Asr,melkote

Kuthuhala Vrutti

Advara Mimaasan' · 2005/01/4

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

SRI VANI VILAS SASTRA SERIES No. 1.
ADHVARA MIMAMSA
ste
KUTUHALA
222 22VRITTI
SRI VASUDEVA DIKSHITA
L DII'LDBL
8 KUPPUSWAMY SASTRIGAL MA,
Principal, Madaus Sansha at College
WITH IHH
CO-(2HBACION 02
Professors Brahmasri R CHANDRASEKHARA SASTRIGAL
and Brahmasrı P V PANCHAPAGESA SASTRIGAL
CHAPTER II
SRI VANI VILAS PRESS
SRIRANGAM
1908

No text on this page.

श्रीवाणीविलासशाात्रन्थमाला
अध्वरमीमांसा
कुतूहलवृत्तिः
श्रीवासुदेवदीक्षितविरचिता
मैलापुरस्थगीर्वाणमहापाठशालाध्यक्षेण
एस्. कुप्पुखामिशास्त्रिणा
सह
तत्पाठशालाध्यापकाभ्या
आर. चन्द्रशेखरशास्त्रिणा
पि. वि. पश्चापगेशशास्त्रिणा च
मशोधिता।
(द्वितीयोऽध्यायः।)
श्रीरङ्गस्थ
श्रीवाणीविलासमुद्रायन्त्रालये
४. समुद्रिता
१९०८

No text on this page.

श्री विद्याशं श्रीमत्परमहसपरिव्राजकाचार्यवर्य पदवाक्यप्रमाणपारावारपारीण यमनियमासनप्राणायामप्र- त्याहारध्यानधारणसमाध्यष्टाङ्गयांगानुष्ठाननिष्ठ तपश्चक्रवर्त्यनाद्यविच्छिन्नगुरुपरंपराप्राप्तषड्दर्शनस्थापना- चार्य व्याख्यानसिंहासनाधीश्वर सकलनिगमागमसारहृदयसांख्यत्रयप्रतिपादक वैदिकमार्गप्रवर्तक मर्वत- तन्त्रम्वतन्त्र आदिराजधानीविद्यानगरमहाराजधानीकर्णाटकसिंहासनप्रतिष्ठापनाचार्य श्रीमद्राजाधिराजगुरु- भूमण्डलाचार्य ऋश्यशृङ्गपुरवराधीश्वरतुङ्गभद्रातीरवासि श्रीमद्विद्याशङ्करपादपद्माराधक श्रीमन्नृसिंह- भारतीस्वामिगुरुकरकमलसजात श्रीजगद्गुरु शृंगेरि श्रीसच्चिदानन्दशिवाभिनवनृसिहभारतीस्वामिभि अस्मत्सच्छिष्य आज्ञाधारक श्रीरगनाथपुरवराभिजनास्मदत्यन्तप्रियतमान्तेवासि बालसुब्रह्मण्या- भिख्य श्रेयोभिवृद्धये, नारायणस्मरणपूर्वकविरचिताशिष. ममुल्लसन्तुतराम् ।। सविनयय, सभक्तिश्रद्ध, सानुरागं च, भवदनुप्रेषितविज्ञप्तिपत्रिकातो विज्ञाय प्रवृत्तिं भवतः कुतूहलवृत्त्यादिप्राचीनमहाप्रबन्धमुद्रणाभिन्नां महानानन्द समजनि || इह खलु वैभवान्महापापीयसः कलेः अतिमन्दप्रचारेषु पुरातनापूर्वग्रन्थजातेषु, वेदार्थप्रबोधन- पटिष्ठेषु वैय्यर्थ्यमापन्नेष्वलधुषु प्रयासेष्वास्माकीनानां महतां प्रबन्धकृतां भारतीयानाम् , शशशृङ्गायितेषु तत्ताशप्रथितयशःसु विद्वत्सु, तत्र तत्र खद्योतसहचरवृत्त्या उपजीवितप्राचीनग्रन्थसरक्षणमन्तग नान्यः प्रयत्न सुतरा प्रवेष्टुमर्हत्यभिज्ञानन्दपदमिति दृढ मन्यामहे ।। तादृशे कर्मण्यभियुक्तस्य जनस्य सर्वोऽपि लोक कुर्यादेव साह्यं यावच्छक्यमित्याशासानाः श्रीशारदाचन्द्रचूडादयो देवा वितीर्यायुरारोग्यसंपदो भवतो भक्ताग्रगम्य पालयन्त्वजसं श्रीवाणीविला- साख्यमुद्रणशालां चेति सायदिवमभ्यर्थयन्तो वर्तामहे ।। कीलकसंवत्सर वैशाखशुक्ल- प्रतिपदि भृगुवासरे कोविलग्रामनः। श्री

No text on this page.

॥ श्रीः॥ अध्वरमीमांसा ॥ कुतूहलवृत्तिः॥ द्वितीयोऽध्यायः॥ निर्मथ्य निगमसिन्धून्विविधन्यायाभिधानमन्थानै । धर्मसुधामुद्धरते भूयो मुनये नमोऽस्तु जैमिनये ॥ 'अथातो धर्मजिज्ञासा' इति प्रमाणस्वरूपसाधनफलैर्धर्मो जिज्ञास्यत्वेन प्रतिज्ञात । तत्र प्रथमाध्याये धर्मप्रमाणं निरूपितम् । तत्प्रमेयो धर्म इति सामान्यतो धर्मस्वरूप च तत एवाव- गतम् । इदानी द्वितीयेऽध्याये धात्वर्थभेदप्रयुक्तभावनाभेदादपूर्व भिद्यत इत्येव धर्मभेदविचार प्रक्रस्यते । १ . तत्र धात्वर्थभेदस्य भावनाभेदकत्व धात्वर्थस्य भावना प्रति करणत्व विना न निर्व- हतीति भावार्थाधिकरण धर्मभेदविचारोपोद्धातत्वेनारप्स्यते । तत्र भावार्थाधिकरणप्रवृत्तरेकस्माद- पूर्वमिति निर्णयाधीनत्वात्तदुपोद्घातत्वेन प्रतिपदाधिकरणमारभ्यते । ‘उद्भिदा यजेत पशुकाम श्येनेनाभिचरन्यजेत' चित्रया यजेत पशुकाम ' अग्निहोत्र जुहुयात्स्वर्गकाम' 'य कामयेत पशुमान्त्स्यामिति, स पञ्चहोतारं प्रयुजीत' इत्यादि श्रूयते । अभिपूर्वकश्चरति शत्रुवधे वर्तते । फले हेतौ शतृप्रत्यय । शत्रुवधार्थमिति यावत् । पञ्चहोता ‘अग्निर्होता' इत्यादिमन्त्र । त प्रयुजीत ब्रूयात् । एवजातीयकेषु वाक्येषु ‘उद्भिदा यजेत पशुकाम इत्येव क्रियापदानि द्रव्यगुणवचनानि नामपदानि च कि प्रत्येक फलपदेन सबध्यन्ते ततश्च सर्वाणि पदान्यपूर्वकल्पन- समर्थार्थाभिधायकानि, उत तेष्वेकमेव पद फलपदेन सबध्यते तदेव चापूर्वकल्पनसमर्थार्थाभिधाय- , 16 १२२ अध्वरमीमांसाकुतूहलवृत्ती [अधि. १. । कमिति संशयः । न चोद्भिदाद्यधिकरणेषूद्भिदादिपदानां द्रव्यगुणवाचकत्वनिराकरणपूर्वकं धात्व- र्थनामधेयत्वस्य साधितत्वेन धात्वातिरिक्तस्य कस्यापि फलसंबन्धाप्रसक्तेः कथमय संशय इति वाच्यम् । तेषां ह्यधिकरणानां सिद्धं धात्वर्थस्य करणत्वमवलम्ब्यैव प्रवृत्ति. । न हि करणतृती- यान्तोद्भिदादिपदानां धात्वर्थनामधेयत्वं धात्वर्थस्य करणत्वाभावे घटेत । धात्वर्थस्य करणत्वं त्विदानीमसिद्धम् । एतदधिकरणोपजीव्यकाग्रिमभावार्थाधिकरणे हि तत्साधयिष्यते । एवं चोद्भि- दादिपदानामिदानी धात्वर्थनामधेयत्वस्यासिद्धेर्द्रव्यगुणवचनताया अपि संभावितत्वाद्भवत्ययं संशयः । तत्र फलस्य सर्वाभ्यर्हितत्वेन प्रधानत्वात्प्रधानसंबन्धलाभेन सर्वेषां फलपदेनैवान्वयो युज्यते । किच सर्वेषां फलसंबन्धाभावे उपपदार्थानां द्रव्यगुणानां धात्वर्थे धात्वर्थस्य च फलेऽन्वयः स्यात् । ततश्च फलं प्रति धात्वर्थस्योपादेयत्वं विधेयत्व गुणत्व च, उपपदार्थान्प्रति चोद्देश्यत्वमनुवाद्यत्वं प्राधान्यं चेति विरुद्धत्रिकद्वयं प्रसज्येत । मत्वर्थलक्षणाश्रयणेन वाक्यभेदपरिहारे तु स एव दोषः । तस्मात्सर्वेषां फलपदसबन्ध इति प्राप्ते, ब्रूमः । सर्वेषां फलसंबन्धे फलसबन्धनिर्वाहाय कल्प्यमान- मपूर्व प्रतिपदार्थ कल्प्येतेति गौरवम् , एकस्यैव फलसंबन्धे तु एकमेवापूर्व कल्प्यमिति लाघवम् ; इत्येकमेव पदं फलपदेन संबध्यते। इतरत्तु पद तत्रैव कथंचिद्विशेषणतयान्वेति । न चैवं सति विरुद्धत्रिकद्वयापातः शङ्कयः । एकस्मादपूर्वमिति सिद्धे सति वक्ष्यमाणभावार्थाधिकरणन्यायेन धात्वर्थस्य करणत्वसंभवेनोद्भिदादीनां तन्नामतया अभेदेनैवान्वयाभ्युपगमात् । ‘सोमेन' इत्यत्र तु गत्यभावान्मत्वर्थलक्षणा । तस्मादेकस्यैव फलपदसंबन्ध इत्येकस्मादेवापूर्वम् । इत्युत्सूत्रं प्रतिपदा- धिकरणम् ॥ तदेवं प्रतिपदाधिकरणे एकस्मादपूर्वमिति सिद्धे किम् ' यजेत' इत्यादिक्रियापदं फल- पदेन संबध्यते ततश्च धात्वर्थत एवापूर्व कल्प्यते, उत उपपदं द्रव्यगुणवाचकं फलपदेन संबध्यते ततश्वोपपदार्थत एवापूर्वमिति संशये, सिद्धान्तेनोपक्रमते- भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयतैष ह्यर्थो विधीयते ॥१॥ . भावार्थाः प्रत्ययेन भावनाप्रतिपादकाः प्रकृत्या कर्मवचनाश्च यजेत' 'जुहुयात्' इत्या- दयो ये, तेभ्य एव क्रिया कार्यमपूर्व प्रतीयेत कल्प्येत । 'यजेत' इत्यादय एवापूर्वकल्पनासमर्थार्थ- १. अपूर्वस्याख्यात- प्रतिपादका इति यावत् । ननु द्रव्यगुणशब्दा एव तथाविधाः कुतो न स्यु- प्रतिपाद्यत्वा- -एष हीति । हि यस्मात्कारणात् एषः धात्वर्थ एव फलभावना- धिकरणम् । करणत्वेन विधीयते नान्यः । अतः यजेत' इत्यादय एव शब्दास्तथाविधाः॥ रित्यत आह- सू. २.] द्वितीयाध्याये प्रथमः पादः । १२३ , - यादेतत् । 'उद्भिदा यजेत पशुकामः' इत्यादौ फलं साध्यरूपत्वात्सिद्धरूपं साधनम- पेक्षते, न तु साध्यरूपम् । द्रव्यगुणावेव च सिद्धरूपत्वात्तदाकावा पूरयितुं शक्नुतः । यागादयो धात्वर्थास्तु स्वयं साध्यरूपत्वान्न साधनाकाहां पूरयितुमीशते । तत्र स्वरूपसतोर्द्रव्यगुणयोा- पारविशेषानुप्रवेशमन्तरेण फलसंबन्धानुपपत्तेरपेक्षितं व्यापारविशेषं यज्यादिधातवः समर्पयन्ति । ततश्च धात्वर्थविशेषितद्रव्यगुणत एवापूर्वमिति पूर्वपक्षमुद्भाव्य निराकरोति- सर्वेषां भावोऽर्थ इति चेयेषामुत्पत्तौ स्वे प्रयोगे रूपोपलब्धि- स्तानि नामानि, तस्मात्तेभ्यः पराकाङ्क्षा भूतत्वात्स्वे प्रयोगे, येषां तूत्पत्तावर्थे स्वे प्रयोगो न विद्यते तान्याख्यातानि, तस्मा- 'त्तेभ्यः क्रिया प्रतीयेताश्रितत्वात्प्रयोगस्य ॥ २॥ . एकार्थपर्यवसायित्वादेकमपि सूत्रं व्याख्यासौकर्याय त्रेधा विभज्योपात्तं भाष्ये । सर्वेषामुपपदार्थानां द्रव्यगुणानामेव भाव । कर्मणि घञ् । भाव्यः कल्प्यः अर्थः अपूर्वम् । सर्वेषाम्' इति हेतुत्वस्य शेषत्वविवक्षायां षष्ठी। सर्वैरुपपदार्थैर्द्रव्यगुणैरेवापूर्व कल्प्यम् उक्तयुक्तेः इति चेत् , तन्न । यत. येषां शब्दानां स्वे स्वकीये प्रयोगे प्रयुज्यन्ते शब्दा अत्रेति व्युत्पत्त्या अर्थ उत्पत्तौ उच्चारणदशायां रूपोपलब्धिः अभिधेयस्वरूपं विद्यते तानि नामानि द्रव्यगुणशब्दाः । तस्माद्धेतोः तेभ्यः तदर्थ द्रव्यगुणनिष्पत्त्यर्थ परस्य साधनस्य आकावा नेत्यध्याहार्यमिति केचित् । वस्तुतस्तु अकाड्या इति च्छेदः । कावाया अभाव इत्यर्थः । कुतः । स्वे प्रयोगे भूतत्वात् स्वकीय- शब्दप्रयोगकाले विद्यमानत्वात् । तस्मादित्यस्यैव विवरणमेतत् । येषां तु शब्दानां स्वे स्वकीये अर्थे उत्पत्तौ उच्चारणदशायां प्रयोगः अर्थ न विद्यते । प्रयोगकाले अर्थो न विद्यत इति यावत् । तानि आख्यातानि 'यजेत' इत्यादितिङन्तानि । धात्वर्थानां साध्यरूपत्वात्तन्निष्पत्तौ साधनाकाडा- स्तीति भावः । तस्माद्धेतोः तेभ्य एवाख्यातशब्देभ्यः क्रिया अपूर्व प्रतीयेत कल्प्येत, न तु द्रव्यगु- णशब्देभ्यः । द्रव्यगुणानां सिद्धरूपाणां धात्वर्थनिष्पाद्यत्वाभावेन तदर्थत्वे धात्वर्थानामदृष्टार्थ- त्वापत्तौ धात्वर्थेभ्यो द्रव्यगुणेभ्यश्च प्रत्येकमपूर्वकल्पनागौरवापत्तेः । धातुभ्य एवापूर्वकल्पनायां तु द्रव्यगुणानां तन्निष्पादकत्वेन दृष्टार्थत्वादपूर्वान्तरं न कल्प्यमिति लाघवम् । ननु द्रव्यगुणानां सिद्ध- रूपत्वेऽपि ‘दनेन्द्रियकामस्य' इत्यादावाश्रयस्येवात्रापि धात्वर्थानामपि फलोद्देशप्रवृत्तकर्तृव्यापारवि- षयत्वरूपकरणत्वसंपादकतया अदृष्टार्थत्वसंभवान्नादृष्टद्वयकल्पनाप्रसक्तिरित्यखरसाद्धातूनामेवापूर्वक- 1. तेभ्यः प्रतीयेत. 2. प्रयोज्यः अर्थः-क.

१२४ अध्वरमीमांसाकुतूहलवृत्ती [अधि. १. . ल्पकत्वे युक्त्यन्तरमाह आश्रितत्वात्प्रयोगस्येति । प्रयुज्यमानधात्वर्थस्य भावनया सह एकं पदमाश्रितत्वादेकपदश्रुत्या धात्वर्थस्यैव भावनाकरणत्वादिति यावत् । तस्मादेव क्रिया अपूर्व प्रतीये- तेत्यन्वयः ॥ अयं भावः । तृतीयाश्रुत्या उद्भिच्छयेनादि करणम् इत्येतावन्मात्रमवगतम्, न तु भावनाकरणमिति । तत्तु 'यजेत' इत्यादिपदान्तरसमभिव्याहारलभ्यम् । 'यजेत' इत्यादिषु तु प्रकृत्यंशेन धात्वर्थः प्रत्ययांशेन भावना तदुभयसमभिव्याहारलक्षणपदश्रुत्या च धात्वर्थो भावनाकरणमित्यवगम्यते । ततश्च धात्वर्थकरणत्व पदान्तरसमभिव्याहारमनपेक्ष्य प्रकृति- प्रत्ययसमभिव्याहारमात्रगम्यमिति तृतीयाश्रुत्यपेक्षया पदश्रुतिरिह प्रबलेति । न च साध्य- रूपस्य धात्वर्थस्य कथं साधनत्वमिति वाच्यम् । वाक्यार्थज्ञानदशायां सिद्धत्वाभावेऽपि पश्चात्स्व- साधनतो निष्पन्नस्य तस्य साधनत्वोपपत्तेः । तस्माद्धात्वर्थस्यैव भावनाकरणत्वात्तत एवापूर्वमिति सिद्धम् । प्रयोजन पूर्वपक्षे उद्भिच्छयेनादिपदानां गुणविधित्वादुद्भिच्छ्येनादिद्रव्येण यष्टव्यम् , सिद्धान्ते तु धात्वर्थस्य करणत्वेन करणतृतीयान्तानामुद्भिच्छयेनादिपदानां तन्नामधेयत्वात् 'अव्य- क्तासु तु सोमस्य' इति न्यायात्सोमेन यष्टव्यम् । 'सोमेन यजेत' इत्यत्र च सोमापचारे प्रतिनिधि- !पादातव्यः पूर्वपक्षे, सोमस्यापूर्वार्थत्वेनादृष्टार्थत्वात् , अदृष्टार्थानां प्रतिनिध्यभावस्य तृतीये प्रति- निधिपेटिकायां वक्ष्यमाणत्वात् । सिद्धान्ते तु सोमद्रव्यस्य धात्वर्थयागनिर्वर्तकत्वेन दृष्टार्थत्वादस्ति प्रतिनिधिरित्यादि यथायथमूह्यम् । स्यादेतत् । प्रत्ययवाच्यां फलभावनां प्रति धात्वर्थः करणमित्य- नुपपन्नम् , धात्वर्थातिरिक्तभावनास्वरूपस्य दुर्निरूपत्वात् । तथाहि-कि कर्तृव्यापारो भावना, उत यत्नः, आहोस्वित्स्पन्दः, प्रयत्नस्पन्दान्यतरो वा । नाद्यः, कर्तृव्यापारस्याधिश्रयणादिनिचयस्य पचि- धात्वर्थत्वेन तदतिरिक्तभावनानुपपत्तेः । न च विक्लित्तिरेव पचेरर्थ इति शङ्कथम् । तथा सति कृष्ण- लानाम् ‘घृते अपयति' इति पाकविधानानुपपत्ते । एवं यज्यादावप्यूह्यम् । नन्वधिश्रयणादिकर्तृ- व्यापारस्य पचिधात्वर्थत्वेऽपि तदतिरिक्तस्य प्रयत्नख प्रत्ययवाच्यभावनात्वमिति द्वितीय पक्षोऽस्त्विति चेत्, न। 'रथो गच्छति' इत्याद्यनुपपत्तेः, अचेतनस्य रथस्य प्रयत्नाभावात् । न च लक्षणया तन्निर्वाहः शङ्कयः, 'देवदत्तो गच्छति' इत्याद्यपेक्षया प्रतीतिवैलक्षण्याभावात् । न तृतीयः, ' यतते' 'जानाति' इत्यादिष्वात्मकर्तृकेषु व्यभिचारात् आसन स्पन्दाभावात् । न चतुर्थः, 'शब्दोऽभिधाति' इत्यादी व्यभिचारात् । न हि प्रयत्नः स्पन्दो वा शब्दस्यास्ति । तस्माद्धात्वर्थातिरिक्तभावनास्वरूपं दुनिरू- पमिति चेत् , नैष दोषः । यजते' पचति' इत्यादौ ‘यागं करोति' पाकं करोति' इत्यादिविवर- णात् , तथैवानुभवात् , यागः' । पाकः' इत्यादौ तदुभयाभावादाख्यातप्रत्ययस्य करोतिसमानार्थत्वं वक्तव्यम् । करोतिश्च उत्पादनार्थः सकर्मकः । तच्च कर्मोत्पद्यमानमेव भवति, 'नित्यं न भवनं यस्य नित्यं चापि न भूतता । न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव ॥' इति न्यायात् । ततश्चोत्पद्य- मानस्य वस्तुन उत्पत्त्यनुकूल उत्पादककर्तृव्यापारः करोतेरर्थः । भावयतेश्चायमेवार्थः, भवतेरु- , .

सू. २.] द्वितीयाध्याये प्रथम. पादः । १२५ , , १ त्पत्त्यर्थकत्वात् प्रयोजकव्यापारे 'तत्प्रयोजको हेतुश्च' 'हेतुमति च' इति णिचोऽनुशासनात् । एव च 'पचति' पाकं करोति' 'पाक भावयति' इति च पर्यायाः। पचिधात्वर्थश्च विक्लित्तिरिति महाभाष्ये स्पष्टम् । तथा च तण्डुलरूपकर्मगतविक्लित्ति: पचिवाच्या। तत्प्रयोजको देवदत्तादिकर्तृव्यापारोऽधि- श्रयणादिनिचयरूप आख्यातप्रत्ययवाच्य.। स एव च कर्तृव्यापारो भावभावनाशब्दाभ्यामुच्यते । एवम् ‘यजते, यागं भावयति' 'जुहोति, होम भावयति' ' ददाति, दान भावयति' इत्यायूह्यम् । न च, करोतिर्नोत्पादनार्थको येन तत्ममानार्थकतया आख्यातप्रत्ययस्य उत्पत्त्यनुकूलव्यापाररूप- भावनावाचित्वं लभ्येत, नैवमस्ति, करोतेर्यत्नार्थकत्वात् , तथा च प्रयत्नरूँपभावनावाचित्वमेवा- ख्यातप्रत्ययस्य वक्तुमुचितम् , इति वाच्यम् । 'स्तम्बकरिwहि.' इत्यादावचेतनेऽपि प्रयुज्यमानस्य 'कृषो यत्नार्थकत्वानुपपत्ते., कुत्रो यत्नार्थकत्वे सति यतधातुवदकर्मकत्वापत्तेश्च । न चेष्टापत्तिः, करोति' इत्युक्ते 'किम्' इत्याकाङ्क्षाया. 'यतते' इत्युक्ते तदनाकाङ्कायाश्च सर्वानुभवसि- द्धाया अपह्नवायोगात् , 'भोजनाय यतते' इतिवत् 'भोजनाय करोति' इत्यापत्तेश्च । एतेनोत्पद्य- तिपर्यायत्वं करोतेर्निरस्तम् । तथा सत्यकर्मकत्वेन ‘घटं करोति' इत्यनापत्तेः, घट उत्पद्यत इत्यर्थे 'घट. करोति' इत्यापत्तेश्च । तस्मादन्योत्पादानुकूलव्यापाररूपा भावनैव करोत्यर्थ इति तत्समाना- र्थकाख्यातप्रत्ययेनापि सैवोच्यत इत्यास्थेयम् । ननु अस्तु धात्वर्थातिरिक्ता भावना, तथापि तां प्रति धात्वर्थस्य ‘पाकं करोति' इति कर्मत्वेन लोके विवरणात्कथमिह तस्य करणत्वं व्युत्पाद्यमिति चेत्, सत्यम् । धात्वर्थातिरिक्तकर्मपदासमभिव्याहारे पचति' इत्येवोक्ते 'पाकं करोति' ओदनं पचति' इत्युक्ते 'पाकेनौदनं करोति' इति च विवरण लोके दृश्यते। तत्र यदा पाकस्य कर्मत्वेनान्व- यस्तदा तदनुकूलाधिश्रयणादिव्यापारनिचय: अधिश्रयणत्वादिविशेषधर्मानादरेण पाकानुकूलो व्या- पार इत्येव सामान्यरूपेणाख्यातप्रत्ययवाच्यतां भजते । यदा तु 'ओदनं पचति' इत्यत्र पाकेनौदनं करोतीति करणत्वेन धात्वर्थयान्वयस्तदा पाकानुकूलव्यापारत्वेनाधिश्रयणादिनिचयो न प्रत्ययेनो- च्यते, पाकस्य कर्मत्वाभावादोदनस्यैव कर्मत्वात् । कित्वोदनोत्पत्त्यनुकूलव्यापारत्वेन सामान्यरू- पेणैवाधिश्रयणत्वादिविशेषधर्मानादरेण स तद्वाच्यतां भजते । धात्वर्थस्तु पाकः प्रत्ययवाच्ये तस्मि- व्यापारे करण न त्वोदने, कारकाणां मिथः संबन्धायोगात् । यद्यप्यधिश्रयणादिनिचयेन पाको जायते न तु पाकेनाधिश्रयणादिनिचयः, तथापि पाकस्याधिश्रयणादिनिचयं प्रति साधकतमत्वरूपक- रणत्वासंभवेऽपि फलोद्देशप्रवृत्तकर्तृव्यापारनिष्पाद्यत्वरूपं करणत्व संभवतीति न दोषः । तत्र करणस्य कर्तृव्यापारेण निष्पत्तिāधा, स्वरूपेणातिशयविशिष्टतया च । तत्र पाकस्याधिश्रयणादिनिचयेन स्व- रूपेण निष्पत्तिः । 'कुठारेण वृक्ष छिनत्ति' इत्यत्र तु द्वैधीभावानुकूलोद्यमननिपातनादिव्यापारनि- चयेन कुठारस्य द्वैधीभावसपादकाभिघाताद्यतिशयविशिष्टतया निष्पत्तिः । एव वेदेऽपि 'व्रीहिभि- . करोते:---क, घ.

अध्वरमीमांसाकुतूहलवृत्तौ १२६ [अधि. १-२. , , र्यजेत' इत्यत्र यागस्यैव कर्मत्वात्तदनुकूलव्यापारत्वसामान्यात्मना प्रयत्नसंकल्पादिस्तद्विशेषरूपा- नादरेण गम्यते । ब्रीहयस्तु तत्र करणम् । 'यजेत स्वर्गकामः' इत्यत्र तु फलस्य कर्म- त्वात्तदनुकूलव्यापारत्वसामान्यरूपेणाग्न्यन्वाधानादिमकलव्यापारनिचयस्तद्विशेषरूपानादरेण प्रत्य- येनाभिधीयते । तस्मिश्च व्यापारे यागः करणम् , यागस्य दृष्टादृष्टार्थावघातप्रयाजादिकर्तृव्या- पारेण स्वरूपेण स्वर्गसाधनतासंपादकातिशयविशेषविशिष्टतया चोत्पत्त्या फलोद्देशप्रवृत्तव्यापारनि- पाद्यत्वात् । यदि तु ‘साधकतमं करणम्' इति व्याकरणानुसाराजनकविशेषस्यैव करणत्वमि- त्याग्रहस्तदाप्येवमुपपाद्यम् । 'कुठारेण च्छिनत्ति' इत्यत्र द्वैधीभावानुकूलोद्यमननिपातनादिव्यापारो न कुठारं प्रति स्वरूपेण साध्यः, कुठारोऽपि न तत्र स्वरूपेण साधनम् । किंतु द्वैधीभावजनन- सामर्थ्यरूपाभिघाताद्यतिशयविशेषविशिष्टतया कुठार उद्यमननिपातनादिव्यापारनिचये द्वैधीभावानु- कूलव्यापारत्वरूपापन्ने साधनम् । कुठारेऽभिघाताद्यतिशयविशिष्टे सत्येव ह्युद्यमनादिव्यापारो द्वैधी- भावानुकूलव्यापारात्मना सपद्यते । ततश्च द्वैधीभावानुकूलव्यापारे उद्यमनादौ कुठार. करणमि- त्युक्ते ‘सविशेषणे हि-' इति न्यायेन द्वैधीभावनिष्पत्तौ कुठारः करणमिति पर्यवस्यति । एवम् 'यजेत स्वर्गकाम' इत्यत्रापि दृष्टादृष्टोपकारविशिष्टयागस्यावघातप्रयाजादिकर्तृव्यापारे स्वर्गानुकूल- व्यापारत्वरूपापन्ने साधनत्वम् ‘सविशेषणे हि-' इति न्यायात्स्वर्गोत्पत्तौ पर्यवस्यति । तत्र प्रय- नादिभिरार्थिकैलौकिकैः साधनैरवघातादिभिश्च वैदिकै. स्वरूपेण निष्पन्नोऽपि याग: अग्न्यन्वाधान- प्रयाजादिभिर्व्यापारैस्तत्तद्रूपापन्नै. फलसाधनात्मना निष्पद्यत इति तेन रूपेण यागयाग्न्यन्वाधाना- दिसाध्यता । अग्न्यन्वाधानादिव्यापारस्य च तत्तद्रूपेण तत्साधनता । ततश्च रूपभेदाद्यागस्य कर्तृव्यापार प्रति साध्यत्वं साधनत्वं च न विरुध्यते । तथा कर्तृव्यापारस्यापि यागं प्रति । नन्वेव- मप्यन्वाधानादिरूपव्यापारस्य 'अग्नीनन्वादधाति' 'व्रीहीनवहन्ति' ब्रिीहीन्प्रोक्षति' 'तण्डुलान्पि- नष्टि' : समिधो यजति' 'तनूनपात यजति' 'विष्णुक्रमान्क्रमते' इत्यादितत्तद्धात्वभिहितत्वात्कथं यजेतेति प्रत्ययवाच्यत्वम् । किच अन्वाधानादिव्यापारस्य 'किम्' केन' कथम्' इत्यंशत्रयविशि- ष्टभावनायां तृतीयाकाडापूरकस्य भावनात्वमपि विरुद्धमिति चेत्, सत्यम् । 'अन्वादधाति' इत्यादि- भिस्तत्तद्रूपेणाग्न्यन्वाधानादिव्यापारनिचयस्याभिहितत्वेऽप्यन्योत्पादव्यापारत्वेन सामान्यात्मना प्रत्य- यवाच्यत्वमविरुद्धम् । एवमग्न्यन्वाधानादिव्यापारनिचयख तृतीयाकाङ्क्षापूरकत्वेन भावनांशत्वं सामान्यात्मना अंशित्वं चाविरुद्धम् । तत्र प्रत्ययेन सामान्यात्मना प्रतीतो व्यापारः कोऽसाविति विशिष्याकाशितोऽग्न्यन्वाधानादि कथ व्यापरितव्यमित्याकासितोऽग्न्यन्वाधानादिजन्यदृष्टादृष्टोप- कारसंपादनरूप इति विवेकः । तत्सिद्धं धात्वर्थातिरिक्तं भावनास्वरूपम् । तत धात्वर्थः करणम् , एवापूर्वमिति 'यजेत' इत्याद्याख्यातशब्द एवापूर्वमाक्षिपतीति पार्थसारथिमतानुसारी पन्थाः । अत्र यद्वक्तव्यं तत्तृतीयस्य तृतीये प्रकरणाधिकरणे वक्ष्यामः । इति भावार्थाधिकरणम् ॥ - . तत सू. २-३.] द्वितीयाध्याये प्रथमः पादः । १२७ , , - धात्वर्थादेवापूर्वमिति स्थितम् । तत्रापूर्व साधयितुमिदमारभ्यते । 'यजेत स्वर्गकामः इत्यत्र यागस्वर्गातिरिक्तमपूर्व नाम किचिदस्ति न वेति सशयः । नास्त्यपूर्वम् , प्रमाणाभावात् । २. अपूर्वस्यास्तित्वा- न पत्र प्रत्यक्ष प्रमाणं क्रमते, रूपाद्यभावात् । अविनाभूतलिङ्गाभावाच्च धिकरणम् । नानुमानम् । आगमोऽपि नैवंविधोऽस्ति ‘यागोऽपूर्वद्वारा स्वर्ग जनयति' इति । सादृश्याग्रहणाच्च नोपमानगन्धोऽपि । न च यागस्य क्षणिकस्य श्रुतकालान्तरभाविवर्गसा- धनत्वान्यथानुपपत्त्या वस्त्वन्तरमपूर्व नाम किचित्कल्प्यत इति शक्यते वक्तुम् , कल्प्यमानस्य तस्य श्रुतसाधनत्वविरोधितया तदुपपादकत्वासंभवात् , साधनत्वबोधकशास्त्रेणाव्यवहितस्य बोधितत्वेन मध्ये वस्त्वन्तरस्वीकारे तद्विरोधात्, व्यवहितस्य कुलालपित्रादिवदन्यथासिद्धत्वेन साधनत्वव्या- घातात् । न च, यागस्य स्वर्गजननशक्तिर्या सैवापूर्वमुच्यते । ततश्च शक्तेरवस्त्वन्तरतया साधनान्त- रत्वाभावेनाव्यवधायकतया यागस्य साधनता न तया व्याहन्यते । अस्तु वा वस्त्वन्तरमपूर्वम् । तथापि व्यापारवत्त्वेन यागस्य साधनत्वं न तद्वधाहन्तुमीष्टे, 'नहि स्वाङ्गं स्वव्यवधायकम्' इति न्यायादिति वाच्यम् । शक्तिमति व्यापारवति च यागे क्षणिकत्वेन विनष्ट शक्तेर्व्यापारस्य चावस्थानायोगात् । कथं तर्हि क्षणिकस्य यागस्य कालान्तरभाविस्वर्गजनकत्वमिति चेन्न । शास्त्र- प्रामाण्याद्विनष्टस्यापि यागस्य स्वर्गसाधनत्वकल्पनोपपत्तेः । शास्त्रप्रामाण्यात्सूक्ष्मरूपेणावस्थानं वा यागस्य कल्प्यताम् । अतो नापूर्व वस्त्वन्तरम् । इति प्राप्ते, सिद्धान्तयति- चोदना पुनरारम्भः ॥ ३॥ पुनःशब्दो यत इत्यर्थे । चोद्यत आक्षिप्यत इति चोदना अपूर्वम् । कर्मणि ल्युट् । अस्तीति शेषः । कुतः । यतः कर्मणा फलस्य आरम्भः उत्पत्तिः श्रूयते । तथाहि-शास्त्रप्रामाण्या- कल्प्यमानमपि प्रमाणान्तरेणाविरुद्धमेव कल्प्यते । विनष्टस्य कार्यारम्भकत्वं च सर्वप्रमाणविरुद्धम्। न च पूर्वानुभवकृष्यध्ययनादीनामिव विनष्टस्यापि कार्यारम्भकत्वं कि न स्यादिति वाच्यम् । तेषां संस्कारविशेषनिष्पादनमुखेन तदुपपत्तेः । इह च तदनभ्युपगमात् । अभ्युपगमे च गतं विवादेन । एवं क्षणिकस्य यागस्य यावत्कार्यारम्भमवस्थानमपि सर्वप्रमाणविरुद्धं न कल्पयितुं शक्यम् , 'न ह्यागमाः सहस्रं घटं पटयितुमीशते' इति न्यायात् । कृतयागस्यात्मन एव फलमिति कल्पना त्वेकादशे कर्म- ण्यारम्भभाव्यत्वात्' इत्यधिकरणे ‘सकृत्तु स्यात्कृतार्थत्वादङ्गवत्' इति गुणसूत्र उद्भाव्य निराक- रिष्यते । न चापूर्वकल्पनायां यागस्य साधनत्वव्याघात:, स्वशक्त्यात्मनः स्वव्यापारात्मनो वा अपू- र्वस्य यागे साधनत्वपरिपन्थित्वाभावात् । यद्यपि शक्तिमति व्यापारवति च यागे नष्टे तद्वस्थाना- संभवस्तथापि कार्यबलात्कल्प्यमाना शक्तिर्यथा कार्य निर्वहति तथा कल्प्या । इह च शक्तिरात्म- निष्ठतयैव कार्यनिर्वाहिकेत्यात्मनिष्ठेव यागस्य शक्तिः कल्प्यते । एवं व्यापारोऽपि । तत्र हि समी- १२८ अध्वरमीमांसाकुतूहलवृत्तौ [अधि. २. हितसाध्योद्देशप्रवृत्तसाधनेन तत्सिद्धयर्थमन्तरासाध्यमानत्वमेवावान्तरव्यापारत्वम् । व्यापारिणः सत्त्वमपि न तत्र प्रयोजकम् । अन्यथा ‘काष्ठैः पचति' इत्यत्र ज्वालायाः पूर्वानुभवादौ च संस्कारस्य व्यापारत्वानुपपत्तेः । तस्मादस्त्यपूर्व वस्त्वन्तरम् । तदिदं श्रुतफलसाधनत्वान्यथानुप- पत्त्या कल्पितमपूर्वमव्यवहितफलसाधनत्वात्परमापूर्वमिति वदन्ति । तत्रैकहविष्कायामिष्टौ तदुत्प- त्तिप्रकारः कथ्यते । सर्वाङ्गोपकृतेन यागेन परमापूर्वमुत्पद्यते । अङ्गानि च कानिचिद्यागानुष्ठानस्य पुरस्तात्कानिचित्परस्ताच्चानुष्ठीयन्ते । यथानुष्ठितानि चाङ्गानि मिलितानि युगपदेव यागे उपकार जनयन्तीत्येकादशे वक्ष्यते । अङ्गानां च सर्वेषां क्रियात्मकानां क्षणिकानां मेलनं साक्षादसंभवात्स्वस्वज- न्यापूर्वमुखेन वक्तव्यमित्यङ्गापूर्वसिद्धिः। मिलितैरपि तैरङ्गापूर्वैर्मध्येऽनुष्ठितस्य यागस्योत्पन्नविनष्टत्वेन साक्षात्तस्मिन्नुपकारजननासंभवात्स्वजन्यापूर्वमुखेनैव तस्मिन्नुपकारजनकत्वं तेषामङ्गापूर्वाणां वाच्य- मित्युत्पन्नमात्रादनुपकृतादेव यागात्किचिदपूर्वमुत्पद्यत इति वक्तव्यम् । तदिदमुत्पत्त्यपूर्वमित्युच्यते । तन्मुखेन सर्वाङ्गापूर्वैरुपकृताद्यागात्परमापूर्वमिति । न चोत्पत्त्यपूर्वमेवाङ्गोपकृतं फलं साधयतु, किं परमापूर्वेणेति वाच्यम् । यागफलयोः साध्यसाधनभावे निर्धारिते हि कथभावाकाङ्क्षा भवति, न त्वनिर्धारिते । तन्निर्धारणं च यागस्य नश्वरत्वेन द्वारकल्पनां विना न संभवतीति प्रथमं परमापूर्व- मेव कल्प्यम् , न तूत्पत्त्यपूर्वम् । तत्त्वङ्गसाचिव्यनिर्वाहाय पश्चादेव कल्प्यमित्यपूर्वद्वयकल्पना आव- श्यकी । एवमनेकहविष्कायामपीष्टौ यावन्तो यागास्तावन्त्युत्पत्त्यपूर्वाणीति विशेषः। तत्र प्रधानानां फलसाधनतानिर्वाहाथै प्रथम परमापूर्वमेकं सर्वप्रधानसाध्यं कल्प्यते, फलवाक्ये एकशब्दोपात्तानां प्रधानानामेकफलसाधनत्वस्यैकादशाद्याधिकरण व्यवस्थापयिष्यमाणत्वात् । पश्चाच्चाङ्गसाहित्यसिद्धयर्थ प्रातिस्विकान्युत्पत्त्यपूर्वाणि कल्प्यन्ते । न च प्रधानानां साहित्यसिद्ध्यर्थ प्रथममुत्पत्त्यपूर्वाण्येव कल्प्यन्ताम् , ततश्च तैरेव फलसिद्धेः कि परमापूर्वेणेति वाच्यम् । फलाकाङ्क्षाया उत्कटत्वेन फलसाधनतानिर्वाहकतया प्रथम परमापूर्वकल्पनाया एवोचितत्वात् । यदि च प्रतिप्रधान- मपूर्वाणि प्रथमं कल्प्येरन् तर्हि तानि फलापूर्वाण्येव स्युः, न तु उत्पत्त्यपूर्वाणि । ततश्च सप्तमाये वक्ष्यमाणन्यायेन धर्माणामपूर्वार्थतया प्रथमकल्पितापूर्वार्थत्वमेव स्यात् । ततश्चा- ङ्गोपकृतेभ्यो यागेभ्योऽपूर्वसिद्धयर्थ पुनरपि प्रतिप्रधानमुत्पत्त्यपूर्वाणि कल्प्येरनिति गौरव स्यात् । तस्मात्फलवाक्ये एकशब्दसंगृहीतैर्बहुभिरपि यागैः स्वस्वोत्पत्त्यपूर्वमुखेन परमापूर्वमेकमेव जन्यते । उत्पत्त्यपूर्वाण्येव तु प्रतिप्रधानं भिद्यन्ते । तदेवमुत्पत्त्यपूर्व परमापूर्व च सर्वत्र साधारणम् । दर्शपूर्णमास- योस्तु समुदायापूर्वद्वयमधिकम् । तथाहि-आग्नेयोऽष्टाकपालः पुरोडाशः, आज्यहविरुपांशुयाजः, अग्नीषोमीय एकादशकपालः पुरोडाश इति पौर्णमास्यां त्रीणि प्रधानानि । आग्नेयः पुरोडाशः, ऐन्द्र दधि, ऐन्द्रं पय इत्यमावास्यायां त्रीणि प्रधानानि । तत्र 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति फलवाक्ये सकृदुचरितेन यजिना तन्वाभिधानशक्तिमहिना समुदितानां षण्णां यागानामेक- सू. ३.] द्वितीयाध्याये प्रथमः पादः । १२९ फलजनकतया एकप्रयोगोपनिपाते प्राप्ते प्रतित्रिकं प्रयोगभेदं विधातुमिदं वाक्यद्वयं प्रवृत्तम् 'पौर्णमास्यां पौर्णमास्या यजेत' 'अमावास्यायाममावास्यया यजेत' इति । तदेतदेकादश एव स्पष्टं भविष्यति । तत्र पृथक्करणविभक्तिनिर्देशात्परस्परनिरपेक्षस्यैकैकस्य त्रिकस्य करणत्वमवगम्यते । न च तत् फलापूर्व प्रति वक्तुं शक्यम् , तत्र परस्परसाहित्यावश्यंभावात् । ततश्च निरपेक्षसाधनत्वेना- वगताभ्यां त्रिकाभ्यां युगपत्फलापूर्वारम्भे नैरपेक्ष्यबाधप्रसङ्गेन तदादाय पृथक्करणश्रुतिनिर्वाहासं- भवात् तदर्थं प्रतित्रिकमेकैकं समुदायापूर्वमङ्गीकर्तव्यमिति । एवं चातुर्मास्येषु 'वसन्ते वैश्वदेवेन यजेत' 'प्रावृषि वरुणप्रघासैः' 'शरदि साकमेधै.' 'ततो द्वयहे त्र्यहे चतुरहेऽर्धमासे मासि चतुषु वा मासेषु शुनासीरीयेण यजेत' इत्यत्र चत्वारि समुदायापूर्वाण्यधिकानीत्यादि यथायथमूह्यम् । नन्वे- वमपि सर्वाङ्गोपकृतयागतः परमापूर्वमित्यनुपपन्नम् , संनिपत्योपकारकाणामवघातादीनामनुष्ठानसमये प्रधानापूर्वस्यैवासत्त्वेन तदुपकारस्यासंभवात् ; न च प्रयाजादिवदपूर्वद्वारा तत्संभवः, अवघाता- दीनां दृष्टार्थतया अपूर्वाभावादिति चेत्, सत्यम् । संनिपत्योपकारकाण्यवघातादीनि नियमादृष्ट- रूपद्रव्यदेवतासंस्कारद्वारा शक्तिविशेषविशिष्टयागजननद्वारा तदुत्पत्त्यपूर्वनिष्पत्तौ तद्वारा फलापूर्व- निष्पत्तौ च व्याप्रियन्ते, तथाविधयागजन्योत्पत्त्यपूर्वस्यैव फलापूर्वजनकत्वात् । आरादुपकारकाणि तु साक्षादेवोत्पत्त्यपूर्वेभ्यः फलापूर्वनिष्पत्तौ व्याप्रियन्ते । न चैवं सति साक्षादुपकारजनने व्या- प्रियमाणत्वादारादुपकारकाणां प्रयाजादीनामेवेत्थभावाकाङ्ग्या स्वीकार. स्यात् , ततश्च तेषामेव विक- तावतिदेशः स्यानावघातादीनां संनिपत्त्योपकारकाणामिति वाच्यम् । 'कथं भावयेत्' इत्युपकारजनन- प्रकारमानं ह्यपेक्ष्यते, न तु साक्षादुपकारजननप्रकार एव । ततश्च सत्यप्यवान्तरभेदे सर्वेषामेवाङ्गाना- मित्थंभावाकाङ्कगसंगृहीतत्वात्सर्वाङ्गोपसंहृतयागतः परमापूर्वमिति युक्तम् । इत्यपूर्वाधिकरणम् ॥ धात्वर्थेभ्योऽपूर्वमिति भावार्थाधिकरणे स्थितम् । तदेतत्कचिदपवदितुमिदमारभ्यते । 'ब्रीहीनवहन्ति' 'तण्डुलापिनष्टि' 'पिष्टानि संवपति' इत्यादिषु किमवघातादिभ्योऽपूर्वमस्ति न ३. कर्मणा गुणप्रधा- वेति संशयः । तदर्थ चेत्थं चिन्यते किमवघातार्था ब्रीयः, उत ब्रीह्यर्थी- नभावविभागा ऽवघात इति । यद्यवघातार्था ब्रीहयस्तर्हि तत्साधनकावघातस्य दृष्टप्रयो- धिकरणम् । जनाभावादस्त्यपूर्वम् । यदि तु ब्रीह्यर्थोऽवघातस्तर्हि दृष्टवैतुष्यद्वारैव ब्रीह्यर्थ- त्वादवघातस्य नास्त्यपूर्वमिति फलति । तत्रावघातार्था ब्रीय इत्येव युक्तम् । न च अप्रिमाधिकरणे द्वितीयायाः साध्यत्वार्थकतया तत्सहितविधिबलाहितीयान्तार्थस्य शेषित्वमिति वक्ष्यते; तयायेने- हापि द्वितीयाश्रुत्या ब्रीह्यर्थत्वमेवावघातस्य युक्तमिति वाच्यम् । अवघातस्य हि दृष्टवैतुष्यार्थत्वे तस्य लोकत एव प्राप्तत्वेन तत्साफल्यायावश्यं प्रकृतेऽपूर्व कल्पनीयम्। तच्च यदि ब्रीहिद्रव्यात्कल्प्येत तदा- 1. उपकृतयागतः-क, ग, घ. 17 १३० अध्वरमीमांसाकुतूहलवृत्ती [अधि. ३-४. वघातस्य ब्रीह्मर्थत्वमदृष्टद्वारैव वाच्यम् । द्रव्यादपूर्वमिति वदता अवघातविशिष्टद्रव्यस्य 'विधेयत्वेन वाच्यतया दृष्टद्वारा अवघातस्य द्रव्यार्थत्वे द्रव्यविशेषणतया अवघातविधिवैयापत्तेः । एवं च श्रीहर्थत्वे अवघातस्य द्रव्यादेकमदृष्टमवघातादेकमित्यदृष्टद्वयकल्पनाप्रसङ्गात् द्वितीयाश्रुत्यवगतमपि ब्रीह्यर्थत्वं परित्यज्य ‘सक्तूञ्जुहोति' इत्यत्रेव द्वितीयायास्तृतीयार्थलक्षकत्वाश्रयणेन अवघातार्था श्रीहय इति युक्तमाश्रयितुम् । एवं पेषणादिवाक्येष्वप्यूह्यम् । इति प्राप्ते, सिद्धान्तयति- तानि द्वैधं गुणप्रधानभूतानि ॥ ४ ॥ येषां तूत्पत्तावर्थे' इति पूर्वसूत्रोपात्तान्याख्यातानि तच्छब्दः परामृशति । तान्या- ख्यातानि गुणप्रधानभूतानि गुणं प्रधानं च कर्म प्रकृत्यंशाभिधेयत्वेन प्राप्तानि द्वैधं द्वेधा । भवतेः प्राप्त्यर्थाचौरादिकात् 'गत्यर्थाकर्मक' इत्यादिना क्तप्रत्यये 'आ धृषाद्वा' इति णिजभावे रूपम् । 'द्वियोश्च धमुञ्' इति विधार्थे द्वैधमिति रूपम् । अल्पाच्तरत्वाद्गुणशब्दस्य पूर्वनिपातः ॥ प्रधानभूतानि तावदर्शयति- यैव्यं न चिकीर्ण्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् ॥ ५॥ 'प्रयाजान्यजति' इत्यादिषु यैः यदभिधेयै. प्रयाजादिभिः तदीयमाज्यादिद्रव्यं दृष्ट- धर्मवत्तया न चिकीर्ण्यते नोत्पादयितुमिष्यते तानि आख्यातानि प्रधानभूतानि द्रव्यापेक्षया तत्सा- ध्यत्वेन प्रधानभूतकर्मप्रतिपादकानि । कुत एतत् । द्रव्यस्य गुणभूतत्वात् आज्यादिद्रव्यस्य प्रया- जादिदृष्टकार्यनिर्वर्तकतया तद्गुणभावं प्राप्तत्वात् ; द्रव्यार्थत्वे प्रयाजादीनां तदृष्टय द्रव्यादृष्टस्य च कल्पनापत्तेः ॥ गुणभूतानि दर्शयति- यैस्तु द्रव्यं चिकीर्ण्यते गुणस्तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् ॥ ६॥ तुशब्दः पूर्ववैषम्ये । 'ब्रीहीनवहन्ति' इत्यादिषु यैः यदभिधेयैरवघातादिभिः ब्रीह्यादि- द्रव्यं वैतुष्यादिदृष्टधर्मवत्तया चिकीर्ण्यते उत्पादयितुमिष्यते, तत्र तेष्ववहन्त्यादिषु गुणः, जातावेक- वचनम् , अवघातादि द्रव्यं प्रति गुणः तत्साधनतया प्रतीयेत । कुतः । तस्य अवधातादेः द्रव्यप्रधा- 1. विधेयतायाः-क, घ, ङ.

सू. ४-६.] द्वितीयाध्याये प्रथमः पादः । । नत्वात् दृष्टवैतुष्यद्वारा ब्रीह्यादिद्रव्यार्थत्वात् ॥ न च अवघातादेदृष्टवैतुष्यार्थत्वे द्रव्यादवघातादित- श्वापूर्वकल्पनागौरवमिति वाच्यम् । तदा ह्यदृष्टद्वयकल्पना यदि ब्रीह्यादिद्रव्यमवघातादिविशिष्टमिह विधीयत इत्युच्यते । नैवमस्ति । क्रत्वर्थतया प्राप्तमेव ब्रीह्यादिद्रव्यमुद्दिश्यावधातादिमानं विधीयते। अतो न द्रव्याददृष्टकल्पनाप्रसक्तिः । नाप्यवघातादेवीह्यादिद्रव्यार्थतानिर्वाहायापूर्वकल्पना, दृष्टवैतु- घ्यद्वारैव तत्संभवात् । एवं च सति नैकस्याप्यपूर्वस्य कल्पनाप्रसक्तिः । न चैवं सत्यवघातादेर्वैतुष्या- दिदृष्टार्थत्वस्य लोकत एव सिद्धत्वाद्विधिवैयर्थ्यमिति वाच्यम् , नखविदलनव्यावृत्त्यादिफलकनिय- मविधानार्थत्वात् । न चैवमपि नियमादृष्टय कल्पनीयत्वात्को विशेष इति वाच्यम् , ब्रीह्यादिसाध- नकावघातादिविधावपि सर्वे द्रव्यविधयो नियमविधय इति चातुर्थिकन्यायेन विशेषणभूतबीह्यादि- द्रव्यविधेनियमार्थतया नियमादृष्टस्यावर्जनीयत्वात् । एव च ब्रीह्यादिसाधनकावघातादेर्दष्टप्रयोजनाभा- वादपूर्वार्थतायामवघातादितो' ब्रीह्यादिद्रव्याचापूर्वद्वयकल्पना स्यात् । ब्रीह्याद्यर्थावघातादिविधौ तु नियमादृष्टमात्रकल्पनेति लाघवम् । न चैवं नियमादृष्टरूपापूर्वसद्भावान्नास्त्यपूर्वमिति कथमुच्यत इति वाच्यम् , नियमादृष्टस्य क्रियाफलानुनिष्पाद्यत्वेन तस्य फलत्वव्यवहारायोग्यत्वात्। अवघातादि- तोऽपूर्व नास्तीत्यनेन फलत्वेनापूर्वाभावस्य विवक्षितत्वादिति दिक् । इति तानिद्वैधाधिकरणम् ॥ दर्शपूर्णमासयोः श्रूयते 'सुचः संमार्टि' इति । किमयं सुचां संमार्गः प्रयाजादिवत्ता- धानकर्म, उत गुणकर्मेति संशयः । पूर्वस्मिन्नधिकरणे दृष्टोपकारकं गुणकर्म अदृष्टोपकारकं प्रधा- ४. समार्जनादीनाम- नकर्मेत्युक्तम् । प्रक्षाल्य दर्भेष्वासादितानां सुचां वेदाख्यदर्भमुष्टिविशेषाप्रैः संमार्गतो न कंचिदृष्टोपकारं पश्यामः । अत: प्रधानकर्मत्वमेव संमार्ग- धिकरणम् । स्य प्राप्तम् । यदि च गुणकर्म स्यात्तार्ह दृष्टोपकारकत्वस्य गुणकर्म- लक्षणस्य तत्राव्याप्ति. स्यात्, दृष्टोपकाराभावात् । अदृष्टोपकारकत्वस्य प्रधानकर्मलक्षणस्या- तिव्याप्तिश्च, अदृष्टोपकारकत्वात् । न च 'कर्तुरीप्सिततमं कर्म' कर्मणि द्वितीया' इति व्याक- रणस्मृत्या साध्यत्वे विहितया द्वितीयया खुचामेव प्राधान्यावगतेः कथं संमार्गस्य प्रधानकर्मतेति वाच्यम् । न हि साध्यत्वं द्वितीयार्थ इति व्याकरणतो गम्यते, ईप्सिततमत्वस्यैव ततोऽवगतः । व्यभिचाराश्च न साध्यत्वं द्वितीयार्थः । लोके हि तावत् 'बल्बजाञ्छिखण्डकान्कुरु' इत्यस्ति प्रयोगः । बल्बजस्तृणविशेषैः शिखण्डकान्कुर्विति गम्यते । तत्र बल्बजानां सिद्धतया साध्यत्वाभा- वेऽपि द्वितीया दृश्यते । अतो व्यभिचारान्न साध्यत्वं द्वितीयार्थः । प्रत्युत साधनत्वमेवाव्यभिचा- राहितीयार्थः, बल्बजानां शिखण्डकसाधनत्वात् 'सक्तूञ्जुहोति' इत्यत्र सक्तूनां च होमसाधनत्वात्। न च कटं करोति' 'घटं करोति' इत्यादौ कटादेरसिद्धस्य साधनत्वासंभवाद्वयभिचारात्साधन- प्रधानता- . 1. अपूर्वार्थतयावघातादितो-क, घ.

१३२ [अधि. ४. अध्वरमीमांसाकुतूहलवृत्तो त्वमपि न द्वितीयार्थ इति वाच्यम् । एवमाकारः कटादिः कर्तव्यः' इति बुद्धावुल्लेखानन्तरमेव तत्र कृतेरुत्पत्त्या बुद्धिस्थत्वेन तस्यापि साधनत्वसंभवात् । ततश्च सुगादिसाधनसंमार्गविधानाह- ष्टोपकाराभावाच प्रधानकर्मत्वमेव संमार्गस्येति पूर्वपक्षयति- धर्ममात्रे तु कर्म स्यादनिवृत्तेः प्रयाजवत् ॥ ७ ॥ तुशब्दोऽवधारणे । तथा मात्रशब्दोऽपि । 'मानं कात्स्न्येऽवधारणे' इत्यमरः । धर्मः अदृष्टार्थ कर्म । धर्म एव धर्ममात्रम् । मयूरव्यंसकादित्वात्समासः । अथवा 'संशयमात्रमेतत्' इत्यत्र महाभाष्ये मात्रशब्द. अतात्त्विकत्वे दृष्टः । अतात्त्विकत्वमप्रामाणिकत्वम् । इह तु प्रत्यक्षप्र- माणागोचरत्वरूपमदृष्टत्व विवक्षितम् । अदृष्टो धर्मो धर्ममात्रम् । पूर्ववत्समासः । दृष्टोपकाररहि- तमदृष्टार्थ कर्म धर्ममात्र केवलादृष्टाथै कर्म, न तु स्विष्टकृद्वदुभयरूपमित्युक्त भवति । तथाविधसंमा- गैविधायकवाक्ये संमार्गः प्रयाजवत्प्रधानकर्म स्यात् , न तु गुणकर्म । कुतः । अनिवृत्तः दृष्टस्योपका- रस्य संमार्गादनुत्पत्ते । एवम् ‘ब्रीहीन्प्रोक्षति' 'आज्यमुत्पुनाति' 'हविरभिमृशति' 'गार्हपत्यमुप- तिष्ठते' इत्यादिष्वप्यूह्यम् ॥ , सिद्धान्तयति- - तुल्यश्रुतित्वाद्वेतरैः सधर्म स्यात् ॥ ८ ॥ वाशब्द एवार्थे । संमार्गादितरै. अवघातादिभिः सधर्म स्यात् । समान: साधारणो धर्मः यस्य तत् सधर्म । “धर्मादनिच्केवलात्' इत्यनिच् समासान्तः । गुणकर्मेत्युक्तं भवति । कुतः । तुल्यश्रुतित्वात् । तुल्या द्वितीया श्रुतिर्यस्य तत्तुल्यश्रुति, तस्य भावस्तत्त्वम् , तस्मात्तुल्यश्रुति- त्वात् ॥ अयमाशय. । 'कर्तुरीप्सिततम कर्म' इति सूत्रतो यद्यपि न साध्यत्वं द्वितीयार्थ इति लभ्यते, तथापि तथा युक्तं चानीप्सितम्' इति सूत्रात्तल्लाभ । यथा ईप्सिततम साध्यरूपापन्नं सत् क्रियया युज्यते, तथा अनीप्सितमपि साध्यरूपेण क्रियायुक्तं कर्मसंज्ञ स्यात् । ईप्सितानीप्सित- साधारणं साध्यत्वमेव कर्मत्वम् , तत्र द्वितीयेत्युक्तं भवति । न चैव सति साध्य कर्मेत्येतावतैव सिद्धावीप्सितानीप्सितयोः पृथगुपादानमनर्थकमिति वाच्यम् । एव सति ‘अग्नेर्माणवक वारयति' इत्यत्र माणवकस्य कर्मसज्ञापवादेन 'वारणार्थानामीप्सितः' इत्यपादानत्वापत्तौ, 'पुष्पाणि स्पृहयति' इत्यत्र च पुष्पाणाम् ‘स्पृहेरीप्सित ' इति सप्रदानत्वापत्तौ, तन्निवृत्तये प्रकृष्टेप्सितस्य कर्मसंज्ञावि- धानाय ‘कर्तुरीप्सिततमं कर्म' इत्यस्यावश्यकत्वे सति विषं भुते' 'ग्राम गच्छंस्तृणं स्पृशति' इत्यादौ द्वेष्योपेक्ष्ययोरपि संग्रहार्थम् ' तथायुक्तं चानीप्सितम्' इत्यस्यापि आवश्यकत्वात् । न च सू. ७--८.] द्वितीयाध्याये प्रथम. पादः । १३३ साध्यं कर्मेति पक्षेऽपि 'अक्षान्दीव्यति' इत्यत्र द्वितीयाया. साधनत्वे 'अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः' इत्यत्र चाधिकरणत्वे लक्षणाया आवश्यकत्वादनीप्सितेऽपि लक्षणा किं न स्यादिति वाच्यम् । तत्साधारणप्रवृत्तिनिमित्तस्य केनापि वक्तुमशक्यत्वेन तत्रागत्या लक्षणा- स्वीकारेऽपि संभवन्मात्रविषयानुगमस्य त्यक्तुमनुचितत्वात् । दृष्टश्च लोके साध्यत्वे द्वितीयायाः प्रयोग. 'कटं करोति' इत्यादौ । न ह्यत्र साधनत्वं द्वितीयार्थ इति शक्यते वक्तुम् , असिद्धत्वात् । न च बुद्धिस्थत्वेन साधनत्वसंभव. । बुद्धिस्थत्व हि बुद्धौ विषयत्वमात्रम् , न तु वस्तुसद्भावः । अतः कथ तन्मात्रेण सिद्धत्वनियत साधनत्वं सभवति । तथा वेदेऽपि 'ब्रीहीनवहन्ति' इत्यादौ वैतुष्यादिविशिष्टत्वेन साध्ये ब्रीह्यादौ द्वितीया प्रयुज्यते । ततश्च प्रयोगानुगृहीतव्याकरणानुसा- रेण साध्यत्वमेव द्वितीयार्थ इत्यध्यवस्यामः । यदि च द्वितीयाया. साधनत्वमर्थः स्यात्तर्हि 'पर- शुना छिनत्ति' इत्यत्र परशुशब्दाहितीया स्यात् , करणत्वे तृतीयाविधान चानर्थकं स्यात् । न च साध्यत्वोपलक्षितसाधनत्वं द्वितीयार्थ इति नोक्तदोषः, परशोस्तत्र सिद्धरूपत्वादिति वाच्यम् । लाघ- वेन साध्यत्वस्यैव द्वितीयावाच्यत्वोपपत्तेः । ननु द्वितीयायाः साध्यत्वार्थकत्वेऽपि सुगादीनां शेषित्व- प्रत्यायकाभावात्कथं समार्गादीनां गुणकर्मत्वम् , गुणकर्मत्वस्य पारार्थ्यलक्षणशेषत्वनियतत्वात् । पाराध्यै परोद्देशप्रवृत्तकृतिव्याप्यत्वम् । तच्च समीहितृपुरुषव्यापारगोचरीभूतेन येन समीहितं साध्यते तत्त्वम् । समीहित्पुरुषव्यापारोद्देश्यसमीहितत्व च शेषित्वम् । न चैतत्साध्यत्वा- भिधायिन्या द्वितीययोच्यत इति वक्तुं शक्यते । सत्यं न शेषित्वं द्वितीयायाः साक्षात्प्रतिपाद्यम् , किंतु विधित एव तद्गम्यम् । तत्र द्वितीयाया: साहायकमात्रम् । तच्च साध्यत्वाभिधायित्वेऽपि संभ- वति । प्रवर्तनालिका शब्दभावना हि विधि । प्रवृत्तिहेतुर्व्यापारः प्रवर्तना । तथा च न समीहित- साधनादन्यत्र चेतनः प्रवर्तयितुं शक्यत इति विधि. स्वस्य प्रवर्तनात्वसिद्धयर्थ स्वभाव्याया अर्थ- भावनायाः कर्तृव्यापारात्मिकाया: समीहितभाव्यकत्वं गमयन्भावनाकरणत्वस्य समीहितोद्देशप्रवृत्त- कर्तृव्यापारगोचरत्वं गमयति । तत्र भाव्यं सामान्यात्मना भावनयावगतं तद्विशेषरूपेण तु सुगा- दिपदैरवगम्यत इति न तद्वैयर्थ्यम् । ततश्च समीहितत्वं साध्यत्वं चेति द्वयं शेषित्वबोधेऽपेक्षितम् । तत्र द्वितीयया साध्यत्वं विधिबलाच्च समीहितत्वं गम्यत इति द्वितीयासध्रीचीनविधितः शेषित्व- बोधः संभवति । ननु विधिना समीहितं बोध्यत इत्युक्तम् , जुगादीनां क्रतुसाधनत्वेन समीहितत्वस्य सिद्धत्वात् , स्वतश्च तेषामसमीहितत्वात् , जुगादिसमीहितमित्येवंरूपेण बोधने कर्मपदरहितसंमा- विधेरसामर्थ्याच्चेति चेत् , नैष दोषः । यद्धि वस्तुतः समीहितं झुगादि तस्य संमार्जनादिक्रियो- देश्यत्वमेव विधिना बोध्यते । एवं च ऋतुसाधनत्वेनेच्छाविषयस्यापि स्नगादेरुद्देश्यत्वं विना परोहे- शप्रवृत्तकृतिव्याप्यत्वलक्षणपाराध्य संमार्गादेन सभवतीति तत्सिद्धयर्थ विधिगम्यं समीहितत्वमु- देश्यत्वपर्यन्तमाद्रियते, न विच्छाविषयत्वमात्रमिति न दोष. । यत्र तु साध्यत्ववाचिद्वितीया नास्ति १३४ अध्वरमीमासाकुतूहलवृत्ती [अधि. ४-५. 'यजेत स्वर्गकामः' इत्यादौ तत्र साध्यत्वमुद्देश्यत्वं च द्वयमपि विधित एवावगम्यत इति ध्येयम् । 'बल्बजाञ्छिखण्डकान्कुरु' इत्यादौ च बल्बजादीनां शिखण्डकाद्याकारेण साध्यत्वान्न व्यभिचारः । - कथं तर्हि 'सक्तूञ्जुहोति' इत्यत्र द्वितीयानिर्वाह इत्याशङ्कय निराकरोति- द्रव्योपदेश इति चेन्न तदर्थत्वाल्लोकवत्तस्य च शेषभूतत्वात् ॥ ९॥ , सक्तुद्रव्यस्य होम प्रति साधनत्वेन गुणभूतस्य द्वितीयया उपदेशः कथमिति चेत्, तन्न । कुतः । तदर्थत्वात् । सक्तुद्रव्यस्य होमार्थत्वात् होम प्रति साधनत्वेन शेषतया भाव्यत्वा- भावेन तस्य द्रव्यस्य तच्छेषित्वासंभवात् । यद्धि विधिव्यापार विनैव पुरुषस्य समीहितं तस्य विधी- यमानसाधन प्रत्युद्देश्यत्वमानं विधिगम्यम् । न च सक्तुद्रव्य प्रमाणान्तरेणाभिलषितं येन विधित उद्देश्यत्वसिद्धिमाश्रित्य भाव्यतयान्वीयेत । नैतदस्ति, सक्तुद्रव्यस्य भूतोपयोगित्वेन प्रतिपाद्यतया वा भाव्युपयोगित्वेन क्रतुसाधनतया वा अभिलषितत्वाभावात् । अतो भाव्यत्वेनान्वयासंभवेन साध- नत्वेनैव सक्तुद्रव्यस्यान्वयो वाच्य.। द्वितीया च लक्षणया तत्र निर्वाह्या, आरोपितसाध्यत्वविवक्षया वा । अत एव 'विवक्षात: कारकाणि भवन्ति' इत्याश्रित्य ‘स्थाली पचति' 'परशुश्छिनत्ति इत्यादि साधितं महाभाष्यादौ । झुगादेस्तु ऋतुसाधनरूपेणाभिलषितस्य विधीयमानसमार्ग प्रत्युहे- श्यत्वं विधिगम्यमवलम्ब्य संमार्गभावनायां समीहितभाव्याकाङ्किण्यां भाव्यत्वेनान्वय उचितः । ननु सुगादेः साध्यत्वं न स्वरूपेण सभवति नाप्युपकारकत्वेन, अवहननादिजन्यवैतुष्यरूपोपकार- वदिहोपकारानुपलब्धेः इत्यत आह -तस्य चेति । तस्य च स्रुगादेः शेषभूतत्वात् अदृष्टोपकार- द्वारा साधकं संमार्ग प्राप्तत्वात् । अदृष्टोपकारविशिष्टत्वेन स्रुचां संमार्गसाध्यत्वादिति यावत् । अह- टोपकारास्तित्वे दृष्टान्तयति-लोकवदिति । यथा लोके नागरिकाणां राजतदमात्यादीनां ग्राम- मभ्यागतानां नीराजनरूपपर्यग्निकरणेनादृष्टोपकारः क्रियते तद्वत् । न च संमार्गस्य गुणकर्मत्वे प्रधानगुणकर्मलक्षणस्य तत्राव्याप्त्यतिव्याप्ती स्यातामिति वाच्यम् । न हि ‘यैर्द्रव्यं न चिकीर्घ्यते' इत्यादिना सूत्रभागेन प्रधानगुणकर्मणोर्लक्षणे उच्येते, अनपेक्षितार्थत्वप्रसङ्गात् । अपूर्वसद्भावास- द्भावविषयविवेचनमेव हि तत्र क्रियते, दृष्टोपकारिष्वपूर्व नास्ति तदन्यत्र त्वस्तीति तावन्मात्र- स्यैव भावार्थाधिकरणापवादत्वेन प्रतिपित्सितत्वात् । तथा च दृष्टोपकारि गुणकर्मापूर्वानाधायकम् , अदृष्टोपकारि तु प्रधानकर्मापूर्वाधायकमिति तदर्थः पर्यवस्यतीति न दोषः। फलभावनाकरणया- गादिसाधनद्रव्यगतदृष्टादृष्टान्यतरसंस्कारजनकं कर्म गुणकर्म, यथा अवघातादि संमार्गादि च । फलभावनाकरणयागादौ द्रव्यनैरपेक्ष्येण साक्षादपूर्वाधायकं कर्म प्रधानकर्मेति तु तल्लक्षणे बोध्ये ।

सू. ९--१०.] दितीयाध्याये प्रथमः पादः । १३५ . तस्मात्समार्गादि गुणकर्मेति सिद्धम् । प्रयोजन पूर्वपक्षे त्रुग्भिः साधनैर्यस्य कस्यचित्समार्गः, 'वेदाप्रेण सुच: समार्टि' इति तु संमार्गान्तरम् ; सिद्धान्ते त्वेकमित्यागृह्यम् । इति संमार्गा- धिकरणम् ।। सन्ति ज्योतिष्टोमे स्तोत्राणि 'बहिष्पवमानेन स्तुवते' 'आज्यैः स्तुवते' 'माध्यंदिनेन पवमानेन स्तुवते' ‘पृष्ठै. स्तुवते' आर्भवपवमानेन स्तुवते' 'यज्ञायज्ञीयेन स्तुवते' इति । सन्ति ५. स्तोत्रादिप्राधान्या. च शस्त्राणि 'आज्यं शंसति' प्रउगं शंसति' मरुत्वतीयं शंसति' 'निष्के- धिकरणम् । वल्यं शंसति' वैश्वदेवं शंसति' 'आग्निमारुतं शंसति' इति होतुः षट् शस्त्राणि । तथा मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकानामेकैकस्य द्वे द्वे इति षट् शस्त्राणि । प्रगीतमत्रसा- ध्यगुणिनिष्ठगुणाभिधानं स्तोत्रम् । अप्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानं शस्त्रम् । अभिधानं शाब्दबोधः । वस्तुतस्तु गुणिनि गुणसंबन्धाभिधायकप्रगीतमन्त्रोच्चारणं स्तोत्रम् , अप्रगीततथावि- धशब्दोच्चारणं शस्त्रम् । तदेतानि स्तोत्रशस्त्राणि च कि स्तुत्यदेवताप्रकाशनरूपसंस्कारार्थानि गुणक- आणि, उत अदृष्टार्थत्वात्प्रधानकर्माणीति संशयः । तत्र पूर्वपक्षयति- स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् ॥ १० ॥ स्तुतेति भावे क्तः । कर्तरि षष्ठी । स्तोत्रत्वेन शस्त्रत्वेन चानुगमाहिवचनम् । शाब्दबो- धविशेषात्मकस्तोत्रशस्त्रकर्तृकः प्राकट्यापरनामधेयज्ञाततात्मकः प्रकाशनरूप. संस्कारः कर्मसमवेते इन्द्रादौ स्यात् । कुतः । देवताभिधानत्वात् 'अभि त्वा शूर नोनुमः' इत्यादिमन्त्राणामिन्द्रादि- देवतागुणवर्णनपराणामपि मुख्यतात्पर्यविधया तद्देवताभिधायित्वात् । । गुणप्रकाशकानामप्येषां गुणिप्रकाशन एव तात्पर्यादिति यावत् । यथा 'अग्निर्मूर्धा दिवः' इत्यादियाज्यासु मूर्धत्वादि- गुणप्रकाशने सत्यपि न तत्र तात्पर्यम् , किंतु गुणिप्रकाशन एव तात्पर्यम् ; तद्वदिहापि गुणप्रकाशन- मतन्त्रीकृत्य तन्मुखेन गुणिप्रकाशन एव तात्पर्य दृष्टार्थत्वायाभ्युपेयम् । गुणसंबन्धकीर्तनमात्रेण स्तु- तित्वं चोपपद्यते । तुशब्दोऽनन्तरोक्तसंमार्गादिवैषम्ये । संमार्गादि तावत्झुगादावपूर्वाधायकम् , स्तु- तशस्त्रे तु देवतासु प्रकाशनरूपदृष्टसंस्काराधायके । तस्माद्गुणकर्मणी स्तोत्रशस्त्रे इति। अथवा स्तुतश- स्त्रयोरिति विषयनिर्देशः । स्तुतं गुणगुणिसंबन्धाभिधायकप्रगीतशब्दोच्चारणम् । अप्रगीततथाविधश- ब्दोच्चारणं शस्त्रम् । स्तुतत्वेन शस्त्रत्वेन चानुगमाद्विवचनम् । 'बहिष्पवमानेन स्तुवते' इत्यादिवाक्ये 'आज्य शंसति' इत्यादिवाक्ये चेति यावत्। संस्कारो 'दृष्टः प्रकाशनरूपः इन्द्रादिषु गम्यत इति व्याख्ये- यम् । देवताभिधानत्वादिति तु पूर्ववद्वयाख्येयम् । युक्त चैतत् । स्तौतिशंसत्योः शाब्दबोधप्रधानत्वे हि 1. अभिधायकत्वात्-क, घ. 2. दृष्टप्रयोजनरूपः-ख.

