Bharatiya Vidya Bhavan Library, Mumbai
Mani Darpan Granthank 34
Front matter
PREFAUL. Tattv.chintamani populiirly known among tho Nriyagikas as Mani is a woik on logic which is highly devoloped by the successisu comentaries of Raghunithabhattacharya, Gndidharabhattacharya and others. The work Mauidarpina, tho Sabdaklıanda (16cctos) of which is now published, is a paraplırase of the Mani, just as kasvadarpana is of the Kavyaprakisa of Mammata. From the coloplon (quoted infra) of Kivpadarpunn, no lea r. that there are two more Khandas fars) of the Manidarpana, which lite not come to nur hands, The edition of the work - based on tivo palın-leaf manuscripts, one of whichi, marked to in Malayalam character was kindly lent to us by tlie Raja of Panthalım. The other manuscript u. 'n Tawil grantha cbaracter, more correct but a little wanting at the end was obtained through Mr. Sakti Sastrial of Ayrkulli. The author of the work is the famous Rījuchūdamanı Dikeluta. He has written a commentary, called Tantrasiklâmani, on jaimin's Purvami nanasî Sûrras. Of this comwentars, we have in our possession the 7th, 8th and 9th chapters. In the beginning of the 7th chapter, the author states the date of the composition of the commentary "धीमन्मान्ये शकस्याब्दे हायने चेश्वरामिधे । चूडामणिः कलयते यज्वा तन्त्रशिखामणिम् ॥" Feai 1339 Collesponding to 1636 A D. That the author composed a Kivya called Rukmini Kalyâna, when Raglun ithe Bliüpa was reigning in Tanjore is ovident from the following verse in the Kâvya itself. " अध्यास्य तञ्जानगरीममुस्मिन् (रघुनाथे) सर्वसहां शासति सार्वभौमे । श्रीराजचूडामणियायजूकश्चित्रं निवघ्नाति हरेश्चरित्रम् ॥" A list of 101ks of Rijschûdîmau Dikslita is given 10 the following terses from his Karpadarpana.. to be sibi
"अधात्य निसिल शास्त्रमननादीश्वराष्ट्रिन ।
चिदुपा प्रीतय येन याकृता गास्नुढीपिरा ।।
यल विनेच निहिती येन तन्त्रगिसामणिः ।
नव्या सर्पकाण्टस्य न्यायमुक्तावली तया ॥
व्याकृता याजुपी भाग्या तथोपनिपटोऽसिला ।
प्रणीता चामिहोनादे मायश्चित्तमदीपिका।।
न्यायवृटामणिनीम्ना न्यायजापन्तिा ।
रचिटत्तस्य च यार या रचिग येन निमिता ।।
मणिदर्पणनामान (') महित वाड्मुख मणे ।
सण्डप्रयम्य दुर्वादिखण्डनाय व्यधत्त य ॥
येन भृङ्गारसर्वस्वनामा भाणोऽप्यमण्यत ।
यचकाहा भोजचम्पोयुद्धकाण्डमपूरयत् ।।
येन भारतचम्पुश्च यत्ततारावली तथा ।
विहिते अङ्कराचार्यतारापल्याः सहोदरे ।।
मतन्त्रवत म्य श्रीनिवासमखीशित ।
कर्तुर्विश्वजितो येन तातम्य यमिता कथा "
रघुपीरम्य कृष्णम्य पाण्डवाना च व कथा ।
प्रत्यक्षरदलेषमये पहधेरवर्णयत् ।।
यमिता मजुभाषिण्या येन सीतापते कथा ।
शङ्कराभ्युदयाभिरय काय येनैव निर्मितम् ।।
काय कंसरध रुक्मिण्युद्वाहमपि यो व्यधात् ।
येनोदिता कालिनारलहसारयनाटिका ।।
आनन्दराघवं नाम नाटक च प्रपश्चितम् ।
येन व्यतान्यलकारचूडामण्यभिधा रति ॥
अथ वृत्तिनिवेकेन विचित्रा चिनमश्चरी।
तेन व्यतानि श्रीराजचूडामणिमखीन्दुना ॥
काव्यदर्पणनामासौ प्रबन्धों विदुपा मुदे । "
निवेदना। - , . मणिर्मगिरिति नामेकदेशग्रहणेन व्यवदतो यस्तत्वचिन्तामणि म श्रीरघु- नाथ-गदाधरनाचार्यादीना व्यारयानपरम्परया दूरप्रशिताओं न्यायमन्य तस्योपन्यामरूप एप मणिदर्पणः, काव्यदर्पण इव काव्यप्रकाशस्य । अस्य शब्दखण्डोऽयमिदानी प्रकाश्यते । मणिदर्पणस्य खण्डद्वयमन्यदप्यस्तीत्युदाहरिप्य- माणकाट्यदर्पणचनतोऽगतम् । तत्तस्माभि परयम् । शब्दखण्टस्यास्य सशोधनाधारभूती द्वारादा तालपत्रात्मकौ । तयोरेक पन्तलराजसकाशादासादित केरलीयरिपि प्राय शुद् कमज्ञ । द्वितीय (आ. यकुटि) शक्तिशास्त्रिभ्योऽधिगतो पिरन थलिपि ख सज्ञ पूर्वरमा छुद्रतर फिश्चिम्यून । मणिदर्पणस्य प्रणेता श्रीराजघडामणिदीक्षित । एतत्प्रणीतस्य तन्त्र- शिखामणेनाम द्वादशलक्षणीविपरणस्य सप्तमादिनरमा-तान्यायात्मको भागोऽस्मा- भिरपलब्ध. अस्पारो- 'धी माये शक्स्याग्दे हायने चेश्वराभिधे । चूडामणिः क्लयत य ! तन्नशिखामणिम् ॥" इति पदन् राजघडामणिदीक्षित १५५० तमे काब्दे १६३६तमस्ता ब्दतुल्ये स्वस्य स्पिति स्पष्टोक्तवान् । एप तापूरमधिष्ठाय रघुनाथभूरे मही शासति रुक्मिणीकल्याण नाम काव्य निवस्त्धेति तस्य प्रथमसर्गे प्रतिपादि तम् । यथा -- अध्यास्य तज्ञानगरीममुग्मिन् । सर्वसहा शामति सार्वभौमे । श्रीराजचूडामणियायकश्चित्र निवाति हरेश्वरित्रम् ।।" इति । "अपीय निशिल शासमग्रजादीश्वरेष्टिनः । पिदुपा प्रीतो येन व्याकृता शास्त्रदीपिका ॥ यन विना विहितो येन तन्चशिखामणिः । ममा सङ्कर्षकाण्डस्य न्यायमुक्तावली तथा । + रघुनाथे
व्याहता यानुपी शाखा तथोपनिषदोऽसिलाः ।
प्रणीता चाग्निहोत्रादे प्रायश्चित्तमढीपिका ॥
न्यायचूडामणिनीना न्यायजालोपवृहिता ।
रचिदत्तस्य च व्याया रुचिरा येन निर्मिता
॥
मणिदर्पणनामान (1) महित वाड्मुख मणे ।
खण्डनयम्य दुर्गदिखण्डनाय व्यधत्त य ॥
येन शृङ्गारसर्वस्वनामा भाणोऽप्यमण्यत ।
यश्चैकाता भोजचम्पोयुद्धकाण्डमपूरयत् ।।
येन भारतचम्पुश्च वृत्ततारावली तथा ।
विहिते शङ्कराचार्यतारावल्याः सहोदरे ।।
सर्वत स्वत त्रस्य श्रीनिवासमखीशितु ।
कर्तुर्विश्वनितो येन तातस्य यमिता का ॥
रघुपीरस्य कृष्णस्य पाण्डवाना च य कथा ।
प्रत्यक्षरक्षेपमयै पद्येहृद्येरवर्णयत् ।।
यमित मजुनविष्का न सत्तापते क्या।
शङ्कराभ्युदयाभिख्य काव्य यनै निर्मितम् ॥
काव्य क्सवध रुक्मिण्युद्राहमपि यो व्यधात् ।
येनोदिता कमलिनीमलहंसाख्यनाटिका !!
आनन्दराघव नाम नाटक च प्रपञ्चितम् ।
येन व्यता-यलङ्कारचूडामण्यभिधा कृति ॥
अथ वृत्तिविवेकेन विचित्रा चिनमञ्जरी।
तेन व्यतानि श्रीर जडामणिमग्वीन्दुना ॥
काव्यदर्पणनामासौ प्रान्वो विदुपा मुदे ।'
इलोते-य काष्पदर्पणस्यातिमोकेभ्यो वयो प्रथा शाखदीपिकाच्याख्या-
अमृतय श्रीराजचूडामणिदीक्षितेन विरचिता विज्ञायते।
अनन्तशयनम्,
त. गणपतिशास्त्री
.
VIDYA BHA ॥ श्रीः॥ au 5. N.7.37 राजचूडामणिमखिकृतः मणिदर्पण ITBRI) शब्दपरिच्छेदः । सङ्गतिवादः। भश्रान्तमुत्युलकजालमजस्समाविस्स्वेदाविन्दुः सतता,निमीलिताक्षम् । नित्यं दरोग्यसितनीधि सदा सम्म श्यामारणं भवतु धाम शिवरं नः ॥ अपरित्या निरिक शाकामजदीक्षदेशिन राजघूमामगिमसी कुरते मणिदर्पणम् ॥ . अथ शक्तिग्राहकतयोपमानस्य शब्दोपजीव्यत्वादुश्मा- ननिरूपणानन्तरं शब्दो निरूप्यते । यद्यप्यतिदेशवाक्यरूपश- ब्दस्याप्युपमानोपजीव्यतं, तथापि मानविभाजकोपाध्ववच्छेदे- नोपजीव्यत्वस्यान प्रथमनिरूपणे तन्त्रत्वेन विवक्षितत्वात् । न चैवमनुमानवावच्छिन्नस्य स्वानुव्यवसायरूपप्रत्यक्षं प्रत्युपजी- व्यत्वादनुमाननिरूपणस्य प्रत्यक्षनिरूपणात् प्राथम्यं स्यादिति वाच्यम् । तथाप्यनुमानत्वावच्छिन्नस्य साक्षात् परम्परया वा प्रत्यक्षोपजीवकत्वमप्यस्तीति विनिगमनाविरहे सति बहुवादिस- म्मतत्वात् प्रत्यक्षस्य प्रथमनिरूपणम् । नन्वेवमुपमानत्वावच्छि- अस्योपजीव्यत्वेऽपि तदवच्छिन्नस्यातिदेशवाक्यरूपशब्दोपजीव- २ मणिदर्पणे - १ कत्वमप्यस्तीति विनिगमनाविरहे सति बहुवादिसम्मतत्वाच्छ- ब्दस्यैव प्रथमनिरूपणं स्यादिति चेद्, न । कीदग् गवय इति प्रश्ने चित्रलेख्यादिना गवयसदृशगोपिण्डदर्शनं यत्र, तत्र शब्द विनापि गोसदृशो गवय इति चित्रकाराभिप्रायमनुमायोपमान- प्रवृत्त्युपपत्तेरुपमानत्वावच्छिन्नस्य शब्दोपजीवकत्वाभावात् । न च 'शाब्दी ह्याकाक्षा शब्देनैव पूर्यते' इति न्यायात् तत्रा- प्याभिप्रायिकशब्दकल्पनमेब युक्तमिति वाच्यम् । एतावता शा- ब्दानुभवविषयपदार्थानां शब्दोपस्थाप्यत्वनियमेऽपि प्रश्नविपय स्य पदार्थस्य शब्दादेवोपस्थितिरिति नियमासिद्धेः । अत एव वहिप्रश्ने धूमोऽस्तीति वाक्यस्यानुमानिकवह्निपरस्य प्रयोगः । तस्माच्छब्दस्य बहुवादिसम्मतत्वेऽप्युपमानस्य मानविभाजको- पाध्यवच्छेदेन शब्दोपजीव्यत्वात् तन्निरूपणस्य शब्दनिरूपपात् प्राथम्यमिति दिक् ॥ इति सङ्गतिवाद । अथ शब्दस्वातन्यवाद। तत्र 'प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणमि' ति मणिकृतः । अत्र पदार्थतत्त्वज्ञानजन्ये वह्रिना सिदित्य- योग्यवाक्येऽतिव्याप्तिवारणाय प्रयोगहेतुभूतेति । वाक्यार्थतत्त्व. ज्ञानस्यैव प्रयोगरूपवाक्यहेतुत्वाद् वाक्यार्थतत्त्वज्ञानजन्यत्व- लाभान्नायोग्येऽतिव्याप्तिः । तत्र वाक्यार्थज्ञानस्य तत्त्वज्ञानत्वा- । १. 'यश' ख. पाठ.
शब्दपरिच्छेदे शब्दस्वातन्त्र्यवादः । भावात् । न चैवमपि पारमेश्वरवाक्यान्तरार्थविषयकतत्त्वज्ञाने- नायोग्यवाक्यजननादतिव्याप्तितादवस्थ्यमिति वाच्यम्। मीमांस- कमतसाधारण्याय भगवदनङ्गीकारेणैव तल्लक्षणप्रणयनात् । न चैवं शुकादिसंवादिवाक्याव्याप्तिरिति वाच्यम्। निरुक्तशब्दजा- तीयत्वस्य विवक्षितत्वात । साजात्यं च योग्यशब्दत्वेनेत्यदोषात् । न चैवं लक्षणशरीरप्रविष्टस्य योग्यशब्दत्वस्यैव लक्षणत्वसम्भवे किं पूर्वप्रतीकेनेति वाच्यम् । घटः कर्मत्वमानयनं कृतिरिति नि- राकाङ्क्षऽतिव्याप्तिवारणाय स्वप्रतिपाद्यवाक्यार्थतत्त्वज्ञानजन्य- त्वविशेषणस्यावश्यकत्वात् । निराकाङ्क्ष च स्वप्रतिपाद्यवाक्या- र्थाभावान्नातिव्याप्तिः। न च तस्यापि पुरुपविशेष प्रति बोधक- तया न तन्निराससम्भव इति वाच्यम् । तादृशस्य सङ्ग्राह्यत्वात् । न चैवमपि शुकादिवाक्यानुरोधेन पदावलिज्ञानमेव वाक्ये हेतु- न वाक्यार्थज्ञानमित्युत्पत्तिप्रामाण्यवादे व्यवस्थापितत्वात् तज्ज- न्यत्वगर्भमिदं लक्षणमसम्भवीति वाच्यम् । सम्प्रदायमतेनैतल्लक्ष- णप्रणयमादिति दिक् । भगवदगीकारपक्षे तु तज्जातीयत्वं न विवक्षणीयम् ।न च तथा सति शुकादिसंवादिवाक्येऽव्याप्तिरित्युक्तमिति वाच्यम् । तस्यापि स्वप्रतिपाद्यवाक्यार्थविषयकभगवत्तत्त्वज्ञानजन्यतया- व्याप्त्यभावात् । निराकाङ्क्ष च स्वप्रतिपाद्यवाक्यार्थाभावादेव नातिव्याप्तिः। पुरुपविशेष प्रति बोधकस्य तु तस्य सद्भाह्यत्वमेवे. १. 'तीतिक क. पाठ. २. 'ण्ये व्य' य. पाठ .
। मणिदर्पणे त्युक्तम् । यदि च तस्य प्रमाणत्वेनाव्यवह्रियमाणत्वान्न सङ्ग्राह्य- तेति मतं , तदा व्याकरणाघभियुक्तैः प्रमाणत्वेन व्यवह्रियमा- परेण शब्दपदेन तन्निरासः । न चैवं शब्दपदस्य लक्षणप्रवेशे प्रमाणमात्रं लक्ष्यं स्यादिति प्रत्यक्षादावव्याप्तिरिति वाच्यम् । का- काक्षिन्यायेन लक्ष्येऽपि शब्दपदान्वयात् । नन्वेवमपि मौनिश्लो- काव्याप्तिः, तस्यानुचारितत्वेन तादृशतत्त्वज्ञानाजन्यत्वादिति चेद्, न । मौनिश्लोकस्य यदि वाक्यत्वं, तदा वाक्यार्थज्ञानज- न्यत्वमक्षतं , वाक्यत्वस्यैव लाघवात् तजन्यतावच्छेदकत्वेन तदुच्चारितत्वस्य गौरवेण तदनवच्छेदकत्वात् । वाक्यत्वाभावे चालक्ष्यत्वेनाव्याप्त्यभावात् । केचित्तु-मौनिश्लोकस्यानुच्चारित- त्वेऽपि तडटकपदानां भिन्नभिन्नश्लोकान्तरघटकतया कदाचि- दुच्चारणात् , तेषां च मौनिवाक्यार्थज्ञानाजन्यत्वेऽपि भगवत्स्वा- र्थतत्त्वज्ञानजन्यत्वान्नाव्याप्तिरित्याहुः। नन्वेवं स्वपदान्तर्भावे ल. क्षणमिदमितरभेदसाधकं न स्याद् , अयोग्यवाक्ये स्वप्रतिपाद्य- वाक्यार्थतत्त्वज्ञानजन्यत्वाप्रसिया तगहासम्भवेन तत्र व्यतिरे- कव्याप्तिग्रहासम्भवादिति चेद् , न । स्वप्रतिपाद्यवाक्यार्थतत्व- ज्ञानजन्यत्वस्य योग्यवाक्ये प्रसिद्धस्याभावोऽयोग्यवाक्ये सङ्घ- ह्यत इति न व्याप्तिग्रहासम्भव इत्येके । न व्यावृत्त्यर्थमिदं ल- क्षणं, किन्तु व्यवहारार्थमित्यप्याहुः । न चैवमपि स्वपदान्त - वे लक्षणमिदमननुगतं स्यादिति वाच्यम् । इदं वाक्यमत्र प्रमा- णम् , इदं वाक्यमत्रेत्यननुगतस्यैव लक्ष्यत्वेन लक्ष्यस्याप्यननु- १. 'णत्वप' क. पाठ २. व्याप्तिपर स. पाठ शब्दपरिच्छेदे शब्दस्वातन्त्र्यवाद । . गततया लक्षणाननुगमरयादोपत्वादिति दिक् । अत्र सौगताः-शब्दो न प्रमाण, तस्मिन् सत्यपि प्रमानियमाभावाद् , अयोगव्यवच्छेदेन प्रमासम्बन्धिन एव प्र- माणत्वादित्याहुः । तन्न। चक्षुपि सत्यपि कदाचित् प्रमाया अ- जननात तस्यापि प्रमाणत्वं न स्यात् । सन्निकर्पादिसमवधाने ततः प्रमानियम इति यदि, तदाकाङ्क्षादिसमवधाने शब्दाद- पि प्रमानियमाच्छन्दस्यापि प्रामाण्यमक्षतमिति दिक् । वैशेपिकास्तु-आकाङ्क्षादिसहकारिसमवहितः शब्द- गोचरः प्रत्ययः प्रमाजनक इति सत्यम् । परं त्वनुमानविधया, न स्वातन्त्र्येण , कृप्तप्रमाणहयातिरिक्तप्रमाणकल्पने मानाभावात् । नच 'चाक्यश्रवणानन्तरभाविनी संसर्गप्रमा सकरणिका , प्रमा- वादित्यनुमानमेव मानमिति वाच्यम् । इयं ह्यनुमितिः संसर्ग- प्रमाकरणं विषयीकुर्वती कुप्तप्रमाणभावं लिङ्गज्ञानमेव तादृशप्र- माकरणत्वेन विषयीकरोति, न त्वाकाङ्क्षादिमत्पदकदम्बकज्ञा- नं, गौरवात् । तत्र संसर्गप्रमोपकमनुमानं चेत्थं ---गामानय दण्डेनेत्यादिपदानि तात्पर्यविषयस्मारितार्थसंसर्गज्ञानपूर्यकाणि, आकाङ्क्षादिमत्पदकदम्बकत्वाद् , घटमानयेति वाक्यवदिति । 'अत्र 'बाह्मणे विद्येत्यादौ सम्भवनियमादिरूपस्य संसर्गहयस्य सम्भवादनभिमतसंसर्गबोधवारणाय तात्पर्यविषयेति संसर्गवि- शेषणम् । अत्र यावत्त्वमपि संसर्गे विशेपणं देयम् । तेन यत्र १. 'वज्ञा' क. पाठः. २. 'मानुमाप' स्व. पाठः, ३. स्यार्थान्तरवा' क. पाठ मणिदर्पणे नानार्थस्थले युगपदुभयतात्पर्यग्रहः, तत्रान्यतरसंसर्गसिद्यापि साध्यपर्यवसानात् संसर्गान्तरसिद्धये शब्दप्रामाण्यमभ्युपेयमित्य- पास्तम् । इदं च तात्पर्यविषयत्वं पदार्थेऽपि विशेपणम् । तेन सैन्धवमानयेत्यत्र सैन्धवपदार्थसंसर्गमात्रस्य तात्पर्यविपयतया लवणसंसर्गपरे नाश्वादिसंसर्गसिद्धिप्रसङ्गः। धूमेनायं वह्निमनुमि- नोतीति तात्पर्येण प्रयुक्तं साक्षाद् धूमतात्पर्यकं परम्परया वह्निता- त्पर्यकं च धूमोऽस्तीति वाक्यं पक्षीकृत्य प्रकृतसाध्यसाधने पर- म्परया तात्पर्यविपयवहिसंसर्गज्ञानपूर्वकत्वसियापि साध्यपर्यव- सानाद् धूमसंसर्गसिद्धये शब्दप्रामाण्यं पृथगुपेयं स्यादित्यत उक्तं स्मारितार्थेति । इदं (वि ? तु) पदं वृत्त्या प्रकृतपदस्मारि- तार्थपरम् । तेन वढेरपि परम्परया प्रकृतपदस्मारितत्वेऽपि न वृत्त्या प्रकृतपदस्मारितत्वमिति न तत्संसर्गज्ञानपूर्वकत्वसिद्ध्या साध्यपर्यवसानम् । न च यावत्वस्यापि संसर्गविशेषणतया स्मा- रितपदाभावेऽपि न वह्निसंसर्गज्ञानपूर्वकत्वमात्रेण साध्यपर्यवसा- नं, येन स्मारितपदमावश्यकं स्यादिति वाच्यम् । तथापि धूमो- ऽस्तीति वाक्यपक्षौदनुमानादेव धूमसंसर्गवद् वह्निसंसर्गस्यापि वक्तुर भिमतस्य सिद्धिर्मा भूदित्येवमर्थ वृत्त्या प्रकृतपदस्मारित- त्वपरस्य स्मारितपदस्यावश्यकत्वात् । अत एव शब्दस्य पृथक् प्रामाण्याभावे शक्तिग्रहापेक्षा न स्यादित्यपास्तम् । वृत्त्या प्रकृ. तपदस्मारितत्वसिद्धये तदपेक्षणात् । ज्ञानपदं च प्रमापरम् । तेन . १. 'तपदार्थेति।प' ख. पाठः. २. "ध्या' क. पाठः. ३. 'ध्या' क. पाठः, १. 'कानु' ख. माठः ५. 'रामि क.पाठः. ६. स्यापि सि' क. पाठः शब्दपरिच्छेदे शन्दस्वातन्त्र्यवादः । तादृशभ्रमपूर्वकत्वसिद्धया नार्थान्तरम् । अत एव निष्कम्पप्रवृ- त्तिजनकमेव ज्ञानमिहोद्देश्य , नतु संसर्गज्ञानमात्रम् । तादृशं च ज्ञानं स्वविषयसंसर्गविपयकसंशयनिवर्तकमेव भवति । तादृशं च ज्ञान संशयसाधारणज्ञानपूर्वकत्वमात्रसिद्धया न सम्भवति, असत्यपि संसर्गे तज्ज्ञानपूर्वकत्वसम्भवेन प्रकृतानुमितेः स्व- विषयसंसर्गविषयकसंशयनिवर्तकत्वाभावात् । तस्मात् प्रवर्त- कीभूतार्थसंशयनिवर्तकज्ञानसिद्धयर्थ शब्दप्रामाण्यमभ्युपेयमि- त्यपारतम् । संसर्गप्रमापूर्वकत्वसिद्धौ प्रमाया अर्थसत्तानियत- त्वेन प्रकृतानुमितेः संसर्गविषयकसंशयनिवर्तकत्वसम्भवादिति दिक् । हेतौ चाकाङ्क्षादिमदित्यादिपदेन योग्यतासत्त्योः सङ्क- हः । तत्र अहो विमलं जलं नद्याः कच्छे महिपश्चरतीति वाक्ये नदीजलसंसर्गपरे नद्याः कच्छ इत्यंशे व्यभिचारः । तत्र योग्य- तासत्तिमत्त्वहेतोः सत्त्वात् । नदीकच्छसंसर्गस्य च वक्तृतात्पर्या- विषयत्वेन तात्पर्यघटितसाध्याभावात् । अत उक्तमाकाङ्क्षति । यद्यपि यत्पदस्य यत्पदव्यतिरेकप्रयुक्तं तदान्वितस्वार्थान्वयान- • नुभावकत्वं, तत् तेन साकाङ्क्षमित्युक्तलक्षणाकाङ्क्षा तत्रा- स्ति, तथापि यत्पदस्य यत्पदव्यतिरेकप्रयुक्तं तात्पर्यविपयान्व- याननुभावकत्वमिति तात्पर्यघटिताकाङ्क्षैव हेतुघटकत्वेन विव- १. 'च' स. पाठः. २. 'शज्ञा' क. पाठः, ३. 'त्रप्रसि' क. पाठः. १. 'या' ख. पाठः. ५. स्वात् । स. पाठः. ६. 'नाप्यस्ति' ख. पाठः. ७. 'यद्यति' क. पाठ..
, ८ मणिदर्पणे क्षिता । तत्रे नदीपदस्य तात्पर्यविषयजलान्वयाननुभावकत्वं न कच्छपदव्यतिरेकप्रयुक्तं, किन्तु जलपदव्यतिरेकप्रयुक्तमिति विव- क्षिताकाङ्क्षाविरहादभवतितेन तद्व्युदासः। योग्यतापदं चाका- क्षासत्तिमत्ययोग्यवाक्ये प्रमागर्भसाध्याभावेन व्यभिचारवार- णार्थम् । आसत्तिपदं चाजनितपदार्थस्मरणके योग्यसाकाक्षे स्मारितत्वरूपविशेषणाभावेन विशिष्टसाध्याभाववति वाक्ये व्य- भिचारवारणाय । तत्र यद्यप्यव्यवहितपदार्थस्मृतिरासत्तिः, तथा- प्यव्यवधानांशो न हेतुशरीरप्रविष्टः, पदार्थस्मृतिमात्रेणैवाजनि- तपदार्थस्मरणके वाक्ये व्यभिचारवारणात् । कदम्बग्रहणं चाका- क्षायाः परस्परपदार्थनिरूपितत्वप्रतिपादनार्थम् । एवञ्च,अहो वि- मलं जलमिति वाक्ये जलनदीसंसर्गपरे नद्याः कच्छ इत्यंशे व्यभि- चारः, न च तत्र तात्पर्यघटिताकाङ्क्षाभावेन हेतोरेवागमनान्न व्यभिचार इति वाच्यं , नदीपदस्य जलेन कच्छपदस्य महिपेण च तात्पर्यघटिताकाङ्क्षाया अपि सत्त्वेन हेतोस्तत्राप्रत्यूहत्वात् प्रकृतपदस्मारितपदार्थसंसर्गस्य तात्पर्याविपयत्वेन तात्पर्यघटित- साध्याभावादिति निरस्तम् । तत्र परस्परपदार्थनिरूपिततात्पर्य- घटिताकाङ्क्षाविरहात् । एवं यदर्थे योग्यता, तदर्थविप्यकासं- तिमत्त्वद्योतनार्थ च कदम्बग्रहणम् । तेन यस्य नीलघटत्वाब- च्छेदेन घटपदशक्तिभ्रमः , तस्य जनितनीलघटस्मरणके पीतघ- टबत्तया च योग्ये पीतघटतात्पर्यके च घटोऽस्तीति वाक्ये व्य- भिचारः । तत्रै स्मारितार्थसंसर्गस्य तात्पर्यविषयत्वाभावेन सा- १. 'तश्च न' स. पाठः. २. 'म्य' क. पाठ. ३. "त्तियो' क. पाठः, ४. 'त' का पाठ शब्दपरिच्छेदे शब्दस्वातव्यवादः । ध्यस्यासत्त्वादिति निरस्तम् । (तत्र) यत्र पीतघटे योग्यता, तत्रासत्तेरभावेने हेतोरेवागमनात् । एवं यदंशे तात्पर्यघटिताका. • ङ्क्षा, तदंश एवासत्तिमत्त्वद्योतनार्थं च कदम्बग्रहणम् । तेन नानार्थस्थलेऽर्थान्तरतात्पर्यके योग्यताविशिष्टार्थान्तरस्मृतिजनके व्यभिचारः, तत्र स्मारितपदार्थसंसर्गस्य तात्पर्यविषयत्वाभावे- नोक्तसाध्याभावादिति निरस्तम् । यदंशे तात्पर्यगर्भाकाङ्क्षा, तदंश आसत्तेरभावेन विवक्षितहेतोरेवाभावादिति दिक् । नन्वेवमप्यनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमेन ताशसंसर्गप्रमापूर्वकत्वत्वप्रकारकत्वमेव सिध्यति, न (चातु) रज- तत्वादिप्रकारकत्वम् । प्रवर्तकं च ज्ञानं रजतत्त्वादीष्टतावच्छेदक- प्रकारकमेव ज्ञानमिति तादृशज्ञानसिद्धये शब्दप्रामाण्यमावश्य- कमिति चेद्, न । तथापि 'रजतानयनादिपदार्थास्तात्पर्यविप. यमियःसंसर्गवन्तः, आकाङ्क्षादिमत्पदस्मारितत्वादिति पदार्थ- पक्षकानुमाने रजतत्वादेः पक्षतावच्छेदकतया रजतत्वादिप्रकार- कानुमितेरपि सम्भवात् । न च यत्र विमलं जलमित्य श्रुत्वैव नद्याः कच्छ इति शृणोति, तत्राकाङ्क्षादिमत्पदम्मारितत्वहेतो- स्तापर्यगर्भसाध्यव्यभिचारेण नानुमितिसम्भव इति वाच्यम् । .तथापि जलपदार्थोऽपरपदार्थसंसर्गवान् , तदाकाङ्क्षादिमत्पद- स्मारितत्वादित्यनुमितौ बाधकाभावात् । नन्वेवं, देवदत्तो गच्छतीत्यत्र गच्छतिपदार्थों गमनानुकू. १. 'ध्यास' ख. पाठ . २. 'म तत्र हे' क पाठ . ३. 'न ससर्गज्ञानपूर्व- फत्वप्रकारकज्ञानसिद्भावपि न प्रवृत्तिजनकप्रतिविषयविशेप्यकेप्टतावच्छेदप्रकार- झज्ञानसिद्धिरिति प्रवृत्तिजनस्तादृशज्ञा' क. पाठ . ४. 'वान्न शब्दप्रामाण्यम् ।
७ १० मणिदर्पणे लयत्नो देवदत्तविशेषणतया, तत्संसर्गश्च संसर्गमर्यादया भा. सत इत्यनुभवसिद्धम् । तच नानुमानविधया जनकले सम्भव- ति । अनुमितो संसर्गस्य व्यापकतया प्रकारत्वेन भाननियमा- दिति चेद् , एवम प्ययं पदार्थ इतरपदार्थवानिति तादृशसंसर्ग- प्रतीतिसम्भवात्। न चैवमपि यत्राकाङ्क्षादिमत्पदज्ञानं जातं;न तस्मारितत्वज्ञानं, तत्रापि संसर्गानुभयेन तत्रानुमितिसामग्री- विरहाच्छब्द एव प्रमाणमिति वाच्यम् । प्रमाणान्तरकल्पने गौ- रवेण शब्दस्यानुमानविधयैव बोधकत्वसिद्धौ स्मारितत्वाज्ञाने तादृशसंसर्गानुभवस्यैवासिद्धेः । अस्तु वा तत्रापि तदैनुभवः, तथाप्याकाङ्क्षादिमत्पदमेव वाच्यवाचकभावसम्बन्धेनार्थनिष्ठ- त्वाल्लिङ्गमस्त्विति न शब्दः पृथक् प्रमाणमित्याहुः । अत्रोच्यते-'अयं पदार्थ इतरपदार्थवान् , आकाङ्क्षादिम- त्पदवत्त्वादित्यनुमितावनभिमतसंसर्गमादायार्थान्तरवारणाय ता- त्पर्यविपर्यापरपदार्थसंसर्गवानित्येवानुमेयमित्यनुमितौ न संसर्ग- मर्यादया संसर्गस्य विषयत्वसम्भवः । किञ्च, घटोऽस्तीत्यादौ यो- ग्यतासंशयेऽपि संसर्गानुभवदर्शनेन योग्यताया न लिङ्गविशेप- णत्वं युक्तं, पक्षे निश्चित्तस्यैव लिङ्गस्यानुमितिहेतुत्वात् । अपिच, न केवलाकाङ्क्षादिज्ञानादनुमितिसम्भवः, व्यभिचारात्, कि- न्तु परस्परापेक्षाकाङ्क्षाज्ञानादित्युक्तं प्राक् । ततश्च घटमानये- त्यादौ केवलाकाङ्क्षादिक्षानेऽप्यर्थबोधाच्छब्दः प्रमाणम् । कि १. 'ते' ख. पाठ. २. 'च' ख. पाठ. ४. 'मिति' ख. पाठ. ५ 'यपदा' क. पाठ. ३. 'दननु' ख. पाठ.
, शब्दपरिच्छेदे शब्दस्वातन्ध्यवादः । बहुना , देवदत्तः पचतीत्यादौ देवदत्तविशेप्यिकैव प्रतीतिः, देवदत्तेन पच्यते तण्डुल इत्सव तण्डुलविशेप्यिकैव प्रतीतिरित्य- नुभवसिद्धम् । इदं च शब्दस्वातन्त्र्य एव सिध्यति , नान्यथा। देवदत्तः पचतीत्यत्र 'पचतिपदार्थस्तात्पर्यविषयदेवदत्तपदार्थसंस- गवानि'त्यमितिसम्भवात् । तस्माच्छब्दः पृथक् प्रमाणम्। एतेन पदात् पदार्थोपस्थितौ सत्यां मनसैव संसर्गधीरस्तु, उपनीत- भानसामग्रीसत्त्वादित्यपास्तम् । तथासति विशेषणविशेग्यभाव- नियमानुपपत्तेः । किञ्च , मनसो बहिरस्वातन्त्र्येण तादृशज्ञान- जनने किञ्चित् सहकारि कल्प्यम् । तच्च शब्द एव नान्यदिति दिक् । केचित्तु-अनुमानविधयैव शब्दप्रामाण्ये घटमानयेत्य- वेव घटः कर्मत्वमित्यत्रापि संसर्गाववोधः स्यात् । विभक्तिवि- शेपसमभिव्यवहारस्यानुपयोगादित्याहुः । नन्वेवमपि , शब्दो न पृथक् प्रमाणम् । तथाहि- सैन्धवमानयेति नानार्थस्थले आनय पदं लवणान्वितस्वार्थपर- मिति तात्पर्यग्रहोभावे तात्पर्यविषयलवणान्वयबोधनियमो न स्यात् अतस्तत्र तात्पर्यज्ञानस्यान्वयबोधहेतुत्वे कल्प्यमाने लाघवांच्छाब्दबोधत्वावच्छेदेनैव हेतुत्वं कल्प्यते , न तु नाना- र्थशब्दस्थलीयशाब्दबोधत्वावच्छेदेन, गौरवाद् , इति तात्पर्या- वच्छेदकतयैव संसर्गस्य तात्पर्यज्ञाने भानान्न शब्दः प्रमाणम् । ३. 'तसा' का पाठ १. 'नुभवा क. पाठ २. 'मा' क. पाठ.. १. 'नं लक. पाठ ५. 'हणाभा' क. पाठ.
. १२ मणिदर्पणे न चानयनपदं लवणान्वितस्वार्थपरमिति सामान्यतस्तात्पर्यग्रहः, शब्देन तु लवणानयनमंसर्गधीरिति न तात्पर्यन्यावन्छेदकतया प्रथमं ससर्गधीरिति वाच्यम् । अझैदीव्यतीत्युभयपदनानार्थम्य- ले दुरोदरकीडनसंसर्गपरमिदं वाक्यमिति विशेषतस्तात्पर्यग्रहो- ऽवश्यमङ्गीकार्यः । इतरथा दुरोदरैर्भासत इत्यनभिमतसंसर्गप्र. तीत्यापत्तेः । ततश्च शाब्दबोयत्वावच्छेदेनैव विशेषतात्पर्यग्रहो हेतुः , लाघवाद् , इति न शब्दस्वातन्त्र्यमिति चेद् , न । अझै- भव्यतीत्यत्राप्यक्षपद क्रीडनान्वितस्वार्थपरं, दीव्यतिपदं च दुरोदरान्वितम्बार्थपरमित्युभयतात्पर्यग्रहोऽपि विनिगमनाविरहेण हेतुः । टुरोदरक्रीडनसंसर्गस्तु वाक्यार्थ इति न शब्दस्वातन्त्र्य- विघातः। किञ्च , तात्पर्यावच्छेदकतया संसर्गभानेऽपि न तङ्गानं संसर्गग्रहविरोधीति न प्रवृत्तिजननक्षममिति स्वातन्त्र्येण संस- र्गभानार्थ शब्दप्रामाण्यमेष्टव्यम् । कि बहुना, तात्पर्याव- च्छेदकतया ज्ञातस्यैव संसर्गस्य बोधकत्वेऽपि धारावाहिकप्र- त्यक्षकरणस्य चक्षुप इव शब्दस्य प्रामाण्यमविरुद्धमिति दिक् । नन्वेवमपि, तात्पर्यावच्छेदकतया संसर्गग्रहे सति कथं शादधीः, सिद्धेः परोक्षजानत्वावच्छेदेन प्रतिवन्धकत्वादिति चेद् , न । प्रत्यक्षतो दर्शनेऽपि भूतले घटो घटवद् भूतलमिति . १ 'ह शाळयोधहेतु , न तु लवणानयनससर्गपरमिति' क. पाठ 'रित' क, पाठ, .
