Central Library, Bits-pilani

शाब्दनिर्णय

Shaastrii Tii Ganapati · 2005/06/11

PDF Proofread

Front matter

Birla Central Librarp
PILANI (Jaipur Stali:)
Class No :- S181.4
Buok No :-
17465T
Accession No :-16489
KEQJEST
IT IS EARNESTLY DESIRED THAT THE
BOOK BE HANDLED WITH CARE AND BE
NOT MARKED, UNDERLINED OR DISFIGUR
ED IN ANY OTHER AY, OTHERWISE IT
WILL HAVE TO BE REPLACED OR PAID
FOR BY THE BORROWER IN THE INTEREST
OF THE LIBRARY
LIBRARIAN

No text on this page.

No text on this page.

TRILISONONINKRITERIES
NO. LIUJ.
श्रीप्रकाशात्मयतीन्द्रप्रणीतः
शाब्दनिर्णय
TIME
SÂBDANIRVAYA
PRAKASATMAYATÎNDRA
I.DITED BY
T (11.VIITT SETR
,
11. Timlaing
PUBLINIETTIDER . 11 Tillil'lOF THE COVERVIESTUI
HINHICLES THE MILAR TUL TRANSCORE
0
CRIVANDRIN:
I'RINTED BY THE SUPERINTENTEST, GOPERSMENT PRES
1117.

No text on this page.

TRIVANDRUM SANSKRIT SERIES
No. LIII.
THE
SÂBDANIRŅAYA
BY
PRAKASÂTMAYATÎNDRA
EDITED BY
1. GANAPATI SASTRÎ
d'urudur of the Department for the publicution ,
Sametrit Vanuzrrupta, Treccand ruin.
L'BLISHED: L'IDER TIE 11THORITY OF THE GOVERSDIENT OF
IIIS HIGHNESS THE MAILSRAJAH OF TRAVANCORE.
TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS
1917.
All Rights Reserved)

No text on this page.

अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ५३.
शाब्दनिर्णयः
श्रीप्रकाशात्मयतीन्द्रप्रणीतः ।
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
न. गणपतिशास्त्रिणा
संशोधितः ।
सच
अनन्तशयने
महामहिमश्रीमूलकरामधर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितः।
कोलम्बाब्दाः १०९२,
कैस्तान्दाः
१९११

No text on this page.

PROFACE. Sábulanirnaya is a treatise on the Advaita school of the Verlânta philosophy. written in the form of Kirkus with The author of the work is called Prakásatmayatindra, il desciple of Jhanyámubbara. He is also known to have written another work named Panchapadlikâvivarana from the l'art that the first two imvoratory verses and another two verses excurring before the last verse of the Salwlanirnaya are found in the intro!uctors portion of Panchapârlibavivarant. The author turislued earlier than l'idyaranya Who we livaranaprame pasangrahu. an abridgement of the Panchapadlikávivarana. The lition of the work is basert ou dupe paluu-leaf manuscripts in Malayalam characters. Two of them designinted # and clicking to Nr. Klapalli Raja: it few folios are missing in the beginnir.g and euding respectively of these inanuscripts. The third manuscript marked or is it complete one belonging to Mr. Narayanan Vunburi. Ilaripail. Trivandrum, 9th April 1917.1 T. GANAPATI SASTRÎ.

No text on this page.

निवेदना। शाब्दनिर्णय इत्ययं कश्चिदद्वैतमतानुयायी वृत्तिसंवलितकारिका. रूपो वेदान्तप्रकरणग्रन्थः । शब्दाद ब्रह्मापरोक्षज्ञानं जायत इत्ययमर्थ इह प्रसाध्यते। अस्य प्रणेतानन्यानुभवशिष्यः प्रकाशात्मयतीन्द्रः । शान्दनिर्ण- यस्य मङ्गललोकयोरुपान्त्यश्लोकयोश्च पञ्चपादिकाविवरणस्यारम्भे दर्शना- दयमेव तत्रभवान् पञ्चपादिकाविवरणस्यापि कर्तेत्यवगम्यते । पञ्चपादि- काविवरणप्रतिपाद्यवस्तुसंग्रहात्मकस्य विवरणप्रमेयसङ्ग्रहाख्यस्य ग्रन्थस्य प्रणेता विद्यारण्ययतीन्द्रः पूर्वाश्रममाधवाचार्य इति तस्मात् प्राचीनः प्रकाशात्मयतीन्द्रः। अस्य ग्रन्थस्य संशोधनाधारभूतास्तालपत्रमयाः केरलीयलिपयस्त्रय आदर्शाः। तेषु द्वौ इडप्पळिराजस्वामिकावायन्तयोर्लप्तकतिपयपत्रौ क. ख.संज्ञौ; अपरो हरिप्पाटुनारायणनम्पूरिमहाशयसंबन्धी ग.संज्ञः समग्रः । अनन्तशयनम् । ९-४-१९१७. । त. गणपतिशास्त्री.

No text on this page.

॥ श्रीः ॥ प्रकाशात्मयतीन्द्रप्रणीतः शाब्दनिर्णयः। यस्याः प्रसादमवलम्ब्य जगद्गुरूणा- मप्यस्खलबहुगुणाः प्रसरन्ति वाचः। सा वेदशास्त्रपरिनिर्मितवन्यदेहा भूयात् समग्रवरदैव सरस्वती वः ॥१॥ विघ्नाभितापमभिहत्य मदीयकृत्य- बीजं प्रवृद्धमदनुग्रहवर्षपातैः । संप्रार्थितः सिततरोऽपि गणेशमेघः सिञ्चन्नभीष्टफलमङ्कुरयत्वमोघम् ॥ २॥ येषां पादरजस्तान्तपङ्कनिरासिभिः । आत्मा में स्वच्छतां यातस्तान् नमामि गुरूनहम्॥३॥ नत्वा ब्रह्म यथा शाब्दान्मानात् तत्तत्त्वमीक्ष्यते । तथा वयं निवभीमः स्वबुद्धिपरिशुद्धये ॥४॥ Arman mmam 'भावम', २. प है। ग. पाठ २ - - शाब्दनिर्णयः। शाब्दप्रमाणस्वरूपाधिगमाधीना तस्य विषयविशेषे सामर्थ्यावधारणेति शाब्दप्रमाणस्वरूपं निरूपयितुं लोकप्र- सिद्धमेव तल्लक्षणमनुवदति- शब्दविज्ञानजा यार्थेऽसन्निकृष्टे सुनिश्चिता । बुद्धिस्तच्छाब्दमानं हि सङ्गिरन्ते विपश्चितः॥५॥ शब्दविज्ञानादसन्निकृष्टेऽर्थे बुद्धिः शाब्देप्रमाणमिति सङ्ग्रहः ॥५॥ तल्लक्षणोपनिविष्टानां विशेषणानां निवर्तनीयानि म- तान्तराणि दर्शयति- वक्तुर्विवक्षा मानं वा विषये लिङ्गतोऽपि च । बुद्धिर्मानान्तरेच्छा च निवार्यन्ते विशेषणैः ॥६॥ अत्र केचिदाहुः -- वक्तुर्वाक्यार्थविषये विवक्षां प्रमा- णान्तरं वा समधिगमयन्ति शब्दाः, नार्थमात्रम । तयोश्च शब्दसमधिगतयोरर्थव्यवहारहेतुत्वमिति । तदुक्तं धर्मकी- तिना --- 'वक्तुरभिप्रेतं तु सूचयेयुरिति । तान् प्रत्याह अर्थ बुद्धिरिति । यदपि मतं द्वे एव प्रमाणे प्रत्यक्षमनुमानं च। अतो न शाब्दादेव केवलादर्थसमधिगमः । किन्वर्थनानुब- न्धवतो लिङ्गात् । तदुक्तं- "प्रत्यक्षमनुमानं च प्रमाणे सदृशात्मना। अप्रत्यक्षस्य सम्बन्धादन्यतः प्रतिपत्तितः ॥" - १. 'कसि', २. 'ब्दमि, ३. 'थै' ग. पाठः. ४. तिः' क. पाठः, ३ , शान्दनिर्णयः। इति । शाब्दी च बुद्धिरनुमा, सामान्यद्वारेण बोधकत्वात् , प्रत्यक्षादन्यप्रमाणत्वात् , त्रैलोक्यविषयत्वात् , सम्बन्धज्ञान- सापेक्षत्वाच्च, धूमादग्निज्ञानवदित्यर्थः । तन्निराकरणायाह- शब्दविज्ञानादिति । यत्तु -- 'आप्तोपदेश आगम' इति लक्ष- णात् प्रमाणान्तरसापेक्षमर्थमवगमयन्ति शब्दा इति, अत्रा- ह - असन्निकृष्टे इति ॥ ६ ॥ इदानीमाद्ये निराकरणप्रकारमाह प्रवृत्त्या न विवक्षाधीर्मीयतेऽर्थकनिष्ठया । प्रयोगहेतुतामेव पश्चादपि समीक्षते ॥ ७॥ तत्र न तावच्छब्देभ्यो विवक्षाधीसमधिगमः, बालो हि प्रवृत्तिलिङ्गेनार्थविषयेण शब्दविज्ञानसमनन्तरभाविना विशिष्टार्थविषयामेव बुद्धिं शब्दकार्यत्वेनानुमिमीते, न वक्तु- विवक्षादिगोचरां, तत्प्रतिपत्तौ प्रमाणाभावात् । व्युत्पन्नः स्वयं शब्दं प्रयुञ्जानः स्वसाक्षिकं विवक्षादिभावमवगम्य पूर्व- स्यापि प्रतिपतुम्तत्सहावमनुमानेनावगच्छति । तथा पूर्वो- ऽपि प्रतिपत्ता स्वप्रयोक्तृगतविवक्षादिभावं स्वात्मानुमानेन तदानीमेवावगच्छतीति तस्यां बुद्धौ पश्चाच्छब्दसामर्थ्य प्र- तिपद्य तेनैतत्प्रयोगहेतुतामेव विवक्षादेरयं वात्मन्यवग- च्छति, न शब्दविषयतां, तत्र सामर्थ्याज्ञानात् । तथैव पूर्व- योरपि वक्तृप्रतिपबोरित्यवगच्छन् न तत्र शब्दसामर्थ्य कल्पयति । किञ्च, विवक्षादिर्न केवलः शब्दार्थः । अर्थे व्यव- १. 'त्यनुमाय त', क. पाठः. २. 'दिकं न के' ग पाठः, ४ शाब्दनिर्णयः। हारात् । किञ्च, अनुपपत्त्या विषयाक्षेपे ये कश्चिद् विषयमवल- म्बेत। अर्थों ब्यावृत्तश्चेदर्थ एव तर्हि तद्गोचरोऽव्यभिचारात् । सविकल्पके चार्थमात्रेऽभिलापविशेषानुषङ्गाद् , विवक्षादेरनुमे- यतयान्यथासिद्धेः । तद्वाचकपदाभावादपदार्थस्य वाक्यार्थ- त्वेऽतिप्रसङ्गाच्च । तस्माद् यथासामर्थ्यज्ञानमर्थ एव शब्दगो- चर इति ॥ ७॥ इदानीमनुमानपक्षं निराचष्टे स्वभावकार्ये न स्यातां देशादिनियमोऽपि न । नानुमा शक्तिसम्बन्धानेक्ष्यते पक्षधर्मता ॥८॥ त्रिरूपाणि त्रीण्येव लिङ्गानि स्वभावकार्यानुपलब्धयः। तत्र न तावच्छब्दार्थयोरनुपलब्धिः सम्बन्धः, भावरूपत्वात् । गोत्वस्याप्रतिपत्तावगोत्वव्यावृत्त्यसिडेः कल्पनायोगाच्च ना पोहः शब्दार्थः। नापि वृक्षत्वशिंशपात्वयोरिव तयोः स्वभावानु- बन्धः , एकार्थसमवायेन तादात्म्याभावात् । न च विवक्षादि- नाप्येकार्थसमवायः, एकदेशानुपलब्धेः । नापि धूमाग्न्योरिव कार्यकारणता, प्रमाणाभावात् । नापि विवक्षामात्रप्रभवः शब्दः। गोविवक्षाप्रभवो गोशब्द इति चेद्, विवक्षाविषयस्य गोशब्देनाभिलापः कथं, तस्य तदवगम्यत्वाभावे तद्विवक्षा- जन्यत्वात् (इति चेन्न?)। अर्थस्यावस्तुत्वेनाहेतुत्वाभ्युपगमात् । सविकल्पके च तावन्मात्रेऽभिलापसंसर्गात् तत्रैव सम्बन्धज्ञा. नाच्छब्दस्य विवक्षादिजन्यत्वेऽप्यर्थेऽपि बोधकत्वसम्बन्धो १. 'त् । अनु' क. पाठः. २. 'र्थो गोचर एवेति ॥", ३. "त्व. स्य व्या', १. 'त्वस्याभ्यु' ग. पाठः शान्दनिर्णयः। विद्यत एव । नाप्यनयोर्देशनियमो यस्मिन् स्निग्धच्छाया त- स्मिन् शैत्यमितिवत् । नापि कालनियमो यस्मिन् घटिका- द्वये कृत्तिकोदयस्तस्मिन् रोहिण्यासक्तिरितिवत् । अव्यवस्थि- तदेशकालत्वात् । तस्मादनयोरविनाभावाभावान्नार्थस्य शब्दो लिङ्गम् । कुतस्तर्हि सम्बन्धाच्छब्दादर्थप्रतिपत्तिः । तद्बुद्धिसा- मर्थ्यलक्षणात् । अर्थेनानुबन्धाभावे कथं तद्बुद्धिसामर्थ्यम् । न वयमर्थेनानुबन्धं ब्रूमः । किन्तु तइया । स च तज्जनन- सामर्थ्यलक्षणोऽनुबन्ध इष्यते । नन्वनुबन्धान्तराभावे कथं तद्बुद्धौ सामर्थ्यम् । कृशानोरिव धूमजनने । नहि तत्र तत्सा- मर्थ्यादन्योऽनुबन्धोऽस्ति, अथ तत्र वह्निमात्रं कारणं न सा. मर्थ्य नामास्ति, तथापि वढेधूमो जायते चेत् , शब्देश्यो- ऽप्यर्थबुद्धयोऽपि जायन्ताम् । अथ ज्ञानकार्येऽनुबन्धान्तरापेक्षा न कार्यमात्रे, न | चक्षुष्यर्थबुद्धिसामर्थ्यव्यतिरिक्तस्यानुबन्ध- स्यादर्शनात् । अथ प्रतिपन्नार्थबुद्धिरनुबन्धान्तरनिमित्ता , न । अदर्शनाच्छब्दार्थयोः । स्यात्तर्हि शक्तिलक्षणादेवानुब- न्धादनुमानं, न । सम्बन्धान्तरविशिष्टस्यैव बुद्धिसामर्थ्य ऽनुमा- नत्वप्रसिद्धेः । ननु प्रतिपन्नसम्बन्धाद् बुद्धिरनुमानं , सत्यम् । अर्थेन प्रतिपन्नसम्बन्धात् तद्बुद्धिसामर्थ्यविलक्षणात् । नतु तहडिसामर्थ्यसम्बन्धादेव बुद्धिरनुमानम् । नन्वेताबता कथं प्रमाणवैलक्षण्यम् । का वा प्रमाणवैलक्षण्यस्येयत्ता । अपिच धर्मधर्मिपक्षधर्मतादृष्टान्ताश्च शब्दस्यार्थबोधने न निरूप्यन्ते । १. 'ल्लिस', २. 'O' ग. पाठः... ३. 'वानु' क. पाठः.

wr शाब्दनिर्णयः । -- ततोऽप्यनुमानवलक्षण्यम् । नन्वत एव बोधसामय्यभावा- च्छब्दानामप्रामाण्यं स्यात् । न । धूमादग्निबुद्धाविव शब्देभ्यो ऽर्थप्रतिपत्तावर्थाविसंवाददर्शनात् । तथाच प्रयोगः-'नानु- मानं शब्दः प्रतिपत्तव्यसम्बन्धान्तरनिरपेक्षत्वे सत्यर्थवुद्धिसम- र्थत्वात् , चक्षुर्वत्' । तस्मादज्ञाततया स्वसामर्थ्यादेवावगम- हेतुः प्रत्यक्षम । त्रैरूप्योपेततया गृहीताद् बुद्धिरनुमानम् । तहुद्धिसमर्थतया गृहीताच्छब्दात् तत्र बुद्धिरागम इति प्रमा. णान्तरत्वम् । तस्माद् युक्तं शब्दविज्ञानादिति ॥ ८॥ इदानीं मानान्तरसापेक्षत्वपक्षे निगकरणप्रकारमाह - शब्दो मानान्तरापेक्षा वेदे लोक च नेप्यते । वक्तृमानं च शब्दस्य प्राप्तदोपापनादिहि ॥९॥ वेदे तु मानान्तरानपेक्षत्वमपौरुषेयत्वप्रतिपादनेन व- क्ष्यामः । पौरुपये तु वक्तृ ज्ञान कोपयुज्यतामिति विवक्तव्यम। यदि वाक्यार्थज्ञाने तत्प्रमितौ वेति मतं, तत्र न तावद् वक्तृ- ज्ञानमनवगतमेव तदुभयं जनयति । प्रतिपत्तुर्बुद्रिहारेणापि तत्सम्बन्धाभावात् , कर्तृकरणयोश्च क्रियोत्पत्ती संबन्धापक्ष- त्वात । अवगतं चेत , कथमनवगतेऽप्रमिते चार्थे तयावृत्तं वक्तृज्ञानं गम्येत।नच निर्विषयमवगम्यमानं क्वचित् प्रमिति- हेतुः । ननु पदेभ्योऽवबुध्यन्ते पदार्थाः । सत्यम । न तावन्मात्रे वक्तृज्ञानमपेक्ष्यते । तर्हि सामान्यतो दर्शनेनोत्प्रेक्षया वा संस- . १. णभेदः । त', २. तन्मा' क. पाठः, शाब्दनिर्णयः। र्गोऽपि प्रतीयताम् । प्रतीत एवास्मिन्निदानी पदानां पदावबु- द्वानां वा पदार्थानां पदातिरिक्तस्य वा वाक्यस्य संसर्गावग- मसामर्थ्य संकथा । यतः सत्स्वपि पदादिष्वसति च विशिष्ट- वक्तृज्ञानावगमे संसर्गनिश्चयाभावात् , सति च तस्मिन् पदो- भावे संसर्गनिश्चयाभावादर्शनात् , तत एव तन्निश्चये सिद्धे कारणकारणतयान्यथासिद्धत्वात पदादीनां न संसर्गसहका- रिकारणतापि मिध्येत् । तत्र कथं लोकसिद्धशक्तिसव्यपेक्षे व- क्तज्ञानविकले वेदे। विशिष्टस्तु वाक्यार्थ इति पदेभ्य एव संस- सिद्धिः । ननु शक्तिग्रहणकाले संसर्गे शक्तिरवगता । सत्यम्। प्रतिपत्तिकाले नासावुपयुज्यते, वक्तृज्ञानादेव संसर्गनिश्चयात्। अथवा तत्रापि प्रतिपत्तिकाले दृष्टेनैव न्यायेन संसर्गशक्तिय- होऽपि भ्रमः कल्प्येत । तस्मात् सामर्थ्यग्रहणानुसारेण शब्देभ्य एव संसर्गनिश्चयो वक्तव्यः । तत्र मानान्तरविरोधाद् यथाप्र- योगमनन्वितेषु पदार्थेषु तदभिधायिनां शब्दानामितरेतरा- न्वययोग्यविभक्तिसंबन्धितया संहत्यबुद्धौ सन्निधानं शब्दा- नां दोपः। ततो भ्रान्तिज्ञानम् । स च शब्दगतो दोषः प्रयोक्तृग- तेनार्थविषयेण भ्रान्तिज्ञानेनोत्प्रेक्षाज्ञानेन वा जायते प्रयो- गहारणेत्यन्वयव्यतिरेकाभ्यामवगम्यते। तत्र वक्तृप्रमाणं तथा- विधदोषनिराकरणमुखेनोपयुज्यते, न प्रमितिहेतुतया । पुरु- पसंबन्धे सत्याशङ्कितदोषत्वान्नियमेन तदपेक्ष्यते । वेदे पुनरितरेतरान्वययोग्यविभक्तियुक्तपदसन्निधानवुद्धेस्तदर्थप्रवृ. १. 'दाद्यभा' ग. पाठः. २. 'ल' क पाठः. ३. 'दे तु पु' ग. पाठः.

