Canegie Mellon Univeristy

Smruti Saroddhara Vol.3

Tripaat'i,vishvambhara · 2006/02/22

PDF Proofread

Front matter

No text on this page.

1910. TEE WKHAMBA SANSKRIT SERIES; A TION OF RARE & EXTRAORDINARY SANSKRIT WORKS. NO.151. चक्रनारायणीयनिबन्धापरपायः स्मृतिसारोद्धारः। यपल्ली(मझौली)नरेशाश्रितविदहरविश्वम्भर- त्रिपाठिसङ्कलितः। तत्रत्यपाठालयाध्यापकेन मङ्गलमिश्रेण शोधितः । SMRITISARODDHARA, BY VISVAMBHARA TRIPATHI, EDITED BY PANDIT MANGAL MISRA, The Teacher of The Majhaoli School. FASCICULUS III. LISHED AND SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT BOOK-DEPOT. BENARES: AGENTS - OTTO HARRASSOWITZ, LEIPZIG PANDITA JYESHTHÂRÂMA MUKUNDAJ,BOMBAY. PROBSTHAIN & CO, BOOKSELLERS, LONDON. Printed by Hari Krishna Daso Gupta PROPRIETOR, AT THE VIDYA VILASA PRESS BENARES. Prace Rupee One.

॥ श्रीः॥ आनन्दवनविद्योतिसुमनोभिः सुगुम्फिता ॥ सुवर्णाऽङ्कितभव्याभशतपत्रसुशोभिता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना। रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥२॥ स्तवकः-१५१ " १ अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशर सुन्दरैः सीसकाक्षरैरुत्तमेषु पत्तेषु एकःस्तबको मुद्रयित्वा प्रकाश्य एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते । २ प्राचीना दुर्लभाश्चाऽमुद्रिता मीमांसावेदान्तादिदर्शन घ्याक धर्मशास्त्र साहित्य पुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुन्धन ३ काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अ च शास्त्रदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवनि ४ भारतवर्षीयैः, ब्रह्मदेशीयैः, सिंहलद्वीपवासिभिश्च एतद्ग्राह देयं वार्षिकमग्रिम मूल्यम्-मुद्राः ७ आणकाः ५ अन्यैदेयं प्रतिस्तबकम् ६ प्रापणव्ययः पृथग् नास्ति । ७ साम्प्रतं मुद्यमाणा ग्रन्थाः- मुद्रिताः स्त (१) संस्काररत्नमाला । गोपीनाथभट्टकृता (संस्कार (२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः (व्याकरणम् श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् पार्थसारथिमिश्रकृत-न्यायरत्नाकराख्यया व्याख्यया सहितम् । सम्पूर्णम् । (४) भाष्योपवृहितं तत्वत्रयम् । विशिष्टाद्वैतदर्शनप्र- करणम् । श्रीमल्लोकाचार्यप्रणीतम् । श्रीनारायण (वेदान्त) तीर्थ विरचित भाट्टभाषा प्रकाशसहितम् । सं० । श्रीब्रह्मदेवविरचितः सम्पूर्णः (ज्योतिषः) (६) भादृचिन्तामणिः । महामहोपाध्याय- श्रीगागाभट्ट विरचितः। तर्कपादः । (मीमांसा) - . (१) करणप्रकाश.

सप्तम उद्धारः। २०१ मासिकश्राद्ध- निर्णय अथ मासिकनिर्णयः । मासिकानि द्वादशमासेषु षोडश भव- न्ति। तदाह जातकर्ण्यः 'द्वादश प्रतिमास्यानि आद्यपाण्मा- सिके तथा। चैपक्षिकाब्दिके चैव श्राद्धान्येतानि षोडश' । अत्र प्रतिमास्यानि मासिकानि । आयमूनमासिकम् । पाण्मासिक- मूनपाण्मासिकं, आब्दिकमूनाब्दिकं । तथा 'द्वादश प्रतिमास्यानि आद्यपाण्मासिके तथा। सपिण्डीकरणं चेति प्रेतश्राद्धानि षोडश'। पैठीनसिः/ 'सपिण्डीकरणादर्वाक कुर्याच्छाद्धानि षोडश । ए. कोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि तु । सपिण्डीकरणादृर्द्ध यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स ता- न्यपि' । अव पोडशश्राद्धानि सपिण्डीकरणात्पूर्वमेकोद्दिष्टविधा- नेन कुर्यात् । सपिण्डीकरणादृर्द्ध तु प्रत्याब्दिकवत्पार्वणमेको- द्दिष्टं वा यथा स्वकुलाचारं कुर्यादित्यर्थः । अत्राप्यादिमासिक- मेकादशेऽदयेव कुर्यात्तदाह याज्ञवल्क्यः । 'मृतेऽहनि तु कर्तव्यं प्र- तिमासन्तु वत्सरम् । प्रतिसव्वत्सरं चैवमाद्यमेकादशेऽहनि' । अ- त्र प्रतिसंवत्सरं चेत्यभिधानात् आद्याब्दिकमप्येकादशेऽह्नि कु- र्यात् । अतएव गोभिलः 'ब्राह्मणं भोजयेदाद्ये होतव्यमनले त- था। पुनश्च भोजयेद्वितं द्विरात्तिर्भवेदिति द्विरात्तिःश्राङद्वयम् । आधं श्राद्धं क्षत्रियादिरप्येकादशेह्रयेव कुर्यात् । तदाह वृद्ध- वसिष्ठः । 'एकादशेसि यच्छ्राद्धं तत्सामान्यमुदाहृतम् । चतुर्णा- मपि वर्णानां मूतकं तु पृथक्पृथक् । लौगाक्षिः । 'आद्यं श्रा- द्धमशुद्धोपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः' । शुचिना कर्म कर्त्तव्यमिति वचनात्क स्तात्कालि- की शुद्धिरुक्ता । विष्णुः । 'अथाशौचापगमे श्राद्धमाधं कुर्या- दिति । एतदपि ब्राह्मणमात्रविषयम् । अन्यथा वृद्धवसिष्ठलौगा- शिवचनाभ्यां विरोध आपद्येत । अतस्तदेव विज्ञानेश्वरनिर्णयामृत- -- ૨૭૨ स्मृतिसारोद्धारे। प्रभृतयः सर्वेऽप्यत्राविप्रतिपद्यमाना मेनिरे । तथाप्यत्र मै- थिलाः-अशौचापगमवचनं ' अशौचान्तद्वितीयेह्नि शग्यां दद्या- द्विलक्षणाम् । काञ्चनं पुरुषं तद्वत्फलवस्त्रसमन्वितं । सम्पू. ज्य द्विजदाम्पत्यं नानाभरणभूषणैः । वृषोत्सर्गश्च कर्त्तव्यो देया च कपिला शुभा' इति मत्स्यपुराणवचनं च क्रमेणाशौचापगम ए- वाद्यं श्राद्धं पञ्चदानानि चैकस्मिन्नेव दिवसे कर्त्तव्यतया बो- धयति नतु दिनभेदेनोभयं । आचारोपि तथैव, अशौचान्तोऽशौ- चस्य चरमदिवसस्तस्यद्वितीयेटि अशौचापगमप्रथमदिवसे प- श्चदानान्युक्तानि । आधश्राद्धस्यापि स एव कालः। नोकादशे- द्वि आद्यश्राद्धं कृत्वा स्वस्खजात्युक्ताशौचव्यपगमे शय्यादिदानं कुर्वन्त्या-ः । यद्येकादशेऽह्नयेवाद्यश्राद्धं सर्वेषांवर्णानां स्या- त्तदा शय्यादिकं ब्राह्मणायैः क्रमेणैकादशे त्रयोदशे षोडशे एकत्रिंशे च दीयेत । नचाद्यश्राद्धप्राक्काले एकादशे ऽहयेव शय्या- दिकं दीयतामिति वाच्यम् । अशौचान्तद्वितीयेह्नि शय्यादिदा- नस्य विहितत्वात्, आद्यश्राद्धस्य चैकादशेह्नि विहितत्वात्कालभ- दात् । किन्तु ब्राह्मणमात्रस्य न कालभेदः। तस्माच्छुचिना कर्म- कर्त्तव्यमिति न्यायादेकादशाहपदं तत्तवर्णाशौचव्यपगमदिवसपर- मवधारयामः । आचं श्राद्धमशुद्धोपीति क्षतादिकृताशुद्धिपरम् । अशौचान्तद्वितीयेहीति नियतनिमित्तकत्वबोधनादिति । तन्न स- न्दर्भविरोधात् । तत्सामान्यमुदाहृतमिति वचनेनकादशाहश्रौद्धस्य सर्ववर्णमाधारणत्वप्रतिपादनात् । न चैकादशाहपदस्याशौचान्त- दिनपरतया सर्वसाधारण्यमस्तु । आशौचं तु पृथक्पृथगित्यनेन विरोधात् । तु शब्दस्तु आद्यश्राद्धमेव हि व्यवच्छिनत्ति, कर्तुस्ता- कालिकीशुद्धिरिति शुद्धिपदस्य विशेषपरत्वे मानाभावात् । न चाशौचापगम इति विष्णुसूत्रमेव मानं, तस्य ब्राह्मणमात्रपर- सप्तम उद्धारः। २०३ खेनाप्युपपत्तेः। न च किमत्र विनिगमकमिति वाच्यम् । वृद्धवसि- टलौगाक्षिवचनयोरेव विनिगमकत्वादिति । नच सद्यःशौचेप्याद्य- श्राद्धमेकादशेह्नि क्रियतामितिवाच्यम् । इष्टापत्तेः, अत एव प्रायोन- शनादिविहितमार्गेण मृतानां सद्यःशौचेप्येकादश एवानि आद्य- श्राद्धं कर्त्तव्यमित्याह शङ्खः । 'सद्यःशौचेपि दातव्यं प्रेतस्यै- कादशेहनि । स एव दिवमस्तम्य श्राद्धशय्यासनादिषुः । तेनाद्य- श्राद्धमाकाल एव शय्यादिकं तदिवस एव दातव्यमिति प्र- तिभाति । अशौचान्तद्वितीयेऽहीत्येतस्य ब्राह्मणपरतयाप्युपपत्ति- रिति साधु समादधुः प्राचः प्रामाणिकतरा विज्ञानेश्वरप्रमुखा इति । यत्र न तथाचारः सोऽपि मैथिलादिनिबन्धवासनावासिता- न्तःकरणानामिदानीन्तनानामिति । वृषोत्सगर्गे विशेषमाह सालङ्का- यनः। 'पत्यौ जीवति या नारी मृति गच्छति तत्सुनषो- वृपोत्सर्गे सम्गं न कुर्वीत धेनुं दद्यात्पयस्विनीम् । युक्तिसिद्धमेत 'युवानंवः पतिं ददानीत्यादिना वत्सतरीणां वृषेणेव कृतषोत्सर्गाया स्वगर्गे पत्या सह विहरणासम्भवादिति । छन्दोगपरिशिष्टे 'ततोरुणेन गन्धेन, मानस्तोक इतीरयन् । वृषस्य दक्षिणे पार्चे त्रिशूलाङ्कं स- मालिखेत् । वृषोद्यसीति मन्त्रेण सव्ये चक्रं निवेशयेत् । ततोऽयसा प्रतप्तेन स्फुटौ तावपि कारयेत्' । इति वचने जाग्रति दक्षिणपा- खें चक्रेण तत्सजातीयवामपार्श्वे शूलेनेति मैथिलाः कल्पयन्ति, - पस्य हरिहरमूर्तित्वात् दक्षिणे चक्रं वामे शूलमित्याद्यपि कल्पयन्ति । तद् वाक्यापरिज्ञानादिति । उनमासिकं तु द्वादशाहे उनमासि का कार्यम् । तदाह गोभिलः। 'मरणावादशाहे स्यान्मास्यूने वोनमासि- कम्' । उनषाण्मासिकादिकालमाह गालवः । 'उनषाप्मासिक षष्ठे मास्यूनेप्यूनमासिकम् । त्रैपक्षिकं त्रिपक्षे स्यादनाब्दं द्वादशेह- नि। त्रिभिर्वा दिवसैन्यूने त्वेकेन द्वितयेन वा । आधादिषु तु मासेषु विशेष स्मृतिसारोद्धारे। कुर्य्यादुनाब्दिकादिकम्' । कार्णाजिनिः । 'उनान्यूनेषु मासेषु विषमाहे समेपि वा । वैपक्षिकं त्रिपक्षे स्यान्मृताहेष्वितराणि तु'। भविष्यपुराणे । 'पक्षिकं भवेद्वृत्ते त्रिपक्षे तदनन्तरम्' । वृत्ते प्र- वृत्ते । साग्नेर्विशेषमाह जातूकर्ण्यः । 'ऊर्दू त्रिपक्षाघच्छ्राद्धं मृता- हन्येव तद्भवेत् । अधस्तु कारयेद्दाहादाहिताग्नेद्विजन्मनः । मरणा- द्वितीयादिदिने दाहे दाहदिनमारभ्येत्यर्थः । ऋष्यशृङ्गः। एकोद्दि- ष्टे तु संप्राप्ते यदि विघ्नः प्रजायते । मासेऽन्यस्मिस्तिथौ तस्यां कु- यादन्तरितं च यत् । एकोद्दिष्टे मासिके । चकारेण तन्मासिकस- मुच्चयः, अनन्तरं तन्मासिकं च कुर्यादित्यर्थः । एतानि षोड- शश्राद्धानि द्वादशाहादि(?)सव्वत्सरादर्वागुक्तकाले सपिण्डने कर्त्त- व्ये सति पूर्वमेतानि कृत्वा सपिण्डनं कुर्यादित्याह लौगाक्षिः। 'श्राद्धानि षोडशापाद्य विदधीत सपिण्डनम्' । गोभिलोपि । 'श्रा- द्धानि षोडशादत्वा नैव कुर्यात्सपिण्डताम्' । सपिण्डनानन्तरमपि मासिकानि पुनः स्वस्वकाले काव्ण्येव तदाहागिराः 'यस्य स- व्वत्सरादर्वाक्सपिण्डीकरणं कृतम् । मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम्' । विशेषमाह सांख्यायनिः । 'सपिण्डीकरणा- दर्वागपकृष्य कृतान्यपि । पुनस्तान्यपकृष्यन्ते वृद्ध्युत्तरनिषेधना- त् । प्रेतश्राद्धानि शिष्टानि सपिण्डीकरणं तथा । अपकृष्यापि कु- र्वीत कर्तुं नान्दीमुखं नरः । सपिण्डीकरणार्थमपकृष्यकृतान्यपि तानि विवाहादिवृद्धावुपस्थितायां पुनरपकृष्य मृताह एव कार्या- णीयर्थः । वृद्ध्यनन्तरं निषेधमाह कात्यायनः । 'निर्वर्ण्य वृद्धि- तन्वं तु मासिकादि न तन्त्रयेत् । अयातयाम मरणं न भवेत्पुनरस्य तु'। अयातयामं नवं । तथा 'अन्तरेण तु यो वृद्धिं प्रेतश्राडानि कर्ष- ति। अश्राद्धी नरके घोरे पितृभिः सह मज्जति। तथा 'नन्दायां भार्ग- वदिने चतुर्दश्यां त्रिपुष्करे । जनश्राद्धं न कुर्वीत गृही पुत्रधनक्षया- सप्तम उद्धारः। २०५ सपिण्डीकरण- निर्णय । त्' । त्रिपुष्करलक्षणम् रबमालायाम् । 'विषमचरणधिष्ण्यं भ- द्रातिथिर्यदि जायते, सुरगुरुशनिक्ष्मापुत्राणां कथञ्चन वास- रे । मुनिभिरुदितः सोयं योगस्त्रिपुष्करसंज्ञकत्रिगुणफलदो वृद्धौ नष्टे मृते प्रहृते तथा' विषमचरणधिष्ण्यं त्रिपादनक्षत्रं कृत्तिकादि। इति मासिकनिर्णयः॥ अथ सपिण्डीकरणम् । तस्याष्टौकाला भवन्ति । कालादर्श 'एकादशे द्वादशेति त्रिपक्षे वा त्रिमासि च । षष्ठे चैकादशे वाब्दे सम्पूर्णेवा शुभागमे । शुभागम इति यदैव विवाहा द्याभ्युदायिकं प्राप्तं ततः पूर्व सपिण्डनं कुर्यादित्यर्थः। कार्णाजिनिः। 'सपिण्डीकरणं कुर्यात्पूर्ववच्चाग्निमान मुतः।परतो दशरात्राचेत्कुहूर- ब्दोपरीतरे। परतः एकादशेह्नि, इतरे निरनयो ऽब्दोपरि सापण्डनं कुर्युरित्यर्थः । हारीतः । 'या तु पूर्वममावास्या मृताहाद्दशमी भ- वेत् । सपिण्डीकरणं तस्यां कुर्य्यादेव मुतोनिमान्' । अत्रापि मृ- ताहादूर्द्ध द्वितीयदिनात्परिगणनायामेकादशे भवति । तस्याममावा- स्या यदि भवेदियर्थः । वृद्धवसिष्ठः। 'प्रथमा स्यादमावास्या मृताहा- दशमेऽहनि । सपिण्डीकरणंतत्र कुर्यादेव सुतोग्निमान् । अत्रापि प- ञ्चमी मर्यादायाम्। मृताहादूर्द्धदिनमारभ्येत्यर्थः । गालवः । सपि- ण्डीकरणात्सेते पैतृकं पदमास्थित। आहिताग्नेः सिनीवाल्यां पितृयज्ञः प्रवर्त्तते । भविष्यपुराणे । 'यजमानोनिमान् राजन्प्रेतश्चानग्निमान्भ- वेत् । द्वादशाहे तदा कार्य सपिण्डीकरणं सुनैः । यजमानः कर्ता। कर्त्तर्यनग्नौ प्रेते चाहिताग्नौ सुमन्तुः । 'प्रेतश्चेदाहिताग्निः स्यात्क- निग्निर्यदा भवेत् । सपिण्डीकरणं तस्य कुर्यात्पक्षे तृतीयके। अननीनां तु द्वादशाहाद्याः सप्तकाला भवन्ति । यत्त्वब्दोपरीतरे इत्युक्तम् तन्मुख्यकालाभिप्रायेण । व्याघ्रपादः । 'आनन्त्यात्कु- लधर्माणां नराणामायुषः क्षयात् । अस्थितेश्च शरीरस्य द्वा- २०६ स्मृतिसारोद्धारे। दशाहः प्रशस्यते । तत्रासम्भवे त्रिपक्षादीन कालत्वेनाह भविष्यो- त्तरे । 'सपिण्डीकरणं कुर्याद् यजमानस्त्वनग्निमान् । अनाहिताः प्रेतस्य पूर्णेऽन्दे भरतर्षभ । द्वादशेहनि षष्ठे वा त्रिपक्षे वा विमासि वा । एकादशेपि वा मासि मङ्गल्ये स्यादुपस्थिते' । षष्ठे मासी- त्यन्वयः । गोभिलः । 'द्वादशाहादिकालेषु प्रमादादनुनिष्ठतम् । सपिण्डीकरणं कुर्य्याकालेषूत्तरभाविषु' । साग्निकस्य कर्तुरेकाद- शाहद्वादशाहरूपकालनियम उक्तः । साग्नेः प्रेतस्य त्रिपक्षनियमः। यदा प्रमादात्तत्र न कृतं तदा सपिण्डीकरणमुत्तरभाविषु त्रिप- क्षादिषु कार्यमित्यर्थः। येन सह यं सपिण्डयेत्तमाह विष्णुः। 'संव- सरान्ते प्रेताय तत्पित्रे तत्पितामहाय तत्प्रपितामहाय च ब्राह्मणान्दे वपूर्व भोजयेदिति । विशेषमाह ब्रह्मपुराणे। 'मृते पितरि यस्याथ वि- द्यते च पितामहः । तेन देयास्त्रयः पिण्डाः मपितामहपूर्व- काः । तेभ्यस्तु पैतृकः पिण्डो नियोक्तव्यस्तु पूर्ववत्' । त्रयाणां मध्ये एकेनापि सपिण्डने प्रेतस्य पितृत्वमाह सुमन्तुः । 'त्रयाणाम- पि पिण्डानामेकेनापि सपिण्डने । पितृत्वमश्नुते प्रेत इति धर्मो व्यवस्थितः । स्कान्दे । 'अक्रमेण मृतानां न सपिण्डीकृतिरिष्य. ते । यदि माता यदि पिता भर्ता नैष विधिः स्मृतः । एतनिषेध- कवाक्यं मातृपिताभर्तृव्यतिरिक्तविषयमित्यर्थः। कात्यायनः। 'असं- स्कृतौ न संस्कार्यो पूर्वो पौत्रप्रपौत्रकैः। पितरन्तत्र संस्कुर्यादितिका- त्यायनोऽब्रवीत्। असंस्कृतौ दाहादिसंस्काररहितो, पूर्वी पितामह- प्रपितामहौ । असंस्कृताभ्यामपि ताभ्यां सपिण्डनमाह स एव । 'पा- पिष्ठमपि शुद्धेन शुद्धं पापकृतापि वा। पितामहेन पितरं संस्कुर्यादिति- निश्चयः। पापिष्ठन्दाहादिसंस्कारहीनन्नतु पतितन्तेन समै सपिण्डनप्र- तिषेधात् । यदाह गौतमः। 'पापकर्मणा न संमृजेरन स्त्रिया च व्य- भिचारिण्योत । असति पुत्रान्तरे पौत्रेणैव संस्कार्यं पितामहमाह का- सप्तम उद्धारः। त्यायनः । 'पितामहः पितुः पश्चान् निधनं यदि गच्छति । पौत्रे- णैकादशाहादि कर्त्तव्यं श्राद्धषोडशम् । नैतत्पौत्रेण कर्त्तव्यं पुत्र- वांश्चेत्पितामहः । पितुः सपिण्डनं कृत्वा कुर्यान्मासानुमासिकम् । पितुः सन्निहितत्वात्पूर्व सपिण्डनं कृत्वा पितामहप्रपितामही सं- स्कुर्यादित्यर्थः । मातुः सपिण्डने विशेपमाह शङ्खः । 'मातुः स- मातु सपिण्ड- पिण्डीकरणं कथं कार्यं भवेत्सुतैः। पितामह्यादिभिःसार्द्ध स- ने विशेष पिण्डीकरणं स्मृतम्। पितामह्यांजीवत्यां प्रपितामद्यादिभिः कुर्यात् । ब्रह्मपुराणे । 'मातर्यग्रे प्रमीतायां विद्यते च पितामही । प्रपितामहीपूर्वस्तु कार्यस्तत्राप्ययं विधिः । अपुत्राया विशेषमाह पैठीनसिः 'अपुत्रायां मृतायान्तु पनिः कुर्यात्सपिण्डनम् । श्वश्वा- दिभिस्सहैवास्यास्सपिण्डीकरणं भवेत्' । अन्वारोहणेनैकदिनम- रणे स्त्रियाः पृथक्मपिण्डीकरणं न कार्य, भर्तुश्च कृते स्त्रिया अपि कृतं भवेदिति । दिनान्तरमृते पुत्रः स्वपिताीपतामहपिण्डमा ध्ये कुशानन्त यैकेन मातुः सापिण्ड्यं कुर्यात् । सर्वत्र प- ल्याः सापिण्ड्यमेकेन श्वशुरेण निषिडमिति । यमः । 'पत्या चै- केन कर्त्तव्यं सपिण्डीकरणं स्त्रियाः । सा मृताहनि तेनैक्यं गता मन्त्राहुतिव्रतैः' । शातातपः । 'मृता यानुगता नाथं सा तेन सह पिण्डताम् । अर्हति स्वर्गवामेपि यावदाभूतसंप्लवम् । तथा। 'तन्मा- त्रा तत्पितामह्या तच्छश्रा वा सपिण्डता । आसुरादिविवाहेषु विन्नानां योषितां स्मृता । तन्मात्रा तत्पितामह्येत्यत्र तस्या मातु- संवा पितामह्या चेत्यर्थः । तच्छश्वा तस्या मातृपितामह्याः श्वश्वा मातुः प्रपितामह्येत्यर्थः । मातामहेन वा कुर्यात् । तदाह मुमन्तुः। 'पिता पितामहे योज्यः संपूर्ण वत्सरे मुतैः । मा- ता मातामहे तद्वदित्याह भगवान् शिवः' । मुतैरासुरादिविवाहोढा- पुत्रैः । आमुरादिविवाहेष्विति वचनात् । मार्कण्डेयः ।

स्मृतिसारोद्धारे। 'ब्राह्मादिषु विवाहेषु या तूढा कन्यका भवेत् । भर्तृगोत्रेण कर्त्त- व्या तस्याः पिण्डोदकक्रिया । आसुरादिविवाहेषु पितृगात्रेण ध- र्मवित्' । पुत्रिकापुत्रे विशेषमाह कात्यायनः । 'मातुः सपिण्डी- करण पितामह्या सहोदितम् । यथोक्तेनैव कालेन पुत्रिकाया नचे- सुतः' । पुत्रिकासुतश्चेन्मातामहादिभिः सहेत्यर्थः । बौधायनः । 'आदिशेत्प्रथमे पिण्डे मातरं पुत्रिकासुतः। द्वितीये पितरं तस्या- स्तृतीये च पिनामहम्' । एवं यैः सह माता सपिण्डिता वृद्ध्यष्ट- कादिषु तैरेव पार्वणं कुर्वीततिध्येयम् । इदं सपिण्डनं चिराद- पि पुत्र एव कुर्यात् । तदुक्तं वायवीये । 'श्राद्धानि षोडशादत्वा कुर्य्यान्नतु सपिण्डताम् । प्रोषितावसिते पुत्रः कालादिह चिराद- पि। पोषितावसिते प्रवासावसाने । संन्यासिनां तु षोडशश्राद्धानि न सन्ति । तदाहोशनाः । 'एकोद्दिष्टं न कुर्वीत यतीनां चैव सर्वदा । अहन्येकादशे तेषां पार्वणं तु विधीयते । सपिण्डीकरणं तेषां न कर्तव्यं सुतादिभिः। त्रिदण्डग्रहणादेव प्रेतत्वं नैवजायते । वि. दण्डेत्येकदण्डस्याप्युपलक्षणं । चतुर्विशतिमते 'चतुर्थमाश्रमगत्वा- ब्रह्मविद्यापरायणः । एकदण्डी त्रिदण्डी वा सर्वसङ्गविवर्जितः' । शातातपः। 'एकोद्दिष्टं जलं पिण्डमाशौचं प्रेतसंस्क्रिया । न कुर्यात्पार्वणादन्यद्ब्रह्मीभूताय भिक्षवे'। ब्रह्मचार्यादिविषये वि- शेष उक्तः स्मृत्यर्थसारे । 'ब्राह्मणादिहतानां पतितानां पाय- श्चित्ताकरणं मृतानां च सपिण्डीकरणं नास्ति, तेषां सदैकोद्दि- ष्टमेवेति । अत्रानग्निकानां द्वादशाहादयः सप्तकाला उक्ताः। द्वाद- शाह इति मृतकान्तोपलक्षणम् । तेन क्षत्रियवैश्ययोराप मूतकान्त- एव सपिण्डनं प्राप्तम्, तदाह कात्यायनः। 'सर्वेषामेव वर्णानामाशौ- चान्ते सपिण्डनम् । सर्वेषामेववर्णानामिति सर्वपदं ब्राह्मणादिवर्ण- प्रयपरतया संकोच्यम् । 'मंत्रवर्ज हि शूद्राणां द्वादशाहे सपिण्डनमि सप्तम उद्धारः। २०९ ति विष्णुवचनादिति मूर्यसेनीयादयः । वयं तु सर्वेपामिति अव- णात् 'शूद्राणां द्वादशाह' इत्यत्र द्वादशाहमेव सूतकान्तोपलक्षक- मस्तु । न च विनिगमनाविरहः । सपिण्डनस्य द्वादशाहादयः सप्त काला इत्यत्र द्वादशाहपदस्य वर्णत्रयाशौचान्तपरत्वे कल्पनीये लाघवाद्वर्णमात्राशौचान्तपरत्वं कल्प्यम् । नच मानाभावः। सर्वेपामेव वर्णानामित्यस्यैव मानत्वात् । नच शूद्राणामिति विशेषाभिधानाव द्वादशाहपदं यथाश्रुनमेवास्त्विति वाच्यम् । शूद्राणामिति बहुवचने- न शूद्रपदस्य वर्णमानपरत्वोन्नयनाद । द्वादशाहपदस्य स्वस्वाशौ- चान्तपरत्वकल्पनात् । जातिपरत्वे बहुवचनवैयर्थ्यात् । अन्य- था ब्राह्मणादीनां त्रयाणां प्रशस्तवर्णानामाशौचान्ते सपिण्डनम्, शूद्रस्याशौचमध्य इति कथमुचितं । नच वचनवलादुचित- म् । वचनस्यान्यतात्पर्य्यकत्वादिति । यद्वा द्वादशाहे अ- शौचान्ते सर्वेषां सपिण्डनं तदेव शूद्राणां मन्त्रवर्जमित्यर्थ इति युक्तमुत्पश्यामः । गालवः । 'सपिण्डीकरणश्राद्धमुक्तकाले न चे- स्कृतम् । रौद्रे हस्ते च रोहिण्यां मैत्रभे वा समाचरेत् । रौद्रमार्द्रा, मैत्रमनुराधा । अकृतसपिण्डनस्यैकोद्दिष्टं कृतसपिण्डनस्य पार्व- णरूपमाब्दिकं कार्यन्तत्रापि विशेपो गौतमेनोक्तः। 'अदैवं पा- र्वणश्राद्धं सोदकुम्भमधर्मकम् । कुर्यात्प्रत्याब्दिकाच्छ्राद्धात्सङ्क- ल्पविधिनान्वहम्' । अधर्मकं दातृभोकोः पुनर्भोजनादिधर्मर- हितम् । कार्णाजिनिः किञ्चिद्विशेषमाह । 'मौजीवन्धाद्विवाहा- च वर्द्ध वर्षमेव च । पिण्डान् मपिण्डा नो दद्युस्मपिण्डीकरणा- हते' । सपिण्डीकरणशब्दोऽत्र पोडशश्राद्धोपलक्षकः । स्मृतिसंग्रहे । 'विवाहोपनयादृर्द्ध वर्षे वार्द्धमेव च । न कुत्पिण्डनिर्षि न दद्यात्तिलतर्पणम् । महालये गयाश्राद्धे मातापित्रोद्धृतेऽहनि । कृ. तोद्वाहोपि कुर्वीत पिण्डनिर्वपणं सुतः । इति सपिण्डीकरणम् ॥ २७ स्मृतिसारोद्धारे। श्राद्धेश्व्याणि अथ सङ्कल्पश्राद्धम् । साङ्गपार्वणादिश्राद्धाकरणे आतुरत्वे. नाशक्तस्त्यक्तामिश्च सङ्कल्पश्राद्धं कुर्यात् । स्मृतिसंग्रहे । 'अङ्गा- नि पितृयज्ञस्य यश्च कर्तुं न शक्नुयात् । सङ्कल्पश्राद्धमेवासौ कुर्या- दर्यादिवजितम्' । आदिशब्दादावाहनाधुपग्रहः । तदाहापस्त- म्बः। 'सङ्कल्पश्राद्धे आवाहनाग्नौ करणपिण्डस्वधावाचनानि वर्ज- येदिनि । व्यामः । 'त्यक्तानेः पार्वणं नैव नैकोद्दिष्टं सपिण्डनम् । अत्यक्तामेस्तु पिण्डोक्तिस्तस्मात्सङ्कल्प्य भोजयेत्' । त्यक्ताने - स्तिकादिना उत्सृष्टाः॥ अथ प्रमङ्गतः श्राद्धे ग्राह्याणि निषिद्धानि च द्रव्याण्युच्यन्ते । तत्र विष्णुः । 'शाकैः श्यामाकैः प्रियङ्गुनीवारैर्मुद्र्गोधूमैश्च मासं प्रीयन्त इति । अत्र मुद्रा हरिताः। तदुक्तं वायवीये । 'श्यामाका हस्तिनामानो वर्द्धितायज्ञनिस्मृताः प्रसारिकाःप्रियङ्गुश्च मुगाश्च हरितास्तथा । एतान्यपि समानि स्युः श्यामाकानां गु- द्विज । कृष्णा माषास्तिलाश्चैव श्रेष्ठाःस्युर्यवशालयः । महा- यवा त्रीहियवास्तथैव च मधूलिकाः । कृष्णाः श्वेता लोहिताश्च ग्राह्याः स्युः श्राद्धकर्मणि' । प्रसारिका नीवारः। यवशालयो हैम- न्तिकधान्यानि। सितानि शालिभेदा इति केचित् । महायवाः वेणु- फलानि । व्रीहयश्च यवाश्च व्रीहियवाः। मधूलिका यवनालविशेषः। मकै इति लोके प्रसिद्धः। कृष्णा श्वेता लोहिता इति मधूलिका- विशेषणानीति कल्पतरुः । मधूलिका षष्टिकेतिस्मृतिमञ्जरी, तन्न तस्यास्त्रिविधत्वाभावात् । तथा 'विल्वामलकमृद्रीकपनसाम्रात- दाडिमम् । भव्यपारेवताक्षोटखर्जूराणां फलानि च । भव्यपारेवतं कृतमालभेदः । 'कशेरुः कोविदारश्च तालकन्दस्तथाविसम् । त- मालं शतकन्दं च तथा वै शीतकन्दकम् । कोविदारः काञ्चनाल- सदृशः कन्दविशेषः । तालकन्दस्तालमूली । शतकन्दं शतावरी ।

सप्तम उद्धारः।
२११
शीतकन्दं शालूकम् । तथा च । 'कालेयं कालकाशं च श्रुतिपर्ण
मुवर्चला । मांसं शाकन्दधि क्षीरं शस्तं वेत्रांकुरस्तथा । का-
लेयादिकाः शाकभेदाः । 'कट्कसङ्कोचनी द्राक्षा लकुचं मोचमेव
च । अलावू ग्रीवकं चारुकर्कन्धूर्मधुसाहयम् । मोचं कदलीफलम् ।
चावितिककधूविशेषणम् । तथा वैकङ्कतं नालिकरंशृङ्गाटकपरूषकं ।
पिप्पली मरिचञ्चैव पटोलं बृहतीफलं । एवमादीनि चान्यानि स्वा-
दूनि मधुराणि च । नागराम्रातकं देयं दीर्घमूलकमेव च।
अथ वानि । तत्र शङ्खः । 'भूस्तृणं शिरसं शिग्रु पालक्यं
मधुकं तथा । कूष्माण्डालाबुकोर्वारुकोक्दिारांश्च वर्जयेत्' । ब-
ह्माण्डपुराणे । 'द्विस्विनं परिदग्धं च तथैवास्नातृलोडितम् । श-
कराकीटपापाणैः केौर्यद्वाप्युपद्रुतम् । पिनाकमथितं चैव तथा-
तिलवणं च यत् । सिद्धाकृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः।
राजमाषास्तथा चैव वाः सद्भिः प्रयत्नतः । द्विस्स्विनं जी-
रकादिप्रेक्षेपेण पुनः पकं शाकादि । येषु सिद्धेषु प्रत्यक्षलवण-
क्षेपः कृतस्ते तादृशः । तथा । 'आविकं मार्गमौष्ट्रं च सर्वमैक-
साफ तथा । माहिषं चामरं चैव पयो वयं विजानता । पिप्प-
ली मरिचं चैव तथावै पिण्डमूलकम् । कृतं च विरसं सर्व वंशाग्रं
च विवर्जयेत् । आदित्यपुराणे । 'मधूकं रामरं चैव कर्पूरं
मरिचं गुडम् । श्राद्धकर्मणि शस्तानि सैन्धवन्त्रपुस तथा' । हिं-
गुनिषेधस्तु शाकद्रव्यविषयकः । हिंगुद्रव्येषु शाकेष्विति वयं-
प्रकरणे व्यासोक्तेः । पिप्पलीमरीचयोः संस्कारद्रव्यत्वाच्छा-
कादिनिःक्षिप्तयोर्न निषेधः प्रत्यक्षयोस्तु निषेध इत्यविरोधः ॥
श्रीविश्वम्भरविहिते स्मृतिसारोद्धारसंज्ञके ग्रन्थे ।
श्राद्धविनिर्णयनामा समाप्तिमगात्सप्तमोद्धारः ॥ ७ ॥

