्रम् ॥ २४ ॥
असृजच्च तद्वधाय प्रलम्बकालोपमं चतुर्दष्ट्रम् ।
योजनसहस्रविपुलं कृत्यारूपं महासुरं घोरम् ॥ २५ ॥
तेनाविष्टः सहसा भीतो वजी तमाययौ शरणम् ।
सोमोऽस्तु देवभिषजोरिति चोवाच प्रणष्टधृतिः ॥ २६ ॥
मुनिरपि करुणासिन्धुभीतं प्रणतं महेन्द्रमाश्वास्य ।
मदमुत्ससर्ज घोरं द्यूतस्त्रीपानमृगयासु ॥ २७ ॥
सोऽयमसुरः प्रमाथी मुनिना क्रुद्धेन निर्मितो हृदये।
निवसति शरीरभाजां स्तम्भाकारो गुणैर्बद्धः ॥ २८ ॥
मौने श्रीमत्तानां निःस्पन्ददृशि प्रवृद्धविभवानाम् ।
भ्रूभङ्गमुखविकारे धनिकानां भ्रूयुगे विटादीनाम् ॥ २९ ॥
जिह्वासु दूतविदुषां रूपवतां दशनवसनकेशेषु ।
वैद्यानामोष्ठपुटे ग्रीवायां गुणिनियोगिगणकानाम् ॥ ३० ॥
स्कन्धतटे सुभटानां हृदये वणिजां करेषु शिल्पवताम् ।
गलपत्राङ्गुलिभङ्गे छात्राणां स्तनतटेषु तरुणीनाम् ॥ ३१ ।।
उदरे श्राद्धार्हाणां जङ्घासु च लेखहारपुरुषाणाम् ।
गण्डेषु कुञ्जराणां बहें शिखिनां गतेषु हंसानाम् ॥ ३२ ॥
इत्येवं मदनामा महाग्रहो बहुविकारदृढमोहः ।
अङ्गे काष्ठीभूतो वसति सदा सर्वभूतानाम् ॥ ३३ ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे मदवर्णनं नाम षष्ठः सर्गः
सप्तमः सर्गः।
अर्थो नाम जनानां जीवितमखिलक्रियाकलापस्य ।
तमपि हरन्त्यतिधूर्ताः श्लक्ष्णगला गायना लोके ॥ १॥
निःशेष कमलाकरको जग्ध्वापि कुमुदमाखाय ।
क्षीणा गायनभृङ्गा मातङ्गप्रणयतां यान्ति ॥ २॥

काव्यमाला।
घटपटशकटस्कन्धा बहुडिम्भा मुक्तकेशककलापाः ।
एते योनिपिशाचा भूपभुजो गायना लोके ॥ ३ ॥
तमसि वराकश्चौरो हाहाकारेण याति संत्रस्तः ।
गायनचौरः प्रकटं हाहाकृत्वैव हरति सर्वस्वम् ॥ ४ ॥
पापाधधनिनिगमसा धाधामामासमासगाधामा ।
कृत्वा खरपदपाली गायनधूर्ताश्चरन्त्येते ॥ ५ ॥
कुटिलावर्तभ्रान्तैर्वेषविकारैश्च मुखविकारैश्च ।
गायति गायनसंघो मर्दलहस्तश्चिरं मौनी ॥ ६ ॥
आमन्त्रणजयशब्दैः प्रतिपदहुंकारघर्धरारावैः ।
खयमुक्तसाधुवादैरन्तरयति गायनो गीतम् ॥ ७ ॥
जलपतिते सक्तुकणे मत्स्यैर्भुक्तेऽस्ति कापि धर्माप्तिः ।
गायनदत्तासु परं कोटिष्वपि नास्ति फललेशः ॥ ८॥
मुग्धधनानां विधिना रुद्धानामन्धकूपकोषेषु ।
विहितो विवृतमहास्यो गायननामा प्रणालौघः ॥९॥
नैतत्प्रकटितदशना गायनधूर्ताः सदैव गायन्ति ।
एते गतानुगतिकान्हसन्ति धूर्ता गृहीतार्थान् ॥ १० ॥
प्रातर्गायनधूर्ता भवन्ति धीराः सहारकेयूराः ।
मध्याहे चूतजिता नमा भमा निराधाराः ॥ ११ ॥
स्तुतिवागुरानिबद्धैर्वचनशरैः : कपटकूटरचनाभिः ।
गीतैर्गायनलुब्धा मुग्धमृगाणां हरन्ति सर्वखम् ॥ १२ ॥
नष्टखरपदगीतैः क्षणेन लक्षाणि गायनो लब्ध्वा ।
दास्याः सुतेन दत्तं किमिति बदन्दुःखितो याति ॥ १३ ॥
वर्जितसाधुद्विजवरवृद्धायाः सकलशोककलितायाः।
शापोऽयमेव लक्ष्म्या गायनभोज्यैव यत्सततम् ॥ १४ ॥
देवः पुरा सुराणामधिनाथो नारदं चिरायातम् ।
पप्रच्छ लोकवृत्तं महीतले भूमिपालानाम् ॥ १५॥

८ सर्गः] कलाविलासः। सोऽवददवनिपतीनां जयिनां बहुदानधर्मयज्ञानाम् । चरता मया नृलोके सुरपतियोग्याः श्रियो दृष्टाः ॥ १६ ॥ ते तु त्वां स्पर्धन्ते विमवैवरुणं धनाधिनाथं च । शतमखसंज्ञामसकृद्वहुतरयज्ञा हसन्त्येव ॥ १७ ॥ श्रुत्वा तन्मुनिवचनं जातद्वेषः शतक्रतुः कोपात् । हर्तुं धनं पिशाचान्विससर्ज भुवं नरेन्द्राणाम् ॥ १८ ॥ ते गीतनाममन्त्राः सुरपतिदिष्टाः पिशाचसंघाताः। हतुं सकलनृपाणां धनमखिलं भूतलं प्रययुः ॥ १९ ॥ मायादासः प्रथमं डम्बरदासश्च वज्रदासश्च । क्षयदासलुण्ठदासौ खरहरदासः प्रसिद्धदासश्च ॥ २० ॥ वाडवदासश्चाष्टौ ते गत्वा मर्त्यलोकमतिभयदाः । विवृतास्यघोरकुहरा गायनसृष्टिं ससर्जुरतिविकटाम् ॥ २१ ॥ यैरेतैर्हतविभवा दिशि दिशि हृतसकललोकसर्वस्वाः । यज्ञादिषु भूपतयो जाताः शिथिलोद्यमाः सर्वे ॥ २२ ॥ एतेऽपि कर्णविवरैः प्रविश्य गीतच्छलेन भूपानाम् । सहसा हरन्ति हृदयं कर्णपिशाचा महाघोराः ॥ २३ ॥ तस्मादेषां राष्ट्रे न ददाति विकारिणां प्रवेशं यः । तस्य सकलार्थसंपद्यज्ञवती भूमिराधीना ॥ २४ ॥ नटनर्तकचकचराः कुशीलवाश्चारणा विटाश्चैत्र । ऐश्वर्यशालिशलमाश्चरन्ति तेभ्यः श्रियं रक्षेत् ॥ २५ ॥ गायनसंघस्यैक्यादुत्तिष्ठति गीतनिःखनः सुमहान् । अस्थाने दचाया लक्ष्म्या इव संभ्रमाक्रन्दः ॥ २६ ॥ इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे गायनवर्णनं नाम सप्तमः सर्गः । - अष्टमः सर्गः। तत्रापि हेमकारा हरणकलायोगिनः पृथुध्यानाः । ये धानि बहुललक्ष्म्याः शून्यत्वं दर्शयन्त्येव ॥ १॥ १. भासमन्तादधीना.. Aamme ।

काव्यमाला। सारं सकलधनानां संपत्सु विभूषणं विपदि रक्षा । एते हरन्ति पापाः सततं तेजः परं हेम ॥ २ ॥ सहसैव दूषयन्ति स्पर्शेन सुवर्णमुपहतच्छायम् । नित्याशुचयः पापाश्चण्डाला हेमकाराश्च ॥ ३ ॥ मसृणकषाश्मनि निकषो मन्दरुचिक्रमगता कला तेषाम् । येषां परुषकषाश्मनि विक्रयकालेऽपि लाभकला ॥४॥ सोपस्नेहः खेद्यः सिक्थकमुद्रोऽपि वालुकाप्रायः । सोष्मा च युक्तिभेदात्तुलोपलानां कलाः पञ्च ॥ ५ ॥ द्विपुटा स्फोटविपाका सुवर्णरसपायिनी सुताम्रकला । सीसमलकाचचूर्णग्रहणपरा षट्कला मूषा ॥ ६ ॥ वक्रमुखी विषमपुटा सुपिरतला न्यस्तपारदा मृद्री । पक्षकटा ग्रन्थिमती सिक्थकला बहुगुणा पुरोनना ॥ ७ ॥ वातान्ता तन्वी गुर्वी वा परुषवातधृतचूर्णा । निर्जीवना सजीवा षोडश हेनस्तुलासु कलाः ॥ ८॥ मन्दः सावेगो वा मध्यच्छिन्नः सशब्दफूत्कारः। पाती शीकरकारी फूत्कारः षट्कलस्तेषाम् ॥ ९॥ ज्वालावलयी धूमो विस्फोटी मन्दकः स्फुलिङ्गी च । पूर्वधृतताम्रचूर्णस्तेषामपि षट्कलो वह्निः ॥ १० ॥ प्रश्नः कथा विचित्रा कण्डूयनमंशुकान्तराकृष्टिः । दिनवेलार्कनिरीक्षणमतिहासो मक्षिकाक्षेपः ॥११॥ कौतुकदर्शनमसकृत्वजनकलिः सलिलपात्रभङ्गश्च । बहिरपि गमनं बहुशो द्वादश चेष्टाकलास्तेषाम् ॥ १२ ॥ घटितस्योपरि पाकः कृत्रिमवर्णप्रकाशनोत्कर्षी । तनुगोमयामिमध्ये लवणक्षारानुलेपेन ।। १३ ।। सामान्यलोहपात्राथमिन्यस्तेऽपि कौन्तलोहतले । धावति वदनेन तुला रिक्तापि मुहुः सुपूर्णेव ॥ १४ ॥ १. सुवर्ण शोभनवर्ण ब्राह्मणादिकं कनकंच. २ कान्तिसारनाम्ना प्रसिद्धो लोहविशेषः,

६९
: सर्गः]
कलाविलासः।
प्रतिबद्धे जतुयोग्ये प्रक्षिप्तनिगूढकनककणम् ।
तुलितं पूरणकाले सुखेन हतु समायाति ॥ १५॥
उज्ज्वलनेऽपि च तेषां पातनमतिसुकरमश्मकाले च ।
सशविचित्राभरणे परिवर्तनलाधवप्रसारश्च ॥ १६ ॥
पूर्णादाने घटने नेक्षा माषार्पणं प्रभायोगः ।
कालाहरणविनाशः प्रतिपूरणयाचनं बहुश्लेषः ॥ १७ ॥
एकादश युक्तिकलास्तेषामेताः समासेन ।
एकैव कला महती निशि गमनं सर्वमादाय ॥ १८ ॥
एता हेमकराणां विचारलभ्याः कलाश्चतुःषष्टिः।
अन्या गूढाश्च कलाः सहस्रनेत्रोऽपि नो वेत्ति ॥ १९ ॥
मेरुः स्थितोऽतिदूरे मनुष्यभूमिं चिरात्परित्यज्य ।
भीतोऽवश्यं चौर्याद्धोराणां हेमकाराणाम् ॥ २० ॥
कनकशिलाशतसंधिप्रसृतमहाविवरकोटिसंघातैः ।
उत्कीर्णनिखिलशिखरः पुरा कृतो मूषकर्मेरुः ॥ २१ ॥
तत्राखिलाखुसेनानिखातनखरावलेखनोत्खातैः ।
शिथिलितमूलः सहसा बभूव मेरुः पुरा नियतम् ॥ २२ ॥
मूषकनखरोत्खातः सुमेरुरुच्चैस्तरां शुशुभे ।
उद्धतसुवर्णधूलीपटलैः कपिला बभुः ककुभः ॥ २३ ॥
तस्मिञ्जर्जरशिखरे विवरोदरदलितकनककूटतटे ।
करूपान्तागमशक्काभयमाविरभूदमानाम् ॥ २४ ॥
आह च दिव्यदृशा तद्विलोक्य सर्व सुरानथागस्त्यः ।
एते ते ब्रह्मन्ना निशाचरास्त्रिदशसंगरे निहताः ॥ २५ ॥
जाता मूषकरूपा मेरुनिपाते कृतारम्भाः ।
वध्याः पुनरपि भवतामाश्रमभङ्गान्मुनीनां च ॥ २६ ॥
श्रुत्वैतन्मुनिवचनं धूमेन बिलावली समापूर्य ।
शापेन पूर्वदग्धास्नग्धुत्रिदशा महामूषान् ॥ २७ ॥

७. काव्यमाला । एते त एव मूषाः सुवर्णकाराः क्षितौ पुनर्जाताः। जन्माभ्यासादनिशं काञ्चनचूर्ण निकर्षन्ति ॥ २८ ॥ तस्मान्महीपतीनामसंभवे गरदचोरदस्यूनाम् । एकः सुवर्णकारो निग्राह्यः सर्वथा नित्यम् ।। २९ ।। इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे सुवर्णकारोत्पत्तिामाष्टमः सर्गः। -- नवमः सर्गः। वञ्चकमाया महती महीतले जलधिमेखले निखिले। नष्टधियां मत्स्यानां जालाली धीवरर्विहिता ॥१॥ सर्वखमेव परमं प्राणा येषां कृते प्रयत्नोऽयम् । वैद्या वेद्याः सततं येषां हस्ते स्थितास्तेऽपि ॥ २॥ एते हि देहदाहाद्विरहा इव दुःसहा भिषजः । ग्रीष्मदिवसा इवोना बहुतृष्णाः शोषयन्त्येव ॥ ३ ॥ विविधौषधपरिवोगैजिज्ञासया खविद्यायाः । हत्वा नृणां सहस्रं पश्चाद्वैद्यो भवेत्सिद्धः ॥ ४ ॥ विन्यस्य राशि चक्र ग्रहचिन्तां नाटयन्मुख विकारैः । अनुवदति चिराद्गणको यत्किंचित्पांनिकेनोक्तम् ॥ ५ ॥ गणयति गगने गणकश्चन्द्रेण समागमं विशाखायाः। विविधभुजंगक्रीडासतां गृहिणी न जानाति ॥६॥ प्रथमं खवित्तमखिलं कनकार्थी भस्मसात्कृत्वा । पश्चात्सपनारसिकान्विनाशयत्येष वर्णिकानिपुणः ॥ ७॥ शतवेधी सिद्धो मे सहस्रवेधी रसोऽपि निर्यातः । इति वदति धातुवादी नमो मलिनः कृशो रूक्षः ॥ ८॥ ताम्रघटोपमशीर्षों धूर्ती हि रसायनी जराजीर्णः । केशोत्पादनकथया खल्वाटानेव मुष्णाति ॥९॥ प्रहादनशुचितारकशम्बररमणीजनेऽपि बद्धाशः । बिल्वादिमिरतिकामी हुत्वा धूमान्धतामेति ॥ १० ॥ १.प्राश्निका कार्यार्थ प्रश्नकर्ता.

.
सर्गः]
कलाविलासः।
७१
खेचर्यः सुखसाध्या यत्नाद्यदि लभ्यते नमःकुसुमम् ।
उक्ताः प्रयोगविद्भिर्मशकास्थिषु सिद्धयो बहुधा ॥ ११ ॥
कृष्णाश्वशकद्वर्त्या पश्यति गगने सुरेन्द्रभवनानि ।
मण्डूकवसालिप्तो भवति पुमान्वल्लभोऽप्सरसाम् ॥ १२ ॥
इत्युक्त्वा पुनराशां दिशि दिशि विलसन्ति धूर्तसंघाताः।
यैर्विविधसिद्धिलुब्धाः क्षिप्ताः शतशो नराः श्वने ॥ १३ ॥
वश्याकर्षणयोगी पथि पथि रक्षां ददाति नारीणाम् ।
रतिकामतन्त्रमूलं मूलं मन्त्रं न जानाति ॥ १४ ॥
बहवो रथ्यागुरवो लघुदीक्षाः खल्पयोगमुत्पाद्य ।
व्याधा इव वर्धन्ते मुग्धानां द्रविणदारहराः ॥ १५ ॥
हस्तस्था धनरेखा विपुलतरास्याः पतिश्च चलचित्तः ।
मृदाति कुलवधूनामित्युक्त्वा कमलकोमलं पाणिम् ॥ १६ ॥
बद्धेऽङ्गुष्ठे सलिले पश्यति विविधं जनभ्रमं कन्या ।
न प्राप्यते च चोरो मोहोऽसाविन्द्रजालस्य ॥ १७ ॥
खादति पिबति च धूर्तः प्रलापकारी नृणां तलाघातैः ।
चेटावेशं कृत्वा निर्मचक्षुद्रधूपेन ॥ १८ ॥
कक्षपुटे नागार्जुनलिखिता युक्तिर्विधीयतां धूपे ।
यो हतु मोहादिति धूर्तोऽसौ क्षिपति परवित्तम् ॥ १९ ॥
यक्षीपुत्राश्चोरा विज्ञेयाः कूटधूपकर्तारः ।
येषां प्रत्यक्षफलं दारिद्यं राजभङ्गश्च ॥२०॥
बहुतरघनेन वणिजा पुत्री सा पुत्रवद्गृहीतैव ।
मदधीनेति कथाभिः कन्यार्थ भुज्यते धूर्तेः ।। २१ ॥
चिन्त्यः खेजितवादी मर्मज्ञो हृदयचौर एवासौ ।
तिष्ठति परप्रयुक्तो मिथ्याबधिरोऽथवा मूकः ॥ २२ ।।
भमसेरा वेश्या वृद्धाः श्रमणाः सदैवता गणिकाः।
एताः कुलनारीणां चरन्ति धनशीलहारिण्यः ॥ २३ ॥

७२
काव्यमाला।
विधवा तरुणी सधना वाञ्छिति दिव्यं भवद्विषं रमणम् ।
धूर्ती जडमित्युक्त्वा सर्वखं तस्य भक्षयति ॥ २४ ॥
प्रत्यहवेतनयुक्ताः कर्मसु ये कारुशिल्पनो धूर्ताः ।
विलसन्ति कर्मविनैर्विज्ञेयाः कालचौरास्ते ॥ २५ ॥
अक्षव्याजैर्विविधैर्गणनाहस्तादिलाघवैर्निपुणाः ।
धूर्ताश्चरन्ति गूढं प्रसिद्धकितवा विदेशेषु ॥ २६ ॥
भोजनमात्रोत्पत्तिर्बहुव्ययो द्यूतमद्यवेश्याभिः ।
विज्ञेयो गृहचौरो बन्धुजनो वेश्मदासो वा ॥ २७ ॥
कृतकं शास्त्रमसत्यं साक्षादृष्टश्च केन परलोकः ।
इति वदति यः स शक्ष्यो निरङ्कुशो मत्तमातमः ॥ २८ ॥
बहुलाभलुब्धमनसां हरन्ति ये दुःसहेन लामेन ।
ऋणधनमधिकविदग्धा विज्ञेया लाभचोरास्ते ॥ २९ ॥
अधिकरणाम्बुधिमध्ये ज्वलन्ति वडवामयः सततभक्षाः ।
जनधनघनमनसो ये भट्टाख्या न्यायचोरास्ते ॥ ३० ॥
विमवाम्भोरुहमधुपा दुःसहविपदनिलवेगविमुखा ये ।
सुहृदस्ते सुखचौराश्चरन्ति लक्ष्मीलताहताः ॥ ३१ ॥
यद्यत्किंचिदपूर्व परिचरितं कल्पनादसंबद्धम् ।
वर्णयति हर्षकारी बहुवचनः कर्णचौरोऽसौ ॥ ३२ ॥
दोषेषु गुणस्तुतिभिः श्रद्धामुत्पाद्य चतुरवचना ये ।
कुर्वन्त्यभिनवसृष्टिं स्थितिचौरास्ते निराचाराः ॥ ३३ ॥
आत्मगुणख्यातिपराः परगुणमाच्छाद्य विपुलयतेन ।
प्रभवन्ति परमधूर्ता गुणचौरास्ते विमूढहृदयेषु ॥ ३४ ॥
वल्लमतामुपयाताः परवाल्लभ्यं विचित्रपैशुन्यैः ।
ये नाशयन्ति धूर्ता मात्सर्यावृतिचौरास्ते ॥ ३५॥
शमदमभक्तिविहीनस्तीबतदुर्गहनखः ।
अमिभवति प्रतिपत्त्या साधुजन कीर्तिचोरोऽसौ ॥ ३६ ॥

१ सर्गः]
कलाविलासः।
देशान्तरसंभविभिभॊगवरैर्वर्णनारम्यैः ।
येऽपि नयन्ति विदेशं पशुसहशान्देशचौरास्ते ॥ ३७ ॥
नानाहासविकारैर्बहुवैदग्ध्यैः सनर्मवैचित्र्यैः ।
रमयति दिवसमशेष प्रकृतिव्यापारचौरोऽसौ ॥ ३८ ॥
भक्षितनिजबहुविभवाः परविभवक्षपणदीक्षिताः पश्चात् ।
अनिशं वेश्यावेशस्तुतिमुखरमुखा विटाश्चिन्त्याः ॥ ३९ ।।
अतिशुचितया न वित्तं गृह्णाति करोति चाग्र्यमधिकारम् ।
यो नियमसलिलमत्स्यः परिहार्यो निःस्पृहनियोगी ॥ १० ॥
रथ्यावणिजः पापाः खयमेत्य गृहेषु यत्प्रयच्छन्ति ।
तत्स्वकरार्पितमखिलं भवति परं काचशकलमपि ॥ ११ ॥
छन्दानुवर्तिनो ये श्वापातेऽपि साधुवादपराः।
सर्वखहारिणते मधुरा विषवद्विशन्त्यन्तः ॥ ४२ ।।
तव नरपतिः प्रसादी गुणगणनपरः परं विजने ।
उक्त्वेति राजदासैः सेवकलोकः सदा मुषितः ।। ४३ ॥
खमे मयाजहस्ता दृष्टा श्रीस्त्वहं प्रविष्टा सा ।
मासोपवासतुष्टा देवी श्रीः सादरा प्राह ॥ १४ ॥
मद्भक्तस्ते दास्यति सर्व तत्त्वं मया लब्धः ।
इत्युक्त्वा सरलानां विलसन्ति गृहे गृहे धूर्ताः ॥ १५ ॥
पुरविप्लवनगरोदययज्ञविवाहोत्सवादिजनसङ्के ।
प्रविशन्ति बन्धुवेषाः परेऽपि सर्वापहाराय ॥ १६ ॥
परिजनपानावसरे पिबति न मद्य निशासु जागर्ति ।
ध्यानपर: सेवार्थी किमपि च कर्तुं कृतोद्योगः ॥ १७॥
न ददाति प्रतिवचनं ददाति वा गद्दाक्षरैर्विषमम् ।
नष्टमुखः सोच्छासः प्रवेपते तत्क्षणं चोरः ॥ १८ ॥
यश्वाधिकपरिशुद्धि प्रार्थयते रटति यश्च साटोपः ।
घोरापहवकारी शहायतनं स पापः स्यात् ॥ १९ ॥

७ काव्यमाला। प्रत्यक्षेऽपि परोक्षे कृतमकृतं कथितमप्यनुक्तं च । यः कुरुते निर्विकृतिः स परं पुंसां भयस्थानम् ॥ ५० ॥ कृतकृतकमुग्धभावः षण्ढ इव स्त्रीखभावसंलापः । विचरति यः स्त्रीमध्ये स कामदेवो गृहे धूर्तः ।। ५१ ।। सततमधोमुखदृष्टिः सति विभवे मलिनदशनवसनश्च । विलिखन्कोषनियुक्तः कोषगृहे मूषकश्चिन्त्यः ॥ ५२ ॥ तिष्ठति यः सकलदिनं गृहदासः प्रीतवेश्मभवनेषु । गृहदीर्घकथाः कथयन्स चरः सर्वात्मना त्याज्यः ॥ ५३ ॥ निन्द्ये बहुदण्डाहे कर्मणि यः सर्वथा प्रतारयति । आजीवभीतिभोज्यस्तेन निबद्धः स्थिरो राशिः ॥ ५४ ॥ दृष्ट्वा गुह्यमशेषं तस्य रहवं च लीलया लब्ध्वा । धूर्तेन मुग्घलोकस्तेन शिलापट्टके लिखितः ।। ५५ ॥ राजविरुद्धं द्रव्यं रूपं वा कूटलेख्यमन्यद्वा । निःक्षिप्य यात्यलक्ष्यं धूर्तो धनिनां विनाशाय ॥ ५६ ॥ क्षुद्रः क्षीणोऽपि गृहे लब्धाखादः कृतो धनैर्येन । शस्त्रविषपाशहस्तः स पाशहस्तो धृतस्तेन ॥ ५७ ॥ लज्जाधनः कुलीनः संभावितशुद्धशीलमर्यादः । नारीक्रियते धूतैः प्रायेण सगर्भनारीभिः ॥ ५८ ॥ दृष्टाभिरदृष्टाभिः क्रूराभिः कृतकवचनमुद्राभिः । धूर्ती मुष्णाति वधूं मुग्धां विप्रोषिते पत्यौ ।। ५९ ॥ सजनेऽपि साधुवेषा विधृताभरणाश्च हेलया धूर्ताः । धीरा हरन्ति सकलं दृष्टे हासोऽन्यथा लाभः ॥ ६०.॥ देशे कृत्वा स्फीते कुम्मघनो डम्बरैह पूर्णम् । निःक्षेपलक्षहारी वर्षेण पलायते धूर्तः ॥ ६१ ॥ १. राजकीयटशालातोऽन्यस्थले स्वगृहादी निर्मितं रजतमुद्रादि. २. पाशहखो यमः. ३.यथा मरुस्थलादिदेशवासिनः केचिद्वणिजो देशान्तरे गत्वा महतारम्बरेण धनबत्तख्या- ९ सर्गः] कलाविलासः। ७५ शुचितरकनकविभूषणतनुवस्त्राः संप्रमेण पूज्यन्ते । रिपुभमराजपुत्रव्याजेन गृहे गृहे धूर्ताः ॥ ६२ ॥ आदाय देशवृषभं पुण्यं छागं च धूर्त विक्रीतम् । मुग्धस्य दुःखपाकः समर्घलाभोदितो हर्षः ।। ६३ ।। साविक्षेपत्यागो महतां संपत्सु यः कृतासूयः । तस्मै भयेन वित्तं रिक्तोऽपि ददाति यत्नेन ॥ ६४॥ निःसारभूर्जसारैः कृत्वा युक्तं महासार्थम् । धूर्ती दिशि दिशि विचरन्धनिकसहस्राणि मुष्णाति ॥ ६५ ॥ धूर्तो वसन्विदेशेषूद्दिश्य सुरापगागयायात्राम् । मृतबन्धूनामर्थे द्रविणं गृह्णाति मुग्धेभ्यः ॥ ६६ ।। मुष्णाति सार्थरमणी शाटीमादाय निद्रया मुग्धान् । धूर्तेन कूटरूपं दत्त्वा निशि वञ्चते सापि ॥ ६७ ।। बधिरं वा मूकं वा वणिजं निःक्षिप्य भाण्डशालायाम् । धूर्तो नयति त्वरया बहुमूल्यं वर्णकद्रव्यम् ॥ ६८ ॥ किंचित्परिचयमात्रैः किंचिद्धार्थैः सकल्पनैः किंचित् । किंचिद्विवादकलहैः सर्वज्ञो वञ्चकश्वरति ॥ ६९ ॥ मिथ्याडम्बरधनिकः पुस्तकविद्वान्कथाज्ञानी । वर्णनशूरश्चपलश्चतुर्मुखो जृम्भते धूर्तः ॥ ७० ॥ सर्वावयवविधूननकृतसंकेतान्विसृज्य गेहेषु । भोक्तुं व्रजति दिगन्तान्खेच्छाचारी महाघूर्तः ।। ७१ ।। शतवार्षिकमामलकं भुक्त्वा श्रीपर्वतादहं प्राप्तः । धूर्तो वदति गुरूणां पुरतः शकुनं स्मरामीति ॥ ७२ ॥ तिं संपाद्य बहुना निःक्षेपधनानि भक्षयित्वा कुम्भादिषु गुप्ततया संस्थाप्य पश्चात् 'दि- वाला निष्कासनं कुर्वन्ति. १. यथाधुनापि केचित् 'दिल्लीबादशाहशाहजादा'नामकाः, केचित्र 'लखनऊनवाब- तनूजन्मानो भूत्वा मुग्धधनिकान्वश्वयन्तः परित्रमन्ति. २. वेश्या. ३. 'खोटा रुपया' इति प्रसिदं कांस्यादिनिर्मितं रूपकम्. -

७६
काव्यमाला।
एता लेशेन मया कथिता मायाश्चतुःषष्टिः ।
को वेद वञ्चकानां मायानां शतसहस्राणि ॥ ७३ ॥
इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे नानाधूर्तवर्णनं नाम नवमः सर्गः।
दशमः सर्गः।
एता वञ्चकमाया विज्ञेया न तु पुनः खयं सेव्याः ।
धर्म्यः कलाकलापो विदुषामयमीप्सितो भूत्यै ॥१॥
धर्मस्य कला ज्येष्ठा भूतदयाख्या परोपकारश्च ।
दानं क्षमानसूया सत्यमलोभः प्रसादश्च ॥ २ ॥
अर्थस्य सदोत्थानं नियमपरीपालनं क्रियाज्ञानम् ।
स्थानत्यागः पटुतानुद्वेगः स्त्रीष्वविश्वासः ॥ ३ ॥
कामस्य वेषशोभा पेशलता चारुता गुणोत्कर्षः ।
नानाविधाश्च लीलाश्चित्वज्ञानं च कान्तानाम् ॥ ४॥
मोक्षस्य विवेकरतिः प्रशमस्तृष्णाक्षयश्च संतोषः ।
सङ्गत्यागः खलयस्थानं परमप्रकाशश्च ।। ५॥
एताश्चतुष्टयकला द्वात्रिंशत्क्रमधृताः समस्ता वा ।
संसारवञ्चकानां विद्या विद्यावतामेव ॥ ६॥
मात्सर्यस्य त्यागः प्रियवादित्वं सधैर्थमक्रोधः।
वैराग्यं च परार्थे सुखस्य सिद्धाः कलाः पञ्च ॥ ७ ॥
सत्सङ्गः कामजयः शौचं गुरुसेवनं सदाचारः।
श्रुतममलं यशसि रतिर्मूलकलाः सप्त शीलस्य ॥ ८॥
तेजः सत्त्वं बुद्भिर्व्यवसायो नीतिरिजितज्ञानम् ।
प्रागल्भ्यं सुसहायः कृतज्ञता मन्त्ररक्षणं त्यागः ॥९॥
अनुरागः प्रतिपत्तिमित्रार्जनमातृशंस्यमस्तम्भः ।
आश्रितजनवात्सल्यं सप्तदश कलाः प्रभावस्य ॥१०॥ (युग्मम्)
मौनमलौल्यमयाच्या मानस्य च जीवितं कलात्रितयम् ।
एताः कला विदग्धैः खगताः कार्याश्चतुःषष्टिः ॥ ११॥