१३६ अध्वरमीमांसाकुतूहलवृत्ती [अधि. ५. तत उत्पद्यमानस्य दृष्टसंस्कारस्येन्द्रादिदेवतास्वदर्शनेन पूर्वपक्षानुन्मेषः स्पष्ट एव । न च प्रकाशनमेव तत्र दृष्टसंस्कार इति वाच्यम् । तस्य शाब्दबोधादनन्यत्वेन तत उत्पत्त्यनुपपत्तेः । शाब्दबोधात्प्रा- कटयापरनामधेयज्ञातताख्यदृष्टसस्कारो देवतासु स्यादिति व्याख्यानं तु क्लिष्टमेव, ज्ञानविषयता- तिरिक्तज्ञाततायाः सर्वासमतत्वात् । किच स्तौतिशसत्योः प्रगीताप्रगीतमन्त्रसाध्यबोधपरत्व वद- प्रष्टव्यः- शाब्दबोध. कि श्रोतृगतो विवक्षित प्रयोक्तृगतो वेति । नाद्यः, 'जानाति' 'बुध्यते' इत्याद्याख्यातस्य धात्वर्थज्ञानाश्रय इव गुणवत्त्वबोधाश्रये श्रोतर्यपि ‘स्तौति' 'शंसति' इति प्रयो- गापत्ते । न चेष्टापत्तिः, 'अयं राजानं स्तौति , राजा च तत्स्तुत्या हृष्यति' इति स्तोतृहृष्यद्वयक्तिभेदा- नुभवविरोधात् । न द्वितीयः, श्रोतृगतगुणविषयज्ञानस्य प्रयोक्तरि सत्त्वेऽपि श्रोतरि तदभावेन तस्य तत्कृतहर्षासिद्धे., 'अभि त्वा शूर नोनुमः' इत्यादिमत्राणां संबोधनविभक्त्या इन्द्रादिदेवतां प्रति गुण- वत्त्वज्ञापनपराणां शाब्दमर्यादया प्रयोक्तरि शाब्दबोधजननाक्षमताया मत्राधिकरणे निरूपितत्वाञ्च, वन्दिनो राजानं गद्यपद्यै शुकवत्स्तुवन्ति' इति शाब्दबोधशून्यानामपि प्रयोक्तृणां स्तोतृत्वप्रसिद्धेश्च, ‘स्वस्त्यस्तु सखि ते जिह्वे विद्यादातुरुमापतेः । स्तवमुञ्चतरं ब्रूहि जयतामिव दुन्दुभिः' 'जिह्वा काक- तिवीररुद्रनृपते स्तोत्राय संनयति' इत्यादीनां स्तुतेरुच्चारणप्रधानत्व एव सामञ्जस्याच्च । अत एवैत- दधिकरणारम्भे 'गुणवचनं स्तवनं शंसनं च' इति भाष्यम् , 'गुणगुणिसंबन्धकीर्तनं च स्तुतिः' इति वार्तिकम् , 'शब्दोच्चारणमात्रस्य स्तुतित्वाव्यपदेशात्' इति तदनन्तरवार्तिकम् , ' अभिधानरहितश- ब्दोच्चारणायां स्तुतित्वं हीयते' इत्यर्थ इति न्यायसुधा च संगच्छते । अभिधानरहितशब्दोच्चा- रणस्य स्तुतित्वाभावोक्त्या अभिधानघटितशब्दोच्चारणं स्तुतिरिति लभ्यते । न चैवमुच्चारणस्य स्तुतित्वेऽपि 'कवतीषु स्तुवते' इति कथं कवतीनामृचां स्तुत्याधारता, उच्चारणस्य पुरुषनि- ष्ठत्वेनाक्षरनिष्ठत्वाभावादिति वाच्यम् । न हि केवलं शब्दोच्चारणमेव स्तुतिः । किंतु गुणगुणि- संबन्धाभिधायकशब्दोच्चारणमेव सा। तत्र विशेषणीभूतगुणगुणिसंबन्धाभिधानं च तत्प्रतीत्यनुकू- लशब्दनिष्ठव्यापाररूपम् , 'शब्दोऽर्थमभिधत्ते' इति व्यवहारदर्शनात् । एवं च कवतीनामुञ्चा- रणात्मकपुरुषव्यापाररूपविशेष्यांशाधारत्वाभावेऽपि विशेषणीभूतगुणगुणिसंबन्धाभिधानरूपशब्दनि- ष्ठव्यापाराधारत्वमादाय सप्तमी युज्यते प्रयोक्तुम् । उक्तं च वार्तिके । गुणगुणिसंबन्धाभिधान- क्रियाया अक्षरारूढत्वात्कवतीष्विति सप्तमी युज्यते' इति । विवृतं चेदं न्यायसुधायाम् ‘गुणवत्त्व- ज्ञापनं स्तुतिः । ज्ञापनं च ज्ञानहेतुर्व्यापार. । स चाक्षराणामभिधानाख्यः, पुरुषस्याप्यभिधायकाक्षरो- धारणाख्य. । तत्र पुव्यापारेऽक्षराणामकर्तृत्वेनाधारत्वायोगेऽप्यभिधानाख्यव्यापारे विशेषणेऽक्षराणां कर्तृत्वेनाधारत्वात्तन्मुखेन पुव्यापारोच्चारणाधारत्वं युक्तम्' इति । तस्माद्गुणगुणिसंबन्धबोधफलक- प्रगीतशब्दोच्चारणं स्तुतिः । अप्रगीततदुच्चारणं शंसनम् । शाब्दबोधश्च श्रोतृनिष्ठ एव । इन्द्रादय- श्चात्र श्रोतारः। तेषां च विग्रहादिपञ्चकं जैमिन्यभिमतमेवेति षष्ठे वक्ष्यते । एवं च शस्त्रीयाणा- सू. ११--१३.] द्वितीयाध्याये प्रथम पादः । - - मृचामाद्यन्तवर्णसंधानं संगच्छते । शंसतेः प्रयोक्तृगतशाब्दबोधप्रधानत्वे हि पूर्वपूर्वस्या ऋचोऽर्थाव- बोधे व्यापृतचित्तस्य प्रयोक्तुरुत्तरोत्तरखा ऋच सातत्यानुपपत्तिरित्यादि मत्राधिकरणेऽवोचाम । तदेवमेतादृशे स्तुतशस्त्रे देवताप्रकाशनरूपदृष्टार्थे गुणकर्मणी ॥ इति प्राप्ते, सिद्धान्तयति- अर्थेन त्वपकृष्येत देवतानामचोदनार्थस्य गुणभूतत्वात् ॥ ११ ॥ देवतानाम । इन्द्रादिपदम् तद्धटितमन्त्रकस्तुतशस्त्रयोर्विधान देवतानामचोदना। सा अर्थेन इन्द्रादिप्रकाशनरूपप्रयोजनवशेन अपकृष्येत महेन्द्रग्रहयज्यादिसंनिधौ स्थिता स्वस्थानाच्च्यावयित्वा यत्रेन्द्रस्तत्रोत्कृष्येत पूषानुमन्त्रणवत् । कुतः । अर्थस्य गुणभूतत्वात् । निरूप्यनिरूपकभावे षष्ठी । इन्द्रादिदेवतारूपमर्थ प्रति तत्प्रकाशकमन्त्रस्तुतशस्त्रयो शेषभूतत्वात् गुणानां च प्रधानानुसारित्वात् । प्रधानकर्मत्वे तु तयोः प्रयाजादिवदृष्टद्वारा क्रत्वर्थतया यागीयदेवतार्थत्वाभावान्नोत्कर्षः । अतो गुणकर्मत्वपक्षोऽनुपपन्न इति भाव. ।। अत्र पूर्वपक्षी प्रत्यवतिष्ठते- वशावद्वा गुणार्थं स्यात् ॥ १२ ॥ वाशब्द उत्कर्ष निराचष्टे । न स्यादुत्कर्ष. । कुतः । यत: 'माहेन्द्र ग्रहं गृह्णाति' इत्यादि- विन्द्रादय एव ग्रहयजिदेवता.। तत्र महत्त्वादिगुणकीर्तनार्थमेव महदादिपदम् , यथा 'राजा 'महाराजः' इति । न हि राज्ञो महाराजोऽतिरिच्यते । अतोऽत्रैकदेशप्रकाशक: 'अभि त्वा शूर नो- नुमः' इत्यादिमत्रो नासमवेतार्थकः वशावत् । ‘सा वा एषा सर्वदेवत्या यदजा वशा वायव्यामाल- भेत' इत्यजावशाशब्दचोदिते कर्मणि 'छागाया वपाया मेदसोऽनुबहि' इत्यादिनिगममन्त्रः सम- वेतो भवति, गुणस्याभेदकत्वात् । तद्वदिहापि । तथा चन्द्रमहेन्द्रयोरभेदादिन्द्रप्रकाशनेऽपि महेन्द्र- संस्कारसंभवान्नोत्कर्ष इति भावः ।। सिद्धान्ती परिहरति- न श्रुतिसमवायित्वात् ॥ १३ ॥ इन्द्रमहेन्द्रयोरभेदादनुत्कर्ष इति न, किंतु स्यादेवोत्कर्षः । कुतः । श्रुतिसमवायित्वात् । श्रुत्या विधिगतदेवतापदेनैव देवताया निगमानुवृत्त्या कर्मान्वयित्वात् । देवता हि न यत्किचिच्छ- ब्देन निगमेषु निर्देश्या, कितु विधिवाक्यश्रुतशब्देनैवेति ' विधिशब्दस्य मन्त्रत्वे भावः स्यात्वेन । . 1. समवायत्वात्. 18 [अधि. ५. अध्वरमीमांसाकुतूहलवृत्तौ १३८ चोदना' इत्यत्र दशमे वक्ष्यते । तन्यायेन वस्तुत इन्द्रो महेन्द्रादभिन्नश्चेदपि महेन्द्रो निगमेषु महेन्द्रशब्देनैव निर्देश्य इतीन्द्रस्तुत्या महेन्द्रसंस्कारासंभवादुत्कर्षों भवेदित्यर्थः ।। विधिगतशब्देनैव निगमेषु देवतोपलक्षणीयेत्यत्र युक्त्यन्तरमाह- व्यपदेशभेदाच्च ॥ १४ ॥ 'बहु दुग्धीन्द्राय देवेभ्यो हवि.' इति 'बहु दुग्धि महेन्द्राय देवेभ्यो हविः' इति इन्द्रमहे- न्द्रयोनिर्देशभेदोऽस्ति । तत्र द्वेधा मन्त्रस्य तैत्तिरीयके पाठः। 'इन्द्राय देवेभ्यो हव्यम्' इत्यच्छिद्रमन्त्र- समाम्नाये । 'हविरिति वाचं विसृजते' इति ब्राह्मणे । विधिगतशब्देनैव निगमेषु देवतोपलक्षण- मिति नियमाभावे ऐन्द्रयागे माहेन्द्रयागे चोभयोर्मन्त्रयोर्विकल्पः स्यात् । स चाष्टदोषदुष्टो नायितु- मुचितः । उक्तनियमाश्रयणे तु मन्त्रयोस्तयोरेन्द्रमाहेन्द्रयागभेदेन व्यवस्थितत्वान्नायं दोषः । तस्मा- दिह स्यादुत्कर्षः॥ उक्तनियमानाश्रयणे बाधकान्तरमाह- गुणश्चानर्थकः स्यात् ॥ १५ ॥ विधिगतशब्दाच्छब्दान्तरेणापि निगमेषु देवतोपलक्षणे सति विधिवाक्ये गृह्यमाणो गुण: अनर्थक एव स्यात् , उक्तेऽनुक्ते च गुणे इन्द्रादेः कर्मसमवायसिद्धेः । उक्तनियमाश्रयणे तु विधिवा- क्ये गुणग्रहणमर्थवत् । उक्तनियमानाश्रयणे बाधकान्तरमाह- तथा याज्यापुरोरुचोः ॥ १६ ॥ याज्यायाः पुरस्ताद्रोचते प्रकाशत इति पुरोरुक्पुरोनुवाक्या । पुरोरुक्च याज्या च या- ज्यापुरोरुचौ । अल्पाच्तरत्वाद्याज्याशब्दस्य पूर्वनिपातः । दर्शपूर्णमासयोः 'एन्द्रसानसिं रयिम्' 'प्रससाहिषे पुरुहूतशत्रून्' इत्यैन्द्रयाज्यानुवाक्ययोः “ महा इन्द्रो य ओजसा' 'भुवस्त्वमिन्द्र ब्रह्म- णा महान्' इति माहेन्द्रयाज्यानुवाक्ययोश्च भेदेनाम्नानादपि तथा विधिगतशब्देनैव निगमेषु देवतोपलक्षणम् । अन्यथा द्वयोरपि युगलयोरुभयत्र विकल्प: स्यात् । तस्माद्विधिगतशब्देनैव देवतोपलक्षणमिति नियम आस्थेय. । अथ यदुक्तम् ‘वशावद्वा गुणार्थ स्यात्' इति तत्राह- - सू. १४--१९.] द्वितीयाध्याये प्रथमः पादः । १३९ - वशायामर्थसमवायात् ॥ १७ ॥ वशायाम् अजावशाशब्दचोदिते कर्मणि विधिगतवशाशब्द परित्यज्य च्छागाशब्देन तदु- पलक्षणं युक्तम् । कुतः । अर्थसमवायात् । वशाशब्दार्थे विशेषरूपे च्छागाशब्दस्य चोदकप्राप्तस्य सामान्यरूपेण समवायात् सभवात् । वशाशब्देन निगमेषु हविरुपलक्षणे चोदकबाधप्रसङ्गात् । इह तु माहेन्द्रविधिगतमहत्त्वगुणपरित्यागे बाधकं न किचित्पश्यामः । तस्मान्माहेन्द्रमिन्द्रशब्दघटित- मन्त्रकं स्तोत्रं शस्त्रं च प्रकाशयितुं न शक्नोतीत्युत्कर्षः स्यादेव । अतो न गुणकर्मत्व स्तुतशस्त्रयोः, कितु प्रधानकर्मतैव ॥ स्यादेतत् । गुणकर्मतैव स्तुतशस्त्रयोरस्तु । न चैवं सति माहेन्द्रग्रहयजिसंनिधावानातैन्द्र- मश्रकस्तोत्रशस्त्रयोरुत्कर्षः स्यादिति वाच्यम् । इष्टापत्तेः । न च क्रमसंनिध्योर्बाधः शङ्कय., ऐन्द्रम- न्वस्य महेन्द्रप्रतिपादनासमर्थत्वेन यत्रेन्द्रस्तलोत्कर्षख सामर्थ्यरूपलिङ्गवशेन क्रमसंनिधी बाधित्वा अश्रयितुं युक्तत्वात् । लिङ्गस्य क्रमसनिध्यपेक्षया बलवत्तायास्तृतीये श्रुतिलिङ्गादिसूत्रे निरूपयिष्य- माणत्वादिति पूर्वपक्षी प्रत्यवतिष्ठते- 'यत्रेति वार्थवत्त्वात्स्यात् ॥ १८ ॥ वाशब्दः प्रत्यवस्थितौ । यत्रशब्देन तदादिवाक्यं लक्ष्यते । यत्रेन्द्रस्तत्रैन्द्रमन्त्रकस्तुतश- स्त्रयोरुत्कर्षोऽस्त्विति ब्रूमः । कुतः । अर्थवत्त्वात् ऐन्द्रमन्त्रकस्तुतशस्त्रयोर्माहेन्द्रग्रहयजेरन्यत्रैव या- गीयदेवताप्रकाशनसमर्थत्वेन प्रयोजनवत्त्वात् । अत. स्तुतशस्त्रयोर्गुणकर्मत्वमेव खात् ।। नन्वैन्द्रादिमन्त्राणां येषामन्यत्र प्रयोजन संभाव्यते तेषामुत्कर्षः संभाव्यताम् । येषां तु मन्त्राणां न प्रकृतकर्मसमवेतदेवताप्रकाशनमन्यत्र च नास्ति प्रयोजनं तेषां कथमुत्कर्षसंभवः । अतस्तेषामदृष्टार्थत्वमेवानिच्छताप्यभ्युपेयम् । यथा आग्निमारुतशख्ने ‘याम्या: शंसति' : पित्र्याः शंसति' इत्यादिविहिताः 'कुषुम्भकसूक्तं शंसति' 'अक्षसूक्तं शंसति' 'मूषकसूक्तं शंसति' इत्यादिविहिताश्च, तेषामदृष्टार्थत्वे च तन्न्यायेन इतरेषामपि सर्वेषां स्तुतशस्त्राणामदृष्टार्थत्वेन प्रधा- नकर्मतैवोचितेति सिद्धान्ती शङ्कते- 'न त्वाम्नातेषु ॥१९॥ तुशब्दोऽवधारणे । आग्निमारुतादावाम्नातेषु केषुचिद्याम्यादिमन्त्रेषु प्रकृतकर्मणोऽन्यत्र नैवा- र्थवत्त्वमस्ति । अतः प्रकृतकर्मण्येवादृष्टार्थत्वं वक्तव्यम् । तन्न्यायेन सर्वेषामपीत्यर्थः ॥ 1. यच्चेति, 2. नेद दृश्यते क्वचिदन्यत्र. , अध्वरमीमांसाकुतूहलवृत्तौ [अधि. ५. - . . , पूर्वपक्षी परिहरति- 'दृश्यते ॥ २० ॥ याम्यादीनामुत्कृष्टानामन्यत्रार्थवत्त्वं दृश्यत इत्यर्थः । याम्यपित्र्यादिमन्त्राणां यमयज्ञम- हापितृयज्ञादौ संभवत्यर्थवत्त्वम् । मण्डूकसूक्तस्य महाग्निचयनेऽर्थवत्त्वम् , तत्र ‘मण्डूकेन विकर्षति' इति विधानात् । अक्षसूक्तस्य राजसूयेऽर्थवत्त्वम् , तत्र — अक्षैर्दीव्यति' इति विधानात् । मूषकसू- क्तस्य यूपैकादशिन्यामर्थवत्त्वम् , तत्र 'आखुस्ते पशुरिति ब्रूयात्' इति विधानात् । कुषुम्भकसू- क्तादीनां तु वाच.स्तोमे आश्विनशस्त्रे चार्थवत्त्वम् , 'सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि वाचःस्तोमे पारिप्लवं शसति' इति विधानात् । पारिप्लवं यथेष्टम् । 'यस्याश्विने शस्यमाने सूर्यो नाविर्भवति, सर्वा अपि दाशतयीरनुब्रूयात्' इति विधानाच्च । ऋग्वेदशाकलसंहिता बाष्कलस- हिता च दशतयमित्युच्यते दशमण्डलात्मकत्वात् । तत्रत्या ऋचो दाशतय्य । न चाश्विनशस्त्रे वाचःस्तोमे चोत्कृष्टानामप्यदृष्टार्थत्वमेव स्यादिति वाच्यम् । कचिददृष्टार्थत्वे सत्यपि सत्यां गतौ तथाश्रयितुमनुचितत्वात् । तस्मादैन्द्रादिमन्त्राणां प्रकृतमहेन्द्रादिग्रहदेवताप्रकाशनेऽसामर्थेऽप्यन्य- त्रोत्कर्षेणार्थप्रकाशनार्थत्वसंभवाद्गुणकर्मणी स्तुतशस्त्रे इति प्राप्ते, सिद्धान्ती गुणकर्मत्वे मुख्यदोषं ब्रुवन्प्रधानकर्मत्वं समर्थयते- अपि वा श्रुतिसंयोगात्प्रकरणे स्तौतिशंसती क्रियोत्पत्ति विदध्याताम् ॥ २१॥ अपि वेति पक्षव्यावृत्तौ । न गुणकर्मणी स्तुतशस्त्रे । कुतः। श्रुतिसंयोगात् । न हि स्तौतिशंसती गुणाभिधानमात्रे वर्तेते, कितु प्राधान्येन गुणाभिधाने । अत एव 'देवदत्तो वक्र- केशान्त.' इति वक्तारं स्तोतारं व्यवहरन्ति लोके, न तु 'वक्रकेशान्तं देवदत्तमानय' इति वक्तार- मपि। अतो गुणिप्रकाशनार्थत्वे 'स्तौति' 'शंसति' इति श्रुतिबाधप्रसङ्गादिह दृष्टप्रयोजनमपि गुणिदेवता- प्रकाशनं परित्यज्यादृष्टार्थत्वमेवाश्रयितुं युक्तम् । एव च सति प्रकरणे प्रकृत एव कर्मणि । कर्मणि ल्युट् । स्तौतिशंसती स्तुतिशंसने क्रियोत्पत्तिं स्वकार्यमदृष्टोत्पत्ति विध्यातां साधयेताम् , बाधका- भावात् । गुणिदेवताप्रकाशनार्थत्वे तु स्तौतिशंसती यत्र गुणिनी देवता तत्रैव स्वकार्यमर्थप्रकाशनं साधयेताम् । ततश्च लिङ्गमनुगृह्येत । श्रुतिस्तु बाध्येत । क्रमसनिधी च बाध्येयाताम् । अदृष्टार्थत्वे तु माहेन्द्रग्रहयजावपि ऐन्द्रमन्त्रकस्तुतशस्त्रयोः समावेशसंभवान्न लिङ्गक्रमसंनिधीनामपि बाधः । नापि श्रुतेः । तस्मात्प्रधानकर्मणी एव स्तुतशस्त्रे ॥ 1. नेद दृश्यते क्वचिदन्यत्र.

सू. २०--२५.] द्वितीयाध्याये प्रथम पादः । १४१ तत्र युक्त्यन्तरमाह- शब्दपृथक्त्वाच ॥ २२ ॥ द्वादशस्तोत्रशस्त्रोऽग्निष्टोम: ' इति सख्याशब्देन स्तोत्रशस्त्रकर्मणां पार्थक्यमवगम्यते । तञ्चैतत्तददृष्टार्थत्वे घटेत । प्रकाशनार्थत्वे च प्रकाशनस्यैकत्वान्न सख्योपपद्येत । विशेषाश्रयणे च प्रत्यूचं प्रतिपदमिति प्रसज्येत । अदृष्टार्थत्वे त्वपूर्वभेदमादाय संख्योपपत्तिः । अथवा अर्थप्रकाश- नार्थत्वे उत्कर्षापत्त्या द्वादशशब्देनावगम्य पृथक्त्वं भेदो नोपपद्येत इति व्याख्येयम् ।। इतोऽपि स्तुतशस्त्रे प्रधानकर्मणी इत्याह- अनर्थकं च तद्वचनम् ॥ २३ ॥ गुणकर्मत्वे अग्निष्टुति 'आग्नेया ग्रहा भवन्ति' इति ग्रहचोदनयैवाग्नेयीनामृचा प्रकाश- नार्थत्वस्य सिद्धतया आग्नेयीषु स्तुवते' इति पुनर्वचनम् अनर्थक स्यात् । अदृष्टार्थत्वे त्वनाग्नेयी- नामपि प्रकृतितः प्राप्तौ तनिवृत्त्यर्थ तदावश्यकम् । , ७ - इतोऽपि ते प्रधानकर्मणी इत्याह- अन्यश्चार्थः प्रतीयते ॥ २४ ॥ 'स्तुतमनुशंसति' इति ‘संबद्धे वै स्तोत्रशस्त्रे' इति च स्तुतशस्त्रयो. पौर्वापर्यसबन्ध- वचनादपि दृष्टादन्योऽर्थः प्रतीयते । प्रकाशनरूपदृष्टार्थत्वे तस्यैकत्वेनैकार्थत्वाद्विकल्पापत्तौ पौर्वाप- र्यसंबन्धानुपपत्तेः ॥ - इतोऽपि ते प्रधानकर्मणी इत्याह- अभिधानं च कर्मवत् ॥ २५ ॥ अग्निहोत्र जुहोति' 'समिधो यजति' तनूनपातं यजति' इत्यादिप्रधानकर्मणीव द्विती- यया ईप्सिततमत्वाभिधानं दृश्यते ‘पृष्ठान्युपयन्ति' 'प्रउग शंसति' 'निष्केवल्यं शंसति' इत्यादि। तदेतददृष्टार्थत्व एवोपपद्यते । अदृष्टार्थत्वे हि सति ऋतुफलं प्रत्यदृष्टमात्रद्वारा प्रत्यासन्नसाधनत्वादी- प्सिततमत्वम् , दृष्टार्थत्वे तु द्रव्यदेवतादिप्रणाडिकया कर्मफलं प्रति व्यवहितसाधनत्वान्नेप्सिततम- त्वम् । अतोऽपि प्रधानकर्मतैव ॥

१४२ अध्वरमीमांसाकुतूहलवृत्ती [अधि. ५--६. , इतोऽपि स्तुतशस्त्रे प्रधानकर्मणी इत्याह- फलनिवृत्तिश्च ॥ २६ ॥ 'स्तुतस्य स्तुतमसि' 'शस्त्रस्य शस्त्रमसि' इति मन्त्रयोः ‘इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजामिषम् , सा मे सत्याशीर्देवेषु भूयाद्ब्रह्मवर्चसं मा गम्यात्' इति स्तुतशस्त्रे प्रति फलनिष्पत्तिः प्रार्थ्यते । तदिदं स्तुतशस्त्रयोः प्रधानकर्मत्वे घटते । देवताप्रकाशनार्थत्वे तु देवतां प्रत्येव फलं प्रार्खेत, 'न स्वामिनि स्थिते कश्चिहासान्प्रार्थयते फलम्' इति न्यायात् । तस्मात्प्र- धानकर्मणी स्तुतशस्त्रे अदृष्टार्थे । प्रयोजन पूर्वपक्षे उत्कर्षः, सिद्धान्ते त्वनुत्कर्ष इति स्पष्टमेव । प्रयोजनान्तरमपि दशमस्य चतुर्थे ' ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात्' इत्यत्र वक्ष्यते ॥ इति स्तुतशस्त्राधिकरणम् ।। 'तानि द्वैधं गुणप्रधानभूतानि' इत्याख्यातानां द्वैविध्यमुक्तम् । तत्प्रसङ्गात्तृतीयमपि प्रकारान्तरमनुवादकत्वरूपं केषांचिदाख्यातानां निरूपयितुमिदमारभ्यते । सन्ति कानिचिदाख्या- ६. मन्त्राविधायकत्वा- तानि मन्त्रब्राह्मणगतानि यच्छब्दमध्यमोत्तमपुरुषयदिशब्दादियुक्तानि । धिकरणम् । 'देवांश्च याभिर्यजते ददाति च, ज्योगित्ताभिः सचते गोपतिः सह' इति काम्यपशुयाज्याकाण्डे गोदेवत्यपश्वर्थतया पठितो मत्रः । याभिर्गोभिर्देवान्यजति याश्च ददाति ताभिर्गोभिः गोपतिः यजमान: ज्योक् चिरं सचत इत् समवैत्येव इत्यर्थः । ' अग्नीदग्नीन्विहर' इति मन्त्रो ज्योतिष्टोमे प्रैषात्मकः । 'बर्हिर्देवसदनं दामि' इति दर्शपूर्णमासयोर्बहिर्लवनमन्त्रः । तत्रैव 'अग्नये जुष्टं निर्वपामि' इति निर्वापमन्त्रः । सन्ति च ' यस्योभयं हविरातिमार्च्छति ऐन्द्रं पञ्चश- रावमोदनं निर्वपेत्' 'यद्याप्रयणेनानिष्वा नवान्नं प्राश्नीयाद्वैश्वानरं द्वादशकपालं निर्वपेत्' इत्यादि- वाक्यगतानि । आख्यातान्तरैकवाक्यतामुपगतानि सर्वाणीमानि विधायकान्यनुवादकानि वेति संशये, पूर्वपक्षयति- विधिमन्त्रयोरैकार्थ्यमैकशब्द्यात् ॥ २७ ॥ मन्त्रग्रहणमुपलक्षणम् । 'यजेत स्वर्गकामः' इत्यादिविधौ ‘देवांश्च याभिः' इत्यादि- मन्त्रे ‘यस्योभयम्' इत्यादिब्राह्मणवाक्ये च श्रुतानामाख्यातानाम् ऐकाय विधानार्थत्वमेव, न तु केषांचिद्विधायकत्वं केषांचिदनुवादकत्वमिति । कुतः । ऐकशब्द्यात् 'सोमेन यजेत' इत्यादौ देवांश्च याभिः' इत्यादौ च एक एवाख्यातशब्दः प्रत्यभिज्ञायते । तत्र कचिद्विधायकः कचिदनुवादक इति वैरूप्याश्रयणे प्रमाणं न किचित्पश्यामः । न च प्रकृतयागाभेदप्रत्यभिज्ञानात्कथं यागान्तरविधि- 1. निवृत्तेश्च. 2. एकशब्दात्. । -

सू. २६-२९]
द्वितीयाध्याये प्रथमः पादः ।
१४३
रिति वाच्यम् । सत्यपि प्रकृतकर्मणि शब्दान्तराभ्यासादिभि. कर्मान्तरत्वावगमसंभवात् । तस्मा-
द्विधायकान्येवंजातीयकान्याख्यातानि ।
अथ सिद्धान्तयति-
-
अपि वा प्रयोगसामर्थ्यान्मन्त्रोऽभिधानवाची स्यात् ॥ २८ ॥
.
अपि वेति पूर्वपक्षव्यावृत्तौ । मन्त्रः मन्त्रादिगतः आख्यातशब्द: न विधायकः, किंत्वभि-
धानवाची। कर्मणि ल्युट् । विधायकाख्यातशब्दाभिहितस्य वाचकः अनुवादकः स्यात् । कुतः ।
प्रयोगसामर्थ्यात् । प्रयोगमध्ये प्रयोक्तृपुरुषस्यान्यस्य वा अनुष्ठेयार्थे बोधनीये 'देवांश्च याभि.
इत्यादिमन्त्राणाम् ‘यस्योभयम्' इत्यादिब्राह्मणवाक्यानां च सामर्थ्यात् विधौ चासामर्थ्यात् । तथा-
हि- 'देवांश्च याभिर्यजते' इति मन्त्रे तावद्यच्छब्देन गोयागस्य गोदानस्य च सिद्धत्वावगमेन
विधेयत्वानुपपत्त्या विधिशक्तिप्रतिबन्धः स्पष्ट एव । एवम् ‘यस्योभयम्' इत्यादिब्राह्मणवाक्येष्वपि ।
अपर्यवसन्नत्वाञ्च तत्र विधिशक्तिः प्रतिबध्यते। न हि देवांश्च याभिर्यजते' इति पर्यवसन्नं वाक्यम् ,
'ज्योगित्ताभिः सचते' इत्यनेन साकासन्त्वात् । अत एवंजातीयका मन्त्रा: प्रयोगमध्य एव
प्रयोक्तृपुरुषस्यानुष्ठेयार्थस्मरणाय प्रभवेयु , न तु विधानाय । 'अग्नीदग्नीन्विहर' 'बर्हिस्तृणाहि'
इत्यादिमन्त्रास्तु प्रयोगमध्ये प्रयोक्तूपुरुषेण पुरुषान्तरे स्मारयितव्ये समर्था न तु विधाने, आम-
न्वणविभक्तरभिमुखार्थप्रत्यायकत्वेन सर्वपुरुषसाधारणविधिप्रत्ययविरोधित्वात्। अनेनैव न्यायेन उत्त-
मपुरुषस्थलेऽपि विधिशक्तिप्रतिबन्धो द्रष्टव्यः । आत्मनि प्रेरणासभवाञ्च । 'यदि नवान्नं प्राश्नी-
यात्' इत्यादिब्राह्मणवाक्यानामपि यदिशब्देन विधिशक्तिप्रतिबन्धाद्वैश्वानरेष्टयादिप्रयोगे निमित्तो-
पदर्शने सामर्थ्यम् , न तु विधाने । यत्र च विधिशक्तिप्रतिबन्धक यच्छब्दादिकं नास्ति, तत्रैव
आख्यातस्य शब्दान्तराभ्यासादिभिर्भेदकता। यच्छब्दादीनां विधिशक्तिप्रतिबन्धकत्वं च मानान्तर-
प्राप्तार्थत्व एव । अप्राप्तार्थत्वे तु न तेषां विधिशक्तिप्रतिबन्धकता । अन्यथा यदाग्नेयादिवाक्येषु का
गतिः । उक्तं च न्यायसुधायाम् । 'सिद्धत्वद्योतनाद्वक्ताभिमुख्यासंभवाद्विधौ। आत्मनि प्रेरणा-
भावानिमित्तत्वाभिधानतः । विधिशक्तिविहन्तु स्याद्यच्छब्दादिचतुष्टयम् । प्राप्त्ययोगे तु तद्बाधात्क-
चित्स्यादविहन्तृता' इति । तद्बाधात् । तख यच्छब्दादिचतुष्टयस्य स्वार्थत्यागादित्यर्थः । इत्यास्तां
तावत् । इति विधिमन्त्राधिकरणम् ॥
।
'विधिमन्त्रयोः' इति पूर्वाधिकरणे उपलक्षणतया गृहीतमन्त्रप्रसङ्गात्तल्लक्षणमभिधत्ते--
तच्चोदकेषु मन्त्राख्या ॥ २९ ॥

१४४ अध्वरमीमांसाकुतूहलवृत्तौ [अघि. ७. . - N अभिधानवाची स्यात्' इति पूर्वसूत्रोपात्तमभिधानं तच्छब्दः परामृशति । तस्य अभि- धानस्य अनुष्ठेयार्थप्रकाशनस्य चोदकेषु प्रयोजकेषु वाक्येषु मन्त्रशब्दो वर्तते । तथा च अनुष्ठेया- ७. मत्रनिर्वचना र्थस्मारकवाक्यत्वं मन्त्रलक्षणमिति पर्यवस्यति । इदं च लक्षणमदृष्टार्थजपा- धिकरणम् । दिमन्त्रेष्वव्याप्तम् । 'वसन्ताय कपिजलानालभते' इत्यादीनामप्राप्ता- र्थकतया विधायकत्वेनानुष्ठेयार्थस्मारकत्वाभावात्तेषु चाव्याप्तम् । अत: प्रायिकमिदं लक्षणमिति प्राश्च: । वस्तुतस्तु विधिमन्त्रयोरित्यत्रोपात्तं विधि तच्छब्द परामृशति । सः 'यजेत स्वर्गकाम' इत्यादिप्रधानविधि चोदक प्रयोगविधिः येषां तानि तच्चोदकानि वाक्यानि प्रयोगविधिगृहीतानि ; तेषु मन्त्रशब्दो वर्तत इति व्याख्येयम् । प्रधानविधिरेव ह्यङ्गप्रयोगस्य विधायक इत्येकादशख द्वितीये ' अङ्गानि तु विधानत्वात्प्रधानेनोपदिश्येरन्' इत्यत्र वक्ष्यते । तथा च कर्माङ्गवाक्यत्वं मन्त्रलक्षणमिति पर्यवस्खति । न च कृत्स्नस्य वेदस्याध्ययनरूपकर्मार्थत्वान्मन्त्रत्वापत्तिरिति वाच्यम् । अध्ययनविधिर्हि द्वेधा अनारभ्यविधिब्रह्मयज्ञविधिश्चेति । तत्राये स्वाध्यायस्य प्राप्तत्वेन तदङ्गत्वा- भावान्नातिव्याप्तिः। द्वितीये तु ब्रह्मयज्ञाध्ययनविधौ स्वाध्यायविधिसिद्धाध्ययनतो गृहीतस्य स्वाध्या- यस पठनेन आर्थवादिक पयःकुल्यादिकं फल भावयेदित्यर्थः। तत्र स्वाध्यायस्य पय.कुल्यादि- फलार्थतया विधावपि न तदादाय कृत्सस्य वेदस्य मन्त्रत्वापत्तिः, प्रयोगकालीनोच्चारणद्वारा कर्माङ्गत्वस्य विवक्षितत्वात् । न चैवमपि ईशा वास्यमिदं सर्वम्' इत्याद्यौपनिषदमन्त्राणां कर्माङ्गत्वाभावादव्याप्तिरिति वाच्यम् । एवंजातीयकानामदृष्टविनियोगानामपि वाचःस्तोमादौ विनि- योगसत्त्वेन कर्माङ्गत्वस्य सत्त्वात् । वाचःस्तोमाङ्गशब्दत्वं वा मन्त्रत्वम् , तत्र 'सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि वाच.स्तोमे पारिप्लवं शंसति' इत्यादिविधानात् । एतेन कर्माङ्गशब्द- त्वस्य मन्त्रलक्षणत्वे 'उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ' इति नाचिकेतादिब्राह्मणस्यापि मन्त्र- त्वापत्तिः, 'नाचिकेतमुपाख्यानम्' इत्युपक्रम्य 'प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते' इति श्राद्धे तदभिश्रावणादिविधानादिति निरस्तम् । तस्य वाचःस्तोमकर्माङ्गत्वाभावात् , ऋग्यजुःसाना- मेव सर्वेषां तत्र विनियुक्तत्वात् । न चैवमपि दर्शपूर्णमासादिप्रयोगदशायां वाचःस्तोमाङ्गत्वाभावा- न्मन्त्रत्वं न स्यादिति वाच्यम् । वाच.स्तोमाङ्गशब्दत्वावच्छेदकधर्मवत्त्वस्य विवक्षितत्वात् । तदव- च्छेदकधर्मश्च रक्त्वं यजुष्व सामत्व च, ऋगादीनां वाच.स्तोमे ऋक्त्वादिधर्मपुरस्कारेणैव विधा- नात् । तेषां च वाचःस्तोमाङ्गतयानुगम । एतेन ऋग्यजुःसामान्यतमत्वं मन्त्रत्वमिति निरस्तम् , अन्यतमत्वस्यान्यान्यत्वरूपत्वेन गुरुत्वात् । परमार्थतस्तु ऋग्यजुःसामान्यतमत्वमेव मन्त्रत्वम् । 'तच्चोदकेषु-' इति सूत्रं तु वाचःस्तोमकर्माङ्गत्वरूपानुगमकधर्मप्रतिपादनमुखेन तत्परम् । ऋग्यजुःसामान्यतमत्वस्यैव मन्त्रलक्षणतया वेदतोऽवगमात् । अस्ति दृगेषा 'अहे बुनिय मन्त्रं 1. प्रयोगविधायक:-क, घ, 2. अक्षरग्रहणरूपाध्ययनकर्मार्थत्वेऽपि-क.

सू. २९-३१.] द्वितीयाध्याये प्रथमः पादः । १४५ १ मे गोपाय, यमृषयस्त्रैविदा विदुः, ऋचः सामानि यजूंषि, सा हि श्रीरमृता सताम्' इति । एषा ऋगाधाने आवसथ्याग्नेरुपस्थाने विनियुक्ता । ' अहे अहिंसक, बुनिय, बुनं हृदयम् , तत्र भव, सतां हृद्त आवसथ्याग्ने, मे मम, मन्त्रं गोपाय रक्ष, यं मन्त्रम् ऋषयः मन्त्रदृशः, त्रैविदाः त्रीन्वे- दान्विदन्तीति त्रिविदः, त एव वैविदाः, स्वार्थेऽण् , ऋक्सामयजुरात्मतया विदुः ज्ञातवन्तः, तं गोपायेत्यन्वयः । सा हि त्रयी सताम् अमृता फलत: अनश्वरा, श्रीः श्रयणीया' इति वेदभाष्यम्। तथा च ऋक्सामयजुरन्यतमत्वं मन्त्रत्वमिति स्थितम् । मन्त्रलक्षणप्रयोजनम् ‘मन्त्रेषु कर्माणि कवयो यान्यपश्यन्' इत्यादौ लघूपायेन लक्ष्यावगम एव । इति मन्त्रलक्षणम् ॥ मन्त्रब्राह्मणात्मकवेदे मन्त्रभागस्य लक्षणमुक्त्वा तत्प्रसङ्गाब्राह्मणभागस्य लक्षणमाह- शेषे ब्राह्मणशब्दः ॥ ३० ॥ मत्रभागावशिष्टवेदभागे ब्राह्मणशब्दो वाचकतया वर्तत इत्यर्थः । विधिपरो वेदभागो ब्राह्मणम् । अर्थवादानामपि विध्येकवाक्यत्वेन तत्रैवान्तर्भाव.। 'ब्राह्मणावशिष्टवेदभागो मन्त्रः ८. ब्राह्मणनिर्वचना- इति याज्ञिकाः, यदाहुरापस्तम्बाचार्याः ‘मत्रब्राह्मणयोर्वेदनामधेयम्' 'कर्म- धिकरणम् । चोदना ब्राह्मणानि' 'ब्राह्मणशेषोऽर्थवादः' 'निन्दाप्रशंसापरकृतिः पुरा- कल्पश्च' अतोऽन्ये मन्त्रा.' इति । लक्षणप्रयोजनं तु 'एतद्ब्राह्मणान्येव पञ्च हवींषि' 'एतदेव सावित्रे ब्राह्मणम् , अथो नाचिकेते' इत्यादौ लघूपायेन लक्ष्यावगमः । इति ब्राह्मणलक्षणम् ।। कर्माङ्गशब्दत्वेनानुगतीकृतमृग्यजुःसामान्यतमत्वं मन्त्रलक्षणमुक्तम् । तत्राक्षिप्य समा- धातुमिदमारभ्यते । अस्ति दर्शपूर्णमासयोहॊतुर्निगद. । 'अग्ने महा असि ब्राह्मण भारत, असा- वसौ' इति । तत्र ‘असावसौ' इति स्थाने 'भार्गवच्यावनाप्नवानौर्वजाम- धिकरणम् । दग्न्य' इत्यादि प्रक्षिप्यते । सोऽयं प्रवर इत्युच्यते । अनेन हि यजमा- नगोत्रजत्वेन अग्निः देवतावाहने प्रक्रियते । तथा तत्रैव 'अग्नये जुष्टं निर्वपामि' इति मन्त्रे अग्नये' इत्येतत्सौर्येष्टौ ‘सूर्याय' इत्यूह्यते । तथा तत्रैव ‘असौ मानुषः' इति होतृवरणमन्त्रे 'असौ' इति स्थाने होतुर्नाम प्रक्षिप्यते । तदेतेषां प्रवरोहनामधेयानां वेदे प्रत्यक्षमनानातानामपि मन्त्रमध्यपति- तत्वेन मन्त्रेण सहकार्थप्रतिपादकतया मन्त्रकार्यापूर्वीयदेवताप्रकाशकारितया च मन्त्रत्वमवश्यमास्थे- यमित्याशङ्कय निराकरोति- अनानातेष्वमन्त्रत्वमानातेषु हि विभागः स्यात् ॥३१॥ वेदे प्रत्यक्षमनानातेषु प्रवरादिष्वमत्रत्वं स्यात् । कुतः । हि यस्मात्कारणाद्वेदे प्रत्यक्षमा- ९. ऊहाद्यमन्त्रता- । 1. स्यादिति कचिनास्ति ।

अध्वरमीमांसाकुतूहलवृत्ती १४६ [अधि. ९-१३. . मातेष्वेव वाक्येषु मन्त्रब्राह्मणविभागः क्रियते । प्रवरादयस्तु ‘असौ' इति परोक्षेण निर्दिष्टाः, न तु प्रत्यक्षेणेति न मन्त्रत्वं तेषाम् । मन्त्रैकवाक्यत्वं तु न मत्रत्वप्रयोजकम् , ' इषे त्वा' इत्यादावध्या- ह्रियमाणे 'छिननि' इत्यादौ व्यभिचारात् । नापि मन्त्रकार्यकरत्वं तत्प्रयोजकम् , पृष्ठ्यषडहे रथघोषादौ व्यभिचारात्। 'असय॑सर्जि' इत्यादिमन्वकार्ये स्तोत्रोपाकरणे रथघोषादेस्तत्र विधानात्। यत्तु 'असौ मानुषः' 'आशास्तेऽयं यजमानोऽसौ' इत्यादावदःशब्दस्य तत्तन्नामानानपर्यवसिततया मन्त्रत्वमेवंजातीयकानामिति कृत्वा सुब्रह्मण्यानिगदादावदःशब्दरहिते 'यजमानस्य तत्पूर्वेषामपरेषां च नाम गृहाति' इति विध्यन्तरबलान्निक्षिप्यमाण नामधेयमेवोदाहरणमिति प्राञ्चः । तदयुक्तम् , प्रत्यक्षानानस्यैव मन्वत्वप्रयोजकत्वेन ‘असौ' इति परोक्षनिर्दिष्टानां नानामपि मन्वत्वाभावस्यैव युक्तत्वात् । अन्यथा प्रवरस्य 'अमुवत्' इति अदःशब्दनिर्दिष्टत्वेन मन्त्रत्वापत्तेः । तत्पूर्वेषामपरेषां च नाम गृह्णाति' इति विधौ नामपदेन यजमानादिनानामपि निर्दिष्टतया मन्त्रत्वा- पत्तेश्चेति दिक् । प्रयोजनं प्रवरोहनामधेयेषु ' यज्ञकर्मण्यजपन्यूजसामसु' इति मन्त्रेषु विहितमैक- श्रुत्यं मन्त्रभ्रेषप्रायश्चित्तं च न भवति । इति मन्त्रलक्षणशेषः ॥ यजमानस्य ऋचो यजूंषि सामानि मन्त्राः' इत्युक्तम् । तत्र ऋग्लक्षणमाह- 'तेषामृग्यत्रार्थवशेन पादव्यवस्था ॥ ३२ ॥ तेषां मन्त्राणां मध्ये यत्र यस्मिन् 'अग्निमीळे पुरोहितम्' इत्यादिमन्त्रे पादव्यवस्था । अक्षरेयत्ताविशेष: पाद: 'अष्टाक्षरा गायत्री' ‘दशाक्षरा विराट' 'एकादशाक्षरा त्रिष्टुप्' 'द्वादशा- १०. ऋग्लक्षणा- क्षरा जगती' इत्यादिप्रमाणगम्यः । तत्प्रयुक्ता 'त्रिपदा गायत्री' 'चतुष्प- धिकरणम् । दा त्रिष्टुप्' इत्यादिच्छन्दोव्यवस्था, तन्नियमनम्-सा ऋक्प्रत्येतव्या । ननु ' अमिमीळे पुरोहितं यज्ञस्य देवमृत्विजम् , होतारं रत्नधातमम्' 'अग्निः पूर्वेभिर्ऋषिभिः' इत्यष्टाक्षरचतुष्पादत्वादनुष्टुप्छन्दस्का ऋक् कुतो न स्यादित्याशङ्कयाह-अर्थवशेनेति । अथैकत्वप्रयुक्ता पादव्यवस्था विवक्षिता । तथा च विशिष्टैकार्थप्रतिपादकत्वे सति पादबद्धमन्त्रत्वमृचो , लक्षणमिति स्थितम् । इति ऋग्लक्षणम् ।। सामानि लक्षयति- ११. सामलक्षणा- धिकरणम् । गीतिषु सामाख्या ॥ ३३ ॥ रथन्तरबृहद्वैरूपादिसंज्ञकगीतिषु सामशब्दो वाचकतया वर्तते। यद्यपि सामशब्दस्य गीतिवाच- कत्वं सप्तमे सूत्रकारः प्रपञ्चयिष्यति तथापि ऋगादिभेदकथनप्रसङ्गादिहाप्युक्तम् । इति सामलक्षणम् ।। 1. तेषामिति कचिन्नास्ति, 2. गीतिषु सामेति कचित्पाठः.

सू. ३१--३७.] द्वितीयाध्याये प्रथमः पादः । १४७ यजूंषि लक्षयति- शेषे यजुःशब्दः॥ ३४ ॥ ऋक्सामावशिष्टमन्त्रभागे वाचकतया यजुःशब्दो वर्तते । न चैवं सति 'युजते मन उत युञ्जते धियः' 'इमामगृभ्णन्' इत्यादावृचि ‘यजुरेव वदेत्' 'यजुष्कृत्यै यज्ञस्य समृद्धयै' १२. यजुर्लक्षणा इत्यादिब्राह्मणेषु कथं यजुःशब्दव्यवहार इति वाच्यम् । यजुर्वेदपठित- धिकरणम् । त्वेन लक्षणया तदुपपत्तेः । ऋगादिलक्षणप्रयोजनं तु 'यत्स्वाध्यायमधीयी- तैकामप्यूचं यजुः साम वा तद्ब्रह्मयज्ञ: संतिष्ठते' इत्यादौ लघूपायेन लक्ष्यावगमः ॥ इति यजु- लक्षणम् ॥ अथ 'शेषे यजु.शब्दः' इत्यत्राक्षिप्य समाधातुमिदमारभ्यते । सन्ति निगदा नाम पर- संबोधनार्था मन्त्राः 'अग्नीदग्नीन्विहर, बर्हिस्तृणाहि' 'प्रोक्षणीरासादय' इत्यादयः । ते किं यजु- भ्र्यो भिद्यन्ते उत यजूंष्येवेति संशये पूर्वपक्षयति- निगदो वा चतुर्थं स्याद्धर्मविशेषात् ॥ ३५ ॥ वाशब्दो नबर्थे । निगदो न यजुः । कुतः । धर्मविशेषात् 'उच्चैर्ऋचा क्रियते, उच्चैः साना, उपांशु यजुषा, उच्चैर्निगदेन' इति निगदस्य यजुर्विलक्षणोच्चैस्त्वधर्मविशेषश्रवणात् , निगदस्य १३. निगदाना यजुष्वा- यजुष्वे उपांशुत्वस्यैवौचित्यात्। ऋक्सामयोः कात्स्न्र्येन उबैस्त्वमिव यजुषो- धिकरणम् । ऽपि हि कात्स्येन उपांशुत्वमवगतम् । तस्मानिगदाख्यमन्त्रजातं चतुर्थ स्यात्।। - इतोऽपि निगदो न यजुरित्याह- व्यपदेशाच्च ॥ ३६ ॥ इमानि यजूंषि , एते निगदा इति संज्ञाभेदादपि निगदो न यजुरित्यर्थः ॥ सिद्धान्तयति- - यजूंषि वा तद्रूपत्वात् ॥ ३७ ॥ वाशब्द एवार्थे । यष्येव निगदाः । कुतः । तद्रूपत्वात् ऋक्सामभिन्नत्वरूपयजुर्लक्षण- वत्त्वात् ॥

१४८ अध्वरमीमासाकुतूहलवृत्ती [अधि. १३-१४. - यदुक्तं निगदानां यजुष्वे उपांशुत्वमेवोचितं न तूच्चैस्त्वमिति तत्राह- वचनाद्धर्मविशेषः ॥ ३८॥ उच्यते अनेनेति वचनं सामर्थ्यम् । निगदानां संबोधनविभक्तिघटितानां परसंबोधनपराणां परप्रत्यायनरूपकार्यवशादुच्चैस्त्वरूपधर्मविशेष एव वक्तुमुचितः, न तूपांशुत्वम् ।। - ननु यत्र संबोधनविभक्तिर्नास्ति 'प्रोक्षणीरासादय' इत्यादौ तत्र कथं परसंबोधनार्थता । न च मध्यमपुरुषलोडशात्संभव इति वाच्यम् । प्राप्तकालतायामपि लोटो विधानात्तदर्थकलोडादेशम- ध्यमपुरुषस्याविवक्षितार्थतायास्तृतीये 'प्रेषेषु च पराधिकारात्' इत्यत्र वक्ष्यमाणत्वाञ्च । तत्राह- अर्थाच्च ॥ ३९॥ आग्नीध्रादेः परस्य प्रोक्षण्यासादनादिस्मरणमपेक्षितमिति प्रैषार्थत्वे अपेक्षितदृष्टार्थत्वं ल- भ्यते । प्राप्तकालार्थत्वे तु अनपेक्षितमदृष्टार्थत्वं मध्यमपुरुषस्याविवक्षितार्थत्वं च स्यात् । एवं च दृष्टप्रयोजनवशात्सभवद्विवक्षितलोडर्थवशाच्च लोटो न प्राप्तकालार्थत्वम् , किंतु प्रैषार्थत्वमेवाब वक्त- व्यमिति सर्वेषां निगदानां परसंबोधनार्थत्वं सिद्धम् । चकारस्त्वनुक्तसमुच्चयार्थ । तथाहिननु ' उपां- शु यजुषा' इति वाचनिकमुपांशुत्वं संबोधनविभक्तिसामर्थ्यरूपलिङ्गलब्धेन परसंबोधनरूपकार्येण कथं बाध्यताम्, लिङ्गेन प्रत्यक्षवचनस्य बाधायोगादित्यत आह चेति । मन्त्रस्य छुपांशुत्वमङ्गम् , अर्थ- प्रत्यायनं कार्य तु प्रधानम् । तस्य लिङ्गरूपदुर्बलप्रमाणगम्यत्वेऽपि स्वरूपतो बलवत्त्वेन बलवत्प्रमा- णकस्यापि स्वरूपतो दुर्बलस्य उपांशुत्वस्य तेन बाधो युक्त., प्रमाणबलात्प्रमेयबलज्यायस्त्वस्य स्मृति- पादे निरूपितत्वात् । किच लिङ्गगम्यं परसंबोधनकार्य निगदमात्रविषयम् । उपांशुत्ववचनं तु यजुरन्तरे सावकाशम् । ततश्च ‘आनर्थक्यप्रतिहतानाम्-' इति न्यायेन लिङ्गस्यैव प्रबलतया तेनोपांशुत्वबाधो युज्यते । वस्तुतस्तु नोपांशुत्वस्य बाधः, उपांशुत्वस्य निगदेष्वप्राप्तेः । 'उपांशु यजुषा' इति हि नापूर्वविधिः, मन्त्रविधिबलेनैव तस्य कदाचित्प्राप्तत्वात् । ततश्च यत्रानियमेनोपांशुत्व प्राप्यते तत्र नियममात्रम् ' उपांशु यजुषा' इत्यनेन क्रियते । निगदेषु च परसंबोधनार्थेषु न कदाचिदु- पांशुत्वसभव इति न तत्रोपांशुविधेापारः। अतो न तद्बाधप्रसक्तिः । एवं च सामर्थ्यान्निगदाना- मुच्चैस्त्वमेव वक्तुमुचितम् । न चैवं सति ‘उच्चैर्निगदेन' इति वचनानर्थक्यम् । कचित्कार्यार्थमुवै- स्त्वेऽपि यजुरन्तरे उपांशुत्वमेव युक्तमित्यौचित्येन ‘उपांशु यजुषा' इति विहितस्तुत्यर्थ तदनुवादात् ।। अथ यदुक्तम् ‘व्यपदेशाच्च' इति तत्राह- " सू. ३८---४२.] द्वितीयाध्याये प्रथम पाद । - . गुणार्थो व्यपदेशः ॥ ४० ॥ ब्राह्मणपरिव्राजकन्यायेन नितरा गद्यन्ते उच्चैरुच्चार्यन्त इति व्युत्पत्तिसिद्धगुणविशेषनिव- न्धन एव यजुषामेव केषाचिन्निगदव्यपदेश इत्यर्थ ॥ अत्राशङ्कय निराकरोति- सर्वेषागिति चेन्नर्व्यपदेशात् ॥४१॥ यदि निगदानामुच्चैस्त्वनिबन्धन निगदत्व तर्हि ऋक्सामानामपि सर्वेषा तत्स्यादिति चेत्, न। कुत. । ऋग्व्यपदेशात् 'अयाज्या वै निगदा' इति निगदानिन्दित्वा 'ऋचो याज्या भवन्ति' इति पृथनिर्देशात् । न हि तदेव निन्द्यते विधीयते चेति युक्तम् । तस्माद्यजूष्येव निगदा.। प्रयो- जन पूर्वपक्षे वाच स्तोमे 'सर्वा ऋच सर्वाणि यजूषि सर्वाणि सामानि' इति पारिप्लवशसने निग- दानामप्राप्ति , सिद्धान्ते तु तत्प्राप्तिरिति । केचित्तु यजुर्भेषप्रायश्चित्त वर्णयन्ति । तद्युक्तम् । 'य- को यज्ञ आर्तिर्भवति भूरिति चतुर्गृहीतमाज्य गृहीत्वा गार्हपत्ये जुहुयादथ' यजुष्टो भुव इति दक्षिणानावा- प्रीधे सोमे' इति हि यजुर्भेषप्रायश्चित्तम् । तदिद निगदाना यजुष्ट्वाभावेऽपि यजुर्वेदविहितक- मङ्गित्वमात्रेण तद्धेषे सभवति, तत्र ऋगादिपदाना वेदपरत्वात् । 'त्रयो वेदा अजायन्त, भूरित्यग्वे- दात् भुव इति यजुर्वेदात् स्वरिति सामवेदात्' इत्युपक्रमे 'ऋग्वेदेन ऋग्वेद भिषज्यति यजुर्वेदेन यजु- र्वेद सामवेदेन सामवेदम्' इति उपसहारे च वाजसनेयके तथा ऐतरेयकताण्डकतलवकारीयब्राह्मणेषू पक्रमे वेदानामेव श्रवणात् । तस्मादस्मदुक्तमेव प्रयोजन साधु । इति निगदाधिकरणम् ।। अक्सामयजुरात्मकमन्त्रस्वरूपे निरूपिते प्रसङ्गात्तवान्तरभेदे कथनीये ऋचां साना चाध्येतृपरंपरासिद्धाद्विच्छिद्य पाठादेव तत्सिद्धे प्रश्लिष्टपठितेषु यजु षु कियदेकं यजुरिति जिज्ञासित, तद्भेद प्रस्तौति- अर्थेकत्वादेकं वाक्यं साकाक्षं चेद्विभागे स्यात् ॥ ४२ ॥ अर्थस्य ऋतूपकारलक्षणप्रयोजनस्य एकत्वाद्धेतो एकं वाक्य प्रत्येतव्यम् । वाक्यशब्देन प्रयोगे उच्चारणीय यजुर्लक्ष्यते । न हि यजुर्भेदविचारे लौकिकवाक्यसाधारणमेकवाक्यलक्षणं सगतं भवति । ततश्च यावान्पदसमूह प्रयुक्तो यागसाधनतामनुते तावदेकं लक्षणाधिकरणम्। यजुरित्युक्त भवति । इज्यते अनेनेति यजुरिति व्युत्पत्तेरिति भाव । नै- ताबदेव यनुरेकत्वप्रयोजकम् । तथा सति 'भगो वा विभजतु' 'अर्यमा वां विभजतु' 'पूषा - १४. एकवाक्यत्व 1 जुहाथ-क, ख, ग, घ, १५० अध्वरमीमांसाकुतूहलवृत्ती [अधि. १४--१५. वां विभजतु' इति भिन्नेषु वाक्येषु पुरोडाशीयपिष्टविभागरूपैकार्थतया एकयजुष्ट्वापत्तेः । कितु तथाविधं पदजातं यद्येकस्यापि पदस्य ततो विभागे सति साकाहू स्यात् । तदेव भवेदेकं यजु.। एवं च यावत्पदजातं यजुर्लक्षणलक्षितं यागसाधनमथ च विभागे साकाझं तावदेकं यजुरित्युक्तं भवति । न चैतावता प्रस्तुतयजुर्भेदे किमायातमिति वाच्यम् । यजुरेकत्वे कथिते ततोऽन्यद्यजुरन्तर- मित्युक्तप्रायत्वात् । सूत्रे अर्थशब्दो नाभिधेयवाची, तथा सति विभागे साकाथमित्यस्य वैयर्थ्यात् , ' भगो वां विभजतु' इत्यादीनां विशिष्टैकार्थप्रतिपादकत्वाभावेनातिव्याप्तिनिरासादिति वार्तिके प्रपञ्चितम् । विभागे साकाङ्कमेकं यजुरित्युक्ते 'ऋतापातधामाग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस ऊर्जो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहा' इत्यादिराष्ट्रभृद्धोममन्त्रेषु द्विस्वाहाकारमेकैकं यजुः स्यात् , विभागे साकाङ्कत्वात् । न चेष्टापत्तिः । वाजसनेयके 'राष्ट्रभृतो जुहोति' इति प्रस्तुत्य 'मिथुनानि जुहोति पुंसे पूर्वस्मै जुहोत्यथ स्त्रीभ्यो द्वादशैवाहुतयो भवन्ति' इति षड्भिर्मन्त्रयुगलैादशा- हुत्यवगमात् । अत एव संकर्षकाण्डे द्वितीयस्य चतुर्थे 'ऋताषाइतधामेति यथार्थविनिष्कर्षोऽर्थपृथक्त्वात्' इत्यधिकरणे ‘ऋताषावृतधामाग्निर्गन्धर्वः स इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा तस्यौषधयोऽप्सरस ऊर्जा नाम ता इदं ब्रह्म क्षत्रं पान्तु ताभ्यः स्वाहा' इत्येवं पुंवाचकाः स्त्रीवाचकाच शब्दाः प्रतिहोमं विनि- कृष्य प्रयोक्तव्याः, उत यथापाठमिति विचारः संगच्छते । न च एकयजुष्ट्वाभावे ‘षड्भिर्जुहोति' इति विरोधः शङ्कयः, तस्य पर्यायाभिप्रायत्वात् । तस्मै स्वाहा, ताभ्यः स्वाहा' इत्यतः प्राक्प- ठिताः 'ऋताषाइतधामा' ‘स ५ हितो विश्वसामा' 'सुषुम्नः सूर्यरश्मिः' इत्यादयः पर्यायाः । ते च 'भुवनस्य पते' इत्यतः प्राक्षडेव भवन्ति । तदेतत्तत्रैवानिमाधिकरणे षड्भिर्जुहोतीति पर्याय- वादो यथा सावित्राणि जुहोति' इत्यत्र प्रपञ्चयिष्यते । एतेन ‘षड्भिर्जुहोति' इति तैत्तिरीयक- मपि व्याख्यातम् । एवं च राष्ट्रभृन्मन्त्रेषु प्रतिस्वाहाकारं यजुर्भेदात्तत्र विभागे 'साकाङ्क्षतायामप्ये- कयजुष्वं मा भूदित्यर्थैकत्वादित्युक्तम् । 'शस्त्रीयाणामृचामेकादृष्टार्थत्वाद्विभागे साकाङ्कत्वात्तत्राति- व्याप्तिवारणाय यजुर्लक्षणलक्षितमिति । उदाहरणं तु 'देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामि' इत्यादियजुः । न च 'देवस्य' इत्यस्य विभागेऽपि 'त्वा सवितुः' इत्यादेर्निराकाङ्कतया कथं तेन सहैकयजुष्ट्वमिति वाच्यम् । न ह्यत्र विभज्यमानस्य विभागाव- धिभूतस्येत्युभयाकाद्वैव विवक्षिता । अन्यतराकाङ्काया विवक्षितत्वात् । ततश्च 'देवस्य' इत्यस्य 'त्वा सवितुः' इत्यादिसाकाङ्कत्वान्न दोष: । कचित् ' अग्ने हव्यं रक्षस्व' इत्यादावुभयाकाडासत्त्वेऽ- प्यन्यतराकाहाया अनपायात् 'देवस्य' इत्यस्य विभागे साकाङ्कतया आनर्थक्यात् 'ला सवितुः' इत्यादेरपि तेनाकाङ्कोत्थापनादुभयाकायैव वा सर्वत्र निर्वाहः । न चैवमपि 'ऋतापाडतधामाग्निर्ग- न्धर्वस्तस्यौषधयोऽप्सरस ऊर्जो नाम स इदं ब्रह्म क्षवं पातु तस्मै स्वाहा' इति प्रथमहोममन्त्रे 'तस्यौ- 1. साकाङ्क्षतया-क, घ, ङ, 2 'याज्यया यजति' इत्येकादृष्ट--ख, ग. , सू ४२-४३] द्वितीयाध्याये प्रथम पाद । १५१ षधयोऽप्सरस ऊों नाम ता इद ब्रह्म क्षत्र पान्तु' इत्यशस्य स्त्रीपरस्य तदितरांशस्य पुरुषपरस्य चान्य- तराकाङ्क्षाया अप्यभावात्कथमेकयजुष्ट्वमिति वाच्यम् । इष्टापत्ते । स्त्रीपरस्याशस्य 'ताभ्यः स्वाहा' इत्युत्तरमत्रैकवाक्यतया तेनैवैकयजुष्ट्वात् । पर तु यथाम्नानमेवानन्वितोऽपि स्त्रीपरोऽशः पूर्वमन्त्रे प्रयुज्यते अविरोधात् । पूर्वमने प्रयुज्यमान एव प्रयुक्तस्य स्त्रीपरस्याशस्योत्तरयजुष्याकाडावशेनान्वय- संभवात् । लोके काव्येषु ‘कान्तं पृच्छामहे तन्वि पुलकोत्कम्पकारिणम् । द्रुतमाधत्स्व नेत्रान्त गतस्त्वेति प्रियस्तव' इत्यादौ पुलिङ्गपदाना स्त्रीलिङ्गपदव्यवहितानामप्यन्वयदर्शनात् इति संकर्षकाण्डे देवस्वामिभाष्ये स्पष्टम् । अत्र भाष्ये वार्तिके च ‘स्योन ते सदन करोमि, घृतस्य धारया सुशेव कल्पयामि, तस्मिन्त्सीदामृते प्रतितिष्ठ, व्रीहीणा मेध सुमनस्यमान ' इति कृत्स्नस्यैकयजुष्टं स्यात् । यजुर्भेदो न स्यात् । तन्निवृत्त्यर्थमर्थैकत्वादित्युपात्तम् । पूर्वभागस्य सदनकरणप्रकाशनमुत्तरभागस्य पुरोडाशप्रतिष्ठितत्वप्रकाशनमिति प्रयोजनभेदान्नातिप्रसङ्ग इत्युक्तम् । पार्थसारथिप्रभृतिभिश्च तदेवा- नुमोदितम् । तत्सर्वमापातत । " स्योनं ते सदनं करोमीति हि ऋगेषा त्रिष्टुप् । पूर्वार्धर्चेन सदन- करणमुत्तरार्धर्चेन प्रतिष्ठापनम्” इत्येव वेदभाष्ये भट्टभास्करमिश्रा । यजुरेकत्वकथनप्रयोजन तु यत्स्वाध्यायमधीयीतैकामप्यच यजु साम वा तद्ब्रह्मयज्ञ. सतिष्ठते' इत्यादौ यावदेकं यजुस्तावत्प्र- योक्तव्यम् , न तु तदेकदेश इति । तदेतत्सूत्रे यजुरित्येव वक्तव्ये वाक्यशब्दप्रयोगेण सूचितम् । वाक्यमित्यस्य हि प्रयोगसमये वचनाहमित्यर्थ । इति यजुरेकत्वनिरूपणम् ।। , इषेत्वोर्जे त्वा' इति किमेकं यजु , उत 'इषे त्वा' इत्येक यजु 'ऊर्जे त्वा' इति यजुरन्तरमिति संशय । पूर्व तावदेकप्रयोजनसमर्थ विभज्यमाने साकाङ्क्षपदजातमेक यजुरित्युक्तम् । १५ वाक्यभेदा भवति चेद तथाविध पदचतुष्टयम् । न ह्यत्र निर्वापप्रोक्षणादिमन्त्रवनिर्वा- धिकरणम् । पादिक्रियासमवेतप्रकाशनरूपदृष्टप्रयोजनभेदोऽस्ति, येन यजुर्भेद स्यात् । न ह्यत्र क्रियापदमस्ति । तस्माददृष्टमेवात्र प्रयोजनम् । तच्च कल्प्यमान लाघवादेकमेव कल्प्यत इति भवति पदचतुष्टयमेकार्थम् । तच्चादृष्ट चतुर्भि पदै समुदितैरेव कल्प्यते विनिगमनाविरहात् । अतः संहत्यकारित्वाद्विभज्यमाने साकाश् च भवति । न च ' इषे त्वेति शाखामाच्छिनत्ति' 'ऊर्जे त्वेत्य- नुमार्टि' इति विनियोगबलाद्भिनमेवादृष्ट कल्प्यत इति वाच्यम् । तदा हि विनियोगभेदाददृष्टं भिद्य- ते, यदि विनियोज्यमन्त्रभेद सिद्ध स्यात् । इह तु विनियोज्यस्यैकमन्त्रत्वमेवादृष्टद्वयकल्पनाभीत्या निश्चितमिति पदचतुष्टयमेवादिप्रतीकग्रहणेन पूर्ववाक्यत छेदने विधीयते, उत्तरवाक्येऽप्यन्तप्रतीक- प्रहणेनानुमार्जने तदेव पदचतुष्टय विधीयते । आनः प्राण एतु परावत आन्तरिक्षादिवस्परि, आयुः पृथिव्या अध्यमृतमसि प्राणाय त्वा' इति मन्त्रस्य 'अमृतमसि प्राणाय त्वेति हिरण्यमाभि- व्यनिति' इत्यन्तप्रतीकग्रहणेनापि विनियोगदर्शनात् । आवृत्त्या चोभयत्र पदचतुष्टयस्य प्रयोगः ।

