Scl

Sri Brahma Sutriya Vedanta Vrtti

Swami_sri_raghuvaracharya

PDF Proofread

Front matter

" अस्मत्प्रकाशित साकतवेदान्त मन्थसूची ! ९ तसिद्धिसिद्धान्तलारः । श्रीसदानन्दव्यासप्रणोत: तत्कृतव्याख्या- युतश्च सम्पूर्णः ! 1) २ खण्डनखण्डखाद्यम् । श्रीहर्षप्रणीतम् । आनन्दपूर्ण “खण्डनफकिका विभजनाख्यव्याख्यया-विद्यासागरीति प्रसिद्धया समेतम् । चित्सुख- शङ्कर मिश्र-रघुनाथकृत टीकावलम्बिया,टिप्पण्या चसनाथम् । ३ खण्डनखण्डखाद्यम् । श्रोहर्षप्रणीतम् । श्रीचित्सुखाचार्यविरचितयः "खण्डनभावप्रकाशिकया" श्रीशङ्कर मिश्रकृतया” “शाकर्या श्रीरधुनाथप्रणी- तया “खण्डनभूषामणि'टीकया तथा श्रीप्रगल्भमिश्रकृत "खण्डनदर्पणेन" एवं श्रीसूर्यनारायण शुक्ल कृत-“खण्डनरत्नमालिकया' चे समेतम् । १॥) ४ खण्डनपरिशिष्टम् । श्रीताराचरणशर्मणा विरचितम् । ५ जीवनमुक्तिविवेकः । विस्तृतसरल भाषानुकादेन सहितः । ६ तत्वदोपनम् । अखण्डानन्दमुनिकृतं (पञ्चपादिकाविवणस्य व्याख्यानं) ) ७ तत्त्वत्रयम् । श्रीलोकाचार्यप्रणीतं । श्रीवरवरस्वामिनिबद्ध भाष्योपहितं सम्पूर्ण २) ८ तत्त्वशेखरः। तथा तत्त्वत्रयलचुकसंग्रहः । श्रीवरदगुरुरकृतः ॥ २, न्यायपरिशुद्धिः सटीका। श्रीवेदान्ताचार्यप्रणोता । गौतमीयवत्यंचा ध्यायात्मकोऽयं ग्रन्थः ७) १० न्यायमकरन्दः। तथा प्रमाणमाला, न्यायदीपावलीचा श्रीआन- न्दबोधभधारकाचार्य संगृतः। आचार्य चित्सुखमुनिकृत व्याख्योपेतः संपूर्णः ६) ११ प्रणवकल्पः । श्रीगङ्गाधरेन्द्र सरस्वतीप्रणीत प्रणवकल्पप्रकाशाख्य- भाप्य" समलंकृतः १२ श्रीभाष्यवार्तिक-यतीन्द्रमतदीपिका च। श्रीनिवासाचार्यकृता तथा सकलाचार्यमतसंग्रहश्च । १३ वेदान्तरलमञ्जूषा । तथा वेदान्ततत्वबोधः। सम्पूण: ३) १४ वेदान्तसिद्धान्तसङ्ग्रहः । श्रीवनमालिमिश्रब्रह्मचारिकृतः, ( स्वकृतस्यैव कारिकारूपमूलग्रन्थस्य व्याख्यात्मकः । तथा-वेदान्तकारिकावली- श्रीपुरुषोत्तमप्रसादकृता । तत्कृतयैव "अध्यात्मसुधातरङ्गिणी" टोकायुता ||) १५ वेदान्तदर्शनम् । श्रीरामानन्द सरस्वती कृतया "ब्रह्मामृतवार्पिणी सूत्रार्थनिर्णायिका टीकया सहितम् । ६) १६ वेदान्तपरिभाषा । "अर्थदीपिका" टीका-टिप्पणी सहिता । १७ श्रुत्यन्तकल्पवल्ली। श्रीपुरुषोत्तमप्रसादकृत सम्पूर्णा । शिक्ष

THE
E A RIDAS SANSKRIT SERIES
150
S'RI BRAHMA SUTRĪYA VEDĀNTA
Chau:21 VRTTI
la chof DRYUPON THE BRAHMA SUTRA'S
FOLLOWING THE ANANDA BHAS'Y A
BY
SWAMI SYRIRAGHUVARĀCHARYA
NAVAHIN
831yadante Kenari,
HYDER**D-DN,
PUBLISHED BY
JAYA KRISHNA DĀS HARIDĀS GUPTA
The Chowkhamba Sanskrit Series Office
Vidya Vilas Press. Benares.
1942
( 4H Rights Reserved by the Publishers. )

All Rights Reserved by the Publishers.
PM
Printed at the
VIDYA VILAS PRESS, BENARES CITY.
1942.
Registered According to Act XXV of 1867.

* हरिदास-संस्कृत-ग्रन्थमाला *
१५०
श्रीमते रामानन्दाय नमः।
श्रीमद्भगवद्रामानन्दमुनीन्द्रप्रसादितश्रीमदानन्दभाष्यानुसारिणी-
श्रीब्रह्मसूत्रीयवेदान्तवृत्तिः।
इयञ्च
श्रीमनगवरामानन्दान्वयप्रतिष्ठित श्रीमदनुभवानन्दस्वामिद्वारकद्वारकामण्डलान्तः
पातिशृङ्गाराख्यपुण्यतीर्थस्थित-शेषमठाधीशतकवेदान्तव्याकरणन्यायमीमां-
सोपाध्यायवेदान्तशिरोमणिदर्शवनिधीत्यादिपदवीकब्रह्मवित्-
स्वामिश्रीरघुवराचार्यवेदान्तकेसरिणा
विरचिता।
प्रकाशक:-
-
-
जयकृष्णदास-हरिदास गुप्त:-
चौखम्बा संस्कृत सीरिज़ आफिस,
विद्याविलास प्रेस, बनारस।
वि० सं० १९९८]
[ई. सं० १९४२
[भस्य अन्यस्य सर्वेऽधिकाराः प्रकाशकेन स्वायत्तीकृताः]

॥ श्रीमते रामानन्दाय नमः॥ भूमिका विपज्जालजटिलेऽस्मिञ्जगति विचारलेशजुषामपि जनानां जायत एव पुरुषा. थेषु नैसर्गिकी प्रवृत्तिः। तथापि 'पराञ्चिखानि व्यतृणत्स्वयम्भूररित्यादि वैदिकवा. क्यैरापातरमणीययोः परिणामक्लेशकल्लषितयोरर्थकामयोरेव बालधिषणाध्युषितकलेव. राणामैहिकक्लप्तिकामनाकलितमनसां संसृतिमृतिनिष्पाथेयपथिकानां समृद्धामोदर- धनूनामहंयूनां सेति न धर्मापवर्गयोरित्यविवादमेतत् । तादृशकलिक्लान्तचेतसाम- नायासेन निःश्रेयसं भूयादिति धिया वेदार्थविज्ञानपारावारपारदृश्वा परावरज्ञो भग- वान् पाराशर्थः 'तमेव विदित्त्वा अतिमृत्युमेति नान्यः पन्था' इत्याद्याम्नायाधिगत- मर्थमनुस्मरनिश्चिकाय निसर्गतोऽपवर्गबीजं परमधर्मपरिज्ञानमेव । एतच्च त्रय्यन्तैक- साध्यमित्यधिगम्य तदर्थ निर्णिनीषुः स एव दयोदन्वान् द्वैपायनो मुनिः प्रणिनाय निर्गलितार्थसमां ब्रह्ममीमांसाम् । सूत्ररूपयाऽप्यनया पुण्योन्नतिर्यथाभवेदिति त- दीयार्थान् विशदयितुकामा भगवद्रामानन्दमुनीन्द्रपादा व्यदधुरत्र विशुद्धार्थज्ञापक संसाराकूपारपारप्रापकं श्रीमदानन्दभाष्यम् । इदमीयाशयस्यातीव गाम्भीर्यान्मृदु- मतीनामतिदुर्बुद्धतयाऽत्र प्रवेशासम्भवमवगम्य मया श्रीमदाचार्यचरणानुकम्पयैव साम्प्रदायिकसेवाविधित्सया वेदान्ताध्वनीनजिज्ञासुजनसुलभा तदनुसारिणी वृत्तिरिय व्यरचि । तामिमामिदानी महाहवसमये कसैलादिवस्तुमहातामनुभवन्तोऽपि वा- मयविभवप्रचारचातुरीचणाः श्रेष्ठिनः श्रीमन्तो गोलोकवासि हरिदासगुप्तात्मज- श्रीजयकृष्णदासमहोदयाः "चौखम्बापुस्तकभवनपतयो मुद्रणायखिलकार्यभारमुरसि- कृत्य प्राकाश्यं नीतवन्त इति तेषामप्युपकृति मूनि वहामि । यद्यनया वेदान्त- तत्त्वबुभुत्सुनां स्यात्कियानप्युपकारस्तर्हि सफलो मे श्रम इत्यलं पल्लवितेन । सुधीजनविधेयः- वि० सं० १९९८ रघुवराचार्यः। माघकृष्ण सप्तमी * श्रीमते रामानन्दाय नमः * श्रीब्रह्मसूत्रीयवेदान्तवृत्तिः। अथास्या: प्रथमाध्यायस्थ प्रथमः पादः। समस्तचिदचिद्वस्तुशरीराय परात्मने । नमः श्रीराघवेन्द्राय जगजन्मादिहेतवे ॥१॥ नमस्तस्मै यतीशाय रामानन्दाय श्रीमते । भाष्यत्विषाम्पतिर्यस्य मोहध्वान्तनिवर्तकः ॥२॥ दुःखसागरसम्मज्जज्जीवोद्धरणतत्परम् । यतिवयं ब्रह्मनिष्ठं स्वाचार्यमाश्रयेऽनिशम् ।।३॥ श्रीमदानन्दभाष्यस्याशयं तदनुसारतः । विचार्य ब्रह्मसूत्रेषु वृत्तिरेषा विधीयते ॥४॥ (१) अथातो ब्रह्मजिज्ञासा ।१।१।१। अथाऽखिलहेयप्रत्यनीकानन्तकल्याणगुणनिलयनिलिम्पपतिसमचिंतचरणः स. वैश्वरो भगवान् साकेताधिपतिपरान्ते जनान् वृजिनार्णवनिमन्नानवलोक्य कृपाकू. पारस्तेषामुद्धाराय कृतेक्षणस्वयमेव द्वैपायनस्वरूपेणाध्यवनिमण्डलमवतीर्य प्रणिनाय परमपुरुषार्थजनीं त्रय्यन्तार्थनिर्णयलक्षणीं ब्रह्ममीमांसाम् । इमामतिगभीराशयशा. लिनी सक्षिप्ताञ्चोपलक्ष्याल्पश्रुतैरर्थान्तरयोजनयानया तस्वबुभुत्सूनामप्यनर्थावाति- जातस्यादिति सम्माव्य स्वजनजातकरुणस्ताम्पुनम्सुविशदं व्याचिख्यासुः कलेरादाव- धिभारतभूमि भूयोऽपि स एव साकेतनिकेतनो देवदेवः श्रीरामानन्दस्वरूपं विधाय व्यरचदत्रानन्दभाष्यम् । श्रीमदाचार्यप्रसादिते चात्र भाष्ये सर्वेऽप्यर्थी विपश्चि- धुरीणैरेवाऽवगन्तुं शक्या न पुनस्साधारणैरित्यवधार्य महावार्यरूपावलम्बिना मया समेषां सुखावगमायेयमति सक्षिप्ता वृत्तिविधीयते । भत्रेदं ब्रह्मविचारशास्त्रमारभ्यं न वेति संशयः । सिद्धार्थ ब्रह्मणि व्युत्पत्पस- म्भवादनारभ्यमिति पूर्वः पक्षः । 'पिता ते सुखमास्ते' इत्यादिवाक्यैवोपदना- २ ब्रह्मसूत्रीयवेदान्तवृत्तौ- । सिद्धायें ब्रह्मण्यपि व्युत्पत्तिसम्भवादारभ्य मेवेदं शारीरक शास्त्रमितिसिद्धान्तः। तथा च सूत्रेऽथशन्द मानन्तर्य्यरूपार्थमभिधत्तेऽतःशब्दोऽतीतस्य हेतुत्वम् । एवं च यतः पूर्ववृत्तानां कर्मणा स्वर्गादिरूपानित्यसातिशयफलदायित्वं वर्ततेऽतो हेतो. निरतिशयनित्यापवर्गरूपफलावाप्तये कर्मज्ञानानन्तरं ब्रह्मणः परमपुरुषश्रीरामस्य जिज्ञासा-विचारः कर्तव्य इत्यर्थः । एतदुक्तम्भवति । जातसंस्कारः पुमानादौ वेदम. धीस्य पूर्वमीमांसादिशास्त्रसहकारेण वेदार्थमवगच्छति । तेन च पूर्वभागावसेयकम- णामपाध्रुवफलकत्वमुत्तरभागावसितब्रह्मज्ञानस्य चानन्तध्रुवफलकत्वमापाततो वि. ज्ञाय तलब्धये ब्रह्मजिज्ञासायामेव प्रवर्तते कर्मणामनिस्यफलकत्वं ब्रह्मज्ञानस्य च नित्य फलकत्वमाहुः श्रुतयः । 'दलवा येते अढा यज्ञरूपाः' (मु० १।२१७) 'तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र. पुण्यचितो लोकः क्षीयते' (छा ८।१।६) 'तमेव विदित्वा' (श्वे० ३।८) 'ब्रह्म. विदाप्नोति परम्' (ते २।११) इत्यादिरूपाः । तस्मादारम्भणीयमेवेदं ब्रह्मवि. चारशास्त्रम् ॥ १॥ इति जिज्ञासाधिकरणम् । जन्माघस्य यतः।१।१।२। पूर्वसूत्रे जिज्ञास्यं ब्रह्मेत्युक्तं तच्च ब्रह्म किंलक्षणकमित्याकाक्षायामभिधीयते जन्मावस्येति । अत्रायं संशयः । 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्स्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म, (ते. ३।१।1) इति श्रुतिलक्षणविधया ब्रह्म प्रतिपादयति न वेति । श्रुत्यभिहित जगज्जन्मायनेकधर्मा णां स्वाश्रयभेदकत्वनियमाद्विशेषणतयोपलक्षणतया वैकं ब्रह्म नाभिदधातीति पूर्वः पक्षः । सिद्धान्तस्तु जगज्जन्मादीनामुपलक्षणतया श्रुतिरियं ब्रह्मणो लक्षणं ज्ञापय. त्येव । बृहत्वधर्मसम्बन्धादुक्तश्रुतौ प्रसिद्धवद्यत इत्यादिनिर्देशाचास्त्येव जगज्ज. न्मादीनामुपलक्षणत्वम् । तथाविधप्रसिद्ध्यनुगुणकारणवन्तु 'सदेवयोम्येदमममा. श्रीदेकमेवाद्वितीयम् । तदक्षत बहुस्या प्रजायेयेति । तत्तेजोऽसृजत, (छा-६॥ समा३) इत्यादिश्रुतिसिद्धमभिश्चनिमित्तोपादानरूपम् । एवमेतच्छ्रुतिगतजगज्जा न्मादीनां विशेषणविधयापि ब्रह्मलक्षणता सम्भवति । नच खण्डः मुण्डो गौरितिवद- नेकविशेषणानां धर्मिभेदकत्वमिति वाच्यम् । परस्परविरुद्धानां तेषां तथास्वेऽप्यवि. रुद्धाना दण्डी कुण्डली देवदत्त इत्यादीनां नाश्रयभेदापादकत्वम्।प्रकृते तुकाबभेदेन जन्मस्थितिलयाना विशेषणत्वं सम्यगुपपद्यते ॥२॥ इति जन्माधिकरणम् ।

प्रथमाध्यायस्य प्रथमः पादः । शास्त्रयानित्वात् । १।१।३। अत्र जगज्जन्मादिकारणत्वेन सिद्धस्य ब्रह्मणः प्रमाणान्तरवेद्यतीत वेदान्तकके. छतेति संशयः। तत्र शास्त्रस्य प्रमाणान्तरानधिगतार्थज्ञापकत्वान ब्रह्मणि शास्त्र प्रमाणमपित्वनुमानमेवेति पूर्वः पक्षः । अत्रोच्यते-शास्त्रयोनित्वादिति। शास्त्र योनिः प्रमाणं यस्येति ब्रह्मणि शास्त्रमेव प्रमाणं नानुमानम् । अतएव 'तं त्वौपनि षदं पुरुषं पृच्छामि' (बृ. ३।९।२६) इत्यादावुपनिषदेकगम्यत्वमुक्तम् ।।३।। इति शास्त्रयोनित्वाधिकरणम् । तत्तु समन्वयात् ।१।१।४। तच्छास्त्र प्रमाणकत्वं ब्रह्मणः सम्भवति नवेति संशयः । तत्र शास्त्रस्य प्रवृत्ति निवृत्त्यन्यतरप्रयोजनाभिधायितया ह्मणश्च परिनिष्पन्नवस्तुतया न तस्य शास्त्रप्र- माणकर सम्भवतीति पूर्वः पक्षः। अत्राभिधीयते-तुशब्दश्शका निवर्तयति । परिनिष्पन्नस्यापि ब्रह्मणो निरतिशयसुखरूपतया शास्त्रप्रमाणकत्वमस्त्येव । वेदान्त- शास्त्रेण परमानन्दरूपस्य ब्रह्मणोऽभिधेयतयाऽन्वयात् । उपक्रमोपसंहारादिरूपता. त्पर्यनिर्णायकैलिङ्गैस्समस्तानां वेदान्तानां परब्रह्मणि श्रीराम एव समन्वयः । स चे- स्थम् । 'सदेव सोन्यैदमप्र आसौदेकमेवाद्वितीयम् , अत्र सूक्ष्मचिदचिच्छरीरं कार- रूपं ब्रह्मैव सत्पदेनाभिहितम् । 'तदेव ब्रह्म त्वं विद्धि' (के १.१४) 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाया (श्वे० ३२८) अनया श्रुत्या परमात्मनः एकस्यैव परिज्ञानेन मृत्युसन्तरणमुच्यते 'नान्यः पन्थाः' इति युपाया- न्तरश्च निषिध्यते । 'यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्र यन्स्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म' (ते. ३।१।१) ब्रह्म वा इदमन भासीत्' (बृ० ४।१।१०) 'यो हवै श्रीरामचन्द्रः सभगवानद्वैतपरमानन्द भात्मा (रा. ता.) 'आनन्दोब्रह्म' (०) 'ब्रह्मवेद ब्रह्मैव भवतिः (मु ३।२।९) 'रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि । इति रामपदेनासौ परं ब्रह्माभिधीयते' (रा० पू० ता) इत्यादिश्रुतयो ब्रह्मणः श्रीरामस्यैव स्वरूपगुणविभूतिवर्णनं कुर्व- नत्यस्तत्रैव समन्विता भवन्ति । एवं 'मास्मेत्येवोपासीत' (बृ. ११४) इत्या- धुपासना विद्धयभिधानेनापि वेदान्तानां परमपुरुष एव समन्वयः । अयमत्र निर्णयः । 'पृथगात्मानं प्रेरितारश्च मत्त्वा' (श्वे. १६) 'भोक्ता भोग्य प्रेरितारं च मत्वा' (श्वे. ११२) नित्यो नित्याना चेतनश्चेतनानामेको ४ ब्रह्मसूत्रीयवेदान्तवृत्तौ- बहूनां यो विदधाति कामान्' (श्वे. ६।१३) 'सकारणं कर गाधिपाधिपः (श्वे. ६१९) 'यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरोयं पृथिवी न वेद यस्य पृथिवी श- रीरम् (बृ. ॥॥३) 'य आत्मनि तिष्ठन् यस्यात्मा शरीरम्' (बृ. ३।११२) इत्यादिश्रुतयश्चिदचिदीश्वरस्वरूपाणि भोक्तृभोग्यनियन्तृतया पृथगुपवोचिद्वस्तु. नः स्वरूपपरिणामं चिद्वस्तुनो ज्ञानसङ्कोचविकाशरूपपरिणाम नियन्तुब्रह्मणस्तादृश- परिणामराहित्यञ्च प्रतिपाद्य चिदचितो ब्रह्मशरीरत्वं ब्रह्मगश्च तदात्मतया तदन्त- मिस्वं नित्यानवद्यत्वञ्चाभिदधते । एवञ्च सृष्टेः प्राक् नामरूपविभागान हसुक्ष्मचि- दचिच्छरीरं ब्रह्मैव कारणम् । तदेव च नामरूपविभागार्हस्थूलाचदचिद्विशिष्टं सत्का. यत्वं भजते। एतादृक् स्वरूपं सामानाधिकरण्यमुखेन 'सर्वं खल्विदं ब्रह्म' (छा०) इत्यादि श्रुतिभिरुपपादितम् । नचैवं जीवपरयोस्स्वरूपस्वभावाभ्या मित्रवान्नित्य. स्वाच्च वेदान्तप्रसिद्धाया 'एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया हानिरिति वाच्यम् । जीवेऽवस्थान्तरापत्तिरूपपरिणामस्याभ्युपगमात्तस्य ब्रह्मकार्यत्वेन नोक्तप्रतिज्ञाया हा. निरित्यवेहि । इयोस्तु विशेषो यदचेतनवरस्वरूपपरिणामो जोवे न भवति । अपि तु ज्ञानसङ्कोचविकाशरूपोऽन्यथाभाव एव स्वीक्रियते । 'न जायते म्रियते वा विपश्चित (का. २॥१८) इत्यादिकाः श्रुतयस्तु स्वरूपान्यथाभावरूपा जीवस्योत्पत्ति वार- यन्त्यश्चरितार्थाः । इत्थं परस्य ब्रह्मणस्वरूपं तत्प्राप्त्युपायचाभिधच्छास्त्रं तस्मि- न्नेव कात्स्न्येन समन्वेतीति सिद्धम् ॥ ४॥ इति समन्वयाधिकरणम् । चतुःसूत्री समाप्ता। ईक्षते शब्दम् । १।१।५। अनया च ब्रह्ममीमांसया समन्वयाविरोधसाधनफळाल्यैश्चतुर्भिरण्यायैः परम. पुरुषार्थावाप्तयेऽखिलहेयप्रत्यनीकानन्तकल्याणगुणाकरस्य प्राप्यस्य ब्रह्मणः श्रीरामस्थ स्वरूपं मोक्षोपायो मोक्षाख्यं फलम्चाभिधीयते (तत्र चतुः सुध्या वेदान्तशास्त्रानार. भ्यत्वशङ्कामपाकृत्य ब्रह्मणो जिज्ञासनलक्षणे तत्र प्रमाण तत्रैव च समेषां वेदान्ताना समन्वय इति दर्शितम्। इदानीमवशिष्टेनादिमपादेन जगरकारणत्वं ब्रह्मण एव सम्भवति नत्वन्यस्येति विचार्यते । तत्रानेनेक्षत्यधिकरणेन साख्यामिमतप्रधानस्य जगत्कारणत्वं न सम्भवतीत्येतदुच्यते । अत्र 'सदेव सौम्येदम मासोदेकमेवाद्विती यम् । तदैक्षत बहुस्याम्प्रजायेय, (छा. ६।२।१।३) इत्यादिकारणवाक्ये सत्प- दवाय प्रधानं भवितुमर्हति नवेति संशयः। तत्र त्रिगुणरवेन परिणामित्वेन च प्रथमाध्यायस्य प्रथमः पादः। V प्रधानस्यैव जगत्कारणत्वं नवपरिणामिनो ब्रह्मण इत्यत्र वाक्ये सत्पदवाच्यं प्रधा. नमेवेति पूर्वः पक्षः । अत्राभिधीयते-एतच्छुतिवाक्यं न प्रधानमभिधत्ते। यतस्तत्र सङ्कल्पार्थकस्यैक्षति पदस्य श्रवणात् । सङ्कल्पश्च चेतनस्य धर्मों नतु अडस्य प्रधा- नस्येति ॥ ५॥ गौणश्चेन्नात्मशब्दात् । १।१।६। ननु 'तत्तेज ऐक्षत' ता आप ऐक्षन्त' (छा० ६।२॥३) इतीक्षणव्यपदेशवद- चेतने प्रधानपीक्षणव्यपदेशो गौण एवस्यादिति चेन्न, 'ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो' (छा० ६८७) इत्युत्तरत्र सच्छब्दाभिहितस्यै- वात्मशब्देन व्यपदेशात् । एतदनुरोधेन 'तत्तेज ऐक्षत' इत्यादावपि तेजः शरीर. कस्य परमात्मन एव ग्रहणम् ॥ ६ ॥ तन्निष्ठस्य मोक्षोपदेशात् । १।१।७। इतश्च न प्रधानं सत्पदवाच्यम् । यतः सत्पदवाच्यात्मनिष्ठस्य विदुषः 'तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये' (छा०६।१४॥२) इति ब्रह्मसम्पत्तिरूपो मोक्ष उपदिश्यते । यद्यत्र सच्छब्देन केवलं प्रधानमेवोच्येत तर्हि तनिष्ठस्य मोक्षो- पदेशो न स्यात् । नह्यचेतनप्रधानोपासनेन मोक्षोपलब्धिः सम्भवति ॥ ७॥ हेयत्वाऽवचनाश्च । १।१।। इतश्च प्रधानाद्भिन्नं सत्पदवाच्यम् । यदि प्रधानमेव सत्पदाभिधेयं स्यात्तर्हि मोक्षप्राप्तये तदात्मत्वेनानुसन्धानं नोपदिशेत् , अपितु मोक्षविरोधित्वेन हेयत्वमेवो- पदिशेत् नत्र तथोपदिश्यते ॥८॥ प्रतिक्षाविरोधात् । १ ।१।। छान्दोग्ये हि 'येनाश्रुतं श्रुतं भवति, (छा) इत्यादि वाक्ये नै कविज्ञानेन सर्व विज्ञानप्रतिज्ञोपदिष्टा । सा च प्रधान कारणवादे विरुध्यते । चेतनं प्रति बडात्मक- स्य प्रधानस्य कारणत्वाभावात् । अतो न सच्छब्दवाच्यं प्रधानम् ॥ ९ ॥ स्वाप्ययात १।१।१०। 'स्वप्नान्तं मे सोम्य विजानीहीति यत्रतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति, (छा ६८1१) अत्र सुषुप्तस्य जीवस्य पता सम्पत्तिलयो बोध्यते सच लयः स्वकारण एव भवति । याककारणवाक्ये सच्छब्देन प्रधानं गृहोत तर्हि तत्रैव जीवस्य लयोऽपि स्वीकार्य: । न चैवं सम्भ-

६
ब्रह्मसूत्रीयवेदान्तवृत्तौ-
वति, नद्यचेतने प्रधाने चेतनस्य लयः कैरप्यङ्गीक्रियते । तस्मान्नात्र प्रधानस्य
प्रहणम् ॥१०॥
गतिसामान्यात् । १।१ । ११ ।
उपनिषदन्तरान्तर्गताना कारणप्रतिपादकवाक्यानां यतो वा इमानि भूतानि
जायन्ते (ते. ३।१) 'तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः' (ते. २१)
'सकारणं करणाधिपाधिपः, ( श्वे. ६।९) 'आत्मा वा इदमेक एवान आसीत् स
इमान् लोकानसृजत' (ऐ. ११) इत्यादीनां जगत्कारणतया ब्रह्मण एव प्रति
पादने गतिरस्ति तत्सामान्यादत्रापि सत्पदवाक्यं ब्रह्मवास्ति न प्रधानम् ॥ ११ ॥
श्रुतत्वाञ्च । १।१।१२।
पत्र सद्विद्यायो सत्पदवाच्यस्यैवोत्तरत्रात्मत्वेन श्रवणमस्ति 'स आत्मा तत्व-
मसि' (छा ६।९।३) 'आत्मत एवेदं सर्वम्। (छा १२६।१ ) इत्यतोऽत्र सत्प-
दवाच्यः परमात्मैव जगत्कारणं न प्रधान मिति सिद्धम् । ११। इतीक्षत्यधि.
करणम्।
मानन्दमयोऽभ्यासात् । १ । १। १३ ।
तैत्तिरीये 'तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयस्तेनैष पूर्णः
(ते. २१५) इति श्रूयते । अत्रानन्दमयो जीवः परमात्मा वेति संशयः। एतस्प्रक-
रणपठितानामन्नमयादीनां पदार्थानां सङ्गतिर्जीव एव भति । अतोऽत्रानन्दमयप-
देन जीव एवाभिहित इति पूर्वः पक्षः । अत्राभिधीयते-इहानन्दमयः परमात्मैष ।
'रसं ह्येवायं लब्ध्वानन्दी भवति' (ते. २०१८) 'एष वेवानन्दयाति' (ते.
२।७) 'एतमानन्दमयमात्मानमुपसङक्रामतिः (ते. २१८) आनन्दं ब्रह्मणो विद्वान्'
(ते. २१९) इत्याद्यग्रिमवाक्येषु आनन्दमयपदस्य परमात्मन्येवाभ्यासदर्शनात् ।।
विकारशब्दान्नेति चेन्न प्राचुर्यात् । १।२।१४।
ननु तथाप्यानन्दपदवाच्यत्वं ब्रह्मणः सिध्ये नस्वानन्दमयपदवाच्यत्वम् । 'दा.
कमयो हस्ती. 'पर्णमयी जुहूः' इत्यादौ यथा विकारार्थको मयस्ति तथाऽनन्दमय.
"पदेऽपि स्यात् । किश्चात्रैवाभमयशब्दे विकारे मय विद्यते तत्साहचर्यादानन्दम-
यशब्देऽपि मयटोविकारार्थकत्वमेवेति चेन्न आनन्दमयशब्दे मयटः प्राचार्थत्वात्
'स एको मानुष मानन्दः' इत्यारभ्योभ्य आनन्देभ्यो ब्रह्मण आनन्दस्य शतगु-
'णाधिक्याभिधानात् । 'अनमयो यज्ञः' इत्यादिषु प्राचुर्येऽपि मयटः प्रसिधिरस्ति ।
विकारार्थ कस्य मयटस्तु प्राममय इत्यत्रैव परित्याग इति ॥ १४ ॥

प्रथमाध्यायस्य प्रथमः पादः। (ते. तद्धेतुव्यपदेशाच्च । १।१ । १५ । जगदुत्पत्तिस्थितिळ्यकर्तृत्वस्य परमात्मासाधारणस्य हेतोयं पदेशात 'भानन्दा. द्वयेव खल्विमानि भूतानि जायन्ते (ते. ३१६ ) इत्यादिप्राकरणिकश्रुतिभिरुपदि. ष्टत्वादानन्दमयोऽत्र परमात्मैव ॥ १५ ॥ मान्त्रवर्णिकमेव च गीयते । १ । १।१६ । इतः पूर्व प्रकरणेऽस्मिन् 'सत्यं ज्ञानमनन्तम्ब्रह्मः इति मन्त्रेण परमात्मा प्रति. पादितः । स एव चात्र 'तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः' तै० २।५) इत्यादिमिर्गीयते ॥ १६ ॥ नेतरोऽनुपपत्तेः।१।१ । १७ । अथाऽनन्दमयोऽत्र जीव एव कुतो न स्यात् । स एव च मुक्तिदशामापन- समुदीरितमन्त्रवर्णेनापि गीयते इति चेन्नात्रानन्दमयपदेन (ब्रह्मण इतरो) जीवः प्रतिपाद्यते । कुत इति चेत्तस्मिन् 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' (ते. १११) इति तत्प्रकरणपठितश्रुत्युक्तनिरुपाधिक वपश्चित्त्वादि. धमानुपपत्तेः ॥ १७॥ भेव्यपदेशाच्च । १।१) १८ । 'तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः (ते. २१५) ह. त्यत्र विज्ञानमयपदवाच्याज्जीवात्परमात्मनो भेदेन व्यपदेशान्नानन्दमयोत्र प्र- त्यगात्मा ॥ १८ ॥ कामाच नानुमानापेक्षा । १।१।१४। भस्यानन्दमयस्य 'सोऽकामयत । बहुस्यां प्रजायेयेतिः 'इदं सर्वमसृजत' (ते. २११) इतिश्रुतेरपेक्षामन्तरेण स्वेच्छयैव जगदुत्पादकत्वाजोवस्य न तथेति नानन्दमयो जीवः ॥ १९॥ मस्मिन्नस्य च तद्योगं शास्ति । १।१।२०। यतोऽस्य प्रत्यगात्मनोऽस्मिन्नानन्दमये 'रसो वै सः। रसं हवायं लब्ध्वा- नन्दी भवति' इति श्रुतिरानन्दयोग शास्ति। तस्मादानन्दमयोऽत्र परमपुरुषः श्रीराम एव न जीव इति सिद्धम् ॥ २०॥ इत्यानन्दमयाधिकरणम् । अन्तस्तद्धर्मोपदेशात् । १।२ । २१ । छान्दोग्ये-य एषोऽन्तरादित्य हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुहिरण्यकेशः ब्रह्मसूत्रीयवेदान्तवृत्तौ- आप्रणखात्सर्व एव सुवर्णः । (छा. १११६ ) अत्रायं पुरुषः कश्चिदुपचितपुण्यवि. शेषः प्रत्यगात्मोत परमात्मेति संशयः। शरीरश्रवणाचार्य प्रत्यगात्मैवेति पूर्वः पक्षः । अत्राभिधीयते-अत्रादित्यायन्तर्वृत्तिः पुरुषोत्तमः श्रीराम एव न जीवः । कुतः ? तस्यैव परमेश्वरस्यापहतपाप्मत्वादिरूपाणामसाधारणधर्माणामत्रोपदेशात् । नव शरीरसम्बन्धाद्विरोध इति वाच्यम् । कर्माधीन शरीरसम्बन्धस्यैव विरोधापा- दकत्वात् । परमात्मनस्तु कर्मानधीनः स्वेच्छयैव शरीरसम्बन्ध इति न कश्चितिः रोधः। विस्तरस्त्वाकरे दृष्टव्य इत्यत्र सक्षेपः ॥ २१ ॥ भेदव्यपदेशाच्चान्यः।१।१२२ । अत्र परमात्मनो जीवस्य च भेदो व्यपदिश्यते । 'य आदित्ये तिष्ठन्नादित्या. धन्तर: ( बृ० ३।११९) 'यश्चक्षुषि तिष्ठन् चक्षुषोऽन्तरः' (बृ० ३।११८) य आत्मनि तिष्ठन्नात्मनोऽन्तर: (बृ. ३।७।२२ ) इत्यादि श्रौतवचनस्तस्मादयमा दित्याद्यन्तरवस्थितोऽन्यः परमात्मैव ॥ २२ ॥ इत्यन्तरधिकरणम् । आकाशस्तल्लिङ्गात् । १।१।२३। छान्दोग्योपनिषदि-अस्य लोकस्य का गतिरित्यागश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्ति' ( छा० १॥ ९।१) इति श्रूयते। अत्र किमाकाशशब्देन भूताकाशस्य ग्रहणमुत परस्यैव ब्रह्मण इति संशयः । प्रसिद्धत्वाद्भताकःशस्यैव प्रहणमिति पूर्वः पक्षः । अत्राभिधीयते- प्रोदीरितश्रुतिवाक्य आकाशशब्देन सर्वजगत्कारणस्य परमात्मन एव ग्रहणम् । सर्वभूतोत्पादकत्वं सर्वस्माज्ज्यायस्त्वं सर्वाश्रयत्वञ्चेत्यादिलिशनातं परब्रह्मण्येव स. मन्वेति । एतस्मादात्मन भाकाशः सम्भूतः' इत्यादिश्रुतिष्वाकाशस्योत्पतिरमिधी- यते इति न तस्य सर्वभूतोत्पादकत्वमित्यत्रायशः परमात्मा ॥ २३ ॥ हत्याका- शाधिकरणम् । अतएव प्राणः।१।१।२४। उद्गीथविद्यायो 'प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता' इत्यारभ्य 'कतमा सा देवतेति प्राण इति होवाच (छा० ११११।४) इति श्रूयते । भत्र प्राणशब्देन किं भूतवायुरभिधीयते परमारमावेति संशयः। भूतवायौ प्राणशब्दस्य प्रसिदवाद्वायु- विकारएवेति पूर्वः पक्षः। सिद्धान्तस्तु पूर्वाधिकरणोदितन्यायाविदेशेनान प्राणश- न्देन परमात्मन एवग्रहणम् । सर्वोत्पादकत्वसर्वाश्रयत्वादिलिझानां न वायविकारे क.

प्रथमाध्यायस्य प्रथमः पादः। 8 चिदपि सम्भवस्तस्मादत्र प्राणः परमात्मैव ॥ २४ ॥ इति प्राणाधिकरणम् । ज्योतिश्चरणाभिधानात् । १।१ । २५ । छान्दोग्य-अथ यदतः परोदिवो ज्योतिर्दीप्यते विश्वतः पृष्टेषु सर्वतः पृष्ठेषु' (छा० ३।१३।७) इत्याम्नायते । अत्र किमादित्यादिरूपं किमपि ज्योतिरुच्यतेऽ थवा तज्ज्योतिषोऽपि प्रकाशकः परमात्मा ? तत्र ज्योतिःशब्दस्यादित्यादिज्यो. तिष्यैव प्रसिद्धत्वात्तदेवीच्यत इति पूर्वः पक्षः । अत्राभिधीयते-ज्योतिरत्र पर ब्रह्मैव । कुत इति चेत् । चरणाभिधानात् -एतद्वाक्यात्पूर्ववाक्यम् 'तावानस्य महि. मा ततोज्यायांश्च पूरुषः । पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवीति' (छा. ३।१२।६) इत्यादिरूपं वर्तते । तत्र कृत्स्नस्य जगत एकपादत्वमभिधाय नित्य- विभूतिरूपस्य स्वधाम्नत्रिपात् पदेनाभिधानाद्ब्रह्मणस्सर्वभूतचरणत्वमभिहितम् । एवञ्च परमपुरुषो युसम्बन्धितयात्र प्रतिपाद्यत इति तस्यैव ज्योतिश्शब्दवा. च्यत्वम् ॥ २५ ॥ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽपंपणनिगदात्तथाहि दर्श- नम्।२।१।२६ । ननु भनिमवाक्ये 'गायत्री वा इदं सर्वम्' ( छा० ३।१२।१) इति गाय. त्रीरूपस्य च्छन्दसः प्रक्रान्तत्वात्तस्यैवात्र वाक्ये ज्योतिश्शब्देन प्रहणमिति चेन्न, तथा गायत्रीवाच्ये ब्रह्मणि चेतसोऽणायाभिधानात् । उपासनार्थ ब्रह्मणो गायत्री- सादृश्येनानुसन्धानार्थमित्याशयः । अन्यथा गायत्र्या वर्णविन्यासरूपायाः सर्वात्म- करवानुपपत्तेः । एवं छुपासनं एतं होव बढचामहस्युक्थे मीमांसन्त एतमग्नाव- ध्वर्यव एतं महाव्रते छन्दोगाः, (ऐते) इत्यादिषु दृश्यते ॥ २६ ॥ भूतादिपादव्यपदेशोपपत्तेश्चैवम् । १।१ । २७ । एवं गायत्रीशब्देन ब्रह्मणोऽभिधाने सति भूतपृथिवीशरीरहृदयनिर्देशानन्तरं 'सैषाचतुष्पदा, इति भूतादीनेव पादान् व्यपदिशति । एतस्य च ब्रह्मण्येवो. पपत्तेः ॥ २७ ॥ उपदेशभेदान्नेति चेन्नाभयस्मिन्नप्यविरोधात् । १ । १२८ । ननु त्रिपादस्यामृतं दिवि; इत्याधारत्वेनोका द्यौ योऽथ यदता परो दिवः, इति पञ्चम्या ज्योतिषोऽवधित्वेनाप्यभिधीयत इत्युपदेशभेदान्नात्र ज्योतिःशब्दा. भिधेयम्ब्रह्मेति चेन्न, उभयनिर्देशनापि विरोधाभावात् । एकस्मिन्नपि 'पक्षाने ब्रह्मसूत्रीयवेदान्तवृत्तौ- श्येन: 'वृक्षात्परतः श्येनः, इत्यादि लौकिक व्यहारो यथोपपद्यते । तदिहापि न कश्चिद्विरोधः ॥ २८ ॥ इति ज्योतिरधिकरणम् । प्राणस्तथानुगमात् । १।१।२६। 'स होवाच प्राणोऽस्मि प्रज्ञात्मा तमामायुरमृतमित्युपास्स्व' इति कोषोतकि- ब्राह्मणे प्रदर्दनविद्यायां श्रूयते । अत्र प्राणशब्देन जीवः परमात्मा वा प्राह्य इति संशयः। 'प्राणोऽस्मि' इतीन्द्राभिधायिशब्दसामानाधिकरण्यदर्शनात्प्राणशब्देन प्रत्यगात्मैव प्राह्य इति पूर्वः पक्षः । अत्राभिधीयते-प्राणशब्देनात्र परमात्मैव प्रायो नेन्द्राख्यो जीवविशेषः । इत्थमत्रनिश्चयः। प्रतर्दनेन मनुष्यस्य हिततमं यत्स्या- तन्मे ब्रूहीति पृष्टम् । इन्द्रेण च 'मामायुरमृतमित्युपास्व' इत्युत्तरितम् । एतत्प्र- श्नप्रतिवचनयोरनुसन्धानेन ब्रह्मैवात्र प्राणपदव्यपदिष्टम्भवति । न ह्यन्यक्किमपि मनुष्यस्य हिततममृते ब्रह्मणः । अमृतत्वमपि नेन्द्रादिजीवेषूपपद्यते । अमृतादिपद- सामानाधिकरण्येनानुगमादत्रप्राणपदवाच्यः परमात्मैव ॥ २९ ॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा मस्मिन् ।।१॥३०॥ वक्तुरिन्द्रस्य स्वोपास्यतयोपदेशान्नह्यत्र प्राणपदेन ब्रह्मणो ग्रहणमुपपद्यत इति चेन्न, मस्मिन् प्रतर्दनप्रकरणे 'तद्यथा रथस्यारेषु नेमिरर्पिता नामावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः' (को० ३।९) इत्यादिश्रुत्यभिहितस्य परमात्मसम्बन्धस्य बाहुल्यमुपलम्भासम्भवत्येव प्राणपदवाच्यत्वम्ब्रह्मणः ॥३०॥ शास्त्रदृष्टया तूपदेशो वामदेववत् । १।१।३१ । अथैवं तर्हि 'मामुपास्व' इत्यादिनेन्द्रकृतस्वात्मोपासनोपदेशः कथं सगच्छत इत्याह-शास्त्रेति । शास्त्रदृष्टिः शरीरात्मभावेन दर्शनम् । 'य मात्मनि तिष्ठन्नात्म- नोन्तरः, (बृ ५।७।१२) इत्यादिशास्त्रेण शरीरवाचकाना शब्दानो शरीरिणि- पर्यवसानमिति निर्गलितव्युत्पत्त्या जीवशरीरकपरमात्मानमवधायें 'मामेव वि- जानीहि 'मामुपास्प' इत्येवंरूप इन्द्रस्योपशोऽस्ति । यथा वामदेवः स्वात्मश- रीरक परमात्मानं पश्यन् तसामानधिकरण्येन स्वस्थ मनुसूर्यादिभवन मुदिशति । 'अहं मनुरभवं सूर्यश्च (बृ. ३।४।१० एवमेवात्र इन्द्रोपदेशः ॥ ३१ ॥ जीवमुण्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह त. योगात् । १।१ । ३२। ननु 'न वाचं विजिज्ञाघीत वकारं विद्यात्' (कौ• ३१८) इति बीवलिहात् प्रथमाध्यायस्य प्रथमः पादः । १ 'प्राण एव प्रज्ञात्मा' (को० ३।१) इति प्राणलिशाच्च नेदं प्रकरणं ब्रह्मपरमिति चेन्न, एकस्यैव ब्रह्मणः स्वरूपेण चिच्छरीरकत्वेनाचिच्छरीरकत्वेन चेति त्रैविध्येनाव- स्थितस्यानुसन्धानमुपासनार्थम् । एवमनुसंहिते युपासनाया अपि तत्तद्रूपेग त्रैवि. ध्यं फलति । 'प्रज्ञा मात्राः प्राणे अर्पिताः, ( क ० ३।९) इति श्रुतेरस्यैव परमा- स्मनः सर्वाधारसमितरेषां प्राणादोनामत्राश्रितत्वात् । अत एवेह प्रकरणे प्राण एव प्रज्ञात्मानन्दोऽजरोमृतः, (को० ३।९) इत्यादिषु तस्य परमात्मनो येऽसाधारण- धर्मा अमृतत्वादयस्तेषां योगावाच्यत्वेन सम्बन्धात् परमात्मैवात्र प्राणशब्दवाच्य इति सिद्धम् ॥ ३२ ॥ इति श्रीमद्भगवद्रामानन्दान्वयप्रतिष्ठितश्रीमदनुभवानन्दस्वामिद्वारके- ण ब्रह्मविस्वामिश्रोरघुवराचार्येण विरचितायां ब्रह्मसूत्रीयवेदान्त- वृत्तौ प्रथमाध्यायस्य प्रथमः पादः । श्रीमते रामानन्दाय नमः। अथ प्रथमाध्यायस्य द्वितीयः पादः। सर्वत्र प्रसिद्धोपदेशोत् । १ ।२।१। छन्दोग्ये 'सर्व खल्विदं ब्रह्म तजलानिति शान्त उपासोयत' इत्युपक्रम्य 'मनो. मयः प्राणशरीरो भारूपः सत्यसङ्कल्पः, (छा० ३.१४॥२) इति श्रूयते । अत्र मनोमयत्वादिधर्मविशिष्टो जीव उपास्यतयाभिधीयत अहोस्विोति संशयः। तत्र प्राणादेरुपकरणदर्शनात्तद्वतो जीवस्यैवोपास्यत्वश्रुतिरिति पूर्वः पक्षः। अत्राभिधी. यते-सर्वत्रेति । कृत्स्नाम्नायान्तवाक्येषु परमात्मधर्माणां मनोमयत्वादीनां प्रसिद्धा- नामेवोपदेशात् 'मनोमयः प्राणशरीरनेता (मु २।२।४) प्राणस्य प्राणः,(के. १२) इत्यनेकश्रुतिषु मनोमयत्वादिधर्माणां परमात्मन्येव प्रसिद्धतयोपदिष्टत्वात् ॥ १॥ विवक्षितगुणोपपत्तेश्च । १ । २।२। परमात्मनोऽसाधारणधर्मतया विवक्षितानां गुणानां तस्मिन्नेवोपपत्तेरत्र परमा. स्मैव ममोमयत्वादिधर्मकः ॥ २ ॥ मनुपपत्तेस्तु न शारीरः।१।२।३। मनोमयत्वप्राणशरीरत्वसत्यसङ्कल्पत्वादिगुणानां प्रत्यगात्मन्यसम्भवादन वाक्ये बारीरस्य ग्रहणं नोपपद्यते ॥३॥ .