१० सर्गः]
कलाविलासः।
शक्तविरोधे गमनं तत्प्रणतिर्वा बलोदये वैरम् ।
आर्तस्य धर्मचर्या दुःखे धैर्य सुकेष्वनुत्सेकः ॥ १२ ॥
विभवेषु संविभागः सत्सु रतिर्मन्त्रसंशये प्रज्ञा ।
निन्द्येषु पराङ्मुखता मेषजमेतत्कलादशकम् ॥ १३ ॥
गुरुवचनं सत्यानां कार्याणां गोद्विजातिसुरपूजा ।
लोमः पापतमानां क्रोधः सर्वोपतापजनकानाम् ॥ १४ ॥
प्राज्ञः सर्वगुणानां यशखिता विपुलवित्तविभवानाम् ।
सेवा दुःखतमानामाशा पृथुकालभुजगपाशानाम् ॥ १५ ॥
दानं रत्ननिधीनां निर्वैरत्वं सुखप्रदेशानाम् ।
याच्या मानहराणां दारियं चोपतापसार्थानाम् ॥ १६ ॥
धर्मः पाथेयानां सत्यं मुखपद्मपावनकराणाम् ।
व्यसनं रोगगणानामालस्यं गृहसमृद्धिनाशानाम् ॥ १७ ॥
निःस्पृहता श्लाघ्यानां प्रियवचनं सर्वमधुराणाम् ।
दर्पति मिरकराणां दम्भः सर्वोपहासपात्राणाम् ॥ १८ ॥
अद्रोहः शौचानामचापलं व्रतविशेषनियमानाम् ।
पैशुन्यमप्रियाणां वृत्तिच्छेदो नृशंसचरितानाम् ॥ १९ ॥
कारुण्यं पुण्यानां कृतज्ञता पुरुषचिह्नानाम् ।
माया मोहमतीनां कृतघ्नता नरकपातहेतूनाम् ॥ २० ॥
मदनश्छलचौराणां स्त्रीवचनं ज्ञातिमेदानाम् ।
क्रूरश्चण्डालानां मायावी कलियुगावताराणाम् ॥ २१ ॥
शास्त्रं मणिदीपानामुपदेशश्चाभिषेकाणाम् ।
वृद्धवं क्लेशानां रोगित्वं मरणतुल्यदुःखानाम् ॥ २२ ॥
सेहो विषमविषाणां वेश्यारागो विसर्पकुष्ठानाम् ।
भार्या गृहसाराणां पुत्रः परलोकबन्धूनाम् ॥ २३ ॥
शत्रुः शल्यशतानां दुष्पुत्रः कुलविनाशानाम् ।
तारुण्यं रमणीनां रूपं रुचिरोपचारवेषाणाम् ॥ २४॥

काव्यमाला।
संतोषो राज्यानां सत्सङ्गश्चक्रवर्तिविभवानाम् ।
चिन्ता शोषकराणां विद्वेषः कोटरामिदाहानाम् ॥ २५ ॥
मैत्री विस्रम्भानां निर्यन्त्रणता महाहभोगानाम् ।
संकोचो व्याधीनां कौटिल्यं निर्जलान्धुकूपानाम् ॥ २६ ॥
आर्जवममलकराणां विनयो वररत्नमुकुटानाम् ।
द्यूतं दुर्व्यसनानां स्त्रीजितता मरुतटीपिशाचानाम् ॥ २७ ॥
त्यागो मणिवलयानां श्रुतमुज्ज्वलकर्णरत्नानाम् ।
खलमैत्री चपलानां दुर्जनसेवा वृथाप्रयासानाम् ॥ २८॥
निर्वृतिस्थानानां प्रियदर्शनममृतवर्षाणाम् ।
तत्त्वरतिर्लभ्यानां मूर्खसभा सद्विवेकनाशानाम् ॥ २९ ॥
कुलजः सफलतरूणां सौभाग्यं कृतयुगावताराणाम् ।
राजकुलं शयानां स्त्रीहृदयं प्रकृतिकुटिलानाम् ॥ ३०॥
औचित्यं स्तुत्यानां गुणरागश्चन्दनादिलेपानाम् ।
कन्या शोककराणां बुद्धिविहीनोऽनुकम्प्यानाम् ॥ ३१ ॥
विभवः सौभाग्यानां जनरागः कीर्तिकन्दानाम् ।
मद्यं वेतालानां मृगया गजगहनयक्षाणाम् ॥ ३२ ॥
प्रशमः खास्थ्यकराणामात्मरतिस्तीर्थसेवानाम् ।
लुब्धः फलरहितानामाचारविवर्जितः श्मशानानाम् ॥ ३३ ॥
नीतिः स्त्रीरक्षाणामिन्द्रियविजयः प्रभावाणाम् ।
इर्ष्या यक्ष्मशतानामयशः कुस्थानमरणानाम् ।। ३४ ॥
माता मङ्गल्यानां जनकः सुकृतोत्सवोपदेशानाम् ।
घातस्तीक्ष्णतराणां छेदस्तीक्ष्णासिशस्त्राणाम् ॥ ३५ ॥
प्रणतिर्मन्युहराणां सौहार्द कृच्छ्याच्नानाम् ।
मानः पुष्टिकराणां कीर्तिः संसारसाराणाम् ॥ ३६ ॥
प्रभुभक्ति तीनां युधि निधनं सौख्यवीथीनाम् ।
विनयः कल्याणानामुत्साहः सर्वसिद्धीनाम् ॥ ३७ ॥

प्राणाभरणम् । ७९ पुण्यं प्राप्यतमानां ज्ञानं परमप्रकाशानाम् । कीर्तिः संसारेऽस्मिन्सारतरा सर्वलोकानाम् ॥ ३८ ॥ (कुलकम् ) ज्ञेयः कलाकलापे कुशलः सर्जार्थतत्त्वविज्ञानी । प्रवरतरो लोकेऽस्मिन्ब्राह्मण इव सर्ववर्णानाम् ॥ ३९ ॥ इत्युक्तं शतमेतद्यो वेत्ति शुभाशुभोदयकलानाम् । तस्यैव व्यवहारे दृष्टा दृष्टप्रयोजना लक्ष्मीः ॥ ४० ॥ उक्त्वेति मूलदेवो विसृज्य शिष्यान्कृतोचिताचारः । किरणकलिकाविकासां निनाय निजमन्दिरे रजनीम् ॥ ११ ॥ केलीमयः मितविलासकलाभिरामः सर्वाश्रयान्तरकलाप्रकटप्रदीपः । लोकोपदेशविषयः सुकथाविचित्रो भूयात्सतां दयित एष कलाविलासः ॥ ४२ ॥ कलाविलासः क्षेमेन्द्रप्रतिभाम्भोधिनिर्गतः । शशीव मानसानन्दं करोतु सततं सताम् ॥ १३ ॥ इति महाकविश्रीक्षेमेन्द्रविरचिते कलाविलासे सकलकलानिरूपणं नाम दशमः सर्गः । पण्डितराजश्रीजगन्नाथविरचितं प्राणाभरणम् । तत्कृतयैव टिप्पण्या समेतम् । विद्वांसो वसुधातले परवचः श्लाघासु वाचंयमा भूपालाः कमलाविलासमदिरोन्मीलन्मदापूर्णिताः । १. 'सारतरा' इत्यस्य लिङ्गविपरिणामेन सर्वत्रान्वयः. २. जगन्नायपण्डितकृता बहवो ग्रन्थाः सन्ति, तन्मध्यादद्यावधि ज्ञाता ग्रन्थास्त्वेते-(१) अमृतलहरी,(२) आ- सफविलासः, (३) करुणालहरी, (४) चित्रमीमांसाखण्डनम्, (५) जगदाभरणकाव्यम्, ६)पीयूषलहरी, (७) प्राणाभरणकाव्यम्, (८) भामिनीविलासः, (९) मनोरमाकुचमर्दम, (१०) यमुनावर्णनचम्पः, (११) लक्ष्मीलहरी, (१२) सुधालहरी, (१३) रसगङ्गाधर. ३. कामरूपदेशाधीशस्य प्राणनारायणमहीपस्य स्तुतिरूपोऽयं प्रन्थः, काव्यमाला। आस्से धास्यति कस्य लास्यमधुना धन्यस्य कामालस- खर्वामाघरमाधुरीमधरयन्वाचा विलासो मम ॥ १ ॥ विद्वांस इत्यादि प्रायदर्शनाभिप्रायमेतत् । तेन सहृदयन मनागपि विमनायितव्यम् । भावध्वनिश्चायम् । उत्तरार्धप्रतिपाद्यार्थालम्बनाया एतत्पद्यप्रयोगानुभावायाः कविगतवि- न्तायाः प्राधान्येनाभिव्यक्तः । अनुपात्तोभयनिमित्तको व्यतिरेकः स्फुटोऽलंकारः । का- मालसत्वं वामाविशेषणमधरमाधुरीप्रकर्षकम् ॥ विद्राणैव गुणज्ञता समुदितो भूयानसूयाभरः कालोऽयं कलिराजगाम जगतीलावण्यकुक्षिभरिः । एवं भावनया मदीयकविते मौनं किमालम्बसे जागर्तु क्षितिमण्डले चिरमिह श्रीकामरूपेश्वरः ॥ २ ॥ कविगतराजविषयकरतिभावध्वनिश्चायम् । इत ऊर्ध्वमयमेव आ चरमपद्यमनुवर्सिष्यते अस्य चात्र मौनानुभावितो वर्णनीयालम्बनो निर्वेदो गुण इति प्रेयोलंकारास्पदम् । अत्र चाचेतनायां कवितायां चेतनत्वाध्यवसायमूलासंबन्धे संबन्धात्मिकातिशयोकिर्विवक्षिता। वेन भावनामौननिर्वेदानां संबोधनस्य च नानुपपत्तिः ॥ पारीन्द्राणां धुरीणैरवनितलगुहागर्भतः संपतद्भिः खापभ्रंशापराधप्रचलितनयनप्रान्तमाकर्ण्यमानः । त्वत्प्रस्थानान्तरुद्यत्प्रलयजलघरध्वानधिक्कारधीरो घृष्टक्षीरोदतीरो जगति विजयते दुन्दुभिद्वन्द्वनादः ॥ ३ ॥ अन राजालम्बनस्य ताशनादश्रवणोद्दीपितस्य नयनप्रचलनानुभावितस्य गिरिगुहाग- मोत्पतनामिव्यकेनामर्षेण संचारिणा परिपोषितस्य पारीन्द्रगतोत्साहस्य स्थायिनो राजविषयकरतिभावामत्वादसालंकारत्वम् । यदाहुः-'प्रधानेऽन्यत्र वाक्याथै यत्रा तु रसादयः। काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः॥ इति । तृतीयचतुर्थचरणयोस्तु स्फुटावेव व्यतिरेकातिशयो । घृष्टशब्देन तादृशनादो वेलाचलप्रतिवद्धत्वादन गतः। अन्यथा लोकालोकाचलमपि स्पृशेदिति गम्यते । एव सृष्टेति नोकम् । तथा सति शैथिल्यप्रत्ययापत्तेः॥ कि मस्तव वीरतां वयममी यसिन्धराखण्डल क्रीडाकुण्डलितनु शोणनयनं दोमण्डलं पश्यति । १. उदाहतोऽयं लोको रसगडाघरे प्रथमानने. हे पृथ्वीन्द्र, गमिस्त्वयि प्रोग्या तस्यां वा कुण्डलिवे सुवौ शोणनयने व यस तस्मिन्सति । दोमण्डल दोयुग्मं पश्यति ब सति । तत्कालं तसिमेव समये । रकमणिसमूहकान्तिमिश्रितभूषणानन्वनमूदविण्या- mom -- प्राणाभरणम् । ८१ माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्रोत्करै- विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः ॥ ४ ॥ अत्र विन्ध्यारण्यगतानां गुहागृहाणामवनिरुहां च विन्ध्यगतानां गुहागृहाणामरण्यग- तानामवनिरुहाणां वा भूषणेन कार्येणाप्रस्तुतेन वदरिनारीणां खनगराणि परित्यज्य निशि गुहागृहेषु तरुतलेषु च विन्यस्य सकलाभरणानि कृतशयनानां प्रातस्वदागमनसंभ्रमेण तत्कर्मकं विस्मरणं भारवशात्परित्यागो वा प्रस्तुतो गम्यत इत्यप्रस्तुतप्रशंसा। कार्यस्य यथाकथंचित्प्रस्तुतत्वे तु पर्यायोकमलंकारः ॥ माहात्म्यस्य परोऽवधिनिजगृहं गम्भीरतायाः पिता रत्नानामहमेक एव भुवने को वापरो मादृशः। इत्येवं परिचिन्त्य मा म सहसा गर्वान्धकारं गमो दुग्धाब्धे भवता समो विजयते श्रीप्राणनारायणः ॥ ५ ॥ अत्रोपमानस्य गुणविशेषप्रयुक्तसादृश्याभावनिबन्धनमुत्कर्ष परिहर्तुं वर्ण्यमानसादृश्या- त्मकः प्रतीपालंकारभेदः । स चोपमाविशेष इत्येके । विच्छित्तिवैलक्षण्यादतिरिक्त एवेत्यपरे॥ त्वत्तो जन्म सितांशुशेखरतनुज्योत्सानिमन्नात्मनो दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम् । संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः कमान्नोज्वलिमानमञ्चतुतमां देव त्वदीयं यशः ॥ ६ ॥ अत्र यशसि धवलतातिशयस्तद्धर्मिसंबन्धप्रयुक्तत्वेन कथित इति समस्य विषयः । अंशुकृतश्चन्द्रे तत्कृतश्च भगवति भगवत्कृतश्च राजनीसेवमुत्तरोत्तरमुपचीयमानो राजगत उत्कर्षः प्रतीयत इति सारविषयः ।। आबध्नास्थलकान्निरस्यसितमां चोलं रसाकाझ्या लङ्कायावशतां तनोषि कुरुषे जङ्घाललाटक्षतम् । देवनगुहागृहक्षाश्चत्वार उल्लासिताः । अतस्तव वीरतां अमी वयं किं ब्रूम इत्यर्थः । क्रीडायां तथा कृतं श्रुखा शत्रवः पलाय्य विन्ध्यप्रदेश संगता इति भावः' इति तत्र नागेशभट्टव्याख्यानम्. १. वामानां शत्रूणाम्. (तत्पक्षे) अलकां नगरीविशेषम् , चोलं देशविशेषम् , रसाया भूमेः, लङ्काया नगरीविशेषस्य, जकालस्य वेगवतो लाटदेशस्य, प्रत्य- अमादेशं प्रति; अथ च वामानां स्त्रीणाम्. (तत्पक्षे) अलकांचूर्णकुन्तलान् , चोलं वस्त्र- विशेषम्, रसस्य कारस्य, अलं कायावशतामत्यर्थ तासां शरीरस्यावशताम, जा- योर्ललाटे च क्षतं नखक्षतं कुरुषे कामशास्त्रोकस्वात, प्रत्सा सजिषु. .

८२
काव्यमाला।
प्रत्यङ्गं परिमर्दनिर्दयमहो चेतः समालम्बसे
वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमत्यद्भुतम् ॥ ७ ॥
अत्र प्रकृतधर्मिगतयोः प्रकृताप्रकृतयोः प्रकृतथोरेव या वृत्तानायोः लेपः । गच
पदसु स्थलेषु शब्दनानात्वनिबन्धनो द्वयोश्चार्थनानात्वनिवन्धनः । द्वाप्येती शब्दालं.
काराविति प्रायः । आद्यो जतुकाष्ठन्यायेन शब्द लेपणाच्छन्दालंकारः, द्वितीयस्त्वेकान्तग-
तफलद्वयन्यायेनार्थश्लेषणादर्थालंकार इति नव्याः ।।
देव त्वां परितः स्तुवन्तु कवयो लोमेन किं तावता
स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽनिशम् ।
क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति
यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि ॥ ८॥
अत्र प्रतापगतः पृथिव्यादिसंबन्धो लिगविशेषावच्छिन्नतत्तत्साधारणविशेषणामिन्यश-
कामुकवृत्तान्तामिक्षतया स्थित इति समासोकिः कार्यरूपधर्मप्रयुतशुद्धसाधारण्येन विशे-
षणसाम्यमालम्ब्य प्रवृत्ता । सा च निन्दोत्थापकत्वाझ्याजस्तुती गुणः ॥
लोकानां विपदं धुनोषि कुरुषे संपत्तिमत्युत्कटा-
मित्यल्पेतरजल्पितर्जडधियां भूपाल मा गा मदम् ।
यत्कीर्तिस्तव वल्लभा लघुतरब्रह्माण्डमाण्डोदरे
पिण्डीकृत्य महोन्नतामपि तनुं कष्टेन हा वर्तते ॥ ९॥
अत्रापि प्राग्वत् । परं त्वाधाराधेयान्यतरविस्तृतत्वसिद्धिफलकान्यतरन्यूनत्वकल्पना-
त्माधिकालंकारोऽपि तस्यां गुणः ॥
क्षोणी शासति मय्युपद्रवलवः कस्यापि न स्यादिति
प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम् ।
प्रत्यक्षं भवतो विपक्षनिवर्हामुत्पतद्भिः क्रुषा
ययुष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ॥ १० ॥
इह लधिकसमासोक्तिभ्यामनालिङ्गितैव सा [व्याजस्तुतिः ॥
आखादेन रसो रसेन कविता काव्येन वाणी तया
लोकान्तःकरणानुरांगरसिकः सभ्यः समा चामना ।
दारियानलदलमानजगतीपीयूषधाराधर
क्षोणीनाम तथा भवांब भवता भूमण्डलं भासते ॥ ११ ॥

प्राणाभरणम् । ८३ मालादीपकमेतदिति प्राश्वः । दीपकस्य सादृश्यमूलकतानियमान मालादीपकमपि त्वेकावलीमेद इति तु वयम् ।। अम्लायन्यदरातिकैरवकुलान्यम्लासिषुः सत्वरं दैन्यध्वान्तकदम्बकानि परितो नेशुस्तमां तामसाः। सन्मार्गाः प्रसरन्ति साधुनलिनान्युल्लासमातन्वते तन्मन्ये भवतः प्रतापतपनो देव प्रभातोन्मुखः ।। १२ ॥ इह रूपकनिष्पादितलिङ्गकमनुमानं निमित्तविरहादुत्प्रेक्षाया अयोगाद्वाचकमनुमि- तिपरम् ॥ उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यकृताः पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम् । गृहन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामझुवां यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ॥ १३ ॥ अत्र कण्टकचितत्वेन कबरीग्रहणादेः संकीर्णत्वात्कार्यधर्मान्तरा संकीर्णशुद्धसाधार- ण्येन विशेषणसाम्यमालम्ब्य प्रवृत्ता समासोक्तिः ॥ दृष्टिः संभृतमङ्गला बुधमयी देव त्वदीया सभा काव्यस्याश्रयभूतमास्यमरुणाधारोऽपरः सुन्दरः । क्रोधस्त्रेऽशनिभूरुदारधिर्षण खान्तं तु सोमास्पदं राजन्नूनमनूनविक्रम भवान्सर्वग्रहालम्बनम् ॥ १४ ॥ अत्रोत्प्रेक्ष्यमाणसर्वग्रहालम्बनत्वस्य समानाधिकरणेषु धर्मेषु तत्तद्हाश्रिताङ्गकत्वेषु विशेषणीभूतैस्तत्तद्हैः सह विषयस्य राज्ञो कल्याणाश्रयत्वादिषु विशेषणानां कल्याणादीनां श्लेषेणाभेदसंपादनद्वारा तादृशधर्मसाधारणतासंपत्तौ तन्निमित्तकोत्प्रेक्षासिद्धिः॥ सृष्टः सृष्टिभुवा पुरा किल परित्रातुं जगन्मण्डलं वं चेण्डातपनिर्दयं तपसि यज्वालाजटालैः करैः । संरम्भारुणलोचनो रणभुवि प्रस्थातुकामोऽधुना जानीमो भवता न हन्त विदितः श्रीकामरूपेश्वरः ॥ १५ ॥ १. उदाहृतोऽयं श्लोको रसगडाघरे प्रथमानने. 'उत्क्षिप्ता उन्नतीकृताः । विवलिता वक्रीकृताः । न्यकृता अधरीकृताः। प्रहणे हेतुगर्भ विशेषणं कण्टकचिता इति । कण्टक- व्याप्ता इत्यर्थः' इति तत्र टीका. २. अरुणः सूर्यः. ३. अशनिर्वतम्. अहगणनायो तु शनिरियेव. ४. विषणा बुद्धिः, विषणो गुरुः. ५. हे सूर्य, - ८४ काव्यमाला। अत्र राजवर्णनाङ्गत्वेन रवे योत्पादने वर्ण्यत्वेन प्रस्तुते साक्षात्तदननुगुणत्वेनाप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं रिपुकर्तृकं सूर्यमण्डलमेदनं कार्य गम्यते ॥ आयाता कमलासनस्य भवनाद्रष्टुं त्रिलोकीतलं गीर्वाणेषु दिनानि कानिचिदहो नीत्वा पुनः कौतुकात् । प्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे राजन्संप्रति सत्यधामनि गिरा देवी सुखं वर्तते ॥ १६ ॥ अत्रैकस्याधेयस्यानेकाधारसंबन्धात्पर्यायः । तत्र प्रथमचरणगतमधिकरणमार्थ विश्ले- पावधिकपञ्चम्या विश्लेषस्योपश्लेषापेक्षत्वेनौपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात् । सत्यधाम- नीति श्लेषमित्तिकामेदाध्यवसानेन मुखस्य सत्यलोकतासिद्धौ सुखवर्तनसिद्धिः ॥ विद्वदैन्यतमत्रिमूर्तिरथवा वैरीन्द्रवंशाटबी- दावामिः किमहो महोज्वलयशःशीतांशुदुग्धाम्बुधिः । किं वानङ्गभुजंगदष्टवनिताजीवातुरेवं नृणां केषामेष नराधिपो न जनयत्यल्पेतराः कल्पनाः ॥ १७ ॥ अन कोटीनामारोपान्तरमूलकत्वात्परम्परितसंशयः स चाहार्यः, मूलारोपस्य तथा- त्वात् । कवाविव कविनिबद्धप्रमात्रन्तरेऽप्याहार्यबुद्धरविरोधात् ॥ नदन्ति मददन्तिनः परिलसन्ति वाजिवजाः पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः । इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणधुतिः ॥ १८॥ अत्र मुख्यार्थस्य राजविषयायाः कविरतरुपकारकस्य यदैव तव कोपोदयस्वदैव तव रिपूणां संपदो भस्मसाद्भविष्यन्तीति वस्तुन उपकारिका नयनकोणशोणधुतेर्युगान्तदह- नोपमा॥ मयि त्वदुपमाविधौ वसुमतीश वाचंयमे न वर्णयति मामयं कविरिति क्रुषं मा कृथाः । चराचरमिदं जगजनयतो विधेर्मानसे पदं न विदधेतरां तव समो द्वितीयो नरः॥ १९ ॥ স্বল্প अत्र स्वत्समोऽन्यो नास्तीति प्रत्ययादुपमानलुमोपमा व्याति प्राश्वः । सर्वथैव सा- १. सूर्यः. २. जीवनौषधम्.

प्राणाभरणम् । म्यस्याप्रतिष्ठानान्नेयमुपमा । अन्यथा व्यतिरेकस्यापि तत्त्वापत्तेः। 'ढुंढोलन्तो मरिससि कंटककलिआई केअइवणाई । मालइकुसुमसरिच्छं भमर भमंतो ण पावेसि ॥' इत्यत्र तु न प्राप्स्यसीत्युक्त्वा कचित्त्वदगोचरे स्थले भविष्यतीति प्रतीतेः सादृश्यप्रतिष्ठानाल्लुप्तो- पमास्तु । तस्मादसमालंकार एवायमिति तु नव्याः॥ भुजभ्रमितपट्टिशोदलितहप्तदन्तावलं भवन्तमरिमण्डलकथन पश्यतः संगरे । करालकुलिशाहतिस्फुटविभिन्नविन्ध्याचलो न कस्य हृदयं झटित्यधिरोह जैम्भाहितः ॥ २० ॥ अत्र स्मरणालंकारः परंतु लक्ष्यः॥ यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनपतिर्धनाकाङ्किणाम् । गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥ २१ ॥ अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण विपक्षभूपालादीनामे- तस्मिन्नागते यमत्वादिना भ्रान्तेरपि संभवाभान्तिमता तैरेवानेकैर्ग्रहीतृभिरनेकै_भैरुल्ले- खनादुल्लेखविशेषेण च सह संकीर्णोऽपि संबन्धिषष्ठयन्तभेदप्रयुक्तवर्णानेकविधत्वक उल्लेखः॥ द्विनेत्र इव वासवो मितकरो विवखानिव द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव । नराकृतिरिवाम्बुधिर्गुरुरिव क्षमामागतो नुतो निखिलभूसुरर्जयति कामरूपेश्वरः ॥ २२ ॥ अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोधनिवर्तनाय विष- यिषु वासवादिष्वारोपेण साधारणीकरणात्तन्निमित्तकोत्प्रेक्षा । सा चेह मालारूपा । न चात्रोपमा शक्यरूपणा । द्विनेत्रत्वाद्युक्तेर्निष्प्रयोजनकत्वापत्तेः । न चोपमानिष्पादक तेषां साधारण्यं तदभावेऽपि परमैश्वर्यादिभिः प्रतीयमानस्तस्या निष्पत्तेः । असुन्दरत्वेनो- पमानिष्पादकतया कवेरनभिप्रेतत्वाच । एवं द्वितीयादीनां चन्द्रादिष्वारोपोऽप्युपमायां सत्यामनर्थक एव स्यात् ॥ १. 'अन्विष्यन्मारष्यसि कण्टककलितानि केतकीवनानि । मालतीकुसुमसदृशं भ्रमर अमन प्राप्स्यसि ॥ इत्यस्य छाया. २. इन्द्रः, ३. देशानाम. ४. कुबेरः.

काव्यमाला। दीनवाते दयाा निखिलरिपुकुले निर्दया किं च मृद्वी काव्यालापेषु तर्कप्रतिवचनविधौ कर्कशत्वं दधाना । लुब्धा धर्मेष्वलुब्धा वसुनि परविपद्दर्शने कांदिशीका राजन्नाजन्मरम्य स्फुरति बहुविधा तावकी चित्तवृत्तिः ॥ २३ ॥ अत्र विषयानेकत्वप्रयुक्तचित्तवृत्तेरनेकविधत्वमित्युल्लेखः । तत्र च तदीयचित्तवृत्तित्वे- नैकत्वाध्यवसानं तन्त्रम् ॥ देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता- देवं जल्पन्ति तावत्प्रतिभटपृतनावर्तिनः क्षत्रवीराः । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते- मुग्धारिपाणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंगः ॥ २४ ॥ अत्र शुद्धपरम्परितरूपकम् ॥ प्राचीसंध्यासमुद्यन्महिमदिनमणेर्मानमाणिक्यकान्ति- लामाला कराला कवलितजगतः क्रोधकालानलस्य । आशाकान्वापदाम्भोरुहतलविगलन्मञ्जुलाक्षारसामा सा भाति क्षोणिशोभाकरण तव शोः संगरे शोणिमश्रीः ॥२५॥ अत्रापि तदेव परंतु मालात्मकम् ॥ त्वां सुन्दरीनिवहनिछुरधैर्यगर्व- निर्वासनैकरसिकं समरे निरीक्ष्य । का वा रिपुक्षितिभृतां बत राजलक्ष्मीः खामित्रतत्वमपरिस्खलितं बभार ॥ २६ ॥ अत्र शत्रूणां राज्यलक्ष्मीस्त्वां प्राप्तेति विवक्षितोऽर्थः पातिव्रत्यस्खलितरूपेणाभिहित इति पर्यायोक्तम् । तच राज्यलक्ष्म्या नायिकात्वसिद्ध्यर्थं समासोक्तिमपेक्षत इति सा तत्र गुणः ॥ नासत्ययोगो वचनेषु कीतौ तर्थार्जुनः कर्मणि चापि धर्मः । चित्ते जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पाण्डुपुत्राः ॥ २७ ॥ १. दैत्याः. २. बहुवचनम्. ३. असत्यस्य योगो न; (पक्षे) नासलौ नकुलसह- देवी. ४. शुभ्रो मध्यमपाण्डवश्व. ५. युधिष्ठिरोऽपि. ६. परमेश्वर (पक्षे) जगत्प्राणस्य पवनस्य सूनुर्मीमः ।

प्राणाभरणम् । ८७. अत्र पाण्डुपुत्रेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां राजाश्रितलरूपो विषयिधर्मः श्लेषेण विषयाणां तदाश्रितानां चासत्याभावशुक्लगुणपुण्यपरमेश्वराणाममेदसंपादनद्वारा विषयसाधारणीकृतः॥ मन्थाचलभ्रमणवेगवशंवदा ये दुग्धाम्बुधेरुदपतन्नणवः सुधायाः । तैरेकतामुपगतैर्विविधौषधीभि- र्धाता ससर्ज तव देव दयादृगन्तान् ॥ २८ ॥ अत्र गन्तेषु न केवलं संजीवकत्वादयोऽमृतमात्रगुण एव कवेर्बुबोधयिपिता अपि तु निखिलजनवशीकारत्वादयोऽन्येऽपीति सुधाकणेष्वोषधीसंसर्गोऽतिशयार्थमुपात्तः ॥ शैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम् । त्वया रणे निष्करुणेन गाढं चापस्य जीवा चकृषे जवेन ॥२९॥ अत्र चापकर्षणकार्याणानां केशाकर्षणादीनां पौर्वापर्यविपर्ययात्मनातिशयेनानुप्राणिता सहोक्तिः॥ महेन्द्रतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयामः । भवान्सहस्रैः समुपास्यमानः कथं समानस्त्रिदशाधिपेन ॥ ३० ॥ अत्र श्लेषोत्थापितत्रिदशत्वसंख्यामादाय व्यतिरेक उपातोभयनिमित्तकः ।। स तु वर्षतु वारि वारिवस्त्वमुदाराशय रनवर्षणः । स कुहूरजनीमलीमसस्त्वमिहान्तर्बहिरेव निर्मलः ॥ ३१ ॥ अत्रापि स एव परं तु श्लेषोऽत्रानुत्थापको निषिध्यमानं साम्यं च न शाब्दमिति विशेषः॥ कतिपयैर्निरणायि जनाधिपस्तदपरैरुदक्षि धनाधिपः । अजनि केवलमेष गिरां पतिर्भुवि मदेकमते कमतेश्वरः ॥ ३२ ॥ अत्र नायं राजा किं तु गिरां पतिरित्याकारापहुतिः । तत्र निषेधभागः परमतत्वोक्त्या पूर्वार्धेन गम्यते । आरोपांशस्तूतरार्धेन । मकरपतिमैर्महाभटैः कविमी रत्ननिभैः समन्वितः । कवितामृवकीर्तिचन्द्रयोस्त्वमिहोर्वीरमणासि भाजनम् ॥ ३३ ॥ अत्र राशो जलध्युपमायाः शब्देनामिधानेऽप्यशोपमामिराक्षेपादेकदेशविवर्तिन्युपमा तेनोत्तरार्ध उपमितसमास एव । विशेषणसमासवेयस्य तादात्म्यस प्रकृतेऽनुपयोगात् ।। १. बोधप्रिमियः ammy-

काव्यमाला।
.
पुरः पुरस्तादरिभूपतीनां भवन्ति भूवल्लभ भस्मशेषाः ।
अनन्तरं ते भृकुटीविटतात्पतन्ति रोषानलविस्फुलिङ्गाः ॥ ३४ ॥
अत्र प्रयोजकातिशयकृतः प्रयोज्यशैघ्यातिशयो गम्यः । कार्यकारणपौर्वापर्यविपर्यय-
रूपा चेयमतिशयोक्तिः ॥
भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः ।
न भविष्यति नास्ति नामवन्नृप यस्ते भजते तुलास्पदम् ॥ ३५ ॥
अत्रोपमानलुप्तोपमेति प्रायः । असमाख्यमलंकारान्तरमिति तु वयम् ॥
पीयूपयूषकल्पामल्पामपि ते गिरं निपीतवताम् ।
तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेकः ॥ ३६ ॥
अत्र संबन्धेऽप्यसंबन्ध इत्यतिशयोक्तिभेदः । उपमेयोपमानविशेषणाभ्यामल्पत्वोद्रि-
तत्वाभ्यामल्पयापि सह भूयानपि मधुरिमा साम्यं कर्तु यत्रानीशस्तत्र किं वाच्यं भूय-
स्येति वैलक्षण्यात्मा व्यतिरेकश्च ।।
भासयति व्योमस्था जगदखिलं कुमुदिनीपिकासयति ।
कीर्तिस्तव धरणिगता सगरसुवायासमफलतां नयते ॥ ३७॥
अत्र व्यज्यमानचन्द्रिकारूपकसंकीर्ण उल्लेखध्वनिः ॥
भाग्येन सह रिपूणामुत्तिष्ठसि विष्टराक्रुधाविष्टः ।
सहसैव पतसि तेषु क्षितिशासन मृत्युना साकम् ॥ ३८ ॥
'केशैर्वधूनाम्' (२९) इत्यत्र कर्मणः सहोक्तिः । इह तु कर्तुरिति विशेषः ॥
त्वयि पाकशासनसमे शासति सकलं वसुंधरावलयम् ।
विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि ॥ ३९ ॥
अत्र वर्षवदाचरन्तीत्याचारविबन्तेन श्लेषाच्छ्लेषमूलिका तुल्ययोगिता । रिपुकामिनी-
वर्णनविषयत्वेनोपमानोपमेययोर्द्वयोरपि प्रकृतत्वात् ॥
अहितापकरणमेषज नरनाथ भवान्करस्थितो यस्य ।
तस्य कुतोऽहिमयं स्यादखिलामपि मेदिनीं 'चरतः ॥ १० ॥
अत्र श्लेषनिवेदितस्य सर्पभयाभावस्योपपादकतयोपात्तस्य राजनि मेषजतादात्म्यारो-
पस्याप्युपपादकतया स्थितं राजसंबन्धिनि द्विषदपकरणरूपे धर्मे छेषनिवेदितसर्पतापकरण-
तादाम्यमिति प्रथमचरणे श्लिष्टपरम्परितरूपकं तृतीये तु श्लेष एव
कुवलयलक्ष्मी हरते तव कीर्तिस्तत्र किं चित्रम् ।
यस्मानिदानमस्या लोकनमस्यापिहजो हि भवान् ॥ ११ ॥

प्राणाभरणम् । ८ ९ अत्रोत्पादकसमानगुणत्वादुत्पाद्यस्योत्पादकभावसंसर्गानुरूपः समालंकारविशेषः । श्लेषश्चास्मिन्गुणः॥ दृष्टः सदसि चेदुप्राश्चन्द्रचन्दनचन्द्रिकाः । अथ त्वं संगरे सौम्याः शेषकालानलासयः ॥ ४२ ॥ अत्र दृष्टः सदसीति वाक्ये त्वमित्यस्यापकर्षणात्, अथ त्वं संगर इत्यत्र च त्वमित्य- स्यानुवर्तनाद्वाक्ययोः पदविनिमयात्मालंकारः पूर्वार्धे । उत्तरार्धे प्रकृतानेकधर्मसंबन्धा- तुल्ययोगिता । उपमेयस्योत्कृष्टगुणत्वसिद्धय उपमानस्य तद्विरुद्धगुणकल्पनात्मकेनालं- कारान्तरेण शबलिता ॥ अपारे खलु संसारे विधिनकोऽर्जुनः कृतः । कीर्त्या निर्मलया भूप त्वया सर्वेऽर्जुनाः कृताः ॥ १३ ॥ इह श्लेषमूलो व्यतिरेकः॥ दधीचिबलिकर्णेषु हिमहेमाचलाब्धिषु । अदातृत्वमधैर्य च दृष्टे भवति भासते ॥ ४ ॥ अत्रापि सैव तथाविधा । यथासंख्यसंकरस्तु विशेषः ॥ शासति त्वयि हे राजन्नखण्डावनिमण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥ १५ ॥ इहापि तुल्ययोगिता मित्रशब्दश्लेषोत्थापिता व्याजस्तुतिश्च ॥ भानुरमियमो वायं बलिः कर्णोऽथवा शिविः । प्रत्यर्थिनोऽर्थिनश्वेत्थं त्वयि यान्ति विकल्पनाम् ॥ १६ ॥ इह तु संशय उल्लेखालिङ्गितः॥ कमलावासकासारः क्षमाधृतिफणीश्वरः । भवान्कुवलयस्येन्दुरानन्दयति मानवान् ॥ १७ ॥ इह श्लिष्टपरम्परितं रूपकं मालारूपम् ॥ गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले । पृथिव्यां सागरायन्ते भूपाल तव कीर्तयः ॥ १८ ॥ इह मालोपमालिङ्गित उल्लेखः॥ १. कमला लक्ष्मीः, पद्मानि च. २. क्षमा भूमिः, क्षान्तिश्च. ३. कुवलयं भूमण्डलम्, -- m उत्पलं च.