१५२ अध्वरमीमासाकुतूहलवृत्ती [अषि १५ - एव च पदचतुष्टयस्यैव च्छेदने विनियुक्तत्वादेकादृष्टार्थत्वम् । अत पूर्वोक्तलक्षणलक्षितत्वात्पदचतुष्ट- यमेक यजु । इति प्राप्ते, सिद्धान्तयति- समेषु वाक्यभेदः स्यात् ॥ ४३ ॥ 'इषे त्वोर्जे त्वा' इत्येवजातीयकेषु परस्परनिराकाङ्ख्त्वेन तुल्येषु वाक्यभेद यजुर्भेद स्यात् । तथाहि-~-एकादृष्टार्थत्व पदचतुष्टयस्यासिद्धम् , विनियोज्यस्वरूपाज्ञाने विनियोगस्यैवासभवेन प्रथम विनियोज्यस्वरूपे पर्यालोच्यमाने त्वाशब्दद्वयबलेन परस्परनिरपेक्षतया भेदेनैव प्रतीयमानत्वेन विनियोगस्यापि भेदेनैव वाच्यतया तदनुसारेण परस्परनिरपेक्षतयैवादृष्टस्य कल्प्यमानस्य भेदेनैव कल्पयितुमुचितत्वात् । किच 'आ न प्राण एतु परावत इत्यस्य मन्त्रैक्य लिङ्गवशेनावगतमिति मन्त्रान्तप्रतीकग्रहणेन विनियोग कथचियुज्यते । नेह मन्त्रैक्यसाधक लिङ्गमस्ति, किमुत तङ्के- दसाधक त्वाशब्दद्वयमस्ति । तस्मादनेकादृष्टार्थमेव पदचतुष्टयम् । वस्तुतस्तु नैवजातीयकानामह- ष्टार्थता, अर्थप्रकाशनरूपदृष्टार्थत्वात् । ‘इति शाखामाच्छिनत्ति' इति इतिकरणादिना मन्त्राणा छेदनक्रियाकरणत्वावगते । न हि च्छेदनादिक्रियाकरणत्व मन्त्राणा तत्प्रकाशनमन्तरेण सभवति । तथा च च्छेदनादिप्रकाशनचोदनान्यथानुपपत्त्या 'छिनद्मि' इत्यादि यथोचितमध्याहार्यम् । न चैवमपि च्छेदन पदचतुष्टयेन प्रकाश्यताम् , एवमनुमार्जनमपीति दृष्टार्थत्वेऽपि न मन्त्रभेद स्या- दिति वाच्यम् । प्रथमावधृतनैरपेक्ष्यानुसारेण पृथगेव च्छेदनादिप्रकाशकत्वकल्पनस्य पूर्वमेवोपपादि- तत्वात् । एवम् — आयुर्यज्ञेन कल्पताम् , प्राणो यज्ञेन कल्पताम्' इत्यादीनि दश वाक्यानि दश यजूषि भवन्ति । ‘क्लप्तीर्यजमान वाचयति' इत्यत्र हि क्लप्तिशब्दो न मन्त्रपर कित्वर्थपर । ततश्च बहुधा क्लप्ति वदन्त यजमान प्रेरयतीत्यध्वर्योापारो विहितोऽर्थाद्यजमानकर्तृकबहुत्वविशिष्ट- क्लप्तिवचनविधि कल्पयति । कल्पिततादृग्विधिनिहाय च ' आयुर्यज्ञेन कल्पताम्' इत्यादेरायुरादि- विशिष्टक्लप्तिप्रकाशनपरत्वमेव वक्तव्यम् । ततश्च प्रकाश्यमानायुरादिविशिष्टक्लप्तिविशेषरूपार्थभेदा- यजुर्भेद । प्रयोजनं पूर्वपक्षे 'इषे त्वोर्जे त्वा' इति च्छेदने पदचतुष्टय प्रयुज्यते, एवमनुमार्जनेऽपि । सिद्धान्ते तु 'इषे त्वा' इति च्छेदने — ऊर्जे त्वा' इत्यनुमार्जने । क्लप्तिवाक्येषु एकस्य भ्रषे कृत्स्न- स्यावृत्ति पूर्वपक्षे । सिद्धान्ते तु यस्य भ्रषस्तस्यैवेति। अत्र 'इषे त्वा' इत्यादिसाकासमन्त्रेषु योग्य- पदाध्याहारेण 'इथे त्वा च्छिननि' 'ऊर्जे त्वा अनुमाज्मि' इत्यादि प्रयोक्तव्यमिति केचित् । तदयुक्तम्, अध्याहृतस्य लौकिकशब्दस्य वैदिकमन्त्रानवयवत्वेन मन्त्रान्तकर्मादिसनिपातविरोधात् । उहप्रवरनामधेयाना तु 'असौ मानुष इति होतुर्नाम गृहाति' 'आर्षेय वृणीते' त्रीन्वृणीते' 'तस्मादृचं नोहेत्' इत्यादिवेदानुमतत्वाल्लौकिकानामपि प्रयोग उचित । नात्र तथा प्रमाणमस्ति । तस्मादाकासितशब्दाना मनसैव स्मरणम् , न तु प्रयोग । अर्थाध्याहारपक्षे तु शब्दस्यापि न स्मरणम् । ।

सू. ४३-४४]] द्वितीयाध्याये प्रथमः पादः । १५३ अर्थमात्रमेव स्मर्तव्यमिति प्राचीनमतानुसारी पन्थाः । चेतनप्रतिपादकेषु मन्त्रेषु तत्स्तुत्यानां देवतानाम् अचेतनप्रतिपादकेषु तदभिमानिदेवतानां शाब्दबोधः, न तु प्रयोक्तुः इति मन्त्राधिकरणेऽ- वोचाम । ततश्च तत्तन्मन्त्रस्तुत्यदेवता एव शब्दाध्याहारेणार्थाध्याहारेण वा वाक्यार्थमधिगच्छन्तीति याज्ञिकानुसारी युक्तः पन्थाः । इति यजुर्भेदनिरूपणम् ।। ज्योतिष्टोमे उपसद्धोममन्त्रा आम्नाताः ‘या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठोमं वचो अपावधी त्वेषं वचो अपावधीं स्वाहा, या ते अग्ने रजाशया, हराशया' इति । तत्र द्वितीयतृतीय- १६. अनुषड्गा- मन्त्रयोः साकायोराकाहापूरणसमर्थो लौकिक: शेषोऽध्याहर्तव्यः ‘या धिकरणम् । ते रजाशया प्रजा सास्मान्पातु' इत्येवंप्रकारेण, उत पूर्वमन्त्रावयवस्य तनूर्वर्षिष्ठेत्यादेरनुषङ्गेण शेषः पूरणीयः इति संशयः । यदि प्रकारान्तरेणाकाङ्क्षापूरणं न स्यात्तदा गत्य- भावादेकत्र निबद्धस्यापि वैदिकस्य वाक्यशेषस्यानुषङ्ग आश्रीयेत । संभवति च लौकिकेनापि तत्पूर- णम् । अतः पूर्वमन्त्रे निबद्धस्य तनूवर्षिष्ठेत्यादेरन्यत्रनयनरूपानुषङ्गो न युक्तः । अन्यत्रनयने च समा- प्रायबहिर्भावाल्लौकिक एव स्यात् । तस्माल्लौकिक एव शेषोऽध्याहर्तव्यः । इति प्राप्ते, सिद्धान्तयति- अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् ॥ ४४ ॥ अनुषज्यत इत्यनुषङ्गः ‘तनूर्वर्षिष्ठा' इत्यादिवाक्यशेषः उत्तरयोरपि वाक्ययोः समापकः । समाप्तिरिति बाहुलकः करणे क्तिन् । कुतोऽनुषङ्गः । सर्वेषु तुल्ययोगित्वात् । प्रथमद्वितीयतृतीयम- न्त्रेषु शेषस्य 'तनूर्वर्षिष्टा' इत्यादेः संनिधानरूपसबन्धस्य तुल्यत्वादित्यर्थः । यदि हि प्रथमस्यैवा- यं शेषः स्यात्तदान्यत्रनयनादवैदिकत्वं स्यात् । नैतदस्ति, त्रयाणामपि संनिधावानातत्वात् । एता- वदेव हि शब्दानामन्वये कारणम्, आकाङ्का संनिधिर्योग्यत्वं च । सनिधिश्च बुद्धिविपरिवृत्तिमात्रम् । नोपरिष्टादनन्तरं च समानायः साधकः । नापि पुरस्ताद्वयवहितं च समानायो बाधकः । किंतु अनन्वितपदान्तरव्यवधानं बाधकम् । तदभावः साधकः । अत्र च 'तनूर्वर्षिष्ठा' इत्यादिशेषस्य प्रथ- मंद्वितीयाभ्यां न कथंचिदपि व्यवधानम् । तृतीयस्यापि वाक्यशेषेण संबन्धे द्वितीयं न व्यवधायकम् , द्वितीयस्यानुषज्यमानशेषसाकाश्तया अन्वितत्वेन अनन्वितपदत्वाभावात् । अनन्वितपदान्तरमेव हि बुद्धिविपरिवृत्तेबर्बाधकम् , न त्वाकाङ्कितान्वितपदमपि । प्रथमेन संबद्धो द्वितीयस्याकाङ्कावेलायां बुद्धौ विपरिवर्तमानस्तेनापि संबध्यते। तत्संबन्धाच्च विपरिवृत्त्यभङ्गात्तृतीयेनापि संबन्धुं शक्नोति। तथा च बुद्धिविपरिवृत्तिरूपसंनिधानं त्रयाणामविशिष्टमिति सकृदाम्नातस्यापि शेषस्य सर्वार्थत्वाद्वैदिकेनैव शेषेण पूरणसंभवे लौकिकशेषाध्याहारो न युक्तः । ननु यत्र साकाङ्क्षाणां संनिधौ शेषः पठ्यते तत्रोक्त- 1. ते अग्ने ..क, घ, ङ. 2. वाक्यपरिसमाप्तिः. 20 १५४ अध्वरमीमांसाकुतूहलवृत्ती , रीत्या भवत्वनुषङ्गः। यत्र तु 'चित्पतिस्त्वा पुनातु, वाक्पतिस्त्वा पुनातु, देवस्त्वा सविता पुनातु' इति परिपूर्णानां संनिधौ शेषः पठ्यते ‘अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः' इति तत्र कथमनुषङ्गः स्यात् , आकाड्डाविरहात् । न च 'अच्छिद्रेण पवित्रेण' इति शेषस्याकाडावशात्पुनात्वि- त्यन्तानां त्रयाणामायाकाङ्कोत्तिष्टतीति वाच्यम् । संनिहितेन 'देवस्त्वा सविता पुनातु' इत्यन्तिमेनैवा- न्वयमासाद्य शान्ताकाङ्क्षस्य शेषस्य पूर्वयोरप्याकाङ्क्षोत्थापनाशक्तेरिति चेत् , सत्यं पुनात्वन्ता: शेषिणो निराकाङ्काः । तथापि ' अच्छिद्रेण' इति शेषस्य तृतीयाश्रुतिभिर्युक्तस्य करणप्रकाशकस्य तत्करणकानु- ष्ठेयपवनक्रियाप्रकाशनद्वारा प्रकरणे निवेशो वक्तव्यः । सा च पवनक्रिया त्रिष्वपि मन्त्रेषु प्रकाश्यत इति प्रतिप्रधानं गुणावृत्तेाय्यत्वादनुषङ्गः पूर्वयोरपि सिद्धः । इत्यनुषङ्गाधिकरणम् ॥ अग्नीषोमीयपशोः समजनमन्त्राः “सं ते 'वायुर्वातेन गच्छताम् , संयजत्रैरङ्गानि, संय- ज्ञपतिराशिषा' इति । हे पशो, ते तव वायुः प्राणः वायुना संगच्छतामिति प्रथमस्य मन्त्रस्य १७. व्यवेताननुषड्गा- योजना। संयजत्रैरङ्गानि' इति द्वितीयो मन्त्रः । अङ्गानि हृदयादीनि धिकरणम् । यजत्रैः यागैः सम् , “सृज्यन्ताम्' गच्छन्ताम्' ‘पद्यन्ताम्' इत्यादिलौकि- कं पदमध्याहर्तव्यम् । न त्वत्र ‘गच्छताम्' इत्यनुषङ्गः संभवति, ‘गच्छताम्' इत्येकवचनस्य ' अङ्गानि' इति बहुवचनान्तेन संबन्धायोग्यत्वात् । न च एकवचनस्यानुषङ्गायोग्यत्वेऽपि धातुमात्र- स्यानुषङ्गोऽस्त्विति वाच्यम् । प्रकृतिप्रत्यययोरेकस्यासंबन्धे सत्यपरस्याप्यसंबन्धनियमेन धातुमात्र- स्यानुषङ्गायोगात् । अतो द्वितीयमन्त्रे ‘गच्छताम्' इत्यस्यानुषङ्गो न युज्यते । तृतीयमन्त्रे 'सं यज्ञपतिराशिषा' इत्यत्र तु 'गच्छताम्' इत्यनुषज्यते न वेति संशयः। साकाङ्क्षत्वाद्योग्यत्वाच्चानुषज्यते । इति प्राप्ते, सिद्धान्तयति- व्यवायान्नानुषज्यते ॥ ४५ ॥ बुद्धिपरिवृत्तिरूपसंनिधानं हनुषङ्गे बीजमुक्तम् । अन तु · अङ्गानि' इत्यनेन 'गच्छताम्' इत्यन्वयायोग्येन व्यवधानाद्बुद्धिपरिवृत्तिभङ्गादसंनिधानात् 'सं यज्ञपतिराशिषा' इत्यत्रापि नानुषज्यते । न च ‘गच्छताम्' इत्येकवचनान्तं बहुवचनान्ततया विपरिणतम् ' अङ्गानि' इत्यने- नाप्यन्वीयतामिति वाच्यम् । प्रकृतावूहाभावस्य नवमस्य तृतीये 'अपूर्वे त्वविकारोऽप्रदेशात्प्रतीयेत इत्यधिकरणे व्यवस्थापयिष्यमाणत्वात् । तस्मात्तृतीयमन्त्रेऽपि नानुषङ्गः । इति व्यवायाधिकरणम् ।। - , इति द्वितीयाध्याये प्रथमः पादः॥ 1. प्राणो वायुना...क.

द्वितीयः पादः ॥ निर्मथ्य निगमसिन्धून्विविधन्यायाभिधानमन्थानैः । धर्मसुधामुद्धरते भूयो मुनये नमोऽस्तु जैमिनये ॥ च , वृत्तमुपोद्घातप्रसक्तानुप्रसक्तम् । इदानीमध्यायार्थो भावनाभेदः प्रस्तूयते । सन्ति सोमेन यजेत' दाक्षिणानि जुहोति' 'हिरण्यमात्रेयाय ददाति' 'प्र उंग शंसात आज्यैः स्तुवते' इत्यादावाख्यातानि। तत्र किमेकैव भावना नानाधात्वर्थानुरक्ता विधीयते, उत तत्त १ अङ्गापूर्वभेदा- द्धात्वर्थानुरक्ता भिन्नैवेति संशयः। एकैवेति ब्रूमः । यदि हि प्रतिधात्वर्थ भाव- धिकरणम् । नाभेदः स्यात्तर्हि भावनाभेदादपूर्वमपि भेदेन कल्प्यं स्यात् । न हि भाव्यापू- र्वभेदमन्तरेण भावना भिद्यते, क्रियाणां फलापवर्गत्वेन फलभेदमन्तरेण क्रियाभेदस्यासंभवात् । शब्दान्तरत्वेन भावनाभेदसिद्धावनेकापूर्वकल्पनागौरवमपि प्रामाणिकत्वान्न रिष्यतीति वाच्यम्। न हि धातुभेदो भावनां भेत्तुमीष्टे, भावनाया धातुवाच्यत्वाभावात् । प्रत्ययेन हि भावनाभिधीयते । स च सर्व- त्रैक एव । अतस्तदर्थस्य भावनाया न भेदः । किच प्रत्ययार्थत्वाद्भावना प्रधानम् । धात्वर्थास्तु तत्र गुणभूताः । न च गुणभेदेन प्रधानभेदो युज्यते । न च भावनाया अपूर्व प्रति गुणत्वेऽपि तद्भेदाद्यथा अपूर्वभेद. एवं गुणभूतधात्वर्थभेदादपि भावनाभेदः कि न स्यादिति वाच्यम् । वैषम्यात् । आख्यातेन हि भावनायाः क्रियात्वेन प्रतिपादनात्तत्र कारकत्वमेव धात्वर्थस्य न त्वपूर्ववत्फलत्वम् । ततश्च फलापवर्गत्वात्क्रियाणां तद्भेदे फलभेद आवश्यक: न तु कारकभेदे क्रियाभेदः, अरुणिमादिकारक- भेदेऽपि क्रयभावनाया एकत्वात् । तस्मान्न धात्वर्थभेदो भावनाभेदप्रयोजकः । न च उत्पत्तिशिष्टैक- धात्वर्थावरुद्धायां भावनायां धात्वन्तरान्वयासंभवान्नैक्यमिति वाच्यम् । फलवाक्ये हि धात्वर्था- विषया केवलभावना विधीयते । अन्यत्र तु तस्यां भावनायां धात्वर्था गुणा विधीयन्ते । तथा च फलवाक्यैकवाक्यतापन्नैः सर्वैर्वाक्यैर्मिलितैः सर्वधात्वर्थविशिष्टैका भावना विधीयते इत्यविरोधः । न चैवं सर्वेषामपि धात्वर्थानां भावनां प्रति करणत्वापत्तौ न किचिदप्यङ्गं स्यात् । तथा च इतिकर्त- व्यतांशस्यालाभाद्भावना निःस्वरूपा स्यादिति वाच्यम् । 'समिधो यजति' 'तनूनपातं यजति' 'आज्यभागौ यजति' इत्याद्यसकृच्छ्रुतपर्यायधात्वर्थानुरक्तभावनाभेदस्याग्रिमाभ्यासाधिकरणे साध- 1. दुष्यति...क, घ, ङ.

१५६ अध्वरमीमांसाकुतूहलवृत्तौ [अधि. १-२. यिष्यमाणतया तद्विधिभिरितिकर्तव्यतालाभात्सोमलताहरणगवादिदक्षिणाद्रव्यसंपादनालेयोपकल्पना- दिलौकिकेतिकर्तव्यताया अर्थादेव लाभावा । तस्मादेकैव भावना विधीयते । इति प्राप्ते, सिद्धान्तयति- शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् ॥१॥ शब्दान्तरे धातुभेदे श्रूयमाणे कर्मभेदः भावनाभेदः प्रतीयते । कुतः । कृतानुबन्धत्वात् । कृतः अनुबन्धः धात्वर्थेनावच्छेदः यस्य भावनारूपस्य कर्मणः तत्कृतानुबन्धम् । तस्य भावस्तत्त्वम् । तस्मात् । अवच्छेदकीभूतधात्वर्थभेदादिति यावत् ॥ अयमाशयः । यद्यपि प्रत्यय एकः तथापि यत्किंचिद्धात्वर्थानुरक्त एव स प्रयुज्यते, न केवलः । एवं च यथा ज्ञानं ज्ञेयविषयरू- पानुर अकभेदाद्भिद्यते एवं भावनाया अप्यनुरञ्जकधात्वर्थाधीननिरूपणतया धात्वर्थभेदाद्भेदो न्याय्यः । न च अनेकविषयानुरक्तसमूहालम्बनवदभेदः किं न स्यादिति वाच्यम् । सर्वेषां हि विष- याणां युगपदिन्द्रियसंनिकर्षात्संभवत्येकज्ञानानुरागः । न ह्यत्र युगपन्नानाधात्वर्थानामेकभावनानुरागः संभवति, समुदितेभ्यो धातुभ्यः प्रत्ययस्य कस्यचिदश्रवणात्केवलस्य च अश्रवणात् । यदि हि केवल: प्रत्ययः श्रूयते केवलाश्च धातवः श्रूयेरंस्तदा भवेद्युगपदेव धात्वर्थानामेकभावनानुरागः क्रीणातिवत् । क्रीणातिर्हि सकृत्पृथक्छूयते, अरुणिमादयश्च । 'अतोऽरुणिमादिभिर्युगपत्क्रयभावना विशेष्यते । नैवमत्र केवलस्य प्रत्ययस्य प्रयोगोऽस्ति । न च फलवाक्ये धात्वर्थाविवक्षया केवलप्रत्ययश्रवणम् । अन्यत्र तु भावनामनूद्य धात्वर्थमात्रविधिरिति युज्यते वक्तुम् , विनिगमनाविरहात् सर्वेषां पदानामे- कप्रसरत्वेन फलवाक्योत्पन्नां भावनां प्रत्ययेनानूद्य प्रकृत्यंशैर्धात्वर्थाः करणत्वेन विधीयन्त इति कल्प- नाया अयुक्तत्वाच्च । यदि च समुदितेभ्यो धातुभ्य एक एव प्रत्ययः श्रूयेत तदापि भवेद्युगपदेव धात्वर्थानामेकभावनानुरागः, द्वंद्वोत्पन्नसुबर्थवत् । 'अग्नीषोमौ' इत्यादौ हि द्वंद्वाद्विभक्तिः श्रूयते न तु प्रत्येकम् , एकैकस्य द्वंद्वत्वाभावात् । अतस्तत्र द्वित्वादिकं समुदितैरेव प्रातिपदिकार्थेविशेष्यते । प्रकृते तु न समुदितेभ्यो धातुभ्यः प्रत्ययस्य श्रवणमस्ति, प्रत्येकमेव तस्य श्रवणात् । तथा च प्रत्ययो यजिपरः श्रूयमाणः केवलयागकरणिकां भावनां श्रुत्या एकपदोपात्तत्वरूपया विधत्ते । होमदानादय- स्त्वन्यधात्वर्थास्तस्यामेव भावनायां निविशमानाः पदान्तरं गतत्वाद्वाक्येन संनिधिरूपप्रकरणेन वा निवेश्येरन् । तथा च दुर्बलाभ्यां वाक्यप्रकरणाभ्यां प्रबलायाः श्रुतेर्बाधः स्यात् । न च सत्यपि श्रुतिप्राबल्ये एकस्य करणत्वेन इतरस्याङ्गत्वेन निवेशे विरोधाभावान्न बाध इति वाच्यम् । सर्वे- षामेव भावनान्वये सति विनिगमनाविरहेण सर्वेषामपि करणत्वापत्तावेकस्य' करणत्वमितरस्य तदङ्गत्वमित्येकांशोपनिपातेन विरोधसत्त्वात् । न च समुच्चयसंभवान्न विरोध इति वाच्यम् । 1. कृतानुबन्धित्वात् , 2. अतोऽरुणादिभिः...घ, ङ, 3. द्वित्वाभावात् ..ख, 4 करणत्वादेकस्य, सू. १-२.] द्वितीयाध्याये द्वितीयः पादः । १५७ समुच्चये सति नैरपेक्ष्यविरोधात् , 'यजेत' इत्यादिप्रकृतिप्रत्ययाभ्यां धात्वर्थभावनयोनिरपे- क्षसाध्यसाधनभावावगमात्, ‘समर्थः पदविधिः' इत्यस्य प्रत्ययविधावपि प्रवृत्तेरभ्युपगमात् । यथा चैतत्तथोक्तम् ' अर्थाद्वा कल्पनैकदेशत्वात्' इत्यत्र पूर्वाध्यायान्ते । न च यथा 'अग्नये दात्रे पुरोडाशमष्टाकपालम्' इत्यादौ पृथग्विभक्तिश्रवणेऽपि दातृत्वविशिष्टाग्निलक्षणदेवताकारकमेकम् , तद्व- दिहापि कि न स्यादिति वाच्यम् । दातृशब्दात्परस्या विभक्तेविशेषणविभक्तित्वेन साधुत्वार्थतया तत्र सत्यपि पृथक्प्रत्ययश्रवणे विशिष्टैककारकविधिसंभवेऽपि प्रकृते विशेषणविशेष्यभावाभावेन पृथक्प्रत्ययश्रवणस्य विशिष्टेकभावनाविधिबाधकत्वात् । एवं च विशिष्टविध्यसंभवे सत्यनुरजकधा- त्वर्थभेदाद्भावनाभेदः सिद्धः । प्रयोजनं पूर्वपक्षे यागदानहोमादीनां समप्राधान्यम् । सिद्धान्ते तु भावनाभेदात्सोमयागस्यैव प्राधान्यम् , दाक्षिणहोमादीनां तु 'फलवत्संनिधावफलं तदङ्गम्' इति न्यायेन तदङ्गत्वमिति । इति शब्दान्तराधिकरणम् ॥ 'समिधो यजति' 'तनूनपातं यजति' 'इडो यजति' 'बहिर्यजति' 'स्वाहाकार यजति' इति पञ्चकृत्वो यजतिपदं श्रुतम् । तत्किमेकां भावनां प्रतिपादयति, उत प्रतिपदं भेदेनेति २. समिदाद्यपूर्वभेदा- संशयः । एकामिति ब्रूमः । प्रत्ययांशैक्येऽपि प्रकृतिभूतधात्वर्थानुर जक- धिकरणम् । भेदात्प्रत्ययार्थोऽपि भावना भिद्यत इत्युक्तम् । इह तु प्रकृत्यर्थस्यापि याग- स्यैकत्वात्कथं भावनाभेदः । न हि पुनःश्रवणमात्रेण शब्दस्यार्थो भिद्यते । तदेव हि पदं पुनः श्रूयते, अभेदेन प्रत्यभिज्ञानात् । न च शब्दस्य भेदं विना तदर्थभेद. प्रामाणिकः । तस्मान्नात्र भावनाभेदः । ननु, मास्त्वभ्यासात्कर्मभेदलाभः । समिदादिसंज्ञाभेदात्तु कर्मभेदः स्यात् । 'अथैष ज्योतिरथैष विश्वज्योतिः' इत्यादौ संज्ञाभेदात्कर्मभेदस्य 'संज्ञा चोत्पत्तिसंयोगात्' इत्यत्रानुपदमेव वक्ष्यमाणत्वादिति चेत् , नैष दोषः । समित्तनूनपादादिशब्दानां हि संज्ञात्वं वदन्प्रष्टव्यः, संज्ञात्वा- वगमात्पूर्व कर्मभेदोऽवगतो न वेति । न द्वितीयः, तर्हि यागैकत्वे सति प्राथमिकसंज्ञावरुद्धे तस्मि- न्यागे तनूनपादादिसंज्ञान्तरनिवेशायोगेन तनूनपादादिशब्दानां संज्ञात्वस्यैवासिद्धेः । नाद्यः, संज्ञा- त्वावगमात्पूर्व कर्मभेदग्राहकप्रमाणाभावात्पुनःश्रवणस्य च दृढतराभेदप्रत्यभिज्ञासिद्धयजिधात्वर्थैकत्व'- विरुद्धतद्भेदप्रयोजकत्वाभावात् । एवं च तनूनपादादिशब्दानां संज्ञात्वावगमे कर्मभेदः, कर्मभेदाव- गमे च सति तेषां संज्ञात्वमित्यन्योन्याश्रयः । अथैष ज्योतिरथैष विश्वज्योतिः' इत्यत्र तु यागशब्दा- भावात्तत्र यागभेदावगमं विना संज्ञात्वावगमः स्पष्ट इति वक्ष्यते । ' उद्भिदा यजेत' इत्यादौ तु धातु- पारार्थ्यविप्रकृष्टविधानादिदोषप्रसङ्गेन गुणविध्यसंभवादेव संज्ञात्वनिश्चय इति प्रागेव निरूपितम् । अतस्तत्रापि यागभेदावगमं विनैव संज्ञात्वावगम इति वैषम्यम् । न चैवमपि यजतिपदस्य पुनःश्रव- णानर्थक्यं शङ्कयम् , समिद्यागे तनूनपादादिदेवताविधानार्थत्वात् । न चैवमपि गुणाद्भेदः स्यात् , धात्वेकत्वलब्धयागैकत्वविरुद्ध, - 1 १५८ अध्वरमीमांसाकुतूहलवृत्ती [अधि. २. - 'गुणश्चापूर्वसंयोगे-' इत्यधिकरणे गुणस्यापि कर्मभेदकताया अनुपदमेव वक्ष्यमाणत्वादिति वाच्यम् । वैषम्यात् । गुणाधिकरणे ह्युत्पन्नशिष्टो गुण उत्पत्तिशिष्टगुणावरुद्धे कर्मणि निवेशमलभमानः कर्म भिनत्तीति वक्ष्यते । प्रकृते च समित्संज्ञके कर्मणि तनूनपादादिगुणा उत्पन्नशिष्टाः सभवनिवेशाः कथं कर्म भिन्युर्दध्यादिवत् । 'अग्निहोत्रं जुहोति' इति द्रव्यासंयुक्तोत्पन्नकर्मानुवादेन विधीयमाना हि दध्यादय उत्पन्नशिष्टाः सन्तो न कर्म भिन्दन्ति । न च 'तनूनपादन आज्यस्य वेतु' इत्यादि- मन्त्रवर्णादेव तनूनपादादिप्राप्तेस्तद्विधिरनर्थक इति वाच्यम् । एकस्यैव यागस्य मान्त्रवर्णिकदेवता- वलम्बनेन तनूनपादाद्यनेकदेवताकत्वेन प्रशस्तो याग इत्येवं स्तुत्यर्थत्वेन सार्थक्यात् । यद्यपि स्तुत्यर्थ वाक्यमनर्थप्रायम् , तथापि दृढतराभेदप्रत्यभिज्ञाबलेन कमैकत्वस्य न्याय्यत्वेन तन्न दोषावहम् । न हि प्रमाणस्वरसात्प्रतीयमानं प्रयोजनानुसारेण परित्यक्तुमुचितम् । न च समिद्वाक्यमेव विधिरितरे स्तुत्यर्था इत्यत्र विनिगमनाविरह इति वाच्यम्। प्रथमश्रुतत्वेन समिद्वाक्यस्यैव विधायकतया चरम- श्रुतत्वेनेतरेषां स्तुत्यर्थताया उचितत्वात् । तस्मादेको यागः । तदेकत्वाद्भावनैक्यम् । इति प्राप्ते, सि- द्धान्तयति. एकस्यैवं पुनःश्रुतिरविशेषादनर्थकं हि स्यात् ॥ २ ॥ 'समिधो यजति' इत्यादौ एकस्य यजतेः पुनःश्रुतिरपि एव शब्दान्तरवद्वेदिका । हि यस्मात्कारणात् भेदाभावे विधेः पुनःश्रवणम् अनर्थकं स्यात् । न च स्तुत्यर्थत्वेन सार्थक्यं शङ्कयम् । अप्रवृत्तप्रवर्तनं हि विधिश्रुतेः स्वभावसिद्धम् | ‘य एव विद्वान्पौर्णमासी यजते' इति विद्वद्वाक्यं तु रूपालाभावलवदाधकादनुवादकमिति वक्ष्यते । न चाव किंचिद्बाधकमुपलभामहे । अतः संभवन्त्या- मप्रवृत्तप्रवर्तनात्मतायामनर्थकप्रायं स्तुत्यर्थत्वं न युक्तमाश्रयितुम् । अत: कर्मभेद एव युक्तः । न चेहापि दृढतरप्रत्यभिज्ञैव बाधिकेति वाच्यम् । प्रत्यभिज्ञा हि ‘स एवायं यजतिः' इत्याकारा । तत्र ‘यजतिः' इत्यंश एव यजतिश्रुत्या गम्यते, न ‘सोऽयम्' इति तत्तांशः, 'सोऽयम्' इत्यभेद- बुद्धेः पदान्तरसनिधिकृतत्वात् । न हि संनिधिकृतप्रत्यभिज्ञया विधिश्रुतिकृतकर्मभेदस्य बाधः संभ- वति । तस्माद्विधिश्रुत्या कर्मभेदः । एतेन संनिधिकृतप्रत्यभिज्ञाया अबाधाय पुनःश्रवणं गुणविधा- नार्थमिति निरस्तम् । यागकरणिका हि भावना प्रत्ययश्रुत्या विधीयत इति कर्मविधौ श्रुत्यनुग्रहः संनिधिकृताभेदप्रत्यभिज्ञाबाधात्संनिधिबाधश्च, गुणविधौ तु तनूनपादादिगुणस्योपपदार्थस्य वाक्येन विधानं संनिधिकृताभेदप्रत्यभिज्ञाया अबाधश्चेति संनिधिवाक्यप्रमाणयोरनुग्रहः श्रुतिबाधश्च । न चैतद्युज्यते, दुर्बलाभ्यां संनिधिवाक्याभ्यां श्रुतिबाधस्यायुक्तत्वात् । ननु ‘दना जुहोति' इत्यादौ संनि- हितप्रत्यभिज्ञाबलादेव धात्वर्थभावनयोर्विधिबोधितत्वात्पदान्तरार्थस्य ध्यादेविधानमङ्गीकृतम् । तद्व- 1. प्रत्ययेन--ख.

सू. २.] द्वितीयाध्याये द्वितीयः पादः । १५९ - दिहापि किं न स्यादित्यत आह-अविशेषादिति । दध्यादिवद्विधेयविशेषस्याभावादित्यर्थः । दध्या- देरविधाने दध्यादिपदानर्थक्यापत्त्या तद्विधानावश्यकत्वेऽनेकार्थविधानाशक्त्या कर्मानुवादाकालायां संनिधिकृताभेदज्ञानं ध्यादिरनुमन्यते । नैवम् ‘तनूनपातम्' इत्यादिपदं तद्विध्यभावेऽनर्थकम् , मन्त्रवर्णप्राप्तदेवतोपजीविनो' नामधेयतयार्थवत्त्वसंभवात् । एव च श्रुत्यवगतं कर्मविधानं न बाधितव्यं भवति । अतो यागभेदाद्भावनाभेदस्तद्भेदाच्चापूर्वभेद इति सिद्धम् । अत्र ब्रूम । 'समिधो यजति' इत्येव विधिः 'तनूनपातं यजति' इत्यादयोऽर्थवादा इति पूर्वपक्षस्य कथमुन्मेषः, 'पृथक्त्वनिवेशि- त्वात्संख्यया कर्मभेदः स्यात्' इति वक्ष्यमाणन्यायेन सख्यया कर्मभेदस्य निश्चितत्वात् । वाज- सनेयके हि देवाश्च ह वा असुराश्चोभये प्राजापत्या अस्पर्धन्त' इत्युपक्रम्य ते देवा अर्चन्त: श्राम्यन्त एतान्प्रयाजान्ददृशुः । तैरयजन्त तैर्ऋतून्प्राजनयन्ऋतुभ्यः संवत्सरं संवत्सरात्सपत्नानन्त- रायन् । तस्मात्प्रयाजा नाम । प्रजया ह वै नामैतद्यत्प्रयाजा इत्याहुस्तस्मात्प्रयाजैर्यजते' 'ऋतवो वै प्रयाजास्तस्मात्पञ्च भवन्ति' इत्युपक्रम्य 'त आज्यहविषो भवन्ति यत्रैव तिष्ठन्प्रयाजेभ्य आश्राव- येत्तत एव नापक्रमेत् आश्राव्याह समिधो यजेति यज यजेत्येवोत्तरानाह, समिधो यजति, अथ तनूनपातं यजति, अथेडो यजति, अथ बर्हिर्यजति, अथ स्वाहेति यजति, वेतु व्यन्त्विति यजति उत्तमे प्रयाजे यावन्ति हवीषि भवन्ति स्वाहा स्वाहेत्येव तानि यजति, उत्तम प्रयाजमिष्ट्वा हवींष्य- भिघारयति, प्रथमे प्रयाज इष्टे ब्रूयादेको ममैका तस्येति, द्वितीये द्वौ मम द्वे तस्येति, तृतीये त्रयो मम तिस्रस्तस्येति, चतुर्थे चत्वारो मम चतस्रस्तस्येति, पञ्चमे पञ्च मम न तस्य किंचनेति', 'उत्तमान्प्रयाजानावाहयन्ति प्रथमान्यजन्ति' इत्यादि श्रूयते । तत्रोत्पत्तौ ‘प्रयाजैः' इति बहुवचनेन संख्यया कर्मभेदस्यैवावगतत्वात्कर्मैक्यपक्षस्यानुन्मेष एव । कर्मैक्ये च यत्रैव तिष्ठ- न्प्रयाजेभ्य आश्रावयेत्तत एव नापकामेत्' 'यज यजेत्युत्तरान्' 'प्रथमे प्रयाज इष्टे उत्तमं प्रया- जमिष्ट्वा' इत्याद्यनुपपन्नं स्यात् , ' अथ तनूनपातं यजति' 'अथेडः' इति प्रतिपदमथशब्दाश्चास- मजसाः स्युः । तथा सिद्धान्ते समिदादिशब्दानां नामधेयत्वकथनमप्ययुक्तम् , आनर्थक्यात् । नाम्नां हि चत्वारि प्रयोजनानि भाष्यादौ दर्शितानि । तत्र संकल्पत्विग्वरणादौ ‘अनेनाहं यक्ष्ये' इति लघूपायेनाख्यानमेकम् । न च समिदादियागानामङ्गभूतानां संकल्पो वा ऋत्विग्वरणं वास्ति । दर्शपूर्णमासावारप्स्यमाणोऽन्वारम्भणीयामिष्टि निर्वपति' इति क्वचिद्गुणोपबन्धः फलम् । न चात्र समिदादिशब्दोपबन्धेन किंचिद्विधीयमानमस्ति । न च ‘समिधः पुरस्ताद्यजति' तनूनपातं दक्षि- णतः' इत्यादिगुणोपबन्धः फलमिति वाच्यम् । 'संप्रदानस्य च कर्मसंज्ञा वक्तव्या' इति व्याकर- णबलेन ‘अग्निं यजति' इत्यादिवहितीयायाः संप्रदानत्वार्थकतया समिदादिदेवतायै आहुतिमाहवनी- यस्य पुरस्ताद्भागे जुहुयादित्येवमर्थपर्यवसानेनादोषात् । 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति 1. उपजीवनेन...क, ग, घ, रु.

१६० अध्वरमीमांसाकुतूहलवृत्ती [अधि. २. . फलोपबन्धः । न चाङ्गभूतानामेतेषां फलोपबन्धसंभवः। अथैष ज्योतिः' इत्यादौ कर्मभेदः फलम्। संख्यया चात्र कर्मभेदः सिद्धः । तथा च नामधेयत्वे प्रयोजनाभावाद्देवतालक्षणगुणविधानार्थत्वमेव । समिदादिशब्दानां च देवतानामत्वं संकर्षकाण्डादवगतम् । तत्र हि द्वितीयाध्यायस्य द्वितीयपादे 'तत्र देवतानामादेशो न विद्यतेऽनाम्नानात्' इति पूर्वपक्षसूत्रे — यज' इति याज्याप्रैषे देवतानामधेयं नादेष्टव्यमिति पूर्वपक्षयित्वा ; 'विद्यते वान्यार्थदर्शनेभ्यः' इति सूत्रेण 'यत्तनूनपातं यजेडो यजेति ब्रूयाज्जामि स्यात्' इति प्रयाजेषु देवतादेशस्य निन्दया तदितरत्र देवतादेशविधिरनुमीयत इति सिद्धान्तयित्वा; 'आग्नात. प्रयाजेषु देवतादेशस्तस्य प्रतिषेधोवचनमितरेषु' इति गुणसूत्रेण शाखा- न्तरे 'तनूनपातं यज' इत्यादिप्रत्यक्षविहितस्य देवतादेशस्य ‘यत्तनूनपातं यजेडो यजेति ब्रूयात् ' इति निन्दा, अतः प्रयाजेभ्योऽन्यत्र न देवतादेशः आश्राव्य ब्रूयादिन्द्रं यजेति' 'आश्राव्य ब्रूयान्मरुतो यजेति' इत्यादिवचनाभावे सति इत्याक्षिप्य , 'आम्नातो वैकेषां तद्दर्शयत्यमुष्मा अनुब्रह्ममुं यजेति' इति सूत्रेण सर्वत्र याज्याप्रैषादौ देवतादेश. कर्तव्य इति शाखान्तरे प्रत्यक्षविहितम् , कचित् 'इन्द्रं यज' इत्यादिवचनं त्वनुवाद इति समाहितम् । न च 'समिधो अग्न आज्यस्य वियन्तु' इत्यादिमन्त्रवर्णत एव तत्प्राप्तेरानर्थक्यमिति वाच्यम् । हे अग्ने, समिधः आज्यं प्राप्नुवन्तु इत्येवमनेः शाब्दप्राधान्यान्मन्त्रस्तुत्यत्वलक्षणदेवतात्वम् , समिदादीनां तु हविर्भागित्वलक्षणं देवतात्वमित्युभये- षामपि देवतात्वेन 'यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषटकरिष्यन् ' इति संकर्षकाण्डे वक्ष्य- माणदेवताशब्दध्यानादिकार्यमग्निशब्दस्य निवर्तयितुं समिदादिदेवताविधानस्यावश्यकत्वात् । न चैवं सति कौषीतकिब्राह्मणे देवासुरा एषु लोकेषु संयत्ता 'आसंस्तेभ्योऽग्निरपाक्रामत्' इति प्रस्तुत्य ‘स एतं वरं वत्रे प्रयाजान्मेऽनूयाजांश्च केवलार्जस्वन्तं हविषो दत्तभागं घृतं चापां पुरुषं चौषधीना- मिति तस्मादाहुरानेयाः प्रयाजानूयाजाः' इत्यग्निदेवत्यत्वश्रवणविरोध इति वाच्यम् । अत एव विकल्पो पपत्तेः । वस्तुतस्तु 'समिधो यजति' इत्यादयो होतुर्याज्याविधय एवेत्युचितम् , 'आश्राव्याह समिधो यजेति यज यजेत्युत्तरान्' इत्यनन्तरम् ‘समिधो यजति' इत्यानानात् । 'समिधो यज इत्याध्वर्यवसंप्रैषानन्तरं होतुर्याज्यानुक्रमणस्यैव प्राप्तावसरत्वात् । 'समिधो यज' इति संप्रेषस्य हि 'होतः समिधो याज्यया प्रकाशय' इत्यर्थः, देवतोद्देश्यकद्रव्यत्यागे होतुर्नियोजनासंभवात् । 'समिधो यजति' इत्यादेरप्ययमेवार्थ. । 'समिधः समिधो अग्न आज्यस्य वियन्तु' इत्यादियाज्या वदतीति पर्यवस्यति । न च आग्नेयाः प्रयाजाः' इति कौषीतकिब्राह्मणरीत्याग्निदेवत्यत्वे 'समिधो यज' इति संप्रैषानुपपत्तिरिति वाच्यम् । तत्राग्निशब्दस्य समिदादिनामकाग्निविशेषपरत्वेनाविरोधात् , संकर्षकाण्डे द्वितीयस्य द्वितीयपादाद्याधिकरणे ‘स यत्रैतदध्वर्युराह समिधो यजेत्याग्नेयमेतद्रूपं परोक्षममि यजेत्येव तदाह' इत्यादिभाष्योदाहृतश्रुतेश्च । 'समिदादयोऽग्निविशेषाः प्रयाजदेवताः' आसुः...क, ख, ग, घ. 2. आग्नेयमेव तद्रूपं...क, घ, रु. , , ५ - , 1.

सू. २.] द्वितीयाध्याये द्वितीयः पाद. । इत्युपक्रम्य भट्टभास्करीयवेदभाष्ये समिदादिशब्दानां तथैव व्याख्यातत्वाच्च । तद्यथा समिध्यन्ते येन भावाः । समिद्वासन्तिकोऽग्निः । तदा हि भावाः समुज्ज्वला भवन्ति । बहुत्वमविवक्षितम् । 'समिधो बह्वीरिव यजति' इति बहुत्वस्येवशब्देनापारमार्थिकत्वद्योतनात् । हे अग्ने आहवनीय समिन्नामा वासन्तिकोऽग्निः आज्यं प्राप्नोत्वित्यर्थः । 'तनूं न पातयिता संशोषयिता श्रेष्मोऽग्निः । तदा हि भावानां शोषो भवति । इषमन्नं करोति इट वार्षिकोऽमिः । 'तत्करोति' इति णिचि किपि रूपम्। तदा हि सस्यान्युद्भवन्ति । बहुत्वमविवक्षितम् । ‘इडो बह्वीरिव यजति' इति ब्राह्मणम् । वृंहणादर्हिः शारदोऽग्निः । तदा हि भावा बृंहन्ति । स्वाहाशब्देन दाहो लक्ष्यते । तं करोतीति स्वाहाकार: हैमन्तिकोऽग्निः । तदा खलु हिमाग्निना भावा दग्धाः अवसन्ना भवन्तीति । यद्वा समिदादिशब्दा उक्तव्युत्पत्त्या वसन्तादिपराः, 'वसन्तो वै समित्' 'ग्रीष्मो वै तनूनपात्' इत्या- दिवाक्यशेषात् । तथा च हे अग्ने समिदादिशब्दवाच्यो वसन्तादिः आज्यं प्राप्नोतु, स वसन्तादि- स्तुभ्यमपि दास्यतीत्यर्थः; अन्यथा 'अग्ने' इति संबोधनस्य वैयर्थ्यात् । अत एव वाजसनेयके 'ऋतवो ह वै यज्ञे देवेषु भागमीषिरे' इत्युपक्रम्य श्रूयते 'तान्हाग्निरुपामन्त्रयांचक्रे । ते होचुः । कं भागमभ्ययामेति । स होवाच । प्रथमानेव वो यज्ञेन यजामहा इति । तथेति होचुः । वयं त्वा- न्वाभजामेति । यो नो अग्ने देवेषु भागमविद इति । स एषोऽग्निर्ऋतुष्वन्वाभक्तः समिधो अग्ने तनूनपादने इडो अग्ने इति । तदग्निमन्तः सर्वे प्रयाजाः । अन्वाभक्तो ह वै तस्यां साधु- कृत्यायाम्' इत्यादि । अतोऽग्निदेवत्यत्वप्रतिपादनपरकौषीतकिब्राह्मणस्यापि न विरोधः । तस्मात्स- मिदादिवाक्यानि याज्याविधिपराण्येव । अत एव देवा ह वै यज्ञं तन्वानाः इत्युपक्रम्य 'तमेत- स्मिन्नेवोत्तमे प्रयाजे स्वाहाकारेण सर्व यज्ञं समस्थापयन् । स्वाहाग्निमिति तदाग्नेयमाज्यभागम् । स्वाहा सोममिति तत्सौम्यमाज्यभागम् । स्वाहाग्निमिति तदाग्नेयमष्टाकपालं पुरोडाशं योऽयमुभयत्राच्युतो भवति । अथ यथादेवतं स्वाहा देवा आज्यपा इति । तत्प्रयाजानूयाजानाह । जुषाणा अग्न आज्यस्य वियन्विति तस्विष्टकृतम् । तस्मादुत्तमे प्रयाजे यावन्ति हवीषि स्वाहा स्वाहेत्येव तानि यजन्ति' इति याज्याव्याख्यानपुरःसरमुत्तमप्रयाजमनूद्य इतिशब्देन तद्विधि. सगच्छते। कर्मविधिपरत्वे तु तदसंगतिः स्पष्टैव । तैत्तिरीयकेऽपि 'सत्यं प्रपद्ये' इति मन्त्रसमानायस्य कृत्स्नप्रभस्य विनियोजकं ब्राह्मणम् 'देवा वै नर्चि' ‘अयज्ञो वा एषः' 'अग्ने महा असीत्याह' 'त्रीस्तृचाननुब्रूयात्' 'निवीतं मनुष्याणाम्' 'समिधो यजति' चक्षुषी वा एते यज्ञस्य' मनुः पृथिव्या यज्ञियम्' 'पशवो वा इडा स्वयम्' 'अग्नीध आदधाति' 'देवा वै यज्ञस्य' इत्यानातम् । तत्रादितः पञ्चभिरनुवाकैः ‘अग्निहोता वेत्वग्निः' इति झुगादापननिगदान्ते मन्त्रसमानाये विनियुक्त तदनन्तरपठिताः ‘समिधो अग्न आज्यस्य वियन्तु' इत्यादिमन्त्राः 'समिधो यजति' इत्यनुवाके 1. तनूना न पातयिता संकोचयिता-क, ग, घ, क. १ 21 १६२ अध्वरमीमांसाकुतूहलवृत्ती [अधि. २-३. . . विनियोज्यन्त इत्युचितम् । 'चक्षुषी वा एते यज्ञस्य' इत्यनुवाके तदनन्तरमन्त्राणाम् ‘अमिताणि' इत्यादीनाम् 'चमनूच्याज्यभागस्य जुषाणेन यजति' 'मूर्धन्वती पुरोनुवाक्या भवति' 'नियुत्वत्या यजति' 'पुरस्ताल्लक्ष्मा पुरोनुवाक्या भवति उपरिष्टाल्लक्ष्मा याज्या' इति विनियोगवचनाच्च । मध्ये 'आधारमाघारयति' 'अभिक्रामं जुहोति' इत्याद्याध्वर्यवानानं तु प्रासङ्गिकम् । तथा बाढच्ये कौषीतकब्राह्मणे हौत्रैकविधिपरे ‘अथ पुरस्तात्सामिधेनीनां जपति' इति प्रस्तुत्य सामिधेन्यनु- वाचनादिगादापनान्तमनुक्रम्य 'प्रयाजान्यजति । ते वै पञ्च भवन्ति । समिधो यजति, तनून- पातं यजति, इडो यजति, बर्हिर्यजति, स्वाहाकृतिमन्ततो यजति, उत्तमे प्रयाजे देवता: समाव- पति, पौर्णमास्यां वार्चनावाज्यभागौ भवतोऽमावास्यायां वृधन्वन्तौ, अग्निं प्रथमं देवतानां यजति, अथ पौर्णमास्यामग्नीषोमौ यजति' इत्यादि । तस्मात्समिदादिवाक्यानि याज्याविधिपराण्येवेति वेदार्थज्ञानकुशला मीमांसकशिरोमणयो विदांकुर्वन्तु । अधिकरणस्योदाहरणं तु 'वाजप्रसवीयं जुहोति' 'राष्ट्रभृतो जुहोति' 'वातनामानि जुहोति' इत्याद्युदाहार्यम् । इत्यभ्यासाधिकरणम् ॥ 'यदानेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति' 'ताभ्यामेतदग्नीषो- मीयमेकादशकपालं पूर्णमासे प्रायच्छत् ' 'उपांशुयाजमन्तरा यजति' । उपांशुयाजमन्तरा यजति' 'तावब्रूतामग्नीषोमावाज्यस्यैव ३. आधाराद्यानेया- नावुपांशु पौर्णमास्यां यजन्' 'ऐन्द्रं दध्यमावास्यायाम्' 'ऐन्द्रं पयोऽमा- दीनामङ्गाङ्गिभा- वास्यायाम्' इति कालसंयुक्तानि वाक्यानि श्रूयन्ते। तथा 'प्रयाजान्यजति' वाधिकरणम् । आज्यभागौ यजति' 'स्विष्टकृतं यजति' इत्यादीन्यकालसंयुक्तानि । तत्सं- निधाविदमानायते 'य एवं विद्वान्पौर्णमासी यजते' 'य एवं विद्वानमावास्यां यजते' इति । तत्र संशयः, किमत्र यजती अपूर्वयोः कर्मणोः पौर्णमास्यमावास्यासंज्ञकयोर्विधातारौ, उताग्नेयादियागानां कालसंयु- ततया श्रुतानां तादृशकालरूपप्रवृत्तिनिमित्तकाभ्यां पौर्णमास्यमावास्यापदाभ्यां विशेष्यमाणावनुवदिता- राविति। विधिपुनःश्रुत्या विधायकाविति ब्रूमः । न च द्रव्यदेवतयोरलाभात्कथं यागान्तरतेति वाच्यम् । 'सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्धृवायामाज्यम्' इति द्रव्यलाभात् ‘वानी पूर्णमासेऽनूच्येते वृधन्वती अमावास्यायाम्' इति वाक्यविनियुक्तमन्त्रवर्णतो देवतालाभाच्च । 'अनिवृत्राणि' 'त्वं सोमासि इत्यूचौ वृत्रहननप्रकाशिके वाघ्न्यौ । ‘अग्निः प्रत्नेन मन्मना' ‘सोम गीर्भिष्ट्वा वयम्' इत्यूचौ वृद्धिप्रकाशकत्वाद्धन्वत्यौ । छान्दसं रूपम् । अनूच्येते पुरोनुवाक्ये क्रियेते । न च 'सर्वस्मै वा एतद्यज्ञाय गृह्यते' इति वाक्यस्य वैशब्दोपबन्धेन विधायकत्वासंभवात् , 'वानी पूर्णमासे' इति वाक्ययोश्च, मन्त्रसमानाये अविशेषपठितस्य पुरोनुवाक्यायुगलद्वयस्याज्यभागयोः कालद्वयगतयो- व्यवस्थया प्राप्तौ, तयोर्व्यवस्थार्थत्वस्य तृतीयाद्ये 'मिथश्चानर्थ-' इत्यत्र वक्ष्यमाणत्वाञ्च न ततो द्रव्यदेवतालाभ इति वाच्यम् । 'सर्वस्मै' इति स्पष्टतादर्थ्यचतुर्थीवलेन विधायकत्वे सिद्धे वैशब्दस्य .

सू. ३.] द्वितीयाध्याये द्वितीयः पादः । , यदाग्नेयादिवाक्ये यच्छब्दस्येव विधिशक्तिप्रतिबन्धकत्वाभावात् 'मिथश्वानर्थ-' इत्यधिकरण- सिद्धान्तस्य एतदद्धिकरणपूर्वपक्षावसरेऽनुन्मेषाच्च । तत्र हि वानीवृधन्वतीवाक्ययोः आग्नेयादिषु मन्त्रविधायकत्व न भवति, तेषाम् ‘अग्निर्मूर्धा' इत्यादिपुरोनुवाक्यावरुद्धत्वात् केवलस्य सो- मस्य देवतात्वाभावेन सोमदेवत्ययाज्यानुवाक्यायुगलस्य तेषु विध्यसंभवाच , नाप्याज्यभागयोर्म- न्त्रविधायकत्वम्, तयोः क्रमादेव तत्प्राप्ते.; अत आज्यभागयोः पुरोनुवाक्याव्यवस्थापकत्वं तद्वाक्ययोरिति सिद्धान्तो भविष्यति । विद्वद्वाक्ययोर्विधायकत्वे च तद्विहितकर्मणोरेव मन्त्रवि- धानमिमे वाक्ये कर्तुं शक्नुतः, मन्त्रान्तरावरोधरूपबाधकाभावात् । न च संनिधानादा- ज्यभागयोरेव मन्त्रप्राप्तिरस्त्विति वाच्यम् । वाक्यतो विद्वद्वाक्यविहितकर्मणोर्मन्त्रविधिसंभवे दुर्ब- लसंनिधिवशेनाज्यभागार्थताया असंभवात् । एवं चेदानीमाज्यभागयोः पुरोनुवाक्यायुगलद्वयस्य प्राप्ते- रेवाभावेन तद्वयवस्थार्थत्वसिद्धान्तस्य कथमुन्मेषः । न च विद्वद्वाक्यविहिते एकैकस्मिन्कर्मणि पुरो- नुवाक्यायुगलस्य कथं संनिवेश इति वाच्यम् । एकस्या ऋचः पुरोनुवाक्यात्वेन अन्यस्या याज्यात्वेन च समावेशोपपत्तेः । न च 'अनूच्येते' इति विरोधः शङ्कयः, याज्याया अपि प्रैषानन्तरमुच्चारणीय- त्वेन तदविरोधात् । न चैवं सति कथमाज्यभागयोर्मन्त्रदेवताप्राप्तिरिति वाच्यम् । 'जुषाणो अग्निराज्यस्य वेतु' 'जुषाणः सोम आज्यस्य हविषो वेतु' इत्यनयोराज्यभागाभ्यामन्यत्र विधाना- भावेन तयोः संनिधिप्राप्ताज्यभागाङ्गत्वानपायात् तत एवाज्यदेवतयोलाभात् । 'अनुवाक्याद्वयं च तयोरग्निदेवत्यं सोमदेवत्यं चागमयितव्यम् । अतो द्रव्यदेवतालाभसंभवाद्विद्वद्वाक्ये अपूर्वकर्मविधा- यके। अन्यथा तयोरानर्थक्याञ्च । न च षण्णामपि यागानां समुदायद्वयसिद्धयर्थ, त्रिकभेदेन पौर्णमास्यमावास्यासज्ञाद्वयसिद्ध्यर्थ वानुवादः, ततश्च 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति फलवाक्येन कालसंयुक्तसमुदायद्वयस्य फलसंबन्धः सिध्यतीति वाच्यम् । पौर्णमास्यमावास्या- शब्दयोः संज्ञात्वेऽपि फलवाक्यगतदर्शपूर्णमासशब्दयोः संज्ञात्वासिद्ध्या कालसंयुक्तानामेव फलसंबन्ध- स्यासिद्धेः । फलवाक्ये दर्शपूर्णमासशब्दयोर्न समुदायपरत्वम् , यजिसामानाधिकरण्यविरोधात् । न हि समुदायो यागाला भवति । कितु समुदायिपरत्वमिति समुदायद्वयसिद्धयापि कालसंयुक्तानामेव फलसंबन्धस्यासिद्धेश्च । विद्वद्वाक्ययोरविधायकत्वे पौर्णमास्यां पौर्णमास्या यजेतामात्यालरममावा- स्यया' इत्यानर्थक्याञ्च । न हीमे वाक्ये आग्नेयादीनां कालविधायके भवतः, यदाग्नेयादिवाक्यैरेव तया- तः। नच यदाग्नेयादिवाक्यैः कालसंयोगावगमेऽपि षण्णामेकैकस्मिन्नेकस्मिन्वा पर्वणि प्रयोगः स्यात्तन्मा भूत् , किंत्वेकस्य त्रिकस्य पौर्णमास्यां सहप्रयोगः अन्यस्यामावास्यायामिति सहप्रयोगसिद्धयर्थे ते वाक्ये इति वाच्यम् । ‘य इष्ट्या पशुना सोमेन वा यजेत सोऽमावास्यायां पौर्णमास्यां वा यजेत.' । 1. अनुवाक्याय च तयोरनीषोमदेवताकम् 'अमीषोमाविम सुमे अनीषोमा हविषः प्रस्थितस्य' इत्यादिकमागमयितव्यम् । --क.

१६४ अध्वरमीमासाकुतूहलवृत्ती [अधि. ३. , इति कालविधौ सत्यपि सर्वासामिष्टीनां सर्वेषां पशुबन्धानां सोमानां च यथा न सहप्रयोग एवमिहापि सत्यपि कालविधौ सहप्रयोगासिद्धेः । विद्वद्वाक्ययोः कर्मान्तरविधायकत्वे तु तयोः कर्मणोः कालविधानेन 'पौर्णमास्यां पौर्णमास्या' इत्यादिवाक्ये सार्थके भवतः । न चैवं सति पौर्ण- मास्यमावास्याशब्दयोः संज्ञात्वे सति 'ताभ्यां विद्वद्वाक्यविहितकर्मानुवादेन कालविधिः, कालविधौ च तयोस्तत्प्रख्यन्यायेन नामत्वमिति परस्पराश्रय इति वाच्यम् । प्रवृत्तिनिमित्तानिश्चयेऽपि सामा- नाधिकरण्यमात्रेण ' अथैष ज्योतिः' इत्यादिवत्संज्ञात्वनिश्चयसंभवेनान्योन्याश्रयानवकाशात् । अतो विद्वद्वाक्ये विधायके। एवं चाग्नेयादियागानां षण्णां विद्वद्वाक्यविहितयागयोः प्रयाजादीनां च सर्वेषां यागानां प्राधान्यं फलति, फलवाक्ये यजिना सर्वेषामपि विशेषेण परामर्शात् । न च तत्र 'दर्शपूर्णमासाभ्याम् ' इति विशेषणादर्शपूर्णमासकालयुक्तश्रुतयागविशेषपरत्व यजे: शङ्कयम् , काल- संयुक्तानां यागानां बहुत्वेन द्विवचनानुपपत्तेः । न च समुदायद्वयाभिप्रायं द्विवचनमिति वाच्यम् । "समुदायद्वयं हि किं फलवाक्यादन्यत्र सिद्धम् , उत फलवाक्य एव । नाद्यः, एकावगत्यनुप्रवेशेन हि कर्मणामेकसमुदायापत्तिः । एकावगतिश्चैकाभिधानप्रयुक्ता । न चात्रैकाभिधानमस्ति, विद्वद्वाक्यव्यति- रिक्तस्य कस्यचिद्वाक्यस्य समुदायद्वयलम्भकस्यादर्शनात् । विद्वद्वाक्ययोश्चैकैककर्मविधायकत्वाङ्गीकारा- त्। न द्वितीयः, फलवाक्यगतयजिना तन्त्राभिधानेन समुदायनिष्पत्त्यङ्गीकारे सर्वेषां समुदायस्यैकत्वेन द्विवचनानुपपत्तेः । न च दर्शपूर्णमासशब्देनैकैकस्य त्रिकस्य तन्त्राभिधानात्समुदायद्वयसिद्धिरिति वाच्यम् । 'दर्शपूर्णमासाभ्याम्' इति हि यजिविशेषणत्वात्तत्परतन्त्रम् । यजिश्च सकृच्छ्रुतत्वाद्युग- पदेव सर्वान्यागान्परामृशति । न तु त्रीन्यागान्प्रथममभिधाय पश्चादन्यास्त्रीन्यागानभिधातुमुत्सहते। न च युगपत्समुदायद्वयमेव तन्त्रेण कुतो नाभिधत्त इति वाच्यम् । समुदायद्वयस्य प्रागसिद्धेः। सिद्धावपि फलवाक्ये दर्शपूर्णमासपदं तदभिप्रायं न भवति, यजिसामानाधिकरण्यविरोधात् । न चैवं सर्वेषां प्राधान्येऽपि तन्त्राभिधानशक्त्या एकसमुदायनिष्पत्तौ तदभिप्रायमेकवचनमेव स्याद्राज- सूयवत् , ततश्च द्विवचनानुपपत्तिस्तुल्येति वाच्यम् । न हि तद्विवचनान्तम् , द्विवचनविभक्तिप्रति- रूपकाव्युत्पन्नप्रातिपदिकरूपत्वात् । एवं च दर्शपूर्णमासशब्दयोः कालनिमित्तत्वाभावेन तदसंयुक्ता- नामपि फलसंबन्धः । तस्माद्विद्वद्वाक्ये अपूर्वकर्मविधायके । इति प्राप्ते, सिद्धान्तयति- प्रकरणं तु पौर्णमास्यां रूपावचनात् ॥ ३ ॥ तुरवधारणे । पौर्णमासीग्रहणमुपलक्षणम् । पौर्णमासीशब्दघटिते अमावास्याशब्दघटिते च विद्वद्वाक्ये प्रकरणं प्रकृतमेवानेयादिकर्मजातमनूयते, न तु कर्मान्तरं विधीयते । कुतः । रूपावच- 1. ताभ्यां शब्दाभ्यां -क, ग, घ, ङ. 2. समुदायद्वय हीदं फल-ग; समुदायद्वयं हि फल क, घ, ङ. 3, हीद द्विवचनान्तम्-क, घ, ङ, - सू. ३.] द्वितीयाध्याये द्वितीय. पाद. । १६५ , नात् । द्रव्यदेवते यागस्य रूपम् , तस्य देवतोद्देश्यकद्रव्यत्यागात्मकत्वात् । तद्वचनस्य द्रव्यदेवता- प्रापकस्याभावात् ॥ तथाहि- 'सर्वस्मै वा एतत्-' इति वाक्यं वैशब्दोपबन्धान ध्रौवाज्यस्य सर्वयज्ञार्थताप्रापकम् , 'प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत् , स आत्मन्नाज्यमधत्त, तं देवा अब्रुवनेष वाव यज्ञो यदाज्यमप्येव नोऽत्रास्त्विति, सोऽब्रवीद्यजान् व आज्यभागावुपस्तृणानभिघारयानिति, तस्माद्यजन्त्याज्यभागावुपस्तृणन्त्यभिघारयन्ति' इति प्राजापत्योपांशुयाजाज्यभागोपस्तरणाभिधार- णार्थत्वावगमाच्च । कथंचित्तस्य सर्वयज्ञार्थतासंभवेऽपि देवता न लभ्यते । न च वानीवृधन्वतीवा- क्यविनियुक्तमन्त्रवर्णतो देवतालाभः शङ्कथः, तद्वाक्ययोर्लिङ्गक्रमाभ्यामाज्यभागयोरव्यवस्थाप्राप्तम- न्त्राणां लिङ्गक्रमाबाधेन व्यवस्थामावविधायकत्वे लाघवेन संभवति, विद्वद्वाक्यविहितकर्मणोरप्राप्तम- न्त्रविधायकत्वस्य गौरवपराहतस्य लिङ्गक्रमबाधस्य चायुक्तत्वात् । वात्रघ्न्योहि ऋचोः एका अग्नि- देवत्या अन्या सोमदेवत्या । तयोश्च विद्वद्वाक्यविहिते एकस्मिन्कर्मणि पुरोनुवाक्यात्वेन याज्यात्वेन च विनियोगो नावकल्पते । तद्धि कर्म अग्निदेवत्यं सोमदेवत्यमुभयदेवत्यं वा स्यात् । तत्राग्निदेव- त्यत्वे सोममन्त्रस्यानन्वयः । सोमदेवत्यत्वे अग्निमन्त्रस्यानन्वयः । उभयदेवत्यत्वे चोभयम- न्त्रानन्वय इति सर्वथा लिङ्गबाधः स्यात् । एवं वृधन्वत्योरपि । अतो न मत्रवर्णतो देव- तालाभसंभवः । ननु, अत्र कि पौर्णमास्याममावास्यायां काले यावाज्यभागौ तत्र वाघ्नयौ वृधन्वत्यौ इति विवक्षितम् , उत पौर्णमास्याममावास्यायां कर्मणि यावाज्यभागाविति । नाद्यः, आज्यभागयोराग्नेयादिवदुत्पत्तौ कालसंयोगाभावेन तयोस्तत्कालीनत्वेनानुवादासंभवात् । न द्वितीयः, समप्राधान्यमिति वदन्तं पूर्वपक्षिण प्रति पौर्णमासीकङ्गिाज्यभागानुवादेन मत्रव्यवस्थाया वक्तुमशक्यत्वादिति चेन्न । आज्यभागयोः प्राधान्येऽपि य इष्टयादिवाक्येन पौर्णमास्यमावास्याकाल- प्राप्तिसंभवेन कालमुखेन व्यवस्थाया वक्तुं शक्यत्वात् । न चैवं सति पौर्णमास्यां दर्शविकारानुष्ठाने वार्चनयौ स्यातां वृधन्वत्यौ च न स्याताम् , एवममावाखायां पूर्णमासविकारानुष्ठाने वृधन्वत्यौ स्यातां वार्चनयौ च न स्यातामिति चेन्न। इष्टापत्तेः । बोधायनादिसूत्रे कालमुखेनापि व्यवस्थाया दर्शितत्वात् । वस्तुतस्तु कर्ममुखेनैव व्यवस्था । परं त्वाज्यभागयोरपि प्रधानत्वात्पौर्णमास्यङ्गभूतावाज्यभागी प्रति वानयोर्व्यवस्थाविधिर्न सभवतीति वदन्तं पूर्वपक्षिणं प्रति कालमुखेन व्यवस्थाविधिसंभवान्न त्वदभिमतसिद्धिरित्युच्यत इत्यदोषः । न च यागस्य देवतां विनानुपपत्तेर्देवता कल्प्यतां विश्वजिति स्वर्ग इवेति वाच्यम् । यागानुपपत्त्या अस्ति काचिद्देवतेति सामान्यतोऽवगमेऽपि विधि विना इयम- स्य देवतेति अनुष्ठानौपयिकदेवताविशेषानवगमात् । तथा च रूपालाभेन विधायकत्वासंभवादगत्या विद्वद्वाक्ये आनेयादिप्रकृतयागानुवादके । तत्र पौर्णमासीवाक्येन पौर्णमासीकालसंयुक्तानां त्रयाणा- मनुवादः । अमावास्यावाक्येन च अमावास्याकालसंयुक्तानां त्रयाणामनुवादः । एकैकेन चानुवादे- नैकावगत्यनुप्रवेशादेकैकसमुदायापत्तिः । तदेकत्वात्पौर्णमासीममावास्यामित्येकवचनम् । ततश्च काल- अध्वरमीमांसाकुतुहलवृत्ती [अधि. ३. द्वययुक्तसमुदायद्वयसिद्धिः । तेन प्रसिद्धार्थकं दर्शपूर्णमासपदं फलवाक्ये यजिं शक्नोति विशेष्टुम् । ननु, विद्वद्वाक्ययोर्यजिभ्यां त्रयाणां कालसंयुक्तानामनुवाद इत्यनुपपन्नमविशेषात् । न च पौर्णमासी- ममावास्यामित्युपपदवशात्तत्तत्कालसंयुक्तमात्रपरत्वं यजत्योरिति वाच्यम् । एकवचनान्तपौर्णमास्य- मावास्याशब्दयोरनेकयागपरयजिसामानाधिकरण्यासंभवेन तद्वशेन व्यवस्थाया असंभवात् । ततश्च विद्वद्वाक्यस्थनानोरेव यजिपरतन्त्रत्वावश्यंभावेन यजिद्वयस्य संनिहितसर्वयागानुवादस्वरसतया तद्व- शेन नानोरपि सर्वप्रकृतयागनामत्वमेव स्यादिति चेन्न । ‘य एवं विद्वान्पौर्णमासी यजते यावदु- क्थ्येनोपाप्नोति तावदुपाप्नोति' य एवं विद्वानमावास्यां यजते यावदतिरात्रेणोपाप्नोति तावदुपाप्नोति' इति विद्वद्वाक्यगतपौर्णमास्यमावास्याशब्दितयोर्व्यवस्थितफलार्थवादः श्रूयते । स च पौर्णमास्यमा- वास्याशब्दद्वयस्य व्यवस्थितार्थत्व एव घटते नान्यथेति तदुपपत्त्यर्थ तयोर्न सर्वप्रकृतनामत्वम् , किंतु कतिपयनामत्वमेव । तत्रापि तत्तत्कालयुक्तकर्मनामत्वमेव न्याय्यमिति तदनुसारेण तत्कालयो- गिष्वेव विद्वद्वाक्यस्थयजिप्रवृत्तेरवश्यवाच्यत्वात् । एवं च समुदायद्वयसिद्धौ तत्रोपपदस्य प्रसि- द्धत्वात्तदनुसारेण कांस्यभोजिन्यायेन कालसंयुक्तेष्वेव यजिप्रवृत्तेस्तेषामेव प्राधान्यम् । न च समुदायद्वयसिद्धावपि फलवाक्ये दर्शपूर्णमासपदं कथं तत्परम् , यजिसामानाधिकरण्यविरो- धादिति वाच्यम् । समुदायस्य यागत्वाभावेऽपि समुदायद्वारा लक्षणया समुदायिषु वृत्ति- संभवेन यजिसामानाधिकरण्योपपत्तेः । विद्वद्वाक्याभ्यां यजिकृततन्त्राभिधानलब्धसमुदायद्वयस्य पौर्णमास्यमावास्यापदाभ्यामनुवादबलत: पौर्णमास्यमावास्यारूपसंज्ञाकरणबलात् कालसंयुक्तानामेव प्रत्यभिज्ञाबलेनापि तेषामेव फलसंबन्ध ।. न च विद्वद्वाक्यतः पौर्णमास्यमावास्याशब्दयोः संज्ञात्वसिद्धावपि दर्शपूर्णमासशब्दयोस्तदसिद्ध्या कथं फलवाक्ये कालसंयुक्तानामेव परामर्श इति वाच्यम् , पौर्णमास्यमावास्याशब्दयोर्दर्शपूर्णमासशब्दयोश्च पर्यायत्वात् । यथा चैतत्तथा चतुर्थे वक्ष्यामः । न च विद्वद्वाक्ययोरपूर्वकर्मविधायकत्वाभावे ‘पौर्णमास्यां पौर्णमास्या यजेत' इति व्यथै स्यादिति वाच्यम् । षण्णामपि यागानामेकैकस्मिन्नेकस्मिन्नेव वा पर्वणि प्रयोगप्राप्तावेकस्य त्रिकस्य पौर्णमास्यां प्रयोगः अन्यस्यामावास्यायामिति सहप्रयोगार्थत्वात् । न चैवं सति य इष्ट्यादिवाक्येन सर्वेषामिष्टिपशुसोमानां सहप्रयोगः स्यादिति वाच्यम् , वैषम्यात् । फलवाक्ये फलं प्रति विवक्षित- साहित्यानामाग्नेयादीनां विनियोगात्फलार्थिनां युगपत्कर्तव्यतावगमेनान्योन्यानपेक्षैरेव तैः काल: संबध्यते । यथा चैतत्तथा एकादशस्य द्वितीयाद्याधिकरणे वक्ष्यामः । विद्वद्वाक्ययोरपूर्वकर्मविधायकत्वे बाधकान्तरमाह- विशेषदर्शनाच पूर्वेषां समेषु ह्यप्रवृत्तिः स्यात् ॥ ४ ॥ 1. पशुबन्धानाम्--क, ख, ग, घ, ङ, - सू. ३-६.] द्वितीयाध्याये द्वितीयः पादः । १६७ चशब्द उक्तसमुच्चये । विद्वद्वाक्ये कर्मान्तरविधायके न भवतः । तथात्वे हि प्रयाजादी- नामपि प्राधान्यं स्यात् । न चैतद्युज्यते । कुतः । हि यस्मात्कारणात् प्रधानतया समेषु प्रयाजाग्नेया- दिषु सत्सु पूर्वेषां प्राकृतानां प्रयाजादीनां विकृतिषु प्रवृत्तिर्न स्यात् , अङ्गानामेवातिदेशस्य वक्ष्यमा- णत्वात् । तथानिष्टम् । कुतः । विशेषदर्शनात् कचिद्विकृतौ प्रयाजाद्यनुवादेन विधेयविशेषस्य दर्श- नात् । यथा 'यो ब्रह्मवर्चसकामः स्यात्तस्मा एतं सौर्य चकै निर्वपेत् ' 'प्रयाजे प्रयाजे कृष्णलं जुहोति' इत्यादि । अतोऽपि विद्वद्वाक्ये न विधायके ॥ ननु वाघ्न्यादिवाक्यतो रूपलाभाभावेऽपि यदाग्नेयादिवाक्यैस्तल्लाभाद्विद्वद्वाक्ययो- विधायकत्वमस्त्विति पूर्वपक्षी प्रत्यवतिष्ठते- गुणस्तु श्रुतिसंयोगात् ॥ ५॥ तुः प्रत्यवस्थाने । रूपालाभाद्विद्वद्वाक्ये न विधायके इति न युज्यते । यतः यदाग्नेयादि- वाक्यैर्विद्वद्वाक्यविहितयागयोरग्न्यादिदेवतालक्षणः पुरोडाशादिद्रव्यलक्षणश्च गुणो विधीयते न तु यागः । कुतः । श्रुतिसंयोगात् विद्वद्वाक्यविहितौ हि यागौ प्रत्यक्षश्रुतिसंयुक्तौ । अतस्तदनुवादेन गुणविधाने सति यदाग्नेयादिवाक्येषु न कश्चिदश्रुतार्थः कल्यः। यागविधायकेषु तु तेषु द्रव्यदे- वतासंबन्धाद्यागोऽनुमातव्यः स्यात् । अतो रूपलाभाद्विद्वद्वाक्ये विधायके स्याताम् । न च प्राप्तक- मानुवादेनानेकगुणविधाने विध्यावृत्त्या वाक्यभेदप्रसङ्गः, विद्वद्वाक्यविहितयागानुवादेन गुणमात्रवि- धायकानामाग्नेयादिवाक्यानां विशिष्टविधित्वस्याप्यसंभवादिति वाच्यम् । गुणविधिस्थले हि गुणस्य सिद्धरूपतया स्वतो विधेयत्वाभावेन गुणविशिष्टभावनाया एव विधिसंबन्धः, न केवलं गुणस्य । ततश्च नात्र प्राप्तकर्मानुवादेन साक्षादनेकगुणविधिः। किंत्वनेकगुणविशिष्टभावनाविधिः । एवं च विशिष्टकर्मविधाविव विधेः सकृदेव व्यापार इति न विध्यावृत्तिरिति भावः । सिद्धान्ती प्रत्याचष्टे- चोदना वा गुणानां युगपच्छास्त्राच्चोदिते हि तदर्थत्वात्तस्य तस्योपदिश्येत ॥ ६॥ वाशब्द एवार्थे । यदानेयादिवाक्यानि गुणविशिष्टयागचोदना एव, न तु विद- द्वाक्यविहितयागानुवादेन गुणमात्रविधयः । कुतः । युगपच्छास्त्रात् । शाखं शासनं विधा- नम् । युगपदनेकगुणानां विधानप्रसङ्गात् । तस्य च वाक्यभेदप्रसङ्गेनायुक्तत्वात् । ननु विशि- 1. यदामेयादिवाक्यैस्तल्लाभसंभवात्-क, घ, रु. 2. शासनाच्चोदिते.