शान्दनिर्णयः। त्तज्ञानान्तरनिमित्तप्रयोगजन्यत्वाभावान्न दोषशङ्का। नापि त- निरासापेक्षेति नैरपेक्ष्यमित्युच्यते । अन्यथा न वेदे प्रमितिलाभ इत्युक्तम् । तदेवं लोकेऽपि न प्रमितावपेक्षा । ननु स्वविषय- ज्ञानान्तरजन्या स्मृतिः सापेक्षा, तथेहापि स्यात् । तन्न । मा- नान्तरसम्भिन्नार्थत्वात् तत्र सापेक्षता । अन्यथानुमाने व्यापको. ऽग्निरिति व्याप्तिज्ञानजन्येऽपि तथा स्यात् । न तथेह संभेदः, शब्दस्यार्थमात्रे सामर्थ्यादिति । तस्माद् युक्तमसन्निकृष्टग्र- हणम् । अतः समीचीनमेव शाब्दलक्षणमिति स्थितम् ॥९॥ कि पुनः शब्दशब्देनाभिधीयते, यदाकारविज्ञानादर्थ- बुद्धिः शाब्दी । जातिरित्याह - शब्दशब्दोऽपि तज्जातावखण्डत्वाददृष्टतः । उपाधेः प्राग्विकल्पाच्च प्रत्यभिज्ञा च लोकवत् ॥१०॥ एकस्याभिधानस्य विभिन्नार्थता प्रतीता शक्तिभेदं सामान्य वावलम्बते । शक्तिभेदे त्वभिधेयानन्त्यात् सम्बन्धज्ञानाशक्तिः कल्पनागौरवं च स्यात् । स्यादेतत् । यथा वाचकशब्दस्तदुभयं नापेक्षते, तहदिहापि स्यादिति । नैतद् युक्तम् । तत्र यौगि- कत्वाच्छब्दस्यावयवार्थसामान्ययोगेन विभिद्यमानेष्वर्थेषु तदु- भयमन्तरेणापि प्रवृत्तिसम्भवात् । अयं पुनरखण्डः शब्दो नावयवशक्त्या शब्दविशेषानाहेतिसामान्यमेवावलम्बनीयम् । नन्विदं तत्कारणमित्यादयः शब्दास्तटस्थमेवोपाधिमवलम्ब्य २ १. 'त' ग. पाठः. २. 'र्थवृत्तिता श' क. पाठः. ३. 'न.' ग. पाठः, ४. 'नुवृ' क. पाठः, ५. 'घमाहे' ग पाठः, शाब्दनिर्णयः। विशेषाभिधायिनः, तथेहापि श्रोत्रग्राह्यत्वं तटस्थमेवावलम्ब्य विशेषानेव शब्दशब्दोऽप्यभिधत्ताम् । तन्न । अनवगतोपा- धावौपाधिकाभिधानपरामर्शानुपपत्तेः । न हीदानीमुपलभ्यमा- ने पूर्वे शब्दविशेषे तत्परामर्शः, श्रोत्रतज्ज्ञानतग्राह्यत्वा- नामनध्यक्षत्वात् । प्रथमप्रत्यये च तत्राभिधानमनुरज्यते । ननु विषयसंवेदनानुमितेन श्रोत्रग्राह्यत्वेनापलक्षिते तम्मिन्नभिधा- नपरामर्शः स्यात् । न । श्रोत्रग्राह्यतया पूर्वप्रतिपन्नसमाना कारविषयतदभिधानविकल्पानुपक्तावगममन्तरण तद्ग्राह्यता- नुमानायोगात् । न हि संवेद्यमात्रसंवेदनं तद्ग्राह्यतावग- महेतुः । न हि तदानीमेवान्वयव्यतिरेकाभ्यां तद्ग्राह्यता- वगन्तुं शक्यते, इन्द्रियान्तराणामपि सन्निधानात् । न चन्द्रि- यान्तरग्राह्यलक्षण्येन तग्राह्यतानुमान, तग्राह्यान्तरादपि वैलक्षण्यस्य भावात्।सालक्षण्ये च सामान्यसिद्धः । न चोपाधे. रप्येकत्वमस्ति, श्रोत्रादीनां भिन्नत्वात् । नित्यानुमेयेषु सामा- न्यायोगात् । अतोऽपूर्वशब्दोपलम्भेऽप्यभिधानानुपङ्गाय श- क्तिभेदपरिहाराय श्रोत्रग्राह्यतावगमाय च श्रोत्रप्रथमप्रत्ययाव- गम्यं सामान्यमेवोपगन्तव्यम् । ननु सामान्यं प्रत्यभिज्ञानाधी- नात्मलाभं तदभावे नावकाशमर्हति । न तावत् सोऽयमित्यव- मर्शप्रत्यभिज्ञा प्रसिद्धसामान्येऽप्यस्ति । यदि बुद्वावाकार- मात्रानुसन्धानमस्त्येव, तर्हि शब्दं दृष्टवतः शब्दान्तरेऽर्थाद् १. 'धावा', २. 'त्वादीना', ३. 'दनेना' क. पाठः. १. 'ताया अनु', ५. 'द्धिः । न' क. पाठः. ६. 'मप्यस्ति' क. पाठः. ७. 'च प्र' ग. पाठः.

ܚ १० शाब्दनिर्णयः। विलक्षणाकारप्रतिपत्तिः, येन प्रथममभिधानानुषङ्गः स्यादित्यु- क्तम् । न च द्रव्यरसादिसमानं शब्दान्तरं प्रतीयते । किञ्च श्रोत्राद्युपाधौ चैकत्वकल्पनाद्वाराभिधेयकत्वकल्पनं, मा भूच्चो- दात्तानुदात्तपटुमृदुत्वादीनां श्रोत्रग्राह्यतया शब्दशब्दार्थता, उदात्तः शब्द इत्यादिना शब्देन धर्मिणासामानाधिकरण्यात् । तस्माज्जातिकल्पनैव श्रेयसी । अतस्तज्जात्युपरक्तज्ञानादर्थ- बुद्धिः शाब्दीति स्थितम् ॥ १० ॥ इदानीमर्थप्रतिपत्तिनिमित्तं शब्दं विमृशति - वर्णातिरिक्तशब्दाद वा वर्णविज्ञानसंस्कृतेः । स्मारकैर्वातिरिक्तर्वा वर्णभ्यो वार्थधीर्भवेत् ॥ ११ ॥ वर्णेभ्योऽतिरिक्तादेकशब्दप्रत्ययालम्बनात् पदसंज्ञकात् पदार्थप्रत्यय इत्यक सङ्गिग्न्त । वर्णविज्ञानसंस्कारैर्वर्णस्मृति- हेतुभिरित्यैन्ये । तैग्व स्मारकमंस्कारातिरिक्तैरर्थप्रत्यय इत्य- परे । वर्णभ्य एवंति केचित ॥ ११ ॥ तत्रान्त्यं पक्षमात्मीयत्वेन स्वीकरोति वर्णाः स्वज्ञानसंस्कारैः संभृयस्मृतिकारिभिः । क्रमणकस्मृती बुद्धा बोधयन्त्यर्थमञ्जसा ॥ १२ ॥ तदतत्पूर्वपक्षनिगकरणमुग्वन प्रतिपादयितुं वर्णव्यति- रिक्तशब्दवादं वर्णयति वन्न का बुद्धिरूपलव्यात् सतोऽपि वा । अदृष्टेमपलब्धाद वा स्वाद वा संहतान्न धीः॥१३॥ १. 'दानां श' क. पाठः, २. '', ३. 'त्यके सङ्गिरन्ते । ते', ४. 'दे' ग. पाठः.

अयोगात् समुदायस्य कारणानां च भेदतः। अतो वर्णातिरिक्तात् सा शब्दादेवेति गम्यते ॥१४॥ अस्ति तावद् गकारादिवर्णोपलब्ध्यनन्तरमर्थबुद्धिः । सा किं वर्णेभ्य एव, तयतिरिक्ताच्छब्दाद् वेति विवेचनीयम् । न तावदेकैकस्माद् वर्णादुपलब्धादनुपलब्धाद् वा सा, अदृष्टेः। नापि वर्णसमुदायात , तदभावात् । अत एव न वर्णसमुदा- योपलब्धः स्मृतर्वार्थपत्ययः, उपलब्धिकारणानां च वर्णोच्चा- रणानां क्रमवर्तितया भेदात्, संस्काराणां च स्मृतिहेतूनां प्रतिवर्ण निरपेक्षस्मृतिहेतुतया भिन्नत्वाद् न युगपत् सम- स्तवर्णोपलब्धिः स्मृतिर्वा सम्भवति । अतोऽर्थत्रुद्धिकार्यपरि- शेषानुमानकल्पिताद् वर्णभेदेऽप्यकोऽयं शब्द इति प्रत्यक्षा- वसेयादन्यतः शब्दादर्थावगम इति ॥ १३, १४ ॥ इदानीमिमं पक्षं निराकरोति वर्णातिरेकि नाध्यक्ष वर्णाः सोपाधिकाः पदम् । अर्थे बुद्धे पदं नैकं योगः शब्दान्तरेऽपि न ॥ १५ ॥ न तावद् वर्णव्यतिरिक्तं पदं वर्णसमवेतं घटादिवत् स्व- तन्त्रं वा प्रत्यक्षेणावगम्यते । नन्वेकमिदं पदमिति भिन्नवर्णा- तिरिक्तं पदमध्यक्ष्यते । न तावच्छोडेन्द्रियेण, युगपद् गका- रादिवर्णत्रयोपलम्भायोगात् । न च वर्णोपलम्भविकलः शब्दप्र- त्ययः । न च गकारमात्रे पदमभिव्यज्यते, गङ्गादिपदानामपि तुल्यत्वात् । सत्यं तत्रैवाभिव्यज्यते । किन्तूत्तरवर्णाभ्यां विशे- षेण परिच्छिद्यते । एवमपि वर्णत्रयावमर्शमन्तरेण न विशि.

१२ शाब्दनिर्णयः। टार्थावबोधकं पदमभिव्यज्यते । स चावमझे न श्रोत्रेन्द्रि- यनिबन्धनः, असम्भवात् । न च गकारमात्र एव गोत्वमिव खण्डोदो वर्णातिरिक्तं किञ्चित् पदमभिव्यज्यते । नापि मान- सप्रत्यक्षं पदं, सकृद्वर्णत्रयानवमर्शात् । एकैकवर्णप्रत्ययज- नितसंस्कार ऽन्त्यवर्णप्रत्ययजनितपरिपाके च मनस्यध्यक्ष्यत इति चेद्, न । वर्णत्रयानुपरागेणानवभासनात् । तेषां युग- पदुपरागानुपपत्तश्च । अथ वर्णोपलब्धिजनितसंस्काराः सम्भू- याशेषवर्णविषयकं स्मृतिज्ञानभेकं सम्पादयेयुः । न तर्हि स्म- यमाणवलम्बि पदाविज्ञानं प्रत्यक्षं, स्मर्यमाणघटगतशौ- क्लयवत । किञ्च तादृशादेव स्मृतिविज्ञानादर्थबुद्धिसिद्धेः पदकल्पनार्थवती । नन्ववभासते पदम् । सत्यं , वर्णा एवैकार्थबोधनसामथ्योपाधी बनवत् पदबुद्धिभाजः । ननु शक्त्यवधारणायाः प्रागपि पदमवगम्यते । न । अन- भ्यस्तभापायामुदाहियमाणायामव्युत्पन्नस्य पदविभागज्ञाना- भावाद्, एकानेकत्वाभ्यां पदसन्देहात् । संहितास्वप्यध्ये- तॄणां पदव्यवहारस्तथाविधबुद्धिमव्यवहारनिबन्धनः । अतः पदबुद्धिरौपाधिकी वर्णविषयव । ननु वणेभ्यो नार्थप्रत्यय इत्युक्तं, सत्यम् । अबोधकपदाभिव्यक्तावप्युक्तानुपपत्तिस्तुल्या। अथैकैव वर्णत्रयावलम्बिनी स्मृतिः पदमभिव्यनक्ति, तीर्थाभिव्यक्तावपि समाना । वक्तव्या च सा पदाभिव्यञ्ज- . सा १. 'मे' क पाटः. २. 'ण्डत्वादो' ख. पाठः. ३. 'णाव' ग. पाठः' ४. 'थपतिपादन' क. पाठः, 'ना' ख. पाठः. ६. 'त' ग. पाठः.

शाब्दनिर्णयः। १३ कवर्णसङ्ख्यानियमव्यवहाराय । न हि सङ्ख्येयावमर्शमन्त- रेण सङ्ख्योपलभ्यते । तस्माद् वर्णव्यतिरिक्तपदकल्पना- कारणाभावाद् वर्णेभ्य एवार्थप्रतिपत्तिरिति रमणीयम् ॥ १५ ॥ द्वितीयं पूर्वपक्षं वर्णयति स्मारका एवं संस्काराः स्मृतिभिः सम्प्रवोधिताः । अर्थधीलब्धसामा बोधयन्त्यर्थमञ्जसा ॥ १६ ॥ वर्णोपलम्भजनितसंस्कारा वर्णस्मृतिहतव एवार्थ प्रत्या- ययन्ति । नन्वनुपलब्धानां चक्षुगदिवत कथं प्रत्यायकत्वम् । नैष दोपः । स्वस्वकार्यवर्णविषयम्मरणसमुन्नीतानां तदुपपत्तेः। नन्वदृष्टा संस्कारभ्योऽपूर्वार्थाधिगतिः । सत्यम् । इहान्त्यवर्णप्र- त्ययसहकारिभ्यस्तेभ्य एव प्रत्यभिज्ञेव पूर्वोपलम्भसंस्कारादर्था- धिगतिरित्यनन्तरकार्यदर्शनादेवावगम्यते ॥ १६ ॥ उच्यते स्मारकादर्थधीन स्यादन्यत्रानुपलब्धितः । साम्यात् प्रसिद्धवर्णेभ्यः क्रमसिद्धेभ्य एव सा॥१७॥ न तावदन्य ज्ञानसंस्कारोऽन्यमर्थमवगमयति, अदर्श- नात् । कार्यसामर्थ्यात् कल्प्यत इति चेत् , तर्हि तत एव क्रमोपलब्धानामेव वर्णानां सामर्थ्य कल्प्यताम् । नन्वन्त्यव- प्रत्ययात् तत्पूर्वक्षणवर्तिनां पूर्ववर्णोपलम्भानां कथं काल- व्यवधानेन कार्यसामर्थ्यमदृष्टपूर्व कल्प्यते । समानमेतद् युग- पदाविसंस्कारेष्वदृष्टसामर्थ्यकल्पनम् । कोऽयं निर्णयहेतुः । अनुपपत्तिसाम्याच्छब्दादर्थप्रतिपत्तिप्रसिद्धेश्च वर्णोपलम्भपक्ष- एव श्रेयान् । प्रत्यभिज्ञायामपि स्मृत्यंश एव संस्काराज्जायते, शाव्दानणगः । . १४ नापूर्वाधिगमः । न चान्त्यवर्णप्रत्ययाऽपि सहकारी । यदि ता. वत पदेभ्य एव संसर्गबुद्धिराश्रीयते, तदा वाक्यान्त्यवर्णप्र. त्ययसमये पदान्त्यवर्णप्रत्ययानामनवस्थानात् । (न) च वाक्या- न्त्यवर्णप्रत्यय एवं कृत्स्नपदसहकारी, तस्यानवस्थितवर्णविशे- पस्य पदेष्वन्तर्भावे पदानवधारणप्रसङ्गात् , प्रतिप्रयोगं पदस्व- रूपभेदात् । अनन्तर्भावे संस्कारमात्रस्य पदस्य स्वाभिधेयप- दार्थांशबोधने सामर्थ्याभावः स्थित एव । पदेभ्यः पदार्था- स्तभ्यः संसर्ग इत्येतन्निराकरिष्यते ॥ १७ ॥ अपिच व्युत्क्रमे वक्तृभेदे च स्यात् संस्काराविशेषतः । कृत्स्नसंस्कारधीहानात् सम्बन्धादिग्रहश्च न ॥ १८ ॥ व्युत्क्रमप्रयुक्तेवपि वर्णेषु संस्काराविशेषादर्थवुद्धिः स्यात् । वर्णपक्षेऽपि तथा किं न स्यात , क्रमविशेषनियमात् । तर्हि संस्कारेऽपि स नियमः स्यात् । न तावदुत्पत्तिक्रमनिय- मस्तेषामर्थबोधन विनियुज्यते ! अन्त्यवर्णसंस्कारजन्मानन्त. रमुत्पत्तीनामतिवृत्ततया तत्कमस्याप्यतिवृत्तेः । न च देशका- लक्रमः, युगपदेकत्रावस्थानात् । ननु न वर्णानामपि देशका- लक्रमः , व्यापित्वान्नित्यत्वाच्च । उपलब्धिक्रमस्त्वन्त्यवर्णोप. लब्ध्यनन्तग्मतिवृत्तः । सत्यम् । अशेषवर्णावमर्शिम्मृतिवि- ज्ञानोपरक्ततयाऽतिवृत्तस्यापि क्रमस्य हेतुत्वाभ्युपगमाद्, उप- लब्धिक्रमपक्षस्यानङ्गीकरणात् । वक्तव्या च तथाविधस्मृतिः । १ १. 'तिनि' ग. पाठः.

१५ शान्दनिर्णयः। अन्यथा एतावहिरेवंक्रमकैश्च वगैरेकपदबुद्धिगोचरैरुत्प- न्नाः संस्कारा एकमर्थमधिगमयन्तीति क्रमसङ्ख्याविशिष्ट- वर्णपदव्यवहाराद्ययोगः । तदुक्तमौत्पत्तिकसूत्रे' बार्तिक- कारैः "अन्त्यवर्णे च विज्ञाते सर्वसंस्कारकारितम् । स्मरणं पूर्ववर्णेषु सर्वेप्वन्ये प्रचक्षते।" इति सिद्धान्तत्वेन । अतो व्युत्क्रमप्रयुक्तेपु स्यादेवार्थ- बुद्धिः । भिन्नवक्तृके वपि क्रमविशिष्टतयाऽनुसन्धीयमानेपू- त्पद्यमानार्थबुद्धिः संस्कारपक्षे तदनपेक्षा स्यात् । स्यात् तर्हि क्रमोपहितसंस्कारबुद्धिर्थाधिगमहेतुः । न । तदुपलम्भकार- णाभावात् । वर्णस्मृतिकार्याण्येवोपलम्भकारणमिति चेद् , न। तेपामपि क्रमवर्तित्वात् , क्रमोपहितसकलवर्णविषयकैकज्ञाना- योगात् । किञ्च अस्मिन् पक्षे सम्बन्धिज्ञानात् सम्बन्धज्ञा- नं, ज्ञाताच्छब्दादर्थबुद्धिः, सविकल्पके चाभिधानानुस्मृतिः, इत्यादिव्यवहारो दुस्संपादः । अथ क्रमसंसृष्टाशेषवर्णावम- शिस्मृतिज्ञानोपगमादेवैतत् सर्व सम्पत्म्यत इति, तर्हि तत एवार्थसिद्धे : संस्कारेषु सामर्थ्यकल्पना दुर्लभैव । तस्मात् सं. स्काराणामपूर्वसामर्थ्यायोगात्, प्रसिद्धिविरोधाद् , व्युत्क्रमा- दिषु प्रसङ्गात् , सम्बन्धज्ञानाद्ययोगाच्च न संस्कारपक्षः श्रे- यान् । किन्तु वर्णस्मृतिपक्ष एवेति स्थितम् ॥ १८ ॥ , १. 'गात् ।' क. पाठः. २. 'व', ३. 'वा' क. पाठः. जमिनिसूत्रम् (१. १. ५) - १६ शाब्दनिर्णयः। ये तु स्मारकसंस्कारव्यतिरिक्तानर्थावबोधकानपूर्वसं- स्कारानेव कल्पयन्ति, तान् प्रत्याह- अयुक्तालौकिकी क्लूप्तिः संस्कारे क्लुप्तिगौरवात् । पदादेवार्थसंबुद्धेस्तत्र क्लूप्तिर्लघीयसी ॥ १९ ॥ अवश्यं हि त्वयापि वर्णातिरिक्तं पदं निराकुर्वता अशेषवर्णावशि विज्ञानं पदव्यवहारायोपगन्तव्यम् । तदा- नीं तत एवार्थसिद्ध लौकिकसंस्कारकल्पनावकाशः। कल्प. नागौरवाच्च वर्णज्ञानानामपूर्वसंस्कारसामर्थ्य संस्कारस्वरूपा- णि तेषामर्थबुद्धिसामर्थ्य चेति । नायं दोपो वर्णस्मृतिपक्षे । ननु न संस्कारा नियमेन स्मृतिमुत्पादयन्ति, यतो नियमेना- न्यवर्णानन्तरमर्थवुद्धिः स्यात् । अपूर्वसंस्कारपक्षेऽपि समा- नोऽयं दोषः । कार्यदर्शनाद् नियमेनोत्पादकत्वकल्पना वर्ण- स्मृतिपक्षेऽपि तुल्या । तस्मात् स्मर्यमाणवणेभ्य एव पदार्थ- प्रतिपत्तिरिति स्थितम् । तथाच देवताधिकरणे भाप्यं- "वृद्धव्यवहारे चमे वर्णाः क्रमानुगृहीता गृहीतार्थविशेषस- म्बन्धाश्च सन्तः स्वव्यवहारे प्यकैकवर्णग्रहणानन्तरं समस्त- प्रत्यवमर्शिन्यां बुद्धौ तादृशा एव प्रत्यवभासमानास्तं तम- र्थमव्यभिचारेण प्रत्याययिप्यन्ति” इति ॥ १९ ॥ इदानी वाक्यार्थप्रतिपत्तिनिमित्तं शब्दं विमृशति- गृहीतपदसम्बन्धाद वाक्याद वा पदभागिनः । पदार्थेभ्यः पदेभ्यो वा संसर्ग प्रतिजानते ॥ २० ॥ ब्र० अध्या ० १. पा० ३. सू० २८.

- शाब्दनिर्णयः। १७ गृहीतपदपदार्थसम्बन्धात् पदव्यतिरिक्तादेव वाक्याद- विभक्तपदात्मकाद् विशिष्टसंसर्गप्रतिपत्तिरिति केचित् प्रति- जानते। पदावबुद्धेभ्यः पदार्थेभ्य इत्यपरे । पदेभ्य एव संसृष्टाभि- धानसमर्थेभ्यः संसर्गप्रत्यय इत्यन्ये प्रतिपादयन्ति ॥ २० ॥ तत्रान्त्यं पक्षमात्मीयत्वेन स्वीकरोति- पदैरेवान्वितस्वार्थप्रतिपादनशक्तिभिः । गुणप्रधानभावात्मा संसर्गः प्रतिपाद्यते ॥२१॥ पक्षान्तरनिराकरणमुखेनैतत् प्रतिपादयितुं प्रथमं वा- क्यपक्षं निराचष्टे. तन्मानाभावतोऽज्ञानादानन्त्यात् सङ्गतेस्तथा । शक्त्यानन्त्यात् प्रयोगाणां भेदाद वाक्यं न बोधकम्॥ न तावत् पदव्यतिरिक्तं वाक्यं पदसमवेतं घटादिवत् स्वतन्त्रं वा श्रोत्रेण मनसा वा प्रत्यक्षेणोपलब्धुं शक्यम् , एकवाक्यताबुद्धेः पदवद् विशिष्टैकार्थसामोपाधिनिबन्ध- नत्वात् । अनभ्यस्तभाषायां तथानवगमात् । अपिच अभ्यु- पगमेऽपि प्रतिप्रोगं पदावापोडाराभ्यां भिद्यमानस्य वाक्यस्य पदशक्तिभ्यो व्यतिरिक्तशक्तिमतश्च शक्येन सम्बन्धग्रहणम. शक्यसम्पादनम् । नैवं पदपदार्थसम्बन्धज्ञानादिति चेत् । कथमन्यस्य सम्बन्धज्ञानादन्यमर्थमवगमयेत् । अथ नात्य- न्तमन्यानि पदानि वाक्यात् , किन्तु तदेव परोपाधिविभागेन १. 'ट' ग. पाठः.