ब्रह्मसूत्रीयवेदान्तवृत्तौ- कर्मकर्तृव्यपदेशाच्च । १।२।४। पूर्वसूत्रा 'न्न शारीर' इत्यनुषज्यते । तथा च 'एतमितः प्रत्याभिसम्भविता- स्मि, (छा० ३।१४।४) इत्येतच्छ्रौतवाक्येनोपास्यत्वेन परमात्मानमेतमिति कर्म. तयोपासकत्वेन जीवमभिसन्भवितास्मीति कर्तृतया व्यपदेशादत्र मनोमयत्वादिध- मकः परमात्मैव ॥ ४॥ शब्दविशेषात् । १।२।५। अस्मिन्नेव प्रकरणे 'एष म आत्मान्तहृदये(छा० ३।१४।३) इति वाक्ये षष्ठथा शारीर आत्मेति प्रथमया च परमात्मा प्रतिपाद्यते । एवञ्चोभयाभिधाने भिन्न- शब्दस्य प्रणादत्र परमात्मन एवं प्रहणम् ॥ ५॥ स्मृतेश्च । १।२।६। 'ईश्वरः सर्वभूताना हृदेशेऽर्जुनतिष्ठति (गी. १८१६१) इत्यादिस्मृतयोऽ पि जीवाद्भिन्नं परमात्मानमभिदधते ॥ ६ ॥ मभकौकस्त्वात्तव्यपदेशाच्च नेति चेन्न, निचाय्यत्वादेवं व्योम- वच्च ।१।२।७। ननु 'एष म आत्मान्तहृदये। (छा० ३।१४।३) इति वाक्यार्थपर्यालोचनया. ऽणीयस्वन्तहृदयेऽवस्थानादल्मरिमाणको जीव एवात्रोपास्यो न परमात्मा । एवं सति 'अणीयान् ब्रोहेवा यवाद्वा. (छा० ३।१४१३) इति व्यपदेशोऽपि जीवे सहच्छत इति चेन, परमात्मैवात्रोपासनार्थमल्पपरिमाणकान्त हृदयस्थितोऽभिधीयते। तस्यापि 'राप्रमात्रो ह्यवरोऽपि दृष्टः' इत्यादिष्वल्पीयस्त्वश्रवणात् यथा महत्परिमाण- कस्यापि व्योम्नोऽत्पौकस्त्वं घटाकाशादावुपदिश्यते एवमत्रापि बोध्यम् ॥ ७॥ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् । १।२।। नन्वेवं परमात्मनो हृदयाघवस्थाने जीववत्सुखदुःखसम्भोगप्राप्तिरपि दुर्निवा- रेति चेन्न, परमात्मानो जीवतो वैशेष्यात् । जीवस्य कर्मपारतन्त्र्यमीश्वरस्य तन्नेति वैशेष्यात् । स्वाथै व्यम् । 'तयोरन्यः पिप्पलं स्वादत्ति, अनश्नन्नन्योऽभिचाक. शीतिः । तत्र यः परमात्मासौ स नित्यो निर्गुणः स्मृतः। न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा' इत्यादिश्रुतिस्मृतयो जीवपरयोवैशेष्य स्पष्टमाहुः ॥ ८॥ इति सर्वत्र प्रसिद्धयधिकरणम् ।

प्रथमाध्यायस्य द्वितीयः पादः । १३ १ अत्ता चराचरग्रहणात् । १।२।। काठके-'यस्य ब्रह्मच क्षत्रं चोभे भवत ओदनः। मृत्युयस्योपसेचनं क इत्था बेद यत्र सः (का० १।२।२५) इत्याम्नायते । अत्रौदनोपसेवनपदार्थाभ्यो त. तत्सम्बन्धी कश्चिदत्ता प्रतीयते । स किं जोव आहोस्वित्परमात्मेति संशयः । तत्र भोक्तृत्वं हि कर्मायत्तं तच्च जीवस्यैव सम्भवतीति स एवात्रात्तेति पूर्वः पक्षः । अत्राभिधीयते-अत्ता यत्र परमात्मैव । चराचरं जगददनस्थानीयतया तस्यैव सम्भवति । स्वयमद्यमानत्वे सत्यन्यादनहेतुरूपोपसे वनस्थानीयो मृत्युरन्यस्य नो- पपद्यते । एतादृशसामर्थ्य परमात्मन एवेति स एवात्रातेति ॥ ९ ॥ प्रकरणाञ्च ।१२।१०। 'महान्तं विभुमात्मानं मत्वा धोरो न शोचति' (का० १।२।२२) इति पर- स्यैवेदं प्रकरणम् । तस्मादत्तात्र परमपुरुष एव ॥ १० ॥ इत्यत्राधिकरणम् । गुहां प्रविष्टावात्मानौ हि तदर्शनात् । १ । २।१५ । काठके-ऋतं पिबन्तौ सुकृतस्य लोके गुहो प्रविष्टौ परमे परार्ध, (का. १३॥ १) इति श्रूयते । किमत्र बुद्धिजीवावाहोस्विज्जीवेश्वराविति संशयः, तत्रेश्वरस्य विभुत्त्वादपरिच्छिन्नत्वात्कर्मफलभोक्तृत्वासम्मवारच हृदयगुहाप्रवेशासम्मवावु- द्धिजीवावेवेति पूर्वः पक्षः । अत्राभिधीयते-जोवेश्वरावेवात्र गुहाप्रविष्टाविति निधी- यते । अस्मिन् काठके प्रकरणे 'अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशा- नो भूतभव्यस्य, ( का० २।४।१२) 'तं दुर्दशं २।४।१२) 'तं दुर्दशं गूढमनुप्रविष्टं गुहाहितम् , (का. ११२।१२) 'या प्राणेन सम्भवत्यदितिर्देवतामयि । गुहां प्रविश्य विष्ट- ती' (का० २।१।७) इत्यादिवाक्येषु परप्रतिपादनमेव दृश्यते ॥ ११॥ विशेषणाश्च । १।२।१२ । 'ब्रह्मयशं देवमीडथम्' (का० १११।११) इत्यादिषु परजीवयोरेवोपास्योपा. सकत्वेन विशिष्टतया प्रतिपादनात् तावेवात्रोच्यते ॥ १२ ॥ इति गुहाप्रशिष्टा- धिकरणम् । अन्तर उपपत्तेः।१।२१३॥ 'य एषोऽक्षिणि पुरुषो दृश्यते एष यात्मेति होवाच, (छा०४११५.१) इत्यु- पोशल विद्यायामाम्नायते । किमत्र चक्षुरिन्द्रियाधिष्ठाता कश्चिज्जिविशेषोऽमिधी. यते परमात्मावेति संशयः । श्रुतो 'दृश्यते' इति प्रत्यक्षवन्निर्देशाच्चक्षुषः स्थान ब्रह्मसूत्रीयवेदान्तवृत्तौ- विशेषस्य निर्देशाच्च जीवविशेष एवात्रोपदिश्यत इति पूर्वःपक्षः। अत्राभिधीयते- परमात्मैवात्रोपदिश्यते । 'एतदमृतमभयमेतद्ब्रह्म' इत्युपदिष्टगुणानां तत्रैवोपपत्तेः। नहि जीवात्मनोऽमृतत्वादिगुणकत्वं सम्भवति ॥ १३ ॥ स्थानादिव्यपदेशाच्च । १।२ । १४ । 'यश्चक्षुषि तिष्ठन्' इत्यादिवास्यस्तस्य सर्वगतस्यापि ब्रह्मणः स्थानादिप्रतिपा- दनात्परमात्मवाक्ष्यन्तरः ॥ १४ ॥ सुखविशिष्टाभिधानादेव च । १।२। १५ । परमात्मन एव निरतिशयसुखवत्तया 'कं ब्रह्म खं ब्रह्मेति वाक्येऽभिहितत्वात्स- एवात्रोपास्यतया निर्दिश्यते ॥ १५ ॥ मत एव च तद्ब्रह्म । १।२।१६ । अत एव परस्वरूपपरिज्ञानाय पृच्छन्तमुपकोशलं 'यद्वावकं तदेव खम्' (छा. ४११०५) इति परस्परवैशिष्ट्यप्रतिपादनेन निरतिशयसुखविशिष्टं तद्ब्रह्मवाग्नि- भिरुपदिष्टम् ॥ १६ ॥ श्रुतोपनिषत्कगत्यभिधानाच्च । १ । २ । १७ । परप्रतिपादिकामुपनिषद्विद्यामधीतवतामचिरादिगतिर्भवतीत्याम्नायिकः समयः सैव गतिरत्र 'तेऽर्चिषमेवामिसम्भवन्ति' (छा० ४।१५।५) इत्यादिश्रुतिभिरुपदि. त्यक्षिस्थानः परमात्मैव ॥ १७ ॥ भनवस्थितेरसम्भवाच्च नेतरः।१।२।२८ । चक्षुरिन्द्रियाधिष्ठातृजीवविशेषस्य नियमेन चक्षुष्यनवस्थितेरमृतसंयद्वामत्या- दिगुणानाञ्च तत्रासम्भवान्नजीवोऽक्षिस्थानः किन्तु परमात्मैव ॥ १८॥ इत्यन्तरधिकरणम् । मन्तर्याम्यधिदेवादिषु तद्धर्मव्यपदेशात् । १ । २ । १६ । 'यः पृथिव्यां तिष्ठन् . थिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरी- रम् यः पृथिवीमन्तरोयमयत्यैष त आत्मान्तर्याम्यमृतः' (बृ. ३॥॥३) इत्या- धन्तर्यामिपदविशिष्टपूपदिष्टः कश्चिज्जीवविशेषः परमात्मावेति संशयः। तत्रानन्त. रपाक्ये 'दृष्टा श्रोता मन्तेति दर्शनादिकर्तृत्वदर्शनाजीव एव भवितुं युक्त इति पूर्वः पक्षः । अत्राभिधीयते-अधिदेवाधिलोकादिवाक्येष्वमिहितोऽन्तर्यामी परमात्मैव । यतस्तस्य परमात्मनः सर्वान्तस्थत्वसर्वशरीरत्वामृतत्वादीनामसाधारणधर्माणामत्र प्रथमाध्यायस्य द्वितीयः पादः। ૨૫ व्यपदेशात् । इमे च सर्वनियन्तृत्वादयो धर्माः परमपुरुषे भगवति श्रीराम एव स- म्भवन्ति नान्यस्मिमिति स एवात्रोपदिश्यते ॥ १९ ॥ नच स्मातमतधर्माभिलापात् । १।२।२० । साङ्ख्यस्मृतिसिद्धं प्रधानं ह्यत्र न प्रतिपाद्यम् ।प्रकरणेऽस्मिन् जडात्मकप्रधान- धर्मभिन्नधर्माणी स्वतन्त्रचेतनधर्माणामभिधानात् ॥ २० ॥ शारीरश्चाभयेऽपि हि भेदेनैनमधीयते । १।२।२१ । उपरिष्टान्नेत्यनुवर्तते । शारीरो जीवः सोऽपि नान वाक्येषु प्रतिपाद्यते । यतः काण्वमाध्यन्दिनाश्चोभयेऽप्येनं शारीरं परमात्मनो भिन्नत्वेनाभिधीयते । तत्र काण्वाः 'यो विज्ञाने तिष्ठन् विज्ञानादन्तरः (बृ. ३१॥२२) इत्यभिधीयते । मा. ध्यन्दिनाश्च 'य आत्मनि तिष्ठन् (बृ. ३।१२२) इत्यादिप्रकारेण । एवमत्रान्त- योमिब्राह्मणवाक्येषु सर्वान्तर्यामितयाऽवस्थितः पुरुषोत्तमः श्रीराम एव न जीवः ॥ २१ ॥ इत्यन्तर्याम्यधिकरणम् । अदृश्यत्वादिगुणको धर्मोक्तः । १।२ । २२ । 'अथ परा यया तदक्षरमधिगम्यते । यत्तददेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्री- त्रम् (मु. १।१५) इत्यापर्वणिक आम्नायते । अनादृश्यत्वादिगुणकः किं प्र. धानं जीवः परमात्मा वेति संशयः। भूतयोनित्वादिगुणानां प्रधाने जीवेऽपिच स्वतः सम्भवात्तावेवेह प्रायथाविति पूर्वः पक्षः। अत्राभिधीयते-'यः सर्वज्ञः सर्व. वित्' (मु० ११९ ) इत्यायभिहितधर्माणां परमपुरुष एव सम्भवात्स एवात्र प्रति. पायते न प्रधानजीवी । निरुपाधिकसर्वज्ञत्वादिगुणानां तयोरसम्भवात् ॥ २२ ॥ विशेषणभेदव्यपदेशाभ्याञ्च नेतरौ । १ । २ । २३ । 'दिव्यो ह्यमूर्तः पुरुषः समाह्याभ्यन्तरो यजः। अप्राणो ह्यमना शुभ्रो अक्षरा- त्परतः परः (मु० २।१।२) इत्यादिवाक्यप्रतिपादिताद्विशेषणव्यपदेशात् 'भ. क्षरः परतः परः' (मु० २।१।२) इत्यक्षरपदवाच्यात्प्रधानात्परतो जीवादपि पर इति भेदव्यपदेशाचार्य भूतयोनिः परमात्मैव नप्रधान जीवो ॥ २३ ॥ रूपोपन्यासाच्च । १।२।२४ । 'अग्निर्मूर्धा' इत्यादिरूपोपन्यासात् । तथा 'एष सर्वभूतान्तरात्मा' (मु. २११४) इति श्रौतवचनात् सर्वचराचरभूतानामन्तरात्मत्वाचायं परमात्मैव ॥२४॥ इत्यदृश्यत्वादिगुणकाधिकरणम् ।

१६
ब्रह्मसूत्रीयवेदान्तवृत्ती-
पैश्वानरस्साधारणशब्दविशेषात् । १ । २ । २५ ।
छान्दोग्ये-यस्त्वेतमे प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते' (छा०
५५१८११) इति श्रूयते । किमत्र वैश्वानरशब्देनाग्निस्तद्देवता जीवः परमात्मा वो.
च्यत इति संशयः । तत्र 'अयमग्निर्वैश्वानरः' (बृ. ७९६ ) इत्यादिवचनात्प्र.
सिद्धिप्राचुर्य्याच्चात्र वैश्वानरशब्देनाग्निस्तद्देवता जोवो वा ग्राह्य इति पूर्वः पक्षः।
अत्राभिधीयते-वैश्वानरो ह्यत्र परमात्मैव साधारणशब्दविशेषाग्राह्यः । 'को नु
आत्मा किम्ब्रह्मेति ब्रह्मजिज्ञासायामौपमन्यवादिमहर्षिप्रदर्शितायो 'आत्मानं वैश्वा.
नरम्' इति ब्रह्मणि वैश्वानरशब्दप्रयोगात् एतस्यात्मनो वैश्वानरस्य मूर्धेव सु.
तेजाः' इत्यादिपरमात्मासाधारणैः शब्दैविशेष्यमाणत्वाच्चेह वैश्वानरः परमात्मा
नाग्निप्रभृतयः॥२५॥
स्मर्यमाणमनुमानं स्यादिति । १ ।२।२६ ।
मुण्डकादिश्रुतिषु परमात्मन एव 'अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यो' इत्येतद्विश्व.
शरीरक रूपमुपवर्णितम् । तदेवरूपमन छान्दोग्येऽपि स्मर्यमाणं प्रत्यभिज्ञायमानं
सद् ब्रह्मस्वरूपस्यानुमापकं भवतीति ॥ २६ ॥
शब्दादिभ्योन्तः प्रतिष्ठानाच्च नेति चेन्न तथादृष्टथुपदेशादसम्भ.
वात्पुषरुमपि चनमधीयते । १।२।२३।
ननु स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते' (प्र. १७) इत्य-
ग्निशब्दसामानाधिकरण्यात् 'सयो हैतमेवाग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तःप्रति-
ष्ठितं वेद' इत्यन्तःप्रतिष्ठानाच्च न वैश्वानरपदवाच्योऽत्र परमात्मा स्यादिति
चेन्न, परमपुरुषस्य तथाग्निशरीरतयोपासनार्थमुपदेशात् । न हि शुमूर्धादिधर्माः
केवलाग्नौ सम्भवन्ति । परमात्मनस्त्वग्निशरीरकत्वेनोपपद्यन्त एवैते धर्माः।
मत एव 'अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः इति वाक्यं सङ्गच्छते। प्रकृ.
तवाक्येऽपि विश्वरूपोऽग्निरिति शब्दस्वारस्यात्परमात्मैव वैश्वानरशब्दवाच्यः। न
घग्नेः केवलस्य विश्वरूपता सम्भवति । एवं वाजसनेयिनः स एषोऽग्निवैश्वा.
नरो यत्पुरुषः' इत्यादिश्रौतवाक्येषु वैश्वानरं पुरुषमप्यधीयते। पुरुषशब्दश्च 'य-
परमपुरुषः (रामोसरता ४२) 'वन्दे महापुरुष ते चरणारविन्दम्' (भा. स्क.
११) इत्यादिश्रुतिस्मृतिभ्यः भगवन्तं श्रीराममेवामिधत्ते । तस्मादत्र वैश्वानरः
परमात्मा श्रीराम एव ॥ २७॥

प्रथमाध्यायस्य द्वितीयः पादः। अतएव न देवता भूतञ्च । १।२।२८। अत एव परमात्मनोऽसाधारणलिङ्गैः पुरुषपदवाच्यतया चायं वैश्वानरो ना' गन्यधिष्ठातृदेवता न वा भूततृतीयोऽग्निः किन्तु परमात्मैव ॥ २८ ॥ सातादप्यविरोधं जैमिनिः । १ । २ । २६ । अग्निशब्दस्य वैश्वानरशब्दसामानाधिकरण्येनाग्निशरीरकपरमात्मपरत्वमस्ती त्युक्तम् । परन्तु परमात्माभिधायिवैश्वानरशब्दसामानाधिकरण्यमनपेक्ष्याप्यप्रनय. नादियोगेन वैश्वानरशब्दवदग्निशब्दोऽपि साक्षादेव परमात्मन्यविरुद्ध इति जैमि. निराचार्यों मन्यते ॥ २९ ॥ अभिव्यक्तरित्याश्मरथ्यः । १।२।३०। अपरिच्छिन्नस्यापि परमात्मनो 'यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते, (छा० ५।१८११) इति प्रादेशमात्रव्यपदेशस्तूपासनासिद्धयर्थ- मित्याश्मरथ्य आचार्यों मन्यते ॥ ३० ॥ अनुस्मृतेर्बादरिः।१।२।३१ । अप्रभृतीनां मूर्धाद्यवयवत्वेन कल्पनमनुस्मरणार्थमेवेति बादरिराचार्यों मन्यते ३१ सम्पत्तरितिजमिनिस्तथाहि दर्शयति । १।२।३२ । वैश्वानरोपासकैरनुदिनमनुष्ठीयमानायाः प्राणाहुतेरग्निहोत्रत्वसम्पादनाय 'उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यः (छा० ५।१८।२) इत्यादि श्रुतिभिर्वेदित्वादि- कल्पनोपदेश इति जैमिनिराचार्यों मन्यते । एवमनुष्ठानेन परमपुरुषाराधनफलम- ग्निहोत्रसम्पत्तिञ्च दर्शयति । 'अथ य एतदेव विद्वानग्निहोत्रं जुहोति, (छा० ५।२४।२) इति श्रुतिः ॥ ३२ ॥ आमनन्ति चैनमस्मिन् । १।२ । ३३ । अस्मिन् वैश्वानरोपासकशरीरे प्राणाग्निहोत्रानुष्ठानेनोपासनार्थमेनं परमात्मा- नमामनन्तिच्छन्दोगाः । 'तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धेव सुतेजाः' (छा० ५।१८१२ )इति । प्राणाग्निहोत्रानुष्ठानसमये समुपासकेन स्वकीयमूर्धाद्यवय- वानामिव थुप्रभृतीनाम्परमपुरुषस्य मूर्धाद्यवयवत्वेनानुसन्धयेत्वमिति तात्पर्यम्॥३३॥ इति वैश्वानराधिकरणम् । इति श्रीभगवद्रामानन्दान्वयप्रतिष्ठितश्रीमदनुभवानन्दस्वामिद्वारकेण ब्रह्मवित् स्वामिश्रीरघुवराचार्येण विरचितायां ब्रह्मसूत्रीयवेदा- न्तवृत्तौ प्रथमाध्यायस्य द्वितीयः पादः । २ ब्रह्म OM - ब्रह्मसूत्रीयवेदान्तवृत्तौ- अथ प्रथमाध्यायस्य तृतीयः पादः । धुभ्वाद्यायतनं स्वशब्दात् । १ । ३।१। आथर्वणिके श्रूयते 'यस्मिन् द्यौः पृथिवीचान्तरीक्षमोतं मनस्सह प्राणैश्च सर्वैः। तमेवैकं जानथात्मानम्' (मु० २।२।५) अत्र युभ्वादीनामायतनं किं जीव आहो- स्वित्परमात्मेति संशयः । मनः प्राणादीनामुपकरणानां जीवस्यवसम्भवाज्जीव एवेति पूर्वः पक्ष । अत्राभिधीयते-प्रकृतश्रुत्यन्तर्गतयोः 'तमेवैकं जानथात्मानम्। 'अमृत- स्यैष सेतुः' इत्येतद्वाक्ययोरात्मशब्दस्य श्रूयमाणत्वादमृतप्रापकत्वाभिधानाच्च युप्रमृतीनामायतनत्वेन श्रूयमाणोऽत्र परमात्मैवेत्यवगम्यते ॥१॥ मुक्तोपसृष्यव्यपदेशात् । १।३।२। इतश्च धुभ्वाचायतनभूतः परमात्मा । यतोऽत्र प्रकरणे मुक्तोपसृप्यत्वस्य व्य- पशो दृश्यते । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' (मु०. ३।१३) तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्' (मु० ३। २१८) इत्येतस्मान्मुक्तप्राप्यत्वाभिधानादयं परमपुरुष एव ॥ २ ॥ नानुमानमतच्छब्दात् । १।३।३। आनुमान प्रधानमत्र शुभ्वाद्यायतनत्वेन न प्रतिपाद्यम् । कुत इति चेत्तत्प्रति- पादकशब्दस्यास्मिन् प्रकरणेऽश्रवणात् ॥ ३ ॥ प्राणभृच्च । १।३।४। उपरितनसूत्रात्पदद्वयमनुवर्तते । तथा चायमर्थः । प्राणभृज्जीवोऽपि तदभिधे- यशब्दाभावान्नास्मिन् प्रकरणेऽभिधीयते । अणुजीवस्य धुभ्वाद्याश्रायत्वा- सम्भवाच्च ।। ४ ।। भेदव्यपदेशात् । १।३।५। 'तमेवैकं जानथात्मानम्' (मु० २।२।५ इति जीवपरयोर्मेदव्यपदेशादयः शुभ्वाद्यायनभूतः पर एव ॥५॥ प्रकरणात् । १।३।६। 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातम्' (मु० १.१.३ ) इति प्रकृत्य "अथ परा यया' इत्यादि परप्रतिपादकं प्रकरणमारभ्यते । अतः परमात्मैवान युपृ- थिव्यादीनामायतनम् ॥ ६ ॥ -- प्रथमाध्यायस्य तृतीयः पादः। १६ स्थित्यदनाभ्याश्च । १।३।७। 'द्वा सूपर्णा सयुजा सखाया' (मु० ३।१११ इत्यत्र कर्मफलमनश्नतः परमा. त्मनः स्वरूपेण जीवधारकतयास्थितेजीवस्य च कर्मफलात्तृतया निर्देशान्नह्यत्र कर्मवशगो जीवः प्रतिपाद्यते किन्तु पर एव ॥ ७ ॥ इति शुभ्वाद्यधिकरम् । भूमा सम्प्रसादादध्युपदेशात् । १।३।। 'यो वै भूमा तत्सुखम्' (छा० १२३।१) इति छान्दोग्य श्रूयते । अत्र भू- मगुणयुक्तः कश्चिज्जीवः परमात्मा वेति संशयः । 'प्राणो वा आशाया भूयान्' इति पूर्वत्र प्राणस्योपादानात्प्राणपदेन चात्र प्राणविशिष्टः प्रत्यगात्मैवोच्यते । तस्मात्स एवात्रोपादेय इति पूर्वः पक्षः । अत्राभिधीयते-सम्प्रसादस्य प्रत्यगात्मन उपदे- शानन्तरमपि सत्यपदार्थस्योपदेशात् सत्यस्यैव सुखत्वेनौपदेशात् सुखस्य च भूमप- दवाच्यतया परमात्मैवात्र भूमा ॥ ८॥ धर्मोपपश्च ।१।३।। भूम्नो ये धर्माः अमृतप्रापकत्व,स्वमहिमप्रतिष्ठितत्वादयोऽत्र श्रुतास्तेषां समेषां परमात्मन्येवोपपत्तिरस्त्यतः परमपुरुष एव भूमा ॥९॥ इति भूमाधिकरणम् । अक्षरमम्बरान्तधृतेः । १ । ३ । १० । बृहदारण्यके 'सहोवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्र- स्वम्' (बृ. ५।८।८ इति श्रूयते । अत्राक्षरशब्देन किम्प्रधानं प्रत्यगात्मोत पर- मात्मावाभिधीयते । 'अक्षरात्परतः परः 'अमृताक्षारं हर' 'यया तदक्षरमधिग- म्यते' इत्यादिश्रुतिभिरक्षरशब्दस्य त्रिष्वप्यर्थेषु प्रयोगात्संशयः । तत्र प्रधान जीवो वाक्षरं भवेत् आकाशधारकत्वमुभयोरपि सम्भवतीति पूर्वः पक्षः। अत्राभिधीयते- अम्बरान्तस्याव्याकृतस्य धारणादत्राक्षरपदवाच्यः परमात्मैव । गााः प्रश्नस्य स्वारस्येनाखिलजगदाधाररूपं जगत्कारणमत्रपृष्टं नवायुमदाकाशस्याधारमात्रमिति- निश्चीयते । तत्प्रतिवचनं सहोवाचेत्यादिकमुक्तम् । एवञ्च प्रश्नगतमाकाशपदं सर्व- विकारकारणं भूतसूक्ष्ममव्याकृतमभिधत्ते न केवलं विकारान्तर्वर्तिनमाकाशम् । तदा- धारतया चाक्षरस्य निर्देशादिहाक्षरपदार्थः परमात्मा। सर्वविकाराणामाधारस्या- व्याकृतस्याप्याधारः स एव न प्रधानादिकम् ॥१०॥ साच प्रशासनात् । १।३। ११ । 'एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (१०३८१:) - २० ब्रह्मसूत्रीयवेदान्तवृत्तौ- इति परमात्मन एव निरङ्कुशाज्ञाया वशवर्तित्वं प्रभाकरनिशाकरादीनामस्तीति प्रशा- सनादम्बरान्तधृतिरक्षरपदाभिधेयस्य परमात्मन एव ॥ ११ ॥ अन्यभावव्यावृत्तेश्च । १।३।१२। अस्याक्षरपदवाच्यस्य परमात्मनोऽन्यत्वं 'तद्वा एतक्षरं गार्ग्यदृष्टं दृष्ट्रश्रुतं श्रोतृ' (बृ ५।८।१२) इत्यादि वाक्यशेषेण व्यावत्यते । अतोऽक्षरपदवाच्यः पर- मात्मैव ॥ १२ ॥ इत्यक्षराधिकरणम् । ईक्षतिकर्मव्यपदेशात्सः।१।३।१३ । आथर्वणिके 'स एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षते' (प्र० ५।५) इति श्रूयते । किमत्र पुरुषो हिरण्यगर्भाख्यो जीव उत परमपुरुषः श्रीराम इति संशयः। तत्र त्रिमात्रप्रणवोपासकस्य 'यः पुनरेतत्रिमात्रेणोमित्येतेनैवाक्षरेण पर पुरुषमभिध्यायीत स तेजसि सूर्य सम्पन्नः' (प्र० ५।५) इति श्रुत्या ब्रह्मलोक- प्राप्तिरुक्ता। तत्र ध्यानेक्षणविषयस्तल्लोकाधिपतिश्चतुर्मुख एव स्यादिति पूर्वः पक्षः। अत्राभिधीयते-प्रकृतश्रुतौ 'जीवधनात्परात्परं पुरिशयं पुरुषमीक्षते' इतीक्षतेः कर्म- तया व्यपदिष्टः परमात्मैव । कर्माधीनदेहवत्वाज्जीवघनशब्देन चतुर्मुखस्यापि ग्रहणम् । 'हिरण्यगर्भ जनयामासपूर्वम्' इत्यादिश्रुतिभिश्चतुर्मुखाख्यजीवविशे- षस्योत्पत्तिरभिधीयते । अतस्तस्योपासककोटावन्तर्भावो नतूपास्यकोटाविति ध्याने- क्षणादिकर्मभूतोऽत्र परमात्मैवेति ॥ १३ ॥ इतीक्षतिकर्माधिकरणम् । दहर उत्तरेभ्यः । १।३१४। छान्दोग्ये 'अथ यदिदमस्न् िब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्तन्नराका- शस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्' (छा० ८1१1१) इति श्रूयते। अत्र दहराकाशः किमयं भूताकाश आहोस्वित्परमात्मेति संशयः । तत्राकाशशब्दस्य भू- ताकाशे प्रसिद्धत्वात्स एवात्रोपदिश्यत इति पूर्वः पक्षः। अत्राभिधीयते-उत्तरेभ्य वाक्यगतेभ्य हेतुभ्यो दहराकाशो यत्रपरमात्मैव । ते च हेतवो निर्दिश्यन्ते । 'स ब्रूयाद्यावान्वाऽयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः' (छा० ८।१३ ) इत्यत्रोदी- र्यमाणोपमानोपमेयभावो दहराकाशभूताकाशयोरेकत्वे न सम्भवतीत्यतोऽयं दहरा- काशस्ततो भिन्नः परमात्मा। एवं 'एष आत्मापहतपाप्मा' इत्यारभ्य 'सत्यस- इल्पः' इत्यन्ता श्रुतिनिरुपाधिकापहतपाप्मत्वादिगुणान् दहराकाशेऽभिदधती दह- राकाशः परमामेत्यवगमयति। विषयवाक्ये तदन्वेष्टव्यं इत्यत्र तच्छन्देन दह- प्रथमाध्यायस्य तृतीयः पादः। राकाशं तदन्तर्वर्तिगुणांश्च परामृश्य तदुभयमन्वेष्टव्यमित्युपदिश्यते। विस्तरस्त्व- त्राकरे द्रष्टव्यः॥ १४ ॥ गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गश्च । १।३। १५ । इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः" (छा० ८।३।२) इति श्रुतिनिर्दिष्टयाऽहर्दिवं गच्छन्तीनाम्प्रजानां गत्या ब्रह्मलोका. शब्देन च दहराकाशपदवाच्यः परमात्मेत्यवगम्यते । तथा हि दृष्टं श्रुत्यन्तरे सुषु- प्तिसमये प्रजानामहर्दिवं गमनं परमात्मनि भवति । एवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य नविदुः सति सम्पद्यामह इतिः (छा० ६३२) इति । ब्रह्म- लोकशब्दोऽपि च तथा परमात्मनि प्रयुको दृष्टः 'ब्रह्मलोकः सम्राडिति होवाच' (बृ० ४।३।३३) इति । इदमेव च दहराकाशस्य परमात्मत्वे लिहम् ॥ १५ ॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः । १ । ३।१६ । श्रुत्यन्तरेऽभिहितस्य 'एव सेतुर्विधरण एषां लोकानामसम्भेदाय' (बृ. ४।४। २२) इति धृतिरूपस्यास्य परमात्मनो महिम्नोऽस्मिन्दहराकाशे 'अथ य आत्मा स सेतुर्विधृतिः' (छा० ८।४।१) इत्युपलब्धेरयं दहराकाशः परमात्मा ॥ १६ ॥ प्रसिद्धश्च । १।३ । १७ । 'को वेवान्यात्कः प्राण्यायदेष आकाश आनन्दो नस्यात्' ( तै० २१७) सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते' (छा० १।९।१) इत्यादिष्वा- काशपदं परमात्मनि प्रसिद्धम् । प्रकृतेऽपिचापहतपाप्मत्वादिपरमात्मासाधारणगुण- विशिष्टोऽयं दहराकाशः परमात्मैव ॥ १७॥ इतरपरामर्शात्स इति चेन्नासम्भवात् । १।३।। प्रकरणेऽस्मिन् 'अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' (छा० ८।३।४ इति वाक्यशेषे इतरस्य सम्प्रसादशब्दाभि- हितस्य जीवस्य परामर्शात्स जीव एव दहराकाशः स्यादिति चेन्न, एतत्प्रकरण- गतानां निरुपाधिकापहतपप्मत्वादिगुणानां प्रत्यगात्मन्यसम्भवान्नायं दहराकाशः१८ उत्तराच्चेदाविर्भूतस्वरूपस्तु। १ । ३ । १६ । अत्राशङ्कयसमाधत्ते 'य आत्मापहतपाप्मा विजरो विमृत्युर्विशोकः प्रजापते- रित्यायुत्तरवाक्यादपहतपाप्मत्वादिधर्मकत्वं प्रत्यगात्मनोऽपि सम्भवान्नासम्भव इति चेन्न मोक्षावस्थस्याविर्भूतस्वरूपस्य प्रत्यगात्मनोऽत्र प्रतिपादितत्वात् । अय- २२ ब्रह्मसूत्रीयवेदान्तवृत्तौ- माशयः। अनाद्यविद्यातिरीहितस्वरूपस्य संसारावस्थस्य जीवस्य परमपुरुषानुध्या- नेनोच्छिन्नाविद्यस्य तस्यैव स्वस्वरूपाविर्भावो भवति । एवञ्चायं जीवः प्राक्तिरोहि- तापहतपाप्मादिरेव मुक्त्यवस्थायामतिरोहितापहृतपाप्मत्वादिरूपमारभवति । इति निरुपाधिकसार्वदिकापहतपाप्मत्वादिधर्मसम्बन्धो नास्य घटते । दहराकाशस्य तु तादृशधर्मसम्बन्धोऽभिधीयत इति न दहराकाशो जीवः ॥ १९ ॥ अन्यार्थश्च परामर्शः । १।३।२० । दहरविद्यायां 'अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय’ (छा० ८।३।४) इत्यादिना जीवपरामर्शस्तु दहराकाशपदवाच्यपरमात्मनउपासनेन तदुपसम्पत्त्या प रमात्मनोऽपहतपाप्मत्वादिकल्याणगुणवन्मुक्तात्मनोऽपि 'अपहतपाप्मत्वादिगुणवत्तय स्वरूपाविर्भावो भवतीत्येतदुपदेशायैवेति ॥ २० ॥ अल्पश्रुतेरिति चेत्तदुक्तम् । १ । ३ । २१ । नन्वेवमप्यल्पश्रुतिर्दहरविद्यायां 'दहरोऽस्मिन्' इत्यादिनोक्ताणुपरिमाण जीव एव सङ्गच्छत इति चेन्न। अत्र विषये 'अर्भकौकस्त्वा' (ब्र० सू० १।२।५ दिति सूत्रे परमात्मनोऽप्युपासनार्थमल्पपरिमाणकत्वं सम्भवतीत्युक्तं समाधानमिहा परिज्ञेयम् ॥ २१ ॥ अनुकृतेस्तस्य च । १ । ३ । २२ । अनुकृतिरनुकरणं तत्साम्यमिति यावत्तस्य दहराकाशपदवाच्यस्य परमात्म ऽस्मिन् जीव उपदिश्यते। इत्यनुकार्यस्य परमात्मनोऽनुक" जीवोऽभिन्न एवे निश्चीयते । आविर्भूतगुणाष्टकस्यास्य मुक्तजीवस्य स्वच्छन्दविहरणादिकं परमार नोऽनुकरणं श्रूयते । तच्च ब्रह्मसाम्यं बोधयहहराकाशाद्ब्रह्मणोऽस्य भिन्नत्वम् स्थापयति ॥ २२॥ अपि च स्मयते ।।३।२३ । मुक्तात्मनोऽपहतपाप्मत्वादिधर्मकत्वं परमात्मनः साधर्म्यमानं स्मृतिरपि में यति । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः' ( गी० १४॥२ ) इति । तस्म हराकाशः परमात्मैव न जीव इति सिद्धम् ॥ २३ ॥ इति दहराधिकरणम् शब्दादेव प्रमितः।१।३ । २४ । काठके-'अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य ततो विजुप्सते एतद्वैतत् (का२१४११२) इत्याम्नायते। अत्र किमहाष्टम प्रथमाध्यायस्य तृतीयः पादः। २३ पुरुषो जीव' उत परमात्मेति संशयः। तत्राङ्गुष्ठमात्र इत्यल्पपरिमाणकथनाज्जीव एवेति पूर्वः पक्षः । अत्राभिधीयते-ईशानो भूतभव्यस्येति स्वरवेणोक्तशब्दादेवात्रा. कुष्ठमात्रः पुरुषः परमात्मा न जीवस्तस्य भूतभव्यस्येशानत्वं न सम्भवति ॥२४॥ हृद्यपेक्षया तु मनुष्याधिकारत्वात् । १।३।२।। अपरिच्छिन्नस्यापि परमात्मनः सर्वगतत्वेनोपासकहृदयेऽवस्थितत्वादङ्गुष्ठमात्र- त्वमपि युज्यते । यत उपासकानां मनुष्याणां हृदयं हि तत्तदुपासकाङ्गुष्ठप्रमितं वर्तत इति तत्रोपास्यतयावस्थितस्य परमात्मनोऽपि तदङ्गुष्ठमात्रत्वमुपासकहृदयापेक्षम् । विधिनिषेधशास्त्राणां मनुष्यमधिकृत्य प्रवृत्तत्वात्तस्यैव चोपासकत्वसम्भवादत्तदङ्गुष्ठ- प्रमितत्वमेवात्र ग्राह्यमिति तत्त्वम् ॥ २५ ॥ इति प्रमिताधिकरणम् । तदुपय॑पि बादरायणः सम्भवात् । १ । ३ । २६ । अथात्र प्रकृतविषये प्रासङ्गिक किञ्चिच्चिन्त्यते । पूर्वत्र मनुष्यमधिकृत्यैव ब्रह्मो पासनशास्त्रप्रवृत्तिरित्यभिहितम् । तत्प्रसङ्गादेवादीनां ब्रह्मविद्यायामधिकारोऽस्ति नवेति संशयः समुदेति । तत्रोपासनोपयोगिकरणकलेवरविधुराणां देवादीनां साम- यार्थित्वयोरभावान ब्रह्मविद्यायामधिकार इति पूर्वः पक्षः । अत्राभिधीयते-'वज्र- हस्तः पुरन्दरः' 'तेनेन्द्रो वज्रमुदयच्छत् , 'तौ हासंविदानावेव समित्पाणी प्रजाप- तिसकाशमाजग्मतुः' (छा ८१२) इत्यादिवैदिकप्रमाणैर्विग्रहादिमत्तया सामर्थ्यस्य सुतरां सम्भवात् । स्वर्गस्यापि सातिशयफलाधायितया सुखदुःखयोस्तेषामनुभवा- सम्प्राप्तदुःखापनुत्तये निरतिशयसुखोपलब्धयेऽर्थित्वस्यापि सम्भवात्प्राग्जन्मन्यभ्य- स्तविद्यायाश्चाविस्मरणा देवादीनामपि तद्ब्रह्मोपासनं सम्भवतीति बादरायण आ- चार्यों मन्यते ॥ २६ ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तदर्शनात् । १।३ । २७ । ननु देवादीनां करणकलेवरादिसत्वे युगपदनुष्ठीयमानेष्वनेककर्मसु सान्निध्यास- म्भवात्कर्मानभावे विरोधः प्रसज्येतेति चेन्न, सम्प्राप्तयौगिकसामर्थ्यानां सौभरिप्रभृ- तीनां युगपदनेकशरीरप्रतिपत्तेर्दर्शनान्न कश्चिद्विरोधः । २७ । शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् । १ । ३ । २८ । नन्वेवमपि वैदिके शब्दे विरोधस्त्वस्त्येव । देवादीनां विप्रहविशिष्टानां सावय- वत्वेन जनिमृतिसत्त्वात् । उत्पत्तेः प्रागर्वाक् च मृतेरथेवैधुर्येऽनित्यत्वं भवेदिति चेन्न, भतो विनष्टार्थकाद्वैदिकादेवादिशब्दात्पुनर्देवाद्यर्थस्य प्रभवात् । इन्द्रादिश- २४ ब्रह्मसूत्रीयवेदान्तवृत्ता- ब्दानां संस्थानरूपाकृत्यभिधायित्वं न पुनर्व्यक्तिबाधकत्वम् । तथा च प्रजापतिर्भ- गवानिन्द्रादिरूपव्यक्तस्सर्गादावभावेऽपि तच्छब्दाभिहिताकृति मनसिकृत्य भूयोऽप्य- न्यामिन्द्रादिरूपां व्यक्तिमुत्पादयति । एतच्च ‘स भूरिति व्याहरत्सभूमिमसृजत' (ते. ब्रा० २ । २ । ४ । २२) वेदेन नामरूपे व्याकरोत्सतासती प्रजापतिः । 'सर्वेषान्तु स नामानि कर्माणि च पृथक पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ( मनु० १।२१) 'नामरूपं च भूतानां कृत्यानाञ्च प्रवर्तनम् । वेदश- ब्देभ्य एवादौ देवादीनाञ्चकार सः' (वि. पु. १।५। ६३) इत्यादिश्रुतिस्मृति- भ्यामवगम्यते । एवञ्च शब्दपूर्वायाः सृष्टः सत्वान्नशब्देऽपि विरोधः । २८ । अत एव च नित्यत्वम् । १।३।२६। वैदिकशब्देभ्यो नित्याकृतिं हृदि निधाय वेधास्तत्तदर्थाश्च संस्मरन् सजतेऽत एव वेदस्य नित्यत्वमुपपद्यते । अत एव 'अस्य महतो भूतस्य निःश्वसितमेतद्यद्द- ग्वेदो यजुर्वेदः 'वाचा विरूप नित्यया' (तै० सं० २ । ६ ११) इत्यादिश्रुतयः सङ्गच्छन्ते । एतदनुरोधेन 'त्रयो वेदा अजायन्त' इत्यादि वाक्यानां प्रादुर्भावमात्रे तात्पर्यमित्यवगन्तव्यम् । २९ । समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्च ।।३।३०। प्राकृतप्रलयेऽपि वेदनित्यताविषये न विरोधः। सृज्यपदार्थानां पूर्वसर्गसमान- नामरूपत्त्वात् । अयम्भावः। सर्वज्ञः सर्वशक्तिः परमपुरुषः प्राकृतप्रलयानन्तरं (सर्गादौ ) जागतिकवस्तुजातं पूर्वनामाकृतिवदेव समुत्पादयति । स्वान्तर्निहितान् गतकल्पीयस्वरवर्णानुपूर्वीमतो वेदानपि पूर्ववदेव चतुर्मुखमुत्पाद्य तमध्यापयति । तद्वाराम्नायसम्प्रदायमविच्छिन्नमेव प्रवर्तयति । एतच्च, 'यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै, 'धाता यथा पूर्वमकल्पयत्' ऋषीणां नामधेयानि यथा वेदश्रुतानि वै। तथा नियोगयोग्यानि ह्यन्येषामपि सोऽकरोत्' (वि.पु. १। ५। ६४) इत्यादिश्रुतिस्मृतिभ्यश्चावगम्यते । तस्मादस्त्येव देवादीनामपि ब्रह्मविद्यायामधिकार इति सिद्धम् । ३० । इति देवताधिकरणम् । मध्वादिग्वसम्भवादनधिकारं जैमिनिः।१।३३१॥ सामान्येन देवादीनामपि ब्रह्मविद्यायामधिकारस्य निर्णीतत्वात्तत्र विशिष्टं विचा- यते । यत्रैकस्या एव देवताया उपास्योपासकत्वं 'असो वा आदित्यो देवमधु' (ला. ३।१।१) इत्यादिषु श्रुतं वत्र तासा देवतानामधिकारोऽस्ति नवेति संशयः।

प्रथमाध्यायस्य तृतीयः पादः। २५ वस्वाद्युपासकानामेव मधुविद्यासूपास्यत्वादुपेयत्वाच्चैकस्या एव कर्मकर्तृत्त्वे विरोधा- दुपास्यत्वासम्भवात् । स्वतः सिद्धस्य वसुत्वादेरेवोपेयत्वेन तस्याप्यसम्भवात्तासु विद्यास्वनधिकारं जैमिनिराचार्यों मन्यते । ३१ । ज्योतिषि भावाच्च ।।।३। ३२। 'तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्' (बृ. ६ । ४ । १४) इति ज्योतिषां ज्योतिः परमात्मा तस्मिन्देवानामुपासकभावेऽपि देवतान्तरोपेयभूतासु मध्वादिविद्यासु वस्वादीनामनधिकारः । ३२ । भावन्तु बादरायणोऽस्ति हि । १।३। ३३ । तुना पक्षो व्यावृत्यते । आदित्यादिदेवानामप्यधिकृतेर्भावं भगवान् बादरायणः प्राह। यत आदित्यादिदेवानामुपासनयाऽदित्यादिप्राप्त्यनन्तरमप्यपरिच्छिन्नसुखा- वाप्तये ब्रह्मप्राप्तीच्छा त्वस्त्येव । ३३ । इति मध्वधिकरणम् । शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ।१।३।३५। मनुष्याणां ब्रह्मविद्यायामधिकारत्वेऽयं संशयः समुदेति यच्छूद्रस्यापि तत्राधि- कारोऽस्ति न वेति । शूदस्याप्यर्थित्वसामर्थ्ययोः सत्वादस्तीति पूर्वः पक्षः । अत्रा- भिधीयते-शूद्रस्य ब्रह्मविद्यायां नाधिकारः । यतश्चोपासनस्य मनोनिर्वय॑त्वेऽप्यनुप- नीतत्वेन वेदान्तवाक्यविचारैकसाध्यायां विद्यायामसामर्थ्यात् । 'नावेदविन्मनुते तम्बृहन्तम्' ( ) 'तं त्वौपनिषदं पुरुषं पृच्छामि' (बृ ३।९।२६) इत्यादिश्रु- तिभिः स्वाध्यायाध्ययनोपजातज्ञानमेवोपासनोपाय इत्याम्नायसमयः। असामर्थ्य चार्थित्वमपि निरर्थकम् । समर्थस्यैवार्थित्वं सफलं भवति । वेदोपबृंहणरूपेतिहासा. दिभ्योऽपि नाऽस्य तथाविधज्ञानोपलब्धिः सम्भवति । 'श्रावयेच्चतुरो वर्णानिस्या- दिवाक्यजातन्तु तस्य निष्कल्मषत्वाय प्रवर्तकम् । विदुरधर्मव्याधादीनां तु जन्मा- न्तरीयबोधोदयाधीनब्रह्मनिष्ठत्वमिति बोध्यम् । राज्ञो जानश्रुतेः 'आजहारेमाः शूद्र (छा० ४।२।५) इति सम्बोधनं न जातिशूद्रयोगेन किन्तु ब्रह्मानुभवाभावेनास्य हृदये शुगुत्पन्नेति । इमं हार्दिकभावमभिदधानो मुनिः स्वस्मिन् सर्वज्ञत्वं ख्याप- यन् शूदेति सम्बोधितवान् । शुक् चास्य हंसोक्तानादरवाक्यश्रवणात् त्तदैव रैक- म्प्रत्याद्रवणात्सूच्यत इत्यतः शूदत्यामन्त्रणं न जन्मसम्बन्धादतः जातिशूद्रस्य ना- स्ति ब्रह्मविद्यायामधिकारः। ३४ । क्षत्रियत्वावगतेश्चात्तरत्र चैत्ररथेन लिङ्गात् । १।३।३५ । ..

२६ ब्रह्मसूत्रीयवेदान्तवृत्तौ- 'जानश्रुतिह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस' ( छा० ४।११) 'स ह सजिहान एव क्षत्तारमुवाच' इति संवर्गविद्यायां जानश्रुतेराख्यायिकाया आ- रम्भे तस्य श्रद्धया बहुदायित्वबहुपक्वान्नदायित्वक्षत्तृप्रेरकत्वगोनिष्करथकन्यादि- प्रदात्तृत्वैश्च क्षत्रियत्वमवगम्यते एवमुत्तरभागे चास्यामेवाख्यायिकायां 'अथह शौनकं च कापेयमभिप्रतारिणञ्च' (छा० ४।३।५) इत्युक्तम् । तत्राभिप्रतारिसज्ञ- कस्य चैत्ररथत्वं क्षत्रियत्वञ्च कापेयसाहचर्य्यरूपलिङ्गादवगम्यते । यतोऽन्यत्र 'ए- तेन चैत्ररथं कापेया अयाजयन्' ( ताण्डय ब्रा० १२१५) इत्यादौ कापेयसहचा. रिणश्चैत्ररथत्वं क्षत्रियत्वञ्च दृष्टम् । एवमस्यां विद्यायां ब्राह्मणक्षत्रिययोरेव प्राधा- न्येन सम्बन्धोऽभिधीयते । अतश्चायं जानश्रुतिर्न जातिशूद्रः । ३५ । संस्कारपरामर्शातदभावाभिलापाच्च । १।३ । ३६ । 'उपत्वानेष्ये' 'न सत्यादगाः' इति तमुपनीय, (छा० ४।४।५) इति ब्रह्म- विद्योपदेशे ह्यपनयनसंस्कारस्य परामर्शाच्छूद्रस्य च 'न शूद्रे पातकं किञ्चिन्न च सं- स्कारमहति' (मनु. १०।१२६ ) इत्यादिभिः संस्कारस्याभावाभिधानान्न तस्य ब्र. ह्मविद्यायामधिकारः। ३६ । तदभावनिर्धारणे च प्रवृत्तेः । १ । ३ । ३७ । 'नैतदब्राह्मणो विवक्तुमर्हति' (छा० ४।४।५ ) इति शूद्रत्वाभावनिर्धारण एव ब्रह्मविद्यायां प्रवृत्तेर्न तत्र शूद्रस्याधिकारः । ३७ । श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च । १ । ३।३-1 'अथ हास्य वेदमुपशृण्वतस्तुपुजतुभ्यां श्रोत्रप्रतिपूरणम् (गोतमस्मृ. ३ १२॥३) शूदसमीपे नाध्येतव्यम्' न शुद्रायमतिं दद्यात्' (मनु. ४१८.) इत्या- दिस्मृतेश्च शूद्रस्य वदेश्रवणादीनां प्रतिषेधात् । अतो न शूद्रस्य ब्रह्मविद्यायामधिकार इति सिद्धम् । ३८ । इत्यपशूद्राधिकरणम् । कम्पनात् । १।३।३३। प्रासङ्गिक विचिन्त्य प्रकृतमनुसरति । 'यदिदं किञ्च जगत्सर्व प्राण एजति निः सुतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति' (का २१३१२) इत्यत्र प्राणशब्दो मुख्यप्राणमभिधत्तेऽथवा जगत्कारणं ब्रह्मेति संशयः । प्राणपदस्य मुख्य- प्राणे प्रसिद्धत्वात्कम्पनधर्मकत्वाच्च प्राणवायुरेवात्राभिधीयत इति पूर्वःपक्षः । सि- द्धान्तस्तु-सर्वचेष्टाहेतुत्व, सर्वोत्पादकत्व वाय्वादिभयकारित्वमुक्तिदत्वादिपरमात्मध- प्रथमाध्यायस्य तृतीयः पादः। र्माणां श्रुतत्वात्परमात्मैवात्र प्राणशब्देनोच्यते । 'प्राणस्य प्राणम्' (बृ. ३।। १५) 'न प्राणेन नाप्राणेन माँ जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेता. चुपाश्रितौ' ( का० २।४।५) इत्यादिश्रुतिषु प्राणपदं परमात्मनि दृष्टम् । तस्मा- परमात्मैवात्र प्राणः । ३९ । इति कम्पनाधिकरणम् । ज्योतिर्दर्शनात् । १ । ३।४०। 'एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेनरूपेणाभि- निष्पद्यते स उत्तमः पुरुषः' (छा० ८।१२।३) इति च्छान्दोग्ये श्रूयते । अत्र ज्योतिः शब्देन सूर्यादितेजोऽभिधीयतेऽथवा ब्रह्मेति संशयः । तत्र ज्योतिःशब्द- स्य तेजसि प्रसिद्धः सूर्यादितेज एवात्र ग्राह्य इति पूर्वःपक्षः । सिद्धान्तस्तु-'एष आत्माऽपहतपाप्मा' इति परं ब्रह्मोपक्रम्य प्रकृतवाक्ये 'परं ज्योतिः' इति ज्यो- तिषः परत्वम्प्रतिपाद्यान्ते 'उत्तमः पुरुषः' इति पुरुषोत्तमत्वाभिधानादत्र ज्योतिः शब्देन परमात्मैवोच्यते ॥ ४० ॥ इति ज्यातिदर्शनाधिकरणम् । आकाशोऽर्थान्तरत्वादिव्यपदेशात् ।१।३।४१ । 'आकाशो ह वै नामरूपयोनिर्वहिता ते यदन्तरा तद्ब्रह्म' ( छा० ८।१०।१) इति च्छान्दोग्ये श्रूयते । अत्राकाशशब्देन भूताकाशो मुक्तात्मा चोत परमात्मा वा प्राह्य इति संशयः । रूढया भूताकाशः प्रकरणेन च मुक्तात्मैव वा ग्राह्यो न परमा- त्मेति पूर्वःपक्षः । अत्राभिधीयते-नामरूपयोनिर्वाहकत्वेन 'तद्ब्रह्म' इति स्पष्टा- भिधानेन चात्राकाशपदवाच्यो भूताकाशमुक्तात्मभ्यामर्थान्तरभूतः परमात्मैव । भू- ताकाशस्य मुक्तात्मनश्च नामरूपान्तर्गतत्वेन तयोर्निवाहकत्वासम्भवात् ॥ ४१ ॥ सुषुप्त्युत्क्रान्त्यो देन । १ । ३ । ४२ । अथ 'तत्त्वमसि' इति सामानाधिकरण्यान्न जीवादर्थान्तरभूतः पर इत्याशङ्का- मपाकरोति । पूर्वसूत्राद्वयपदेशादित्यनुवर्तते । 'प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्य किचन वेदनान्तरम्' (वृ० ४।३।२१) इति सुषुप्तौ 'प्राज्ञेनात्मनान्वारूढमुत्सर्ज- याति' इत्युत्क्रान्तौ च जीवस्य भेदेन व्यपदेशादर्थान्तर एव परमात्मा ॥ ४२ ॥ पत्यादिशब्देभ्यः।१।३ । ४३ । उत्तरत्र सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः' 'एष भूताधिपतिरेष भूत पालः' (बृ. ४।४।२२ ) इति सर्वस्याधिपतित्वभूतपालत्वादिधर्माणां मुक्तजीवेs २८ ब्रह्मसूत्रीयवेदान्तवृत्ती- प्यसम्भवादत्र ततोऽर्थान्तरभूतः परमात्मवाभिधीयत इति ॥४३॥ इत्यर्थान्त- रत्वाद्यधिकरणम् । इति श्रीभगवद्रामानन्दान्वयप्रतिष्ठित श्रीमदनुभवानन्दस्वामिद्वारकेण ब्रह्मवित्स्वामिश्रीरघुवराचार्येण विरचितायां ब्रह्मसूत्रीयवेदान्तवृत्ती प्रथमाध्यायस्य तृतीयः पादः। अथ प्रथमाध्यायस्य चतुर्थः पादः । अनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेदर्श यति च ।।४।१। गतेन प्रन्थेन स्वरूपतश्चिदचिद्विलक्षणं ब्रह्मैव जगत्कारणमित्यवधारितम् । इदा- नी ब्रह्माश्रितप्रकृत्यतिरिक्तस्य कपिलाभिमताव्यक्तादेरप्यभिधायिन्यः श्रुतयः सन्ती. त्यादिरूपाशङ्काया निवारणार्थमारम्भः। काठके-'इन्द्रियेभ्यः परायी अर्थेभ्यश्च परं मनः । मनसस्तु पराबुद्धिर्बुद्धरात्मा महान् परः। महतः परमव्यक्तमव्यक्ता- स्पुरुषः परः । पुरुषान परं किञ्चित्सा काष्ठा सा परागतिः। (का. ११३।११) इत्याम्नायते । अत्राव्यक्तशब्दप्रतिपायं कापिलं प्रधानमुतनेति संशयः। महतः परमव्यक्तमित्यादिकपिलतन्त्रसिद्धतत्वप्रक्रियोपन्यासात्सांख्योक्तं प्रधानमेव तदेव च जगत्कारणमिति पूर्व:पक्षः। अत्राभिधीयते-न साउल्योक्तं प्रधानमिहाभिधीयते । 'आत्मानं रथिनं विद्धि शरीरं रथमेव च, (का० १॥३॥३) इत्यादिभिः प्रागुपास. नोपयोगीन्द्रियवशीकारायात्मशरीरबुद्धिमनइन्द्रियविषया रथिरथसारथिप्रप्रहहयगो- चरत्वेन रूपिताः। तत्रेन्द्रियेभ्यः परा ह्यर्थी इत्यादिभिर्वशीकार्यत्वे परत्वमेकैकशो- ऽभिहितम् । तत्र रथत्वेन रूपितं शरीरमेवाव्यक्तकार्यतयाऽव्यकशब्देन गृहीतम् । अव्यक्तात्पुरुषः परः' इति चोपेयः परमात्मा न तु सांख्योक्तः पञ्चविंशकः पुरुषः । दर्शयति चेममर्थ श्रुतिः ‘यच्छेद् वाङ्मनसि, इति ॥ १ ॥ सुक्ष्मन्तु तदर्हत्वात् । १।४।२। तुनाऽतिव्यक्तस्य शरीरस्य कथमव्यक्तशब्देन ग्रहणमिति शापाक्रियते । अ. व्यक्तशब्दः स्थूलदेहस्य कारणभूतमव्याकृताख्यं शरीरावस्थं भूतसूक्ष्ममभिधते । भूतसक्ष्मापेक्षया स्थूलदेहस्यैव कार्याहत्वादव्यक्तपदेन ग्रहणम् ॥ २ ॥ तद्धीनत्वादर्थवत् । १।४।३। 'यस्य पृथिवी शरीरम्' 'यस्याव्यक्तं शरीरम् (सुवाल ख.) इत्यादि- २० प्रथमाध्यायस्य चतुर्थः पादः । श्रुतिभिरव्ययक्तादेः सर्वस्यापि परमात्माधीनत्वेन तनियम्यत्वनिश्चयात् । परमपु. रुषायत्ताव्यक्तादेरर्थवत्त्वम् । पुरुषः सर्वान्तर्यामी प्राप्यभूत एव पराकाष्ठा पराग- तिरित्युच्यते ॥ ३ ॥ शेयत्वावचनाच्च । १।५।४। प्रकरणेऽस्मिन्नव्यक्तस्य ज्ञेयत्वावचनान्न साङ्ख्योक्तं प्रधानमत्राव्यक्तम् ॥ ४ ॥ वदतीति चेन्न प्राज्ञो हि प्रकरणात् । १।४।५। 'अशब्दमस्पर्शमरूपमव्ययम्' इत्यारभ्य निचाय्य तं मृत्युमुखात्प्रमुच्यते' (का० १।३।१५) इत्येवमव्यक्तस्यापि ज्ञेयत्वं श्रुतिर्वदतीति चेन प्राज्ञः परमात्मैवात्र 'अशब्दमस्पर्श' मित्यनयोच्यते । यतः 'सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्' (का० १।३।९) इति प्राज्ञस्यैव प्रकृतत्वात् ॥ ५॥ प्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।१।४।६। अत्रोपेयोपासनोपासकानां त्रयाणामेव 'येऽयं प्रेते' इत्यारभ्यासमाप्तेरुपन्यासः प्रश्नश्च वर्तते न सांख्योक्तप्रधानादेरतो न तस्य ज्ञेयत्वम् ॥ ६ ॥ महदश्च ।।४।। 'बुद्धरात्मा महान्परः' इत्यत्रात्मशब्दसामानाधिकरण्यासाङ्ख्यीय महत्तत्वं गृह्यतेऽपि त्वात्मैव । तथाऽव्यक्तशब्देनापि न प्रधानं किन्तु शरीरमेव ॥७॥ इत्या- नुमानिकाधिकरणम् । चमसवदविशेषात् । १।४।। 'अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः' (श्वे. ४५) इति श्वेताश्वतरीयाः पठन्ति । अत्र किमजाशब्देग साङ्ख्योकप्रकृतिरुच्यत उत ब्रह्माश्रितेति संशयः । अजेति कथानादकार्यत्वात्स्वातन्त्र्येण बहुप्रजानां कार- णत्वश्रुतेश्च साङ्ख्याभिमता प्रकृतिरेवेति पूर्व:पक्षः । अत्राभिधीयते-नह्यत्र सां- ख्योक्ता प्रकृतिरुच्यते । नचायमजाशब्दस्तत्प्रतिपादकः । यथा 'अर्वाग्विलश्चमसः' (बृ. ४१२१६) इत्यत्र चमनसाधनत्वयोगेन प्रवृत्तस्य चमसशब्दस्य 'यथेदं तच्छिर इत्यादिवाक्यशेषाच्छिरोरूपार्थे निर्णयस्तथा प्रकृते किमप्यर्थ नियामक नास्ति येन साङ्ख्यसिद्धाजाया ग्रहणं भवेत् अतो नात्रसाख्योक्तप्रधानस्य प्रकरणम् ॥ ८ ॥ ज्योतिरुपमा तु तथा ह्यधीयत एके। १।४।। तु रवधारणे । प्रत्युत ब्रह्माश्रितप्रकृतेरेवान प्रहणे प्रकरणसामजस्यम् । 'वं