अथ शुद्धिसमुद्वारोऽष्टमः प्रस्तूयतेऽधुना । गय तव शुद्धरशौचाभावरूपत्वेनाशौचस्य विहितकर्ममति- आशौचनि- बन्धकाधर्मरूपतया तत्प्रतियोगित्वेनाशाच निरूप्यते । सूतकं मृतकं चेत्यशौचं द्विविधम् । प्रसवनिमित्तं सूतकं मिरणनिमित्तं मृतकम् । जननाशौचमपि सावपातप्रसवरूपनि- मित्तत्रयभेदात्त्रिविधम् । मासचतुष्टयाभ्यन्तरे गर्भच्युतिः सा- वः । पञ्चमषष्ठयोः पातः । सप्तमादिषु प्रसवः । तदुक्तं स्मृतिसङ्ग्रहे । 'आचतुर्थाद्भवेत्स्रावः पातः पञ्चमषष्ठयोः । अतऊर्द्ध प्रसूतिः स्यादशाहं सूतकं भवेत्। तत्र मरीचिः। 'सावे मातुस्त्रिरात्रं स्यात्सपिण्डाशौचवर्जनम् । पाते मातु- र्यथामासं पित्रादीनां दिनत्रयम्' । मातुरिति विशेषोक्तः स्रावे पितु शौचं । यथामासं यावन्तो गर्भमासा व्यतीतास्तावन्ति दिनानि । स्रावे स्नानमावं पितुः। स्नानमात्रमेव पुरुषस्येति वृद्धव- सिष्ठवचनात् । गौतमः । संसावे गर्भस्य त्र्यहमिति । याज्ञवल्क्यः । 'गर्भस्रावे मासतुल्या निशाः शुद्धस्तु कारणम्' । अत्र सावः पा- तः। यमः 'अजातदन्ते तनये मृते गर्भच्युते तथा । सपिण्डाना- न्तु सर्वेषामेकरात्रमशौचकम् । एतच्चागुणपित्रादिपरम् । 'सद्यः शौचं सपिण्डानां गर्भस्य पतने सति' इत्यपि पुराणवाक्यं मासचतुष्ट- याभ्यन्तरे द्रवरूपगर्भपाते वेदितव्यम् । अत्र पारिजातकृत:-गर्भ- स्रावाशौचं सर्ववर्णसाधारणम् 'गर्भस्रावे यथामासमचिरे तृत्तमे त्रयः । राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव तु । अष्टाहेन तु शूद्रस्य शुद्धिरेषा प्रकीर्तिता' । उत्तमे विप्रे, अचिरे मासत्रयाभ्य- न्तरे । राजन्ये तु चतूरावमित्याविवक्षितार्थम्, 'पाते मातुर्यथा अष्टम उद्धारः। २१३ मासम्' इति तेनैवाभिधानात्, अन्यथा स्ववचनविरोधापत्तिरिति । नच वाच्यं पाताशौचं सर्ववर्णसाधारणं स्रावाशौचे विशे- पोऽस्विति । शूद्रस्य पाताशौचात्स्रावाशौचाधिक्यापत्तेः । तथाहि 'गर्भपाते पञ्चमे मासि मासतुल्यनिशागणनया शूद्रस्यापि पञ्चाहमाशौचं प्राप्तं सावेत्वष्टाहेन शुद्धिरुक्तेति शूद्रस्य स्रावाशौ- चाधिक्यमापतितम् । अतो राजन्ये चतूरात्रमित्यादेरविवक्षिता- र्थतैवाचिता । यद्वा गुणवदगुणवद्विपयत्वेन वा न्यूनाधिककालव्य- वस्था कल्पनीयेत्याहुस्तत्तुच्छम् निर्णयामृतकृतो मन्यन्ते । तथाहि अचिरेतूत्तमे त्रय इति ब्राह्मणविषये मासत्रयाभ्यन्तरे गर्भस्रावे दि- नत्रयमशौचमुक्तं तत्प्रसङ्गात् 'आत्मानं घातयेद्यस्तु भृग्वग्न्यनशना- म्बुभिः । तस्य त्रिरात्रमाशौमित्यादिविषये यत्र ब्राह्मणस्य त्रिरावाशौचं तत्र क्षवियादेश्चतूरात्रादिकमिति वाक्यशेषेण प- रिभाषाकृता। इयं परिभाषा गर्भस्रावेपि मा प्रमाङ्क्षीदिति 'स्रावेमा- तुस्त्रिरावं स्यात्' इति मरीचरेव वाक्यान्तरपारम्भः।अन्यथा पुन- रुक्तत्वेन व्यर्थत्वात् वाक्यान्तरमनारम्भणीयमेवस्यादिति । ऋप्य- शृङ्गः यत्र त्रिरात्रविप्राणामाशौचं संपदृश्यते। तत्र शूद्रोद्वादशाहं प- पनव क्षत्रवैश्ययोः । इदमनापद्विषयमगुणविषयंवा, मरीचिना यच्चतुः पञ्चाष्टाहमुक्तं तद्गुणवद्विषयमापद्विषयं वा वेदितव्यमिति । सप्तम- मासादौ दशाहादिकं यथावण संपूर्णमाशौचमिति परिच्छेदः। विशे- पमाह सम्बर्तः। 'जाते पुत्रे पितुः स्नानं सचैलस्य विधीयते । माता- शुद्ध्येद्दशाहेन स्नानात्तु स्पर्शनं पितुः । अङ्गिराः। 'सूतके सूतिकाव- र्जमङ्गस्पर्श न दुष्यति । पैठीनसिः। 'सूतिका पुवजननीं विंशतिरात्रेण स्नातां सर्वकर्माणि कारयेत मासेन स्त्रीजननीमिति'। जननाशौचे प्र- थमषष्ठदशमदिवसेषुदानप्रतिग्रहाधिकारोस्ति । तदाह व्यासः। मूति- कावासनिलया जन्मदा नामदेवता। तासांयागनिमित्तातुशुद्धिर्जन्म- स्मृतिसारोद्धारे। निर्णय नि कीर्तिता।प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा । त्रिष्वेतेषु न कुर्वी तसूतकं पुत्रजन्मनि । वृद्धयाज्ञवल्क्यः। तत्र सर्व प्रतिग्राह्यं कृतानंतु न भक्षयेत् । भक्षयित्वा तु तन मोहाविजश्चान्द्रायणं चरेत् । मार्कण्डेयः 'रक्षणीया तथा षष्ठी निशा तत्र प्रयत्नतः रात्रौ जागरणं कार्य ज- न्मदानां तथा बलिः। पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः रात्रौ जागरणं कुर्युर्दशम्यां चैव सूतकम् । अथ मृते शावाशौचम् । वृहन्मनुः । 'दशाहाभ्यन्तरेबाले मरणाशौच- प्रमीते तस्य वान्धवैः । शावाशौच न कर्त्तव्यं मृत्याशौ- चं विधीयते । अव मृतजाते जातस्य नाभिच्छेदादू म- रणे च सपिण्डानां मरणाशौचं सद्योव्यपैति, जन्माशौचं संपूर्णमि- त्यर्थः। स्मृत्यर्थसारे नाभिच्छेदादृर्द्ध शिशुमरणे निष्पाणनिष्क्रम- णेच जनननिमित्ताशौचं कृत्स्नं यथावणे सर्वेषां सपिण्डानामस्त्येव मरणनिमित्ते सद्यः शुद्धिरिति । 'गर्भ यदि विपत्तिः स्याद्दशाहं मू- तकं भवेत् । अत्र सर्वत्र दशाहपदन्तत्तद्वर्णाशौचोपलक्षकम् । तदुक्तं स्मृतिसंग्रहे । अन्तर्दशाहोपरतस्य सूतकाहोभिरेवाशौचमिति । जात- मृते मृतजाते वा सपिण्डानां दशाहमाशौचमिति । जातमृते नाभि- च्छेदादूर्द्ध मृते । तदाहजैमिनिः। 'यावनछिद्यते नालं तावन्नाप्नोति सू- तकम् । छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते। वृहस्पतिः 'जात- मृते मृतजाते कुलस्य सद्यः शौचमिति, इदं मरणनिमित्ताशौचवि- षयम् । वृहन्मनुः 'जीवन जातो यदि ततो मृतः सूतक एव तु। सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् । यदि मृतो नाभिच्छेदा- त्पूर्व यदि मृत इत्यर्थः। सूतकं जनननिमित्तकमाशौचम् । स्मृत्यन्तरेपि 'जीवन जातोयदि प्रेयात् सद्य एव विशुद्ध्यति । एतच्छावाशौचा- भिप्रायम् । शङ्खमानामकरणात्सद्यः शुद्धिरिति। एतत्पितृमातृव्य- तिरिक्तविषयम् । तयोस्तुत्रिरात्रम् । तदाह कश्यपः। 'बालानामजा- अष्टम उद्वारः। । तदन्तानां त्रिरावेण शुद्धिरिति । तथा 'बैजिकादभिसंबन्धादनुरु- न्ध्यादधं व्यहम्'। मातापित्रोरुपनयनपर्यन्तं त्रिरात्रमेवेति । 'अजा- तदन्ते तनये शिशौ गर्भच्युते तथा । सपिण्डानां तु सर्वेपामेकरा- प्रमशौचकम् । सपिण्डानां तु नामकरणानन्तरमग्निदानादिसं- स्कारे कृते एकरात्रम्, अकृते सद्यः शुद्धिरिति भावः। तदाह या- ज्ञवल्क्यः। 'आदन्तजननात्सद्य आचूडान्नैशिकी स्मृता । त्रिरात्रमात्र- तादेशाद्दशरावमतः परम् । अत्र दन्तजननादयस्तत्तत्कालोपलक्षका इति । 'नात्रिवर्षस्य कर्त्तव्या वान्धवरुदकक्रिया । जातदन्तस्य वा कुर्यान्नाम्नि वापि कृते सति । अत्रोदकक्रियेत्यग्निदानस्याप्युपल- क्षकम् । उदकक्रियाया अग्निदानपूर्वकत्वात् । अत्र संस्काराः पञ्चा- पि तूष्णीमेव । तदाह लौगाक्षिः। 'तूष्णीमेवोदकं कुर्यात्तूष्णी संस्कार- मेवच' । संस्काराकरणपक्षे निखननमेव । तदुक्तम् । 'ऊनद्विवार्षिकं प्रेतं घृताक्तं निखनेद्भुवि । यमगाथां गायमानो यमसूक्तमनुस्मरन् ।म- थमवर्षे अकृतचूडस्याप्यग्निमस्कारे कृते अहोरात्रम् । तदाह विष्णुः 'दन्तजातेऽप्यकृतचूडेवहोरात्रेण शुद्धिरिति । वसिष्ठः। 'ऊनद्विवार्पिके प्रेते गर्भपतनेवा सपिण्डानां त्रिरात्रमेवेति । प्रथमवर्षे कृतचूडस्य त्रिरात्रमेवेत्यर्थः, चूडानन्तरमग्निसंस्कारस्यावश्यकत्वात् । वर्षत्र- यादृर्ध्वमकृतचूडस्यापि त्रिरात्रमाशौचम्। 'नाविवर्षस्य कर्त्तव्या बा- न्धवैरुदकक्रिया'इति मनुस्मरणात् । मनुना न्यूनत्रिवर्षसंस्कारनिषेधे- न त्रिवर्षादृर्द्ध तदभ्यनुज्ञानादिति । कन्याया विशेषमाहापस्तम्बः। 'अकृतचूडायाङ्कन्यायां सद्यःशुद्धिरिति । कृतचूडानामपि वाग्दा- नात्पूर्वमेकाहेन शुद्धिरिति। तदाह याज्ञवल्क्यः। 'अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् । अदत्ता वाग्दानरहिता । कन्यानामाशौचे वैपुरुषमेवसापिण्ड्यम् । तदाहवसिष्ठः । 'अदत्तानां तु स्त्रीणान्त्रि- पुरुषीविज्ञायते' इति । मरीचिः। 'वारिपूर्व प्रदत्ता तु यानैव प्रतिपा- ।

स्मृतिसारोद्धारे। सस्कारान- दिता । असंस्कृता तु सा ज्ञेया त्रिरात्रमुभयोः स्मृतम्' । उभयो। पितृमातृकुलयोः । विवाहानन्तरं विशेषमाह विष्णुः । 'संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे, तत्पसवमरणे चेरिपतगृहे स्यातां तदैक- रावन्त्रिरात्रं च' इति । एकरात्रं प्रसवे विरात्रं मरणे चेत्यर्थः । अ- ङ्गिराः 'अविशेषेण वर्णानामक्सिंस्कारकर्मणः। त्रिरात्रात् तु भवे- च्छुद्धिः कन्यास्वह्रोविधीयते' । इदं वयोऽवस्थाशौचं सर्ववर्णसा- धारणम् । कन्यासु अनः शुद्धिः चूडातो वाग्दानपर्यन्तमेकाहाशौच मित्यर्थः । 'आजन्मनस्तु चूडान्तं यदि कन्या विपद्यते । सद्य शौचं भवेत्तत्र सर्ववर्णेष्वयं विधिः । ततोवाग्दानपर्यन्तं यावदेकाहमेव 'तु' इति वचनात् । इति वयोऽवस्थाशौचम् ॥ अथ कृतसंस्काराणां पूर्णाशौचमुच्यते । हारीतः। 'आ- न्तरम् मौजीवन्धनाद्विपः क्षत्रियस्वाधनुर्ग्रहाद । आप्रतो- दग्रहाद्वैश्यः शूद्रस्वावस्त्रयुग्ग्रहात्' । अवमौजीवन्धनादिपर्ययन्तं वि- प्रादिरसंस्कृतो भवतीत्यर्थः । तदनन्तरं संस्कृतः । संस्कारानन्तरं सर्वेषां पूर्णाशौचमिति भावः । निर्हरणमाहमनुः । 'दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् । पश्चिमोत्तरपूर्वैस्तु यथायोग्यं द्विजन्मन:। याज्ञवल्क्यः । 'आचार्यपित्रुपाध्यायान् निर्हत्यापि व्रती व्रती । स कटान्नं नचाश्नीयान्नच तैः सह संवसेत् । सब्रह्मचारी, सकटान्नमशौ- चान्नम् । व्रती व्रत्येव ब्रह्मचर्यव्रतान्न भ्रस्यत इत्यर्थः । मातापि- तृव्यतिरिक्तविषये स एवाह 'न ब्रह्मचारिणः कुर्युरुदकं पतिता नच' । उदकमिति पिण्डदानाद्युपलक्षणम् । मनुः । 'आदिष्टी नोदकं कुर्यादाव्रतस्यसमापनात् । समासे तूदकं कृत्वा विरात्रमशुचिर्भवेत् । आदिष्टी ब्रह्मचारी । वृद्धमनुःल्कीवाद्यानोदकं कुर्युः स्तेना व्रात्या विधर्मिणः। गर्भभद्रुहश्चैव सुराप्यश्चापि योषितः। अज्ञातिसंस्कारे शौ- नकेन विशेषउक्तः। 'अज्ञातिदाहे प्रथमे तृतीयेषट्पट्प्रदद्यादुदकादि- अशम द्वारः। - - पिण्डान् ॥ अष्टौ द्वितीयेऽहाने पञ्च पश्च श्राद्धं चतुर्थे दिवसे च कुर्यात्" इति ॥ याज्ञवल्क्या पाखण्डपना. श्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः । मुराप्य आत्मसागिन्यो नाशौचोदकभाजना" ॥ आमामशौचोदकपिण्डादि न विधेय- मित्यर्थः । यद्वा पाखण्डिनो वेदबाबा, अनाश्रिता अनाश्रमिणः, तेनाः स्वर्णहारिणः ॥ अव स्तनपदं पतितमात्रोपलक्षकमिति ॥ अङ्गिराः- “चाण्डालादुदकात्साबाह्मणाद्वैद्युतादपि । दंष्ट्रि- भ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥ उदकं पिण्डदानं च यदे- तेभ्यः प्रदीयते । नोपनिष्ठति तत्सर्वमन्तरिक्ष विनश्यति" ॥ मनु:- वृथासङ्काजातानां प्रव्रज्यासु च तिष्ठताम् । आत्मनस्यागिनां चैत्र निवापो न विधीयते " ॥ निवापः श्राद्धतर्पणम् । गौतमः- "प्रायोऽनाशकशस्त्राग्निविषोदकोदवन्धनप्रपतनैश्चेच्छतामिति" ॥ इच्छनां कामत आत्मत्यागिनामित्यर्थः ॥ मिताक्षर। आत्मन. स्त्यागिनां नास्ति पतितानां नच क्रिया । तेषामपि तथा गङ्गा- तोये संस्थापनं मनम् "॥ षट्त्रिंशन्मते " गोब्राह्मणहतानां च पतितानां तथैवच । ऊर्दू संवत्सरात्कार्यं सर्वमेवौ देहिकम् " ॥ वृद्धयाज्ञवल्क्यः-'नारायणवलिः कार्यों लोकगहभियान्नरैः । तेन तेषां भवेच्छौचं नान्यथेत्यब्रवीन्मनुः ॥ साग्नेर्दैमरणे विशेषमाहा- ङ्गिराः- " वैतानं प्रक्षिपेदप्सु आवसथ्यं चतुष्पथे । पात्राणि तु दहेदग्नौ यजमाने वृथामृते " ॥ पराशरः- “ चाण्डालेन श्व- पाकेन गोभिविप्रैर्हतो यदि । आहिनाग्निस्तु यो विप्रो विशेषा- दात्मघातकः । दहेन ब्राह्मणं विप्रो लोकाग्नौ मन्त्रवर्जितम् । १ प्रायो महाप्रस्थानम् । अनाशकमनशनम् । उद्वन्धनं गलपा- शादि, गिरिशिखरााश्चप्रदेशादवपात प्रपतनं । अत्र चेच्छतामिति विशेषणोपादानात्प्रमादकृते दोषो नास्तीत्यवगन्तव्यम् ॥

स्मृतिसारोद्धारे। दग्ध्वास्थीनि पुनर्गम क्षीरेण क्षालयेत्ततः। स्वेनाग्निना स्वमन्त्रेण पृथगेनम्पुनदेहेत् " ॥ आम्नाये- “ कृत्वाग्निमुदकं स्नानं स्पर्शनं वहनं कटम् । रज्जुच्छेदाश्रुपातं च तप्तकृच्छ्रेण शुद्ध्य- ति" । अकृतप्रायश्चित्तानां स्नेहेनौद्धदेहिकं कृत्वा प्रायश्चिती- भवतीत्यर्थः ॥ संवतः- “ एषामन्यतमं प्रेतं यो दहेत वहेत वा । कटोदकक्रियां कृत्वा कृच्छं सान्तपनं चरेत् ॥ यदि कश्चित्प्रमादेन म्रियेताग्न्युदकादिभिः । तस्याशौचं विधातव्यं कर्तव्या चोदक- क्रिया "॥ 'वृद्धः शौचस्मृतेर्छप्तः प्रयाख्यातभिषक्रियः । आ- स्मानं घातयेद्यस्तु मृग्वग्न्यनशनाम्बुभिः ॥ तस्य त्रिरात्रमाशीचं द्वितीये त्वस्थिसञ्चयः। तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमाचरेत् । सर्पहते तु विशेषः स्मृत्यर्थसारे प्रोक्तः तस्य नागवतं कार्यम् । नागपञ्चम्यामुपवासः कर्तव्यः । यद्वा चतुर्थ्यामेकभक्तं पञ्च- म्यां नक्तं कुर्यात्। दारुमयं मृण्मयं वा नाग पञ्चफणं कृत्वा गन्धैः करवीरैःसितपत्रैर्जातीकुमुमैरनन्तं वायुकिं शेषपद्मं कर्कोटकं अश्व- सरं धृतराष्ट्र शाङ्खपालं कालिकं कपिलं च पञ्चम्यां संपूज्य पश्चाद्रा- झणान् घृतपायममोदकैर्भोजयेत् । संवत्सरान्ते चैव हि महाब्राह्मण- भोजनम् । सौवर्णनागदानं च कुर्यादिति । भविष्यपुराणे “ सु. वर्णतारनिष्पन्न नागं कृत्वा तथैव गाम् । व्यासाय दत्वा वि. धिवपितुरानन्त्यमाप्नुयात् । नारायणबलिश्च स्मृत्यर्थसार एवं प्रोक्तः । कस्यां चिच्छुक्लैकादश्यां विष्णुं वैवश्वतं च यथावद. भ्यर्च्य तत्समीपे मधुघृताप्लुतान् दघिपिण्डान् विष्णुरूपेण प्रेतम- नुस्मरन् प्रेतस्य नामगोचे उच्चार्य दक्षिणानेषु दर्भेषु दक्षिणामु- खोदत्वा गन्धाद्यैरभ्यर्च्य पिण्डप्रवहणान्तं कृत्वा नद्यादौ प्रक्षिपेत न पत्न्यादिभ्यो दद्यात् । ततस्तस्यामेव राज्यामयुग्मान्ब्राह्मणाना- मन्त्र्योपोषितः श्वोभूने मध्यान्हे विष्णुमभ्यच्यकोद्दिष्टविधिना अपम उद्धार.। हगमनम्। ब्राह्मणपादप्रक्षालनादिवृतिप्रश्नान्तं कृत्वा पिण्डपितृयज्ञवदुल्लेख- नाघवनेजनान्तं कृत्ला विष्णवे ब्राह्मण समाय ? यमाय सपरिवा- राय चतुरः पिण्डान दत्वा नामगोत्रमहिनं प्रेतं संस्मृस विष्णो- मिमट्टीवं पञ्चम पिण्डं दद्यात् । तनोविमानाचान्तान् दक्षिणा- भिस्तोषयित्वा तन्मध्ये चैकं ब्राह्मणं प्रेराबुद्ध्या संस्मरन् गोभू- हिरण्यादिभिरतिशयेन सन्तोष्य पवित्रपाणिभिर्विप्रैः प्रेताय तिलस- हितमुदकं दापयित्वा वजनैः सह भुञ्जीतेति ॥ अन्वारोहणे विशेषमाह स्मृअर्थमारः । सहदहने तु पिण्ड- जिया पतिनास श्राद्धादौ पाकैक्यं कालैक्यं च भवतीति । विकल्पमाह विष्णुः । ब्रह्मचर्य तदन्वारोहणं वेति । हारीतः “पा- तृकं पैत्रिकं चैव यत्र कन्या प्रदीयते । कुलवयं सा पुनाति भर्तारं यानुगच्छति' । शङ्खयाङ्गिरमौ 'तिस्रः कोट्यर्द्धकोटी च यानि लोमानि मानवे। तावत्कालं वसेत्स्वर्ग भर्तारं यानुगच्छ- ति । व्यालग्राही यथा व्यालं विलादुद्धरते बलात् । तद्भा- रमुद्धृत्य तेनैव सह मोदते । तव सा भर्तृपरमा स्तूयमानाप्सरोग- णैः। कीडते पतिना सा, यावदिन्द्राश्चतुर्दशोति । हारीतः "मृते भर्तरि या नारी समारोहेद्धनाशनम् । सारुन्धतीसमाचारा स्व- र्गलोके महीयते । यावच्चामा मृते पसौ स्त्री नात्मानं प्रदाहयेत् । सावन्न मुच्यते साहि स्त्री शरीराद कथञ्चन' । तथा 'ब्रह्मन्नो कृतनोवा गुरुघ्नो वा भवेत्पतिः । पुनाखविधवा नारी तमादाय- मृता तु या' । उशनाः "पृथञ्चिति ममारुह्य न विमा गन्तुमर्हति। अन्यासां चैव नारीणां स्त्रीधर्मोयं परःस्मृतः । ब्राह्मण्याः पृथक्- चिसारोहणनिषेधो नत्वन्वारोहणनिषेध इतिविभाव्यम् । यत्तु 'मृतानुगमनं नास्ति ब्राह्मण्या ब्रह्मशासनात् । न स्त्री ब्राह्मणजाती- या मृतं पतिमनुव्रजेत् । सा स्वर्गमात्मघातेन नात्मानं न पति स्मतिसारोद्धारे। नयेत् " इति वचनं तदपिपृथक् चित्यारोहणपरम्। यदपि-देशा- न्तरमृते पसौ साध्वी तत्पादुकाद्वयम् । निधायोरसि संथुद्धा प्रविशेज्जातवेदसम्, इत्यादिवचनं पृथञ्चित्यारोहणविधायकं तद- पि क्षत्रियादिविषयमवसेयम् । अन्वारोहणं तु सर्वासां स्त्री- णामगार्भणीनामबालापत्वानामाचाण्डालं साधारणोधर्मः । 'कु. दिनुमृति साध्वी सर्ववर्णस्य सुन्दार । स्तनन्धयशिशुभद्रे नानु- यायाच्च गर्भिणी, इति गौरी प्रति शङ्करवचनात् । चितिभ्रष्टा च या नारी मोहाद्विचलिता तु या । प्राजापत्यं चरेत्कृच्छ्रमन्यथा निन्दिता भवेदिति ॥ अथ सपिण्डनिहरणे विशेषमाह मनुः " असपिण्डं द्विजं प्रेतं विप्रो निर्दृत्य बन्धुवत् । विशुद्ध्यति त्रिरात्रेण मातु- राप्तांश्च बान्धवान् । यद्यन्नमत्ति तेषां वै दशाइनैव शुद्ध्यति । अनदन्नन्नमद्वैव नचैतस्मिन् गृहे वसेत् । एतत्सजातीयविषयं । वि- जातीये विशेषमाह गौतमः “ अवरश्चेद्वरं वर्णमुपस्पृशेत् वरो- वाप्यवरं बच्छावोक्तं तस्याशौचम्' इति । ब्राह्मे "ब्राह्मणस्त्वन्य. वर्णानां न करोति कदाचन । कामान्मोहाद्भयाल्लोभात्कृत्वा तज्जा- तितां व्रजेत् । पुत्राः कुर्वन्ति विप्राय क्षत्रवि शूद्रयोनयः । पुरो- हितोऽनपत्ये च मृते मन्त्रीच राजनि । मृते राज्ञः सपिण्डे तु निर- पत्ये पुरोहितः । मन्त्री वा तदशौचन्तु तीर्त्ता पश्चात्करोति सः । अनाथप्रेतनिहरणे पराशरः " अनाथं ब्राह्मणं प्रेतं ये दहन्ति वहन्ति च । पदे पदे यज्ञफलमानुपूर्व्याप्नुवन्तिते। न तेषामशुभ कि- श्चित्पापं वा शुभकर्मणाम् । जलावगाहनात् तेषां सद्यःशौचं विधीयते" । विधवापुत्रेविशेषमाह मरीचिः "स्वगोत्रे वान्यगोत्रे वा पोभवद्विधवासुतः। पिण्डश्राद्धविधानं च क्षेत्रिणे प्राक् स निवपत् । बीजिने तु ततः पश्चात् क्षेत्री जीवति चेत्कचित् । वीजिने द.

अमउदार। २२१ घुरादौ च मृते पश्चात्पदीयते । एतत्तु नियोगोत्पन्नविषयम् । आन- योगोत्पन्ने नारदः “जाता ये त्वनियुक्तायामेकेन बहुभिस्तथा । अ. रिक्थभाजस्ते सर्वे वीजिनामेव ते मुताः। दद्युस्ते वीजिने पिण्डं माताचेच्छुल्कतो धृता। अशुल्कोपनतायां तु पिण्डदा वोढुरेव ते'। शुल्कपणः प्रथमौर्द्धदेहिक ज्येष्ठपुत्र एवं कुर्यात् । इत्याहमरीचिः 'सर्वैरनुमतं कृत्वाज्येष्ठेनैव तु यत्कृतम् । द्रव्येन चाविभक्तेन सत्रैरेव कृतम्भवेत्' । विषकद्रव्येष्वपिज्येष्ठेनैव कार्यमिसाह मिताक्षरा "नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश । एकेनैवतु कार्याणि संविभक्तधनेष्वपि । एकेन मुख्येनज्येष्ठेनेति यावत् । स्मृत्यर्थमा- रेपि “अनेकपुत्रत्वे इतरानुमतो ज्येष्ठ एव दद्यात् । द्रव्येन विभ- तो वा अविभक्तोवेति । संस्कारविधिस्तु शाखाभेदेन भिन्नत्वान्नो- क्तः । स्वस्वगृह्य एवं ग्राह्य इति । दाहमन्त्रस्तु कृत्वा मुदुष्करं कर्म जानना वाप्यजानता। मृत्युकालवशं प्राप्तं नरं पञ्चत्रमागतम् । कामक्रोधसमायुक्तं लोभमोहममातम् । दहेयं सर्वगात्रेषु दिव्यान् लोकान् स गच्छतु " रात्रिमृतस्य रात्रावेवदाहः कार्यों वपनन्तु प्रातरित्युक्तं स्मृतिसंग्रहे। 'रात्रौ दग्ध्वातु पिण्डान्तं कृत्वा वपनवर्जि- तम् । वपनं नेष्यते रात्री वस्तदा वपनक्रिया निगमवचनम् । सन्ध्यायां च तथा रात्रौ दाहं पाथेयकर्मच । नवश्रादं च नोकुर्यात्कृतं निष्फलतांबजेदिनि । इदं तु दिनमृतस्यालस्यादिना रात्रौ दाहो न कार्य इसेवं परम् । 'द्वितीये ऽहनि कर्त्तव्यं क्षुरकर्म प्रयत्नतः । तृतीये पञ्चमे वापि सप्तमे वाप्रदानतः । द्विती- याहादिविकल्पाः पूर्वत्रासम्भवे उत्तरत्र कर्तव्यमियेवंपरा इति । सूतकान्ते तु सूतकनिसर्थक वपनं कुर्यात् । तदाह- विचार देवलः "दशमेऽहनि सम्प्राप्ले स्नानं ग्रामाद्वाहिश्चरेत् । तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च' । द.

૨૨૨ स्मृतिसारोद्धारे। शमेऽहनीति सूतकान्तोपलक्षणम् । केशश्मश्चादिसागस्य सू. तकान्तकर्तव्यवस्नत्यागसाहचर्यात्सूतकान्त एव कर्त्तव्यत्वं प्र. तीयते । वाससां च सूतकान्ते त्यागः स्मृसन्तरे प्रोक्तः " अन्तच वाससां साग' इति । वपनं केषामियाकाक्षायामाहाप- स्तम्बः " अनुभाविनां परिवापनामिति । अनु पश्चाद्भवन्तीयनु- भाविनः कनिष्ठाः। नच लक्षणया अनुभाविपदं पुत्रपरमेवास्तु पुत्रस्यैव वपनेऽधिकारात् । तदुक्तम् “ गङ्गायां भास्करक्षेवे मा- तापित्रोणुरोम॑ते । आधाने सोमपाने च वपनं सप्तसु स्मृतम् सप्तस्वेव वपनमुक्तमतः कथम् ज्येष्ठमात्रे मृते कनिष्ठस्य वपनमु. चितमितिवाच्यम् । सप्तस्वपि वपनं नतु सप्तस्वेव वपनमित्यर्थो हि सम्भवति । नच सप्तस्त्रियधिकसंख्याव्यवच्छेदपरं विरोधात् । सन्ति हि संन्यासे प्रायश्चित्तविशेषे प्रयागादौ च वपनविधायक- वाक्यानि तान्यप्रमाणानि स्युः । तथाहि " शिखासूत्ररहितस्य प्रवज्या श्रुतावुक्ता । मिताक्षरायां च महापातकिनो गोवधिनो- ऽवकीणिनश्च प्रायश्चित्ते वपनमुक्तम् । उदाहृतं च “ विद्वद्विप्रनृ- पस्त्रीणां नेष्यते केशवापनम् । ऋने महापातकिनो गोहन्तुश्चाव- कीणिन' इति । प्रयागवपनविधायकं वचनम् ।"किङ्गयापिण्डदानेन काश्यांवा मरणेन किम् । किङ्कुरुक्षेत्रदानेन प्रयागवपनं यदि इति। नच भास्करक्षेत्रे प्रयाग इत्यर्थस्तेन प्रयागवपनमपि सप्तान्तर्गत- मेवेति वाच्यम् । भास्करक्षेत्रे सूर्यक्षेत्र इत्यर्थः । अत एव पुरु- षोत्तमक्षेत्रस्थमार्कण्डेयहदे सूर्यक्षेत्रतया कोणार्के च शिष्टा वपनं कारयन्ति । अतिप्रसङ्गभिया भास्करक्षेत्रपदं योगरूढमस्तु यथा तब प्रजापतिक्षेत्रपदम् । किञ्च-प्रयागस्य भास्करक्षेत्रत्वे माना- भावः। नहि प्रयागस्य भास्करक्षेत्रत्वप्रतिपादकं पुराणादिकं श्रूयते। श्रूयते च प्रजापतिक्षेत्रत्वप्रतिपादकं ब्रह्मपुराणादिकं 'एतत्प्रजापति- अष्टम उद्धारः। ૨૨૨ क्षेत्रं सर्वकामफलपदम्' इति । अपिच कुरुक्षेत्रादिव्यतिरिक्तेषु सर्वेषु तीर्थेषु वपनविधानान्न सप्तस्वितिनियमः। नच तत्रापि सर्वतीर्थपदं प्रयागपरम् ‘एवं कुरुष्वकौन्तेय सर्वतीर्थाभिषेचनम्' इति वचनमत्र प्रमाणमितिचेद् भ्रान्तोसि । नबनेन वचनेन सर्वतीर्थपदस्य प्रयाग- मात्रवाचकत्र प्रतिपाद्यते शक्तिग्राहकत्वाभावादस्य, नच प्रकरणा- तथा बुद्ध्यामहे । अत्रहीदं तात्पर्य पुराणस्य, अत्र प्रयागे स. र्वाणि तीर्थानि सन्तीत्युक्तं । तेषां तीर्थानां नामानि चोक्तानि । तत्र तत्र स्नानं कुरुष्वेति पृथक्पृथगुक्तं पश्चादुपसंहृतम् ‘एवं कुरुष्व कौन्तेय सर्वतीर्थाभिषचनमिति । किञ्च । सर्वतीर्थपदस्य प्रयागे शक्तियोंगो वा । नायः मानाभावात् । नहि कोषव्याकरणं तादृगस्तीति । नद्वितीयः गङ्गादानपि सर्वतीर्थत्वसम्भवात् । सर्व- तीर्थमयी गङ्गेत्यादिवचनात् । नच सर्वतीर्थमुण्डनविधायकवाक्य- स्याननुष्ठानलक्षणमप्रामाण्यमापतितम् । नहि स्वदेशीयनद्यादौ शिवालयादौ तुलसीमूलादौ तीर्थेपि वपनं कारयन्ति शिष्टा इति वाच्यम् । यदेव प्रधानतीर्थमयोऽध्यादिकमुद्दिश्य यात्रा विहिता तत्रैव वपनौचित्यादन्यथा तीर्थमात्रश्राद्धविधायकवचनस्या- प्यननुष्ठानलक्षणाप्रामाण्यापत्तिरितिध्येयम् । अपिच सर्वतीर्थपदस्य प्रयागपरत्वे बहुवचनवैपर्यम् । नच ग्रहं संमाष्टींतिवदविवक्षितार्थ- म् । तत्र ग्रहत्त्वेन सामान्येन वहूनां सङ्ग्रहौचिसात् । अत्र कस्मिन्व- हुवचनवैयादेवग्रहदृष्टान्तवैषम्यम् । सर्वाणि तीर्थान्यस्मिन्निति- व्युत्पसा बहुव्रीहिकरणे निषादस्थपत्यधिकरणविरोधश्च । सर्वतीर्थ- पदस्य प्रयागमात्रपरत्वेतार्थान्तरे प्रसत्यभावः। नचेष्टापत्तिः 'मुण्ड- नञ्चोपवासश्च सर्वतीर्थेष्वयविधिः । वर्जयित्वाकुरुक्षेत्र नैमिषं पु- करणयामिति वचनेन कुरुक्षेत्रादिवर्जनानुपपत्तेः प्रसत्यभावा- १ मुण्डनञ्चोपवासश्चसर्वतोर्थेष्वयं विधिरित्यग्रिमश्लोकाशयः स्मातसाराद्धारे। दिति, न चाप्रसक्तमप्यत्यन्ताप्राशस्साय निषिध्यते अयाज्ञयामाषा इति श्रुखामाषवदिति वाच्यम् । वैषम्यात् । तत्राहि मौद्गश्चरुभव- तीति श्रुत्या मुद्गानां विशेषविधानेपि प्रतिनिधित्वेन माषे प्रशक्तः तदुक्तम् 'यथोक्तवस्त्व सम्पत्तै ग्राह्यन्तदनुकारिचेत्यादि। प्रकृतेन त- थेति वैषम्यम् । गङ्गामुण्डनस्य प्रयागावच्छिन्नगङ्गापरत्वकल्पनमपि कल्पनमेव । वयित्वा गयां गङ्गामिति वाक्यस्य मैथिलनिबन्धं विहा- य निबन्धान्तरेष्वदर्शनादिति । समावर्त्तनानन्तरं गृहस्थस्य केशवप- नंनिसप्राप्तमेव निषिद्धतिथिनक्षत्रादिविहाय। तदाहमनुः 'क्लप्तके- शनखश्मश्रुर्दान्तः शुक्लाम्बरश्शुचिः। नजीर्णमलबद्वासा भवेच्च विभ- वे सतीति। याज्ञवल्क्योोपि 'शुक्लाम्बरधरोनीचकेशश्मश्रुनखः शुचिः। न भार्यादर्शनेऽश्नीयान्नैकबासा नचास्थित' इति । नच क्लुप्तेतिपदेन केशानां कर्त्तनं नीचीकरणमेव तदोचितमिति वाच्यम् । श्मश्रुणो- प्यवपनापत्तेः। नहीदृशं वाक्यमस्ति केशान्कर्तयेत् श्मश्रूणि वापयेत् इति । नच 'गङ्गायां भास्करक्षेत्रे पितृमातृवियोगतः। कचानां वपनं कार्य वृथा न विकचोभवेदिति वाचस्पतिमिश्रोदाहृतवचनेन विरोध इति । वृथा ज्ञानं विना न विकचोभवेत् न संन्यासीभवेदित्यर्थात् । 'वृथाजटी थामुण्डी वृथानग्नश्च योद्विजः। ते वै नग्नादयः श्राद्ध निषिद्धाः । ज्ञानं विना जटाधारी वृथाजटीत्यादिस्वयमूह्यम् । नच गङ्गायां भास्करक्षेत्रे पितृमातृवियोगत इति स्थानचतुष्टये मुण्डनं योन कारयति स एव वृथाविकच इति वाच्यम् । आधानसोमपा- नमुण्डनेपि वृथाविकचत्वापत्तेः । एतस्य वाक्यस्योपलक्षणपरत्वे स्नातकोक्तमुण्डनेपि न वृथामुण्डित्वापत्तिरिति प्रकृतमनुमरामः । अशौचे सपिण्डानां नियमानाहमनुः 'अक्षारलवणान्नाः स्यु. निमज्जेयुश्च ते व्यहम् । मामाशनञ्च नाश्नीयुः शयीरेंश्च पृ. थक क्षितौ । गौतमः 'अधः शय्यासनिनो ब्रह्मचारिणः सर्ने ।