१८ शान्दनिर्णयः। पृथक् शक्तिज्ञानापे- पदानीति कथ्यते । नैतत् सारम् । गौरित्यखण्डस्यापि पदस्य शक्तिभेदे पृथक् सम्बन्धज्ञानमपेक्ष्यते, किमु शक्तिमड़े- देऽपि । अथ तत्राभिधेयभेदात् तदपेक्षा, इह तु पदार्थो एव संसृष्टा वाक्याथै इति न पृथग् वाक्यस्य शक्तिग्रहणापेक्षा । न । प्रतिपाद्यभेदात्, संसर्गशब्दस्यैव क्षेति न शक्तिग्रहणमुपपद्यते । न चागृहीतसम्बन्धं वाक्य बोधयति, पदवच्छन्दत्वात् । तथा पदतच्छक्तिव्यतिरिक्त- वाक्यतच्छक्तिकल्पनायां प्रतिप्रयोगं भेदात् कल्पनागौरवं च स्यात् । तथाच शिशो! गामानय, गां बधान । अर्भक! गामानय, गां बधान । बाल! गामानय, गां बधान, डिम्भ ! गामानय, गां बधान । इत्यष्टानां प्रयोगाणामष्टौ वाक्यानि त- च्छक्तयश्च कल्पयितव्याः। पदवादिनस्तु सप्तैव । ता शुक्ला- मिति पदान्तरप्रयोगे वाक्यभेदात् पुनरष्टौ वाक्यानि तच्छक्त- यश्चकल्पयितव्याः । पदवादिनस्त्वेकैव शक्तिः । तस्माद् वाक्यपक्षो मुधा ॥ २२॥ इदानी पदार्थपक्षं प्रतिजानीते पदार्थान् प्रतिपाद्यैव निवर्तन्ते पदान्यतः। पदार्था एव संसर्ग बोधयन्त्यूर्ध्वमञ्जसा ॥ २३ ॥ पदेभ्यः प्रतिपन्नानां पदार्थानां स्वात्मसंसर्गप्रतिपादन- मभिहितान्वयो नाम पूर्ववादिना प्रतिज्ञातः॥ २३ ॥ १. 'थ्येत । ने' ख. पाठः. २. 'थ', ३. 'टो' क. पाठः. १. 'A' ख. पाठः. ५. 'नः स' क. पाठः. ६. 'था च शु', ७. 'तम् ॥' ख, पाठः. .

शाब्दनिर्णयः।
१९
तत्र प्रमाणमाह
आवापोद्धारलब्धार्थप्रयोजकसमाश्रयात् ।
व्यवधानात् पदेभ्योऽर्थक्रमवत्प्रत्ययैरपि ॥ २४ ॥
संसर्गसिद्धेरथेभ्योऽप्यन्यथासिद्धितस्तयोः ।
स्वरूपमात्रे सामर्थ्य पदानामवसीयते ॥२५॥
गामानय गां बधान, अश्वमानय अश्वं बधान इत्या-
दिप्रयोगभेदेषु गोशब्दावापे गोरूपमात्रावापात् , तदुद्धारे
चोद्धारात् तावन्मात्रस्यैव गोशब्दाभिधेयता, नार्थान्तरतत्सं-
सर्गयोः, व्यभिचारात् । तथा प्रतिपत्तिकालेऽपि गवादिश-
ब्देभ्यः क्रमेणार्थमात्रप्रत्यया एव जायन्ते, नार्थान्तरतत्संसर्ग-
प्रत्ययाः। संसर्गप्रत्ययस्त्वन्त्यपदार्थप्रत्ययात् पराचीनः। तदेवं
प्रयोगप्रत्ययाभ्यामर्थस्वरूपमात्रे पदसामर्थेऽवगते वाक्य.
प्रयोगसमनन्तरभाविनः संसर्गप्रत्ययस्यानन्यथासिद्धान्वयव्य-
तिरेकाभ्यां पदार्था एव हेतवः कल्प्यन्ते । ननु प्रवृत्तिलिङ्गेन
संसर्गप्रत्यय एवान्वयव्यतिरेकाभ्यां शब्दकार्यत्वेन गम्यते ।
तन्न, कारणकारणविषयतया तयोरन्यथासिद्धेः । तस्मात् स्व.
रूपमात्रे पदानां शक्तिन संसर्ग इति स्थितम् ॥ २४, २५॥
एतन्निराकर्तुमन्विताभिधानपक्षं प्रतिजानीते-
पदानामेव यन्नाम संसृष्टस्वार्थबोधनम् ।
अन्वितस्याभिधानं तत् सङ्गिरन्ते विपश्चितः ॥२६॥

२० शाव्दनिर्णयः। - तत्र प्रमाणमाह- प्रतिपत्तुः प्रवृत्त्या हि शब्दविज्ञानबन्धना । संसर्गबुद्धिर्युत्पत्राव्यवधानानुमीयते ॥ २७ ॥ प्रवृत्त्यनुमिते हि संसर्गज्ञाने शब्दसामर्थ्यमन्वयव्य- तिरेको गमयतः । ननु पदार्थबुद्धिव्यवधानेना यथासिद्धि- रुक्ता, न तदानीं तावयवधानप्रतिपत्तिः। न । कालान्तरे तद- नुसारेणेवावापोद्धारसम्भवात् । न च लोकेऽपि विशेष(ण)- प्रतिपत्तिजन्या विशिष्टप्रतिपत्तिरिति नियमः । प्रतिपाद- कचक्षुरादिसाम्ये सति प्रथमत एव विशिष्टप्रतिपत्तेः । तस्मात प्रथमत एवान्वयव्यतिरेको संसर्गसामर्थ्य गमयत इति स्थि- तम् ॥ २७ ॥ नन्वेवमप्यावापोद्धाराभ्यां स्वरूपमात्र सामर्थ्यमित्यु- क्तमिति । तत्राह योग्येतरान्वितस्यार्थस्यावापाद्धारदर्शनात् । संसृष्टेष्वेव सामर्थ्य पदानामवसीयते ॥ २८ ॥ यद्यपि प्रति(प्रयोगं विशेषान्तरतत्संसर्गयोर्व्यभिचारो दृश्यते, तथापि योग्यतरान्वितस्यार्थस्याव्यभिचारात प्रथमाव- गतसंसर्गसामर्थ्यानुसारेण तत्रैव सामर्थ्य कल्प्यत इत्यभिप्रायः। न च पदार्थज्ञानस्यावापोडाराभ्यां संसर्गस्यावापोद्धाराविति युक्तं, तस्य संसर्गात् पूर्वभावितया संसर्गेण तदानीमन्वयव्य- - १. 'नात्', २. 'गम्यते' क. पाठः.

शाब्दनिर्णयः। २१ तिरेकायोगात , शब्दस्येव तदानीं पूर्वभावित्वासिद्धेः । नन्व- र्थान्तरमात्रान्वितं गोत्वं न गोशब्दसामर्थ्य विषयः, आनयना- न्वयस्याशाब्दत्वप्रसङ्गात् । अर्थान्तरमात्रान्वयस्य च स्वरू- पमात्राभिधानेऽप्यनुमानादिनैवान्यथासिद्धेर्न तत्र शब्दसाम- यकल्पना युज्यते ॥ २८ ॥ अथानयनविशेषान्वितमेव गोत्वं गोपदाभिधेयं क- ल्प्येत, तदानयतिपदान्तस्वैयर्यप्रसङ्गः । तत्राह- न सामान्यान्वयं मो विशेषान्वयमेव तु । अर्थेऽपि चोदना तुल्यापेक्षा च सहकारिणी ॥२९॥ यो हि गोत्वादिपदार्था एवाकाक्षासन्निधियोग्यता- वशेन परस्परात्मसंसर्ग प्रमिमत इति प्रतिजानीते, तस्यापि पदार्थाः पदार्थान्तरमात्रसंसर्ग न प्रतिपादयन्ति, विशेषसंस- गनिष्ठत्वात् प्रयोगप्रत्यययोः, अन्यथासिद्धत्वाञ्च सामान्यान्व- यस्य । अथ पदार्थविशेषसंसृष्टत्वात्मानं पदार्थः प्रतिपादयति, तर्हि पदार्थान्तरावगमाय न पदान्तरोपादानमर्थवद् , एकेनापि पदार्थेन विशिष्टसंसर्गसिद्धः । अथ संसर्गप्रतिपादनसमर्था अपि पदार्थान परस्परमनपक्ष्य प्रतिपादयन्ति, शक्तानामपि कार्यजन- ने सहकारिसव्यपेक्षत्वादिति। शब्देप्वपि तर्हि तुल्योऽयं न्यायः, तेषामपि संसर्गसमर्थानामन्योन्यापेक्षया प्रतिपादकत्वात्। अत एव सत्यपि गोशब्दस्य योग्येतराशेषपदार्थविशेषसंसर्गप्रति- . १. ', २. य स्व' क. पाठः. ३./ २२ शान्दनिर्णयः। पादनमामध्ये सहकारिकारणसमवधानभेदेन कदाचित् कचि- देव कार्यहेतुत्वमर्थपक्ष इव न निरुध्यते । ननु योग्येतराशेष- विशेषसंसर्गाभिधानसमर्थे गोशब्दे प्रयुक्त कथमानयतिना तदपेक्षितो विशेषः समर्प्यते, आनयतेरप्यनेकविशेषसंसर्गस. मर्थतया क्वचिदेव नियमाभावात् । स्यादेतत् - प्रथमप्रयुक्त एव शब्दोऽन्विताभिधाने वर्तते, चरमप्रयुक्तास्तु.स्वरूपाभिधा- नेन तदर्थ नियमयन्तीति । तन्न । शब्दानां प्रयोगप्राथम्यानि. यमात् , सर्वेषामन्विताभिधानसामर्थ्यस्योपगन्तव्यत्वानियमा- सिद्धेः। अथाख्यातपदमेवान्वितमभिधत्ते, पदान्तराणितु स्वरू- पाभिधानेन तदर्थ नियमयन्तीति। तन्न । प्रमाणाभावाद्, आ- ख्यातपदरहितवाक्ये च पदार्थान्वयदर्शनस्यापह्रोतुमशक्य. त्वाच्च। तस्मान्न परस्परापेक्षयापि संसर्गनियमसिद्धिरिति ॥२९॥ तत्राह रूपमात्रेऽपेक्षत्वानियमो न विरुध्यते। अर्थेऽपि साम्याचोद्यस्य नातः पर्यायता तयोः ॥३०॥ सत्यपि संसर्गाभिधानसामर्थे गवादिशब्दानां गो- त्वादिस्वरूपमात्रे सहकार्यनपेक्षया बुद्धिसामर्थ्यमस्ति । एकैक- पदप्रयोगे तथा दर्शनात् । न हि शक्येऽपि सर्वत्र सहकार्य- पेक्षैवानपेक्षैव वेति नियन्तुं शक्यते । उच्चालनपठनभोजना- दिषु लोके क्वचिदपेक्षा कचिदनपेक्षेत्युभयथा दर्शनात् । अतः १. र्यनपेक्षवेति नि' क. पाठः.

२३ शान्दनिर्णयः। परस्परानपेक्षजन्यबुद्धिगोचरानेव पदार्थानितरेतरसंसर्गितयास- म्भूय पदानि प्रमिमत इति नानियमप्रसङ्गः। किन्त्वपदार्थेऽपि कृत्स्नविशेषसंसर्गबुद्धिसमर्थे सहकारिपदार्थान्तरमनेक संसर्गबु दिसमर्थ केन विशेषणेन संसर्ग नियमयत् । अथाभ्यर्हितत्वात खरूपेणैव नियमयेत् , तर्हि पदमपि निरपेक्षबुद्धिगोचरेण प. दार्थस्वरूपेण संसर्ग नियम्य प्रमिमत इति न कश्चिद् विरोधः। अत एवानपेक्षबुद्धिगोचरत्वाद् गोत्वादयो गवादिशब्दानां स्वार्था इति विशेषेणोच्यन्ते। स्यादेतद् - गामानयेति प्रयोगे पदयोरितरेतरसंसृष्टस्वार्थाभिधानात पर्यायत्वप्रसङ्ग इति । नै- तत् सारम् । एकस्मादेव हि पदात् सहकारिपदान्तरनिरपेक्षाद् यावानर्थः प्रतीयते, तावानेव यदि पदान्तरादपि केवलात् प्र. तीयेत, स्यात् तयोः पर्यायत्वं , प्रसिद्धेः । न तथेह समस्ति, परस्परसापेक्षत्वनिमित्तैककार्यमानत्वात् । तस्मान्न पदान्तरवै. यर्थ्यमनियमो वा ॥ ३०॥ स्यादेतत्-प्रतिप्रयोगं संसर्गिभेदाद् भिद्यमाने संसर्गे शक्यभेदादेकस्य गोशब्दस्यानन्ताः शक्तयः कल्पयितव्याः प्रसज्येरनिति । तत्राह- विचित्रसहकारित्वात् कार्यभेदस्य सिद्धितः । . शनि भिद्यतेऽर्थेषु तथा शब्देषु चाक्षवत्॥३१॥ अर्थोऽपि खलु संसर्ग प्रतिपादयन् प्रतिविशेषं संसर्ग- भेदाद् भिद्यमानशक्तिः स्यात् । अथ सहकारिपदार्थवैचि- व्यादेकयापि शक्त्या कार्यवैचित्र्यं सिध्यति । यथा चक्षुषो नीलपीतादिविषयसहकारिभेदादेवैकयापि रूपप्रकाशनशक्त्या २४ - शाब्दनिर्णयः। नीलपीतादिविज्ञानकार्यभेदः । तर्हि शब्देष्वपि सहकारिभेदात् कार्यभेदो न दण्डवारितः ॥ ३१ ॥ ननु प्रतिविशेषमभिधेयभेदानन्त्यात् सम्बन्धग्रहणम- शक्यसम्पादनम् । शक्यसम्पादने च शब्दोऽनुवादक एव स्यात् । अर्थपक्षे न सम्बन्धज्ञानापेक्षा, शब्दधर्मत्वादस्येत्यत आह उपलक्षणयोगन धुमाग्न्योरिव सङ्गतः । व्युत्पत्तियोगो नातः स्यात संसर्गप्वनुवादता ॥३२॥ यथेह धूमजातीयानामग्निजातीयैर्व्याप्तिरित्युपलक्ष- णयोगेन विशेषाणामपि सम्बन्धो गृह्यते, तावतैव विशिष्ट- देशे धूमविशेषदर्शनात तथाविधाग्निविशेषोऽपि गम्यते । न च सावगतिरनुवादः । एवं योग्येतरत्वोपलक्षितविशेषसंमृष्टस्वा- थें सामर्थ्यमित्युपलक्षणोपादानेन कृत्स्नसंसर्गसामर्थ्यप्रतिपत्ता- वपि न विशिष्टसमभिव्याहाराद् विशिष्टसंसर्गप्रतिपत्तिरनुप- पन्ना । नापि सा प्रतिपत्तिरनुवादः, वह्निसामान्यमात्रवदनु- माने पदार्थस्वरूपमात्रं शाब्दे संसर्गेऽनृद्यत एव । उपल- क्षणेऽपि स्वरूपमात्रस्य नियमेन प्रमाणान्तरसिद्धयपेक्षणात् । अतः संसर्गे नानुवाद इति सिडम् ॥ ३२ ॥ स्यादेतद्- यदि पदान्तरेणानभिहितेन संसृष्टं गोत्वं गोशब्देनाभिधीयेत, तदा पदान्तरवैयर्थ्य स्यात् । अथाभि- हितेन, तदेतरेतराश्रयता। आनयनेऽभिहिते तदन्वितं गोत्वं गोशब्दोऽभिधत्ते । गोत्वे चाभिहिते तदन्वितमानयनमानय- तिरिति । तत्राह- - शाब्दनिर्णयः। २५ क्रमेणावगतानर्थान् युगपत् संहतानथ । प्रमिमीरन् पदानाति नान्योन्याश्रयदोषता ॥ ३३ ॥ अन्योन्यानपेक्षमेव पदेभ्यः पदार्थाः क्रमेण प्रतीयन्ते। अन्त्यपदोचारणानन्तरं च तानेव पदार्थानितरेतरसंसर्गितया तान्येव प्रतिपादयन्ति पदानीति न दोषः । अथवा नेहान- न्वयिपदार्थावगतिः पूर्वभाविन्यपेक्ष्यते । किं त्वानुषङ्गिकी सा, अतो युगपत् परामृष्टानि पदानि संसर्ग प्रतिपादयन्ती- त्यभिधीयमानेनैवान्वय इति स्थितम् । तस्मात प्रयोगसमये- ऽन्वयव्यतिरेकाभ्यां न स्वरूपमात्रे सामर्थ्यमवधारितं, किन्तु संसर्ग इति स्थितम् । यत्त्वेकैकस्मात् पदात् पदार्थमात्रमेवा- वसीयते, न संसर्गः, अतस्तत्रैव सामर्थ्यमिति । तदपि न । संसर्गसमर्थस्यैव सहकारिविकलस्य स्वरूपमात्रेऽपि बुद्धिहेतु- त्वोपपत्तेः । अन्यथा पदानां पदार्थेषु शक्तयः, पदार्थानां च संसर्गे शक्तय इति शक्तिकल्पनागौरवं च स्यात् । स्यादेतत् । पदपक्षेऽपि पदार्थान्तरविशिष्टस्वार्थे सामर्थ्य मिति शक्तेः सवि- शेषणत्वं प्रसज्यत इति । तन्न । अर्थशक्तरप्यर्थान्तरव्यावृ- त्तस्वात्मविषयत्वेन सविशेषणत्वात् । अतः पदार्थस्वरूपानु- वादेन संसर्गबुद्धिः पदेभ्य एवेष्यताम् । अत्राह कश्चिद् नाभिधानसामर्थ्यजन्योऽनुवादः पदात् पदार्थबुद्धिः । किन्तु स्मृतिप्रमाणसंशयविपर्यासानामन्यतमेन पदात् पदार्थज्ञा- नेन भवितव्ये परिशेषात् स्मृतिरेवैषा । सा च पूर्वोपलम्भ- १. 'कत्वप' ख. पाठः.

२६ शान्दनिर्णयः। संस्कारनिमित्तो नाभिधानमपेक्षते । शब्दज्ञानं चार्थसम्बन्धि. शब्दविषयतया संस्कारोबोधद्वारेण सम्बन्ध्यन्तरस्मृतिनिमि- त्तमिति ॥ ३३ ॥ कोऽयं पदस्य पदार्थन सम्बन्धः। तहुद्धिसामर्थ्यलक्षण एव । तत एव तर्हि सामर्थ्याद् बुद्धिरिप्यतां, किं शक्तिसम्ब- न्धिनि स्मृतिसामर्थ्यान्तरकल्पनया । नैतत् सारं, विशिष्टे- ऽर्थे समर्थस्य स्वरूपमात्र शक्त्ययोगात् , तावन्मात्रे बुद्धयनुप- पत्तेरिति । तत्राह- स्वरूपमात्र शक्तं चेत् कथं तत् स्मारकं भवेत् । शक्तयेकदेशयोगाच्चेच्छक्तिरेवास्तु बोधिका ॥ ३४ ॥ विशिष्टार्थसम्बन्धिनः शब्दादकदेशस्मृतिरिव ताव- मात्रेऽभिधानकार्यमप्युपपद्यत इत्यर्थः ॥ ३४ ॥ - किश्च, नियमाच्छन्दतो बुद्धेर्न तथान्वयिदर्शनात् । अर्थेषु नैव शक्तिः स्यात् संसर्गऽपि च तत्स्मृतेः॥३५॥ न तावत् सम्बन्धिदर्शनात् सम्बन्ध्यन्तरबुद्धिः, निय- तानुदर्शनाद् , बहुविधत्वाच्च सम्बन्धिनां वक्रादीनामेकत्र नि- यमेन स्मृत्ययोगात । सम्बन्धग्रहणसंस्कारवतश्च शब्दोपलब्धे. नियमेनार्थबुद्धिीयते । संस्कारजन्यायां च स्मृतौ शब्दान्वय- १. 'ताभि', २. 'ओ' ख. पाठः. ' शाब्दनिर्णयः। २७ व्यतिरेकावुपेक्ष्येयाताम् । न च शब्दस्य स्मृतिहेतुसंस्कारो- द्वोधकतयान्यथासिदिः, संस्कारोबोधस्य स्मृतिव्यतिरिक्तस्या- निरूपणाद्, वक्त्रादिविषयसंस्कारोबोधकप्रसङ्गाच्च । तस्मात् सम्बन्धज्ञानसंस्कारविशिष्टमभिधानमेव पदार्थज्ञानेषु पुष्कल- कारणमिति नियमेनानुवाद एवैप जायते । पूर्वोपलम्भतद्देश- कालादिसम्भेदरहितत्वाच न स्मृतिः। किंच संसर्गज्ञानसमये- ऽपि पदार्थाशेपु संस्काराणां भावात् स्मृतिमात्रोपपत्तेर्न कदा- चिदपि तेवभिधानकार्य मिध्येत् । ततश्च शक्तिसम्बन्ध- ज्ञानान्न सम्बन्धिदर्शनात् सम्बन्ध्यन्तरस्मृतिः । न हि संस- गज्ञानसमये सत्स्वपि संस्कारेषु अभिधानजनिता पदार्थबु- द्धिर्न प्रागिति नियन्तुं शक्यते । तस्मादभिधानजन्योऽयम- नुवादः । स एव चैकैकस्मात् पदात् प्रथममुत्पद्यते , पुन- स्तेभ्य एवेतरेतरसहकारिभ्यः संसर्गः प्रतीयते शक्तिकल्प- नालाघवादिति स्थितम् ॥ ३५ ॥ अपिच प्रमाणान्तरावसितपदार्थभ्यः संसंग प्रमीय- माणे कथं शब्दोपलब्ध्यन्वयव्यतिरेकवतः संसर्गप्रत्ययस्य पदार्थहेतुत्वं कल्प्यते । स्यादेतत् । पदार्थानां संसर्गव्यापार तच्छक्तिं वा पदान्यभिव्यञ्जयन्ति न प्रमाणान्तरं, ततश्च सं- सर्गप्रत्ययः । किञ्च सम्बन्धज्ञानात प्राक् पदानामदृश्यमाने संसर्गहेतुत्वं क्रमवत्पदार्थावगमात् पराचीनः संसर्गप्रत्ययः कथं शब्दनिबन्धनः स्यादिति । तत्राह - १. 'नं न स' ख. ग. पाठः. २. 'तिः ॥' क. पाठः.

