University Library,gurukul Kangri Vishwavidyalaya

विक्रमार्कचरित्रम

Shaastrulu Vii. Raamasvaamii · 2006/03/02

PDF Proofread

Front matter

|| श्रीरस्तु ॥
॥ विक्रमार्कचरित्रम् ॥
anbamun rAAMKARMA
६
चेन्नपुर्याम
वाविळ रामस्वामिशास्त्रुलु अण्ड् सन्मू
इत्येतैः प्रकरितम्
AU Rights Reserved.
Price Re. 1-0-0.
.

-
।। श्रीरस्तु॥
॥ विक्रमार्कचरित्रम् ॥
--
165
८.2-/32
2.3
2emi
L-4
चेन्नपुर्याम्
वाविळू रामस्वामिशास्त्रुलु अण्ड् सन्स्
इत्येतैः प्रकटितम्
१९४४
All Rights Reserved.

PRINTED BY
V. VENKATESWARA SASTRULU
OF V. RAMASWAMY SASTRULU & Sons
AT THE VAYILLA' PRESS, MADRAS-1944,
REPRINT-500.

॥ श्रीरस्तु॥ ॥ विक्रमार्कचरित्रम् ॥ श्रीपुराणपुरुषं पुरान्तकं पद्मसम्भवमुमासुतं मया । सम्प्रणम्य च सुरान् सरस्वती विक्रमार्कचरितं विरच्यते ॥ अस्ति किल मालवेषु समस्तवस्तुसम्पूर्णा स्वगुणपरा- भूतपुरन्दरपुरविभूतिरुज्जयिनी नाम नगरी । तत्र समस्तसाम- न्तसीमन्तिनीसीमन्तसिन्दूरारुणचरणकमलयुगळो भर्तृहरिनाम राजाऽऽसीत् । स च सकलकलाप्रवीणः समस्तशास्त्राभिज्ञश्च । तस्य च राज्ञः स्वविक्रमापहृतवैरिविक्रमो विक्रमो नामानुजोऽभूत्। तत्र च नगरे सकलशास्त्राभिज्ञः समस्तमन्त्रशास्त्रप्रवीणो ब्राह्मणः कश्चिदजायत । स केवलं दरिद्रः । स चैकदा मन्त्रानुष्ठानेन भुवनेश्वरीमतोषयत् । सा तु सन्तुष्टा ब्राह्मणमाह-"भो ब्राह्मण ! फलमेतद्भक्षय । अनेन जरामरणवर्जितो भविष्यसि।" ब्राह्मणस्तत्फलं गृहीत्वा स्वभवनं प्रत्यागत्य स्नात्वा देवार्चनां विधाय, यावत्फलं भक्षयितुमयतिष्ट, तावदस्य मनस्येवं बुद्धि- रभूत्-अहं तावदरिद्रः । जरामरणवर्जितो भूत्वा कस्योपकारं करिष्यामि । बहुकालजीविनोऽपि मम भिक्षाटनेनैवं जीवनं कार्यम् । परोपकारिणस्तु पुरुषस्य स्वल्पकालजीवनमपि श्रेयो भवति । अन्यच्च, ज्ञानशौर्यादिगुणोपलक्षितः क्षणमात्रमपि यो जीवति तस्यैव जीवितं सफलम् । तथा चोक्तम्- - २ ३ 4 विक्रमार्कचरित्रम् यज्जीवति क्षणमपि प्रथितैर्मनुष्यो विज्ञानशौर्यविभवादिगुणैः समेतः । तत्तस्य जीवितफलं प्रवदन्ति सन्त: काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ यस्मिन् जीवति जीवन्ति बहवः स तु जीवतु । बकोऽपि किं न कुरुते चञ्च्या खोदरपूरणम् ॥ किञ्च- क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारपूर्णादराः स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः । दुष्पूरोदरपूरणाय पिबति स्रोतः पति बाडवो जीमूतस्तु निदाघसम्भृतजगत्सन्तापविच्छित्तये ॥ असम्पादयतः कश्चिदर्थं जातिक्रियागुणैः । यदृच्छाशब्दवत् पुंसः संज्ञायै जन्म केवलम् ॥ एवमादि विचार्य, 'एतत्फलं राज्ञे दद्याम् । स जरा- मरणवर्जितो भूत्वा चातुर्वण्यं धर्मतः सविशेषं पालयेत् । इति निश्चित्य तत्फलं गृहीत्वा राजसमीपमागत्य ॥ अहीनमालिकां बिभ्रत्तथा पीताम्बरं वपुः । हरो हरिश्च भूपाल ! करोतु तव मङ्गळम् ॥ इत्याशिषं प्रयुज्य फलं भणति स्म.---'भो देवतावरप्रसादलब्धमिदमपूर्व फलं भक्षय। अनेन त्वं जरामरण- वर्जितो भविष्यास' । राजा तु तत्फलं गृहीत्वा ब्राह्मणं सम्मान्य प्रष्य विचारयति स्म- -'अहो! ममैतत्फलभक्षणादमरत्वं भवि- ४ ६ दत्वा -'भो राजन् !

पीठिका ५ ध्यति । मम त्वनङ्गसेनायां महती प्रीतिरस्ति । सा मयि जीवति म्रियेत चेत् तस्या वियोगदुःखं सोढुं न शक्नोमि । * तस्मादिदं फलं मम प्राणप्रियायायनङ्गसेनाय दास्यामीति । अनन्तरं राजा तामाहूय तस्यै तत्फलं ददौ । तस्या मन्दुरिक: कश्चित् प्रियतमः । सा पुनर्विचार्य तस्मै तत्फलं ददौ। तस्य काचिदासी प्रियतमा । स तस्यै प्रादान् । तस्याः कश्चिद्गोपाल: प्रियः । सा तस्मै प्रादात् । तस्य कस्याञ्चिद्गोमयधारिण्यां महत्प्रे- माभूत् । सोऽपि तस्यै प्रायच्छत् । ततः सा गोमयधारिणी ग्रामावहिर्गोमयं हृत्वा तद्धाजनं शिरसि निधाय तदुपरि तत्फलं निक्षिप्य यावत् राजवीथ्यामाजगाम तावदाजा भर्तृहरी राजकुमारैः सह बहिर्गच्छन् तस्याः शिरस्स्थापितगोमयाग्र. स्थितं फलं दृष्ट्वा गृहमागत्य ब्राह्मणमाहूयावदत्-'भो ब्राह्मण ! त्वया यत्फलं दत्तं तादृशमन्यत् किमस्ति ?' ब्राह्मणः-"भो राजन् ! तत्फलं देवतावरप्रसादलब्धम् । तादृशं फलं भूलोके नास्ति । सत्यमेतत् । राजा नाम साक्षादीश्वरः । तस्य पुरतोऽनृतं न वाच्यम् । स देववनिरीक्षणीयः । तथा चोक्तम्- सर्वदेवमयो राजा ऋषिभिः परिकीर्तितः । तस्मात्तं देववत्पश्येन व्यळीकं वदेत्सुधीः ॥ राजा-तादृशं फलमिदानीमेव दृष्टं राजवीभ्याम् । ब्राह्मणः-'मया दत्तं फलं भक्षितं वा न वा?' राजा- 'नाहमभक्षयम् । किंतु मम प्राणप्रियायायनङ्गसेनायै प्रादाम् ।' ब्राह्मणः-तर्हि तां पृच्छ । राजा तामाहूय सशपथमपृच्छत् । - विक्रमार्कचरित्रम् अनङ्गसेना 'मया तत्फलं मन्दुरिकाय दत्त मिति बभाण। सत्वाकारितो दास्यै दत्तमित्यकथयत् । दासी गोपालायेति । गोपालो गोमयधारिण्यामित्यवादीत् । ततो जातसम्प्रत्ययो राजा विषादं परमं गत्वा ससम्भ्रमं गोमयधारिणीमाकार्य तत्फलं गृहीत्वा कतिचिच्छोकानपाठीत्- रूपे मनोहारिणि यौवने च वृथैव पुंसामभिमानबुद्धिः । नतभ्रुवां चेतसि चित्तजन्मा कर्तुं यदेवेच्छति तत्करोति ।। अहो! स्त्रीणां चित्तं चरित्रश्च केनापि ज्ञातुं न शक्यते ! तदुक्तम्- अश्वप्ठतं वासवगर्जनं च स्त्रीणां च चित्तं पुरुषस्य भाग्यम् । अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कुतो मनुष्यः।। तथाच गृह्णन्ति विपिने व्याघ्र विहङ्गं गगने स्थितम् । सरिन्मध्यगतं मीनं न स्त्रीणां चपलं मनः ।। किञ्च- हीनभाग्यस्य राज्यश्रीः पुष्पश्रीगंगनस्य वा । भवेदेव न तु स्त्रीणां मनश्शुद्धिर्मनागपि ॥ अपिच- सुखदुःखजयपराजयजीवितमरणानि ये विजानन्ति । मुह्यन्ति ते हि नूनं तत्त्वविदश्चापि चेष्टितैः स्त्रीणाम् ।। ११ अन्यच्च- सरोपममपि प्राप्य वाञ्छन्ति पुरुषान्तरम् । नार्यस्सर्वास्स्वभावेन नोच्यन्ते ह्यमलाशयाः ॥

पीठिका तथाच- १४ १५ विना यन्त्रेण मन्त्रेण तन्त्रेण विनयेन च । वञ्चयन्ति नरं नार्यः प्रज्ञाधनमपि क्षणात् ॥ कुलजातिपरिभ्रष्टं निकृष्टं दुष्टचेष्ठितम् । अस्पृश्यमधर्म प्रायो मन्ये स्त्रीणां प्रियं वरम् ॥ गौरवेषु प्रतिष्ठासु गुणेष्वाराध्यकोटिषु । धृता अपि निमज्जन्ति दोषपङ्के स्वयं स्त्रियः ॥ एता हसन्ति च रुदन्ति च कार्यहेतो- विश्वासयन्ति च नरं न तु विश्वसन्ति । तस्मानरेण कुलशीलवता सदैव नार्यः श्मशानसुमना इत्र वर्जनीयाः ॥ १६ अन्यच्च- - न वैराग्यात्परं भाग्यं न बोधादपरः सखा । न हरेरपरस्त्राता न संसारात्परो रिपुः ॥ १८ इत्येवं पठित्वा परं विरक्तो भर्तृहरिविक्रमा राज्येऽ- भिषिच्य तत्फलं तस्मै दत्वा स्वयं वनं जगाम । ततः प्राप्त- राज्यो विक्रमः सकलामपि वसुन्धरां न्यायेन पर्यपालयत् । तत एकदा दिगम्बरः कश्चिद्राजसमीपमागत्य- लीलया मण्डलीकृत्य भुजङ्गान्धारयन् हरः । दद्यादेवो वराहश्च तुभ्यमभ्यधिकां श्रियम् ॥ १९ इत्याशिषमुक्ता राजहस्ते फलं दत्त्वाऽब्रवीत्-'भो राजन् ! अहं कृष्णचतुर्दश्यां महाश्मशाने अघोरमन्त्रेण हवनं ८ च विक्रमार्कचरित्रम् करिष्यामि । तत्त्वयोत्तरसाधकेन भवितव्यम् ।' तथेति प्रतिज्ञाय तेन सह पितृवनं प्राविशत् । तत्र दिगम्बरो नृपं हन्तुमारभ्य तेन स्वयमेव हतः । तेन प्रसङ्गेन तस्य राज्ञो बेताळो वशंवदो बभूव । अष्ट महासिद्धयश्च प्राप्ताः । ततत्रि- भुवनेऽस्य कीर्तिरनर्गळा गङ्गेव बभूव । तत्रान्तरे रम्भोवंश्योनतननैपुण्यां विवादस्समजायत । तयोरन्तरमवगन्तुममरेषु कोऽपि न शशाक । एकदा सिंहास- नासीनं देवं वासवं नारदो बभाण-'देव ! धरातले विक्रमो नाम राजा जागर्ति । स सकलकलाभिज्ञो विशेषतः सङ्गीत- विद्याविचक्षणः । स एवैतयोर्विवादनिर्णयं कर्तुं प्रभवेत् । महेन्द्रो विक्रममानेतुं मातलिं प्रेषयामास । विक्र- मोऽपि मातलिसमानीतं रथमारुह्य सहैव बेताळेन सुधर्मा प्रविश्य वासवेन सम्मानितः समुचितमासनमध्यास्त । तदानी रम्भोर्वश्योनृत्तं प्रावर्तत । राजा तूर्वशी प्रशशंस । नृत्तशास्त्र रहस्यान्युपन्यस्य जयमुर्वश्यै प्रादाच । पाकशासनस्तु परं सन्तुष्य मणिमयमतिमनोहरं सिंहासनमेकमस्मै प्रादात् । तस्मिन् सिंहासने द्वात्रिंशत् सालभञ्जिकाः सन्ति । तासां शिरसि पदं निधाय तध्यासितव्यम् । राजापि महेन्द्रमापृच्छय तदासनं गृहीत्वा निजपुरमगमत् । तदनन्तरमेकदा शुभे मुहूर्ते विक्र- मार्को ब्राह्मणाशीर्वादपूर्वकं तत्सिंहासनमारुह्य राज्यमकरोत् । एवं महान् कालो गतः । तत एकदा प्रतिष्ठाननगरे कस्याञ्चित् कन्यकायां शालिवाहनो नाम समजायत । तत्रान्तरे तूज्जीयनी परितो तच्छुत्वा पीठिका - - भूकम्पधूमकेतुदिग्दाहादीनि दुनिमित्तानि दृष्टानि । ततो विक्र- मादित्यो दैवज्ञानाहूय भूकम्पादिफलं पप्रच्छ । दैवज्ञाः- "भो देव यदयं भूकम्पस्संध्याकाले जातः तत् राज्ञोऽनिष्टं सूचयति । तथा च नारदीये- अनिष्टदः क्षितीशानां भूकम्पस्सन्ध्ययोर्द्वयोः । राज्ञां विनाशपिशुनो धूमकेतुरुदाहृतः ॥ २० एतदैवज्ञवचनं श्रुत्वा राजाऽब्रवीत्-"भो दैवज्ञाः! पुरा परमेश्वरः सन्तोषितस्तपसा मां प्राह 'भो राजन् ! प्रस- नोऽस्मि । विनाऽमरत्वं वरं याचस्वेति । ततोऽहमवोचम् 'भो देव ! सार्धद्विहायनायां कन्यायामुत्पन्नात् पुत्रान्मम मृति देवस्तथेत्यनुजग्राह । "इति राज्ञो वचनं श्रुत्वा — तर्हि तादृशः पुत्रो भविष्यतीति' दैवज्ञैरप्युक्तम् । राजाऽपि ' हा देवसृष्टिरचिन्त्या । तादृशः कस्मिन् देशे कथ- मुत्पन्नो भविष्यति ! ' इति व्याकुलितचित्तो बेतालमाहूयैत- सर्व तस्मै निवेद्याब्रवीत् -'भो यक्ष! पृथिवीं परिभ्रम । एवंविधः पुत्रः कस्मिन् देशे कुत्र नगरे समुत्पन्न इति ज्ञात्वा झडिति समागच्छ' इति । बेतालोऽपि महान् प्रसाद इति निर्गत्य सागरवेलावलयितां सगिरिकाननां वसुन्धरां पर्यटन प्रतिष्ठाननगरं प्रविश्य कुत्रापि कुम्भकारगृहे कश्चिन्माणवक काञ्चित्कन्यकां च क्रीडन्तौ दृष्ट्वाऽपृच्छत्-'को युवा'मिति । कन्या 'अयं मम पुत्र' इति प्रत्याह । बेताळ: कस्ते पिता ? कन्या कश्चन ब्राह्मणमदर्शयत् । ततो ब्राह्मणमपृच्छद्वेताळः । र'स्त्विति । तच्छ्रुत्वा २० ।' विक्रमार्कचरित्रम् ब्राह्मण:--'इयं मम कन्या । अस्याः पुत्रोऽयम् ।' तच्छुत्वा विस्मयं गतो बेताळः पुनर्ब्राह्मणमवादीत्-भो ब्राह्मण! कथ- मेतत् ? सोऽब्रवीत्-'देवानां चरित्रमगोचरम् । अस्या रूप- , लावण्यातिशयमोहितः शेषो नागेन्द्रोऽनया सञ्जगाम । तस्मा- दस्यां जातः पुत्रोऽयं शालिवाहनः । तच्छ्रुत्वा बेताळः सत्व- रमुज्जयिनीमागत्य विक्रमादित्याय सर्वमपि वृत्तान्तमकथयत् । राजाऽपि तस्य पारितोषिकं दत्वा खङ्गमादाय प्रतिष्ठाननगरं प्रविश्य यावत्खङ्ग शालिवाहने चिक्षेप, तावत्तेन खड्नेन स्वय- मेव क्षतः प्रतिष्ठाननगरादुजयिन्यां निपपात । क्षतवेदनादा- मानशरीरोऽनन्तरमेव जीवितं विससर्ज । ततो मन्त्रिपु 'राजाऽयमपुत्रः, कथं कर्तव्य' मिति विचारयत्सु, भट्टिः प्राह 'विचार्यतामासां कापि गर्भिणी राजमहिषीणां स्या'दिति । ततो विचार्यमाणे काऽपि सप्तमास. गर्भिणी समभूत् । तदा सर्वे मन्त्रिणो मिलित्वा गर्भस्याभि. षेकं कृत्वा स्वयं राज्यं पर्यपालयन् । तदिन्द्रदत्तं सिंहासनं यदैव शून्यमासीत् , तदा मध्येसभं काप्यशरीरिणी वागा- सीत्—'भो मन्त्रिणः, अस्मिन् सिंहासने समुपवेष्टुं विक्रमा- सदृशो राजा कोऽपि नास्ति । तस्मादिदं सुक्षेत्र निक्षिप्य- ताम् ? तच्छत्वा मन्त्रिणः कुत्रापि पवित्रे क्षेत्रे तसिहासनं निक्षिप्य तत्क्षेत्रं यावनाळचणकसमृद्धं ब्राह्मणाय कस्मैचिद्ददुः । ब्राह्मणोऽपि यत्र सिंहासनं निक्षिप्तं तदुच्चस्थानमिति पक्षिणा- मुत्थापनार्थं तदुपरि मञ्चं निक्षिप्योपविश्य पक्षिणः समुत्थाप- - , .. यन्नवर्तत ।।

पीठिका ११ अथ कदाचिद्भोजराजः ससैन्यो मृगयामटन् राजकु- मारैः समेतस्तत्क्षेत्रसमीपे यावदाजगाम, तावन्मश्वोपरि स्थितो ब्राह्मणः प्राह-'भो राजन् ! एतत्क्षेत्रं फलितमस्ति । ससैन्येन समागत्य भवता यथेच्छं भुज्यताम् । अश्वेभ्यश्चणकादयो दीय- न्ताम् । अद्य मम जीवितं सफलमासीत् । यतो भवान् ममा- तिथिर्जातः । ईदृशस्त्वतिथिः कदाऽपि न संदृश्यते । तच्छृत्वा राजा ससैन्यः क्षेत्रमध्यं प्रविवेश । ततो ब्राह्मणः पक्ष्युत्थाप- नाय मश्चादवरुह्य क्षेत्रमध्ये प्रविष्टं राजानं दृष्ट्वा भीतोऽभणत् - राजन् ! किमेवमधर्मः क्रियते ? ब्राह्मणक्षेत्रमिदं विनाश्यते। यदन्यैरधर्मः क्रियेत तद्राज्ञे निवेदनीयम् । त्वमेवान्याय्यं कर्तुं प्रवृत्तः । इदानी को वा निवारयिष्यति । उक्तं च-- गजे कडङ्गरीये तु जारे राजनि वा पुनः । पापकृत्सु च विद्वत्सु नियन्ता जन्तुरत्र कः ॥ २१ अन्यच्च, भवान् शास्त्राभिज्ञः ब्राह्मणद्रव्यं कथं विनाश- यति ? ब्रह्मस्वमेव हि विषम् । तथा हि- न विषं विषमित्याहुब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् ।। २२ इति तेनोक्तं श्रुत्वा यावदाजा क्षेत्राहिः सपरिवारो निर्जगाम, तावत् पक्षिणः समुत्थाप्य पुनर्मचारूढो ब्राह्मणः प्राह- 'भो राजन् ! किमिति गच्छसि ? इदं क्षेत्रं साधु परिणतं दृश्यते । यावनाळकान् चणकांश्च भक्षयन्तु तव परिवाराः । पश्योर्वारुकफलानि च सन्ति । यथेष्टं भुज्यताम्।'

विक्रमार्कचरित्रम् पुनर्ब्राह्मणवचनमाकर्ण्य सपरिवारो राजा यावत् क्षेत्रमध्यं प्रविवेश, तावन्मश्चादवरुह्य स पुनस्तथैवाभणत् । ततो राजा स्वमनसि विचारयति स्म-'अहो !' ब्राह्मणो यदा मञ्चमा- रोहति, तदाऽस्य चेतसि दातव्यमिति बुद्धिरुत्पद्यते । यदाव- तरति तदा दीनबुद्धिरुत्पद्यते । अहं मञ्चमारुह्य पश्येयम् ।' इति यावन्मञ्चमारुरोह, तावद्भोजराजस्य चेतस्येवमभूत्- ननु विश्वस्यातिः परिहर्तव्या । सर्वस्यापि लोकस्य दारियं निवारणीयम् । दुष्टा दण्डनीयाः । शिष्टाः परिपालनीयाः । प्रजा धर्मेण रक्षणीयाः । किं बहुना, अस्मिन् समये यदि कोऽपि मम शरीरमपि प्रार्थयिष्यते, तदपि देयमिति । ततो राजा परमानन्दपरिपूर्णः पुनरपि विचारयति स्म-एतत्क्षेत्र- माहात्म्यं स्वयमेवंविधां बुद्धिमुत्पादयति । उक्तं च- जले तैलं खले गुह्यं पात्रे दानं मनागपि । प्रज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ।। २३ कथमेतत्क्षेत्रमाहात्म्यं ज्ञायताम् ।' इति विचार्य ब्राह्मण- माहूयाभणत्-'भो ब्राह्मण! तवैतत्क्षेत्रे कियान लाभो भवति?'। ब्राह्मणः-" भोराजन् ! भवान् सकलाभिज्ञः । अविदितं तव कमपि नास्ति । यदहमेतत्, तदालोचयतु भवान् । अन्यच्च, राजा नाम साक्षाद्विष्णोरवतारभूतः । तस्य कटाक्षा यदुपरि निपतन्ति, तस्य दैन्यदुर्भिक्षादयो न भवन्ति । राजा नाम साक्षात् कल्पतरुः । स त्वं मम दृष्टिगोचरीभूतः । अद्य मम दारिद्र्यं सुदूरमपमृतम् । क्षेत्रं नाम कियत् ?" - पीठिका ततो राजा ब्राह्मणमनेकधनधान्यादिना सम्भाव्य क्षेत्रं गृहीत्वा मञ्चस्यधिश्वखान । तत्र पुरुषमात्रे गर्ने शिलैका सुमनो- हरादृश्यत । तच्छिलाधःप्रदेशे काऽपि चन्द्रकान्तशिला दृष्टा । ततो नानाविधरत्नखचितं द्वात्रिंशत्सालभञ्जिकामिळितमतिरम- णीयं सिंहासनमदृश्यत । ततो भोजः परमानन्दामृतलहरीपरि- पूर्णहृदयसिंहासनं नगरं नेतुं यावदुच्चालयामास, तावदतिगरिष्ठ- मासनं नोच्चचाल । ततो राजा मन्त्रिणमवदत् !-'कुतस्सिहा- सनं नोचलति ?" मन्त्री-'भो राजन् ! दिव्यमेतदासनम् । बलिपूजादिकं विना नोचलति, तव साध्यं च न भवति ।' तस्य वचनं श्रुत्वा राजा ब्राह्मणानाकार्य तत् सर्वमपि विधानं कारितवान् । ततस्तत्सिंहासनं लघु भूत्वा स्वयमेवोच्चचाल। तदव- लोक्य राजा मन्त्रिणमुवाच-"योऽनर्थं निवारयति, आगा- म्यर्थं च साधयति, स एव मन्त्री । उक्तञ्च- स्थितस्य कार्यस्य समुद्भवार्थमनर्थकार्यप्रतिघातनार्थम् । आगामिनोऽर्थस्य च संग्रहार्थं यो मन्त्रकृत्स्यात्परमम्स मन्त्री। ततो मन्त्री प्रत्यब्रवीत् “ मन्त्रिणा स्वामिहितमेव कर्त- व्यम् । तथा चोक्तम्- मन्त्रः कार्यानुगो येषां कार्य स्वामिहितानुगम् । त एव मन्त्रिणो राज्ञां न तु ये गल्लपुद्गलाः ॥ २५ अन्यच्च, मन्त्रिणा विना राज्यं, धान्यं विना दुर्ग, कारुण्यं विना सौभाग्य, ज्ञानं विना वैराग्य, दुर्जनानां शक्तिः, पाषण्डानां मतिः, वेश्यानां विश्वासः, दैत्यानां प्रीतिः, तस्करा. - विक्रमाचरित्रम् गां युक्तिः, खलानां मैत्री, पराधीनस्य स्वातन्यम् , निर्धनस्या- टोपः, सेवकस्य कोपः, स्वामिनः स्नेहा, कृपणस्य गृहं, जारि- ण्याः पतिभक्तिः, मूर्खाणां सङ्गतिः इत्येतत् सर्व निष्फलम् । अन्यच, राज्ञा महतामर्चनं कार्य । आप्तानां बुद्धिः श्रोतव्या, देवब्राह्मणाः परिपालनीयाः । न्यायमार्गे वर्तितव्यम् । अपि च, भो राजन् ! ये राजगुणाः, ते सर्वे त्वयि विद्यन्ते । अतस्त्वं सकलराजराजोत्तमः । मन्त्रिणाप्येवं गुणगरिष्ठेन भवितव्यम्- स्वामिकार्यार्थमुद्यमः, पापाद्भय, प्रजानां हितं, परिवाराणां संयोजनं, राज्ञश्चित्तवृत्त्यनुसरणं, समयोचितपरिज्ञानं, अपाय- कृत्याद्राजनिवारणं, एवंविधगुणयुक्तः कुलक्रमागतः औशनस चाणक्य धौम्य शौनक वाचस्पत्यादिनीतिशास्त्राभिज्ञो मन्त्रि- पदयोग्यो भवति । पुरा किल नन्दभूपालो मन्त्रिणा बहुश्रुतेन ब्रह्महत्याया निवारितः । राजा-कथमेतत् ? सोऽब्रवीत्- भो राजन् ! श्रयताम्- विशालायां नन्दो नाम राजा महाशौर्यसम्पन्नोऽभूत् । स निजबलेन प्रत्यर्थिनृपालान् स्वपादपद्मोपजीविनो विधायक- च्छत्तेण राज्यमकरोत् । तस्य च बहुश्रुतो नाम मन्त्री । भानु- मती नाम महिषी । जयपालो नाम तनयः । तस्य च राज्ञस्त- स्यामतिप्रीतिरासीत् । सिंहासनेऽपि सहैव तया समुपविशेत् । निमेषमपि तया विना न तिष्ठेत् । एकदा मन्त्री स्वमनस्य- चिन्तयत्-अयं राजा निर्लज्जो मध्येसभं सिंहासने त्रियमु- पवेशयति । तदा सर्वेऽपि जनास्तां पश्यन्ति । अनुचितमयं न जानाति -तथा हि- - पीठिका. किमु कुवलयनेत्रास्सन्ति नो देवलोके त्रिदिवपतिरहल्यां तापसी यत्सिषेवे । हृदयणकुटीरे दह्यमाने सरामा- बुचितमनुचितं वा वेत्ति नो पण्डितोऽपि ॥ २६ अपि च यः स्त्रीणां कटाक्षैर्यावन्न भिद्यते स तावदेव प्रतिष्ठां धैर्य च वहति । तथा चोक्तम्- तावद्धत्ते प्रतिष्ठां शमयति च मनश्चापलं तावदार्य- स्तावसिद्धान्तमानं स्फुरति हृदि परं सर्वलोकैकदीपः । कालिन्दीपूरदीव्यत्कुवलयकलिकोद्दामधामाभिरामै- विनो हन्यमानं कलयति हृदयं कामिनीनां कटाक्षः॥ अहो ! मदनस्य माहात्म्यं ! यत् कलाकोविदोऽपि विमुह्यति । उक्तं च- विकलयति कलाकुशलं हसति शुचिं पण्डितं विदूषयति । अर्दयति धीरपुरुषं क्षणेन मकरध्वजो भृशं देवः ॥ २८ तथाच- - श्रुतं सत्यं तपश्शीलं विज्ञानं वित्तमुन्नतिम् । इन्धनीकुरुते मूढः प्रविश्य वनितानलम् ॥ २९ वृत्तं वित्तं तपः स्वान्तं स्वकुलस्यापि लाञ्छनम् । मरणं वा समीपस्थं कामी लोके न पश्यति ॥ इति सञ्चिन्त्यैकदाऽवसरं प्राप्य राजानमब्रवीत्-देव। विज्ञापनमस्ति । राजा-किं तत् ? मन्त्री--"यदेषा देवी भानुमती सहोपविशति तन्महदनुचितम् । 'असूर्यम्पश्या राज- विक्रमाचरित्रम् दारा' इति हि सम्प्रदायः । अत्र नानाजनास्समागत्य तां पश्यन्ति ।” राजा-'भानुमत्यनालोकनं क्षणमात्रमपि न सहे । तदुपायं निरूपय । 'मन्त्री-आलोख्यगतां तां पश्यतु देवः । तद्वचनं समुचितं मत्वा राजा चित्रकारमाहूय भानुम- तीरूपं चित्रे निवेशयेत्यादिदेश । स तु तस्या रूपं साक्षादालोक्य पद्मिनीलक्षणयुक्तां तां विलिलेख । राजाऽपि तां विलिखितां प्रियां दृष्ट्वा प्रहृष्टस्तस्य पारितोषिकं ददौ । अनन्तरं राजगुरुः शारदानन्दश्चित्रपटे निवेशितां भानु- मती दृष्ट्वा चित्रकारमभाणीत्-'भानुमत्याः सर्वमपि लावण्य. मत्र लिखितम् । परं त्वेकं विस्मृतं त्वया । 'चित्रकार:-भोः स्वामिन , तत् किं कथय । ' शारदानन्दः-'तस्यां वामजघ- नतले तिलसदृशं लक्ष्मास्ति । तन्न लिखितम् ।' राजा तु गुरो- वचनं श्रुत्वा तत्प्रतीत्यर्थं सुरतसमये तस्या वामजघनं यावदप- श्यत् तावत् तिलसदृशोऽङ्को दृष्टः । राजा स्वमनस्यचिन्त- यत्-कथमस्या गुह्यदेशे स्थितं लक्ष्म दृष्टवान् शारदानन्दः नूनमनया सहास्य संयोगो विद्यते । अन्यथा कथमनेन ज्ञायेत? अपि च , स्त्रीषु विषये ह्ययं सन्देहो न कार्यः । यतः- जल्पन्ति सार्थमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृदये चिन्तयन्त्यन्यं न स्त्रीणामेकतो रतिः ॥ नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचना ।। रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता जनः । इदं नारद नारीणां पातिव्रत्याय कल्पते ॥ مخ .