शब्दपरिच्छेदे आफादावादः । १३ वाक्यादर्थप्रतीतेरानुभविकत्वेन शान्दसिढेरेव प्रतिबन्धकत्वक- ल्पनात् । तस्माच्छब्दः पृथक् प्रमाणमिति सझेपः ।। इति शब्दस्यातम्यवाद । अथाकासावादः स च शब्द आकाङ्क्षादिमत्तया ज्ञात एवान्वयानुभव- जनक इत्याकाङ्क्षादिज्ञानमपि शान्दवोधे सहकारि । तत्र यस्य पदस्य यत्पदं विना स्वार्थान्वयानुभवजनकत्वाभावः, तस्य पदस्य तेन पदेन सह स एवान्वयानुभवजनकत्वाभाव आका- ह्ना । न चैवं घटः कर्मत्वमित्यत्रापि घटपदस्यानयनपदं विना- न्वयाननुभावकत्वात् तेन सह साकाङ्क्षता स्यादिति वाच्यम् । यस्य पदस्य यत्पदव्यतिरेकप्रयुक्तमन्वयाननुभावकत्वमिति वि. वक्षितत्वाद् । घटः कर्मत्वमित्यत्र नानयपदप्रयुक्तमननुभावक- त्वम् । • तस्मिन् सत्यप्यन्वयाननुभवात् । किन्तु स्वरूपायो. ग्यत्वप्रयुक्तमिति भवति तदव्युदासः । पदपदं च पदोपस्थि- तिपरम् । तेन स्वरूपसतः पदस्य स्वत एवाननुभावकत्वान्ने- तरपदव्यतिरेकप्रयुक्तमननुभावकत्वमित्यसम्भव इत्यपास्तम् । नं चैवमपि पटो भवतीत्यत्र पटपदस्य रक्तपदसाकाङ्क्षता पटपदोपस्थिते रक्तपदोपस्थितिव्यतिरेकप्रयुक्तत्वाद . स्थात, १. सवाश्यान्व' क. पाठ. २. 'याननुभव आ क. पाठ, ३. 'यनए' स, पाठ १४ मणिदर्पण २ रक्तपदार्थान्वितपटपदार्थान्वयाननुभावकत्वस्येति वाच्यम् । सम- भिव्याहृतेति यत्पदविशेषगाद् , रक्तपदस्य च समभिव्याहारा- भावान्न तत्पदेन साकाङ्क्षता । न चैवमपि पुरुपान्तरं प्रति जनितान्वयबोधस्य पुरुपान्तरं प्रति साकाङ्ता न स्याद् , अ- न्वयाननुभावकत्वाभावादिति वाच्यम् । यत्पुरुपीयेत्यन्वयानु- भवविशेषणात् । न चैवमपि घटः कर्मत्वमित्यभेदान्वयाननुभव- स्व कर्मत्वपदोपस्थितिव्यतिरेकप्रयुक्ततया क्रियाकर्मभावान्वयेऽपि साकाङ्क्षता स्यादिति वाच्यम् । यादृशेत्यप्यन्वयानुभवविशेष- णात् । न चैवमपि द्विर्जानीयामितीच्छायामेकान्वयवोधे सति निराकाङ्क्षतापत्त्या द्वितीयान्वयबोधो न स्यादिति वाच्यम् । सिद्धीच्छाविरहसहकृतत्यप्यन्वयानुभवविशेषणात् । एवञ्च यत्प- दोपस्थितेयत्तदोपस्थितिव्यतिरेकप्रयुक्तो यत्पुरुपीययादृशसिद्धी- च्छाविरहसहकृतान्वयानुभवजनकत्वाभावः, तत्पुरुपीयतादृश- सिन्हीच्छाविरहसहकृतान्वयानुभवे जनयितव्ये तत्पदोपस्थिते- स्तत्पदोपस्थित्या सह तत्पुरुषीयतादृशसिद्दीच्छाविरहसहकृता- न्वयानुभवजनकत्वाभावस्तत्पदोपस्थितिविपययोः पदयोराकाङ्- क्षेति लक्षणनिष्कर्षः। नन्वेवमपि , अयमेति पुत्रो राज्ञः पुरुपोऽपसार्यतामित्यत्र राजपदस्य पुरुपपदेन साकाङ्क्षता स्यात् । पुरुषपदार्थान्वित- स्वार्थाननुभावकत्वस्य पुरुषपदव्यतिरेकप्रयुक्तत्वादिति चेद् ,न । , २. 'द्विवजानी' क. पाठः, १. 'याननुमावकत्ववि' क. पाठ . 'त् । तत्पुरु' ख. पाठः शब्दपरिच्छेदे आकाशावादः । तात्पर्यग्रह इष्टत्वात् । तदग्रहे तु तदभावादेव न तदन्वितस्या- र्थबोधकतापत्तिः । नन्वेवं तात्पर्यग्रहस्य हेतुत्वे किमाकाङ्क्षा- ज्ञानेन । अयमेतीत्यत्र तात्पर्यग्रहाभावादेव पुरुषान्वयाननुभवो. पपत्तेः । घटः कर्मत्वमित्यत्रापि स्वरूपायोग्यतयैवान्वयाननुभव- सम्भवात् । जनितान्वयबोधे च वाक्ये परोक्षज्ञानत्वावच्छेदेना- नुमितौ सिद्धेः प्रतिबन्धकत्वकल्पनादन्वयानुभवस्यैव प्रतिबन्ध- कत्वादन्वयाननुभवोपपत्तेः। तस्मादुक्ताकाङ्क्षाज्ञानं न हेतुरिति चेद् , न । सिद्धेः प्रतिबन्धकतं न साक्षाद् , ग्राह्याभावानव- गाहित्वात् । ततश्च शाब्दज्ञानजनकीभूतान्वयानुभवाभावरूपा- काङ्क्षाज्ञानविघटकतयैव प्रतिबन्धकत्वं वाच्यमित्याकाङ्क्षाज्ञा- नस्य हेतुत्वमङ्गीकार्यम् । न च सिद्धौ जातायामपि तदनिश्चयेन सिद्ध्यभावज्ञानसम्भवात् सिद्धेः कथमाकाङ्क्षाज्ञानप्रतिबन्धक- त्वमिति वाच्यम् । योग्यानामात्मविशेषगुणानां स्वरूपसतां स्ववि- पयसंशयविपर्ययविरोधित्वात्। वस्तुतस्तु--यथानुमितौ सिद्धय- भावरूपा पक्षता स्वरूपसत्येव हेतुः, तथा शाब्दसिद्धयभावरू- पाकाङ्क्षापि स्वरूपसत्येव हेतुः । न चैवमाकाङ्क्षाभ्रमाच्छाब्द- ज्ञानानुपपत्तिरिति वाच्यम् । इष्टत्वात् । अत एव घटः कर्मत्व. मित्या स्वरूपायोग्यतेति दिक् । केचित्त-विभक्तिविशेषवत्पदसमभिव्याहार एवाकाङ्क्षा । सा च न स्वरूपसती हेतुः । पदान्तरसमभिव्याहारेऽपि तदश्र- वणेऽन्वयबोधादर्शनात् , पदान्तरसमभिव्याहारेऽपि विभक्ति- . १. "तं तदाका' ख. पाठ .
मणिदर्पणे विशेषाभावेऽन्वयबोधाभावाच्च । (तस्मात्) तादृशाकाक्षाज्ञानं हेतुरित्याहुः ॥ इत्याकाशावाद । अथ योग्यतावादः। योग्यता च वाक्यार्थरूपा । सा च न स्वरूपसती हेतुः । प्रत्यक्षातिरिक्तज्ञानस्य विपयाजन्यत्वाद् , अतीतादिस्थले बा- क्यार्थरूपायास्तस्या अभावाच्च । किन्तु संशयसाधारण्येन त- ज्ज्ञानमेव हेतुः । अत एव योग्यताभ्रमान्छाब्दभ्रमः । किञ्च, शाब्दप्रमात्वावच्छेदेनानुगतम्य गुणान्तरस्याभावेन योग्यताप्र- माया एव गुणत्वेन हेतुत्वसिद्धौ ‘यहिशेपयोः कार्यकारणभावः, बाधकं विना तत्सामान्ययोरपी ति न्यायेन योग्यताज्ञानत्वेन शाब्दज्ञानत्वेन (च) हेतुहेतुमद्भावकल्पनात् । न च योग्यतासं- शयस्यापि हेतुत्वे तस्य भ्रमतया न शाव्दप्रमायां तस्य गुण- स्वसम्भव इति वाच्यम् । सशयस्याप्येककोटौ प्रमात्वेन गुण- त्वसम्भवात् । न वाक्यकारणीभूतवाक्यार्थप्रमैव गुणः । शुकादिवाक्येऽप्यैश्वरस्य तस्य सत्त्वात् । अतो न गुणानुरोधेन योग्यताज्ञानहेतुत्वसिद्धिरिति चेद् , न । फलोपपादकं हि फला- श्रय एव कल्पयितुं युक्तम् । अत एव स्वर्गोपपादकमदृष्टं स्व- २. 'ण त' क पाठ १. 'न्तु तत्सश ख पाठ ४. 'च' ख. पाठ. ३. 'च' ख. पाठ.
, . शब्दपरिच्छेदे योग्यतावादः। श्रिय आत्मन्येव कल्प्यते । ततश्च शाब्दप्रमाश्रयगतस्यैव योग्यताज्ञानस्य गुणत्वकल्पनं युक्तम् । अत एवायोग्यताज्ञा- नस्य प्रतिबन्धकतया तदभाव एव हेतुः, विशिष्टज्ञानत्वावच्छे- देनासंसर्गाग्रहस्य हेतुत्वकल्पनाद् , न तु योग्यताज्ञानं हेतुरि- त्यपान्तं, गुणत्वानुरोधेन योग्यताज्ञानस्य हेतुत्वावश्यम्भा- वात् । किञ्च शाब्दबोधहेतौ पदज्ञाने विषयतयो योग्यताया अवच्छेदकत्वनाबकल्पनं युक्तं, न त्वभावस्य हेतुत्वकल्पनं , गौरवात् । अत एवेष्टपुरोवर्तिज्ञाने प्रवृत्तिहेतौ विपयतया वैशिष्ट्यमवच्छेदकं कल्प्यते, न तु भेदाग्रहरूपहेत्वन्तरमिति दिक् । मणिकृतस्तु-एकपदार्थसंसर्गेऽपरपदार्थनिष्ठात्यन्ताभा- वप्रतियोगित्वप्रमाविशेष्यत्वाभावो योग्यतेत्याहुः । नन्वत्रैकेति किं पदविशेषणमुत पदार्थविशेषणम् । नायः। गच्छतीत्यादौ लडर्थकृतिवर्तमानत्वयोभिन्नपदोपस्थाप्यत्वाभावेन योग्यताविर- हादन्वयबोधो न स्यात् । न द्वितीयः। प्रमेयत्वे प्रमेयत्वमि- त्यत्र पदार्थभेदाभावेन योग्यता न स्यादिति चेद्, न । एकप- दार्थसंसर्गे तदाश्रयत्वाभिमतनिष्टत्वस्य विवक्षितत्वात् । अत्र च. शब्दवदाकाशमित्यत्राकाशरूपपदार्थस्य शब्दरूपपदार्थनि- ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वाद् योग्यता न स्यादि- त्यत उक्तमेकपदार्थसंसर्ग इति । ततश्चाकाशसंसर्गः शब्दे ने- . १. 'स्वैव गु' क. पाठः. २. 'या अख. पाठः, M.
१८ मणिदर्पणे त्यप्रतीतेराकाशसंसर्ग शब्दनिष्ठात्यन्ताभावप्रतियोगित्वप्रमावि- शेप्यत्वाभावसत्त्वान्न तत्र योग्यताविरहः । ननु वृक्षः संयोगी- त्यत्र संयोगसंसर्गस्य वृक्षनिष्ठात्यन्ताभावप्रतियोगित्वादव्याप्तिः। न च संयोगसंसर्गरूपस्य समवायस्य वृक्षे सत्त्वान्न तन्निष्ठाभा- वप्रतियोगित्वमिति वाच्यम् । एवं सति वायू रूपवानित्यपि योग्यं स्यात् । यदि च समवायस्यैकत्वेन वायौ रूपसमवायस- वेऽपि रूपनिरूपितसमवायो नास्त्येवेति रूपसंसर्गस्य वायुनि- ठात्यन्ताभावप्रतियोगित्वमेवेति नातिव्याप्तिः। तर्हि वृक्षेऽप्य- ग्रावन्छेदेन संयोगनिरपितसंसर्गाभावात् संयोगसंसर्गस्यापि वृक्षनिष्ठात्यन्ताभावप्रतियोगित्वादव्याप्तिरिति चेद् , न । अत्य- न्ताभावैपदस्य विरोधिपरत्वात् । विरोधित्वं च प्रतियोग्यसमाना- धिकरणत्वम् । संयोगसंसर्गौत्यन्ताभावश्च प्रतियोगिसमानाधि- करण एवेति तादृशात्यन्ताभावप्रतियोगित्वेऽपि संयोगसंसर्गस्य नाव्याप्तिः । न चैवमपि गन्धप्रागभावविशिष्टो घटो गन्धवानि- त्यत्रातिव्याप्तिः, गन्धप्रागभावस्यापि प्रतियोगिसमानाधिकर- णत्वेनाविरोधितया गन्धसंसर्गस्य घटनिष्ठप्रागभावप्रतियोगित्वे- ऽपि विरोध्यप्रतियोगित्वादिति वाच्यम् । एककालावच्छेदेन-प्र- तियोग्यसमानाधिकरणत्वस्यैवान विरोधित्वेन विवक्षितत्वात् । गन्धप्रागभावश्च तादृश इति तत्प्रतियोगित्वाद् गन्धसंसर्गस्य, १. 'त्याका' ग पाठ. २. 'र्ग या' ख. पाठ ३. 'वप्रतियोगित्वे प क. पाठ ४. स्यात्य' ग. पाठ. 'पि ससक पाठः, क पाठ. ७. 'णस्यै' स पाठ शब्दपरिच्छेदे योग्यतावाद । १९ नातिव्याप्तिः। संयोगसंसर्गात्यन्ताभावस्वेककालावच्छेदेन प्र. तियोगिसमानाधिकरणत्वान्न विरोधीति नत्प्रतियोगित्वेऽपि सं- योगसंसर्गस्य, नाव्याप्तिः । न चोक्ताभावप्रतियोगित्वाभाव इ- त्येवारित्वति वाच्यम् । यन्मते प्रमात्वग्रहः प्रतिबन्धकस्तन्मते- नास्य लक्षणस्योक्तत्वात् । न चैवमपि सेकससर्ग आकाशश्च जलनिष्ठात्यन्ताभावप्रतियोगिनाचित्यत्राकाशाशे प्रमारूपबुद्धि- विशेष्यतया सेकसंसर्गस्य, जलेन सिञ्चैतीत्यत्राव्याप्तिरिति वाच्यम् । यत्पैदार्थसंसर्गे तादृशप्रमाविशेष्यत्वाभावः, तदंशे योग्यतेति विवक्षितत्वात् । एवञ्चांशभेदप्राप्तये एव विशेप्यपद- मुपात्तमिति न तद्वैयर्यमिति दिक् । इयं च योग्यता स्वरूपसत्येव हेतुः । न यतीतादौ वा- क्यार्थरूपयोग्यतावदुक्ताभावरूपयोग्यतापि नास्ति , येन तज्ज्ञा- नपर्यन्तापेक्षा स्यात् । एतेनैतद्योग्यताज्ञानाभावेऽप्येकपदार्थसं- सर्गेऽपरपदार्थनिष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वप्रमाविशे- प्यत्वाभावरूपाया अन्योन्याभावगर्भयोग्यताया ज्ञानेऽपि शाब्द- बोधो न स्याद् , विनिगमनाविरहाद् हयोरपि प्रत्येक हेतुत्वे चानंनुराम इत्यपास्तम् । अत्यन्ताभावान्योन्यामागर्भयोग्यता- दीनां स्वरूपसतीनामेव हेतुत्वाद् गुणत्वाञ्चेति दिक् । केचित्त धनजितस्थलेऽनुमितिवदाकरिमकपदश्रवणमात्रादन्वयानुभवाद् वाक्यार्थरूपयोग्यताज्ञानमपि न हेतुः, किन्तु गुरुरप्ययोग्य- १. 'मान' क. पाठ. २. 'श्वेत्य' क पाठ ३. 'यत्स' क. पाठ ३. जि' ख. पाठ. ५. 'वादिग' क. पाठ. ६. 'पादियो' स. पाठ मणिदर्पणे तानिर्णयाभाव एव हेतुरित्याहुः ॥ इति योग्यतावाद। अधासत्तिवादः। ३ 'आसत्तिश्चाव्यवधानेनान्वयप्रतियोग्युपस्थितिरिति मणि- कृतः । गिरि(क्तमग्निमान् देवदत्तेनेत्यनासन्नवाक्येऽप्यव्यवधा- नेनारित पदार्थोपस्थितिरित्यतिव्याप्तिनिरासायान्वयप्रतियोगीति । तत्र च परस्परान्वययोग्ययोः पदार्थयो व्यवधानेनोपस्थितिरिति भवति तद्व्युदासः । तावन्मानं च तत्रैवातिव्याप्तमित्यव्यव- धानेनेति । अव्यवधानं च परस्परान्वयधीविरोधिपदार्थोपस्थि- तिव्यवधानाभावः । तेन "वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥" इत्यादौ परस्परान्वययोग्ययोः वागर्थाविव सम्पृक्तौ पार्वतीपरमे- श्वराविति पदार्थयोरव्यवधानेनोपस्थित्यभावेऽपि नाल्याप्तिः । नन्वेवमामत्तिज्ञानं हेतुरिति सिद्धान्तविरोधः, पदार्थोपस्थितिज्ञा- नस्यान्वयबोधाहेतुत्वादिति चेद् , अत्राहुः-अन्वयप्रतियोगि- नोरुपस्थितिरनेनेति व्युत्पत्त्याव्यवधानेनान्वयप्रतियोग्युपस्थि- सनुकूलतात्पर्यस्यैवासत्तित्वेनाभिमतत्वात् । शुकादिवाक्येऽपि . . १. 'श्च' स. पाठ. .. 'क्येऽन्य' क. पाठ . ३. 'धी पक. पाठ .
शब्दपरिच्छेदे मासत्तिवाद। भगवत्तात्पर्यसत्त्वान्नाव्याप्तिः । न चैवमासत्तिभ्रमस्थलेऽपि भग- वत्तात्पर्यसत्त्वादतिव्याप्तिरिति वाच्यम् । तत्रानासन्नत्वव्यवहा- रेण तदिच्छाया अव्यवहितत्वप्रकारकत्वानवधारणादिति दिक् । वस्तुतस्तु एतादृशतात्पर्यज्ञानस्य प्रकरणादिवद् वाक्यार्थतात्प- र्यग्रह एवोपयोगो नान्वयबोधे , वाक्यार्थतात्पर्यग्रहे सत्येतद्वि- लम्बेनान्वयबोधविलम्बाभावात् । तस्मादव्यवहितान्वयप्रतियो- ग्युपस्थितिरेवासत्तिः । सा च खरूपसत्येव हेतुरिति दिक् । . १ ननु प्रत्येकवर्णानुभवजनितसंस्कारैः प्रत्येकवर्णस्मृतिरेव भवति , न वर्णसमुदायात्मक(पद)ज्ञानम् । तदभावाच्च न पदा- र्थस्मृतिरिति कथमासत्तेरन्वयबोधाङ्गत्वमिति चेद् , न । तत्तह- र्णानुभवजनितसंस्कारसचिवेनान्तिमवर्णश्रवणेन ताबहर्णात्मक- पदानुभवस्य ततोऽर्थस्मृतेश्चाविरोधात् । नन्वेवमप्युत्तरोत्तरप- दार्थस्मृत्या पूर्वपूर्वपदार्थस्मृतिनाशादेकदा तावत्पदार्थस्मृत्यभा- वेन तावत्पदार्थसंसर्गबुधसंभवेन कथमासत्तेरन्वयबोधाङ्गत्वमिति चेद्, न । तत्वत्पदानुभवजनितसंस्कारैरेकदा तावत्पदरमृत्या • युगपत् तावत्पदार्थोपस्थितावन्वयबोधाविरोधात् । नन्वेवमपि त्रिचतुरंपदार्थस्मृत्यौवान्तवाक्यार्थबोधे पुनरप्येवमयान्तरवा- क्यान्तरार्थबोधे च जाते तदुभयवाक्यार्थस्मृत्यों महावाक्यार्थबो- धसम्भवात् तावत्पदस्मृतिपूर्वकतावत्पदार्थस्मृतिकल्पनं कि- ~ १. 'तेरप्यवि स्व. पाठः, २. 'मुत्त' ख. पाठः. ३. 'त्या वाक्या' क. ४. 'त्या' ख. पाठ पाठ.
२२ . मणिदर्पणे मर्थमिति चेद् , न । पदविशेषजन्यपदार्थोपस्थितेरेबान्वयवोधा- ङ्गत्वात् तथाकल्पनावश्यम्भावात् । यत्र तु श्रीः स्तोदित्येकैक- वर्णात्मकमेव पदद्वयं , तत्र प्रथमपदप्रत्यक्षानन्तरं द्वितीयपदप्र- त्यक्षम् । ततो विनश्यदविनश्यदवस्थाभ्यां पदानुभवाभ्यां युग- पत् पदार्थस्मृतिः। तथा च स्मृत्यान्वयधीसम्भवान्न समूहाल- म्बनस्मृत्यपेक्षेति दिक् ॥ इत्यासत्तिवादः। अथ शब्दाध्याहारवादः। ननु यदुक्तं पदविशेपजन्यपदार्थोपस्थितेरेवान्वयवोधा- ङ्गत्वात् तावत्पदस्मृतिरावश्यकीति, तद्युक्तम् | पदार्थोपस्थि- तिमात्रस्य लाघवेनान्वयबोधाङ्गत्वात् । अत एव द्वारमित्यादी न पिधेहीति पदाध्याहारः, किन्तु तदर्थस्यैवाध्याहारः । न चैवं घटः कर्मत्वमानयनं कृतिरित्यत्रापि पदार्थोपस्थितिसत्त्वेनान्वय- बोधः स्यादिति वाच्यम् । तावता विभक्तिविशेषासमभिव्याहृत- पदाजन्यपदार्थोपस्थितिरन्वयबोधामस्तु । तादृशोपस्थितिश्चा- Kध्याहारेऽप्यविकला । न चैतदपेक्षया विभक्तिविशेपसमभि- व्याहतपदजन्यपदार्थोपस्थितेरेव लाघवादन्वयबोधाङ्गत्वं युक्त- मिति नार्थाध्याहार इति वाच्यम् । एवमपि विभक्तिविशेषस- १. 'स्या' ख. पाठः. २. 'मप्र ख. पाठः, ४. 'तेक. पाठा. ५. 'ङ्गत्वम' क. पाठः. ३. 'ताज' क. पाठ..
शब्दपरिच्छेदे शब्दाध्याहारवादः । , २ मभिव्याहतपदत्वेनान्वयानुभावकत्वमङ्गीक्रियताम् । तत एव घटः कर्मत्वमित्यनान्वयबोधापत्तिवारणात् । न तु पदविशेषज. न्यपदार्थोपस्थितेरप्यन्वयवोधाङ्गत्वं, गौरवात् । पिधेहीत्यत्रापि विभक्तिविशेपसमभिव्याहृतं पिधेहिपदमेवाध्याहृतद्वारपदार्था- न्वितस्वार्थानुभावकं , पदानामुपस्थितपदार्थान्तरान्वितस्वार्थातु- भावकत्वव्युत्पत्तेः । अत एव गङ्गायां घोष इत्यत्र लाक्षणिकमननु- भावकमिति मते घोपपदस्यैव तीरान्वितस्वार्थानुभावकत्वमिति सिद्धान्तः । न चैवं गङ्गापदे लक्षणा न स्यात्, परम्परयोपस्थित. स्यापि तीरस्यान्वयबोधोपपत्तरिति वाच्यम् । विभक्तेः प्रकृत्य- न्वितस्वार्थबोधकत्वव्युत्पत्तेः सप्तम्यर्थाधारत्वान्वयार्थ तत्र ल. क्षणावश्यकत्वात् । अत एवाकाशे शब्द इत्यत्राकाशपदात् समवायसम्बन्धेनोपस्थितस्योप्याकाशरयान्वयानुभवविषयत्वस- म्भवादाकाशपदे शक्तिर्न स्यादित्यपास्तम् । तत्रापि विभक्य- न्वयार्थ शक्तरावश्यकत्वात् । न चैवमपि पुप्पेभ्य इत्यत्र स्ट- हयतिपदाध्याहार आवश्यकः, स्पृहयतिपदयोग एव चतुर्थ्या अनुशासनेन साधुत्वात् । तदर्थयोगेऽपि साधुत्वे पुष्पेभ्य इच्छ- तीत्पपि स्यादिति वाच्यम् । तावता कचित् साधुत्वार्थ पदा- ध्याहारेऽप्यन्वयानुभवाथै न तदपेक्षेत्यन्यन्त्रााध्याहार एव युक्त इति चेद, अनोच्यते---यदि विभक्त्यादिसमभिव्याहतं पदमेव २. 'ति' क. पाठः. ३. 'स्या का' क. पाठः, १. 'देन ल' स. पाठ ५. 'थं तदनपे' ख. पाठः.
माणदपण तन्त्रं, तदा घटमानयनं कृतिरित्यत्राप्यन्वयानुभवः स्यात् । तत्रापि घटमिति विभक्तिविशेषसमभिव्याहृतपदस्य सत्त्वात् । अतो विभक्तिविशेषसमभिव्याहतपदविशेषजन्यपदार्थोपस्थिते- रप्यन्वयवोधाङ्गत्वमेष्टव्यामिति नार्थाध्याहारः। न चैवं मीमांस- केन पिवेहीयुक्ते नैयायिकस्य द्वारामिति पदाध्याहारो न स्याद् , वक्तृतात्पर्यविषयीभूतं पदं नेति निश्चयेन तत्कल्पनासम्भवादिति वाच्यम्। तत्रापि पिधेहिपदं द्वारान्वयबोधानुकूलोपस्थितिमद- भिहितमिति सामान्यतः पदजन्योपस्थितेरनुमानसम्भवात् । समानप्रकारकवाधस्यैव प्रतिबन्धकतया पदजन्योपस्थितित्वप्र- कारे (2) सत्यपि सामान्यतस्तदनुमित्यविरोधात् । न चैवमपि द्वारादिपदार्थवाचकपदानामनेकत्वेन पदविशेपाध्याहारे माना- भाव इति वाच्यम्। संस्कारोबोधवशेन कदाचित् कस्यचिद्ध्या- हारेण ततोऽर्थोपस्थित्यविरोधादिति दिक् ॥ इति शब्दाध्याहारवाद । " अथ तात्पर्यवादः एवं तात्पर्यज्ञानमपि शाब्दबोधे हेतुः। अन्यथा नाना- र्थस्थले विनिगमनाभावापाताद, गङ्गायां घोष इत्यत्र तात्पर्यो- ग्रहे गङ्गापदमेव लक्षकं न घोषपदमिति लक्षकपदनियमानुपप- तेश्च । तथा घोपाधारतायोग्यँतीरव्यतिरिक्तनिबिडद्रव्यान्तरल- १. 'क्तिस' ख. पाठ २. 'नशा' स. पाठ ३. 'र्यग्रहणे ग' क. पाठ. १. पयनि' क. पाठ.
क्षणयाप्यन्वयानुपपत्तिशान्तेर्लक्ष्यनियमानुपपत्तेश्च । न च तद- र्थप्रतीतीच्छयोच्चरितत्व तात्पर्य मौनिश्लोकादा ग्रहीतुमश- क्यमिति वाच्यम् । तदर्थप्रतीतीच्या प्रतिसन्धीयमानत्वस्यैव तात्पर्यत्वात् । तच भगवत्तादृशेच्छाजन्यशुकादिप्रतिमन्धानवि- पयत्वेन शुक्रादिवाक्येऽप्यक्षतमिति न तदौर्भिक्ष्यमिति दिक् । नन्वेवं यत्र नानार्यस्थले बत्तुरुभयान्वयबोधे तात्पर्य श्रोतुथोभयत्र तात्पर्यग्रहः, तत्रोभयान्वयबोधापत्तिः । न चेष्टाप- त्तिरिति वाच्यम् । सकृदुच्चरितस्य शब्दस्य सकृदर्थ प्रत्यायकत्व- व्युत्पत्तेः, एक पदमेकडैकमर्थमेवानुभावगतीति व्याप्तेश्च । न च पुष्पव॑न्तादिपदे व्युत्पत्तिव्याप्त्योर्व्यभिचार इति वाच्यम । एक- शक्त्यानेकोपस्थापकपदातिरिक्तस्थले तथापि व्यभिचागभावाद्, इति चेद् , अन प्रान्च:-~ -उक्तव्युत्पत्तिव्याप्तिस्पविशेषदर्शना- न्न वक्तस्तथा तात्पर्य , न वा श्रोतुस्तया तात्पर्यज्ञानमित्याहुः । तयुक्तम् । विशेषदर्शनशून्यस्यलेऽन्य वक्तः श्रोतुश्च तथा ता- त्पर्यस्य 'तज्ज्ञानस्य च सम्भवार्दुत्तो भयान्वयबोधस्यानिवार्य- स्वाद , गङ्गायां मत्स्योपावित्वन कमेणान्वबोधे विनिगमना- विरहेणोभयान्वयबोधस्य युगपदङ्गीकार्यतया व्युत्पत्तिव्याप्योर. सिद्धेश्च । तस्मादुभयनात्पर्यग्रह उभयान्वयबोधो नानिष्ट इति नव्याः ।। इति तावर्यबाट । १. 'पदादि' क. पाठ, २. 'दे उम व्यु' स. पाट पाठ.
गणिवर्षण - अब गन्नानित्यत्ववादः। । नन्वेवमपि न वक्तृतात्पर्याधीनं सर्वत्र शमामाण्यम् । वेदस्य नित्यत्वेन तत्र बत्तुरभावात् । न च तस्य नित्यत्वमसि- द्धं , वर्णानामनित्यत्वेन तत्समुदायात्मकवेदस्याप्यनित्यत्वादिति वाच्यम् । स एवायं गकार इति प्रत्यभिज्ञया गकारादत्ताव- कालावस्थानसिद्धौ तन्नाशकाभावेन नित्यत्वसिद्धेः । तदुक्तं - 'तावत्कालस्थितं चैनं कः पश्चान्नाशयिप्यतीति । न चेयं प्र. त्यभिज्ञा तज्जातीयत्वविषयिणीति वाच्यम् । व्यत्यभेदविषयत्वे वाधकाभावात् । न च गकार उत्पन्न इत्याधुत्पत्तिविनागप्रत्यय एव बाधक इति वाच्यम् । उत्पादादिप्रतीतेर्व्यञ्जकध्वन्यायुत्पा- दाद्यारोपरूपत्वात् । न च प्रत्यभिज्ञायास्तज्जातीयाभेदविषयत्व- मुत्पादादिप्रतीतरप्युत्पादादिविषयत्वमित्युभयोरनारोपरूपत्वे स- म्भवत्युत्पादादिप्रतीतेरारोपरूपत्वकल्पनमयुक्तमिति वाच्यम् । तर्तुत्पादादिप्रत्ययस्य परम्परया व्यजकोत्पादादिविषयत्वमन्तु , तावताभ्युभयप्रमात्वसिद्धेः । तस्माद् वर्णा नित्या इति वेदे वक्तुरभावान्न वक्तृतात्पर्याधीनं सर्वत्र शप्रामाण्यमिति चेद्', न । एवमपि विनिगमनाविरहान्न वर्णानां नित्यत्वसिद्धिः । प्रत्युतोत्पादादिप्रत्ययस्य परम्परया ध्वन्यायुत्पादादिविषयकत्वे १. 'पि व क. पाठ . २. 'ल क. पाठ. ३. 'च' . पाठ. ४. 'या' स. पाठ. ५. 'म् । वर्गामे क. पाठः ६. 'ते खुत्वा' स. ७. 'द' क. पाठ: पाठ.
सब्दपरिच्छेद गळानित्यवाद । " , परम्पराघटकतया ध्वन्यादेरपि तत्प्रतीतिविपयत्वं कल्प्यम् । प्रत्यभिज्ञायास्तु तज्जातीयाभेदविषयत्वे च गत्वं गकारोऽभेनश्च विषय इति नातिरिक्तविषयकल्यनम् । नचैवं विषयभेदाभावे कचित् सोऽयमिति , कचिच तज्जातीयोऽवमिति धरित्यत्र किं नियामकमिति वाच्यम् । यत्र जातेः स्वरूपेण प्रतीतिस्तत्र सो- ऽयमिति धीः , यत्र तु जातिवप्रकारकतत्त्रतीतिस्तत्र तज्जाती- योऽयमिति धीरिति गृहाण । किञ्च , सैवेयं गुर्जरीति प्रत्यभिज्ञ- या ध्वनिरपि नित्यः स्यात् । यदि च तदुत्पादादिप्रत्ययस्य त. यसकयलाधुत्पादादिविषयकत्वकल्पने गौरवात् सा प्रत्यभिज्ञा तज्जातीयत्वविपया, तदा प्रकृतेऽपि वीयतां दृष्टिः । अपिच तारत्वमन्दत्वरूपविरद्वजातिमत्वमेकस्य गकारस्य न सम्भव- तीति प्रत्यभिज्ञायारतजातीयत्वविपयकत्वकल्पनमेव युक्तम् । ननु तारत्वमन्दत्वे न जाती, गत्वादिना साङ्कर्यप्रस- ङ्गात् । किन्तूपाधी । उपाध्योश्च पररपरपरिहारेण वर्तमानयोरपि भूतत्वमूर्तत्वयोरिकत्र समावेशो न विरुद्ध इति चेद् , न । उत्कीपकपरूपतया तारत्वमन्दत्वयोर्जातित्वसिद्धौ साकर्यप- रिहाराय गत्यादिव्याप्ययोत्तयो नात्वकल्पनात् । न चैवमन- नुगम इति वाच्यम् । सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेद- कत्वेन तारत्वस्य , सजातीयसाक्षात्कारप्रतिबन्ध्यतावच्छेदकत्वेन . १. 'त्वेऽपि ग ख. पाट . २. "क' क. पाट. ३. 'यत्वक फ. पाठ ४. कोस. पाट. ५ 'तबदु' स. पाठ. ६. 'कायु' क पाट . ७. नागौः स.पाठः. ८. सक, पाठ. .
२८ 1 मणिदर्पण मन्दत्वस्य चानुगमात् । एतेन तारत्वादेर्जातित्वेऽस्मादयं तार इति सावधिकत्वं न स्यादित्यपारतं, तादृशोपाधेरेव सावधिक- त्वात् । किंबहुना, मध्यमगकारे पूर्वगकारापेक्षया तारत्वमुत्त- रंगकारापेक्षया च मन्दत्वमनुभूयते । तथाच पूर्वापरगकारयो- मध्यमगकारस्य चैश्ये स्वस्मिन् स्वप्रतियोगिकयोस्तारत्वमन्द- त्वयोर्विरोधाद् गकारभेदोऽवश्यं वाच्यः । तथा प्रतिपुरुपं गका- रादिलक्षण्यमनुभवसिद्धम् । अन्यथा देवदत्ताद्यनुमानं शब्द- विशेपान्न स्यात् । अतः प्रतिपुरुपं गकारभेदोऽङ्गीकार्यः । न चैवं प्रतिपुरुपं गकारभेदे देवदत्तप्रभवत्वानुमापकजाति विना गत्व- स्य पुरुषान्तरगकारे वृत्तेः, गत्वं च विना तादृाजातेवदत्त- धैकारे वृत्तेईयोश्च देवदत्तगकारे समावेशाजातिसाकर्य स्यादिति वाच्यम् । प्रतिपुरुपं गत्वादिजातेरपि नानात्वकल्पनादिति दिक् । तस्माद् वर्णानामनित्यतया बेदस्याप्यनित्यत्वात् तत्रापि वक्तृतात्पर्याधीनमेव प्रामाण्यमिति वेदतात्पर्याश्रयतयापि भगव- रिसद्धिरिति दिक् ॥ इति शन्दानिय वयाद । अथ वेढपौरुषेयत्ववादः। नन्वेवमस्तु वक्तृतात्पर्याधीनं वेदप्रामाण्यम् । तथापि नेश्वरसिद्धिः । तात्सर्यं हि तत्प्रतीतीच्छयोच्चरितत्वम् । ततश्च १. 'धित्या' क. पाठ. २. 'क' स. पाठ.
२९ शब्दपरिच्छेदे वेदपीरुपेयत्ववादः । पूर्वपूर्वाध्यापकोच्चारणादेवोत्तरोत्तरवेदप्रामाण्यसिद्धेः किमीश्वरेण । न चैवमर्थानभिज्ञाध्यापकोचारिताद् वेदोदर्थप्रत्ययो न स्यादिति वाच्यम् । अर्थज्ञानवद्यासाद्यचारितजातीयत्वेन तत्राप्यर्थप्रती- त्युपपत्तेः । अन्यथा तवाप्यगतेः। इदानीन्तनवेदस्येश्वरानुचा- रितत्वादिति चेद् , न । तदर्थप्रतीतीच्छाजन्यमुच्चारणमेव ता- त्पर्य, लाघवात् । मूर्खाध्यापकवेदोच्चारणमपि तदर्थप्रतीतिविप- यकभगवदिच्छाजन्यमेवेति नास्मन्मते तत्रार्थज्ञानानुपपत्तिः । भवन्मते तु तदनुपपत्तिरपरिहार्येत्यनिच्छतापि भगवानङ्गीकार्यः । क्रिञ्च, बेदाः पौरुषेयाः, वाक्यत्वाद् , भारतादिवाक्यवदित्यनुमा- नादपि भगवसिद्धिः । न चाप्रयोजकत्वम्। पौरुषेयत्वे तत्तद्वा- क्यत्वस्याननुगततया प्रयोजकत्वासम्भवेन सामान्यतयानुगत- त्वाच वाक्यत्वस्यैव प्रयोजकत्वात् । अतः सर्वज्ञमीश्वरं वि- नास्मदादिभिरत्रार्थान्तरासम्भवाद् भगवत्सिद्धिः । ननु किमत्र पक्षतावच्छेदकम् । वेदत्वमेवेति चेद', न तावद् वेदत्वं जातिः । देवदत्तप्रभवत्वानुमापकजात्यादिना सङ्कारापत्तेः । नाप्यदृष्टार्थकशब्दत्वम् । स्मृत्यादाबतिव्याप्तः । किञ्च, किमत्र साध्यम् । पुरुपोच्चारितत्वं चेर्दै', वेदाध्याप- केनार्थान्तरम् । स्वतन्त्रपुरुपोच्चारितत्वं यदि, तदा पठ्यमा- , , १. 'च' स्व. पाठः, २. 'दार्थ क. पाठ.. ३. 'च' क. पाठः. 'च' क. पाठः. ५. 'पंत' ख. पाठ. ६. 'स्मि' क. पाठ. ७. 'या' ९. 'च' ख. पाठ:. ख.पाठः ८. 'यक क. पाठ . १०. 'लवे ख. पाठ ११. 'द, अध्यापना' क. पाठ.
१ मगिदर्पणे नभारते व्यभिचारोंऽगतो बाधव । नापि स्वतन्त्रपुरुपोच्ची- रितजातीयत्वम् । (तदा) वाक्यत्वेन लौकिकशब्दसाजात्यमादाय सिद्धसाधनमर्थान्तरं वा । स्वातन्त्र्यानिरुक्तेश्च नैतदनुमानादी- श्वरसिद्धिरिति चेद् , अत्र मणिकृतः शब्दतदुपजीवि- प्रमाणातिरिक्तप्रमाणजन्यमित्यविपयार्थकत्वे सति गन्दजन्य- वाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वं वेदत्वम् । तदेव पक्षताव- च्छेदकम् । सजातीयोच्चारणानपेक्षोच्चारितजातीयत्वं साध्यम् । तञ्च पठ्यमानभारतादावप्यस्तीति न व्यभिचारः। साजात्यं च समानानुपूर्वीकत्वेन विवक्षितम् । अतो न सिहसायनादि- कमित्याहुः । अत्र शब्द; साक्षात् परम्परया वा शदोपजीवि चे यत् प्रमाणं तदतिरिक्तं यत् प्रमागं तजन्या या प्रमितिः तदविषयार्थकत्वे सतीति सत्यन्तार्थः । तत्र वेदर पप्रमाणजन्य- प्रमितिविपयार्थकतया 'यागः स्वर्गसाधनमि'त्यनुमानजन्यानुमि- तिविपयार्थकतया चासम्भवः स्यात् । अत उक्त शब्दतदुपजी. विप्रमाणातिरिक्तेति । उक्तानुमानस्य पक्षाविज्ञानार्थ 'शब्दोप- जीवित्वेन शदोपजीविप्रमाणजन्यप्रमितिविषयार्थकत्वेऽपि तद- नुपजीविप्रत्यक्षादिप्रमाणजन्यप्रमित्यविषयार्थकतयाँ वेदस्य ना- सम्भवः । तथा वेदरूपशव्दप्रमाणजन्यप्रमितिविपयार्थकत्वेऽपि शब्दातिरिक्तप्रमाणजन्यप्रमित्यविपयार्थकतया च नासम्भवः। ननु प्रमितिपदं स्वजन्यज्ञानाननिरिक्तविषयकज्ञानपरमि- ति वक्ष्यते । ततश्च 'ज्योतिष्टोमेन स्वर्गकामो यजेतेति वाक्य- १. 'च' स. पाठ. २ 'व्य' क. पाठ. ३. 'व', पाट. 'च प्रक पाठ. ५. ज्या ना रु. पाठ. ६ 'दादति' क. पाठ .