ब्रह्मसूत्रीयवेदान्तवृत्ती-
देवा ज्योतिषां ज्योतिः' (बृ. ६।४।२) इति ज्योतिः पदवाच्यं ब्रह्मैवोपक्रमः
कारणं यस्याः सेयमिह ब्रह्मशक्तिरजा प्रतिपाद्यते। उपक्रमे 'किं कारणं ब्रह्म
(श्वे १११) देवात्मशक्तिं स्वगुणैर्निगूढाम्' (श्वे १।३) इति ब्रह्मोपक्रमाद्यजा
स्वकीयगुणत्रयैः समन्विता दृश्यते । एवमुपसंहारे 'आस्मान्मायी सृजते विश्वमेत-
त्तस्मिंश्चान्यो मायया सन्निरुद्धः' (श्वे ॥९) इति ब्रह्मात्मिकामजामेव 'अजा-
मेका मिति मन्त्रोदिताजावद्वर्णयति । एके हि शाखिनश्छद्रोगाः 'अजामेकामिति
मन्त्रोदिताजारूपवद्ब्रह्मकारणिकायाः प्रकृतेः स्वरूपमधीयते । तदैवत बहुस्याम्प्र-
जायेय, इत्युपक्रम्य 'यदग्ने रोहितं रूपम्' (छा० ६।४।१) इत्यादिभिः ।
तस्मान्न सांख्यतन्त्रीयप्रधानस्यात्र ग्रहणम् ॥ ९॥
कल्पनोपदेशाच्च मध्वादिवदविरोधः।१।४।१०।
ननु ब्रह्मकारणिकायास्तस्याः कथमजात्वमित्याह-कल्पनौपदेशादिति । चश-
ब्दः शङ्कां समुच्छिनत्ति। कल्पनायाः सृष्टेः 'अस्मान्मायी सृजते विश्वमेतत्'
(श्वे. ४।९) इत्यादिभिरुपदेशादस्याः सृष्टौ नामरूपे दधानाया ज्योतिरुपक्रमात्वं
प्रलये च नामरूपे परिहाय सूक्ष्मतां दधानाया ब्रह्मशरीरतयाऽवस्थितत्वादजात्वम् ।
इत्युभयस्याविरोधः यथा 'अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेता' (छा० १॥
११) इत्यादौ श्रूयमाणस्यादित्यादेः सूक्ष्मतया कारणरूपेणावस्थितस्यैव 'असो वा
आदित्यो देवमधु' ( छा० ३।१।१ ) इति कार्यावस्थायां मधुत्वं तद्वत् ॥ १० ॥
इति चमसाधिकरणम् ।
न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च । १४।११।
'यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः। तमेव मन्य आत्मानम् (बृ.
४१४१७ इति बृहदारण्यके श्रूयते । अत्र सांख्यतत्वानि ग्राह्याणि नवेति संशयः।
पञ्चशब्दविशेषितपञ्चजनशब्दवृत्तिसंख्यया पञ्चविशंतितत्वप्रतिपत्तौ कापिलतन्त्रो-
क्ततत्वान्येव प्राह्याणीति पू:पक्षः । अत्राभिधीयते-सङ्ख्यानुसारिपञ्चविंशतिस-
ख्योपसङ्ग्रहादपि न कापिलतत्वानीहगृहीतुं शक्यते । कापिलतन्त्रीयतत्वेभ्य एषां
पृथक् भावात् । 'यस्मिन्' इत्याधारतया ब्रह्मण आकाशस्य च पार्थक्येनोपादानात् ।
एवं चात्र न समाहारः किन्तु 'दिक्सङ्ख्ये (पा० सु. २।१।१०) इति संज्ञास
मासः । सप्तर्षयः सप्तेतिवत् पञ्चजनाः पञ्चेत्युच्यते । तस्मान्नात्र सांख्यत-
त्वप्रतिपादनम् ॥ ११॥

प्रथमाध्यायस्य चतुर्थः पादः । ३१ प्राणादयो वाक्यशेषात् । १।४। १२ । पञ्चजनसंज्ञिताः पञ्च के सन्तीत्याह-प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रमुतान्नस्यान्नं मनसो ये मनो विदुः' (बृ० ४।४।१८) इति वाक्येशेषात् प्राणा- दय एव पञ्च पञ्चजनशब्देन गृह्यन्ते ॥ १२ ॥ ज्योतिष्यकेषामसत्यन्ने ।१।४।१३। तत्र काण्वशाखिनामन्नेऽसति 'तद्देवा ज्योतिषां ज्योतिः' (बृ ४।४।१७) इति माध्यन्दिनीयोपक्रमवाक्यस्थेन ज्योतिःशब्दार्थेन पञ्चसङ्ख्या सम्पादनीया । ब्रह्मात्मकानि पञ्चेन्द्रियाणीत्यर्थः। तत्र तन्त्रेणान्नशब्देन रसनघ्राणयोर्ग्रहणम् । अतः प्रकृतश्रुतौ पञ्चेन्द्रियाणि भूतानि स परस्मिन्नेव ब्रह्मणि प्रतिष्ठितानीति नात्र साङ्ख्यतत्वसङ्ग्रह इति ॥ १३ ॥ इति साङ्ख्योपसंग्रहाधिकरणम् । कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तेः । १।४१४ । जगत्कारणबोधकवेदान्तैः कारणत्वेन साङ्ख्योक्तं प्रधानं प्रतिपाद्यत उत ब्रह्मोति संशयः। तत्र 'असद्वा इदमग्र आसीत्' (तै० २।७) 'सदेव सोम्येदमग्र आसीत्' (छा० ६।२।३) 'एतस्मादात्मन आकाशः सम्भूतः' ( तै० २११) ब्रह्म वा इदमग्र मासीत् (बृ. १।४।११) तद्धदं तह्य व्याकृतमासीत्' (वृ० १।४।७) इत्यादिषु कारणवाक्येषु क्वचिदसतः क्वचित्सतः क्वाचिदात्मनः क्वचिद्ब्रह्मणः क्वचिञ्चाव्याकृतपदवाच्यस्य प्रधानस्येति विभिन्नेषु श्रूयमाणेषु करणेष्वपि प्रधा- नस्यैव बाहुल्येन निर्देशात् तदेव प्रतिपाद्यत इति पूर्वःपक्षः। अत्राभिधीयते-'त- स्माद्वा एतस्मादात्मन आकाशः सम्भूतः' (ते. २ । ७) इत्याकाशादिषु सर्वश- क्तेः परमात्मनः कारणत्वेन निश्चयात् समस्तेषु सृष्टिवाक्येषु यथाव्यपदिष्टस्यैव कारणत्वेनोक्ते ब्रह्मव जगत्कारणवादिवाक्यैः प्रतिपाद्यते । असदव्याकृतपदानि तु कारणावस्थायामविभक्तनामरूपसम्बन्धितया तदवस्थंब्रह्मवाभिदधत इति तत्त्वम्॥ समाकर्षात् । १।४ । १५ । 'असद्वा इदमप्र आसीत्' (तै० २.५) इत्यादौ तु 'सोऽकामयत बहुस्याम्प्रजा- येय' (ते. २ । ६ ) इति सङ्कल्प र्विकां सृष्टिं कुर्वतः सर्वशक्तेः सर्वज्ञस्य ब्रह्मणः समाकर्षाशानुपपत्तिः । एवमन्यत्रापि समाकर्षों बोध्यः । १५ । इति कार- णत्वाधिकरणम् । जगद्वाचित्वात् । १।५१६ । 'यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वै तत्कर्म स वै वेदितव्यः' (कौषी.

३२ ब्रह्मसूत्रीयवेदान्तवृत्तौ- ब्रा• ४ । १८) इति कौषीतकि ब्राह्मणे श्रूयते । अत्र वेदितव्यः सारख्यपुरुष आ- होस्वित्परमात्मेति संशयः । पुण्यापुण्यरूपस्य कर्मणः कर्तृतया विशुद्धः पुरुष एवात्र वेदितव्य इति पूर्वःपक्षः। अत्राभिधीयते-प्रकृते कर्मपदस्य जगद्वाचित्वात् 'यस्य वैतत्कर्म, इति वेदितव्यस्य जगत्कर्तृत्वेन परमात्मैवात्र वेदितव्यः। पुरुषस्य सां- ख्यमते कर्तृत्वानभ्युपगमान्नात्र वेदितव्यत्वेनोपदिष्टः पुरुषः । १६ । जीवमुख्यप्राणलिङ्गान्नेतिचेत्तद्वयाख्यातम् । १ । ४ । १७ । ननु 'एवमेवेष प्राज्ञ आत्मतैरात्मभिर्मुक्ते (कौ० ४ । २०) 'अथास्मिन् प्राण एवैकधा भवति, (को० ४ । १९ ) इति जीवस्य मुख्यप्राणस्य च लिगा- न्नात्र परमात्मोच्यत इति चेन्न एतत्प्रतर्दनाधिकरणे 'उपासात्रैविध्या, दित्यादिना व्याख्यातम् । पूर्वापरसन्दर्भविचारे जीवमुख्यप्राणलिङ्गानामुपासनार्थ परमात्मनि समन्वय इति व्याख्यातमित्यर्थः । १७ ॥ अन्यार्थन्तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चवमेके । १।४।१८ । प्रकरणेऽस्मिन्नुपलभ्यमानानां जीवलिङ्गानां कथं परमात्माभिधायित्वमिति शकी तुशब्दो व्यवच्छिनत्ति । 'कैष एतद्बालाके पुरुषोऽशयिष्ट क वा एतदभूत् कुत एतदागात' (को० ४ । १८) इति प्रश्नस्तद्व्याख्यानं 'तं होवाचाजातशत्रुर्यत्रेष एतद्वालाके पुरुषोऽशयिष्टेत्यारभ्य 'यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकथा भवति' ( कौ० ४ । १८) इत्यादिकमुक्तम् । आभ्यामचि पदेहा- द्विभश्चिद्रूपो जीवस्तद्भि स्तदाधारस्वरूपः परमात्मा च प्रतिपादितः। अत्र च जीवपरामर्शस्तदाधारभूतब्रह्मस्वरूपबोधनार्थमेवेति जैमिनिराचार्यों मन्यते। एके वाजसनेयिनोऽपि, एवमेव जीवाद्भिन्न तदाधारभुतं ब्रह्म पठन्ति । य एष विज्ञान- मयः पुरुषः क्वैष तदा त्' ( वृ० २ । १ १६) 'य एषोन्तर्हृदयाकाशस्तस्मिन् शेते' (बृ. २ । १।१७) इति । १८ । हात जगद्वाचित्वाधिकरणम् । वाक्यान्वयात् । १।।१४। "आत्मा वारे दृष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (ऋ० २॥४॥५) इति वाजसनेयिनोऽधीयते । अत्र दृष्टव्यत्वेनोपदिष्टो जीवः परमात्मा वेति संशयः। तत्र पतिजायापुत्रवित्तादिजीवभोग्याना पदार्थानामत्राभिधानात्परमात्मपदाश्रवणाच साङ्ख्योक्तपुरुषपदामिलप्यो जीव एव दृष्टव्यत्वेनोपदिष्ट इति पूर्वः पक्षः । अत्राभि- धीक्ते-अमृतस्य तु नाशास्ति वित्तेन' (बृ. २४॥२) 'आत्मनो वारे दर्शनेन प्रथमाध्यायस्य चतुर्थः पादः । ३३ श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्' (बृ० २।४॥५) 'येनेदं सर्व विजानाति त केन विजानीयात्' (बृ० २।४।१२) इत्यादिसमस्तप्राकरणिकवाक्यानां परमात्म- न्येवान्वयादत्र दृष्टव्यत्वेनोपदिष्ट आत्मपदाभिधेयः परमात्मैव ॥ १९ ॥ प्रतिज्ञासिद्धलिङ्गमाश्मरथ्यः । १।४ । २० । जीवाभिधायिनाऽत्मशब्देनात्र परमात्मन एव ग्रहणमित्यर्थ आचार्यान्तरमत- मभिधत्ते। आत्मनो वारे दर्शनेनेत्यारभ्य 'इदं सर्वं विदितम्' (बृ० २१४१५) इत्यन्तया श्रुत्यैकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धरिदं लिङ्गं यत्परमात्मनो जीववाच- कात्मशब्देनाभिधानम् । जीवस्य ब्रह्मकार्यत्वेन तदनन्यत्वादेकविज्ञानेन सर्वविज्ञान- प्रतिज्ञोपपद्यते इत्याश्मरथ्य आचार्यों मन्यते । २० । उत्क्रमिष्यत एवं भावादित्यौडुलोमिः।१।४। २१ । 'परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' (छो० ८।३।४) इति जी. वस्य शरीरादुत्क्रमिष्यतः परमात्मभावाज्जीवशब्देन प्रकृते परमात्माभिधीयत इ- त्यौडलोमिराचार्यों मन्यते ॥ २१ ॥ अवस्थितेरिति काशकृत्स्नः । १ । ४ । २२ । 'य आत्मनि तिष्ठन्' (बृ. ३।१३२।) इत्यादिश्रुतिभिर्जीवात्मतया परमा- त्मनः शरीरात्मभावेनावस्थितरत्र जीवात्मशब्देन परमात्माभिधीयत इति काश- कृत्स्न आचार्यों मन्यते । काशकृत्स्नमतमेव सूत्रकाराभिमतम् । पूर्वोदितयोर्मतयो- र्दोषावहत्वात् ॥ २२ ॥ इति वाक्यान्वयाधिकरणम् । प्रकृतिश्च प्रतिज्ञा दृष्टान्तानुपरोधात् । १।४। २३ । किमस्य जगतो हिरण्यगर्भायभिमतमीश्वराधिष्ठितं प्रधानमुपादानकारणमुत ब्रह्मैवेति संशयः । लोके तावत्कुलालमृत्तिकयोनिमित्तोपादानयोर्भेदो दृश्यते । स्त्रेऽपि 'अस्मान्मायी सृजते विश्वमेतत्' (श्वे० ४१९.१०) 'भयाध्यक्षेण प्रकृतिः सयते सचराचरम्। (गी० ९.१०) इत्यादिभिर्भेदाभिधानान्निमित्तकारणेश्वराधि- ष्टितं प्रधानमेवोपादानं न ब्रह्मेति पूर्वः पक्षः। अत्राभिधीयते प्रकृतिश्चेति-चोऽ प्यर्थः-उपादानकारणमपि ब्रह्मैव न पराभिमता प्रकृतिः। एतच्च प्रतिज्ञादृष्टान्ता- नुपरोधाज्ज्ञायते । तत्र 'येनाश्रुतं श्रुतमित्येकस्य विज्ञानेन सर्वविज्ञानप्रतिज्ञा हि वे- दान्तेषु श्रूयते । इयञ्च ब्रह्मण उपादानमन्तरेण नोपपद्यते । न हि निमित्तभूतस्य कुलालस्य ज्ञानेन मृत्स्वरूपं ज्ञातं भवति । एवं ब्रह्मणोऽनुपादानत्वे 'यथा सोम्यकेन शा- ३ब्रह्म ब्रह्मसूत्रायवेदान्तवृत्तौ- मृत्पिण्डेन सर्व मृण्मयम्' (छा० ६।१।४) इत्यादिदृष्टान्तोपपादनमप्यसंगतं स्यात् तस्मात्प्रतिज्ञाया दृष्टान्तस्यचानुपरोधाद्धेतोर्ब्रीव केवलं जगतो निमित्तमुपादानञ्च २३ अभिध्योपदेशाच्च । १।४।२३। 'सोऽकामयत बहुस्याम्प्रजायेय' ( तै० २।६) इति ब्रह्मण एव बहुभवनस- ङ्कल्पोपदेशाच्च निमित्तोपादानञ्च ब्रह्मैव ॥ २४ ॥ साक्षाच्चोभयाम्नानात् । १।४।२५ । 'ब्रह्मवनं ब्रह्म स वृक्ष आसीत् ब्रह्माध्यतिष्ठभुवनानि धारयन्' (अष्टक २ ८७८) इति साक्षादुपादानं निमित्तञ्चाम्नानादुभयकारणं ब्रह्मैव ॥ २५ ॥ आत्मकृतेः । १।४।२६ । 'तदात्मानं स्वयमकुरुत' ( तै० २।७ ) इति सृष्टुरेव जगद्रूपेण कृतेरुपदेशा. दुभयं ब्रह्म ॥ २६ ॥ परिणामात् ।।४।२७ । 'सोऽकामयत बहुस्याम्प्रजायेय' ( ते २।६ ) इति कारणावस्थस्याविभक्तना मरूपात्मकसूक्ष्मचिदचिद्विशिष्टस्य ब्रह्मणो निरुक्तञ्चानिरुक्तञ्च निलयनचानिलयनश्चवि- ज्ञानञ्चाविज्ञानञ्च सत्यञ्चानृतञ्च सत्यमभवत् यदिदं किञ्च? (ते २१६) इति विभ- कनामरूपात्मकस्थूलचिदचिच्छरीरतया परिणामादुभयकारणं ब्रह्मैव ॥ २७ ॥ योनिश्च हि गीयते । १।४।२८ । 'तद्भुतयोनिम्। (मु१ ११११६) इति भूतयोनिशब्देन ब्रह्मैव गीयते तस्मा- ज्जगदुपादानं निमित्तञ्च ब्रह्मैव ॥ २८ ॥ एतेन सर्व व्याख्याता व्याख्याताः । १।५।२४ । एतेन 'जन्मायस्य यतः' (ब्र० सू० १११।२) इत्यारभ्य 'योनिश्च हि गी- यते' (ब्र० सू० १।४।२८) इत्यन्तेन श्रुत्यर्थचिन्तनीयन्यायकलायेन 'सर्वे वेदा- न्ता व्याख्याता वेदितव्याः । 'सर्वे वेदा यत्पदमामनन्ति (का० १।२।१५) इत्यादि श्रुतेः सर्वेषां वेदान्तानां परब्रह्मणि श्रीराम एव समन्वय इति भावः । द्वि- रुतिरध्यायसमाप्त्यर्था ॥ २९ ॥ इति सर्वव्याख्यानाधिकरणम् । इति श्रीमद्भगवद्रामानन्दान्वयप्रतिष्ठितश्रीमदनुभवानन्दस्वामिद्वार- केण ब्रह्मवित्स्वामिश्रीरघुवराचार्येण विरचितायां ब्रह्मसूत्रीय- वेदान्तवृत्तौ प्रथमाध्यायस्य चतुर्थः पादः।

द्वितीयाध्यायस्य प्रथमः पोदः। ३५ अथ द्वितीयाध्यायस्य प्रथमः पादः । स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात्।।१।१। प्रथमाध्यायेन चिदचिच्छरीरकं परम्ब्रह्मवाखिलजगदेककारणमित्यभ्यधायि । अधुनानेनाविरोधाख्येन द्वितीयाध्यायेनान्यस्मृतिविरोधः परिहियते । तत्रानेन प्रथम पादोयादिमाधिकरणेन कपिलस्मृतिविरोधो वार्यते । अत्र सांख्यस्मृत्यनुसारेण वेदा- न्तसमन्वयोऽस्ति नवेति संशयः। पूर्वपक्षस्तु-स्मृत्युपबृंहणमन्तरेण वेदार्थस्या. निर्णयात् तदर्थं साङ्ख्यस्मृतेः परतत्वमधिकृत्यैव प्रवृत्तत्वात्तदनुसारेणैव वेदान्तानां समन्वयः सम्पायः। अन्यथा साङख्यस्मृत्यनवकाशदोषप्रसङ्ग स्यादिति । अत्राभि- धीयते सिद्धान्तः। नेति-वेदान्तसमानार्थाभिधायिनीभिः परमाप्तमन्वादिप्रणीतस्मृति- भिरेवोपबृंहणस्यौचित्यात् । अन्यथा बहूनां मन्वादिस्मृतीनामनवकाशदोषप्रसङ्गोऽ- निवार्यःस्यात् । न च धर्माभिधाने तासां चारितार्थ्यमिति वाच्यम् । परमात्मोपास- नात्मक एव धर्मस्तस्य चोक्तार्थ एव सामञ्जस्यम् । १ । इतरेषाञ्चानुपलब्धेः । २।१।२। इतरेषां वेदतत्वविदां 'यद्वै मनुरवदत्तद्धेषज' मिति श्रुत्युपगीतमहिम्नां मन्वा- दीनां प्रधानकारणवादित्वानुपलब्धेः कपिलस्मृत्यनुसारेण न वेदान्तसमन्वयः। २। इति स्मृत्यधिकरणम् । एतेन योगः प्रत्युक्तः ।२।१।३। किं योगशास्त्रानुसारेण वेदान्तानां समन्वयोऽस्ति नवेति संशयः। योगस्येश्व-. राङ्गीकर्तृहिरण्यगर्भादिवेदाचार्यप्रणीतत्वात्तदनुसारेणैव वेदान्तसमन्वय इति पूर्वः पक्षः सिद्धान्तस्तु-हिरण्यगर्भादेरपि जीवत्वेन भ्रान्तिसम्भवात् वेदविरुद्धार्थप्रतिपादकत्वाच न तदनुसारेणापि वेदान्तसमन्वयः । अत एतेन साङ्ख्यस्मृतिनिराकरणेन योगोऽपि प्रत्युक्तो वेदितव्यः ॥ ३ ॥ इति योगप्रत्युक्त्यधिकरणम् । न विलक्षणत्वादस्य तथात्वञ्च शब्दात् । २।१।४। किं वेदान्तैर्जगतः प्रधानकार्यता प्रतिपाद्यत आहोस्विद्ब्रह्मकार्यतेति संशयः। तत्राज्ञत्वेन विकारास्पदत्वेन चिदचिदात्मकस्यास्य जगतो निरतिशयानन्दस्वरूपा. ट्रमाणो विलक्षणत्वात्तत्कार्यस्त्वं न सम्भवति । तथा वैलक्षण्यं न केवलं प्रत्यक्षतोऽव- गम्यतेऽपितु 'विज्ञानश्चाविज्ञानञ्च' (तै ३ । ६ । ३) 'ज्ञाज्ञौ द्वावजावीशानीशौर ब्रह्मसूत्रीयवेदान्तवृत्तौ- (श्वे.) इति शब्दादवगम्यते ॥ ४ ॥ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् । २ । १ । ५। ननु 'तं पृथिव्यब्रवीत्' (प्रश्न २ ) इति पृथिव्यादेरपि ज्ञानकार्य दृश्यत इति चेन्न, तुना शङ्कापनोद्यते 'हन्ताहमिमास्तिस्रो देवता, (छा ६ । ३।१) इति पृथिव्यादेर्दैवताशब्देन विशेषितत्वात् तम्पृथिव्यब्रवीदित्यादौ तदभिमानिदेवतानां व्यपदेशः । 'अग्निवाग्भूत्वा मुख प्राविशत् (ऐ. २ । ४) इत्यादिषु श्रूयमाणा- तुगतेश्च ॥ ५॥ दृश्यते तु । २।१।६। एवं सूत्रद्वयेन पूर्वपक्षमुत्थाप्य समाधत्ते । तुशब्दः पक्षपरिवर्तने। गोमय- माक्षिकादिभ्यो विलक्षणजन्तूनामुत्पत्तेर्ब्रह्मविलक्षणस्याप्यस्य जगतो ब्रह्मकार्यत्वं युज्यत एव ॥६॥ असदिति चेन्न प्रतिषेधमात्रत्वात् । २।१।। नन्वस्य जगतः कारणभूताब्रह्मणो वैलक्षण्यमेव चेत्तदास्य द्रव्यान्तरत्वेन ब्रह्म- ण्यसत्त्वादसदुत्पत्तिवादप्रसङ्ग इति चेन्नोदीरितसूत्रे कार्यकारणयोस्सालक्षण्यमेव भवतीति नियमस्य प्रतिषेधमात्रत्वात सालक्षण्याभावेऽपि मृद्धटयोरिव कार्यकारण- योरन्यत्वन्तु विद्यत एव । तथा च नासद्वादप्रसङ्ग इति भावः ॥ ७ ॥ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् । २।१।। भूयश्शङ्कयते । ननु यदि ब्रह्मेब जगदाकारेण परिणतञ्चेत्तदा ह्यपी तावुत्पत्तौ जगद्धर्मणामज्ञत्वविकारित्वादीनां ब्रह्माणि प्रसङ्गात् 'अपहतपाप्मा विजरो विमृत्युः' 'यः सवज्ञः सर्वविद्' (मु० १।१।९) इति ब्रह्मणो निर्विकारित्वायभिधाथिवे. दान्तशास्त्रमसमञ्जसं स्यात् ॥ ८॥ न तु दृष्टान्तभावात् । २।१।। तुना शङ्का निवार्यते । न वेदान्तस्यासामञ्जस्यम् । यत एकस्य ब्रह्मणोऽव- स्थाद्वययोगेऽपि गुणदोषव्यवस्थितौ 'यथा सर्वगतः सौषम्यादाकाशो नोपलिप्यते । शरीरस्थोऽपि कौन्तेय ! तथात्मा नोपलिप्यते' (गी०) इत्यादिदृष्टान्तस्य सद्भा. बात् । यथा बालत्वादयो धर्माः शरीरेऽन्विता न जीवे, ज्ञानसुखादयश्च जीवधर्मा जीव एव न शरीरे तथा चिदचिच्छरीरकस्य ब्रह्मणः कर्मवश्याज्ञत्वादयो धर्मास्तद्वि- शेषणीभूतचिदचिद्वस्तुन्यन्विता न ब्रह्मणि । चिदचिद्वस्युशरीरकत्वन्तु ब्रह्मणो 'यस्य द्वितीयाध्यायस्य प्रथमः पादः । ३७ पृथिवी शरीरम्' ( ३० ३ । ७।३ ) इत्यादिश्रुतिशतैर्निश्चितम् ॥ ९ ॥ स्वपक्षदोषाच्च । २ । १ । १० । प्रधानस्य निस्सङ्गपुरुषसशात्प्रवृत्तिरिति स्वीकारे दोषबाहुल्यात्तत्पक्षोऽनुपादेयः । दोषराहित्याच वेदान्तपक्ष एव समाश्रयणीयः ॥ १० ॥ तर्काप्रतिष्ठानादपि । २।१।११ । प्रधानकारणवादिकपिलमतस्य तर्कैकसाध्यतयाऽप्यनुपादेयत्वम् । यतस्तर्काणां प्रबलेन तर्कान्तरेणाप्रतिष्ठितत्वदर्शनात् ॥ ११॥ अन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः ।२।११ १२ । ननु प्रबलतकैरप्रतिहतियथा भवेत्तथा प्रतिष्ठिततर्कानबलम्ब्य प्रधानस्य कार- णत्वं व्यवस्थापयिष्यत इति चेदेवमपि तर्काप्रतिष्ठितत्वदोषादविमोक्षप्रसशस्त्ववश्य- म्भाबी । ततोऽप्यधिकोत्कृष्टतर्काणामपि सम्भवात् ॥ १२ ॥ इति विलक्षणत्वा- धिकरणम् ॥ एतेन शिष्टापरिग्रहा अपि व्याख्याताः ।२।१ । १३ । एतेन कापिलस्मृत्यपाकरणेन परिशिष्टाः । अत्र संशयस्तु परमाण्वादि जगत्का- रणं सम्भवति नवेति। परमाणुकारणवादस्य सत्तर्कमूलत्वाज्जगत्कारणत्वं सम्भवतीति पूर्वः पक्षः। सिद्धान्तस्तु-वैदिकाऽपरिग्रहाः कणादगोतमादिस्मृयतोऽप्यपाकृता व्याख्याताः । प्रबलतकैरप्रतिष्ठितत्वं तत्रापि समानम् ॥ १३ ॥ इति शिष्टापरिग्र- हाधिकरणम् । भोक्त्रापत्तरविभागश्चेत्स्याल्लाकवत् । २।१।१४। परमात्मनः स्वशरीररूपजीवाद्विभागोऽस्ति न वेति संशयः। सर्वशरीरस्य पर- मात्मनो न तच्छरीरभूताज्जीवाद्विभागः सम्भवति । जीववच्छरीरित्वाविशेषादिति पूर्वः पक्षः । सिद्धान्तस्तु-स्यादेव विभागो लोकवत् । जीवस्य कर्मवश्यतया शरी- रयोग इति सुखदुःखादिभोक्तृत्वं सम्भवत्येव परस्य त्वकर्मवश्यतया शरीरयोगेऽपि न तत्सम्भवः । कर्मवश्यत्वप्रयुक्तं सुखदुःखादिभोक्तृत्वं न शरीरप्रयुक्तमिति तत्वम् ॥१४॥ इति भोक्त्रापत्यधिकरणम् । तदनन्यत्वमारम्भणशब्दादिभ्यः । २0१। १५ ! किं ब्रह्मणस्तत्कार्यभूतं जगदन्यदुतानन्यदिति संशयः। तत्र कार्यकारणयोर्बु- दर्भेदान्मृगव्यं कारणं घटः कार्यमितिशब्दभेदाचान्यदेव ब्रह्मणो जगदिति पूर्वः पक्षः . .

३
ब्रह्मसूत्रीयवेदान्तवृत्तो-
अत्राभिधीयते-'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' (छा ६३२११)
'ऐतदात्म्यदिदं सर्वं तत्सत्यं स आत्मा तत्वमसि' ( छा० ६॥८॥७) 'सर्वं खल्विदं
ब्रह्म तज्जलानिति' (छा ३।१४।१ ) इत्यादिश्रुतिशब्देभ्यः कारणाद्ब्रह्मणः का-
यभूतस्य जगतोऽनन्यत्वम् । बुद्धिशब्दान्तरादीनान्तु कारणस्यैवावस्थान्तरापत्या
सुतरामुपपत्तिः । अतः कारणाद् ब्रह्मणो जगदनन्यदिति ॥ १५ ॥
भावे चोपलब्धेः।२।१ । १६ ।
कटकादिकार्यभावेऽपि तदेवेदं सुवर्णम्' इति व्यवहारात्तदवस्थायामपि कार-
णस्योपलब्धेश्वानन्यत्वं कारणभूताद्ब्रह्मणः कार्यस्य जगतः ॥ १६ ॥
सत्वाच्चावरस्य।२।१। १७ ।
अवरस्य कटकादेस्तदुत्पत्तेः प्रागपि सुवर्णादौ सत्वादनन्यत्वं तद्वदेव कार्यस्य
जगतोऽपि कारणभूताब्रह्मणोऽनन्यत्वमेव ॥ १७ ॥
असद्वयपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् । २।१।१८ ।
यदुक्तं कारणे कार्यस्य प्रागपि सत्वमस्ति । तदयुक्तम् । 'असदेवेदमन आसो.
त्' (छा ६।२।१) 'इदं वा अग्रे नैव किञ्चनासीत्' ( यजुः) इत्यादिश्रुतिभिः
कार्यस्यासत्वव्यपदेशादिति चेन्न, तदानीं कार्यस्य सूक्ष्मावस्थारूपधर्मान्तरेण युक्त.
त्वादसदिति व्यपदेशः। नत्वन्त्यन्तासत्व एब कार्यस्य तथा व्यपदेशः । एतच्च
'वाक्यशेषादवगम्यते । तस्मादसतः सज्जायते' (छा ६।२११) 'ततो वै सदजा-
यत' तदात्मानं स्वयमकुरुत' (ते. २७ ) इति समानप्रकरणे वाक्यशेषान्नात्य.
न्तासत्वं कार्यस्याभिधीयते । नही तादृशादसतः सृष्टिः सम्भवति । तस्मादत्रास-
त्पदेनाव्याकृतनामरूपतयाऽव्यापदेश्या सूक्ष्मावस्था प्रोच्यते ॥ १८॥
युक्तेः शब्दान्तराच्च । २।१ । १६ ।
असतः सदुत्पत्तौ कारणसामग्यभावेऽपि कार्योत्पत्तिजायतामसत्वाविशेषान्न-
त्वेवं दृश्यते । तस्मादसच्छब्दः सूक्ष्मावस्थापर एव । 'सदेव सोम्येदमन आ-
सीत् (छा ६।२।१) इति शब्दान्तराच्च कारणे कार्यस्य सूक्ष्मतयावस्थानमि-
त्यवगम्यते ॥१९॥
पटवच्च।२।१।२०।
यथा तन्तव एव विलक्षणसंयोगवन्त पट इति कार्यावस्था दधते । एवं सूक्ष्म-
चिदचिच्छरीरकं ब्रह्मापि जगद्रूपकार्यत्वं पत्ते ॥२०॥

द्वितीयाध्यायस्य प्रथमः पादः । ३६ - .. यथा च प्राणादिः।२।१। २१ । यथा चैक एव वायुः प्राणापानादिनामरूपकार्यवान् भवति तथा ब्रह्मापि । तस्माद्ब्रह्मानन्यत्वं जगतस्सिद्धम् ॥ २१॥ इत्यारम्भणाधिकरणम् । इतरव्यपदेशाद्धिताकरणादिदोष प्रसक्तिः। २।। २२ । जगद्ब्रह्मणोरनन्यत्वेऽपि जगत्कारणता ब्रह्मण्यक्षतैवेति विचार्य्यते । तत्र जग- त्कारणत्वं ब्रह्मणः सम्भवति न वेति संशयः। 'तत्वमसि' इत्यादि श्रुतिभिर्जीव- ब्रह्मणोः सामानाधिकरण्यदर्शनाज्जगत्सृष्टेब्रह्माभिन्नजीवक्लेशदायितया स्वाहिता- करणादिरूपदोषप्रसमात्सर्वज्ञस्य ब्रह्मणो जगत्कारणत्वं न सम्भवतीति पूर्वः पक्षः ॥ २२ ॥ अधिकन्तु भेदनिर्देशात् । २ । १।२३। अत्राभिधीयते सिद्धान्तः । सूत्रे तु शब्दः पूर्वपक्षव्यावर्तकः। अधिकमर्था- न्तरमेव जीवाद्ब्रह्मेति श्रुतिसम्मतम् । 'सकारणं करणाधिपाधिपः, (श्वे०६९) 'ज्ञाज्ञौ द्वावजावीशानीशौ' ( श्वे. १९) 'तयोरन्यः पिप्पलं स्वाद्वत्ति, (मु० ३।१।१) 'प्रधानक्षेत्रज्ञपतिर्गुणेशः, (श्वे ६।१६) 'पृथगात्मानं प्रेरितारञ्च मत्वा' ( श्वे ११६) इत्यादिश्रुतिभिस्तयोर्भेदनिर्देशात् ॥ २३ ॥ अश्मादिवच्च तदनुपपत्तिः।२।१।२४। यथाश्मादेजंडवस्तुनो ब्रह्मणा सह स्वरूपेणैक्यं नोपपद्यते तथा जीवस्यापि क- मैपरवशतयाऽज्ञत्वनियाम्यत्वादिधर्मभृतोऽपहतयाप्मत्वसर्वेश्वरादिनित्यधर्मवता पर- मात्मना सह स्वरूपेणैक्यं नोपपद्यते । 'तत्वमसि, इत्यादौ सामानाधिकरण्यन्त्वा- त्मशरीरभावेनैति मन्तव्यम् ॥ २४ ॥ इतीतरव्यपदेशाधिकरणम् । उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ।२।१। २५ । प्रकारान्तरेणाशङ्कय समाधत्ते । तत्रायं संशयः ब्रह्मणो जगत्कर्तृत्वं सम्भवति न वा ? कार्योत्पादनदक्षस्याप्यनेकसाधनसाहाय्यमावश्यकम्भवति । विभिन्नसंस्था- नकस्यास्य जगतः समुत्सादनेऽसहायस्य ब्रह्मणः कर्तृत्वं न सम्भवतीति पूर्वः पक्षः। अत्रामिधीयते-दधिजननशक्तेः क्षीरस्य यथाऽसहायस्यैव दध्युत्पादकत्वं तथा ब्रह्मणोऽपीति न कश्चिद्दोषः ॥ २५ ॥ देवादिवदपि लोके । २।१ । २६ । यथा सङ्कल्पमात्रेणेव देवादयः स्वलोके स्वापेक्षितमैश्वर्यमुत्पादयन्ति तथा दे- ।

ब्रह्मसूत्रीयवेदान्तवृत्तौ- वदेवस्य ब्रह्मणोऽप्यनन्तविचित्रशक्तिकस्य जगत्कर्तृत्वे नोपसंहारप्रयोजनम् ॥२६॥ इत्युपसंहारदर्शनाधिकरणम् । कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वा । २।१ । २७ । ब्रह्मणोऽभिन्ननिमित्तोपादानता सम्भवति न वेति संशयः। तत्र निरवयवस्य ब्रह्मणो जगद्रूपत्वे कृत्स्नस्यैव कार्यत्वेनावस्थितिप्रसङ्गः। कार्यदशायामपि स्वांशा- न्तरेणावस्थाने तु 'निष्कल, मित्यादिशब्दानां विरोधोऽतो न जगतोऽभिन्ननिमित्तो- पादानता ब्रह्मणि सम्भवतीति पूर्वः पक्षः ॥ २७ ॥ श्रुतेस्तु शब्दमूलत्वात् । २।१ । २८ । एवं स्थिते सिद्धान्तः । तुशब्देन पूर्वपक्षो व्यावृत्त्यते । श्रुतिप्रामाण्यान्नोक्त- दोषः सम्भवति । ब्रह्मणः सकलेतरविलक्षणत्वेन विचित्रशक्तिवैशिष्टयं सम्भवत्येव । तथा च कार्यकारणत्वोभयावस्थायां कात्स्न्येनावस्थितेः सम्भवात् ॥ २८ ॥ आत्मनि चैवं विचित्राश्च हि । २।१। २8 । यथा चाचिद्धर्मविरोधिधर्मास्तद्विलक्षणजीवे विलक्षणशक्तियोगाद्वगम्यन्ते । अ- ग्न्यादिषु च परस्परं तत्तदसाधारणधर्मभेदो विलक्षणशक्तियोगादेव दृश्यते। त- द्वदेव चिदचिद्वस्तुवैलक्षण्याद्ब्रह्मणो विचित्रशक्तियोगो न विरुध्यतेऽतः सर्व सम्भवति ॥ २९ ॥ स्वपक्षदोषाश्च । २।१।३०। एते कृत्स्नप्रसक्त्यादयो दोषा ह्यचित्सलक्षणे प्रधान एव सम्भवन्ति । न वि- चित्रशक्तिशालिनि परस्मिन् पूरुषे ॥ ३० ॥ सर्वोपता च तदर्शनात् । २।१।३१ । सर्वशक्तिसम्पन्नश्च परमात्मा 'परास्य शक्तिर्विविधैव श्रूयते' ( श्वे० ३१८) इत्यादिश्रुतिभिः स्पष्टमभिधीयते ॥ ३१ ॥ विकरणत्वान्नेति चेत्तदुक्तम् । २।१ । ३२॥ 'न तस्य कार्य करणञ्च विद्यते' (श्वे ६।१६) इत्यादिषु परमात्मनः करण- राहित्यात्कृतस्तत्सम्भव इति चेदेतस्योत्तरं श्रुतस्तु शब्दमूलत्वादिति सूत्रेणोक्त- मेव ॥ ३२ ॥ इति कृत्स्नप्रसक्त्यधिकरणम् । न प्रयोजनवत्त्वात् । २।१।३३ । ब्रह्मणो जगद्रचनाव्यापारस्सम्भवति न वेति संशयः। तत्र सृष्टयादिव्यापारस्य द्वितीयाध्यायस्य प्रथमः पादः । ४१. प्रयोजनवतैकसम्पाद्यत्वादीश्वरस्य चावाप्तसमस्तकामत्वेन प्रयोजनानपेक्षतया जगद्र- चनाव्यापारो न सम्भवतीति पूर्वः पक्षः ॥ ३३ ॥ लोकवत्तु लीलाकैवल्यम् । २ । १ । ३४ । लीलैव केवला प्रयोजनमवाप्तसमस्तकामस्यापि परमात्मनो जगत्सर्गे सम्भ- वति । यथा लोके राजादीनां कन्दुकादिव्यापारे दृश्यते ॥ ३४ ॥ वैषम्यनैपुण्ये न सापेक्षत्वात्तथा हि दर्शयति । २ । १ । ३५ । नन्वेवं परमात्मनो देवादिजगदुत्पादने वैषम्यं स्यात् । दुःखोपहतजगत्सर्गे नैघण्यञ्च स्यादिति चेन्न, परमात्मा क्षेत्रज्ञानां पूर्वपूर्वकर्मापेक्ष्य तदनुगुणं जगद्रच- यतीति न वैषम्यं न वा नैधण्यम् । तथा हि दर्शयति श्रुतिः 'पुण्यः पुण्येन कर्मणा भवति पापः पापेन' (बृ. ४ । ४ । ५) इति ।३५। न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते. चारा२३६ सृष्टः प्राक् क्षेत्रज्ञविभागाभावस्य 'सदेव सोम्यदेमग्र आसीत्। (छा० ६ । २ । १) इत्यादि श्रुतेरवगमान्न तदानी क्षेत्रज्ञा न वा तत्कर्माणीति कुतस्तत्सा पेक्षा विषमा सृष्टिरिति चेन्न, अनादित्वात् क्षेत्रज्ञतदुपार्जितकर्मणाम् । सृष्टेः प्रागपि क्षेत्रज्ञकर्मप्रवाहस्य • विद्यमानत्वम् । अविभागश्रुतिस्तु 'तद्धेदं तयव्याकृत- मासीत्' इति श्रुतेर्नामरूपविभागाभावादुपपद्यते । 'ज्ञाज्ञौ द्वावजावीशानीशौ' इति श्रुतेः क्षेत्रज्ञानादित्वमुपलभ्यते च ॥ ३६ ॥ सर्वधर्मोपपत्तेश्च । २।१ । ३७ । प्रधानकारणवादे येषां धर्माणामनुपपत्तिरस्ति तेषां धर्माणां सामस्त्येनात्र ब्रह्म- कारणवादे समुपपत्तेश्च ब्रह्मैव जगत्कारणमिति सिद्धम् ॥ ३७ ॥ इति प्रयोजन- वत्त्वाधिकरणम् । इति श्रीमद्भगवद्रामानन्दान्वयप्रतिष्ठितश्रीमदनुभवानन्दस्वामि- द्वारकेण ब्रह्मवित्स्वामिश्रीरघुवराचार्येण विरचितायां ब्रह्म- सूत्रीय वेदान्तवृत्तौ द्वितीयाध्यायस्य प्रथमः पादः। अथ द्वितीयाध्यायस्य द्वितीयः पादः । रचनानुपपत्तेश्च नानुमानम् । २।२।१ । एतावता प्रन्थेन साख्यादिमतान्यनौपनिषदान्यभिधाय परस्मिन्ब्रह्मण्येव वेदा- . ब्रह्मसूत्रीयवेदान्तवृत्तौ- न्तानां समन्वयः प्रसाधितः । अथानेन पादेनाऽवैदिक मतान्यपाकृत्य स्वमतं व्यव- स्थापयिष्यन्नादौ प्रधानकारणवादंविचारयति । तत्र प्रधानकारणवादः सद्युक्तिको न वेति संशयः। गुणत्रयकार्याणां सुखदुःखमोहादीनां जगति सततमुपलभ्भात् त्रिगु- णात्मकं जगत्प्रधान कारणकमेवस्यादिति पूर्वः पक्षः । अत्राभिधीयते-अनुमानगम्यं प्रधानं न जगतः कारणम् । जडात्मकस्य प्रधानस्य सर्वज्ञत्वसर्वशक्त्याद्यभावेन जगद्रचनानुपपत्तेः । सूत्रे च शब्दात्सुखादीनां वस्तुधर्मता नास्तीत्युच्यते ॥१॥ प्रवृत्तश्च । २।२ । । अनुपपत्तेरिति च वर्तते । गुणत्रयसाम्यावस्थाप्रहाणानन्तरं गुणैरङ्गाङ्गित्वमुपेत्य कार्यमारभतइति तन्मतमप्ययुक्तम् । चेतनाधिष्ठितस्याचेतनस्य लोके प्रवृत्तिदर्शना- च्चेतनानविष्टितस्य प्रधानस्य स्वतोऽजाङ्गिभावाभावाद्गुणवैषम्याभावेन कार्यजनन- प्रवृत्तेश्चानुपपत्तेर्नानुमानं जगत्कारणम् ॥ २ ॥ पयोम्बुवच्चेत्तत्रापि । २।२।३। अथ क्षीरनीरयोः स्वयमेव दध्यकुरादिरूपेण यथा प्रवृत्तिस्तथा चेतनमपि प्रधान प्रवर्तत इति चेत्तत्राह तत्रापीति । तत्रापि 'योऽप्सु तिष्ठन्' (बृ. ३॥ ८॥ ४) इत्यादिश्रुतिभिर्ब्रह्मणोऽबाद्यन्तरवस्थित्यभिधानान्न चेतनानधिष्ठितत्वम् ॥ ३ ॥ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् । २।२।४। 'तद्धेदं तमुव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत' इति श्रुतेरव्याकृतनामरू- पस्याशेषस्य प्रधानस्य व्याकृतनामरूपात्मकव्यक्तावस्थामापन्नत्वात्कार्यव्यतिरेकेणा- व्यक्तरूपेण तदानीमनवस्थितेः 'व्यक्ताऽव्यक्तज्ञविज्ञानात्' इति तदीयमतभाप्रसरः। पुरुषस्य जगद्रचनाचातुर्यस्वीकारस्तु कर्तुमशक्यस्तस्यानपेक्षत्वादिति न स्वातन्त्र्येण प्रधानस्य जगत्कारणत्वम् ॥४॥ अन्यत्राभावाच्च न तृणादिवत । २।२।५। धेनूपयुक्ततृणोदकादेः क्षीराकारेण परिणतिरिव प्राज्ञानधिष्टितप्रधानस्य स्वयमेव जगद्रूपेण परिणतिः स्यादित्यपि न वक्तुं शक्यम् । बलीवर्दादौ तथा परिणतेरभा- वाद्विषमोऽयं दृष्टान्तः ॥ ५॥ अङ्गित्वानुपपत्तेश्च । २।२।६। गुणवैषम्यात्सृष्टिरिति साङ्ख्यमतम् । तदप्ययुक्तं, गुणानामचेतनतया तत्सा- म्यावस्थायाः प्रच्युतेरभावादशाजिमावानुपत्तेः। तथा च गुणवैषम्यनिमित्ता सृष्टि- द्वितीयाध्यायस्य द्वितीयः पादः । नस्यादिति भावः ॥ ६ ॥ पुरुषाश्मवदिति चेचथापि । २।२।७। यथा पङ्गुः पुमानन्धमपङ्गुम्प्रवर्तयति यथा वाऽयस्कान्तमणिः स्वसन्निधिमात्रे- गायः प्रचालयति तथा पुरुषसन्निधानमात्रेण प्रधानं सर्गे प्रवतेत इति नानुपपत्ति- रिति चेत्तथापि तदवस्थ एव दोषः। उदासीनस्य पुरुषस्य प्रवर्तकानुपपत्तेः । पुरु- षप्रवर्त्यत्वेऽपि प्रधानस्य स्वातन्त्र्यहानिरपसिद्धान्तश्च ॥ ७ ॥ अन्यथानुमितौ च शशक्तिवियोगात् । २।२।। प्रोकप्रकारातिरिक्तन केनचिदपि प्रकारेणानुमानेऽपि न साङ्ख्येष्टसिद्धिः प्रधा- नस्याचेतनत्वेन ज्ञातृत्वशक्तेवियोगात् । आद्यक्षणे गुणवैषम्यं स्वतो न सम्भवति । सर्वदा वैषम्यप्रसङ्गात् । न परतः । परस्य कस्यापि तदानीमभावात् । पुरुषस्यौ- दासीन्येनाप्रयोजकत्वाच्चेति दिक् ॥ ८॥ अभ्युपगमेऽप्यर्थाभावः। २।२।। प्रधानस्य कथञ्चित्प्रवृत्तिस्वीकारेऽपि प्रयोजनाभावः । यतस्तस्य जडत्वेन पुरु- षस्य चासङ्गतया स्वपरप्रयोजनाभावादिति भावः ॥ ९ ॥ विप्रतिषेधाच्चासमञ्जसम् । २ । २ । १० । परस्पर विरुद्धत्वात्कपिलमतमसमञ्जसम् । विरोधश्चेत्थम् । प्रधानस्य पुरुष- भोगार्थमेव प्रवृत्तिरिति तन्मतम् । पुरुषस्य चासङ्गत्वेन निर्विकारत्वमित्यपि तन्मत- मित्युभयं परस्पर विरुद्धम् । पुरुषस्यौदासीन्यं तस्यैव पुनर्मोक्षाधिकारित्वमित्यपि विरोधः । एतेन मायिमतस्याप्यसामञ्जस्य निरूपितं भवति । नहि निःसङ्गस्य नि- गुणस्य ब्रह्मणो जगत्सर्गे प्रवृत्तिरुपपद्यते प्रयोजनाभावादित्यादि दूषणजातं विज्ञेय. मित्यादिविरोधादसमजसमेव सायादिमतभिति दिक् ॥ १० ॥ इति रचनानु- पपत्त्यधिकरणम् । महद्दीर्घवद्वा हस्वपरिमण्डलाभ्याम् । २ । २। ११ । प्रधानकारणवादस्यासमीचीनत्वमुक्त्वा परमाणुकारणवादस्यासामञ्जस्यमभि- धत्ते। अत्रायं संशयः ‘परमाणुकारणवादः सयुक्तिको न वेति । तत्रावयवेभ्योऽव- यव्युत्पद्यत इति नियमान्नित्यनिरवयवैः पृथिव्यादिभूतचतुष्टयपरमाणुभिद्वर्षणुकाा- सादनक्रमेण स्थूलं जगदुत्पाद्यतेऽतो परमाणुकारणवादः सयुक्तिक इति पूर्वः पक्षः।