पीठिका १७ यो मोहान्मन्यते मूढो रक्तेयं मयि कामिनी । स तस्या वशगो भूत्वा नृत्येत् क्रीडाशकुन्तवत् ॥ ३४ तासां वाक्यानि तथ्यानि स्वल्पानि सुगुरुण्यपि । करोति यः कृती लोके लघुत्वं तस्य निश्चितम् ॥ ३५ अलक्तको यथा रक्तो निष्पीडथ पुरुषस्तथा । अबलाभिर्बलाद्रक्तः पादभूले निपात्यते ॥ ३६ इत्येवं विचार्य मन्त्रिणमाहूय पूर्ववृत्तान्तमकथयत् , मन्त्रिणापि तस्मिन् समये तचित्तानुकूलं भणितम्-'देव! कस्य चेतसि कीदृशमिति केन वा ज्ञा(येत)यते ? सर्वथा सत्यो भवेदयं वृत्तान्तः ।' राजा- राजा-'भो मन्त्रिन ! मम यदि प्रियोऽसि, तमु शारदानन्दं मारय ।' सचिवोऽपि तथेति प्रतिज्ञाय लोकानां पुरः शारदानन्दं दृढं बबन्ध । तस्मिन् समये शारदानन्दो बभाण---'अहो ! राजा कस्यापि प्रियो न भवतीति लोकोक्तिरवितथैव । तथाहि- कोऽर्थान प्राप्य न गर्वितो? विषयिणः कस्यापदोऽस्तङ्गताः? स्त्रीभिः कस्य न खण्डितं भुवि मनः? को नाम राज्ञां प्रियः ? का कालस्य न गोचरत्वमगमत् ? कोऽर्थी गतो गौरवं ? को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ! ३७ - तथाच- - काके शौचं, कामुके सत्यवाक्यं, क्लीवे शौर्य, मद्यपे तत्त्वचिन्ता, विक्रमाचरित्रम् -- सर्प क्षान्तिा, स्त्रीषु कामोपशान्ती, राज्ञा सख्यं केन दृष्टं श्रुतं वा ? अन्यच्च, राजा यस्मै क्रुद्ध्यति स शुचिरप्यशुचिः । तथा चोक्तम्-- शुचिरशुचिः पटुरपटुश्शूरो भीरुचिरायुरल्पायुः। कुलजः कुलेन हीनो भवति नरो नरपतेः क्रोधात् ॥ इत्येवं पठन् शारदानन्दो वध्यस्थान मन्त्रिणा नीय- मानः श्लोकमेकमपठत् । वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥ तच्छ्रुत्वा मन्त्री स्वमनस्यचिन्तयत्- 'अहो! एतत् सत्यं वा मिथ्या वा, किमर्थ ब्राह्मणवधः क्रियने ? महदनु- चितमिदम् । ' इति मत्वा शारदानन्दं गूढं स्वभवनं नीत्वा भूगृहे निक्षिप्य राजसन्निधिमागत्य ' देव ! अनुष्ठितो भवदा- देशः ।' इत्यवादीत् । राजापि साधु कृतमिति प्रशशंस । अनन्तरमेकदा राजकुमार आखे (टा) टकाथ वनं प्रति निर्जगाम । तदाऽकालवृष्टयादीनि दुनिमित्तानि बभूवुः । तथा हि- अकालवृष्टिस्त्वथ भूमिकम्पो निर्यात उल्कापतनं तथैव । इत्याद्यनिष्टानि ततो बभूवुर्निवारणार्थ सुहृदो वचश्च ।।४१ तस्मिन् समये मन्त्रिपुत्रो बुद्धिसागरो दुनिमित्तानि नि- रूप्य शतधा निवारयामास । जयपाल:-अहमवश्यं निर्ग- पीठिका १९. च्छेयं । पश्यतु भवान् दुर्निमित्तफलम् ।' बुद्धिसागरः--नेदं परीक्षामहति । उक्तश्च- न विषं भक्षयेत् प्राज्ञो न क्रीडेत् पन्नगैस्सह । न निन्देद्योगिवृन्दं च ब्रह्मद्वेषं न कारयेत् ॥ ४२ इति तेन निवारितोऽपि तद्वचनमनादृत्य निर्गतो राज- पुत्रः । निर्गच्छतेऽपि तस्मै “भो जयपाल ! तव विनाशकाल: समागतः । अन्यथा तवैवं विपरीता बुद्धिोत्पद्येत । तथा च- न निर्मितो वै न च दृष्टपूर्वो न श्रूयते हेममयः कुरङ्गः । तथाऽपि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः॥ उपार्जितानां कर्मणामुपभोगं विना कथं विनाशः स्यात् ? उक्तश्च- सद्भावो नास्ति वेश्यानां स्थिरता नास्ति सम्पदाम् । विवेको नास्ति मूर्खाणां विनाशो नास्ति कर्मणाम् ।। ४४ एवमादि बहुधा निवेद्य बुद्धिसागरो विरराम । जयपालस्तु पुरान्निर्गत्य खड्गव्याघ्रशरभमृगकुलसङ्कलं महदरण्यं प्रविश्य यावत् पश्चाददर्श, तावत् सर्वोऽपि सैन्य- वर्गः स्वनगरमार्गे लग्नः । स्वयमेकाकी संवृत्तः तुरगमात्रस- हायः पुरः सरोवरमद्राक्षीत् । तत्राश्वादवतीर्य वृक्षशाखायामश्वं निबध्य जलमवगाह्य शान्तपिपासस्तरुच्छायायां विशश्राम । तावदतिभयङ्करः कश्चिव्याघ्रः समापतत् । तं दृष्ट्वाऽश्वश्छिन्न- बन्धो यथागतमधावत् । राजकुमारोऽपि भयाद्वेपमानाङ्गः शाखामालम्ब्य द्रुममारुरोह । तत्र पूर्वारूढं भल्लूकं दृष्ट्वा २० विक्रमार्कचरित्रम् द्विगुणं बिभ्यतं राजकुमारं भल्लूक: ससान्त्वमब्रवीत् । 'भो राजकुमार ! मा भैषीः । अद्य मां शरणं गतस्त्वम् । अतस्तवाहं किमनिष्टं करिष्यामि । मयि विश्वस्य व्याघ्रादपि न भे(त्त)तव्यम् । ततो राजकुमारः सभयमिदमभाणीत् । 'भो ऋक्षराज! अहं त्वां शरणं गतः । विशेषतो भीतश्च । महत् पुण्यं शरणागतरक्षणेन । उक्तश्च एकतः क्रतवः सर्वे समग्रवरदक्षिणाः । एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥ ४५ ततो भल्लू केन विश्वासितो राजपुत्रः । अत्रान्तरे व्याघ्रोऽपि वृक्षमूलमाजगाम । ततः सूर्योऽस्तमगात् । ताव- न्मृगयापरिश्रान्तो राजकुमारो निद्रापरवशो भल्लूकेनाङ्कमारो- पितः सुखं सुष्वाप । तदालोक्य व्याघ्रः समवादीत्- "भल्लूक ! अयं मनुष्यो नगरनिवासी । अस्मानेव हन्तुमा- गतः । अतः शत्रुभूतमेनमके कथं निवेशयसि ? त्वयोपकृतोऽ- प्यपकारमेव करिष्यति । उक्तश्च- मानुषेषु कृतं नास्ति तिर्यग्योनिषु यत् कृतम् । व्याघ्रवानरसाणां भाषितं न त्वया श्रुतम् ॥ ४६ तस्मादमुमधः पातय । अहमेनं भक्षयित्वा सुखेन गमि- ष्यामि । त्वमपि निजाश्रयं गच्छ । प्राह-'अयं कीदृशो वा भवतु । परं मां शरणं गतः । अमुं न पातयेयम् । शरणागतमारणेन महत् पातकं भवेत् । तथा च- विश्वासघातुकाश्चैव शरणागतघातुकाः । वसन्ति नरके घोरे यावच्चन्द्रदिवाकरम्॥ तच्छुत्वा भल्लूकः 32 पीठिका २१ अत्रान्तरे सुप्तोत्थितं राजकुमारं भल्लूकः प्राह---'भो राजकुमार! अहं निद्रां गमिष्यामि । त्वमत्राप्रमत्तस्तिष्ठ । राजकुमारः-'तथा भवतु । ततो भल्लूको राजपुत्रसमीपे निद्रामगमत् । तदा व्याघ्रो 'राजकुमार!' त्वमस्मिन् विश्वास मा कुरु । यतोऽयं भल्लूकश्चञ्चलचित्तो दृश्यते । तस्मादस्य प्रसादोऽपि भयङ्करः । तथाच- क्षणे तुष्टाः क्षणे रुष्टा वितुष्टाश्च क्षणे क्षणे । अव्यवस्थितचित्तानां प्रसादोऽपि भयङ्करः ॥ ४८ किं च त्वां मत्तो रक्षित्वा स्वयं हन्तुमिच्छति । अत- स्त्वमेव भल्लूकमधः पातय । अहमेनं भक्षयित्वा गमिष्यामि । त्वमपि निजनगरं गन्तुमर्हसि । 'इति वश्चयामास । तच्छृत्वा राजपुत्तो यावदेनमधः पातयितुमारेभे, तावद्भल्लूको वृक्षात् पतन्नपि शाखान्तरमाललम्बे । राजपुत्रस्तु विफलप्रयत्नस्तं दृष्ट्वा बिभाय । तदा भल्लूकः ‘भोः पापिष्ठ ! किमर्थ विभेषि ? यत् पुरार्जितं कर्म तत् त्वयाऽनुभोक्तव्यम् । अतस्त्वं ससेमिरेति भूत्वा प्रतिवनं परिभ्र' मेति शशाप । ततः प्रभातमासीत् । व्याघ्रस्तु निरगात् । भल्लूकोऽपि राजकुमार शप्त्वा. यथेच्छं जगाम । राजकुमारोऽपि ससेमिरेति प्रलपन पिशाचो भूत्वा वनेषु तत इतः परिबभ्राम । ततोऽस्य तुरङ्गमो नगरमगमत् । तत्र राजपुत्ररहितमश्वं दृष्ट्वा जना राजे केवलमश्वमागतमाचख्युः । ततो राजा मन्त्रिणः समाहूय भणति स्म-'भो मन्त्रिणः ! मृगयार्थ कुमारे निर्ग- च्छति महहर्निमित्तमासीत् किल । तथापि मत्तस्तदुल्लङ्घष वनं वदन् पिशाचो विक्रमार्कचरित्रम् गतः। तस्य फलं सद्य एव समुपनतम् । तदारूढोऽश्वः शून्यः समागतः । ततस्तन्मार्गणाय वनं प्रति गमिष्यामीति । तत- स्तेऽप्यङ्गीचक्रुः ॥ ततो राजा मन्त्रिभिः परिवारेण च सह, कुमारो येन मार्गेण गतस्तेनैव मार्गेण वनं प्राविशत् । ततो वनमध्ये परिभ्रमन्तं ससेमिरेति वदन्तं पिशाचभूतं सुतं दृष्ट्वा राजा महाशोकसागरनिमग्नस्तमादाय स्वनगरमगमत् । आगत्य च तदुन्मादशमनाय बहून् विधीन कारयामास । केनापि कुमारः स्वस्थो न बभूव । तस्मिन् समये राजा मन्त्रिणं बहुश्रुत- मभाणीत् । “अस्मिन् समये शारदानन्दस्तिष्ठेद्यदि, क्षणमात्रेण चिकित्सां कुर्यात् । स मया वृथा मारितः । पुरुषेण यत् कर्म क्रियते तद्विचायैव कर्तव्यम् । अन्यथा परमापदां पदं भवति ॥ उक्तश्च- सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ - तथा च- अपरीक्षं न कर्तव्यं कर्तव्यं सुपरीक्षितम् । पश्चाद्भवति सन्तापो ब्राह्मणी नकुले यथा ॥ इति राज्ञश्चिन्तयतः कोऽपि चिकित्सको नासीत् । तदा मन्त्री,-"यस्य भवितव्यता यादृशी, बुद्धिरपि तादृशी भवति ॥ उक्तश्च- ताशी साध्यते बुद्धिः सा मतिः सा च भावना । सहायस्तारशो ज्ञेयो यादृशी भवितव्यता ॥

पीठिका २३ न हि भवति यत्र भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति ॥५२ राजा-"तत् कर्मायत्तमभूत्। किमनेन गतचिन्तनेन ? इदानीं सुमहान् प्रयत्नः कर्तव्यः । मन्त्री—'कथं कर्तव्यः?' राजाऽब्रवीत् । यः कोऽपि कुमारस्य चिकित्सां करिष्यति । तस्यार्धराज्यं दास्यामि । सर्वानभीष्टान् प्रदास्यामि । इत्यभितो नगरमुद्घोषय । 'इत्युक्तवति राज्ञि, मन्त्री तथैव विधाय स्वभ- वनमागत्य शारदानन्दाय सर्व निवेदयामास । तत् सर्व श्रुत्वा शारदानन्दः प्राह--"बहुश्रुत ! भूपालायैवं निवेदय 'मम गृहे कापि कन्यका वर्तते । एनं यदि सा पश्येत् , कम- प्युपायं करिष्यतीति ।" तच्छ्रुत्वा मन्त्री राज्ञे व्यजिज्ञपत् । ततो राजा सपुत्रः सपरिवारो मन्त्रिमन्दिरमागत्योप- विवेश । राजपुत्रोऽपि ससेमिरेति वदन्नुपविष्टः । तदाकर्ण्य यवनिकान्तर्वर्ती शारदानन्दो 'भो राजपुत्ने' त्यामन्त्रयत । ससे- मिरेति भूयोऽपि वदन्तं राजतनयमुद्दिश्यै(वं)नं पद्यं पपाठ- सद्भाव प्रतिपन्नानां वञ्चने का विदग्धता । अङ्कमारुह्य सुप्तानां हनने किं नु पौरुषम् ।। तत्पद्यं श्रुत्वा राजपुत्रः चतुर्णा वर्णानामादिमं वर्ण परित्यज्य सेमिरेत्यपाठीत् । पुनश्च शारदानन्दो द्वितीयं पद्य- मपठत्- सेतुं दृष्टा समुद्रस्य गङ्गासागरसङ्गमम् । ब्रह्महत्या प्रमुच्येत मित्रद्रोहो न मुच्यते ॥ - ५४ - २४ विक्रमार्कचरित्रम् - राजा शार- तत्पद्यं श्रुत्वा राजपुत्रो वर्णद्वयं परित्यज्य मिरेत्युक्त- वान् । ततस्तृतीयं पद्यमपठत्- मित्रद्रोही कृतनश्च यश्च विश्वासघातुकः । त्रयस्ते नरकं यान्ति यावच्चन्द्रदिवाकरम् ॥ राजपुत्रो रेत्यब्रवीत् । शारदानन्दश्चतुर्थ पद्यमपठत्- राजन् भोस्तव पुत्रस्य यदि कल्याणमिच्छसि । दानं देहि द्विजातिभ्यो वर्णानां ब्राह्मणो गुरुः ॥ ५६ एवमुक्तवति शारदानन्दे स राजपुत्रः स्वस्थमनाः साव- धानश्च पितुर्भल्लकवृत्तान्तं सर्वमकथयत् । त तच्छुत्वा दानन्दं प्रति जगाद- ग्रामे वससि कल्याणि विपिनं नैव गच्छसि । ऋक्षव्याघ्रमनुष्याणां कथं जानासि भाषितम् ॥ इति राज्ञोक्तं श्रुत्वा शारदानन्दः प्रत्यवादीत्- देवद्विजप्रसादेन वाणी जिहां ममाऽश्रिता । तेनाहमवगच्छामि भानुमत्या यथाङ्कितम् ।। तच्छ्रुत्वा राजा महाश्चर्यभरितमना यावद्यवनिकामाच- कर्ष, तावच्छारदानन्दः साक्षाददृश्यत । तदा राजा सपुत्रस्त प्रणनाम । तदा मन्त्रिणा राज्ञे पूर्ववृत्तान्ताः कथिताः। ततो राजा बहुश्रुतं मन्त्रिणं प्रत्युवाच-तव संसर्गणाहमकीनिवृत्तोऽस्मि। अतः पुरुषेण सत्सङ्गो विधेयः । तथाहि- वारयति वर्तमानामापदमागामिनी च सत्सङ्गः । तृष्णां च हरति पीतं गङ्गाया दुर्गतिं च सद्योऽम्मः ॥ ५९ ५८ - पीठिका २५ अन्यञ्च, राज्ञा तु सतां भवादृशां सङ्गहः कर्तव्यः । सहं न कुलीनस्य सीदत्येव करोति यः । स एव श्लाघ्यते मन्त्री सम्यगारूढिको यथा ॥ इति बहुधा मन्त्रिगं स्तुत्वा वस्त्रादिना सम्भाव्य राजा राज्यमकरोत् । इति मन्त्री भोजराज प्रति का कथयित्वा पुनरन- वीत् । यो राजा मन्त्रिवाक्यं शृणोति स दीर्घायुः सुखी च भवति । Vikra-2 : 1:15 .. . ॥ अथ प्रथमीपाख्यानम् ।। मोजे राबनि सिंहासनमारोहुँ समीपमुपयाते । प्रतिमैका विनिवार्य प्राह गुणान् विक्रमार्कदेवस्य ।। ६१ ततो भोजराजो मन्त्रिणं सम्भाव्य, तत्सिंहासनं स्वनग- राभ्यन्तरं नीत्वा, तत्र सहस्रमणिस्तम्भं मण्टपं कारयित्वा, तस्मिन्- सुमुहूर्ते सिंहासन प्रतिष्ठाप्य, तत: पुण्यतीर्थोदकैर्दि- व्यौषधियुक्तर्मन्त्रपूर्वकं द्विजैरभिषेचितः, पुरन्ध्रीभिर्नीराजितः, कविभिप्रैिराशीभिरभिनन्दितो, वन्दिभिः प्रशंसितश्चातुर्वण्र्य दानमानाभ्यां सम्मान्य,दीनान्धबधिरकुब्जादिभ्यो बहूनि धनानि दत्त्वा, छत्रचामराङ्कितो यावत् सिंहासनसालभञ्जिकामस्तके पदपद्मं निधायारोदुमाजगाम, तावत् सा सालभञ्जिका मनु- व्यवाचा राजानमब्रवीत्—'भो महीपाल! तव विक्रमार्क- स्येव शौर्यौदार्यसाहसादयो यदि विद्यन्ते, तदाऽस्मिन् सिंहा- सने समुपवेष्टुमर्हसि ।' राजाऽब्रवीत्—'सालभञ्जिके! ममा- प्यौदार्यादिकमन्यूनमस्ति । ममाप्यर्थिनस्तृप्यन्ति' । तच्छत्वा सालभञ्जिकाऽभणत्-राजन्नेतदेव तवानुचितम् , यदात्मानं प्रशंससि । यः स्वगुणान् परदोषान् वा कीर्तयति, स. केवलं दुर्जनः । सज्जनस्तु तथा न वक्ति । उक्तश्च- खगुणान् वा परदोषान् वक्तुं शक्नोति दुर्जनो लोके । परदोषान् वा स्वगुणान् वक्तुं शक्नोति सज्जनो नैव ॥ ६२ 3 - द्वितीयोपाख्यानम् २५ -- अन्यच्च- आयुर्वित्तं गृहच्छिद्र मन्त्रमौषधसङ्गमौ । दानं मानावमानौ च नव गोप्यानि कारयेत् ॥ ६३ इति सालभञ्जिकयोक्तं निशम्य विस्मितो भोजराज- स्तामवदत्-'सत्यमुक्तं त्वया । यः स्वगुणान् कीर्तयति, स मूर्खः । मया यदात्मनो गुणाः कीर्तितास्तदनुचितमेव । तिष्ठ, त्वेतत् । यस्यैतत्सिंहासनं तस्यौदार्यादिकं कथय । श्रोतुं वाल्छति मे श्रोत्रम् ।' सालभञ्जिका भणति स्म । 'भो राजन्नेतसिंहासनं देवस्य विक्रमार्कस्य । स तु सन्तुष्टः कोटिशोऽर्थिभ्यः प्रयच्छेत् । उक्तश्च- निरीक्षिते सहस्रं तु नियुतं तु प्रजल्पिते । हसिते लक्षमाप्नोति तुष्टेऽर्थी कोटिशो नृपे ॥ किमेवंविधौदार्य त्वयि विद्यते ?' श्रुत्वा भोजराज- स्तूष्णीं प्रत्यावर्तत ॥ इति प्रथमोपाख्यानम् . .. ॥ अथ द्वितीयोपाख्यानम् ॥ - चिरेण हुत्वाऽऽप्यनवाप्तकामितं द्विजङ्गिरी कुत्रचिदातचेतसम् । कृतार्थयामास हि विक्रमोऽचिरा-- दिवीह पाश्चालिकयाऽभिधीयते ॥

२८ विक्रमाचरित्रम् भूयोऽप्येकदा भोजराजः शुभमुहूर्ते यावद्विक्रमार्कसिं- हासनमारोढुमाजगाम, तावहितीयसोपानस्था सालभञ्जिकाs- भणत्-'भो भोजराज ! विक्रमार्कस्यौदार्य यदि त्वयि विद्येत, तदास्मिन सिंहासने समुपविश । राजा-सालभञ्जिके! तस्यौदार्यादिकं कथय ।' सालभञ्जिका तु तद्वृत्तान्त वक्तु. , मारेभे । विक्रमादित्यो राज्यं कुर्वन्नेकदा चारानाहूयाब्रवीत्- 'सर्वतः पृथिवी परिभ्रमत । यत्र यत्र कौतुकप्रदं तीर्थ देवाय- सनमन्यानि वा तथाविधानि विलोकयथ, तन्मम निवेदयत ।' चारास्तु यदाज्ञापयति देव इति निष्क्रान्ताः । अथैकदा देशा- न्तरं परिभ्रम्यागतः कश्चिहूतो राजानं प्रणम्य व्यजिज्ञपत्- "देव! चित्रकूटपर्वतनिकटतपोवनमध्ये मनोहरः कश्चिदेवाल- योऽस्ति । तन च पर्वते अत्युदनाच्छिखराद्विमला कापि जल- धारा पतति । तत्र स्नानमात्रेण महापातकादीन्यपि नश्यन्ति । किञ्च, यस्तु पापीयान स्नानमाचरति तस्याङ्गादतीव कलुष- मुदकं निस्सरति । तेन स पूतो भवति । अन्यच्च-तत्र कश्चि- ब्राह्मणो महति होमकुण्डे प्रतिदिन होमं करोति । न जाने तस्य कति वत्सरा गता इति । प्रतिदिनं कुण्डाद्वहिः प्रेरित भस्म पर्वताकारवदस्ति । स केनापि न भाषते । एवमतिवि- चित्रं स्थानमद्राक्षीदयं जनः । तदुपरि देवः प्रमाण "मिति विरराम । तच्छ्रुत्वा राजा खयमेकाकी तेन सह तं गिरिं गत्वा परमानन्दं प्राप्य, 'अहो! पवित्रमिदं स्थानम् । अत्र साक्षा- जंगदम्बिका वसति । पश्यत एव मे मनो निर्मलं भवति किं । द्वितीयोपाख्यानम् २ पुनश्चिरं निवसताम् ।' इत्युक्त्वा तत्र निर्झरे लात्वा देवतां प्रणम्य यत्र ब्राह्मणो होमं करोति तत्र गत्वा तमपृच्छत् ! ब्राह्मणः-यदा सप्तर्षिमण्डलं रेवतीप्रथमचरणमध्यास्त, तदाऽ- हमयति(षि)षम् । इदानीं तदश्विनीनक्षत्रे तिष्ठति । जुह्वतो मे वर्षशतमभूत् । तथापि देवता प्रसन्ना नाभूत् ।। तच्छ्रुत्वा गजा स्वयं देवतां स्मृत्वा जुहाव । तथाऽपि देवता प्रसाद न विदधे । अनन्तरमिष्टसाहसो राजा स्वशीर्षमुत्कृत्य जुहोमीति यावत् कण्ठे खड्ग निचिक्षेप, तावदेवता कृपाणं गृहीत्वाऽ- ब्रवीत्--'भोः साहसिन् ! प्रसन्नाऽस्मि । वरं वृणीष्व ।' राजा-'अयं ब्राह्मणश्चिरादतिनियतो जुहोति कुतोऽस्य ममेव प्रसादं न चकर्थ ?' देवता-"भो राजन्नयं चिरादनुतिष्ठत्येव । परमस्य चेतः स्वस्थं न बभूव । चञ्चलहृदयस्य तपः फलाय न कल्पते । उक्तन- अङ्गुळ्यग्रेण यज्जप्तं यजप्तं पर्वलङ्घनैः । व्यग्रचित्तेन यज्जतं त्रिविधं निष्फलं भवेत् ॥ ६६ तथाच- ६ न काष्ठे विद्यते देवो न पाषाणे न मृण्मये । भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ।। किश्च- मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ । याशी भावना यत्र सिद्धिर्भवति तादृशी ॥ राजा-यदि प्रसन्ना जाता मम, तर्षस्य ब्राह्मणस्य ६० प्रविक्रमाचरित्रम् मनोरथं सम्पूरय । देवी "भो.विक्रम! महाद्रुम इव स्वदेह- श्रममविगणय्य परश्रमं परिहरसि । उक्तश्च- छायामन्यस्य' कुर्वन्ति स्वयं तिष्ठन्ति चातपे। : फलन्ति च परार्थेषु नात्महेतोर्महाद्रुमाः ॥ तथाच--- परोपकाराय वहन्ति निम्नगाः परोपकाराय दुहन्ति धेनवः । परोपकाराय फलन्ति भूरुहः परोपकाराय सतां विभूतयः।। इति राजानं स्तुत्वा ब्राह्मणस्य मनोरथमापूर्यान्तरधात् । 'ततो राजा स्वनगरमगमेत् । इतीमां कथां कथयित्वा सा सालभञ्जिका भोजमन- वीत्-त्वमेतदासनमारोढुमभिलषसि । विक्रमार्कगुणास्तु त्वयि न दृश्यन्ते ।' तच्छत्वाः राजा तूष्णीं बभूव । इति द्वितीयोपाख्यानम् ॥ अथ तृतीयोपाख्यानम् ॥ दत्तानि चत्वारि महार्णवेन रत्नान्यसौ विक्रमभूमिपाल । महीसुराय प्रददावितीमा कथां तृतीया प्रतिमाऽभिधत्ते ॥ पुनरपि भोजे कदाचित् सिंहासनमारोहमागते तृतीया सालभञ्जिकाऽवदत्-'भो राजन् ! एतत्सिंहासनं तेनाध्या- सितव्यं' यस्मिन् विक्रमस्यौदार्य विद्यते ।' भोज:--साल- भञ्जिके ! तस्यौदार्यवृत्तान्तं ब्रूहि ।' सालभञ्जिका-राजन् ! 'यदि श्रोतुं वाञ्छसि तर्हि कथयामि---, :...

- द्वतीयोपाख्यानमा क विक्रमार्कसदृशो भूमण्डले कोऽपि नास्ति तस्य घेत- स्थघुमात्रोऽपि विकल्पो नासीत् । उक्तञ्च-: :: अयं निजः परश्चेति विकल्पो लघुचेतसाम् । पुनस्तूदारचित्तानां वसुधैव कुटुम्बिनी ॥ .. साहसेन दीनरक्षणेन धैर्येण च तत्समो नास्ति । यतः इन्द्रादयोऽपि तं सहायमकुर्वन्त । उक्तश्च- उद्योगः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः । षडेते यस्य तिष्ठन्ति तस्य देवोऽपि शङ्कते ।। अन्यच्च, यस्त्वतिथीनां मनोरथं पूरयति तस्येप्सितं देवः सम्पादयति । तथा चोक्तम् - कृतो विनिश्चयः पुंसा देवः पूरयतीप्सितम् । विष्णुचक्रं गरुत्मांश्च नास्ति तस्य यदाहवे ॥ तथाच- उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञं विषयेष्वसक्तम् । शूरं कृतज्ञं दृढनिश्चयं च लक्ष्मीः स्वयं वाञ्छति वासहेतोः।। एवं सकलगुणाधिवासो विक्रमार्कः सर्वसम्पत्परिपूर्णः सफलमपि महीमण्डलं पालयन्नेकदा स्वमनस्यचिन्तयत्-- अनित्योऽयं संसारः कदा कस्य किं भविष्यतीति न ज्ञायते अतः समुपार्जितं द्रव्यं न दानभोगादिना विना सफल भवति । तस्य सत्पात्रे दानमेव प्रथमं . फलमा । यस्य तन्न भवेत् तन्नाशमेव प्रामुयात् । उक्तं च- . - .

३२ विक्रमाचरित्रम् दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यम ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवत्येव ।। अन्यञ्च- दातव्यं भोक्तव्यं सति विभवे सङ्गहो न कर्तव्यः । पश्येह मधुकराणां संचितमर्थ हरन्ति लोकेऽन्ये । कि च- अनुभवत दत्त वित्तं मान्य मानयत सज्जनं भजत । अतिपरुषपवनलुलिता दीपशिखेवातिचञ्चला लक्ष्मीः ।। अपि च-- उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तटाकोदरसंस्थानां परीवाह इवाम्भसाम् ॥ इत्येवं विचार्य सर्वस्वदक्षिणं कमपि यज्ञं कर्तुमुपाक्रम- (त)त् । ततः शिल्पिभिरतिमनोहरं यज्ञायतनं कारयामास । सर्वा अपि यज्ञसामग्रीः सम्पादयामास । देवर्षियक्षगन्धर्वसिद्धा- दीनाह्वापयत् । ब्राह्मणाश्च समाजग्मुः। सर्वे राजानो बान्धवाश्च । तत्रान्तरे राजा समुद्राह्वानाय कश्चन ब्राह्मणं प्रेषयत् । सोऽपि समुद्रतीरं गत्वा गन्धपुष्पाक्षतादिभिः समुद्रमभ्याब्रवीत्- भगवन् ! रत्नाकर ! विक्रमार्को यज्ञं करिष्यति । तेन प्रेषि- तोऽहं त्वदासानार्थ समागतोऽस्मि इति जलमध्ये पुष्पाञ्जलि विक्षिप्य क्षणं तस्थौ । तत्र न कोऽपि प्रत्युवाच । ततो ब्राह्मण- स्तटानिवृत्य यथागतं यावदाजगाम, तावहेदीप्यमानशरीरः कश्चिन्महीसुरः समागत्य तमवदत्-त्वं किल विक्रमे- - ।

तृतीयोपाख्यानम् पास्माना(सा)जयितुं प्रेषितः । तेन या सम्भावना कृता साs- स्मान प्राप्तव । एतदेव सुहल्लक्षणं यत् समये दानमानादि । उक्तंच- ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते च भोजयत्येव पडिधं मित्रलक्षणम् ॥ गिरौ मयूरो गगने च मेघो लक्षान्तरेऽकः सलिले च पत्रम्। लक्षद्वये ग्लौः कुमुदानि भूमौ ययोस्तु मैत्री न तयोहिंदूरम्।। मम नायमवसरः समागन्तुम् । यथार्थमुपकरिष्यामि । अमूल्यानि रत्नानि चत्वारि दास्यामि । प्रयच्छ तस्मै । एषां माहात्म्यं शृणु । “एषामिदं रत्नं यद्धनादि वस्तु स्मयते तद्ददाति । द्वितीयं यत्तु भक्ष्यभोज्यादिकममृतकल्पं तदुत्पा- दयति । तृतीयं हस्यश्वरथपादातं बलं प्रजनयति । चतुर्थ दिव्यं वनाभरणादिकं प्रसूते ।" इत्यभिधाय रत्नानि दत्त्वा समुद्रोऽ. न्तरधात् । तदनन्तरं ब्राह्मणस्तानि रत्नानि गृहीत्वा चिरादुज- यिनीमगमत् । अत्रान्तरे यज्ञं समाप्य राजाऽवभृथस्नानं विधाय सर्वान् लोकान् परिपूर्णमनोरथानकरोत् । ब्राह्मणोऽपि राजा- नमवलोक्य मणीनां गुणानकथयत् । राजा-'ब्राह्मण! यज्ञ- दक्षिणाकालमतिलङ्घय समागच्छः । सर्वस्वमर्थिसात् कृत्वा केवलोऽस्मि । अतस्त्वमेवैतेषां रत्नानां यदेकं तुभ्यं रोचते 'महाराज ! अहं गृहिणीं पुत्रं स्नुषां पृष्टा सर्वेभ्यो यद्रोचते तद्गृहीयाम् ।' राजा-'तथा कुरु!' तद्गृहाण । ब्राह्मण विक्रमाचरित्रम् प्रामणोऽपि स्वभवनमागत्यं तद्वतान्त तेषामकथयत् । तनिशम्य पुत्रोऽभ्यभाषत-यद्रनं चतुरङ्ग बलं ददाति तद्गृहीयाम । सुखेन राज्यमायाति । 'पिता-प्राज्ञो राज्यं नापेक्षेत। .. रामे प्रव्रजन बलेनियमनं पाण्डोस्सुतानां वनं. घृष्णीनां निधनं नले च नृपती राज्यात् परिमंशनम् । ; कारागारनिषेवणं च मरणं सञ्चिन्त्य लक्केश्वरे दृष्ट्वा राज्यविडम्बनादुपगतं. दुःखं न तद्वाञ्छति ॥ यस्माद्धनादिकं लभ्यते तद्गृह्णीयाम, तेन तु सर्वमपि लभ्यते । उक्तश्च- न तदस्ति जगत्यस्मिन् यदर्थेन न सिद्धयति । इति निश्चित्य मतिमान् धनमेकं प्रसाधयेत् ॥ ८३. भार्या-“यद्रनं षड्सोपेतं चतुर्विधानं प्रसूते; तद्गृही- तव्यम् । सर्वेषां प्राणिनामन्नमेव जीवधारणम् । उक्तश्च- अचं विधात्रा विहितं मर्त्यानां जीवधारणम् । तदनादृत्य मतिमान् प्रार्थयेन तु किञ्चन ॥ ८४ अथ स्नुषा-"यद्रनं घनाभरणादिकं प्रसूते. यथाच . भूषणैर्भूषयेदङ्ग सदा विभवसारतः । शुचिसौभाग्यसिद्धयर्थमायुष्यस्याभिवृद्धये ॥ सुहृदानन्दनं मुख्यमुत्सवेषु विभूषणम् । रत्नाधिदेवतातुष्टिभूषणस्य विधारणात् ।।" ८६ एवं परस्परं चतुणों विवादो लमः । ततो ब्राह्मणो राज्ञ:

" - चतुर्थोपाख्यानम् समीपमागत्य विवाद, न्यवेदयत् । राजाऽपि तच्छ्रुत्वा तुमै ब्राह्मणाय चत्वार्यपि, रत्नानि ददौ । इति कथां कथयित्वा सालभञ्जिका भोजमब्रवीत्- "औदार्यमेव सहजो गुणः शरीरिणाम् । तथा हि- चम्पकेषु सुवर्णत्वं कान्तिर्मुक्ताफलेषु च । यथेषुदण्डे माधुर्यमौदार्य सहज तथा ।। त्वय्येवमौदार्य विद्यते चेदस्मिन् सिंहासन उपविशः।" तच्छ्रुत्वा राजा तूष्णी बभूव । इति तृतीयोपाख्यानम् - . ॥ अथ चतुर्थोपाख्यानम् ॥ भूसुरेण कृतिना कृतज्ञताशोधनाय तनयो महीपतेः । एकदा कुहनयापहारितो गूढमित्यभिनिवेदयत्यसौ ॥ ८८ भूयोऽप्येकदा सिंहासनमारोदुमागच्छति भोजे साल- भञ्जिकाऽब्रवीत्-'यदि त्वमौदार्येण विक्रमार्कमनुसरेस्तहीद सिंहासनमारोह ।' राजा-'ब्रूहि मे तस्यौदार्यवृत्तान्तम् ।' ततः सालभञ्जिका कथां कथयितुमारेभे । विक्रमादित्ये राज्यं कुर्वत्युज्जयिन्यां ब्राह्मणः कोऽपि सकलविद्याविचक्षणः सकलगुणालकृतश्च परमपुत्रः समभवत् । तं चैकदा तत्प्रेयसी जगाद-"भोः प्राणनाथ, पुत्रं विना गृहस्थस्य गतिर्नास्तीति स्मृतिपुराणविदः समामनन्ति । तथा च- -- • • ८९ ९० ३६. विक्रमार्कचरित्रम् अपुत्रस्य गतिर्नास्ति खगों नैव च नैव च । तसात् पुत्रमुखं दृष्ट्वा भवेत् पश्चाद्धि तापसः ॥ शर्वरीदीपकश्चन्द्र प्रभातोद्दीपको रविः । त्रैलोक्यदीपको धर्मः सुपुत्र: कुलदीपकः ।। नागो भाति मदेन ; खं जलधरैः पूर्णेन्दुना शर्वरी; शीलेन प्रमदा; जवेन तुरगो; नित्योत्सवैमन्दिरम् । वाणी व्याकरणेन ; हंसमिथुनैनद्यः ; सभा पण्डितः ; सत्पुत्रण कुलं ; नृपण वसुधा; लोकत्रयं भानुना ।। तच्छ्रुत्वा भूसुरः प्राह-"प्रिये ! सत्यमवादीः । परमु- द्यमेन विना द्रव्यं, गुरुशुश्रूषां विना विद्या, परमेश्वरप्रसाद विना सन्ततिश्च न लभ्यते । उक्तश्च- निरन्तरं सुखापेक्षा हृदये यदि वर्तते । कृत्वा भावं दृढं नित्यं भवानीवल्लभं भजेत् ॥ ९२ तदाकर्ण्य ब्राह्मणी पुनर्जगाद-'भोः स्वामिन् , जाना- सि किल सर्व । कुतः परमेश्वरप्रसादनं किमपि नानुतिष्ठसि ?' ब्राह्मण:-"भोः प्रिये ! युक्तमाह भवती। युक्तियुक्तमुपादेयं वचनं बालकादपि । विदुषा तु सदा ग्राह्य वृद्धादपि न दुर्वचः" । इत्युक्ता स विप्रः परमेश्वरप्रसादनाय रुद्रानुवाकैरयजत । अर्थकदा रात्री ब्राह्मणं स्वप्ने जटामकुटधारी वृषभवाहनः शैलतनयासमाश्लिष्टवामतनुश्चन्द्रकलावतंसः परमेश्वरश्चक्षुषोः पदमवतीर्थेवमवदत्-'पुत्र प्रदोषव्रतमाचर । तेन तव पुत्रो ९४ चतुर्थीपाश्यानम् भविष्यतीति । ब्राह्मणस्तु प्रबुध्य ससम्भ्रममुत्थाय स्वप्नवृत्तान्त वृद्धभ्यो निवेदयामास । तेऽब्रुवन्-"तात! यथार्थोऽयं स्वप्नः । उक्तश्च स्वप्नाध्याये- देवो द्विजो गुरुवापि पितरो लिङ्गिनस्तथा । यद्वदन्ति वचः खप्ने तत् तथैव विनिर्दिशेत् ।। अस्मिन् व्रतेऽनुष्ठिते सर्वथा तव पुत्रो भविष्यतीति । तेषां वचनं मनसि कृत्वा ब्राह्मणो मार्गशीर्षशुद्धत्रयोदश्यां मन्दवासरे कल्पोक्तप्रकारेण प्रदोषव्रतमन्वतिष्ठत् । अथानुष्ठिते च व्रते, परमेश्वरः प्रसन्नो भूत्वा पुत्रमस्मै प्रायच्छत् । तदन- न्तरं ब्राह्मणस्तस्य जातकर्म विधाय द्वादशे दिवसे देवदत्त इति नाम च कृत्वावशिष्टान्यन्नप्राशनचौलोपनयनादीनि कर्माणि यथाकालमकार्षीत् । वेदान साङ्गानध्यापयामास । ततः षोडशे वर्षे गोदानादिकं विधाय सुरूपां बुद्धिशीललक्षणसम्पन्नां कामपि कन्यकामन्धिष्य तस्य विवाहं कृत्वा जीवन परि- कल्प्य स्वयं तीर्थयात्रा कर्तुकामः पुत्ताय बुद्धिमेवमुपदिदेश- "पुत्र श्रूयतामुपदेशोऽयम् । इह परत्र च सुखकारी मया कथ्यते । 'देवदत्तः--आर्य! धन्योऽस्मि । यथेच्छमुपदिशतु भवान् । पिता--"वत्स! अतिकष्टां दशां प्राप्तोऽपि स्वधर्मा- चारं मा परित्यज । परैः सह विवादं मा कार्षीः । सर्वभूतेषु दयां कुरु । परमेश्वरे भक्ति विधेहि । परस्त्रियो मा विलोकय । बलवद्विरोधं मा कुरु । मर्मज्ञेष्वनुवृत्तिं विधेहि । प्रस्तावसदृशं बद । स्ववित्तानुसारेण व्ययं कुरु । सज्जनानाश्रय । दुर्जनान् ३८ विक्रमार्कचरित्रम् परिहर । स्त्रीभ्योः गुह्यं मा बद" एवमन्याश्च नीतीरुपदिश्य . स्वयं वाराणसी जगामः । देवदत्तश्च पितुरुपदेशं पालयन तत्रैक नगरे सुखमुवास । अथैकदा होमाय समिधः समाहर्तुं स महदरण्यं प्रवि- श्य यावत् समिधश्चिच्छेद, तावद्विक्रमो राजा मृगयार्थ विपिन- मवगाह्य महान्तमेकं सूकरमनुधावन् तत्रागत्य देवदत्तं दृष्ट्वा पुरमार्ग जानन्नपि पप्रच्छ । तेन पृष्टो देवदत्तः स्वयमग्रे गच्छन् राजानं नगरमनीनयत् । तदनन्तरं राजा देवदत्तं बहुधा सम्मान्य कुत्रापि राजकायें न्ययुक्त । एवं महान कालः समतिचक्राम । अथैकदा राजा मध्येसभमवादीत् 'कथमहं देवदत्त- कृतादुपकारादुत्तीणों भविष्यामि ? यदयं मां. महतोऽरण्यानग- रमनैषात् ' तदा कोऽपि जगाद--हन्तायं महापुरुषः ! यत् कृतमुपकारं चिरादपि न विस्मरति । तथा चोक्तम्- प्रथमवयसि पीतं तोयमल्पं स्मरन्त: शिरसि.निहितमारा नारिकेळा नराणाम् । सलिलममृतकल्पं दाराजीवितान्तं न हि कृतमुपकारं साधवो विस्मरन्ति ।। ९५ः ब्राह्मणस्तु राज्ञो वचनं श्रुत्वा स्वमनसि विचचार- अहो ! राजा किमेवं वदति? किं नामाहमुपाकरवम् ? किमे- तत् तथ्यं वा मिथ्या वा १ अस्य प्रत्ययं पश्येयम् ।' इति विचार्य राजपुत्रमपत्य स्वमन्दिरे सङ्गोप्य तस्य कण्ठभूषणमेक खभृत्यहस्ते दवा विपण्यां विक्रेतुं । प्रेषयत् । अस्मिन्नवसरे ३९४ चतुधापाख्यानम् राजमन्दिरे 'राजकुमारः केनापि चोरेणापहतो. मारित' इति महान् कोलाहलः समभूत् । राजाऽपि पुत्रमार्गणाय सर्वत्रा. धिकारिणः प्राहिणोत् । तदा ते सर्वतः परिभ्रमन्तोः विषणिः मध्ये देवादाभरणहस्तं देवदत्तभृत्यमपश्यत् । ततस्तदाभरणं राज- कुमारस्येति ज्ञात्वा तं बद्ध्वा राजसमीपं निन्युः । राजाऽपि तं दृष्ट्वोवाच- रे रे भृत्य !, . पापिष्ठ ! कथमेतदाभरणं तव हस्ते समागतं ?' भृत्यः-~-'अहं देवदत्तस्य भृत्यः । एतदाभरणं विपणिमध्ये विक्रीय धनमानयेति तेन प्रेषितोऽस्मिा तो राजा देवदत्तमाहूयैवमपृच्छत्-'एतदाभरणं कस्ते ददौ?' देवदत्तः। न कोऽपि । अहमेव धनलोलुपस्तव कुमार हत्वा तद्भूषणानि गृहीत्वा तेषामिदमेकमाभरणं विक्रेतु- मदाम् । इदानी यद्रोचते तुभ्यं तत् कुरु । मम कर्मवशादेवं बुद्धिरुत्पन्ना।' इति भणित्वाऽवनतवदनस्तस्थौ । तच्छ्रुत्वा राजा किमपि प्रतिकतुं न शशाक । तदा सभ्यः कश्चिदाह-'अहो! अयं सर्वधर्मशाखवेत्ता । कथमीदृशे पापे काणि बुद्धिमकरोत् !' अपरः कश्चिदाह "किं चित्रम् ? स्वकर्मणा प्रेरितस्यैवं बुद्धि- रजायत । उक्तं च- किं किं करोति न प्राज्ञः प्रेर्यमाणः स्वकर्मभिः । । प्रागेव हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥" ९६ तत्र परे केचन राजानमब्रुवन् -'देव ! यदयं बाल- घाती, पुनः स्वर्णस्तेयी च । ततः खादिरेण शूलेन हन्तव्यः । तदा मन्त्रिणः प्राहुः-'इमं तिलांशखण्डान् कृत्वा एतन्मांसेनं.

