Bharatiya Vidya Bhavan Library, Mumbai

Anand Lahari

Dikshit.,appaya · 2012/08

PDF Proofread

Front matter

। ओम् ॥
"भारतीमन्दिरसंस्कृतग्रन्थावलिः"
ग्रन्थांकः २.
श्रीमदप्पयदीक्षितकृता
॥ आनन्दलहरी॥
श्रीकण्ठभाष्यपरमतात्पर्यनिर्णयरूपा
तत्कृतया
चन्द्रिकाख्यया व्याख्यया सहिता।
कुम्भघोणस्थ
स्वदेशीयहूणवाणीमहापाठशालागीर्वाणवाफ्यध्यापकेन
रा. हालास्यनाथशास्त्रिणा
बहीः प्रतिकृतीम्संपाद्य परिशोधिता।

श्रीरङ्गस्थ
श्रीवाणीविलासमुद्रायन्त्रालये
संमुदिता।
१९०८.
अस्य मूल्यं साध रूप्यमेकम।

(अस्य प्रन्यस्य पुनर्मुद्रणाधिकारः प्रकटयित्रा रा. हालास्यनाथशास्त्रिणा राजकीयनियमानुसारेण स्वायत्तीकृतः) ॥ भूमिका ॥ १. आर्यमिश्राः सहृदयाः विदितचरमेव तत्र भवतां, यदहं बहोः काला प्यमानप्राचीनप्रबन्धप्रकटने धृतव्यवसायस्सहृदयानां साहाय्येन रसिकरञ्जनीटीकासहितं कुवलयानन्दमुज्ज्वलासंव- लितमापस्तंबधर्ममूत्रप्रवन्धं च सम्मुद्य प्रकटीकृत्य पात्रतामनयमा- स्मनो जन्म सहृदयकुलाशीर्वचसामिति । २. अनन्तरमाकलय्य श्रीमदप्पयदीक्षितेन्द्रविरचितानां शताधिकानां प्रबन्धानामतिलुप्तानां विरलमातृकतया प्रचाराभावं पु- स्तकदौर्लभ्यं च तेषां प्रकटने धृतव्यवसायश्शुभकृद्वत्सरे मार्गशीर्प मासि डिल्लीनगरपवर्तितराजाधिराजमहनीयगुणाभिरामै डभि- ख्यास्माककरुणार्णवभरतखण्डचक्रवर्तिपट्टाभिपेकमहोत्सवदिने प्राति- ठिपं प्राक्तनग्रन्थप्रथनालयं भारतीमन्दिराभिख्यम् । ३. तत आरभ्य ततो मया प्रचारयितुमुपक्रान्तायां भार- तीमन्दिरसंस्कृतग्रन्थावली प्रथमतः श्रीमदप्पयदीक्षित कृतया शिवार्कमणिदीपिकया सहितं श्रीमच्छ्रीकण्ठीयं ब्रह्ममूत्रभाष्यं नयमणिमालया मन्निबद्धया ब्रह्मसूत्रार्थचन्द्रिकया च सह सना- थीकृत्य परिष्कृत्य सम्मुद्य षड्भिम्संचिकाभिरियता कालेन समपूरयं पृष्ठपटातीपरिमितं प्रथमसंपुटम् । यस्य च द्वितीयं संपुटमपि संमुद्रयमाणं न चिरात्तिसृभिः संचिकाभिः परिपूर्येत ।

४. तस्य ग्रन्थस्य मुम्बानगरे मुद्रयमाणतया अपरिहार्य- कालातिपाततामवधाय विपुलस्य तस्य ग्रन्थस्य समाप्तेः पूर्वमेव श्रीकण्ठभाष्यप्रस्थानानुसारिणः श्रीमदप्पयदीक्षितकृतानन्दलहरी- शिवादेत निर्णयप्रभृतीन्प्रवन्धानसम्मुद्रय प्रकटीचिकीर्षुद्धितीयतया श्रीरङ्गस्थश्रीवाणीविलासमुद्रणालये चन्द्रिकाख्यया व्याख्यया सहितां श्रीकण्ठभाष्यपरमतात्पर्यप्रतिपादिनीमानन्दलहरी सम्मु- द्रय प्रकटयितुं प्रावृतम् । ५. अस्याश्च कृतेरत्तिलुप्तप्रचारतया विरलमातृकतया संग्र- तिपन्नपण्डितकुलैरप्यविदिततया च नष्टकल्पाया अन्वेषणे धृतव्यव- सायस्य मम श्रीमता सहृदयकुलमूर्धन्येन श्रीमदप्पयदीक्षितेन्द्रवंश्य- मामकाश्रयभूतसुप्रसिद्धाप्पुशास्त्रिसमनन्तरसोदरेण प्राडिवाकपदमधि- तिष्ठता महादेवमास्त्रिणा श्रीमन्मध्यार्जुनक्षेत्रस्थश्रीमन्महालिंगे- श्वरदिव्यालयप्रतिष्ठापितपुस्तकालयात्तदध्यक्षस्य (तिरुवावडुतुरै नामक) श्रीगोमुक्तिक्षेत्रविराजमाननन्दिकेशाधिष्ठितशैवमठाधिपतेरंवलवाणदे- शिकस्याज्ञया समानीय विलेखिता नागराक्षरमयी काकितरूपा मातृका तन्मूलभूता ताळपत्रमयी मातृका चेत्युभयरूपा मातृकैकैव प्रथमगो- चरतयैतन्मुद्रणप्रवृत्तिनिदानतया च महोपकारिणी समभूत् । ६. अनन्तरमान्तं तां सश्रद्धं परिशीलयतश्चिराद्गौतमदधी- च्यादिशापसंजातशांभवोत्कर्षविद्वेषकलुषस्वान्तवैष्णवंगन्यैः कश्चिद- न्यैश्च शुद्धाद्वैतमतैकतानतामभिनयद्भिरनवगताद्वैतमतसिद्धान्तरसूया- पैरैः पण्डितमन्यैश्चोदीरितान् श्रीमदद्वैतविद्याचार्याणामप्पयदीक्षिते- न्द्राणामपि तान्त्रिकशैवसिद्धान्तानुयायितां विष्णुविद्वेषितां च रुशतो वितण्डावादान्कारुन्तुदान्श्रावधावं विषण्णचेतस्कतया तदात्वे सु- धारसाभिवणेव शिशिरितान्तःकरणम्य गम न चिरादस्याः कृतेः प्रकटने समुदभूदृढतरा लालसा । यदस्यां कृतौ सुस्पष्टं श्रीकण्ठभा- प्यप्रस्थानस्यापरित्यक्तशुद्धाद्वैततया भगवत्पादीयभाप्यप्रस्थानादनति- भिन्नता सगुणोपासननिरूपणस्य निर्गुणोपासनप्रथमसोपानतां च व्य- वस्थापयन्तः स्वस्य विष्णुविद्वेषलेशराहित्यं शुद्धाद्वैतमतैकतानतां च कण्ठोक्त्यैव विवृण्वन्तस्ते दीक्षितेन्द्रास्तानुभयानपि वैतण्डिकाबालि- शान् चपेटाघातेन तूप्णीभावमापाद्य श्रीकण्ठाचार्याणामपि शुद्धाद्वैते परमतात्पर्याभिव्यक्ति तद्वाप्यवाक्यैरेव व्यवातिष्ठिपन् । ९. ततश्च तां मे लालसा परिपूरयितुं मया कृताभ्यर्थनो म- न्मुखादसकृत्समाकर्णितेदंग्रन्थपरमार्थतया समनुमोदितमामकीनाशयः श्रीमानुदारधीः प्रभुमणि. श्रीनिवासपिल्लैनामा विरचितद्रव्यसाहा- प्यश्चिन्तनीयो मया कार्तश्येन सर्वोद्यमेपु विशेषतश्चेदंग्रन्थप्रथनो. योग इति निवेदये सहृदयान् । १०. अनन्तरं द्वितीयमातृकान्वेषिणा मया चितूनगरस्थ- (भूतपूर्व) सच्चिदानन्दशास्त्रिगृहकोशान्महता प्रयासेन संपाद्य सुहन्म- णिना कुलित्तल नगरस्थप्राडिवाकस्थललेखकोद्योगमधितिष्ठता रङ्गखा- म्यार्येण प्रहिता तालपत्रमयी मातृका सहादरमुररीकृता या चात्र ख. चिहिता। ११. अन्या च श्रीमत्पश्चनदस्थलाभिजनमामकब्रह्मविद्यगुरु- चरणसर्वतोमुखमहाव्रतविश्वजिद्याजि श्रीवालकृष्णमाखिराजसमनु- गृहीता सप्रणाममुररीकृता तृतीया मातृकापि ग चिह्निता महोपकारिणी। १२. अपरा च तञ्जासंस्थानस्थिततालवन (तिरुप्पन- न्दाल) शैवमठालयस्थपुस्तककोशगता तदध्यक्षेण काशिवासि- (१) सोमसुन्दरतम्बिरान्मभुणा वितीर्णा सीतालतालपत्रमयी तुरीया मातृका चात्र उ चिहिता। १३. एताश्चतस्रो मातृका उपजीव्य परिशोध्य मुद्रणाय सज्जीकृत्यापि द्रव्यसाह्यप्रतीक्षितया व्यलंबिषि कंचित्कालम् । १४. तदानीमेतादृशमदीयव्यवसायप्रोत्साहकस्य तञ्जान- गरस्थप्राडिवाकस्थलन्यायवादिनो महाशयस्य श्रीनिवासपिल्लैना- नस्सहृदयमणेस्सुहृन्मणेस्साहाय्यमेवास्य प्रबन्धस्य संमुद्रणे हस्ताव- लंबप्रदानेन प्रोत्साहकमभूदिति कार्तश्यतस्समभ्यर्थयेऽनुदिनभस्मत्कु- लदेवतस्यैन्दवकिशोरशेखरस्य सन्निधाने तदीयमभ्युदयम् । १५. पद्यपष्टिपरिमिता चन्द्रिकाख्यव्याख्यासहितेयमणीयसी श्रीकण्ठभाप्याधिकरणकतिपयशंकासमाधाननिर्णयात्मकतया श्रीकण्ठभाप्योपोद्धाततामंचतीतीयमवश्यं परिशीलनीया श्रीकण्ठमा- प्यपठितृणां सहृदयानामिति निवेदये सुहृदः । १६. इदंग्रन्थपरिशोधने कचित्कचित्संशयाविष्टस्य मम संशयान्निरसितुं कृतक्षणतामवलंब्य प्रसेदुषे विषयसूचिनीलेखनेन च सायकृते श्रीमन्महामहोपाध्यायराजुशास्थ्यपरनामधेय (भूतपूर्व) त्यागराजमखिराजचरणसेवासमासादितपणनीयपाण्डित्याय प. गण- तिशाखिणे धृतकार्तश्यस्समर्पयामि बहीविनतीः । १७. इदंव्यवसाये मातृकाप्रदानादिना विहितोपकारेभ्यः पूर्वोद्दिष्टनामधेयेभ्योऽभिरूपशेखरेभ्यः प्रर्पयामि यथोचितं परस्स- हसं प्रणामानाशिषश्च ।। १८. यद्यप्ययं प्रवन्धो मुद्रणकालेऽसकृरपरिशोधित एव । तथापि नात्र म्यादशुद्धिः कियत्यपीति वक्तुं न पारयामि तत्रभवताम- कृतिः ..

भिज्ञानां पुरस्तात् । मदीयेन व्युत्पत्तिमान्यादिदोषेण अनवधानन च समापतिता अक्षरच्युतिप्रभृतयोऽतिविरला दोपास्सुयोधा एवं सुदृशा- मिति नाहमययुजं शुद्धाशुद्धपत्रीम् । यदि स्युरन्येऽप्यसंशोधिता दो. पास्तानन्विप्य विलिग्ख्य प्रेषणेनानुग्राह्योऽहमित्यभ्यर्थये सुहृन्मणी- नावेदये च तान्परिशोधयिप्यामि द्वितीयसंस्करण इति । १९. अन्यञ्च । इदंग्रन्थसमाप्तौ श्रीमदप्पयदीक्षितकृतिमरु- णाचलेश्वरप्रणयिन्या अपीतकुचांबिकायाः स्तुतिमपि सहृदयमनः समाहादनकृते संमुद्य प्राचीकशम् । २०. अस्यां ग्रन्थावलौ मया संमुद्यमाणमिमं प्रबन्धं प्रक- टौचिकीर्पितानन्यांश्च समाकर्ण्य परमानुग्रहसंप्रसादाभिव्यञ्जनेन मयि भृशं प्रासीदन् श्रीमत्परमहंसपरिव्राजकेत्यादिविरुदावल्यकिताः श्रीम- न्तोऽब्याजकरुणानिधयो महामहिमभरिताश्चंगगिरिस्थजगद्गुरुपीठा- धिपाः श्रीमत्सचिदानन्द शिवाभिनवनरासिंहभारतीस्वामिन इत्यतो द्विगुणीकृतोत्साहम्सांप्रतमर्पितकर्मभरम्सद्गुरुसन्निधाने सुद विश्वसिमि निरंतरायमम्या ग्रन्थावलेरविलंबं प्रचारमितः परमिति शिवम् । उत्थं सहृदयचरणांबुजदासः रा. हालास्यनाथशास्त्री.

|| श्रीः॥ ॥ आनन्दलहरीविषयसूचिका ॥ KOK- प्रथमलोके १.-'ब्रह्मविदामोती ' त्याद्यानन्दवल्ल्या मान्ववणिक परम व्योम पारमेश्वरी चिच्छक्तिरेव, मेव आनन्दमय इन्युपरिष्टादुपपाद्यते इति निरूपणम् । द्वितीये २ -आनन्दमयपद न प्रचुरानन्दविशिष्ट कंचिद्धर्मिणमाह, कितु प्रचुर- मानन्दमेव । स च उक्तचिच्छक्तिरूप एव । अत्र चार्थे 'यदेष आकाश आनन्दो न स्यात् ' इति वास्यशेषोऽपि प्रमाणमिति । तृतीये ३.-आनन्दशब्देनानन्दमात्रग्रहणे कस्यायमानन्द इति जिज्ञासाया ब्रह्मणः परमेश्वरस्येति पुच्छवाक्यादिव स एको बहाण आनन्द' इति वास्यादपि लभ्यत इति कथनम् । चतुर्थे पूर्वार्धन आनन्दमयो ब्रह्मति पक्षेऽनुपपत्तिप्रदर्शनम् , उत्तरार्वन तस्माद्वा एतस्मात्' इत्यादिना निरूपित जगत्कारणत्वस्यात्मत्वस्य चानुपपत्तिरिति सप्रमाण कथनम् । पञ्चमे ५ --'यो विज्ञाने तिष्ठन् । 'य आत्मनि तिछन्' इति शाखाद्वयानातान्त- यामिवाक्यतदर्थनिर्णायकब्रह्मसूत्रादिभिः श्रुत्यन्तरेय सोपवृहणः शिव- चिच्छतेः ज्ञातृत्वव्यवस्थापनम् । पष्टे ६.--ज्ञानरूपायाचिच्छक्तनिवत्त्वरूपज्ञातृत्वमनुपपत्रम् । अतः ज्ञानरूपा चिच्छक्तिरन्या । शात्री च पार्वती देव्यन्या । इति शंकायां सप्रमाणयुक्तिक तयोरेकरवं चिच्छतातृत्वं चौपपाद्यते । सप्तमे ७.---शिवाश्रितत्वेन चिच्छक्तः शिव प्रति आयतनत्वं 'परमे व्योमन् ' इति मंत्रवर्णोक्त कथमिति शंकायां नित्याश्रितस्थापि पर्वतस्य क्षितिधरत्ववत् प्रमाणसिद्धत्वात् अत्यद्भुतत्वाच भानुपपतिलेशोऽपीति प्रतिपादनम् ।

अष्टमनवमदशमलोकैः ८.-१०-विकारिण्या आकाशशब्दितायाः शिव- शक्तरेव जगत्कारणत्व स्वारमिक नतु निर्विकारस्य साक्षाच्छिवस्येति 'आकाशो ह वै नामरूपयोर्निर्वहिते' त्यादि छान्दोग्यश्रुत्यर्थवर्णनम् । एकादशे १५ –'यदा तम' इत्यादिश्वेताश्वतरमत्रस्य शिवतच्चिच्छवयोनि. विकारत्वसविकारित्वप्रतिपादनपूर्वकं शिवम्यापि निकारिभूतस्वचिच्छ- क्तिद्वारैव जगत्कारणत्वमित्यर्थपरत्वोपपादनम् । द्वादश त्रयोदशयोः१२. १३.-उक्तार्थ एव तत्रत्यमन्त्रान्तरप्रदर्शनपूर्वक 'मायां तु प्रकृति विद्यात्' इत्यादिमन्त्रेणं नारायणस्य शिवशक्त्यशत्य शिवस्य च तादृशशक्तिमत्त्वमिति शिवविष्ण्वोश्रुतियु जगत्कारणत्ववचनं सर्वमुक्तशक्तिमूलकमेवेत्यर्थःव्यवस्थाप्यत इति भनेकश्रुत्यन्तरापरणा- घनुसारेण निरूपणम् । चतुर्दशे १४ --ब्रह्मणशिवस्य स्वापृथक्सिद्धकार्यावस्थाश्रयत्वमात्ररूपमुपादा- नत्व परिणामित्य तु गक्तिद्वारकमेवेत्यर्थपरत्व प्रकृत्यधिकरणस्य । पञ्चदशे १५ --तदनन्यत्वाधिकरणोक्तमपरिणामिशिवानन्यत्व प्रपञ्चस्य कथ. मिति शंकायामपृथक्सिद्धत्वरूपमेवानन्यत्वमिति तत्समाधान तथा जन्मा- दिसूत्रतन्मूलश्रुतिभ्यामुक्तस्य जगत्कारणत्वलक्षणस्य शक्तिविशिष्टमेव ब्रह्मलक्ष्य शक्तिरपि वेति नासभाऽतिव्याप्तिर्वेति च । पोडशादिश्लोकपञ्चकेन १६ ~~-२०.-शक्तिविशिष्टदिशव एव शास्त्रस्य विषय इति न तत्र शक्तिनिरूपणमसगतमिति प्रतिपादनम् । एकविंशाधेकत्रिशान्तः श्लोकैः-शक्तिविशिष्टः शिव एव पर ब्रह्मति स्थित शक्त्यशभूतस्य विष्णोरपि ब्रह्मकोटिप्रवेशापत्ता तम्य जीवत्वग्राह- कानेकप्रमाणव्याकोप इति शकानिरूपणम् । तत्र एकविंशद्वाविंशाभ्याम् २१ २२.--विष्णुपदस्य शतपथब्राह्मणादिश्रु- तिभिः शिवपुराणादिवचनच कर्मफललनिरूपणम् । प्रयोविंशचतुर्विशाभ्याम् २३. २ ४--मोक्षधर्मादिषु विष्णोर्ब्रह्मभावोक्तिः जगत्पालनरूपकार्यार्थतया तस्मिन्यमाशाभिव्यक्तिविशेषमूलिकव नान्य- ति मोगपत्तिक निम्पणम् ।

सप्तविंशान्तलोकत्रयेण २५.-२७.-- गीतानुगीतावननपयालाचनयापि पूर्वोक्तव्यवस्थैव न्याय्या नान्यथेति मकलशंकानिराकरणपूर्वकं वितरण कथनम्। अष्टाविंशे २८.-1 ---विष्णुपुराणे प्रथमांशावमाने ‘स परस्सर्वशक्तीनां ब्रह्मणस्सग- नन्तर' इति विष्णोः परब्रह्मानन्तरवाकिरपि जीवभाव प्रमाणमिति । एकोनत्रिशे २९.-जीवत्वेन संप्रतिपनी यश्चतुर्मुखस्तद्रावस्य विष्णी बहुशः प्रतिपादनादपि तस्य जीवन्वनिधय इति । त्रिशैकत्रिशाभ्यम् ३०.३१.-~जीवभूतगुणिरुदादेन तुरीयपरशिवसद्भाववत् गुणिविष्णोरन्यतुरीयविष्णुसद्भावमाशक्य परिहारपूर्वक तत्र प्रमाणाभाव- कथनम्। द्वालिंशादिश्लोकनयेण ३२ - ३४.- एव पूर्वपक्षे प्राप्त ब्रह्मकोटिप्रविष्ट शक्यंशत्वं विष्णोन जीवभावविरोधि जावान्तराणामप्येव भावाभ्युपगमेऽपि न कश्चिदोष इति भट्टभास्करानुयायिनामकदेशिनां मतनिरूपणम् । पञ्चत्रिशे ३५ -भगवानारायणः परब्रह्मकोटिप्रविष्ट एव नान्यति खसिद्धान्त- कथन, सर्वत भारतादिषु तुरीयशिवातिरिक्तदेवतावधिक एवं विष्णोर- स्कर्ष उच्यते इति व्यवस्थापन च । पट्त्रिंशसप्तत्रिंशयोः ३६ ३७.-'अग्निवं देवानामबम' इत्यादि श्रुताय- विचारपूर्वक तात्पर्यनिरूपणम् । अपत्रिंश ३८.--विष्णोर्जीवभावग्राहकवचनानामपविष्णुविषयकत्व पर एव नु विष्णुः ब्रह्मकोटिप्रविष्ट इति अविरोधेन समाधानाथै नारायणस्य परापर. भेदेन द्वैविध्यं श्रुतिस्मृतिसिद्धमिति निरूपणम् । अथ श्लोकत्रयेण ३९-५१.-वाराहपुराणादिवचनैरपि विष्णोद्वविध्य तत्र व परस्य विष्णोदशक्त्रंशत्यमित्युभयमपि सिद्ध्यतीति विसरतो निरूपणम् । द्विचत्वारिंशे ४२.-त्रिमूर्त्यन्तर्गत एव विष्णुइशनत्यशः तस्य जावत्वग्राहकवच. नानि तु लोकानुग्रहार्थं तदभिनीतार्यानुवादमात्रपराणीति पक्षान्तरप्रदर्शनम् । त्रिचत्वाग्दिो ५३.- तदेव शक्त्वंशभूतविष्णोर्ब्रह्मन्वे विरोधाभावेन शक्तिवि- शिष्टांशवात्मक ब्रह्मय ब्रह्ममीमांसाशास्त्रस्य विषय इति ब्रह्मशब्दार्थकदेशश- (१०) । क्तिविचारोऽपि तत्र मुसगत इति भाध्ये तत्र तत्राधिकरणे शक्तिपरत्ववर्ण- नमित्यवान्तरोपसंहारः। चतुश्चत्वारिंशश्लोके ४४ ---तत्र सर्वलोकगत्याकाशदहराकाशवाक्ययो- श्चिच्छक्तिपरत्वं तत्तदधिकरणे कण्ठत एवोक्तम् । तथा जन्मादिसूत्रे 'आकाशो ह वै नामरूपयो' रिति वाक्यस्यानन्दमयवाक्यस्य च तत्परत्वं स्फुटमुक्तम् । तत्रोक्तन्यायेन तथाविधेषु वाक्यान्तरेध्वपि चिच्छक्तिपरत्व- माचार्याणामुन्नेयमिति वर्णनम् । ततः श्लोकद्वयन ४५.४६.--शक्तिविशिष्टशिवज्ञानस्यैव श्रुतिपु मोक्षहेतुत्वो. क्तेः शिवस्वरूपमिव शक्तिस्वरूपमपि मोक्षार्थे वह्यमीमांमाशास्त्रे निरूपणी- यम् । तथा परब्रह्मानन्दरूपशिवशकेरेव मुक्तभोग्यतया फलरूपत्वादपि तग्निरूपणम् । तथा सर्वजगत्कारणत्वस्याद्वितीयत्वोपपादकस्यापरिणामिनि शिवको परिणामिशक्तिद्वारैवोपपादनीयत्वेन तदर्थतयापि तनिरूपणमा- वश्यकमिति । ततः श्लोकद्धयेन ४७. ४८.- निर्विशेषप्रत्यगभिन्नाद्वितीयब्रह्मसिद्धान्तरूपे शुद्धाद्वैतवाद एव श्रुतिस्मृत्यादीनामिव ब्रह्मसूत्राणामपि परम तात्पर्यमिति अयमपि सिद्धान्त. श्रीकण्ठाचार्यतत्रतत्रोद्घाटित एव न परित्यक्त इति निरूपणम् । अथ श्लोकत्रयेण ४९-५१ विशिध्य तत्तदधिकरणगतभाष्यवाक्यो. दाहरणपूर्वक शुद्धाद्वैतसिद्धान्तानुगुणस्य निर्गुणब्रह्मविदामुत्क्रान्त्यायभावस्य जडानां ब्रह्मविवर्तवादस्य जीवब्रह्माभेदस्व चेयादेरर्थस्य स्फुटीकरणम् । तदनु श्लोकढयेन ५२, ५३ -निर्विशेषब्रह्मवादरूपपरमसिद्धान्त श्रीभग- वत्पादभाष्येण समन्वेऽपि भाध्यान्तरकरणमाचार्याणां सविशेषपरशिवस्वरूप भक्त्यतिशयसिध्यर्थमुपनिषदामवान्तरतात्पर्यमादाय सूत्राणां तत्परत्व- वर्णनार्थमिति । अनन्तरश्लोकढ़येन ५४ नन्ववमपि महावाक्यम्य जीवब्राह्मणी- शरीरिशरीरभावमवन्धमूलकाभेदपरत्ववर्णनम् 'अशो नानाव्यपदेशात् ' इत्यधिकरणे कृत कथमुपपद्यतामिति शंकायामहप्रहोपासने श्रवणादिषु चानधिकनानां मदानां परपरया मोक्षाफलफ दाममार्ग प्ररोचयितु तव- ५५- जनं कृतम् । दृष्टं चाधिकारिभेदानुसारेण कल्पितमार्गनिरूपणमपि श्रुति. स्मृत्योरिति । उपरितन लोकेन ५६.- श्रीभगवत्पादाचारपि म्यभाग्ये ब्रह्मसूत्राणां निर्गुण उव मविशेषब्रह्मणि तात्पर्य, मविशेषं च ब्राह्म परशिगात्मकं, मुक्तम्य च मविशेषवाभावोऽस्तात्याद्यर्थजातमाविष्कृतम् । आचार्यास्तु सूत्राणां सविशेषमानपरत्वमुपास्तिमार्गदायकृते निम्पयन्तः निविशेष ब्रह्मतत्त्वं तन तन म्बवायव्यंजयामासुरितीयानेव मेद इति कथनम् । नतः श्लोकद्धयेन ५७. ५८.-रामानुजमध्वमाप्ययोरपि एव प्रणाच्या शुद्धा- द्वैतसिद्धान्तपर्ययसायित्वमस्त्विति शशायां तत्तत्भाष्योक्तिप्रदर्शनपूर्वकम- सभवनिरूपणम् । अन्तिमलोकायेन च ५९. ६०.-' - श्रीकण्टाचार्यभाप्यमपि नाद्वैतपर्यवसायि यतस्तत्र जीयब्रह्मणोर्मुक्तिदशायामपि नित्यशेषशेषिभावोऽनुवर्तत इति 'तस्य च नित्यत्वात् ' इति सूत्रे प्रतिपादितमिति शनायां निराकरणपूर्वक निप्रपञ्चप्रत्यगभिमपरमात्मरूपे महातात्पयमवान्तरतात्पर्यविषये न सवि. शेषे ब्रह्मणि दुर्वादिजनजल्पितकुकल्पनानवकाशीकरणेन तन शारभा- ध्यानधिगताहाव्ययाद्यनेकगुणगणनीलकण्ठत्वादिविशिष्टमूर्तिविशेषपरमा- काशशब्दितोमाशक्तिकालकूटनिगरणादिलीलाविशेषतदुपासनप्रकारतरफ. लीभूतपरविष्णुलीकान्तमकलभुवनातीतपरमानन्दमहाकैलासपदताप्रापका- तिवाहिकमार्गादिवहुविधविशेषाशप्रतिपादकत्वेनागतार्यत्व च धीमदाना. यभाग्य यति मर्वग्रन्धार्थीपमहार इति परिपूर्णगखिलम् ॥ इस्थमत्यन्तसक्षेपादानन्दलहरींगतान् । विषयानलिस तेन विश्वेशः प्रीयतां शिनः ॥

॥ श्रीः॥ ॥ शिवाभ्यां नमः॥ श्रीमदप्पयदीक्षितकृता ॥ आनन्दलहरी॥ तत्प्रणीतया चन्द्रिकाख्यव्याख्यया सहिता । सोऽयं मदीयाशयरंगमध्ये सायन्नटस्ताण्डवमातनोतु । पादारविन्दाभरणे यदीये दधाति नीलोपलता मुरारिः ॥ १ ॥ आनन्दलहरी विद्यामस्माभिरनुसंहिताम् । व्याख्यास्यामो वयं शैवीं व्याससूत्रानुसारिणीम् ।। २ ।। अस्ति तावदनतिशयानन्दरूपा शैवी चिच्छक्तिरखिलोपनिष- तदुपबृह्मणप्रसिद्धा । तत्प्रतिपादकानामुपनिषद्भागानां संभावितसकल- शंकापरिहारद्वारा तदुपपादकत्वोपपादनार्थमिदं प्रकरणमारब्धम् । अत्र तावतैत्तिरीयाणामुपनिषदि ब्रह्मविदामोति परम्' इत्युपक्रम्यानाताया- मानन्दवल्ल्यामन्नमयादिक्रमेण 'तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर १. 'स्यामि स्कुटीक' इति ख पाठः। २. 'निरासन' इति ख पाठः ।

आनन्दलहरी आत्मानन्दमय' इत्यानन्दमयाम्नानस्य चिच्छक्तिप्रतिपादकत्वोपपादनं क्रियते । तदनुबन्धेनैवान्येपामपि केषाञ्चिदुपनिषद्वाक्यानां तत्प्रति- पादकानामन्यपरत्वं निराकरिप्यते । तत्रायमाद्यः श्लोकः- - सत्यज्ञानादिमन्त्रोदितमखिलमपि व्यावरीतुं प्रवृत्ता कृत्स्नाप्यानन्दवल्लीत्यवगतमुपरि ग्रन्थतः मूत्रतश्च । तस्मादानन्त्यविद्याफलगुहवदिह व्यावृतं पारिशेप्यात् व्योमापीत्येतदानन्दमय इति समालोचयामो गुहास्थम् ॥१॥ अस्यानन्दमयवाक्यस्य विवरणार्थ ब्रह्ममीमांसायाम् ' आनन्द- मयोऽभ्यासा' (ब्र. अ. १. पा. १. सू. १३.) दित्यधिकरणं प्रवृत्तम् । अस्य तावत् पूर्वपक्षे सिद्धान्ते च आनन्दमयो जीवस्तत्पुच्छत्वेनोक्तं तत्प्रतिष्ठारूपं ब्रह्मेति समानं, किं त्वानन्दमयोपासनापरेयमानन्दवल्लीति पूर्वपक्षः । तत्प्रतिष्ठारूपज्ञेयब्रह्मप्रतिपत्तिपरेत्यद्वैतवादिभिरुक्तः सिद्धा- न्तः । आनन्दमयो ब्रह्म तत्प्रतिष्ठारूपं ब्रह्मापि परिपूर्णानन्दरूपं ब्रह्मैव । अनन्यप्रैतिष्ठत्वज्ञापनाय स्वस्य स्वप्रतिष्ठत्वोक्तिरिति विशिष्टाद्वैतवादि- भिणैववैरुक्तम् । श्रीकण्ठाचार्यरेव आनन्दमयो ब्रह्मतत्प्रतिष्ठारूप इति स पन्था दर्शितः। किंच पुच्छपुच्छवद्भावनिर्देशोन सामञ्जस्यम- श्नुते । 'स्वे महिम्नि प्रतिष्ठित' इत्यादिवत् म्वशब्दादिकं विहायानन्दम- 'व्या- ३ . १ 'तत्प्रतिपादकत्वोपपादन करिष्यते।' इति ख पाठः । २ वरीतव्यमेव' इति ख पाठ । प्रतिपत्तिरेवेति सिद्धान्त इत्यद्वैत- चादिभिरुक्तम् ।' इति ख पाठः । ४. 'प्रतिष्टत्वव्यवस्थापनाय' इति ग पाठः। ५. श्रीकण्ठाचार्यस्तु ब्रह्मयानन्दमय इति पुच्छपुच्छिवट्दन' इति ग पाठ । .दर्शित., कपाट:1 चन्द्रिकासहिता। ३ यस्य 'ब्रह्म प्रतिष्ठा' इति शब्दभेदेनाधाराधेययोः श्रुत्या ग्रहणात् स्वप्र- तिष्ठत्वोक्तिरित्यपि न स्फुटं प्रतीयत इत्यभिप्रेत्य पुच्छवाक्ये ब्रह्मशब्दः प्रणवपर इति प्रतिपादितम् । तदनन्तरं 'अत्र केचित्' इत्यादिग्रन्थे- नानन्दमयश्चिच्छक्तिः तत्प्रतिष्ठा शिवाख्यं परं ब्रह्मेति स्वाभिप्रायो दर्शितः । तद्व्याख्याने शिवादित्यमणिदीपिकायामानन्दमयो जीव इति पूर्वपक्षनिरासेन चिच्छक्तिरिति सिद्धान्तव्यवस्थापनार्थतया तदधि- करणयोजनाप्रकारः प्रपञ्चेन दर्शितोऽस्माभिः । इहानन्दमयश्चिच्छ- तिरिति ब्रह्मपक्षऽनुपपत्त्युद्धाटनेन चिच्छक्तिपक्षेऽनुपपत्तिनिरासेन च व्यवस्थाप्यतेऽनन । अस्य श्लोकन्यायमर्थः । 'ब्रह्मविदाप्नोति परम्' इत्यानन्दवल्ल्यां प्रतिपाद्यस्य करनस्याप्यर्थस्य संग्राहकं सूत्रम् । तत्र किं तत् ब्रह्म कथं च तद्वेदनं किञ्च तद्वेदनप्राप्यं परमुत्कृष्टं फल- मित्याकांक्षायां तस्त्रितयं स्पष्टीकर्तुं तदेषाभ्युक्ता' इति ब्राह्मणस्यो- तार्थप्रतिपादकत्वनावतारणपुरस्सरं तदनुव्याख्यानरूपः 'सत्यं ज्ञानम्' इत्यादिमन्त्र आग्नातः । तत्रापि कथ ब्रह्मणः त्रिविधपरिच्छेदराहित्य- रूपमानन्त्यमित्याकांक्षायां तदानन्त्यायुपपादनार्थः कृत्लोऽप्यनुवाकशेप इति तस्माद्वा एतस्मादात्मन आकाशस्संभूत' इत्याद्युत्तरसन्दर्भपर्या- लोचनया 'मान्त्रवर्णिकमेव च गीयत' इति (न. अ.१ १.१.सू. १६.) ब्रह्मसूत्रपालोचनया च 'यदानन्त्यं प्रतिज्ञा श्रुतिस्तत्सिद्धये जगौ। तत्कार्यत्वं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय' इत्यभियुक्तोक्त्या चाव- गतम् । ततश्च कथं ब्रह्मणस्त्रिविधपरिच्छेदराहित्यरूपमानन्त्यं तस्य- हि नित्यत्वेन विभुत्वेन कालतो देशतश्च परिच्छेदराहित्येऽपि वस्त्वन्त- रव्यावृत्तत्वाद्वस्तुपरिच्छेदराहित्यं न सभवतीत्याशंकायां तदुपपादनार्थ स्वप्रतिष्ठत्वोक्तिरपि न मपनीयत' इति ख पाठः । १.

आनन्दलहरी
'तस्माद्वा एतस्मादात्मन' इत्यादि सोऽकामयत बहु स्यां प्रजायेय'
इत्यादि च कारणवाक्यम् । तेन द्विविधेनापि कारणवाक्येन चेतना-
चेतनात्मकसकलप्रपञ्चोपादाननिमित्तभूतं स्वापृथक्सिद्धसफलप्रपञ्चवि-
शिष्टं ब्रह्मैकमेव यथा पत्रपुष्पफलादीनामान्तर्गणिकभेदसत्त्वेऽपि
तद्विशिष्टो वृक्ष एक इति । एवं ब्रह्मणः स्वपृथक्सिद्धवस्त्वन्तराभावेन
तथाभूतवस्तुपरिच्छेदरहित्यं लभ्यते । यथा च कस्यां गुहायां ब्रह्म-
त्यज्ञानाजिज्ञासायां 'उपहरे गिरीणां संगमे च नदीनां धिया विप्रो
अजायत' इति मन्त्रे गिरिगहरे विप्रस्य ब्रह्मविद्याजननोक्तेः गिरि-
गुहा विवक्षितेति भ्रान्तिप्रसक्तावन्नमयादिका गुहेति तद्विवरणार्थमन्न-
मयादिकोशनिरूपणं, यथा चोष्ट्रकोकिलादिजातिभेदेन ग्रीप्महेमन्ता-
दिकालभेदेन च भोग्यानां सर्वेषां कामानां कथं युगपद्धोग इति
शंकायां तदुपपादनार्थ · सैपानन्दस्य मीमांसा' इत्यादि । तेन ब्रह्मा-
नन्दम्यैव सकलवैषयिकसुखात्मना विद्यमानतोक्त्या ‘सर्वान् कामान्'
इत्यनेन सर्वकामात्मना विद्यमानस्स एवोच्यत इति विवरणेन तदुप-
पादनं कृतं भवति । यद्यपि वैपयिकसुखानां सर्वेषां मिलितानामपि
अखण्डब्रह्मानन्दलेशरूपत्वात् ब्रह्मानन्दानुभवो युगपत् सर्ववैषयिक-
मुखाप्रत्यन्तमतिरिच्यते, तथापि मुक्तं प्रति सर्वात्मनाभिव्यक्ते
अमानन्देऽनुभूयमाने वैपयिकसुखात्मना विद्यमानास्तदंशास्सर्वेऽप्यनु-
भूयन्त एवेति तस्य युपगत् सर्वकामावाप्तिविवरणरूपतोपपत्तिः ।
यथैवमानन्त्यादिकं विवृतमेवं गुहान्तर्वर्तिप्रसिद्धव्योमविलक्षणं किं तत्
परमं व्योमेत्याकांक्षायां तदपि विवरणीयम् । अतस्तद्विवरणार्थमानन्द-
मयवाक्यमित्येवं परिशेषादानन्दमयः पुराणादिपु परमाकाशशब्देन
प्रसिद्धा शैवी चिच्छक्तिरवसीयत इति ॥ १ ॥

चन्द्रिकासहिता। . अथ परिशेषप्रमाणोपोलकं प्रमाणान्तरमाह-- को ह्येवान्याक इत्यायुपरिपठनमप्युक्तमर्थ व्यक्ति प्राचुर्य प्राक्तदर्थे फणितमुदितमानन्दमीमांसयागे। एवं चाग्रानुसारान्मयडवधि पदं तत्प्रकृत्यर्थमाते ध्यर्थ हि व्याकृतं तत्मकृतवचन इत्यादि सूत्रं महः ॥२॥ उत्तरसन्दर्भ ' को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आ- नन्दो नस्यात्' इत्यानन्दशब्दस्य प्रकृतानन्दमयविषयस्य व्योमशब्दप- याकाशशब्दसामानाधिकरण्यं दृश्यते । तेनाप्यानन्दमयस्य परमाका- शशब्दितचिच्छक्तिरूपतावसीयत इत्यर्थः । नन्वानन्दमये मयडर्था- धिक्यात् तद्विपयत्वमस्यानन्दशब्दस्य न युक्तगित्याशंक्याह---पाचु- यमिति। मयडर्थो हि प्राचुर्य तदस्यानन्दस्य 'सैपानन्दस्य मीमांसे' त्यारभ्य प्रवृत्तया 'ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्द' इत्यानन्दमीमांसया स्फुटीक्रियते । अतो नार्थभेदः प्रसज्यत इत्यर्थः । ननु 'अन्नमयो यज्ञ' इत्यादिरीत्या प्राचुर्येणानन्दोऽस्मिन्नि- त्यानन्दमयशब्दः आनन्दधर्मिविषयः, 'यदेष आकाश अनन्द' इत्यादिस्तु सन्दर्भः आनन्दमानविषय इत्यर्थभेदो न निवार्यत इत्या- शंक्याह-- एवञ्चेति । 'तत्प्रकृतवचने मय' डिति प्राचुर्यविषये मयड्डिधायकं पाणिनिसूत्रमिदं वृत्तिकारादिभिधा व्याख्यातम् । तदिति प्रथमासमर्थात् प्राचुर्येण प्रस्तुतमित्यर्थे वर्तमानात् स्वार्थे मयट्प्रत्ययो भवतीत्येकोऽर्थः। तस्य 'अन्नमयं यवागूमयी' इत्यायुदाहरणम् । प्राचुर्येण 'ध्यर्थ तत्' इति स्म पाठः। 'प्रस्तुत आनन्दोऽस्मिन्' इति ख पारः । । . २. १.

आनन्दलहरी प्रस्तुतमन्नं प्राचुर्येण प्रस्तुता यवागूरित्यादिस्तदर्थः । यद्यपि प्रकृतशब्दः प्रस्तुतमानवाची न तु प्राचुर्यविशिष्टप्रस्तुतवाची । तथापि प्रकृत्त इत्ये- तावति वक्तव्ये वचनग्रहणादयं विशेपो लभ्यते । वचनग्रहणं हि लोके यादृशस्य प्रकृतस्य मयटा प्रत्यायनं प्रसिद्धं तत्र यथा स्यादित्येवम- र्थम् । लोके च मयडन्तैरन्नमयादिशब्दैः प्राचुर्येण प्रकृतस्य प्रत्यायनं प्रसिद्धमिति । अपरस्त्वर्थः, प्रकृतं प्रस्तुतमुच्यतेऽस्मिन्निति प्रकृतवच- नम् । तदिति प्रथमासमर्थात् प्रकृतवचनेऽर्थे मयट्प्रत्ययो भवतीति । अस्य च ' अन्नमयो यज्ञ' इत्याद्युदाहरणम् । प्रकृतमन्नमस्मिन् यज्ञ इत्यादिस्तदर्थः । अस्मिन्नर्थ प्रकृत्यर्थादर्थान्तरे प्रत्यय इति । एवञ्चात्र 'यदेप आकाश आनन्द' इत्यादिवाक्यशेषानुसारेणान मयडन्तपदस्य प्रथमार्थः परिग्राह्य इत्यर्थः ॥ २ ॥ नन्वानन्दमयशब्दो यदि प्रचुरानन्दमेव ब्रवीति न तु तद्धर्मि- णमपि तदा कस्यायमानन्द इति बोद्धव्यमिति शंकामुद्भाव्य 'ब्रह्म पु- च्छं प्रतिष्ठा' इति ब्रह्मसन्निधानात् 'तस्य प्रियमेव शिर' इत्यत्र श्रुतस्य तस्येतिशब्दस्य पुच्छशब्देनेव प्रतिष्ठाशब्देनापि अनुषंगेणान्वयादा- नंदमीमांसायां स एको ब्रह्मण अनन्द' इति साक्षादेव ब्रह्मान्वयश्र- वणात् ‘सोऽश्नुते सर्वान् कामान् सह' इति मुक्तस्य योगपद्येन सर्व- कामावाप्तिवाक्यस्य सकलवैषयिकसुखकणिकामहासमुद्रायमाननिरति- शयानन्दानुभवपरम्य सह ब्रह्मणा विपश्चितेति वाक्यशेषानुसारेण 'स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य' इति वाक्यो- तार्थप्रतिपादकत्वाच्च ब्रह्मण इति बोद्धव्यमिति प्रतिपादयति- कस्यानन्दोऽयमानन्दमय इति यदि ब्रह्मणस्सन्निधाना- तस्य ब्रह्म मतिष्टेति च तदनुगुणात्तस्य शब्दानुपंगात् ।

चन्द्रिकासहिता। ब्रह्मानन्दो य इत्यायुपरि शतगुणोत्कर्षवाक्येऽभिधाना- तनैक्याचार्थगत्या सहफणितियुजस्सर्यकामाप्तिवाचः॥३॥ एवमानन्दमयश्चिच्छक्तिरिति पक्षे उपपत्तिः प्रदर्शिता । अथ ब्रह्मेति पक्षे अनुपपत्तिप्रदर्शनपूर्वकं चिच्छक्तिपक्षेऽनुपपत्तिनिरासः क्रियते- एवं सत्येव तस्यैप इति सुघटितात् स्यात्तदात्मान्तरोक्तिः भेदोक्तिः पुच्छिपुच्छाद्यवयवविधया ब्रह्मणस्तस्य चान्या । एतस्मादात्मनोऽन्यत्सकलमभवदित्युक्तिरोपपन्ना छान्दाग्ये कारणखं श्रुतमिह बृहदारण्यके देवतात्वम् ॥ ४॥ प्राणमयादिपर्यायचतुष्टयेऽपि ‘तम्यैप एव शारीर आत्मा । यः पूर्वस्य' इति प्रतिपर्यायं श्रूयते । तस्य प्राणमयस्यैप आत्मा यः पूर्वस्यान्नमयस्येत्यादिस्तत्रतन्न पर्याये तम्य वाक्यस्यार्थः । एवञ्चानन्द- मयपर्याये तस्यानन्दमयम्यप आत्मा यः पूर्वस्य विज्ञानमयस्येत्यर्थः पर्यवम्यति । एवमानन्दमयं प्रत्यात्मान्तरोक्तिरानन्दमयश्चिच्छक्तिरिति पक्ष एव युज्यते । न तु ब्रह्मेति पक्ष । तस्गिन् पक्षे प्राणमयादिपर्या- येपु तस्य वाक्यस्यात्मान्तरप्रतिपादकत्वमानन्दमयपर्याय तस्य स एवात्मेत्यनन्यात्मप्रतिपादकत्वमिति वैस्लप्यं स्यात् । अपिचानन्दमयस्य ब्रह्म पुच्छमिति श्रूयते । तत् ब्रह्म न प्रणयः । असन्नेव स भवति' इत्यन- न्तरश्लोके तदसत्त्वं मन्यमानस्य निन्दाश्रवणात् प्रणवस्य प्रत्यक्षसिद्ध- त्वेन तस्यासत्त्वशंकानास्पदत्वात् । न च पूर्वपर्यायश्लोकानां पुच्छवद्विप- यत्वादयं श्लोकः पुच्छवदानन्दमयविषयो न तु पुच्छब्रह्मविषय इति आमन्दलहरी ८ शंकनीयम् । श्लोकगतब्रह्मश्रुतिभ्यां प्रायपाठवाधात् 'अन्नाद्वै प्रजाः प्रजा- यन्ते' 'यतो वाचो निवर्तन्त' इति श्लोकयोः अन्नमयमनोमयविषय- त्वाभोवन प्रायपाठासिद्धेश्च । एवञ्च पुच्छवदानन्दमयोऽपि चेत् ब्रह्म तदा तस्यैव तत्पुच्छत्वनिर्देशोऽसमञ्जसः स्यात् । न चान्नमयपर्याय 'तस्येदमेव शिर' इत्यादिना स्वस्मादनतिरिक्तैः स्वावयवैः शिरः- पक्षपुच्छादिमत्त्वकल्पना तदा. दृष्टेति वाच्यम् । तत्रावयवावयविभा- चौपाधिकसंस्थानविशेषकृतभेदसद्भावादिहानन्दमयस्य ब्रह्मत्वे तन्मात्र- रूपस्यापि षष्ट्यालंबनस्य भेदस्याभावात् । एतेन खस्मादनतिरि- तेवेव शिरःपक्षादिरूपणपरमिदं प्रकरणमिति कल्पना सुदूर मपास्ता । अथवौगिरसः पुच्छं प्रतिष्ठे' त्यादौ तदसिद्धेश्चेति भावः । अोत्तरार्थेन चिच्छक्तिपक्षे अनुपपत्तिनिरासः क्रियते । एवमिह शंको- त्तिष्ठति । आनन्दमयादिपर्यायपञ्चकात् प्राक् 'तस्माद्वा एतस्मादात्मन' इत्यादिनोपक्रान्तं जगत्कारणत्वं यथान्नमयादिकमतिक्रामति तथा नानन्दमयमतिकामति ! नापि तत्प्रतिष्ठारूपे ब्रह्मण्यन्वेति। किं त्यानन्द मय एवान्वेति । कुतः । तदनन्तरं 'सोऽकामयत' इत्यादिना प्रागुप- क्षितजगत्कारणत्वप्रपञ्चने स इति पुलिलेनानन्दमयपरामर्शात् । न च ब्रह्मण्यपि तस्यैष एव शारीर आत्मा' इति वाक्ये पुलिंगस्यात्म शब्दस्य श्रयणातदपेक्षया पुटिंगमुपपद्यत इति वाच्यम् । 'तस्यैष' इति वाक्यस्य सर्वपर्यायसाधारणत्वात् प्रकृतपरामर्शिना सर्वनाम्ना असाधारण्येन प्रकृतसमर्पकं यत् प्रधानपदं तदीयलिंगापेक्षणस्यैवोचि. तत्वात् । अपिचोत्तरानुवाके भृगुवल्ल्या 'यतो वा इमानि भूतानि जायन्ते' इत्यादिनोपक्षिप्तस्य जगत्कारणत्वस्यान्नप्राणादिपर्यायचतुष्टयातिलंघनेन पश्चमपर्यायाम्नात आनन्द एव 'आनन्दायेव खत्यिमानि भूतानि जा.

चन्द्रिकासहिता । । . यन्त' इत्यादिना श्रुत्यैवान्वयमदर्शनादिहापि पञ्चमपर्यायसाम्येन स्था- नप्रमाणादानन्दमय एव जगत्कारणत्वान्वयोऽवसीयते। तस्मादेव स्था- नप्रमाणात् भृगुवल्ल्युक्त आनन्दः आनन्दवल्ल्युक्त आनन्दमय एवे. त्यप्यवसीयते। अतः कारणत्वान्वयादानन्दमयो ब्रह्मति युक्तम् । सद्विद्या- दिपु ब्रह्मणः कारणत्वप्रसिद्धः जन्मादिसूत्रे तन्मूलश्रुतौ च कारणत्वस्य ब्रह्मलक्षणत्वोक्तेः प्रकृत्यधिकरणे च ब्रह्मणो जगदुभयकारणत्वव्यवस्था- पनाच्च । तस्माद्वलीद्वयस्यैकार्थ्यादानन्दवल्ल्युक्त आनन्दमयो भृगु- वल्ल्युक्त आनन्दश्च ब्रह्मेत्येवांगीकर्तुं युक्तम् । अत एव खलु भृगुवल्ल्यामानन्दमयवृत्तरानन्दशब्दस्य 'आनन्दो ब्रह्मेति व्यजानात्' इति ब्रह्मपदसामानाधिकरण्यं दृश्यते । न चानन्दवल्ल्यां स एको ब्रह्मण आनन्दः' . आनन्दं ब्रह्मणो विद्वान्' इत्यादिनास्यानन्दम्य ब्रह्मव्यतिरेकश्रवणात् : सोऽकामयत' इति सर्वनाम्ना परामृष्टमानन्द- मयमेव 'रसो वै सः।' 'एप देवानन्दयाति।' यदेष आकाश आनन्द' इति सर्वनामभिः परामृश्य कीदृशं तस्यानन्दमयशब्दितस्यानन्दस्य प्राचुर्यमित्याकांक्षायां तन्निरतिशयत्वरूपमिति निर्णेतुमानन्दमीमांसा प्रस्तुत्य, ततः स एको ब्रह्मण आनन्द' इत्यादिना तस्यैव ब्रह्मधर्मत्वप्र- तिपादनेनायमानन्दमय आनन्दमयात् ब्रह्मणोऽन्यस्तदीयानन्द इति यो- जयितुं शक्यत्वात् प्रथमश्रुतभेदव्यपदेशानुसारेणाभेदव्यपदेशो गौणः स्यादिति वात्र्यम् । श्रुतिसूत्रसिद्धब्रह्मलक्षणनिर्वाहार्थमभेदव्यपदेश- स्यानुरोध्यत्वेन प्रथमश्रुतस्यापि भेदव्यपदेशस्यैव 'राहोशिशर' इति- चौपचारिकत्वेन नेयत्वादिति । इयं चिच्छक्तिपक्षे कारणत्वान्वयानुप- पत्तिस्तावदेका । ' आत्मन आकाश' इत्यादिश्रुतावात्मशब्दान्वयानुप- पत्तिरपरा । आत्मशब्दो हि ज्ञातृवाची। न च धर्मज्ञानरूपायाश्चिच्छक्तेः , . 2 आनन्दलहरी ज्ञातृत्वं संभवतीतीयमाशङ्कोत्तरार्धेन निरस्यते। तन्निरासप्रकारस्त्वयम्- छान्दोग्ये 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त' इत्याकाशसंज्ञितायाश्चिच्छक्तस्सर्वभूतकारणत्वं श्रुतम् । न चात्राकाश- शब्दो भूताकाशपरस्तद्देवतापरो वा । तयोस्सर्वभूतकारणत्वाभावात् । नापि ब्रह्मपरः । वेदे प्रयुक्तस्य कस्यचित् शब्दस्य लोकप्रसिद्धार्थग्रह- णासंभवे हि वेदतदुपबृह्मणयोरन्यत्र यस्मिन् प्रयोगो दृष्टस्तस्य ग्रहणं युक्तम् । वेदे चान्यत्र 'आकाशशरीरं ब्रह्म' यदेष आकाश आनन्दो न स्यात्' इत्यादौ ब्रह्मणश्शरीरानन्दादिरूपायां शक्ती प्रयोगो दृष्टः । वेदोपबृह्मणे च श्रीकूर्मपुराणे ' यस्य सा परमा देवी शक्तिराकाश- संज्ञिता । अनन्तश्चर्ययोगात्मा महेशो दृश्यते किल ॥' इति तस्या आकाशशब्दवाच्यत्वमुक्तम् । अतश्छान्दोग्ये तस्याः कारणत्वं श्रुत- मिति युक्तमेव । तथा बृहदारण्यके 'यदिदं सर्वमप्स्वोतञ्च प्रोतञ्च कस्मिन्नु खल्वाप ओताश्च प्रोताश्च' इति वायौ गार्गि' इत्यादि गार्गि- याज्ञवल्क्यप्रश्नोत्तरपरम्परया पृथिवीसलिलवाव्यन्तरिक्षलोकादिपरब्रह्म- लोकान्तानां लोकानां पूर्वपूर्वस्योत्तरोत्तरस्मिन्नोतप्रोतत्ववर्णनानन्तरं 'कस्मिनु खलु ब्रह्मलोका ओताश्च प्रोताश्च' इति पृष्टेन याज्ञवल्क्येन परब्रह्मलोकस्योतप्रोतत्वं परब्रह्मशक्तौ वर्णनीयम् । सा परतत्त्वभूता गुरूपसदनादिशिष्यकृत्यमर्यादामतिक्रम्य न प्रष्टव्येति तत्पश्ननिवार- णार्थ गार्गि मातिप्राक्षार्मा ते मूर्धाव्यपप्तत् अनतिप्रश्नां वै देवतामति- पृच्छसि मातिप्राक्षीः' इति वाक्ये तस्यामात्मत्वान्तरविशेषधर्मरूपं देवतात्वं श्रुतम् । न च तद्देवतात्वश्रवणं परमेश्वरविषयमिति शङ्कनी- यम् । तदानीं निवारितस्य परब्रह्मलोकान्तसवलोकोतत्वमोतत्व- 1. 'सकलजगदाधारप्रधस्य' इति व पाठः । .