२८ .. , शाब्दनिर्णयः। संसर्गशक्तेन व्यक्तिर्व्यापारस्यापि शब्दतः। नाभिधेयद्वयं तद्धि न शब्दः कारणं तयोः॥३६॥ न च पदस्याभिधेयविषयं व्यापारान्तरमस्ति, येन पदार्थावगतौ संसर्गशक्तितयापारौ व्यज्येयाताम् । न च पदेभ्यस्तयोः प्रतिपत्तिः, अनभिधेयत्वात् । न च पदजन्यं विज्ञानं पदार्थातिशयहेतुः, ज्ञानस्य स्वविषयविकाराहेतुत्वात्। न च सम्बन्धग्रहणापेक्षया संसर्गप्रतिपादकेषु पदेष्वानुषङ्गि- कपदार्थप्रतिपत्तेः संसर्गहेतुत्वं शक्यते कल्पयितुं, शक्तिक- ल्पनागौरवाद् , अन्यत्रादृष्ट सामर्थ्यत्वाच्च । न च पदार्थेषु प- दावगतेषु कश्चिदतिशयो न मानान्तरावगतेविति युक्तम् । तस्मात् पदनिबन्धनः संसर्गप्रत्ययः ॥ ३६ ॥ ननु "पश्यतः श्वेतिमारूपं () हेपाशब्दं च शृण्वतः । खुरनिप्पेयशब्दं च श्वेतोऽश्वी धावतीति धीः ॥" इति पदार्थेभ्योऽपि संसर्गप्रत्ययो दर्शितः, इत्यत आह नार्थाधीनस्तु संसर्गवोशे मानान्तरं विना । परिशेषानुमानाद्धि श्वेतोऽश्वो धावतीति धीः॥ ३७॥ खुरनिप्पेषशब्दानुमितस्य धावनस्य परिदृष्टस्य श्वै. त्यस्य च धर्म्यपेक्षायां द्रव्यान्तरस्यासम्भावनात् परिशेषाद्वेषा- २ - १. 'यं क. पाठः. २. 'धी: प' ख. ग. पाठः, 'श्वेतिमं रूपम्' इति स्यात् । श्वेतिमशब्दाद् अर्शआद्यचि श्वेतिमं श्वत्ययुक्तमित्यर्थः । रूपमाकृतिम् ।

शाब्दनिर्णयः। शब्दानुमिताश्वधर्मिनिष्ठतामनुमिमानः श्वेतोऽश्वो धावतीति प्रतिपद्यते, न पदार्थान्तरमात्रेभ्यः ॥ ३७॥ किञ्च. नान्तर्गमः प्रमाणेषु पदार्थानामसम्भवात् । अविनाभावरूपादेन शाब्दे तदलक्षणात् ॥ ३८ ॥ न तावच्चक्षुरादिवत् पदार्थाः संसर्गमवगमयन्ति, अ- नवबुद्धानामहेतुत्वात् । नाप्यनुमानवद्, अविनाभावाभा- वात् । नाप्यर्थापत्त्या, संसर्गमन्तरेणापि पदार्थोपपत्तेः । सा. दृश्याभावौ च नियतविषयौ । न च शाब्देऽन्तर्भावः, शब्दा- दर्थबुद्धिरिति लक्षणात् । ननु शब्दावबुद्धपदार्थजन्योऽपि सं- सर्गबोधः शाब्द एव । न । अर्थानां संसर्गेण सम्बन्धाभावाद् बोधकत्वानुपपत्तेः । नन्वाश्रयाश्रयिलक्षणः सम्बन्धो विद्यते । न । तावन्मात्रस्यावुद्धिनिमित्तत्वात् । न हि शब्दप्रतिपन्नेऽपि घटे तदाश्रयो रमः प्रतीयते विनाभावादिव्यतिरेकेण । ननु शब्दा ऐव संसर्ग बोधयन्ति , किन्तु पदार्थबुद्धिव्यवधानेन । तदुक्तं- "वाक्यार्थमितये तेषां प्रयुक्तौ नान्तरीयकम् । पाके वालेव काठानां पदार्थप्रतिपादनम् ॥ इति । नैतत् सारं, पदानां पदार्थबुद्धिपु पर्यवसानात् । ज्वा- लानामिय पाकस्य पदार्थानां संसर्गस्यानिमित्तत्वात् । अथ शब्दा एव पदार्थबुद्धयुपकरणाः संसर्गमवगमयेयुः। किमु- १. 'नम् अवि', २. 'श्य', ३. 'र्थे' क. पाठः. ५. 'दे', ६. 'न्तीति, कि' क. पाठः, ४ - ४. 'वा' ख, पाठः.

३० शाब्दनिर्णयः। पकरणैः । गृहीतसम्बन्धानामेव शब्दानामन्वयव्यतिरेकव- त्वात् । तस्मान्न पदार्थेभ्यः संसर्गप्रत्ययः प्रमाणपक्षपाती॥३८॥ कथं पुनरन्विताभिधाने लक्षणावृत्तिः, यावता न मुख्यमर्थमर्थान्तरसंसर्गितया प्रतिपादयति । नापि लक्ष्यमाणं, तदभिधायकपदाभावात् । अतो लक्ष्यमाणार्थनिबन्धनस्तत्र संसर्गः । अध्याहार चाध्याहियमाणार्थनिबन्धन एव संसर्गः, तदभिधायकपदाभावादिति । तत्राह लक्षणायां च तद्वाचिपदात् संसर्गधीभवेत् । अध्याहारे च शब्दार्थापनिलब्धात पदाद्धि सा॥३९॥ मञ्चशब्दः कोर्शनेन संसृष्टस्वार्थ प्रतिपादयितुं प्रवृत्त- स्तत्र विरोधात कोशनसंसर्गितया स्वार्थबुद्धिहारण पुरुपे बुद्धि- मुत्पादयति । कोशनमगितया शब्दात् प्रतिपन्नो हि मञ्च- पदार्थः पुरुपे क्रोशनमसगिणि बुद्धिहेतुर्न केवल इत्यतः स- निहितपदाभिधेयार्थसमर्गिपदार्थप्रतिपादनाय प्रवृत्तं पदं व्य- वधानेनाव्यवधानेन वा यत्राकाक्षिनार्थप्रतिपत्तिहेतुः तत्सं- सर्गस्तन्निबन्धन इति नान्विताभिधानपक्षरवीकारविरोधः। व्य- क्तिलक्षणायामपि सामान्यबुद्धरव्यभिचारण व्यक्ती पर्यवसा- नात् तत्सामान्यसंसर्गाभिधानमेव विशेपसंमर्गेऽपि निमित्तम् । अर्थवादिनां चाभिहितानामसंसगार्दन्वयिनां चानभिधेयत्वात् सहारं प्रतिपादकत्वमविशिष्टम् । अध्याहारे च प्रमेयैकदेश- ३ १. 'ने सं' ख. ग. पाठः. २. थी क. पाठ:. ३. 'व' ख. ग. पाठः.

१ शाब्दनिर्णयः। ३१ समर्पणसमर्थप्रमाणैकदेशविषयशब्दार्थापत्तिप्रापितपदोपसंहा- रेणान्विताभिधानसिद्धिः । अन्यथाध्याह्रियमाणार्थसंसर्गस्या- र्थनिबन्धनत्वेनानागमिकत्वप्रसङ्गात ॥ ३९ ॥ तस्मादुपसहरति- अतः पदेभ्यः संसर्गस्तच्छक्तिभ्यः प्रमीयते। इति न्यायैर्यथाशक्ति व्युत्पत्तिं प्रत्यपीपदम् ॥ ४०॥ उक्तमन्विताभिधानात् पदेभ्य एव घर्णात्मकेभ्यः संस- बुद्धिरिति ॥ ४० ॥ अपिच. शाब्दवं नान्यथैव स्यात् पदवन्दस्मृतेविना । महावाक्येन चेत तापि निर्विकल्पेतरा हि सा॥४१॥ इतोऽपि वर्णात्मकानामेव पदानां वाक्यार्थप्रतिपादक- त्वमङ्गीकर्तव्यम् । अन्यथा तस्य शाब्दत्वविरहादप्रामाण्यप्र- सङ्गात् । ये तु मन्यन्ते वर्णोपलम्भंजनिताः संस्कारा एव स्मारकाः तदतिरेकिणो वा पदार्थबुद्धिसामर्थ्यावच्छिन्नतया पदशब्दभागिनः संसर्ग प्रतिपादयन्तीति, तैरपि संसर्गस्य शाब्दत्वमभिप्रेतमात्मीयेन मतेन निराकृतं भवति । कथं हि शब्दोपलब्धपदार्थजनितसंसर्गबोधमशाब्दं ब्रुवता तदुपलम्भ- -नितसंस्कारजनितसंसर्गबोधस्य शाब्दत्वमिष्यते , न हि चाक्षुषज्ञानसंस्कारजनितं ज्ञानं चाक्षुषं प्रमाणं वा भवति । - ३. "न्धि' क. पाठः. १. 'त्वेऽनाग', २. 'प्रतिपत्तिः', ४. 'तबो' ख. ग. पाठः.

३२ शाब्दनिर्णयः। अनधिगतार्थविषयताभावादिति चेद् , इतरत्रापि संस्कारज- न्यत्वे तथात्वं केन वार्यते । तत्राह -वर्णपक्षेऽन्त्यपदप्रत्य- यानन्तराशेषपदावमर्शिस्मृतिज्ञानं संसर्गनिमित्तं महावाक्ये- ऽशक्यसम्पादनमिति ज्ञानानपेक्षाः संस्कारा एव तद्धेतव इति। नैतत् सारं, महावाक्ये न शाब्दी प्रमितिः । किन्त्ववगत- संसर्गाणामेकप्रयोजनसम्बन्धितयान्वयोऽर्थनिबन्धन एव । यत्र पदैकवाक्यता तत्रैव शाब्दी प्रमितिः। तत्र चाल्पत्वात् पदानां नानुसन्धानानुपपत्तिः । इतरस्यापि संसर्गप्रमितेः सविकल्प- कत्वात् तहाचकाशेषपदानुषङ्गो न शक्यते निराकर्तुम् । अ- शेषपदावमर्शसिडये च वाक्यं पुनः पुनः पठ्यते । संस्कारपक्षे तेषां सकृदुत्पत्तेर्न पुनः पुनः पठनापेक्षा । कमोपलब्धाशेषपदा- वमर्शिस्मृत्युदये संस्कारप्रचयापेक्षा लोकेऽन्वयव्यतिरेकसमधि- गता। अनन्वयिपदाव्यवहितमेकमिदं वाक्यमिति समस्तपदा- नवमर्शे नोपपद्यते । संसर्गप्रत्ययान्यथानुपपत्त्या वा समस्त- पदोवमर्शः कल्प्यताम्।सम्बन्धग्रहणे च समस्तपदावमर्शाभा- वे न संसर्गसामर्थ्यप्रतिपत्तिः । तस्मात पदवृन्दस्मृतेरेव संसर्ग- प्रतिपत्तिः। योऽप्यन्त्यपदार्थावगमानन्तरमशेषपदार्थावमर्श सं- सर्गहेतुं कल्पयति , तस्यापि सविकल्पकतया पदावमर्शस्य तहाचकाशेषपदावमर्शे वक्तव्ये किमुभयानुस्मरणेन कल्पि- तेन । तस्मात् समस्तपदावमर्शादेव संसर्ग इति स्थितम् ॥ १ १. 'अ' क. पाठः २. 'ये वा' ख. पाठः. ३. 'दाम' ख. ग. पाठः.

शाब्दनिर्णयः। ३३ उक्तमन्विताभिधानम् । इदानीं तत्रैव किञ्चिद् विशेष परामृशति- किं कार्यान्वयिनं स्वार्थं किं वार्थान्तरसङ्गतम् । शब्दोऽभिधत्त इत्येतदधुना संविमृश्यते ॥ ४२ ॥ तत्र कार्यान्वयवादी स्वपक्षं वर्णयति- प्रतिपत्तुः प्रवृत्त्या हि शब्दविज्ञानवन्धना । कार्यसंसर्गधीरेव व्युत्पत्त्याध्यवसीयते ॥ ४३ ॥ प्रतिपत्तुः प्रवृत्तिलिङ्गेन विशिष्टकार्यज्ञानमनुमाय तदन्वयिषु पदार्थेषु पदानां सामर्थ्यमवधारयति ॥ ४३ ॥ ननु बालेन यत् स्वात्मनि प्रवृत्तिनिमित्तमवगतं, त- देव प्रतिपत्तुरप्यनुमीयते, तर्हि हितज्ञानं तत्साधनज्ञानं वा प्रैषादिङ्गितादिर्वा दर्शितः प्रवृत्तिनिमित्तमित्यत आह - न प्रवृत्तिर्हितोपायात् तथेष्टादाशयाच्च न । व्यभिचारादबाधाच्च कार्यसिद्धेः फलादिषु ॥४४॥ अवधारिते च फले तत्साधने च नातीतादिरूपे प्रव- तते । ततो हितादयोऽपि कालत्रयविविक्ततया कार्यबुद्धि- गम्याः प्रवृत्तिहेतवः । तत्र व्यभिचाराद्वितादीनामव्यभिचा- राच्च कार्यबुद्धेः सैव प्रवृत्तिहेतुरिति ॥ ४४ ॥ ननु तदेव हि कार्य , यदिष्टसाधनम् । तदुक्तं. "कर्तुरिष्टाभ्युपाये हि कर्तव्यमिति लोकधीः - " २. 'च' ख. ग. पाठः. ३. '' १. 'क्षं व्याव' क. पाठः. ख. पाठः, ३४ शाब्दनिर्णयः । इति । अथवा हितसाधनज्ञानाधीनत्वात् कार्यादिबुद्धेस्तदेव कार्यताबुद्धिहारेण प्रवृत्तिनिमित्तमिति तत्रैव शब्दसामर्थ्य क- ल्प्यत इत्यत आह कार्य नेष्टाभ्युपायत्वं कृतिव्याप्यं हि तत् स्मृतम् । तदेवाव्यवधानात् तसिद्धत्वेऽपि प्रवर्तकम् ॥४५॥ प्रसिद्धस्तावत् कार्येष्टसाधनयोर्भेदः । इष्टसाधनज्ञाना. धीनमपि कार्यताज्ञानमव्यवधानात् प्रवृत्तिनिमित्तमुच्यते । न ह्यन्वयव्यतिरेकाधीनं हितसाधनमन्वयव्यतिरेकेण प्रवृत्तिनि- मित्तम् । तस्मात् कार्यमेव प्रवृत्तिहेतुरिति स्थितम् । तत्र के- चिदाहुः - शाब्दव्यवहारे शाब्दभावना प्रवृत्तिहेतुरिति । तत्राभूतप्रादुर्भावफलं करोत्यर्थमात्रं भावना । तत्रार्थव्यापारो- ऽर्थभावना। शब्दव्यापारस्तु स्वाभिधेयज्ञानजननलक्षणः शब्द- भावना । सा च शब्दकर्तृकार्थज्ञानभाव्यनिष्ठा शब्दज्ञानकर. णिका सम्बन्धज्ञानसंस्कारेतिकर्तव्यताका सर्वशब्दानामविशे- षवती। लिङादिशब्दे तु भिद्यते। सौ लिङादिकर्तृकार्थभावना- लक्षणपुरुषप्रवृत्तिभाव्यनिष्ठा स्वज्ञानकरणिका स्तुतिनिन्दार्थ- वादादिज्ञानेतिकर्तव्यताका च समाश्रीयते। कथम् । पाकं करो- तीति पचतीत्याख्यातार्थस्य करोतिना व्याख्यानात् सर्वाख्या- तानां तावत् करोत्यर्थोऽभिधेयः । लिङादीनां तु विधिविवक्षया प्रयुज्यमानानां चेतनविषयप्रयोगित्वात् पुरुषप्रयत्नः पुरुषार्थ. ३ १. 'त्वात् कृ', २. 'को न प्र' ख. ग. पाठः. ३. 'ब्देषु तु', ४. 'सा हि लि' क. पाठः. ५. 'ना च न पु ख. पाठः. १. 'यंग, पाठः, शाब्दनिर्णयः। ३५ भाव्यनिष्ठो धात्वर्थकरणः प्रयाजादीतिकर्तव्यताकोऽर्थभाव- नालक्षणः करोत्यर्थोऽभिधेयः । तत्र स्वाभिधेयार्थभावनाज्ञा- नजननो लिडादिशब्दव्यापारः खाभिधेयार्थभावनामपि भा- वयतीति विशेषः । कथम् । लिङादिशब्दश्रवणानन्तरं प्रवृ. त्तिदर्शनाच्छन्दमात्रस्यागृहीतसम्बन्धस्याप्रवर्तकत्वात् प्रवृ. त्तिहेतुं कञ्चिदर्थमभिधाय शब्दः प्रवर्तयतीति गम्यते । तत्रा. र्थान्तराभिधानकल्पनायां कल्पनागौरवात् स्वाभिधानव्यापार- मभिधेयज्ञानजननलक्षणमभिधाय तद्वारेणार्थभावना प्रवृत्ति जनयतीति परिशेषार्थापत्तिभ्यां गभ्यते। ततश्वार्थभावनाभाव्य- निष्ठा शब्दभावना । न केवलं तज्ज्ञानभाव्यनिष्ठाभिधानज- न्यं शब्दभावनाविषयं विज्ञानं प्रवर्तकज्ञानत्वात् प्रवृत्तिलक्ष. णभाव्यनिष्पादनद्वारेण शब्दभावनां प्रति कारणतामश्नुते ।अं शत्रयसहितार्थभावनाविषयस्तुतिनिन्दार्थवादादिज्ञानमपि प्र. रोचनाहारेण प्रवृत्तिहेतुत्वाच्छब्दभावनां प्रतीतिकर्तव्यता- मनुभवति । तदेवमंशत्रयसहिता शब्दभावना शाब्दव्यवहारे प्रवृत्तिहेतुरिति स्थितम् ॥ ४५ ॥ एतन्निराचष्टे- प्रवृत्तिहेतुर्दृष्टान्ते न दृष्टा शब्दभावना । लोकसिद्धेऽपि शब्दार्थे नापत्तिश्च गौरवात् ॥ ४६॥ - १. 'ने', २. 'दिश्र', ३. 'ना', ४. 'कल्प्यते' क. पाठः, .५. 'क' ख. पाठः.

शाब्दनिर्णयः । न तावदियं शब्दभावना बालेन प्रवृत्तिहेतुतया स्वा. त्मनि समधिगता, येन प्रतिपत्तुरपि शब्दार्थतयानुमीयेत । न च परिशेषार्थापत्तिभ्यां स्वाभिधेयाभिधानमवगम्यते, लोक- सिद्धकार्यानुमानेनैवान्यथासिद्धेः । एकस्य शब्दस्य शब्दार्थ- भावनाभिधेयद्वयकल्पनागौरवं च । अभिधेयज्ञानगम्ये चाभि- धानव्यापारे न तत्र शब्दसामर्थ्यकल्पना, अन्यथासिद्धत्वात् तज्ज्ञानस्य । ने च युगपदेकस्माच्छब्दादभिधेयद्वयविषयज्ञान- इयोत्पादः, कर्तृसङ्ख्यार्थभावनयोरिव शब्दार्थभावनयोरेक- वाक्यताभावात् । न च क्रमेण, शब्दस्य विरम्यव्यापाराभा- वात् । तस्मात् स्वरूपानुपपत्तेरप्रवर्तकत्वाच्च तस्याः कार्यमेव प्रवृत्तिहेतुरिति स्थितम् ॥ ४६॥ अत्रोच्यते- अन्वयव्यतिरेकाभ्यामुपदेशादिभूमिषु । व्युत्पाद्यन्तेऽन्यसंसृष्टे वालाः कार्यान्विते न तु॥४७॥ न च शब्दसमनन्तरजन्यप्रवृत्तिलिङ्गानुमानैकोपायैव शब्दार्थसम्बन्धावगतिः । किन्तूपदेशोपायादपि। तथाहि - बालेभ्यो जनन्यादिभिः प्रायेणोपदिश्यन्ते शब्दार्थसम्बन्धाः। ते च तत्र प्रयोगप्रत्यययोरिवान्वयव्यतिरेकाभ्यां विशेषसम्बन्ध- मवधारयन्ति । नन्वयं घटोऽयं पट इत्याद्युपदेशोऽपि प्रयो- गमूल एव । प्रयोगे च कार्यान्विते सङ्गतिग्रहः, तेनोपदेशो. ऽपि कार्यनिष्ठ इति । तन्न । प्रयोगस्याप्युपदेशमूलत्वस- म्भधान्नेदम्प्रथमता तयोः , परस्परमूलतोपपत्तेः । न च १. 'न यु' क. पाठः. - ३७ शाब्दनिर्णयः। प्रयोगे कार्यनिष्ठतेत्युपदेशेऽपि तन्निष्टतावगमः, व्युत्पत्तुः श- ब्दसामर्थ्यविषयतया कार्यस्याप्रतीतरुपदेशेऽप्रतीयमानकार्यक- ल्पनाद् वरं प्रयोगेऽपि संसृष्टमात्रस्य प्रतीयमानस्याभिधेयत्व- कल्पनम् । ननूपदेशे बुद्धिसामर्थ्य शब्दस्य प्रतिपत्तुं न श- क्यते प्रयोग इव बुद्धिकार्यावगमे , मानाभावात् । कथं तर्हि उपदेशानन्तरं प्रयुक्ताच्छब्दादर्थ प्रतिपद्यन्ते बालाः । कचित् प्रयोगे शब्दस्य बुद्धिसमर्थताबगमादिहापि तत्सामान्याद् बुद्धिसामर्थ्यप्रतिपत्तिरिति चेत, तथाप्युपदेशेषु कार्यमन्त- रेण बुद्धिसामर्थ्यसिद्धिः । तथाच रागशक्तीच्छाद्वेषादिविषयाः शब्दार्थसम्बन्धाः प्रायेण व्युत्पाद्यन्ते । तेषां प्रयोगसमवायिप्र- वृत्तिविषयदर्शनायोगात् । तथाच देवदत्तः काठैः स्थाल्या- मोदनं पचतीत्यादिप्वतीतानागतवर्तमानार्थनिष्ठेष्वपि वाक्येषु प्रसिद्धार्थपदसमभिव्याहारेणाप्रसिद्धार्थस्यापि पदस्य सम्बन्धो. ऽवगम्यते । तथा निगमनिरुक्तनिघण्टुव्याकरणेभ्योऽपि स्फु- टतरा शब्दार्थव्युत्पत्तिः । न चैतेषु कार्यार्थतावगमोऽप्रतीतः। कथं पुनरुपदेशादिपु संसृष्टस्वार्थे सामर्थ्यावगमः । वाक्यरू- पत्वादुपदेशादीनां पदान्तराभिधेयपदार्थसंसृष्टवार्थस्य सर्व- त्राव्यभिचारात् , तथागृहीतसम्बन्धादपि शब्दात् संसृष्टार्था- वगमात् । तस्मान्न कार्यसंसृष्टे नियमेन सामर्थ्यसिद्धिः॥४७॥ किश्च कार्यान्विते च शब्दार्थे प्रत्येकं सङ्गतिग्रहात् । शाब्दप्रमाणहानिः स्यान्नाटणे सातिगहः ॥४८॥ १. 'था दे' क. पाठः. २. 'र्थस्या' ग. पाठः, १ ३ ३८ शाब्दनिर्णयः। 'यजेत वर्गकाम' इति श्रौताद् वाक्यान्नापूर्वार्थप्रमि- तिलाभः । यतो नियोज्यविषयाभिधायिनोः पदयोः सम्बन्ध. ज्ञानकाले कार्यसंसृष्टो नियोज्यो विषयश्च सिद्धः । तत्र विष. यनियोज्यव्यावृत्ते नियोगे शब्दोऽनुवादः स्यात् । न हि वि- षयनियोज्यसम्बन्धः शाब्दः, किन्त्वर्थनिबन्धनः । अन्या. न्विते तूपलक्षणोपादानेन धूमादग्निज्ञानवदपूर्वार्थप्रमितियु- ज्यते । स्यादेतत् । अनवगतस्यैव कार्यस्य सम्बन्धज्ञानवि- षयत्वान्न विषयनियोज्यव्यावृत्ते कार्यशब्दोऽनुवाद इति ।नै- तत् सारं, यतोऽनवगते कार्ये तत्संसृष्टपदार्थान्तरानवगमाद- गृहीतसम्बन्धा एव सर्वे शब्दा बोधयेयुरिति प्रसज्येत, यतो नानवगतेऽर्थे सम्बन्धज्ञानम् । अथाज्ञादिपूपाधिषु कार्योऽप्य. र्थः प्रतिबिम्बितोऽवगम्यत इति , तथापि तत्स्वरूपंसंसृष्टेषु सर्वपदार्थेषु सम्बन्धज्ञानाय प्रमाणान्तराधिगतेषु सिद्ध शब्दानामनुवादकत्वम् । अथ प्रवर्तकलं प्रमाणान्तरगृहीत- तया , शब्दार्थप्रवर्तकविशेषस्तु विषयनियोज्यव्यावृत्तो नि- योगः प्रमीयत इति, तथापि शाब्दः संसर्गोऽनुवादः । विशे- षस्तु परिशेषानुमानगोचर इति नापूर्वार्थप्रमितिलाभः। तस्मा- दुपलक्षणोपादानेनान्विते सम्बन्धग्रहेऽपूर्वार्थसिद्धिः ॥४८॥ किञ्च संसर्गप्रतियोगित्वं नानुमेयस्य कृत्नतः । प्रतिपत्त्यन्तरे मा भूदुपायत्वं समं तयोः॥ ४९ ॥ १. 'तेनि', २. 'ज्यः' क. पाठः. ३. '' ख, ग. पाठः. ४. ५. 'पंख. पाठः. ६. 'त्वान्ना' क. ग. पाठः. 'त अथा' क. पाठः , शाब्दनिर्णयः। ३९ यदि प्रवृत्त्युन्नीयमानप्रत्ययविषयशब्दसामर्थ्यप्रतिप- पत्तावनुगम्यमानं कार्यमपि सर्वशब्दसामर्थ्यविषयनियामक त्वेन प्रयोजकं कल्प्येत, तर्हि सत्येव प्रमाणान्तरमितत्वादौ प्रयोगप्रत्ययाभ्यां सम्बन्धज्ञानाद्, असति चाज्ञानात्, तस्यापि सर्वशब्दसामर्थ्यविषयनियामकत्वं स्यात् । ननु प्रवृत्त्या प्रव- तकज्ञानमनुमाय तत्रैव शब्दसामर्थ्य प्रतिपद्यते, कुतः प्र- माणान्तरमेयत्वादेः प्रयोजकत्वावकाशः । सत्यम् , अस्मिन् प्रयोगे तथास्तु । किन्तु प्रयोगान्तरेषु भिन्नसंसर्गेष्वनुवर्त- मानं प्रयोजकं मृग्यते । ननु कार्य सर्वत्रानुवर्तते । सत्यं , प्रमाणान्तरमेयत्वादेरप्यस्त्वनुवृत्तिः, अन्वयव्यतिरेकनियमात्। ननु प्रमाणान्तरमेयत्वादिः शब्दसामर्थ्यविषयो न भवतीति प्रागेव वर्णितं, तर्हि प्रमाणान्तरमितत्वाद्युपलक्षितकार्यसंसृष्ट- खार्थे सामर्थ्यमिति कल्प्यताम् । ननु शब्दसामर्थ्यविषयत्वे सति यदनुवर्तमानं तदेव प्रयोजकम् । तन्न , एवं विशेष. णाद् वरमनुवर्तमानं प्रयोजकमिति ग्रहणम् । ननु मानान्त- रप्रमितत्वाद्युपलक्षितकार्यान्वित इति ग्रहणाद् वरं कार्यान्वित इति ग्रहणम् । सत्यम्, ततोऽपि लघीयोऽन्विते सामर्थ्य- मिति ग्रहणम् । ननु प्रमाणान्तरमितत्वादेरन्वयव्यतिरेको तस्य सम्बन्धग्रहणोपायत्वेनान्यथासिद्धौ, अवगम्य विवक्षि- त्वा प्रयुक्ते शब्दे प्रवृत्त्या चानुमिते वाक्यार्थज्ञाने सम्ब- न्धावगमादन्यथा चानवगमात् । अतो न तस्य सर्वशब्द- १ १. 'दि', २. 'तः' क. पाठः.