अधम उद्धार:। याज्ञवल्क्यः 'क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक् पृथक्' क्री तलब्धाशननियमादिनत्रयमवति । सदाहवशिष्ठः 'व्यहमनश्नन्त- आसीरन् क्रीतोत्पनेनवा वरन्' ज्यहमनश्नन्त इति क्रीत- लब्धान्नाभावे बोध्यम् । रजस्खलायाः सूतिकायाश्च मृतायाःशुद्धि कृत्वा दाहादि कुर्यात् । शुद्धिमाहमिताक्षरा 'सूतिकायां मृतायांतु कथं कुर्वन्ति याज्ञिका' इति प्रश्ने उत्तरम् । कुम्भे सलिलमादाय पञ्- चगव्यं तथैव च। पुण्यम्भिरभिमन्यापो वाचा शुद्धिं लभेत्ततः । तेनैव स्नापयित्वा तु दाहं कुर्याद्यथाविधि । पञ्चभिः स्नापयित्वा तु गव्यैः प्रेतां रजस्वलाम् । वस्त्रेणान्तरितां कृत्वा दाहयेद्विधिपूर्वकम् । वाचा ब्राह्मणवचनेन । उशनाः 'ज्वराभिभूता या नारी रजसा च परिप्लुता । कथं तस्या भवेच्छौचं शुद्धिः स्यात्केन कर्मणा। चतुर्थेहनि सम्पाते स्पृशेत्साऽनातुरां त्रियम् । सा सचैलावगाडाप: स्नात्वा स्नात्वा पुनः स्पृशेत् । दशद्वादशकृत्वो वा आचामेच्च पुनः पुनः । अन्ते च वाससा त्यागात्ततः शुद्धा भवेत्तु सा । दद्याच्छत्तया ततोदानं पुण्याहेन विशुद्ध्यति। मनुः 'शुद्धा भत्तुश्चतुर्थेति स्नानेन स्त्री रजस्वला दैवे कर्मणि पिये च पञ्चमेऽहनि शुध्यति । पञ्चमेहनीति रजोनिवृत्तिकालोपलक्षणम् । यदाहात्रिः 'रजस्वला यदि स्नाता पुनरेव रजस्वला । अष्टादशदिनादर्वागशुचित्वं न गच्छति । एकोन विशतेरागेकाहं स्यात्ततोद्यहम् । विंशत्मभृत्युत्तरेषु त्रिरात्रमशु- चिर्भवेत् । यत्तु कचित् 'चतुर्दशदिनादर्वागशुचित्वं न विद्यत' । इति तत्स्नानदिनप्रभृतिदिनगणनाभिप्रायम् । अथक्षपञ्चकमृतदाहविधिः गारुडे 'आदौकृत्वा धनिष्ठार्द्धमे- तन्नक्षत्रपञ्चकम् । रेवत्यन्तं सदायमशुभं मरणे भवेत् । दाहस्तत्र न कर्तव्यः कृतेऽन्यमरणं भवेत् । न जलं दीयते तेषु अशुभं सर्वदाभवेत् । पञ्चकानन्तरं कार्य कर्त्तव्यं सर्वमन्यथा । पुत्राणां गोत्रिणां तस्य २९ स्मृतिसारोद्धारे। सन्तापोयुपजायते । गृहहानिर्भवेत्तस्य ऋक्षेष्वेषु मृतस्तु यः । अथ- बा ऋक्षमध्येपि दाहस्तु विधिपूर्वकः । क्रियते मानुषाणां तु सद्य आहुतिकारणात् । प्रियैर्नियमतः कार्यों मन्त्रैस्तु विधिपूर्वकम् । शवस्य तु समीपेषु क्षेप्तव्याः पुत्तलास्ततः । दर्भमय्याश्च चत्वार ऋक्षमन्त्राभिमन्त्रिताः । ततोदाहः प्रकर्त्तव्यस्तैश्च पुसलकैः सह । सूतकान्ते तदा पुत्रैः कार्य शान्तिकपौष्टिकम् । पञ्चकेषु मृतो योसौ न गतिं लभते नरः । तिलानि च हिरण्यं च तदुद्देश्ये घृतं क्षिपेत् । विप्राणां दीयते दान सर्वविघ्नविनाशनम् । अथ स्वाशौचान्तिमभागे गते अशौचिनोऽङ्गम्पर्शो भवति । तदाहदेवलः । 'दशाहादित्रिभागेन कृते सञ्चयने क्रमात् । अङ्ग- सर्शनमिच्छन्ति वर्णानां तत्वदर्शिनःस्वाशौचकालाद्विज्ञेयं स्पर्शनं तु त्रिभागतः। शूद्रविदक्षत्रविप्राणां यथाशास्त्रं प्रचोदनादिति । अथ वर्णभेदाशौचम् । ब्राह्मे शुद्ध्येविनोदशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रोमासेन शुद्ध्यति ।। ब्राह्मणविषये मनुः दशाहं शावमाशौचं सपिण्डेषु विधीयते। जननेप्येवमेवं स्यान्निपुणां शुद्धिमिच्छताम् । महागुरौ विशेषमाहाश्वलायनः 'द्वादशरात्रं वा महागुरुषु दाना- ध्ययने न कुर्वीरनिति । महागुरुस्वरूपं स एवाह 'पुत्रानुत्पाद्यार्थ ग्राहयित्वा वृत्ति यो विदधाति स महागुरुरिति । क्षत्रादिविषये याज्ञवल्क्यः 'क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु।त्रिदिनानि शुद्रस्य तदर्धन्यायवर्तिनः स्वधर्मरतस्य क्षत्रस्य विशः शूद्रस्यचेत्यर्थः न्यायवर्तित्रं सर्वेषाम शौचनिमित्तं नतु सन्निहितत्त्वाच्छूद्रस्यैवेति भ्रमः कार्यः । निर्णयामृतकृतस्तु भ्रमाच्छूद्रमापरतया व्याच- क्षिरे । मनुः 'विप्रः शुद्ध्यसपः स्पृष्ट्वाक्षत्रियो वाहनायुधम् । वैश्यः प्रतोदं रश्मि वा यष्टिं शूद्रः कृतक्रियाकृतक्रियः शौचानन्तरं कृतस्ना . - अष्टम उदार। ૨૨૭ । पवाद । नादिः । कश्यपः 'रात्रावेव समुत्पन्ने मृते रजसि सूतके । पू. मेवदिनं ग्राह्यं यावन्नोदयते रविः । उदिते तु यदा सूर्ये ना. रीणां दृश्यते रजः । जननं वा विपत्तिा यस्याहस्तस्य शर्वरी । अर्द्धरात्रावधिः कालः सूतके तु विधीयते । अर्द्धरात्रपदं प्रथम- भागद्वयपरम् । तदुत्तरमुत्तरदिनगणनेसर्थः । सूतके अशौचे।'नक्तं कुर्यात्रिभागं तु द्वौभागौ पूर्व एषतु । उत्तरोंऽशः प्रभातेन युज्यते मृत- सूतके । तथा 'निशाभागत्रयं कुर्याद्वौभागौ पूर्ववासरे । शेषं पर- दिनं ज्ञेयं स्थालीपाकमृते क्रतौ । यावनोदयते रषिरित्याप नि- शातृतीयभागाभिप्रायम् । दशप्रकारमशौचमाह दक्षः 'सद्यःशौचं तथैकाहस्यहश्चतुरहस्तथा । षड्दशद्वादशाहश्च पक्षो मासस्त- अशौचा थैव च। मरणान्तं तथा चान्यदशपक्षास्तु सूतकम् ॥तत्र सद्य:- शौचिनो दर्शयति । याज्ञवल्क्यः 'ऋत्विजा दीक्षितानां च यज्ञियं कर्म कुर्वताम् । सविततिब्रह्मचारिदातृब्रह्मविदां तथा ।दाने विवाहे यज्ञे च संग्रामे राष्ट्रविप्लवे।आपद्यपि च कष्टायां सद्यःशौचं विधीयते' । दीक्षिनानां यज्ञप्रवृत्तानामेव सद्यःशुद्धिः । तदुक्तं यज्ञियं कर्म कुर्वतामिति । सत्रिपदेनान्नमत्रिणो ग्राह्याः। तदन्येषां याज्ञिकानां दीक्षितपदेन च पातेत्रिविनः कृच्छ्रचान्द्रायणादिप्रवृत्ताः, संग्रामे सग्रामोद्यतकरस्य राज्ञः सन्नाहविधौ प्रास्थानिकहोमादौ,कष्टा- यामापदि व्याध्यायभिभूतस्य दुरितसमनार्थे कर्मणि, संकुचित्तवृत्तेः क्षुत्परिम्लानमातापित्राद्यवश्यपोष्यवर्गस्व भरणोपयोगिनि प्र- तिग्रहे वा । अश्वस्तनिकस्य वा प्रतिग्रहे । न विद्यते ३वस्तनं भक्ष्य यस्य स अश्वस्तनिक इति । यस्त्वकाहपर्याप्तधनसञ्चयवांस्त- स्पैकाहः, यम्घ्यहोपभोग्यधनमञ्चयी तस्य व्यहः, यश्चतुरहार्थस. चितधनकुम्भीधान्यस्तस्य चतुरहः । कुमूलधान्यस्य दशाह इति स्मृत्यन्तरे 'निखमनप्रदस्यापि कृच्छ्रचान्द्रायणादिषु । प्रवृत्ते स्मृतिसारोद्धारे। कुच्छ्रहोमादौ ब्राह्मणादिषु भोजने । गृहीतनियमस्यापि न स्याद- न्यस्य कस्य चित्' । सद्यःशुद्धिरिति शेषः । तथा "निमन्त्रितेषु विशेषु प्रारब्धे श्राद्धकर्मणि । निमन्त्रणाद्धि विमस्य स्वाध्यायाद्वि- रतस्यच । अग्रे पितृषु तिष्ठत्म नाशौचं विद्यते कचित् । मरणा- न्तिकमशौचमाहदक्षः । “अस्नात्वा चाप्यहुत्वा चादत्वा जप्त्वा च खादति । एवं विधस्य विषस्य सर्वदा सूतकं भवेत् । व्याधि. तस्य कदर्यस्य ऋणग्रस्तस्य सर्वदा । क्रियाहीनस्य मूर्खस्य स्त्री. जिनस्य विशेषतः । व्यशनासक्तचित्तस्य पराधीनस्य नित्यशः। श्रद्धासागविहीनस्य भश्मान्तं सूतकं भवेत्' । व्याधितस्य असाध्य- व्याधिमतः । कदर्यलक्षणमाइ स एव । “आत्मानं धर्मकृसं च पुत्रदारांश्च पीडयन् । लोभाद्यः पचिनोसर्थान् स कदर्य उदाहृतः। क्रियाहीनस्य नित्यकर्मत्यागिनः । न पठति न शृणोति स मूर्ख स्तस्य । स्त्रीजितस्य स्त्रीवशलया मानादियागिनः । व्यशनासक्त- चित्तस्य द्यूतमृगयाद्यासङ्गेन सत्कर्मयागिनः । पराधीनस्य परसे- वया नित्यकर्मकरणे निरवकावास्य । साग्नेनिरग्नेश्चाशौचाव- धियाह । पैठीनसिः 'अनग्निमत उत्क्रान्तेराशौचांदि द्विजातिषु । दाहादग्निमतो विद्याद्विदेशस्थे मृते तथा'। तथा 'दाहादूर्द्धमशौचं स्याद्यस्य वैतानिकोविधिः । मरणादेव कर्त्तव्यं संयोगो यस्य ना- ग्निना' । अनुलोमक्षवाद्यशौचे विषस्य विशेषमाह बौधायनः 'क्षत्रविशुद्रजातीया ये स्युर्विप्रस्थ बान्धवाः । तेषामशौचं विषस्य दशाहान्न विशिष्यते' । हारीतः 'दशाहाच्छुद्ध्यते चित्रो जन्महान्योः स्वयोनिषु । षड्भिस्त्रिाभिरथैकेन क्षत्रविद्शूद्रयोनिषु' । एतेदापद्विषयम् । क्षत्रियस्य विशूद्रेषु सपिण्डेषु षड्ररात्रत्रिरा- त्राभ्यां, वैश्यस्य शूद्रे सपिण्डे षड्रात्रेण शुद्धिरित्यपि भाग्वत् । १ जन्ममरणयोरित्यर्थः। २ हारीतवचनमितिभाव ।

अधम उद्धार। । विलोमजेषु विशेषमाहापस्तम्बः । "क्षत्रविद्शूद्रजातीनां जाते मृ- तकसूतके। तेषां च पैतृकं शौचं विभक्तानां तु मातृकम्"। हीनव- गानामुत्कृष्टेषु सपिण्डेषु जातेषु मृतेषु चाविभक्तेषु स्वतो विभक्तेषु च मातृतोऽशौचकल्पनेसर्थः। यदपि 'शौचाशौचे प्रकुर्वीरशूद्र- वपूर्णमङ्करा' इति मैथिलनिबन्धीयं वाक्यं तदपि शूद्रजेत्कृष्टवाप विभक्तेषु बोध्यम् । विजातीयानां सापिड्यंतु त्रैपुरुषमेच। तदुक्तम् 'यद्येकजाता बहवः पृथक्षेत्राः पृथग्जनाः । एकपिण्डाः भवन्सते पिण्डस्त्वावर्त्तते त्रिषु' । पृथग्जना भिन्नजातीयाः । इति सङ्करा- शौचम् । मनुः 'उद्यतैराहने शास्त्रैः क्षत्रधर्महतस्य च । सधः स- तिष्ठते यज्ञस्तथाशौचमिति स्थितिः । यज्ञः पिण्डदानादिरूपः सन्तिष्ठते समाप्तोभवति । तथा 'पिण्डाहवहतानांच विद्युता पार्थ- वेन च । गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः । सद्य- इत्यनुवर्तते । पिण्डोऽशस्त्रकलहः । ननु पार्थिवेच्छया कथं शौचाशौचे, इत्थं यतोमनुरेवाह । 'सोमाग्न्यानिलेन्द्राणां वित्ता. पसोर्यमस्य च । अष्टानां लोकपालानां वपुर्धारयते नृपः। स्मृत्यर्थसारेपि 'स्त्रीविप्रार्थे गवार्थे च संग्रामे विद्युताच्च हतानां सपिण्डानां नाशौचमिति । यत्तु 'ब्राह्मणार्थे विपन्नानां योषितांग्रह- णेपि वा।आहवेपि हतानां च एकरात्रमशौचकम्" । तद्युद्धक्षतेन कालान्तरमृतविषयम् । तदाह स्मृत्यर्थसारः 'युद्धक्षतेन कालान्त- रमरणे ग्रामेश्वरे कुलपतौ च मृतत्वेकाहमिति । याज्ञवल्क्यः । "हतानां नृपगोविनरन्वक्षं चात्मघातिनाम्। अन्वक्षं सद्यःशौचम् । आत्मघातिनां शास्त्राद्यनुमत्योते शेषः । अथ सपिण्डाद्याशौचम् । मनुः 'दशाहं शावमाशौचं सपिण्डेषु विधीयते । जननेप्येवमेवेति । अत्र दशाहपदं तत्तद्वर्णाशौचमुपलक्ष- १ वित्तस्य अपाञ्च पतिस्तयोः, कुवेरवरुणयोरित्यर्थः ।

स्मृतिसारोद्धारे। यति । 'जन्मन्यकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते । अत्र जन्म- नीत्युपलक्षणं मरणेपि बोध्यम् । एकोदकाः समानोदकाः । मनुः 'सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्म- नाम्नोरवेदने” । जन्मनाम्नोरवेदने समानोदकभावोनिवर्तते । तयोरवेदने गोत्रजा भवन्ति । ते च स्नानमात्रेण शुद्धयान्ति । तदु. तम् ‘दशाहेन सपिण्डास्तु शुद्ध्यन्ति प्रेतमूतके । त्रिरात्रण सकुल्यास्तु स्नानमात्रेण गोत्रजा' इति । सकुल्याः समानोदकाः। अमगोत्राणां तूच्यते । तत्र वृहस्पतिः 'यहं मातामहाचार्यश्रोत्रि- येष्वशुचिर्भवेत्। श्रोत्रियोत्र सन्निहितोगुणवान्विवक्षितः। तदुक्तम् 'श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत् । मातुले पक्षिणी रात्रि शिष्यत्तिग्बान्धवेषु च । अमान्निहिते काहमाहाश्वलायनः । 'एकाहं सब्रह्मचारिणि समानग्रामवासिनि श्रोत्रिये च' । ए- काचार्योपनीतः सब्रह्मचारी, उपनीय योऽध्यापयति स आचार्यः । मनुः 'त्रिरात्रमाहुराशौचमाचार्य संस्थिते सति । तस्य पुत्रे च पत्न्यां च दिवारानामतिस्थितिः । याज्ञवल्क्यः 'गुर्वन्तेवास्यनूचा- नमातुलश्रोत्रियेषु च । यहमित्त्यनुवर्तते । वृद्धप्रचेताः 'संस्थि- ते पक्षिणी राविौहित्रे भगिनीसुते । संस्कृते तु त्रिरात्रं स्यादि तिधर्मोन्यवस्थितः । पित्रोरुपरमे स्त्रीणामूढानां तु कथं भवेत् । त्रिरात्रेणैव शुद्धिः स्यादित्याह भगवान्यमः । भगिन्यांच श्वशुर- योर्मातुलान्यां च मातुले। पित्रोः स्वसरितद्वच्च पक्षिणी क्षपयेन्निशा- म्' । श्वशुरयोः पित्रारिति विरूपैकशेषः । तथा 'मातुले श्वशुरे मित्र गुरौगुर्वङ्गनासु च । अशौचं पक्षिणी रात्रि मृता मातामही य दि। वशिष्ठः 'भगिन्यां संस्कृतायां च भ्रातर्याप च संस्कृते । मित्रे जामातरिप्रेनेदौहित्रे भगिनीमूते । श्यालके तत्सुते चैव सर्वः स्नानेन शुद्ध्यतिाएतद्नामान्तरमृतागुणिविषयम। तदुक्तं स्मृखर्थसार 'गुणव- अष्टम उद्धार। ३ मु एकग्रामे एकाहं ग्रामान्तरे स्नानमिति । विष्णुः 'संस्कृतासु- स्त्रीषु नाशौचं पितृपक्षके तत्पसवमरणे चेपितृगृहे स्यातां त- दैकरात्रं त्रिरात्रं चेति । एतन्मूलकमेववचनं कल्पयन्ति । 'पितु- गेंहे यदा कन्या सूयते म्रियतेऽथवा। तबन्धुवर्गस्वकेन शुद्ध्यते ज- नकस्त्रिभिरिति । सएवाह 'अमपिण्डे गृहे मृते त्रिरात्रं सपिण्डा- नामेकाहमिति । गृहपतस्त्रिरात्रं तत्सपिण्डानामेकरात्रमित्यर्थः । वृद्धविष्णुः 'ग्राममध्यगतोयावच्छवस्तिष्ठति कस्यचित् । ग्रामस्य तावदाशौचं निर्गते शुचितामिया ॥ याज्ञवल्क्यः 'अनौरसेषु- पुत्रेषु भार्यास्वन्य गतासुच' । अहोरात्रमियनुवर्तते । एतदसंनि- धानविषयम् । सन्निधौ तु विष्णुः । 'अनौरसेषु पुवेषु जातेषु च मृतेषु च । परपूर्वासु भार्यासु प्रसूनासु मृतासु च' अत्रत्रिरात्रमि- त्यनुवर्तते । परः पूर्व पतिर्यासान्ताः परपूर्वाः। प्रजापतिः 'अन्या- श्रितेषु दारेषु परपत्नीसुनेषु च । गोत्रिणः स्नानशुद्धास्स्युः त्रि. रात्रेणैव तत्पिता। मरीचिः 'सूतके मृतके चैत्र त्रिरात्रं परपूर्वयोः । एकाहस्तु सपिण्डानां त्रिरात्रं यत्र वै पितुरिति । अथराजाशौचम्। मनुः ‘प्रेने राजान सज्योतिर्यस्प स्याद्विषये स्थितिः'। मज्योतिरिति- दिनमृते दिनमेव रात्रिमते रात्रिरवेति । सूर्यसेनीयेप्रचेताः 'कारवः शिल्पिनोवैद्या दासीदासास्तथैव च । राजानो राजभृसाश्च सद्यः शौचाःप्रकीर्तिताः । राज्ञः प्रजापालननिमित्तकशान्तिकपौष्टिका- दिकर्मणि परमेनाद्युपजातानाष्ट्याद्युपद्वनिवृत्त्यर्थे च कर्मणि कारुशिल्पिप्रभृतीनां स्वस्वामिकमणि च मद्यःशुद्धिः । निय नैमित्तिकादिस्वकर्मसु च स्वाशौचमस्त्येवेसर्थः । अङ्गिराः 'दासी. दासश्च सर्वो बै यस्य वर्णस्य योभवेत । तद्वर्णस्य भवेच्छौचं दास्या मासं तु सूतकम् । दास्याः प्रस्तायाः। विष्णुः 'न राज्ञां राजक- मणि न वतिनां व्रते न सविणां सत्रे न कारूणां कारुकमणि ।

स्मृतिसारोद्धारे। अशौचमितिशेषः । शातातपः 'मूल्यकर्मकराः शूदाः दासीदासा- स्तथैवच । स्नाने शरीरसंस्कारे गृहकर्मण्यदृषिताः। तथा सद्यः स्पृश्यो गर्भदासो भक्तदासस्यहाच्छुचिः । चिकित्सको यत् कुरु- ते तदन्येन न शक्यते । तस्माचिकित्सकः स्पर्शे शुद्धोभवति नि त्यशः । तथा 'दासा दास्यश्च यत्किञ्चित् कर्म कुर्वन्ति लीलया। तदन्यो न क्षमः कर्तुमतस्ते शुचयः स्मृता' इति ॥ अथविदेशस्थाशौचम् । मनुः 'विगतं तु विदेशस्थं शृणु- याद्योगनिर्दशम् । यच्छेषं दशरावस्य तावदेवाशुचिर्भवेत् । वि. गतं मृतम् । इदं जननस्याप्युपलक्षणम् । दशरात्रपदं स्वाशौ- चोपलक्षकम् । याज्ञवल्क्योपि 'पोषिते कालशेषः स्यादिति । मनुः 'निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च । सवासा जलमा- प्लुस शुद्धो भवति मानव:' । अत्र पुत्र इति श्रवणापितुरेव स्नान, नत्वतिक्रान्तं जननाशौचं ज्ञातीनाम् । ज्ञातिमरणश्रोतः सचैलस्नानं विधीयते, नत्वशौचाभावः प्रतिपाद्यते अनेन वचनन । मासत्रयादिषु विरात्राद्यशौचस्य वक्ष्यमाणत्वादिति । वृद्ध- वशिष्ठः 'मासत्रये त्रिरात्रं स्यातूषण्मासे पक्षिणी तथा । अह- स्तु नत्रमादर्वागूद्ध स्नानेन शुद्ध्यति । अहः अहोरात्रं, ऊर्द्ध नवममासात् द्वादशमासपर्यन्तम् । अत्र स्नानं स्वसहचरित- मुदकदानमप्याक्षिपति । मनुः 'सवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति । अथदेशान्तराशौचम् । मिताक्षरायाम् । 'देशान्तर- मृतं श्रुत्वा क्लीबे वैखानसे यतौ । मृते स्नानेन शुद्ध्यन्ति गर्भस्रावे च गोत्रिणः । देशान्तरं वदन्यके षष्टियोजनमायतम् । चत्वारिं- शद्वदन्यन्ये त्रिशद्वान्ये तथैव च । वृद्धमनुः 'वाचो यत्र विभिद्यन्ते गिरिव्यिवधायकः । महानधन्तरं यत्र तद्देशान्तरमुच्यते । यत्र प्रयमन्तरं तत्र त्रिंशद्योजनम् यत्र द्वयमन्तरं तत्र चत्वारिंशद्योजने अष्टम उद्धारः। यत्रैकमन्तरं तत्र षष्टियोजनं देशान्तररामिति केचित् । देशपदेन व्यवस्थापयन्सपरे ?। योजनमानं तु स्मृसर्थसारे प्रोक्तम् । 'तिर्य- ग्यत्रोदराण्यष्टावूर्दा वा ब्रीहयस्त्रयः । प्रमाणमङ्गुलस्योक्तं वित- स्तिादशाङ्गुला । वितस्तिदिगुणारबिस्ततः किष्कुस्ततोधनुः । क्रोशो धनुःसहस्रे द्वे चतुःक्रोशं तु योजनमिति । एतेन वि- देशस्थाशौचदेशान्तरशौचे पितृमातृव्यतिरिक्तसापण्डादिविषये बोद्धव्ये । यदाह पैठीनसिः 'पितरौ चेन्मृतौ स्यातां दूरस्थो पि हि पुत्रकः । श्रुत्वा तद्दिनमारभ्य दशाहं सूतकी भवेत्' । दशा- हमिति स्वाशौचोपलक्षकम् । मूतकी शौची । दूरस्थ इसनेन वि- देशदेशान्तरयोः सङ्ग्रहः । विदेशमात्रसङ्ग्रहे । 'महागुरुनिपाते तु आर्द्रवस्त्रोपवीतिना । अतीतेऽन्देऽपि कर्त्तव्यं प्रेतकार्य यथाविधि' । इत्यनेन विरोधः स्यात् । नहि निकटे विदेशेऽब्दाद्यत्ययः सम्भवति दूरपदविरोधश्च । दूरत्वं च शतसहस्रादिक्रोशसाधारण- मिति । स्मृत्यर्थसारे विशेषः 'मातापितृमरणं दशाहादेरूद्ध दूर- देशे संवत्सरादूर्द्धमपि पुत्रः श्रुत्वा मरणश्रवणदिनमारभ्य दशाहादिकं यथावर्णम् पूर्णमाशौचं कुर्यात् । उदकम् पिण्डदानं च। महागुरुमरणे च 'दुरदशे व्यतीतेऽब्दे आईवस्त्रोपवासिना । तथै- वाशौचादिकं कार्य स्त्रीपुरुषयोः परस्परम् । सवर्णोत्तमसपत्नीषु चैवम् । देशान्तरे कालान्तरे च हीनवर्णाया मातुः सपत्न्या मरणे तु पुत्रस्त्रिरात्रमिति । दक्षः 'पितृपत्न्यामपेतायां मातृवर्ज द्विजोत्तमः । संवत्सरे व्यतीतेपि विरात्रमशुचिर्भवेत्' । इत्येतदपि हीनवर्ण- विमातृविषयम् । वयोवस्थाशाचे विदेशस्थाशौचे च सर्ववर्ण- साधारण्यमाह व्याघ्रपादः 'तुल्य वयसि सर्वेषामतिक्रान्ते तथैव च । उपनीत तु विषमं तस्मिन्नेवातिकालजम्' इति । वयसि वयोवस्थाशौचे आदन्तजननात्सद्य इसादिनोक्ते अतिक्रान्ते स्मृतिसारोद्धारे। विदेशस्थाशौचे च यदशौचमुक्तं तत्सर्वेषां वर्णानां तुल्यम् । उपनीते द्विजानामुपनयने स्त्रीशूद्राणां विवाहे च जाते विषमं दशाहद्वादशाहादिरूपम् । तस्मिन्नेवोपनीते एव अतिकालजमति. क्रान्ताशौचं नत्वनुपनीतस्ये यर्थः । अतो यानि शूद्रस्य वयोवस्था. शौचे विशेषवचनानि मैथिलैलिखितानि तानि निर्मूलानि मिनाक्षरा. दिभिरनादरात् । तानि यथा 'शूद्रे त्रिवर्षीन्यूने तु मृते शुद्धिस्तु पञ्चभिः । अत उर्द्ध मृते शूद्रे द्वादशाहो विधीयते । अनुढभार्यः शूद्रस्तु षोडशावत्सरात्परम् । मृत्यु समधिगच्छेच्चेन्मासं तस्या- प्यशौचकमित्यादीनि । अङ्गिराः 'अतिक्रान्ते दशाहे तु पश्चा- जानाति चेद्गृही। त्रिरात्रं सूतक तस्य न तद्रव्यस्य कर्हिचित्' । अतिक्रान्ताशौचं गृहिणो भवति न गृहद्रव्यस्येत्यर्थः ।। अस्लामप्यलाभे पर्णशरः कर्त्तव्यः। तत्र प्रकारः षष्टयधिकप- लाशपत्रशत्रयेण पुरुषं विरचयेत् । 'अशीत्यर्द्ध च शिरसि ग्रीवायां च दशैव वा । वादोश्चैव शतं दद्यादङ्गुलीषु तथा दश । उरसि त्रिशतं दद्याविंशति जठरे तथा । द्वादशार्द्ध वृषणयोरष्टाई शिश्न एवं च । उर्वोश्चैव शतं दद्यात् त्रिशतं जानुजङ्घयोः । पादाङ्गुलीषु दश वै एतत्प्रेतस्य कल्पनम् । अनाहिताग्नेर्देहस्तु दाह्यो गृह्याग्निना द्विजैः । तदभावे पलाशोत्थैः पत्रैः कार्यः पुमानपि । शतैस्त्रिभि- स्तथा षष्टया शस्त्रातैविधानतः । वेष्टितव्यस्तथा यत्नात्कृष्णसा- रस्य चर्मणा । ऊसूत्रेण बद्धातु प्रलेप्तव्यस्तथा यवैः । सुपिष्टैर्ज- लसंमित्रैर्दग्धव्यश्च तथाग्निना । असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा स्वबान्धवैः । एवं पर्णशरं दग्ध्वा त्रिरात्रमशुचिर्भवेत् । इदमना- हिताग्निपरम् । वशिष्ठः “ आहिताग्निश्चेत्प्रवासे म्रियेत पुनः संस्कारं कृत्वा शश्वदाशौचम्" । अनाहिताग्नेस्त्रिरात्रं पूर्वगृहीता. शौचस्य बोध्यम् । तदुक्तं स्मृत्यर्थसारे । 'अतीते सूतके तु पूर्व- अष्टम उद्धारः। मगृहीताशौचस्य पुत्रस्य पत्न्याश्च दशाहादिकं संपूर्ण अशौचम् । गृहीताशौचस्य पुत्रस्य पत्न्याश्च त्रिरात्रमिति । सपिण्डे विशेष- स्तत्रैवोक्तः । अगृहीताशौचानां सपिण्डानां त्रिरात्रम् । गृहीता. शौचाना पुनराशौच नास्तीति। मोषितस्य वृत्तान्तानाकर्णने विशे- षमाह वृहस्पतिः ' यस्य न श्रूयते वार्ता याववादशवत्सरम् । कुशपुत्रकदाहेन तस्य स्यादवधारणम्'। पितरि विशेषोजातूकये- नोक्तः । 'पितरि मोषिते तस्य न वार्ता नैव वागतिः । उर्द्ध पञ्चदशाद्वर्षात् कृत्वा तत्मतिरूपकम् । कुर्यात्तस्य तु संस्कार यथोक्तविधिना ततः' । स्मृत्यर्थसारे विशेषः । 'दूरे देशान्तरगते पितरि वातौ पुनः पुनः पुत्रः पर्यालोच्य जीवद्वार्तायामश्रूयमाणा- यां पूर्ववयस्के एकविशत्यब्दादूर्द्धम् मध्यमवयस्के पञ्चदशा- दुई अवरवयस्के द्वादशादूर्द्धम् चान्द्रायणत्रयं त्रिंशत्कृच्छ्राणि वा कृत्वा पलाशपत्रैः कुशैर्वा प्रतिकृतिं कृत्वा दशा- हाशौचोदकश्राद्धानि कार्याणीति । श्राद्धे कृते यदि जीवन समागच्छेत्तदाह वृद्धमनुः जीवन् यदि समागच्छेत् घृ. तकुण्डे निधाय तम् । कारयेजातकर्मादि संस्कारानखिलानपि । द्वादशाहं व्रतचर्या त्रिरात्रमथ तस्य तु । स्नात्वोद्वहेत तां भार्या- मन्यां वा तदभावतः । आग्निमाधाय विधिना व्रात्यस्तोमेन वा यजेत् । अयेन्द्राग्नेन पशुना गिरिं गत्वा च तत्र तु । इष्टिमायु- ध्मती कुर्यादीपितॉश्च क्रतूंस्तत' इति । अथ शवानुगमने याज्ञवल्क्यः 'ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः कचित् । अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्नि घृतभुक् शुचिः' । ब्राह्मणेनासपिण्डेन द्विजो विपदि शूदो वा नानुगन्तव्य इत्यर्थः । मनुः 'अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा । स्नात्वा सचैलः स्पृष्ट्वाग्नि घृतं पाश्य शवससर्गा शौचम् ।

२३६ स्मृतिसारोद्धारे। विशुद्ध्यति' । ज्ञाति मातृसपिण्डं पितृसपिण्डानुगमनस्य विहित- स्वादिति । हीनवर्णविषये स्मृत्यर्थसारः । 'ब्राह्मणस्य क्षत्रियानु. गमने एकाहम् । वैश्यानुगमने पक्षिणीं । .शूद्रानुगमने त्रिरात्रम् । अशौचं कृत्वा समुद्रगायां नद्यां स्नात्वा प्राणायामशतं कृत्वा घृतं प्राश्य विशुद्ध्यति' इति । क्षत्रियस्य वैश्यानुगमने त्वेकाहम् । शूद्रानुगमने पक्षिणी । वैश्यस्य शूद्रानुगमने त्वेकाहम् । रोदने चै- वमिति । वशिष्ठः 'मनुष्यास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रमाशौचम् । अस्निग्धे त्वहोरात्रं, शवानुगमने चैवमिति । इदमपि पूर्वेणाविरूद्धं व्याख्येयम् । पराशरः 'प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः । अनुगच्छेन्नीयमानं स त्रिरात्रेण शुद्ध्यति । त्रिरावे तु ततस्तीर्णे नदीं गत्वा समुद्रगाम् । प्राणायाम शतं कृत्वा घृतं प्राश्य विशुद्ध्य- ति' । अङ्गिराः 'आशौचं यस्य संसर्गाज्जायते गृहमेधिनः । क्रि- यास्तस्य न लुप्यन्ति गृह्याणां च न तद्भवेत् । अनुगमनसंसर्गाशौचं न सन्ध्यादिलोपकम । नच गृहे भवानां तत्पुत्रादीनां भवतीयर्थः । शङ्खः 'कृछ्रपादोऽसपिण्डस्य प्रेतालङ्करणे कृते । अज्ञानादुपवासः स्यादशक्तौ स्नानमिष्यते । पारस्करः 'मृतस्य बान्धवैः साई कृत्वा तु परिदेवनम् । वर्जयेत्तदहोरात्रं दानं श्राद्धादिकर्ग चेति ॥ अथाशौचसन्निपातः । तत्र सजातीयसंनिपाते विष्णूः 'अथ यदि दशरात्राः सन्निपतेयुराचं दशरात्रमशौचमानवमादिवसात् । गौतमः 'राविशेषे द्वाभ्यां प्रभाते तिसृभिः' । याज्ञवल्क्यः 'अ- न्तरा जन्ममरणे शेषाहोभिर्विशुद्ध्यति । जननाशौचमध्ये जन- नाशौचस्य शावाशौचमध्ये शावाशौचस्य चोपनिपाते पूर्वाशौचे- नैव व्यपगमेन शुद्धिर्नत्वग्रिमाशौचेनेसर्थः । शेषाहोभिः पूर्वा- शौचावशिष्टदिनैः । तदाहपराशरः 'पूर्वेणैव विशुद्ध्येत जाते जातं मृते मृतम्' । 'अन्तर्दशाहे चेत्स्यातां पुनमरणजन्मनी । पूर्वेणैव अष्टम उद्धारः। विशुद्धिः स्याद्यावदन्त्यदिनं भवेत् । शातातपः 'रात्रिशेषे यहा- च्छुद्धिर्यामशेपे शुचिस्म्यहात्' । एषां वचनानां समुदितार्थस्तु अन्यदिनपर्यन्तं सजातीयाशौचपाते पूर्वस्माच्छुद्धिः । अशौचा- न्त्यदिनस्य रात्राववशिष्टायामपरसजातीयाशौचसन्निपाते द्विनद्वयेन परेण शुद्धिः। अशोचान्त्यदिवसीयरात्रेश्चतुर्थयामे यद्यशौचान्तरमा- पतति तदा रात्रित्रयेणपरेणशुद्धिः।ब्रह्मपुराणे 'आद्यं भागद्वयं यावत् सूतकस्य तु सूनके। द्वितीये पतिते चाद्यात्सूतकाच्छुद्धिरिष्यते। अत ऊर्द्ध द्वितीयात्तु सूतकान्ताच्छुचिर्भवेत् । एवमेव विधेयं स्यान्मू- तके मृतकान्तरे' । इदं तु पुराणवचनं धर्मशास्त्रवचनादुपेक्षणी- यम् । यद्यपि पुराणमा धर्मशास्त्रं तथापि पुराणेषु सर्गप्रतिस- गादिविचारप्रवृत्तेषु मासङ्गिको धर्मविचारः स्मृतिषु साक्षादिति बलवत्त्वं स्मृतीनाम् । अतएव मिताक्षराकारैः संहितावचनान्ये- वोदाहारिषतेति । यद्वा आयं भागद्वयमित्यत्र सूतकमृतकपदे जन- नमरणाशौचयोश्चरमदिनपरे । तेनायमर्थः सम्पद्यते। अशौचान्त्य. दिनस्य आद्यं भागद्वयं चतु‘विभक्तेऽहोरात्रे अहोरूपमेव, तस्मिन्न- शौचान्येऽहनि आद्याच्छुद्धिः । अतऊर्द्ध अस्तमयानन्तरं रात्रिरू- पभागद्वये द्वितीयाच्छुद्धिः। तत्रापि रात्रे गत्रये व्यहाद,तुर्यभागे व्यहादिति । अन्यथानेकवचनविरोधः स्यादिति । किश्चानत्र- मात् विष्णूक्तं दशमे दिने तु पुराणोक्तं पूर्वापनोद्यत्वम् । एवं च 'परतः परतः शुद्धिरघद्धौ विधीयते । स्याच्चेत् पञ्चतमादह्नःपूर्वे- णाप्यनुशिष्यते' । इत्यादेरप्यर्थः कल्पनीयस्तथाहि-अघद्धौ समानाशौचोपनिपाते पञ्चमात्परतोपि परतः पूर्वाशौचशेषतः शुद्धिः पूर्वेण मन्वादिना अनुशिष्यते उपदिश्यते अपि यत इति नासाम- अस्यलेशोपि । विजातीयाशौचसन्निपाते त्वगिराः 'स्तके मृतक चेत्स्यान्मृतके त्वथ सूतकम् । तत्राधिकृत्य मृतकं शावं कुर्यान्न २३८ स्मृतिसारोद्धारे। . सूतकम् । तथा 'अघानां यौगपद्ये तु ज्ञेया शुद्धिगरीयसा । मरणोत्पत्तियोगेन गरीयोमरणं भवेत् । तथा 'शावेन शुद्ध्यते सूतिन मुतिः शावशोधिनी' । अत्र मरणाशौचत्वेन बाधकत्वम. तोऽल्पकालव्यापकेनापि शावेनाधिकसमयव्यापकमपि मृतकं बा- ध्यते । उशनाः ' स्वल्पाशौचस्य मध्ये तु दीर्घाशौच भवेद्यदि । न पूर्वेण विशुद्धिः स्यात्स्वकालेनैव शुद्धयति' । इदं तु सजाती. यसन्निपातपरम् । मातापित्रोरशौचसङ्करे विशेषमाहाङ्गिराः 'मा- तर्यग्रे प्रमीतायामशुद्धौ म्रियते पिता । पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम्' । अयमर्थः-मात्रशौचमध्ये पित्रशौचे सति पित्रशौचेन शुद्धिः, पित्रशौचमध्ये मात्रशोचे सति मातुः पक्षिणीमधिकां कुर्यादिति । जननस्य प्रेतपिण्डबाधकत्वं नास्ती- त्याह शातातपः अन्तर्दशाहे मरणात्पश्चात्स्याज्जननं यदि । प्रेतमुद्दिश्य कर्त्तव्य पिण्डदानं स्वबन्धुभिः । प्रारब्धे शवपिण्डे तु मध्ये चेन्जननं भवेत् । तथैवाशौचपिण्डाँस्तु शेषान् दद्याद्यथा- विधि' । प्रजापतिः 'शावाशौचे समुत्पन्ने पुत्रजन्म यदा भवेत् । कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचन शुद्धयति' । पूर्वाशौचन शावाशौचेन गतेनेत्यर्थः । सूतिकामग्निदं च हित्त्रोत स्मृतिसंग्रहः । अथाशौचेऽप्यवर्ण्य माहपुलस्त्यः 'सन्ध्यामिष्टिं चरुं होमं याव- जीवं समाचरेत् । न त्यजेत्सूतके चापि यज्ञं नोच्छेदयेत्क- चित्' । तथा ' वैतानौपासनाः कार्याः क्रियास्तु श्रुतिनोद- नात्' । वैतानास्त्रेताग्निसाध्याः अग्निहोत्रादयः, औपासना आवसथ्याग्निसाध्याः सायम्पातोमस्थालीपाकादयः । वै. ष्णवे 'सर्वकालमुपस्थानं सन्ध्ययोः पार्थिवेष्यते । अन्यत्र सू- तकाशौचविभ्रमातुरभीतितः । तथा 'सन्ध्यापञ्चमहायज्ञान्नत्यिक १ प्रतिदिनमुपास्यत इत्युपासनोगृह्याग्निस्तत्रभवाः।