चन्द्रिकासहिता। . प्रश्नस्य 'यदूर्ध्व याज्ञवल्क्य दिवो यदर्वाक्पृथिव्या यदन्तरा द्यावा- पृथिवी इमे यद्भूतञ्च भवच्च भविष्यचेत्याचक्षते कस्मिंस्तदोतञ्च प्रोतञ्च' इति पुनरवतारणे सतिल 'आकाश एव तदोतं च प्रोतं च इति तदुत्तरवाक्ये चिदम्बरशक्तिविषयाकाशशब्दश्रवणात् तदनन्तरं 'कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च' इति प्रश्नान्तरस्योत्तरेण 'एतद्वैतदक्षरं गार्गि ब्राह्मणा अभिवदन्ति' इत्यादिना ‘एतस्मिन्नु खल्वक्षरे गार्गि आकाश ओतश्च पोतश्च' इत्यन्तेन सन्दर्भेण तस्याकाशस्याक्षरशब्दोदितपरब्रह्माश्रित- त्वप्रतिपादनाच । तस्माचिदंबरशक्तावात्मत्यस्य कारणत्वस्य चान्वये न काचिदनुपपत्तिरिति ॥ ४ ॥ अथ श्रुत्यन्तरोदाहरणेनापि ब्रह्मचिच्छ केतृित्वमुपपादयति- तस्मिन्विज्ञानमन्तर्यमयितृविपये ब्राह्मणे तन्नियम्यं प्रोक्तं तत्तां स एवाईति न तदितरा तस्य भाः काचिदेप्या। तस्मिन्माध्यन्दिनास्तद्विषयगतमनुश्राश्यन्त्यात्मशब्दं शक्तिनिक्रियात्मा बलमिति विविधा श्रूयते सेति चान्ये ।।५।। तस्मिन्नेव बृहदारण्यके अन्तर्यामिब्राह्मणे पृथिव्यादिक्रमेण ब्रह्मणस्सर्वप्रपञ्चान्तर्यामित्वनिरूपणप्रस्तावे यो विज्ञाने तिष्ठन्विज्ञा- नादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयत्येप आत्मापहतपाप्मान्तर्याम्यमृत' इति तेनान्तर्यामिणा नियम्यं विज्ञानं किञ्चित् काण्याः पठन्ति, तद्विज्ञानं कस्येत्याकांक्षायां सन्निधा- नात्तस्यैवान्तर्यामिणः परब्रह्मण इति युक्तम् । तस्य हि सर्वावभास- १. 'तदितरस्तस्य भासावभास्यः।' इति क पाठः ।

१२ आनन्दलहरी कतया नित्यं सर्वव्यापकञ्च विज्ञानं 'तस्य भासा सर्वमिदं विभाति' इति श्रुत्यन्तरप्रसिद्धम् । तथाभूतब्रह्मविज्ञानञ्च ब्रह्मासाधारणधर्मत्वे. नानेकश्रुतिप्रसिद्धः प्रसिद्धाकाशविलक्षणः परमाकाश इत्येवांगीकर्तुमु- चितम् । आकाशो विज्ञानं चेति ब्रह्मणि पृथग्धर्मद्वयांगीकारे गौरवात्त- दीयविज्ञाने नित्यविभुत्वेन प्रसिद्धाकाशसादृश्येन 'असमन्तात् काशत' इति योगेन च आकाशशब्दस्य वृत्त्युपपत्तेश्च । तस्मिन् बृहदारण्यके . समानप्रकरणे ‘य आत्मनि तिष्ठन्नात्मनोऽन्तर' इत्यादि माध्यन्दिनाः पठन्ति । अत्र पर्यायक्यात् स्थानप्रमाणेन विज्ञानात्मशब्दयोरेकार्थत्वं वाच्यमिति ब्रह्मचिच्छक्तेरात्मत्वसिद्धिः । यद्यपि विज्ञानशब्दस्य भाव- ल्युडन्ततया नन्द्यादिल्युट्प्रत्ययान्ततया वा भावकर्मकरणाधिकरणक- तृरूपानेकार्थत्वं संभवति, तथापि घटपटादियत्किञ्चिद्विपयावच्छि- न्नायां ज्ञप्तौ ज्ञानशब्दस्य लोके प्रयोगात् उत्सर्गतस्तस्य तादर्थ्यमेव ग्राह्यम् । अत एव चंदवाक्येषु जीवे दृष्टस्य ज्ञानशब्दस्य नन्यादि- ल्युट्प्रत्ययान्ततया ज्ञातृपरत्वेन वा स्वप्रकाशतया ज्ञप्तिरूपतापि जीवस्यास्तीति तदर्थकत्वेन वा निर्वाहसंभवेऽपि । 'तद्गुणसारत्वात्तु तद्यपदेशः प्राज्ञवत्' इति (ब्र. २. पा. ३. सू. २९.) ब्रह्मसूत्रे ज्ञानमि- च्छादिसकलव्यवहारहेतुतया प्राचुर्येण सदानुवर्तमानो जीवस्य सार- भूतो गुण इति तद्यपदेशशब्देनास्यौपचारिको व्यपदेशः, यथा 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यादिषु ब्रह्मणस्तेन व्यपदेश इति निर्वाहः कृतः । यतु 'यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्' इति तदनन्तर (प्र.२.पा. ३. सू. ३०.) सूत्रेण ज्ञानस्य यावद्व्यभाविधर्मत्वात् तद्य- १. 'तम्मिनेव विज्ञानपर्याये' इति ख पाठ । 'प्रसिद्धयति- शयात्' इति ख पाठः। २.

चन्द्रिकासहिता। १३ . क्तिपर्यन्ततायां न दोषः, गोत्यादिवाचिनां गवादिशब्दानां व्यक्तिप- र्यन्तत्यदर्शनादिति तत्र निर्वाहान्तरमुक्तम् । तदभ्युचयमानम् । शुलामधुरञ्जलं' इत्यादिवत् 'अहं ज्ञानम्' इति कदाचिदपि लाके व्यवहारस्यादर्शनेन रूपरसगोत्यादिशब्दानामिव ज्ञानशब्दस्यापि निष्कृष्टधर्मवाचित्यावगमात् नीलादिशब्दानां यावद्रव्यधर्मवाचित्वेऽपि द्रव्यपर्यन्तत्वस्य गोत्वादिशब्दानां यावद्रव्यभाविधर्मयाचित्वेऽपि तद- भावस्य च दर्शनेन यावदात्मभावित्वस्यासाधकत्याच । एवमुक्तरीत्या यदा केवलस्य ज्ञानगन्दस्यच विषयान्तरावच्छिन्नज्ञप्तावौत्सर्गिकत्वं तदा तत् सुतरां विज्ञानशब्दस्य व्युपमर्गेण विविधत्वप्रतीतेः 'अर्थनैव विशेपो हि निराकारतया धियाम्' इति न्यायेन विज्ञाने विविधत्वस्य नानाविपय. त्वरूपतापर्यवसायित्वात् । एवञ्चात्र काण्वशाखायां विज्ञानशब्देन विविधविषयावच्छिन्नज्ञानरूपतयावगतस्यैव कस्य चित् परमेश्वरनिय. म्यस्य माध्यन्दिनशाखायामात्मशब्देन ज्ञातृरूपतोक्तेत्यतोऽपि तत्पारमे- श्वरी चिच्छक्तिरिति पर्यवम्यति । जीवचिच्छक्तीनां ज्ञातृत्वाभावात् परमे- श्वरस्य नियम्यत्वासंभवाच तदीयचिच्छक्तातृज्ञानोभयरूपत्वस्य पुराणागमेषु च बहुषु प्रसिद्धत्वाच्च ‘ब्रह्मणा विपश्चिता' इति श्रुती ब्रह्मणि विपश्चित्त्वविशेषणेन विशिष्य तस्या विविधविषयष्टिरूपत्वस्य प्रसिद्धत्वाच्च । ननु 'यो विज्ञाने तिष्ठन्य आत्मनि तिष्ठन्' इति पर्यायो जीवविषय इति युक्तम् । अन्तर्याम्यधिकरणे जीवोऽन्तर्यामीति पूर्व- पक्षनिराकरणार्थतया प्रवृत्तेन 'उभयेऽपि हि भेदेनैनमधीयत' इति (न. १. पा. २. सू. २१.) सूत्रेणोभये काण्वमाध्यन्दिनाश्चैनमन्त- यामिणं यो विज्ञाने तिष्ठन्य आत्मनि तिष्ठन्' इति जीवात् भेदे- १. चिच्छतीनां जीवानां विविधविषयज्ञानत्वाभावात्' इति ग पाठः आनन्दलहरी .. नाधीयते । अतो न जीवोऽन्तर्यामी नियम्यस्य नियामकत्वायोगादिति तस्य पर्यायस्य जीवविषयत्वस्पुटीकरणात् । आत्मशब्दस्य जीव स्वार- स्यात् विज्ञानशब्दस्यापि 'विज्ञानं यज्ञं तनुत' इत्यादिषु श्रुतिषु तत्र तत्र दृष्टप्रयोगत्वाच्चेति चेदुच्यते जीवपूर्वपक्षनिराकरणार्थत्वं तस्य सूत्रस्य न युक्तम् । तथा पूर्वपक्षासंभवात् । तथाहि-कः खलु जीवोऽन्तर्यामीति पूर्वपक्षः स्यात् ।। न तावत्तदुपासकजीवः। परिछिन्ने तत्र पृथिव्यादि- स्थितितन्नियन्तृत्वयोरसंभवात् 'किमन्तर्यामिणं वेत्थ' इति गन्धर्वेण पृष्टस्य काप्यस्य 'नाहं तं भगवन्वेद' इत्युत्तरासामञ्जस्यप्रयोगाच्च । यज्ञविद्याविदः काप्यस्य कर्मफलभोक्तृदेहातिरिक्तजीवज्ञानावश्यम्भा- वात् । नापि पृथिव्याद्यभिमानी जीवः । श्रोतारमुद्दालकं प्रति पराभूते तस्मिन् एष त आत्मा' इति तदात्मत्वोपदेशायोगात् पृथिव्यादिप्व- प्यभिमानिजीवस्य प्रत्येकं भिन्नतया 'सर्वाणि भूतानि योऽन्तरो यम- यति' इत्युपक्रान्ताया एतस्य सर्वनियन्तृताया अनन्वयप्रसङ्गाच्च । नापि जीवसमुदायः । तस्य पृथिव्यादिस्थत्वतन्नियन्तृत्वयोरभावेन ' यः पृथिव्यां तिष्ठन्' इत्यादेरनन्वयात् । न च सर्वभूतवाक्ये जीवसमु- दायः पृथिव्यादिवाक्ये तत्तदभिमानी जीव इति वैरूप्यकल्पनं युक्तम् । न या तदपि निर्वोदु शक्यम् । एष आत्मा' इत्युपदेशायोगस्य उक्त- स्वात् । अपि चोपासको जीव इति पृथिव्याद्यभिमानी जीव इति सर्व- जीवसमुदाय इति पक्षत्रयमपि 'भेदव्यपदेशाच्चान्य' इत्यनेनान्तरादि- त्यविद्याधिकरणगुणसूत्रेणैव निरस्तम् । तेन हि सूत्रेणादित्यान्तर्वर्ती हिरण्मयः पुरुषो जीव इति पूर्वपक्षनिराकरणे हेतुरुक्तः ‘य आदित्ये तिष्ठन्नादित्यादन्तर' इत्यादिभेदत्यपदेशादादित्यजीवादन्योऽयमादित्या- न्तर्वर्ती हिरण्मयः पुरुष इति स हेतुरुपासकजीवोऽन्तर्यामीत्यादिपक्षत्र- चन्द्रिकासहिता। १५ यनिराकरणेऽपि तुल्यः । एष आत्मा यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुः' इत्यादिभेदव्यपदेशसत्त्वात् । तस्मानिरालंबनो जीवपूर्वपक्ष इति न तन्निराकरणार्थमिदं सूत्रं, किन्तु 'न च स्मार्तमतद्धर्मामिलापा- च्छारीरश्च' इति (ब. अ. १. पा. २.) सूत्रेण शारीरो नारायणी नान्तर्यामीति प्रतिपादिते तहिं नारायणस्यापि प्रकृतिभूता शैवी चिच्छक्तिरन्तर्यामिण्यस्त्विति शंकायां तन्निराकरणार्थम् । नारायणोs. प्यन्तर्यामी भवितुमर्हतीत्युक्त्यनन्तरं तर्हि यः कश्चित् माकृतजीवो- ऽन्तर्याम्यस्त्विति शंकानुत्थानात् । भाप्यं तु जीवपूर्वपक्षनिराकारणार्थ- त्वेनापि सूत्रं योजयितुं शक्यमित्येवंपरम् । भाप्ये जीवपदं वा 'जीव- यति' इति व्युत्पत्त्या चिच्छक्तिपरमिति न विरोधः। किञ्च 'श्वेताश्वतर- शाखिनोऽपि 'परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबल- क्रिया च' इति 'ते ध्यानयोगानुगता अपश्यन् देवात्मशक्ति स्वगुणै- निगूढाम्' इति च ब्रह्मणश्शक्तिरेव तस्य ज्ञानं बलं क्रिया चेति वर्णयन्ति । शक्तिः स्वयमात्मेति च वर्णयन्ति । न च तत्रात्मशब्दस्य देवशब्देन समासः । अनात्मरूपदेवाभावेन तदन्वयवैयर्थ्यप्रसंगात् । शक्त्यन्वये जडशक्तिव्यावर्तकत्वेन सार्थकत्वात् 'ते ध्यानयोगानुगताः प्रापश्यन् शक्तिमेश्वरीम् । पाशविच्छेदिकां साक्षान्निगूढां खगुणै- भृशम् ॥ तया विचछिन्नपाशास्ते सर्वकारणकारणम् । शक्तिमन्त महादेवमपश्यन्दिव्यचक्षुषा ॥' इति वायुसंहितायां पाशविच्छे- दकत्वविशेषणेन ‘समेत्य ते महात्मनो मुनयो ब्रह्मवादिनः। विते- निरे बहून् वादान् ज्ञानविज्ञानसंश्रयान् ॥ किमस्य जगतो मूलमात्मा वास्माकमेव हि । कोऽपि स्यात्सर्वभावानां हेतुरीश्वर एव च ।। इत्येवं मन्यमानानां ध्यानकर्मावलंबिनाम् । आविरासीन्महादेवी गौरी गिरि- आनन्दलहरी वरात्मजा || निरीक्षितास्ते परमेशपत्न्या तदन्तरे देवमशेपहेतुम् । पश्यन्ति शम्भुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम् ॥' इति कूर्म- पुराणवचनजातेन च तदुपवृह्मणेन तम्याश्शिवशक्तस्सकलपाश- विच्छेदकगौरीरूपत्वावगमाच्च । अपि च । त एव श्वेताश्वतर- शाखिनो 'विविधा श्रूयत' इत्यायुदाहृतज्ञानत्वादिप्रकारव्यतिरेकेण 'स एको ब्रह्मण आनन्द' इत्यादिश्रुतिपु आनन्दाद्यनेकप्रकारवती श्रूयत इति च वर्णयन्तीत्यर्थः । यद्वा । 'विविधा श्रूयते सा' इत्यस्य सैव शक्तिरानन्दवल्ल्यां विविधा पक्षिप्रकारा श्रूयत इत्यर्थः । विशब्दो हि लोकवद्वेदेऽपि पक्षिणि प्रयुक्तो दृश्यते । यथा 'वयस्सुपर्णा उपसे- दुरिन्द्रम्' इति । विविधैव श्रूयते ज्ञानवलक्रियारूपा च भवतीति । ज्ञानत्वादिभिः प्रकारविशेपैस्समुच्चितमर्थ समर्पयतो हि विविधेत्यस्य ज्ञानादिशब्दवदेव प्रकारविशेपसमर्पकत्वं युक्तम् । विविधा बहुप्रकारेत्युक्त्वा कैः प्रकारैर्बहुप्रकारेत्याकांक्षायां ज्ञानत्यादिप्रकारे- रित्युच्यते इति योजनायाञ्च शब्दास्वारस्यं विविधेत्यस्य व्यर्थ- कल्पता च । ब्रह्मशक्तेर्वहुप्रकारत्वस्य उपनिषदन्तरेषु प्रतिपादना- दर्शनेन श्रूयत' इत्यस्यानन्वयापत्तिश्च । व्युष्टीष्टकोपधानमन्त्रे 'प्वेका सती बहुधोपो व्युच्छसि' इति श्रवणेऽपि वैदि- कस्य श्रूयत इत्यस्य वैदिकत्वप्रत्यासक्त्या वैदिकग्राहकत्ववदौ- पनिषदत्वप्रत्यासक्तया ततोऽप्यन्तरंगोपनिषदश्रुतिग्राहकत्वं युक्तम् । परास्य शक्तिः' इति ब्रह्मधर्मत्वेन श्रुतायाश्शक्तेः ‘स एको ब्रह्मण आनन्द' इति तद्धर्मत्वेन श्रुतस्यानन्दस्य च भेदानुक्तेरैक्ये लाघव- मस्तीत्यवतरतो लाघवतर्कस्यानुग्राह्यत्वप्रमाणाकांक्षायां तदाकांक्षितप्र. माणरूपतया योजनञ्च विविधे' त्यस्य युक्त्यन्तरमित्ययमर्थः पण्डितानां .

चन्द्रिकासहिता। हृदयंगमः ॥ ५॥ ननु, शिवस्य धर्मज्ञानरूपा चिच्छक्तिश्चैतन्यरूपैव न चेतनरूपापि । चेतनत्वे तदीयज्ञानेच्छादित्यवहारार्ध तत्रापि जीवे- प्विव चिच्छक्त्यन्तरस्यांगीकरणीयत्वापत्तेः । तत्परिणामरूपाणां ज्ञाने. च्छादिवृत्तीनां धर्मिभूतशिवज्ञानेच्छादिरूपत्ववत् तदीयज्ञानेच्छादिर- पत्वस्याप्यंगीकारे जीवचिच्छक्तीनामपि तयैव रील्या ज्ञातृत्वापत्तेः । अत शिशवमहिपीत्वेन प्रसिद्धा 'गौरी शिवा सर्वमंगळा' इत्यादि नामवती शक्तिशिवधर्मरूपायाश्चिच्छक्तेरन्या 1 न तु तद्धर्मरूपा। पुराणादिषुत- स्याश्शिवधर्मत्वप्रसिद्धिस्त्वयुतसिद्धधर्मवन्नित्यसंबंधित्वेनानपायित्वसा- म्यात् । अत एव पाश्चरावतन्त्रेषु महालक्ष्म्याः परवासुदेवपरमाहन्ता- रूपतया तद्धर्मत्वप्रतिपादनेऽपि तत् सर्वमौपचारिकमिति ग्वतन्त्रचेत- नान्तरत्वमेव वैष्णवैरङ्गीकृतम् । उक्तं हि लक्ष्मीतन्त्रदिषु स वासुदेवो भगवान् क्षेत्रज्ञः परमो मनः । विष्णुर्नारायणो विश्वो विश्वरूप इती- यते । अन्तया समाकान्तं तम्य विश्वमिदं जगत् । वस्त्ववस्तु च तन्नास्ति यन्नालीढमहन्तया । तम्य या परमा शक्तित्म्नेिव हिम- दीधितेः । सर्वावस्थागता देवी स्वात्मभूतानपायिनी । अहन्ता ब्रह्मण- स्तस्य साहमस्मि सनातनी । वासुदेव. परं ब्रह्म नराणामयनम्महत् । तस्याहं परमा शक्तिरहन्तानन्दचिन्मयी' इत्यादिवचनैरहन्तादिरूपपर- वासुदेवधर्मत्वं लक्ष्म्याः । तथापि न्यायसिद्धाजनादिपु लक्ष्मी प्रकृत्य- शक्तित्त्ववादास्तु पत्नीत्यादिरूपेण विशेषणत्वाभिप्रायाः। 'इच्छा संवि- दिव्यपदेशा अपि प्रणयानुविधेयत्वस्वयप्रकाशवस्वरूपान- पायित्वादिविशेषपरा द्रष्टव्या इति तेषां वचनानां गति मुक्त्वा, तस्याः स्वतन्त्रचेतनान्तरत्वमेवाङ्गीकृतम् । एवञ्च ‘देवात्मशक्तिम्' इति १. 'वस्तुतस्तु' इनि ग पाठः २. 'स्वरूपकत्वादि' इति ख पाठः । दन्तहन्ता' 3 आनन्दलहरी - श्वेताश्वतरमन्त्रस्यात्मविशेषणानुसारेण उपबृह्मणानुसारेण च स्वतन्त्र- शक्तिरूपगौरीविषयत्वेऽप्यानन्दमयवाक्यस्य शिवधर्मरूपचैतन्यसुखा- त्मकचिच्छक्तिविषयत्वाङ्गीकारात् तत्रात्मशब्दो न सङ्गच्छते । अन्त- यामिब्राह्मणे विज्ञानात्मपर्यायो यथाकथञ्चित् जीवविपयो योजनीयः । ब्रह्मचिच्छक्तिविषयत्वेऽपि तस्यामात्मशब्द औपचारिको नेतन्यः । गार्गिब्राह्मणे तस्यां देवताशब्दोऽपि तथैव नेतव्य इतीमां शङ्कां निरा- करोति- ऐकायें चिन्तिते तां सवितुरिति मनोर्युष्टिमन्त्रैqधानां या गौरी सैव शंभोस्सुमतिरिति भवत्येव निस्संशया धीः । तद्योग्यैईत्तिभेदैर्मतिरपि मतिमत्येव कैश्चित्स्वनिष्ठः स्वाम्यहरेव कैश्चित्स्वकरगतधनैर्भोगवान् खल्वमात्यः॥६॥ यजुर्वेदभागे 'तां सवितुर्वरेण्यस्य चित्रामाहं वृणे सुमतिं विश्व- जन्याम् ! यामस्य कण्वो अदुहत् प्रपीनां सहस्रधारां पयसा महीं गाम्' इत्याम्नायते मन्त्रः । अत्र सवितुर्वरेण्यश्शिवः। ' यदा तम' इति मन्त्रे 'तदक्षरं तत्सवितुर्वरेण्यम्' इति श्रवणात् । तस्य च सुमतिस्तदीया चिच्छक्तिः, सोत्तरार्धे 'या प्रथमा व्यौच्छत् सा धेनुरभवद्यमे। सा नः पयखती धुक्ष्वोत्तरामुत्तरां समाम्' इति व्युष्टीष्टकोपधानमन्त्रेवानातस्य मन्त्रस्यार्थेन विशेषिता । व्युष्टीष्टकोपधानमन्त्राश्च 'इयमेव सा या प्रथमा व्यौच्छत्' इत्यारभ्य प्रवृत्ताः पञ्चदशापि 'वधूर्जजान नवगज्ज- नित्री सूर्यपली विचरतः प्रजानती' इत्यादिमन्त्रलिंगेन देवीसूक्तत्व- प्रसिद्ध्या च गौरीविषया इति स्पष्टमेव । अस्मिन्नर्थे पुराणवचनान्यप्यग्रे दर्शयिष्यन्ते । अतश्शिवस्य चिच्छक्तिरेव गौरीति श्रुतिपुराणप्रति- ।

चन्द्रिकासहिता। । पन्नोऽर्थः कुयुक्तिभिर्न बाधमर्हति । ब्रह्मधर्मत्वेनावतिष्ठमानाया एव चिच्छक्तेः स्वयमपि चेतनान्तरत्वेनाप्यवस्थाने कानुपपत्तिः । तदीयाः केचन ज्ञानेच्छादिपरिणामाः शिवस्य ज्ञानेच्छादयो भवन्ति । केचन शिवसकल्पानुसारेणैव शक्तानेच्छादयो भवन्ति । यथा राज्ञा- मात्यवशे स्थापितेषु वस्त्राभरणादिषु केचन राज्ञः केचन राजसकल्पा- नुसारेणामात्यस्य च भोग्या भवन्तीति हि समर्थयितुं शक्यम् । वैष्णवै- रपि लक्ष्मीनारायणयोरेवमेवाहन्ताहमर्थरूपत्वे समर्थयितुं शक्ये किमर्थं तल्लक्ष्मीतन्त्रादिवचनजातमुपेक्षितमिति न विद्मः । अस्माकं तु पाश्च- रात्रप्रमाण्ये अभिनिवेशाभावात् यद्यपि तन्नावश्यं समर्थनीयम् । अथापि तदभ्युपगमेऽपि न कश्चिद्विरोधः । चिच्छक्तेर्नारायणात्मतां प्राप्ताया एव हि प्रपञ्चाकारतापतिरस्माभिरिप्यते । तथा च चिच्छक्ते- रिव नारायणस्यापि प्रपञ्चे तादात्म्येन नियन्तृत्वनिबन्धनशरीरशरीरि- भावेन चाहंभाव उपपद्यते । इयांस्तु भेदः । नारायणस्य प्रतिब्रह्माण्ड भेदात्तस्य तद्ब्रह्माण्डावच्छिन्नप्रपञ्चमात्रविषयोऽहंभावः । चिच्छते- स्सकलब्रह्माण्डावच्छिन्नतद्वहिर्भूतसनारायणसकलपपञ्चविपयो ऽहंभाव इति । शिवस्य तु सचिच्छक्तिसनारायणसकलप्रपञ्चविषयोऽहंभावः । स तु शिवस्य शरीरशरीरिभावमात्रनिबन्धन. । चिच्छक्तिनारायणयोः तादात्म्यशरीरशरीरिभावोभयनिवन्धनः। तयोः स्वोपादानके प्रपञ्चे निय- न्तृत्वेन तच्छरीरकत्वस्यापि सद्भावात् । एतदभिप्रायमेव लक्ष्मीतन्त्रेऽपि वचनं दृश्यते-कश्चित्केपाश्चिदात्मा स्मात् तस्यान्येषाञ्च कश्चन | तस्याप्येवमितीत्थं तु यत्तेष व्यवतिष्ठते । अद्धा तमद्धनः पारं परमात्मा- नमूचिरे।।' इति ॥ ६ ॥ एवं ब्रह्मधर्मज्ञानरूपायाश्चिच्छक्तेः स्वय- मपि ज्ञातृतायां न काचिदनुपपत्तिरित्युक्तम् । अमुमेवार्थ दृढीकुर्वन् २० आनन्दलहरी आनन्दवल्ल्यां यत्परगं व्योम आयतनत्वेनोक्तं तदेवानन्दमयः ‘स एको बामण आनन्द ' इति थयणात् बलधर्मश्चत्यनुपपाय योजना, आयतनस्यायतनबद्धमत्यायोगादिति शान्तरगपि निराफरीति- - शंभो नक्रियेच्छावलकरणमनम्मान्तितजनगरीर- स्वलाकागारदिव्यामनवरमहिपाभोग्यवर्गादिरूपा । सर्वरतरुपता स्वयमपि च परब्रह्मणस्तस्य शक्तिः सर्वाश्चयकभूमिमुनिभिरभिनुता वेदतत्राभियुक्तः ॥ ७ ।। परब्राह्मणशिवस्य शक्तिरच तस्य ज्ञानेच्छाकृतिबलतेजःप्रभृ. तिगुणरूपेण शरीरेन्द्रियमन-प्राणरूपेण विविधभाग्यभोगस्यानोपकर- णरूपेण सह भोक्तुर्दिव्यमहिपीरूपेण च तमासेवते । म्ययमपि ज्ञाने- च्छादिभिरुक्तम्सर्वेरप्युपेता पुरुषरूपेण दिव्यमहिपीयुक्ता च भवति । आहुश्वाभियुक्ताः-- शक्तिश्शरीरमधिदैवतमन्तरात्मा ज्ञानं क्रिया करणमासनजालमिच्छा। एश्चर्यमावरणमायतनानि च त्वं किं तन्न यद्भ- यसि देवि शशाङ्कमौले. ॥ योऽयं चकास्ति गगनार्णवरलमिन्दुर्योऽयं सुरासुरगुरुः पुरुषः पुराणः । यद्वामगर्धमिदमन्तकसूदनम्य देवि त्वमेव तदिति प्रतिपादयन्ति ॥' इत्यादि । 'परास्य शक्तिर्विविधैव श्रूयत' इत्यादिमन्त्रोऽप्यमुमर्थ क्रोडीकरोति। आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मनआनन्दम् । शान्तिसमृद्धममृतम्' इति श्रुतिरप्युक्तमर्थ- माविष्करोति । 'यदेष आकाश आनन्द' इति श्रुत्युक्ता चिच्छक्ति- रेव ब्रह्मणशरीर तयैव सत्तया तत्सत्यात्म ! 'को ह्येवान्यात् कः प्राण्यात् ' इति श्रुतेः । प्रपञ्चस्य स्वस्यापि प्राणभूतायां तस्यामेवारामः क्रीडास्य । तथैव मनसा तत्प्रयुक्तानन्दानुभवोऽस्य | तयैव शान्त्या . .. 1 चन्द्रिकासहिता। २१ तदानन्दानुभवप्रयुक्तविषयवैराग्यरूपया समृद्धश्च ब्रह्मेति श्रुतेस्तात्प- चम् । एवं सर्वाश्चर्यनिधानभूतायां तस्यां न किञ्चिदनुपपलमिति ज्ञानत्वेऽपि ज्ञातृत्वमुपपद्यते । शिवानन्दरूपायास्तस्याः स्वयम्धेतना- न्तरत्वेनानन्दानुभवितृत्वमप्युपद्यते । यथा खलु शिवः स्वात्मरूपं स्व- कीयचिच्छक्तिरूपं तवृत्तिजालरूपश्चानन्दमनुभवति एवं शक्तिरपि स्वाश्रयशिवरूपं स्वात्मरूपं स्वकीयकतिपयवृत्तिजालरूपश्चानन्दमनु- भवतीत्यङ्गीकारे न काचिदनुपपत्तिः। तथा शिवाश्रितायाश्शक्ते- शिशवासनत्वं क्षित्याश्रितस्य शौलस्य क्षितिधरत्वमिवोपपद्यते इति तत्रापि नानुपपत्तिरिति सर्व समञ्जसम् ॥ ७ ॥ एवं तावच्छतौ कारणत्वान्वयानुपपत्तिः परिहता । अथ चिच्छ- क्तावेव कारणत्वमार्जवेनान्वति न ब्रह्मणीति प्रतिपादयितुमुपक्रमते- अस्यामानन्दवल्ल्यामुपरि च भणितं युज्यते कारणत्वं नाधारेऽस्याविकारे अंगवति वियले ब्रह्मणि श्रीमहेशे । आकाशोऽयं विकारी स तु परमशिवो निर्विकारश्च सम्यक् छन्दोगैर्नामरूपान्वितमतदयितं चामनद्भिर्विविक्तः ॥ ८ ॥ 'आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मे' ति च्छन्दोगा आकाशं नामरूपप्रपञ्चान्वितं तदाधारपरब्रह्मरूपं शिवमत- दयिते नामरूपस्पर्शरहितञ्चामनन्ति । तैराकाशो विकारित्वेन शिवो निर्विकारत्वेन च विविक्त इत्यर्थः ॥ ८॥ नन्वाकाशो नामरूपयोर्निवोदृत्वेन श्रुतः न तु तदात्मना वि- कारित्वेनेत्याशंक्याह- १. भवति हि' इति स पाठः ।

२२ आनन्दलहरी 'आकाशे दृश्यते निर्वहितपदमिदं लोकसिद्धं प्रसिद्धया स्वारब्धामाशु पारं गमयति महतीं यः क्रियां तत्र शक्तम् । तत्राभावात् क्रियायाः कचिदुपचरितं कारणत्वेऽन्तरंगे वाच्यं तत्कार्यरूपाप्युपचयमहितं तद्विकारित्वमेव ॥ ९ ॥ आकाशे यन्निहितृपदं श्रूयते तदारब्धमहाक्रियासमापयित रूपकर्तृविशेषवाचितया प्रसिद्धं लोके । 'समापयत्ययलाद्यः प्रारभ्य मह- ती क्रियाम् । स हि निर्वाहको लोके विद्वद्भिर्व्यपदिश्यते' इति । इह तु क्रियानुपादानान्मुख्यार्थो नान्वेतीति निर्वहितेत्यस्य लक्ष्योऽर्थः परिमा- ह्यः । स विहाभ्यर्हितहेतुत्वरूप इति युक्तम् । आरब्धमहाक्रियासमा- पयितृरूपमुख्यार्थातरंगसादृश्यरूपत्वात् अन्तरंगसादृश्यग्रहणसंभवे च बहिरंगसादृश्यस्योपचारनिमित्तत्वेन ग्रहणायोगात् । अभ्यर्हितहेतुत्वं च निमित्तापेक्षयोपादानस्य कार्ये तादात्म्येनानुवर्तमानतयान्तरंगकारणस्य सर्वसंप्रतिपन्नमिति कारणस्य कार्यावस्थारूपोपचयप्राप्तिरूपं तद्विकारि- त्वात्मकं तदुपादानत्वमेव 'निर्वहिते' त्यस्यार्थः पर्यवस्यतीत्यर्थः ॥ एवमाकाशवाक्येन विकारित्वमुच्यत इत्युपपादितम् । अथ ब्रह्मवाक्येन निर्विकारत्वमुच्यत इत्येतदुपपादयति- एवञ्च ब्रह्मणो यत्तदुपरि जगदस्पर्शवाक्यं प्रवृत्तं तद्भुद्धिस्थं निपेधेत् परगगनगुणं तद्विकारित्वरूपम् । एवं सत्यात्मताया न विहतिरमृतत्वस्य चोक्तेः कृता स्यात् मुत्रेऽभ्यर्थान्तरसग्रहणमिदमभिमायमद्धा कृतं स्यात् ॥ १०॥ १. 'वाची । तथा लोके प्रसिद्धः।' इति ख पाठः ।

चन्द्रिकासहिता। २३ . 'ते यदन्तरा तब्रह्म' त्यत्रान्तराशब्दस्य नामरूपमध्यवर्तित्वं मुख्यार्थः । सोऽपि मुख्यार्थोऽत्र न संभवति । न हि नामरूपे परस्प- रासंवलिते कचिद्विभक्तावस्याने वर्तेते। न वा तयोर्मध्ये गुरुशिप्ययोर्मध्ये कमण्डलवत् ब्रह्म वर्तते । अतोऽत्र तद्विषये औदासीन्यरूपं तदुभयसंब- न्धराहित्यमन्तराशब्देन माध्यस्थ्यवाचिना लक्षणीयम्। 'अभ्यर्थनाभङ्ग- भयेन मानी माध्यस्थ्यमिप्टेऽप्यवलम्बतेऽर्थ' इत्यादिपु हि मध्यस्थशब्दे- नौदासीन्यरूपमभ्यर्थनासंबन्धराहित्यं लक्ष्यत इति दृष्टम् । एवञ्चान्तरा- शब्दो नामरूपसंवन्धं ब्रह्मणो निषेधन प्राचीनवाक्ये प्रस्तुतं विकार- विकारिभावरूपमेव निपेधेत् , न तु सम्बन्धसामान्य सम्बन्धान्तरं वा। बुद्धिस्थस्यैव निषेधप्रतियोगित्वेनान्वयौचित्यात् । एवं सत्येव तदमृतं स आत्मा' इति ब्रह्मण्यात्मशब्देनोच्यमानस्य जगदन्तर्यामित्वरूपस्य नामरूपप्रपञ्चेन सह नियम्यनियामकभावसम्बन्धस्य न विहति. । अ- मृतत्वस्य च सर्वात्मना विनाशाभावरूपस्य च न विहतिः । अन्यथा ब्रह्मणः कार्यात्मना विकारित्वे कार्यनाशस्तस्यैव नाश इत्यमृतत्वस्य विहतिर्भवेत् । एवं सत्येव च आकाशोऽर्थान्तरत्वादिव्यपदेशा' दित्येतद्वाक्यार्थनिर्णायक (व्र. १. प. ३. सू. ४२.) सूत्रे अर्थान्तरत्व- अहणमुक्तार्थपरतया समञ्जसं कृतं भवेत् । तत्र यर्थान्तरत्वशब्देन 'ते यदन्तरे' त्यस्यार्थोऽनूदितः । अर्थान्तरत्वञ्च भिन्नत्वम् । ततश्च नाम- रूपाभ्यां विकारविकारभावेन तादात्म्यसम्बन्धरहित्यरूपं भिन्नत्वं ते यदन्तरे' त्यस्यार्थ इत्येतदभिप्रायमर्थान्तरत्वग्रहणं समञ्जसं भवेत् । अन्यथा भिन्नत्ववाचिनोऽर्थान्तरत्वशब्दम्य नेह सामञ्जस्यं भवेदित्यर्थः । एवं सति सौत्रहेतोरयमर्थः पर्यवस्यति । अर्थान्तरत्वस्य मिन्नत्वस्य नामरूपाभ्यां विकारविकारिभावेन तादात्म्यसम्बन्धराहित्यरूपस्यादिः .

२४ आनन्दलहरी "पूर्वनिर्दिष्टं तत्प्रतियोगिभूतं विकारविकारिभावेन तादात्म्यं तव्यपदे- शात् 'नामरूपयोनिहिता' इति तस्य व्यपदिष्टत्वादाकाशश्चिच्छक्ति- रिति ॥ १० ॥ एवं ब्रह्मणा निर्विकारत्वे शक्तेर्विकारित्वे च छन्दो. गोपनिषद्वाक्यमुदाहृतम् । अथ श्वेताश्वतरोपनिषन्मन्त्रमुदाहरति- प्रज्ञाशक्तेः प्रसारं क्षरणरहिततां विश्वकर्तुश्शिवस्य वाचक्षाणं यदेत्यादिकमतिमहितं मन्त्रमप्यामनामः । येनाशेषं जगत्कारणविपयवचो वैदिकं विप्रकीर्ण तात्पर्यादन्वितार्थ विवरणविधयाकारि गौरीसहाये ॥११॥ 'यदा तमस्तन्न दिवा न रात्रिन सन्न चासच्छिच एव केवलः । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी' इति मन्त्रे प्रज्ञाशक्तेः ततः प्रपञ्चसृष्टिसङ्कल्परूपेण प्रपञ्चात्मना च प्रसरणरूपं विकारित्वं ब्रह्मण क्षरणराहित्यरूपमविकारित्वं च स्पष्टमेवाम्नातम् । अयं मन्त्रस्सर्वकारणवाक्यानां सद्ब्रह्मादिसाधारणपदयुक्तानां प्रजापति- नारायणादिदेवतान्तरवाचिपदयुक्तानां चाविशेषेण शिव पर्यवासान प्रदर्शयितुं प्रवृत्त इत्यस्माभिश्शिवतत्वविवेकादिषूपपादितम् । तत्र कथं कारणवाक्यानां शिवे पर्यवसानं सङ्गच्छते परब्रह्मणस्तस्य कौटस्थ्यश्र- वणादित्याकालायां 'तदक्षर 'मित्यनेन ' अथ परा यया तदक्षरमधि- गम्यत' इत्याद्यक्षरपदयुक्तकारणवाक्यानां शिव पर्यवसानं प्रदर्शयता शिवस्य सर्वविधक्षरणाभावकीर्तनात् कार्यात्मना क्षरणाभावरूपं निर्वि- फारत्वमप्युक्तं भवतीति कौटस्थ्यश्श्रुतिप्राप्त निर्विकारत्वमनुमन्यैव 'प्रज्ञा च तस्मात्प्रसृता पुराणी' इत्यनेन तदैक्षत' 'सोऽकाममत' इत्यादीनां जगत्सृष्टिसङ्कल्पप्रसरणप्रतिपादककारणवाक्यानां 'आत्मन .

चन्द्रिकासहिता। २५ आकागसम्भूत' इत्यादीनां वियदादिप्रपञ्चप्रसरणप्रतिपादककारण- चास्यानां च शिवे पर्यवसानं प्रदर्शयता नित्यसिद्धप्रज्ञारूपायाः शि- वचिच्छक्तस्सृष्टिसङ्कल्पसृज्यपदार्थरूपेण विकारित्वं शिवस्य तु तद्वारकं विकारित्वं साक्षानिर्विकारत्वेन न विरुध्यत इत्यतः कौटस्थ्य- श्रवणाविरोधेन सफल कारण वाक्यपर्यवसानभूमित्वश्रवणमुपपद्यत इति प्रतिपिपादयिपितार्थोपपादकतया अस्याप्यर्थस्य विवक्षितत्वात् प्रकृता- दाहणविषये तात्पर्यवत्वादत्यर्थमहितोऽय मन्त्रः । तस्मादुदाहृतम- न्वानुसारेणापि शक्तिशिवयोर्विकारित्वाविकारित्वव्यवस्थाङ्गीकरणीयेति भायः ॥ ११ ॥ श्वेताश्वतरोपनिपद्येव मन्त्रान्तरमुक्तार्थे प्रमाणमुदाहरति- मन्त्रश्छन्दांसि यज्ञाः क्रतब इति परव्योम्न एवास्य जन्म सट्टत्वं केवलश्च प्रथयति गधिष्ठातुरेणांकमौलेः । मायां त्वित्यादिमन्त्रस्तदुपरि पठितस्तस्य चार्थ विवृण्वन् तस्मानारायणत्वं समधिगतवतो विश्वजन्मेति चाह ॥१२॥ 'छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च देवा वदन्ति । तस्मान्मायो सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः।' * मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् । तस्यावयवभूतेन व्याप्तं सर्वांचराचरम् !' इत्याम्नायते । 'ऋचो अक्षरे परमे व्योमन्' इति तत्पूर्वमन्त्रप्रकृतां परमव्योमशब्दितां शैवी शक्ति परामृश्य पञ्चम्या तस्यास्समस्तजगदुपादानत्वप्रतिपादनात् तस्या मृद इव विकारित्वं सृजत इति पदेन शिवस्य निमित्तत्वं प्रतिपादयता तस्य कुलालचद- विकारित्वं प्रतिपाद्यते । द्वितीयमन्त्रे 'मायां तु प्रकृति विद्यात्' इत्यनेन पूर्वमन्त्रोपवर्णितोऽयमेवार्थः स्थिरक्रियते । तत्र मायाशब्द- २६ आनन्दलहरी शिवशक्तिपरः । 'तम्य माया वयुनं ज्ञानम्' इति वैदिकनिखण्टौ ज्ञानपर्यायत्वेन परिगणनात् कूर्मपुराणे 'कैपा भगवती देवी शङ्करा- र्धशरीरिणी' इति प्रश्नोत्तरे तस्य 'तत्र सर्वजगत्सूतिश्शक्तिर्मायेति विश्रुता । तयेदं भ्रामयेदीशो मायावी पुरुषोत्तमः ।' इति मायाश- ब्दस्य शैवचिच्छतो प्रसिद्धत्वप्रतिपादनाच । तथाच मायां शैवीं प्रकृतिमेव तत्र तत्र प्रपञ्चप्रकृतित्वेन प्रतिपाद्यमानां विद्यादित्यर्थः । अनेन, कचित् परमव्योमशब्देन जगत्प्रकृतिः प्रतिपाद्यते यतः प्रसूता जगतः प्रसूती' इत्यत्र जगत्प्रकृतिशब्देन 'अजामेकां लोहि- तशुक्लकृष्णाम्' इत्यत्राजाशब्देन । तेषां भिन्नार्थत्वे विरोधः स्यादिति शंका सर्वेपामपि तेषा मायैकविषयत्वविभावनया निरस्ता भवति ॥१२॥ नन्वेवमपि न विरोधशंकानिरास: । तदक्षत बहु स्यां प्रजायेय' इत्यादिश्रुतिषु हि शिवस्य जगत्प्रकृतित्वं प्रतिपाद्यते । नारायणा- नुवाकादिपु नारायणम्य । न च शिववाचिनो नारायणवाचिनो चा शब्दस्य शैवी चिच्छक्तिरों भवितुमर्हतीति शंका अवशिष्टपाद- त्रयेण निरस्ता । तत्र ‘मायिनम्' इति नित्ययोगे मत्वर्थीयप्रत्ययः । ततश्च महेश्वरं मायिनमेव विद्यादित्यनेन शिवस्यापृथसिद्धका- र्यावस्थाश्रयत्वरूपमेव प्रकृतित्वं तेन तेन श्रुत्यन्तरेण प्रतिपाद्यते न तु परिणामित्वरूपमिति विभावितम् । उत्तरार्धेन सकलजगदुपादान- तया सबाह्याभ्यन्तरसकलजगद्व्यापकत्वेन यच्च किञ्चिजगत्सर्व दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित.' इत्यादिश्रुतिषु प्रसिद्ध नारायणमनूध तस्य चिच्छक्त्यंशत्वमन्यतो प्राप्तं विधानेन चिच्छक्त्यै जगदुपादानत्वं तस्याः नारायणावस्था- प्राप्तिद्वारकमिति तदेव नारायणम्य जगदुपादानत्वं प्रतिपादयद्भिः .

चन्द्रिकासहिता । श्रुत्यन्तः प्रतिपाद्यत इति विभाषितम् । ननु तस्यावयवभूतेन' इत्यत्र सर्वनाम्नः पूर्वाधप्रकृतमहेश्वरपरत्वौचित्यात् तदवयवत्वमेव कम्य चित् प्रतिपाद्यत इति प्रतीयते । तदपि नारायणस्य प्रतिपाद्यत इति स्पष्टं न प्रतीयत इत्याशंकानिरासाय तस्य स्वोक्तार्थग्रहणौपयिक मन्त्रान्तरानुग्रहं दर्शयति- यन्मन्त्रबामणैव स्मृतिवचनशतरप्यभिव्यचिनार्थः तद्विष्णोर्मन्त्रवर्यः परमपदमिति श्रावयत्यच्युतस्य । सर्वोपादानभायात्सकल जगदभिव्यापकोऽन्तर्बहिश्च व्योम्नस्तस्यात्र मन्त्रेऽवयव इति स एवोक्त इत्युन्नयामः ।। तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय । दिवीव चक्षुरा- सतम्' इति वेदत्रयेऽप्याम्नायते मन्त्रः। अय मन्त्रः शिवशक्तिं विष्णोः परमप्राप्यमूलरूपत्वेन प्रतिपादयतीति मन्त्रब्राह्मणरूपश्रुत्यन्तरार्थप- त्यभिज्ञानेन उपबृह्मणम्मृतिवचनानुसारेण चावसीयते । कथम् । उपबृह्मणानि कूर्मपुराणे दृश्यन्ते । तत्र हि · कैपा भगवती देवी शंक- राधशरीरिणी। शिवा सती हैमवती यथायद्भहि पृच्छताम्' इति ऋषी- णां प्रश्नानन्तरं वचनम् । तेषां तद्वचनं श्रुत्वा ऋषीणां पुरुषोत्तमः । प्रत्युवाच महायोगी ध्यात्वा म्यं परमं पदम्' इति । अत्र कर्मरूपिणा विष्णुनोपदेष्टव्यत्वेनौचित्यात् ध्यानविषयतया प्राप्तायां शिवशक्ती 'स्वं परमं पदमिति विशेषणेन विष्णुं प्रति तस्या. परमपदत्वमुक्तम् । तत्रैव तपश्चर्यया शिवमाराध्य प्रत्यक्षीभूतेन शियेन सह कैलासे शिवभवनं गत्वा शिवासन एवामासविधे निविष्टं कृष्णं दृष्ट्वा विस्मिता देवकन्याः प्रति शिववचनम् । 'एप धाता विधाता च कारणं कार्यमेव च । कर्ता कारयिता चैव भुक्तिमुक्तिफलप्रद. ! भोक्ता पुमानप्रमेय- २८ आनन्दलहरी . स्संहर्ता कालरूपभृत् । स्रष्टा पाता वासुदेवो विश्वात्मा विश्वतोमुखः । कूटस्थो वक्षरो व्यापी योगी नारायणायः । तारकः पुरुषो यात्मा केवलं परमं पदम्। सैपा माहेश्वरी गौरी मम शक्तिर्निरञ्जना । 'शान्ता तस्यां सदानन्दा परं पदमिति श्रुतिः ।।' इति । अत्र केवलं परमं पदम्' इत्यन्तेन कृष्णमहिमवर्णनानन्तरं कथमयं परमं पदं शक्तिर्हि तथा श्रुतिप्रसिद्धा इति शंकायां 'सैषा माहेश्वरी' इति श्लोकः 2: 1 स पूर्वोक्तः कृष्णः एपा परिदृश्यमाना माहेश्वरी गौरी मम शक्ति. तत्यां परमं पदमिति श्रुतिरतीत्येतदभेदात् कृणोऽपि परमं पदमित्युक्तिरुपपद्यत इति भावः । न च विष्णुं प्रति परमपदत्वं श्रुत्योच्यते तत्तु तदभेदे सत्यपि विष्णौ व्यपदेष्टमशक्यमिति शं- क्यम् । तद्विप्णो. परमं पदम्' इति श्रुतौ सकलजीवांशभूतं विष्णु प्रति परमपदत्वोक्त्या तदंशान् जीयान्प्रत्यपि परमपदत्वमर्थसिद्ध- मस्तीत्यर्थसिद्धस्य तस्य विष्णावपि व्यपदेष्टुं शक्यत्वात् । तथैव प्णतपश्चर्यानन्तरं शिवेन सह प्रत्यक्षीभूतायाः शक्तेः कृष्णं प्रति वच- नम् । 'वत्स जाने तथानन्तां निश्चला सर्वदाच्युत । अनन्यामीश्वरे भ- क्तिमात्मन्यपि च केशव । त्वं हि नारायणस्साक्षात्सर्यात्मा पुरुषोत्तमः । प्रार्थितो देवतै पूर्व सञ्जातो देवकीसुतः । पश्य त्वमात्मनात्मानममलं परमं पदम् । नाक्योर्विद्यते भेद ऐक्यं पश्यन्ति सूरयः' इति । अत्रापि त्वं खलु परमं पदमिति श्रुतिप्रसिद्धा कथमह परमं पदमिति कृष्ण- स्याकांक्षायां नावयोर्विद्यते भेद' इत्याद्युक्तम् । एवमादिभिरुपबृह्मण- स्मृतिवचनैरस्मिन्मन्त्रे प्रथमपादस्य शिवशक्तिविपयत्वं स्पष्टमवसीयते । 'आदित्प्रनस्य रेतसो ज्योतिः पश्यन्ति वासरं परो यदि द्युते दिवि' भेद यत्येव विष्णो व्यपदष्टु शक्यामनि' इति ख पाठः . १ चन्द्रिकासहिता । २९ .. 'उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरं देवं देवत्रासूर्यमगन्म ज्योति- रुत्तमम्' इति मन्त्रार्थप्रत्यभिज्ञया पादान्तरयोस्तद्विषयत्वमवसीयते । प्रलस्य रेतसः प्राचीनस्य कारणस्य ज्योतिर्दीतिरूपा शक्तिः तद्वासरं वासरयन्मरीचिनिचकव्याप्तं पश्यन्ति तदर्शनयोग्या मुक्ताः । दिवः परं सम्यक् दीप्यत इति दिवुपरिस्थितमादित्यादिज्योतिरपेक्षयोत्कृष्टं परमा- नन्दात्गकपरमाकाशरूपं ज्योतिर्वत् पश्यन्तो वयं सर्वोत्कृष्टं परमव्योम सूर्यरूपं परमशिवज्योतिः प्राप्ता इति च मन्त्रद्वयार्थः । तथा ‘मनसै- तान् कामान् पश्यन्त्रमते य एतं ब्रह्मलोक' इति छन्दोगोपनिषद्वाक्या- र्थो द्वितीयपादे प्रत्यभिज्ञायते । तत्खलु धान्यं युगपन्मिळितसर्ववैप- यिकसुखात्मकब्रह्मानन्दानुभवं मुक्तानां प्रतिपादयति । इह द्वितीयपादो- ऽपि तमेवार्थ प्रतिपादयति यतस्तत्र सूरिशब्दो मुक्तपरः । विश्लोका यन्ति पथ्येव सूरा' इति श्वेताश्वतरमन्त्रे सूरिशब्दप्रयोगदर्शनात् । 'सदा पश्यन्ती' इति नित्यानुभाव्यत्योक्त्या मुक्तानुभाव्यस्थिरपुरुषार्थब्रह्मान- न्दरूपत्वं परमपदस्याविस्कृतम्। तस्य वैष्णवस्थानविशेषरूपत्वे ब्रह्मान- न्दवन्नित्यानुभाव्यत्वायोगात् । तथा 'यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वत पृष्ठेप्वनुत्तमेवृत्तमषु लोकेषु' इति श्रुतिज्यति- शब्दोक्तपरब्रह्मदीप्तिरूपायाश्शक्तेर्दिव उपरिभागस्थितेप्वप्राकृतलोकेषु व्यापनं प्रतिपादयति तदर्थोऽत्र तृतीयपादे प्रत्यभिज्ञायते । एवं श्रुत्य- न्तरोपबृह्मणवलात् 'तद्विष्णोः' इति मन्त्रदिशवशक्तेर्विष्णुं प्रति परमपदत्वं प्रतिपादयोति निर्णये सति तदनुरोधन 'तस्यावयवभूतेन' इत्यत्र पष्ठयन्तं पदं पूर्वमन्त्रप्रकृतव्योमपरामशीति समर्थनीयम् । तदवयवलं च नारायणस्य प्रतिपादयतीत्युपपादनीयम् । न्याय्यञ्चैतत् । उत्तरार्धेन हि सर्वचराचरन्याप्तिस्तदवयवत्वञ्चेत्युभयं न विधीयते ।

आनन्दलहरी . एकवाक्यत्वप्रतीतेः। अतस्सभवत्प्राप्तिकानुवादेनाप्राप्तांशविधिरेष्टव्यः । अन्यत प्राप्तिश्च व्याप्तं सर्व चराचरम्' इत्यस्यास्ति । 'अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण स्थित ' इति हि श्रूयते । तदवयवत्वस्य तु नैवं कुतश्चित् प्राप्तिग्संभवतीति । एव शिवग्य चिच्छक्तिमत्वं तदीय- चिच्छक्त्यंशत्वं नारायणस्य च शंकरभगवत्पादानामप्यभिमतमित्यु- नीयते । तैः खलु शिवभुजंगप्रयातस्तोत्रे 'चिदाकारमेकं तुरीयं त्व- मेयम्' इति शिवस्य चिच्छक्तिधर्मकत्वमुक्तम् । विष्णुभुजंगप्रयात- स्तोत्रे 'चिदंशं विभुं निर्विकल्पम्' इति नारायणस्य चिच्छक्त्यं गत्व- मुक्तम् । आभ्रणीसूक्तमन्त्रमप्युक्तार्थे साक्षिणमग्रे प्रदर्शयिप्याम.॥१३॥ नन्वेवं ब्रह्मण. प्रपञ्चाकारेण परिणामित्वाभावे तदीयचिच्छक्तेरेव नारायणरूपस्वांशद्वारा तदाकारेण च परिणामित्वे प्रकृत्यधिकरणं किं व्यवस्थापयितुं प्रवृत्तमिति समर्थनीयम् । न तावच्छक्ते परिणामित्वं व्य- वस्थापयितुमिति । सद्विद्याया. सत्तारूपशक्त्याश्रयब्रह्मविषयत्वस्येक्षत्य- धिकरणभाष्ये दर्शिततया तदनुरोधेन सद्विद्यागतप्रतिज्ञादृष्टान्तोदाहरण- वतोऽस्याधिकरणम्य ब्रह्मविषयत्वावगमात् । नापि ब्रह्मणः स्वापृथक्- सिद्धकार्याश्रयत्वरूपं प्रकृतित्व व्यवस्थापितुमिति । ब्रह्मशक्तेः परिणामि- त्वे ब्रह्मणि तदपृथसिद्धाश्रये तथामृतप्रकृतित्वम्य स्वत एव सिद्धः 'परिणामात्' इति (ब्र. १. ४. २७.) सूत्रविरोधाच्च स्मृति- पादे ब्रह्मणः परिणामित्वं सिद्धं कृत्वा तत्र चैलक्षण्यादिबाधकोद्धारार्थ प्रवृत्तैः 'न विलक्षणत्वा' द्यधिकरणेविरोधाच्चत्याशंक्याह- विश्वोपादानभावः श्रुतिषु पशुपत्ते विकारित्वरूपः प्रोक्तः कौटस्थ्यभंगादपि तु तदपृथसिद्धकार्याश्रयत्वम् ।