काव्यमाला । मृगतां हरयन्मध्ये वृक्षतां च पटीरयन् । नक्षत्रतां महीपानां त्वमिन्दवसि भूपते ॥ ४९ ॥ इह शुद्धपरम्परिता मालारूपोपमा । आचारक्कियन्ताच्छतरि रूपाणि । तिलि चैकम् [इन्दवसि ।। मध्ये सुधासमुद्रम्य सितामयगृहोदरे । पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥ ५० ॥ अत्र त्रयाणां सुधासमुद्रादीनां विशेषणविशेष्यभावेन मधुरिमणि परां काष्ठामधिरूढे बदीयोक्तिपदसंबन्धो युक्तो न तु विशकलित इत्यतिशायकासद्विशेषणनिबन्धना प्रौढोक्तिः॥ अमृतलहरीचन्द्रज्योल्लारमावदनाम्बुजा- न्यधरितवतो निर्मर्यादप्रसादमहाम्बुधेः । उदभवदयं देव त्वतः कथं परमोल्बणः प्रलयदहनज्वालाजालाकुलो महसां गणः ॥ ५१ ॥ अत्र कारणगुणविरुद्धखगुणस्य कार्यस्योत्पत्तेविषमालंकारः । अमृतलहर्यादीनां त्रया- गामधरीकरणात्मना व्यतिरेकेण संजीवकत्वपरमशीतलत्वविशुद्धलसौन्दर्याणामतिशयो गम्यते । एवमेषु पयेषु संभवन्तोऽप्यन्येऽलंकाराः स्फुटत्वान विवेचिताः । सहृदयानां प्रीत्यावश्यक किंचिद्याख्यातमन्यत्तु तैरेवोल्लासनीयमित्यलं पल्लवितेन ॥ तैलङ्गान्वयमङ्गलालयमहालक्ष्मीदयाललितः श्रीमत्पेरमभट्टसूनुरनिशं विद्वललाटंतपः । संतुष्टः कमताधिपस्य कवितामाकर्ण्य तद्वर्णन श्रीमत्पण्डितराजपण्डितजगन्नाथो व्यधासीदिदम् ।। ५२ ॥ 'दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डाशुग- ध्वस्तोद्दण्डविपक्षमण्डलमिह त्वां वीक्ष्य मध्येरणम् । वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव- अश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः सरेत् ॥ ५३ ।। अत्र सरणालंकारः ।भाव इति तु न श्रामिव्यतम् । सादृश्यमूलकत्वातन्मूलकत्वाभ्यां भावत्वालंकारत्वयोरिह व्यवस्थितेः शब्दवेद्यत्वाच ॥ इति पण्डितराजश्रीजगन्नाथविरचितं प्राणाभरणं तत्कृतयैव टिप्पण्या समेतं समाप्तम् । Www Pam-H-MI 41AN " १. अन्यसमाप्त्यनन्तरमयं श्लोकोऽनुचित सामाति. भामिनीविलासादाकृष्यात्र केनचित्रक्षिप्तः सात वैराग्यशतकम् । ९१ श्रीमदप्पयदीक्षितविरचितं वैराग्यशतकम् । आस्ते कश्चन भिक्षुः संगृहन्नव्ययानि देश । न ममेत्यव्यययुगलं याचामस्तं किमस्त्यन्यत् ॥ १ ॥ धीसचिवं धैर्यबलं संकल्पविरोधि शान्तिधनम् । विश्वत्रयविषयमिदं वैराग्यं नाम साम्राज्यम् ॥ २॥ राज्ञो बिभेति लोको राजानः पुनरितोऽपि वैरिभ्यः । आ ब्रह्मणः कृतान्तादकुतोभयमस्पृहाराज्यम् ॥ ३ ॥ १. अप्पयदीक्षितसहोदरस्याप्ययदीक्षितस्यैव वा पौत्रेण नारायणदीक्षितपुत्रेण नीलकण्ठदीक्षितेन नीलकण्ठचम्पूप्रारम्मे 'अष्टत्रिंशदुपस्कृतसप्तशताधिकचतुःसहस्रेषु (४७३८)। कलिवर्षेषु गतेषु ग्रथितः किल नीलकण्ठविजयोऽयम् ॥' इति स्वग्रन्थनिर्माण- समयो लिखितः. अर्थात् १६३७ मिते ख्रिस्तसंवत्सरे नीलकण्ठचम्पू रचित . तस्मातिस- खसंवत्सरीयषोडशशतकसमायासन्नसमये श्रीमदप्पयदीक्षित आसीदिति ज्ञायते. नील- कण्ठचम्पूप्रारम्भे 'लीलालीढपुराणसूक्तिशकलावष्टम्भसंभावनापर्यस्तश्रुतिसेतुभिः कति- पयैीते कलौ सान्द्रताम् । श्रीकण्ठोऽवततार यस वपुषा कल्क्यात्मना वाच्युतः श्रीमानप्पयदीक्षितः स जयति श्रीकण्ठविद्यागुरुः ॥ इत्यप्पयदीक्षितप्रशंसापरं पद्यं वर्तते. अप्पयदीक्षितकृता बहवो ग्रन्थाः सन्तिः, तन्मध्यादद्यावधि ज्ञाता ग्रन्थास्त्वेते-(१) आ- स्मार्पणस्तुतिः, (२) उपक्रमपराक्रमः, (३) कुवलयानन्दः, (४) चतुर्मतसारसंग्रहः (नय- मजरी), (५) चन्द्रकुलास्तुतिः, (६) चित्रमीमांसा, (५) दशकुमारचरितसंक्षेपः, (८) नामसंग्रहमाला, (९) ब्रह्मतर्कस्तवः, (१०) भक्तिशतकम् , (११) भारततात्पर्यसं- ग्रहः, (१२) मध्वमतविध्वंसः, (१३) रत्नत्रयपरीक्षा, ( ४) रसिकरञ्जनी (कुवलया- नन्दटीका), (१५) रामायणसारस्तवः, (१६) वरदराजशतकम् , (१५) वादनक्षत्रमा- लिका, (१८) विधिरसायनसुखोपजीविनी, (१९) वीरशैवम् , (२०) वृत्तिवार्तिकम् , (२१) वैराग्यशतकम् , (२२) शब्दप्रकाशः, (२३) शारीरकन्यायरक्षामणिः, (२४) शि- वकर्णामृतं सटीकम् , (२५) शिवतत्त्वविवेकः, (२६) शिवादित्यमणिदीपिका, (२५) शिवाद्वैतनिर्णयः, (२८) शिवार्चनचन्द्रिका, (२९) सिद्धान्तलेशसंग्रहः (३०) हरिवंश- सारचरितम् , आचारनवनीतकर्ता अप्पयः,गौरीमायूरमाहात्म्यकर्ता अप्पादीक्षितः, शब्द- रत्नावलीकर्ता अप्पासूरिः, एते त्रयोऽप्यप्पयदीक्षिताद्भिनाः. २. 'शानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धतिः । द्रष्टृत्वमात्मसंबन्धो त्यधिष्ठातृत्वमेव च । अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे ॥' अत एव 'दशाव्ययः' इति शिवस्य नामापि. 'ककटीकजटाटीररे- रिहाणदशाव्ययाः' इति शिवपर्यायेषु शब्दार्णवः, ९२ M काव्यमाला। भिक्षाप्रदा जनन्यः पितरो गुरवः कुमारकाः शिष्याः । एकान्तरमणहेतुः शान्तिर्दयिता विरक्तस्य ॥ ४ ॥ ये न किमपि चेष्टन्ते कार्यप्रतिकार्ययोर्विरहात् । सन्तस्त एव मुक्ताः संदेहे गौतमः साक्षी ॥५॥ पततु नभः स्फुटतु मही चलन्तु गिरयो मिलन्तु वारिधयः । अधरोत्तरमस्तु जगत्का हानिर्वीतरागस्य ।। के चोराः के पिशुनाः के रिपवः केऽपि दायादाः । जगदखिलं तस्य वशे यस्य वशे स्यादिदं चेतः ॥७॥ विषया उपतिष्ठन्तां विषयैर्वा समवयन्तु करणानि । आन्तरमेकं करणं शान्तं यदि का ततश्चिन्ता ।। ८ ॥ किं विषयान्परिहतुं वस्तव्यं मेरुकंदरेप्वबुधैः । नाद्भिरनासेक्तुं धातुषु रोहन्ति पद्मानि ॥ ९ ॥ अज्ञानमिह निदानं प्रापं जननमेव भवरोगे। परिपाकः संसरणं भैषज्यं नैष्ठिकी शान्तिः ॥१०॥ खेनोपभुक्तमर्थ सूकरजातिसरो मनुष्य इव । दूरे जुगुप्समानो धीरो वैराग्यमाद्रियते ॥ ११ ॥ शैशवमिव कौमारे तत्तरुणिनीव स इव वृद्धत्वे । न खदते धीराणां कामस्य विचेष्टितं शान्तौ ॥ १२ ॥ शतशः परीक्ष्य विषयान्सद्यो जहति कचित्कचिद्धन्याः । काका इव वान्ताशनमन्ये तानेव सेवन्ते ॥ १३ ॥ चरमौ मातापितरौ चरमा गृहिणी सुताश्चरमाः । कर्तव्येऽपि प्रेमणि कथमिह धीरा विरज्यन्ते ॥ १४ ॥ तृणवद्धमन्ति चपलाः स्त्रीनामनि चण्डमारुते चलति । धरणिधरा इव सन्तस्तत्र न किंचित्पकम्पन्ते ॥ १५ ॥ १. 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापामादपर्यः (१२) इति. तमसूत्रम्, २. मनः.

वैराग्यशतकम् । कामिजनपरमभोग्ये कामसुखे धारयन्ति बीभत्सम् । सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न इव ॥ १६ ॥ विक्षेपमात्रभाजो विकासकाष्ठागतज्ञानाः । खस्यापि चेष्टितानि खयमीक्षन्ते परस्येव ॥ १७ ॥ अस्थानेऽभिनिविष्टान्मूर्खानस्थान एव संतुष्टान् । अनुवर्तन्ते धीराः पितर इव क्रीडतो बालान् ॥ १८॥ पुष्णति पुरुषे सलिलैर्मुष्णति पुष्पं फलं च तरव इव । वर्तन्ते सन्तः सममुपकर्तरि चापकर्तरि च ॥ १९ ॥ नित्यानित्यविवेकः सर्वेषां घटघटत्वयोरास्ते । स विवेको यः शान्तिकृदविवेकोऽन्यः समस्तोऽपि ॥ २० ॥ अनधिगते कामसुखे कालेन यथा प्रवर्तते तरुणः । एवं ब्रह्मसुखेऽपि प्रवर्तते कोऽपि भाग्यवशात् ॥ २१ ॥ पुत्रगुणाः खातये दारगुणाश्चाधिवेदनावसरे । आतगुणा दायविधौ द्रष्टव्या मोक्ष्यमाणेन ।। २२ ॥ का मे गतिरिति पृच्छति चरमश्वासेऽपि यः खार्थम् । तस्य जनस्यापि कृते पापाः पापानि कुर्वन्ति ॥ २३ ॥ पितृभिः कलहायन्ते पुत्रानध्यापयन्ति पितृभक्तिम् । परदारानुपयन्तः पठन्ति शास्त्राणि दारेषु ॥ २४ ॥ शान्तिरलम्यादुपरतिरपात्रभावः प्रतिग्रहनिवृत्तिः । क्षान्तिर्दुर्बलतेति च निवृत्तिधर्माः कलावेते ॥ २५ ॥ नीतिज्ञा नियतिज्ञा वेदज्ञा अपि भवन्ति शास्त्रज्ञाः । ब्रह्मज्ञा अपि लभ्याः खाज्ञानज्ञानिनो विरलाः ॥ २६ ॥ कलिकलषे मनसि खे कथमिव जगदार्जवं लभते । चक्षुषे जाग्रति चन्द्रद्वित्वं कुतो यातु ।। २७ ।। १. तस्याः सपत्नीसंपादनावसरे, विवाहान्तरकरणकाल इति यावत् २. विमा भावसरे.

काव्यमाला।
विषयाननुकूलयितुं विषयिणि हृदये विधीयतां यत्नः ।
दृशि देयमौषधं को दृश्ये दत्त्वा सुखी भवति ।। २८॥
दाराः पुत्रेषु रताः पुत्राः पितृधनपरिग्रहव्यग्राः ।
रोदनशरणा जननी परलोकगतस्य को बन्धुः ॥ २९ ॥
पश्यन्ति म्रियमाणान्मरिष्यतोऽनुमिमते स्मरन्ति मृतान् ।
कथयन्ते चैवमसच्चेष्टन्ते नित्यवत्तु परम् ॥ ३० ॥
कलहायन्ते मूढाः कः प्रतिभूः श्वः प्रभात इति ।
तस्यामेव रजन्यां कः प्रतिभूः खस्य सत्तायाम् ॥ ३१ ॥
कुल्याः कृता विशालाः कुड्यान्युपलैर्निबद्धानि ।
क्रीता बलिनो महिपाः कृतकृत्याः स इति मन्यन्ते ॥ ३२ ॥
आ प्रपदमा शिरस्कं चान्तः कलिमलमलीमसे वपुषि ।
विफलं गङ्गाजलमपि मद्यघटे दर्भमुष्टिरिव ॥ ३३ ॥
दण्ड्यं यत्सुखहेतोः पुष्णन्ति जनाः कथं तदेव वपुः ।
नहि शर्कराभिलाषिभिरिक्षोः काण्डानि पूज्यन्ते ।। ३४ ।।
प्रायो मुह्यति चेतः प्राणभृतः प्राणनिर्गमावसरे ।
पुण्येन यदि न मुह्यति पुत्रानेव स्मरन्म्रियते ॥ ३५॥
शमयितुमौदरमर्मि संसारख्याम्बुधौ निमजन्ति ।
तुहिनव्यथानिवृत्त्यै नहि वेश्मनि पावको देयः ॥ २६ ॥
आहृत्य परित्यक्ता जनयन्त्यर्थाः सुखामासम् ।
अत्यन्तपरित्यक्ताः परमानन्दाय कल्पन्ते ॥ १७ ॥
अर्थानामधिकानां राज्ञा चौरेण वा नाशः ।
भन्ने खल्वतिमुक्त वमनं वा स्थाद्विरेको वा ॥ ३८॥
प्रणमति परिसान्त्वयति प्रणि]पतति सदा परिश्रमति ।
आविष्ट इव पिशाच्या पुरुषस्तृष्णावशं यातः ॥ ३६.11
जननादृष्टात्पितरौ पुत्रा जामातरोऽप्ययाष्टात् ।
कलहादृष्टाज्ज्ञातय इति निर्णीते किमेष्टव्यम् ॥ १०॥

वैराग्यशतकम् ।
खपितुः परलोकाय खयमनुदिवसं यदाचरति ।
क्रियतामिदमुपमानं किं नालं पुत्रवैराग्ये ॥ ११॥
अननुगते दारिद्ये किमनुगतं लक्षणं दृष्टम् ।
कामस्यापूर्तिर्यदि कृपणं जगदा चतुर्वदनात् ॥ ४२ ॥
न खलु धनत्वं जातिर्यस्य यदिष्टं तदेव तस्य धनम् ।
तत्तदिव पामराणामाकिंचन्यं धनं विदुषाम् ॥ ४३ ।।
खीक्रियते यदि तृष्णा खीकर्तव्यं जगत्समस्तमपि ।
खीक्रियते यदि शान्तिः खात्मापि खस्य भवति न वा ॥४४॥
यहातारं वशयति यत्परिजनमस्य सान्त्वयति ।
यदपत्रपते नान्तर्भावालामः स कस्य समः ॥ ४५ ॥
प्रादेशमात्रमुदरं परिपूरयितुं कियानयं यत्नः ।
चुलकेनाम्भः पातुं खनितव्यः किं तटाकोऽपि ॥ ४६ ॥
यामार्धमसंस्काराद्यामद्वयमनशनाच सुव्यक्ते ।
शारीरे सौन्दर्येऽप्यभिनिविशन्ते कियन्मूढाः ॥४७॥
वन्ध्येत्याहुस्तरुणी जरतीति परित्यजन्ति बहुपुत्राम् ।
अभिनिन्दन्त्यल्पसुतां का गृहिणी कामिनो हृया ॥ ४८॥
यान्ति शुचमकृतदारा द्वे भार्ये नेति कृतदाराः।
ते परदारा नेति स्त्रीभिस्तृप्तान्न पश्यामः ॥ १९ ॥
मदनस्याज्ञाकरणे मन्ये जगदखिलमेकरूपमिदम् ।
तिर्यञ्च इति नरा इति देवा इत्यन्यतो भेदः ॥ ५० ॥
शुक्रविमोकस्थानं मलमूत्रत्यागदेशवत्किमपि ।
स्त्रिय इति विहितं विधिना कियदत्र जना निमज्जन्ति ॥ ५१ ।।
वेदानधीत्य विधिवन्मीमांसित्वा तदर्थं च ।
दाराः कर्तव्या इति केनेदं प्रहसनं कथितम् ॥ ५२ ।।
दुःखेनोपाय॑न्ते पाल्यन्ते प्रत्यहं च लाल्यन्ते ।
वामाः स्त्रियो विमूदैरुपभुञ्जानाः सुखं विगुणम् ॥ ५३ ॥

काव्यमाला। अनीत पिबत खादत जाग्रत संविशत तिष्ठत वा। सकृदपि चिन्तयताहः सावधिको देहबन्ध इति ॥ ५४ ॥ किं विजितया पृथिव्या किं काञ्चनभूभृता करस्थेन । कि दिव्याभिः स्त्रीभिर्मर्तव्ये ब्रह्मणा लिखिते ॥ ५५ ॥ जीवति कतिचिन्निमिषान्कतिचित्तेषु श्रुतीरधीत इव । तावत्सैवाकुलयति तत्राणि नवानि चातनुते ॥ ५६ ॥ खल्यो जीवनकालः खल्पा धीः परिचयः खल्पः । वदपि तरेम कथंचिकृतयो यदि नोपजायन्ते ॥ ५७ ॥ कुत आगतं न जाने क नु वा गन्तव्यमिदमपि न जाने । संचरसि केदानी संसारपथे महातमसि ॥ ५८ ॥ तमसावृताश्चरन्तः सविधे दूरे च नावयन्त्यर्थान् । अवयन्ति तु विस्पष्टं तडिताभिहते शिरसि मूढाः ॥ ५९ ।। निमिषन्यत्र तरुण्यस्तत्र तरुण्यो न निमिषन्ति । ईदृक्षो हि विशेषः खर्गः खर्ग इति किं तत्र ॥ ६० ॥ कोपो मैत्रावरुणेः शापो वा तार्किकस्य मुनेः । संसर्यते यदि सकृच्छत्रोरपि मास्तु शक्रपदम् ॥ ६१ ॥ गच्छत्वमरावत्यां गच्छतु चतुराननस्य वा नगरे । पुनरागन्तव्यं यदि पुंसा किं साधितं भवति ॥ ६२ ।। मुक्ता बहवो दारा लब्धाः पुत्राश्च पौत्राश्च । नीतं शतमप्यायुः सत्यं वद मतमस्ति मनः ॥ ६३ ॥ विश्लेषणखभावान्पश्यन्विषयान्करोति को ममताम् । नश्यदवस्थापनं कः क्रीणीते धनैरन्धम् ॥ ६४ ॥ अन्नाभावे मृत्युः शालिभिरमानि शालयो वृक्ष्या। वृष्टिस्तपसेति वदनमृत्यवे तत्पश्वरतु ।। ६५ ।। किं न निगृहन्ति मनः किं न भजन्ते जनाः शिवं शरणम् । अमिसंधिभेदमात्रान्मोक्षोपाये न बध्यन्ते ॥ ६६ ॥ १. अगस्त्यस्य. २. गौतमस्य. commmm

वैराग्यशतकम् ।
भोगाय पामराणां योगाय विवेकिनां शरीरमिदम् ।
भोगाय च योगाय च न कल्पते दुर्विदग्धानाम् ॥ ६७ ॥
ब्राह्मणचण्डाला इत्याह मुनिर्यन्महापथिकान् ।
भवमार्गमहापथिकानधिकृत्यैव प्रवर्तितं चैतत् ।। ६८ ॥
एकद्वाः क्षितिपतिषु द्वित्रा देवेषु पञ्चषा द्रुहिणे ।
एतावन्तो जगति ब्रह्मानन्दार्णवस्य कणाः ।। ६९ ।।
अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते ।
विकले चक्षुषि तमसा व्यादाय मुखं किमीक्षेत ॥ ७० ॥
अतिकलुषमाशुनश्वरमापातस्फुरणमनभिलाषकरम् ।
अपि हृष्यन्ति जनाः कथमवलम्ब्य ज्ञानखद्योतम् ॥ ७१ ।।
अयुतं नियुतं वापि प्रदिशन्तु प्राकृताय भोगाय ।
क्रीणन्ति न बिल्वदलैः कैवल्यं पञ्चषैर्मूढाः ॥ ७२ ॥
यावकिल चेष्टन्ते तावत्पाशे निबध्यते ग्रन्थिः ।
निभृतं यदि वर्तन्ते कालेन संसते पाशः ।। ७३ ॥
उपरुन्धन्ति श्वासान्मुनयो नाश्नन्ति न पिबन्ति ।
स्तूयन्ते सुजनैः किं कण्ठे कुर्वन्ति कनकपाशमिमे ॥ ७४ ।।
कामं जनाः संयन्ते कैलासविलासवर्णनावसरे ।
साधनकथनावसरे साचीकुर्वन्ति वक्राणि ।। ७५ ॥
चङ्गाः कथमङ्गाः कथमित्यनुयुङ्क्ते वृथा देशान् ।
कीकृतान्तपुरमिति कोऽपि न जिज्ञासते लोकः ।। ७६ ॥
त्यक्तव्यो ममकारस्त्यक्तुं यदि शक्यते नासौ ।
कर्तव्यो ममकारः किं तु स सर्वत्र कर्तव्यः ॥ ७७ ॥
पुत्रा इति दारा इति पोष्यान्मूल् जनान्ते ।
अन्धे तमसि निमज्जनात्मा पोष्य इति नावैति ॥ ७८ ॥
यचिन्तितमधिगर्भ यच्च चिरं चिन्तितं नरके ।
विषयानिलसंसर्गान्ममृजे तत्सर्वमेकपदे ॥ ७९ ॥

काव्यमाला। बाह्यगतागतशीला प्राणस्य श्वासलक्षणा वृत्तिः । कर्षति मनसो वृत्ति कुलटेव कुलस्त्रियं मुग्धाम् ।। ८० ॥ अतिगम्भीरमनाविलमक्षोभ्यमदृष्टपारमविलयम् । अविरलतरङ्गसंकुलमैक्षिषि विज्ञानसागरं महताम् ।। ८१ ॥ घोरं भवमपहातुं केचिदघोरं प्रपद्यन्ते । संसरणकातराणां संशरणं शांभवी शक्तिः ॥ ८२ ।। पाशो यदि मोक्तव्यः पशुपतिरेवोपसर्तव्यः । न खलु व्यतिमुच्यन्ते पशवः पाशेन संबद्धाः॥ ८३ ॥ अलमलमनुभूताभिर्मातृभिरलमस्तु पितृभिश्च । भवितव्यं यदि नित्यवदर्थं मातुः पितुश्चास्तु ॥ ८४ ॥ धन्यास्ते बहुदेवाः खामिनि येषां न दुर्मिक्षम् । जातु न जानीमो वयमेकं तं खामिनं पूर्णम् ।। ८५ ॥ सन्तु बृहन्तो देवाः किं तु न तान्नन्तुमीहते चेतः । आब्यवदान्यन्यायादन्तकजितमेव चिन्तयेन्मनसि ॥ ८६ ॥ निध्यायसि विषयसुखं न ध्यायसि विषममस्य परिपाकम् । बन्धुं तमेव चिन्तय बर्द्ध मोक्तुं च यः क्षमते ॥ ८७ ॥ सदनं गुरूपसदनं शरणं पञ्चाक्षरीपुरश्चरणम् । धनमभिलाषनिरोधनमन्त्याश्रमवर्तिनां पुंसाम् ॥ ८८ ॥ को पितरौ कः पुत्रः कः खामी यः प्रपञ्चस्य । प्रत्यस्तमिते भेदे किमिदं किमिदमिति विप्रश्नः ॥ ८९ ।। स विधिर्यते विदधति स प्रतिषेधो यतो निवर्तन्ते । सोपनिषद्यदुवते शैवाश्रमवर्तिनो धीराः ।। ९० ॥ त्यज संसारमसारं भज शरणं पार्वतीरमणम् । विश्वसिहि श्रुतिशिखरं विश्वमिदं तव निदेशकरम् ॥ ९१ ॥ भव्यमभव्यं वा नः पलिखतु वेषाः सुदुर्मेधाः । सव्यमसव्यं वा नः शरणं चरणं महेशस ॥ ९२ ।।

अमृतलहरिः। वेधाः कथं हरिः कथमिति तु प्रश्ने वयं मूकाः । शिवमेकं जानीमो न शिवादन्यं विजानीमः ॥ ९३ ॥ दारुणमसिपत्रवनं दारुणतममन्धतामिस्रम् । का वा ततः क्षतिर्नः शैवा वयमा चतुर्वदनात् ॥ ९ ॥ कृतदीक्षो घोरमखे कुलकूटस्थो भरद्वाजः । विद्येश्वरेषु कश्चन पितामहो न इति विनम्भः ॥ ९५ ॥ कलहः कदापि मास्त्विति कलितशरीययोः शिवयोः । अहमस्म्यहमस्मीति प्राप्तः कलहो मम त्राणे ।। ९६ ।। नरकायापि न भोगान्नराधमायापि नान्यसुरान् । मन्यन्ते कतिचिदमी माहेश्वरमाश्रिता योगम् ॥ ९७ ॥ ज्ञातुं हातुं विषयं श्रोतुं मन्तुं गृहीतुमात्मानम् । वत्सा यदि न हि घटते तत्साधयताविमुक्ताय ॥ ९८ ॥ सांख्यं योग निगमा भक्तिः कर्म प्रतीतिरिति । एकत्र सकलमेतत्केवलमविमुक्तमेकत्र ।। ९९ ।। बद्धः कस्ते वक्ष्यति मुक्तो मुक्तिं विजानाति । यास्यसि चेदविमुक्तं ज्ञास्यसि विश्वेश्वरस्य मुखात् ॥ १०० ॥ न गृहीतं श्रुतिहृदयं नचन गृहीतं परिप्लवं हृदयम् । इच्छामि च धाम परं गच्छामि तु विश्वनाथपुरीम् ।। १०१॥ इति श्रीमदप्पयदीक्षितविरचितं वैराग्यशतकं संपूर्णम् । पण्डितराजश्रीजगन्नाथकृता अमृतलहरिः। मातः पातकपातकारिणि तव प्रातः प्रयातस्तटं यः कालिन्दि महेन्द्रनीलपटलस्निग्धां तनुं वीक्षते । तस्यारोहति किं न धन्यजनुषः खान्तं नितान्तोल्लस- नीलाम्भोधरवृन्दवन्दितरुचिर्देवो रमावल्लमः ॥१॥ १. यमुनास्तुतिरूपोऽयं ग्रन्थः.