..
ब्रह्मसूत्रीयवेदान्तवृत्तौ-
अत्राभिधीयते-महदिति-हस्वपरिमण्डलाभ्यां द्वथणुकपरमाणुभ्यां त्र्यणुकद्वयणुको-
त्पत्तिस्वीकारवदन्यच्च तदङ्गीकरणमसमज्जसम् । सावयवद्रव्यं स्वकीयैः षड्भिः
पाश्र्वेस्संयुज्याधिकपरिमाणकमवयविनं द्रव्यमारभन्त इति नैसर्गिकः समयः। परं
परमाणूनां कणभुङ्मते निरवयवतया पाश्वीभावेन संयुज्यमानतैव न सम्भवति कु-
तोऽधिकपरिमाणकस्य द्रव्यस्यारम्भ इत्येतन्निदर्शनेन कृत्स्नं तन्मतमसमञ्जसम्॥११॥
उभयथाप न कर्मातस्तभावः।२।२।१२ !
सर्गादावेकस्मिन् परमाणावाद्यं कर्मोपजायते ततः परमाण्वन्तरसंयोगस्ततो
ध्यणुकमित्येवं क्रमेण जगदारम्भः। तदिदमाद्यं कर्मादृष्टादिनियन्त्रितमपि न सम्भ-
वति । विकल्पासहत्वात् । किं तदानीमदृष्टादिकमणुगतमुतात्मगतम् । यद्यणुगतं त-
दातदाश्रयायिणोस्सातत्यात्सततं कर्मोत्पत्या प्रलयाभावप्रसङ्गः । अथात्मनिष्टेनाह-
टादिकेनाणौ कर्मोत्पत्तिरितिमतं तदप्यपेशलम् । तस्यापि नित्यत्वेन कादाचित्कत्या-
भावः । एवमुभयथापि न कर्मोत्पतुमीष्टे । ततश्चाणुसंयोगाभावात्सर्गाभावः ॥१२॥
समवायाभ्युपगमाच्च साम्यादनवस्थितेः । २।२। १३ ।
परमाणुकारणवादिभिस्तार्किकैरयुतसिद्धानां जातिगुणादीनामाधाराधेयत्वनिया.
मकस्य समवायाभिधस्य सम्बन्धविशेषस्याभ्युपगमादसमअसम् । समवायस्यापि
पृथक्पदार्थत्वसाम्यात्क्रश्चित्सम्बन्धोऽपेक्षितस्तस्यापि समवायसम्बन्धत्वेऽनवस्थि-
तेः। समवायस्य स्वरूपेण सम्बद्धत्वे तु जातिगुणादीनामपि तथैव स्वीकार्यत्वेन
समवायकल्पनं निरर्थकम् ॥ १३ ॥
नित्यमेव भावात् । २।२।१४।
समवायसम्बन्धस्य नित्यत्वे तदनुयोगिप्रतियोगिनोरपि नित्यत्वेन परमाणुछ-
णुकरूपकार्यकारणयोरपि नित्यमेव भावादसमञ्जसम् ॥ १४ ॥
रूपादिमत्वाच्च विपर्ययोऽदर्शनात् । २ । २ । १५ ।
रूपादिमत्वात्परमाणूनां नित्यनिरवयवत्वादिविपर्ययोऽनित्यसावयवत्वादिकम-
पि तार्किकसमयविरुद्धमापद्यते रूपादिमत्सु घटादिषु तथा दर्शनात् ॥ १५ ॥
उभयथा च दोषात् । २।२।१६ ।
अथैतदोषपरिजिहीर्षया रूपादिराहित्यमूरीक्रियते तदा कार्यगुणेषु कारणगुण-
पूर्वकत्वनियमभङ्गस्तनियमरिरक्षयिषया रूपादिमत्वमङ्गीक्रियते चेत्पुनरनित्यत्व-
मित्युभयथा च दोषादसमजसम् ॥ १६ ॥

४५ द्वितीयाध्यायस्य द्वितीयः पादः। अपरिग्रहाच्चात्यन्तमनपेक्षा । २।२। १७ । काणादमतस्य वैदिकैरपरिग्रहात्सद्युक्तिशून्यत्वाच्चात्यन्तमनपेक्षा ह्यत्र मोक्षा- "र्थिभिः कार्या ॥ १७ ॥ इति महद्दीर्धाधिकरणम् । समुदाय उभय हेतुकेऽपि तदप्राप्तिः । २।२।१ । परमाणुकारणवादं निराकृत्य परमाणुपुञ्जकारणवादं निराकरोति । स च वाद- श्चतुर्विधैबौद्धैरङ्गीक्रियते । तत्र वैभाषिकसौत्रान्तिकैर्बाह्यमाभ्यन्तरञ्चार्थजातं प्रत्यक्षा- नुमानगम्यं क्षणिकञ्चाभ्युपेयते । तृतीयेन योगाचारेणान्तरविज्ञानेऽखिलं पदार्थजातं कल्पितं क्षणिकञ्चाङ्गीक्रियते। तुरीयेण माध्यमिकेन सर्वशून्यमिष्यते । तत्र वैभाषि- कसौत्रान्तिकबौद्धमतं सयुक्तिमूलं नवेति संशयः । हिंसादिदोषरहितस्य सर्वार्थसा- क्षात्कारिणो बुद्धस्य मतं सयुक्तिमूलकमेवेति पूर्वः पक्षः । अत्राभिधीयते-चतुर्वि- धेषु प्रथमद्वितीयाभ्यां परमाणुजन्यपृथिव्यादिभूतसमुदायो भूतजन्यश्च शरीरेन्द्रि- यविषयसमुदाय इत्येवं समुदायद्वयमास्थीयते । तदेतत्समुदायद्वयं हेतुहेतुमद्भावेन स्थातुं न प्रभवति । यतस्ताभ्यां समस्तस्य वस्तुनः क्षणिकत्वाभ्युपगमात् । कार- णत्वेनाभ्युपेतः ससुदायः कार्यत्वेनाभिमतसमुदायात्प्रागेव विनष्टत्वात्तदप्राप्तिः ॥१८॥ इतरेतरप्रत्ययत्वादुपपत्रमिति चेन्न संघातभावानिमित्तत्वात् ।।२।१६॥ नन्वस्थिरेषु स्थिरत्वबुद्धिरूपयाऽविद्यया परस्परं कार्यकारणरूपसंघातस्योपप- त्तिर्भविष्यतीति चेन । नहि विपरीतार्थप्राहिकयाऽविद्यया वास्तविकः संघातः शक्य- तेऽवस्थापयितुम् , तस्याश्च संघातभावस्यानिमित्तत्वात् । शुक्तौ रजतधीन रजत- मुत्पादयितुमीष्टे ॥ १९ ॥ उत्तरोत्पादे च पूर्वनिरोधात् । २।२ । २० । उत्तरस्मिन् घटादिकार्योत्पत्तिक्षणे कारणक्षणस्य विनाशान्न तस्य हेतुत्वम् । अमावस्यापि हेतुत्वे सर्व सर्वत्र सर्वदोत्पद्येत, निर्हेतुकोत्पत्तौ चापसिद्धान्तः ॥२०॥ असति प्रतिज्ञोपरोधे योगपधमन्यथा । २।२।२१ । कारणाभावेऽपि कार्योत्पत्तौ सर्वत्र निर्हेतुकोत्पत्तिस्स्यात् तथा सति, 'अधिपति- सहकार्यादयो विज्ञानोत्पत्तौ हेतव इत्येषा बौद्धप्रतिज्ञा हीयेत । एतदर्थ कार्यक्षणं यावत्कारणक्षणावस्थितिरभ्युपेयते चेत्कार्यकारणयोर्योगपधं प्राप्नोति ॥ २१ ॥ प्रतिसंख्या प्रतिसंख्यानिरोधात्प्राप्तिरविच्छेदात् । २।२।२२ । कस्यचिदपि पदार्थस्य प्रतिसंख्याऽप्रतिसंख्यानिरोधः स्थूलसूक्ष्मविनाशस्तस्या

ब्रह्मसूत्रीयवेदान्तवृत्तौ-
प्राप्तिस्तादृशानरन्वयविनाशश्च न सम्भवतीत्यर्थः । उत्पत्तिविनाशधर्मवतोद्रव्यस्या-
न्वयित्वात् । दीपनिर्वाणेऽपि निरन्वयविनाशो नभवत्येव सत्कार्यवादिनां तत्रापि
सूक्ष्मावस्थान्तरापत्तिरेव भवतीति ॥ २२ ॥
उभयथा च दोषात् । २।२।२३ ।
किञ्च पदार्थजातस्य स्थूलसूक्ष्म विनाशे सत्यविद्यानाशस्ततो मुक्तिरिति तन्म-
तमध्ययुक्तम् । अविद्यानिरोधस्य सहेतुकत्वे निर्हेतुकविनाश सिद्धान्तहानिः । निर्हेतु-
कत्वेतूपायोपदेशवैयर्थ्यम् । इत्युभयथा च दोषादसामञ्जस्यम् ॥ २३ ॥
आकाशे चाविशेषात् । २।२।२४ ।
आकाशस्य तुच्छत्वं न पृथिव्यादीनामित्यपि तन्मतमयुक्तम् । 'अत्र श्येन
उत्पतति, इत्यादिप्रतीतेराकाशस्य पृथिव्यादिभ्योऽविशेषात् ॥ २४ ॥
अनुस्मृतेश्च । २।२।२५ ।
अपि च अनुभवानन्तरं स्मृतेरुदयात् क्षणिकत्वं नोपपद्यते । अनुभूतिस्मृत्योरै-
काधिकरण्येनान्येनानुभूतस्यान्येन स्मर्तु मशक्यत्वात् ॥ २५ ॥
नासतो
इष्टत्वात् । २।२।२६ ।
असतः कार्योत्पत्तेरदृष्टत्वात् क्षणिकत्वं नोपपद्यते ॥ २६ ॥
उदासीनानामपि चैवं सिद्धिः।२।२।२७ ।
असतोऽभावरूपानिरुपाख्यादपि कार्योत्पत्तावुदासीनानां कार्यप्रवृत्तिशून्याना-
मपि तत्तदभीष्टस्य कार्यस्य सिद्धिः स्यादिति न कोऽपि कार्यनिष्पादने प्रवर्तेतातो-
ऽसमजसमेवेदं क्षणिकवादिनोवैभाषिकसौत्रान्तिकयोर्मतम् ॥ २७ ॥ इति समु-
दायाधिकरणम् ।
नाभाव उपलब्धेः।२।२।२८।
विज्ञानवादिनो योगाचारस्य मतं साक्तिमूलं न वेति संशयः । तत्र बाह्यार्थस-
द्भावे ज्ञानमेव प्रमाणम् । आन्तरज्ञानवैचित्र्येणैव बाह्यार्थानां घटापटादीनां व्यव-
स्थोपपादयितुं शक्या स्वप्नावस्थायामर्थाऽभावेऽपि वैज्ञानिकैरथैर्यथा व्यवहारस्तथा
जागृदवस्थायामपि वासनावशाद्विज्ञानसन्तानो घटाद्यर्थाकारं धत्ते । अतो न विज्ञा-
नातिरिक्तं किमपि तत्वमिति पूर्वः पक्षः । अत्राभिधीयते--विज्ञानातिरिक्तस्य' पदा-
यस्य 'घटमहं जानामि' इत्यादि प्रतीत्या घटादेरुपलब्धेन पदार्थाभावः शक्यते
वक्तुम् ॥ २८॥

। द्वितीयाध्यायस्य द्वितीयः पादः। वैधाच्च न स्वप्नादिवत् । २ । २ । २६ । स्वाप्निकज्ञानवज्जागरितज्ञानानां निर्विषयत्वं न शक्यमुपपादयितुम् । कारण- दोषबाधक प्रत्ययरहितत्वाज्जागरितज्ञानानामिति स्वप्नज्ञानवैधात् ॥ २९ ॥ न भावोऽनुपलब्धेः। २।२।३०। स्वविषयविहीनस्य ज्ञानस्य विषयिणोभावस्सत्वं नोपपद्यते निर्विषयकज्ञानस्या- नुपलब्धेः ॥ ३०॥ क्षणिकत्वाच्च । २।२।३१। विज्ञानवादिना वासनाधारतया स्वीकृतस्यालयविज्ञानस्य क्षणिकत्वाच्चाधारा- धेयभावोऽपि वासनालयविज्ञानयोर्न सम्भवति ॥३१॥ इत्युपलब्ध्यधिकरणम् । सर्वथानुपपत्तेश्च । २ । २ । ३२ । माध्यमिकबौद्धस्य शून्यवादः समीचीनयुक्तिमूलो न वेति संशयः । सर्वस्यापि पदार्थस्य सत्तयाऽसत्तया वा व्यपदेशानहत्वेन शून्यमेवावशिष्यत इति शून्यमेव तत्वमिति पूर्वः पक्षः । सिद्धान्तस्तु-सर्वस्य शून्यत्वं नोपपद्यते । माध्यमिकेन यच्छून्यत्वं व्यवस्थाप्यते तत्प्रमाणसत्तामझीकृत्यानङ्गीकृत्यैव वा ? अङ्गीकृत्येति चेत्स- र्वशून्यत्वप्रतिज्ञा हीयते । अनङ्गीकृत्येति मते व्यवस्थापनासिद्धिः । सर्व शून्यमिति जिह्वयालपनमपि व्याहतं विरोधादिति सर्वथानुपपत्तेश्चेदं मतमसमञ्जसम् ॥ ३२ ॥ इति सर्वथानुपपत्त्यधिकरणम् । नैकस्मिन्नसम्भवात् । २।२। ३३ । बौद्धमतं निरस्य तत्कियदंशसाम्याज्जैनमतं निरस्यति । अत्राहंतमतं सद्युक्ति, मूलं न वेति संशयः। तत्र जीवधर्माधर्मपुद्गलकालाकाशरूपषद्रव्यात्मके जगतिसम. स्तवस्तूनामनैकान्तिकत्वम् । यतोऽखिलपदार्थानां सप्तभङ्गीनयेनैव व्यवस्थोपपद्यते । स्यादस्ति, स्यानास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यं, स्यादस्ति चावक्त- व्यम् , स्यान्नास्तिचावक्तव्यम् , स्यादस्ति च नास्ति चावक्तव्यञ्चेति सप्तभङ्गीनय- स्वरूपम् । अनेन सप्तभङ्गीनयेन वस्तुतत्वं विविच्यते । ततः सम्यग्दर्शनज्ञान- चारित्रर्मोक्षोपायैर्वीतरागेण स्वाभाविकात्मस्वरूपावाप्तिरूपो मोक्षःप्राप्यत इत्याह- तमतं साक्तिमूलमिति पूर्वः पक्षः । अत्राभिधीयते-नैकस्मिन्निति । एकस्मि- न्नर्थे नित्यत्वं तद्विपरीतश्चानित्यत्वमस्तित्वं तद्विरुद्धञ्च नास्तित्वमित्यादिधर्माणा- मसम्भवान्नार्हतमतं सद्युक्तिकम् । अनेकान्तवादे कस्याप्यर्थस्यानिश्चयान्न प्रमा- ब्रह्मसूत्रीयवेदान्तवृत्तौ- णादिव्यवस्थापि सङ्गच्छते ॥ ३३ ॥ एवञ्चात्माऽकात्य॑म् । २।२।३४ । यथा च जैनाभ्युपेतानेकान्तवादस्यासम्भव एवमेवात्मनः कात्स्न्यस्याप्यसम्भ. वः। आईतसम्मतस्य देहपरिमाणकस्यात्मनः कर्मवशाद्धस्तिशरीरान्मक्षिकादि शरीरं विशतः कृत्स्नस्य प्रवेशानुपपत्तेः । मक्षिकाशरीरस्यात्मनः करिशरीरप्रवे- शानुपपत्तेश्च ॥ ३४ ॥ न च पर्यायादप्यविरोधी विकारादिभ्यः । २।२ । ३५ । पर्यायपदवाच्यसङ्कोचविकाशरूपावस्थान्तरापत्त्यापि न विरोधपरिहारः । सङ्को- चविकाशशालित्वे चात्मनो विकारित्वेनानित्यत्वापत्तेः ॥ ३५ ॥ अन्त्यावस्थितेश्चोभयनित्यत्वाविशेषः । २।२।३६ । मोक्षावस्थायामात्मनः परिमाणस्य स्वाभाविकत्वेन नित्यत्वादात्मनोऽपि च नित्यत्वादुभयोर्नित्वताद्धावस्थायामप्यविशेषः । देहपरिमाणकत्वे त्वकात्स्यादिदो- पास्सन्त्येवातोऽसमञ्जसमेव जिनमतम् ॥३६॥ इत्येकस्मिन्नसम्भवाधिकरणम्। पत्युरसामञ्जस्यात् । २।२।३७ । वैदिकाचारवैधुर्यसाम्यादनेन पशुपतिमतमपाक्रियते । अत्र पाशुपतादिमतस्या- दरणीयत्वमस्ति नवेति संशयः। सर्वार्थप्रत्यक्षसमर्थेन पशुपतिना स्वयमूरीकृतत्वा- दादरणीयत्वमेवेति पूर्वः पक्षः। अत्राभिधीयते--पत्युरिति-नेत्यनुवर्तते । पशुपतेर्म- तस्य नैवादरणीयत्वमवैदिकाचारप्रवर्तकत्वेन जगन्निमित्तोपादानयोर्भेदज्ञापकत्वेन चासामन्जस्यात् ॥ ३७॥ सम्बन्धानुपपत्तेश्च । २।२।३८ । पशुपतिमते जगदुत्पादने प्रकृतिपुरुषयोस्सम्बन्धोऽभ्युपयेः स च नोपपद्यते । ईश्वरस्याशरीरत्वात् ॥ ३८ ॥ अधिष्ठानानुपपत्तेश्च । २।२। ३६ । अवैदिकेश्वरकपनायामनुमानेनैव तत्कल्पनीयम् । अनुमानकल्प्ये च पदार्थे दृष्टमर्यादावश्यमाश्रयणीया। लोके च मृदादीनामधिष्ठानं सशरीरस्यैव कुलालादे- दृष्टम् । तथाविधाधिष्ठानम्प्रधानस्येश्वरो न सम्भवत्यशरीरत्वादिति तदनुपपत्तिः ३९ करणवच्चेन भोगादिभ्यः।२।२।४०॥ ननु करणकलेवरायधिष्ठानं यथा शरीरविधुरस्य जीवस्यास्ति तथैवाशरीरस्य द्वितीयाध्यायस्य द्वितीयः पादः। ४४ पशुपतेरप्युपपत्स्यत इति चेन्न, पुण्यापुण्यकर्मफलभोगनिमित्तकं हि जीवस्य तत् पशुपतेरपि तत्फलभोगादिप्रसक्तेर्नाधिष्ठात्तृत्वसम्भः ॥ ४० ॥ अन्तवत्त्वमसर्वज्ञता वा । २।२।४१ । पुण्यापुण्यकर्मायत्त पशुपतेः प्रकृत्यधिष्ठातृतास्वीकारे च जीवबदन्तवत्त्वमसर्व- ज्ञता च स्याताम् । वेतिशब्दश्चार्थकः ॥ ४१ ॥ इति पत्यधिकरणम् । उत्पत्यसम्भवात् । २।२।४२ । एवमस्मिन् पादे सप्तभिरधिकरणैर्वेदविरोधिमतानामसामञ्जस्यमभिधायेदानी वेदाविरोधिपञ्चरात्रशास्त्रानुमोदितं स्वकीयं श्रीवैष्णवमतमनेन पादान्तिमैनाधिकरणेन व्यवस्थाप्यते। अत्र श्रीवैष्णवमतप्रतिपादकपंचरात्रशास्त्रस्य जीवोत्पत्तौ तात्पर्यमस्ति न वेति संशयः। तत्र ‘परमकारणात्परब्रह्मभूताद्वासुदेवात्सङ्कर्षणो नाम जीवो जायते सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते तस्मादनिरुद्धसंज्ञोऽहङ्कारो जायते, (परमसंहिता- याम्) इत्यादि वचनानां जीवोत्पत्तावस्त्येव तात्पर्यमतो वेदविरुद्धस्यार्थस्याभिधाना. त्तत्प्रतिपाद्यवैष्णवमतस्यासामञ्जस्य मिति पूर्वः पक्षः । अत्राभिधीयते-न तावत्पञ्च- रात्रशास्त्रस्य जीवोत्पत्तौ तात्पर्यम् तस्योत्पत्तेरसम्भवात् । जीवोत्पत्तिस्वीकारे त्वकृ- ताभ्यागमकृतविप्रणाशदोषौ स्यातामतो न तदुत्पत्तिरभ्युपगन्तुं शक्या । 'ज्ञाज्ञौ द्वावजावीशानीशौ' ( श्वे. १ । ९)'न जायते म्रियते वा विपश्चित्' (का २०१८) इत्यादिश्रुतिषु जीवस्यानुत्पत्तेः स्पष्टमभिधानात्पंचरात्रशास्त्रस्य कथं वेदविरुद्धप्रतिपा. दनं युज्येत । अतो न तस्यांशिकमप्यप्रामाण्य मिति तत्प्रतिपाद्यस्य वैष्णवमतस्यापि नासामञ्जस्यम् ॥ ४२ ॥ नच कर्तुः करणम् । २।२।४३ । 'सङ्कर्षणात्प्रद्युम्नसझं मनो जायते' (प० सं० ) इत्येतद्वाक्यस्यापि न कर्तु। जीवात्मनः सकाशात्करणस्योत्पत्तौ तात्पर्यम् । श्रुतिविरुद्धार्थे वेदानुसारिणोऽस्य शास्त्रस्य तात्पर्य नैव सम्भवति । अत एव तदभिमतश्रीवैष्णवमतस्यापि नासा. मञ्जस्यम् ॥ ४३ ॥ विज्ञानादिभावे वा तप्रतिषेधः।२।२।४४ । एवं तर्हि जीवाद्युत्पत्यभिधायिनामुदीरितपश्चरात्रवाक्यानां तात्पर्यमित्याश- कायामाह-विज्ञानादीति-वाशब्दस्त्वथै कल्पितामाशां वारयति । प्रोक्तवाक्यानां जीवाद्युत्पत्तौ नास्ति तात्पर्यमपि तु सङ्कर्षणादीनां परब्रह्मभावे सति स्वेच्छयाऽव- ४ब्रह्म

५०
ब्रह्मसूत्रीयवेदान्तवृत्ती-
तारग्रहणे तात्पर्यम् । परमात्मैव जगतो रिरक्षयिषया वासुदेवादिरूपेण चतुर्दूह
विधाय प्रणतजनान् पालयति । तथा च पञ्चरात्रे सूक्ष्मव्यूहविभवभेदेनैकस्य पर-
मात्मन एव प्रपन्नजनप्राप्तयेऽवस्थानमिति वर्णितम् । जीवादीनामधिष्ठातृतया नि-
र्दिष्टेर्वासुदेवादिभिः स्वरूपः स एव परात्परः परमात्मा 'अजायमानो बहुधा वि.
जायते' इत्यादिवचनप्रामाण्यात्स्वेच्छयावतरति । तेषामेव जीवादिशब्दरत्राभिधा-
नात्पञ्चरात्रप्रामाण्यस्याप्रतिषेधः ॥ ४४ ॥
विप्रतिषेधाश्च । २।२।४५ ।
व्याप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च । सानादिरनन्तश्च परमार्थेन
निश्चितः । इत्यादिवचनैः पञ्चरात्रे जीवोत्पत्तेविप्रतिषेधाच्च नास्य तन्त्रस्य जीवो-
त्पत्तो तात्पर्यम् । तस्मात्पञ्चरात्रस्य वेदानुसारितया कात्स्न्येन प्रामाण्यातदुदितस्य
वैष्णवमतस्यापि वैदिकत्वेन सामञ्जस्यं सुतरामुपपन्नम् ॥ ४५ ॥ इत्युत्पत्त्य-
धिकरणम् ।
इति श्रीमद्भगवद्रामानन्दान्वयप्रतिष्ठितश्रीमदनुभवानन्दस्वामिद्वा-
रकेण ब्रह्मवित्स्वामिश्रीरघुवराचार्येण विरचितायां ब्रह्मसूत्रीय-
वेदान्तवृत्तौ द्वितीयाध्यायस्य द्वितीयः पादः ।
अथ द्वितीयाध्यायस्य तृतीयः पादः ।
न वियदश्रुतेः । २।३।१।
वेदवायतन्त्राणामप्रमाण्यमभिधायाखिलश्रुतिस्मृतीनाम्प्रामाण्यस्याभिधित्सया
कृत्स्नस्य जगतो ब्रह्मकार्यत्वम्प्रसाधयितुमारभते । तत्र वियदुत्पद्यते नवेति संशयः।
उत्पत्तिवाक्येषूत्पतेरश्रुते!त्पद्यत इति पूर्वः पक्षः ॥ १॥
अस्ति तु।२।३।२।
अत्राभिधीयते सिद्धान्तः । तु शब्दः पूर्वपक्षं व्यावर्तयति । तस्माद्वा एतस्मा-
दात्मन आकाशः सम्भूतः' (तै २ । १) इति श्रुतेरस्त्याकाशस्योत्पत्तिः ॥ २ ॥
गौण्यसम्भवात् । २ । ३।३।
अत्राशंकते । तत्तेजोऽमृजत' (छा ६ । २।३।) इति छान्दोग्ये तेजस
एव प्रथमोत्पत्तिश्रवणात् तदनुरोधेनाकाशोत्पत्तिश्रुतिौणी । आत्मवत्सर्वंगतत्वेन
चाकाशस्योत्पत्तेरसम्भवादुक्तोत्पत्तिश्रुतिश्च गौण्येव ॥ ३ ॥

द्वितीयाध्यायस्य तृतीयः पादः । -- शब्दाच्च ।२।३।४। 'वायुश्चान्तरिक्षं चैतदमृतम्' (बृ ।। ३ । ३) इत्याकाशस्याभूतत्वाभिधा- यकश्रुतिशब्दाच्च न वियदुत्पत्तिः सम्भवति ॥ ४ ॥ स्याच्चैकस्य ब्रह्मशब्दवत् । २।३।५। ननु 'एतस्मादात्मन आकाशः सम्भूत आकाशाद्वायुयोरग्निः' (तै २ । १) इत्येकस्यामेव श्रुतौ श्रुतस्य सम्भूतशब्दस्याकाशे गौणत्वं वाय्वादिषु च मुख्यत्वं कथमिति चेत्स्यादेवमपि यथैकस्य ब्रह्मशब्दस्य 'अन्नम्ब्रह्मेत्यत्र गौणत्वम् 'आन- न्दो ब्रह्मेति व्यजानादित्यत्र प्राधान्यं तथात्रापि ॥ ५॥ प्रतिज्ञाहानिरव्यतिरेकात् । २।३।६। समाधत्ते । 'येनाश्रुतं श्रुतम्भवति' (छा ६।३।) इत्येकविज्ञानेन सर्व- विज्ञानप्रतिज्ञाया अहानिः । कारणस्य ब्रह्मण आकाशादेः कार्यतयाऽन्वयादेव सम्पद्यते ॥६॥ शब्देभ्यश्च । २।३।७। 'सदेवसोम्येदमग्र आसीदेकमेवाद्वितीयम्' (छा ६ । २ । १) इति सृष्टेः प्रागेकत्वमुक्त्वा ऐतदात्म्यमिदं सर्वम्' (छा ६ । ८ । ७) इत्यादिशब्देभ्यः सर्वस्य ब्रह्मात्मकत्वं प्रदर्शितम् । तथा चोक्तशब्देभ्यश्छान्दोग्येऽपि कारणभूतस्य ब्रह्मणस्तदात्मकत्वेन तद्भिन्नकार्यजातस्याव्यतीरेकः सिद्धयति ॥ ७ ॥ यावद्विकारन्तु विभागो लोकवत् । २।३।८ । तुश्चार्थे। 'तत्तेजोऽसृजतः (छा ६ । २।३) इति तेजस उत्पतिरादौ छा- न्दोग्येऽभिहिता। किन्तु 'सन्मूलाः सोम्येमाः सर्वाः प्रजाः' (छा ६।८।७) 'ऐतदात्म्यमिदं सर्वम्' इति तत्रैव सर्वस्य ब्रह्मविकारत्वकथनेनाकाशस्यापि सन्ति- र्गततया ब्रह्मण उत्पत्तिः सिध्यति लोके मृद्विभागवत् ॥ ८॥ पतेन मातरिश्वा व्याख्यातः।२।३।। वियदुत्पत्तिव्याख्यानेन वायुरप्युत्पत्तिमानिति ब्याख्यातः । पृथग्योगस्तू- त्तरार्थः ॥९॥ असम्भवस्तु सतोऽनुपपत्तेः।२।३ । १० । तुरवधारणे । सत्पदवाच्यस्य परस्यैवोत्पत्तरसम्भवः। कुतः ? परमकारण- स्याप्युत्पत्तेरनवस्थादिदोषापत्तेः । 'न चास्य कश्चिजनिता (श्वे ६।९) इत्यादिनि- षेधात्तदुत्पत्तेरनुपपत्तेः ॥ १० ॥ इति वियदधिकरणम् ।

૫૨ ब्रह्मसूत्रीयवेदान्तवृत्तौ- तेजोऽतस्तथाह्याह । २।३ । ११ । एवमखिलजगतो ब्रह्मकार्यत्वेन केन क्रमेणोत्पत्तिरिति चिन्त्यते । तत्र कार्य- स्याव्यवहितपूर्ववर्तिकारणादुत्पत्तिरुत तच्छरीरकब्रह्मण इति संशयः । कार्यपूर्ववृत्ति. कारणमात्रवस्तुन एवोत्पत्ति तु व्यवहितरूपाद् ब्रह्मणस्तथा च तेजसो वायोरेवो- पत्तिः 'वायोरग्नि (तै २।१ ) इति हि श्रुतिराह ॥ ११ ॥ आप:२।३।१२। अतस्तथा स्वाहेति वर्तते । आपोऽपि तेजस एवोत्पयन्ते 'अग्नेरापः (२॥१) इति हि श्रुतिराह ॥ १२ ॥ पृथिवी । २।३। १३ ॥ अत्राप्युक्तपदानुवृत्तिः । अद्भयः पृथिवी समुत्पयते 'भद्भयः पृथिवी' (२१) इति हि श्रुतिराह ॥ १३ ॥ तदधिकाररूपशब्दान्तरेभ्यः। २।३ । १४ । पूर्वसूत्रमनुवर्तते । ननु च्छान्दोग्यै 'ता अन्नमसृजन्त' (छा ६।२।३) इत्य- न्नशब्देन पृथिवी कुतो गृह्यत इत्यत आह-तदधिकारेति । भूतसृष्टेरधिकारात् 'यत्कृष्णं तदन्नस्य' (छा ६।।) इति रूपकथनात् । 'अद्भ्यः पृथिवी' ( ते २१) इति शब्दान्तराच्च, तदन्नं पृथिव्येव । एवमनया चतुः सूत्र्या पूर्व- पक्षः समर्थितः ॥ १४ ॥ तदभिध्यानादेव तु तल्लिङ्गात्सः । २।३।१५। अत्राभिधीयते सिद्धान्तः । तुशब्दः पक्षव्यावर्तने। परमात्मैव समस्तकार्या- शामुत्पादकः। यतः-तदैक्षत बहुस्याम्प्रजायेय' (छा ६॥२॥२) 'तत्तेज ऐक्षत, 'ता आप ऐक्षन्त' इत्यादिश्रुतिषु कारणभूतस्य सच्छब्दाभिहितस्य परमात्मनो बहुभवनसङ्कल्परूपाल्लिङ्गात्स एव महदादेस्तत्वानां तेजः प्रमृतीनांचोत्पादकः । 'तत्तेज ऐक्षत' इति नहि अभूतानां तेज आदीनामभिण्यानं सम्भवति । तेजश्श- रीरकस्य चेतनस्य ब्रह्मणस्तु सम्भवतीति स एवोत्पादकः ॥ १५ ॥ इति तेजोऽ. धिकरणम् । विपर्ययेण तु मोऽत उपपद्यते च । २।३।१६ । भौतिकप्रळयमविकस्य चिन्त्यते-किमयं भौतिकप्रलयो भूतोत्पत्तिकमेण भव. त्युत तद्विपर्ययेणेति संशये भौतिकोत्पत्तिकमेणेति पूर्वः पक्षः। सिद्धान्त-भत द्वितीयाध्यायस्य तृतीयः पादः । ५३. उत्पत्तिकमात्प्रलयक्रमो विपर्ययेणावगन्तव्यः । उपपद्यते च तथा प्रलयक्रमः 'पृथिव्यप्सु लीयते आपस्तेजसि' (सुबा २ ख ) इत्यादिश्रुतेः ॥ १६ ॥ इति वि. पर्ययाधिकरणम् । अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् । २।३।१७। भौतिकावुत्पत्तिप्रलयक्रमो विचिन्त्येदानी करणकमो विचार्यते । एतस्माज्जा. यते प्राणः मनः सर्वेन्द्रियाणि च (मु० २।१।३) इत्ययं क्रमः 'आत्मन आकाशः सम्भूतः, (तै २।१) इति भौतिकोत्पत्तिकमाद्विरुध्यते न वेति संशये विरुध्यत इति पूर्व पक्षः । कुतः ? एतस्माज्जायते प्राणः, (मु० २१११३) इति वाक्य. लिजादात्मनः प्राणेन्द्रियमनसामुत्पत्तिस्तेभ्यो भूतानीति क्रमेणोत्पत्तिरतस्साक्षादात्मन आकाशायुत्पत्तिकमाद्विरुध्यत एवेति प्राप्ते सिद्धान्तः । नैव विरुध्यते-अविशेषात्- 'यस्य पृथिवीशरीरम्। 'यस्यापः शरीरम्' इत्यादि श्रुतिभ्यो भूतेन्द्रियाणां परमा- स्मशरीरत्वावगमात् । 'शरीरवाचकानां शब्दानां शरीरिणि पर्यवसानात्तत्तच्छरी- रकब्रह्मण एवोत्पत्तेरविशेषात् ॥१७॥ चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावि- स्वात् । २।३। १७ । ननु प्रत्यर्थ शब्दप्रवृत्तेः ब्रह्मणि कथं मुख्यत्वमित्याह-चराचरेति-तुश्चोधे ब्यावर्तयति। स्थावरजङ्गमवस्तुव्यपदेशक: शब्दो ब्रह्मणि अभातको मुख्य एव- स्यात् । सर्वस्यापि स्थावरजङ्गमात्मकवस्तुनो ब्रह्मभावमावित्वेन ब्रह्मशरीरतया प्रकारत्वात् । प्रकारवाचकानाच शब्दाना प्रकारिणि पर्यवसानात् । तथा च सर्वे शब्दाः प्राधान्येनैव ब्रह्म बोधयन्ति । अनधीतवेदान्तास्त्वेकदेशेऽपि शब्दं प्रयु- जानाः पूर्णा व्युत्पत्ति मन्वते । नस्वेवमस्ति । नहि प्रकारमात्रेऽर्थविश्रान्तेस्तच्छ- ब्दशक्तेः पूर्णता भवति । तथा च चराचरवस्तुमात्रबोधने भाक्त एव प्रयोगः । तदुक्तं श्रीमदानन्दभाष्यकारैः प्रकृतसूत्रे 'तथा चैकस्यैव शब्दस्य मुख्यवृत्त्या ब्रह्माभिधायकत्वं गोण्या च वृस्या चराचरबोधकत्वमिति ॥ १८ ॥ इत्यन्तरा. विज्ञानाधिकरणम् । नात्माऽश्रुतेनित्यत्वाच्च ताभ्यः । २।३ । १४ । वियदाखिलप्रपश्वस्य परस्माद् ब्रह्मण उत्पत्तावात्मनोऽप्युत्पत्तिरस्ति न वेति संशये 'पदेव सोम्येदमप्र आसीदेकमेवाद्वितीयमिति सष्टेः प्रागेकत्वावधारणादेक-

५४
ब्रह्मसूत्रीयवेदान्तवृत्तौ-
।
विज्ञानेन सर्वविज्ञानप्रतिज्ञायाश्च ब्रह्मातिरिक्तस्य सर्वस्याप्युत्पत्तिमत्वेनात्मनोऽप्यु-
त्पत्तिरस्तीति पूर्वः पक्षः। सिद्धान्तस्तु-आत्मा नोत्पद्यते, अश्रुतेः। नचैकापि
श्रुतिरात्मन उत्पत्तिमभिधत्ते। प्रत्युत 'नित्यो नित्यानाम्' 'भजो नित्यः शाश्व.
तोऽयम्पुराणो न हन्यते, 'ज्ञाज्ञौ द्वावजी, 'न जायते म्रियते, इत्यादिश्रुतिभ्यो
नित्यत्वमेवाभिधीयते । नचैवमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञा हीयेतेति वाच्यम् ।
प्रतिज्ञानुगुणं कार्यत्वमवस्थान्तरापत्तिरूपं जीवेप्यूरीक्रियते, ज्ञानसङ्कोचविकाशरूपा-
न्यथाभावस्यात्मनि सत्त्वेऽपि आकाशादिष्विव स्वरूपान्यथाभावो नास्तीत्युत्पत्ति-
निषिध्यते । एवं चात्मनो ब्रह्मकार्यस्खेऽपि नित्यत्वं निर्विवादम् ॥ १९ ॥ इत्या-
स्माधिकरणम् ।
शोऽत एव । २।३।२० ।
जीवस्वरूपमिदानी चिन्त्यते । तत्राऽयं संशयः । किमयं प्रत्यगात्मा ज्ञानरूप
आगन्तुकज्ञानगुणोऽथवा ज्ञानाश्रय इति । "विज्ञानं यज्ञं तनुते, (ते) 'यो विज्ञाने
तिष्ठन् , (३।१२२।) इत्यादिश्रुतिभ्यो ज्ञानरूप इति प्रथमः पक्षः। सुषु-
प्त्यादिषु चैतन्यानुपलब्धेः 'न प्रेत्य संज्ञास्ति, ( वृ० २४.१२) इत्यादिश्रौत-
वचनैर्मुक्तावपि चैतन्याभावबोधनाच्च कादाचित्कचैतन्यगुणक एवेत्यपरः पक्षः ।
अत्राभिधीयते-'न पश्यो मृत्यु पश्यति' (छा ॥२६॥२) 'जानात्येवायम्पुरुषः'
'एष हि दृष्टा' (प्र ४१९ ) अथ यो वेदेदं जिघ्राणोति स मात्मा' (छा ८।१२।४)
इत्यादि श्रुतिभ्यो ज्ञातेवायं जीवः ॥ २० ॥
उत्क्रान्तिगत्यागतीनाम् । २।३।२१ ।
ज्ञाता सन्नपि नायं जीवी विभुः किन्त्वणुरेव । “एष मात्मा निष्कामतिः
७ ६।४।२) 'चन्द्रमसमेव ते सर्वे गच्छन्ति' (को० ११२) 'तस्माल्लोका-
पुनरेति' (वृ ६।४।२) इत्यादि श्रुतिभ्यः ॥ २१ ॥
स्वात्मनाचात्तरयो ।२।३।२२ ।
उत्तरयोगत्यागत्योः स्वात्मनैवानुष्ठेयतया नायं विभुः किन्त्वणुरेव ॥ २२ ॥
नाणुरिति चेन्नेतराधिकारात् । २।३ । २३ ।
ननु 'सवा एष महाजन आत्मा' ( ४।४।२५) इति महत्वाम्नादणुरिति
वैन, 'यस्यानवित्तः प्रतिबुद्ध आत्मा' (बृ ४१४॥१३) इति श्रुतेस्तनेतरस्य पर-
मात्मनोऽधिकारात् ॥ २३ ॥

द्वितीयाध्यायस्य तृतीयः पादः ।
५५
स्वशब्दोन्मानाभ्याञ्च । २ । ३ । २४ ।
'एषोऽणुरात्मा' ( मु ३।१।४) इति स्ववाचकाणुशब्दात् 'आराममात्रो ह्यव-
रोऽपि दृष्टः' ( श्वे० ५।८) इत्युन्मानाच्चाणुरेव ॥ २४ ॥
अविरोधश्चन्दनवत् । २।३ । २५ ।
जीवस्याणुत्वेऽखिलदेहध्यापि सुखाद्यनुभवविरोधः स्यादित्यन्यमतेन समाधत्ते।
यथा चन्दनविन्दुर्दैहैकदेशस्थोऽप्यखिलदेहव्यापिसुखजनकस्तद्वदविरोधः ॥ २५ ॥
अवस्थिति वैशेष्यादिति चेन्नाभ्युपगमावृदि हि । २।३ । २६ ।
ननु चन्दनस्य देहैकदेशेऽवस्थितिरस्तीति चेन्नात्मनोऽपि 'योऽयं विज्ञानमयः
नाणेषु हृद्यंन्तज्योतिः' (वृ६॥३॥७) इति हृदयदेशेऽवस्थितेरणुत्वमेव ॥ २६ ॥
गुणाद्वालोकवत् । २।३ । २७ ।
स्वमतमाह । वाशब्दोऽन्यमतं व्यवच्छिनत्ति । अणुरप्यात्मा स्वकीयज्ञान-
गुणेनाखिलदेह व्याप्य सुखादीननुभवति । प्रदीपादेरालोको यथा कृत्स्नं व्याप्य
प्रकाशयति तद्वत् ॥ २७॥
व्यतिरेको गन्धवत्तथा च दर्शयति । २।३। २ ।
ननु ज्ञानस्वरूपस्यात्मनः कथं ज्ञानगुणत्वमभिधीयत इत्याह-व्यतिरेक इति
पृथिव्या गुणस्य गन्धस्य यथा व्यतिरेकस्तथात्मनो ज्ञातृत्वेऽपि तद्गुणस्य ज्ञानस्य
व्यतिरेकोऽस्ति । तथा च दर्शयति श्रुतिः 'जानात्येवायं पुरुषः' इति ज्ञातृत्वेन
प्रतीतस्य 'आलोमभ्य आनखेभ्यः' इति सर्वशरीरव्याप्तिं तद्गुणभूतेन ज्ञानेन॥२८॥
पृथगुपदेशात् । २।३।२४ ।
आत्मनस्तद्गुणस्य च पार्थक्येन श्रुतावुपदेशात् 'न हि विज्ञातुर्विज्ञातेविपरि-
लोपो विद्यते' (बृ ६॥३॥३०) इति । 'प्रज्ञया शरीरं समावह्य' (को ३६)
इत्यात्मनः करणत्वेन तद्गुणज्ञानस्य च करणत्वेनेति पृथगुपदेशात् ॥ २९ ॥
तद्गुणसारत्वा तद्यपदेशः प्राज्ञवत् । २।३ । ३० ।
कथं तर्हि 'विज्ञान यज्ञं तनुते' इति विज्ञानमात्रमेवात्मनः स्वरूपमिति वचः
साच्छतामित्याशङ्कायामाह-तदिति । तुशब्दः शङ्कामपनुदति । विज्ञानगुणसार-
स्वादात्मनो विज्ञानपदेन व्यपदेशः । यथा 'यः सर्वज्ञः सर्ववित्' (मु ११९)
इति श्रुतस्य सर्वज्ञानाश्रयस्य प्राज्ञस्य 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्यत्र ज्ञानशब्देन
व्यपदेशस्तद्वज् ज्ञातुरप्यात्मनो विज्ञानपदेन व्यपदेशः ॥ ३० ॥

५६ ब्रह्मसूत्रीयवेदान्तवृत्तौ- याचदात्मभावित्वाच न दोषस्तदर्शनात् । २।३ । ३१ । आत्मनो विज्ञानगुणस्य स्वरूपनिरूपधर्मतया विज्ञानपदेन व्यपदेशो न दो. षः । लोके गोत्वादेः स्वरूपनिरूपक्रधर्मत्वेन गौरितिपदेन व्यपदेशो दृश्यते ॥३१॥ पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् । ३ । ३ । ३२ । सुषुप्त्यादौ ज्ञानानुपलब्धेनं यावदात्मभावित्वमिति चोधं निवर्तयति । पुंस्त्वा- दौति-बाल्ये पुंस्त्वादेः सत एव यौवनेऽभिव्यकिर्यथा तथैव सुषुप्त्यादौ ज्ञानस्यान- भिव्य कस्य जागरादावभिव्यक्तियोगान काप्यनुपपत्तिः ॥ ३२ ॥ नित्योपलब्भ्यनुपलब्धिप्रसङ्गोऽन्यतरनियमोवाऽन्यथा। २ । ३। ३३ । एवं स्वमते ज्ञातृत्वमणुत्वञ्चात्मनोऽभिधाय मतान्तरे दोषमाविष्करोति। अन्यथा- आत्मनो ज्ञप्तिरूपत्वं सर्वगतत्वम्चेति पक्षे स्वतः प्रकाशरूपस्य ज्ञानस्य नित्योपल- धिरवर्जनीया। विद्यमानायाञ्च ज्ञातावरेण हेतुनानुपलब्धेरुत्पत्तुमशक्यतयाऽनुपल. ब्धेरपि स एव हेतुः स्यादित्यनुपलब्धिरपि नित्यैव भवेत् । एवं नित्योपलब्ध्यनु. पलब्धी युगपत्स्याताम् , विरुद्धयोर्योगपद्यायोगेत्वन्यतरस्योपलब्धेरनुपलब्धेर्वा नि. यमः स्यादिति न कथमपि दोषनिर्मुक्तिः । एवं हेतुजन्यज्ञानपक्षेऽप्यात्मनो विभु. वेन करणैः सर्वदा संयुक्तत्वाददृष्टादेरपि सर्वसाधारणस्वादयमेव दोषत्तस्मादणु- स्वमतमेव ज्यायः ॥ ३३ ॥ इति शाधिकरणम् । कर्ता शास्त्रार्थवत्वात् । २।३। ३४ । मात्मनः कर्तृत्वमस्ति न वेति संशयः । 'अहङ्कारविमूढात्मा कर्ताहमिति म. न्यते' (गी ३।२७ ) 'नान्यं गुणेभ्यः कर्तारम्' इत्यादिवचनैः कर्तृत्वं नास्तीति पूर्वः पक्षः । अत्राभिधीयते-'यजेता 'उपासीतइत्यादि शाम्राणामर्थवत्त्वादात्मा कतैव । नात्मभिन्नानां गुणानो तरसम्भवत्यचेतनत्वात् ॥ ३४ ॥ उपादानाविहारोपदेशाच्च । २।३ । ३५ । 'तदेतेषां प्राणानां विज्ञानेन विज्ञानमादाय' (वृ ४११.) 'स्वे शरीरे य- थाकामं परिवर्तते' (बृ ४।१।१८) इत्युपादानत्वश्रवणाद्विहरणोपदेशाचास्मन एव कर्तृत्वम् ॥ ३५॥ व्यपदेशाच क्रियायां न चेन्निदशविपर्ययः । २।३। ३६ । 'विज्ञानं यज्ञं तनुते (ते २।५।१) इति क्रियायो कर्तृत्वव्यपदेशादात्मैव को । विज्ञानपदेन बुद्धग्रहणे तु विज्ञानेनेति करणविभक्त्या माध्यमिति निर्देश- द्वितीयाध्यायस्य तृतीयः पादः। ५७ विपर्ययः स्यात् तस्मादात्मनः कर्तृत्वम् ॥ ३६ ॥ उपलब्धिवदनियमः।२।३।३७ । प्रकृतिरेव की भोक्तास्वात्मेति मते प्रकृतेः सर्वसाधारण्यात्तन्मते विभुरूपस्या- स्मनः सदा सम्बन्धात्सर्वकर्मणां सर्वभोग्यत्वमनिवार्य स्यात्तथा चोकोपलब्धिवदनि- यमोऽत्र समान एव ॥३७॥ शक्तिविपर्ययात् । २।३।३। यः कः स एव भोक्तेति नियमात् प्रकृतेः कर्तृत्वे भोक्तृत्वमपि तस्या एवा- भ्युपेयम् । तथा सति भोक्तृत्वशक्तेविपर्ययः स्यात्पुरुषाख्यतत्वाधिगमो वैय्यय. मावहेदत आत्मैव कर्ता ॥ ३८ ॥ समाध्यभावाश्च । २।३1381 प्रकृतेरेव कर्तृत्वे तु कैवल्यावाप्तये प्रकृतितत्कायेभ्यो भिन्नोऽस्मीत्यनुसन्धान- रूपस्य समाधेरभावः स्यात् । नहि स्वयं स्वतो भिन्न इति सम्भवति । तस्मा- दात्मैव कर्ता ॥ ३९ ॥ यथा च तक्षोभयथा । २।३।४। ज्ञानेच्छादिगुणवतो जीवस्येच्छायो सत्यामसत्याञ्च कर्तृत्वमकर्तृत्वम्चेति व्य. वस्थोपपद्यते । यथा च तक्षास्वकीयेच्छामनुरुध्य करोति न करोति चेति । अचेत. नारिमकायाः प्रकृतेरिच्छाद्यभावान व्यवस्थेत्यात्मन एव कर्तृत्वम् ॥ ४० ॥ इति कत्रधिकरणम् । परातु तच्छतेः । २।३।४१ । एवमभिहितजीवस्य कर्तृत्वं स्वायत्तमुत परायत्तमिति संशयः । स्वेच्छयानुष्ठि- तानो कर्मणां फलमपि स्वेनैव भोकम्यमतः स्वायत्तमेव कर्तृत्वमिति पूर्वः पक्षः । अत्राभिधीयते । तुशब्दः पूर्ववक्ष व्यावर्तयनि । तत्कर्तृत्वमात्मनः परमात्मायत्त. मेव न स्वायत्तम् , 'अन्तः प्रविष्टः शास्ता' (तै ३।११।१०) 'य आत्मानमन्त. रोयमयति' (बृ. ३२९) इत्यादि श्रुतेः ॥४१॥ कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धाऽवैयादिभ्यः।२।३। ४२ । ननु परमात्मायत्तजीवकर्तृत्वे विहितप्रतिषिद्धकर्मणां वैयथ्यं स्यादिति चोय परिहरति-कृतेति । तुश्चोद्यनिवर्तकः । पूर्व जीवः स्वेच्छया कार्यप्रवृत्तिनिवृत्तिभ्यां प्रयतते । परस्तु तं तत्र प्रयतमानमुदीक्ष्य प्रयत्नानुगुणामनुमतिम्प्रदाय प्रवर्तय- ब्रह्मसूत्रीयवेदान्तवृत्ती- तीति न स्वातन्त्र्येणास्य प्रवृत्तिः । एवं परमेश्वरानुमतिप्रयुक्ते जीवस्य कतृत्वे विहितप्रतिषिद्धकर्मणां वैयर्थ्य न भवति । कर्तुरेव फलसम्बन्धात् । परस्तु जीव- कृतप्रयत्नापेक्षोऽनुमन्तैव ॥ ४२ ॥ इति परायत्ताधिकरणम् । अंशा नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके । २।३। ४३ ॥ भूयोऽपि जीवस्वरूपं चिन्त्यते । किमयं जीवः परमात्मनो भिन्नोऽभिन्नो वोत तदंश इति संशयः । तत्र 'पृथगात्मानं प्रेरितारच मत्वा' (श्वे ११६) 'तयोरन्यः पिप्पलं स्वात्तिः (श्वे ४।६) 'ज्ञाज्ञौ द्वावजौ' (श्वे ११६ ) इत्यादि श्रुतिभ्यो भेदव्यपदेशाद्भिन्न इत्येकः पक्षः। 'तत्त्वमसि' (छा ६।१०।३) 'भयमात्मा ब्रह्म' (छा ६४५) इत्यादिश्रुतिभ्यो भेदस्यौपाधिकत्वादभेदव्यपदेशाद्ब्रह्मणोऽभिन्न एव जीव इति द्वितीयः पक्षः । अत्राभिधीयते सिद्धान्तः। प्रोदीरितश्रुतिषु भेदाऽभे- दव्यपदेशादयं जीवो ब्रह्मणोंऽश एव । ब्रह्मणो जीवशरीरकत्वे सत्येव तस्वमसो- त्यादौ सामानाधिकरण्यं मुख्यं भवति । अत एवैके शाखिनः 'ब्रह्मदाशा ब्रह्मदासाः (आथर्वणश्रुतिः) इति सर्वजीवव्याप्तिमामनन्ति ॥ ४३ ॥ मन्त्रवर्णात् । २।३।४४ । इतवांशो जीवः 'पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि' (पु. सू.) इति मन्त्रवणात् ॥ ४४ ॥ अपि च स्मर्यते । २।३।४५ । 'ममैवांशो जीवलोके जीवभूतः सनातनः' (गी १५।७) इति स्मृतेश्य जीवो ब्रह्मांश एव ॥४५॥ प्रकाशादिवत्तु नैवं परः।२।३।४६ । नन्'शत्वे जीवस्य तदीयदुःखानां ब्रह्मण्यपि प्रसक्तिः स्यादिति चौद्यम्परिहर- ति-प्रकाशादीति । तुना चोधनिराशः प्रकाशवतामंशुमालिप्रमृतीना यथा प्रकाशों- ऽशस्तथा ब्रह्मांशो जीवः । एवं ब्रह्मशरीरस्य जीवस्यांशत्वेऽपि शरीरदोषाणां यथा न शरीरिणि जीवे सम्बन्धस्तथाशभूतजीवनिष्ठानां कर्मप्रयुक्तमुखदुःखादिदोषाणां न परमात्मनि सम्बन्धः ॥४६॥ स्मरन्ति च । २।३।४७ । 'तत्र यः परमात्माची नित्यो निर्गुणः स्मृतः । न लिप्यते फलैश्चापि पनपत्र- द्वितीयाध्यायस्य तृतीयः पादः। मिवाम्भसा' (वि. पु.) इत्यादिभिः स्मरन्ति च पराशरप्रभृतयोऽशिनः परमा-. मनो दोषराहित्यम् ॥ ४७ ॥ अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् । २।३ । ४ । जीवस्य ब्रह्मांशत्वे समानेऽपि देहसम्बन्धादनुज्ञापरिहाराचुपपद्यते । यथा यज्ञीयाग्नेर्ग्रहणानुज्ञा श्मशानाग्नेः परिहारस्तथा ब्राह्मणादिदेहवतो वेदाध्ययनानुज्ञा शूद्रादिदेहानाम्परिहारः ॥ ४८ ॥ भसन्ततेश्चाव्यतिकरः। २।३।४६। परमात्मनोंऽशत्वेऽप्यणुरूपस्य जीवस्य प्रतिशरीरं मिनत्वान्न भोगसांकर्यम् । मतान्तरे तु व्यतिकरः स्यादेवेति ध्येयम् ॥ ४९ ॥ माभास एव च।२।३।५०। अज्ञानरूपोपाधिस्वीकारेऽपि न दोषमुक्तिर्यतो ब्रह्मणोऽविद्यया जीवभावश्चेत्प्र. काशात्मकस्य तस्य स्वरूपतिरोधाने स्वरूपनाश एव स्यात् । चाच्छृतिविरोधोऽपि ॥ अदृष्टानियमात् । २।३। ५१ । देशकालवस्तुपरिच्छेदशून्ये ब्रह्मण्य दृष्यादिभिरपि व्यवस्था न सम्भवति । यतोऽ दृष्टादीनामध्युपाधिप्रयोजकानां तदविशेषात् ।। ५१ ॥ अभिसन्ध्यादिध्वपि चैवम । २।३ । ५२ । अदृष्टसरूगभिप्रायविशेषेष्वपि स्वीक्रियमाणेषु न दोषनिर्मुक्तिः । यत उपाधि ब्रह्मव्यतिरिक्तस्यान्यस्य वस्तुनोऽभावात् । तद्विशिष्टम्ब्रह्मैव ॥ ५२ ॥ प्रदेशभेदादिति चेन्नान्तर्भावात् । २।३। ५३ । नन्वच्छेद्येऽपि ब्रह्मण्युपहितप्रदेशस्य भेदादनुपहितांशः परिशुद्ध एवेति शक्य- ते व्यवस्थापयितुमिति चेन, उपाधिदेशानामनैयत्यासर्वत्र सञ्चरन्नुपाधिरुपहितमे. जाखिलं ब्रह्म कुर्यात् । उपहितप्रदेशानामपि ब्रह्मान्तर्भावाद्ब्रह्मैव दोषविशिष्टस्यात- स्मादश एव जीवः ॥ ५३ ॥ इत्यंशाधिकरप्पम् । इति श्रीमद्भगवद्रामानन्दान्वय प्रतिष्ठितश्रीमदनुभवानन्दस्वामिद्वार- केण ब्रह्मवित्स्वामिश्रीरघुवराचायण विरचितायां ब्रह्मसूत्रीयवे. दान्तवृत्तौ द्वितीयाध्यायस्य तृतीया पादः ।