४०. विक्रमार्कचरित्रम् गृधेभ्यो बलिदातव्यः' । इति तेषां वचनं श्रुत्वा राजा जगाद-"भोः सभ्याः! 'अयं मामाश्रितः । पुरमार्गप्रदर्शना. दुपकारी च । अतोऽस्मिन् गुणदोषचिन्ता न कार्या । उक्तंच- चन्द्रः क्षयी प्रकृतिवक्रतनुः कलङ्की दोषाकरः स्फुरति मित्रविपत्तिकाले । मूर्धा तथाऽपि सततं ध्रियते हरेण नैवाश्रितेषु महतां गुणदोषचिन्ता ।। किञ्च उपकारिषु यस्साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥" इति भणित्वा राजा देवदत्तमवलोक्य "सखे ! किश्चि- दपि भयं चेतसि मा कार्षीः । मम पुत्रो बलीयसा पुराकृतेन कर्मणा हतः । किं नाम त्वया कृतम् । प्राक्कृतं को वा लङ्घ- यितुं क्षमेत । तथाहि- माता लक्ष्मीः पिता विष्णुः स्वयं च विषमायुधः । तथाऽपि शम्भुना दग्धः प्राकृतं केन लङ्घयते ? ॥ ९९ अन्यच्च, महत्यरण्ये पतितं मां नगरमनीनयः किल । अत्र प्रत्युपकारसहस्रैरपि न तावकमृणमपनेतुं प्रभवामि । इति समाश्वास्य तं वस्त्राभरणादिना सम्भाव्य विससर्ज । देव- दत्तस्तु परमानन्दभरितस्तं कुमारं स्वगृहादानीय राज्ञे ददौ । ततो विस्मितेन राज्ञा अभाणि-देवदत्त ! किमेवं कृतम् ?' देवदत्त:--"भी राजन् ! श्रृयताम् । त्वया सभामध्ये बहुवारं देवदत्तकृतादुपकारात् कथमुत्तीणों भविष्यामीति भणितम् । " पञ्चमोपाख्यानम् अतस्तव चित्तपरीक्षणार्थ मयैवं कृतम् । त्वयि प्रत्ययो दृष्टः । क्षन्तव्योऽयमपराधः । राजा-'यः कृतमुपकारं विस्म. रति स एव पुरुषाधमः ।' देवदत्तः- "देव! विनापि कारणं सकलजगतामुपकरोषि । ततस्त्वमेव सुजनो लोके । तथा चोक्तं- ते सुजनास्ते धन्यास्ते कृतिनस्ते हि सुकृतिनो लोके । ये कारणं विनाऽपि च परहितकरणाय हन्त जीवन्ति" || इति राजानं स्तुत्वा देवदत्तो राज्ञाऽनुज्ञातः स्वगृहमयासीत् । इति कथां कथयित्वा सालभञ्जिका भोजमब्रवीत् राजन् ! त्वय्येवमौदार्य न विद्यते । तदिदमास्थातुं नाईसि। तच्छ्रुत्वा राजा तूष्णी निर्जगाम " इति चतुर्थोपाख्यानम् ॥ अथ पञ्चमोपाख्यानम् ॥ मणीननर्यान् वणिजः कुतोऽपि क्रीत्वा दशैतेष्वपि पश्च नावे । भृत्याय दत्त्वाऽपततेऽवशिष्टान् ददौ स राजेति निगद्यतेऽद्य ॥ १०१ पुनरपि भोजे समागत्य सिंहासनसोपाने पादं विन्य- स्थति, तावदन्या सालभञ्जिका निवार्य गिरमेवं व्याजहार- विक्रमादन्यः कोऽपि नेदमारोदुमर्हति । तत्तुल्यश्चेद- इति । श्रूयतां ब्रवीमि तस्यौदार्यम् । विक्रमार्के मही पालय- विक्रमार्कचरित्रम् स्येकदा कश्चिद्रनवणिक् समेत्य रत्नमनर्धमेकं राजहस्ते समर्पित- वान् । राजा देदीप्यमानं तदादायः परीक्षकानाकार्याभणत-- कीदृशमेतद्रत्नम् ? कियन्मूल्यमर्हति ? निश्चित्य कथयत । परीक्षकास्तद्रनं साधु निरूप्य 'राजन्नमूल्यमेतद्रत्नम् । अस्य मूल्यं निर्गतुं न केऽप्यत्र प्रभवन्ति । तच्छ्रुत्वा राजा तस्मै भूरि द्रव्यं दत्वाऽब्रवीत्-'भोः सार्थवाह, किमीशमन्य- दस्ति ?। वणिक्-'देव! नात्र सन्ति, ग्रामे तु दश विद्यन्ते । यदि जिघृक्षा देवस्य, तर्हि प्रेषयिष्यामि । राजा तेषामेकैकस्य चतुस्सहस्रं सुवर्णानि मूल्यं निर्णीय तावद्धनं दत्त्वा सहैव तेन चतुरमेकं भृत्यं प्रेष्य, अष्टभिर्दिवसैरत्राऽगच्छेरित्यादिदेश । सोऽपि यदाज्ञापयति देव' इत्याज्ञां शिरसि कृत्वा झडिति निर्जगाम । रत्नानि गृहीत्वा पुनरागच्छति च तस्मिन् मध्येपथं महती वृष्टिरासीत् । तया चोभयकूलपरिपूर्णा नद्येका प्रवहति स्म । तदुत्तरं तीरं गन्तुमशक्नुवन्नाविकमाहूयावदत् 'नाविक! रत्नहरं मामिमां नदीमुत्तारय' नाविक:-"अये पथिक ! अद्यैषा नदी वेलामतिक्रम्य प्रवहति । कथमुत्तार्यताम् ? अन्यच्च- महानद्युत्तरणं बुद्धिमता वर्जनीयम् । उक्तं च- महानदीप्रतरणं महापुरुषनिग्रहम् । महाजनविरोधं च दूरतः परिवर्जयेत् ॥ १०२ - तथाच-- चरित्रे योषितां पूर्णसरित्तारे नृपादरे । सर्पमैत्र्ये वणिग्याक्ये विश्वास नैव कारयेत् ॥ १३३ पञ्चमोपाख्यानम् -- - भृत्य:--'अये कर्णधार ! यदुक्तं त्वया तत् सत्यमेव । मम तु महत् कार्यमस्ति' कर्णधार:-'कथय किं तत् । भृत्यः- यद्यहमद्यैव रत्नानि गृहीत्वा देवपादमूलं न गच्छेयं, तदाज्ञाभङ्गाद्राजा मम निग्रहं करिष्यति।' नाविक:-तर्हि तेषां मम पञ्च रत्नानि यदि दास्यसि, त्वां नदीमिमामुत्तरयि- ज्यामि ।' ततो भृत्यस्तस्य पञ्च रत्नानि दत्त्वा नदीमुत्तीर्य राजसमीपमागत्य सविनयं प्रणम्य पश्च रत्नानि ददौ । तदा राजाऽब्रवीत् 'किमु रे पश्चैव समानीतानि! कुत्रावशिष्टानि पञ्च !' भृत्यः-'देव! श्रूयतां विज्ञाप्यते । अहं यथादेश- मितो निर्गत्य वणिजा सह रत्ननगरं प्रविश्य तेन दत्तानि दश रत्नानि गृहीत्वा ततो निर्गत्य यावदागच्छम् , तावन्मार्गे कापि वृष्टिरतिमहती समभूत् । तदा काऽपि तटिनी कूलमुल्लञ्चय प्रतिभयं प्रवहति स्म । अहं तु यथादिष्टकालं स्वामिचरणौ पश्येयमिति नदीमुत्तरीतुं नाविकाय पञ्च रत्नानि दत्तवानस्मि । पश्च रत्नानीमानि समानीतानि । यद्यादिष्टः समयोऽतिलङ्घयेत, तदाज्ञाभङ्गो भवेत् । आज्ञाभङ्गो नरेन्द्राणां विप्राणां मानखण्डनम् । पृथक्छय्या च नारीणामशस्त्रो वध उच्यते" ॥ १०४ इत्युक्त्वा, देवः प्रमाणमिति विरराम । राजा तु तद्व- चनं श्रुत्वा परं सन्तुष्टः सम्मान्यावशिष्टान्यपि रत्नानि तस्मा- यंदात् । इति कथा कथयित्वा सालभञ्जिका भोजराज प्रति "भो देव ! किमेवमौदार्यं त्वयि विद्यते ? यदि विद्येत, त(प- विशेत्यवदत् । तदाकर्ण्य भोजस्तूष्णीमन्तःपुरमविशत् । इति पञ्चमोपाख्यानम् ॥

॥ अथ षष्ठोपाख्यानम् ॥ इतः परं विक्रमभूमिपालस्तपश्चरन्तं किल वर्णिनं सः । पुरेऽभिषिच्य प्रददौ धनानि भूरीति सैषा प्रतिमाऽद्य वक्ति। भोजराजः पुनः शुभे मुहूर्ते सिंहासनमारोढुमाजगाम । तावदपरा सालभञ्जिका निवार्य बभाग-'भो राजन् ! यः पुनरौदार्येण विक्रममनुकरोति स एव सिंहासनमिदमधिरोदु- मर्हति । भोज:-'तस्यौदार्यवृत्तान्तं कथय ।' सालभञ्जिका- - 'देव श्रूयताम्- विक्रमादित्यो राज्यं कुर्वन्नेकदा वसन्तोत्सवे सकला- न्तःपुरवधूसमेतः क्रीडार्थ शृङ्गारवनमगमत् । तत्र च- माकन्देषु नवोदयेषु मुदिता माध्वीरसास्वादिनो झङ्कारैकपरायणा विरहिणां मानच्छिदो बम्भराः। हृष्यत्पल्लवतल्लजाकुरलवाखादोन्मिषत्पञ्चमा भूपालं रतिविभ्रमाकुलरतं भूयो वितेनुः पिकाः ॥ मन्देन चन्दनमहीधरमारुतेन व्यानर्तिता नवलताः कुसुमावतंसाः । जहुर्दशौ च हृदयं च नरेश्वरस्य घ्राणं च भृङ्गनिनदैमधुरैः श्रवश्च ॥ १०७ एवं नानाविधतरुलतोपशोभिते तस्मिन् प्रमदवने समु- पितरतिकौतुको राजा कदाचिद्वापीषु, कदाचित् कुसुमास्तीर्णेषु लतागृहेषु कदाचित् तरुतलेषु, कदाचिञ्चन्द्रकान्तमणिमयेषु सौधेषु सहैवान्तः पुरवनिताभिर्विहरन् महान्तं कालमनैषीत् ।

षष्ठोपाख्यानम् तत्र कश्चिद्ब्रह्मचारी कुत्रापि तरुमूले तपश्चरन् राजानं तत्रागतं दृष्ट्वा स्वमनस्यचिन्तयत्-"अहो तपः कुर्वता मया जन्म वृथैव नीतम् । स्वप्नेऽपि किश्चित् सुखं नानुभूतम् । याव- जीवं कष्टेन कालं नीत्वा मृतस्तपःफलं भोक्तेति कोऽयं विचारः ? 'विषयसुखं सर्वमेव दुःखानुविद्धम् , तदव्ययसुखो- दर्कमेव तपः समाचरेदिति मूर्खाणां प्रलपितम्। उक्तश्च- त्याज्यं सुखं विषयसङ्गमजन्म पुंसा दुःखोपसृष्टमिति मूर्खविचारणेषा । वीहीनपास्य च सितोचमतण्डुलाढयान् का काङ्क्षते तुषकणान् मतिमान् धरित्र्याम् ॥ १०८ तन्महत् कष्टं कृत्वाऽपि संसारसारभूतं स्त्रीसुखमेव भोक्तव्यम् । उक्तं च- असारभूते संसारे सार: सारङ्गलोचना । तदर्थं धनमिच्छन्ति तत्त्यागे तु धनेन किम् ॥ १०९ तथा च-- असारभूते संसारे सारभूता नितम्बिनी । इति सञ्चिन्त्य वै शम्भुरर्धाङ्ग कामिनी दधौ ॥" ११० इत्यादि चिन्तयित्वा, विक्रमश्चायं देवादत्रं समायातः । तमेनं याचयित्वा संसारसुखमनुभविष्या' मीति निश्चित्य राज- समीपमागत्य 'महाराज! चिरं जीवे'त्याशिषं प्रायुक्त । राजा तमासने समुपवेश्यापृच्छत् 'भो ब्रह्मन् ! कुतः समागतोऽसि?' ब्रह्मचारी-"अहमत्रैव जगदम्बिकापरिचर्या कुर्वन् तिष्ठामि ।

विक्रमाचरित्रम् .. नित्यमेवं परिचरतो. मे. पञ्चाशद्वर्षाणि व्यतीतानि । अहं तु ब्रह्मचारी । अद्य निशायां- याममात्रावशिष्टायां देवता मां स्वप्ने समेत्य 'वत्स ! तवाहं प्रसन्नाऽस्मि । स्वमिदानी गृहस्थाश्रम स्वीकृत्य पुत्रमुत्पाद्य पश्चान्मोक्षे मनो निधेहि । अन्यथा तव गतिर्नास्ति । उक्तं च-- ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानः पतत्यधः ॥ १.११ दानशौण्डो विक्रमादित्यमहाराजस्तूर्णमेवात्राऽगमि- ध्यति । स तु तव मनोरथं पूरयिष्यतीत्येवमादिश्यान्तरधात् । तदहं प्रबुध्य भवन्तमागतं च दृष्ट्वा समागतोऽस्मि" इत्येवमन- तमवादीत् । तच्छ्रुत्वा राजा स्वमनस्यचिन्तयत् "किमेतत् सत्यं स्यात् ? एवमेतत् । देवता स्वप्ने नाकथयत् । असावे लोभादनृतं वदति । आस्तामेतत् । तथाऽप्ययमात इव दृश्यते। सर्वथाऽस्य मनोरथं पूरयिष्यामि । उक्तं च- दत्त्वाऽऽर्ताय नृपो दानं शून्यलिङ्गं प्रपूज्य च । परिपाल्याश्रितान् नित्यमश्वमेधफलं भजेत् ।। ११२ इत्यादि विचार्य तत्र नगरमेकं निर्माय तत्र तं संस्थाप्य शतं विलासिनीः पञ्चशतं तुरङ्गान् चत्वारिंशतं रथान् चतु- स्सहस्रं भटांश्च तस्मै ब्राह्मणाय ददौ । किं च राजा चण्डिका- नगरमिति तस्य नगरस्य नाम चकारः। ततः परिपूर्णमनोरथो ब्राह्मणः कृतोद्वाहमङ्गळंस्तं राजानमाशामिभिववर्ष । राजाऽपि निजनगरं जगाम ।

सप्तमोपाख्यानम् - .इति कथां सालभलिका भोजाय कथयामास । भो- जस्तु तादृशमौदार्यमात्मन्यपश्यन् तूष्णी जगाम । इति षष्ठोपाख्यानम् ॥ अथ सप्तमोपाख्यानम् ॥ - . मध्येसमुद्रं कचिदद्रिभृङ्गे दुर्गालये प्रेतकबन्धयुग्मं । चक्रे सजीवं पृथुसाहसेन राजेति सेयं प्रतिमा ब्रवीति ।। पुनरपि भोजः कदाचिच्छुभमुहूर्ते समुचितसन्नाहः सिंहासनमारोदुमुपदक्रमे । तदाऽन्या सालभञ्जिकाऽवदत्- 'भो राजन् ! तथाविधं साहसमौदार्य धैर्य च यस्यास्ति, स एवेदं सिंहासनमधिरोदुमर्हति ।' राजा-सालभञ्जिके ! कीदृशं तत् ! सालभलिका- भो राजन! शृणु । विक्रमादित्ये राज्यं कुर्वति, लोके दुर्जनः कण्टको नास्ति । सर्वे जनाः सदाचारसम्पन्नाः । ब्राह्मणा वेदशालाभ्यासादिस्वधर्मचर्यापराः, षट्कर्मनिरताध बभूवुः । सर्वस्यापि वर्णस्य पापाद्भयं, प्राणिषु दया, परमेश्वरे भक्तिः, देहे निर्ममता, नित्यानित्यवस्तुविचारः, पस्त्र विषये बुद्धिः, वाचि सदुक्तिः, परिपालने दाय, हृदये चौदार्यमभूत् । एवं सर्वोऽपि लोकः पवित्रभूतान्तःकरणो राज्ञः प्रसादात् सुखेनावर्तत । तस्यां चोजयिन्यां धनदो नाम कश्चिदूरुजः सम- भूत् । तस्य सम्पदा मर्यादा नास्ति । यानि वस्तूनि भुवने '४८ विक्रमार्कचरित्रम् सुदुर्लभानि तानि तत्र सुलभानि । एवं सकलसम्पसमाश्रि- तस्य तस्यैकदा चेतसि सर्ववस्तुष्वनित्यताबुद्धिरुदभूत्-हन्त! निस्सारोऽयं संसारः । सर्वच वस्तुजातमनित्यम् । गगननगरकल्पः सङ्गमो वल्लभाना जलदपटलतुल्यं यौवनं वा धनं वा । खजनसुतशरीरादीनि विद्युच्चलानि क्षणिकमिति समस्तं विद्धि संसारवृत्तम् ।। ११४ प्तथा च- - ११५ शरणमशरणं वा बन्धुमूलं नराणां क्षणपरिचितदारा द्वारमापद्गणानाम् । विपरिमृशत पुत्राः शात्रवं सर्वमेतत् त्यजत भजत धर्म निर्मलं पुण्यकामाः ॥ अतः संसारिणां धर्म एव शरणम् । उक्तश्च- 'धर्मो रक्षति रक्षितो ननु हतो हन्तीह स प्राणिनो हन्तव्यो न तु यः स एव शरणं संसारिणां सर्वदा । धर्मः प्रापयतीह तत्पदमपि ध्यायन्ति यद्योगिनो नो धर्मात् सुहृदस्ति नैव च सुखी नो पण्डितो धार्मिकात्।। 'धर्मः शर्म भुजङ्गपुङ्गवपुरीसारं विधातुं क्षमो धर्मः प्रापितमर्त्यलोकविपुलप्रीतिस्तदाशंसिनाम् । धर्मः स्वनगरीनिरन्तरसुधास्वादोदयस्याऽस्पदं धर्म: किं न करोति मुक्तिवनितासम्भोगभाग्यान्तरम् ।।

सप्तमोपाख्यानम् ४९ - अपि च धर्मसङ्गहार्थमुपार्जितं द्रव्यं सत्पात्रे दातव्यम्। तस्मिन् समर्पितं तद्हुगुणं भवेत् । तथा हि- पात्रविशेषे न्यस्तं सौगुण्यं भजति वित्तमाधातुः । जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदवृन्दस्य ॥११८ न्यग्रोधस्य यथा बीजं स्तोकं सुक्षेत्रभूमिगम् । बहुविस्तीर्णतां याति तहानं सुपात्रगम् ।। ११९ इत्यादि बहुधा विचार्य श्रोत्रियानाहूय, तत्सकाशादान- काण्डोक्तानि विविधानि दानानि श्रुत्वा सर्वमेव निजधनं सत्पात्रेभ्यो दत्त्वा पवित्रान्तःकरणः पुनरपि विचारयति स्म-'अहो मयैतदनुष्ठितं दानवतादिकं तदा सफलं भवेत् , यदा द्वारवती गत्वा श्रीकृष्णं द्रक्ष्यामि ।' इति विचार्य द्वार- वती प्रति निर्गत्य समुद्रतीरं गत्वा कश्चन नाविकमाहूय समु- चितमातरं निर्णीय भिक्षुकयोगिनो वैदेशिकान् नावमारोप्य स्वयं चारुह्य तैः सह धर्ममेदुरास्तास्ताः कथाः कथयन् स यावद्गच्छत् , तावत् समुद्रमध्ये कश्चित् समुदीर्णः पर्वतस्तेन दृष्टः । तत्र महानेको देवालयोऽदृश्यत । धनदस्तु देवालयं गत्वा भुवनेश्वरी गन्धपुष्पाक्षतादिभिरुपचारैरभ्यर्च्य नमस्कृत्य तस्या वामभागे छिन्नमस्तकं त्रीपुरुषयुगळं दृष्ट्वा पुरस्थितभित्ति- भागे लिखितान्यक्षराणि पपाठ-'यदा कोऽपि परोपकारी परमैश्वर्यसम्पन्नो द्वात्रिंशल्लक्षणोपेतः स्वकण्ठरुधिरेण भुवनेश्व- रीमर्चयिष्यति, तदेदं स्त्रीपुरुषयुगळं सजीवं भविष्यतीति । एवं पठित्वा सविस्मयो धनदः पुनरपि नावमारुह्य द्वारवती मत्वा श्रीकृष्णं दृष्टा प्रणम्यास्तावीत् । Vikra_3 - ५० विक्रमाचरित्रम् एकोऽपि कृष्णस्य कृता प्रणामो दशाश्वमेधावभृथेन तुल्यः। दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामो न पुनर्भवाय ॥ इत्येवं स्तुत्वा श्रीकृष्णं षोडशभिरुपचारैः सम्पूज्य यद्य- दपूर्व वस्तु समानीतं तत् सर्व समर्प्य तत्र दिनत्रयमुषित्वा ततो निर्गत्य कतिपयैर्दिनैर्निजनगरमाजगाम । आगत्य च सर्वानपि बान्धवान् कृष्णप्रसादेन सम्भाव्य । रिक्तपाणिर्न पश्येत्तु राजानं दैवतं गुरुम् । नैमित्तिकं विशेषेण सुहृदं फलकामुकः ।। १२१ तथा च- १२२ इष्टां भायां प्रिय मित्रं पुत्रं चापि कनीयसम् । रिक्तपाणिर्न पश्येत्तु तथा नैमित्तिकं प्रभुम् ॥ इति विचिन्त्य प्रभाते किमप्यपूर्व प्राभृतं गृहीत्वा विक्रमार्क द्रष्टुं जगाम । गत्वा च सविनयं, कृष्णप्रसादं दत्त्वा तदादिष्टे चासने समाससाद । ततो राजा यात्राक्षेमं पृष्ट्वा, किं किमपूर्व दृष्टमिति वणिजमपृच्छत् । सोऽपि समुद्रमध्योदीर्ण- भुवनेश्वर्यालयदृष्टकबन्धवृत्तान्तमवदत् । तच्छृत्वा समुपजात- कुतूहलो राजा तेन साधं प्रापतदपूर्व स्थानम् । तत्र च देवता- वामभागे पतितं कबन्धयुगळमपश्यत् । अपठीच तान्यक्ष- राणि । तदनन्तरं राजा भुवनेश्वरी स्तुत्वा खङ्ग कोशादाकृष्य यावत् कण्ठे चकार, तावत् कबन्धयुगळं सशिरः सजीवं च समभूत् । देवताऽपि राज्ञो हस्तस्थितं खड्गमाकृष्याब्रवीत् 'भो राजन् ! प्रसन्नाऽस्मि । वरं घृणीष्व । राजाऽब्रवीत् 'भों देवि! प्रसन्नाऽसि यदि, बर्षस्य मिथुनस्य राज्यं देहि' वतों अष्टमोपाख्यानम् देवी तथेति तस्य मिथुनस्य राज्यमदात् । राजाऽपि धनदेन सह निजपुरमाजगाम । इति कथां कथयित्वा सालभञ्जिका राजानमब्रवीत् ' एवंविधं साहसादिकं त्वयि न दृश्यते ।' तच्छ्रुत्वा राजा ततो विरराम । इति सप्तमोपाख्यानम् ॥ अथ अष्टमोपाख्यानम् ॥ - काश्मीरदेशे विपुलं तटाकं वणिकृतं पूरयितुं जलेन । बलिं प्रदातुं निजकण्ठरक्तैरियेष राजेति निगद्यतेऽद्य ॥ भूयोऽपि भोजराजे यथापूर्वमागच्छति, पाञ्चालिकाऽन्या निषिध्य जगाद-'भोजराज ! इदं पुनरनन्यसाधारणमासनम् । यदि भवान विक्रमविश्रुतेन साहसादिना भूष्यते, तदा त्वाम- नुजानामि ।' राजा किश्चिदवनतमुखः प्राह ‘सालभञ्जिके ! कथय तस्यौदार्यादिवृत्तान्तम् ' । साऽब्रवीत्- भो राजन् ! शृणु । विक्रमो राजा भूमण्डले प्रवृत्ताः बहुविधाः कथाश्रारमुखेन निरवशेषं जानन् वसुमती पर्यपाल- यत् । उक्तं च- गावो गन्धेन पश्यन्ति वेदेनैव द्विजातयः । चारैः पश्यन्ति राजानश्चक्षुयामितरे जनाः ॥ १२४ किंच , यो राजा भवति, तेन सर्वाऽपि लोकस्थिति- तिव्या । अपिच, अर्थिनः पूजनीयाः । प्रजाः सम्यक् परि- ।

- विक्रमार्कचरित्रम् पालनयिाः । दुष्टाश्च दण्डनीयाः । न्यायेन धनोपार्जनं कर्त- व्यम् । अर्थिषु पक्षपातो विधेयः । एतान्येव राज्ञः पश्चयज्ञ- कर्माणि । तथा हि- दुष्टस्य दण्डः सुजनस्य पूजा न्यायेन कोशस्य च सम्प्रवृद्धिा सुपक्षपातोऽर्थिषु राज्यरक्षा पञ्चैव यज्ञाः कथिता नृपाणाम् ।। किं च- किं देवकार्येण नराधिपस्य कृत्वा निरोधं विषयस्थितानाम् । तदेव कार्य जपयज्ञहोमा येन द्विजानां न पतन्ति राष्ट्रे ॥ एवं विक्रमे राज्यं कुर्वति सत्येकदा चारा भूमण्डलं परिभ्रम्य राज्ञः सकाशमागत्य राज्ञा पृष्टा व्याजिज्ञपन्- "देव! काश्मीरदेशे महाद्रव्यसम्पन्नः कश्चिद्वणिगस्ति । स च धर्मनिरतेन चेतसा पश्चक्रोशविस्तारं तटाकमेकमची- खनत् । तन्मध्ये किञ्चिद्विलमदृश्यत । तत्र च देवो नारायणः शयानः समदृश्यत । स तस्य चायतनं कारयामास । परमुदकं न लेभे । भूयोऽपि जलोद्गमनिमित्तं वरुणमुद्दिश्य ब्राह्मणैर्जप- मकारयत् । तदपि मुधा बभूव । तत एकदा खिन्नमानसे वणिजि तटाकतीरे समुपविश्य ' अहो ! केनाप्युपायेनोदकं न लभ्यते । वृथाश्रमो जातः इति चिन्तयति, अधिगगनममा- नुषी काऽपि सरस्वती समजायत-'भो वणिक्पुत्र ! किमर्थ निश्वसिषि; महाराजलक्षणयुक्तस्य पुरुषस्य कण्ठरक्तेन यदा 'तटाकं सिच्यते, तदा विमलोदकमाविर्भविष्यति, नान्यथेति । • स तदाकर्ण्य वटाकतीरे महदन्नसत्रमकल्पयत् । तत्र च भोक्तुं बदेशवासिनो विदेशवासिनच जनाः समाययुः । तदानीं तत्र अष्टमोपाख्यानम् -- स्थिताः पणिगादेशकारिणो भृत्याः विदेशवासिनां पुरत एव- मवदन्-'यः कोऽपि स्वकण्ठरुधिरेण तटाकं सिञ्चति तस्य शतभारसुवर्ण दीयत' इति । तद्वचः सर्वेऽप्यशृण्वन् । कोऽपि तत्साहसं तु नाङ्गीकृतवान् । एवंविधं महच्चित्रं दृष्टमस्माभिः।" इत्येवं धाराणां वचनं श्रुत्वा विक्रमार्कः स्वयं तत्र गत्वा बिलशयनं देवं प्रणम्यातिमनोज्ञमतिविशालं तटाकं दृष्ट्वा विस्मि- तो मनस्येवमकरोत्- यदि मम कण्ठरक्तेन तटाकं सिञ्चामि, तदेदं जलैः सम्पूर्ण भवेत् । अनेन च सकललोकानामुपकारो भवेत् । इदं मम शरीरं वर्षशतमपि स्थित्वा सर्वथा विनाशमेव यास्यति । अतः शरीरममत्वं न कार्यम् । परोपकाराय शरीर- मपि दातव्यम्-उक्तं च- शतमपि शरदां वै जीवितं धारयित्वा शयनमधिशयानः सर्वथा नाशमेति । सुलभविपदि देहे सुरिलोकैकनिन्छ न विदधति ममत्वं मुक्तिकान्तोत्सुकास्ते ।। १२७ किंच- सर्वदैव रुजाक्रान्तं सर्वदैव शुचो गृहम् । सर्वदा विपदं प्राप्त मानां देहपञ्जरम् ।। १२८ तैरेव फलमाक्रान्तमनन्तं पुण्यकर्मणाम् । येषां तु जन्म न स्वार्थे यैः शरीरं परार्थितम् ॥ १२९ एवं विचार्य पुरस्थितप्रासादगर्भगतजलशयनस्य विष्णो: पूजां विधाय नमस्कृत्य बभाण-'भो देव! जलशायिन् ! - . विक्रमार्कचरित्रम् द्वात्रिंशल्लक्षणसम्पन्नस्य पुरुषस्य कण्ठरक्तं वाल्छसि। तर्हि ममास्य कण्ठरक्तस्य तृप्तो भूत्वा तटाकमेनं जलैः परिपूरय । इति सम्प्रार्थ्य यावत् कण्ठे खगमकरोत् , तावदेव भगवान् खङ्गं धृत्वा जगाद-'वीर! तवाहं प्रसन्नोऽस्मि । अलमनेन साहसेन । विरम । वरं वृणीष्व ।' राजाऽवदत् : देव! यदि मम प्रसन्नो जातोऽसि, तहाँम तटाकं जलैः परिपूरय । देवः-'राजन् ! त्वमस्मात् स्थानानिर्गत्य : यावत् पश्चात् पश्यसि, तावन्जली परिपूर्णस्तटाको भविष्यति ।' राजा वच्छ्रुत्वा यावत् ससम्भ्रमं तटाकतीरमारुरोह, तावत् सरोऽपि जलैः परिपूर्णमदृश्यत । राजा विक्रमार्कोऽपि तेन वणिजा स्तूय- मानस्तेन समर्पितं शतभारसुवर्ण कस्मैचिद्विवाहार्थिने दरिद्राय ब्राह्मणाय दत्त्वा स्वनगरमगमत् । इति कथां कथयित्वा सालभञ्जिका राजानमब्रवीत् 'भो राजन् ! त्वय्येवमौदार्यपरोपकारसाहसप्रभृतयो गुणा विद्यन्ते चेत् , तस्मिन् सिंहासने समुपविश ।' तदाकर्ण्य राजा तूष्णीं बभूव । .. इत्यष्टमोपाख्यानम् ॥ अथ नवमोपाख्यानम् ॥ निवार्य काञ्चीनगरे लताङ्गी निशाचरोपद्रवतः कदाचित् । चरित्रमाख्यातवते तदीयं ददौ स तामित्यधुनाऽभिधत्ते ॥ भूयोऽपि भोजमहीपाले सकौतुकसम्भ्रममागच्छति, अन्या सालभञ्जिका सहासमिदमभाषत-'देव! सिंहासनमा- ...