शब्दपरिच्छेदे वेढगारमेयसबाट । जन्यज्ञाने स्वर्गसाधनत्वमानं प्रकारः। उत्तानुमानजन्यानुमि- तो तु स्वर्गसाधनत्वस्य माध्यतयानुमितेपिकतावच्छेदकप्र- कारकत्वनियमेन स्वर्गसाधनत्वत्वमपि प्रकार इति तादृशानु- मितेः स्वजन्यज्ञानातिरिक्तविषयकत्वेन खजन्यज्ञानातिरिक्त- विपयकतादृशानुमितिविपयार्थकत्वेऽपि स्वजन्यज्ञानानतिरिक्त- विषयकज्ञानविषयार्थकत्वमस्तीत्यसम्मवाभावात् तदुपजीव्य- तिरिक्तत्वविशेपणनयुक्तमिति चेद् , न । तथापि साध्यसाध- नभावसम्बन्धेन यागस्यापि स्वर्गसम्बन्धित्वाद् 'यागः स्वर्गवा- निति यत्र साध्यते , तत्रानुमितेः स्वजन्यज्ञानानतिरिक्तविपय- तया तादृशानुमितिविपयार्थकत्वेनासम्भववारणाय तद्विशेषणा- वश्यंभावात् । नन्येवमपि चैत्रशब्दं श्रुत्वा नयुक्ते 'चैत्रः शब्दायत' इति वाकोऽतिव्यातिः। तत्रं वास्ये चैत्रशब्दस्य स्वसाक्षात्का- रहारोपजीव्यत्वेन शब्दोपजीविताशवाक्यरूपप्रमाणजन्यप्रमि- तिविपयार्थकत्वेऽपि शम्दानुपजीवित्रमागजन्यप्रमित्यविपयार्थक त्वसत्त्वाच्छन्दजन्यज्ञानजन्यत्वेऽपि शब्दजन्यवाक्याज्ञानाज- न्यप्रमाणशब्दलरूपोत्तरदलस्यापि सत्वादिति चेद् , न। शब्द- जन्यवाक्यार्थज्ञानोपजीवित्वस्यैर शब्दोपजीविपदेन विवक्षित- त्वात् । तादृशवाक्यन्य शोपजीवित्वेऽपि शब्दजन्यवाक्यार्थ- १ 'तु स्वर्गस, पनत्यम क पाठ फ पाट. प्रश' पाठ. क. पाठ. दना पाठ, 'नानि' पाठ स. पाठ. ६ य.
३२ मणिदपणे ज्ञानानुपजीवित्वेन शब्दोपजीव्यतिरिक्तं प्रमाणं तदेवे वाक्यं, तज्जन्यप्रमितिविपयार्थकत्वेन सत्यन्ताभावान्न तत्रातिव्याप्तिः । नन्वेवमपि चैत्रवाक्यार्थ प्रतीत्य 'चैत्रवाक्यादमुमर्थ प्रत्येमीति प्रयुक्ते तस्मिन् वाक्येऽतिव्याप्तिः । तस्य वाक्यस्य शब्दजन्यवाक्यार्थज्ञानसापेक्षत्वेन शब्दोपजीवितया शब्दोप- जीवितादृशवाक्यस्पप्रमाणजन्यप्रमितिविषयार्थकत्वेऽपि शब्दा- नुपजीविप्रमाणजन्यप्रमि पविपयार्थकत्वात । न चैवमपि शब्द. जन्यवाक्यार्थज्ञानाजन्यत्वस्पोत्तरदलाभावान्नातिन्गाप्तिरिति वा- च्यम् । तत्र च शब्दजन्यवाक्यार्थज्ञानस्य स्वानुव्यवसायद्वारा जनकत्वेऽपि साक्षाजनकत्वाभावेन तादृशवाक्यार्थज्ञानाजन्य- त्वस्यापि सत्त्वादिति चेद्, न । स्वजन्यज्ञानान्यूनविषयकशद्ध- जन्यवाक्यार्थज्ञानसापेक्षवं शब्दोपजीवित्वमिहे विवक्षितम् । चैत्रवाक्यादममर्थ जानामीति वाक्यस्य चैत्रवाक्यजन्यवाक्या- र्थज्ञानसापेक्षत्वेऽपि चैत्रवाक्यार्थज्ञानस्य स्वजन्यज्ञानविषयीभू- तवाक्यार्थज्ञानाविषयकतया स्वजन्यज्ञानान्यूनविषयकशब्दज- न्यज्ञानसापेक्षत्वाभावेन विवक्षितशब्दोपजीव्यतिरिक्त प्रमाणं तदेव वाक्यं, तज्जन्यप्रमितिविपयार्थकत्वेन सत्यन्ताभावान्न तत्रातिव्याप्तिः। . १ 'जीवनाच्छन्दो' क पाठ २ 'व वाक्यजन्य' क पाठ. ३. 'दमुमर्थ। कपाट 'क्त वा' क पाठ. 'क्यन' ख. पाठ. नग' क पाठ 'स्वा यू' क पाठ ८. मिह ग स पाठ . ९ 'ति' स. पाठ. १०. 'जा' स पाठ. ४ ७ वेदपौरुषेयत्ववादः। ३३ नन्वेवं यागेतराजन्यस्वों यागजन्यः तदितराजन्यत्वे सति जन्यत्वादित्यनुमानजन्यानुमितिविपयार्थकत्वाद् वेदस्यास- म्भवः । तत्रानुमितौ वेदवाक्यजन्यज्ञानाविषयस्यापि पक्षता- बच्छेदकरय विपयतया स्वजन्यज्ञानन्यूनविषयकशब्दजन्यज्ञा- नसापेक्षत्वेऽपि लिङ्गपरामर्शस्य , स्वजन्यज्ञानान्यूनविषयकश- ब्दजन्यज्ञानसापेक्षवाभावेन विवक्षितशब्दोपजीव्यतिरिक्त प्र- माणं स एव लिङ्गपरामर्श इति तजन्यप्रमितिविपयार्थकत्वेन वेदस्यासम्भव इति चेद् , न । प्रमितिपदस्य स्वजन्यज्ञानान- तिरिक्तविषयकज्ञानपरतया वक्ष्यमाणत्वेनोक्तानुमितेः शब्दानुप- जीविप्रमाणजन्यत्वेऽपि वेदजन्यप्रमित्यनतिरिक्तविप(यार्थ ?य)- कत्वाभावेन विवक्षितप्रमित्यविषयार्थकत्वसत्त्वान्नासम्भवः । केचित्तु-शब्दपदं यथाश्रुतमेव । न चैवं चैत्रः श- ब्दायत इत्यत्रातिव्याप्तिः । उत्तरदले वाक्यार्थपदमविवक्षित- मिति वक्ष्यमाणतया शब्दजन्यज्ञानजन्ये तस्मिन् वाक्य उत्त. रदलाभावादेवातिव्याप्त्यभावात् । चैत्रवाश्यादमुमर्थ जाना- मीति वाक्यस्यापि परम्परया शब्दजन्यज्ञानजन्यतया. तत्रा- प्युत्तरदलाभावौदेवातिव्याप्त्यनवकाशादित्याहुः । प्रथमप्रमाणपदं च शब्दोपजीविपदस्य यथाश्रुतपरत्वे वेदवाक्यार्थज्ञानजन्यहविराधुपादानगोचरप्रवृत्तिसाध्यादृष्टविशे- 1 १. 'तार्थत्वप' क. पाठ. २. 'नया' स. पाठ. ३. 'प्रमा क. १. 'थरूपशब्दज' क. पाठ . पाठ. * शब्दोपजीविपदमिति पाट्य भाति ।
मणिदर्पणे पजन्यतया चक्षुरादेरपि परम्परया शब्दोपजीवकतया शब्दोप- जीविचक्षुरादिजन्यप्रमितिविपयार्थकत्वेऽपि लौकिकवाक्यस्य त. दुपजीव्यतिरिक्तप्रमितिविपयार्थकत्वाभावादतिव्याप्तिः स्यादित्य- त उक्तम् । ततश्च यस्य प्रमाणस्य शब्दमूलकत्वं प्रामाण्यव्य- वस्थापकं , तदेव शब्दोपजीवीति लभ्यते । यागः स्वर्गसाधन- मित्यनुमानस्य वेदमूलकत्वेनैव प्रामाण्यावधारणम् । अन्यथा चैत्यवन्दनं स्वर्गसाधनमित्यनुमानतुल्यतापत्तेः । चक्षुरादेस्त्वन्व- यव्यतिरेकादिनैव प्रमाजनकत्वमवधार्यत इति न शब्दप्रामा- ण्याधीन प्रामाण्यमिति शब्दोपजीव्यतिरिक्ततया तजन्यप्रमि- तिविषयार्थकतया लौकिकवाक्यस्य न तत्रातिव्याप्तिः । एतेन 'खजन्यज्ञानान्यूनविषयशब्दजन्यवाक्यार्थज्ञानसापेक्षत्वरूपश- ब्दोपजीवित्वस्य चक्षुरादावभावेन चक्षुरादिजन्यप्रमितिविपयार्थ- के लौकिकवाक्येऽतिव्याप्त्यभावेन प्रमाणपदस्य तथा विवक्षा न युक्ता । न च प्रमाणपदस्योक्तविवक्षापक्षे शब्दोपजीविपदं यथाश्रुतमेव , चैत्रवाक्याप्रामाण्येऽपि चैत्रवाक्यादमुमर्थ जाना- मीति वाक्यस्य भ्रमप्रमासाधारणचैत्रवाक्यार्थज्ञानबोधकस्य प्रा- माण्यसम्भवेन प्रामाण्यार्थ तदनुपजीवनेनातिव्याप्त्यभावादिति वाच्यम् । तथापि चैत्रवाक्यादयमर्थः प्रमीयत.इति वाक्येऽति व्याप्तेरपरिहारेण तादृशविवक्षाया आवश्यकत्वादिति नव्योक्त- मपास्तम् । तादृशवाक्ये सत्यन्तसत्त्वेऽपि शब्दजन्यवाक्यार्थ- ज्ञानाजन्यत्वरूपोत्तरदलाभावेन तत्रातिव्याप्त्यभावादित्याहुः । १ 'वाद' क पाठ , २ 'मित ख. पाठ. ३. 'क्तमिदम' क. पाठ .
वेदपौरुषेयत्ववाद । शब्दोपजीविपदस्य स्वजन्यज्ञानान्यूनविषयकेत्यादिविवक्षायां तु प्रथमप्रमाणपदं स्वरूपकीर्तनपरमिति दिक् । अदृष्टादिभिरपि तादृशैवेदार्थप्रमाजननादसम्भव इत्यत उक्तं द्वितीयप्रमाणपदम् । न चैवमपि मनसा वेदार्थप्रमाजन- नादसम्भव इति वाच्यम् । प्रमाणपदस्यासाधारणप्रमाणपरत्वाद्, वेदजन्यवाक्यार्थज्ञानजनने मनसः सहकारित्वेऽप्यसाधारणप्रमा- णत्वाभावान्नासम्भवः । न चैवमह वेदार्थ जानामीत्यनुव्यवसाये मनस इन्द्रियत्वेनापि जनकतया साधारण्याभावाद् वेदस्य ता- दृशानुव्यवसायविषयार्थकत्वेनासम्भव इति वाच्यम् । तादृशा- नुव्यवसायजनने शब्दजन्यवाक्यार्थज्ञानसापेक्षत्वेन मनसः श- ब्दोपजीव्यतिरिक्तत्वाभावात् , तादृशानुव्यवसाये वेदार्थज्ञान- स्यापि विपयतया वेदजन्यवाक्यार्थज्ञानातिरिक्तार्थविषयकत्वेन विवक्षणीयप्रमितित्वाभावाच, तादृशानुव्यवसायविपयार्थकत्वे- ऽपि वेदस्य नासम्भवः । प्रमितिपदं च स्वजन्यज्ञानानतिरिक्त- विषयकज्ञानपरम् । तेन प्रमेयत्वसामान्यप्रत्यासत्तिजन्यप्रमिति- विषयतया योगजधर्मसहकृतमनोजन्यप्रमितिविषयतया च वे- दार्थस्य नासम्भवः। तादृशप्रमित्योर्वेदजन्यज्ञानातिरिक्तविषय- 'कतया तादृशप्रमितिविपयार्थकखेऽपि विवक्षितप्रमित्यविपयार्थ- कत्सत्वात् । न चैवमध्यप्रसिद्धिः, वेदजन्यज्ञानानतिरिक्त- विषयेकज्ञानस्य शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणाजन्यवादि- ३. 'यत' ख, पाठ. १. 'नस' ख. पाठ. २. ' पिख. पाठ, १. 'चात् रु. पाठ. ५. 'यज्ञा' क पाठ.
मणिदर्पणे ति वाच्यम् । तादृशप्रमाणजन्यस्वजन्यज्ञानानतिरिक्तार्थविष- यकज्ञानविपयार्थकं लौकिकवाक्यजातं प्रसिद्धं, तदन्यत्वे स- तीत्यर्थात् । यदि च देवताप्रसादादिना कस्यचिद् वेदार्थमात्र- विषयकं ज्ञानं मनसा जन्यते, तदा तद्विपयार्थकत्वमादायास- म्भववारणाय द्वितीयप्रमाणपदं मनोव्यतिरिक्तप्रमाणपरं बो- ध्यम् । अर्थपदं च तात्पर्यविपयीभूतार्थपरम् । तेन दृष्टार्थवेद- भागे नाव्याप्तिः, सहस्रशाखस्यापि वेदस्यापूर्व एव तात्पर्यात् । सत्यन्तमदृष्टार्थकस्मृतावतिव्याप्तम् । अत उक्तं शब्दजन्ये- त्यादि। . ननु जन्यज्ञानाजन्यप्रमाणशब्दत्वमित्येतावतैव स्मृत्य- तिव्याप्तिनिरासेन शब्दपदं व्यर्थम् । न चैवमजन्यज्ञानाप्रसिया परमते जन्यपदव्यावर्त्याप्रसिद्यापत्तिरिति वाच्यम्। अस्य पौरु- पेयत्वानुमाने पक्षतावच्छेदकनिर्वचनत्वेन तत्रोपरञ्जकस्यापि जन्यपदस्य दानाविरोधात् । अतः शब्दपदमनर्थकमिति चेद् , न । नव्यत्यासेन शब्दाजन्यवाक्यार्थज्ञानजन्यत्वमुत्तरखण्डा- र्थ इति वक्ष्यते । तत्र शब्दपदाभावे परस्याजन्यज्ञानाप्रसिद्धेः शब्दपदावैयर्थ्यात् । वाक्यार्थपद तूपरजकमात्रम् । अयोग्यश- ब्दे तादृशप्रमाणजन्यप्रमित्यविषयार्थकत्वेन सत्यन्तस्यापि स- त्त्वादतिव्याप्तिवारणाय चरमप्रमाणपदम् । वेदार्थानुमापकलि- अपरामर्शेऽतिव्याप्तिवारणाय चरमशब्दपदम् । न च स्वर्गों या- गजन्य इत्यनुमानस्य शब्दजन्यवाक्यार्थज्ञानजन्यत्वेन तत्र १. 'वि' क. पाठ .
वेदपौरुषेयत्ववादः। नातिव्याप्तिरिति वाच्यम् । तथापि सुखदुःखादिकं विचित्रकार- गजन्यं विचित्रकार्यवादित्यनुनाने परिशेषाद् धर्माधर्मसाधके- ऽतिव्याप्तिवारणाय शब्दपदावश्यम्भावात् । नन्वेवमप्यर्थज्ञानव- दध्यापकोच्चारितवेदेऽव्याप्तिः, तस्य शब्दजन्यवाक्यार्थज्ञानज- न्यत्वात् । न च तादृशशब्दजातीयत्वं विवक्षितं , साजात्यं चा- नुपूव्येति नातिप्रसङ्ग इति वाच्यम् । तथापि व्युत्क्रमेण शुको- ञ्चारिते वेदवाक्येऽतिव्याप्तिः । न च नव्यत्यासेन शब्दाज- न्यवाक्यार्थज्ञानजन्यत्वं विवक्षितमिति वाच्यम् । शुकवाक्य- स्यापि परमेश्वरतारावास्यार्थज्ञानजन्यतयातिव्याप्तितावस्थ्या- दिति चेद् , न । शब्दाजन्यवाक्यार्थज्ञानवत्कण्ठताल्याधुचोरि- तप्रमाणजातीयत्वस्य विवक्षितत्वात् । एवञ्च शब्दाजन्यवाक्या- र्थज्ञानं यद्यपि भगवतोऽस्ति , तथापि शुकेन व्युत्क्रमोचोरित वेदवाक्यं न ताशवाक्यार्थज्ञानवद्भगवत्कण्ठताल्वाद्युचारितम्। यद्यपि शुकस्य कण्ठताल्लादिनोच्चारितं, तथापि न शुकस्य वाक्यार्थज्ञानवत्त्वमिति न तत्रातिव्याप्तिः । वेदसमानानुपूर्वी तु वेदवाक्यं साह्यमेव । लीलापरिगृहीतविग्रहतादृशक्यिार्थ- ज्ञानवद्भगवत्कण्ठताल्वाद्युचारितसमानानुपूर्वीकत्वात् । अत एव पत्रमानवेदेऽपि नाव्याप्तिः। स्मृतावतिव्याप्तिवारणाय शब्दाज- न्येति । यदि चैवमपि देवताप्रसादलब्धवेदार्थज्ञानवत्प्रणीतस्मृ. १. 'च' ख. पाठः. २. 'च' स. पाठः ३. 'त' क. पाठः ५, 'क्य ताक. पाठः ५. 'च' स. पाठः, ६. 'धुच क. पाठ.. ७. 'वक' क. पाठ..
मणिदर्पणे - तावतिव्याप्तिः, तदा देवताप्रसादोजन्यत्वेनापि वाक्यार्थज्ञानं विशेषणीयम्। यदि च वेदातिरिक्तमपि भगवत्कृतं सङ्केतग्राहक- मङ्गीक्रियते, तदा तदन्यत्वेनापि विशेषणीयम् । वस्तुतस्तु पक्षतावच्छेदकातिप्रसक्तिन दोपाय , सङ्केत- ग्राहकवाक्यस्यापि पक्षत्वेंऽशतः सिद्धसाधनाद्यनवकाशात् । न च वाक्यमानं पक्षीक्रियताम् । मणिकृन्मतेंऽशतः सिद्धसाधनत्व. स्यादोपत्वादिति वाच्यम् । सम्प्रदायमतेनैतदनुमानस्योक्तत्वा- दिति दिक् । नन्वेवमपि वाक्यत्वहेतोर्लाघवादुच्चारितत्वमानं व्यापकं, न तु स्वतन्त्रपुरुषोच्चारितत्वम् । ततश्वाध्यापकोच्चारणमूलकत्व- मेव सिध्यति । न तु भगवदुच्चारितत्वमिति कथं भगवत्सिद्धि- रिति चेद् , न । लौकिकवाक्यजन्यज्ञाने कदाचिर्दैनाश्वासः, वेदवाक्यजन्यज्ञाने तु न कदाप्यनाश्वास इत्युभयसिद्धम् । तच्च लौकिकवाक्याद् वेदवाक्यस्य किञ्चिद्वैलक्षण्यं विना न संभवति । तच्च वैलक्षण्यं नित्यत्वेन, दोषाजन्यतया, नित्यज्ञानवत्प्राणीततया वा वाच्यम् । तत्राद्यः पक्षो न सम्भवति , वर्णानामनित्यत्वप्र- तिपादनात् । अतः सजातीयोच्चारणानपेक्षनित्यज्ञानबदुच्चारित- त्वेनैव वेदानां तज्जन्यज्ञाने न कदाप्यनाश्वास इत्युपेयमिति सर्वज्ञभगवत्सिद्धिरप्रत्यूहा । न च मन्वादिस्मृतिप्विव नित्यज्ञा- नवदजन्यत्वेऽपि घेदेयाश्वासः किं न स्यादिति वाच्यम् । म- न्वादिष्वपि सर्वज्ञभगवत्प्रणीतवेदमूलकत्वनिश्वयादेव । अत १. 'दाद्यज' ख. पाठः. २. 'तादिना' व. पाठः. ३. 'ग्रहवा' क. ५. 'वक्तव्यम्' ख. पाठः. , पाठ.. ४. 'नावा' ख. पाठः, क.पाठ.. ६. 'त्वापा' उच्छिन्नशाखाबादः। एवाधुनिकसङ्ग्रहलिखितेषु केपुचिद् वास्येपु श्रुतिमूलकत्वानि- श्वयात् कदाचिदनाधासः । तस्माद् भगवत्प्रणीतश्रुतिमूलकत- यैव स्मृतिप्वाश्वास इति नित्यज्ञानाश्रयो भगवा नङ्गीकार्य इति दिक् ॥ इति वेदपौरुषेयत्ववादः। अथोच्छिन्नशाखावादः। एवं स्मृतेर्वेदमूलतयैव प्रामाण्यमित्युक्तम् । तत्र कासा- ञ्चित् स्मृतीनां मूलभूता श्रुतिः प्रत्यक्षतो नोपलभ्यते । सा कि श्रुतिनित्यानुमेया, किं वा स्मृतिप्रणयनकाले प्रत्यक्षा सतीदानी- मुच्छिन्नेति विवादे प्राभाकराः -काण्वमाध्यन्दिनतैचिरीयादि- भेदेनानेकासु शाखासु तत्तदध्यापकपरम्परया स्वरमात्रेणापि भ्रेषरहिततया प्रतायमानासु कासाश्चिच्छाखानां स्वरूपत एवो- छेदोक्तिरयुक्ता । ततश्च प्रत्यक्षवेदमूलकत्वेन वेदामूलकत्वेन चोभयसिद्धस्मृतिभिन्ना स्मृतिर्वेदमूला , अदृष्टार्थकस्मृतित्वात् , 'प्रत्यक्षवेदमूलकस्मृतिवदित्यनुमानेन वेदमूलकत्वं सिध्यद् विद्य- मानस्यैव वेदस्य स्वार्थानुभवजननद्वारा मूलत्वं स(म्भ?- म्भा)व(य)ति , न तूच्छिन्नस्येति परिशेषान्नित्यानुमेयवेदमूलक- त्वमादायैव सिध्यति । अत्र च 'वैसर्जनीयं वासोऽध्वर्यवे (द)- १, 'द' क. पा.
. मणिदर्पणे दाती'त्यादिलोभमूलकस्मृतौ वाधवारणाय बेदामूलकत्वेनेत्या- दि। अंशतः सिद्धसाधनवारणाय प्रत्यक्षवेदमूलकभिन्नत्ववि- शेपणम् । एवं नित्यानुमेयवेदसिद्धौ तस्य त्वदभिमतेश्वरकर्तृक- त्यासम्भवाद् वेदान्तरस्यापि तद्वन्न तत्कर्तृकत्वमिति वेदकर्तृतया नेश्वरसिदिः । नन्वानुपूर्वीविशेपविशिष्टतया ज्ञातस्यैव पदस्य स्वार्थोपस्थितिद्वारानुभावकत्वम् । अन्यथा नदी दीनेत्यादावर्थ- विशेषप्रतीतिर्न स्यात् । अतो नित्यानुमेयत्वे वेदस्य कथं ततो- ऽर्थविशेषप्रतीतिः, आनुपूर्व्या ज्ञातुमशक्यत्वादिति चेद् , न । घटकलशादिपदानां घटान्वयानुभावकत्वं न घटकलशादिपद- खेन । अननुगतत्वात् । किन्तु तदर्थज्ञापकत्वेन ज्ञाततया, अनु- गतत्वात् सामान्यत्वाच्च। अत एव किमृषभपदं वृपभपदं वानेनो- चारितमिति सन्देहेऽपि पुंगवरूपार्थज्ञापकं पदमनेनोच्चारितमिति निश्चयादन्वयधीः । न चैवमानुपूर्वीज्ञानस्यानुपयोग इति वाच्यम् । तस्यापि तदर्थज्ञापकत्वज्ञान एवोपयोगात् । न केवलं शास्थले तदर्थज्ञापकत्वज्ञानादर्थधीः,अपि तु ज्ञायमा- नकरणमात्रे।अत एवालोकत्वधूमत्वसंशयेऽपि वह्निव्याप्यत्वज्ञा- नाइनुमितिः । न चैवं कदाप्यनुच्चारितस्य कथं वाक्यत्वमिति वाच्यम् । मौनिश्लोकवदनुचारणेऽपि वाक्यत्वोपपत्तेरित्याहुः । अत्रोच्यते--तदर्थज्ञापकत्वज्ञानादन्वयानुभवे घटमान- येत्यत्रेव घटः कर्मत्वमित्यत्राप्यन्वयधीः स्यात् । अतो विभ- क्यादित नभिमाह तप इतनवाजुभाषन्त्यमिनि न नित्यानुमेया- दर्थवीगिति न तस्य स्मृतिमूलत्यसंमक इति स्मृतिप्रणयनकाले १. 'स्वार्थो' क. पाठ.. २. स्य त' स. पाटः. ३. 'का' ख. पाठः.
, शब्दपारच्छेदे उच्छिन्नशाखाबादः । ४१ पठ्यमानादेव वेदादर्थ प्रतीत्य स्मृतिप्रणयनमिति वाच्यम् । स चे- दानीमनुपलम्भादुच्छिन्न इत्यवसीयते । ननु विभक्त्यादिसम- भिव्याहृततत्तत्पदत्वस्याननुगततया विशेषतया च नानुभवजन- कतावच्छेदकत्वं, किन्त्वन्वयधीविरोधिपदान्यपदत्वमेवानुगतत्वा- त् सामान्यत्वाच्चानुभवजनकतावच्छेदकम् । तच्च नित्यानुमे- यवेदेऽप्यक्षतमिति चेद् , न । घटः कर्मत्वमित्यादावप्यभे- दान्वयबोधसंभवेन तत्तदन्वयधीविरोधिपदान्यपदत्वमेव तथेति खयापि वाच्यमित्यननुगमस्तुल्यः । पदानां तत्तदन्वयधीविरो- धित्वं च विभक्तिविशेषायसमभिव्याहारादेवावसेयमिति लाघ- वाद् विभक्त्यादिसमभिन्याहृतपदत्वेनैवानुभावकत्वम् । यदि च विभक्त्यादिसमभिन्याहारो नानुभवजनकतावच्छेदकः, सहका- रिणोऽवच्छेदकत्वे दण्डादिसहकृतचक्रवादिनैव कारणत्वमित्ये- ककारणपरिशेषापत्तिरिति मतं , तर्हि घटः कर्मत्वमित्यत्रेव विभक्त्यादिसमभिव्याहाररूपसहकार्यभावान्न नित्यानुमेयवेदाद- र्थीरिति न तस्य स्मृतिमूलत्वम् । प्रयोगश्व-विवादाध्या- सितस्मृत्यनुमितो वेदोऽध्ययनविषयो वेदत्वात् प्रत्यक्षवेदवदिति ' दिक् । . यत्तु सहस्रशाखाध्यायिपु व्यासादिषु जाग्रत्सूच्छेद- कथनमयुक्तम् , अतो विप्रकीर्णतैव तस्य वेदस्य युक्तेति भट्ट- मतं, तत् तथैव । भरतखण्डेऽध्ययनाभावनिश्चयादुच्छिन्नत्व- वाचोयुक्तिरिति दिक् । १. 'यस' क. पाठः. २. 'यवि' क. पाठः ३. 'तम् । त? के. पाठः.
माणदपर्ण नन्वेवमपि मन्वादिभिरेव तपोविशेषलव्धसार्वश्यैः स्मृतिः प्रणीतेति तत्र समाश्वाससम्भवात् कृतं स्मृतिमूलभूतवेद+क्त- तया भगवत्कल्पनयेति चेद् , न । प्रतिप्रलयमनेकसर्वज्ञकल्प- नादेकस्यैव सर्वज्ञस्य सर्वकालानुयायिनः कल्पना ज्यायसीति दिक् ।। श्त्युच्छिन्नशाखावाद । - ३ अथ प्रलयवादः। ननु प्रलये मानाभावान्नानेकसर्वज्ञकल्पनमिति चेद्, न । यद्येक एव सर्वज्ञः कश्चित् कल्प्यते, तर्हि स एवारमदभिमत ईश्वर इत्यवेहि । वस्तुतस्तु प्रलये मानाभावोऽसिद्धः। घटप्राग- भावः कार्यद्रव्यानाधारवृत्तिः अभावत्वात् सुखादिप्रागभाव- वद् इत्यनुमानस्यैव तत्र मानत्वात् । अत्र प्रागभावमात्रस्य पक्षत्वे शब्दादिप्रागभावेऽशतः सिद्धसाधन स्यात् । अतो घटे- ति । घटाभावमात्रस्य पक्षत्वे घटात्यन्ताभावस्याकाशादिवृत्ति- त्वादंशतः सिद्धसाधनम् । अतः प्रागिति । न चैवमप्याकाशव- तितयार्थान्तरमिति वाच्यम् । घटप्रागभावस्य कालकपालान्यतर- वृत्तेर्बाधादेवार्थान्त भावात् । साध्ये च प्रलयकालस्यापि नित्य- द्रव्याधिकरणतयोद्देश्यासिद्धिवारणाय कार्यपदम् । दृष्टान्ते सा- ध्यसिद्धये द्रव्यपदम् । न चैवमपि कपालेऽपि कदाचित् कार्य- १ 'क' क पाठ २ पाठ ४. 'रवाधात् क पाठ 'म्तु न प्रक पाठ. ३. 'व 'घ' क.
शब्दपरिच्छेदे प्रलयवाद। ५३ द्रव्याधिकरणत्वाभावसत्त्वात् कपालवृत्तितयार्थान्तरमिति वा- व्यम् । कार्यद्रव्याधिकरणभिन्नवृत्तित्वस्यैव साध्यत्वात् । अन्यो- न्याभावस्य चाव्याप्यवृत्तित्वाभावेन कपालस्य कार्यद्रव्याधिक- रणप्रतियोगिकान्योन्याभावयत्त्वाभावात् । न चैवमप्यन्यब्रह्मा- ण्डवर्तिकार्यद्रव्याधिकरणतया सिपाधयिपितकालत्यापि बाध इति वाच्यम् । कार्यपदत्यैतब्रह्माण्डवर्तिकार्यपरत्वात् । न च कालस्यापि कार्यद्रव्याधिकरणतया तद्भिन्नत्वामावाद् बाध इति वाच्यम् । सिपाधयिपितखण्डप्रलयात्मककालोपाधेः कार्यद्रव्या- नधिकरणतया तहिन्नत्वेन बाधाभावात् । नन्वभावत्वहेतोः कार्यद्रव्यानधिकरणप्रलयकालादिप्रतियोगिकान्योन्याभावे व्य- भिचारः, अन्योन्याभावस्य प्रतियोगितावच्छेदकेन विरोधात कार्यद्रव्यानधिकरणत्ववति प्रलयादाववृत्तेरिति चेद्, न । प्र- लयकालः कार्यद्रव्यानधिकरणभिन्न इति प्रतीत्यभावेन देशतया तस्य तादृशान्योन्याभावानधिकरणत्वेऽपि प्रलयेऽपि कार्यद्रव्या- नधिकरणान्योन्याभाव इति प्रतीतेः कालतया तदधिकरणत्वा- विरोधात् । अन्यथा प्रलये तादृशान्योन्याभावाभावे तस्य नि- त्यत्वानापतेरिति दिक् । एवं श्रुत्यादिकमपि प्रलयसद्भावे प्रमाणमुदाहर्तव्यम् । तस्मात् प्रतिप्रलयमनन्तसर्वज्ञकल्पनाद् वरमेक एव नित्यः सर्वज्ञो वेदवतेति कल्पनैमिति स एवं वक्तास्माकमीश्वर इत्य- १. 'प्येतहमाण्डव्यतिरिक्तन' ख. पाठ १. 'न युक्तमि ख. पाठ, २. 'यान खपाठ. ३. 'क- ५. व वेदव' ख. पाठ. तैति ख. पाठ, मणिदर्पणे नवद्यमिति ॥ इति प्रलयवादः। अथ विधिवादः। अयं च वेदः प्रवर्तकज्ञानजननद्वारा यागादिषु प्रवर्त- क इति प्रवर्तकं ज्ञानं निरूप्यते । तत्र भोट्टाः-'यजेत स्वर्गकाम' इत्यादौ लिङादेयद्यप्याख्यातत्वेन स्वर्गादिभाव्यका यागादिकरणिका प्रयाजादीतिकर्तव्यताकार्थभावना वाच्या । तथापि शब्दभावनाभिधादिपदाभिधेया प्रवर्तनापि वाच्या । तदाहुः- "अभिधां भावनामाहुरन्यामेव लिडादयः । अर्थात्मभावना त्वन्या सर्वाख्यातेपु गम्यते॥" इति। लिङादय एवाभिधाख्यां भावनां प्रवर्तनामभिदधते । अर्था- त्मा अर्थः प्रयोजनं तदाप्नोतीत्यर्थात्मा। स्वर्गादिभाव्यकेति यावत्। तादृशी भावना तु सर्वाख्यातवाच्येत्यर्थः । तस्याश्च शब्दभाव- नायाः पुरुषप्रवृत्तिर्भाव्या । शक्तिग्रहः करणम् । तदभावे प्रव- तनाज्ञानस्यैवानुदयेन प्रवृत्त्यसिद्धेः । अर्थवादरित्वतिकर्तव्यती, प्ररोचनां विनालसानां प्रवृत्त्यसम्भवात् । तदाहुः- "लिडोऽभिधा सैव च शब्दभावना भाव्या च तस्याः पुरुषप्रवृत्तिः। सम्बन्धबोधः करणं तदीयं प्ररोचना चाङ्गतयोपयुज्यते॥" १. 'म' का पाठः.
. शब्दपरिच्छेदे विधिवाद । इति । प्ररोचना स्तुत्यर्थवादः। तादृशप्रवर्तना विध्यर्थः । तज्ज्ञानं च प्रवृत्तिहेतुः । न च तस्या प्रमाणाभाव इति वाच्यम् । लिङा- दयः स्वनिष्ठव्यापारहारकाः, व्यापारभिन्नत्वे सति परनिष्ठव्या- पारजनकत्वात् , चक्रादिभ्रमिजनकदण्डादिवदित्यनुमानस्यैव तत्र प्रमाणत्वात् । अत्र चक्रनिष्ठभ्रमिजनकदण्डभ्रमौ व्यभि- चारवारणाय व्यापारभिन्नत्व इति । स्वनिष्ठभ्रमिजनके दण्डे त- द्वारणाय परनिष्ठेति । तस्माल्लिडादौ पुरुपप्रवृत्त्यनुकूलः प्रवर्त- नाख्यो व्यापारोऽङ्गीकार्यः, तज्ज्ञानं च प्रवर्तकमित्याहुः । तद- युक्तम् । एवं सति चैव वन्देतेत्यत्रापि तादृशप्रवर्तनाज्ञानस- म्भवात् प्रवृत्त्यापत्तिः । नच तत्र यजेतेत्यत्रेव स्वभाव्यपुरुषप्र- वृत्तेरिष्टसाधनत्वाभावेन परम्परयापीष्टसाधनवज्ञानाभावान्न प्र- वृत्तिरिति वाच्यम् । तस्यावश्यकलादिष्टसाधनताज्ञानमेव प्रवर्त- कमस्तु । किश्चोक्तानुमाने स्वनिष्ठपदं व्यर्थम् । न च व्यापके न व्यर्थतेति वाच्यम् । हेताविव व्याप्तिग्रहानुपयोगरूपबीज- साम्यात् । तस्मादिष्टसाधनताज्ञानद्वारतयैव लिडादेः प्रवर्तकल- मिति प्रवर्तनायामेव न प्रमाणमिति दिक् । नन्वस्तु तार्थभावनारूपकृतिगतेप्टसाधनताज्ञानमेव प्रवर्तकम् । अस्तु तादृशेष्टसाधनत्वं च विध्यर्थः । न च विभक्तेः प्रकृत्यर्थगतस्वार्थबोधकत्वव्युत्पत्तेः प्रत्ययार्थभूतमिष्ट- साधनत्वं प्रकृत्यर्थयागान्वितमेव प्रतीयेत, न तु प्रत्ययार्थकृ- . १ 'तेरपीष्ट' ख पाठ . २ 'ने नि' क पाठ , ३. 'म् । ता' ख. पाठ.
मणिदर्पणे त्यन्वितमिति वाच्यम् । ते(स्या? ह्या)ख्यातार्थस्य वर्तमानत्वादे- देवदत्तो गच्छतीत्यादावपि कृत्यन्वयो न स्यात् । यदि च बाध काभावे सति विभक्तेः प्रकृत्यर्थगतखार्थबोधकता, तबैकपदो- पात्तत्वप्रत्यासत्यपेक्षयैकप्रत्ययोपात्तत्वप्रत्यासत्तेर्बलीयस्त्वेनेष्टसा- धनत्वस्य कृत्यन्वयस्यैवौचित्यात् । न च लोके पाकादिगतक्रि- येप्टसाधनताज्ञानं विना पाकादिकृतिगतेष्टसाधनताज्ञानं नेति तत्र प्राथमिकक्रियेष्टसाधनताज्ञानादेव प्रवृत्तिसिद्धेर्न कृतीष्टसा- धनताज्ञानस्य प्रवर्तकत्वकल्पनमिति वेदेऽपि न कृतीष्टसाधन- ताज्ञानं प्रवर्तकमिति वाच्यम् । तथापि विधिनानन्तरङ्गप्रत्यास- त्या कृतीप्टसाधनत्वे बोधिते तावता प्रवृत्तिमिद्धेः पश्चात् कृ- तीष्टसाधनत्वोपपादकतया कल्पितमपि क्रियेष्टसाधनत्वं न प्रवृ- तिहेतुरिति लोके क्रियेष्टसाधनताज्ञानस्य प्रवर्तकत्वेऽपि वेदे कृतीष्टसाधनताज्ञानमेव प्रवर्तकमिति चेद् , न । लोकवेदयोर- नुगतसम्भवेनाननुगतकल्पनमयुक्तम् । ततश्च कृतीष्टसाधनता- ज्ञानस्यैव प्रवर्तकत्वे भावियौवराज्यादावपि प्रवृत्तिः स्यात् । त- द्विपयकृतेरिष्टसाधनत्वज्ञानात् । नचेदानीन्तनकृतिसाध्यताज्ञा- नमपि प्रवर्तकमिति कल्प्यत इति वाच्यम् । कारणद्वयकल्पना. गौरवादिष्टसाधनलविषयककृतिसाध्यताज्ञानमेव सर्वत्र प्रवर्तक- मिति करपनीयमिति कृतौ कृतिसाध्यताज्ञानासम्भवात् क्रि- याविषयकेप्टसाधनत्वविषयककृतिसाध्यताज्ञानमेव प्रवर्तकमिति दिक् । १. 'तथाचाख्या' क. पाठ. पाठ. ४. 'नाभा क पाठः २. 'तप्र' क. पाठ. ३. 'ति वा' क.