- ६० ब्रह्मसूत्रीयवेदान्तवृत्तौ- अथ द्वितीयाध्यायस्य चतुर्थः पादः। तथा प्राणा: । २।४।१। एवं गतेन पादेन जीवस्वरूपं तद्भोगायतनस्थूलदेहारम्भकाकाशादिभूतसंभूति- मवधायेंदानी सूक्ष्मदेहारम्भकेन्द्रियादिस्वरूप विचिन्त्यते । तत्र प्राणानामुत्पत्तिर. स्तिनवेति संशयः । 'आत्मनः आकाशः सम्भूतः' (ते. २।११) इत्युत्पत्तिप्रक- रणे प्राणोत्पत्तेरश्रवणात् । "ऋषयो वाव ते अग्रे सदासीत् तदाहुः के ते ऋषय इति प्राणा वा व ऋषय इति( शतप० ६।१।१।) इति प्राणनित्यत्व श्रवणाच । नोत्प तिरस्तीति पूर्वः पक्षः । अत्राभिधीयते-'एतस्माजायते प्राणः मनः सर्वेन्द्रियाणि च' (मु० २१११३) इति श्रुतेवियदादिवत्प्राणा उत्पद्यन्त एव । 'आत्मा वा इदमेक एवाप्रआसीत्। (ऐ० १११११) इत्यादौ सृष्टेः प्रागात्मन एकस्यैवावस्थितिश्रवणाञ्च । ऋषिश्रुतावर्षिपदेन परमात्मनो ग्रहणं न प्राणानाम् ॥ १ ॥ गौण्यसम्भवात् । २।४।२। एवं तर्हि 'आत्मन आकाशः सम्भूतः' इत्युत्पत्तिप्रकरणे प्राणोत्पत्त्यश्रुतत्वादे- तस्माज्जायते प्राणः, इति श्रुतिौणी स्यादिति शङ्को समाधत्ते-गौण्यसम्भवात् । विनिगमनाविरहारसमानश्रुतावुत्पत्तेः श्रवणादेकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधाच गौण्या असम्भव इत्यर्थः ॥ २ ॥ तत्प्राक् श्रुतेश्च । २।४।३। वाक्प्राणमनसां 'अन्नमयं सोम्य ! मन आपो मयः प्राणस्तेजोमयो वाक् (छा० ६।५।४) इति श्रुतौ तेजोऽबन्नपूर्वकत्वकथनात्प्राणपदबोध्यानामिन्द्रियाणा. मुत्पत्तिरस्त्येव ॥ ३ ॥ इति प्राणोत्पत्त्यधिफरणम् । सप्तगतेविशेषितत्वाच्च । २।४।४। तानीन्द्रियाणि सप्तवोतकादशेति संशयः। तत्र 'सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहितारसप्त सप्त' (मु२।१८) इति सप्तानो गतरुपलम्मात् । 'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह बुद्धिश्च' ( का. ५।६।१०) इत्यादी सप्ता- नामेव विशेषितवाच्च सप्तैवेन्द्रियाणोति पूर्वः पक्षः ॥ ४ ॥ हस्तादयस्तु स्थितेऽतो नैवम् । २।४।५। भत्र सिद्धान्तः । तुना पूर्वपक्षो निवर्त्यते। हस्तादयोऽपीन्द्रियाणि सन्ति । जीवोपकारकरवमेवेन्द्रियस्वन्तच्च वाग्धस्तादीनामपि स्थिते शरीरेऽस्तीत्यती नै द्वितीयाध्यायस्य चतुर्थः पादः । न सप्तैवेन्द्रियाणि, किन्तु 'दशेमे पुरुषे प्राणा आत्मैकादश' (बृ. ३।९।४ ) इति श्रुतेरेकादशेन्द्रियाणि । आत्मशब्देनात्र मनो गृह्यते ॥ ५॥ इति सप्तगत्य. धिकरणम् । प्रणवश्व।२।४।६। इन्द्रियाख्यप्राणा विभवोऽथवाऽणव इत्ति संशयः। तत्र त एते सर्व एव समा- स्सर्वेऽनन्ताः' (बृ. १।५।१३ ) इति श्रुतेविभव इति पूर्वः पक्षः। सिद्धान्तस्तु- प्राणमनूत्क्रामन्तं सर्वे प्राणा अनुत्कामन्ति' (बृ. ४॥४॥२) इत्युत्क्रान्तः श्रवणा- दणव एव प्राणाः ॥ ६ ॥ इति प्राणाणुस्वाधिकरणम् । श्रेष्ठश्च । २।४।। सन्द्रियाणां मुख्यप्राणाधीनस्थितिप्रवृत्तिदर्शनात्तस्य श्रेष्ठत्वम् । स च श्रेष्ठः प्राण उत्पद्यते न वेति संशयः । तत्र 'आनीदवातं स्वधया तदेकम्' (ऋ० सं० ८।१५ ) इति प्रलयेऽपि प्राणनध्यापारस्य दर्शनाच्छ्रेष्ठत्वाच्च नोत्पद्यत इति पूर्वः पक्षः । सिद्धान्तस्तु-चोऽप्यर्थः । एतस्माज्जायते प्राणः' (मु० २।१।३ ) इत्युत्पत्तिश्रवणाच्छ्रेष्ठः प्राणोऽप्युत्पद्यते ॥ ८ ॥ इति श्रेष्ठत्वाधिकरणम् । न वायुक्रिये पृथगुपदेशात् । २।४।। अयं प्राणो भूतवायुरुतक्रियाविशेषोऽथवा विशिष्टा वायुरिति संशयः। लोक- व्यवहाराद्भूतवायुरेवाथवोच्छवासादिरूपतया क्रियेवेति पूर्वः पक्षः । अत्रामिषीयते "एतस्माज्जायते प्राणो मनः सन्द्रियाणि च । खं वायुज्योतिरापः (मु. २०१३) इति भूतवायो पृथगुपदेशान्न वायुरथवा क्रिया किन्तु ताभ्यां भिषो विशिधावस्था. मापन्नो वायुरिति ॥ ९ ॥ चक्षुरादिवतु तत्सहशिष्टयादिभ्यः । २।४।१०। ननु यदि वाग्वादिभ्यः पृथगुपदिटस्तर्हि वाय्वादिवत्तत्वान्तरं स्यादित्याशङ्का- म्परिहरति-चक्षुरादिवत्त्विति । तु शब्दः शानिवर्तकः । जीवोपकरणेश्चक्षुरादि- भिस्सहोपदेशादिभ्यो है भ्यश्चक्षुरादिवज्जीवोपकरणमेवायम् ॥ १० ॥ भकरणत्वाच्च न दोषस्तथाहिं दर्शयति । २।४ । ११ । करणं क्रिया तद्रहितत्वादस्य प्राणस्थ न चक्षुरादिवदुपफारकता युज्यत इति दोषस्तु न शवयः यतश्चोपकारविशेष शरीरेन्द्रियधारणं हि दर्शयति श्रुतिः 'यस्मि- न्नुस्कान्त इदं शरीरं पापिष्टतरमिम दृश्यते स वः श्रेष्ठः (डा. ५।११) इति ११ ६२ ब्रह्मसूत्रीयवेदान्तवृत्तौ- पञ्चवृत्तिर्मनावन्द्यपदिश्यते । २ । ४ । १२ । प्राणापानादिनामभेदान्निश्वासादिकार्यभेदाच्च तत्वान्तरमेवास्त्विति शङ्कावसरो नास्ति । यतो यथा 'कामः सङ्कल्प' इत्यारभ्य 'सर्वं मन एव' (बृ. १।५।३) इति श्रुत्युक्तानां कामादीनां मनोवृत्तिरूपत्वं तथा 'प्राणोऽपान' इत्यारभ्य 'इत्येत. सर्व प्राण एव' (बृ. १।५।३) इति व्यपदेशात् प्राणवृत्तिरूपत्वमेवास्य न तत्त्वा. न्तरत्वम् ॥ १२ ॥ इति वायुक्रियाधिकरणम् । अणुश्च । २।४। १३ । अयं प्राणो विभुरणुर्वेति संशयः । 'प्राणे सर्व प्रतिष्ठितम् । 'सम एभित्रिमि- लोकः (बृ० १।३।२२ ) इत्यादिप्रमाणैविभुरेवेति पूर्वः पक्षः । सिद्धान्तस्तु-'तमु. कामन्त प्राणोऽभूत्क्रामति' (बृ. ४।४।२) इत्यादिश्रुतेरणुरेव श्रेष्ठः प्राणः ॥१३॥ इत्यणुत्वाधिकरणम् । ज्योतिराद्यधिष्ठानन्तु तदामननात् । २।४ । १४ । मुख्यः प्राण इन्द्रियाणि चेतीमानि स्वायत्तव्यापाराणि, उतान्यायत्तव्यापारा.. णोति संशय स्वायत्तव्यापारकाणोति पूर्वः पक्षः। अत्राभिधीयते-'अग्निर्वाग्भूत्वाः मुख प्राविशत् । (ऐते. २।४।) इत्यादिश्रुतेरग्न्यादिदेवतानां वागायधिष्ठातृतयाs मननादन्यदेवताधिष्ठितान्येव व्यापारभाजीति ॥ १४ ॥ प्राणवताशब्दात् । २।४।१५। अथैवं प्राणादीनां देवतान्तराधिष्ठितस्वे प्राधान्येन जीवसम्बन्धः कथमित्युच्यते प्राणवतेति । देवतान्तराधिष्ठितत्वेऽपि सर्वेषां प्राणादीनां प्राधान्येन जीवसम्बन्धः शब्दादवगम्यते । 'अथ यो वेदेदं जिघ्राणीति सभात्मा गन्धाय घ्राणम्' (छा ८११२।४) इत्यादिश्रुति वस्यैव प्राधान्येन करणः सम्बन्धमभिधत्ते ॥ १५ ॥ तस्य च नित्यत्वात् । २।४।१६ । जीवसम्बन्धस्य च स्वकर्मफलभोगाय भोगायतनेऽस्मिन् कलेवरे भोक्तृतमा नित्यत्वात् । नान्यस्य कस्यापि तथोपपद्यते ॥ १६ ॥ इति ज्योतिरधिष्ठा. नाधिकरणम् । त इन्द्रियाणि तदुव्यपदेशादन्यत्र श्रेष्ठात् । २।४ । १७ । श्रेष्ठप्राणातिरिकास्ते च प्राणा एषोतेन्द्रियाणीति संशये प्राणशब्देन निर्देशात्सर्वे प्राणा एवेति पूर्वः पक्षः । भत्रोच्यते 'एतस्माज्जायते प्राणः मनः सर्वेन्द्रियाणि च द्वितीयाध्यायस्य चतुर्थः पादः । ६३. .. (मु० २१११३) अत्र प्राणेन्द्रियाणाञ्च पृथग्व्यपदेशाच्छ्रष्ठप्राणव्यतिरिक्तास्ते प्राणा इन्द्रियाण्येव ॥ १७ ॥ भेदश्रुतेवैलक्षण्याच्च । २।४ । १८ । नन्वेवं मुख्यप्राणस्यापीन्द्रियत्वमुपकारकरूपकार्येक्यात्स्यानामभेदस्त्वकिञ्चित्कर इति शङ्कायामाह भेदश्रुतेरिति । 'तेह वाचमूचुः' (बृ. १।३।२) 'अथ हेममासन्य प्राणमूचुः' इति भिन्नमेव कार्यमभिदधत्या भेदश्रुतेः । सुषुप्ताविन्द्रियोपरम उच्छ्वा. सादिरूपाया प्राणवृत्तस्त्वनुपरम इति वैलक्षण्याच्चैकादशेन्द्रियाणि प्राणादतिरिका- न्येव ॥ १८ ॥ इतीन्द्रियाधिकरणम् । संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् । २।४ । १६ । नामरूपव्याकरणं हिरण्यगर्भस्य कर्मोत तच्छरीरस्य ब्रह्मण इति संशये 'अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि (छा० ६।३।२ ) इति श्रुत्या चतुर्मु- खाख्यजीवस्यैवेदं कर्मेति पूर्वः पक्षः। अत्राभिधीयते--सूत्रे तु शब्दः पक्षनिव- तक । 'तासां त्रिवृतं त्रिवृतमेकैको करवाणि (छा०६।१२) इति त्रिवृत्कुर्वतो ब्रह्मण एव नामरूपव्याकरणकर्तृत्व तथोपदेशात् । 'सेयं देवतैक्षत इत्यारभ्य 'तामा त्रिवृतं त्रिवृतमेकको करवाणि ( छा• ६३२) इत्यन्तया श्रुत्या नामरूपव्याकर. णस्य परदेवताकर्तृकत्वोपदेशात् । एतत्कर्म चतुर्मुखादीनां न सम्भवति । तेषा तदानीमभावात् ॥ १९॥ मांसादिभौमं यथाशब्दमितरयोश्च । २।४।२०। ननु 'अन्नमशितं त्रेधा विधीयते' (छा० ३।५।१ ) इति चतुर्मुखसृष्टपदार्थेषु त्रिवृत्करणस्योपदिष्टत्वाज्जीवकर्तृकमेव नामरूपव्याकरणादिकमित्याह-मांपादीति- 'अन्नमशितमित्यादौ प्राणिमुक्तान्नादेः परिणामप्रकारःप्रोच्यते न तु त्रिवृत्करणम् । भन्यथा पुरीषादणीयस्त्वेन मौसमनसोराप्यतैजसत्वप्रसक्तिरनिवार्या स्यात् । अन- मशितम्' इति भूमेरेव त्रैविध्य कथनं विरुध्यते । एवमितयोरप्तेजसोरपि त्रैविध्या- भिधान विरुध्येत । अतोनात्र त्रिवृत्करणोपदेशस्त्रिवृत्करणन्तु परमात्मकर्तृकमेव ॥२०॥ वैशेण्यात्तु तद्वादस्तद्वादः । २।४ । २१ । ननु यदि त्रिवत्कृतानामेव परिणामोऽसमशितमित्यादावुच्यते तर्हि कथमन्ना- शेक रूपेणाभिधानमित्याशङ्कायामुच्यते । वैशेष्यादिति । तुशन्दः शकामुच्छिनत्ति ।

६४
ब्रह्मसूत्रीयवेदान्तवृत्तौ-
भूम्मम्वुतेषां त्रिस्कृतत्वेऽपि स्वभागाधिक्यादनादिवाद इति न दोषः । द्विरुक्ति-
रध्यायसमाप्त्यर्था ॥ २१ ॥ इति संक्षामूर्तिफ्लुप्त्यधिकरणम् ।
इति श्रीमद्भगवद्रामानन्दान्वयप्रतिष्ठितश्रीमदनुभवानन्दस्वामिद्वार-
केण ब्रह्मवित्स्वामिश्रीरघुवराचार्येण विरचितायां ब्रह्मसूत्रीयवे.
दान्तवृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः ।
अथ तृतीयाध्यायस्य प्रथमः पादः।
तदन्तरप्रतिपत्तौ इति सम्परिश्वतः प्रश्ननिरूपणाभ्याम् ।३।१।१ ।
अथात्र साधनाध्याये परप्राप्त्युपाये चिन्त्यमाने-उपास्यवस्वतिरिक्तविषय-
विरक्तिसम्पादनायादौ जीवस्य देहान्तरगतिश्चिन्त्यते । तत्र भूतसूक्ष्मैः प्राणाधा-
रभूतैरसंयुक्तोयं जीवो देहान्तरं प्रयाति आहो स्वित्तैः सम्परिष्वक्त एवेति संशयः।
भूतसूक्ष्माणां देहान्तरेऽपि सौलभ्यादरम्परिष्वक्तः प्रयातीति पूर्वः पक्षः । अत्रा.
भिधीयते-देहान्तरयाने भूतसूक्ष्मः सम्परिष्वक्त एव प्रयाति । एतच्च प्रश्ननि-
रूपणाभ्यामवगम्यते । छान्दोग्ये हि पञ्चाग्निविद्यायो श्वेतकेतुम्प्रति प्रवाहणकृतेषु
पश्चप्रश्नेष्वयमन्तिमः प्रश्नः । अत्र धुलोकपर्जन्य: थिवीपुरुषयोषिद्रूपामिषु श्रद्धा.
सोमवर्षान्नरेतसामाहुतयः प्रोक्ताः । आसु चाहुतिषु श्रद्धापदाभिलप्यानामपामेव
पञ्चम्यामाहुतौ पुरुषशब्दवचनीयत्वमभिहितम् । आभ्यो देहान्तरं भूतसूक्ष्म
सम्परिष्वक्त एव जीवो यातीत्यवगम्यते ॥ १ ॥
ध्यात्मकत्वात्तु भूयस्त्वात् । ३।१।२।
प्रकृतप्रश्नप्रतिवचनयोरपामेव केवलानां गमनमुक्तं न तु समस्तानां भूत-
सूक्ष्माणामित्याशङ्का समाधत्ते। यात्मकत्वादिति-तुना चोर्य निरस्यति । त्रिव.
स्कृतानामेवापामत्र प्रश्नप्रतिवचनयोरुतिस्तत्रापा भूयस्त्वादप्पदेनोक्तम् ॥ २ ॥
प्राणगतेध ।३।१।३।
'तमुत्कामन्तै प्राणोऽनूस्कामति प्रागमनूतकामन्तं सर्व प्राणा अनुरस्कामन्ति'
(६० ६४१२ ) इत्यभिधीयमानं प्राणेन्द्रियामा गमनं प्राणाधारभूतभूतसूक्ष्मै-
। स्सहैव जीयो यातीत्यवगमयति ॥३॥

तृतीयाध्यायस्य प्रथमः पादः। ६५ अग्न्यादिगतिश्रुतेरितिचेन्न भाक्तत्वात् । ३ । १।४।। ननु 'यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यम् । (बृ. ५।२।१३) इति वागादीन्द्रियाणामग्न्यादिदेवतासु लयस्याभिधानान्न जी- वेन सह गमनमिति चेन्न, 'ओषधोर्लोमानि वनस्पतीन् केशा' (बृ. ५१२।१३ ) इत्यप्ययमनवाप्नुवद्भिर्लोमादिमिस्सह पाठादग्न्यादिषु वागाछप्ययश्रुतिस्तद्देवतासु भाक्तेति ॥ ४॥ प्रथमेऽश्रवणादिति चेन तो एव युपपत्तेः । ३।१ । ५ । 'देवाः श्रद्धा जुह्वति' (छा० ५।४।२) इति प्रथमाग्नौ श्रद्धाहुतेरु कतया:- बाहुतेरश्रवणात् कथमपां गतिज वेन सहेति चेन, 'श्रद्धा वा भापः' इत्यादि श्रुते- रत्र श्रद्धाशब्देनाप एवोच्यन्ते । अत एवाप्सम्बन्धिनः प्रश्नस्य प्रतिवचनं श्रद्धा जुह्वति इस्यप्त्वेन श्रद्धाया प्रण एवोपपद्यते ॥ ५ ॥ भश्रतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः । ३।१।६। ननु 'देवाः श्रद्धा जुह्वति ( छा० ५।४।२) इत्यादिवाक्यादप्संयुक्तस्य जोवस्य गमनं न श्रुतमिति चेन्न, 'अथ य इमे प्राम इष्टापूर्तदत्तमित्युपासते ते धूममभि- सम्भवन्ति' (छा० ५।१०।३) इत्यादिवाक्यकदम्बेनेष्टादिकारिणां धूमाध्वना चन्द्रलोकगमनं स्पष्टं प्रतीयते ॥ ६ ॥ भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ।३.१।७। नन्वेवं 'तद्देवानामन्नं तं देवा भक्षयन्ति' (छा० ४।१०।४) इति देवानी भक्ष्यत्वेनोक्तो जीवः कथम्भवेदित्याशङ्कामपनुदति । वा शब्दः शङ्काव्यावर्तकः । तदेवानामन्नमित्यादिवचनं न जीवानामदनीयत्वं ते किन्त्वनात्मविदो देवभोगो- पकरणता मजन्त इत्यर्थज्ञापकत्वेन भाकम् । तथाहि दर्शयति श्रुतिः 'यथा पशु- रेवं स देवाताम्' (बृ. ११४११०) इति देवभोग्यत्वमात्रम् । अतो भूतसूक्ष्मः सहित एव जीवो देहान्तरम्प्रयाति ॥ ७ ॥ इति तदन्तरप्रतिपत्यधिकरणम् । कृताऽत्ययेनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च ।३।१ । । धूमाध्वना सोमनोकमुपेतानामिष्टादिकारिणां कर्मावसाने ततः प्रत्यावर्तनमा. म्नायते । तस्मिन् यावत्सम्पातमुषित्वाऽथतमेवाध्वानं पुननिवर्तन्ते' (छा० ५। १.१५) इत्यत्र संशयः। सोमलोकादवरोही निरनुशयोऽवरोहति सानुशयो वेति । तत्र यावत्सम्पातमुषित्वेति वचनादुपभुक्तसमस्तकर्मफल एवावरोहतीति पूर्वः पक्षः । ५ब्रह्म ६६ ब्रह्मसूत्रीयवेदान्तवृत्तौ- अत्राभिधीयते-कृतस्य कर्मणोऽत्यये मुक्तशिष्टकर्मवानेवावरोहति । श्रुतिस्मृति. भ्यामयमर्थोऽवसीयते । तद्य इह रमणीयचरणा अभ्यासोह यत्ते रमणीयां योनि. मापोरन् , अथ य इह कपूयचरणा अभ्यासो ह यत्ते कपूया योनिमापोरन्। (छा० ५।१०।७) इति श्रुतेः 'प्रेत्य कर्म फलमनुभूय ततः शेषेणेत्यारभ्य 'जन्म प्रतिपद्यन्ते' (गौतम ) इत्यन्तस्मृतेः। अवरोहणञ्चारोहणक्रमेण तद्विपर्ययेण च भवति । तथाच चन्द्रमस आकाशं ततः पितृलोकमिति क्रमेणाकाशाद्वायु वायुभूत्वा धूम इत्यादि तद्विपर्ययेण च श्रुत्यनुगुणमवराहेणं निश्चीयते ॥ ८ ॥ चरणादिति चेन्न तदुपलक्षणार्थेति कार्णाजिनिः । ३।१।। ननु रमणीयचरणाः' इति श्रुतिब्राह्मणादिजन्मनः कारणभूतं शुद्धाचारमभिधत्ते नत्वनुशयाख्यं भुरुशिष्टं कमेति चेन्न, तच्च्छ्रतिः कर्मोपलक्षणार्थति काष्णाजि- निर्मन्यते ॥ ९॥ भानर्थक्यमिति चेन्न तदपेक्षत्वात् । ३ । १।१०।। यदि कर्मण एव चरणश्रुत्याभिधानं न तु स्मार्ताचारस्य तदानर्थक्यमेवायात- माचारस्येति चेन्न, 'सन्ध्या हीनोऽशुचिनित्यमनहः सर्वकर्मसुः इत्याधने कस्मृतेः कर्मण्यधिकृतिसम्पत्तये शुद्धाचारस्यापेक्षितत्वात् ॥ १० ॥ सुकृतदुष्कृत एवेति तु बादरिः।३।१ । ११ । तु शब्दः पूर्वमतव्यावर्तकः मुख्यवृत्त्यैव चरणशब्देन सुकृतदुष्कृते उच्यते 'पुण्यं कर्माचरति' इत्यादि प्रयोगदर्शनात् । अतश्चरणशब्दस्य नोपलक्षणविषया कर्मज्ञापकत्वमिति बादरिराचार्यों मन्यते ॥ ११॥ इति कृतात्ययाधिकरणम्। अनिष्टादिकारिणामपि च श्रुतम् । ३ । १ । १२ । इष्टादिकारिणामिवानिष्टादिकारिणामपि चन्द्रलोकगमनमस्ति न वेति संशये 'ये वैके चास्याल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति' ( कौषी० १२) इत्यविशेषेणाभिधानादनिष्टादिकारिणामपि चन्द्रलोकगमनं श्रुतम् ॥ १२ ॥ संयमने त्वनुभूयेतरेषामारोहावराहौ तद्गति दर्शनात् ।३।१।१३ । एवं तहाँधानिष्टादिकारिणोरुभयोरविशेषेणैव सोमलोकगतिर्भवेदित्याशवामप- नुदन्नाह-संयमन इति-तुशब्दः शङ्का निवर्तयति-अनिष्टादिकारिणां सोम- लोकारोहावरोही संयमने यमलोके यमवशवर्तितया यामी यातना अनुमयैव भवतो नेतरथा । 'भयं लोको नास्ति पर इति मानी पुनःपुनर्वधमापद्यते मे (का.६।२) तृतीयध्यायस्य प्रथमः पादः। इति यमलोकगतेदर्शनात् ॥ १३ ॥ स्मरन्ति च । ३।१ । १४ । 'सर्वे चैते वशं यान्ति यमस्य भगवन् किल' (वि. मु. ३१५) इत्येवू स्मरन्ति च मुनयः ॥ १४ ॥ अपि च सप्त । ३।१।१५। सप्त नरकान् रौरवादानपि दुष्कृतभोगस्थानतया स्मरन्ति ॥ १५ ॥ तत्रापि च तद् व्यापारादविरोधः। ३। १ । १६ ननु रौरवादिनरकेषु कथ यमवशवर्तित्वमित्याह-शेरवादिष्वपि यमकृत एव व्यापारस्तस्मादविरोधः ॥ १६ ॥ विद्याकर्मणोरिति तु प्रकृतत्वात् । ३ । १ । १७ । पञ्चसूत्र्या पूर्वपक्षितस्यानेन सिद्धान्तयति-तुशब्दः पूर्वपक्षं व्यावर्तयति । अनिष्टादिकारिणां न सोमे गतिरुपपद्यते। यतो विद्यायाः कर्मणश्च फलं ब्रह्मप्राप्ति- श्चन्द्रप्राप्तिरिति तल्लब्धय एव देवयानपितृयाणयोरुपयोगः । 'तद्य इत्थं विदुयेंचे. मेरण्ये श्नद्धातप इत्युपासते तेऽर्चिषमभिसम्भवन्ति' अथ य इमे प्रामे इष्टापूत दत्तमित्युपासते ते धूममभिसम्भवन्ति' इति प्रकृतत्वात् । एवं च 'चन्द्रमसमेव ते सर्वे गच्छन्ति, इति श्रुतेरिष्टादिकारिणः सर्वे चन्द्रमसमेव गच्छन्तीत्या. दिरों युक्तः ॥ १७ ॥ न तृतीये तथोपलब्धेः।३।१ । १८ । ननु पञ्चमाहुतेश्चन्द्रावरोहणपूर्वकदेहारम्भकत्वश्रवणादनिष्टादिकारिणामपि देहा- रम्भाय चन्द्रगमनमावश्यकमिति शङ्कामपाकरोति-नेति । पापकर्मणां क्षुद्रजन्तूनां देहारम्भाय न पञ्चमाहुत्यपेक्षा। तथोपलब्धेः । अथैतयोः पथोर्न कतरेण च न तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीय स्थान तेनासौ लोको न सम्पूर्यते, (छा० ५।१०।८ ) इति तृतीयस्थानस्य पापिनो युलो- कगतेरश्रवणात् पश्चमाहुतैरनपेक्षाया उपलब्धेः ॥ १८ ॥ स्मयतेऽपि च लोके । ३।१ । १६ । पुण्यात्मनामपि देहारम्भाय न पञ्चमाहुते यत्यमस्ति । द्रौपद्यादीनां तदनपे- क्षयैव देहारम्भो लोके स्मर्यते ॥ १९ ॥ दर्शनाश्च । ३।१।२०।

ब्रह्मसूत्रीयवेदान्तवृत्तौ- दर्शनं श्रुतिः 'तेषां खल्वेषां भूतानां त्रीण्येव वीजानि भवत्याण्डजं जीवज- मुद्भिज्जम् , (छा० ६।३।१) इति । तस्मादुद्भिज्जस्वेदजयोराहुत्यनपेक्षत्वम् । दृश्यते ॥२०॥ तृतीयशब्दावरोधः संशोकजस्य । ३।१ । २१ । 'अण्डजं जीवजमुद्भिज्जम्' इति श्रुतौ तृतीयेनोद्भिज्जशब्देन संशोकजस्य स्वेदजस्यापि सङ्ग्रहः। अतोऽनिष्टादिकारिणां न सोमलोकगतिरिति ॥ २१ ॥ इत्यनिष्टादिकार्यधिकरणम् । तत्स्वाभाव्यापत्तिरुपपत्तः।३।१।२२। इष्टादिकारिणां सोमलोकादवरोहणमित्थं श्रूयते 'अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशम्' (छा० ५।१०१५) इत्यत्र संशयः। किमेषामाकाशादिप्राप्ती तत्त पापत्तिरुत तत्सादृश्यमिति । तत्र सोमरूपापत्तिपदाकाशादिरूपापत्तिरिति पूर्वः पक्षः। सिद्धान्तस्तु-आकाशादिसादृश्यापत्तिरेव । सुखाद्यनुभवाय चन्द्रादिरूपापत्ते- रावश्यकत्वम् । आकाशादिप्राप्तौ तु सुखाद्यननुभवात्सादृश्यापत्तिः । अत एव सुखा- धनुभवाभावोपपत्तेः ॥ २२ ॥ इति साभाव्यापत्तिरधिकरणम् । नातिचिरेण विशेषात् । ३।१ । २३ । आकाशादिप्राप्तौ तत्र तत्रातिचिरंतत्सादृश्यापत्तिराहोस्विन्नातिचिमिति संशयः। अतिचिरमिति पूर्वः पक्षः। सिद्धान्तस्तु 'अतो वै खलु दुनिष्प्रतरम्' (छा० ५। १०१६) इति व्रीयादिभावे चिरेणावस्थानस्य विशिष्योक्तत्वात्तदप्रिमेष्वाकाशादिषु नातिचिरेणावस्थानम् ॥ २३ ॥ इति नातिचिराधिकरणम् । अन्याधिष्ठिते पूर्ववदभिलापात् । ३।१।२४। छान्दोग्ये 'त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते' (छा. ५।१०६) इत्यवरोहणश्रुतिरस्ति तत्र किमेषामनुशयवतां जन्माभिधीयत उता- न्यजीवाधिष्ठितेषु ब्रीह्यादिषु संश्लेषमात्रमिति संशयः। 'जायन्ते' इति श्रवणाज्ज- न्मैवेति पूर्वः पक्षः । सिद्धान्तस्तु-अन्य वैरधिष्ठितेषु ब्रीधादिश्वाकाशादिवत् संश्लेषमात्रं भवति । यत इष्टापूर्तादेः कर्मणो भुक्ततया तदतिरिक्तस्यानुशयभिन्नस्य फलोपजननयोग्यस्य कर्मणोऽभावाज्जन्मानुपपत्तेरतः संश्लेषमात्रम् ॥ २४ ॥ अशुद्धमिति चेन्न शब्दात् । ३।१ । २५ ॥ नन्वग्निष्टोमादेरिष्टस्य कर्मणो हिंसाऽश्लिष्टतयाऽशुद्धं तदिति तत्फलदुःखभो- तृतीयाध्यायस्य द्वितीयः पादः । गाय ब्रीह्यादिषु जन्म एव कुतो न स्यादिति चेन, यजेतेत्यादि विविशब्दात्तस्य पुण्यजनकत्वेन दुःखफलत्वाभावात् ॥ २५ ॥ रेतः सिग्योगोऽथ । ३।१ । २६ । अवरोहतामनुशयिनां ब्रीह्यादिभावमुपेत्य रेतः सिग्योथ श्रूयते 'यो यो ह्यन्न- मत्ति यो रेतः सिञ्चति तदुभय एव भवति' (छा० ५।१०।६) इति । अतो रेतः सिचि यथा योगस्तथा व्रीह्यादिष्वपियोगमात्रमेव ॥ २६ ॥ यानेः शरीरम् । ३।१ । २७ । एवमवरोहतामनुशयिनां योनिप्राप्तिस्ततः शरीरमुत्पद्यते । इदमेवानुशयभो- गाय मुख्यं जन्म । तस्मादितः पूर्वमाकाशादिषु संयोगमात्रमेव ॥ २७ ॥ इत्य- न्याधिष्ठिताधिकरणम् । इति श्रीमद्भगवद्रामानन्दान्वयप्रतिष्ठितश्रीमदनुभवानन्दस्वामिद्वार- केण ब्रह्मवित्स्वामिश्रीरघुवराचार्येण विरचितायां ब्रह्मसूत्री- यवेदान्तवृत्तौ तृतीयाध्यायस्य प्रथमः पादः । - AM । अथ तृतीयाध्यायस्य द्वितीयः पादः । सन्ध्ये सृष्टिराह हि । ३।२।१। एवं वैराग्याय जन्मिनो जाग्रदवस्थामवधार्य सम्प्रति स्वप्नावस्था विचार्यते बृहदारण्यके 'न तत्र रथा न रथयोगा' इत्यारभ्य अथ वेशान्ताः पुष्करिणीः खव- न्तीः सजते स हि तत्र कर्ताः (बृ. ४।३।१०) इति स्वप्नमधिकृत्योक्तम् । तत्र संशयः किं स्वाप्निकानामर्थानां सृष्टा जीव उत परमात्मेति । 'सृजत' इति कर्तृत्वं जीवस्यैव हि श्रुतिराहेति पूर्वः पक्षः ॥ १ ॥ निर्मातारं चैके पुत्रादयश्च । ३।२।२। स्वाप्निकानामर्थानां निर्मातारं चैके शाखिनः प्रत्यगात्मानमेवामनन्ति 'य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः' (का० ११५१८) इत्यत्र कामप- देन पुत्रादय एवोच्यन्ते ॥ २ ॥ मायामात्रन्तु कात्स्न्य॑नानभिव्यक्तस्वरूपत्वात् । ३।२।३। अत्र सिद्धान्तयति । तु शब्देन पूर्वपक्षो व्यावय॑ते । स्वप्ने महाश्चर्यकर रथादिकं परमात्मसृष्टम् स्वप्नप्रेक्षककानुभाव्यत्वेनाशुविनाश्यत्वेन चाश्चर्यरूपत्वम् ।

ब्रह्मसूत्रीयवेदान्तवृत्तौ- एवं प्रकारायाः सृष्टेः सामर्थ्य शाश्वतिकसत्यसङ्कल्पस्य मायिनः परमपुरुषस्यैव न जीवस्य । तस्य संसरतः सत्यसङ्कल्पत्वादिगुणजातेनानभिव्यक्तस्वरूपत्वात् । कामं काममित्यपि वाक्यं परपरमेव ॥३॥ पराभिध्यानातु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ । ३ । २।४। यद्यपि प्रत्यगात्मनोऽप्यपहतपाप्मत्वादिकं स्वाभाविकं तथापि संसारदशायां परमात्मसङ्कल्पविशेषात्कर्मणस्तिरोहितं तस्मादेव चास्य बन्धमोक्षौ स्तः। तदाह श्रुतिः 'परं ज्योतिरुपसम्पद्य स्वेनरूपेणाभिनिष्पद्यते' इति ॥ ४ ॥ देहयोगाद्वा सोऽपि । ३ । २।५ । देवादिदेहसम्बन्धात्प्रलयसमये च सूक्ष्माचित्सम्बन्धादस्य प्रत्यगात्मनः स्व- स्वरूपस्य तिरोभावोऽस्ति ॥५॥ सूचकश्च हि श्रुतेराचक्षते च तद्विदः।३।२।६। 'यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने' (छा० ५।१।९) इत्यादि श्रुतेरयं स्वप्नः शुभाशुभयोः सूचकः । एवमाचक्षते तद्विदः 'अथ पुरुषं कृष्णं कृष्णदन्तच पश्यति स एनं हन्ति' इति । तस्मात्स्वानानर्थान् परः सृजति न जीवः ॥ ६ ॥ इति सन्ध्याधिकरणम् । तदभावो नाडीषु तच्छतेरात्मनि च । ३।२। ७ । जीवसुषुप्तिस्थानस्य भेदः श्रुतिषूपलभ्यते 'आसु तदा नाडीषु सृप्तो भवति' (छा० ८१६ ३) 'य एषोऽन्तर्हृदयाकाशस्तस्मिञ्शेते' (बृ० २।१।१७) 'यत्रै- तत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति' (छा० ६८1१) 'ता. भिः प्रत्यवसृप्य पुरीतति शेते' (बृ. २११११९) इति । तत्र नाडीब्रह्मपुरीतद्रू- पाणां सुषुप्तिस्थानानां विकल्पः समुच्चयो वेति संशयः। एकसुषुप्तिस्थानेऽनेकथु- तीनां विभिन्नस्थानाभिधायिनीनामसात्या विकल्प इति पूर्वः पक्षः। अत्राभिधी- यते-तत्स्वप्नाभावः सुषुप्तिर्नाडीपुरीतद्ब्रह्मसु युगपद्भवतीति समुच्चय एव । त- च्छ्रुतेः । तेषां नाडीपुरीतद्ब्रह्मणाञ्च सुषुप्तिस्थानत्वेन श्रुतेः प्रासादशयननिकेतन- पर्यङ्केषु युगपच्छयनवदनापि नाडीपुरीतद्ब्रह्मसु शयनमुपपद्यते । कार्यभेदा- त्समुच्चय एव ॥७॥ अतः प्रबोधोऽस्मात् । ३।२।। परमात्मैव जीवस्य साक्षात्सुषुप्तिस्थानम् । अत एवास्मात्प्रबोधः। सत आ.

तृतीयाध्यायस्य द्वितीयः पादः । ७१ गम्य नविदुः सत आगच्छामह इति, इत्युपपद्यते ॥ ८॥ इति तदभावा- धिकरणम् । स एव तु कर्मानुस्मृति शब्दविधिभ्यः । ३।२।। किं सुषुप्त्यनन्नरं यः कश्चिदपि जीव उत्तिष्ठति, आहोस्विद्यः सुप्तः स एवेति संशये सुषुप्त्यवस्थायां ब्रह्मसम्पन्नस्य तस्यैवोत्थानं न सम्भवतीति कश्चिदन्य एवोत्तिष्ठतीति पूर्वः पक्षः । सिद्धान्तस्तु-तुना पक्षो व्यावय॑ते । सुषुप्तेः प्रागुपार्जि- तानि कर्माणि तेनैवाविद्योत्पत्ति भोक्तव्यानीति हेतोः सुषुप्त्यवस्थायाः पूर्वमनुष्ठि- तानां कार्याणामनुस्मृतेः 'यद्यद्भवन्ति तदा भवन्ति' (छा० ६।१०।२) इति श- ब्दात् 'आत्मावारे दृष्टव्यः' (वृ० ४।५।६) इत्यादिविधिभ्यश्च स एव जीव उत्तिष्ठति ॥ ९ ॥ इति कर्मानुस्मृतिशब्दविध्यधिकरणम् । मुग्धेऽर्धसम्पत्तिः परिशेषात् । ३।२ । १० । मूछितमधिकृत्य विचार्यते । किं मूर्छावस्था जागरायवस्थास्वेवान्तर्भूतोता- वस्थान्तरमिति संशयेऽवस्थान्तरस्याप्रसिद्धया, आस्वेवास्थास्वन्तर्भूतेति पूर्वः पक्षः सिद्धान्तस्तु-मूच्छिते यावस्था सा मरणायाधसम्पत्तिरेव । न ह्यस्याः कासुचिदव- स्थास्वन्तर्भावः सम्भवति । आकारादिलक्षण्यात् । अतः परिशेषान्मरणायाधुस- म्पत्तिरेव मूछी ॥ १० ॥ इति मुग्धाधिकरणम् । न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि । ३।२। ११ । एवं विरक्त्यर्थं जीवावस्थास्सन्निरूप्योपेयस्वरूपं विचार्यते । तत्र जागरायव- स्थावतो जीवस्य यथा दोषास्पदत्वं तथा परस्यापि दोषाश्रयत्वमस्ति नेति संशयः। शरीराधिष्ठितत्वाविशेषात्परस्यापि तथा दोषास्पदत्वमस्त्येवेति पूर्वः पक्षः। अत्रा- भिधीयते-नस्थानतोऽपि पृथिव्यादिषु जीवे चान्तरवस्थितस्यापि परस्य न दोषा- स्पदत्वम् । यतः सर्वत्र श्रुतिस्मृतिषु निर्दोषत्वकल्याणगुणाश्रयत्वरूपोभयलिङ्गत्वं तस्य प्रसिद्धम् । ताश्च श्रुतिस्मृतयः 'अपहतपाप्मा विजरो विमृत्युः (छा० ८। ११) निरवा निरञ्जनम्' यः सर्वज्ञः सर्ववित् , ( मु. १११।९) 'सत्यकामः सत्यसङ्कल्पः' (छा० ८१११) 'न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा' ( गी० ) 'समस्तहेयरहितम्' (वि. पु. ) 'समस्तकल्याणगुणात्मकोऽसौ. (वि. पु.) इत्याद्याः ॥ ११ ॥ न भेदादिति चेन्न प्रत्येकमतद्वचनात् । ३।२।१२॥

७२
ब्रह्मसूत्रीयवेदान्तवृत्तौ-
ननु जीवस्याऽप्युभयलिङ्गत्वमुक्तं प्रजापतिवाक्ये तथापि देवमनुष्याद्यवस्था-
भेदात्तस्य दोषाश्रयत्वमस्त्येव । एवमेव परस्यापि दोषास्पदत्वं स्यादेवेति चेन्न,
प्रत्येकमतद्वचनात् । एष त आत्मान्तर्याम्यमृतः' (बृ० ३।१३ ) इत्येवं रूपेण
शरोरत्वेन प्रत्येकमुक्त्वा तत्रामृतत्वप्रतिपादनाद्दोषराहित्यमेवावगम्यते। जीवस्या-
विद्यया तिरोहितस्वरूपत्वात्पुण्यपापरूपकर्मफलभोगादिदोषास्सम्भवत्येव ॥ १२ ॥
अपि चैवमेके । ३।२।१३ ।
अपि चैवं जीवस्य दोषभागित्वं परस्य तद्राहित्यमेके शाखिनोऽभिदधते 'द्वा
सुपर्णा सयुजा सखाया' (मु० ३।१११) इति ॥ १३ ॥
अरूपवदेव हि तत्प्रधानत्वात् । ३।२।१४।
ननु जीववदीश्वरस्यापि शरीरित्वेन नामरूपभाक्त्वात्कर्मफलभोक्तृत्वमवर्ज-
नीयं स्यादिति चेन्न परस्य प्रधानत्वान्नामरूपभाक्त्वेऽपि जीववत्कर्मकृतनामरूप.
राहित्यान्न तत्फलभोगित्वमिति शुद्धमेव तत् ॥ १४ ॥
प्रकाशवश्चावैयर्थ्यात् । ३।२।१५ ।
'सत्यं ज्ञानम्' ज्तोतिषां ज्योतिरित्यादिश्रुतीनामवैयर्थ्याय प्रकाशस्वरूपं ब्रह्म
सदपि 'यः सर्वज्ञः सर्ववित्' (मु० १।१।९) इत्यादि श्रुतीनामवैयर्थ्याय कल्याण-
गुणाकरत्वमप्यक्षतमित्युभयलिङ्गत्वमेव परस्य ॥ १५ ॥
आह च तन्मात्रम्।३।२।१६।
'सत्यं ज्ञानम्' इति वाक्यं प्रकाशमानं ब्रह्मेत्यभिदधदपि तस्य स्वाभाविक-
कल्याणगुणाकरत्वं न वारयति ॥ १६॥
दर्शयति चाथो अपि स्मयते । ३।२।१७।
'निष्कलं निष्कियं शान्त निरवद्यं निरञ्जनम्' (श्वे० ६।९) 'यः सर्वज्ञः सर्व-
वित्' इत्यादिवेदान्तगणो दर्शयति निदोषत्वं कल्याणगुणाकरत्वं च ब्रह्मणः । स्म-
यतेऽपि च सर्वज्ञः सर्वकृत्सर्वशक्तिज्ञानबलर्द्धिमान् । अन्यूनचाप्यवृद्धिश्च स्वाधीनो
नादिमान् वशी' (वि. पु. ५.११४७ ) इत्यादिषु तथा ॥ १७ ॥
अतएव चोपमा सूर्यकादिवत् । ३।२।१८।
परस्य स्वाभाविकोभयलिङ्गत्वेन पृथिव्यादिष्ववस्थितस्यापि न स्थानकृतदोष-
लेशः । अतएव शास्त्रेषु 'आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मको
ह्यनेकस्थो जलाधारेष्विवांशुमान' (याज्ञः ३।१।४) इत्युपमा दीयते ॥ १८॥

तृतीयाध्यायस्य द्वितीयः पादः । ७३ अम्बुवग्रहणात्तु न तथात्वम् । ३।२।१६। तु शब्दश्वोचं द्योतयति । यथार्थतोऽन्बुन्यस्थितो भानुर्धान्त्या भासते न तथा- ऽनवस्थितः परः । स तु यः पृथिव्यां तिष्ठन्नित्यादिश्रुतिभिर्यथार्थतोऽवस्थित इति कथं दृष्टान्तदार्टान्तयोः साम्यम् ॥ १९ ॥ वृद्धिहासभाक्तमन्त दुभयसामञ्जस्यादेवं दर्शनाञ्च । ३।२।२० । चोधं परिहरति । सलिलावलम्बितभानोर्न तद्गतवृद्धि हासभाक्त्वं वास्तविकम् नवा जलीयशैत्यादिधर्मसम्बन्धः। एवं परमात्मनः पृथिव्याद्यन्तरवस्थितस्यापि न तदीयधमैः सम्बन्ध इत्येतावतैव दृष्टान्तदार्टान्तयोः सामञ्जस्यान्नोभयलिजत्वे किञ्चिद्वाधकम् ॥ २० ॥ प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः।३।२ । २१ । ननु 'नेति नेती'त्यखिलप्रपञ्चस्य निषेधेन निर्विशेषं ब्रह्मावतिष्ठत इति नोभय- लिङ्गता सम्भवतीत्याह-प्रकृतैतावत्त्वमिति- वाव ब्रह्मणो रूपे मूर्तश्चैवामूर्तञ्च (बृ. २११११) इत्यादिना सादरं यद्ब्रह्मरूपमुक्तं तस्यैव नेति नेतीत्यादिना निषेधे श्रुतेर्विसंवादितापत्तिरनिवार्या स्यादतो नेति नेतीतिवाक्यं प्रकृतैतावत्त्वं ब्रह्मणः प्रतिषेधति-~-यत्पूर्व प्रकृतं तद्ब्रह्मैतावन्मानं नेति नेति नेति' इत्यनेनेयत्ता निषिध्यते। ततो ब्रवीति च भूयः। यतस्ततः पूर्वोक्ताद्भूयो गुणजातं ब्रवीति 'नह्येतस्मादिति नेत्यन्यत्परमस्ति' (बृ० २।३।६) परब्रह्मणः श्रीरामात्स्वरूपतो गुणतश्चोत्कृष्टमन्यन्नास्तीत्यर्थ । 'सत्यस्य सत्यम्' इति च तस्य नामधेयम् । "प्रा- गावै सत्यं तेषामेष सत्यम्' इति च तन्निरुक्तिः । प्राणशब्देन तद्विशिष्टजीवात्मानो गृह्यन्ते । तेभ्योऽप्यस्य परमात्मनोऽकर्मवश्यत्वेन सत्यत्वात् । जीवस्य तु न तथे- त्युच्यते । तस्मादुभयलिजमेव ब्रह्म ॥ २१ ॥ तदव्यक्तमाह हि । ३।२।२२। ननु 'नेति नेतीत्यनूद्यमानं सविशेषं निषिध्य सन्मानं निर्विशेषमेव ब्रह्म प्रत्य- क्षेण गृह्यते इत्याशङ्काम्परिहरति । तद् ब्रह्माव्यक्तमेव न प्रमाणान्तरगम्यमिति हि शास्त्रमाह-'न चक्षुषा गृह्यते नापि वाचा (मु० ३ ११८) इति ॥ २२ ॥ अपि संराधने प्रत्यक्षानुमानाभ्याम् । ३।२ । २३ । प्रमाणान्तरागोचरस्यापि ब्रह्मणो निरतिशयप्रेम्णा समाराधने सति साक्षात्कारो भवत्येव । एतच 'ज्ञानप्रसादेन विशुद्धसत्वस्ततस्तु तम्पश्यते निष्कलं ध्यायमानः।