शान्दनिर्णयः। सामर्थ्य विषयनियामकत्वमन्वयव्यतिरेको गमयतः । एवं तर्हि सत्येव कार्यज्ञाने प्रवृत्तिसिद्ध्या वाक्यार्थज्ञानमनुमाय तत्र सामर्थ्य ज्ञानादन्यथा चाज्ञानात् तदन्वयव्यतिरेकावन्यथा- सिद्धौ । न च तस्य सर्वशब्दसामर्थ्यविषयनियामकत्वं गम- यतः। तस्मादन्यान्विते सामर्थ्यम् । ननु यदि कार्यतादेरन्वय. व्यतिरेकवतोऽपि सर्वशब्दसामर्थ्यविषयनियामकत्वं परित्यज्यो- पायतयान्यथासिद्धिरुच्यते, उच्यतां तर्हि संसर्गस्यापि शब्द- सामर्थ्यविषयताभावः । नैतत् सारम् । पदव्यतिरिक्तं वाक्यं पदप्रतिवुद्धपदार्थान् वा संसर्गहेतूनवलम्व्य तत्प्रत्ययस्यान्य थासिद्धिवक्तव्या । तयोश्चे पक्षयोः शक्तिकल्पनागौरवात् , पदार्थानां च प्रमाणपक्षसङ्गमाभावादिति वर्णितदोपत्वाच्छ- ब्दनिबन्धन एव संसर्गप्रत्यय इति कल्प्यते ॥ ४९ ॥ किञ्च कार्यान्विते च शब्दार्थ कार्य केनान्वितं भवेत् । गुणद्रव्यादिशब्दानां साक्षात् कार्येण नान्वयः ॥५०॥ कार्यपद्व्यतिरिक्तानां कार्यान्विते समार्यम् । कार्यस्य तु स्वरूपेऽन्यान्विते वेति हैरूप्यपरिहारायान्यान्विते साम- र्थ्यमित्येकमेव प्रयोजकमुपादेयं, कार्यस्य कार्यान्तराभावात् । योऽपि कार्यान्वयान्विते सामर्थ्यमिति बकबन्धमिव प्रयोज- कमाह , तस्यापि बहुविशेषणं प्रयोजकमिति दोषः। योऽपि १. 'दन्वि' ग. पाठः. २. 'श्व शब्दयोः प', ३. 'कार्यान्वि', ४ ५. 'वै' क. पाठः.

? शान्दनिर्णयः । ४१ योग्येतरान्विते सामर्थ्यमङ्गीकृत्य कार्यानवेतरेषामन्वययो- ग्यता , कार्यस्य चेतरैरिति योग्यतां नियमयति, गुणद्रव्यकारकत्वादीनां परस्परान्वययोग्यता प्रत्यक्षावगता न निराकर्तव्या । सत्यम् , आर्थी सा योग्यता । शाब्दी तु कार्येतरपदार्थानामेवेति चेद् , न, कार्यपदार्थेन गुणद्रव्यकार- कत्वादीनां साक्षादन्वयायोग्यत्वात् । भावार्थेन हि कार्यस्या- न्वयः । कारकं तु भावार्थस्येति नियमात् । अथ कार्येण सर्वपदार्थानां शेषशेषि(का ? ता)लक्षणोऽन्वयोऽव्यवहितः, कियाकारकलक्षणस्तु व्यवहित इति मतम् । केयं शेषशेषिता। न तावद् भृत्यस्वामिता, चेतनविषयत्वात् । तदुपाधिकर्त- व्यता तच्छेषतेति चेद् , न, जातिगुणद्रव्याणां कर्तव्यता- योगात्, सिद्धरूपत्वात् । न च गुणगुण्यादिवद् आश्रयाश्र- यिभावः शेषशेषिता । अथोपकार्योपकारकंभावो भावार्थ एव, तह-तरपदार्थानां शेषी । गर्भदासोऽपि स्वामिनोपकि- यमाणः शेषी । भृत्यत्वेन तु सम्बन्धान्तरेण गुणभूतः । अथ प्राधान्यं शेषिता, किं शब्दतोऽर्थतो वा । शब्दतश्चेद् , दन एव प्राधान्यात् तदन्वितहोमकर्तव्यतीयां. शब्दसम्बन्धः स्यात् । अर्थतश्चेद्, अचेतनस्योपकार्यतैव प्राधान्यं तच्चा- व्यवधानेन भावार्थस्य व्यवधानेन सुखस्य दुःखनिवृत्तेर्वे. ति न कार्यान्वययोग्यतानियमः। अतो यथाप्रमाणान्तरसि- योग्यतानुसारमेव पदानां योग्यान्विते सामर्थ्य मिति रम- णीयम् ॥ ५॥ १. 'कता भावा' ख. ग. पाठः. २. 'ते', ३. 'ता श', ध्यात्' क. पाठः, . G ४२ शान्दनिर्णयः। किञ्च भूतार्थबुद्धिर्नामानन्याध्याहारो न चानुमा । कल्पनागौरवात कार्यदृष्ट्या तच्छक्तिरिष्यताम्॥५१॥ न तावल्लौकिकी भूतार्थबुद्धिः शब्दनिबन्धना न प्र. माणं, प्रत्यक्षादिव शब्दाद् भूतार्थ प्रतिपद्य प्रमाणान्तरेणोप- कारापकारहेतुतां चानुस्मृत्यार्थाविसंवादिव्यवहारात् । अथ तत्रापि कार्यमध्याहियते , न तावदर्थसमवायिनः कार्यस्या- ध्याहारः । प्रतिपत्तुः तत्र प्रवृत्तिनिवृत्त्योरभिप्रायापरिज्ञानात् । नापि ज्ञातव्य इत्यध्याहारः । यतो देवदत्तो निर्गत इति ज्ञा. तव्य इत्यत्र देवदत्तनिर्गमनपदार्थस्वरूपे तत्संसर्गे वा पदाभ्या- मेव ज्ञानोत्पत्ती निष्पन्नविषयकार्यायोगाद् न योग्यतालक्षणः पदसमन्वयः स्यात् । अनुत्पन्ने तु विहिते च ज्ञाने न देव- दत्तनिर्गमनज्ञानोत्पादः , पदयोस्तत्रानुत्पादकत्वात् । विधि- पदस्य च देवदत्तनिर्गमनज्ञानकर्तव्यतायां ज्ञानहेतुत्वात् । विधेयस्य च ज्ञानस्य विधिविषयज्ञानस्य च भिन्नत्वात् । तस्माज् ज्ञातव्य इत्यध्याहारे भूतप्रमितिलोपः प्रसज्येत । किञ्च, सम्बन्धज्ञाने कार्यमित्यधिक प्रयोजक कल्पयित्वा लोके- ऽपि प्रतिवाक्यमप्रतीतस्य पदस्याध्याहारकल्पनाद् वरमन्विते सामर्थ्यकल्पनम् । अथ लौकिकी भूतार्थप्रमितिर्न शाब्दी । किन्त्वनुमाननिबन्धनेति , न, तत्रोप्यन्वयव्यतिरेकवच्छ- ब्दपरित्यागे कल्पनागौरवात् । न च कार्यसंसृष्टसमर्थेभ्यः १. 'त्रान्व' ख. पाठः.

शाब्दनिर्णयः। ४३ शब्देभ्यो भूतार्थसंसर्गानुमानसिद्धिः । न चासौ संसर्गभ्रमः, प्रत्यक्षवद् व्यवहाराविसंवादाद् अबाधात् । अन्यान्विते च श- ब्दकार्यदर्शनात् तावन्मात्रे सामर्थ्य कल्प्यते, कार्यगम्यत्वात् सामर्थ्यस्य । ननु तावन्मात्रे शक्तिग्रहणाभावे कथं तत्र का. र्यदर्शनम् । नैष दोषः, अन्यान्वितमपि सम्बन्धज्ञानसमये कार्यान्वयान्तर्वर्तितया वर्तते। कार्यदर्शनात् तु तावन्मात्रे सा- मर्थ्य नियम्यते । नन्वनवधारिते प्रयोजके कथं कार्योत्पादः, न, प्रयोजकान्तरं कल्पयतोऽपि कार्यवाक्याद् बुद्धिकार्यद- र्शनात् । सम्बन्धज्ञानसमये कार्यस्यापि विद्यमानत्वाद् बु. द्विकार्योपपत्तिरन्यान्वितपक्षेऽपि समाना । तस्माद् न कार्या- न्विते सामर्थ्य, किन्त्वन्यान्वित इति सिद्धम् ॥ ५१ ॥ अङ्गीकृत्य लिङादिशब्दानां कार्याभिधायित्वं प्रयो- जकोपादानसामर्थ्यादन्यान्विते सामर्थ्यमित्युक्तम् । इदानी तदेव नास्तीति प्रतिपादयितुमाह - विशिष्टव्यवहारस्य हेतुर्नान्यो निदर्शने । इष्टाभ्युपायात् कार्यत्वं ह्यन्यथासिद्धबोधनम् ॥ ५२ ॥ व्युत्पत्स्यमानेन यत् स्वात्मनि प्रवृत्तिनिमित्तं समधि- गतं, तदेव प्रतिपत्तुरपि प्रवृत्तिनिमित्तमनुमीयते । तच्च नेष्ट- साधनज्ञानादन्यत् समधिगतम्। ननु फलज्ञानादपि प्रवर्तते। सत्यम् , इच्छालक्षणैव तन्निमित्ता प्रवृत्तिः, न विशिष्टस्वरू- पा शरीरादिव्यापारात्मिका । सा हि प्रवर्तकानुमानबीजं परे- - , १. 'पेयं का' क. पाठ..

शान्दनिर्णयः। षामुपलब्धिगोचरत्वात् । सा चेत्थंभूताभिलषितसाधनज्ञा- ननिमित्तैव । कदाचित् साधनसामान्यज्ञानात् तद्विशेषजि- ज्ञासया प्रवर्तमानोऽपि तत एव प्रवर्तते, न फलमात्रज्ञानात् । ननु इष्टसाधनमप्यतीतादिभावेन गम्यमानं न प्रवर्तयति । सत्यम् । तस्य कालसम्बन्धज्ञानं प्रवृत्तिप्रतिबन्धकम् । ननु सिद्धे हेतुत्वे प्रतिबन्धेकत्वकल्पना । सत्यं, कालसम्बन्धज्ञान- विकले कर्तुरभिलषितसाधनेऽवगते प्रवृत्तेरनवगते च तस्मि- नप्रवृत्तेरन्वयव्यतिरेकज्ञानद्वयानुपपत्तिप्रभवयाऽर्थापत्त्याधिग- तमेव तस्य प्रवृत्तिहेतुत्वम् । ननु सत्यपि तस्मिन् अशक्तो न प्रवर्तते। सत्यम् । कर्तृसामर्थ्यादिसाधनपौष्कल्ये सति यतो विषयविशेषज्ञानात् प्रवर्तते, तदेव प्रवृत्तिहेतुतया शब्दाभि- घेयमिति कार्यवादिनाप्यङ्गीकर्तव्यं, तत्रैव शब्दसापेक्षतानि- यमात् । नन्वेवमपि कर्तुरभिलषितस्य साधनं कालविविक्तं कृतियोग्यतया कार्यमवगम्यमानं प्रवर्तयतीत्युक्तं भवति । तत्र कार्यतैव प्रवृत्तिहेतुः किं न स्यात् । फले प्रवृत्तिव्यभि- चारादिति वदामः । तदपि हि सुखं दुःखनिवृत्तिर्वा साक्षाद् व्यधानेन वा कृतियोग्यतया कार्यमित्यवगम्यते । न तत्र वि. शिष्टप्रवृत्तिरिच्छालक्षणैवेत्युक्तम् । तर्हि हितसाधनगतं का. यत्वमेव प्रवृत्तिहेतुः । तन्न । विशेषणायोगात् । ननु हित- साधनमप्यतीतादौ न प्रवर्तयतीति कृतियोग्यताप्यवश्यापेक्ष- णीया । न । परिनिष्पन्नपदार्थांशज्ञानस्यापि साक्षाद् वा पर- ३. १. 'विशिष्ट' ख. ग. पाठः, २. धकल्प' ख, ग, पाठः. 'वा' ख, ग. पाठ:. ४. 'च' ग, पाठः, ६ शाब्दनिर्णयः। ४५ म्परया वाभिलषितसाधनविषयस्य पदार्थीशे प्रवृत्तिहेतुत्वात् । किन्तु कारणसामर्थ्यवद् विषयस्य कृतियोग्यतापि प्रवृत्तावु- पसर्जनत्वेनापेक्ष्यते । प्राधान्यं तु हितसाधनस्यैव , सत्यपि कृतियोग्यत्वे हितसाधनताभावे विशिष्टप्रवृत्त्यदर्शनात् । ननु कार्यस्याप्यन्वयव्यतिरेकयोस्तुल्यत्वात् कार्यमेव प्रधान- मिति किं न भवेत् । न, कालोपबन्धलक्षणप्रतिबन्धनिरास. कत्वेनापि कृतियोग्यताया अन्वयव्यतिरेकयोरन्यथासिद्धयुप- पत्तेः । ननु प्रतिबन्धनिरासँ(क)त्वकल्पनादं वरं हेतुत्वकल्प- नम् । तन्न, सति ह्येकस्मिन् कारणेऽनन्यथासिद्धान्वयव्यतिरे- काभ्यां कारणान्तरं कल्प्यते । तौ चान्यथासिद्धावित्युक्तम् । ननु कालोपबन्धः प्रतिवन्धः, किं वा कारणाभावः । प्रति- बन्ध(क) एव , कृप्तकारणे हितसाधनत्वे तत्रापि विद्यमाने प्रवृत्तिकार्यविरोधित्वादकुप्तत्वाच्च कार्यतायाः । नन्वेवं सर्वत्र सहकारिकारणलोपः स्यात् । न स्यात् । यत्र कार्यविरोधिभा. वान्तरव्युदासेन यस्यान्वयः, तत्र प्रतिबन्धनिरासेनैव तस्या- न्वयः । यत्रं तु स्वभावमात्रव्युदासेनान्वयव्यतिरेकाभ्यां यस्य कार्यान्वयः, तस्य तत्र कारणत्वेनैवान्वयः । इह तु कालो- पबन्धनज्ञानं प्रवृत्तिविरोधि भावान्तरम् । तच्च व्युदस्यते का- यंताज्ञानेन । न च कुलालादेविरोधिपिण्डान्तरनिरासेनैवा- न्वयः , किन्तु कारणत्वेनैव । कचिन्निवृत्तेऽपि तस्मिन् घटा- १. 'च' ख. ग. पाठः, २. 'त् (फले !) न' ख. पाठः. ५. द्वारं' ग. पाठ. १. 'कि का' ख. ग. पाठः. ७. णोपादानलो' क. पाठः. ८. 'स्य' ख. ग. पाठः, ९. 'नान्व', १०. 'ने। न च' क. पाठः. , ३. 'सत्वे, ख. ग. पाठः. ४. 'सकल्प क. पाठः.

शाब्दनिर्णयः। : नुत्पत्तेः । इह तु हितसाधनज्ञानं कालविविक्तं सति कारण- सामर्थ्य प्रवृत्तिं प्रसूत एव । ननु कार्यतैव प्रवृत्तिहेतुः । तस्याः फलोपरागः प्रवृत्तिप्रतिबन्धकः । तन्निरासोऽभिमतसा- धनतेति किं न कल्प्यते । दुःखतत्साधनयोः कृत्या निष्प- त्तियोग्ययोरपि हितसाधनताभावे प्रवृत्त्यदर्शनात् । अथ तयोरपि प्रवृत्तिप्रतिबन्धकता । न । उभयशून्येऽपि वस्तु- मात्रे निष्पादनयोग्येऽपि प्रवृत्त्यदर्शनात् । अथ तदपि प्रवृत्ति- विषयता किञ्चिद् दुःखकैरत्वात् प्रवृत्तिप्रतिबन्धकम् । न । तस्मिन्नेवाभिलषितसाधनभावेऽवगते पश्चात् प्रवृत्तेः । अथ स- र्वत्र हितसाधनताभावज्ञानं प्रवृत्तिप्रतिबन्धकम् । न । यो- ग्यानुपलब्ध्यभावेऽभावनिश्चयाभावाद् निष्पादनयोग्ये वस्तुमा. त्रस्वरूपे प्रवृत्तिः स्यात् । अथ न निष्पादनयोग्यता कार्यता, किन्तु बुद्धिपूर्वकारिणः कृत्युपक्षेपयोग्यता। सा च हिते तत्सा- धने वा । नान्यत्र । अतः फलमेव प्रवृत्तिप्रतिबन्धकम् । तत्साधनतो तु तन्निरास इति । तर्हि बुद्धिपूर्वकारिणः कृत्यु- पक्षेपयोग्यता विषयसमवायिनी निप्पादनयोग्यतामात्रव्यति- रिक्ताभिलषितता तत्साधनता वा नान्यद्, अनिरूपणात् । प्र. वृत्त्यभावविरोधितेति चेद्, न, प्रवृत्तरेव प्रवर्तकत्वप्रसङ्गात् । प्रवर्तकत्वे सति प्रवृत्त्यभावविरोधितेति चेत् । राग एव तर्हि सा । कर्तव्यता तु विषयसमवायिनीति हितादिरेव वा प्रवृ- त्यभावविरोधी । तत्र हितस्य विशिष्टप्रवृत्तिहेतुत्वाभावाद्वित- ३. 'प्रति' ख. ग. पाठः. १. 'प्रति' क. पाठः २. 'कारणत्वा', ४. 'स्तुस्व', ५. 'ता त' क. पाठः, शाब्दनिर्णयः। साधनमेव प्रवृत्तिहेतुः शब्दान्तरेणाभिधीयत इति न पक्षान्तर- मेतत् । वयं तु हितसाधनस्यैव निप्पादनयोग्यता प्रवृत्तौ प्रति- बन्धनिरासेनोपकरणत्वेन वापेक्ष्यत इत्येतावद् ब्रूमः । ननु सा- धनसाधनेऽपि तद्विषयज्ञानात् प्रवर्तते। सत्यम् । साधनस्य पर- म्परयो हितत्वमङ्गीकृत्य तत्साधनेऽपि ततः प्रवर्तते। तदेच्छाल- क्षणैव साक्षात्साधने प्रवृत्तिः। विशिष्टा तु पुनः साधनसाधने। एवंचे सति प्रयाजाद्यङ्गविधयः क्रतोरेव हितत्वमङ्गीकृत्य त- साधनतामेव विदधति । भवतु वा हितसाधनगता कार्यता प्रवृत्तिहेतुः । तथापि न कार्यता शब्दार्थः । तथाहि -प्रति- पत्तुः प्रवृत्तिलिङ्गेनेष्टसाधनगतकार्यतावगमेऽनुमिते निष्प- त्तियोग्यतालक्षणकार्यांशबुद्धेः प्रकृत्यर्थक्रियास्वरूपमात्रावग- मादेवानुमानेन सिद्धेस्तत्र हितसाधनतांशे लिङादिप्रत्ययस्य सामर्थ्य कल्प्यते । अन्यथासिद्धस्य शब्दार्थतानुपपत्तेः। न च गवानयनस्य तदानीमन्वयव्यतिरेकाभ्यां हितसाधनताव- गमः, फलप्रसवादर्शनात् । नाप्यनुमानमानेन गवानयन- स्याभिमतसाधनता, व्यभिचारात् । क्रियास्वरूपस्य कालोप- बन्धविकलस्य निष्पादनयोग्यताव्यभिचाराभावाच्च । तस्मात् कर्तुरभिलषितसाधनमेव प्रवृत्तिहेतुतया लिङादिप्रत्ययार्थ इति- स्थितम् ॥ ५२॥ अत्र कश्चिदाह-किं गवानयनं स्वरूपेण कर्तुरभि- लषितसाधनं किं वाज्ञप्तत्वात् । स्वरूपेण चेद्, गवानयन- १. 'याभिहि', २. 'च प्र' ख. ग. पाठः.