शब्दपरिच्छेदे विधिवादः। प्राभाकरास्तु-पाकं कृत्या साधयानीतीच्छया प्रवर्तत इत्यविवादम् । सा चेच्छा कृतिसाध्यत्वप्रकारिका क्रियाविपयि- गीति कृतिसाध्यत्वप्रकारकक्रियाविषयकज्ञानसाध्या वाच्या, इच्छायाः स्वसमानप्रकारकज्ञानसाध्यत्वनियमात् । ततथ कृति- साध्यताप्रकारकं ज्ञानं कृतिसाध्यत्वप्रकारकचिकीर्पाहारा कृतौ प्रवृत्तौ हेतुः । ननु कृतिसाध्यत्वप्रकारकेच्छापेक्षया कृतीच्छैव लाघवात् प्रवृत्तिहेतुः, कृतीच्छा च कृतीष्टसाधनताज्ञानादिति कृतीष्टसाधनलज्ञानमेव प्रवर्तकम् । न चैवं भिन्नविपयिण्याः कृतीच्छायाः पाके प्रवर्तकत्वे ततः पाक इवान्यत्रापि प्रवृत्या- पत्तिः । अतः समानविपविण्याः कृतिसाध्यत्वप्रकारिकायाः पाकचिकीया एव पाके प्रवर्तकत्वं वाच्यमिति कृतिसाध्यता- ज्ञानस्य हेतुत्वसिद्धिरिति वाच्यम् । पाकगोचरकृतीच्छाया अपि पाकविषयकत्वेन समानविषयकत्वाविरोधात् समानविशेष्यक- त्वस्य गौरवेणातन्त्रत्वात् । अतो लाघवात् कृतीच्छैव प्रवर्ति- केति तहेतुभूतं कृतीष्टसाधनताज्ञानमेव प्रवर्तकमिति चेद् , न । पाकजनककृतीच्छाया इव कृतिविषयत्वप्रकारकपाकेच्छाया अपि हेतुत्वमस्तु । विनिगमनाविरहात् तावतापि कृतिसाध्यता- • ज्ञानस्य हेतुत्वमक्षतमेव । किञ्च, कृत्यसाध्यताज्ञानं प्रतिबन्ध- कमित्यविवादम् । तदभावस्य हेतुत्वकल्पने गौरवात् कृतिसा- ध्यताज्ञानमेव हेतुः। ३. 'नहे' स. पाठः. १ २. 'ताज्ञा' क. पाठः. १. 'च्छा' क. पाठ, 'यत्वे क. पाठः.
१ ४८ मणिदर्पणे नन्वेवं कृतिसाध्यताज्ञानस्य प्रवर्तक जीवनादृष्टज- न्यकृतिसाध्यताज्ञानात् प्राणादिसञ्चाराय प्राणादौ प्रवृत्त्यापत्तिः। न च जीवनादृष्टादेव प्राणसञ्चारोपपत्तेः जीवनयोनिकृतावेव न मानमिति वाच्यम् । धावतः पुरुषस्य यत्नोत्कर्षेण श्वासोत्कर्षद- र्शनेन प्राणसञ्चारमात्रे यत्नस्य हेतुत्वसिद्धौ सुषुप्तिकालीनप्राण- सञ्चारे यत्नान्तरासम्भवाज्जीवनयोनियत्नसिद्धः । न चैवमपि प्रा- णादेरयोग्यत्वान्न कृतिविषयत्वमिति वाच्यम् । रेचकादिना श्वाससञ्चारानुकूलकृतेः प्राणादावनुभवसिद्धतया तस्य कृत्यवि षयत्वाभावात् । तस्मात् कृतिसाध्यताज्ञानस्य प्रवर्तकत्वे प्राणा- दौ प्रवृत्त्यापत्तिरिति चेद् , न । चिकीर्षाधीनकृतिसाध्यताज्ञान- स्यैव प्रवर्तकत्वाङ्गीकारात् । जीवनयोनिकृतेश्च चिकीर्षाधीन- स्वाभावान्न प्राणादौ प्रवृत्त्यापत्तिः । न चैवर्माप कृतिसाध्यता- ज्ञान गमनादिनान्तरीयके श्रमेऽस्तीति तत्रापि प्रवृत्त्यापत्तिरिति वाच्यम् । तथापि श्रमस्य दुःखतया तत्र चिकीर्षानुदयाद् द्वा- राभावेन कृत्यसम्भवात् । यत्र तु मल्लादीना श्रमेऽपीष्टसाधनता. ज्ञान तत्र चिकीर्षाया बाधकाभावात् प्रवृत्त्यापादनमिष्टमेव । नन्वेवमपि कृतिसाध्यताज्ञानादनिष्टसाधनतया ज्ञातेऽपि प्रवृत्त्यापत्तिरिति चेद् , न । इष्टसाधनतालिङ्गेककार्यताज्ञानस्य प्रवर्तकत्वाङ्गीकारात् । न चैव निष्फले सन्ध्यावन्दनादौ प्रव- त्तिर्न स्यात्, तत्रेप्टसाधनतालिङ्गककार्यताज्ञानस्याभावादिति वा- च्यम् । नित्यस्थले वेदाधीनकार्यताज्ञानस्यैव प्रवर्तकत्वस्वीका- १. 'योग्यत्वा' ख पाठ २ 'नाका' क पाठ. ३. 'नामा' ख पाठ .
४९ शब्दपरिच्छेदे विधिवाद । रात् । न चैवमननुगम इति वाच्यम् । प्रवृत्तिमात्रे कार्यताज्ञानं सामान्यसामग्री । काम्यस्थले काम्यसाधनतालिङ्ककार्यताज्ञा- नं नित्यस्थले च वेदाधीनकार्यताज्ञाने च विशेषसामग्री । न चैवमप्यन्यकृतिसाध्यताज्ञानात् प्रवृत्त्यापत्तिः । यदि च स्वकृ- तिसाध्यताज्ञानमेव, तथापि भावियौवराज्यादौ प्रवृत्तिः स्या- दिति वाच्यम् । इदानीन्तनमत्कृतिसाध्यताज्ञानस्यैव प्रवर्त- कत्वात् । नन्वेवमपि मधुविषसम्पृक्तान्नभोजने सजातबाधस्यापि प्रवृत्त्यापत्तिः, तस्यापि तृप्तिरूपसुखसाधनलेनेष्टसाधनतालिङ्ग- ककार्यताज्ञानविषयलात् । न च तत्रानिष्टसाधनताज्ञानेन कृत्य- नुत्पादात् कृतिसाध्यताज्ञानमेव नेति वाच्यम् । कृतिसाध्यता- ज्ञानं हि यदीदानी मया क्रियेत , तदोत्पद्यतेत्येवमाकारकम् । तादृशस्य च कृत्यनुत्पादेऽपि सम्भवात् । अतः सञ्जातबाध- स्यापि तत्र प्रवृत्तिप्रसङ्ग इति चेद्, न । बलवदनिष्टाननुबन्धी- एसाधनतालिङ्गककार्यताज्ञानस्यैव विशेपसामग्रीत्वात् । नन्वेवमिष्टसाधनताज्ञानमेव प्रवर्तकमङ्गीक्रियताम् । कृ- तं सामग्रीद्वयकल्पनेनेति चेद् , नित्यस्थले फलाभावेनोक्तस्यै- वादर्तव्यत्वात् । नन्वेवमपि कृत्यनन्तरभविष्यत्तारूपकृतिसा- १. 'का' क पाठ. २. 'ल वे क पाठ. ३ 'न घि' ख. पाठ. ४. तिरिति वाच्यम् । य क पाठ ५ 'पा' क पाठ.
मणिपणे ध्यता पाकस्यासिद्धतादशायां दुर्जेया । सिद्धतादशायां तु सिद्धे कृत्यनुत्पादाद् उत्पन्नमपि कृतिसाध्यताज्ञानमकिञ्चित्करमिति चेद् , न । पाको मत्कृतिसाध्यः मत्कृतिमन्तरेणासत्त्वे सति मदिष्टसाधनत्वादित्यनुमानादसिद्ध एव पाके कृतिसाध्यताज्ञा- नसंभवात् । नन्वेवं प्राणपञ्चकसञ्चारस्थलसाधारण श्रमसाधारणं च कृतिसाध्यताज्ञानमात्रं न प्रवर्तकमिति स्वेच्छाधीनकृतिसाध्यत्वं साध्यम् । तावन्मात्रमपि भावियौवराज्यादौ न प्रवर्तकमिति खेच्छाधीनेदानीन्तनमत्कृतिसाध्यत्वं साध्यम् । ततश्च प्राणप- ञ्चकसञ्चारे भावियौवराज्यादौ च हेतोर्व्यभिचारः । तत्र मत्कृ- तिमन्तरेणासत्त्वे सति मदिष्टसाधनत्वरूपहेतोः सत्त्वात् स्वे- च्छाधीनेदानीन्तनमत्कृतिसाध्यत्वरूपसाध्याभावाच्चति चेद् , न। हेतावपि चिकीर्पाधीनेदानीन्तनमत्कृतिमन्तरेणेति विवक्षित- खात् । नन्वेवमप्यानुपङ्गिक ओदनादिमध्यगतमत्स्यादिभोजने विवक्षितहेतुमति स्वेच्छाधीनकृतिसाध्यताविरहाद् व्यभिचारः। न च हेतावपि स्वचिकीर्षाधीनमत्कृतिमन्तरेणेति विवक्षया तहा- रणमिति वाच्यम् । तथा सतीष्टसाधनत्वांशवयापातात् , श्रमादौ स्वेच्छाधीनकृतिमन्तरेणासत्त्वे सतीति हेतोरभावन व्यभिचाराभावात् । न च मास्तु तहीष्टसाधनत्वांश इति वां- १. 'ण च कृतिथ क. पाठः.
शब्दपरिच्छेदे विधिवाद.। च्यम् । तथा सतीष्टसाधनतालिङ्गककार्यताज्ञानासम्भवेन कान्ये प्रवृत्तिर्न स्यादिति चेद् , न। अन्येच्छाधीनमत्कृतिसाध्यत्वे सति यन्मदिष्टसाधनं तदन्यत्वे सतीत्यपि विशेषणात् । एव- च श्रमस्याप्यन्येच्छाधीनमत्कृतिमन्तरेणासत्त्वे सति यन्मदिष्ट- साधनं तदन्यत्वमस्तीति तत्र व्यभिचारवारणायेष्टसाधनत्वा- दिकम् । नन्वेवमपि यत्रोक्तहेतुमत्येव तदभाववत्त्वभ्रमरतत्र स्वे. च्छाधीनकृतिसाध्यत्वाभावाद् व्यभिचार इति चेद् , न । ताह- शेप्टसाधनत्वेन ज्ञातत्वस्यैव लिङ्गत्वात् । वस्तुतस्तु व्यभिचा- रिणोऽप्यस्माल्लिङ्गाद् व्यभिचारास्फूर्तिदशायां कार्यतानुमित्या स- र्वत्र प्रवृत्तिरिति पराभिमतत्वात् । नन्वेवमपि कालविशेपान्त- र्भावेन व्याप्तिग्रहासम्भवात् कथमनुमानप्रवृत्तिरिति चेद् , न । सामान्यव्याप्तिज्ञानात् पूर्वानवगतोऽपि विशेषः सिध्यतीति म- तेनैतदनुमानात् । नन्वेवं स्वर्गकामस्य मम यागविषयकं का- यमिति कार्यताज्ञानात् प्राक् कथं याग इष्टसाधनताज्ञानम् । इष्टसाधनाज्ञानस्य तन्मते विध्यर्थत्वाभावाद् इति चेद् , न । यागस्य स्वर्गसाधनत्याभावे स्वर्गकामकृतिविपयत्वान्वयायोग्य- तया स्वर्गकामकृतिविषयत्वान्वयितावच्छेदकतया विध्यर्थत्वा. भावेऽपीष्टसाधनत्वस्य घटेन जलमाहरेत्यत्र जलाहरणान्वयिता- वच्छेदकतया घटे छिद्रेतरत्वस्येव प्रतीतौ पश्चाद् यागो मत्कृति- साध्यः मत्कृतिमन्तरेणासति मदिष्टसाधनत्वादित्यनुमानसम्भ- २. 'ते' क. पाठः, १. 'वे. क. पाठः.
५२ मणिदर्पणे वादिति पराभिमतत्वात् । नन्वेवमपि कृतः क्रियमाणो वा पा- को न पक्षः । तत्रेदानीन्तनमत्कृतिसाध्यतासाधने वाधात् । नापि भावी पाकः , तस्याज्ञानादिति चेद्, अत्र मणिकृतः- सिद्धपाके पाकत्वं गृहीत्वा पाकत्वाश्रय इदानीन्तनमत्कृति- साध्य इति साध्यमाने सिद्धे वाधादसिद्ध एव साव्यं सिध्यति । पक्षतावच्छेदकसामानाधिकरण्येन हेतुज्ञानस्यैवानुमित्यङ्गत्लादि. त्याहुः । नन्विदानीन्तनेन्छाविषयसाधनवघटितहेतोः सिद्धे वाधादसिद्धस्य चाज्ञानात् कथं पक्षधर्मताधीः , तदभावाच्च कथमनुमितिरिति चेद , न । सिद्धपाकत्वेन बाधेऽपि पाकत्वेन सिद्धपाक एव हेतुज्ञानं नानुपपन्नम् । समानप्रकारकबाधज्ञा- नस्यैव तन्मते प्रतिबन्धकत्वे तन्त्रत्वात् । न चैवं, साध्यमपि सिद्ध एव पाके पाकत्वेन सिव्येदिति वाच्यम् । उत्सर्गतः प्रमाणानामवाधितज्ञानजननस्वाभाव्यादसिद्ध एव पाके साध्यं सिध्येदित्याहुः । वस्तुतस्तु अयं पाकः पाकपूर्ववर्ती पाकत्वात् प्राक्तनपाकवदित्यनुमानादनागतपाकसिद्वौ तत्पक्षीकारेणोक्तसा- ध्यसाधने बाधकाभावादिति दिक् । वालस्य स्तन्यपानादावि- टसाधनतालिङ्गरकार्यतानुमानं च त्वन्मत इष्टसाधनतानुमिति- वत् कार्यबलात करपनीयम् । अतः कृतिसाध्यत्वमेव विध्यर्थः, तज्ज्ञानं च प्रवर्तकमित्याहुः । अत्र तार्किकाः - यदुक्तं कृतिसाध्यताज्ञानं प्रवृत्ती सामान्यसामग्री, काम्यप्रवृत्तौ बलवदनिष्टाननुबन्धीष्टसाधनता- लिङ्गककार्यताज्ञानं नित्यप्रवृत्तौ वेदाधीनकार्यताज्ञानं च विशे- शब्दपरिच्छेदे विधिवादः। पसामग्रीति । तदयुक्तम् । बलवदनिष्टाननुबन्धीष्टसाधनत्ववि- पयककार्यताज्ञानत्वेनैव सर्वत्र प्रवर्तकत्वोपपत्तौ प्रवृत्तिकारणता- श्रयद्वयकल्पने गौरवात् । नित्यस्थलेऽपि यथेष्टसाधनताज्ञानस्य कारणत्वं तथा वक्ष्यते । किञ्च, वृष्टीच्छायां लाघवादुपायेच्छा. त्वावच्छेदेन साक्षादिष्टसाधनताज्ञानस्य हेतुत्वकल्पनादुपायचि- कीर्षायामपीष्टसाधनताज्ञानं साक्षादेव हेतुः, न तु कृतिसाध्य- तानुमित्युपक्षीणम् । अतः कृतिसाध्यताविषयकमिष्टसाधनता- ज्ञानमेव चिकीर्षाद्वारा प्रवर्तकम् । नन्वेवमुपायचिकीर्षायामुपा- येच्छात्वेनेष्टसाधनाताज्ञानस्य हेतुत्वेऽप्युपायचिकीत्वेनेष्टसाध- नतालिङ्गकं कार्यताज्ञानमपि हेतुरिति तदप्युपायचिकीर्पाहारा प्रवर्तकमस्त्विति चेद् , न । उपायचिकीत्वस्य कार्यतानवच्छे- दकत्वात् । तथाहि-चिकीत्वावच्छेदेन कृतिसाध्यताज्ञान- मानमेव कारणं, न विष्टसाधनतालिङ्गककार्यताज्ञानं, भोग- चिकीर्षायां तदभावात् । उपायेच्छायामिष्टसाधनताज्ञानं कार- णम् । ततश्च सामान्यविशेषसामग्रीभ्यामेवोपायचिकीर्षोपपत्ता- चुपायचिकीत्वेनेष्टसाधनतालिङ्गककार्यताज्ञानस्य साध्यसाधन- ताभावाकल्पनात्। अतो नेष्टसाधनतालिङ्गककार्यताज्ञानस्याप्यु- पायचिकीर्षाद्वारा प्रवृत्तिहेतुत्वम् । किन्तु बलवदनिष्टाननुब- न्धीष्टसाधनताविषयककृतिसाध्यताज्ञानमेव सर्वत्र प्रवर्तकमिति दिक् । २. 'कार्यता' क. पाठः १. 'नसा ख.पाठ ५४ मणिदर्पणे ननु कथमिष्टसाधनत्वं कृतिसाध्यत्वं चैकस्मिन्नेकदा ज्ञातुं शक्यम् । साधनत्वस्य सिद्धधर्मत्वात् साध्यत्वस्य चासि- इधर्मत्वादुभयोर्विरोधादिति चेद्, ने । नोकस्मिन् क्षण एवा- त्र साधनत्वसाध्यत्वे अवगन्तव्ये, येन विरोधः स्यात् । किन्तु सिद्धनन्तरं साधनतायोग्यस्येदानीन्तनकृतिसाध्यत्वमेव ज्ञेयमि- त्यविरोधात् । न चेदानीमिष्टसाधनत्वज्ञानस्यैव प्रवर्तकत्वे कथ- मविरोध इति वाच्यम् । सत्यम् । इदानीन्तनत्वमिच्छान्वयि, न साधनान्वयि । इदानीन्तनेच्छाविपयं प्रति क्षणान्तरे साधन- स्येदानीन्तनकृतिसाध्यत्वज्ञानाविरोधात् । कथमन्यथा तवापी- दानीमिष्टसाधनतालिङ्गादिदानी कृतिसाध्यताज्ञानमिति दिक् । नन्वेवमपीष्टविषयककृतिसाध्यताज्ञानमेव प्रवर्तकमस्तु । बलवदनिष्टाननुवन्धीष्टसाधनताविषयककृतिसाध्यताज्ञानापेक्षया लघुत्वात् । तावताप्यनिष्टजनके इष्टाजनके चेच्छानुदयेन प्रवृ.. त्यनापत्तेः । न चेप्टोपायेप्विष्टसाधनताज्ञानं विना नेच्छेतीष्टसा- धनताविषयककृतिसाध्यताज्ञानादेव तत्र चिकीर्पाद्वारा प्रवृत्ति- सम्भवादन्तरोपायविषयकेच्छाकल्पने मानाभावान्नेष्टविषयककृ- तिसाध्यताज्ञानं प्रवर्तकं, किन्विष्टसाधनताविपयककृतिसाध्य- ताज्ञानमेव तथेति सर्वत्र तज्ज्ञानमेव प्रवर्तकमिति वाच्यम् । सुखचिकीर्षायां लाघवाच्चिकीर्षात्वावच्छेदेनेष्टविषयककृतिसाध्य- ताज्ञानस्यैव हेतुत्वकल्पनात् । उपायचिकीर्षायामपि तद्धेतुत्व- सिद्धयेऽन्तरोपायेच्छाकल्पनायाः प्रामाणिकत्वात् । न चेष्टसाध- १. 'नो' ख. पाठ, २. 'व्ये । न ये ख. पाठ . शब्दपरिच्छेदे विधिवाद । नताज्ञानं विनोपायेषु नेच्छाविपयत्वं सम्भवतीति वाच्यम् । सत्यम् । इष्टसम्पत्त्यर्थमस्तु तत्रेष्टसाधनताज्ञानम् । प्रवृत्तिस्त्वि- एविषयककृतिसाध्यताज्ञानादेवेति चेद् , न । वृष्टीच्छायां ला. धवादुपायेच्छात्वावच्छेदेनेष्टसाधनताज्ञानस्य हेतुत्वसिद्धावुपाय- चिकीर्षायामपीष्टसाधनताज्ञानं हेतुरिति चिकीर्षाद्वारेष्टसाधनता- ज्ञानं प्रवृत्तिहेतुरिति दिक् । नन्वेवमपि शाब्दबलवदनिष्टाजनकत्वज्ञानं न प्रवर्त- कम् । तथा सति बहुवित्तव्ययायाससाध्यतया बहुतरदुःखजनके यागादौ प्रवृत्तिर्न स्यादिति चेद् , न । इष्टोत्पत्तिनान्तरीयक- दुःखाधिकदुःखाजनकत्वत्यैव बलवदनिष्टेत्यादिना विवक्षित- त्वात् । न चैव यदृच्छागतकामिनीदर्शने सुखमानजनक इप्टो- त्पत्तिनान्तरीयकदुःखाप्रसिद्धेस्तादृशदुःग्वाधिकदुःखाजनकत्वा-- भावान्न प्रवृत्तिः स्यादिति वाच्यम् । स्वजन्येप्टोत्पत्तिनान्तरी- यकदुःखाधिकदुःखजनकं यत् तदन्यत्वज्ञानं प्रवर्तकम् । तच्च तत्राप्यक्षतम् । नन्विष्टोत्पत्तिनान्तरीयकदुःखत्वं नाम न ताव- दिष्टोत्पत्तिावता दुःखेन विना न सिध्यति तादृशदुःखत्वम् । तथा सत्यगम्यागमनादाविष्टोत्पत्तेर्नरकं विनाप्यसिद्धेस्ततोऽधि. कदुःखजनकत्वाभावात् तत्र प्रवृत्तिः स्यात । नापीष्टोत्पत्ति- वितैहिकेन दुःखेन विना न भवति, तादृशदुःखत्वमेव ना- न्तरीयकदुःखत्वम् । ततश्चागम्यागमनादौ ततोऽधिकनरक- दुःखजनकत्वज्ञानान प्रवृत्तिरिति वाच्यम् । तर्हि बहुलतर- २ 'दो न' क. पाठ १. 'तवद स पाठ मणिदर्पणे दुःखजनके खल्पसुखसाधने कर्मणि प्रेक्षावतां प्रवृत्त्यापत्तिरिति चेद्, न । स्वजन्यसुखानुभवकालान्यूनकालानुभाव्यदुःखाजनक- त्वमेव बलवदनिष्टाननुबन्धित्वम् । तदेव च विध्यर्थः। न चैवमल- सानां सन्ध्यावन्दनादौ तादृशदुःखाजनकत्वज्ञानसत्त्वात् कथं विहितकालेवप्रवृत्तिरिति वाच्यम् । तादृशदुःखे तदीयबल- ववेषस्यापि सहकारित्वात् । अलसानां च तदभावात् । न चै- वं विध्यर्थज्ञानमेव प्रवर्तकमिति न स्यादिति वाच्यम् । इष्टत्वा- त् । विधिवाक्यजन्यज्ञानस्य प्रवर्तकज्ञानोपयोगित्वमात्रमिति सर्वाभ्युपेयत्वात् । अन्यथा विधिना कृताविदानीन्तनत्वम- दीयत्वाबोधेऽप्यप्रवृत्त्यापत्तेः । 'न कलशं भक्षयदिति निषे- धवाक्यस्यापि स्वजन्यसुखानुभवकालान्यूनकालानुभाव्यदुःखा- जनकत्वरूपस्य विध्यर्थस्याभाव एवार्थः । न चैवं कलञ्जभ- क्षणादौ तादृशदुःखजनकत्वज्ञानवतो रागौत्कट्येऽपि निवृत्तिः स्यादिति वाच्यम् । तादृशदुःख उत्कटद्वेषस्य निवृत्तावपि सहकारित्वात् । रागान्धस्य च तदभावान्न निवृत्तिः। उत्कटत्वं च जातिविशेषः । क्वचिदुत्कटः क्वचिदनुत्कटको द्वेषोऽसिद्ध एव , येन जातिसाङ्कय स्यादिति दिक् । ननु वलवदनिष्टाजनकत्वं न विध्यर्थः । न वा तज्ज्ञा- नं प्रवर्तकम् । किन्तु बलबदनिष्टजनकत्वज्ञानस्य प्रतिबन्धक- तया तादृशज्ञानाभाव एव हेतुः । न चैवं कृत्यसाध्यताज्ञानस्य प्रतिबन्धकतया तदभाव एव हेतुः स्यात् , न कृतिसाध्यताज्ञा- । १. 'नात्' क. पाठ . २. 'पि प्र' क. पाठः. ३. 'वृत्तिहेतु.। कि' ख. पाठः.
शब्दपरिच्छेदे विधिवादः। ५७ नमिति वाच्यम् । लाघवेन कृतिसाध्यताज्ञानस्यैव हेतुत्वकल्प- नात् । प्रकृते च बलवदनिष्टाजनकत्वज्ञानस्य प्रवर्तकत्वे बल- वदनिष्टाजनकत्वस्यापि विध्यर्थता स्यात् । प्रवर्तकज्ञानविषय- स्यैव विध्यर्थत्वात् । तथात्वे च श्येनेनाभिचरन् यजेते त्यादौ विध्यनुपपत्तिः । श्येनस्य वैविधार्थत्वेन बलवनिष्टजनक- त्वात् । न च श्येनेने नानिष्टं, किन्तु तज्जन्यहिंसयैवेति वा- च्यम् । श्येनस्याप्युपपातकेपु परिगणनौच्छिष्टविगर्हणाच्चानिष्ट- जनकत्यावश्यम्भावात् । साक्षाद्धिंसाया एवानिष्टजनकत्वे प्रेरका. देरपि दोपकीर्तनानुपपत्तेः । तस्माच्छ्येनविध्यनुपपत्तेर्न बलवद- निष्टाजनकत्वं विध्यर्थ इति चेद्, न । एवं सत्यग्नीषोमीयं पशु- मालभेतेति विधिः पशुहिंसायाः कृतिसाध्यत्वे सतीप्टसाधनता- मेव बूयाद् , न हिंस्यादिति निषेधश्च हिंसाया क्लवदनिष्टजन- कत्वम् । ततो द्वयोर्विरोधाभावात् सामान्यविशेषभावेनाविरोध इति सिद्धान्तो व्याहन्येत । बलबदनिष्टाजनकत्वस्यापि विध्य- थत्वे त्वग्नीषोमीयवाक्येन हिंसाया बलबदनिष्टाजनकत्वत्य न हिंस्यादिति निषेधेन हिंसाया वलबदनिष्टजनकत्वस्य च बोध- नादं विरोधे सति सामान्यशास्त्रस्य विशेषशास्त्र विषयातिरिक्त- विषयत्वकल्पनेनाविरोध इति सिद्धान्तो घटेत । तस्माद् वलव- दनिष्टाजनकत्वमपि विध्यर्थः । तज्ज्ञानं च प्रवर्तकम् । न चैवं श्येनविध्यनुपपत्तिरित्युक्तमिति वाच्यम् । तत्र बलबदनिष्टाजन- १. 'नामिचारे यक, पाठ.. २. 'यातनाये क. पायः ४. 'मानि' क. पाठः, ५. नाद्विग' क. पाठः ६. 'तेश्च । क. पाठः, ७, 'न' क. पाठः . शादति स. पाठः, क.पाठः, ५८ मणिदर्पणे कत्वांशस्यायोग्यतयानन्वयोपपत्तेः । ननु कृतिसाध्यत्वबलबद- निष्टाजनकत्वविशिष्टेष्टसाधनत्वस्य विध्यर्थतया तत्र कृतिसाध्य- त्वविशिष्टेष्टसाधनत्वमात्रस्यापरपदार्थान्वयार्थ स्वतन्त्रोपस्थितये लक्षणा स्यात् । सा चायुक्ता 'न विधौ परः शब्दार्थ' इति न्या- यात् । न च गौरनिन्येत्यादाविव विशेप्यस्येष्टसाधनत्वस्यापरप- दार्थान्वये न लक्षणेति वाच्यम् । विनिगमनाविरहेणेप्टसाधन- त्वस्यैव विशेप्यत्वे मानाभावादिति चेत् । सत्यम् । त्रयाणामपि कृतिसाध्यत्वादीनामन्वयव्यतिरेकतौल्येन विनिगमनाविरहात् त्रयमपि पृथगेव शक्यम् । न चैवं शक्तित्रयाङ्गीकारे नानार्थता- पत्तिरिति वाच्यम् । पुप्पवत्पदे दिवाकरनिशाकरयोरिव विधौ कृतिसाध्यत्वादिष्वेकस्या एव शक्तेः कल्पनात् । ततश्च कृति- साध्यत्वादिपु त्रिप्वपि स्वातन्त्र्येण येनविधिनोपस्थितेपु कृति- साध्यत्वेप्टसाधनत्वयोरेव तत्र यागान्वयः, न बलवदनिष्टाजन- कत्वस्यापि, अयोग्यत्वादिति न विधौ लक्षणापत्तिरिति दिक् । ननु तथापि कृतिसाध्यत्वे न विधेः शक्तिः, आख्यात- त्वेन तंतः कृत्युपस्थितौ धात्वर्थे तत्साध्यत्वस्य संसर्गमर्यादयैव भानोपपत्तेः । न चैवमपि कृतिसाध्यत्वप्रकारकज्ञानाभावे कृतिसाध्यत्वप्रकारकचिकीर्षासम्भवेन प्रवृत्त्यनुपपत्तेः कृतिसा- ध्यत्वप्रकारकज्ञानाय कृतिसाध्यत्वेऽपि विधेः शक्तिरावश्यिकेति वाच्यम् । विधिना संसर्गमर्यादया कृतिसाध्यत्वज्ञाने सति पश्चान्मनसा तत्प्रकारकज्ञानसंभवादिति चेद् ,न । कृतेर्धात्व- १. 'त्या' क. पाठ. • 'स्या' क. पाठ. ३. 'स्यायो' क. पाठ शब्दपरिच्छेदे विधिवाद । थस्य च विपयिविपयभाव एव संसर्गः, न तु साध्यसाधनभाव इति न कृतिसाध्यत्वस्य संसर्गमर्यादया भानसंभवः । न च विषयतैव साध्यतेति वाच्यम् । ज्ञानस्वरूपातिरिक्तविपयतायाः प्रत्यक्षस्थल एव निरासेन तस्याः कृत्यनन्तरभविष्यत्तारूपसा- ध्यत्वाभेदासंभवात् । तर्हि विषयतया साध्यत्वानुमानमस्त्विति वाच्यम् । अनुमानस्य व्याप्तिग्रहादिविलग्वेनानावश्यकतया वि- धिस्थले नियमतः कृतिसाध्यत्वप्रतीत्यभावप्रसङ्गाद् , असाध्य- स्यापि विषयत्वसंभवेन व्याप्त्यभावाद् विपयतया साध्यत्वानु- मानासम्भवाच्चेति दिक् । नन्वेवमपीष्टसाधनताज्ञानं न प्रवर्तकम् । नित्ये फला- भावात् । नित्यस्यापि फलबत्त्वे कामनोपाधिकर्तव्यतया काम- नाभावे तदनुष्ठानभङ्गप्रमङ्गात् । तस्मानित्ये वेदाधीनकार्यता- ज्ञानमेव प्रवर्तकमिति कान्येऽपीष्टसाधनतालिङ्गककार्यताज्ञानमेव तथा , न त्विष्टसाधनताज्ञानमपीति चेद् , न। निष्फले प्रवृत्त्य. सम्भवेन. "सन्ध्यामुपासते ये तु सतत संशितव्रताः। विधूतपापास्ते यान्ति ब्रह्मलोक सनातनम् ॥" इति श्रुतायाः पापनिवृत्तेर्ब्रह्मलोकावाप्तेश्च नित्येऽपि फलस्व- कल्पनात् । न चैवमुक्तफलकामनावत एवाधिकारात् कदा- चित् कामनाविरहे नित्याननुठानेऽपि प्रत्यवायो न स्याद् , अधिकारिण एव नित्यकर्माकरणस्य प्रत्यवायहेतुत्वादिति वा- , . १ 'त्यत्वेऽपि' ख पाठ ६० मणिदर्पणे च्यम् । जीवतः शुचेरकरणे प्रत्यवायस्मरणेन शुचित्वे सति विहितकालजीवित्वस्यैवाधिकारिविशेषणत्वकल्पनान्न कामना. विरहे नित्याननुष्ठाने प्रत्यवायाप्रसक्तिः । न चैवं तदानीमिष्टसा. धनताज्ञानविरहात् कथं प्रवृत्तिरिति वाच्यम् । तदानीमपि प्रत्यवायानुत्पत्तिरूपेष्टसाधनताज्ञानस्यैव नित्येऽपि सम्भवान्न प्र- वृत्यनुपपत्तिरिति दिक् । नन्विष्टसाधनताप्रकारकज्ञानवत् साध्येष्टकत्वप्रकारकज्ञा- नमपि हेतुः । विनिगमनाविरहात् । तथा चाननुगम इति चेद्, न। साध्येटफसज्ञानेऽपि समानसंविसंवेद्यतया इष्टसाधन- स्वस्यापि विपयतयेष्टसाधनत्वावगाहिज्ञानत्वेनोभयोरनुगमसम्भ- वादुभयोर्हेतुत्वेऽपि न किञ्चिद् वाधकम् । नन्विष्टसाधनताज्ञा- नस्य हेतुत्वे इच्छाज्ञानस्यापि हेतुत्वापत्तिरिति चेद्, न। वस्तुतो यः स्वरूपसदिच्छाविपयस्तत्साधनताज्ञानस्यैव हेतुत्वात् । न चैवमपि विधितः सामान्येष्टसाधनताज्ञानेऽपि स्वर्गादिरूपेष्टवि- शेषसाधनताज्ञानाभावात् कथं प्रवृत्तिरिति वाच्यम् । विधिना सामान्यत इष्टसाधनत्वे बोधिते कि तदिष्टमित्याकाक्षायां स्व- र्गादिपदसमभिव्याहारात् स्वर्गादिरूपेष्टसाधनतावगमसम्भवात्। नन्वेवं साधनत्वमानं विध्यर्थोऽस्तु । कस्य साधनत्वमित्याकाङ्क्षा- यां समभिव्याहारादिना स्वर्गादिसाधनताधीसम्भवात् । न चैवं विश्वजिता यजेतेत्यत्र समभिव्याहाराभावात् स्वर्गसाध- नंताधीन स्यादिति वाच्यम् । तत्रापि साध्याकाङ्क्षायां सर्वाभ्य- १. 'ति जी' क पाठ २. 'नमि' ख. पाठ शब्दपरिच्छेदे विधिवाद । हितत्वेन स्वर्गस्यैव साध्यतया कल्पनादिति चेद् , न। साधनत्व- मानस्य विध्यर्थत्वे साधनत्वस्यानुगतस्याभावाद् विधेर्नानार्थ- तापातः । न चैवमिष्टसाधनत्वपक्षेऽपि से दोपस्तदवस्थ इति वाच्यम् । तत्रेच्छावजात्येच्छायास्तया स्वविपयस्य तेन साध- नत्वस्यानुगतिसम्भवात् । अत एव गन्धत्वादिजात्या परम्परा- सम्बन्धेन गन्धवत्त्वाद्युपाधेरनुगमादनुगतव्यवहारः । तस्मादि- टसाधनत्वमेव विध्यर्थ इति दिक् । अयं च विधिरपूर्वविधिनियमविधिः परिसंख्याविधिश्चे- ति मामान्यतस्विविधः । तत्र कालत्रयेऽप्यप्राप्तस्य विधिरपूर्व- विधिः । यथा-व्रीहीन प्रोक्षतीत्यत्र व्रीहीणां प्रोक्षणस्य विधि विना मानान्तरेणाप्राप्तेरपूर्वविधिः । पक्षे प्राप्तस्याप्राप्ताशपरिपू- रणफलको विधिनियमविधिः। यथा- ब्रीहीनवहन्तत्यित्रैत- द्विध्यभावेऽपि पुरोडाशप्रकृतिद्रव्याणां ब्रीहीणां तण्डुलनिष्पत्त्य- र्थमाक्षेपादेवावहननप्राप्तिर्भविष्यतीति न तत्प्राप्त्यर्थो विधिः, किन्त्ववहननवदाक्षेपान्नखविदलनमपि प्राप्नुयादित्यवहननाप्रा- प्त्यंशसम्भवात् तदशेऽप्यवहननप्रापणार्थोऽय विधिरित्यप्राप्ताश- परिपूरणफलकैः । द्वयोरेकस्य प्राप्तावेकत्र तन्निवृत्तिफलको विधिः परिसंख्याविधिः । यथा--"इमामगृभ्णन् रशनामृतस्येत्य- वाभिधानीमाधत्ते" इत्यत्रैतद्विध्यभावेऽपि अयं मन्त्रोऽग्निचयने पठितः । तत्रानुष्ठेयाश्वरशनाग्रहणे गर्दभरशनाग्रहणे च रशना- ग्रहणप्रकाशनसामर्थ्यरूपेण लिनेन नित्य प्राप्नोतीति न तत्प्रा- २ 'को विधि । ' क पाठ १ तद्दोपतादवस्थ्यमिति' ख. पाठ . - मणिदर्पण प्त्यर्थः, नौप्यप्राप्तांशपरिपूरणाथों चा, किन्तु, लिङ्गाविशेपाद् गर्दभरशनाग्रहणेऽपि प्राप्नुयादिति तन्निवृत्त्यर्थोऽयं विधिः । ननु परिसङ्ख्यायां मन्त्रस्य गर्दभरशनातो निवृत्तिरिव नियमविधावपि बीहिपु नखविदलननिवृत्तिरपीटेति कथं नियम- परिसङ्ख्ययोः फलभेद इति चेद् , न । नियमविधावबघातापा- प्यत्रीांशेऽप्यवघातप्रापणं विनाक्षेपलभ्यस्य नखविदलनस्य नि- वृत्तिर्न सम्भवतीति प्रथमोपस्थितत्वाद् विधेयावहननगतत्वेन प्रत्यासन्नत्वाच्चाप्राप्तांगपरिपूरणरूपो नियम एव फलं, न तूपा- यान्तरनिवृत्तिः। तस्याश्चरमोपस्थितत्वादविधेयगतत्वेन विप्रकृ- टत्वाच्च । परिसङ्घयायां तु इयोर्मन्त्रस्य नित्यप्राप्तत्वेनापूर्वविधि- वत् स्वरूपप्राप्तेनियमविधिवदप्राप्तांशपरिपूरणम्य वा फलवास- म्भवाद् गर्दभरशनानिवृत्तिरेव फलमङ्गीक्रियते । अत एव परि- सङ्ख्याविधेर्न स्वार्थे तात्पर्यम्। 'अप्राप्ते शास्त्रमर्थवदिति न्यायेन मन्त्रलिङ्गप्राप्तेऽनेन मन्त्रेणाश्वरशनादातव्येति स्वार्थे तात्पर्या- योगादिति स्वार्थस्त्यक्तव्यः, तथा गर्दभरशना नादातव्येति परा- थे लक्षणा वाच्येति परार्थग्रहणं, सामर्थ्याद् गर्दभरशनाग्रहणे- ऽपि प्राप्तस्य मन्त्रस्य बाधश्च स्वीकार्य इति प्राप्तवाधश्चेति त्रैदो- प्यात् परिसंख्याविधेर्नियमविधितो जघन्यता । तस्मादत्यन्ता- प्राप्ते विधिरपूर्वविधिः । पाक्षिकप्राप्तौ विधिनियमविधिः । उभ- यत्र प्राप्तौ विधिः परिसंख्याविधिः । तदुक्तं- - १, 'नाप्रा' के पाठ. २. 'भ्यन' क पाठ. ३ 'ननि' क पाठ.