नवमोपाख्यानम् ५५ रोढुं सम्भ्रमसि । दुर्लभं ते विक्रमार्कगतं साहसौदार्यादिकम् । तद्विरमास्मान्मुधासमुद्यमात् । राजा---'अयि ! कथय गुणान- न्यदुरवापान विक्रमार्कस्य ।' सालभञ्जिका-विक्रमार्के राज्यं कुर्वति, भट्टिमन्त्री। उपमन्त्री गोविन्दः, चन्द्रः सेनापतिः, तस्य पुत्रः कमलाकरो नाम । स पितुः प्रसादादनुदिनमाकण्ठं भुञ्जानो वनभूषणता- म्बूलादिना शरीरं संस्कृत्य विषयसुखमनुभवन् सुचिरमतिष्ठत् । एकदा दुर्वृत्तं सुतमाहूय चन्द्रोऽवदत् । रे कमलाकर! ब्राह्मणजन्म प्राप्यापि त्वं कथमेवं तिष्ठसि ? स्वेच्छावृत्त्याऽयमात्मा नानायोनिषु जन्म प्राप्नोति । कदाचित् सुकृतवशान्मनुष्ययोनिं प्रविशति । तत्रापि ब्राह्मण- कुले जन्म महता पुण्येन लभ्यते । तल्लब्ध्वाऽपि त्वं दुर्वृत्तो जातोऽसि । सर्वदा बहिरेव सश्वरसि । भोजनकाले परं भव- नमागच्छसि । अनुचितमेवं करोषि । अन्यच्च, तवायं विद्या- भ्यासकालः । अस्मिन् काले विद्यां यदि नाभ्यस्यसि, तदुत्त- रत्र तव महान् सन्तापो भविष्यति । उक्तश्च- ये बालभावे न पठन्ति विद्या कामातुरा यौवननष्टचित्ताः । ते वृद्धभावे परिभूयमाना वहन्ति गात्रं शिशिरे यथाऽब्जम् ॥ तथा च-- येषां न विद्या न तपो न दान न चापि शीलं न गुणा न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपाः पशवश्वरन्ति ।। १ १३२ विक्रमार्कचरित्रम अत्र हि पुरुषस्य न विद्यायाः परं भूषणं धनं वास्ति । तथा च-- विद्या नाम नरस्य रूपमधिकं प्रच्छमगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरु । विद्या वन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूजिता न हि धनं विद्याविहीनः पशुः ॥ तथा च- किं कुलेन विशालेन विद्याहीनस्य देहिनः । अकुलीनोऽपि विद्यावान् दैवतैरपि पूज्यते ॥ १३४ अन्यच्च, वत्स! यावदहं जीवामि! तावदेव त्वया विद्याऽभ्यसनीया । अन्यथा तु दुष्प्रापैव सा । अभ्यस्ता तु सा तव सकलमपि बन्धुकृत्यं करिष्यति । उक्तञ्च- - मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव चाभिरमयत्यपनीय खेदम् । कीर्ति च दिक्षु वितनोति तनोति लक्ष्मी किं किं न साधयति कल्पलतेव विद्या । एवं पितृवचनं श्रुत्वा पश्चात्तापपरिभूतः कमलाकरो 'यदाऽहं सर्वज्ञो भविष्यामि, तदा पितृमुखं द्रक्ष्यामीति प्रतिज्ञाय स्वयं काश्मीरदेशं गत्वा तत्र चन्द्रमौळिभट्टनामान. मुपाध्यायमुपसृत्य सविनयं प्रणम्य 'भोः स्वामिन् ! मूर्योऽहं भवत्सकाशाद्विद्याभ्यासं कर्तुमागतोऽस्मि । परं प्रसीद । यथाऽहममितज्ञो भवेयं तथा विधातुमर्हति स्वामी।' इति पुनः तत्र नवमोपाख्यानम् पुनः प्राणसीत् । उपाध्यायश्चैनमङ्गीचकार । कमलाकरश्च गुरु शुश्रूषमाणः पपाठ । उक्तं च- गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थं नोपलभ्यते । १३६ एवमप्रमादं शुश्रूषमाणस्य तस्य कालो महानतिचक्राम । अनन्तरमेकदा तूपाध्यायस्तस्य कृपातरङ्गितान्तरङ्गः सिद्धसार- स्वतमन्त्रमुपदिदेश । तेन चोपदेशेन सर्वज्ञो भूत्वा कमलाकरः कृतार्थमात्मानं मत्वा सप्रदक्षिणप्रणाममुपाध्यायस्यानुज्ञां गृहीत्वा पितृदर्शनलालसः स्वनगरं प्रत्यागच्छन् मार्गवशात् काञ्चीनग- रमगमत् । चानन्यसाधारणरूपसम्पन्ना नरमोहिनी नाम काचिद्वनिताऽऽस्त । यस्तां पश्येत् , स कामज्वरपीडितः पर- मुन्मादावस्थां प्राप्नुयात् । यः पुनरनया विहृत्य तस्मिन्नेव तल्पे निद्रामनुभवेत् , तस्य रुधिरं विन्ध्याचलनिवासी कश्चि- द्राक्षसो निरवशेष पीत्वा तं मारयेत् । कमलाकरोऽप्येतत् कौतुकं तत्र दृष्ट्वा निजनगरमाजगाम । आगते च कुमारे जनकः परं ननन्द । परेद्युरेष कमलाकरः पित्रा सह राजानं द्रष्टुं गत्वा, पाण्डुपङ्कजसलीना मधुपाळीमनोहराः । यो बिभर्ति विधेरात्मा स तनोतु शुभं तव' ॥ इति विक्रमाायाशिषमवदत् । आस्थाय च समुचित- मासनमात्मनः कलावैदग्ध्यमदर्शयत् । राजा तु तं वस्त्राभर- णादिना सम्भाव्य पप्रच्छ । 'भोः कमलाकर! कुत्र व्यचरः।' किमद्भुतमद्राक्षीः ?' कमलाकर:----'अहं तु बहून् देशान् । राजा- - विक्रमार्कचरित्रम् व्यचरम् । पुनरागच्छन् काञ्चीनगरेऽद्भुतमेकमपश्यम् । 'राजा- 'तत् किं कथय' कमलाकरस्तदद्भुतमाचचक्षे । राजा-कम- लाकर ! तागच्छ, तत्र गच्छावः ।' ततस्तेन सह राजा काचीनगरमागत्य नरमोहिन्या निरतिशयं रूपं दृष्ट्वा विस्मयं प्राप्य तस्या गृहं प्रविवेश । साऽपि तौ राजाहणोपचारेण मुदितहृदयौ कृत्वा सविनयमेवं व्यजिज्ञपत् । देव!धन्याऽस्मि । पवित्रमभूदिदं भवनं । यतो भवञ्चरणकमलधूळीभूषितमजायत । अद्य भोजनपरिग्रहेण जनमिमं कृतार्थयतु देवः । 'इदानीमेवाहं भुक्ता समागतोऽस्मि; श्रुतिसुखेन भाषितमधु- नैव तुष्टोऽस्मि । ततस्तया दत्तां वीटिका जग्राह । इत्थं रात्रौ प्रहरोऽतीयाय । नरमोहिनी तु सुष्वाप । द्वितीये प्रहरे राक्षसः समागत्य नरमोहिनी मञ्चे सुप्तामेकाकिनी दृष्ट्वा निर्ज- गाम । राजा तु राक्षसं केशे गृहीत्वा कृपाणेन कण्ठमच्छि- नत् । तत्कोलाहलं श्रुत्वा नरमोहिनी प्रबुध्य हतं राक्षस विलोक्य सन्तुष्टा राजानमस्तावीत्-'देव! तव प्रसादादहं निर्भया जाताऽस्मि । अद्यप्रभृति मम राक्षसोपद्रवो निवृत्तः । भवत्कृतादुपकारात् कथमहमुत्तीर्णा भवेयम् ? अतस्त्वामनु- सरामि । यदाज्ञापयति देवस्तदाचरितुमियमायत्ताऽस्ति ।' राजा-,यदि मयोक्तं करिष्यसि, ती कमलाकरं भजस्व ।' ततः सा नरमोहिनी कमलाकरमभजत् । विक्रमोऽप्युज्जयिनी- मगमत् । इमां कथां कथयित्वा सालभञ्जिका राजानं भोजमव- दत्----'भो राजन् ! त्वय्येवमौदार्य धैर्य परोपकारश्च विद्यन्ते चेत् , तस्मिन् सिंहासन उपविश ।' तर मतिष्ठत् । इति नवमोपाख्यानम् . तच्छ्रुत्वा राजा तूष्णी- .

॥ अथ दशमोपाख्यानम् ॥ कदापि केनापि मुनीश्वरेण मृतेरभावाय फलं प्रदत्तम् । कुष्ठाभिभूताय ददौ द्विजाय स विक्रमो भूप इतीह वक्ति । पुनरपि राजा भोजो यावत् सिंहासनमारुरुक्षत् , तावदन्या पाश्चालिका प्राह'राजन् ! विक्रमस्यौदार्यादिगुणाः यस्य विद्यन्ते, स इदं सिंहासनमारोढुमलम् ।' भोज:- सालभलिके! कथय तस्यौदार्यादिवृत्तान्तम् ।' साऽब्रवीत्.- भो! राजन् , श्रूयताम् । विक्रमार्के सिंहासनमिदमास्थाय विश्वम्भरां पालयति, योगी कश्चिदुज्जयिनी प्रत्यागच्छत् । स च वेदवेदाङ्गादिसकल- शास्त्रविचक्षणः । किं बहुना, तत्सदृशोऽन्यो नास्ति । सः साक्षात् सर्वज्ञ एव । एकदा विक्रमो राजा तस्य प्रसिद्धिं निशम्य तमाह्वातुं पुरोहितं त्रिविक्रमं प्रेषयामास । स च तदन्तिकं गत्वा नमस्कृत्याब्रवीत् 'भोः स्वामिन् राजा विक्रमो भवन्तमाह्वयति । तत्रागच्छतु भवान् ।' योगी "राजदर्शने- नास्माकं किमस्ति प्रयोजनम् ? आशासीमहि भिक्षान्नमाशावासो वसीमहि । शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरी ? ॥ १३९ अन्यच्च- नि:स्पृहो नाधिकारी स्यानाकामी मण्डनप्रियः । नाविदग्धः प्रियं ब्रूयात् स्फुटवक्ता न वश्चक: ॥ पुरोहितस्तदाकर्ण्य राजसमीपमागत्य न्यवेदयत् । ततो राजा स्वयमेव तत्संदर्शनार्थमागत्य प्रणम्य तदाज्ञयोपविष्टस्तेन - 1 विक्रमार्कचरित्रम् सह नानाविधाध्यात्मकथाः कुर्वन्नेकदा तमपृच्छत्-'भोः वामिन् ! तव कति वर्षाणि जातानि? योगी-'किमेवं पृच्छसि ? नीतिविदा पुरुषेण स्वस्यायुर्न कथनीयमिति किं नाोषी: ? अन्यच्च, यस्तु योगीश्वरः स कालं वञ्चयित्वा सुचिरं जीवति । आस्तामेतत् । यदि त्वं साधयितुं प्रभवसि, तर्हि मन्त्रमेकमुपदिशामि । राजा,-'किं तेन लभ्येत ?' योगी. तेन मन्त्रेण जरामरणवर्जितो भविष्यसि ।'राजा- 'तर्युपदिशतु स्वामी । कथमपि साधयामि ।' ततो योगी- श्वरो राज्ञे मन्त्रमुपदिश्य, 'अमुं मन्त्रं ब्रह्मचर्येण वर्षमेकं संज- प्य दूर्वाङ्कुरैोमं विधेहि । ततः पूर्णाहुतिसमये होमकुण्डात् कश्चित् पुरुषः फलहस्तो निर्गत्य फलं दास्यति । तदुपयुज्य जरामरणवर्जितो वज्रकायो भविष्यसि ।' इत्युक्त्वा तमाम- लय यथेच्छं जगाम । राजाप्युज्जयिनी समया हायनमेकं ब्रह्मचर्येण मन्त्रं सञ्जप्य दूर्वाद त्वा पूर्णाहुतिमकरोत् । तावद्धोमकुण्डात् कश्चित् पुरुषो निर्गत्य दिव्यमेकं फलं राज्ञे ददौ । राजाऽपि तत्फलं गृहीत्वा कृतकृत्यः पुरं प्रविश्य राज- मार्गे समागच्छन् कुष्ठव्याधिना विकीर्णसर्वावयवं कश्चन ब्राह्मणमद्राक्षीत् । स च राजानमुपसृत्य कृपणमवादीत्- "देव! राजा नाम ब्राह्मणानां लोकस्य च मातापितृवदवगन्त- व्यः । उक्तंच- राजा बन्धुरबन्धूनां राजा चक्षुरचक्षुषाम् । राजा पिता च माता च राजा चार्तिहरो गुरुः ॥ १४१ त्वं तु विश्वस्याति परिहरसि । अनेन व्याधिना मम - - एकादशोपाख्यानम् शरीरं नश्यति । शरीरनाशादनुष्ठानं नश्यति । सर्वस्यापि धर्म- कार्यस्य शरीरमेव साधनम् । उक्तं च-- अयि ! क्रियार्थ सुलभ समित्कुशं ? जलान्यपि स्नानविधिक्षमाणि ते ? । अपि स्वशक्त्या तु तपः प्रवर्तते ? शरीरमायं खलु धर्मसाधनम् ॥” १४२ राजा-'किं ते मनोगतम् ? किमहं करवाणि ? निश्शवं कथय । ब्राह्मणः-'ममैतच्छरीरं यथा निरामय- मनुष्ठानयोग्यं भवेत् , तथा विधातुमर्हति भवान् । 'राजा तस्य ब्राह्मणस्य वचनं श्रुत्वा तस्मै तत्फलं ददौ । ततो ब्राह्मणः परमतुष्यत् । राजाऽपि स्वभवनं जगाम । इति कथा कथयित्वा सालभञ्जिका भोजराजमब्रवीत्- भो राजन् ! त्वस्येवमौदार्य विद्यते चेत्, तहस्मिन् सिंहासने उपविश ।' त वा राजा तूष्णीं बभूव । इति दशमोपाख्यानम् ।' तच्छ्रुत्वा ।। अथैकादशोपाख्यानम् ॥ शैवालशैलनिलयं पिशिताशनेन्द्र विप्रान् पलाशनगरीनिलयान् घसन्तम् । श्रुत्वा ततः सपदि तान्विबुधानरक्ष- द्राजेति वक्ति मधुरं प्रतिमा नृपाय ॥ १४३ पुनरपि राजा भोजः सिंहासने शुभमुहूर्ते यावदुप- वेष्टुमाजगाम, तावदन्या पाश्चालिका पुनरेव निवारयामास ।

६२ विक्रमार्कचरित्रम् - राजाऽब्रवीत्-'अयि सालभञ्जिके ! यदि जानीषे कथय तस्य धैर्यादिवृत्तान्तम् ।' साऽब्रवीत्-'महीपाल ! श्रयताम् । विक्रमे राज्यं कुर्वति, भूमण्डले दुर्जनः पिशुनस्तस्करः पापकर्मा वा न कोऽप्यासीत् । किं च, यस्य राज्ञः सर्वदा राज्यचिन्ता मन्त्रविचारः स्वतो बलवदरिविजयोपायविचारश्च, स केवलं चिन्तापरत्वाद्दिवारानं निद्रामपि न याति । उक्तं च- अर्थातुराणां न गुरुन बन्धुः कामातुराणां न भयं न लज्जा । चिन्तातुराणां न सुखं न निद्रा क्षुधातुराणां न रुचिर्न काला॥ १४४. एष पुनर्विक्रमो राजा नैवमभूत् । सर्वान् प्रत्यर्थिभू- भुजः स्वपादपद्माक्रान्तान् विधाय निजाज्ञापरतन्त्र राज्यम- करोत् । उक्तं च- आज्ञामात्रफलं राज्यं ब्रह्मचर्यफलं तपः । ज्ञानमात्रफला विद्या दत्तभुक्तफलं धनम् ॥ १४५ एकदा राजा राज्यभारं मन्त्रि निधाय स्वयं योगि- वेषेण देशान्तरं प्रति निर्जगाम । निर्गत्य च यत्र स्वचित्तस्य सुखमभूत् तत्र कतिचिहिनान्यतिष्ठत् । यत्राऽश्चर्य तत्रापि कश्चित् कालमनयत् । एवं पर्यटतस्तस्यैकदा कुत्रापि महारण्ये सूर्योऽस्तं जगाम । राजा तु किश्चन वृक्षमूलमाश्रित्योपविष्टः । तस्योपरि वृद्धश्चिरजीवी नाम कश्चित् पक्षिराजस्तस्थौ । तस्य पुत्राः पौत्राश्च प्रातर्देशान्तरं गत्वा स्वोदरमापूर्य सायं प्रत्येकमे, - शृण्वन्नास्त। - एकादशोपाख्यानम् कैकं फलं गृहीत्वा तस्मै चिरजीविने प्रतिदिनं दिशन्तः सुख- मूषुः । साधु चेदमुच्यते-- वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥ अथैकदा रात्रौ चिरजीवी सुखोपविष्टः सन् पक्षिणोऽ- पृच्छत् । राजाऽपि वृक्षमूलमाश्रित्य तद्वचनं चिरजीवी-भोः पुत्राः! परितः पर्यटन्तो भवन्तः किमद्भु- तमद्राक्षुः ? तत्र पटुचन्चुर्नाम कश्चित् प्राह 'अहं किमप्याश्चर्य नाद्राक्षम् । अपि तु परेधुर्मम मुहहुःखं भविष्यति । चिरजीवी- 'भोः पुत्र, यः सुहृदे स्वदुःखं निवेदयति, स सुखी भवति । तथा हि- सुहृदि निरन्तरचित्ते गुणवति भृत्येऽनुवर्तिनि कळत्रे । खामिनि सौहृदचित्ते निवेद्य दुःखं सुखी भवत्येव ॥१४७ तदाकर्ण्य पटुचन्चुरात्मदुःखमकथयत् । तात, श्रूयताम् । अस्त्युत्तरदेशे शैवालको नाम पर्वतः । तत्समीपे पलाशनगरं नामाग्रहारोऽस्ति । तत्र च पर्वते कश्चि- द्राक्षसः प्रतिदिनं नगरमार्गागतान् जनान् बलात् पर्वतं नीत्वा भक्षयन् वसति स्म । एकदा तु जनाः 'भो राक्षस, यथेच्छं सम्मुखागतं पुरुषं मा भक्षय । वयं तुभ्यमेकैकं पुरुषं प्रतिदि- नमाहारार्थ दास्यामः ।' इत्यभ्ययाचन्त । सोऽप्येतदङ्गीचकार। अनन्तरं महाजनाः प्रतिदिन गृहक्रमणकैकं पुरुषं तस्मै प्राय- छन् । एवं महानतिचक्राम कालः । अद्य मम पूर्वजन्मनि- ६४ विक्रमार्कचंरित्रम् मित्तभूतस्य ब्राह्मणस्य बलिवासरः सम्प्राप्तः । तस्य लेक एव पुत्रः । यदि तं दद्यात् , तदा सन्ततिविच्छेदो भवेत् । यद्या- त्मानमेव प्रयच्छति, तदा भार्या शतवृद्धा विधवा भवति । वैधव्यं पुनर्महहुःखमबलानाम् । तथा च रामायणे- पतिहीना तु या नारी कामं भवतु पुत्रिणी । धनधान्यैः सुपूर्णाऽपि विधवेत्युच्यते बुधैः ।। १४८ तदेतदुःखं मयि सङ्कामति । तस्य वचनं श्रुत्वा तत्रान्ये पतङ्गा निजगदुः-सखे! सज्जनस्य दुःखेन तव दुःखं युक्तमेव । उक्तं च- सुखिनि सुखी सुहृदि सुहृदुःखिनि दुःखी च सज्जनो भवति । उदयति मुदितः कामं शशिनि समुद्रोऽस्तमयति च क्षीणः॥ क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिला: क्षीरोत्तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानी हुतः । गन्तुं पावकमुद्गतं तदभवदृष्ट्वा स्वमित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ इति पक्षिणां सल्लापं श्रुत्वा विक्रमार्कस्तं पर्वतमयात् । तत्र च वध्यशिलां निरीक्ष्य तत्समीपस्थिते सरोवरे सात्वा वध्यशिलायामुपविवेश । तत्रान्तरे राक्षसोऽपि समागत्य तत्र प्रहसितवदनं राजानमासीनं दृष्ट्वा विस्मित: पप्रच्छ -'भो महासत्त्व, को भवान् ? कुतः समागमत् ? यः पुनरत्र शिला- यामुपविशति, स मामदृष्ट्वापि भयान्नियेत ; त्वं पुनर्महाधैर्य- सम्पन्नः स्मेराननो दृश्यसे । अन्यच्च यस्य मरणकालः सनि- धत्ते स ग्लानि भजति । त्वं पुनरधिका कान्ति प्राप्य हससि।'

एकादशोपाख्यानम् राजा-'सखे! तव किमनेन विचारेण ? मया परार्थमेव शरीरं ध्रियते ! यदात्मनः समीहितं तत् कुरु । 'निशाचरस्तु राज्ञः सौजन्यमालोक्य मनस्येवमचिन्तयत्-"अहो! साधु- रयं । यदात्मनः सुखभोगेच्छां विहाय परदुःखमसहमानः स्वशरीरं जिहासति । त्यक्त्वात्मसुखभोगेच्छा सर्वसत्त्वसुखैषिणः । भवन्ति परदुःखेन साधवोऽत्यन्तदुःखिताः ॥" १५१ इत्येवं विचिन्त्य राजानमब्रवीत्-“भो महापुरुष! यतः परार्थ शरीरं प्रयच्छसि, ततस्तवैव जीवितं श्लाघ्यम्- जीवत्येव पशुश्वापि केवलं ह्युदरम्भरिः । तस्यैव जीवितं श्लाघ्यं यः परार्थे तु जीवति ॥ १५२ अथवा भवाशां परोपकारिणामेतत् चित्रं न भवति । उक्तश्च- किमत्र चित्रं यत् सन्तः परानुग्रहतत्पराः । न हि स्वदेहशैत्यार्थ जायन्ते चन्दनद्रुमाः ॥ १५३ सखे! नूनमनेनोपकारेण त्वं सर्वाः सम्पदः प्राप्नुहि । यथा चाहुः- परोपकारव्यापारपरो यः पुरुषो भुवि । स सम्पदः समाप्नोति परादपि च या पराः ॥ १५४ परोपकारनिरता ये स्वर्गसुखनि:स्पृहाः । जगद्धिताय जनिता साधवस्त्वीदृशा भुवि ॥" १५५ एवमभिधाय राजानं पुनरब्रवीत् । वयस्य! तवाह १५६ विक्रमाचरित्रम् सुष्टोऽस्मि । वरं वृणीष्व ।' राजा-"यदि प्रसन्नो जावोऽसि, तर्यद्य प्रभृति मनुष्यभक्षणं परित्यज । अनत्यान् विप्रान् मृत्यु- भयात् परित्रायस्व । आत्मानमिव तान् पश्य । तथाहुः प्राश्चः- मरिष्यामीति यदुःखं पुरुषस्योपजायते । शक्यस्तेनानुमानेन परोऽपि परिरक्षितुम् ।। अन्यञ्च- यथा च ते जीवितमात्मनः प्रियं तथा परेषामपि जीवितं प्रियम् । संरक्ष्यते जीवितमात्मनो यथा तथा परेषामपि रक्ष जीवितम् ।। १५७ इति राज्ञा निरूपितः सोऽपि राक्षसस्तदा प्रभृति प्राणिवधं परितत्याज । राजा विक्रमोऽपि कृतार्थों भूसुरान् प्रणम्य तैरभिनन्दितः स्वनगरमगमत् । इतीमां कथां सालभञ्जिकाकथितामाकये भोजनपा- वनतवदनो निजान्तःपुरमयासीत् । इत्येकादशोपाख्यानम् ॥ अथ द्वादशोपाख्यानम् ॥ कुत्रापि वेणुविपिने रजनीचरेण केनापि रात्रिषु परं व्यथितां रसन्तीम् ॥ तन्वीं ररक्ष विनिहत्य तमेष राजे- : सेना कथां कथयति प्रतिमाद्य रम्याम् ॥१५८ - द्वादशोपाख्यानम् भूयोऽप्येकदा भोजे भूमिपाले सिंहासनमारोहुमाया- त्यपरा सालभञ्जिका जगाद 'एतसिहासनं विक्रमार्कस्य । तस्यौदार्य प्रथममाकानन्तरमुपविश ।' भोजः-'कथय तस्यौदार्यम् ।" साऽब्रवीत् , श्रूयताम् । विक्रमा राज्यं कुर्वति, तस्य नगरे भद्रसेनो नाम वणिगासीत् । तस्य पुरन्दरो नाम पुत्रोऽभूत् । तस्य भद्रसे- नस्य सम्पदां परिच्छेदो नादृश्यत । स तु परं व्ययशीलो नासीत् । ततश्विराद्भद्रसेने मृते पुरन्दरः पितुः सर्वखं प्राप्य कालोचितं त्यागं कर्तुमुपाक्रमत । अथैवंविधमेनं धनदो नाम सुहृदभाषत-"सखे पुरन्दर! वणिक्पुत्रो भूत्वापि महाक्षत्रिय. कुमार इव व्ययं करोषि । एतद्वणिक्कुलसम्भवस्य नोचितम् । वणिक्पुत्रेण काकिण्यापि द्रव्यसङ्ग्रहः कर्तव्यः । परं वराटि- काया अपि व्ययो न कर्तव्यः । उपार्जितं द्रव्यं कस्याञ्चिदा- पदि पुरुषस्योपकुर्यात् । । आपदर्थं धनं रक्षेदारान् रक्षेद्धनैरपि । : आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥" १५९ इत्येतद्धनदवचनं श्रुत्वा पुरन्दरः प्राह-सखे धनद! समुपार्जितं सद्वित्तं कस्याञ्चिदापधुपयोगाय भवतीति यो वदति स विचारशून्यः । यदा त्वापदः समायास्यन्ति, तदोपार्जितं धनमपि नश्यति । अतो विवेकिना पुरुषेण गतेऽथै शोको न कार्यः । नाप्यागामिनोऽर्थस्य चिन्ता। परं वर्तमानमेव विचार- णीयम् । तथा चोकम्- विक्रमाचरित्रम् गते शोको न कर्तव्यो भविष्यत्रैव चिन्तयेत् । वर्तमानेषु कार्येषु वर्तन्ते हि विचक्षणाः ॥ तथा यद्भवितव्यं तदनायासेन भविष्यति । यदन्तव्य तदपि गमिष्यति । भवितव्यं भवत्येव नारिकेळफलाम्बुवत् । गन्तव्यं गच्छति सदा गजभुक्तकपित्थवत् ॥ तथा च- %3B न हि भवति यन भाव्यं भवति हि भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य हि भवितव्यता नास्ति । एतेन पुरन्दरवचनेन निरुत्तरीभूतो धनदस्तूष्णीमासीत् । ततः पुरन्दरः पितृद्रव्यं सर्व व्ययमनयत् । तदा निरर्थकं पुर- न्दरं बन्धुमित्रादयो न मानयन्ति स्म । तेन सह गोष्ठीमपि नाकुर्वत । तदा पुरन्दरः स्वमनस्यचिन्तयत्-"यावद्धस्ते धन- मासीत्, तावदेव सर्वे मित्रादयो मामसेवन्त ; इदानी मया सह गोष्ठी न कुर्वन्ति । नीतिरियं सत्या, यस्यास्तिस्य मित्राणीति । यस्यास्तस्य मित्राणि यस्यास्तिस्य बान्धवाः । यस्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः ॥ पुंसि क्षीणधने न बान्धवजना पूर्व यथा वर्तते स्थित्या केवलया स्थितः परिजनः स्वच्छन्दतां गच्छति । लोलत्वं सुहृदश्च यान्ति बहुशः किं वापरैर्भाषणे- भर्याया अपि भूतले स्फुटमहो ! मैवादरस्तादृशः ॥

द्वादशोपाख्यानम् तथा च- यस्यास्ति वित्तं स नरः कुलीन: स पण्डितः स श्रुतवान् विधिज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ।। १६५ अन्यच्च- - अपनयतोऽपि हि धनिनो बन्धुसहस्रं भवेत् पदस्थस्य । भ्रष्टधनस्य हि सततं बन्धुरपि मुखं न दर्शयत्येव ॥ १६६ तथा च- वनानि दहतो वः सखा भवति मारुतः । स एव दीपनाशाय कुशे कस्यास्ति सौहृदम् ॥ तथा च- - दारिद्याय नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः । सर्व पश्यामि देवेश न मां पश्यति कश्चन ।। १६८ अन्यञ्च- मृतो दरिद्रः पुरुषो मृतो यागस्त्वदक्षिणः । मृतमश्रोत्रिये दानं मृतं मैथुनमप्रजम् ॥ १६९ इत्येवं विचार्य पुरन्दरो देशान् परिभ्रमन् हिमाचल- समीपस्थं नगरमेकमगमत् । तस्य नातिदूरे वेणूनामतिगहनमेकं वनमभूत् । स्वयं तन्नगराभ्यन्तरं प्रविश्य रात्रौ कस्यचिद्गुहे बहि- वैदिकायां सुष्वाप । अर्धरात्रसमये वेणुवनमध्ये रुदत्याः कस्या- श्चिदबलाया हाहाकारोऽभूत् । किमेतदिति पुरन्दरे दत्तकर्णे विक्रमार्कचरित्रम् तिष्ठति, 'भो महाजनाः! मां परित्रायध्वम् । एष कोऽपि राक्ष- सो मां मारयति' इति वर्णावळिरश्रयत । ततः प्रभातसमये सविस्मयं पुरन्दरस्तन्नगरवासिनो जनानपृच्छत् । जना:- अत्र वेणुवनमध्ये प्रतिदिनमेवं रात्रौ रोदनध्वनिः श्रूयते । परंतु कोऽपि भयान्न गच्छति । न विचारयति च । इति जन- विदितवृत्तान्तः पुरन्दरस्ततो निष्क्रम्य स्वेच्छया कश्चित् कालं परिभ्रम्य वनगरमागत्य राजानमद्राक्षीत् । राजा च 'वत्स! पुरन्दर! देशान् पर्यटन बहूनि दिव- सान्यनयः । अतिमहता चानेन समयेन किं किमद्भुतमद्राक्षी? किं किमश्रौषीः ?' इत्यपृच्छत् । पुरन्दरस्तु घेणुवनवृत्तान्तम- कथयत् । तत्कौतुकं श्रुत्वा तेन सह तन्नगरमवगाह्य निशीथे मध्येवनमाक्रन्दनध्वनिमाकर्ण्य कृपाणपाणिः स्वयमेक एव तद: रण्यं विवेश । तत्र चातिकरुणं रुदतीमनाथां मानुषी पीडयन्तं राक्षसमेकमपश्यत् । अब्रवीच्च 'रे पापिष्ठ स्त्रियमनाथां किमर्थ मारयसि ?' राक्षस:-'तव किमनेन विचारेण ? यथागत- मपसर । अन्यथा त्वमपि वृथैव मरिष्यसि ।' अनन्तरमुभ- योर्विवादो महानभूत् । ततो राजा कृपाणमुत्कृष्य राक्षस जघान । हते च तस्मिन्' छिन्नमूल इव महीरुहे: निपतिते, प्रहृष्टा सा वनिता ससम्भ्रमं समागत्य राज्ञः पादयोर्निपत्य बभाण-'स्वामिन् ! तव प्रसादान्मम शापावसानमासीत् । महतो दुःखसागरादुद्धृतास्मि ।' राजा--'का त्वं? कुतस्त्वा- मेष पापीयानपीडयत्? कियता कालेनैवंविधामवस्थामनुभवसि?' वनिता- देवः विज्ञापयामि । अस्मिन्नेव नगरे महाधनसम्पमा द्वादशोपाख्यानम् कश्चिद्राह्मणोऽभूत् । तस्य तु भार्याहं व्यभिचारिणी । मम तस्मिन् प्रीतिलेशोऽपि नासीत् । तस्य तु मय्यतिमहाननुरागो- ऽवर्तत । रूपलावण्यसम्पन्नाहं तेन सम्भोगार्थमसकृद्याचिता- ऽपि नैच्छम् । तथा यावज्जीवं कामसन्तप्तो मे पतिदेहावसान- समये मामशपत्—'अयि दुराचारे! त्वमेव मम मृतेर्मूलमसि यदेवं मम मनोरथं वितथमकार्षीः । अनुभव तदद्य प्रभृति तत्फलम् । वेणुवनवासी कश्चिद्राक्षसो भयङ्कररूपो रात्री त्वामनिच्छन्तीमपि बलादाकृष्य सुरतार्थं प्रतिदिनं पीडयिष्य- ति।' इति शप्त्वा मया सपादपतनमभियाचितो 'यदा परोपकारी महाधैर्यसम्पन्नः कश्चिन्महापुरुषः समागत्य तं राक्षसं मारयिष्यति, तदा तव शापावसानं भविष्यती' त्युक्त्वा तनु- मत्याक्षीत् । तदाप्रभृति भवदागमनमभिकाङ्क्षन्ती देवादद्य भव- ताहं शापान्मोचितास्मि । अद्य मम प्राणाः शरीरानिर्गमिष्यन्ति । मम नवघटपरिपूर्ण सुवर्णमस्ति । तथा यास्यति । त्वं तद्गृहाणे" ति धनस्थानं राज्ञे निवेद्य सा प्राणानत्यजत् । राजापि तनव- घटपरिपूर्ण सुवर्ण पुरन्दराय वणिजे दत्त्वा तेन सहोजयिनीम- वाप । इति कथां कथयित्वा सालभञ्जिका राजानं भोजमन-- वीत्-'भो राजन्! एवंविधमौदार्य धैर्य वा किं त्वमात्मनि पश्यसि ?' राजा तच्छुत्वा तूष्णीं बभूव । इति द्वादशोपाख्यानम् - ॥ अथ त्रयोदशोपाख्यानम् ॥ नद्याः पूराद्विप्रमके सभार्य तीरं नीत्वा तद्वितीर्णं च पुण्यम् । दत्त्वा विप्रं मोचयामास कश्चिद्रक्षोरूपादेष इत्यद्य वक्ति । पुनरप्येकदा सिंहासनमारुरुक्षासमागतं भोजभूपतिम- परा प्रतिमा जगाद-राजन् ! प्रथमं विक्रमार्कदेवस्यौदार्यमा- कर्णय । यदि रोचते तदनन्तरमुपविश । श्रूयताम्- एकदा विक्रमार्को राज्यं मन्त्रिवर्गे निधाय स्वयं भूमि- कान्तरतिरोहितः पृथिवीपर्यटनाय निश्चक्राम । निर्गत्य च प्रति- नगरं त्रीणि त्रीणि दिवसानि गमयन्नेकदा नगरमेकमगमत् । तन्नगरसमीपनदीतटस्थिते देवालये सर्वे महाजनाः कस्मादपि पौराणिकात् पुराणं शृण्वन्तीति निशम्य राजा नद्यां स्नात्वा देवालयं गत्वा देवं नमस्कृत्य महाजनसमीपे स्वयमुपविश्य पुराणश्लोकानेतानशृणोत्--- अनित्यानि शरीराणि विभवो नैव शाश्वतः । नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसङ्गहः ॥ १७१ श्रूयतां धर्मसर्वस्वं यदुक्तं शास्त्रकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ।। यो दुःखितानि भूतानि दृष्ट्वा भवति दुःखितः । सुखितानि सुखी चापि स धर्मात्मेति श्रूयते ॥ १७३ नातो भूयस्तरो धर्मः कश्चिदस्यास्ति देहिनः । प्राणिनां मयभीतानामभयं यत् प्रयच्छति ॥. १७४ चरमेकस्य सत्त्वस्य प्रदानं जीवितस्य तु । न च विप्रसहस्रेभ्यो गोसहस्रं दिने दिने । १७५ १७२ त्रयोदशोपाख्यानम् ७५ अभयं सर्वभूतेभ्यो यो ददाति दयापरः । तस्य देहविमुक्तस्य क्षय एव न विद्यते ॥ १७६ होमधेनुधनादीनां दातार: सुलमा भुवि । दुर्लभः पुरुषो लोके सर्वजीवदयापरः ॥ महतामपि यज्ञानां कालेन क्षीयते फलम् । फलस्याभयदानस्य क्षय एव न विद्यते ॥ १७८ दत्तमिष्टं तपस्तप्त तीर्थयात्रा श्रुतं तथा । सर्वाण्यमयदानस्य कलां नार्हन्ति षोडशीम् ॥ १७९ चतुस्सागरपर्यन्तां यो दद्याद्वसुधामिमाम् । यश्चाभयं च भूतेभ्यस्तयोरभयदोऽधिकः ।। १८० अध्रुवेण शरीरेण प्रतिक्षणविनाशिना । ध्रुर्व यो नार्जयेद्धर्म स शोच्यो मूढचेतनः ।। १८१ यदि प्राण्युपकाराय देहोऽयं नोपयुज्यते । ततः किमपकारोऽस्य प्रत्यहं क्रियते नृभिः॥ १८२ एकतः क्रतका सर्वे समग्रवरदक्षिणा । एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ।। परोपकारव्यापारपरो यः पुरुषो भुवि । स सम्पदं समाप्नोति परादपि च या परा ।।- १८४ एवं पुराणश्लोककथनसमये कश्चिद्राह्मणः पल्या सह नदीमुत्तितीपुर्नदीमवगाह्य महापूरेण नीयमानो हाहाकारं कुर्व- नदीतटे पुराणश्रवणतत्परान् महाजनानुदिश्यैवमवादीत- भो भो महाजनालायध्वं, त्रायध्वं, वृद्धः सपत्नीको ब्राह्मणोऽहं जदीप्रवाहे मुहुर्मुहुर्निमज्जनेष जीवितं त्यक्ष्यामि । यः कोऽपि १८३ । Vikra-4 ७४ विक्रमार्कचरित्रम् सत्वाधिको धार्मिको मम सभार्यस्य प्राणान् ददातु ।' इति प्रार्थयमानस्य दीनध्वनिं श्रुत्वा महाजनाः सर्वेऽपि सदयम- पश्यन् । न कोऽपि तस्याभयं दातुं प्रबभूव । प्रवाहात् तमु- स्कूलयितुं कोऽपि न शशाक । ततो विक्रमार्को राजा 'मा भैषी'रिति धीरमुद्भुष्य नदीमध्यं प्रविश्य पल्ल्या सह तं ब्राह्मणं महापूरादाकृष्य तटमानिनाय । राजन् ! तस्य कियानानन्दः स्यादिति भवानेव विचारयतु । ब्राह्मणोऽपि स्वस्थः सन् राजानमवदत्-"भो महापुरुष ! ममैतच्छरीरू पुरा पितृभ्या. मजनिष्ट । ततोऽस्य गायत्र्या द्वितीयं जन्म । इदानीं भवत- स्तृतीयं जन्म प्राप्तम् । अत:, प्राणदानान्महोपकारिणस्तवाई किमुपकरिष्यामीति यदि विरमामि, मम जीवितं मुधैव स्यात् । अतो यथाशक्त्युपकरोमि, प्रतिगृहाण । गोदावर्युदकमध्ये द्वादश वर्षाणि नामत्रयमन्त्रमजपम् । तत्पुण्यं तुभ्यं दीयते । अन्यञ्च, यत् कृच्छ्रचान्द्रायणादिना सम्पादितं सुकृतमस्ति, तत् सर्व गृहाण ।" इत्युक्त्वा राज्ञे तत् समग्रं पुण्यं सम- Uऽशिषं दत्त्वा पन्या सह ब्राह्मणो निजस्थानं जगाम | अस्मिन्नेव समये भीषणः कोऽपि ब्रह्मराक्षसो राज- समीपमाजगाम । ब्राह्मणाः सम्भ्रान्तास्तमपश्यन् । राजाऽपि तं दृष्ट्वाऽपृच्छत्-'भो महापुरुष! कस्त्वम् ? कुतः समाग- च्छसि?' राक्षस:--"अहमत्रैव नगरे ब्राह्मणः कश्चिदुष्प्रति: महजीवी दुर्याचनापरन्छ । तथा विद्यागर्वात् सर्वान् वृद्धानस- कृददूषयम् । तत्पातकवशादस्मत्पुरस्थितेऽश्वत्थपादपे ब्रह्मरा- क्षसो भूत्वा नियुतं वर्षाणि तिष्ठामि । अद्य भवतोरुभयोर्गो- चतुर्दशोपाख्यानम् ष्ठीमाकर्ण्य समागतोऽस्मि । यतो निर्विशेषं सर्वेषामुपकरोषि, तन्ममाप्युपकर्तुमर्हसि ।' राजा-'किं वान्छसि?'राक्षस:- 'इदानीं ब्राह्मणेन तुभ्यं यत् सुकृतं दत्तं, तन्मयं दीयतां, तेन पुण्येनाहमस्माहोषादुत्तीर्णो भविष्यामि ।' राजा तदानीमेव निश्शत तस्मै तत्पुण्यं ददौ । सोऽपि तेन पुण्येन तस्मात्पाप- जन्मनो निवृत्तो दिव्यरूपधरः सन् राजानं प्रशस्य दिवं जगाम । राजाऽपि तत्रत्यान् महापुरुषानापृच्छय स्वनगरमगमत् । इति कथां सालभञ्जिका कथयामास । भोजोऽपि तदाकण्ये विफलमनोरथो जगाम । इति त्रयोदशोपाख्यानम् ॥ अथ चतुर्दशोपाख्यानम् ॥ कस्मादपि मुनिवर्याच्छिवलिङ्ग किश्चिदेष सङ्गा । आगच्छन् विप्राय प्रादादिति सालभञ्जिका वदति ॥ भूयोऽपि कदाचन भोजे राजनि सिंहासनमारोढुमभि- लषति, अपरा पाश्चालिका व्याजहार । वामन इव वृक्षान- स्थितं फलमिदमधिगन्तुमाभिलषसि । आकर्णय विक्रमार्कस्यौ- दार्यम् । एकदा विक्रमो राजा पृथ्वीमध्ये कस्मिन्स्थाने किमाच- यमस्ति, का वार्ता, किं तीर्थ, को वा देवतावासोऽस्तीति विलोकयितुं तपस्विवेषेण परिभ्रमन् नगरमेकमगमत् । तमग- रसमीपे तपोवनमेकमदृश्यत । तस्मिन्नेका नदी प्रवहति स्म ।