अष्टम उद्वारः। ૨૩, - स्मृतिकर्म च । तन्मध्ये हायपत्तेषां दशाहान्ते पुनः क्रिया' । इति वचनंतु प्राणायाममन्त्रोच्चारणपूर्वकसन्ध्यानिषेधपरम्। सूतके मृतके चैव सन्ध्याकर्म समाचरेत् । मनमोच्चारयेन्मत्रान्माणायाममृते नरः' इतिपुलस्त्यवचनादेव । पैठीनसिः 'स्तके सावित्र्या चांजलिं प्र- क्षिप्य प्रदक्षिणं कृत्वा सूर्यं ध्यायन्नमस्कुर्यादिति । स्मृत्यर्थसारे स्मातत्त्वेपि सन्ध्याया गायच्याञ्जलिदानं कार्य मार्जनं कार्य न वा। यथा 'प्राणानायम्य मनसा मन्त्रमुच्चारयेन्मार्जनादि कृत्वा वाचा गायत्रीमुच्चार्याञ्जलिन्दद्यादिति । जातकर्ण्यः 'सूतके तु समुत्प. ने स्मार्त्त कर्म कथं भवेत् । पिण्डयज्ञं चरुं होममसगोत्रेण कारयेत् । पिण्डयज्ञं पिण्डपितृयज्ञम् । वृहस्पतिः 'स्तके मृतके चैव अशक्तौ- श्राद्धभोजने । प्रवासादिनिमित्तेषु हावयेन तु हापयेत्' । पारस्करः नित्यानि विनिवर्तेरन वैतानवर्जम् शालाग्नौ चैतानि कुर्यादि- ति । स्मृत्यर्थसारे 'उपासनाः सायंप्रातहोमपार्वणस्थालीपाका- द्या नित्यनैमित्तिकाः श्रुतिनोदितत्वात्कार्या एव । अत्रापि इद- मिन्द्राय नम एतदपि देवतोद्देश्यकद्रव्यसागात्मकं यागं प्रधान स्वयमेव कुर्यादित्यर्थः । स्मृत्यर्थसारे 'अशोचे त्रेताग्निसाध्याग्निहो- वदर्शपौर्णमासादि नियनैमिचिकाः श्रुत्युक्तत्त्वात्कार्या एवेति । अतएव नित्याग्निहोत्रव्यतिरिक्तानामपि नित्यनैमित्तिकानां श्री. तानां स्मातीनां च न सर्वथा त्यागः किंत्वन्येन कारयेत् । काम्यं सर्वमपि वर्ण्यमेव । वैश्वदेवपञ्चमहायज्ञादीनि स्मानि वर्जयेदेव । तदाहसम्बर्तः 'विप्रोदशाहमासीत वैश्वदेवविजितः । पञ्चयज्ञविधानं तु न कुर्यान्मृत्युजन्मनोः' । तथा 'काम्यानि चैत्र कर्माणि नित्यानि च विशेषतः । न कुर्याद्विहितं किञ्चित्स्वाध्या- यं मनसापि चेति । यत्तु 'दानं प्रतिग्रहो होमः स्वाध्यायश्च निव- तत' इयादिवचनं तत्काम्यहोमविषयमानियस्नानादि कार्यमेव ।

૨e स्मृतिसारोद्धारे। तदुक्तं स्मृत्यर्थसारे । निसस्नानशौचावयवभोजननियमास्पृश्यस्प- स्निानं च कुर्यादति । अशौचज्ञानमेवापायहेतु शौचं स्वरूप- सत् । तदुक्तं ब्राह्मे। 'अपि दातृगृहीत्रोश्च सूतके मृतके तथा । अ- विज्ञाने न दोषः स्याच्छाद्धादिषु कदाचन ॥ विज्ञाते भोक्तुरेव- स्यात्सायश्चित्तादिकं क्रमादिति । विज्ञातइति दातृभोक्रुभा- भ्यां विज्ञाते भोक्तुरेव दोष इत्यर्थः । तदुक्तं षड्विशन्मते 'उभाभ्यामपरिज्ञातमशौच नैव दोषभाक् । एकेनापि परिज्ञातं भो- क्तुर्दोषमुपावहदिति । अशौचान्नस्याभोज्यत्वमाह यमः 'उभयत्र दशाहानि कुलस्यान्नं न भुज्यते । उभयत्र सूतके मृतके च । कुलस्य अशौचिकुलस्य । षड्विशन्मते भुनानेषु च विप्रेषु वन्तरा मृतस्तके। अन्यगेहोदकाचान्ताः सर्वे ते शुचयः स्मृताः। वृहस्पतिः। 'विवाहो- सवयज्ञेषु स्वन्तरा मृतस्तके । पूर्वसङ्कल्पितार्थेषु न दोषः परि- कीर्तितः। षट्त्रिंशन्मते विशेषः 'विवाहोत्सवयज्ञेषु त्वन्तरा मृतस्मू- तके। परैरनं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः । परैरशौचर हितैः। अतएव स्मृत्यर्थसारे 'दातॄन्भोक्तूंश्च न स्पृशेदिति विशेष उक्तः । अशौचे ग्राह्यान्याह मरीचिः " लवणे मधुमांसे च पुष्पमूलफले- ध्वपि । शाककाष्ठवणेष्वेव दधिसर्पिष्पयस्सु च । तिलौषधाजिने चैव पक्कापक्के स्वयंग्रहः । पण्येषु चैव सर्वेषु नाशौचं मृतस्तके। एतत्पक्कापकाभ्यनुज्ञानमन्नसत्रप्रवृत्तविषयम् । तदाहागिराः 'अ. नसत्रप्रवृत्तानामाममन्नं न गर्हितम् । भुक्त्वा पक्कान्नमेषां त्रिरावं तु पयः पिबेत्' । विष्णुः 'व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे। प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम् । प्रारम्भलक्षणं त. तत्कर्मणि स एवाह 'प्रारम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः । नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया' इति । प्रारम्भाभावे- प्यधार्यकन्याविवाहादौ विशेषमाह विष्णुः 'अनारब्धविशुद्धयर्थं अष्टम उद्धारः। कूष्माण्डैर्जुहुयाघृतम् । गां दद्यात्पञ्चगव्याशी ततः शुद्धयति सूतकी' । कूष्माण्डैर्यदेवा देवहेडनमियादिभिः ॥ अथ द्रव्यशुद्धिः। तत्रादौ सर्वाधारतया भूशुद्धिः। तत्र भू. भूमिशुद्धि। शुद्धिः सप्तधेति । यदाह यमः खननात्पूरणाद्दाहादद्भिः सेकेन लेपनात् । गोभिराक्रमणाकालाभूमिः शुद्धयति सप्तभिः । कालात् यात्रता कालेन गन्धलेपापगम: स्यात् । याज्ञवल्क्यः 'भूशु. द्धिर्मार्जनाद्दाहारकालात् गोक्रमणात्तथा।सेकादुल्लेखनालपादृगृह मार्जनलेपनात्' । अत्रोपहतिहेतूनां सामस्त्ये सप्तभिह से न्यूनैरिति- ध्येयम् । उपहतिहेतूनाह देवलः 'यत्र प्रसूयते नारी म्रियते द- ह्यतेऽथवा । चाण्डालाध्युषितं यच्च यत्र मुत्रादिसंगतिः । एवं कश्मलभूयिष्ठा भूरमध्येति कीर्तिता । श्वसकरखरोष्ट्राचैः सं- स्पृष्टा दुष्टतां व्रजेत् । अङ्गारतुषकेशास्थिभश्माथैमीलना भवेत् । अत्राशुद्धा भूस्त्रिविधा अमेध्या दुष्टा मलिना चेति । शुद्धिमाह स एव ' पञ्चवा वा चतुर्दा वा भूरमेथ्या विशुद्धयति । दुष्टा चैत्र त्रिधा द्वेधा शुद्धयते मलिनैकधा'। पञ्चधा दहनकालगोक्रमणसेको- ल्लेखैः पञ्चभिः । चतुर्की तैरेव दाहजितैश्चतुर्भिः। विधेति गोक्रमणसेकोल्लेखैत्रिभिः । द्वाभ्यां सेकोल्लेखाभ्याम् । एकधा उल्लखने कैनेति । अपरोपि विशेषः । 'गोचर्ममात्रमबिन्दुर्गाः शोधयति पातितः । समूढमसमुदं वा यत्र लेपो न दृश्यते । स- १ अग्निवायुसूर्यदेवत्यास्तिस्रोनुष्टुभः कूष्माण्डीसंज्ञाः । यथा यद्देवा देवहेडन देवासश्चकृमा वयम् । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वरहस.' । यजुः २० । १४ ॥ दीव्यन्ति देवाः दीप्य. मानाः, हे देवतासो देवाः वयं यदेवानां इंडनं अपराधं चकृम कृत- वन्तः अग्निस्तस्मादेनसः पापात् मा मां मुञ्चतु पृथक्करोतु, विश्वातू विश्वस्मात् सर्वस्मात् अंहसः विघ्नाच मुश्चतु इत्यर्थ. ॥ अपरयोई. योमन्त्रयोः “ वायुमा सूर्यो मा” इयानेव विशेषः ॥

२४२ स्मृतिसारोद्धारे। मृदं कृतसमार्जनम् । गोरबिन्दुर्गोपुच्छ जलम् । यत्रैकादश गाव उप- विशन्ति स भूभागो गोचर्म । गृहशुद्धिमाहसम्वतः 'गृहशुद्धिं प्रव- क्ष्यामि अन्तस्थशवदरणे । प्रोत्सृज्य मुन्मयं भाण्डं सिद्धमन्नं तथैव च । गृहादपास्य तत्सर्वं गोमयेनोपलेपयेत् । गोमयेनोप- लिप्याथ छागेनाघ्रापयेद्बुधः । ब्राह्मणैर्मन्त्रपूतैश्च हिरण्यकुशवा- रिणा । सर्वमभ्युक्षयेद्वेश्म ततः शुद्ध्येदसंशयम्' । बौधायनः 'घ- नाया भूमेरूपवीत उपलेपनम् । शुषिरायाः कर्षणम् । क्लिन्नाया अमेध्यमास मृदा प्रच्छादनम् । उपवीते अस्पृश्यस्पर्शे। शुषिरायाः सच्छिद्रायाः॥ अथ पात्रशुद्धिः । तत्र हारीतः 'अद्भिः काञ्चनराजतताम्र- शङ्खशुक्तीनां तद्गुणवर्जनं स्नेहवैवर्योपहतानां यवगोधूमकलायमा. षमसूरमुद्गगोमयचूर्णैर्धावनम् । अम्ललवणाभ्यां ताम्राणां भ- मना कांस्यानां शाणतैलसिकताघर्षणैः काष्र्णायसानां शैलानां घर्षणं मार्जनं मणिमयानाम्' इति । तद्गुणवर्जनं सद्गन्धापकर्षणम् । स्नेहवैवोपहना इति उच्छिष्टादिस्नेहेन विवर्ण यथास्यात्तथोप- हता इत्यर्थः । याज्ञवल्क्यः 'सौवर्णराजताब्जानामर्द्धपात्रग्रहाश्म- नाम् । शाकरज्जुमूलफलवासोविदलचर्मणाम् । पात्राणां च- मसानां च बारिणा शुद्धिरिष्यते' । अब्जं शङ्खशुक्तिमुक्तादि । उर्द्धपात्रं यज्ञीयोलूखलादि, ग्रहा ऐन्द्रादयः । अश्मा दृषदादिः । मूलमाकादि । विदलं वेणुदलादि तद्विकारः छत्रादिः । च- मसा होतृचमसादयः । एतल्लेपरहितस्पर्शमात्रविषयम् । 'निल्लेप काञ्चनं भाण्डमद्भिरेव विशुद्यति । अब्जमश्ममयं चैव राजतं चा. नुपस्कृतम्' । अनुपस्कृतम् अनुपलिप्तम् । सस्नेहपात्रेषु विशेषमाह याज्ञवल्क्यः'चरुनुक्नुबसस्नेहपात्राण्युष्णेन वारिणा'। चर्पन्मयी चरुस्थाली । 'स्फयशूजिनधान्यानां मुसलोलूखलानसाम् । स्फ्यः अरम उद्धार.। २४३ खादिरक्षुरिका, अनः शकटम् । आपस्तम्बः 'गवाघ्रातानि कां- स्यानि शूद्रोच्छिष्टानि यानि च । शुद्ध्यन्ति भश्मक्षारैश्च श्वका- कोपहतानि च । शङ्खः 'कृष्णशकुनिमुखावघृष्टं निर्लिखेद, श्वापदमुखावमृष्टं न प्रयुंजीतेति । कृष्णशकुनिः काकः, निर्ले- खनं तक्षणम्, इदमधिकोपहतिविषयम् । बौधायनः 'जसानां मूत्रपुरीपशुक्रासक्कुणपमधैरवन्तवासिताना आवर्तनम्, अग्नि- संयोगेन द्रवीकरणमावर्तनम् । अधिकोपहतौ तु विशेषः स्मृन- न्तरे 'सूतिकाशवविण्मूत्ररजस्वलहतानि च । प्रक्षेप्तव्यानि तान्यग्नौ यद्ययावत्सहेदपि । बौधायनः 'तैजसानां शूद्राद्युपघाते पुनः करणं गोमूवे वा सप्तरात्रं परिवासनमिति । आदिसपुराणे 'मुवर्णरूप्यशङ्खाश्ममुक्तारत्नमयानि च । कांस्यायस्ताम्ररौप्यादि- त्रपुसीसमयानि च । निर्लेपानि तु शुद्ध्यन्ति केवलेन जलेन तु। शूद्रोच्छिष्टानि शोध्यानि त्रिभिः क्षाराम्लवारिभिः' । अत्र क्षारा- म्लवारिभिर्दशकृत्वो मार्जयेत् । शुद्ध्यन्ति दशभिः क्षारिति शातातपोक्तेः । द्विजोच्छिष्टे विशेषमाह शङ्खः 'ब्रह्मक्षत्रविशां- चैव सकृत्समार्जनाच्छुचिः । चतुर्थेन तु यद्भुक्तं चतुर्भिस्तत्र मार्जनम् । अग्नौ प्रक्षिप्य गृह्णीयाद्धस्तौ प्रक्षाल्य यत्नतः । गो- शृङ्गेण तु संस्पृष्टं तत्पात्रं शुचितामियात् । गण्डूषं पादशौचं च यः कुर्यात्कांस्यभाजने । भूमौ निक्षिप्य षण्मासं पुनराकरमा- दिशेत् । तथा 'लौहानां दहनाच्छुद्धिर्भश्मना गोमयेन च । द- हनात्खननाद्वापि शैलानामम्भसापि वा। काष्ठानां तक्षणाच्छुद्धि- मंगोमयनलैरपि' । याज्ञवल्क्यः 'तक्षणं दारुशृङ्गास्थ्नामिति । संहतापात्रे हारीतशातातपौ 'संहतानां तु पात्राणां ययेकमुपह- न्यते । तस्यैव शोधनं प्रोक्तं सामान्यं द्रव्यशुद्धिकृत । याज्ञवल्क्य: 'पुनःपाकेन मृन्मयम्' । अल्पोपहतिविषयमिदम् । यदाह मनुः २४४ स्मृतिसारोद्धारे। 'मघैमूत्रपुरीषैर्वा ष्ठीवनैः पूयशोणितैः । संस्पृष्टं नैव शुद्ध्येत पुनः पाकेन मृन्मयमिति । अथ धान्यादिशुद्धिः, तत्र विष्णुः 'असिद्धान्नस्य तन्मा. त्रापहाराद्वा निस्तुषीकरणेन वेति । इदमल्पद्रव्यविषयं बहुद्रव्य- विषये तु विशेषमाह कश्यपः ' मोक्षणपर्यग्निकरणावगाहनी- हियवगोधूमानां विमर्शनप्रोक्षणैः फलीकृतानां निघर्षणदलनप्रो. क्षणैः शमीधान्यानाम्' इति । पनिकरणमग्न्यभिमर्शनम् । अ. वगाहनं प्रक्षालनम्, फलीकृतानां कण्डितानाम्, अल्पानां विम- चीनं पाणिम्यां निर्मलीकरणमें । बहूनां मोक्षणं । शमीधा- न्यानि मुद्गादीनि । तण्डुलांस्तु परित्यजेदित्यल्पमानविषय- म् । आदित्यपुराणे 'गृहदाहे समुत्पन्ने दग्धे च पशुमानुषे । अ- भोज्यस्तु ततो ब्रीहिर्धातुद्रव्यस्य संग्रहः । मृन्मयेनावरुद्धानाम- धोभुवि च तिष्ठताम् । यवमाषतिलादीनां न दोषो मनुरब्रवीत् । सतः संक्रमणेऽनौ च स्थाने स्थाने च दह्यते । नच माणिबधो यत्र केवलं गृहदीपनम् । तत्र द्रव्याणि सर्वाणि गृह्णीयादविचारय- नू' । सिद्धान्ने विशेषमाह मनुः ‘पक्षिजग्धं गवाघ्रातमवधूतमवक्षु- सम् । क्षितं केशकीटैश्च मृत्प्रक्षेपेण शुद्ध्यति'। अवधूतं यस्यो- परि वासोधूननं कृतम् । मृद्रहणमुदकस्याप्युपलक्षणम् । य. दाह याज्ञवल्क्यः सलिलं भश्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये । गौतमः' नियमभक्ष्यं केशकीटावपन्नमिति' । पाकानन्तरं केश- कीटादिस्पृष्टमदुष्टम् । तैः सह पकं साज्यमेवेत्यभिप्रायः । वशिष्ठः 'देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु च। काकैः श्वभिश्च संस्पृष्टं १ प्रोक्षणं उत्तानेन पाणिना जलसेकः । 'तिरश्चाभ्युक्षणं प्रोक्तं न्यञ्चता वोक्षणं मतम् । उत्तानेन तु हस्तेन प्रोक्षणं समुदाहृतम्' इति गौतमीतन्त्रवचनात् ।

अष्टम उद्धार । म तत्र विवर्जयेत् । तन्मात्रमन्नमुद्धृत्त्य शेषं संस्कारमर्हति' । देवद्रोणी देवयात्रा । संख्यामाह पराभरः 'पकं द्रोणादिकं त्व- नं काकवाग्रुपघातितम् । ग्रासमुद्धृत्त्य तन्मात्रं यत्तु लालाकृतं भवेत् । होमोदकेन वाभ्युक्ष्येद्राजतेनाम्बुनापि वा । अग्निज्वा- लोपमस्पर्शिसुवर्णमधुमर्पिषा । विप्राणां वेदघोषेण पूतं भो- ज्यं च तद्भवेत् । द्रोणः षट्पञ्चाशदधिकपलशतद्वयम् । 'अन्नमे- काहिकं पकं वकाकाद्युपघातितम् । केशकीटावपन्नं च तदप्ये वं विशुद्ध्यति । क्रीतस्यापि सदुष्टस्य दृष्ट एवं मनीषिभिः । इद- मल्पधनविषयम् । 'द्रवाणां प्लावनेनैव घनानां प्रोक्षणेन च। छागे- न मुखसंस्पृष्टं तदन्नं शुचितामिया' । घनाः पर्पटवटकापूपा- दयः, द्रवाणामिति गोरमविषयम् । श्रपणं घृततैलानां प्लावनं गो- रसस्य च । भाण्डानि प्लावयेदद्भिःशाकमूलफलानि च । द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् । प्रोक्षणं संहतानां च दार वाणां च तक्षणम् । अत्र मेधातिथिः 'प्रस्थमात्रपरिमाणानामुत्पव- नम्, कस्यचिदंशस्यापनयनमिति । ततोऽधिकपरिमाणानां दिशुद्धि । प्लावनं ततोन्यूनपरिमाणानां साग इति गम्यते । आकरमा ण्डस्थस्य गोरसादेन दोषः। तदुक्तं 'दुष्टमाधारदोषेण नये- पात्रान्तरं द्रवम् । घृतं च पायसं क्षीरं तथैवेक्षुरसो गुडः । शू- द्रभाण्डस्थितं तर्क तथा मधु न दुष्यति' । पायसं पयोविका रमामिक्षादि । 'आममांमं कृतं क्षौद्रं स्नेहाश्च फलसम्भवाः । म्ले- च्छभाण्डस्थिता दुष्टाः निष्क्रान्ताःशुचयः स्मृताः। एतद्रोणाधि- कानोपमेचनघृतादिविषयम्। देशकालाद्यपेक्षया न्यूनाधिकशौच- कल्पनामभिमन्धायाह बौधायन देशं कालं तथात्मानं द्रव्यं द्रव्य- प्रयोजनम् । उपपत्तिमवस्थां च ज्ञाता शौचं प्रकल्पपेत् । शा- १ उत्पधनं चात्र बनान्तरिते पात्रे प्रक्षेपः । इतिमिताक्षरा। गोरसा २४६ स्मृतिसारोद्धारे। तातपः' गोकुले कुण्डशालायां तिलचक्रेक्षुयन्त्रयोः । अना- शास्यानि शौचानि स्त्रीषु बालातुरेषु च । कुण्डशाला यज्ञ- शाला । ' निर्यासानां गुडानां च ऊर्णाकापासयोस्तथा । शोषा- त्तु कथिता शुद्धिरिसाह भगवान् यमः । निर्यासा हिडप्रभृतयः । इदं त्वल्पपरिमाणविषयम् । बहुपरिमाणे तु बौधायनः 'ब- हूनां कुमुम्भकार्पासगुडलवणसर्पिषां कठिनीभूतानां चाण्डाला- दिस्पर्शे प्रोक्षणेनैव शुद्धिः । अत्यल्पत्त्वे परित्याग एव' । मृत्पर्णादिषु विशेषमाह 'मृत्पर्णतणकाष्ठानां वास्थिचाण्डालवायसैः । स्पर्शने विहितं शौचं सोमसूर्याग्निमारुतैः । प्रोक्षणेन तु पुस्तकमिति' । शाकोपि 'पुष्पफलानां विकिरावधूतानां प्रक्षालनमभ्युक्षणमिसके। पर्णानामद्भिः प्रक्षालनं सकृदुपयुक्तानामुत्सर्ग' इति। विकिरैः अ- वधूतं चञ्चुपादावकीर्णम्। चौधायनः 'असंस्कृतायां भूमौ न्यस्तानां प्रक्षालनं परोक्षाहतानामभ्युक्षणमेव । क्षुद्रसमिधा संस्कृतानाममे. ध्याद्युपहतानामेकपुरुषोद्धार्याणामिति । व्यासः रथ्याकर्दम- तोयानि नानापथवृणानि च। मारुतेनैव शुद्ध्यन्ति पकेष्टकचितानि च' । द्रव्यहस्तस्योच्छिष्टस्पर्शे मनुः ‘उच्छिष्टेन तु संस्पृष्टो द्रव्य- इस्तः कथञ्चन । अनिघायैव तद्रव्यमाचान्तः शुचितामियात् ॥ अथ जलशुद्धिः । तत्र देवलः 'अविगन्धा रसोपेता निर्मलाः पृथिवीगताः । अक्षीणाश्चैव गोपानादापः शुद्धिकराः स्मृताः । अत्र गोपानयोग्यपरिमाणा इत्यर्थः । तदाहतुळसहस्पती 'भू- मिष्ठमुदकं मेध्यं वैतृष्ण्यं यत्र गोर्भवेत् ॥ अत्याज्यं चैव मेध्येन तद्रदेव शिलागतम् । उधृता वा प्रशस्ता:स्युः शुद्धैः पावैर्यथा- विधि । एकरात्रोषितास्ताश्च त्यजेदापः समुदधृताः । अक्षोभ्या- नि तडागानि नदीवापीसरांसि च । चाण्डालाघशुचिस्पर्श तीर्थ- तः परिवर्जयेत्' । तीर्थमुदकावतरणमार्गः । वापीकूपादिविषये अधम उद्धारः। २४७ -- हारीतः 'वापीकूपतडागेषु मानुषो यदि शीर्यते । अस्थिचर्म- विनिर्मुक्तैर्दूषितं श्वखरादिभिः । उद्धृन तज्जलं सर्व शोधनं प- रिमार्जनम्' । चर्मभिर्विनिर्मुक्तश्चिरकालवासाद्विशीर्णरित्यर्थः । दे- वलः 'उद्धरेदुदकं सर्व पञ्चपिण्डान्मृदस्तथा । बृहस्पतिः ‘मृत. पञ्चनखात्कूपादत्यन्तोपहतात्तथा। अपः समुद्धरेत्सर्वाः शेषे वस्त्रेण शोधयेत् । वह्निमज्वालनं कृत्वा कूपे पोष्टकाचिते । पञ्चगव्यं न्यसेत्पश्चान्नवतोयं समुद्धरेत्' । हारीतः ‘घटानां शतमुद्धृत्य पञ्चगव्यं क्षिपेत्ततः । अभिः श्वपाकचाण्डालैषितेषु विशोधन- मू' । आपस्तम्बः उपानच्छेष्मविण्मूत्रस्त्रीरजोमद्यमेव च । एभिर्विदूषिते कूपे कुम्भानां षष्टिमुद्धरेत् । जलाशयेष्वप्यल्येषु स्थावरेषु महीतले । कूपवत्कथिताशुद्धिमहत्सु चन दृषणम्' । शाता- तपः ' अन्त्यैरपि कृते कूपे सेतो वाप्यादिके तथा । तत्र स्नात्वा च पीत्वा च प्रायश्चितं न विद्यते । यमः 'चाण्डालभाण्डसंस्पृष्टं पीत्वा कूपगतं जलम् । गोमूत्रयावकाहारस्त्रिरात्रेणैव शुद्ध्यति । नदीनां चाण्डालभाण्डस्पर्शेप्यदोषः । नदी वेगेन शुद्ध्यतीत्युक्तेः। दृतिशोधने कश्यपः 'दृतीनां रचनं शुद्धिरिति । यमः स्वरण्ये घटकस्य कूपे द्रोण्यां जलं कोशगतास्तथापः। ऋतेपि शूद्रात्तदपेयमाडुरापद्गतः काशितवत्पिबेत्तत्' । अत्र शूद्रभिन्नब्रा- ह्मणादिसम्बन्धिप्रपादिगतमपिजलमपेयम् । आपदि पेयमित्यर्थः । द्रोणी नौकाकृतिः पाषाणादिपात्रम् । कोशो दृतिः । जलादि- पात्रं स्वकीयमेव शुद्धमिसाह बौधायनः 'आसनं वसनं शय्या जायापर कमण्डलुः। शुचीन्यात्मन एतानि न परेषां कदाचन ॥ हारीतः 'स्वानुपपत्तौ शुद्धनान्तीयोपादेयम् । अस्पृश्यश- ययादिस्पर्शे सचैलस्नानमेव हीति । अस्यार्थः ' स्वकीयशय्याध. सम्भवे परकीयं शुद्धनान्त योपादेयं न तु पतितादेः । पतिता- प्रपा- .

२४८ स्मृतिसारोद्धारे। दिवस्त्रादिस्पर्शे सचैलस्नानमेव यत' इति ॥ अथ वस्त्रादिशुद्धिः 'वस्त्रं मृदम्भसा शुद्धेयद्रज्जुर्वेदलमेव च । रज्वादिकं चातिदृढं त्याज्यं नन्मात्रमेव च । वैदलं शूर्पादि। 'यदि मूत्रपुरीषाभ्यां रेतसा रुधिरेण वा । चैलं समुपहन्येत स्वद्भिः प्रक्षालयेत्तु तत् । यदम्भमा न शुद्धयेत्तु वस्त्रं चोपहतं दृढम् । छेदनं तस्य दाहो वा यन्मात्रमुपहन्यते' । याज्ञवल्क्यः 'मोक्षणं संहातानां च बहूनां धान्यवाससाम्' । स्मृत्यन्तरे 'वस्त्र- धान्यादिराशीनामेकदेशस्य दूषणे । तावन्मानं समुद्धृन्य शेषं प्रोक्षणमर्हति ।मनु:-अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् । प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते । राशेर्बहुत्वं पुरुषग्रा- ह्यभारादिकत्वम् । बौधायनः 'अनेकोद्धार्ये दारुशिले भूमिसमे' । अत्र बौधायनेनानेकोद्धार्ययोः दारुशिलयोः स्वल्पाशौचत्वमुक्तं । तथानेकोद्धार्थधान्यादीनामपि बोद्धव्यम् । ' सोपेरुद कगोमूत्रः शुद्धयसाविककौशिकम् । सश्रीफलैरंशुपट्टे सारिष्टैः कुतपं तथा । सगौरसर्षपैः क्षोममिति'। सोषैः सक्षारमृत्तिकाभिः । अंशुपट्टे भ्राजिष्णुपट्टाम्बरम् । देवलः 'ऊर्णाकौशेयकुतपपदृक्षौमदुकूल- जाः । अल्पशौचा भवन्सेते शोषणमोक्षणादिभिः । तान्येवामेध्य. युक्तानि क्षालयेच्छोधनैः स्वकैः । तूलिकामुपधानं च पुष्परक्ता- म्बरं तथा । शोषयित्वातपे किञ्चित्करैः समाज येन्मुहुः । पश्चाच वारिणा प्रोक्ष्य विनियुञ्जीत कर्मणि। अत्यन्तमलसृष्टानि यथा- वत्परिशोधयेत्' । पुष्परक्त कौमुम्भादिरञ्जितं, प्रक्षालनासहराग- रञ्जितोपलक्षणमेतत् । माञ्जिष्ठादिरञ्जितं क्षालयेदेवेसभिप्रायः । आपस्तम्बः 'शुनोपहतं चैलमवगाहनप्रक्षालनादेरिति । अत्र व- स्त्रसहितस्यैव नाभेरूद्धे श्वस्पर्शेऽवगाहनमधस्तात्प्रक्षालनमित्यर्थः । शङ्खलिखितौ 'अहतानां प्रोक्षणमिति ।अहतं यन्त्रादुत्तीर्णम् । प्रचे- अष्टम उद्धारः। . ताः 'चेलानामुपहनानां गन्धलेपापनयनं तन्मात्रच्छेदनं वा। नवानां वाससामभ्युक्षणादीनि । अङ्गिराः 'शयनासनयानानिरोमत्त्वा- चानि यानि च । वस्त्राण्येतानि सर्वाणि संहतानि प्रचक्षते । यदा- हापस्तम्ब: शयनासनानां संहरावच्छौचमिति । संहतवद्राशी- भूतद्रव्यवत्प्रोक्षणेन शुद्धिरित्यर्थः । 'चैलवच्चर्मणां शुद्धि_दलानां तथैव च । शाकमूलफलानां च धान्यवच्छुद्धिरिष्यते । स्मृत्यन्तरेपि 'पक्षपवित्रचर्मचामरतृणवैत्रवल्कानां च चेलवच्छुद्धिरिति । अत्र पवित्रं दर्भमयमिति ॥ अथ देहशुद्धिः । मनुः 'ज्ञानं तपोग्न्यनाहारौ मृन्मनोवास- नाजलम् । वायुः कर्मार्ककालौ च शुद्धेः कर्तृणि देहिनाम् । सर्वे- पामेव शौचानामन्तःशौचं परं स्मृतम् ॥ योऽन्तःशुचिर्हि स शुचिर्न मृदारिशुचिः शुचिः । क्षान्त्या शुद्धयन्ति वि- द्वांसो दानेनाकार्यकारिणः । प्रच्छन्नपापा जप्येन तपसा वेदवित्त- माः। मृत्तोयैः शुद्धयते शोद्धयं नदी वेगेन शुद्धयति । रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः। अद्भिर्गात्राणि शुद्धयन्ति मनः सत्येन शुद्धयति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्धयति ॥ अथसहजशुद्धिः।बृहस्पतिः पादौ शुची ब्राह्मणानामजाश्वानां मुखं शुचि । गवां पृष्ठानि मेध्यान सर्वगात्राणि योषिताम्'ब्रिाह्मणच- रणादिस्पृष्ट वस्तु शुद्धमियर्थः। तथा 'अदुष्टाः सन्तताधारा वानो. द्भूताश्च रेणवः । स्त्रियोबालाश्च वृद्धाश्च न दुष्यन्ति कदाचनाद्राक्षेनु- यन्त्राकरकारुहस्तगोदोहनीयन्त्रविनिःसृतानि । बालैरथ स्त्रीभिरनु- १ आद्ययोः पद्ययोरुमलक्ष्यमानमनुपुस्तके 'ज्ञानं तपोग्निराहारो मृन्मनोवार्युपाञ्जनम्' 'अर्थशौचं परं स्मृतम्' इति पाठः टीका- द्भिर्व्याख्यातो दृश्यते, परमस्मिन् मूलपुस्तके यथोपलब्धम् तथै. बोपन्यस्तम्॥ ३२ स्मृतिसारोद्धारै। ष्ठितानि प्रत्यक्षदृष्टानि शुचीनि तानि' ।मनुः नित्यं शुद्धः का- रुहस्तः पण्ये यच्च प्रसारितम् । ब्रह्मचारिंगतं भैक्षं नियं मे- ध्यमिति स्थितिः । ब्रह्मचारिपदं भिक्षुकोपलक्षणम् । तथा 'अ- पूपाः सक्तवो धानास्तकं दधि घृतं पयः । एतत्पण्यगतं भोज्यं चाण्डालीयं न चेद्भवेत् । शङ्खः 'नारीणां चैव वत्सानां शकु- नीनां शुनां मुखम् । रतौ प्रस्रवणे वृक्षे मृगयायां सदा शुचि'। पैठीनसिः आकराः शुचयः सर्वे वर्जयित्वा सुराकरम् । तथा 'आकराः शुचयः सर्वे शकुनिः फलपातने । श्वा मृगग्रहणे मे. ध्यः स्त्रीमुखेषु च वारुणी' । पीतमद्याया अपि ब्राह्मणभायावा रतिससर्गे शुद्धमेव मुखमिसर्थ इति निर्णयामृतकृतः । शूद्राप- रमिति वयम् । 'अदृष्यं काञ्चनं गावः स्त्रीमुखं कुंतपं क्षुरम् । न दूषयन्ति विद्वांसो यज्ञेषु चमसं यथा । गावस्तु पृष्ठतो मेध्या: अश्वाजौमुखतस्तथा । पृष्ठभागे गजः स्कन्धे सर्वतोऽश्वः शुचि- स्तथा । तथा 'मक्षिका विपुषश्छाया गौरश्वः सूर्यरश्मयः । र- जो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् । तथा 'श्वभिर्हतस्य यन्मांसं शुवि तन्मनुरब्रवीत् । क्रव्याद्भिश्च हतस्यान्त्यैश्चाण्डा- लायैश्च दस्युभिः' । दस्यवो व्याधाः । अविरपि 'मधुपर्के च सोमे च अपमु प्राणाहुतीषु च । नोच्छिष्टस्य भवेदोषो यथार्व- चनं तथा' । अप्सु भोजनान्ते अमृतापिधानमसीति मन्त्रेण जल- ग्रहणे । षनिशन्मते 'ताम्बूले च फले चैव भुक्ते स्नेहावशिष्टके । दन्तलग्नस्य सस्पर्शे नोच्छिष्टस्तु भवेन्नरः । स्वग्भिः पत्रैमूलपुष्पै- १ कुतपं पार्वतीबछागरोमनिर्मितकम्बलः । इति मिताक्षरा । २ रजसां च क्वचिदशुद्धित्वमपि ' रथाश्वगजधान्यानां गवां चैव रज. शुभम् । अप्रशस्तं समूहन्याः श्वाजाविखरवाससाम्' इति बौधायनोक्त ॥