चन्द्रिकासहिता। ३१ -- इत्थं निर्वोदुमेतत्मकृतिनयकृतिस्तस्परीणामितोक्ता चिच्छक्तिद्वारिकैव स्मृतिचरणविचारास्तु तन्मात्रनिष्ठाः ।। प्रकृत्यधिकरणं ब्रह्मणो विश्वप्रकृतित्वश्रुतयः स्वापृथक्सि- द्धकार्यायस्याश्रयत्वमात्रपरा न तु परिणामित्वपराः कौटस्थ्यश्रुति- विरोधादिति व्यवस्थापयितुं प्रवृत्तम् । तत्र 'परिणामात्' इति (ज०-१-४-२७) सूत्रं ब्रह्मणः स्वापृथसिद्धकार्याश्रयत्वमुपपाद- यितुं ब्रह्मणश्शक्तिद्वारकपरिणागित्वनिरूपणपरम् । ब्रह्मशक्तरेव वा परि- णामित्वनिरूपणपरम् । अस्मिन् पक्षे 'परिणामात्' इत्यत्र ‘आत्म- कृतेः' इति सूत्रमनुवर्तनीयम् । आत्मनः स्वस्य कृतिः करणं वा शक्तिः 'स्वाभाविकी ज्ञानवलक्रिया च' इति तस्या. क्रियात्वश्रव- णात् 'स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानाः । देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् । ईश्वरस्सर्व- भूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मा- यये' इत्यादिश्रुतिस्मृतिषु ब्रह्मण. संसारभ्रमणादिव्यापारे तस्याः कर- णत्वश्रवणाच । तथा च स्वक्रियारूपाया वा स्वकरणरूपाया वा नित्य- संबन्धिन्याश्शक्तेः परिणामात् स्वापृथसिद्धशक्त्यभिन्नचेतनाचेतनात्म- कसकलकार्यावस्थाश्रयत्वरूपं वेदान्तेषु श्रुतं प्रपञ्चप्रकृतित्व ब्रह्मण. कौ- टस्थ्यश्रुत्यविरोधेनोपपद्यत इत्युपपादितं भवति । यत्तु स्मृतिपादे 'न विलक्षणत्वादस्य तथात्वञ्च शब्दात्' (७०२-१-४-सू) इत्यधि- करणं ब्रह्मगश्शिवस्य वियदादिजडप्रपञ्चात्मना परिणामित्वसिद्धान्तं सिद्धं कृत्वा तन्न संभवति चेतनाचेतनत्वेन ततो वैलक्षण्यादिति शंका- मुत्पाद्य तत्समाधानार्थ प्रवृत्त, यच्च ‘कृत्स्नप्रसक्तिनिरवयवत्वशब्द- कोपो वा' (ब्र०-२-१-२६-सू) इत्यधिकरणं ब्रह्मणः कास्न्येन प्रप- ३२ आनन्दलहरी श्चात्मना परिणाम ब्रह्मस्वरूपाभावप्रसंगः एकदेशेन परिणामे यत्प्र. देशावच्छिन्नैकदशपरिणामस्तस्त्र प्रदेशे ब्रह्माभावप्रसंगस्तन्निरवयवत्व- श्रुतिव्याकोपश्चेति शंकामुत्पाद्य तत्समाधानार्थ प्रवृत्चं, तद्यद्यपि न साक्षाच्छक्तिविषयत्वेन योजयितुं शक्यते । न विलक्षणत्वाधिकरण- गतस्य सर्वनाम्न' प्रकृत्यधिकरणपर्यन्तानुवृत्तब्रह्मपरामर्शित्वात् निर- वयवत्वव्याकोपस्यापि निरंशब्रह्मविषयत्वात् । तथापि तथाभूते ब्रह्म- ण्यपि परिणामित्वांगीकारे तत्र वाधकत्वेन शंक्यमानाः कुयुक्तय- तात्पर्यलिंगान्वितश्रुतिविरोधादिभिराभासीभवन्ति किमुत शक्तेः परि- णामित्वांगीकार इति तत्सर्व कैमुतिकन्यायेन शक्तेरेव श्रुतं परिणा- मित्वमुपपादयितुं प्रवृत्तं तद्विषयमेवेति न कश्चिद्विरोध इति श्लोकार्थः॥ नन्वेवमपि । तदनन्यत्वमारंभणशब्दादिभ्य' [७०२. १. १५. सू.] इत्यधिकरणविरोधः स्यात् । तत्र हि सद्विद्यागतारं- भणशब्दादिभि प्रपञ्चस्य ब्रह्मानन्यत्वमेवोच्यते न तु ब्रह्मशक्त्यन- न्यत्वमित्याशंकापरिहारपूर्वकं शक्तिशिवयोर्विकारित्वाविकारित्वव्यव- स्थां समर्थितामुपसंहरन्नेव जन्मादिवाक्यसूत्रतद्विषयवाक्यविरोध- शंका निरस्यति --- यह्मानन्यतोक्तं तदपि तदपृथसिद्धयभिप्रायमीक्ष्य दैवार्षादिप्रयोगाः खलु बहुळतरास्तस्य तत्रापि दृष्टाः । तस्माच्छक्तिर्विकारिण्यविकृतिरधिभूर्ब्रह्मणी लक्ष्म सौत्रं शैवं चिच्छक्तिकं वाप्युचिनघटनया युज्यते कारणत्वम् ।। अस्त्यभिन्न इवापृथसिद्धेऽप्यनन्यशब्दः ‘अन्यस्सन्व्याप्तितोऽ- नन्यः कर्ता कर्मानुसारतः' 'अनन्या राघवेणाहं भास्करण प्रभा यथा' अनन्यापि विभिन्नातश्शंभोस्सा समवायिनी । स्वाभाविकी च तन्मूला चन्द्रिकासहिता। प्रभा भानोरियामला' इत्यादिदैवार्षपौरुषप्रयोगदर्शनात् । तदिहाप्यन- न्यशब्दस्यापृथसिद्धार्थी प्राधः । तम्मादविकारश्शिवः, विकारिणी तच्छक्तिरिति व्यवस्था युक्तैव इति सर्व समञ्जसम् । इयमेका शंका- वशिष्यते। शक्तिरेव परिणामिनीत्यंगीकारे ब्रह्मलक्षणानुप्रविष्टं कारणत्वं परिणामित्वं चेदसंभवः । अपृथसिद्धकार्यावस्थाश्रयत्वं चेत्तस्य शक्तिसाधारण्यादतिव्याप्तिः। न च निमित्तत्व विशेपणेन तन्निरासः । शक्तेरपि पञ्चकृत्यकारित्वाभ्युपगमादिति । अत्रायं परिहारः । शक्तिविशि- एशिशवो ब्रह्मशब्दार्थ इत्यानिमश्लोकमारभ्य पञ्चभिः श्लोकैरुपपादयिष्यते तत्र कारणत्वरूपं लक्षणं यदि शियगतं शक्तिसाधारणमपृथसिद्ध- कार्यावस्थाश्रयत्वं यदि वा शक्त्यसाधारण परिणामित्वमुभयथापि तद्वि- शिष्टनिष्ठं न भवति । तथा च विशिष्टतदेकदेशसंबन्धेनाद्यं विशिष्टविशे- पणसंबन्धेन द्वितीयं ब्रह्मणस्तटस्थलक्षणं भविष्यतीति न कश्चिद्दोषः । विशिष्टगतं किश्चिद्धर्म संपाद्य तम्य लक्षणीकरणेऽपि संबन्धान्तरेणान्य- त्रापि तस्य वृतरतिव्याप्तियारणाय संसन्धविशेषविवक्षावश्यं कार्या लक्षणमात्र एवेयं रीतिः । अन्यथा ज्ञानशब्दादिकमप्यात्माकाशा- दिलक्षणं न भवेत् । घटे ज्ञान' बने सिंहनाद' इत्यादिप्रतीत्या तम्यान्यत्रापि वृत्तः। तम्मादिशेपणविशेप्योभयसाधारणं विशेषणमात्रगतं या कारणत्वं विशिष्टस्य ब्रह्मणो लक्षणमित्येतदुपपद्यत इति भावः ॥१५॥ अथ ब्रह्मविचारशास्त्रं गतेन · आनन्दमयोऽभ्यासात्' इत्यधिकर- णेन विचार्यमाणस्यानन्दमयवाक्यस्य शक्तिविषयतया योजनमयुक्तमि- त्याशंकामुद्धाय निराकर्तुमुपक्रमते- शास्त्रं ब्रह्माधिकारं कथमिव घटते शक्तिवाक्यस्य चिन्ते- त्येवं शंकाकलंके शृणु तदवहितः शास्त्र सिद्धान्ततत्त्वम् । - 5 आनन्दलहरी m .. कोटौ विशेषणभूता द्वितीयेत्यवगमयति । तत्र हि मन्त्रे महाप्रळयरूपनि- शावसानेषु स्वोन्मेपेण तमोनिरासं कुर्वती प्रथमोपःकालरूपेत्येवं 'इय- मेव सा या प्रथमा व्याच्छत् ' इति याजुर्वेदिकसूक्तप्रसिद्धा जगतां जन- यित्री ब्रह्मविष्णुरुदैस्त्रिभिरप्यामेव्या पराशक्तिरेव उपा उच्यते । न- त्विदानींतन उपःकाल: । दिव. प्रियेति विशेषणानन्वयात् । तेन हि दिवः स्वर्गलाकस्य महाकैलासारख्यस्य तद्वर्तिनः परब्रह्मणः शिव- स्य तं प्राप्तस्य मुक्तवर्गस्य च भोग्यतया प्रियेत्युच्यते। यद्यपि - एत- म्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति सर्वभूतभोग्यत्व- श्रुतेस्सर्वस्यापि प्रिया भवति ब्रह्मानन्दरूपा शक्तिस्तथाप्यतिक्षुद्रं दुःखसमानमिति हैरण्यगर्भपर्यन्तवैषयिकसुखजातमविगणयतश्शिवस्य मुक्तवर्गस्य च भोग्यतया निरतिशयानन्दरूपत्वं ख्यापयितुं 'दिव' इति विशिष्योक्तिः । एवञ्च यद्यप्यपूर्योपा इत्युक्त्या प्राक्तनीमुषसम- क्ष्य भिन्नेदानीतन्युपा प्रतीयते । तथापि विशेषणान्तरानुरोधेन 'युजे वा ब्रह्म पूर्व्यम् ' इति मन्त्रे शिवस्य ब्रह्मकोटौ पूर्वत्वोक्त्या तत्र द्वि- तीयाकांक्षानुरोधेन ब्रह्मकोटा पूर्व शिवमपेक्ष्यापूर्वत्वमपूर्वेत्यनेनोच्यत इत्येवाभ्युपगन्तुं युक्तम् । एवं शिवविशेषणत्वेन शक्तेब्रह्मशब्दान्त- र्भावादेव छन्दोगोपनिषदि गायत्रीविद्यायां — यद्वै तद्ब्रह्म' इति इदं वावं तद्योऽयं बहिर्धा पुरुपादाकाशा यो वै स बहिर्धा पुरुषादाकाशोऽयं वाव स योऽयमन्त पुरुष आकाशो यो वै सोऽन्तःपुरुष आकाशोऽयं स योऽयमन्तर्हदय आकाश' इति सकलजगदाधारत्वन पुरुषाद्वहिरन्तः स्थितायाः परमाकाशरूपायाश्शक्तेः ब्रह्मरूपत्वमुक्तम् । तस्माद्विशिष्टं ब्रह्मेति युक्तमित्यर्थः ॥ १७ ॥ . वाव चन्द्रिकासहिता। इत्तोऽप्येवमित्याह- ब्रह्मानन्दत्वमुक्त्वा प्रथममिह जगत्कारणस्याद्यवल्ल्यां, तस्यैव ब्रह्मतापि प्रकटमभिदधे ब्रह्मवल्ल्यां पुनर्यत् । । जानीमस्तद्वयोरप्युपनिपदि परब्रह्म कोटित्वमुक्तं ब्रह्मांशत्वात्तथाल्वव्यवहृतिरुपचारोक्तिरित्युन्नयामः॥१८॥ इहैव - तैत्तिरीयाणामुपनिषद्येकवाक्यतामापत्रयोरानन्दवल्ली- गुवल्ल्योर्मध्ये प्रथमवल्ल्यां ' स एको ब्रह्मण आनन्द ' इति परमाकाश- रूपायाश्शक्तेब्रह्मधर्मानन्दत्वमुक्त्वा द्वितीयवल्ल्या 'मानन्दो ब्रह्मेति व्य- जानात् ' इति तस्या एव ब्रह्मत्वमुक्तम् । तेन द्वयोरपि ब्रह्मशब्दा. र्थान्तर्भावेन ब्रह्मकोटित्वमिष्टमवगम्यते । ब्रह्मशब्दार्थकदेशत्वेऽपि - मांशत्वनिमित्तत्वादुपचारादेवानन्दो ब्रह्मेति व्यवहार इत्यप्युन्नीयत इत्यर्थः ॥ १८॥ छन्दोगोपनिषद्युपकोसलविद्यागतं वाक्यमप्युक्तार्थे प्रमाणमुदाहरति- प्राणो ब्रह्मेति जानाम्यथसुखगगने ब्रह्मणी द्वे तु नेति प्रश्नं प्रत्युत्तरत्वं भजति खलु तयोरैक्यमात्रोपदेशः । तस्याभिप्रायमित्थं विवरितुमुचितं पश्यतानन्दवल्ल्या- माकाशानन्दशब्दोदितमभवदिहाप्येकमेव द्विधेति ॥ १९ ॥ सत्यकामे ब्रह्मचर्य वसतस्तदीयानग्नीपरिचरत उपकोसलस्य परिचर्यया प्रीतैस्तदीयैरमिभिरुपकोसलं प्रति ब्रह्मोपेदशः कृतः 'प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' इति । तदनन्तरमुपकोसलत्येदमग्नीप्रति प्रश्नवा- क्यम् । विजानाम्येवाहं यत् प्राणो ब्रह्म इति । कश्च खञ्च न विजानामि' इति । तस्यायमाशयः । 'प्राणोऽस्मि प्रज्ञात्मा प्राणस्य . .

१८ आनन्दलहरी प्राणम्' इत्यादिषु प्राणशब्देनोपदिष्टं वस्तु ब्रह्मेति जानामि कं सुखं खं गगनं ब्रह्मेति ततोऽन्यत् ब्रह्मद्वयं न जानामि ‘यदेष आकाश आन- न्दो न स्यात्' इत्याकाशानन्दशव्दाभ्यामुक्तमेकमेव खलु आनन्दो ब्रह्म' इति श्रुतं न तु शिवादन्यत्सुखं गगनं चेत्येवं ब्रह्मद्वयमस्तीति । तदनन्तरमनीनामिदमुत्तरवाक्यं यद्वाव कं तदेव खं यदेव खं तदेव कम्' इति । तस्यायमाशय । न ह्यस्माभिः कखंशब्दोक्तं ब्रह्मद्वयमुपदिष्टं किं त्वेकमेवोपासनाकालेप्वाकाशरूपसुखत्वेन सुस्वरूपाकाशत्वेन च तद्ब्रह्म द्वेषोपासनीयमित्येतदर्थ द्वेधोपदिष्टमित्युत्तरवाययार्थः । श्रुतिस्तथैवोप- सञ्जहार प्राणञ्च हास्मै तदाकाशञ्चोचुः' इति । ब्रह्मोपदेशमपेक्षमाणा- योपकोसलाय प्राणात्मकं प्राणशब्दोक्तशिवाख्यं तद्धर्माकाशात्मकं च ब्रह्मोपदिदिशुरित्यर्थः । तस्मादुदाहृतश्रुत्यनुसारेणापि शिवशक्त्योयो- रपि ब्रह्मशब्दार्थान्तर्भावोंऽगीकरणीय इति भावः ॥ १९ ॥ नन्वस्मिन्विषये यावत्यः श्रुतय उदाहृतास्ताभिस्सर्वाभिरपि शक्ति- शिवयोः प्रत्येकमेव ब्रह्मभावः स्फुरति । न तु विशेषणविशेप्यभावेन । 'द्वे ब्रह्मणी वेदितव्ये परश्चापरञ्च' इति श्रुत्यन्तरमपि तदनुरोधि दृश्यते । अतस्तत्स्वारम्यात् तथैव किमिति नांगीक्रियत इत्याशंकायामाह--, मत्येकं ब्रह्मभावः स्फुरति यदनयोरेवमायः प्रमाणैः नाहत्येवैतदंगीकृतिमपि च ऋतं सत्यमन्त्रोक्तमेव । नो चेत् ब्रह्मथुदर्थाननुगतिरखिलाद्वैतशास्त्रमकोपो नैकाधीन्यश्च सर्गादिपु परनभसश्वेशधर्मत्वभंगः ॥ २० ॥ तथांगीकारे शिवास्ये परब्रह्मणि प्रवर्तमानम्य ब्रह्मशब्दस्य विविधपरिच्छेदराहित्यरूपार्थहानिम्नम्मिन् प्रवर्तमानस्य ब्रह्मगब्दस्या- चन्द्रिकासहिता। ३९ र्थात् बहिर्भूतस्यापि कस्यचिद्वस्तुनोऽगीकारे श्रुतिस्मृतिपुरणागमादि. रूपाद्वतशास्त्रविरोधः। स्वतन्त्रब्रह्मद्वयांगीकारे सर्गानामेकाधीनत्वभंगः । परमाकाशस्य स्वातंत्र्यांगीकारे शिवधर्मत्वश्रुतिविरोधश्चेति बहुदोपाप- तेविशिष्टब्रह्मवाद एव ऋतं सत्यादिमन्त्रानुमतः स्वीकरिणीय इति . भावः ॥ २० ॥ शक्तिविशिष्टः शिवः परं ब्रह्म न तु केवल इत्यभ्युपगमेऽनिष्ट- मार्शकते-- नन्वेवं कैटभारेः कथमिव घटतामंशशक्त्यंशता ते ब्रह्माद्याः पञ्च जीवा इति हि समुदितं शैवपौराणिकाद्यैः। विष्णोः स्वस्थानसिद्धिः क्रतुफलमुदितं वाजिनां ब्राह्मणे च छन्दोगानाञ्च मन्त्रे तमनुवदति ऋग्येन देवा इतीयम् ।।२१।। शिवपुराणे वायुसंहितायां 'शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः । संसारवैद्यस्सर्वज्ञः परमात्मेत्युदाहृतः । नामाष्टकमिदं पुण्यं शिवस्य प्रतिपादकम् । आद्यं तु पञ्चकं तत्र शान्त्यतीताद्यनुक्रमात् । संज्ञा सदाशिवादीनां पंचोपाधिपरिग्रहात् । उपाधिविनिवृत्ती तु यथास्वं विनिवर्तते । पदमेव हि तन्नित्यमनित्याः पदिनः स्मृताः । पदानां परिवृत्तिः स्यात् मुच्यन्ते पदिनो यतः । परिवृत्त्यन्तरे भूयस्तत्पद- प्राप्त्युपाधिना । आत्मान्तराभिधानं स्यात् यदाद्यं नामपञ्चकम्।' इति वचनानि पट्यन्ते । एभिर्वचनैश्शिवमहेश्वररुद्रविष्णुपितामहसंज्ञाः संजिनां सदाशिवादीनां पदमात्रस्येंद्रादिपदवन्नित्यत्वं तेषामनित्यत्वञ्च मुक्तिभावत्वं तन्नाम्नामिन्द्रादीनामिव तत्तत्पदाधिकारोपाधिकत्वञ्च प्रतिपादयद्भिरिन्द्रादिवत्तेषां जीवत्वं स्पष्टीकृतम् । शैवपाशुपतादि- ४० आनन्दलहरी . । भिरप्येवमेवांगीकृतम्। वाजसनेयिशाखायां शतपथबाह्मणे 'पुरुषो हवै. नारायणोऽकामयतातितिष्ठेयं सर्वाणि भूतान्यहमेवेदं सर्व स्यामिति । सं एतं पुरुषमेधं पञ्चरात्रं यज्ञक्रतुमपश्यत् तमाहरत्तेनायजत तेनेप्वात्यति- छत् सर्वाणि भूतानीदं सर्वमभवत्' इति । अनेन 'अत्यतिष्ठदशांगु- लम्' इति “पुरुष एवेदं सर्वम्' इति पुरुषसूक्तोक्तमहिमशालि वैष्णवं पदं यज्ञानुष्ठानफलमिति स्पष्टं प्रतिपादितम् । छन्दोगानामृग्ग्रन्थे 'सोमं राजानं वरुणमग्निमन्वारभामहे आदित्यान्विष्णुं सूर्य ब्रह्माणं च बृहस्पतिम् ' इति मन्त्रानन्तरं 'इत एत उदारुहन् दिवः पृष्ठान्यारुहन् प्रभर्जयो यमा। पायो यथांगिरस उद्ययुः' इति मन्त्र आमायते । तत्रत इत्यनेन पूर्वमन्त्रप्रकृतान् सोमवरुणादीन् परामृश्य तेषामितः क्षिति- त ऊर्ध्वमारोहणमुक्त्वा किमारुक्षन्नित्याकांक्षायां तदधिकारानुसारेण दिव उपरिमागानारुक्षनित्युक्तमर्थ विशदीकृत्य • यथांगिरस उद्ययुः' इति दृष्टान्तकथनेन अंगिरसो वै सत्रमासत । अंगिरमः सुवर्ग लोकं यन्तः । अंगिरम इमे सत्रमासते ते। सुवर्ग लोकं न प्रजानन्ति । तेभ्य इदं ब्राह्मणं ब्रूहि' इत्यादिश्रवणात् अगिरसो यथा 'यज्ञानुष्ठानेन ख- मारुक्षन्नेवमेतेऽपीत्ययमर्थः प्रतिपादितः । प्रमर्जय इति विशेषणेन प्रकपेन यज्ञेन हविषां भर्जनं कृतवन्त इत्यर्थकेन च एते देवा यज्ञानुष्ठानेन द्यामारुक्षन्नित्ययमों दर्शितः । उदाहृतमन्त्रव्राह्मणोक्तमर्थ 'येन देवा ज्योतिपोभं उदायन्येनादित्या वसवो येन रुद्राः । येना- गिरसो महिमानमानशुम्तेनैतु यजमानः मस्ति' इति यजुर्वेदामाता ऋगनुवदति । अत्र हि यच्छब्दयोगेनानूधमानस्यार्थस्य पाप्तिसापेक्षत्वा- 'दित एत उदारुहन्' इति मन्त्रः पुरुषमेधबामणश्च प्रापरमेष्टव्यः मिति तदनुसारेण देवशब्दः सोमवरुणविष्ण्वादिपरः । देवा' इत्य- चन्द्रिकासहिता । . नेन संभवद्हणानामादित्यवसुरुद्रगणानां पृथग्रहणम् । 'आदित्या- विष्णुं सूर्यम्' इति पुरोवावगतादित्यशब्दो नैकस्य सूर्गस्य पाच- कः । सूर्यशब्देन तस्य पृथग्रहणात् । किन्त्यादित्यगणवाचकः । एकवचनं तु बहुपत्नीकेष्टिप्रयोगे 'पली सन्नह्य' इति मन्तगतं पली- मित्येकवचनमिव प्रत्येकगतैकत्याभिप्रायम् । आदित्यगणग्रहणश्च श्रुत्य- न्तरेषुः तत्समभिव्याहृतत्वेन प्रसिद्धयोर्वसुरुद्रगणयोरप्युपलक्षणमिति ख्यापनार्थम् । तत्रादित्यशब्दस्यादित्यगणपरत्वं 'आदित्यान् विष्णु सूर्यम्' इति ऋग्यजुःपाठेनाप्यवगम्यते । गणान्तरोपलक्षणत्वं तु 'अमे यन्मे सनुवा ऊनं तन्म आपूण' इति मन्त्रस्य · यन्मे प्रजायै पशूनामूनं तन्म आपूरयेति वावैतदाह' इति ब्याख्यानेन स्वकीयोनग्रहणस्य प्रजापशूनोपलक्षणत्यबद्याख्यान वावगन्तव्यम् । ज्योतिः पदममिपरम् । ‘येन देवा ज्योतिषो; उदायन्' इत्यस्य मन्त्रस्योख्यामिसमिन्धने चिनियुक्तत्वात् । तथा च 'आहवनीया- मिसाध्येन कर्मणा ऊर्ध्वलोकगमनद्वारामिसाध्यं भवति' इत्यनेन मन्त्रेण सोमादिदेवपदानां यज्ञानुष्ठानफलत्वमेवादाहृतब्राह्मणप्रतिप- नमनूद्यते । तस्मात् पुराणादीनां मन्त्रब्राह्मणवाक्यानाश्च उपबृह्मणो- पवृह्मणीयभावापन्नतया वनसिमन्यायेन मानतर्कन्यायेन चान्योन्यानु- गृहीततया प्राबल्याचैराप्तं विष्णोजींवत्वमनिवार्यमिति भावः ॥ २१ ॥ विष्णुपदस्य कर्मफलत्ये प्रमाणान्तराण्यप्युदाहरति- विष्णुस्वप्राप्तये च ऋतुजपविधयश्वोदितास्तत्र तत्र स्वैश्चर्य विष्णुनाप्तं बहुविधतपसा भारतेऽप्येवमुक्तम् । यद्यप्पेकैकमात्रात्क्रतुजपतपसां तत्पदं न प्रसिद्धयेत् यज्ञायब्रह्मचीवन खलु समुदितस्तत्मसिद्धेविरोधः ।। २२।। . G ४२ आनन्दलहरी . " . - 'वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वेमान् लो- कानभिजयति' इति 'यद्विष्णुक्रमाक्रमते विष्णुरेव भूत्वा यजमान- श्छन्दोभिरिमान् लोकाननपजय्यमभिजयत्ति' इति यजुर्वेदे समाम्ना- यते । “ मयि वर्च' इत्येतेन कल्पेन चत्वारि वर्षाणि प्रयुञ्जानास्त्रयाणां लोकानामाधिपत्यं गच्छन्ति" इति सामवेदे समाम्नायते । अत्र त्रैलो- क्याधिपत्यं विष्णुपदमेव । 'विष्णुरेव भूत्वेमान् लोकान् जयति' इति तस्य विष्णुधर्मत्वश्रवणात् । विष्णुना स्वैश्चर्य शिवाराधनरूपेण बहु- विधेन तपसाप्तमिति 'तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् । पदं यद्विष्णोरुपमन्निधायि तेन पासि गुह्यन्नामगानाम्' रौद्रं लिंग महाविष्णुभक्त्या शुद्धं शिलामयम् । चारु चित्रं सम- भ्यर्च्य लव्धवान् परमं पदम्' इत्यादिश्रुतिपुराणवचनैरवंगतम् । काशीखण्डेऽपि विष्णुपट्टाभिषेकाध्याये स्पष्टं प्रतिपादितम् । भार- तेऽप्येवमुक्तम् । 'ततो गच्छेन्सुपर्णाक्षं त्रिषु लोकेपु विश्रुतम् । यत्र विष्णुः प्रसादार्थ रुद्रमाराधयत्पुरा । वरांश्च सुबहून् लेभे दैव- तैरपि दुर्लभान् । उक्तञ्च त्रिपुरग्नेन परितुष्टेन भारत । ममान्येभ्यः प्रियतरो लोके कृष्ण भविष्यसि । त्वन्मुखञ्च जगत्सर्व भविष्यति न संशयः ।' अयमारण्यपर्वण्युक्तोऽर्थः सौषुप्तिके पर्वणि शिववचनेन म्मारितः। 'सत्यशौचार्जवत्यागैस्तपसा नियमेन च । क्षान्त्या भक्त्या च धृत्या च कर्मणा मनसा गिरा । अहं यथावदाराध्यः कृष्णेनाक्लिष्टकर्मणा । तस्मादिष्टतमः कृष्णादन्यो मम न विद्यत' इति । हरिवंशेऽपि शिव- वचनेनोक्ताओं दृढीकृत 1 इति संस्तूयमानम्तु भगवान् वृषभध्वजः । प्रसार्य दक्षिणं हस्तं वासुदेवमथाब्रवीत्। मनीपितानामर्थानां प्राप्तिस्तेऽस्तु सुरोत्तम । परिजातस्य हर्तासि माभूत्ते मनसो व्यथा । पुरा मैनाकमा- ..

चन्द्रिकासहिता। श्रित्य तपस्त्वमकरोर्यदा। तदा मम वचः कृष्ण संस्मृत्य स्थैर्यमाप्नुहि । अवध्यस्त्वमजय्यस्त्वं मत्तश्शरतरस्तथा। भवितासीत्यवोचं यत्तत्तथान तदन्यथा' इति । एवं श्रुतिपुराणाद्यवगतं विष्णोजीवत्वं प्रत्याख्यातु. मशक्यम् । यद्यपि विष्णुत्वाप्त्यर्थत्वेन विहितानां तादर्थेन विष्णु- नानुष्ठितानां च क्रतुंजपतपःप्रभृतिकर्मणां मध्ये एककेन कर्मणा तत्पदप्राप्तिः न संभवति । तथापि यथा तमतं वेदानुवचनेन ब्राह्मणा विविदन्ति यज्ञेन दानेन तपसा नाशकन' इति श्रुतौ यज्ञादिषु प्रत्येक तृतीयाश्रवणेऽपि किश्चियज्ञानुष्ठानमात्रेण ब्रह्मज्ञानासिद्धेम्समुदितानां चिरकालाभ्यस्तानामेव यज्ञादीनां ब्रह्मज्ञानसाधनत्वं तथा विष्णुमा- वप्राप्त्यर्थ विष्णुनानुष्ठितत्वेन तत्प्राप्तिसाधनत्वेन च श्रुतानां सर्वेषां कर्मणां समुदितानां यथावचिरकालमभ्यम्तानाञ्च तत्प्राप्तिसाधनत्वं भविष्यतीति न काचिदप्यनुपपत्तिः ॥ २२ ॥ ननु, भारत एव भगवद्गीतामु मोक्षधर्मगते नारायणीयेऽन्यत्रापि तत्र तत्र प्रदेशे विष्णुपुराणादिषु च विष्णोः परब्रह्मभावः प्रकटित- सर्वपामप्याम्तिकानामनुमतश्च तस्य का गतिरित्याकांक्षायामाह---- विष्णोर्या तत्पुराणागमवचनशनेवास्तिकानामभीष्टा गीता नारायणीयमभृतिषु च परब्रह्मभावप्रसिद्धिः।. ब्रह्माभिव्यक्तिभेदादलमथनमुखालभ्यत्तस्सोपपाद्या लोकेशस्यान्धकाररपि बहुषु यथा तत्पुराणेपु दृष्टा ॥ २३ ।। सत्यमस्ति विष्णोः परब्रह्मभावप्रसिद्धिः । ब्रह्मरुद्रयोरप्य- स्त्येव सा ब्राह्मशैवपुराणागमादिसिद्धा । सा तयोः सृष्टिसंहाररूप- जगद्व्यापारार्थादिन्द्रादेवतान्तरापेक्षयातिशयितात् परब्रह्माभिव्यक्तिभे- आनन्दलहरी 'दादुपपादनीया। तथेयमपि पालनरूपजगद्यापारार्थात्तदभिव्यक्ति- भेदादुपपादनीयेत्यर्थः ।। २३.॥ एवमेवास्योपपादनमवश्यं कार्यमित्याह- एवं सत्येव तस्मिन्नखिलमवरतापादकं दोपजातं सांगत्यं पापितं स्यात्तदपि हि विहितं भारतादिभ्य एव । न्यायेनैषा व्यवस्था समुपनिपतिता प्राक्तनानामपीष्टा साक्षाच्चैपा सरोजप्रभवसमुदिता मारुतनोपदिष्टा ॥ २४ ॥ अस्य परब्रह्मभाव इच जननमरणभयक्रोधशोकाज्ञानादिरूप- म्सांसारिकदोपविलासोऽपि भूयान् भारतरामायणविष्णुपुराणादिभ्य एवावगतः । तदुभयं परब्रह्मशक्त्यधिष्ठितजीवविशेषत्वाभ्युपगम एवा- विरोधेनोपपद्यते । न चैच्छिकत्वेन विरोधपरिहारः । हेयेषु जननमर- णादिप्विच्छाया अपि कर्मकृतत्वात् । उक्तं हि वायुसंहितायां 'न हि स्वेच्छाशरीरत्वं स्वातन्त्र्यायोपपद्यते । इच्छैव तादृशी पुंसां यस्मा- कर्मानुसारिणी । स्वीकर्तुं स्वेच्छया देहं हातुश्च प्रभवन्ति हि । ब्रह्मादयः पिशाचान्ता. किं ते कर्मातिवर्तिनः ।' न च शोकाज्ञाना- दीनामभिनयमानसिद्धत्वाङ्गीकारेणाविरोधः । तथा सति रामावतारे 'न मे दुःखं प्रिया दूरे न मे दुःख हृतेति च । तदेतदनुशोचामि क्योऽस्या ह्यतिवर्तते ।। इत्यादितदीयवचनानां कृष्णावतारे सौभव- सवृत्तान्तवर्णनगततदीयशोकाज्ञानादिवचनानां च अनृतत्यापत्त्या 'सत्ययाक्यो दृव्रतः' 'सत्यसन्धो जितेन्द्रियः' 'धर्मात्मा सत्यस- धश्च रामो दाशरथिर्यदि । यदि मे ब्रह्मचर्य स्यात्सत्यं च मयि तिष्ठति' इत्यायनेकवचनविरोधापरः । तस्मादुक्तरीत्यैवाविरोधोपपा- N .

चन्द्रिकासहिता। -- दनं कार्यम् । एवमेषा व्यवस्था शंकरभगवत्पादेवृहदारण्यकमाप्ये आत्मैवेदमग्र आसीत्पुरुपविधः' इत्यादि सृष्टिप्रकरणे ‘स यः पूर्व- स्मात्सर्वस्मात्पाप्मन औपत्तस्मात्पुरुषः' इति · वाक्यव्याख्याना- वसरे कथं परब्रह्मणः पाप्मसंवन्ध इत्यादिशङ्कामुद्राव्य हिरण्य- गर्भकर्तृका सृष्टिरत्रोच्यते न तु साक्षात्परब्रह्मकर्तृका । हिरण्यग- भी हि ब्रह्मशक्त्यधिष्ठितो जीवविशेष इति समादधानैर्दर्शिता । प्रकृ- तविषयेऽप्येपा योजनीया। न्यायसाम्यात् । साक्षाच तेनैव हिरण्यग- भैण दर्शिता ऋषीन् प्रति वायुनोपदिष्टा ! ' लोकानुग्रहणायैव शि- वन परमेष्ठिना । सदाशिवादयस्सर्वं मूात्मानो हधिष्ठिताः । अय- म्यमौ समाविष्टे दाहोऽमेरेव नायसः । मूर्त्यात्मस्वेवमैश्वर्यमीश्वरस्यैव नात्मनाम् । न हि काठो ज्वलत्यूर्ध्वममिरेव ज्वलत्यसौ । काष्ठस्यां- गारता नामेरेवमत्रापि योज्यताम् । मूर्त्यात्मस्वपि रागाचा दोपास्स- न्त्येव वस्तुतः । तथापि तेषामेवैते न शिवस्य तु सर्वथा । अमावपि समाविष्ट तानं खल्ल सकालिकम् । इति नामिरसौ दूप्यताम्रसंसर्ग- कारणात् । नामेरशुचिसंसर्गादशुचित्वमुपेयते । अशुचेस्त्वनिसंयो- मात् शुचित्वमुपजायते । एवं शोध्यात्मसंसर्गान्न ह्यशुद्धः शिवो भवेत् । शिवसंसर्गतस्त्वेष शोध्यात्मैव विशुध्यति' इति । तस्मात् न्यायानु- गृहीतवचनबलादेवं व्यवस्थाङ्गीकरणेति भावः ।। २४ ॥ अथैवं व्यवस्थाभ्युपगमापादकं विष्णोः जीवभावे प्रमाण दर्शयति- गीतास्वायं प्रपद्ये पुरुषमिति वचो यद्धि कृष्णस्य दृष्टं योगारूढेन पूर्व प्रकथितमिति यच्चानुगीतासु वाक्यम् । यच्च स्वस्वान्तबुद्ध्यध्यवसितगुरुशियोक्तिभंगीप्रक्लुप्तो- पाख्यानाख्यानमेतैरपि च समुचिता भाति सैपा व्यवस्था । । - आनन्दलहरी गीतासु ततः परं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी' इति भगवतः कृष्णस्य वचनं दृश्यते । अत्राद्यमिति विशेषणेन द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरम्सर्वानि भूतानि कूटस्थोक्षर एव च । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः' इति यःक्षराक्षरपरत्वेन गोतासूपदिष्टः उत्तमपु- रुपस्स एवोच्यत इति स्मारितम् । यस्मिन्मता न निवर्तन्ति भूयः।' इति विशेषणेन 'ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभू- तानि यन्त्रारूढानि मायया । तमेवं शरणं गच्छ सर्वलोकमहेश्वरम् । तत्प्रसादात्परां शांतिं स्थान प्राप्स्यसि शाश्वतम्' इति यत्प्रपदनात् परमवैराग्यरूपोपायलाभपूर्वकमनिवर्तनस्थानप्राप्तिरुपदेक्ष्यते स एवेह ईश्वरशब्देन पुरुषशब्देन खप्रपदनीयो निर्दिष्ट इति स्मारितम् । तेनैव खप्रपत्तिरियं स्वस्य तथाभूतस्थानप्राप्त्यर्थे त्यपि सूचितम् । तदर्थ स्वप्र- पदनीय ईश्वराख्य आद्यः पुरुषः शिव एवेति ‘यदातमो' मन्त्रचतुर्थ- पादार्थानुवादकेन ‘यतः प्रवृत्तिः प्रसृता पुराणी' इति विशेषणेन घोतितम् । तत्र प्रवृत्तिशब्देन 'प्रज्ञा च तम्माप्रसृता पुराणी' इति 'यदातमा ' मन्त्रचतुर्थपादोपन्यस्ता प्रवोच्यते । 'स्वाभाविकी ज्ञानब- लक्रिया च' इति तस्याः क्रियारूपत्वस्यापि श्रुतत्वात् । ननु, गीता ' स्वी- श्वरम्सर्वभूतानां' इत्याद्युक्त्यनन्तरं 'सर्वगुह्यतमं भूयः शृणु मे परमं वचः' इत्युपक्रम्य 'सर्वधर्मान्परित्यज्य मामकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षीयप्यामि मा शुच' इत्युपदिश्य तस्य रहस्योपदेश- विश्रान्तिभूमित्वमभिप्रेत्य तदनन्तरमेव गीताशास्त्रं समापितम् । अर्जुनेनापि तच्छ्रवणानन्तरमेव · स्थितोऽस्मि गतसन्देहः करिष्ये वचनं - - आनन्दलहरी , गीतासु ततः परं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाचं पुरुष प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी' इति भगवतः कृष्णस्य वचनं दृश्यते । अत्राद्यमिति विशेषणेन द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरस्सर्वानि भूतानि कूटस्थोक्षर एव च । उत्तमः पुरुपस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य विमर्त्यव्यय ईश्वरः' इति यः क्षराक्षरपरत्वेन गीतासूपदिष्टः उत्तमपु- रुषस्स एवोच्यत इति सारितम् । 'यस्मिन्मता न निवर्तन्ति भूयः।' इति विशेषगेन ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिमति । भ्रामयन्सर्वभू- तानि यन्वारूढानि मायया । तमेवं शरणं गच्छ सर्वलोकमहेश्वरम् । तत्प्रसादात्परां शांति स्थान प्राप्स्यसि शाश्वतम्' इति यत्प्रपदनात् परमवैराग्यरूपोपायलाभपूर्वकमनिवर्तनस्थानप्राप्तिरुपदेक्ष्यते स एवेह ईश्वरशन्देन पुरुषशब्देन खप्रपदनीयो निर्दिष्ट इति स्मारितम् । तेनैव खप्रपत्तिरियं स्वस्य तथाभूतस्थानप्राप्त्यर्थे त्यपि सूचितम् । तदर्थ स्वप्र- पदनीय ईश्वराख्य आद्यः पुरुषः शिव एवेति — यदातमो' मन्त्रचतुर्थ- पादार्थानुवादकेन ‘यतः प्रवृत्तिः प्रसृता पुराणी' इति विशेषणेन द्योतितम् । तत्र प्रवृत्तिशब्देन 'प्रज्ञा च तस्मात्प्रसृता पुराणी' इति यदातमा ' मन्त्रचतुर्थपादोपन्यता प्रवोच्यते । स्वाभाविकी ज्ञानव- लक्रिया च ' इति तस्याः कियारूपत्वस्यापि श्रुतत्वात् । ननु, गीता स्वी. श्वरस्सर्वभूतानां' इत्यायुक्त्यनन्तरं सर्वगुह्यतमं भूयः शृणु मे परमं वचः' इत्युपक्रम्य 'सर्वधमान्परित्यज्य मामकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिप्यामि मा शुच' इत्युपदिश्य तस्य रहस्योपदेश- विश्रान्तिभूमित्वमभिप्रेत्य तदनन्तरमेव गीताशास्त्रं समापितम् । अर्जुनेनापि तच्छ्यणानन्तरमेव स्थितोऽसि गतसन्देहः करिष्ये वचनं .

चन्द्रिकासहिता। ४.५ वयवते कथञ्चैवोपपद्यते । कथं कष्टाच संसारात् संसारी परिमु- च्यते' इत्यादिना काश्यपसिद्धपुरुषप्रश्नोत्तररूपेण इतिहासेन वैरा- ग्यार्थ पूर्वदेहपरित्यागदेहान्तरप्रवेशप्रकारमिह परत्र च संसारिणा दुःखबाहुल्यं वैराग्यदृढीकरणार्थभावनाविशेषान्विरक्तम्य संसारान्मोक्षो- पाय योगश्चोपदिश्य किञ्चिदेतत्त्वया पार्थ श्रुतमेकापचेतसा । तदापि च रथस्थस्त्वं श्रुतवानेतदेव हि' इत्युपसंहृतम् । तदनन्तरं कृष्णसिद्धपुरुषोपदिष्टमर्थजातं मनसा समपञ्चमालोच्य सर्वमिदमर्थ- मेवेति निश्चिकायेत्ययमर्थः, कयोश्चित् ब्राह्मणदंपत्योर्गुरुशिप्यभावक- ल्पनया प्रवृत्तेन 'ब्राह्मणी ब्राह्मणं कं चित् ज्ञानविज्ञानपारगम् । दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत्' इत्यादिनेतिहासविस्तरेण दर्शितः । तदवसाने • यदिद ब्रह्मणो लिंगं क्षेत्रज्ञ इति संज्ञितम् । ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तद्वद' इति बन्धमुक्तिफलभाज- श्शरीरातिरिक्तस्य क्षेत्रज्ञम्य ग्रहणोपायपश्नमवतार्य भर्तृकृतस्तदुपायो- पदेशोऽपि दर्शितः । किनु सा ब्राह्मणी कृष्ण क्वचासौ पुरुषर्षभः । याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत' इति अर्जुनन पृष्टस्य कृष्णस्य उत्तरमुपवागतं 'मनो मे ब्राह्मणं विद्धि बुद्धि मे विद्धि ब्राह्मणीम् । क्षेत्रज्ञ इति यश्चोक्तम्सोऽहमेव धनञ्जय' इति । अनेनेतिहासकल्पनाभिप्रायः स्फुटीकृतः । तदेतत् सर्वमर्थजातं श्रुत्वा मुक्त्यर्थ वेद्यं ब्रह्म बुभुत्समानस्यार्जुनस्य तदनन्तरमेव प्रश्नः 'ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि । भवतो हि प्रसादेन सुसूक्ष्मे रमते मनः' इति तस्मै परब्रह्मस्वरूपमुपदेष्टुकामेन कृष्णेन शिघ्या- चार्यसंवादरूपः कश्चन कल्पितेतिहासः प्रवर्तितः । तत्र 'कंचिद्राह्म- णमासीनमाचार्य संशितव्रत्तम् । शिष्यः पप्रच्छ मेधावी किं स्वित्पर- , - आनन्दलहरी - श्वासि पाण्डय । स हि धर्मस्सुपर्याप्तो ब्रह्मणः पदवेदने । न शक्यं तन्मया वक्तुं तथा भूयोऽप्यशेपतः । परं हि धर्म कथितं योगयु. क्तैन तन्मया।' इति अत्र पूर्व पारमेश्वरं योगमास्थाय तदेकान- मनसा मया तत्स्वरूपमुपवर्णितमिदानी वहिर्मनसा, तथा वक्तुं न शक्यत इति यत्कृष्णेनोक्तं तेन ज्ञायते कृष्णेन स्वस्य यावान् पर- ब्रह्मभावगमकः परो महिमा वर्णितः यच्च स्वस्य भक्त्यानन्ययोपास्य- त्वमुक्तं तत्सर्व शिवाहंभावनारूपं योगमास्साय प्रवर्तितं शिवपर्यन्तं 'प्राणोऽस्मि प्रज्ञात्मा तम्मामायुरमृतमुपास्स्व' इति इन्द्रवर्णितस्व- महिमजातस्योपास्यत्ववदिति । इदं तु गीतासु 'एवमुक्त्वा ततो राजन्महायोगीश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम्' इति 'महायोगीश्वर' इति कृष्णविशेषणेन प्रदृश्यमाने रूपे ऐश्वरत्व- विशेपणेण च प्रदृश्यमानरूपवर्णितवर्णयिप्यमाणपरब्रह्मभावगम- कमहिमादिकमपि , शिवाहंभावभावनया · स्वीयत्वेन वर्णनाविषय- भूतं वस्तुतः शैवमेवेत्यनया भंग्या सूचितम् । अत एव कूर्मपुराणे. 'ज्ञानं तदेश्वरं दिव्यं यथावद्विदितं त्वया । स्वयमेव हृषीकेशः प्रीत्योवाच सनातनम् । गच्छ गच्छ स्वकं स्थानं न शोक कर्तुमर्हसि । भजख परया भक्त्या शरण्यं शरणं शिवम्' इति अर्जुनं प्रति व्यासवर तत्रैव 'नारायणोऽपि भगवान्देवकीतनयो हरिः । अर्जु- नाय स्वयं साक्षाद्दत्तवानिदमुत्तरम्' इतीश्वरगीतान्ते कृत्स्नस्यापि भगवद्गीताशास्त्रस्य शिवविषयत्वं स्पष्टमेवोक्तम् । अनुगीतासु ‘न शक्यं तन्मया भूयस्तथावक्तुमशेपतः' इत्युक्त्यनन्तरं भगवान् कृष्णः केन चित् सिद्धपुरुषेणायमेवार्थः काश्यपनाम्ने ब्राह्मणायोपदिष्टो मया श्रुतोऽस्ति तबलात्तमहं पुनरुपदेक्ष्यामीति प्रतिज्ञाय 'कथं शरीरा- चन्द्रिकासहिता। । . शोचति । त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो वचः । सम्यगाचर शुद्धात्मा ततस्तिद्धिमवाप्स्यसि इति' बृहस्पत्यादिसंवादस्य गुरु- शिष्यसंवादस्यार्जुनं प्रति कृष्णवचनस्य समापनानन्तरं को न्वसौ ब्राह्मणः कृष्ण कश्च शिप्यो जनार्दन । श्रोतव्यं यन्मयैतद्वै तन्ममा- चक्ष्व हे विभो ॥ इत्यर्जुनस्य प्रश्ने 'अहं गुरुमहाबाहो मनश्शिप्यं हि विद्धि मे। त्वत्रीत्या गुह्यमेतञ्च कथिनं वै धनंजय । मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोदह । अध्यात्ममतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत । ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन् कुरुनन्दन । सर्वपापविशुद्धात्मा मोक्षं प्राप्स्यसि केवलम् । पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते । मया तव महाबाहो तस्मादत मनः कुरु' इति भगवता कृष्णेन गुरुशिप्यसंवादरूपेतिहासकल्पनाभिप्रायमाविष्कृत्य तदर्थ एवं पूर्वम- पि गीतोपदेशकाले प्रदर्शित इति तदैकार्य स्थिरीकृतम् । एवं च गीतासु 'मुक्त्यर्थ शिवं प्रपन्नोऽहम' इति कृष्णवचनात् वयं मुक्त्यर्थ- मन्यं प्रपन्नस्य गीताम्वेव तत्रतत्र कथं पर भाववर्णनमिति शंकानिरा- सकादनुगीतासु 'परं हि धर्भ कथितं योगयुक्तेन ते मया।' इति तद्वच- नात् तदनन्तरं सिद्धपुरुषोपदिष्टसर्वोऽपि विरक्तिमार्गस्सम्यहमनसा , समालोच्य बुयेदमित्थमिति निश्चित इत्येतदर्थद्योतकात् त्वबुद्धिमन- समारोपितवायणदंपतिसंवादरूपेतिहासविषयात्तद्वचनात्तदनंतरं मया ब्रह्मस्वरूपं सम्यगालोच्य तदज्ञानांगकर्माण्यप्यनुष्ठाय तद्ज्ञानं लब्ध्वा सिद्धिः प्राप्तेत्येतदर्थद्योतकात् म्वात्मस्वीयमनस्समारोपितगुरुशिष्य- संवादरूपेतिहासविषयातद्वचनाच तस्य जीवभावनिश्चयात् जीव एव तस्मिन् ब्रह्माभिव्यक्तिविशेषकृतं कचित् कचित्तम्य ब्रह्मभाववर्णन मित्येव व्यवस्थांगीकरणीयेति युक्तम् ॥ २५ ॥ .

आनन्दलहरी - तर तव' इत्युपक्रम्य 'कुतश्चाहं कुतश्च त्वं तत्सर्वं हि यत्परम् । कुतो जातानि भूतानि स्थावराण्यवराण्यपि । केन जीवन्ति भूतानि तेषां स्यात्कुत्र वा लय' इत्यादिना केचन प्रश्नाश्शिप्यकृता उपन्य. स्ताः। तेपामुत्चरं वक्तुकामस्याचार्यस्य 'ब्रह्म प्रोक्तमिदं धर्ममृषिप्रवर- सेवितम् । वेदविद्यासमावाप्तं तत्वभूतार्थमावनम् । भूतभव्यभविष्या- दिधर्मकामार्थनिश्चयम् । सिद्धसंघपरिज्ञातं पुराकल्पं सनातनम् । प्रवक्ष्यामि महामाज़ पदमुत्तममद्य ते । बुद्धा यदिह संसिद्धा भविष्य- न्ति मनीषिणः ।' इति तदुत्तरोक्तिप्रतिज्ञामपन्यस्य तत्र श्रोतुरत्या- दरसिद्धये महीणाश्चतुर्मुखस्य च संवादरूपमत्र विपये - मह- दुपाख्यानमाचार्येणोपदिष्टमिति तदुपाख्यानमुपक्रान्तम् । 'उपगम्य- पंय. पूर्व जिज्ञासन्तः परस्परम् । बृहस्पतिर्भरद्वाजो गौतमो नारद- स्तथा । वसिष्ठः काश्यपश्चैव विश्वामित्रोऽत्रिरेव च । मार्गान् सर्वान् परिक्रम्य परिश्रान्ताः स्वकर्ममि. । ऋषिमांगिरसं वृद्धं पुरस्कृत्य तु ते द्विजा. । ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मपम् । तं प्रणम्य महात्मानं सुखासीन महर्षयः । पप्रच्छविनयोपेता निःश्रेयसमिदं परम्' इत्यादिना ऋषीणां प्रश्नानुपन्यस्य ब्रह्मणस्तदुतरवचनप्रपश्चन सप- रिकरं परब्रह्मणः स्वरूप निरूपितम् । तदवसाने 'एतच्च सर्वमाख्यातं मया विमर्षिसत्तमाः । एवमाररत क्षिप्रं ततस्सिद्धिमवाप्स्यथ । इत्युक्ता गुरुणा ते तु ब्रह्मणा मुनयस्तथा । कृतवन्तो महात्मानस्ततो लोकानवानुवन् । त्वमप्येवं महाभाग यथोक्तं ब्रह्मणो वचः । सम्यगा- चर शुद्धात्मा ततस्सिद्धिमवाप्स्यसि । इत्युक्तम्स तदा शिष्यो गुरुणा धर्ममुत्तमम् । चकार सर्व कौन्तेय ततो मोक्षमवाप्तवान् । कृतकृत्यश्च स तदा शिष्य. कुरुकुलोद्वह । तत्पदं समनुप्राप्तो यत्र गत्वा . न

चन्द्रिकासहित।।
शोचति । त्वमप्येतन्महाभाग यथोक्तं ब्रह्मणो वचः । सम्यगाचर
शुद्धात्मा ततस्सिद्धिमवाप्स्यसि इति' वृहस्पत्यादिसंवादस्य गुरु-
शिप्यसंवादस्यार्जुनं प्रति कृष्णवचनस्य समापनानन्तरं 'को न्वसौ
ब्राह्मणः कृष्ण कश्च शिप्यो जनार्दन । श्रोतव्यं यन्मयैतद्वै तन्ममा-
चक्ष्व हे विभो॥ इत्यर्जुनस्य प्रश्ने 'अहं गुरुर्महाबाहो मनश्शिप्यं हि
विद्धि मे । त्वत्रीत्या गुह्यमेतच्च कथितं वै धनंजय । मयि चेदस्ति ते
प्रीतिर्नित्यं कुरुकुलोद्बह । अध्यात्ममतच्छ्रुत्वा त्वं सम्यगाचर सुव्रत ।
ततस्त्वं सम्यगाचीर्णे धर्मेऽस्मिन् कुरुनन्दन | सर्वपापविशुद्धात्मा
मोक्षं प्राप्स्यसि केवलम् । पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते ।
मया तव महाबाहो तस्मादत्र मनः कुरु' इति भगवता कृष्णेन
गुरुशिष्यसंवादरूपेतिहासकल्पनाभिपायमाविष्कृत्य तदर्थ एव पूर्वम-
पि गीतोपदेशकाले प्रदर्शित इति तदैकार्य स्थिरीकृतम् । एवं च
गीतासु 'मुक्त्यर्थ शिवं प्रपन्नोऽहम्' इति कृ गवचनात् वयं मुक्त्यर्थ-
मन्यं प्रपन्नस्य गीतास्वेव तत्रतत्र कथं परभाववर्णनमिति शंकानिरा-
सकादनुगीतासु 'परं हि धर्म कथितं योगयुक्तेन ते मया।' इति तद्वच-
नात् तदनन्तरं सिद्धपुरुषोपदिष्टस्सर्वोऽपि विरक्तिमार्गस्सम्यङ्मनसा
समालोच्य बुचेदमित्थमिति निश्चित इत्येतदर्थद्योतकात् स्वबुद्धिमन-
म्समारोपितबामणदंपतिसंवादरूपेतिहासविषयात्तद्वचनात्तदनंतरं मया
ब्रह्मस्वरूपं सम्यगालोच्य तद्ज्ञानांगकर्माण्यप्यनुष्ठाय तद्ज्ञानं लब्ध्या
सिद्धिः प्राप्ठरोतदर्थद्योतकात् स्वात्मस्वीयमनस्समारोपितगुरुशिष्य-
संवादरूपतिहासविषयातद्वचनाच तस्य जीवभावनिश्चयात् जीव एव
तस्मिन् ब्रह्माभिव्यक्तिविशेषकृतं कचित् क्वचित्तस्य ब्रह्मभाववर्णन.
मित्येव व्यवस्थांगीकरणीयति युक्तम् ॥ २५ ॥

५२ आनन्दलहरी w ननु, विष्णोः परब्रह्मभावे गीतावचनान्येव सर्वैः प्रमाणीकि- यन्ते । कथं तान्यपराणि स्युः । कथश्च तासु किञ्चिद्वचनं तस्य मुक्त्यर्थमन्यप्रतिपत्तिं ब्रवीतीति वचश्श्रद्धेयमित्यनुशयं निरस्यति- योमारूढेन गीताविव परविषयं नानुगीतासु वाक्यं कृष्णेनोक्तं ततस्तद्विपयमिव तदाभासते नैव तासु । विष्णोरावस्य तासु कचिदपि महिमा वर्णितो यत्र दृष्ट- स्तत्रैव व्यक्तमुक्तं कमलभुव इव ब्रह्मसूज्यत्वमस्य ।। २६ ।। अयमर्थः । आपातदर्शिनां शिवयोगमास्थाय प्रवर्तितानि गी- तावचनानि कृष्णम्यैव साक्षात्परभावप्रतिपादकानीव भासन्ते । अनु- गीतावचनानि तु तेषामपि तथा न भासन्ते । किं तु काश्यपसि- द्धपुरुषसंवादादिरूपेतिहासत्रयमात्रश्रवणेन यत्कृष्णेन प्रेप्सितं स्वरू- पप्रमाणसाधनफलै सह श्रुतं मतञ्च ज्ञानार्थकर्मानुष्ठानेन सहोपासि- तञ्च तदन्यदेव कृष्णात् पर ब्रह्मेति प्रतीयते । अतो गीतावचनाना- मप्यत्रैव तात्पर्य सर्वैरभ रभ्युपगन्तव्यम् । अर्जुनेन गीतार्थ एव पुनः पृष्टेऽनुगीतावतरणात् अनुगीतावसाने अयमेवार्थस्तुभ्यं प्रागुपदिष्ट इत्युपसंहृतत्वाच्च । एवं च गीतासु परभावप्रतिपादनं कचित्कचिद्ध- गवद्विपयमिव कचित्कचिदन्यविषयमिव च म्फुरितम् । भगवतः पुनः पुन. स्वयं योगारूढत्वोपन्यासेनान्यविषयकोटेरुत्कटत्त्वेऽपि तत्तथा भ- गवन्मुखादेव विविच्यावगन्तव्यम् । तदर्थ तदा विविच्य प्रष्टुमव- सरो नासीत् । तदिदानी प्रष्टव्यम् । तस्य चागृहीतत्वोद्धाटना- यामुपदेशायोग्यत्वधीः स्यात् । इत्याशयवतार्जुनेन निगृह्य युद्धारम्भ- व्यग्रेण चेतसा गृहीतत्वाद्विस्मृतं गीतार्थजातं पुनरुपदेष्टव्यमिति प्रश्नः चन्द्रिकासहिता। कृतः । तदाशयाभिज्ञेन च भगवता पूर्वमतिसूक्ष्मोऽर्थः समाधि- मास्थायोपदेशव्य इति योगारूढेन- मयोपदिष्टोऽर्थः त्वया मन्माहा- रम्यश्रद्धावैकल्यात् मयि पूर्वहे जाग्रति किमपि वैययं नास्थेयमिति अजानता स्वैनेव युद्धं निर्वहणीयमिति दुर्बुद्धिशालिना तत एव तद्वैयत्र्याक्रान्तमनसा नाजसा गृहीतः । इदानी योगमार्ग विसृज्या- हम्भावासंवलितस्सोऽर्थ उपदिश्यत इति प्रतिज्ञाय सिद्धपुरुषकाश्यप- संवादाद्यवतरणेनाहंभावाम्पृष्ट एवं सोऽर्थ उपदिष्ट इत्यनुगीतावतरणा- प्रायोऽवसीयते । नन्वनुगीतासु गीतास्विव यद्यपि कृष्णेन स्वस्य परमावो न प्रतिपादिनः । तथापि गुरुशिप्यसंवादान्तर्गतैश्चतुर्मुख- वचनैः सर्वेषामपि भूतानामहं ब्रह्ममयो महान् । भूतं परतरं मत्तो विणार्यापि न विद्यते । राजाधिराजम्सर्वेषां विष्णुब्रह्ममयो महान् । ईश्वरं तं विज्ञानीहि स विभुम्स प्रजापतिः । देवदानवभू- तानां पिशाचोरगरक्षसाम् । नरकिन्नरमुख्यानां सर्वेषामीश्वरः प्रभु । आदिविश्वस्य जगतो विष्णुब्रममयो महान् । ततः परतरं नास्ति त्रिपु लोकेषु किञ्चने' त्येवंरूपैर्विष्णोः परब्रह्मभाव. प्रतिपा. दितो दृश्यत इति चेन्न । तदीयवचनेषु 'ब्रह्ममय' इति मयटा विष्णब्रह्मसृज्यत्वस्यैव प्रतिपादनात् मयटस्तत्र नैरर्थक्यायोगेनार्था- न्तरासंभवन चतुर्मुखविषयब्रह्मसृज्यत्वपरब्रह्ममयशब्दप्रायपाठेन 'कुत श्वाहं कुतश्च त्वम्' इति समारोपितगुरुशिष्यभावकृष्णतदीयमनः- संवादरूपेतिहासोपक्रमगतशिप्यप्रश्नानुसारेण च विकारार्थत्वावश्यंभा- यात् तस्मादनुगीतासु नारायणादन्यदेव परं ब्रह्म प्रतिपाद्यमिति निश्चयातदनुरोधेन गीतासु कृष्णवचनानि तस्य परभावप्रतिपादकत- यावभासमानानि योगारूढवचनत्वात् वृष्णीनां वासुदेवोऽस्मि' इति

आनन्दलहरी
.
कृष्णस्य नारदादिवत् विभूतिषु परिगणनलिंगाच ब्रह्माहंभावभावना-
प्रयुक्तानि तव्यतिरिक्तब्रह्मपर्यवसयीनीति स्थिते तद्वयतिरिक्तं ब्रह्म शिव
एवेति पर्यवम्यति । महायोगेश्वरेण तेन प्रदर्शितस्य विश्वरूपविग्रहस्य
प्रतिपादकेषु ‘परमं रूपमैश्वरम्' इत्यादिवचनेप्वैश्वरत्यविशेषणेन
विश्वरूपविग्रहप्रदर्शनसमये ‘मयैवते निहताः पूर्वमेव निमित्तमात्र
भव सव्यसाचिन्' इति कृष्णेन स्वनिहतत्वेनोक्तानां रिपूणां पश्चात्
स्वरूपमास्थायार्जुनेन संभाषमाणस्य तस्य वचनेषु · निहतांस्तेन पूर्व त्वं
हतवानसि वै रिपून् । अप्रमेयप्रभावं तं देवदेवमुमापतिम् । भजस्व
नित्यं प्रयतो विश्वेशं हरमव्ययम्' । इति मोक्षधर्मपटितेपु शिवनि-
हतत्वप्रतिपादनान् उदाहृतवचनोपदिष्टप्रकारेणार्जुनस्य सर्वदा शिव-
भजनपरत्वेनैवावस्थानाच्च ॥ २६ ॥
ननु, 'तमेव चाद्यं पुरुषं प्रपद्य' इति गीतावचनस्य
प्रतीतार्थो न ग्राह्यः । महाभारत एवाश्वमेधिके पर्वणि वैष्णवधर्मशास्त्रे
विष्णुभक्तैरनुष्ठेयान् धर्मान् पृष्टवन्तं युधिष्ठिरं प्रति भगवता कृष्णेनैव
यावत्पृष्टवैष्णवधर्मोपदेशानन्तरम् ' अनाश्रित्योच्छ्यो नास्ति मुख्यमा-
श्रयमाश्रयेत् । रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः । ब्रह्मा मा-
माश्रितो राजन्नाहं कश्चिदुपाश्रित' इति खस्यान्यभजनामावस्योप-
दिष्टत्वादित्याशंक्याह-
नाहं कश्चिद्गजामीत्यभिहितममुना यत्तु धर्मात्मजाय
प्राची तस्मात्मभक्तिं प्रथयतुमनसोऽमुष्य सात्मप्रशंसा ।
तस्मिन् संवाद एवं ह्यभिहितममुना शंभुभक्तेः स्वभक्त्या
साम्यं सर्वत्र तत्त्वं पुनरनुसरता वर्णितश्चाधिकत्वम् ॥२७॥

चन्द्रिकासहिता। . वैष्णवधर्मशास्त्रे त्वद्भक्ताय मह्यं त्वद्धर्मविशेषा उपदेष्टव्या इति पुनः पुनः पृष्टयन्तं युधिष्ठिरं प्रति भगवता वैष्णवधा उपदिष्टाः । ततः प्रभृति न बुद्धिभेदं जनयेत्' इति न्यायेन तस्य प्रासिद्धां स्व- स्मिन् भक्तिमधिकां कर्तुमित्थमात्मप्रशंसा कृतेति प्रशंसारूपोऽयं 'मुल्य- माश्रयमाश्चयेत्' इति विधेः म्याश्रयपर्यवसायित्वं सूचायतुमयमर्थ- वादः । यतस्तस्मिन्नेव भगवद्युधिष्ठिरसंवादरूपे वैष्णवधर्मशास्त्रे युधि- ठिरेण वैष्णवधर्मेप्वेव पुनः पुनः पृच्छयमानेप्वपि तेसह शैवधर्मा अपि तुल्यविकल्पतया तुल्यफलतया च दर्शिता । यथा 'निवेशयति मन्मूर्त्या आत्मानं मां ततइशुचिः । रुद्रं दक्षिणमूर्त्या वा चतुर्दश्यां विशेषतः । सिद्धैः ब्रह्मर्षिभिश्चैव देवलोकैच पूजितः । गन्धर्वैर्भू- तसंधैश्च गीयमानो महातपाः । प्रविशेत् स महातेजा मां वा शंक- रमेव वा । न स्यात्पुनर्भवो राजन्नात्र कार्या विचारणा । विपुवे स्नपनं यस्तु मम कुर्याद्धरस्य वा । अर्चनश्च यथान्यायं तस्य पुण्यफलं शृणु । दशजन्मकृतं पाप तस्य सद्यो विनश्यत्ति । दशा- नामश्वमेधानामिष्टानां लभते फलम् । विमानं दिव्यमारुढः काम- रूपी यथासुखम् । दिव्यवसहस्राणां कोटिमेकां तु मोदते । तत- श्थापि च्युतः कालादिह लोके द्विजोत्तमः । चतुर्णामपि वेदानां पारगो वेदविद्भवेत् । चन्द्रसूर्यग्रहे धाम्नि मम वा शंकरस्य वा। गायत्री मामिकां वापि अपेद्यः शंकरस्य था। शंखतूर्यनिनादैश्च कांस्यघण्टास्वनैरपि । कारयेत्तु ध्वनि भक्त्या तस्य पुण्यफलं शृणु । एकादश्यामुपोप्याथ द्वादस्यामर्चयेत्तु भाम् । विपानपि यथा- लाभ पूजयेद्भक्तिमान्नरः । स गच्छेदक्षिणामूर्ति मां वा नात्र विचारणा' इति । एवं सर्वत्र स्वभजनशिवभजनयोस्साम्यं वर्णितवतापि पुनर्व- .