विक्रमार्कचरित्रम् १ तदा तत्र जगदम्बिकामहाप्रासादोऽभूत् । राजाऽपि तत्र नदीजले सात्वा देवतां सप्रदक्षिणं प्रणम्य ततो निर्जगाम । तत्रान्तरेऽ- वधूतवासा नाम कधिद्योगी तत्राऽगत्य कृतप्रणामं राजानम- न्वयुक्त । 'को भवान् राजा-'अध्वनीनोऽह कोऽपि तीर्थयात्राशीलः ।' योगी-'न त्वं विक्रमार्कः ? एकदा त्वामुज्जयिन्यामपश्यम् । अतोऽहं त्वां जानामि । किमर्थमागतोऽसि ?' राजाऽब्रवीत्-'स्वामिन् ! वसुमती परिभ्रमेयमिति महत्युत्कण्ठा समभूत् । तेन च सर्वमाश्चर्य विलोक्यते, भवाहशानां महतां सन्दर्शनमपि भविष्यती' ति । अवधूतवासा अब्रवीत् 'राजन् ! तत् तादृशं राज्यं परित्यज्य कथं देशान्तर परिभ्रमसि ? कुतोऽपि मध्ये विकृतिश्चेत् किं करिष्यसि ?' राजा-'अहं सर्वमपि राज्यभारं मन्त्रिहस्ते निधाय समागच्छम् ।' अवधूतवासाः "अये! त्वया नीतिशास्त्रविरोधः क्रियते । उक्तश्च- नियोगिहस्तापितराज्यमारा- स्तिष्ठन्ति ये खैरविहारधीराः। बिंडालवृन्दार्पितदुग्धभाण्डा खपन्ति ते मूढधियः क्षितीन्द्राः ॥ १८६ अन्यच्च, राज्यं स्ववशंवदमभूदिति नोपेक्षणीयम् । वायत्तमपि पुनः सुदृढं कर्तव्यम्- कृषिविद्या वणिग्भार्या धन साम्राज्यसम्पदः । - कर्तव्यं सुदृढे सर्व कृष्णसर्पमुखं यथा ॥" १८. , - 3 - - तथा च- चतुर्दशोपाख्यानम् तच्छ्रुत्वा राजा बभाण -"भगवन् ! सर्वमेतत्पौरुषः मनर्थकम् । किं तु, दैवमेव सर्वस्य मूलम् । सुदृढेऽपि राज्ये, सत्यामपि साधनसमृद्धौ, सम्पन्नेऽपि पौरुषे, दैववैमुख्यानरः परिभूयते । तथा हि- नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिका: स्वों निग्रहदुर्गमः खलु हरेरैरावणो वारणः । इत्याश्चर्यबलान्वितोऽपि बलमिद्भग्नः परैः सङ्गरे तद्युक्तं ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् ॥१८८ नैवाऽकृतिः फलति नैव कुलं न शीलं विद्याऽपि नैव न च यत्नताऽपि सेवा । भाग्यानि पूर्वतपसा किल सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ १८९ येनास्वण्डलदन्तिदन्तमुसलान्याकुञ्चितान्याहवे धारा येन पिनाकपाणिपरशोश्चाकुण्ठिता चाहता । जाया दाशरथे: प्रभाववसतेः संक्लेशिता जानकी दैत्यः सोपि हतो विधिर्हि बलवान् लोकैरलङ्घया खलु ॥ वृद्धौ क्षये च दैवमेव निदानमिति किं स्वामी न जानाति ? भनाशस्य करण्डपिण्डिततनोानोन्द्रियस्य क्षुधा कृत्वाऽखुर्विवर स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तपिशितेन सत्वरमसौ तेनैव यातः पथा वस्थास्तिष्ठत दैवमेव हि परं वृद्धौ क्ष्ये कारणम् ।। अपि च-- विक्रमार्कचरित्रम् अन्यच्च अरक्षित तिष्ठति दैवरक्षित सुरक्षितं दैवहतं विनश्यति । जीवेत् तथाऽन्धोपि वने विसर्जितः कृतप्रयलोऽपि गृहे न जीवति ।। १९२ अपि च, भगवन् ! श्रयताम् । राजशेखरो नाम राजा कश्चिदासीत् । स वैकदा मनस्येवमकरोत्-'यो मम तरुतल. निवासिनो राज्यमदिशत् , स एव राज्यं निर्वहतु । 'इति विसृष्टभारे राजनि, देवः स्वयं वैरिणो निर्जित्य राज्यमकण्ट- कमकरोत्। इतीमां कथां कथयति वसुन्धराधिनाथे, तपस्वी प्रहृ- ष्टस्तस्मै काश्मीरलिङ्गमेकं दत्वा बभाण-भो राजन् ! एतत् काश्मीरलिङ्गं चिन्तामणिरिव चिन्तितानि वस्तूनि ददाति, तस्मादेतत् साधु पूजय । ' राजा बाढमिति तं प्रणम्य तदादा- यागच्छन् नगरमार्गे कञ्चन ब्राह्मणमपश्यत् । स च राजान- मुद्दिश्य- पातु वो गिरिजा माता यस्य द्वादशलोचनः । तथैव गिरिजामाता द्वादशार्धाधलोचनः ॥ १९३ इत्याशिषमुक्ताब्रवीत्-'राजन् ! मम सुचिराभ्यर्चितं शिवलिङ्गं केनाप्यपहृतम् । त्रिचतुरैर्दिवसैरहमुपवसामि । अनाराध्य लिङ्गं न भक्षयेयम् । यदीदं लिङ्गं दास्यसि, तर्हि कृतार्थो भविष्यामि । 'राजा तु तच्छ्रुत्वा तस्मै तलिङ्गं दत्त्वा निजान्तःपुरं जगाम । इतीमां कथां भोजः श्रुत्वा नाहमहामीति विरराम । इति चतुर्दशोपाख्यानम्

॥ अथ पञ्चदशोपाख्यानम् ॥
नगयों कस्याश्चिद्विबुधवनिताथास्तु भवने
कटाहे सम्मनो ज्वलनपरितप्यत्तिलरसे ।
उदन्तं यस्तस्याः समवददमुष्मै प्रियतमां
ददावेनामेष क्षितिपतिरिति स्वादु वदति ॥
अथैकदा यथापूर्व सिंहासनमारोदुमागच्छति धारधि-
नाथे, सालभञ्जिकान्या विहस्य राजानमभाणीत्-कथमिव
भूयोपि समागमः ? अद्यापि समाकर्णय तस्य विक्रमस्य महौ-
१९४
दार्यम् ।
विक्रमे राज्यं कुर्वति तस्य पुरोहितो वसुमित्रो नाम ।
सोऽत्यन्तरूपवान् , सकलकलाभिज्ञः । राज्ञोऽत्यन्तं प्रियतमः,
परोपकारी, सर्वलोकप्रियो, महाधनसम्पन्नश्च । तस्य चैवंवि.
धस्य चेतस्येवं बुद्धिरुदभूत्-
उपार्जितानां पापानां गङ्गास्नानाहते क्षयो नास्ति ।
१९५
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः ।
गतिं न लभते जन्तुर्गङ्गां संसेव्य तु व्रजेत् ।।
स्नातानां शुचिभिस्तोयैर्गाङ्गेयनियतात्मना ।
पुष्टिर्भवति या पुंसां न सा ऋतुशतैरपि ।
अपहृत्य तमस्तोत्रं यथा यात्युदयं रविः ।
तथापहृत्य पापानि भाति गङ्गाजलाप्लतः ॥
अग्निं प्राप्य यथा सद्यस्तूलराशिविनश्यति ।
तथा गङ्गाजलेनैव सर्वपापं विनश्यति ॥
१९७
१९८

1 .. २०० २०२ विक्रमार्कचरित्रम् चान्द्रायणसहस्रेण या कुर्यात् कायशोषणं । पिबेद्यश्चापि गङ्गाम्मः समौ सत्यमुमावपि ॥ १९९ यस्तु सूर्याशुसन्तप्तो गाङ्गेयं सलिलं पिबेत् । विधियुक्तं च पीत्वापि सर्वपापात् प्रमुच्यते ।। भूतानामपि सर्वेषां दुःखोपहतचेतसां । गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः॥ २०१ महद्भिरशुभैग्रस्तान् भूतांश्च प्रसभेन सा । उद्धृत्य नरकाद्वोराद्गङ्गा रक्षति सेवनात् ॥ सप्त पूर्वान् सप्त परान् पितॄन् तेभ्यश्च ये परे । परं तारयते गङ्गा दृष्टा पीताऽवगाहिता॥ २०३ दर्शनात् स्पर्शनाद्ध्यानात् तथा गङ्गेति कीर्तनात् । पुनाति पुरुषं पुण्या शतशोऽथ सहस्रशः ॥ ते जात्यन्धेषु जात्यन्धा मृगेषु च मृगाः स्मृताः । समर्था ये न पश्यन्ति गङ्गां पापप्रणाशिनीम् ॥ २०५ एवं विचार्य वाराणसी जगाम । तत्र गङ्गायां यथा- विधि स्नात्वा विश्वेश्वरं माधवं च प्रणम्याभ्यर्च्य पञ्चकोश- यात्रां विधाय पुनः प्रयागे माघस्नानं गयाश्राद्धं च विधाय खनगराभिमुखमागच्छन् मार्गे नगरमेकमगमत् । तत्र नगरे शापदग्धा सुराङ्गना काचिद्राज्यमकरोत् । तस्याः पतिर्नासीत् । तत्र लक्ष्मीनारायणस्य महान् प्रासादोऽ- दृश्यत । तस्य च गोपुराने चिरात् तप्ते महति लोहकटाहे तैलं सन्तप्यते स्म । तत्र नियुक्ताः पुरुषाः वैदेशिकान् जनाने ब्रुवन्तोऽवर्तन्त-'यः सत्वाधिकः कोऽपि पुरुषोऽस्मिन् २०४ पञ्चदशोपाख्यानम् कटाहे निपतेत् , तस्येयं मन्मथसञ्जीविनी नामाप्सराः कण्ठे मालिकामर्पयिष्यति ।' इति वसुमित्रोऽपि तं वृत्तान्तं श्रुत्वा तत् सर्व दृष्ट्वा स्वनगरमाजगाम । आगत्य च सर्वबन्धुभिः सह मिलित्वा प्रभाते राज- मन्दिरं गत्वा राजानं दृष्ट्वा राज्ञे गगोदकं विश्वेश्वरप्रसादं च दत्त्वोपविवेश । राजा-'आर्य वसुमित्र! दिष्ट्या भवन्तं चिरायापश्यम् । किं सुखेन निर्वतिता पुण्यतीर्थयात्रा ?' वसु- मित्र:-भो राजन् ! तव प्रसादात् तीर्थयात्रां विधाय क्षेमेण समागतोऽस्मि ।' राजा-त्वं देशान्तरे किं किमपूर्वमपश्य:?' वसुमित्रः सुराङ्गनातप्ततैलवृत्तान्तमकथयत् । तच्छ्रुत्वा राजाऽपि तेन सह तत्स्थानं गत्वा तत्र नद्यां कृताभिषेको लक्ष्मीनारायणं नमस्कृत्य तप्ततैलमध्ये पपात । तत्रत्या जना महान्तं कोलाहलमकुर्वन् । राज्ञस्तु शरीरं मांस- पिण्डाकारमभूत् । तच्छू तच्छुत्वा मन्मथसञ्जीविनी पीयूषमानीय मांसपिण्डमभिषिषेच । ततो राजा दिव्यरूपधरः कुमारः संवृत्तः । ततो मन्मथसञ्जीविनी कुसुममालां महीपतेः कण्ठे निवेशयितुमाजगाम । तदा राजा-'भद्रे! मदीयासि मामकं छन्दमनुवर्तस्व ।' मन्मथसञ्जीविनी-'आंदिशत्वार्यपुत्रः' -'तह्ममुं मम पुरोहितं वृणीष्व ।' मन्मथसञ्जीविनी महाप्रसाद इति पुरोहितकण्ठे कुसुममालामक्षिपत् । राजाऽपि तयोर्विवाहं कृत्वा तं वसुमित्रं तत्रैव राज्येऽभिषिच्य निजन- गरमगमत् ।

८२ विक्रमाचरित्रम् इमां कथां कथयित्वा सालभञ्जिका राजानमब्रवीत् । 'किमाकर्णितमौदार्य देवस्य विक्रमार्कस्य ? तदुपरि यथाई विधेहि । ।' तच्छ्रुत्वा राजा तूष्णीम्भूतस्तस्थौ। इति पञ्चदशोपाख्यानम् ॥ अथ षोडशोपाख्यानम् ॥ विक्रमधराधिनाथो विप्राय प्रवयसे दरिद्राय । कन्यासमानभारं काञ्चनमदिशन्मुदेति वक्त्येषा ॥ भूयोऽपि कदाचन ससम्भ्रममागच्छन्तं भोजमपरा पाश्चालिका जगाद-राजन्नुपसंहर सम्भ्रमं, तिष्ठ ; सर्वमप्या- कर्णय विक्रमार्कस्य वदान्यभावम् । राजा विक्रमस्त्वेकदा दिग्विजयार्थ कृतसन्नाहो निर्गत्य पूर्वदक्षिणपश्चिमोत्तरा दिशो विदिशश्च परिभ्रम्य सर्वानपि नृपतीन् निजपादपद्मसमाक्रान्तान् विधाय तैः समर्पिता रथ- गजावादीरुपदाः स्वीकृत्य निजनगरीमुज्जयिनी प्रति समागत्य यावत् प्राविविक्षत् , तावत् प्रधानो दैवज्ञः प्राह-'देव! चत्वारो वासरा नाईन्ति पुरप्रवेशम् ।' तच्छ्रुत्वा राजा नगरा- द्वहिरुद्याने निवासं परिकल्पयेति सचिवमादिदेश । सुमन्त्रो नाम सचिवः ससम्भ्रमं समुचितं निवासं कारयामास । तत्रान्तरे ऋतुर्वसन्तोऽपि शनैरुद्यानं सिषेवे । तदा मन्त्री राजानमब्रवीत्-देव! दिष्ट्या समयः कुसुमाकरोऽपि समा- गमत् । पश्य- षोडशोपाख्यानम् वकुळा मुकुळान् वहन्ति सद्यः सकलाशा भ्रमरीनिनादगीताः । कमलायतलोचना वनान्ते विचरन्ति प्रमदा: प्रसूनलोला । २०७ अपि च- माकन्दमय्यमकरन्दमहानुरागा- दिन्दिन्दिरा निबिडयन्ति समन्द्रनादाः । मन्दानिलाश्च वनितावदसारविन्दा- मोदाधिवासमधुरा भुवि वान्त्यजस्रम् ॥ २०८ लतां पुष्पवतीं स्पृष्ट्वा स्नातो विमलवारिषु । पुनः स्पर्शनशङ्कीव मन्दं चलति नारुतः ॥ २०९ एवं ब्रुवाणं मन्त्रिणं राजा वसन्तपूजासंविधानसम्पा- दनेन्ययुक्त ! ततः स मन्त्री सुमनोहरं मण्टपमेकं कारयित्वा वदेशातपुराणज्ञान् ब्राह्मणान् तौर्यत्रिकनिपुणान् नर्तकीर्विला- सिनीश्च समाह्वयत् । तत्र सभामध्ये नवरत्नखचिते सिंहासने लक्ष्मीनारायणप्रतिमाद्वयं प्रतिष्ठाप्य, तस्य पूजार्थं कुङ्कुमकस्तू- रीकर्पूरचन्दनागुरुप्रभृतीनि सुगन्धद्रव्याणि मल्लिकाशतपत्र- मरुवकचम्पककेतकीकरवीरप्रभृतीनि कुसुमानि च समानीय सर्वमपि सज्जीकृतमिति राज्ञे निवेदयामास । राजापि स्वय-, मेव देवं सम्पूज्य ब्राह्मणान् यथाईमभ्यर्च्य सर्वानपि लोकान् यथोचित सम्भाव्य वादित्रादिविनोदेन कालं नयन् सुचिरं सुखमुवास। तत्रान्तरे कश्चिदृद्धो ब्राह्मणो हस्ते कानन कन्यकां गृहीत्वा राजसमीपमागत्य- - ८४ विक्रमार्कचरित्रम् कल्याणदायि भवतोऽस्तु पिनाकपाणे: पाणियहे भुजगकङ्कणभीषितायाः । सभ्रान्तदृष्टि सहसैव ‘नमः शिवाये' त्युक्त्वार्धलजितनतं मुखमम्बिकायाः ॥ २१० इत्याशिषं प्रयुज्य राज्ञा निर्दिष्टां ब्रुसीमास्थाय राजा- नमेवमवादीत् 'राजन् ' विज्ञापनमस्ति ।' राजा-निश्शत निवेदयतु भवान् ब्राह्मण:-"अहं नदीवर्धमाननामनगर- निवासी । ममाष्टौ पुत्राः समजायन्त । कन्यका पुनः कापि नाजनि । ततः सभार्योऽहं जगदम्बिकायाः पुरत एवं सङ्कल्प- मकार्षम् । 'अम्ब यदि मम कन्यका भविष्यति, तां त्वन्नामा- कितां तत्तुलितेन सुवर्णेन सह कस्मैचिञ्चतुर्वेदविदे वराय दास्यामी'ति । ततः कतिपयैरेव दिवसैर्जगदम्बिकाप्रसादादेषा कन्या जाता । इदानीमस्याः पाणिग्रहणसमयः समतिक्रामति । अतोऽनया तुलितं सुवर्ण दातुं विक्रमादन्यः कोऽपि नास्तीति श्रुत्वा तवान्तिकमहमागमम् । राजा-'साधु समनुष्ठितं त्वया, यावतो धनस्य तृप्यसि, तावद्गृहाणे'त्युक्ता भाण्डारिक- माहूयादिदेश 'एतस्मै ब्राह्मणायैतत्कन्यकामितं सुवर्ण देहि । भूयोऽप्यष्टकोटिसुवर्ण दीयतामिति । कोशाध्यक्षोऽपि महा- प्रसाद इति विप्राय तावत् काश्चनं ददौ । ब्राह्मणोऽप्यतिसन्तुष्टः सन् कन्यकया सह जगाम । ततो राजाऽपि शुभे मुहूर्ते पुरं विवेश । इति कथां पाञ्चालिकोदीरितां निशम्य भोजो निर्जगाम । इति षोडशोपाख्यानम् ॥

॥ अथ सप्तदशोपाख्यानम् ॥ केनापि राज्ञा वसुलाभहतोदिनेदिने कल्पितमात्मनाशम् । निशम्य तत्साहसमन्तरेण तस्येप्सितं चक्र इतीह वक्ति । पुनरपि राजानं भोजमागतमन्या सालभञ्जिका भणति- राजन् ! अत्र सिंहासने समुपवेष्टुं स एव क्षमो यस्य विक्र- मस्यौदार्यादयो गुणाः सन्ति । राजा-सालभञ्जिके! कथय तस्यौदार्यादिवृत्तान्तम् ।।' सालभञ्जिका भणति । शृणु राजन् ! तस्यौदार्यमेव त्रिभुवने कीर्तिं वितस्तार । सर्वे जनास्तमेव राजानं तुष्टुवुः । अन्यच्च, अर्थिनां स्वस्तिवचनं दातृणां प्रीत्यै भवति ; न तु शौर्यादयो गुणाः । उक्तश्च- युध्यन्ते पक्षिपशवः पठन्ति शुकशारिकाः । ददाति कोऽपि दानं यः स शूरः स च पण्डितः ॥२१२ तथाच- दातॄणामेव सुप्रीतिः स्वस्तिवाचा यथार्थिनः । संप्रहर्षों न हि तथा रणदुन्दुभिनिखनैः ॥ शौर्यज्ञानानुष्ठानादयो गुणाः सर्वेषामपि भविष्यन्ति, न त्वौदार्यम् । एवं त्यागगुणः श्लाव्यः सर्वेषु गुणराशिषु । त्यागाजगति पूज्यन्ते पशुपाषाणपादपाः ।। २१४ अन्यत्र- त्यागो गुणो गुणशतादधिको मतो में विद्या विभूषयति त यदि किं ब्रवीमि ।

८६ विक्रमार्कचरित्रम् शौर्य हि नाम यदि तत्र नमोऽस्तु तस्मै तश्च त्रयं यदि भवेदतिचित्रमेतत् ।। २१५ तञ्चतुष्टयं तस्मिन् विक्रमार्केऽवर्तत | एकदा परमण्डले कस्यचिद्राज्ञः पुरतः केनचित् स्तुति- पाठकेन विक्रमस्य गुणावळिरपाठि । तां श्रुत्वा राजा परमसू- यया वन्दिनमुवाच-रे वन्दिन् ! कुतः स्तुतिपाठका विक्र- मार्कमेव स्तुवन्ति ? किमन्यो राजा तादृशो नास्ति?' वन्दी- देव ! धैर्य, त्यागे, परोपकारे, साहसे, दयायां च तेन सदृशो राजा त्रिभुवनेऽपि नास्ति । परोपकारकरणे स्वदेहेऽपि तस्य महात्मनो ममत्वं नास्ति' तदाकर्ण्य स राजा 'अहमपि परो- पकारं करिष्या'मीति मनसि कृत्वा कश्चन योगिनमाहूयो- वाच-'भो योगिन् ! परोपकारार्थ मम प्रीतिरनुदिनमेधते ; यदि कश्चिदुपायः स्यात् तं निवेदय ।' योगी-भोः किं वा नास्ति ? राजा- -'अस्ति चेदुपदिश, साधयामि।'योगी 'कृष्णचतुर्दश्यां चतुष्षष्टियोगिनीचक्रं पूजय । तत्पुरतो जपं कृत्वा दशांशहोमं विधेहि ; होमावसाने पूर्णाहुतिनिमित्तं स्वश- रिमेवोपकल्पय ; ततो योगिनीचक्रं प्रसन्नं भविष्यति । यत् त्वया प्रार्थ्यते तदास्यति । पुनरप्रतिमं शरीरं तव भविष्यति।', तच्छ्रुत्वा राजा सर्वमपि तथैवानुष्ठाय पूर्णाहुतिनिमित्तं स्वयमे- वाग्नौ पपात । ततो योगिनीचक्रदेवता प्रसन्ना भूत्वा राज्ञे नवं शरीरं दत्त्वा भणति स्म-'राजन् ! तुष्टाऽस्मि, वरं वृणीष्व,' राजा-'अम्ब! प्रसन्ना यदि, तर्हि मम गृहं सप्तघटसुवर्ण- परिपूर्ण विधेहि ।' देवता-त्वमेवं प्रतिदिन शरीरममा - अष्टादशोपाख्यानम् होष्यसि चेदई तथा करिष्यामि । 'राजाऽपि तथेत्यूरीकृत्य नित्यमग्नौ शरीरं सुवर्णार्थ जुह्वदास्त । एकदा विक्रमाकोंऽपि तां वातां श्रुत्वा तत् स्थानं समा. गत्य पूर्णाहुतिसमये स्वयमेवाग्नौ पपात । ततो योगिनी स्वय- मचिन्तयत्-'किमद्यतनं मांसमतीव स्वादुतरं दृश्यते! अस्य हृदयं सारभूतमिवास्तीति । पुनः शरीरं दत्त्वा जगाद-'भो महासत्त्व ! को भवान् ? तव शरीरत्यागेन किं प्रयोजनम् ? तब्रूहि दास्यामी'ति । राजा-'यदि प्रसन्नाऽसि, तायं राजा प्रतिदिनं मरणान्महाकष्टमनुभवति, तन्निवारयतु भवती । अस्य गृहे सप्तमहाघटाः प्रतिदिनं सुवर्णेन पूरणीयाः । 'योगि- नी तथा करिष्यामाजीकृत्य तस्य गृहे प्रतिदिनं सप्त महा- घटान सुवर्णेन पूरयामास । राजानं मरणानिवारयामास | विक्रमोऽपि स्वनगरं प्रत्यागतः । इमां कथां कथयित्वा सालभञ्जिका राजानमत्रवीत्- 'राजन! त्वयीदृशः परोपकारः किमस्ति?' तच्छ्रुत्वा तूष्णीं बभूव। इति सप्तदशोपाख्यानम् - राजा ॥ अथाष्टादशोपाख्यानम् ॥ उदयशिखरिगङ्गास्तम्भमार्गेण गत्वा प्रतिदिनमतिमात्रस्वर्णदा कर्णभूषाम् । खरकिरणसकाशात् प्राप्य तां ब्राह्मणाय व्यतरदतिदरिद्रायेति सैषाऽद्य वक्ति ॥ २१६ विक्रमाचरित्रम् राजा-कथय - पुनरपि राजनि सिंहासनमारोहुमागच्छत्यपरा पाश्चा- लिका प्राह-'भो राजन् ! विक्रमार्कस्यौदार्यादिगुणा यस्य सन्ति, तेनैवैतत्सिंहासनमध्यासितव्यम् ।' तस्यौदार्यादिवृत्तान्तम् । साऽब्रवत्-िराजन् ! श्रूयताम्- विक्रमार्को राजा नीतीमणुमात्रमपि नोलक्येत् । मणि. पुरे गोविन्दशर्मा नाम ब्राह्मणः स्वपुत्राय नीतीरुपादिक्षत् अहमप्यश्रौषम् ; तत् तुभ्यं निवेदयामि, श्रूयताम् । मनीषी पुरुषो दुर्जनैः सह संसर्ग न कुर्वीत ! यतो महानर्थाः प्रवर्तेरन् । उक्तश्व- दुर्वृत्तसङ्गतिरनर्थपरम्परायाः हेतुः सतामधिगतं वचनीयमत्र । लकेश्वरे हरति दाशरथे कळत्रं प्राप्नोति बन्धमथ दक्षिणसिन्धुराजः ॥ २१७ तस्मात् सज्जनसङ्गं विदधीत । लोके सत्सङ्गात् परो नास्ति । उक्तं च- कन्दळयत्यानन्दं निन्दत्यनिलेन्दुचन्दनानि भृशम् । मण्डयति मन्दहास सन्धत्ते सम्पदोऽपि सत्सङ्गः ॥२१८ अन्यच्च, केनापि वैरं न कुर्वीत । परेषां सन्तापं न कुर्वीत । अपराधं विना भृत्यान न दण्डयेत् । महादोषं विना भायो न त्यजेत् ; यतोऽक्षयं नरकं भवेत् । प्रज्ञासंपादने दक्षा वीरसं प्रियवादिनीम् । योऽदृष्टदोषां त्यजति सोऽक्षयं नरकं व्रजेत् ॥ २१९ . अष्टादशोपाख्यानम् ८९ लक्ष्मीः स्थिरेति न : मन्येत ; यतोऽत्यन्तचश्चला सा उक्तंच- अनुभवत दत्त वित्तं मान्यं मानयत सजन भजत । अतिपरुषपवनललिता दीपशिखेवातिचञ्चला लक्ष्मीना२२० स्त्रीभ्यो गुह्यं न निवेदयेत् । भविष्यचिन्तां न कुर्यात् वैरिणामपि हितमेव चिन्तयेत् । दानाध्ययनादिभिर्विना दिवस मुधा नापनयेत् । पितरौ सेवेत । चोरैः सह न सल्लपेत् । कदाऽपि निष्ठुराणि न भाषेत । अल्पनिमित्तं बहुव्ययं न कल्पयेत् । उक्तं च- न स्वल्पस्य कृते भूरि नाशयेन्मतिमान् नरः । एतदेव हि पाण्डित्यं यत् स्वल्पाद्भरिरक्षणम् ॥ २२१ आर्येभ्यो दद्यात् । धर्मस्थाने मृषा न भाषेत । मनसा वाचा कर्मणा परोपकारं कुर्वीत । ये परोपकारिणस्ते सुजनाः । एतत् सामान्यतः पुरुषाणां नीतिशास्त्रमुपदिष्टम् । स तु विक्रमो राजा स्वभावत एव सकलनीतिशास्त्रज्ञः। एवं काले गच्छति, एकदा कश्चिद्वैदेशिको राजानं दृष्ट्वापावि- अत् । राजा-भोः कुत्रत्यो भवान् ?' पुरुष:--'भो राजन् ! अहं वैदोशकः, मम कोऽपि निवासो नास्ति ; सर्वदा परिभ्र- मन्नेव कालं नयामि । 'राजा-'पृथिवीपर्यटनात् त्वया किं किमपूर्व दृष्टम् ? कथय ।' पुरुष:-"उदयपर्वते महाना- दित्यस्य प्रासादोऽस्ति । तत्र गङ्गा नाम कापि नदी प्रवहति । तद्गङ्गाप्रवाहात् कश्चित् सुवर्णस्तम्भो निर्गच्छति । तस्योपरि नवरत्नखचितं सिंहासनमेकमस्ति । स च सुवर्णस्तम्भः प्रागुद- ९० विक्रमाचरित्रम् थति विभावसौ पृथिव्या. निर्गत्य, गमनमध्यमध्यारुढे स्वय- मपि सनिधत्ते ; अस्तमुपगच्छति च तस्मिन् क्रमेणावतीर्य स्वयं गङ्गाप्रवाहे निमज्जति । प्रतिदिनमेवं तत्र भवति । एत- न्महाश्चयं मया दृष्टम् । राजा विक्रमोऽपि तच्छ्रुत्वा तेन सह तत् स्थानं गतो रात्रौ सुखं सुष्वाप । प्रभातायां च शर्वयां गङ्गाप्रवाहाद्वरसिं- हासनयुक्तो हेमस्तम्भो मन्दं मन्दं निरगमत् । तस्मिन् स्तम्भे राजा स्वयमुपाविशत् । स्तम्भोऽपि यावत् सूर्यमण्डलसमीप- मगमत् , तावदमिकणसमुद्गारिभिः सूर्यकिरणैरदात राज्ञः शरीरम् । ततो राजा मांसपिण्डीभूतेनैव शरीरेण सूर्यमण्डलं प्राप्यास्तावीत् । नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । प्रयीमयाय त्रिगुणात्मधारिणे विरिश्चिनारायणशङ्करात्मने।। इति बहुधा स्तुत्वा परमात्मानमर्यमणं नमश्चकार । ततः सूर्यस्तममृतेनासिञ्चत् । ततो राज्ञः शरीरं भूयोप्यवर्धत । राजाऽवदत्-'धन्योऽहमस्मि ।' सूर्य:--'भो राजन् ! त्वं महासत्त्वाधिकोऽसि एतन्मम मण्डलं दुष्प्रापमन्यैरुपागतः । तदहं प्रसन्नोऽस्मि । वरं वृणीष्व ।' राज्ञोक्तम्-'भो देव! किमतः परमधिको वरोऽस्ति । महामुनीनामप्यलभ्यं तव सन्दर्शनं यदहमभजम् ! तव प्रसादान्मम सर्वमप्यर्थजात निर- पायं विद्यते । तद्वचनेनातिसन्तुष्टो भगवान् विभावसुः खकीये रत्नकुण्डले दत्त्वा 'भो राजन् ! एतत्कुण्डलद्वयं प्रतिदि- नमेकैकं सुवर्णभारं प्रयच्छति । 'इत्युक्त्वा प्रेषयामास ।