अष्टम उद्धारः।
२५१
स्तृणकाष्ठमयैस्तथा । सुगन्धिभिस्तथा द्रव्योंच्छिष्टस्तु भवेट्विजः।
याज्ञवल्क्यः "मुखजा विग्रुषोमेथ्यास्तथाचमनबिन्दवः । श्मश्रु
चास्यगतं दन्तसक्तं सक्तमतः शुचिः । मनुः 'उच्छिष्टेन तु
संस्पृष्टो द्रव्यहस्तः कथञ्चन । अनिधायैव तद्रव्यमाचान्तः
शुचितामियात् । स्पृशन्ति विन्दवः पादौ य आचामयतः परान् ।
भौमिकैस्ते समा ज्ञेया नतैराप्रयतो भवेत् । गौतमः 'न मुख-
विपुषः उच्छिष्टं कुर्वन्ति नचेदने निपतन्ति । तथा 'दधिमपि:-
पयःक्षौद्रभाण्डे दोषो न विद्यते। मार्जारश्चैव दर्वी च मारुतश्च सदा
शुचिः । तथा 'अजाश्वं मुखतो मेध्यं गावो मेध्या मुखाहते ।
मार्जारनकुलो स्पृष्टौ शुभाश्च मृगपक्षिणः । उपघातसन्देहे मनुः
'त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अष्टमद्भि-
निर्णिक्तं यच्च बाचा प्रशस्यते ॥
श्रीविश्वम्भरविहिते स्मृतिसारोद्धारसंज्ञके ग्रन्थे ।
शुद्धिविनिर्णयनामागादुद्वारोऽष्टमः पूर्तिम् ॥ ८ ॥

गर्भाधानादिकालानां कालशुद्धेश्व निर्णयम् । प्रकीर्णकं प्रवक्ष्यामो नवमे नवमेधया ॥ ९॥ अथ गर्भाधानादिकालनिर्णयः । तत्र प्रथमरजोदर्शने 'च- तुर्थी षष्ठयष्टमी च नवमी द्वादशी तथा । चतुर्दश्यप्यमावास्या निन्दितास्तिथयस्त्विमाः । पौर्णमास्यामसन्तोषो मायां विधवा भवेत् । तथा 'अमारिक्ताष्टमीषष्ठीद्वादशीप्रतिपत्स्वपि । परि- घस्य च पूर्वार्दै व्यतीपाते च धैधृतौ । सन्ध्यामपप्लवे विष्टया- मशुभं प्रथमार्तवम् । तथा क्रूरवारा निन्दिताः । नक्षत्रेषु भरणी- कृत्तिकाी श्लेषामघापूर्वाविशाखाज्येष्ठामूलपूर्वाषाढापूर्वभाद्रपदा निषिद्धाः । मेषषकर्कधनुःपूर्वार्द्धमकरकुम्भा निषिद्धाः । पट्टा- म्बरतनूतनवसा दृष्टे रजसि सम्यक् फलम् । जीर्णरक्तनी- लमलिनाम्बराया मन्दफलम् । 'वस्त्रेस्युर्विषमा रक्तबिन्दवः पु- त्रमाप्नुयात् । समाश्चेत्कन्यका चेति फलं स्यात्प्रथमावे। ना- रदः 'निन्धर्मतिथिवारेषु यत्र पुष्पं प्रदृश्यते । तत्र शान्ति प्र- कुर्वीत घृतदूर्वातिलाक्षतैः । प्रसेकाष्टशतं चैव गायत्र्या जुहुयात्ति- लैः । स्वर्णगोभूतिलान् दद्यात्सर्वदोषापनुत्तये । ऋषिपुत्रसंहि- तायाम् 'प्रथमावदोषाणां शान्ति कुर्यादनन्तरम् । तिथिनक्ष- वारादिदेवानां पूजनं पृथक् । शान्ति स्थले प्रकुर्वीत विधि- ना देवनिर्मिते । उद्याने वा नदीतीरे तडागे चत्वरेपि वा। मण्डलं कारयेत्तत्र गोमयेन द्विहस्तकम् । स्थण्डिलं कारयेत्तत्र चतुराढकशालिभिः । आढकं तण्डुलं चैव आढको तिलयावको। आढकः प्रस्थचतुष्टयः । 'पलं च कुडवः प्रस्थ आढकोद्रोण एव च । धान्यमानेषु बोद्धव्याः क्रमशोऽमी चतुर्गणाः' । उपर्युपरि संस्तीर्ण तन्मध्ये नालनं लिखेत् । दभैंराच्छाद्य तन्मध्ये कर्णिकायां न्यसेघटम् । ससूत्रं सपिधानं च सकूर्च वस्त्रवेष्टितम् । पुण्यो- रजोदर्शन दोषशन्ति ।

भवम उद्धार। दकेन सम्पूर्णमौषधादिसमन्वितम् । औषधं सर्वोषधयः, आ- दिपदेन गजशालामृदादिः । सहदेव्यैकपत्रा च विष्णुक्रान्ता सभद्रिका । विल्वपत्रैः सहैतानि चूर्णयित्वा न्यसेद्घटे । कुष्ठमां- सी हरिद्रे द्वे मुराशैलेयचन्दनम् । वचाकञ्चोरमुस्ताद्याः सर्वोष ध्यः प्रकीर्तिताः । गजाश्वरथवल्मीकसङ्गमादगोकुलात् । राजद्वारप्रदेशाच्च मृदमानीय निःक्षिपेत् । पञ्चगव्यं च कुमुदं तथा मुक्ताफलानि च। वज्रवैय॑माणिक्यविद्रुमानि विनिःक्षिपेत् । एवं कुम्भं समासाद्यार्चयेद्गन्धादिभिः शुभैः । अनुष्ठानपरो विप्रः प्राङ्मुखो वाप्युदङ्मुखः । आसीनः सुप्रसन्नात्मा प्राण- संयमनान्वितः । सावित्र्या च जपेत्कुम्भं स्पृशन्दशशतं द्विजः। एवं प्रदोषकाले तु कारयेदपरेऽहनि । उदये समनुप्राप्त स्नानं गन्धाधलंकृतम् । स्नापयेच्छान्तिमान्विच्छन् पूर्वाह्ने प्राङ्मुख- स्थिताम् । अधिवासितकुम्भस्य तोयैश्चापि समन्त्रकम् । पश्चा- च्छेषोदकेनैव स्नात्वा देवं प्रणम्य च । स्वगृह्योक्तविधानेन होमं कुर्यात्प्रयत्नतः । दूर्वाज्येन तिलैर्तुत्वा सावित्र्या चैव मन्त्रतः। अष्टोत्तरसहस्रं वा शतमष्टाधिकं तथा । तत्संख्यया त्रिधा हुत्वा दुर्वाज्येन तिलैः समम् । ब्राह्मणान्भोजयित्वा तु दैवतं पूजयेत्ततः। एवं समासतः प्रोक्तं नारीणां प्रथमातवे । गुणदोषौ परिज्ञाय शान्तिकर्म समाचरेत् । अनेन विधिना नारी सर्वदोषात्प्रमुच्यते ॥ अथ पुंसवनादिकालनिर्णयः । अथ पुंसवनं कुर्यात्तृतीये मासि पुंस्त्वदम् । शुक्लपक्षे च पूर्वाह्ने चन्द्रताराबलान्विते' ॥ षष्ठे- ऽष्टमे वा सीमन्तः ॥ आपस्तम्बः 'सीमन्तोन्नयनं प्रथमगर्भे चतुर्थे मासीति । 'मृते देशान्तरगते पत्त्यौ स्त्रीसंस्कृतेः पुरा। देवरः श्वशुरो वापि वंश्यो वापि समाचरेत् । जन्मनोऽनन्तरं स्नात्वा जातकर्म विधीयते।दैवादतीतकालं चेदतीते सूतके भवेत् ॥ 'सूत- २५४ स्मृतिसारोद्धारे। कान्ते नामकर्म विधेयं स्वकुलोचितम्' । पिता कुदिन्यो वा कुलवृद्धः ॥ भविष्यपुराणे 'द्वादशेऽहनि राजेन्द्र शिशोर्निष्क्रमणं गृहात।चतुर्थे मासि कर्त्तव्यं तथान्येषां मतं विभो । गर्गः षष्ठऽन्नप्राश- नं मासे अष्टमेद्वादशेपि वा। प्रथमे सप्तमे मासि अष्टमे दशमेपि वा।द्वा- दशेऽपि तथा कुर्यात्कर्णवेधं शुभावहम् ।सौवर्णी राजपुत्रस्य राजती विप्रवैश्ययोः । शूद्रस्य चायसीशूची मध्यमाष्टाङ्गुलात्मिका। तृतीये चाब्दे मुण्डनम्, 'चूडा कार्या यथाकुलमित्युक्तेः । 'सुनोर्मातरि ग- भिण्यां चूडाकर्म न कारयेत् । पञ्चाब्दापागथोर्दू तु गर्भिण्यामपि कारयेत्' । परिशिष्टे 'गर्भिणी यस्य वैमाता मासादृर्द्ध तु पञ्चमात। तस्य चूडोपनयने गर्भिण्या वा शिशोर्मतिः। तथा 'पुंसो भा- र्या गर्भिणी यस्य नासौ सूनाश्चौलं क्षौरकर्मात्मनश्च । गेहारम्भं स्तम्भसंस्थापन च बाह्यस्नानं तीर्थयात्रां न कुर्यात् । वशिष्ठः 'उपनीतौ शिशोर्माता गर्भिणी यदि जायते । तयोरेकस्तु नष्टः स्याद्दम्पत्त्योर्वा शिशोप॑तिः। प्राप्ते च पञ्चमे वर्षे अप्रमुप्त जनादने। उत्तरायणगे सूर्ये विद्यारम्भं तु कारयेत् । प्राङ्मुखो गुरुरासीनो गुरुणा सम् मुखं शिशुम् । अध्यापयीत प्रथमं द्विजाशीभिः नमा प्रपूजितम्।माघादिमासषट्के तु मेखलाबन्धनं मतम् ।चूडाक- रणमन्नं च श्रावणादौ विवर्जयेत्। धनुर्मीनकुलीरस्थो जीवो जन्मान्तमृत्युगः । अतिसौख्यं वटोः कुर्याद् अङ्गिरो वचनं यथा । नारदः 'बालस्य बलहीनोपि शान्त्या जीवोबलप्रदः। यथोक्तवत्सरे कार्यमनुक्ते चोपनायनम् । शान्या बृहस्पतिप्रीतये दानादिकया। यथोक्तवत्सरे गर्भाष्टमायुक्तकाले । अनुक्ते ब्राह्मणस्य नवमाब्दा- दौ । 'गुरुपिञ्चसप्तमनवमस्थः शुभः सदा । पूजया दिक्- त्रिषष्ठायद्योनाष्टादिगत: शुभः। 'जन्मोदये जन्मसु तारकासु मा- सथवा जन्मदिने न तेन । विप्रोभवेच्चैव बहुश्रुतोपि प्रज्ञाविशेषैः ..

नवम उद्धार। प्रथितः पृथिव्याम् । ज्येष्ठ मासि विशेषेण सर्वज्येष्ठस्य चैव हि । उपनीतस्य पुत्रस्य जडत्वं मृत्युरेव च । गर्गः ‘मौनीबन्धे विवाहे च प्रतिष्ठायां विशेषतः । गोचरणैव कर्तव्यं वेधाबलमकारणम् । वेधाबलं वामवेधबलम् । नारदः ‘विनर्जुना वसन्तेन कृष्णपक्षे गलग्रहे । अपराह्ने चोपनीतः पुनः संस्कारमर्हति । व्रताह्नि पूर्वस- न्ध्यायां वारिदो यदि गर्जति । तद्दिने स्यादनध्यायो व्रतं तत्र विवर्जयेत् । ग्रहे रवीन्द्रोरवनीप्रकम्पे केतृद्गमोल्कापतनादिदोषे । व्रते दशाहानि वदन्ति तज्ज्ञास्त्रयोदशाहानि वदन्तिकेचित् । अथ क्षत्रियस्य छुरिकाबन्धनकालः । 'छुरिकाबन्धनं वक्ष्ये क्षत्रस्य प्राकरग्रहात् । विवाहोक्तेषु मासेषु शुक्लपक्षे त्वनस्तगे। जीवे शुक्रे च भूपुत्रे चन्द्रनाराबलान्विते ॥ अथ विवाहकालः। 'युग्मेऽब्दे जन्मतः स्त्रीणां प्रीतिदं पाणि. पीडनम् । एतत्पुमामयुग्मेऽब्दे व्यसये नाशनं तयोः । यत्तु 'सार्व कालिकमिच्छन्ति विवाहं गौतमादयः' इति तदारधर्मविवाहवि. षयम् । धम्र्येष्वेव विवाहेषु कालपरीक्षणम् । नाधयेष्विति वच- नात् । 'मुख्य गुरुबलं बध्वाः वरस्येष्टं रवेलम्' । जन्ममासे विवाहकर्तव्यताबोधनं द्वितीयगर्भोत्पन्नाविषयम् । निषेधस्तु प्रथ- मगर्भोत्पन्नविषयः । जन्ममासलक्षणमाह गार्यः। आरभ्य जन्म- दिवसाधावत्रिशदिनं भवेत् ।जन्ममासः स विज्ञेयः सर्वकर्मसु गर्हितः । कालशुद्धिनिरूप्यने 'जीवक्षेत्रगते भानौ भानुक्षेत्रगते गुरौ । कालशाद वर्जयेत्सर्वकर्गाणि व्रांस्वस्त्ययनानि च स्कन्दपुराणे सिंहसं- स्थे गुरौ राजन् विवाहादि न कारयेत् । मकरस्थे न कर्त्तव्यं यदीच्छेदात्मनः शुभम् । लल्लः 'नीचस्थ वक्रसंस्थऽप्यतिचरणगते बालद्धास्तगे वा । संन्यासोदेवयात्रा व्रतनियमविधिः कर्णवेध- स्तु दीक्षा । मौजीबन्धोथ चूडा परिणयनविधिर्वास्तुदेवप्रतिष्ठा स्मृतिसारोद्धारे। वाः सद्भिः प्रयत्नात्रिदशपतिगुरौ सिंहराशिस्थिते च । सिं- हस्थं मकरस्थं च गुरुं यत्नेन वर्जयेत् । ग्रन्थान्तरे 'सिहस्थेऽपि मघासंस्थं गुरुं यत्नेन वर्जयेत् । अन्यत्र सिंहभागे तु विवाहा- दि विधीयते । अत्र विशेषमाह लल्लः । 'नर्मदापूर्वभागे तु शो- णस्योत्तरदक्षिणे । गण्डक्याः पश्चिमे तीरे मकरस्थो न दोष- भाक् । सिंहस्थितः सुरगुरुयदि नर्मदायास्तं वर्जयेत्सकलकर्म- मु सौम्यभागे । विन्ध्यस्य दक्षिणदिशि प्रवदन्ति चााः सिं. हांशके मृगपतावपि वर्जनीयम् । तथा 'सिंहे गुरौ सिंहलवे वि- वाहो नेष्टस्तु गोदोत्तरतस्तु यावत् । भागीरथीयाम्यतटं च दोषो नान्यत्र देशे तपने तु मेषे'। गोदा गोदावरी, तपने मेषस्थे सिंहस्थ- गुरुदोषो नास्तीयर्थः । एतदधार्यकन्यादिविषयम् । यदाह वशि- ष्ठः । 'गोदावर्युतरे कूले भागीरथ्यास्तु दक्षिणे। सिंहस्थेऽपि गुरौ कार्यमधार्योपयमादिकम् । अधार्या सरजस्का कन्या । तथा 'गो- दावर्युत्तरतो यावद्भागीरथीतटं याम्यं । तत्र विवाहोनेष्टः सिंहस्थे सुरपतेः पूज्य । नारदः 'समदृष्टि गुरोः शुक्रस्तन्मासं तु प्रयत्न. तः। विवाहादि न कुर्वीत नर्मदातीर उत्तरे । नर्मदायाम्यभागे तु समदृष्टिर्न दोषकृत् । वशिष्ठः 'अतीचारगतो जीवस्तं राशि नौत चेत्पुनः । लुप्तः संवत्सरो ज्ञेयः सर्वकर्मवहिष्कृतः । लल्ल: यदातिचारं सुरराजमन्त्री करोति गोवृश्चिकमीनसस्थः । नाया- त्यसौ यद्यपि पूर्वराशिं तथापि पाणिग्रहणे न दोषः । अतीचार- गते जीवे धनुष्कर्कटमीनगे । लुप्तमवत्सरेऽप्यत्र सर्वकर्माणि कारयेत् । षे मेषे झषे कुम्भे यदातीचारगो गुरुः।न तत्र काल- लोप: स्यादिसाह मुनिगालवः । वयोदशदिनः पक्षः प्रजासंहार- कारकः । अपि वर्षसहस्रेण कालयोगः प्रकीर्तितः । अत्रापि पक्षे विवाहादि न कार्यामियर्थः । द्वौ ज्येष्ठौ मध्यमौ प्रोक्तावेकं ज्येष्ठं - शुभावहम् । ज्येष्ठबयं न कुर्वीत विचाहे सर्वसंमतम् । गार्य: 'एकोदरप्रसूतानां विवाहो नैव वत्सरे' ।पुत्रीपरिणयादर्दू याव- दिनचतुष्टयम् । पुज्यन्तरस्य कुर्वीत नोद्वाहामति सूरयः । पुत्रो. पनयनादुर्दू षण्मासाभ्यन्तरे तथा । पुञ्युद्राहं न कुर्वीत नोद्वाहाद् व्रतबन्धनम् । वराहः न पुविवाहो मृतुत्रयपि विवाहकार्य दुहितुः प्रकल्प्यम् । न मण्डनाच्चापि हि मुण्डनं च स्यान्मण्डना- न्मुण्डनमन्वगेव च। मण्डनं विवाहादि, मुण्डनमुपनयनादि, एक- मातृकयोरेकवत्सरे पुरुषस्त्रियोः । न समानक्रियां कुर्यान्मातृभेदे समाचरेत् । कन्यायुगे भ्रातृयुगे कन्याभ्रातृयुगे तथा । न जातु मङ्गलं कुर्यादेकस्मिन्मण्डपेऽहनि । ऋतुत्रयस्य मध्ये चेदन्याब्दस्य प्रवेशनम् । तदा ह्येकोदरस्यापि विवाहादि प्रशस्यते । विवाहश्चै- कजन्यानां षण्मासाभ्यन्तरे यदि। असंशयं त्रिभिस्तत्रैका वि- धवा भवेत् । न वेदिकायां न गृहे न शाले न मण्डपे युग्मकरग्रहो तु । यथा पथि प्रसभिदर्शने च तथा तयोरेकनरं जहानि । न चैक- जन्ययोः पुंसोरेकजन्ये तु कन्यके । प्रत्युद्दाहो नैव कार्यो नैकस्मै दुहितद्वयम्' । त्वया चेन्ममपुत्रार्थ कन्या देया तर्हि मयापि त्व- रपुत्राय कन्या देयेति व्यवस्थायां विवाहः प्रत्युद्वाहः । 'अप्येकज- न्ययोः पुमोरेकजन्ये तु कन्यके । नैव कदाचिदुद्वाहो नैकदा मुण्डनद्वयम् । द्विशोभनं चैकगृहपि नेष्टं शुभं तु पश्चानवनिदिनैः स्यात् । आवश्यकं शोभनमुत्सवो वा द्वारेऽथवाचार्यविभेदतोवा। अत्रिः 'कुले ऋतुत्रयादर्वाङ्मण्डनादपि मुण्डनम् ।प्रवेशान्निर्गम चैव न कुन्मुिण्डनत्रयम्'। मण्डनाद्विवाहानन्तरं ऋतुबयादाक् मुण्डनं न कुर्यात् । तथा स्नुषाप्रवेशानन्तरं पुत्रीनिर्गमनं न कु- -त् । मुण्डनत्रयं ऋतुत्रयमध्ये न कुर्यात् इयर्थः । 'पुत्रीपरिण- याई पुत्रस्योद्वहनक्रिया । न दुष्टा स्यान्मातृभेदे गृहभेदेऽपि ३३ २५८ स्मृतिमारोद्धारे। चैव हि । एकः कर्चा शुभं कुर्यान पुग्योः पुत्रयोरपि । षण्मा- सेऽथ चतुर्मासि पूर्ण वर्षे शुभावहमिति । अथ प्रकीर्णकम् ' अवते केशधरणमसङ्कल्पे व्रते क्रिया । अब्रह्मचर्ये चर्या च वयं स्यादम्भसंज्ञितम् । अनाचारात्तथा ऽन्यायादकाले क्षौरकर्मणः । अमङ्गलात्तथालस्थान्मृत्युमाजि- घांसति । निषिद्धेषु च कालेषु क्षुरकर्म यदा भवेत् । तदोषशान्तये भूयः कुर्याक्षि शुभे दिने। प्रमादेन तु केशानामाग्निस्पर्शन दा- हिनाम् । दग्धान्केशान् पञ्चगव्यमधुधौतान्प्रवापयेत् । संक्रान्यां पञ्चदश्यां च द्वादश्यां श्राद्धबासरे । वस्त्रं निष्पीड्यते नैव क्षुरे- णापि न हिंस्यते । पञ्चदश्याममावास्यायाम् । दन्तकाष्ठममावास्या मैथुने च चर्तुदशी । हन्ति सप्तकुलं तस्य तैलग्रहणमष्टमी । उद- वतोऽम्भसि स्नानं ब्रथा श्मश्रुविमोचनम् । अन्तर्वन्याः पतिः कुर्वन् नरके व्रजति ध्रुवम् । व्यक्तगर्भेऽपि सीमन्ते विवाहे क्षुर- माचरेत् । क्षौरमाप्रसवानोकमन्यव वचनादिह ॥ अथ कलियुगमहिमा श्रीभागवते 'कलि सभाजयन्या- गुणज्ञाः सारभागिनः। यत्र सङ्कीर्तनेनैव सर्वः स्वार्थोपि लभ्यते । नह्यतः परमोलाभो देहिनां भ्राम्यतामिह । यतोविन्दत परमां शान्ति नश्यति संस्मृतिः । कलौ खलु भविष्यन्ति नारायणपरा- यणाः। कचित्कचिन्महाराज द्रविडेषु च भूरिशः । कलेर्दोष- निधे राजन्नस्ति ोको महान् गुणः । कीर्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् । विष्णुपुराणे 'ध्यायन कृते यजन् यज्ञै. स्वेतायां द्वापरेऽर्चयन् । यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् । अतएव युगेषु वर्णेषु स्त्रीपुसयोश्च कोधन्य इति नारदादिप्रश्ने व्यासस्योत्तरम् ‘कलिर्धन्यः शूद्रोधन्यः स्त्रियो धन्या' इति विष्णु- पुराणकथा । पराशरः 'त्यजेद्देशं कृतयुगे त्रेतायां ग्राममुत्सृजेत् ।

नवम उद्धारः। द्वापरे कुछमेकं तु कर्तारं तु कलौ युगे। कृते सम्भाष्य पतति त्रेतायां स्पर्शनेन तु । द्वापरे अन्नमादाय कली कत्व लिप्यते । शपथः शकुनः स्वप्नः सामुद्रिकमुपश्रुतिः । उपयाचितमादेशाः सम्भनन्ति कलौ कचित् । तस्मात्तन्मात्रलामेन कलौ कार्यन कारयेत् । कलिवानाह वृद्धयाज्ञवल्क्यः 'देवरेण मुतोत्पत्ति- कलिव ानप्रस्थाश्रमग्रहः । दत्ताक्षतायाः कन्यायाःपुननिं परस्य या॑नि । वै। समुद्रयानस्वीकारः कमण्डलुविधारणम। कमण्डलुविधारणं नैष्टिकं ब्रह्मचर्यम् । महामस्थानगमनं गोमेघश्च सुराग्रहः । अ- ग्रिहोत्रे हवन्याश्च लेहो लीढापरिग्रहः' । लीढाया अग्निहोत्रे हवन्याश्च स्वीकारः । असवर्णा कन्याम विवाहश्च द्विजाति- मिः । वृत्तस्वाध्यायसापेक्षमघसङ्कोचनं तथा । वृत्तं यायावरगृह- स्थाचारः । स्वाध्यायोवेदः। अघमोचनं सूनकायशौचसङ्कोच: 'प्रायश्चित्तविधानं च विषाणां मरणान्निकम् । संसर्गदोषः पा- पेभ्योमधुपर्के च गोर्वधः । दत्तौरसेतरेषां च पुत्रत्वेन परिग्रहः । दत्तो दत्तकः । शामित्रं चैव विप्राणां सोमविक्रयणं तथा । दीर्घ- कालं ब्रह्मचर्य नरमेधाश्वमेधको । कलौ युगे विमान्धान वाना मनीषिणः । पराशरः 'अग्निहोत्रं गवालम्भं संन्यासं पलपैतृकम् । देवरेण मुतोत्पत्ति कलौ पञ्च विवर्जयेत् ॥ अथ मोपीचन्दनमाहात्म्यम् । तत्र तिलकरमाप्यम् । 'ललाटे ज्योतिषाकारं हृदयेऽश्वत्थपववत् । बाहुभ्यां वंशपत्राभ्यां शेषे तु तुलसीदलम् । अतिदीर्घमनायुष्यमनिक्षीणं दरिद्रता । न नेत्रान्तरयोः कुर्यान्न कुर्याद्धि बहिः कचित् । गारुडे 'यो स- त्तिका द्वारवतीसमुद्भवां करे समादाय ललाटपट्टे । करोति नित्यं वपुथुद्धिहेतुः क्रियाफलं कोटिगुणं सदाभवेत् । क्रिया- विहीनं यदि मन्त्रवर्जितं श्रद्धाविहीनं यदि कालवर्जितम् ।

स्मृतिसारोदारे। कृत्वा ललाटे यदि गोपिचन्दनं प्राप्नोति तत्कर्मफलं सदाक्षयम् । यस्यान्तकाले किल गोपिचन्दनं बाहोललाटे हृदि मस्तके च । प्रयाति लोक कमलालयाप्रभो!बालघाती यदि विप्रहा नरः । स्कान्दे 'शङ्खचक्राङ्किततनुः शिरसा ममरीधरः । गोपीचन्द- मलिताङ्गो दृष्टश्चेत्तदधं कुतः । हरिनामाक्षरमुखं ललाटे गोपि- चन्दनम् । तुलसीमालिकोरस्कं स्पृशेयुर्न यमोद्भटाः । गोपी- मृत्तुलसी शङ्खः शालग्रामः सचक्रकः । गृहेपि यस्य पञ्चैते तस्य पापभयं कुतः । कृष्णायुधाङ्कितो देही गोपीचन्दनमृत्स्न- या। प्रयागादिषु तीर्थेषु स स्नातः किङ्करिष्यति । नारायणायुध- धरं कृत्वात्मानं कलौ युगे। कुरुते यानि कर्माणि मेरुतुल्यानि तानि वै । धात्रीमाला हरेः शङ्ख पचं कौमोदकी तथा । रथाङ्गं यस्य देहे वै दृश्यते स जनाईनम् । कृष्णायुधाङ्कितोमर्त्यः श्मशाने म्रियते यदि । प्रयामे या गतिः प्रोक्ता सा गातस्तस्य नारद । यः करोति हरेः पूजां कृष्णशस्त्राङ्कितो नरः। अपराधसहस्रं निसं हरति केशवः । ललाटे तु गदा धार्या मूर्टि चापशरा. स्तथा ।नन्दकं चैन हन्मध्ये शङ्कचक्रे भुजद्वये । अगस्त्यसंहितायाम् 'येनायुधानि बाह्वोश्च धृतानि द्विजसत्तमापापिष्ठो वाप्यपापिष्ठः सर्व- ज्ञोऽप्यज्ञ एव वा। भवेदेवाधिकार्यत्र पूजाकर्मण्यसंशयम्।तथा तुलसी- काष्ठघटित रुद्राक्षाकारधारितः । शङ्खचक्रगदापमपादुकाकारकारि- तैःनिर्मितां मालिकां कण्ठे निधायार्चनमाचरेत् । तथा कमलमालां च सम्यक् पुष्करमालिकाम् । यः कुर्यात्तुलसीकाष्टैरक्षमालासरू- पिणीम्। कण्ठमालांच यत्नेन कृतं तस्याक्षयं भवेत् । संघृष्य तुलसी. काष्ठं यो दद्याद्राममस्तके। कर्पूरागुरुकस्तुरीचन्दनेन च तत्समम् ॥ अथ तुलसीमहिमा अगस्त्यसंहितायाम् 'तुलसीविपिन- स्यापि समन्तात्पावनं स्थलम् । क्रोशमात्रं भवखेव गाङ्गेयस्येव नवम उद्धारः। पाथसः । तुलसीरोपिता स्पृष्टा दृष्टा सिक्ता च पावयेत् । आराधिता प्रयत्नेन सर्वकामफलप्रदा । चतुर्णामपि वर्णानामा- श्रमाणां विशेषतः। स्त्रीणां च पुरुषाणां च पूजितेष्टं ददाति सा। प्रदक्षिणं भ्रमित्या ये नमन्ति तुलसी नराः। न तेषां दुरितं कि- श्चित्मक्षीणमवशिष्यते । अनन्यदर्शनाः प्रातः पश्यन्ति तुलसी नराः। अहोरात्रकृतं पापं तत्क्षणात्महणन्ति ते । तुलसीसंनिधाने तु ये सजन्ति कलेवरम् । न तेषां नरके वासस्ते यान्ति परमं पद- म् । पाझे न पश्यति यमं वैश्य तुलसीवनरोपणात् । सर्वपाप- हरं सर्वकामदं तुलसीवनम् । तुलसीकाननं वैश्य गृहे यस्मिस्तु तिष्ठति । तद्गृहं तीर्थभूतं हि न यान्ति यमकिङ्कराः। तुलसी- गन्धमाघ्राय पितरस्तुष्टमानसाः । प्रयान्ति गरुडारुढास्तत्पदं च- क्रपाणिनः । दर्शनं नर्मदायास्तु गङ्गास्नानं विशांवर । तुल- सीवनसंस्पर्शः सममेतत्त्रयं स्मृतम् । रोपणापालनात्सेकादर्शना- स्पर्शनात्तथा । तुलसी दहते पापं वाङ्मनाकायसम्भवम् । पक्षे पक्षे तु सम्प्राप्ते द्वादश्यां वैश्यसत्तम । ब्रह्मादयोपि कुर्वन्ति तुलसीदलपूजनम् । मणिकाञ्चनपुष्पाणि तथा मुक्तामयानि च । तुलसीपत्रदानस्य कलां नाहन्ति षोडशीम् । तुलसीमारीभिर्यः कुरुते विष्णुपूजनम् । न स गर्भगृहं याति मुक्तिभागी भवेन्नरः । पक्षान्ते रविसंक्रान्तौ द्वादश्यां सन्ध्ययोनिशि । तुलसी ये विचि- न्वन्ति ते च्छिन्दन्ति हरेः शिरः। वामनपुराणे 'तावद्गर्जन्ति पक्षीन्द्र मृदस्तीर्थसमुद्भवाः । यावन्न दृश्यते भाले तुलसीमूलमृत्तिका ॥ अथ धात्रीमाहात्म्यम् । स्कान्दे ' यः कश्चिद्वैष्णवे लोके धत्ते धात्रीफलं मुने । प्रियो भवति देवानां मनुष्याणां तु का कथा । धात्रीफलविलिप्ताङ्गो धात्रीफलसमन्वितः । धात्रीफलकृ- ताहारो नरो नारायणो भवेत् । धात्रीफलानि यो निसं वहते ૨૨૨ स्मृतिसारोद्धारे। .. .. करसम्पुटे। तस्य नारायणो देवो वरमिष्टं प्रयच्छति' । व्यासः श्रीकामः सर्वदा स्नानं कुर्यादामलकैर्नरः । तुष्यसामलकैवि. ष्णुरेकादश्यां विशेषतः । नवम्यां दर्शसंक्रान्योः सप्तम्यां रवि- वासरे । चन्द्रसूर्योपरागे च स्नानमामलकैस्त्यजेत्' । रत्नमालायाम् स्नातुर्जनस्य दशमी तनयं त्रयोदश्यर्थं निहन्त्युभयमेतदपि द्वि- तीया । सप्तम्यनिन्दुनवमीषु च सम्पदिष्णुः स्नायात्कदाचिदपि नामलकैर्मनुष्यः।अथ शङ्खमाहात्म्यम् । स्कन्दपुराणे वैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शङ्ख तिष्ठन्ति विप्रेन्द्र तस्माच्छङ्ख महिमा । समर्चयेत् । शङ्खस्थितं च यत्तोयं भ्रामितं केशवोपरि।वन्दते शिरसा यस्तु गङ्गास्नानेन तस्य किम् । नाधं तडागजं वापि वापी- कूपढ्दादिजम् । सर्वभवति शङ्खस्थं गङ्गातोयसमं जलम् । गृहीत्वा शङ्खपादोदं शङ्ख कृत्वा तु वैष्णवः । यो वहेच्छिरसा नित्यं समु- निस्तापसोत्तमः । त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । पूजितः सर्वदेवस्तु पाञ्चजन्य नमोस्तुते । शङ्ख करतले कृत्वा मन्त्रेणानेन वैष्णवः । या स्नापयति गोविन्दं तस्य पुण्यमन- न्तकम् । अनेन मन्त्रेण करतले कृत्वेसन्वयः । 'दर्शनेनैव शङ्ख- स्य किंपुनः स्पर्शने कृते । विलयं यान्ति पापानि हिमवद्भास्क- रोदये । वाराहे 'दक्षिणावर्तशछैन तिलमिश्रोदकेन च । उद- के नाभिमात्रे च यः कुर्य्यादभिषेचनम् । प्राकस्रोतसि च वै नद्यां नरोोकाग्रमानसः । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति । अथ द्वात्रिंशदपराधाः । यानैर्वा पादुकैर्वापि गमनं भगवदगृहे । देवोत्सवाद्यसेवा च अप्रणामस्तदग्रतः । पादप्रसारण चाने तथा पर्यकबन्धनम् । शयनं भक्षणं चापि मिथ्याभाषणमेव च । उच्चैर्भाषा मिथो जल्पो रोदनानि च विग्रहः । निग्रहानुग्रहौ चैव स्त्रीषु च क्रूरभा- पणम् । कम्बलावरणं चैव परनिन्दा परा स्तुतिः । अश्लीलभाष- नवम उद्धार । णं चैव अधोवायुनिमर्जनम् । शक्तौ गौणोविचारस्तु आनिवेदि- तभक्षणम् । पृष्ठीकृत्यासनं चैत्र परेषामभिवादनम् । गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा। निष्ठीवनं परीहासः सुरतं शपथ- क्रिया । अपराधास्त्विमे विष्णोत्रिंशत्पारकीर्तिताः । अपरा- धसहस्राणि क्रियन्तेऽहनिशं मया। दासोऽयमिति मां मत्वा क्षमस्त्र मधुसूदन । इति मंत्र जपन् यस्तु दण्डवत्प्रणमेदरिम् । द्वात्रि- शदपराधांस्तु क्षमते तस्य केशवः । अथ यदर्थं सर्वधर्मोपासनं सा भक्तिनि- भगवद्भक्तिरेव । यदुक्तं श्रीभागवते 'दानव्रततपोहोमजपस्त्रा. रूपणम् । ध्यायसंयमैः । श्रेयोभिर्विविधैश्चान्यैः कृष्ण भक्तिर्हि साध्य- ते । तावत्कर्माणि कुर्वीत न निविद्येत यावता।मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते। ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः । सलिङ्गानाश्रमांस्यक्त्वा चरेदविधिगोचरः । भगवद्गीता 'नाई वेदैर्न तपसा न दानेन न चेज्यया। शक्य एवं विधो द्रष्टुं दृष्ट- वानसि मां यथा । भक्त्या त्वनन्यया शक्य अहमेवं विधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्वेन प्रवेष्टुंच परंतप। मन्मना भव मद्भक्तो मद्या- जी यां नमस्कुरु । मामेवैष्यसि ससं ते प्रतिजाने प्रियोसि मे । मन्मनाः मच्चिन्तकः, मद्भक्तो मन्मन्त्रोपासकः, मद्याजी मद्याजकः। 'सर्वधर्मान्परिसज्य मामेकं शरणं व्रज। अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः । अत्र सर्वधर्मयागे सति निसकर्मणो- प्यकरणे प्रसवायः स्यादिति सोचन्तमर्जुनं भगवानाश्वासयति, माशुचस्त्वम् अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामीति । भगवत्कीर्त- नस्मरणादौ शौचाद्यपेक्षा नास्ति । तदुक्तं विष्णुधर्मोत्तरे 'चक्रा- युधस्य नामानि सदा सर्वत्र कीर्तयेत् । नाशौचं विचते तत्र स पवित्रकरो यतः । पाझे अपवित्रः पवित्रोवेत्यादि । शेषं भक्तभत्त्यादिसामान्यविशेषलक्षणमहिमादि श्रीविष्णुपुराणे श्री.