काव्यमाला । नित्यं पातकभङ्गमङ्गलजुषां श्रीकण्ठकण्ठत्विषां तोयानां यमुने तव स्तवविधौ को याति वाचालताम् । येषु द्राग्विनिमज्य सज्जतितरां रम्भाकराम्भोरुह- स्फूर्जच्चामरवीजितामरपदं जेतुं वराको नरः ॥ २ ॥ दानान्धीकृतगन्धसिन्धुरघटागण्डप्रणालीमिल- बृङ्गालीमुखरीकृताय नृपतिद्वाराय बद्धोऽञ्जलिः । त्वत्कूले फलमूलशालिनि मम श्लाघ्यामुरीकुर्वतो वृत्तिं हन्त मुनेः प्रयान्तु यमुने वीतज्वरा वासराः ॥ ३ ॥ अन्तर्मोक्तिकपुञ्जमञ्जिम बहिः स्निग्धेन्द्रनीलप्रभं मातम मुदमातनोतु करुणावत्या भवत्याः पयः। यद्रूपद्वयधारणादिव नृणामा चूडमामजतां तत्कालं तनुतेतरां हरिहराकारामुदारां तनुम् ॥ ४ ॥ तावत्पापकदम्बडम्बरमिदं तावत्कृतान्ताद्वयं तावन्मानसपद्मसमनि भवप्रान्तेर्महानुत्सवः । यावल्लोचनयोः प्रयाति न मनागम्भोजिनीबन्धुजे नृत्यत्तुङ्गतरङ्गभझिरुचिरो वारां प्रवाहस्तव ॥ ५॥ कालिन्दीति कदापि कौतुकवशास्वनामवर्णानिमा- व्यस्तानालपतां नृणां यदि करे खेलन्ति संसिद्धयः । अन्तर्ध्वान्तकुलान्तकारिणि तव क्षिप्तामृते वारिणि खातानां पुनरन्वहं स महिमा केनाधुना वर्ण्यते ॥ ६ ॥ वर्णस्तेयपरानपेयरसिकान्पाथःकणाखे यदि ब्रह्मन्नान्गुरुतस्पगानपि परित्रातुं गृहीतव्रताः। प्रायश्चित्तकुलैरलं तवधुना मातः परेताधिप- प्रौढाहंकृतिहारिहुंकृतिमुचामने तव स्रोतसाम् ॥ ७॥ पायं पायमपायहारि जननि खादु वदीयं पयो नायं नायमनायनीमकृतिनां मूर्ति शो केशवीम् । १. मोतिकसमूहबन्मजलम, अतिशत्रमिला. २. अतिनो पापिनामनामनीम- HIMIRam वक्रोक्तिपञ्चाशिका १०१ सारं स्मारमपारपुण्यविभवं कृष्णेति वर्णद्वयं चार चारमितस्ततस्तव तटे मुक्तो भवेयं कदा ॥८॥ मातर्वारिणि पापहारिणि तव प्राणप्रयाणोत्सवं संप्राप्तेन कृतां नरेण सहतेऽवज्ञां कृतान्तोऽपि यत् । यद्वा मण्डलमेदनादुदयिनीश्चण्डद्युतिर्वेदना- श्चित्रं तत्र किमप्रमेयमहिमा प्रेमा यदौत्पत्तिकः ॥ ९ ॥ संज्ञाकान्तसुते कृतान्तभगिनि श्रीकृष्णनित्यप्रिये पापोन्मूलिनि पुण्यधात्रि यमुने कालिन्दि तुभ्यं नमः। एवं खानविधौ पठन्ति खलु ये नित्यं गृहीतव्रता- स्तानामन्त्रितसंख्यजन्मजनितं पापं क्षणादुज्झति ॥ १० ॥ अयं पण्डितराजेन श्रीजगन्नाथशर्मणा । स्तवः कलिन्दनन्दिन्या निर्मलो निरमीयत ॥ ११ ॥ इति पण्डितराजश्रीजगन्नाथकृतामृतलहरिः समाप्ता महाकविश्रीरत्नाकरविरचिता वक्रोक्तिपञ्चाशिका । वल्लभदेवकृतया पश्चिकया समेता । वागीश्वरीं नमस्कृत्य गणानां च तथेश्वरम् । वक्रोक्तिवर्णने राने पश्चिका क्रियते लघुः ॥ नयविषयाम्. परोक्षामित्यर्थः. कैशवीं मूर्ति दृशोर्गोचरे नायं नायं नीत्वा नीला. १. यमुनाया यमो भ्राता, सूर्यश्च पिता. तस्मात्ताववज्ञा पीडां च सहेते. २.आमन्त्रितानि "संज्ञाकान्तसुते' इत्यादीनि संबोधनपदानि. तत्संख्यजनितम्. सप्तजन्मकृतमिति यावत्. संज्ञा सूर्यस्य पनी.३.अयं रत्नाकरमहाकविः कश्मीरदेशेऽवन्तिवर्मणो राज्यकाले समुत्मनः 'मुक्काकणः शिवखामी कविरानन्दवर्धनः। प्रथा रत्नाकरश्चागात्साम्राज्येशान्तिवर्मणः । इति राजतरङ्गिणी (५।३९). अवन्तिवर्मराज्यकालस्तु ८५५ मितात्विस्वसंवत्सरादारभ्य ८८४ पर्यन्तमासीत्. रत्नाकरप्रणीतं हरविजयामिधं पञ्चाशत्सर्गात्मकं सहाकाव्यं कश्मी- रेषु प्रसिद्धमस्ति. ४. मल्लिनाथाद्बहुतरप्राचीनो वल्लभदेवस्तु सिखसंवत्सरीयदशमशतकस्य पूर्वा बभूव. यत एतत्पौत्रेण चन्द्रादित्यपुत्रेण कय्यटेनानन्दवर्धनकृतदेवीशतकस्म टी- कायां समाप्तौ 'वलमदेवायनितश्चन्द्रादित्यादवाप्य जन्मेमाम् । कय्यटनामारचयद्विति दे- १०२ काव्यमाला। सव्यालम्बनमेतदद्य भवतो निःलेह मुञ्चाम्यहं सव्यालं विजहीहि सुन्दरि वनं निःलेहता नास्ति मे । मैवं वक्ष्यसि किं वनं ननु जलं मूर्धा मयैवोह्यते वक्रोक्त्येति हिमाद्रिजामवचसं कुर्वन्हरः पातु वः ॥ १॥ सव्यालम्बनं वामभागावस्थानम् ,सव्यालं व्यालैर्दुष्टसत्त्वैः सहितं वनं च। दन्योष्टययोहि शब्दालंकारेषु यमकवक्रोक्त्यादिषु न तथा कवयो भेदग्राहिणः । मैवम् । कुटिल कस्य वनविवक्षेत्यर्थः । वक्ष्यसि कथयिष्यसि, धारयिष्यसि च । 'वह प्रापणे' धातोः । वनं काननम् , जलं च । अवचसं जिला निर्वचनाम् ॥ त्वं हालाहलभृत्करोषि मनसो मूर्छा ममालिङ्गितो हालां नैव बिभर्मि नैव च हलं मुग्धे कथं हालिकः । सत्यं हालिकतैव ते समुचिता सक्तस्य गोवाहने वक्रोक्त्येति जितो हिमाद्रिसुतया मेरो हरः पातु वः ॥२॥ हालाहल विषविशेषम् , हालां सुराम् , हलं वीरं च । आलिजितस्वं मम मनसो मूर्छा करोषीति संबन्धः । गौरेव वाहनं गोवाहनम् , गोश्च वृषभस्य वाहनं प्रेरणम् । हल वहतीति हालिकश्च । 'हलसीराहकू' । मेरः सहासः।। त्वं मे नाभिमतो भवामि सुतनु श्वश्वा अवश्यं मतः साधूक्तं भवता न मे रुचित इत्यत्र ब्रुवेऽहं पुनः । मुग्धे नास्मि नमेरुणा ननु चितः प्रेक्षख मां पातु वो वक्रोक्त्येति हरो हिमाचलभुवं स्मेराननां मूकयन् ॥ ३ ॥ मे नाभिमतो मे मम नाभिमतो न रुचिता, मेनायाश्च निजश्वश्वामिमतः । मेना हिमाचलस्त्री । न मे रुचितो न मे मम रुचितोऽमिमतः, नमेरुणा वन्यफलविशेषेण च चितो व्याप्तः ॥ HI T" m4 वीशतकस्तोत्रे ॥ वसुमुनिगगनोदधि (४०७८) समकाले याते कलेस्तथालोके । द्वापञ्चाशे रिचितैयं मगुप्तनृपे ॥' इत्यलेखि. भीमगुप्तश्च ९७५ मितलिस्वसंवत्सरादारभ्य सपादं वर्षचतुष्टयं कश्मीरान्युभोज. कश्मीरदेशप्रसिद्धो लोकान्दश्च तदानी द्विपञ्चाशन्मित आसीदित्यर्थः काब्दश्च सदा शतसंख्यातो न्यून एव तिष्ठति. वलमदेवकता रघुवंश- कुमारअंभव-मेघदूत-शिशुपालवध-सूर्यशतकादिटीकाः समुपलभ्यन्ते. देवीशतकस्यापि संक्षिप्तं टिपणं वलभदेवेन कृतम्, सुभाषितावलीसंग्रहकर्ता वलभदेवस्त्वन्यः सच खिन संवत्सरीयपञ्चदशशतकपूर्वार्षतो न प्राचीनः, वक्रोक्तिपञ्चाशिका । १०३ । नो संध्याहितमत्सरा तव तनौ वत्स्याम्यहं संधिना न प्रीतासि वरोरु चेत्कथय तत्प्रस्तौमि किं विग्रहम् । कार्य तेन न किंचिदस्ति शठ मे वीनां ग्रहेणेति वो दिश्यावः प्रतिबद्धकेलिशिवयोः श्रेयांसि वक्रोक्तयः ॥ ४ ॥ संध्याया दिनरात्र्यो रात्रिदिनयोश्च मध्यस्थायाः पितृप्रवाः, संधिना संयोगेन चाहितो मत्सरो यस्याः सा संध्याहितमत्सरा । विग्रहो विरोधः, वीनां पक्षिणां च ग्रहो ग्रहणम् । शिवश्च शिवा च शिवौ । एकशेषः । तयोः शिवयोः ॥ न त्वं संप्रतिभासि वातरशनस्त्यक्ता त्वया किं त्रपा मुग्धे संभविनी न वातरशना को मेखलाया विभो । संबन्धोऽत्र किमेतदाह भवती स्यात्ते खलत्वं कुतः श्रेयांसीति करोतु वः प्रियतमां सूक्त्या हरो हासयन् ॥ ५॥ वाता गता रशना यस्य, वातरशनो दिगम्बरः । वातो वायुश्च रशना मेखला यस्य । मेखलाया रशनायाः, मे मम च खलाया दुष्टायाः । हासयन्सहासां कुर्वन् ॥ नासूयाम्यहमस्थिराजय इह त्वदेहभागे कथं मुग्धे संयुगभमदानवगणा नैव स्थिरा तं जये। मूढेनेव जया वदेति भवताकस्मारिकमामध्यते वक्रोक्त्येति पुनातु वो गिरिभुवा मूकीकृतः शंकरः ॥ ६ ॥ असूयाम्युद्विजे । अस्थिराजयेऽस्यां कीकसानां राजिः पतिस्तस्यै की कसश्रेणये, पद- भने, जये जयविषयेऽस्थिरा चटुला च । है मुग्धे रणभनदैत्यगणा त्वं जयेऽनमिभवे नैव स्थिरा । काका स्थिरैवासीत्यर्थः । जये जयामिधाने, प्रतीहारिणि च । अत एव बया मूढेनेव त्वं वदेति जया जयामिधा प्रतीहार्यकरसादेव निर्हेतु किमामन्त्र्यते किमाहूयते । इति गिरिभुवा पार्वत्या वक्रोक्त्या मूकीकृतो निर्वचनीकृतः ॥ सालंकारतया त्वया मम कथं नेन्दोः कला दृश्यते पश्यामीन्दुकलां स्फुटं पुनरिदं लकारता नासि यत् । नो भूषाविषयं मयोदितमिदं खामिन्क भूः काप्युषा दिश्यादद्रिसुतानुजूक्तिविजितः शूली स कः संपदः ॥ ७ ॥ साप्रसिद्धालंकारतया भूषणत्वेन, लङ्कायां च रावणपुर्या रतया सक्तया । भूषालंकारः। वक्रोको तु भूख भूमिश्च, उषा बाणसुता च भूषा तद्विषयम् ॥ .

१०४ काव्यमाला। कोपं संप्रति मुञ्च देवि विनते मय्येष बद्धोऽजलि- नैवाहं विनता निरागसममुं बध्नासि किं न्वजलिम् । मुग्धे नोक्तमिदं मया स्फुटमिदं वं मुग्ध इत्थं ब्रुव- न्सूक्त्या शैलभुवा विनिर्जित इति व्यक्षः शिवायास्तु नः ॥ ८॥ विनते प्रहे मयि, विनता गरुडमाता च तस्या आमन्त्रणं हे विनते । मुग्धे इत्याम अणं हे मुग्धे, नेति निषेधे मया नोक्तमिदम् । वक्रोको तु मुग्धेनेति तृतीया । मुग्धेन मूढेन ॥ द्वीपिन्यत्र तवेश मूर्धनि न मे जाताधुना निति- र्यो मूर्धा दयिते कथं स भवति द्वीपीति नावैषि किम् । स्थानावा स्थल एव ता यदिह किं कार्य ययैमीति वो दिश्यान्मालमद्रिजानृजुगिरा मेरः स्मरारिर्जितः ॥ ९ ॥ द्वीपिनी नदी गया । 'स्रोतखती दीपवती' इत्यमरः । वक्रोक्ती तु गाधारणाविधा गता आपो यत्र स द्वीपी मूर्धा, द्वीपी शार्दूलथ । 'शार्दूलद्धीपिना' इत्यमरः । निर्वृतिः सुखम् । नावैषि न जानासि । नाका च तरण्या एण्यागच्छसि । यया नावा एभ्यागच्छामि । अद्रिज़या पार्वत्या । अगिरा वक्रोक्त्या जितः । मेरः सहासः ।। द्यूते मां प्रति देव कीदृशमिहाकार्षीः पणं देवकी- दृष्ट्या किं क्रियतेऽत्र नाभिहितवत्यस्मीति किं भाषसे । स्थातिक सुन्दरि नाभये वद हितं यत्तेऽस्ति गौरीमिति ध्यक्षः स्मेरमुखी जयन्कुटिल्या वाचास्तु वः श्रेयसे ॥ १० ॥ देव कोदशामिति । हे देव कीदृशं कर्यभूतम् , देवक्याच श्रीकृष्णमातुरंशं दृष्टिम् । नाभिहितवती नोकवती, नाभये च हितप्रत्यनुकूला ॥ सामालिजितुमाहतं बहुभुजं जानामि धन्यं चिरा- दात्मानं दयिते किमेष बहुमुक्तन्वीति मैवामिषाः । ख्यातैवास्ति यतो ममानशनता सत्यं न नश्यत्यसा- वाघेयादिति नः शिवं गिरिसुतासूक्त्या शशाही जितः ॥ ११ ॥ बहुमुजं सहस्रबाहुम् , बहु अनीति बहुभुक्तं प्रभूताधिन । एपोज हे तन्नि इति मेवामिषाः ममशनता नाशनं भोजन यस सोनरानं न नाम नाशो यस्यामा- धनशनखदायोऽनशनता माधेयाकियात् । सूकि प्रभावितोजिकिरिया वक्रोक्तिपञ्चाशिका । १०५ अस्मिन्सानुमति प्रिये न रमसे कस्सान्मुधा खेदिनी नाहं सानुमती प्रिया सुभग ते येनेत्थमामन्त्रिता । सज्जानास्यभिभाषितं सुवदने सज्जा स्थितैवास्मि ते वक्तुं पृच्छ यदीच्छसीति विजितो गौर्यावताद्वो हरः ॥ १२ ॥ मुधा व्यर्थ खेदिनी सानुमति पर्वते । परत्र हे सानुमति । सानुमती नामाप्सराः । प्रत्साधु जानासि वेत्सि । वक्रोक्तौ तु सजा सावधाना नासि न भवसि । वक्तुं सज्जा सावधानवास्मि यदि त्वं पृच्छसीति गौर्या विजितः ॥ इष्टा गौरवशालिनी त्वमधिकं तन्वनि मे सर्वदा नेष्टाहं शठ गौः कदाचिदवशा नैवालिनी च कचित् । वक्रोक्तौ तव जृम्भते कुशलता स्यार्भवल्लयात्र किं देव्या वोऽनृजुवाक्यनिर्जित इति व्यक्षः क्षिणोतु द्विषः ॥ १३ ॥ गौरवशालिनी बहुमानश्लाधिनी । परत्र । गौः, अवशा, अलिनी च । अलिनी भ्रमरी । कुशलता कौशलम् , कुशानां च लता वल्ली। अनृजुवाक्येन वक्रोक्त्या वि- जितः। क्षिणोतु क्षपयतु ॥ नो दीव्यामि सहामुनाहमधुना द्यूते प्रवीणो हरः सत्यं देवि हरोऽस्मि नैव तु पुनर्वीणा प्रकृष्टास्ति मे। केनागादि तवेदृशं शिरसि मे नास्त्येव नागादि भोः पार्वत्येति हतोत्तरो हरतु वः सूक्त्या विभुः कल्मषम् ॥ १४ ॥ अधुनामुना शंभुना सह नो दीव्यामीति सखीं प्रति पार्वत्युक्तिः । अत्र हेतुमाह- द्यूत इत्यादि । प्रवीणः कुशलः, प्रकृष्टवीणश्च । हरः शिवः, हर्ता च पणम् । अगादि ऋथितम् । 'गद व्यक्तायां वाचि' । वक्रोक्तौ तु के शिरसि नागादि नागः सर्प आदि- यस्य तन्नागादि मे नास्त्येव । भोः शंभो ॥ नो शक्तासि पतत्रिमार्गमधुना मूर्धानमेतं तव द्रष्टुं नैव पतत्रिणां प्रियतमे मार्गोऽस्ति मूर्धा कचित् । नन्वेतद्विगलसुरापगमहं द्वेष्मि प्रिये नो सुरा- नद्यस्मिन्गलतीति वक्रमुदितं देव्या विभोः पातु वः ।। १५॥ पतत्रिमार्ग पतन्ती त्रिमार्गा गङ्गा यस्मात्तं वद्गङ्गम्, पतत्रिणां पक्षिणां मार्ग न्यानं च । ननु निश्चये । अहमेतत्त्वच्छिरो विगलसुरापगं गलगङ्गं द्वेष्मीति - १.प्र.ग.

काव्यमाला। । पार्वत्युक्तिः । सुराणां देवानामापगा नदी गना । वक्रोली नु मुराया हालायाश्चाप नदी सुरापगा॥ उच्चैः किं न दधास्युषाकरकृते केशग्रह त्वं शिरो मुग्धे नात्र कृतः कचग्रह उपाहस्तेन मे कुत्रचित् । सोमं वच्मि शठ त्वया विरहितः सोमोऽस्मि नेत्यन्यथा मा बहीति हतोत्तरामगभुवं कुर्वन्हरः पातु वः ॥ १६ ॥ उच्चरित्यादि पार्वत्युक्तिः । उषाकरकृत उषां रात्रि करोतीत्युपाकर पन्द्रसौनक केशग्रह उचैरुन्नतं शिरः किं न दधासीत्युपहाराः । वकोशी तु । उपायाध पाणद हितुः करो हस्तः । हे शठ सोमं वच्मि । वक्रोको तु सोमम् , उमासहित च । खय विरहितो वियुक्तोऽहमेव सोमः । सहोमया वर्तते योऽसी सोमः । सोमो गामीत्यन्यथ मा ब्रवीः । त्वया युक्त एव सोमोऽसीति । शठेति भा वदेगः ॥ जेतुं नाथ न वक्रतावहितया शक्यो गिरा त्वं गया प्रत्ययः सुतनु क्रतुः कथय को यत्राहितत्वं तव । किं तत्स्यादहितत्वमत्र दयिते नागेश्वरः पृच्छयता- मित्यव्यात्कुटिलोक्तिनिर्जितहिमक्ष्माभृत्स्तुतो वः शिवः ॥ १७ ॥ वक्रतावहितया वक्रतायां वक्रोक्ताववाहितया सावधानया मया नलं जेतुं शक्यः । परत्र । नवक्रतौ नवय क्षेऽहितया विपक्षभूतया । अहितत्वमहितस्य भायोऽशिनत्वम्, अहीनां सर्पाणां तत्वमहितत्त्वम् । अत्राहितत्त्वमित्यस्यादितत्त्वार्थ व्यसनद्वयभावेऽपि न दोषः । हलः परस्यैकस्य व्यसनत्यायो यमकचित्रयोक्त्यादी विशेषभावस्थ स्मृतेः । यथा 'शुक्के शुलेशनाशम्' इत्यादी 'शुले शुक्रे' इति यमके सति शुकशुनगुण- युक्त शुचः क्लेशस्य च नाशं शुलेशनाशं दिशतीत्यर्थः संपद्यते । यदुक्तम्-'यमकवधि- त्रेषु दन्त्योष्ठवबकारयोः । न मेदो रलयोश्चैव न नकारमकारयोः॥ हलः परस्य चकस्य व्यअनस्य द्वयोरपि । न विशेषो विसर्गस्य भवेश्च सदसत्वयोः ॥ इति ॥ खिन्नाहं बहुनागसा तव विभो गङ्गानुबद्धस्थिते- नागस्त्वय्यपि मे नतागि मयि ते नागोऽस्ति नो कुत्रचित् । सुधूर्नाहमिति ब्रवीम्यवितथं ना त्वं यतोऽनुत्तम- खासीष्टेत्यनृजूक्तिहासितहरानिष्टाद्भवानी जगत् ॥ १८ ॥ बहुनागसापराधेन । 'आगोऽपराधो मन्तुश्च' इत्यमरः । परन बहवो नागा यस बहुनाग इत्यामन्त्रणम् । सा गौरीपरामर्शः । साहं बहु खिोलन्वयः । अत्र हेतुमाह- गोत्यादि । मे नागः सर्पस्त्वय्यपि नो। काका लम्पपीत्यर्थः। ते नागः सोमय्यपीति वक्रोक्तिपञ्चाशिका। १०७ नो। काका अपि त्वस्तीति । अथ च । नो आगोऽस्ति नापराधोऽस्ति । अपि ख- स्वीति । हे सुभ्रूः, अवितथं सत्यं नाहं ब्रुवे । काका अपितु सत्यं ब्रुवे । अपरत्राविद्यमान उत्तमो यस्मात्स तादृशोऽनुत्तमो ना पुरुषः । परमपुरुष इत्यर्थः॥ संध्यायामिह सन्नताङ्गि भवती कस्मान्मुधा खेदिनी साधु ध्यायसि कां हसन्कुटिलता नाङ्गेषु मे कुत्रचित् । हन्ताहं भवतीं न किंचिदथवा वामखभावां ब्रुवे मां हन्तासि किमर्थमित्यभिहितो देव्या हरः पातु वः॥ १९ ॥ इहास्यां संध्यायां प्रेयसीति भ्रान्त्या संनताङ्गि कस्मानिरर्थकं खेदिनी। अपरत्र हे नताङ्गि, हसन्मयनहं संध्यायामि सम्यक्चिन्तयामि । संशब्दस्य सम्यगर्थः । नतता कुटिलत्वम् । हन्त इति खेदे । वक्रोक्तौ तु हन्ताहम् ॥ संसक्तो बहुलक्षपाटन विधौ किं त्वं श्मशानेऽधुना पाट्यन्ते न मया बहूनि दयिते लक्षाणि ते कुत्रचित् । सूक्तौ ते कृतपुङ्खता कथय किं पुढेन तस्यां भवे- दित्यद्रीन्द्रसुतां गिरा शशिकलामौलिर्जयन्पातु वः ॥२०॥ बहुलक्षपाटनविधौ बहुलक्षपायां कृष्णपक्षनिशायामटनविधौ भ्रमणे । अपरत्र बहूनां लक्षाणां शरव्याणां पाटने मेदे। 'लक्षं लक्ष्यं शरव्यं च' इत्यमरः । कृतपुतः विक्षितः, विहितपुरश्च ॥ बिभन्नाकुलयस्यलीव भयदां ककालमालामिमा- मेकत्वात्रिजगत्यपि प्रियतमे कालस्य पतिः कुतः । कालोचितमेतदत्र वचनं ककैः किमालोचितं पायादित्यवचाः कृतेन्दुकलिकोत्सेन काली जगत् ॥ २१ ॥ कङ्कालमालां शवशरीरास्थिमालाम् । 'स्थाच्छरीरास्थि कङ्कालः' इत्यमरः। बिभ्रत् । वकोत्तौ तु कालमालां बिभ्रत् । के नाकुलयसि । कङ्कालानामुचितं योग्यम्, कक्कैश्च पक्षिविशेषेरालोचितम् । अवचा मूका । काली भवानी ॥ विस्पष्टां श्रियमेति ते हिमकराक्रान्तं जटामण्डलं नैवासिन्नहयो न चापि मकराः सन्ति प्रिये कुत्रचित् । ऋक्षाणामधिपं ब्रुवे तदधुनैवाहूयतां जाम्बवा- नन्दिन्नद्रिसुतां जयन्निति विभुः सूक्या चिरं पातु वः ॥ २२॥ हिमकराकान्तं हिमकरेण शधिनाकान्तम् । परत्र त्वकारप्रश्लेषेणाहिमकराकान्त- १०८ काव्यमाला। महयश्च मकराश्च तैराकान्तम् । नशाणां नात्राणामभिपः शशी, प्रशाणामच्छमालान चाधिपो जाम्बवान् । ध्रुवे कथयामि । आहुगतामामहराताम् । हे नन्दिन् । सद्धर्म्यस्थितिमत्र कूटसकले बूते भवानीक्षते प्रेतावासरतेः कुतो मम सती तन्वति हर्म्यस्थितिः । नागारं कितव ब्रुवेऽनृतमिदं नागोऽसि नव द्रुतं बहीति प्रगुणोत्तरोत्तरवचा गौर्या हरः पातु नः ॥ २३ ॥ संश्चासौ धो धर्मादनपेतः, सघ तयं प्रासादश्च तत्र स्थिति राम्पितिः कूटानि सकलान्यक्षाणि यत्र तत्र द्यूते । नागारमिति । भेति निषेधे, अगार गृहम् वक्रोक्तौ तु हे नाग सर्प, अरं शीघ्रम् । प्रगुणमर्थान्तरयुकत्वादनुरूपयुतरोतर वनो यस्य स प्रगुणोत्तरोत्तरवचाः ॥ सुभ्रूस्त्वं कुपिता ममेति हृदयं पर्याकुलं वर्तते नैवाहं शठ कुत्सितस्तव पिता भार्येति नावैपि किम् । ऋक्षाणां पतिरसि नेत्यसदृशं कस्मात्त्वयामश्रितः पायाद्वो गिरिजा जयन्निति गिरा व्याजिमया धूर्जटिः ॥ २४ ॥ हे सुभ्रूः, कुपिता क्रुद्धा, कुत्सितः पिता च नावषि न जानासीति किम् । अवैषी- त्यर्थः । भार्या गृहिणी । वनो की भानां नक्षत्राणामार्य प्रभो भार्य । हे भायति ।। ख्याता ते हर वल्लभोडवरता जानासि का वा प्लवे सक्ता बालमृगाक्षि मे प्रियतमा पोतो मया नोदितः । कार्य मुग्धमुखि प्लवेन तव किं स्यात्खण्डितेनेति वो बाचा वश्चितशैलराजतनयश्चन्द्रावतंसोऽवतात् ॥ २५ ॥ वल्लभ उडवरः शशी यस्य भावो पालभोडवरता, उडवे हवे या रता सा ते वल्लभा । उड्डवशब्दस्य वकारान्तत्वं चिन्त्यम् । ओट्यान्तता हि प्रसिद्धा । नोदित इति न उदित उक्तः । अपरत्र नोदितः खण्डितः॥ व्यर्थ किं तनुषे दुरोदरमिदं न खापतेयं तव द्यूतं किं न तनोमि तन्व्यकृतिना दुष्पापतात्रास्ति मे । नावाप्यस्त्वमसीति सत्यमुदितं नावा न लभ्योऽसि किं त्रासीष्टेति निरुतरां गिरिभुवं कुर्वजगण्यम्बकः ॥ २६ ॥ खापतेयं धनम्, इयं खापता सुप्रापत्वं च । नावाप्यो म सम्मः, नावा तरण्या चाप्यः प्राध्या वक्रोक्तिपञ्चाशिका । १०९ दृष्टिस्ते शिखिना विभाति घटिता दृष्टौ न बहीं कचि- द्वक्रोक्तिर्भवतो नितान्तदयिता सत्यं ममान्तो गतः । न ब्रह्मादिभिरप्यपारवपुषः किं शब्दशून्यान्विभो पुष्णासीति हतोत्तरं विदधती शंभु शिवा पातु वः ॥ २७ ॥ शिखी वह्निः, मयूरश्च । नितान्तमत्यर्थ दयिता नितान्तदयिता। अपरत्रानितान्त नेतो लब्धोऽन्तो यस्य तस्यामन्त्रणं हे अलभ्यावसान । वक्रोक्तिर्भवतो दयितेति । अपारव- पुषः पाररहितदेहस्य । अनन्तदेहस्येति यावत् । अपगत आरवः शब्दो येषां तानपगता- रवान्पुष्णातीति यस्तस्यापारवपुषः ।। तेनैवं त्रिदशेश मां न कुरुषे वश्या यतोऽहं तव प्राप्ता प्रीतिमनुत्तमां प्रियतमेवश्यायप्रीतिः कुतः । मैवं ब्रूहि निगद्यतेऽत्र न निशातोयं निशातः स कः शंसन्वक्रमिति क्षमाधरसुतां व्यक्षः शिवं वः क्रियात् ॥ २८ ॥ वश्या यतो वशगता यस्मात् । उत्तरे खकारप्रश्लेषेऽवश्यायतो निशाज़लात्प्रीतिः कुतः। निशातोयं रात्रिजलम् , अयं च निशातस्तीक्ष्णः ॥ कृत्वा त्वां पणवञ्चितं नहि मया द्यूतेन न प्रीयते नैवाहं पणवः कृशोदर चितः शक्यो विधातुं त्वया । किं वादित्रविवक्षयात्र दयिते को वादिनस्त्रायते सूक्त्या निर्जितशैलराजसुत इत्यव्याज्जगद्भूर्जटिः ॥ २९ ॥ पणेन वञ्चितं रहितम् , पणवं पटहं चितं संभूतं च । वादित्रं वाद्यभाण्डम् , यश्च वादि- नत्रायते स वादित्रस्तं च ॥ आयूनोऽसि सभस्मकः सुरभिषक्कश्चिन्न किं पृच्छ्यते सत्यं देवि ममास्ति नादिरपरो भूतिस्तु देहस्थिता । केनागादि तवात्र भूतिरवनेर्गुप्तिः स्थिता पादयो- दिश्यान्निर्जितपार्वतीक इति वः सूक्त्या श्रियं शंकरः ॥ ३० ॥ आघूनो लम्पटः । 'आयूनः स्यादौदरिको विजिगीषाविवर्जिते' इत्यमरः ।आदिनोनो रहितश्च । भस्मको व्याधिविशेषः, सह भसना वर्तते यः स सभस्मकः । भूतिर्भस, भुवश्च पृथिव्या ऊतिरवनं भूतिः॥ १. 'अहेवा' इति पिङ्गलसूत्रात्प्रकारपूर्वाक्षरस्य विकल्पेन गुरुवे नात्र च्छन्दोभाशा.