१३ शब्दपरिच्छेदे अपूर्वबाद । "विधिरत्यन्तमप्राप्त नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्त परिसंख्येति गीयते ॥" इति । एवमन्येऽपि विधिभेदा विस्तरभयान्न लिख्यन्त इति संक्षेपः॥ इति विधिवाद ॥ - अथापूर्ववाद। अत्र प्राभाकराः- 'पुष्टिकामो घृतं पिबेदिसादिलौकि- कलिङा प्रथमत एव क्रियागतेष्टसाधनत्वकृतिसाध्यत्वबोधक- सेऽपि स्वर्गकामो यजेतेत्यादिवैदिकलिङ न प्रथमत एव क्रि- यागतेष्टसाधनत्वकृतिसाध्यत्वबोधकता सम्भवति । तथाहि - वैदिकलिडां हि नियोगो वाच्यः । ततश्च स्वर्गादिसाधनत्वे- नावगते तस्मिन् यागविषयकं कार्यमिति प्रथमं कृतिसाध्यता- बोधो जायते । तस्य च बोधस्य मदंशोधविपयतया प्रवर्तक- त्वासंभवादनन्तरं स्वर्गकामस्य मम यागविपयकं कार्यमिति पुनस्तस्मिन्नेव नियोगेऽनुपपत्तिसहायेन शब्देनैव द्वितीयः का- यताबोधो जायते । ततश्च नियोगस्य फलेवेन साक्षात् कृत्य- साध्यतया नियोगविषयककार्यताज्ञानस्य भिन्नविपयतया यागे प्रवर्तकत्वासंभवाच्च यागविषयकं कार्यताज्ञानं प्रथमावगतनि- योगकार्यतानिर्वाहकतयावश्यं वाच्यम् । तथ कामी हि का- ३. 'त्वेऽव' ख. पाठ १. 'तो' स. पाठ. २. 'डा' क. पाठ ४. 'शावि' क. पाठ. ५ 'लतुल्यत्वे' क. पाठ .
मणिदर्पणे म्यादन्यत् काम्यसाधनतयावगतमेव कर्तव्यतयावतीति न्यायाद यागे काम्यसाधनताज्ञानं विना न भवतीति प्रथमप्रतीत- नियोगद्वारा स्वर्गसाधनतया प्रतीतस्य यागस्य कार्यत्वं ज्ञात- व्यमिति स्वर्गसाधनतया ज्ञाते यागे काम्यस्वर्गसाधनं यागः स्वर्गकामकृतिसाध्य इति तृतीयोऽपि बोध औपादानिकः शब्दा- देव जायते । अयमेवाधिकारित्वबोध इत्युच्यते । ततो याग- कृतिः कर्तारं विनानुपपन्नेति ज्ञानसहायेन शब्देनैव स्वर्गकामो यागकर्तेति चतुर्थ औपादानिकः कर्तृत्वबोधो जन्यते । एवमपि मदंशाद्यज्ञाने प्रवृत्तिर्नेति स्वर्गकामस्य यागः कार्यः, अहमपि स्वर्गकामः, तस्मान्ममापि यागः कार्य इति ज्ञानसहायेनेष्ट- वालपर्यन्तदीर्घव्यापारवता शब्देनैव पञ्चमो बोध उत्पद्यत इत्यस्माकं सिद्धान्तसराणिः। ततश्च प्रथमं साक्षात् स्वर्गसाधन- तयाबगते नियोगे कृतिसाध्यताज्ञाने सति नियोगकृतिसाध्य- तानिहाय पश्चादेवेष्टसाधनताज्ञानपूर्वकं यागे कृतिसाध्य- ताज्ञानं शब्दात् । न तु प्रथमम् । वस्तुतस्तु स्वर्गकामस्य मम यागविषयकमपूर्व कार्यमिति नियोगविषयकद्वितीयकार्यताबो- धादेव प्रवृत्तिसिद्धेर्न यागे पश्चादपि कृतिसाध्यताज्ञानम् । न च भिन्नविषयकस्य नियोगविषयककार्यताज्ञानस्य कथं याग. विषयकप्रवृत्ती हेतुलम् । अन्यथातिप्रसङ्गादिति वाच्यम् । या- गविषयक कार्यमिति नियोगगतकार्यताज्ञानस्य यागविषयक- तया समानविषयकत्वेन यागे प्रवर्तकत्वेऽप्यतिप्रसङ्गाभावेन गौ- रवेण समानविशेष्यकत्वस्यातन्त्रत्वात् । अतः क्रियायां न १. 'शा' क. पाठ. १. 'कमपूर्व का' क पाठ.
शब्दपरिच्छेद अपूर्ववादः । कृतिसाध्यताज्ञानं प्रवृत्तिहेतुः । स्यादेतदेवम् , यद्यपूर्वस्य वाच्य- ता स्यात् । तस्यामेव न प्रमाणमिति चेद् , न । आशुतरवि- नाशिनो यागस्य कालान्तरभाविस्वर्ग प्रति साक्षात्साधनत्वबा- धात् परम्परासाधनत्वमेव ग्राह्यम् । तच परम्पराघटकापूर्वज्ञानं विना नेत्यपूर्व लिडादिशक्तिरावाश्यका । न च त्वन्मते जला- हरणान्वययोग्यतावच्छेदकस्यच्छिद्रेतरत्वस्य पदोदनुपस्थितस्या- प्यन्वयप्रकारतया शाब्दबोधविषयत्वाभ्युपगमादिहापि यागे स्वर्गसाधनत्वान्वययोग्यतावच्छेदकस्यापूर्वस्य पादनुपस्थित- स्यापि यागस्वर्गान्वयप्रकारतया शान्दवोधविपयतोपपत्तेर्न तत्र लिङादेः शक्तिकल्पनेति वाच्यम् । योग्यतावच्छेदकत्वेन पूर्व ज्ञातस्यैवान्यत्रान्वयप्रकारतया शाब्दधीविषयत्वमिति परेपाम- प्यभिमतम् । अन्यथा घटमात्रं जलाहरणयोग्यमिति ज्ञान- तोऽपि घटेन जलमाहरेत्यत्रच्छिद्रेतरत्वभानापत्तेः । तथाचापू- वस्य पूर्वानुपस्थितस्य योग्यतावच्छेदकत्वज्ञानासम्भवात् तज्ज्ञा- नार्थमपूर्वे लिङादिशक्तिरावश्यिका । नन्वेवं 'सोमेन यजेते'त्युत्पत्तिवाक्येऽपि नियोगे कार्य- ताधीः स्यात् । न चेष्टापत्तिः । उत्पत्तिविधौ यागः कर्तव्य इति क्रियाकार्यताज्ञानमेवोत्पद्यत इति भवसिद्धान्तहानेरिति चेद, न । कालान्तरभाविफलसमभिव्याहतलिङामेव प्रथमत एवापू- . १. ' विज्ञा' क. पाठ . २. 'त' क. पाठः ३. 'दानु' क. पाठ.. ४. 'दानु' क. पाठ ५. 'पा मतम्। क. पाठ.. ६. 'णे क. पाठ.. ७. 'चेत् का' क. पाठ.. 18 मणिदर्पणे र्ववाचकत्वमित्यभ्युपगमात् । न चैवं वैदिकलिङ्त्वावच्छेदेना- पूर्वशक्तिरिति भवत्सिद्धान्तहानिरिति वाच्यम् । उत्पचिवा- क्येऽपि क्षणिकानां सोमयागानां कालान्तरभाविपरमापूर्वसाध- नत्वाय कल्प्यमानानामुत्पत्त्यपूर्वाणामपि लियाच्यतयैव कल्प- नात् । नन्वपूर्वस्य वैदिकलिङ्वाच्यत्वे 'यो ब्राह्मणायापगुरेत्, तं शतेन यातयादि'त्यत्रापगोरणस्य कालान्तरभाविनरकयातना- जनकत्वानुपपत्त्या दुरितापूर्वमपि लिड्वाच्यं स्यादिति चेद्, न । सिद्धार्थे व्युत्पत्तिविरहेणापगोरणे शतयातनाफलकमिति सि- द्वार्थबोधकत्वासम्भवात् । तस्माद् ब्राह्मणाय नापगुरेतेति प्रति- षेधविधिशेपोऽयमर्थवाद इति तत्रापूर्वस्यावाच्यत्वेऽपि न हा- निः। विधिलिडामेवं तवाचकत्वाभ्युपगमात् । नन्वेवं तत्र दुरितापूर्वप्रतीतिः कथमिति चेदित्थम् । नापगुरेतेति प्रतिषेधवि- धावपगोरणनिवृत्तिविषयककार्यता प्रतीयते । तत्रापगोरणस्य दु. रितादृष्टाहेतुत्वे तन्निवृत्तेः कार्यताप्रतीतिर्न स्यात् , तस्याः स्वतः पुरुषार्थत्वाभानात् । अपगोरणस्य तहेतुत्वे तु भवत्यपंगोरणनि- वृत्तिर्दुश्तिकारणानिवृत्तित्वेन सफलेति तत्र कार्यताबोध इत्यप- गोरणनिवृत्तौ कार्यताबोधानुपपत्त्यापगोरणस्य दुरितापूर्वसाध- नत्वकल्पनमिति दिक् । ननु तन्मते नित्यस्थले कालान्तरभाविफलाभावेन कि- । १. 'गाभ्यासाना' ख. पाठ' ख.पाठ. ४. 'थें ख. पाठ. पाठ.. ७. 'णे क. पाठ. २. 'ङा वाच्य क. पाठ. ३. पण या ५. 'स्व' क पाठ ६ 'चतुत' ख.
शब्दपरिच्छेद अपूर्ववादः । ६७ यायामेव कार्यतान्वयसम्भवान्न नित्यापूर्वसिद्धिरिति चेद् न।का- म्यस्थले क्रियायाः स्वर्गकामकृतिसाध्यतान्वयानुपपत्त्या लिङः कार्यत्वविशिष्टे शक्तौ कल्प्यायां लाघवेन वैदिकलिङ्त्वावच्छे- देन क्रियाभिन्नकार्यत्वविशिष्टे शक्तिकल्पनान्नित्यापूर्वसिद्धिः। ननु, शाब्दानुभवात् पूर्वम् अपूर्वत्वेनापूर्वोपस्थितावपूर्वत्वव्या- घातः । तत्त्वेनानुपस्थितौ कथं तत्र शक्तिग्रह इति चेद्, न । कार्यत्वेन घटायुपस्थितौ कार्यत्वेन तत्र शक्तिधीः। शाव्दधीस्तु घ- टादेः स्वर्गकामकार्यतान्वयायोग्यत्वात् कार्यत्वेनापूर्वमेव विष. यीकरोति । न चान्यस्य शक्तिग्रहविषयत्वम् अन्यस्य शाब्द- वोधविषयत्वमित्ययुक्तम्, अतिप्रसङ्गादिति वाच्यम् । समानप्र. कारकत्वस्य नियामकत्वात् । ननु कार्येऽपि स्थायित्वानिश्चयात् कथं स्वर्गकामस्य कार्यताधीरिति वाच्यम् । स्थायित्वविशिष्टे कार्ये शक्तिरित्येके । अन्वयितावच्छेदकतया स्थायित्वीरि- त्यपरे। १० .. ननु लोके पाकादेः कार्यस्य धातुत एवोपस्थितेः कार्यत्वमात्रे लिङः शक्तिः । न तु कार्यत्वविशिष्टे । वेदे तु कार्यत्वविशिष्टे शक्तिरिति नानार्थतापात इति चेद्,न। कार्यत्वविशिष्टशक्तादेव पदाद् गौनियेत्यत्रेव विशेषणमात्रोपस्थितेर्लक्षणयाप्युपपत्तौ लोके ३. 'वि' क. २. 'हप्यमानायां' क. पाठः, १. 'म्य' क. पाठ.. ५. 'वं कार्यत्वेनोप' क. पाठ . पाठः ४. शक. पाठ ८. 'यत्वे शख. पाठः स्था'-क. पाठ ७. 'मकाम्यता' ख. पाठः, ९. 'देी' क, पाठ, १०. 'ते' क. पाठ मणिदर्पणे कार्यत्वेऽपि शक्तेरकल्पनात् । न च विनिगमनाविरहाद् वेद एव लक्षणा किं न स्यादिति वाच्यम् । न विधौ परः शब्दार्थः' इति न्यायात् पौरुषेय एव लक्षणाकल्पनौचित्यात् । ननु लोके वेदे च कार्यतायामेव शक्तिः। लोके समभिव्याहृताद् धातोस्त- दाश्रयोपस्थितिः, वेदे त्वाक्षेपादिति न क्वापि लक्षणेति चेद् , एवं सति नित्यस्थलेऽनुपपत्त्यभावात् कार्योपस्थितिर्न स्यात् । तस्माद् वैदिकलित्वावच्छेदेन कार्ये शक्तिकल्पनायामेव नित्य- स्थले कार्यसिद्धिरिति कार्ये शक्तिरेष्टव्या। तस्माद् वेदे न प्रथ- मतः क्रियान्वयिकार्यताधीरिति पूर्वपक्षसङ्क्षपः । अत्रोच्यते - यदुक्तं शाब्दबोधस्यान्वयितावच्छेदक- प्रकारकत्वनियमात् साक्षादसाधनस्य यागस्य स्वर्गसाधनता- बोधेऽन्वयितावच्छेदकस्यापूर्वस्य प्रकारता वाच्या । सा च न पूर्वाज्ञातस्य सम्भवतीत्यपूर्वे लिवाच्यता कल्पनीयेति । तन्न । तादृशनियमे मानाभावात् । न च घटेन जलमाहरेत्यत्रच्छिद्रे- तरत्वभानमेव मानमित्युक्तमिति वाच्यम् । तत्र वस्तुतश्छिद्रे- तरघटस्य घटत्वेन भानेऽपिच्छिद्रेतरघटत्वेनाभानात् । अन्य- था घटपदस्यच्छिद्रेतरघटे लक्षणापत्तेः । शब्दानुपस्थितस्य शाब्दबोधाविषयत्वात् । न च क्षणिकस्य यागस्य कालान्तर- फलं प्रत्ययोग्यत्वनिश्चयात् कथं तत्र साधनताधीरिति वाच्यम् । अनुभवस्य स्मृतौ जनयितव्यायां संस्कारस्येवात्रापि कस्यचित स्थायिनो व्यापारस्य सम्भवेनायोग्यतानिश्चयविरहाद् योग्य- . १. 'याका' क. पाठ. २. 'स्म स्व' क, पाठ.
- शब्दपरिच्छेदे मपूर्ववादः। तासंशयस्य चानुकूलत्वात् । नन्वेवमपि साधनत्वसामान्यबोध- कस्यापि साक्षात्साधनत्वबांधे परम्परासाधनत्वप्रकारकज्ञानजन- कवनियमात् परम्पराघटकत्वेनापूर्वस्य शाब्दबोधविषयत्वमङ्गी- कार्यमिति चेद् , न । सामान्यबोधजनकरय मानस्यैकविशेष- चौधे विशेषान्तरविषयकज्ञानजनकत्वमेव , न तु विशेषान्तरप्र- कारकज्ञानजनकत्वम् । अन्यथा गृह्वर्तिनं घटमानयेत्यत्रापि पीतघटबाधे नीलघटत्वादिप्रकारकज्ञानजननापत्तेः । तस्मात् साधनत्वसामान्यशक्तेन लिङ्पदेनायोग्यतानिश्चयविरहादपूर्वो- पस्थिति विनापि साधेनत्वमात्रप्रकारकबोधे जाते पश्चात्प्रती. तसाधनत्वानुपपत्त्यापूर्वकल्पनमित्येव वाच्यम् । अन्यथा 'पुष्टि- कामो घृतं पिबेदि'त्यादावपि घृतपानस्य साक्षात्कालान्तरभावि- पुष्टिसाधनत्वबाधात् तद्यापारस्य धातुसाम्यादेरपि वाच्यताकल्प- नापत्तेरिति दिक् । नन्वपूर्वकल्पनायामपि किं प्रमाणं, चिरध्वस्तादेव या- गात् फलसम्भवात् । व्यापारकल्पनेऽपि तस्य व्यापारस्य याग- गतानन्यथासिद्धत्वनियतपूर्ववृत्तित्वांशेषु काप्युपयोगाभावेनाप्र- योजकत्वादिति चेद् , न । एवं सति चिरध्वस्ताद् दण्डादपि घटोत्पादापत्तिः । न च भ्रम्यभावान्न तदुत्पत्तिरिति वाच्यम् । तहि भ्रमिरेव चिरध्वस्तदण्डात् किं न जायेत । तस्माद- १: 'यो क. पाठः. १, 'फन्' स. पाठः, पाठः, २. 'यो क. पाठः. ३. 'पणान्त' क. पाठः. ५. 'मान्यमा' क. पाठः, ६. 'म् । ध्व' ख.
मणिदर्पणे न्वयव्यतिरेकाभ्यां नष्टस्य व्यापारवत एव हेतुत्वमित्यत्रापि नष्ट- स्य यागस्य स्वर्गसाधनतानिहाय व्यापारकल्पनावश्यंभा- वात् । न च कल्पितस्यापि तस्यानन्यथासिद्धत्वाचंशेपु न क्का- प्युपयोग इत्युक्तमिति वाच्यम् । पूर्ववर्तिवघटकतयोपयोगात् । पूर्ववर्तिवं हि कार्योत्पत्तिपूर्वक्षणवर्तित्वरूपं कार्योत्पत्तिपूर्वक्षणे : स्वस्वव्यापारान्यतरसत्तया निर्वाह्यम् । तच्च चिरध्वस्तस्य स्वस- त्तया बाधितमिति स्वव्यापारसत्या निर्वाह्यम् । नन्वेवमि- प्टसाधनत्वशक्तेन विधिना कारणत्वघटकतया व्यापारभूतस्या- पूर्वस्योपपादनादपूर्ववाच्यता दुर्वारा स्यादिति चेद् , न । एतादृशवाच्यताया अनन्यथासिद्धत्वादिसाधारणाया अस्माभि- रप्यङ्गीकारात् । कार्यत्वविशिष्टतया लिङ्पदवाच्यतायाः परम- नङ्गीकारात् । नन्वेवमपि यागादेः स्वध्वंस एवं व्यापारोऽस्तु । कृत- मपूर्वकल्पनया । न च प्रतियोगितदभावयोरेकनाजनकत्वमिति वाच्यम् । घटतदभावसमूहालम्बन इव तदविरोधात् । न च यागध्वंसस्म व्यापारतया कारणत्वे कारणीभूताभावप्रतियोगित्वेन यागस्य स्वर्गे प्रतिवन्धकत्वापत्तिरिति वाच्यम् । संसर्गाभाव त्वेन कारणीभूतो योऽभावस्तत्प्रतियोगिन एव प्रतिबन्धक- त्वात् । अन्यथा कारणीभूतप्रागभावप्रतियोगितया ज्ञानोत्पत्ती ज्ञानस्य प्रतिबन्धकत्वापत्तेः । न चेप्टापत्तिः । यज्ज्ञानं यत्र प्रति- बन्धकं, तत्सामग्रयपि तत्र प्रतिबन्धिकेति ज्ञानसामग्रया,ज्ञाने - । १. 'वृत्तित्वं तु का क. पाठः. २. 'नपद स. पाठः, शब्दपरिच्छेदे अपूर्ववादः । प्रतिबन्धकतापत्तेः । न च यागः सव्यापारकः कालान्तरभावि- फलजनकत्वादिति व्यापारसाधकं प्रमाणं लाघवाद् भावरूप- मेव व्यापार कल्पयतीत्यपूर्वसिद्धिरिति वाच्यम् । अपूर्वस्य व्या- पारत्वकल्पने हि धर्मिणरतस्य तज्जन्यत्वस्य च कल्पने गौर- वात् स्वरूपतस्तजन्यत्वेन च क्लुप्तस्य ध्वंसस्य तजन्यजनकत्व- मात्रकल्पनायामेव लाघवात् । अत एव 'ध्वंसस्य व्यापारत्वे मुक्ते पितरि पुत्रकृतश्राद्धादिना सुखोत्पत्तिः स्यात् । व्यापारस्य ध्वं- सस्य सत्त्वात् । अपूर्वकल्पने तु मुक्ते पितरि अपूर्वानुत्पत्ते यं दोप' इत्यपास्तम् । ध्वंससत्त्वेऽपि तत्र सुखप्रागभावाभावेन सुखानुत्पत्त्युपपत्तेः। 'धर्मः क्षरति कीर्तनादिति च वाक्यं लक्ष- गया फलाजनकत्वपरम् । न तु नाशपरम् । येन ध्वंसस्य ना- शासम्भवाद् व्यापारता न स्यात् । तस्माद् ध्वंस एव व्यापारो- ऽस्त्विति नापूर्वकल्पनायां प्रमाणमिति चेद्, न । 'ज्योतिष्टोमेन स्वर्गकामो यजेते त्यादौ तत्तत्सोमयागाभ्यासध्वंसानामनेकेषां व्यापारत्वकल्पने गौरवं, तथा स्वानसन्ध्यावन्दनादीनामप्यनेक. क्रियारूपतया तत्तद्ध्वंसानां व्यापारत्वकल्पने गौरवमिति ला- धवादेकापूर्वसिद्धिरिति दिक् । तचापूर्व स्वजनककृतिसमानाधिकरणमेव कल्पयितुमु. चितमिति कर्तृगतमेव कल्प्यते । न चैवं जातेप्टयादिना पुत्रग- तपूतत्वादि फलं न स्यात्।अपूर्वस्य समानाधिकरणफलजनक- १. 'न्यजनकत्व' क. पाठ . २. 'स्य त क. पाठ.. ३. ति वा क.पाठ: ४. 'चला ख. पाठ. ५. 'णावश्यकत्वात् फ' स. पाठ मणिदर्पणे त्वनियमादिति वाच्यम् । वचनवशेन तत्र कर्तृगतस्याप्यदृष्टस्य परम्परासम्बन्धेन पुत्रादिगतत्वकल्पनात् । न चैवं गयाशा- ईकर्तरि पुत्रे मुक्ते तद्गतादृष्टस्यापि नाशात् पितरि स्वर्गो न स्यादिति वाच्यम् । स्वभोजकादृष्टस्यैव स्वमुक्तिविरोधितया मुक्तौ नाशेन श्राद्धजन्यादृष्टनाशोनभ्युपगमात् । तस्मात् कर्तृ- समवेतमेवापूर्वमिति प्राञ्चः । नव्यास्तु-सर्वापेक्षया फलमेव प्रधानं, कृतेरपि तद- र्थत्वात् । ततश्च फलोपपादकमपूर्व फलसमानाधिकरणकमेव कल्प्यम् । ततश्च जातेष्ट्यादौ पुत्रादिगतमेवादृष्टम् । न चैवं सपत्नीकपितृपितामहादिगतफलजनकस्यैकस्य श्राद्धस्य पित्रादि- गतानेकादृष्टकल्पनागौरवमिति वाच्यम् । अनेकपुत्रकृतस्य श्रा- द्वस्यैकफलार्थमनेकादृष्टकल्पनादोपस्य त्वन्मतेऽपि तुल्यत्वात् । न च शास्त्रादेशितं फलं कर्तरीति नियमान्न जातेष्टयादिना पुत्रादिगतं फलम् । येन कृतिव्यधिकरणमपूर्व कल्प्येतेति वा- च्यम्। 'पूत एव तेजस्व्यन्नाद इन्द्रियावी भवतीत्यर्थवादानुरो- धेन पूतत्वादेः पुत्रादिगतत्वेनैव कल्पनीयतया शास्त्रादेशित- मित्यस्यौत्सर्गिकत्वात् । तस्मात् फलसमानाधिकरणमेवापूर्व क-. ३ ४ ल्प्यत इत्याहुः ॥ इत्यपूर्ववाद । - १. 'द्धा' ख. पाठः. ४. 'दर्शित' क. पाठ. पाठः. २. 'शाभ्यु' ख. पाठ. ५. 'त् फ' क. पाठ. ३. 'दर्शित' क. पाठ. ६. 'ल्पितमित्या' का शब्दपरिच्छेदे सिद्धार्थवादः। अथ सिद्धार्थवादः । नन्वेवं वैदिकलिङामपूर्वे शत्यभावेऽपि सर्वेषां पदानां कार्यान्वितखार्थे शक्तिरभ्युपेया। तथाहि --गामानयेत्यादि- प्रयोजकवृद्धवाक्यश्रवणानन्तरं प्रयोज्यवृद्धस्य प्रवृत्तिमुपलभ- मानो वालः प्रयोज्यवृद्धप्रवृत्तौ प्रयोजकवृद्धवाक्यमेव हेतु- तया कल्पयति । प्रवृत्तिश्च न साक्षाच्छब्दप्रयोज्या । किन्तु प्रवृत्तिजनकज्ञानजननद्वारेति प्रवृत्तिजनकज्ञाने शब्दस्य प्रयो- जकत्वं कल्पयति । कार्यताज्ञानं च प्रवृत्तिजनकमिति खप्र- वृत्ताववधारणादिदं मया कार्यमिति कार्यताज्ञानजनकत्वं शब्दे गृहाति।जन्यजनकभावश्च जन्यतावच्छेदकजनकतावच्छेदकयो- रग्रहे न सम्भवतीति कार्यान्वितज्ञानत्वं कार्यतावच्छेदकं पदज्ञा- नत्वं च कारणतावच्छेदकं कल्पयतीति सामान्यतः पदमात्रस्य कार्यान्विते शक्ति कल्पयति । पचादावापोहापाभ्यां क्रियाकारक- पदानां कार्यान्वितस्वार्थज्ञानजनकतां गृह्णातीति प्रथमक्लप्तका- र्यकारणभाववलादुत्तरकाले गौरवप्रतिसन्धानेऽपि न कार्यान्वित- त्वांशत्यागः, उपजीव्यविरोधात् । तस्मात् कार्यान्वितज्ञानमेव पदजन्यमिति सिद्धार्थस्थले कार्यवाचिपदसमभिव्याहाराभावान्न कार्यान्वितस्वार्थानुभावकत्वं, किन्तु पदादुपस्थितानां पदार्था- नामसंसर्गाग्रहमात्रम् । तत एव तत्र व्यवहारश्च । न च त्वन्म- ते पदानां कार्यान्वित एव शक्तौ पदात् पदार्थोपस्थितिर्वा कथ- १. 'च्छा' क पाठ. २ 'कर्त यमि' स पाठ . ३ न्यज' क. ४. 'तस्वत्वा' क. पाठ ५ नेनापि क. पाठ. 1 10 पाठ.
७४ मणिदर्पणे .. मिति वाच्यम् । पदानां जातादेव शक्तिः । पदज्ञानज(न्यानु- ' भव? न्योतावच्छेदकं तु कार्यान्वितानुभवत्वमित्यनुभवानुकूला शक्तिः कार्यान्वित इत्यस्माभिरभ्युपगमात् पदात् पदार्थस्मृतौ न विरोध इति प्राभाकराः। अत्र तार्किकाः- प्रवृत्तिलक्षणकार्यानुमितं कार्यताज्ञा- नं प्रति शब्दस्य हेतुताग्रह इत्यत्र न विवादः । किन्तु पद- ज्ञानज(न्यानुभाव'न्यतावच्छेदकं कार्यान्वितपदार्थानुभवत्वमे- वेति यदुक्तं, तन्न मृप्यामहे । कार्यवाचिलिङादिपदादेव कार्याशोपस्थितिसम्भवेन कार्याशत्यागस्यैवौचित्यात् । न चैवमु- पजीव्यप्राथमिककल्पनाभङ्गप्रसङ्ग एव बाधक इति वाच्यम् । प्राथमिकत्वमात्रेणानुपजीव्यत्वात् । अन्यथेदं रजतमिति भ्रमोत्त- रभाविनो नेदं रजतमिति ज्ञानस्य तदुपजीवकतया तदबाधक- त्वप्रसङ्गात् । किञ्च, त्वया कार्यान्वितज्ञानत्वेन पदज्ञानत्वेन च कार्य- कारणभावो वाच्यः । तथा च सिद्धार्थस्थलेऽपि पदज्ञानरूप- हेतोः संत्त्वात् कार्यान्वितज्ञानं किं न स्यात् । यदि च कार्य- वाचि पदमपि सहकारीत्युच्यते , तर्हि कार्योपस्थापकस्य कार्य-. वाचिपदस्य घटायुपस्थापकस्य घटादिपदस्य च समाजात् का- र्यान्वितज्ञानमित्यर्थवशसम्पन्नतया न कार्यान्वितज्ञानत्वं का. यतावच्छेदकम् । किं बहुना, कार्यार्थस्थल एव व्युत्पत्तिग्रह इति न नियमः । सिद्धार्थस्थलेऽपि प्रथमं तद्रहसम्भवात । १. 'स्य च क. पाट.
शब्दपरिच्छेदे अन्वितशक्तिवादः । तथाहि -- उपलब्धचैत्रपुत्रजन्मा बालस्तादृग्वार्ताहारेण सह चैत्रसमीपं गतः । चैत्र ! पुत्ररते जात इति वार्ताहारवाक्य- श्रृंवणसमनन्तरं चैत्रस्य मुखप्रसादं पश्यंश्चैत्रस्य हर्षमनुमाय हर्ष प्रति च पुत्रजन्मज्ञानस्य हेतुत्वं कल्पयति , पुत्रजन्म- ज्ञाने च वाक्यस्य हेतुत्वं कल्पयतीति सिद्धः सिद्धार्थे शक्ति- ग्रह इति दिक् ॥ इति सिद्धार्थवादः। योन्विते शक्तिः, , , अथान्वितशक्तिवादः। नन्वेवं यद्यपि कार्यवाचिपदादेव कार्याशोपस्थितेन का- तथाप्यन्वयांशवाचकपदाभावेनान्वयांशस्या- न्यतोऽनुपस्थितेः पदानामितरान्वितस्वार्थे शक्तिरङ्गीकार्या । कि- च , वृत्त्या पदोपस्थापितस्यैव शोब्दानुभवविषयत्वनियमादन्व- यांशे वृत्तिरवश्यमेष्टव्या । सा च न लक्षणा । अन्वयानुपपत्ति- प्रतिसन्धानाद्यनपेक्षणादित्यन्वयांशे शक्तिसिद्धिरिति चेद् , न । प्रकारान्तरलन्यत्वमेव शक्त्यभावं गमयति , न तु पदान्तर- .लभ्यत्वमेवे तथा । ततश्च प्रत्येकपदार्थशक्त्या तत्तत्पदार्थेपूपस्थि- तेषु वृत्ति विनाप्याकाङ्क्षादिसहकारिवशात् तत्तदर्थान्विते. स्वार्थबोधोपपत्तेः । अन्यथैकस्यैव घटपदस्यानयनाद्यनेकक्रिया- न्वितस्वार्थवोधकतया तत्तदन्वयांशेऽनन्तशक्तिकल्पनापत्तेः । ३. 'नान' क. पाठः १. 'राद् वा' क. पाठः. २. 'श' क. पाठः. १. 'व। तत' क. पाठ:. ५. 'ते' ख. पाठः मणिदर्पणे नन्वन्वयसामान्येऽवश्यं शक्तिरभ्युपेया । अन्यथा घट इत्युक्ते किमानेयः प्रेक्षणीयो वेति संशयजिनासे न स्याताम् एवमानयेत्युक्ते घटं पटं वेति जिज्ञासादिकं न स्यात् । सामा- न्यतो ज्ञाते विशेपतचाज्ञात एव जिज्ञासाद्युदयात् । तस्माद- न्वयसामान्यं पदशक्यमिति चेद् , न । कारकसामान्येन क्रि- यासामान्यस्य तेन च क्रियासामान्येन कारकसामान्यस्य चा- क्षेपेणोपस्थिती तत्र जिज्ञासादिसम्भवान्न तदर्थमन्वयसामान्ये शक्तिः । अन्यथा चैत्रः : समागत इत्युक्ते किं श्यामो गौरो वेति जिज्ञासोदयाद् रूपसामान्येऽपि चैत्रादिपदस्य शक्तिकल्पनाप- चेः। तस्माद् घटादिपदानां तत्तत्पदार्थ एव शक्तिः । आका- ड्क्षादिसहकारिवशादितरान्वयबोध इति दिक् ॥ इत्यन्वितशक्तिवाद। । अथ शक्तिवादः। नन्वेवमन्वयांश इव व्यक्त्यंशेऽपि न शक्तिः । व्यक्ति- शक्तिवादिनामपि घटादिपदाना न घटादिव्यक्तिमात्रे शक्तिः, घटादिव्यक्तीनामानन्येन शक्तिग्रहणासम्भवात् । किन्तु घट- त्वादिविशिष्टे तवच्छिन्ने वा । ततश्चावश्यकत्याल्लाघवाच्च घट- त्वादावेव शक्तिः। न चैवं धानकर्मत्वस्य महिप्यादिसाधारण्येन धेनुपदस्य गोत्वावच्छिन्ने धानकर्माण शक्तिरिति भवत्सिद्धान्त. विरोधः स्यात्, तत्राप्युक्तरीत्या गोत्व एव शक्त्यापत्तेरिति १ 'न्ने । त' क. पाठ, शब्दपरिच्छेदे शक्तियादः । "वाच्यम् । गोत्वस्य वृपभसाधारण्येन न तत्र गोत्वे शक्तिः, कि- न्तु, धानकर्मण्येव । गोत्वं त्वतिप्रसङ्गभङ्गायोनुगमाय चावच्छे- दकमानं कल्प्यते । प्रकृते च बाधकाभावाल्लाघवादावश्यकत्याच्च घटत्वादावेव शक्तिः, न व्यक्तौ । न चैवमन्यशक्तात् पदाव कथं व्यक्तिभानम्, अन्यथातिप्रसङ्गादिति वाच्यम् । ज्ञेयस्य ज्ञानवित्तिवेद्यत्ववद् व्यक्तेरपि जातिवित्तिवेद्यायामनतिप्रस- गात् । प्रयोगेश्व-घटपदं न घटशक्तं घटत्वशक्तत्वाद् घटत्व- पदवदिति प्राभाकराः। अत्र तार्किकाः---अत्र रजतत्वमिति भ्रमे जातिभाने- ऽपि व्यक्तेरभानान्न जातिवित्तिवेद्यता व्यक्तेः । न च शाब्दवो- धे तथा नियम इति वाच्यम् । जातिशब्दाद् व्यक्तेरभानेन तथा नियमाभावात् । न च जातिशब्दोऽपि जातित्व एव श- तो न तु जाताविति वाच्यम् । जातिलं हि जातीतरावृत्तित्वे सति जातिवृत्तित्वम् । ततश्च जातेरपि जातित्वघटकतया जा- तिशब्दशैक्यतावश्यंभावात् । न च गोत्वादिजातिविशेषमात्र- शक्तपदत्वेन व्यत्युपस्थापकतानियमः, जातिशब्दश्वं न ता- दृश इति वाच्यम् । गोत्वादिभिन्नाशक्तत्वे सति गोत्वादिशक्त- पदत्वस्य तदर्थतया तदपेक्षया गोत्वादिविशिष्टशक्तपदत्वस्यैव व्यत्युपस्थापकतावच्छेदकत्वात् । वस्तुतस्तु विभक्तेः प्रकृत्यर्थगतस्वार्थबोधकत्वव्युत्पत्ते- , . १. 'याव क. पाठ ४. 'तयान ख. पाठ. २. 'ते या' क. पाठ. ३. 'वाच' क. पाठ.. ५. 'जकश्च ख. पाठ। ६. 'घटकता' क. पाठ..
मणिदर्पणे ईमानयेत्यादौ विभक्त्यर्थकर्मत्वादेर्व्यक्त्यन्वयो न स्यात् । त्व. न्मते व्यक्तेः प्रकृत्यर्थत्वाभावात् । न चास्मन्मते विभक्तेः प्रकृ- त्यर्थाश्रयगतरसार्थबोधकत्वमेव व्युत्पत्तिसिद्धमिति वाच्यम् । त्वन्मते धेनुमानयेत्यत्र विभक्त्यर्थस्य न प्रकृत्यर्थाश्रयेऽन्वयः, गोत्वस्य केवलं तत्र प्रकृत्यर्थार्थता)वच्छंदकतया प्रकृत्यर्थ- त्वाभावात्, किन्तु प्रकृत्यर्थे धानकर्मणीति सर्वत्र लाघवात् प्रकृत्यर्थ एव विभक्त्यर्थान्वयकरपना । न च सामान्यतया प्रकृतितात्पर्यविपयत्वमेव तदन्वयितावच्छेदकमिति व्यक्तावपि तदन्वयो न विरुद्ध इति वाच्यम् । व्यक्तेः प्रकृतितात्पर्यविष- यत्वे तत्र तात्पर्यनिर्वाहकतया वृत्तेरवश्यकल्प्यत्वात् । कप्प- नीया च वृत्तिः शक्तिरेव, न लक्षणेति वक्ष्यते । एतेन व्यक्ते- रापत्त्यानुमानाद् वोपस्थितिरिति भाट्टमतमपास्तम् । व्यक्तः प्रकृत्यर्थत्वाभावेन विभक्त्यर्यान्वयानुपपत्तेः । अनुपपत्तिव्या- प्याद्यप्रतिसन्धानेऽपि व्यक्त्युपस्थितेश्च । तस्माद् व्यक्तौ शक्ति- रेष्टव्या। 'यत्तु - व्यक्तौ लक्षणैव । अतो न तस्याः प्रकृत्यर्थत्वा- भावः । न चैव शक्यस्यैव गोत्वादेलक्ष्यतावच्छेदकत्वापत्तिरिति वाच्यम् । नीलपदे गुणिलाक्षणिके शक्यस्यैव गुणस्य लक्ष्यता- वच्छेदकत्ववदिहाप्यविरोधात् । अतो व्यक्तेन प्रकृत्यर्थत्वा- भाव इति मण्डनमित्रैरुक्तम् । तदप्यभव्यम् । अन्वयाद्यनुप- पत्त्यप्रतिसन्धानेऽपि गोपदाद् गोत्वविशिष्टप्रतीतेः । उत्सर्गतः १. 'वैष्ट' क. पाठ शब्दपरिच्छेदे शक्तिवादः। पदज्ञानजन्यस्मृतिविपयत्वरूपं शक्यत्वं व्यक्तावप्यवर्जनीय- मिति दिक् । एवं गोत्वादिवैशिष्टयांशेऽपि शक्तिः स्वीकार्या । विशि- एस्यैव पदादुत्सर्गतः प्रतीतेः । एवं द्रव्यादिपदादाकृतिविशेष- स्याप्रतीतावपि घटादिपदेभ्योऽवयवसंयोगविशेषरूपाया आकृ- तेर्नियमतः प्रतीतेर्घटादिपदानामाकृतिरपि शक्या । न चैवं व्यक्त्याकृतिजातीनां शक्यत्वे शक्त्यनेकत्वेन नानार्थत्वापत्ति- रिति वाच्यम् । जात्याकृतिविशिष्टव्यक्तावेकस्या एव शक्तः कल्पनात् । न च व्यक्तीनामानन्त्याद व्यक्तौ कथं शक्तिग्रह इति वाच्यम् । अस्माभिः सामान्यलक्षणाभ्युपगमेन सामान्य- लक्षणया सर्वव्यक्त्युपस्थितौ नासु शक्तिग्रहसम्भवात् । तदन- भ्युपगमेऽपि गोत्वविशिष्टे शक्तिरिति गोत्वप्रकारेण क्वचिद् व्य- क्तौ शक्तिग्रहः । शक्तिग्रहप्रकारेण शाब्दबोधनियमाद् गोत्वप्र- कारको व्यक्त्यन्तरविषयकः शाब्दबोध इति न किञ्चिदनु- पपन्नम् । नन्वेवमपि यथा तीरत्वेनोपस्थिते तीरे शक्यसम्बन्धरू- पलक्षणाग्रहणादलक्ष्यमपि तीरत्वं लक्षणाग्रहप्रकारतया पदज. न्यस्मृतिविषयः, तथा गोत्वेनोपस्थितायां गवि शक्तिग्रहाच्छ- क्तिग्रहप्रकारतया गोत्वस्यापि पदात् स्मृत्युपपत्तेर्न गोत्वेऽपि .. . १. 'यरूपश' क. पाठ . १. 'न्यतर' क. पाठ. २. 'खे ना' क. पाठ. ५. " विन' क. पाठ. पाठ.
