University Library,gurukul Kangri Vishwavidyalaya

करुणावज्रायुधम (नाटकम)

Chaturavijaya Muni · 2005/07/25

PDF Proofread

Front matter

करुणावजा
COMPILED
73
(नार्टकम
-
:
42
मंशाधक
मुनि चतुरविजयः।
श्रीजन आत्मानन्द ममा
भावनगर
-
स्टाक प्रमाणीकरण १/८४-1
Arease

श्रीजन--आत्मानन्द-ग्रंथरत्नमाला-षट्पञ्चाशं रत्नम् ( ५६ ) है श्रीबालचन्द्रसरिविरचितं करुणावज्रायुधं नाटकम् । पूज्यपादप्रवर्तकश्रीमत्कान्तिविजयमुनिपुङ्गवा- न्तेवासिमुनिचतुरविजयेन संशोधितम् । तञ्च -- प्रवर्तकान्तिषन्मुनिचतुरविजयोपदिष्ट-पत्तनपत्तननि- वासि–श्रीमालिज्ञातीय-शाह-भूषणचन्द्रात्मज- क्षेमचन्द्र-द्रव्यसाहाय्येन प्रसिद्धकी भावनगरस्था श्रीजनआत्मानन्दसभा । वार संवत् २४४३.) आत्म सँवतू २१. । विक्रम संवत् १९७३. ईसवी सन् १९१६.

EEEEEEEEEET
-
प्रकाशक:-
गांधी वल्लभदास त्रिभुवनदास
सेक्रेटरी-
श्रजिन आत्मानन्द सभा
भावनगर.
प
*EEEEEE
मुद्रक:-
मणीभाई एम. गुप्त.
आर्यसुधारकमुद्रालयः
वटपद्रः।
EEEEEEEEE

॥ प्रास्ताविकनिवेदनम् ॥ - अस्य सुललितवाक्यरचनाचातुर्येण जनमनोरनकस्य सुप्रसिद्धपरोपकृतिसार- भूतक रुणाप्राधान्यस्य करुणावज्रायुधाभिधेयस्य नाटकस्य के कविकोटिकोटीराः प्रणेतार इत्येतद्विषयस्य निर्णयस्तु प्रस्तुतप्रबन्धप्रान्तगतस्य " भद्रधीहरिभद्रसूरिसुगुरोः पदतर्कविद्याविदः शिष्यः श्रीश्रुतदेवतासुत इति ख्यातः प्रबन्धं व्यधात् । श्रीवज्रायुधचक्रवर्तिचरितव्याहारवैतालिक विद्वत्कर्णरसारसायनममुं श्रीबालचन्द्रः कविः ॥" इयतत्पद्यस्यावलोकनेन श्रीहरिभद्रसूरिशिष्या बालचन्द्रकवय इति स्फुटमेव । एते कविचूडामणयः कदाऽभूवनिति विचारे जायमाने एतन्नाटकप्रस्तावना- गतान्य- प्रस्तुतवृत्त्या तु समादिष्टोऽस्मि तेनाष्टमीचन्द्रविशाल- भालेन श्रीमता वस्तुपालेन । " इत्येतद्वाक्यस्य निर्वर्णनेन मन्त्रिवस्तुपालसाहाय्येन प्राप्तसूरिपदानां चैषां मत्तासमयो विक्रमीयायास्त्रयोदशशताब्दयाः प्रान्तवयैवेत्याविष्करणं न सर्वथाप्य- मममीचीनम् । एतद्वयतिरिक्ता एभिरेव कविभिः कृता उपदेशकन्दलीवृत्ति-विवेकमन्जरीवृत्ति -सन्तविलासमहाकाव्याद्या ग्रन्था अद्यापि रजयन्ते सुजनजनमनांसि । एतत्संशोधनसमये प्रवर्तकश्रीमत्कान्तिविजयपूज्यश्रीमद्सविजययोः स- काशादेकैकं पुस्तकं संप्राप्तम् । एतत्पुस्तकद्वितयाधारण महता प्रयासेन संशोधितेऽ- प्यत्र निबन्धे मतिविभ्रमेणाक्षरयोजकदोषेण वा क्वाप्यशुद्धिर्वाचकानां दृष्टिपथम. वत्तरेत् तदा संशोध्य वाचनीयं धीधनैरित्याशासे- प्रवर्तकश्रीमत्कान्तिविजयचरणचञ्चरीक: चतुरविजयो मुनिः। - .