अध्वरमीमांसाकुतूहलवृत्ती [अधि. ३-४. na भावनाविधानान वाक्यभेद इत्यत आह चोदिते हीति । चोदिते प्राप्ते कर्मणि प्रत्ययस्य तत्तद्गुणविधानार्थत्वात् तस्य तस्य गुणस्य विधानार्थः प्रत्ययः पुनः पुनरुच्चार्येत । अयमाशयः । प्रव- तनारूपशब्दभावनात्मकविधेः प्रवृत्तिरूपार्थभावनागर्भतया तावद्गुणविशिष्टभावनागर्भतया प्रथम प्रतीयमानोऽपि विधिर्भावनांशस्य विद्वद्वाक्यत एव प्राप्ततया तत्परत्वाभावेन विशेषणीभूतगुणपरः सन् गुणांशे पर्यवस्यति, यत्र विधेः पर्यवसानं तस्यैव विधेयत्वात्। भावनांशस्य विध्यन्विततया प्रती- यमानत्वमात्रेण विधेयत्वे फलस्यापि विधेयत्वापातात् । ततश्चानेकगुणविधिस्वीकारे सर्वत्र विधेस्ता- त्पर्यात्सर्वत्र पर्यवसानं वाच्यम् । न च सकृच्छ्रुतस्य विधेरनेकत्र पर्यवसानं संभवतीति विध्यावृत्ति- रवर्जनीया । न चैवं सति ‘सोमेन यजेत' इति गुणविशिष्टविधिर्न स्यात् । तत्रापि विशेषणविधि- पर्यवसानार्थमावृत्तिप्रसङ्गादिति वाच्यम् । वैषम्यात् । विशिष्टविधिस्थले विशेषणेन विना विशिष्टस्या- सिद्धथा अर्थापत्त्यैव विशेषणविधिसिद्धौ न श्रुतस्य विधेर्विशेषणे पृथक् पर्यवसानमपेक्षितम् , कितु विशिष्ट एवेति न तत्रावृत्तिप्रसङ्गः। प्राप्तकर्मानुवादेन गुणविधिस्थले तु नैवमाक्षेपाद्विशेषणलाभः, भावनारूपस्य कर्मरूपस्य वा विशेष्यस्यान्यतः प्राप्ततया विधेर्विशिष्टपरत्वाभावात् केवलगुणपरत्व- मेव वाच्यम् । तबैकस्येतरविशिष्टस्य विधिर्न संभवति, गुणानां च परार्थत्वात्-' इति न्यायेन तेषां परस्परवैशिष्टयाभावात् । ततश्चैकेन विहितेनेतरस्यानाक्षेपात्प्रतिगुणं पृथगेव विधेस्तात्पर्यतः पर्यवसानं वाच्यमिति तल विध्यावृत्तिरनिवार्या । न चैवं सति ‘पशुना यजेत' इत्यादावपि प्राप्तकर्मानुवादेन जातिलिङ्गसंख्याकारकाणां विधानं न स्यादिति वाच्यम् । वैषम्यात् 'पशुना' इत्यनेन हि क्रियान्वयात्प्रागेव प्रकृतिप्रत्ययाभ्यां जातिलिङ्गसंख्याविशेषितं कारकमुपस्थितम् । तदुपस्थितौ च न विधेापारः । कारकप्राधान्यं हि पश्वेकत्वाधिकरणे वक्ष्यते । एवमभ्युदितेष्टौ 'ये क्षोदिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम्' इत्यादिभिन्नपदोपस्थानस्थले 'विष्णवे शिपिवि- ष्टाय' इति सामानाधिकरण्येन शिपिभि. रश्मिभिः विष्ट इति योगानुगृहीतेन शिपिविष्टत्वविशिष्टो विष्णुः क्रियासंबन्धात्प्रागेवोपस्थितः 'प्र तत्ते अद्य शिपिविष्टनामार्यः श५ सामि वयुनानि विद्वान्' इत्यादिमन्त्रत: ‘यः पशोभूमा या पुष्टिस्तद्विष्णुः शिपिविष्टः' 'यज्ञो वै विष्णुः पशवः शिपि: इत्याद्यर्थवादतश्च प्रसिद्धमेव विष्णोः शिपिविष्टत्वम् । न तत्र विधेापारः । अतस्तत्र तद्विशिष्टस्य विष्णोविधानं युज्यते। प्रकृते तु 'आग्नेयोऽष्टाकपालः' इत्यादिसामानाधिकरण्यबलेन शब्दतो विशिष्टार्थप्रतिपादनसंभवेऽपि विनैव विधिना वस्तुतः प्रसिद्धसंबन्धत्वाभावान्न विधिसंभवः । न याग्नेयत्वाष्टाकपालत्वादीनां वैशिष्टयं प्रमाणान्तरेण सिद्धम् । अत्रैव तु विधाने भवेद्वाक्यभेदः । अत आग्नेयादिवाक्यानि न प्राप्तकर्मानुवादेन गुणविधय इत्यनेकगुणविशिष्टयागान्तरविधायकत्वमे- वैषामभ्युपेयम् । ततश्च यदाग्नेयादिवाक्यतोऽपि रूपालाभाद्विद्वद्वाक्ये न विधायके । 1. कारकमेकम्-क, ध, क. 2. रूपलाभाभावात्-क, घ, क.

सू. ६-९.] द्वितीयाध्याये द्वितीयः पादः । १६९ इतोऽप्यानेयादिवाक्यानां न गुणविधित्वमित्याह- व्यपदेशश्च तद्वत् ॥ ७ ॥ - 'उपाणि ह वा एतानि हवीषि संभ्रियन्ते, आग्नेयः प्रथमः, ऐन्द्राग्न उत्तरः' इति पौर्वा- पर्यव्यपदेशोऽप्याग्नेयादिवाक्यानां विशिष्टयागविधायकत्वं प्रागुक्तवाक्यभेदवत्साधयति । विद्वद्वाक्य- विहितकर्मानुवादेन गुणविधित्वे तु पौर्णमासीयागे आग्नेयपुरोडाशानीषोमीयोपांशुयाजाग्नीषोमीयपुरो- डाशानां विकल्प: स्यात् । अमावास्यायागेऽपि आग्नेयः पुरोडाशः, सोमयाजिन ऐन्द्रं दधि, ऐन्द्रं पयः, असोमयाजिन ऐन्द्रामः पुरोडाशः इत्येषां विकल्प: स्यात् । तथा सत्युदाहृतपौर्वापर्यानुवादो नोपपद्येत ॥ पूर्वपक्षद्वयेऽपि बाधकं लिङ्गमाह- लिङ्गदर्शनाच्च ॥ ८॥ चतुर्दश पौर्णमास्यामाहुतयो हूयन्ते, त्रयोदशामावास्यायाम्' इत्यस्ति वाक्यशेषः । पञ्च प्रयाजा द्वावाज्यभागौ स्विष्टकृत्रयोऽनूयाजाश्चेत्येकादशाहुतयः, आग्नेयोपांशुयाजाग्नीषोमीयाहुत- स्तिस्र इति चतुर्दश पौर्णमास्याम् । अमावास्यायां तु ता एकादशाहुतयः, आग्नेयसांनाय्याहुती द्वे दधिपयसोरेकदेवताकत्वेन तदाहुतेरेकत्वात् , इति त्रयोदशेति तदर्थः । तदेतल्लिङ्गदर्शनमाग्नेयादि- भ्यो विद्वद्वाक्ययोः कर्मान्तरपरत्वेऽधिकसंख्याकत्वापातात्तेषां गुणविधित्वे न्यूनसंख्याकत्वापातादस- मनसं स्यात् । तस्माद्विद्वद्वाक्ये प्रकृतयागसमुदायानुवादके । इति पौर्णमास्यधिकरणम् ॥ दर्शपूर्णमासयोः श्रूयते 'जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशावुपार शुयाजम- न्तरा यजति, विष्णुरुपांशु यष्टव्योऽजामित्वाय प्रजापतिरुपांशु यष्टव्योऽजामित्वायाग्नीषोमावुपांशु यष्टव्यावजामित्वाय' इति । अन्वञ्चौ अव्यवहितौ पुरोडाशसाध्यौ आग्ने- पूर्वताधिकरणम् । याग्नीषोमीययागौ यत्क्रियेते तदेतत् जामि आलस्यजनकम् , एकरूपत्वात् । अतस्तौ यागौ अन्तरा तदन्तरालकाले उपांशुयाजं यजतीत्यर्थः । तत्र 'उपांशुयाजमन्तरा यजति' इति विष्ण्वादिसंयुक्तानां यागानां समुदायानुवादः, उतापूर्वकर्मणो विधिरिति संशयः । तत्र पूर्वपक्षयति- पौर्णमासीवदुपांशुयाजः स्यात् ॥ ९ ॥ पौर्णमासीशब्दयुक्तविद्वद्वाक्यवदुपांशुयाजशब्दयुक्तम् ‘उपांशुयाजमन्तरा यजति' इति ४. उपाशुयाजा- 22 १७० अध्वरमीमांसाकुतूहलवृत्ती [अधि. १. वाक्यमपि प्रकृतयागानुवादकं स्यात् न त्वपूर्वकर्मविधायकम् , रूपालाभात् । यद्यपि धौवाज्यं लभ्यते द्रव्यं देवता तु न लभ्यते । न च 'इदं विष्णुः' 'त्रीणि पदा' 'प्रजापते न त्वत्' स वेद पुत्रः' ' अग्नीषोमा यो अद्य वाम्' आन्यं दिवो मातरिश्वा' इति वैष्णवप्राजापत्याग्नीषोमीय- याज्यानुवाक्यायुगलानां पुरोडाशयागीययाज्यानुवाक्यायुगलयोरन्तरा' पाठात्तत एवास्ति देवतालाभ इति वाच्यम् । एतेषां त्रयाणामपि युगलानां लिङ्गक्रमाभ्यां विष्ण्वादिवाक्यविहितयागत्रय एव समावेशसंभवे सति अन्तरालवाक्यविहितकर्मणि अलब्धदेवते सामर्थ्यापरिज्ञानेन समावेशासंभ- वात् । न च विष्ण्वादिवाक्यजातमर्थवाद् इति शङ्कयम् । विध्यर्थकतव्यप्रत्ययश्रवणेन विष्ण्वादि- देवताकयागविधायकत्वस्यैव युक्तत्वात् । “संप्रदानस्य च कर्मसंज्ञा वक्तव्या' इति संप्रदान- स्यापि कर्मत्वेन 'विष्णुं यजति' इत्यादौ देवताया द्वितीयावत्कर्मणिविहितस्याप्युपपत्तेः । किंच उपक्रमोपन्यस्तजामित्वदोषाभावप्रतिपादनपरस्य 'अजामित्वाय' इत्यस्य विष्ण्वादिवाक्येष्वेव श्रव- णात्तत्रैव विधिशक्तिरुत्तभ्यत इति प्रत्येकमेव विधिर्वाच्यः । अन्यथा त्रिध्वप्यजामित्वोक्तेरानर्थक्यात् । न च 'जामि वा एतत्' इति दोषस्य सकृच्छ्रवणादेकवाक्यत्वमेव न्याय्यमिति वाच्यम् । सकृ- च्छ्रुतस्यापि तस्य त्रिष्वपि तेष्वनुषङ्गेण तच्छेषत्वोपपत्तेः । अतो रूपालाभाद्वर्तमानापदेशाच्चान्तराल- वाक्यं न विधायकम् । न चान्तरालकालविधायकं तदिति शङ्कयम् , अजामित्वानुकीर्तनबलादेवान्त- रालकाल एव विष्ण्वादियागविधेः पर्यवसानात् । तथा च कृत्स्नमेवान्तरालवाक्यं प्रकृतविष्ण्वादि- यागानुवादकम् । ततश्च ‘तावबेतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्' इति काल- वाक्यस्थेन यजिना सर्वेषां ग्रहणं सिध्यति । अन्यथा 'नौ' इत्यग्नीषोमप्रतिपादकोपपदमहिना अग्नीषोमीययागमात्रस्य स्यात् । सति तु समुदायानुवादे तद्वलात्समुदायीकृतानां त्रयाणामपि यागानामनुवादः, अग्नीषोमप्रतिपादकनौशब्दग्रहणं च त्रयाणामपि यागानामुपलक्षणार्थ स्यात् । ततश्च सर्वेषां कालविधौ ग्रहणे सति फलवाक्येन ग्रहणात्फलसंबन्धः सिध्यतीति पूर्वः पक्षः । सिद्धान्तयति- चोदना वाप्रकृतत्वात् ॥ १० ॥ वाशब्द एवार्थे । 'उपांशुयाजमन्तरा यजति' इति अन्तरालकालसंयुक्तोपांशुगुणकयागवि- धिरेव, न तु प्रकृतविष्ण्वादियागानुवादः, अप्रकृतत्वात् विष्ण्वादिवाक्यानामर्थवादत्वेनाविधायकत- या ततो विष्ण्वादियागानामनुपस्थितत्वात् । तथाहि-उपक्रमे पुरोडाशयागयोरव्यवहितत्वनिमित्त- कजामित्वदोषकीर्तनादन्तरालयुक्ततया किंचित्कर्म विधेयमिति निश्चिततया तदनुसारेणान्तरालवाक्य- 1. युगलान्तरा-क, घ, रु.

सू. ९-१२. द्वितीयाध्याये द्वितीयः पाद. । १७१ स्यैवान्तरालयुक्तकर्मविधायकत्व स्वीकार्यम् ; न तु स्वरसतो विधिसमर्थानामपि विष्ण्वादिवाक्या- नाम् , अन्तरालयोगाभावात् । न ह्यन्तरालेऽविहितानामजामित्वेन प्रशंसा युज्यते । न च तेषु प्रत्ये- कमजामित्वप्रशंसावगमात्प्रत्येकमेव विधियुक्त इति वाच्यम् । उपक्रमे अव्यवधानप्रयुक्तजामितादोष- कीर्तनेनाजामित्वप्रशंसाया अप्युपक्रमदशायामेवान्तरालयुक्तविधिविषयकताया निश्चितत्वेन विष्ण्वा- दिषु प्रशंसावगमस्यैवाभावात् । न चाजामित्वकीर्तनबलादेव विष्ण्वादिवाक्येष्वन्तरालकाललाभात्ते- ध्वपि विधिः संगच्छत इति वाच्यम् । विष्ण्वादिवाक्यैरन्तराललाभ आर्थिकः । अन्तरालवाक्येन तु तल्लाभः शाब्दः। न ह्युपक्रमस्थजामितादोषादवगतमन्तरालयुक्तं कर्म किमित्याकाङ्क्षाम् अन्तराशब्द- घटितवाक्ये पूरयति, आर्थिकान्तरालप्राप्त्यनुगृहीतविष्ण्वादिवाक्यानां तत्पूरकता युज्यते । तस्मात् 'उपांशुयाजमन्तरा यजति' इत्युपांशुगुणको यागोऽन्तरालकाले विधीयते । विष्ण्वादिवाक्यं च मन्त्रवर्णप्राप्तविष्ण्वादिदेवतानुवादेनार्थवादः । एवं च जामित्वोपक्रमादजामित्वोपसंहाराचावगतमे- कवाक्यत्वमप्यनुगृहीतं भवति । 'जामि वा एतद्यज्ञस्य' इत्यस्यानुषङ्गोऽपि नाश्रितो भवति । पुनः पुनरजामित्वसंकीर्तनं तु प्रशंसातिशयार्थमिति सिद्धमन्तरालवाक्यस्य विधायकत्वम् । ननु अन्तरालवाक्ये उपांशुयाजशब्दख न गुणविधित्वम् , वाक्यभेदप्रसङ्गात् ; नापि नामत्वम्, तत्प्रख्याद्यभावात् , इत्यत आह- गुणोपबन्धात् ॥ ११॥ उपांशुयाजशब्देनोपांशुत्वगुणस्यैव उपबन्धात् विधानात् विशिष्टविधानाञ्च न वाक्यभेद इति पार्थसारथिमतानुसारिणी व्याख्या, 'उपांशुत्वगुणको यागोऽन्तरालोपलक्षितकाले विधीयते' इति शास्त्रदीपिकायामभिधानात् । भाष्ये तु ' उपांशु पौर्णमास्यां यजन्' इति कालसंबन्धपरे वाक्ये उपांशुत्वगुणखोपबन्धात्तन्निमित्तमुपांशुयाजनामधेयमिति व्याख्यातम् ।। ननु अन्तरावाक्यस्य विष्ण्वादियागसमुदायानुवादकत्वाभावे ‘तावताम् इति कालपरे वाक्ये 'नौ' इत्यग्नीषोमप्रतिपादकोपपदमहिना अग्नीषोमीयमावस्य ग्रहणं स्यात्, न तु वैष्णवप्राजापत्ययोः । ततश्च फलवाक्ये तयोरश्रवणात्प्राधान्यं न स्यात् , इत्यत आह- 'प्राये वचनाच ॥ १२॥ प्रधानभूताग्नेयाग्नीषोमीययागीययाज्यानुवाक्यायुगलयोर्मध्ये वैष्णवप्राजापत्याग्नीषोमीय- यान्यानुवाक्यायुगलानामाम्नानात्रिविधस्याप्युपांशुयाजस्य प्राधान्यमवगम्यते । तद्वलादेव । ताम् -' इति कालपरे वाक्ये 'नौ' इत्यस्योपलक्षणार्थत्वं सिद्धमिति भावः । प्रयोजनं पूर्वपक्षे 'ताव- 1 प्रायवचनाच.

१७२ अध्वरमीमासाकुतूहलवृत्तौ [अधि. ४-५. वैष्णवादियागास्त्रयोऽपि समुच्चयेनानुष्ठेयाः, सिद्धान्ते त्वेक एव विकल्पितविष्ण्वादिदेवताको याग इति दिक् । इत्युपांशुयाजाधिकरणम् ॥ 'अग्निहोत्रं जुहोति' दना जुहोति' ' पयसा जुहोति' ‘यवाग्वा जुहोति' इत्यादि श्रुतम् , 'आधारमाघारयति' 'ऊर्ध्वमाघारयति' 'ऋजुमाघारयति' 'संततमाघारयति' इत्यादि ५ आधाराद्यपूर्वता- च। तब किम् ‘अग्निहोत्रं जुहोति' इति दध्यादिवाक्यप्राप्तसमुदायानुवादः, धिकरणम् । 'आघारमाघारयति' इति च ' ऊर्ध्वमाघारयति' इत्यादिवाक्यप्राप्तानुवादः, उत 'अग्निहोत्रं जुहोति' इत्यपूर्वकर्मविधिः दध्यादिवाक्यानि तत्र गुणविधयः, 'आधारमाघारयति' इति चाघारविधिः ऊर्ध्वादिवाक्यानि तत्रैव गुणविधय. इति संशये, पूर्वपक्षयति-- -- आधाराग्निहोत्रमरूपत्वात् ॥ १३ ॥ आघारवाक्यमग्निहोत्रवाक्यं च न विधायकम् । कुतः । अरूपत्वात् विधेयरूपराहि- त्यात् । न ह्यत्र सामान्यरूपं विधेयम् , तस्यानुष्ठानायोग्यत्वात् । नापि विशेषः, तस्य 'अयमसौ' इत्यनिश्चितत्वेन विधातुमशक्यत्वात् ।। नन्वग्निहोत्रसंज्ञकमिदं कर्मेत्येवं संज्ञयैव विशेषावगमः संभवतीत्यत आह- संज्ञोपबन्धात् ॥ १४ ॥ - 'अपि न विशेषावगमः' इति शेषः । विशेषरूपेण ज्ञातस्यैव सज्ञोपबन्धात्कर्मविशे- पापरिज्ञाने कस्येयं संज्ञेत्यपरिज्ञानात्संज्ञयापि न विशेषावगमसंभवः । उद्भिदादिस्थले तु चोदकतो रूपलाभात्संभवति विशेषावगमः ।। ननु दध्यादिवाक्ये गुणविधानाद्विशेषावगमः संभवतीत्यत आह- अप्रकृतत्वाच्च ॥ १५ ॥ प्रकृते हि कर्मणि दध्यादिगुणविधिरिति वक्तव्यम् । तच्च न संभवति, कस्यचित्कर्मणः अप्रकृतत्वात् । न च अग्निहोत्रवाक्यतः कर्म प्रकृतमिति शङ्कथम् । तथा सति दध्यादिवाक्यैर्गुण- विधौ सति ततो विशेषावगमादग्निहोत्रवाक्यस्य कर्मविधायकत्वम् , तस्मिंश्च सति दध्यादिवाक्यै- र्गुणविधानमित्यन्योन्याश्रयात् । चशब्दोऽनुक्तयुक्त्यन्तरसमुच्चयार्थः । तद्यथा- अग्निहोत्रवा- 1. धात्वर्थसामान्य-क, घ, ङ.

सू. १३-१६.] द्वितीयाध्याये द्वितीयः पादः । १७३ . . क्यस्य विधायकत्वेऽपि तत्र दध्यादिवाक्यैर्गुणविधानं न संभवति, प्रवर्तनात्मकविधिना पुरु- पव्यापारादन्यस्य विधातुमशक्यत्वात् । तथा च दध्यनुरक्तो व्यापारो विधेयः । स च होमा- त्मकोऽग्रिहोत्रवाक्येनैव प्राप्त इति तस्य पुनर्विधानमनर्थकम् । न चोत्पन्नस्यापि कर्मणो यथा फलादौ पुनर्विधानं तद्वदिहाप्यग्निहोत्रवाक्योत्पन्नस्य कर्मणो गुणविशिष्टतया पुनर्विधिरस्त्विति वाच्यम् । विधिर्हि चतुर्धा- फलनिमित्तयोः कर्मविधिरधिकारविधि , देशकालयोः कर्मविधिः प्रयोगविधिः, संस्कार्ये शेषतया कर्मविधिर्विनियोगविधिः, एतश्रितयभिन्नो विधिरुत्पत्तिविधिः इति । तत्र दध्यादिवाक्येषु गुणविशिष्टतया विधिस्वीकारेऽधिकारादिविधिक्रियानन्तर्भावेण परिशेषादु- त्पत्तिविधिरेव वाच्यः । उत्पत्तिविधिभेदे च कर्मभेद आवश्यकः । एवं चेहापि कर्मभेदावश्यंभावा- नाग्निहोत्रवाक्यविहितकर्मणो गुणविशिष्टतया पुनर्विधिः संभवति । अतो दध्यादेरन्यतोऽप्राप्तत्वेन मन्त्र- वर्णप्राप्तविष्ण्वाद्यनुवादेन तद्वाक्यमिव स्तावकत्वासंभवेन दध्यादिवाक्यानां दध्यादिविशेषकर्मविधित्वे सति तद्विहितकर्मसमुदायानुवादकमग्निहोत्रवाक्यम् । तत्र यद्यपि दध्यादिवाक्येषु देवता न श्रूयते, 'यद- मये च' इत्यादिवाक्येषु द्रव्यं न श्रूयते, मन्त्रविधिस्थले मान्त्रवर्णिकदेवतालाभसंभवेऽपि द्रव्यं न लभ्यते, एतेषां च सर्वेषां वाक्यानां तत्तद्गुणविशिष्टकर्मान्तरविधायकतया न कापि कर्मणि द्रव्यदेवतोभय- लाभसंभवः; तथापि दध्यादिवाक्यैर्देवतोद्देशरहितं त्यागप्रक्षेपमानं विधीयते, 'यदग्नये च' इत्यादि- वाक्येषु अग्न्यादेव्यसंबन्धेऽसति मुख्यदेवतात्वासंभवादग्न्यादीनामुद्देशमात्रम् , चतुर्थ्यन्तशब्देन निर्देशलक्षणं विधीयते । मन्त्रविधिस्थलेऽपि मन्वस्योच्चारणमेव विधीयते । एतेषु च वाक्येषु जुहो- तिस्तत्तद्विधेयत्यागप्रक्षेपादिषु लाक्षणिकः । तेषां च प्रक्षेपादीनां सर्वेषाम् ‘अग्निहोत्रं जुहोति इत्ययमनुवादः । तत्प्रयोजनम् ‘अग्निहोत्रं जुहुयात्स्वर्गकामः' इति फलवाक्ये सर्वेषां ग्रहणम् , अग्निहोत्रम्' इत्येकत्वनिर्देशस्य समुदायीकरणं विनानुपपत्तेः । किच समुदायानुवादाभावे 'यद- ग्नये च' इत्यादिवाक्यविहिताग्निसंबन्धिकर्मण एवोपपदवशात्फलवाक्ये ग्रहणं स्यात् । सति तद- नुवादे तत्सामर्थ्यात्प्रकृतानां सर्वेषामग्निहोत्रशब्दो नामधेयमित्यवगमात्सर्वेषां फलसंबन्धसिद्धिः । एवमाधारवाक्येऽप्यूर्खादिवाक्यविहितानामूलत्वार्जवसातत्यतन्त्रविशिष्टकर्मणां समुदायानुवादः । ततश्च 'चतुर्गृहीतं वा एतदभूत्तस्याघारमाधार्य' इति प्रयाजाज्यरूपे संस्कार्ये आधारविनियोजक- वाक्ये सर्वेषां ग्रहणं सिध्यति, 'आघारम्' इत्येकत्वनिर्देशस्य समुदायीकरणं विनानुपपत्तेः । तस्मा- दग्निहोत्रवाक्यमाघारवाक्यं च न विधायकमिति पूर्वः पक्षः । सिद्धान्तयति- चोदना वा शब्दार्थस्य प्रयोगभूतत्वात्तत्संनिधे- र्गुणार्थेन पुनःश्रुतिः ॥ १६ ॥ . 1. मन्त्र.. -क, ख, ग, घ, कु; मन्त्रादि...-च. , अध्वरमीमांसाकुतूहलवृत्ती [अधि. ५-६. . वाशब्द एवार्थे । अग्निहोत्रवाक्यमाघारवाक्यं च चोदना अपूर्वकर्मविधायकमेव, न तु प्रकृतकर्मणामनुवादः । कुत.। आधारयतिशब्दार्थस्य जुहोतिशब्दार्थस्य च प्रयोगमनुष्ठानं प्राप्तत्वात् । आधारहोमयोरनन्यप्राप्तत्वेनावश्यविधेयत्वादित्यर्थः । ननूर्खादिवाक्यैर्दध्यादिवाक्यैश्च विशिष्टकर्मवि- धायकैः प्राप्तत्वादनन्यप्राप्तत्वं तयोरसिद्धमित्यत आह-गुणार्थेन पुनःश्रुतिरिति । 'निमित्तपर्याय- प्रयोगे सर्वासां प्रायदर्शनम्' इति तृतीया चतुर्थ्यर्थे । ऊर्ध्वत्वादिदध्यादिगुणविधानप्रयोजनाय ‘आघा- रयति' 'जुहोति' इति पुन श्रुतिः अनुवाद इत्यर्थः। ननु सनिहितं धात्वर्थ परित्यज्य प्रत्ययः कथं गुणं विदध्यादित्यत आह-तत्संनिधेरिति । तस्य गुणस्य विशेष्यधात्वर्थानुप्रवेशेन प्रत्ययसंनिधानादि- त्यर्थः । अयं भावः । ‘सोमेन यजेत' इत्यादिषु वाक्यान्तरेण कर्मणोऽप्राप्तेरगत्या गौरवमप्यङ्गीकृत्य विशिष्टविधानमभ्युपगम्यते। इह त्वाघाराग्निहोत्रवाक्यतः प्राप्तकर्मानुवादेन गुणमात्रविधाने संभवति न विशिष्टविधित्वमूर्खादिवाक्यानां न्याय्यमाश्रयितुम् । ततश्चाधाराग्निहोत्रवाक्ययोरप्राप्तार्थत्वाद्विधिपरत्वे निश्चिते तद्वलादेव सामान्यस्यायोग्यत्वात्तल्लक्षितो विशेष एव विधीयते । स च विशेष: 'अयमसौ' इति विशिष्यानवगतोऽप्यन्यत्राविहितोऽयं कश्चिद्धोमविशेष इत्येतावन्मात्रेणावगत इति कृत्वा विध्यर्हः। एवं च विशिष्य ज्ञानस्यानपेक्षितत्वान्न पूर्वपक्षोक्तान्योन्याश्रयावकाशः । तावन्मात्राव- गमेनापि संज्ञोपबन्धोपपत्तेर्न संज्ञादुर्घटत्वं च । न च तस्यापि विशेषस्य रूपालाभादपर्यवसानमिति वाच्यम् । दध्यादिवाक्यतस्तल्लाभात् । न चाव्यापारत्वात्केवलस्य दध्यादिगुणस्य विधानं न संभवतीति वाच्यम् । होमादिव्यापारविशिष्टस्य तस्य विधातुं शक्यत्वात् । न चैवं सति गुणस्य साक्षाद्विधिवि- षयत्वाभावेन गुणविशिष्टकर्मविषयतया विधेः प्रतीयमानतया कर्मोत्पत्तिपरत्वापत्तौ कर्मभेदः खादि- ति वाच्यम् । कर्मणः प्राप्तत्वेन तत्स्वरूपज्ञाने विधेरतात्पर्यात् अप्राप्तगुणांश एव विधेस्तात्पर्यात् । विधितात्पर्यविषय एव हि विधेयः, न तु विधिसंबन्धितया प्रतीयमानमात्रम् । ततश्च दध्यादि- वाक्यस्य कर्मोत्पत्तिविधित्वाभावेनाग्निहोत्रवाक्योत्पन्नकर्मणो दध्यादिवाक्ये दध्यादिगुणविशिष्टतया प्रतीयमानत्वेन न भेदप्रसक्तिः । एवमाधारवाक्येऽपि । तथा चाघारवाक्यमग्निहोतवाक्यं च प्रकृत- कर्मलाभाभावाद्रूपालाभसद्भावाच्च विधिरेव, न तु समुदायानुवादः । प्रयोजनं पूर्वपक्षे दध्यादिवाक्यवि- धेयानां कर्मणां समुच्चयेनानुष्ठानम् ; सिद्धान्ते त्वेकस्मिन्नेव कर्मणि ध्यादीनां विकल्पितत्वान्न समु- चय इत्यादि । आधारादिवाक्ये तूर्ध्वत्वादिगुणेषु यस्य भ्रंशस्तद्गुणकस्य कर्मणः पुनरनुष्ठानं पूर्वपक्षे ; सिद्धान्ते तु कर्मभेदाभावाद्गुणानुरोधेन प्रधानावृत्त्ययोगाद्गुणलोपप्रायश्चित्तमित्यादि । इत्याचारा- मिहोत्राधिकरणम् ॥ 'अग्नीषोमीयं पशुमालभेत' इत्यत्रालभतिः किम् 'हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः' इत्यादिविहितानां कर्मणां समुदायस्यानुवादः, उतापूर्वकर्मविधायक इति संशयः । तथा सू. १६.] द्वितीयाध्याये द्वितीयः पादः । - ६. पशुसोमापूर्वता 'सोमेन यजेत' इति यजतिः 'ऐन्द्रवायवं गृहाति' 'मैत्रावरुणं गृहाति' धिकरणम् । इत्यादिविहितकर्मणां समुदायस्यानुवादः, उतापूर्वकर्मविधायक इति संशयः । तत्र दध्यादिवाक्येषु कर्मविध्यभावेनाग्निहोत्राधारवाक्ययोरनुवादकत्वासंभवेऽपि हृदयायैन्द्रवायवा- दिवाक्येषु कर्मविध्यवश्यंभावेन आलभतियजत्योस्तदनुवादकत्वमेव युक्तम्। 'ऐन्द्रवायवम्' इति द्विती- यया गम्यमानं हि साध्यत्वमुत्पाद्यतया वा संस्कार्यतया वा । नाद्यः, देवतातद्धितान्तेन देवतासंब- न्धिद्रव्यवाचिना ऐन्द्रवायवादिशब्देन प्रतीयमानस्य द्रव्यदेवतासंबन्धस्य यागैकघटनीयस्य ग्रहणेन घटयितुमशक्यतया 'ऐन्द्रवायवादिद्रव्यं ग्रहणेनोत्पादयेत्' इत्यर्थस्यायुक्तत्वात् । न द्वितीयः । अव- हननादिसंस्कार्याणां ब्रीह्यादीनाम् 'व्रीहिभिर्यजेत' इत्यादिशास्त्रान्तरेण सिद्धिवदैन्द्रवायवत्वादिविशि- टद्रव्यस्यासिद्धत्वेन तदुद्दिश्य ग्रहणसस्कारविधानायोगात् , सोमवाक्यस्य यागविधायकत्वे उत्पत्ति- शिष्टसोमरूपलताद्रव्यस्य ग्रहणेन संस्कारानुपपत्तेश्च, धारादिवाक्यतो ग्रहणस्य रसविषयत्वावगमात् । एतेन ‘ऐन्द्रवायवं ग्रहणेन भावयेत्' इत्यदृष्टार्थविधित्वमपि प्रत्युक्तम् , देवतासंबन्धानुपपत्त्या आरा- दुपकारकस्यापि ग्रहणस्य विध्यनुपपत्तेः। तस्मादैन्द्रवायवादिवाक्येषु द्रव्यदेवताभ्यां ग्रहणेन च विशि- ष्टयागा विधीयन्ते । न चैन्द्रवायवादिशब्दस्य 'तस्येदम्' इति संबन्धसामान्यविहिततद्धितान्तत्वमे- वास्तु, तथा चेन्द्रवाय्वादिप्रकाशकमन्त्रेण क्रियमाणे ग्रहणे करणमन्त्रद्वारा इन्द्रवायुवैशिष्टयस्य ग्रह- गद्वारा द्रव्ये च तद्वैशिष्टयस्योपपत्तेर्ग्रहणमात्रविधिसभव इति वाच्यम् । सामान्यस्यानुष्ठानानौपयि- कत्वेनानुष्ठानौपयिकसंबन्धविशेषाभिधायिदेवतातद्धितान्तत्वे संभवति 'तस्येदम्' इति संबन्धसा- मान्याभिधायितद्धितान्तत्वाश्रयणस्यायुक्तत्वात्, ‘सास्य देवता' इत्यधिकारे 'द्यावापृथिवीशुनासी- रमरुत्वदनीषोमवास्तोष्पतिगृहमेधाच्छ च' इति विशिष्यविहितदेवतातद्धितच्छप्रत्ययान्तेन 'मरुत्वतीयं गृहाति' इति वाक्यगतमरुत्वतीयशब्देन सहचरितानामैन्द्रवायवादिशब्दानां तदवैरूप्याय देवतातद्धिता- न्तत्वस्यैवाश्रयितुं युक्तत्वाञ्च । एवं च प्रकृतानामैन्द्रवायवादियागानां सोमवाक्ये यजिः समुदायानु- वादः; सोमशब्दोऽपि न विधिः । स हि गृह्णातिना अनियमेन प्राप्तस्य ग्राह्यद्रव्यस्य नियमविधिपरो वा प्रकृतिद्रव्यविधिपरो वा स्यात् । नाद्यः, तबैन्द्रवायवादिवाक्यविहितयागेषु सोमलताद्रव्यस्य हविष्ट- प्रसङ्गात् । न चेष्टापत्तिः शङ्कया, 'अण्व्या धारया गृह्णाति' इति गुणवाक्यपर्यालोचनया धारास- मर्थजलादिरूपद्रव्यविशेषस्य निश्चितत्वेन सोमलतालक्षणद्रव्यविधेरसंभवात् । न च सोमस्य रसीभा- वेनापि धारावाक्यस्योपपत्तेन स्वतःसिद्धजलादिद्रवद्रव्यस्य प्राप्तिरिति वाच्यम् । रसीभावे सत्युत्प- तिशिष्टलतारूपस्य भङ्गापत्त्या तस्य हविष्ट्वालाभात्। अस्तु तर्हि रसभूतहविः प्रकृतित्वेन सोमद्रव्यस्य विधिः 'ब्रीहिभिर्यजेत' इति पुरोडाशप्रकृतिभूतव्रीहिद्रव्यवदिति द्वितीयः पक्षः । न चेह विकृति- द्रव्यस्यानुपाश्चत्वात्कथं प्रकृतिद्रव्यविधिरिति शङ्कयम् । ब्रीहिवाक्यवदेवोपपत्तेः । न हि पुरोडाशा- . सामान्यतदितान्तत्वा. .क.

अध्वरमीमांसाकुतूहलवृत्ती [अधि. ६. नुवादेन ब्रीहिविधिः, 'ब्रीहिभिः' इति कारकविभक्तेर्द्रव्यसंबन्धायोगात्पुरोडाशस्यानुपात्तत्वाच । किंतु यागं प्रति करणत्वेन विहिता ब्रीहयः पुरोडाशावरुद्धे यागे साक्षात्करणत्वासंभवात्प्रकृतित्वेन करणीभवन्तीति प्रकृतिविधिः संपद्यते । एवमत्रापि यागं प्रति करणत्वेन विहितः सोमो धारासमर्थद्रवद्रव्यावरुद्धे यागे तत्प्रकृतिर्भवतीत्यर्थात्प्रकृतिविधिः संपद्यते । न च प्रकृतिनिरपेक्षजल- साधारणत्वाद्धारासमर्थद्रव्यस्य पुरोडाशवैलक्षण्यादिह कथमर्थादपि प्रकृतिविधिसंभव इति वाच्यम् । धारासमर्थद्रव्यं हि किंचिदपि यदि सर्वथा प्रकृतिसबन्धानहमेव स्यात् तदा परं प्रकृतिविधिर्न संभवेत्। अर्हति च धारासमर्थद्रव्यं किंचिदिह प्रकृतिद्रव्येण संबन्दुम् । अतः सोमशब्देन प्रकृतिद्रव्यविधि: संगच्छत इति चेन्न । ' सोममभिषुणोति' ' अभिषुतस्य सोमस्य धारां स्रावयति' इत्यादिवाक्यैरेव धारासमर्थद्रव्यस्य सोमलताप्रकृतिकतया निर्मातत्वेन प्रकृतिविधेरानर्थक्यात् । अतः सोमशब्दोऽपि 'सोमं क्रीणाति' 'सोममभिषुणोति' इत्यादिवाक्यप्राप्तार्थानुवादीभवन् तत्प्रख्यन्यायेन नामधेयं भवति । न च ज्योतिष्टोमनाम्नः 'सत्त्वान्नामान्तरानर्थक्यम् , न्यायप्राप्तत्वेन नामान्तरस्यापरिहार्य- त्वात् ‘स एष यज्ञ: पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः' 'स्वर्गकामः सोमेन यक्ष्य इति संकल्पयते' इत्यादिव्यवहारस्य ज्योतिष्टोमनाम्नान्यथासिद्धयभावेनानर्थक्याभा- वाच्च । तथा च कृत्स्नं सोमवाक्यमनुवादः । तत्र सोमशब्दस्य प्रयोजनमुक्तमेव । ऐन्द्रवायवादिवाक्य- विहितानां यागानां समुदायानुवादकयजेस्तु प्रयोजनम् ‘ज्योतिष्टोमेन स्वर्गकामो यजेत' इति फलवा- क्ये सर्वेषां युगपढ़हणात्समुच्चित्यानुष्ठानम् । सोमवाक्यस्य यागविधायकत्वे तु यागस्यैकत्वात्तदर्थानां देवतानां खादिरपालाशादियूपवद्विकल्पापत्तिः । एवं ग्रहणानामपि। तथा सति 'दशैतानध्वर्युः प्रातःसवने गृह्णाति' । आश्विनो दशमो गृह्यते' तं तृतीयं जुहोति' इत्यादिवाक्ये दशशब्देन च प्रतीयमानः समु- चयो मतीयप्रत्ययाभ्यां प्रतीयमानः क्रमश्च विरुध्येयाताम् । उपांश्वन्तर्यामावैन्द्रवायवमैत्रावरुणाश्विनाः शुक्रामन्थिनावाप्रयण उक्थ्यो ध्रुवश्चेति दश ग्रहाः । अश्वदाभ्ययोरतिग्राह्याणां चानित्यत्वादिहाग्रहणम् । तेषां तैत्तिरीयशाखारीत्या ज्योतिष्टोमे समावेशेऽपि वाजसनेयिभिर्विकृतिसोमेष्वेवानातत्वेन प्रकृतिसोमे तत्समावेशाभावात् । यद्यपि, उपांशुः प्रथम हूयते ततोऽन्तर्यामः ततो वायव्यो ग्रह ऐन्द्रवायवश्चैकेनैव पात्रेण क्रमेण हूयेते ततो मैत्रावरुणस्तत आश्विन इति क्रमः, तत्रैन्द्रवायवमैत्रावरुणाश्विनेषध्वर्युणा हूय- मानेषु प्रतिनिग्राह्यास्त्रयो ग्रहा हूयन्ते ; तत्रोपांश्वन्तर्यामाववषट्कारहोमो, इतरे सवषटकारहोमाः; एवं चाश्विनो नवमो हूयत इति कथं तृतीयत्वमिति , तथापि अध्वर्युकर्तृकसवषट्कारहोमाभिप्रायं पात्राभिप्रायं च तृतीयत्वं बोध्यम् । तस्मादैन्द्रवायवादिवाक्यविहितानां यागानां समुदायानुवादकं सोमवाक्यमिति स्थितम् । एवमग्नीषोमीयवाक्यमपि न यागविधायकम् । हृदयादिवाक्ये हि तावद्य- ज्यश्रवणादेवताभावाच कर्ममात्राण्यवगतानि । तेषु च कर्मसु पशुवाक्येन पशुप्रकृतिकहृदयादिद्रव्यं 1. सद्भावात्--क, ग, घ, सभवात्--3.

सू. १७.] द्वितीयाध्याये द्वितीयः पाद. । १७७ लक्षणया पशुशब्देनानूद्य 'अग्नीषोमीयम्' इति देवता विधीयते । एवं च यथा आधारवाक्येन आघा- रसंज्ञककर्मण्यवगते चतुर्ग्रहीतवाक्यादाज्यद्रव्यलाभे 'इतइन्द्रऊोऽध्वरइत्याघारमाघारयति' इति मन्त्रविनियोगतो मान्त्रवर्णिकदेवतालाभे च सति तस्य यागरूपत्वाध्यवसानम् , तद्वद्धृदयादिवाक्यतो हृदयादिद्रव्यककर्ममात्रेष्ववगतेषु पशुवाक्येन देवतालाभात्तेषां यागरूपत्वमवधार्यते । अवद्यतिस्तु चोदकप्राप्तानुवादः । द्रव्यदेवतासंबन्धाच्च गम्यमानो यागो द्रव्यभेदाद्भेदेनैव गम्यते, एकेन पशुश- ब्देनानुवादतो लब्धस्यापि साहित्यस्य हृदयाद्युद्देश्यगतत्वेनाविवक्षितत्वात् । आलभतिस्तु स्पर्शनमु- खेन तत्साध्यावदानसंस्कृतहृदयादियागोपलक्षकोऽनुवादः । यदि च पशुवाक्यं यागविधायकं स्यात्त- हि हृदयादिवाक्यानां न संस्कारविधित्वं शक्यते वक्तुम् , उत्पत्तिशिष्टपशुजातीयद्रव्यविरोधात् । न च दर्शपूर्णमासजाघनीवत्सूनास्थहृदयादिग्रहणे सति नोत्पत्तिशिष्टद्रव्यविरोध इति वाच्यम् । एवं हि सति हृदयाद्यवदानेभ्यस्तावन्त्यदृष्टानि अग्नीषोमीययागाच्चैकमदृष्टमिति गौरवापत्तेः । पशुवाक्यस्य हृदयादिवाक्यप्राप्तकर्मानुवादेन देवताविधौ तु न पशुवाक्याददृष्टकल्पनम् , कितु हृदयादिवाक्यत एवेति लाघवम् । तदेवं हृदयादिसाधनकर्मसु पशुवाक्यतोऽग्नीषोमदेवताविधाने सति पश्चाद्देवता- संबन्धाद्यागरूपाणि तानि कर्माणीति निर्धार्यत इति । अथवा हृदयादीनां पशुप्रभवत्वेन सांनाय्य- साम्यात्तदवदानं यागसाधनमिति निश्चये सति तत एव प्राप्तावदानसंबन्ध आलभतिना आर्थिक- स्पर्शनमुखेनानूद्यते, यथा ' तस्मै भक्षं प्रयच्छेत्' इति यागीयद्रव्यप्रतिपत्त्यर्थभक्षसंयोगेन फलचमसस्य यागसाधनत्वेऽवगते तत एव प्राप्तो भक्षोऽनूद्यते तद्वत् । एवं च प्रथममेव हृदयादिवाक्यैर्यागा विधीयन्ते । तत्रैव च 'अग्नीषोमीयम् -' इति देवताविधिः । आलभतिः पूर्ववदेव यागानुवादकः । पशुशब्दोऽपि पूर्ववदेव हृदयाद्युपलक्षकः । तदेवमुभयथापि पशुवाक्येऽप्यालभतिरनुवादकः । अत एव एकादश वै पशोरवदानानि' 'हृदयस्यारोऽवद्यत्यथ जिह्वाया अथ वक्षसः' इत्यादिक्रमसमुच्च- यावुपपद्यते । पशुवाक्यस्य यागविधायकत्वे यागस्यैकत्वाद्धृदयादीनां विकल्पापत्त्या तदसंगतिः स्पष्टैव । इति प्राप्ते, सिद्धान्तयति- द्रव्यसंयोगाच्चोदना पशुसोमयोः प्रकरणे ह्यनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन ॥ १७ ॥ पशुसोमयो. पशुसोमवाक्ययोः चोदना पश्वग्नीषोमलक्षणद्रव्यदेवताविशिष्टस्य सोमविशि- ष्टस्य च यागस्य विधिः । कुतः । द्रव्यसंयोगात् एवं सत्येव पशुसोमद्रव्यश्रवणस्य प्रयोजनेन संयो- गात् । हि यस्मात्कारणात् प्रकरणे प्रकृतहृदयावेन्द्रवायवादिवाक्यविहिते कर्मजाते सति पशुसोमद्र- व्यसंयोगोऽनर्थकः स्यात् । विद्वद्वाक्ययोहि पौर्णमास्यमावास्याशब्दौ तादृशकालसंयुक्तामेयादियागानां 23 १७८ अध्वरमीमांसाकुतूहलवृत्तौ [अधि. ६. ताभ्यां प्रत्यभिज्ञानादनुवादकौ। इह तु हृदयादिरूपरसरूपद्रव्यककर्मजातस्य पशुसोमशब्दाभ्यामाकृ- तिविशेषवाचकाभ्यां सयुक्ते पशुसोमवाक्ये कथमनुवादकतया सार्थके स्याताम् । ननु पशुसोमशब्द- यो¥ण्या वृत्त्या तत्प्रकृतिकद्रव्यपरतया तदनुवादकत्वं संभवतीत्युक्तमत आह-न हीति। गुण: उप- चारः । अर्थः वृत्तिः । गुणादागतोऽर्थो गुणार्थः गौणी वृत्तिः । तस्य हि पशुशब्दस्य सोमशब्दस्य च मुख्यार्थत्वे संभवति गौण्या वृत्त्या तद्विकृतिद्रव्यपरत्वं न युक्तमाश्रयितुमित्यर्थः । न च पशुवाक्यस्य पशुविशिष्टयागविधिपरत्वे उत्पत्तिशिष्टपशुनैव यागस्य कर्तव्यत्वाद्धृदयादिवाक्यानामानर्थक्यं स्यात् , उत्पत्तिशिष्टद्रव्यभङ्गापत्त्या तेषां गुणविधित्वस्यासंभवात् , अत: पशुवाक्ये पशुशब्दस्य लक्षणा दुर्वारेति वाच्यम् । यदि ह्युत्पत्तिशिष्टं पशोः करणत्वं हृदयादिवाक्यैर्गुणविधौ बाध्येत तदा पर हृदयादि- वाक्यानामानर्थक्यं स्यात् । नैवमस्ति , हृदयादीनां यागसाधनत्वेऽपि पशुकरणत्वस्याबाधात् , हृद- यादिप्रणाड्या पशोः करणत्वानपायात् , 'गोमयेन पचति' 'तुषपक्का भवन्ति' 'यागात्स्वर्गः' इत्यादौ लोकवेदयोर्व्यवधानेऽपि करणत्वदर्शनात् । तदेवं पशुवाक्यं पशुद्रव्यदेवताविशिष्टयागविधिः । हृदयादिवाक्यानि तु तत्रैव गुणविधयः । तत्रापि न प्राकृतावदानोद्देशेन हृदयादिविधयः , कितु हृदयादिविशिष्टावदानान्तरविधय इति दशमे स्पष्टीभविष्यति । एवं च पशुद्रव्यस्यैकत्वात्तावदवदान- संस्कृतद्रव्यक एको याग इति लाघवम् । अन्यथा हृदयादिसाधनका बहवो यागा इति गौरवम् । एवं सोमवाक्यं सोमलताविशिष्टयागविधिः । 'ऐन्द्रवायवम्' इत्यादयो गुणविधयः। रसप्रणाड्या च सोमद्रव्यस्य यागसाधनत्वमभिषववाक्यादवधार्यते । ननु ऐन्द्रवायवादिवाक्यविहितयागेष्वेव सो- मस्य हविष्ट्येन विधानं कि न स्यात् , न च धारावाक्यान्यथानुपपत्त्या न सोमस्य हविष्ट्वविधिसंभव इति वाच्यम् , रसप्रणाड्या तदुपपत्तेरुक्तत्वादिति चेत्, न । 'ऐन्द्रवायवम्' इत्यादितद्धितस्य द्रव्य- सामान्यवाचकस्य धारावाक्यसनिहितधारासमर्थद्रवद्रव्यविशेषविषयतयैवोपपत्त्या ऐन्द्रवायवादिवा- क्यत एव द्रव्यविशेषलाभे सति गृह्णातिना अनियमेन द्रव्याक्षेपासभवेन द्रव्यनियमविध्यसंभवेन हविविधानासंभवात् । एतेनैन्द्रवायवादियागीयधाराद्रव्यप्रकृतित्वेन सोमस्य विधिः कि न स्यादित्यपि निरस्तम् , ऐन्द्रवायवादितद्धितस्य धारावाक्यप्राप्तप्रकृतिद्रव्यनिरपेक्षजलादिद्रवद्रव्येणैव शान्ताकाङ्क्ष- तया अवश्यं प्रकृतिद्रव्यापेक्षाभावेन प्रकृतिविध्यसंभवात् । एतेनैवाभिषवादिवाक्यत: सोमप्राप्तिमु- पजीव्य सोमवाक्ये सोमशब्दस्य तत्प्रख्यन्यायेनैन्द्रवायवादियागनामधेयत्वं निरस्तम् , 'सोमेन यजेत' इत्याहत्य सोमविधेः प्राक्सोमस्याप्राप्तत्वात् । न च धारावाक्यस्य सोमरसविषयत्वेन तद्वा- क्यविहितसोमरसविषयत्वमैन्द्रवायवादितद्धितस्य भविष्यतीति ततः सोमद्रव्यस्य प्राप्तिरिति वाच्यम्। न हि धारावाक्यस्य सोमरसविषयत्वे किंचित्प्रमाणमस्ति, तद्वाक्ये सोमरसस्येत्यश्रवणात् । न च तत्र सोमरसस्येत्यश्रवणेऽप्यभिषवादिवाक्यसंनिधानात्तस्य सोमरसविषयत्वमस्त्विति वाच्यम् । न हि तद्धितस्य सामान्यवाचिनो विशेषं विना पर्यवसानाभाववद्धाराशब्दस्यापर्यवसानमस्ति, १ सू. १७-१८.] द्वितीयाध्याये द्वितीयः पादः । १७९ , श्रुतमात्रेण पर्यवसानोपपत्तेः । न च 'ब्रीहीन्प्रोक्षति' इत्यादिषु यथा प्रकृतग्रहणं तद्वद्धारावाक्येऽपि प्रकृतग्रहणं कि न स्यादिति वाच्यम् , वैषम्यात् । प्रोक्षणादिवाक्येषु लौकिकस्य संस्कारानुपपत्ते- रपूर्वसाधनविशेषलक्षणया प्रकृतग्रहणं युक्तम् । धारावाक्ये तु ग्रहणोद्देशेन धारामात्रविधानं न प्रकृतापेक्षम् । किच सोमवाक्ये सोमद्रव्यस्याहत्यविधानानङ्गीकारे सोमस्याप्राप्तत्वेन क्रयाभिषवादि- वाक्यानां तत्संस्कारविधायकत्वासंभवेन ‘सोमक्रयेण ऋतुमुपकुर्यात्' इत्यारादुपकारकक्रयाभिषवादि- विधायकत्वापत्त्या क्रयाभिषवादीनां लौकिकसोमविषयतयाप्युपपन्नतया एकसोमविषयत्वानापत्त्या धारावाक्यस्य कथं क्रयाभिषवादिवाक्यसंनिहितसोमरसविषयता। न हि 'सोमं क्रीणाति' । 'तं क्रीतं सोममभिषुणोति' 'तस्याभिषुतस्य सोमस्य धारां करोति' इत्येवं वचनान्युपलभामहे । न च क्रयादिवाक्यानामेकयागप्रकरण आम्नातत्वेन प्रकरणानुसारात्तद्वाक्येषु 'प्रकृतं सोमं क्रीणाति' 'प्रकृतं सोममभिषुणोति' इत्येवं प्रकरणविशेषितसोमस्य ग्रहणात्सर्वेषामेकविषयत्वमिति वाच्यम् । इतिकर्त- व्यताकाडालक्षणप्रकरणस्य विनियोगमात्रे व्याप्रियमाणस्य परविशेषणत्वासंभवात् । यथा चैतत्तथा सप्तमाये स्पष्टं भविष्यति। न च प्रकरणस्याविशेषकत्वेऽपि 'सप्तमं पदमध्वर्युर जलिना गृह्णाति' इत्यादौ संनिहितैकहायनीसबन्धिपदादिवत्संनिधिवशाद्विशेषोऽस्त्विति वाच्यम् । नवमाद्यपादे 'द्रव्यसंख्या- हेतुसमुदायं वा श्रुतियोगात्' इत्यधिकरणे ‘तुल्येषु नाधिकारः स्यात्' इति गुणसूत्रे तुल्येष्वेकत्र सनिधिरपरत्र विशेषको न स्याद्विनिगमनाविरहादिति वक्ष्यमाणत्वेन संनिधेरप्यत्राविशेषकत्वात् । पवाक्ये तु पदस्यावयवत्वेन नित्यमवयविसापेक्षत्वेन तत्र संनिधेर्विशेषकत्वेऽपि धारादिवाक्येषु तथा नित्यापेक्षाभावेन वैषम्यम् । न चैन्द्रवायवादितद्धितस्य ‘सास्य देवता' इति विहितस्य सर्वना- मतुल्ययोगक्षेमतया ‘तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा' इत्यत्र तच्छब्दवत्प्रकृतसोमपरा- मर्शकत्वं कि न स्यादिति वाच्यम् । 'सा वैश्वदेवी' इत्यत्र तच्छब्दस्य साकाङ्कस्य — तप्ते पयसि—' इति प्रकृतपरामर्शित्वसंभवेऽप्यैन्द्रवायवादितद्धितस्य द्रव्यवाचकस्य प्रकृतिद्रव्यनिरपेक्षजलादिद्रव्य- समर्पकप्रकृतधारावाक्यत एव जलादिद्रव्यलाभेन शान्ताकाश्तया व्यवहिताभिषवादिवाक्योपस्थित- सोमविषयत्वानुपपत्तेः, धारावाक्यस्य च सोमरसविषयतायाः प्रागेव निरस्तत्वात् । अतः सोमवा- क्ये सोमशब्दस्तत्प्रख्यन्यायेन नामधेयमित्ययुक्तमिति तत्र सोमद्रव्यविशिष्टयागविधिरेवास्थ्यः । इतोऽपि न समुदायानुवाद इत्याह- अचोदकाश्च संस्काराः ॥ १८ ॥ चशब्दो युक्त्यन्तरसमुच्चये । हृदयायैन्द्रवायवादिशब्दसंदर्भाः अचोदकाः यागानां विधानान प्रकृतापेक्षा-क, घ, ङ. 2 समवाय-क, ख, ग.

१८० अध्वरमीमांसाकुतूहलवृत्ती [अधि. ६-७. . . विधायका न भवन्ति, येन पशुसोमवाक्ये तदनुवादके स्याताम् । कितु संस्काराः अवदानग्रहणविधा- यिन एवैते । अविहितेषु च यागेषु केषां समुदायोऽनयेत, अवदानग्रहणमात्रविधानेनैवोभयेषां वाक्यानामुपपत्तेः । संभवति हि 'हृदयादीन्यवदानेन यागयोग्यानि कुर्यात्' 'ऐन्द्रवायवादिग्रहणेन सोमरसं संस्कुर्यात्' इति। तत्र यागाव्यभिचरितावदानस्य देवताविशिष्टग्रहणस्य च यागमन्तरेणानुप- पत्तेः यागापेक्षायाम् 'अग्नीषोमीयं पशुमालभेत' इति ‘सोमेन यजेत' इति च वाक्यं सर्वत्र द्रव्यदेवता- संबन्धानुपपादयद्यागान्तरकल्पनं निरुणद्धि । न चैवं यागावश्यंभावेऽप्याग्नेयादिवाक्ये श्रुतस्य द्रव्य- देवतासंबन्धस्य निर्वाहकत्वेन तत्रैव यथा यागः कल्प्यते एवं हृदयायैन्द्रवायवादिवाक्येष्वेव याग- कल्पनास्तु ; पशुसोमवाक्ये तु तदनुवादके एव ; अन्यथा विद्वद्वाक्यमप्यनुवादक न स्यात् ; पशुसोम- वाक्ययोह्रदयाचैन्द्रवायवादिवाक्यापेक्षितयागविधायकत्ववत्तस्याप्याग्नेयवाक्यापेक्षितयागविधायकत्व संभवादिति वाच्यम् । विशिष्टाभिधानेन पर्यवसितस्य हि वाक्यस्याकाडाबलाद्वाक्यान्तरेण संबन्धः । आग्नेयादिवाक्ये च पुरुषव्यापाराश्रवणाद्विशिष्टभावनाभिधानमेव न पर्यवस्यति । अपर्यवसितस्य च न विद्वद्वाक्येनान्वय इति विशिष्टभावनाविधिपर्यवसानाय पुरुषव्यापाररूपो यागस्तत्रैव कल्प्यते । अतो विद्वद्वाक्यमनुवाद इति युक्तम् । इह त्ववदानग्रहणरूपपुव्यापारश्रवणात्पर्यवसन्नमेवाभिधानम् । किंत्वभिधानानन्तरमवदानदेवतासंबन्धनिर्वाहकापेक्षामात्रमिति पशुसोमवाक्ये अपेक्षितविधानार्थे सं- पद्यते । एवं च श्रुतेनैव निर्वाहोपपत्तौ हृदयाद्यैन्द्रवायवादिवाक्येष्वश्रुतयागकल्पनं न भवतीति लाघवम् । तस्मात्पशुसोमवाक्ये यागविधायके । यदुक्तं सोमवाक्यस्य यागविधायकत्वे देवतानां ग्रहाणां च विकल्पापत्तौ क्रमसमुञ्चय- दर्शनं नोपपद्यत इति, तत्राह- तद्भेदात्कर्मणोऽभ्यासो द्रव्यपृथक्त्वादनर्थक हि स्या दो 'द्रव्यगुणभावात् ॥ १९ ॥ ऐन्द्रवायवादिवाक्येषु 'इन्द्रवायुभ्यामिदं दातव्यम्' 'मित्रावरुणाभ्यामिदं दातव्यम्' इत्येवं तत्तद्देवतोद्देशविशिष्टग्रहणानि श्रुतानि । तत्र प्रतिग्रहणं तत्तद्देवतोद्देशेनान्यदन्यदृष्टमुत्पद्यते । तथाविधग्रहणैश्च द्रव्यमुखेन प्रधानस्योपकार इति स्थितिः । तत्र कर्मणो ग्रहणस्य अभ्यासः पुनः पुनरनुष्ठानम् । ग्रहणानां समुच्चयः स्यादिति यावत् । कुतः । तद्भेदात् देवतासंयोगभेदात् । न हि तत्तद्देवतोद्देशजनितादृष्टसध्रीचीनग्रहणैर्जायमान उपकार एकदेवतासंयोगसध्रीचीनेनैकेन ग्रहणेन संभ- वति । अतो ग्रहणानां समुच्चयः । ननु तावद्देवतासंयुक्तादेकस्मादेव ग्रहणात्तथाविधोपकारः संभव- तीत्यत आह-द्रव्यपृथक्त्वादिति। दशमुष्टिपरिमितसोमलतासंभूतस्यैकधनवसतीवयुदकैः प्रभूतमभि- 1. द्रव्यगुणीभावात्. - सू. १९-२१.] द्वितीयाध्याये द्वितीय. पादः । १८१ वर्धितस्य रसद्रव्यस्य प्रादेशमात्रेषूर्ध्वपात्रेष्वल्पगर्तेषु स्थालीचमसेषु तत्तद्देवतासंयुक्तग्रहणसंस्कारस्य पृथक्त्वावश्यंभावात् । सकृद्रहणे ह्यल्पस्यैव रसस्य किचिदेवतासंयुक्तग्रहणसंस्कारापत्तौ देवतान्त- रश्रवणं परिशिष्टं च रसद्रव्यमनर्थकं स्यात् । ननु देवतासंकल्पस्य ग्रहणं प्रति गुणभूतत्वात्तदनुसा- रेण ग्रहणानामपि भेदाश्रयणमयुक्तमित्यत आह- भेद इति । प्रतिदेवतं ग्रहणभेद एव युक्तः । कुतः । द्रव्यगुणभावात् । देवतासंकल्पस्तावन्न केवलं ग्रहणार्थः, कितु गृह्यमाणद्रव्यार्थः । ग्रहणमपि द्रव्यार्थमेव । एवं चोभयोरपि द्रव्यानुसारेण निवेशो युक्त । कृत्स्नेन दशमुष्टिना सोमेन हि यागः श्रुतः ऐन्द्रवायवादिग्रहणं च श्रुतम् । यदि कृत्स्नस्य ग्रहण कथंचित्सकृदेव स्यात् तर्हि यदेवेन्द्रवायुभ्यां संकल्पितं तदेव 'मित्रावरुणाभ्याम्' इति संकल्प्येत । न चैतद्युज्यते, 'ऐन्द्र- वायवम्' इत्यादिनिरपेक्षतद्धितविरोधात् । यदि चैकदेशस्य ग्रहणं सकृदेव स्यात्तर्हि दशमुष्टि- परिमाणकात्य॑विरोधः । ग्रहणाभ्यासे तु द्रव्यस्य पृथकृतत्वात् 'ऐन्द्रवायवम्' इत्यादि युज्यते । परिमाणकार्यस्याप्यविरोधः। ततश्च यावदेवतं ग्रहणाभ्यास: सिद्ध । तस्मिश्चाभ्यस्यमाने देवता- सबन्धानां यागं विनानुपपत्तेर्यागस्याप्यभ्यासः सिद्धः । तथा च 'आश्विनो दशमो गृह्यते तं तृतीयं जुहोति' इति क्रमसमुच्चयदर्शनमुपपन्नं भवति । हृदयादिविषये समुच्चयदर्शनं तु दशमे तत्समुच्चयस्य वक्ष्यमाणत्वात्तत एव व्यक्तमिति तदत्र सूत्रकृतोपेक्षितम् । यञ्चोक्तं सोमवाक्यस्य यागविधायकत्वे खादिरादिवदेवतानां विकल्प: स्यादिति, तत्राह- संस्कारस्तु न भिद्यते परार्थत्वाव्यस्य गुणभूतत्वात् ॥ २० ॥ खादिरादियूपेषु संस्कारः पशुनियोजनं प्रतियूपं न भिद्यते । नियोजने तेषां समुच्चयो न भवतीति यावत् । कुतः । परार्थत्वात् तेषां पशुनियोजनार्थत्वात् । पशुनियोजनस्य चैकेनैव निष्पन्नत्वेनेतरेषां तदनपेक्षितत्वात् । देवतासंयोगानां तु भिन्नभिन्नादृष्टकार्यकत्वात्समुच्चय इति वैषम्यम् । प्रयोजनं पूर्वपक्षे ऐन्द्रवायवादिवाक्यानां यागविधायकत्वे तेषां यागानां स्वार्थतया विनियुक्तदेवताकत्वाभावलक्षणाव्यक्तत्वाभावेन 'अव्यक्तासु तु सोमस्य' इति न्यायाप्रवृत्तिः, सिद्धान्ते तु तत्प्रवृत्तिः । पशूदाहरणे तु पूर्वपक्षे यागभेदाद्विकृतिष्वेकस्यैव यागस्येतिकर्तव्यताप्राप्तेर्हृदयादिष्वेकेन यागः, सिद्धान्ते सर्वैरित्यादि । इति पशुसोमाधिकरणम् ।। वृत्तोऽभ्यासप्रसङ्गः सापवाद. । इदानीं संख्यया कर्मभेदः प्रस्तूयते। सांग्रहण्यां श्रूयते 'तिन आहुतीर्जुहोति' इति । तत्र किमेको होमो विधीयते, उत बहव इति संशयः। तत्राभ्या- ७. सख्याकृतकर्म- सस्थले आख्यातस्य पुनःश्रुत्या कर्मभेदे सत्यपि संख्यास्थले तदभावान भेदाधिकरणम् । कर्मभेदः, सकृच्छ्रुतस्याख्यातस्यानेकत्र व्यापारायोगात् । ततश्च यथा 1. भिद्येत. - १८२ अध्वरमीमांसाकुतुहलवृत्ती [अधि. ७. प्रयाजानां प्रकृतौ पञ्चसंख्याकत्वेन प्रज्ञातत्वात् तदविरोधाय पशौ श्रुतं प्रयाजैकादशत्वमभ्यासेन संपाद्यम् , तथेहापि स्वपदगताख्यातत प्रथमावगतकमैक्याविरोधाय पदान्तरावगता त्रित्वसंख्या अभ्यासेनैव संपाद्या । इति प्राप्ते, सिद्धान्तयति- 'पृथक्त्वनिवेशित्वात्संख्यया कर्मभेदः स्यात् ॥ २१ ॥ 'तिस्र आहुतीः' इति पदान्तरगतयाप्युत्पत्तिशिष्टया कर्मसमानाधिकरणया संख्यया कर्मभेदः स्यात् । कुतः । पृथक्त्वनिवेशित्वात् । पृथक्त्वेन सहैव निवेष्टुं शीलमस्य पृथक्त्वनिवे- शि तस्य भाव. तस्मात् । 'शरदः कृतार्थता' 'पन्याः कर्तृत्वम्' इत्यादिवत्सामान्ये नपुंसकम् । द्वित्र्यादिसंख्यायाः पृथक्त्वैकार्थसमवायादित्यर्थः ॥ यत्र ह्युत्पत्तिवाक्ये कमैक्यविरोधि पदान्तरं नास्ति तत्रैवाख्यातसकृच्छ्रुतेः कर्मैक्यप्रयोजकता , यथा 'सोमेन यजेत' इत्यानातस्याख्यातस्य न कमैकत्वमर्थ., किंतु भेदनियामकाभावे आख्यातस्य सकृच्छ्रुत्या अर्थात्तदैक्यसिद्धिः । प्रकृतेच 'तिस्रः' इति भेदनियामके सति सकृच्छ्रुतमेवाख्यातं भिन्नान्यपि कर्माणि युगपदेव विधत्त इति नाख्यातसकृच्छ्रवणादेकत्वसिद्धिः । न ह्याख्यातमात्रमेकं वाक्यं येन तन्मात्रजन्यप्रमायां विरोधि- संख्यान्तराभावादाख्यातं कर्मैक्यमवगमयितु प्रभवेत् । ततश्चाख्यातमावस्य प्रामाण्याभावान्न ततः कमैकत्वसिद्धिः । प्रयाजेषु तु प्रकृतौ प्रज्ञातपञ्चसंख्याकेषु विकृतौ चोदकतः प्राप्तेषु तदबाधायैका- दशत्वसंख्या तदभ्यासेनैव पूरयितुमुचिता । न चेह कमैकत्व वाक्यान्तरावगतं येन तदविरोधाया- भ्यासेन त्रित्वसंख्या पूर्वेत । त्रित्वसंख्याविशिष्टतयैव हि होमविधानमत्र क्रियते । तस्मादत्र कर्म- भेद इति वैषम्यम् । 'दर्भपुजीलै. पावयति' इत्यादौ तु संख्यायाः कर्मसामानाधिकरण्याभावा- अ भेदकत्वम् । प्रयोजनं पूर्वपक्षे अभ्यासे सत्यपि कर्मणो भेदाभावादेकमन्त्रत्वाञ्च सकृदेव मन्त्रः प्रयोज्यः, सिद्धान्ते तु कर्मभेदात्प्रतिकर्म मन्त्र आवर्तनीय इति प्राञ्च: । तच्चि- न्त्यम् । तैत्तिरीयके हि 'आमनमस्यामनस्य देवा इति तिस्र आहुतीर्जुहोति' इति श्रुतम् । त्रयश्च मन्त्राः पठिताः । न च तत्र द्वि.स्वाहाकारपाठाह्रौ मन्त्राविति शङ्कयम् , प्रथमस्वाहान्तभागे द्वयोः प्रश्लिष्टपाठात् । 'आमनमस्यामनस्य देवा ये जाताः समनसः' इत्यादिः प्रथमः। 'आमन- मस्यामनस्य देवा ये कुमाराः समनसः' इत्यादिद्वितीयः । तृतीयस्तु 'आमनमस्यामनस्य देवा याः स्त्रियः' इत्यादिः पृथगेव पठितः इति भट्टभास्करभाष्ये स्पष्टम् । अत. कमैकत्वपक्षेऽपि प्रतिहोम- प्रयोगमेकैकमन्त्रप्राप्तेमन्त्रस्यावृत्तेरप्रसक्तत्वात्पूर्वोत्तरपक्षयोर्न फलभेद इति । वस्तुतस्तु 'भुवनस्य पत इति स्थमुखे पश्चाहुतीर्जुहोति' इत्यत्र कमैकत्वे अभ्यासान्तरये सति तत्संपत्त्यै न पुनः प्रयोगः । कर्मभेदे तु पश्चानां मध्ये यस्यान्तरयस्तस्य प्रयोग इत्यादि बोध्यम् । 'भुवनस्य पत इत्यादि 1. पृथक्त्वनिवेशात् 2. विधि. --क, घ, ङ. 3. व्यक्तम्-क, ग, घ, ङ. +. अभ्यासान्तराये-ग.