८० मणिदर्पणे २ , शक्तिः, किन्तु व्यक्तावेवेति चेद्, न । लक्षणास्थले हि लक्ष्यल- . क्ष्यतावच्छेदकयो का लक्षणा सम्भवति । तीरे संयोगस्य तीरत्वे संयुक्तसमवायस्य लक्षणात्वात् । अतस्तत्रागत्या तरिस्मृतौ लक्षणा, तीरत्वस्मृतौ लक्षणाग्रहप्रकारत्वमिति नियामकद्वयं क- ल्प्यते । प्रकृते तु पदार्थान्तररूपाया ईश्वरेच्छारूपाया वा श. तेरेकस्या एवं विशिष्टस्मृतौ नियामकत्वसम्भवान्न नियामकह. यकल्पना युक्ता । यथा च तीरत्वेऽपि न लक्षणा, तथा वक्ष्य- ते। तस्माज्जात्याकृतिविशिष्टायां व्यक्तौ शक्तिरिति दिक् । प्रयोगश्च-~-घटपदं घटत्वविशिष्टशक्तिमत् , उत्सर्गतो घटत्व- विशिष्टस्मृतिजनकत्वात् , यन्नैवं तन्नैवम् , यथा पटपदम् ॥ इति शक्तियाद । अथ योगरूढिवादः। • एवं पङ्कजपदमुत्सर्गतः पद्मत्वविशिष्टस्मृतिजनकत्वात् पद्मत्वविशिष्ट शक्तमिति न्यायविदः । अत्र मीमांसकाः-कि पद्मत्वविशिष्टस्य स्मृत्यर्थं तत्र शक्तिः कल्प्यते, उतानुभवार्थम् । नाद्यः, उद्बुद्धसंस्कारादेव स्मृत्युपपत्तेः । न च नियमतः संस्का- रोबोधकस्यान्यस्याभावादन्वयव्यतिरेकिणः पङ्कजपदस्यैव तदु- , १. 'ले ल' क पाठ २ 'तीति ती' ख पाठ. ३. 'रती' क. पाठ ४ 'क्तम् । उ' ख. पाठ ५ ति पदश' स पाठ , शब्दपरिच्छेदे योगरूढिवादः। • बोधकता वाच्या। पदं च वृत्तिविपयादन्यत्र न संस्कारोबोध- कमिति पङ्कजपदस्य पद्मत्वविशिष्टे शक्तिरुपेयेति वाच्यम् । शक्तिस्मृतिहेतुसंस्कारोबोध एव व्यभिचारेणोक्तनियमाभा- वात् । न चैवं घटादिपदेऽपि शक्तिर्न स्यात्, तत्रापि संस्का- रादेव पदार्थस्मृत्युपपत्तेरिति वाच्यम् । अव्युत्पन्नस्य शाब्दानु- भवाभावेन शक्ततया गृहीतस्यैवानुभावकत्वमित्यनुभवार्थ तत्र शक्त्यवश्यंभावात् । नन्वस्तु तयंत्राप्यनुभवार्थ शक्तिरिति द्वि- तीयः पक्ष इति चेद्, न । पद्मत्वविशिष्टस्मृतिसहकृतावयवश- क्यैव पङ्कजनिकर्तृ पद्ममित्यन्वयानुभवोपपत्तेः । नन्वेवं रमृत्यु- पस्थितं तीरमादाय घोपादिपरेवान्वयानुभवसम्भवात् तीरे वृत्तिकल्पना न स्यात् । तस्माद् वृत्तिविषयस्यैवान्वयानुभववि- पयतेति तीरे यथा वृत्तिकल्पना, तथा पद्मत्वविशिष्टेऽप्यनुभ- वार्था शक्तिरेष्टव्येति चेद्, न । लाक्षणिकस्थले ह्यनुभवार्था न वृत्तिः । किन्तु तीरस्य प्रकृत्यर्थत्वाभावे विभक्त्यर्थस्याधारत्वस्य तीरेऽन्वयबोधो न स्यात् । विभक्तेः प्रकृत्यर्थगतस्वार्थबोधक- त्वव्युत्पत्तेः । अतस्तत्र विभत्त्यर्थान्वयार्थमेव वृत्तिकल्पना, नानुभवार्थम् । नन्वस्तु तछत्रापि द्वितीयाविभक्त्यर्थस्य कर्म- त्वस्य पद्मान्वयार्थ तत्र शक्तिरिति चेद्, न । पद्मस्यापि पङ्कज- निकर्तृतया प्रकृतिभूतडप्रत्ययार्थतया (च) तदर्थ शैक्तेरकल्प- नीयत्वात् । तस्मान्न पालविशिष्टे शक्तिरित्याहुः । २. 'ते'क' क. पाठः- 1.11 १. 'पु' क. पाठः २. 'यात्' ख. पाठः. .१ 'त् । न तु तस्मात् पक. पाठ..
८२ . ३ मणिदर्पणे अनोन्यते पदविशेषजन्यपदार्थोपस्थितिरेवान्वयवो- धाङ्गम् । अन्यथा घटः कर्मत्वमित्यादावप्यन्वयवोधापत्तेः । किञ्च, वृत्त्या पदोदनुपस्थितस्याप्यन्वयबोधविषयत्वे आकाशपदे शक्तिर्न स्यात् । समवायसम्बन्धेनाकाशशब्दादुपस्थितस्याप्या- काशस्यान्वयबोधविपयत्वसम्भवात् । ततश्चान्वयबोधविषयपदा- थस्मृतेः वृत्त्या पदजन्यत्वनियमात् पङ्कजमानयेत्यादौ नियम- तोऽन्वयबोधविषयपद्मत्वविशिष्टस्मृतिरपि वृत्त्या पङ्कजपदजन्या वाच्येति पङ्कजपदस्य पद्मवविशिष्टे शक्तिरवर्जनीया । न चा- नादिप्रयोगरूपसम्बन्धादुपस्थितस्यैवान्वयवोधविषयत्वमस्त्विति न तत्र शक्तिकल्पनमिति वाच्यम् । एवं सति घटादिपदेऽपि शक्तिर्न स्यात् । वस्तुतस्तु सादिदेवदत्तादिपदे सङ्केतस्यैव पदसम्बन्धत्वकल्पनात् प्रकृतेऽपीश्वरसङ्केत एव सम्बन्ध इति पद्मत्वविशिष्टे शक्तिसिद्धिरिति दिक् । केचित्तु पद्मत्वविशिष्टे लक्षणास्तु । पङ्कजनिकर्तृत्वर पशक्यसम्बन्धसत्त्वात् । वृत्तिद्वयविरोधस्य मणिकृन्मते दोषत्वा- भावात् । न च वादिवाक्यात् पद्मत्वविशिष्टप्रतीतिर्न स्यादिति वाच्यम् । तर्हि निरूढलक्षणास्तु । अत एवान्वयानुपपत्त्याद्य- प्रतिसन्धानेऽपि तत्प्रतीतिर्न विरुद्धा । न चैवं कुमुदे लाक्षाण- कः प्रयोगो न स्यादिति वाच्यम् । निरूढलाक्षणिकस्यापि हि- रेफादिपदस्य 'तस्याः कुन्तलो द्विरेफ' इत्यन्यत्र लाक्षणिकप्र- योगदर्शनादित्याहुः । १. 'दानु' क पाठ . २. 'त्वेनाका' ख पाठ . ३. 'स्थिते त' क पाठ . शब्दपरिच्छेदे योगरूढिवादः। अन्ये तु पङ्कजमानयेत्यत्र न कुमुदादिसाधारणयोगा- र्थान्वयधीरिति न विवादः । तत्र यदि पद्मात्वविशिष्टे शक्तिर्न- स्यात् , तदा कुमुदादिसाधारणी योगार्थप्रतीतिरनिवार्येति तन्नि- वृत्त्यर्थं पद्मत्वविशिष्टे समुदायशक्तिरङ्गीकार्या । तथात्वे त्वेक- पदोपाचवप्रत्यासत्त्या योगाथावच्छिन्न एव रूढयों भासत इति न कुमुदादिसाधारणप्रतीतिः। नन्वेवमपि यत्र कुमुदतात्पर्येणैव पङ्कजपदं प्रयुक्तं, तत्र कुमुदत्वप्रकारकप्रतीतेर्वृत्तिं विनानुपपन्नत्वेन समुदायस्य कुमुदे लक्षणायामपि योगार्थस्य लक्षणोपस्थितेन कुमुदेनावय- वशक्त्यैवान्वयप्रतीतिसम्भवान्नावयवाथै लक्षणा कल्प्येत । न चेष्टापत्तिः, अपसिद्धान्तादिति चेद्, न। यथा गङ्गायां घोप इत्यत्र गङ्गापदस्य तीरपरत्वज्ञानेऽपि गङ्गापदात् प्रथमं प्रवाहस्मृतिः, ततः शक्यसम्बन्धज्ञानात् तीरस्मृतिः। तथानापि कुमुदपरत्व- ज्ञानेऽपि प्रथमं पङ्कजपदाद् रूढ्या पद्मत्वविशिष्टस्मृतिः, ततः श- क्यसम्बन्धज्ञानात् कुमुधीः।अतः प्रथममुपस्थितेन पात्ववि- शिष्टेन योगार्थान्वयात् पश्चात् कुमुदान्वयार्थ स्वतन्त्रोपस्थितये योगार्थेऽपि लक्षणावश्यकी।न च वाक्यलक्षणानङ्गीकारात् वा- वयवार्थे लक्षणेति वाच्यम् । डप्रत्यय एव लक्षणास्वीकारात् । पङ्कजपदस्य तात्पर्यग्राहकत्वेनावैयर्थ्यात् । न च शक्यस्यैव लक्ष्यत्वं विरुद्धमिति वाच्यम् ।गौर्नित्येसत्रेव शक्यस्यापि लक्ष्य- वाविरोधात् । पङ्कजकुमुदमानयेत्यत्रापि समुदायशक्त्या झटि- . २. क. पाठः, ३. 'लप्यते । म स. पाठा. १. 'चै ख. पाठ मणिपणे ति स्मृतेन पहात्वविशिष्टेनैवैकपदोपात्तत्वप्रत्त्यासत्या योगा- र्थान्वयात् कुमुदान्वयार्थ लक्षणावश्यकी । न च कुमुदसमभि- व्याहारेण प्रतिवन्धान्न तत्र पद्मत्वे विशिष्टरमृतिरिति वाच्यम् । समभिव्याहारादेः पद्माद्यन्वयानुभवप्रतिबन्धकत्वेऽपि स्मृतावन- तिबन्धकत्वस्य वक्ष्यमाणत्वात् । स्थलकमलतात्पर्यके तु पङ्क- जपदे योगार्थस्यायोग्यतयानन्वयात् समुदायशक्त्यैव पद्मत्ववि- शिष्टप्रतीतिरिति दिगित्याहुः । वस्तुतस्तु ग्राह्याभावानवगाहिनोऽपि जनकज्ञानाविघ. टकस्यापि रूढिज्ञानस्य , सिद्धेरनुमिताविवासाधुत्वज्ञानस्य शा- ब्दज्ञान इव च योगार्थज्ञाने प्रतिवन्धकत्वमेष्टव्यम् । अत एवं 'वर्षासु रथकार आदधीते त्यत्र रथकारपदरूढ्यर्थजातिविशेष- मात्रस्याधानेऽधिकारो , न तु योगार्थरथकर्तृलविशिष्टस्य , रू- ढ्या प्रतिबन्धेन योगार्थस्यामानात् । तस्मात् पद्मपरत्वेऽपि न योगार्थभानमित्याहुः । •ननु सिद्धेरनुमितिजनकीभूतपक्षताघटकसंशयरूपज्ञान- विघटकतयैव प्रतिबन्धकत्वम् । असाधुत्वज्ञानस्यापि शान्दधी- जनकसाधुत्वज्ञानविघटकतयैव प्रतिबन्धकत्वम् । अतो रूढि- ज्ञानस्य साक्षादविरोधिनो जनकज्ञानाविघटकस्य न योगार्थप्र- तिवन्धकतेति चेद्, न । अनुमितौ घनगर्जितस्थलादावभावेन सन्दिग्धसाध्यकत्वरूपपक्षताहेतुत्वनिरासात् । व्याकरणमजान• . ३ १. 'स्वस्मृ' ख. पाठः, २. 'पि ज्ञा' क. पाठः. ३. "पि यो. क. पाठ', शब्दपरिच्छेदे अपनशवाद.। तामपि पामराणामपभ्रंशतोऽप्यर्थप्रत्ययस्य सकलानुभवसिद्ध- वेन व्याकरणस्मृत्युपगृहीतत्वरूपसाधुत्वज्ञानस्य शाब्दबोधहे- तुत्वाभावाच सिद्धेरसाधुत्वनिश्चयस्य च न जनकज्ञानविघटक- तयाँ प्रतिवन्धकत्वं, किन्तु साक्षादेवेति दिक् ॥ इति योगरूढिवादः। चेद्, अथापभ्रंशवादः। नन्वपभ्रंशतो व्याकरणस्मृत्यनुपगृहीतत्वरूपासाधुत्वनि- श्वयेऽपि व्युत्पन्नानामर्थप्रतीतेरसाधुत्वज्ञानं प्रतिवन्धकमेव नेति न । तत्र साधुशब्दस्मरणादेवान्वयबोध इत्येके । व्याक- रणस्मृतिनिपिद्धत्वमेवासाधुत्वम् । तच नापभ्रंशेपु । न चैवं 'साधुभिर्भापितव्यं नासाधुभिरिति विभागानुपपत्तिरिति वा- च्यम् । व्याकरणस्मृत्युपगृहीतानुपगृहीतपरत्वात् तस्येत्यन्ये । इदं तु ध्येयम् --- अपभ्रंशेषत्सर्गतस्तत्तदर्थप्रतीतिजनकत्वेऽपि न शक्तिः, एकस्यार्थस्यानेकशब्दत्वस्यान्याय्यत्वात् । न चैवं घटकलशादिपु पर्यायपदेप्वेकत्रैव शक्तिः स्यादिति वाच्यम् । तत्र विनिगमनाविरहेण सर्वत्र शक्त्यभ्युपगमात् । प्रकृते च सर्वदेशावच्छेदेन संस्कृतशब्दानामैक्यस्य विनिगमकत्वात् । न चैवं प्राकृतादिभापाशब्दानां सर्वदेशावच्छेदेनैक्यात् तत्रापि ३. 'या न प्र' ख. पाठ १. 'च ज' ख. पाठ २. 'ना' ख. पाठः. १. 'युपी ख. पाठः ५. 'दन्व' क. पाठ मणिपणे शक्तिः स्यादिति वाच्यम् । तेषां संस्कृतशब्दज्ञापकतयैवार्थ- प्रत्यायकत्वस्यानुभवसिद्धत्वेन तेषु शयकल्पनात् । न चैव- मपभ्रंशादर्थप्रतीत्यनुपपत्तिरिति वाच्यम् । शक्तिभ्रमात् तदुप- पत्तेः । तथाहि - व्युत्पन्नं प्रति केनचिद् गोशब्द प्रयोक्तव्ये करणापाटवाद् गावीशब्द उच्चारिते तेन गोशब्दमनुमायार्थ प्रतीत्य व्यवहते तद्यवहारदर्शिना वालेन गावीशब्दे शक्ति- भ्रमात् तदुत्तरोत्तरभ्रमपरम्परोपपत्तेरिति दिक् । अत्र केचित् – अनन्तासु भाषास्खनन्तेपु शब्देप्वेयं शक्तिभ्रमपरम्पराकल्पनमयुक्तम् । तथा सति विदुपां ततोऽर्थप्र- त्ययो न स्यात् । प्रत्यपशब्दं संस्कृतशब्दस्मरणकल्पनं चाननु- भवपराहतम् । किञ्च, अस्माच्छब्दादयॆमर्थ उत्सर्गतो बोद्धव्य इतीश्वरेच्छाविपयत्वं शक्तत्वम् । तच्चापभ्रंशेप्यक्षतम् । तस्याः सर्वविषयत्वात् । न च वायौ रूपसमवायसत्त्वेऽपि यथा तत्र तस्य सम्बन्धत्वं न कल्प्यते , तथापभ्रंशेप्वीश्वरेच्छासत्त्वेऽपि तस्यास्तत्र न सम्बन्धत्वकरपनमिति वाच्यम् । ततोऽर्थप्रतीते- रबाधितत्वेन तत्र तस्याः सम्बन्धत्वाकल्पनस्यायुक्तत्वात् । अतः केपाश्चिच्छक्तिभ्रममूलकत्वसम्भवेऽपि न सर्वेषां तन्मूलकत्वमि- त्याहुः॥ इत्यपनशवाद । १. 'क्ति' क. पाठ. २. 'मादु' ख. पाठ. ३. 'नमन' क. पाठ.. १. 'यमुत्स' क. पाठ. ५ 'क्य ख. पाठ. ६. 'प्वक्ष क. पाठ. 'थान स' क. पाठ. ८. 'त्व क. पाठ. ९. 'स्य क. पाठ ७. . *'बालस्य इति पाट्य भाति, तद्विशेषणमपि पठचन्तम् ।
, शब्दपरिच्छेदे ईश्वरेच्छावादः । अथेश्वरेच्छावादः। ननु पदपदार्थयोः स्वरूपमेव सम्बन्धोऽस्तु, किमीश्वरे- च्छापर्यन्तधावनेनेति चेद् , न । गुणगुणिसम्बन्धवत् पैदपदा- र्थसम्बन्धस्यापि लाघवादेकत्वसिद्धौ लोके डित्यादिपदसङ्केत- स्येच्छानुविधायित्वदर्शनाद् घटादिपदसङ्केतस्यापीश्वरेच्छानुबि- धायित्वकल्पनात् । नन्वेवं नैयायिकस्येश्वरेच्छारूपशक्तिज्ञानम- थप्रत्यायकम् । मीमांसकस्य तु पदार्थान्तररूपशक्तिज्ञानमिति परस्परव्याभिचारान्न तयोरर्थप्रत्यायकत्वं, किन्तु तज्ज्ञानजनक त्वज्ञानस्यैव । न च सम्बन्धं विनों तज्ज्ञानजनकत्वज्ञानमेव न सम्भवतीति वाच्यम् । तज्ज्ञानजनकत्वेन ज्ञातत्वस्यैव स- म्बन्धत्वात् । पूर्वपूर्वतद्धीजनकत्वज्ञानादुत्तरोत्तरतद्धीजनकत्व- ज्ञानसम्भवात् । न च सादिदेवदत्तादिपदे पूर्वपूर्वतद्धीजनक- त्वज्ञानासम्भवादस्मादयमों ज्ञातव्य इति सङ्केतज्ञानस्यैव हेतुतया लाघवात् पदमात्रे तस्यैव हेतुत्वमिति वाच्यम् । अ- स्मात् पदादयमों ज्ञातव्य इति ज्ञानकाले अर्थे पदजन्यज्ञा- नविषयत्वसमानवित्तिवेद्यतया पदेऽप्यर्थज्ञानजनकत्वस्यापि भा- नेन सादिपदेऽपि तज्ज्ञानजनकत्वज्ञानसम्भवादिति चेद्, न । तज्ज्ञानजनकत्वेन ज्ञातत्वस्यैव पदसम्बन्धत्वे शक्तिभ्रमादर्थ- प्रत्ययः कापि न स्यात् । अर्थप्रत्यये तद्धीजनकत्वेन ज्ञातत्व- रूपपदसम्बन्धावश्यम्भावात् । किञ्च, लिङ्गमपि तद्धीजनकत्वेन ३. 'कत्वम्यै' स. पाठ.. १. 'पदा' ख. पाठ. २. 'कसि ख पाठ. ४. 'ना पूर्वपर्वत' क. पाठ .
, मणिदर्पणे ज्ञातमनुमापकमिति किं व्याप्त्या । यदि च सम्बन्धं विना । तद्धीजनकत्वमेवे न सम्भवतीति व्याप्तिकरपना, तदा शक्ता- वपि दीयतां दृष्टिः । यदपि परस्परंव्यभिचार इति, तन्न । नहीं. श्वरेच्छात्वेन पदार्थान्तरत्वेन वा तज्ज्ञानं हेतुरिति ब्रूमः । किन्तु शान्दानुभवजनकतावन्छेदकधर्मवदिदं पदमिति सम्ब- न्धभानमेव हेतुरित्यङ्गीकुर्म इति न कस्यापि मते व्याभिचार इति दिक्॥ इति ईश्वरेच्छावाद । अथ लक्षणासमर्थनम् । एवं शक्तिवच्छक्यसम्बन्धरूपा लक्षणाख्या वृत्तिरप्येष्ट- व्या । अन्यथा गङ्गायां घोप इत्यादौ गङ्गादिपदात् तीराद्युप- स्थित्यनुपपत्तेः । न च गङ्गापदात् शत्या प्रवाहोपस्थितौ तेन तत्सम्बन्धितीरस्मृतिः सम्भवतीति वाच्यम् । घटः कर्मवमान- यनं कृतिरित्यत्रान्वयबोधाभावेन पदविशेषजन्यपदार्थोपस्थिते- रेवान्वग्नबोधाङ्गत्वात् तीरस्मृतेरपि गङ्गापदजन्यत्वाय तत्र वृत्तेर- भ्युपेयत्वात् । किञ्च, तीरस्य गङ्गापदार्थत्वाभावे तीरे गङ्गाया- मिति सप्तम्यर्थाधारत्वान्वयो न स्यात् । विभक्तेः प्रकृत्यर्थग- तस्वार्थबाधकत्वव्युत्पत्तेः । न च प्रकृतितात्पर्यविषयेऽर्थे विभ- क्यान्वय इति वाच्यम् । परम्परया वह्नितात्पर्यके धूमोऽस्तीति वाक्ये विभत्त्यर्थस्यं वह्नयन्वयबोधापत्तेः, गङ्गापदस्य तीरतात्प- ३ 'र्थत्वे' ख पाठ १. 'व स' क पाठ ४ 'रेष्ट' ख पाठ २ 'रस्य व्य' क पाठ ५ 'क्य क पाठ ६ 'स्यान्व' ख पाठ .
। शब्दपरिच्छेदे लक्षणासमर्थनम् । र्यकत्वे तात्पर्यनिर्वाहकतया तीरे वृत्तिकल्पनावश्यम्भावाच्च । तस्माद् गङ्गापदस्य तीरे शक्यसम्बन्धरूपा वृत्तिरवश्यमेष्ट- व्या । नन्वेवं गङ्गापदस्य तीरे शक्तिरेवास्तु , ईश्वरेच्छारूपा- यास्तस्या एकत्वात् , पदपदार्थसम्बन्धत्वेनान्यत्र क्लुप्तत्वात् । जगत्कारणतया तीरस्मृतिहेतुत्वत्यापि सिद्धतया पदपदार्थसम्ब- न्धत्वेनापि तस्या एव पदार्थरमृतिहेतुत्वकल्पनौचित्याच्च । न तु शक्यसम्बन्धरूपा लक्षणा कल्प्या । सम्बन्धस्य संयोगसंयु- कसमवायादिभेदेन स्वरूपतोऽप्यनेकत्वात् , पदसम्बन्धत्वेना- न्यत्राक्लुप्तत्वाच्चेति चेद्, न । एवं सति गङ्गापदस्य कदाचिद् घटादिपरतयापि प्रयोगसम्भवेन विश्वमात्रशक्तता स्यादिति गतं शक्याशक्यविवेकेन, समागतं च तीरादावपि शक्तिग्राह- कवृद्धव्यवहाराद्यपेक्षया । किञ्च लक्षणास्थलेऽन्वयाद्यनुपपत्तिप्र- तिसन्धानमपि न स्यात् । तस्माच्छक्यसम्बन्धस्याक्लुप्तमपि पद- सम्बन्धत्वमवश्यं कल्पनीयम् । ननु प्रवाहसम्बन्धस्य पुरुषादि- साधारण्यान्न शक्यसम्बन्धो लक्षणा । न च शक्याविना- भावसम्बन्धो लक्षणा, यष्टीः प्रवेशयेत्यादावपि प्रवेशसमये यष्टिधारिणां यष्ट्यविनामावसम्भवादिति वाच्यम् । अविनाभा- वस्यापि मत्स्यादिसाधारण्येनातिप्रसङ्गादिति चेद्, न । प्रकर- णादेस्तात्पर्यनियामकत्वेनातिप्रसङ्गाभावात् । नन्वेवमक्षादिपदेवपि एकत्रैव शक्तिरन्यत्र लक्षणेति N ३. 'क्ति' क पाठ. २ 'श्यक' क पाठ १. 'तिश' क पाठ १. 'राख पाठ. 112 मणिदर्पणे स्यादिति चेद् , न । तत्र तुल्यवदुभयत्र प्रयोगाद् विनिगमना.. विरहेणोभयत्रापि शक्तिरिति नानार्थता । नानाशक्त्या नाना- प्रकारकोपस्थितिजनकत्वस्यैव नानार्थत्वात् । न चैवं सर्वना- नामपि नानाशक्त्या बुद्धिस्थघटत्वादिनानाप्रकारकज्ञानजनक- तया नानार्थतापत्तिरिति वाच्यम् । इष्टत्वादित्येके । बुद्धिस्थ- त्वाद्युपाधिं विनेत्यपि विशेषणान्न सर्वनामस्त्रतिव्याप्तिरित्यपरे । सर्वनाम्नां सर्वत्रैकैव शक्तिः । न चैवं पुप्पयन्तादिपदस्य युग- पदिवाकरत्वनिशाकरत्वोभयप्रकारकप्रतीतिजनकत्ववद् युगपद घटत्वेपटत्वादिसर्वप्रकारकप्रतीतिजनकत्वापत्तिरिति वाच्यम् । व्युत्पत्तिवैचित्र्याद् बुद्धिस्थमात्रप्रकारकप्रतीतिजननोपपत्तेः। अत एवानेकेपां बुद्धिस्थत्वे युगपदनेकैप्रकारकप्रतीतिजनकत्वमिति नानाशक्त्यभावान्न नानार्थतेत्यन्ये । एवं सत्यक्षादिपदानामपि दुरोदरादिप्वेकैव शक्तिः । व्युत्पत्तिवैचित्र्यात् तात्पर्यविषय- मात्रप्रकारकज्ञानजनकत्वम् । अत एवानेकपा तात्पर्यविपयत्वे युगपदनेकप्रकारकज्ञानजनकत्वमित्यक्षादिपदानामपि नानार्थता न स्यादित्यपरे । एवं सिंहो माणवक इत्यत्रापि शक्यसादृश्य- रूपसम्बन्धात् सिंहशब्दस्य माणवके लक्षणा । न चैवं गौण- लाक्षणिकविभागो न स्यादिति वाच्यम् । सादृश्यान्यशक्य- सम्बन्धो लक्षणा । सादृश्यात्मकशक्यसम्बन्धो गौणीति तयो- अंदात् । एवं गामुच्चारयेत्यादौ गवादिपदानां स्वपरत्वे लक्षणा । खशक्येन स्वस्य वाच्यवाचकभावलक्षणसम्बन्धसत्त्वात् । न च ३. 'कप्रती' क. पाठ १. 'दा' क. पाठ:. ४. ननमि' क. पाठः. २. 'स्वादि' क. पाठ ५. 'धत्वा' क. पाठ.
शब्दपरिच्छेदे लक्ष्यतावच्छेदके लक्षणानिरासः । 'शक्तिरूपसम्बन्धस्यार्थ इव स्वस्मिन्नप्यविशेषाच्छक्त्यैव खोप- स्थितिः किं न स्यादिति वाच्यम् । शक्तेः स्वविपयमात्रोपस्था- पकत्वस्वाभाव्येन स्वाश्रयीभूतपदोपस्थापकत्वाभावात् । अन्यथा शत्याश्रयतया पदमात्रादीश्वरोपस्थितिप्रसङ्गात् । कथञ्चित् स्व- निष्ठशक्त्या स्त्रोपस्थितावपि तस्य शक्तिविषयत्वरूपप्रकृत्यर्थत्वा- भावाद् विभक्त्युपस्थाप्यकर्मत्वादेर्गापदान्वयो न स्यात् । स्व. विभक्तेः प्रकृत्यर्थगतस्वार्थबोधकत्वव्युत्पत्तेः । अतः प्रकृत्यर्थता- सिद्धये तत्र लक्षणावृत्तिरुपेया। ननु गङ्गापदलक्षणया किं तीरत्वेनोपस्थितिः, किंवा गङ्गातीरत्वेनोपस्थितिः । नाद्यः, यमुनातीरस्याप्यन्वयबोधापत्तेः। द्वितीये वृत्तिद्वयविरोधः, तीरांशे लक्षणाया गङ्गांशे शक्तेश्चा- ङ्गीकारादिति चेद् , न । वस्तुतो गङ्गातीरमेव तीरत्वेन प्रतीयत इत्येके । गङ्गातीरत्वेनैव प्रतीतिः, गङ्गायां मत्स्यघोपावित्यत्रेव वृत्तिद्वयसमावेशस्यादोषत्वादित्यपरे ॥ इति लक्षणासमर्थनम्। . - अथ लक्ष्यतावच्छेदक लक्षणानिरासः। इदं तु ध्येयम्-लक्ष्यतावच्छेदकतीरत्वादौ न लक्षणा, तीर इव तीरखे शक्यसंयोगरूपसम्बन्धाभावात् । न च त- थापि तत्र संयुक्तसमवायात्मकशक्यसम्बन्धसत्वाद् भिन्नैव १. 'पि श' स, पाठः. २. पविभक्त्यान्वयितावच्छेदकामा' क. पाठः. मविभख. पाठः.
, मणिदर्पणे लक्षणास्त्विति वाच्यम् । तथा सति तत्र तीरत्वत्वस्य लक्ष्यता- वच्छेदकत्वेन तत्प्रकारकप्रतीत्यापत्तेः, तत्राप्युक्तरीत्या लक्ष- णापत्त्यानवस्थानात्। न च तीरे तीरत्वं, तीरत्वे च तीरमेव लक्ष्य. तावच्छेदकमिति वाच्यम् । तथा सत्युभयप्रकारकोभयविशेष्य- कप्रतीत्यापत्तेः । न चैवं लक्ष्यतावच्छेदकस्य पदादुपस्थितिर्न स्यादिति वाच्यम् । तीरत्वेनोपस्थिते शक्यसम्बन्धग्रहाद् 'यद्धी- र्येन विना न भासते, तद्भासकस्य तद्भासकत्वनियमादिति न्यायेन तीरलक्षणयैव तदुपस्थित्युपपत्तेः । स्ववृत्त्युपस्थापित- त्वस्य गौरवेणान्वयबोधातन्त्रत्वात् । शक्यतावच्छेदके च विशि- प्टगोचरैकशच्या विशिष्टोपस्थितिसम्भवान्न यदीरित्यादिन्याय- कल्पनमिति दिक्॥ इति लक्ष्यतावच्छेदके लक्षणानिरासः। अथ लक्षणाद्वैविध्यसमर्थनम् । इयं तु लक्षणा द्विविधा-जहल्लक्षणाजहल्लक्षणा चेति । यत्र शक्यार्थस्य न वाक्यार्थान्वयः, तत्र जहल्लक्षणा । यथा गङ्गायां घोष इत्यादौ । यत्र तु शक्यस्यापि वाक्यार्थान्वयः, तत्राजहल्लक्षणा । यथा छत्रिणो गच्छन्तीति । न चौत्र छत्रीति न प्रकृतिप्रत्ययसमुदाये लक्षणा, वाक्यलक्षणानङ्गीकारात् । नापिच्छत्रपदे छत्र्यच्छत्रिसमुदाये लक्षणा । तथा सतिच्छत्रस्य , १. 'त्वस्य ख. पाठः. २. 'च न क. पाठः शब्दपरिच्छेदे लाक्षणिकानुभावकत्ववादः । वाक्यार्थानन्वयेन जहत्स्वार्थतापत्तेरिति वाच्यम् । छत्रपद एव- च्छत्रच्छत्र्यच्छत्रित्रितयसमुदाये लक्षणाङ्गीकारेण जहत्स्वार्थ- वाभावादित्याहुः ॥ इति लक्षणाद्वैविध्यसमर्थनम् । अथ लाक्षणिकानुभावकत्ववादः । लाक्षणिक पदमप्यन्वयप्रतियोग्युपस्थापकतयान्वयानु. भावकम् । न च शक्तिमत्पदत्वमेवानुभवजनकतावच्छेदकम् । अशक्यान्वयबोधस्तु पदानामितरान्वितस्वार्थानुभावकत्वव्युत्पत्तेः पदान्तरेणैवोपपन्न इति वाच्यम् । तदपेक्षया वृत्तिमत्पदत्व- स्यैव सामान्यतया लघुत्वादिति केचित् । वृत्तिमत्वं हि शक्ति- लक्षणान्यतरवत्त्वम् । तदपेक्षया शक्तिमत्वमेव लघु । सामान्य- विशेषयोस्तुल्यशरीरत्व एव सामान्ये प्रमाणपक्षपातादितरत्र शरीरलाघवस्यैव बलीयस्त्वात् । अत एवाख्यातवाच्यतावच्छे- दकं यत्नत्वं , न तु सामान्यमपि व्यापारत्वमिति सिद्धान्तः। न च वृत्तित्वं न शक्तिघटितं, किन्तु अन्वयप्रतियोग्युपस्थित्य- नुकूलपदपदार्थसम्बन्धत्वमेवेति वाच्यम् । तदपेक्षयापि पदप- दार्थसम्बन्धतापन्नेश्वरेच्छात्वरूपशक्तित्वस्य लघुत्वात् । न च शक्तिमत्त्वेनानुभावकत्वेऽपभ्रंशतोऽनुभवो न स्यादिति वाच्यम् । तावता शक्तिमत्वेन ज्ञातत्वस्यैवानुभवजनकतावच्छेदकतास्तु, 'मन्व' क. पाठ.
. मणिदर्पणे तस्मालाक्षणिक नानुभावकम् । न चैवं नीलो द्विरेफ इत्यादौ यत्र पदद्वयमपि लाक्षणिकं , तत्र कथमन्वयानुभव इति वाच्यम् । तत्रापि विभक्तरेवेतरपदार्थान्वितस्वार्थान्वयानुभाव- कत्वसम्भवादित्यन्ये । वस्तुतस्तु शक्तं पदमनुभावकमिति सत्यम्। न तु तत् स्वशक्तिविषयमात्रानुभावकं, गौरवात् । न चाति- प्रसङ्गः । यत्पदशक्तिः साक्षात्परम्परौदासीन्येन यत्पदार्थोपस्थि- त्यनुकूला , तत्पदं तदर्थानुभावकमित्यङ्गीकारात् । न चैवं शक्त्युपस्थितेन प्रवाहेण स्मृतस्यापि तीरस्य गङ्गापदादन्वय. बोधविपयतापत्तिरिति गतं लक्षणयेति वाच्यम् । पदविशेषज- न्यपदार्थोपस्थितेरेवान्वयबोधाङ्गत्वेन लक्षणावश्यकीत्युक्तत्वात्। अतो लाक्षणिकमप्यनुभावकामिति दिक् ॥ . इति लाक्षणिकानुभावकत्ववादः । अथ तात्पर्यज्ञानस्य लक्षणाचीजत्वचादः। तात्पर्यज्ञानं च लक्ष्यान्वयबोधहेतुः । तस्य नानार्थ- स्थले विनिगमनान्यथानुपपत्त्या हेतुत्वे कल्प्यमाने लाघवेन शाब्दबोधमानहेतुत्वकल्पनात् । न च लक्षणास्थले लक्ष्यतात्प- यघीहेतुत्वेनावश्यकत्वादन्वयानुपपत्तिज्ञानमेव लक्ष्यान्वयबोध- हेतुरिति वाच्यम् । शब्दादिनापि लक्ष्यतात्पर्यधीसम्भवेन तदु. पजीव्यत्वमिति नियमाभावात् । यष्टीः प्रवेशयेत्यत्रान्वयानुपप- १. 'न ला' खं. पाठा. २. 'कमनु' ख. पाठा. स्व. पाठः. ४. ' विख. पाठः ३. 'र्यानुभावकं च' शब्दपरिच्छेदे दिपूर्वलक्षणावादः। त्यभावाच । न च तत्रापि प्रवेशयेत्यस्य प्रकरणादिना भोक्त- प्रवेशपरत्वावसायादस्त्यैन्वयानुपपत्तिज्ञानमिति वाच्यम् । तर्हि तत्रान्वयानुपपत्तिधीहेतुत्वेनावश्यकत्वात् तात्पर्यज्ञानमेव हेतुः । किञ्च यत्र यष्टिपद एव यष्टिधरपरत्वमवसितं, न प्रवेशयेत्यस्य प्रवेशविशेषपरत्वं, तत्रैव व्यभिचारान्नान्वयानुपपत्तिज्ञानं तत्र हेतुः, किन्तु क्वचित् तात्पर्यज्ञानहेतुतया प्रयोजकमात्रम् । किञ्च घोषपदस्य मत्स्यादिलक्षणायामप्यनुपपत्तिशान्तेर्गङ्गापदमेव ल- क्षमिति न स्यात् । अतो लक्षकपदनियमार्थमपि तात्पर्य- ज्ञानं हेतुः । तथा घोपाधारतायोग्यगडासम्बन्धिनिबिडद्रव्या- न्तरलक्षणयाप्यनुपपत्तिशान्तेस्तीररूपलक्ष्यनियमार्थमपि तात्प- र्यज्ञानं लक्षणास्थलीयान्वयबोधहेतुरिति दिक् ॥ इति तात्पर्यशानस्य लक्षणावीजत्ववाद अथ रूढिपूर्वलक्षणावादः। अत्र मीमांसकाः-सर्वत्र तात्पर्यज्ञानमेव लक्ष्यार्थानु- भवहेतुरित्ययुक्तं, कचिदन्वयानुपपचेरपि तहेतुत्वात् । तथा- हि-यद्यपि मण्डपं भोजयेत्यादौ मण्डपानकर्तृरूपयोगार्थ एव प्रकरणादिसाहित्य, तत्र योगार्थस्यैव शीघ्रमुपस्थियां भोजना- . १.7 प्रक पाठ २. 'स्त्व' क पाठ ३ 'तु, क ख पाठ ४. 'कन' क पाठ ५ धिद्र' क पाठ ६ 'येदित्या' क. पाठ. ७. 'ग्या' क पाठ ८. 'त्यान्वयवोधान्न' क पाठ .
मणिदर्पणे न्वयान्न लक्षणावकाशः, तथापि मण्डपं पश्येत्यादौ यत्र रूढ्य- र्थयोगार्थयोरुभयोरपि प्रकरणादितौल्यं, यत्र वानेकत्रापि प्रकर- णादिकं, तत्र सर्वत्रापि पदार्थतया रूढ्यर्थस्यैव शीघ्रमुपस्थितिः, योगार्थस्य वाक्यार्थतयाकाक्षादिसापेक्षतया विलम्वितोपस्थि- तिरित्यविवादम् । तथा च मण्डपं भोजयेत्यत्रोभयत्रापि प्रक- रणोद्यभावे रुळ्यर्थस्य गृहविशेपस्यैव शीघ्रमुपस्थित्या तस्य भोजनान्वयानुपपत्तिज्ञानमात्रादेव गृहविशेपसम्बन्धिनि लक्ष- णेति सर्वत्र न तात्पर्यज्ञानं लक्षणावीजमित्याहुः । अन तार्किकाः -रूढ्यर्थस्यान्वयानुपपत्तिज्ञाने सत्य- वयवशक्त्योपस्थितस्य योगार्थस्य लक्षणां विनैवान्वयबोधः स्या- दिति कुतस्तत्रान्वयानुपपत्तिज्ञानमात्राल्लक्षणा । न च तत्र रूढ्यर्थरमृतेरवयवगक्त्या योगार्थस्मृतिप्रतिवन्धकतया लक्षण- यैव तत्र योगार्थभानमाश्रयणीयमिति वाच्यम् । रूढ्यान्वया- नुभवस्यैव योगार्थभानप्रतिबन्धकत्वात् , तस्य तत्राभावात् । न च लाघवाद् रूट्यर्थज्ञानत्वेनैव योगार्थज्ञानप्रतिवन्धकत्व- मिति वाच्यम् । रूढयर्थान्वयानुभवस्य साक्षादविरोधिनो जन- कीभूताकाक्षाज्ञानविघटनद्वारा प्रतिबन्धकत्वे सम्भवति ग्रा. ह्याभावानवगाहिनो जनकज्ञानाविघटकस्य च रूढयर्थस्मर- णस्य मण्यादिवत् प्रतिबन्धकत्वकल्पनानौचित्यात् । तस्माद् यत्र योगार्थ एव प्रकरणादिकं, तत्र योगार्थस्यैवान्वयधीः। यत्र १. 'दौ र' स पाठ २ 'येदित्य' क. पाठ , ३. 'णाभा' क. पाठ ४. 'णेव तन न योगार्थभानमि' क पाठ ५ 'स्य यो' ख. पाठ.