पात्राणि । कलहंसः कलकण्ठः ...... नृत्यकारी ... महाविदेहस्थरत्नसंचयानगरीपतिः ..राज्ञो मन्त्री .. नृपत्यङ्गरक्षकः ..... ... ...नर्मोक्तिभिहास्यकारकः .वेत्रधारी पक्षिरूपेण परावर्तितरूपी देवी .. वज्रायुधः पुरुषोत्तमः नारङ्गका विदूषकः मञ्जीरका. पारापतः श्यनः स्थूलपाद:. पुरुषः देवी........ प्रियंवदा धारिणी प्रथमदेवः द्वितीयदेवः प्रथमवैतालिका द्वितीयवैतालिका ..सूदः राज्ञोऽनुचरः पट्टराज्ञी लक्ष्मीवतीनाम्नी .दासी प्रतिहारी .. .. .ईशानेन्द्रसंसत्सभ्यौ .मागधौ ॥ अहम् ॥ ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिभ्यो नमः । श्रीबालचन्द्रसूरिविरचितं करूणावत्रायुधनाटकम् । देवः पायादपायात्पथमजिनपतिः सर्वगीर्वाणसेव्यः शैवेयो वः शिवानि प्रथयतु करुणाकन्दलीमूलकन्दः। वामेयः किञ्च कामं शमयतु शमितापारसंसारतान्तिः शान्तिः शान्तिप्रदः स्तात्मकटितजगदाभोगरक्षाभियोगः॥१॥ ( नान्यन्ते) सूत्रधारः-( सप्रमोदमभितो निरूप्य ) अये ! विभातारम्भ इव विभासते । तथाहि- परोपकृतिशालिना भुवनमेतदुद्गच्छताऽ- धुना कमलबन्धुना भगवतापदोषं कृतम् । अतो गगनमण्डलाद्रजति पात्रमकच्छला- दुपानहमिवानने दधदपास्तकान्तिः शशी ॥२॥ - श्रीबालचन्द्रसूरिविरचितं M अपि च- उदयमयमखण्डश्चण्डभानुस्त्रिलोकी- नयनतिमिरखेदच्छेदपुण्यादवाप । अहह ! विहितचक्रद्वन्द्वविश्लेषपापा- दिव गलितकरोऽयं मान्द्यमिन्दुः प्रपेदे ॥ ३ ॥ मपि च- आर्ता इवास्तमयति प्रियवन्मृगाङ्के स्वं स्वं पिधाय मुखमेकतमःपटेन । दिकामिनीविरुदतीर्बहुभिर्विलापैः संबोधयन्नयमुदेति करैर्विवस्वान् ॥ ४ ॥ भपि च- तुलयतितमामर्कस्ताम्रीमयं नवझल्लरी- मयमपि शशी जीर्यड्ढक्कापुटाकृतिमश्नुते । इयमपि मही देहिच्छायामिषाजलमानुषै- रिव कवचिताशेषैः शोषंगतस्य तमोऽम्बुधेः ॥ ५ ॥ ( इति परिक्रम्य सविनयमञ्जलिं बद्ध्वा सामाजिकान् प्रति ) भो भोः सभासदः ! श्रूयतामवधानमाधाय मामकीनं वचः । तथा च- प्राग्वाटान्वयसिन्धुपार्वणविधुः श्रीचण्डकोऽभूत्पुरा तस्मान्मण्डितभूरभूञ्च तनुभूश्चण्डप्रसादाभिधः । सोमः किञ्च तदात्मजः समभवद्विश्वप्रियो भावुक- स्तस्यापि प्रथितः सुतोऽजनि जने नाम्नाश्वराजः कृती ॥६॥ - करुणावज्रायुधनाटकम् । अपि च- तत्पुत्रः समभूद्विभूतिवसतिः श्रीमल्लदेवाख्यया ज्येष्ठः श्रेष्ठगुणैकभूस्तदनुभूः श्रीवस्तुपालोऽभवत् । तेजःपाल इति प्रसिद्धमहिमा जज्ञे कनिष्ठोऽनयोः कल्पानोकहकन्दलप्रतिकृतिर्यस्योपकारी करः ॥ ७ ।। किञ्च- शास्त्राम्भोधिमतीवपीवरधिया नावेव यस्तीर्णवान् मनस्तु प्रतिवासरं जितमधौ साधौ तदीये रसे । नष्टः पापमलिम्लुचाच्च कुरुते धर्मे गुणारोपणं तत्कस्यात्र न वस्तुपालसचिवश्चित्रीयते चेतसि ॥ ८ ॥ अपि च- ऐन्द्रो मण्डप एष चण्डपकुलश्वेतांशुना निर्ममे येनानल्पगुणापणेन तरणे-हारविष्कम्भकः । तत्तत्पूर्वजमूर्तिभिस्तिलकितः शैवेयवामेययो- श्चैत्यद्वन्द्वमिदं च संचितयशस्संदोहसंदेहकृत् ॥ ९॥ अथवा गूर्जरधराधिराजश्रीवीरधवलसचिवावतंसस्याविश्राऽन्त- मेव कनकधाराधोरणीवर्षप्रीणिताशेषवनीपकस्य निजदोर्मण्डलचण्डिम- कुण्डलितवैरिविक्रमस्य निरवद्यधर्माचरणचातुरीविस्तारितकृतयुगाव- तारस्य स्थानस्थाननिष्पाद्यमानसुरसदनशिलासंघातटङ्कणटणत्का- रैरभिचारठकारोच्चारैरिव निर्वासितकलिपिशाचस्य विवेकवाचस्पते- रमुष्य कतिशः सुचरितानि समुद्गीर्यन्ते । प्रस्तुतवृत्त्या तु समादिष्टोऽसि वेनाष्टमीचन्द्रविशालभालेन श्रीमता वस्तुपालेन । यदत्र तत्रभगवतः 20 श्रीबालचन्द्रसूरिविरचितं शत्रुञ्जयशिखरिशिखामणेविमलकेवलज्ञानमुकुरसंक्रान्तत्रिभुवनोदरवि- वर्तमानपदार्थसार्थस्य पुरुषोत्तमनाभिसूतेर्देवाधिदेवस्य युगादिव्यव- हारवेधसः सेवाहेवाकिदेवासुरविसरशिरोमणिमुकुटविटङ्कशाणानिशा- तचरणतामरसनखचन्द्रमसो ऽपारसंसारपारावारनिमज्जजन्तुसंतानसेतु- भूतस्य स्मरविजयकृतः प्रथमतीर्थकृतः सुरसद्मनि जिनमतप्रसिद्धः करुणारसानुविद्धः कोऽपि प्रबन्धस्त्वयाभिनेतव्यः । किञ्च, लोको हि परिचितगुणद्वेषित्वात् नूतननूतनवस्तुनि स्वमनो रमयति । ततो नूतनः कोऽप्यस्ति सुधाकरकरनिकरशुद्धः सुश्लिष्टललितबन्धः प्रबन्धः। येन समलङ्कृतसंसदां सभासदां मनो विनोदयामि । (इति मीलितदृक् चिन्तां नाटयति)। (प्रविश्य ) नटः-( सविस्मयं ) मारिष! किमिति चिन्ताचान्तस्वान्त इव विलोक्यसे । सूत्रधारः-( उन्मील्य चक्षुषी सहस्मितम् ) भाव ! साधु समागतो- ऽसि । कथय तावत् कमपि जिनमतप्रसिद्धं करुणारसानुविद्धं नूतन- प्रबन्धं येनामून् सभासदः प्रसादमासादयामि । नटः-मारिष! श्रीदेवेन्द्रगुरुस्वहस्तस्वपदनिवेशितस्य भुवनभद्र- करस्य श्रीभद्रेश्वरसूरिगुरोः पट्टनभस्तलालङ्करणकिरणमालिना प्रति- बादिदितितनयदमनसौरिणा श्रीमदभयदेवसूरिणा निजकरतामरसप्र- तिष्ठितानप्रतिमप्रतिभाभरसौरभदुर्भगीकृतत्रिदशसूरीन् श्रीहरिभद्रसूरी- नभिजानासि । सूत्रधारः-(साक्षेपम् ) साहित्याम्बुधिबन्धुरामतितरां षतर्कखण्डान्वितां

करुणावज्रायुधनाटकम् ।
नानालक्षणदुर्गदुर्गमतमा विद्यामनन्तामपि ।
सच्चक्रेण समाश्रिताः सुकृतिनो ये साधयन्ति स्म ता-
नेकः को मुनिचक्रवर्तिन इह क्षोणितले वेद न ॥ १० ॥
अपरं च-
विलसदमृतद्वेषा येषां वचःप्रचयं पपुः
सपुलकवपुःस्तम्भा जम्भान्तकादिसुराः पुरा ।
तदपलपने ते वर्तेरन्नथापरथा कथं
न विधुरधुना तत्पिण्याकः स चेद् भुवने भवेत् ॥ ११ ।।
अपि च-
यत्कीर्तिगौर्येण मिथोऽप्यलक्ष्यौ
गौरीगिरीशौ दिवि गौरकान्ती ।
करप्रपञ्चैर्मिलितौ वियोग-
भीत्यार्द्धनारीश्वरतां प्रपन्नौ ॥ १२ ॥
नटः-तत्पदपङ्कजमधुव्रतेन कविकर्मकरणनिस्तन्द्रेण श्रीमदा-
चार्यबालचन्द्रेण विहितः सर्वजनहितः समस्ति त्रिजगतामपि कृतपुण्य-
संबन्धः करुणावज्रायुध इति प्रबन्धः ।
सूत्रधारः- ( सप्रमोदम् )
क्षोणीभर्तुश्चरितमतुलं तस्य वज्रायुधस्य
श्रीमानस्मिन् बपुरिगणभृद्वालचन्द्रः कवीन्द्रः।
सान्द्रप्रीतिर्गुणगणवती संसदेषाप्यशेषा
दक्षाः साक्षादपि वयमिमे स्पष्टनाट्यक्रियासु ॥ १३ ॥