आनन्दलहरी स्तुतत्त्वमनुसरता तंत्रव शिवभजनस्याधिक्यमप्युक्तम् । तत्र हि 'विशेषतीर्थ सर्वेषामशक्तानामनुग्रहात् । भक्तानां तारणार्थ वै वक्तुम- हसि धर्मत' इति साक्षाद्भगवत्सेवा कर्तुमशक्तानां भक्तानां तद- नुकल्पतया सेवनीयं तीर्थ फिमिति प्रश्ने 'सत्यं हि वचनं तीर्थम- हिंसा तीर्थमुच्यते । तपस्तीर्थ दया तीर्थ शीलं तीर्थ युधिष्ठिर । मद्भ- कस्सकलं तीर्थ शंकरम्य विशेषतः ।' इति म्वभक्तापेक्षया शिव- भक्तस्य विष्णुभक्तान्प्रत्यधिकतीर्थत्वमुक्तम् । एवंविधोपक्रमविरोधा- दोपसंहारिकं तद्वचनं स्वभक्तप्ररोचनार्थमर्थवादतया नेतव्यमिति न तद्विरोधः । तमेव चाद्य पुरुपं प्रपद्य' इति वचनेन गणनीय इति भावः ।। २७॥ एवं गीतानुगीतादिपालोचनया उक्तव्यवस्थांगीकरणीयेत्यु- पपादितम् । अथ विष्णुपुराणपर्यालोचनयापि सांगीकरणीयेत्युप- पादयति- 'विष्णोरुत्कर्षमेव प्रथयति वहुधा भक्तिसिद्ध्यै यदस्मि- श्रुत्कर्म शंकरस्य स्थगयति कथया नत्र तत्र प्रसक्तम् । तस्मिन्नप्यर्थतत्वं किमपि गमयितुं वैष्णवाख्ये पुराणे ब्रह्मानन्तर्यमस्याभिहितमिति ततोऽप्येवमेव व्यवस्था ॥२८॥ विष्णुपुराणे विष्णोरेवोत्कर्षः प्रतिपादितश्शिवस्योत्कर्षस्तत्त- कथाप्रसंगेन वर्णनीयतया प्रसक्तोऽपि विष्णावैकान्तिकभक्तिसिद्ध्यै स्थ- गितः । न हि यथा भागवतादिष्वमृतमथनकथाप्रसक्तं कालकूटसंहरणं सर्गवर्णनाप्रसक्तं दक्षाध्वरध्वंसनमित्येवमादि वर्णितं कालकूटज्वालाथा- न्तानां शिवं शरणं प्रपन्नानां देवानां 'न ते गिरित्राखिललोकपाल ।

चन्द्रिकासहित।। विरिश्चवैकुण्ठसुरेन्द्रमृग्यम् । ज्योतिः परं यत्र रजरतगश्च सत्वं न यब्रह्म निरस्तभेदम्' इत्यादिवचनैदिशवस्य ब्रह्मविष्ण्वाद्यपरिच्छद्यपरब्रह्मभाव- रूपो महिमा वर्णितः । दक्षाध्वरध्वंसे च 'नाहं न यज्ञो न च यूय- मन्ये ये देहभाजो मुनयश्च तत्वम् । विदुः प्रमाणं बलवीर्ययोर्वा तस्यात्मतन्त्रस्य क उद्विधित्से' त्यादिभिः पितामहादिवचनैलस्य तथाभूतमहिमाविकृतः । एवं न हि विष्णुपुराणे कचिदपि शिवम- हिमा प्रख्यापितोऽस्ति । किं त्वमृतमथनादिप्रसंगे सत्यपि काळकूटसं- हरणादिकांशत्यागेन तस्य महिमा निगृहितः । एवंभूतेऽपि विष्णु- पुराणे कचिदस्तुतत्वं किञ्चिनकाशनीयम् । अन्यथा विष्णुभक्तिसि- यै सर्वथा तत्वार्थनिगृहने कृते तंत्परवदोपबृह्मणता न स्यादित्यभि- पेस्य प्रथमांशावसाने पुराणप्रतिपाद्यं महाविष्णु प्रस्तुत्य ‘स परस्सर्व. शक्तीनां ब्रह्मणस्समनन्तर.' इति ब्रह्मविभूतिभूतसर्वजीवापेक्षया महा- विष्णुः पर इत्युक्तत्वादेव परब्रह्मणम्त्वय कनीयानिति तम्य ब्रह्मकोटि- बहिर्भावेन प्रथमजीवभावो दर्शितः । प्रदेशान्तरेषु तस्य परभावो वर्णित इत्युभयाविरोधार्थ जीवरूप एव तम्मिन्परब्रह्माभिव्यक्तिविशेषात् परब्रह्मभाववर्णनमित्युक्तव्यवस्थावश्यमङ्गीकरणीयेत्यर्थः ।। २८ ॥ अथ बहुषु पुराणेष्वेवं विष्णोरेव चतुर्मुखमावप्रतिपादनात् चतुर्मुखस्य जीवत्वसंप्रतिपत्तस्तस्य जीवत्वमभ्युपगन्तव्यमित्युपपाद- . यति-- मीवस्तावत्मसिद्धस्सरसिरुदभवस्सृज्यसंहार्यतादे- राम्नाये धर्मशास्त्रे स हरिरिति पुराणेषु चातिमसिद्धम् । कुर्वन्वाराहकल्पे दुहिणकृतिमतस्सोच्यते तस्य नाम्ने- त्युक्तिन्तस्य कल्पान्तरविषयपुराणेष्वपि शेवमुक्तम् ।।२९।। 8 आनन्दलहरी विरिश्चन्तावत् जीवः सृज्यत्वसंहार्यत्वादिश्रयणादिति विष्णुब्रह्म- वादिभिरप्यभ्युपगम्यते । विरिञ्च एव विष्णुरिति श्रुतिस्मृतिपुराणे- प्ववगतम् । तथा हि-यजुस्संहितायां तावत् ' आपो वा इदमग्रे स- लिलमासीत्तस्मिन् प्रजापतिर्वायुर्भूत्वाचरत् स इमामपश्यत्तां वराहो भूत्वाहरत्ता विश्वकर्मा भूत्वा व्यमार्ट' इति प्रजापतिशब्दोक्तम्य विरिञ्चम्यैव वराहभायापत्तिः पुनस्तम्यैव विश्वनिर्मातृविरिञ्चभावापत्ति- श्च श्रूयते । एवमाधानमन्त्रेप्वपि · यस्य रूपं विभ्रती मामविंदत् । गुहां प्रविष्टां सरिरस्य मध्ये । तस्येदं विहतमारभन्तोऽच्छंबदकार- मस्यां विधेम' इति वराहविहितसंभरणमन्त्रे विरिश्चस्व वराहरूपग्रहणं श्रूयते । यद्यपि तम्मिन्मन्त्र तत्र कर्तृनिर्देशो नास्ति । तथापि प्रजापति- सृष्टानां प्रजानामिति पूर्वमन्त्रे प्रजापतिशब्दोक्तो विरिंच एव गृह्यते । कर्बपेक्षायां सन्निहितग्रहणौचित्यात् ' आपो वा इदमग्रे सलिल- मासीत्तेन प्रजापतिरश्राम्यत्कथमिदं म्यादिति सोऽपश्यत् पुष्कर- पर्णमतिष्ठत् सोऽमन्यत अस्ति वैतद्यस्मिन्निदमधितिष्ठतीति स वराहो रूपं कृत्वोपन्यमज्जत् स पृथिवीमथार्छत् तस्या उपहूत्योदमज्जत्' इति तद्ब्राह्मणवाक्यानुरोधाच्च । वराहरूपं वैष्णवमित्यसन्दिग्धम् । 'उद्धृ- तासि वराहेण कृष्णेन शतबाहुना' इति श्रवणात्सकलपुराणैकक- ण्ठ्याच । तथा मानवे धर्मशास्त्रे 'ततः स्वयंभूभगवानव्यक्तो व्यञ्ज- यनिदम् । महाभूतादिवृत्तौजा प्रादुरासीत्तमोनुदः । सोऽभिध्याय शरीरात्म्मासिसूक्षुर्विविधाः प्रजा । अप एव समादौ तासु वीर्यम- पासृजत् । तदण्डमभवद्धैम सहस्रांशुसमप्रभम् । तस्मिञ्जज्ञे म्वयं ब्रह्मा सर्वलोकपितामह । आपो नारा इति प्रोक्तास्तेन नारायणः स्मृतः ॥' इति नारायणस्य स्वयमेव विरिश्चरूपेण जनिरुक्ता । पुराणे- .

चन्द्रिकासहिता.! . . प्वपि स्कान्दे सूतसंहितायां विष्णोर्वराहावतारकृत्यमुक्त्वा वाराह रूपमुत्सृज्य स्वयं ब्रह्माभवद्धरिः' इति तस्यैव ब्रह्मभावापत्तिरुक्ता। वि. प्णुपुराणे च ' एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः । भोगिश- य्यागतश्शेते त्रैलोक्यग्रासहितः । जलस्थैयोंगिभिर्देवश्चिन्त्यमानोऽ- जसम्भवः ।' इति कमलसम्भवस्य विरिश्चस्यैव नारायणात्मना समु- द्रशायित्वमुक्तम् । कूर्मपुराणेऽपि ततोऽवतीर्य विश्वात्मा देहमाविश्य चक्रिण. । सुप्वाप योगशयन एकीभूतोऽथ विष्णुना।' इति तस्य देहान्तरोपाधिकभेदमपहाय विष्णुनैकीभूय समुद्रशयनमुक्तम् । एव. मन्येष्वपि बहुपु पुराणेप्ययमर्थो वर्ण्यते। विस्तरभयान्नेह लिख्यते । अन कश्चिदाह-- वाराहकल्पे स्वयमेव भगवान् ब्रह्मकृत्य जगत्स- टचादिकं करोति तद्विपयाण्येतानि पुराणादिवचनानीति । तत्तुच्छम् । लक्ष्मीकल्पादिवृत्तान्तप्रतिपादकेषु पुराणेषु कूर्मपुराणादिप्वपि तथा श्रवणात् । वराहकल्पमधिकृत्य प्रवृत्ते विष्णुपुगणेऽपि कल्पादिकाल- मारभ्य वाराहकल्पवृत्तान्तं वर्णयितुं तदुपोद्धाततया पात्मकल्पवृ- तान्तवर्णनावसर एवं ' एकार्णवे तु त्रैलोक्य' इत्यादिश्रवणात् वारा- हकल्पविषयेऽपि तम्मिन्पुराणे पुराणान्तरेप्विव ब्रह्मण एव सकलसू. प्टिकर्तृत्वप्रतिपादनाच । अतस्सम्प्रतिपन्नजीवभावविरिञ्चाभेदादपि विष्णाजीवत्वमवश्यमङ्गीकरणीयमिति भावः ॥ २९ ॥ ननु, यथा संप्रतिपन्नजीवभावात् सहाररुद्रात् अन्यः परम- शिव इत्यभ्युपगम्यते, तथा पालनाधिकृतात् जीवरूपाद्विप्णोरन्यः पराशक्त्यंश आदिनारायण इत्यभ्युपगम्यताम् । सर्वमविरोधेनोप- पद्यत इत्याशंक्याह- आनन्दलहरी शंभोरसंहाररुद्रादिव भुवनपतेरादिनारायणस्य स्वीकारे भिन्नताया भवनि सुघटिता ब्रह्मशक्त्रंशतास्य । तत्स्वीकार प्रमाणं न तु किमपि दरीदृश्यते निर्विशंक शंभीरशैवेषिवास्थ कचिदपि गुणितो नान्यतोक्तिः पुराणे ।। अभ्युपगच्छेम तथा यदि तत्रानन्यथासिद्धं किञ्चित्रमाण दृश्येत । न तु नदृश्यते । न हि शैवपुराणेवैकमत्येन गुणिरुद्रात्प- रमशिवम्य भेद इव गुणिविष्णोरादिनारायणम्य भेदो वैष्णवपुराणे कचिदुक्तोऽस्तीत्यर्थ. ॥ ३० ॥ ननु बृहन्नारदीयोपपुराणे ब्रह्मविष्णुरुद्रास्त्रयोऽपि नारायणेन सृष्टा इति कचित् कचित् लिखितमस्ति । एतादृशमिह प्रमाणं भवेदि- त्याशक्याह- यत्र काप्यस्ति चेत्सा प्रमथकुलपतेरन्जयोनेर्यथैवं स्वव्यूहापक्षया स्थान तु परगुणमूत्युत्तरत्वे प्रमाणम् । न यस्त्यस्यादिशंभोरिव परगुणिनः स्वस्य सृष्टयादिकर्ट- न्यूयुक्तास्त्रयोऽपि कचिदपि कथिताः सन्ति शेषा इतीदम् ।। शिवस्य रुद्रविष्णुचतुर्मुखा इव तेषामपि सन्ति व्यूहाः जग- तो हरणभरणोत्पादनप्वधिकृता वायुसंहितादिप्रसिद्धा. ब्रह्मणो विराट- कालपुरुषारख्या त्रयः विष्णोम्संकर्षणप्रद्युम्नानिरुद्धाख्यास्त्रयः रुद्रस्य हरमृडभवाख्याः । एते च दक्षमन्वन्तकादिवत् सृष्ट्यादिप्ववान्तराधि- कारिणः । एवञ्च विष्णोस्त्रिमूर्तिपरत्ववचनानि सव्यूहत्रयपराण्युपय- द्यन्ते । तद्वहानामपि सृष्ट्याद्यधिकारसाम्यात् ब्रह्मादिव्यपदेशोपपत्तेः । एका भागवती मूर्तिनिरूपा शिवामला । वासुदेवाभिधाना सा चन्द्रिकासहिता। गुणातीता सुनिष्कळा । द्वितीया रुद्रसंज्ञा स्यात्तामसी शेपसंज्ञिता । विहन्ति सकलञ्चान्या वैष्णवी परमा तनुः । सत्वोदिक्ता तृतीयान्या प्रद्युमेति च संज्ञिता। जगत्स्थापयते सर्व सा विष्णुपकृतिधुवा । चतुर्थी वासुदेवस्य मूर्तिब्रह्मति संज्ञिता । राजसी चानिरुद्धाख्या पुरुषसृ- ष्टिकारिका' इति तेषा तद्यपदेशदर्शनाच्च । एवं ब्रह्मणस्त्रिमूर्तिपरत्ववच- नानामपि गतिरुन्नेया। वायुसंहितायां तदाण्डेऽस्मिन्विवृद्धोऽभूत्क्षेत्रज्ञो ब्रह्मसंज्ञित' इति ब्रह्माण प्रस्तुत्य •त्रिधा विभज्य चात्मानं त्रैलो- क्ये संप्रवर्तते । सृजते असते चैव रक्षत च त्रिभि. स्वयम् ।' इत्या- दिना तद्व्यूहान् प्रदर्य · सत्त्वं रजश्च ब्रह्मत्वे कालत्वे च तमो रजः । विष्णुत्वे केवलं सत्त्व गुणमूर्तिसिधा विभो. ' इति तेषा गुणविभागश्लोक तेप्वपि ब्रह्मादिशब्दप्रयोगाच्च । ननु तर्येवमेव शिवस्य त्रिमूर्तिपरत्ववच- नान्यपि संहाररुद्रव्यूहभूतभवमृडहरपराणि स्युरिति संहाररुद्रात् भिन्नः परमशिवो न सियेदिति चेत् सिद्ध्येदेव । - सृजत्यशेषमीशस्य शास- नाचतुरानन. । तिमृभिमूर्तिभिश्चैव पाति चान्ते निहन्ति च । विष्णुः पालयत विश्वं विश्वयोनियोगतः । सृजते ग्रसते चापि त्रिधा भिन्नस्तु रक्षति' इति शिवपुराणे स्वस्वव्यूहसहितानां ब्रह्मविष्णुरुद्राणां शिव- नियोगेन स्वस्वकृत्ये प्रवृत्त्युपन्यासात् तत्रैव योगेश्वराख्यपूजादिपु स्वस्वव्यूहावरणानां तेषां शिवावरणत्वेन पूजाविधानात्तदनन्तरं पश्चा- वरणस्तोत्रे स्वम्वव्यूहावरणानां तेषां शिवावरणनिविष्टतया स्तोत्रदर्शनात् कूर्मपुराणे 'सर्वासामेव शक्तीनां ब्रह्मविष्णुशिवात्मिकाः । प्रधानाम्सं- स्मृता देवाश्शक्तय. परमात्मनः । आभ्यः परस्तात् भगवान् परमात्मा सनातन । गयिते सर्वशक्त्यात्मा शूलपाणिमहेश्वर. ।' इति प्रधानभूतेभ्य एव ब्रह्मविष्णुरुदेभ्यः परमशिवस्य परत्वप्रतिपादनांच्च । - आनन्दलहरी अस्मिन्नथं साधकानि वचनानि सर्वेप्यपि शैवपुराणेषु सन्ति भूयांसि । तानि प्रायश्शिवतत्वविवेकादिषु लिखितानि विस्तरभयानेह पुनर्लि- गठ्यन्ते । एवं ब्रह्मविष्णुरुद्रास्त्रयोऽपि वखव्यूहत्रयसहिताश्शेषभूता इति कचिदपि वैष्णवपुराणेषु न श्रुतं प्रत्युत भागवतादिषु प्रतिपाद्य- स्य विष्णोः सात्विकतया राजसतामसाभ्यां ब्रह्मरुद्राभ्यामुत्कर्षप्रति- पादनेन त्रिमूर्त्यन्तर्गत एव विष्णुवैष्णवपुराणपु पतिपादित इति विभावितं दृश्यत इति भावः । ।। ३१ ॥ एवमुक्तप्रमाणः प्राप्तं विष्णो. ब्रह्मत्वं प्रत्याख्येयमिति शक्त- ब्रह्मकोट्यन्तर्भाव तदंशत्वं विष्णोन घटत इति शंका सप्तभि. श्लोकै- रुपपादिता । अत्र भट्टभास्करमतानुसारिणां समाधानमाह- अत्रके वर्णयन्ति दृहिणगिरिशवजीवभावोऽस्तु विष्णो- श्चिच्छक्त्यंशत्त्वमस्य व्यपनयति ततो नोद्भवन्कोऽपि दोषः। पत्रिंशत्तत्त्ववर्गो भवति जडतयात्यन्तवैरूप्यशली सोऽप्यंशः खल्वमुष्याः किमिति खलु भजेञ्चतनो नांशभावम् ।। विप्णार्जीवत्वं शक्त्यंशत्वमित्युभयमप्यस्तु, न कोपि दोषः । न च शक्त्यंशस्य जीवत्वे शक्तब्रह्मकोट्यन्तर्भावविरोधः । अचिद्रूपो हि शिवतत्त्वादिभूम्यन्त पत्रिंशत्तत्त्ववर्ग चिद्रूपायाश्शक्तेरंशोऽभ्यु- पगम्यते । तदुपपादनार्थमेव खलु न विलक्षणत्वा' धिकरणम् । तथैव शक्तेब्रह्मकोटित्वेऽपि विष्णो यस्य तदशत्यमुपपद्यत इति न कश्चिद्विरोध इत्यर्थ. ॥ ३२ ॥ नन्वनया रीत्या सर्वेषामपि जीवाना शक्त्यंशताभ्युपगम्य- ताम् । किमर्धजरतीयन्यायनेत्याशंक्य तथैवाभ्युपगम्यत इत्याह- चन्द्रिकासहिता। जीवास्सर्वे तदंशाः स्युरिति यदि तथवास्तु का नः क्षतिः स्यात् कार्यत्वं नास्ति तेपामिति न तद कृताभ्यागमादिप्रसक्तिः। इप्यन्ते द्यञ्जसास्य प्रतिभवनियतानाद्यवस्थांशभेदाः कार्यत्वं वास्तु तेषां भवविहतिभयाधुज्यतेऽनादितापि ॥३३॥ सर्वेषां जीवानां शिवशक्त्यंशत्वाभ्युपगमेऽपि नास्ति कश्चि- दोपः । न च तथा सति तत्त्ववर्गवत् कार्यत्वापत्तैरकृताम्यागम- पोऽतिप्रसङ्ग. स्यादिति वाच्यम् । अकार्याशत्वाभ्युपगमोपपत्तेः । न चांशानां कार्यत्वनियमः । मलद्रव्यस्याविद्याञ्जनादिशब्दितस्य सर्वेषां जीवानामावरणार्थमभ्युपगतम्यैकत्वेन कस्यचिजीवस्य मुक्ती तन्निवृत्त्या सर्वेषा जीवानामपि मुक्तिप्रसंगपरिहाराय तत्तज्जीवावार- कत्येनाभ्युपगतानामवस्थाविशेषरूपाणामशानामकार्यत्वसंप्रतिपत्तेः । अथवा शक्त्यंशरूपाणां जीवानां कार्यत्वमेवास्तु । कार्यत्वेऽपि मुक्तिवदनाद्यन्तत्वमुपपद्यत इत्यर्थः ।। ३३ ॥ मुक्तिदृष्टान्तमुपपादयति- जन्मस्थित्यादिरीत्या भवविहनिरपि स्यादनादिप्रवाहा- ज्जीवानन्त्येन नदप्रथमभवतया कालभेदे नियम्या । नस्मात्माकोटिदृष्टया नियतविहीतरप्यपीताकारभावा सा तत्त्वज्ञानसाध्या भवति भवति चानादिरित्यभ्युपेयम् ३४ यथा खल्वनादौ संसारे चेतनाचेतनकरंबितम्यास्य प्रप- ञ्चम्य जन्मस्थितिभंगाः अनादिप्रवाहतयानुवर्तन्ते तथा मुमुक्षूणां तत्त्वज्ञानसाद्धया मुक्तिरप्यनुवर्तत इत्यभ्युपेयम् । न तु कञ्चित्क- रूपमारभ्यदंप्रथमतया प्रवृत्तत्यभ्युपगन्तुमुचितम् । तत्र नियामकाभा- ६४ आनन्दलहरी " अन्यथा . प्रसज्यत वात्। • तयो देवानां प्रत्यबुध्यत तथा ऋषीणां तथा मनुष्याणाम् ' इति देवर्षिमनुष्येपु प्राङ्युक्ताः केचिदासन्निति प्रतिपादयन्त्याः श्रुतेरतीते. प्वनन्तेपु कालेषु सर्वेप्वेकरूपत्वाच्च । एवञ्च प्राङ्मुक्तानां मध्ये केपाश्चिन्मुक्ति. प्राकोटिदृष्टिरहितेत्यप्यंगकिर्तव्यम् । सर्वेषामपि मुक्तेः कालविशेषमारभ्य प्रवृत्तत्वेन तत.पूर्व कस्या- पि मुक्ति सीदिति तत्प्रवाहानादित्वभंगप्रसंगात् ततःपूर्व तद्यो देवानां प्रत्यबुध्यत' इत्यादिश्रुतेरर्थशून्यत्वभंगप्रसंगाच्च । एक- श्वेतः प्रामुक्तानां मध्ये केपाश्चिन्मुक्ते. प्राकोटिदर्शनं केनापि प्रमा- णेन भवन्नास्तीति सा तत्त्वज्ञानसाध्या भवति चानाद्यनन्तत्यकामेनापि अङ्गीकरणीयम् । इत्थमेव जीवरूपाणां शक्त्यशानां कार्यत्वेऽनाद्यन्त- स्वमुपपद्यत इति न कृतहानिरकृताभ्यागमो वा इत्यर्थः ॥ ३४ ॥ इत्थ विष्णुर्जीव इति पक्ष केपाश्चिदुपपादितः । म्वसिद्धान्तं दर्शयति-- भास्माकीना तु सैद्धान्तिकसरणिरियं यत्परब्रह्मकोटिः श्रीमान्नारायणस्सन्महित इति महाभारतादिपसिद्धः। नस्मात्तेष्वादिशंभुः कचिदपि विषये वर्णिनो नापकृष्टः किंतु स्थाणुविशालाक्ष इति समुदितो लोकसंहर्तुरीशः ॥३५॥ वेदविभागार्थमेवावतीर्णेन सकलवेढतात्पर्याभिज्ञेन सर्वज्ञशि- खामणिना भगवता वेदव्यासन पुलस्त्यवरदानलब्धदेवतापारमार्थ्यवे- दनेन श्रीपराशरेणान्यैश्च महर्षिभिर्वेदोपवृह्मणार्थ प्रणीतेपु श्रीमहा- भारतविष्णुपुराणादिपु निश्चितपरब्रह्मभावस्य सद्भिः सर्वैरप्यविभागेन अथ चन्द्रिकासहिता। परब्रमेत्येव पूजितस्य श्रीनारायणस्य क्वचित्कोणे निविष्टनन्त्रार्थ- चादपुराणवचनादिलेशमवलव्य जीवभावं वक्तुं नासमज्जिह्वा प्रवर्तते । तथा चेन्मूर्द्धा च शतधा भवति । वेदवैदिकद्रोहो देवताद्रोहश्च जायते । अतो नारायणः परब्रह्मकोटिरित्येवाम्माकं सिद्धान्तः । ननु भारतादिषु शिवस्य नारायणात् कचित्कचिदपकर्षः प्रतिपादितोऽ स्तीति सोऽप्यादरणीयः स्यादिति चेदाद्रियत एव । न हि तेपु त्रिमूर्यु- तीर्ण परमशिवं शृङ्गग्राहिकया निर्दिश्य तस्य नारायणादपकपः क. चिदुक्तोऽस्ति । सामान्यवचनानि तु सहाररुद्रतदंशविषयतया चरिता- नि । अस्ति हि संहाररुद्रस्य चतुर्मुखान्नारायणाचापकपः कल्पभेद- प्रवृत्तः । स एव तदीयेषु पुराणेषु तदनुसारिषु भारतप्रदेशादिषु च वर्णितः । यथाह भगवान्यायुः-'यस्ते कारणात्मानो जातास्साक्षा- महेश्वरात् । चराचरस्य विश्वस्य सृष्टिस्थित्यन्तहेतव । पित्रा निय- मिताः पूर्व त्रयोऽपि त्रिषु कर्मसु । ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे पुनः । तथाप्यन्योन्यमात्सर्यादन्योन्यातिशयार्थिन । तपसा तोषयित्वा त पितरं परमेश्वरम् । ब्रह्मनारायणौ पूर्व रुद्रः कल्पान्तरेऽसृजत् । कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः । विष्णुश्च भगवान् रुद्रं ब्रह्माणमसृजत्पुनः । नारायणं पुनर्ब्रह्मा ब्रह्माणञ्च पुनर्भवः । एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः । परस्परस्माज्जायन्ते परस्परजयैषिणः । तत्तत्कल्पान्तवृत्तान्तमधिगम्य महर्षिभिः । प्रभावः कथ्यते तेषां परस्प- रसमुद्भवात् ॥' इति । 'तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः । तानि तानि प्रणीतानि विद्वांस्तत्र न मुह्यति । अयं परस्त्वयं नेति संरम्भा- भिनिवेशिनः । यातुधाना भवन्त्येव पिशाचाश्च न संशयः।।' इति च । एवं शिवस्य विष्णोश्चतुर्मुखाच्चापकर्पवचनानि कानिचित् संहाररु- । 9 आनन्दलहरी . । द्रस्य कादाचित्कापकर्पविषयाणि । प्रायेणेषु भारतादिपु दृष्टानि तु तथा- भूतानि वचनानि विष्णुचतुर्मुखाविभूतसंहाररुद्रांशविपयाणि । तन्ति हि प्रत्यवान्तरकल्पं सृष्टयभिवृद्धयादिना लोकानुग्रहाय विष्णोश्च- तुर्मुखाच्चाविभूताः महाकल्पादौ ताभ्यां सह परमशिवादुत्पन्नस्य संहा- ररुद्रस्यांशविशेषाः । यद्विषयाणि पुराणभारतवचनान्युपलभ्यन्ते । यथा सूतसंहितायाम् -- तताप परमं घोरं ततो विप्राश्चतुर्मुखः । सृष्टयर्थ ब्रह्मणस्तस्य ध्रुवोर्घाणस्य मध्यतः । अविमुक्ताभिधाद्देशात् स्वकीयात्तु विशेषतः । त्रिमूर्तीनां महेशम्य द्विजा वेदान्तवित्तमाः । अंशभूतो महादेवः सर्वदेवनमस्कृतः । अर्धनारीश्वरो भूत्वा प्रादुरा- सीत्कृपानिधिः ॥ इति । वायुसंहितायां निर्दिष्टः परमेशेन महेशो नील- लोहितः । पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोऽनुजः ।' इति । लिंग- पुराण ‘तस्य हृत्कमलस्थस्य नियोगादंशजो विभोः । ललाटं तस्य निर्भिद्य प्रादुरासीत्मभार्महान् ॥' इति । अंशः परमशिवस्य संहाररुद्र- स्ततो जातस्तदंशभूत इत्यर्थः । 'अनादिनिधनो देवश्चैतन्यादिस- मन्वितः । ज्ञानानि च वशे यस्य तारकादीन्यशेषतः। अणिमादि- गुणोपेतमैश्चर्य न च कृत्रिमम् । सृष्टयथै ब्रह्मणः पुत्रो ललाटादस्थितः प्रभुः ।' इति महाभारतवचनमप्युदाहृतपुराणवचनानुसारेण संहाररु- दांशाविर्भावपरम् । एवम् 'अथ पुनरेव नारायणस्सोऽन्यत्कामो मनसा- ध्यायत। तस्य ध्यानान्तस्थस्य ललाटाव्यक्षश्शूलपाणिः पुरुषोऽजायत बिभ्रत्सत्यं ब्रह्मचर्य तप' इत्यादिश्रुतिप्रतिपादितश्शिवस्य नारायणा- दाचिर्भावोऽपि संहाररुद्रांशाविर्भावरूपः । महाभारते 'ततः पार्थे वृषा- कस्य ब्रह्मचारी व्यतिष्ठत। पिंगाक्षस्तपसा श्रेष्ठो बलवान्नीललोहितः।।' इति तस्य कैलासे श्रीकण्ठपार्थेऽवस्थानोक्त्या कूर्मपुराणे नारायणं प्रति ।

चन्द्रिकासहिता। , 'अहञ्च भवतो वक्त्रात् कल्पान्ते घोररूपधृत् । शूलपाणिभविप्यामि क्रोधजस्तव पुत्रकः ॥' इति संहाररुद्रोक्त्या चैच्छिकतदंशावतारत्वावि- करणात् । एवंभूतविशेषांशविपयाण्येव 'ब्रह्मनारायणौ पूर्व रुद्रः कल्पान्तरेऽसृजत् ।' इत्यादीनि प्रागुदाहृतानि वायुसंहितावचनानि । एवंभूतसंहाररुद्रांशविषयत्वं भारतादिषु दृष्टानां रुद्रस्य चतुर्मुखा- नारायणाचापकर्पवचनानां तत्तद्वचनेप्वेव प्रायश्थयमाणैः स्थाणुवि- शालाक्षादिशन्दैराविप्क्रियते । यथा महाभारते- 'ब्रह्मा सुरगुरुः स्थाणुर्मनुश्च परमेष्ठिजः।' इत्यादौ 'ब्रह्मा साणुर्मनुर्दक्षः' इत्यादी च 'एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः । तस्य देवस्य मर्यादा पूजयन्ति सनातनीम्' इति नारायणकृतमर्यादापरिपालकत्वेनोक्तानां प्रजापतीनां परिगणने । यथा च तत्रैव सुन्दोपसुन्दास्याने तत्र विष्णु- महादेवस्तत्रामिर्वायुना सह' इत्यारभ्य ‘ऋपयम्सर्व एवैते पितामह- मुपासत' इत्यन्तेन विष्ण्वादिसकलदेवतानामृप्यादीनाञ्च पितामह- मुपासीनानां तत्सभास्थितिवर्णनानन्तरम् ' इन्द्रः स्थाणुश्च भगवान्य त्यक्त्वा प्रतिष्ठितौ' इति ‘एवञ्चतुर्मुख' स्थाणुर्महादेवोऽभवत्पुरा' इति सुन्दापसुन्दवधार्थ पितामहेन । सृष्टायास्तिलोत्तमाया दर्शनलोभेन रुद्रस्य परितोमुखचतुष्टयकीर्तने यथा वा मृत्युसम्भवोपाख्याने 'ततो हरो जटी स्थाणुः' इति रुद्रं प्रस्तुत्य तस्य ब्रह्माणं प्रति ' भवता हि नि- युक्तोऽहं प्रजानां परिपालन' इति स्वस्य तन्नियुक्तत्वोपन्यासे । एवमा- दिस्थलेपु स्थाणुशब्दग्रहणेन रुद्रविभूतिविशेषरूपत्वं ख्याप्यते । 'खा- मजैरेव तैरुदनिवृत्तात्मा व्यतिष्ठत ! स्थाणुत्वं तस्य तेनासीदेवदेवस्य शूलिन' इति कौम, 'ततः प्रभृति देवोऽसौ न मस्ते शुभाः प्रजाः । ऊपरेताः स्थितः स्थाणुविद्राभूतसंप्लवम्' इति वायुसंहितायां, 'ततः .

आनन्दलहरी प्रभृति विश्वात्मा न प्रसूते शिवाः प्रजाः स्थाणुवन्निश्चलो यस्मात् स्थितः स्थाणुरतः स्मृत' इत्यादित्यपुराणे च ब्रह्माजभुवं तेन 'प्रजाः सृज' इति निर्दिष्टं स्वसमानगुणाकृत्युपेतान् जननमरणहीनानसंख्यातान् रुद्रान् सृष्टवन्तं एवंभूताः प्रजा मा साक्षीः' इति ब्रह्मवचनेन सृष्टिव्यापारान्नि- वृत्तं रुद्र प्रस्तुत्य तेनैव प्रवृत्तिनिमित्तेन स्थाणुशब्दस्य तन्नामत्वप्रतिपा- दनात् । महाभारतेऽपि भीष्मपर्वणि सभापर्वणि च 'यत्र भूतपतिः सृष्ट्वा सर्वलोकान् सनातनः । उपास्यते तिग्मतेजा वृतो भूतैस्सह- स्रशः ॥' इति मैनाकपर्वते उपास्यस्य शिवस्य सन्निधानमुक्त्वा नर- नारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः । उपासते यत्र परं सहस्रयुग- पर्यये ।।' इति तदुपासकपरिगणनपरे अनन्तरश्लोके राजधर्मे ' भूयस्स भगवान् ध्यात्वा चिरं शूलवारायुधः । तम्य तस्य निकायस्य चका- रैकैकमीश्वरम् । देवानामीश्वरञ्चके देवं दशशतेक्षणम् । यमं वैवस्वत- श्चैव पितृणामकरोत्पतिम् ।' इत्युपक्रम्य ‘रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः । महात्मानं महादेवं विशालाक्षं सनातनम् ' इति शिवनियम्येषु परिगणनेन च स्थाणुशब्दितस्य रुद्रस्य विभूतिरुद्र- त्वस्फुटीकरणाच्च । राजधर्मे विशालाक्षशब्देन स्थाणुरेवोच्यते । तत्रैव प्रदेशान्तरे ब्रह्मप्रणीतां नीति प्रस्तुत्य 'ततस्तां भगवान्नीति पूर्व जग्राह शंकर । बहुरूपो विशालाक्ष शिवः स्थाणुरुमापतिः।' इति तत्र तस्य दृष्टप्रयोगत्वात् । स देव सर्वभूतात्मा महादेवम्सनातनः । असंख्यातं सहस्राणां रुद्राणां स्थानमव्ययम् । युगानामायुषो हासं विज्ञाय भगवान् शिवः । सञ्चिक्षेप ततश्शास्त्रं महार्थ ब्रह्मणा कृतम् । वैशालाक्षमिति प्रोक्तं तदिन्द्र प्रत्यपद्यत ॥' इति तत्प्रणीते नीतिशास्त्रे वैशालाक्षसमाख्याकी- तनाच्च । अत एव कालिदासेनापि कुमारसंभवकाव्ये 'ब्रह्मांगभूमणि - चन्द्रिकासहिता। . . । योजितात्मा' इति विशेषणेन ब्रह्मपुत्ररुद्रविषयतया व्यञ्जिते 'या नः प्रीतिर्विशालाक्ष त्वदनुध्यानसंभवात् । सा किमावेद्यते तुभ्यमन्तरात्मा हि देहिनाम्' इति सप्तर्षीणां तं प्रति वचने 'विशालाक्ष' इति संबोधनं कृतम् । यत्र स्थाणुविशालाक्षनामनी न स्तः तत्रापि शिव- स्यापकर्पवचनेषु तमोगुणोपाधित्वसंहारकारित्वहरिविरिश्चक्रोधललार- संभवत्वादिप्वन्यतमं परमशिवव्यावृत्त किश्चिद्विशेषणं भवत्येव । यथा ' सत्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्त परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चहरेति सज्ञां श्रेयांसि तत्र खलु सत्त्वतनो- नृणां स्युः । एतौ द्वौ विवुधश्रेष्ठौ प्रसादक्रोधजौ मम । मया दर्शि- तपन्थानौ सृष्टिसंहारकारको' इत्यादिपु यत्र तदपि नास्ति तत्रापि विधातुर्विष्णोची परमशिवादुत्कर्षस्यासंभवात् परैरपि त्रिमूर्युत्तीर्णस्य तस्याभ्युपगमेऽनभ्युपगमे च रुद्रनिकर्षवचनानां संहाररुद्रतदवतारा- दिविषयत्वम्यावश्यं वक्तव्यत्वात् 'वैष्णवेषु पुराणेषु योऽपकपस्तु दृश्यंत । रुद्रस्यासौ हरस्याम्य विभूतेरेव केवलम्' इत्यादिपराशरपुराणा- दिवचनदर्शनाच्च तथैव व्यवस्थावसीयत इति भावः ॥ ३५ ॥ ननु ‘अग्नि देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवता' इति बढ्चब्राह्मणे विष्णोस्सर्वोत्कृष्टत्वं देवतान्तराणां सर्वेपा- मपि तदपेक्षयापकृष्टत्वं चाहत्यानातमतस्तदनुसारेण वेदोपवृह्मणेषु पुराणभारतादिपु दृष्टान्यपि विष्णोरुत्कषधचनान्यसंकोचेन सर्वदेवतो- कर्पविषयाण्येव वर्णनीयानि न तु शिव विहाय तदितरदेवतोत्कर्ष- विषयाणीत्याशंक्याह-- अग्नेः प्राथम्यमेव ह्युदितमवम इत्यन्यवाक्यानुरोधा- विष्णोरप्येवमुक्तं परम इति गिरा देवतास्वन्तिमत्वम् ।

आनन्दलहरी यव्यादशंसनीया अपि खलु विदिता देवतास्साङ्गसोमे विष्ण्वन्ताथानिमुख्या इति कथयति कोऽप्यर्थवादस्तमर्थम् ।। अमेस्तावत्सर्वदेवतापकृष्टत्वमयुक्तम् । अमिर्मुखं प्रथमो देव- तानाम् ' ' अमिरग्रे प्रथमो देवतानाम् ' ' अग्निरेतु प्रथमो देवता- भ्यः' 'अग्निस्सर्वा देवताः ।' 'राजानी वा एतौ देवतानां यदग्नी- पोमौ' 'अग्निमुखा वै देवा.' इत्यादिश्रुतिभिः यथाग्निदेवतानां स्याह- तूनां कुसुमाकर. । द्विपदां ब्राह्मणः श्रेष्ठ' इत्यादिस्मृतिभिः 'हुताशन- पुरोगमा' इत्यादिविष्णुपुराणादिवचनश्चामेरुत्कर्षपतीतरतोऽमिरवम' इत्यशे कांश्चिद्देवताविशेषान् प्रत्यग्नेरवमत्त्वपरतया संकुचितार्थवाद- त्वस्यासदालम्बनार्थवादरूपत्वस्य वावश्यं वक्तव्यतया तत्समभिव्या- हृते 'विष्णुः परम' इत्यंशेऽपि तथात्वमेव वक्तुं युक्तम् । तत्र संकु. चितार्थत्वकल्पनाप्रकार इत्थम् । अवमपरमशब्दो प्रथमोत्तमपरौ । 'सर्वा देवता' इति शब्दः प्रकरणबलात् सांगाग्निष्टोमे यष्टव्यसर्वदे- वतापर' । अग्निष्टोमाङ्गस्तोत्रेषु शंसनीयसर्वदेवतापरो वा । सप्तसंस्थ- ज्योतिष्टोमाङ्गेषु शस्त्रेषु या शंसनीयसकलदेवतापरः। तत्र सांडगेऽग्नि- प्टोमे प्रथमानुठेयायां दीक्षणीयेप्टौ अग्नाविष्ण्वन्तर्गतोऽमिः प्रथमं यष्ट- व्यः । सर्वोत्तमाया उदवसानीयेष्टयाः स्थाने वैष्णवी पूर्णाहुति- वीजसनेयिभिराम्नाता । तस्यां विष्णुर्यष्टव्यः । तथाग्निष्टोमे द्वादशसुं शस्त्रेषु आज्यशस्त्रं प्रथमम् । तत्र ' भूराग्निज्योति.' इत्याभिराम्नातः । अग्निमा- रुतशस्त्रमुत्तमम् । तत्र 'विष्णोर्नुकम् ' इति विष्णुरानातः । सप्तसंस्थज्यो- तिप्टेोमशस्त्रदेवतास्वप्युक्तरीत्यैवाग्नेः प्राथम्यम् । अन्तिमसस्थायामप्तार्या- माख्यायामंतिमं शस्त्र वैष्णवमिति विष्णोरुत्तमत्वम् । एवमयमर्थवादो यष्टव्यत्वेन शंसनीयत्वेन वैकस्मिन्नमिष्टोमसंन्थे वा ज्योतिष्टोमे वा चन्द्रिकासहिता। . संगतासु देवतास्वग्नाविष्ण्वोः प्रथमोत्तमभावं ब्रवीति नतु सर्वदेवतापेक्षया निकर्पोत्कौ । तथांगीकारे ' अमिरने प्रथमो देवतानाम् । संयाताना- मुत्तमो विष्णुरासीत् । यजमानाय परिगृह्य देवान् । दीक्षयेदं हवि- रागच्छतं नः' इति दीक्षणीयानुवाक्यामन्त्रोऽप्यैकार्य लभते। तस्माद- यमेवार्थोऽस्यार्थवादस्येति भावः ॥ ३६ ॥ ननु · अग्निवं देवानामवम' इत्यादिश्रुतेरुक्तरीत्या संकुचितार्थ- त्वस्यासदालंबनार्थवादत्वस्य वा कल्पनमयुक्तम् । अधिकरणविरोधात् । पूर्वतन्ने हि प्रसंगाध्याये । ग्रहणार्थश्च पूर्वमिष्टेस्तदर्थत्वात् ' (जै० अ० १२) इत्यधिकरणे सोमांगभूताम्विप्टिप्वग्न्यन्वाधान कार्य येति संशये 'ममार्च' इति पूर्वमग्निं निगृह्णाति देवता एवं पूर्वेधुर्मू- हीत्वा श्वो भूते यजत' इति प्रकृतौ तस्य देवतापरिग्रहार्थत्वोक्तस्ता- स्वपि यक्ष्यमाणदेवतापरिग्रहार्थ तत्कर्त्तव्यमिति पूर्वपक्षं कृत्वा सिद्धा- न्तितम् ‘आमावैष्णवमेकादशकपालमैन्द्रं दधि निर्वपेद्दीक्षिप्यमाणो- ऽमिरवमो देवतानां विष्णुः परमो देवता एव तदुभयतः परिगृह्य दीक्षित' इति दीक्षणीयाया यक्ष्यमाणसकलदेवतापरिग्रहार्थत्वश्रवणा- तया कृतकार्य मान्यन्वाधान न कार्यम् । न च दीक्षा सोमस्य' इति तस्याः प्रधानभूतसोमयागार्थत्वश्रवणात् सोमयागान्वितसकलदेवता- परिग्रहार्थेव सा न तु तदंगेप्टिदेवतापरिग्रहार्थापि । अत इष्टिपु देव- तापरिग्रहार्थमन्वाधानं कार्यमिति वाच्यम् । “वैश्वदेवं गृह्णातीति' विहितविश्वेदेवोद्देश्यकग्रहसाध्यस्सोमयागाभ्यासः श्रुतिविदितयावत्कर्मा- न्वितसर्वदेवतोद्देश्यक न तु विश्वेदेवाख्यगणदेवतोद्देश्यकः तथाभू- तगणदेवतासद्भावे प्रमाणाभावेन विश्वेदेवशब्दम्य कचित् क्लप्तरू- ढिरहितस्य यौगिकार्थताया एवोचितत्त्वात् । तथा च तस्मिन् सोम- ७२ आनन्दलहरी .. यागाभ्यासे सर्वदेवतासमवायाचदर्थ सर्वदेवतापरिग्रहं कुर्वन्त्या दीक्ष- णीयाप्रसंगात्तदंगेष्टिदेवतापरिग्रहस्यापि सिद्धस्तया कृतकार्यमन्या- धानमिप्टिपु न कार्यमिति यदि ‘अग्निर्वे देवानामवम' इत्यादिवाक्यं संकुचितार्थमसदर्थवादमानं वा स्यात्तदा तदधिकरणविरोधः प्रायणी- यादिप्वप्यग्न्यन्वाधानानुष्ठानप्रसंगश्च म्यादित्याशंक्याह--- दीक्षासंस्कारसिद्धिः खलु फलमुदितं दीक्षणीयाभिषेष्टे- रन्यार्थत्वान्न तम्याः फलमितरदुरीकर्तुमर्ह न यज्ञैः । यागश्चाद्यन्तयोः स्यात्कथमपि न परिग्राहको देवतानां तस्मात्तवार्थसिद्धयै न भवति विदुपामीटगर्थोऽर्थवादः॥ दीक्षणीया यक्ष्यमाणपुरुषगतदीक्षाख्यादृष्टसंस्कारार्था । 'मा- सावैष्णवमेकादशकपालं निर्वपेद्दीक्षिप्टमाण' इति श्रुतौ 'तुमुन् ण्वुलौ क्रियार्थायाम् ।' (पा० ३-३.१०) इत्यधिकारपठितेन 'लोपे च' इति (पा ० ३-३-१३ ) सूत्रेण क्रियार्थायां क्रियायामुपपदे विहितलट आदेशभूतया शानचः श्रुत्या तस्या दीक्षार्थत्वाभिधानात् । दीक्षणीयेति समाख्यायाश्च करणार्थविहितकृत्यप्रत्ययान्ततया तादा- वगमात् । अत एव पूर्वतन्त्रे ‘परेणावेदनात्' इत्यधिकरणे दीक्षणी- याया दीक्षासंस्कारार्थत्वं सिद्धं कृत्वा दीक्षणीयामात्रेण दीक्षासम्कारो भवति उत दंडमेखलादिभिरपीति विशेषचिन्ता कृता । एवं श्रुति- समाख्यायामन्यार्थत्वेनावगतायास्तस्याः नार्थवादावगतं देवतापरिग्र- हरूपं फलान्तर न्यायविद्भिरंगकिर्तुं युक्तम् । अत एवेष्टिप्वन्वाधा- नम्यागीनामानुपूर्येण बलवदिन्धनाधानरूपस्य वस्तुसामर्थ्यलिंगे- नानिधारणं दृष्टं प्रयोजनमवगतमिति तेनैव नैराकांक्ष्यात् 'इमामूर्ज चन्द्रिकासहिता। । पञ्चदशी ये मविष्टास्तान्देवा-परिगृहामि पूर्वम्' 'यो वै देवताः पूर्व परि- गृहाति स येनाश्या भूते यजत' इति मन्त्रार्थवादावगतं देवतापरिग्रह- रूपं फलान्तरं नापयते । एवं वस्तुसामर्थ्यरूपलिंगमात्रावगतफलपरि- ग्रहेण मन्त्रार्थवादप्रतीतफलपरित्यागे किमु वक्तव्यं श्रुतिसमाख्याभ्यां 'दीक्षामस्मै यजमानाय धत्तं दीक्षयेदं हविरागच्छतं न' इति दीक्ष- णीयेष्टियाज्यानुवाक्यामन्त्रलिंगाभ्यामप्यवगतम्य फलस्य सत्त्वेन ते- नैव नैराकांक्ष्यादिह मन्त्रार्थवादप्रतीतं फलान्तरं नोपेयमिति । किंच । आद्यन्तदेवतयोर्यागेन मध्यवर्तिदेवता न परिगृहीता भवेयुः । न हि- पारिभाषिकप्रत्याहारग्रहणन्यायोऽत्र प्रवर्तते । न वा यागः करिष्यमाण- यागोद्देश्यदेवतानिमन्त्रणात्मकस्तत्परिग्रहो भवति । न चान्वाधानस्येव स्याङ्गमन्त्रद्वारान यागस्य देवतापरिग्रहार्थत्व कल्पयितुं शक्यम् । 'यज- मानाय परिगृह्य देवान्' इति मन्त्रे अग्नाविष्णुकर्तृक एव हि देवता- परिग्रहः श्रुतः न यजमानकर्तृकः । देवतापरिग्रहम्याङ्गत्वाङ्गीकारे च य-. जमानकर्तृफस्यै (म्यैव) तम्याङ्गत्वमेष्टव्यम् । प्रकृतौ मन्त्रार्थवादाभ्यां तथा भूतस्यैव तस्याङ्गताया. कल्पनीयत्वात् । यद्यपि प्रसङ्गसिद्धकार्येषु किञ्चिद्वैगुण्यं न दोषः । तथापि कर्तृभेदे नाम्ति प्रसङ्गः । अत एव चातुर्मास्येषु वरुणप्रघासेपु अध्वर्युप्रतिप्रस्थातृभ्यामुत्तरदक्षिणविहार- कर्तव्ययोरिष्टयोः पत्नीसयाजानां गार्हपत्यरूपाग्न्येकत्वेऽपि आध्वर्य- वेण तदनुष्ठानेन प्रतिप्रस्थातृकर्तृकायां मारुत्यामिष्टौ कर्तृभेदात्तेषां प्र. सगतस्सिद्धिास्तीति मारुत्यर्थ प्रतिप्रथातृकर्तृकमपि तदनुष्ठान व्य- वस्थापितं पूर्वतन्त्र । यद्यप्यमाविष्णुकर्तृकेणापि देवतापरिग्रहेण प्रस- झसिद्धकार्यतया यजमानकर्तृकदेवतापरिग्रहार्थमन्वाधानमनुष्ठातव्य- मिति समयंत तथापि येषु प्रायणीयोपसदादिविष्टिपशुप्वशिविष्णुर्या 10 आनन्दलहरी देवता तेषु तत्परिग्रहार्थगन्वाधानमनुष्ठेयं स्यात् । ती हि मध्यवर्तिना देवतान्तराणामेव परिग्राहको स्यातां न तु खात्मनोरपि । तस्मादीक्ष- णीयाया देवतापरिग्रहार्थत्वार्थवादः तत्समानप्रकारान्वाधानार्थवादश्व न तत्वार्थसिद्ध्यै प्रभवतीति न ताभ्यां कस्यचिदर्थस्य निर्णयो युक्तः । 'ग्रहणार्थञ्च पूर्वम् (जै.) इत्यधिकरणं तु अभ्युपेत्यवादमात्रम् । धारणार्थत्वात् सोमेऽग्न्यन्वाधानं न विद्यत इति प्राचीनाधिकरणे हि सौमिकीविष्टिष्यन्वाधानं कर्तव्यमङ्गत्वादिति पूर्वपक्षं कृत्वा अ- न्वाधानस्यानिधारणार्थत्वात् सोमे सोमार्थ विहृतस्यामेर्धारितम्य सत्त्वे न प्रसङ्गसिद्धखकार्य तन्न कार्यमिति दृढन्यायोपन्यासेन तास्वन्वाधा- नाननुष्ठान समर्थितमेव । तथाप्यविवक्षितार्थमन्वाधानार्थवादमवलंब्य यदि कश्चिदग्मिधारणम्य मिद्धत्वेऽपि देवतापरिग्रहार्थ प्रतीष्टयन्वाधा- नमनुष्ठेयमिति चोदयेत प्रति · अहृदयवाचामहृदया एव प्रतिवाचो भवन्ति' इति न्यायेन तथाभूतमेव दीक्षणीयार्थवादमवलम्व्य समा- धानं कार्यमिति न्यायव्युत्पादनार्थ तदधिकरणं प्रवर्तितम् । एवं तस्या- धिकरणम्यान्युपेत्यवादत्वं मीमांसकैरपि दर्शितमेव । तस्मादुदाहृत- श्रुतिविरोधाभावात् विष्णूत्कर्षपरपुराणभारतादिवचनानां प्रावर्णितया रीत्या शिवातिरिक्तविषयत्वव्यवस्थापनं युज्यत एवेति भावः ।। ३७ ॥ श्रुत्यन्तरविरोधपरिहारास्तु शिवतत्वविवेकादिषु प्रपञ्चितास्त- त्रैवानुसन्धया । ननु यदि विष्णोः ब्रह्मकोटित्वमिप्यते तदा जीवत्वग- मकानां प्रागुदाहृतानां का गतिरित्याकांक्षायामाह- शक्त्यंशे सर्वतत्वात्मनि पर इति यद्भेदकं तैत्तिरीय- श्रुत्यंशो वक्ति नेनाधिगमितमपरोऽप्यस्ति नारायणोऽन्यः ।