सू. २१.] द्वितीयाध्याये द्वितीयः पादः । १८३ . द्वादश पञ्चकृत्वो यजुर्वदेत्' इति बोधायनकात्यायनीयाः । अत्र 'द्वादश द्वादशानि जुहोति' इत्यप्युदा- हृतं वार्तिके । द्वादशसंख्याकावयवकान्संघातान्द्वादशसख्यायुक्ताञ्जुहोतीत्यर्थः । ततश्च चतुश्चत्वारिश- दधिकशतं होमा: संपन्नाः । तत्र ' अग्नाविष्णू सजोषसा' इत्यारभ्य ' अन्नं च मे' इत्यतः प्राक्पञ्चत्रिं- शदधिकं शतं मन्त्राः सन्ति । तत्र सख्यासंपत्तये 'कूयवाश्च मे' इति मत्रस्य दशकृत्वोऽभ्यास इति तद्वयाख्यातारः । वस्तुतस्तु नेदमुदाहरणम् । उत्पत्तिवाक्यगता हि संख्या कर्मभेदिका। 'वसोर्धारा जुहोति' इत्युत्पत्तिवाक्यम् । तदुत्पन्नकर्मानुवादेन 'द्वादश द्वादशानि' इति श्रुता संख्या कथं कर्म भिन्द्यात् ; अन्यथा प्रयाजैकादशत्वादीनामपि कर्मभेदकत्वापत्तेः । अत: 'द्वादश द्वाद- शानि इति संख्यासंपत्तिरभ्यासादेव शक्यते साधयितुम् । किच द्वादश द्वादशानि जुहोति' 'अर्धेन्द्राणि जुहोति' 'यज्ञायुधानि जुहोति' इत्यादयः 'वसोर्धारा जुहोति' इत्युत्पन्नहोममत्रावयवान् ‘द्वादश मासाः संवत्सरः सवत्सरेणैवास्मा अन्नमवरुन्द्धे' इत्याद्य- र्थवादैः प्रशंसितुमनुवादा इति भवस्वामिभाष्ये भट्टभास्करभाष्ये च स्पष्टम् । अत: द्वादशानि-' इति नोदाहरणमित्यास्तां तावत् ॥ कचिद्रव्यगतापि संख्या कर्मभेदिका । तथाहि- वाजपेये श्रूयते 'सप्तदश प्राजापत्यान्पशूनालभते' इति । तत्र कि सप्तदशपशुद्रव्यक एको यागः, किं वा एकैकपशुद्रव्यकाः सप्तदश यागा इति संशयः । प्राजापत्यशब्दस्तावत् 'तद्धिताः' इत्यधिकारे 'सास्य देवता' इत्यर्थे 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः' इति विहिततद्धितसंज्ञकण्यप्रत्ययान्त. । तत्र यदि 'अस्य' 'अस्य' इति सप्तदशकृत्व उच्चार्य कृतैकशेषेण 'एषाम्' इति सर्वनाम्ना 'प्रजापति- देवतैषाम्' इति विगृह्य प्रजापतिशब्दात्सप्तदशसु तद्धितेषु कृतेषु तेषां केवलानामेकशेषे सति यः शिष्यते स लुप्ताभिधायी' इति न्यायेन शिष्टस्यैकस्य तद्धितस्य सप्तदशसु वृत्त्या प्रथम बहुत्वेना- न्वितस्य पश्चात्प्रकृतिभूतप्रजापतिशब्देनान्वयः, तदा केवलद्रव्यभेदस्य हृदयादिद्रव्यभेदवद्यागभे- दाप्रयोजकतया सप्तदशभिर्व्यासज्यैकेन प्रजापतिना संबद्धैर्द्रव्यैः कल्प्यमानो याग एक एव स्यात् । यदि तु 'प्रजापतिर्देवतास्य प्राजापत्यः', 'प्राजापत्यश्च प्राजापत्यश्व-' इति सप्तदशकृत्व उच्चार्य तद्धितान्तानामेकशेषः क्रियते, तदा शिष्टस्य प्राजापत्यशब्दस्य सप्तदशसु प्रजापतिविशिष्टद्रव्येषु वृत्त्या प्रथमं प्रकृत्यन्विततद्धितार्थेषु तेषु विशिष्टरूपेषु पश्चाद्वहुत्वान्वयः । ततश्च सप्तदशभिर्द्रव्यदेवतासंबन्धैः कल्प्या यागा: सप्तदशैव स्युरिति भवति सशयः । तत्र कृतैकशेषस्य तद्धितस्यैव पूर्व बहुत्वेनान्वय इति युक्तम् । अस्ति हि केवलतद्धितानामेकशेष गर्गाः' इत्यादौ । गर्गशब्दादेकस्माद्बहूनां यत्रामु- त्पत्तेस्तद्धितमात्रैकशेषस्य ‘सरूपाणाम्-' इति सूत्रे 'तद्राजस्य-' इति सूत्रे च भाष्यकैयटयो- दर्शनात् । न च तद्धितार्थस्य प्रथमं बहुत्वान्वयेऽपि तद्धितस्य देवताविशिष्टद्रव्यवाचित्वेन द्रव्यदेव- तासंबन्धमेदप्रसङ्गान यागैक्यसिद्धिरिति वाच्यम् । 'तद्धितेन हि द्रव्यमात्रमभिधीयते । देवता तु 1. तद्धितो हि द्रव्यमात्रमभिधत्ते-क, घ, .

१८४ अध्वरमीमासाकुतूहलवृत्ती [अधि. ७-८. .. तद्धितोपसंदानात्प्रकृत्यैव प्रतीयते। तथा च तद्धितार्थद्रव्यस्यैव बहुत्वान्वयान्न यागभेदः प्रसज्यते। न च तद्धितमात्रस्यैकशेषेऽपि तद्धितान्तादेव बहुवचनोत्पत्त्या तद्धितस्यैव प्रकृत्या प्रथममन्वयेन भाव्य- मिति वाच्यम् । प्रथमं तद्धितार्थस्य प्रजापतिना देवत्या अन्वयेऽपि विशेष्यमात्रस्यैव बहुत्वान्वयितया विशिष्टस्य तदन्वयाभावेन यागभेदासिद्धेः । प्राजापत्यशब्देन हि देवतासबन्धोपसर्जनं द्रव्यमेव प्राधा- न्येनाभिधीयते । प्रधानत्वात्तस्यैव बहुत्वेनान्वयो युक्तः, न तु देवतासंबन्धस्योपसर्जनस्यापि । यदि च विशिष्टरूपस्य प्रतीतत्वमात्रेणोपसर्जनस्याप्यन्वयः स्यात्तर्हि 'द्वौ' 'त्रयः' इत्यत्रातिप्रसङ्गः । न हि तत्र द्वित्वविशिष्टस्य त्रित्वविशिष्टस्य च द्विवचनबहुवचनाभ्यामन्वयः; तथा सति द्वौ' इति चत्वारः प्रतीयेरन् 'त्रयः' इति नव । अतोऽत्र प्राजापत्यशब्दे विशेष्यभूतद्रव्यमात्रस्य प्रथमं बहु- त्वेनान्वयो युज्यत इति न यागभेदः । न च अत्र यागैक्ये एकस्यैव पशोर्यागसाधनत्वं स्यानेतरेषाम् , प्रकृतौ ' अग्नीषोमीय पशुम्' इत्येकत्वस्योपादेयगतत्वेन विवक्षिततया एकपशुनिष्पन्नानां हृदयाद्यवय- वानां यागसाधनत्वेन इहाप्येकपशुनिष्पन्नानामेव तेषामवयवानां चोदकतः प्राप्तेः यागैक्ये चोदकस्यै- कत्वेन पश्वन्तरेषु तत्प्राप्त्यभावादिति वाच्यम् । इह सप्तदशानां पशूनामुपदेशबलेन तदनुसारेण चोदकतः प्रतिपश्वेकादशावयवप्राप्तेर्वर्णनीयतया सर्वेषां यागसाधनत्वोपपत्तेः । न च सप्तदशपशूप- देशस्य कर्मभेदेऽप्युपपत्त्या न तद्वलेन चोदकस्यान्यथाभावो युक्त इति वाच्यम् । प्रकृतौ ह्येकादशा- वयवप्रकृतिभूतस्य पशोरेव यागसाधनतया एकादशावदानगणस्य पशुधर्मत्वेन साक्षाद्यागधर्म- त्वाभावेनोपाकरणनियोजनादिपशुधर्मवदेकादशावदानगणस्य कर्मैक्येऽपि प्रतिपशुप्राप्तिसंभवेन सर्वे- षां पशूनां यागसाधनत्वोपपत्तेः । किच तद्धितान्तैकशेषेण कर्मभेदे सप्तदश कर्माणि तावन्ति चापूर्वाणि कल्प्यानि । तद्धितमात्रैकशेषे त्वेकमेव कर्म तदपूर्व चेति लाघवम् । इति प्राप्ते, सिद्धा- न्तयति-- पृथक्त्वनिवेशित्वात्संख्यया कर्मभेदः स्यात् । 'प्राजापत्यान्' इति कृततद्धितान्तैक- शेषशब्दनिर्दिष्टसंख्यया प्रजापतिविशिष्टद्रव्यगतया यागभेदः स्यात् । कुतः । पृथक्त्वनिवेशित्वात् तस्याः पृथक्त्वैकार्थसमवायात् । प्रकृतौ तावत् 'एकादशावदानप्रकृतिभूतः पशुर्यागसाधनम्' इति नार्थः, पशोर्ह विष्ट्वाभावात् , हृदयादीनामेव हविष्ट्वात् 'हृदयादिभिः पशुप्रकृतिकर्यागः साधनीयः' इत्येवार्थः । तथा च हृदयादीनामुपाकरणादिवन्न पशुधर्मत्वम् , किंतु यागधर्मत्वमेव । ततश्च चोदकतो विकृतियागोऽप्येकपशुप्रकृतिकहृदयादिभिः साध्य इत्येतावन्मात्रमवगतमिति प्रकृते पशुभेदेऽपि कमैं- क्यादेक एव हृदयादिगणः प्राप्नोति । एवं च एकेन हृदयादिगणेन सर्वेषां पशूनां कथं यागसाधनत्वं शक्येत संपादयितुम्। न च प्रकृतौ पशावेकत्वस्य श्रौतत्वेऽप्यवदानगणे एकपशुनिष्पन्नत्वस्यार्थिकतया तस्यात्रातिदेशाभावेन एकस्य पशोर्हृदयावदानमन्यस्य जिह्वावदानमित्येवमवदानगणप्राप्त्या सर्वे- षां यागसाधनत्वमुपपद्यत इति वाच्यम् । एवमप्येकादशानां पशूनां यागसाधनत्वनिर्वाहसंभवेऽपि तदितरेषां तन्निर्वाहासंभवात् । अतः सर्वेषां पशूना यागसाधनतया प्राजापत्यत्वनिर्वाहाय तद्धिता- सू. २१-२२.] द्वितीयाध्याये द्वितीयः पादः । १८५ , न्तानामेकशेषेण विशिष्टरूपेषु बहुत्वाश्रयणमेव युक्तम् । 'द्वौ' 'त्रयः' इत्यादौ तु शब्दशक्तिस्वाभा- व्यात्प्रत्यययोः प्रकृत्यर्थानुवादकत्वम् । अत एव “प्रातिपदिकार्थसूत्रे संख्यापर्यायवचनग्रहणमुक्तार्थ- त्वेऽपि द्वौ' 'त्रयः' इत्यादौ विभक्तिविधानार्थम्" इति वैयाकरणाः । अनेकादृष्टकल्पना तु प्रामाणिकत्वानिर्दोषा । प्रयोजनं-पूर्वपक्षे सर्वेषां पशूनां यागसाधनत्वस्य व्यासक्ततया 'प्रजापतय एव ते पशवो न मम' इति त्यागानुष्ठानम् ; सिद्धान्ते तु 'प्रजापतय इदम्' इति सप्तदशकृत्वः त्या- गानुष्ठानमिति । याज्ञिकास्तु यागभेदेऽपि 'प्रजापतय इदम्' इति सकृदेव त्यजन्ति । सकृदुचारि- तस्यैव 'प्रजापतय इदम्' इत्यस्य तन्वाभिधानशक्त्या युगपदेव प्रतिद्रव्यं देवतासंबन्धकरणस्य संभवादिति तदाशयः । अत एव चरुपुरोडाशीयविभागमन्त्रे 'इदमिन्द्राग्न्योर्यावापृथिव्योः' इत्यादौ 'इदंशब्दस्तन्त्रं स्यात्' इत्यापस्तम्बसत्याषाढभारद्वाजाः । संकर्षकाण्डेऽप्येवम् । 'एकामिव संस्तुया- समानां देवतां समानार्थामव्यवहितां सकृनिगमेषु' इत्याश्वलायनः । प्रयोजनान्तरमपि वार्तिकादौ व्यक्तम् । इति संख्याधिकरणम् ॥ ज्योतिष्टोमं प्रकृत्य श्रूयते 'अथैष ज्योति: ' अथैष विश्वज्योतिः' 'अथैष सर्वज्योति:' 'एतेन सहस्रदक्षिणेन यजेत' इति । तत्र किं प्रकृतमेव ज्योतिष्टोमं ज्योतिरादिशब्दैरनूद्य सहस्रदक्षिणाख्यो ४. संज्ञाकृतकर्मभेदा- गुणो विधीयते, उत कर्मान्तराण्येव ज्योतिरादिनामकानि सहस्रदक्षिणाविशि- धिकरणम् । ष्टानि विधीयन्त इति सशयः । तत्र द्विव्यादिसंख्याया आश्रयभेदनियमायुक्तं कर्मभेदकत्वम् , न तु नाम्नामपि । ' दर्शपूर्णमासौ' 'साकंप्रस्थायीयः' 'दाक्षायणयज्ञः' इत्यादिना- मभेदे सत्यपि कर्मभेदाभावात् , 'सूर्यः' 'दिवाकरः' 'भास्करः' इत्येवं सूर्यादेरेकस्याप्यनेकनामद- र्शनात् , ज्योतिरादिशब्दानां प्रथमश्रुतैतच्छब्दानुसारित्वेन प्रकृते तेषामर्थान्तरप्रत्यायकत्वानुपपत्तेश्च । अतो ज्योतिरादिशब्दैः प्रकृतज्योतिष्टोमानुवादेन सहस्रदक्षिणागुणविधिः । संभवति हि ज्योतिरा- दिशब्दैोतिष्टोमस्यानुवादः, तेषां तन्नामत्वात् । न च यजिसामानाधिकरण्याभावात्कथं तेषां यागनामत्वमिति वाच्यम् । अथैष ज्योतिः' इत्यत्र ज्योतिरादिशब्दनिर्दिष्टानाम् एतेन' इत्येतच्छ- ब्देनापि ज्योतिरादिरूपेणैव प्रत्यायितत्वेन एतच्छब्दे यजिसामानाधिकरण्यस्य ज्योतिरादिशब्दानां यजिसामानाधिकरण्ये पर्यवसिततया तन्नामताया युक्तत्वात् । भवति हि त्रिवृत्पञ्चदशः सप्तदश एकविंशः, एतानि वा व तानि ज्योतींषि, य एतस्य स्तोमाः' इति त्रिवृदादिस्तोमपरत्वेनावगतो ज्योतिःशब्दस्तद्वतः क्रतोयॊतिष्टोमस्य नाम । एवं विश्वानि ज्योतीषि सर्वाणि ज्योतींषि त्रिवृदादीनि यस्येति विश्वज्योतिःसर्वज्योतिःशब्दावपि । न चाथशब्दबलेन प्रकृतप्रत्यभिज्ञाविच्छेदात्तदनुवादत्वम- युक्तमिति वाच्यम्। नपत्राथशब्दोऽधिकारे वर्तते येन प्रकृतबुद्धिविच्छेदः स्यात् । गुणविधेः प्रकृत- कर्मापेक्षत्वपरोऽत्राथशब्दः, द्वादशशतदक्षिणापेक्षया पक्षान्तरपरिग्रहार्थो वा । एव च ज्योतिरादि- 24 १८६ अध्वरमीमांसाकुतूहलवृत्तौ [अधि. ८-९. - , . शब्दानां न प्रकृतहानिरप्रकृतप्रक्रियाकल्पनापि । तस्मात्प्रकृतज्योतिष्टोमानुवादेन गुणो विधीयते । तदेवं संभवति गुणविधिपरत्वे कर्मान्तराणि तदपूर्वाणि च न युज्यते कल्पयितुम् । इति प्राप्ते, सिद्धान्तयति- संज्ञा चोत्पत्तिसंयोगात् ॥ २२ ॥ चशब्द उक्तसमुच्चये । संख्यावत्संज्ञापि स्वयं भिन्ना सती पृथक्त्वैकार्थसमवायात्कर्मभे- दिका स्यात् । व्याकरणाधिकरणे हि 'अन्यायश्चानेकशब्दत्वम्' इति गुणसूत्रे एकस्यार्थस्यानेक- शब्दत्वं निराकृतम् । ज्योतिष्टोमनामतः परस्परतश्च भिन्नानि नामान्यत्र श्रूयन्त इत्यर्थभेदो वाच्यः । न चैवं सति विद्वद्वाक्येऽपि पौर्णमास्यादिश्रवणात्कर्मान्तरं स्यादिति वाच्यम् । रूपलाभाभावेन बाधकेन तदसंभवात् । न चात्रार्थान्तरत्वे किचिद्वाधकमुपलभामहे । ततश्च संज्ञाश्रुत्या अर्थान्तराव- गमात्प्रकरणविच्छेदे सत्यर्थान्तरकलुषायां च बुद्धावुपनिपतत्' 'सहस्रदक्षिणेन यजेत' इति वाक्यं ज्योतिष्टोमं न गन्तुमुत्सहते । तथा च प्रकृते कर्मणि गुणविध्यसभवान्न प्रकृतहान्यादिदोषः । न च ज्योतिरादिशब्दानां ज्योतिष्टोमनामैकदेशप्रत्यभिज्ञानानामत्वम् , 'वसन्ते वसन्ते ज्योतिषा यजेत' इत्यादौ केवलज्योतिःशब्दस्य ज्योतिष्टोमे प्रयोगदर्शनादिति वाच्यम् । न ह्यवयवसाम्यादेकार्थता युक्ता, अन्यथा 'शाला' 'माला', 'देवदत्तः' 'यज्ञदत्तः', इत्यादीनामप्येकार्थत्वापत्तेः । अतो ज्योतिरादिपदानि समुदायान्तराण्येव । 'वसन्ते वसन्ते ज्योतिषा--' इत्यत्र तु प्रकरणवशात् 'वसन्ते ज्योतिष्टोमेन' इति शाखान्तराञ्च ज्योतिःशब्दो गौणः । किच विवृदादिषु ज्योति:शब्दो वाक्यशे- षादवगम्यमानो यस्य स वाक्यशेषः तत्रैव ज्योतिष्टोमवाक्ये ज्योति:शब्दस्योपचाराद्वृत्तिमवगम- यति, नान्यत्र । अन्यथा 'सिहो माणवकः' इति कचित्सिहशब्दः प्रमाणवशादुपचारेण माण- वके वर्तमानः सिंहमालभेत' इत्यादौ माणवकमपि प्रत्याययेत् । अतो ज्योतिरादिशब्दानां निर्वचनान्तरमवलम्ब्य नामान्तरत्वमेवाश्रयितुं युक्तम् । न च कर्मान्तरत्वे 'अथैषः' इत्येतच्छ- ब्दासामजस्यम् , तस्य प्रकृतपरामर्शित्वादिति वाच्यम् । प्रागप्रस्तुतेऽपि 'एष देवदत्तः' इत्यादावेत- च्छब्दतच्छब्दप्रयोगदर्शनात्तस्य प्रस्तुतपरत्वनियमाभावात् । किंच ज्योतिष्टोमे सहस्रदक्षिणावि- धानमप्यत्रानुपपन्नम् ; तस्य द्वादशशतदक्षिणावरुद्धत्वात् , विकल्पस्य चाष्टदोषदुष्टत्वात् । न च दधिगोदोहनादिवन्नित्यगुणबाधेन फलाय गुणविधिरिति शङ्कयम् , एवमपि ‘अथैष ज्योतिः' इत्या- धानर्थक्यात् । न चानुवादतया सार्थक्यम् , 'एतेन' इत्यनेन धातुना च तत्सिद्धेः । ननु संज्ञायाः कर्मभेदकत्वे दाक्षायणादिसंज्ञाया अपि तथात्वं स्यादित्यत आह-उत्पत्तिसंयोगादिति । उत्पत्तिशिष्टैव संज्ञा कर्मभेदिका। दाक्षायणादिसंज्ञा तु उत्पन्नशिष्टगुणयोगनिबन्धनेत्यग्रिमपादे स्पष्टीभविष्यति । 1, उपनिपातात्. 2. दर्शनेन तस्य-क, घ, ङ. .

सू. २२-२३.] द्वितीयाध्याये द्वितीयः पादः । १८७ सूर्यादित्यभास्करादिबहुनामत्वं तु सूर्यादेरेकत्वेन प्रमाणान्तरसिद्धत्वान्न भेदकम् । तदेवं संज्ञावशा- दत्र कर्मभेदः । अपूर्वान्तरकल्पनापि प्रामाणिकत्वान्निदोषा । न च संज्ञायाः शब्दान्तरत्वाच्छब्दा- न्तराधिकरणेन गतार्थता शङ्कया। धात्वन्तररूपमेव हि शब्दान्तरं भावनानुर चकव्यापाररूपेण स्वार्थमभिधानं स्वार्थानुरक्ताया भावनाया धात्वन्तरानुरक्तभावनातो भेदं बोधयति । संज्ञा तु न भावनानुर जकव्यापाररूपेण स्वार्थ वदति, तस्या. सिद्धरूपाभिधानस्वभावत्वात् । अतः संज्ञा धात्व- र्थभेदमात्रे व्याप्रियते । तद्भेदाच्च भावनाभेद इति संज्ञाशब्दान्तरयोरस्ति भेद इत्यास्तां तावत् । प्रयोजनं तु पूर्वोत्तरपक्षयोः स्पष्टमेव । इति संज्ञाधिकरणम् ।। चातुर्मास्येषु वैश्वदेवपर्वणि 'वैश्वदेव्यामिक्षा' इति विश्वदेवदेवताकामिक्षाद्रव्यकयागं विधायानायते 'वाजिभ्यो वाजिनम्' इति । तत्र ध्यानयनेन घनीभूतं तप्तं पयः 'आमिक्षा' इत्यु- ९. देवताभेदकृतकर्म- च्यते । तदनुनिष्पन्नं तक्रवद्र्वीभूतं द्रव्यम् ‘वाजिनम्' इत्युच्यते । तत्र भेदाधिकरणम् । 'वाजिभ्यो वाजिनम्' इति कि पूर्वस्मिन्नेवामिक्षायागे 'वाजिनम्' इति वाजिनद्रव्यलक्षणगुणविधिः, उत वाजिदेवताकवाजिनद्रव्यकयागान्तरविधिरिति संशयः । 'वाजि- नम्' 'वाजिनः' इति उभयं द्रव्यदेवतं पूर्वकर्मणि विधीयत इति कोटिस्तु पौर्णमास्यधिकरणे 'गुणस्तु श्रुतिसंयोगात्' 'चोदना वा गुणानां युगपच्छास्त्रात्' इति सूत्राभ्यां प्रमाणान्तरप्राप्तकर्म- ण्यनेकगुणविधानस प्रसङ्गानिराकृतत्वान्नोन्मेषमर्हति । तत्र ‘वाजमन्नमामिक्षारूपमेषाम्' इत्यामिक्षा- संबन्धिनो विश्वान्देवान् ‘वाजिभ्य.' इत्यनूद्य तत्र वाजिनलक्षणगुणविधिः । इनिप्रत्ययस्य च मत्व- र्थीयस्य सर्वनामार्थे विहितत्वात्सर्वनाम्नश्च सिद्धविषयकत्वात् अनुवादस्य सति संभवे संनिहितगा- मित्वाच्च वाजिभ्यः' इति संनिहितविश्वदेवमात्रस्यानुवादः, न तु पुरोडाशाद्यन्नवतामग्न्यादी- नामपीति नातिप्रसङ्गः । न च वाजिशब्दस्य विश्वदेवपरत्वेऽपि न विश्वदेवत्वेन तेषां देवतात्वं किंतु वाजित्वेन, ततश्च स्तुतशस्त्राधिकरणगतेन्द्रमहेन्द्रन्यायेन देवताभेदान्नास्ति पूर्वकर्मसमवाय इति वाच्यम् । विश्वेदेवा हि पूर्वकर्मणि देवतात्वावच्छिन्नविश्वदेवत्वरूपेणोपस्थिताः 'वाजिभ्यः इत्यनेनापि देवतात्वप्रयोजकविश्वदेवत्वरूपेणैव प्रत्यभिज्ञायन्त इति विश्वदेवत्वरूपेणैव वाजिन- द्रव्यसंबन्धो न वाजित्वेन । तेषां च विश्वेषां देवानां वाजिनस्य च प्रतीयमानसंबन्धस्य यागं विनानुपपत्त्या यागापेक्षायां प्रकृतयागीयद्रव्यरूपामिक्षापरवाजिशब्दमहिनोपस्थितप्रकृता- मिक्षायाग एव तन्निर्वाहकतया कल्प्यते, वाजिभ्यो विश्वदेवेभ्यो यजेतेति यत्तत्र वाजिनं द्रव्यमिति। तदेवं वाजिशब्दोपस्थितविश्वदेवदेवतामुखेन वाजिनद्रव्यं विहितं भवतीति नात्रेन्द्रमहेन्द्रन्याया- वतारः । न चैवं सति वाजिशब्दस्य अश्वे रूढस्य विश्वदेवपरत्वे रूढिपरित्यागः स्यादिति वाच्यम् । 1. 'वाजिभ्यः'-ख, ग, घ, १८८ अध्वरमीमांसाकुतूहलवृत्ती [अधि. ९-१०. प्रकृ- प्रकृतकर्मणि गुणमात्रविधानलाघवलाभेन प्रकृतहान्यप्रकृतप्रक्रियाकल्पनापूर्वान्तरकल्पनाविशिष्टविधि- गौरवभयेन च रूढिपरित्यागस्य युक्तत्वात् । न चोत्पत्तावामिक्षायुक्ततयैव पूर्वकर्मणोऽवगतत्वेन तस्य द्रव्यान्तराकाहाविरहान्न तत्र वाजिनद्रव्यस्य निवेशसंभव इति वाच्यम् । न हि वाजिनवाक्येन पूर्वकर्मण आमिक्षायुक्तस्यानुवादः, येनोत्पत्तिशिष्टद्रव्यान्तरावरुद्धत्वाद्वाजिनगुणो न तत्र निवेशं लभेत । कित्वा- मिक्षावाक्ये द्रव्यदेवतासंबन्धबलात् 'आमिक्षया यजेत' इत्येवं यजतिपदमेकं कल्पितम् । तेन च केवलयजतिपदेन कर्ममानमामिक्षारूपगुणसंबन्धान्निष्कृष्यानूद्यत इति तत्र वाजिनगुणो निवेष्टुमर्हति । न च ' यजेत' इत्यनेन स्वरूपमात्रानुवादसंभवेऽपि वस्तुतस्तस्य कर्मणो गुणान्तरावरुद्धत्वान्न वाजि- नान्वयसभव इति वाच्यम् । आकाङ्क्षा हि न वस्तुकृता, कित्वभिधानकृता । अन्यथा पुरोडाशक- पालादेः पुरोडाशसंबन्धान्निष्कृष्य स्वरूपमात्रेणाभिहितस्य तुषोपवापाद्यन्वयो न स्यात् । यागस्वरू- पमात्रं चात्र यजिनाभिधीयत इति भवति तस्य द्रव्यान्तरसंबन्धाकाडा । अतो यागस्वरूपमावे वाजिनद्रव्यस्यान्वयसंभवः । न चैवम् ‘यजति' 'ददाति' इत्यत्र यागान्विताया अपि भावनाया निष्कृष्य स्वरूपेणाभिधाने सति तत्र दानान्वयसभवादेकधात्वान्वितभावनायां न धात्वर्थान्तरान्व- यसंभव इति शब्दान्तराधिकरणोक्तविरोधः स्यादिति वाच्यम् । भावनायाः केवलेन प्रत्य- येनानुवादस्य कर्तुमशक्यतया प्रकृतियुक्तेनैव प्रत्ययेन तदनुवादस्य कर्तव्यत्वेन तत्र त्यर्थानुरक्ताया एव भावनाया अनुवाद्यतया स्वरूपमात्रेण तदनुवादासंभवेऽप्यत्र कल्पित- यजतिना पदान्तरेण गुणविनिष्कृष्टमेव पूर्वकर्मावगम्यत इत्यविरोधात् । ततश्चामिक्षासंबन्धाद्विनि- कृष्य यागस्वरूपानुवादेन वाजिनगुणविधानसभवान्नास्त्युत्पत्त्युत्पन्नशिष्टयोर्विशेषः । न चामि- क्षादेवतासंबन्धस्य तद्धितश्रुत्या गम्यमानस्य वाक्यगम्याद्वाजिनदेवतासंबन्धादलीयस्त्वमिति वाच्यम् । तद्धितेन सामान्यरूपेणैव द्रव्यमभिधीयते । आमिक्षात्वेन त्वभिधानं पदान्तरेणैवेत्यामिक्षासंबन्ध- स्यापि वाक्यगम्यत्वात् । तथा चामिक्षावाजिनयोस्तुल्यबलत्वादेकस्मिन्नेव यागे विकल्पः । इति प्राप्ते, सिद्धान्तयति- गुणश्चापूर्वसंयोगे वाक्ययोः समत्वात् ॥ २३ ॥ चशब्द उक्तसमुच्चये । संज्ञावत् गुणोऽपि अपूर्वसंयोगे पूर्वस्मिन्कर्मणि निवेशासंभवे सति स्वनिवेशक्षमकर्मान्तरोत्पत्तिपरतामवगमयन् कर्मभेदको भवति । कथं पूर्वकर्मणि निवेशासंभवः । वाक्ययोः समत्वात् मिथोऽनपेक्षत्वात् ॥ अनुवादकतया एकस्य वाक्यस्य इतरापेक्षायां हि पूर्वकर्मणि निवेश: स्यात् । न त्विह तथास्ति । पूर्वकर्मणः प्रबलगुणावरुद्धत्वेन तस्य गुणान्तरविधाने अनुवादासंभवात् , आमिक्षाया उत्पत्तिशिष्टत्वेन बलवत्त्वात् , वाजिनस्य चोत्पन्नशिष्टत्वेन दुर्बल- त्वात् । न चामिक्षासंबन्धाद्विनिष्कृष्य यागमात्रानुवादेन वाजिनविधिरविरुद्ध इति वाच्यम् ।

सू. २३-२४.] द्वितीयाध्याये द्वितीयः पादः । १८९ अनुवादस्य पुरोवादसापेक्षत्वेन पुरोवादपर्यालोचनस्यावश्यकतया तस्मिन्पर्यालोच्यमाने गुणयुक्तस्यैव कर्मणो बुद्धौ विपरिवृत्त्या तद्दशायां निष्कृष्याभिहितस्यापि कर्मणो गुणान्तराकाहाविरहात्, एकगु- णयुक्ततया बुद्धौ विपरिवृत्तेर्गुणान्तराकाङ्क्षाप्रतिबन्धात् । पुरोडाशकपाले त्वगत्या कथंचिनिष्कृष्या- भिधानेनाकाङ्कोत्थाप्यते। न विहागतिकत्वम् , विशिष्टकर्मान्तरविधिसभवात् । किच तद्धितान्तैकप- दश्रुत्या चोदितत्वादामिक्षा प्रबला । वाजिनं तु पदान्तरगम्यत्वेन वाक्यप्रमाणगम्यत्वाहुर्बलम् । न चामिक्षात्वेन तदभिधानं पदान्तरकृतमिति वाच्यम् । सर्वनामार्थे विहिततद्धितस्य देवतासंबन्धो- पसर्जनद्रव्यवाचिन: पदान्तरसंनिधाने सति तदुपस्थाप्यविशेष एव पर्यवसानेन तद्धितेनैवामिक्षा- द्रव्यस्योपस्थिततया श्रौतत्वानपायात् । तदुक्तं वार्तिके 'आमिक्षां देवतायुक्तां वदत्येवैष तद्धितः । आमिक्षापदसांनिध्यात्तस्यैव विषयार्पणम्' इत्यादिना । मास्तु वा तद्धितस्य द्रव्यविशेषवाचित्वम् । तथापि चतुर्थ्यास्तद्धितो बलीयान् । तद्धितेन हि द्रव्यं प्रतीयते सामान्यरूपेण । अतो युज्यते द्रव्यस्य देवतायाः संबन्धस्य च तद्धितान्तपदात्प्रतीतिः । चतुझं तु न सामान्यरूपेणापि द्रव्यं प्रतीयते । अतस्तत्र दूरेतरां द्रव्यदेवतासंबन्धप्रतीतिः । सा तु पदान्तरादेवेति चतुर्थ्यास्तद्धितो बलीयान् । तदुक्तं वार्तिके 'यथेहान्यपदार्थोऽपि तद्धितेऽन्तर्गतः स्मृतः । न संप्रदानमस्येति चतुथ्र्यैवं प्रतीयते' इत्यादिना । तथा च आमिक्षावाजिनयोरतुल्यबलत्वेन एकस्मिन्नेव यागे विकल्पेनापि समावेशासं- भवाद्वाजिनगुणः कर्मभेदकः । प्रयोजनं--पूर्वपक्षे वाजिनामिक्षयोरेकस्मिन्विश्वदेवदेवताके यागे विकल्पे वाजिदेवताकं वाजिनद्रव्यकं यागान्तरं नास्ति , सिद्धान्ते तु विश्वदेवदेवताकामिक्षाद्रव्य- कात्पूर्वयागाद्वाजिदेवताकवाजिनद्रव्यकं यागान्तरमिति स्पष्टमेव । वस्तुतस्तु ' अनिर्वायुः सूर्यः, ते वै वाजिनः' इत्यादिवाक्यशेषतो वाजिशब्दस्य त्रिवृञ्चश्ववालादिशब्दवत्पदार्थान्तरपरतया निश्चित- त्वेन तस्य विश्वदेवपरत्वमुखेन तद्यागानुवादकतामवलम्ब्य कथं पूर्वपक्षप्रवृत्तिः । अत उदाहरणान्त- रमन्वेषणीयम् । इति गुणाधिकरणम् ॥ 'अग्निहोत्रं जुहोति' इत्येतत्संनिधौ ‘दना जुहोति' ‘पयसा जुहोति' इत्यादि श्रुतम् । तत्र दध्यादिवाक्यानि कि कर्मान्तरपराणि उत गुणविधय इति संशयः । तत्र एकैकस्माद्वाक्यादे- कैकस्य गुणस्योपस्थित्या सर्वेषां युगपदन्वयासभवाद्यस्य प्रथममन्वयस्तदवरुद्धे पूर्वाधिकरणन्याये- नान्वयासंभवाद्दध्यादिगुणकानि कर्मान्तराणि । इति प्राप्ते, सिद्धान्तयति- अगुणे तु कर्मशब्दे गुणस्तत्र प्रतीत ॥ २४ ॥ अगुणे गुणशब्दरहिते कर्मशब्दे अग्निहोत्रवाक्ये सति तत्र तदुत्पन्ने कर्मणि ध्यादिवाक्यैः 1. विकल्पो-क, ग घ, ङ.

१९० अध्वरमीमासाकुतूहलवृत्तौ [अधि. १०-११. गुण प्रतीयेत विधीयेत । तुशब्द पूर्वस्माद्वैषम्यद्योतनार्थ । अग्निहोत्रवाक्योत्पन्ननिर्गुणकर्मानु- १० द्रव्यविशेषानुक्ति वादेन युगपद्दध्यादिगुणविधाने सति एकगुणविशिष्टतया कर्मणो बुद्धावपरि- कृतकमैक्या वृत्तेर्न पूर्वाधिकरणप्रवृत्ति । एकान्वयानन्तरमपरान्वयनियमोऽप्यसिद्ध , सर्वे- धिकरणम् । षां युगपदुपस्थितत्वेन युगपदेवान्वयात् । प्रयोजन-पूर्वपक्षे एकैकदध्यादि- विशिष्टाग्निहोत्रकर्मणामनुष्ठानम् , सिद्धान्ते तु एकस्यैव विकल्पितदध्यादिद्रव्यकस्येति । वस्तुतस्तु आधाराग्निहोत्राधिकरणे 'चोदना वा शब्दार्थस्य प्रयोगभूतत्वात्तत्सनिधेर्गुणार्थेन पुन श्रुति' इति सूत्रादेवागुणकर्मसनिधौ गुणश्रुतिर्गुणविधानार्थेत्यवगमादिदमधिकरणमनर्थकम् । एवं च गुणरहिते कर्मण्युत्पन्ने दध्यादिगुणविधि सभवति, न त्वामिक्षागुणविशिष्टयागविधौ सति तत्र वाजिनगुण- विधि इति प्रत्युदाहरणपरमेवेद सूत्रमिति केचित् । इति गुणाधिकरणापवाद ॥ - 'अग्निहोत्र जुहोति' इति प्रकृत्य आमनन्ति, ‘दनेन्द्रियकामस्य जुहुयात्' इति । किमिह दधिसाधनकमिन्द्रियफलक कर्मान्तर विधीयते, उताग्निहोत्रमाश्रित्य दधिगुणमात्र फलाय विधीयत इति सशय । तत्र पूर्वपक्षयति- फलश्रुतेस्तु कर्म स्यात्फलस्य कर्मयोगित्वात् ॥ २५ ॥ तुशब्द पूर्वाधिकरणवैषम्ये । अग्निहोत्रादन्यदेव दधिविशिष्टमिन्द्रियफलक होमकर्म स्यात् । कुत । फलश्रुते इन्द्रियस्य फलस्य श्रवणात् । नन्वत्र दधिगुण एव फलाय विधीयताम् , ११ दध्यादिद्रव्यसफल- तत्राह- फलस्य कर्मयोगित्वादिति । फलस्य धात्वर्थभाव्यत्वादित्यर्थ ॥ त्वाधिकरणम् । फलभावनाया धात्वर्थस्यैव हि समानपदोपात्तस्य करणत्वम् , न तूपपदार्थ- स्येति प्रपश्चित भावार्थाधिकरणे । अतो नात्र दधिगुण फलाय विधीयत इति शक्यते वक्तुम् । न च ' अगुणे तु कर्मशब्दे गुणस्तव प्रतीयेत' इति पूर्वसूत्रे निर्गुणकर्मसनिधौ सगुणश्रुतेर्गुणविधाना- र्थत्वोक्तर्नेह कर्मान्तरविधिरिति वाच्यम् । फलाय गुणविधिरिति हि वदन्प्रष्टव्य कि दधिगुण फल एव विधीयते, उत होमेऽपि । नान्त्य 'दध्ना फल भावयेत् ' 'दना होम भावयेत्' इति वाक्य- भेदापत्ते । नाद्य , जुहोतेरानर्थक्यात् । न च 'दध्ना जुहोति' इति वाक्यप्राप्तदधिसबन्धानुवादेन प्रकृतहोमस्यैव फलविधिरस्त्विति वाच्यम् । कर्मानुवादो झुत्पत्तिवाक्यमात्रमपेक्षते, न तु गुणवाक्य- मपि। ततश्च दधिप्राप्त्यनन्तर फलविधिरित्यत्र प्रमाणाभावेन कथ दधिवाक्यप्राप्तदधिसबन्धानुवादेन होमस्य फले विधि । अनेनैव वाक्येन दन फले होमे च विधौ वाक्यभेद । फलायैव तद्विधौ जुहोतेरानर्थक्यम् । न च होममाश्रित्य फलाय दधिविधानाय प्रकरणप्राप्तहोमानुवादकत्वान्न जुहोते- वैयर्थ्य नापि वाक्यभेद इति वाच्यम् । अकरणेन हि होम एव प्राप्तो न तु होमसाधनत्वरूपतदा- - सू. २५-२६.] द्वितीयाध्याये द्वितीयः पादः । १९१ श्रितत्वमपि, ‘दना जुहोति' इति वाक्यप्रवृत्त्यनन्तरमेव इन्द्रियकामवाक्यप्रवृत्तौ प्रमाणाभावात् । ततश्च दधिहोमयोः प्रतीयमानक्रियाकारकसंबन्धस्यात्रानुवादासंभवात्तस्य सर्वथा परित्याग एव कृतः स्यात् । तथा च फलार्थतया होमसाधनत्वरूपहोमाश्रिततया च दधि विधेयमिति वाक्यभेदो दुर्वारः। अतः प्रकृतकर्मणि दधिगुणविधानासंभवात्ततोऽन्यो दधिविशिष्टो होम फलाय विधीयते । इति प्राप्ते, सिद्धान्तयति- अतुल्यत्वात्तु वाक्ययोर्गुणे तस्य प्रतीयेत ॥ २६ ॥ तुशब्दः पूर्वपक्षव्यावृत्तौ । न कर्मान्तरमिन्द्रियकामवाक्ये विधीयते, कितु तस्य वाक्यस्य गुणविधौ सामर्थ्य प्रतीयेत । कुतः । वाक्ययोः अतुल्यत्वात् 'अग्निहोत्रं जुहु- यात्स्वर्गकामः' इति वाक्यस्य फले धात्वर्थविधायकतया इन्द्रियकामवाक्यस्य च फले गुण- विधायकतया वैलक्षण्यस्यावश्यकत्वात् ॥ सर्वत्र हि भावनैव विधेया। तस्यां च फलवत्यां धात्वर्थः करणीभवति, यत्रासौ न प्राप्तो विधेयान्तरं च नास्ति, यथा स्वर्गकामवाक्ये । इन्द्रियकामवाक्ये तु धात्वर्थस्य प्राप्तत्वाद्विधेयान्तरस्य दधिगुणस्य सद्भावाच्च धात्वर्थादुत्ता- रिता विधिशक्तिरुपपदार्थेऽपि गुणे विश्राम्यति । न चैकपदोपात्तत्वरूपश्रुतेर्बलीयस्त्वात्कर्मान्तर- विधिरेव युक्त इति वाच्यम् । प्रकृतहानाप्रकृतकल्पनविशिष्टविधिगौरवमत्वर्थलक्षणादिबहुदोषप्रसङ्गेन श्रुतिमप्युल्लङ्घथ उपपदार्थगुणविधानस्यैवाश्रयितुं युक्तत्वात् । न च 'दध्ना जुहोति' इति दनः प्राप्तत्वात्तद्विधानमनर्थकमिति वाच्यम् । क्रत्वर्थतया हि तेन वाक्येन दधिविधानम् । इन्द्रियकाम- वाक्येन तु फलार्थतया तद्विधानम् । तथा च वक्ष्यति चतुर्थस्य तृतीये 'एकस्य तूभयत्वे संयोग- पृथक्त्वम्' इति । संनिधिरूपप्रकरणप्राप्तहोमानुवादेन होमाश्रितस्य दध्नो विधानाज्जुहोतेराश्रयतयान्वयः संभवति । न च होमाश्रितत्वं होमसाधनत्वमेव ; दध्नो होमस्य च न साध्यसाधनभावः प्रकरणाद- वगत: येनाश्रयतया होमोऽनूघेत; होमसाधनत्वरूपहोमाश्रितत्वस्याप्यनेनैव विधाने वाक्यभेद इति वाच्यम् । 'दना' इति तृतीयाश्रुत्या हि कारकभूत दधि फलोद्देशेन जुहोतिपरप्रत्ययेन विधीयते । तत्र च कारकस्य क्रियापेक्षत्वादपेक्षितक्रियासमर्पणार्थ, केवलस्य प्रत्ययस्य प्रयोगानहत्वात्तत्प्रयोगार्थ च यस्मिन्कस्मिंश्चित् धातौ प्रयोक्तव्ये जुहोतिः प्रयुज्यते, तदर्थस्य संनिहितत्वेनानुवादसंभवात् । न तु धात्वन्तरार्थस्य, तस्याप्राप्तत्वात् ; तस्यापि विधाने वाक्यभेदापत्तेः । एवं च ‘दना' इति तृतीयया प्रतीयमानं कारकत्वं क्रियानिरूपितमिति क्रियाविशेषापेक्षायां संनिधानाद्धोमक्रियानिरूपि- तमित्यवगमाक्रियाकारकभावेन दध्यन्वितो होमो जुहोतिनानूद्यते न तु विधीयत इति वाक्यभेदं विनैव संभवति जुहोत्यन्वयः । एकत्वादिविशिष्टपशोरिव दधिविशिष्टकारकविधानाञ्च न वाक्यभेदः । यथा चैतत्तथा ग्रहैकत्वाधिकरणे स्फुटीभविष्यति । न च धात्वर्थस्य क्रियात्मकत्वाभावान जुहोतेः 1. फलवाक्यात्-क.

१९२ अध्वरमीमांसाकुतूहलवृत्ती [अधि. ११-१२. कारकान्वयः; एवं च 'दध्ना' इति तृतीयावगतं कारकत्वं न होमापेक्ष किंतु फलभावनापेक्षमेव; तथा च केवलदन एव फले विधानं न तु करणभूतस्येति नोक्तप्रकारेण जुहोत्यन्वय इति वाच्यम् । करणत्वस्य फलभावनापेक्षत्वेऽपि दनः सिद्धस्वभावस्य कर्तृव्यापारविषयत्वाभावेन फलभावनाकरण- त्वस्य धात्वर्थमुखेनैव वक्तव्यताया आवश्यकत्वात्तदपेक्षस्यैव करणत्वस्य विभक्त्यभिधेयत्वात् । यद्यपि धात्वर्थो न कारकान्वययोग्यः, तथापि तत्कर्मकभावना योग्या। सा च प्रकरणादुपस्थिता । तन्निरूपितं करणत्वं विभक्त्यभिधेयं भावनामुखेन धात्वर्थ प्रति करणत्वे विश्राम्यति । न च तृती- यावगतकरणत्वस्य होमापेक्षत्वे फलभावनाकरणत्वं गुणस्य न स्यात् , तत्प्रत्यायकाभावादिति वाच्यम् । यागादिवद्गुणस्यापि समभिव्याहारत एव फलभावनाकरणत्वलाभसंभवात् । एवं च विधि- व्यापार विनैव संनिधिलक्षणप्रकरणेन तृतीयान्तपदश्रुत्या च ‘होमे कारकभूतं दधि' इत्येतावतोऽर्थस्य सिद्धौ ‘तदिन्द्रियकामस्य' इत्येतावन्मात्र एव विधेापार इति न वाक्यभेदः । तस्मात्प्रकृतहोम- माश्रित्य फलाय गुणविधिरिति स्थितम् । केचित्तु ' दधिहोमयोः क्रियाकारकभावेन संबन्धो लोक- सिद्धः, ततश्च दधिहोमसंबन्धे विधिव्यापाराभावाद्धोमाश्रितदधिविधौ न वाक्यभेदः' इत्याहुः । तदयुक्तम् । लोकतो हि दधिहोमयोः क्रियाकारकभावस्तावत्स्वरूपेणैव सिद्धः, न तु कर्तव्यतयापि । तथा च सति फलार्थिनो नियमेन दधिहोमसंबन्धोपादानं न स्यात् । ततश्च तस्य कर्तव्यता फल- संबन्धश्च विधीयत इति वाक्यभेदः । न च होमाश्रितस्य दनः फले विधाने सति होमसंबन्धाभावे होमसंबन्धावस्थापन्नहोमाश्रितत्वासंपत्तेरर्थादेव तत्कर्तव्यतासिद्धौ तद्विधानाभावान वाक्यभेद इति वाच्यम् । एवं सति ‘सोमेन यजेत' इत्यादावपि सोमयागयोः क्रियाकारकभावसंबन्धमादाय केव- लयागविधेर्वक्तुं शक्यतया विशिष्टविधिमात्रोच्छेदापत्तेः इत्यास्तां तावत्। प्रयोजनं--पूर्वपक्षे नैयमि- काग्निहोत्रव्यतिरिक्तमनियतकालं दधिसाधनकं होमान्तरं सकृदेव दर्वीहोमत्वादपूर्व क्रियते, सिद्धान्ते तु सायंप्रातरग्निहोत्रहोमे दधिप्रयोग इति दिक् । इतीन्द्रियकामाधिकरणम् ॥ . त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेत' इत्यभिष्टुतं प्रकृत्य 'वारवन्तीयममिष्टोमसाम कार्यम्' इति च गुणं विधायेदमानायते 'एतस्यैव १२. वारवन्तीयादीना रेवतीषु वारवन्तीयमनिष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत' इति । कर्मान्तरता. त्रिवृत् स्तोत्रीयानवकस्तोमकः अग्निष्टोमाख्यस्तोत्रेण संस्थाप्यः अमिष्टुन्नामकः धिकरणम् । कश्चित्क्रतुः । तस्य क्रतोरग्निष्टोमसाम प्रकृतिवदेव 'यज्ञायज्ञा वो अग्नये' इत्याग्नेयीवृक्षु प्राप्तम् (वायव्यासु' इत्यनेनापोद्यते । प्रकृतितो यद्यप्येकविंशस्तोमकमेव तत्प्राप्त तथापि 'त्रिवृदग्निष्टोमः' इत्यनेन त्रिवृत्त्वेन तदपोदितमिति 'एकविंशम्' इत्यनेन प्रतिप्रसूयते । 1. 'आग्नेयीभ्यो वायव्यासु'-ख, ग.

सू. २६.] द्वितीयाध्याये द्वितीयः पाद. ! प्रकृतितो यज्ञायज्ञीयाख्यमनिष्टोमसाम प्राप्तम् 'वारवन्तीयम्' इत्यनेनापोद्यते । वारवन्तीयं साम- विशेषः । रेवतीषु रेशब्दघटितासु 'रेवतीर्न' इत्यादिषु ऋक्षु । अनेन वायव्या अपोद्यन्ते । तत्र 'एतस्यैव रेवतीषु-' इति वाक्ये पूर्वस्मिन्नेवामिष्टुत्क्रती रेवत्याधारवारवन्तीयगुणः पशुफलाय विधीयते, उत गुणविशिष्टं कर्मान्तरमिति सशयः । तत्र धात्वर्थस्य यागस्य 'ब्रह्मवर्चसकामो यजेत' इति पूर्ववाक्यगतयजिनैव प्राप्तत्वात्प्रकृतहानाप्रकृतकल्पनविशिष्टविधिगौरवदोषापाताच पूर्वा- धिकरणन्यायेन पूर्वकर्मणि गुणविधानमेव युक्तमाश्रयितुम् । न च गुणसाध्यस्यैवाश्रयत्वात् यागस्य च द्रव्यदेवतासाधनकस्य सामसाध्यत्वाभावान्नाश्रयत्वसभव इति वाच्यम् । तृतीयाद्यपादे 'आनर्थक्यात्त- दङ्गेषु' इत्यधिकरणे — सप्तदशारनिर्वाजपेयस्य यूपः' इति सप्तदशारनित्वस्य वाजपेये साक्षादन्वयासं- भवाद्वाजपेयाङ्गभूतपशुयागाङ्गयूपद्वारा अन्वय इति वक्ष्यमाणन्यायेन क्रत्वङ्गस्तोत्रनिष्पादनद्वारा याग- साधनत्वोपपत्तेः । न च रेवतीवारवन्तीयसंबन्धः तस्य च फलसंबन्ध इत्यनेकगुणविधाने वाक्यभेद इति वाच्यम् । न ह्यनेकार्थविधानमात्रेण वाक्यभेद., तर्हि विशिष्टविधिमात्रोच्छेदापत्तेः। कितु यत्रा- नेकार्थविधिव्यापारं विना विशेषणवैशिष्टयस्यासिद्धिस्तत्र विशेषणविशेष्यसंबन्धसिद्धयर्थ विशिष्ट- विधानार्थं च विधायकप्रत्ययस्य व्यापारभेदाद्विध्यावृत्त्या वाक्यभेदः, यथा पौर्णमास्यधिकरणे विद्वद्वाक्यविहितकर्मण्याग्नेयादिवाक्यैर्गुणविधिपः । प्रकृते तु विधिव्यापारं विना कृत्वाशब्देनैव वारवन्तीयस्य रेवतीसंबन्धसिद्धथा तत्र विधिव्यापाराभावेन कृत्वाशब्दान्तरपदसदर्भणोपस्थितस्य रेवत्याधारवारवन्तीयस्य फलसंबन्धमात्र एव विधेाप्रियमाणतया विध्यावृत्त्यभावान वाक्यभेदः । अन्यथा 'त्रिवृदग्निष्टुत्' इत्यादिवाक्येऽपि वायव्यास्वेकविशमितिगुणद्वयसंबन्धः तद्विशिष्टस्य च क्रतोः फले विधानमिति वाक्यभेदः स्यात् , तत्र कृत्वान्तसंदर्भणोपस्थितस्य तावद्गुणविशिष्टस्य यागस्य फले विधानात् । वाक्यभेदपरिहारस्तु प्रकृतेऽपि तुल्यः। न च 'रेवत्याधारवारवन्तीयं पशुसाधनम्' इत्यस्य एतस्य यागस्य वारवन्तीयम्' इति षष्ठयर्थयापि विधेयत्वाद्वाक्यभेदः शङ्कयः, षष्ठयन्तैतच्छ- ब्दस्य फलवता गुणेन यागस्य संनिधिलब्धाश्रयाश्रयिभावसबन्धानुवादकत्वात् । तृतीयान्तैतच्छब्दस्तु विधेयगुणप्रतिपादकतया विधिशेषत्वान्नानुवादकः । न च विधेयगुणस्य वारवन्तीयशब्देनैव लाभा- त्तद्वैयर्थ्यमिति वाच्यम् । 'वारवन्तीयम्' इति द्वितीयान्तेन प्रधानतयोपस्थितस्य वारवन्तीयस्य फलभावनाकरणत्वान्वयायोग्यत्वेन तद्योग्यतासिद्धयर्थ तस्य तृतीयान्तैतच्छब्देन करणतया निर्देशा- वश्यंभावात् । अमिष्टोमसामशब्दोऽप्यानर्थक्यन्यायप्राप्तस्तोत्रसंबन्धानुवादः । अतोऽमिष्टोमाख्यस्तो- असाधनत्वविधानतोऽपि न वाक्यभेदप्रसक्तिः । न चाग्निष्टुति ऋतौ स्तोत्रान्तराणामपि सद्भावात्तेषाम- पि चोदकाद्विपरिवृत्त्यविशेषाद्विशिष्याग्निष्टोमस्तोत्रसंबन्धानुवादायोगात्स्तोत्रान्तरपरिसंख्यानाय सोड- वश्यं विधेयः । तथा च ‘वारवन्तीयेन पशून्कुर्यादग्निष्टोमस्तोत्रसंबन्धिना' इति वाक्यभेद इति वाच्यम् । चोदकतः स्तोबान्तरोपस्थितेः प्रागेव वारवन्तीयमग्निष्टोमसाम कार्यम्' इति ऋत्वर्थपू- 1. विशिष्टस्यापि. 2. 'वायच्यास्वमिष्टोमसाम कार्य वारवन्तीयं- ख, ग. . - [अधि. १२-१३. १९४ अध्वरमीमांसाकुतूहलवृत्ती - , वाक्ये शब्देनोपस्थितस्याग्निष्टोमस्तोत्रस्यैव बुद्धौ विपरिवृत्त्या तस्यैवानुवादौचित्यात् । तस्मादग्निष्टो- मस्तोत्रद्वारा प्रकृतयागमाश्रित्य रेवत्याधारवारवन्तीयगुणः पशुफलाय विधीयते । इति प्राप्ते, सिद्धा- न्तयति- समेषु कर्मयुक्तं स्यात् ॥ २७ ॥ गीत्यादिक्रियात्मकेष्वाश्रयानपेक्षतया यागादिधात्वर्थतुल्येषु वारवन्तीयादिगुणेषु श्रुतेषु कर्मयुक्तं जन्यतया धात्वर्थयुक्तमेव फलं स्यात् , न तु गुणयुक्तम् । 'एतस्यैव रेवतीषु वारवन्तीयम्' इत्येवंजातीयकेषु वाक्येषु कर्मान्तरविधिरेव, न गुणविधिरिति यावत् । गीतिविशेषो हि वारवन्ती- यसाम । उच्चारणक्रियाविशेष एव च गीति म । एवंविधस्य च सानो यागादिवदाश्रयापेक्षाविरहा- कथं यागमाश्रित्य तद्विधानम् । समेष्वित्यस्य यागं प्रति कारकभावात्मकगुणभावमनापन्नेष्वित्य- प्यर्थः । यत्र हि प्रकृते कर्मणि फलार्थस्य गुणस्य कारकभावः संभवति तत्रैव गुणस्य फलाय विधिः, यथा 'दध्नेन्द्रियकामस्य' इति । इह तु वारवन्तीयसाम्नो गीतिविशेषात्मकस्य द्रव्यदेवतासाधनक- यागं प्रति साधनत्वस्यासंभवात्कथं यागमाश्रित्य विधिः स्यात् ।। न चानर्थक्यतदङ्गन्यायेन क्रत्वङ्ग- भूतस्तोत्रनिर्वृत्तिद्वारा यागाश्रयत्वसंभव इति वाच्यम् । वैषम्यात् । सप्तदशारनित्व हि वाजपेये साक्षादसंभवात्तदङ्गभूतयूपद्वारा वाजपेयाङ्गतामश्नुते । ‘वाजपेयस्य' इति षष्ठया अङ्गद्वाराप्युपका- रकत्वेऽपि सभवात् । वारवन्तीयं साम त्वङ्गभूतस्तोत्रद्वारा कथं यागकारकतामश्नुवीत, क्रियाकारकभा- वस्य साक्षात्संबन्धरूपत्वात् । न च पशुसोमाधिकरणे पशुसोमयोः प्रणाड्या यागकरणत्वं कथमुक्तमिति वाच्यम् । तत्र प्रकृतिविकृत्योरत्यन्तानतिरिक्ततया हृदयादिगणसोमरसात्मना साक्षादेव पशुसोमयोर्याग- कारकत्वसंभवेऽप्यारादुपकारकस्य स्तोत्रस्य यागे कारकत्वासंभवात् । किच वाजपेयाङ्गत्वेन चोदित सप्तदशारत्नित्वं वाजपेयेऽसंभवात्तदङ्गयूपमुपसर्पतीति युक्तम् । वारवन्तीयं तु फले विधीयते न तु यागा- ङ्गतयेति कथमङ्गानि स्तोत्राण्युपसर्पेत् । नापि वारवन्तीयगुणस्य यागे आनर्थक्यम् , कर्मान्तरविधाने- नार्थवत्त्वात् । उक्तं च वार्तिके 'तन्नामाङ्गेषु कल्प्येत यदङ्गत्वेन चोदितम् । प्राधान्यावस्थितं यत्तु तदङ्ग नोपसर्पति' इत्यादिना । ननु कारकतया वारवन्तीयगुणस्य यागाश्रितत्वासंभवेऽपि संबन्धा- न्तरेण तदस्तु, 'पशुकाम उक्थ्य गृह्णीयात्' 'दाक्षायणयज्ञेन सुवर्गकामो यजेत' इत्यादौ सस्था- वृत्त्यादिरूपगुणस्य प्रकृतयागे कारकत्वाभावेऽपि तत्संबन्धिप्रयोगपरिच्छेदकत्वमात्रेण तदाश्रितत्व- दर्शनात् , सानश्च गीतिक्रियात्मकस्य कर्तृव्यापारविषयत्वार्थ दध्यादिवक्रियापेक्षाविरहेऽपि ‘कृत्वा इति क्त्वाप्रत्ययगम्यक्रियान्तरसमानकर्तृकत्वनिर्वाहाय क्रियान्तरापेक्षायां संनिधानलब्धयागो यजति- नानूद्यमानो विधीयमानवारवन्तीयसामगुणे आश्रयतयान्वेतुमर्हतीति चेत् , सत्यम्। यागस्या- श्रयत्वसंभवेऽप्यनिष्टोमपदवैयर्थ्यान्न गुणविधिः संभवति । अग्निष्टोमसामपदं हि नानुवादः ।

सू. २७.] द्वितीयाध्याये द्वितीय पाद. । १९५ . आज्यपृष्ठादिबहुस्तोत्रेषु चोदकप्राप्तेषु सत्सु विशिष्याग्निष्टोमस्तोत्रसंबन्धानुवादे कारणाभावात् । न च क्रत्वर्थवारवन्तीयवाक्यतः शब्देनोपस्थितत्वादग्निष्टोमस्तोत्रस्यैवानुवाद उचित इति वाच्यम् । क्रत्वर्थवाक्येऽग्निष्टोमोपस्थितेर्गुणविधानार्थतया स्वस्य प्राधान्याभावेन तदुपस्थितेरनुवादत्वप्रयोजक- त्वाभावात् । किच रेवतीषु ‘वारवन्तीयं कृत्वा पशून्भावयेत्' इति पशुभावनापेक्षयैव समानक- र्तृकत्वसंभवान्न क्रियान्तरमपेक्ष्यत इति कथं यागस्य तत्राश्रयतयान्वयः । तस्माद्गुणविधौ यजत्यनि- ष्टोमसामशब्दयोरनुवादत्वासभवाद्विधानार्थत्वमेव वक्तव्यम् । तथा च 'वारवन्तीयेन पशून्कुर्या- दग्निष्टोमसंबन्धिना' इति ‘वारवन्तीयेन पशून्कुर्याद्यागसंबन्धिना' इति च वाक्यभेदः स्यादिति तयोरानर्थक्यं स्यात् । न च 'धातुसंबन्धे प्रत्यया.' इत्यधिकृत्य — समानकर्तृकयोः पूर्वकाले' इति विहितक्त्वाप्रत्ययस्य धात्वन्तरसमानकर्तृकत्वमेवार्थ इति प्रत्ययवाच्यपशुभावनायाः क्वा- प्रत्ययापेक्षितत्वाभावेन प्रकृतिभूतयज्यर्थस्यैव तदपेक्षिततया आश्रयत्वेनान्वयसभव इति वाच्यम् । 'धातुसंबन्धे' इत्यस्य क्रियासमभिहारे लोट' इत्यादिसमनन्तरसूत्रेष्वनुवर्तमानत्वेन क्वाविधावनुवृ- त्तेस्तद्भाष्यवार्तिकादावदृष्टत्वेन चाप्रामाणिकतया क्वागम्यसमानकर्तृकत्वस्य प्रत्ययवाच्यभावनापेक्षिताया वक्तुं शक्यत्वात् । अत एवातीतकर्तृकप्राचीनग्रन्थविवरणपरग्रन्थे 'इति मनसि निधायाह' ' इत्यभि- प्रेत्याह' ' इत्याशङ्कयाह' इत्यादौ क्त्वाप्रत्ययोपपत्तिः । तत्र हि 'आह' इत्यव्ययम् ' उवाच' इत्यर्थे विभक्तिप्रतिरूपकमिति वैयाकरणसमयः । तस्मात्कृत्वाशब्दोक्तभावनानिर्वाहितरेवतीवारवन्तीयनिरू- पितक्रियाकारकभावसबन्धविशेषितोऽपूर्वयागः पशुफलाय विधीयते । एतस्य' इति षष्ठयन्तस्य च प्रस्तूयमानकर्मानुवादपरत्वे आनर्थक्यात् 'एतद्धर्मकस्य' इत्येवं प्रकृतानिष्टुद्धर्मातिदेशकतया, प्रकृति- भूताग्निष्टुति च वारवन्तीयसानोऽमिष्टोमस्तोत्रसाधनतया प्रकृतिवदिहापि तत्स्थानप्राप्तेरग्निष्टोमसाम- शब्दोऽनुवाद इति न तस्य विधेयकर्मविशेषकत्वम् । न चाग्निष्टुति वायव्याधारस्यैव वारवन्तीयस्या- मिष्टोमस्थानकत्वादिह कथं रेवत्याधारस्य तत्स्थानप्राप्तिरिति वाच्यम् । वारवन्तीयस्य ह्यनिष्टोमे प्राप्तौ तदाधारभूतानामप्यमिष्टोमस्तोत्रसंबन्धप्राप्त्या रेवत्याधारस्यापि वारवन्तीयस्याग्निष्टोमस्थानमुप- पद्यते । एवं च वायव्यानां रेवतीभिः प्रत्याम्नानाद्वाधमात्रं, न तु तावता वारवन्तीयस्यामिष्टोमस्तोत्र- स्थानत्वस्याप्यभावः स्यात् । तृतीयान्तैतच्छब्दोऽपि प्रस्तूयमानपूर्वयागवचनः। एवं च रेवतीषु वारवन्तीयं कृत्वा पशुकामो यजेत' इत्येतावन्मानं विधेयमिति लाघवमेकवाक्यत्वं च लभ्यते । गुणविधौ तु यज्याद्यानर्थक्यं वाक्यभेदश्च । तस्माद्रेवतीवाक्येऽपूर्वकर्मविधिरित्यास्तां तावत् । प्रयो- जनं- पूर्वपक्षे रेवत्याधारवारवन्तीयवति कर्मणि ऋतुफलं ब्रह्मवर्चसं गुणफलं पशुश्च लभ्यते, सिद्धान्ते तु पशुफलमेवेति स्पष्टमेव । इति रेवत्यधिकरणम् ।। अथ कर्मापूर्वभेदप्रसङ्गात्फलापूर्वभेदविचारः प्रस्तूयते । अस्ति ज्योतिष्टोमे ब्रह्मसामाख्यः अध्वरमीमासाकुतूहलवृत्ती [अधि. १३. स्तोत्रविशेषः । तमाश्रित्य सौभरं नाम साम फलार्थतया विहितम् 'यो वृष्टिकामो योऽन्नाद्यकामो १३. सौभरनिधन यः स्वर्गकामः स सौभरेण स्तुवीत' इति । तदेतत्फलत्रयसाधनतया विहितं योः कामैक्या- सौभरं प्रकृत्यानायते 'हीषिति वृष्टिकामाय निधनं कुर्यात् ऊर्गित्यन्नाद्यका- धिकरणम् । माय, ऊ इति स्वर्गकामाय' इति । निधनमिति सानश्वरमभाग उच्यते तत्र कि हीषादयो निधनविशेषाः सौभरफलत: फलान्तरार्थतया विधीयन्ते, एव च यदा वृष्टिकामेन सौभरं प्रक्रान्तं तदेतरयोरपि निधनयोस्तत्फलकामनया प्रयोगः फलान्तरभूतवृष्टिकामनाविरहात्प्रथ- मनिधननिवृत्तिश्च ‘वृष्टिकाम. सौभरसाम्ना स्तोष्ये' 'वृष्टिकामो हीषिति निधनं सौभरसाम्नि करिष्ये' इति च पृथक्फलकामनं च, उत सौभरस्यैव तत्तत्फलं साधयतस्तत्तन्निधनं नियम्यते, एवं च वृष्टिफलके सौभरे हीषित्येव प्रयोक्तव्यम् एकैव वृष्टिः प्रार्थयितव्या । एवमन्नाद्यकामस्वर्ग- कामयोरपि द्रष्टव्यम् । इति संशये, पूर्वपक्षयति- सौभरे पुरुषश्रुतेर्निधने कामसंयोगः ॥ २८ ॥ वृष्टयादिफलार्थतया श्रुते सौभरे साम्नि हीषादिनिधने अन्य: कामसंयोगः । काम्यन्त इति कामाः फलानि । सौभरसामफलेभ्यो वृष्टयादिभ्योऽन्यानि वृष्टयादिफलान्युद्दिश्य निधनविधिः, न तु वृष्टयादिफलके सौभरे साग्नि हीषादिव्यवस्थाविधिः । कुतः । पुरुषश्रुतेः वृष्टिकामादिशब्दैर्वृ- ष्टयाधभिलषितूपुरुषवाचिभिश्चतुर्थ्यन्तैर्वृष्टयाद्यभिलषितृपुरुषशेषत्वं निधनानामवगम्यते । तच्छेषत्वं च तदभिलषितफलसाधनत्वमेव । अतः फलान्तरार्थतयैव निधनविधिः । व्यवस्थाविधौ तु वृष्टि- कामाय यत्सौभरं तव हीषिति निधनं कुर्यात् , न निधनान्तरमित्येवं वृष्टिकामादिशब्दानां वृष्टयादि- साधनसौभरे लक्षणा स्यात् । एवं च ज्यायानपि नियमविधिलक्षणाप्रसङ्गान युज्यते । तस्मात्फला- न्तरार्थतया निधनविधिः ।। सिद्धान्तयति- सर्वस्य वोक्तकामत्वात्तस्मिन्कामश्रुतिः स्यान्निधनार्था पुनःश्रुतिः ॥ २९ ॥ वाशब्दः पक्षव्यावृत्तौ । चतुर्थ्यन्तवृष्टिकामादिपदेषु वृष्टयादिशब्दो न फलान्तरपरः, किंतु सर्वस्य समस्तावयवकस्य सौभरस्य 'यो वृष्टिकामः' इत्यादिवाक्यान्तरैरुक्तकामत्वात् उक्तवृष्टयादि- फलकतया तस्मिन्सौभरफल एव वृष्टयादिलक्षणे कामश्रुतिः । चतुर्थ्यन्तवृष्टिकामादिपदगतवृष्टयादि- फलशब्दः प्रत्यभिज्ञापकः स्यात् । ततश्च वृष्टयादीनां सौभररूपसाधने निराकाङ्कतया न हीषादिनि- सू. २८-२९.] द्वितीयाध्याये द्वितीय. पाद । १९७ . । धनान्वयसंभवः । न च प्रकृतफलानां साधनान्तरावरुद्धत्वात्प्रत्यभिज्ञाबाधेन फलान्तरपरत्वमेवास्त्विति वाच्यम् । हीषादिशब्दा हि किचिदाश्रित्य फलेषु विधेयाः । न तावत्सौभरमाश्रयः, बह्ववयव- व्याप्तस्यान्तिमावयवहीषादिना निर्वर्तयितुमशक्यत्वात् । नापि निधनमेवाश्रयो भवितुमर्हति, तन्मात्र- स्याप्रकृतत्वात् भक्त्यन्तराणामपि सत्त्वात्तत्परिसंख्यानाय निधनविधौ ‘ हीषा वृष्टि कुर्यानिधनभूतेन' इति वाक्यभेदापत्तेः । ननु ‘वृष्टिकामाय' इत्यादीनां सौभरफलपरत्वे वैयर्थ्यमत आह- निधनार्था पुनःश्रुतिरिति । पुनर्वृष्टयादिशब्दश्रवणं ‘वृष्टिकामाय यत्सौभरम्' इत्येवं वृष्ट्यादिसाध- नसौभरानुवादेन निधनव्यवस्थाविधानार्थमित्यर्थः । अतो वृष्टिकामादिशब्दलक्षिते सौभरे हीषादिनि- धननियम इत्येव युक्तम् । वाक्यभेदापेक्षया ज्यायस्त्वाल्लक्षणा न दुष्यति ॥ न च वृष्टिसाधनसौभरा- र्थतया 'हीष्' इति शब्दस्य नियमो निधनत्वेन विधेय इति वाक्यभेदस्तुल्य इति वाच्यम् । शाखा- भेदेन हीषादिनिधनयुक्ततया पठिते सौभरे तन्नियममात्रस्यैव विधेयत्वेन वाक्यभेदानवकाशात् । न च वृष्ट्यादिसाधनसौभरखोद्देश्यत्वे विशिष्टोदेशदोषप्रसङ्गः शङ्कय । वृष्टयादिसाधनमेव ह्यत्रोद्दे- श्यम् । संनिधानाच तत्सौभरमिति लभ्यते । वस्तुतस्तु " वृष्टिकामाय यत्सौभरं तत्र निधनम् 'हीष्' इति कुर्यात्" इत्येवं नार्थः, येन वृष्टिकामादिशब्दाः सौभरे लाक्षणिकाः स्युः । कितु 'यो वृष्टिकामः स सौभरेण स्तुवीत' इत्येवं वृष्टिकामाय यनिधनं विहितं तत्र 'हीष्' इत्यादि कुर्या- दित्यर्थः । न च 'यो वृष्टिकामः' इत्येवं सौभरस्यैव वृष्टिकामादिपुरुषशेषत्वरूपवृष्ट्यादिसाधनताव- गमेन निधनस्य तदवयवस्य ‘वृष्टिकामाय' इत्यादौ वृष्टयादिशब्दैरनुवादासंभव इति सौभरलक्षणा दुर्वारेति वाच्यम् । समस्तावयवकस्य सौभरस्य फलसाधनत्वेऽवगते सति तदवयवस्य निधनस्यापि वृष्टयादिसाधनतावगमेन लक्षणां विनैव तदनुवादसभवात् । तदेतत्सूत्रे ‘सर्वस्य' इत्यनेन ध्वनि- तम् । तस्य हि समस्तावयवकस्य सौभरस्येत्यर्थः । इति सौभराधिकरणम् ।। , इति द्वितीयाध्याये द्वितीयः पादः ।। 1. तथानुवाद...क, ग, घ, ङ.