श्रीबालचन्द्रसूरिविरचितं अपि च- बुध्नादेवायमहाय तस्मादस्माकमुच्चकैः । प्राचीनः पुण्यकल्पद्रुः फलेग्रहिरजायत ॥ १४ ॥ नटः-मारिष ! अतीतक्षितिपतिचरितप्रबन्धकरणकष्टकवलिता- शयानां कवीनां कथय का नाम स्वार्थसंपत्तिः । स्वार्थभ्रंशो हि पुंसां परमपाण्डित्यम् । सूत्रधारः-भाव! नैतदुच्यते । यतः- सर्वः परार्थमारम्भः संरम्भः शुभकर्मणाम् । उदेति प्रत्यहं पश्य स्वकार्याय किमर्यमा ॥ १५ ॥ अपि च- परोपकारकरणात्पुण्यमुज्जृम्भते सताम् । पुण्यं हि सर्वसंपत्तिवशीकरणकार्मणम् ॥ १६ ॥ ( नेपथ्ये) साधु साधु हृदयङ्गममभिहितवानसि । यतः- का कामधेनुरिह कश्चिन्तामणिरपि च कल्पशाखी कः। सर्वाण्यमूनि भुवने पर्यायवचांसि पुण्यस्य ॥ १७ ॥ सूत्रधारः-(श्रुतिमभिधा [नी] य ) अये! प्रारब्धमेव नर्तकैः। त- देहि भाव! आवामपि अनन्तरकरणाय सज्जीभवावः । ( इति निष्कान्तौ) ॥ प्रस्तावना ॥ (ततः प्रविशति " का कामधेनुः " (१७) इति पठन्कलहंसः करकण्ठश्च) करुणावज्रायुधनाटकम् । कलकण्ठः-सखे कलहंस ! एवमेवैतत् । तथाहि- कल्प्यते किमिति कार्मणचिन्ता- खेदमेदुरमिदं निजचेतः । वश्यतां नयति पूर्वभवात्तं पुण्यमेव भुवनानि किमन्यत् ॥ १८ ॥ कलहंसः-सखे कलकण्ठ ! विश्वस्यापि हृदयसंवादि तावकं वचः । स एष प्राचीनपुण्यस्यैव परिपाकप्रकर्षः, यदयं मङ्गलावती- विजयवसुमतीयुवतीबदनतिलकायमानरत्नसञ्चयापुरीपरमेश्वरक्षेमकर- क्षितिपालकुलकमलदिनेश्वरश्चतुरशीतिलक्षप्रमितकरितुरगरथवरूथिनी- भिराक्रान्तदिक्चक्रः स्वामी श्रीवज्रायुधनामा महीशकः, विजित्य जगतीमेतां द्विस्त्रिखण्डमयीमपि । अखण्डितभुजावीर्यः स्वपुर्या पुनराययौ ॥ १९ ॥ यतः विना तेजोऽन्तरं चक्षुर्निर्णयोऽपि हि निर्नयः । यथा तथा विना पुण्यं विक्रमोऽपि हि विक्रमः ॥ २०॥ कलकण्ठ:---इदमित्थमेव । अपरं च सखे कलहंस ! स क्षेम- करक्षितिपतिरमुष्य नृपतेः पिता यः किल सकलभुवनभास्कर- स्तीर्थकरः : । संप्रति समस्तसुरपतिनिकुरम्बपरिचर्यमाणः समस्ति विहरमाणः। कलहंस:-अथ किं । कलकण्ठः-(सोल्लासम् ) तर्हि, जगत्पिता यस्य पिता जिनाधिपः

८
-
श्रीबालचन्द्रसूरिविरचितं
स्वयं तु वास्तोष्पतितुल्यवैभवः ।
अगोचराणामपि पुण्यसंपदा-
मसौ न पात्रं कथमुर्वरावरः ॥ २१ ॥
अपि च-
शेषदण्डजुषः क्षोणीछत्रस्य कलशायते ।
अयं वलयिताम्भोधिदुकूलस्योपरि स्थितः ॥ २२ ॥
कलहंसः-सखे! किमेकमुच्यते ?
उत्कृष्टभूपगणनासु विधाय रेखा-
मस्यादितः सुरसरिन्मिषतो विरञ्चिः ।
तत्तुल्यमन्यमवनावनवेक्ष्य पाणे-
श्चन्द्र खटीमिव मुमोच नभःकटत्रे ॥ २३ ॥
अपि च-
प्रतिच्छन्दः कुन्दस्तुहिनरुचिरुच्चैरुपकथा
समस्यावश्यायः स्फटिकशिखरी च प्रतिकृतिः।
अखण्डं पाखण्डं कुमुदवनखण्डं सुरसरि-
त्पयः पौनःपुन्यं विशदमहसामस्य यशसाम् ॥ २४ ॥
कलकण्ठः-सखे ! साधूदितं भवता ।
क्षितीशा बहवोऽभूवन भविष्यन्ति च सन्ति च ।
परम्परोपकारित्वस्याद्वैतमिह वर्तते ॥ २५ ॥
कलहंस:-( सशिरःकम्मम् )
निष्कारणोपकर्तृणामयं सीमा महीपतिः ।
किमन्यदर्थितः प्राणानपि दत्ते यदर्थिनाम् ॥२६॥

९ - करुणावज्रायुधनाटकम् ॥ (क्षणमिव स्थित्वा साकूतम् ) सखे कलकण्ठ ! तदद्य परोपकार- व्यसनिनोऽमुष्य स्वामिनोऽशुभारम्भं शुभावसानं कमपि व्यव- सायमहं वितर्कयामि यदिदानी वामेन दक्षिणेन च चक्षुषा परि- स्फुरितम् । तदधुनावामपि तस्य चतुर्दशीनिशागृहीतपारितदुरि- तौषधपौषधव्रतस्य पौषधशालाप्राङ्गणे सिंहासनमलङ्कृत्य पुरुषोत्तमेन सह मन्त्रिणा धर्मगोष्ठीपरायणस्य प्रत्यक्षधर्ममूर्तेर्नाथस्य सविधीभवावः । ( इति त्वरिततरं निष्क्रान्तावुभौ ) (विष्कम्मकः) (ततः प्रविशति सुरगिरिशिखरस्थ इव दिवस्पतिः काञ्चनसिंहासनाधिगत- मूर्तिश्चक्री वज्रायुधः अमात्यपुरुषोत्तमश्च कलहंसः कलकण्ठश्च ) राजा- भजत भजत धयं कर्म दुष्कर्मधर्म- क्षपणनिपुणलीलावारिसब्रह्मचारि । कुगतियुवतिलास्यस्थानमालस्यमस्मि- नवगणयत लोकाः ! सर्वशोकाधिकारि ॥ २७ ॥ मत्री-देव! धर्मस्य किं विस्फूर्जितम् ? । राजा-अमात्य ! यद्वारे हृदयं हृदा ननु सदा निर्दल्यते सेवकै- रुद्वल्गन्ति हया यदङ्गणभुवि क्रीडन्ति यद्दन्तिनः । प्रातर्बन्दिगिरा सुधारसकिरा गीतेन यन्मुच्यते निद्रा सान्द्रमतन्द्रमेव तदिदं धर्मस्य विस्फुर्जितम् ॥ २८॥ ( नेपथ्ये) वैतालिका-जय जय नयनलिरविकासनैकमार्चण्ड ! चण्ड- १० श्रीबालचन्द्रसूरिविरचितं प्रतापसंपद्विशोषिताशेषरिपुनृपतियशःप्रसरकासार ! सारसर्वखपराजि- ताहितराज ! राजन् ! विभातेयं विभावरी । तथाहि- अयमुदयति मिथ्यातत्त्ववद् ध्वान्तजातं विपुलमपि विलुम्पन् विष्टपस्यापि गोभिः । भविकजनमिवोचैर्बोधयन् पद्मखण्डं जिनपतिरिव देवः पद्मिनीप्राणनाथः ॥ २९ ॥ इतश्च- संवर्मिता दधुरिमास्तव दन्तिदन्त- पर्यङ्किका नवविकर्त्तनभाभिराभिः । लीलाब्जकूर्परशयालुजयश्रियोऽङ्ग- रागैकसङ्गमवशादिव शोणिमानम् ॥ ३०॥ इह हि- रिपुक्षितिपभूधरप्रकरवज्र ! वज्रायुध ! क्षितीश्वरशिरोमणे ! प्रणयिचक्रचिन्तामणे!। जिनाधिपचतुष्टयी दिशतु शाश्वती शाश्वती- मियं तव सुखश्रियं सुकृतचिहमहो मुखे ॥ ३१ ॥ राजा- ( समाकर्ण्य सप्रसादम् ) कोऽत्र भोः !। (प्रविश्य ) पुरुषः-(योजितपाणिः ) आदिशतु देवः । राजा-अरे नारङ्गक ! अस्मदाज्ञया ब्रूहि भाण्डागारिणं जिनदासं यत्त्वयामुष्मै वैतालिकाय सुवर्णकोटिदशकं देयमिति । पुरुषः यदादिशति देवः ( इत्यभिधाय निष्कान्तः) करुणावज्रायुधनाटकम् । (पुनर्नेपथ्ये) (क) एसऽको गयणंगणिकनलिनीपत्तमि जुण्हादहि- प्पिटुं तारगसालिकूरनिअरं भुजेइ सम्गढिओ। चन्दो वायसपिंडगु व्व पुरदो दीसेइ अत्यंतओ जस्सि वायसवाहणि ब्व चलिआ धंतावली सोहए ॥ ३२ ॥ ( सर्वे समाकर्ण्य स्मयन्ते) राजा-नियतमेताभिर्वचनरचनाभिः क्रमेलकमुखेन भाव्यम् । (ततः प्रविशति विदूषकः ) कलकण्ठः-(विदूषकमालोक्य सोपहासं कलहंस प्रति जनान्तिकम्) वयस्य! पादौ वक्रौ धनुरिव कटी वज्रमध्यानुकारा निन्द्याकारा जठरपीठरी मुष्टिमेयं च वक्षः । बाहू स्कन्धोपचयरहितावास्यमुष्ट्रास्यबन्धु ग्रीवा नीचा लघुरवयवः कोऽपि नास्य प्रशस्यः ॥ ३३ ॥ कलहंसः-(स्मितं नाटयति )। विदूषकः- (दक्षिणकरमुदस्य ) (ख) भो! एवं सत्थि भोदु भवदे। राजा-(विहस्य ) स्वागतं वयस्याय । एषोऽर्को गगनाङ्गणैकनलिनीपत्रे ज्योत्स्नादधि- पृष्ठं तारकशालिकूरनिकरं भुङ्क्ते खर्गस्थितः । चन्द्रो वायसपिण्डक इव पुरतो दृश्यतेऽस्तयन् यस्मिन् वायसवाहिनीव चलिता वान्तावली शोभते ॥ (ब) भो एतत्स्वस्ति भवतु भवते ।