एकोनविंशोपाख्यानम् - ततो राजा कुण्डलद्वयं गृहीत्वा पुनर्नमस्कृत्य तस्मात् स्वर्णस्तम्भादवतीर्य यावदुजयिनीमाजगाम, तावत् कश्चिद्रा- झणो मार्गे समागत्य- वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी • यसिमीश्वर इत्यनन्यविषयश्शब्दो यथार्थाक्षरः । अन्तर्यश्च मुमुक्षुमिनियमितप्राणादिभिर्मग्यते स स्स्थाणुः स्थिरभक्तियोगसुलभो निश्श्रेयसायास्तु वः।। इत्याशिषं कृत्वाऽभणत् 'भो राजन् ! अहं कुटुम्बी ब्राह्मणः, परं दरिद्रः । सर्वत्र भिक्षाटनं करोमि । तथाऽप्युदरं न पूर्यते । तच्छ्रुत्वा राजा तस्मै कुण्डलद्वयं दत्त्वाऽवदत्- 'एतत् प्रतिदिनमेकैकं सुवर्णभारं दास्यति ।' इति राज्ञो वचनं श्रुत्वा ब्राह्मणः सन्तुष्टो राजानं बहुशः स्तुत्वा निजालयम- गमत् । राजाऽप्युज्जयिनी प्रत्यागच्छत् । इमां कथां कथयन्त्यां सालभञ्जिकायां भोजस्तूष्णी- मासीत् । इत्यष्टादशोपाख्यानम् ॥ ।। अथैकोनविंशोपाख्यानम् ॥ • . राजा वराहमनुधाव्य बिलं प्रविश्य पृष्ठा बलिं समधिगम्य च तत्सपर्याम् । दत्तं रसायनमवाप्य रसं च विप्रा- यादादिति प्रतिमया विनिवेद्यतेऽद्य ॥ २२४ विक्रमार्कचरित्रम् . पुनरपि राजानं भोज सिंहासनसमारुरुक्षासमाकुलित- हृदयमपरा सालभञ्जिका निवार्य जगाद । महीपाल! श्रूयताम् । विक्रमे रत्नाकरमेखलामिमां शासति सर्वेऽपि लोकाः परमानन्दपरिपूर्णहृदयाः समभूवन् । ब्राह्मणाः षट्कर्मनिरताः । त्रियः पतिव्रताः । शतायुषः पुरुषाः। वृक्षाः सदा फलकुसुमभरिताश्वासन् । पर्जन्यः काले वर्षति स्म । मही सर्वदोर्वराऽदृश्यत । लोकानां भूतेषु दया, पाप- भीतिः, अतिथिसत्कारः, गुरुसेवा, सत्पात्रे दानं च प्रावर्तन्त । तत एकदा विक्रमार्कः सिंहासनमध्यासामास । तत्र सभाया- मुपविष्टाः सुमनसः शास्त्राणि विचारयामासुः । वन्दिनो विवि- धापदानानि पेठुः । मल्लाः पुनः स्वभुजबलमदर्शयन् । सव- यसो राजकुमारा नखाङ्कुरसमुल्लासितश्मश्रवोऽन्योन्यं हसन्तः शरणागतपरिपालनप्रतिज्ञाप्रावीण्यमुनिरन्तः, केचनामुष्मिक- प्रीतिमाविष्कुर्वन्तः, केचन धर्मसङ्गहनाभवमुद्भावयन्तो राजा- नमसेवन्त । तदा कश्चिन्मृगवधाजीवः समागत्य राजानं प्रण- म्य सप्रश्रयं व्यजिज्ञपत्--'अरण्यमध्ये कश्चिदञ्जनाचलस- काशो महान् वराहः कतिपयैदिवसैः परिभ्रमति । वनैकवस- तेरस्यापि जनस्याश्रुतपूर्वोऽयमीहशो जन्तुः, किं पुनरदृष्टचर इति । तदेष देवस्य दृष्टिपथमवतरितुमर्हति । तदुपरि देवः प्रमाण मिति विरराम । तच्छ्रुत्वा राजा तदैव राजकुमारैः सह वनं विवेश । प्रविश्य च नदीतटे कुत्रापि निकुञ्जान्तरे शयानं सूकरमप- श्यत् । ततः स वराहो मृगयूनां कोलाहलं श्रुत्वा धुर्घराराव- एकोनविंशोपाख्यानम् ९३ मुखरं निर्जगाम । ततः सर्वेऽपि राजकुमारा अहमहमिकया वहस्तकौशलानि दर्शयन्तः सर्वायुधानि चिक्षिपुः । स च तान्यगणयन् पश्यतामेव शूरमानिनां किमपि पर्वतकन्दरं विवेश । राजाऽपि तं पृष्ठतोऽनुधावन बहिरश्वं निबध्य स्वय- मपि बिलं प्रविवेश । महत्यन्धकारे सुदूरं गत्वा महान्तं प्रका- शमपश्यत् । ततः किश्चिदिवातिक्रम्य नगरमेकं सुवर्णप्राकार- मभ्रषप्रासादोपशोभितं देवतायतनैरुपवनरलकृतं समस्तवस्तु सम्पूर्णविपणिरमणीयं धनिकलोकसमाकुलं नानाविलासिनी- जनसंसेव्यमानमतिमनोहरमपश्यत् । अथ कथमपि प्रविश्य विपणिमध्ये गच्छन्नतिमनोहरं हरशिखरिसहोदरं राजभवन- मपश्यत् । तत्र विरोचनसुतो बली राज्यं कुर्वन्नास्त । राजाऽपि सभां प्रविश्य सिंहासनोपविष्टेन बलिना झडिति समालिङ्गि- तोऽतिरमणीये भद्रासने समुपवेशितः । अनन्तरं बली राजा- नमप्राक्षीत्-'सखे ! कुत्र ते निवासः ? कानि तव नामा- क्षराणि? कथमिव दुरवगाहमिमं देशं प्रविष्टोऽसि ? । राजा-'विक्रमनामानं मामाहुः । उज्जयिनी मे निवासः । भवत्संदर्शनार्थ कमपि वराहमनुसरन् कथमपि समागतोऽस्मि ।' बलि:--'धन्योऽस्मि । अद्यैव सफलाः संवृत्ता मे मनोरथाः।' विक्रम:-'भो राजन् ! त्वं पवित्रभूतान्तःकरणः ; तवैव जीवितं श्लाघ्यम् ; यतः साक्षाद्वैकुण्ठभवनो नारायणस्तव मार्गणतामाललम्बे ।' बलि:-'यदि भवान्मे मित्रं, तर्हि मदीयं किमपि वस्तु परिगृहाण ।' विक्रम:-'भवदनुपहा- दहमपि पूर्णकामोऽस्मि ।' बलि:--सखे! मैवम् । एतदेव हि बन्धुलक्षणम्-- : ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । १. भुके च भोजयत्येव पडिधं बन्धुलक्षणम् ॥. २५२ - विक्रमाचरित्रम् तथाच- पापाभिवारयति योजयते हितानि गुह्यं निगृहति गुणान् प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिति प्रवदन्ति सन्तः॥ किञ्च- नोपकार विना प्रीतिः कस्यापि भुवि जायते । उपयान्ति च दानेन यतो देवा अभीष्टदाः॥ २२६ - २२७ तथा च- तावत् प्रीतिर्भवेल्लोके यावद्दानं प्रदीयते । वत्सा क्षीरक्षयं दृष्ट्वा स्वयं त्यजति मातरम् ॥ २२८ अन्यञ्चा- पुत्रादपि प्रियतरं नियमेन दान मन्ये पशोरपि विवेकविवर्जितस्य । दत्ते तृणे तु निखिलं खलु येन दुग्धं नित्यं ददाति महिषी विनिवर्त्य वत्सम् ॥ १२९ एवं भणित्वा विक्रमाय राज्ञे रसं रसायनं च ददौ । ततो राजनि तस्मादनुज्ञां प्राप्य बिलान्निर्गत्याश्वमारा निजपुरं प्रत्यागत्य राजमार्गे समागच्छति, महादुर्गतिपीडित: सपुत्रः कश्चिद्राह्मणः समागत्य स्तुत्वाभाणीत्-'भो राजन् ! परमहं दरिद्रः । अद्य सकुटुम्बस्य मम किमपि भोजनपर्याप्तं धनं देहि, महत्या बुभुक्षया समाकुला: स्माः । तदा राजा-'भो विंशोपाख्यानम् ब्राह्मण! इदानीं मम हस्ते किमपि धनं नास्ति । परंतु रसो रसा- यनं चेति वस्तुद्वयमस्ति । अनेन रसेन सम्पर्के सति सप्त धातवः सुवर्णानि भवन्ति । इदं रसायनं यस्तु सेवते, स जरामरण- वर्जितो भविष्यति । उभयोरेकं गृहाण ।' तदा ब्राह्मण:- 'येन पुमान् जरामरणवर्जितो भविष्यति । तद्दीयताम् ।' तदा तस्य पुत्रः प्राह-किं क्रियते पीतेन रसायनेन ? जरामरण- वर्जितेनापि पुनरिव्यमेवानुभवितव्यम् । येन सम्पर्के सति धातुः सुवर्ण भवति, स एव रसो ग्राह्यः' इत्युभयोर्विवादो राजसमक्षमेव समभूत् । ततो राजा उभयोर्विवादं दृष्ट्वा रसं रसायनं च ताभ्यां ददौ । तौ राजानं स्तुत्वा निजालयं जग्मतुः । राजाऽपि निजनिवासमाजगाम । इमां कथा कथयित्वा सालभंजिका भोजराजमब्रवीत्- भो राजन्! किमद्य मन्यसे ?' तच्छुत्वा वा राजा तूष्णीं बभूव। इत्येकोनविंशोपाख्यानम् . ॥ अथ विंशोपाख्यानम् ॥ सदण्डकन्था खटिका मुनेस्तु गृहीतराज्याय विपक्षभूपैः । दिदेश राजन्यकुमारकाय राजेति सैषा प्रतिमाभिधत्ते ॥ पुनरपि राजा सिंहासनमारुरोह । तावदन्या सालभञ्जि- काऽक्षिप्य जगाद-'भो राजन्! विक्रमस्यौदार्यादिगुणा यस्य सन्ति, सोऽस्मिन् सिंहासन उपविशतु ।' राजा-'कथय तस्यौदार्यादिवृत्तान्तम् ।' सावदत्-राजन्! श्रूयताम् !

विक्रमाचरित्रम् विक्रमो राजा षण्मासान् राज्यं कृत्वा षण्मासान् देशा- न्तरं परिभ्रमन्नास्त । एवमेकदा नानादेशान् परिभ्रम्य पना- लयं नाम नगरमगमत् । तन्नगरादहिस्स्थितोद्यानवने. मनोहर विमलोदकं च सरोवरं दृष्ट्वा तत्रोदकं पीत्वा कुत्रापि तरुतले सुखमुपविवेश । तत्रान्ये केचन वैदेशिकाः समागत्य जलपानं विधायोपविश्य परस्परं गोष्ठीमकुर्वन्त- अहो! अस्माभिर्ब- हवो देशा दृष्टाः, बहूनि तीर्थानि सेवितानि, अतिदुर्गमाः पर्वताः समारूढाः ; परमेकत्रापि महापुरुषदर्शनं नाभूत् ।' तेष्वेक:--'कथं महापुरुषदर्शनं भविष्यति ? यत्र महा- पुरुषो वर्तेत तदतीव दुर्गममेव भवेत् । बहवो मध्ये विघ्नाः समापतन्ति । देहस्यापि नाशो भवति । यत्र च शरीरमेव नश्येत्, सोऽयमुद्यमः कतमाय फलाय ? प्रथममात्मैव रक्ष- णीयो बुद्धिमता पुरुषेण । उक्तश्च-- आपदर्थं धनं रक्षेदारान् रक्षेद्धनैरपि । आत्मानं सर्वदा रक्षेद्दारैरपि धनैरपि । २३१ तस्मात् सर्वत एवात्मानं गोपायेत् । अन्यञ्च, सर्व- धर्माणां शरीरमेव प्रथम साधनम् । तथा हि-- अपि क्रियाथ सुलभं समित्कुश जलान्यपि स्वानविधिक्षमाणि ते ? अपि स्वशत्या तु तपा प्रवर्तते ? शरीरमाचं खलु धर्मसाधनम् ॥.. २३२ -- विंशोपाख्यानम् तथा च- - पुनर्जाया पुनर्वितं पुनः क्षेत्रं पुनस्सुताः । पुनः शुभाशुभं कर्म शरीरं न पुनः पुनः ॥ २३३ तस्मान्मनीषी साहसं न कुर्वीत । तथा चोक्तम्- अफलानि दुरन्तानि समव्ययफलानि च । अशक्यानि च कार्याणि नारभेत विचक्षणः ॥ २३४ किञ्च- पर्वतं विषमं घोरं बहुव्याघ्रसमाकुलम् । नारोहंति नरः प्राप्तसंशयो हि कदाचन ॥ २३५ यत्कार्य पुरुषेण क्रियते तद्विचार्यैव कर्तव्यम् । यत्र च फलं नास्ति, स्वल्पं च यत्र फलं भवति, तस्मिन् कार्य शरी- रस्यैव नाशो भविष्यतीति तन्न कुर्यात् । राजापि तस्य वचनं श्रुत्वा सन्निधायावदत्-"देवे- शिकाः! किमेवमुच्यते ? यावत् पुरुषेण पौरुषं साहसं च न क्रियेत, तावत् सर्वमपि दुर्लभम् । उक्तञ्च- वस्तूनि दुर्लभान्यपि लभ्यन्ते वाञ्छितानि साहसिक। सञ्जीविन्यमृताद्या हनुमद्गरुडादिभिर्हता हि खलु ॥ विशति कदाचिद्गगनं खातात् पाताळतोऽपि जलमेति । दैवमचिन्त्यं बलवदलवानिह गण्य एव पौरुषवान् ।। अक्लेशतः सुखानि न लभ्यन्ते । तथा च- दुरधिगमः परभागो यावत् पुरुषेण पौरुषं न कृतम् । हरति तुलामधिरुढो भाखानुद्यन् हि जलदपटलानि ॥ Vikra_5 , , ततस्ते राजा- विक्रमाचरित्रम् ततस्तद्राजवचनं श्रुत्वा वैदेशिका अपृच्छन् -'भो महासत्व! तर्हि किं कार्य कथय राजा-'महापुरुषदर्शनमेव कर्तव्यम् । अस्मानगराड्डादशयोजनपर्यन्तं यदि गम्यते, तत्र' महारण्यमध्ये विषमः कश्चित् पर्वतोऽस्ति । तदुपरि त्रिकाल- नाथो नाम योगी विद्यते । स तु सेवितो वान्छितार्थ दास्यति । अहं तत्र गमिष्यामि ।' वैदेशिका:-'तर्हि वय- मपि तत्रागमिष्यामः' राजा--'सुखमागम्यताम् । राज्ञा सह निर्गत्य महदरण्यमतिविषमं दृष्ट्वा राजानमूचुः- 'भो महासत्त्व! कियहरे पर्वतोऽस्ति?' राजा-इतोऽष्टौ योज- नानि विद्यन्ते ।' वैदेशिका:-'तर्हि वयं नागमिष्याम:, महर्रमस्ति । मार्गोऽप्यतिविषम इव दृश्यते । "वैदेशिकाः! व्यवसायिनां किन्नाम दूरम् ? नात्युच्च शिखर मेरो तिनीचं रसातलम् । व्यवसायप्रसक्तानां नातिपारो महोदधिः ॥ २३९ कोऽतिभार समर्थानां कः परः प्रियवादिनाम् । को विदेश सविद्यानां किं दूरं व्यवसायिनाम् ? ॥ पुनरपि कतिचिद्योजनानि कथमप्यतीत्य पुरतो महा. कराळवदनं विषानिमुद्वमन्तमतिभयङ्करं सर्प मार्गमावृत्य स्थित. मद्राक्षुः । ते तु तं दृष्ट्वा भयात् पलायाम्बभूवुः । राजा पुन- रपि गन्तुं प्रावर्तत । ततः स सर्पः समागत्य राजानं परिवे- टपादशत् । ततस्तेन वेष्टितो विषवेगान्मूर्छन्नप्यतिदुर्गमं तं पर्वतमारुह्य योगिनं त्रिकालनाथं दृष्ट्वा नमन्धकार । योगिसन्द- र्शनमात्रेण सर्पस्तं मुकाऽपससार । राजाऽपि निर्विषो बभूष ।

, विंशोपाख्यानम् ९९ योगी-'भो महासत्व! महाप्रमादभूयिष्ठमेतदमानुषं स्थान- मतिलेशेन किमर्थमागतोऽसि ? ' राजा -'भोः स्वामिन् ! अहं भवत्सन्दर्शनार्थमेव समागतोऽस्मि ।' योगी-'तर्हि महाकष्टमनुभूतं त्वया । राजा-"किमपि कष्टं नास्ति । भवत्सन्दर्शनमात्रेण सकलमपि कल्मषं नामशेषमभूत् । कष्टं तु कियत् ? अद्याहं धन्योऽस्मि' यतो महतां सन्दर्शनमतिदुर्ल- भमभजम् । किं च, यावदिदं शरीरं दृढं, यावदिन्द्रियाणि स्वस्थानि, पुरुषेण पुण्येन तावदात्महितमनुष्ठेयम् । तथा चोक्तम्- यावत् स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्ष्यो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ? ॥ ततः प्रसन्नो योगी राज्ञे खटिकां योगदण्डं कन्यां च दत्वाऽब्रवीत् भो राजन्! 'अनया खटिकया भूमौ यावत्यो रेखा लिख्यन्ते तावन्ति योजनान्येकस्मिन् क्षणे गन्तुं शक्यते । अमुना योगदण्डेन दक्षिणहस्तविधृतेन स्पृश्यते यदि मृतं सैन्य सजीवं भूत्वोत्तिष्ठति; वामहस्ते धृत्वा वैरिसैन्यं दृश्यते यदि तदा सर्वमपि तन्नश्येत् । इयं कन्था पुनरीप्सितं वस्तु ददाति। राजा ततस्तानि गृहीत्वा योगिनं नमस्कृत्यानुज्ञां लब्ध्वा प्रत्या- जगाम । तावन्मार्गे कश्चिद्राजकुमारोऽभ्यनि वर्तमानः काष्ठ. सञ्चयेन तं वर्धयन् पतनोन्मुख इवादृश्यत । राजा तम- पृच्छत्-'भोः सौम्य! किमेतत् क्रियते ? कुमार:-'अहं कस्यचिद्राज्ञः कुमारः । मम राज्यं दायादैरपहृतम् । दरिद्रोऽहं जीवितं धारयितुमसहमानोऽमि प्रवेष्टुं काष्ठानि सचिनोमि ।'

९०० विक्रमार्कचरित्रम् तच्छ्रुत्वा राजा तस्याभयं दत्त्वा खठिकां योगदण्डं का च दत्वा तेषां गुणानकथयत् । तदनन्तरं सन्तुष्टचित्तो राजकुमारो राजानं प्रणम्य स्वदेशमगमत् । राजा विक्रमोऽप्युज्जयिनीनगर- मगमत् । इमां कथां कथयित्वा सालभञ्जिका राजानमवदत्-. 'भो राजन् ! त्वय्येवमौदार्य धैर्य परोपकारश्च यदि विद्यन्ते, तहस्मिन् सिंहासन उपविश ।' तच्छ्रुत्वा राजा तूष्णीमप- -- ससार। इति विंशोपाख्यानम् ॥ अथैकविंशोपाख्यानम् ॥ अत्रानगळनाना कथितं तप्तोदकं सरः प्राप्य । अमरीदत्ताः सिद्धीविप्रायाप्टौ ददाविति ब्रूते ॥ २४२ भूयोऽप्येकदा भोजराजः सिंहासनसमारोहणसमुचित- वेषः समागत्य पाश्चालिकया निवारितस्तामाह-कथय तस्यौ- दार्यवृत्तान्तम् ।' साऽब्रवीत् , श्रूयतां राजन् ! विक्रमे राज्यं कुर्वति बुद्धिसिन्धुर्नाम तस्य मन्त्री सम- भवत् । तस्य पुत्रोऽनर्गळ: । स घृतोदनं भुक्त्वा कुमाररीत्या कालमनयत् । कमपि विद्याभ्यासं नाकरोत् , एकदा पिता तमवादीत- भो अनर्गळ! त्वं ममोदराज्जातोऽसि । परं दुर्विधेयो विद्याभ्यास न करोषि, मूर्खस्तिष्ठसि । शृणु, - एकविंशोपाख्यानम् २४३ अपुत्रस्य गृहं शून्यं देशः शून्यो ह्यबान्धवः । मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता । ममाऽपि कोऽप्यर्थस्त्वत्तो नास्ति । तथा चोक्तम्- कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः ? तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ? | तथा च- - वरं गर्भस्रावो वरमृतुषु नैवाभिगमनं वरं जातः प्रेतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमगृहवासे निवसनं वरं चेद्विद्वान् कश्चिद्दविणमदयुक्तोऽपि तनयः ॥ २४५ तच्छत्वा स पश्चात्तापसन्तप्तोऽनर्गळो वैराग्यं प्राप्य देशान्तरं जगाम । तस्मिन् देशान्तरे कस्यचिदुपाध्यायस्य सकाशात् सकलशास्त्राणि महता कालेन पठित्वा निजनगरं प्रत्यागच्छन् , मार्गे मध्येऽरण्यं कमपि देवालयमपश्यत् । देवालयसमीपे पद्मपण्डमण्डितं चक्रवाकमिथुनालङ्कतमतिविम. लोदकं सरोवरमासीत् । तत्सरोवरैकदेशेऽतिसन्तप्तमुदकमह- श्यत । एतत् सर्व पश्यन् तत्रोपविवेश । ततः सूर्योऽस्तम- गमत् । तदनन्तरमर्धरात्रसमये ततोदकमध्यादष्ट दिव्यस्त्रियो निर्जग्मुः। ता देवालयं गत्वा देवस्यावाहनादीन् षोडशोपचारान् कृत्वा नृत्तगीतादिभिर्देवमतोषयन् । ततो देवः प्रसन्नो भूत्वा ताभ्यः प्रसादमदात् । एतत् सर्वमप्यनगळ: पश्यन् प्रभात- समये निर्गमनवेळायां ताभियंलोकि । तासामेका जगाद 'भोः सौम्य! एह्यस्मन्नगरं गमिष्यामः ।' सोऽपि बाढमिति ૨૦૨ विक्रमार्कचरित्रम् - तया सह गच्छन् तप्तोदकमध्यप्रविष्टासु तासु भयादपमृत्य स्वनगरमागत्य पितृप्रमुखान् सर्वान् बन्धूनपश्यत् । परेचराज- दर्शनार्थ गत्वा राजानं प्रणम्योपविवेश । राजा सकुतूहल- मपृच्छत्-'भो अनर्गलेतावन्ति दिनानि कुत्र गतोऽसि ?' अनर्गळ:-विद्याभ्यासार्थ देशान्तरं गतोऽस्मि ।' राजा- 'तस्मिन् देशे किं किमपूर्व दृष्टम् ?' अनर्गळेन तप्तोदकवृत्ता. न्तोऽभ्यधायि । तच्छ्रुत्वा राजा तेन सह तत्स्थानं गतवान् । ततः सूर्योऽस्तं जगाम । तत्रार्धरात्रसमये ता दिव्यत्रियस्तस्मात् सरोवरतप्तोदकमध्यानिर्गत्य देवसमीपं गत्वा पूजां विधाय नृत्तगीतादिना देवमुपस्थाय प्रभाते न्यवर्तन्त । तावत् तासां मध्ये काचिदङ्गना राजानं दृष्ट्वा समवदत्-'भोः सौम्य! एहि मम नगरं गच्छामः । तच्छुत्वा राजा ता अनुससार । ताः सर्वास्तप्तोदकमध्ये प्रविष्ठाः सत्यः पाताळे निजनगरं जग्मुः । राजापि तप्तोदकमध्ये मनः सन् सहव ताभिजगाम । ततस्तास्तं दृष्ट्वा तव सेवां करिष्याम इत्यूचुः । राजा-'किं मदन्यो राजा नास्ति ? ममापि राज्यमस्ति । अहमेतत् कुतूहलं द्रष्टुं समागतोऽस्मि । 'भोः महासत्त्व ! वयं प्रसन्नाः; वरं वृणीष्व । राजा-भवत्यः काः ?' कन्या:- 'वयं महासिद्धयः' राजा--'तर्हि मह्यमष्टौ सिद्धीर्दिशत । ततो राक्षे ता अष्टौ रत्नानि ददुः तान्यष्टसिद्वियुक्तानि रत्नानि गृहीत्वा तप्तोदकानिर्गय खनगरमाजगाम । कन्या: - - २४७ एकविंशोपाख्यानम् १०३ तावन्मागें कश्चिद्राह्मणः समागत्य- 'उत्पमो नाभिकमले हरेर्यश्चतुराननः । स पातु सततं युष्मान् वेदानामर्थपारगः ॥' २४६ इत्याशिषं कृत्वा प्राह- शूर' सुरूपः सुभगः सुदृक्च शास्ता च शास्त्रार्थविदां वरिष्ठः । अर्थ विना नैव कलाकलाप प्राप्नोति मोऽत्र मनुष्यलोके ।। किं च- तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः क्षणेन सोऽप्यन्य एव भवतीति विचित्रमेतत् ।। २४८ इत्युक्त्वा 'राजन्नहं महादारिद्यपीडितो बहुपुत्रपौत्रादि- कुटुम्बः संसारं परित्यज्य गङ्गाप्रवेशं करिष्यामीति निर्गतोऽस्मि । अतस्तत्रभवता मम दारिद्यनिवारणं कर्तव्यम् ।' इत्यवदत् । राजा तद्वचनं श्रुत्वा तस्य तान्यष्टरत्नानि ददौ । स विप्रो राजानं स्तुत्वा तानि रत्नानि गृहीत्वा स्वपुरं जगाम । राजा- प्युजयिनीमगमत् । इमां कथां कथयित्वा सालभञ्जिका राजानमब्रवीत्- 'भो राजन् ! त्वयीदृशमौदार्य धैर्य च विद्यते चेत्, तस्मिन् सिंहासन उपावश ।' तच्छ्रुत्वा राजा तूष्णीमगमत् । इत्येकविंशोपाख्यानम - ॥ अथ द्वाविंशोपाख्यानम् ॥ अत्र हि नीलमहीधे कामाक्षीमन्दिरे बिलात् सहसा। उद्धृत्य तु रसकुम्भं द्विजातये दत्तवानिति ब्रूते ॥२४९ भूयोऽपि धारानगरीधूर्वहे विश्वम्भराधिनाथे समागते पाञ्चालिकान्याब्रवीत्-भो राजन् ! श्रूयताम्- विक्रमादित्यो राज्यं कुर्वनेकदा पृथ्वीपर्यटनार्थ निर्गत्य नानादेवालयतीर्थपर्वतादिकं दृष्ट्वा कदाचिन्महारत्नमयप्राकारप- रिवृतमभ्रंलिहप्रासादोपशोभितमनेकहरिहरालयपवित्रितं नगर- मेकमपश्यत् । तत्र नगरोपान्तगं नारायणालयं गत्वा तत्र सरोवरे स्नात्वा देवं नमस्कृत्य तुष्टाव । मया ज्ञातं जगन्नाथ मौनमेव जगत्स्थले । को जानाति परं ब्रह्म हरिं वाचामगोचरम् ॥ नान्यं वदामि न शृणोमि न चिन्तयामि नान्यं स्मरामि न भजामि न चाश्रयामि । मुक्त्वा त्वदीयचरणाम्बुजमादरेण श्रीश्रीनिवास पुरुषोत्तम देहि दास्यम् ।। करचरणकृतं वा कर्म वाकाय वा श्रवणनयनजं वा मानस वापराधम् । विहितमविहितं वा सर्वमेतत् क्षमेथाः जय जय करुणाब्धे श्रीपते श्रीमुकुन्द ।। २५२ एवमादि बहुधा स्तुत्वा रङ्गमण्टपे विशश्राम । २५० २५१ द्वाविंशोपाख्यानम् तत्र कश्चिद्राह्मणः समागत्य राजसमीपे समुपविवेश । तदात्त्वे राजावदत्-'भो ब्राह्मण! कुतस्त्यो भवान् ?' ब्राह्मणः- 'अहं कश्चित् तीर्थयात्रां करोमि । भवान् कुतः समागतः?' राजा-'अहं भवादशः कश्चित् तीर्थयात्रापरायणः । ब्राह्मणः ।' सम्यग्राजानमवलोक्यापृच्छत्-"को भवानवि- तेजस्वी दृश्यते ? त्वयि राजलक्षणानि सर्वाणि दृश्यन्ते । त्वं राजसिंहासनमर्हसि । पुनः पृथिवीं पर्यटसि । अथ वा ललाट- लिखितं को वा लङ्घयति ? त्रिलोकेशः शाङ्गी शबरशरलक्ष्यत्वमगमत् विधाता लोकानामलभत शिराकृन्तनविधिम् । प्रयातौ तौ राहोर्दिनकरशशाङ्को कबळतां प्रभुनग्नः शम्भुः शिरसि लिखितं लङ्घयति कः ॥२५३ किं च- हरिणापि, हरेणापि ब्रह्मणापि सुरैरपि । ललाटलिखिता रेखा परिमाष्टुं न शक्यते ॥ तद्वचनं श्रुत्वा राजाप्यङ्गीचकार । उक्तं च- युक्तियुक्तमुपादेयं वचनं बालकादपि । विदुषामपि तत् त्याज्यमयुकं पद्मजन्मनः ॥ २५५ राजा-'भो ब्राह्मण! किमर्थमतिश्रान्त इव दृश्यसे ?' ब्राह्मण:-'श्रमकारणं कथयामि । कष्टमतीव प्राप्तोऽस्मि । राजाऽवदत्-कथ्यतां तस्य कष्टस्य कारणम् । ब्राह्मणः "भोराजन् ! श्रूयताम् । इतो नातिदूरे नीलो नाम पर्वतोऽस्ति। तत्र किञ्चित् पाताळबिलमस्ति । तन्मध्ये कामाक्षी नाम - विक्रमाचरित्रम् देवता वसति । मध्ये च तस्य कश्चिद्रसकुम्भो दृश्यते । तेन च रसेन धातवः सुवर्णतां यान्ति । द्वादश वर्षाणि कामाक्षी- मन्त्रजपमकरवम् । मया बिलद्वारं नोद्धाट्यते । तेनातिदु:- खितोऽस्मि ।" राजाब्रवीत्-'तत्स्थानं मम दर्शय । कोऽप्यु- पायः क्रियते ।' ततस्तेन राज्ञे तत्स्थानं दर्शितम् । ततस्तस्यामेव रात्री राज्ञः स्वप्ने देवता समागत्य जगाद-'राजन् ! त्वं किमर्थमाग- तोऽसि ? अत्र द्वात्रिंशल्लक्षणयुक्तस्य पुरुषस्य कण्ठरक्तसेचन विना बिलद्वारं नोद्घाट्यते ।' एतद्देवतावचनं श्रुत्वा राजा प्रबुध्य बिलद्वारसमीपं गत्वा निजकण्ठं छेत्तुमुपचक्रमे । ताव. देवता-भो राजन् ! साहसप्रिय! तवाहं प्रसन्नास्मि । वरं वृणीष्व ।' राजा- -'देवि! यदि प्रसन्नासि, तस्मैि ब्राह्मणाय रसकुम्भं प्रयच्छ । देवतापि बाढमिति बिलद्वारमुद्धाट्य ब्राह्म. णाय रसकुम्भं ददौ । सोऽपि राजानं स्तुत्वा निजस्थानं जगाम । राजापि निजनगरमगमत् । इमां कथां कथयित्वा सालभञ्जिका राजानमब्रवीत् । 'भो राजन् ! त्वय्येवमौदार्य साहसं परोपकारश्च विद्यन्ते चेत्, तस्मिन् , सिंहासने समुपविश । तच्छ्रुत्वा राजा तूष्णींगतः। इति द्वाविंशोपाख्यानम् ॥ अथ त्रयोविंशोपाख्यानम् ॥ एष हि विक्रमभूपो दुस्वमालोकनोपशमनाय । निजकोशं त्रीणि दिनान्यकरोज्जनसादिति ब्रूते ॥२५६ पुनरपि राजा यावत् सिंहासनमारोदुमाजगाम, ताव- दन्या सालभञ्जिकाभणत्-भो राजन् ! तव सिंहासन- समारुरुक्षा गरीयसी दृश्यते । इदं पुनरासनं विक्रमादित्यसह- शमेव क्षमेत । शृणु तस्य राज्ञो गुणान् । एकदा विक्रमो महीं परिभ्रमन् निजनगरमागच्छत् । तदा नगरवासिनः सर्वे परमानन्दमवापुः । राजापि स्वशुद्धान्तं प्रविश्य मध्याह्नसमये सुगन्धितैलाक्तः स्नात्वानन्तरं वनाभर- णादिभिरलङ्कतः देवमर्चयित्वा- 'त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥२५७ नमो नमः कारणकारणाय नारायणायामितविक्रमाय । श्रीशाङ्गचक्रासिगदाधराय नमो नमस्ते पुरुषोत्तमाय ॥ इति देवं स्तुत्वा नमस्कृत्य गोभूतिलादिनानाविधनि- त्यदानानि निर्वत्य दीनान्धबधिरकुजपङ्गादिभ्यो भूरि दत्त्वा भोजनगृहं प्रविश्य बालसुवासिनीवृद्धादीन् भोजयित्वा स्वयम- न्यैबन्धुभिः साकमभ्यवजहार । साधु चेदम्- बालान् सुवासिनीवृद्धान् गर्भिण्यातुरकन्यकाः । सम्भोज्यातिथिवृद्धांश्च दम्पत्योः शेषभोजनम् ॥ २५९ - अन्यच- एक एव न भुञ्जीत यदीच्छेद्वद्धिमात्मनः ।

१०८ विक्रमाचरित्रम् द्वित्रैस्तु बन्धुभिः साकं भोजनं कारयेबरः ॥ २६० अभीष्टफलसंसिद्धिरिष्टकार्यार्थसम्पदः । द्विस्तु बन्धुभिः साकै भोजनेन प्रजायते ॥ २६१ ततः कश्चित् कालं कतिपयानि पदानि परिक्रम्योप- विवेश । उक्तं च- भुक्त्वोपविशतो मन्दं भुक्त्वा संविशतः सुखम् । आयुष्यं क्रममाणस्य मृत्युर्धावति धावतः ।। २६२ अत्यम्बुपानादतिसङ्गमाच दिवा च सुप्तेनिशि जागराच । निरोधनान्मूत्रपुरीषयोश्च षडभिर्निदानः प्रभवन्ति रोगाः॥ अथ राजनि समानवयोविद्यैः प्रियमित्रैर्गोष्ठी कुर्वति, क्रमेण भगवान्मरीचिमाली चरमगिरिशिखरमवततार । अथ राजा समुत्थाय सायन्तनं कर्मकलापं निवर्त्य भुक्ता शयनगृहं प्रविश्य तत्र शशिकरनिकरप्रभाभासुरपटपरिस्तीर्णे सुरभिकुसुमविसरा- कीर्णे विचित्रतरोल्लोचसमुल्लासिते पर्यके सुखं सुष्वाप । प्रभात- समये स्वप्ने स्वयमात्मानं महिषमारुह्य दक्षिणां दिशं गच्छन्तं दृष्ट्वा सहसा प्रबुद्धो विष्णुं स्मरन् समुत्थाय सन्ध्यादि कर्म समनु- ष्ठाय सिंहासने समुपविष्टो ब्राह्मणानां पुरतः स्वप्रवृत्तान्तम- कथयत् । तच्छ्रुत्वा सर्वज्ञभट्टनामा प्राह—“भो राजन् ! स्वप्नास्तु द्विविधाः । केचन शुभाः शुभफलं प्रयच्छन्ति । तत्र शुभाः आरोहणं गोवृषकुञ्जराणां प्रसादशैलाग्रवनस्पतीनाम् । विष्ठानुलेपो रुदितं नितान्तं शुभान्यगम्यागमनं तथैव ।।

त्रयोविंशोपाख्यानम् १०९ फलकालश्च- " अशुभाश्च- आरोहणं कण्टकवृक्षवाहवैर्युष्टकाणामथ दर्शनानि । कार्पासतीबोरगपोत्रिशाखामृगादिमानामशुभानि लोके ।। खरोष्ट्रमहिषव्याघ्रान् स्वप्ने यस्त्वधिरोहति । षण्मासाभ्यन्तरे तस्य मृत्युर्भवति निश्चयात् ॥ २६६ स्वप्नस्तु प्रथमे यामे वत्सरेण विपाकभाक् । द्वितीये चाष्टभिर्मासैस्त्रिभिर्मासैस्तृतीयके । २६७ अरुणोदयवेळायां सद्यः स्वप्नफलं भवेत् । गोविसर्जनवेळायां सद्यः स्वप्नफलं भवेत् ॥ २६८ किं बहुना ? भो राजन्नयं दुस्स्वप्नः तवारिष्टकारी। राजा-'भो ब्राह्मण! अस्य दुस्स्वप्नस्य प्रायश्चितं किं करवाणि ? सर्वज्ञभट्टः-"स्नात्वा वखाद्यलंकृतः सन्नाज्या- वेक्षणं कृत्वा तहखादिकं ब्राह्मणाय देहि । पुनर्नववस्त्रादिक धृत्वा देवस्याभिषेकं कारयित्वा नवरत्नैः सम्पूज्य ब्राह्मणेभ्यो गवादिदश दानानि देहि । दीनान्धवधिरपशादिभ्यो भूरि प्रयच्छ । अनेनानुष्ठानेन ब्राह्मणाशीर्वादेन च दुस्स्वप्नजातारि- ष्टफलं नश्यति ।" राजाप्येतत् सर्वज्ञभट्टवचनं श्रुत्वा यथो- तमनुष्ठाय भूरिदानार्थ दिनत्रयं भण्डारं मुक्तवान् । यथा- भिलषितं सर्वे जद्दुः । इति कथा कथयित्वा सालभञ्जिका राजानमब्रवीत्- 'भो राजन् ! त्वय्येवमौदार्य किं विद्यते ?' तच्छ्रुत्वा राजा तूष्णी जगाम । इति त्रयोविंशोपाख्यानम् ॥ अथ चतुर्विंशोपाख्यानम् ॥ पुरन्दरपुरीवणिक्तनुजदायभागक्रम निशम्य धुरि तत्कृता सह विगृह्य युद्धे जितः । उपास्य पथि वासुकिं त्वमृतकुम्भमादाय तं ददौ द्विजनुषे मुदेत्यभिदधाति पाश्चालिका ॥ २६९ पुनरपि भोजभूपालमागतमाक्षिष्यान्या सालभञ्जिका- ब्रर्वात् 'भो राजन्नेतत् सिंहासनं समारोढुं विक्रमार्कसदृश एव क्षमः । राजा-'भोः सालभञ्जिके! कथय तस्य गुणान् । साब्रवीत् । 'राजन्नाकर्ण्यताम्-विक्रमादित्यस्य राज्ये पुरन्द- रपुरी नाम काचन नगरी समभूत् । तत्र महाधनिकः कश्चि- द्वणिगासीत् । तस्य चत्वारः पुत्राः समभूवन् । ततो महति काले गच्छत्यतिवृद्धः स वैश्यो मरणसमये चतुरः पुत्रानाहूया. वादीत् 'भोः पुत्राः! मयि परेते भवतां मैत्री सुतरां भवति वा न वा । पश्चाद्विवादो भविष्यति । तदहं जीवन्नेव भवतां चतुर्णा ज्येष्ठक्रमेण विभागं करवाणी'ति । तथा च कृत्वोवाच- अस्य मञ्चस्य चतुर्णा पादानामधश्चत्वारो भागा निक्षिप्ताः । तान् ज्येष्ठक्रमेण गृह्णीध्वम् । पुत्रा बाढमित्यङ्गीचक्रुः । ततस्त- स्मिन् परलोकं गते चत्वारो भ्रातरो मासमेकन तस्थुः । ततस्तेषां त्रीणां कलहः शनैसदियाय । तदनन्तरं ज्यायानु- वाच-'किमर्थ कोलाहलः क्रियते १ तातपादैश्चतुर्णा विभाग: प्रागेव कृतः । तन्मश्चाधस्स्थितं द्रव्यं गृहीत्वा विभक्ता एव सुखिनास्तिष्ठामः ।' तथेति सर्वेऽप्यूरीकृत्य मञ्चस्याधश्वख्नुः । तावञ्चतुर्णा पादानां तले चत्वारि ताम्रसम्पुटान्यदृश्यन्त । तेषामेकत्र सम्पुटे मृत् , एकत्राङ्गारः, अन्यत्रास्थीनि, परत्र पलालम्चासीत् । एतचतुष्टयं दृष्ट्वा ते चत्वारः परस्परं चतुर्विंशोपाख्यानम् विस्मिताः प्रोचुः । अहो! अस्मत्पित्रा सम्यगेव कृतो विभागः। किमत्र निदानमिति न ज्ञायते ।' इति विचार्य राजसभा प्रविश्य निवेदयामासुः । तच्छत्वा सभ्या निर्णेतुं न शेकुः । पुनस्ते प्रतिनगरमेत्य प्राज्ञेभ्यो न्यवेदयन् । परमेकोऽपि निर्णता न निश्चक्राम। अनन्तरमुज्जयिनी समागता राजसभामागत्य वृत्तान्त- मकथयन् । ततो राज्ञा च विभागक्रमो न ज्ञायते स्म तदन- न्तरमेकदा प्रतिष्ठाननगरमागतास्तत्रत्येभ्यो जनेभ्यो जगदुः । तैरपि निर्णयो न कृतः । तस्मिन् समये कुम्भकारगृहे स्थितः शालिवाहनोऽमुं वृत्तान्तमाकर्ण्य तत्रागत्य ब्राह्मणान् महाजना- नेवं भणति स्म-भोः सौम्याः! किमत्र दुर्बोधमस्ति ? केनार्य विभागक्रमो न ज्ञायते---भवद्भिः' तेऽवदन् 'कुमार! अस्मा- भिर्नावबुध्यते । यदि जानासि, कथय कथमयं विभागक्रम इति ।' तदा शालिवाहन:-"एते चत्वार एकस्यैव जीवनेवैतेषां पिता ज्येष्ठकनिष्ठानुक्रमेण विभागं कृतवान् । यतो ज्येष्ठस्य मृत्तिका दत्ता, तेन या समुपार्जिता भूमिः सर्वा सा तस्मै दत्तेति ज्ञायताम् । द्वितीयस्य पलालो दत्तः, तेन सर्वमपि धान्यं दत्तम् । तृतीयस्याङ्गारी दत्तः, तेन सर्व- मपि सुवर्ण दत्तम् । चतुर्थस्यास्थीनि दत्तानि, तेन सर्वाणि गोधनानि दत्तानि ।" इति शालिवाहनेन तेषां विभागक्रम- निर्णयः कृतः । तेऽपि सन्तुष्टाः स्वनगरं जग्मुः । राजा विक्रमोऽपीमां विभागनिर्णयवाता श्रुत्वातिवि- स्मयं गतः प्रतिष्ठाननगरमहाजनाम् प्रति पत्रिका प्रेषयामास । एकस्यैव पुत्राः ।