ब्रह्मसूत्रीयवेदान्तवृत्ता-. (मु० ३।१।८) 'दृश्यते त्वाया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः' ( का० १।३।१२) 'यमेवैष वृणुते तेन लभ्यः' (मु० ३।२।३) 'भक्त्या त्वनन्यया शक्य अहमेवं विधोऽर्जुन । ज्ञातुं दृष्टुश्च तत्वेन प्रवेष्टुश्च परन्तप' (गी० ११) इत्यादिश्रुति- स्मृतिभ्यामवगम्यते ॥ २३ ॥ प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ३ । २ । २४ । समुपासनात्मके कर्मण्यभ्यासात्प्रकाशो दर्शनं यथाभूत्तथा प्रकाशादिवन्मूता- मूर्तादिविशिष्टत्वमप्यविशेषेण प्रतीयते । 'अहं मनुरभवं सूर्यश्चेति' (बृ. १।४।१०) इति श्रुतेरतोन मूर्तादिप्रपञ्चनिषेधः किन्तु प्रकृतैतावत्त्वस्यैव ॥ २४ ॥ अतोऽनन्तेन तथा हि लिङ्गम् । ३।२। २५ । अतः प्रोक्तहेतुभिरनन्तेन दिव्यकल्याणगुणगणेन नित्ययोगो ब्रह्मणोऽस्त्येव । तथा हि सत्युभयलिङ्गत्वमपि सिद्धम् ॥ २५ ॥ इत्युभयलिङ्गाधिकरणम् । उभयव्यपदेशात्त्वहिकुण्डलवत् । ३ । २ । २६ । एवं चिदचिदात्मकमूर्तामूर्तप्रपञ्चस्य ब्रह्मपरत्वे केन प्रकारेण तस्य ब्रह्मरूपतेति विचार्यते । तत्र 'अस्मान्मायी सृजते विश्वमेतत् ( श्वे. १९) इति भेदव्यपदे- शात् 'तत्वमसि' इति । चाभेदव्यपदेशात्संशयः। किं ब्रह्मणोऽचिद्रूपेण परिणामोऽथवा प्रभाप्रभावदेकजातियोगेनोत जीववद्ब्रह्मशरीरतया तद्विशेषणत्वेनेति । तत्र श्रुतिघु भेदाभेदव्यपदेशादहेः कुण्डलभाववद्ब्रह्मवाचिद्रूपेण परिणमत इति प्रथमः पक्षः । प्रकाशाश्रयवद्धातेजस्त्वात् । ३ । २ । २७ । वेति पक्षव्यावृत्तौ-यथा तेजस्त्वरूपेण जातियोगात्प्रकाशतदाश्रययोरभेदो भेदश्चेत्युभयं व्यपदिश्यते । एवमचिद्ब्रह्मणोरप्युभयव्यपदेशः ॥ २७ ॥ पूर्ववद्वा । ३।२।२८। वेत्युभयपक्षपरिवृत्तौ-यथा पूर्वत्र 'अंशो नानाव्यपेशात्' (ब्र० स० ) "प्र- काशादिवत्तु नैवं परः' (ब्र० सू० ) इत्युभयव्यपदेशसिद्धये निर्दोषत्वाय च पृथ- क्सिद्धविशेषणतयात्मनोंशत्वमुक्तम् । तथैवाचिद्वस्तुनोऽपि पृथक्सियनहविशेषण- तया शरीरादिववेदाभेदव्यपदेशः सम्यगुपपद्यते ॥ २८ ॥ प्रतिषेधाच्च । ३।२।२६ । 'नास्य जरयैतज्जीर्यति' (छा० ८।१५) इत्यादिमिरचिद्धमणां प्रतिषेधाच तृतीयाध्यायस्य द्वितीयः पादः । निर्दोषत्वहानिः। तथाचांशांशित्वेऽचिद्वस्तुनो न कोऽपि दोषः ॥ २९ ॥ इत्यहि- कुण्डलाधिकरणम् । परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः । ३।२।३०। एवमुभयलिङ्गत्वविशिष्टं जगदभिन्ननिमित्तोपादानकारणं ब्राझेवेत्यवधारितम् । अथेदानी तत्परत्वे विचार्यते। तत्रास्मादपि किचित्तत्त्वं परमस्ति न वेति संशयः । तत्रास्मादपि परं तत्वमस्ति 'अथ य आत्मा स सेतुः' (छा० ८।४11) सेतुं ती.' (छा० ८।४।२) 'चतुप्पाद्ब्रह्म' (छा० ३।१८१२) अमृतस्यैष सेतुः' (मु० २।२।५) परात्परं पुरुपमुपैति दिव्यम्' (मु. ३।३८ ) 'ततो यदुत्तरतरम्' इत्यादिश्रुतिभिः सेतुत्व,तरितव्यत्व,परिमितत्व प्रापकाय,भेदव्यपदे- शेभ्य एतस्मादन्यत्परमस्तीत्यवगम्यत इति पूर्वः पक्षः ॥ ३० ॥ सामान्यात्तु । ३।२। ३१ । अत्राभिधीयते सिद्धान्तः । तु शब्दः पूर्वपक्षव्यावर्तकः । एषा लोकानामस- म्भेदाय, ( छा० ८।४।१ ) इति तस्मिन्नेव वाक्येऽखिलजगन्मर्यादाव्यवस्थापक- खेन परब्रह्मणः प्रसिद्धसेतुवद्वयपदेशःनतरितव्यत्वेन । तरतिरत्र प्राशिवचनः ॥३१॥ बुद्धयर्थः पादवत् । ३।२।३२. 'चतुपाद्ब्रह्म' इत्युन्मानव्यपदेश उपासनार्थः वाक्पादः चापाद इतिचत्॥३२॥ स्थानविशेषात्प्रकाशादिवत् । ३।२ । ३३ । अपरिच्छिन्नस्यापि परब्रह्मणोऽनुचिन्तनार्थ प्रतिपन्नस्थानः परिसिहन्नन्य सम्भवति, गवाक्षावस्थितप्रकाशादिवत् ॥ ३३ ॥ उपपत्तेश्च । ३।२।३४ । 'अमृतस्यैष सेतुरिति प्रापकत्वव्यपदेशोऽप्युपेये प्रामणि 'यमयप ते स तेन लभ्य' इत्यादिश्रुतिभिः स्वस्यैव प्रापकवन सुतरा साच्यते ॥ ३४ ॥ तथान्यप्रतिषेधात् । ३।२।३५ ! 'यस्मात्परं नापरमस्ति किञ्चित् (श्वे० ६३९) इत्यादिश्रुतिभिरममा परस्या- न्यस्य प्रतिषेधान्नान्यदितः परं तत्वम् ॥ ३५ ॥ अनेन सर्वगतत्वमायामशब्दादिभ्यः । ३।२। ३६ । 'तेनेदं पूर्ण पुरुपेण सर्वम्। (श्वे० ३.९) "नित्यं विभुं सर्वगतम्' (मु. १९१६) "विश्वव्यापी राघवो यस्तदानीम्। (रा.पू..ता.) इत्यायामशब्दभ्यः ।

ब्रह्मसूत्रीयदान्तवेवृत्तौ- सर्वव्याप्तिवाचिशब्देभ्योऽनेन परमपुरुषेण सर्वस्य व्याप्तत्वमवगम्यते तस्माद् 'यतो वा इमानि भूतानि जायन्ते' (ते. ) 'सीतारामौ तन्मयावत्र पूज्यौ जातान्याभ्यां भुवनानि सप्त (रा० पू० ता०) इत्यादिश्रुतिभिरभिहिताज्जगन्निमित्तोपादानका- रणभूतादस्मात्परमपुरुषात्परं किमपि नास्तीति सिद्धम् ॥ ३६॥ इति पराधि- करणम् । फलमत उपपत्तेः।३।२। ३७। एवं निरङ्कुशैश्वर्यशालिनः परमात्मन एव सर्वपरत्वमभिधाय फलदत्त्वमपि तस्यैवेति विचिन्त्यते । तत्रेष्टादिकर्मण एवापूर्वद्वारा फलमुपजायत उतानुष्ठितकर्मणः प्रीतात्परमपुरुषादितिसंशयै लोके तत्तत्कर्मसमनन्तरं स्वत एव फलनिष्पत्तिदर्शनात् कर्मण एवं फलमिति पूर्वः पक्षः। अनाभिधीयते-ऐहिकामुष्मिकापवर्गादिफलमतः परमात्मन एवावाप्यते ।आशुविनाशिभिरसम्बद्धैरचेतनैश्च कर्मभिः फलं नोत्पत्तुमीष्टे । परमात्मनस्त्वनन्यभक्तिप्रीतात्स्वाभाविकज्ञानशक्तिवलैश्वर्यवीर्यतेजःसमन्वितात्कर्मफलं जीवस्योपपद्यते ॥ ३७॥ श्रतत्वाच्च ।३।२।३८1 'स वा एष महानज आत्मान्नादो वसुदानः' (वृ० ४।४।२४ ) इति कर्मफलं. परमात्मैव प्रयच्छतीति श्रूयते ॥ ३८ ॥ धर्म जैमिनिरत एव । ३।२।१६। लोके कृषियज्ञादिकर्मणां साक्षात्परम्परया वा फलोपलब्धिदृश्यते । 'पुण्यः पुण्येन कर्मणा पापः पापेन, 'अथ खलु ऋतुरस्मिल्लोके भवति तथेतः ग्रेत्य भवति' (छा० ३.१४॥१) रमणीयचरणाः रमणीयां योनिमापोरन्' (छा० ५१९१७) इत्यतः श्रुत्युपपत्तिभ्यामेव, इष्टोपासनादिरूपधर्मादेव फलं जायत इति जमिनि- मन्यते ॥ ३९ ॥ पूर्वन्तु बादरायणो हेतुव्यपदेशात् । ३।२।४० । तुरुक्तपक्षं निवर्तयति । पूर्वमुक्तं परमात्मानमेव फलदं भगवान् बादरायणो मन्यते । हेतुव्यपदेशात् । वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गम- यति' (यजु०) इति वायुशरीरकस्य परमात्मन एव फलप्रदत्त्वव्यपदेशात् । 'यो वायौ तिष्ठन्नित्यादिश्रुतेर्वायौ परमपुरुषस्यावस्थानात् । एवञ्च विध्यंशेऽपेक्षिते फलो- तृतीयाध्यायस्य तृतीयः पादः । पलब्धिप्रकारे वाक्यशेषेणव सिद्ध नान्यथा कल्पनीय इति परमारमा पर कारण - पद्यते ॥ ४० ॥ स्मयते च।३।११। 'लभते च ततः कामान् मयैव विहितान् हि तान्' (गी. ५)शमन च परमात्मन एव फलम् ॥ ४५ ॥ इति फलाधिकरणम् । इति श्रीमद्भगवद्रामानन्दान्वयप्रतिष्ठितश्रीमदनुभवानन्दस्वामिवारण ब्रह्मवित्स्वामिश्रीरघुवराचार्यण विरचितायां ब्राह्मसूत्रीयवेदान्तवृत्ता तृतीयाध्यायस्य द्वितीयः पादः। अथ तृतीयाध्यायस्य तृतीयः पादः । सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ।। अथानेन पादेन ब्रह्मोपास्ती गुणोपसंहारादिनिर्णयाय विधाभेदाभेदी विनाम। किं विभिन्नेपु वेदान्तेषु श्रुताना दहरादिविद्यानामेकत्वं नाना जति यः । प्रकरणान्तरस्याविशेषश्रुतेश्च विद्याभेदकत्वानिविद्यात्यमिति पूर्वः पशः । अनामिनी- यते-'विद्यात्' इत्यादिविधीनां फलसंयोगरूपरामाख्यानाचाविशेषात्सए दा" दहरादिविद्यानामेकत्वमेव ॥१॥ भेदान्नेति चेदेकस्यामपि । ३।।२। प्रकरणभेदान्न विद्युक्यमिति चेन्न, एकस्यामपि पिंद्यायो प्रतिपतृगदारकर. शान्ततरमुपपद्यते । अत एव पुनः श्रवणस्याप्यर्थयाम् ॥२॥ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकारगच्च सवारच तन्नियमः।३1३1३। आथर्वणिकानां शिरोवतस्य नपामयता प्रायन वन शितं विधि- स्तु चोर्णम्' (मु० ३।२।१० ) इति विद्योपदेशान नियमी विभिनय आह-स्वाध्यायस्येति-स्वाध्यायस्यैवात्य शिरीमतस्य न विशामा रा. पदेशप्रन्थे तथात्वेन स्वाध्यायाङ्गत्वेन शिरीयत समामनन्ति सभी (मु० ३।२।११) इत्यध्ययन शब्दाधिकारादरगम्यते । शुतो Rift न. शब्दस्य वेदपरत्वात् । यथा सवहोमास्तवावृष्टया नवम्म नया समस्या यन एवेति नियमः ॥३॥ दर्शयति च।३।३।।

ब्रह्मसूत्रीयवेदान्तवृत्तौ- श्रुतिरेव दर्शयति । 'सर्ववेदा यत्पदमामनन्ति' ( का० २।१५) इति सर्व वेदान्त वेद्यस्य ब्रह्मण एकत्वेन तदुपासनभूतानां सर्वासां विद्यानामेकत्वम् ॥ ४ ॥ उपसंहारेऽर्थाभेदाद्विधिशेषवत्समाने च । ३।३।। चोऽवधारणे । समाने विद्युक्ये सति वेदान्तरोक्तानां गुणानामन्यत्राप्युपसंहारे विधिशेषवत्कर्तव्यः । यतस्तेषां विद्याङ्गत्वेनोपकाररूपार्थाभेदात् ॥ ५॥ इति स वैवेदान्तप्रत्ययाधिकरणम् । अन्यथात्वं शब्दादिति चेन विशेषात् । ३।३।६। छान्दोग्यबृहदारण्यकयोरुद्गीथविद्याम्नायते। तयोविद्ययोरैक्यमुत विद्याभेट इति संशयः। तत्र पूर्वपक्षी सिद्धान्तपक्षमनूय खण्डयति । द्वयोरप्युपनिषदोः क र्तृकर्मत्वभेदो दृश्यते। तथाच कारणभेदेनोपास्यभेदाद्विद्याभेद इति चेन्नोभयत्र चोदनादिविशेषाभावादेकैव विद्येति पूर्वः पक्षः ॥ ६ ॥ नवा प्रकरणभेदात्परोवरीयस्त्वात् । ३।३ । ७ । समाधीयते-सूत्रे नवेति शब्दौ पूर्वपक्ष व्यावर्तयतः । प्रकरणभेदात् । छान्दो ग्ये 'ओमित्येतक्षरमुद्गीथमुपासीत' (छा० १११११) इत्युद्गीथावयवभूतप्रणवोपा सनं विद्यते । वाजसनेयके तु 'हन्तासुरान् यज्ञ उद्गीथेनात्ययामः' (बृ. ३।३।१ इत्युद्गीथोपासनम् । तत्र रूपप्रकरणयोर्भेदाद्विद्याभेदः। यथोगीयोपासने स मानशाखास्थेऽपि हिरण्मयत्वदृष्टः परोवरीयस्त्वादिदृष्टिर्भिद्यते तद्वत् ॥ ७ ॥ सज्ञातश्चेत्तदुक्तमस्ति तु तदपि । ३।३।। उद्गीथविद्येति सज्ञाया उभयत्रैक्याद्विशाया ऐक्यमुक्तञ्चेत्तदैक्यन्तु विधेयभे देऽप्यस्त्येव । यथा नित्याग्निहोत्रे कुण्डपायिनामयनाग्निहोत्रे चैकसम्ज्ञायामपि क मभेदः ॥८॥ व्याप्तेश्च समञ्जसम् । ३।३।। छान्दोग्ये प्रथमाध्यायेऽग्रेऽपि चोद्गीथावयवस्य प्रणवस्योपास्यतया 'उद्गीथमु पासाश्चक्रिरे (छा० १।२।७) इति मध्येऽपि तदुपास्यत्वव्याप्तेश्च । तथा चोद्गी थावयवभूतः प्रणव एव प्राणदृष्टयोपास्यश्छन्दोगैर्वाजिभिस्तूद्गीयकर्तोद्गाता प्राण दृष्टयोपास्य इति विधेयभेदात्प्रकरणभेदाच्चात्र विद्याभेद एव ॥९॥ इत्यन्यथात्वा धिकरणम् । सर्वाभेदादन्यत्रेमे । ३।३।१०।

तृतीयाध्यायस्य तृतीयः पादः । ७8 छन्दोगैर्वाजिभिः कौषीतकिभिश्च 'यो ह वै ज्येष्टं च श्रेष्ठश्च वेद' (छा० ५।१। १) इत्यादिवचनैः प्राणविद्या समाम्नायते । तत्राशयोईयोः प्राणविद्यायाः कौषी- तकिनाञ्च प्राणविद्याया भेदोऽभेदोवेति संशयः। आद्ययोईयोज्यैष्ठयत्रैष्ठ्यादिविशि- टस्य प्राणस्य वसिष्ठत्वादिगुणवत्वमपि विद्यते। कौषीतकिनां तदभावस्तस्माद्रू- पभेदाद्विद्या भेद इति पूर्वः पक्षः । सिद्धान्तस्तु-ज्यैष्ठयोपपादनस्य सर्वत्राभेदात् कौषीतकिप्राणविद्यायामपि वागादीनांस्थितेः कार्यस्य प्राणकारणकत्वेनैवोक्तत्वाद्वागा- दिस्थकार्यसामर्थ्यरूपवसिष्ठत्वादिसम्बन्धित्वमस्त्येवेति विद्युक्यमतो वसिष्टत्वादि- गुणास्तत्रोपसंहार्या एव ॥ १० ॥ इति सर्वाभेदाधिकरणम् । आनन्दादयः प्रधानस्य ।३।३।११ । ब्रह्मस्वरूपनिरूपकाणां सत्यज्ञानानन्दादिगुणानां सर्वविद्यासुपसंहृतिरस्ति नवेति संशयः । प्रकरणेऽनधीतानामुपसंहारे प्रमाणाभावान्नोपसंहृतिरिति पूर्वः पक्षः । अ- त्राभिधीयते--प्रधानस्य गुणिनः सर्वविद्यास्वभेदात्तन्निरूपकाणामानन्दादीनां सर्व- त्रोपसंहृतिः कार्या । यतो ब्रह्मस्वरूपस्य तन्निरूपकाणां गुणानाञ्च नित्यत्वात्तैर्विना ब्रह्मानुसन्धानानुपपत्तेः ॥ ११ ॥ प्रियशिरस्त्वाधप्राप्तिरुपचयापचयौ हि भेदे । ३।३ । १२ । प्रियशिरस्त्वादीनां स्वरूपनिरूपकगुणत्वाभावादप्राप्तिर्यंतस्तेषां पुरुषविधत्वनि. रूपणमात्रोपयोगित्वात् । शिरःपक्षादिभेदे हि ब्रह्मण उपचयापचयौ स्याताम् । तथा- सति ब्रह्मणस्सविकारित्वापत्तेनिर्विकारश्रुतिविरोधः स्यात् ॥ १२ ॥ इतरत्वर्थसामान्यात् । ३ । ३ । १३ । इतरे सत्यज्ञानानन्दादयस्तु ब्रह्मरूपवन्नित्याः स्वाभाविकाश्चेति तेषां सर्ववि- द्यासुपसंहृतिरपेक्षितैव ॥ १३ ॥ प्राध्यानाय प्रयाजनाभावात् । ३।३।१४। प्रियशिरस्त्वादीनां निरूपणन्तूपासनासिद्धयर्थमनुचिन्तनायैव प्रयोजनान्तरा- भावात्।। १४॥ आत्मशब्दाच्च । ३।३। १५ । 'अन्योऽन्तर आत्मानन्दमयः' ( तै० २।३ ) इत्यात्मशब्दादात्मनश्च शिरः- पक्षायसम्मवान्न तेषां ब्रह्मस्वरूपगुणत्वम् ॥ १५॥ आत्मगृहीतिरितरवदुत्तरात् । ३।३ । १६ । 'अन्योन्तर आत्मानन्दमयः (तै० २॥३) अत्रात्मशब्देन परब्रह्मण एव ब्रह्मसूत्रीयवेदान्तवृत्तौ- गृहीतिः । इतरवत् । 'आत्मा वा इदमेक एवान आसीत्' इत्यत्रात्मशब्देन परमा- स्मन एव ग्रहणं तद्वत् । एतच्चैतदर्थकादुत्तरात् 'सोऽकामयत बहुस्यां प्रजायेय' (तै०) इत्यादिवाक्यादवगस्यते ॥ १६ ॥ अन्वयादिति चेत्स्यावधारणात् । ३ । ३ । १७ । प्रथमाधीतेष्वानात्मपदार्थेषु प्राणमयादिध्वप्यात्मशब्दान्वयात्कथमुत्तरवाक्यानि- जय इति चेत् 'तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः' (तै० २।२) इति प्रकृ. तस्यात्मन एवानन्दमयपदं यावदवधारणात्स्यादेव निर्णयः। तस्माप्रियशिरस्त्वा- दीनामनात्मधर्मत्वान्न सर्वत्रोपसंहृतिः ॥ १७ ॥ इत्यानन्दाद्यधिकरणम् । कार्याख्यानादपूर्वम् । ३।३।१८। प्राणोपास्त्यानन्तरं छान्दोग्ये-'तस्माद्वा एतदशिष्यन्तः पुरस्ताचोपरिष्टा- चाद्भिः परिदधति लम्मुको ह वासो भवत्यनग्नो भवति' (छा० ५।२।२) इति श्रूयते । एतत्तात्पर्यकं वाक्यं बृहदारण्यकेऽप्याम्नायते । तत्रायं संशयः । किमिहा- चमनं विधीयत उतापां प्राणवासस्त्वानुसन्धानम् । प्राणविद्यागतयाचमनं 'आचा- मेदिति विधिप्रत्ययाद्विधीयत इति पूर्वः पक्षः । सिद्धान्तस्तु 'अप्राप्त शास्त्रमर्थवत्' इति न्यायादाचारप्राप्तमाचमनमनूद्याचम- नीयानामपां प्राणवासस्त्वानुसन्धानमप्राप्तमेवात्र विधीयते ॥ १८॥ इति कार्या- ख्यानाधिकरणम् । समान एवञ्चाभेदात् । ३।३।१६। वाजसनेयकेऽग्निरहस्ये 'स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानः' इति श्रूयते । एवं बृहदारण्यकेऽपि 'मनोमयोऽयं पुरुषो भाः सत्यम् (बृ. ५।६।१) इत्याम्नायते। किमियमुभयत्राम्नाता शाण्डिल्य- विद्या भिन्नैवोताभिन्नेति संशयः । तत्र रूपभेदानेद इति पूर्वः पक्षः । सिद्धान्तस्तु- मनोमयत्वादिके समाने सति विथैक्यमेव एवश्च वशित्वादेः सत्यसकल्पत्वादिगुणा- भेदान्न रूपभेदः ॥ १९ ॥ इति समानाधिकरणम् । सम्बन्धादेवमन्यत्रापि । ३ । ३ । २० । 'य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षिन्' (बृ. ५.५1१) इत्यु- पक्रम्य बृहदारण्यके सत्यस्य ब्रह्मण आदित्यमण्डलेऽक्षणि चोपास्यत्वमुक्त्वा तस्यो- पनिषदहरित्यधिदैवतम्। 'तस्योपनिषदहमित्यध्यात्मम्' (बृ. ५॥५॥३) इति तृतीयाध्यायस्य तृतीयः पादः । १ .. रहस्यनामनी श्रूयते । तत्र संशयः। तयोर्यथाश्रुतं नियतं स्थानमुत स्थानद्वयेऽ- प्युभयोरुपसंहार इति । द्वयोरपि स्थानयोः सत्यपुरुषस्यैवोपास्यत्वाद्रूपाभेदाद्विद्यै- क्यादुभयोरुपसंहार इति पूर्वः पक्षः ॥ २० ॥ न वा विशेषात् ।३।३।२१ । एवं पूर्वपक्षिते सिद्धान्तयति । न द्वयोरुपसंहृतियोरुपास्यभेदात् । आदि- त्यादिस्थानयोर्भेदेन रूपभेदे विद्याभेदात् ॥ २१ ॥ दर्शयति च । ३।३। २२ । विद्याभेदेन गुणानुपसंहृतिं दर्शयति च श्रुतिः। 'तस्यैतस्य तदेवरूपं यदमुष्य. रूपम्। (छा० ११५) इति रूपातिदेशेन । स्वतोऽप्राप्ते ह्यतिदेशः ॥ २२ ॥ इति सम्बन्धाधिकरणम् । सम्भृतिधुव्याप्त्यपि चातः । ३ । ३ । २३ । तैत्तिरीयके 'ब्रह्मज्येष्ठा वीर्यासम्भृतानि ब्रह्माने ज्येष्ठं दिवमाततान' इत्यादि श्रूयते । तत्र संशयः । सम्भृतिथुव्याप्त्यादिगुणानां सर्व विद्यासूपसंहृतिरुत विशे- षोपासन एवेति। अनारभ्याधीतत्वेनैषां सर्वत्रोपसंहृतिरिति पूर्वः पक्षः । सिद्धा- न्तस्तु-शुव्याप्तिसामर्थ्याचाल्पस्थानीयविद्यासूपसंहृतिरपि तु सम्भृत्यादिगुणकं वि- शिष्टस्थाननियतमेवोपासनमिदम् ॥ २३ ॥ इति सम्भृत्यधिकरणम् । पुरुषविद्यायामपि चेतरेषामनाम्नात् । ३ । ३ । २४ । छान्दोग्यतैत्तिरीयकयोः समाम्नाता पुरुषविद्यैकैवोत भिन्नेति संशयः। पुरुष- विद्येति समाख्यया विद्यै क्यमिति पूर्वः पक्षः । सिद्धान्तस्तु-पुरुषविद्यायामपि रूपफलादिभेदाद्विद्याभेदः। तथाहि-पुरुषादेर्यज्ञादिकल्पनं छान्दोग्ये कृतमस्ति न तथा तैत्तिरीय इति रूपभेदः। एवं छान्दोग्ये त्यायुःप्राप्तिरूपं फलमुक्कं तैत्तिरीय तु ब्रह्मप्राप्तिरूपं तदिति फलसंयोगभेदस्तथा च विद्याभेदान्न तत्रान्यत्र श्रुतानां गुणानामुपसंहृतिः ॥ २४ ॥ इति पुरुषविद्याधिकरणम् । वेधार्थभेदात् । ३।३ । २५ । 'शुक्र प्रविध्यः 'हृदयं प्रविष्य' 'शन्नो मित्रः 'देवा हवै सनं निषेदुः' 'देवः सवितः' इत्यादिमन्त्रानाथर्वणिकतैत्तिरीयप्रमृतयः स्वोपनिषदारम्भे पठन्ति । तत्र संशयः किमेषां मन्त्राणां विद्याइत्वमस्ति न वेति । विद्यासचिधावाम्नानाद्वि- द्याङ्गत्वमिति पूर्वः पक्षः। सिद्धान्तस्तु-शुक्रं प्रविध्यः 'हृदयं प्रविध्ये तिसामर्थ्या- ब्रह्म ब्रह्मसूीयवेदान्तवृत्तौ- । -- दभिचारादिष्वेतेषां विनियोगवत्-'शन्नो मित्र इत्यादीनामप्यध्ययने विगियोगः सामर्थ्यादेव . नत्वेतेषां विद्याङ्गत्वमिति न सर्वत्रोपसंहृतिरिति ॥ २५॥ वेधा- द्यधिकरणम् । हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दः स्तुत्युपगानवत्तदुक्तम् ।३।३।२६९ आथर्वणिकाः तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति' (मु० ३।१।३ ) इति समामनन्ति । शाट्यायनिनः तस्य पुत्रादायमुपयन्ति सुहृदः सा- धुकृत्यां द्विषन्तः पापकृत्याम्' इति । कौषीतकिनस्तु-'तत्सुकृतदुष्कृते धुनुते' तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतम्' ( कौ० १।४) इति । अत्र पुण्या- पुण्ययोहानिः प्रथमे वाक्ये विमुक्तयोस्तयोरन्यत्र प्रवेशो द्वितीय तृतीये तु तयो:- निरन्यत्र प्रवेशश्चेत्युभयमभिधीयते । यत्र हान्युपायनोभयचिन्तनानां विकल्पः समुच्चयो वेति संशयः । भेदेनेकैकस्याम्नानाद्विकल्प एवेति पूर्वः पक्षः। सिद्धा- न्तस्तु-सूत्रे तुशब्दः परिवृत्तौ । उपायनशब्दस्य हानिवाक्यशेषत्वात् , द्वाभ्या- मप्येकार्थो विधीयत इति समुच्चय एव । विभिनस्थानिकानां वाक्यानामपि पर- स्परं शेष शेषिभावो भवतीत्यत्र दृष्टान्तमाह-कुशाः। यथा 'कुशाः वानस्पत्याः' इत्यादिवाक्यस्य 'औदुम्बर्यः कुशाः' इति भिन्नदेश- स्थवाक्यशेषत्वम् । यथा 'देवासुराणां छन्दोभिः' इति वाक्यस्य 'देवच्छन्दांसि पूर्वम्' इति स्थानान्तरीयं क्रमपरवाक्यम् । यथा 'हिरण्येन षोडशिनस्तोत्रमुपा- करोति, इति वाक्यस्य प्रदेशान्तरस्थ 'समयाविषिते सूर्य षोडशिनस्तोत्रमुपाकरो- ति' इति वाक्यम् । यथा च 'ऋत्विज उपगायन्ति' इति वाक्यस्य 'नाध्वर्युरुपगा- येत्' इति वाक्यम् । एवमत्राप्युपायनवाक्यस्य हानिवाक्यशेषत्वम् । तदुक्तम्-'अपि तु वाक्यशेषः स्यादित्यादिना पूर्वतन्त्रे ॥ २६ ॥ इति हाम्यधिकरणम् । साम्पराये तव्याभावात्तथान्ये । ३।३।२७ । पुण्यापुण्ययोर्यद्धानादिचिन्तनं तदेहावसानेऽध्वनि चानुष्टेयमुत देहावसान ए. वेति संशयः। तत्र छान्दोग्ये 'अश्व इव रोमाणि विधूय पापम्' (छा० ८1१1१३) इति देहावसाने हानं श्रूयते । कौषीतकिनस्तु-'स एतं देवयानं पन्थानमित्यारभ्य 'तत्सुकृतदुष्कृते धुनुते' (को० ५।३।४ ) इत्यध्वनि समामनन्ति । अतो वचन- बलादेहावसानेऽध्वनि च तच्चिन्तनमिति पूर्वः पक्षः । अत्राभिधीयते--क्षीयन्ते चास्य कर्माणि (मु० २।२।८) स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः (छा० ॥

तृतीयाध्यायस्य तृतीयः पादः। ८३. २६॥२ ) इत्यादिश्रुतिभिर्देहावसान एव विदुषुः पुण्यपापयोहानचिन्तनम् । 'तस्य तावदेव चिरम्' (छा० ६।१४।२) इति श्रुतेर्विदुषोयो ब्रह्मप्राप्तिमन्तरेण पुण्यापुण्य भॊक्तव्ययोरभावात् ॥ २७ ॥ छन्दत उभयविरोधात् । ३।३।२० । ब्रह्मोपासनसामर्थ्यादेहावसान एव पुण्यापुण्ययोर्हानचिन्तनमिति निश्चिते सति 'अश्व इव रोमाणि विधूय' 'तस्य तावदेव' इत्युभयश्रुत्यविरोधात् 'तत्सुकृत- दुष्कृते धुनुते (को० ५।३।४) इति वाक्यखण्डः 'एतं देवयान मिति वाक्यख- ण्डाच्छन्दतो नेयः ॥ २८ ॥ गतेरथवत्त्वमुभयथाऽन्यथा हि विरोधः । ३।३।२६ । अत्र शङ्कते । अचिरादिगतरुपपत्तये देहादुत्क्रमणेऽध्वनि च पुण्यादेहानचि- न्तनमावश्यकम् । अन्यथा देहवियोगकाल एवाशेषकर्मक्षये लिङ्गदेहस्यापि विनाशे गत्यसम्भवाद् गतिश्रुतेविरोधः ॥ २९ ॥ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् । ३।३। ३० । परिहरति । देहावसानेऽशेषकर्मक्षयेऽपि विदुषोऽचिरादिपन्था उपपन्नः 'स स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति' (छा० १२५।२ ) इत्यादि- श्रुतेरकर्मलभ्यार्थानामुपलब्धेः । लोकवदिति दृष्टान्तः । यथा लोके राजभृत्यानाम- यत्नेनापि दुर्लभपदार्थानामुपलब्धिस्तद्वदत्रापिबोध्यम् ॥ ३० ॥ यावधिकारमवस्थितिरधिकारिकाणाम् । ३ । ३। ३१ । ननु वसिष्ठादिज्ञानिनां कथं देहान्तरप्राप्तिदु:खानुभवश्चेति शङ्कामपनुदति- यावदिति । ब्रह्मोपासनया प्रनष्टकर्मणां देहावसानेऽचिरादिमार्गमनुसृतांनामेवाशेष- कर्मविनिवृत्तिः । वसिष्ठादीनामाधिकारिकाणान्तु यावदधिकारमवस्थिति चिरादि- गतिरस्ति । समाप्तेऽधिकारे हि तेषामचिरादिगत्या मोक्षः । फलन्त्ववश्यं भोक्तव्यमिति नियमः ॥ ३१ ॥ इति साम्परायाधिकरणम् । मनियमः सर्वेषामनुरोधः शब्दानुमानाभ्याम् । ३।। :२ ॥ उपकोसलादिविद्यास्वर्चिरादिगतिराम्नातेति तनिष्ठानामेवार्चिरादिगत्या मोक्षा- वाप्तिस्त सर्वेषां ब्रह्मोपासनवतामिति संशयेऽन्येषामचिरादिगत्या प्रमाणाभावात्त- निष्ठानामेवेति पूर्वः पक्षः । सिद्धान्तस्तु-सर्वोपासनवतां तयैव गन्तव्यत्वात्तन्निष्ठा- नामवेत्यनियमः। तथा सति 'ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिषम्' प्रारब्धस्य कर्मणः ब्रह्मसूत्रीयवेदान्तवृत्तौ- (बृ. ६।२।१५) इति श्रुत्या 'अग्नियाँतिरहः शुक्ल:' इत्यादिस्मृत्या चावि- रोधः ॥ ३२ ॥ इत्यनियमाधिकरणम् । अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसद्वत्तदु क्तम् । ३ । ३। ३३ । बृहदारण्यके-'एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति अस्थूलमनण्वह्रस्वदी- धम्' (बृ. ३।८८ ) इति श्रूयते । 'अथ परा' इत्युपक्रम्य मुण्डकेऽपि चैवं श्रू- यते । अत्रास्थूलत्वादीनां गुणानां तत्रैव चिन्तनमुत सर्वासु विद्यासूपसंहृतिरिति संशयः। प्रकरणभेदात्तत्रैव चिन्तनमिति पूर्वः पक्षः। सिद्धान्तस्तु-अस्थूलत्वादी- नामानन्दादिवब्रह्मस्वरूपानुसन्धानोपयोगित्वात्सर्वासु विद्यासूपसंहृतिः कार्या । सर्वत्राक्षरब्रह्मविद्यायाः समानत्वादस्थूलत्वादेब्रह्मस्वरूपे सद्भावाच्च । यथोपसद्गु- भूतमन्त्रस्योपसदनुवर्तित्वेनोपांसुगुणत्वम् तद्वत् ॥ ३३ ॥ इयदामननात् । ३।३।३४। अस्थूलत्वादिविशिष्टमानन्दादिकमेव सर्वत्रोपसंहर्तव्यम् । इयद्गुणविशिष्टस्यैव ब्रह्मस्वरूपस्यामननात् ॥ ३४ ॥ इत्यक्षरध्यधिकरणम् । • अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपचिरिति चेन्नोपदेश- वत् । ३।३।३५ । हदारण्यके-'यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तन्मे व्याचक्ष्व' (बृ. ३४११) इत्युषस्तप्रश्नस्तदुत्तरम् 'यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः' इत्यादिकमाम्नायते । एवं तत्रैव कहोलस्यापि प्रश्नस्तदुत्तरश्च । तः संशयः । किमुभयत्र विद्याभेद उत विथैक्यमिति । उत्तरगतप्रकारभेदाद्विद्याभे इति पूर्वः पक्षः । अत्राभिधीयते-'यत्साक्षादपरोक्षाद्ब्रह्म' (बृ. ३।४।१) इस ब्रह्मविषयक एवोभयत्र प्रश्नः । तदुत्तरश्च सर्वप्राणिप्राणनकर्तृत्वाशनायाद्यतीतत्व दिकश्च ब्रह्मण्येव सम्यगुपपद्यते । एवञ्च रूपभेदाभावान्न विद्याभेदः । सूत्रे विध भेदमाशंक्य नोपदेशवदिति समाधीयते । यथा सद्विद्यायां मुहुर्मुहुः प्रश्नोत्तरयोनि द्यमानयोरपि न विद्याभेदस्तद्वत् ॥ ३५॥ व्यतिहारो विशिषन्ति हीतरवत् । ३।३। ३६ । प्रष्टुभेदादुत्तरभेदाच्च विद्याभेदेनावश्यभाव्यमित्याशङ्कामपाकरोति-व्यतिहा इति । द्वयोः प्रश्नयोरक्यरूप्यादेकविषयत्वे निश्चित प्रतिवचनगतबुद्धिपरिवरि तृतीयाध्यायस्य तृतीयः पादः। y कार्या । उषस्तेनाशनायाद्यतीतत्वधीः कार्या। कहोलेन प्राणनादिहेतुत्वधीः कार्या । यथेतरत्र सद्विद्यादिषु प्रश्नप्रतिवचनपरम्परा विद्यमानाप्येकमेव वेद्यं ब्रह्म गम- यति । एवमत्रापि प्रश्नप्रतिवचनयोवैविध्येऽपि प्राकरणिकानि वाक्यानि ब्रह्मैव विशिषन्ति ॥ ३६॥ सैव हि सत्यादयः।३।३। ३७ । 'सेयं देवतैक्षत' इति प्रकृता सैव परा देवतोत्तरत्र प्रतिपाद्यते । अतः 'तत्स- त्यं स आत्मा' (छा० ६१७) इत्यादि प्रतिवचनेषु त एव सत्यादय उपसंह्नि. यन्ते ॥ ३७ ॥ इत्यन्तरत्वाधिकरणम् । कामादीतरत्र तत्र चायतनादिभ्यः।३।३।३। छान्दोग्ये-'अथ यदिदमस्मिन् ब्रह्मपुरे' इत्यारभ्य 'एष आत्मापहतपाप्मा विजरो विमृत्युः (छा० ८।१।५) इति श्रूयते । बृहदारण्यके च ‘स वा एष महानज आत्मा' इत्यारभ्य 'सर्वस्य वशी सर्वस्येशानः' (बृ. ४।४।२२ ) इति । किमत्र विद्या भिद्यते नवेति संशयः । तत्र रूपभेदाद्विद्याभेद इति पूर्वः पक्षः । अत्रा- भिधीयते-छान्दोग्ये-सत्यसङ्कल्पसत्यकामहृदयान्तरवर्तित्वादिविशिष्टः परमात्मोपा- स्य इति प्राकरणिकवाक्यादवगम्यते । वाजिनां वाक्येऽपि वशित्वादीनां सत्यस- कल्पत्वरूपतयाऽकाशान्तरवर्तित्वस्य च विद्यमानतयोभयत्रैक एव परमात्मोपास्य इति रूपाभेदाद्विद्यैक्यम् ॥ ३८ ॥ आदरादलोपः।३।३। ३६ । वशित्वसत्यकामत्वादीनां 'नेह नानास्ति किञ्चन' (बृ. ४।४।९) 'नेति नेति' (छा० ८॥१२॥३) इत्यादिश्रुतिवाक्येभ्यो न लोपंः ( निषेधः ) यतस्तेषां प्रमाणान्तराप्राप्तानामादरेण श्रुत्या विधानात् । आदर विहितप्रतिषेधे श्रुतेरसाङ्गत्यं स्यात्तस्मान्निषेधवाक्येनाब्रह्मात्मकनानात्वमेव निषिध्यत इत्येव युक्तम् ॥ ३९ ॥ उपस्थितेऽतद्वचनात् । ३।३।४० । मुक्तस्य ब्रह्मसम्पत्त्यनन्तरं तत एव हेतोः पितृलोकादिवचनान्न तत्सांसारि- कफलमपि तु मुक्तरेव फलम् । 'एष सम्प्रसाद' इत्यादिवचनादतो विद्युक्यात्सत्य- कामत्वादीनामत्रानुसन्धानमावश्यकम् ॥ ४० ॥ इति कामाद्यधिकरणम् । तन्निर्धारणानियमस्तदृष्टः पृथग्ध्यप्रतिबन्धः फलम् । ३।३४१ । 'ओमित्येतदक्षरमुद्गीयमुपासीत' (छा० १११११) इत्युद्गीथायुपासने छा- : ब्रह्मसूत्रीयवेदान्तवृत्तौ-- न्दोग्ये श्रूयते। तन्नियमेनानुष्ठेयमुतानियमेनेति संशयः। 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' (छा १।१।१०) इति श्रूयमाणफलस्य पृथगधिभानायोगात्कृत्वर्थतया नियमेनानुष्ठेयमिति पूर्वः पशः । सिद्धान्तस्तु 'तेनो- भौ कुरुतो यश्चैतदेवं वेद यश्चनवेद' (छा० १.१।१०) इत्युद्गीथमननुष्ठितवतोऽपि ऋत्वनुष्ठानदर्शनात् स्वर्गादिरूपक्रतुफलाच्च वीर्यवत्तरत्वादिफलकं पृथगेवोद्गीथोपा. सनमित्यनियमः ॥ ४ ॥ इति तन्निर्धारणानियमाधिकरणम् । प्रदानवदेव तदुक्तम् । ३ । ३ । ४२ । 'तय इहात्मानमनुविद्यव्रजन्त्येतांश्च सत्यान् कामान्' (छा० ८।१।६) इति छान्दोग्ये दहराकाशपदवाच्यपरमात्मन उपासनं विधाय तदन्तर्वतिसत्यकामत्वादि- गुणानामप्युपासनं विहितम् । तत्र गुणचिन्तने तद्गुणविशिष्टस्य परमपुरुषस्य चि- न्तनमावर्तनीयं नवेति संशयः। गुणचिन्तनेऽपि तद्गुणिचिन्तनस्य न प्रयोजनमिति न परमात्मचिन्तनभावर्तनीयमिति पूर्वः पक्षः । अत्र सिद्धान्तः यथा-'इन्द्राय राक्षे पुरोडाशमेकादशकपालं निर्वपेत्' 'इन्द्रायाधिराजाय 'इन्द्रायस्वराजे' इत्या- दाविन्द्रस्य तत्तद्गुणविशिष्टतयाऽकारभेदात्प्रदानावृत्तिर्भवति तद्वदेवात्रापि तत्तद्गुण- विशिष्टस्योपास्यस्यावृत्तिः कर्तव्या। तदुक्तं सङ्क-'नाना वा देवता पृथक्त्वात्' इति ॥ ४२ ॥ इति प्रदानाधिकरणम् । लिङ्गभूयस्त्वातद्धि बलीयस्तदपि । ३।३।३। 'मनश्चितो वाक्वितः प्राणचितश्चक्षुश्चितः श्रोत्रचितः कर्मचितोऽग्निचितः' इति वाजसनेयकेऽग्निरहस्ये श्रूयते । अत्र संशयः किमेतेऽग्नयः क्रियामयक्रत्वाभूता उत विद्यामयक्रत्वाभूता इति । तत्र कर्मप्रकरणाम्नातत्वात्मत्वाभूता एवेति पूर्वः पक्षः । अत्राभिधीयते-'प्रकरणेऽस्मिन् भूयाँसि लिङ्गानि विद्यामयत्वं द्योतयन्ति । तस्माद्विद्यामयक्रत्वगत्वमेधैतेषामग्नीनाम् । लिङ्गं हि प्रकरणाद्बलीयस्तदप्युक्तं पूर्व- तन्त्रे श्रुतिलिङ्गवाक्येत्यादिसूत्रेण ॥ ४३ ॥ पूर्वविकल्पप्रकरणात्स्याक्रिया मानसवत् । ३।३।४४ । अनाहते । पूर्वस्य क्रियामयस्याग्नेः प्रकरणादयं मनश्चिताग्निर्विकल्प: स्या. तत्र मानसवदिति निदर्शनम् । यथा द्वादशाहे विद्यारूपस्यापि मानसपहस्य प्रकर- यात्मात्वाता भवति तत् ॥४॥ मतिदेशाच।३।३।५।

तृतीयाध्यायस्य तृतीयः पादः । 'तेषामेवैकोऽग्निस्तावान् यावानसौ पूर्वः' इति मानसामीनां सादृश्यातिदेशाच क्रियामयक्रत्वात्वं प्रतीयते ॥ ४५ ॥ विवि तु निर्धारणाद्दर्शनाच्च । ३।३। ४६ । तुशब्दः शङ्कानिवर्तकः । मनश्चितादयोऽग्नयो विद्यामयक्रत्वभूता एव । 'ते हैते विद्याचितएव' इति निर्धारणात् । तद्धि विद्यामयक्रत्वन्वयेन विद्यामयत्व. ख्यापनाय । 'मनसैषु ग्रहा अगृह्यन्त' इत्यादौ विद्यामयक्रतोदर्शनाच्च ॥ ४६ ॥ श्रुत्यादिबलियस्त्वाच्च न बाधः। ३।३।४७ । श्रुतिलिङ्गवाक्यानां प्रकरणादलीयस्त्वात्तैरवगतस्यास्य विद्यामयक्रत्वज्ञत्वमेव । न प्रकरणेन बाधः । प्रत्यक्षश्रुतिस्तावत् 'ते हैते विद्याचित एव इति । लिङ्गवाक्ये 'तान हैतानेवं विदे' इत्यादिवाक्ये स्पष्टं दृश्यत इति ॥ ४७ ॥ अनुबन्धादिभ्यः प्रशान्तरपृथक्त्ववदृष्टश्च तदुक्तम् ३।३।४ । 'मनसैषु ग्रहा अगृह्यन्त' इत्यादिस्थले विधिपदाश्रवणात् फलसम्बन्धाश्रवणाच न विद्यामयकत्वङ्गत्वमिति शङ्कायामाह-अन्विति । मनसैष्वित्यादिकत्वनुबन्धात् । श्रुत्यादिभ्यश्च विद्यामयक्रतुविधिः कल्पनीयः । यथा दहरविद्यादीनां पृथक्त्वं तथा- त्रापि । 'यदेव विद्यया करोति' (छा० १११११० ) इत्यनुवादसरूपेऽपि विधिदृष्टः । तदुक्तं जैमिनीये-'वचनानि त्वपूर्वत्वात्' (जै० सू०) इति ॥ ४८ ॥ न सामान्यादप्युपलब्धेर्मुत्युवन्न हि लोकापत्तिः। ३ । ३।४। अतिदेशमात्रेण नैषामिष्टकचिताग्निसादेश्यमझीकार्यम् । अतिदेशस्य तु सामा- न्येन केनचिद्धर्मेणाप्युपलब्धः । स एष मृत्युर्य एष एतस्मिन्मण्डले' इत्यादौ सर्व संहारकारित्वमात्रेण मृत्युवदतिदेशेन यथा न मण्डलपुरुषस्य तल्लोकापत्तिरति दिश्यते, तथैवात्राप्यतिदेशमात्रम् ॥ ४९ ॥ परेण च शब्दस्य ताविध्यं भूयस्त्वात्त्वनुबन्धः ३ । ३ । ५० । 'अयं वाव लोक एषोऽग्निचितः' 'एतत्सर्वमभिसम्पद्यते' इति ब्राह्मणेन मनश्चि- तायग्निवाचकस्य शब्दस्य मिन्नफलविद्यामयप्रतिपादकत्वमस्ति । सम्पादनीया- ग्न्यानां भूयस्त्वेनैषां क्रियाप्रकरणे सम्बन्धः ॥ ५० ॥ इति लिङ्गभूयस्त्वा- धिकरणम् । एक आत्मनः शरीरे भावात्।३।३१५१ । 'पूर्वमुपास्योपासकोपासनानां स्वरूपज्ञानमावश्यकमित्यमिहितम् । तत्रोपास्मश- ब्रह्मसूत्रीयवेदान्तवृत्तौ- रीरनिविष्टोपासकस्य कर्तृत्वादिविशिष्टमेवरूपमनुसन्धेयमुतापहतापहतपाप्मत्वादि- गुणकं वास्तविकमिति संशयः। तत्र पूर्वः पक्षः । शरीरस्थितस्यैवानुसन्धेयतया कर्तृ- त्वादिविशिष्टस्यैवात्मतया परोपास्य इत्येके ॥ ५१ ॥ व्यतिरेकस्तद्भावभावित्वान्नतूपलब्धिवत् । ३ । ३ । ५२ । सांसारिकादात्मनो व्यतिरेकोऽपहतपाप्मत्वादिगुणविशिष्टः शुद्ध एवानुसन्धेयो न कर्तृत्वादिविशिष्टः। तथा विशुद्धस्वरूपोपासनभावभावित्वादपहतपाप्मत्वादिगु. णकस्यात्मनः 'यथा ऋतुरस्मिल्लोके पुरुषो भवति' (छा० ३।१४।१) इति श्रुतेः । यथा ब्रह्मानुसन्धानेन ब्रह्मस्वरूपोपलब्धिस्तद्वदात्मोपलब्धिरपिज्ञेया ॥ ५२ ॥ इत्यात्मनः शरीरभावाधिकरणम् । अङ्गाववद्धास्तु न शाखासु हि प्रतिवेदम् । ३।३। ५३ । छान्दोग्ये-'ओमित्येतदक्षरमुद्गीथमुपासीत' (छा०1१1१1१) इति श्रूय- ते । अत्रेमा उपासनाः समाम्नातशाखास्वेव सम्बद्धयन्त उत सर्वासु शाखास्विति संशयः । प्रतिशाखं स्वरादिभेदादुद्गीथादयस्तच्छाखास्वेव सम्बद्धयन्त इति पूर्वः पक्षः। अत्राभिधीयते-उद्गीथाद्याश्रिता उपासना यत्र श्रूयन्ते न तासु शाखा- स्वेव सम्बद्धयन्तेऽपितूद्गीथजातीयत्वाविशेषात्सर्वासु शाखासु सम्बद्धयन्त इत्यु- द्गीथव्यक्तिभेदेऽपि न दोषः ॥ ५३ ॥ मन्त्रादिवद्वाविरोधः।३।३।५। यथैकैकशाखोदितानामपि मन्त्राणां सर्वशाखासु क्रतोरेकत्वेन तत्र तत्र सम्ब- न्धस्तद्वदनापीत्यविरोधः ॥ ५४ ॥ इत्यङ्गावबद्धाधिकरणम् । भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति । ३।३।१५। छान्दोग्य-पञ्चमप्रपाठके वैश्वानरविद्याम्नायते । तत्र किं व्यस्तस्योपासनमुत- समस्तस्येति संशयः। व्यस्तोपासनस्यासकृत्प्रशंसितत्वात्फलादेशाच्च तस्यैवोपास- नमिति पूर्वः पक्षः । सिद्धान्तस्तु-व्यस्तोपासनं मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इत्यादिभिर्विनिन्य द्युलोकादित्यवाय्वाकाशाप्पृथिवीषु मूर्धचक्षुः प्राणसन्देहबस्तिपाद- रूपावयवत्वमुक्त्वा 'यस्त्वेतमेवं प्रादेशमभिविमानमात्मानं वैश्वानरमुपास्ते सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्तिः (छा० ५।१८११) इति पूर्वोदितावय- वसमूहविशिष्टस्य समस्तस्यैव त्रैलोक्यशरीरस्य वैश्वानरात्मन उपासनमभिहितम् । 'तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रयन्ते' 'य एतदेवं वि. .