स्मृतिसारोद्धारे।
भागवतादौ च भूर्यनुसन्धेयम् ॥
अथ भागवतधर्माश्चन्द्रशर्मणो वाक्येनोक्ताः । स्कान्दे 'अद्य
प्रभृति कर्त्तव्यं यन्मया कृष्ण तच्छृणु।एकादश्यां न भोक्तव्यं कर्त्त-
व्यो जागरः सदा। महापूजाच कर्तव्या प्रत्यहं पूजनं तव । पलाना-
पिविद्धंतुन कार्य वासरंतव।नित्यं नामसहस्रंतु पठनीयं तव प्रियम्।
पूजा च तुलसीपत्रैमया कार्या सदैव हि । तुलमीकाष्ठसम्भूतचन्द-
नेन विलेपनम् । त्वत्कथाश्रवणं कार्य नित्यं पुस्तकवाचनम् ।
नित्यं पादोदकं मृर्दा मया धाय॑ प्रयत्नतः । नैवेद्यभक्षणं चैत्र
करिष्यामि यतवनः । निर्माल्यं शिरसाधार्य त्वदीयं सादरं मया।
स्वया यदवशिष्टं तु भक्षणीयं सदा मया । तथातथा प्रकर्त्तव्यं तव
तुष्टिर्यथा यथा। सत्यमेतन्मया कृष्ण तवाग्रे परिकीर्तनम् । नारदप-
ञ्चरात्रे 'संयमांश्च प्रवक्ष्यामि संक्षेपात्पञ्चरात्रिणाम् । न मत्स्यान्भ
क्षेयन्मांसं कूर्मास्करयोस्तथा । कांस्यपात्रे न भुजीत न पद्मवटप-
त्रयोः । देवागारे न निष्ठीवेत क्षुरं चात्र विवर्जयेत् । न सो-
पानकरचरणः प्रविशेदत्र तु क्वचित् । एकादश्यां न चाश्नीयात्
पक्षयोरुभयोरपि । जागरं निशि कुर्वीत विशेषाचार्चयोद्वभुमिति ।
नरकभोगानन्तरं जन्मक्रम उक्तोवैष्णवे । 'स्थावराः कृमयोऽब्जाश्च
पक्षिणः पशवोनराः। धार्मिकास्त्रिदशास्तन्मोक्षिणश्च यथाक्रमम् ।
सहस्रभागप्रथमा द्वितीयाद्या अनुक्रमात् । 'सर्वे ह्येते महाभाग
यावन्मुक्ति समाश्रिताः । अब्जा मत्स्यादयः। सहस्रभागः प्रथमो
येषान्ते तथा द्वितीयाद्या अनुक्रमात् कृम्याद्यनुक्रमात् । अयमर्थः-
कृमिभ्यः सहस्रभागाधिकाःस्थावराः, अब्जेभ्यः सहस्रभागाधिका:
कृमयः, पक्षिभ्यः सहस्रभागाधिका अन्जा' इसादिक्रमेणान्नेयानि ॥
श्रीविश्वम्भरविहिते स्मृतिसारोद्धारसंज्ञके ग्रन्थे ।
कालप्रकीर्णविनिणयनामागानवम उद्धारः ॥ ९ ॥

आह्निकं परिभाषा च दशमेऽथ निरूप्यते ॥१०॥ मनुः 'ब्राझे मुहूर्ते उत्थाय धर्मार्थों चानुचिन्तयेत् । कायक्लेशांश्च तन्मूलान्वेदतत्वार्थमेव च । तन्मूलानितिपुंस्त्वमार्षम् ? । विष्णुः 'ब्राह्म मुहूर्ते उत्थाय चिन्तयेदिष्टदेवता तथा 'शयनादुत्थितो यस्तु कीर्तयेन्मधुसूदनम् । तत्क्षणात्तस्य नश्यन्ति सर्वपापान्यशेषतः । बाज्ञवल्क्यः 'दिवा सन्ध्यामु कर्णस्थब्रह्मसूत्र उदङ्मुखः।कु- मूत्रपुरी- र्यान्मृत्रपुरीषेचरात्रौ चेदक्षिणामुखदेवलः 'सन्ध्यासु परिव- बोत्सर्ग । जयेत्' मूत्रपुरीषे इति शेषः । इदमुपरुद्धतराविषयम् । न वेगं धारयेनोपरुद्धः क्रियां कुर्यादिति भाधवधृतस्मरणात् । मनुः 'छाया- यामन्धकारे वा रात्रावहान वा द्विजः । यथामुखमुखः कुर्यात्माण- बाधाभयेषु च' । दिङ्मोहादिविषयमेतत् । प्राणवाधाविषयं च । अङ्गिराः कृत्वा यज्ञोपवीतं च पृष्ठतः कण्ठलम्बितम् । विण- मृत्रं तु गृही कुर्याद्यद्वा कर्णे समाहितः । कर्णे निधानमकवस्त्राव- षयम् । तदुक्तं सांख्यायनगृह्ये ' यद्येकवस्त्रो यज्ञोपवीतं कर्णे कृत्वा मूत्रपुरीपोत्सर्ग कुर्यादिति । याज्ञवल्क्यः गृहीतशिश्न उत्थाय मृद्भिरभ्युद्धृतैर्जलैः । गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रि- तः॥ अत्र गन्धलेपक्षयार्थकमेव शौचं मृत्संख्यानियमस्त्वष्टार्थः । गन्धलेपक्षयस्य मृत्संख्यादिविशेष विनाप्युपपत्तेः । न च 'ए. सच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं तु वनस्थानां यतीनां तु चतुर्गुणमिति मृत्संख्यादिनियतशौचस्येव द्वैगुण्यादि कथनमुपपद्यत इति वाच्यम् । शौचं हि द्विविधम्, दृष्टमदृष्टं च । तत्र गन्धलेपक्षयकारकरूपं दृष्टं मृत्संख्यानियमजन्यं नियमादृष्टस्- पमदृष्टम् । तथा चैतच्छौचमिति शौचपदेन नियमादृष्टमेव परामृश्य- स्मृतिसारोद्धारे। . ते। नच गन्धलेपक्षयकरं शौचं स्त्रीशूद्रपरम् । ब्राह्मणादेरपि गन्ध. लेपक्षयस्यापेक्षितत्वात् । नच संख्याविशेषविशिष्टमदैव ब्राह्मणादे- गन्धादिक्षयोऽपेक्षितःगन्धादिक्षये संख्यानियमस्याप्रयोजकत्वाद। तस्माददृष्टविशेषार्थिनामेव नियमो न दृष्टार्थिनामिति ध्येयम् । वैष्णवे 'वल्मीकमूषिकोत्खातां मृदमन्त लात्तथा । शौचावाशिष्टां गेहाच नादद्याल्लेपसम्भवाम् । सिद्धान्तशुद्धोद्धारे-मनुः 'नमा- र्गान्न श्मशानाच नादद्यात्कुड्यतः कचित्' । मृत्संख्यानियममाह शातातपः 'एका लिने करे सव्ये तिस्रो द्वे हस्तयोर्द्वयोः । मूत्रे शौचं समाख्यातं शुक्रे तु द्विगुणं स्मृतम्। मूत्रे मूत्रमात्रे। दक्ष एका लिङ्गे गुदे तिस्रो दश वामकरे तथा । उभयोः सप्त दातव्या पादयोः षट् तथैव च । एका लिङ्गे करे तिस उभयोमवयं स्मृतम् । मनुः ' एका लिङ्गे गुदे तिस्रस्तथा वामकरे दश । उ. भयोः सप्त दातव्या मृदः शुद्धिमभीप्मता' ।शुद्धिमदृष्टविशेषं न तु गन्धादिक्षयम् । तस्य संख्यानियम विनापि निर्वाहादित्युक्तम् । यदाह स एव 'यावन्नापैसमेध्याक्ताद गन्धोलेपश्च तत्कृतः । ताव- न्मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु' । पादशौचे शङ्खः 'तिस्रस्तु पादयोर्देया शौचकामस्य सर्वदा । यमदक्षौ 'द्वेलिङ्गे मृत्तिके देये पञ्चापाने तथैव चेति । लेपाविशेषसंख्यायां गुदे तिस्र इति न्यून- संख्याव्यवच्छेदपरम् । लिङ्गशौचे मृत्पमाणमाह दक्षः। 'लिङ्गेतु मृत्ममाख्याता त्रिप: पूर्यते यया। विदशौचे स एव ' अर्द्धम- मृतिमात्रा तु प्रथमा मृत्तिका स्मृता । द्वितीया च तृतीया च तदर्धार्धा प्रकीर्तिता। यद्दिवा विहितं शौचंतदर्धन्तु निशि स्मृत- म् । तदर्द्धमातुरे प्रोक्तमातुरस्यार्द्धमध्वनि' । दिवोदितस्य शौ- चस्य राबावर्द्ध विधीयते । आतुरे तु अर्द्धभागादिकरणं नियमशौ- चस्यैव बोध्यं दृष्टशौचस्य साधारणत्वादि स्मर्त्तव्यम् ।

दशम उद्धारः। २६७ अथाचमनम् । वृद्धपराशरः ‘कृत्वाथ शौचं प्रक्षाल्य पादौ हस्तौ च मृजलैः । निवद्धाशखकक्षस्तु द्विज आचमनं चरेत् । याज्ञवल्क्यः 'विमाश्यापोद्वितन्मृज्य खान्यद्भिः समुपस्पृशेत् । अद्भिस्तु प्रकृतिस्थाभिहीनाभिः फेनबुबुदैः । हृत्कण्ठतालुगा- भिस्तु यथासंख्यं द्विजातयः। शुधेरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभि- रन्ततः । अन्ततः ओष्ठप्रान्तेन । हारीतः 'वामहस्ते कुशान्कृत्वा समाचामति यो द्विजः । उपस्पृष्टं भवेत्तेन रुधिरेण मलेन चा। एतच्च वामहस्तमात्रधृतकुशपरम् । उभयत्र स्थितैर्दभैः समाचामति यो द्विजः । सोमपानफलं तस्य भुक्त्वा च द्विगुणं फलमिति गोभिलोक्तेः । हारीतः 'सव्यापसव्यौ कुर्वीत सावित्री करौ द्विनः। ग्रन्थिर्यस्य पवित्रस्य न तेनाचमनं चरेत् ।सोपानको नचोष्णीषी पर्यङ्कासनयानगः । दुर्देशप्रपदश्चैव नाचामन् शुद्धि- माप्नुयात्' । सांख्यायनः 'स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।भौमिकैस्ते ममा ज्ञेया न तैरप्रयतोभवेत् ॥ अथ दन्तधावनम्।तत्र दक्षः'उषःकाले तु सम्प्रा शौचंकृत्वा यथा- विधि । ततः स्नानं प्रकुर्वीत दन्तधावनपूर्वकम्।महाभारते 'प्रक्षाल्य हस्तौ पादौ च मुखं च सुसमाहितः । दक्षिणं बाहुमुद्धृत्य कृत्वा जान्वन्तरं ततः। प्राङ्मुखेनोपविष्टस्तु भक्षयेद्दन्तधावनम् । छन्दोग- परिशिष्टे 'उत्थाय नेवे प्रक्षाल्य शुचिर्भूत्वा समाहितः । परिज- प्य च मन्त्रेण भक्षयेद्दन्तधावनम् । मन्त्रस्तु" आयुर्वलं यशोव- चः प्रजाःपशुवसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वन्नो धेहि वन- स्पते । अयं छन्दोगानां मन्त्रः कायायनमतोपजीविना तु "अन्नाद्याय व्यूहध्वं सोमोराजाऽयमागमत् । स मे मुखं प्रमातु यशसा च भगेन च"। प्रक्षाल्येत्थं शुचौ देशे दन्तधावनमुत्सृजेत् । पतितेऽभिमुखे सम्यग्भोज्यमाप्नोससंशयम् । अलाभे दन्तकाष्ठानां स्मृतिसारोद्धारे। निषिद्धायां तिथौ तथा । अपां द्वादशगण्डूषैः पत्रैर्वा दन्तधावनम्। जिहोल्लेखः सदैव च' इति । 'प्रतिपदर्शषष्ठीषु नवम्यां चैव सत्त- माः । दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम् ।सिद्धान्तशुद्धो- धारे ' चतुर्दश्यष्टमीदर्शपूर्णिमासंक्रमेषु च । नन्दामु च नवम्यां च दन्तकाष्ठं विवर्जयेत् । श्राद्धे यज्ञे च नियमे तथा प्रोषितभर्त- का' । नत्रैव विष्णुः 'प्रतिपदर्शषष्ठीषु चतुर्दश्यष्टमीषु च । नवम्यां भानुवारे च दन्तकाष्ठं विवर्जयेत् । वृद्धयाज्ञवल्क्यः ' इष्टकालो- टपाषाणैर्न खैरङ्गुलिभिस्तथा । मुक्त्वा चानामिकाङ्गुष्ठौ वर्जयेद्दन्त- धावनम् । व्यास: योमोहात्स्नानवेलायां भक्षयेद्दन्तधावनम् । निराशास्तस्य गच्छन्ति देवताः पितृभिः सह । इदं मध्याह्नस्नान- विषयम् । 'मध्याहे स्नानवेलायां भक्षयेहन्तधावनम् । निराशा- स्तस्य गच्छन्ति देवताः पितरस्तथा । इत्युक्तेः । इत्युक्तेः । प्रात:- स्नानस्य प्राग्दन्तधावनमुचितम् । 'प्रातःस्नानं प्रकुर्वीत दन्तपावनपूर्वकमिति वचनात् । इदं तु बोध्यम् । कृत- प्रातःस्नानस्यव मध्याह्ने दन्तधावनं निषिद्धम् । ' मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् । पूर्वाह्न एव कुर्वीत देवतानां च पूज- नम्' इति मैथिलनिबन्धोदाहृतमनुवचनादिति । वैष्णवे 'आचान्तश्च ततः कुर्यात्पुमान्केशप्रसाधनम् । योगियाज्ञवल्क्यः 'स्मृत्वौंकारं च गायत्रीं निबनीयाच्छिखां ततः । पुनराचम्य हृदयं बाहू स्कन्धौ च संस्पृशेत् । ब्राह्मे 'स्वमात्मानं घृते पश्येद्यदीच्छेचिर- जीवितम् । प्रातःस्नानं ततः कुर्यात्सङ्केपेण यथोदितम् । तत्र मार्कण्डेयः 'अस्नातस्य क्रियाः सर्वा भवन्तीहाफला यतः। स्नानम्। प्रातःस्नानं तदर्थ तु निसस्नानं प्रकीर्तितम् । एवं मध्याह्न- स्नानमपि नियम् । यदाह पारस्करः ' अथातो निसस्नानं । न- १ मित्रदेवताकत्वान्मैत्रः पायुः तद्भवत्वान्मैत्रं पुरीपोत्सर्गम् । . : प्रात दशम उद्वार। .. : यादावित्युपक्रम्य स्नानविधिरेष इति । व्याख्यातं चैत- द्भाष्यकृता निसस्नानं मध्याह्नस्नानमेवेति । अपायसनिमि- त्तके स्नाने तर्पणादेनित्तिः । अपायसनिमित्ते तु स्नानमा- त्रं विधीवत' इति वचनात् । कासायनः 'अल्पत्वाद्धोमकालस्य बहुवात्स्नानकर्मणः । प्रातर्न तनुयात्स्नानं होमलोपोविगर्हितः । न सनुयान विस्तारयेत् । अत एव मन्त्रार्ज इत्यस्य मन्त्राल्पत्वमर्थः । योगियाज्ञवल्क्यः 'पञ्चपञ्च उषः कालः सप्तपश्चारुणोदयः।अष्ट पञ्च भवेत्मातः शेषः सूर्योदयः स्मृतः। ब्राह्मं लक्षगुणं प्रोक्तं तद- ईमरुणोदयम् । तद गुप्तनक्षत्रं तददै भास्करोदये। प्रातमध्याह्न- योः स्नानं वानप्रस्थगृहस्थयोः । यतेविषवणस्नानं सकृत्तु ब्रह्मचारिणः' । एनदशक्तब्रह्मचारिविषयम् । 'नास्त्रिषवणस्ना- यी निवृत्तश्च प्रतिग्रहात्' । 'स्नायात्मातश्च मध्याह्ने ब्रह्मचारी गृही तथेति वचनाभ्याम् । वामनपुराणे 'निधाय तीरे कुशपिजुला. नि पूर्वोत्तराग्राणि मृदं न्यसेच्च । प्रक्षाल्य पादौ च मुखं च कण्ठे यज्ञोपवीतं च जलं पिबति । अत्र यज्ञोपवीतं कण्ठे निधायेत्यन्वयः । त्रिपिबेदाचामेदिसर्थः । आपस्तम्ब: 'यज्ञोपवीतं कृत्वा क्षालयेत् । तथा कराभ्यां स्थापयेदर्भान शिखाबन्धं विधाय च । प्राणायामं ततः कुर्यात्कालज्ञानं यथा- विपि । अत्र शिखाबन्धः पाकृतो वेदितव्यः। तदानीं तदकरणे घृतावेक्षणादावनधिकारप्रसङ्गात् । 'विशिखो व्युपवीतश्च यत्क- रोति न तत्कृतम् । इतिवचनाद । 'मृत्तिकां तु त्रिधा कुर्याद्भा- गेनैकेन लेपयेत् ।दक्षिणेन करेणैव अष्टावताननुक्रमात्' । ललाटमंशा- द्वयं हृदयं पृष्ठमुदरं कुक्षिद्वयं चेत्यष्टौ । 'ततो वामकरेणैव ना- भिवस्त्यूरुजङ्घकम् । दक्षिणादिक्रमेणैव चरणौ तु त्रिभिस्त्रिीभः । मृदस्तृतीयभागेन करौ च त्रिःप्रमार्जयेत् । इति तूष्णीं मृदा.

२७० स्मृतिसारोद्धारे। स्नानं कृत्वाचम्य जलं विशेत् । नाभिमात्रे जले गत्वा केशान्कृ- त्वा द्विधा द्विजः । निरुध्य कौँ नासांच विकृत्वोन्मजनं ततः । द्विराचम्याभिषेक तु कुर्यादष्टाक्षरेण च । अत्र सिद्धान्तकृतः-का- त्यायनमतोपजीविनां तु बद्धजूटमेव स्नानम् । अत्र केशानिति बद्धजूटमिति च व्रतिपरम् । अव्रते केशधारणमिति वचनात् । अत्र प्रेतस्नानं प्रकृतिः, एकवस्त्राः प्राचीनावीतिनो दक्षिणामुखा मुक्त- शिखाः सकृन्निमज्जेयुरिति । अत्र प्रकृतिवद्विकृतिन्यायेन प्राकृत- धर्माणां विकृतौ प्राप्तानां मध्ये ये सूत्रकृता कण्ठरवेण वजितास्ते निवर्तन्ते । यथा । बद्धशिखीति विमुक्तशिखित्वनिराशः, यज्ञो. पवीतीत प्राचीनावीतित्वनिराशः । सूर्यस्याभिमुखो मज्जेदिति दक्षिणामुखत्वनिराशः । उत्तीर्य धौते वाससी परिधायेति एक- वस्त्रतानिराश इत्यूचुः । तन्न । प्रकृतिविकृतिभावव्यत्यासाद, स्नातकस्य क्लुप्तकेशश्मश्रोर्जटाजूटाभावात् । न ह्यत्र शिखापदेन मूर्द्धजा अभिधीयन्ते । किन्तु मन्त्रविशेषवद्धा मूर्दजैकदेशा इति । 'आयङ्गोरिति सूक्तेन द्विज आवर्तयेदपः । जम्बुकायेति मन्त्रेण विदध्यादघमर्षणम् । जम्बुकायेति भाववृत्तसूक्तोपलक्षकम् । 'यथा- श्वमेधः क्रतुराट् सर्वपापापनोदकः। तथाघमर्षणं सूक्तं सर्वपापाप- नोदकम्' इति मनुवचनात् । जपन द्वादशवारांस्तु महापापापनुत्त- ये । अघमर्षणमन्त्रेण धूतपापः समाहितः । ततो निमज्य वारा- स्त्रींस्ततस्तर्पणमाचरेत् । सङ्केपतर्पणं तु 'देवास्तृप्यन्विति त्रिः, ऋषयस्तृप्यन्विति विः, प्रजापतिस्तृप्यतु इति सकृत् । अतिसङ्के- पमाह । शङ्खः 'आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्तिति क्रमात् । जलालित्रयं दद्यादेतत्सङ्गेपतर्पणम्' । तर्पणं तु गायत्रीजपतः पूर्वमनुष्ठेयमिति यदाह गोभिलस्तत् छन्दोगपरम् । यजुर्वेदिनां १ आयङ्गो. पृष्णिरक्रमीदशदन्मातरं पुर । पितरश्च प्रयतस्व' ।। - - दशम उद्धार। ૨૭ तु कासायनेन गायत्रीजपानन्तरमेव तर्पणविधानादिति । अथ सन्ध्या । दक्षः 'सन्ध्याहीनोऽशुचिनियमनईः सर्वकर्म- सु । यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् । संवर्तः 'प्रातः सन्ध्यां सनक्षत्रामुपासीत यथाविधि । सादियां पश्चिमां सन्ध्याम स्त- मितभास्कराम् । तिष्ठेदोदयनात्पूर्वी मध्यमामपि शक्तितः । आ- सीतोडूगमाच्चान्यां सन्ध्यां पूर्वत्रिक जपनू' । सन्ध्यावन्दनानन्तरं याज्ञवल्क्यः हुत्वामान्सूर्यदैवत्यान जोन्मन्त्रान्समाहितः। वेदार्था- नधिगच्छेच्च शास्त्राणि विविधानि च । नारसिंहे 'दिवसस्याद्य- भागे तु सर्वमेतत्समाचरेत् । द्वितीये च तथा भागे वेदाभ्यासं स. माचरेत् । द्वितीये भागे पूर्वाह्नस्य । अथ पोष्यवचिन्ता । तत्र दक्षः 'तृतीये च तथा भागे पोष्यवर्गस्य साधनम् । तृतीयोभागः पूर्वाह्नस्यैव । मैथिलग्रन्थे पोष्यवर्गानुशासनमितिपाठः । पोष्यवर्गस्तु-माता गुरुः पिता भार्या प्रजा दीनः समाश्रितः । अभ्यागतोऽतिथिश्चाग्निः पोष्य. वर्ग उदाहृतः । अभ्यागतः सम्बन्धी ग्रामान्तरादागतः । आति- थिरदृष्टचरोऽसम्बद्धो भोजनार्थमुपागतः। 'उपेयादीश्वरं चैव योग- क्षेमार्थसिद्धये' । ईश्वरमभिषेकादियुक्तं राजानम् । अलब्धलाभो योगः, लब्धरक्षणं क्षेम । महाभारते 'धर्मेणार्थः समाहार्यो ध. मणार्थस्य रक्षणम् । एकेनांशेन धर्मस्तु कर्तव्यो भूतिमिच्छता । एकेनांशेन कामस्तु एकमंशं विवर्द्धयेतादक्षः 'चतुर्थे तु तथाभागे स्नानार्थ मृदमाहरेत् । तिलपुष्पकुशादीनि स्नानं चाकृत्रिमे स्नानम् । जलेवसिष्ठः पारक्येषुनिपानेषुन स्नायाद्धि कदाचन ।नि- पानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते । अलाभे देवखातानां सरसां सरितां तथा । उद्धृत्य चतुरः पिण्डान् पारक्ये स्नानमा. चरेत् । चतुर इति न्यूनसंख्याव्यवच्छेदनार्थम् । 'पञ्चपिण्डाननु- मध्याह्न- રહરે स्मृतिसारोद्धारे। दधृत्य न स्नायात्परवारिणि' इति याज्ञवल्क्यस्मरणात् । 'मृदैकया शिरःक्षाल्यं द्वाभ्यां नाभेरथोपरि । अधश्च तिमृभिः कायापड् भिः पादौ तथैव च । प्रक्षाल्य सर्वकायं च द्विराचम्य यथाविधि। ततः संमार्जनं कुर्यान्मृदा पूर्व तु मन्त्रवित् । अश्वक्रान्ते रथ- क्रान्ते विष्णुकान्ते वमुन्धरे । मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् । उधृतासि वराहेण कृष्णेन शतबाहुना । आरुह्य मम गा- त्राणि सर्वपापं व्यपोहतु । मृत्तिके त्वानुगृह्णामि प्रजया च धनेन च । मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता । मृत्तिके जहि तत्सर्वं यन्मया दुष्कृतं कृतम् । मृत्तिके देहि मे तुष्टिं त्वयि सर्व प्रतिष्टितम् । योगियाज्ञवल्क्यः ‘मृदा स्नानं न कुर्वीत रा. त्रिसन्ध्यागृहेषु च । विधिज्ञः स्नानकाले तु तथा भौमार्कवारयो। ततश्च गोमयेनैवमग्रमग्रमिति स्मरन् । अग्रमग्रं चरन्तीनामोषधी. नां रसं वने । तासामृषभपतीनां पवित्रं कायशोधनम् । तन्मे रोगांश्च शोकांश्च नुद गोमय सर्वदा' । ततोदूर्वायाः ‘काण्डा- काण्डात्मरोहन्ति परुषः परुषस्परि। एवं नो दूर्वे मतनुसहस्रेण श. तेन च । या शतेन प्रतनोषि सहस्रेणाधिरोहसि । तस्यास्ते दे- वीष्टके विधेम हविषा वयम् । कृत्वैवं मार्जनं मन्त्रैरश्वक्रान्तादि- भिस्ततः । ईहेत देवीरमृतं पारावतस्य रातिषु । देवीरपः पाराव- तस्य राविष्वित्यादिमन्त्रैरमृतमीहेत । एभिमन्त्रैरभिमन्त्रिता आपोऽमृतं भवन्तीयर्थः । येतेशतमिति द्वाभ्यां तीर्थान्यावाहयेत्ततः। ततो महाव्याहृतिभिर्गायत्र्या चाभिमन्त्रयेत् । आपोहिष्ठेदमापश्च द्रुपदादिव इसपि । तथा हिरण्यवर्णाभिः पावमानीभिरन्ततः । ततोऽक वीक्ष्य सोंकारं निमज्यान्तर्जले नृपः । प्राणायामांश्च कुर्वीत गायत्री चाघमर्षणम् । यथोक्तः क्षोभितस्तैस्तु मजेत्रि- १ 'आपो हिष्ठा' इत्यादि 'इमदापः प्रवहत' इत्यादिभि ऋग्भिः ॥

दशम उद्वारः। दण्डवत्ततः । यथोक्तैः प्राणायामादिभिः क्षोभितः सञ्चालितः पूर्वावस्थामतिक्रान्तो गतपाप इति यावत्। एतच्च स्नानं साधारण म, विशेषस्तु स्वशाखाभ्यो विज्ञेयः ॥ अथ सङ्केपस्नानम् । योगियाज्ञवल्क्यः एष विस्तरतः प्रोक्तः स्नानस्य विधिरुत्तमः । असामर्थ्यान्न कुर्याचेत्तत्रायं विधि- रुच्यते । स्नानमन्तर्जलं चैव मार्जनाचमने तथा । तीर्थस्यावाहनं चैव तीर्थस्य परिकल्पना । अघमर्षणमुक्तेन त्रिरात्तेन नि- त्यशः । स्नानाचरणमेतत्तु समादिष्टं महात्मभिः' इति ॥ जाबालिः 'प्रवाहाभिमुखो मजेद्यत्रापः प्रबहन्ति वै । स्थावरेषु च सर्वेषु भास्वतोऽभिमुखस्तथा । कात्यायनमतोपजीविनां तु सूर्याभिमु- खमेव मज्जनं सर्ववत्युक्तम् । मनुः 'न स्नानमाचरेद् भुक्त्वा नातुरो न महानिशि । न वासोभिः सहाजसं नाविज्ञाते जलाशये। शा. अवमृज्यान च स्नातो गात्राण्यम्बरपापिभिः । न वा विधूनयेत्केशान्वाससी न विधूनयेत् । तिस्रः कोट्योऽर्द्धकोटी च यावद्रोमाणि मानवे । सवन्ति तावतीर्थानि तस्मान्न परिमार्जयेत् । देवलः 'देवाः पिबन्ति शिरमो मुखनः पित्तरस्तथा । वक्षसोपि च गन्धर्वा अधस्तः सर्वजन्तवः' । सन्ध्यादिकरणानन्तरं परिमार्जनं वनपरि दृष्टार्थम् । योगियाज्ञवल्क्यः 'स्नात्वैवं वाससी धौते अल्किन्ने धानम्। परिधाय च। प्रक्षाल्योरू मृदा चाद्भिहस्तौ प्रक्षालयेत्तथा भृगुः 'ब्राह्मणस्य सितं वस्त्रं नृपतेरक्तमुल्वणम्।पीतं वैश्यस्य शूद्रस्य नीलं मलवदिष्यते' । उल्वणं अव्यक्तं निविडमित्यन्ये । शातातपः 'ईषद्धोतं नवं श्वेतं सदशं यन्न धारितम् ।अहतं तद्विजानीयात्सर्व- कर्मसु पावनम् । ईषद्धोतं क्षाराद्यसंयोगधौतम् । तथा ' अहतं यन्त्रनिर्मुक्तं प्रोक्तं वासः स्वयम्भुवा । प्रशस्तं तन्माङ्गलिके ताव- कालं न सर्वदा। माङ्गलिके विवाहादौ। 'प्रागनमुदगग्रं वा धौत तातपः स्मृतिसारोद्धारे। चासः प्रसास्येत् । पश्चिमाग्रंदक्षिणाग्रं पुनः प्रक्षालनाच्छुचिातथा 'अन्यदेव भवेद्वासः शयनीये नराधिप । अन्यद्रथ्यामु देवाना- मायामन्यदेव तु । अन्यच्च लोकयात्रायामन्यदीश्वरदर्शने ॥ अथ तिलकविधिः । ब्रह्माण्डपुराणे अङ्गुष्टः पुष्टिदः प्रोक्तो मध्यमायुष्करी भवेत् । अनामिकान्नदा नित्यं मुक्तिदा च प्रदेशिनी । एतैरङ्गुलिभेदैस्तु कारयेन्न नखैः स्पृशेत् । वत्ति- दीपाकृति चापि वेणुपत्राकृति तथा । पद्मस्य मुकुलाकारं त- थैव कुमुदस्य च । मत्स्यकूर्माकृति वापि शङ्खाकारमतः परम् । दशाङ्गुलप्रमाणं तु उत्तमोत्तममुच्यते । नवागुलं मध्यमं स्याद- ष्टाङ्गुलमतः परम् । ललाटे केशवं विद्यान्नारायणमथोदरे । माधवं हृदये न्यस्य गोविन्दं कण्ठकूपके । विष्णुं च दक्षिणे कुक्षौ तदभुजे मधुसूदनम् । त्रिविक्रमं कण्ठदेशे वामकुक्षौ च वामनम् । श्रीधर वामबाहौ च हृषीकेशं तु कन्धरे । पद्मनाभं पृष्ठदेशे ककुद्दामोदरं स्मरेत् । ककुदीयर्थः। वासुदेवं स्मरेन्मृनि तिलक- द्वादशं विदम् । दक्षिणे तु करे विप्रो बिभृयादै सुदर्शनम् । पद्म मत्स्य वामकरे शङ्खकूर्म गदां तथा। ललाटे तु गदाधार्या मृदुनि चापः शरस्तथा । नन्दकं चैव हृन्मध्ये शङ्ख चक्रं भुजद्वये । श- ङ्खचक्राङ्कितो मर्त्यः श्मशाने म्रियते यदि । प्रयागे या गतिः प्रोक्ता सा गतिस्तस्य नारद" | व्यासः 'गङ्गातीरसमुदभूतां मृदं मृदनि विभर्ति यः । बिभर्ति रूपं सोऽर्कस्य तमोनाशाय केव- लम् । शातातपः 'गोमतीतीरसम्भूतां गोपीदेहसमुद्भवाम् । मृदं मृा वहेद्यस्तु सर्वपापैः प्रमुच्यते । ब्रह्माण्डे 'श्यामं शान्तिकरं मोक्तं रक्तं वश्य करं भवेत् । श्रीकरं पातमिसाहुर्विष्णुभक्तिकरं सि- तम् । यागो दानं तपो होमः स्वाध्यायः पितृतर्पणम् । भस्मी- भवति तत्सर्वमृर्ध्वपुण्डं विना कृतम्' । ऊर्द्धपुण्ड्रमिति यथा- दशम उद्धारः। विकारतिलकोपलक्षणम् । 'उद्धपुण्ड्रं द्विजः कुर्यात्रिपुण्डू क्ष- त्रियस्तथा । अर्द्धचन्द्राकृतिं वैश्यो वर्तुलं शूद्रजातिषु ॥ अथ मध्याह्नस्नानसन्ध्यावन्दनानन्तरं ब्रह्मयज्ञः । तत्र योगियाज्ञवल्क्यः 'प्रदक्षिणं समावर्त्य नमस्कृत्वोपविश्य च । द. भैषु दर्भपाणिः सन्माङ्मुखस्तु कृताञ्जलिः । स्वाध्यायं च य- थाशक्ति ब्रह्मयज्ञ समाचरेत् । गौतमः 'अथ यदि वातो वाया स्तनयेद्वा विद्युत् पतेद्वा एकामृचमेकं वा ययुरेकं वा सामाभिव्याह- रेत् । भूर्भुवः स्वः ससं तपः श्रद्धायां जुहोमीतिपठेत् । स्तनये- दित्यादि सर्वानध्यायोपलक्षणम् । याज्ञवल्क्यः 'वेदाथपुरा- णानि सेतिहासानि शक्तितः। जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्या- त्मिकी जपेत् जपयज्ञो ब्रह्मयज्ञः। तस्याप्यज्ञाने गायत्रीमात्रजपः। बौधायन: 'अप आचम्य दर्भेष्वासीनो दर्भान धारयमाणः सावित्री सहस्रकृत्व आवर्तयेत् शतकृत्वोऽपरिमितकृत्वोवा दशावरामिति । वृहस्पतिः 'सचार्वाक् तर्पणात्कार्यः पश्चाद्वा प्रातराहुतेः । वैश्व- देवावसाने वा नान्यत्रेति विनिश्चयः । स ब्रह्मयज्ञः, वैश्वदेवावसाने इन्तकारान्ते। यदाह श्रुतिः 'देवयज्ञो ब्रह्मयज्ञः पितृयज्ञो मनुष्ययज्ञो भूतयज्ञ इति । कौमें 'यदि स्यात्तर्पणादर्वाक् ब्रह्मयज्ञः कृतो नहि। कृत्वा मनुष्ययज्ञं च ततः स्वाध्यायमारभेत्। मनुष्ययज्ञ सन- कायुद्देश्यकं नवतियज्ञमितिसभ्याः। ग्राममध्ये मनस्येव ब्रह्मयज्ञ कुर्यात् । 'ग्रामे मनसा स्वाध्यायमधीयीत दिवानक्तं चेति श्रुतेः। इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः । ब्रह्मयज्ञाचिंतो देवः प्रीयतां मे जनाईनः ॥ तर्पण- अथ तर्पणम् । वृहस्पतिः 'ब्रह्मयज्ञप्रसिद्ध्यर्थं विद्यां चाध्या- निर्णय मिकी जपेत् । जप्त्वाथ प्रणवं वापि ततस्तर्पणमाचरेत् । शातातपः 'तर्पणं तु शुचिः कुर्यात्प्रत्यहं स्नातको द्विजः । देवे- स्मृतिसारोद्धारे। भ्यश्च ऋषिभ्यश्च पितृभ्यश्च यथाक्रमम् । अत्रालिनियममाह व्यासः 'एकैकमअलिं देवा द्वौद्वौ च शनकादयः । अर्हन्ति पित- रस्त्रीस्त्री स्त्रियस्त्वेकैकमनलिम् । वैष्णवे 'त्रिरपः मीणनार्थाय देवा. नामपवर्जयेत् । ऋषीणां च यथान्यायं सकृच्चापि प्रजापतेः । य- थान्यायं त्रिः। योगियाज्ञवल्क्यः 'अन्वारब्धेन सव्येन पाणिनादक्षि- णेन तु । तृप्यतामिति सेक्तव्यं नाम्ना तु प्रणवादिना'। अत्र स- व्यान्वारब्धदक्षिणेन पाणिनेसालिरभिप्रेतः एकहस्तेन तोयेन नर्पणेहस्त-न कुर्यात्पितृतर्पणम्। पितरोन प्रशंसन्ति देवतानां न शस्यते' निर्णय । इति वचनादेकहस्तेन तर्पणनिषेधात् । शङ्खः 'उभाभ्यामपि हस्ताभ्यामुदकं यः प्रयच्छनि । स मूढो नरकं याति कालसूत्रमवाक्- शिराः। एतच्छाविषयमा श्राद्धे विवाहकाले चपाणिनैकेन दीयते । तर्पणं तूभयेनैव विधिरेष सनातन' इति कार्णाजिनिवचनात् । कौमें 'अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । देवर्षीस्तर्प- येद्धीमानुदकालिभिः पितॄन् । एतदपि दक्षिणइस्तस्यैव मु- बन्यकरणत्वप्रतिपादनं, तच्च पितृतीर्थादिनियमबोधनाय । नत्वे- कहस्ततर्पणपरम् । उदकालिभिः पितृनिसनेन विरोधात् । न- च देवर्षीनिति विशेषोपादानादेकहस्ततर्पणस्य तन्मात्रविषयता- स्विति वाच्यम् । एकैकमञ्जलिं देवा इत्यादिवचनविरोधात् । कौर्मवचनं शाखाभेदव्यवस्थितमित्येके । 'अन्वारब्धेन सव्येननाम्ना गोत्रेण चाप्यथ' इति योगियाज्ञवल्क्यवचनमपि सव्यहस्तस्याञ्जलि- घटकताभिप्रायकमिति सर्व समञ्जसम् । हारीतः 'वसित्वा वसनं शुक्लं स्थले विस्तीर्ण हषि । विधिज्ञस्तर्पणं कुर्यान्न तु पावे क. दाचन । एतदनुसृतोदकस्थलतर्पणविषयम् । उद्धृतोदके तु स एनाह । 'पात्राद्वा जलमादाय शुभे पात्रान्तरे क्षिपेत् । असंस्कृत- प्रमीतानां स्थले दद्याज्जलं सकृत्' । इदमनुट्टतजलतर्पणाभिप्रा.