१२ श्रीबालचन्द्रसूरिविरचितं विदूषकः-(प्रहस्य) (क) अणवरयमेव सुरयचउराए निअयब- भणीए समं विसयसुहमणुहवंतस्स एदस्सि मे रम्मे मणुअजम्मे सागदमेव । पुणो धम्ममहाभूअच्छलिअस्स पव्वरयणीसु बंभचेर- कलिअस्स गुत्तिहरे विव पोसहहरे लुलियस्स ( इत्यर्धाक्ते ) राजा-(विहस्य ) वयस्य! संकील्य निजपुराणपुस्तकं वाचं- यमो भव । विदूषकः-(ख) एवं भोदु । ( इत्यभिधाय विनयादिव नम्रीभूय पुर- स्वादुपविशति । सर्वे पटान्तेन मुखं पिधाय प्रहसन्ति ।) मन्त्री-( राजानं प्रति ) इदमादिशन्ति स्म देवपादाः। "भजत भजत धर्म्य" (२७) इति । तदिह निजमनसि सर्व एव धर्म- कर्मठः, न कश्चित्पापकापालिकमठः । तथाहि- एकतो वेदविदुरः सौनिकः पुनरन्यतः । पापीति व्याहृतः कोपाज्जायते लोहितेक्षणः ॥ ३४ ॥ राजा-मन्त्रिन् ! गड्डरिकाप्रवाहोऽयम् । धर्मकर्मसु लोकस्य न काचित्तत्त्वविचारणा । यतः- अज्ञाः केचिद्विदधति मुधा धर्मदम्भादधर्म कोऽयं धर्मः स्वहृदि नयने मीलयित्वा मृशन्तु । दीयन्ते यद्वनभुवि दवाः प्राणिनस्त्राणहीना हन्यन्ते यत्पिशितबलये देवतानां पुरस्तात् ॥ ३५॥ (क) अनवरतमेव सुरतचतुरया निजकब्राह्मण्या समं विषयसुखमनुभवत एत- स्मिन् मे रम्ये मनुजजन्मनि खागतमेव । पुनर्धर्ममहाभूतच्छलितस्य पर्वरजनी' ब्रह्मचर्यकलितस्य गुप्तिगृहे इव पौषधगृहे लुलितस्य । (ख) एवं भवतु।

करुणावज्रायुधनाटकम् । अपि च किंबहुना भाषितेन- यो जन्तुहिंसार्जितधर्मकर्मणा गन्तुं दिवस्तुङ्गपदं समीहते । स भस्मसोपानपथेन निश्चित समुच्चमारोढुमगेन्द्रमिच्छति ॥ ३६ ॥ अपि च- हिंसामयः शिशुक्रडिाधूलीदेवकुलोपमः । स किं धर्मोऽपि धर्मान्तर्बालिशेनापि पठ्यते ॥ ३७ ।। किञ्च अभेद्यो वादिमिर्जेनः कुञ्जरैरिव मन्दरः । जीवरक्षामयः साक्षादेष धर्मः सनातनः ॥ ३८ ॥ - अपि च- वर्गापवर्गसंपत्तिकारणं करुणामयः । जैन एव सतां धर्मः कर्मधर्मघनाधनः ॥ ३९ ॥ अन्यच्च- एनं जैनं विना धर्ममन्ये धर्माः कुधीमताम् । संवृता एव शोभन्ते पटच्चरपटा इव ॥ ४० ॥ कलकण्ठः-( अपवार्य ) वयस्य कलहंस ! पश्य पश्य । आकर्णयन्नुभाकर्णिसकर्णः सचिवोत्तमः । रोमाञ्चितवपुर्यष्टिरेष माषफलीयति ॥ ४१ ॥ कलहंसः-( मन्त्रिणमालोक्य शिरो धुनीते) मन्त्री देव ! खलूक्त्वाऽन्यधर्मसंकथाम्, श्रीबालचन्द्रसूरिविरचितं दयैव सर्वभूतेषु यदि धर्मस्तदा सदा । किमीडयः पीडयते खात्मा राजन्ननशनादिभिः ॥ ४२ ॥ राजा-मन्त्रिन् ! नैतदुच्यते । यतः- रसकर्मज्वरौ दत्तदरौ हन्त ! सहोदरौ । देहाद्देहवतां नेह नश्यतोऽनशनं विना ॥ ४३ ॥ अन्यच्च- - प्रलीयन्ते न कर्माणि तपःकर्म विना ननु । सकर्मा शिवशर्माणि शाश्वतानि लभेत न ॥ ४४ ॥ विदूषकः-(सहासं विनिश्चित्य ) (क) भो रायं ! धम्ममहाभूअग्ग- हिअस्स एवं दे पलविदं अम्ह सिरोवेयणमुप्पाडेइ । जओ- (ख) खता पिअंता इह जे मरंति पुणोऽवि ते खंति पिति रायं!। खुहाइ तत्ता पुणजे मरंति पुणोऽवि तप्पंति खुहाइ ते उ॥४५॥ राजा-( विहस्य ) वयस्य ! अपालयित्वा सहकारपादपं फलर्द्धिमुद्यानपतिर्लभेत न । काले यथा चारुतपस्तथा जनो ऽप्यपालयित्वा लभते न तत्फलम् ॥ ४६॥ (क) भो राजन् ! धर्ममहाभूतगृहीतस्य एतत्ते प्रलपितं अस्माकं शिरो. वेदनामुत्पादयति। (ख) खादन्तः पिबन्तः इह ये नियन्ते पुनरपि ते खादन्ति पिबन्ति राजन् ।। क्षुधा तप्ता पुनर्ये नियन्ते पुनरपि तप्यन्ते क्षुधा ते तु ॥