४८ शान्दनिर्णयः। मनुस्मरन् पूर्वसिद्धगवानयनदृष्टहितसाधनतानुमानेन स्वयमेव प्रवर्तेत । आज्ञप्तत्वाच्चेद्, वेदे न प्रकृत्यर्थस्य हितसाधनता- सिद्धिः, आज्ञप्तताभावात् । तदभावश्चापौरुषेयत्वाद् वेदस्येति। तत्राह- साधनत्वं स्वतः सिद्धं विशेषस्ये तु कार्यवत् । प्रधानाभिमतद्वारं प्रयोक्तापि विवक्ष्यते ॥५३॥ अत्र भवानपि चोदनीयः किं गवानयनं स्वरू- पेण कार्य, किं वाज्ञप्ततयेति । स्वरूपेण चेत् , पक्षान्तरवद् गवानयनान्तरसिद्ध कार्यमनुस्मृत्य स्वयमेवानुतिष्ठेत् । का- र्यार्थस्य प्रमाणान्तरायोग्यत्वात् ततोऽप्रतिपत्तेर्न शब्दमन्त- रेण प्रवृत्तिरिति चेत् , तत्र प्रयोक्तुः प्रयोगश्च न स्यात् । अत एव प्रवृत्तिरपि श्रोतुर्न स्यात् , अप्रयुक्ताच्छब्दादर्थान- धिगमात् ।आज्ञप्ततया चेद्, वेदे कार्योपरागाभावादाज्ञप्ततयैव च कार्यतासिद्धेर्न तत्र शब्दसामर्थ्यकल्पना । नाज्ञोपरागात् कार्यता, अध्येषणादौ वेदे चाभावप्रसङ्गात् । अथ प्रवर्तक- मात्रोपरागः कार्योपरागः । स च स्वतो वा प्रेषणाध्यषणा- भ्यनुज्ञानिबन्धनो वा । उभयथाप्युक्तो दोषः । अथ बालस्य स्वप्रवृत्तौ गवानयनं न स्वरूपेण कार्यम्। किं तु अभिलषित. समर्थनोपाधावेव प्रयोगाविषयमपि गवानयनमात्मनोऽभिल- षितं समर्थयत् कार्यं भवति । तच्चाभिलषितं प्रैषादिकर्तुरभि- लषितसमर्थनद्वारेण कर्तुरपि समर्थ्यते । अतो गवानयनविशेष १. 'द्धं सवि', १. 'स्य का', ३. 'तं' क. पाठः ५. 'वः, ५. 'यगवानयनम' क. पाठः. आज्ञ', शाब्दनिर्णयः। एव कर्तुरर्थतः कार्येणोपरज्यते । तच्छ शब्दादेवावगम्यते । गवानयनमात्रस्य कर्तुरभिलषितसमर्थनस्य व्यभिचारादनुमा- नेन कार्यतायाः प्रतिपत्तुमशक्यत्वात्, प्रवृत्तिहारेण तस्य कार्योपरागज्ञा(ना)योगादिति । तर्हि तस्यैव तथाविधं हितसा- धनत्वमुपदेशादेवावगम्यताम् । तस्य च गवानयनविशेषस्य संहारं हितसाधनत्वं कार्यत्वमिव कर्तुः स्वरूपप्रयुक्तमेव क- ल्प्यता, तथाविधेफललक्षिते विशेषिते वा साधने लिङादि- शब्दप्रयोग इति । यथा कर्तुः कृतिविशेषिते तदुपलक्षिते वा कायें लिङादिप्रयोगः, यथा वा पुरोवर्तित्वविशिष्टे तदुपलक्षिते वा घटादाविदंशब्दप्रयोगः । ननु प्रयोक्ता स्वात्मनोऽभिल- षितसाधनं गवानयनं विवक्षति, नं न तु कर्तुरभिलषितसाधनं, तत्र कथं कर्तुरभिलषितसाधने शब्दप्रयोगः । अप्रयुक्त च कथं तत्र सम्बन्धज्ञानम् । नैवैतच्चोयं, कार्येऽपि तुल्यत्वात् । प्रयोक्ता हि स्वात्मनः कर्तव्यं प्रतिपद्य परेण साधयितुं वचः प्रयुङ्क्ते । न प्रयोज्यस्य कर्तव्यं विवक्षित्वां प्रयुङ्क्ते । तत्र कथं नियोज्यस्य कार्ये शब्दसामर्थ्य, नान्यकार्यादन्यः प्रव. तते । ननूपदेशे प्रयोज्यकर्तव्यतैव विवक्ष्यते । हितसाधन- तापि तथा प्रयोज्यं प्रत्येवोपदेशे विवक्ष्यते । अथ प्रैषादिष्वपि प्रयोक्ता स्वकर्तव्यनिर्वर्तनं प्रयोज्यस्यापि कर्तव्यमिति वि. 'नस्य', १. 'च्छब्दा', २. 'त् तद्वारे' ख. ग. पाट:. ३. ४. 'तद्वा', ५. 'धि' ख. पाठः. ६. 'न क' ख. ग. पाठः. ७. 'न त क. पाठः. ८. 'न च क', ९. 'त्वा। त' ख. ग. पाठः, - II शाब्दनिर्णयः। वक्षति । तर्हि स्वाभिमतनिर्वर्तनं प्रयोज्यस्याभिमतं निर्वर्तय- तीति परम्पग्या कर्तुरभिलपितसाधनं विवक्ष्यत एव प्रयोक्रा । तस्माद् यथा पराभिमतकार्यऽपि प्रयोज्यप्रवृत्तिदर्शनात् तस्य स्वकर्तव्यताज्ञानमेवानुमाय तत्र सम्बन्धो गृह्यते, स्वकार्यज्ञा- नादेव प्रवृत्तः । तथाभिलपितसाधनज्ञानेऽपीति न विशेष पदयामः । ननु जातस्य जन्ताराद्या करचरणविन्यासादिप्रवृ. तिन हितसाधनज्ञानात । तस्य फलप्रसवान्नेयत्वात् । ननु कार्यज्ञानं वा कुतो जायते । न तावत् प्रत्यक्षेणति वक्ष्यते । सम्बन्धज्ञानाभावाद् नानुमानादिना । अथाबुद्धिपूर्वा सा प्र- वृत्तिगिनि हेतुर्न मृग्यते । इतरस्यापि तत् तुल्यम् । अथ ज. न्मान्तर्गयकार्यज्ञानमंन्कागत मा जायते । तथाविधादेवा- भिलपिनमाधन ज्ञानसंस्कारात मा किं न स्यात् । तस्मात तत एव प्रवृत्तिगिते सिन्हम ॥ ५३ ॥ ननु किमिदं हितसाधनत्वं नाम, किं वस्तुस्वरूप- मात्रं तद्धमा वा । न स्वरूपमात्र, प्रत्यक्षगम्यत्वात् । तस्य साधनतायाश्च तथानवगमात् । न धर्मः । तत्सद्भावे प्रमाणा- भावादिति । तत्राह अन्वयव्यतिरेकाभ्यां पदार्थातिशये प्रमा। जायतेऽन्यप्रयुक्तेपु व्यवहारोऽन्यथा कथम् ॥ ५४॥ अविशिष्टेऽपि पदार्थस्वरूप फलप्रसवान्यथानुपपत्त्या कश्चित तत्साधनसामर्थ्यातिशयः कल्प्यते । ननु प्रवृत्तिविप- यतामापन्नात् फलप्रसवो न स्वभावसिद्धात्, फलप्रसवोन्नी- तसाधनाच्च प्रवृत्तिरितीतरेतराश्रयता । न । परप्रवृत्तिविषयी- - शान्दनिर्णयः। ५१ कृतपदार्थप्रसूतफलदर्शनादपि तत्साधनतावगमात । अन्यथा कथमभिलपितफलाय कस्यचिदवोपादानलक्षणो व्यवहारः । तस्मादस्त्येवासावतिशयः । ननु गैषादिप्वभिप्रायभेदेपु नि- रूपितसम्बन्धा लिङादयः कथं हितसाधनतामभिदध्युः । न । उपदेश तदभिधानदर्शनात् । ननु तत्राप्यनुग्रहोऽभिधेयः। न । तदभावेऽप्यदृष्टभयादुपदेशात् तत्र हितसाधनत्वमेव वि. वक्ष्यते । प्रेधादिष्यपि परम्पग्या तद्विवक्षा दर्शिता । प्रवृत्ति- हेतौ च मम्बन्धज्ञानादाज्ञामाबादप्रवृत्तेः स एव शब्दार्थों नाज्ञादिः । तेषु सम्बन्ध ज्ञानाभावात् । बालस्य दृष्टान्ताभा- वाद् वक्तृप्रतिपचोरुत्कर्षापकर्ष मुखविकारादिलिङ्गानुमेयतया- न्यथासिद्धत्वाचाज्ञादीनाम् ।। ५४ ।। किञ्च ॥ रागात् प्राष्टिादेस्तद्धेतुत्वान्न कार्यता । प्रवृत्तिहेतु रागश्चेन्न शाब्दः साक्षिप्तिद्धितः॥ ५५॥ ननु गगस्य कार्यताज्ञानमेव हेतुः । न । सतीष्टादावु- त्पत्तेरसति चानुत्पत्तेरिष्टादिरेव तन्निमित्तम् । नन्विष्टादेः कार्यज्ञानं ततो राग इति कारणकारणतया अन्यथासिद्धि. रस्ति । तन्न । यदि कृतिविषयीकारयोग्यता कार्यता, सा प्रकृ- त्यर्थलक्षणक्रियास्वरूपज्ञानादेव कालसम्बन्धज्ञानविकला स्व- निष्पादितपूर्वसिद्धक्रियानिदर्शनानुमानेन सिध्यति, नेष्टसा- १. 'वाति' ख. ग. पाठः.

५२ शाब्दनिर्णयः । धनताज्ञानमपेक्षते । यदि वा बुद्धिपूर्वकारिणः कृत्युपक्षेपयो. ग्यता कार्यता, तदेष्टता तत्साधनता वा सेतीष्टादेरेव राग इत्यु. क्तं भवति । यदि तृतीयमेव किञ्चित् कार्यबुद्ध्यालम्बनं क- रूप्येत, तथापि हितादेरेव रागः कार्यताबुद्धिश्चेत्येककारणजन्यता तयोरिति न रागस्य हितादिः कारणकारणम् । निष्पन्नेऽपि क- दलीफलादौ हितसाधने भक्षणविशेषणतया रागविषयीकाराद्, अन्यथा हितादिज्ञानाद् रागः । रागज्ञानाच्च कार्यताज्ञानमिति कल्पनायामप्यविशेषात् । ननु हितसाधनतावगमः कार्यता- ज्ञानाधीनः किं न स्यात् । कार्यतायां प्रमाणान्तराभावात् । साधनतायां तु फलप्रमवान्यथानुपपत्तिरुक्ता । फले त्वानुकूल्यं प्रत्यक्षसिद्धम् । यत्र च हिततत्साधनतावगमः, तत्रैव कार्य- बुद्धिनियमात् तदेव तद्धेतुरिति कल्प्यते । अतः प्रतिपत्तुः प्र. वृत्तिलिङ्गेन प्रवर्तकं रागमनुमाय तस्य च स्वसाक्षिकतया शब्दानपेक्षत्वात् तद्धेतौ हितसाधनताज्ञाने शब्दसामर्थ्य क- ल्प्यत इति रमणीयम् ॥ ५५ ॥ किञ्चदं कार्यबुद्धिरवलम्बत इति परीक्ष्यते-- न नियोगं न निष्पायं कृतिरक्तं न कार्यधीः । निरुपाधिकसाध्यं वा विविक्तं कालतोऽपि न ॥५६॥ आलम्वते न चापूर्वं न प्रधानं कृति प्रति। प्रवर्तकत्वान्नाभावविरोधि व्यभिचारतः ॥ ५७॥ व्यभिचारत इति सर्वत्र सम्बध्यते । न तावत् का. र्यबुद्धिनियोगमवलम्बते । नियोगो हि नाम चेतनस्य प्रधान- ३ शान्दनिर्णयः। ५३ स्याप्रधान चेतनं प्रति प्रवर्तनालक्षणोऽभिप्रायभेदः प्रसिद्धः । स च बालस्य स्वतन्त्रप्रवृत्तौ । वेदे च कार्यबुद्धिं व्यभिच. रति । तथाविधपुरुषसम्बन्धेज्ञानाभावात् । नापि कृतिविष- यीकारयोग्यतामात्रमवलम्बते । तस्याः कार्यबुद्धिगोचरेऽपि दुःखादौ विद्यमानत्वाद् व्यभिचारात् । नापि वर्तमानकृतिसं- सृष्टमर्थमवलम्बते । कार्यबुद्ध्यधीनत्वात् कृत्युत्पत्तेः, कार्यबु- द्धिसमये कृतिसंसर्गस्य व्यभिचारात्। न च निरुपाधिकसाध्यं कार्यम् । सुखादेरेव तदभावात् , सोपाधिकसाध्येऽपि साधने कार्यबुद्धिदर्शनार्च । न च सुखदुःखनिवृत्तिव्यतिरेकेण निरु- पाधि(क)साध्यं नाम किञ्चिदस्ति । अथ कालविविक्तं कार्य. बुद्धिरालम्बते । किं शब्दतोऽर्थतो वा कालविवेकः । शब्दत- श्चेद् , घटादिश्रुतयोऽपि न कालसेम्बन्धिनमर्थमभिदधतीति तदुत्पन्नबुहीनामपि कार्यबुद्धित्वप्रसङ्गः । अर्थतश्चेत् , शश- विषाणबुद्धेरपि तत्प्रसङ्गः । तदेव हि तुच्छं यन्नाभूदस्ति भवि- प्यति । ननु कार्यमित्युक्ते कालसम्बन्धो न प्रतीयते, तथापि न तुच्छतावगतिः । सत्यम् । शब्दतः कालसम्बन्धानवगमो घटादिश्रुतिजन्यप्रतीतावपि तुल्य इत्युक्तम् । अर्थतः काल- विवेकः केनावगम्यते। न कार्यबुद्ध्यैव, तस्यास्तावन्मात्रनिष्ठ- त्वात् । अथ सैव कालशून्यतामपि प्रतिपादयेत् , कस्येति न जानीमः । कार्यस्येति चेद् , न । तस्यैव निरूप्यमाणत्वात् । कालविविक्तोऽर्थः स इति चेत्। तर्हि तादृशोऽर्थः कालस्तुच्छं १. 'न', २. 'धाभा' ख. ग. पाठः. ३. गव्य' क. पाठः. ४. 'त् । न' ख. ग. पाठः. ५. 'संसृष्टम' क. पाठः.

५४ शाब्दनिर्णयः। १ वेति कुतस्तुच्छताविवेकः । कार्यस्य च तुच्छबैलक्षण्यमिच्छता प्रतीतितोऽभावेऽप्यर्थतः कालसम्बन्धो वक्तव्यः । घटादि- ष्विव कालसम्बन्धानुमानात् । अपूर्वमपि लौकिककार्यबुद्धि. व्यभिचाराद् न तदालम्बनम् । न च वदेऽपि तत्सम्भवः । मानाभावात् । स्वर्गकामिनो यागकर्तव्यतान्यथानुपपनिरिति चेत् । सैव हि कर्तव्यता न निर्जायत । न नियोगादिरिति चोक्तम् । स्वर्गसाधनता चन् कानुपपत्तिः । अपूर्वमन्तरण क्षणप्रध्वंसिना यागस्य कालान्तरवर्तिकलसाधनतानुपपन्ना । न तीपूर्वमात्रेण तदुपपत्तिः, विशिष्टशरीरन्द्रियाभावात् । तद- प्यपेक्षितं लोकसिहानुभानन गम्यताम् । तहि यागम्य स्वर्ग- साधनत्वमपेक्षितापसंहारे पि न विरुध्यते चेत् , श्रुतिस्मृ. तिशतसन्धादेवेश्वरात तदवगतिगोचरनिवृत्तकर्मापक्षया फलसिद्धेर्नापूर्वक पनावकाशः । नापि तस्य शब्दाभिधयता। शब्दार्थानुपपत्तिगम्यत्वादगृहीतसम्बन्धत्वाच । न च तत्रैव सम्बन्धग्रहः । लिङाद्यभिधयप्रकृत्यर्थकर्तव्यताद्वारण तत्सा- धनद्वारेणेव वापूर्वकल्पनादेकस्मिन् प्रयोगे क्रमणावगम्या- भिधेयद्वयकल्पनायोगात् । न च लिडादिस्वरूपमात्रस्य पदा. न्तराभिधेयार्थस्य चापूर्वमन्तरेणानुपपत्तिः । अभिधेयान्तराभा- वादनुपपत्त्यभावाच्च । तस्माद् वेदे नापूर्व तदभिधानं वा क- ल्पनीयम् । अथ कृति प्रति प्रधान कार्यम् । किं तत् प्राधा- न्यम् । बुद्धिपूर्वकारिणः कृत्युपक्षेपयोग्यता, तर्हि सुखदुःख- १. 'ति', २. 'स्य सा', ३. 'टा', ४. 'र' ख. ग. पाठः, ५. 'माव', ६. 'वा' क. पाठः.

शाब्दनिर्णयः। निवृत्तिम्तत्साधनं वा कार्यमिति नैमित्तिकादौ कर्मणि कार्य- बुद्धिव्यभिचारः । न च प्रवर्तकत्वमात्रम । गगे कार्यबुद्धय- भावात । पादेरिष्टादेश्च बंद व्यभिचारः प्रसिद्धः । प्रवृत्त्यभा- वविरोधी च रागो वा प्रवृत्तिा हितादिर्वा, नान्यदित्युक्तम् । ननु कार्यबुद्धिसामर्थ्यावावलम्बनं कम्प्यताम । मत्यम् । ना- न्यदेतः कल्प्यते कृतिविषययोग्यतामात्रऽवयवाथै सम्भवति । ननु कार्यमित्युनः प्रवर्तकरूपमपि किश्चिदन्तर्गमितं प्रतीयते। सत्यम । विषयस्य इत्युपक्षेपयोग्यतालक्षणं हितसाधनत्वमेव तत् । ननु कार्यवाही हितमाधनतां न प्रतीयते । नैवम् । प्रव- तकबुद्धौ तदप्यन्तभिनं प्रतीयते । अथवा हितादेः कृतिनि- प्पाद्यतायाश्च विलक्षणस्यालम्बनम्यानिरूपणात , हितसाधन- तालम्बनः प्रवर्तकरूपः कार्यमित्यभिनिवेशो राग एव ममदं भूयादितिय न प्रमाणभ । प्रमाणहेत्वभावाच्च ॥ १६ ॥ ५७ ।। कथं , नाक्षमापानतो भावान्नानः शब्दानुमे प्रभा । नार्थापत्तिरता रामः कार्यमित्येव न प्रमा ॥ ५८ ॥ न तावत् परस्य पराश्रये गवानयनादिस्वरूपे घटा- दौ वा प्रत्यक्षे तत्कार्यतापि प्रत्यक्षणावसीयते, वर्तमानत्वात् । गवानयनादेस्तत्र कार्यवाभावाद् अनध्यक्षतेति चेद्, अवर्त- माने तर्हि गवानयनादौ तद्व्यपाश्रयस्य कार्यार्थस्य सुतरां न प्रत्यक्षता । नापि स्वातन्त्र्येण, अनवगमात् । ननु न गम. १. 'दौ च क', २. 'त् क' ३. 'वादेवाव', ४. हितं' ५. 'ता प्र' क. पाठः. ६. 'च्च ना', ७. 'ष' ख. ग. पाठः. ख. ग. पाठः.