११२ विक्रमार्कचरित्रम् तथा हि "स्वस्ति श्रीयजनयाजनाध्ययनाध्यापनदानप्रतिग्रहषटू- कर्मनिरतान् यमनियमादिगुणगरिष्ठान प्रतिष्ठाननगरवासिनो महाजनान् कुशलप्रश्नप्रशंसापूर्वकं राजा विक्रमो वदति-भव- नगरे चतुणों वणिक्पुत्राणां विभागनिर्णयो येन कृतः, सोऽस्म- दन्तिकं प्रेषयितव्य इति ।" एवं महाजना राज्ञा प्रेषितां पत्रिका वाचयित्वा शालिवाहनं तमाहूयावादिषु:--"शालि- वाहन! राजाधिराजः श्रीवीरप्रतापशाली प्रत्यर्थिपृथ्वीनाथनम- स्कृतचरणसहस्रपत्तः श्रीविक्रमादित्यमहाराज उजयिनीनगरव- तंसः सकलार्थिलोककल्पवृक्षस्त्वां समाह्वयति । त्वं तत्र गच्छ शालिवाहन:-'विक्रमो नाम राजा कियान् ? तेनाहमाहूतो न गच्छामि । यदि तस्य प्रयोजनमस्ति, स्वयमेवागच्छतु । मम तदन्तिके किमपि फलं नास्ति । तस्य वचनं श्रुत्वा महाजनाः स नायातीति पुनः पत्रिकां लिखित्वा कमपि दूतं प्रेषयन् । ततो राजा पत्रिकां गृहीत्वा क्रोधानलेन देदीप्यमा- नविग्रहोऽष्टादशाक्षौहिणीबलेन निर्गत्य प्रतिष्ठाननगरमागत्य शालिवाहनाय दूतं प्रैषयत् । ततो दूतः समागत्य शालिवाहनं दृष्ट्वावादीत्-'भोः शालिवाहन! सकलराजाधिराजो विक्रमा- दित्यस्त्वां समाह्वयति । तस्य सन्दर्शनार्थमागच्छ, शालिवाहन:- 'रे नाहमेकाकी राजानं द्रक्ष्यामि । चतुरङ्गबलसमेतः सन् सम- राङ्गणे विक्रमं पश्येयम् । एवं राज्ञे निवेदय ।' तस्य वचनं श्रुत्वा दूतो राज्ञे निवेदयामास । तच्छ्रुत्वा विक्रमो युद्धाय सङ्गर- रङ्गमाजगाम । शालिवाहनोऽपि कुम्भकारगृहे मृण्मयं हस्त्यश्वरथपादातं मन्त्रेण समुजीव्य तेन बलेन नगरान्निगत्य समराङ्गणमवजगाहे। तदात्वे- चतुर्विशोपाख्यानम् दिक्चक्रं चलितं मयाज्जलनिधिर्जातो भृशं व्याकुल: पाताळे चकितो भुजङ्गमपतिः पृथ्वीधरा। कम्पिताः । भ्रान्ता सा पृथिवी महाविषधराः वेळं वमन्त्युत्कटं एवं वृत्तमभूज्जगज्जनपतेः सर्वं चमूनिर्गमे ॥ २७० तथा च- पवनमतिगतीनां वाजिनां भूरिबृन्दै- धननिभगजयूथा राजते वीरसेना । रथरुचिरपताकाप्रावृतं स्वं समस्तं पटहपटुनिनादैः भज्यते स त्रिलोकी ॥ अश्वाञ्चयुत्थितरेणुभिर्बहुतरैर्व्याप्तं त्वशेष नभ- इशस्त्रैरावृतमन्तराळमखिलं व्याप्ता विशाला धरा । निर्घोषै रथजैस्ततः प्रतिहता वाक्चापि न श्रूयते वीराणां निनदैः प्रभूतभयदैयुक्ता प्रसन्ना चमू॥२७२ अनन्तरमुभयोः सैन्ययोः सङ्कुलं युद्धं समभूत् । ततो विक्रमार्केण शालिवाहनसैन्यं सर्वमपि निपातितम् । शालिवा- हनोऽप्यतिविह्वलः सन् 'आपत्काले मां स्मर' इति पितृदत्तं वरं स्मृत्वा शेषं नागेन्द्रं पितरं सस्मार । शेषोऽपि सर्वान सन् प्रेषयामास । तैराशीविषैर्दष्टमात्रं विक्रमस्य सैन्यं निखिलं निपपात ॥ तदनन्तरं विक्रमो राजा स्वयमेकाकी निवृत्य स्वसैन्य- समुज्जीवनार्थ तीर्थोदके वर्षमेकं वासुकिं प्रति व्रतमन्वतिष्ठत् । ततो वासुकिः प्रसन्नो भूत्वा बभाषे-'भो राजन् ! वरं वृणीष्व' ११४ विक्रमार्कचरित्रम् इति । राजा-भोः सर्पराज! यदि प्रसन्नोऽसि, तर्हि भुज- गविषवेगेन मूर्छितं मम सैन्यं सञ्जीवय ।' तथेति वासुकिर• मृतघटमेकमदात् । तममृतघटं गृहीत्वा राजा विक्रमः सत्वर- माजगाम । तावद्राह्मणः कश्चित् समागत्य- 'हरेर्लीलावराहस्य दंष्ट्रादण्डः स पातु वः । हेमाद्रिः कलशो यत्र धात्रीच्छत्रश्रियं दधौ' ॥ २७३ इत्याशिषमुक्तवान् । राजा-'भो ब्राह्मण! कुतः समा. गतोऽसि?' ब्राह्मणः-'अहं प्रतिष्ठाननगरादागच्छम् । 'राजा- 'यत् त्वया याच्यते तदहं दास्यामि ।' ब्राह्मणः -'भवान- र्थिजनचिन्तामणिः, यतश्चिन्तितं वस्तु दातुं प्रभवसि । अतो ममैतस्मिन् वस्तुनि महती प्रीतिरस्ति ; तबीयतामयममृतकुम्भः।' राजा-त्वं केन प्रेषितोऽसि?' ब्राह्मण:--'अहं शालिवाह- नेन प्रेषितोऽस्मि ।' ततो राजा विचारयामास-मया पूर्व- मस्मै दास्यामीत्युक्तम् ; इदानी न दीयते चेदपकीर्तिरधर्मोऽपि स्यात् ; अत: सर्वथा दातव्यमेव ।' ब्राह्मण:-"राजन् ! किं विचार्यते ? भवान् सज्जनः । सज्जनस्तु द्विर्न भाषते । तथाचाक्तम्- उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीततां याति वहिः । विकसति यदि पन पर्वतारो शिलायां भवति तदनृतं वै भाषितं सज्जनानाम् ॥

पंचविंशोपाख्यानम् तथाच- । २७५ अद्यापि नोज्झति हरः किल कालकूट कूर्मों विभति धरणी खलु पृष्ठभागे । अम्मोनिधिर्वहति दुस्सहवाडवाग्नि- मङ्गीकृतं सुकृतिनः परिपालयन्ति ।" राजा 'सत्यमाह भवान् । गृह्यताममृतघटोऽयमिति तस्मै ददौ । सोऽपि राजानं स्तुत्वा निजस्थानं गतः । राजा- प्युज्जयिनीमगात् । इमां कथां कथयित्वा सालभञ्जिका तमवोचत्-भो राजन् ! यदि क्षममात्मानं मन्यसे, तर्युपविश' तच्छ्रुत्वा राजा तूष्णी बभूव । इति चतुर्विंशोपाख्यानम् ॥ अथ पञ्चविंशोपाख्यानम् ॥ द्वादशवार्षिकमधिकावग्रहं भाविनं समाकर्ण्य । आशापूरण्यै निजशिरो बलिं दत्तवानिति ब्रूते ॥ २७६ पुनरपि राजा यावत् सिंहासन उपवेष्टुमुपाक्रमत, ताव. दन्या सालभञ्जिकाऽब्रवीत् । श्रूयतां राजन् ! विक्रमादित्ये राज्यं कुर्वत्येकदा कश्चिज्ज्योतिषिक आगत्य- सूर्यः शौर्यमथेन्दुरिन्द्रपदवी सन्मङ्गळं मङ्गळा सदुद्धिं च बुधो गुरुश्च गुरुतां शुक्रः शुभं शं शनिः ।

विक्रमार्कचरित्रम् राहुर्बाहुबलं करोतु सततं केतुः कुलस्योन्नति नित्यं भूतिकरा भवन्तु भवतः सर्वेऽनुकूला ग्रहाः ॥ इत्याशिषमुक्ता पञ्चाङ्गमकथयत् । राजा पश्चाङ्गं श्रुत्वा ज्योतिषिकमपृच्छत् । 'भो दैवज्ञ! कीदृशमेतत्संवत्सरफलम् ?' दैवज्ञ:-अस्मिन् संवत्सरे राजा रविः, मन्त्री मङ्गळ:, धान्याधिपतिः शनिः । अन्यच्च, शनैश्वरो भौमश्च रोहिणीश- कटं भित्वा यास्यतः । तस्मात् सर्वथाऽनावृष्टिभविष्यति । उक्तं च वराहमिहिरेण- अर्कसुतेन हि भन्ने भौम: शुक्रश्च रोहिणीशकटे । द्वादश चान्दान् न हि न हि वर्षति वर्षाणि वारिदो नियतम्।। रोहिणीशकटमर्कसनुना भिद्यते रुधिरवाहिनी सरित् । किं ब्रवीमि? न हि वारि सागरे सर्वलोक उपयाति संक्षयम्।। मतान्तरे- यदा भिनत्ति मन्दोऽयं रोहिण्याः शकटं तदा । वर्षाणि द्वादशात्यन्तं वारिवाहो न वर्षति ॥" इदं देवैज्ञवचनं श्रुत्वा राजाऽब्रवीत्-'एतदवग्रहनि- वारणे कमप्युपायं निवेदय ।'देवज्ञः-'नवग्रहहोमाधनुष्ठानं कर्तव्यम् । ततो वृष्टिभविष्यति । ततो विक्रमार्कः श्रोत्रियान् ब्राह्मणानाहूय तेभ्यः पूर्व- वृत्तान्तमुक्ता तैहोंमं कारयितुमुपक्रान्तवान् । ततः सर्वा होम- सामग्री सम्पादिता । ब्राह्मणैः कल्पोक्तप्रकारेण नवप्रहहवनमपि कृतम् । होमसाद्गुण्यार्थ पूर्णाहुतिरिति निर्वर्तिता । राजा दिव्य- २७९ पञ्चविंशोपाख्यानम् ११७ वस्त्रादिना ब्राह्मणानतोषयत् । ततो भूरिदानेन दीनान्धबधिरपङ्गु- कुब्जादयोऽपि सन्तोषिताः । तथाऽपि वृष्टि भूत् । तदनन्तर- मनावृष्टया सर्वोऽपि लोकः परं क्लेशमगमत् । राजाऽपि तेषां दुःखेन स्वयं दुःखितः सन्नेकदा यज्ञशालायामुपविष्टो व्यचि- न्तयत् । तावदशरीरिणी वागासीत् । “भो राजन्! तव परोप- कारो यदि, पुरस्थितदेवालयवासिन्या आशापूरण्या देवतायाः पुरो द्वात्रिंशलक्षणयुक्तस्य पुरुषस्य कण्ठरक्तेन बलिं देहि । ततो वृष्टिर्भविष्यति, अवग्रहोऽपि नश्यति ।" इति श्रुत्वा राजा देवालयं गत्वा देवतां नमस्कृत्य कण्ठे खङ्गं न्यधात् । तावद्देवता-'राजन् ! तव धैर्येण प्रसन्नास्मि । वरं वृणीष्व ।' राजाऽभणत्-देवि! अनावृष्टिं निवारय । ' देवता तथा करिष्यामि' इत्युक्त्वा सद्यश्वकार । ततो राजा निजभवन- मगमत् । इमां कथा कथयित्वा सालभञ्जिका भोजराजमब्रवीत्- 'भो राजन् ! एवंविधं साहसं त्वयि विद्यते चेदस्मिन् सिंहा- सन उपविश ।' तच्छृत्वा राजा तूष्णीं बभूव । इति पञ्चविंशोपाख्यानम् ॥ अथ पर्डिशोपाख्यानम् ॥ परोपकारित्वपरीक्षणाय स्वाराणियुक्तां बहुपकमनाम् । उद्धृत्य राजा सुरमिं द्विजाय ददाविति व्याहरतीह सैषा ॥ पुनरपि राजा यावत् सिंहासने समुपवेष्टुमयतिष्ट, ताव- दन्या सालभञ्जिकावदत्-'भो राजन्नत्र सिंहासने स्थित्वा राज्यं कर्तु विक्रम एव प्रभवति । 'राजा-'सालभलिके! कथय तस्य महिमानम् । 'साऽब्रवात-'भो राजन् ! निश- म्यताम् । विक्रमादित्यसदृशो राजाऽन्यः सत्त्वौदार्यादिगुणैर्नास्ति । अन्यञ्च, यदुक्तं तदन्यथा स न करोति । यश्चित्ते तिष्ठति तदेव वदति । यद्वाचा वदति तदेव करोति । अतः सजनो विक्रमार्कः । यथा चित्तं तथा वाक्च यथा वाक्च तथा क्रिया । चित्ते वाचि क्रियायां च साधूनामेकरूपता ॥ २८१ तथा च- उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमकृत्रिमम् । सज्जनानां स्वभावोऽयं यथेन्दोः शिशिरो गुणः ॥ अथैकदा सुरनगयों सिंहासनमलंचकार भगवान् सह- साक्षः । तदा च तमष्टादश सहस्राणि महर्षयः, त्रयविंशत् कोच्यो देवाः, अष्टौ लोकपालाः, एकोनपश्चाशन्मरुद्गणाः, द्वाद- शादित्या, चन्द्राङ्गारकादयो प्रहाः, नारदादयो देवर्षयो, मेनकोर्व- शीतिलोत्तमासुकेशीघृताचीम घोषाप्रियदर्शिनीप्रभृतयो दिव्या- ङ्गनाः सर्वे गन्धर्वादयो गणाश्चासेवन्त । अत्रान्तरे नारदः- षड्विशोपाख्यानम् 'भूमण्डले विक्रमसदृशः परोपकारी महासत्त्वसम्पन्नो वा राजा कोऽपि नास्ति ।' तद्वचनमाकये सर्वापि सभाः परं विस्मयं जगाम । कामधेनु:-कोऽत्र सन्देहः ? न किमप्यत्र विस्म- यनीयम् । दाने तपसि कार्ये च विज्ञाने विनये नये । विसयो हि न कर्तव्यो बहुरत्ना वसुन्धरा ॥ २८३ तथा च- वाजिवानरलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरा महदन्तरम् ॥ २८४ तदनन्तरमिन्द्रः सुरभिमवादीत्-त्वं मर्त्यलोकं गत्वा विक्रमस्य परोपकारगुणान् निश्चित्य मम निवेदय ।' अथ सुरभिर्विक्रमाकस्य हृदयपरीक्षार्थ राजागमनमार्गे दुर्बला सती कुत्रापि घोरे पङ्के निममज । राजापि तां दृष्ट्वा सहसा स्वरूपाभिमानमपहाय दुरवगाहे पके प्रविश्य स्वयमेव तां पङ्कादाकृष्य प्रक्षाळ्य शनैर्घासमुष्टिं दत्त्वा कण्डूयनादिभि- रुपचचार । तदा कामधेनुर्निजरूपं धृत्वा प्रसन्ना भूत्वावदत्- 'भो राजन् ! वरं वृणीष्व ।' राजा-'यदि मम सुप्रस- नासि, तर्हि निजरूपेण मम गृहे सर्वदा निवसतु भवती ।' तथेत्युक्त्वा सा सुरभी राज्ञो हस्तगताभूत् । तदा कश्चिद्धामणः - समागत्य- 'सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबर्हि- प्रासानासाग्ररन्धं विशति फणिपतौ भोगसङ्कोचमाजि । गण्डोड्डानाळिमालामुखरितककुभस्ताण्डवे शूलपाणे- वैनायक्यश्चिरं बो वदनविधुतयः पान्तु फीट्कारवत्यः' ।

१२० विक्रमार्कचरित्रम् इत्याशिषं प्रयुज्यावादीत्- राजन् सर्वानहं याचे न मां कश्चन याचते । अहो दैवविपाकोऽयमीश्वराणामपीश्वरः ॥ २८६ यस्तु दारिद्र्यमुद्रितस्तस्य गृहे सर्व शून्यं वर्तते । तथा हि- ग्रास मे पथिकाय देहि सुभगे हा हा गिरो निष्फला: कसाहि सखेऽस्ति नूतनमिदं कोवावधिर्नास्ति वै यावज्जीवमिदं न जातिरपरा वित्तप्रभावादियं को जातो मम सर्ववित्तहरणो दारिद्यनामा सुतः ॥ २८७ राज्ञोक्तम्-'भो ब्राह्मण! किं याच्यते त्वया?' ब्राह्मण:- 'भवानाश्रितकल्पवृक्षः । यावजीवं मम दारिद्यदुःखं मास्तु । राजा-'इयं कामधेनुस्तवेप्सितं दास्यति इमां गृहाण' इति तस्मै कामधेनुं ददौ । ब्राह्मणस्तां गृहीत्वा निजभवनमयासीत् । राजापि निजनगरमगमत् । इमां कथां कथयित्वा सालभञ्जिका राजानमवदत्- 'किं तथा दातुं प्रभवसि ?' तच्छुत्वा राजा तूष्णीमगच्छत् । इति षड़िशोपाख्यानम् - ॥ अथ सप्तविंशोपाख्यानम् ॥ आत्मकण्ठरुधिरेण भैरवं तोषयन् वसुमयं घटत्रयम् । देवदत्तकितवाय दत्तवानित्यसौ भणति सालभञ्जिका ।। पुनरप्येकदा भोजे महीपतौ सिंहासनमारोढुं समाग- च्छति, तावदन्या सालभञ्जिका निराकार व्याजहार च। राजन् ! श्रूयताम- सप्तविंशोपाख्यानम् १२१ विक्रमार्को राजा पृथ्वी शासन्नेकदा धरापर्यटनार्थ निज- नगरान्निर्गत्य नगरमेकमगमत् । तत्रत्या राजानः परं धार्मिकाः श्रुतिस्मृतिविहितानुष्ठानतत्पराः, चातुर्वण्र्य साबु पर्यपालयन् । सर्वे जनाः सदाचारा अतिथिप्रिया दयापराश्वासन् । राजा विक्रमस्तत्र पश्च दिनानि स्थास्यामीति कश्चिदतिमनोहरं देवा- लयं गत्वा देवं नमस्कृत्य रङ्गमण्टपमध्यास्त । अत्रान्तरे कश्चि- द्राजकुमार इवातिमनोहररूपो दुकूलवस्त्रधारी नानालङ्करणा- लतः कर्पूरफुकमागुरुमृगनाभिसुगन्धमिळितचन्दनानुलिप्तत- नुर्गणिकाभिः साकं तत्रागत्य नानाविधाः क्रीडाकथा विधाय कश्चित् कालमपनीय पुनरपि ताभिः सार्ध निर्जगाम । राजापितं दृष्ट्वा कोऽयमिति विचारयन्नास्त । परेद्युः स एकाकी दीनवदनो वस्त्रादिरहितः कौपीनमात्रशेषः समागत्य रङ्घमण्टपे पपात । राजा तं दृष्ट्वा भणति स्म - 'भोः पूर्वेयुर्वस्त्राभरणादिनालङ्कृत- शरीरो राजकुमार इव वेश्याभिः सह समागतोऽसि । अद्य पुनरेवं दृश्यसे । किमेतत् ?' स पुरुष:--"महापुरुष ! किमेवमुच्यते ? अहं पूर्वे- द्युस्तथैव स्थितः । इदानी दैवयोगादेवं तिष्ठामि । तया हि- ये वर्धिताः करिकपोलमदेन भृङ्गाः प्रोत्फुल्लपङ्कजरजस्सुरभीकृताङ्गाः । ते साम्प्रतं प्रतिदिनं गमयन्ति कालं निम्बेषु चार्ककुसुमेषु च दैवयोगात् ।। २८९ विकसितसहकारपुष्पवाटी- परिमळकेळिपरायणो हि भृङ्गः । A Vikra-6 २९० १२२ विक्रमाचरित्रम् विलसति मधुतुन्दिल: पुरा यः स विधिबलादधुनैति चाल्पवृक्षान् ॥ ये वर्धिताः कनकपङ्कजकेसरात्रै. मन्दाकिनीविमलतुङ्गतरङ्गसौधे । ते साम्प्रतं प्रतिदिनं खलु राजहंसा: शैवालजालजटिलं जलमाश्रयन्ते ॥ २९१ वातान्दोलितगाणपङ्कजरजापिङ्गाङ्गरागोज्ज्वलो यः शृण्वन् कलकूजितं मधुलिहां सञ्जातहर्षोत्सवः । कान्ताचञ्चुपुटावलम्बितबिसग्रासनहेऽप्यक्षम: सोऽयं सम्प्रति हंसको मरुगतः कष्टं तृणं मार्गते॥ २९२ कर्मणा नियमिते जन्मनि; को वा कष्टं न प्राप्नोति ? तथा चोक्तम्- ब्रह्मा येन कुलालवनियमितो ब्रह्माण्डमाण्डोदरे विष्णुर्यन दशावतारगहने क्षिप्तो महासङ्कटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते सूर्यो भ्राम्यति येन खेऽनवरतं तस्मै नमः कर्मणे ॥" राजा-'को भवान् ?' पुरुषः-'अहं कितवः । राजा---'त्वं द्यूतक्रांडां जानासि किम् ?' पुरुष:-"दुरोद- रविषयेऽहमेव विचक्षणो, नान्यः । अन्यच्च, वारिक्रीडां वराट- मुष्टिं च जानामि । परं देवमेव बलवत् । उक्तश्च- "शशिदिवाकरयोग्रहपीडन गजभुजङ्गविहङ्गमवन्धनम् । - - सप्तविंशोपाख्यानम् १२३ मतिमतां च समीक्ष्य दरिद्रता विधिरहो बलवानिति मे मतिः॥" २९४ राजा--'भो देवदत्त! त्वमतीव प्राज्ञोऽसि । कथमेवं पापे धूतकर्मणीच्छां करोषि ?' देवदत्त:-"प्राज्ञोऽपि पुरुषः कर्मणा प्रेर्यमाणः किं न कुर्यात् ? 'किं किं न कुर्यात् प्राज्ञोऽपि प्रेर्यमाणः स्वकर्मभिः । प्रागेव हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥” २९५ राजा--द्यूतं पुनर्महापापमूलम् । सर्वेषां व्यसनाना- माश्रयभूतो गुतविधिः । तथोक्तम्- भवनमिदमकीर्तेश्चोरवेश्यादिसम व्यसननिधिरुदग्रापनिधिः पापबीजम् । विषमनरकमार्गेष्वग्रयायीव मर्त्यः क इह विशदबुद्धि तकार्य करोति ॥ २९६ तन्महापापानि सप्त व्यसनानि बुद्धिमता त्याज्यानि । द्यूतमांससुरावेश्याखेटचौर्यपराङ्गनाः । महापापानि सप्तैव व्यसनानि त्यजेदुधः ॥ २९७ अन्यच्च-यस्त्वेकव्यसनेन युक्तः, स तु नियमेन नश्यति । किं पुनः सप्तव्यसनाभिभूतः ? उक्तश्च- द्यूताद्धर्मसुतः पलादिह बको मद्यायदोनन्दना शको जारतया मृगान्तकतया स ब्रह्मदत्तो नृपः । चोरत्वाच ययातिरन्यवनितासङ्गादशास्यो महा- नेकैकव्यसनादिता यत इमे सर्वैन को नश्यति ॥२९८ १२४ विक्रमाचरित्रम् - तदा राजा ततस्त्वमप्येतानि सप्त' व्यसनानि परित्यज । " देव. दत्तः–'भोः स्वामिन् , ममैतदेव जीवनं, कथं परित्यजेयम् ? यदि कृपां विधाय कमपि धनोपार्जनोपायं कथयिष्यति, तदाहं दुरोदरं त्यजामि ।' अस्मिन्नवसरे विदेशवासिनी द्वौ ब्राह्मणा- वागत्य देवालयैकदेशे समुपविष्टौ परस्परममन्त्रयेताम् । तत्रैक:- "मया पिशाचभाषालिपिमन्त्रकल्पोऽवलोकितः । तत्रैवं वर्णा- वलिश्यते---'अस्य देवालयस्येशान्यदिग्भागे पञ्चधनुःप्रमाणे श्वभ्रे नवरत्नादिपूरितं घटत्रयमस्ति । तत्समीपे भैरवप्रतिमास्ति । त्वं भैरवं स्वकण्ठरक्तेन सिक्त्वा तद्गृहाणे'ति । तद्वचनं श्रुत्वा तत्र गत्वा स्वकण्ठरक्तेन भैरवं यावत् सिषेच, तावत् प्रसन्नो भैरवो जगाद-'भो राजन् ! प्रसन्नोऽस्मि । वरं वृणीष्व ।'राजा---'यदि मम प्रसन्नोऽसि तद्यस्मै द्यूतका- राय नवरत्नपूरितं घटत्रयं देहि । 'ततो भैरवेण तद्धनं कित- वाय दत्तम् । घतकारोऽपि राजानं स्तुत्वा निजस्थानं गतः । राजा विक्रमोऽपि निजनगरमगमत् । इति कथां कथयामास सालभञ्जिका । तच्छुत्वा तूर्णी गतः । इति सप्तविंशोपाख्यानम् राजा ॥ अथाष्टाविंशोपाख्यानम् ॥ अत्र हि वेताळपुरे कञ्चन चण्डया निवार्य बलिभावात् । तत्रापनुनोद नृणां तत्प्रथमं बलिविधानमिति वक्ति ॥२९९ अष्टाविंशोपाख्यानम् १२५ पुनरपि राजा कदाचन सिंहासनमधिरोदुकामः पाश्चा- लिकामस्तके पादं निधातुमुपचक्रमे । तावदष्टाविंशतितमी प्रतिमा जगाद-यद्यपि भवान् महीं पालयति, तथापि विक्रमार्क इव भद्रासनमिदमधिरोढुं नाहति । श्रूयताम् । विक्रमादित्यो राजा पृथिवीपर्यटनार्थमेकदा स्वनगरा- निर्गतो नगरमेकमगमत् । तन्नगरसमीपे निर्मलोदका कापि तर- ङ्गिणी प्रवहति । तत्तीरे नानाविधकुसुमफलभरितविटपिकुल- सङ्कुलं वनमेकमपश्यत् । मध्ये च तस्य समुत्तुङ्गगोपुरवररम- णीयं देवतायतनमद्राक्षीत् । दृष्ट्वा च तत्र नदीजलमवगाह तमालयमलंकुर्वाणं देवं प्रणम्य तत्रोपविवेश । तत्रान्तरे वैदेशि- काश्चत्वारः समागत्य राजसमीपे समुपविविशुः । ततो राजा तानप्राक्षीत्-यूयं कुतः समागच्छथ ? तत्र कश्चिदुवाच- 'पूर्वदेशादागच्छामः ।' राजा-तत्र किमद्भुतमपश्यत ?' ते प्रोचुः–'स्वामिन् ! महदपूर्व लोचनगोचरमकुम । यत् प्राणान् हस्ते गृहीत्वा वयमागच्छामः ।' राजा-'तत् किं कथयत । ' पुरुषा:-'तत्र देशे बेताळपुरी नाम वर्तते । तत्र शोणितप्रिया नाम देवतास्ति । तत्रत्या महाजना राजा च प्रतिसंवत्सरं स्वमनोरथपूरणार्थं तस्यै पुरुषोपहारं प्रयच्छन्ति । तस्मिन् दिने कोऽपि वैदेशिकः समायाति यदि, तमेव देव- तायाः पुरः पशुमिव समर्पयन्ति । वयमपि तस्मिन्नेव दिने मार्गवशात् तन्नगरं प्राप्ताः । तत्रत्या अस्मानुपहर्तुमयतिषत । तां प्रवृत्तिं कर्णपरम्परया निशम्य वयं प्राणत्राणपरायणाः कथमपि पलायनमेव शरणं मन्वाना: समागताः स्मः । एत- न्महदाश्चर्यमस्माभिदृष्टम् । " १२६ विक्रमार्कचरित्रम् तच्छ्रुत्वा राजा विक्रमस्तत्र गत्वा देवतायतनमतिभ- यङ्करं विलोक्य देवतां नमस्कृत्यास्तावीत्- ब्राह्मी वारिरहेन्दुसौम्यवदना माहेश्वरी लीलया कौमारी रिपुवर्गनाशनकरी चक्रायुधा वैष्णवी । वाराही घनघोरघर्षररवाऽप्यन्द्री च वज्रायुधा चामुण्डा गणनाथरुद्रसहिता रक्षन्तु मां मातरः ॥३०० इति स्तुत्वा तत्र रङ्गमण्टपमधिशिश्ये । तस्मिन् समये कश्चिद्दीनवदनो वैदेशिको महाजनैर्वाद्य- पुरस्सरमनीयत । राजापि तं दृष्ट्वा स्वमनसि विचारयति स्म- अयमेव देवताबलिनिमित्तं महाजनैः समानीतः । ततोऽयं दीनवदनो दरीदृश्यते । अस्मिन् समये मम शरीरं दत्त्वामुं मोचयिष्यामि । इदं शरीरं शतं वर्षाणि स्थित्वापि सर्वथा नाशमेव यास्यति । अतः स्वदेहव्ययेनापि धर्म कीर्ति च समा- जयिष्यामि । उक्तञ्च-- चला लक्ष्मीश्चलाः प्राणाश्चलो देहोऽपि यौवनम् । चलं चलश्च संसारः कीर्तिधर्मश्च निश्चलौ ॥ ३०१ अर्थाः पारदचञ्चला गिरिनदीवेगोपमं यौवन मानुष्यं जलवीचिबिन्दुचपलं फेनोपमं जीवितम् । धर्म यो न करोति निश्चलमति स्वर्गार्गळोद्घाटनं पश्चात्तापयुतो जरापरिगतः शोकाग्निना दह्यते ॥ ३०२ एवं विचार्य राजा तान् महाजनानपृच्छत् 'अयं दीनवदनः कुत्र किमर्थ नीयते ?' जना:-'अमुं देवताबलि- - अष्टाविंशोपाख्यान १२७ निमित्तं नयामः । राजा 'किं कारणम् ?' जना:--'देव- तानेन पुरुषोपहारेण तुष्टा सत्यस्मन्मनोरथं पूरयिष्यति । राजा-"भो महाजना:! अयमत्यन्तमल्पतनुः परं भीतश्च । अस्य शरीरोपहारेण देवतायाः का नाम तुष्टिभविष्यति ? तस्मादमुं मुञ्चन्तु भवन्तः । अहमेव तदर्थ मम शरीरं दास्यामि । अहं पुष्टाङ्गोऽस्मि । मम मांसोपहारेण देवता सन्तुष्टा भविष्यति । अतो मां नयत ! " इति भणित्वा राजा तं विमोच्य स्वयमेव देवतायाः समक्षं गत्वा स्वखङ्गं कण्ठे चकार । तावदेवता मण्डलामाकृष्य जगाद -'भो महासत्व! तवौदार्येण धैर्येण च सन्तुष्टास्मि । वरं वृणीष्व ।' राजा-'देवि! यदि मम प्रसन्नासि, तद्यिप्रभृति पुरुषमां- सोपहारं परित्यज ।' देवताप्यङ्गीचकार । तत्र महाजना राजा- नमवदन्-“महीपाल! त्वं निजसुखनिरभिलाषः सन् परा- थमेव परं खेदं वहसि महाद्रुम इव । तथाहि- खसुखनिरभिलाषः खिद्यसे लोकतो: प्रतिदिनमथ वा ते वृत्तिरेवंविधैव । अनुभवति हि मूर्धा पादपस्तीव्रमुष्णं शमयति परिताप छायया स्वाश्रितानाम् ॥" ततो राजापि तदनुज्ञा गृहीत्वा निजनगरमगमत् । इमां कथां कथयित्वा सालभञ्जिका राजानमब्रवीत्- 'धारानगरधुरन्धर! त्वय्येवमौदार्य विद्यते ?' तच्छ्रुत्वा तूष्णींबभूव । इत्यष्टाविंशोपाख्यानम् राजा- ॥ अथैकोनविंशोपाख्यानम् ॥ एष हि विक्रमभूपः कसौचिद्वन्दिने दरिद्राय । रत्नानि यावदिष्टं हतु कोश ददाविति ब्रूते ।। ३०४ भूयोऽपि समागतं भोजराजमपरा व्याजहार-नेद- मधिष्ठातुमर्हति भवान् । श्रूयतां राजन् ! एकदा विक्रमाकों राजा राजन्यकुमारैः संसेव्यमानः सभायामुपविवेश । तदा कश्चन स्तुतिपाठकः समागत्य प्रणम्य, यावद्वीचीतरङ्गान् वहति सुरनदी जाह्नवी पुण्यतोया यावच्चाकाशमार्गे तपति दिनकरो भास्करो लोकपाल । यावद्वजेन्द्रनीलस्फटिकमणिमयं विद्यते मेरुशृङ्गं तावत् पुत्रैः सपौत्रैः स्वजनपरिवृतो भुङ्क्व राज्यं नृपाल।। यथा तोयं समाकाक्ष्य मयूरो ग्रीष्मपीडितः । निरीक्षतेऽथ जीमूतं तथाहं तव दर्शनम् ।। ३०६ अहं तु हिमवन्निकटाद्भवतः कीर्तिं समाकर्ण्य दूरादाग- तोऽस्मि ।" इत्युक्त्वास्तावीन्- कर्पूरादपि कैरवादपि दळत्कुन्दादपि स्वर्णदी- कल्लोलादपि कैतकादपि गलत्कान्तादृगन्तादपि । दूरोन्मुक्तकलङ्कशङ्करशिरश्शीतांशुखण्डादपि श्वेताभिस्तव कीर्तिभिर्धवळिता सप्तार्णवा मेदिनी ।। देवदेव तरुच्छायामाश्रितोऽसि महीपते । किं नाम खलु दैन्यं मे धन्यो नान्योऽस्ति मद्भुवि ।।