करुणावज्रायुधनाटकम्। १५ विदूषकः-(क) भो रायं ! सव्वजणहियं तए अभिहि । पुणो जणच्छायापयाणविंझस्स तवसाहिणो काउ फलसंपयाओ । राजा-निरर्गला एव स्वर्गापवर्गसुखसंपत्तयः तपःकल्पशाखिनः फलसंपदः। विदूषकः-(सहासं संस्कृतमाश्रित्य ) हंहो राजन् ! मुर्खशिखाम- णिरसि । यतः पूर्वाभ्यासवशाद्वशीकृतरिपुक्ष्माकान्त ! सान्तःपुरं राज्यं प्राज्यविभूतिसंभृतमद प्राप्यापि संतप्यसे । यन्नूनं ननु धर्मकर्मभिरिति स्वर्गापवर्गाय य- कर्कन्धूः फलितास्ति तत्र किमिति क्षमापाल ! किञ्चाम्लिका ॥४७॥ ( सर्वे हास्य नाटयन्ति) राजा-(विहस्य ) वयस्य ! क्रमेलकमुख इति नामसदृशी ते भणितिसरसी । अयोग्योऽसि धर्मरहस्यस्य । परं वयस्य इति लेशोद्देशेन किश्चिदुपदिश्यते । आस्तां तावदवाङ्मनसगोचरापवर्ग- सुखवर्गवरूथिनी। यथा प्रातः कश्चित्कुशतृणमुखस्थेन कुमति- स्तुषारस्यावश्यं तुलयति तुषारेण जलधिम् । तथा स्वर्गादग्रप्रचुरसुखसंदोहममुना भुवः सौराज्येन त्वमपि गतबुद्धे ! तुलयसि ॥ ४८ ॥ (क) भो राजन् ! सर्वजनहितं त्वयाभिहितं, पुनर्जनच्छायाप्रदानवन्ध्यस्य तपःशाखिनः काः फलसंपदः ।

१६ श्रीबालचन्द्रसूरिविरचितं विदूषकः-(क) ही ही रायं ! (ख) हत्थागया इमे कामा कालिआ जे अणागया । केणे दिटे परे लोए अत्थि वा नत्थि वा पुणो ॥४९॥ राजा-( विहस्य ) करस्थमप्येवममी कृषीवला: क्षिपन्ति बीजं पृथुपङ्कसङ्कटे । वयस्य ! केनापि कथं विलोकितः समस्ति नास्तीत्यथवा फलोदयः ॥ ५० ॥ विदूषकः- (निरुत्तरीभूय )(ग) भो रायं ! निअमंतिणा समं चेव धम्मविआरं करेह । अम्हे उण निअबभणीए मुहकमलझाणं कारिस्सामो। (इति मीलितहक्कः कृतपर्यड्कासनबन्धविधिर्ध्यानं नाटयति। सर्वे हसन्ति ) ( नेपथ्ये ) एते बन्धुरगन्धसिन्धुरघटादानामिभिः पहिले सिंहद्वारि निपेतुषः सरभसं सेवार्थिनः पार्थिवान् । निध्यायन्ति सहासमाकृतिकृतः पौरा गरीय परा- भूतिम्लानमुखत्विषः परिलसल्लज्जानमत्कन्धरान् ॥५१॥ (क) हीही राजन् ( हीही निपातो विदूषकाणां हर्षे ) (ख) हस्तागता ( स्वाधीना वर्तन्ते ) इमे कामाः कालिकाः ( अनिश्चिताः) येऽनागताः । केन दृष्टः परो लोकः अस्ति वा नास्ति वा पुनः ॥ (ग) भो राजन् ! निजमन्त्रिणा समं चैव धर्मविचारं कुरु । वयं पुन. निजब्राह्मण्या मुखकमलध्यानं करिष्यामः ॥ १' को जाणई परे लोए' इति पाठानुसारेण तु ' को जानाति परो लोकः'। .

.. करुणावज्रायुधनाटकम् । १७ विदूषकः-( समाकर्ण्य सकौतुकम् ) (क) भो रायं ! रायसमूह सीहदुवारे पउरेहिं उवहसिजंतं गदुय जोएमि । राजा-वयस्य ! एवं कुरु । विदूषकः-(ससंभ्रममुत्थाय निष्कान्तः ) मन्त्री-(खगतम् ) अहो! क्षेमेण प्रदीपनमुपशान्तम् । ( नेपथ्ये उच्चैः :स्वरम् ) (ख) परित्तायध परित्तायध । राजा-( सविस्मयम् ) किमयं वराकः क्रमेलकमुखः प्रलपति । (प्रविश्य संभ्रान्तः) क्रमेलकमुखः-(ग) महाराय! परित्ताहि परित्ताहि मं । राजा-वयस्य ! मा भैषीः । किमिदम् । विदूषकः—(घ) जाव अहं तुरिअतुरिअं वच्चामि ताव करक- लिअदत्तदंडो कोऽवि जमपयंडो सिंहदाराउ सम्मुहं जेव वलिअ मह मारणत्थमेव मणुपयमागच्छइ । ( सर्वे नेपथ्यावलोकनेन संभ्रमं नाटयन्ति ) ( ततः प्रविशति वामप्रकोष्ठार्पितकनकदण्डो दण्डी ) राजा-( सहासम् ) वयस्य ! अयं ते यमः । विदूषकः--(विलोक्य भीत इव पृथ्वीपतेः पादयोनिलीयते ) राजा-( विहस्य ) वयस्य ! नायं यमः प्रतिहारोऽयम् । (क) भो राजन् ! राजसमूहं सिंहद्वारे पौरैरुपहस्यमानं गत्वा पश्यामि। ख) परित्रायध्वं परित्रायध्वम् । (ग) महाराज ! परित्रायस्व परित्रायस्व माम् । (घ) यावदहं त्वरितत्वरितं व्रजामि तावत्करकलिकादत्तदण्डः कोऽपि यम- प्रचण्डः सिंहद्वारात्सम्मुखं एव वलित्वा मम मारणार्थमेवानुपदमागच्छति ।