तृतीयाध्यायस्य तृतीयः पादः । 18 - द्वानग्निहोत्रं जुहोति' (छा० ५।२४॥३) इति श्रूयमाणं च महत्फलं समस्तस्यैव वैश्वानरस्योपासने सम्भवति। व्यस्तवाक्येषु फलश्रुतिस्तु-दर्शपूर्णमासादेः क्रतोः समस्तस्यैव प्रयोगो न व्यस्तानां प्रयाजादीनां तद्वत् ॥ ५५ ॥ नाना शब्दादिभेदात् ।३।३। ५६ । अत्र मुक्तिफलिकाः सद्विद्यादयो विषयतया गृह्यन्ते । तत्र किमासामेकविद्यात्व- मुत नानात्वमिति संशयः। वेद्यस्य ब्रह्मणः फलस्यैक्यादेकविद्यात्वमेवेति पूर्वः पक्षः! सिद्धान्तस्तु-शब्दान्तराद्यनुबन्धभेदात्प्रकारभेदे विद्याभेद एव सिध्यति। क्वचित्स- च्छब्दः क्वचिद्भुमशब्दः क्वचिदपहतपाप्मशब्दः। एवमभ्याससंख्यागुणादीनामपि भेदो ज्ञातव्यः ॥ ५६ ॥ इति शब्दादिभेदाद्यधिकरणम् । विकल्पोविशिष्टफलत्वात् । ३।३।५७ । अत्र सद्विद्यादीनां किमेकस्मिन्नुपासके समुच्चय उत विकल्प इति संशये स्व- गादिफलाधिक्यायैकस्मिन्नप्यर्थिनि ज्योतिष्टोमादिसाधनानां यथा समुच्चयस्तद्वद- त्रापि विद्यासमुच्चयः स्यादिति पूर्वः पक्षः । अत्राभिधीयते-सर्वासां ब्रह्मोपासनानां ब्रह्मावाप्तिरेवाविशिष्टफलमाम्नायते । न तत्राधिक्यं सम्भवतीति विकल्प एव सर्वासाम् ॥ ५ ॥ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् । ३।३।। काम्यास्तु विद्या यथाकामं समुच्चीयेरन विकल्पेरन वा न तत्राग्रहो यतस्तत्फ- लस्यापरिमितत्वामावात् ॥ ५८ ॥ इति विकल्पाधिकरणम् । भङ्गषु यथाश्रयभावः।३। ।५8 । 'ओमित्येतदक्षरमुद्गीथमुपासीत' (छा० १.११) इति कर्माङ्गाश्रयाणां विद्या ना ऋतुषूद्गीथादिवत्क्रत्वर्थतया नियतोपादेयत्वमुत पुरुषार्थतयानुष्ठीयमानानां गो- दोहनादीनामिव यथाकाममिति संशयः। तत्र नियतोपादेयत्वमिति पूर्वः पक्षः । यत उपासनवाक्ये गोदोहनादिषु यथा फलं श्रूयते तथा पृथक् फलश्रुतिर्न विद्य- ते । 'यदेव विद्ययेति श्रुतफलस्य त्वर्थवादत्वात् ॥ ५९ ॥ शिष्टश्च । ३ ३ ६०। 'उद्गीथमुपासीत' इति शिष्टेविधानादुपासनानां क्रत्वङ्गभाव एवातो नियतो- पादेयत्वम् ॥ ६॥ समाहारात् ।३।३।६१ । ब . ब्रह्मसूत्रीय वेदान्तवृत्ती- 'होतृषदनाद्वैवापि दुरुद्गीथमनुसमाहरति' (छा० १।५।५) इत्युपासनसमा- हारादुपासनस्य नियतोपादेयत्वं सिध्यति ॥ ६१॥ गुणसांधारण्यश्रुतेश्च । ३ । ३ । ६२ । 'तेनेयं त्रयी विद्या वर्तते' 'ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायतीति' (छा० १११।९ ) इत्युपासनगुणस्य साधारण्यश्रुतेरुपासननैयत्यमवगम्यतेऽतोऽत्री- पादाननियम इति चतुर्भिस्सूत्रैरभिहितः पूर्वः पक्षः ॥ ६ ॥ न वा तत्सहभावाश्रुतेः । ३।३। ६३ । एवमभिहितैश्चतुभिस्सूरैः पूर्वपक्षं विधायानेन समाधत्ते । न वोद्गीथाश्रयोपा- सनानां ऋतुषूपादाननियमोऽस्ति । यतस्तत्रागभावरूपसहभावस्याश्रुतेः । 'यदेव वि- घया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति, (छा० १1१।१०) इत्युपा- सनस्य वीर्यवत्तरत्वरूपफलजनकतया गोदोहनादिवरकत्वात्वाभावात् ॥ ६३ ॥ दर्शनाच्च । ३ । ३ । ६४। एवं विद्धवै ब्रह्मा यज्ञं यजमानं सर्वाश्चर्विजोऽभिरक्षति' (छा० ४११४११०) एवं ब्रह्मणो वेदनेनैव सर्वेषां रक्षणमुपदिशन्ती श्रुतिरुद्गातृप्रमृतीमां वेदमस्यामङ्गता प्रकटयतीत्युपासनोपादेयत्वानियमः सिध्यति ॥ ६४ ॥ इति यथाश्रयाभावा- धिकरणम् । इति श्रीमद्भगवद्रामानन्दान्वयप्रतिष्ठितश्रीमदनुभवानन्दस्वामिद्वारकेण ब्रह्मवित्स्वामिश्रीरघुवराचार्यण विरचितायां ब्रह्मसूत्रीयवेदान्तवृत्ती तृतीयाध्यायस्य तृतीयः पादः। अथ तृतीयाध्यायस्य चर्तुथः पादः । पुरुषार्थोऽतः शब्दादिति बादरायणः । ३।४।१। विद्याभेदाभेदविचार परिसमाप्य पुरुषार्थविचारोऽधुना प्रस्तूयते । किमयं पुरुषार्थः कर्मण उत विद्याया इति संशयः । तत्र कर्मण इति पूर्वः पक्षः । अत्रा- भिधीयते-सिद्धान्तः । तमेवं विद्वानमृत इह भवति' 'तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्थाः' (पुं० सु०) ब्रह्मविदामोति परम्' (ते. आ.) इत्यादिश्रुति- भ्यो विद्यायाः पुरुषार्थ इति भगवान् बादरायणो मन्यते ॥१॥ शेषत्वात्पुरुषार्थवादो यथान्येग्विति जैमिनिः । ३।४।२।

तृतीयाध्यायस्य चतुर्थः पादः । - पूर्वपक्षी परिचोदयति । 'तत्वमसीत्यादि सामानाधिकरण्येन कर्मसु कर्तृतयाव- स्थितस्यात्मनो वास्तविकस्वरूपावेदकत्वादौपनिषदानां शब्दानामिति कतृसंस्कार- जनकतया विद्यायाः कर्मशेषत्वात्पुरुषाथवादस्त्वर्थवादो यथान्येषु द्रव्यसंस्कारकेषु 'फलश्रुतिरर्थवादस्तद्वदिति जैमिनिर्मन्यते ॥ २ ॥ आनारदर्शना ।३।४।३। 'यक्षमाणो वै भगवन्तोऽहमस्मि' ( छा० ५।११।६ ) इति ब्रह्मविदामाचार- दर्शनाद्विद्यायाः काङ्गत्वम् ॥ ३ ॥ तच्छ्रुतेश्च । ३ । ४।४। 'यदेव विद्यया करोति' (छा० १.१११०) इति साक्षाच्छुतेश्च विद्यायाः क- जित्वम् ॥ ४ ॥ समन्गरम्भणात् । ३।४।५। 'तं विद्या कर्मणि समन्वारभेते' (बृ० ४।४।२) इति श्रुतिर्विद्याकर्मणोरैकाधि- करण्यं बोधयन्ती काङ्गत्वं विद्याया ग्राहयति ॥५॥ ततो विधानात् ३।४।। वेदार्थज्ञानवतः कर्मण्यधिकारस्य विधानात् 'आचार्यकुलाद्वेदमधीत्य यथावि- धानं गुरोः कर्मातिशेषेणाभिसमावृत्य 'कुटुम्बे शुचौ देशे' (छा० ८।१५।१) अतो. ऽपि विद्यायाः कर्माङ्गत्वम् ॥ ६ ॥ नियमाच्च।३।४।७. 'कुर्वन्नेवेह कर्माणि जिजीवीषेच्छतं समाः (ईशा० ) इति विदुषोऽपि कर्मा. नुष्ठानस्य नियमात् कर्मणः पुरुषार्थः । जरामर्यवादोऽपीममेवाथै दृढयति ॥ ७॥ अधिकोपदेशात्तु बादरायणस्यवं तदर्शनात् । ३ । ४।। तुशब्दात्पक्षनिवृत्तिः । विद्यात एव पुरुषार्थो न तु कर्मणः । कर्मकर्तुजीवादधि- कस्य परमात्मनो वेद्यतयोपदेशात् । श्रुतिषु भगवदुपासनात्मकविद्याया विषयो हि 'परमात्मोपदिश्यते । अतो विद्ययैव पुरुषार्थ इति भगवतो बादरायणस्य मतम् ॥८॥ तुल्यन्तु दर्शनम् । ३।४ ।। कर्मणो विद्याङ्गत्वेऽपि-आचारदशनं तुल्यम् । कर्मणां प्राधान्येत्वनाचारस्यापि दर्शनादिति भावः । विद्वांस माहुः ऋषयः कावषेयाः किमी वयमध्येषामहे 'किम- • वर्ष यक्यामहे' इत्यादावाचाराभाव दर्शनात् । निष्कामकर्मणां विद्यारत्वादनुष्ठान ..

४२ ब्रह्मसूत्रीयवेदान्तवृत्तौ- नतु फलकामनोपचितकर्मणामिति विवेकः ॥ ९ ॥ असार्वत्रिकी । ३।४।१०। 'यदेव विद्ययेति श्रुतिरसार्वत्रिकी-एकामुद्गीथविद्यामेव गोचरी करोति । श्रुतौ यत्तत्पदयोः स्वारस्यादिति नेयं श्रुतिर्विद्यायाः कर्माङ्गत्वं साधयितुमिष्टे ॥ १० ॥ विभागः शतवत् ३।४। ११ । 'तं विद्या कर्मणि समन्वारभेते' (बृ. ४।४।२ ) इत्यत्रोभयोविद्याकर्मणो भिं- न्नफलत्वाद्विभागा एवास्ति । विद्या कर्मचेत्युभेपार्थक्येन स्वस्वफलाय समन्वारभेते । यथा द्वाभ्यां द्विशते दीयमाने समविभागे चैकैकस्मै शतं शतं दीयते तद्वत् ॥११॥ अध्ययनमात्रवतः।३।४।१२ । 'आचार्यकुलाद्वेदमधीत्य' इति श्रौतवाक्येऽध्ययनमात्रवतः कर्मण्यधिकारविधा- नान्नविद्यायाः कर्माशत्वम् ॥ १२ ॥ नाविशेषात् ३।४।१३। 'कुर्वन्नेवेह कर्माणि' (ईशा०) इति श्रुतिर्न केवलं कर्मण विनियुके। विशेषा- भावात् । किन्तु 'ईशावास्यमिदमिति विद्याप्रकरणात् कर्मणो विद्याङ्गत्वमेव सिध्यति१३ स्तुनयेऽनुमतिर्वा । ३।४।१४। 'कुर्वन्नेवेह कर्माणि' इति वाक्येन 'ईशावास्यमिदं सर्वम्' इति प्रकृताया वि- द्यायाः स्तुतये कर्मानुष्ठानेऽनुमतिदीयते । यदेतस्या विद्याया एतादृमाहात्म्यं यत्क- मकुर्वन्नपि कर्ता दोषैनंलिप्यत इति ॥ १४ ॥ कामकारेण चैके ३।४। १५ । 'किम्प्रजया करिष्यामो येषां नोऽयमात्माय लोक इति' (बृ. ४।४।२२) इत्येके शाखिनो विदुषः स्वेच्छया कर्मप्रधानस्य गार्हस्थस्यत्यागमधीयाना विद्यायाः प्राधान्यमधिदधते ॥ १५॥ उपमर्दश्च । ३।४ । १६ । 'क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' (मु० २।२१८) विद्यया कृ.. स्नकर्मविनाशम्चाधीयते । अतो न कर्मणः प्राधान्यम् ॥ १६ ॥ ऊ रेतस्सु च शब्दे हि । ३।३ । १७ । 'विरक्तश्रमेषु ब्रह्मविद्यायाः प्राधान्यान्न सा कर्माहताम्भजते । ननू रेतः पदबोभ्यविरकाश्रमा एव.न सन्ति । यतः 'यावज्जीवमग्निहोत्रं जुहोति' (आ- तृतीयाध्यायस्य चतुर्थः पादः । ६३ श्री० ३।१८ ) 'जरामर्य ह नै एतत्सत्रमित्यादिप्रमाणैरग्निहोत्रादिगृहस्थकर्मणां यावज्जीवनमनुष्ठेयता प्रतीयत इति चेन्नाम्नायिके शब्दे चूर्ध्वरेतसामाश्रमाणामुप- लम्भात् । 'त्रयो धर्मस्कन्धाः' (छा. २।२३।१) 'तपः श्रद्धे ये ह्युपवसन्त्यरण्ये (मु० १।२।११) 'एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्ति' (वृ० ४।४।२२) 'ब्रह्म- चर्यादेव प्रव्रजेत्' (जाबा० ४ ) इति । यावज्जीवश्रुति हिपरा ॥ १७ ॥ परामर्श जैमिनिरचोदनाचापवदति हि । ३।४।१ । 'त्रयो धर्मस्कन्धा' इत्यादिशब्दा न विरक्ताश्रमान् विदधते विध्यभावात् कि- न्तु ब्रह्मनिष्ठतां स्तुवन्तः परामर्श ( अनुवाद ) कुर्वन्ति । न केवलं विध्यभावोऽपि- स्वपवदत्यपि हि श्रुतिराश्रमान्तरम् । 'वोरहा एष देवानां योऽग्निमुद्रासयते' ( य- जु० १।५।२) प्रजातन्तुं मा व्यवच्छेत्सीः' इति । इत्येतज्जैमिनिमन्यते ॥ १८ ॥ अनुष्ठेयं बादरायणः साम्यश्रुतेः । ३ । ४ । १६ । यथा गृहस्थाश्रमस्यानुष्ठेयत्वं तथैव तत्साम्यादाश्रमान्तरस्याप्यनुष्ठेयत्वं भग- वान् बादरायणो मन्यते तथा हि-त्रयो धर्मस्कन्धा' यज्ञोऽध्ययनं दानमिति प्रथ- मस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयः (छा० २।२३।१) इत्यनेन त्रयोऽपि धर्मसाधकचातुराश्रम्यरूपाऽध्वानः सन्तीत्युच्यते । श्रुतौ कायक्लेशरूपतपः शब्देन वनस्थयत्याश्रमौ गृह्यते । एते चत्वारोऽष्याश्रमाः पुण्यलोकभागिनः पर- न्त्वेषु यस्य ब्रह्मणि निष्ठा वर्तते स विद्वानमृतत्वं प्राप्नोति । एतदेवोतं पुराणरत्ने- 'एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये । तेषां तत्परमं स्थानं यदै पश्यन्ति सुरयः । ( वि० १।६।३९) इति । एवं विधा ब्रह्मसंस्थितिः सद्गुरुचरणरजोजुषा केनचितिरक्तेनैव भगवदनन्यभक्त्यैव लभ्या। अनेन विरक्ताश्रमाणामुत्तमफलप्रा- पकत्वाद्गृहस्थाश्रमाच्छ्रध्यमुक्तम्भवति ॥ १९ ॥ विधिर्वा धारणवत् । ३।४। २० । 'त्रयो धर्मस्कन्धाः' इत्यादेविधित्वमेवेति स निदर्शनमुपपाद्यते । वेत्यवधारणे। सर्वाश्रमाणां विधिरेवात्र वाक्ये वर्तते नानुवादः। यथा 'अधस्तात्समिधं धारयन्न- नुद्रवेदुपरि हि देवेभ्यो धारयति' इति वाक्येऽनुवादम्परिहायाऽप्राप्तत्वादुपरिधार- णस्य विधिराश्रीयते । उक्तम्चैतत्पूर्वतन्त्रे 'विधिस्तु धारणेऽपूर्वत्वात्' (जै० सू० ३।४ १५) इति । एवञ्च 'त्रयो धर्मस्कन्धाः इति विधिवाक्यमेव । अत्रेद विचार्यते । ननु 'जायमानो ह वै ब्राह्मणनिभिऋणैऋणवा जायते' 'यज्ञेन -- ।

ब्रह्मसूत्रीयवेदान्तवृत्ती- देवेभ्ये प्रजया पितृभ्यः स्वाध्यायेन ऋषिभ्य इति' 'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षन्तु सेवमानो व्रजत्यधः' (मनु ६३५) अत्र मोक्षपदं चतुर्थाश्रमपरम् । 'वीरहा वा एष देवानां योऽग्निमुद्रासयते' ( यजुः १।५।२ ) 'आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः' ( ते १।१।१) 'जरामर्य हवै एतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासी जरया वा हयेतस्मान्मुच्यते मृत्युना वा' 'यावज्जीवमग्निहोत्रं जुतोति' (आ० श्रौ० ३।१४१८ ) इत्यादिश्रुति- स्मृतिभिश्च विरक्ताश्रमपदबोध्यस्य कस्यचिदाश्रमस्यैवाभावात् । कथञ्चिदशीका- रेऽपि ब्रह्मचर्याद्याश्रमत्रयमनुष्ठायैव तस्यानुष्ठानम्प्राप्नोतीति चेन्न, 'ब्रह्मचर्य परि- समाप्य गृही भवेत् गृही भूत्वा बनी भवेत् वनी भूत्वा प्रव्रजेत् यदिवेतरथा ब्रह्म- चर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा, 'यदहरेव विरजेत्तदहरेव प्रव्रजेत् (जावा० ४) इति जाबालश्रुत्यनुरोधेनाश्रमग्रहणस्यैच्छिकत्वात् । ब्रह्मचर्य्यादेव प्रब्रजेद् गृहाद्वा वनाद्धेत्यभिदधती श्रुतिर्विरक्ताश्रमपूर्ववर्तिनां त्रयाणामाश्रमाणान्तु न तथाऽनुष्ठे- यत्वं यथा तूर्याश्रमस्येति स्पष्टयति। दृढयति च 'यदहरेव विरजेत्तदहरेव प्रव्रजेतू' इत्यनेन तमेवार्थम् । अत एव 'त्रयो धर्मस्कन्धाः' इति श्रुतौ ‘एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति' इति फलं युवती श्रुतिः पूर्वाश्रमाणां केवलं सुख- साधनत्वमन्त्याश्रमस्य तु निःश्रेयसफलकत्वमिति फलतारतम्यमुपदिशति । एवञ्च .'जायमानो हेत्यादि ब्राह्मण वाक्यानि ऋणानीति मनुवाक्यानि च गृहस्थाश्रममधि- कृत्यैव प्रवृत्तानीति वेदितव्यम् । 'विरक्ताश्रमनिष्ठो भगवच्छरणागतिधर्ममनुतिष्ठन् विरत्तो नैषां वचसां विषयः। स तु तूर्याश्रमप्रधानधर्मपरमपुरुषानुरक्तियुकत्वा- च्छ्रेष्ठतमः । अत एव 'देवर्षिभूताप्तनृणां पितृणां न किंकरो नायमृणीच राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्त्तम् । इति भागवतोक्तं सङ्ग- च्छते । अनन्यभक्तविरक्तवैष्णवाना पिण्डोदकश्राद्धादिकरणमप्यनावश्यकम् । अव- श्यानुष्ठेयेन श्रीवैष्णवाराधनेनैवाखिलविधेयस्य सामञ्जस्यादित्यलं प्रवक्तचिन्तया । अतः कर्मणो विद्याङ्गत्व विधातश्च पुरुषार्थ इत्येव रमणीयः पन्थाः ॥ १० ॥ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्त्वात् । ३।४।२१ । 'ओमित्येतदक्षरमुद्गीथमुपासीत' इति प्रकृत्य श्रूयते स एष रसानां रखतमः' (छा० ११॥३) इत्यादि तत्र संशयः। किमेतादृशेषु वाक्येषु स्तुतिमानं वर्तत तोपासनाया दृष्टिविधिरिति कृत्वजोगीधुसम्बन्धित्वेनापादानादसतमत्वादीनां तृतीयाध्यायस्य चतुर्थः पादः । &५. 1 + 'इयमेव जुहुरितिवत्स्तुतिमात्रत्वमिति पूर्वः पक्षः। अत्रामिधीयते-स्तुतिमात्र जुह्वादिविधिरिवोद्गीथादिविधेरत्राभावादुद्गीथादिषु रसतमत्वादेरप्राप्तत्वाच्च तद्द-; ष्टिविधिरेवाश्रयणीयः ॥ २१ ॥ भावशब्दाच्च।३।३।२२ । 'उद्गीथमुपासीत' इति विधिशब्दाच्च रसतमत्वादिदृष्टिविधिरेवान वाक्य इति ॥ २२ ॥ इति स्तुतिमात्राधिकरणम् । पारिप्लवार्था इति चेन्न विशेषितत्वात् । ३।४।२३ । उपनिषत्सु 'प्रतर्दनो हवै देवोदासिः' ( कौ० ३.१) एवंविधा आख्यायिकाः श्रूयन्ते । ताश्च पारिप्लवार्था, उताभ्यर्णाधीतविद्याविशेषाभिधानार्था इति संशयः। 'आख्यानानि शसन्तीति वाक्येन समस्तानामाख्यानानां पारिप्लवे विनियोगः । पारिप्लवश्चाश्वमेधे कथोपकथनमिति पूर्वः पक्षः । अत्राभिधीयते-नैव पारिप्लवार्था- न्यौपनिषदान्याख्यानानि 'मनुवैवस्वतो राजा' इत्यादीनामेव तत्र विशेषितत्वादिति तत्र विनियोगः ॥ २३ ॥ तथा चैकवाक्योपबन्धात् । ३ । ४ । २४ । औपनिषदाख्यायिकानान्तु 'आत्मावारे दृष्टव्यः' (बृ. ४।५।६) इत्यादिवि- धिनकवाक्यत्वात्तच्छेषत्वमेव ॥ २४ ॥ अत एव चाग्नीन्धनाद्यनपेक्षा।३।४।२५। विद्यया पुरुषार्थ इति निश्चित्य प्रसङ्गागतञ्च परिसमाप्य तादृश विद्यावन्तः प्राधान्येनोर्ध्वरेतस आश्रमिण एवेत्यपि निरचायि। इदानीमूर्ध्वरेतस्सु स्थिता विद्याऽग्निहोत्रादिकर्मापेक्षा तदनपेक्षा वेति संशयः। सर्वेषामाश्रमाणामविशेषाद्वि- रक्ताश्रमिष्वप्यग्निहोत्रादिकर्मापेक्षैवेति पूर्वः पक्षः। सिद्धान्तस्तु-यत ऊर्ध्वरेतस आश्रमिण, “एवमेव प्रवाजिनो लोकमिच्छन्त प्रव्रजन्ति' इत्याद्यनेकश्रुतिभ्यो विद्या- वत्वादग्नीन्धनादिकर्मानपेक्षैव विद्या। आश्रमकर्मापेक्षा तु वर्तत एव ॥ २५ ॥ इत्यग्नीन्धनाद्यधिकरणम् । सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् । ३ । ४ । २६ । विरक्तवद्गृहस्थेष्वपि कर्मानपेक्षैव विद्योत कर्मापेक्षेति संशयः । आश्रमित्वा- विशेषाद्गृहस्थेऽपि कर्मानपेक्षैव विद्येति पूर्वः पक्षः। सिद्धान्तस्तु-'तमेतं वेदानु- वचनेन ब्राह्मणा विविदिषान्त यज्ञेन' (बृ. ४।४।२२) इति यज्ञादिकर्मणां विद्या- ब्रह्मसूत्रीयवेदान्तवृत्तौ- अत्वेन श्रवणात् । नित्यनैमित्तिकादिसर्वकर्मापेक्षैव गृहस्थे विद्या । यथा गतिसाध- नभूतोऽश्वः प्रग्रहादिपरिकरापेक्षस्तद्वत् ॥ २६ ॥ इति सर्वापेक्षाधिकरणम् । शमदमाधु पेतस्स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्या- नुष्ठेयत्वात् । ३ । २। २७ । प्रासङ्गिकमेव विचिन्त्यते, किं गृहस्थो विद्याभिवृद्धये शमदमाद्युपेतस्यान्नवेति संशयः। तत्र विशिष्टकाननुतिष्ठद्भिर्विरक्ताश्रमिभिरेव शमदमादयोऽनुष्टेया नतु करणकलेवरव्यापारसाध्यकर्मासक्तैर्गृहस्थैरिति पूर्वः पक्षः । सिद्धान्तस्तु-यद्यपि गृहस्यो विहितकर्मसु व्यापृतस्तथापि शमदमाद्युपेतस्स्यात् 'तस्मादेवं विच्छान्तो दान्त उपरत स्ततिक्षुस्समाहितो भूत्वात्मन्येवात्मानं पश्येत्' (बृ. ६॥४॥३३) इत्यादिविधेर्विद्यागतया तदभिवृद्धये शमदमादीनामवश्यानुष्ठेयत्वात् ॥ २७ ॥ इति शमदमाघधिकरणम् । सर्वान्नानुमतिश्च प्राणात्यये तदर्शनात् । ३।४।२८। न हवा एवं विदि किञ्चनाननं भवति' (छा० ५।२।१) इत्येवं रूपेण छान्दो- ग्यादिषु प्राणविदः सर्वान्नानुमतिरस्ति सा च सार्वदिकी ज्ञेयोत प्राणात्यय एवेति संशयः । सामान्योपदेशा सार्वदिकीति पूर्वः पक्षः । अत्राभिधीयते-चोवधारणे-प्रा- णात्ययापत्तावेव सर्वान्नानुमतिरस्ति । तद्दर्शनात् । श्रुतौ प्राणात्ययापत्तावेव ब्रह्मवि- न्मुनिरिभ्योच्छिष्टान् कुल्माषान् भुक्तवानित्याख्यायिका दृश्यते। तस्मात्प्राणात्यया- पत्तावेब प्राणविदस्सर्वान्नानुमतिर्न सर्वदा ॥ २८ ॥ अबाधाच्च । ३।४।२६। 'आहार शुद्धौ सत्वशुद्धिः सत्वशुद्धौ ध्रुवा स्मृतिः' (छा ॥२६॥२) इत्या- हारशुद्धिश्रुतेरबाधान्न प्राणविदः सर्वान्नानुमतिः । अपि च स्मयते । ३।४।३०। 'प्राणसंशयमापन्नो योऽनमत्ति यतस्ततः। लिप्यते न स पापेन पद्मपत्रमि- वाम्भसा) इति च प्राणात्ययापत्तावेव सर्वानीनत्वं स्मर्यते ॥ ३० ॥ शब्दश्चातो कामकारे । ३।४। ३१ । 'तस्माद्वाह्मणः सुरां न पिबेत्' इति स्वेच्छाचारस्य निषेधकः शब्दोऽस्ति । अतः प्राणसंशयं एव सर्वानानुमतिर्न सर्वदेति सिद्धम् ॥ ३१॥ इति सर्वानानु- मत्यधिकरणम् ।

तृतीयाध्यायस्य चतुर्थः पादः । विहितत्वाचाश्रमकापि । ३।४ । ३२ । 'यज्ञाद्यङ्गिका विद्येत्युक्तम् । तत्र तद्यज्ञादिकं विद्यारहिताश्रमस्यापि कर्मोत सविद्याश्रमकर्मेति संशयः । तत्र केवलाश्रमकर्मत्वे नित्यानित्यसंयोगविरोधान केवलाश्रमकर्मत्वमिति पूर्वः पक्षः। अत्राभिधीयते-'यावज्जीवमग्निहोत्रं जुहोति' इति विहितत्वाद्विद्याविधुराश्रमस्यापि तत्कर्म । विरोधस्तु-'तमेतं वेदानुवचनेनेति विनियोगपृथक्त्वेन परिहृतो भवति । तस्मात्सविद्याश्रमकर्मवत्केवलाश्रमकर्मापि तदिति तैरप्यनुष्ठेयम् ॥ ३२ ॥ सहकारित्वेन च । ३।४। ३३ । मुमुक्षुभिरपि 'तमेतं वेदानुवचनेनेति विद्याङ्गत्वेन श्रुतत्वाद्विद्यासहकारित्वेन यज्ञादिकर्मानुष्ठेयमेव ॥ ३३ ॥ सर्वथापि त एवोभयलिङ्गात् । ३।४।३। उभयत्र विनियुक्ता अपि यज्ञादयस्त एवोभयत्र प्रत्यभिज्ञानाख्यलिङ्गादतो न कर्मभेदः ॥ ३४ ॥ अनभिभवञ्च दर्शयति । ३।४। ३५ । यज्ञादिकर्मानुष्ठानेन 'धर्मेण पापमपनुदति' ( तै० ना० ) इति विद्याया अन- भिभवमुत्पत्तिप्रतिबन्धाभावं च दर्शयति । प्रात्यहिकयज्ञाद्यनुष्ठानेन चित्तशुद्धावुत्कृष्ट- विद्योत्पद्यतेऽतः सर्वाश्रमिभिरनुष्ठेयम् ॥ ३५ ॥ इति विहितत्वाधिकरणम् । अन्तरा चापि तु तदृष्टः।३।४। ३६ । प्रासङ्गिक विचिन्त्यते । आश्रमविधुराणां विद्यायाम धकारोऽस्ति न वेति संश- यः। आश्रमधर्मत्वाद्विद्याया अनाश्रमिणां नास्त्यधिकार इति पूर्वः पक्षः। अत्रा- भिधीयते । तुना पक्षपरिवृत्तिः। चोऽवधारणे-दृश्यते हि रैकभीष्मादीनामनाश्रमि- स्वेऽपि विद्यानिष्ठत्वम् ॥ ३६ ॥ अपि च स्मयते।३।४। ३७ । 'जप्येनापि च संसिद्ध्येद्ब्रह्माणो नात्र संशयः ( मनुः ) इत्यनाश्रमिणामपि स्मयते विद्यासिद्धिः ॥ ३७॥ विशेषानुग्रहश्च । ३।४।३७ । अनाश्रमिणां धर्मविशेषैरपि विद्याया अनुप्रहः श्रूयते 'तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यात्' (प्र. १११०) इति ॥३८॥ । ७ब्रह्म S ब्रह्मसूत्रीयवेदान्तवृत्ती- अतस्त्वितरज्ज्यायोलिङ्गाच्च । ३ । ४ । ३8 । अतोऽनाश्रमित्वाद्धर्मसाधनविधावामित्वं ज्यायः लिङ्गात्स्मृतेश्च-'अनाश्रमी नतिष्ठेत्तु दिनमेकमपि द्विजः' ( दक्ष०) इति । एतेनाऽनाश्रमिणां मृतभार्या- णाञ्च विद्यानुष्ठानम्पुनारसंग्रहश्चापद्धर्म इति गम्यते ॥ ३९ ॥ इति विधुरा- धिकरणम् । तद्भूतस्य तु नातद्भावो जमिनेरपि नियमात्तद्रूपाभावेभ्यः ।३।४।४०॥ स्वाश्रमधर्मभ्रष्टानां नैष्ठिकवनस्थयतीनां विधुरादिव द्विद्याधिकारोऽस्ति न वेति संशयः। जपादिभिस्तेषां शुद्धिसम्भवादस्त्येवाधिकार इति पूर्वः पक्षः। अत्राभि- धीयते-तुः पक्षनिवर्तकः। स्वाश्रमाच्युतानां नैष्ठिकादीनामनाभ्रमितया स्थिति सम्भवति । यतो नैष्ठिकधर्माभावेभ्यः शास्त्रैनियमात् । 'अत्यन्तमात्मानमाचार्य कुलेऽवसादयन् (छा० ) अरण्यमियात्ततो न पुनरेयात् , 'संन्यस्याग्नि न पुन- रावर्तयेत्' इति नैष्ठिकवनस्थविरक्तानां नियमात् । तस्मादाश्रमाच्च्युतानां नैष्ठिका- दीनां न विद्यायामधिकारः ॥ ४० ॥ न चाधिकारिकमपि पतनानुमानात्तदयोगात् । ३।४ । ४१ । नैष्ठिकाद्यधिकारोक्तप्रायश्चित्तमप्येषु न सम्भवति । यतस्तेषां स्वाश्रमधर्मात्प- तनं स्मयते । 'आरूढो नैष्ठिकं धर्म यस्तु प्रच्यवते द्विजः। प्रायश्चित्तं न पश्यामि' (आग्नेयः १६।५।२३) पतितस्य प्रायश्चित्तायोगात् । आधिकारिक प्रायश्चित्तन्त्वो- पकुर्वाणिकं बोध्यम् ॥ ४१ ॥ उपपूर्वमपीत्वेके भावमशनवत्तदुक्तम् । ३।४। ४२ । नैष्ठिकादीनां ब्रह्मचर्य्यात्प्रच्युतावुपपातकमस्ति तत्र प्रायश्चिन्तभावमेके धम- विदो मन्यन्ते । यथा मध्वशने नैष्ठिकोपकुर्वाणयोरुभयोरपि प्रायश्चित्तेन शुद्धिस्त- द्वच्छुद्वौ स्यादेव विद्याधिकारः। तदुक्तम्-'उत्तरेषां चैतदविरोधि' (गौत. ११३।४। इति ॥ ४२ ॥ बहिस्तूभयथापि स्मृतेराचाराच्च । ३।४।४३ । तुनामतव्यावृत्तिः। नैष्ठिकादेरुपपातकित्वे महापातकित्वे वोमयथापि ब्रह्मोपा- सनलक्षणविद्यातो बहिर्भाव एव । 'प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा' (आग्ने० १६।५।२३) वसन्नावसथेभिक्षुमैथुनं यदि सेवते । तस्यावसथनाशः स्यात्कुलान्यपि हि कृन्तति' (दक्ष. १४१)। इत्यादिस्मृतेः कृतप्रायश्चित्तानपि तृतीयाध्यायस्य चतुर्थः पादः। 28 तान् शिष्टा यागादिकर्मसु वर्जयन्ति । भिक्षुरत्र विरक्ताश्रम्येव । अतो नास्त्येक तेषां ब्रह्मविद्यायामधिकारः ॥ ४३ ॥ स्वामिनः फलश्रुतेरित्यात्रेयः । ३ । ४ । ४४ । उद्गीथायुपासनानि यजमानकर्तृकाण्युतत्विकर्तृकाणीति संशयः। तत्र पूर्वः पक्षः । स्वामिनो यजमानस्यैव फलश्रुतेस्तत्कर्तृकाणीति आत्रयो मन्यते ॥ ४४ ॥ आत्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते । ३ । ४ । ४५ । समाधत्ते-ऋत्विक्कर्मोद्गीथायुपासनम् । यतो यजमानेनर्विक् परिक्रियते । स्वफलप्राप्तिसाधनभूतसाङ्गतुसम्पादनाय परिक्रीतविंगनुष्ठितस्यापि तोः फलं यजमानगाम्येवेति न फलश्रुतेरपि विरोधः ॥ ४५ ॥ इति स्वाम्यधिकरणम् । सहकार्यन्तरविधिः पक्षण तृतीयं तद्वतो विध्यादिवत् । ३।४। ४६ । 'तस्माद्ब्राह्मणः पाण्डित्यं निर्विध बाल्येन तिष्ठासेत् वाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः' (बृ. ३।५।१ ) अत्र विद्यासहकारितया मौनमनूद्यत उत विधी. यत इति संशयः । 'अथ मुनिरित्यत्र विधिशब्दाभावान्मौनस्य ज्ञानविशेषाज्ज्ञानस्य च पूर्व विधानादत्र मौनमनूयत इति पूर्वः पक्षः। अत्राभिधीयते-तद्वतो विद्यावतः पाण्डित्यबाल्यवत्तृतीयमिदमपूर्व विद्यासहकार्यन्तरं मौनं विधीयते । पक्षेण मुनिश- ब्दस्य मानसजपादिवदन्तः करणधर्मत्वेन प्रकृष्टमननात्मके निदिध्यासने प्रसिद्ध- त्वादाश्रमविध्यादिवदेवात्र निदिध्यासनात्मकस्य मौनस्य विधिः ॥ ४६ ॥ कृत्स्नभावात्तु गृहिणपसंहारः।३।४।४७ । अविशेषेण कृत्स्नेष्वाश्रमिषु विद्यायाः सद्भावाद् गृहस्थेनोपसंहारः 'अभिसमा- वृत्य कुटुम्बे शुचौ देशे, इत्यारभ्य ‘स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिस- म्पद्यते' ( छा० ८।१५।१ ) इत्येतत्सर्वाश्रमिपरः। विद्यानिष्ठगृहिणोऽपि ब्रह्मावा- प्तिः किमुत विरक्ताश्रमिभ्य इति ॥ ४७ ॥ मौनवदितरेषामप्युपदेशात् । ३ । ४।४८ । 'तस्माद्ब्राह्मणा' इति वाक्ये 'अथ भिक्षाचर्यं चरन्ति' (बृ. ३।५।१) इति विरतधर्मेणोपसंहारोऽखिलाश्रमधर्मसंग्रहार्थः । मौनवदितरेषां यज्ञाद्याश्रमधर्माणामु-- पदेशात् ॥ ४८ ॥ इति सहकार्यन्तरविध्यधिकरणम् । अनाविष्कुर्वन्नन्वयात् । ३।४ । ४६ । प्रोकवाक्ये 'बाल्येन तिष्ठासेतू' (बृ.) इति श्रूयते । तत्र बालस्य कर्मस्वा- १०० ब्रह्मसूत्रीयवेदान्तवृत्तौ- - भाविकं सर्व विदुषोपादेयमुत स्वभावानाविष्काररूपं विशिष्टं कमैवेति संशयः। बाल्येनेत्यविशेषेणोक्तत्वात्कामचारादिकं सर्वमुपादेयमिति पूर्वः पक्षः। सिद्धान्तस्तु- स्वमाहात्म्यानाविष्कार एव विद्यामन्तीति स एव ग्राह्यः । अन्येषां विद्याविरोधित्वे- नान्वयायोगात् । तदेवोक्तं 'नाविरतो दुश्चरितात्' (का० २) इत्यादिभिः ॥४९॥ ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् । ३ । ४ । ५० । किमिहैव जन्मनि विद्योत्पद्यत उत जन्मान्तरेऽपाति संशयः। अस्मिन्नेव जन्मनि विद्योत्पत्तीच्छयानुष्ठितकर्मभिरिहैव विद्योदयः स्यादिति पूर्वः पक्षः। सिद्धा- न्तस्तु-अप्रस्तुते प्रबलकर्मान्तरप्रतिबन्धेऽनन्तरं विद्योदयफलं तदभावे विहैवेति । तद्दर्शनात् । 'यदेव विद्यया करोति' इत्युद्गीथविद्यावतः कर्मणोऽप्रतिबन्धस्य दर्श- नादनियम एव विद्योदयफलस्य ॥ ५० ॥ इत्यहिकाधिकरणम् । एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तवस्थावधृतेः । ३।४।५१ । किमुत्पन्नविद्यस्येहैव जन्मनि मुक्तिफलमुत जन्मान्तरेऽपीति संशयः । तत्र सत्यां विद्योत्पत्ताविहैव मुक्तिफलमिति पूर्वः पक्षः। सिद्धान्तस्तु यथैकस्मिन्नेव जन्मनि प्रबलकर्मप्रतिबन्धाभावस्तदभावो वा विद्योदयं तदनुदयश्च कुरुतस्तथैवावि- च्छिन्नस्मृतिसन्तानरूपायां विद्यायामिहैव मुक्तिफलमन्यथा जन्मान्तरेऽपीत्यनियमः। 'स्मृतिलम्भे सर्वप्रन्थीनां विप्रमोक्षः' (छा० ॥२६॥२ ) इति कर्मप्रन्थिमुक्तिहेतो- रवधृतेरिति ॥ ५१ ॥ इति मुक्तिफलाधिकरणम् । इति श्रीमद्भगवद्रामानन्दान्वयप्रतिष्ठितश्रीमदनुभवानन्दस्वामिद्वार- केण ब्रह्मवित्स्वामिश्रारघुवराचार्येण विरचितायां ब्रह्मसूत्री- यवेदान्तवृत्तौ तृतीयाध्यायस्य चतुर्थः पादः । अथ चतुर्थाध्यायस्य प्रथमः पादः । आवृत्तिरसदुपदेशात् । ४।१।१। अतीतैखिभिरध्यायश्चिदचिच्छरीरकस्यापहतपाप्मनो दिव्यगुणधाम्नः परब्रह्मणः श्रीरामस्य स्वरूपमुपासनात्मकविद्याश्चाभ्यधायि । अथानेन तुरीयाध्यायेनोपासनफले कलनीयेऽनेन प्रथमाधिकरणेनोपासनानुष्ठानं निर्णीयते । 'आत्मावारे दृष्टव्यः' (बृ. ४।५।६) 'ब्रह्मविदाप्नोति परम्' (ले० १११) 'तमेव विदित्वाऽति मृत्यु- चतुर्थाध्यायस्य प्रथमः पादः। - मेति' (श्वे० ३८) इत्यादिश्रुतिषु ब्रह्मप्राप्त्युपायतयोपदिष्टस्य ध्यानादेः सकृद- छानं कार्यमुतावृत्तिरिति संशयः। सकृदनुष्ठानेऽपि शास्त्रार्थस्य साफल्यात्सकृदेवेति पूर्वः पक्षः । अत्राभिधीयते-'निदिध्यासितव्यः' (बृ० ४।५।६ ) आत्मानमेव लोकमुपासीत' (बृ. १।४।१५) इत्याद्युपदेशाद्वैदनापरपर्यायस्योपासनस्यासकृद- नुष्ठानं कार्यम् । अविच्छिन्नस्मरणात्मकस्योपासनस्य सकृदनुष्टानासम्भवाद्वेदनमा प्यसकृदेवेति तात्पर्यम् ॥ १॥ लिङ्गाच्च।४।१।२। वेदनस्यासकृदनुष्ठेयता 'अनन्यचेताः सततं यो मां स्मरति नित्यशः' (गी.) 'मां ध्यायन्त उपासते' ( गी०) 'तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्पृहा । तद्ध्यानम्' (वि. पु. ६।७।९१) इत्यादिस्मृतेरप्यवगम्यते ॥ २ ॥ इत्या- वृत्यधिकरणम् । आत्मेति तूपगच्छन्ति ग्राहयन्ति च । ४।१ । ३ । पूर्वोदितब्रह्मोपासनं किमुपासकेन भिन्नत्वधिया विधेयमुत स्वात्मधियेति संश- यः। तत्रोपासकस्य जीवस्य ज्ञाज्ञौ द्वावजावीशानीशौ' ( श्वे. ११९ ) 'अधिक- न्तुभेदनिर्देशात्' (ब्र० सू०) 'शारीरश्चोभयेऽपि हि भेदेनैनमधीयते' (ब्र० सू० १।२।११) इत्यादिश्रुतिस्मृतिभिर्ब्रह्मभिन्नत्वेनावगमाद्भिन्नत्वेनोपासनीयमिति पूर्वः पक्षः । अत्राभिधीयते-उपासितुरन्यदपि ब्रह्मोपासनवेलायां स्वात्मतयैवोपासके. नोपास्यम् । पूर्वोपासकाश्चैवमुपगच्छन्ति । 'त्वं वा अहमस्मि भगवो देवते अई वै त्वमसि' इति । अभ्युपगमञ्चेमं ज्ञापयन्ति वेदान्ताः स्पष्टम् । 'ऐतदात्म्यमिदं सर्वम्' (छा० ६।८।४) 'यस्यात्मा शरीरम्' (बृ. १।४।१०) 'अथ योऽन्यां देवता मुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद' (बृ० १।४।१०) इत्यादयः । तस्मादुपासितुरात्मतयैवोपास्यं ब्रह्मेति ॥३॥ इत्यात्मत्वोपासनाधिकरणम् । न प्रतीके न हि सः।।१।४। उपनिषत्सु 'मनो ब्रह्मेत्युपासीत' (छा०६।१८११) इत्यादिप्रतीकोपासनमपि दृश्यते । तत्रायं संशयो यदत्राप्यात्मत्वेनोपासनं विधेयं न वा ? उपासितुरात्मतया ब्रह्मोपासनस्य पूर्वाधिकरणे निश्चितत्वात्तत्सामान्येनात्राप्यात्मतयैवोपासनं विधेय- मिति पूर्वः पक्षः । अत्राभिधीयते-प्रतीकेनात्मत्वेनोपासनं विधेयम् । यतः स प्रतीको नोपासितुरात्मा। तस्मात्प्रतीके केवलं ब्रह्मदृष्टिः कर्तव्या। उपासनन्तु ब्रह्मसूत्रीयवेदान्ततो- प्रतीकस्यैव ॥ ४ ॥ ब्रह्मदृष्टिरुत्कर्षात् । ४।१।५। अनापकृष्टे मनसि ब्रह्मदृष्टिरेव कर्तव्या न तु ब्रह्मणि मनोदृष्टिः। अपकृष्टे युत्कृष्टधीः साधीयसी ॥ ५ ॥ इति प्रतीकाधिकरणम् । आदित्यादिमतयश्चाङ्ग उपपत्तः। ४ । १।६। कर्माङ्गनिर्दिषूपासनेषु 'य एवासौ तपति तमुद्गीथमुपासीत, (छा १।३।१) इत्यादिषु संशयः । किमादित्यादिषूद्गीथादिदृष्टिरुतोद्गीथादिष्वादित्यदृष्टिरिति । तत्र 'फलवत्सन्निधावफलं तदङ्गम्' इति न्यायादादित्यादीनामपकृष्टत्वादुद्गीथा- दीनां फलित्वेनोत्कृष्टत्वादादित्यादिषूद्गीथादिदृष्टिविधेयेति पूर्वः पक्षः। अत्राभि- थीयते-उद्गीथादिष्वङ्गवादित्यादिदृष्टिरेव विधेया। यतः कर्ममिस्समाराधिताया देवतायाः फलप्रदायित्वेनोत्कृष्टत्वात् ॥ ६॥ इत्यादित्यादिमत्यधिकरणम् । आसीनः सम्भवात् । ४।१।७। एतच्चोपासनं शयानो गच्छन्नासीनोवत्यनियमेन यथा कथचिद्विदध्यादासीन एवं वेति संशयः। तत्रोपासनस्य मनोविधेयतया यथाकथञ्चिदप्यनुष्ठेयम् इति पूर्वः पक्षः। अत्राभिधीयते-चित्तैकाप्रथमन्तरेणोपासनस्यासम्भवादासीनस्यैव तद्वत्वा- दासीन एव ब्रह्मोपासनं विदध्यादिति ॥७॥ ध्यानाच्च ।४।१।। 'ततस्तु तं पश्यते निश्चलं ध्यायमानः' (मु०) इत्युपासनस्य ध्यानरूपत्वा- दासीनस्यैव निश्चलध्यानत्वादासीन एव तदनुतिष्ठेत् ॥ ८ ॥ अचलत्वं चापेक्ष्य ।४।१।। 'ध्यायतीव पृथिवीध्यायतीवान्तरिक्षम्' (छा. ७६१) इत्यादिषु पृथिव्या- देरचलत्वं चापेक्ष्य ध्यानमुक्तम् । ध्यानोपासनयोश्चैकार्थ्यादचलस्वमुपासनेऽप्याव- श्यकम् । तच्चासीनस्यैवेत्यासीनः॥९॥ स्मरन्ति च।४।१।१०। 'उपविश्यासने युज्यायोगमात्मविशुद्धये' (गी. ६।१२) इति स्मरन्ति च सत्वविदस्समासीनस्यैव ध्यानम् ॥ १०॥ यत्रैकाप्रता तत्राविशेषात् । ४।१।१। यस्मिन् देशे काले या चित्रीकामयं तस्मिन्नेव देशे काले चोपानमनुतिष्ठेत् । बतोऽत्र देशकाल्योविशेषानुनस्यात् ॥ ११॥ इत्यासीनाधिकरणम् ।

चतुर्थाध्यायस्य प्रथमः पादः । १०३ आप्रयाणात्तत्रापि हि दृष्टम् । ४ । १ । १२ । एतद्ब्रह्मोपासनमेकस्मिन्नहन्यसकृद्विधेयमाप्रयाणाईनंदिनं वेति संशयः। तत्रैकवासरेऽप्यसकृदनुष्ठिते शास्त्रस्य चारितार्थ्यान्नानवरतमिति पूर्वः पक्षः । अत्रा- भिधीयते-'स खल्वेवं वर्तयन् यावदायुषम्' ( छा० ८।१५।१) इत्यादिश्रुतिष्वा- देहस्थिति दृष्टत्वादामरणमहर्दिवमुपासनं विधेयम् ॥१२॥ इत्याप्रयाणाधिकरणम्। तद्धिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्वयपदेशात् । ४।१ । १३ । अथोपासनफले विचिन्त्यमाने संशयः । किमुपासनरूपविद्ययाघनाशो भवति न वेति । तत्रानिष्टकर्मजन्याघस्य 'नाभुक्तं क्षीयते कर्म' इत्यादिशास्त्रबलादुपासनेन विनाशासम्भवाद्भोक्तव्यत्वमापततीति पूर्वः पक्षः । अत्राभिधीयते-‘एवं विदि पापं कर्म न श्लिष्यते' (छा० ४।१४।३ ) एवं हास्य सर्वे पाप्मानः प्रदूयन्ते' (छा. ५।२४।३) 'क्षीयन्ते चास्य कर्माणि' (मु० २।२।८) इति व्यपदेशाद्विद्याधिगमेन तन्महिम्नोत्तरपूर्वाधयोरश्लेषविनाशौ विदुषोऽवश्यम्भवतः। 'नाभुक्तमितिवचनन्तु प्रारब्धपरमिति न तेन कश्चिद्विरोधः॥ १३ ॥ इति तदधिगमाधिकरणम् । इतरस्याप्येवमसंश्लेषः पाते तु । ४।१।१४। अघेतरस्य सुकृतस्याप्येवमसंश्लेषविनाशावुपपद्यते न वेति संशये सुकृतक- मणो विदुष इष्टत्वेनाश्लेषविनाशाविति पूर्वः पक्षः। सिद्धान्तस्तु-विद्याफलमोक्षवि- रोधितया सुकृतकर्मणोऽप्यश्लेषविनाशावघवदेवोपपद्यते। 'तत्सुकृतदुष्कृते नुते' (कौ० १।४) इति सुकृतेऽप्यघवद्यपदेशाविद्यानुगुणवृष्टयन्नफलस्य सुकृतस्य तु तदानीमविनष्टत्वेन शरीरपातानन्तरमसंश्लेषो भवति ॥१४॥ इतीतराधिकरणम् । अनारब्धकार्य एव तु पूर्व तदवधेः । ४।१ । १५ । विद्याधिगमेनाखिलसुकृतदुष्कृतयोविनाशो भवत्युतानारब्धकार्ययोरिति संशये 'सर्वे पाप्मानः प्रदूयन्ते' 'क्षीयन्ते चास्य कर्माणि' इत्यादिवचनैरशेषकर्मक्षय इति पूर्वः पक्षः । सिद्धान्तस्तु-विदुषोऽपि 'तस्य तावदेवचिरं यावन विमोक्ष्येऽथ सम्प- त्स्ये' (छा० ६।१४॥२) इति देहपातावधिविशेषश्रवणाद्विद्योत्पत्तेः प्राचीनेअनार- ब्धकार्ये सुकृतदुष्कृते एव विनश्यतः ॥ १५ ॥ इत्यनारब्धकार्याधिकरणम् । अग्निहोत्रादि तु तत्कार्यायैव तदर्शनात् । ४।१ । १६ । पुण्यस्याप्यसश्लेषविनाशावमिहितावितरस्येति सूत्रेण । एवञ्चाग्निहोत्रादीना- मपि पुण्यत्वाविशेषादिह विचिन्त्यते। नित्यनैमित्तिकरूपाणि-'अग्निहोत्रादीन्या- १०४ ब्रह्मसूत्रीयवेदान्तवृत्तौ- श्रमकर्माणि ब्रह्मविदानुष्ठेयानि न वेति संशयः । अनारब्धकार्ययोः सुकृतदुष्कृतयो- रुभयोरपि विनाशवचनान्नानुष्ठेयानीति पूर्वः पक्षः। अत्राभिधीयते-'तमेतं वेदानु वचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' (बृ० ४।४।२२) इत्यादि श्रुतिषु तदनुष्ठितिदर्शनादवश्यमनुष्ठेयानि । यतस्तेषां विद्योन्नतिकरत्वेन तदानुगुण्यम् ॥ १६ ॥ भतोऽन्यापि ह्येकेषामुभयोः।४।१।१७। अग्निहोत्रादेः सुकृतस्य विद्योन्नतिफलार्थमनुष्ठेयताचेत् 'तस्य पुत्राः दायमुप- यन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्' इति वचनस्य व प्रसर इत्यभिधी- यते--अग्निहोत्रादि रूपायाः साधुकृत्यायाः अन्यापि साधुकृत्याविदुषोऽस्त्येव । यस्याश्च विनियोजकमेकेषां शाखिना सुहृदः साधुकृत्यामिति वचनम् । बलवत्कर्मा- वरुद्धफलयोर्विद्योत्पत्तेः पूर्वोत्तरवर्तिनो रुभयोरपि सुकृतदुष्कृतयोः सुहृद्विषत्सूपयानं सूपपादम् ॥ १७ ॥ यदेव विद्ययेति हि । ४।१।१८। 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' (छा० १११।१०) इति शुद्गीथ विद्यायाः प्रबलकर्मान्तराप्रतिबद्धफलत्वमुक्तम् ॥ १८ ॥ इत्यग्निहो- त्राद्यधिकरणम् । भोगनत्वितरेक्षपयित्वाथ सम्पद्यते । ४।१।१६। अनारब्धकार्ययोः पुण्यापुण्ययोगतिरुक्ता । ताभ्यामितरे प्रारब्धकायें पुण्या- पुण्ये किं विद्यानिदानदेहान्तेअथवा वर्तमानदेहान्ते देहान्तरान्ते चैत्यनियम इति संशयः। तस्य तावदेवचिरम्' इत्यभिधानाद्वर्तमानदेहान्ते एवेति नियम इति पूर्वः पक्षः। सिद्धान्तस्तु-इतरे-प्रारब्धकार्ये पुण्यापुण्ये उभे भोगेन क्षपयित्वा- ऽनन्तरमेव ब्रह्म सम्पद्यते । फलाय परिणते ते वर्तमानकदेहभोग्ये स्यातां तदा तदन्ते ब्रह्मसम्पत्तिरनेकदेहभोग्ये चेदनेकदेहान्ते ब्रह्मसम्पत्तिरित्यनियमः। प्रार• ब्धफले पुण्यापुण्ये भोगेनैव क्षयं नेये इत्येव नियमः । 'तस्य तावदेव चिरम् यावना विमोक्ष्थेऽथ सम्पत्स्ये' (छा० ६।१४।२) इति श्रुतेः ॥ १९॥ इतीतरक्षप- णाधिकरणम् । इति श्रीमद्भगवद्रामानन्दान्वयप्रतिष्ठितश्रीमदनुभवानन्दस्वामिद्वार- केण ब्रह्मवित्स्वामिश्रीरघुवराचार्येण विरचितायां ब्रह्मसूत्री यवेदान्तवृचौ चतुर्थाध्यायस्य प्रथमः पादः।