चन्द्रिकासहिता। ७५ . सोऽयं जीवखिमूर्त्यन्तरगतपुरुपस्तत्कलाविष्टमूर्ति- या संहाररुद्री परमशिवकलावेशवन्तो स्मरन्ति ।। ३८ ।। 'नारायणं परं ब्रह्म तत्व नारायणः परः' इति श्रूयते । अ- स्यार्थः । पूर्वानुवाके दहरपुण्डरीकोपाम्यत्वेन प्रस्तुतं शिवाख्यं परं ब्रह्म नारायणापेक्षया परमुत्कृष्टम् । यस्मात्परो नारायणस्तत्वं शिवत- त्वादि भूम्यन्तसकलतत्वात्मको भवति । अत उपादानस्य खतन्त्रक- हृफशिवेच्छाधीनतत्तदाकारपरिणामादिव्यापारवत्त्वात् मृदपेक्षया कुला- लस्येव नारायणापेक्षया शिवस्य परत्वं युक्तमिति । इदश्चाने शिवस्य नारायणोपास्यत्वं प्रतिपादयिप्यत इति तदुपपादकतयोक्तम् । अत्र जगदुपादाने नारायणे पर इति विशेषणादपरोऽपि कश्चन तदनुपा- दानभूतो नारायणोऽस्तीत्यवसीयते । स तु त्रिमूर्तिमध्यगतः पालना- धिकृतो जीव इति तद्विपयतया प्रागुदाहृतानां जीवत्वगमकानामुप- पत्तिः । तस्मिन्नेवावगतजीवभावे यत्पुराणादिपु परभाववर्णनं दृश्यते तत्सर्वस्मिन्परनारायणकलाविर्भावप्रयुक्तमिति तस्याप्युपपत्तिः । न च संहाररुद्र इव तस्मिन्नपि परब्रह्मणश्शिवम्याभिव्यक्तिविशेषात्परभाव- वर्णनमित्येवास्त्विति वाच्यम् । यतश्शिवसमाननामरूपवेषादिमति सं. हाररुद्रे शिवाभिव्यक्तिविशेषवत् परनारायणसमाननामादिमति त- स्मिन् तत्कलाविर्भावविशेषम्यैवांगीकारो युक्त । अत एव स्मरन्त्याश्च- लायनाचार्याः ‘सिसक्षुरेक एवाग्रे समासीनश्शिवः स्वयम् । सृष्ट्या गुणमयीं मायां सूत्ररूपामपाकरोत् । तया तदात्मकं विष्णुं सृष्ट्वा पालं दिवौकसाम् । स्वयं ब्रह्माभवद्रो रुद्रश्वास्य क्षयाय सः' इति । गु- णमयी त्रिगुणाभिमानिनी मायां स्वकीयां ज्ञानशक्तिं प्रळयदशा- यामविभक्ततया स्थिताम् । सूत्ररूपां जगदुपादानतावस्थापन्नां आनन्दलहरी अत्र कार्यान्मुखी सृष्ट्वा अपाकरोत् विभक्तावस्थामकरोत् । तया मायया कारणभूतया तदात्मकं विष्णुं स्वकीयज्ञानशक्तिरूपं नारायणं दिवौकसां पालं सकलकार्यनिर्वर्तनेन जगद्रक्षकं सृष्ट्वा खयमेव ब्रह्माभवत् अस्य प्रपञ्चस्य संहाररुद्रश्चाभवदित्यर्थः शिवस्य ब्रह्मरुद्रात्मना भावस्तदन्तर्यामिरूपेण तयोरभिव्यक्तिविशेष एव विवक्षित इति तत्समभिव्याहारात् 'सृष्ट्वा पालं दिवौकसाम्' इत्यत्रापि परनारायणं पालनाधिकृतापरनारायणान्तर्यामिभावे व्यवस्था- प्येल्या ग्राह्यः । तस्माद्विप्णोजींवत्वगमकानामन्यविषयत्वाज्जगदुपा- दानस्य परनारायणस्य ब्रह्मकोटितायां न कश्चिद्विरोध इति भावः । एवमुदाहृतमन्त्रे परत्वविशेषणमिव 'बृहत्ते विष्णो सुमतिं भजामहे' 'नमो विष्णवे बृहते करोमि' इत्यादिमन्त्रेषु वृहत्त्वविशेषणमपि बृहदबृहत्तया विष्णुद्वैविध्ये प्रमाणमिति द्रष्टव्यम् ॥ ३८ ॥ उदाहृतमन्त्रार्थोपवृहाणं वराहपुराणे अपञ्चितमुदाहरति- संकल्पादादिविष्णोस्समुपनतवपुस्तेन चानुप्रविष्टो विष्णुस्तद्दतलक्ष्मीमणिगरुडगदाशंखचकादियुक्तः । नाभीनाळीकदीव्यद्रुहिणकृतनुतिर्देवकार्याणि कर्ता वाराहाख्यै पुराणे खलु समभिदधे तत्र शक्त्यंश आधः ३९ वराहपुराणे एकत्रिंशाध्याये विष्णुद्वैविध्यं प्रतिपादितम् । 'मनोनामकतत्वञ्च यदतत्परिपठ्यते । प्रयोजनवशाद्विष्णुरसावेव तु मूर्तिमान् । योऽसौ नारायणो देव परात्परतरो विभुः । तस्य चिन्ता समुत्पन्ना सृष्टि प्रति नरोत्तम । सृष्टा चैव मया सृष्टिः पालनीया मयैव हि । कर्मकाण्डममूर्तन कर्तु नैवेह शक्यते । तस्मा- न्मूर्ति सृजाम्येका यया पाल्यमिदं जगत् । एवञ्चिन्तयतस्तस्य सत्या- चन्द्रिकासहिता। ७७ । भिध्यायिनो नृप । याक्सृष्टं यन्मनो राजन्मूर्तिगत्तत्पुरो बभौ । पुराभूते ततस्तमिन्दवो नारायणः वयम् । प्रविशन्तं ददर्शाथ लैलोक्यं तस्य देहतः । ततस्सस्मार भगवान् वरदानं पुरात- नम् । वागादीनां ततस्तुष्टः प्रादात्तस्मै पुनर्वरम् । सर्वज्ञः सर्वक- त्वं सर्वलोकनमाकृतः । त्रैलोक्यवशगश्च त्वं भव विष्णुः सनातनः। देवानां सर्वकार्यञ्च कर्तव्यं ब्रह्मणस्तथा । सर्वज्ञत्वं च भवतु तव देव न संशयः । एवमुक्त्वा परो देवः प्रकृतिस्थो बभूव ह । विष्णुरप्य. धुना पूर्व बुद्धि सम्मार च प्रभुः । तया सञ्चिन्त्य भगवान्योगनिद्रा महातपाः । तां समास्थाय भगवानिन्द्रियाद्भिवप्रजाम् । ध्यात्वा- स्तरणरूपेण तत्र सुप्वाप वै विभुः । तस्य मुप्तस्य जठरात् महत् पद्म विनिःसृतम् । सप्तद्वीपवती पृथ्वी ससमुद्रा सफानना । तस्य पद्मस्य विस्तारः पाताळं नाळसंज्ञितम् । कणिकायां तथा मेरुस्तन्मध्ये ब्रह्मणो भवः । एवं दृष्ट्वा परस्तस्य अपरम्यास्य संभवम् । मुमुदे त- च्छरीरस्थः स्वम्थो वाचञ्च सोऽसृजत् । अविद्याविजयं चेमं शंखरू- पेण धारय । अज्ञानच्छेदनार्थाय खगन्तेऽस्तु सदा कर | कालचक्र- मिदं घारं चक्रवद्धारयाच्युत । अधर्मराजघातार्थ गदां स्थापय केशव । भूपत्वमेतत्परमं यज्ञांग मुसलं तथा । माययं भूतमाला ते कण्ठे तिष्ठतु सर्वदा । श्रीवत्सकौस्तुभौ चेमो चन्द्रादित्या विधारय । मारु- तस्ते गतिर्वीर गरुत्मान्स च कीर्तितः । त्रैलोक्यगामिनी देवी लक्ष्मी- स्तेऽस्तु सदा प्रिया' इति । 'कर्मकाण्डममूर्तन कर्तुं नैवेह शक्यते' इत्यनेन पालनोपयुक्तमसुरवधादिकममूर्तेन कर्तुं न शक्यत इति पर- विष्णोश्चिन्तोपवर्णनात्तम्यापरमूर्तीवेव सन्निधानात् प्राक् पृथक्व्यक्तमू- तिपरिग्रहा नास्तीत्यवसीयते । अत एव वराहपुराणं नवमाध्यायऽपि आनन्दलहरी - प्रथमं नारायणः प्रणवं तेनाकारादीश्च सृष्ट्वा तदनन्तरं मनस्तत्वामि- मान्यपरविष्णुमूर्ति सृष्ट्वा तस्यां सन्निदध इत्यादि सृष्टिवृत्तान्त प्रतिपा- दितम् । शून्याँलोकानिमान्सृष्टा सिसृक्षुर्मूर्तिमुत्तमाम् । क्षोमयित्वा मनो धाम तत्राकार समाश्रितः।' इति 'इन्द्रियार्थोद्भवप्रजाम् । ध्या- वास्तरणरूपेण' इत्यनेन शेषपर्यकसंकल्प उक्तः । भगवन्नक्षविषयाः कथं मूर्तिमुपागता । नागा बभूवुः कुटिलाः एतदाख्यातुमर्हति' इत्या- दिना वराहपुराण एव नागानामिन्द्रियार्थमूर्तित्वस्योक्तत्वात् ॥३९॥ ननूदाहृतवराहपुराणवचनैः परापरविष्णुद्वैविध्यमात्रं प्रतीयते। न तु परविष्णोश्शक्त्त्यंशत्वमित्याशंक्य वराहपुराणवचनान्तरैरेव तसिद्धिमाह-- जीवेन्द्रवाभिधानात्परमपदमिति व्याहृतेस्तस्य तत्र स्थाणुं शक्तश्रितायाः परनरमहिमावेदनात्सर्वतोऽपि वापायाश्च तस्या हरिकमलभवेशानमातृतगीते- श्शक्तेरंगस्स तत्राभिमत इति वुधैर्जायते मूक्ष्मदृष्ट्या ।।४०॥ वराहपुराण एव प्रजापालनसत्यतप-संपादनरूपोपाख्याने सर्व देवास्सपित। ब्रह्माण्डाः काण्डमध्यगाः । विष्णोम्सकाशादुत्पन्ना इतीयं वैदिकी श्रुतिः' इति विष्णोर्बमादिसकलदेवतास्रष्मृत्वमुक्त्वा तदनन्तर- मेवमुपाख्यायत · जाठराग्निः प्राणापानी वाक् शरीरगतनानासुपिर- रूपमाकाशं शरीरयातवोऽहंकारः शारीरज्योतिः कामक्रोधलोभमोहमद- मात्सर्यपेशुन्यासूयाप्टकरूपः कामादिगणो माहजननी माया श्रोत्ररूपा दिशो वायुमनो धमा महत्तत्त्वं तन्मात्रा इति पञ्चदश देवता नारायण- . १ तिन भूगदान 'इशन--ख. पाठः ।

चन्द्रिकासहिता। . सृष्टस्य हिरण्यगर्भस्य शरीरे संभूताम्तासु प्रत्येकं म्वानुप्रविष्टविष्णु- हिरण्यगर्भशरीरस्यावस्थानमहमेव प्रधानभूतेति परस्परं विवदमानाः स्वस्वप्राधान्यप्रकाशनार्थ सर्वा अपि क्रमेण शरीरान्निश्चक्रमुः । तासु निष्क्रान्तास्वपि तदानन्दरूपेण सोमाख्येन परमेश्वरेणाप्यायमानं शरीरं यथापूर्वमुत्थाय सञ्चरदवतिष्ट ततोऽन्यादयः पञ्चदशापि देवा लज्जिताः परित्यक्तखस्वप्रधान्याभिमानास्तम्याप्रसादात् पुनरपि शरीरे स्वस्वस्थानान्यभीप्सन्तः तमेव परमेश्वरं । त्वमनिस्त्वं तथा प्राणस्त्व. मपानम्सरस्वति' इत्यादिना सर्वात्मत्वेन स्तुत्वा · अस्माभिरपयातैस्तु कथमेतद्भविष्यति । इति मत्वा शरीरं तु त्यक्तमम्माभिरेव तु । तत्परं भवता देव तदवस्थं प्रपाल्यते । स्थानभंगो न नः कार्यः स्वयं सृष्ट्या प्रजापते' इति प्रार्थयामासुः । तत परितुष्टम्स देवो लीलार्थ भवन्त उत्पादिताश्शरीरधारणार्थमन्यार्थ वा नास्ति में भवदपेक्षा । तथापि लीलार्थ भवतां मूर्तीभूर्ते द्वे रूपे प्रयच्छामि प्राणिनां शरीरेप्वमूर्तेन रूपेण तिष्ठत मूर्तेन रूपेण तु देवलोकेप्वाधिकारिकरूपेण तिष्ठत तत्र 'अग्निर्वश्वानर' प्राणापानावश्विनी वापार्वत्याकारो विनायकश्शरीरधा- तवो नागा अहङ्कारः स्कन्दः शारीरज्योतिरादित्य कामादिगणो ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही माहेन्द्री यमदण्डघरा योगेश्वरी' इति क्रमेण ब्रह्मेशस्कन्दविष्णुवराहेन्द्रयमसृष्टास्सप्त शिवक्रोधसमुद्भूतमुख- ज्वालात्मिका योगेश्वरी चेत्येवंभूतो मातृगणश्शरीरमाया दुर्गा दिशो दशकन्याः प्राच्यादिरूपाः वायुः कुबेरो मनो विष्णुधर्मो यमो महत्तत्वं रुद्रः तन्मात्राः पितर इत्येवं देवविशेषा भविष्यथ अहं तु सोमो भूत्वा सर्वान्भवतो रक्षामीत्येवमुवाचेति तदनन्तरं देवैरिस्थमभिष्टुतो वरदाता • ब्राह्मणानां' इनि--ग. पाठः । १.

आनन्दलहरी क्षेत्रज्ञो विष्णुरित्युपसंहृतम् । एवं वेदान्तपुरुषः प्रोक्तो नारायणा- स्मक. । शरीरदेवताः सर्वास्तस्य स्तुतिपराभवन् । एवंप्रभावो देवी- ऽसौ वेदवेद्यो जनार्दनः। कथितो नृपते तुभ्यं किमन्यत् श्रोतुमिच्छसि' इति । तदनन्तरं 'कथमग्नेम्समुत्पत्तिरश्चिनोर्वा महामुने । गौर्या गण- पतेर्वापि नागानां षण्मुखस्य च । आदित्यस्य च मातॄणां दुर्गाया वा दिशां तथा । धनदस्य च विष्णोश्च धर्मस्य परमेष्ठिनः । शंभोर्वाथ पितॄणां वा तथा चन्द्रमसो मुने । शरीरदेवता ह्यताः कथम्मूर्तत्व- मागताः ।' इति प्रजापालपृष्टेन सत्यतपसा अग्न्यादिपित्रन्तानामुत्प- त्तिप्रकारं दर्शादिप्रतिपदन्ततिथिपूज्यत्वञ्चोक्त्वा आदिसात्पन्नस्य सो- मस्य सप्तविंशतिदक्षकन्यापरिणेतुः केवलरोहिण्यासक्तया कुपितस्य दक्षस्य शापात् क्षयव्याधिना मृतस्य क्षीरोदमथनेन पुनर्जननमु- क्त्वा तस्मिंस्तु मथिते जातः पुनस्सोमो महीपते। योऽसौ क्षेत्रज्ञसंज्ञो वैदेहेऽस्मिन्पुरुष. परः । स एव सोमो मन्तव्यो देहिनां जीवसंज्ञितः । परेच्छया स मूर्ति तु पृथक् सौम्यां प्रपेदिवान् । तमेव देवा मनुजा- प्षोडशेमाश्च देवताः । उपजीवन्ति वृक्षाश्च तथैवोपधयश्शुभाः । रुद्रम्तम्यैव शकल दधार शिरसा तदा । तदात्मिका भवन्त्यापो विश्व- मूर्तिरतः स्मृतः । तम्य ब्रह्मा ददौ प्रीत. पौर्णमासी तिथिं विभुः ॥' इति तम्य देहिनां देहे जीवरूपत्वं पौर्णमासीपूज्यत्वञ्चोक्तम् । अत्र यद्यपि यम्य सकलकारणत्वेन प्रतिज्ञातम्य नारायणस्य महिम- त्यापनार्थमिदमुपाख्यानमुपक्रान्तम् । तम्य तत्रोपाख्यानवर्णितेन प्र- तिशरीरं व्यवस्थितन जीवसामान्यरूपेण जीवविशेपात्मकेन सोम- रूपेण वान्यादिसकलदेवतास्रष्मृत्वं तदुत्कृष्टत्वं तैम्सर्वैरपि स्तुत्यत्वं तेभ्यो वरप्रदातृत्वं सोममण्डलमधिष्टाय तत्पालयतृत्वं भूतकाये- चन्द्रिकासहिता। प्वमूर्तेन देवलोकेपु मूर्तिमान् । तिष्ठध्वं मयि कालान्ते विलयश्चापि नामृतम्' इति तेषां कालान्तरे स्वस्मिन् लयवचनमित्यादि संगच्छते। न च तत्र श्रुता जीवक्षेत्रज्ञसोमशब्दाः परमपुरुषपरा एव सन्विति वाच्यम् । तेषां संज्ञारूपेण जीवसामान्ये जीवविशेषे च प्रसिद्ध- तराणां क्लेशेनान्यत्र नयनायोगात्। 'योऽसौ क्षेत्रज्ञसंज्ञो वै देहेऽस्मिन् पुरुषः पर' इत्यादि श्लोके क्षेत्रज्ञसंज्ञित' इति ‘जीवसंज्ञित' इति च शब्दाभ्यां यत्र क्षेत्रज्ञजीवशब्दयोः संज्ञारूपेण प्रवृत्तिः तयोरेव प्रतीतेः सोमस्य दक्षशापप्रयुक्तव्याधिमरणोक्तेश्च । तथापि तस्य परम- पुरुषस्य जीवसामान्यरूपेण सर्वेषां देहिनां देहेषु स्थितस्य जीवविशे- पात्मना प्रकृतसोममूर्ती स्थितस्य च स्वरूपेण परिगणितदेवतासगृत्वा- दिकं संभवतीति न तदन्वये काचिदनुपपत्तिः । 'योऽसौ क्षेत्रज्ञ- संज्ञो वै' इत्यादिश्लोकार्थस्त्वयम्-~~ योऽसौ प्राक् जगत्कारणत्वेनो- पक्रान्तः परमपुरुषो विष्णु वक्षेत्रज्ञसंज्ञितो जीवसामान्यरूपेण देहिनां देहेषु वर्तते स एव सोमाख्यजीवविशेषरूपेणापि वर्तते स परमपुरुषः परेच्छया परमशिवस्येच्छया पृथक् केनचिद्रूपेण पृथग्भूतस्सन् सौम्यां सोमाख्यजीवविशेषसंबंधिनी मूर्ति प्रपेदि- वान्, देवमनुष्यादयोऽग्न्यादिसोमान्ताः षोडश शरीरदेवताश्च तमेव सोममूर्त्यनुपविष्टं परमपुरुषमुपजीवन्ति न तु सोममण्डलाभिमानिनं जीवविशेषम् । रुद्रस्तस्यैव सोममण्डलानुप्रविष्टस्य कलाञ्चिदूपां चूडा- मणिरूपेण शिरसा दधार । आपस्सुधामय्यश्चन्द्रमण्डलात् स्रवन्त्योऽ- न्याश्चापस्तदात्मिकाः प्रकृतपरमपुरुषस्वरूपाः । अत 'आपो वा इदं सर्वम्' इत्यादिश्रुतौ सर्वात्मत्वेन श्रुतानामपां तद्रूपत्वादयं परमपुरुषो विष्णुर्विश्वमूर्तिरिति । यद्यपि योऽसौ क्षेत्रज्ञसंज्ञित' इत्यादिश्लोका हिर- 11 ८२ आनन्दलहरी " । म्यगर्भविपया इत्यपि प्रतिभाति । तत्र परिगणितदेवतासष्मृत्वादिसंभवात् स्वशरीरोद्भूतानामधिकारनिवृत्तौ स्वशरीरे लयस्याप्युपपत्तेः 'स्थानभंगो न नः कार्यः स्वयं दृष्ट्वा प्रजापत' इति तत्संबोधनस्य गजवकोत्पत्त्य- ध्याये यच्चोक्तं ब्रह्मणा पूर्व सशरीराशरीरता' इति मूर्तामूर्तरूपवरद्वयख्य ब्रह्मदत्तत्वोक्तेश्च सामञ्जस्याच । तथापि 'सर्वे देवास्सपितर' इति विष्णुमाहात्म्यवर्णनं प्रस्तुत्योपक्रान्तस्योपाख्यानस्य हिरण्यगर्भमाहा- एवर्णनपरत्वे तदेवोपाख्यानमकाण्डताण्डवं स्यात् । 'एवं वेदान्तपु- रुपः प्रोक्तो नारायणात्मकः । शरीरदेवतास्सर्वास्तस्य स्तुतिपराभवन् । इति तदुपसंहारोऽप्यसमञ्जसः स्यात् । अतस्सोममू विव हिरण्यग- र्भमूर्तावनुप्रविष्टस्य विष्णोर्महिमवर्णनपरमिदमुपाख्यानमित्येव संगम- यितव्यम् । एवं जीवेन्द्रत्वाभिधानाद्धेतोस्तावद्विष्णुः परस्यारशक्तेरं- शोऽभिमत इति ज्ञायते । चिच्छक्तिरेव जीवसामन्यरूपेण वर्तत इति ‘सोऽकामयत बहु स्यां प्रजायेय' इत्यादिश्रुतिखारस्येन कूर्म- पुराणादिदृष्टतदुपबृह्मणवचनजातेन चावगतम् । तदुभयार्थतत्त्ववि- द्भिश्श्रीकण्ठाचार्यैरपि भाप्ये तस्यास्समम्तचिदचित्प्रपञ्चाकारत्वं बहुषु प्रदेशेपूपन्यस्तम् । तथा सोममूर्ती चिच्छक्तिस्सन्निधत्त इति 'अहम मिशिरोनिष्ठः त्वं सोमशिरसि स्थिता । अग्नीपोमात्मकं विश्व- मावाभ्यां समधिष्ठितम् ' इत्युमां प्रति शिववचनेनान्यैश्चैतादृशैशिव- पुराणादिवचनैरवगतम् । उमा शिवस्य ज्ञानशक्तिरेव न ततोऽन्ये- त्युमायाम्सोममूर्ती सन्निधानोक्तिश्चिच्छक्तरेव तदुक्तिः । तथा हि- वराहपुराण एव विनायकोत्पत्त्यध्याये आकाशदेवतायाः विनायका- त्मनोत्पत्ती कारणगणनप्रस्तावे वचनम्-'ज्ञानशक्तिमुमां दृष्ट्वा यदृष्टं ‘जीवारिपत्वाभिधानात्' इति ग पाठः।

चन्द्रिकासहिता। ८३ । व्योम शंभुना । यच्चोक्ता ब्रह्मणा पूर्व सशरीराशरीरता' इति । तस्मिन्नेव त्रिशक्तिमाहात्म्यप्रकरणे वचनम् एषा त्रिशक्तिरुद्दिष्टा न- यसिद्धान्तगामिनी । एपा ज्ञानात्मिका शक्तिस्सर्ववेदान्तगामिनी ।' इति । एषा शैवी पररा शक्ति यसिद्धान्ताख्ये शिवशास्त्रे प्रतिपाद्यमा- ना सती सृष्टिपालनसंहारोपकरणतया ब्राह्मी वैष्णवी रौद्रीति त्रैवि- द्यास्त्रिशक्तिरिति व्यपदिष्टा । एषैव सर्वेषु वेदान्तेषु प्रतिपाद्यमाना सती तेषु ज्ञानशक्तिरिति व्यपदिष्टेत्यर्थः । यद्यपि ब्रह्मविष्णुरुदाणां परस्परनिरीक्षणादाविर्भूतत्वेनोत्तैषा त्रिशक्तिरमारूपत्वेन पूर्व नोक्ता, तथापि प्रकरणस्योपक्रमानुसारेण शिवमाहात्म्यविषयत्वात् 'य इमं शृणुयात्सर्ग त्रिशक्त्याः परमं शिवम् । सर्वपापविनिर्मुक्तः परं निर्या- णमाप्नुयात् । यश्चैनं शृणुयाद्भक्त्या नवम्यां नियतः स्थितः । स राज्य- मतुलं लब्ध्वा भयेभ्यश्च प्रमुच्यते । यस्यैतल्लिखितं गेहे सदा तिष्ठति धारणे । न तस्याग्निभयं घोरं सर्पचोरादिजं भवेत् । यश्चैतत्पूजये- द्भक्त्या पूजने स्थापितं बुधः। तेन यष्टं भवेत्सर्वं त्रैलोक्यं सचराचरम्। जायन्ते पशवः पुत्राः धनधान्यादयः स्त्रियः । रलान्यश्वा गजा भृत्या ग्रामाश्चाशु भवन्त्युत । यस्येदं तिष्ठते गेहे तस्य सर्वमिदं भवेत् ॥' इति त्रिशक्त्युत्पत्तिश्रवणादिफलकीर्तनानन्तरम् 'एतद्देवरहस्यं ते कीर्तितं भूतधारािण । रुद्रस्य खलु माहात्म्यं सकलं कीर्तितं मया ।।' इति शिवमाहात्म्यकीर्तनरूपत्वेनास्य प्रकरणस्योपसंहारात् अनन्तरं 'नवको- ट्यस्तु चामुण्डाभेदा भिन्ना व्यवस्थिताः । या रौद्री तामसी शक्तिस्सा चामुण्डा प्रकीर्तिता। अष्टादश तथा कोट्यो वैष्णव्या भेद उच्यते । या सा तु राजसी शक्तिः पालिनी सैव वैष्णवी । या ब्रह्मशक्तिः सत्वस्था सानन्ता वै प्रकीर्तिता ॥' इति शक्तित्रयस्यावान्तरभेदप्रपञ्चमुक्त्वा आनन्दलहरी । 'एतेषु सर्वभेदेषु पृथगकैकशो धरे। सर्वासां भगवान् रुद्रः सर्वगत्वा- त्पतिर्भवेत् । यावन्त्यस्या महाशक्त्यास्तावद्रूपाणि शंकरः । कृतवां- स्तास्तु भजते पतिरूपेण सर्वदा । यश्चाराधयते तास्तु तस्य रुद्रेऽतितो- पिते । सियन्ति तास्सदा देव्यो मन्त्रिण्यो नात्र संशयः ॥' इति सर्वस्यापि त्रिशक्तिप्रपञ्चस्य शिवपतित्वाभिधानाच उमारूपैव सा विवक्षितावसीयते। 'नयसिद्धान्तगामिनी' इति नयसिद्धान्ताख्यशिव- शास्त्रप्रतिपादितत्वोक्त्या च तथावसीयते । एवम् 'अथवा ज्ञानश- क्तिस्सा महिपोऽज्ञानशक्तिमान् । अज्ञानं ज्ञानसाध्यश्च भवतीति न संशयः ।।' इति महिषासुरमर्दिनी त्रिशक्त्यन्तर्गतशक्ति ज्ञानशक्ति- रिति प्रतिपादयदपि वराहपुराणवचनमुमायास्तथात्वे प्रमाणम् । वराह- पुराण एव परमात्मा यथा देव एक एव त्रिधा स्मृतः। प्रयोजन- वशाच्छक्तिरेकैव त्रिविधाभवत् ।' इति ‘सर्वगेयं वरारोहा एकैव त्रिविधा स्थिता।' इति च परशरुमाया एव त्रिशक्तिरूपत्ववर्णनात् । तस्मात् साधूक्तं सोममूर्ती सन्निधानं शिवचिच्छक्तेः प्रसिद्धमिति । तथा तस्या एवांशभेदं चूडामणिरूपेण शिवो धत्त इति ‘ज्ञानचन्द्रक- लाचूडं दशदिग्बाहुमण्डलम्।' इत्यादिमिश्शिवागमगतशिवध्यानप्रकर- णपठितवचनैः प्रसिद्धम् । वराहपुराणेऽपि भवान् पुमान् शक्तिरिय गिरेस्सुता स्वबोधरूपा भगवंस्तथा त्वयि । त्रिशूलरूपेण गुणत्रयं करे स्थितं त्रिनेत्रेषु महामयस्त्रयः । जटास्वरूपेण समस्तसागराः कुलाच- लासिधुवहाश्च सर्वशः। शशी परिज्ञानमिदं तव स्थितं न देव पश्यन्ति कुदृष्टयो जनाः ॥' इति सेनान्यर्थ शिवं स्तुवतां देवानां वचनेन तथावगतम् । तथाब्रूपत्वश्रवणादपि विप्णोश्शक्त्यभेदोऽवग- म्यते । तथाहि आपो वा इदं सर्व विश्वाभूतान्यापः प्राणा वा आपः चन्द्रिकासहित।। ८५ . . पशव आपोऽनमापोऽमृतमापस्सम्राडापो विराडाप छन्दारस्यापो ज्यो- ती प्यापो यजू प्यापस्सत्यमापस्सर्वा देवता आपो भूर्भुवस्सुवरापः ।' 'आपो वा इदमन आसुः । तास्सत्यमसृजन्त' इत्यादिप्वपा सर्यात्म- त्वसर्वकारणत्वादिमहिमा श्रूयमाणः तासां स्वतोऽसंभवन्नेवंभूतमहिम- युक्तस्य शिवस्य सर्वशक्तेा कस्य चित् ब्रह्मांशस्य तासु सन्निधान- विशेष सामान्यतो गमयति । कस्य तासु स्वसन्निधानविशेष इत्याकां- क्षायाम् इयमेव सा या प्रथमा व्यौच्छत्' इति देवीसूक्ते देव्याश्शक्तरं- शविशेषाणामपि कृत्यविशेषप्रपञ्चनपरे श्रूयते- 'अपामेका महिमान बिभर्ति' इति । काचन परस्याश्शक्तेरंशभूता देव्यप्सु सन्निहिता सती तासां 'आपो वा इद ५सर्व' इत्यादिश्रुतिप्रसिद्धं महिमानं युष्य- तीत्यर्थः। एवं शक्तिधर्मत्वेनावगतमप्सु सन्निधानविशेषरूपमब्रूपत्वमिह विष्णोश्रूयते । तथा विष्णौ परमपदमिति व्यवहारो वराहपुराणे त्रिमूर्तिगुणविभागप्रकरणे दृश्यते-'यत्सत्त्वं स हरिदेवो यो हरिस्त- त्परं पदम् । ये सत्त्वरजसी ते तु ब्रह्मा कमलसंभव' इति । शक्तिरेव परमं पदं तदभेदान्नारायणोऽपीति हि प्राक् कूर्मपुराणवचन- मुदाहृतम् । तथा वराहपुराणे शिवाश्रितायाश्चिच्छक्तः परभावा- दिवृत्रासुरसंहारप्रकरणे त्रिशक्तिमाहात्म्यप्रकरणेऽन्यत्रापि तत्रतत्र सर्वकारणत्वादिरूपो बहुधा प्रपञ्चितः । गौरीविवाहप्रकरणेऽपि परशक्तिरूपतयैव गौर्या महामहिमा वर्णित:--'इतीरितयं तव राज- सत्तम प्रसूतिरेषा न विदुस्तु यां सुराः । सा कारणं परमजदक्षशैलत- खिजन्मभिस्संगमिता स्वमायया।' इति । प्रसूतिः ' यतः प्रसूता जगतः प्रसूती' इति श्रुतिप्रसिद्धा पराशक्तिः । तद्रूपा गौरी स्वयं जगत्कार- णभूतापि स्वकीयमायया पत्मसंभवात् दक्षपतेहिमवतश्च जन्मत्रयेण आनन्दलहरी । संयोजिता स्वयं वस्तुतो जन्मरहितापि परमोहिन्या स्वमायया ततस्ततो जन्मवती स्वां दर्शितवतीत्यर्थः । प्रथम चतुर्मुखसकाशा- द्वाग्रूपा देवी गौरीनाम्ना संभूता सा तेन रुद्राय दत्ता । रुद्रे चिरं जले निमज्य तपश्चरति ब्रह्मणा सा स्वांगे संयोजिता सैव दक्षाद्धिमवत- वाविर्भूतेति वराहपुराणे कथा । तदनुसारेण जन्मत्रयोक्तिः । तथा वाग्रूपायाः परशक्तेस्सकाशाद्विप्णोस्ततश्चतुर्मुखस्य ततो रुद्रस्य चोत्प- त्तिसंसूचनेन तस्यास्सर्वमातृत्वं वराहपुराणे प्रख्यापितम् । प्रियव्रतना- रदसंवादे 'आश्चर्यमेतदृष्टं मे तच्छृणुप्व प्रियव्रत । श्वस्तनेऽहनि राजेन्द्र श्वेताख्यं गतवानहम् । द्वीपं तत्र सरो दृष्टमुरुपंकजसंकुलम् । सरस- स्तस्य तीरे तु कुमारी पृथुलोचनाम् । दृष्ट्वाहं विस्मयापन्नस्तां कन्या- मायतेक्षणाम् । कासि भद्रे कथञ्चासि किं वा कार्यमिह त्वया । कर्त- व्यं चारसर्वागि तन्ममाचक्ष्व शोभने । एवमुक्ता मया सा हि मां दृष्ट्वा. निमिषेक्षणा। स्मित्वा तूप्णी स्थिता यावत् तावन्मे ज्ञानमुत्तमम् । विस्मृतं सर्ववेदाश्च सर्वशास्त्राणि चैव हि । योगशास्त्राणि शीक्षा च वेदानां स्मृतयस्तथा । सर्व दृशैव मे राजन् कुमार्यापहृतं क्षणात् । ततोऽहं विस्मयाविष्टश्चिन्ताशोकसमन्वितः । तामेव शरणं गत्वा यावत् पश्यामि पार्थिव । तावद्दिव्यः पुमांस्त- स्याश्शरीरे समदृश्यत । तस्यापि पुंसो हृदये अपरस्तस्य चोरसि अन्यो रक्तक्षणश्श्रीमान् द्वादशादित्यसन्निभः । एवं दृष्टा मया पूर्व त्रयः कन्याशरीरगाः । क्षणेन तावत्कन्यैका न तान्पश्यामि सूनृतान् । ततः पृष्टा मया देवी सुकुमारी कथं मम । वेदा नष्टा ममाचक्ष्व भद्रे प्रब्रूहि कारणम् । कन्या 1 माताहं सर्ववेदानां सावित्री नाम नामतः । मां न जानासि येन त्व ततो वेदा हृता मया । एवमुक्ते मया राज- - चन्द्रिकासहिता। विस्मयेन तपोधना । पृष्टा क एते पुरुषाः एतान् कथय शोभने । कन्या। य एव मच्छरीरस्थास्सोगैश्चारुलोचनाः । एप ऋग्वेदनामा तु देवो नारायणः स्वयम् । वहिभूतो दहत्याशु पापमुच्चारणादनु । एतस्य हृदये योऽयं दृष्ट आसीन्ममात्मजः । स यजुर्ब्रह्मरूपेण वायु- वद्धनुते मलान् । तस्याप्युरसि संविष्टो य एपोऽत्यन्तमुज्वलः । स सामवेदनामा तु रुद्ररूपी व्यवस्थितः । एष आदित्यवत्पा नुदते ध्वान्तवत्सदा । एते त्रयोऽग्नयो ब्रह्मन्नेते देवास्त्रयः स्मृताः । एते व अकारायाः सवनान्यत्र वै द्विज | एतत्सर्व समासेन कथितं ते द्विजोत्तम । गृहाण वेदान् शास्त्राणि सर्वज्ञत्वञ्च नारद ।।' इति । अत्र 'परो नारायणो देवस्तस्माजातश्चतुर्मुखः । तस्माद्वद्रोऽ- भवदेवि स च सर्वज्ञतां गतः ।।' इत्यादिषु बहुषु प्रदेशेषु स्रष्ट्रसृज्य- भावेनोकानां नारायणचतुर्मुखरुद्राणां पूर्वपूर्वस्यांगे उत्तरोत्तरस्य दर्शनोक्त्या तत्प्रायपाठात् सावित्र्यंगे दृष्टस्य नारायणस्य तया सृष्ट- त्वमभिमतमित्युन्नीयते । अत एव 'माताहं सर्ववेदानाम्' इति नारदं प्रति तदुक्तिदृश्यते । ननु तत्र बहुधा सर्वोत्तरत्वेन प्रतिपादितस्य नारायणस्य कथमन्यसृष्टत्वमभिमतमिति कल्पयितुं शक्यमिति चेदु- च्यते । तत्र त्रिमूर्तिमध्ये तस्य परत्वं निर्धारितम् । न तु सर्वात्मना सर्वोत्तरत्वम् | ‘परमात्मा शिवः पुण्य इति केचिद्भवं विदुः । अपरे हरिमीशानमन्ये केचिचतुर्मुखम् । एतेषां कतमो देवः परमः कोऽध वापरः । एतदेव ममाचक्ष्व परं कौतूहलं हि मे।' इति धरणीप्रश्ने परो नारायणो देव' इत्याद्युत्तरमुक्तम् । एवम् 'आद्यो नारायणो देवस्त- स्माद्ब्रह्मा ततोऽभवत् । भवः खायंभुवश्चान्ये मरीच्याद्याश्च सर्वशः ॥' इत्यादिप्रदेशान्तरेप्वपि त्रिमूर्तिमध्य एव परत्वं निर्धारितम् । तदपि ८८ आनन्दलहरी , कचिद्रमा कचिद्विष्णुः क्वचिद्रुद्रः प्रशस्यते । नानेन तेपामाधिक्यं न्यूनत्वं वा कथंचन । तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः । तानि तानि प्रणीतानि विद्वांस्तत्र न मुह्यति ॥' इति शिवपुरणोक्त- रीत्या कादाचित्कमेव त्रिमूर्तिमध्ये विष्णोः परत्वम् । वैष्णवपुराण- त्वात् 'परो नारयणो देव' इत्यादिप्रदेशेषु सार्वकालिकमिव विभावितम् । अत एव तस्मिन्नेव पुराणे 'भवान् ब्रह्मा च विष्णुश्च त्रयमेषां त्रयी स्मृता । वेदामिद्विजसंयोगवशास्त्रेषु सर्वगाः । कस्मिन्प्रधानो भगवान् काले कस्मिन्नधोक्षजः । ब्रह्मा वा सर्वमाच- क्ष्व मम देव त्रिलोचन' इति रुद्रं प्रत्यगस्त्येन त्रयाणामन्योन्याधिक्यं वरगोष्ठीन्यायेन कादाचित्कमिति सामान्यतो निश्चित्यैव तत्तदाधि- क्यकालविशेषप्रश्नः कृतः । यद्यपि तदुत्तरे 'विष्णुरेव परं ब्रह्म' इति विष्णोत्सार्वकालिकाधिक्येनोपक्रान्तम् । तथापि तदनन्तरं ' मनुष्य- भावमाश्रित्य स मां स्तौति युगे युगे । लोकमार्गप्रवृत्त्यर्थ देवकार्यार्थसि- द्धये। अहञ्च वरदस्तस्य द्वापरे द्वापरे द्विज । अहं च तं सदा स्तौमि श्वेतद्वीपे कृते युगे। सृष्टिकाले चतुर्वक्त्रं स्तौमि बालो भवामि च । ब्रह्मा देवासुरै. म्तौति मां सदा तु कृते युगे । लिंगमूर्तिश्च मां देवा यजंते भोगकांक्षिणः । इति कादाचित्काधिक्योपन्यासेन फलतस्साम्यमेवावि- प्कृतम् । अत एव तस्मिन् पुराणे त्रिमूर्तिसाम्यमेव बहुधा प्रपञ्चितम् । यथा तावत् सौभाग्यवताध्याये ' या श्रीस्सा गिरिजा प्रोक्ता यो हरिस्स त्रिलोचनः । एवं सर्वेषु शास्त्रेषु पुराणेषु च पठ्यते । एतस्मा- दन्यथा यत्तु ब्रूते शास्त्रं पृथग्विधम् । तद्राजसानां मानां काव्यं शास्त्रं न तद्भवेत् । विष्णुरुद्रान्तरं ब्रूयाद्यः श्रीगौर्योश्च पार्थिव । तन्ना- स्तिकानां मर्त्यानां काव्यं ज्ञेयं विचक्षणैः॥ इति । नन्वस्तु नारायणस्य चन्द्रिकासहिता। ८९ . . त्रिमूर्तिमध्ये नियतं .परत्वं त्रयाणां फलतस्साम्यं वा तथापि नाराय- णात्परं वस्तु तस्यापि स्रष्ट्र किञ्चिदस्तीति वराहपुराणाभिमायः कल्प- यितुमयुक्तः । 'परमात्मा शिवः पुण्य' इत्यादिधरणीप्रश्ने एतेपा कतमो देवः परः को वाथवापरः।' इति त्रयाणां मध्ये कः पर इति प्रश्नानन्तरम् अथवैतद्वयतिरिक्तः कश्चित् परोऽस्ति चेत् स को वेत्यपि पृष्टे 'परो नारायणो दव' इत्युत्तरस्य प्रवृत्तत्वेन ततस्तस्मात् परो नास्तीत्यस्यार्थस्यावगतत्वादिति चेन्न । तदनन्तरं स च सर्वज्ञता गत' इति रुद्रं प्रस्तुत्य 'तम्याश्चर्याप्यनेकानि विविधानि धराधरे । शृणु सर्वाणि चावगि कथ्यमानानि शोभने ॥' इति तन्माहात्म्यवर्णनं प्रस्तुत्य तन्माहात्म्यपर्यवसायिनि त्रिशक्तिवर्णनप्रकरणे ‘परमात्मा यथा देव एक एव त्रिधा स्थितः । प्रयोजनवशाच्छक्तिरकैव त्रिवि- धाभवत्॥' इति सर्वगेयं वरारोहा एकैव त्रिविधा स्थिता।' इति च त्रिशक्तिमूलभूतायाः परस्याश्वशक्तेः तस्या. पत्युः परमात्मनश्च 'या- वन्त्यस्या महाशक्त्यास्तावद्रूपाणि शंकर । कृतवांस्ताश्च भजते पति- रूपेण सर्वदा ।।' इति अग्रेऽपि स्फुटीकृतस्य तस्मिन्नपि पुराणे अभि. मतत्त्वावगमात् । ननु परमात्मा शिव. पुण्य' इत्यादिना सर्वतः परतत्वं किमिति पृष्टवतीं धरणी प्रति 'परो नारायणो देव' इति नारायण एव सर्वतः परतत्वमित्युपदिष्टवता वराहरूपिणा भगवता नारायणस्यैव माहात्म्ये प्रपञ्चनीये तदपहाय तदुत्पन्नचतुर्मुखोत्पन्नतया प्रतिपादितस्य तत एवाभिव्यञ्जिततदवरावरभावस्य रुद्रस्य माहात्म्य- मपृष्टमेव कया संगत्या 'तस्याश्चर्याण्यनेकानि' इत्यारभ्य प्रपञ्चित- मिति चेदुच्यते। तत्र धरणीवराहप्रश्नोत्तरयोर्नारायणस्य परत्वनिर्णया- र्थत्वे यत् सप्तभिरध्यायैः क्रियमाणमिदं रुद्रमाहात्म्यप्रपञ्चनं न संग- . 18 आनन्दलहरी - . च्छते । अतो रुद्रस्य परत्वनिर्णयार्थमित्येव मन्यामहे । अत एव सप्तमाध्यायान्ते ‘रुद्रस्य खलु माहात्म्यं सकलं कीर्तितं मया।' इति धरणीप्रश्नमारभ्य सर्वस्याप्यस्य प्रकरणस्य रुद्रमाहात्म्यपरत्वमुक्तम् अनन्तरमपि 'अथ रुद्रव्रतोत्पत्ति प्रवक्ष्यामि धराधरे । येन ज्ञातेन पापेभ्यो मुच्यते भुवि मानवः ।' इत्यारभ्य रुद्रचरितोपन्यासपूर्वक रुद्रव्रतोत्पनिमुक्त्वा 'मां पुरस्कृत्य देवास्त्वां यक्ष्यन्ते विधिनाच्युत। शास्त्राणि तानि सर्वेषां कथयिष्यसि सुव्रत ॥' इति चतुर्मुखवचनेन रुद्रानुष्ठितवतपकारेण तस्य चतुर्मुखादिसकलदेवताराध्यत्वमुक्त्वा रुद्र- माहात्म्यप्रकरणं समापितम् । एवं सति 'परो नारायणो देवस्तम्मा- जातश्चतुर्मुखः । तस्माद्रुद्रोऽभवद्दवि' इति परावरभावक्रमकीर्तनं कथ- मुपपादनीयमिति चेदुच्यते । अजदशरथश्रीरामचन्द्राणामिव जन्मतः परावरभावकीर्तनं न तु वस्तुत इत्युपपादनीयम् । अत एव रुद्रमा- हात्म्यप्रकरणरूपनवमाध्यायान्ते 'शतरुद्रस्य माहात्म्यं मया ते परि-. कीर्तितम् । चरितं यस्य देवस्य व्रतं समभवद्भुवि । कोऽन्यस्त्वभ्यधि- कस्तस्मान्मुक्त्वा नारायणं प्रभुम् ॥' इति नारायणव्यतिरिक्तानां सर्वेपामपि ततोऽधिकत्वं निषिद्धम् । परो नारायणो देव' इति श्लोकोक्तप्रक्रमादरणे हि चतुर्मुखेनापि ततोऽधिकेन भाव्यम् । 'मुक्त्वा नारायणं प्रभुम्' इत्येतत्तु वैष्णवपुराणत्वात् विष्णुप्रशं- सार्थमित्युपपादनीयम् । यद्वा । परो नारायणो देव' इत्यादिश्लोके त्रयाणां कल्पविशेषप्रयुक्तः स्वरूपत परावरभाव उक्तः । श्चर्याणि धन्यानि' इत्यारभ्य रुद्रे परमशिवाभिव्यक्त्त्यतिशयप्रयुक्त परभावः प्रपश्चित इत्यविरोध उपपादनीयः। अत एव 'परमात्मा यथा देव' इत्यादिश्लोकेन त्रिमूर्युत्तीर्णस्य परमशिवम्य शक्तेश्च - तस्या- .

चन्द्रिकासहिता । सद्भावसूचनं संगच्छते । स्कन्दोत्पत्त्यध्याये च 'नासीयदाकाण्डमिदं त्रिलोचन प्रभाकरेन्दुद्रविणाधिपाः कुतः । तदा भवानेव निरुद्धलो. चनः प्रमाणगन्धादिविवर्जितः स्थितः ॥ इति रुद्रं प्रति देवानां स्तुति- वचनं यदातमो' मन्त्रार्थसंस्पर्शि संगच्छते । सोमोत्पत्त्यध्याये च 'परेच्छया स मूर्ति तु पृथक् सौम्यां प्रपेदिवान् ।' इदि सविणुका- न्याद्यनुक्रान्तसकलदेवतानियन्तृत्वेनोक्तस्यादिविष्णोरपि परमशिवे. च्छया सोममण्डलाधिष्ठानवचनमपि संगच्छते । अतस्सकलचेतनरूप- त्वस्य देवमनुष्यायुपजीव्यसोमरूपत्वस्य शिवावतंससोमरूपत्वस्य सलि- लरूपत्वस्य परमपदत्वम्य चान्यत्र चिच्छक्तिधर्मत्वेन प्रतिपन्नस्य विष्णौ व्यपदेशात् चिच्छक्तेश्च परमेश्वराश्रिताया बहुशः परभावगम- कविष्णुतुल्यमहामहिमप्रतिपादनात् साक्षाच सावित्रीरूपायास्तस्याः विष्ण्यादिसकलदेवसष्टत्वाभिधानाच्च चिच्छक्तरंशस्तथाभूत आदि- विष्णुरिति वराहपुराणाभिप्राय उन्नीयते । यद्यप्युक्तहेतुभिश्चिच्छक्त्य- शभेदमानं तस्यावगन्तुं शक्यं, तथापि यस्यैष शक्तिशकले सकलस्स- माप्तः' या तस्य पार्श्वगा वाला सा पार्वत्यंशजो हरिः ।' इत्यादि- शिवपुराणादित्यपुराणादिवचनकार्थ्यान तदंशोऽयमिहाप्यभिमतो नि- चीयत इति भावः ॥ ४० ॥ ननु विष्णुपुराणभागवतादिपु पुराणप्रतिपाद्यस्य विष्णोत्रिमूर्त्य- न्तर्गतस्यैव ब्रह्मरुद्राभ्यां तत्त्रष्टुत्वतन्नियन्तृत्वादिभिर्हेतुभिस्सात्विकतया श्रेयःप्रदत्वेन चाधिक्यवर्णनं प्रायो दृश्यते । न तु शिवपुराणादिषु शिवस्येव तेषु त्रिमूर्युत्तीर्णस्य तस्य महिमवर्णने तथा दृश्यते । बराहपुराणेऽप्युक्तप्रकारेणैव स्वपतिपाद्यस्य विष्णोताभ्यामाविषय- प्रतिपादनं दृश्यते । यत्तु वराहपुराणे विष्णूत्पत्त्यध्यायवचनजातमुदा- .