यबोधहेतुत्वम् । एवञ्च यत्र रूढ्यर्थस्य नान्वयानुपपत्तिः पङ्क. शब्दपरिच्छेदे रुढिपूर्वलक्षणावाद । तु नोभयत्र प्रकरणादिकं, तत्र रूढयर्थान्वयानुपपत्तौ तात्पर्य- ज्ञानाभावे गृहविशेपसम्बन्धिनि न लक्षणा । किन्त्वययनश- क्त्युपस्थितस्य योगार्थस्यान्वयधीभवति । तात्पर्यज्ञानसत्त्वे तु गृहविशेषसम्बन्धिनि लक्षणेति सिद्ध तात्पर्यज्ञानस्य लक्ष्यान्व- , जमानयेत्यादौ, तत्र योगार्थाभानात् तद्विपय एव रूढेयोगोप- हारित्वप्रवाद इति ध्येयम् । अत एव 'वर्षासु रथकार आदधी- ते त्यत्र योगार्थे प्रकरणौद्यभावेन रूढ्यर्थस्यैवोपस्थितेर्जातिवि- शेपस्यैवाधानेऽधिकारः । ननु 'न शूद्राय मतिं दद्यादिति शुद्रस्य वेदपाठनिषेधेन कथं तस्याधानेऽधिकार इति चेद्, न । तस्य सामान्यशास्त्रतया विशेषशास्त्रेण सङ्कोचात् । ननु न शूद्रायेत्य यदि शूद्रपदस्य रथकारातिरिक्तशुद्रपरत्वं, तदा रथकारस्य वेदनिषेधाभावात् सकलबेदाध्ययनाधिकारः स्यात् । यदि च मतिपदमाधानानुकूलवेदातिरिक्तवेदपरं, तदा शूद्रान्त- रस्याप्याधानानुकूलवेदाध्ययने दोपो न स्याद् निषेधाभावादि- ति चेद्, न । यस्य शुदस्य यत्कालावच्छेदेन यहेदाध्ययन विशेपविधिविहितं, तदतिरिक्तकाले तद्वेदाध्ययनं सर्वदा तहि- नवेदाध्ययनं च शुद्रेण न कर्तव्यमिति निषेधशास्त्रार्थत्वात् । नन्वेवं 'स्वर्गकामो यजेते ति विशेषविधिवलात् स्वर्गकामाति- रिक्तशूद्रविषयक निषेधशास्त्रमिति किं न स्यादिति चेद्, न । 1.13 १. 'क्षणान्व' क. पाठ. २. 'गपरिहारव' क पाठ . ३. 'णाभा' ख. पाठ. .४ त्रशूस. पाठ. ५ 'तपक पाठ, ६. 'क्तत' क. पाठ'.
९८ मणिदर्पणे स्वर्गकामपदस्य रथकारपदवच्छूटे रूढयभावेन त्रैवर्णिकपरत- याप्युपपत्तेविशेषशास्त्रत्वाभावेन तद्वशान्निषेधशास्त्रस्य स्वर्ग- कामेतरशूद्रविपयकत्वकल्पनायोगात् । तस्मान्मण्डपं भोजये- त्यत्र गृहविशेपसम्बन्धिनि तात्पर्यज्ञानं विना न लक्षणेति दिक् ॥ इति झदिपूर्वलक्षणाराद। . ३ अथ वाग्यलक्षणानिरामः । सा च लक्षणा पदवृत्तिः, वृत्तित्वात् शक्तिवत् । न चाप्रयोजकत्वम् , शक्यसम्बन्धस्यैव लक्षणात्वेन वाक्ये च श- त्यभावेन शक्यसम्बन्धाभावात् । नन्वेवं गभीरायां नद्यां घोप इत्यत्र गभीरपदे न तीरलक्षणा, तीरे नद्यभेदाभावेन नदीपदा- नन्वयात् । नापि नदीपदे, तीरे गभीरपदानन्वयात्। अतो गभी- रपदनदीपदयोः प्रथममन्वयबोधे पश्चाद् घोषान्वयानुपपत्तिज्ञाने सति गभीरायां नद्यामिति वाक्ये गभीरनदीतीरे लक्षणावश्य- की। न च तत्र शक्त्यभावाच्छक्यसम्बन्धात्मिका न लक्षणेति वाच्यम् । शक्यसम्बन्धापेक्षया सामान्यत्वेन लघुतया स्वज्ञाप्य- सम्बन्धस्यैव लक्षणात्वौचित्यात् । न चैवं गभीरायां नद्यामिति सविभक्तिकस्य वाक्यस्य लक्षकत्वे विभक्त्यर्थाधारत्वस्य तीरे- ऽन्वयो न स्यात् । लक्षकपदशक्यस्य लक्ष्येऽनन्वयादिति १., ० 'म्भी' ख पाठ. पाठ'. ५. 'रान्व' ख पाठ. ३. 'दे ती' ख. पाठ. ४. 'मान्व' ख.
. शब्दपरिच्छेदे वाक्यलक्षणानिरासः । वाच्यम् । नीलो घट इत्यत्र गुणिलक्षकालपदशक्यस्य गुण- स्य लक्ष्ये गुणिन्यन्वयाद्, वृत्तिद्वयसमावेशस्यादोपत्वे शक्त्यैवा- धारत्वोपस्थितिसम्भवाच्च । न च ज्ञाप्यसम्बन्धस्य लक्षणात्वे लिङ्गतया स्वज्ञाप्यसम्बन्धस्यापि लक्षणात्वं स्यादिति वाच्यम् । तात्पर्ये सतीष्टत्वात् । यहा शत्या स्वज्ञाप्यसम्बन्धो लक्ष- णा । वाक्ये च शक्त्यभावेऽपि पदशक्त्या वज्ञाप्यसम्भवात् । तस्माद् वाक्ये लक्षणावश्यकीति चेद्, न । शक्त्या स्वज्ञाप्य- सम्बन्धत्वापेक्षया शक्यसम्बन्धत्वस्य लघुत्वात् , पदलक्षणयै- वोपपत्तौ पदवयात्मकवाक्यलक्षणाया अन्याय्यत्वात् । न च पदलक्षणापक्षेऽपि विनिगमनाविरहेण पदद्वयेऽपि लक्षणा स्यात् । ततो वाक्य एवैका लक्षणेति वाच्यम् । विशेषणविभक्तेः शब्द- साधुत्वार्थकतया विशेषणपदे लक्षणायां विभक्त्यर्थस्य लक्ष्या- नन्वयेन तीर आधारत्वप्रतीत्यनापत्तेः विशेष्यपद एव लक्षणा- ङ्गीकारात् । न च विशेष्यगतविभक्तेरेवार्थवत्त्वे किं विनिगम- कमिति वाच्यम् । निर्विशेषणविशेष्यस्थले विशेष्यगतविभक्ते- रर्थवैत्त्वावधारणात् । न चैवं नदीपदस्यैव गभीरनदीतीरलक्ष- कत्वे गभीरपदवैयर्थ्यमिति वाच्यम् । तात्पर्यग्राहकतया तदवै- यात् । तस्माद् वाक्ये न लक्षणा, किन्तु पद एव , तत्रापि - विशेष्यपद इति दिक्॥ इति वाक्यलक्षणानिरासः। १. 'स्य गु' क. पाठः. २. 'क्तेः सा' क. पाठः ३. रर्थ' क. पाठः. १, 'साधुत्वे कि ख. पाठः. ५, 'साधुत्वाव' ख. पाठः.
१०० मणिदर्पणे अथ वहुव्रीहिलक्षणावादः। एवं चित्रगुमानयेति बहुव्रीहौ गोपदस्य चित्रगोस्वा- मिनि लक्षणा। चित्रपदं तु तात्पर्यग्राहकमिति न्याय्यः पन्थाः। 'अनेकमन्यपदार्थे'(२.२.२४) इति व्याकरणस्मृत्यानेकस्य पदस्या- न्यपदार्थ वर्तमानस्य समासानुशासनात् पदवयेऽपि लक्षणेति स्थितिः। ननु दधि पश्येत्यत्र लुप्तया द्वितीयया कर्मत्वस्येव चित्रा गौर्यस्येति विग्रहवाक्यस्थलुप्तयत्पदादेवान्यपदार्थस्योपस्थितिसंभ- वे किं लक्षणया। न च विग्रहवाक्यस्थस्य यस्येतिपदस्य स्मृतावपि कर्मत्वेनानुपस्थिते नयनान्वयसंभव इति वाच्यम् । तमिति पदमप्यध्याहत्यान्वयबोधोपपत्तेरिति चेद् ,न। पदान्तराध्याहार- तो लक्षणाया एव ज्यायस्त्वात् । अन्यथा गङ्गायामित्यादविप्य- ध्याहारापत्तेः । दधि पश्येत्यत्र तु क्रियाकर्मभावान्वये घटः कर्मत्वमित्यादावन्वयाननुभवेन द्वितीयोपस्थाप्यकर्मत्वस्यैवाङ्ग तया लुप्ताया हितीयाया एव कर्मत्वोपस्थापकत्वकल्पनात् । किञ्च, वहुबीहेनित्यसमासतया विग्रहाभावात्, समस्यमानैरेव पदैरर्थक- थनस्य,विग्रहत्वाद् , इह त्वसमस्यमानेन यत्पदेनार्थकथनात् । चित्रा गोर्यस्येति च बहुव्रीहिवाक्यस्यार्थकथनमात्रमिति बहुव्री- हावपि न वाक्ये लक्षणा । बहुव्रीहिश्चातद्गुणसंविज्ञानस्तद्गुणसं- विज्ञानयेति द्विविध. । तत्र यत्र शक्यस्य न क्रियान्वयः तत्रापः । यया चित्रगुमानयेत्यादौ। तत्र शक्यस्य गोः क्रिया- १. 'य्यम् । स पाट पाट ४ वध्या' क पाठ २ 'कम्या' र पाठ. ३. 'म्य स्मृ'क ५ 'नक' क पाट , ६ 'ति ' पाठ.
शब्दपरिच्छेदे बबीहिलक्षणावादः । १०१ नन्वयात्।यन शक्यस्यापि क्रियान्वयस्तत्र तद्गणसंविज्ञानबहु- बीहिः। यथा चैत्रादीन मोजय, लम्बकर्णमानयेत्यादौ।तत्र शक्य- स्य चैत्रस्य कर्णस्य च क्रियान्वयात्। तत्र चैत्रादीनित्यत्र निमन्त्रि- तत्वमेव शक्यसम्बन्धो लक्ष्यतावच्छेदकं च । चैत्रस्य शक्यस्य- मैत्रादेर्लक्ष्यस्य च तेन रूपेणोपस्थितेः।लम्बकर्णमित्यत्र तु कर्णक- र्णवतोर्यः सम्बन्धस्तन्निरूपकत्वमेव कर्णकर्णवदुभयसाधारणं ल- क्ष्यतावच्छेदकं शक्यसम्बन्धश्च । न च लम्वकर्णमानयेत्यस्यापि तद्गुणसंविज्ञानत्वे चैत्रादीन् भोजयेत्यत्र चैत्रमैत्रयोरिव कर्णकर्ण- वतोस्तुल्यवस्क्रियान्वयः स्यात् । न त्वेवम् । कर्णस्य विशेषण- त्वेन कर्णवतः प्राधान्येन क्रियान्वयादिति वाच्यम् । कर्णकर्ण- बतोरपि प्राधान्येनैव क्रियान्वय इत्येके। प्राधान्येन क्रियान्वया- भावेऽपि क्रियान्वयिस्वार्थकत्वरूपं तद्गुणसंविज्ञानत्वमक्षतमेवे- त्यन्ये । न च क्रियान्वयिस्वार्थकत्वमात्रस्य तद्गुणसंविज्ञानत्वे काकेभ्यो दधि रक्ष्यतामित्यत्रापि त(था ? दा)पचिरिति वाच्यम् । बहुवीहित्वे सतीत्यपि विशेषणात् । तस्माद् बहुव्रीहौ सर्वत्रोत्त- रपद एव लक्षणा, नतु वाक्य इति दिक् । वैयाकरणास्तु-बहुव्रीहौ नियमतोऽन्यपदार्थे तात्प- र्यान्नियमतोऽन्यपदार्थोपस्थापकत्वाच्चान्यपदार्थे शक्तिरेव । नहि लक्षकपदस्यान्यपदार्थे तात्पर्यनियमस्तदुपस्थापकतानियमश्च सं- भवति। ननु बहुव्रीही न वाक्ये (न?) लक्षणा, किन्तु उत्तरपदे । तस्यार्थविशेषे न तात्पर्यनियमादिकमिति (चेद् , न)। तथापि २. 'स्य त' क. पाठः. ३. 'थोपस्था' ख. ४, 'यतान्य' क. पाठ.. ५. पर्थबोधक' क. पाठ. १. 'श् । ल क. पाठ:. पाठः.
. , १०२ मणिदर्पणे बहुव्रीहिस्थपदद्वयेऽर्थविशेषे तात्पर्यादिनियमेन शक्तेरावश्यक- त्वात् । न च तथापि निरूढलक्षणैवास्त्विति वाच्यम्। शक्तेरेख निरूढलक्षणातो ज्यायस्त्वादित्याहुः । अत्रोच्यते - तात्पर्यनिर्वाहिका वृत्तिः । तात्पर्य च त्रिविधम् । औत्सर्गिकमापवादिकं नियतं चेति । तत्र यत्रौत्सर्गि- कं तात्पर्य, यथा गङ्गादिपदानां प्रवाहादौ , तत्र शक्तिः । यत्र वापवादिकं, यथा गङ्गादिपदस्य तीरादौ, तत्र लक्षणा । यत्र तु नियतं , यथा धूमादित्यादिहेत्ववयवत्वावच्छेदेन ज्ञाने घटं करोतीत्यादौ च घटावयवादौ, तत्र निरूढलक्षणा । ततश्च बहुव्रीहौ पदान्तरसमभिव्याहृतोत्तरपदत्वावच्छेदेनान्यपदार्थे ता- त्पर्यनियमान्निरूढलक्षणैव युक्ता। न चैवं घोपपदसमभिव्याहृत- गङ्गापदत्वावच्छेदेन तीरे तात्पर्यनियमात् तत्रापि निरूढलक्षणा स्यादिति वच्यम् । तत्र घोपाधारतायोग्यनिविडद्रव्यान्तरेऽपि कदाचित् तात्पर्यसम्भवेन तीरे तन्नियमाभावात् । ननु हिरेफ इत्यत्र बहुव्रीहौ द्वौ रेफौ यस्येत्यन्यपदार्थे रेफहयवति भ्रमर- शब्दे न तात्पर्य, किन्तु भ्रमरशब्दवाच्य एवेति बहुव्रीहा- वन्यपदार्थे(न) तात्पर्यनियम इति चेद् , न । बहुव्रीहित्वावच्छे. देनान्यपदार्थे तात्पर्यनियमकल्पनाद् हिरेफपदेऽपि भ्रमरपदवाच्य- स्यैवान्यपदार्थत्वकल्पनात् । न च तस्य न रेफद्वयवत्त्वमिति वाच्यम् । भ्रमरशब्दगतस्य रेफहयस्य तदर्थेऽपि परम्परासम्बन्धन १. 'गास्त्वि' क. पाठ. २. 'यार' क. पाठ. ३. 'प्र द्वौ' क. पाठ.
शाब्दपरिच्छेदे बहुप्रीहिलक्षणावादः । सत्त्वात् । तादृशसम्बन्धस्यैव तत्र विवक्षितत्वात् । अतो बहु- बीहावन्यपदार्थे निरूढलक्षणैव, न शक्तिः । नन्वेवं बहुबीहावुत्तरपदस्य लक्षकत्वे लक्ष्यवाचकपदान्तरस- मानलिङ्गता न स्यात्, गङ्गायामित्यादावदर्शनादिति चेद् ,न। विशेषणपदस्य विशेष्यपदलिङ्गमाहितया चित्रगुर्देवदत्त इति विशेष्यपदलिङ्गमाहितोपपत्तेः।अत एव नीलः पटो नीलं वस्त्र- मिति लक्षकस्यापि नीलपदस्य विशेषणपदत्वेन विशेष्यपदलिङ्ग- ग्राहिता । अन्यथा विशेष्यपदलिङ्गग्राहित्वमात्रेण शक्तिकल्पने नीलादिपदेऽपि शक्तिः स्यात्। न च देवदत्तस्य पदमित्यत्र विशेषणपदस्य देवदत्तस्येत्यस्य न विशेष्यभूतपदलिङ्गग्राहिता । देवदत्तः पचतीत्यत्र सुप्तिङोर्विशेषणविशेष्यपदयोः समानलिङ्ग- ताभा(वाचवथ) इति वाच्यम् । विशेष्यपदेन सहकार्थवृत्तेर्वि- शेषणपदस्य विशेष्यपदलिङ्गग्राहितानियमात् । देवदत्तरय पद- मित्यत्र न विशेषणपदस्य विशेप्यपदेन सहैकार्थवृत्तित्वम् । तथा सुप्तिकोरपीति न तत्र व्यभिचारः । न च तिडापि कर्तुर्वाच्यतया सुप्तिडोः कथं नैकार्थत्वमिति वाच्यम् । तिङः कर्तगतसंख्यावाचित्वेऽपि कर्तुराक्षेपलभ्यतया तहाचकत्वाभा- बात् । न च कर्तुराक्षेपलभ्यत्वे कथं शाब्दानुभवविषयत्वमिति वाच्यम् । प्रथमान्तपदोपरथाप्यत्वस्यैवाक्षेपलभ्यशब्दार्थत्वात् । अतः सुप्तिडोर्नेकार्थवृत्तित्वमिति न तत्र व्यभिचारः । लिङ्ग- विशेपानुशासनाभावे सतीत्यपि विशेषणीयम् । अतो देवदत्तो - २. 'लो' क. पाठः, ३. 'घुस' क. पाठ . १. 'ध्यलि' ख. पाठ.
माणदर्पणे मित्रमित्यादौ मित्रादिपदस्य देवदत्तादिपदलिङ्गसाहित्वाभावेऽपि न व्यभिचार इति दिक् ॥ इति पहुव्रीहिलक्षणावादः। अथ तत्पुरुपलक्षणावादः । एवं राजपुरुष इत्यादिषष्ठीतत्पुरुषसमासेऽपि नियमतः पष्ठ्यर्थसम्बन्धप्रतीतेर्निरूढलक्षणयैवोपपत्तेर्न षष्ठ्यर्थे शक्तिक- ल्पना । अत एव तद्धनमित्यादौ सर्वनाम्नः सर्वशक्तत्वेनानुप- पत्त्यभावेऽपि तत्पदे सम्बन्धलक्षणा, निरूढलाक्षणिकत्वात् । ननु राज्ञः पुरुप इति विग्रहे समासविधानालुप्तषष्ठ्येव स्मृता सम्बन्धबोधिकारित्वति तत्पुरुषे लक्षणापि न कल्प्येति चेद्, न। समासोपस्थितिसमये नियमतो विग्रहस्मरणे मानाभावात्। विग्र- हाभिधानस्य च तत्र समासार्थकथनमात्रत्वात् । दधि पश्ये- त्यादौ तु लुप्तद्वितीयास्मरणस्य विभक्तिविशेषाभावे घटः कर्म- त्वमित्यत्रेव क्रियाकर्मभावान्वयानुपपत्त्या प्रागेव साधितत्वात् । समासे त्वनुशासनबलेन साधुत्वाद् विभत्त्यभावेऽपि नैराका- झ्याविरहेण व्युत्पत्तिभेदात् । नन्वेवमपि राजपदाद् राज्ञः पुरु- पपदात् पुरुपस्य संसर्गमर्यादया सम्बन्धस्य च भानोपपत्तेन सम्बन्धलक्षणा करप्येति चेट, न । समासस्य राज्ञः पुरुष इति विग्रहसमानप्रकारकज्ञानजनरत्वानुरोधेन विग्रहे प्रकारीभूतस्य १. 'भ्य भा' क. पाठ .
. शब्दपरिच्छेदे तत्पुरुषलक्षणावाद । सम्बन्धस्य समासेऽपि प्रकारत्वार्थ तत्र लक्षणावश्यम्भावात् । ननु 'विभाष'(२.१.११)ति सूत्रेण विग्रहसमासयोरनुशासनात् समासे शक्तिसिद्धिरिति चेद्, न । व्याकरणस्य साधुत्वमात्रज्ञापकत्वेन तबलात् साधुत्वमात्रसिद्धावपि शक्त्यसिद्धेः । न च साधुत्वेन शक्तिरनुमीयत इति वाच्यम् । सुवन्ततिङन्तपदयोर्ध्याकरणसाधु- त्वेऽपि काप्यशक्तः, प्रत्येकमेव प्रकृतिप्रत्यययोः शक्तत्वात् । अतो नानुशासनवलादपि शक्तिः । अत एव येकयोर्दिवचन- कवचने' (१.४.२२) इति सूत्रमेकत्वादावेकवचनादेर्न शक्तत्वज्ञा- पनार्थम् । 'तान्येकवचनद्विवचनबहुवचनान्येकशः'(१.४.१०२) इति सूत्रेणैकस्य वचनेमकवचनमित्याद्यन्वर्थसंज्ञाबलादेवैकवच- नादेरेकत्वादी शक्तिसिद्धेः । अत इदं सूत्रं व्यर्थमित्याशङ्कय शक्तत्वज्ञापकत्वाभावेऽप्येकत्व एवैकवचनं द्वित्व एव द्विवचनं च साधु, न तु लक्षणयाप्यन्यत्रेति ज्ञापनार्थतया नेदं सूत्रं व्य- थमित्युक्तम् । न चैवमन्यविभक्तेरन्यविभक्त्यर्थे लक्षणयाप्यसा- धुत्वे मातुः स्मरतीत्यादौ षष्ठयादेर्द्वितीयाद्यर्थे लक्षणयापि प्र- योगो न साधुः स्यादिति वाच्यम् । व्यत्ययानुशासनबलेन यन्त्र विशेषानुशासनं , तत्र विभक्तेविभक्त्यन्तरार्थे लक्षणया साधु- त्वेऽप्यन्यत्रासाबुत्वावगमात् । न चैवमेकस्यां भार्यायां दारा इति बहुवचनानुपपत्तिरिति वाच्यम् । तत्र बहुवचनप्रयोगस्य शब्दसाधुत्वमात्रार्थत्वेन बहुत्वस्य प्रकृत्यर्थानन्वयात् । एवं च , १. 'क्य' स. पाठ. २. 'क्तिसिद्विरक पाठ. ३. 'क्तिना' क. पाउ. ४. 'नमि' क. पाठ. ५. 'त्यन्व' पाठ. M. If , मणिदर्पणे विशेषानुशासनाभावे सुन्त्रिभक्तेन विभक्त्यन्तरार्थे लक्षणयापि साधुत्वम् । नन्वेवं तुल्यन्यायतया तिकिभक्तेरपि विशेषानुशासनं विनान्यत्र लक्षणयाप्यसाधुत्वाद् रथो गच्छतीत्यादौ व्यापारे लक्षणा न स्यादिति चेद् , न । आख्याते व्यत्ययानुशासनब- लेन विभक्त्यन्तरार्थे लक्षणाविरहेऽपि व्यापारलक्षणायामदोपा- दिति दिक् । ननु राजपुरुपमानयेत्यत्र राजसम्बन्धिपुरुपे द्वितीयो- पस्थापितकर्मत्वावगतिरित्यविबादम् । विभक्तिश्च प्रकृत्यर्थगन- स्वार्थबोधिकेति विशिष्टपुरुषस्य प्रकृत्यर्थतासिद्धये समासस्य विशिष्टपुरुषे शक्तिरभ्युपेयेति चेद् , न । द्वितीयया पुरुषे कर्म- त्वमुपस्थाप्यते, तत्र राजसम्बन्धित्वं च भासत इति राजसम्ब- न्धिपुरुपे कर्मवान्वयोऽर्थात् सिध्यतीति न तदर्थमपि समासे शक्तिकल्पनमिति दिक् । इदं त्ववधेयं-राजपुरुष इत्यत्र पष्ठवर्थसम्बन्ध एव लक्ष्योऽनन्यलभ्यत्वाद् , न तु सम्बन्धी, तस्य पुरुपपदादेवोपस्थितेरिति प्राञ्चः । नव्यास्तु राजपुरुप इत्यत्र राजसम्बन्धिपुरुपप्रतीतेः सम्ब- धिन्येव लक्षणा । न च यथा देवदत्तः पचतीत्यत्र पाकानुकूलय- नवानिति यत्नवतः प्रतीतावप्यन्यलभ्यत्वान्न यत्नवतः शक्यत्वं, तथानापिन सम्बन्धिनो लक्ष्यत्वम् , अन्यलभ्यत्वादिति वाच्यम्। प्रातिपदिकार्थयोरभेदान्वयम्य व्युत्पत्तिसिद्वतया राजपदार्थपुरु- १. "प इति' क. पाट २. 'ट' क पाठ. ३. 'नुभवम्य' य. पाठ .
१०७ शब्दपरिच्छेदे तत्पुरुषलक्षणावादः । पपदार्थयोरभेदानुभवार्थमत्र सम्बन्धिलक्षणावश्यंभावात् । अत एवं नीलघटमानयेत्यत्र नीलपदार्थघटपदार्थयोरभेदान्वयानुभव- बलादेव नीलपदस्य धर्मिणि लक्षणा । अन्यथा गुणपरत्वे सम- वायस्य संसर्गमर्यादयोपस्थिती लक्षणानर्थक्यात् । अत एव समानविभक्तिकप्रातिपदिकार्थयोरेवाभेदान्वयानुभवनियमः । स- मासे च समानविभक्तिकत्वाभावेन नाभेदानुभव इत्यपास्तम् । समानविभक्तिकत्वाभावेऽपि नीलघटमित्यत्राभेदानुभवात्। नच प्रातिपदिकार्थेयोः सर्वत्राभेदानुभवव्युत्पत्तौ दण्डेन गामानयेत्य- पॉप्यभेदानुभवव्युत्पत्त्यापत्तिरिति वाच्यम् । तावता विरुद्धवि- भक्त्यनवरुद्धप्रातिपदिकार्थयोरभेदानुभवव्युत्पत्तौ बाधकाभावा- त् । यदि च देवदत्तस्य पुत्रस्य भार्येत्यादौ देवदत्तपुत्रयोस्तथा- विधयोरपि नाभेदानुभवः, तदा एकार्थवृत्तित्वयोग्येयपि प्राति- पदिकविशेषणं देयम् । न चैवमपि भूतले घटो नेत्यत्र घटत- दभावयोः प्रातिपदिकार्थयोरभेदान्वयाभावाद् व्यभिचार इति वाच्यम् । उक्तयुक्तियलेन तत्रापि घटपदेन घटप्रतियोगिको लक्ष्यत इति घटप्रतियोगिकाभावयोरभेदानुभव एव । न च वि- रुद्धविभक्त्यनवरुद्धत्वापेक्षया समानविभक्त्यवरुद्धत्वमेव लवि- ति समासे तदभावान्नाभेदानुभव इति वाच्यम् । तथा सति नीलघटमित्यत्राभेदानुभववलान्नी(लपदे) लक्षणेति सिद्धान्तविरो- धापत्तेः । तस्मात् पष्ठीतत्पुरुपे सम्बन्धिन्येव लक्षणेत्याहुः॥ इति तत्पुरुषलक्षणावादः। . ." ३. 'स्तित्वा' क. पाठः. १. 'त्या' क. पाठः. ४. 'योरभे' क. पाठः. २. 'क्त्यमा' क. पाठः 'श्रामे क. पाठः मणिदर्पणे अथ कर्मधारयलक्षणानिरासः । नन्वेवं नीलोत्पलमिति कर्मधारयेऽपि नीलपदेऽपि नी- लाभेदे शक्तिलक्षणा वावश्यमङ्गीकार्या । अन्यथा नीलाभेद- प्रतीत्यनापत्तेरिति चेद् , न । किमभेदे शक्त्यादिकं विना स्मृत्यभाव आपाद्यते कि वा स्वस्वानुभवाभावः । आद्य इष्ट- त्वात् । नहि नीलोत्पलमित्यत्र नीलत्वविशिष्टोत्पलाभ्यामन्यत् स्मयते । नान्त्यः । संसर्गमर्यादया नीलोत्पलपदार्थयोरभेदानु- भवे बाधकाभावेन तदर्थ शक्त्याद्य(र्थ)कल्पनात् । ननु यथा राज्ञः पुरुष इति विग्रहसमानार्थकथनार्थ राजपुरुप इति समासे सम्बन्धलक्षणा , तथा नीलमुत्पलमिति व्यासे विशेषणविभक्ते- रभेदार्थत्वेन नीलाभिन्नत्वप्रकारकज्ञानजननात् तदैकरूप्याय समासेऽप्यभेदशक्त्यादिकमावश्यकमिति चेद् , न । विशेषण- विभक्तेः कर्मत्वादिशक्ताया अभेदार्थकत्वस्यापि कल्पने गौरवा- पत्त्या साधुत्वमात्रार्थत्वेन व्यासेऽपि नीलाभेदस्य संसर्गमर्याद- यैव प्रतीतेः । अन्यथा नीलपदस्य नीलाभेदपरत्वे नीलाभिन्न- मुत्पलमिति नीलाभिन्नाभेदस्यापि संसर्गमर्यादया प्रतीत्यङ्गीका- रापत्तेः । न चेष्टापत्तिः । तथा सति तत्पुरुषादाविव कर्मधार- येऽपि लक्षणाद्यविशेषे "बहुव्रीहितत्पुरुपाभ्यां कर्मधारयस्य ब. लीयस्त्वात् 'एतया निपादस्थपति याजयेदि'त्यत्र न निपादानां स्थपतिरिति तत्पुरुषः, निषादपदे सम्बन्धे लक्षणापत्तेः । नापि निपादः स्थपतिः स्वामी यस्येति बहुव्रीहिः । अन्यपदार्थे लक्ष- णापत्तेः । किन्तु निपादश्चासौ स्थपतिश्चेति कर्मधारयः” इति मीमांसासिद्धान्तविरोधात् । न च कर्मधारयेऽपि निपादस्य या.
१०९ शब्दपरिच्छेदे नार्थलक्षणावादः । गानुकूलविद्याप्रयुक्तिकल्पनागौरवं स्यादिति वाच्यम् । शब्द- शत्यनुरोधेनार्थे निश्चिते तदुपपाद(क)कल्पनस्य प्रामाणिकत्वा- दिति दिक् । अर्धपिप्पलीति तत्पुरुपे तूत्तरपदे पष्ठ्यर्थे लक्षणा। अतश्च पिप्पल्या अर्धमित्यर्थो लभ्यते । तथोपकुम्भमित्यव्ययी- भावेऽप्युत्तरपदे पष्ठ्यर्थे लक्षणा । ततः कुम्भस्य समीप इत्यर्थो लभ्यत इति दिक् ॥ . इति कर्मधारयलक्षणानिरासः। अय नअर्थलक्षणावादः। एवं न घटः पट इति पर्युदासे भूतले घटो नेति प्रस- ज्यप्रतिपेधे च नञोऽन्योन्याभावे संसर्गाभावे च लक्षणैव । नेति केवलेन ना सामान्यतोऽभावत्वविशिष्टमात्रप्रतीतेाधवांच्चाभा- वत्वविशिष्टमात्रशक्तेन तेनान्योन्याभावत्वात्यन्ताभावत्वप्रकार- कप्रतीत्योः घटपदेन नीलघटत्वप्रकारकप्रतीतिवलक्षणां विनानु- पपत्तेः । एवमुभयत्रापि लक्षणातौल्येऽपि पर्युदासापेक्षया प्रति- पेधो बलीयान् । पर्युदासेऽपि (न)घटः पट इति सामानाधिकर- ण्यप्रतीत्या नओ घटप्रतियोगिकान्योन्याभाववति लक्षणावश्यक- लात् । प्रतिषेधे तु घटप्रतियोगिकाभाव एव लक्षणाकल्पनात् । नन्वेवं यजतिषु येयजामहं करोति नानूयाजेवि'त्यत्र नानू- याजेपु अनूयाजव्यतिरिक्तेषु यजतिपु येयजामह इति मन्त्रं करोती ति पर्युदास एव, न प्रसज्यप्रतिषेध इति सिद्धान्तो ।
११० मणिदर्पणे भज्येत। प्रसज्यप्रतिपेधस्यैव बलीयस्त्वादिति चेत् । सत्यम्। प्रस- ज्यप्रतिषेधे हि यजतिपु येयजामहं कुर्यात् , अनूयाजेपु तु न कुर्या- दिति येयजमाह इति विधिपरं वाक्यं स्यादिति वाक्यभेदः स्यात्। स(म्भवति) चैकवाक्यत्वे वाक्यभेदो न युक्तः । किञ्चानूयाजेपु यजतिषु येयजामहं न कुर्यादिति यजतिपु येयजामहं करोतीति सामान्यशास्त्रप्राप्तस्य येयजामहस्य निपेधेऽष्टदोपकदुष्टविकल्पा- पत्तिः । अत एव पशावतिदेशशास्त्रप्राप्तयोराज्यभागयो(ना- ज्यावकार्न तौ प)शौ करोतीति निषेधाद् विकल्प इति मीमांस- काः । तस्माद् वाक्यभेदविकल्पपरिजिहीर्षया तत्र जघन्यस्यापि पर्युदासस्याश्रयणम् । न च नानूयाजेष्वित्यत्र न पर्युदासः स. म्भवति , अननूयाजेप्विति नञ्समासाभावादिति बच्यम् । व्या- सेऽपि पर्युदासाविरोधादित्येके । नात्र नसमासः । किन्तु 'ग- मिकर्मीकृतनैकनीवृते'त्यत्रेव नसमास एवेत्यपरे । ननु नञः संसर्गाभावपरत्वे क्वचिदनुयोगिपदे सप्तम्य- पेक्षा दृश्यते भूतले घटो नेति । कचित्तु तदनपेक्षा । यथा मैत्रो न गच्छतीत्यत्र गमनानुकूलयत्नाभाववान् मैत्र इति । किमत्र नियामकमिति चेद् , उच्यते । यत्रानुयोग्यभावयोरा- धाराधेयभावोऽन्वयबोधे प्रकारतया भासते । यथा भूतले घटो नेत्यत्राधारत्वस्य प्रकार(क ?)त्वसिद्धये पूर्वोपस्थित्यर्थ तद्वाच- कसप्तम्यपेक्षा । मैत्रो न गच्छतीत्यत्र त्वाधाराधेयभावस्य संस. र्गमर्यादया भानात् पूर्वोपस्थित्यनपेक्षणेन (न) सप्तम्यपेक्षेत्याहुः । इदं तु ध्येयं-भूतले घटो नेत्यत्र भूतलाधारको घटप्रति- शब्दपरिच्छेदे नजर्थलक्षणावादः। योगिकोऽभाव इति नार्थविशेष्यकोऽभावप्रत्यय इति केचित् । एवं सति पटे पटत्वं न घट इत्यत्र पटवं पटवृत्ति घटवृत्त्य- भावप्रतियोगि चेति पटत्वविशेष्यकान्वयबोधोऽनुभवसिद्धो न स्यात् । तत्र त्वदुक्तरीत्या पटत्वं पटवृत्ति पटत्वाभावो घटवृ- चिरित्युभयविशेष्य(क)प्रतीत्यापत्तेः । अतो नाभावविशेष्यकः प्रत्ययः । किन्तु भूतले घटो नेत्यादौ घटो भूतलनिष्ठाभावप्र- तियोगीति प्रतियोगिविशेष्यक एव । अत एव पटे पटत्वं न घट इत्यत्र पटत्वं पटवृत्ति घटनिष्ठात्यन्ताभावप्रतियोगि चेति पटत्वविशेष्यकप्रतीतिरपि सङ्गच्छत इत्यन्ये। भूतले घटो नेत्य- (त्रा)भावविशेष्यकत्वपक्षे प्रातिपदिकार्थयोरभेदान्वयव्युत्पत्त्यनु- रोधाय घदपदे घटप्रतियोगिके लक्षणा । ततश्च भूतले घटप्र- तियोगिकोऽमाव इति प्रतीतिर्भवति । प्रतियोगिविशेष्यकत्व- पक्षे तु सप्तम्यर्थे नअर्थान्वयः , नञर्थाभाव?)थाभावप्रतियो- गि(नि) लक्षणा । ततश्च भृतलाधाराभावप्रतियोगी घट इति प्रतीतिर्भवति । घटो नास्तीति क्रियापदयोगे आख्यातोपात्त- संख्या पक्षहयेऽपि प्रतियोगिन्यन्वेति । वर्तमानत्वं त्वभाव इति . दिक् । ननु नञा कचिदन्योन्याभावधीः कचित् संसर्गाभाव- धीरित्यत्र किं विनिगमकमिति चेद् , उच्यते । यत्र समानवि- भक्ति(क)प्रतियोग्यनुयोगिवाचकपदसमभिव्याहृतत्वं नञः , त- वान्योन्याभावबोधकत्वम् । यथा न घटः पट इति । अन्य- त्र तु संसर्गाभावबोधकत्वमित्येके । एवं सत्यग्रे वृक्षो न कपि- ११२ मणिदर्पणे संयोगीत्यत्राकुड्यं भूतलमित्यत्राप्यन्योन्याभावधीप्रसङ्गात् । त- स्माद् यत्र यथा व्युत्पत्तिः, तत्र तथा धीरिति दिक् ॥ इति नमर्थलक्षणावादः। अथेतरेतरयोगद्वन्द्वलक्षणानिरासः। धवखदिरौ छिन्धीतीतरेतरहन्दे तु न लक्षणा । शक्त्यै- वोपस्थितयोर्धवखदिरयोश्छिदिक्रियान्वये बाधकाभावात् । अत्र मीमांसकाः इतरपदार्थान्वययोग्यतावच्छेदका- वच्छिन्नत्वेनोपस्थित एव धर्मिणीतरपदार्थान्वयः । अत एव घटेन जलमाहरेत्यत्रच्छिद्रेतरत्वेनोपस्थित एव घटे जलाहरणा- न्वयः । ततश्च प्रकृते विभक्त्युपस्थितहित्वान्वयितावच्छेद- कावच्छिन्नत्वेन धवखदिरयोरुपस्थितिर्वाच्या । तदन्वयिताव- च्छेदकत्वं च न शक्त्युपस्थितयोधवत्वखदिरत्वयोः, द्वित्व- पर्याप्त्यधिकरणतावच्छेदकधर्मस्यैव तदन्वयितावच्छेदकत्वात् । किन्तु खदिरसहितावस्थधवत्वस्यैव तथात्वमिति तादृशरूपेण धवोपस्थि(ते ? तये) प्रथमश्रुते धवपदे तुल्यवदेकक्रियान्व- यित्वरूपसाहित्याश्रये धवेऽवश्यं लक्षणाङ्गीकार्या । किञ्च घट इत्यादौ विभक्त्युपस्थाप्यायाः सङ्ख्यायाः प्रकृत्यर्थतावच्छेदकघ- 'टत्वादिव्याप्यत्वस्य दर्शनाद् विभ(क्त्यक्तित्वा)वच्छेदेन प्रकृत्य- र्थतावच्छेदकव्याप्यसंख्याभिधायित्वनियमकल्पनादिहापि द्विव- चनविभक्त्युपस्थाप्यद्वित्वव्यापकं प्रकृत्यर्थतावच्छेकमभ्युपेयम् । तादृश(बन्धंच ?ञ्च) न धवत्वादि , (किन्तु) तुल्यवलियान्वयि- स्वरूपसाहित्याश्रयत्वमेव पदार्थतावच्छेदकमवश्यं वाच्यमिति .