काव्यमाला। ही नाहं भवतोऽतिवक्रवचसा दातुं प्रवीणोत्तरं का ते सुन्दरि हीनता ननु नता सर्वा त्रिलोक्येव ते । नासत्योक्तिरियं कुतोऽत्र घटते दस्राभिधानागमो मुष्णीतादधमाद्रिजामवचसं कुर्वन्पिनाकीति वः ॥ ३१ ॥ हीति दोषसूचनेऽव्ययम् । नेति निषेधे । उत्तरत्र हीनोना । यस्याः सर्वा त्रिलोकी प्रणता स्यात्तस्या हीनता न संभाव्यते । न असत्यस्यान्तस्योक्तिनासत्योक्तिः, नासत्यो च अश्विनौ ॥ द्यूतेऽस्मिन्विजितो मया ननु भवानूल मुहूर्ता वं कोऽत्र स्यात्कथयक्षसङ्ग उदितः शैलो न वेत्सीति किम् । प्रत्यग्रे किमिवामि शंस दयिते भिक्षां कपालेऽधुना सूक्त्येत्यद्रिजया जितोऽनृजुवचास्त्रासीष्ट वः शंकरः ॥ ३२ ॥ ध्रुवं निश्चितम् , ध्रुवं च नक्षत्रम् । भवान्मया जित इत्युत्तरे जयतिति कर्मकः । क्षसजो नक्षत्रसङ्गः । उत्तरे शैलस्य:रच्छभलेः समः । न वेत्सि न जानासि, नवे नूतने चासि भक्षयसि । “अद भक्षणे । अनि भक्षयामि । मिक्षां कपाळेऽधुनेति पार्वत्युतिः ।। सन्नागारहिता तनोति भवतो भीति ममैषा तनु- र्भमं सुन्दरि सद्म किं भवति मे यसै हितैषा तनुः । चिन्ता मेऽत्र न वेश्मनि प्रियतमे किं चिन्तयास्यान्नव- प्राणीत्यद्रिसुतां जयन्नवतु वः सूक्त्या गिरीशोऽनिशम् ॥ ३३ ॥ सन्नागारहिता सद्धि गैररहिता सभागारहिता, सन्ने भन्ने चागारे गृहे हिताइकूला। वेश्मनि न निषेधे वेश्मनि गृहे, नवे नूतनेऽश्मन्युपळे च ॥ आ संसारमसौ शिरस्यविरतं गङ्गा वहत्येव ते नेष्वासं च बिभर्ति सारमिति किं जानासि नामान्तिकम् । स्यादनस्य किमन्तिकेन कितव ज्ञातेन ते सांप्रतं संपत्त्यै गिरिशोऽस्तु वः कुटिलया वाण्या भवान्या जितः ॥३४॥ आ संसारादासंसारम् , अस्सन्देऽनेन शरा इष्वासं धनुः, सारमत्कृष्टम् । अत्रान्तिक प्रान्तिरहितं निःसंशयम् , अभ्रस्यान्तिकं समीपं च ॥ न क्रीडामहमुत्सहेऽत्र भवता साध पयोधेनव- प्रस्तावः क इवात्र नूतनमथ प्रलं न जानाम्यहम् ।

वक्रोक्तिपञ्चाशिका । नव्यं कः कथयेकिमत्र भवता व्यकेन साङ्केन वा गौर्यात्तप्रतिपत्तिरुत्तरगिरा शंभुः कृतः पातु वः ।। ३५ ॥ न क्रीडामिति नेति निषेधे । क्रीडां खेलाम् , नका मकरा विद्यन्ते यस्य स नक्री समु- द्रस्तस्येडा स्तुतिनक्रीडा तां च । नवः स्तवः, नूतनश्च । प्रनं पुराणम् । 'पुराणप्रतनप्र- नपुरातनचिरंतनाः' इत्यमरः । सविपक्षा ह्येषा लौकिकी वाचोयुक्तिः । एवं व्यथेन साङ्केनेति । नव्यं क इति नव्यं नूतनं को जातु कथयेत् , उत्तरे नेति निषेधः । विगतो- ऽको यस्यासौ व्यङ्कः ॥ एषा सागरसंगताभिमततां याता न मे कर्हि चि- न्मुग्धे कण्ठभुवं ब्रवीषि मम किं सक्ष्वेडतामीयुषीम् । श्वेडाराव इहोचितस्तव गणवातैः सह क्रीडतो युष्मानीलगलोऽवतादिति गिरा गौर्या कृतोऽनुत्तरः ।। ३६ ॥ सागरसंगति सागरेण समुद्रेण संगता । अर्थाद्गङ्गा । उत्तरे तु सेति सर्वनामपदम, गरो विषम् । तदाह-सक्ष्वेदेति सह श्वेडेन विषेण, क्ष्वेडया शब्दविशेषेण च सक्ष्वेडम, श्वेडं विषम् , क्ष्वेडा जनस्य शब्दविशेषः ॥ ख्यातं सज्जगतीह किं नु चरितं विष्वग्विनोदीव ते सज्जास्ति क गतिर्न मेऽत्र रुचितः कश्चिद्विहारः क्वचित् । नेष्टं ते जिनसद्म चेद्वस ततः सार्च श्मशाने मया मायां वो दहतादिति त्रिनयनः सूक्त्या जयन्पार्वतीम् ॥ ३७ ।। सजगतीति सच्छोभनं जगति भुवने, उत्तरे तु सज्जा सावधाना गतिर्यस्य तत्सज- गति । विष्वक्समन्तात् । विहारो विहरणम् , बुद्धवेश्म च । 'बुद्धानां च विहारोऽत्री' इति कोषः॥ सुश्रूमूर्धनि मेऽत्र पावनतया नूनं स्थितं गङ्गया हीरस्या बत का भवेदवनता कास्ति त्वयेत्युच्यताम् । मन्दाक्षामिमता न मे भवति ते पविन्द्रियैव प्रिया नूनं स्यादिति वो विनिर्जितशिवा शर्वाण्यधौषच्छिदे ॥ ३८ ॥ अत्र पावनतयान मूर्धनि पावनतया पवित्रत्वेन, परत्र त्रपया लज्जयावनता तया। मन्दाक्षं लज्जा, वक्रोको तु मन्दाक्षाऽपटिन्द्रिया ॥ मूर्धानं हर संश्रिता किल हलश्रेणी वितस्तार ते संबन्धः क इवात्र लागलतते हं वितस्तारतिः ।

.११२ काव्यमाला। किं नद्याश्रयमेतदन वचनं घामाश्रयेकि बचो दिश्याद्वः शितिकण्ठ इत्यगभुवि स्पष्टोत्तरोक्तिः श्रियम् ॥ ३९ ॥ हलं अस्थि, सीरं च । वितस्तार विततान ते तब, अपर विशाल कश्मीरदे- शप्रसिद्धायां] नद्यां रतिर्यस्य तस्याम श्रणं वितस्वारसो । नद्याश्रयो गस्य गिधाश्रयम्, अपरत्र न निषेधे द्यौराश्रयो यस्य स याश्रयः॥ गण्डे दानवनाशिनो गणपतेः कुर्वन्ति कोलाहलं रोलम्बा दनुसूनुनाशनविधौ सक्ताः स्युरेते कथम् । ब्रूयात्कः खल दानवान्गजमुखः शंसत्यसौ पृच्छयता- मुक्त्या साध्विति नित्यमस्तु कुशलायोमां जयन्वो विभुः ॥ ४०॥ दानवनाशिन इति दानवनं मदपुभमनन्तीति दानवनाशिनः । परनागरक्षेपकाथ। रोलम्बा भ्रमराः। दानवान्दानयुक्तश्च ।। को हि स्यादहितान्तकस्त्वदपरः सत्यं ममेवाहिना तान्तं वीक्ष्य शिरो भवेदभिमतः किं स्थान चक्री श्रियः । वक्रोक्तौ कुशलो भवानिति कुशे लोभोऽस्ति कस्येति वै वक्रोक्त्या भवतो भवो जितभवानीकोऽभवायास्तु वः ॥ ४१॥ अहितानामन्तको मृत्युरहितान्तकः । अपरत्राहिना तान्तं खिमक शिरो यस्या- हितान्तकः । एतदेवोद्दिश्याह-सत्यमेतत् । अहिना तान्तं सदैव शिरी वीक्ष्य चकी विष्णुः धियो लक्ष्म्या अभिमतः प्रियः किं न स्यात् । अपि तु स्मादेव । मच्छिरसहि- सेन धारित इति यत्ततो लक्ष्म्याथमिमतो विष्णुर्जात इत्यर्थः । कुशलो भवानिपुणस्त्वम्, कुशेषु दर्भेषु च लोभो विद्यते यस्य ॥ दुर्गाहं भवतोऽवगायत इदं चेतः कथं वा मया दुर्गाहं स्फुटममि गाहनविधौ वामा पुनर्नास्म्यहम् । नालीकाश्रयमेतदत्र वचनं बाणाश्रयं किं वचः स्यादित्यस्तु भवच्छिदेऽद्रिवनयां सूक्त्या जयन्वो विभुः ॥ १२ ॥ दुःखेन गाहत इति दुर्गाहम् , महं च दुर्गामिधाना । मया कथं वा तव घेतोऽवगायत इति, वामा स्त्री वामया स्त्रिया च, बामा कुटिला च । नालीकाश्रयमलीकाश्रयमन्त- स्थानं न । सत्यमेतदित्यर्थः । नालीकब शरविशेषः । भवच्छिवे जन्मोचितये ।। मुश्चामीश्वर कुखराजिनमहं ते विसगन्धाकुळ कुझे राजितमस्स शैकमिहं ते मुः पिवा पर्वतः ।

वक्रोक्तिपञ्चाशिका ।
११३
नोक्तिमज्जनकाश्रया तव भवेत्किं मजनेनात्र मे
शंसन्नित्यजितोऽद्रिराजतनयां नेयाद्विषो वः क्षयम् ॥ १३ ॥
कुजराजिनं कुञ्जरस्याजिनं कुञ्जराजिनं गजचर्म, कुलेन लतादिपिहितोदरेण शोमिनं
च । एतदेवाह-कुजै राजितं शैलमस्य दूरीकुरु । 'असु क्षेपणे' । परंतु हे सुभ्रूः, तव
पिता पर्वत एव । विसं दुर्गन्धि । मज्जनको मम जनकः पिता, मजनं च स्नानम् ॥
स्पष्टाखण्डलयज्ञया विजयया नृत्ये ममोच्चावचं
गीतं सुन्दरि तन्यते सुरपतेर्योगो मखस्यात्र कः ।
कस्येष्टा सवसंकथा स्फुटमसौ यः पानशौण्डो नरः
सूक्त्या खण्डितपार्वतीवचन इत्यव्याद्वृषाङ्को जगत् ।। ४४ ॥
स्पष्टाखण्डलयज्ञया । 'लयः साम्यम्' इत्यमरः । स्पष्टाऽखण्डलयज्ञा, परत्र स्पष्ट आ-
खण्डलयज्ञ इन्द्रयज्ञो यस्याः । उच्चावचं नानाविधम् । सवो यज्ञः संहितया आसवः पानं
च । पाने शौण्डो व्यसनी॥
धत्ते चन्द्रकलाञ्छितस्तव जटाजूटः श्रियं हारिणी
बहेणैष न लाञ्छितो न च रुचिं मार्गी बिभर्ति क्वचित् ।
उक्तिस्ते विषमा तनोति मनसः क्षोभं ममोक्तिः कथं
क्ष्वेडं ते तनुयादुमामिति जयन्सूक्त्या हरो वोऽवतात् ॥ १५ ॥
चन्द्रकलाञ्छितश्चन्द्रकलयाञ्छित आकृष्टः । परन चन्द्रकेण च बहेण लाञ्छितश्चि-
हितः । हरतीति हारिणी ताम् , हरिणसंबन्धिनी च । विषमा क्रूरा, तनोति कुरुते, विषं
चातनोति । क्षोभमित्यत्र चार्थों बोद्धव्यः । उत्तरे क्षोभ एव दुर्जरत्वाद्विषम् ॥
शक्ता वक्तुमिहोत्तरं न खलु ते तद्दक्षिणामाश्रयेः
किंचिन्मे वद सर्वदस्य भवतः का दक्षिणा लभ्यते ।
संजाता सततं त्वमेव सरला नाहं लता तारवी
स्मेरः शंभुरिति श्रियं दिशतु वः शैलात्मजानिर्जितः॥ ४६॥
'. उत्तर प्रतिवाक्यम् , उत्तरदिक्स्थं च । दक्षिणाऽनुकूला, अपसव्या व, यज्ञादौ पात्रेषु
देया च । सरला शुद्धा, देवदारुलता च ॥
सुभ्रूः संप्रति मे न कापि दयिता त्वत्तो ममायं ग्रहः
प्राप्ता ते शठ मेनका दयिततां नाकाङ्गनापाश्रया ।
नोक्ति, गगनाजिराश्रयवती कस्योक्तिरित्यस्तु वः
सूक्त्या निर्जितशैलजानृजुवचाः शीतांशुमौलिः श्रिये ॥ १७ ॥

काव्यमाला । मेनका इति मे न का इति पदत्रयम् । मे मम न कापि सुभ्रूधराना दयिता प्रिया, मेनकानामाप्सराः । अझना नारी, आनं चाजिरम् ॥ कर्ता शूलपराजितां रिपुचमूमेकस्त्वमेवोद्धतां नो शीघ्रं तृणमण्डितारिपृतना केनापि काचित्कृता । वक्तुं ते कुशला कया तव गिरा स्यां दुःशलाका न वा- गस्तीशो वचसाद्रिजामिति जयन्निष्टं विधासीष्ट वः ॥ १८ ॥ शूलपराजितां शूलेन त्रिशूलेन पराजिताम् , उत्तरत्राशु शीघ्रमुलपेन तृणविशेषेण राजितां शोभमानाम् । कुशला निपुणा कया गिरा स्यामहम् , उत्तरत्र कुत्सितया शला- कया सूच्या। विधासीष्ट क्रियात् ॥ दृष्टिस्ते न कृशानुतापरहिता सत्यं न तन्वी स्तुता सुभ्ररन्यहिता च मे मतिरपि प्रज्ञोच्यते नो मया । ख्यात्वैव त्वमुमात्मनास्यभिहितं कस्मादपट्यते मुष्णीतादधमद्रिजामभिभवन्सूक्त्या कपर्दीति वः ॥ ५९॥ कृशानुतापरहिता कृशानोर मेस्तापतेन रहिता । अपरम कृशा तन्वी, नुता लुता, परहितान्यानुकूला। नोमया, नो, मयेति नो निषेधे, न उमया इति ॥ वक्रोक्त्या यदसत्कृतोऽसि भगवंस्तत्क्षम्यतां मेऽधुना कसाझौमगिरा न खेदितमना नोक्तः कुपुत्रो मया । स्वात्किं सुन्दरि कुत्सितेन तनयेनोक्तेन जित्वेत्युमा स्ताद्वस्तत्परिरम्भसान्द्रपुलकः शंभुः शिवप्राप्तये ॥ ५० ॥ वक्रोक्तिर्वक्रा कुटिला चासावुक्तिः कुटिला गीः, उत्तरत्र यक्रस्य भीमस्योफिर्वाच । पुत्र इति कुः भूमिस्तस्याः पुत्रः कुपुत्रो भौमः, कुत्सितः पुत्रस्तनयम । परिरम्भ बान्लेषस्तेन सान्द्राणि पुलकानि रोमाचा अस्य । वक्रोक्तिपञ्चाशतिमित्यमेनां यो भावयेन्मत्सररिक्तबुद्धिः। स्पष्टोत्तरासूक्तिषु काव्यबन्धे भवेत्स रसाकरवत्प्रवीणः ॥ ५१ ।। भावयेद्विचारयेत् । स्पष्टोत्तराखिति स्पटमुत्तर यासु तादशीपूतिय वक्रोकिषु काव्यबन्धे सुभाषितविषये रत्नाकरः कविवरो हरविजयकारतद्वत्प्रवीणः कुशलः स्यात् ।। सूनुरानन्ददेवस्य रणभूण्योनि भाखतः। वक्रोक्तिवर्णने राने टिप्पणं क्लभो व्यधात् ॥ इसमात्यवरानन्ददेवसूनुशिशुपालवधायनेककाव्यटीकाकर्तृश्रीवल्लभदेवकतया टिप्पण्या समेता श्रीबालबृहस्पत्यनुजीविनो वागीश्वराइस्य विद्याधिपत्यपरनाम्रो हरविजय- महाकाव्यकर्तुः कश्मीरवेशोबराजानकधीरनाकरमहाकवे: कृतिधकोतिपचाधिका समाता। - औचित्यविचारचर्चा । महाकविश्रीक्षेमेन्द्रकृता औचित्यविचारचर्चा। कृतारिवञ्चने दृष्टिर्येनाञ्जनमलीमसा । अच्युताय नमस्तस्मै परमौचित्यकारिणे ॥१॥ कृत्वापि काव्यालंकारां क्षेमेन्द्रः केविकर्णिकाम् । तत्कलङ्क विवेकं च विधाय विबुधप्रियम् ॥२॥ औचित्यस्य चमत्कारकारिणश्चारुचर्वणे । रसजीवितभूतस्य विचारं कुरुतेऽधुना ॥३॥ (युग्मम्) काव्यस्यालमलंकारैः किं मिथ्यागणितैर्गुणैः । यस्य जीवितमौचित्यं विचिन्त्यापि न दृश्यते ॥ ४॥ अलंकारास्त्वलंकारा गुणा एव गुणाः सदा । औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम् ॥५॥ परस्परोपकारकरुचिरशब्दार्थरूपस्य काव्यस्योपमोत्प्रेक्षादयो ये प्रचु- रालंकारास्ते कटककुण्डलकेयूरहारादिवदलंकारा एव, बाह्यशोभाहेतुत्वात् । येऽपि काव्यगुणाः केचन तल्लक्षणविचक्षणैः समानातास्तेऽपि श्रुतसत्य- शीलादिवद्गुणा एव, आहार्यत्वात् । औचित्यं त्वग्रे वक्ष्यमाणलक्षणं स्थिरमविनश्वरं जीवितं काव्यस्य, तेन विनास्य गुणालंकारयुक्तस्यापि निर्जीवत्वात् । रसेन शृङ्गारादिना सिद्धस्य प्रसिद्धस्य काव्यस्य धातुवा- दरससिद्धस्येव तज्जीवितं स्थिरमित्यर्थः। उक्तार्थस्यैव विशेषमाह- उचितस्थानविन्यासादलंकृतिरलंकृतिः । औचित्यादच्युता नित्यं भवन्त्येव गुणा गुणाः ॥६॥ १. कलाविलासप्रारम्भलिखितक्षेमेन्द्रकृतग्रन्थनाममालिकातिरिकाः क्षेमेन्द्रकृता अन्थास्त्वेते-(१)अवसरसारः, (२) नीतिलता, (३) मुनिमतमीमांसा, (४) ललितरन- माला, (५) विनयवल्ली. अथ च तत्र क्षेमेन्द्रकृतग्रन्थेषु 'हस्तिजनप्रकाशः' इति ग्रन्थनाम लिखितम् , तत्कः कश्चिदर्वाचीनो गुर्जरदेशोद्भवो यदुशर्मसूनुरन्यः क्षेमेन्द्र इति ज्ञेयम्, अयमनेकप्रन्थकर्ता महाकविः क्षेमेन्द्रस्तु प्रकाशेन्द्रात्मजः कश्मीरदेशोद्भूतथेति सुप्रसि- धमेव. २. कस्यधिरक्षेमेन्द्रकृतग्रन्थस्यैव नाम भाति.

काव्यमाला। - - अलंकृतिरुचितस्थानविन्यासादलंकर्तुं क्षमा भवति, अन्यथा त्वलंकृति- व्यपदेशमेव न लभते । तद्वदौचित्यादपरिच्युता गुणा गुणतामासादयन्ति, अन्यथा पुनरगुणा एव । यदाह- 'कण्ठे मेखलया नितम्बफलके तारेण हारेण वा पाणौ नूपुरबन्धनेन चरणे केयूरपाशेन वा । शौर्येण प्रणते रिपौ करुणया नायान्ति के हास्यता- मौचित्येन विना रुचिं प्रतनुते नालंकृति! गुणाः ॥' किं तदौचित्यमित्याह- उचितं प्राहुराचार्याः सदृशं किल यस्य यत् । उचितस्य च यो भावस्तदौचित्यं प्रचक्षते ॥७॥ यत्किल यस्यानुरूपं तदुचितमुच्यते, तस्य भावमौचित्यं कथयन्ति । अधुना सकलकाव्यशरीरजीवितभूतस्यौचित्यस्य प्राधान्येनोपलभ्यां स्थिति दर्शयितुमाह- पदे वाक्ये प्रबन्धार्थे गुणेऽलंकरणे रसे। क्रियायां कारके लिङ्गे वचने च विशेषणे ॥८॥ उपसर्गे निपाते च काले देशे कुले व्रते । तत्त्वे तत्वेऽप्यभिप्राये स्वभावे सारसंग्रहे ॥९॥ प्रतिभायामवस्थायां विचारे नाश्यथाशिषि । काव्यस्याङ्गेषु च प्राहुरौचित्यं व्यापि जीवितम् ॥ १०॥ एतेषु पदप्रभृतिषु स्थानेषु मर्मखिव काव्यस्य .सकलशरीरव्यापि जीवितमौचित्यं स्फुटत्वेन स्फुरदवभासते । तेषूदाहरणानि क्रमेण दर्शयितुमाह- तिलकं बिभ्रती सक्तिर्मात्येकमुचितं पदम् । चन्द्राननेव कस्तूरीकृतं श्यामेव चान्दनम् ॥११॥ एकमेवोचितं पदं तिलकायमानं बिभ्राणा सूक्तिः समुचितपरभागयो- भातिशयेन रुचिरतामावहति । - mmm औचित्यविचारचर्चा | ११७ यथा परिमलस्य- 'ममानि द्विषतां कुलानि समरे त्वत्खड्गधाराकुले नाथास्मिन्निति बन्दिवाचि बहुशो देव श्रुतायां पुरा । मुग्धा गुर्जरभूमिपालमहिषी प्रत्याशया पाथसः कान्तारे चकिता विमुञ्चति मुहुः पत्युः कृपाणे दृशौ ।' अत्र मुग्धापदेनार्थौचित्यचमत्कारकारिणा सूक्तिः शरदिन्दुवदनेव श्या- मतिलकेन श्यामेव शुभविशेषकेण विभूषिता सकलकविकुलललामभूतां विच्छित्तिमातनोति । न तु यथा धर्मकीर्तेः- 'लावण्यद्रविणव्ययो न गणितः क्लेशो महान्वीकृतः खच्छन्दस्य सुखं जनस्य वसतश्चिन्ताज्वरो निर्मितः। एषापि खयमेव तुल्यरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥ अत्र 'तन्व्याः' इति पदं केवलशब्दानुप्रासव्यसनितया निबद्धं न कांचिदाँचित्यचमत्कारकणिकामाविष्करोति । 'सुन्दर्याः' इत्यत्र पदमनुरूपं स्यात् । अन्यानि वा निरतिशयरूपलावण्यव्यञ्जकानि । तन्वीपदं,तु विरह- विधुररमणीजने प्रयुक्तमर्थोचित्यशोमां जनयति । यथा श्रीहर्षस्य- 'परिम्लानं पीनस्तनजघनसङ्गादुभयत- स्तनोर्मध्यस्यान्तः परिमलनमप्राप्य हरितम् । १. पद्मगुप्तापरनामा परिमलकविः साहसाचरितनामकेऽष्टादशसर्गात्मके महाकाव्ये- ऽवन्तिभूपालस्य 'चरितं वर्णितवान्. २. अयं बौद्धो धर्मकीर्तिर्वासवदत्ताकर्तुः सुबन्धु- कवेरपि प्राचीन आसीत. वासवदत्तायां वासवदत्तावर्णनप्रकरणे 'बौद्धसंगतिमिवालंकार- भूषिताम्' इत्यस्ति. 'बौद्धसंगतिमिवालंकारो धर्मकीर्तिकृतो प्रन्थविशेषस्तेन भूषिताम्' इति तटीकायां शिवरामः. आनन्दवर्धनाचार्येणायमेव श्लोको धर्मकीर्तिनामोल्लेखपूर्वकं ध्व- निप्रन्म उदाहृतः सुभाषितावलावपि बहवो भदन्तधर्मकीर्तिश्लोकाः सन्ति. भदन्तशब्दो बौद्ध भिक्षुवाचकः. ३. रत्नावलीप्रियदर्शिकानागानन्दानां कर्ता कोऽयं, श्रीहर्ष इति न Home- ११प्र.गु.

काव्यमाला। इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाझ्याः संतापं वदति बिसिनीपत्रशयनम् ॥ अत्र सागरिकाया विरहावस्थासूचकम् 'कृशाङ्गयाः' इति पदं परम- मौचित्यं पुष्णाति । वाक्यगतमौचित्यं दर्शयितुमाह- औचित्यरचितं वाक्यं सततं संमतं सताम् । त्यागोदग्रमिवैश्वर्यं शीलोज्वलमिव श्रुतम् ॥ १२ ॥ औचित्यरचितं वाक्यं काव्यविवेकविचक्षणानामभिमततमम् । यथा मम विनयवल्लयाम्- 'देवो दयावान्विजयो जितात्मा यमौ मनःसंयममाननीयौ । इति ब्रुवाणः खभुजं प्रमार्टि यः कीचकाकालिककालदण्डम् ।। धीरः स किर्मीरजटासुरारिः कुबेरशौर्यप्रशमोपदेष्टा । दृष्टो हिडिम्बादयितः कुरूणां पर्यन्तरेखागणनाकृतान्तः ॥' (युग्मम्' अत्र भीमस्य भीमचरितोचितकीचकाकालिककालदण्डहिडिम्बादयिता. दिभिः पदैरुन्निद्ररौद्ररसखरूपानुरूपो वाक्यार्थः सजीव इवावभासते । यथा वा राजशेखरस्य- 'संबन्धी पुरुभूभुजां मनसिजव्यापारदीक्षागुरु- ौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः । निश्चयः. बाणभट्ट एव खप्रभोः श्रीहर्षस्य नाना रमावल्यादिप्रन्थान्कृतवानिति काश्मी- रकाः, पठन्ति च काव्यप्रकाशेऽपि श्रीहर्षादे णादीनामिन धनम्' इति. अन्यदेशीयास्तु धावककविः श्रीहर्षनाना रनावली कृत्वा बहुधनं लन्धवानिति वदन्ति. अन्यदेवीयका- व्यप्रकाशपुस्तकेष्वपि 'श्रीहर्षादे(वकादीनामिव धनम् इत्येव पाठः. काश्मीरकमते तु धावककविः शशकायते. अन्यदेशीयपुस्तकपाठापेक्षया काश्मीरपुस्तकस्थपाठस्य किं. चिदधिकं प्रामाण्यम् , काव्यप्रकाशकत राजानकमम्मटस्य काश्मीरदेशोत्पमस्वाद, रना- वलीश्लोका आनन्दवर्धनाचार्येणापि ध्वनिग्रन्थ उदाइताः सन्ति. लिखसंवत्सरीयाष्टम- शतकमध्यभागसमुत्पनेन कश्मीरमहीपतेर्जयापीडस्य मन्त्रिणा दामोदरगुप्तेनापि कुटनी- मतप्रन्थे रनावलीनाटिका वितरेण वर्णितास्ति. रत्नावलीप्रथमावस्या 'उदयनगान्त- रितमियम्' इत्याचार्यापि प्रसझागता तत्र गृहीतानि. - औचित्यविचारचर्चा | ११९ सद्योमार्जितदाक्षिणात्यतरुणीदन्तावदातयुति- श्चन्द्रः सुन्दरि दृश्यतामयमितश्चण्डीशचूडामणिः ।।' अत्रापि चन्द्रमसः शृङ्गारान्तरङ्गैरनजोद्दीपनैः पदैनिवर्तितो वाक्यार्थः सदऑचित्यसामर्थ्येनात्यर्थमर्थनीयतां प्राप्तः । न तु यथास्यैव- 'नाले शौर्यमहोत्पलस्य विपुले सेतौ समिद्वारिधेः शश्वत्खड्गभुजंगचन्दनतरौ क्रीडोपधाने श्रियः । आलाने जयकुञ्जरस्य सुदृशां कंदर्पदपै परं श्रीदुर्योधनदोष्णि विक्रमपरे लीनं जगन्नन्दतु ॥' अत्रातिशयपरकर्कशसोत्कर्षसुभटभुजस्तम्भस्यासमुचितेन कुवलयनालतु- लाधिरोपणेन वाक्यार्थः सोपहासतयेव निबद्धः परिज्ञायते । प्रबन्धार्थौचित्यं दर्शयितुमाह- उचितार्थविशेषेण प्रबन्धार्थः प्रकाश्यते । गुणप्रभावभव्येन विभवेनेव सज्जनः ॥१३॥ अम्लानप्रतिभाप्रकर्षाप्रेक्षितेन सकलप्रबन्धार्थाप्यायिपीयूषवर्षेण समु- चितार्थविशेषेण महाकाव्यं स्फुरदिव चमत्कारकारितामापद्यते । यथा कालिदासस्य- 'जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाडूबन्धुर्गतोऽहं याच्या मोघा वरमधिगुणे नाधमे लब्धकामा ॥' अत्राचेतनस्य चेतनाध्यारोपेण मेघस्य दौत्ययोग्यताधानाय प्रथितपु- ष्करावर्तकपर्जन्यवंश्यत्वममात्यप्रकृतिपुरुषत्वं च यदुपन्यस्तं तेन समस्त्रप्र- बन्धस्याभिधानतोत्प्रेक्षितेतिवृत्रुचिरतरस्य निरतिशयमौचित्यमुद्दयोतितम् । यथा वा भवभूतेः- '(नेपथ्ये।) योऽयमश्वः पताकेयमथवा वीरघोषणा। सप्तलोकैकवीरस्य दशकण्ठकुलद्विषः॥..

१२० काव्यमाला। लव:-(सगर्वमिव ।) अहो संतापनान्यक्षराणि । भो भोः, किमक्ष त्रिया पृथिवी यदेवमुश्रुष्यते । (विहस्य ।) आः, किं नाम स्फुरन्ति शस्त्राणि । (धनुरारोपयन् ।) ज्याजिह्वया वलयितोत्कटकोटि दंष्ट्र- मुद्दारिघोरघनघर्षरघोषनेतत् । ग्रासप्रसक्तहसदन्तकवक्रयन्त्र- जृम्भाविडम्बिविकटोदरमस्तु चापम् ॥' अत्रार्थ रामायणकथातिक्रमेण नूतनोत्प्रेक्षिता रामतनयस्य सहजवि- क्रमानुसारिणी शौर्योत्कर्षभूमिः परप्रतापस्पर्शासहिष्णुता प्रबन्धस्य रसबन्धु- रामौचित्यच्छायां प्रयच्छति ॥ न तु यथा राजशेखरस्य- 'रावण:-यत्पार्वतीहठकचग्रहणप्रवीणे पाणौ स्थितं पुरभिदः शरदां सहस्रम् । गीर्वाणसारकणनिर्मितगात्रमत्र तन्मैथिलीक्रयधनं धनुराविरस्तु । जनक:-आविरस्तु सममगर्भसंभवया सीतया ।' अत्र 'आविरस्तु समं सीतया' इति जनकराजेन यदुच्यते तेनास्य पि- शिताशनाय तनयाप्रतिपादनमभिमतमियोपलक्ष्यते । न चैतद्विमः कथं भक्ष्यभूता कुसुमकोमलाङ्गी पुरुषादाय प्रतिपाद्यते । इत्यनौचित्येन प्रसिद्धन वृत्तवैपरीत्यं परं हृदयविसंवादमादधाति । यथा वा कालिदासस्य- 'ऊरुमूलनखमार्गपतिभिस्तत्क्षणं हृतविलोचनो हरः । वाससः प्रशिथिलस्य संयम कुर्वती प्रियतमामवारयत् ।।' अनाम्बिकासंभोगवर्णने पामरनारीसमुचितनिर्लजसजेनखराजिविराजि. तोरुमूलहृतविलोचनत्वं त्रिलोचनस भगवतखिनगट्ठरोर्यदुक्तं तेनानौचि- त्यमेव परं प्रबन्धार्थः पुष्णाति ।

- औचित्यविचारचर्चा | १२१ गुणौचित्यं दर्शयितुमाह- प्रस्तुतार्थोचितः काव्ये भव्यः सौभाग्यवान्गुणः । सन्दतीन्दुरिवानन्दं संभोगावसरोदितः ॥ १४ ॥ प्रस्तुतस्यार्थस्यौचित्येनौजःप्रसादमाधुर्यसौकुमार्यादिलक्षणो गुणः काव्ये भव्यः सौभाग्यवत्तामवाप्तः सहृदयानन्दसंदोहमिन्दुरिव स्यन्दति ॥ यथा भट्टनारायणस्य- 'महाप्रलयमारुतक्षुभितपुष्करावर्तक- प्रचण्डघनगर्जितप्रतिरवानुकारी मुहुः । रवः श्रवणभैरवः स्थागितरोदसीकंदरः कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥' अत्रौजस्विनः भटमुकुटमणेरश्वत्थाम्नः स्फूर्जदूर्जितप्रतापानुरूपं वा- क्यमोजसा काव्यगुणेनोदप्रतामवाप्तं सहस्रगुणमिव विक्रमौचित्यगौरव- मावहति ॥ यथा वा भेट्टवाणस्य- 'हारो जलार्द्रवसनं नलिनीदलानि प्रालेयशीकरमु वस्तुहिनांशुभासः । यस्येन्धनानि सरसानि च चन्दनानि निर्वाणमेष्यति कथं स मनोभवामिः॥' अत्र विप्रलम्भभरभमधैर्यायाः कादम्बर्या विरहव्यथावर्णना माधुर्य- सौकुमार्यादिगुणयोगेन पूर्णेन्दुवदनेव प्रियंवदत्वेन हृदयानन्ददायिनी दयिततमतामातनोति ॥ १. अयं वेणीसंहारकर्ता नारायणभः ९९९ शके अर्थात् १०७७ मिते खिस्तसंव- स्सरे कान्यकुब्जदेशाद्वशदेशं गत इति वदेशीयानां निश्चयः परंतु खिस्तसंवत्सरीय- भवमशतकमध्यभागसमुद्भतेनानन्दवर्धनाचार्येण बहवो वेणीसंहार श्लोकाः स्वकीये ध्वनि- अन्य समुदाहृताः, तस्मानवमशतकमध्यभागादपि पूर्वमासीद्वेणीसंहारकर्ता भट्टनारायणः, मतो वादेशीयानां मतमत्र नादरणीयम्. २. बाणभः खितसंवत्सरीयसप्तमशतकस्य पूर्वभाग पासीत. एतत्कृता स्वियं श्लोकबद्धा कादम्बरीकथा नायाप्युपलब्धा.