आनन्दलहरी हृतं यच्च विष्णुपुराणवृहन्नारदीयादिषु कचित्कचिदादिविष्णोत्रिमू - तीर्णत्वप्रतिपादनच्छायापन्नं वचनं तत्सर्वं तत्तत्पुराणगतैरेव बहुभि- वचनैर्विरुद्धवान्न स्वार्थव्यवस्थापनक्षममित्याशंकामपाकरोति-- पायो विष्णुः पुराणैर्जगदवनकरो वर्णितस्सत्त्वशाली स्वीकार्यश्शंभुशक्तः प्रथमपरिणतिविष्णुरायोऽपि विज्ञैः । नो चेद्वेदेषु मन्बहुभिरभिनुतो विक्रमविष्टपाना- मादित्यान्तर्गतः स्याददितिजठरजों विष्णुरेवादिविष्णुः ४१ यदि प्रायो वैष्णवपुराणेषु सत्त्वगुणयुक्तो जगद्रक्षाकरः त्रिमूर्त्यन्तर्गतो विष्णुरेव बहुशः प्रतिपाद्यत इति तस्य मूलभूतो म- महाविष्णुर्नोच्यत इति तदा 'त्रीणि पदा विचक्रमे विष्णुर्गोपा अदा- भ्यः' इद विष्णुर्विचक्रमे त्रेधा निदधे पदम्' अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे त्रिदेवः प्रथिवीमेष एताम् ।' 'विचक्रमे श. तर्चसं महित्वा विचक्रमे पृथिवीमेष एताम् । क्षेत्राय विष्णुमनुषे दशस्यन् ।' 'यो अस्कभायदुत्तर५ सधस्थं विचक्रमाणस्त्रेधोरुगायः ।' 'विष्णुरुरुगायो विचक्रमे महीं दिवं पृथिवीमन्तरिक्षम्' इत्यादिभिर्वैदि- कैर्मन्त्रैः प्रायस्त्रिविक्रमरूपस्यैव विष्णोर्महिमा अपश्चित इति स एवा. दिविष्णुर्भवेत् । अवताराणां मूलभूतो महाविष्णुर्न सिध्येत् । यदि त्रिविक्रमस्य विष्ण्ववतारत्वप्रसिद्धेः वैदिकमन्त्रेषु बहुशो दृष्टयापि त्रिविक्रमस्तुत्या विरोधाभावात् वराहपुराणे 'योऽसौ नारायणो देवः परमात्मा सनातनः । स भवान् सर्वभावेन उताहो नेति संशयः ।। इति धरणीप्रश्न 'मत्स्यः कूर्मों वराहश्च नरसिमश्च वामनः । रामो रामश्च १. 'स्वाद्विारभिदवरजो' इति -ख. पाठ।

चन्द्रिकासहिता । १३ . रामश्च कृष्णः कल्कीति ते दश । एतास्तेजोऽधिकास्तस्य मूर्तयो भूतधारणि । दर्शने प्राप्तुमिच्छूनां सोपानानीव शोभने । यत्तस्य परम रूपं तन्न पश्यन्ति देवताः । अस्मदादिखरूपेण पूजयन्ति ततो धृतिः।।' इति श्रीवराहस्योत्तरदर्शनात् पुराणान्तरेप्वपि तदविसंवादात् विष्णा- रवतार एव काश्यपाददित्यां वामनरूपेण जात स्त्रिविक्रम इतीर्यते, तदा 'तत्त्वं नारायणः परः' 'महत्ते विष्णो सुमतिं भजामहे । 'बृहत्ते विष्णो मयि शर्म भद्रम् ।' 'नमो विष्णवे बृहते करोमि' इति मन्त्र- गतपरत्वमहत्वबृहत्त्वविशेषणरूपवैदिकलिंगदर्शनात् विष्णूत्पत्त्यध्याय- गतवचनजाताद्युपबृंहितात् बहुभिर्राप त्रिमूर्त्यन्तर्गतविष्णुमहिमप्रति- पादकवचनैवस्तुतो विरोधरहितात् चित्शक्त्यशभूतस्यादिविष्णोराविर्भा- चविशेषयुक्तस्तदवतारभेदस्त्रिमूर्त्यन्तर्गतो विष्णुरित्येव युक्तमिति भावः । एवं निमूर्युत्तीर्ण आदिविष्णुरिति समर्थितम् ।। ४१ ॥ अथ त्रिमूर्त्यन्तर्गत एव शक्त्यंशभूतम्स इति पक्षान्तरमुप- न्यस्यति- या शक्त्यंश एव स्वयमयमत एवाभ्रणी ब्रह्मरुद्र- स्रष्टी खात्मानमेव प्रकटमकथयत्सिन्धुमध्ये शयानम् । कर्माण्येतस्य जैवान्यभिनयनविधास्तत्समाकर्णनोकान् कृत्वा नानारसाकर्णनकुतुकवतो लीलयानुग्रहीतुम् ॥ ४२ ।। अयं त्रिमूर्त्यन्तर्गतो विष्णुः स्वयमेव शक्त्यंश आदिविष्णुः । अत एव स्वल्वभ्रणीसूक्ते सूक्तप्रतिपाद्यस्य म्वमहिम्नः स्वयमेव वक्त्री महरॆरभ्रणस्य दुहितृत्वेनावतीर्णा देवी चिच्छक्तिः । रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वैर्देवैः' इत्युपक्रम्य स्वमहिमवर्ण- नप्रस्तावे · यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषि तं सुमे- - आनन्दलहरी - धाम्' इति स्वेच्छया ब्रह्मरुसट्टत्वेन स्वात्मानं वर्णयित्वा मम योनिर- प्स्वन्तम्समुद्र' इति समुद्रसलिलशायिविष्णुरूपत्वं स्वात्मनोऽभिदधौ । ससुद्र शयानश्च विष्णुस्वमूर्त्यन्तर्गत इति विष्णूत्पत्त्यध्यायवचन- जातेनाप्यवगतम् । तथा कूर्मपुराणहरिवंशादिवचनैः प्रागुदाहृत. त्रिमूर्त्यन्तर्गतविष्ण्ववतारत्वेन प्रसिद्धस्य कृष्णस्य चिच्छक्त्यंशभूता- दिविष्णुरूपत्वमवगतम् । तस्मात् त्रिमूर्त्यन्तर्गतविष्णुरेवादिविष्णुः । वै- दिकानि परत्वमहत्त्वविशेषणानि तस्मिन्नेवावताराद्यपेक्षया परत्वादिवि- पयतया योजनीयानि । मनस्तत्वाभिमानिनो विष्णोरादिविष्णुना सृष्टत्वं तत्प्रसादलब्धशंखचक्रादिमत्वमित्यादि यदुक्तं तदभेदे सत्ये- वादिविष्णोत्सर्वातिशायिमहिमप्रकटनार्थमभिनयमालपरामिति योजनी- यम् । तस्य श्रुतिपुराणप्रतिपन्नानि यानि यानि जीवत्वगमकानि कर्माणि शोकाज्ञानादीनि च तान्यभिनयमानसिद्धानि । तदभिनयश्च शृगारहास्यकरुणादिरसेपु यो यद्रसाकर्णनकुतुकी तं तदसभरितस्वम- हिमविषयेतिहासपुराणादिप्रबन्धाकर्णनेन स्वाभिमुखीकृत्यानुग्रहीतुमिति योजनीयम् । तथैव भागवतवचनमपि । 'भजते तादृशी क्रीडां यां श्रुत्वा तत्परो भवेत्' इति । न च सत्यवाक्यत्ववचनजातविरोधः । तम्याधर्मरूपानृतवर्जनपरत्वात् । भगवत्कथाकर्णनप्रवर्तनवैराग्यादिसं- पादनफलकस्य च तस्य तंथात्वात् । वैष्णवा अपि त्रिमूर्त्यन्तर्गत- विष्णुरेवादिविष्णु. न तदुत्तीर्ण वैष्णवं तत्त्वान्तरमस्तीति मन्यन्ते । अत एव सर्वाणि कारणवाक्यानि विष्णुविषयाणीत्यभिमानेन 'सर्व- मिदं ब्रह्मविष्णुरुद्रेन्द्रास्ते संप्रसूयन्ते सर्वाणि चेंद्रियाणि सह भूतैः न कारणं कारणानां ध्याता कारण तु ध्येयम्सर्वैश्वर्यसंपन्नस्सर्वेश्वरश्शं- भुराकाशमध्ये' इत्यथर्वशिखाश्रुतमपि कारणवाक्य विष्णुविषयतया यो- चन्द्रिकासहिता। १५ . जयितुं प्रयतमानास्तत्र कार्यवर्गप्रतिपादकावान्तरवाक्ये श्रुतं विष्णुशब्द प्रद्युम्नादिपरं कल्पयन्ति । निरस्तश्चानभिमतपक्षान्तरैस्सह त्रिमूर्युतीर्ण- तत्त्वसद्भावपक्षोऽपि तत्त्वमुक्ताकलापे 'एकं त्रेधा विभक्तं त्रितयसमधि- कं तत्त्वमीशास्त्रयस्ते विष्ण्वन्या मूर्तिराष्ट्र प्रभवननियम. कल्पभेदात्त्रया- णाम् । इन्द्रादीनामिव स्यानिजसुकृतवशादीश्वराणां प्रवाहः स्यादेक- स्येश्वरत्वं प्रतिफलनमिवेत्यादि चैवं परास्तम् ॥' इति । एवं पक्षद्वयमुप- न्यस्तं यदत्र युक्तं तबाह्यम् । आद्यपक्षे त्वभ्रणीयसूक्ते चिच्छक्ति- मरुद्रयोः साठी स्वयमेव विष्णुरूपेति विशेषोक्तिरसिद्धा। 'यं कामय' इत्यादिमन्ने 'ऋषि' मिति 'सुमेधा' मिति च शब्दयोर्गुण विशेपवाचि तया तत्प्रायपाठादुअब्रह्मशब्दावपि गुणविशेषसमर्पको । तत्र उग्रश- व्दः 'उग्रोऽम्युयोऽह सजातेपु भूयासम्' इति मंत्र इव श्रेष्ठत्वरूपोत्त- रत्वसमर्पकः । ब्रह्मशब्दम्तु चतुर्मुखतुल्यगुणसमर्पकः । 'मम योनिर- प्स्वन्तस्समुद्र' इति समुद्रशायिन्यां त्रिमूर्त्यन्तर्गतविष्णुमूर्तावादिवि- प्णोस्सन्निधानात्तदभेदकृतं वचनम् । एवं कूर्मपुराणादिदृष्टं कृष्णाद्य- भेदवचनमपीति योजनीयम् । द्वितीयपक्षे विष्णुप्रजापत्योः पृथिव्यु- द्धरणार्थ वराहरूपपरिग्रहविषयं श्रुतिद्वयं कल्पभेदव्यवस्थया योजनी- यम् । अत एव सनत्कुमारसंहितायां हिरण्याक्षवधार्थ विष्णुना गृही- तं वराहरूपं प्रस्तुत्य 'पुरा स्वयंभूर्भगवानुद्धरिप्यन्महीमिमाम् । राज- ते तेन रूपेण दीप्तिमान्मधुसूदनः।।' इत्यादिपु प्राजापत्यं वाराहरूपं तस्मिन्नुपमानत्वेन निवद्धम् । ' स्वयं ब्रह्माभवद्धरिः' इत्यादि वचनं तच्छरीरानुप्रवेशपरतया योजनीयम् ॥ ४२ ।। एवं विष्णुविषयचिन्ताप्रपञ्चं प्राकृतशंकापरिहारेण संगमय- न्नुपसंहरति-- . .

आनन्दलहरी तस्मानास्त्यत शंका यदखिलचिदचिद्रूपशक्तत्या विशिष्टः शंभुब्रह्मत्यतोऽशयमपि मुनिनात्रैव शास्त्रे विचार्यम् । इत्यभ्यासादिहेतोः स्वरसविषयमानन्दवाक्यादिकस्या- प्यालोच्य ब्रह्मशक्तरधिकरणगणास्तत्वविद्भिर्विविक्ताः ४३ आनन्दमयवाक्यं शिवचिच्छक्तिविषयं न तु शिवविषयम् । आनन्दमयाधिकरणमपि शिवचिच्छक्तिविषयवाक्यविचारात्मकमिति प्राक्साधितेऽथें ब्रह्ममीमांसायां शिवरूपब्रह्मविषयवाक्यविचारार्थ एव संगतः, न तु तच्छक्तिविषयवाक्यविचार इति शंकायामु- स्थितायां, शक्तिविशिष्टश्शिवो ब्रह्म न तु केवलः । अतो विशिष्टरूप- ब्रझैकदेशविषयत्वाविशेषात् विशष्यांशविषयवाक्यविचारवत् विशेषणां- शवाक्यविचारोऽप्यन संगत इति परिहारे कृते पुनश्शंकोत्थिता कथं शक्ब्रह्मकोटित्वमुपपद्यते । शक्त्यंशत्वेन प्राक् समर्थितस्य विष्णोर्जीव- त्वादिति । तत्र विष्णोर्जीवत्वेऽपि तदंशभूतायाश्शक्तेमकोटित्वमुपपन्न- मित्येकदेशिना समाधानं कृतम् । स्वसिद्धान्तानुसारेण तु शक्त्यंशभूत आदिविष्णुब्रह्मकोटिरेव विष्णोर्जीक्त्वगमकानि श्रुतिपुराणादिवचनानि त्रिमूर्त्यन्तर्गतविष्णुविषयाणीति कश्चित्परिहारः कृतः । अथवा त्रिमूर्त्य- न्तर्गतविष्णुरेवादिविष्णुरिति स न जीवः। तत्र जीवत्वगमककर्मानु- छानतत्फलानुभवशोकाज्ञानादिवचनमभिनयमात्रसिद्धार्थमनुवादकमि- त्यन्यः परिहारः कृतः। एवं सर्वविधोऽप्ययं परिहारांशस्तस्मादित्यनेनानू- दितः । एनं हेतुमनूय तत्साध्यं पूर्वार्धनोपसंहृतम् । एवमंशद्वयमप्यत्र शास्त्रे विचार्यमित्येतदालोच्य श्रुतिशास्त्रतत्वविद्भिः श्रीकण्ठाचार्यैः आनन्दमयाधिकरणप्रभृतिप्वधिकरणेषु यत्रयत्राधिकरणे सौत्रहेतुविषय- वाक्ययोर्विशेषणांशविषयत्वे खारस्यं दृष्टं तत्सर्व तद्विपयमिति एवं .

चन्द्रिकासहिता। शक्तिविषयाधिकरणगणो विविच्य प्रदर्शित इत्युत्तरार्धेनोक्तम् ॥४३॥ नन्वाचायरेतावन्त्यधिकरणानि शक्तिविपयाण्येतावन्त्यन्यवि- पयाणीत्याहत्य विभागः कचिदपि कृतो न दृश्यते । आनन्दमयाधिकर- णस्य शक्तिविषयत्वमप्येकदेशिमतत्वेनोपन्यस्तम्। तस्मिन्मते सौत्रह- तोविषयवाक्यस्य वा स्वारस्यमपि न स्फुटीकृतम् । कथं तत्वविद्भिर्वि- विक्त' इत्युक्तमित्याशंक्याह- नोक्त तेस्तत्रतत्र स्फुटमधिकरणे शक्तिवाक्यत्वमिष्टं व्यक्तं शंकोत्तराभ्यां सकलभुवनगत्यान्तराकाशभाजि । स्पष्टं जन्मादिसूत्रे व्यवहृतमिदमाकाशवाक्यान्तरेऽपि न्यायोऽन्यत्रापि तुल्यस्तदनुमत इति ज्ञायते तेन धीरैः॥ सत्यं शक्तिवाक्यविपयेषु सर्वप्वप्यधिकरणेपु तत्रतत्राधिकरणे स्थित्वैतद्विषयवाक्यस्य शक्तिवाक्यत्वं स्वाभिमतमित्येवं प्रत्यधिकरणं कण्ठतो नोक्तमिति । तथापि ' आकाशस्तल्लिङ्गात्' (व्र. १.१.२३.) इत्यधिकरणे अस्य लोकस्य का गतिरित्याकाश इति होवाच' इति तद्विषयवाक्यस्य शक्तिविषयत्वं कण्ठत उक्तमेव । तत्र भाष्ये हि 'आकाशस्तलिंगात् ।' 'अत एव प्राण' इति सूत्रद्वयम् आकाश इति होवाच' प्राण इति होवाच' इति विषयवाक्य. द्वयञ्च युगपद्विलिख्य आकाशो भूताकाशः प्राणः प्राणवायुरिति पूर्वपक्षप्राप्ती प्राण आकाशश्च परमेश्वर इति सिद्धान्तयित्वोपसंहृतं 'तस्मात्सर्वभूतकारणत्वं न भूताकाशप्राणयोः इति सिद्धान्त' इति । तदनन्तरं 'स्वपदानि च वर्ण्यन्त' इति भाग्यलक्षणानुसारात् शंको- तराभ्यां भूतपदव्यावर्त्यप्रदर्शनव्याजेन अधिकरणस्य शक्तिविषयत्व- माविष्कृत 'ननु भूताकाश इत्युपपदग्रहणेन किमिति चेत् परमा- 13 ९८ आनन्दलहरी काशस्य परप्रकृतिरूपस्य सर्वभूतकारणत्वसद्भावात् सप्रयोजनम् । तर्हि परमेश्वर इति कथं निर्णयः तदभेदादिति सिद्धम्' इति। यद्यप्यत्र परमेश्वर इति साध्यनिर्देशं कृत्वौपचारिकशक्त्यभेदाश्रयणेनाधिकरणस्य शक्तिविषयत्वपर्यवसानसंपादनं क्लिष्टमिति साक्षाच्छक्तिरित्येव साध्य- निर्देशो युक्तः । न च तत्तु समन्वयात्' इति (व०. १. १. ४.) सूत्रात् ब्रह्मेति साध्यस्य लाभोऽम्ति न तु शक्तिरिति साध्यस्येति वैप- भ्यं शंकनीयम् । तत्र तच्छब्दस्य विशिष्टपरत्वेन तत एव विशेप्यां- शवद्विशेषणांशस्यापि तत्रतत्र यथायोग्यं साध्यतया लाभसंभवात् 'सर्वोपेता च तद्दर्शनात्' इति (व० २.१.३०.) सूत्रात् शक्तिरि- त्यस्यावश्यकनाध्याहारण तत्र सतश्शब्दस्य सिद्मावलोकनन्यायन शक्तिविषयाधिकरणेषु साध्यसमर्पकत्वसंभवाच्च । तथापि भाप्यस्य प्रसन्नगभीरत्वसिद्धये तत्रतत्र संसूचनेनैव शक्तिविषयाधिकरणवि. भागः प्रदर्शनीयः । शिवशक्त्योरविनाभावैकमत्याभ्यामभिन्नकल्पत्वञ्च ज्ञापनीयमित्यभिप्रेत्येयं सरणिराश्रिता तथा 'दहर उत्तरेभ्य' इति (ब्र० १.३.१४.सू.) अधिकरणे · अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽम्मिन्नन्तराकाशस्तम्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञा- सितव्यम्' इत्यन्तराकाशवाक्यस्य तद्विषयस्य तम्याधिकरणस्य च श- क्तिविषयत्वं शंकोत्तराभ्यां कण्ठत उक्तन् । 'मनु दहरपुण्डरीकमध्ये दहराकाशान्तर्वतित्वेनोपास्यत्वं य एपोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशान' इत्युपनिषदन्तरे प्रसिद्ध परमेश्वरस्येह दहराकाशवेनेति विरोध इति चेत् अत्रापि दहराकाशमध्यवर्ती परमेश्वर उपास्यः किं तु दहराकाशे परमेश्वरधर्माणामपहतपाप्मत्वादीनां संब- न्धप्रतीतेर्दहराकाशत्वमपि चिदंबररूपतयेति न विरोध' इति । इत्थं सर्च- चन्द्रिकासहिता। . . लोकगत्याकाशवाक्यस्येवान्तराकाशवाक्यस्येव वा नामरूपोपादाना- काशवाक्यस्यापि चिच्छक्तिविपयत्वं जन्मादिसूत्रमाप्ये 'आकाश- शरीरं ब्रह्म' इति श्रुतिव्याख्यानावसर स्पष्टं व्यवहृतम् । 'आकाशत इत्याकाशश्चिदंबरमुच्यते । न भूताकाशः । विशेषाभावात् । निखिल- जगदण्डपण्डबुद्दनिकुरुंबजलधिस्थानीया परप्रकृतिरूपा परा शक्तिाह चिदंबरमुच्यते। तत्म्वरूपं ब्रह्माकाशशरीरम् । परप्रकृतित्वं चिदाका- शस्य सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आका- शं प्रत्यस्तं यन्ति । आकाशो ह वै नामरूपयोनिहिता' इत्यादिश्रुति- सिद्धम् ' इति । तथा ' यदेष आकाश आनन्दो न स्यात्' इत्यान- न्दाकाशपदसामानाधिकरण्यात् आकाशवाक्यरूपस्यानन्दमयवाक्य- स्यापि चिच्छक्तिविषयत्वं जन्मादिसूत्रमाप्य एव नित्यतृप्तत्वविवरणस- मये व्यवहृतम् । “निरस्तसमम्तोपप्लवकळंकनिरतिशयानन्दपरिपूर्ण- त्वमिह नित्यतृप्तत्वम् । अत एव 'आनन्दो ब्रह्म' इति श्रूयते । यः खल्चन्योऽन्तर आत्मानन्दमय' इति प्रस्तुत्य ‘सैपानन्दस्य मीमांसा भवति' इत्यारभ्याभ्यासान्निरतिशयशिरस्कत्वेन ' स एको ब्रह्मण आन- न्द' इति निरूपितः । परब्रह्मधर्मत्वेन च स एव 'आनन्दो ब्रह्म' इति प्रचु- रत्वात् ब्रह्मत्वेनोपचर्यते । तादृशानन्दभोगरसिकं ब्रह्म नित्यतृप्तमित्यु- च्यते” इत्यानन्दमयाधिकरणस्य चिच्छक्तिविषयत्वपक्ष एव स्वाभिमत इत्यपि स्फुटीकृतम् । अस्मिन्पक्षे विषयवाक्यस्य स्वारस्य मागेवोपपादि- तम् । अभ्यासहेतुस्वारस्यं तु शिवादित्यमणिदीपिकायां प्रपश्चितम्। 'वि- कारशब्दानेति चेन्न प्राचुर्यात्' इति (०.१. १. १४.) सूत्रस्या- पि तस्मिन्नेव पक्ष स्वारस्यम् । “स एको ब्रह्मण आनन्दः । आनन्दं ब्रह्मणो विद्वान्' इति निरतिशयाभ्यासेन हेतुना स एवानन्दः आनन्दलहरी . चिच्छक्तिर्भवेत् न त्यानन्दमयः । तत्र मयटोऽन्नमयादिप्रायपाठेन विकारार्थत्वात् चिच्छफ्तेश्च खविकारत्वायोगात्" इति शंकायाः पूर्व- सूत्रनिर्दिष्टहेतूत्थापितत्वेन तत्संगतायाश्च तत्सूत्रार्थत्वलाभात् मयटः प्राचुर्यार्थत्वेन परिहारस्यापि प्रचुरानन्दरूपायां तख्यामेव संगतः । तद्ध- मिपरत्वे प्राचुर्याानन्वयात् । तत्प्रकृतवचने मयट्' इति पाणिनि (५. ४.२९.) सूत्रस्य 'प्रकृत्यर्थ मयड्डिधायकत्व एव प्राचुर्येण प्रस्तु. तमिदमिति विशेषलामः । प्रकृत्यर्थादर्थान्तरे तद्विधायकत्वे तु प्रस्तु- तमिदमस्मिन्नित्येतावानेव तदर्थः । न तु प्राचुर्यान्वयोऽस्तीति न्या- सादिषूक्तत्वात् । एवमुदाहृतवाक्यत्रयम्य येन न्यायजातेन चिच्छक्ति विषयत्वं तत्साम्यं यत्र यत्र वाक्यान्तरे दृश्यते तस्य सर्वस्यापि चिच्छक्तिविषयत्वं भाष्यकाराभिमतमिति धीरै यत एव । तथा हि--सर्वलोकगत्याकाशवाक्यस्य भूताकाशविषयत्वमपास्य ब्रह्मवि- पयत्वव्यवस्थापने लिंग 'सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति' इति सर्वभूतोत्पत्त्युपादानत्वं सर्वभूतलयस्थानत्वरूपं सर्वकारणत्वमिति सूत्रभाष्याभ्यामवगतम् । तत्तु प्रपश्चाकारपरिणामिन्यां शक्तावेव साक्षादन्वेति न तु शिव इति वियषयवाक्यगतलिंगस्य सौत्रहतोश्च विषयवाक्याधिकरणयोर्ब्रह्म- विशेषणांशविषयत्व एव स्वारम्यम् । कूर्मपुराणेऽप्यस्य वाक्यस्य शक्ति- विषयतयोपबृहणं कृतम् । तत्र हि ‘सैषा माहेश्वरी गौरी मम शक्तिनिरञ्जना' इत्यारभ्य प्रवृत्तेषु शिववाक्येषु पट्यते । सर्वमिदं जातमत्रैव लयमेप्यति । एव सर्वभूतानां गतीनामुत्तमा गतिः । तयाहं संगतो देव्या केवलो निष्कळशिशवः । पश्याम्यशेषम- वेदं यस्तद्वेद स मुच्यत' इति । अत्राद्यश्लोकेन सर्वलोकगत्याकाश- . अस्याः चन्द्रिकासहित।। १०१ वाक्यस्य तदर्थोपन्यासन शक्तिविषयत्वं विभावितम् । द्वतीयश्लोके केवलो निष्कळ' इत्यनेन शिवस्यापरिणामित्व विभावनया तस्य वाक्यस्य शिवविषयत्वऽनुपपचिदर्शिता । नन्यस्य वाक्यस्य शक्तिविषयतायां • आकाशादेव समुत्पद्यन्त' इत्यवधारणं नोपपद्यते । अवधारणस्य गृहमेधीयपरिसंख्याधिकरणन्यायेन उपा- तसजातीयव्यवच्छेदकतया आकाशस्योपादानत्वेन सकलजगन्मूल- कारणत्वप्रतिपादने कर्तृतया प्रसक्तस्य मूलकारणान्तरस्य व्यवच्छे- द्यत्वात् शक्त्यतिरिक्तस्य मूलफर्तुरीश्वरस्य सद्भावेन तव्यवच्छदायो- गादिति चेन्न । अवधारणस्यात्यन्तसजातीयपरिणामिमूलकारणान्तर- व्यवच्छेदकत्वोपपत्तः । सजातीयग्रहणप्रसक्तावत्यन्तसजातीयस्यैव ग्रा. हत्वात्। ननु तथापि · आकाश एवैभ्यो ज्यायन्' इत्यवधारणं शक्ति- विषयतायां नोपपद्यते । ब्रह्मणोऽपि ज्यायस्त्वात् । ब्रह्मविषयतायामपि नोपपद्यत एव । शक्तेरपि ज्यायस्त्वात् । ज्यायस्त्व हि तावानस्य महिमा ततो ज्यायांश्च पुरुष. ।' · ज्यायान् दिवो ज्यायानन्तरिक्षात्' इत्या- दिवैदिकपयोगानुसारण देशाधिक्यरूपसर्वगतत्वपर्यवसायि पाणि- नीयानुसारेण कालाधिक्यरूपनित्यत्वपर्यवसायि च । तदुभयं शिव- शक्त्योर्द्वयोरप्यविशिष्टम् । प्रत्युत आकाशवत्सर्वगतश्च नित्य' इति श्रुतौ शिवस्य सर्वगतत्वनित्यत्वयोदृष्टान्तीकरणाच्छक्तरेच तदुभयं प्रसिद्धतरम् । प्रसिद्धं ह्यप्रसिद्धस्योपमानं भवति । न च तत्राकाश- शब्दो भूताकाशपरः। प्रतिकल्पं प्रत्यण्डञ्च भिन्ने तस्मिन्नित्यत्वसर्व- गतत्वयोरभावेन तस्य शक्तिपरत्वावश्यंभावात् । यधुच्येत शक्तिवि- शिष्टशिवाभिप्रायेणावधारणं शिवे संगच्छत इति तर्हि शिवाश्रितश- क्त्यभिप्रायेण तम्यामपि तत्संगच्छत इति तुल्यम् । शक्तिशिवयोर्वि- २०२ आनन्दलहरी । शेपणविशेष्यभावस्य ब्रह्मशब्दार्थतायां व्यवस्थितत्वेऽप्यन्यत्राव्यवस्थि- तत्वात् । 'यथा शिवस्तथा देवी यथा देवी तथा शिवः । नानयोर- न्तरं विद्याञ्चन्द्रचन्द्रिकयोरिव । चन्द्रो न खलु भात्येव यथा चन्द्रिकया। विना । न भाति विद्यमानोऽपि तथा शक्त्या विना शिवः । एवं परस्परापेक्षा शक्तिशक्तिमताः स्थितिः । न शिवेन विना शक्तिन शक्त्या च विना शिवः । शक्तो यथा शिवो नित्य भुक्तौ मुक्ती च देहिनाम् । यामाहुरखिलेशस्य तैस्तैरनुगतैर्गुणैः । समानधर्मिणीमेव शिवस्य परमात्मनः ।।' इत्यादिपुराणवचनैरुभयोस्साम्यागमात् । एतेन ‘स एपोऽनन्त' इति श्रुतं त्रिविधपरिच्छेदराहित्यरूपमान- त्यं शक्तौ न संगच्छत इति शंकापि निरस्ता । शक्तिविशिष्ट- तया शिव इव शिवविशिष्टतया शक्तावपि तदुपपादनसंभवात् 'आकाशवत्सर्वगतश्च नित्य' इति श्रुती नित्यत्वसर्वगतत्वयोरेवाकाशस्य दृष्टान्तीकरणदर्शनात्तदनुसारेण देशकालपरिच्छेदराहित्यमात्ररूपमा. नन्त्यमिह विवक्षितमिति वक्तुं शक्यत्वाच्च । अपि च भूता- काशादन्यो वाक्यशेषश्रुतलिंगान्वयार्हश्च यदि कश्चिद्वेदान्तप्रसिद्धः शिवादन्यत्वेनाप्यवगत आकाशो न स्यात् तदा यथाकथञ्चिदभ्यस्ता- काशश्रुत्यनुसारेण भूताकाशी वा वाक्यशेपश्रुतलिंगानुसारेण शिवो वानेन वाक्येन प्रतिपाद्य आकाश इति कल्प्येत । अस्ति तु नित्यः सर्वगतः प्रपञ्चाधारोऽतिरहस्यः परदेवतारूपः सर्वप्रपञ्चकारणपरमान- न्दात्मकोऽपहतपाप्मत्वादिगुणकोऽत एव भूताकाशाद्विलक्षणतत्र तत्र तद्वैलक्षण्यार्थप्रयुक्तविशेषणेनापि तद्विलक्षणतया स्फुटीकृतः शिवह- प्टान्तीकरणादिना शिवात् पृथनिर्देशेन च ततोऽपि विभिन्नतया म्फुटीकृतः कश्चिदलौकिक आकाशः । तथाहि --- आकाशवत्सर्व.

चन्द्रिकासहिता। , गतश्च नित्य' इत्यनुपदोदाहृतश्रुतौ तावदृष्टान्तीकरणसामर्थात् नि- त्यम्सर्वगतः कश्चिदाकाशोऽस्तीत्यवगतम् । स च सर्वप्रपञ्चाधार इत्ये- तत् । यदूर्व गार्गि दिव' इत्यादिप्रागुदाहृताक्षरत्रामणवाक्येनावगतन् । तम्यातिरहस्यदेवतारूपत्वञ्च तम्याप्याधारं पृष्टवती वाचावी प्रति 'गार्गिमातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रश्नां वै देवतामतिपुच्छसि' इति याज्ञवल्क्यवाक्येनावगतम् । तस्य सर्वप्रपञ्चकारणपरमानन्दरूपत्वं यदेष आकाश आनन्दो न स्यात्' इति तैत्तिरीयश्रुत्यावगतम् | तम्यापहतपाप्मत्वादिगुणवत्त्वं 'दहरोऽस्मिन्नन्तराकाश' इति प्रकृ- त्याम्नातन ‘एप आत्मापहतपाप्मा विरजो विमृत्युर्विशोको विजि- घत्सोऽपिपासम्सत्यकामम्सत्यसंकल्प' इत्यादिच्छन्दोगोपनिपता- क्येनावंगतम् । एवमाम्नातैनित्यत्वादिविशेषणैरेव तस्य भूताकाशा- द्वैलक्षण्यं सिद्धम् । साक्षाच्च भूताकाशपरत्वशंकानिराकरणार्थ प्रयुक्तेन 'यो वेद निहितं गुहायां परमे व्योमन्' इत्यादिश्रुतिपु परमत्व- विशेषणेन 'नमो दिव्यं गच्छ स्वाहा' इत्यादिश्रुतिपु दिव्यविशेषणेन 'तत्रापि दहूं गगनं विशोक' इति श्रुतौ विशोकत्वविशेपणेन चेतनत्वविशेषणेन च भूताकाशवलक्षण्यमवगमितम् । 'आकाशवत्' इति श्रुतौ शिव प्रति दृष्टान्तीकरणेनाक्षरब्राह्मणे 'एतस्मिन् खल्वक्षरे गार्गि आकाश ओतश्च प्रोतञ्च' इति शिवाश्रितत्ववचनेन चानन्दवल्ल्यां 'स एको ब्रह्मण आनन्द' इति शिवधर्मत्वकथनेन दहरविद्यादिपु शिवा- सनत्वकथनेन उपकोसलविद्यायां प्राणञ्चास्मै तदाकाशं चोचुः' इति प्रा- णशब्दोक्ताच्छिवात्पृथनिर्देशेन 'आकाशो वै नाम' इत्यादिश्रुतौ ना- मरूपादिस्रष्टुः शिवात् पृथनिर्देशेन च तस्य शिवाद्वैलक्षण्यमपि स्फुटी- कृतम्। न चोदाहृतश्रुतिप्वाकाशशब्दानां तत्पर्यायाणाञ्च भिन्नार्थत्वं शं- - १०४ आनन्दलहरी कनीयम् । प्रसिद्धाकाशविलक्षणानेकाकाशाभ्युपगमस्य गौरवपराहतत्वेन तेषामेकार्थपर्यवसानावश्यंभावात् । एवञ्च सकललोकगत्याकाशवाक्य- स तथाभूतालौकिकाकाशविषयत्वाभ्युपगमेनाकाशश्रुतीना कारणत्वा- दिलिंगानाञ्चाबाधनसंभवे किमर्थ शिवविषयत्वस्व भूताकाशविषय- त्वस्व वाभ्युपगमेनान्यतरवाधन कार्यम् । अलौकिकाकाशविषयत्या- भ्युपगमे ह्याकाशश्रुतीनामपि न वाधः । ' यस्य सा परमा देवी शक्ति- राकाशसंज्ञिता । अनन्तैश्वर्ययोगात्मा महेशो दृश्यते हि स' इत्यादि- पुराणवचनेप्वाकाशशब्दस्य तत्पर्यायाणाञ्च तत्संज्ञारूपेण वृत्तेरुक्त- स्वात् । किञ्च परब्रह्मपरेषु पुराणभागेष्वाकाशादिशब्दानां तत्संज्ञात्व- कथनं तदुपहीयेषु वेदान्तभागेषु श्रुतानां तेषामुत्सर्गतस्तद्विषयत्वमे. वान्युपगन्तव्यं नतु भूताकाशपरत्वमित्येतद्ज्ञापनकायोजनम् । प्रयो- जनान्तराभावात् । एवञ्च प्रकृतवाक्यस्यालौकिकाकाशपरत्वमाकाशश्रु- त्यैवाभ्युपगन्तव्यम् । अयं न्याय ‘आकाशस्तलिंगात्' (व. १. १. २३. सू) इत्यधिकरणे भेदव्यपदेशाच्चान्य' इति पूर्व (ब्र.१.१.२२.) सूत्रानुवृत्त्या सूत्रकारेणापि दर्शितः । तम्यात्रानुवृत्तस्यायमर्थः-आ- काशवत्सर्वगतश्च नित्य' इत्यादिश्रुतिषु भूताकाशवलक्षण्यव्यपदेशात् अस्ति ततोऽन्यः कश्चित्सर्वकारणत्वादिशाल्यलौकिकाकाशः। स्तद्विषयत्वे- न श्रुतिलिंगानां सर्वेषामप्यवाधनसंभवात् लिंगबाधनेन भूताकाशपरत्वं न कल्पनीयम् । वेदान्तभागप्वाकाशशब्दम्यालौकिकाकाशपरत्वोत्सर्गो ऽपि न त्यक्तव्य इत्ययं न्यायो जन्मादिसूत्रे भाप्यकृद्भिरपि दर्शितः । तत्र हि 'आकाशशरीरं ब्रह्म' इति श्रुतौ आकाशशब्देन चिदंबरमुच्यत इति प्रतिज्ञाय 'न भूताकाशो विशेपाभावात्' इत्युक्तम् । तत्र विशेषाभावात्' इत्यनेन सर्वशरीरगम्य ब्रह्मणो विशिप्य भूता- चन्द्रिकासहिता। १०५ काशशरीरत्वोक्त्या न कश्चिदतिशयो लभ्यत इति यद्यप्यर्थी भवति, तथाप्यर्थान्तरमपि तेन विवक्षितं, वेदान्तभागेप्वाकाशशब्दस्य क्लप्तवैदिकरून्यनुसारेणालौकिकाकाशपरत्वमौत्सर्गिकम् । यत्र भूता- काशग्रहणे हेतुर्विशेषोऽस्ति यथा ' आत्मन आकाशसंभूतः' 'आकाशा- द्वायुः' इत्यादौ तत्रैव तस्य ग्रहण न्याय्यम् । इह तु तथाभूतो विशेपो नास्तीति अनुवृत्तसूत्रगतेन चकारेण शिववैलक्षण्यस्य श्रत्यन्तरेषु व्यपदेशात् शिवादप्यन्योऽयमलौकिकाकाश इति समुच्चीयते । नन्वि- स्थमाकाशवाक्ये दर्शितस्य न्यायस्य यत्रयस्त्रानुवृत्तिः तस्य सर्वस्यापि वाक्यस्य शक्तिपरत्वाङ्गीकारे प्रागुदाहृतं प्राणवाक्यमपि तत्परं स्यात् । ततः 'सर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशंति प्राणमभ्युजि- हत' इति सर्वभूतसंवेशनोद्गुमनावधित्वस्य सर्वोपादानत्यरूपस्य तल्लि- स्याम्नानादिति चेत् । अस्तु को दोषः। संभवति हि प्राणशब्दस्यापि तत्र वृत्तिः । 'को ह्येवान्यात्कः प्राण्यात्' इति तस्यास्सर्वप्राणनहेतुत्वन- चणात् 'सत्यात्म प्राणारामम्' इति श्रुतौ प्राणशब्दस्य तत्परत्वेन भाप्ये व्याख्यातत्वाच्च । एवमस्य वाक्यस्य शक्तिविषयत्वादेव एतद्विचारा- स्मकमधिकरणं शक्तिविषयेणाकाशाधिकरणेनैकीकृत्य लिखितं भाष्ये । न चातिदेशत्वाधिकरणमात्रत्वमेकीकरणे कारणम् । एतेन योगः प्र- त्युक्त' इत्या(ब्र.२.१.३.स् )यधिकरणानामतिदेशाधिकरणत्वेऽपि पूर्वा- धिकरणैरेकीकृत्यालिखितत्वात् । किंत्वतिदेशाधिकरणत्वाभावे न्यायवै- लक्षण्यात् शक्तिविषयत्वे पौर्वापर्ये च सत्यप्येकीकृत्य लिखितुं शक्यत इति तदप्येकीकरणोपयोगि । नन्वेवं सद्विद्यापि शक्तिविषया स्यात् , तस्यां बहु स्यां प्रजायंय' इत्यारभ्य सर्वोपादानत्वप्रतिपादनात् 'तद्यथा सोम्यैकेन मृत्पिण्डेन' इत्यादिपरिणाम्युपादानदृष्टान्तीकर- आनन्दलहरी णस्य चाधिक्यस्य सत्त्वादिति चेत् , सत्यं, तथापि तत्त्वमसि' 'तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये' इत्युपासनातरफलवचनानु- सारेण तस्याश्शक्तिविशिष्टशिवविषयत्वमङ्गीकर्तव्यमिति 'तनिष्ठस्य मोक्षोपदेशात्' इति (७० १.१. ७.) सूत्रेणाभिव्यञ्जितम् । ईक्षत्य- धिकरणभाष्येऽपि तदनुसारेण शक्तिविशिष्टशिवपरत्वं सच्छब्दस्योप- पादितम् । ननु, वेदान्तेप्वाकाशशब्दस्य शक्तिविषयतात्सर्गिकत्यागी- कारे गायत्रीविद्यायां 'यद्वैतद्ब्रह्म' इति 'इदं वाव तद्योऽयं बर्हिर्डी पुरुपादाकाशः' इत्याकाशपदसामानाधिकरण्यात् सापि शक्तिविषयां- गीकर्तव्या स्यादिति चेत् । अंगीक्रियत एव । शक्तरेव हि — गायत्री वा इदं सर्व भूतं वाग्वै गायत्री' इति श्रुतं गायत्रीरूपत्वं वाग्रूपत्वं च वराहपुराणादिपु प्रसिद्धम् । गायत्रीविद्याप्रकरणे तदेतहचाभ्यनूक्तम् । तावानस्य महिमा । ततो ज्याया५श्व पूरुषः। पादोऽस्य सर्वा भूतानि । त्रिपादस्यामृतं दिवि' इत्युदाहृतमन्त्रे तस्याः परमपुरुषात्मकं यद्रूपं तेन सर्वात्मतापत्तिः पादत्रयेणोच्यते । तस्य रूपम्य सर्वभूतात्मताप्रहाणे यदात्मतापत्ति तत्तस्व प्राप्यं मूलं रूपं तद्विष्णोः परमं पदम्' इति मंत्रप्रसिद्धं चतुर्थपादेनोच्यत इति सर्व संगच्छते। नन्वेव सति गायत्री- विद्यानन्तरं यदतः परो दिवो ज्योतिर्दीभ्यत' इत्यारभ्य पठिता ज्यो- तिर्विद्यापि तद्विपया स्यात् , तयोरेकविषयत्वस्य ज्योतिश्चरणाभिधा- नात्' इत्य (७०.१.१.२६. सू.) धिकरणे व्यवस्थापनादिति चेत् । अस्तु, तथापि न कोऽपि दोषः। यत् 'त्रिपादस्यामृतं दिवि' इति पूर्वो- दाहृतमन्त्रभागोक्तममृतत्र्यंशात्मकं तस्य रूपं जाठरामावुपासनान्तर- विधानार्थ ज्योतिविद्याप्रवृत्तेत्युपपद्यत एव । एवं तहि ज्योतिर्विद्यानन्तरं सर्व खल्विदं ब्रह्म' इत्यारभ्याम्नाता शाण्डिल्यविद्यापि शक्तिविषया स्या- चन्द्रिकासहिता। , दिति चेत् । नेति त्रूमः । तत्र 'मनोमयः प्राणशरीर आकाशात्मा' इति विशेपणैः 'आकाशशरीरं ब्रह्म। सत्यात्म प्राणारामं मन आनन्दम्' इति शिवविषयश्रुत्यन्तरगतविशेषणार्थस्यानूद्यमानतया तेनाकाशव्यतिरेका- वगमात् । यद्वा । गायत्रीविद्या ज्योतिर्विद्येत्येतद्विद्याद्वयमपि शिव- विपयमेवास्तु । तत्र 'यद्वैतद्ब्रह्मेति 'इदं वाच तद्योऽयं बहिर्धा पुरुषादा- काश' इत्याकाशपदसागानाधिकरण्यं हृदयस्तुत्यर्थमस्तु । अनिमखण्डे हि 'तस्य हवा एतस्य हृदयस्य' इत्यादिना हृदयसुपिरपञ्चके आदि- त्यादिद्वारपालोपासनं विधास्यते । तत्र बाह्याकाशं ब्रह्मतयोपचर्य 'अथ यो वै वहिर्धा पुरुपादाकाशोऽयं वाव स योऽयमन्तः पुरुष आकाशोऽथ योऽवै सोऽन्तः पुरुष आकाशोऽयं वाव स योऽयमन्तहृदय आकाश इति क्रमेण हृदयाकाशस्य ब्रह्मतोपचारे हृदयमेव स्तुतं भवति । इहा- काशशब्दस्य भूताकाशपरत्ववादेऽपि हि ब्रह्माकाशपदसामानाधि- करण्यमुक्तक्रमेण हृदयस्तुत्यर्थमित्येवोपपादनीयम् । एवमनया दिशा शिवशक्तिविषयाधिकरणानामाचार्याभिमतो विभागो मनीपिभिरु- नेयः ॥ ४४॥ ननु, शक्केब्रह्मशब्दार्थकदेशत्वेऽपि शास्र तद्विचारो न कर्त- व्यः । यम्य ज्ञानान्मोक्षस्तद्विचारार्थमिदं शास्त्रं प्रवृत्तम् । सर्वतरपरि- त्यागेन शिवस्यैव ज्ञानान्मोक्षः 'शिव एको ध्येयश्शिवङ्करः सर्वमन्य- परित्यज्य' इति श्रुतेः । अतोऽत्र शक्तिविषयाधिकरणविभागचि- न्तनमस्थानविजृभितमित्याशंका निराकरोति-- तत्तयाचदाने तत्समरसशिवनिध्यानहेतोरलाभा- न्मुक्तिप्राप्तानुभाव्यस्थिरफलमहिमालोचनस्याप्यभावात् । .

१०८ आनन्दलहरी शास्त्रं स्याद्यर्थकल्पं न सकलविषयं सार्धवक्तव्यशेष तस्मात्तत्तत्वचिन्ताप्यविकलविपया सर्वथैवात्र कार्या।। 'उमासहायं परमेश्वरं प्रभु' 'पुरुपं कृष्णपिंगळम् ।' 'तस्मा- सह तया शक्त्या हृदि पश्यन्ति ये शिवम् । तेषां शाश्थतिकी सि- द्विनेतरेपामिति श्रुतिः ॥' इत्यादिश्रुतिस्मृतिवचनैशक्तिविशिष्टस्यैव शिवस्य ज्ञानं मोक्षहेतुः न केवलस्येत्यवगतम् । तदनुरोधेन 'सर्वमन्य- त्परित्यज्य' इति श्रवणं शिवादन्यस्य स्वातन्त्र्येण ध्येयत्वव्यवच्छे- दपरम् । अपि च । मुक्ति प्राप्त ग्यं शाश्वतं फलं परमानन्दरूपा शिवशक्तिरेव । ' स एको ब्रह्मण आनंदः । श्रोत्रियस्य चाकाम- हतस्य' - इत्यादिश्रवणात् । एवञ्च शक्तितत्त्वज्ञानानिरूपणे शक्तिविशिष्टशिवोपासनाहेतोरलाभात् मुक्तप्राप्यफलस्वरूपज्ञानासंभ- वाच स्वरूपप्रमाणसाधनफलैस्सह ब्रह्मनिरूपणार्थ प्रवृत्तमिदं शास्त्रं सकलविषयं शिवांश निरूपणाच्छक्त्यंशानिरूपणाच्चाद्धन वक्तव्यशेषेण युक्तं सत् व्यर्थप्रायं भवेत् । ततम्साकल्येन शक्तितत्त्वनिरूपणमप्य- स्मिन् शास्त्रे कार्यमेवेत्यर्थः ॥ ४५ ॥ इतोऽपि शक्तिस्वरूपनिरूपणमिह कार्यमित्याह- शास्त्रे चास्मिन्महेशे श्रुतिशिखरगिरामन्वितलं प्रदय तास्त्वद्वतप्रधानास्तदिह न घटते शक्तियोगानपेक्ष। तस्माच्छक्तनिरूप्यं सकलचिदचिदाकारशालि स्वरूपं तात्पर्य तेन तासां भवति सुघटितं तत्र शच्या विशिष्टे ।। इह शास्त्रे सर्वेषां वेदान्तानां शिव तात्पर्येण समन्वयः 'तत्तु समन्वयात्' इति (७०. १. १. ४.) सूत्रदर्शितः समर्थनीयः ।

चन्द्रिकासहिता। वेदान्ताश्चाद्वितीयत्वं ब्रह्मणः प्राधान्येन प्रतिपादयन्ति । तच शिवस्य परब्रह्मणस्सगुणस्यापरिणामिना सर्वविकारस्पृष्टेन स्वरूपेण नोपपद्यते । अतस्सकलचेतनाचेतनात्मकप्रपञ्चाकारपरिणामिशक्तेः स्वरूपमप्यत्र निरूपणीयम् । तथा सति शिवस्य स्वरूपेणासंभवदपि अद्वितीयत्वं ब्रह्मशब्दार्थभूतशक्तिविशिष्टेन रूपेण संभवतीति तत्र ब्रह्माद्वैतपराणां वेदान्तवाक्यानां तात्पर्यमुपपादितं भवति । अतस्तदर्थमपि शक्तित- त्त्वनिरूपणमिह कार्यमित्यर्थः ।। ४६ ॥ ननु, शुद्धाद्वैत एव सर्वेषां वेदान्तानां पुराणायुपबृंहणानाञ्च महातात्पर्यम् । ब्रह्मसूत्राण्यपि विचार्यमाणानि तत्रैव तात्पर्येण पर्यव- सानवन्ति । यथा चैतत्तथास्माभिश्शङ्करभगवत्पादनिरूपितेन प्रकारेण न्यायरक्षामणौ समर्थितम् । तथाभूतं शुद्धाद्वैतं त्यक्त्वा किमिति विशिष्टाद्वैतं भाप्यकारैराश्रितम् । न हि यथाकथञ्चिदद्वैतसमर्थन- मात्रेण वेदान्तानां सन्तोषः । किं तु स्वकीयमहातात्पर्यविपयाद्वैतनि- रूपणेनैवत्याशंक्याह-- शुद्धावते हि सर्वश्रुतिशिरवरगिरामागमानाञ्च निष्ठा साकं सर्वैः पुराणस्मृतिनिकरमहाभारतादिप्रवन्धैः । तत्रैव ब्रह्ममूत्राण्यापि च विमृशतां भान्ति विश्रान्तिमन्ति त्यतं तझाष्यकारिह कथमिति चव तत्यक्तमार्यैः ।। कथं न त्यक्तगि त्याकालायां तदुपपादयति-- उक्ता खल्वत्र मुक्तिर्गतिनुपरि विना निर्गुणोपासकानां जीवाभेदावलम्बा सगुणपरशिवोपासनाप्यत्र भाष्ये । सत्ताप्रत्यक्षबुद्धे गति च विषयो वर्णितस्सत्यतान्यः शुद्ध ब्रह्माद्वितीयं मतमिति बहुधाषिष्कृतं तावदेवम् । -- आनन्दलहरी . . अस्मिन्माप्ये अनियमस्सवेंपामविरोधशब्दानुमानाभ्यां' इ- (5. ३. ३.३२. सू) त्यधिकरणे 'सर्वेषां ब्रह्मोपासकानामचिरा- मिदतिस्साधारणी न तु केपाञ्चिदेवेति व्यवतिष्ठते' इत्यधिकरणार्थ प्रदर्य तदनन्तरं 'केचिदाहुः अनियमस्सर्वेपामुपासकानामचिरा- दिगती नियमाभावस्तथा सति श्रुतिस्मृतिभ्यामविरोधः' इत्य- चिरादिगतेस्सर्वब्रह्मोपासकसाधारण्याभावमेव सूत्रार्थतया योजयन्ती'त्युक्त्वा तत्रापि न दोषः । निरन्वयोपासकानां तदपे- क्षाभावात्' इति निर्गुणोपासकानामचिरादिगत्यनपेक्षाहेतुना स्वयं तदुपापादनं कृतम् । तदापीतेस्संसारव्यपदेशात्' (ब्र. ४. २, ८. सू) इत्यधिकरण सर्वेषां ब्रह्मोपासकानामपि शरीरपातसमये प्राणानां जीवाविश्लेपेणोत्क्रान्तिरस्ति । तत्पूर्विका गतिश्चेति सिद्धान्तप्रदर्शनार्थ प्रवृत्ते । अचिरादिना तत्प्रथिते.' (ब्र. ४. ३. १. सू) इत्यधिकरणे सर्वेषां ब्रह्मोपासकानामचिरादिगतिरेकैव न तु मार्गान्तरमस्तीति निर्णयार्थ प्रवृत्ते च निरन्वयोपासकानां नोक्रान्ति प्यचिरादिगतिः' इत्येतन्मतान्तरमुपन्यस्तम् । एवं यत्रयत्र गत्युक्रान्त्योस्सर्वोपासकसा- धारण्योक्ति. प्रसक्ता तत्र सर्वत्रापि निर्गुणोपासकसाधारण्यशंकापरि- हारार्थमस्य मतम्योपन्यासात् स्वयं तदुपपादनाचास्य स्वाभिमतत्वमुन्नी- यते। तथा 'आत्मति तूपगच्छन्ति ग्राहयन्ति च' इत्य (०.४.१. ३.सू.)धिकरणे सगुणब्रह्मोपासनापि जीवाभेदविषयेति व्यवस्थापितम्। तादर्थेनैव तदधिकरणं प्रवर्तितम् । तथा जन्माधिकरणारंभाधि- करणयो. ' सन् घट' इत्यादिप्रत्यक्षस्य प्रपञ्चसत्यत्वविषयत्वं परिहत्य 'मृद्धट' इत्यादिप्रत्यक्षवदुपादानतादात्म्यविषयत्वं प्रदर्शितम् । एवमादिभिः यहुभिः प्रकार वाभिन्नं निष्पपञ्चं ब्रह्मेति भाप्यका- चन्द्रिकासहिता । शुद्धाद्वैतं स्वाभिमतत्वनाविष्कृतमेव । न तु तत्त्यक्तमित्यर्थः।। ४८ ॥ अत्रैव गमकान्तराण्युदाहरति- चिच्छक्तिं ब्रह्मणो यत्सकलचिदचिदाकारशालिस्वरूपां सत्तां तस्य स्वरूपं यदपि गुणगणं यच्च तत्रिविकारम् । आचार्याः मोचुरेतैर्वृद्ध मधिगमितं निर्विशेपं तदिष्ट जीवास्तेनैक्यभाजो वियदनिलमुखास्तद्विवर्ती इतीदम् ।। इह भाप्ये ब्रह्मणश्चिच्छीक्त सकलचेतनाचेतनप्रपञ्चाकारापन्नस्वरूपां तामेव ब्रह्मणः स्वरूपभूतां शिवशंभुशंकरादिसकलनामधेयप्रवृत्तिनिमि- तपर्यंततीयनिखिलगुणगणात्मिकां ब्रह्म च निर्विकारमाचार्याः प्रति- पादयामासुः। तद्यथा- -प्रथमसूत्रभाष्ये तावत् 'ततस्सकलचिदचित्तप- चाकारपरमशक्तिविशिष्टाद्वितीयवैभवस्य सकलनिगमसाररहम्यनिधा- नस्य भवशिवशर्वपशुपतिपरमेश्वररुद्रशंभुप्रभृतिपर्यायवाचकशब्दसार- प्रकाशितपरममहिमविलासस्य स्वशेषभूतसकलचेतनसमुपासनानुगुण- समुदितनिजप्रसादसमर्पितपुरुषार्थसार्थस्य परब्रह्मणः प्रतिपादकमुप- निषच्छास्त्रं विचारणीयम्' इति शक्तस्सकलचेतनाचेतनप्रपञ्चाकरत्वमु- क्तम् । तथा जन्मादिसूत्रभाष्ये 'निखिलजगदण्डपण्डवुद्वदनिकुरुंबन- लाधिस्थनीया परप्रकृतिरूपा परमशक्तिर्हि चिदंबरमुच्यते । तत्स्वरूप ब्रह्माकाशशरीरम्' इति ईक्षत्यधिकरणमाप्ये स्थूलसूक्ष्मचिदचित्प्रपञ्च- रूपशक्तिविशिष्ट. परमेश्वर एव कार्यकारणरूपसत्पदविषय' इति आ. रंभणाधिकरणमाप्ये स्वाभिन्ननामरूपविभागानहसूक्ष्मचिदचिद्रूपपरश- क्तिगर्मितो हि शिवः केवलो भवति । पुनः स्वात्मिकां तादृशीं शक्ति पू- र्वदशाविरोधिस्थूलत्वयुक्तनामरूपविभागार्हदचिद्रूपां वहिर्विस्तारयति' इति च ब्रह्मशक्तेस्सकलचेतनाचेतनप्रपञ्चाकारत्वमुक्तम् । एवमन्ये- ११२ आनन्दलहरी . प्वपि बहुपु प्रदेशेष्वयमर्थ उद्घोषितः । तथा शक्तब्रह्मस्वरूपात्म- कत्वम् 'ईक्षतिकर्मव्यपदेशात्सः (व. १. ३. १२.सू ) इत्यधिकरणे वर्णितम् । तत्र हि 'एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोंकारः' इत्या- दिसत्यकामप्रश्नोत्तरसन्दर्भे एकमात्रप्रणवोपासनस्य तत्प्रथममात्रात्मक- मापणीयमनुष्यलोकप्राप्तिफलं द्विमात्रप्रणवोपासनस्य तद्वितीय- मात्रात्मकयजुःप्रापणीयान्तरिक्षलोकप्राप्तिफलञ्चाभिधाय यदाम्नायते 'यः पुनरेतं त्रिमात्रेणैवोमित्येतेनैवाक्षरेण पर पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नो यथा पादोदरस्त्वचा विनिर्मुच्यते हवै स पाप्मना विनि- मुक्तः स सामभिरुन्नीयते ब्रह्मलोक स एतस्माजीवधनात्परात्परं पुरि- शयं पुरुषमीक्षते' इति । तत्र ब्रह्मलोकः परब्रह्मणश्शिवस्य लोकस्तस्मि- निरीक्षणीयः पुरुषरिशव इति सिद्धान्तोऽभिमतः । तदर्थमिह ब्रह्मलोको विष्णुलोकः 'ऋम्भिरेतं यजुभिरंतरिक्षं स सामभिर्यत्तत्कवयो वेदयन्त' इत्युक्तार्थसंग्राहके तदनन्तरमन्त्र ‘तद्विष्णोः परमं पदम्' इति मन्त्रे- ण विष्णुलोके प्रतिपन्नस्य विद्वदनुभवविषयत्वस्य तस्मिन्ब्रह्मलोके प्रत्यभिज्ञायमानत्वात् । अतस्तस्मिन्निरीक्षणीयः पुरुषो विष्णुरेवेति पू. र्वपक्षमुपन्यस्य सिद्धान्ते तदनुवादपूर्वकं तन्निरास इत्थं कृतः 'यदुक्तं तद्विष्णोः परमं पदं' इति तत्र प्रपञ्चाकारत्वमन्तरेण यन्निरति- शयानन्दस्वभावं विष्णोः परमं पदं रूपं तदेव शिवाभिधेयं परं- ब्रह्मेत्यविरोधः । अतो विष्णुशिवयोरुपादाननिमित्तयोरवस्साभेदमन्त- रेण स्वरूपभेदो नास्ति' इति । अत्र शिवलोके 'तदिप्णोः' इति मन्त्रार्थ- प्रत्यभिज्ञानसंघटनार्थ तस्य मन्त्रस्य शिवलोफविषयत्वमेव वक्तुं युक्तम् । न तु शिवविपयत्वम् । अत एव 'सोऽध्वनः पारमानोति । तद्विप्णोः परमं पदम्' इति मन्त्रस्य शिवलोकविषयत्वं कार्य चन्द्रिकासहिता । - 1 चादरिरस्य गत्युपपत्तेः' (व.४.३.६.सू ) इत्यधिकरणभाष्ये वर्णि- तम् । तद्विष्णोः' इति मन्त्रात्यैतद्भाप्यदर्शितार्थावलंबनेन शिव- विषयत्वमुपपादयितुमप्यशक्यम् । न हि प्रपश्चाकारणावस्थितस्य विष्णोशिशवस्साक्षात् स्वरूपमिति भाष्यकारसिद्धान्तः । किं तु शिव- शक्तिरूपः परमानन्दस्तस्य साक्षारस्वरूपमिति । तस्य शिवशक्त्य- वस्थारूपत्वमेव हि प्रकृत्यधिकरणभाप्यादिषु प्रतिपादितम् । तस्मादि- स्थमस्य भाप्यस्यार्थो वर्णनीयः । 'प्रपञ्चाकारत्वमन्तरेण यन्निरतिश- यानन्दस्वभावं विष्णोः परमं पदं रूपम्' इत्यनेन जगदाकारपरिण- तविप्ण्ववस्थाप्रकृतिभूता चिच्छक्तिरुच्यते । सैव परमशिवलोकत- यापि वर्तत इति तेन ' तद्विष्णोः' इति मन्त्रस्य शिवलोकविषयत्वं दर्शितं भवति । तदेव शिवाभिधेयं परं ब्रह्म' इति तस्याश्शिवस्व- रूपाभिन्नत्वमुच्यते । ननु, प्रत्यभिज्ञानाविरोधसंघटनार्थ तद्विष्णोः' इति मन्त्रस्य शिवलोकाकारतापनचिच्छक्तिमात्रविषयत्वं वक्तव्यम् । चिच्छक्तश्शिवस्वरूपाभिन्नत्ववचनं तु तत्र नोपयुज्यत इत्याशंक्य शंकाविशेषनिरासेन तदुपयोगं सूचयितुं यतश्शिवविष्णोः' इत्यादिवा- क्यम् । इयमत्र शंकोत्तिष्ठति। विष्णोः परमं रूप शिवशक्तिरित्ययुक्तम्। पुराणेतिहासादिषु विष्णोशिशवाभिन्नत्वस्यैव बहुधा प्रतिपादितत्वा- दिति । तत्रायं परिहारोऽनेन वाक्येन सूचितः । यतो विष्णोशिशवात् स्वरूपभेदो नास्ति तत एव विष्ण्ववस्थाप्रकृतिभूतायाः शक्तेरपि शिवात्स्वरूपभेदो नेप्यते। कूर्मपुराणादिपु शिवस्य शक्तर्विष्णोथैक्य- प्रतिपादनदर्शनात् । कर्मपुराणे- दृष्ट्वा सिंहासनासीनं देव्या नारायणेन च! प्रणम्य देवमीशानं पृष्टवत्यो वराङ्गनाः। कस्त्वं विनाजसे कान्त्या (१) 'स्याशकाविशेष' इति ख. पाठः । - - 15 आनन्दलहरी . केयं वाला रविप्रभा । को न्वयं भाति वपुषा पङ्कजायतलोचनः । निश- म्य वचमं तासां वृपेन्द्रवरवाहनः । व्याजहार महायोगी भूताधिपति- व्ययः। अयं नारायणो देवी जगन्माता सनातनी। विभज्य संस्थिता देवी स्वात्मानं बहुधेश्वरम् । न मे विदुः परं तत्त्वं देवाद्या न मह- र्पयः । एकोऽहं वेद विश्वात्मा.भवानी विष्णुरेव च । अहं हि नि- क्रियो धाता केवलो निप्परिग्रहः । मामेव केवलं देवमाहुर्देवीमथा- म्बिकाम् ॥' इत्यादिषु बहुषु प्रदेशेषु शिवस्य शक्तेर्विप्णाश्चैक्यं प्रति पादितम् । यत्तु 'त्रिविधां भावनां ब्रह्मन्प्रोच्यमानां निबोध मे । एका मद्विपया तत्र द्वितीयाव्यक्तसंश्रया । अन्या तु भावना ब्राह्मी विज्ञेया सा गुणातिगा। आसामन्यतमा वापि भावनां भावयेद्बुधः । अशक्तस्संश्रयेदाद्यामित्येषा वैदिकी श्रुतिः' इतन्द्रद्युम्नं प्रति भगव- द्वचने 'योगी च त्रिविधो ज्ञेयो भौतिकस्सांख्य एव च । तृतीयो- ऽत्याश्रमी प्रोक्तो योगमुत्तममाश्रितः। प्रथमा भावना पूर्व सांख्ये त्वक्षरभावना । तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी' इत्युत्तरो- त्तरोत्कृष्टत्रिविधयोगिमंन्यासिविभागे च विष्णुशक्तिशिवभावनाना- मुनरोत्तरोत्कृष्टत्वमुक्तम् । यञ्चेन्द्रद्युम्नस्य बहुकालं नारायणमुपासितवतः — संप्राप्य भावनामन्त्यां ब्राह्मीमक्षरपूर्विकाम् । अवाप परमं योगं येनके परिपश्यति । यं विनिद्रा जितश्वासाः कांक्षन्ते मोक्षकाङ्गिणः ।' इति तदनन्तरमक्षरशब्दोक्तशक्त्युपासनपूर्वकेन परमेश्वरोपासनेनाद्वितीय त्र मसाक्षात्कारोपयोगितन्निदिध्यासनानुष्ठानमुक्तम् । तेन सर्वेणाप्येकस्यैव परब्रह्मणश्शिवशक्तिविष्णुरूपेण स्थितस्य तेन तेन रूपेणोपासना- मात्रस्य फलभेदेन भेदस्सिद्यतीति नैतावता तेषां परस्परभेदः शनी- यः । एवमादित्यपुराणादिप्वपि तेषामैक्यप्रतिपादनमुदाहर्तव्यम् । एवं चन्द्रिकासहिता। । - तावत् । तदेव शिवाभिधेयं परं ब्रह्म' इति ईक्षतिकर्माधिकरणभा- प्येण शक्तशिशवस्वरूपात्मकत्वमुक्तम्। तथा शक्तश्शिवस्वरूपात्मकत्वं तदीयसकलगुणगणरूपत्वञ्च • सर्वत्र प्रसिद्धोपदेशात्' इत्यधिकरण- भाप्ये प्रश्चितम् । श्रुतिस्मृतीतिहासपुराणाभियुक्तसूक्तिमामाण्यात् सकलचिदचित्रपञ्चमहाविभूतिरूपा महासचिदानंदसत्ता देशकालादि- परिच्छेदशून्या स्वाभाविकी परमशक्तिः परब्रह्मणश्शिवस्य स्वरूपञ्च गुणश्च भवति । तद्व्यतिरेकेण ब्रह्मणस्सर्वज्ञत्वसर्वशक्तित्वसर्वनियन्तृ- त्वसर्वापास्यत्वसर्वानुग्राहकत्वसर्वपुरुषार्थहेतुत्वादिकं सर्वगतत्वञ्च न संभवति । किश्च, महेश्वरशिवमहादेवरुद्रादिपरमाख्यानामभिधेयत्वञ्च न संभवतीति । परब्रह्मणो निर्विकारत्वं प्रकृत्यधिकरणे शंकोत्तराभ्यां प्रपश्चितम् । तत्र हि 'नन्वज्ञानविकारास्पदहेयप्रपञ्चरूपेण प्रकृतिभावेन कथं वर्तते निरस्तसमस्तदोषकळंको निम्सीममंगळगुणरनाकरो निरंकु- शनित्यसिद्धवभवः प्रपञ्चातीतः परमशिव' इत्याशंकोत्तरत्वेनावता- रितस्य परिणामात्' इति (व्र. १. ४. २६.) सूत्रस्य व्याख्या- नावसरे ‘नित्यशुद्धानन्दस्य निरतिशयमंगळस्वभावस्यापि निमित्तस्य परमशिवस्म प्रकृतित्वेन जगदाकारत्वं युक्तमेव चिदचिदाकारेण परि- णामात्' इति सौत्रहेतुवचनस्य शब्दार्थ प्रदर्य 'हन्त कारणविकार- रूपो हि परिणामः पूर्वरूपपरित्यागन रूपान्तरापत्ति परिणाम इति कथ परमेश्वरोऽनर्थधर्मात् परिभूयते' इति तत्र शंकामुद्भाव्य ' यथा निमित्तस्य प्रकृतित्वेऽपि न विकारादिम्पर्शः, तथा परिणामस्संभवति' इति गूढाभिसन्धितयोत्तरमुक्त्वा · कोऽयमपूर्वः परिणामः कुतूहलिनो वयं तच्छ्रवणे विविच्यताम्' इति पुनराकांक्षामुद्भाव्य 'शृणु विवेचयाम' इति तदुत्तरोक्ति प्रतिज्ञाय 'यदातमो' मन्त्रार्थविवरणपूर्वक शिवस्य .