दशम उद्धार। येण । एवं च यानि स्थलतर्पणनिषेधकानि तानि जलस्थस्य, या- नि जलतर्पणनिषेधकानि तानि स्थलस्थस्येति वचनानां विरोधः परिहरणीयः । विष्णुः 'यत्राथुचि स्थलं वा स्यादुदके देवतापिट्ट न् । तर्पयेत्तु यथा काममप्सु सर्व प्रतिष्ठितम् । एतत्तु स्थलस्या- शुचित्वे जले तर्पणमनुजानीते। हारीतः 'आर्द्रवासा जले कु- त्तिर्पणाचमनं जपम् । शुष्कवासा स्थले कुय्यातर्पणाचमनं जपम् । दक्षः 'प्रादेशमात्रमुद्धृत्य सलिलं प्राङ्मुखः सुरान् । उदङ्मनुष्यांस्तयेत् पितॄन् दक्षिणतस्तथा। अप्रैस्तु तर्पयेत् देवा- न्मनुष्यान्कुशमध्यतः । पितृस्तु कुशमूलैस्तु विधिः कौशो यथाक्र- मम् । ससवनः 'खड्गमौक्तिकहस्तेन कर्त्तव्यं पितृतर्पणम् । म- णिकाञ्चनदर्होत्रा न शुद्धन कदाचन । अत्र वा शब्दोपादानान्न समुच्चयः । योगियाज्ञवक्ल्यः 'अनामिकाधृतं हेम तर्जन्यां रूपमेव- च । कनिष्ठिकाधृतं खड्गं तेन पूनोभवेन्नरः' । मनुः 'राजतै ज. नैरेषामथवा रजतान्वितैः । वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते। शङ्खः 'सौवर्णेन पात्रेण राजनेनौदुम्बरेण खड्गपात्रेणान्यपात्रेण वोदकं पितृतीर्थ स्पृशन्दद्यादिति । अत्रामलिना तर्पणस्य विधा- नाद्याशपात्रेणालिभङ्गो न भवति तापात्रं ग्राह्यम् । पात्रा दिविधानं श्राद्धीयार्घदानपरमित्यपरे । असमर्थस्य संक्षेपतर्पण. मुक्तम् । विष्णुपुराणे 'आब्रह्मस्तम्बपर्यन्तं जगस्त्रियविति ब्रु. वन् । क्षिपेत्तोयाञ्जलींस्त्रीस्तु कुन्सिंक्षेपतर्पणम्' । पराशरः 'द्वादश्यां पञ्चदश्यां च संक्रान्तौ श्राद्धवासरे । वस्त्रं निष्पीडयेन्नै व नच क्षारेण योजयेत् । शङ्खः ‘एवं यः सर्वभूतानि तर्पयेद- न्वहं द्विज । स गच्छेत्परमं स्थानं तेजोरूपमनामयम् ॥ अथ देवार्चनम् । पाने 'सूर्यदेवं नमस्कृत्य त्रि:कृत्वा च प्रदक्षिणम् । द्विजं गां काञ्चनं स्पृष्ट्वा ततो विष्णुगृहं ब्रजेत् ।

स्मृतिसारोद्धारे। आशयस्थं ततः पूज्य प्रतिमां चापि पूजयेत्' । आशयस्थं मन- स्थम् । जलस्थमिसन्ये । नारसिंहे 'जलदेवं नमस्कृस ततो गृह- गतः पुमान् । विधिना पुरुषसूक्तेन ततो विष्णुं समर्चयेत् । वैश्व- देवं ततः कुर्याद्वलिकर्म यथाविधि' । एतेन विष्णुपूजाया एव नित्यत्वं प्राप्तम् । वैश्वदेवादिसाहचर्यात् । 'शिवं भास्करमग्नि च केशवं कौशिकीमपि । मनसानर्चयन याति देवलोकादधोगतिम् । एतत्तु शिवादीनां मानसपूजाया नियत्वं बोधयति । मनसाप्य- नयन्निति व्यवहितान्वयकल्पने मानाभावात् । अनर्चयन भक्तिमकुर्वनिति श्रीदत्तोपाध्यायाः। निगमे 'ब्रह्माणं विष्णुमी वा सूर्यमग्नि गणाधिपम् । दुर्गा सरस्वती गौरी लक्ष्मी वा नि- समर्चयेत्'। अवाप्यर्चनं भक्तिः। विष्णुपूजाया नित्यत्वे हेतुमाह योगियाज्ञवल्क्यः 'विष्णुब्रह्मा च रुद्रश्च विष्णुर्देवोदिवाकरः । तस्मात्पूज्यतमं नान्यमहम्मन्ये जनाईनात् । दद्यात्पुरुषसूक्तेन यः पुष्पाण्यप एव वा । चितं स्याज्जगदिदं तेन सर्व चराचरम् । कौमें 'पौरुषेण तु सूक्तेन ततो विष्णुं समर्चयेत् । वैश्वदेवं ततः कुर्याद्वलिकर्म तथैव च । अग्नौ च हृदये सूर्ये स्थण्डिले प्रति- मासु च। षट्स्वतेषु हरेः सम्यगर्चनं मुनिभिः स्मृतम्। ब्राह्मे 'यः पूजयेद्धरि चक्रे शालग्रामशिलोद्भवे । अश्वमेधसहस्रेण तेनेष्टं प्रतिवासरम् । यथाकाष्ठगतो वह्निर्मथ्यमानः प्रकाशते । तथा- तथाहरिर्व्यापी शालग्रामे प्रकाशते । न तथा रमते लक्ष्यां न तथा त्मपुरे हरिः । शालग्रामशिलाचक्रे यथा स रमते सदा । अग्निहोत्रं कृतं तेन दत्ता पृथ्वी ससागरा । येनार्चितो हरि- श्चक्रे शालग्रामशिलोद्भवे । यः पुनः पूजयेद्भक्त्या शालग्रामशिलाश- तम् । उषित्वा स हरेलों के चक्रवर्तीह जायते । कामक्रोधप्रलोभैश्च व्याप्तो योऽत्र नराधमः । सोपि याति हरेर्लोकं शालग्रामीशलार्चने।

दशम उद्धारः। यः पूजयति गोविन्दं शालग्रामे सदा नरः। आभूतसम्प्लवं याव- नस प्रच्यवते दिवः। एतान्यपि गुणफलान्याधाविशेषाधिका- रात् । 'ततो गृहार्चनं कुर्यादभीष्टसुरपूजनमिति दक्षवचनेऽप्य- भीष्टमुरो विष्णुरेव पूर्वोक्तवाक्यैरेकवाक्यत्वात् । अथ पुरुषसूक्तेन पूजाविधिः । आनुष्टुभस्य सूक्तस्य त्रैष्टुभं तस्य देवता । पुरुषो यो जगदीजमृषिनारायणः स्मृतः । पुरुषमूक्तस्य षोडश ऋचः, तासां न्यासे क्रम उच्यते । 'प्रथमां विन्यसेत्पादे द्वितीयां दक्षिणे करे । तृतीयां वामपाणौ तु चतुर्थी दक्षिणे तथा । पञ्चमी वामजानौ तु षष्ठीं वै दक्षिणे न्यसेत् । सप्तमी वामकुक्षौ तु अष्टमी दक्षिणेन्यसेत् । नवी ना- भिमध्ये तु दशमी हृदये तथा । एकादशी कण्ठदेशे वामबाही ततः पराम् । त्रयोदशी दक्षिणे तु आस्यदेशे चतुर्दशीम्। अक्ष्णोः पञ्चदशी चैत्र षोडशी मूर्ति विन्यसेत् । एवं न्यासविधि कृत्वा पश्चाद्यागं समाचरेत् । आद्ययावाहये देवमृचा तु पुरुषोत्तमम् । द्वितीययासनं दद्यात्पाद्यं चैव तृतीयया । अर्घश्चतुर्थ्या दातव्यः पञ्चम्याचमनीयकम् । षष्ठया स्नानं प्रदातव्यम् सप्तम्या वस्त्रमेवच। यज्ञोपवीतमष्टम्या नवम्या त्वनुलेपनम् । पुष्पं दशम्या दातव्य- मेकादश्या तु धूपकम् । द्वादश्या दीपकं दद्यात् त्रयोदश्या नि. वेदनम् । चतुर्दश्या नमस्कारं पञ्चदश्या प्रदक्षिणम् । अर्चयित्वा तु गोविन्दं षोडश्या च विसर्जयेत् । स्नाने वस्त्रे च नैवेद्य दद्या- दाचमनीयकम् । वाराहे ' हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः। पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः। अग्निष्टोमसहस्रस्तु वाजपेयशतैरपि । तत्फलं लभते देवि वि नैवेद्यभक्षणात् । अत्र श्रीकृष्णप्रसादं श्रीकृष्णभुक्तशेषं वा भुञ्जीत । तदुक्तं पाझे १ नैवेद्यस्य निवेदनमित्यर्थः ।

स्मृतिसारोद्धारे। उच्छिष्टमवशिष्टं वा भक्तानां भोजनं द्वयम् । भागवते वयो पभुक्तस्रषासोगन्धालङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां जपीमहि । स्कान्दे 'षभिर्मासोपवासश्च तत्फलं परिकी- तितम् । विष्णोर्नैवेद्यसिक्थेन फलं तदभुजतां कलौ। मुकुन्दा- शनशेषं तु योहि भुङ्क्ते दिनेदिने । सिक्थे सिक्थे तस्य पुण्यं चा. न्द्रायणशताधिकम् । अम्बरीष नवं वस्त्रं फलमन्नं रसादिकम् । कृत्वा कृष्णोपभोग्यं हि सदा सेव्यं च वैष्णवैः । नैवेद्यशेषं तुल. सीविमिश्रं विशेषतः पादतलेन विष्णोः । योऽइनाति निसं पुर- तोमुरारेः प्रामोति यज्ञायुतकोटिपुण्यम् । अत्र नैवेद्यस्य शेषं भक्षयेदिति षष्ठीसमासमाहुरभागवताः । तन्न । कर्मधारयस्य लघु- स्वात् । वैष्णवाय दत्ता भुञ्जीतेति तस्यापि शेषत्वोपपत्तेः। केचित्तु अपि दीपावलोकं मे नोपयुज्यान्निवोदितमिति भागवतवचनेन स्व- निवेदितस्य स्त्रोपभोगनिषेधान्नैवेद्यभक्षणवाक्यानि परदत्तनैवेद्य- पराणीत्याहुः । तन्न । भागवतवचनस्य स्थावरपरत्वात् । परस्मै निवेदितं मे मह्यं नोपयुंज्यादिति वा तदर्थात् । शक्तौ गौण्या- दिकल्पनविरोधाच्च । अनिवदितभक्षणस्यापराधेषु परिगणनात् । स्वदत्तस्य स्वोपयोगविरोधे चरणोदकचन्दनकुसुमादेरपि स्वय- मनुपयोगापत्तेः । नचेष्टापत्तिः । सकलशिष्टाचारविरोधादिति । नैवेद्यभक्षणे श्रुतिरप्याह 'एक एव नारायण आसीन ब्रह्मा नेमे द्यावापृथिव्यौ, सर्वे देवाः सर्वे पितरः सर्वे मनुष्या विष्णुनाऽशित- मश्नन्ति विष्णुना घ्रातं जिघ्रन्ति विष्णुना पीतं पिबन्ति तस्माद्वि- द्वांसो विष्णूपहृतं भवेयुरिति । अनिवेदितभक्षणे निन्दा च 'पत्रं पुष्पं फल तोयमन्नं पर्णमथौषधम् । अनिवेद्य न भुञ्जीत यदाहा- राय कल्पितम् । अनिवेद्य तु भुञ्जानः प्रायश्चित्तीयते नरः। पाझे 'अनप्पयित्वा गोविन्दे यो भुङ्क्ते धर्मवर्जितः । शुनो वि.

दशम उद्धारः। ठासमं भक्ष्यं नीरं तु मुरया समम् । अनिवेद्य तु यो भुङ्क्ते हरये पर- मात्मने । मज्जन्ति पितरस्तस्य नरके शाश्वती:समाः। अवैष्णवा- नामन्नं च पतितानां तथैव च । अनम्पितं तथाविष्णोः श्चमांस- सदृशं भवेत् । अवैष्णवगृहे भुक्त्वा मूलं साष्टशतं जपेत्' इति । च. रणोदकमपि पूजान्त एव पेयं न वैश्वदेवान्ते शुद्ध्यापादकत्व- श्रुतेः । अतः पावनार्थत्वादेकादश्यामपि तत्पानविरुद्धमेव । ये त्वेकादश्यां श्राद्धामाक् च हरिचरणपयो न पिबन्ति ते उपेक्ष- णीयाः। प्रमाणाभावात् । जलपारणदर्शनेन पानमात्रनिषेधे आ- चमनाधकरणप्रसङ्गात् । नच द्वादश्यां चरणोदकेन पारणविधा- नादेकादश्यामपेयत्वमायाति। दुग्धसिनादेरप्येकादश्यामनुपादान- प्रमङ्गात् । आचमनादिकं विहितवाददुष्टमितिचेत् । तुल्यम् चर- णोदकेऽपिशुद्ध्यापादकत्वस्य समानत्वात् । अशितं नांशितं च तदिसादि वचनाचतिदिक् ॥ अथ पूजोपयुक्तपुष्पाणि नारसिंहे 'पुष्पैररण्यसम्भूतैः पत्रैश्च गिरिसम्भवैः । अपर्युषितनिश्छिद्रैः मोक्षितैजन्तुवर्जितैः । आ- स्मारामोद्भवैर्वापि पुष्पैः सम्पूजयेद्धरिम् । शमीपुष्पं बिल्वपत्रं चम्पकं तगरं तथा । वनमालाप्यशोकं च सेवन्ती कुअमालती। त्रिसन्ध्यं च तथा श्वेतं कुन्दं च शतपत्रकम् । मल्लिका चैव जातीच सर्वपुष्पाद्विशिष्यते । जातीपुष्पमहस्रेण यच्छेन्मालां सुशोभनाम् । विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शृणु कल्पकोटिसहस्राणि कल्पकोटिशतानि च । वसेद्विष्णुपुरे श्रीमान्विष्णुतुल्यपराक्रमः ।। अथ पत्राणि 'आपामार्ग भृङ्गराज शमीपत्रं च खादिरम्।दुर्वाच कुशपत्रं च दमनं मरुबकं तथा । ततः श्रेष्ठं बिल्वपत्रं ततस्तु तुलसी वरा । येषामुशन्ति पुष्पाणि प्रशस्तान्यर्चने हरेः । पल्लवान्याप १ 'प्राहुरभणं विप्रा' इति पूर्वः पादः ।

स्मृतिसारोद्धारे। : तेषां स्युः शस्तान्य_विधौ हरेः। वीरुधामप्यभावेतु बहिषाप्यर्च- येद्धरिम् । अपराधसहस्राणि अपराधशतानि च । पझेनैकेन देवे- शाः क्षमते हेलयाचितः । पनेनैकेन देवेशमभ्यर्च्य कमलापतिम् । वर्षायुतसहस्रस्य पापस्य कुरुते क्षयम् ।अगस्यक्षसम्भूतैः कुसुमै- रसितैः सितैः। येऽचयन्ति जगन्नाथं तैः प्राप्तं परमं पदम्। सुवर्ण- केतकीपुष्पं यो ददाति जनार्दने।कोटिजन्मार्जितं पापं दहते गरुड- ध्वजः। सकृत्कदम्वपुष्पेण हेलया हरिरर्चितः। सप्तजन्मानि देव- र्षे तस्य लक्ष्मीन दूरगा। कुम्भीपुष्पं तु देवर्षे यः प्रयच्छति केशवे। मुवर्णपलदानस्य पुष्पे पुष्पे भवेत्फलम् । गारुडे 'धात्रीपुष्पेण यत्पुण्यं जयन्याः समुपोषणे । खगेन्द्र यल्लभेन्मय॑स्तुलसीपूजनेन तत् । स्कान्दे 'विष्णुमूनि स्थितं पुष्पं शिरसा यो बहेन्नरः । अपर्युषितपापः स्याद्यावयुगचतुष्टयम्'। अथ वानि 'उग्रगन्धी- वर्ण- न्यगन्धीनि कुसुमानि न दापयेत् । अन्यायतनजातानि कण्ट- पुष्याणि। कीनि तथैव च । रक्तान्बकालजातानि चैत्यवृक्षोद्भवानि च । श्मशानजातपुष्षाणि विष्ठाराशिभवानि च । क्रकराख्यस्य पु- पाणि तथा बत्तूरकस्य च । कृष्णं च कुटजं चार्क नैव देयं जना- र्दने । शाल्मलं च शिरीषं च बृहती गिरिकर्णिकाम् । सर्जकं चैव कूष्माण्डं काञ्चनालं च वर्जयेत्' । विष्णुरहस्ये 'न शुष्कैः पूजये- द्विष्णुं कुसुमैन महीं गतः । न विशीर्णदलैर्मुक्तैर्न चैवाशुविकाशि- तः । तथा ' जलं पर्युषित खाज्यं पत्राणि कुसुमानि च । तुल- स्यगस्यबिल्वानि गाङ्गं वारि न दुष्यति । स्नानं कृत्वा तु ये के- चित्पुष्पं चिन्वन्ति वै द्विजाः । देवतास्तन्न गृह्णन्ति भस्मीभवति काष्ठवत्" । अत्र पुष्पमित्युपादानात्पत्रमनिषिद्धम् । एतच्च मध्या- स्नानानन्तरं वेदितव्यम् । सदामातःस्नायिनः पुष्पावचयका- लस्य कदाप्यलाभादिति ॥

दशम उद्धारः। । अथ पञ्चयज्ञस्वरूपम् । तत्र यमः ‘पञ्चसूना गृहस्थस्य वर्त- पञ्चसूना-नतेऽहरहः सदा । कण्डनी पेषणी चुल्ली उदकुम्भ उपस्करः। निर्देश । एतानि वाहयन्विप्रो हन्ति जन्तुन्मुहुर्मुहुः। एतासां पावनार्थाय पञ्चयज्ञाः प्रकीर्तिताः । सूना हिसास्थानाम् । कण्डनी उलूख- लादि । पेषणी दृषदादि । चुल्ली पाकस्थानम् । उदकुम्भ उद- काधानम् । उपस्करः शूर्पादिः । नच कण्डनादिनिमित्तश्रव- णान्नैमित्तिकत्वमाशङ्कनीयम् । पञ्चयज्ञविधानं तु गृही नियं न हापयेत्' इति शङ्खवचनेन नित्यत्वस्य बोधनात् । के ते प- ञ्चयज्ञा इसाकाङ्क्षायां यमः ।' ब्रह्मयज्ञो देवयज्ञः पि- तृयज्ञस्तथैव च । भूतयज्ञो नृयज्ञश्च पञ्चयज्ञाः प्रकी- तिता । इर्द लक्षणमाह यम: अध्यापनं ब्रह्मयज्ञः पि. तृयज्ञस्तु तर्पणम् । होमो दैवो बलिभौंतो नृयज्ञो ऽतिथिपूजन- म्' । अध्यापनमध्ययनोपलक्षणम् । पितरस्तप्र्यन्ते अनेनेति पि- तृतर्पणम् श्राद्धादिः। 'स्वाध्यायेनार्चयेतर्षीन होमैवान् यथावि- धि । पितॄन् श्राद्धेन नृनन्नैर्भूतानि वलिकर्मणा' इति मनुवचनात् । पितृयज्ञे विशेषमाह कासायनः 'श्राद्धं वा पितृयज्ञः स्यात्पित्रो- बलिरथापि वा । श्राद्धं नियश्राद्धम्। वैश्वदेवमध्ये पितृभ्यः स्व- धास्त्विति यो बलिर्दीयते स वा पितृयज्ञः।मनुष्ययज्ञार्थमतिथि भो- जयेत् । भोजनपर्याप्तान्नदानासमर्थस्य विकल्पमाह कार्णाजिनिः 'मिक्षां वा पुष्कलं वापि हन्तकारमथापि वा । भिक्षादिलक्षण- माह मनुः 'ग्रासमात्रं भवद्भिक्षा अग्रं ग्रासचतुष्टयम् । अग्रं च- तुर्गुणीकृत्य हन्तकारो विधीयते' । पुष्कलमग्रमिति पर्यायौ । अथ नित्यश्राद्धम् । तत्र मनुः 'दद्यादहरहः श्राद्धम्' इति । मार्कण्डेयः 'कुर्यादहरहः श्राद्धमनायेनोदकेन वा । पितॄनुद्दिश्य विप्रांस्तु भोजयद्विप्रमेव वा' । प्रचेताः 'नाग्नौकरणहोमश्च ना. ..

स्मृतिसारोद्धारे। वाहनविसर्जने । न पिण्डदानं न सुरान्निसे युज्याद् द्विजोत्तमः । उपविश्यासनं दत्वा सम्पूज्य कुसुमादिभिः ।निर्दिश्य भोजयित्वा तु किश्चिदत्वा विसर्जयेत्' । न सुरान् न विश्वेदेवान् । 'नाचा- हनस्वधाकारपिण्डाग्नौकरणादिकम् । ब्रह्मचर्यादिनियमो वैश्व- देवस्तथैव च । तत्तु षापौरुषं ज्ञेयं दक्षिणापिण्डवर्जितम् । कासायनः 'एकमप्याशयद्विमं पितृयज्ञार्थसिद्धये । अदैवं ना- स्ति चेदन्यो भोक्ता भोज्यमथापि वा । अप्युद्धृय यथाशक्ति किञ्चिदन्नं यथाविधि । पितृभ्य इदमित्युक्त्वा स्वधाकारमुदाहरे- त्' । एतदुद्धृतमन्नं ब्राह्मणायैव दद्यात् । तदभावे गोभ्यो वा । सदुक्तं कौमें 'उद्धृय वा यथाशक्ति किञ्चिदन्नं समाहितः । वे- दतत्वार्थविदुषे द्विजायैवोपपादयेत् । तथा सर्वेषामप्यलाभे तद- नं गोभ्यो निवेदयेत्' । गवामप्यलाभे विष्णुः 'भिक्षुकाभावेऽन्नं गोभ्यो दद्यादग्नौ वा प्रक्षिपेदिति । अशक्ते मनुः 'दद्यादह- रहः श्राद्धमन्नाघेनोदकेन वा । पयोमूलफलैर्वाऽपि पितृभ्यः प्रीतिमावहन्' । पयोदुग्धम् । चमत्कारखण्डे 'नियश्राद्धं न कु. वीत प्रसङ्गायत्र सिद्ध्यति । श्राद्धान्तरे कृते ऽन्यत्र नित्यत्वातन्त्र हापयेत्' । श्राद्धान्तरे षट्पुरुषश्राद्धे ऽमावस्याश्राद्धनान्दीमुखादौ श्राद्धे कृते निसं श्राद्धं न कर्त्तव्यम् । तस्मिन् श्राद्धे पूज्यानां पूजितत्वात् । अन्यत्र सांवत्सरिकादौ कृते ऽपि कर्त्तव्यम् । षण्णा- मपूजितत्वादित्यर्थः॥ वैखदेव- अथ वैश्वदेवम् । कात्यायनः 'सायम्प्रातर्वैश्वदेवः कर्त्तव्यो निर्णय बलिकर्मच। अनश्नतापि शततमन्यथा किल्बिषी भवेत् । मनुः 'वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् । तस्मै चान्नं यथाशक्ति प्रदद्यान्न बलि हरेत् । अस्यार्थः-वैश्वदेवानन्तरमतिथिपूजायां कृतायां द्वितीयोऽतिथिर्यद्यागच्छति अन्नं च न पक्कमस्ति तदा पुनः दशम उद्धार। ૨૯ - पाकं कृत्वा तस्मै दद्यात, न बलि हरेत, अन्नसंस्कारार्थं प्रसक्तं पुनर्वैश्वदेवं न कुर्वीतेति । एतच्च यस्मिन्नग्नौ पाकस्तत्रैव, यदुक्तं कौम ' यदि स्याल्लौलिके पाकस्ततोऽन्नं तत्र हूयते । शालाग्नौ तत्र चेदनं विधिरेष सनातनः । लौकिके वैदिके वापि हृतोन्मृष्टे जले क्षितौ' । लौकिकाग्नेः पात्रान्तरकरणमाह- रणम्, स्मार्तस्य वृद्धोधनमाहरणम्, उन्मार्जनं भस्मीकरणम् । कात्यायन: ' उद्धृतं हविरासिंच्य हविष्येण घृतादिना । स्व- शाखाविधिना हुत्वा तच्छेषेण बलिं हरेत्' । व्यासः 'जुहुयात्स- पिषाभ्यक्तं तैलक्षारविवर्जितम् । दध्यक्तं पयसाभ्यक्तं तदभावे. म्भसापि च । चतुर्विंशतिमत्ते 'अलाभे येन केनापि फलशाकोद- कादिना । पयोदधिघृतैः कुर्याद्वैश्वदेवं श्रुवेण तु । हस्तेनानादि- भिः कुर्यादद्भिरजलिना जले । परिशिष्टे 'शाकं वा यदि वा पत्रं मूलं वा यदि वा फलम् । संकल्पयेद्यमाहारं तेनासौ जुहु- यादपाम् । पयःमभृतिरसद्रव्याणां होमः श्रुवेण, हविष्यादि- कठिनद्रव्याणां तु हस्तेन । आपस्तम्बः 'न क्षारलवणानां हो. मोविद्यते, तथा परान्नमस्पृष्टस्य, उदीचीनमुष्णं भस्मापोह त. स्मिन् जुहूयाधुनमाहूतं चाग्नौ भवतीति । अस्यार्थ:-क्षार- लवणपरान्नसंस्पृष्टेन हविष्येणाग्नौ होमो न कार्यः, किन्तूष्णं भस्म अग्न्यायतनादुत्तरतोऽपोह्य तस्मिन् होतव्यम् । उष्णमङ्गार- मिश्रितम् । यदाह बौधायनः 'अङ्गान्भस्मविमिश्रांस्तु उद्धृत्यो- तरतोऽनलाव । जुहुयाद्वैश्वदेवं तु यदि क्षारादिमिश्रितम्' । तथा- परोक्षमन्नं संस्कृतमग्नावधिश्रित्याद्भिः प्रोक्षेत् । तदेव पवित्र- मियाचक्षते । अधिश्रयणं पुनरग्नेरुपस्थापनमात्रमन्नमहित पात्र- स्य, एतच्च सायं प्रातः कर्त्तव्यमित्युक्तम् । तत्र सायं विशे. षमाह मनुः मायमन्नस्य सिद्धस्य पत्न्यमन्त्रं बलि हरेत् । वै.

२८६ स्मृतिसारोद्धारे। श्वदेवं हि नामैतत्सायं प्रातर्विधीयते एवं कृतदेवयज्ञस्य बहिर्बलिमाह भूत- मनुः 'शुनां च पतितानां च श्वपचां पापरोगिणाम्। वायसानां बाल । कृमीणां च शनकैनिःक्षिपेद्भुवि । एतच्च वैश्वदेवाख्यं कर्म न दि- वा द्विर्नक्तं च द्विराचरेत् । यदुक्तं वैष्णवे 'धविन्नाचरेत्स्नानमाह्निकं ध पुनः पुनः । तर्पणं ब्रह्मयज्ञं च वैश्वदेवं च नाचरेत् । वैश्व- देवं बलिकर्म च सायम्प्रातः, पञ्चयज्ञास्तु दिवैवेसाह जैमिनिः 'वैश्वदेवं तथा रात्रौ कुर्याद्वलिहृतं तथा । महतः पञ्चयज्ञांस्तु दिवैवेसाह धर्मवित्' । अनग्निकस्य विशेषमाह वसिष्ठः ' अन- ग्निकस्तु यो विप्रः सोग्निव्याहृतिभिः स्वयम् । हुत्वा शाकलम- त्रैस्तु शिष्टाद् भूतबलि हरेत् । अनग्निकः श्रौतस्माताग्निरहितः, अत्र कासायनोक्तविधेः साग्निकमावपरत्वं, तत्र मणिकसंनिधाने बलिहरणाभिधानात् । उदपावविशेषे मणिकपदं शक्तम् । ' अ- लअरः स्यान्मणिक' इत्यभिधानात् । अलअरसन्निधाने साग्निक- स्यैव बलिहरणप्रतिपादनात् । तस्मादसिष्ठोक्तो विधिनिरग्निकमात्र- पर इत्यवधेयम् । व्यासः ' अकृते वैश्वदेवे तु भिक्षुके गृहमागते। उद्धृत्य वैश्वदेवार्थ भिक्षां दत्वा विसर्जयेत् । भिक्षुका आप तेनै- वोक्ताः 'ब्रह्मचारी यतिश्चैव विद्यार्थी गुरुपोषकः । अध्वगः क्षीणत्तिश्च षडेते भिक्षुकाः स्मृताः ॥ अथ वैश्वदेवपाकनिर्णयः । अत्र दर्शश्राद्धं प्रकृतिरतस्तन्नि- येनैव तद्विकृतीनामपि निर्णय इति प्रकृतौ विचार्यते । किं श्राद्धार्थ वैश्वदेवार्थं च एक एव पाक उत पृथगिति । अत्र लौगाक्षिः 'पि- त्रथै निर्वपेत्पाकं वैश्वदेवार्थमेव च । अत्र पाकस्य पृथक्त्वमपृथक्त्वं वेति सन्देहे उत्तरार्द्धनार्थं विकृणोति स एव, 'वैश्वदेव न पित्रर्थ न दर्श वैश्वदेविकम्' इति । अयं च पृथक्पाको वैश्वदेवस्य श्राद्धा- त्पूर्व वेदितव्यः । यदाह पैठीनसिः 'पितृपाकात्समुद्धृय वैश्वदेवं दशम उद्धार। २८७ करोति यः । आमुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते । श्राद्धं निवर्त्य विधिवद्वैश्वदेवादिकं ततः । कुर्याद्भिक्षां ततो दद्यादन्त- कारादिकं तथा'। अत्र प्रथमततः शब्दो हेतुपरः द्वितीयस्तु श्राद्धा- वशिष्टान्नपरः, तेनायमर्थः पर्यवस्यति, यतः श्राद्धात्पूर्व मध्ये वा आसुरं तद्भवेच्छ्रादमिति निषेधस्ततस्तस्माद्धेतोः श्राद्धं निवर्त्य तदनन्तरं तदवशिष्टादन्नाद्वैश्वदेवादिकं कर्त्तव्यमित्नि । यदा ब्राह्म- णविसर्जनानन्तरं वैश्वदेवस्तदा तच्छेषेण अन्यत्र पृथक्पाकनेति- सिद्धान्तः ॥ अथ वैश्वदेवकालः । तत्र लौगाक्षिः 'पक्षान्तं कर्म निवर्त्य वैश्वदेवं च साग्निकः । पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं बुधः। पक्षान्तमन्वाधानम् । अन्वाहार्यकं दर्शश्राद्धम् । एवं यानि श्राद्धा- त्पूर्व वैश्वदेवविधायकानि वचनानि तानि श्रौतानिविषयाणि। अत साग्निक- एव साग्निक इयौपासनाग्निव्यावर्त्तकम्। अन्यथा पक्षान्तपिण्ड- निरग्निक- पितृयज्ञमध्यविधिबलादेव वैश्वदेवस्य माग्निकककत्वावगतेः योश्वदेव । साग्निक इति व्यर्थं स्यात् । सानिकस्यापि एकादशाहश्राद्ध पश्चादेव वैश्वदेवम् । 'सम्प्राप्ते पार्वणश्राद्धे एकोद्दिष्टे तथैव च । अग्रतो वैश्वदेवः स्यात्पश्चादेकादशेऽहनि'। इति परिशिष्टवचनात्। शालङ्कायनः ' श्राद्धे प्रागेव कुर्वीत वैश्वदेव तु साग्निकः । एका. दशाहिकं भुक्त्वा तव ह्येतद् विधीयते । तस्मादौपासनाग्निमतो निर- नेश्च श्राद्धमध्ये विकिरान्ते ब्राह्मणविसर्जनान्ते च वैश्वदेवमाया- तम् । यानि च श्राद्धादौ वैश्वदेवनिषेधकानि तानि तान्याप त- पोरेवेति ध्येयम् । निषेधश्च षट्त्रिंशन्मते 'प्रतिवासरिको होमः श्राद्धादौ क्रियते यदि। देवा हव्यं न गृह्णन्ति कव्यानि पितरस्तथा। वृद्धगौतमः 'पितृश्राद्धमकृत्वा तु वैश्वदेवं करोति यः । अकृतं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते । वसिष्ठः 'वैश्वदेवमकृत्वैव - ર૮૮ स्मृतिसारोद्धारे। श्राद्धं कुर्यादनग्निकः । लौकिकाग्नौ हुतशेषः पितॄणां नोपतिष्ठते' । अनग्निकः वैदिकाग्निरहितः, तस्य वयः कालाः। तत्र श्राद्धमध्य- कालो ब्रह्माण्डे 'वैश्वदेवाहुतीरनावा ब्राह्मणभोजनात् । जुहु- याद् भूतयज्ञादिश्राद्धं कृत्वा तु तत्स्मृतम्' । ब्राह्मणभोजनादक अग्नौ करणानन्तरमियर्थः। न चैवमनङ्गव्यवायः पूर्वेधुनिमन्त्रितेषु श्राद्धापरिसमाप्तावेव प्रात)मविरोधात् । विकिरान्तकालो भविष्ये 'पितॄन्सन्तर्प्य विधिवद्धलिं दत्वा विधानतः। वैश्वदेवं ततः कुर्या- त्पश्चाब्राह्मणभोजनम् । बलिस्वरूपं तत्रैव 'ये अग्निदग्धामन्त्रेण भूमौ यन्निःक्षिपेद्बुधः । जानीहि तं बलिं वीर श्राद्धकर्मणि सर्व- दा।ब्राह्मणविसर्जनान्तकालो मात्स्ये 'उच्छेषणं तु तत् तिष्ठेद्याव- द्विप्रा विसर्जिताः। वैश्वदेवं ततः कुर्यान्नित्ते पितृकर्मणि' । मनुः पूर्वार्द्धं तदेव उत्तरार्द्धन्तु 'ततोगृहबलिं कुर्यादिति धर्मो व्यव- स्थितः' । बलिशब्देनात्र वैश्वदेवमुच्यत इतिमेधातिथिः । भविष्ये * श्राद्धं कृत्वा महाबाहो ब्राह्मणांश्च विसय॑ च । वैश्वदेवादिक कर्म ततः कुर्यान्नराधिप ॥ अथातिथिपूजा । तत्र वैष्णवे 'ततो गोदोहमात्रं तु तिष्ठे- कालं गृहाङ्गणे। अतिथिग्रहणार्थाय सदृर्द्ध तु यदृच्छया । वैया- घ्रपाद: अचिन्तितमनाहूतं वैश्वदेवेष्ववस्थितम् । अतिथिं तं विजानीयान्नैकग्रामनिवासिनम् । क्षुधार्तस्तृषितश्चैव स्नातो गृहमु- पागतः। प्रयत्नेन तु सम्पूज्यः सोऽतिथिः स्वर्गसंक्रमः । इष्टो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा। सम्प्राप्तो वैश्वदेवान्ते सो- ऽतिथिः स्वर्गसंक्रमः। न पृच्छेद्गोत्रचरणं न स्वाध्यायं व्रतानि च। चित्ते न भावयेत्तं वै सर्वदेवमयो हि सः' । विष्णुः 'अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते । स तस्मै किल्बिषं दत्वा पुण्यमादाय गच्छति । याज्ञवल्क्यः 'दिनातिथौ तु विमुखे गते यत्पातकं भवे.