१२२ काव्यमाला । नंतु यथा चन्द्रकस्य- 'युद्धेषु भाग्यचपलेपु न मे प्रतिज्ञा दैवं नियच्छति जयं च पराजयं च । एषैव मे रणगतस्य सदा प्रतिज्ञा पश्यन्ति यन्न रिपवो जघनं हयानाम् ।।' अत्र क्षत्रवृत्तिरिवौजसा काव्यगुणेनास्पृष्टा सुभटोक्तिरुचितार्थापि ते- जोजीवितविरहिता दुर्गतगृहदीपशिखेव मन्दायमाना न विद्योतते ॥ यथा वा राजशेखरस्य- 'एतस्याः सरसंज्वरः करतलस्पर्शः परीक्ष्यो न यः खिग्धेनापि जनेन दाहभयतः प्रस्थंपचः पाथसाम् । निर्वीकृितचन्दनौषधविधौ तसिंस्तडत्कारिणो लाजस्फोटममी स्फुटन्ति मणयः सर्वेऽपि हारतजाम् ॥' अत्र विरहविधुररमणीमनोभवावस्थानुरूपं माधुर्यमुत्सृज्य तडकारिणी लाजस्फोटं स्फुटन्ती त्योजःस्फूर्जितोर्जितखभावाधिवासिता सूक्तिलीवण्य- पेशलतनुर्ललितललनेव परुषभाषिणी झटित्यनौचित्यं चेतसि संचारयति ।। अलंकारौचित्यं दर्शयितुमाह- अर्थौचित्यवता सूक्तिरलंकारेण शोभते । पीनस्तनस्थितेनेव हारेण हरिणेक्षणा ॥ १५ ॥ प्रस्तुतार्थस्यौचित्येनोपमोटोक्षारूपकादिनालंकारेण सूक्तिश्चकास्ति का- मिनीवोच्चकुचंचुम्बिना रुचिरमुक्ताकलापेन ॥ १. अयं चन्द्रककविः कश्मीरदेशे तुजीनस्य राज्यकाले बभूव. 'नाट्यं सर्वजनप्रेक्ष्य यश्चक्रे स महाकविः । द्वैपायनमुनेरंशस्तरकाले चन्द्रकोऽभवत् ॥ इति राजतरक्षिणी (२०१६). तुजीनश्च खिस्तसंवत्सरप्रारम्भात् १०३ मितवर्षपूर्व राज्यसिंहासनमावरो. हेति बहूनां मतम्. कनियाममते तु ३१९ मिते विखसंवत्सरे तुजीनो राज्यसिंहास- नमारूढःमत्र बहूनां मतमेव प्रायम्..

औचित्यविचारचर्चा । १२३ - यथा श्रीहर्षस्य- 'विश्रान्तविग्रहकथो रतिमाञ्जनस्य चित्ते वसन्प्रियवसन्तक एव साक्षात् । पर्युत्सुको निजमहोत्सवदर्शनाय वत्सेश्वरः कुसुमचाप इवाभ्युपैति ।।' अत्र वत्सेश्वरस्य कुसुमचापेनोपमा शृङ्गारावसरसरसचारुतरतामौचि- सेन कामपि चेतश्चमत्कारिणीमाविष्करोति ।। न तु यथा चन्दकस्य- 'खगोत्क्षिप्तरत्रैस्तरुशिरसि दोलेव रचिता शिवा तृप्ताहारा खपिति रतिखिन्नेव वनिता । तृषार्तो गोमायुः सरुधिरमसिं लेढि बहुशो बिलान्वेपी सो हतगजकराग्रं प्रविशति ॥' अत्रानुचितस्थानस्थितायाः पुरुषपिशिततृप्तसुप्तायाः शिवायाः सुरतके- लिक्लान्तकान्तया विच्छायैवोपमा परं वैपरीत्यं प्रकाशयति ।। यथा वा मालवरुद्रस्य- 'अभिनववधूरोषखादः करीपतनूनपा- दसरलजनाश्लेषङ्करस्तुषारसमीरणः । गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रखे- विरहिवनितावत्रौपम्यं बिभर्ति निशाकरः ॥' अत्र कोमलकामिनीकोपेन करीषकृशानोः सादृश्यं शीतसमयखा- दुतया हृदयसंवादसुन्दरमप्यनुचितत्वेन सहसैव चेतसः संकोचमिवादधाति॥ यथा वा राजशेखरस्य- 'चिताचक्र चन्द्रः कुसुमधनुषो दग्धवपुषः कलङ्कस्तत्रत्यः स्पृशति मलिनाङ्गारकलनाम् । यदेतत्सज्योतिर्दरदलितकर्पूरघवलं मरुद्भिर्भसैतत्पसरति विकीर्ण दिशि दिशि ॥' १. सुभाषितहारावलावयं श्लोको भासकवेः. .

१२४ काव्यमाला। अत्राप्यानन्दिसुधावस्यन्दसुन्दरस्येन्दोश्चिताचक्रत्वमनुचिततया कर्णकटुः कमातङ्कमिवातनोति । योऽर्थस्तु हृदयसंवादी स यद्यनौचित्यस्पर्शलेश- रहितस्तदधिकतरामलंकारशोभां पुष्णाति ॥ यथा कार्पटिकस्य- 'शीतेनोद्धृषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः शान्तामिं स्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे । निद्रा कापि विमानितेव दयिता संत्यज्य दूरं गता सत्पात्रप्रतिपादितेव वसुधा नक्षीयते शर्वरी ॥' अत्रानौचित्यस्पर्शपरिहारेण केवलं हृदयसंवादसौन्दर्यमेव स्वादुता- मादधाति ॥ रसौचित्यं दर्शयितुमाह- कुर्वन्सर्वाशये व्याप्तिमौचित्यरुचिरो रसः। मधुमास इवाशोकं करोत्यङ्कुरितं मनः ॥ १६ ॥ औचित्येन प्राजिष्णुः शृङ्गारादिलक्षणो रसः सकलजनहृदयव्यापी वसन्त इवाशोकतरुमङ्कुरितं मनः करोति ॥ यथा श्रीहर्षस्य- 'उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भा क्षणा- दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योधानलतामिमां समदनां नारीमिवान्यां ध्रुवं पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥' अत्रेाविप्रलम्भरूपस्य शृङ्गाररसस्य वासवदत्तायामवेक्ष्यमाणस नवमालिकालताया ललितवनितातुल्यतया विरहावस्यारोपणेन नितरामौ- चित्यरुचिरचमत्कारकारिणी दीतिरुपपादिता ॥ यथा वा कालिदासस्य- 'बालेन्दुवक्राण्यविकासभावामुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागताना नखक्षवानीव बनसलीनाम् ।। १. राजतरजिण्याम (३।१८१) अयं श्लोको मावशाल. .

औचित्यविचारचर्चा | १२५ अत्र पार्वत्यां परमेश्वरस्याभिलाषशृङ्गारे वक्ष्यमाणे प्रथममुद्दीपनवि- भावभूतस्य वसन्तस्य वर्णनायां कामुकाध्यारोपेण वनस्थलीललनानां कुटिल- लोहितपलाशकलिकाभिर्नवसंगमयोग्यनखक्षतान्युप्रेक्षितानि परमामौचित्य- चारुतां प्रतिपादयन्ति । न तु यथास्यैव- - - 'वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स चेतः । प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः॥' अत्र केवलकर्णिकारकुसुमवर्णनमात्रेण विधातृवाच्यतागर्भेणैव प्रस्तुत- शृङ्गारानुपयोगिना तदुद्दीपनविभावोचितं न किंचिदभिहितम् ॥ हास्यरसे यथा मम लावण्यवतीनानि काव्ये- 'सीधुस्पर्शभयान्न चुम्बसि मुखं किं नासिकां गृहसे रे रे श्रोत्रियतां तनोषि विषमां मन्दोऽसि वेश्यां विना । इत्युक्त्वा मदघूर्णमाननयना वासन्तिका मालती लीनस्यात्रिवसोः करोति बकुलस्येवासवासेचनम् ॥' अत्र श्रोत्रियस्यात्रिवसोरपवित्रसीधुस्पर्शशङ्कासंकोचनिलीनस्य शुष्क- बकुलवृक्षस्येव सरसतापादनाय वेशविलासिन्या यदासवासेचनं तदङ्गभूत- शृङ्गाररसाभासस्पर्शेन हास्यरसस्य वरासवस्येव सहकाररसवेधेन सचमत्कार- मौचित्यमाचिनोति ॥ यथा वा मम लावण्यवत्यामेव- 'मार्गे केतकसूचिभिन्नचरणा सीत्कारिणी केरली रम्यं रम्यमहो पुनः कुरु विटेनेत्यथिता ससिता। कान्ता दन्तचतुष्कबिम्बितशशिज्योत्स्खापटेन क्षणं धूर्तालोकनलजितेव तनुते मन्ये मुखाच्छादनम् ॥' अत्रापि हास्यरसस्स कुटिलविटनर्मोक्तिवचनौचित्येन शृङ्गाररसाभासा- धिवासितस्य सचमत्कारः परः परिपोषः समुन्मिषति ॥ न तु यथा श्यामलस्य- 'चुम्बनसक्तः सोऽस्या दशनं च्युतमूलमात्मनो वदनात् । जिहामूलप्राप्तं खाडिति कृत्वा निरष्ठीवत् ॥'. - -- १२६ काव्यमाला। अत्र हास्यरसस्य बीभत्सरसाधिवासितस्य लशुनलिप्तस्येव कुसुमशेखर स्यातिजुगुप्सितत्वादनीप्सितस्य परमानौचित्येन चमत्कारस्तिरोहितः । वृद्धापरिचुम्बने जिह्वामूलप्राप्तस्य च्युतदशनस्य कण्ठलोठिनः ष्ठीवनेन बीभत्सस्यैव प्राधान्यम्, न तु हास्यरसस्य ॥ करुणो यथा मम मुनिमतमीमांसायाम्- 'प्रत्यग्रोपनताभिमन्युनिधने हा वत्स हा पुत्रके- त्यश्मद्रावि सुभद्रया प्रलपितं पार्थस्य यत्तत्पुरः । येनोद्वाप्पविमुक्तशप्पकवलैः सेनातुरंगरपि न्यञ्चत्पार्श्वगतेककर्णकुहरैनिःस्पन्दमन्दं स्थितम् ॥' अत्र प्रत्यग्रोपनतप्रियतरतनयवियोगोपजनितशोकाख्यस्थायिभावोचितं हषदामपि हृदयद्रावणं समुद्रया यत्प्रलपितं तदर्जुनचेतसि प्रतिफलितं न केवलमुद्दीप्ततामुपगतं यावतिरश्चां तुरंगमाणामप्यन्तः संक्रान्तमुद्दापविमु- कशष्पकवलनिःस्पन्दस्थितादिभिरनुभावैरुदीर्णतरुणकरुणरसप्रतिपत्तिं किम- प्यादधाति ॥ न तु यथा परिमलस्य- 'हा शृङ्गारतरङ्गिणी कुलगिरे हा राजचूडामणे हा सौजन्यसुधानिधान हहहा वेदग्ध्यदुग्धोदधे । हा देवोजयिनीभुजंग युवतिप्रत्यक्षकंदर्प हा हा सद्वान्धव हा कलामृतकर कासि प्रतीक्षख नः॥" अत्र हाहेति हतमहीपतिविरहे तद्गुणामन्त्रणपदैवक्तृवक्रगत एव शोकः केवलमुपलक्ष्यते । न तु विभावानुभावव्यभिचारिसंयोगेन शोकाख्यस्य स्था- यिभावस्योचितं रसीकरणं किंचिन्निष्पन्नम् ॥ रौद्रे यथा भट्टनारायणस्य- 'यो यः शस्त्रं बिभर्ति खभुजगुरुमदः पाण्डवीनां चमूना यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपं क्रोषान्धस्त्रस्य तस्य खयमपि जगतामन्तकस्यान्तकोऽहम् ॥

औचित्यविचारचर्चा | १२७ am- अत्र क्रूरकोषस्थायिभावात्मकस्योन्निद्ररौद्ररसस्योचिता शिशुस्थविरगर्भ- गतविशसननिस्त्रिंशकर्माध्यवसायाविरोहणसंवादिनी द्रोणवधविधुरामर्षविष- विषमव्यथाकश्मलशिथिलमश्वत्थाम्नः स्थमानं प्रतिज्ञापयति ॥ न तु यथा श्रीप्रवरसेनस्य- 'देणुइन्दरुहिरलग्गे जस्स फुरन्ते णहप्पहाविछड्डे । गुप्पन्ती विवलाआ गलिअब्बथणंसुए महासुरलच्छी ॥' अत्र क्रोधव्यञ्जकपदविरहिततया 'दनुजेन्द्ररुधिरलने यस्य नरसिंहस्य स्फुरति नखप्रभासमूहे व्याकुलीभवन्ती विपलायिता गलितस्तनांशुका महासुरलक्ष्मीः' इति वर्णनया रुधिरलम इति बीभत्सरससंस्पर्श व्याकुल भवन्ती दैत्यश्रीः पलायितेति भयानकरससंकरेण प्रकृतोचितप्रधानभूतस्य रौद्ररसस्य क्वचिन्मुखमपि न दृश्यते ॥ वीरे यथा मम नीतिलतायाम्- 'शौर्याराधितभर्गभार्गवमुनेः शस्त्रग्रहोन्मार्गिणः संक्षेपेण निवार्य संक्षयमयीं क्षत्रोचितां तीक्ष्णताम् । आकर्णायतकृष्टचापकुटिलभूभङ्गसंसर्गिणा येनान्यायनिषेधिना शममयी ब्राह्मी प्रदिष्टा स्थितिः॥' अत्र 'सोऽयं रामः' इति रावणाने शुकसारणाभ्यां दूरान्निर्दिश्यमा- नस्य रामस्य निःसंरम्भगम्भीरावष्टम्भसंभाव्यमानप्रभावोचितायां शस्त्र- संग्रहोन्मार्गगामिनो भार्गवस्य मुनेः खजातिसमुचितस्थित्युपदेशे सति प्रभविष्णुतायां चापरूपभगया भ्रूभङ्गः प्रदर्शितः, न तु खाभाविकः, १. अयं रावणवधापरनामकसेतुबन्धाख्यप्राकृतकाव्यस्य कर्ता प्रवरसेनः 'कश्मीर- महाराज असीत. १२३ मिते खिस्वसंवत्सरेऽस्य राज्यप्रारम्भ इति बहूनां मतम्. कनि- अयाममते तु ४३२ मिते निस्तसंवत्सरे प्रवरसेनराज्यप्रारम्भः. 'कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला । सागरस्य परं पार कपिसेनेव सेतुना ॥' इति हर्षचरितप्रारम्भ बाणभट्टः. 'महाराष्ट्राधयां भाषां प्रकृष्टं प्राकृतं विदुः। सागरः सूक्तिरत्नाना सेतुब- न्धादि यन्मयम् ॥' इति काव्यादर्श (१३३४) आचार्यदण्डी. २. सेतुबन्धकाव्ये (१२) 'दनुजेन्द्ररुधिरलग्ने यस्य स्फुरति नखप्रभासमूहे । व्याकुलीभवन्ती विपलायिता गलितस्त- नांशुका महासुरलक्ष्मीः ॥ इति च्छाया. HAIRS- ..mmmmm- १२८ काव्यमाला। : . वीरस्य क्रोधे विकारासंभवात् । प्रसन्नमधुरधीरा हि वीरवृत्तिः । तदुचि- तमत्राभिहितम् । भार्गवाभिभवेन च प्रधाननायकस्योत्कर्षः प्रतिपादितः ॥ यथा वा राजशेखरस्य- 'स्त्रीणां मध्ये सलीलं भ्रमितगुरुगदाघातनिष्टसंज्ञः सद्यो वध्योऽभवस्त्वं पशुरिव विवशस्तेन राज्ञार्जुनेन । तस्य च्छेत्तापि योऽसौ सकलनृपरिपुर्जामदग्यो भुजानां जित्वोच्चैः सोऽपि येन द्विज इति न हतस्तापसस्त्वेष रामः॥ अत्र रावणकार्तवीर्यजामदग्न्योत्कर्षोत्कर्षतरसोपानपरम्पराधिरोहणक्रमेण प्रधाननायकस्य प्रतापः परां कोटिमारोपितः ।। न तु यथा भवभूते:- 'वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हु वर्तता युद्ध स्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते । यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायोषने यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जनः ॥' अत्राप्रधानस्य रामसूनोः कुमारलवस्य परप्रतापोत्कर्षासहिष्णोरिर- सोद्दीपनाय सकलप्रबन्धजीवितसर्वखभूतस्य प्रधाननायकगतस्य वीररसस्य ताडकादमनखररणापसरणान्यरणसंसक्तवालिव्यापादनादिजनविहितापवादप- तिपादनेन खवचसा कविना विनाशः कृत इत्यनुचितमेतत् ॥ भयानके यथा श्रीहर्षस्य- 'कण्ठे कृत्तावशेष कनकमयमधः शृङ्गलादाम कर्ष- न्कान्वा द्वाराणि हेलाचलचरणरणत्किरिणीचक्रवालः। दत्तातकोऽकनानामनुसृतसरणिः संप्रमादश्वपालैः प्रश्रष्टोऽयं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरायाः ॥ जापि च। नष्टं वर्षवरैर्मनुष्यगणनामावादकृत्वा अपा- मन्तः कञ्चुकिकञ्चकरा विशति त्रासादयं वामनः ।

पाद . औचित्यविचारचर्चा । १२९ पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥' अत्राङ्गनानां निशितदशननखशिखोल्लेखातङ्कदानेन प्रचुरतरवानराभि- रणभयसंभ्रान्तान्तःपुरिकवृद्धवामनकिरातकुब्जादीनां पुरुषगणनाविही- तया धैर्यविरहकातराणामुचितचेष्टानुभाववर्णनया भयानकरससंवादिरुचि- पचकास्ति । यथा राजपुत्रमुक्तापीडस्य- 'नीवारप्रसराग्रमुष्टिकवलैर्यो वर्धितः शैशवे पीतं येन सरोजपत्रपुटके होमावशेषं पयः । तं दृष्ट्वा मदमन्थरालिवलयव्यालोलगल्लं(ण्ड) गजं यह सानन्दं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥' अत्र गजस्याघातकविकृतचेष्टानुवर्णनाविरहिततया स्थायिभावस्य भ- यानुभाववर्जितस्य केवलं नाममात्रोदीरणेन च भयानकरसोचितसंभ्रमाभा- वादुपचितमौचित्यं न किंचिदुपलभ्यते ॥ बीभत्से यथा मम मुनिमतमीमांसायाम्- 'सर्वापायचयाश्रयस्य नियतं कुत्सानिकायस्य किं कायस्यास्य विभूषणैः सुवसनैरानन्दनैश्चन्दनैः अन्तर्यस्य शकृद्यकृत्कृमिकुलक्कोमान्त्रमालाकुले क्लेदिन्यन्तदिने प्रयान्ति विमुखाः कौलेयकाका अपि ॥' अत्र वैराग्यवासनाच्छुरितबीभत्सरसस्य जुगुप्साख्यस्थायिभावोचित- कायगत कुत्सिततरान्नतन्त्रादिसमुदीरणेन परा परिपुष्टिनि:सारशरीराभिमानवै- रस्यजननी प्रतिपादिता ।। न तु यथा चन्दकस्य- 'कृशः काणः खञ्जः श्रवणरहितः पुच्छविकल; क्षुधाक्षामो रूक्षः पिठरककपालार्दितगलः । १. मुक्तापीड इति कश्मीरमहीपतेर्ललितादित्यस्य नामान्तरम्. सुभाषितावलावयं श्लोको भश्वनामा लिखितः, कदाचिन्मक्तापीडस्यैव बाल्यावस्थोचितं भश्चरिति नाम स्यात. - १२प्र.गु.

काव्यमाला। १३० ब्रणैः पूतिक्विन्नः कृमिपरिवृतैरावृततनुः शुनीमन्वेति श्वा तमपि मदयत्येष मदनः ॥' अत्राशुचिचर्वणरुचेरुपचितविचिकित्सकुत्सानिकायकायस्य खभावजुग़ प्सितयोनेः शुनकस्य किमेतैर्वीभत्सविशेषणैरतिशयनिर्बन्धानुवरिधिकमुद्ध सितम् । एतैरेव पुरुषगतैर्जुगुप्सा परं गौरवमावहति ॥ अद्भुते यथा चन्दकस्य- 'कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता खेच्छया सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् । व्यादेहीति विकासितेऽथ वदने दृष्ट्वा समस्तं जग- न्माता यस्य जगाम विस्मयपदं पायात्स वः केशवः ॥" अत्र पाण्डुराङ्गकरसाक्षिलक्षितमृद्भक्षणाक्षेपोद्यतजननीभया केतस्य हवकारिणः शिशोर्विकासितास्यस्यान्तः समस्तजगद्दर्शनेन मातुश्च : अभ वा नभिज्ञतया वात्सल्यविह्वलाया विस्मयगमनेनात्युचितोऽयमद्भुतार शयः । न तु यथा मम मुनिमतमीमांसायाम--- 'समस्ताश्चर्याणां जलनिधिरपारः सवसति- स्त तोऽप्याश्चर्य यत्पिबति सकलं तं किला मुनिः । इदं त्वत्याश्चर्य लघुकलशजन्मापि यदसौ परिच्छेत्तुं को वा प्रभवति तवाश्चर्यसरणिम् ॥' अत्रापारसरित्पतिप्रभावेण मुनिना तस्यैकचुलकाचमनेन मुनेश्च लघुः कलशजन्मना क्रमाक्रान्तिसमारूढोऽप्यसमविस्मयमयोऽयमद्भुतप्रसरः सं. सारस्यैवंविधैवाश्चर्यसरणिरपरिच्छिन्ना न किंचिदेतत्कौतुकमित्यर्थान्तरन्या- ससामर्थ्येन सहसैवावरोपित इव तिरोभूततामुपगतः ।। शान्ते यथा मम चतुर्वर्गसंग्रहे- 'भोगे रोगभयं सुखे क्षयभयं वित्तेऽमिभूभृद्भयं दास्ये खामिभयं गुणे खलभयं वंशे कुयोषिद्भयम् । माने म्लानिभयं जये रिपुभयं काये कृतान्ताद्वयं सर्व नाम भवे भवेद्भयमहो वैराग्यमेवाभयम् ॥' HIMAMANAND औचित्यविचारचर्चा | १३१ स - अत्र सकलजनाभिमतभोगसुखवित्तादीनां भयमयतया हेयतां प्रति- पाद्य वैराग्यमेव सकलभयायासशमनमुपादेयतया यदुपन्यस्तं तेन शा- तरसस्य निरर्गलमार्गावतरणमुचिततरमुपदिष्टं भवति ॥ यथा वा मम मुनिमतमीमांसायाम्- 'कुसुमशयनं पाषाणो वा प्रियं भवनं वनं प्रतनु मसृणस्पर्श वासस्त्वगप्यथ तारखी। सरसमशनं कुल्माषो वा धनानि तृणानि वा शमसुखसुधापान:ब्ये समं हि महात्मनाम् ॥' अत्र सकलविकल्पतल्परहितामेदावभासमानात्मतत्त्वविश्रान्तिजनितस- साम्यसमुल्लसितशमसुखपीयूषपानोदितनित्यानन्दपूर्णमानमानसानां प्रिया- प्रियसुखदुःखादिषु महतां सदृशी प्रतिपत्तिरिति जीवन्मुक्तिसमुचित- मभिहितम् ॥ न तु यथा श्रीमदुत्पलराजस्य- 'अहो वा हारे वा बलवति रिपो वा सुहृदि वा मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा । तृणे वा स्त्रैणे वा मम समहशो यान्तु दिवसाः कचित्पुण्यारण्ये शिवशिवशिवेति प्रलपतः ॥' अत्र जीवन्मुक्तोचितं प्रियाप्रियरागद्वेषोपशमलक्षणमोक्षक्षम सर्वसा. म्यमहिहारसुहृदरिसमदृष्टिरूपमभिदधता कचित्पुण्यारण्ये यदभिहितं तद्विकल्पप्रतिपादकमभेदवासनाविरुद्धमनुचितमवभासते । धाराधिरूढसर्व- साम्यविगलितभेदाभिमानान्थेहि सर्वत्र सर्व शिवमयं पश्यतस्तपोवने नगरावस्करकूटे च विमलात्मलाभतृप्ततया समानदृशः कचित्पुण्यारण्यादि- वचनमनुचितोच्चारणमेव ।। यथा मधुरतिक्ताद्या रसाः कुशलयोजिताः । विचित्राखादतां यान्ति शृङ्गाराधास्तथा मिथः ॥१७॥ १. अभिनवगुप्ताचार्यस्य परमगुरुः प्रत्यभिज्ञासूत्राद्यनेकान्थकर्ता श्रीमदुत्पलराजः निवसंवत्सरीयदशमशतकस्य पूर्वाध एवं कश्मीरदेश आसीत.

- १३२ काव्यमाला। तेषां परस्पराश्लेषात्कुर्यादौचित्यरक्षणम् । अनौचित्येन संस्पृष्टः कस्सेप्टो रससंकरः ॥ १८ ॥ रसाः कटुकमधुराम्ललवणाद्याः कुशलसूदेन वेसवारपानादिपु योजिता विचित्राखादतामुपयान्ति तथैव परस्परमविरुद्धाः शृङ्गारादय इति । तेषा- मन्योन्यमङ्गाङ्गिभावयोजनायामौचित्यस्य जीवितसर्वखभूतस्य रक्षां कुर्यात् । अनौचित्यरजसा रससंयोगः स्पृष्टो न कस्यचिदभिमत इत्यर्थः ॥ रससंकरौचित्ये शान्तशृङ्गारयोरङ्गाङ्गिभावो यथा भगवतो महर्षे. योसस्य- 'सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः । किं तु मत्तानापाङ्गभजिलोलं हि जीवितम् ॥' अत्र भगवता जन्तुहिताभिनिविष्टेन मोक्षक्षमोपदेशेऽशिनः शान्तर- सस्य रागिजनानिष्टत्वात्सकलजनमनःप्रहादने बालगुडजिहिकया शू. बारेऽङ्गभावमुपनीते पर्यन्ते शान्तस्यैव लोलं जीवितमित्यनित्यताप्रतिपाद- नपरिनिर्वाहेण परममौचित्यमुचैः कृतम् ॥ बीभत्सशृङ्गारयोरङ्गाङ्गिभावो यथा मम बौद्धावदानकल्पलतायाम्- 'क्षीबस्येवाचलस्य द्रुतहतहृदया जम्बुकी कण्ठसक्ता रक्ताभिव्यक्तकामा कमपि नख मुखोल्लेखमासूत्रयन्ती । आखाचाखाच यूनः क्षणमपरदलं दत्तदन्तव्रणाई लमानहक्रियायामियमतिरमसोत्कर्षमाविष्करोति ॥' अत्र श्लेषोपमया · तुल्यकक्षाधिरूढयोरपि परस्परविरुद्धयोरर्थयो/- भत्सशृङ्गाराङ्गाङ्गिभावयोजनायां जम्बुकी तरुणशवस्य क्षीबवेव निव- लस्थितेः सहसैव हृतहृदयपद्मा कृष्टचित्ता वा, कण्ठे लमा शोणिते भूश- मभिव्यक्तस्पृहा रक्ताभिव्यक्तकामा बा, नखोल्लेखमासूत्रयन्ती दचवन्तन- णमघरमाखाद्याखाचाङ्गच्छेदक्रियायामनङ्गभोगक्रियायां वा, लमा गा- त्राणामूर्ध्वगतं कर्षणं रतकौशलोत्कर्ष वा, प्रकाशयतीति समानयोभ- सशृङ्गारयोः कामिनीपवपरित्यागेन केवलं जम्बुक्याः कर्तृत्वेन बीभत्स- - औचित्यविचारचर्चा । १३३ स्यैव प्राधान्ये शृङ्गारेऽनतामुपगते वक्तुर्बोधिसत्त्वस्यान्तर्गतगाढवैराग्यवास- नाधिवासितचेतसः कुत्साहजुगुप्सया नितम्बिनीरतिविडम्बनमौचित्यरुचिर- तामादधाति । यद्यप्यत्र महावाक्ये शान्तस्यैव प्राधान्यं तथाप्युदाहरणश्लोक- वाक्ये बीभत्सस्यैव ॥ वीरकरुणयोर्यथा मम मुनिमतमीमांसायाम्- 'गाण्डीवस्रुवमार्जनप्रणयिनः स्वातस्य बाष्पाम्बुभि- श्चण्डं खाण्डवपावकादपि परं शोकानलं बिभ्रतः । जिष्णोनूतनयौवनोदयदिनच्छिन्नाभिमन्योश्चिरं हा वत्सेति बभूव सैन्धववधारब्धाभिचारे जपः॥' अन त्रिगर्तसङ्घामगतस्य गाण्डीवधन्वनः शत्रुभिर्नवयौवनोदयसमयनि- हततनयस्य कार्मुकझुवमुन्मार्जयतः प्रसरदश्रुतातस्य शोकामिमुहतश्विर हा पुत्रेति जयद्रथवधारब्धाभिचारे जपो बभूवेति यदुपन्यस्तं तेनारिक्षये दीक्षासमुचितव्रतवर्णनया शोकामेश्चण्डत्वेन खाण्डवपदोदीरणेन वीररसस्या- शिनः सहसैवागन्तुके करुणरसे प्रज्वलिते सैन्धववधारब्धाभिचारामिधानेन पर्यन्ते शौर्यनिर्वाहेण परममौचित्यमुज्जृम्भते ॥ शान्तशृङ्गारकरुणबीभत्सानां यथा मम तत्रैव- 'तीक्ष्णान्तस्त्रीकटाक्षक्षतहृदयतया व्यक्तसंसक्तरताः क्रोधादिक्रूररोगत्रणगणगणनानीततीव्रव्यथार्ताः। स्नेहक्लेदातिलमैः कृमिभिरिव सुतैः खाङ्गजैर्भक्ष्यमाणाः संसारक्लेशशय्यानिपतिततनवः पश्य सीदन्ति मन्दाः ॥' अत्र मुख्यस्याशिनः शान्तरसस्यैवोद्दीपने कारणीभूतास्तीक्ष्णान्तस्त्री- कटाक्षक्षतहृदयव्यथार्तस्नेहक्लेदातिलमकृमितुल्यतनयादिपदोपादानेन शृङ्गार- करुणबीभत्साः शान्तमुखप्रेक्षिणः संलीनतया स्तिमितवृत्तयो भृत्या इव परममौचित्यं दर्शयन्ति ॥ रससंकरस्यानौचित्यमुद्भावयितुमाह । शृङ्गारशान्तयोर्यथामरकस्य- 'गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम् ।

१३४ काव्यमाला । संसारे घटिकाप्रणालविगलद्वारा समे जीविते को जानाति पुनस्वया सह मम स्याद्वा न वा संगमः ॥' अत्र प्रकरणवर्तिनः शृङ्गाररसस्य पश्यामि यावन्मुखभित्युत्कण्ठोत्क- ण्ठासमुज्जृम्भमाणस्य खभावविरोधिनी शान्तेऽङ्गभावमुपनीते विस्तीर्ण- तरानित्यतावर्णनया वैराग्येण रतेय॑म्भावमापादयन्त्याप्रधानरससंबन्धे. नाधिकमनौचित्यमुत्साहितम् । निःसारसंसाराचारुताश्रवणेन हि कठिन- क्रियाकूरचेतसामप्युत्साहमजादशान्यलसीभवन्ति, किमुत कुसुमसुकुमार- झाररसकोमलमनसां विलासवताम् । प्रान्ते च शान्तपरिपोपनिर्वाहेण राग- वैरस्यमेव पर्ययस्यति । तदुक्तमानन्दवर्धनेन-'विरोधी वाविरोधी वा रसोऽशिनि रसान्तरे । परिपोषं न नेतव्यस्तेन स्यादविरोधिता ॥' तदेवात्र वैपरीत्येनोपलभ्यते परिपोषविपरीते स्वभावविरोधिन्यपि प्रधाना- नुपरोध एव ॥ यथा राजशेखरस्य- 'माणं मुंचध देह वल्लहजणे दिदि तरंगुत्तर तारुण्णं दिअहाई पंच दह वा पीणत्थणत्थंभणं । इत्थं कोइलिमंजुसिंजिणमिसाद्देवस्स पंचेमुणो दिण्णा चित्तमहसवेण सहसा आणब्ब सब्बंकसा ।' अत्र 'मानं मुञ्चत ददत वल्लभजने दृष्टिं तरङ्गितां तारुण्यं दिनानि पञ्च दश वा पीनस्तनस्तम्भनमित्थं कोकिलमधुरध्वनिव्याजेन देवस्म पञ्चेषोश्चैत्रमहोत्सवेनाज्ञेव सर्वकषा दत्ता' इति वाक्ये मुख्यः शृङ्गाररसः प्रा- रम्भपर्यन्तव्याप्तिशाली कतिपयदिवसस्थायि यौवनमित्यनित्यतारूपशान्त- रसबिन्दुना मध्यबुडितेनेव विरसतां न नीतः। विरुद्धस्य परिपोषाभावात् । विरुद्धवर्णनोदितेन छनौचित्येन स्थायी कुञ्जर इव श्वनपातितः पुनरुत्थात -- १. 'भानं मुम्बत ददत वहभजने दृष्टिं तरमोसरा तारुण्य दिवसानि पञ्च दशवा पीनस्वनस्तम्भनम् । इत्थं कोकिलम शिलितमिषादेवस्य पछेषोर्दत्ता चैत्रमहोत्सवेन स- हसाझेव सर्वकषा ॥ इतिच्छाया.