शब्दपरिच्छेदे इतरेतरयोगद्वन्द्वलक्षणानिरासः । तद्रूपोपस्थितये धवपदे साहित्याश्रये लक्षणा। न चैवं धवपदा- देव खदिरसहितधवोपस्थितौ खदिरपदानर्थक्यमिति वाच्यम् । खदिरपदाभावे साहित्याश्रयतया खदिरादन्यस्यापि प्रतीतिप्रसङ्ग (इति) खदिरस्यैव साहित्याश्रयत्वलाभाय तात्पर्यग्राहकतया खदिरपदसार्थक्यात् । तस्माद् इतरेतरद्वन्द्वे साहित्याश्रये ल- क्षणेत्याहुः । . अत्रोच्यते-यद्यपि साहित्यमन्वयितावच्छेदकं, तथा- पि परमते घटेन जलमाहरेत्यत्रच्छिद्रेतरत्वस्येव पदादनुप- स्थितस्यापि साहित्याश्रयत्वस्य शाब्दबोधविपयत्वसम्भवेन सा- हित्याश्रये लक्षणानावश्यकत्वात । अन्यथा घटेन जलमाहरे- त्यत्रापि घटपदस्यच्छिद्रेतरवटे लक्षणापातात् । ततश्च यथा प्रत्यक्षेण प्रत्येकमुपस्थिते पदार्थहयेऽपि हित्वप्रतीतिः, तथा शब्दद्दयेन पृथगुपस्थिते पदार्थद्वये द्वित्वबोधे वाधकाभावेन कृतं तुल्यवदेकक्रियान्वयित्वलक्षणसाहित्यलक्षणया। यदपि प्र- कृत्यर्थतावच्छेदकव्याप्यसंख्याभिधायकत्वं विभक्तरित्युक्तं, त- दपि लाघवेन प्रकृत्यर्थतावच्छेदकसमानाधिकरणसंख्याभिधा- यित्वमेव विभक्तेरि(त्यु ? ति यु)क्तं , नियमांशवैयर्थ्यात् । कि- (ञ्चित् ?ञ्च) यद्रूपावच्छिन्ने विभक्त्यर्थान्वयस्तद्रूपावच्छिन्न एवं धात्वर्थान्वय इति नियमात् साहित्यावच्छिन्ने द्वित्वान्वये तद्रूपा- ' वच्छिन्ने छिदिक्रियान्वयः स्यात् । न च तद् भवति, छेदनस्य प्रत्येकमात्रविश्रान्तेः । तस्मात् प्रत्यक्ष इव शब्दद्वयात् प्रत्येक- मुपस्थितयोरेव पदार्थयोविभक्यर्थहित्वान्वय इति न तदर्थ साहित्याश्रयलक्षणा । अत एव - मणिदर्पणे "चन्द्रे कलङ्कः सुजने दरिद्रता विलामलक्ष्मीः कमलेपु चञ्चला । मुखाप्रसादः सधनेषु सर्वदा यशो विधातुः कथयन्ति खण्डितम् ॥" इत्यत्र साहित्याश्रयोपस्थापकद्वन्द्वाभावेऽपि प्रत्येकमुपस्थि- तेपु कलङ्कादिपु कथयन्तीत्याख्यातोपात्तबहुत्वान्वयधीः । ननु तत्रापि घटस्तिष्ठतीत्यादौ सुप्तिङोरेकसंख्याभिधायकत्वरूप- सामानाधिकरण्यव्युत्पत्तेरेतानीत्येकशेपस्य साहित्याश्रयोपस्था- पकस्य कल्पनावश्यकीति चेद्, न । प्रयोगानुसारेण व्युत्पत्ति- कल्पनम् । प्रयोगश्च घटपटौ स्त इतिवद् घटश्च पटश्च स्त इत्यप्यविशिष्टः । ततश्च समभिव्याहृतसुविभक्त्युपस्थापिता स- या यत्र स्वान्वयाविरोधिनी, तत्र तदुपस्थाप्यसङ्ख्यान्वयव्यु- त्पत्तिः कल्प्यते । भवति च घटपटौ स्त इत्यत्र तदुपस्थाप्याया द्वित्वसंख्याया अविरोधिनी सुब्बिभक्त्युपस्थाप्या द्वित्वसङ्ख्या। भवति च घटः पटश्च स्त इत्यत्रापि समभिव्याहृतसुब्धिभक्त्युप- स्थाप्यमेरुत्वद्वयं तदुपस्थाप्यद्वित्वसंख्याया अविरोधि, द्वाभ्या- मेकत्वाभ्यां द्वित्वारम्भात् । अत एव चन्द्रे कलङ्क इत्यादावपि नैतानीति पदाध्याहारः । कलङ्कदरिद्रतादिपदोपस्थाप्यानामने- केषामेकत्वानां तदुपस्थाप्यबहुत्वान्वयविरोधित्वाभावात् । घटः सन्तीति न प्रयोगः, सुब्धिभक्त्युपस्थाप्यैकत्वसंख्यायास्तदुप- स्थाप्यबहुत्वसंख्याविरोधित्वात् । तस्मादितरेतरहन्दू न लक्षणा॥ इतोतरेतरयोगद्वन्द्वलक्षणानिरास.। - शब्दपरिच्छेदे समाहारद्वन्द्वलक्षणानिरासः । अथ विरूपैकशेपलक्षणाबादः। एवं घटौ स्त इति सरूपैकशेपेऽपि न लक्षणा । घट- पदेन शक्त्यैव युगपदुपस्थिते घटद्वये द्वित्वान्वयसम्भवात् । माता च पिता च पितरावित्यादि(धी?)विरूपैकशेपे तु लक्ष- णैव । जनकपुरुषशक्तेन (पितृपदेन) जनकस्त्रीत्वपुरुषत्वोभय- प्रकारकप्रतीतेर्लक्षणासाध्यत्वात् । ननु पितरावित्यत्र लक्षणाया- मपि ब्राह्मणी च ब्राह्मणश्च ब्राह्मणावित्यत्र न लक्षणा । ब्राह्म- णपदस्य शक्त्यैव ब्राह्मणत्वविशिष्टोपस्थापकत्वात् । ब्राह्मणत्व- वैशिष्टयस्य च पुरुष इव स्त्रियामपि सत्त्वात् । न च ब्राह्मणत्व- जातेः स्त्रीवृत्तिले स्त्रीत्वादिजात्या सङ्कर इति पुम्मात्रनिष्ठतैवेति स्त्रीपरत्वे लक्षणावश्यिकेति वाच्यम् । स्त्रीत्वस्य जातित्वाभावात् । अन्यथा गोत्वजातेपभसाधारण्यं न स्यात्, स्त्रीत्वादिना सा- कापातात् । अस्तु वा गत्वादिव्याप्यतारत्वादिवद् ब्राह्मणत्व- व्याप्यस्त्रीत्वादेर्नानात्वम् । (इति चेत् । न,) अ (तो ? थापि) ब्राह्मणत्वविशिष्टशक्तमात्रस्य बाह्मणपदस्य ब्राह्मणस्त्रीत्वपुरुषत्व- प्रकारकप्रतीतिजननार्थ लक्षणावश्यम्भावादिति दिक् ॥ इति विरूपैकशेपलक्षणावादः। अथ समाहारद्वन्द्वलक्षणानिरासः । एवं पाणिपादमिति समाहारहन्हे चैकत्वान्वयानुरोधेन पाणिपादोभयवृत्तिसाहित्ये लक्षणा। न चैवं पाणिपादस्यान्वय- धीविषयता न स्यात्, लक्षणायां मुख्यार्थस्यान्वयबोधाविषय- ११६ मणिदर्पणे त्वादिति वाच्यम् । अजहल्लक्षणायां तदन्वयबोधाविरोधात् । न चैवं पाणिपादं चलतीति न स्यात् , चलनस्य साहित्यरूपधर्मा- नन्वयादिति वाच्यम् । पाकान्नीलो घट इत्यत्र पाकस्य लक्ष्य- तावच्छेदक इव चलनस्य पदार्थीभूतसाहित्यान्वयबोधे तदव- च्छेदकपाणिपादान्वयाविरोधात् । अत एव चोत्कृष्टोऽयं शूर इत्यत्रोत्कर्परूपपदार्थस्य पदार्थतावच्छेदके शौर्य एवान्वयानुभवः। केचित्तु पाण्यादि(घटि)तपरम्परासम्बन्धेन साहित्य एव चल- नान्वयः। एवं पाकादेरपि नैल्यादिघटितपरम्परासम्बन्धेन धर्मि- ण्येवान्वय इत्याहुः । वस्तुतस्तु पाणिपादमित्यादौ ‘दारान् नौमि हरेर्लक्ष्मीमि'त्यादौ वहुवचनवदेकवचनं साधुत्वमानार्थम् । पद- विशेषजन्यपदार्थोपस्थितेरेवान्वयबोधाङ्गतया विभक्त्युपस्थाप्यं कर्मत्वादिकमेव विवक्षितम् । अतः समाहारद्वन्द्वे नैकवचनान्व- यार्थ साहित्यलक्षणेति दिक् ॥ इति समाहारद्वन्द्वलक्षणानिरास.। अथाख्यातस्य यत्नवाचकत्ववादः। एवं रथो गच्छतीत्यादौ यत्नवाचकस्याख्यातस्य गम- नानुकूलव्यापारे लक्षणा । न चाख्यातस्य व्यापारे शक्तिरेव किं न स्यादिति वाच्यम् । तथा सति पचतीत्यत्र पाकं करोतीति यत्नवाचककरोतिना विवरणानुपपत्तेः । न च करोतिरपि व्या- पारवाचक एव कि न स्यादिति वाच्यम् । कृत्यन्वयाद्यनुवि. धायिनि घटादावेव कृत इति व्यवहारः । न तु तदन्वयाघ- शब्दपरिच्छेदे आरयातस्य यत्नवाचक्त्ववादः । ननुविधायिनि पर्वतादाविति कृञो यत्नार्थकत्वस्य व्यवस्थि- तेः । किञ्च, कृयो व्यापारवाचित्वे कर्तृपदस्य व्यापाराश्रयोऽर्थः स्यादिति कारकान्तरेऽपि कर्तृपदप्रयोगापचेः । ननु कृत्यभा- वेऽपि चन्दनादिना सुखं कृतं, रथो गमनं करोतीति प्रयोगाद् न(तु ?)कृतो यत्नवाचित्वम् । कर्तृपदे च क्रियावाचकस्य कृ- ओ यत्ने निरूढलक्षणा । तृप्रत्ययस्य त्वाश्रयत्वे शक्तिरिति योगादेव कृत्याश्रयत्वलाभः । न चैवं विनिगमनाविरह इति वाच्यम् । व्यापारत्वस्य सामान्यत्वेन तत्रैव प्रमाणपक्षपातौ- चित्यात् । न चैवं पचतीत्यत्र पाकजनकयत्नवानिति कथं प्रती- तिरिति वाच्यम् । पाकानुकूलब्यापारवानित्सेव शब्दानुभकः । तो व्यापारेण यत्नानुमाने तथानुभव इति गृहाण । न च व्यापारस्य यत्नेन व्याप्त्यभावात् कथ व्यापारेण यत्नानुमान- मिति वाच्यम् । चेतनव्यापारस्य तद्व्याप्यत्वात् । न चैवं पच- तीत्यस्य पाकानुकुलयत्नवानिति विवरणानुपपत्तिरिति वाच्यम्। तात्पर्यार्थमादाय तथा विवरणात् । एवञ्चाख्यातार्थस्य वर्तमान- त्वादेरपि व्यापार एवान्वयो न तु यत्न इत्याख्यातार्थस्य वर्त- मानत्वस्य यत्नान्वयानुरोधादपि न यत्ने शक्तिः । किं बहुना, आख्यातस्य करोतेर्वा न यत्नवाचित्वम्। घटं करोतीत्यत्र यत्नव- यस्य यत्नविषयकयत्नस्य चाप्रतीतेः। न च त्वयापि लिङः कृति- शक्त्यङ्गीकाराद् यतेतेत्यत्र (प्र?) कृतिहयोपस्थितावप्येकरयाः कृतेरन्वयबोधाविषय(त्वात्वबोत् करोतीत्यत्रापि कृतिद्वयोपस्थि- तावप्येकस्याः कृतेरन्वयबोधाविपयत्वं स्यादिति वाच्यम् । पचे- तेत्यादौ लिटः कृतिशक्त्यवधारणेन यततेत्यादौ कृतिद्वयो- ११८ मणिदर्पणे पस्थितावपि एकस्या (अ)न्वयबोधाविपयलं न दोषावहम् । इह वचेतनेऽपि प्रयोगाद् यत्नस्य लडाख्यातवाच्यत्वानिर्धारणेन तद- नन्वयस्य दोपत्वात् । तस्माद् व्यापार एवाख्यातवाच्य इति चेद् , उच्यते । आख्यातवाच्यतावच्छेदकं सामान्यमपि न व्या- पारत्वं , तस्योपाधितया गुरुत्वात् । किन्तु जातितया लघु- बेन यत्नत्वमेव तथा । न चैवं कर्तजन्यतावच्छेदकं कार्य(त्वं) न स्यात् । किन्तु घटत्वादिकमेव स्यादिति गतमीश्वरेणेति वाच्यम् । तत्र लघुत्वेऽप्यान(न्यन्त्या)द् घटत्वादेस्त्याग इ. तीश्वरवादे प्रतिपादितत्वात् । रथो गच्छतीत्यादिप्रयोगस्तु ला- क्षणिक एव । नन्वेवमपि पाकजनकयत्नत्वापेक्षया पाकजनकत्वस्य लघुत्वात् तदेवाख्यातशक्यतावच्छेदकमस्तु । ततश्च कथमचे- तने (नेणं ? गौण)प्रयोगः। यत्नवद् व्यापारस्यापि पाकजनक- खेन शक्यत्वादिति चेद् , न । यदि पाकजनकमाने शक्तिः, तीपचत्यपि पचतीति प्रयोगापत्तिः। तस्मिन्नपि पाकजनकाह- टसत्त्वात् । न च तवाप्यदृष्टजनककृतिकाले पचतीति प्रयोगा- पत्तिरिति वाच्यम् । अदृष्टजनककृतेः पाकजनकले मानाभा- वात् । तस्माद् यत्न एवाख्यातवाच्य इत्येके । यत्नत्वमात्रमेवाख्या- तवाच्यतावच्छेदकं, न जनकयत्नलं, येन जनकत्वमानं लाघवात् तदवच्छेदकं स्यात् । न चैवं धात्वर्थजनकत्वं यत्ने न प्रतीयतेति वाच्यम् । धातोर्धात्वर्थजनकलाक्षणिकतया समभि- व्याहारबलाहा धात्वर्थजनकत्वप्रतीतिसंभवादित्यपरे । तस्माद शब्दपरिच्छेदे कर्तृकर्मलकारविचार । ग्यो गच्छतीत्यादौ व्यापारे लक्षणैव । जानाताच्छति यतत इत्यादौ ज्ञानाद्यनुकूलमनस्संयोगे लक्षणा । न चैवं गरमागोन- स्यापि जानातीति प्रयोगापत्तिरिति वाच्यम् । तर्हि करोतीत्य- त्रेव ज्ञानाद्याश्रये लक्षणास्तु । घटो नश्यतीत्यादौ तु नाशप्र- तियोगिनि लक्षणेत्यायुधम् । एवं कृञ्धातोरपि लाघवाद् यत्न एव वाच्य इति यतते करोतीत्यत्र यनदयप्रतीतावप्येकस्यान- न्वयो न दोषायेति दिक् । ननु किं पाकाद्यनुकूल कृतिप्रचय आख्यातार्थः, कृतिमानं वा । नाद्यः, पचतीति न स्याद् , एकदा तावत्कृत्यभावात् । अन्त्ये पाकाद्यनुकूलद्वितीयादिकृतिकालेऽपि पक्ष्यत्यपाक्षीदिति प्रतियोगापत्तिरिति चेद् ,न। कृतिमात्रमाख्या- तार्थः । ततश्च कृतिमात्रसत्तया वर्तमानप्रयोगः । यावत्कृति- प्रागभावसत्तया पक्ष्यतीति यावत्कृतिध्वंससचया चापाक्षीदिति प्रयोग इति व्यवहारवलात् कल्प्यत इति दिक् ॥ . , इति आरयावस्य यत्नवाचकत्ववाद.। अथ कर्तृकर्मलकारविचारः। ननु कृताविवाख्यातस्य कर्तरि कर्मणि च शक्तिरुपेया। . अन्यथा पचति देवदत्त इत्यत्र कर्तुः पयते तण्डुलश्चैत्रेणेत्यत्र कर्मणश्चाख्यातात् प्रतीत्यनापत्तेः । अत एवाख्यातवाच्यायाः संख्याया एकपदोपात्तत्वप्रत्यासत्त्या कर्तृकर्मणोरन्वयनियमो - श्यते । किञ्च, कर्तृकर्मणोराख्यातानभिधेयत्वे ह्यनभिहिते कर्तरि तृतीयाविधानात् चैत्रेण पच्यत इत्यत्रेव पचतीत्यत्रापि चैत्रेणी ११८ मणिदर्पणे पस्थितावपि एकस्या (अ)न्वयबोधाविषयत्वं न दोपावहम् । इह त्वचेतनेऽपि प्रयोगाद् यत्नस्य लडाख्यातवाच्यत्वानिर्धारणेन तदा नन्वयस्य दोषत्वात् । तस्माद् व्यापार एवाख्यातवाच्य इति चेद् , उच्यते । आख्यातवाच्यतावच्छेदकं सामान्यमपि न व्या. पारत्वं , तस्योपाधितया गुरुत्वात् । किन्तु जातितया लघु- खेन यत्नत्वमेव तथा । न चैवं कर्तृजन्यतावच्छेदकं कार्य(त्वं) न स्यात् । किन्तु घटत्वादिकमेव स्यादिति गतमीश्वरेणेति वाच्यम् । तत्र लघुत्वेऽप्यान(न्योन्या)द् घटत्वादेस्त्याग इ. तीश्वरवादे प्रतिपादितत्वात् । रथो गच्छतीत्यादिप्रयोगस्तु ला- क्षणिक एव । नन्वेवमपि पाकजनकयत्नत्वापेक्षया पाकजनकत्वस्य लघुत्वात् तदेवाख्यातशक्यतावच्छेदकमस्तु । ततश्च कथमचे- तने (नणं ? गौण)प्रयोगः। यत्नवद् व्यापारस्यापि पाकजनक- वेन शक्यत्वादिति चेद् , न । यदि पाकजनकमात्रे शक्तिः तपिचत्यपि पचतीति प्रयोगापत्तिः। तस्मिन्नपि पाकजनकाह- ष्टसत्त्वात् । न च तवाप्यदृष्टजनककृतिकाले पचतीति प्रयोगा- पत्तिरिति वाच्यम् । अदृष्टजनककृतेः पाकजनकवे मानाभा- वात् । तस्माद् यत्न एवाख्यातवाच्य इत्येके। यत्नलमात्रमेवाख्या- तवाच्यतावच्छेदकं , न जनकयत्नवं, येन जनकत्वमानं लाघवात् तदवच्छेदकं स्यात् । न चैवं धात्वर्थजनकत्वं यत्नेन प्रतीयतेति वाच्यम् । धातोर्धात्वर्थजनकलाक्षणिकतया समभि- व्याहारबलाहा धात्वर्थजनकत्वप्रतीतिसंभवादित्यपरे । तस्माद् ..
प्रयोग इति व्यवहारवलात् कल्प्यत इति दिक् ॥ शब्दपरिच्छेदे कर्तृकर्मलकाविचारः । गच्छतीत्यादौ व्यापारे लक्षणैव । जानातःच्छति यतत ज्ञानाद्यनुकूलमनस्संयोगे लक्षणा । न चैवं गरम?ग)न- पि जानातीति प्रयोगापत्तिरिति वाच्यम् । तर्हि करोतीत्य- ज्ञानाद्याश्रये लक्षणास्तु । घटो नश्यतीत्यादौ तु नाशप्र- तियोगिनि लक्षणेत्यायुह्यम् । एवं कृञ्धातोरपि लाघवाद् यत्न त्रयो न दोषायेति दिक् । ननु कि पाकाद्यनुकूलकृतिप्रचय आख्यातार्थः, कृतिमानं वा।नाद्यः, पचतीति न स्याद् , एकदा वित्कृत्यभावात् । अन्त्ये पाकाद्यनुकूलद्वितीयादिकृतिकालेऽपि प्रागभावसत्तया पक्ष्यतीति यावत्कृतिध्वंससत्तया चापाक्षीदिति तार्थः एव वाच्य इति यतते करोतीत्यत्र यत्नहयप्रतीतावप्येकस्यान- , त्यत्यपाक्षीदिति प्रतियोगापत्तिरिति चेद् , न। कृतिमात्रमाख्या- । ततश्च कृतिमात्रसत्तया वर्तमानप्रयोगः । यावत्कृति- इति आरयातस्य यनवाचकत्यवाद । अथ कर्तृफर्मलकारविचारः। ननु कृताविवाख्यातस्य कर्तरि कर्मणि च शक्तिरुपेया। अन्यथा पचति देवदत्त इत्यत्र कर्तुः पच्यते तण्डुलश्चैत्रेणेत्यत्र कर्मणश्याख्यातात् प्रतीत्यनापत्तेः । अत एवाख्यातवाच्यायाः संख्याया एकपदोपात्तत्वप्रत्यासत्त्या कर्तृकर्मणोरन्वयनियमो ह- श्यते । किञ्च, कर्तृकर्मणोराख्यातानभिधेयत्वे ह्यनभिहिते कर्तरि तृतीयाविधानात् चैत्रेण पच्यत इत्यत्रेव पचतीत्यत्रापि चैत्रेणी १२० मणिदर्पणे । तृतीया स्यात् । आख्यातेन तत्र कर्तुर(न)भिधानात् । तथान- भिहिते कर्मणि द्वितीयाविधानात् पचति तण्डुलमित्यत्रेव पच्य- ते तण्डुल इत्यत्रापि कर्मणि द्वितीया स्यात्, तत्राख्यातेन कर्म- णोऽनभिधानादिति चेद् न । समभिव्याहृतचैत्रतण्डुलादिपदा- देव कर्तृकर्मोपस्थितिसंभवेन तत्रापि शक्तिकल्पनायां गौरवात् । अनभिहिते कर्तरीत्यादेरनभिहितायां कादिसंख्यायामित्यत्रैव तात्पर्यादिति दिक् । इदं तु ध्येयम् -आख्यातवाच्यसंख्या प्रथमान्तपदो- पस्थाप्य एवान्वेति । ततश्च चैत्रः पचति तण्डुलमित्यत्र चैत्रे तदन्वयः । चैत्रेण पच्यते तण्डुल इत्यादौ तण्डले तदन्वयः । तथैव व्युत्पत्तेः । चैत्रेण (सूच्य ? सुप्य)त इत्यत्र तु न कुत्रापि संख्यान्वयः, प्रथमान्तपदाभावात् । एकवचनं तु प्रयोगसाधुता- मात्रम् । न चैवं केवलं पचतीति प्रयोगे संख्यान्वयः कापि न स्यादिति वाच्यम् । तत्र प्रथमान्तपदाध्याहारात् । आकाशेन स्थी(य)त इत्यत्र तु आख्यातार्थस्य यत्नादेरपि नान्वय इति तत्राख्यातस्य प्रयोगसाधुत्वमा(त्रीत्रार्थत्वमिति दिक् । इदं त्ववधेयं-चैत्रस्तण्डुलान् पचतीति कर्तृलकार आश्रितफलं द्वितीयार्थः, तस्यानन्यलभ्यत्वात् । तस्य च तण्डु- लेऽन्वयः । तदन्वितेन फलेनानुकूलव्यापाररूपस्य धात्वर्थस्य चान्वयः। तेन च धात्वर्थनाख्यातार्थस्य जनकयत्नस्यान्वयः । तस्य च यत्नस्य चैत्रेऽन्वयः । ततश्च तण्डुलाश्रितफलानुकूल- व्यापारजनकयत्नवांश्चैत्र इत्यन्वयधीरित्येके । वस्तुतस्तु फलानु- शब्दपरिच्छेदे कृदन्तविचार । १२१ कूलो व्यापार एवं धात्वर्थः, नानुकलव्यापारमात्रम् । आश्रितत्वं अ संसर्गो न द्वितीयार्थः, अन्यलभ्यत्वात । द्वितीया च साधु- त्वमात्रार्था । आख्यातार्थश्च यत्न एव, न तु जनकवनः । जन- क(त्व)स्य संसर्गवादित्यन्ये । चैत्रेण पच्यते तण्डुल इत्यत्र तु कर्मलकारे तृतीयाया आश्रितकृतिरर्थः । चैत्रान्वितया च तया कृत्या विषयतया फलानुकूलव्यापारस्वरूपस्य धात्वर्थस्यान्वयः । तेन चाख्यातार्थम्य फलस्यान्वयः । तेन च फलेन तण्डलस्या- न्वय इति चैत्राश्रितकृतिविषयफलानुक्लव्यापारजन्यविक्तित्ति- रूपफलवांस्तण्डल इत्यन्वयबोधो भवतीत्येके । वस्तुतन्तु आ- श्रि (तार्थ ? तत्व) संसर्गः। कृतिश्चाख्यातलभ्या । ततश्च तृतीया साधुत्वमात्रार्था । विषयत्वं च संसर्गः । जन्यत्वमपि फल- सम्बन्धवत् संसर्ग एव । फल तु यद्यपि फलानुकूलव्या- पारात्मकधात्वर्थविशेषणतया धातुनोपस्थितं, तथापि व्यापा- रजन्यफलवारतण्डुल इति तण्डुलस्य फलान्विततया प्रतीतिः फलस्याख्यातशक्यत्वं विनानुपपन्नति फलस्याप्याग्यातशक्यत्वं तवाङ्गीकार्यमिति दिक् ॥ इति कर्तृगमलमारविचार । अथ कृदन्तविचारः। एवं कर्तृकृतामपि कर्तरि शक्तिरेव । न च तत्राप्याख्या- तवत् कृतावेव शक्तिः, संसर्गमर्यादया त्वाश्रय(त्व)भानमिति न कर्तरि शक्तिरिति वाच्यम् । तथा सति चैत्रो भोक्तेल्यादाव- - H, 16 १२२ मणिदर्पणे नपपत्त्यभावेऽपि यत्र कृत्याश्रयवाचकपदानुपादानं, यथा भोक्ता समागत इति, तत्र कृतेधर्म्युपस्थापकपदाभावेन मंसर्गतोऽप्या: श्रयत्वभानासम्भवेऽनन्वयापातात् । न चैवं धात्वर्थस्य भोज- नस्य कथं तदर्थंकदेशकृत्या सहान्वय इति वाच्यम् । चैत्रस्य नतेत्यादाविव साकाङ्क्षेणैकदेशेनाप्यन्वयाविरोधात् । आख्या- ते कर्तुन वाच्यता । आख्यातेन कृत्युपस्थितौ प्रथमान्तपदोप- स्थितेन का संसर्गविधयाश्रयत्वभानोपपत्तेः । न चैवं चैत्रः पचतीति सुबन्ततिडन्तयोः कथं सामानाधिकरण्यम्, एकार्थ- वृत्तिवाभावादिति वाच्यम् । एकाधिकरणकसंख्याभिधायित्व- मेव सामानाधिकरण्यमित्यभ्युपगमात् । अत एव 'चन्द्रे कलङ्क' इत्यादावपि न व्यभिचारः । तस्मान्नाख्यातवाच्यलम् । अन्य- लभ्यत्वादेव कर्मणोऽपि नाख्यातवाच्यत्व, किन्तु कर्मत्वमेव तहाच्य(त्व)मित्याहुः । वस्तुतरतु पचतीत्यादावच्याहृतदेवदत्तादिप्रथमान्तपदो- पस्थाप्यनाख्यातार्थकृतेरिव भोक्ता समागत इत्यादावप्यध्याहत- पढार्थेन 'कृदन्ताभिहितकृतेरप्यन्वयसंभवात् कृदन्तपदानामपि कृतावेव शक्तिरित्याहुः ॥ इति दन्तविचार । अथ कर्मवलक्षणम् । तत्र कर्तृत्वं नाम कृतिरेव । कर्मत्वं च धात्वर्थतावच्छे- दकपरसमवेतकिया (जन्यफलवत्वम्)। फलवत्त्वंच फलमेवान।
१२३ शब्दपरिच्छेदे कर्मत्वलक्षणम् । वृक्षात् पर्ण पततीत्यत्र पर्णसमवेतपतनजन्यविभागरूपफलशा- लित्वाद् वृक्षस्य कर्मता स्यात् । अत उक्तं धात्वर्थतावच्छेदकेति फलविशेषणम् । तत्र न विभागः पततिधात्वर्थतावच्छेदकः । किन्त्वधासंयोग एवेति न वृक्षेऽतिव्याप्तिः । तथापि पर्णस्य कर्मता स्यात् । अत उक्तं परसमवेतेति क्रियाविशेषणम् । न चैवमपि तादृशसंयोगरूपफलशालित्वाद् भूतलस्य कर्मत्वं स्या- दिति वाच्यम् । यहाचकपदसमभिव्याहारं विनापि धात्वर्थता- वच्छेदकफलप्रतीतिः, न तस्य कर्मत्वम् । अतो भूतलपदसम- भिव्याहाराभावेऽप्यधस्संयोगरूपफलप्रतीतेन भूतलस्य कर्मत्वम। एबमन्यस्य करयापि (न) तत्र कर्मत्वम् । ग्रामं गच्छतीत्यादी तु ग्रामादिपदसमभिव्याहारं विना प्रामादिसंयोगरूपफलाप्रतीते- ग्रामादेः कर्मत्वम् । आत्मानं जानामीत्यत्र तु धात्वर्थरूपक्रि- यायाः परसमवेतत्वाभावाज्ज्ञातताया निरस्तत्वन तादृशक्रिया- जन्यफलाभावाच्च नात्मनः कर्मत्वं, किन्तु तत्र द्वितीयया वि. पयत्वमेव लक्ष्यते । एवं घटं जानामीत्यादायपीति ध्येयम् । न चैवं विशेषानुशासनाभावे सुविभक्तेरन्यत्र न लक्षणति ग- तमिति वाच्यम् । विशेषानुशासनं विना सुब्बिभक्तर्विभक्त्य- न्तरार्थे लक्षणाविरहेऽपि विपयत्वे लक्षणायां वाधका (नु?). भावात् । अत एव तिकिभत्तेरपि विशेपानुशासनबलाद् विभ- त्यन्तरार्थे लक्षणाविरहेऽपि रथो गच्छतीत्यादौ व्यापारे ल. क्षणेति दिक् । मण्डनमिश्रास्तु-धात्वर्थः फलं न तदनुकूलो व्यापारः, मणिदर्पणे तस्याख्यातार्थत्वात् । न चैवं फलानुत्पत्तिदशायां फलानुकूल. व्यापारकाले पाको वर्तत इति प्रयोगो न स्यादिति वाच्य- म् । तत्र पाकपदस्य लाक्षणिकत्वाद् , लाघवेन जोः फल एव शक्तिग्रहात् । नन्वेवमोदनकामः पचेदित्यत्र धात्वर्थे प्रवृ- त्यथै तस्यौदनसाधनत्वं (अतयिति" कृति)साध्यत्वं च विधिना बोधनीयम् । फलस्य च धात्वर्थत्वे तन्न संभवति । ओदनस्यौ- दनसाधनत्वासम्भवात् , फलस्योपायगोचरकृतित एव सिद्धेः साक्षात्कृतिसाध्यत्वासम्भवाच । तस्मात् फलानुकूलव्यापार एव धात्वर्थः, न फलम् । आख्यातार्थश्च तादृशव्यापारानुकूलो यत्न एव न तादृशव्यापार एवेति चेद ,न । अस्मन्मते न धात्वर्थे विध्य- र्थान्वयः। किन्त्वाख्यातार्थे तदनुकूलव्यापार एब, एकप्रत्ययोपात्त- त्वप्रत्यासत्तेः। ततः पचेदित्यादौ नानुपपत्तिः। न चैवमपि ला- घवादाख्यातस्य फलरूपधात्वर्थानुकूलयत्न एवार्थः किं न स्या- दिति वाच्यम् । तथा सति विध्यर्थीभूतस्य कृतिसाध्यत्वस्यानन्व- यापत्तेः । कृतौ कृतिसाध्यत्वायोगात् । तम्माद् धात्वर्थः फलम् । आरयातार्थस्तु तदनुकूलो व्यापारः । एवञ्च रथो गच्छतीत्यादा- वपि न लक्षणेत्याहुः । तन्न । एव सत्योदनं पचतीति न स्यात् । ओदनफलस्यैव धात्वर्थत्वेन तत्र पच्यर्थानन्वयप्रसङ्गात् । त- स्मात फ्लानुकूलो व्यापार एव धात्वर्थः । तदनुकूलयत्न- श्राख्यातार्थः । विध्यर्थेष्टसाधनत्वाद्यन्वयश्च धात्वर्थ एवेति दिक् । इति कर्मत्वलक्षणम् ।
शब्दपरिच्छेद उपसर्गवादः। अथोपसर्गवादः। नन्नेवं धातोः फलानुकूलव्यापारे शक्तिरस्तु । तथापि विहरत्या . संहति प्रहरतीत्याद्युपसर्गभेदेनार्थविशेषप्रतीते. रुपसर्गाणामेव तत्तदर्थे शक्तिर्न तु धातोरेव , अनेकशक्ति- कल्पनायां गौरवात् । न चैवं धातुविनाकृतादुपसर्गादपि त- तदर्थधीप्रसङ्ग इति वाच्यम् । तात्पर्यग्रहणार्थ धावपेक्षणात् । न च प्रजयतीत्यत्र प्रकृष्टजयः प्रतीयते । प्रतिष्ठत इत्यत्र ग- मनं प्रहरतीत्यत्र ताडनमित्युपसर्गस्यानेकशक्तिकल्पनं तुल्य- मिति वाच्यम् । तथाप्यनन्तानां धातूनामनेकार्थत्वकल्पनाद् वरं कतिपयोपसर्गाणां तत्कल्पनमिति चेद् , न । प्रतिष्ठत इ- सत्र धातोस्तात्पर्यग्रहार्थत्वे यत्नस्याख्यातार्थस्य प्रशब्दार्थे गम- नेऽन्वयो न स्यात् , तस्य प्रकृत्यर्थादन्यत्रान्वयादर्शनात् । त- स्माद् धातोरेव तत्र शक्तिरित्य(न्यत्रापि तथा । प्रादयस्तु ता. त्पर्यग्राहकाः । न च तत्र धातोर्गमनविरोधिव्यापार एवार्थः । तन चाख्यातार्थस्य यत्नस्यान्वयः । प्रशब्दस्य च तदभाशेऽर्थ इति नाख्यातार्थस्य प्रकृत्यर्थान्वयानुपपत्तिरिति वाच्यम् । एवं सति प्रतिष्ठत इत्यत्र गमनविरोधिव्यापारविषयकयत्नाभाववा- नित्येव प्रतीतिः स्याद् , न तु गच्छतीत्यत्रेय गमनत्वप्रकार- कधीः । न चेष्टापत्तिः , अनुभवविरोधादिति दिक् । . . . केचित्तु -प्रतिष्ठत इत्यत्र धातुना विरोधिलक्षणया गम- नोपस्थितिः । प्रशब्दस्तु तात्पर्यग्राहक इत्साहुः । तन्न । एवं सति घटो नेत्यादावपि घटशब्द एवाभावे लाक्षणिकः, नमस्तु ता- १२१ मणिदर्पणे पर्यग्राहकत्वमित्यपि (किं) न स्यात् । तस्मान्नानन्तोपसर्गाणामपि शक्तिरङ्गीकार्येति दिक् ॥ इत्युपसर्गवादः। अथोपसंहारप्रकरणम् । एवं चत्वार्यपि प्रमाणानि निरूपितानि । चेष्टादीनि चै- पामन्तर्भवन्तीति तानि न पृथक् प्रमाणानि । तथाहि-य- द्यपि शब्दवदर्थविशेपे सङ्केतग्रहे सति चेष्टयाप्यर्थप्रतीतेः सापि प्रमाणान्तरं भवितुं युक्तं , शब्दवदमुं प्रत्येमीत्यनुव्यवसायस्या- प्यविशेषात् । तथापि चेष्टया स्मृतादेव शब्दादर्थप्रतीत्युपप- तेर्न प्रमाणान्तरकल्पनं युक्तं , गौरवात् । न च मूकस्य न चेष्ट- या शब्दस्मृतिसम्भव इति वाच्यम् । अड्कुशाभिघातविशेपेण व्याप्तिग्रहे सति हस्तिपकाभिप्रायमनुमाय गजस्येव मूकस्यापि चेष्टांविशेपेण प्रवर्तकाद्यभिप्रायमनुमाय प्रवृत्त्याद्युपपत्तेः । यथा चैवं शिष्टस्याप्यनुमानविधया प्रामाण्यं , तथोक्तं प्राक् । तस्मा- चेष्टा न प्रमाणान्तरमिति दिक् । एवं सहस्रे शतं सम्भवतीति सम्भवस्यानुमान एवान्त- र्भाव इति । इह वटे यक्षस्तिष्ठतीत्यैतिघस्य तु शब्देऽन्तर्भावः। अर्थापचेस्तु व्यतिरेक्यनुमान एवान्तर्भाव इत्युक्तम् । अनुप- लब्धेस्तु प्रत्यक्षसहकारित्वमात्रं, न प्रमाणान्तरत्वमित्युक्तं प्रत्य- , शब्दपरिच्छेदे उपसंहा । तस्माद् युक्तं चत्वार्येव प्रमाणानीत्यनवद्यम् ॥ इत्युपसंहारप्रकरणम् । इति श्रीदन्तिद्योतिदिवाप्रदीपाविश्वजिदतिरात्रयाजिसर्वतन्त्रस्व- तन्त्राद्वैतविद्याचार्यविश्वामित्रवंशमुक्ताफलसत्यमङ्गलरनम्वेट- श्रीनिवासदीक्षिततनयस्य कामाक्षीगर्भसम्भवस्य श्रीमदर्धनारीश्वग्दीक्षितगुरुचरणसहजता. लव्धविद्यावैशद्यस्य विश्वजिद्याजिनः श्रीराजचूडामणिदीक्षितस्य कृतिषु मणिदर्पणे शब्दपरिच्छेदः। 0- शुभं भूयात् ।
शुद्धिपत्रम् ।
शुद्धम्
पृष्ठम्
.
पति
२
নর
१०
अशुद्धम्
(तत्र)
नानन्त
स्व
याने
वच्यम्
जमाह
दोषक
सुय्
वान
९१
३
वाच्यम्
जामह
१४
१०२
४
दोष
७