१८ श्रीबालचन्द्रसूरिविरचितं विदूषकः-(विलोक्य सवैलक्षस्मितमिव ) (क) हुं, उवलक्खिदो एस पडिहारो न जमो । ( सर्वे हसन्ति ) प्रतीहारः-(प्रणम्य ) देव ! सुबाहुयुगबाहुप्रभृतयः सेवाहेवा- किनः पार्थिवा द्वारि वर्तन्ते । कः आदेशः । राजा-अरे मञ्जीरक ! तिष्ठन्तु द्वार एव तावद् यावद्वयं सभामलंकुर्मः । प्रतीहारः-आदेशः प्रमाणम् । ( इत्यभिधाय निष्कान्तः ) (पुनर्नेपथ्ये) असमय इति बुद्ध्वा द्वारपालैनिषिद्धाः प्रतिफलनमिषेण स्फाटिकप्राङ्गणेषु । ददृशुररिनरेन्द्राः खं निषण्णा रसान्त- र्गतमतनुहियेवान्योन्यमानम्रवत्राः ॥ ५२ ।। राजा-( अनाकर्णितेन ) मन्त्रिन् ! पुनर्विज्ञपयसि किञ्चित् ? । मत्री-यदादिशन्ति देवपादास्तत्तथैव नान्यथा । परं देव ! नीतिराह । यत्- चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः । नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥ ५३ ॥ इतिन्यायात् । प्रत्यक्षमनवेक्ष्यापि किश्चित्तत्फलमुज्ज्वलम् । हित्वा विषयजं शर्म तपः कर्म करोति कः ॥ ५४ ॥ (क) हुं ( स्वीकारे ) उपलक्षितः एष प्रतिहारो न यमः । - करुणावत्रायुधनाटकम् । अपि च- दर्यतां देव ! तत्किश्चित्प्रत्यक्षं तपसः फलम् । प्रत्यक्षमपि हे दक्ष ! श्रूयतां यदि संशयः ॥ ५५॥ तथाहि- मृगाक्षीणां नामाप्यसहत न यः सोऽपि तपसा वशीभूतः शश्वद्विमलयति दासेरक इव । नमन्त्रीशः क्षोणीधरदुहितुरंहिद्वयमहो! जटाजूटत्रुट्यत्रिदशतटिनीतोयततिभिः ॥ ५६ ॥ अपि च, मन्त्रिन् ! आस्तां तावज्जीवस्याजीवस्यापि । कष्टकारस्करः स्पष्टमिहैव फलदायकः । स्त्रैणपाणिग्रहं हेम विधत्ते साधितानलम् ॥ ५७ ॥ अतो मन्त्रिन्!- असारस्य शरीरस्य सारमेतद्गुणद्वयम् । तपः प्राणैरपि प्रीतिविधानमपरे जने ॥ ५८ ॥ ( नेपथ्ये) अन्योन्यसंवलितपलाशपलाशवननिकुञ्जान्तरप्रसरत्नावृषेण्यपु- प्यजलधरासारताररवगर्वसर्वस्वसर्वंकषः पुरा गोत्रभिन्निर्मुक्तदम्भोलिद- ण्डवित्रस्तमैनाकपक्षविक्षेपघोरनिर्घोषसख उत्पादितसकलजनकर्णजा- ड्यजनिः कोऽप्यमूर्तो ध्वनिः समजनि । (सर्वे समाकर्ण्य संभ्रमं नाटयन्ति) (पुनर्नेपथ्ये महान् हाहाकारः) राजा-( सवितर्कम् ) २० श्रीबालचन्द्रसूरिविरचितं पुरेऽस्मिन्नावासान् दहति दहनः केलिगहनः करी वा प्रासादान् दलयति मदान्धः किमु किमु । हहाहाहाकारः किशलयति चित्ते भ्रममसा- वकस्मादस्माकं प्रमदरहितः पौरविहितः ॥ ५९ ॥ (पुनर्नेपथ्ये) गृह्णीत भोः ! गृहीत भोः ! एनमसमञ्जसकारिणं पृष्ठचारिणम् । अयं गृहीत इव गृहीत इव । अमुना मारित इव मारित इव वराकः पुरश्वारी। राजा-( समाकर्ण्य कोपाटोपादाविर्भूतभृकुटिभङ्गतरङ्गितललाटतटः) उदधिकूलदुकूलवतीमिमां वसुमतीयुवतीं मयि शासति । पुरि क एष करोत्यसमञ्जसं क इह भोः ! करवालमुपानय ॥ ६० ॥ मन्त्री-( खगतम् ) शमोपष्टम्भितः पौरतुमुलच्छलवात्यया । शौर्यवायुसखः साक्षादुत्तस्थौ स्वामिनः किमु ॥ ६१ ॥ (प्रविश्य ) पुरुषः-(पृथ्वीपतेः करवालं समर्पयति ।) राजा-( कल्पान्तकालानलज्वालासहचरमिव कोशान्मण्डलाग्रमाकृष्य करे करोति ) विदूषकः-( सभयमिव वेपमानवपुः ) (क) बीहेमि बीहेमि । ( इति ब्रुवन् सत्वरमुत्थाय सिंहासनाधः प्रविशति । सर्वे हसन्ति ) (क) बिभेमि बिभेमि ।

करुणावज्रायुधनाटकम् ।
२१
कलहंस:-( अपवार्य ) वयस्य कलकण्ठ ! पश्य पश्य,
शत्रूणां कालरात्रिभृगमदतिलकः प्राज्यसाम्राज्यलक्ष्म्याः
शाखा रोषद्रुमस्य प्रबलतरमहःखजिनः शृङ्गयष्टिः ।
स्फूर्जच्छौर्यप्रदीपाञ्जनमनणुयशःपुण्डरीकस्य नालं
पाथोधिः पुष्कराणामसिरसितरुचिर्भाति देवस्य हस्ते ॥६२॥
कलकण्ठः-वयस्य कलहंस !,
वैकुण्ठनाकाध्वनि पश्य भान्ति
कृपाणपट्टे पृथुपुष्कराणि ।
हताहितक्षोणिभृतां प्रयाता-
मस्मिन् पदानीव करम्बितानि ॥ ६३ ॥
कलहंसः-साधु साधु वयस्य कलकण्ठ ! साधु गदितवान् भवान् ।
राजा-(कान्तिकलापकरालं करवालं विधूनयति )
मत्री-स्वगतम् )
सीमालक्षितिपालकालभुजगः संग्रामसीमाश्रमः
श्रीसीमन्तपथः प्रतापहुतभुग् धूमः क्रुधां कन्दलः ।
कुल्या कीर्तिलतावनस्य कबरी निस्सीमराज्यश्रियः
शौर्यश्रीकरिणीकरः करतले देवस्य वलगत्यसिः ॥ ६४ ॥
(पुनर्नेपथ्ये)
वज्रायुधो मे शरणं शरण्य
इत्युच्चकैर्दीनगिरा लपन्तम् ।
धावन्तु धावन्तु वराकमेनं
रक्षन्तु रक्षन्तु जगन्त्यमुष्मात् ॥.६५ ॥

.
२२
श्रीबालचन्द्रसूरिविरचितं
राजा-(समाकर्ण्य ससंभ्रमं करवालकरालपाणिः सिंहासनाद्यावदुत्थानं
नाटयति तावद्वेगविजितधनुर्मुक्तबाणः पक्षसूत्कार वनिभिर्वाचालं दिक्चक्रवालं
कुर्वाणः 'शरण्यचूडामणे राजन् ! रक्ष रक्ष मां' इति ब्रुवाणः प्रतिपक्षपृष्ठपात-
भयसंकोचितनिजप्राणः कम्पमानवपुः तरलनयनयुगलः प्रसरदमन्दश्वासनिःश्वा-
सवातोच्चावचीभवद्गलः दीनः परित्राणहीनः संलीनश्चरणमूलमेकः पारापतः
पतङ्गः । ततश्च चमरेन्द्रानुधावितदम्भोलिदण्डमनुहरन् अलमलमसिदण्डाडम्बरेण ।
राजन् ! मम भक्ष्यं मुञ्च मुच्च' इति व्याहरन् जातप्रलयपवनवेगसङ्गमः कृतान्त
इव जङ्गमः कृततन्मार्गानुगमः प्रविशति श्येनविहङ्गमः । )
पारापतः-( सदैन्यं राजानं प्रति ) अनयदहननीर ! नयाम्र-
वनकीर ! गुणसहस्रकिर्मीर ! गम्भीर ! परोपकारशरीर ! धीर !
प्राप्तप्रतिज्ञार्णवतीर ! वीर ! रक्ष रक्ष माममुष्माद्विहङ्गमाधमात्
शरणागतोऽस्मि तव ।
राजा-( असि कलहंसायोपनीय पारापतं प्रति सप्रतिज्ञम् ) अरे
कान्दिशीक ! भव निर्भीकः । ननु समस्तजन्तुयातनाऽश्रान्तकृतान्त-
वदनविवरादपि त्वां कर्षामि ।
पारापत -महाप्रसादः । ( इति वदन् इलातलमिलन्मौलिः प्रणमति )
श्येनः-( साक्षेपं राजानं प्रति ) राजन् ! ममैनमुपनय भक्ष्य-
पक्षिणं येन बुभुक्षाक्षामनिःस्थामतनोरात्मनस्तृप्तिमादधामि ।
रामा-( सनिश्चयम् ) अयि श्येनपक्षिन् !,
तवार्पयिष्ये नहि भक्ष्यपक्षिणं
क्षणं निमील्येक्षणमन्तरा मृश ।
किं क्षत्रियाणां कुलधर्म एष य-
प्रत्ययंते जीवितमङ्कमागतम् ॥ ६६ ॥