औचित्यविचारचर्चा । १३५ नोत्सहत इत्यलं विस्तरेण । अनया दिशा रससंकरे भेदप्रपञ्चौचित्यं विप- श्चिद्भिः स्वयं विचार्यम् ॥ रसौचित्यविचारानन्तरमुद्देशानुसारक्रमेण क्रमोपगतं क्रियापदौचित्यं दर्शयितुमाह- सगुणवं सुवृत्तत्वं साधुता च विराजते । काव्यस्य सुजनस्येव यद्यौचित्यवती क्रिया ॥ १९ ॥ काव्यस्य माधुर्यादिगुणवत्ता वसन्ततिलकादिसुवृत्तता परिपूर्णलक्षण- साधुता च विराजते, यद्यौचित्ययुक्तं क्रियापदं भवति । सुजनस्येवेति तत्तु- ल्यत्वं स्पष्टार्थमेव ॥ क्रियापदौचित्यं यथा मम नीतिलतायाम्- 'यः प्रख्यातजवः सदा स्थितिविधौ सताब्धिसंध्यार्चने दोर्दण निनाय दुन्दुभिवपुर्यः कालकंकालताम् । यः पातालमसृङ्मयं प्रविदधे निष्पिष्य मायाविनं सुग्रीवायविभूतिलुण्ठनपटुर्वाली स किं स्मर्यते ॥' अत्र सप्ताब्धिसंध्यार्चनप्रख्यातजवो महिषरूपदुन्दुभिदानवोन्माथी मायाविदानवनिष्पेषोद्भूतशोणितपूरितपातालतलः स किं वाली मर्यत इति क्रियापदेन शुकसारणाभ्यां रावणस्य दुर्नयाभिनिवेशिनस्तद्विरामाय हितोपदेशेन भवान्वसनकोणनियमिततनुः कक्षायां निःक्षिप्त इत्युचितयुक्ति- युक्तमुक्तं भवति ॥ न तु यथा श्रीप्रवरसेनस्य- 'संग्गं अपारिजाअं कोत्थुहलच्छिरहिअं महुमहस्स उरं । सुमिरामि महणपुरओ अमुद्धभन्दं हरअडापब्भारं ॥ अत्र जाम्बुवताभिधीयमाने 'वर्गमपारिजातं कौस्तुभलक्ष्मीभ्यां विर- हितं मधुमथनस्योरः सराम्यमृतमथनपुरतोऽप्यबालचन्द्रं हरजटाप्राग्भारम्' १. सेतुबन्धे (४।२०) 'स्वर्गमपारिजातं कौस्तुभलक्ष्मीरहितं मधुमथनस्योरः । स्म- रामि मथनपुरतोऽमुग्धचन्द्रं च हरेजटाप्राग्भारम् ॥ इति च्छाया.

काव्यमाला। , इति प्रगुणगुणाख्यानप्रसझे क्रियापदेन जराजर्जरशरीरत्वमात्रमेव प्रतिपा- दितम् । न तु पौरुषोत्कर्षविशेपातिशयः कश्चिदुचितः संसूचितः ।। कारकौचित्यं दर्शयितुमाह- सान्वयं शोभते वाक्यमुचितैरेव कारकैः। कुलाभरणमैश्वर्यमौदार्यचरितैरिव ॥ २० ॥ उचितैरेव कारकैः सदन्वयवद्वाक्यं विराजते सर्वेशभूषितमैश्वर्य सञ्च- रितैरिव ॥ कर्तृपदौचित्यं यथा भट्टबाणस्य---- 'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकामेः । चरति विमुक्ताहार व्रतमिव भवतो रिपुस्त्रीणाम् ॥' अत्र शत्रुस्त्रियो व्रतं चरन्तीति वक्तव्ये, स्तनयुगं बाष्पसलिलनातं शोकामिसमीपवर्ति विमुक्तभोजनं विगतमुक्ताहारं च सद्रतं चरतीत्युक्ते कर्तृपदमौचित्यमुपचितं जनयति ॥ न तु यथा परिमलस्य- 'आहारं न करोति नाम्बु पिबति स्त्रैणं न संसेवते शेते यत्सिकतासु मुक्तविषयश्चण्डातपं सेवते ॥ त्वत्पादाब्जरजःप्रसादकणिकालोभोन्मुखस्तन्मरौ मन्ये मालवसिंह गुर्जरपतिस्तीनं तपस्तप्यते ॥ अत्र गुर्जरपतिर्विद्भुतो मरुगहनं प्रविष्टः परित्यक्ताहारादिसमस्तवि. षयश्चण्डातपोपसेवी तपश्चरतीति यदुक्तं तत्कर्तृपदस्य विशेषाभिप्रायो चितं न किंचिदुपलक्ष्यते शत्रुत्रासतरलतया मरुकान्तारान्तरावसन्नः सक विषयसुखभोगपरिभ्रष्टः किमन्यत्कुरुताम् । स्तनयुगवत्कर्तृपदस्य चम कारोचितं न किंचिदभिहितम् ॥ कर्मपदौचित्यं यथा मम लावण्यवत्याम्--- 'सदा सक्तं शैत्यं विमलजलधारापरिचितं धनोल्लास: मामृत्पृथुकटकपाती वहति यः १३७ औचित्यविचारचर्चा | विधत्ते शौर्यश्रीश्रवणनवनीलोत्पलरुचिः स चित्रं शत्रूणां ज्वलदनलतापं भवदसिः ॥' अत्र निश्चलममलजलधारागतं शैत्यं तैक्ष्ण्यं शीतलत्वं च, धनोल्लासो निबिडोत्साहः पर्जन्यतुल्योदयश्च, क्ष्माभृतां सानुसैन्यनिपाती वहति स शौर्यश्रीश्रवणनवनीलोत्पलतुल्यस्त्वत्खड्गश्चित्रं शत्रूणां संतापं करोतीति यदुक्तं तत्कर्मभूतस्य तापस्य शिशिरतरसामग्रीजन्मनः परं वैचित्र्यं रु- चिरमौचित्यमासूत्रितम् ॥ न तु यथा ममैवावसरसारे- 'भमाहितश्वसितवातविबोध्यमानः काष्ठाश्रयेण सहसैव विवृद्धिमाप्तः। तापं तनोति निहतारिविलासिनीनां वविद्युतिर्भुवननाथ भवत्प्रतापः ॥ अत्र विद्वतारातिनिःश्वसितानिलप्रबोध्यमानः काष्ठाश्रयेण दिक्चक्र. पूरणेन प्रौढतां प्राप्तः पावकतुल्यस्त्वप्रतापः शत्रुकान्तानां तापमान तनोतीति तत्समुचितमाश्चर्य न किंचित् ॥ करणौचित्यं यथा गौडकुम्भकारस्य- 'लालेन गभस्तिमान्वलयितः प्रोतः शशी मौलिना व्याधूता जलदाः सटाभिरुडवो दंष्ट्राभिरुचम्भिताः । प्रोत्तीर्णो जलधिदृशैव हरिणा खैराट्टहासोर्मिभि- लकेशस्य च लडितो दिशि दिशि प्राज्यः प्रतापानलः ॥' अन्न हरिणा हनुमता जलनिधितरणे तरणिलार्ड्लेन वलयितः किरी- टप्रान्तेन शशी प्रोतः सटामिर्मेधा व्याधूतास्तारा दंष्ट्राभिरायासितास्तीर्णो- ऽब्धिश्वाट्टहासतर लशस्य विस्तीर्णः प्रतापामिः शमित इति बहुभिः करणपदैरुत्साहाधिवासितैर्विस्मयशिखरारोहणसोपानैरिव रघुप- तिप्रभावारम्भविजयध्वजायमानस्य पवनसूनोरौचित्यातिशयः प्रकाशितः ॥ - १३८ काव्यमाला। न तु यथा भट्टबाणस्य- 'जयत्युपेन्द्रः स चकार दुरतो निमित्सया यः क्षणलब्धलक्षया । हशैव कोपारुणया रिपोरुरः स्वयं भयाशिन्नमिवासपाटलम् ॥ अत्र भगवतो नृसिंहस्य कोपरतया दृष्येष क्षणलपलक्षया हिर- ण्यकशिपोवक्षः खयं भयादिन्नगिति गदुरी तन्गाहोत्साहपराक्रगस्य प्रतिनायकस्य रिपोः प्रधाननायकप्रतापोदीनोपकरणीभूताधिकधैर्यस्य खयं भयविह्वलतया हृदयस्फुटनमित्युपचितमनौचित्यं 'शेव' करणप- दस्य शिरसि विश्रान्तम् ॥ संप्रदानौचित्यं यथा भषभाकरस्य---- 'दिमातङ्गघटाविभक्तचतुरापाटा मही साध्यते सिद्धा सापि वदन्त एवं हि वयं रोमाधिताः पश्यत । विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यसादाविरभूत्कथातमिदं यत्रेव चास्तं गतम् ॥ अत्र दिग्गजचतुरला भूः साक्ष्यते, सा च सिद्धा हेलयैवानमुष्टिरि- वैकमै विप्रमात्राय प्रतिपाद्यत इति निरतिशयौदार्याश्चर्यचमत्काररुचिरी- चित्यचर्वणया वयं रोमाञ्चाचिताः पश्यत, रोमाश्यस्य प्रत्यक्षपरिदृश्यमा- नत्वात् । किमपरमपूर्वत्यागिने मार्गवाय तस्मै नम इति विप्रायेति संप्र. दानपदगत एवोत्कर्षविशेषः प्रकाशते ।। न तु यथा राजशेखरस्य- 'पौलस्त्यः प्रणयेन याचत इति श्रुत्वा मनो मोदते देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति । तद्वाच्यः स दशाननो मम गिरा दत्ता द्विजेभ्यो मही तुभ्यं ब्रूहि रसातलत्रिदिवयोनिर्जित्य किं दीयताम् ॥' अन्न रावणदूतेन परशु याचितो भार्गवो ब्रूते--'नेष हरमसादलब्धः परशुर्दानयोग्यः । तत्रमावसद्वचसा स दशमीवो वाच्यः, पृथ्वी मया कश्यपाय प्रतिपादिता । तुभ्यं पातालत्रिदिवयोर्मध्याकि निर्जित्य दीयताम्' १. कश्चन सुप्रसिलो मीमांसको भप्रमाकर भाषीद, यस पुवरिति नामान्तरम्. .

औचित्यविचारचचो। १३९ - इत्यनुचितं मुनेर्लोकहितप्रवृत्तस्य त्रैलोक्यकण्टकभूताय राक्षसाय भुव- नप्रतिपादनम् ॥ अपादानौचित्यं यथा मालबरुद्रस्य- 'एतस्माज्जलधेर्मिताम्बुकणिकाः काश्चिद्गृहीत्वा ततः पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः । भ्राम्यन्मन्दरकूटकोटिघटनाभीतिश्रमत्तारकां प्राप्यैकां जलमानुषी त्रिभुवने श्रीमानभूदच्युतः ॥' अत्र यदुक्तमेतस्मान्महोदधेः परिमिताम्बुकणिकाः प्राप्य जलदा जगत्पूरयन्ति तथा भ्रमन्मन्दरकूटकोटिसंघट्टत्रासतरलतारकामेकां जलमा- नुषीं श्रियं प्राप्य श्रीमानच्युतोऽभूदिति तेन सागरगतनिरतिशयोत्कर्ष- विशेषः प्रदर्शितः । एतस्माजलधेरित्येतत्पदमौचित्यस्य मूलभूमिः ॥ न तु यथा भद्देन्दुराजस्य- 'आदाय वारि परितः सरितां मुखेभ्यः किं नाम साधितमनेन महार्णवेन । क्षारीकृतं च वडवादहने हुतं च पातालमूलकुहरे विनिवेशितं च ॥' अत्र महार्णवव्यपदेशेनान्यायोपार्जितद्रविणदुर्व्ययकारिणः सत्संवि- भागविमुखस्य कस्यचिदुच्यते । सरितां मुखेभ्यः समन्तात्तोयमादायापा. त्रेभ्यः प्रतिपादितं दूषितम् । यत्त्वत्र सरिभ्यः समादायेति वक्तव्ये सरिन्मुखेभ्य इति यदुक्तं मुखशब्दस्य नैरर्थक्यादत्रानौचित्यमेव पर्यवस्यति । अधिकरणौचित्यं यथा कुन्तेश्वरदौत्ये कालिदासस्य- 'इह निवसति मेरुः शेखरः क्ष्माधराणा- मिह विनिहितमाराः सागराः सप्त चान्ये । इदमहिपतिभोगस्तम्भविभाज्यमानं घरणितलमिहेव स्थानमसद्विधानाम् ॥' १. प्रसिद्धेषु कालिदासग्रन्थेष्वयं श्लोको न प्राप्तः, - काव्यमाला। अत्र महाराजदृतोऽपि सागन्तास्थाने खप्रभुसमुचितगौरवपूजाईमास- नमनासाद्य कार्यवशेन भूमावेवोपविष्टः प्रागल्भ्यगाम्भीर्येणैवं ब्रूते यथा- सद्विधानां वसुधातल एव भुजगपतिभोगस्तम्भप्राग्भारनिष्कम्पे धरासने स्थान युक्तं यस्मादिदेव गेरुरचलचक्रवर्ती समुपविष्टः सप्तमहाब्धयश्च तत्तुल्यतैवास्माकमित्यौचित्यमधिकरणपदसंबद्धमेव ।। न तु यथा परिमलस्य--- 'तत्र स्थितं स्थितिमतां वर देव देवा- दृत्येन ते चकितचितमियन्त्यहानि । उत्कम्पिनि स्तनतटे हरिणेक्षणानां हारान्प्रवर्तयति यत्र भवटातापः ।।' अत्र त्वद्धृत्येन मया तत्र तस्मिन्देशे स्थितं यत्र भवत्प्रतापः कम्पतर- लस्तनतटे हरिणदृशां हारान्मवर्तयतीति यदुक्तं तेन शौर्यशृङ्गारगुणोत्क- प्रस्तुती सर्वतो दिग्गमनाविच्छिन्नप्रसरः प्रतापः पारिमित्यं प्राप्तः । एकत्र परिच्छिन्ने देशे मया सत्र स्थितं यत्र त्वत्प्रतापस्तरुणीस्तनतटेपु हारत- रलनं करोत्यन्यदेशे विलक्षणमुपलक्षणम् । सर्वगतम्धेत्प्रतापस्तत्सर्वत्रैव मया स्थितमिति वक्तव्ये तत्रेत्येकदेशाभिधायि पदं नोपपाधते । दस्यु- मात्रस्याप्येकदेशे जृम्भमाणप्रतापरयात् । तदत्राधिकरणपदगतमनौचित्यमु- पलभ्यते । तत्र तत्र मया स्थितं यत्र यत्र भवत्प्रताप इत्येव तुत्युचित युसमुक्तं स्यात् ॥ लिगौचित्य दर्शयितुमाह- उचितेनैव लिङ्गेन काव्यमायाति भव्यताम् । साम्राज्यसूचकेनेव शरीरं शुभलक्ष्मणा ॥ २१ ॥ प्रस्तुतार्थोचितेन लिनेन काव्यं भव्यतामुपयाति, राजलक्षणेनेव शरीरम् ॥ यथा मम ललितरत्नमालायाम्- 'निद्रां न स्पृशति त्यजत्यपि धृति यो स्थिति न कचि- दीर्घा वेत्ति कथा व्यथा न भजते सर्वात्मना नितिम् ।

औचित्यविचारचर्चा। १४१ तेनाराधयता गुणस्तव जपध्यानेन रत्नावली निःसङ्गेन पराङ्गनापरिगतं नामापि नो सह्यते ॥' अत्र वत्सेश्वरस्य रत्नावली विरहविधुरचेतसः स्मरावस्थासमुचितं विदू- षकेण सुसंगतायै यदभिहितं निद्रां न स्पृशति, धृतिं त्यजति, स्थिति न धत्ते, दीर्घा कथा व्यथामिव वेत्ति, निर्वृतिं न भजते, तां विना तेन तद्गु- णजापिना तध्याननित्येन जनसङ्गत्यागिनान्यासामङ्गनानां नाममात्रमपि न सह्यते । स्थितिधृतिकथानिवृतीनां स्त्रीलिङ्गाभिधानेनाङ्गत्वाध्यारोपेण परम- मौचित्यं प्रतिपादितम् ॥ न तु यथा मम नीतिलतायाम्- 'वरुणरणसमर्था खर्गभङ्गैः कृतार्था यमनियमनशक्ता मारुतोन्माथसक्ता । धनदनिधनसज्जा लज्जते मर्त्ययुद्धे दहनदलनचण्डा मण्डली मद्भुजानाम् ॥' अत्र रावणः कपिनिकारामर्षविषमविकाराविष्कारोचितं ब्रूते । वरुणा- दिलोकपालविशालबलावलेपविप्लवकारिणी मर्त्यमात्रयुद्धे लज्जते प्रचण्डा मद्भुजमण्डलीति स्त्रीलिङ्गेन निर्देशबैलोक्यविजयोर्जितस्य प्रताप स्य कठोर- तामपहरत्ननौचित्यं सूचयति ।। वचनौचित्य दर्शयितुमाह- उचितैरेव वचनैः काव्यमायाति चारुताम् । अदैन्यधन्यमनसां वदनं विदुषामिव ॥ २२ ॥ उचितैरेकवचन द्विवचनबहुवचनैः काव्यं चारुतामायाति । अदैन्यो- दारचेतसां विदुषामिव वदनमयाच्यारुचिरौचित्यचारुभिर्वचोभिः ॥ यथा मम नीतिलतायाम्- 'त्रैलोक्याक्रमणैर्वराहविजयैनिःसंख्यरत्नाप्तिमिः प्रख्यातः खरसखयंवरशतैर्युद्धाब्धिमध्ये श्रियः । साश्चर्यैर्वेलिबन्धनैश्च बहुभिनित्यं हसत्युत्थितः पौलस्त्यः सदुद्यमश्रमवशाव्यासकनिद्रं हरिम् ॥ A - १४२ काव्यमाला। अत्र शुकसारणाभ्यां रघुपतेरने दशग्रीवपराक्रमेऽभिधीयमाने यदुक्तं पौलस्त्यः शेषशायिनं हरिमेकवारोधोगश्रमवशेन संगक्तालस्यनिद्रमेक- त्रैलोक्याक्रमणैर्वराहविजयिनां मुभटानां जयरनेकरलप्रातिभिः समरस- मुद्रमध्ये बहुवारविहितैः श्रियः खयंवरशतैर्वलिनां च लोकपालानां बन्धनैः प्रख्यातः सदोत्थितः सोत्साहः सततं हसतीति बहुवचगैरेव हरि- लक्षण्यलक्षणमुपचितमौचित्यमुदश्चितम् ।। न तु यथा मातृगुप्तस्य- 'नायं निशामुखसरोरुहराजहंसः कीरीकपोलतलकान्ततनुः शशारः । आभाति नाथ तदिदं दिवि दुग्धसिन्धु- डिण्डीरपिण्डपरिपाण्ड यशस्त्वदीयम् ।' अत्र नायं शशी, त्वदीयमिन्दुदुग्धाब्धिफेनपिण्डपाण्डुरं यश इति यदभिहितं तदविच्छिन्नमसराणां यशसां बहुवचनेन वर्णनायां समुचिता- यामेकवचनोपन्यासश्चन्द्रबिम्बाकारेण पिण्डमात्रपरिच्छिन्नतया संकोचरूप- मनौचित्यमुद्भावयति ॥ विशेपणौचित्यं दर्शयितुमाह- विशेषणैः समुचितविशेष्योऽर्थः प्रकाशते । गुणाधिकैर्गुणोदारः सुहृद्भिरिव सअनः ॥ २३ ॥ काव्ये विशेष्योऽर्थः समुचितैरेव विशेषणैः शोभा लभते । गुणोदार: साधुर्यथाभ्यधिकगुणैः सुहृद्भिः ॥ यथा मम मुनिमतमीमांसायाम्- 'चैत्रे सूत्रितयौवनान्युप बनान्यामोदिनी पमिनी ज्योल्लाप्रावरणानि रनवलभीहाणि रम्याः खियः । १. षड्वर्षपर्यन्तमयं ब्राह्मणः कश्मीरदेशराज्यं कृतवार. उज्जमिनीप्रभुणा हर्षापरनान्ना विक्रमादित्येनासै कश्मीरराज्यं वितीर्णमित्यादिकथा राजतरविण्या सुवीयतरले प्रष्टव्या. - wwws औचित्यविचारचर्चा | १४३ अत्र सर्व चारुतरं न कस्य दयितं यस्मिंस्तु तद्भुज्यते तन्मृन्निर्मितमामभाजनमिव क्षिप्रक्षयं जीवितम् ॥ युधिष्ठिरस्यासादितमहाविभूतेर्मयनिर्मितमणिमयसभाभिमानिनो विभवप्रभावे वर्ण्यमाने सकलभावाभावखरूपाभाववादोपदेशिनो महामु- नेराशयविचारावसरे यदुक्तं कुसुमसमयसमुपचितयौवनान्युपवनानि मकर- न्दामोदसुन्दरारविन्दिनीज्योत्लापटप्रावृतानि रत्नवलभीहाणि रमणीया रमण्यश्चेति सर्वमेतच्चारुतरं सर्वस्याभिमतम् । किं तु यस्मिन्भुज्यते तज्जी- वितमाममृत्पात्रनिःसारं क्षिप्रक्षयमिति तद्विशेष्यपदोत्कर्षकारिविशेषणपदो- दितसौन्दर्येण पर्यन्तनिःसारतानिर्वेदसंवादि स्फुरदौचित्यमातनोति ॥ न तु यथा भट्टलट्टनस्य- 'ग्रीष्मं द्विषन्तु जलदागममर्थयन्तां ते संकटप्रकृतयो विकटास्तडागाः । अब्धेस्तु मुग्धशफरीचटुलाचलेन्द्र- निष्कम्पकुक्षिपयसो द्वयमप्यचिन्त्यम् ॥' अत्र ग्रीष्मं द्विषन्तु, मेघागमं संकटस्वभावा विकटा विस्तीर्णाश्च तटाकाः प्रार्थयन्ताम्, महाब्धेस्तु बालशफरीलोलाचलेन्द्रनिश्चलकुक्षिप- यसो ग्रीष्मघनागमावप्यगणनीयाविति यदुक्तम्, तत्र तडागविशेषणयोः संकटविकटपदयोः परस्परविरुद्धार्थयोरनौचित्यं स्पष्टमवभासते। संकट- खभावस्य हि विकटत्वं विस्तीर्णत्वं नोपपद्यते। अथ खभावे संकटत्व- माकारे विपुलत्वं तदपि तटाकस्य निश्चेतनस्य खभावाभावादनुपपन्नमेव ॥ उपसर्गौचित्यं दर्शयितुमाह- योग्योपसर्गसंसर्गनिरर्गलगुणोचिता । सूक्तिर्विवर्धते संपत्सन्मार्गगमनैरिव ॥ २४ ॥ उचितैः प्रादिभिरुपसर्गः सूक्तिरुन्नतिमासादयति । विभूतिरिक सन्मार्गगमनैः ॥ १. एकसिन्पुस्तके 'भवल्लभस्य' इति पाठः, १४४ कायमाला । A यथा मम मुनिमतमीगामायाम्- 'आचारं भजते त्यजत्यपि गदं वैराग्यमालम्बी कतु याच्छति रामगलितोगुजाभिमान तपः । देवन्यस्तविपर्ययः मुखशिखाएः प्रणष्टो जनः प्रायम्तापविलीनलो.सहशीमायाति कर्मण्यताम् ॥' पत्र दुर्योधनस्य घोषयात्रायां गन्धर्वबन्धपराभवभमाभिगानस्य पा- ज्यसाम्राज्यमुत्सृज्य तपःप्रयत्लाभिनिविष्टस्य दुहे वर्ण्यमाने यदुक्तं सर्वो जनः सुखप्रष्टः प्रणष्टविभवः सदाचार भजते, मदं त्यजति, वैराग्यमा- प्रयति, समभङ्गेन विगलितोकाभिमानं तपः कर्नु वाञ्छतिः प्रायो बाहुल्येन तापविगलितलोह पिण्डसही कर्मण्यतागायाति; अत्रोत्पूर्वतया सोपसर्गस्य तु शब्दस्य स्वभावोन्नतिदिगुणतामपयाता दुर्भवाभिमानार्थी- चित्यमुचैः करोति ।। न तु यथा कुमारदासस्य- 'अयि विजहीहि ढोपगृहनं त्यज नवसंगमभीरु बलमम् । अरुणकरोद्म एप वर्तते वरतनु संप्रवदन्ति कुटाः ॥' अत्राभिनवानसंगमगाढमालिजननिश्चलाच्छन्नागनाप्रबोधने सख्या यदुक्तं वल्लभ मुश्च प्रभातसंध्यायामरुणकिरणोद्मो वर्तते, कुटाम्ध संप्रवद- न्तीति, तत्र संप्रोपसर्गशून्यशय्या(ब्दा)पूरणमात्रेण निरर्थकस्वादनुचितमेव ।। निपातौचित्यं दर्शयितुमाह- उचितस्थानविन्यस्तैर्निपातैरर्थसंगतिः । उपादेयैर्भवत्येव सचिवैरिव निश्चला ॥ २५ ॥ १. भगवता पतअलिमुनिना व्याकरणमहाभाष्ये "व्यसवायां समवारणे (३४) इति सूत्रव्याख्यायाम् 'वरतनु संप्रवदन्ति काटा इलस्य शोकस्य चतुर्थः पाद सदाइतः. जानकीहरणकाव्यस्य का कमारदासा. 'जानकीहरण कई खुशे स्थिते सति । कविः कुमारदासब रावणब यदि क्षमः ॥ इति राजशेवरोका जानकी- हल्ला उपाहारगावल्पमोगादिस्नातो पतानि सन्ति. १. जत्राभिमा- ननवसंगम-इति द्वितीयपुखकपाठक, औचित्य विचारचर्चा | १४५ - उपादेयैश्चादिमिनिपातैरुचितपदविनिवेशितः काव्यस्पार्थसंगतिरसंदिग्धा सत्सहायैरिव भवति ॥ यथा मम मुनिमतमीमांसायाम्- 'सर्वे वर्गसुखार्थिनः ऋतुशतैः प्राज्यैर्यजन्ते जडा- स्तेषां नाकपुरे प्रयाति विपुलः कालः क्षणार्धं च तत् । क्षीणे पुण्यधने स्थितिर्न तु यथा वेश्यागृहे कामिनां तस्मान्मोक्षसुखं समाश्रयत भोः सत्यं च नित्यं च यत् ॥' अत्र वर्गसुखस्य वेश्याभोगवदवसानविरसचपलतायां प्रतिपादितायां निश्चलमोक्षसुखस्य निःसंदेहनिश्चिता प्रतिपत्तिनिपातपदोपबृंहिता वाक्या- थोचित्यं जनयति ॥ न तु यथा श्रीचक्रस्य- 'देवो जानाति सर्वं यदपि च तदपि ब्रूमहे नीतिनिष्ठ साध संघाय जालान्तरधरणिभुजा निवृतो बान्धवेन । म्लेच्छानुच्छिन्धि भिन्धि प्रतिदिनमयशो रुन्धि विश्वं यशोभिः सोदन्वन्मेखलायां परिकलय करं किं च विश्वंभरायाम् ॥' मत्र क्षितिपतिस्तुतिप्रस्तावे 'देवो जानाति सर्व यदपि च तदपि' इति यदुक्तं तत्र पूर्वापरपदयोरसंबद्धत्वेन निरर्थक एव निरुपयोगश्चकारः प्रततोत्सवबहुजनभोजनपतावपरिज्ञातः खयमिव मध्ये समुपविष्टः पश्चा- दभिव्यक्तः परं लज्जादुमनौचित्य प्रतनोति ॥ कालौचित्यं दर्शयितुमाह- कालौचित्येन यात्येव वाक्यमर्थेन चारुताम् । जनावर्जनरम्येण वेषेणेव सतां वपुः ॥ २६ ॥ कालकृतौचित्ययुक्तेनार्थेन वाक्यं चारुतामेति वेषपरिग्रहेणेव कालयो- ग्येन सतामवसरज्ञानां वपुः ॥ Mumbai १. मुजाकणमाता चक्रपाल इति कविकण्ठाभरणे. स एवायं चक्र इति भाति. मुका- Amx प्रोतो. मानन्दवर्धनायकरादिसमकालीनच.