चतुर्थाध्यायस्य द्वितीयः पादः । १०५ अथ चतुर्थाध्यायस्य द्वितीयः पादः। वाङ्मनसि दर्शनाच्छब्दाच्च । ४।२।१। ब्रह्मविदः समुत्क्रान्तिरिदानीमुच्यते । 'अस्य सोम्य पुरुषस्य प्रयतो वाङ्म- नसि सम्पद्यते मनःप्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् (छा. ६८६) तिरियं वाग्वृत्तमनसि सम्पत्तिमभिधत्तेऽथवा वागिन्द्रियस्येति संशयः। वाचोऽनु- पादाने मनसि वाग्वृत्तिरेव सम्पद्यत इति पूर्वः पक्षः । सिद्धान्तस्तु-वागिन्द्रियमेव मनसि सम्पद्यते। उपरतायामपि वाचि मनोव्यापारस्य दर्शनात् । 'वाङ्मनसि सम्पद्यते' इति साक्षाच्छब्दाच्च । अत्र वाचो मनः सम्पत्तिविलक्षणसंयोग एवेति ज्ञेयम् ॥ १ ॥ अत एव सर्वाण्यनु.। ४।२।२। यतो मनसि वाचो विलक्षणसंयोगो नतु लयः। अत एव मनसोऽनुपादानत्वे. ऽपि वाचमनु सर्वाणीन्द्रियाणि सम्पद्यन्ते । तथा च श्रुतिः 'इन्द्रियैर्मनसि सम्पद्य- मानैरिति ॥ २॥ इति वागधिकरणम् । तन्मनःप्राण उत्तरात् ।४।२।३। सर्वेन्द्रियसंयुक्तस्य मनसः प्राणे लयः संयोगो वेति संशयः । तत्रान्नमयं हि सोम्य मनः' (छा० ) इत्यन्नकार्यत्वान्मनसोऽन्नस्य च 'ताः अन्नमसृजन्त' इत्य- प्कार्यत्वात् 'आपो मयः प्राणः' इति प्राणस्याप्याप्यत्वश्रवणात्प्राणप्रकृतिकाप्सु परम्परया मनोलय इति पूर्वः पंक्षः । सिद्धान्तस्तु-मनसः प्राणे विलक्षणसंयोगमात्रं न लयः। यतस्तस्याहंकारिकत्वात् । अबाप्यायितप्राणस्य भौतिकत्वान्न तत्र लयः सम्भवति । स्वकारण एव लय इति सिद्धान्तात् ॥ ३॥ इति मनोधिकरणम् । सोध्यक्षे तदुपगमादिभ्यः । ४।२।४। 'प्राणस्तेजसि' इत्युत्तरवाक्ये स प्राणस्तेजसि सम्पद्यतेऽथवा जीव' इति संश- यः। 'प्राणस्तेजसीति व्यवदेशातेजस्येवेति पूर्वः पक्षः । सिद्धान्तस्तु-सः सर्वेन्द्रि- यमनोविशिष्टः प्राणोऽध्यक्षेऽखिलकरणाध्यक्ष जीवे सम्पद्यते । 'एवमेवेममात्मानम. न्तकाले सर्वे प्राणा अभिसमायान्ति' (बृ. ४।३।३८) 'तमुत्क्रामन्तं प्राणोऽनूत्का- मति' (वृ० ४।४।२) 'कस्मिन् वा प्रतिष्ठास्यामि (प्र. ६॥३) इत्यादि श्रुतिभिः प्राणस्य जीव एवोपगमोत्क्रान्तिप्रतिष्ठादीनामभिधानात् । 'मनः प्राणे' इति श्रौतवा. क्यानन्तरं 'प्राणस्तेजसीति वाक्यस्य सङ्गतिस्त्वनेकप्रमाणानुरोधात् प्राणः स्वाध्यक्षे १०६ ब्रह्मसूत्रीयवेदान्तवृत्ती- जीवे संयुज्य तेजसि संयुज्यत इत्येवं क्रमेण बोध्या ॥४॥ इत्यध्यक्षाधिकरणम् । भूतेषु तच्छ्रुतेः।४।२।५। 'प्राणस्तेजसि' इति जीवसंयुक्तस्य प्राणस्य तेजोमात्रे संयोगोऽभिधीयत उत समस्तेषु भूतेष्विति संशये-तेजसीति विशेषाभिधानात्तेजोमात्र इति पूर्वः पक्षः । सिद्धान्तस्तु 'पृथिवीमयः' (बृ. ४१४१५) इत्यादि श्रुतेजीवस्य सर्वभूतमयत्वव्य- पदेशात् तासां त्रिवृतमित्यादिश्रुतेश्च तेजःप्रमृतिभूतानां त्रिवृत्कृतत्वेन केवलस्य तेजसोऽनवस्थानात्समस्तेष्वेव भूतेषु संयोगः॥ ५॥ नैकस्मिन् दर्शयतो हि । ४।२।६। एकस्मिन्नपि सम्पत्तौ 'पृथिवीमयः' इत्यादि श्रुतेरुपपत्तिस्तु न सम्भवति । एकस्य भूतस्य कार्याक्षमत्वात् । त्रिवृत्कृतस्यैव कार्योपयोगित्वात् । श्रुतिस्मृतीममर्थ दर्शयत 'तासां त्रिवृतं त्रिवृतमेकैकस्य करवाणि' (छा० ६३३) 'समेत्यान्यो- न्यसंयोगं परस्परसमाश्रयाः (वि. पु. १।२।६२ ) अतो भूतविशिष्टस्यैव तेज- सोऽत्रग्रहणम् ॥ ६ ॥ इति भूताधिकरणम् । समाना चामृत्युपक्रमादमृतत्वञ्चानुपोष्य । ४।२।७। किमियमुत्क्रान्तिरविदुष एवाहोस्विद्विद्वदविदुषोरुभयोः समानेति संशयः। तत्र 'अत्र ब्रह्म समश्नुते' (का० २।६।१४) इति ब्रह्मविदोऽत्रैव ब्रह्मप्राप्तिश्रवणादविदुष एवेयमुत्क्रान्तिरिति पूर्वः पक्षः । सिद्धान्तस्तु-गत्युपक्रमात्प्राक्-नाडीप्रवेशात्प्राक्- विद्वदविदुषोः समानेयमुत्क्रान्तिः । विदुषोऽपि मूर्धन्यनाडीप्रवेशस्य श्रुतत्वात् 'शत चैका (का० २।६।१६) 'अथ मोऽमृतो भवत्यत्र ब्रह्मसमश्नुते (का० २।६।१४) इति श्रुतिस्तु ब्रह्मविदोऽत्रैवामृतप्राप्ति नाभिधत्ते । किन्तूपासनसमये शरीरेन्द्रियस- म्बन्धसत्वएव । विद्यासामर्थ्यादुत्तरपूर्वाधविनाशे दुःखाननुभवादमृतत्वसाम्यम् । "अथमर्थों 'यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हदि स्थिताः' (का० २।३.१४) इति प्रकृतश्रुतेः पूर्वार्धपर्यालोचनया निश्चीयते ॥ ७ ॥ तदापीतेः संसारव्यपदेशात् । ४।२।। अचिरादिमत्या ब्रह्मलोकप्राप्तिरपोतिस्तावत्पर्य्यन्तं संसारस्याभिधानात् तस्य सावदेव' 'धूत्वाशरीरमकृतं कृतात्मा' (छा० ८1१६:१) इति । अतस्तदमृतल शरीरसम्बन्धसत्व एव॥ ८॥ सूक्ष्म प्रमाणतच तयोपलव्धे।४।२।।

चतुर्थाध्यायस्य द्वितीयः पादः । १०७ ब्रह्मविदोऽप्यर्चिरादिमार्गेण गमनरूपात्प्रमाणतः 'तम्प्रति ब्रूयात्' (को०) इति चन्द्रमसा संवादेन करणकलेवरवत्वस्योपलब्धेश्च सूक्ष्मशरीरसम्बन्धो विद्यत एव॥९॥ नोपमर्दैनातः । ४ । २।१०। अतो 'यदा सर्व प्रमुच्यन्ते' इति काठकं वचः शरीरसम्बन्धस्य विनाशेनाम- तत्वं नाभिधत्ते ॥ १०॥ अस्यैव चोपपत्रूष्मा । ४।२।११ । अस्य सूक्ष्मदेहस्यैवोष्मरूपो धर्मो न स्थूलदेहस्य स चायं कदाचिन्मुमुर्विदुष शरीर उपलभ्यते । अस्मादुष्मणोऽवगम्यते यत्सूक्ष्मशरीरविशिष्ट एव विद्वानु- कामति ॥ ११॥ प्रतिषेधादिति चेन्न शारीरात्स्पष्टोोकेषाम् । ४।२।१२। ननु ब्रह्मविदउत्कान्तिन सम्भवति 'अथाकामयमानो योऽकामो निष्काम आप्त- काम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सम् ब्रह्माप्येति' (बृ. ४।४।६) इत्यादिभिः प्रतिषेधादिति चेन्न, शारीरात्प्राणोत्क्रान्तेरयं प्रतिषेधो न तु शरीरात् । यतश्चायमर्थ एकेषां माध्यन्दिनानामाम्नाये स्पष्ट एवाभिधीयते 'योऽकामो निष्काम आप्तकाम आत्मकामो न तस्मात्प्राणा उत्क्रामन्ति' (बृ. ४१४१६) अत्र तच्छब्देन शरीरमभिधाय तस्मात्प्राणोत्क्रान्तेः प्रतिषेधः स्पष्ट एव ॥ १२ ॥ स्मयते च । ४।२।१३। ब्रह्मविदो मूर्धन्यया नाडया गमनं 'ऊर्ध्वमेकस्थितस्तेषां यो भित्वा सूर्यमण्ड. लम् । ब्रह्मलोकमतिक्रम्य तेन याति परांगतिम्' (याज्ञ. १६७ ) इति स्मर्यते एव । ॥ १३ ॥ इत्यासृत्युपक्रमाधिकरणम् । तानि परे तथाह्याह । ४।२।१४। तानि प्राणेन्द्रियजीवसहितानि भूतसूक्ष्माणि किं स्वफलभोगाय यथास्थानं यथा- कर्मोपयान्ति आहोस्वित्परे ब्रह्मणि सम्पद्यन्त इति संशये कर्मफलभोगाय तदनुगुण. स्थानं लोकान्तरं गच्छन्तीति पूर्वः पक्षः । सिद्धान्तस्तु-उत्क्रममाणस्य विदुषस्तानि परे ब्रह्मणि सम्पद्यन्ते तथा श्रुतिरप्याह 'तेजः परस्यां देवतायाम्' (छा० ६१८१६) इति ॥ १४ ॥ इति परसम्पत्त्यधिकरणम् । भविभागो वचनात् । ४।२।१५। सा चेयं परदेवता सम्पत्तिः स्वकारणे लय उताविभागरूपैवेति संशये। परमा- १०६ ब्रह्मसूत्रीयदान्तवेवृत्तौ- स्मनः परमकारणतया तत्रोक्ता सम्पत्तिस्तस्मिल्लय एव स्यादिति पूर्वः पक्षः । सि- द्धान्तस्तु-'तेजः परस्यां देवतायां' इति वाक्येऽपि 'सम्पद्यत' इत्यस्यान्वयः। तथा चात्र सम्पत्तिविलक्षणसंयोग एवेति प्रनिर्णीतम् । स एव संयोगविशेषः प्रकृते भवतीति ॥ १५॥ इत्यविभागाधिकरणम् । तदोकोऽप्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तन्छेषगत्यनु- स्मृतियोगाच्च हार्दानुगृहीतः शताधिकया । ४।२।१६ । नाडीप्रवेशात्प्राग्विद्वदविदुषोः समान वेयमुत्क्रान्तिरित्यवधारितम् । किन्तु नाडीप्रवेशेऽस्तिकश्चिद्विशेषः स इदानीं विचिन्त्यते । 'शतं चैका च हृदयस्य नाडय- स्तासां मूर्धानमभिनिस्सृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वजन्या उत्क्रमणे भवन्ति' ( का० २।६।१६ ) इतीयं श्रुतिर्विद्वदविदुषोरुत्क्रान्ति यया कयापि नाडया- भिधत्त उत विदुषः शताधिकया मूर्धन्याख्यया नात्यैवाविदुषस्त्वन्याभिरेवेति नियमेनेति संशयः । अतिसूक्ष्मानेकनाडीसमवाये मूर्धन्यनाडीविवेकस्यासम्भवाद्यया कयापि नाड्योत्क्रान्तिरित्यनियम इति पूर्वः पक्षः । अत्राभिधीयते-ब्रह्मविदस्तु शताधिकया मूर्धन्यया नाडयैवोत्क्रान्तिस्ततोऽन्यस्यान्याभिरेवेति नियम्यते । ब्रह्म- विद्यासामर्थ्यात्परमात्मनः शेषत्वानुस्मरणाच्च प्रीतेन हार्दैन परमपुरुषेणानुगृहीत- म्योपासकस्य हृदयाग्रप्रकाशनं जायते । तथा च तत्प्रकाशितद्वारो विद्वान् शताधि- कां मूर्धन्यनार्डी विविच्य तयैवोत्क्रामति ॥ १६ ॥ रश्म्यनुसारी । ४।२।१७। 'अथ यत्रैतस्माच्छरीरादुनामत्यथैतैरेव रश्मिभिरूवमाक्रमते' (छा० ८६५) इत्यत्र प्रकाशमन्तरेणाप्युत्क्रान्तिरुतरम्यनुसारेणैवेति संशयः। प्रकृतश्रुतेः पक्षान्तरे चारितार्थेन प्रकारान्तरेणाप्युत्क्रान्तिः सम्भवतीति पूर्वः पक्षः । अत्राभिधीयते- 'एतैरेव रश्मिभिः' इत्यवधारणाद्रश्म्यनुसायेंव विद्वानुत्कामति ॥ १७ ॥ निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाइर्शयति च । । चनु नाडीरश्मिसम्बन्धस्याहन्येव सत्वादहनिमृतस्य रश्म्यनुसारित्वं निशि नेति वेन नाडीरश्मिसम्बन्धस्य यावद्देहभावित्वात् । तथा च दर्शयति श्रुतिः 'माभ्यो ना. डीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सूप्ता । रात्रावप्यादित्यरश्मयो भवन्त्येव । प्रीमर्तुशर्वर्यामुष्मोपलव्धेस्तदानीमपि रश्मिसद्भावः शक्यत एव निश्वेतुम् ॥१०॥ इति रश्म्यनुसाराधिकरणम् ।

चतुर्याध्यायस्य द्वितीयः पादः । १०६ अतश्चायनेऽपि दक्षिणे । ४।२।१६ । ब्रह्मविदो दक्षिणायने मृतस्य ब्रह्मप्राप्तिर्भवति न वेति संशयः। अथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छति' (ते. ना०) इतीयं श्रुतिदक्षिणायने मृतस्य चन्द्रलोकावाप्तिमाह । तत्र गतानाच पुनरावृत्तिरस्त्येवेति न ब्रह्मप्राप्तिरिति पूर्वः पक्षः। अत्राभिधीयते-संसृतिप्राप्तिहेत्वभावादेव दक्षिणायनमृ- तस्यापि ब्रह्मप्राप्तिर्भवत्येव ॥ १९ ॥ योगिनः प्रति स्मर्यंते स्मात चैते । ४ । २ । २० । 'यत्र कालेत्वनावृत्तिमावृत्तिचैव योगिनः । (गी० ८) इत्यादिभिर्वाक्येस्तु ब्रह्म- विदः प्रत्यनुदिनमेते उभे सृती स्मर्तव्ये स्मयेते नतु मरणकालविशेष व्यवस्था- प्यते ॥ २० ॥ इति दक्षिणायनाधिकरणम् । इति श्रीमद्भगवद्रामानन्दान्वयप्रतिष्ठितश्रीमदनुभवानन्दस्वामिद्वार- केण ब्रह्मवित्स्वामिश्रीरघुवराचार्येण विरचितायां ब्रह्मसूत्रीयवे- दान्तवृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः। अथ चतुर्थाध्यायस्य तृतीयः पादः । अचिरादिना तत्प्रथितेः । ४ । ३।१ । परमपुरुषोपासनया विनष्टबन्धस्य विदुष उत्क्रान्तिः प्रदर्शिता। तदुत्तराधव- नोऽधुना निर्णयः क्रियते । ब्रह्मधामजिगमिषोर्विदुषोऽनेकश्रुतिष्वनेकप्रकारेणम्नाते- ध्वध्वसु येन केनाप्यध्वना गमनमुतार्चिरादिनैकेनैवाध्वनेति संशयः। तत्र श्रुतिषु गौणमुख्यभेदाभावात्स्वातन्त्र्येणाभिधीयमानेष्वध्वसु येन केन पि गमनमिति पूर्वः पक्षः। सिद्धान्तस्तु-अचिरादिनैकेनैवाध्वना गतिः। प्रकारभेदेऽपि सर्वत्राचिरादिरे- वाध्वा ब्रह्मविदो गन्तुमभिधीयते । सवभिधीयमानेष्वध्वसु नैयत्येनादित्यादीनां दर्शनात्स एवायमचिरादिरध्वेति प्रत्यभिज्ञानात् । तस्मात्सर्वत्राचिरादिरेक एवाध्वेत्य- नेनैवोपासकस्य गतिः ॥ १॥ इत्यावरायधिकरणम् । वायुमब्दादविशेषावशेषाभ्याम् ।४।३।२। अचिरादिगतौ क्रमभेदः समाधीयते । 'मासेभ्यः संवत्सरं संवत्सरादित्यम्' ब्रह्मसूत्रीयवेदान्तवृत्तौ- (छा० ४।१५।५) इति च्छन्दोगाः समामनन्ति । 'अग्निलोकमागच्छति स वायु- लोकम्' (कौ० ११३) इति 'मासेभ्यो देवलोकं देवलोकादादित्यम्' (बृ. ६॥२॥१५) 'स वायुमागच्छति' (बृ. ५।१०।१ ) इति च वाजसनेयिनः। अत्र देवलोकवा- युशब्दाभ्यां भिन्नार्थोऽभिधीयते । देवलोकं गत्वा वायुमुपासको गच्छत्युत देवलोक- वायुशब्दयोरेक एवार्थ इति संशये-तयोविभिन्नार्थकत्वाद्यथारुचि गच्छतीति पूर्वः पक्षः । सिद्धान्तस्तु-संवत्सरादूवं वायुमागच्छति देवानां लोक इत्यविशेषव्युत्पत्ती देवलोकशब्दोऽपि वायुपरस्तथा वायुमिति विशेषरूपेण च वायुमेवाभिधत्तेऽतः संव- त्सरादूर्व वायुमागच्छति ॥ २ ॥ इति वाय्वधिकरणम् । तडितोऽधिवरुणः सम्बन्धात् । ४ । ३।३। कौषीतकिनां ब्राह्मणे श्रूयते 'स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्म लोकम्' ( कौषी १३) इत्यादिषु श्रुतीनां वरुणादीनां वायोरूवं निवेश आहोस्वि- तडित इति संशये-पाठक्रममावत्य वायुलोकादूवं वरुणादीनां निवेश इति पूर्वः पक्षः। सिद्धान्तस्तु-तडिद्वरुणयोर्मेघस्थत्वेन सम्बन्धात्तडित ऊर्ध्वमेव वरुणादीनां निवेशः॥३॥ इति वरुणाधिकरणम् । मातिवाहिकास्तलिङ्गात् । ४।३।४। एतेचिरादयः किमध्वलक्षणभूता उतगमयितार इति संशयेऽध्वनो लक्षणभूता एवेमे । दृश्यत एव लोक एवं विधोऽवलक्षणानि सूचयन्नुपदेशो देशान्तरं जिग. मिषून्प्रति तथाऽज्वलक्षणभूता एवाचिरादय इति पूर्वः पक्षः । अनाभिधीयते । ब्रह्म- सूनामेतेऽचिरादयो गमयितार एष 'स एनान्ब्रह्म गमयति' (छा ४।१५।६ ) इत्युत्तरवाक्य स्थलिझादवगम्यते । अचिंरादयोऽत्र तत्तदषिष्ठातृदेवता एवेति तासा गमयितृत्वं सुतरी सम्भवति ॥ ४ ॥ वैद्युतेनैव ततस्तच्छुतेः । ४।३।५। ननु ' एनानिति, श्रुतिर्विद्युल्लोकाय -माब्रह्मातिवाहिकतयाऽमानवं पुरुष. मनिषत्त इति तत उपरितनानान्त्वातिवाहिकत्वं कथमिति चेत्ततो विद्युत ऊर्चमा ब्रह्म वैद्युतामानवेनातिवाहिकेनैव प्राप्यते । स एनान्ब्रह्मगमयति, (छा• ४-१५-६) इति श्रुतेः । वरुणादीनानखनुप्राहकत्वम् ॥ ५॥ इत्यातिवाहिकाधिकरणम् । कार्य वादरिरश्य मत्युपपत्तो।४।३।६। ..

चतुर्थाध्यायस्य तृतीयः पादः ।
.-
अचिरादेरध्वनो विदुषो गमनमित्यभिहितम् । अथात्र संशयः किमयमचिरा-
दिको गणः कार्यब्रह्मोपासीनानयत्याहोम्वित् परब्रह्मोपासीनान् ब्रह्मात्मकतया प्रत्य.
गात्मानमुपासीनांश्चेति । तत्र कार्य हिरण्यगर्भमुपासीनानयतीति बादरिर्मन्यते ।
यतः परिच्छिन्नस्य परब्रह्मण उपासकस्य देशविशेषे गतिः सम्भवति ॥६॥
विशेषितत्वाञ्च । ४।३।७।
पुरुषोऽमानव एत्य ब्रह्मलोकान् गमयति, (बृ. ६।१५) 'प्रजापते ।सभां
वेश्म प्रपये, (छा० ८॥१४॥१) इत्यादिषु कार्यस्य हिरण्यगर्भस्यैव प्राप्यतया वि.
शेषितत्वात् कार्योपासीनानयतीति ॥ ७ ॥
सामीप्यातव्यपदेशः । ४।३।।
'म एनान् ब्रह्म गमयति' ( छा० ४।१५।६ ) इति हिरण्यगर्भस्य प्रथमका
स्वेन सामीप्याद् ब्रह्मपदेन व्यपदेशः ॥८॥
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् । ४ । ३ ।।
नन्वेवं कार्यब्रह्मलोकगतानो पुनरावृत्तिः आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽ-
र्जुन ? (गी. ८1१६ ) इत्यादि शास्त्रेणोच्यते । कथं तर्हि तयोर्वमायन्नमृतस्व.
मेति, ( का० ।।६।१६) इत्यादिश्रुतिष्वमृतत्वाभिधानं सङ्गच्छेतेत्याह-कार्य.
ब्रह्मलोकस्य विनाशे तल्लोकाध्यक्षेण सह प्राप्तपूर्णविद्योऽतः परब्रह्मधाम गच्छति ।
'ते ब्रह्मलोके तु परान्तकाले परामृताः परिमुच्यन्ति सर्वेः (मु. ३।२।६)।
इत्यभिधानात् ॥ ॥
स्मृतेश्च । ४।३।१०।
'ब्रह्मणा सह ते सर्व सम्प्राप्ते प्रतिसन्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति पर
पदम् । इति स्मृतेश्च ॥ १० ॥
परं जैमिनिर्मुख्यत्वात् । ४ । ३ । ११ ।
'स एनान् ब्रह्म गमयति, इत्यादिषु ब्रह्मशब्दस्य मुख्यत्वात् परमेव ब्रह्म गमः
यति इति जैमिनिराचार्यो मन्यते । ब्रह्मलोकशब्दः कर्मधारयसमासबलेन ब्रह्माभित्र
लोकपरः। किञ्च ब्रह्मणोऽपि श्रुतिस्मृतिप्रसिद्धभामास्त्येव तत्रैवाचिरादिगणो गमयति "
दर्शनाच। ४।३ । १२ ।
एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभि.
निष्पद्यते, (छा० ८।३।४) इत्यचिरादिना परप्राप्तदर्शनाच ॥ १२ ॥

ब्रह्मसूत्रीयवेदान्तवृत्तौ-
नच कार्य प्रत्यभिसन्धिः । ४।३।१३।
यत्तूक्त 'प्रजापतेः सभी वेश्म प्रपद्ये (छा० ८।११) इति कार्यब्रह्मणः प्राप्तेः
सङ्कल्प इति । तदपि न कायें हिरण्यगर्भ प्रत्यभिसन्धिः किन्तु वाक्य शेषे 'यथो-
ऽहं भवामि ब्राह्मणानाम् (छा. ८1१४।१) इति सर्वात्मभावाभिसन्धानात परब्रह्म-
ण्येव सोऽभिसन्धिरिति परं ब्रह्मोपासोनालयतीति जैमिनिः ॥ १३ ॥
मप्रतीकालम्बनानयतीति बादरायण उभयथा च दोषात.
त्क्रतुश्च।४।३।१४।
भगवान् बादरायणोऽत्र सिद्धान्तयति। प्रतीकालम्बनव्यतिरिकानचिरादिगणो
नयतीति । कार्यमुपासीनानिति पक्षे 'एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय' इत्य.
स्याः श्रुतेविरोधः परमेवोपासीनानिति पक्षे 'तद्य इत्थं विदुर्येचेऽरण्ये श्रद्धातप इत्यु-
पासते तेऽषिमभिसम्भवन्ति' इतिश्रुतिविरुध्यते । एवमुभयथा च दोषात् परमु-
पासीनान् केवलमात्मानं ब्रह्मात्मकत्वेनोपासीनाच नयतीत्येव नियमः। 'यथाक्रतु.
स्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति' (छा० ३.१४॥१)इति तत्क्रतुन्यायात
यथोपास्ते तथैवाप्नोतीति नियमात् ॥ १४ ॥ इति कार्याधिकरणम् ।
इति श्रीमद्भगवद्रामानन्दान्वयप्रतिष्ठितश्रीमदनुभवानन्दस्वामिद्वार-
केण ब्रह्मवित्स्वामिश्रीरघुवराचार्येण विरचितायां ब्रह्मसूत्री.
यवेदान्तवृत्तौ चतुर्थाध्यायस्य तृतीयः पादः ।
*--
अथ चतुर्थाध्यायस्य चतुर्थः पादः ।
सम्पद्याविर्भावः स्वेन शब्दात् । ४।४।१।
एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परंज्योतिरुपसम्पय स्वेन रूपे-
णाभिनिष्पद्यते' (छा० ८।१२।२)भत्रापूर्वरूपेण सम्बन्ध उत स्वाभाविकस्यैव
रूपस्याविर्भाव इति संशयः। कर्मसाध्यदेवादिरूपवद्विद्यासाध्येनापूर्वेण रूपेण सम्ब-
न्धः रस घेवाय लग्भ्वाऽनन्दी भवति' इत्यादि श्रुतेः परंज्योतिरुपसम्पन्नस्यान-
न्दिरममप्यत्र श्रूयते । अत एवाभिनिष्पद्यत इत्मपि सङ्गच्छते । अतोऽपूर्वेष
सम्बन्ध इति पूर्वः पक्षः । अत्राभिधीयते-खेन रूपेण' इति रूपविशेषणतया.
मिषानात् कर्मरूपाविद्याविरोहितस्य स्वाभाविकनीवरूपस्य परज्योतिरुपसम्पया-
विर्भावोऽत्राभिधीयते ॥१॥

चतुर्थाध्यायस्य चतुर्थः पादः। मुक्तः प्रतिज्ञानात् । ४ । ४।२। 'एतन्त्वेव ते भूयोऽनुव्याख्यास्यामि' (छा० ८१९॥३) इति जागरितायव. पातिरोधानमुक्तस्यैव वक्तव्यत्वेन . प्रत्यभिज्ञानात्स्वाभाविकरूपस्यैवाविर्भाव इति वीयते ॥२॥ आत्मा प्रकरणात् । ४।४।३। 'य भात्मापहत पाप्मा विजरो विमृत्युर्विशोकः' (छा० ॥११) इत्यादि करणात , अयमात्मापहतपाप्मत्वादिगुणक एव निश्चित कर्मरूपाविद्यया तु संसार- शायां तिरोहितस्वरूपतां गतः। एतद्विशुद्धस्वरूपस्यैव एतन्त्वेव ते भूयोऽनु- याख्यास्यामि' इति प्रतिज्ञानात् ॥ ३ ॥ इति सम्पद्याविर्भावाधिकरणम् । अविभागेन दृष्टत्वात् । ४।४।४। आविर्भूतस्वरूपोऽयमात्मा परमात्मानं विभकमनुभवत्युत स्वात्मतयैवावि. नागेनेति संशयः। तत्र निरञ्जनः परमं साम्यमुपैति, (मु. ३।११३) 'सह ब्रह्मणा पश्चिता' (ले० प्रा० १२) इत्यादिश्रुतिभ्यो विभक्तमेवेति पूर्वः पक्षः । पेद्धान्तस्तु-'अहं ब्रह्मास्मि' य आत्मनि तिष्ठन्नित्यादिश्रुतिभिरात्मशरीरभावेना. भक्कतयैवात्मानमनुभवतीति ॥४॥ इत्यविभागेन दृष्टाधिकरणम् । ब्राह्मण जैमिनिरूपन्यासादिभ्यः । ४।४।५। अपहतपाप्मत्वादिगुणाश्रयो जीव उतचैतन्यमानोऽथवोभयमिति संशयः । य आत्मापहतपाप्मा' (छा० ११) इति श्रुतेरपहतपाप्मत्वादिगुणाश्रय एवेति प्रथमः पक्षः । 'विज्ञानघन एवेति श्रुतश्चे चैतन्यमात्र एवेत्यपरः पक्षः। एवं क्षिद्वयं पूर्वपक्षतयोपन्यस्यानेन सूत्रेण प्रथमं जैमिनिमतमभिधीयते । दहरवा- क्यगतानामपहतपाप्मत्वादिब्रह्मगुणानामेव भूयो जीवगुणतयोपन्यासात् 'जक्षन् कीडन् रममाणः' इति सत्यसङ्कल्पादयोऽपि तस्मिन् सन्तीति जैमिनिमन्यते ॥५॥ चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः । ४।४।६। 'प्रज्ञानघन एव' (बृ. ४।५।१३) इत्यादिश्रुतेइचैतन्यमानोऽयं जीव इत्यौडुलोमिमन्यते ॥ ६ ॥ एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः । ४।४।७। चैतन्यमात्रस्वरूपस्यापि जीवस्यापहतपाप्मत्वादिगुणानामुक्तश्रुत्योपन्यासात. दाश्रयस्वमपि स्वाभाविकमेव चैतन्यप्रकाशकत्वादपहतपाप्मस्वादीनां परस्परमवि- - ब्रह्म ११४ ब्रह्मसूत्रीयवेदान्तवृत्तौ- रोध भगवान् बादरायणोऽभिधत्त इति ॥ ७॥ इति ब्राह्माधिकरणम् । संकल्पादेवतु तच्छुनेः । ४।४।। एवं मुकप्रकरणे 'स तत्र पय्यति बक्षन कोडन् रममाणः स्त्रीभिर्यानी झाति- भिर्वा इत्यादि श्रूयते । तत्र संशयः किमेतेषांमुपस्थितिमुक्तात्मनः प्रयत्नान्तर- सापेक्षोत ब्रह्मण इव सत्यसंकल्पादेवेति । निखिलस्यापि कार्यस्य प्रयत्नसाध्यतया प्रयत्नान्तरसापेक्षेवोपस्थितिरिति पूर्वःपक्षः। अत्राभिधीयते-'स यदि पितृलोक- कामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति' (छा• ८।२।१) इति श्रुतेः संकल्पादेव प्रयत्नान्तरनरपेक्ष्यणैव पित्रादीनामुपस्थितिः ॥ ८ ॥ अत एव चानन्याधिपतिः।४।४।। अतः सत्यसंकल्पादेवानन्याधापतित्वमस्य सिद्धम् । अन्यत्कर्मादिकमस्थाषि. पत्यं न भजते । एवमपि परमात्मनियाम्यता नापति ॥ ९॥इति संकल्पा. धिकरणम् । भभावं बादरिराह वि।। ४।४।१०। मुक्तस्य संकल्पसव इन्द्रियसत्ताभ्युपेतैव स्यादिति तद्विषये चिन्त्यते। किं मुकजीवस्य करणकलेवरादिकमस्ति नवेति संशयः। 'न वै सशरीरस्य सतः प्रिया- प्रिययोरपहतिरस्ति' (छा० ८।१२।१) इत्यादि श्रुतिषु शरीराभावदर्शनान करणकलेवरादिकं मुक्तस्य पादरिमन्यत इति पूर्व:पक्षः ॥ १० ॥ भाष जैमिनिविकल्पामननात् । ४।४।११ । 'स एकवा भवति त्रिधा भवति' (छा० ॥२६॥२) इति विविधरूपेण भवनं श्रतिरमियते । तच्च कलेवरमन्तरेण न सम्भवतीति मुकारमनः करणादि- भावं जैमिनिमन्यते ॥ ११॥ द्वादशाहबदुभर्यावधं बादरायणेोऽतः । ४।४।१२। मतः संकल्पादेव करणादिमत्त्वं तद्रहितस्वम्चेत्युभयविध मुकात्मानं भगवान् बादरामा मन्यते । यथा द्वादशाहस्य खत्रत्वमहानत्वा विविवेकक्षण्यातका संकल्प- वैशक्षण्यानुभयविधमपि युकम् ॥ १२ ॥ सम्वभावे सन्ध्यवदुपपत्तेः।४।४।१३। मुकस्य तम्बमावायो स्वप्नभोगवद्भगवत्प्रदत्तमोयोपररेष भोगो. पपते १३ चतुर्थाध्यायस्य चतुर्थः पादः । ११५ भावे जाग्रत् । ४।४।१४। करणकलेवरादिसद्भावे तु मुक्तात्मा जाप्रत्पुरुषभोगवत् पितृलोकादिभोगाननु- भवति । यथा परात्परःकमलासनेशानाद्यखिलदिविषद्वन्द्याज्रिपोभयविभूतिपति- भगवान् श्रीरामचन्द्रः स्वसंकल्पेनाध्यवनिमण्डलं देवानां पूरयोध्येत्याम्नायसमधि. गतमहिमसाकेतापरनामधेयायोध्यावाम्नि, नमदमरनरभूपालमालामौलिमुकुटमणि- मरीचिनिकरनीराजितचरणारविन्दश्रीमद्दशस्यन्दननन्दनतामासाद्य बाल्येऽनस्पकल्प- पादपस्थलकमलकिसलयप्रसूनचयविरचितविचित्रसुरभिसरयूशीतलसलिलकल्लोलमि- लदनिलचलदलकराजिराजितकपोलमण्डलद्युतिमण्डितकुण्डलप्रभयाशेषदिशा तिमि- रमुदस्यनिजजनसुलभनरलीलारसमनुभवति तथा मुक्तोऽपि परेशलीलान्तःपाति. पितृलोकादिकं स्वीय 'कल्पबलादुत्पाद्य तैस्सहाभिनवललितलोलामाकल पति ॥१४॥ प्रदीपवदावेशस्तथाहि दर्शयति । ४।४ । १५ । मुक्थवस्थायामप्यणुस्वरूपस्य जीवात्मन एकदेशस्थितप्रदीपस्य यथा स्व- प्रभया देशान्तरसम्बन्धस्तथा देहान्तरदेशान्तरसम्बन्धी व्यवहारश्चोपपद्यते । तथा हि दर्शयति श्रुतिः 'बालाप्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्त्र विज्ञेयः सचानन्त्याय कल्पते । इति संकल्पेनैव मुक्तात्मनस्सर्वमुपपद्यते ॥ १५ ॥ स्वाप्ययसम्पत्योरन्यतरापेक्षमाविष्कृतं हिं । ४।४।१६ । कथं तर्हि 'प्राज्ञेनात्मना सम्परिष्वको न वाद्यं किचन वेद नान्तरम्' (वृ.॥ ३।२१) इति मुक्कामाभिधायिनी श्रुतिः संगच्छतामित्यतोऽभिधत्त । स्वाप्ययेति । नोदीरितश्रुतिर्मुकात्मानं गोचरयति । अपितु सुषुप्तिमरणयोरन्यतरापेक्षमिदं श्रुति वाक्यम् । आविष्कृतं हि स्वाप्ययसम्पत्योनिःसंज्ञस्वमुत्तौ च सर्वज्ञत्वं श्रुत्या । 'नाहं खल्वयं भगव एवं सम्प्रत्यात्मानं जानाति' (छा. ८1१११२) इति सुषुप्तौ "एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति' (० २।४।१२) इति मरणे । 'सवा एष दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके (छा• ८॥१२॥५) इति स्पष्टमेवमुक्ती सुषुप्तिमरणविलक्षणं ज्ञानवत्वमाविष्कृतम् ॥१६॥ इत्यभावाधिकरणम् । जगदुव्यापारवज प्रकरणादसन्निहितत्वाच । ४।४।१७। मुकस्य सत्यसंकल्पवमुक्त्वाऽन्यदपि विचार्यते । किं मुक्तस्य जगद्रचनादिव्या पारोऽप्यस्ति, उन केवलं ब्रह्मानुभव एवेति संशयः । 'निरजनः परमं साम्यमुपैति' ब्रह्मसूत्रीयवेदान्तवृत्ती- (मु० ३१॥३) इत्यादिवचनैर्जगद्रचनादिव्यापारोऽपीति पूर्वः पक्षः। अत्रा. भिधीयते-सृष्टयादिव्यापारवाक्येषु ब्रह्मण एकस्यैव श्रवणात् जगद्रचनादिव्यापार विहाय ब्रह्मानुभवादिरूपे सुख एव मुक्तस्य साम्यम् । एतच्च सृष्टिप्रकरणादवगम्यते। तत्र मुक्तस्य सनिधानं न श्रूयतेऽतोऽसन्निहितत्वादप्यवगम्यते ॥ १७ ॥ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तः।४।४।१८। ननु 'तस्य सर्वेषु लोकेषु कामचारो भवति' (छा० १२५।२) इत्यादि- श्रुतिभिर्मुक्तस्य जगद्व्यापारो व्यपदिश्यत इति चेन, परमात्मना लोकशासना. घिकारे नियुक्तप्रजापतिलोकस्यभोगेषु मुक्तस्य कामचारत्वं हि ताशवचनैरभिधी- यते । यतस्तत्र कामचारो भवतीत्यादिरूपैव वचनरचना दृश्यते नतु नियमयतीत्या दिरूपा ॥ १८॥ विकारावति च तथाहि स्थितिमाह।४।४।१६। नन्वेवं संसारिजीववन्मुक्तस्यापि क्षयिष्णुलोकसुखभोत्कृतया तद्भोग्यमनित्यं स्यान्मुकस्य पुनर्जन्मजरामरणादियातनाःस्युरिति चोंचं समाधत्ते-विकारावर्तिमुत्तो विनिमुक्तसमस्तविकार दिव्यानन्दगुणाकूपारं परमात्मानमक्षय्यधाम्न्यवस्थितानन्द- विशिष्टमनुभवति तदीयलीलाविभूत्यन्तर्गतांश्च कामानपि । तथाहि दिव्यगुण- धाम्नि परस्मिसात्मन्यनुभवितुर्मुक्तस्य स्थितिमाह श्रुतिः। 'अथ ह्येवैष एतस्मिन्न- दृश्ये (तै० २१७ ) 'रसो वै सः' रसं ह्येवायं लब्ध्वानन्दोभवति, (तै० २।७) इति ॥ १९ ॥ दर्शयतश्चैवं प्रत्यक्षानुमाने । ४।४।२०। जगद्रचनादयो व्यापाराः परब्रह्मण एव न मुक्तात्मनः । एवमेव श्रुतिस्मृती. दर्शयतः । 'स तपस्तप्स्वा इदं सर्वमसृजतः (ते. २६) 'एतस्य वाक्षरस्य प्रथा- सने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, (बृ. ३८९) 'महं सर्वस्य प्रभयो मतः सर्व प्रवर्तते' (गी१०1८) इत्यादिश्रुतिस्मृतयः परमात्मन एवैकस्य जग. द्रचनानियमनादिकर्तृत्वमभिदधुनमुकात्मनः ॥ २० ॥ भोगमात्रसाम्यलिङ्काच्च । ४।४ । २१ । परमात्मना सह साम्यन्तु मुक्तात्मनो भोगमात्र एष भूयते 'सोऽश्वते 'सर्वान् कामान् सह ब्रह्मणा विपश्चिता' (ते. २१) इति । तदपि भोगेश्वग्राम्यं पर- बायत्तमेव न स्वातन्त्र्येणेति मुक्तेश्वर्य जगद्रचनादिव्यापारवर्जितमेव॥ २१॥ .

चतुर्थाध्यायस्य चतुर्थः पादः । ११७ मनावृत्तिः शब्दादनावृत्तिः शब्दात् ।४।४।२२ । सर्वस्वतन्त्रस्य परमात्मनो नियन्तृतया स्वेच्छया कर्हिचिन्मुक्तमपि जगति पुनरावर्तयेदिति शब्कामपाकरोति-अनावृत्तिरिति । स खल्वेवं वर्तयन् यावदा. युषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते' (छा० ८.१५/१) 'मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः' (गी० ८११५) इत्यादिवैदिकस्मात. शब्देभ्योऽवगम्यते । यनिरङ्कुशेश्वर्यशक्तिशाली परमकारुणिकः परमपुरुषः शरणा- गतवत्सलः श्रीरामःस्वाश्रितप्रपन्नजनं निजभुवनसाकेतापरपर्यायमशयधाम प्रेम्गा समानीय न पुनर्निवर्तयति । अत एवेयं चरमप्रतिज्ञापि सङ्गच्छते । सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयं सर्वभूतेयो ददाभ्येतद्वतं मम ॥ इति ॥ सूत्रावृत्तिः शास्त्रसमाप्तिं गमयति ॥२२॥ इतिजगद्व्यापारवर्जाधिकरणम् । भस्ति द्वारावतीधाम धरान्तः पातिशोभनः । राप्रामसर्वस्वः सर्वसम्पद्विभूषितः॥१॥ आतिथेयीं दधवृत्ति बटुभिर्वेषगवैर्भूतः । मठः शेषाभिधो दिव्यो गुणवजनमण्डितः॥२॥ तत्र स्थितस्तदध्यक्षो ब्रह्मविद्याविशारदः । श्रीमद्रघुवरावार्यो विरक्तः शास्त्रवित्तमः॥३॥ माताप्रहनिध्यजमितेवैक्रमवत्सरे । व्यरीरचदिमा वृत्तिं वेदान्तार्थप्रकाशिकाम् ॥ ४॥ अनया जानकीजानिर्निदानं जगतः परम् । वृत्तिकृज्जीवनप्राणः श्रीरामस्तोषमाप्नुयात्॥५॥ इति श्रीमद्भगवद्रामानन्दान्वयप्रतिष्ठितश्रीमदनुभवानन्दस्वामिद्वार- केण ब्रह्मवित्स्वामिश्रीरघुवराचार्येण विरचितायां ब्रह्मसूत्रीय वेदान्तवृत्तौ चतुर्थाध्यायस्य चतुर्थः पादः । श्रीमते रामानन्दाय नमः।

७ WW २५ चेना ५ प्रदर्द ४४ कार्यशैयाकचनाशुद्धयो विद्यन्ते ताश्चाधस्तन- शुद्धिपत्रेणादौ संशोधनीया एव । पत्रे पती अशुद्धम् शुद्धम् पत्रे पतो अशुद्धम् शुद्धम् ६ श्रीमते धीमते २५ सङ्कल्पर्विका सङ्कल्पपूर्विक १८ सम्माव्य सम्भाव्य ३२ १७ चिप चिद्रूप १० झणच ब्राणश्च ३४ २२ कलायेन कलापेन ६ २. चुा चुर्य्या ३६ २८ द्वस्यु ५ वणिक वर्णिक १९ल्लाक लोक चेनो २ प्राणा प्राणा १० प्रतर्द ६ थाप थापि २४ पास्य पास्व ४५ १४ ससु समु ११ १३ सीयत सीत ४९ २ सम्भः सम्भवः. १२ १५ यस्वन्त यस्यन्त मनो क्रमी मयी ७ दूदि ७ तौ हति १४ २३ थिव्या पृथिव्या १५ २३ क्षरः क्षरात २२ देवाताम् देवानाम् मेवं ११ त्तपाप तदाप १६ १६ चन चैन योनेः १४ वप्रभू युप्रभू १०३ १७ नुते धुनुते १०५ ५ तिरिय श्रुतिरियं ३. छन्दो १० मभिध इति। ५ क्रमो १२ २२ त्मानो १९ मयि दूधृदि तौरंहति ७ याने १५ जमि ६ छद्रो २५ मषिष -- सर्वविध वेदान्त ग्रन्थ मिलने का एक मात्र विश्वविख्यात प्राचीन स्थान--- जयकृष्णदास-हरिदास गुप्त:- चौखम्बा संस्कृत पुस्तकालय बनारस सिटी।

[ २ ] ९८ श्रुत्यन्तसुरद्रुमः। पुरुषोत्तमप्रसादकृतः तथा-श्रुतिसिद्धान्तमञ्जरी। श्रीव्रजेश्वरप्रसादकृता। ४॥) १९ नैष्कर्म्यसिद्धिः। सुरेश्वराचार्यकृता । ज्ञानोत्तममिश्रकृत "चन्द्रिका व्याख्या सहिता। तथा जयकृष्ण ब्रह्मतीर्थ प्रणीतं "ब्रह्मामृतम् । २० पञ्चीकरणम् । वार्तिकाभरणालङ्कृत “वार्तिक' टीकया 'तत्त्वचन्द्रिका' समवेत 'विवरणेन च सहितम् । २१ बाधसारः । श्रीनरहरिकृतः, तच्छिष्य दिवाकरकृत टीकया सहितः २५) २२ भेदधिक्कारः। श्रीनृसिंहाश्रममुनिकृतः। नारायणशर्मकृत व्याख्या सहितः तथा अप्पयदीक्षितविरचित "उपक्रमपराक्रमः । २३ विवरणोपन्यासः। श्रीरामानन्दसरस्वतीकृतः। (विवरणतात्पर्यस्य व्याख्यानं ) तथा-श्रीशङ्कराचार्यविरचित "वाक्यसुधा" श्रीब्रह्मानन्दसर- स्वतीकृत व्याख्या सहितः। २४ सिद्धान्तलेशसंग्रहः । अप्ययदीक्षितविरचितः । श्रीकृष्णानन्दतीर्थकृत "कृष्णलकाराख्यया व्याख्या सहितः तथा श्रीगङ्गाधरेन्द्रसरस्वतीकृता "वेदान्तसिद्धान्तसूक्तिमञ्जरी" ६) २५ सिद्धान्तबिन्दुः-न्यायरत्नावली-नारायणीटोकोपेतः । ४) २६ संक्षेपशारीरकम् । रामतीर्थकृत 'अन्वयार्थबोधिनी टीका सहितं । ८) २७ संक्षेपशारीरकम् । “मधुसूदनो" टीकासहितम् । 1) २८ स्वानुभवादर्शः। श्रीमाधवाश्रमविरचितः। तत्कृत टीका विभूषितश्च । तथा 'अनुभूतिलेशः" श्रीवामन विरचितः । २९ श्रीमत्सनत्सुजातीयम् । श्रीशङ्करपादविरचित भाष्येण "नीलकण्ठी" व्याख्यया च समन्वितम् । ३० हरिलीलामृतम् । श्रीबोपदेवप्रणीतं । मधुसूदनीटीकासहितं । तथा मधु- सूदनी टीका सहित श्रीमद्भागवतस्यायं पद्यं च । ३१ श्रीविद्वन्मण्डनम् । श्रीविठ्ठलनाथ दीक्षितकृतः । गो० श्रीपुरुषोत्तमजीकृत "सुवर्णसूत्राख्य" व्याख्या सहितं ३॥) ३२ मिताक्षरा। श्रीगौडपादाचार्यकृत “माण्डुक्यकारिकाव्याख्या' । शङ्करानन्द कृत "माण्डुश्योपनिषद्दीपिका" च ११) ३३ प्रस्थानरत्नाकरः। गोस्वामी श्रीपुरुषोत्तमजी कृतः सम्पूर्णः ३४ शुद्धाद्वैतमार्तण्डः । गोस्वामी गिरिधरजीविरचितः। तथा बालकृष्णभट्ट- विरचितः "प्रमेयरलार्णवः” सम्पूर्णः । २॥) ३५ श्रीमदणुभाष्यम्।गोस्वामिश्रीपुरुषोत्तमजीकृत "प्रकाश"व्याख्यासहित २२॥)

4 [३] ३६ ब्रह्मसूत्रविज्ञानभिक्षुभाध्यम् । बादरायणप्रणीतवेदान्तसूत्रामा विज्ञान- भिक्षुविरचितं 'विज्ञानामृताख्य व्याख्यानं सम्पूर्णम् ह) ३७ ब्रह्मसूत्रशाङ्करभाष्यम् । चतुःसूत्र्यन्त 'पूर्णानन्दीयव्याख्या राहितया श्रीगोविन्दानन्दप्रणीतया रत्नप्रभया' समन्वितं सम्पूर्णम् । ) ३८ ब्रह्मसूत्रशाङ्करभाष्यम् । चतुःसूत्र्यन्त “पूर्णानन्दीयव्याख्या सहितया, गोविन्दानन्द प्रणीतया "रत्नप्रभया, श्रीवाचस्पतिमिश्रकृतया "भामत्या" च सटिप्पण । द्वितीयाध्यायस्य द्वितीयपादान्तः प्रथमो भागः । द्वितीयाध्यायस्य तृतीयपादमारभ्यसमाप्तिपर्यन्तः द्वितीयो भागः। ॥) ३९ ब्रह्मसूत्रभास्करभाष्यम् । श्रीशङ्कराचार्य विरचितम् । अत्र शङ्कराचार्यस्य प्रत्यधिकरणं खण्डितमस्ति । भेदाभेदसिद्धान्तोऽत्र स्थापितः । ४० ब्रह्मसूत्रदीपिका । श्रीमच्छ करानन्दभगवद्विरचिता तथा "तत्त्वानुसन्धान" श्रीमहादेवानन्दसरस्वतीप्रणीतम्। ३) ४१ ब्रह्मसूत्रवृत्तिः-(मरीचिका) श्रीवल्लभाचार्य प्रणीता । ४२ ब्रह्मसूत्रवृत्तिः । श्रीदेवाचार्यप्रणीतया “सिद्धान्तजाहव्या" सहिता द्वितीय- तरजान्ता, श्रीसुन्दरभट्टविरचितया "सिद्धान्तसेतुकाख्यव्याख्या सहिता, इयं वृत्तिश्चतुःसूत्रीपर्यन्तं मुद्रिता। तथा-श्रीगिरिधरप्रपनरचितलघुमञ्जूषायुक्ता- दशश्लोकी च। ४) ४३ ब्रह्मसूत्रम् । श्रीनिम्बार्ककृत "वेदान्तपारीजातसौरभभाध्य"सूत्रवाक्यार्थेन, श्रीनिवासाचार्य प्रणीत "वेदान्तकौस्तुभभाष्येन" च सनाथी कृतं। ३) ४४ ब्रह्ममीमांसाभाष्यम् । श्रीनिम्बार्काचार्यकृतद्वैताद्वैतसिद्धान्तपरं वेदान्त. दर्शनस्य वेदान्तपारीजातसौरभ" नामक व्याख्यानम् । २॥) ४५ ब्रह्मवादः । गोस्वामिश्रीहरिरायजीकृतः । श्रीगोपालमविरचित"विवरणाख्य व्याव्या संवलितः तथा गोस्वामिश्रीव्रजनाथकृतः-"ब्रह्मवादः" तथा श्रीराम- कृष्णकृतः “शुद्धाद्वैतपरिष्कारः" । तथा श्रीरघुनाथकृत "शुद्धाद्वैतपरिष्कार- तात्पर्यम्"। एवं हरिशङ्करशास्त्रिवेदान्तविशारदकृतविविधपरिशिट पानु- वादेन टिप्पण्यादिना च परिष्कृतः। १) ४६ भामता (ब्रह्मसूत्रशाङ्करभाष्यव्याख्या)श्रीवाचस्पतिमिश्र विरचितासटि.२।।) ४७ वेदान्तदीपः । श्रीरामानुजाचार्यविरचितः । ब्रह्मसूत्रव्याख्या ४८ बृहदारण्यकवार्तिकसारः । विद्यारण्यस्वामिकृतः। महेश्वरतार्थकृत य्या- ख्या युतः । उत्तमश्लोकयतिकृतं 'वेदान्तसूत्रलघुवार्तिक श्लोकबद्धंच १५) budi

No text on this page.

Sri Brahma Sutriya Vedanta Vrtti

Author
Swami_sri_raghuvaracharya
Other authors
Ccl
Title
Sri Brahma Sutriya Vedanta Vrtti
File name
Sri Brahma Sutriya Vedanta Vrtti
Text
OCR done
Citation
1942
Publisher
Jaya_krishna_das_haridas_gupta
Language
Sanskrit
Pages
126
Library
Scl
DLI number
326473
Barcode
2020010007806.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
AjyvYqg6cR0
Download PDF

Sri Brahma Sutriya Vedanta Vrtti