एकोनविंशोपाख्यानम् १२९ " देव सर्वस्खदातारं भवन्तं पश्यतो मम । गाहते हृदयं भूषं तं वदान्यशिरोमणिम् ॥ ३०९ राजा-'कस्ते स्मरणवीथीमागतः ?' वन्दी-देव! अस्त्युत्तरस्यां दिशि हिमवत्पर्वतोत्तरदिग्भागे जम्बीरनगरे धने- श्वरो नाम राजा । स तावदर्थिनां दारिन्यदुःखं निवार्य तान् धन पतीन् करोति । एकदा तेन धनेश्वरेण माघशुद्धसप्तम्यां वस- न्तपूजा विहिता । तत्र दानार्थमष्टादशकोटिसुवर्ण परिकल्पि- तम् । एवमौदार्यगुणगरिष्ठः स राजा जागर्ति । अस्मिन् देशे देव एक एव तादृशो दृष्टः । तस्य वचनं श्रुत्वा राजा भाण्डारिकमाहूयावादीत् 'अमुं वन्दिनं भण्डारं नीत्वा महा- होणि रत्नानि दर्शय । ततोऽयं यावन्ति वाञ्छति तावन्ति रत्नानि गृह्णातु ।'तथा कोशाध्यक्षस्तं भण्डारं नीत्वा दिव्या- न्यनेकरत्नान्यदर्शयत् । स्तुतिपाठकोऽपि स्वेप्सितानि रत्नानि यथेष्टं गृहीत्वा परिपूर्णमनोरथो राजसमीपमागत्य भणति स्म- "भो देव! तव प्रसादादहं धनपतिर्जातोऽस्मि । नवापि निधयो मम हस्ते प्राप्ता इव । महाराज! हिरण्यगर्भादयोऽपि भवत्तुलां नाधिरोहन्ति । तथा हि- वेधा वेदमयो विष्णुर्गोविन्दोऽपि गदाधरः । शम्भुः शूली विषादी च देवः केनोपमीयताम् ॥३१० इति स्तुत्वा ब्रह्मायुर्भवेत्याशिषमभिधाय निजनिवास- मयासीत् । इति कथां कथयित्वा सालभक्षिका राजानमब्रवीत् । 'भो राजन् ! किमाकर्णितमौदार्य विक्रमार्कस्य ?' राजा तूष्णीं बभूव । इत्येकोनत्रिंशोपाख्यानम् - - ॥ अथ त्रिंशोपाख्यानम् ॥ इन्द्रजालविदुषः प्रवीणता भूमिजानिरवलोक्य विसितः । पाण्डयभूपतिसमर्पितं धनं दत्तवानिति हि वक्ति साम्प्रतम् ।। अथ भूयोऽपि भद्रासनमधिरोदुमभिलषन्तमन्या साल- भञ्जिकाऽभणत्-'महीपाल! विक्रमस्यौदार्य त्वयि किं विद्यते ? -'भोः सालभलिके! कीदृशं तत् ? ! साऽब्रवीत् , राजन् ! श्रूयताम् । एकदा विक्रमः सकलसामन्तराजकुमारैरुपसेव्यमानः सिंहासनमध्यास्त । तत्र कश्चिदैन्द्रजालिकः समागत्य राजानं नमस्कृत्य जगाद-'देव! सकलकलाभिज्ञस्य तव समीपमा- गत्य बहव ऐन्द्रजालिका निजलाघवमदर्शयन् किल । मम तावदिदमेकं लाघवं तत्र भवान् प्रसन्नेन चेतसा विलोक्कयतु ।' राजा--'नेदानीमवसरोऽस्माकम् । स्नानसमयः सम्प्राप्तः । श्वः प्रभाते द्रक्ष्यामः ।' अथ परेयुः प्रभाते राजा विकमस्त- कालोचितं सर्वमनुष्ठानजातं विधाय प्रियबान्धवैः सह शरीर- वृत्तिं निवर्त्य वनाभरणगन्धमाल्याद्यैरलङ्कृतः सकलसामन्त- महीकान्तहितपुरोहितसेवितः सुधर्माभिधानं सभाभवनमव- गाह्य तदिदममरपरिबृढप्रसादसमासादितमासनमास्थाय तमैन्द्र- जालिकमाह्वाययत् । ऐन्द्रजालिको महाकायो महाश्मश्रुभिर्देदी- प्यमानवदनो दक्षिणहस्ते खङ्गं धृत्वा, अतिमनोहररूपलाव. ण्यप्रेक्षणीयां कामपि कमललोचनां परिगृह्य, राजास्थानमण्टपं प्रविश्य, राजानं प्रणम्य तस्थौ । तदा सर्वेऽपि सामाजिकाः सविस्मयमद्राक्षुः, अप्राक्षुश्च । 'को भवान् ? कुतस्त्यः ?' इति ।

त्रिंशोपाख्यानम तच्छुत्वा राजा ऐन्द्रजालिक:-'अहं महेन्द्रसेवकः । कदाचित् स्वामिना शप्तो भूमण्डले तिष्ठामि । इयं मम प्रेयसी । अद्य स्वर्गे देवानां पूर्व- देवानां च महाद्धं प्रवर्तते । अहं तत्र गच्छामि । अयं तु राजा विक्रमादित्यः परनारीसहोदर इत्यश्रौषम् । अतोऽहमस्य सविधे प्रियामिमां निक्षिप्य युद्धार्थ गमिष्यामि । विक्रमादित्यः परमाद्भुतभरितहृदयः कथमप्युररीकृतवान् । सोऽपि विक्रमहस्ते प्रणयिनी समर्प्य तं प्रणम्य झाडिति गगने- मुदपतत् । तावदाकाशे, रे रे मारय घातयेति घोरतरा वाग- भूत् । अथ सर्वेऽपि सभ्या युगपदुन्नमितवदनाः सकौतुकम- पश्यन् । अनन्तरं मुहूर्तमात्रे राजसमक्षं दृढमुष्टिनिपीडितक- पाणो रुधिरधारारूषितो बाहुरेको दिवः पपात । राजा विलोक्य सभ्यानवादीत्-'महानयं वीरः सङ्गामे प्रतिभटैन्यपाति । तस्यैकः सखड्गो बाहुरत्र पतितः ।' एवं वदत्येव राजान कबन्धो न्यपतत् । समनन्तरमेव शिरोऽपि पतददृश्यत । तत् दृष्ट्वा सा वनिता सकरुणं जगाद-'भो देव! मम भर्ती रणाङ्गणे युद्धं विधाय शत्रुभिर्निहतः तस्येदं शरीरं, सखड्गो बाहुः, शिरश्च । मम प्राणप्रियं यावदमर्यों न वृणते, तावदह गमिष्यामि ! ममानिर्दीयताम् । " एवं तस्या वचनं श्रुत्वा राजाब्रवीत्-'अयि पुत्रि! किमर्थमग्निं प्रवेक्ष्यसि ? त्वामहं तनयामिव परिपालयामि । रक्षात्मशरीरम् । वनिता-देव! किमभिधीयते ! यदर्थमेतच्छरीरं, स मे स्वामी दशामिमामनुभवति । देव! तदेतच्छरीरं कस्य कृते विक्रमार्कचरित्रम् - रक्षामि । देवोऽप्येवं मा वादीत् । यतः प्रमदाः पतिवमंगा इति स्वतस्सिद्धोऽयं पन्थाः । तथा हि- शशिना सह याति कौमुदी सह मेधेन तटित् प्रलीयते । प्रमदाः पतिवम॑गा इति प्रतिपनं हि विचेतनैरपि ॥ ३१२ तथा च-- - मृते भर्तरि या नारी समारोहेद्भुताशनम् । साऽरुन्धतीसमा भूत्वा स्वर्गलोके महीयते ।। ३१३ विच्चामो मृते पत्यौ भार्यात्मानं प्रदाहयेत् । तावन्मुञ्चति नो देहं स्त्री गरिष्ठा कथञ्चन ॥ ३१४ मातृकं पैतृकं चैव यत्र चैव प्रदीयते । कुलत्रयं पुनात्येषा भर्तारं यानुगच्छति ।। ३१५ तित्र: कोव्योऽधकोटी च यानि रोमाणि मानवे । तावत्कालं वसेत् स्वर्गे भर्तारं यानुगच्छति ॥ व्याळग्राही यथा व्याळं बिलादुद्धरते बलात् । तथा स्त्री पतिमुद्धत्य सह तेनैव मोदते ॥ ३१७ दुर्वृत्तं वा सुवृत्तं वा सर्वपापरतं तथा । भर्तारं तारयत्येषा भार्या धर्मे सुनिष्ठिता ॥ राजन् ! पतिहीनाया जीवितेन किं प्रयोजनम् ? उक्तश्च- दीनायाः पतिहीनायाः किं नार्या जीविते फलम् । श्मशानवटवत् तस्या शरीरं निष्प्रयोजनम् ॥ ३१९ त्रिंशोपाख्यानम् किं च- अपि बन्धुशतैर्नारी बहुपुत्रगणैर्युता । शोच्या भवति सा नारी पतिहीना तपस्विनी ॥ ३२० गन्धैर्माल्यैस्तथा धूपैविविधैर्भूषणैरपि । वासोभिः शयनैश्चैव विधवा किं करिष्यति ॥ ३२१ नातन्त्री वाद्यते वीणा नाचको याति वै रथः । नापतिः सुखमाप्नोति नारी बन्धुशतैरपि ॥ ३२२ मितं ददाति हि पिता मितं माता मितं सुतः । अमितस्य तु दातारं भर्तारं का न पूजयेत् ॥ ३२३ दरिद्रो व्यसनी वृद्धो व्याधितो विकलस्तथा । पतितः कृपणो वापि स्त्रीणां भर्ता परा गतिः ।। ३२४ नास्ति भर्तसमो बन्धुर्नास्ति भर्तृसमस्सुहृत् । नास्ति भर्तसमो नाथो नास्ति भर्तसमः प्रियः ॥३२५ वैधव्यसदृशं दुःखं स्त्रीणामन्यत्र विद्यते । धन्या सा योषितां मध्ये म्रियते भर्तुरग्रतः ॥ ३२६ इत्येवमुक्त्वा सा हुताशनदानाय राज्ञः पादयोयंप- तत् । राजापि तस्याः पतिभक्तिपवित्रं वचः श्रवणसात् कृत्वा करुणारसान्तःकरणः श्रीखण्डादिभिश्चितां विरचय्य ताम- न्वज्ञासीत् । सापि राज्ञः सकाशादनुज्ञां प्राप्य भर्तृशरीरेण सह पावकं प्राविक्षत् । ततः सूर्योऽपि संकुचितकरसहस्रश्वर- मगिरिशिखरगह्वरमवागाहत । अथ राजापि सायन्तनं कर्मजातं निर्वर्य क्रमेण निशामनैषीत् ।

विक्रमार्कचरित्रम् अथ प्रभातायां त्रियामायामुदयमहीधरशेखरायिततनौ तिग्मभानौ राजा सिंहासनोपविष्टः सकलसामन्तसंहतिप्रणती. विदङ्गीकुर्वन्नास्त, तावत् स वीरो यथापूर्व खड्गहस्तो देदी- प्यमानविग्रहो नभस्तलादवतीर्य राज्ञः कण्ठे सुरतरुकुसुमनिर्मितां परिमळलुब्धमधुकरनिकुरुम्बनिरन्तरामम्लानां दिव्यमाला समर्प्य महेन्द्रसन्देशं तस्मै निवेद्य नानाविधप्रथनानुबद्धाः कथाः कथयितुमुपास्त । ततः सर्वाऽपि सभा विस्मिता जाता । तदा वीरोऽवदत्-"अहमितो निर्गत्य स्वर्ग गतोऽस्मि किल । तत्र देवानां दैत्यानां च महान् सङ्ग्रामः प्रवृत्तः । तत्र च मया बहवो दानवा निपातिताः । केचन कान्दिशीका आसन् । एवं सङ्गामे सकाम एव संवृत्ते, देवः सहस्रलोचनः सप्रसाद मामवलोक्यावदत्- 'अये वीर! चिराइष्टोऽसि । एतावन्तं कालं कुत्र स्थितोऽसि ?' ततोऽवादिषम्-'स्वामिनः शापा- देतावन्ति दिनानि भूलोके स्थितोऽस्मि । अद्य स्वामिनो दैत्यैः सह युद्धं प्राप्तमाकर्ण्य साहाय्यार्थमागतः ।' तदा परं प्रसन्नचित्तो महेन्द्रः 'अये इदम्प्रथमं मध्यमलोकं मा गच्छतात्। संप्रति तवाहं प्रसन्नोऽस्मि । गृहाण कनकवलय 'मिति स्वक- रान्मणिकङ्कणमुन्मुच्य मम हस्ते स्वयमेवाचकलत् । पुनरहं 'भोः स्वामिन् ! अहमत्रागच्छन् विक्रमा भायाँ निक्षिप्या- गतोऽस्मि । तां गृहीत्वा झडिति पुनः समागमिष्यामि देवपाद- मूल'मिति विज्ञाप्य समागतोऽस्मि । तत् क मे प्रेयसी ? प्रेष्यताम् ।" राजा तद्वचनं श्रुत्वा विस्मयं गत्वा तूष्णीमभूत् । ऐन्द्रजालिक:-'राजन् ! किमिति जोषमास्यते ?' तदा त्रिंशोपाख्यानम् १३५ 3 सभ्यः कश्चिदाह-'तव भार्यानिं प्रविष्टा । ऐन्द्रजालिक:- हन्त ! किमेतत् ? सर्वे परस्परवदनानि विलोकयन्तो निरुत्त- रीभूता आसन् । तदैन्द्रजालिक:-'भो राजवतंस! परदार- सहोदरः सकलार्थिलोककल्पतरुश्चेति महती कीर्तिमासाद्य मम प्राणप्रियामन्तःपुरे सङ्गोप्य किमर्थं तूष्णी स्थितोऽसि ? किम- तदपचरितम् ?' इत्युक्तवति तस्मिन् , राजा सङ्कुचितमनाः शुद्धान्तचरान् सौविदल्लानाहूयावादीत् 'सौविदल्लाः! सत्यं ब्रूत । किमस्य दयितान्तर्वर्तते ?' सौविदल्ला:--'स्वामिन्नस्म- जनन्या देव्या सल्लपन्ती सुखमास्ते' राजा-तोत्रानयत ।' ततस्ते महाप्रसाद इति सत्वरमन्तः पुरं प्रविश्य तामानैषुः । राजा तां दृष्ट्वा सामाजिकैः सह महान्तं विस्मयमवाप्नोत् । अत्रान्तरे स वीरः स्थित्वास्तावीत् । “जय महाराज ! सकल- महीपालमकुटकोटिमणिकिरणपाटलितपादपीठ, जय, निरर्गळ- दानोदकधारापूरप्तवमाननिखिलमार्गण, विक्रम, वसुन्धराधुर- न्धर, अहमैन्द्रजालिकः । मयैतदिन्द्रजालविद्यालाघवं दर्शितम्।" राजा परमाश्चर्यतरङ्गितान्तरङ्गोऽभूत् । तस्मिन् समये भाण्डा- रिक आगत्याभाणीत्-'भोः स्वामिन् ! पाण्डयराजेन स्वामिने करः प्रेषितः । राजा-'किं प्रेषितम्' भाण्डा- रिक:--"देव! अष्टौ हाटककोटयस्त्रिणवतिर्मुक्ताफलानां तुला पञ्चाशन्मदगन्धलुब्धमधुपा धौरन्धराः सिन्धुराः । अश्वानां त्रिशतं चतुर्दश रथाः पण्याङ्गनानां शता- न्येतद्विक्रमभूमिपाल भवतस्तत्पाण्डधराट्रेषितम् ।।

विक्रमार्कचरित्रम् ततो राजा सर्वमैन्द्रजालिकाय दीयतामित्यादिक्षत् । तदा तेन तत्सर्व तस्मै दत्तम् । इमां कथां कथयित्वा सालभञ्जिका भोजराजमब्रवीत्- 'भो राजन् ! ईदृशमौदार्य विद्यते चेदुपविश ।' तच्छ्रुत्वा भोजराजो ब्रीडितस्तूष्णीं गृहं गतः । इति त्रिंशोपाख्यानम् ॥ अथैकत्रिंशोपाख्यानम् ।। अत्रायं मतिकौशलाद्विलसतो बेताळतः स्वां मृति दूरेऽपोह्य ततश्च हन्तुमनसं संहृत्य दिग्वाससम् । बेताळं स्ववशंवदं च कलयनष्टौ च सिद्धीः परा: प्राप्योदामयशाः शशास वसुधामित्येवमाभाषते ॥३२८ पुनरप्येकदा राजा सिंहासनमारोदुमाजगाम । तावद- न्या पाञ्चालिका जगाद-'भो महीवल्लभ! विक्रमार्कसदृश- मेव वहेरिति महेन्द्रेण दत्तादेशमिदमासनम् । तदीया मङ्गळ- गुणास्त्वय्यपि यदि, काममुपविश । भञ्जिके! कथय तस्य भव्यगुणान् ।' प्रतिमा-राजन् ! श्रूयताम् । विक्रमा राज्यं कुर्वत्येकदा कश्चिदिगम्बर आगत्य, श्रीशो ददातु भगवान् भक्तानां वा समीहितम् । यद्भक्तिः शुल्कतामेति मुक्तिकन्याकरग्रहे । ३२९ " राजा- 'भोः साल- एकत्रिंशोपाख्यानम् ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्यानङ्गशरातुर जनम, त्राताऽपि नो रक्षसि । मिथ्याकारुणिकोऽसि निघृणतरस्त्वत्तोऽस्ति कोऽन्यः पुमान् सेयं मारवधूभिरित्यभिहितो देवा जिनः पातु वः ॥३३० यच्चापगा श्रीः सदनं सुराणां यन्मन्दुरा पद्मभुवो मुखानि । यत्तूणमम्भोधरपानभूमिर्देवः स भूयाद्भवतां शिवाय ॥३३१ एकं ध्याननिमीलनामुकुळितं चक्षुर्द्वितीयं पुन: पार्वत्या वदनाम्बुजे मदलसद्भङ्गायितं यस्य वै । अन्यदूरविकृष्टचापमदने क्रोधानलोद्दीपित शम्भोर्मङ्गळदं समाधिसमये नेत्रत्रयं पातु वः ॥ ३३२ इत्याशिषमुक्ता राज्ञो हस्ते फलमेकमदात् । अथ राज- निर्दिष्टमासनमध्यासीनो वाचमेवमुदश्चयामास-'राजन् ! अहं मार्गशीर्षचतुर्दश्यां निशि श्मशाने हवनं करिष्यामि । भवान हि परोपकारी, महासत्वाधिकश्च, तद्भवतु मामकहवनसहकारी।' राजा-'मया किं कर्तव्यम् ?' दिगम्बर:-'महाश्मशान- स्थानतिदूरे शमीपादपमूले कश्चिद्वेताळो वरीवृत्यते । स त्वया मौनेन समानेतव्यः । राजा ओमित्युररीचकार । क्षपणकः कृष्णचतुर्दश्यां होमद्रव्याणि सङ्गृह्य महाश्म- शानवाटमगाहत । राजाऽपि कृपाणपाणिर्महाश्मशानं विवेश । तत्र च दिगम्बरो बेताळपरिग्रहार्थ शमीमहीरुहमदर्शयत् । तेन च मार्गेण भूरुहं तं प्राप्य बेताळं स्कन्धे गृहीत्वा श्मशानमार्गे समागच्छति भूपाले बेताळो जगाद-'भो राजन् ! मार्ग- श्रमापनयाय कापि कथा कथ्यताम् ।' राजा मौनभङ्गभयात् १३८ विक्रमार्कचरित्रम् तूष्णी जगाम । पुनर्वेताळ 'कथां न कथयसि । मौनभङ्गभयान जल्पसि । तर्षहं कथयामि । कथाऽवसाने मम प्रश्नस्योत्तरं ज्ञात्वाऽपि मौनभङ्गभयान कथयिष्यसि चेत् , तव शिरः सहस्रधा फलिष्यति' इति भणित्वा कथां कथयितुमारेभे । भो राजन् ! श्रूयताम्-दक्षिणेन हिमवन्तं विन्ध्य- वती नाम नगरी । तत्र सुविचारो नाम राजा वसति स्म । तस्य पुत्री जयत्सेनः । स एकदाऽऽखेटनाय महदरण्यमवगाह्य तत्र करिणमेकं दृष्ट्वा तमनुधावन् सुदूरमतिपपात । अथ कथ- श्चिन्नगरमार्गमुपलक्ष्य मन्द मन्दमेकाकी समागच्छन् मध्ये कामपि, तरङ्गिणीमद्राक्षीत् । तत्र तीरे कश्चिद्राह्मणोऽनुतिष्ठ- अतिष्ठत् । राजपुत्रस्तत्समीपं गत्वाऽवदत्-'भो ब्राह्मण!, यावदहं जलं पिबामि, अमुमश्वं गृहाण ।' ब्राह्मणः- किं तव प्रेष्योऽहमश्वं गृहीतुम् ?' ततस्तेन कशया ताडितो ब्राह्मणो रुदन राजसमीपमागत्य सर्व वृत्तान्तं निवेदयामास । स राजापि तच्छ्रुत्वा रोषारुणलोचनः पुत्रं स्वदेशान्निर्वासयितु- मियेष । तस्मिन्नवसरे सचिवः प्राह-'देव ! राज्यभारोद्वहन- योग्यं कुमारं किमिति देशान्निर्वासयसि ? नैतदुचितं मन्ये । राजा-" सखे ! समुचितमेवेदमस्य मन्ये, यद्ब्राह्मणं कशया जघान । बुद्धिमता पुरुषेण ब्राह्मणद्वेषो न कार्यः । उक्तं च- न विषं भक्षयेत् प्राज्ञो न क्रीडेत् पनगैः सह । न निन्देद्योगिबन्दं च ब्रह्मद्वेषं न कारयेत् ॥ ३३३ भो मन्त्रिन ! किं त्वया न श्रुतानि पुराणानि ? पुरा ब्राह्मणशापादीश्वरस्य लिङ्गं पपात । तथा च- एकत्रिंशोपाख्यानम् अत्युनतपदं प्राप्तः पूज्यं नैवावमानयेत् । नहुषा शक्रतां प्राप्तश्युतोऽगस्त्यावमानतः ॥ अतो ब्राह्मणाः सर्वेऽपि पूजनीया एव । उक्तं च- द्विजाश्च नावमन्तव्यास्त्रैलोक्येश्वरपूजिताः । देववत् पूजनीयास्ते दानमानार्चनादिमिः ॥ यैः कृतः सर्वभक्षोऽग्निरपेयः स महोदधिः । क्षयी च स कृतश्चन्द्रः कोऽनष्टो विप्रकोपनात् ।। ३३६ यतः सोमं सदाश्नन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किं भूतमधिकं ततः ॥ तथा च- ये पूजिताः सुराः सर्वे मनुष्याश्चैव भारत । तपोव्रतधना ये च कस्तान् जगति नार्चयेत् ।। ३३८ पूर्व पीतः समुद्रो यैर्विन्ध्यो यैर्विनिपातितः । यैश्चापि देवताः पुष्टाः किम्भूतमधिकं ततः ॥ ३३९ य एवं देवमन्विच्छेदाराधयितुमव्ययम् । सर्वोपायैः प्रयत्नेन सन्तोषयतु स द्विजान् ।। तथा च द्वारवत्यां भगवता कृष्णेनाप्युक्तम् । नन्तं शपन्तं परुषं वदन्तं यो ब्राह्मणं नाचयते तथा माम् । स पापकृत् ब्रह्मदवाग्निमध्ये वध्यश्च दण्डपश्च न चासदीयः॥ किञ्च- यश्च मां परया भक्त्या ह्याराधयितुमिच्छति । तेन पूज्याः द्विजास्सम्यगेवं तुष्टो भवाम्यहम् ॥ ३४२ इत्युक्त्वा पुनः 'अनेन दुरात्मना येन हस्तेन ब्राह्मण- विक्रमार्कचरित्रम् - स्ताडितः तस्यच्छेद एव प्रतीकारः' इति करच्छेदं निर्णिनाय । तावदेव ब्राह्मणः समागत्य तं राजानमभाणीत-भो राजन् ! सुतो बालिशस्तथा कृतवान् । अद्य प्रभृतीदृशमनुचितं न कुर्यात् । आद्योऽयमपराधो मर्षणीयः । अहं पुनर्मर्षयाम्येन मिति । तस्य वचनं श्रुत्वा राजा स्वपुत्रं विससर्ज । ब्राह्मणोऽपि यथागतमगात् । इति कथां कथयित्वा बेताळः प्राह-'यदि जानासि, ब्रूहि । अनयोः ब्राह्मणभूपालयोः गुणाधिकः कः ?' राजा 'भूपाल एव गुणाधिकः ।' तच्छत्वा मौनभङ्गो जात इति बेताळः शमीतरुमाजगाम । राजापि पुनस्तत्र गत्वा तं स्कन्धे समारोप्य यावदाजगाम, तावत् पुनरपि कथां कथयति स्म । एवंविधाः कथाः पञ्चविंशतिं कथयामास । ततो बेताळो विक्रमस्य बुद्धिकौशलं कथाग्रहणवैदग्ध्यं कृपारसौदार्यादिमांश्च गुणान् निरीक्ष्य तस्मिन् प्रसन्नो भूत्वा विक्रममवादीत्- 'भो राजन्नयं दिगम्बरस्त्वां हन्तुं प्रयतते ।' राजा-'कथ मिव ?' बेताळ: -"यदा त्वं मां तत्र नेष्यसि, तदा स एवं त्वां वदिष्यति-'भो राजन् ! त्वमतिश्रान्तोऽसि । इदानी- मिदमग्निकुण्डं प्रदक्षिणीकृत्य दण्डवत् प्रणम्य निजस्थानं गच्छ।' इत्युक्तस्त्वं प्रणाम कतुं नम्रो भविष्यसि । तदा दिगम्बरः खड्नेन भवन्तं प्रहृत्य तावकेन मांसेन होमं कृत्वा पूर्णाहुति विधाय तत्र होमे ब्रह्माणं मां कृत्वा सर्वमेवेदं कर्म ब्रह्मार्पणं करिष्यति । एवं कृतेऽस्य दिगम्बरस्याणिमाद्या अष्टसि- द्धयो भविष्यन्ति ।" विक्रम:--'सखे! किमहं करवाणि ? बेताळ: --"त्वमेवं कुरु । यदा स दिगम्बरस्त्वां नमस्कर्तुमा- देक्ष्यति, तदा 'अहं सार्वभौमः, सर्वे राजानो मामेव प्रणमन्ति, - द्वात्रिंशोपाख्यानम् मया प्रणामः कदापि न कृतः । तदहं न जाने । त्वं प्रथम प्रणाममनुष्ठाय दर्शय । अनन्तरमहं करिष्यामीति' ब्रहि । ततः स यदा प्रणाम कर्तुं नम्रो भविष्यति, तदा त्वं तस्य शिरश्छि न्याः । अहं तव ब्रह्मा भूत्वा हवनं प्रयिष्यामि । तवाष्टौ महासिद्धयो वशंवदा भविष्यन्ति ।' इत्युक्तो राजा तथैव कृतवान् । ततो बेताळः स्वयं निर्वयं हवनं दिगम्बरस्य शिरः पूर्णाहुतिं कृत्वा, सर्व ब्रह्मार्पणं विधाय, अणिमादीरष्टमहा- सिद्धी राजसात् कृत्वा जगाद-'भो विक्रमार्कमहीपाल ! तवाहं प्रसन्नोऽस्मि, वरं वृणीष्व ।' राजा-'यदि मम प्रसन्नो जातोऽसि तीम दिगम्बरं समुद्धर । यदाहं तव स्मरिष्यामि, तदा त्वमागन्तुमर्हसि ।' स तथेति प्रतिज्ञाय दिगम्बरं समु- द्धृत्य निजनिवेशं प्रविवेश । राजा विक्रमोऽपि तस्मै दिगम्ब- राय ता अष्टमहासिद्धीदत्त्वा स्वनगरं विवेश । इति कथयन्त्यां सालभञ्जिकायां भोजराजः 'सत्यमाह भवती, नाहं विक्रमार्कस्य शततमी कलामर्हामि । मुधैवायमु- द्यमोऽनया बहुवारमकारि । इति विरराम ॥ इत्येकत्रिंशोपाख्यानम् ॥ अथ द्वात्रिंशोपाख्यानम् ॥ श्रीधारापुरधूर्वहे गुणनिधौ भोजक्षमावल्लभे भूयोऽपि स्पृहया समेत्य शनकैरारोदुमुत्कण्ठिते । साटो प्रतिमा निवार्य चरमा सिंहासने जाग्रती मुख्यान् विक्रमराजशेखरगुणानाख्याति लोकोत्तरान् ।।

१४२ विक्रमाचरित्रम् -- श्रीभोजराजे ज्ञात्वाऽपि पुनरागते चरमा सालभञ्जिका जगाद- -'हन्त! कथमियं ते दुराशा ! निवृत्तकामोऽपि पुनरा- गतोऽसि । अद्यापि समाकर्णय श्रीविक्रमार्कगुणान' भोज:- अयि सालभञ्जिके! क्षमस्व, भूयोऽपि कथय तस्य चारित्रं गुणांश्च ।' सालभञ्जिका-भो राजन् ! श्रयताम् । विक्रमार्कस्य सदृशं कमपि न पश्यामि । यः काष्ठमय- खड्गेन चतुरकूपारपरिक्षिप्तक्षितितलगतान् नरपतीन् विजित्य निःसपत्नं राज्यं कृतवान् । यः परेषां शकं निराकृत्यात्मशकं वर्तयामास । समस्तदुर्जननिराकरणं समस्तयाचकलोकदुर्गति- हरणं अवग्रहानिरसनं चैतत् सर्वमपि विक्रमो महीमण्डले निर- वशेषं कृतवान् । ततस्तत्समः पुरुषो नास्ति । एवंविधसत्त्व- साहसौदार्यधैर्यादिगुणास्त्वयि विद्यन्ते यदि सिंहासनेऽस्मिन्नुप- विश। तच्छत्वा राजा तूष्णीमवतस्थे । इति द्वात्रिंशोपाख्यानम् उपसंहारः अत्रान्तरे काचन पुत्रिका चित्रार्पितमिव त्रपाभराद- वस्थितं भोजमवादीत्-"भो भोजराज! भवानपि विक्र- मार्कप्रतीकाश इत्येव मन्ये, यतो युवां द्वावपि नरनाराय- णात्मधारिणौ । इदानीं त्वत्तः पवित्रचरित्रः सकलकला- प्रवीणः शौर्योदार्यादिसुगुणभूषणो राजा नास्ति । अतस्तव प्रसादादस्माकं द्वात्रिंशतः पुत्रिकाणां पापपरिहारो जातः ।

उपसंहारः १४३ सन , , शापाद्विमुक्ताः स्मः । तदा भोज:-कथं वः शापो जातः? तन्मूलं कथय ।' पुत्रिकाऽकथयत्-भो राजन् ! श्रयताम् । वयं द्वात्रिंशत् सुराङ्गनाः पार्वत्या वयस्याः, तस्याः परमप्रेमास्पदीभूताः, प्रत्येकमस्माकं नामधेयानि! श्रूयताम्- सुकेशी,.प्रभावती, सुप्रभा, इन्द्रसेना, अनङ्गजया, इन्दुमती, कुरङ्गनयना, लावण्यवती, कामकारिका, चन्द्रिका, विद्याधरी, प्रबोधवती, निरुपमा, हरिमध्या, मदनसुन्दरी, विलासरसिका, मन्मथसञ्जीविनी, रतिलीला, मदनवती, चित्ररेखा, सुरतगह्वरा, प्रियदर्शना, कामोन्मादिनी, चन्द्ररेखा, हंसप्रबोधा, कामश- रोन्मादिनी, सुखसागरा, मदनमोहिनी, चन्द्रमुखी, लावण्य- लहरी, मराळगमना, जगन्मोहिनी च । एता वयमेकदा कुत्रापि रजतशिलातले समुपविष्टाः किमपि किमपि सल्लपन्त्यः सुखमास्म। तदा परमेश्वरः सानन्दमस्मासु रागरमणीयां दृष्टिं न्यवेशयत् । तत्रान्तरे तं दृष्ट्वा देवी पार्वती सकोपास्मानेवमशपत्-'भवत्यो निर्जीवाः पुत्रिका भूत्वा वासवसिंहासने तिष्ठन्तु ' इति । ततोऽस्माभिः प्रणिपत्य शापावसानं याचिता देवी कृपारसा- न्तःकरणाऽस्मानवदत्--' कलियुगे विक्रमादित्यस्तत्सिहासन- मिन्द्रलोकाद्भमि नेष्यति । तदा तस्मिन्नुपविष्टः स राजचूडा- मणिबहूनि वर्षाणि राज्यं परिपालयिष्यति । तस्मिन् परलोक- गते कस्मिंश्चित् पवित्रे क्षेत्रे तदासन सचिवा निवेशयिष्यन्ति । ततः कतिपयैर्दिवसैस्तद्धोजराजहस्तगतं भविष्यति । ततस्त- अगरं नीत्वा प्रतिष्ठाप्य तदारोढुं यदा भोजभूपालः समाया विक्रमार्कचरित्रम् स्थति, भवतीभिः सह सल्लापं करिष्यति । तदा विक्रमार्क चरित्रं भोजराजाय कथयत, यूयं शापाद्विमोक्ष्यध्वे' इति । इति निजवृत्तान्तमुक्त्वा पुनरपि भोजमवदन्-'भो राजन् ! वयं प्रसन्नाः स्मः । वरं वृणीष्व ।' तदा भोज:-"मम किं नामापेक्षणीयम् ? सम्पूर्णकामोऽस्मि । तथापि परोपकारार्थ किमपि मया प्रार्थ्यते । ये मां एतच्चरित्रं शृण्वन्ति लिखन्ति वा तेषां प्रौढप्रतापकीर्तिधैयौदार्यादिगुणाः प्रवर्धन्ताम् । एत- चरित्रमाकल्पमविच्छिन्नं महीमण्डले वर्तताम् । श्रोतृणां भूतप्रे- तपिशाचशाकिनीढाकिनीमारीयक्षराक्षसादिभयं मनागपि मा भूत् । व्याघ्रभल्लूकप्रमुखशरारुनिकरादपि भीतिर्मा जायताम् ।" इति प्रार्थिताः सालभञ्जिका यथाभिलषितमस्त्विति राज्ञे वरं दत्त्वा सर्वा अपि परिगृहीतसुरसुन्दरीविग्रहा दिवमुत्पेतुः । ततो भोजराजस्तत्सिंहासनं विचित्रहाटकानधनवमणि- खचिते प्रासादशिखरे संस्थाप्य तदुपरि परमेश्वरं निधाय देवं सिंहासनं च प्रतिदिनमर्चयन् सुखेन महीं सुचिरं शशास ॥ श्रीमतो विक्रमार्कस्य चरित्रं महिमोत्तरम् । द्वात्रिंशत्प्रतिमाप्रोक्तं समाप्तिमगमत्चराम् ।। ३४४ इति विक्रमार्कचरित्रं समाप्तम् Printed by V, Ramaswamy Sastrulu & Sons, at the 'Vavilla' Press, Madras.

No text on this page.

विक्रमार्कचरित्रम

Author
Shaastrulu Vii. Raamasvaamii
Title
Vikramaarkacharitram
File name
विक्रमार्कचरित्रम
Text
OCR done
Citation
1944
Published
2006/03/02
Publisher
Vii. Raamasvaamii Shaastrulu, Vaavillaa Pres, Madraas
Language
Sanskrit
Pages
146
Library
University Library,gurukul Kangri Vishwavidyalaya
Classification
Literature of individual languages
DLI number
476970
Barcode
99999990169216.00
Scanning centre
Gurukul Kangri Vishwavidyalaya, Haridwar
Digital publisher
Digital Library Of India
VMLT id
AS6zahCP1Yv
Download PDF

विक्रमार्कचरित्रम