, ५६ . शाब्दनिर्णयः। नादिक्रिया प्रत्यक्षा । अनुमेया तु । केन लिङ्गेन, व्यवस्थित- स्य द्रव्यस्य कादाचित्कसंयोगविभागाभ्याम् । तथाहि- संयोगविभागजन्यं कार्य कादाचित्कं स्वाश्रयसंयोगविभाग- लक्षणातिशयपुरस्सरं दृष्टम् । तथा संयोगविभागावपि का- दाचित्कौ स्वाश्रयातिशयपुरस्सरौ । योऽसावतिशयः संयोग- विभागहेतुः सा क्रियेति । नैतत् सारम् । या सा क्रिया सा स्वाश्रये कादाचि(त्का?त्की) वा न वा, न चेत् , संयोगवि- भागनित्यतापत्तेः कादाचित्कत्वादिति हेतोरसिद्धताप्रसङ्गः। कादाचित्की चेत् सापि स्वाश्रयातिशयपुरस्सरा वा न वा । न चेदनैकान्तिकस्तत्र हेतुः । अतिशयपुरस्सरा चेदनवस्था- नात् संयोगविभागलक्षणधर्म्यसिद्धिप्रसङ्गः । अनादित्वात परम्परया नासिद्धिरिति चेद् , न । अद्य जातस्य प्रथमक्रियो- त्पत्तेः स्वाश्रयातिशयान्तरायोगात् तत्रानैकान्तिकत्वात् । अत एव न पराश्रया क्रियापि तत्संयोगविभागाभ्यां सि. ध्यति । किञ्च सतोरपि श्येनस्थाणुसंयोगविभागयोर्न स्था- गुः क्रियावानिति हेतोरनैकान्तिकता । स्वदेशसंयोगविभा- गौ देशिनः क्रियानुमानहेतुरिति चेत् । न । बलवदवधृतश- रीरेषु मत्स्यादिषु स्रोतसि स्वदेशसंयोगविभागयोः सतोरपि क्रियाज्ञानाभावात् । किञ्च शब्दविद्युतोरिव क्षणिकत्वेऽपि चलतीति वर्तमानप्रत्ययाद् न फलेनातिवृत्तक्रियानुमानमेत- दिति युज्यते । तस्मात् प्रत्यक्षैव क्रिया । अतः प्रत्यक्षक्रि- याश्रयः स्वतन्त्रो वा न प्रत्यक्षगम्यः कार्यार्थः । अत एव १ः 'त्र स' ग. पाठ.

1 शान्दनिर्णयः। सम्बन्धज्ञानायोगान्न शब्दानुमानगम्यः । न च प्रवृत्तिविषय- तान्यथानुपपत्तिस्तद्गतकार्यार्थाधिगमनी । विपयविशेषप्रवृत्तेः फलप्रसवानुषपत्तिसिद्धाभिलपितमाधनविशेषनिवन्धनत्वसि- ढरपूर्वपदार्थकल्पनायोगात् । अन्यथा फलानपेक्षायां क- चित् प्रवृत्तिः क्वचिदप्रवृत्तिरिति न स्यात् । सत्यपि मावने फलाभिकाङ्क्षायां नियमाभावात प्रवृत्त्यप्रवृत्ती युज्यते । ननु कार्यमपीच्छोपसंहारमुग्वनैव प्रवर्तयतीति युज्यते नियमः। न । तस्यानवगम तदुपसंहारमुखेन प्रवर्तकत्वानवगमान। फलं तु सुख दुःखनिवृत्निी प्रत्यक्षमेव । तदाकारन्छा नियमवि. कला स्वानुभवमिडा । फलपगवान्यथानुपपत्त्या च तदनुकू- लसाधनातिशयो यर्थापत्तिगम्यः : । हितसाधनज्ञानानन्तरं च तदाकारवतीच्छा बानुभावगम्या । तदेवं हितसाधनमिच्छोप- संटरमुखेन प्रवर्तयति । अथ फलसाधनतंत्र कार्यता, नाम्नि विप्रातिपत्तिः । अथ फलन कार्यमेव साधनतया कलप्यते । न । प्रत्यक्षसिद्धपदार्थ येव साधनतासम्भव पदार्थान्तरं साधनत्वं च कल्पयतः कल्पनागारवात् । सिद्धघटादीनामप्यभिलपित- क्रियासाधनत्वदर्शनात । अत एव न कार्यत्वमेव साधनतति न साधनतापह्नवः शक्यते कर्तुम् । अतो नार्थ पत्त्या कार्यप- दार्थावगमः । तस्मात् प्रमाणाभावात् प्रमेयाभावाच्च कार्यमि- तिप्रवर्तकाकारो भिनिदेशो राग एवेति सिद्धम् । अतो हित- साधनताभिधानमुखेन वेदेऽपि लिङादयः सन्निहितपदोपात- १. 'ते', २. 'ते । न', ४. 'भ्या' ख. ग. पाठः, शान्दनिर्णयः। वर्गसाधनतामेव विशेषेणाभिदध्युः । नैमित्तिकादौ च काम- श्रुतेरभावाद् निमित्तश्रुतेश्च नित्यान्वयात् कल्प्यमाननि- त्याभिलषित(प्रत्य)वायनिबर्हणसाधनत्वविशेषमेवाभिदध्युरिति श्लिष्यते ॥ ५८ ॥ अन्यथाकस्मिकार्थाः स्युर्वेदे कार्यार्थ निष्ठतः। कियया न समन्वति नियोज्यस्य विशेषणम्॥५९ ॥ अप्रकल्प्यमाने शब्दस्य हितसाधनसामर्थे वेदे कार्या- र्थत्वमात्रनिष्ठत्वात् फलसाधनतानवगमादाकस्मिकसुखदुःख- प्रयोजना एवोत्पत्त्यैव सर्वे प्राणिनः प्रसज्यरन् । ननु नियो. गसामर्थ्यादेव धात्वर्थस्य फलसाधनतावगम्यते। न । अना- प्तनियोग नैमित्तिकादौ च व्यभिचारात् । न चानाप्तवाक्याद् विषयनियोज्यव्यावृत्तनियोगप्रमिती प्रमाणान्तरविरोधः । सा- ध्यसाधनसम्बन्धविरोधस्तु न शाब्दी नियोगप्रमिति निरुण- डि , अशाब्दत्वात् । आप्तनियोगे फलसाधनता स्यादिति चेत् । न । वेदे तदभावादपौरुषेयत्वात्। ननु कामिनः प्रवृन्युप- देशः कामोपायत्वे सति भवति। न । तत्साधनेऽपि फलकामना. या नियोज्यविशेषणत्वदर्शनात् । यथा ग्रा(मा?सा)दिकामेष्व- नेकेषु द्वारं प्रत्यासन्नेषु कश्चिद् भोजयिता विज्ञातेनैव विशेषणेन नियोज्यं विशिनष्टयन्येषां निवृत्तये ग्रा(म?स)काम! आगच्छेति । न तत्रागमनं ग्रा(म?स)साधनम्। ननुन तत्र ग्रा(म?स)कामना. १. 'तामा' क. पाठः. २. 'निति ।', ३. 'त् । तस्याप्त' ख. १. पाये भ', ५. 'न' क. पाठः. ग. पाठः.

शान्दनिर्णयः। निबन्धना प्रवृत्तिः, किंतु भोजनकामनानिमित्तेत्यतत्साध- नता । सत्यम् । इतरत्रापि तत्तुल्यं, न स्वर्गकामनानिमित्ता प्रवृत्तिः। किं तु नियोगनिमित्ता । अथ काम्येषु कामनिबन्धना भावार्थेषु प्रवृत्तिरिति तस्य कामोपायता सिध्येत् । न । इतरे. तराश्रयात् । कामनिमित्तप्रवृत्तिविषयत्वात् कामोपायतासिद्धिः, तदुपायत्वे च सिद्धे तन्निबन्धना तत्र प्रवृत्तिरिति । ननु स्व. र्गादेः कामोपबन्धात् साध्यताप्रतीतेः साधनाकाङ्क्षायां धा. त्वर्थः साधनत्वेन सम्बध्यते । न । गमनादेरपि तत्साधनता- प्रसङ्गात् । अविहितत्वान्नेति चेद्, विहितं सम्बध्यत इति कुतः। फलसाधनाकाङ्क्षत्वात् । न । नित्यत्वादौ च व्यभिचारात् । नन्वस्ति तत्रापि प्रत्यवायपरिहारः फलम् । इहापि तर्हि यत्- किञ्चित् फलं कल्प्यताम् । ननु साध्यस्वर्गे सन्निहिते कुतः फलान्तरावकाशः। उच्यते। सति ह्यन्यस्मिन् प्रमितिहेतावाका- झासन्निधिसंसर्गेतिकर्तव्यतामनुभवतो न स्वयमेव संसर्ग प्रमिमीते । नेह प्रमितिहेतुरस्ति । नियोगो हि स्वसिद्धिमात्र. निष्ठो न विषयफलसम्बन्धमन्तरेणानुपपन्नः । नियोगोऽपि वि. हितस्य फलमन्तरेणानुपपन्नः, अन्यथा तत्र प्रवृत्त्ययोगादिति चेत् , तर्हि सत्यपि विधावभिलषितसाधनावगमादेव प्रवृत्तेः, स एव शब्दार्थतया विधिरिति किमन्तर्गडुना नियोगेन। पुरु- षाभिप्रायभेदत्वाच न तस्य वेदे सम्भव इत्युक्तम् । ननु १. 'मिषावि' क. पाठः.

६० शाब्दनिर्णयः। विषयनियोज्ययोरेकनियोगसम्बन्धसामर्थ्यात् परस्परसम्बन्धे सति नियोज्यविशेषणस्यापि स्वर्गस्य धात्वर्थेन सम्बन्धात् सम्बन्धस्य च गुणप्रधानभावमन्तरेणायोगात, स्वर्गः साध्य. त्वात प्राधान्येनावतिष्ठते । कोऽयं नियोज्यो नाम । ममायं नियोग इति प्रतिपत्ता । तर्हि राज्ञोऽपि स्वनियोगे नियोज्य. त्वप्रसङ्गः । कवायं ममायमिति सम्बन्धः । यदि कर्तृकरणी- यता, तर्हि राज्ञोऽपि नियोज्यताप्रसङ्गः । न च स्वस्वामिसम्ब. न्धनिमित्तं कयादिलक्षणमत्र विद्यते । अथ विषयविषयिता सम्बन्धः । न । अभिप्राय भेदत्वाभावे विपयानपेक्षत्वात् । अथ कार्यार्थप्रतिपत्ता नियोज्यः। न । नियोक्त राज्ञोऽपि प्रसङ्गात् । अथादयतनो नियोज्यः। न। उद्देशन सम्बन्धानिरूपणात्। सत्यपि नियोज्य स्वर्गकामना न तद्विशेषणं भवति , सम्भवे व्यभिचार च विशपणमर्थवत् । उच्यते- न तावद् दर्शपू- र्णमासनियोगस्य पुरुपेणायोगी व्यवच्छिद्यते, विशेषगेन या- वजीवश्रुतरेव नियोगसि हेः। नाप्यन्ययोगव्यवच्छेदः । अस्व. कामिनाऽपि प्रदोपकालव्यावृत्तजीवने सत्यनुष्ठयत्वात् । भव- दपीदमुपलक्षणं भवेद्, न विशेषणम् । पुरुषस्यैव नियोज्य- त्वात, स्वर्गकामनाया नियोज्यत्वाभावात् । कार्यसम्बन्धास. म्बन्धाभ्यां हि सम्बन्ध्यन्तरनियामकत्वाद् विशेष गोपलक्षण- विभागः । अतो विषयनियोज्यसम्बन्धं कुर्वन्नपि नियोगः पु. रुषसम्बन्धमेव करोति विषयस्य । नोपलक्षणसम्बन्धम् । १. 'ग', २. 'कि' ख, ग, पाठः. - १ शान्दनिर्णयः। सम्बन्धे वा जीवनादेरपि विषयसम्बन्धः स्यात् । तत्र भावार्थ प्रति गुणत्वेन सम्बन्धे जीवनादेरङ्गत्वापत्तेर्दर्शपूर्णमासविकृ- तावपि जीवनादेरनिदेशप्रसङ्गः। प्राधान्ये जीवनादेरपि साध्य- ताप्रसङ्गात् , सर्वाङ्गोपसंहारस्य नित्येऽपि कर्मणि प्रसङ्गः।किञ्च कामस्य नियोज्यविशेष गत्वे सति तस्मिन् नियोगसम्बन्धाद् जीवनादिवन्निमित्तत्वायत्तेः अकरणे प्रत्यवायोऽपि स्यात् । तस्मात् प्रत्ययेन फलसाधनतामात्रेऽवगते तद्विशेषाकाङ्क्षायां स्वर्गकामपदं समाससामर्थ्यात् पुरुषप्रधानमपि स्वर्गस्य का- मविषयतया साध्यताप्रतीतस्तत्परतया फलविशेषसमर्पकत्वेन सम्बध्यते । अर्थात् तत्कामिनस्तत्राधिकार इति रमणी- यम् ॥ ५९ ॥ - ननु निकृत्तद्धितसमासैरनभिहित इति विशेषणात् तिङा यागस्य करणतायामभिहितायां ज्योतिष्टोमेनेति तृती. या नोपपद्यत इत्यत आह तिङादिमिरनिर्दिष्टे तृतीया न विरुध्यते । पौनस्क्यान्निधोक्तर्भिन्नार्थापाश्रयान्न तत्॥६॥ न तावत् तिङ्कृत्तद्धितसमासैरनभिहित इति निषे- धोऽदृष्टार्थः । किन्तु घटं क्रियत इत्युक्ते प्रत्ययाभ्यां घटगत- कर्मकारकत्वस्याभिधाने पौनरुक्त्यात् तन्निवारणाय निषेधः । तत्र दीर्येण दण्डेन शुक्लां गामानयेति द्विरभिधानेऽपि यथा १. न्य', २. नि' ख. ग. पाठः, ६२ शान्दनिर्णयः। भिन्नप्रकृत्यर्थसम्बन्धिकारकत्वांशभेदाद् न पौनरुक्त्यप्रसङ्गः, तथा यजतिज्योतिष्टोमशब्दाभिधेयसामान्यविशेषप्रकृत्यर्थस- म्बन्धिकारकत्वांशभेदात् सुप्तिभ्यामकैककारकत्वाभिधाने न कश्चिद् दोषः । तिङा च करणताभिधानाभावे प्रतिषेधोऽप्य. प्राप्त एव स्यात् । कारकान्तरविषयो वायं प्रतिषेधः ॥ ६० ॥ । ननु कामनापदस्य फलसमर्पकत्वे कर्मप्यधिकारी सि. ध्यति । फलसाधनस्य वाक्यार्थले काम्यनित्यविभागोऽपि न स्यादित्यत आह यस्येष्टसाधनं तस्याधिकारश्च प्रसिध्यति । विभागः काम्यनित्यादेविशेषणविभागतः ॥ ६१ ॥ यस्याभिलपितमिदं कर्म साधयति तस्येदं कति कर्मणा पुरुषस्य स्वस्वामितान्वयो नियोगनैव सामर्थ्यात् सि- ध्यति । उपकारकभावेऽवगते तदर्थमुपादानादपि स्वत्वमुपप- द्यते । ननु यजेतेत्युक्त यागो मम कर्तव्य इति प्रतीयते न यागो ममेष्टसाधनमिति । न । नियोगभावनावादिनोरपि यागकार्यताप्रतीनियोगभावनाप्रतीत्युत्तरकालीनत्वादिहापी- टसाधनताप्रतात्यनन्तरभावित्वं न विरुध्यते। अतः प्रथमं क- मणि स्वाभिलषितसाधने स्वामित्वेनान्वयं प्रतिपद्य पश्चात् १. 'ड्रामे', २. 'री न सि', ३. 'नवा', ४. पि स्या ख. ग. पाठः.

३ शाब्दनिर्णयः। कर्तृत्वेनान्वेतीत्यधिकारिंगः कर्तृत्वमुपपद्यते। यत्र फलेपर- मपि प्रदं पुरुषेण श्रूयनागेनाध्याहियनागेन वा सम्बन्ध्यसं- सर्गे नैराकाङ्क्यं प्रतिपादयति, तत्र काम्यता । यत्र विशेषणा- न्तरविशिष्टेन नैराकाझ्यं, तत्र नित्यता । फलं च नित्यता. सामर्थ्यादेव नित्याभिलपितपयवायपरिहारः । फलभेदसिद्धौ च दर्शपूर्णमासलक्षणे कर्मण्यधिकारवाक्यद्वयोपयोगः । न च पुरुषविशेषणयोः कामनाजीवन पोः कस्यचित् फलपरता कस्यचिन्निमित्तपरतेति द्वैरूप्यं दोषः । नियोज्यविशेषणत्वा- योगादश्याभ्युपगन्तव्यत्वात् । न च जीवनमाप नियोज्यवि- शेषणं सम्भवति । यावज्जीवनस्यं साध्यत्वाद् यौगपद्यायो- गाज्जीवनमात्रस्यावक्तव्यत्वात् । निमित्तपक्षे तु पौनःपुन्याय यावच्छब्दः । तस्मादिष्टसाधनपक्षे न कश्चिद् दोष इति स्थितम् ॥ ६१॥ तस्मात् कार्यान्विते शब्दसामपिमाभावादन्या न्विते सामर्थ्यमित्युपसंहरति - अतोऽन्याधिनसामर्थ्य पदानां परिनिश्चितम् । न्याहतप्रकारेण यथाशक्ति प्रदर्शितैः ॥ १२ ॥ अंत्राकाङ्क्षासन्निधियोग्यतासामर्थ्यात् पदानि संसर्ग प्रतिपादयन्तीति प्रति हम् । केयमाकाङ्क्षा । पदार्थे प्रति- पन्ने प्रतिपत्तुरर्थान्तरविषया जिज्ञासा । किन्निबन्धना सा, कुतो वा निवर्तत इत्यत आह् - - १. 'लमपि वदन् पुख. ग. पाठः. २. 'न वाध्या' क. पाठः. ३. '', ४. 'घ', ५. 'न जी' ख. ग. पाठः. ६. 'स्य यौ' क. पाठः, ७, 'त' ख. ग. पाठः, ८. 'विनि' क. पाठः.

६४ शान्दनिर्णयः। अभिधानानवसानाज्जिज्ञासार्थाच्च जायते । प्रयोजनावसानाच्च पदार्थ सा निवर्तते ॥ ६३ ॥ अन्विताभिधायिनः शब्दादभिधेयैकदेशे सहकार्य- भावादनवगतेऽभिधानमेवापर्यवसितमभिधेयैकदेशान्तरे जि. ज्ञासामुत्पादयति । कचिदर्थाच विश्वजिदादिपु जिज्ञासा जा- यते । उभयविधौ च प्रयोजनसमर्थसंसर्गसिद्धौ निवर्तत इति ॥ ६३ ॥ का पुनर्योग्यता! जिज्ञासानिवर्तकत्वेनान्वयसामर्थम् । कः पुनः सन्निधिः । अनन्वयिपदार्थान्तगव्यवधानेन बुडी विपरिवृत्तिः। किमाकाइ क्षादिसामर्थ्यात् पदानि युगपत् संसर्गबुद्धिमुत्पादयन्ति , किं वा क्रमेणापीत्यत आह - संसर्गबुद्धिं शब्दाश्च क्रमव वितन्यने । साकाङ्क्षक्रमांसर्गवादिष्टः प्रयुक्तिपु. ६४ ॥ गामित्युक्ते प्रकृतिमल्ययौ (अ)गोव्यात कर्मकारक बोधयन्ती क्रियायां जिज्ञासामुत्पादयतः । आनर्यातपढ़ सन्नि- धानात् तु तत्सहकारिणी पुनः वि.यया र प्रतिपादयतः। क्रमवत्संसर्गपदार्थाकाइक्षयोदर्शनात । सकृत्प्रयुक्तस्यापि पदस्य सहकारिसन्निधाने समयमाणेऽन्य पुनर्बुद्धि हेतुत्वोप- पत्तेः । तस्मात् सिद्ध पदानामन्विताभिधानसामात संस- र्गप्रतिपादकत्वम् ॥ ६४ ॥ - २ १. 'धा प्र' ख. ग. पाट:. २. 'कत्वं वा' क. पाटः, ३. 'यार' ख. ग. पाठः.

शाब्दनिर्णयः। नन्वेवमभिधानाभिधेयसम्बन्धस्य साङ्केतिकत्वाद् वा- क्यस्य च लोकवत् पौरुषेयत्वाद् धर्माधर्मब्रह्मसु च प्रत्यया- न्तरायोगाद् न शब्दानां तेषु प्रामाण्यमित्यत आह स्वार्थप्रवृत्तमापूर्वजन्यश्चेद् वेद इष्यते । ईश्वरज्ञानवन्न स्यात् कार्यत्वे सिद्धसाधनम् ॥६५॥ यदि तावत् खार्थप्रवृत्तप्रमाणान्तरजन्यत्वं नाम पौरु- षेयत्वं वेदस्य साध्यते , तत्र प्रत्यनुमानं वेदः स्वार्थप्रवृ. त्तप्रमाणान्तरजन्यो न भवति , अनीश्वरबुद्धितत्कार्यत्वाभावे सति धर्माधर्मब्रह्मप्रमाणत्वाद , ईश्वरज्ञानवत् । ईश्वरवादिनां पौरुषेयत्वेन प्रामाण्यवादिनां च प्रत्यनुमानम् । अथ न प्रा माण्यं धर्मादिषु वदस्येत्यसिद्धो हेतुः । नापीश्वर इत्याश्रय- हीनो दृष्टान्त इति । तर्हि किं साध्यते । कार्यतामात्रं चेत्, सिद्धसाधनम् । यदि वर्णाः प्रत्युच्चारणं निष्पाद्यन्ते, तदा त एव क्रमविशेषसमारूढतया वेदशब्दाभिधेया इति प्रत्युच्चा- रणं वेदो निष्पाद्यते । यदि वा नित्या वर्णाः, तथाप्युपल- ब्ध्यादिक्रमविशेषसम्भिन्ना एव वेद इति प्रत्युच्चारणं निष्पा. घते। क्रमविशेषसादृश्यपरम्परयानिदंप्रथमत्वाच्च वेदे नित्य. ताभिधानम् ॥ ६५॥ अथ वेदाध्ययनाभिधानाभिधेयसम्बन्धयोरिदंप्रथमता २ ३ साध्यते । तत्राह- १. र्यमा', २. 'त्युच्चा' ख. ग. पाठः. ३ 'द' क. पाठः. 1.