१४६ कान्यमाला। यथा मम मुनिमतगीमांसायाम्- 'योऽभूदोपशिशः पयोदधिशिर धीरः करीरंका- स्तस्यैवाय जगत्पते खगपते शोर मुरारे हरे । श्रीवत्सार जडेरितिस्तुतियदः कर्णी नृणां पूरिती ही कालस्य विपर्ययप्रणयिनी पाकक्रियाश्चर्यभः ॥' अत्रामविपविषमाविष्कारमुमूर्पणा शिशुपालेनाभिधीयगाने यत्किल गोपालवालः पयोदधिशिरश्चौरः करीपंकषोऽभूतस्यैवान जगनाथादिभिः स्तुतिपदैर्नृणां कर्णी पूरिती ही बत कालम्य विपर्ययकारिणी पाकक्रिया- श्चर्यभूगिरिति । तत्राभूदितिभूनकालेनाधरिपोयरुचिरमारब्धाधिक्षे- पलक्षाणं वाक्यौचित्यं कृतम् ।। यथा वा मालबकुवलयस्य- युतसुमनसः कुन्दाः पुप्पोद्भैरलसा दुमा मनसि च गिरं गृहन्तीमे किरन्ति न कोकिलाः । अथ च सवितुः शीतोलासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते लामोदयदायिनीम् ॥ अत्र शिशुतरवसन्तकान्तोपवननवरसोल्लाससूच्यमानमनसिजोत्कण्ठाय- र्णनायामृतुसंघिसमुचिताः कुन्दाः कुसुमावसानशून्यतनवः, किंशुकाशोकाः कलिकोद्गमभरालसाः, मनसि कोकिला: कलकृजितान्यनुसंवपति, रवेर्म- रीचयः शीतोल्लासमय च निवारयन्ति न च संतापदायिनी प्रौढतामा- लम्बन्ते, इत्युक्ते वर्तमानकालपदेष्वेव हृदयसंवादसुन्दरमौचित्यं किम- प्यामोदते ॥ यथा वा भट्टमल्लटस्य- 'मृत्योरास्यमिवाततं धनुरिदं मूर्छद्विषाधेषयः शिक्षा सा विजितार्जुना प्रतिलयं सर्वाङ्गलमा गतिः। अन्तः क्रौर्यमहो शठस्य मधुनो हा हारि गीतं मुखे व्याधस्यास्य यथा भविष्यति तथा मन्ये वन निर्मगम् ॥' १. उदाहतोऽयं श्लोको वामनवृत्ती समताख्यगुणप्रकरणे. तसादामनात्प्राधीनो- ऽयं कविः औचित्यविचारचर्चा | १४७ अत्र लुब्धकस्य धनुःसायकशिक्षागतिक्रौर्यगीतानि तथा यथा वनं निर्मगं भविष्यतीति भविष्यत्कालः प्रकृतार्थपरिपोषेण हृदयसंवादौचित्य- मादधाति ॥ न तु यथा वराहमिहिरस्य- 'क्षीणश्चन्द्रो विशति तरणेमण्डलं मासि मासि लब्ध्वा कांचित्पुनरपि कलां दूरदूरानुवर्ती । संपूर्णश्चेत्कथमपि तदा स्पर्धयोदेति भानो- नों दौर्जन्याद्विरमति जडो नापि दैन्याव्यरंसीत् ॥ अत्र रवेर्मण्डलं क्षीणः शशी प्रतिमासं प्रविशति ततः कांचिदाप्या- यिका कलां प्राप्य दूरे दूरे भवति । परिपूर्णश्च तस्यैव स्पर्धयाभ्युदेति । दौर्जन्यान्न विरमति न च दैन्याव्यरंसीदित्येतौ 'विरमति' 'व्यरंसीत्' इति- परस्परासंगतं कालपदद्वयं चन्द्रस्य सहशयोदौर्जन्यदैन्ययोः सर्वकाल- मभिनिवृत्तयोर्यदुपन्यस्तं तत्र व्यरंसी दिति विरुद्धार्थत्वादनुचितमेव ॥ देशौचित्यं दर्शयितुमाह- देशौचित्येन काव्यार्थः ससंवादेन शोभते । परं परिचयाशंसी व्यवहार सतामिव ॥ २७ ॥ देशविषयौचित्येन हृदयसंवादिना काव्यार्थः सतां व्यवहार इव परि- चयसूचकः शोभते ॥ यथा भट्टभवमूते:- 'पुरा यत्र स्रोतः पुलिनमधुना तत्र सरिता विपर्यासं यातो धनविरलभावः क्षितिरुहाम् । बहोईष्टं कालादपरमिव मन्ये वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ।। अत्र बहुभिर्वर्षसहस्रैरतिक्रान्तः शम्बुकवधप्रसङ्गेन दण्डकारण्यं रामः पूर्वपरिचितं पुनः प्रविष्टः समन्तादवलोक्यैवं ब्रूते-'पुरा यत्र नदीनां प्रवाहस्तत्रेदानी तटम्, वृक्षाणां धनविरलत्वे विपर्ययश्चिरादृष्टं वनमिदमपूर्व- १. सुभाषितावलावयं श्लोको धाराधरस्म. - काव्यमाला॥ मिव मन्ये, पर्वतसं निवेशस्तु तदेवैतदिति बुद्धि स्थिरीकरोति । इत्युक्ते चिरकालविपर्ययपरिवृत्तसंस्थानकाननवर्ण नया हृदयसंवादी देशखभावः परममौचित्यमुक्ष्योतयति ।। न तु यथा राजशेखरस्य- कर्णाटीदशनाक्षितः शितमहाराष्ट्रीकटाक्षाहतः प्रौढान्धीस्तनपीडितः प्रणयिनीभावित्रासितः । लाटीबाहुविवेष्टितश्च मलयस्त्रीतर्जनीतिः सोऽयं संप्रति राजशेखरकविाराणसी वाञ्छति ॥' अत्र कर्णाटमहाराष्ट्रान्धलाटमलयललनासंभोगसुभगः कालेन गलित- रागमोहः संप्रति राजशेखरकविाराणसी गन्तुमिच्छत्तीयुक्त शृगाररस- तरङ्गितवराङ्गनापसोऽननिरर्गलदक्षिणापथदेशोदेशमध्ये प्रणयिनीभ्रूम- अवित्रासित इति देशोपलक्षणविरहितकवलपणयिनीपदेन देशीचित्यमुप- चितमप्यनुचितता नीतम् ॥ कुलौचित्य दर्शयितुमाह- कुलोपचितमौचित्यं विशेषोत्कर्षकारणम् । काव्यस्य पुरुषस्येव प्रियं प्रायः सचेतसाम् ॥ २८ ॥ पुरुषस्येव काव्यस्य कुलोमतमौचित्यं सविशेषोत्कर्षजनक प्रायेण बाहु- स्येन सहृदयानामभिमतम् ॥ यथा कालिदासस्य- 'अथ स विषयव्यावृत्तात्मा यथाविषि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् । मुनिवनतरुच्छायाँ देव्या तया सह शिप्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलवतम् ॥ भत्र 'मय स राजा वृद्धवरुणाय सूनवे राज्य प्रतिपाय तया देव्या सह तपोवनं भेजे। विरक्तचेतसामिक्ष्वाणामन्ते हि कुलबतमिदमेव' इत्युक्के भूतवर्तमानमाविनां श्यानामौचित्यमन्मीलितम् ।। प.प्रसिद्धषु राजशेखरप्रन्येच्वयं लोंको न प्रात:. m - औचित्यविचारचर्चा। १४९ - न तु यथा यशोवर्मदेवस्य- 'उत्पत्तिण्डकुले यदभीष्टं तत्पदं समाक्रान्तम् । भोगास्तथापि दैवात्सकृदपि भोक्तुं न लभ्यन्ते ॥' अत्र ममोत्पत्तिभण्डकुले समीहितपदाक्रमणं च निष्पन्नं तथापि देवा- र्पितप्रियाविप्रयोगाद्भोगा मोक्तुं न लभ्यन्त इत्यभिहिते वसंवेद्यमेव भण्ड- कुलमन्यत्राप्रसिद्धं खयमेव निर्दिश्यमानमुत्कर्षविशेषणविरहितकेवलपदो- पादानेन निरर्थकतया निरौचित्यमेव । इक्ष्वाकु कुलस्य तु निर्विशेषणत्व- मुपपद्यत एव । त्रिभुवनप्रसिद्धौचित्यचरित्रत्वात् ।। तौचित्यं दर्शयितुमाह- काव्यार्थः साधुवादाई सदतौचित्यगौरवात् । संतोपनिर्भरं भक्त्या करोति जनमानसम् ॥ २९ ॥ काव्यार्थः समुचितव्रतगौरवात्साधुवादयोग्यः संतोषपूर्ण जनमनः करो- ति । भक्तिर्विच्छित्तिः ॥ कथा मम मुक्तावलीकाव्ये- 'अत्र वल्कलजुषः पलाशिनः पुष्परेणुभरमसभूषिताः । लोलभृजवलयाक्षमालिकाखापसा इव विभान्ति पादपाः ॥' अत्र तपोषनोचितवतव्यञ्जकवरकलभस्माक्षसूत्रप्रणयिपादपवर्णनायामचे. तनानामपि शमसमयविमलचित्तवृत्तिरौचित्यमुपजनयति ॥ न तु यथा दीपकस्य- 'पुण्ये प्रामे वने वा महति सितपटच्छन्नपालीकपाली- मादाय न्यायगर्भद्विजहुतहुतमुग्धूमधूम्रोपकण्ठम् । द्वार द्वारं प्रवृत्तो वरमुदरदरीपूरणाय क्षुधार्तो मानी प्राणी सनाथः स पुनरनुदिनं तुल्यकुल्येषु दीनः ।। मत्र वैराग्यनिरर्गलवर्णनायां भिक्षाकपालीमादाय क्षुरक्षामः कुक्षिपूर- णाय प्रवृत्तो मानी वरं द्वारं द्वारं यष्टिनिविष्टपाणिः परिधान्तो न पुनरनिशं तुल्यकुल्येषु दीन इत्युक्ते सहजप्रशमविमलमानसविश्रान्तिसंतोषमुत्सृज्य १. द्वितीयपुस्तके श्रीहर्षदेवस्य.

कायमाला ime १५० तुल्यकुल्यद्वेषविजिगीपापरमेव वारयं भृशमीनित्यगुसावति । वरमेतत्ती- व्रतकष्टं न तु वजनदैन्यया चनगिति संसारमन्विधाभिमानोपन्यासः ॥ तत्वीनित्यं दर्शयि माह- काव्यं हृदयसंवादि सत्यप्रत्ययनिश्चयान । तयोचिताभिधानेन यात्युपादेयतां कवेः ॥ ३० ॥ तत्वोगिताख्यानेन कः सून सत्यप्रत्यय भिगांसंवादि गृहातां याति ॥ यथा मम बौद्धावतानलतिकायाम्--- 'दिदि भुषि फणिलोक शेशवे गौवनेना जरसि निधनकाले गर्भशम्याश्रीवा। सहगमनसहिष्णोः सर्वथा देहभाना नाहि भवति विनाशः कर्मणः प्राकममा ।।' अत्र प्राक्तन कर्मणलोवरे शिवयोवनदवावस्थामु देहिनां सह गमने समर्थस्वान्न विनाशोऽसीतयुतो निःसंशयसकलजनहरयसंवा- दितत्त्वाख्यान मौचित्यं ख्यापयति ॥ न तु यथा माघस्य-- 'बुभुक्षितळकरणं न भुज्यते न पीयते काव्यरसः पिपासितैः । न विधया केनचिदुत कुलं हिरण्यमेवार्जय निष्फलाः कलाः ।। अत्रार्थितापरत्वेन धनमेवार्जय, शुचिताकरणं न भुज्यते, न च काव्यरसः पिपासितैः पीयते, न च विषया कुलं कनचितमित्युक्ते सर्व- मेतहारिधदैन्यविश्तधैर्यकातरतया तत्त्वविरहित विपरीतमुपन्यस्तमनौचित्यं सुयुक्तमेव । विधानामेव सर्वसंपन्त्रसविनीनां कुलोद्धरणक्षमत्वं नान्यस्म ॥ सत्त्वौचित्यं दर्शयितुमाह- चमत्कारं करोत्येव व सचोचित कवेः। विचाररुचिरोदारचरितं सुमतेरिव ॥३१॥ सरवोचितं कवेर्वचनमस्कार करोति । सुमतेरिव विचार्यमाणं रुचिरम- वारचरितम् ॥ "मापकते प्रसिद्ध शिशुपालवधाभिषे काव्ये नायबोका, ma- औचित्यविचारचर्चा | १५१ - यथा मम चित्रभारते नाटके- 'नदीवृन्दोद्दामप्रसरसलिलापूरिततनुः स्फुरत्स्फीतज्वालानिबिडवडवानिक्षतजलः । न दर्प नो दैन्यं स्पृशति बहुसत्त्वः पतिरपा- मवस्थानां भेदाद्भवति विकृतिनैव महताम् ॥ अत्र पयोधिव्यपदेशेन युधिष्ठिरस्य सत्त्वोत्कर्षेऽभिधीयमाने सरित्पूर- प्रवार्धिततनुर्वडवामिनिप्पीतश्च नोत्सेकं न संकोचमब्धिर्विपुलसत्त्वः स्पृशति । न सवस्थानां भेदान्महाशयानां विकारो भवतीत्युक्ते गम्भीरधीरा सत्त्ववृ- तिरौचित्यमातनोति ॥ न तु यथा भद्देन्दुराजस्य 'आश्चर्य वडवानलः स भगवानाश्चर्य मम्भोनिधि- यत्कर्मातिशयं विचिन्त्य मनसः कम्पः समुत्पद्यते । एकस्याशयघस्मरस्य पिबतस्तृप्तिर्न जाता जलै- रन्यस्यापि महात्मनो न वपुषि खल्पोऽपि जातः श्रमः ॥' अन वडवानलसमुद्रयोः सत्त्वमहत्त्वे वक्ष्यमाणे नातिविपुलाशयत्वा- देकस्य पिबतः पयोभिस्तृप्तिर्न जाता, द्वितीयस्य तदुपजीव्यमानस्य न मनागपि खेदः, तदेतदुभयमाश्चर्यमित्युक्ते निःसंतोषतया सततया च कस्य न वडवामेर्लज्जा । न च जलनिधेराश्रितकार्थिपूरणसामर्थ्यमि त्यसत्त्वे सत्त्व- स्तुतिरनौचित्यमावहति ॥ अभिप्रायौचित्यं दर्शयितुमाह- अकदर्थनया सूक्तमभिप्रायसमर्पकम् । चित्तमावर्जयत्येव सतां खस्थमिवार्जवम् ॥ ३२ ॥ अक्लेशेनाभिप्रायसमर्पक काव्यं हृदयमावर्जयति । सज्जनानां निर्मल- मार्जवमिव ।। १. श्रीमदभिनवगुप्ताचार्यस्स गुरुभहन्दुराजः. PM H १५२ काव्यमाला। - यथा दीपकस्य- 'श्येनाजिअहदारितोत्तरकरो ज्याप्रकोष्ठान्तर आताम्राघरपाणिपादनयनप्रान्तः पृथूरःस्थलः । मन्येऽयं द्विजमध्यगो नृपसुतः कोऽप्यम्ब निःशम्बल: पुध्येवं यदि कोष्ठमेतु सुकृतैः प्राप्तो विशेषातिथिः ।।' अत्र खैररमणी रमणीयं दिनावसाने युवानं पथिकमालोक्याभिप्रायसू- चकं जननीमेवं ब्रूते । यदसौ राजपुत्राकृतिः श्येनमहनाराचपरिचयोचितः सायं समये प्राप्त इत्युक्ते मात्राप्यभिप्रायपूरकमभिहितम् । पुत्रि यद्येव तत्कोष्ठाई प्रविशतु सुकृतैर्विशेषोऽतिथिः प्राप्तः पूज्य इत्येतेन स्फुटाभि- प्रायसूचकमौचित्यमुपचितमाचकास्ति । न तु यथास्यैव- 'अयि विरहविचित्ते भतुरर्थे तथार्ता सपदि निपतिता त्वं पादयोश्चण्डिकायाः। ख्यमुपहितधूपस्थालकच्छत्र शृङ्गो- दलितमपि ललाटं येन नैवाललक्षे ।' अत्र विनयवत्याः सुचिरात्पत्यावागते ललाटनखोल्लेखापहववचने सख्या समुपदिश्यमाने हे विरहोन्मते भतुरर्थे चण्डिकापादपतने स्वयं स्थापितधू- पस्थालकोटिक्षतमपि न लक्षितं भवत्या ललाटमित्युक्ती खैरापहवशिक्षामा- त्रमेवोपलक्ष्यते । न तु तस्याः सख्या वा कश्चिदभिप्रायविशेषः ॥ खभावौचित्यं दर्शयितुमाह-- स्वभावौचित्यमाभाति सूक्तीनां चारुभूषणम् । अकृत्रिममसामान्य लावण्यमिव योषिताम् ॥ ३३ ॥ खभावोचितत्वं कविवाचामाभरणमाभाति । अकृत्रिममनन्यसामान्य लावण्यमिव ललनानाम् ॥ यथा मम मुनिमतमीमांसायाम्- 'कर्णोत्सालितकुन्तलान्तनिपतचोयक्षणासजिना हारेणेव वृतस्तनी पुलकिता शीतेन सीत्कारिणी । १. 'प्रकोष्ठान्तिकः' इति द्वितीयपुस्तकपा द्वितीयपादे बातामापर-' इति पाठोयुपः, .. me- - , -- औचित्यविचारचर्चा । १५३ निधौताञ्जनशोणकोणनयना नानावसानेऽङ्गना प्रस्यन्दकबरीभरा न कुरुते कस्य स्पृहाई मनः॥' अत्र व्याससूनोः शुकस्य गाढवैराग्यनिःसङ्गस्य गगनगङ्गातीरे सानो- चीर्णात्रिदशयोषितो विवसनास्तद्दर्शननिःसंकोचाः पश्यतः प्रशमविमलम- नसः सरव्यतिकरनिर्विकारतायां प्रतिपाद्यमानायां कर्णमूलोरिक्षप्तालक- पर्यन्तनिपतत्तोयकणसंतानेन स्तनयोः कृतिमुहूर्तहारविभ्रमा, शीतेन रोमाञ्च- सीत्कारिणी, धौताञ्जनारुणनयनान्ता, प्रस्रवन्मुक्तकेशकलापा, स्नानोत्तीर्णा तरुणी कस्य स्पृहा न मनः करोतीत्युक्ते खयमाईखभावः परमप्या- करोतीत्युचितमेतत् ।। न तु यथा मम तत्रैव- 'भक्तिः कातरतां क्षमा सभयतां पूज्यस्तुतिर्दीनतां धैर्य दारुणतां मतिः कुटिलतां विद्याबलं क्षोभताम् । ध्यानं वञ्चकतां तपः कुहकतां शीलवतं षण्ढतां पैशुन्यतिनां गिरां किमिव वा नायाति दोषार्द्रताम् ॥ पत्र पिशुनखमावे वर्ण्यमाने भक्त्यादीनां गुणानां वैपरीत्ये प्रतिपा- दिते पिशुनानां वचसां किं वा दोषातां नायातीत्यभिहिते खयमनाईख- भावस्य परार्दीकरणमनुचितमेव ॥ सारसंग्रहौचित्यं दर्शयितुमाह- सारसंग्रहवाक्येन काव्यार्थः फलनिश्चितः। अदीर्घसूत्रव्यापार इव कस्य न संमत्रः ॥३४॥ सारसंग्रहवाक्येन काव्यार्थः सुनिश्चितफलः शीघ्रकारिण इव व्यापारः कस्य नाभिमतः॥ यथा मम मुनिमतमीमांसायाम्- 'विविधगहनगर्भग्रन्थसंभारभारै- मुंमिमिरमिनिविष्टैस्तत्त्वमुक्तं न किंचित् । - - १५४ काव्यमाला। कृतरुचिरविचारं सारमेतन्महर्षे- रहमिति भवभूमि हमित्येव मोक्षः ॥' अत्र भगवद्वीतार्थविचारे सारसंग्रहोऽभिहितः, यत्किल मुनिभिरनेक- भेदभिन्नशास्त्रजडैरभिनिविष्टमतिभिस्तत्त्वमुपादेयं न किंचित्कथितम् । भ- गवतो महर्षेासस्य सुमतेविमलविचारोत्तीर्णं निश्चितमेतदेव । यदहंकारः संसारमूलभूमिर्ममतापरित्याग एव मोक्ष इति तत्संक्षेपेण भवक्षयोपदेशः प्रकृतार्थस्य परममौचित्यं पुष्णाति ।। न तु यथा परिव्राजकस्य- 'तपो न तप्तं वयमेव तप्ता भोगा न भुक्ता वयमेव भुक्ताः । जरा न जीर्णा वयमेव जीर्णास्तृष्णा न याता वयमेव याताः ॥' अत्र वयमेव तप्ता भुक्ता जीर्णा याता इत्युक्ते निःसाराचारुत्वादपर्य- वसितो वाक्यार्थः फलशून्यतया सारसंग्रहोचितं न किंचित्प्रतिपादयति ॥ प्रतिभौचित्यं दर्शयितुमाह--. प्रतिभाभरणं काव्यमुचितं शोभते कवेः। निर्मलं सुगुणस्येव कुलं भूतिविभूपितम् ।। ३५ ॥ प्रतिभालंकृतं कवेः काव्यमुचितं गुणवतः कुलमिव विमलं लक्ष्म्या काशितं शोभते ॥ यथा मम लावण्यवत्याम्- 'अदय दशसि किं वं बिम्बबुद्ध्याघर में भव चपल निराशः पक्कजम्बूफलानाम् । इति दयितमवेत्य द्वारदेशाप्तमन्या निगदति शुकमुचैः कान्तदन्तक्षतोष्ठी ॥' अत्र कयापि द्वारदेशाप्तं प्रियं ज्ञात्वा अन्यकामुकदशनखण्डितौष्ठ्या संप्रति तदागमनानभिज्ञयेव शुक्रमादिश्य यदुक्तं निर्दय किं वं विम्बफल- बोभावधरं मम विदारयसि । पकानां जम्बूफलानामिदानी चपलनिराशो १. द्वितीयपुस्तके भ्यगदत' इति पाठक, औचित्यविचारचर्चा । १५५ भव कुपिता तुभ्यं नो दास्यामीति तेनोच्चैः प्रत्यायनापह्नवनवोन्मेषप्रज्ञा- चातुर्यचारुवचनमौचित्यचमत्कारं करोति ॥ यदाह भट्टतौतः-'प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता' इति ॥ न तु यथा मम तत्रैव- निर्याते दयिते गृहे विशयने निर्माल्यमाल्ये हृते प्राप्ते प्रातरसह्यरागिणि परे वारावहारेऽन्यया । द्वारालीनविलोचना व्यसनिनी सुप्ताहमेकाकिनी- त्युक्त्वा नीविविकर्षणैः स चरणाघातैरशोकीकृतः ॥ अत्र वेश्या व्यालमकामुकस्य वारावहारं विधाय नवकामुकेन सह क्ष- पायां नीतायां प्रभाते तस्मिन्निर्याते शय्याकुसुमादिसंभोगलक्षणे निवारिते वारवञ्चनकुपिते गाढानुरागग्रहप्रस्तमतौ पूर्वकामुके प्राप्ते त्वदालोकनका- जिणी व्यसनिनी द्वारन्यस्तनयनाहमेकाकिनी सुप्तेति प्रत्यायनावचनविली- नमन्युसरभससरसनीविकर्षणोद्यताकृतिकृतेाकोपया चरणनलिनप्रहारै- रशोकीकृतः । शङ्काशल्योन्मूलनान्निःशोकः संपादितः । संततपुलकाङ्कु- रत्वादशोकतरुतुल्यतां नीत इति वा वाक्यार्थः। केवलसत्यविप्रलम्भप्राग- ल्भ्यमात्रमेव गणिकाया गाढरागमूलतां च प्रतिपादयति । न तु प्रतिभोद्भू- तामौचित्यकणिकां सूचयति ॥ अवस्थौचित्यं दर्शयितुमाह- अवस्थोचितमाधत्ते काव्यं जगति पूज्यताम् । विचार्यमाणरुचिरं कर्तव्यमिव धीमताम् ॥ ३६॥ अवस्थोचिततया काव्यं जगति वाध्यतामायाति । मतिमतामिव कृत्यं विचारनिर्षरुचिरम् ॥ यथा मम लावण्यवत्याम् 'मुक्तः कन्दुकविभ्रमस्तरलता त्यक्तैव बायोचिता मौग्ध्यं निर्धतमाश्रिता गजगतिभ्रूलास्यमभ्यस्यते । १. अभिनवगुप्ताचार्यस्योपाध्यायो भहतीतः, १५६ काव्यमाला यन्नर्मोमिषु निर्मितं मृगशा वैदग्ब्यदिव्यं वच- स्तद्विद्मः सुभगाभिमानलटभाभावे निबद्धो भरः ॥' अत्र यदुक्तं कन्दुकक्रीज त्यक्ता, बालचापल्यं परिहतम्, मौग्ध्यं निरस्तम्, गजगतिरङ्गीकृता, भ्रूलतालास्याभ्यासः क्रियते, नर्मोर्मिषु वचनवैचिच्य- मासूत्रितम्, तेन जानीमहे शैशवावस्थां समुत्सृजन्त्या यौवनमाश्रयन्त्या प्रौढतामनारूढयापि नवसंभोगगौरवगर्भेण सुभगाभिमानेन लटभाभावे बा- लया भरो निबद्ध इत्यभिहिते स्फुटमृदुसंबद्धा) वयोवस्थामध्यसंघिवर्ण- नायामौचित्यं स्फुरदिवावभासते ॥ न तु यथा राजशेखरस्य- ज्यायान्धवी नवधृतधनुस्ताम्रहस्तोदरेण क्षत्रक्षोदव्यतिकरपटुस्ताटकाताडकेन । कर्णाभ्यर्णस्फुरितपलितः क्षीरकण्ठेन साध योद्धं वाञ्छन्न कथममुना लज्जते जामदभ्यः ॥' अत्र भार्गवः स्थविरावस्थास्थितः स्थिरतरपराक्रमकशमोटो धनुर्धरः शिशुना रामेण धनुर्महणारुणितकोमलकरकमलतलेन क्षत्रियक्षयसंरम्भप्र- गल्भस्ताटकाताडकेन स्फुरदाकर्णपलितः संभाव्यमानजननीस्तनक्षीरकण्ठे. नामुना युयुत्सुः कथं न लज्जत इत्युक्ते पेशलतया राघवावस्थायां जाम- दम्यावस्थाविपरीतायां प्रतिपाद्यमानायां ताटकाताडकेनेति विरुवाविवा- सोऽर्थः किमप्यनौचित्येन चेतसि संकोचमादधाति ।। विचारोचियं दर्शयितुमाह- उचितेन विचारेण चारुतां यान्ति सूक्तयः। वेद्यतत्वावबोधेन विद्या इव मनीपिणाम् ॥ ३७॥ विचारौचित्येन सूक्तयश्चारुतां यान्ति । ज्ञेयखरूपज्ञानेन विद्या इव विदुषाम्॥ १. 'नर्मोतिषु' इति द्वितीयपुस्तकपाठ:. २. प्रगल्भाशनाभावे. ३. 'स्फुटप्रिया' इति द्वितीयपुस्तकपाठः - iTAN औचित्यविचारचर्चा | १५७ - यथा मम मुनिमतमीमांसायाम्- 'अश्वत्थामवधाभिधानसमये सत्यव्रतोत्साहिना मिथ्या धर्मसुतेन जिह्मवचसा हस्तीति ययाहृतम् । सा सत्यामृतरश्मिवैरमसमं संसूचयन्त्याः सदा शके पङ्कजसंश्रयेण मलिनारम्भा विजृम्भा श्रियः ।।' अत्र द्रोणनिधनाख्याने सत्यव्रतोत्साहवता धर्मतनयेनापि मिथ्या ल- धुवचसा कुञ्जर इति यदुक्तं सा सततं सत्यचन्द्रद्वेषं सूचयन्त्याः श्रियः शङ्के पक्कजसंश्रयेण मलिनव्यापारा विजृम्भेत्यभिहिते ससंवादलक्ष्मीख- भावपरिभावनतया तत्वावबोधेन मूलविश्रान्त्या फलपर्यवसायी विचारः सहृदयसंवेद्यमौचित्यं व्यनक्ति ।। न तु यथा मम तत्रैव- 'प्रम्लाने चिरकालवृत्तदयिताकेशाम्बराकर्षणे क्रूर राक्षसवैशसं यदि कृतं भीमेन दुःशासने । तत्कालक्षमिणा कुशाश्मपरुषारण्यप्रवासे चिरं किं पीतं तत तापमममहिषखेदाम्बुपृक्तं पयः ।।' अत्र भीमसेनचरिते विचार्यमाणे त्रयोदशवर्षपर्युषिते कृष्णाकेशाक- षणपराभवे भीमेन भीम राक्षसकर्म दुःशासने यदि कृतं तत्सद्यःकृतार्दा- पराधकालक्षमिणा सुचिरं दर्भसूचीविषमाश्मपरुषवनवासे किं ग्रीष्मताप- निमममहिषस्वेदस्रुतिपृक्तं पयः पीतमित्यनुपपन्नकृत्येऽभिहिते कारण- विचाराभावान्निर्मूलोपालम्भमात्रमनौचित्यमनुबध्नाति ॥ नामौचित्यं दर्शयितुमाह- नाना कर्मानुरूपेण ज्ञायते गुणदोषयोः। काव्यस्य पुरुषस्येव व्यक्तिः संवादपातिनी ॥ ३८ ॥ काव्यस्य कर्म औचित्यं तेन नाम्ना पुरुषस्येव गुणदोषव्यक्तिः संवा- दिनी ज्ञायते ॥ १. 'धर्मस्यापि सुतेन इती द्वितीयपुस्तकपाठ.. m- १५८ काव्यमाला। -- - यथा कालिदासस्य- 'इदमसुलभवस्तुप्रार्थनादुर्निवारः प्रथममपि मनो मे पञ्चबाणः क्षिणोति । किमुत मलयवातान्दोलितापाण्डुपत्रै- रुपवनसहकारैर्दर्शितेष्वङ्करेषु ॥ पत्र प्रारम्भ एवं ममेदं मनः पञ्चबाणः सुदुर्लभवस्तुप्रार्थनादुर्निवारः शकलीकरोति । किमुत लीलोद्यानसहकारैर्मलयानिलान्दोलितबालपल्लवै- रकुरेषु दर्शितेष्वित्युक्ते मदनस्य पञ्चबाणाभिधानमुचितमेव ।। यथा वा मम बौद्धावदानलतायाम्- 'तारुण्येन निपीतशैशवतया सानङ्गशृङ्गारिणी तन्वङ्ग्या सकलाङ्गसङ्गमसखी भनिनवाजीकृता । निःसंरम्भपराक्रमः पृथुतरारम्भाभियोगं विना साम्राज्ये जगतां यया विजयते देवो विलासायुधः ।। अत्र यौवननिपीतशैशवतया तन्वयानङ्गशृङ्गारवति सर्वाङ्गसंगमसखी सा काप्यभिनवा भरिङ्गीकृता यया निष्प्रयलपराक्रमः प्रभूततरारम्भसं- मारं विहाय त्रिभुवनसाम्राज्ये जयति देवो विलासायुध इत्युक्ते कामस्य विलासायुध इति नामोपपन्नमेव । तन्वङ्गीभङ्गायैव सिद्धत्रैलोक्याधिपत्यवि- जिगीषायां कामसायकादीनां नैरर्थक्यात् ॥ न तु यथा कालिदासस्य- 'क्रोघं प्रभो संहर संहरेति यावद्विरः खे मरुतां चरन्ति । तावत्स वहिर्मवनेत्रजन्मा भस्सावशेष मदनं चकार ।' अत्र पश्यतो भगवतस्त्रिनेत्रस्य स्मरशरनिपातक्षोमे वर्ण्यमाने तनिका- रकोपशमाय संहर संहर प्रभो क्रोषमिति यावद्वचः खे देवानां चरति तावद्भवनेत्रोद्भवः स वहिर्मदनं भस्मराशिशेषमकार्षीदित्युक्ते संहारावसरे रुवस्य भवामिधानमनुचितमेव ॥ A अत्र औचित्यविचारचर्चा | १५९ आशीर्वचनौचित्यं दर्शयितुमाह- पूर्णार्थदातुः काव्यस्य संतोषितमनीषिणः । उचिताशीपस्येव भवत्यभ्युदयावहा ॥ ३९ ॥ संपूर्णार्थसमर्पकस्य संतोषितविदुषः काव्यस्य नृपतेरिवोचितमाशी:- पदमभ्युदयावहं भवति ॥ यथास्मदुपाध्यायगङ्गकस्य- 'स कोऽपि प्रेमाः प्रणयपरिपाकप्रचलितो विलासोऽक्ष्णां देयात्सुखमनुपमं वो मृगहशाम् । यदाकूतं दृष्ट्वा पिदधति मुखं तुणविवरे निरस्तव्यापारा भुवनजयिनः पञ्च विशिखाः ॥' स कोऽप्यसामान्यप्रेमप्रणयविश्रान्तिप्रगल्भकुरङ्गहशा निरुप- मो नयनविलासः सुखं वो देयात् । यदभिप्रायमालोक्य भुवनजयिनः का- मस्य पञ्च सायकाः समाप्तव्यापारास्तूणीरविवरे लज्जयेव मुखं पिदधती- त्युक्ते सुखं वो देयादित्याशीःपदमुचितमेव । प्रियानयनविभ्रमस्य सुखा- र्पणयोग्यत्वात् ॥ यथा वा मम वात्स्यायनसूत्रसारे 'कामः कामं कमलवदनानेत्रपर्यन्तवासी दासीभूतत्रिभुवनजनः प्रीतये जायतां वः । दग्धस्यापि त्रिपुररिपुणा सर्वलोकस्पृहार्दा यस्याधिक्यं रुचिरतितरामञ्जनस्येव याता ॥' अत्र कामः प्रीतये वो जायतां यस्य दग्धस्याप्यञ्जनस्येवाधिक्यं रुचिः योतेत्युक्ते प्रीतये जायतामित्युचितं कामस्य प्रीत्यात्मकत्वात् ॥ न तु यथामरुकस्य- 'आलोलामलकावली विलुलितां विनश्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः खेदाम्भसा सीकरैः । १.क्षेमेन्द्रस्योपाध्यायो गङ्गका, १६० काव्यमाला। तन्वनयाः सुतरां रतान्तसमये वक्त्रं रतिव्यत्यये तत्त्वां पातु चिराय कि हरिहरस्कन्दादिभिदैवतैः ।। अत्र तन्न्या रतिव्यत्यये लोलालकं चलत्कुण्डलं खेदसलिलेन किंचि- दुन्मष्टतिलकं यन्मुखं तत्त्वां पातु, किं हरिहरस्कन्दादिभिर्देवतैरित्युक्ते पातु स्वामित्यनुचितम्, आनन्दयतु त्वामित्युचितं स्यात् । अन्येषु का. व्यानेष्वनयैव दिशा खयमौचित्यमुत्प्रेक्षणीयम् । तदुदाहरणान्यानन्त्यान प्रदर्शितानीत्यलमतिप्रसझेन। आसीत्प्रकाशेन्द्र इति प्रकाशः काश्मीरदेशे त्रिदशेश्वरश्रीः । अभूदृहे यस्य पवित्रसत्रमच्छिन्नमयासनमग्रजानाम् ॥ यः श्रीखयंभूभवने विचित्रे लेप्यप्रतिष्ठापितमातृचकः । गोभूमिकृष्णाजिनवेश्मदाता तत्रैव काले तनुमुत्ससर्ज ॥ तस्यात्मजः सर्वमनीषिशिष्यः श्रीव्यासदासापरपुण्यनामा । क्षेमेन्द्र इत्मक्षयकाव्यकीर्तिब्धके नवौचित्यविचारचर्चाम् ॥ श्रीरत्नसिंहे सुहृदि प्रयाते शार्व पुरं श्रीविजयेशराजि। तदात्मजस्योदयसिंहनानः कृते कृतस्तेन गिरा विचारः ।। यस्यासिः परिवारकृत्रिभुवनप्रख्यातशीलश्रुतेः सर्वस्यावनतेन येन नितरां प्राप्ता विशेषोमतिः । आशाः शीतलता नपत्यविरत यस प्रतापानल- स्तस्य श्रीमदनन्तराजनृपतेः काले किलाय कृतः ।। इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरास्यत्रीक्षेमेन्द्रकृता औचित्यविचारचर्या समाता। mom बखरतान्ततान्तनयनम् इलार मेनु पाठ

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Kavyamala Part 1

Author
Pandit_durga_prasad
Other authors
Ccl
Title
Kavyamala Part 1
File name
Kavyamala Part 1
Text
OCR done
Citation
1929
Publisher
Panduranga_jawaji
Language
Sanskrit
Pages
172
Library
Scl
DLI number
326259
Barcode
2020010005788.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
AGTEZkRCo8v
Download PDF

Kavyamala Part 1