करुणावज्रायुधनाटकम् । २३ - - यदुकम्- लोभाद् द्वेषाद्भयाद्वापि यस्त्यजेच्छरणागतम् । ब्रह्महत्याफलं तस्य पापमाहुर्मनीषिणः ॥ ६७ ।। श्येनः :-राजन् !, मार्गणान् सफलीकृत्य कामं विसृजतः सतः । शात्रवाणीव पापानि धर्मिणस्तव बिभ्यति ॥ ६८ ।। राजा-श्येनपक्षिन् ! श्रुतीनां बहिष्पथीना ते मतिः । यतः- चतुःसागरपर्यन्तां यो दद्यात्पृथिवीमिमाम् । एकश्च जीवितं दद्यात्तयोरभयदोऽधिकः ॥ ६९ ।। अपिच- हुतमिष्टं च तप्तं च तीर्थसेवाफलं श्रुतम् । सर्वाण्यभयदानस्य कलां नाहन्ति षोडशीम् ॥ ७० ॥ किञ्च- उत्खन्यमाने तव पुच्छपिच्छेऽ- प्याविर्भवत्येव यथा व्यथान्तः । तथा व्यथाऽस्यापि भवेदवश्यं भीतिश्च मृत्योः प्रियजीवितस्य ॥ ७१ ॥ तद्भोः ! बुध्यस्व बुध्यस्व विमुञ्चेमं दुराग्रहपरिग्रहम् । यतः- अपि कण्ठगतैः प्राणैरकृत्यं न विधीयते । भविष्यतेऽत्र कृत्वा किमकृत्यमजरामरैः ॥ ७२ ॥ श्येनः-महाराज ! सर्वमिदमनुभवसिद्धमविरुद्धं भवता हितं दोषरहितं महापुरुषविहितमभिहितम् । परमवनिवधूहार ! यः पर- - २४ श्रीबालचन्द्रसूरिविरचितं - ? प्राणापहारः स्वप्राणसाधारोऽस्माकं स कुलाचारः । तदिदं ममाकृत्यं कृत्यमेव । यतः- स्वीयः स्वीयः कुलाचारः कृत्यमाहुर्मनीषिणः । अकृत्यं च विदुस्तत्त्ववेदिनस्तद्विपर्ययः ॥ ७३ ॥ राजा-(सहासम् ) कुलाचार इति न परित्यजसि कुलक्रमा- गतमपि दुःखदौर्गत्यदारिद्रयादि किं न परित्यजसि !। श्येन सव्यथम् ) राजन् ! सांप्रतमनुभवविरुद्धमिवाभिदधा- सि। यतः- धर्माधर्मविमर्शनमिह सुस्थितसुखितचेतसामेव । धर्मप्रियोऽपि कुरुते क्षुत्क्षामः किन्तु नाकृत्यम् ? ॥७४॥ तदिदानी पर्याप्तं धर्मविवेकेन, समर्पयैनं भक्ष्यपक्षिणम् । बाधते मां बुभुक्षाराक्षसी ( इति ब्रुवाणः किश्चिदग्रतः परिक्रामति ) पारापत:-( सभयं राज्ञः सिंहासनाधः प्रविशति ) विदूषकः-(मार्जारस्वरेण भापयति ) पारापातः-केयमुत्पातपरम्परा मम ( इति वदन् कम्पमानः समुड्डीय राज्ञः सिंहासनोपरि भवति) राजा-(सोपहासम् ) वयस्य वीरावतंस ! मैनं भापय तप- खिनम् । ( सर्वेऽपि हसन्ति ) पारापतः-(श्येनमभिवीक्ष्य भयवेपमानवपुः पृथ्वीपतेः पटान्तरे प्रवि- श्यात्मानं गोपयति) राजा-( पारापतं स्वपाकरूपमिव वक्षसा समादाय कीरपुच्छमिव पुच्छगुच्छं परामृशन् ) करुणावज्रायुधनाटकम् । २५ मा भैषीर्वत्स ! मा भैषीः सांप्रतं भव निर्भयः। आक्रामति न शक्रोऽपि विक्रमी त्वामिह स्थितम् ॥ ७५ ॥ श्येनः-(सेय॑म् ) किमयं सोदरस्तेऽहं सापत्लेयः कथं नृप !। यदेनं त्रायसे मां तु म्रियमाणमुपेक्षसे ॥ ७६ ॥ ( पुनः सोपशमम् ) पातः ! पासि यथा पतत्रिणममुं निष्कारणं त्वं तथा मृत्योर्मामपि पाहि नाहितकृतः कस्यापि सन्तो यतः। मद्भीतेः शरणं भवन्तमगमत्पारापतोऽयं हहा ! क्षुत्क्षामः कमहं तु हन्त ! शरणं यामि त्वदन्यं वद ॥७७॥ राजा-( सकरुणम् ) कस्कोऽत्र भोः ! सूपकारेषु । (प्रविश्य ) स्थूलपाद:-( योजितपाणिः ) आदिशन्तु देवाः । राजा-(स्थूलपादस्य कर्णे एवमेव ) स्थूलपाद:-आदेशः प्रमाणं ( इत्यभिधाय निष्क्रान्तः ) श्यनः-( सहासेय॑म् ) एकः क्षमापोपेक्ष्यतेऽपेक्ष्यतेऽन्यः कोऽयं धर्मस्तावकीनो नवीनः । (पुनः सवैलक्ष्यम् ) एते गच्छन्त्युत्सुका मामका हा ! प्राणास्त्राणापायमासाद्य सद्यः॥ ७८॥ ( इतिब्रुवाणश्चक्रभ्रमि नाटयित्वा मूर्च्छति ) राजा-(सरभसं सकरुणमुत्थाय ) जलं भोः ! जलम् ।

श्रीबालचन्द्रसूरिविरचितं (प्रविश्य ) पुरुषः-देव ! इदं जलम् । राजा-( जलमादाय श्येनमभिषिञ्चति स्ववासःपल्लवेन वीजयति ) श्येनः-(चेतनामास्थाय मन्दस्वरम् ) गच्छन्तो न स्थिरतां श्रयन्ति नृपते ! विनाऽशनं प्राणाः। क्षुत्क्षामस्य ममानिलजलसेकप्रमुखरक्षाभिः ॥ ७९ ॥ राजा-(स्वगतम् ) किमद्यापि चिरयति स्थूलपादः । (ततः प्रविशति मोदकस्थालहस्तः स्थूलपादः) विदूषकः-(सिंहासनाधस्तात्सहसैव विनिस्सृत्य तुण्डं परामृशन् ) (क) ही ही जीवदम्हि जीवदम्हि मह खुहाजलणजलन्तपिट्टस्स तत्तिनिमित्तं जेव थूलवाएण मोअगा समाणीदा ( इति जल्पन् स्थूलपादकरान्मोदकस्था- लमुद्दालयति) स्थूलपाद:-(विलक्ष एवास्ते । सर्वे हसन्ति ) राजा--(विहस्य ) वयस्य !, द्विजातिभावादुल्लासिलौल्यलोभितलोचनः । मा त्वमन्यायिचरटखेटपाटवमाचर ॥ ८० ॥ विदूषकः-(रुदन्निव सगद्गदम् ) ( ख ) महाराय ! अज अका- रणकुविआए बंभणीए गलहत्थिअ घराउ नीहारिदम्हि । (क) ही ही जीवितोऽस्मि जीवितोऽस्मि मम क्षुधाज्वलनज्वलत्पेटस्य तृप्तिनिमित्तं एव स्थूलपादेन मोदकाः समानिताः। ख) महाराज ! अद्य अकारणकुपितया ब्राह्मण्या गलहस्तयित्वा गृहानिः- सारितोऽस्मि ।