तृतीयः पादः॥ निर्मथ्य निगमसिन्धून्विविधन्यायाभिधानमन्थानै । धर्मसुधामुद्धरते भूयो मुनये नमोऽस्तु जैमिनये ।। पूर्वस्मिन्पादे कर्मभेद. प्रतिपादितः । अस्मिन्पादे तदपवादः प्रतिपाद्यते । - ज्योतिष्टोमे श्रूयते ‘यदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान्गृह्णीयात् 1 'यदि बृह- त्सामा शुक्राग्रान्' इति । तत्र कि ज्योतिष्टोमात्कर्मान्तरं रथंतरसामेति बृहत्सामेति विधीयते, उत प्रकृत एव ज्योतिष्टोमे नैमित्तिक ऐन्द्रवायवाग्रतादिगुणविधिरिति संशये पूर्वपक्षयति- गुणस्तु क्रतुसंयोगात्कर्मान्तरं प्रयोजयेत्सं- योगस्याशेषभूतत्वात् ॥ १ ॥ , तुः प्रत्यवस्थाने । रथंतरसामादिगुण कर्मान्तरमाक्षिपेत् । कुतः । क्रतुसंयोगात् रथंत- रसामादिगुणस्य ज्योतिष्टोमाक्रत्वन्तरेणैव संयोगात् प्रकृतकर्मणा च संयोगासंभवात् । कुतः । १ ग्रहाप्रताया संयोगस्याशेषभूतत्वात् रथंतरादिसंयोगस्य क्रतुविशेषणत्वाभावात् । ‘रथंतर- ज्योतिष्टोमाङ्गता- सामा' इति हि बहुव्रीहिसमास: ‘समर्थः पदविधिः' इति सामर्थ्यापेक्षः । धिकरणम् । सामर्थ्य च यदि कृत्स्ने क्रतो रथंतरमेकमेव स्यात्तदा भवति । प्रकृते च ज्योतिष्टोमे रथंतरं साम न केवलमस्ति ; कितु गायत्रवामदेवादिसामान्तरसहितमेवेति सामा- न्तरसापेक्षत्वेनासामर्थ्यात्समासानुपपत्तेस्तद्गम्यं विशेषणत्वं रथंतरस्यानुपपन्नम् । न च पृष्ठस्तोत्रे सामान्तरानपेक्षत्वात्सामर्थ्यस्यानपाय इति वाच्यम् । तस्यात्रान्यपदार्थतयानुपात्तत्वात् । एवम् 'बृहत्सामा' इत्यत्रापि । तथा च प्रकृते कर्मण्यनुवाद्यतया निवेशमलभमानोऽयं गुणनिवेशयोग्यं कर्मान्तरपरत्वमस्य वाक्यस्य कल्पयतीत्यर्थः। न च कर्मान्तरपरत्वे तस्य संप्रति विधीयमानतया सिद्ध- धर्मनिमित्तत्वप्रतिपादकयदिशब्दानुपपत्तिरिति वाच्यम्। 'अथवैताल्पा पृथिव्यासीत्' इत्यादिवद्यदि- शब्दस्यापि निपातत्वेनानर्थकत्वात् । यद्वा ‘रोचते' इत्यध्याहारेण 'यदि रोचते तदा रथंतरसामानं 1. ऐन्द्रवायवाग्रान्ग्रहान्गृह्णीयात्-ख 2. नास्ति ख, ग पुस्तकयोः. 3. सयोगस्य अशेष कृत्स्नं क्रतु प्राप्तत्वाभावात्-क, च.

सू. १-२.] द्वितीयाध्याये तृतीयः पादः । क्रतुं कुर्यात्' इति योज्यम् । अथवा 'गृह्णीयात्' इति लिड कामप्रवेदनार्थतया 'यद्यैन्द्रवायवाग्रा- न्ग्रहीतुमिच्छेत्तदा रथंतरसामानं क्रतुं कुर्यात्' इति व्याख्येयम् । अथवा ' स्यात्' इति हेतौ लिङ् । 'रथंतरसाम्ना क्रतुना हेतुना ऐन्द्रवायवाग्रान्गृहायात्' इत्यर्थः । अपि वा ' गृह्णीयात्' इति लिङो हेतु- मदर्थकत्वेन 'यदि ग्रहाग्रता हेतुमत्त्वेन विवक्षिता तदा तद्धेतू रथंतरसामा सोमः कार्य: इति व्याख्येयम् । एवं बृहत्सामवाक्येऽपि योज्यम् । 'तस्माद्रथंतरबृहदन्यतरस्तोत्रकमैन्द्रवायवाग्रता- दियुक्तं कर्मान्तरं विधेयम् । इति पूर्वः पक्ष. ।। सिद्धान्तयति- - एकस्य तु लिङ्गभेदात्प्रयोजनार्थमुच्येतैकत्वं गुणवाक्यत्वात् ॥ २॥ तुशब्दः पूर्वपक्षव्यावृत्तौ । नात्र कर्मान्तरविधिः, कितु एकस्यैव ज्योतिष्टोमस्य प्रकृतस्य लिङ्गभेदात् रथंतरादिनिमित्तभेदेन प्रयोजनार्थ ग्रहाग्रताविशेषविधानप्रयोजनार्थतया यदि रथन्तरे- त्यादिवाक्यम् उच्येत प्रतीयेत । ननूक्तरीत्या कर्मान्तरत्वादेकत्वमेवासिद्धमित्यत आह--एकत्वमिति । यदिशब्दस्वारस्येन 'ग्रहाग्रताविशेषणविधिपरत्वस्य वक्तव्यतया कर्मान्तरबुद्धौ निवृत्तायां तदेकत्वं विज्ञायत इत्यर्थः ॥ यदिशब्दस्य हि प्रथमपक्षे आनर्थक्यमेव दोषः, द्वितीये अध्याहारः, तृतीये 'यदि गृहीयात्' इति व्यवहितान्वयः, चतुर्थे पञ्चमे चासिद्धस्य हेतुत्वकल्पनाक्लेशः इति पञ्चानां पक्षाणां दुष्टत्वात्स्वरसतः प्रकृतकर्मणो निमित्तत्वप्रतिपादकयदिशब्दबलात्प्रकरणाच्च प्रकृतस्यैव कर्मणः सोमशब्दः प्रतिपादको न तु कर्मान्तरस्य । न च सामान्तराणामपि सत्त्वात् 'रथंतरसामा' इति कथं ज्योतिष्टोमस्यानुवादसंभवः, सापेक्षत्वेनासामर्थ्यात्समासानुपपत्तेरिति वाच्यम् । अन्ययोगव्या- वृत्त्यसंभवेऽप्ययोगव्यावृत्त्या विशेषणत्वोपपत्तौ सामर्थ्यसंभवेन समासोपपत्तेः । बृहद्रथंतरे हि सामनी ज्योतिष्टोमे वैकल्पिके । अतः पक्षे अयोगः प्राप्त । तयावृत्त्या यदि रथंतरसामैव सोमः, नाविद्यमानरथंतर इति भवत्ययोगव्यवच्छेदः । स च सामान्तरसत्त्वेऽप्यविरुद्ध इति सामान्तरसापे- क्षत्वाभावान्नासामर्थ्यम् । अस्तु वा सामान्तरमेव व्यवच्छेद्यम् । तथापि विरोधिनोवृहद्रथंतरयोः परस्परव्यवच्छेदेनैव विशेषणत्वम् , न तु सामान्तरव्यवच्छेदेनापि , विरोधनिबन्धनत्वाद्यवच्छेदस्य सामान्तरसत्त्वेऽपि तदपेक्षाविरहादस्ति सामर्थ्यम् । किच 'उक्थ्यो वै राजसामा' इत्यादिवहाशमि- कन्यायेन 'रथंतरसामा' इति निर्देशस्य पृष्ठस्तोत्रमात्रपरता अवसीयते । तत्र च पृष्ठस्तोत्रे सामा- न्तराभावेन तदपेक्षाविरहात्सामर्थ्यमविरुद्धम् । न च बहुव्रीहिणा अन्यपदार्थप्रधानेन सोमस्यैव प्राधान्ये- 1. तस्मात्केवलरथन्तर.. ख. घ, ङ. 2. विशेषगुणविधि.. क. घ. च. पञ्चमे च नास्ति क, ब, क, च पुस्तकेषु. 4. चतुर्णा-क, घ, ङ, च. । , २०० अध्वरमीमांसाकुतूहलवृत्ती [अधि. १-२. नावगमात्कथं रथंतरस्य निमित्तत्वमिति वाच्यम् । बहुव्रीहिणा पदार्थप्रतीतिवेलायां विशेष्यतयावगत- स्यापि क्रतोनित्यतया निमित्तत्वानहत्वात्तत्परित्यागेन विशेषणस्यैव निमित्तत्वपर्यवसानात् वाक्यस्य निमित्ततात्पर्यकत्वेन तदनुसारेणायोग्यविशेष्यपरित्यागेन योग्यविशेषण एव तत्कल्पनस्य न्याय्य- त्वात् । अत एव ‘दना जुहोति' इत्यत्र विशेष्यस्य होमस्य प्राप्तत्वात्तत्परित्यागेन योग्यस्य दनो विशेषणतयापि प्रतीतस्य विधानमुपपन्नं भवति । न चैवं सति कर्मबहिरध्ययनादावपि रथंतरस्य सद्भावादतिप्रसङ्गः, प्रकृतक्रतुविशिष्टस्य तस्य निमित्तत्वे तु विशिष्टोद्देशदोष इति वाच्यम् । न ह्यत्र शब्देन प्रकृतक्रतुविशिष्टस्य रथंतरस्य निमित्तत्वं बोध्यते येन विशिष्टोद्देशदोषः स्यात् । संनिधानादेव हि ऋतुविशिष्टत्वेन रथंतरस्य बोधः, अनुवादस्य सति संभवे संनिहितगामित्वात् । तस्मात्प्रकृतज्यो- तिष्टोमे रथंतरादिनिमित्ते ग्रहाग्रताविशेषगुणविधिः । इति रथंतरसामाधिकरणम् ।। . अस्ति राजसूय. 'स्वाराज्यकामो राजा राजसूयेन यजेत' इति । तत्र सन्ति दिशामवे- टयो नाम यागाः 'दिशामवेष्टयो भवन्ति' इति प्रकृत्य विहिताः ‘आग्नेयमष्टाकपालं निर्वपति २. अवेष्टे ऋत्वन्त- हिरण्यं दक्षिणा, ऐन्द्रमेकादशकपालमृषभो दक्षिणा, वैश्वदेवं चहं पिशङ्गी रताधिकारता पष्ठीही दक्षिणा, मैत्रावरुणीमामिक्षां वा दक्षिणा, बार्हस्पत्यं चरुं धिकरणम् । शितिपृष्ठो दक्षिणा' इति । तत्रेदमाम्नायते 'यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुति हुत्वाभिघारयेत् , यदि राजन्य ऐन्द्रम् , यदि वैश्यो वैश्वदेवम्' इति । आग्नेयादीनि चत्वारि हवीषि प्रतिदिशमासाद्य तेषां मध्ये बार्हस्पत्याद्यन्य- तममासाद्य आग्नेयायेकैकं हविर्तुत्वा तस्य तस्य संस्रावेण मध्ये निहितं हविरभिघारयेदित्यर्थः । तत्र संशय:-किं प्रकृतराजसूयिकावेष्टियागेषु ब्राह्मणादिवर्णविशेषं निमित्तीकृत्य 'मध्ये निधाय' इत्यादि- गुणविधिः, उत ब्राह्मणादिविशिष्टप्रयोगान्तरविधिरिति । तत्र पूर्वाधिकरणन्यायेन 'यदि रथंतर- सामा' इत्यादिवगुणविधिरिति ब्रूमः । न च राजशब्दवाच्यक्षत्रियजात्यधिकृतराजसूयान्तर्गतावेष्टि- यागेषु कथं ब्राह्मणादिवर्णनिमित्ते गुणविधिसभव इति वाच्यम् । राजशब्दो हि जनपदपरिपालन- रूपराज्ययोगनिमित्तको ब्राह्मणादिष्वपि वर्तितुमर्हति, राजशब्दस्य ब्राह्मणादिष्वपि राज्ययोगनिमि- त्तमावेणार्यम्लेच्छसाधारणसर्वलोकप्रसिद्धेः; न तु क्षत्रियत्वजातिनिमित्तो राजशब्दः, तत्प्रसिद्धरना- र्यमात्रेषु सत्त्वात् द्रविडदेशमावगतत्वात् आर्याणां क्षत्रियजातिमात्रे प्रयोगाभावेन विप्रतिपन्नत्वाञ्च । न च बर्हिराज्याधिकरणन्यायेनानायव्यवहारादपि क्षत्रियजातिपरत्वं स्यादिति वाच्यम् । वैषम्यात् । बर्हिराज्यस्थले ह्यनार्यव्यवहारादपि जात्यर्थत्वम् , आर्यव्यवहारस्य जात्यव्यभिचारित्वात् । इह तु 1 प्राप्तत्वाद्वाक्यतात्पर्यविषयादध्यन्वयायोग्यतया तत्परित्यागेन-क, घ, क, च. 2. राजसूयि- कावेष्टिकयागेषु-क; राजसूयिकामेयादियागेषु-. 3. राजन् शब्दवाच्य-1.

सू. ३.] द्वितीयाध्याये तृतीयः पादः । २०१ ब्राह्मणादिष्वपि राजशब्दस्यार्यप्रयोगात्क्षत्रियत्वजातिव्यभिचारान्न क्षत्रियजातिपरत्वम् । यद्यपि धर्मशास्त्रवशात्क्षत्रियस्यैव राज्ययोगो न तु ब्राह्मणादीनामपि, तथापि 'प्रवृत्तिनिमित्ततायां शास्त्रमू- लत्वस्यातनतया शास्त्रोल्लङ्घनेनापि यथाकथचिद्राज्ययोगसद्भावमात्रेण ब्राह्मणादीनामपि राजशब्दवाच्य- त्वमविरुद्धम् । न चैवमपि राज्ययोगाद्राजा राजयोगाद्राज्यमिति परस्पराश्रय इति वाच्यम् । राज्य- शब्दख जनपदपरिपालनकर्मणि रूढत्वेन राजयोगानपेक्षत्वेनादोषात् । न च ‘पत्यन्तपुरोहितादिभ्यो यक्' इति सूत्रेण राज्ञ कर्मेत्यर्थे यक्प्रत्यये राज्यशब्दव्युत्पत्तेर्व्याकरणस्मृतिसिद्धत्वात्प्रयोगरूपाचारा- स्मृतेर्बलीयस्त्वान्न रूढ्याश्रयणं युक्तमिति वाच्यम् । मन्वादिस्मृतेराचाराद्वलवत्त्वेऽपि प्रयोगमूलत्वा- द्वथाकरणस्य तदपेक्षया प्रयोगरूपाचारस्य बलवत्त्वात् । ततश्च नकुलनखनक्षत्रादिशब्देष्विव व्या- करणं राज्यशब्देऽपि साधुत्वान्वाख्यानपरं व्याख्येयम् । यदिशब्दबलादपि राजशब्दो राज्ययोग- निमित्त इति अध्यवस्यामः । यदिशब्दौ हि ब्राह्मणवैश्यौ कर्तृत्वेन सिद्धावनुवदतः । न चैत- द्राजशब्दस्य क्षत्रियजातिपरत्वे घटते, प्राप्त्यभावात् । तस्माद्राह्मणादिनिमित्ते राजसूयान्तर्गतावेष्टि- यागेषु प्रकृतेषु मध्यनिधानादिगुणविधिः । इति प्राप्ते, सिद्धान्तयति- अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते ॥३॥ शाखान्तरे अवेष्टिशब्द एकवचनान्तोऽपि श्रुतः । तदभिप्रायमेकवचनम् । अवेष्टिविषयम् 'यदि ब्राह्मणः' इत्यादिवाक्यं ऋतुप्रधानं ब्राह्मणादिविशिष्टप्रयोगान्तरपरतया प्रतीयेत । कुतः । यज्ञसंयोगात् क्षत्रियस्यैव राजसूयेन संयोगात् ॥ 'राजानमभिषेचयेत्' इति राज्ञः सतो जनपदपरि- पालनरूपराज्ययोगफलकाभिषेचनविधानात्क्षत्रियमानपरत्वं राजशब्दस्य वेदादवसीयते। यदिशब्द- स्तु निपातत्वात्पूर्वाधिकरणपूर्वपक्षोक्तप्रकारेण कथंचिन्नेयः । ब्राह्मणादिष्वप्यार्याणां राजशब्दप्रयोगस्तु प्रयोगरूपाचारत्वाद्राजशब्दात्कर्मणि यग्विधायकव्याकरणस्मरणेनाभिषेकविध्यनुगृहीतप्रामाण्यकेन क्षत्रियस्य प्रजापरिपालनमित्यादिधर्मशास्त्रेण च बाधाद्राजकर्मपरिपालनकारित्वनिबन्धनो गौणः। न च ‘सोमोऽस्माकं ब्राह्मणानां राजा' 'इन्द्रो राजा जगतश्चर्षणीनाम्' इत्यादिवैदिकनिर्देशः पालने- ऽपि दृश्यते । तथा 'क्षत्रियसमानशब्दाजनपदात्तस्य राजन्यपत्यवत्प्रत्ययो भवति , पञ्चालानां राजा पाञ्चालः' इत्यादिव्याकरणवार्तिकमहाभाष्ययोरपि पालने राजशब्दप्रयोगो दृष्ट इति कथं जात्य- र्थकत्वमिति वाच्यम्। श्रुतिव्याकरणयोरुभयत्र समानत्वेऽप्यनेकार्थत्वस्यान्याय्यत्वेन क्षत्रियत्वजातौ मुख्यत्वेन पालके गौणतया च तत्र राजशब्दस्य नेयत्वात्। न च विनिगमनाविरहः, सप्रतियोगिकपा- ल्यापेक्षया निष्प्रतियोगिकक्षत्रियत्वजातेलघुत्वस्यैव विनिगमकत्वात् । किच जनपदपालनमात्रं 1. प्रवृत्तिनिमित्ततायाः शास्त्रमूलकत्वस्य-क, ग, घ, ङ, च. 26 २०२ अध्वरमीमांसाकुतूहलवृत्ती [अधि. २-३. A राजपदप्रवृत्तिनिमित्तं स्वतबजनपदपालनं वा । नाद्यः, राज्ञा नियुक्ते जनपदाद्यधिकारिणि राजपद- प्रयोगापत्तेः । न द्वितीयः, सार्वभौमेण सम्राजा देशविशेषस्य राजभावेन नियुक्ते तदभावप्रसङ्गात् । तस्मात्क्षत्रियजातिरेव राजशब्दार्थः । ब्राह्मणादिषु तु 'पक्षिराज.' 'वृक्षराज.' इत्यादिवद्गौणः । तस्माद्ब्राह्मणादिविशिष्टप्रयोगान्तरविधिः । न च राजसूयान्तर्गतावेष्टिप्रयोगे ब्राह्मणाद्यप्राप्तावपि 'एत- यान्नाद्यकामं याजयेत्' इति वाक्यान्तरविहितावेष्टिप्रयोगान्तरेऽन्नाद्यकामतया प्राप्तब्राह्मणादिनिमित्ते मध्यनिधानादिगुणविधिरेव किं न स्यादिति वाच्यम् । एतयान्नाद्यकामम् इत्यत्र हि ब्राह्मणा- दीनां कर्तृत्वं न श्रुतम् , कित्वन्नाद्यकामस्य फलित्वेन श्रवणादाक्षेप्यम् । तदाक्षेपात्प्रागेव च स्वाराज्य- कामवाक्ये अवेष्टिकर्तृत्वेनावगतक्षत्रियेणैव निराकासत्वान्न कर्तृतां प्रयोजयितुमन्नाद्यवाक्यं प्रभवति । यथालब्धाग्निविद्यत्रैवर्णिकलाभेन निराकाङ्क्षाः कर्मविधयो न शूद्रस्याग्निविद्ये प्रयोजयितुमीशते तद्वत्। ततश्च प्रकृतावेष्टेरेव प्रत्यभिज्ञातायाः 'यदि ब्राह्मणः' इत्यादिना ब्राह्मणादिविशिष्टप्रयोगान्तरविधिः । तस्यैव प्रयोगस्य फलापेक्षायामन्नाद्यकामवाक्येन फलसंबन्धः । भाष्यं तु कर्मान्तरपरतया प्रतीयमा- नमपि प्रयोगान्तरपरतया नेयम् । न ह्यत 'यदि ब्राह्मणः' इत्यादिवाक्ये कर्मान्तरविधिः संभवति, प्रकृतावेष्टिप्रत्यभिज्ञाविरोधात् । एवं च यथा दर्शपूर्णमासयोरेको यावजीविकप्रयोगोऽन्यश्च काम्य- प्रयोगः एवमवेष्टेरेकस्या एव क्रत्वर्थ एकः प्रयोगोऽन्यश्चान्नाद्यकामप्रयोगः । तत्रान्नाद्यकामप्रयोगे ब्राह्मणादिश्रवणस्य निमित्तार्थकत्वे प्रापकत्वे च नास्ति फलभेदः । राजसूयिकावेष्टिप्रयोगे तु स्वाराज्य- वाक्ये राजशब्दस्य ब्राह्मणादिसाधारणत्वात्त्रयाणामपि वर्णानां कर्तृत्व पूर्वपक्षे, सिद्धान्ते तु क्षत्रिय- स्यैवेति फलभेदः । यद्यपि स्वाराज्यवाक्य एव राजशब्दार्थनिरूपणं कर्तुं शक्यम् , तथाप्यध्याय- संगतये प्रयोगभेदव्युत्पादनायावेष्टिवाक्योदाहरणमिति दिक् । इत्यवेष्टयधिकरणम् ।। वसन्ते ब्राह्मणोऽग्निमादधीत' 'ग्रीष्मे राजन्यः' 'शरदि वैश्यः' 'वर्षासु रथकारः इत्यव किमाधाने कर्मणि ब्राह्मणादिनिमित्ते वसन्तादिविधिः, उत ब्राह्मणादिवसन्तादिविशिष्टमाधानं ३. आधानस्य विधेय- विधीयत इति संशयः । तत्र 'यदि ब्राह्मणो यजेत' इत्यादौ ब्राह्मणादी- खाधिकरणम् । नामप्राप्ततया राजसूयिकावेष्टिप्रयोगे गुणविधौ निमित्तत्वासंभवेन तद्विशि- ष्टप्रयोगान्तरविधिसभवेऽपि प्रकृते आहवनीयादिसापेक्षक्रतुविध्याक्षेपलभ्याधाने ब्राह्मणादीनां प्राप्तानां निमित्तत्वसंभवेनाधाने ब्राह्मणादिनिमित्ते वसन्तादिविधियुज्यते । नन्वाधानस्यान्यतोऽप्राप्तत्वात्कथं तस्मिन्ब्राह्मणादिश्रवणस्य निमित्तार्थत्वम् ; न च ऋतुविधितस्तदाक्षेपः संभवति, आधानविधावाहवनी- यादिशब्दश्रवणाभावेन तस्य क्रतुविध्यपेक्षिताहवनीयादिसाधकत्वे प्रमाणाभावादिति चेन्न । 'नक्तं गाईपत्यमादधाति' 'अर्धोदिते सूर्य आहवनीयमादधाति' इत्यादिवाक्येष्वाधानस्याहवनीयादेश्च १ . . .. 1. सम्राजाखण्डदेशविशेषस्य-घ, ङ. 2. कर्मान्तरतया-क, ख, ग, घ, क. .

द्वितीयाध्याये तृतीयः पादः । २०३ - साध्यसाधनभावावगमात् । यद्यपि तानि वाक्यानि गुणविधायकान्येव न त्वाधानविधायकानि तथापि गार्हपत्यम्' इत्यादिद्वितीयया साध्यत्वानुवादिन्या आधानस्य तत्साधनत्वावगमसंभवः । यद्वा य एवं विद्वानग्निमाधत्ते' इति सामान्यतः सर्ववर्णानामाधानविधायकमिति प्राप्ताधाने ब्राह्म- णादिनिमित्ते वसन्तादिविधिः । इति प्राप्ते, सिद्धान्तयति-- आधानेऽसर्वशेषत्वात् ॥ ४ ॥ आधाने विषये वसन्तादिवाक्यं ब्राह्मणादिवसन्तादिविशिष्टाधानप्रापकम् , न तु प्राप्ताधाने निमित्तसंयोगेन कालविशेषबोधकम् । कुतः। असर्वशेषत्वात् आधानस्य सर्वक्रत्वर्थतया विधेरश्रवणात्॥ आधानविधिसद्भावे हि 'आदधीत' इत्यात्मनेपदबलादाधानसाध्यामीनां कर्तृगामित्वप्रतीत्या स्वीयाधान- साध्यत्वं लभ्यते।आक्षेपपक्षेतु 'कृत्तिकास्वग्निमादधीत' 'वसन्ते ब्राह्मणोऽग्निमादधीत' इत्यादिगुणवाक्ये- ध्वात्मनेपदस्यानुवादत्वेनाविवक्षिततया ऋतुविधिभिराधानमात्राक्षेपेऽपि तस्य स्वकर्तव्यत्वे प्रमाणाभावा- त्परानुष्ठिताधाननिष्पन्नाग्नीनां क्रयादिना संपादनं स्यादिति कथं नियमेन क्रतुविधिभिराधानस्य प्राप्तिः । एवं चाधानस्य तदुद्देशेन नैमित्तिकगुणस्य च विधौ वाक्यभेदप्रसङ्गाब्राह्मणादिवसन्तादिविशिष्टाधान- विधिः । तथा च वसन्तादियुक्तप्रत्यक्षविधौ जाग्रति ‘य एवं विद्वानग्निमाधत्ते' इत्यस्य वर्तमानापदेशस्य विधित्वकल्पनक्लेशोऽपि नानुभवितव्यो भवति । न चैवमपि वसन्तादिवाक्येष्वाहवनीयादिशब्दाभावा- दाधानोत्पन्नानीनां कथं क्रत्वर्थता स्यादिति वाच्यम् । वसन्तादिवाक्येष्वाहवनीयादिग्रहणाभावेऽपि 'नक्तं गार्हपत्यम्' इत्यादिगुणवाक्येषु गाईपत्यादीनां द्वितीयया आधानसाध्यत्वानुवादबलेन वसन्ता- दिवाक्येऽग्निशब्दस्य गार्हपत्यादिपरत्वे पर्यवसानस्योक्तत्वादित्यन्यत्र विस्तरः । प्रयोजनं पूर्वपक्षे ब्राह्मणादिश्रवणस्य निमित्तार्थत्वाच्छूद्रस्याप्याधानम् , सिद्धान्ते तु ब्राह्मणादिवाक्यानामेव विधायक- त्वाच्छूद्रस्य पृथगाधानविध्यभावान्नाधानमिति । न च ब्राह्मणादिश्रवणस्य निमित्तार्थत्वेऽपि शूद्रस्योपनयनाभावेन विद्याभावादेव नाधानमिति वाच्यम् । समानजातीयत्वेन 'वसन्ते ब्राह्मणमुपनयीत' इत्यादिवाक्यानामपि पूर्वपक्षे निमित्तार्थत्वेन शूद्रस्याप्युपनयनसत्त्वेन विद्यासत्त्वादि- ति दिक् । याज्ञिकास्तु ब्राह्मणादिश्रवणं निमित्तार्थमेवेति मन्यन्ते । युक्तं चैतत् । तथाहि-तैत्तिरी- यके 'अग्नय आधातव्याः' इत्यस्त्याधानविधिः । तथा वाजसनेयकेऽपि संभरणकाण्डे द्वितीयाध्याये 'घ्नन्ति ह वा एतद्यज्ञम्' इति द्वितीयब्राह्मणे ‘ते ह देवा अग्न्याधेयं ददृशुः' इत्युपक्रम्य 'अग्नीना- दधीत' इत्याधानविधिः श्रूयते । षष्ठस्य तृतीये 'पुनराधेयमोदनवत्' 'द्रव्योत्पत्तेर्वोभयोः स्यात्' इत्यत्र भाष्यवार्तिकतन्त्ररत्नेषु च वक्ष्यते । ततश्चाधानस्य प्राप्तत्वान्न वसन्तादिवाक्येषु तस्य विधानं संभवति । अतो ब्राह्मणादिश्रवणमन्यतः प्राप्ते आधाने निमित्तसंयोगार्थमित्येव युक्तम् । किंच क्रतु- विधीनां क्रयसंपादितान्यदीयाहवनीयादिभिरपि शान्ताकाङ्कत्वात्तैराधानस्य नाक्षेपसंभव इत्यप्ययुक्तम् , २०४ अध्वरमीमांसाकुतूहलवृत्ती [अधि. ३-४. 'यदि वान्यस्याग्निषु यजेत यदि वान्योऽस्याग्निषु यजेत अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् ' इति प्रायश्चित्तविधानादेवान्यदीयाग्नीनामप्राप्तेः अग्नित्यागे प्रायश्चित्तविधानाच्च । 'अहं त्वदस्मि मदसि त्वमेतत् , ममासि योनिस्तव योनिरस्मि, ममैव सन्वह हव्यान्यग्ने' इत्याधानोत्पन्नाग्न्युपस्थानमन्त्रव- ऐन ' अन्तर्वत्नीजन्यं जातवेदसम् , अध्वराणां जनयथः पुरोगाम् , आरोहतं दशत शक्करीर्मम, ऋतेनाग्न आयुषा वर्चसा सह, ज्योग्जीवन्त उत्तरामुत्तरां समाम् , दर्शमहं पूर्णमासं यज्ञं यथा यजै' इत्यरण्यादानमन्त्रवर्णेन चात्मीयाग्नीनामेव क्रत्वर्थतावगमाच्च । किच यद्यस्मिन्ने- वाधिकरणेऽन्यदीयाग्नीनां क्रतुषु व्युदासः क्रियेत, तर्हि षष्ठस्य षष्ठे 'विहारस्य प्रभुत्वादनग्नीना- मपि स्यात्' इत्यधिकरणस्यानुन्मेषः स्यात् । तब हि सत्रेष्वनाहिताग्नीनामप्यन्यदीयाग्निभिरधिकारं पूर्वपक्षयित्वा स्वीयाधाननिष्पन्नाग्निसाध्यत्वात्कर्मणामन्यदीयाग्निभिस्तस्य नाधिकार इति सिद्धान्तयि- प्यते । 'अस्मिन्नधिकरणेऽन्यदीयाग्नीनां क्रतुषु व्युदासे निश्चिते सति तादृशपूर्वपक्षो न कथंचिदुन्मे- षमर्हति । तस्मादत्र ब्राह्मणादिग्रहण निमित्तार्थमित्येव युक्तम् । पूर्वपक्षसिद्धान्तावपि विपर्ययेण प्रवर्त- नीयौ । प्राप्त आधाने वसन्तादिवाक्यानि गुणविधायकान्येव, 'अग्नीनादधीत' इत्यविशेषेण विहितस्य तस्य सर्ववर्णसाधारणत्वादिति सूत्रयोजनापि सूपपादा। न चैवं शूद्रस्याप्याधानं शङ्कयम् ; ' अध्वराणां जनयथः पुरोगाम्' 'दर्शमहं पूर्णमासं यज्ञं यथा यजै' इत्यादिमन्त्रवर्णत आधानस्य यज्ञार्थत्वावगमात् , 'तस्माच्छूद्रो यज्ञेऽनवक्लप्तः' इति तस्य यज्ञनिषेधात् , शूद्रस्याध्ययनविध्यभावात् , 'न स्त्रीशूद्रौ वेदमधीयाताम्' इति तस्य विद्याप्रतिषेधाच्चेति षष्ठेऽपशूद्राधिकरणे स्पष्टं भविष्यतीत्यास्तां तावत् । वृत्तमधिकरणम् ॥ - दर्शपूर्णमासौ प्रकृत्यामनन्ति — दाक्षायणयज्ञेन सुवर्गकामो यजेत' 'साकंप्रस्थायीयेन यजेत पशुकामः' 'सक्रमयज्ञेन प्रजाकाम ' इति । तत्र कर्मान्तरविधिर्गुणविधिर्वेति संशये पूर्वपक्षयति- अयनेषु चोदनान्तरं संज्ञोपबन्धात् ॥ ५ ॥ अयनेष्विति दाक्षायणशब्दैकदेशग्रहणम् । छत्रिन्यायेन साकंप्रस्थायीयाद्युपलक्षणमिति बहुवचनोपपत्तिः । दाक्षायणयज्ञादिवाक्येषु चोदनान्तरम् । चोद्यते विधीयत इति कर्मणि ल्युट् । ४. दाक्षायणादीना वसन्तादिवाक्येष्वाधानमिवात्र कर्मान्तरं विधेयमिति यावत् । कुतः। संज्ञो- गुणताधिकरणम् । पबन्धात् संज्ञान्तरोपबन्धबलात् । एकस्य चानेकसज्ञानर्थक्येन प्रकृत- कर्मणि संज्ञान्तरसमावेशासंभवात् 'अथैष ज्योतिः' इत्यादाविव कर्मान्तरविधानमेव युक्तम् । 1. तस्मिन्नधिकरणे-ख, ग.

सू. ५-९.]
द्वितीयाध्याये तृतीयः पादः ।
२०५
अभ्यासादपि कर्मभेद इत्याह-
अगुणा च कर्मचोदना ॥६॥
'दाक्षायणयज्ञेन यजेत' इत्यादिचोदना अगुणा गुणोपबन्धरहिता, दाक्षायणादिशब्दस्य
कस्मिश्चिद्गुणेऽप्रसिद्धत्वात् । अतः ‘दध्नेन्द्रियकामस्य-' इत्यत्रेव फलाय गुणविधानासंभवात्कर्मचो-
दनैषा पुनर्विधानम् । ततश्चाभ्यासात्कर्मभेद इत्युक्त भवति ।
ननु प्रकृतकर्मणि फलविधानमेवास्त्वित्यत आह-
समाप्तं च फले वाक्यम् ॥ ७ ॥
दाक्षायणादिवाक्यं स्वर्गादिफले समाप्तम् । न हि कर्मोद्देशेन ब्रीह्यादिवत्फलस्य विधानं
संभवति । तस्मिन्नुत्पादनीये उपायोपदेश एव पर्यवसन्नं भवति, तस्यानुपादेयत्वात् । ततश्च भावा-
र्थाधिकरणे धात्वर्थस्यैव फलकरणताया निश्चितत्वाद्गुणस्य तत्र विधातुमशक्यत्वात्परिशेषादवश्यं कर्म
विधातव्यमिति सिद्धः कर्मभेदः ॥ इति प्राप्ते, सिद्धान्तयति-
-
विकारो वा प्रकरणात् ॥ ८ ॥
n
वाशब्द एवार्थे । दर्शपूर्णमासकर्मणि विकारः अवस्थाविशेष: अत्र फलाय विधीयते, न
तु कर्मान्तरम् । दर्शपूर्णमासयोरवस्थारूपाद्विकारात्फलं न कर्मान्तरादित्युक्तं भवति । कुतः । प्रकर-
णात् कर्मान्तरत्वे प्रकरणविच्छेदप्रसङ्गात् ॥ अयमाशयः । लोकतः प्रसिद्ध्यभावेऽपि 'द्वे पौर्णमा-
स्यौ द्वे अमावास्ये यजेत' इति वाक्यात् 'सह कुम्भीभिरभिकामं जुहोति' इति वाक्याच्च पौर्णमास्य-
मावास्यावृत्तिलक्षणः कुम्भीभिः सहप्रस्थानलक्षणश्च गुण. प्रसिद्धः । ततश्च दक्षस्योत्साहिनो यज-
मानस्येमे दाक्षा ये ऋत्विजः तेषामयनमावृत्तिः, तत्कर्तृकद्वि प्रयोग इति यावत् । अभेदविवक्षया
च यज्ञसामानाधिकरण्यम् ; साकंप्रस्थायः सहप्रस्थानम् , तत्सबन्धी साकंप्रस्थायीय इति चावयव-
व्युत्पत्त्या वाक्यान्तरप्रसिद्धावृत्तिसहप्रस्थानलक्षणगुणविशिष्टवचनदाक्षायणयज्ञादिशब्देन 'लोहि-
तोष्णीषा ऋत्विजः-' इत्यत्रेवोपसर्जनगुणस्य विधानं नानुपपन्नम् । एवं च ‘दनेन्द्रियकामस्य-
इत्यत्रेवात्र फलाय गुणविधिरेव, न तूद्भिदादिवत्कर्मान्तरम् ।
दाक्षायणयज्ञविषये इतोऽप्येवमित्याह-
लिङ्गदर्शनाच्च ॥९॥

२०६ अध्वरमीमांसाकुतूहलवृत्ती [अधि. ४-५. 'विंशतं वर्षाणि दर्शपूर्णमासाभ्यां यजेत यदि दाक्षायणयज्ञी स्यात् पञ्चदश वा वर्षाणि यजेत तवं संपद्यते' इति विंशतं वर्षाणि दर्शपूर्णमासयाजिनो यावती दर्शपूर्णमासप्रयोगसंख्या तावत्संख्याकदर्शपूर्णमासप्रयोगसंपत्ति पञ्चदशवार्षिकदाक्षायणयज्ञिनो दर्शयति । तदेतत्कर्मान्तरत्वे विरुध्यते । न हि दाक्षायणयज्ञस्य कर्मान्तरत्वे तदीयपञ्चदशवर्षसंपन्नसंख्यया त्रिंशद्वर्षलब्धसंख्या- कदर्शपूर्णमासप्रयोगसंपत्तिवर्णनमुपपद्यते । अतोऽपि न कर्मान्तरम् ।। यदुक्तं संज्ञाभेदात्कर्मभेद इति तत्राह--- गुणात्संज्ञोपबन्धः ॥१०॥ दर्शपूर्णमासयोरुत्पन्नयोरावृत्त्यादिगुणनिबन्धना संज्ञेयम् । उत्पत्तिशिष्टैव च संज्ञा कर्मभे- दिका, प्रकृतकर्मण्यसंभवन्ती च । न चेयमुत्पत्तिशिष्टा नापि प्रकृतकर्मण्यसंभवन्ती, 'अथैष ज्योतिः' इत्यादिवत्प्रकरणविच्छेदेन प्रक्रमस्याभावात् स्वाश्रितगुणवाचित्वेन प्रकृतकर्मणि संभवाच्च ।। . यदुक्तं फलाय कर्मविधान एव फलविधः पर्यवसानात्तत्र कर्मण एव भावार्थाधिकरण- न्यायेन फलाय विध्यवश्यंभावाद्गुणस्याविधेयत्वात्कर्मभेद इति, तत्राह- - समाप्तिरविशिष्टा ॥११॥ , यथा कर्मणः फलमिति भावार्थाधिकरणे साधितं तथैव ‘फलश्रुतेस्तु कर्म स्यात्फलस्य कर्मयोगित्वात् ' 'अतुल्यत्वात्तु वाक्ययोर्गुणे तस्य प्रतीयेत' इतीन्द्रियकामाधिकरणे गुणादपि फलस्य साधितत्वेन फलाय गुणविधानेऽपि फलविधेः पर्यवसानस्याविशिष्टत्वान्न कर्मणः पुनर्वि- धानमत्रेति भावः। अतो गुणविधिः ॥ अन 'अयनेषु' इति बहुवचनोपपत्तये संक्रमवाक्यमप्युदाहृतं भाष्ये । तद्यत्रकचिच्छाखायामन्वेषणीयम् । तवैव च संक्रमशब्दस्य गुणविशेषपरत्वे वाक्यशेषश्चा- न्वेषणीयः । प्रयोजनं पूर्वपक्षे दाक्षायणयज्ञं कुर्वाणेन दर्शपूर्णमासावपि कर्तव्यौ, सिद्धान्ते तु न कर्त- व्याविति । तदेतदपरे न क्षमन्ते । न हि दर्शपूर्णमासयोः संनिधौ दाक्षायणयज्ञादिविधिः, येन तत्र गुणविधानं स्यात् । कौषीतकब्राह्मणे हि तृतीयेऽध्याये दर्शपूर्णमासावनुक्रम्य चतुर्थेऽध्याये 'अनुनि- र्वाप्यया वै देवाः' इत्यादिना पूर्णमासे दर्शे च संस्थिते वैमृधमादित्यं च यागं विधाय ‘अथातोऽभ्यु- दितायाः' इत्यादिनाभ्युदितेष्टिं विधाय 'अथातोऽभ्युदृष्टायाः' इत्यादिनाभ्युद्दष्टेष्टिं च विधाय 'अथातो दाक्षायणयज्ञस्य दाक्षायणयज्ञेनैष्यन्फाल्गुन्यां पौर्णमास्यां प्रयुक्ते' इत्यादिना दाक्षायणयज्ञमनुक्रम्य 1. पर्यवसानादत्र-क, घ, क. , सू १०-१२] द्वितीयाध्याये तृतीय पाद । २०७ - 'अथात साकप्रस्थायीयस्य' । अथातो मन्यधनस्य' । अथातस्तुरायणस्य' ' अथात आप्रयणस्य' 'अथातश्चातुर्मास्यानाम्' इत्यादिना बहूनि कर्माण्यनुक्रान्तानि । तत्राथशब्देन प्रकरणविच्छेदात् अथैष ज्योति' इत्यादिवदुत्पत्तिशिष्टसज्ञान्तरकत्वात्प्रकृतकर्मणि सज्ञान्तरस्य समावेशासभवाञ्च कर्मान्तरत्वमेव युक्तम् । नापि दाक्षायणशब्दो दर्शपूर्णमासयोरावृत्तिगुणयोगाद्वर्तितुमर्हति । न हि दक्षस्येमे दाक्षा ऋत्विज , तत्कर्तृकमयनमावृत्तिरित्यवयवव्युत्पादनमुचित येन वाक्यान्तरप्रसिद्धगुण- परत्व स्यात् । 'दक्षो ह वै पार्वतिरेतेन यज्ञेनेष्वा सर्वान्कामानवाप' ‘स वै दक्षो नाम तद्यदनेन सोऽयजत तस्माद्दाक्षायणयज्ञ इत्याख्या' इति कौषीतकवाजसनेयकयोरन्यथैव निर्वचनावगते । किच दाक्षायणशब्दस्यावृत्तिगुणपरत्वे तन्मात्रस्य फलाय विधानापत्तौ ‘पौर्णमास्यामैन्द्र सानाय्यम्' मैत्रावरुण्यामिक्षयामावास्याया यजेत' इत्यादिगुणाना फलार्थत्वानुपपत्ति । अतो दाक्षायणशब्दस्य गुणविधिपरत्वासभवात्कर्मान्तरत्वमेव युक्तम् । एव शतपथब्राह्मणेऽपि हव्यवाहकाण्डे दर्शपूर्णमासावनु- क्रम्य सभरणकाण्डे आधान पुनराधानमग्निहोत्र चानुक्रम्य दाक्षायणयज्ञोऽनुक्रान्त । तथा च प्रकरणवि- न्छेदात्कर्मान्तरत्वमेव युक्तम् । यद्यपि तैत्तिरीयादिशाखाया दर्शपूर्णमासप्रकरणे दाक्षायणादिवाक्यं श्रुत- म् , तथापि दाक्षायणादिशब्दस्य गुणपरत्वमुक्तरीत्यानुपपन्नमिति कर्मान्तरत्वमेव युक्तम् । अधिकरण तु गवामयनप्रकरणस्थोत्सर्गिणामयनादिविषय योज्यमित्यास्ता तावत् । इति दाक्षायणयज्ञाधिकरणम् ।। दर्शपूर्णमासयो श्रूयते 'ईषामालभते' 'चतुरो मुष्टीनिर्वपति' इति । ईषा शकटावयव- दारुविशेष । आलम्भन स्पर्शनम् । निर्वपण पृथक्करणम् । मुष्टीन मुष्टिपरिमितान्त्रीहीन । तथा ५ द्रव्यदेवतायुक्ताना कस्यचिदपि प्रकरणमनारभ्य श्रूयते 'वायव्य श्वेतमालभेत भूतिकाम' सौर्य चरु निर्वपेद्ब्रह्मवर्चसकाम' इति । किमत्र वायव्यवाक्ये सौ- धिकरणम् । र्यवाक्ये च दार्शपूर्णमासिकालम्भनिर्वापानुवादेन श्वेतत्व चरुश्च गुणो विधीयते, उत कर्मान्तरभूतौ भूतिब्रह्मवर्चसफलौ वायुसूर्यदेवत्यश्वेतत्वचरुगुणकावालम्भनिर्वापौ याव- दुक्तौ विधीयेते, कि वा उक्तगुणफलविशिष्टौ यागौ विधीयते इति सशये पूर्वपक्षयति- संस्कारश्चाप्रकरणेऽकर्मशब्दत्वात् ॥ १२ ॥ चशब्दो वैषम्ये । दर्शपूर्णमासप्रकरणपठितेषु दाक्षायणादिवाक्येषु कर्मण सनिहित- त्वात्तदाश्रित्य फलाय गुणविधिरिति युक्तम् । इह तु अप्रकरणे कस्यचिदपि प्रकरणमनारभ्य श्रुते वायव्यादिवाक्ये प्रकरणादाश्रयालाभे सति फलाय गुणविध्यसभवादीषासस्कार आलम्भो व्रीहियव- सस्कारो निर्वापश्च श्वेतत्वचरुलक्षणगुणविधानायानूयेते, न तु गुणफलविशिष्टमपूर्वमालम्भन निर्व- पणं च विधीयते । कुत । भकर्मशब्दत्वात् वायव्यादिवाक्ये आलभतिनिर्वपत्योरपूर्वालम्भनिर्वाप- . यागान्तरता- - २०८ अध्वरमीमांसाकुतूहलवृत्ती [अघि. ५. - 6 कर्मशब्दत्वाभावात् । विशिष्टविधानापेक्षया गुणविधानायानुवादत्वस्यैव युक्तत्वादिति भावः । अ- कर्मशब्दत्वादित्यस्य वायव्यादिवाक्ये आलभतिनिर्वपत्योर्यागवाचकत्वाभावादित्यप्यर्थः । यागविधिरत्यन्ताप्रसक्त इति भावः । न च प्राप्तालम्भनिर्वापानुवादेन वायुसूर्यदेवतयोः श्वेतत्वच- रुगुणयोश्च विधाने वाक्यभेद इति वाच्यम् । न हि 'वायव्यम्' 'सौर्यम्' इति च देवताविधिः; किंतु 'सर्वे ओषधिवनस्पतयोऽन्नं प्राणभृतोऽन्नादाः' इति श्रुतौ प्राणभृतां वनस्पतिभोक्तृत्वावगमा- तेन संबन्धेन वनस्पतिसंबन्धिनि प्राणे वायौ देवतात्वोपचारेण ईषायामेव वायव्यशब्दोऽनुवादः । सौर्यम्' इति च आग्नेयपुरोडाशीयव्रीहियवद्रव्यस्य तेजोदेवत्यत्वसामान्यादनुवाद इति न वाक्य- भेदः । अतो दार्शपूर्णमासिकालम्भनिर्वापावनूद्य गुणविधिः । न च दर्शपूर्णमासकर्मणः पुरोडाशा- ज्यदधिपयोद्रव्यावरुद्धत्वात्तत्र चरुविधानमनुपपन्नमिति वाच्यम् । अत एवानुपपत्त्या चरुशब्दो लक्षणया स्थालीवचनम् , सप्तम्यर्थे च द्वितीया । स्थाल्यां निर्वपेदित्यर्थः । न च 'शूर्प निर्वपति' इति विरोधः, शूर्प स्थाल्यामित्यविरोधात् । न च केवलगुणविधौ फलपदानन्वयः, गुणसंबन्धस्य फलसंबन्धस्य च विधौ वाक्यभेदात् अनारभ्यानातत्वेन प्रकरणादाश्रयलाभाभावेन फलाय गुणविध्यनुपपत्तेश्चेति वाच्यम् । भूतिब्रह्मवर्चसपदयोः ‘सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ' इति सर्वकामार्थदर्शपूर्णमासफलै- कदेशानुवादत्वात् । तस्माद्दार्शपूर्णमासिकालम्भनिर्वापानुवादेन श्वेतत्वचरुगुणविधिः । तमिमं पूर्वपक्षं निराकुर्वन्पूर्वपक्षान्तरमुद्भावयति- यावदुक्तं वा कर्मणः श्रुतिमूलत्वात् ॥ १३ ॥ वाशब्दः पूर्वपक्षव्यावृत्तौ । दार्शपूर्णमासिकालम्भनिर्वापानुवादेन केवलगुणविधिरित्ययु- कम् । किंत्वालम्भान्तरं निर्वपणान्तरं च गुणफलविशिष्टं विधीयते । फलपदयोर्नित्यवच्छ्रुतयोर्देवताप- दयोश्च संभवत्प्रयोजनकयो. पाक्षिकानर्थकानुवादत्वस्यान्याय्यत्वात् । किंच लोकेऽप्यालम्भनिर्वापयोः सत्त्वाद्दार्शपूर्णमासिकयोरेव तयोः कथं प्रतीतिः । न चानारभ्याधीतत्वेन प्रकृतिगामित्वात्प्रतीतिरिति वाच्यम् । अव्यभिचरितक्रतुसंबन्धिष्वेवानारभ्याधीतानां प्रकृतिगामित्वाभ्युपगमात् ; अन्यथा 'तस्मा- सुवर्ण हिरण्यं भार्यम्' इत्यादिविधरपि प्रकृतिगामित्वापातात् । एतेन वैदिककर्मत्वसामान्याद्वैदि- ककर्मसंबन्ध्यालम्भाद्यनुवादेन गुणविधिरित्यपि निरस्तम्, हिरण्यभरणादिष्वतिप्रसङ्गात् । ननु गुण- फलविशिष्टालम्भनं निर्वपण च कर्मान्तरं चेकिंप्रकृतिकं तदित्यत आह-यावदुक्तमिति । दर्विहो- मादिवदपूर्वमिदम् । ततश्च यत्किंचिच्छेतद्रव्यं वायवे संकल्प्य भूतिकामेन स्पष्टव्यम् , चरुश्च सूर्याय संकल्प्य ब्रह्मवर्चसकामेन निर्वतव्य इति लभ्यते । ननु द्रव्यदेवतासंबन्धाद्यागः कुतोऽत्र न कल्प्यत इत्यत आह- कर्मणः श्रुतिमूलत्वादिति । कर्मणो यागस्य शब्दैकगम्यत्वाइव्यदेवतासंबन्धमात्रेण सू. १३-१५.] द्वितीयाध्याये तृतीय पाद । - 1 कल्पयितुमशक्यत्वादित्यर्थः । न चैवम् ‘आग्नेयोऽष्टाकपालो भवति' इत्यत्र कथं यागकल्पनमिति वाच्यम् । वैषम्यात् । आग्नेयादिवाक्ये हि पुरुषव्यापारं विना विध्यनुपपत्तेः पुरुषव्यापारापेक्षायां पदान्तरार्थद्रव्यदेवतासंबन्धोपस्थितयागरूप एव कल्पयितुं न्याय्य इत्यश्रुतस्यापि यागस्य विधिर्यु- ज्यते। इह त्वालम्भनिर्वापयोः पुरुषव्यापारयोः श्रुतत्वात्तत एव विध्युपपत्तेरश्रुतयागविधिर्नाभ्युपेयः । तस्माद्यावदुक्तावालम्भनिर्वापौ गुणफलविशिष्टौ वायव्यसौर्यवाक्ययोर्विधीयते इति पूर्वः पक्षः । सिद्धान्तयति- यजिस्तु द्रव्यफलभोक्तृसंयोगादेतेषां कर्मसंबन्धात् ॥ १४ ॥ तुशब्दोऽवधारणे । द्रव्यग्रहणं देवताया आग्युपलक्षणम् । वायव्यादिवाक्ये यजिरेव विधीयते, नालम्भनादि । कुतः । द्रव्यफलभोक्तृसंयोगात् । 'वायव्यम्' इत्यादितद्धितान्तशब्देन द्रव्यदेवतासंबन्धस्य ‘भूतिकामः' इत्यादिपदेन फलसंबन्धस्य तत्कामभोक्तृसंबन्धस्य च अवगमादि- त्यर्थः । ननु द्रव्यदेवतादिसबन्धानां कथं यागकल्पकत्वमित्यत आह- एतेषामिति । द्रव्यदेव- ताफलभोक्तृणां कर्मणा यागेन अविनाभावात् ।। वायव्यम्' इति देवतातद्धितेन हि देवतात्वेन वायुसंबन्धो द्रव्यस्य प्रतीत. । त्यज्यमानहविरुद्देश्यत्वं च देवतात्वम् । तच्च सूर्याद्युद्देशेन द्रव्यत्या- गादेव भवति, नान्यथा । एवं च वायव्यादिवाक्येषु श्रुतप्राय एव याग इति भवति तद्विधिः । तब द्रव्यदेवतासंयोग एव यागस्याक्षेपकः । फलसंयोगो भोक्तृसंयोगश्च फलस्य तत्कामनायाश्चा- भावे स्वकीयद्रव्यं यजमानः किमिति त्यजेदिति यागस्य निर्वाहकतयोपात्त इति न तत्राभिनिवे- ष्टव्यम् । अत्र 'आलभेत' 'निर्वपेत्' इति धात्वर्थो न विवक्षितः । 'श्वेतद्रव्यकवायुदेवताकयागेन भूतिं कुर्यात्' 'चरुद्रव्यकसूर्यदेवताकयागेन ब्रह्मवर्चसं कुर्यात्' इत्यर्थः । धातुभ्यां तु चोदकादर्थाद्वा प्राप्तं स्पर्शनं पृथक्करणं चानूद्यते । न चास्मिन्पक्ष आलभतेर्निर्वपतेश्वानर्थक्यम् , पूर्वपक्षे तु देवता- पदस्येति को विशेष इति वाच्यम् । विधिप्रत्यययोगार्थ धातूपादानस्यावश्यंभावेन सार्थक्यात् । इतोऽप्येवमित्याह- लिङ्गदर्शनाच्च ॥ १५॥ सोमारौद्रं चरुं निर्वपेत्' इति प्रकृत्य परिश्रिते याजयेत्' इति परिश्रयणविधिपरे वाक्ये यागा- नुवाददर्शनादपि लिङ्गाट्रव्यदेवतासंबन्धस्य यागाक्षेपकत्वमनुमिमीमहे इति । वृत्तमिदमधिकरणम् || 'पयसाग्निहोत्रं जुहोति' इति विहितस्य पयसो दोहनविषये 'वत्समालभेत' 'वत्स- मुपसृजति' 'प्राचीमावृत्य गां दोग्धि' ‘दुह्यमानां गामनुमन्त्रयते' इत्यादि श्रुतम् । उपसृजति 1. यजतिस्तु. । - . 27 २१० अध्वरमीमांसाकुतूहलवृत्ती [अधि. ६-८. . सस्कारता- . मातृसमीपं प्रापयति । तत्र ‘वत्समालभेत' इति कि यागविधिः उत संस्पर्शनमात्रविधिरिति ६. वत्सालम्भादीनां संशयः । तत्र 'वायव्यं श्वेतमालभेत' इत्यत्रेव यागविधिरिति ब्रूमः । न च देवतासंयोगाभावात्कथमिह यागविधिरिति वाच्यम् । वत्सालम्भोऽयं धिकरणम् । यजिमकर्म भवितुमर्हति, प्राणिद्रव्यकालम्भत्वात् , वायव्यवाक्यावगता- लम्भवदित्यनुमानेन यागविधित्वाध्यवसाये सति प्राणिद्रव्यकत्वसामान्येनानीषोमीयविध्यन्तप्राप्त्या देवतालाभस्योपपादयितुं शक्यत्वादिति प्राप्ते, सिद्धान्तयति- विशये प्रायदर्शनात् ॥ १६ ॥ यागविधिर्वा स्पर्शनमानविधिति सशये स्पर्शनमात्रविधिरित्येव युक्तम् । कुतः । प्राय- दर्शनात् प्रायेषु बहुषु उपसर्जनावर्तनानुमन्त्रणादियावदुक्तकर्मस्वालम्भनस्य पाठात् , सामान्यतो- दृष्टानुमानस्य च वैदिकार्थागोचरत्वात , ' अध्वर्युमालभेत' इत्यादौ प्राणिद्रव्यकर्मत्वेऽपि स्पर्शनमावा- भिधानेन व्यभिचाराच्चात्रालभतेः स्पर्शनमात्रार्थकत्वम् । न चैवं सति ‘वत्समुपसृजति' इत्युपसर्ज- नविधानादेवार्थसिद्धत्वादालम्भनविधिय॑र्थ इति वाच्यम् । न ह्यत्र म्पर्शनमात्रं विधीयते येन तद्वैयर्थं स्यात् , किंतु चाटूकरणात्मकस्पर्शनविशेषलक्षणसम्कारः । म च नावश्यं प्राप्तः । गोप्रस्न- वनातिशये चोपयुज्यत इति न वैयर्थ्यम् ।। इतोऽयेवमित्याह- अर्थवादोपपत्तेश्च ॥ १७ ॥ 'वत्सनिकान्ता हि पशवः' इति धेनुप्रस्नवनार्थवत्सोपचारात्मकालम्भविधेरर्थवादः । वत्सा नितरां कान्ताः प्रिया येषामिति विग्रहः । स चायमर्थवादो वत्सस्पर्शनमात्रविधावेवोपपद्यते न तु यागविधौ, यागे सति तस्य संज्ञपनप्रसङ्गात् । तथा च यस्मादसौ मातुः प्रियो वत्सस्तस्मा- संज्ञपनार्थमालभ्य इत्यसगतं स्यात् , मारणे अप्रीतिप्रसङ्गात् । चाटूकरणात्मकस्पर्शनविधौ तु वत्सप्रिया माता चाटूकृतेन वत्सेन संयुज्यमाना स्नेहात्प्रस्नविष्यतीत्युपपद्यते । तस्मादत्र स्पर्श- नमात्रविधिः, न यागविधिः । प्रयोजनं पूर्वपक्षे अग्निहोत्राङ्गतयानीषोमदेवताकवत्सद्रव्यकयागोs- नुष्ठेयः, सिद्धान्ते तु वत्सचाटूकरणमात्रमिति । वृत्तमधिकरणम् ॥ अग्नौ श्रूयते 'चरुमुपद्धाति' 'बृहस्पतेर्वा एतदन्नं यन्नीवाराः' इति । तत्र कि चरोरु- पधानमात्रं यावदुक्तं विधीयते, उतोपधानयुक्तो यागो विधीयत इति संशयः । तत्र 'वत्समालभेत' ७. नैवारचरोराधाना- इत्यत्र देवतासंयोगाभावेन यागविध्यसंभवेऽपि प्रकृते वाक्यशेषतो देवता- थताधिकरणम् । लाभाद्यागविधिरस्तु । यद्यपि वाक्यशेषे देवतात्वेन बृहस्पतेश्वरसंबन्धो न सू. १६-१८.] द्वितीयाध्याये तृतीय. पादः । २११ , श्रुतः, तथापि 'बृहस्पतेरन्नम्' इति संबन्धश्रवणादेवतात्व कल्प्यते । यदि हि नैवारचरौ बृहस्पतिर्दे- वता न भवेत्तदा कथं बृहस्पते।वारा अन्नं भवेयुः । तैत्तिरीयके ‘बार्हस्पत्यो भवति' इति तद्धिते- नापि स्पष्टमेव चरोर्देवतासंबन्धः श्रुत. । किच उपधानमात्रविधौ चरोरुपधानसस्कृतस्य भूतभा- व्युपयोगाभावेन संस्कार्यत्वरूपकर्मत्वासंभवाहितीयाश्रुतिरनुपपन्ना स्यात् । यागविधिपक्षे तु तस्य यागस्यैकदेवताकत्वौषधद्रव्यकत्वादिसामान्येनाग्नेयविध्यन्तप्राप्तौ चोदकप्राप्तस्विष्टकृदादिप्रतिपत्तिबा- धेनोपधान चरो. प्रतिपत्तित्वेन विधीयत इति न द्वितीयानुपपत्तिः । तस्मादुपधानप्रतिपत्तिकर्मयु- क्तो बृहस्पतिदेवत्यचरुद्रव्यकयागो विधीयते इति प्राप्ते, सिद्धान्तयति. संयुक्तस्त्वर्थशब्देन तदर्थः श्रुतिसंयोगात् ॥ १८ ॥ अर्थः कार्यमुपधानम् । तद्वाचकशब्देन उपदधातिना चरु 'संयुक्त. । अतः सः तदर्थः उपधानरूपकार्यार्थ एव भवति । उपधानसंस्कार्यस्यापि चरोरुपधानार्थत्वमार्थिकसाधनत्वाभिप्रायम्', चरोरुपधानमात्रस्यैव श्रवणात् ॥ तन्मावं यावदुक्तं विधीयते, न तु याग इत्युक्तं भवति । ननु वाक्यशेषतो देवतावगमे सति याग. कुतो न कल्प्यत इत्यत आह-श्रुतिसंयोगादिति । वाक्यशेषे तावन्नीवारेष्वेव बृहस्पतिः श्रुतः, न चरौ । स च स्वरूपेणैव, न तु देवतात्वेन । तत्र यदि विध्युद्देशस्य देवताकाङ्क्षा स्यात्तदा तद्बलान्नीवारशब्दस्य तद्विकारलक्षणामाश्रित्याश्रुतश्चरुसंबन्धो देवतात्वं च बृहस्पतेः कल्प्यते । इह च विध्युद्देशस्योपधानमात्रविधायकत्वेनोपपन्नतया न देवतापेक्षास्ति, चरोरुपधानस्य च देवताविरहात् । अतः कथं वाक्यशेषाञ्चरोदेवतासंबन्धलाभः । चरूपधान तु प्रकरणादग्न्यङ्गम् । तदङ्गत्वं चाहवनीयाधारस्थण्डिलनिष्पत्त्यर्थतया वाच्यम् । उपधानस्य स्थाण्डिलनिष्पत्त्यर्थत्वमुपधेयचरुद्वारैव, न साक्षात् । ततश्चोपधानलक्षणसंस्कारविधिबलादेवोपधेयस्य चरोरप्युपधानसाध्यस्थण्डिलनिष्पत्ती विनियोगकल्पनादुपधानविधेरयमर्थ संपद्यते 'उपधानसंस्कृतेन चरुणा स्थाण्डिलं निष्पादयेत्' इति । एवं च अनेनैव वचनेन चरोरपि विनियोगात्संस्कार्यत्वं संभवतीति द्वितीयाप्युपपद्यते । 'बार्हस्पत्यो भवति' इति वाक्यमपि प्राग्दीव्यतीयेष्वर्थेष्वपत्यादिषु विहितण्यप्रत्ययान्तत्वेन विशिष्य देवतार्थत्वे विध्युद्देशाकाङ्कालक्षणप्रमाणाभावाद्यथाकथंचिन्नीयमानमपि न दुष्यति । तस्मादुपधानमात्र- विधिरिति । वृत्तमिदमधिकरणम् ।। , 'त्वाष्ट्रं पानीवतमालभेत' इति प्रकृत्यामनन्ति ‘पर्यमिकृतं पानीवत मुत्सृजति' इति । तत्र संशयः किमिह यागान्तरविधिः, उत त्वाष्ट्रवाक्यविहिते कर्मणि पर्यग्निकरणान्ताङ्गकलापविधि- 1. सयुक्तः तदर्थः अत.-क. 2. अमिप्रायगर्भम्-ख.