आनन्दलहरी परब्रह्मणः प्रज्ञारूपचिच्छक्तिद्वारकः परिणामस्स तु न स्वरूपतो निर्वि- कारस्वस्य विरोधीत्युक्तम् । एवं जन्मादिसूत्रभाप्यादिप्वपि ब्रह्मणो नि- विकारत्वमुक्तं द्रष्टव्यम् । इत्थंभूतैराचार्यवचनैर्ब्रह्म वस्तुतो निर्गुणमेव तेपामभिमतं जीववर्गस्तदभिन्नो गगनपवनादिजडवर्गस्तद्विवर्त इत्ये- व निर्गुणं जीवाभिन्नं निष्प्रपञ्चं शुद्धाद्वैतरूपं ब्रह्म तेषां मतमिति दृदमवगमितम् । चिच्छतेब्रह्माभेद तदीयसकलधर्मरूपत्वे च ब्रह्म हि वस्तुत. स्वव्यतिरिक्तधर्मरहितं निर्धर्मकमित्येव सिद्ध्यति । तथा सकलचेतनप्रपञ्चाकारायाश्चिच्छतेब्रह्माभेदे चेतनवर्गस्यापि तदभेद- स्सिद्ध्यति। ब्रह्माभिन्नायाश्चिच्छक्तेम्सकलचेतनप्रपञ्चाकारत्वस्याभ्युपग- मेऽपि ब्रह्मणस्तदभेदो न सिध्यति । तस्या नित्यवियदादिप्रपञ्चाकार- ताभ्युपगमे निर्विकरत्वाभ्युपगमविरोधापत्ते. । किञ्च प्रपञ्चस्य ब्रह्मविव- तत्वमेव सिध्यति । न च ब्रह्मचिच्छक्त्योस्तात्त्विकाभेदेऽपि गार्गिब्राह्म- णदहरविद्यानन्दवल्ल्यादिसिद्धस्य धर्मर्मिभावासनासनिभावादिकृतभे- देव्यपदेशस्याप्यवश्याभ्युपगन्तव्यादद्वैतवादे जीवब्रह्मणोरभेदेऽपि व्य- वहारिकभेदाभ्युपगमेन कर्तृत्वभोक्तृत्वतदभावव्यवस्थावत् ब्रह्मचिच्छ- क्यनिर्विकारत्वसविकारत्वव्यवस्था सिद्धति, अतो न ब्रह्मनिर्विका- रत्वाभ्युपगमेन प्रपञ्चस्य ब्रह्मविवर्तत्वसिद्धिरिति वाच्यम् । तथापि परमुक्तिदशायां व्यावहारिकभेदनिवृत्त्या जीवगतकर्तृत्वभोक्तृत्वादिवत् चिच्छक्तिगतजडप्रपञ्चस्यापि निवृत्तेरवश्यवक्तव्यत्वेन ब्रह्मविवर्तत्वसि- द्धयनिवारणात् । चेतनप्रपञ्चस्य तु जडप्रपञ्चवद्ब्रह्मविवर्तत्वं न सिद्धय- ति । तथात्वे तस्य मुक्तिफलभाक्त्वाभावप्रसंगात् नित्यम्य तस्य ब्रह्मा- भेदे ब्रह्मनिर्विकारत्ववोधाप्रसंगाच । एवञ्च ब्रह्माद्वैताभ्युपगमविषये शं. १ किंतु इति ख. पाटः । २. 'व्यावहारिकभंदर' इति म. पाठः ।

चन्द्रिकासहिता । करभगवत्पादीयमतादाचार्यमते न कश्चिद्विशेषः । तन्मतेपि हि ब्रह्मणश्चै- तन्यरूपा जगदाकारपरिणामिनी चिच्छक्तिस्तावदस्ति । 'चिच्छक्तिः , परमेश्वरस्य विमलं चैतन्यमेवोच्यते तस्यैवास्यं जडापरा भगवतश्शक्ति- स्त्वविद्यात्मिका। संसर्गाञ्च मिथस्तयोर्भगवतश्शक्त्योर्जगजायते सच्छ- 'क्त्या सविकारया भगवता चिच्छक्तिरित्युच्यते ॥' इति संक्षेपशारीर- कोक्तः । सा च न ब्रह्मव्यतिरिका व्यावहारिकभेदमावती । तदन- न्तरमेव 'इत्येवं कथयन्ति केचिदपरे श्रद्धाळवस्तत्पुनः कस्याश्चिद्भुवि सम्मतञ्च विदुषां नेष्टश्च भूभ्यन्तरे | कपिास्तिविधानभूमिपु तथा तत्संमतं निर्गुणे तत्त्वे तत्परवेदवाक्यविषये त्वालोचिते नेप्यते' इति संक्षेपशारीरकोः । तथा तन्मतेऽपि ब्रह्मणो धर्मास्सन्ति व्यवहारद- शायां प्रथाभूताः। 'आनन्दो विषयानुभवो नित्यत्वञ्चेति सन्ति धर्माः अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभामन्त ' इति पञ्चपादिकोक्तः । तथा तैरपि व्यवहारसिद्ध्यर्थ प्रसक्तप्रतिपेयसिद्ध्यर्थं च प्रपञ्चस्य परिणामि- ताभ्युपगमपूर्वकमेच विवर्ततापर्यवसानं कृतम् । यथोक्तं संक्षेपशारीरके आरम्भसंहतिविकारविवर्तवादानाश्रित्य वादिजनता खलु वावदीति । आरम्भसंहतिमते परिहत्य वादी द्वावत्र संग्रहपदं नयते मुनीन्द्रः ॥ तत्रापि पूर्वमुपगम्य विकारवादं भोक्त्रादिसूत्रमवतार्य विरोधनुत्यै । प्रावर्तत व्यवहृते. परिरक्षणाय धर्मादिगोचरविधावुपयोगहेतोः॥ साक्षा- दिहामिमतमेव विववादमाहत्य सूत्रयति पूर्वमुपेक्षमाणः । आरम्भणा- दिवचनेन विवर्त्तवादं शक्नोति वक्तुमुदिते परिणामवादे ।। आरुह्य भूमिमधरामितराधिरोढुं शक्नोति शास्त्रमपि कारणकार्यभावम् । उक्त्वा पुरा परिणतिप्रतिपादनेन संप्रत्यपोहति विकारमृपात्वसिद्धये ।। विवर्तवादस्य हि पूर्वभूमिवेदान्तवादे परिणामवादः । व्यवस्थितेऽस्मिन् .

११८ आनन्दलहरी परिणामवादे स्वयं समायाति विवर्तवादः ॥ उपायमातिष्ठति पूर्वमुच्चै- रुपेयमाप्तुं जनता यथैवम् । श्रुतिर्मुनींद्रश्च विवर्तसिद्धयै विकारवादं वदतस्तथैव ।। अहं प्रजायेय बहु स्वयं स्यामित्यादिनादौ परिणाममुक्त्वा । विकारमिथ्यात्वमथ ब्रुवन्ती क्तिर्वादं श्रुतिरानिनाय ।। ' इति ॥ ४९॥ अथ जीवानां ब्रह्माभिन्नत्वस्य जडानां ब्रह्मविवर्त्तत्वस्य चोपपादके सकलचेतनाचेतनप्रपञ्चाकारायाश्चिच्छक्तेब्रह्माभेदे भाप्यसंप्रतिपत्तौ ग- मकान्तरमुदाहरति- आध्यानादिक्रियायां परमशिवपदं प्रेप्सतामान्तराणां ध्येयत्वं धारयित्वा त्यजति विधिवलात्तद्विरोधप्रशान्त्यै । पागानन्दाधिकारे परमशिवमिव ध्येयमुक्तं विमुक्त्यै चिच्छक्त्यात्मानमानंदमयमभिदधुर्भाष्यकारास्तमेव ।। ५० ॥ अत्रेयं विषयशुद्धिः । आनन्दादय. प्रधानस्य' (प्र. ३.३.११.) इत्यधिकरणे · यन्निरतिशयज्ञानानन्दादिगुणजातं कृष्णपिगळत्वविरु- पाक्षत्वादिविशिष्टदिव्यमंगळविग्रहवैशिष्टयं च परब्रह्मणः खरूपलक्षण- मिष्यते । तद्ब्रह्मविष्ण्वादिसकलेतरविलक्षणपरब्रह्मप्रतिपत्तये सर्वास्वपि विद्यासु प्रकरणभेदेऽप्युपसंहार्यम्' इति प्रसाध्य तदनन्तरं 'प्रियशिर- म्त्वाद्यप्राप्तिः' इत्य(व. ३.३.१२. सू.)धिकरणे 'ब्रह्मधर्मनिरतिशयज्ञा- नोपसंहृतौ तदवान्तरविशेषाणां सत्यसंकल्पत्वादीनामिवानन्दमयश- ब्दोक्तनिरतिशयानंदोपसंहारे तदवान्तरविशेषाणां प्रियशिरस्वादी- नामप्युपसंहारः कार्य' इत्याशंक्य प्रियादीनामानन्दविशेषत्वेऽपि तेषां शिरस्त्वादेब्रह्मानन्दगतनिरतिशयत्वप्रतिपत्तिसौकर्यार्थ कल्पितत्वान्न ते- पामुपसंहार' इति प्रसाधितम् । तदनन्तरम् ‘आध्यानाय प्रयोजना- चन्द्रिकासहिता। , . भावात्' (न. ३.३.१४.सू.) इत्यधिकरणे कल्पितत्वात्प्रियशिरस्त्वा- दीनामननुसन्धेयत्वेऽपि अन्नमयादिकोशचतुष्टयमनुसन्धेयम्। 'यो वैद निहितं गुहायाम्' इति श्रुतेः गुहारूपतदान्तरत्वस्यावश्यानुसन्धेय- त्यादित्याशक्य अन्नमयादयो न शरीरमाणमनोवुद्धिरूपा अचेतनाः किं- त्वथर्वशिखायां 'ब्रह्मविष्णुरुद्वेन्द्रास्ते संप्रस्यन्त ' इत्युक्ता देवतावि- शेषाः 'एतमन्नमयमात्मानमुपसङ्कामति' इत्यादिफलवाक्येषु तेषां परब्रह्मप्राप्तः पूर्व क्रमप्राप्यचेतनत्वावगमात् । ते चार्वशिखायामेव 'शिव एको ध्येयः शिवङ्करस्सर्वमन्यत्परित्यज्य' इति मुमुक्षुकर्तव्य- निरन्तरशिवविषयचिन्तासन्ततिरूपध्यानकाले परित्याज्यत्वेन ध्याना- दहियावर्तनीयत्वेनोक्ता । अतो यद्यपि 'ब्रह्मविदामोति परम्' इति. श्रुत्युक्तं फलं प्राप्नुवतोऽन्नमयाद्यनुसन्धानफलतया क्रमेण तेषां प्राप्ति 'एतमन्नमयम्' इत्यादिवाक्येषु श्रूयते । तथापि शिवध्यानारम्भात् प्रागेव तेषामनुसन्धान पूर्वपूर्वपरित्यागेन कार्यम् । सर्वमन्यत्परित्यज्य' इति श्रुतेः पूर्वपूर्वपरित्यागपूर्वकोत्तरोत्तर प्राप्तिरूपफलानुगुण्याच्च । पूर्व- पूर्वपरित्यागश्च उत्तरोत्तरन्मिन् पूर्वपूर्वोपसहारेण कर्तव्यः । तथा शिवा- गमेषु प्रसिद्धत्वात् योगयाज्ञवल्क्येऽपि ध्यानाध्याये ब्रह्मादीनां कमे- णानुसन्धान विधाय तदनन्तरम् ‘एतदुक्तं भवत्यत्र गार्गि ब्रह्मविदां वरे । ब्रह्मादिकार्यरूपाणि खेखे संहृत्य कारणे । युक्तचित्तस्तदात्मानं योजयत्परमेश्वर ।।' इति तथैव प्रतिपादितत्वाच । एवञ्च क्रमेणान्नम- यादीननुसन्दधानः पूर्वपूर्वमुत्तरोत्तरस्मिन् विज्ञानमयं शिवासनरूपे पर- मज्योनि च प्रलीनं भावयित्वा परमव्योममध्यवर्तिशिवैकविषयचिन्तास- न्ततिरूपध्यानं कुर्यात् । अयमेव परित्यागश्रुत्यविरोधेन 'गुहायां निहि- तम्' इति श्रुत्या विवक्षितोऽर्थ इति सिद्धान्तितम् । तदनन्तरमेवं सत्यु- आनन्दलहरी मासहायत्वमपि तस्य ध्यानकालेऽनुसन्धयं न स्यात्। सर्वेतरपरित्याग- विरोधात् सर्वमन्यत्परित्यज्य' इत्यन्यशब्देनैव प्रकृतवमाविष्णुरुदेन्द्रम- हगसंभव अधिकस्य सर्वशब्दस्य शिवतरसर्वदेवतापरित्यागविध्यर्थत्वा- त्। न चान्नमयशब्दोक्तचिच्छक्त्यात्मिकाया उमायाश्शिवाभिन्नत्वात् परित्यागविधेर्न तद्विषयत्वप्रसक्तिरिति वाच्यम् । 'अन्योऽन्तर आत्मा' इत्यादावन्नमयादिपु श्रुतस्यात्मशब्दस्यानन्दमयेऽप्यविशेषेण तद्वदान- न्दमयस्यापि जीवत्वौचित्यात् । अन्यथात्मश्रुत्यविशेषेणान्नमयादीना. मपि शिवाभेदप्रसङ्गादित्याशङ्कानिराकरणाथै आत्मगृहीतिरितरवदुत्त- रात्' (न. ३.३. १६. सू) अन्वयादिति चेत्स्यादवधारणा(७.३.. ३. १७. सू)दिति तस्मिन्नेवाधिकरणे गुणसूत्रद्वयं कृतम् । आधसूत्र- स्यायमर्थः, आनन्दमये आत्मग्रहणं परमात्मविषयम् आत्मन आ काशस्सम्भूत' इति जगत्कारणे आत्मग्रहणवत् । न त्वन्नमयादिविष जीवविषयम् । उत्तरसन्दर्भात् । उत्तरत्र ह्यन्नमयादिकमुपसङ्क्रान्तस्येवान- न्दमयमुपसंक्रान्तस्य उपसंक्रमितव्यान्तरोक्त्यभावेन तत्प्राप्तेर्मुक्तिरूप- त्वमवगम्यते । तथा च जीवपरसाधारणम्यात्मशब्दस्य तत्र तत्र यथा- हमर्थग्रहणं युक्तम् । अत्रात्मशब्दस्य जीवविषयत्वं नियतं दृष्टमिति प्रायपाठाशंका तु 'इतरवत्' इति सौत्रपदनैव निरस्ता । तस्मादुमायाः शिवाभिन्नत्वात् शिवध्यानकाले तदनुसन्धानं न विरुध्यत इति । नन्वेवमन्नमयादिशब्दोक्तानां ब्रह्मादीनामपि पूर्वापरवाक्ययोः परमा- त्मपरतया क्लप्तनात्मशब्देनान्वयात्तेषामपि शिवध्यानकालेऽनुसंधानं भवेदिति शंकानिराकरणार्थ द्वितीयसूत्रम् । तस्याप्ययमर्थः। 'अन्योऽन्तर आत्मानन्दमय' इत्यानन्दमयस्य शिवाभिन्नस्यान्नमयादिभ्यो भिन्नत्वा- वधारणात् अन्नमयादीनां शिवाभेदो नोपपद्यते । नन्वानन्दमयश- .

चन्द्रिकासहिता। १२१ ब्दोक्तायाम्सकलचेतनाचेतनप्रपञ्चाकारायाः शक्तेशिवाभेदेन तद- मिन्नानां प्रकृतब्रह्मादिशब्दोक्तचेतनानामपि शिवाभेदः स्यादेवेति तेषां परित्यागोक्तिरर्धजरतीयन्यायावलंबनैवेति चेन्न । 'सर्वमन्यत्प- रित्यज्य' इत्ववधारणदर्शनात् । तस्यावधारणस्य प्रकृतब्रह्माद्यविषयत्व हि कस्तस्य विषयः स्यात् । नाचेतनवर्गः प्रकृतब्रह्मादिव्यतिरिक्तचेतन- वर्गो वा । अन्यशब्दस्य सर्वनामशक्तिस्वाभाव्येन प्रतियोगिभूतशिव- सदृशबुद्धिस्थब्रह्मादिचेतनपरत्वावश्यंभावात् चेतनान्तराणामपि ब्रह्मादि- वत् शिवाभिन्नत्वेन तद्विषयत्वेऽप्यनुपपत्तितौल्याच। तस्माद्वस्तुतः शिवा- भिन्नस्य चेतनस्य परित्यागोऽत्र न विधेयः। किंतु शिवात् भेदेन प्रतीय- मानस्य । अत एव ब्रह्मविद्यासु शिवोऽहमिति शिवाभेदेनानुसन्धेयस्य स्वात्मनो न परित्यागः । अतः प्रतिपर्यायं 'अन्योऽन्तर आत्मा' इति श्रवणादन्नमयादीनां शिवात् परम्परम्माच्च भेदप्रतीतेस्तेषां परित्यागः । उमायास्तु यद्यपि ‘परमे व्योमन्' इति · स एको ब्रह्मण आनन्द' इति च भेदः प्रतीयते । तथाप्यासनरूपेण निरतिशयानन्दरूपेण च सा भेदप्रतीतिर्न त्वंबिकात्मकचेतनरूपेण । तेन तु रूपेणाभेद एव प्रतीयते। 'पुरुयं कृष्णपिंगळम्' इत्यस्य सर्वविद्यासूपसंहृनेरानन्दाधिकरणे सम- थितत्वेन 'कृष्णपिंगळम्' इत्यनेन शिवस्यैवांत्रिकामूर्त्या कृष्णवर्णलं पुरुपमूर्त्या रुक्मवर्णत्वमिति शिवशक्त्यभेदगीकरणात् । तस्मादुमाया इवान्नमयादीनां शिवध्यानकालेऽनुसन्धान न कार्यमिति । एवमिहान- न्दमयरूपा चिच्छक्तिः परमात्मा शिव एव ततो न भिद्यते इत्याचा- यः आत्मग्रहीतिसूत्रार्थत्वेन वर्णितम् । न च तद्भाप्यमानन्दमयः परमात्मा शिव इत्यानन्दमयाधिकरणप्रथमपक्षमाश्रित्यानन्दमयस्य पर- मात्मत्वसाधनपरं न त्वानन्दमयशक्तिरिति तदधिकरणद्वितीयपक्ष- 16 १२२ आनन्दलहरी माश्रित्य शक्तेः परमात्माभेदसाधनमिति वाच्यम् । प्रथमपक्षाश्रयणे आनन्दमयः परमात्मेत्यस्वार्थस्यानन्दमयाधिकरण एव सिद्धत्वेन तत्र तत्साधनस्यानपेक्षितत्वादानन्दमयाधिकरणद्वितीयपक्ष एव भाष्यकारा- भिमत इति जन्मादिसूत्रमाप्येण स्पष्टमवगतत्वाच्च । तस्मादाध्याना- धिकरणे भाष्यकारेश्शकेश्शिवाभेदः प्रसाधितः समञ्जस एव ॥५०॥ अथ जीवब्रह्माभेदो भाष्यकाराभिमत इत्यत्र गमकान्तरमुदाहरति- आचार्यास्तत्र तत्र व्यधुरधिकरणे पूर्वपक्षावलंब जीवब्रह्माविभेदप्रमितिकरवरैस्तबमस्यादिवाक्यैः । नत्सिद्धान्तेप्वकार्पः कथमपि न पुनस्तत्र तात्पर्यभंग मत्याचख्युस्तमंशाधिकृतिकृतमथाइंग्रहाधिक्रियायाम् ॥ ५१ जीवब्रह्माभेदप्रमाणमूर्धन्यानि तत्त्वम'स्यादिवाक्यानि केपुचि- दधिकरणेपु पूर्वपक्षावलंबनत्वेन भाप्यकारैरुदाहृतानि । यथा-प्रथमा. धिकरणे जीव एव ब्रह्म स च सर्वेषामसन्दिग्धाविपर्यस्तप्रत्यक्षानुभव- सिद्ध इति तस्याविचारणीयत्वात् ब्रह्मविचारात्मकं शास्त्रं नारंभणी- यमिति पूर्वपक्षम्य, तृतीयपादाकाशाधिकरणे 'नामरूपनिादृत्वेन श्रुत आकाशो न भूताकाशो जीवो वा किंतु परमेश्वर' इति निर्णयार्थ प्रवृत्ते जीवातिरिक्तपरमेश्वराभावात् निर्विषयसिद्धान्त' इति पूर्वपक्षस्य · सुषु. प्त्युत्क्रान्त्यो देन । (. १. ३. ४३. सू.) पत्यादिशब्देभ्यः (ब्र. १. ३. ४४. सू.) इति गुणसूत्राभ्यां निवर्तनीयस्य, आरंभणाधिक- रणे 'वेदान्तेषु जीवस्य ब्रह्मानन्यत्वव्यपदेशात् ब्रह्मणो जगत्स्रष्मृत्वां- गीकारे स्वामिन्नस्य जीवस्य जगत्सृष्टिहिता जगत्सृष्टिरहितति जान- तस्तस्य हिताकरणमहितकरणच प्रसज्येते' ति पूर्वपक्षस्य 'इतर- व्यपदेशाद्विताकरणादिदोषप्रसक्तिः' इति (ब्र. २. १. २१.) सूत्रेण चन्द्रिकासहिता। उद्भाव्य ' अधिकं तु भेदनिर्देशात् (ब्र. २. १. २२. सू) अश्मादिवस तदनुपपत्तिः' इति (न. २. १. २३.) सूत्राभ्यां निवर्तनीयस्य, पुरु- पार्थाधिकरणे जीव एवं ब्रह्मेति तद्ज्ञानस्य कर्तृसंस्कारद्वारा कत्वर्थत्वा- त् 'ब्रह्म वेद ब्रह्मैव भवति' इत्यादितत्फल श्रवणं ' यदाके चक्षुरेव भ्रातृव्यस्य वृते' इति दीक्षितांजनफलश्रवणमिवार्थवाद' इति पूर्वप- क्षभ्य 'शेपत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः' इति (न. ३. ४.२.) सूत्रेणोद्धाव्य ‘अधिकोपदेशात्तु बादरायणस्यैवं दर्श- नात्' इति (न. ३. ४. ८.) सूत्रेण निवर्तनीयस्स चावलंपनत्वेन पूर्वपक्षमाप्येषु महावाक्यान्युदाहृतानि । तचसिद्धान्तभाज्येषु तु तानि जीवब्रह्माभेदपराणि न भवन्ति किंतु 'ब्राह्मणो विद्वान्' इतिवदपृथक् सिद्धपराणि 'वाचं धेनुम् ' इतिवदुपासनापराणि वेति न काप्युक्तम् । यद्यपि अंशो नानाव्यपदेशात्' (ब. २. ३. ४२. सू) इत्यधि- करणे ब्रह्मैवोपाधिवशात् जीवभावमापद्यत इति पूर्वपक्षनिराफरणार्थ प्रवृत्ते “ तत्त्वमसि' 'अयमात्मा ब्रह्म' इत्यादिकाद्यपदेशात् तयो- विब्रह्मणोाप्यव्यापकभावेनानन्यत्वम्' इति सिद्धान्तभाष्येण योगिशरीराणां व्यापीयानां तद्वयापकस्येव योगिनश्च यथा व्याप्य- व्यापकभावेनापृथक्सिद्धिरूपमनन्यत्वं तथा जीवानां ब्रह्मणश्चेत्यर्थकेन महावाक्यान्यन्यपराणि न तु जीवब्रह्माभेदपराणीत्युक्तमेव । तथापि 'आत्मेति तूपगच्छन्ति ग्राहयन्ति च ' (ब्र. ४. १. ३. सू.) इत्यह- ग्रहाधिकरणे महावाक्यानामभेदपरत्वव्यवस्थापनेनाचार्यैरेव तत्प्रत्या- ख्यातम् । तत्र हि · विश्वाधिको रुद्रो महर्षिः' । 'अधिकं तु भेद- निर्देशात्' इत्यादिश्रुति (ब. २. १. २२.) सूत्रेषु प्रत्यगात्मनः पेशाजीवात्पत्युः परब्रह्मणोऽधिकत्वेन निरूपितत्वादज्ञत्वसर्वज्ञत्वादि- - १२४ मानन्दलहरी गुणैन्यूनाधिकभावस्य संप्रतिपन्नत्वाच मुमुक्षुभिब्रह्मोपासनं स्वशेषित्वा- दिप्रकारेण स्वभिन्नतयैव कार्य न तु स्वात्मतयेति पूर्वपक्षनिराकरणार्थ प्रवृत्ते सिद्धान्तभाप्ये 'यद्यपि जीवदाधिकमेव शिवाख्यं परं ब्रह्म तथाप्युपासिता 'अहं ब्रह्मास्मि' इति तदुपासीत, यतः पूर्वेऽप्युपा- सितारः 'वं वा अहमस्मि भगवो देवते अहं वै त्वमसि' इत्या- स्मेत्येवावगच्छन्ति । उपासितुरन्तरत्वेऽपि तानुपासितॄननुगृहाति खखरूपतया परं ब्रह्म, ते च पुनः स्वात्मतया ग्राहयन्ति च परानपि शिप्यान् 'तत्त्वमसि' इत्यादिना" इति । अत्र 'तत्त्वमस्या' दिवा- क्यानामभेदार्थत्वप्रदर्शनेन प्रागुक्तं शरीरशरीरिभावकृतापृथसिद्ध- र्थत्वं प्रत्याख्यातमिति स्पष्टमेव । तदुपपादनार्थमेव 'त्वं वा अहमस्मि' इति जावालवाक्यमुदाहृतम् । यदि शरीरंशरीरिमावनिबन्धनं सामा- नाधिकरण्यं तदानीम् अहं वै त्वमसि' इति निर्देश एवोपपद्यते । त्वंशब्दनिर्दिष्टे परमेश्वरे वशरीरकत्वपर्यन्तस्याहंशब्दस्य वृत्त्युपपत्तेः । 'त्वं वा अहमस्मि' इति निर्देशस्तु नोपपद्यते । अहंशब्दनिर्दिष्टे परमेश्वरशरीररूपे स्वस्मिन्परमेश्वरवाचिनस्त्वंशब्दस्य वृत्त्यनुपपत्तेः । शरीरवाचिनां हि शरीरिपर्यन्तत्वं व्युत्पत्तिसिद्धं न तु शरीरिवाचिनां शरीरपर्यन्तत्वम् । अतो भेदाभेदशंकानिराकरणेनाभेददाथि परस्परा- भेद एवात्र बोध्य. ! न च वाक्यद्वयेऽपि त्वंशब्दौ प्रस्तुतगुणविशिष्टपर- मेश्वरविषयौ अहंशब्दो स्वशरीरकत्वविशिष्टपरमेश्वरविषयाविति वाक्य- द्वयमपि एकरूपार्थपरमिति वाच्यम् । तदानीं त्वं वा अहमस्मि' 'अहं वैत्वमसि' इति व्यवस्थितयुष्मदस्मच्छब्दपौर्वापर्यास्म्यसिशब्दप्रयोग- कृतवाक्यद्वयवैलक्षण्यवैयापत्तेः, एकेनैव वाक्येन स्वान्तर्यामिणः पर- मेश्वरस्य चाभेदसिद्धौ वाक्यान्तरवैयऱ्यांपत्तेश्च । न चाभेदप्रतिपत्तिदा- - चन्द्रिकासहिता। १२५ याय वाक्यद्वयं, जीवपरमेश्वरयोरिवान्तर्यामिपरमेश्वरयोभैदान्त्य- भावेन तद्दा_पादनस्यानपेक्षितत्वात् इत्येवं प्रकारेण तव जीव- परमेश्वराभेदार्थकत्वं स्पटम् । अतस्तदनुसारेण तत्त्वमस्यादि- वाक्यानामप्यभेदार्थकत्वमेव युक्तमित्येवं तदुपपादनं कृतं भवति । किञ्च । तत्त्वमसिवाक्यच्छाययापि तस्याभेदार्थकत्वमवसीयते । तर्हि वंशब्दनिर्दिष्ट प्राग्वार्णतजगत्कारणत्वादिविशिष्टपरमेश्वराभेदो बोच्यत इत्यसिशब्दान्वयस्वारस्यादवसीयते । अतस्तत्र त्वंशब्दस्संबोध्य- जीवमात्रपरः न तु तदन्तर्यामिपर इत्यभ्युपगन्तव्यम् । संयोध्यं प्रति स्वात्मन इव स्वान्तर्यामिणः स्वानुभवेन प्राचीनोपदेशेन वा प्रसिद्धत्याभावेन तस्य तं प्रत्युद्देश्यतानहत्वात् प्रकृतस्य सद्रूपस्य परमेश्वरस्य प्रागुपदिष्टत्वसमर्थने तत्र तद्भेदशंकानुदयेन तदभेद- बोधानपेक्षणात् । अतस्तत्त्वमसिवाक्यं जीवब्रह्माभेदपरमित्येव युक्तम् । एतत्सर्वमभिप्रेत्यैव भाप्याकारास्तस्मिन्नधिकरणे ते च पुनः स्वात्मतया ग्राहयन्ति परानपि शिप्यान् 'तत्त्वमसि' इत्यादिने- त्येतदनन्तरं 'निरवधिकपरमानन्दमयनिष्कळंकशिवत्वमाप्तिर्हि मुक्तिः। शिववत्वप्राप्तिरात्मनः पशुत्वनिवृत्तिमन्तरेण न भवति । पशुत्वनिवृ- तिश्च न तद्भावनां विना । अतो निरन्तरं शिवोऽहमिति भावनाप्र- वाहेण शिथिलितपाशतयापगतपशुभावः उपासकरिशव एव भवति' इति ग्रन्थसन्दर्भण शिवाभेदभावनां विना न मुक्तिरिति व्यवस्थाप- पयामासुः । 'अत एव तदन्यस्य मुमुक्षुध्येयत्वं निपिध्यते 'शिव एको ध्येयश्शिवंकरस्सर्वमन्यत्परित्यज्य' इत्यादिश्रुतिपु' इति ग्रन्थेना- शाधिकरणे प्रदर्शितं तत्वमसिवाक्यार्थमवलंब्य खशेषित्वादिप्रकारण खभिन्नत्वेन ब्रह्मोपासना कार्येति शंकामितरपरित्यागश्रुतिविरोधेन - १२६ आनन्दलहरी . निराचक्रुः । तत्त्वमस्यादिवाक्यानां शरीरशरीरिभावार्थकत्वाभावेऽप्या- रोपितभेदोपासनाविधिपरत्वमस्त्विति शंकाच निवृत्तव्राह्मणादिदेहाभि- मानमयपशुभावम्य निरतिशयस्वरूपानन्दसाक्षिस्वप्रकाशशिवरूपपरा- हंभावापत्तिर्मुक्तिः' इति ग्रन्थेनारोपितार्थास्पर्शिन्यां मुक्तयुद्धावप्युपास- नाकालाभ्यस्ताभेदभावनाप्रकर्पजवासनार्दाव्यप्रयुक्तशिवाहंभावानुवृत्त्यु. क्त्या निराचक्रुः । तस्मात् जीवब्रह्माभेदेऽप्याचार्याणां संप्रतिपत्ति- रसन्दिग्धा ॥ ५१ ॥ नन्वेवमाचार्याणां व्यवहारदृष्टया परिणामाभ्युपगमस्य तत्त्व- दृष्टया विवाभ्युपगमस्य जीवब्रह्माभेदाभ्युपगमस्य चाद्वैतवादिमता दविशेपे किमर्थः प्रस्थानान्तरतया पृथग्भाप्यारंभ इत्याशंक्याह- शुद्धं ब्रह्माद्वितीयं कथमपि हृदयं नाधिरोहेत्सुमूक्ष्म तत्र स्थैर्याय बुद्धस्तनुगुणमहितं तचिरं ध्येयमादी । इत्याक्तिसिद्धयै सगुणमिह परं ब्रह्म नान्यत्ततोऽस्ती- त्येवं वेदान्तवाक्यैस्सह तदनुगुणं योजितं सूत्रजातम् ।। निर्विशेपं ब्रह्म साक्षात्काराय ध्यातव्यमतिसूक्ष्मत्वात् पुरुषप्र- यौन कथञ्चिदपि हृदयं नाधिरोहेदिति तत्र बुद्धिस्थैर्य दृढभक्तिपू. र्वकचिरनिरन्तरोपासनाराधितस्यानन्तमङ्गळगुणविशिष्टविग्रहविशिष्टस्य सांबशिवरूपस्य तस्यैव प्रसादेन लंभनीयम् । ' स नो बुद्ध्या शुभया संयुनक्तु' इति श्रुतेः 'ईश्वरात् ज्ञानमन्विच्छेत्' इति स्मृतेः 'ईश्व- रानुग्रहादेषां पुंसामद्वैतवासना । महाभयकृतत्राणा द्वित्राणामेव जा- यते' इत्यभियुक्तोक्तेश्च | अतस्तत्र भक्त्यतिशयसिद्धये 'तदेव परं ब्रह्म नापरमस्य तात्विक रूपमस्ति' इति प्रतिपादनार्थ प्रवृत्तैराचार्यस्त- दानुगुण्येन वेदान्तवाक्यानां ब्रह्मसूत्राणां च योजनां प्रदर्शयितुमिदं, .

चन्द्रिकासहिता। १२७ भाप्यं प्रवर्तितमित्यर्थः ॥ ५२ ॥ ननु, शङ्करभगवत्पादैरुपपादितया रीत्या वस्तुतो निर्विशेष ब्रह्मेत्य- भ्युपगतं चेत् वेदान्तानां सविशेषपरतया योजनमयुक्तम् । सर्वेषां वेदा- न्तानामद्वैते निर्विशेपे ब्रह्मणि तात्पर्यमित्येव तैरंगीकृतत्वात् तब्यतिरेकेण तस्मिन्प्रमाणान्तराभावात् सविशेषपरतया योजनं भक्त्यर्थ कल्पितार्थ- विषयमर्थवादमात्ररूपमित्यभ्युपगतश्चेत् ध्यानास्पदसविशेषब्रह्मांगीकर- णमयुक्तं, वेदान्तव्यतिरेकेण तत्रापि प्रमाणान्तराभावादित्याशंक्याह-- यद्धयानप्रक्रियायां न पठितमथ यन्निर्गुणप्रक्रियायां दिव्यं देहं गुणान्या श्रुतिपु कथयति ब्रह्मणो वाक्यजातम् । तात्पर्य तेषु तस्यान्तरमभिदधत देशिकेन्द्रास्ततस्ते शुद्धाद्वैतेजपि साध्ये स्वयमधिकृतिषु ब्रह्मलिंगान्यवोचन् । सत्यं सर्वेषां वेदान्तानां निर्विशेषे ब्रह्मणि महातात्पर्यमिति, तथापि सगुणविद्याप्रकरणेषु ध्यानार्थ परब्रह्मणो यदिव्य विग्रहप्रति- पादनं यच्च दिव्यमंगळगुणप्रतिपादनं यच्च निर्गुणविद्याप्रकरणेषु तस्य स्तुत्यर्थं प्रतिपत्त्यर्थ वा तदुभयप्रतिपादनं तस्य सर्वस्यापि तदुभय- विषयमवान्तरतात्पर्यमस्त्येव । अत एव 'अन्तस्तद्धर्मोपदेशात् ' इति (ब्र. १. १.२१. सू) अधिकरणे 'स्यात्परमेश्वरस्यापीच्छावशा- साधकानुग्रहार्थम्' इति भाप्येण 'हिरण्यश्मश्रुर्हिरण्य- केशः आप्रणखात्सर्व एव सुवर्णः तस्य यथा कप्यासं पुंडरीकमेव- मक्षिणी' इत्यादिवाक्यप्रतिपन्नविग्रहसद्भावं प्रतिपादयता 'व्यतिहारो विशिंपन्ति हीतरवत् ' (व. ३.३.२६. सू) इत्यधिकरणे ध्यानार्थेs- पि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरः प्रसिध्यति' इति भाप्येण एप आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो विपिपासस्सत्य- आनन्दलहरी . , कामस्सत्यसंकल्प' इत्यादिवाक्यप्रतिपन्नगुणगणसद्भावं प्रतिपादयताच तेषां वाक्यानां ब्रमध्यानप्रकरणपठितानामपि ब्रह्मणो विग्रहगुणगणयो- रवान्तरतात्पर्यमस्तीति भगवत्पादैविभावितम् । तुल्यन्यायतया निर्गुणप्र- करणेषु जीवादिव्यावृत्तं तत्प्रतिपत्त्युपायत्वेन तत्स्तुत्यर्थत्वेन वा गुणादि- समाम्नानस्यापि 'सर्वस्य वशी सर्वस्येशान' इत्यादेस्ततावान्तरतात्पर्य मस्तीत्यंगीकृतमेव । अत एव 'अक्षरमंवरान्तधृतेः। (व. १. ३.९. सू) 'आनन्दमयोऽभ्यासात्' (प्र. १. १. १३. सू) 'सुषुप्त्युत्कान्त्यो- भेदेन ।' (ब्र.१. ३. ४३. मू) 'अत्ता चराचरग्रहणात् ।' (ब्र. १. २.९. सू) अदृश्यत्वादिगुणको धर्मोक्तेः' (ब्र. १. २. २२. सू) इत्याद्याधिकरणेप्वानन्दवल्ल्यादीनां जीवपरत्वादिव्यवच्छेदेन निर्विशे- पब्रह्मपरत्वनिर्णयार्थ प्रवृत्तेषु सर्वसष्मृत्वसर्वप्रशासितृत्वसर्वाधिपतित्व- संहर्तृत्वादीनि जीवादिव्यावृत्तानि ब्रह्मलिंगानीति तैरेवोपन्यस्तम् । यथा ‘अन्तस्तद्धर्मोपदेशात् ।' (ब्र. १. १. २१. सू) अन्तर उपपत्तेः' (ब्र. १. २. १३. सू.) इत्याद्यधिकरणेषु अन्तरादित्यादि- विद्यानां जीवपरत्वादिव्यवच्छेदेन सविशेषब्रह्मपरत्वनिर्णयार्थ प्रवृत्तेपु निरंकुशैश्चर्यवामनीत्वभामनीत्वादीनि निवृत्तब्रह्मलिंगानीत्युपन्यस्तम् । एवमादिभिराचार्यव्यवहारैम्सविशेषप्रतिपादकवाक्यानां तत्रावान्तरता- त्पर्य तदभिमत मित्येव उन्नीयते । तेषां निर्विशेषब्रह्मणि महातात्पर्य संक्षेपशारीरके व्यवस्थापितम्--‘सगुणवाक्यमपीह समन्वितं भवति निर्गुणवस्तुनि सर्वशः। न खलु निर्गुणवस्तुसमन्वयं न सहते सगुणे - स्य समन्वय ॥ सत्यासत्यवपुस्तथाहि सगुणं ब्रह्मास्य विद्या तथा तद्वत्त- द्विषयस्य वेदवचसस्तात्पर्यमेवंविधम् । तेनावान्तरमस्य वेदवचसस्ता- पर्यमन्यादृशश्चान्यन्निर्गुणवस्तुतत्त्वविषयं संकीर्त्यते भागशः॥' इति । .