दशम उद्धारः। । छ । तदेवाष्टगुणं प्रोक्तं सूर्योदे विमुखे गते । सूर्योदेऽर्कास्तागते ।। अथ गोग्रासः ऋष्यशृङ्गः ' गवां ग्रास च कुर्वीत नित्यमेव समाहितः । गवां कण्डूयनं स्पर्श ग्रासमाग्रेिकमेव च । मार्कण्डेय: 'अस्नाताशी मलं भुङ्क्ते अजपी पूयशोणितम् । अहुत्लानौ कृमि भुङ्क्ते अदत्वा विषमेव च । आत्मार्थ पचनं यस्य रत्यर्थ यस्य मैथुनम् । सर्थ यस्य चाधीतं निष्फलं तस्य जीवितम् ।। अथ भोजनविधिः । दक्षः 'पञ्चमे च तथा भागे सविभागो भोजन- यथार्हतः देवपितृमनुष्याणां कीटानां चोपदिश्यते । संविभागं विधि ततः कृत्वा गृहस्थः शेषभुग्भवेत्' । संविभागः शास्त्रतो विभज्य प्रतिपादनम् । देवल: 'स्नात्वा प्रक्षाल्य पादौ तु स्रग्गन्धालंकृतः शुचिः । पञ्चयज्ञावशिष्टं तु योभुङ्क्ते सोऽमृताशनः । बौधायन: 'सुप्रक्षालिनपादोऽप आचम्य शुचौ संहते देशेऽनमुपसंगृह्य काम- क्रोघलोभमोहानपहख सर्वाभिरङ्गुलीभिः शब्दमकुर्वन् प्राश्नीपात, नापिण्डशेष पात्रमुत्सृजेत्' । आपस्तम्बः 'यस्तु भोजनशालायां भोक्तुकाम उपस्पृशेत् । आसनस्थोऽथवान्यत्र स विप्रः पंक्तिदूषकः । ब्राह्मे ' उपलिप्ते समे स्थाने शुचौ शुद्धासनस्थिते । मण्डलं गोमयेन स्यादथवा गौरमृत्स्नया । चतुरस्त्रं त्रिकोणं च व- तुलं चार्द्धचन्द्रकम् । कर्त्तव्यमानुपूर्वेण ब्राह्मणादिषु मण्डलम् । ब्रह्मरुद्रेन्द्रचन्द्रार्कवसवो मण्डलान्तरात् । निवेदितं नरैरनं यस्मा- दृगृह्णन्ति नान्यथा। अकृत्वा मण्डलं ये तु भुअतेऽधमयोनयः तेषां तु यक्षरक्षांसि हरन्त्यन्नस्य तद्वलिम् । शङ्खः 'चतुष्कोणं द्विजाग्रस्य विकोणं क्षत्रियस्य तु । मण्डलाकृति वैश्यस्य शूद्रस्याभ्युक्षणं मतम् । अत्र शूद्रस्यार्द्धचन्द्राभ्युक्षणयोर्विकल्पः । आसनमाह प्रचेताः 'गोशकुन्मन्मयं भिन्नं तथा पालाशपैप्पलम् । लोहबन्धं सदैवार्क वर्जयेदासनं बुधः । एतदतिरिक्तं प्रशस्तमासनम् । मनुः 'आयुष्यं २९. स्मृतिसारोद्धारे। भोजने दिकूपात्रा-प्राङ्मुखो भुक्ते यशस्यं दक्षिणामुखः। श्रियं प्रत्यङ्मुखो दिनिर्णय भुङ्क्ते ऋतंभुक्ते उदङ्मुखः। प्राङ्मुख आयुष्कामः यशोर्थी दक्षिणामुखः। श्रीकामः प्रसङ्मुखो न शयनाधिष्ठितोऽश्नीयात् न कार्णायसेन मृत्पात्रे न मिन्ने नावकीर्णे'। अवकीर्णे दुर्ब्राह्मण- भोजनक्रियया दृषिते । वामनपुराणे 'भुञ्जीत नैवेह च दक्षिणा- मुखो नच प्रतीचीमभिभोजनीयम्' । अत्र प्रसङ्मुखादिभोजन- निषेधो निष्कामविषयः । सकामविहितत्वात् । सकामस्यापि जीवन्मातृकस्य दक्षिणामुखभोजनं निषिद्धम् । यदाहापस्तम्बः 'वाग्यतो दक्षिणामुखो भुञ्जीत अनायुष्यत्वं तन्मुखभोजनं मा- तुरनूपदिशन्तीति । विष्णुपुराणे ' नैकवस्त्रघरो ऽप्याद्रपाणिपादो नरेश्वर । विशुद्धबदनः प्रीतो भुञ्जीत न विदिङ्मुखः। प्राङ्मुखो दङ्मुखोवापि न चैवान्यमना नरः' । प्राङ्मुख उदङ्मुखो वा भुञ्जीतेत्यन्वयः । कौम ' यो भुङ्क्ते वेष्टितशिरा यश्च भुङ्क्ते विदिङ्- मुखः । योहि भुङ्क्ते दक्षिणमुख सर्व विद्यात्तदासुरम् । मनुः 'सायं प्रातद्विजातीनामशनं देवनिर्मितम् । नान्तरा भोजन कुर्यादग्निहोत्रसमोविधिः । सायं रात्रौ, मातर्दिने । अत एवं छन्दोगपरिशिष्टे ‘ऋषिभिदिरशनमुक्तं विप्राणां मर्त्यवासिनां- नित्यं । अहनि च तथा रजन्यां साईप्रहरैकयामान्तः । पैठीनसिः 'सौवर्णे राजते ताने पापालाशपत्रयोः । भाजने भोजने चैव त्रिरात्रफलमश्नुते । अत्र ताम्रादिपात्रत्रये भोजनमगृहीपरम् । सदाहवृद्धमनुः 'ताम्रपात्रे न भुञ्जीत भिन्नकांस्ये मलाविले । प- लाशपद्मपत्रेषु गृही भुक्कैन्दवं चरेत् । केचित्तु निषेधोबल्लीप- लाशपरः । विधिस्तरुपलाशविषय इत्याहुः । 'एक एव तु यो भुत विमले कांस्यभाजने । चत्वारि तस्य शोभन्ते आयुः प्रज्ञा यशोबलम् । वृहन्नारदीये यः शूद्रेण समाहूतो भोजनं कुरुते - दशम उद्धारः। द्विजः । सुरापः सहि विज्ञेयः सर्वधर्मबहिष्कृतः। अत्रिः 'आसने पादमारोप्य यो भुङ्क्ते ब्राह्मणःकचित् । मुखेन चानमश्नाति तुल्यं गोमांसभक्षणात् । मार्कण्डेयः 'पादप्रसारणं कृत्वा नच वेष्टि- तमस्तकः । न्यस्तपात्रस्तु भुञ्जीत पञ्च ग्रासान्महामुने । शेषमुफ़्य भोक्तव्यं पित्रथै न तु लुप्यते । ब्राह्मे 'पित्र्ये कर्मणि भुञ्जानो भूमौ पात्रं न चालयेत् । विष्णुः 'न भिन्नभाजने नोत्सङ्गे न भुवि न पाणौ । मार्कण्डेयः ‘यस्तु पाणितले भुङ्क्ते यशश्चायुष्य मश्नुते । अङ्गुली चोद्धरेद्यस्तु गोमांसाशनवत्स्मृतम् । वसिष्ठः 'सर्वाभिरगुलीभिरश्नीयात्पाणि च नावधुनुयात् । विष्णुः 'नो. च्छिष्टे घृतमादद्यात् । आदित्यपुराणे 'नोच्छिष्टोग्राहयेदाज्यं ज. ग्वशिष्टं न संत्यजेत् । शूद्रभुक्तावशिष्टं तु नाद्याद्भाण्डस्थितं कचित् । गोभिलः 'अथातः प्राणाहुतिकल्पः, व्याहृतिभिर्गायच्या चाभिमन्थ्य ऋनं च ससेन परिषिञ्चामीति सायं, सत्यं वर्तेन परिषिञ्चामीति प्रातः परिषिच्य बलि हरेत् । तत्र ब्रह्मादिबलि- हरणमशब्दम् । अत्र मण्डलं विना ब्रह्मादयो बलि न गृहन्ति । किन्तु राक्षमादय इत्युक्तत्वादशब्दमार्षम् । भविष्ये 'भोजनात्कि- चिदनाग्रं धर्मराजाय वै बलिम्। चित्राय चित्रगुप्ताय प्रेतेभ्यश्चेदमु- द्धरत्' । ततो वः पतये भुवनपतये भूतानां पतये स्वाहेति मन्त्रत्रयेण बलित्रयं देयमित्युक्तम् । तत्र शाखादिनियामकं नोपलभ्यते इति देशकुलाचारतो व्यवस्था । ब्राह्मे 'हस्तेन लक्येन्नान्नं सोदकेन कदाचन । दम्भायो लंघयदन्नं तेनानं निहतं भवेत् । छन्दोगस- अहे 'आपोशानकरोविमो य आशीर्वचनं वदेत् । अभोज्यं तद्भवे- दन्नं दाता भवति किल्बिषी । आपोशानं तु यः कुर्याद्यमभागे तथैव च । सद्यः पिबत्सुरापाणमिसेवं मनुरब्रवीत् । आपोशान- मकृत्वा तु यो भुङ्क्तेऽनापदि द्विजः । भुआनो यदि वा ब्रूयाद्गा- स्मृतिसारोद्धारे। ययष्टशतं जपेत् । वैष्णवे 'पञ्चग्रासानमहामौनं प्राणाधाप्यायनाय तत्' । महामौनमियनेन ध्वनिनिवृत्तिरप्यभिमता । शातातपः 'स्नास्यतो वरुणः शक्तिं जुहृतोऽग्निः श्रियं हरेत् । भुनानस्य पमश्चायुस्तस्मान्न व्याहरेत्रिषु' । अपामशने मन्त्रमाह हारीत: 'अमृतोपस्तरणमसीसपः पीत्वाऽस्वनन् पञ्चग्रासान् गृह्णीयाव, मा. अशनपूर्व णाय स्वाहेति गाईपसमेव तेन जुहोति।अपानाय स्वाहेति अ. कृत्यम् । न्वाहार्यमेव तेन जुहोति । व्यानाय स्वाहेत्याहवनीयमेव तेन जु- होति। उदानाय स्वाहेति सभ्यमेव तेन जुहोति। समानाय स्वाहेत्याव- सथ्यमेव तेन जुहोति'इति । शौनकः। 'स्वाहान्ताः प्रणवाद्याश्च नाम्ना मन्त्राश्च वायवाः। जिया च असेदन्नं दशनेन च न स्पृशेत् । तर्ज- नीमध्यमाङ्गुष्ठलग्ना माणाहुतौ भवेत् । मध्यमानामिकाङ्गुष्वैरपाने जुहुयाद्बुधः । कनिष्ठानामिकाङ्गुष्ठैाने तु जुहुयादविः । त- जनीं तु बहिःकृता उदाने जुहुयाद्बुधः । समाने सर्वहस्तेन समुदायाहुतिर्भवेत् । विष्णुपुराणे पूर्वन्तु मधुरं रसम् । लवणाम्लो तथा मध्ये कटुतिक्तादिकं । प्राग्द्रवं पुरुषोऽश्नीयान्मध्ये तु कठिनाशनः । अन्ते पुनद्रवाशी च बलारोग्यैर्न मुञ्चीत । जठरं पूरयेदर्द्धमन्नै- भाग नलेन च । वायोः सञ्चरणार्थाय चतुर्थमवशेषयेत्' । आ. दिसपुराणे 'एकपङ्क्तेरनुत्थाने मध्ये चेदाचमेत्परः । तदा शेषं विहायैव विप्रः सम्यगुपस्पृशेत् । पंक्तिभेदे तु न दोष इति तद्भे. दकमाह वृहस्पतिः ‘अग्निना भस्मना चैव स्तम्भेन सलिलेन च । द्वारेणैव च मार्गेण पंक्तिभेदो बुधैः स्मृतः। एकपत्यां भोजनं निषि- दम् । यदुक्तम् 'अप्येकपत्त्या नाश्नीयासंवृतः स्वजनैरपि । कोहि जानाति किं कस्य प्रच्छन्नं पातकं पृथक् । भस्मस्तम्भज. लद्वारमार्गः पंक्तिं च भेदयेत् । ग्रासनियममाहापस्तम्बः 'अष्टौ । अश्नीयात्तन्मना भूत्वा ' दशम उद्धारः। प्रासाः मुनेर्भक्ष्याः षोडशारण्यवासिनः । द्वात्रिंशत्तु गृहस्थस्य अमितं ब्रह्मचारिणः । आहितानिरनड्डांश्च ब्रह्मचारी च ते त्रयः । अश्नन्त एव सिद्ध्यन्ति नैषां सिद्धिरनश्नताम्' । सोपवासगृहस्थ. स्य विधेयं बोधयति बौधायनः 'प्राणाग्निहोत्रमन्त्रांश्च निरुद्धो भोजने जपेत् । त्रेताग्निहोत्रमन्त्रांश्च द्रव्यालामेच संजपेत् । भोजने निरुद्धः सोपवासः। पुलस्त्यः 'भोजनन्तु न निश्शेषं माज्ञः कुर्य्या. भोजनोत्तर त्कथञ्चनाअन्यत्र दधिसत्त्वाज्यपलक्षीरमधूदकैः।भुक्त्वोच्छिष्टं कृत्यम् । समादाय सर्वस्माकिञ्चिदाचमन । उच्छिष्टभागधेयेभ्यः सोदकं निःक्षिपेद्भुवि । अत्र मन्त्रः, "रौरवे पुण्यनिलये पद्मा- दनिवासिनाम् । अर्थिनामुदकं निसमक्षय्यमुपतिष्ठताम्" । व्यासः ततस्तृप्तः सन् अमृतापिधानमसीसपः प्राश्य तस्मान्मनागप- सृस विधिवदाचमेत् । अपां प्राशने व्यासः 'हस्तं प्रक्षाल्य गण्डूषं यः पिबेत्पापमोहितः । स दैवं चैव पित्र्यञ्च आत्मानं चा- वसादयेत् । अर्दै पीत्वा तु गण्डूषमई त्याज्यं महीतले । रसात- लगतान्नागांस्तेन प्रीणाति नित्यशः । व्यासः 'यद्युत्तिष्ठत्यनाचा. तो भुक्तवानासनात्ततः । स्नानं सद्यः प्रकुर्वीत नान्यथाप्रयतो भवेत् । देवल: 'आचम्य च ततः कार्य दन्तकाष्ठस्य भक्षणम् । भोजने दन्तलमानि निह याचमनं चरेत् । दन्तलग्नमसंहार्य लेप मन्येत दन्तवत् । न तत्र बहुशः कुर्याद्यनमुद्धरणे बुधः । तत्रा- सन्तमशौचं स्यात्तृणवेधाबणे कृते' । अत्यन्तमहोरात्रम् । तृणवे. धादिति वचनावणैरपि दन्तधावनं प्राप्तम् । कालान्तरे दन्तल- अस्य निर्गमे याज्ञवल्क्यः ' श्मश्रु चास्यगतं दन्तलग्नं सक्त्वा ततः शुचिः' । निगिरनपि शुचिरित्याह 'दन्तवदन्तलग्नेषु जिह्वास्पर्श शुचिर्न तु । परिच्युते पुनः स्थानानिगिरनेव तच्छुचिगौतमः 'दन्तश्लिष्टेषु दन्तवदन्यत्र जिह्वास्पर्शात् प्राक्च्युतेरिति ।बौधायनः २९४ स्मृतिसारोद्धारें। 'आचान्तो हृदयदेशभिस्पृशति । प्राणानां ग्रन्धिरसि रुद्रोमावि- शान्तकस्तेनान्नेनाप्यायस्वेति पुनराचम्य दक्षिणे पादाङ्गुष्ठे पाणि निधापयति । 'अङ्गुष्ठमात्रः पुरुषो योऽङ्गुष्ठे च समाश्रितः । ईशश्च सर्वजगतः प्रभुः प्रीणातु विश्वभुग्' इति मन्त्रः। ततः करा- दिकमस्पृशन जानुनी स्पृशेत् । 'माकरण कर स्पाक्षीर्मा जङ्ग्रे माच चक्षुषी। ऊरू संस्पृश कौन्तेय भर्तव्या बहवो यदीति । जानुनीस्पृ. शराजेन्द्र भर्त्तव्या बहवो यदीति व्यासस्मरणाच्च । अत्रिः 'आ- चान्तोऽप्यशुचिस्तावद्यावत्पात्रमनुद्धृतम्। उद्धृतेऽप्यशुचिस्ताव. धावन्नोन्मृज्यते मही । भूमावप्युपलिप्तायां तावत्स्यादशुचिः पुमान् । आसनादुत्थितस्तस्माद्यावन्न स्पृशते महीम् । विष्णु. पुराणे 'स्वस्थः प्रशान्तचित्तम्तु कृताशनपरिग्रहः । अभी. ष्टदेवतायाश्च कुर्वीत स्मरणं ततः ।। मार्कण्डेयः ‘भूयोऽप्या- चम्य कर्त्तव्यं ततस्ताम्बूलभक्षणम् । श्रवणं चेतिहासस्य ततः कुर्यात्समाहितः। पर्णमूले भवेदव्याधिः पर्णाग्रे पापसंभवः । चूर्ण- पर्ण हरदायुः शिरा बुद्धिप्रणाशिनी । पर्णाग्र पर्णपृष्ठं च चूर्णपणे द्विपर्णकम् । दन्तधावनपर्ण च शक्रस्यापि श्रियं हरेत् । अदत्वा तु मुखे पर्ण पूगं खादति योनरः । दशजन्म दरिद्रः स्यान्मरणे हरिविस्मृतिः । योनिसमत्ति ताम्बूलं मुखभूषाकरं नरः । न मु. श्चत्यच्युतस्येव तस्य मन्दिरमिन्दिरा । अथ भक्षाभक्ष्यविचारः । तत्र मनुः 'अनभ्यासेन वेदाना- माचारस्य वर्जनात् । आलस्यादन्नदोषाच्च मृत्युर्विमान जिघां- सति' । अन्नदोषादिति दुष्टमन्नं विभज्योक्तम् भविष्ये । 'जातिदुष्टं क्रियादुष्ट कालात्ययविदूषितम् । संसर्गाश्रयदुष्टं च सकृल्लेख खभावतः ।। लशुनं गृअनं चैव पलाण्डं कवकानि च । वृन्ताक नालिकालाबु उपेयाज्जातिक्षितम् । न भक्षयक्रियादुष्टं यदृष्टं प.

दशम उद्धार तितादिभिः ॥ कालदुष्टं च विज्ञेयं बस्तनं चिरसेवितम् । दधि- भक्ष्यविकारादि मधुवनँ तदिष्यते ॥ मुरालशुनसंस्पृष्टं पेयूषा- दिसमन्वितम् । संसर्गदुष्टमेतद्धि शूद्रोच्छिष्टवदाचरेत् ॥ शू- द्रोच्छिष्टं तु विज्ञेयं पूर्व शुद्रे प्रतिष्ठितम् । विचिकित्सा तु हृदये यस्मिन्नन्ने प्रजायते । सकृल्लेखं तु विज्ञेयं परुषं च स्वभावतः । रसदुष्टं विकारायद्विरमं तत्प्रकीर्तितम् । पायसं क्षीरपूपादि विरसं स्यादिनान्तरे"। कवकं छत्राकम् ।भावदुष्टमप्यभक्ष्यमाह विश्वामित्रः 'स्यादभक्ष्यं भावदुष्टमभक्ष्यत्वेन शङ्कितम्' । याज्ञवल्क्यः 'देवतार्थं हविः शिगुं लोहितान् व्रश्चनांस्तथा। अनुपातमांसानि विड्जानि कवकानिच' । शिग्रुः सोभाअनः, व्रश्चनान वृक्षनिर्यासान् । बौ- धायनः 'अमेध्येषु च ये वृक्षा उप्ताः पुष्पफलोपगाः । तेषामपि न दुष्यन्ति पुष्पाणि च फलानि च । वृक्षग्रहणाच्छाकादीनि निषि- द्धान्येव । तैत्तिरीयकश्रुतिः 'श्वेतं लोहितं च वृक्षनिर्यासं नि- षिद्धमन्यत्र हिङ्गुकर्पूरादरियाहस्म । मनुः 'शेलं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् । वृथाकृसरसंयावपायसापूपशष्कुलीः । शेलुः श्लेष्मातकफलम् । पेयूषं नवप्रसूताया गोः पयो यदग्निसंयोगा- काठिन्यं भजते, दोषाधिक्यप्रदर्शनार्थमिदमुक्तम् । 'अजा गावो महिष्यश्च ब्राह्मणी च प्रसूतिका । दशरात्रेण शुद्ध्योन्त भूमिष्ठं च नवोदकम्' इतिस्मरणात् । कृसरस्तिलमुद्गसहित ओदनः। संयायो गुडक्षीग्घृतसाधित ओदनः । अपूपो स्नेहपको गोधूम- विकारो मण्डकाख्यः । स्नेहपको गोधूमविकारः शष्कुली । वृथात्वमेतेषां देवादिनिवेदनराहित्यम् । यमः 'ऋचीसपकं मांसं च मत्म्यानप्यनुपाकृतान् । वर्जयेत्सर्वशुक्लानि देवान्नानि हवींषि च । स्नेहेन त्वसमायुक्तं नैव किञ्चित्प्रयोजयेत्' । ऋचीसपकमांसम् भौमोष्मपकम् । देवान्नानि देवतोद्देश्येन सक्तानि हवींषि गौतमः २९६ स्मृतिसारोद्धारे। "उद्धृतस्नेहं विलयं पिण्याकं मथितप्रभृतीनि आन्तर्यािणि नाश्नीयात् । विलयं घृतमलम् । आन्तर्वीर्यमुद्धृतसारम् । यमः 'भिन्नभाण्डे न भुञ्जीत न रात्रौ दधिसक्तुकान् । दिवा दधीक्षु- धानासु रात्रौ च दधिसक्तुषु । कोविदारे च रजते तस्करे सूतके तथा । श्लेष्मातकेऽप्यलक्ष्मीश्च नित्यमेव कृतालया। वसिष्ठः 'उ. च्छिष्टमगुरोरभोज्यं स्वमुच्छिष्टमुच्छिष्टोपहतं च वसनकेशकी- टोपहतं च ' । स्वमुच्छिष्टं किञ्चिद्भुक्त्वा त्यक्तम् । कालान्तरे तन्नाद्यात् । वसनोपहतं परिधानवस्त्रेण कृतोपघातम् । मुमन्तुः वचोभिहतं प्रेषितं चाण्डालादिभिरिक्षितं दधि पर्युषितं पुनः साधितमन्नमभोज्यमन्यत्र हिरण्योदकैः स्पृष्टात् । मनुः 'मत्त क्रुद्धातुराणां तु न भुञ्जीत कदाचन । केशकीटावपन्नश्च पदा स्पृष्टं च कामतः ॥ भ्रूणनावेक्षितञ्चैव संस्पृष्टश्चाप्युदक्यया । पतत्त्रिणावलीढं च शुना सस्पृष्टमेव च ॥ कौम-वृन्ताकं नालि. काशाकं कुसुम्भास्मन्तकं तथा । उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः ॥ नीपं दधित्थं प्लक्षञ्च प्रयत्नेन विवर्जयेत् । नाश्नीया- त्पयसा तक्रं न वीजान्युपयोजयेत् । रात्रौ च तिलसम्बद्धं कूष्मा- ण्डञ्च विवर्जयेत् ॥ वृन्ताकं श्वेतम्, 'कण्डूरं वेतनताकं कुसुम्मा. इमन्तकास्तथा' इति देवलात् । कण्डूरं करलोमवत्फलम्, कुम्भा- ण्डं दाडिममदृशं फलम् । अलावू वर्तुलम् ' अलावू वर्तुलाकारं ममूरञ्च सबल्कलम्' इति वचनात् । वीजानि कूष्माण्डादिमहाफ- लानाम् । अपस्तम्बः-कीलालार्थौषधीनाञ्च कला पलाण्डुप- रारिका' । कीलालं सुरा तदर्थस्थापिता ओषधयः । औषधीना- मिति कर्माण षष्ठी। कलशं दधिदिग्धमांसम् । परारिका कुन्दुरु। 'न वीजान्युपभुञ्जीत रोगापत्तिमृते नरः । काककुक्कुटसंस्पृष्टं शुक्र वा कृमिसंयुतम् । अभोज्यं तद्विजानीयाद्धर्मराजवचो यथा ॥

दशम उद्धारः। २९७ । .. याज्ञवल्क्यः । 'उदक्यास्पृष्टसंघुष्टपर्यायानानि वर्जयेत्' । उदक्या रजस्वला । संघुष्टं यदन्नमुपघुष्य दीयते । पर्यायानंअन्योदशेन दत्तम् ॥आपस्तम्बः। भुआनेषुवा यत्रोत्थायोच्छिष्टं प्रयच्छेदाचामा कुत्सयित्वा वा यत्रानं दद्युमनुष्यैरघातमन्यैर्वामध्यैरिति । गौतमः । 'पर्युषिताः शाकाः भक्ष्याः स्नेहमांसमधूनि च । नापनी- यमन्नमश्नीयान्न पर्युषितमन्यत्र रागमुद्गखाण्डवदाधिगुडगोधू- पयवपिष्टविकारेभ्यः । रागा दाडिममांसाद्याः। खाण्डवः स्वाद्र- म्लकटुकसाध्याः प्रस्नेहाः । वृहस्पतिः 'दघि भक्ष्यं शुक्तमाप यदेव दघिसम्भवम् । आधिकाजि भवेन्मेध्यमभक्ष्यं तद्विकारवत्' । यमः। 'शुक्तानि तु द्विजोऽन्नानि न भुञ्जीत कदाचन। प्रक्षालितानि नि. होषाण्यापद्धर्मो यदा भवेत् । शुक्तान्यम्लतामापन्नानि ॥ याज्ञव- ल्क्यः । 'अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसश्चितम् । अस्नेहा आप गोधूमयवगोरसविक्रिया । वृद्धमनुः । 'वीर्य्यहानिर्यशोहा- निःप्रज्ञाहानिस्तथैव च । भवेत्तस्मान्नरो रात्रौ धात्री यत्नेन वर्जयेत्। वर्जयेच्छेतनताकमलावू वर्तुलं तथा । रक्तमूलककालिङ्गविल्वो- दुम्बरभिस्सटाः । एतानिषेवते यस्तु तस्य दूरतराः श्रियः ॥ भिः सटादग्धमन्नं । भविष्ये। 'अपि प्रयाणसमये न रात्रौ माशयेद्दधि । भीर मधुपर्कप्रदानं तु वर्जयित्वातु कामतः॥ याज्ञवल्क्यः। सन्धिन्य- शुद्धि । निर्दशावत्सागोपयः परिवर्जयेत् । औष्ट्रमैकशफं स्त्रैणमारण्यक- मथाविकम् ॥सन्धिनी या वत्सान्तरेण सन्धीयते । अवत्सा मृतव. सा । गौतमः स्यन्दिनीयमलमूसन्धिनीनां च। न पयः पिबेदिय- नुवर्तते । स्त्रवत्पयाः स्यन्दिनी, यमलसूर्युग्मप्रसवित्री,। वसिष्ठः । गोमहिष्यजानामनिर्देशानाम् । आसां दशाहं पयोनिषिद्धमि- सर्थः । शंखः । 'सर्वासां द्विस्तनीनां क्षीरमभोज्यमजावर्जम् । महिष्या आरण्यत्वेपि तत्पयो न निषिद्धम् ॥ 'आरण्यानां च स- स्मृतिसारोद्धारे। बैषा मृगाणां माहिषं विनेति मनुस्मरणात् ॥ हारीतः द्वौ मा. सौ पाययेद्वत्सं तृतीये द्विस्तनं दुहेत् ॥ चतुर्थे त्रिस्तनं दुह्याद्यथा- न्यायं यथाबलम् । भविष्ये । 'घृतफेनं घृतमलं पेयूषमथवापि च । सगुडं मरिचाक्तं तु तथा पर्युषितं दधि ॥ दीर्णन्तक्रमपेयं च नष्ट स्वादं च फेनवत् । प्रमादाद्भक्षितैरेभिर्वने पक्षव्रतं चरेत् ॥ दीर्ण विश्लिष्टावयवम् । तत्रैव 'कापिलं यः पिबेच्छूद्रो नरके स वि. पच्यते । हुतशेष पिबोद्वेषो विप्रः स्यादन्यथा पशुः । पराशरः । 'कपिलाक्षीरपानेन ब्राह्मणीगमनेन च । वेदाक्षरविचारेण त्रिभिः शूद्रो विनश्यति॥ आपस्तम्बः । 'क्षत्रियश्चैव वृत्तस्थो वैश्यः शूद्रो- थवा पुनः । यः पिबेत्कपिलाक्षीरं न ततोऽन्योस्त्यपुण्यकृत् ॥ यमः । 'भुक्त्वा तु क्षीरलवणं त्रिरात्रं तु वने वसेत् ॥ मनुः ।। 'क्रव्यादा शकुनींश्चैव तथा ग्रामनिवासिनः॥कलविकं प्लत्रं- पक्षिणा हंसं चक्राहृ ग्रामकुक्कुटम् ॥ सारसं रज्जुदालं च दात्यूह शु- भक्ष्या कसारिके। प्रतुदान जालपादांश्च कोयष्टिनखविष्किरान्।निम- जतश्च मत्स्यादान्सौनं वल्लूरमेव च ॥ बकं चैत्र बलाकां च का. कोलं खंजरीटकम् । मत्स्यादान्विवराहांश्च मत्स्यानेव च सर्वशः' । प्लवो जलकुक्कुटः, चक्राह्वश्चक्रवाकः, रज्जुदालः काष्ठकुट्टकः । दात्यूहश्चातकः, प्रतुदाः श्येनादयः । तेषांक्रव्यादपक्षित्वेन गृध्रा- दिवदभक्ष्यत्वे प्राप्तेपि जीविभक्षकतया निष्कृतिगौरवाय पृथगुपा- दानम् ॥जालपाटा आव्यभिन्नाः। आट्या ब्रह्मवर्चसकामस्येति वच- नात् ॥ सौनं सूना प्राणिवधस्थानम् तदीयं वल्लूरं शुष्कमांसं । काकोलो द्रोणकाकः । अन्यकाकस्य ग्रामवासित्वेन निषेधात् ॥ मत्स्यादा नक्रादयः। मत्स्याः सर्वशोऽपि निषिद्धाः 'मत्स्यादः सर्बमांसाद' इति वचनम् निषिद्धमत्स्यपरं वेद्यम् ॥ भक्ष्यपक्षिण आह शंखः । 'तित्तिरिं च मयूरं च लावकं च कपिञ्चलम् । वा- दशम उद्धारः। २९९ ड्रणिसं वर्तकं च भक्ष्यानाह प्रजापतिः ॥ कपिञ्जलः कृष्णति- त्तिरिः। वार्षीणसः कृष्णग्रीवो रक्तशिराः श्वेतपक्षोविहंगमः ।। मयूरस्तृणमयूरः ॥ 'आज गव्यं च यन्मांसं मायूरं च विवर्जयेत् । यथैवाजं तथा गव्यं मायूरमुभयोः समम्' इति ब्राह्मात् ॥देवलः । 'अभक्ष्याः पशुजातीनां गोखरोष्ट्राश्नकुंजराः । सिंहव्याघ्रशिर- भाः सपजिगरजालकाः। आखुमूधिक्रमाआरनकुलग्रामस्कराः ॥ श्वशृगालकद्वीपिगोलांगूलनृमर्कटाः ॥ आखुमूषिकयोर्जासा भेदः कल्पनीयः । वसिष्ठः 'खगे तु विवदन्ते ऽग्राम्यमूकरे च'। ब्राह्मे । 'पृष्ठमांसं गर्भशय्यां शुष्कमांसमथापि वा ॥ अत्र गर्भ- शय्यापदेन गर्भिणीनां मृग्यादीनामभक्ष्यत्वं प्राप्तम् । मनुः । जलेचरानेकचरानज्ञातांश्च मृगाद्विजान् । अभक्ष्येषु समु- द्दिष्टान्सर्वान्पञ्चनखांस्तथा ॥ पञ्चनखानां प्रतिप्रसवमाहापस्तम्बः। 'पञ्चनखानामभक्ष्यत्वं गोधाकच्छपश्वाविच्छल्लकखड्गशशपूतिख- ड्गवर्जम् । श्वावित्मेधा । शल्लकः सेधावान्तरजातिविशेषः । पूतिखड्गः खड्गावान्तरजातिविशेषः ॥ याज्ञवल्क्यः । 'भक्ष्याः पञ्चनखाः मेधागोधाकच्छपशल्यकाः । शशाश्व मत्स्येष्वपि हि. सिहतुण्डकरोहिताः । तथा पाठीनराजीवाः सशल्काश्च द्विजा- तिभिः' । अत्र गोधा कृकलासानुकारिणी महतीति विज्ञानेश्वरः । तन्न । तस्या अतृणहारिस्थलचरत्वेनाभक्ष्यत्वात् । विज्ञानेश्वर- स्तु दाक्षिणासः संन्यासी मत्स्यमांसानाहारी तदनभिज्ञो ना. स्मिन्व्याख्याने प्रामाणिकोऽप्यादरणीयः ॥ किन्तु गोधा शश- काकारः पञ्चनखो मृगविशेषः सरयूपारादौ प्रसिद्धो बोद्ध- व्यः । मनुः ॥ 'शाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा । भक्ष्यान्पश्चनखान्माहुरनुष्ट्रांश्चैकतोदतः ॥ मनुयमौ 'यो यस्य १ गोहटी इति प्रसिद्धा।

स्मृतिसारोद्धारे। मांसमश्नाति स तन्मांसाद उच्यते । मत्स्यादः सर्वमांसादस्तस्मा. न्मत्स्य विवर्जयेत् ॥ यमः ॥ 'मत्स्यानशल्कान्वेदाध्यायी विव. जयेत् । वेदाध्यायी त्रैवर्णिकः । अशल्कानित्युक्ते सशल्का भक्ष्या: ।। आपस्तम्बः । अभक्ष्या मकरसरीसृपमदगुरमयूर- वार्मिकनक्रकर्कटशिशुमारोभयकास्या' । सरीसृपो जलौकाः । मद्गुरोजलकाकः । मयूरोऽत्र जलचरो मयूराकृतिः । चम्मिका सर्पसदृशो मत्स्यः । उभयकास्या द्विमुखाः । देवलः 'शम्बूको नखशुक्तिश्च शिशुमारः प्लवङ्गमः । मत्स्याश्च विकृताकारा नैव भक्ष्या जलौकसाम् ॥ जलौकसां मध्ये एते न भक्ष्याः ॥ मनुः । 'पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । राजीवसिंहतुण्डाश्च सशल्काश्चैव सर्वशः । नियुक्तौ श्राद्धाद्यर्थं आद्यौ अदनीयौ । राजीवः पद्मवर्णः । सिंहतुण्डाः सिंहमुखाः। मत्स्यं वर्जये- दिति बौधायनोक्तो निषेधः कामपरः । 'मत्स्यांश्च कामतो जग्ध्वा सोपवासस्यहं वसेदिति निष्कृतिश्रवणात् ॥नच वाच्यम्, तस्य वृथामांसत्वेनैव निषेधसिद्धिरिति । त्रिरुपवासरूपप्रायश्चि- त्तविशेषबोधनाय पृथनिषेधात् ।। अथ मांसस्यभक्षणवर्जनविचारः । मनुः । 'प्रोक्षितं भक्षये- मांसं ब्राह्मणानां च काम्यया । यथाविधि नियुक्तश्च प्राणा- नामेव चात्यये ॥ याज्ञवल्क्यः । 'माणात्यये तथा श्राद्धे प्रोक्षित द्विजकाम्यया । देवान्पितॄश्चार्चयित्वा खादन्मांसं न दोषभाक्' । अन्नाभावेन व्याध्यभिभवेन वा मांसभक्षणं विना यदा प्राण- बाधा भवति तदा निमयेन मांसम्भक्षयेत् । सर्वत एवात्मानं गोपाये- दित्यात्मरक्षणविधानात् । तस्मादिह न पुरायुषः खाकामी प्रेया- दिति मरणनिषेधाच्च । श्राद्धे निमन्त्रितो नियमेन भक्षयेत् । यदाह यमः। 'दैवे नियुक्तः श्राद्धे च नियमेपिन वर्जयेत् । नियमे नाई २ २ (४) न्यायरत्नमाला-श्रीपार्थसारथिमिश्र वि० सं० (मीमांसा) (८) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीत- वेदान्तसूत्रस्य यतीन्द्र श्रीमद्विज्ञान- (वेदान्त )६ भिक्षुकृत व्याख्यानम् । सम्पूर्णम् । (९) स्याद्वादमञ्जरी-मल्लिषेणनिर्मिता सम्पूर्णा । (जैनदर्शनम् )२ (१०) सिद्धित्रयम्-विशिष्टाद्वैत-ब्रह्मनिरूपण- परम्-श्रीभाष्यकृतां परमगुरुभिः श्री ६ (वेदान्तः) १ श्रीयामुनमुनिभिर्विरचितम् । सम्पूर्णम् (११) यमकरन्दः । श्रीमदानन्दबोधभट्टा- चार्यसंगृहीतः। आचार्यचित्सुख- (घेदान्तः)४ मुनिविरचितव्याख्योपेतः (१२) विभक्त्यर्थनिर्णयान्यायानुसारिप्रथमादि- सप्तविभक्तिविस्तृतविचाररूपः म० म० (न्यायः) श्रीगिरिधरोपाध्यायरचितः । सम्पूर्णः (१३) सायनम् । श्रीअप्पयदीक्षितकृतम् । सं० (मीमांसा) (१४१ धा (तन्त्रवार्तिकटीका) भट्ट- (मीमांसा) १६ रविरचिता। तोत्रावली । उत्पलदेवविरचिता । (वेदान्तः)२ क्षेमराजविरचितवृत्तिसमेता । (१६) मांसाबालप्रकाशः ( जैमिनीयद्वादशा- ध्यायार्थसंग्रहः) श्रीभट्टनारायणात्मज (मीमांसा)२ सदृशङ्करविरचितः। (१९ करणपश्चिका (प्रभाकरमतानुसारि-मीमांसादर्शनम् ) महामहो- ध्यायश्रीशालिकनाथमिश्रविरचितं, श्रीशङ्करभट्टकृतो मीमांसा- नारसंग्रहश्च सम्पूर्णः (मीमांसा)३ (१८ द्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवरश्रीसदानन्दव्यास प्रणीत- 'त्कृतव्याख्यासमलङ्कृतश्च । (वेदान्त)३ (१९ .त्यायनश्रौतसूत्रम् । महामहोपाध्यायश्रीकर्का- यविरचितभाष्यसहितम् ।' १३ (२० मसूत्रभाष्यम् ! श्रीभास्कराचार्यविरचितम् (वेदान्तः) १ (२१ - हर्षप्रणीतं खण्डनखण्डखाद्यम् । आनन्दपूर्ण- विरचितया खण्डनफक्किकाविभजनाख्यया ध्या-१(वेदान्तः) १३ ख्यया (विद्यासागरी)ति प्रसिद्धया समेतम्। (२२) आख्यातचन्द्रिका श्रीभट्टमल्लविरचिता। (२३) श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्यया- ऽवतरणकया च सहितम् ।

म १ २ १ (१४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीवजनाथभट्टकृता (वेदान्त) (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्करसिद्धान्तवागीशविरचि- तानि अनुमानजागदीश्याः प्रत्यक्षानुमानगादाधर्याः प्रत्यक्षानु मानमाथुर्या व्युत्पत्तिवादस्य शकिवादस्य मुक्तिवादस्य शब्द- शक्तिप्रकाशिकायाः कुसुमाञ्जलेश्च क्रोडपत्त्राणि । (न्यायः) (२६) ब्रह्मसूत्रम्, द्वैताद्वैतदर्शनम् । श्रीसुन्दरभट्टरचितसिद्धान्तसेतुका ऽभिधटीकासहितश्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम् (२०) षड्दर्शनसमुच्चयः । बौद्धनैयायिक कापिल्य जैन वैशेषिक जैमिनीयदर्शन संक्षेपः । मणिभद्रकृतटीकया सहितः । हरि. भद्रसूरिकृतः। (२८) शुद्धाद्वैतमार्तण्डः प्रकाशव्याख्यासहितः । प्रमेयरत्नार्णवश्व (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोमणिकतदीधित्याः जागदीशी टीका। (३०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्रमिश्रविरचित परिभाषा संस्कारप्रकाशात्मकः। (३३) वीरमित्रोदयः। महामहोपाध्यायश्रीमित्रमिश्रविरचिर आहिकप्रकाश.। (३२) स्मृतिसारोद्धारः विद्वद्वरविश्वम्भरत्रिपाठिसंकलितः। (३३) वेदान्तरत्नमञ्जूषा । श्रीभगवत्पुरुषोत्तमाचार्यकृता। (५४) प्रस्थानरत्नाकरः। गोस्वामिश्रीपुरुषोत्तमजी महाराजविरचि १ U ALC पत्त्रादिप्रेषणस्थानम् हरिदास गुप्ता, चौखम्बा, बनारस .

No text on this page.

Smruti Saroddhara Vol.3

Author
Tripaat'i,vishvambhara
Other authors
Misra,mangal (ed.)
Title
Smrxti Saaroddhaara Vol.3
File name
Smruti Saroddhara Vol.3
Text
OCR done
Citation
1910
Published
2006/02/22
Publisher
Chowkambha Sanskrit Book Depot.banaras,vidya Vilasa Press,banares
Language
Sanskrit
Pages
106
Library
Canegie Mellon Univeristy
Classification
Ecclesiastical Law. Canon Law. Religious Law
Keywords
Hindu religious law
DLI number
496334
Barcode
1990020083237.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
ArcCOPIwL9Z
Download PDF

Smruti Saroddhara Vol.3