२१२ अध्वरमीमांसाकुतूहलवृत्ती अधि. ८-९. करणगुणकत्वा- रिति । तत्र 'चरुमुपदधाति' इत्यत्र 'बृहस्पतेवा एतदन्नम्' इति वाक्यशेषस्य देवतासमर्पकत्वाभावेन ८. पानीवतस्य पर्यग्नि- यागान्तरविध्यसंभवेऽपि प्रकृते विधावेव 'पानीवतम्' इति तद्धितान्तेन देवता- संबन्धावगमाद्यागान्तरविधि, संभवति । ' उत्सृजति' इति प्रत्ययप्रतिपाद्य- धिकरणम् । विधेर्हि ‘पानीवतम्' इत्यत्रैव संनिधानादन्वयः, न तु ‘पर्यग्निकृतम्' इत्यत्र। ततश्च वायव्यवाक्यवद्रव्यदेवतासंबन्धाक्षिप्तयागविधिः। प्रकृत्यंश उत्पूर्वकसृजिधातुर्यागविधिबलादु- त्सर्गस्य प्राप्तेः प्रत्ययानुग्रहमात्रार्थः। पर्यग्निकृतशब्दश्च चोदकप्राप्तपर्यग्निकरणानुवादः । एवं च 'पानी- वतयागेन कुर्यात्' इत्येव वाक्यार्थ इति न वाक्यभेदः । न च त्वाष्ट्रवाक्ये पानीवतशब्दादुप- स्थितस्यैव यागस्य पर्यग्निकृतवाक्ये पानीवतशब्देन प्रत्यभिज्ञानात्कथं यागान्तरविधिरिति वाच्यम् । त्वाष्ट्रवाक्ये हि पत्नीवांस्त्वष्टा देवतात्वेन निर्दिश्यते, अन्यथा त्वष्टुपदवैयर्थ्यात् । पर्यग्नि- कृतवाक्ये तु पत्नीवानेव निर्दिश्यत इति कथं तेन त्वाष्ट्रवाक्यविहितयागप्रत्यभिज्ञासंभवः । किच, त्वाष्ट्रवाक्यविहिते कर्मणि पर्यग्मिकृतवाक्येन कि विधीयते , कि पर्यग्निकरणम् , उतोत्सर्गः, अथवा पर्यग्निकृत्वोत्सृजतीति क्रमः, कि वा पर्यग्निकरणान्ताङ्गकलापः । नाद्यः, चोदकत एव पर्यग्निकरणस्य प्राप्तत्वात् । न द्वितीयः, देवतोद्देश्यकद्रव्यत्यागात्मकयागविधा- यकत्वाष्ट्रवाक्यादेव यागरूपस्योत्सर्गस्य सिद्धत्वात्पर्यग्निकृतशब्दवैयर्थ्याच्च पर्यग्निकरणविशिष्टपानी- वतोद्देशेनोत्सर्गविधौ च विशिष्टस्यैवोद्देश्यत्वापत्त्या वाक्यभेदात् । न तृतीयः, पर्यग्निकृत्वोत्सृजतीति क्रमस्यापि चोदकत एव प्राप्तेः । न चतुर्थः, पर्यग्निकरणान्ताङ्गकलापस्यापि चोदकत एव प्राप्तेः । उत्तराङ्गपरिसंख्याने च त्रैदोष्यापत्तेः । एवं च पूर्वकर्मणि विधेयालाभादपि 'गुणश्चापूर्वसंयोगे' इति गुणाधिकरणन्यायेन यागान्तरविधिपरमेव पर्यग्निकृतवाक्यमिति प्राप्ते, सिद्धान्तयति-- - पानीवते तु 'पूर्ववत्वादपच्छेदः॥१९॥ तुशब्द. पूर्वपक्षव्यावृत्तौ । पानीवते · पर्यग्निकृतं पानीवतम्' इति वाक्ये कर्मान्तरविधिर्न भवति, कितु पूर्ववत्त्वात् प्रत्यभिज्ञायमानपूर्वकर्मवत्त्वात् । पूर्वकर्मण्येव पर्यग्निकरणान्ताङ्गकलाप- विधानेनोत्तराङ्गानामपच्छेदः निवृत्तिर्भवति ॥ अयमाशयः । त्वाष्ट्रवाक्ये तावत् 'त्वाष्ट्रम्' 'पानी- वतम्' इति च तद्धितान्तपदं प्रत्येकमेव देवतात्वं गमयति, न त्वत्राग्नीषोमीयादिवत्समासोत्पन्नेनै- केन तद्धितेन त्वष्टुः पत्नीवतश्च देवतात्वावगमः, येन व्यासक्तं देवतात्वं स्यात् । न च प्रत्येकं देव- तात्वे विकल्पः स्यादिति वाच्यम् । एकेनैव वाक्येन युगपदुभयोविहितत्वेन एकक्रियावशीकृततया अन्योन्यनियमलाभात् । न हि ब्रीहियवादिविधाविवात्र वाक्यभेदोऽस्ति । ततश्च यथा देवदत्तयज्ञ- 1. पूर्वत्वादवच्छेद।

सू. १९-२०.] द्वितीयाध्याये तृतीय पाद । । दत्तयोर्माता देवदत्तमातेति यज्ञदत्तमातेति च पृथग्व्यपदिश्यते एवं त्वष्ट्रपत्नीवतोर्यागः ‘पानीवतः इत्यपि पृथग्व्यपदेशमहतीति पर्यग्निकृतवाक्ये पानीवतशब्देन त्वाष्ट्रवाक्यविहितयागप्रत्यभिज्ञानसं- भवान्न कर्मान्तरविधानं युक्तमाश्रयितुम् । ततश्च पानीवतम्' इत्यस्यानुवादत्वात् 'उत्सृजति इति विधिप्रत्ययस्य ‘पर्यग्निकृतम्' इत्यत्रैवान्वय । तथा च ‘पानीवतम्' इत्यनेन उत्स- जिना च प्रकृत्यंशेन पानीवतयागमनूद्य प्रत्ययांशेन पर्यग्निकरणान्ताङ्गकलापश्चोदकप्राप्तोऽप्युत्त- रागपरिसंख्यानाय विधीयते । अप्राप्तपरिसंख्यात्वाच्च न वैदोष्यम् । चोदकप्रवृत्तेः प्रागेव हि पर्य- मिकरणान्ताङ्गकलापविधिः प्रवर्तते । ततश्च तेनैव पर्यग्निकरणान्ताङ्गकलापेन शान्ताकाडूत्वात्पानी- वतयागोऽयं नातिदेशमपेक्षते । यथा गृहमेधीययागः ‘आज्यभागौ यजति' इति चोदकात्प्रागेव प्रवृत्तविधिना क्लप्ताज्यभागाभ्यां निराकाङ्को नातिदेशमपेक्षते तद्वत् । एवं चोत्तराङ्गकलापस्यार्थादेवा- प्राप्तेस्तन्निवृत्तौ विधेापाराभावान्न बैदोष्यम् । न चैवमपि पर्यग्निकरणमावविधिरेव स्यात् न तु तदन्ताङ्गकलापविधिः ‘शंय्वन्ता प्रायणीया संतिष्ठते' इत्यादिवदन्तशब्दाभावादिति वाच्यम् । अन्तशब्दाभावेऽपि पर्यग्निकृतशब्दबलादेव तदन्ताङ्गानां प्रतीतेः । पर्यग्निकृतशब्दो हि भूतकालार्थ- कक्तप्रत्ययान्तः कर्मसाधन: प्राकृतपर्यग्निकरणावस्थापन्नतावचन. । न हि पूर्वाङ्गेष्वकृतेष्वियमवस्था संपद्यत इति तदन्ततालाभः । न च पानीवतविशिष्टोत्सर्गानुवादेन तदन्ताङ्गकलापविधौ विशिष्टो- द्देशाद्वाक्यभेदः, उत्सर्गमात्रानुवादेन तद्विधावतिप्रसङ्ग इति वाच्यम् । उत्सृजतिमात्रस्यैवोद्देश्यसम- पैकत्वे विशिष्टोद्देशदोषानवकाशात् , संनिधानाच्च प्रकृतस्यैवोदेश इति नातिप्रसङ्गः। यद्यपि नव- मोपान्त्याधिकरणे ‘पर्यग्निकृतानारण्यानुत्सृजति' इत्यत्र प्रज्ञाते प्रकृतकर्मणि पर्यनिकरणान्ताङ्गक- लापविधिः सिद्धान्तयिष्यते, तथापि प्रत्यभिज्ञास्ति नास्तीत्यधिकविचारार्थमिदमधिकरणमित्यपौनरु- क्त्यमिति । वृत्तमधिकरणम् ।। योऽदाभ्यं गृहीत्वा सोमाय यजते' इति ‘योशुं गृह्णाति' इति चानारभ्य श्रुतम् । तब संशयः कि ज्योतिष्टोमे ग्रहणविधिर्यागान्तरविधिर्वेति । तत 'पर्यग्निकृतं पानीवतम्-' इति ९. अदाभ्यादीना वाक्ये पानीवतशब्देन पूर्वकर्मणः प्रत्यभिज्ञानात्तत्र गुणविधावप्यनारभ्या- धीतत्वेनात्र प्रत्यभिज्ञाविरहाद्यागान्तरविधिरेव स्यात् । किंच संकल्पाद्युप- धिकरणम् । योगाभावेनाश्वदाभ्यशब्दयोर्ग्रहणसंस्कारनामधेयत्वानहतया ग्रहणव्यतिरिक्त- मेवंसंज्ञकं यागान्तरमेव वाक्यद्वयेऽपि विधेयम् । यद्यप्यदाभ्यवाक्ये 'यजते' इत्येव श्रुतं न तु रूपम् अंशुवाक्ये तु 'गृह्णाति' इत्येव श्रुतं न तु यजिरपि, तथापि ज्योतिष्टोमे 'ऐन्द्रवायवं गृहाति इत्यादाविव गृह्णातिशब्ददर्शनादंशुवाक्येऽपि विधेयं कर्म ज्योतिष्टोमप्रकृतिकमिति निश्चिते सति प्रहनामता- 1 प्रतिज्ञाते-ग.

२१४ अध्वरमीमांसाकुतूहलवृत्ती [अधि. ९ - तदीयद्रव्यदेवतालाभाद्यागत्वाध्यवसायः । यथा आधारवाक्ये आघारसंज्ञककर्ममात्रे विहिते 'इत इन्द्र ऊो अध्वरः' इति मन्त्रवर्णात् 'चतुर्गृहीतं वा एतत्' इति वाक्यशेषाञ्च द्रव्यदेवतालाभा- द्यागत्वाध्यवसायः, तद्वदेव अदाभ्यवाक्येऽपि 'यजते' इति सामान्यरूपेण देवतावगमेऽपि इन्द्रवा- युत्वादिविशेषाध्यवसायः । गृह्णातिस्तु चोदकप्राप्तानुवादः । तस्मादंश्वदाभ्यसंज्ञकयागान्तरयोर्वि- धिरिति प्राप्ते, सिद्धान्तयति- अद्रव्यत्वात्केवले कर्मशेषः स्यात् ॥२०॥ द्रव्यशब्देन द्रव्यदेवतासंबन्धो लक्ष्यते । केवले अरूपे गृह्णातौ श्रूयमाणे कर्मणः ज्योति- ष्टोमस्य अङ्गभूतं ग्रहणं विधेयं स्यात् । अदाभ्यनामकोशुनामकश्च ग्रहणसंस्कार एवात्र विधीयते, न तु यागान्तरविधानमित्युक्तं भवति । कुतः कैवल्यम् । अद्रव्यत्वात् द्रव्यदेवताराहित्यात्॥ अयमा- शयः । संस्कारकर्मणो नामानहत्वे बुभयत्रापि यागविधिर्भवेत् । न तु तदस्ति, सामानाधिकरण्यतः प्रतीयमानस्य ग्रहणसंस्कारनामधेयत्वस्य दृष्टप्रयोजनाभावमात्रेण परित्यक्तुमनुचितत्वात् तन्नामकतया ज्ञानमभ्युदयकारीति कल्पयितुं शक्यत्वात् अंशुवाक्ये यजेरश्रुतत्वेन अदाभ्यवाक्ये यजेर्व्यवहित- त्वेन तन्नामधेयत्वासंभवाच्च । तस्मादंश्वदाभ्यनामकग्रहणसंस्कारावेवात्र विधीयेते, न तु यागान्तरे। एवं चांशुवाक्ये प्रथमं तत्संज्ञककर्ममात्रविधौ तस्य च ज्योतिष्टोमविकृतित्वकल्पनया ततो रूपलाभे सति पश्चाद्यागत्वाध्यवसायः, अदाभ्यवाक्येऽपि प्रथमं सामान्येन देवतात्वावगमे पश्चात्तद्विशेषाध्य- वसाय इति क्लेशोऽपि नानुभवितव्यो भवति । आघारवाक्ये तु मत्रवर्णाद्वाक्यशेषाच्च द्रव्यदेवता- लाभायुक्तं यागरूपत्वम् । न च ग्राह्यविशेषापरिज्ञानात्प्रयोजनाभावाच्च ग्रहणविधिरप्यनुपपन्न इति वाच्यम् । ज्योतिष्टोमाव्यभिचरितगृह्णातिशब्दोपस्थितज्योतिष्टोमाङ्गत्वे सति तत्रापि संनिपातित्वे सत्यारादुपकारकत्वस्यान्याय्यतया संनिपातित्वस्य च सोमसंस्कारद्वारैव वक्तव्यत्वेन संस्कार्यसोमा- ख्यग्राह्यद्रव्यलाभात्क्रतूपकारलक्षणप्रयोजनलाभाच्च । ननु 'आज्यं गृह्णाति' 'चतुर्जुह्वां गृह्णाति' इति दर्शपूर्णमासयोरपि गृह्णातेर्दर्शनान्न ततो ज्योतिष्टोमाङ्गतालाभ इति वाच्यम् । तैत्तिरी- यके षष्ठकाण्डे षष्ठप्रपाठके 'देवा वै यद्यज्ञेऽकुर्वत' 'देवा वै प्रबाहुग्ग्रहानगृह्णत' इत्यनुवाकयोः ज्यो- तिष्टोमप्रकरणगतयोः पुनरानातत्वेन ज्योतिष्टोमाङ्गतासंभवाददाभ्यवाक्ये ‘यजते' इति यजिः प्रक- रणप्राप्तज्योतिष्टोमस्यानुवादः । एवं च यजिना प्रकृतयागमनूद्य तदुत्तरप्रत्ययेन रेवतीवारवन्तीय- पूर्वपक्षन्यायेन गृहीत्वाशब्दार्थसंक्रान्तविधिशक्तिना ग्रहणसंस्कारविधिरिति स्थितम् । अत्रेदं वक्त- व्यम् । तैत्तिरीयक अदाभ्यमधिकृत्य ' उपनद्धस्य गृह्णाति' 'अनभिषुतस्य गृह्णाति' इति द्रव्यं श्रुतम् । 'योऽदाभ्यं गृहीत्वा सोमाय यजते' इत्यत्र सोमस्य देवतात्वं चतुर्थ्यावगतमिति द्रव्यदेव- तासंबन्धाक्षिप्तयागविधि. संभवति । तथांशुविधिमधिकृत्य तैत्तिरीयके सदभिषुतय गृह्णाति' इति सू. २०.] द्वितीयाध्याये तृतीयः पादः । २१५ . . द्रव्यं श्रुतम् । तथा वामदेव्यमिति साम । 'तद्वा अस्यायतनं मनसा गायमानो गृह्णाति' इति विहितवामदेव्यसामाधारभूतया 'कया नश्चित्रः' इत्यूचा प्राजापत्यया 'उपयाम गृहीतोऽसि प्रजाप- तये त्वेति गृह्णाति' 'प्रजापतये त्वा स्वाहेति जुहोति' इत्यादिबोधायनादिपठितमन्त्रवर्णेन च देवता लभ्यत इति तत्रापि यागविधिरेव युक्तः । तथा च प्रस्तरप्रहरणवत्स्विष्टकृद्वदाघारवञ्चांश्वदाभ्ययोरपि ग्रहणसंस्काररूपत्वं यागरूपत्वं च युक्तम् । अधिकरणस्य तु · यत्पृश्नयो गृह्मन्ते' इत्यनारभ्य श्रुतं तैत्तिरीयकवाक्यं विषयः । तत्रापि 'प्रात:सवनिकाभिषवाय होतृचमसीयाभिरद्भिः उपसिक्तं संतृप्तं राजानं दशया व्यूह्याभिमृशति वायुरासि प्राणो नामेति दशभिः' इति द्रव्यदेवतासंबन्धलाभो न शङ्कयः। न ह्यत्र देवता चोद्यते, तद्धितचतुर्योरभावात् । मन्त्रवर्णस्तु न स्वतो देवतां विधातुं क्षमः; किंतु यत्र यजतिजुहोत्यादिशब्दतो देवतोद्देश्यकद्रव्यत्यागात्मकयागावगमस्तत्रैव देवताविशेष- कल्पनाय प्रभवति । तत्र हि सामान्यरूपेणावगताया अपि देवताया विशिष्यावगम आकाङ्घयते । तत्र तद्धितचतुर्योः सत्त्वे तत एवावगमः । तदुभयाभावे तु मन्त्रवर्णात्तदवगमः । न ह्यत्र यजति: श्रूयते, जुहोतिर्वा अन्यो वा यागवचनः कश्चिच्छब्दः । तस्मान्नात्र मन्त्रवर्णतो देवतालाभः । तदेतत् 'पुरोडाशकपालेन तुषानपास्यति' इति कात्यायनसूत्रव्याख्यावसरे कर्कभाष्ये व्यक्तमुपपादितम् । आधारशब्दस्तु क्षारणशिरस्कयागात्मकहोमे वर्तत इति तत्प्रख्याधिकरणेऽवोचाम । अतस्तत्र मान्त्रव- र्णिकदेवतालाभ इति युक्तम् । अत एव शतपथब्राह्मणे 'तं वा एतमग्निमैन्धिषत, तस्मिन्नेते प्रथमे आहुती जुहोति' इत्युपक्रम्य ‘सुवेण तमाघारयति' 'मुचा तमाघारयति' इत्यादि श्रुतम् । अत एव च पूर्वाधारे स्वाहाकारनिषेधोऽपि तत्र श्रूयमाणोऽर्थवान्भवति, क्षारणमात्रविधौ देवतोद्देश्यक- द्रव्यत्यागात्मकयागाभावेन स्वाहाकारस्याप्राप्त्या तत्प्रतिषेधानर्थक्यात् 'स्वाहा देवहविर्दाने' इति कोशाधनुसारेण स्वाहाशब्दस्य यागविषयकत्वावगमात् । आधारं प्रकृत्य ‘इत इन्द्र इति जुहोति' इत्येव कात्यायनः । न चैवं सत्याघारशब्देन प्रथममाघारसंज्ञककर्ममात्रेऽवगते वाक्यशेषमन्त्रव- 'भ्यां देवतावगतौ सत्यां पश्चात्तस्य यागत्वाध्यवसाय इति कथं वार्तिकोद्घोष:, होमत्वेनैव तस्य प्रथममवगमादिति वाच्यम् । आधारपदेन कश्चिद्धोमविशेष इत्येतावन्मात्रावगमे सति 'तस्य विशे- षस्य चतुर्ग्रहीताज्यैकदेशत्वेनेन्द्रत्वेन च द्रव्यदेवताज्ञानाभावे पर्यवसानाभावाद्वाक्यशेषमन्त्रवर्णाभ्यां तथा पर्यवसानमित्यभिप्रायकत्वात् । यथा चैतत्तथा आधाराग्निहोत्राधिकरणे निरूपितमस्माभिः । तस्मात् यत्पृश्नयो गृह्यन्ते' इति वाक्यमिहोदाहरणम् । 'संतृप्तं राजानम्' इत्यव्यभिचरित- ज्यौतिष्टौमिकाङ्गसंवलनाज्ज्योतिष्टोमाङ्गता पृश्निग्रहाणाम् । एवम् प्राणग्रहान्गृह्णाति' इत्यप्युदाहरणम् । तत्र हि संतृप्तस्य राज्ञो नवनवांशूनयंपुरोभुव इति प्राणभृन्मन्त्रैः प्रतिदिशं न्यूह्य प्राचीदिशामि- त्यपानभृन्मन्त्रैः प्रत्यूहति' इति प्रयोगः । तत्र 'प्रायणीये चोदनीये च गृह्यन्ते' 'दशमेऽहन्गृह्यन्ते' 1. तस्य चतुर्ग्रहीत...-क. 2. ज्योतिष्टोम-क, ग, रु.

अध्वरमीमांसाकुतूहलवृत्तौ [अधि. ९--१०. इति च वचनात्प्राणग्रहाणां द्वादशाहिकप्रायणीयादिसुत्याविशेषार्थता। ज्योतिष्टोमे वा गृहीयाद- गदो हैव भवति' इति शाखान्तरम् । बोधायनादिसूत्रेऽप्येवमित्यास्तां तावत् । इत्यंश्वदाभ्याधिकरणम्॥ 'य एवं विद्वानग्निं चिनुते' इत्यत्र कि यावदुक्तमग्निसंस्कारात्मकं चयनं विधीयते, उताग्निसंज्ञकयागान्तरं विधीयते, कि वा ज्योतिष्टोमादौ गुणविधिरिति सशये, पूर्वपक्षयति- सस्कारता- अग्निस्तु लिङ्गदर्शनाक्रतुशब्दः प्रतीयेत ॥२१॥ तुशब्दः अश्वदाभ्ययोर्वैषम्यं द्योतयन्प्रथमतृतीयौ पक्षी निराचष्टे । अश्वदाभ्ययोरनार- भ्यपठितयोरपि प्रकरणे पुन.पाठाज्ज्योतिष्टोमाङ्गता। न चेदं वाक्यं ज्योतिष्टोमप्रकरणे पठयते । १०. अग्निचयनस्य अतो न तत्र गुणविधिः । वैयर्थ्याच्च न स्वतन्त्रसंस्कारविधिः । न च 'ऋ- नोत्येव' इत्यार्थवादिकफलश्रवणात्स्वातन्त्र्यं शङ्कयम् , फलवत्त्वे संस्कारक- धिकरणम् । मत्वस्यैवानुपपत्तेः । तदेवं तुशब्देन प्रथमतृतीयपक्षौ निराकृत्य द्वितीयप- क्षमवलम्बते-अग्निः क्रतुशब्द इति । अग्निः अग्निशब्दः क्रतुशब्द: यागवाचकः प्रतीयेत, ‘अग्नि चिनुते' इत्यस्य हि अग्निसंज्ञकयागं कुर्यादित्यर्थः । एवं च ‘अग्नि चिनुते' इत्यस्य चयनविधायक- स्वाभावात् ' इष्टकाभिरग्नि चिनोति' इति वाक्यमिष्टकाविशिष्टचयनविधायकं संपद्यते । तच्च प्रक- रणात् 'अग्नि चिनुते' इति वाक्यविहितयागाङ्गमिति तद्वाक्यप्राप्तचयनस्य चिधातुरनुवादः । ननु यजिरत्र न श्रूयते । तथा च यजिसामानाधिकरण्याभावादग्निशब्दस्य कथं यागनामत्वमित्यत आह-लिङ्गदर्शनादिति। 'अमेः स्तोत्रम् अग्नेः शस्त्रं, षडुपसदोऽमे.' इति ज्योतिष्टोमयागाङ्गस्तोत्र- शस्त्रादिदर्शनादग्नेर्यागात्मकत्वमध्यवसीयते । किच 'अथातोऽमिममिष्टोमेनानुयजन्ति तमुक्थ्येन तं षोडशिना तमतिरात्रेण तं द्विरात्रेण' इत्यादीनि ‘तमेकादशरात्रेण' इत्यन्तानि चतुर्दश वाक्यानि श्रुतानि । 'तमुक्थ्येन' इत्यादिषु 'अनुयजन्ति' इत्यनुषज्यते । तत्राद्यानि चत्वारि वाक्यान्यग्निना- मकस्य यागस्य संस्थाविधिपराणि । 'अग्नि यजन्तीति यत्तदग्निष्टोमसंस्थेन' इत्यादिवचनव्यक्तिः । 'तं द्विरात्रेण' इत्यादीनि तु तस्यैव यागस्य कालविधिपराणि । · अग्नि यजन्तीति यत्तहिरात्रेण द्वाभ्यां रात्रिभ्याम्' इत्यादिवचनव्यक्तिः । एतेषु सर्वेषु वाक्येषु 'अग्निं यजन्ति' इत्यनुवादेऽमि- शब्दस्य सामानाधिकरण्यादुत्पत्तावनिशब्दस्य यागनामत्वाध्यवसायः । 'अग्निम्' इति द्वितीया तु अग्निहोत्रम्' इत्यादिवदुपपाया । आहवनीयाद्यमिसाध्यत्वादमिशब्दस तत्प्रख्यन्यायेन नामधेयत्व- म् । अनुशब्दश्च ‘एष वा व प्रथमो यज्ञो यज्ञानां य एतेनानिष्ट्वाथान्येन यजेत' इत्यादिवाक्याव- गताग्निष्टोमानन्तर्यस्यानुवादकः । तस्मादग्न्याख्ययागविधिः ॥ इति प्राप्ते, सिद्धान्तयति-- -- सू. २१-२३.] द्वितीयाध्याये तृतीय पाद । द्रव्यं वा स्याच्चोदनायास्तदर्थत्वात् ॥ २२ ॥ वाशब्द एवार्थे । 'अग्निं चिनुते' इत्यत्र अग्निशब्दस्य द्रव्य ज्वलनात्मकमेवाभिधेयं स्यान तु यागः, अग्निशब्दस्य ज्वलनेऽत्यन्तरूढस्य यागवचनताया अयुक्तत्वान् । अत उद्भिदादिव- द्यौगिकत्वाभावाचित्राग्निहोत्रश्येनादिवद्वाक्यभेदतत्प्रख्यतद्वयपदेशत्वाभावाच्च न यागनामधेयत्वमग्नि- शब्दस्य युक्तमाश्रयितुम् । नन्वाहवनीयादिप्राप्त्या तत्प्रख्यन्यायेनाग्निशब्दस्य यागनामत्वमुक्तमिति तत्राह-- चोदनायास्तदर्थत्वादिति । ' अग्नि चिनुते' इत्यादिवाक्यस्य ज्वलनरूपद्रव्यार्थत्वात् ॥न हि 'अग्नि चिनुते' इति वाक्ये अग्निविधिरिष्यते, येनाहवनीयादिप्रापकशास्त्रादेव विधित्सितगुणप्राप्त्या नामत्वं स्यात् । किंतु प्रसिद्धाग्निशब्दवाच्यज्वलनानुवादेन तस्य चयनसस्कारो विधीयते । 'चय- नेन स्थण्डिलं निष्पाद्य तत्राग्निस्थापनमुखेन क्रतुमुपकुर्यात्' इति । अतो नात्र तत्प्रख्यन्यायावतारः। तथा च यागविधेरभावात् · अग्निष्टोमेनानुयजन्ति' इत्यादिवाक्यानि न संस्थादिविधिपराणि, कितु तस्यैव चयनसंस्कारस्य तथाविधक्रतुसंबन्धविधिपराणि । न च तेषु वाक्येषु केवलाग्निशब्दश्रव- णात्कथं तत. संस्कारस्य क्रतुसबन्धविधिरिति वाच्यम् । एषु हि वाक्येष्वग्निशब्दः प्रकरणाच्चयनसं- स्कृते ज्वलने वर्तते । 'अनुर्लक्षणे' इत्यनोः कर्मप्रवचनीयत्वाद्वितीया । लक्षणत्वं च तत्र हेतुत्वम् । 'परापि हेतौतृतीया बाध्यते' इति वैयाकरणाः । तथा च 'स्थण्डिलनिष्पत्तिप्रणाडिकया चयन- संस्कृतेनाग्निनाग्निष्टोमादीन्कुर्यात्' इति फलितमिति चयनसंस्कारस्य ऋतुसंबन्धलाभ । एवं चाग्निष्टोमादिवाक्येष्वग्निशब्दस्य यजिसामानाधिकरण्यमप्युक्त निरस्तम् , अग्निशब्दस्य वैयधि- करण्येनैवान्वयस्योपपादितत्वात् । तस्माज्ज्योतिष्टोमादिषु गुणविधिः । लिङ्गदर्शनं विघटयति- 'तत्संयोगात्क्रतुस्तदाख्यः स्यात्तेन धर्मविधानानि ॥ २३ ॥ 'अग्ने. स्तोत्रम्' इत्यादिवाक्येषु क्रतुः यागः तदाख्यः अग्निशब्दप्रतिपाद्यः स्यात् । कुतः । तत्संयोगात् तेन मुख्यविधया अग्निशब्दार्थेन ज्वलनेन चयनसंस्कृतेन संयोगात् । प्रणाडिकया तत्राग्निशब्दः क्रतुलक्षक इति यावत् । तेन कारणेन तस्य अग्निसंयुक्तक्रतोरेव तानि वाक्यानि षडुपसत्कत्वादिधर्मविधायकानि संपद्यन्ते, तत्रागत्या अग्निशब्दः क्रतुलक्षकः । इह तूक्तरीत्या सत्यां गतौ ज्वलनवचनत्वमेव युक्तम् । ' अग्नि प्रोक्षति ' ' अग्निमधिरोहति' इत्यादौ त्वग्निशब्दो ज्वलना- धारे लाक्षणिक. । 'ब्रह्मवादिनो वदन्ति, यन्मृदा चाद्भिश्चाग्निश्चीयतेऽथ कस्मादग्निरुच्यत इति, यच्छन्दोभिश्चिनोति, अग्नयो वै छन्दांसि, तस्मादग्निरुच्यते' इत्यादिवाक्यशेषास्तु तत्र तात्पर्यग्रा- हका इत्यन्यदेतत् इति । वृत्तमधिकरणम् ॥ 1. ऋतुसयोगात् . - 28 २१८ अध्वरमीमांसाकुतूहलवृत्ती [अधि. ११. वृत्तो गुणविचारः । इदानी प्रकरणान्तरं प्रस्तूयते । कुण्डपायिनामयनं प्रकृत्य ताण्डक- ब्राह्मणे श्रूयते 'ते मासं दीक्षिता भवन्ति, ते मासि सोम क्रीणन्ति, तेषां द्वादशोपसदः, उपस- ११. मासाग्निहोत्रादीना द्भिश्चरित्वा सोममुपनह्य मासमग्निहोत्रं जुह्वति, मासं दर्शपूर्णमासाभ्यां कत्वन्तरताधिकरणम् । यजन्ते, मासं वैश्वदेवेन, मासं वरुणप्रघासैः, मासं साकमेधैः, मासं गुनासीरीयेण' इत्यादि । तत्र ‘मासमग्निहोत्रं जुह्वति' इत्यादिषु वाक्येषु संशयः कि नित्याग्नि- होत्रादिषु मासगुणविधिः, उत कर्मान्तरविधिरिति । तत्राग्निहोत्रादिकर्मण: ‘अग्निहोत्रं जुहोति' इत्यादिवाक्यप्राप्तत्वेनाविधेयत्वात्तदनुवादेन मासविधिः । न च नैयमिकाग्निहोत्रादिकर्मणोऽसंनिहि- तत्वेनानुपस्थितत्वात्कथं तत्र मासगुणविधिरिति वाच्यम् । असंनिहितस्यापि नाम्नोपस्थितिसंभवात् । न च मासस्य पुरुषकृत्या संपादयितुमशक्यत्वेनानुपादेयम्य कथं विधिरिति वाच्यम् । न यत्र कर्मोद्देशेन मासो विधीयते, कितु 'यो मासस्तत्राग्निहोत्रादि कुर्यात्' इत्येव मामोद्देशेन कर्मविधिः । तस्य च विधेरप्राप्तपक्षपातितया कर्मोद्देशेन मासविधौ पर्यवसानम् । एवं च मासस्यैव विधेयत्वा- कर्मणो विधानाभावान्न कर्मभेदः । विहितस्य विधानमेव हि कर्मभेदप्रयोजकमित्युक्तं शब्दान्तराधि- करणे , न तु यथाकथंचित्पुनरुपादानमात्रम् । तस्मान्नित्याग्निहोत्राद्यनुवादेन मासगुणविधिरिति प्राप्ते, सिद्धान्तयति- प्रकरणान्तरे प्रयोजनान्यत्वम् ॥ २४ ॥ नित्यस्याग्निहोत्रादिकर्मण प्रकरणादन्यत्कुण्डपायिनामयनस्य प्रकरणं प्रकरणान्तरम् । तत्र पठ्यमाने मासामिहोत्रादिवाक्ये प्रयोजनान्यत्वम् । प्रयुज्यते अनुष्ठीयत इति प्रयोजनं कर्म तस्य अन्यत्वम् , अप्रकृताभिधानात्कर्मान्तरत्वमित्यर्थः । असंनिहितत्वादग्निहोत्रादिशब्दैनैयमिकाग्नि- होत्रादिकर्मण उपस्थित्यभावेन तदनुवादेन मासगुणविध्यसंभवात् मासविशिष्टमग्निहोत्रादिसंज्ञकं कर्मान्तरमेव मासामिहोत्रादिवाक्येषु विधेयमित्युक्तं भवति । न चासंनिहितस्याप्यग्निहोत्रादिकर्मणो नानोपस्थितिसंभवात्तदनुवादेन मासगुणविधिसंभव इति वाच्यम् । एव सति प्राप्तकर्मण्यनेकगुण- विधौ वाक्यभेदप्रसङ्गात् । यदि हि केवलो मासगुण श्रूयेत तदा भवेत्तस्य विधिः । ' उपसद्भिश्चरित्वा मासममिहोत्रं जुह्वति' इत्यादि श्रूयते। न चाग्निहोत्रादिकर्मण्युपसदः सभवन्ति । अत उपसदस्तदा- नन्तर्य मासश्चेति त्रयं विधेयमिति भवेद्वाक्यभेदः । तथा च नानोपस्थितमपि नित्याग्निहोत्रादिकर्म परित्यज्य कर्मान्तरमेवैषु वाक्येषु विधेयम् । न च 'उपसद्भिश्चरित्वा-' इत्यस्य 'तेषां द्वादशोपसदः, सोममुपनह्य मासमग्निहोत्रं जुह्वति' इति पाठप्राप्तोपसदानन्तर्यानुवादकतयोपपत्तेर्वाक्यभेदाप्रसङ्गा- दस्तु प्रसिद्धाग्निहोत्रकर्मणि गुणविधिरिति वाच्यम् । पाठो ह्याकाङ्कितमेव क्रमं प्रापयितुमीष्टे न 1. तेषां द्वादशोपसदः समुपनह्य सोमं मासमग्निहोत्र जुवति- क, ख, ग, घ, रु.

सू. २४.] द्वितीयाध्याये तृतीय पाद. । २१९ त्वनाकाङ्कितमपि । एकप्रयोगवचनपरिगृहीताङ्गानामेव हि क्रमाकाङ्क्षा भवति, तेषामित्भावाकाड्या युगपदुपनिपातात् । न च प्रसिद्धाग्निहोत्रादिकर्मण' कुण्डपायिनामयनस्य चाङ्गाङ्गिभावोऽस्ति, येन तेषाम् ‘कुण्डपायिनामयनमुपयन्ति' इत्येकप्रयोगवचनपरिगृहीतत्वात्क्रम आकाङ्क्षयेत । 'दीक्षितो न ददाति न जुहोति न पचति' इति सोमक्रतुमध्ये पुरुषार्थहोमप्रतिषेधेन प्रसिद्धाग्निहोत्रादिकर्मणस्त- त्रैवोपनिपाताभावाच्च । एवं च काम्येष्टीनामिवात्र पाठस्य क्रमप्रापकत्वासंभवेन 'उपसद्भिश्चरि- त्वा-' इत्यस्य पाठप्राप्तक्रमानुवादकत्वानुपपत्त्योपसदस्तदानन्तर्य मासश्चेति त्रयमपि विधेयमिति स्वीकार्यमिति भवेदेव वाक्यभेद । एतेन 'दीक्षितो न जुहोति' इति प्रतिषिद्धस्य प्रसि- द्धाग्निहोत्रादिकर्मणः प्रतिप्रसवरूपेण वा सत्रैकदेशत्वेन वा विधिरिति प्रत्युक्तम् , उक्तरीत्या प्राप्तकर्मण्यनेकगुणविधानासंभवेन प्रतिप्रसवायोगात् सत्रसंबन्धस्योपसदादीनां च प्रसिद्धकर्मणि विधौ वाक्यभेदापत्त्या सत्रैकदेशत्वेन विध्यनुपपत्तेश्च । तस्मादत्र कर्मान्तरविधानमिति भाष्यानु- सारी पन्थाः । तमिमं प्रकारं भक्त्वा प्रकारान्तरमुत्प्रेक्षितं वार्तिके । तद्यथा--अप्रकृताभिधाना- त्मकं प्रकरणान्तरं न पृथक्शब्दान्तरादिवत्कर्मभेदकोपाधि., प्रसिद्धाग्निहोत्रादिकर्मण्यसंभवत उप- सदादिगुणादेव कर्मभेदसिद्धेः । ननु, अत्राप्रकृताभिधानापरपर्यायात्प्रकरणान्तरादेव कर्मभेदो न तु गुणात् , अप्रकृताभिधानं हि प्रागनवगताग्निहोत्रादिकर्माभिधानम् ; तच्च प्रसिद्धाग्निहोलादिक- मण्यसंभवत उपसदादिगुणादध्यवसीयते, तथा च कर्मभेदावगमकप्रकरणान्तरस्यात्मलाभे उपक्षीण- त्वाद्गुणस्य नात्र कर्मभेदकत्वम् इति चेन्न । एवं सति 'वाजिभ्यो वाजिनम्' इत्यत्राप्यप्रकृताभिधाना- देव कर्मभेदापत्तौ गुणस्य कर्मभेदकत्वानुपपत्तिप्रसङ्गात् , पूर्वकर्मासंयोगिनो वाजिनगुणस्याप्रकृताभि- धानस्वरूपलाभ एवोपक्षीणत्वात् । कि बहुना, शब्दान्तराभ्याससंज्ञानामपि विधेरप्रकृतविषयत्वबोधन एवोपयोगः । अप्रकृताभिधानाच्च कर्मभेद इति वक्तुं शक्यतया सर्वत्र प्रकरणान्तरमेव भेदक स्यात् । शब्दान्तरादीनां शेषाणां प्रकरणान्तरेण शेषिणा अविनाभावात् । न हि शब्दान्तरादीनां परस्परपरिहा- रेणेव प्रकरणान्तरपरिहारेण कचिद्वर्तनं संभवति । तथा च तैः सह प्रकरणान्तरस्य कथं पृथक्परिगणनं स्यात् । न हि प्रधानस्योपसर्जनभूतैः सह परिगणनमुचितम् । किच 'उपसद्भिश्चरित्वा-' इत्यस्य संनिहितामिहोत्रवाक्यान्वयेन शान्ताकाङ्क्षत्वात् निराकाडूत्वाच्च दर्शपूर्णमासादिवाक्यानां न तेषु तस्या- न्वयः । एवं च दर्शपूर्णमासादिवाक्येषूपसदां तदानन्तर्यस्य चाविधानान्मासमात्रस्यैव गुणस्य विधा- नाद्वाक्यभेदाभावेन नानोपस्थितस्य प्रसिद्धदर्शपूर्णमासादिकर्मणः परित्यागाभिधानं प्रकरणान्तरं तत्र नास्तीति कर्मभेदो न स्यात् । तस्मादव वाक्यभेदप्रयुक्तमप्रकृताभिधानं न कर्मभेदप्रयोजकम् । किंतु शब्दान्तरादिवदप्रकृताभिधानापादकं किचिन्निरूपणीयम् । तत्तु प्रकरणविच्छेदापरपर्यायं पूर्वकर्मासं- निधानमेव । तथाहि । विच्छिन्नप्रकरणं कर्म द्वेधा उपादेययुक्तमनुपादेययुक्तं च । तत्र ‘यदाहवनीये जुह्वति' इत्यादावुपादेयस्थले आहवनीयादिगुणस्य होमे प्रसक्ते संपादयितुं शक्यत्वेनोपादेयतया २२० अध्वरमीमासाकुतूहलवृत्ती [अधि. ११-१२. होमोद्देशेन विधानसंभवेन विशिष्टविधिगौरवभीत्या कर्मण उद्देश्यत्वावश्यंभावे दूरस्थस्यापि होमस्य सिद्धवनिर्देशबलेनाभिध्यानादिना कथंचिद्बुद्धौ विपरिवृत्ति संपाद्य — यो होमः स आहवनीये' इत्येवं गुणविधिसंभवः । अनुपादेयगुणस्तु पञ्चधा ‘देश: कालो निमित्तं च फलं संस्कार्यमेव च । इति मीमांसकाः प्राहुरनुपादेयपञ्चकम् ' इति । तदिह मासस्याग्निहोत्रादिकर्मणि प्रसक्ते संपादयितुमशक्य- तया दध्यादिवदानयनादिक्रियाविशिष्टत्वेनाननुष्ठेयतया चानुपादेयस्याग्निहोत्रादिकर्मोद्देशेन पर्यव सानगत्यापि विधानासंभवेन ‘यो मासस्तत्राग्निहोत्रादि कुर्यात्' इत्येवं मासानुवादेनाग्निहोत्रादि- कर्मण एव भावार्थाधिकरणन्यायेन विधेयतया विहितस्य विधानान्यथानुपपत्ते. प्राप्तवनिर्देशाभावेन परप्रकरणपाठेन च पूर्वकर्मप्रत्यभिज्ञाविरहाच्च सिध्यति कर्मभेदः । 'पौर्णमास्यां यजेत' 'सायं जुहोति' 'प्रातर्जुहोति' इत्यादौ कालोद्देशेन कर्मविधावपि न कर्मान्तरत्वमिति 'संनिधौ त्वविभागात् इत्यधिकरणेऽनुपदमेव वक्ष्याम. । तत्र, मासस्यानुपादेयत्वेऽपि तत्र कर्मणोऽनुष्ठेयतामात्रेण कथंचिद्वि- धिसंस्पर्शात् परोद्देशप्रवृत्तकृतिव्याप्यत्वलक्षणपारार्थ्यात्मकशेषत्वरूपमङ्गत्वमुपपाद्यम् । ननु, मासाग्नि- होत्रादिवाक्येषु प्रसिद्धाग्निहोत्रादिकर्मणः संनिधिकृतप्रत्यभिज्ञाविरहेऽपि नामधेयकृता तत्प्रत्यभि- ज्ञास्ति , न च नाम्ना तद्विपरिवृत्तावपि तत्रानुपादेयस्य सिद्ध्यसंभवाद्विपरिवृत्तिरप्रयोजिकेति वाच्यम् , प्रसिद्धाग्निहोत्रादिकर्मणि मासविध्यसंभवेऽपि तस्यैव कर्मणो नाम्ना विपरिवर्तमानस्य कुण्डपायिना- मयनैकदेशत्वेन विधिसंभवादिति चेन्न। प्रसिद्धाग्निहोत्रादिकर्मणः कुण्डपायिनामयनैकदेशत्वेन विधाने- ऽप्यग्निहोत्रादिशब्दस्य धात्वर्थमात्रनामधेयतया तेन भावनाया उपस्थित्यभावेन तद्भदस्यापरिहार्यत्वात् । किंच 'मासं जुह्वति' इत्याख्यातवर्तिना धातुना स्वरसतो लिङ्गसख्यान्वयानहसाध्यत्वरूपेण कर्मान्तरम- भिधीयत इत्यग्निहोत्रादिनानापि साध्यरूपेणैव तदभिधेयम् . नाम्न आख्यातपरतन्त्रत्वात् । अतः कथं मासाग्निहोत्रादिवाक्ये अग्निहोत्रादिनाना प्रसिद्धस्य कर्मण उपस्थितिः । अस्तु वात्र नाम्ना सिद्धरू- पेणोपस्थितिः; तथाप्याख्यातेन साध्यत्वेन प्रतीतस्य प्रसिद्धहोमस्य कथं तेनोपस्थितिः । न च नाना तद्रूपोपस्थित्यभावेऽपि नैयमिकाग्निहोत्रादिशब्दो यद्रूपवाचकस्तद्रूपविपरिवृत्तिरस्त्विति वाच्यम् । विध्यर्थं हि प्रसिद्धाग्निहोत्रादिकर्मणो विपरिवृत्तिरिहोच्यते । विधिश्च सिद्धरूपस्य नानोपस्थाप्यस्य न संभवति, भावार्थाधिकरणे धात्वर्थविधिविषयाकारसमर्पण धातुनैव न तु नाम्नेति प्रतिपादनात् । ततश्च सिद्धरूपस्य नाना विपरिवृत्तिरिहानुपयुक्तैवेति न प्रसिद्धाग्निहोत्रादिकर्मणः कुण्डपायिनामयनैकदेश- त्वेन विधिसंभवः। एवं च विध्यनर्हानुपादेयगुणश्रवणेन कर्मणो विधेयतया सिद्धवन्निर्देशाभावेन तद्वि- परिवृत्त्यभावात्मके पूर्वकर्मासंनिधानापरपर्याये प्रकरणान्तरे सति मासाग्निहोत्रादिविधरप्रकृतविषय- तया प्रयोजनान्यत्वं कर्मभेदः सिध्यतीति सूत्रयोजना। न चैवमप्यनुपादेयगुणनिबन्धनत्वात्कर्मभेदस्य गुणात्कर्मभेद एव पर्यवस्यतीति वाच्यम् । विधीयमानो हि गुण पूर्वकर्मण्यसंभवन्कर्म भिनत्ति । न चात्र मासगुणो विधानमर्हति, अनुपादेयत्वात् । एवम 'सरस्वत्या दक्षिणे तीरे आग्नेयोऽष्टाकपा- । , सू. २४-२५.] द्वितीयाध्याये तृतीयः पाद । २२१ लः पुरोडाशः' इत्यादिदेशसंयुक्ते ' सत्रायागूर्य विश्वजिता यजेत' इत्यादिनिमित्तसंयुक्ते च वाक्ये द्रष्टव्यम्। प्रयोजनं-पूर्वपक्षे प्रसिद्धाग्निहोत्रादिषु यावज्जीवादिकालैर्मासस्य विकल्पः, कुण्डपायिनाम- यनेऽग्निहोवाद्यननुष्ठानं च, सिद्धान्ते तु तदुभयाभाव इत्यायुधम् । विस्तरस्तूचावचो वार्तिकादावनु- संधेय. इति । प्रकरणान्तराधिकरणम् ।। , १ . . तदेवं देशकालनिमित्तफलसंस्कार्येष्वनुपादेयेषु देशकालनिमित्ताना कर्मभेदकत्वं प्रतिपा- दितम् । इदानी फलसंस्कार्ययोः कर्मभेदकत्वं प्रतिपादयितुमिदमारभ्यते । अनारभ्य किचिच्छ्रयते १२ आग्नेयादिकाम्ये- 'आग्नेयमष्टाकपालं निर्वपेद्रुक्काम: अग्नीषोमीयमेकादशकपालं निर्वपेद्भ- टयधिकरणम् । ह्मवर्चसकामः' ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकाम.' इति । रुक् तेजः । तत्कामो रुकामः । तथा अश्वमेधे श्रूयते 'त्रैधातवीया दीक्षणीया' इति । दीक्षणीयाकार्ययजमा- नसंस्कारकारिणीत्यर्थः । तत्र संशयः, कि प्रकृतेष्वाग्नेयादिषु रुगादिफलं कामयितव्यमिति विधीयते काम्यत्रैधातवीयया संस्कार्योऽश्वमेधयजमान इति च, उत फले संस्कार्ये च कर्मान्तरविधिरिति । तत्र कालदेशनिमित्तानां सिद्धानामेव ग्रहणादनुपादेयत्वं युक्तम् , फलसंस्कार्ययोस्तु पुरुषप्रयत्नसंपा- द्यतयोपादेयत्वमेव, कामनामुखेन फलस्यापि पुरुषप्रवृत्तिविषयत्वसंभवात् । शक्यते च दर्शपूर्णमा- सस्थेनापि रुगादिफलं कामयितुम , काम्यत्रैधातवीयाप्रयोगेणाप्यश्वमेध यजमान संस्कर्तुम् । अतः फलसंस्कार्ययोरुपादेयत्वादिह न कर्मान्तरत्वमिति प्राप्ने, सिद्धान्तयति- फलं 'चाकर्मसंनिधौ ॥ २५ ॥ n , . चशब्दः संस्कार्य समुच्चिनोति । प्रकृताग्नेयादिकर्मणः काम्यत्रैधातवीयाकर्मणश्च प्रकरणा- दन्यत्र श्रूयमाणं फलं संस्कार्य चानुपादेयत्वात्कर्मभेदकमेव ॥ अयमाशयः । कामनामुखेन फलस्य प्रवृत्तिविषयत्वस्वीकारे विधिबलात्कामना संपाद्या स्यात् । न च विधितः कामना संपाद्यते, कितु 'स्वरससिद्धैव सा । ततश्च स्वारसिककामनामुखेन फलस्य विध्यधीनप्रवृत्तिविषयत्वासंभवेनोपादेय- वासभवादुद्दश्यत्वमेवेति तदुद्देशेन कमैव विधेयम् । न चोद्देश्यत्वेऽपि फलस्य कालदेशयोरिवाग्रि- माधिकरणे वक्ष्यमाणरीत्या विधेयत्वं कि न स्यादिति वाच्यम् । देशकालयो. सिद्धवत्काररूपोद्देश्य- त्ववतोः कर्मणोऽनुष्ठेयतया तयोरपि तद्विशिष्टवेषेण विध्यधीनप्रवृत्तिविषयतया विधेयत्वोपपत्तावपि फलस्य स्वारसिकप्रवृत्तिविषयत्वलक्षणप्रयोजनत्वरूपेणोद्देश्यस्य विधेयत्वे विधीयमानप्रवृत्तिविषयत्वा- पत्त्या स्वारसिकप्रवृत्तिविषयत्वरूपप्रयोजनत्वव्याघातात् । एवं संस्कार्यस्यापि विध्यन्तरसिद्धस्य फलवदुद्देश्यतया तद्वदेव प्रधानत्वात्तद्वयाघातप्रसङ्गान्न विधेयत्वम् । एतेन निमित्तस्यापि विधेयत्वं स्वत. सिद्धैव सा-क, स्वरसत: सिद्धैव सा-अ. च कर्मसंनिधौ.

२२२ अध्वरमीमांसाकुतूहलवृत्तो [अधि. १२-१४. व्याख्यातम् , तस्य विधेयत्वेऽङ्गत्वापत्त्या निमित्तत्वव्याघातात् । यत्स्वयमनङ्गभूतमेव कर्मप्रवृत्ति लक्षयति तदेव हि कर्मणो निमित्तमित्युच्यते । तस्मादत्रापि कर्मभेद इत्यास्तां तावत् । प्रयोजनं- पूर्वपक्षे रुगादिफलार्थ न पृथक्प्रयोगः, कितु गुणफलवदर्शपूर्णमासप्रयोगेणैव तत्सिद्धिः , सिद्धान्ते तु कर्मान्तरत्वात्पृथक्प्रयोग. इति । वृत्तमधिकरणम् ।। अथ देशकालनिमित्तफलसंस्कार्याणां संनिधौ प्रत्युदाहरणानि प्रदर्शयितुमारभ्यते । दर्श- पूर्णमासयोर्देशकालनिमित्तफलपराणि श्रूयन्ते ‘समे दर्शपूर्णमासाभ्यां यजेत' 'पौर्णमास्यां पौर्णमास्या १३. अवेष्टेरन्नाद्यफल- यजेत' यावज्जीवं दर्शपूर्णमासाभ्यां यजेत' · दर्शपूर्णमासाभ्यां स्वर्गकामो कत्वाधिकरणम् । यजेत' इति, तथा 'स्विष्टकृतं यजति' इति विहितस्विष्टकृद्यागस्य संस्कार्य- परम् ‘शेषात्स्विष्टकृते समवद्यति' इति । तत्र संशय कि देशाद्यनुपादेयसंबन्धात्कर्मभेदः, उत प्रकृतमेव कर्म देशादिषु विधीयत इति । अनुपादेयसंबन्धवशात्पूर्ववत्कर्मान्तरत्वं देशादेरुद्देश्यत्वेन कर्मणो विधेयत्वावश्यंभावात् । न हि कर्मणो देशादेश्वेत्युभयोरप्युद्देश्यत्वसंभवः । अतः कर्मणोऽ- वश्यं विधेयत्वाद्विहितस्य च विधानायोगाद्भवति कर्मभेदः । एवं च कर्मभेदेऽनुपादेयसंबन्ध एव प्रयोजको न त्वसंनिधानमपीति प्राप्ते, सिद्धान्तयति- संनिधौ त्वविभागात्फलार्थे न पुनःश्रुतिः ॥ २६ ॥ तुशब्दः पूर्वपक्षव्यावृत्तौ । संनिधौ दर्शपूर्णमासादिकर्मसंनिधौ पठ्यमानेषु समादिवाक्येषु न कर्मान्यत्वम् । कुतः । अविभागात् प्रकृतकर्मात्मकतया प्रत्यभिज्ञानात् । कर्मसंनिधौ सति तस्मिन्नेव कर्मणि बुद्धौ विपरिवर्तमाने धातोरसंनिधिस्थल इव स्वरसतः कर्मान्तरप्रतिपादकत्वाभावे सति, प्रकृतकात्मकतयैव प्रत्यभिज्ञाबलान कर्मभेद इत्युक्तं भवति। न चानुपादेयस्य देशकालादेर्विध्यनर्हत्वे कर्मण एव विधानावश्यंभावेन विहितस्य विधानानुपपत्त्या विधिसमभिव्याहारेण धातोः कर्मान्त- रपरत्वमेव स्वरसतो वाच्यमिति कथं प्रकृतकर्मणः प्रत्यभिज्ञानमिति वाच्यम् । समादिवाक्येषु हि देशादेरनुपादेयस्य विध्यनहतयोद्देश्यत्वात्कर्मण उपादेयत्वमेव लभ्यते एकस्योद्देश्यत्वेऽन्यस्योपादे- यत्वनियमात् , न तु विधेयत्वमपि । न चोपादेयस्य विधेयत्वनियमोऽस्ति । प्राधान्येन निर्देश्यत्वं झुद्देश्यत्वम् , पारतन्त्र्येण निर्देश्यत्वं चोपादेयत्वम् । अप्राप्तबोधनं विधिः, प्राप्तबोधनमनुवादः । एवं चौपादेयमपि देशादौ कर्म प्राप्तमेव संनिधिवशात्ताद्रूप्येण प्रत्यभिज्ञायत इत्यनुवाद्यम् । अतः कर्मणः पुनर्विधानाभावान कर्मभेदः । न च कर्मणोऽनुवाद्यत्वाद्देशादीनां चोद्देश्यत्वात्कस्यापि विधियोग्य- स्याभावात्समादिवाक्यमनर्थकमेव स्यादिति वाच्यम् । देशादेः कर्मसंबन्धविधानार्थत्वात् । देशादेहि न फलवत्स्वारसिकप्रवृत्तिविषयत्वलक्षणप्रयोजनत्वरूपेण प्राधान्येनोद्देश्यत्वम् , किंतु निर्देशगतस्वातन्त्र्य- , सू. २६-२७.] द्वितीयाध्याये तृतीयः पादः । २२३ मात्रेण । ततश्च ध्यादेरानयनादिक्रियाविशिष्टतया' यथानुष्ठेयत्वं तथा देशादेर्नानुष्ठेयत्वमिति ताव- न्मात्रेण तस्य स्वतन्त्रनिर्देशे सत्यपि फलवत्स्वारसिकप्रवृत्तिविषयत्वरूपप्रयोजनत्वासकोद्देश्यत्वस्य विधेयत्वविरोधिनोऽभावेन सबन्धमुखेन विधिसभवान्न समादिवाक्यवैयर्थ्यम् । नन्वेवमपि देशका- लयोरेव विधेयत्वं लभ्यत, निमित्तफलसंस्कार्याणां तु निमित्तत्वादिव्याघातप्रसङ्गेन विधेयत्वाभावस्य पूर्वस्मिन्नधिकरणे प्रतिपादिततया निमित्तादिवाक्येषु कर्मण एव विधानस्य वाच्यतया कर्मभेदः स्यादित्यत आह- फलार्थे न पुनःश्रुतिरिति । फलग्रहणमुपलक्षणम् । फलनिमित्तसस्कार्यवाक्येषु यदाग्नेयादिवाक्योत्पन्नानां कर्मणाम् 'स्विष्टकृत यजति' इत्युत्पन्नस्य च फलादिसंबन्धप्रतिपादनार्थ पुनःश्रवणं तन्न कर्मभेदं प्रयोजयितुं क्षमते, उत्पत्तिविधिभेदस्यैव कर्मभेदप्रयोजकत्वात् । अप्रवृत्त- कर्मस्वरूपप्रवर्तनं ह्युत्पत्ति. । न चैकस्य कर्मणोऽनेकवाक्यतोऽप्रवृत्तप्रवर्तनं संभवतीत्युत्पत्तिविधिभेदः शक्नोति कर्म भेत्तुम् । निमित्तादिवाक्यं तु उत्पत्तिवाक्यतः कर्तव्यत्वमात्रेणावगतानां कस्मिन्निमित्ते कस्मिन्फले कि संस्कार्यमिति विधिविशेषापेक्षाणां कर्मणां निमित्तसंयोगादिप्रतिपादनाय पुनर्विधान- परत्वादुत्पन्नविधिरिति न कर्मभेद: । एतेन देशकालवाक्ययोः कर्मविधिस्वीकारेऽप्युत्पन्नकर्मणः प्रयोगविधानार्थत्वान्नात्रापि कर्मभेदप्रसक्तिरित्यप्युक्तं भवति । यथा चैतत्तथैकादशस्य द्वितीयाद्ये स्फुटीभविष्यति । इयांस्तु विशेष:---- निमित्तादिवाक्येषु कर्मणो विधेयत्वमेव , देशकालवाक्ययोस्तु कर्मस्वरूपोत्पत्तिविषयेऽनुवाद्यत्वम् , प्रयोगविषये विधेयत्वम् , विषयभेदाच न तयोर्विरोध इति । 'न चैवं सति मासाग्निहोत्रादिवाक्यमपि प्रयोगविधिः न तु उत्पत्तिविधिरिति तत्रापि कर्मभेदो न स्यादि- ति वाच्यम् । तस्य प्रयोगविधित्वेऽप्युत्पत्तिविधित्वस्यापि सत्त्वात् प्रयोगस्योत्पत्त्यपेक्षत्वेन सनिहितोत्प- त्यभावे प्रयोगविधेरेव उत्पत्तावपि व्यापारात , यथा आग्नेयादिवाक्यं द्रव्यदेवतासबन्ध तदपेक्षितं यागं च विधत्ते तद्वत् । समादिवाक्यं तु प्रयोगविधिसंनिहिताग्नेयादिवाक्यैरुत्पत्ते भान तत्र व्याप्रियते ; यथा ऐन्द्रवायवादिवाक्यानि ‘सोमेन यजेत' इति संनिहितयागलाभान यागविधावपि व्याप्रियन्ते तद्वत् । प्रयोजनं पूर्वपक्षे समादिवाक्येषु कर्मान्तरविधौ प्रतिवाक्यमेकं कर्म, सिद्धान्ते तु सर्वत्रैकमेवेति स्पष्टमेवेति । वृत्तमधिकरणम् ॥ तैत्तिरीयके द्वितीयकाण्डे दर्शपूर्णमासब्राह्मणे षष्ठप्रपाठके 'प्रजापतिर्देवेभ्यो यज्ञान्व्या- दिशत्' इत्यनुवाके 'अङ्गिरसो वा इत उत्तमाः सुवर्ग लोकमायन्' इत्युपक्रम्य 'यदाग्नेयोऽष्टाकपा- लोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति' इति कालद्वयसंयुक्तमेकं वाक्यं श्रुतम् । सानाय्यं पौर्णमास्यां नास्ति । अग्नीषोमीयपुरोडाशोऽमावास्यायां नास्ति । आग्नेयः पुरोडाश उभयस्मादपि क्रियाविषयतया --ख. 2. स्वातन्त्र्यनिर्देशे-ख, ग. 3. कस्मै फलाय-क, ग. 4. न चैवमपि-ख.

२२५ अध्वरमीमासाकुतूहलवृत्ती [अधि. १४. कालान्न च्यवत इत्यच्युत. । तथा तत्रैव ब्राह्मणे पञ्चमप्रपाठके 'इन्द्रं वृत्र जनिवांसम्' इत्यनुवाके २४. आग्नेयद्विरुक्ते. 'यदाग्नेयोऽष्टाकपालोऽमावास्यायां भवति' इत्येककालसंयुक्तं वाक्यान्तरं स्तुत्यर्थता श्रुतम् । तत्र संशयः, किं कालद्वययुक्तविहिताग्नेययागाद्यागान्तरं विधीयते, धिकरणम् । उत स एव यागोऽनूद्यत इति । तत्र पूर्वपक्षयति- आग्नेयस्तूक्तहेतुत्वादभ्यासेन प्रतीयेत ॥ २७ ॥ तुशब्दः पूर्वाधिकरणसिद्धान्तोपमर्दैन प्रवृत्तिं सूचयति । अनन्यार्था पुनःश्रुति. कर्मभे- दिका, निमित्तादिवाक्येषु च पुनःश्रुतिनिमित्तसंयोगादिप्रापणार्थेति न कर्मभेदिकेति युक्तम् । इह तु पुनःश्रुतिरनन्यार्था । ततश्च ‘एकस्यैव पुनःश्रुतिरविशेषादनर्थकं हि स्यात्' इत्यभ्यासाधिकरण- न्यायेन कर्मभेदः सिध्यति । न चैककालयुक्तवाक्यमनुवादः, विनिगमनाविरहात् । ननु, कालद्व- ययुक्तवाक्यस्य नानुवादकत्वमवकल्पते ; एककालसंयुक्तवाक्यविहिताग्नेययागानुवादकत्वं हि तस्य वक्तव्यम ; तच्च न भवति, उत्पत्तिशिष्टामावास्यायुक्तकर्मणः कालद्वयसंयुक्ततयानुवादानुपपत्तेः; न च तस्य पौर्णमासीकालविषये विधित्वमिति वक्तुं शक्यम् , उत्पत्तिशिष्टामावास्याविरोधात्; अत एक- कालयुक्तवाक्यमेवानुवादः, कालद्वययुक्तवाक्य तु विधिरित्यस्ति विनिगमकमिति चेत् । कालद्वययुक्त- वाक्ये हि नैक एवाग्नेययाग. येन एककालयुक्तवाक्योत्पन्नाग्नेययागस्य कालद्वययुक्तवाक्यमनुवादक न भवेत् । यागद्वय हि तत्र कालभेदात्प्रतीयते । तत्र चैककालवाक्योत्पन्नामावास्याकालयुक्त आने- ययागोऽनूद्यते , पौर्णमासीकालयुक्ताग्नेययागान्तरं च विधीयत इति विशेषाभावेनान्यतरवाक्यस्या- नुवादत्वनिर्धारणाभावादुभयोरपि विधायकत्वे 'पुनर्विधानात्कर्मभेदः । ततश्चाग्नेययागस्यामावास्यायाम अभ्यास: आवृत्तिः प्रतीयेत । अमावास्यायां द्विराग्नेयः प्रयुज्यत इति यावत् । तमिमं पूर्वपक्षं प्रौढिवादेन निराकरोति- अविभागात्तु कर्मणो द्विरुक्तो न विधीयेत ॥ २८ ॥ तुशब्द उक्तनिरासे । समिदादिवाक्येषु प्रत्यक्षयजिपुनःश्रवणात् भेदकत्वम् । इह तु द्रव्यदेवतासंबन्धाद्यागोऽनुमातव्यः । प्रत्यक्षश्रुतं च द्रव्यदेवतं वाक्यद्वयेऽपि न भिद्यते । कुतः । अविभागात् एकत्वेन प्रत्यभिज्ञानात् । अतो द्वि:पठितेन वाक्येनान्यतरेणाग्नेयो यागो विधीयेत । उभयोर्वाक्ययोरमावास्याकालयुक्तकर्मविधायकत्वे विकल्पः। एकं वाक्यमेकं पुरुषं प्रत्यमावास्यायुक्त- कर्मणो विधायकम् , अन्यच्चान्यं प्रति तस्यैव विधायकमिति यावत् । अथवा विनिगमनाविरहा- 1. सति पुनः--क. 3. कर्मणा द्विरुक्तेन विधीयते.

सू. २७-२९.] द्वितीयाध्याये तृतीय पाद । २२५ द्वाक्यद्वयेनाप्येकमेव कर्म युगपद्विधीयत इति व्याख्येयम् । न चान्यतरवाक्यस्यानर्थक्यं शङ्कथम् , कर्मभेदाश्रयणापेक्षया आनर्थक्याश्रयणस्याभ्यर्हितत्वात् । यद्यपि वेदे 'मात्रामात्रस्याप्यानर्थक्याभ्युप- गमो न युक्तः, तथापि प्रौढिवादोऽयम् । परमार्थत. सिद्धान्तमाह- - , अन्यार्था वा पुनःश्रुतिः ॥ २९ ॥ वाशब्दोऽर्धाङ्गीकारे । 'अविभागात्कर्मणः' इति कमैकत्वमुक्तमङ्गीकुर्मः, 'द्विरुक्तेन तु विधीयेत' इत्यानर्थक्यमुक्तं नाङ्गीकुर्मः । ननु पुनःश्रवणस्य का गतिरित्यत आह- अन्यार्थेति । अमावास्यायां केवलाग्निदेवत्योऽष्टाकपालः प्रशस्तः किमुतेन्द्रसहिताग्निदेवत्य एकादशकपाल इत्यैन्द्रा- ग्नप्रशंसापरमेककालसंयुक्तवाक्ये आग्नेययागस्य पुनःश्रवणम , ‘स एतमैन्द्राग्नमेकादशकपालममा- वास्यायामपश्यत्' इत्युपक्रमात् । एवं चैन्द्राग्नविध्येकवाक्यतया तत्प्रशंसाथै केवलामावास्यावाक्य- मेवानुवाद इति विशेषग्रहणाद्विधिपुनःश्रवणाभावाच्च नाभ्यासन्यायावतारः। तस्मादमावास्यायामपि सकृदेवाग्नेययागस्य प्रयोग इति सिद्धम् ।। इति द्वितीयाध्याये तृतीयः पादः ॥ 1. मात्राभ्यासस्यापि-ख. 29

चतुर्थः पादः॥
टे-
निर्मध्य निगमसिन्धून्विविधन्यायाभिधानमन्थानैः ।
धर्मसुधामुद्धरते भूयो मुनये नमोऽस्तु जैमिनये ॥
तदेवं कर्मभेदे विचारिते तत्प्रसङ्गात्प्रयोगभेदोऽस्मिन्पादे प्राधान्येनाभिधीयते ।
n
'यावज्जीवमग्निहोत्रं जुहोति' यावज्जीवं दर्शपूर्णमासाभ्यां यजेत' इत्यत्र किम् ‘अग्नि-
होत्रं जुहुयात्स्वर्गकाम.' 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति विहितकाम्यप्रयोगस्यैकस्य
१ यावज्जीविकाग्निहोत्रा- यावज्जीवकालमभ्यासो विधीयते, उत जीवने निमित्ते अग्निहोत्रस्य दर्शपूर्ण-
धिकरणम् । मासयोश्च बहूनां प्रयोगाणां स्वर्गकामवाक्यविहितादन्येषां विधिरिति
संशये, पूर्वपक्षयति-
यावजीविकोऽभ्यासः कर्मधर्मः प्रकरणात् ॥ १ ॥
.
कर्मशब्दः प्रयोगवाची । स्वर्गकामवाक्यविहितोऽयं काम्यः प्रयोगः । तस्य धर्मः शेष-
भूतः कालः, यावजीविकः यावज्जीववाक्यगम्यो भवति । काम्यप्रयोगाङ्गतया यावज्जीवकालो
विधीयते, न तु जीवने निमित्ते प्रयोगान्तरविधिरिति यावत् । कुतः । प्रकरणात् । एवं हि प्रकर-
णमनुगृहीतं भवति । यद्यपि प्रकृतकर्मण एव जीवने निमित्ते विधानात्पक्षान्तरेऽपि न प्रकरणबाधः,
तथापि प्रकरणमत्र नाधिकाररूपं विवक्षितम् , कित्वित्थंभावाकाङ्खालक्षणं विवक्षितम् । तच्च कर्म
धर्ममपेक्षमाण जीवने निमित्ते पुरुषार्थतया प्रयोगान्तरविधौ बाधितं स्यात् । ननु काम्यप्रयोगस्यैकस्य
यावज्जीवकाले कर्तुमशक्यत्वात्प्रयोगबहुत्वमापतितमित्यत आह- अभ्यास इति । यावज्जीवकाल-
विधौ हि तत्सामर्थ्यादेकस्यैव काम्यप्रयोगस्याभ्यासः पर्यवस्यति, यथा ' सोमेन यजेत' इत्युत्पन्न-
स्यैव यागस्य ऐन्द्रवायवादिवाक्येषु ग्रहणसस्कारविधिपरेषु द्रव्यदेवतासंबन्धभेदादभ्यासस्तद्वत् ।
तस्माद्यावज्जीवकालकोऽभ्यस्तरूप एक एव काम्यप्रयोग इति फलतीति पूर्वः पक्षः ।।
सिद्धान्तयति-
-
कर्तुर्वा श्रुतिसंयोगात् ॥ २ ॥

सू. १-२.] द्वितीयाध्याय चतुर्थः पाद । २२७ , - वाशब्द एवार्थ । ' धर्मः' इत्यनुवर्तते । एकस्यैव काम्यप्रयोगस्य यावज्जीवकालमभ्यासो नात्र विधीयते , कितु जीवने निमित्ते नियमेन भिन्न. प्रयोगः पुरुषधर्मतया विधीयते । कुतः। श्रुति- सयोगात् एवं सत्येव यावज्जीवपदस्य यजेश्च मुख्यवृत्तिकत्वसंभवात् ॥ कर्मधर्मत्वे हि ‘यावति विन्दजीवोः' इति सूत्रविहितणमुल्प्रत्ययान्तस्य 'अव्ययकृतो भावे भवन्ति' इति जीवनक्रियावाचिन: काले लक्षणा स्यात् , एकस्या यागक्रियाया यावज्जीवकालसबन्धानुपपत्त्या यजिनाप्यभ्यासो लक्ष- णीयः स्यात् । न च यथा 'पौर्णमास्यां पौर्णमास्या यजेत' इति विहितकालैकदेशे सकृदनुष्ठानेनापि शास्त्रार्थसिद्धि , तथा यावज्जीवकालैकदेशे सकृदनुष्ठानेनापि शास्त्रार्थसिद्धिसंभवान्नाभ्यासलक्षणेति वाच्यम् । अपौर्णमासीव्यावृत्त्यर्था चोदनेति युक्ता तत्र सकृदनुष्ठानेन शास्त्रार्थसिद्धिः । इह तु चोदना अजीवनकालव्यावृत्त्यर्था न भवति, तदा कर्मणोऽनुष्ठानस्याप्रसक्तेः। कितु समस्तजीवनकाल- ग्रहणाथैव चोदनेत्यभ्यासलक्षणा दुर्वारा। तत्र ‘यावति विन्दजीवोः' इति णमुल्विधायकं सूत्रम् । तत्र 'समानकर्तृकयोः पूर्वकाले' इत्यनुवर्तते णमुल्' इति च । यावत्युपपदे समानकर्तृकयोः क्रिययो. मध्ये पूर्वकालिकक्रियावृत्तेविन्दतेर्जीवतेश्च णमुल्स्यादित्यर्थः । जीवतेश्च प्राणधारणमर्थः । प्राण उच्छासः नासाबहिर्निर्गतो वायुविशेषः । तस्य धारणं नासिकया अन्तराकर्षणम् । 'अव्ययकृतो भावे-' इति वचनाण्णमुलन्तस्यापि जीवनक्रिया अर्थः । पौर्वापर्य समानकर्तृकत्वं च द्योत्यम् । यावच्छब्दो जीवनं सामस्त्येन विशिनष्टि । तच्च जविनम् 'समानकर्तृकयो.' इति क्रिया- न्तरसंबन्धे विहितेन णमुल्प्रत्ययेन होमाद्यन्वयितया प्रतीयते । स च संबन्धो यदि जीव- नस्य होमादिक्रियायाश्चाङ्गाङ्गिभावादि. स्यात् तर्हि सर्वेष्वपि जीवनेष्ववश्यं होतव्यमित्यर्थ- स्यासिद्धेर्यावच्छब्दार्थस्य प्राप्त्यभावादनुवादो नावकल्पेत । नापि विधातुं शक्यते, जीवनाना- मयुगपत्कालकत्वेन तत्सामस्त्यस्य कर्मणि विधानासंभवात् । ततश्च यथा भावलक्षणे विहिता सप्तमी भावं प्रति लक्षणत्वं निमित्तत्वे सति घटते नान्यथेत्यानिमित्तत्वेऽवतिष्ठते, तथा यावच्छ- ब्दबलादेव संबन्धसामान्यवाची णमुल्प्रत्ययो निमित्तनैमित्तिकभावेऽवतिष्ठत इति जीवनस्य तावनि- मित्तत्वम् । एवं च जीवने निमित्तेऽग्निहोत्रं प्रयोक्तव्यं दर्शपूर्णमासौ प्रयोक्तव्यावित्यर्थः सिद्धः । नैमित्तिकश्चायं प्रयोगः ‘धर्मेण पापमपनुदति' इति श्रुतपापक्षयार्थः । ‘अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रसजश्चेन्द्रियार्थेषु नरः पतनमृच्छति' 'विहितस्याननुष्ठानानिन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नर. पतनमृच्छति' इति स्मृतिसिद्धस्याकरणप्रयुक्तप्रत्यवायस्य परिहारस्त्वानुषङ्गिकः । नरकेषु पतत्यनेनेति पतनं पापम् । ऋच्छति प्राप्नोति । अत्र विहिताकर- णजन्यप्रत्यवायप्रागभावपरिपालनं नित्यकर्मणां फलमिति केचित् । तन्न । प्रत्यवायो हि न कर्म- मात्रातिक्रमात् , कितु विहितकर्मातिक्रमात् , ' अकुर्वन्विहितं कर्म-' इति वचनात् । ततश्च सिद्धे विधौ विहितकांतिक्रमात्प्रत्यवायावगमः, अवगतस्य प्रत्यवायस्य परिहाराय च विधिरित्यन्योन्या- .