चन्द्रिकासहिता । १२९ . तस्मात् सर्वेषां वेदान्तानां महातात्पर्येण तात्विकस्य निर्विशेषस्य ध्यानप्रकरणगतानां निर्गुणप्रकरणगतानाश्च सगुणवाक्यानामवान्तरता- त्पर्येण तात्त्विकातात्विकवपुपस्सविशेषस्य च सिद्धेर्युक्त एच भाष्यकारा- णां सविशेषनिर्विशेषोभयरूपब्रह्माभ्युपगमः ॥ ५३ ॥ ननूक्तरीत्या सगुणवाक्यानां सविशेषेऽवान्तरतात्पर्यमस्तीति तेषां तत्परतया योजनां प्रदर्शयन्ति भाप्यवाक्यान्युपपद्यन्तां नाम । सगुणवाक्यानां यदेकवाक्यतया निर्विशेषे महातात्पर्य समर्थनीयं, तेषाम् ‘एकमेवाद्वितीयम्' 'वाचारम्भणं विकारो नामधेयं मृत्तिके. त्येव सत्यम्' 'अथात आदेशो नेति नेति' 'न खेतस्मादिति नेत्य- न्यत्परमस्ति' इत्यादिवाक्यानां सविशेषपरतया योजनमिह भाप्ये कृतं दृश्यते । तत्कथमुपपादनीयम् । तत्सर्व सगुणविषयभक्तिदाय- प्रयोजनकौपचारिकमर्थवादमात्रमित्युपपायते चेदस्तु तथा । तथापि 'तत्त्वम' स्यादिमहावाक्यानां शरीरशरीरिभावरूपस्वस्वामिभावोऽर्थ इति तदर्थवर्णनाय मार्गान्तरकल्पनमयुक्तम् । दहरायुपासनानां जीवब्रह्माभेदगोचरत्वस्यैव सिद्धान्तसम्मतत्वात् । यद्यपि तत् पश्चा- दभेदार्थकथनेन प्रत्याख्यातं, तथाप्यंशाधिकरणव्यवस्थापितार्थोपपा- दनावसरे कृतस्य तथार्थकल्पनस्य किञ्चित् फलं वक्तव्यमित्याकां- क्षायामाह- नैर्गुण्यादिश्रुतीनां सगुणपरतया योजनं भाक्तमस्तु खस्वामित्वार्थपघाविरचनमफलं तत्वमस्पादिवाचाम् । जीवस्य ब्रह्मणश्च ह्युदितमभिदयोपासनं सत्यमेतत् स्थूलानां दासमार्गप्रपदनरुचये तेषु वक्तव्यमुक्तम् ।। ५४ ।। येषां मोक्षः परमपुरुषार्थ इत्यवगम्य तं प्राप्तुमभिलपतामपि आनन्दलहरी । साक्षान्मोक्षोपयोगितत्वावयोधार्थे श्रवणमननपूर्वके निर्विशेपे निदिध्या- सने तदपेक्षितात्यर्थचित्तैकाग्र्यादिसंपादनद्वारा तदुपयोगिनि दहर- विद्यादिरूपे सविशेषोपासने वा सामर्थ्यादिरूपस्य लौकिकस्य शास्त्री- यस्य वा अधिकारिविशेषणस्य वैकल्यानाधिकारपोकल्यं तानधिकृत्य प्रवर्तितो दासमार्गः । येन मार्गण शिवं प्रपन्नानां शिवप्रसादखीकरणं योग्यम् । अत एवोक्तं कामिके शिवप्रसादस्वीकरणमधिकृत्य-'मचिह्न- धारिणो लोके देशिका मत्परिग्रहाः । मदेकशरणास्तेपु योग्यं नैवान्य- जन्तुषु । स्वाद्यानि चादनीयानि पेयान्यन्यानि यानि च । देयानि तानि वै शंभोरश्नीयाद्दासभावतः । दासमार्गप्रपन्ना ये शैवे पाशुपते स्थिताः । तैरेव पेयं भोज्यश्च प्रातव्यञ्च मुमुक्षुभिः ।।' इति । वायुसंहितायामपि 'निवेदितं वा भुञ्जीत तच्छेषं वात्मशुद्धये' इत्यधिकृत्योक्तं 'न तु तत्र शिवोऽस्मीति वुद्धिं कुर्याद्विचक्षणः' इति । एवञ्च येन केनापि प्रकारेण येषां शिवभजनं नास्ति तैस्सर्वैश्शिवप्रसादस्वीकरणं न कार्यम् । 'योग्यं नैवान्यजन्तुपु' इति निषेधात् । ये त्वभेदोपासनादिरूपे दासमा- गर्गादुत्तमाधिकारे स्थितास्तैरप्यन्तःकरणशुद्धयर्थ रोगापमृत्युनिवृत्त्याद्यर्थ वा शिवप्रसादस्वीकरणं तस्यां दशायां दासभावनयैव कार्यम् 'न तु तत्र शिवोऽस्मीति वुद्धिं कुर्याद्विचक्षण' इति विशिष्य तस्यां दशायामभे- दभावनानिषेधेन उपासनादिसमयेप्वभेदभावनावतामपि प्रसादस्वीक- रणानुमितिविभावनात् , शिवं प्रति पशुत्वरूपस्य शिवदास्यस्याजान- सिद्धस्याभेदभावनाविरोधात् विद्यानुष्ठानकालेप्वननुसन्धीयमानस्यापि आमोक्षमनुवृत्तेश्च। एवमुपासनाद्यनयिकृताः स्थूलबुद्धयोऽस्मिन् दास- मार्गे प्रवर्तनेनानुग्राह्या इति तेषां रुचिमुत्पादयितुं दासमार्ग एव सर्वस्यापि मोक्षशास्त्रस्यार्थ इति तदाचार्यस्तेषु यद्वक्तव्यमस्ति तदपि चन्द्रिकासहिता क्वचित् मदर्शनीयमित्यभिप्रेत्य तत्वम' स्यादिवाक्यानां शरीरशरीरिभा- वरूपस्वस्वामिभावोऽर्थ इति मार्गान्तरमंशाधिकरणे कल्पितम् । ननु, मोक्षशास्त्ररूपेऽस्मिन् भाप्ये दासमार्गस्य दहराद्युपासनामार्गस्येव मो- क्षोपयोगित्वमस्तीति चेत्तत्र रुच्युत्पादनाय तस्य सकलवेदान्तार्थत्व- प्रदर्शनप्रकारकल्पनं युज्यते । न तु तस्य तदस्ति । तत्कतुन्यायेन तस्य 'गीतिज्ञो यदि योगेन न गच्छेत्परमं पदम् । रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥' इति स्मृत्युक्तप्रकारेण चिकाग्र्यसंपादनद्वारा योगानुष्ठाने पर्यवसानं प्राप्तस्य गीतिपरिज्ञानस्येव गाणापत्यादिरूप- हिमगिरिकैलासादिरूपस्थानगतशिवकर्यपदप्राप्तिफलहेतुत्वात् तत्क- तुन्यायविरोधेन दासभावनया दास्यकर्मणस्तन्निवृत्तिरूपमुक्तिफलक- त्वासंभवादिति चेन्मैवम् । तत्क्रतुन्यायेन दासमार्गप्रपत्त्यातदनुगुणगा- णापत्यादिफलप्राप्त्यनंतरं तत्रैवोपासनादिक्रमेण मोक्षप्राप्तिसंभवात् । न चायमैकान्तिको नियमः 'दासकर्म दास्यनिवृत्तिहेतुर्न भवति' इति । 'यो वैषां स्वामिनं कश्चिन्मोचयेत् प्राणसंशयात् । स दासत्वाद्विमुच्येत पुत्रभावं लभेत वा ॥' इति दासकर्मण एव स्वामिनः प्राणसंरक्षणस्य दास्यनिवृत्तिहेतुत्वस्मरणात् । तस्माद्युक्तमुक्तं 'दासमार्गप्रपदनरुचये तत्त्वमस्यादिवाचामर्थान्तरकल्पनम्' इति ॥ ५४ ।। ननु, सगुणोपासने तद्दास्ये वा प्रपदनार्थ तत्र रुच्युत्पादनं कार्यश्चेत् पुराणेतिहासादिप्रतिपादितेन प्रकारेण सगुणस्य परमेश्वरस्य विविधो महिमा प्रख्यापनीयः । साक्षान्मोक्षकारणभूतनिर्विशेषब्रह्मा वोधोपयोगितया च तदुपासनादिकं प्रशंसनीयम् । एवं सत्यमार्ग- वलंबने कर्तुं शक्ये किमर्थ 'सगुणमेव ब्रह्म ततः परं निर्गुणं तत्वान्तरं नास्ति तत्रैव सर्वेषां वेदान्तानां तत्तदर्थनिर्णायकशीरारकसूत्राणञ्चा आनन्दलहरी तात्पर्य तद्विरुद्धाभ्युपगमश्चायुक्त' इति कल्पितमार्गाश्रयणं कृतमि- त्याशंक्य पूर्षेपामप्यूपीणामेवं शैली दृष्टेत्याह- कर्मानुष्ठानभूम्ना भवभयहरिणी चित्तशुद्धिर्भवेदि- त्येप्वादावादरार्थ खलु परिहरणं मोक्ष्यमाणाश्रमाणाम् । पत्राद्वेदर्पिवाक्यैस्तदनुगुणनयस्साधितं कल्पमूत्रे तद्भाप्येऽत्र योज्यं गुणवहुमतये दूपणं निर्गुणस्य ॥ ५५॥ यज्ञादिकर्मानुष्ठानार्थ कल्पसूत्र प्रणीतवद्भिरापखंबाचार्यज्ञा- धनुष्ठानरहितस्य सन्यासाद्याश्रमान्तरस्य श्रुतिस्मृतिन्यायोदाहरणपूर्व- कमतियत्नेन दूपणं कृतं दृश्यते । तत्र तावत् 'अथ पुराणे श्लोका- वुदाहरन्ति--अष्टाशीतिसहस्राणि ये प्रजामीपिर ऋपयः। दक्षिणेना- र्यम्णः पन्थान ते श्मशानानि भेजिरे ।' (प्र० २. ५० ९. ख० २३. सू० ३.) 'अष्टाशीतिसहस्राणि ये प्रजां नेपिर ऋषयः । उत्त- रेणार्यम्णः पन्थानं तेऽमृतत्वं हि कल्पते ।' (सू० ६.) ' इत्यूर्ध्वरेतसा प्रशंसा । (सू० ५.) — अथापि संकल्पसिद्धयो भवन्ति' (सू० ६.) 'यथा वर्ष प्रजा दानं दूरेदर्शनं मनोजवता यच्चान्यदेवं युक्तम् ।' (सू० ७.) 'तस्माच्छ्रुतितः प्रत्यक्षफलत्वाच्च विशिष्टानाश्रमानेतानेके ब्रुवते।' (सू० ८.) इति गार्हादुत्कृष्टान्याश्रमान्तराणीति पूर्वपक्षः कृतः । ततः 'त्रैविद्यवृद्धानां तु वेदाः प्रमाणमिति निष्ठा तत्र यानि श्रूयन्ते ।' (सू ० ९.) 'त्रीहियवपश्वाज्यपयःकपालपत्नीसंबन्धान्युञ्चैर्नीचैः कार्यमिति तविरुद्ध आचारोऽप्रमाणमिति मन्यन्ते' (सू० १०.) इति सन्दर्भेण सर्वेषु वेदेषु सर्वासु शास्वासु तात्पर्यतो विधीयमानाना- मनिहोत्रादिकर्मणां गार्हस्थ्य एव सद्भावात् तत्त्यागवानाश्रमान्तराचार- स्सकलश्रुतिविरुद्धत्वादप्रमाणमिति वैदिकानां मर्यादेति स्वसिद्धान्तमु- चन्द्रिकासहिता। पक्षिप्य ते श्मशानानि भेजिरे' इति गार्हस्थ्ये तदुद्भावितस्य दूषणस्य निराकरणार्थमुक्तं यत्तु श्मशानमुच्यते नानाकर्मणामेपोऽन्ते पुरुपसं- स्कारो विधीयते' (सू० ११.) 'ततः परमनन्तं फलं स्वय॑शब्द श्रूयते' (सू० १२.) इति न गृहस्थानां श्मशानेऽपि केवलं प्रतिक्षेपः श्रूयते न वा ते पिशाचा भूत्या श्मशानं सेवन्ते । किंतु नानाकर्मणा- मग्निहोत्रादीनामन्ते श्मशाने पितृमेधाख्यः पुरुषसंस्कारः क्रियते । तस्य कर्मणोऽनन्तरं तेपामक्षय्यं स्वर्गशब्दवाच्यं महाफलं श्रूयते इत्यनेनो- क्तम् । अनेनोर्ध्वरेतस एवामृतत्वाय कल्पन्त इति यदुक्तं तस्यापि प्रतिक्षेपः कृतः । पुनरपि तेपामेवामृतत्वमिति पूर्वपक्षप्रतिक्षेपाय प्रमा- णान्तरं वक्तुमारब्धम् 'अथाप्यस्य प्रजातिममृतमानाय आह । प्रजामनु प्रजायसे तदुते मामृतमिति (ख० २४. सू० १) अने- नौदाहृतेनाम्नायेन मनुष्यं प्रति प्रजायां जायमानायां तद्रूषेण त्वमेव जायसे, अतो न त्वं नियसे, किन्तु प्रजारूपेणानुवर्तसे तदेव तवामृ- तत्वमित्युक्तम् । तदनन्तरमस्याम्नायस्यानुप्राहकन्यायः स्वयं सूत्रका- रैर्दर्शितः। 'अथापि स एवायं विरूढः पृथक्प्रत्यक्षेणोपलभ्यते दृश्यते चापि सारूप्यं देहत्वमेवान्यत्' (सू० २.) इति स एव पिता पुत्ररू- पेण पृथग्भूतोऽयं सर्वैरपि दृश्यते । अत एव हि द्वयोरपि सारूप्यं दृश्यते देहमानं भिन्नमिति । पितुः पुत्ररूपेणानुवृत्तौ सारूप्यमनेन युक्ततयोपन्यस्तम् । अस्तु पुत्ररूपेणानुवृत्तिः किमेतावतेत्याकांक्षाया- मनन्तरमुक्तं ते शिप्टेषु कर्मसु वर्तमानाः पूर्वेषां सांपरायेण कीर्ति स्वर्ग च वर्धयन्ति' (सू० ३.) 'एवमवरोऽवरः परेपाम् (सू० ४.) 'आभूतसंप्लवाते स्वर्गजितः' (सू० ५.) 'पुनस्स्वर्ग बीजार्था भव- न्तीति भविष्यपुराणे' (सू० ६.) इति । ते पुत्रपौत्रादयश्चोदि- १३४ आनन्दलहरी तश्राद्धादिकर्मानुष्ठाननिरताः पूर्वेषां पितृपितामहादीनां सांपरायेण परलोकेनान्वितानां कीर्ति खर्ग च वर्धयन्ति । अस्यायं पुत्र इत्या- दिप्रसिद्धिभिः श्राद्धादिना कीर्ति च वर्ग च वर्धयन्ति । एवं तत्पु- वतत्पुत्रादिरपि पूर्वेषां कीर्ति खगै च वर्धयति । एवं ते पुत्रपौत्रा- पुत्रपौत्रादिपरंपरावंत: आमळयं वर्गवन्तो भवन्ति । प्रळयानन्तरं पुनस्सर्गे सुप्ठ्यर्थाः प्रजापतयो भवन्तीति भविष्यत्पुराणे पठ्यत इत्यनेनोक्तम् । तदनन्तरमाश्रमान्तरनिन्दापरं ब्रह्मणो वचनमुदाहृतम्। ' अथापि प्रजापतेर्वचनम्' (सू० ७.) त्रयीं विद्यां ब्रह्मचर्य पजाति श्रद्धां तपो यज्ञमनुप्रदानम् । य एतानि कुर्वते तैरित्सह स्मो रजो भूत्वा ध्वसतेऽन्यत्प्रशंसन्निति । (सू० ८.) वेदत्रयाध्ययनं तदर्थ ब्रह्मचर्य प्रजोत्पादनं वैदिककर्मस्वास्तिक्यमुपवासादिकं सोमयागादिकं अंतर्वेदि बहिर्वेदि च दानमित्येतानि कर्माणि ये कुर्वते तैरेव सह वयं सः । तेषामस्मल्लोकप्राप्तिरस्तीति तैरेव सह वसामः । अन्यत्राश्रमा- न्तरं प्रशंसन् स्तुतिमात्रेणाप्यंगीकुर्वन् पांसुर्भूत्वा नश्यतीत्यनेनोक्तम् । तदनन्तरं यथा विहितकर्मसु वर्तमानाः पुत्रादयः कीर्ति स्वर्ग च वर्ध- यन्ति तथा प्रतिषिद्धेषु वर्तमानास्ते अकीर्ति नरकञ्च वर्धयेयुः इत्या- शंकायामुक्तम्-~-'तत्र ये पापकृतस्त एवं ध्वंसन्ति न परान् हिंसन्ति यथा पर्ण वनस्पतेः । (सू० ९.) नास्यास्मिन् लोके कर्मभिस्संबन्धो विद्यते तथा परस्मिन् कर्मफलैः (सू० १०) तदेतेन वेदितव्यम् । (सू० ११.) प्रजापतेषीणामिति सर्गोऽयम् (सू० १२) तत्र ये पुण्यकृतस्तेषां प्रकृतयः परा ज्वलत्य उपलभ्यन्ते (सू० १३) इत्य- नेनेदमुक्तं प्रजासन्ततौ पापकृत एव नश्यन्ति न पित्रादीन्नाशयन्ति यथा वृक्षस्य पर्ण कीटादिभिदूषितं चेत् तदेव पतति न वृक्षं वा शाखा चन्द्रिकासहिता। १३५ वा पातयति तस्मात् पित्रादीनां दुप्पुत्रादिकृतैः कर्मभिरिह लोके पर- लोके या तत्फलैः संबन्धो न विद्यते । तदेतेनोदाहरणेग वेदितव्यम् । हिरण्यगर्भस्य दक्षादीनां चायं सर्गः । ते स्वपजापरंपरायां सत्स्वपि पापकृत्सु सुखेनाद्यापि वर्त्तन्ते । तत्र हिरण्यगर्भस्य दक्षादीनांच सर्गे ये पुण्यकृतो वसिष्ठादयस्तेषां शरीराण्यपि दीप्यमानानि दृश्यन्ते सप्तर्षि- मंडलादिषु । न तत्सन्ततौ कस्य चित्पापेन तेषां पतनं दृश्यत इति । तदनन्तरं पूर्वपक्षोक्तस्य ' अथापि संकल्पसिद्धयो भवन्ति' इत्यादि- युक्त्यन्तरस्य परिहार उक्तः 'स्यात्तु कर्मावयवेन तपसा वा कश्चित् सशरीरोऽन्तवन्तं लोकं जयति संकल्पसिद्धिश्च स्यान तु तज्ज्यैष्ठय- माश्रमाणाम्' (सू०. १४.) इति । गृहस्थोऽन्यो वा यः कश्चिदपि कर्मादिलेशेन 'ग्रीप्मे पञ्चाग्निमध्यस्थ' इत्याद्युक्तरूपेण तपसा वा संकल्पसिद्धत्वादिकं लभत इति नाश्रमान्तराणामेव तल्लाभो नियतः । अतस्सर्वसाधारणोऽयमाश्रमविशेषाणां जैष्ठये न हेतुरित्यनेनोक्तम् । एवञ्च यथा कल्पसूत्रे यज्ञादिकर्मणां 'धर्मेण पापमपनुदति देवानां दैव्येऽपि यजमानोऽमृतोऽभूत् दिवि ज्योतिरजरमारभेताम्' इत्यादि- श्रुतिप्रामाण्यादतःकरणशुद्यादिपणालिकया मोक्षफलकत्वेऽपि मोक्षक- फलकस्यान्तःकरणशुद्धितत्पूर्वकदृढवेराग्यद्वारा कर्मानुष्ठानेनैव प्राप्यस्य सन्यासस्य महता यत्नेन पूर्वोत्तरपक्षाभ्यां दूपर्ण सन्यासफलश्रवणमा- वसन्तुष्टः कश्चिददृढवैराग्येण तत्र प्रवृत्तो मा पप्तत् । गार्हस्थ्ये कर्मा- नुष्ठानसद्भावात् ततश्चित्तशुद्धचतिशयं तेन दृढवैराग्यञ्च लब्ध्वा तद- नन्तरं सन्यस्तव्यञ्चेत् सन्यस्यत्वित्यभिप्रेत्य, न तु सर्वथा सन्यासनि- पेधमभिप्रेत्य । 'चत्वार आश्रमाः गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थ्य- मिति' (आप. प्र. २. प. ८. ख. २१. सू. १.) तेषु सर्वेषु यथोपदे- आनन्दलहरी शमव्यग्रो वर्चमानः क्षेमं गच्छति' (सू.२.) इति तत्रैव चतुर्णामप्याश्रमा- णां महाफलत्वेनाङ्गीकृतत्वात् । तथात्र भाप्ये 'न स्थानतोऽपि परस्यो- भयलिंगं सर्वत्र हि। (व० ३. २. ११. सू) प्रकृतैतावत्त्वं हि प्रति- पेधति ततो ब्रवीति च भूयः (व० ३. २. २१. सू) इत्याद्यधिकर- णेपु सूत्रार्थकथनमुखेन ईक्षत्यधिकरणादिषु स्ववचनेन च ब्रह्मणो निर्गुणत्वनिप्प्रपञ्चत्वादिदूषणं तित्वमस्सा' दिमहावाक्या कर्णन- मानसन्तुष्टः कश्चिनिर्विशेषब्रह्मपवृत्त्युचितनिचस्थैर्याभावेऽपि ताला- लिकश्रद्धामात्रेण तत्र प्रवृत्तस्सन् उभयभ्रष्टो मा भूत् सगुणोपासन- महिना तदुचितचित्तस्थैर्य प्राप्य तदनन्तरं तदुपासने प्रवर्तितव्यञ्चत् प्रवर्ततामित्यभिप्रेत्य, न तु सर्वथा निर्गुणनिपेधमभिप्रेत्य । तत्रैव तदभ्युपगमस्यापि दर्शितत्वादिति भावः । एवञ्च निर्गुणब्रह्माभ्युपग- मेन तत्परत्वेन वक्तव्यान्यपि वेदान्तवाक्यानि कथं तत्र तत्र सगुण- परत्वेन योजितानीत्यपि शंका निरस्ता । तेषां सगुणे तात्पर्याभावेऽपि तत्रादरातिशयसियर्थ तत्र तात्पर्यमारोप्य तदर्थतया वर्णनोपपत्तेः 'प्रजामनुप्रजायसे तदु ते मामृतम्' इत्याद्यर्थवादानां तात्पर्याविषये- ऽप्यर्थे प्रवर्त्यरुच्युत्पत्त्यर्थं प्रमाणतयोपन्यसनदर्शनात् , निर्गुणे महा- तात्पर्यवतां वेदान्तवाक्यानां तदन्तर्गततत्तत्पदपवृत्तिनिमित्तगुणविशि- टतया प्रथमप्रतीते सगुणेऽप्यवान्तरतात्पर्यसद्भावाच्च ।। ५५ ।। नन्वस्त्वेवमेतत्तथापि निर्गुणब्रह्मनिर्णयार्थ भगवता बादराय- णेन प्रणीतानि ब्रह्मसूत्राणि कैथं सगुणब्रह्मनिर्णयार्थत्वेन भाष्यकारै- योजितानि तदपि किं सूत्रकाराविविक्षितार्थकल्पनमित्याकांक्षायामाह- १. यत्' इति ख पाठः।

चन्द्रिकामहिता। सूत्राणामेतदर्थान्तरमधिगमितं मूत्रकाराशयस्थं केपां चित्तेवभीष्टं गुणवति विगुणऽप्यन्वयं दर्शयद्भिः । शुद्धबाकनिष्ठरापि शुचिहृदयाशंकराचार्यपादः श्रीकण्ठायस्तु भाष्य तदिह सुविहितं सर्वमूत्रारूढम् || अनेकार्थविवक्षया सूत्रप्रणयनं तावत् संभवत्येव । 'सारवद्वि- श्वतोमुखम्' इति लक्षणानुसारात् पाणिनिजैमिन्यादिसूत्रेषु योगधि- भागानुवृत्तिवर्णकान्तरकरणादिनानेकार्थपरिग्रहस्य सर्वसप्रतिपन्नत्याञ्च । ब्रह्मसूत्राणा निर्गुणस्वरूपप्रमाणसाधनफलनिर्णयार्थत्वेनाभिमतानां सगुणब्रमस्वरूपादिनिर्णयार्थत्यमपि विवक्षितमिति पूर्वाचार्याणामभि- मतं न वेत्येतावदेवावगन्तव्यम् । तदपि निर्गुणस्वरूपादिनिर्णयार्थत्वेन वानि व्याख्यातुं प्रवृत्तदशंकरभगवत्पादैरेव तेषु केपाश्चित्सूत्राणां नि. गुणस्वरूपादिनिर्णयार्थत्वं कपांचित्सगुणस्वरूपनिर्णयार्थत्वं च कपा- श्चिदुभयपरत्वञ्च प्रदर्शयद्भिराविष्कृतम् । तत्र प्रथमाध्याये तावत् 'अन्तस्तद्धर्मोपदेशात् (ब्र. १. १, २१. सू.) सर्वत्र प्रसिद्धो- पदेशात् (व. १. २. १. सू.) दहर उत्तरेभ्यः (ब्र. १. ३. १३. सू.) इत्यादिसूत्राणि दिव्यमगळविग्रहयुक्तस्य सत्यसं- कल्पत्वादिकल्याणगुणयुक्तस्य सकलप्रपञ्चसृष्टिपालनसंहारकर्तुनिरति- शयैश्वर्यशालिनस्सगुणस्य परमेश्वरस्य स्वरूपनिर्णयार्थत्वेन व्याख्या- तानि। द्वितीयाध्याये तस्यावाप्तकामस्य सर्वभूतेप्वेकरूपतया दयादि- गुणवतः प्रपञ्चस्रएत्वं सुखदुःखादिकरवितविषमभूतजातस्रष्ट्रत्वञ्च न संभवत्तीति विरोधशंकासमाधानार्थत्वेन ' न प्रयोजनवत्त्वात् । (ब्र.२. १. ३२. सू.) लोकवस्तु लीलाकैवल्यम् । (अ. २. १. ३३. सू.) वैषम्यनेऽप्ये न सापेक्षत्वात्तथाहि दर्शयति' इत्यादि (ब्र. २. १.३४.) - 18 १३८ आनन्दलहरी सूत्राणि व्याख्यातानि । सगुणः परमेश्वर एव जगदुपादानमपि न तु विशुद्धचिन्मात्रमिति पक्षे 'न विलक्षणत्वादि ' सूत्राण्यपि सगुणविष- याण्येव । तृतीयाध्याये 'फलमत उपपत्तेः' इत्यादि (ब. ३. २.३७.) सूत्राणि सगुणस्य परमेश्वरस्य कर्मोपासनादिफलप्रदतया भोगमोक्षयो- साधकालमत्वप्रतिष्ठापकत्वेन ब्याख्यातानि । तस्मिन्नध्याये गुणोपसं- हारपादे निर्गुणविद्योद्गीथविद्यादिविषयाणि सप्ताष्टान्यधिकरणानि विहाय सर्वाण्यप्यधिकरणानि तत्तद्विद्योपासनीयपरमेश्वरगुणविशेषनिर्णयार्थत्वेन व्याख्यातानि । एते च गुणा न ध्यानार्थ वाग्धेनुत्वादिवदुपासकेन कल्पनीयाः। किंतु परमेश्वरे स्वतस्सिद्धा इत्येतत् 'व्यतिहारो विशिंपन्ति हीतरवत् ' (३. ३. ३६. सू.) इत्यधिकरणे 'तद्योऽहं सोऽसौ यौs- सौ सोऽहम्' इत्यैतरेयवाक्यार्थविचारे तेन वाक्येन ध्यानार्थ जीवब्रह्म- गोरभेदे प्रतिपाद्यमानेऽपि तात्त्विकाभेदस्मिद्ध इत्युक्ता यथा ध्यानार्थेs- पि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरस्सिध्यतीति तत्र दृष्टान्ततयोपा- दानादाविष्कृतम् । चतुर्थाध्याये द्वितीयतृतीयपादयोः प्रतिषेधादिति चेन्न शारीरात् ।' (न. ४. २. १२. सू.) कार्य बादरिरस्य गत्युप- पत्ते' (ब. ४. ३. ६. सू.) इत्यधिकरणद्वयं विना सर्वाण्यप्यधिक- रणानि सगुणोपासकानां तत्प्राप्त्यर्थोत्क्रान्तिगतिनिरूपणार्थतया तद्वि- षयत्वेनैव व्याख्यातानि। चतुर्थपादेऽप्यादावधिकरणत्रयं विना संक ल्पादेव तु तच्छृतेः' (ब्र. ४. ४. ८. सू.) इत्यारभ्य सगुणोपासना- फलनिरूपणार्थतया सर्वाण्यप्यधिकरणानि व्याख्यातानि । कानि चिद- धिकरणानि सगुणनिर्गुणोभयसाधारणतया व्याख्यातानि । यथा चतु- १. 'विषयखेन' इति ख पाठ ।

चन्द्रिकासहिता। र्थाध्यायस्य प्रथमे पादे 'आवृत्चिरसकृदुपदेशात् ।' (. ४. १.१.) 'आत्मेति तूपगच्छन्ति ग्राहयन्ति च।' (न. ४. १. ३. सू.) 'आसीनस्संभवात्।' (व. ४. १. ७. सू.) यत्रैकाग्रता तत्राविशेषात् (न. ४. १. ११. सू.) तदधिगम उत्तरपूर्वाधयोर श्लेपविनाशी तद्यपदेशात्' (प्र. ४. १. १३. सू.) इत्यादीनि । कचित् क्वचित् वर्णकभेदेन सगुणनिर्गुणोभयपरतया व्याख्यानं दृश्यते । यथा 'शास्त्र- योनित्वात्' इति (ब्र. १. १. ३.) सूत्रं सगुणसावश्यव्यवसापनार्थ निर्गुणोपनिषदतत्त्वव्यवस्थापनार्थ चेति समासभेवेन द्वधा व्याख्यातम् । तथा · अमिहोत्रादि तु तत्कार्यायैव तदर्शनात् ' इति चतुर्थाध्याय- (न. ४. १. १६.)सूत्रे कल्पतरौ द्वधा व्याख्यातम् । अग्निहोलादिकं तस्मै ' तदधिगम उत्तरपूर्वाघयोः' इति सूत्रे तदधिगमशब्देन प्रस्तु- ताय निर्विशेषब्रह्मापरोक्षज्ञानरूपाय कार्यायव । विविदिपन्ति यज्ञेन' इत्यादिश्रुतिदर्शनात् । समस्तकर्मचन्ददाहकत्वेन कर्मजातिविरो- धिनोऽपि तस्य ज्ञानस्य नित्ययज्ञादिकर्मविशेषकार्यत्वं नायुक्तम् । समस्तवनदाहकस्यापि दावदहनस्य बनान्तर्गतवेण्वादिकार्यत्वदर्शना- दिति निर्गुणविषयकं व्याख्यानम् । अमिहोत्रादि तस्य सगुणब्रह्माधि- गमस्य कार्यायव । सगुणविदां केकयादीनां यज्ञाद्यनुष्ठानदर्शनात् । निर्गुणविद्याफलस्येव सगुणविद्याफलस्य कर्मकार्यत्वं नायुक्तम् । ब्रह्मा- लौकिकमोगरूपस्य तस्य सातिशयत्वदर्शनादिति तत्कार्यशब्द समा- सान्तरमाश्रित्य सगुणविषयं द्वितीयव्याख्यानम् । निर्गुणविषयेप्वप्य- धिकरणेषु सगुणप्रसङ्गः प्रायो न त्यक्तः । तेप्वपि जीवादिविषयपूर्व- पक्षप्रतिक्षेपाय ब्रह्मलिंगोपन्यासार्थ तत्तन्निर्गुणप्रकरणगतवाक्यविशेषा- णामवान्तरतात्पर्यविषयम्सगुण परमेश्वरः ‘सा च प्रशासनात्' पत्या- . .

आनन्दलहरी उत्तराचे- दिशन्देभ्य' इत्यादिसूत्रपरामृष्टतया वर्णित एव । किं बहुना । निर्गुणसाक्षात्कारान्मुक्तिरपि सत्यकामत्वादिगुणयुक्तसगुणेश्वरैक्यापति- रूपा तत्रतत्र प्रतिपादिता। तथा हि प्रथमाध्याय दहराधिकरणे दहराकाशो वाक्यशेषश्रुतैरपहत पाप्मत्वादिगुणः परमेश्वर इति प्रसा. ध्य प्रजापतिविद्यायां जीवेऽप्यपहतपाप्मत्वादिगुणानां श्रवणान्न तेषां परमेश्वरलिंगत्वपित्याशंकामुद्भाव्य तत्परिहारार्थ प्रवृत्तस्य दाविभूतखरूपस्तु' इति (व. १. ३. १८.) सूत्रस्य मुक्तो जीवस्य परमेश्वरभावापत्त्यैवापहृतपाप्मत्वादिगुणाविभाव इति न तेषां ब्रह्मलि- गत्ये काचिदनुपपत्तिरिति तात्पर्यमुक्तम् । तस्मादविद्याप्रत्युपस्थापित पारमार्थिकञ्चैव रूपं कर्तृत्वभोक्तृत्वरागद्वेषादिदोषकलुषितमनेकानर्थ- योगि तद्विलयनेन तद्विपरीतमगहतपाप्मत्यादिगुणकं पारमेश्वरं रूप विद्यया प्रतिपद्यत इति । द्वितीयाध्यायेऽपि “अंशो नानाव्यपदेशात्' (ब. २. ३. ४२. सू.) इत्यधिकरणे जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन ससारदुःखभोगेन ईश्वरस्यापि दु खं स्यात् । यथा लोके हस्तपादाद्य- न्यतमांगांशगतेन दु खेनांशिनो देवदत्तस्यापि दुःखित्वं तद्वत् । ततश्च तत्र पाप्ताना महत्तरं दुःखं प्राप्नुयात् अतो वर पूर्वावस्थस्संसार एवा- स्त्विति सम्यग्ज्ञानानर्थक्यप्रसंग इति शंकाग्रन्थेन बिंबप्रतिबिंबभाव- कृतासंकरमवलंव्य समाहितेन मुक्तम्य विवभूतेश्वराभावापत्तिः स्पष्टी- कृता। तृतीयाध्यायेऽपि ' सन्ध्ये सृष्टिराह हि' इत्य(ब्र. ३.२. १. सू.) धिकरणे परमेश्वराभिन्नथ्य जीवम्यैश्वर्यवशात् स्वप्ने सांकल्पिकी स्थादिसृष्टिभविष्यतीति गंकोत्तरत्वेनावतारितस्य पराभिध्यानात्तु तिरोहित ततो धन्य बन्धविपर्ययो' इति (ब्र. ३. २. ४.) सूत्रस्य तात्पर्यकथनायपरे ‘जीवेश्वरयोम्सत्यप्यंशांगिल्वे प्रत्यक्षमेव जीवम्य चन्द्रिकासहिता। २४१ . . ईश्वरविपरीतधर्मत्वम् । किं पुनर्जीवस्येश्वरसमानधर्मत्वं नास्त्येव । म नास्त्येव । विद्यमानमपि तु तत्तिरोहितमविद्यादिन्यवधानात् । तत्पुनः स्तिरोहितं सत् परमेश्वरमभिध्यायतो यतमानम्य जन्तोर्विधूतध्वा- न्तस्य तिमिरतिरस्कृतेन हपिछफिरौपधवीर्यादीश्वरप्रसादात्संसिद्धस्य कस्य चिदेवाविर्भवति' इति ग्रन्थसन्दर्भेण मुक्तस्यापहतपाप्म- स्वादिगुणकेश्वरभावापत्तिणिता । चतुर्थाध्यायेऽपि स्वेन रूपे- णाभिनिप्पद्यत' इति मुच्यमानविषयायां श्रुतो केन रूपेणा- भिनिष्पत्तिर्विवक्षितेति बुभुत्सायां 'ब्राह्मण जैमिनिरुपन्यासादिभ्य' इति (व. ४. ४. ५) सूत्रेण यहाा रूपमपहनपाप्मत्वादि सत्यसं. कल्पत्वावसानं सर्वज्ञत्वसर्वेश्वरत्वादि च तनाभिनिष्पत्तिः ‘य आत्मा. पहतपाप्मा' इत्याद्युपन्यासेन · स तत्र पति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा याना' इत्याद्यैश्वर्यावंदनन चेति जैमिनिमतं चिति तन्मा- त्रेण तदात्मकत्वादित्यौडुलामि.' इत्यनन्तर (ब्र. ४. ४. ६.) सूत्रेण एवं वा अरे अयमात्मानन्तरोऽबाह्य कृत्ल. प्रज्ञानधन एवं' इत्यादिश्रुत्या चैतन्यमात्रमात्मन स्वरूपमित्यवगतेस्तन्मात्रेणाभिनिष्प- विरिति मतान्तरं नोपन्यस्य तदनन्तरपठितस्य एवमप्युपन्यासात्पूर्व- भावादविरोधं बादरायण' इति सिद्धान्त (प्र. ४. ४. ७.) सूत्रस्य 'एवमपि पारमार्थिकचैतन्यस्यरूपत्वाभ्युपगमेऽपि व्यवहारापेक्षया पूर्व- म्याप्युपन्यासादिभ्योऽवगतम्य ब्राह्मस्यैश्चर्यरूपस्याप्रत्याख्यानादविरोधं बादरायण आचार्यों मन्यत' इति तात्पर्यकथनेन मुक्तम्य निरतिशयै- श्वर्यमालिसगुणेश्वरापत्ति. म्फुटीकृता । निर्गुणत्रलपाद तद्भावापत्तिरेव मुक्तिरिति वक्तव्ये कथं सगुणेश्वरभावापत्तिर्मुक्तिरुच्यत इति शंका च समाहिता । गन्तुदृष्ट्या मुक्तन्य चैतन्यमानत्वेऽपि विबभूतपरमे- २४२ आनन्दलहरी श्वरभावं प्राप्तस्य परमेश्वरवदेव बुद्धपुरुषव्यवहारदृष्ट्या याचसर्व- मुक्ति निरतिशयमेश्वर्य पारमेश्वरत्वेन प्रसिद्धम् अन्यच्च सकलं धर्म- जातं संभवतीति । अयमर्थः सिद्धान्तसंग्रहेऽप्यम्माभिः प्रपश्चित इति । एवश्च यथा चतुर्वपि वेदेषु सर्वप्राण्यनुग्रहार्थं ब्रह्मभावावातिरूपमहा- पुरुषार्थप्रतिपादनदंपर्यणैव प्रवृत्तेषु तदुपयोग्यन्तःकरणशुद्धिजनकक- मनिरूपणार्थ एव भूयान् प्रपञ्चः ब्रह्मनिरूपणार्थो वेदान्तभागस्तु निरूपणीयवाहुळ्याभावात् खल्पः। तथा भगवत्पादीये भाप्ये निर्विशे- पब्रह्मभावावाप्त्यर्थं तन्निदिध्यासनापेक्षितचित्तस्यैर्याधुपयोग्युपासनाराध- नीयसगुणेश्वरप्रसंग एव भूयान्निर्गुणस्वरूपविचारांशस्तु निरूपणीय- बाहुळ्याभावात् स्वल्पः । एवं निरूपितरसगुणश्च शिव एव न तु विष्णुरित्यपि शंकरभगवत्पादानामाशय उन्नीयते । अन्तरादि- त्यविद्याधिकरणपु सगुणप्रसंगे सर्वत्र प्रायश्शिवासाधारणेन परमेश्वरश- ब्देन तद्व्यवहारात् दहराधिकरणे ‘परमेश्वर एवात्र दहराकाशो भवि- तुमर्हति न भूताकाशो जीवो वा' इति सिद्धान्तमुपक्रम्य “यदिदमस्मिन् ब्रह्मपुर' चन्द्रिकासहिता। , भूताकाश' इत्युक्तम् । स्वयमेव तस्मिन्नेव संदर्भ उपमानोपमेय. भावनिर्देशं भेदकमुक्त्वा कथं ब्रह्मणो विष्णोश्च भेदानुमितौ तयोरुपमानोपमेयभाव निर्दिशेयुः । यत्तु यावदधिकाराधिकरण- भाष्यम् 'अपान्तरतमा नाम वेदाचार्यः पुराणपिः विष्णुनियोगात् कलिद्वापरयोस्सन्धौ कृष्णद्वैपायनम्संबभूव । सनत्कुमारोऽपि ब्रह्मणो मानसः पुत्र. स्वयं रुदाय वरप्रदानात म्कन्दत्वेन प्रादुर्घभूव' इति तत्प्रवृत्तिभंग्या विष्णोरुत्कर्षः प्रतीयमानम्महाररुद्रांशभूताद्विधातु: प्रा- दुर्भूसान्नीललोहितरुद्रादेव । कुमारसंभवोपाख्यानस्य तद्विपयत्वान् न तु मायोपाधिकसगुणब्रह्मरूपात् परमशिवादिति न विरोधः । एवं शुद्धाद्वैतप्रतिष्ठापनकनिष्ठेरपि शुद्धहृदयतया स्वमतविरुद्धत्वेन मन्द- धियामापातत. प्रतीयमानं सगुणमप्रच्छाद्य तद्विषयतयापि कानि- चित् सूत्राणि योजितवद्भिशकराचार्यम्सर्वेषां सूत्राणां सगुणनिर्गुणो- भयपरत्वमपि संभवतीति ब्रह्मविचारप्रतिज्ञापराधसूने श्रुतब्रह्मशब्दस्य 'अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वशक्तिसमन्वित च । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्त्वादयोऽर्थाः प्रतीयन्त' इति सगुणनिर्गणोभयपरत्ववचनेन कचिच्छास्त्रयोनिसूत्रे म्थालीपुला- कन्यायात्सगुणनिर्गुणोभयपरयोजनाद्वयेन च प्रदर्शितम् । एतां सरणिमास्थाय सर्वेषामपि सूत्राणां सगुणेश्वरविषयतयापि योजनान्तरं सूत्रकाराभिमतमिति पूर्वाचार्यपरंपराप्राप्तमुपदेशमपि प्रमाणीकृत्य श्री- कण्ठाचार्याम्सर्वसूत्राधिरूढं मगुणविषययोजनं प्रदर्शयन्तो भाप्यमिदं प्रणिन्युः । इयांस्तु विशेषः । शंकराचार्येम्सगुणमपि ब्रम तल तत्र सूत्राधिरूढं कृतम् । श्रीकण्ठाचार्यस्तु निर्गुणं क्वचिदपि सूत्राधिरूद्ध न कृतं प्रत्युत निर्गुणविषयतया म्पष्टं प्रतीयमानान्यपि सूत्राणि योन आनन्दलहरी सगुणविषयतया योजितानि । भाष्ये म्यवाक्यच्छायया परं कचित् काचित् निर्गुणाभिप्रायो द्योतितः । तत्र प्रयोजनमुक्तमेव । तामेव शैलीमनुसृत्यास्माभिरपि निर्गुणद्योतकानि भाप्यवाक्यानि प्रायस्सगुणा- नुकूलतया यत्नेन शिवादित्यमणिदीपिकायां योजितानि। इहापि विशिष्टा- द्वैतनिरूपणमकरणे सेव रीतिरनुसृता । इह तु शुद्धाद्वैतमताविष्करण- प्रकरणे तानि भाप्यवाक्यानि शुद्धब्रह्मम्वरूपाविष्करणार्थतयाञ्जस्येन योजितानीति सर्व समञ्जसम् ।। नवाचार्यभाष्यवद्रामानुजभाप्यस्यापि शुद्धाद्वैते पर्यवसानमु- क्तरीत्यैव वक्तुं शक्यम् । अविशिष्टं बुभयत्रापि स्थूलचिदचिद्वस्तुवि- शिष्टं ब्रह्म कार्य सूक्ष्मचिदचिद्विशिष्टं ब्रह्म कारणमिति कार्यकारणोभ- यावस्थं ब्रह्म विशिष्टाद्वैतरूपं सगुणं रूपवत् परशक्त्युपेतं नित्यमुक्तेन भजनेन प्रपञ्चोत्तीर्णलोकावस्थिततत्सालोक्यप्राप्तिर्मुक्तिरित्यादि सिद्धा- न्तवर्णनमित्याशंक्याह श्रीकण्ठाचार्यभाप्योक्त्यनुकृतिसरणिः कापि भाष्ये परेषां पायो दृशा विशिष्टाद्वयपरगुणितावर्णनादिनपञ्चे । साम्येऽप्येवं न शुद्धाद्वयसमुपगतिश्शक्यते तत्र वक्तुं तस्यालिंगस्य वक्तुन खलु कियदभिव्यञ्जनं कापि दृष्टम् सत्यमेतत्तथाप्याचार्यभाष्य इव रामानुजभाप्ये शुद्धाद्वैतं परमसिद्धान्त इत्यभ्युपगमसूचकं नास्ति व्यञ्जितमपि लिंगम् । न हि तत्र प्रपञ्चस्य निर्विकारब्रह्मविवर्त्ततात्पर्यावसानाभ्युपगमसूचकं प्रपञ्चपरिणामिन्याश्शक्तब्रह्माभिन्नत्वमभ्युपगतम् । प्रकृतिरूपा जड. शक्तिः प्रपञ्चपरिणामिनीत्येव तत्र वर्णितत्वात् चिच्छतेः प्रपञ्चपरि- -- ॥

चन्द्रिकासहिता। गामित्वस्य तत्र निराकृतत्वात् चिच्छक्तब्रह्माभिन्नत्वस्याप्यनभ्युपग- माच । न वा तत्र जीवब्रह्माभेदाभ्युपगमसूचकं स्वाभेदेनोपासनं मुक्तावपि ब्रह्माभेदवोधानुवृत्तिरित्याद्यभ्युपगतमस्ति । उपासनावस्थायां मुक्त्यवस्थायाश्च जीवब्रह्मणोश्शेपशेपिभावबोधानुवृत्तरेवाभ्युपगतत्यात् । 'नापि सन्घट' इत्यादि प्रत्यक्षं प्रमसत्ताविपयम् 'अहं सुखी' इत्यादि प्रत्यक्ष स्वस्वबुधवच्छिन्नब्रह्मानन्दविषयं 'स्फुरति घट' इत्यादि प्रत्यक्षं घटाद्यवच्छिन्नब्रह्मस्फुरणविषयं 'निरन्वयोपासकानामिहैव मुक्तिः' इत्यादि शुद्धाद्वैताभ्युपगमानुगुणार्थप्रतिपादनमस्ति सर्वत्र तद्धाप्ये शुद्धाद्वैतव्यवस्थापनस्यैवाभ्युपगमसूचकम् । यतस्तैौदे सत्येव तस्य मुक्तं प्रति पुरुषार्थत्वसाधनाय बहुधा प्रयन्तम् । किं बहुना । मुक्ती स्वस्वामिभावरूपभेदानुसन्धानपूर्वकं भगवद्भाग- वकैंकर्यमपि प्राभाकरैनियोगनिर्वर्तनमिव तैः स्वतः पुरुषार्थत्वेन साधितम् । भागवतानामन्योन्यशेपत्वं न विरुद्धमित्यपि महता यत्नेन साधितम् । तथा माध्वरुक्तमपि तन्न शुद्धाद्वैताभ्युपगमसूचकम् । यतस्तैर्मुक्तावपि भेदं प्रमाणमंगीकृत्य सन्मुक्तिरसन्मुक्तिरिति मुक्ती भेदञ्च कल्पयित्वा देवास्सन्मुक्ति प्राप्ताः परब्रह्मणो नारायणस्य शरीरे लीनास्सन्तस्तदीयैरेव कर्मेन्द्रियज्ञानेंद्रियैस्तत्तदिन्द्रियसाध्यान् भुञ्जाना विहरन्ति । मनुप्यादयस्तु, मुक्तास्तच्छरीरे लयमप्राप्य वखशरीरेन्द्रियै- रेव विषयान् भुजाना विहरन्ति । सर्वेऽपि ब्रह्मानंदमपि परमपुरुषार्थ- तयानुभवन्तः खखाधिकारानुगुणोपास्यगुणोपासनाकालोपासनासहका- रिकर्मवृन्दोपासनासाध्यसाक्षात्कारानुष्ठेयकर्मबृन्दमुक्त्यनन्तरकालस्व च्छन्दानुष्ठितोपासनाकर्मवृन्दतारतम्यानुसारतारतम्यमेव ब्रह्मानन्दमनु. भवन्ति । एवं भगवत्तत्त्वज्ञानभक्तिभ्यां सन्मुक्ति प्राप्ताः स्वयमप्यान- । 19 १ आनन्दलहरी न्दरूपम्वात्मानन्ददर्शनमनुभवन्ति । तस्मात् किश्चित्सारूप्यमात्रेणा- चार्यभाप्यवत्तदनुकरणेन प्रवृत्तस्य रामानुजभाप्यस्य शुद्धाद्वैते पर्यव- सानमशक्यमुपपादयितुमित्यर्थः ॥ ५७ ॥ ननु रामानुजभाप्ये जीवब्रह्माभेदाभ्युपगमसूचकमपि किश्चि- दुक्तमस्ति । तत्र हि संसारदशायां ब्रह्मानन्दस्य जीवभोग्यत्वानुक्ता- वपि मुक्तिदशायां तस्य तद्भोग्यत्वमाचार्यभाप्ये समधिगतमुक्तम् । तत्तयोरभेदाभ्युपगमसूचकम् । अन्यानन्दस्यान्यं प्रति अपुरुषार्थ- त्वात् । तथैव मध्वभाप्येऽप्युक्तम् । तत्र जीवगतस्य बन्धस्य मिथ्या- त्वं ब्रह्मगतस्य जीवगतव्यावर्तकगुणजातस्य धर्मभिन्नस्य राहित्यं ब्रह्मणश्च मुमुक्षुज्ञेयस्यानुपास्यत्वं जीवस्य ब्रह्मप्रतिक्वित्वं ज्ञाननि- वयंभावरूपाविद्यासत्वमित्यादि जीवब्रह्माभेदोपोहलकमधिकमुक्तम् । अतम्तयोरपि शुद्धाद्वैतपर्यवसायित्वमुपपादयितुं शक्यमित्याशंक्य तामुद्भाव्य परिहरति- ब्रह्मानन्दस्य तस्मिनिह समधिगतं मुक्तभोग्यत्वमुक्तं नज्जीवब्रह्मभेदप्रतिहतिकरणञ्चान्यदन्यत्र भाष्ये । तत्स्वव्याहत्यदृष्टया कथमपि न तयोस्तात्विकाभेददृष्टया वद्वेषा हि शुद्ध गुणवति च शिवे ते दधीचादिशप्ताः ॥ रामानुजीयैर्माध्वैश्च ब्रह्मानन्दस्य मुक्तभोग्यत्वं यदुक्तं तन्ने शुद्धाद्वैतसूचकम्। तेहि भगवत्तत्त्वज्ञानभक्तिभ्यां सन्मुक्ति प्राप्ताः ब्रह्मा- नन्दं वैषयिकानन्दञ्चानुभवन्तो न कदाचिन्निवर्तन्ते । भगवन्मिथ्या- ज्ञानदोषाभ्यामसन्मुक्ति प्राप्तास्तु महानरकेषु त्रिषु निपतिताः स्वय- मपि दु खैकरूपाः स्वात्मदु खं नरकदुःखञ्चानुभवन्तो न कदाचिन्न- रकेभ्य उत्तिष्ठन्तीति मुक्तिस्वरूपं वर्णितम् । न चास्मान्मुक्तिद्वया- चन्द्रिकासहिता। दाधिका निर्विशेषब्रह्मभावावाप्तिरूपा मुक्तिः श्रीकण्ठानायैरिव तैरु- भयैरपि कचिदप्यंगीकार्यत्वेन व्यञ्जिता । यतु माध्यैरभ्युपगतं वन्ध- मिध्यात्वादिकमद्वैतानुगुणमिव प्रतिभाति तदपि तैरेवाद्वैताभ्युपगमशंका- परिहारार्थ तदननुगुणत्वेन समर्थितम् । तथाहि~ बन्धस्य जीवे मिथ्यात्वेऽपि अंतःकरणे सत्यत्वं ब्रह्मगुणानादिधर्माणामिहाभेदेऽपि प्रतिषेधविशेषस्यापि सत्त्वं मुमुक्षुभिर्ब्रह्मसाक्षात्कारार्थ वस्तुतो भिन्नस्यैव कस्यचित् अंतःकरणस्य तत्प्रतिविवोपाख्यत्वं ब्रह्मजीवयोर्मुखप्रतिमुखा- दिकयोश्च बिंबप्रतिबिंबयोवस्तुती भिन्नत्वं ज्ञाननिवल्या भावरूपा- विद्यायास्सत्यत्वमित्यादि समर्थितम् । यद्यप्यन्यानंदस्यान्यं प्रति पुरु- पार्थत्वमशक्यमित्यादिहेतोमानन्दो मुक्तभोग्य इत्याधुररीकरणमद्वै- तपर्यवसानापादकतया म्वव्याघातक, तथापि अनिवार्यपातनस्वव्या- धातादृष्टया तैरिदं नाद्वेताभ्युपगमदृष्टया । आचार्यभाष्य इव तदी- यभाप्यादिग्रन्थे शुद्धाद्वैताभ्युपगमस्याभावात् । तदीयभाष्यकारप्र- भृतिभिरद्यतनपर्यन्तैर्विविधैरपि गौतमदीच्युपमन्युनन्दिकेश्वरादिशाप- सञ्जातशुद्धाद्वैतपरमशिवोत्कर्षद्वेषकलुपैः परमशिवोत्कर्षम्येव वैष्णव- मन्यैनिर्विशेषब्रह्माद्वैतस्यापि बहुधा विनिद्यमानत्वस्यैव दर्शनाचेति भावः ।।५८ ॥ नन्वेयं रामानुजभाप्यमिवाचार्यभाप्यमपि सगुणनानपर्यव- सायि किं न स्यात् । तनिरूपणमेव तत्र तत्र सूत्रालढतवा तत्र कृतं दृश्यते । तस्य च नित्यत्वादिति (ब्र० २. ४. १६.) सूत्रार्थ- त्वेन जीवानां ब्रह्मणश्चानपायिमुक्तावप्यनुवर्तमानश्शेषशेषिभावोऽपि वर्णित इति मन्दशंकानिराकरणाथै प्राक प्रपश्चितरामानुजभाप्यादि- वैषम्यं धुद्धिसौकर्याय संकलथ्य स्मारयति--- १४८ आनन्दलहरी बोद्धव्यं यद्विशेषोऽभिमतमतमिदं निर्गुणब्रह्मरूपं यचोपास्यं निरादीनवनिखिलगुणं नीलकण्ठं त्रिनेत्रम् । स्वत्वामिखाभिदाभ्यां द्विविधमभिमतं तस्य चोपासनं य- तत्सर्व भाप्यरत्ने स्फुटमकथि खलु श्रीमदाचार्यपादः ।। खादेवमाशंकायकाशवती, यद्याचार्यभाप्ये निर्गणं निप्पपञ्चं ज्ञेयं ब्रह्म तस्य चाभेदेन निदिध्यासनमभेदावबोधस्य मुक्तावप्यनुवृत्ति- रित्यादिकं स्वमतत्वेन न प्रतिपादितम् । तदपि प्रतिपादितमिति बहु- विधादाहरणमुखेन प्राक्प्रपश्चितम् । अतः पूर्वोक्तदिशैव द्विविधाना- मपि भाप्यवाक्यानां व्यवस्थापितत्वादिति सूत्रार्थतया शेपशेपिभावस्य नित्यत्वकथनमपि चातुर्मास्यसुकृतस्याक्षय्यत्वकथनवत्. आपेक्षिकार्य- विषयतया योजनीयमिति भावः ॥ ५९॥ नन्वेवं तर्हि शंकरभगवत्पदभाप्याछायापन्नमेवेदमपि भाज्य- मित्यायातं, तस्मिन् जाग्रति किमनेनेति मंदशंकानिराकरणाय प्राक्प्रप- ञ्चितान्यसाधारणप्रयोजनानि बुद्धिसौकर्यार्थ संकलय्य स्मारयति सर्व- मर्थ प्रकरणप्रतिपिपादयिपितत्वेन संगमयति च--- यत्सूक्तरेव बोध्यास्सगुणगुणवपुर्मुक्तिलीलाविशेपा- स्तस्योपास्तिप्रकाराससफलसरणयस्मूत्रतात्पर्यभेदाः। वेदान्तानां व्यवस्था परशिवपरमाकाशयोस्तखभाष्ये तद्भायं दुर्मतीनां प्रभवति विदधद्वैदिकश्रीसमृद्धिम् ।। श्रीमदप्पय्यदीक्षितकृतिरानन्दलहरी संपूर्णा ॥ सत्यं शकरभगवत्पादभाष्यानुसार्येवेदमाचार्यभाप्यं तथापि तस्मिन्भाप्ये मायोपाधिकसगुणब्रह्मास्तित्वमवगतं न तु तस्य षड- .

चन्द्रिकासहिता। गदशाज्ययादिगुणाः, नीलकण्ठत्वादिविशिष्टमूर्तिहमाशक्तिः, काल- कूटनिगरणादयो लीलाः, स्वस्वामिभेदेनाभेदेन च उपासनार्थ- प्रकारविशेषपरमशक्त्युमाशावल्यनीलकण्ठत्वविरूपाक्षत्वादीनां सर्व- विद्यास्पसंहारः, सर्वे.. चेतनपरित्याग इत्याद्याः पर- मानन्दमहाकेलासमाप्तिरूपेण परविष्णुलोकमप्यातिवाहिककोटी निवेश्य निरूपणीयेन तत्प्रापकमार्गेण च सहिताः, सर्वेष्वप्येतेष्वर्थेषु ब्रह्मसूत्राणां महातात्पर्यावान्तरतात्पर्यभेदास्सगुणब्रह्मविषयावान्तरता- त्पर्यवत्सु वेदान्तवाक्येषु केपाश्चिद्विशिष्टरूपस्य सगुणब्रह्मणो विशे- प्यांशे जीवे तात्पर्य केपाश्चिद्विशेषणांशे जीवे तात्पर्यमित्येवं व्यव- स्थाश्चावगताः । ते सर्वेऽप्यस्यैव भाप्यस्य सूक्तिभिरेवावगन्तव्याः । यद्यप्यस्मिन्भाष्ये समुदाहृतैः श्रुतिस्मृतिपुराणागमेतिहासवाक्येस्ते प्रति. पादिता । तैरवगतिसंभवे च सूत्राणामवान्तरतात्पर्योपगमेन भाप्यान्तरं न प्रवर्तनीयम् । शिवपरमाकाशपरसा परसगुणविषयवेदान्तभागव्यवस्थाश्च तद्विषयकूर्मपुराणादिवचनानुसारेणावगन्तुं शक्या न कर्तव्याः। तथापि न तैः निर्धारणरूपावगतिम्सभवति । पां कुदृष्टिभिरन्यथानीयमानतया ततो वैदिकानामपि चित्तक्षोभसंभवात् । अतः सा हि श्रीरमृता सताम्' इति श्रुतेर्वेदिकानां या श्रीस्त्रिवेदी तस्यास्समृद्धिमहातात्पर्यावा- न्तरतात्पर्यविषयार्थतत्वाववोधनयोग्यतदर्थानुष्ठापनतत्फलप्रापणैरुपचय वैदिकमार्गप्रतिष्ठापनरूपं संविधानं तत्परिपन्थिकुदृष्टिकुलजल्पितदूष- णानवकाशीकरणं तन्मतदूषणञ्च कुर्वदिदं भाप्यं सार्थकमेव। यद्य- प्यसिन्भाष्ये परापादितदूषणोद्धरणं कण्ठोक्त्या कृत न दृश्यते, तथापि यथा महान् प्रभुः खराज्यरक्षणार्थ चोरप्रवेशानवकाशीकरणं तेषां निग्रहश्च स्वकीयभृक्षेपकिंकरैः कर्तव्यमिति सप्रकारं भूसंज्ञया व्यञ्जयति

आनन्दलहरी
तथा विद्यासाम्राज्यसिंहासनारूढमहाप्रभुकल्पमिदं भाष्यं तत्सर्व
व्याख्यातृभिः कर्तव्यमित्युक्तिभंग्यैव सप्रकारं व्यञ्जयति ॥ ६० ।।
श्रीमहेश्वराय नमः ॥
.
श्रीमदद्वैतविद्याचायचर्यभारद्वाजकुलजलधिकौस्तुभ
श्रीरंगराजाध्वरीन्द्रतनयश्रीमदप्पय्यदीक्षित
नियु आनन्दलहरीव्याख्या चन्द्रिका
ममाप्ता॥

॥ अपीतकुचाम्बास्तवः ॥
आनन्दसिन्धुलहरीममृतांशुमाल-
रासेविनाममृतनिर्मितवर्तिमक्ष्णोः।
आनन्दवल्लिविततेरमृतागुच्छ-
मम्ब स्मराम्यहमपीतकुचे वपुस्ते ॥ १
निनिंद्रकोकनदकोमलकान्तमम्ब
नित्यं सुधानिकरवर्पि पदं त्वदीयम् ।
मूर्छाकरज्वररुजा मम तापितस्य
मूर्तीि क्षणं सकृदपीतकुचे निधेहि ॥ २ ॥
शीतांशुकोटिसुषुमाशिशिरैः कटाक्ष
रव्याजभूतकरुणारसपूरपूर्णैः।
कर्पूरधुलिमिव दिक्षु समाकिरद्भि-
रम्ब क्षणं मपय मामरुणाद्रिमान्य ॥३॥
आविर्भव क्षणपपीवकुचे पुरस्ता-
दम्ब ज्वरेण पहता मम तापितस्य ।
येन स्वदसिरुचिजालसुघाप्रवाई
मग्नस्तदेव तनुतापममुं त्यजेयम् ॥ ४ ॥

अपीतकुचाम्वास्तवः । नानाविधैर्नलिनजातलिपिप्रक्लूप्त- रानीनमुर्छमधिकं क्षुभितै गयः। आश्वासय क्षणमपीतकुचे कराय- क्रीडाकनकनकहल्लकसारभेण ॥ ५ ॥ कण्ठे विपं विपमुचो भुजगाः कपर्द पार्चे च भूतपतयः प्रमथाश्च भीमाः । शोणाचलेशमुपमृत्य भजेन को वा न स्यात्तवाम्ब सविधे यदि संनिधानम् ॥ ६ ॥ शक्तिर्जगज्जननपालनभञ्जनेषु भोगेपु दिव्यमहिपी तरुणेन्दुमालेः । सिद्धिः करमणयिनी तव संनिधानं यन्नासि तस्य तदपीतकुचे न जाने ॥ ७॥ त्वं साक्षिणी प्रलयभैरवताण्डवानां खं शेपिणी सहरिधातृचराचराणाम् । त्वं मोचिनी सकलसंमृतिजालकानां त्वां ब्रह्मसंविदमपीतकुचे नमामि ।। ८॥ इति श्रीमदद्वैतविद्याचार्य चतुरधिकशतप्रबन्ध. निर्वाहक श्रीमदप्पय्यदीक्षितेन्द्र कृनिषु अपीतकुचाम्यास्तवः समाप्त । ओ शिवाभ्यां नमः॥

।। श्रीः ।। आनन्दलहरीस्थ पद्यानामकारादिक्रमेण पत्रपृष्ठसंख्यासूचिनी॥ पृष्टांकः १०७ ។ ។ १०९ एव सत्येव 3 पृष्ठांकः अंग प्राथम्यमेव ६९ नत्तत्त्वावेदन अत्रके वर्णयन्ति तस्मानास्यत अस्यामानन्दवरल्यामुपरि च २१ तस्मिन्विनानमन्तः आकाशे दृश्यते निवहिनृपद २२ दीक्षासम्झारसिद्धिः आचार्याम्नत्र तत्र १२२ नन्वेव कटभारेः आध्यानादिक्रियायाम ११८ नाह कचिद्भजामीत्यभिहित आग्माकोनातु सैद्धान्तिकसगिः ६८ नैगुण्यादिश्रुतीनाम उक्ता खल्वत्र मुक्तिर्गनिमुपरि १०९ नोक्त तन्तत्र तत्र एव च ब्रह्मणो यत्तदुपरि २२ प्रज्ञाश केः प्रसारम प्रत्येक व्रह्मभावः एव सत्येव तस्मिन्नखिल १४ प्राणो ब्रह्मति जानामि एकार्ये चिन्तिते ताम् १८ प्रायो विष्णुः पुराण कर्मानुशानभूना 1३२ चोव्य यद्विशेषो कस्यानन्दोऽय ब्रह्मानन्दत्वमुक्ता को रवान्यात्क इत्या ब्रह्मानन्दस्य तस्मि मीनास्वाध प्रपद्य ४५ ब्रह्मत्यबाविशिष्टम् चिच्छकि ब्रह्मणो यत १११ मन्त्रश्छदासि यज्ञाः जन्मस्थित्यादि ६३ यत्सूफैरेव बोद्धया जीचस्तावत्प्रसिद्धः ५५ यत्र काप्यन्ति चेत्सा जावास्सर्व तदशाः ६३ यद्धयानप्रक्रियायाम जीवेन्द्रत्वाभिधानात् ७८ यानन्यतोक्तम् 32 ३७ १४८ ६ १४८ ६.

ठाकः
ठाकः
यद्वा शक्रश
यन्मत्रब्राह्मण
योगारूदन गीतालिव
विश्रीपादानभावः
विष्णुत्वप्राप्तये च
विष्णोरुत्कर्षमेव प्रथयति
९३ शम्भास्सहाररुद्रादिव
२५ शास्त्रे चाम्मिन्महेश
शास्त्र ब्रह्माधिकारम्
३. शुद्धात हि
शुद्ध ब्रह्माद्वितीयम्
५६ श्रीकण्टाचार्यभाष्या
४३ सत्यज्ञानादिमोदित
७४ संकल्पादादिविष्णोः
२० सूत्राणामेतदर्थान्तर
१४४
विष्णार्या तत्पुराणा
शक्त्यशे सर्वतत्त्वात्मनि
शम्भोजानक्रियेच्छा
१३५

Anand Lahari

Author
Dikshit.,appaya
Title
Anand Lahari
File name
Anand Lahari
Text
OCR done
Citation
1908
Published
2012/08
Publisher
Vanivalas Mudra Yantralay
Language
Sanskrit
Pages
165
Library
Bharatiya Vidya Bhavan Library, Mumbai
DLI number
311571
Barcode
99999990320446.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
AbG9Ri8fIwv
Download PDF

Anand Lahari