शाब्दनिर्णयः। वेदाध्ययनशब्दार्थव्यवहारो यथाधुना। तथैव पूर्वकाले पीत्यनुमानं प्रवर्तताम् ॥ ६६ ॥ विवादाध्यासितौ वेदाध्ययनशब्दार्थव्यवहारौ पूर्वपूर्वत. थाविधाध्ययनादिनिबन्धनौ, वेदाध्ययनादित्वाद् इदानींतन- वेदाध्ययनादिवत् । न च वाक्याध्ययनत्वाद् भारतादिवदिदं. प्रथमतानुमानं, सामान्यतोदृष्टस्य वेदाध्ययनत्वादिति विशे- षतोदृष्टविरोधे दुर्बलत्वात् । नचागमविरोधः । सृष्टिश्रुते- निष्पाद्यतामात्रविषयत्वात् । ननु सर्वज्ञश्रुतेरीश्वरो धर्माधर्मा- धुपलभ्य वेदं करिष्यति । न । निरपेक्षप्रामाण्यमन्तरेण सर्व- ज्ञत्वासिद्धेः । किञ्च ईश्वरः स्वरूपज्ञानेन सर्वज्ञः । न तत्र लोकवद् वागादीनि वाक्यरचनाकारणानि सन्ति, युक्ताव- स्थायामिव योगिनाम् । अथ विग्रहोपादानेन वागादिभिर्वाक्य कुर्यात् । न । तत्र चैतन्यस्यावच्छेदादसर्वज्ञत्वाद्, वियुक्ताव- स्थायामिव योगिनाम् । अथ स्वरूपज्ञानेन सर्वमुपलभ्य वि- ग्रहोपादानेन सर्वमुपलब्धमनुस्मरन् वाक्यं कुर्यात् । न । खरूपज्ञानस्य संस्काराभावात् । न च धर्माधर्मब्रह्मसु प्रमा- णान्तरमस्ति । अत्र स्वयूथ्यैरिदमुक्तं -मा भूद् धर्माधर्म- योर्मानान्तरयोग्यता । ब्रह्मणस्तु भूतत्वाद् मानान्तरयोग्य. त्वात् तद्विषयवेदान्तवाक्यानां पौरुषेयत्वमेव स्यात् । अतस्त- परिहाराय तेषामपि कार्यनिष्ठता वर्णयितव्येति। ताँ "सत्स. म्प्रयोगे- इति मानान्तरयोग्यत्वमपौरुषेयत्वसिद्धये निरा- १. 'प्रवृत्तत', २. 'नाध्य' क. पाठः, ३. 'मिकवि' ख. ग. पाठः. ४. 'क', ५. 'न्तानां क. पाठः. ६. 'था च स' ख. ग. पाठः, * जैमि० १.१.४.१.

शान्दनिर्णयः। कृतम् । योग्यत्वे तु पौरुषेयता स्यादिति । नैतत् सारम् । अयोग्यविषयस्यापि बुद्धादिवाक्यस्य पौरुषेयत्वदर्शनाद् , यो- ग्यविषयस्यापि 'वायुर्वै क्षेपिष्ठे'त्यादेरपौरुषेयत्वदर्शनाच्च । विधिसंसर्गेऽप्यर्थवादेन न विधिः प्रतिपद्यते । किन्तु प्रशंसा- दिरेव प्रमाणान्तरयोग्योऽर्थः । तस्मादन्यदेव पौरुषेयत्वादेः कारणम् । अथ मा भूत् पौरुषेयत्वम् । अपौरुषेयत्वं तु कुतः। न । असाध्यत्वात् । प्रामाण्यं तर्हि वेदस्य कथं, तस्मिन् सत्यबाध्यमानप्रमितिजननात् । शाब्दप्रमितेस्तु बाधोऽपेक्ष्य- माणप्रमितिबाधात् । पौरुषेयत्वाभावात् तु प्रमित्यन्तरापेक्षा ना- स्तीत्युक्तम् । तस्मादबाधः ।। ६६ ।। अतः सिद्धं ब्रह्मणि शब्दस्य प्रामाण्यमित्याह अतः सत्यादिशब्दास्तु संसृष्टार्थोक्तिशक्तितः। मानान्तरस्याविषयं भूतार्थ बोधयन्ति नः ॥ ६७ ॥ पुनः शब्दा ब्रह्मस्वरूपसमर्पकाः, के पुनःसोपाधिक. रूपसमर्पका इति तत्राह अनुपाधिप्रवृत्तीभिज्ञानानन्दसदुक्तिभिः । स्वसामान्याभिधानेन व्यक्तिरेका समर्प्यते॥६॥ ज्ञानानन्दसच्छब्दाः परापरसामान्यवाचकत्वात् सा- मानाधिकरण्याच्च स्वसामान्याभिधानमुखेनैकामानन्दव्यक्ति- मपरसामान्यव्यञ्जितां ब्रह्मत्वेन लक्षयन्ति , सन्मूर्त द्रव्यं के - १. 'पा', २. 'ग्या', ३. 'त्वापौरुषेयत्वादेः' ख. ग. पाठः. १. 'ता' क. पाठः. ५. 'त्याभिज्ञाना' ख. ग, पाठः.

शाब्दनिर्णयः। कुड्यमिति च परापरसामान्यानामेकत्र वृत्तिदर्शनात् । तथाच 'यतो वा इमानि भूतानीति लक्षणं निर्दिश्य 'आनन्दाडयेव खल्विमानीति लक्ष्यं ब्रह्मानन्दं निर्दिशति । तत्रानन्दस्य परप्र- काश्य(क?)तानिवृत्तये ज्ञानशब्दः । स्वभावतः शून्यतानिवृत्तये सच्छब्दः । अथवा ब्रह्मव्यतिरिक्तस्यानन्दस्य ज्ञानस्य सत- श्चाभावात् तत्सामान्ययोगाद् ब्रह्मैव सदादिशब्दरभिधीयते। ननु तर्हि तेषां पर्यायत्वप्रसङ्गः । न । तुच्छजाडयदुःखविरो- ध्युपाधिभेदेन प्रवृत्तेः । नन्वेवं सदादिशब्दानां निरुपाधिक- वृत्तित्वं न स्यात् । नैप दोपः । सामान्योपाधो दुःखादिविरो- ध्युपाधौ वा नियतैकम्मिन् वस्तुनि बुद्धिमुत्पादयन्तीति निरु- पाधिकाः। अस्थूलादिशब्दास्तु (अ)नियतवस्तुविषयाँ उपाधि- तन्त्रा इति। ननु तुच्छादिविगधित्वमप्रतिपाद्यापि सदादिव्यव- हारो दृश्यते । तर्हि मायानिमितानामपि ज्ञानानन्दसतां प्र- तीतेः सामान्यपक्ष एवाश्रीयताम् । ननु सामान्यानामपि मा- यात्मकत्वादानन्दादिरूपता ब्रह्मणो न स्यात् । आनन्दादिसा- मान्याश्रयत्वमात्रत्वादानन्दादिस्वरूपताया न परमार्थसामा- न्याश्रयत्वमपेक्ष्यते । ननु मिथ्यारजतसम्भिन्ना शुक्तिन रज- तमिति व्यवह्रियते । सत्यं, रजताभासत्वात् तस्य । इह तु सामान्यान्तराभावात् तेषां न सामान्याभासत्वम् । तस्मादा- नन्दादिसामान्याश्रयत्वादानन्दादिरूपता ब्रह्मणः सिद्धा। तस्य चानन्दस्य मिथ्यात्वविरोधः सत्यशब्देनोच्यते । अद्वितीया- १. 'नि जायन्ते इति' क. पाठः. २. 'क्ष्यं नि' ख. ग. पाठः. ३. 'शकता', ४. 'या इ' क. पाटः. ५. 'न्यमेवा' ख. ग. पाठः.

शाब्दनिर्णयः। न(न्दान्त)ब्रह्मादिशब्दैर्देशकालवस्तुपरिच्छेदाभावः, अस्थूला. दिशब्दैनिप्पपञ्चता, सर्वज्ञत्वादिशब्दैः प्रपञ्चोपाधिधर्मवत्ता क- थ्यते । तत्र प्रपञ्चोपाधिकधर्माः सति प्रपञ्चे बाधशून्या इत्येता- वत् । स्वरूपेण तुमायात्मकाः । अस्थूलादयश्च निवृत्त्यात्मान इति न परमार्थसदद्वितीयताविरोधः। आनन्दादिशब्दाश्च का- ल्पनिकसामान्यहारेणैकस्यामानन्दव्यक्तौ पर्यवस्यन्ति । धर्म- धर्मिविभागप्रतिपादनाभावान्न परमार्थसदद्वितीयताविरोधः । • अथवा आकाशशब्दवत् सच्छन्दोऽपि घटादिप्वनुवर्तमानस्यै- कस्यैव स्वतन्त्रस्य सतो वाचकः । ज्ञानानन्दशब्दौ तु सामा. न्यद्वारेण तत्र वर्तिष्यते । एवं सति गुणगुणिसम्बन्ध. प्रयुक्ता लक्षितलक्षणापि न स्यात् । तस्मादेकमद्वितीयमान- न्देरूपं ब्रह्म सिद्धम् ॥ ६८ ॥ तथा जीवस्य ब्रह्मात्मता नाध्यासादिलक्षणेत्यौह- उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च यतो जीवस्ततः परः ॥ ६९ ॥ यस्मिन् वाक्ये पड्विधं तात्पर्यलिङ्गं यस्मिन्नर्थे ग- म्यते, तद् वाक्यं तत्परमित्यध्यवसीयते । तथाचोपक्रमोपसं- हारयोरैकरूप्यम् 'अमतं मतमविज्ञातं विज्ञातम्', 'एकमेवाद्वि- तीयम्', 'ऐतदात्म्यमिदं सर्व', 'तत् त्वमसी'ति।तथाभ्यासोऽपि 'एकमेवाद्वितीय', 'तत् त्वमसी ति पुनः पुनर्वचनात् । तथापूर्व- तापि । नहि ब्रह्मात्मैकत्वं केनचिदपि प्रमाणान्तरेण गम्यते । २. 'न्दस्वरू' क. पाठः, ३. १. 'च गु' ख. ग. पाठः. 'त्यत आ' ख, ग. पाठः, 5 शान्दनिर्णयः। तथा फलमपि 'आचार्यवान् पुरुषो वेद', 'तस्य तावदेव चिर- मित्यादि । तथार्थवादोऽपि 'अनेन जीवेनात्मनानुप्रविश्ये'- त्यादि । तथा 'तस्मादेनं स्वपितीत्याचक्षते ।स्वं ह्यपीतो भव. ती'त्यादिना, शरीरोन्द्रियाणामन्नमयत्वेनानात्मताप्रतिपादनेन च, तप्तपरशुग्रहणदृष्टान्तेन चोक्तब्रह्मात्मतासत्याभिसन्धस्य मो- क्षकथनेन चास्यैवार्थस्योपपादनं कियते । कचिच्चावस्थात्र- यवैलक्षण्येनासङ्गत्वोपपादनेन । एवं यतो वेदान्तवाक्येषु जी- वस्य ब्रह्मात्मतायां वाक्यतात्पर्यलिङ्गानां षण्णां समुच्चयो वि- कल्पो वा यथायोगं गम्यते, अतः परमात्मैवायं जीवः, श- ब्दस्य च स्वभावतोऽर्थपरत्वात् प्रत्ययपरत्वायोगात् ॥ ६९ ॥ न च प्रमाणान्तरविरोधः, अविद्योपाधिनिमित्तत्वाद् भेदेव्यवहारस्येत्याह- अविद्या भेदिकोपाधि तिरेको न चापि धीः । द्वैयापेक्षंतु तुल्यत्वात् सुषुप्तादावदर्शनात् ॥७॥ 'न तं विदाथ य इमा जजानान्यद् युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्तीत्यस्मिन् मन्त्रेऽन्यद् युष्माकमन्तरं बभूवेत्युक्त्वा किं तदन्तरमिति वी. क्षायां नीहारेण प्रावृता इति नीहारस्य तमसो व्यवधायक- त्वं गम्यते । तमश्च न बाह्य, किं त्वान्तरम् । तच्च 'नास- दासीन्नो सदासीत् तम आसीदि'त्यादिश्रुतेः सदसद्विलक्षणं, "अहमज्ञानजं तमः। १. 'यस्य लि' ख. ग. पाठः, त्वतुल्य' २. 'दादिव्य', ३. 'वत्सापेक्ष- ७१ शान्दनिर्णयः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥" इति स्मृतेर्ज्ञाननिवर्त्य च । तस्मादज्ञानमेव तत् । "विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥" इति स्मृतिरज्ञानमेव व्यवधायकं दर्शयति । नन्वज्ञानं कस्य कस्मिन्निति वीक्षायां जीवस्य ब्रह्मणीति वक्तव्यम् । तत. श्वाज्ञानमन्तरेण जीवब्रह्मविभागायातिरेकः कल्पयितव्यः । तन्न । अतिरेकेऽपि द्वयापेक्षायाः कस्य कस्मादिति तुल्यत्वाद- तिरेकोपलक्षितस्य जीवत्वे तस्य च ज्ञानान्निवर्यत्वेऽज्ञानप. क्षान्न विशिष्यते । विशिष्टस्य जीवत्वेऽनिर्मोक्षः । अतो यत्. किञ्चिदेतत् । नापि धीमात्रमेव जीवोपाधिः । तदप्रतीतावपि सुषुप्ते जीवप्रतीतेः । तस्मादविद्यैव भेदिका । सा चापरोक्षज्ञा- नादेव कात्स्न्येन निवर्तते ॥ ७० ॥ तच्चापरोक्षज्ञानं शब्दादेवेत्यत आह - विषयोत्पन्नतः संविदेक्याद्वाज्ञानहानतः । स्वतः सिद्धेश्ता शब्दादापरोक्ष्यं प्रजायते ॥ ७१ ॥ लोकेऽपि संवेदनस्य विषयोत्पन्नत्वाद् वा विषयस्य संविदैक्याद् वा विषयस्य चेतनप्रकृतिकतया स्वयमेव चेत- नेनाभिन्नस्यावरणध्वंसाद् वा आपरोक्ष्यात् तन्निमित्तं ज्ञानम- परोक्षज्ञानमित्युच्यते । न ज्ञानस्य स्वतोऽपरोक्षतामात्रम् । *, १. 'व्य' क. पाठ... २. 'प्रात् । ना' ख. ग. पाठः.

शाब्दनिर्णयः। नापि तज्जन्यसंवेदनस्य । एवं ब्रह्मण्यपि शब्दज्ञाननिमित्तं संवेदनं ब्रह्मप्रकृति , ब्रह्माभिन्नवचैतन्यानां ब्रह्मप्रकृतिक- त्वाद् वा स्वयंप्रकाशस्यावरणध्वंसाद् वा अपरोक्ष आत्मनि प्रत्ययत्वाद् वा, अहंप्रत्ययवत् । तन्निमित्तं ज्ञानमपरोक्षज्ञान- मित्युच्यते । सञ्जातेऽपि शब्दात् तथाविधे ज्ञाने असंभावनादि- दोषादविद्यासंस्कारबलाद् वा परोक्षमिव भ्रमादवभासते । तच्च मनननिदिध्यासनादिभिर्विमलीकरणात् सूक्ष्मवस्त्वालोचन- क्षमेण मनसा शरीरेन्द्रियव्यतिरिक्ते च त्वम्पदार्थे प्रत्यक्षतो. ऽवभासमाने ब्रह्मात्मज्ञानाकारेण परिणममानेन मनसा स्थि- रीभावात् क्षणद्वयवर्तिनाग्निनेव क्षणमात्रेणादाहकेनापि क्षण- इयवर्तिना दह्यते । ततश्च तत् सिद्धम् ॥ ७१ ॥ आतो निश्रेयसप्राप्तेस्तादर्थ्याच्छाब्दनिर्णयः । विशिष्टफलसम्बन्धी श्रोतव्योऽयं बुभुत्सुना ॥७२॥ विदितसकलवेद्यर्न प्रशंसन्ति लोके ग्रथितमपि महद्भिः किं पुनर्मादृशेन । इति विफलसमेऽस्मिन वाग्व्ययेऽहं (प्रव)त्तः स्वमतिविमल(तोयैः १ तायै) क्षन्तुमर्हन्ति सन्तः ॥ वन्दे तमात्मसम्बुद्धस्फुरद्ब्रह्मात्मभावतः । अर्थतोऽपि न नाम्नैव योऽनन्यानुभवो गुरुः ।। प्रकाशात्मयतीन्द्रेण प्रणिपत्य जनार्दनम् प्रतिवोधाय बालानां प्रणीतः शाब्दनिर्णयः॥ समाप्तोऽयं ग्रन्थः । शुभं भूयात् ।

READY FOR SALE. RS. AS. P. v (Stuti) by H. H. Svâti Sri Râina Varma Maharajah. 1 0 0 Trivandrum Sanskrit Series. No. 1 (l'râkarana) by Deva with Puru- Sbakâra of Krishnalilásukamuni. 100 No. 2-aaraateqarT-eferort fina by Krishnalilâsukamuni. 0 2.0) No. 33-4yasa: (Kavya) by l'âmana Bhatta Bâna. 0 4 0 N. 4-ferasterofa: (Kavya) by Nilakantha Dik. shita. 2 0 0 No. 3-faa: (Alankâra) by Mahima Bhatta with commentary. 2 12 0 No. Gayfa: (Vyakarana) by Saranadeva. 2 0 0 No. 7-ब्रह्मतत्त्वप्रकाशिका (Verlânta) by Sadâ. sivendra Sarasvati % 4 0) No. 8-meta (Nâtaka) by Ravi Varma Bhîpa 1 0 0 No. farm9799221 (l'edânta) by l'irî pâkshanâtha with the commentary of Vidyâchakravartin. 08 0 No. 10-postot (Gajalakshana) by Nilakantha. O 8 0 No. 11 haftcracora (Nataka) by Kulasekhara l'arma with the commentary of Sivaraina. 2 4 0 No. 12- area (Vedânta) by Bhagavul Adisesha with the commentary of Råghavananda. 080 No. 13 Antaret (Nataka) by Kulasekhara Varma with the commentary of Sivarâma 2 0 0 2 RS. AS. P. 1 1 No. 14-otaar: (Niti) by Kamandaka, with the commentary of Sankarârya. 3 8 0 No. 15-FTTHET (Natakal) by Bhâsa. Second (Edition) 1 8 0 No. 16-fagrati igor (Nâtakal) by Bhâsu. 8 0 No. 17-TA Do. Do. 1 0 () No. 18-arrofra (Stuti) by Nârâyan Bhatta with the commentary of Desamangala Várya. 4 0 0 No. 19-latera: (Mimamsa) by Narayana Bhatta and Narayana Pandita. 1 No. 20-aara (Nataka) by Bhâsit. S () No. 21-letna Do. Do. 0 No. 22-roart- -दूतवाक्य-दूतघटोत्कच-कर्णभारोरुभकानि (Nataka) by Bhasi. 180 No. 23-arautuasieta: (kosa) by Kesivastamin (Part I, 1 & 2 Kancas) 1 12 0 No. 24-rebraforat: (karya) by Chakrakavi. 1 ir 0 No. 25-ermercat (Nyaya) by Gangadharasuri. ( 12 ) No. 26-fargarh (Nátakal) by Bhâsa. ( 12 ) No. 27-Faraha: (Kávra) by kâlielâsa with the two commentaries, Prakásika of Arunagirinatha and Vivarana of Nárayana Pandita (Part I, 1 & 2 Sargus) 1 12 0 No. 28-SETJATTH: (Dharmasîtra) by Vikbanas. O 8 0 No. 29-ararerforenica: (Kosa) by Kora vanwâmin (Part I) Zril Kauda) 2 40 No. 30-ayfaut (Silpa) 012 0 No..31raretorasiasta: (kosa) by Kesavaswâinin (Part III, 4th, 5th & 6th Kândas) 1 0 0 - RS. AS. P 1 No. 32-m : (kávya) by Kalidasa with the two commentaries, Prakâsikâ of Armagirinâtha and Vivarana of Narayana Pandita (Part II 3rı, 4th & 5th Sargas) 2 80 No. 33-Rohu: (Vyakarana) with the com: mentary Dipaprabhâ of°Nârâyana 0 8 0 No. 34-foregor: (19691770:) (Nyáva) by Râjachudamaniaklin. 40 No. 35--AFTERT: (BYCHITRE:) (Nyaya) by Gopi nátha. 1 80 No. 36-HRAIHE: (kâvya) lvy Kálislâsa with tle. two conimentaries,? Prakásikâ of Arunagirinatha and Vivarana of Narayana Panditit (Part III 6th, 7th:& 8th Sargas) 3 0 0 No. 37-aritatem (Smriti) by Vararnchi with the conmentary. 04.0 No. 38 - right (kosa) hy Amarasimha with the commentary Tikâsarvasva of Vandvayhatiya Sarvânauda (Part I. 1st Kända) 2.00 No. 39-8T (Nâtaka) by Bhâsa. 0 120 No. 40-ORTH (Alankara) by Râjânaka Sri Ruyyaka with the lankârasarvaswa of Mankhuka and its commentary by Samudrabaudha. 280 No. 41.PETA2AE (Kalpa) by Åpastamba with Vivarana of Sri Sankara Blagavat Pada 040 No. 42-fahrar** (Nâtaka) by Bhâsa. 1 8 0 No. 43-STERETET (Kosa) by Amarasimha with the two commentaries, Ainarakosodghatana of Kshiraswainin and Tikasarvaswa of Vandyaghatiya-Sarvananda (Part II. 2nd Kanda 1-6 Vargas) 2 8 0 4 RS. AS, P. No. 44-84 (Tantra) by Bhattárnka Sri Ve- Mottama. 0 0 No. 45--THAH (Prapanchahridaya) 1 0 0 No. 46---f Hargfa: (Vyakarana) by Nilakantha Dikshita. 0 80 No. 47-ea7H (Vedanta) hy Sri krishnananda Sarasvati. (Part I.) 1 12 0 No. 48% Do. Do. (Part II) 2 0 0 No. 49-eatforat (Jyotisha) by Parameswara. 0 4 0 No. 50 ---That: ( Alankara) by Singa Bhûpala. 3 0 0 No. 51- forgatta (Kosa) by Amarasimha with the two commentaries, Amarakoso. dghatana of Kshiraswâinin and Tikâ. sarvasia of Vandyaghatiya Sarvananda (Part III 2nd Kanda 7-10 Vargas) 2 0 0 No. 52-ATAPIGA (Rosa) by Amarasimba with the commentary Tikâsarvaswa of Vandyaghatiya Sarvananıla Part (IV 3rd Kandn) 18 0 No. 53- Trefaldrar: (Vedanta) by Prakasutmayatindru. 0 120 . Apply to: The Agent for the sale of Government Sanskrit Publications, Trivandrum.

No text on this page.

DATE OF ISSUE
Thus luchtrein!
witima, 3, 7, 1. salita is*114. A
fix ONE INI. Joer lass oi'?
harlimrini if alienda in viorili

Class No. S.1.81-4
Book Ncp 74657
Vol.
Aotno: PRAKASHATMAYATI.NDRA..
Title.SH.ABRANIRNAY.A.
Acc. No./6489

शाब्दनिर्णय

Author
Shaastrii Tii Ganapati
Title
Shaabdanirnd-aya
File name
शाब्दनिर्णय
Text
OCR done
Citation
1917
Published
2005/06/11
Publisher
D Supritendent, Gavarment Pres, Trivendram
Language
Sanskrit
Pages
92
Library
Central Library, Bits-pilani
Classification
LANGUAGE LINGUISTICS LITERATURE
Keywords
Buddhii
DLI number
477527
Barcode
99999990177907.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
Rights
Not Available
VMLT id
AiBhKPIGUzq
Download PDF

शाब्दनिर्णय