२२८ अध्वरमीमासाकुतूहलवृत्ती [अधि. १. १ १ , श्रयः । अतः पापक्षय एव फलम् । तच्च पापमिह जन्मनि जन्मान्तरे च संचितम् , 'पूर्वी संध्यां जपंस्तिष्ठेन्नैशमेनो व्यपोहति' 'कषाये कर्मभिः पक्के 'धर्मेण पापमपनुदति' इत्यादिश्रुति- स्मृतिभ्यः । न च निमित्तोद्देशेन पापक्षयरूपफलोद्देशेन च कथं कर्मविधिः, वाक्यभेदप्रसङ्गादिति वाच्यम् । न ह्येकमेव वाक्यं निमित्ते फले च कर्म विधत्ते, कितु यावज्जीववाक्य निमित्त कर्म विधत्ते, अन्यञ्च श्रुतार्थापत्तिकल्पितं वाक्यं फले विधत्त इत्यदोषः । न चैवमप्युद्देश्यद्वय एकस्य विधिविरुध्यत इति वाच्यम् । न हि द्वयोरकरूपमुद्देश्यत्वमस्ति । निमित्तस्य हि 'सिद्धवत्काररूपमुद्दे- श्यत्वम्, पापक्षयस्य तु स्वारसिकप्रवृत्तिविषयत्वात्मकप्रयोजनत्वरूपम् । न ह्येवंविधयोरुद्देश्ययोः फलनिमित्तयोरेकत्र विरोधोऽस्ति । यदि हि निमित्तमपि फलवकर्मजन्यं स्यात् तदा द्वयोरप्येकप्र- कारसंबन्धाद्विरोधः स्यात् । प्रत्युत निमित्ते कर्म क्रियमाणं कि प्रयोजनमिति सुतरामपेक्षते, निमि- तेऽवश्यकर्तव्यताया नैष्फल्ये सत्यनुपपत्ते. । अतश्च निमित्तबलेनापेक्ष्यमाणं फलं कथं तेन विरुद्धं स्यात् । ननु, निमित्तत्वमुपलक्षणत्वं ज्ञापकत्वं व्याप्यत्वरूपम् ; व्याप्तिश्च यदा यदा जीवनं तदा तदा कर्मेत्येवंरूपा, अन्यथा कर्मणि कदाचिज्जीवनसंबन्धस्यावर्जनीयत्वेन तत्प्रतिपादनानर्थक्यात् , तथा च व्याप्त्या निमित्ते कर्मण आवश्यकत्वरूपनियमोऽर्थाद्गम्यते, अनावश्यकत्वे निमित्ते सत्यपि कदाचित्कर्मणोऽकरणे निमित्तत्वव्याघातान् , एवं च तस्य फलार्थत्वे फलेच्छायामसत्यामननुष्ठाने सति निमित्तत्वं व्याहन्येत, इति चेत् । न हि काम्यत्वनैमित्तिकत्वयोः स्वरूपेण विरोधोऽस्ति । फलेच्छायाः कादाचित्कत्वमेव हि तद्विरोधे बीजम् । प्रकृते च न पापक्षयस्य कदाचित्कस्यचि- दप्यनिच्छास्ति, दुःखाधायकपापनिवृत्तेः सर्वदाभिलषणीयत्वात् । न च येन पापं नैवाचर्यते तस्य न तदिच्छेति वक्तुं शक्यम् , इह जन्मन्यनाचरणेऽप्यनादिजन्मान्तरप्रवाहार्जितपापराशिक्षयेच्छाया अवर्जनीयत्वात् । न च ब्रह्मलोकान्तविरक्तस्य मुमुक्षोर्न तदिच्छेति वाच्यम् । मुमुक्षुणापि पाप- क्षयस्यावश्यमभिलषणीयत्वात् । न ह्येतजन्मनि जन्मान्तरेषु चार्जितेषु नरकप्रापकेषु सत्सु मोक्षः 'संभवतीति भवति पापक्षयः फलम् , 'विरक्तस्य कर्मानधिकारात् , ' यदहरेव विरजेत्तदहरेव प्रव्रजेत्' इति श्रुतेः ‘तावत्कर्माणि कुर्वीत न निर्विद्येत यावता' इत्यादिस्मृतेश्च । तत्र क्रिमिकीटभावाद्या- धायकं पापान्तरं प्रत्यवायरूपं नित्यकर्माकरणादुत्पद्यत इति श्रुतिस्मृतिभ्यो गम्यते । तत्र ज्ञानकर्म- मार्गपरिभ्रष्टानधिकृत्य ‘य एतौ पन्थानौ न विदुस्ते कीटपतङ्गाः' इत्यादिः श्रुतिः ‘एतद्यो न विजानाति मार्गद्वितयमात्मनः । दंदशूकः पतङ्गो वा कीटो वा जायते ध्रुवम् । अकुर्वन्विहितं कर्म' इत्यादिस्मृतिश्च । तत्परिहारो नित्यकर्मणामानुषङ्गिकं फलमिति षष्ठस्य तृतीये सर्वशक्त्यधिकरणे 1 सिद्धवत्कारनिर्देशरूपम्-क, घ, ङ. 2 कादाचित्कस्य क्वचिदपि-क, ख, ग, घ. 3 सभ- वतीति पापक्षयः-क, घ, ङ. 4 फलविरक्तस्य-ख, ग. 5 विरक्तस्येत्यादिः स्मृतेश्चेत्यन्तो ग्रन्थः क पुस्तके नास्ति. , .

सू. २-४.] द्वितीयाध्याय चतुर्थः पाद । २२९ टुप्टीकावार्तिकतन्वरत्नयोः स्पष्टम् । एवं च जीवने निमित्ते कर्मणः पापक्षयार्थतया विधौ नियमोऽ- प्यर्थसिद्धः । ‘कर्तृधर्मो नियमश्चोद्यते' इति भाष्यादिग्रन्थस्याप्ययमेवाशयः । जीवनं च सायप्रात: पौर्णमास्यादिकालावच्छिन्नं निमित्तमिति षष्ठस्य द्वितीये 'तेषामौत्पत्तिकत्वात्-' इत्यधिकरणे स्पष्टीभविष्यतीत्यास्तां तावत् । इतोऽपि कर्तृधर्म इत्याह- लिङ्गदर्शनाच्च कर्मधर्मे हि प्रक्रमेण नियम्येत तलानर्थकमन्यत्स्यात् ॥ ३ ॥ . 'अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्ण- मासी वातिपादयेत्' इति दर्शपूर्णमासयोः स्वकालातिक्रमे प्रायश्चित्तस्य पाथिकृतेष्टेविधानादपि लिङ्गान्न कर्मधर्मः । यः दर्शपूर्णमासयाजी । ' करणे यजः' इति भूते णिनिः । ताभ्यामिष्टवान्सन्न- मावास्यां पौर्णमासी वा कर्म अतिपादयेत् स्वकालात्प्रच्यावयेत् स पाथिकृतीमिष्टि कुर्यादिति तदर्थः । कथमिदं लिङ्गदर्शनमित्यत आह-कर्मधर्मे हीति । काम्यप्रयोगस्य शेषतया यावज्जीवनकाले विधी- यमाने प्रक्रमेण प्रक्रान्तेन यावज्जीवनकालेन काम्यप्रयोगो नियम्येत । 'यम उपरमे'। समाप्येत । एवं च कर्मधर्मपक्षे यावज्जीवमभ्यस्तरूपस्यैकस्य प्रयोगस्य फलार्थतया मध्ये समाप्त्यभावेन जीवन- दशायां न कोऽपि दर्शपूर्णमासाभ्यामिष्टवान्भवतीति यावज्जीवनकालोत्तरमेव दर्शपूर्णमासयाजीति वक्तव्यम् । यथा ऐन्द्रवायवादियज्यभ्यासे कृत्स्ने निर्वृत्ते सति सोमयाजीति तद्वत् । तथाविधस्य च दर्शपूर्णमासयाजिनस्तत्र तस्मिञ्जीवने समाप्ते सति अन्यत् स्वकालातिक्रमप्रायश्चित्ततया पाथिकृतेष्टि- विधानम् अनर्थकम् असंगतार्थकं स्यात् । यावज्जीवनकालेन समाप्तदर्शपूर्णमासकर्मणो दर्शपूर्णमास- याजिनो दर्शपूर्णमासातिपत्तिर्हि स्वकालातिक्रमात्मा न यावज्जीवनकालमध्ये वक्तुं शक्या, तदा दर्श- पूर्णमासकर्मणः समाप्त्यभावात् , नापि जीवनोत्तरकाले, तस्य स्वकालत्वाभावात् तदानी कर्तुर्यज- मानस्याभावेन प्रायश्चित्तविध्यसांगत्याच्च । कर्तृधर्मत्वे च यावज्जीवनकालो न कर्माङ्गम् । पौर्णमा- स्यादिकालावच्छिन्नजीवनभेदाच्च नैमित्तिकः प्रयोगो भिद्यत इति प्रतिमासं दर्शपूर्णमासप्रयोगस्य समाप्तत्वाज्जीवद्दशायामेव दर्शपूर्णमासयाजीति व्यपदेशः संभवतीति तं प्रति प्रयोगस्य पौर्णमास्या- दिस्वकालातिपत्तावुत्तरकाले प्रायश्चित्तविधानं समजसं भवति । इतोऽप्येवमित्याह-- व्यपवर्ग च दर्शयति कालश्चेत्कर्मभेदः स्यात् ॥ ४ ॥ धर्मो हि. तत्त्रानुष्ठेयम्. 3. जीवदशायामेव- क, ख, ग, घ. +. अपवर्गम् . 1 २३० अध्वरमीमासाकुतूहलवृत्ती [अधि. १-२. - 'दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत' इति सोमात्प्राग्दर्शपूर्णमासयोः समाप्ति दर्शयति। यदि हि यावज्जीवनकालः कर्मशेष स्यात्तर्हि दर्शपूर्णमासप्रयोगमध्य एव सोम. कर्तव्य इति प्रका- न्तस्य दर्शपूर्णमासकर्मणः भेदः नाश स्यात् , 'वि वा एतस्य यज्ञश्छिद्यते यस्य यज्ञे प्रततेऽन्य- तन्त्रं प्रतायतेऽन्तरन्यामिष्टिं निर्वपन्ति' इत्यादिदर्शनात् । न हि दर्शपूर्णमासप्रयोगं समाप्य सोमोऽ- नुष्ठातुं शक्यते, यावज्जीवनकालेनैव तस्य समाप्यत्वात्तदुत्तरं च यजमानस्याभावात् । कर्तृधर्मत्वे तु प्रतिमासं दर्शपूर्णमासप्रयोगस्य समाप्तत्वान्नाय दोषो भवति ।। इतोऽप्येवमित्याह- अनित्यत्वात्तु नैवं स्यात् ॥ ५ ॥ तुशब्दश्चार्थेऽन्वाचये । यदि च यावज्जीवनकालः कर्मधर्मः स्यात्तर्हि 'जरामर्य वा एतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ च जरया ह वा एष एताभ्यां निर्मुच्यते मृत्युना च' इत्येवम- ग्निहोत्रस्य दर्शपूर्णमासयोश्च जरामर्यत्ववचनं जरामरणमोचनार्थत्ववचनं च संगतार्थक न स्यात् । जरया वयोहान्या मर्य समाप्यं न तु स्वेच्छयेति जरामयम् अवश्यानुष्ठेयम् । 'ह' 'वै' इति निपाताववधारणे । एष. अग्निहोत्रस्य दर्शपूर्णमासयोश्च कर्ता जरया मृत्युना चावश्यं मुच्यते इति तदर्थः । कर्मधर्मे हि वचनमिदं विरुध्यते । कुत । अनित्यत्वात् । काम्यप्रयोगधर्मे हि यावज्जीवन- काले विधीयमाने नित्यप्रयोगस्यालाभात् काम्यप्रयोगस्य चानित्यत्वादवश्यानुष्ठेयत्वरूपजरामर्यत्व- वचनविरोधः, काम्यप्रयोगस्यानित्यस्वर्गमात्रार्थत्वेन जरामरणनिवृत्तिफलकत्ववचनविरोधश्च । अनित्यत्वादित्यस्य नित्याभिलषणीयफलरहितत्वादित्यग्यर्थः । सिद्धान्ते तु नैमित्तिकप्रयोगस्य पापक्षयार्थत्वाच्छरीरारम्भकपापाभावाजरामरणनिवृत्त्यर्थत्वमुपपद्यते । न च ‘सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ' इत्यादिवाक्याजरामरणनिवृत्तिफलकत्वस्यापि सत्त्वेन तदनुवाद उपपद्यत इति वाच्यम् । एवं सति ‘ह वै' इति निर्धारणानुपपत्तेः । 'जरामरणनिर्मोचनावधारणवचनं नियमपक्ष उपपद्यते' इति भाष्यस्याप्ययमेवाशयः ॥ - इतोऽप्येवमित्याह- विरोधश्चापि पूर्ववत् ॥ ६॥ यावज्जीवनकालाभ्यासे कर्मधर्मतया विधीयमाने स विकृतिष्वप्यतिदिश्येत । तथा सति वैमृधं प्रकृत्य 'यदि निर्वपेदन्वेव निर्वपेत्' इति वचनं व्यर्थ सद्विरुध्येत; 'प्रजापतिः पुरुषमसृजत . यज्ञ ऋध्यते-ख, ग.

सू. ४-८] द्वितीयाध्याये चतुर्थः पादः । २३१ इत्युपक्रम्य तैत्तिरीयकेऽमिहोत्रदर्शपूर्णमासपशुबन्धादीनां केषांचिदेव नित्यतया परिगणनं च विरु- ध्येत । तथा च विरोधोऽयमपि पूर्ववत् जरामरणनिर्मोकवत् कर्तृधर्मो यावज्जीविकः प्रयोगनियम इत्यवगमयति । तस्य च पुरुषार्थस्य नातिदेश इति वक्ष्यतेऽष्टमस्याये ‘कर्मणस्त्वप्रवृत्तित्वात्फलनियम- कर्तृसमुदायस्यानन्वयस्तद्वन्धनत्वात्' इत्यत्र ।। नन्वेवमग्निहोत्रस्य दर्शपूर्णमासयोश्च नित्यत्वसिद्धावपि ज्योतिष्टोमादिषु का गतिः, तत्र यावज्जीववाक्याभावादित्यत आह- - कर्तुस्तु धर्मनियमात्कालशास्त्रं 'निमित्तार्थं स्यात् ॥ ७ ॥ ८ . तुशब्द शङ्कानिवृत्तौ । नेयं शङ्का । कुतः । कर्तु धर्मनियमात 'स्वर्गकामो ज्यो- तिष्टोमेन यजेत' इति विहितकाम्यप्रयोगादन्यस्य प्रयोगस्य ज्योतिष्टोमादौ पुरुषार्थतया निय- मेन विधानात् । कुतः । यतः 'वसन्ते वसन्ते ज्योतिषा यजेत' इति कालशास्त्रं वीप्सा- युक्तं वसन्तस्य निमित्तताबोधनार्थ भवति । न चेदं वाक्य काम्यप्रयोगविषयं भवितुमर्हति, वसन्ते ज्योतिषा यजेत' इत्येतावतैव तत्सिद्धौ वीप्सावैयर्थ्यात् यावत्कामं वसन्तस्याङ्गताया- स्तावतैव सिद्धेः । अतो नैयमिकप्रयोगपरमेव वीप्सायुक्तं वसन्तवाक्यम् । तस्य हि प्रयोगस्य वीप्सावशाद्यावद्वसन्तं प्रयोगः सिद्धः । वीप्सा हि व्याप्तिः । सा च ‘यदा वसन्तस्तदा ज्योतिष्टो- मप्रयोगः' इत्येवंरूपा वसन्तस्य निमित्तत्व एव सभवति नान्यथेति तस्य निमित्तत्वे वीप्सायुक्तव- सन्तशास्त्रं पर्यवस्यति । एवं च सप्तमी निमित्तार्था ‘भिन्ने जुहोति' इत्यादिवत् द्विवचनं तात्पर्यग्राह- कमिति सिद्धो ज्योतिष्टोमस्य नैमित्तिक: प्रयोग. । एवमाग्रयणादिनित्यकर्मस्वप्यूह्यम् । प्रयोजनं- पूर्वपक्षे कामनावत एवाग्निहोत्रादिकर्मणः प्रयोगः, सोऽपि यावज्जीवमभ्यस्त एव कामायावकल्पते ; सिद्धान्ते तु कामनारहितस्यापि पापक्षयार्थः प्रयोगो नियतः, काम्यस्तु प्रयोगः सकृत्कृत एव फलाय कल्पत इति । वृत्तं यावज्जीवाधिकरणम् ॥ - , तदेवमुक्तेषु षट्सु भेदकारणेषु शब्दान्तराभ्याससंख्यासज्ञागुणप्रकरणान्तरेषु कानिचिद- धिकानि भेदकारणानि शाखान्तरविहितकर्मस्वाशङ्कय निराकर्तुमिदमारभ्यते । सन्ति शाखाभेदाः २ सर्वशाखाप्रत्ययैक 'काठकम्' 'शाकलम् ' 'पैप्पलादम्' तैत्तिरीयम्' काण्वम्' 'माध्यं- कर्मताधिकरणम्। दिनम् ' 'कालापम्' इत्यादयः । तत्र कि प्रतिशाखं कर्म भिद्यते, एकमेवेति संशये पूर्वपक्षयति- 1. कर्तुस्तु नियमात् 2 निमित्तम्.

२३२ अध्वरमीमासाकुतूहलवृत्तौ [अधि. २. नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचन- प्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरे कर्मभेदः स्यात् ॥ ८॥ विशेषशब्दो नामादिषु त्रिषु संबध्यते । शाखाविशेषेषु विहितस्य कर्मणो नामविशेषा- दिना भेद. स्यात् । तथाहि- 'काठकाग्निहोत्रम्' 'कालापाग्निहोत्रम्' इत्यादिसज्ञाभेदादग्नि- होत्रादिकर्म भिद्यते । रूपशब्देन गुण उच्यते । ‘वपया प्रचर्यामीषोमीयमेकादशकपालम्' इत्ये- कस्यां शाखायाम् ‘द्वादशकपालम्' इत्यन्यस्यामिति गुणभेदः । धर्मविशेष: अध्ययनधर्मभेदः । कारीरेष्टिमन्वब्राह्मणम् 'मारुतमसि' इत्याद्यधीयानास्तैत्तिरीयास्तावद्वोधायनसूत्रानुसारिण: 'भूमौ भोजनम्' इत्याद्याचरन्ति; बोधायनीयेभ्योऽन्ये तु स्वशाखागतमिदमेवाधीयाना न तदाचरन्ति । तमिमं धर्मविशेषमेकैव कारीरेष्टिः केषांचिदाकावति नेतरेषामिति न संभवति । अतः कर्मभेदः । यद्यपि गुणपर्याय एवायं धर्मविशेषः, तथापि हविर्धर्मोऽन्तरङ्गो गुणः पूर्वमुपात्तः । अयं तु इतिक- तव्यतास्थानीयो बहिरङ्ग इत्यपौनरुक्त्यम् । पुनरुक्तिरभ्यासः । एकमेवाग्निहोत्रादिकर्म सर्वत्र शाखाखाम्नायत इति पुनरुक्त्या कर्म भिद्यते । यदि हि सर्वशाखास्वेकं कर्म तोकस्यां शाखायां विहितस्य शाखान्तरे पुनर्वचनमनर्थकं स्यात् । अत: कर्मभेदः । एवमुदितहोमप्रस्तावे कचिच्छाखाया- मनुदितहोमो निन्द्यते 'प्रातः प्रातरनृत ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रम् । दिवा कीर्त्यमदिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषाम' इति । अनुदिते सूर्ये ‘सूर्यो ज्योतिर्योति. सूर्य स्वाहा' इत्यभिधानमनृतं संपद्यत इत्यर्थः । अन्यस्यां तु शाखायामनु- दितहोमप्रस्तावे उदितहोमो निन्द्यते — यदुदिते सूर्ये प्रातर्जुहुयात् , यथातिथये प्रद्रुताय शून्याया- वसथायाहार्य हरन्ति, तागेव तत्' इति । अस्यार्थः- ‘अग्नि वा वादित्यः सायं प्रवि- शति' 'उद्यन्त वा वादित्यमग्निरनुसमारोहति' इति पूर्वमुक्तम् । अतो यजमानस्य गृहे सूर्योऽग्नि प्रविष्टो रात्रौ वसति । उदयानन्तरमग्नि विहाय गच्छति । ततश्च यथा अतिथये प्रद्रुताय वैमुख्येन गृहात्तस्थिताय आहार्यम् उपहर्तव्यमन्नम् । 'शून्याय' 'आवसथाय' इति चतुर्यो सप्तम्यर्थे । अतिथिवर्जिते शून्ये गृहे हरन्ति, ताहगेव तद्भवति, यदुदिते हूयत इति । सेयमुदितानुदितहोमनिन्दा कर्मभेद एवोपपद्यते, न तु तदेकत्वे । तस्मात्कर्मभेदः । तथा अनन्तासु शाखास्वनन्तानामङ्गानामु- पदिष्टानामेकस्मिन्कर्मण्युपसंहारस्यानुष्ठानस्य चाशक्यत्वात् अशक्यार्थोपदेशकतया अप्रामाण्यापाता- दपि कर्मभेदः । तथा मैत्रायणीयशाखायामग्निचयनमन्त्रसमानाये अन्वारोहा नाम स्थण्डिलारोह- णमन्त्रविशेषा अन्ते पठ्यन्ते । कचिच्छाखायां न ते मन्त्रा: सन्ति । तत्राध्येतारो याज्ञिकाश्चेत्थं 1. शाखान्तरेषु.

सू. ८.] द्वितीयाध्याये चतुर्थ पाद । व्यपदिशन्ति- अन्वारोहेषु मैत्रायणीयानामग्निः समाप्यते, इतरेषां त्वन्यत्र समाप्यते नान्वारोहे- विति। तदेतत्कर्मभेद एवोपपद्यते । न टेकस्यैवाग्निकर्मण उभयत्र समाप्तिवचनमुपपद्यते । तस्मादपि कर्मभेदः । तथा 'यस्याग्निहोत्रमहुत सूर्योऽभ्युदियात्' इत्यादिनोदितहोमे प्रायश्चित्त विहितम् , तथा अनुदितहोमेऽपि । तदिद प्रायश्चित्तविधानं कमैकत्वे सति नोपपद्यत इति कर्मभेदः । एतेन पूर्वो- दाहृतनिन्दावाक्ययोर्विकल्पपरत्वमपि प्रत्युक्त भवति । विकल्पे सति झुभयथाप्यवैगुण्यात्प्रायश्चित्त- द्वयविधानमप्यनर्थकं स्यात् । दृश्यते चोभयथा प्रायश्चित्तविधानाद्वैगुण्यम् । न चैतत्कमैकत्व उपपद्यत इति कर्मभेदः । एवं च निन्दयाप्यपौनरुक्त्यं वेदितव्यम् , वैकल्पिकत्वशङ्कानिराकरणार्थत्वात् । तथा अन्यार्थदर्शनादपि भवति कर्मभेदः। अन्यद्विधातुं प्रवृत्तेषु वाक्येषु अन्यस्मिन्नर्थे लिङ्गदर्श- नमन्यार्थदर्शनम् । तच्चात्र पञ्चविधं परिहारसूत्रवशादुदाह्रियते । कचिच्छाखायां द्वादशाहसत्रे श्रूयते 'यदि पुरा दिदीक्षाणा एतमेव बृहत्सामानमुपेयुरुपेतं ह्येषां रथंतरम् अथ यद्यदिदीक्षाणा रथं- तरसामानमुपेयुः' इति । यदि पुरा पूर्व दिदीक्षाणा दीक्षितवन्तः कृतप्रथमसोमाः स्यु. तदा एतमे- वातिरात्रं बृहत्सामानमुपेयुः । हि यस्मात्कारणान् प्रथमसोमे रथंतरमेभिः प्रयुक्तम् । यदि तु अदि- दीक्षाणा: अकृतप्रथमसोमास्तदा रथंतरसामानमुपेयुः, 'न रथंतरसामानमकृत्वा बृहत्सामानमाहरेत्' इति नियमादित्यर्थः । तदिदमनिष्टप्रथमसोमानामपि द्वादशाहसत्रवचनं प्रतिशाखं कर्मभेदमवगम- यति । न हि कमैकत्वे सत्येतदुपपद्यते, ताण्डकशाखायाम् ‘एष वा व प्रथमो यज्ञो यज्ञानाम्' इति ज्योतिष्टोमस्य सर्वयज्ञेभ्यः प्राथम्यविधानात् कमैकत्वे सर्वशाखासु ज्योतिष्टोमप्राथम्यनियमात् । प्रतिशाखं कर्मभेदे तु ताण्डकवचनेन तच्छाखास्थज्योतिष्टोमस्य प्राथम्यनियमे सत्यपि एतच्छाखा- स्थज्योतिष्टोमस्य तदनियमान्न विरोध इति कर्मभेदः । तथा तैत्तिरीयके यूपैकादशिनीविषये श्रूयते यत्पक्षसंमितां मिनुयात्कनीया ५ सं यज्ञक्रतुमुपेयात्पापीयस्यस्यात्मन. प्रजा स्यात् , वेदि- संमितां मिनोति ज्याया" समेव यज्ञक्रतुमुपैति नास्यात्मनः पापीयसी प्रजा भवति' इति । अस्यार्थः-- प्रकृतिभूतोऽग्निस्तावत्पक्ष्याकृतिकः, 'वयसां वा एष प्रतिमया चीयते' 'व्याममात्रौ पक्षौ च पुच्छं च भवति' 'अरनिना पक्षौ द्राधीया ५ सौ भवतः' इत्यादिश्रवणात् । व्याममात्रौ पुरुषमात्रौ, ‘पञ्चारनिः पुरुषो व्यामश्च' इति बोधायनादयः । यदि पक्षसंमिता पक्षायामप्रमाणां यूपैकादशिनी मिनुयादवटेषु निखन्यात् । पक्षायामप्रमाणं समशो दशधा विभज्य मध्ये अग्निष्ठयूपं पार्श्वयोः पञ्च पञ्चेत्येकादशयूपावलि मिनुयादिति यावत् । यद्वा पक्षाभ्यां यावन्तं प्रदेशमग्निा- नोति तावत्प्रमाणां मिनुयात् । अमेस्तिर्यक्प्रमाणं शतधा विभज्य मध्ये एक पार्श्वयोः पञ्च पञ्चेत्ये- कादशयूपावलिं मिनुयात् । तदा कनीयांसं स्वल्पतरं यज्ञक्रतुं प्राप्नुयात् । किच अस्य पक्षसंमितां यूपैकादशिनी कुर्वाणस्य यजमानस्य प्रजा पुत्रपौत्रादिः पापीयसी दरिद्रतमा स्यात् । अतो वेदि- 1. पक्षसमिताया वेदिसमितायाश्च-घ, ङ. , 30 २३४ अध्वरमीमांसाकुतूहलवृत्तौ अधि. २. , समितां मिनोति । आग्निकवेदिपूर्वार्धतिर्यक्प्रमाणं समशो दशधा विभज्य मध्ये एकं यूपं पार्श्वयोः पञ्च पञ्चेत्येकादशयूपावलिं निखनति । एवं सति ‘ज्यायांसमेव' इत्यादि स्पष्टम् । तदियं पक्ष- समितां यूपैकादशिनी कदाचित्प्राप्तां निन्दित्वा वेदिसंमितायाः स्तुति: प्रतिशाखं कर्मभेदमवगमयति । कमैकत्वे ह्येतदनुपपन्न स्यात् । शाखान्तरे हि यूपैकादशिनीमधिकृत्य श्रूयते 'रथाक्षान्तराला यूपा- वटा भवन्ति' इति। ' अक्षश्चतुःशतम्' इति श्रुति । चतुरधिकं शतमङ्गुलय इत्यर्थः। 'पक्षसंमितायां वेदिसंमितायां च यूपावटान्तरालप्रमाणं त्वल्पतरम् । एवं च शाखान्तरे यूपैकादशिन्यां रथाक्षान्तरा- लवचने जाग्रति वेदिसंमिताया अप्राप्तत्वात्स्तुतिः कथमुपपद्येत । न चौदुम्बराधिकरणन्यायेन स्तुत्या तद्विधानमनुमीयत इति वाच्यम् । विरोधिनि रथाक्षान्तरालवचने प्रत्यक्षे जाग्रति तदनुमानानुन्मे- षात् । सत्यपि तदुन्मेषे पक्षसंमितानिन्दाया अनुपपत्तेः । निन्दया हि न पक्षसंमिताविधिः प्रकल्प- यितुं शक्यते नापि तनिषेधः, रथाक्षान्तरालवचने सति तत्र पक्षसंमिताया अप्रसक्तेः । प्रतिशाखं कर्म- भेदे तु रथाक्षान्तरालवचनं तच्छाखास्थयूबकादशिनीविषयत्वाच्छाखान्तरे स्तुत्या वेदिसंमिताविधि- कल्पनं न विरुणद्धि । नापि कदाचित्प्राप्ताया पक्षसंमिताया अप्रसक्तिमासञ्जयति यतस्तन्निन्दा नोप- पद्येत । तस्मादपि कर्मभेद । तथा कचिच्छाखायां ज्योतिष्टोमातिरात्रे श्रूयते 'द्वे संस्तुतानां विराजो- ऽतिरिच्यते' इति, शाखान्तरे 'तिस्रः सस्तुतानां विराजोऽतिरिच्यन्ते' इति । सम्यक् स्तुतं स्तुतिः यासु ताः संस्तुताः स्तोत्रीया ऋचः। विराडिति एकमनेकं वा दशक दशविशतित्रिशदादिरूप- मुच्यते, ‘दशाक्षरा विराट्' इति दर्शनात् । तदिदं प्रतिशाखं कर्मभेद एवोपपद्यते । न ह्येकस्मि- न्कर्मणि द्वयोस्तिसृणां चातिरेक सभवति । तस्मात्कर्मभेदः । तथा सारस्वते सत्रे श्रूयते 'ये पुरोडाशिनस्त उपवसन्ति' 'ये सांनाय्यिनस्ते वत्सान्धारयन्ति' इति । ये यजमानाः पुरोडाशिन. अनिष्टप्रथमसोमतया ऐन्द्रामपुरोडाशकदर्शेष्टिमन्तः, 'नासोमयाजी संनयेत्' एन्द्राग्न एकादशकपालोऽमावास्यायामसंनयत.' इति तेषां तद्विधानात् , ते पुरोडाशिन उप- वसन्ति । असंनयत उपवसथदिने वत्सापाकरणादि यत्कर्तव्यम् 'ग्राम्येभ्य उपवसति' इत्यन्तं तन्न कुर्वन्ति । ये तु यजमाना इष्टप्रथमसोमाः सांनाय्यिनः, 'सोमयाजी संनयेत्' इति तेषां तद्वि- धानात् ; ते वत्सान्धारयन्ति अपाकुर्वन्ति मातृसकाश न गमयन्ति दोहाय। तदेवमनिष्टप्रथमसोमाना- मपि सारस्वतसत्रदर्शनं प्रतिशाखं कर्मभेदमवगमयति । कमैकत्वे हि ताण्डके ज्योतिष्टोम- प्राथम्यवचनेन इष्टप्रथमसोमानामेव सारस्वतसत्राधिकारे सति सर्वेषां सांनाय्यित्वात् 'ये पुरो- डाशिनः' इति नावकल्पेत । यद्यपि ये पुरा दिदीक्षाणाः' इत्यन्यार्थदर्शनेन गतार्थमिदम् , तथापि प्रकरणान्तरेण परिहारस्य वक्ष्यमाणत्वात्पृथगुपादानम् । तथा उपहव्ये ‘अग्निष्टोमो रथतर- 1. सस्कृताना-क. 2. मस्कृता:-क.

सू. ८-९.] द्वितीयाध्याय चतुर्थ. पाद. । २३५ सामा, अश्व श्यावो दक्षिणा इत्येकस्यां शाखायाम् , उपहव्य उक्थ्यो बृहत्सामा, अश्व श्वेतो दक्षिणा' इत्यन्यस्याम् । उपहव्यो नाम सोमयागविशेषः । अत्र शाखाद्वयविहितस्योपहव्ययैकत्वे बृहद्रथंतरपृष्ठयोर्विकल्पः स्यात् । तस्य च प्रकृतित एव प्राप्तत्वात्पुनर्विधानमनर्थकम् । कर्मभेदे तु प्रकृतिप्राप्तविकल्पस्य तत्तच्छाखास्थोपहव्ये व्यवस्थासिद्धयर्थ पुनर्वचनमिति प्रतिशाखं कर्मभेद एव युक्त ॥ सिद्धान्तयति- एकं वा संयोगरूपचोदनाख्याविशेषात् ॥ ९ ॥ वाशब्द एवार्थे । सर्वास्वपि शाखास्वेकमेव कम प्रत्येतव्यम् , न तु कर्मभेदः । कुत. । संयोगरूपचोदनाख्याविशेषात् 'स्वर्गकामो ज्योतिष्टोमेन' इति फलसंयोगस्य सोमरसेन्द्रवाय्वादि- द्रव्यदेवतास्वरूपस्य 'यजेत' इति धात्वर्थानुरक्तभावनात्मिकायाश्चोदनाया ज्योतिष्टोमादिसमाख्या- याश्च सर्वत्राविशेषात् । तदेभि. कारणे प्रत्यभिज्ञानात्सर्वासु शाखास्वेकमेव कर्म, यथा ताण्डके पञ्चविशब्राह्मणे षड्विशब्राह्मणे च ज्योतिष्टोमद्वादशाही पुनराम्नातौ न भिद्येते यथा वा तैत्तिरीयके प्रथमकाण्डेऽष्टमप्रश्ने प्रथमाष्टके च षष्ठसप्तमाष्टमप्रश्नेषु 'अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति इत्यादिना आनुमतादिकर्माणि राजसूयिकान्यनुक्रान्तानि न भिद्यन्ते तद्वत् । न च प्रकरणान्तर- वच्छाखान्तरेषु परस्परासंनिधानं भेदहेतुरिति वाच्यम् । असंनिधानं हि तदानी बुद्धावपरिवर्तनम् । तच्च प्रतियोग्यनुयोगिनोख़तयोरेव भेदबुद्धि जनयितुमीष्टे । येन हि प्रदेशान्तरे किचित्कर्म गृहीतं भवति स एव तत्सदृशमन्यत्रोपलभमानस्ततोऽन्यदिति शक्नोत्यध्यवसातुम् । शाखान्तरे पुनरन्यशा- खागतज्योतिष्टोमाद्यनवबोधादपूर्ववदुच्यमानेषु न भेदबुद्धिर्जायते । न च योऽनेकशाखाध्यायी तस्य प्रतिशाखं कर्मभेदबुद्धि स्यादिति वाच्यम् । एकस्यानेकशाखाध्ययनाभावात् । स्वाध्यायत्वं हि प्रति- व्यक्ति गोत्वादिवत्प्रतिशाखं समवैति । ततश्च 'अधीतेन स्वाध्यायेनेष्टं भावयेत्' इत्यर्थपर्यवसन्नस्वाध्या- यविधौ स्वाध्यायस्योपादेयतया तद्गत्तैकत्वस्य पश्वेकत्ववत् पित्रादिपरंपरागतत्वरूपस्वत्वस्य समासान्त- गतस्याश्वाभिधान्यामश्ववच्च विवक्षितत्वादेकशाखाध्यायिना शाखान्तराध्ययनं नावश्यमनुसतव्यम् । न चैव वेदान्तरस्याप्यध्ययन न प्रसज्यत इति वाच्यम् । 'वेदानधीत्य वेदौ वा' इत्यादिवचनान्तरेण तदुपपत्तेः। किच यजुर्वेद समानातद्रव्यदेवतारूपयुक्तज्योतिष्टोमादिकर्मण' ऋग्वेदे याज्यानुवाक्यादि- गुणमात्रं सामवेदे च स्तोत्रादिगुणमात्रं विधीयते। अत. साकाङ्क्षत्वाद्वेदान्तराणामतुल्यकार्यत्वात्समुच्चयो युज्यते । शाखान्तरेषु तु नैवं संभवति । सर्वासु ह्यध्वर्युशाखासु दर्शपूर्णमासज्योतिष्टोमादीनि द्रव्य- 1. ज्योतिष्टोमादिकर्मणि- -क २३६ अध्वरमीमासाकुतूहलवृत्ती अधि २ - देवतारूपवन्ति तान्येवान्योन्यनिरपेक्षाणि विधीयन्त इति शाखान्तराणां तुल्यकार्यत्वाद्विकल्प । अतो नैकस्यानेकशाखाध्ययनसभव । उक्त च वार्तिके 'स्वाध्यायग्रहणेनैका शाखा हि परि- गृह्यते । एकार्थाना विकल्पश्च कमैकत्वे भविष्यति' इति । तदिद सूत्रकार एवानुपद वक्ष्यति । तदेव भेदकारणाभावादभेदप्रत्यभिज्ञानाच्च सर्वशाखास्वेक कर्मेति सिद्धम् । अथ पूर्वपक्षोक्तहेतून्प्रतिक्षिपन्नाम्ना कर्मभेद तावन्निराचष्टे-- न नाम्ना स्यादचोदनाभिधानत्वात् ॥ १०॥ न नाना कर्मभेद स्यात् । कुत । अचोदनाभिधानत्वात् , चोदना कर्मोत्पत्तिवाक्यम , तद्गतमभिधान नामधेय चोदनाभिधानम , अतद्रूपत्वात्काठकादिनाम्न इत्यर्थ । 'सज्ञा चोत्पत्तिस- योगात्' इत्यधिकरणे उत्पत्तिवाक्यगता सज्ञा कर्म भिनत्तीत्युक्तम् । काठकादिसज्ञाश्च नोत्पत्तिगता इति न तत कर्मभेद प्रसज्यते । यद्वा, चोद्यत इति चोदना कर्म, तदभिधानत्वाभावात्काठकादि- शब्दस्येत्यर्थ । ग्रन्थनाम्न एव सतोऽस्य लक्षणया कर्मणि प्रयोग । न च वैपरीत्य शङ्कथम् काठकादिशब्दस्याग्निहोत्र इव दर्शपूर्णमासादिकर्मस्वपि प्रयोगदर्शनेनानेकार्थशक्त्यापातात अग्निहो- त्रमात्रवाचकत्वे कर्मान्तरेषु लक्षितलक्षणापाताच्च ।। इतोऽपि काठकादिसज्ञाया न कर्मभेदकत्वमित्याह - सर्वेषां चैककर्म्य' स्यात् ॥ ११ ॥ चशब्दोऽन्वाचये । सर्वेषामप्यग्निहोत्रदर्शपूर्णमासादिकर्मणा काठकादिसज्ञाया अविशिष्ट- त्वेन भेदहेतो सज्ञाभेदस्याभावेन भेदो न स्यात ॥ इतोऽप्येवमित्याह--- कृतकं चाभिधानम् ॥ १२ ॥ चशब्द उक्तसमुच्चये । 'तेन प्रोक्तम्' इति तद्धितप्रत्ययान्तकाठकादिनामधेय प्रवचन- निमित्तत्वात् कृतकम् इदानीतनम् । कर्माणि त्वनादिवेदसिद्धत्वादनादीनि । न हि तानीदानीतन- संज्ञावशाद्भेदमर्हन्ति । न हि प्रवचनात् प्राङ्न भेद पश्चाद्भेद इति युज्यते । तस्मादपि न काठका- दिनाना कर्मभेद ॥ रूपभेद प्रत्याह- सर्वेषा चैककात् -- -- सू. ९-१६.] द्वितीयाध्याये चतुर्थ पाद । एकत्वेऽपि परम् ॥ १३ ॥ पर नामानन्तरोक्तं कपालसंख्यात्मकरूपान्यत्व कर्मण एकत्वेऽपि वचनाद्वीहियवादि- वद्विकल्पेनोपपद्यते । न चोत्पत्तिशिष्टत्वात्कथं विकल्प इति वाच्यम् । उभयोरपि संख्ययोरुत्पत्ति- शिष्टत्वाविशेषात् ॥ धर्मविशेषं प्रत्याह- विद्यायां धर्मशास्त्रम् ॥ १४ ॥ - भूमिभोजनादिव्रतादेशक धर्मशास्त्रं विद्यायां कारीरीष्टिमन्त्रब्राह्मणाध्ययनविषये प्रवृत्तम् । अतोऽध्ययनाङ्गमेव तत् न तु कर्मधर्मः, श्रुत्यादिषट्प्रमाणागोचरत्वात् । अतो न तत कर्मभेदः ॥ पुनरुक्ति प्रत्याह-- आग्नेयवत्पुनर्वचनम् ॥ १५ ॥ यदाग्नेयोऽष्टाकपालोऽमावास्यायां भवति' 'इति पुनर्वचनमैन्द्राग्नस्तुत्यर्थत्वेनानन्यग- निकत्वाभावान्न कर्मभेदकमित्युक्तं पूर्वपादान्ते । एवं शाखान्तरे विहितस्य सेतिकर्तव्यताकस्य ज्यो- तिष्टोमादिकर्मण शाखान्तरे पुनर्वचन न कर्म भिनत्तीत्यर्थः ।। नन्वत्र विधेयान्तराभावान्नार्थवादत्वमिति पुनर्वचनं कर्म भिन्द्यादित्यखरसादुक्तं परिहा- रमुपेक्ष्य पुनर्वचनमेवात्र नेत्याह- 'अद्विवचनं वा श्रुतिसंयोगाविशेषात् ॥ १६ ॥ वाशब्द एवार्थे । पुनर्वचनं तावत्पुनःश्रवणसंयुक्तमेव कर्मभेदमवगमयति, न स्वरूप- सत् । शाखान्तरेषु च पुनर्वचनं नैव तथाविधं भवितुमर्हति, एकस्य पुरुषस्यानेकशाखाश्रवणाभा- वात् । ननु मेधाविनस्तत्संभव इत्यत आह-श्रुतिसयोगाविशेषादिति । शाखान्तरश्रवणसंयोगस्यैक- शाखाश्रवणसंयोगाद्विशेषाभावादित्यर्थः । कठो हि काठकमग्निहोत्रं श्रुत्वा तैत्तिरीयकमग्निहोत्रं शृण्व- अपि स्वशाखयैव प्रतिपन्नत्वात्तैत्तिरीयान्प्रत्येव बोधकमिदं तैत्तिरीयशाखागतमग्निहोत्रवाक्यमिति कल्पयन्न पुनःश्रुति मन्यते । एवं तैत्तिरीयादिरपि काठकादिवचन न पुनःश्रुति मन्यते इति सर्वोऽपि जन: शाखान्तर शृण्वन्नप्यश्रुतमेव मन्यते इत्यपौनरुक्त्यम् ।। नन्वेकस्यानेकशाखाश्रवणाभावः कुत इत्यत आह- 1 इति पूर्ववचनम्-क, ख, ग, घ, ङ, च. 9. द्विर्वचन-क, ख, ग, घ, क, च .. अश्रुति ...

२३८ अध्वरमीमासाकुतूहलवृत्ती [अधि. २. वाक्यासमवायात् ॥ १७ ॥ स्वाध्यायविधेरुक्तरीत्या एकशाखाध्ययनविधिपरत्वादेकस्यानेकशाखाध्ययनाभावादेकस्मि- न्पुरुषे शाखान्तरवाक्यस्यासमवायान्न तच्छ्रवणसंभव इत्यपुनर्वचनमित्यर्थः । इदं तु सूत्रं भाष्ये परिभ्रष्टमिति वार्तिककृतः ।। नन्वेकस्या एव शाखाया अध्ययनविधी शाखान्तरानर्थक्यमिति तदध्ययनमपि प्राप्तमिति पौनरुक्त्यं दुर्वारमित्यत आह- अर्थासंनिधेश्च ॥ १८ ॥ - चशब्द उक्तसमुच्चये। एकमेव पुरुषं प्रत्यनेकशाखागतस्यार्थस्यासंनिधेः पुरुषविशेषा- प्रत्येव संनिधेर्न शाखान्तराणामानर्थक्यमित्यर्थः । यथा एकशाखागतं कर्म पुरुषान्तरेषु पुनःश्रूय- माणमपि प्रतिपत्तृभेदान्न पुनरुक्तम् , एवं शाखान्तरेष्वपीति भाव. ॥ इतोऽपि न पौनरुक्त्यमित्याह- न चैकं प्रति शिष्यते ॥ १९ ॥ चशब्द उक्तसमुच्चये । अग्निहोत्रादिकर्म प्रतिशाख नैकमेव पुरुषं प्रति शिष्यते, शासु अनुशिष्टौ', विधीयते , 'कित्वर्थिमात्र प्रति सर्वशाखासु विधीयमानमेकमेकं पुरुषमुपतिष्ठते । तत्र एकस्यानेकशाखाश्रवणात्पुनर्वचनतः प्रतिशाखं कर्मभेदे एकार्थत्वात्समुच्चयानुपपत्तौ विकल्प आश्रयितव्य. स्यात् । तद्वरं प्रत्यभिज्ञानतः कमैक्ये सति शाखानामेव पुरुषव्यवस्थया तदाश्रयण- मित्येकस्यानेकशाखाध्ययनाभावादपुनरुक्तता ॥ - इतोऽपि न पुनरुक्तिरित्याह- समाप्तिवच्च संप्रेक्षा ॥ २० ॥ चशब्द उक्तसमुच्चये । स्वार्थिको वतिः 'नित्यवदानातम्' इत्यादिवत् । मैत्रायणीया- स्तावदन्वारोहमन्त्रान्तेऽग्नेः समाप्ति व्यपदिशन्ति ‘अत्रास्माकमग्निः समाप्यते' इति । एकस्याने- कशाखाश्रवणतः प्रतिशाखं कर्मभेदे सति यावदेव येषां समानात तावदेव तेषां समाप्यत इत्यत्र 1 किंत्वर्थमात्र-क, ख, ग, घ, ङ.

सू. १७-२३. द्वितीयाध्याये चतुर्थ पादः । २३९ अस्माकम्' इति न ब्रूयुः । तथा चैकस्यैवाग्नेरत्रास्माकं समाप्तिरन्येषामन्यत्रेत्युक्तिसामन्जस्यात् एक- स्यानेकशाखाश्रवणतः पुनरुक्तौ च तदनुपपत्ते: पुरुषव्यवस्थयैव तदाश्रयणं युक्तमिति न पुनरुक्तिः ॥ तदेवं षड्भिः सूत्रैः पुनरुक्ति परिहृत्य निन्दादित्रयं प्रत्याह- एकत्वेऽपि पराणि ॥ २१ ॥ - - । पुनरुक्त्यनन्तरमनुक्रान्तानि निन्दाशक्तिसमातिवचनानि कमैकत्वेऽप्युपपद्यन्ते । तथाहि- 'उदिते जुहोति' 'अनुदिते जुहोति' इत्यग्निहोत्रकालो विधीयते । तत्रैकनिन्दा अन्यं स्तोतुं प्रवृत्ते- त्यविरोधः । न च विकल्पाश्रयणप्रसङ्गात्कर्मभेदाश्रयणमेव युक्तमिति वाच्यम् । प्रतिशाखं भिन्न- योरपि कर्मणोः फलं प्रति विकल्पाश्रयणम्याविशिष्टत्वात् । अशक्तिस्तु एकशाखागतानेकब्राह्मणविहि- ताङ्गकलापोपसंहारेऽप्यविशिष्टा । यो ह्येकशाखागताङ्गकलापविधीनुपसंहर्तुं शक्नुयाच्छक्नोत्यसौ सर्वा- खपि शाखास्वङ्गविधीनुपसंहर्तुम् । न हि सर्वासु शाखासु सर्वेऽङ्गविधय उपसंहर्तव्या येनाशक्यता स्यात् , स्वाध्यायाध्ययनत: सर्वास्वपीतरशाखास्वधिकविधीनामेवोपसहार्यत्वात् । अधिकविधयश्चै- कशाखातोऽपि हीनपरिमाणा एव भवन्तीति नाशक्यता | सत्यामपि शक्तौ शाखान्तरगताधिकवि- धीनामुपसंहार ऐच्छिक एव न त्वावश्यकः, शाखान्तराध्ययनानित्यत्वस्य प्रतिपादितत्वात् , कचि- च्छाखासु तेषामनाम्नानबलाञ्च , अन्यथा अङ्गान्तरविधीनामिवाधिकविधीनामपि सर्वशाखास्वान्नाना- पत्ते. । मैत्रायणीयानामन्वारोहेषु समाप्तिवचन च तच्छाखाविहिताङ्गकलापसमाप्त्यभिप्रायेणेति सूत्रकार एव स्पष्टमुपपादयिष्यति ॥ अथ यदुक्तमुदितहोमेऽनुदितहोमे च प्रायश्चित्तविधानमुभयथाप्यवैगुण्यादनर्थकमिति तत्प- रिहर्तुमनुभाषते- प्रायश्चित्तं निमित्तेन ॥२२॥ अनुदितकालमतिक्रम्योदितहोमे उदितकालमप्राप्यानुदितहोमे च प्रायश्चित्तविधानं कर्म- भेदमवगमयतीति यदुक्तं तत्परिहर्तव्यमित्यर्थः ।। परिहरति- प्रक्रमाद्वा नियोगेन ॥ २३ ॥ वाशब्द एवार्थे । नियोगेन वैकल्पिकानां पदार्थानां प्रयोगादावेकतरनिर्धारणेनैव प्रयोगस्य 1. निन्दाशक्तिसमाप्तिवचनानि इत्यधिकमन्यत्र दृश्यते. 2 एकशाखागतानेकविधिविहित-क, घ,क. ॥ - (अधि. २. २४० अध्वरमीमांसाकुतूहलवृत्ती . . प्रक्रमे प्रक्रमातु । प्रक्रमादुदिते होण्यामीति निर्धार्य प्रक्रान्तेऽग्निहोत्रप्रयोगे उदयात्प्रागेवानुष्ठिते सति दोषः । एव- मनुदिते होष्यामीति प्रक्रम्योदितहोमप्रयोगेऽपि । अत उभयथापि प्रायश्चित्तविधानं कमैकत्वेऽप्युप- पद्यते । अत्रोदितानुदितकालयोरन्यतरकालं प्रति प्रयोगमादौ निर्धार्य प्रयोगप्रक्रमः न तु सर्वप्रयोगा- दावेव सकृत्तन्निर्धारणम्, 'यदि वैमृधं निर्वपेदन्वेव निवपेत्' इतिवदन्त्र वचनाभावात् । प्रत्युत वाजसनेयके चातुर्मास्येषु साकमेधपर्वणि 'आनीकवते क्रैडिने च सार्क सूर्येणोद्यता निर्वपति' इति सूर्योदयकालिके कर्मणि प्रातरग्निहोत्रपूर्वोत्तरकालिकत्वयोरैच्छिकविकल्पानुवादो दृश्यते 'अथ प्रात- रहुते हुते वाग्निहोत्रे इतरथा कामयेत' इति । कल्पकाराणामप्ययमेवार्थोऽनुमतः । आपस्तम्बसत्या- षाढकात्यायनादौ हि दाक्षायणयज्ञस्य दर्शपूर्णमासाभ्यामादिविकल्प उक्त: 'सोऽयं दर्शपूर्णमासयोः प्रक्रमे विकल्पोऽनेन दर्शपूर्णमासाभ्यां वा यजेत' इत्यादिना । तथा वैमृधविषयेऽपि तस्य यथाकामी नियम्यते' इत्यादिना आदिविकल्प उक्त । धूर्तखामिभाष्ये च 'पुनः पुनः प्रक्रम- नियमवचनाद्यत्र प्रक्रमनियमवचन तत्रैव प्रक्रमनियमो नान्यत्र, तेनाग्निहोत्रादौ द्रव्यकालादीनां न प्रक्रमनियमः' इत्युक्तम् होमकालः सकल्पयितव्यः कर्मादौ' इति च । तस्मादुदितानुदितकालयोन प्रक्र- मनियमः । यत्तु ' यत्र शास्त्रगतिभिन्ना सर्वकर्मसु भारत । उदितेऽनुदिते चैव होमभेदो यथा भवेत्। तस्मिन्कुलक्रमायातमाचारं त्वाचरे दुधः । स गरीयान्महाबाहो सर्वशास्रोदितादपि' इति सुमन्तुवचनं दाक्षिणात्यस्मृतिनिबन्धन उदाहृतं तत्प्राचीननिबन्धनेषु काप्यदर्शनादुपेक्ष्यम् , स्वकुलाचारप्राशस्त्यपरं वा, ‘स गरीयान' इति लिङ्गादित्यन्यदेतत् ॥ एकत्वेऽपि पराणि' इति सूत्रे ‘पराणि' इति बहुवचनेन सामान्यतः परिहार्यत्वेनोप- क्षिप्नं, सिंहावलोकनन्यायेन तदुपपादयति--- समाप्तिः पूर्ववत्त्वाद्यथाजाते प्रतीयेत ॥ २४ ॥ मैत्रायणीयानामन्वारोहेष्वग्निसमाप्तिवचनं यथाज्ञाते यावत्पदार्थजातं तच्छाखायामानात तद्विषयतया प्रतीयेत । कुत. । पूर्ववत्त्वात् शब्दप्रयोगस्य तात्पर्यपूर्वकत्वात्। तात्पर्य चात्र समाप्तिव- चनस्याग्नावसमाप्ते प्रयुज्यमानस्य तच्छाखाविहितपदार्थजातसमाप्तिपरत्वमिति निश्चिनुम इति कमैं- कत्वेऽपि न विरोधः, आध्वर्यवे प्रयोगे समाप्ते 'ज्योतिष्टोमः समाप्तः' इति यथा । 'समाप्तिवञ्च संप्रेक्षा' इत्यत्र कमैकत्वे लिङ्गमुपपादितम , इह तु कमैकत्वे विरोधः परिहृत इत्यपौनरुक्त्यम् ।। यदुक्तम् 'यद्यदिदीक्षाणा:-' इत्यनिष्टप्रथमसोमानां द्वादशाहे दर्शनं प्रतिशाखं ज्योति- ष्टोमभेदमवगमयति, कमैकत्वे ताण्डकावगतज्योतिष्टोमप्राथम्यविरोधात् , कर्मभेदे तु ताण्डकावगत- परत्वं-क, घ, क. .

सू. २३-२६.] द्वितीयाध्याये चतुर्थ पाद । ज्योतिष्टोमप्राथम्यवचनस्यैतच्छाग्वास्थज्योतिष्ठोमविषयत्वाभावान्न विरोध इति तत्राह- लिङ्गमविशिष्टं सर्वशेषत्वान्न हि तत्र कर्मचोदना तस्माबाद- शाहस्याहारव्यपदेशः स्यात् ॥ २५ ॥ यदेतत्कर्मभेदे लिङ्गत्वेनोपन्यस्त द्वादशाहेऽनिष्टप्रथमसोमदर्शनं तत्कमैकत्वेऽप्यविशिष्टम् । कुत. । सर्वशेषत्वात् ताण्डकगतज्योतिष्टोमप्राथम्यवचनस्य सर्वशाखास्थज्योतिष्टोमविषयत्वात् । हि यस्मात्कारणात् तत्र ताण्डके ज्योतिष्टोमकर्मणः न चोदना उत्पत्ति स्ति, येन 'तत्रत्यज्योतिष्टोममा- त्रविषयं प्राथम्यवचनं स्यात् । तस्मात् कर्मभेदपक्षेऽप्यनिष्टप्रथमसोमानां द्वादशाहे दर्शनस्य विरो- धान् 'यद्यदिदीक्षाणा:--' इति वाक्ये अदिदीक्षाणशब्ढे द्वादशाहस्य आहारव्यपदेशः अनुष्ठानस्य व्यपदेश म्यात । 'द्वादशाहेनादिदीक्षाणा ' इति व्याख्येयमिति यावत् । तथा च नैतत्कर्मभेदे लिङ्गमिति भावः ॥ एवं प्रथममन्यार्थदर्शनं परिहत्य द्वितीय निराचष्टे- - द्रव्ये वा अचोदितत्वाद्विधीनामव्यवस्था स्यानिर्देशाद्वयवतिष्ठेत तस्मानित्यानुवादः स्यात् ॥ २६ ॥ वाशब्द संभावनायाम । कमैकत्वे मति द्रव्ये अग्नौ वेदिसंमिताया अचोदितत्वात्पक्षसं- मितावेदिसंमितारथाक्षान्तरालविधीनां क्रमेणार्थिकस्तुतिकल्प्यौतानां तत्तच्छाखिनः प्रति अव्यवस्था व्यवस्थाया अभावः स्यात् संभाव्येत । ततश्च रथाक्षान्तरालवाक्येन पक्षसंमितावेदिसंमितयोर्बाधे सति पक्षसंमिता कथं निन्धेत , कथ वा स्तुत्या वेदिसंमिताविधिरुन्नीयेत । नैवमस्ति, वेदिसंमिताया अग्नौ श्रुतत्वेन तस्या रथाक्षान्तरालवाक्येनानारभ्याधीतेन सामान्यविषयेण बाधायोगात् । ननु रथाक्षान्त- रालवाक्यस्य कावकाश इत्यत आह-निर्देशादिति । अनग्निचित्ये सर्वस्तोमादिक्रतौ यूपैकादशिनीनि- देशाद्रथाक्षान्तरालवाक्यं तत्र व्यवतिष्ठेत । ततश्च साग्निचित्यानग्निचित्यक्रतुभेदेन यूपैकादशिन्यामेक- स्यामेव वेदिसमितात्वस्य रथाक्षान्तरालत्वस्य चोपपत्तेन विरोधः। नन्वेवमपि पक्षसमितानिन्दायाः का गतिरित्यत आह-तस्मादिति । वेदिसमितारथाक्षान्तरालयोर्विहितत्वात्पक्षसंमिताया नित्यानुवादः 'नान्तरिक्षे न दिव्यग्निश्चेतव्यः' इतिवत् । कात्यायनस्त्वाह ‘यूपैकादशिनी चेद्रथाक्षान्तराला , , 1 तत्र ज्योति... -क, ख, ग, घ, ङ, च. 3. पश्चसमितावेदिसमिता च बाधिता सती कथ निन्द्येत ख, ग पक्षसमिता वदिसमिता सति कथ निन्द्येत क, घ, ङ, च. [उभावपीमौ पाठावस्वरसाविति पाठान्तरं प्रकल्प्य योजितम् 31 [अधि. २. २४२ अध्वरमीमासाकुतूहलवृत्ती यूपावटा. स्यु., वेदिपूर्वार्ध समं विभज्य पक्षसमितां वाग्नौ' इति । पक्षसंमिताविधि शाखान्तरे दृष्ट इति तदभिप्रायः ॥ तृतीयमन्यार्थदर्शनं प्रत्याह विहितप्रतिषेधात्पक्षेतिरेकः स्यात् ॥ २७ ॥ अतिरात्रे षोडशिनं गृह्णाति' इति विहितं षोडशिग्रहणम नातिरात्रे षोडशिनं गृह्णाति' इति प्रतिषिध्यते । तत्र ग्रहणपक्षे चत्वारि शतानि त्रिषष्टिश्च स्तोत्रीया इति तिमृणां दश- कादतिरेक, अग्रहणपक्षे चत्वारि शतानि द्विचत्वारिशच्च स्तोत्रीया इति द्वयोरतिरेक इति न , विरोधः ॥ चतुर्थ प्रत्याह-- सारस्वते विप्रतिषेधाद्यदेति स्यात् ॥ २८ ॥ सारस्वतसत्रस्य ज्योतिष्टोमपूर्वकत्वात्कृतसोमस्य च दर्शे सांनाय्यविधानात्तत्र ये पुरोडाशिनः' इत्यैन्द्रामपुरोडाशकदर्शेष्टिमतां दर्शनं विरुद्धमिति यच्छब्दो यदेति व्याख्येयं स्यात् । एवं च यदा पौर्णमास्यां पुरोडाशिनस्तदोपवसन्ति यदामावास्यायां सांनाय्यिनस्तदा वत्सानपाकुर्वन्ती- त्यर्थलाभान्न कमैक्येऽपि विरोधः ॥ - पञ्चमं निराकर्तुमनुवदति- 'हव्येऽप्रतिप्रसवः ॥ २९ ॥ अनर्थकः प्रतिप्रसव. अप्रतिप्रसव हव्ये उपहव्ये रथतरबृहत्साम्नो शाखाद्वयविहितयो. प्रकृतितः प्राप्तत्वात्पुनर्विधानमनर्थकम् । कर्मभेदे तु तत्तच्छाखाम्थोपहव्ये व्यवस्थया तत्तत्सिद्ध्यर्थ पुनर्वचनमिति यदुक्तं तत्परिहर्तव्यमित्यर्थ. ।। परिहरति- गुणार्था वा पुनःश्रुतिः ॥ ३० ॥ वाशब्दः शङ्कानिवृत्तौ । नात्र शाखाद्वये रथंतरबृहत्सामनी विधीयेते, येन कर्मैकत्वे पुनर्वि- धानमनर्थक स्यात् । कितु प्रकृतितो विकल्पेन प्राप्तयोस्तयोः पुनःश्रुति गुणार्था सस्थादक्षिणागुण- - 1 उपहव्येप्रतिप्रसव..

सू. २७-३३.] द्वितीयाध्याये चतुर्थ. पाद. । २४३ विधानार्था । यदि रथंतरसामा तदा अग्निष्टोमसस्थ , तत्राश्व. श्यावश्च दक्षिणा, यदि बृहत्सामा तदोक्थ्यसंस्थ., तत्राश्वः श्वेतश्च दक्षिणेति न विरोध ।। तदेवं कर्मभेदसाधकानि लिङ्गानि निरस्य कर्मैक्यसाधकं लिङ्गं दर्शयति- प्रत्ययं चापि दर्शयति ॥ ३१ ॥ -- चापीति निपातसमुदाय उक्तममुच्चये । सर्वास्वपि शाखास्वेकस्यैव प्रत्ययं विधानं दर्श- यति वेद. । मैत्रायणीयशाखायां प्रयाजा नोत्पन्नाः। तत्र शाखान्तरोत्पन्नान्प्रयाजानधिकृत्य धर्मो विधीयते ऋतवो वै प्रयाजा: समानत्र तिष्ठता होतव्या इति । समानत्र एकत्र । तथा कचि- च्छाखायाम् 'कुटरुरसि' इत्यश्मादानमन्त्रो नाम्नात. । तत्र 'कुक्कुटोऽसीत्यश्मानमादत्ते कुटरुरसी- ति वा' इति मन्त्रोऽश्मादाने विनियुज्यते । तदेतत्सर्वशाखास्वेकं कर्मेति दर्शयति । तस्मात्सर्वशा- साप्रत्ययमेकं कर्म । अत्र शङ्कते- अपि वा श्रुतिसंयोगाद्विधिपृथक्त्वमेकैकस्यां शाखायां व्यवतिष्ठेत ॥ ३२ ॥ अपि वेति निपातसमुदाया नेत्यर्थे । न कमैक्यम् । कि तर्हि । एकैकस्यां शाखायां प्रतिशाखं विधीयमानानां कर्मणा पृथक्त्वं भिन्नत्वं व्यवतिष्ठेत निश्चितं भवेत् । कुतः । श्रुतिसं- योगात् क्रमकालपरिमाणानां प्रतिशाखं श्रुतिबोधितत्वात् । कमैक्ये च शाखान्तरविध्युपसंहारे सति तेषां बाध. स्यात् । ‘क्रमसंयोगात्' इति पाठान्तरम् । तत्र क्रमग्रहणं कालपरिमाणयोरप्यु- पलक्षणम् ॥ परिहरति- विरोधिना त्वसंयोगादैककर्ये तत्संयोगा- द्विधीनां सर्वप्रत्ययः॥ ३३ ॥ तुर्नेत्यर्थे विधीनामित्यत्रान्वेति । सर्वशाखास्वैककर्षं सत्यप्येकशाखागतानां विधीनां विधीयमानपदार्थानां क्रमकालपरिमाण न शाखान्तरगतेन पदार्थजातेन बाध्यते । कुत, । विरो- 1. विरोधिना तु ..मर्वकर्मप्रत्यय: स्यात् ...एकस्या. 2 अध्वरमीमासाकुतूहलवृत्ती [अधि. २. धिना असंयोगात् । न हि क्रमकालपरिमाण शाखान्तरीयपदाथै विरुध्यते, क्रमकालपरिमाणस्य पदार्थान्प्रति गुणत्वात् । प्रत्युत तदेव ते प्राधान्यावाध्यत । तथा च तत्सयोगात् शाखान्तरीय- पदार्थानां समावेशसंभवात् सर्वप्रत्यय. सर्वासु शाखासु कमैकत्वप्रत्यय प्रामाणिक , न तु कर्मभेदः । ननु शिष्टाकोपाधिकरणे आचमनादय स्मार्तपदार्था श्रोतक्रमकालपरिमाणैर्न बाध्यन्त इति व्यवस्थापितम् , तब स्मार्ता अपि चेन्न बाधिताः किमिति श्रौतास्तैर्बाधिष्यन्त इति तेनैव गतार्थमिति चेत्सत्यम् । अत्रैव स विचारः सूत्रकृता कण्ठरवेण कृत इति शिष्टाकोपाधिकरण विषयान्तर एव योजितं वार्तिके । तदेवं सर्वशाखासु तदेवेदमिति प्रत्यभिज्ञानाद्भेदकस्य शब्दान्त- रादीनामन्यतमस्याभावात्सर्वशाखाप्रत्ययमकं कर्म । तदुक्तम् ‘तस्मात्तदेवेति मतेर्न कर्म भिन्नं कथंचित्प्रतिशाखमिष्टम् । न कारणं सप्तममस्ति चान्यदेवं यथोक्तैव तु भेदसिद्धि ॥' इति ।। , इति श्रीमत्सततमतन्यमानश्येनकूर्मपोडगारग्थचक्राकागद्यनेकगुणविराजमानमहाग्निविलसितप्रौढापरिमि तमहाध्वरस्य श्रीगाहजिशरभजितुक्कोजिभोसलचोलमहीमहेन्द्रामात्यधुरधरस्य श्रीमत आनन्दराय विद्वत्सार्वभौमस्य पञ्चपुरुषीपोष्येण नदव्वर्युणा बाल्य एव तद्दयानिवर्तितापरिमितमहाग्नि- विजृम्भितवाजपेयसर्वपृष्ठाप्तोर्यामादिवरिष्ठसोममस्वसतर्पितशतमखप्रमुखबर्हिर्मुग्वेन श्री महादेववाजपेययाजिमुतेन अन्नपूर्णागर्भजातेन अपारपदवाक्यप्रमाणपाग- वारपारीणाग्रजन्मविश्वेश्वरवाजपेययाजिता लब्धविद्यावेगटोन वासु- देवदीक्षितविदुषा विरचिताया जैमिनिस्त्रव्याख्यायाम् अध्वरमीमांसाकुतूहलवृत्ती द्वितीयोऽध्यायः ॥

No text on this page.

No text on this page.

No text on this page.

Kuthuhala Vrutti

Author
Advara Mimaasan'
Other authors
Dikshitha , Vasudeva
Title
Kutuhala Vrxtti:
File name
Kuthuhala Vrutti
Text
OCR done
Citation
1908
Published
2005/01/4
Publisher
Vani Vilasa Press,srirangam
Language
Sanskrit
Pages
136
Library
Asr,melkote
Classification
Hinduism Narrowly
Keywords
Treatise on Mimamsa Philosophy
DLI number
383173
Barcode
1990020047466.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
AxF9nj6SNov
Download PDF

Kuthuhala Vrutti