करुणावजायुधनाटकम् । २७ राजा-(विहस्य ) वयस्य ! उपलक्षितोऽसि मोदकानेवादा- तुमयमुपक्रमविक्रमः । भवतु, तवापि दीयन्ते लमाः । तावदर्वागुपा- नय मोदकस्थालम् । विदूषकः-(क) एवं भोदु । अम्हेहिं तुह भणि करेअव्व- मवस्सं जेव । ( इत्यभिधाय स्ववासः क्रोडे मोदकानिक्षिप्य राज्ञे केवलं स्थालं समर्पयति । सर्वे पटान्तेन मुखं पिधाय हसन्ति) राजा-( सवैलक्षम् ) मा द्विजाते ! विजातित्वमाचर । म्रियतेऽसौ बुभुक्षया वराकः श्येनपक्षी । अनवसरोऽयमधुना हास्यरहस्यस्य । विदूषकः-(स्वोदरं निम्नीकृत्य ) (ख) महाराय ! पिच्छ पिच्छ खुहाखुहिउअरो अहमवि मरामि । राजा-(स्वगतम् ) अयं शापविद्धोऽपि विजातिरेव द्विजातिः निघृण एव । न गृह्यते परपीडया । किमधुना वचनक्रीडया। (प्रकाशम् ) वयस्य ! तथाप्येकमुपनय मोदकम् । विदूषकः-( तथा करोति ।) राजा-स्वहस्तेन मोदकमुपढौकति श्येनाय । श्येनः-( मोदकमाघ्राय उन्मुखः सोपहासम् ) उदारशिरोमणे म- हाराज ! किमेतत् । राजा-मोदक एषः। श्येनः-नामाप्यश्रुतपूर्वम् । मोदक इति कः शब्दार्थः । (क) एवं भवतु । अस्माभिःतव भणितं कर्तव्यमवश्यमेव । (ख) महाराज! पश्य पश्य क्षुधाक्षुभितोदरोऽहमपि म्रिये ।

- २८ श्रीबालचन्द्रसूरिविरचितं राजा-मोदयत्यानन्दयति बुभुक्षातुरमिति मोदकः । श्येनः-विनाऽस्मद्विधान् जन्तून्, अस्मद्विषा यतः पलादाः। तथाहि- तुष्टिं ममैति न मनो बहुनापि राजन् ! भोज्यान्तरेण भुवनाभयदानशौण्ड!। सद्यः स्वयं शमितजीवितजीवकाया- दुष्णोष्णमांसशकलानि यतोऽहमनि ॥ ८१ ।। ( नेपथ्ये) सुखाय माध्यन्दिनी सन्ध्या देवस्य । संप्रति हि- मध्याहळूरसूरद्युतिविततिपतत्तुङ्गमातङ्गरण- च्छुण्डादण्डाग्रजाग्रजलजटिलजटाशालिपालिद्रुमालिः । राजत्यम्भोजराजीमधुरमधुरसोद्भूतसौरभ्यलुभ्य- दृङ्गीसङ्गीतपीतव्यथपथिकघटाहृयदेशो हृदोघः ॥ ८२ ॥ अपि च-- तरुणतरणितेजस्तापितायामिलायां पथि पथि पथिकानामङ्गनाः संचरन्त्यः । विदधति कुतुकं नस्तालशिक्षा विनापि प्रचुरचरणचारी ताण्डवाडम्बरेण ॥ ८३ ॥ अपि च- किरणदशशतारचारुसूर- स्फुरदुरुनाभिविभूषितान्तरालम् ।

करुणावज्रायुधनाटकम् । २९ .. वियदखिलहरिद्वितानधारं तुलयति चक्रमयं त्वदीयमस्त्रम् ॥ ८४ ॥ मत्री-(श्रुतिममिनीय सहर्षमात्मगतम् ) साधु साधु भो मागध ! साधु, अपूर्वमर्थ श्रावितवानसि । (प्रकाशम् ) देव ! मध्याहसन्ध्या- विधिसमयो वर्तते । श्येनः--(सकोपम् ) मुखसमायातकवलोद्दालनकन्दलितकालवि- लम्बेन पीब्यमानोऽस्मि । प्रीणय मां झगिति मांसभक्षिणम् । राजा-(इति कर्तव्यतामूढश्चिन्ताचक्राधिरूढः स्वगतम् । ) अहो ! कार्यवैषम्यमुपस्थितम् । श्येनो मांसमृते न तृप्यतितरां क्षुत्क्षामकुक्षिस्तथा रक्ष्यः प्रेतपतेरपि स्वयमयं पारापतः संप्रति । ( पुनः समीमांसम् ) किञ्चान्यत्पलविक्रयापणपशुक्रव्यप्रदानेऽपि हा ! दोषः स्यात् (पुनः सरोमाश्चम् ) निजमेव तत्पलमहं श्येनाय संढौकये ॥ ८५ ॥ (प्रकाशम्) वयस्य ! हंहो !, तुभ्यं श्येन ! ददे पारापातेन तुलितं पलम् । निजमेवाधुना तेन सुहितीभव मा मृथाः ॥ ८६ ॥ श्येनः-(स्वगतम् ) अहो! जयतीशानेन्द्रभाषितम् । अहो ! महीपतेः साहसातिरेकः। (प्रकाशम् ) महाराज ! एवमस्तु । राजा-(सहर्ष सरोमाञ्चम् ) कोऽत्र भोः ! नेपथ्यान्तः । !

३० श्रीबालचन्द्रसूरिविरचितं पुमान्-एषोऽहमस्ति । आदिशतु देवः । राजा-अरे तुलामानीयात्र भारपट्टकटके बधान । (प्रविश्य पुरुषस्तथाकरोति) राजा-(पुनः ससंभ्रमम् ) कृपाणी भोः ! कृपाणी। (प्रविश्य ) पुरुषः-( राजे कृपाणीमर्पयति ) राजा-करेण कृपाणीमादाय प्रोल्लासयति ) विदूषकः-(सभयमिव दरस्फुरितचक्षुरप्राप्तपूर्वानिमान् मोदकान् कव- लयन् निष्कान्तः। सर्वेऽपि स्मयन्ते) राजा-(पारापतमेकस्मिंश्चलके निधाय धुरिकया कूष्माण्डनिर्विशेषां स्वजङ्घां छेत्तुमारभते ) मन्त्री-( ससंभ्रममुत्थाय साश्रुग् राजानं प्रति बाही विधृत्य ) एकस्यैव विहङ्गस्य कृते सुकृतीनांवर!। किमिदं स्थानकं विश्वाधारस्य वपुषो व्यये ॥ ८७ ॥ राजा- इह कीर्तिः परत्र स्वःसुखस्फूर्तिश्च यत्फले। तस्याः स्थानकमेतद्धि परोपकृतिवीरुषः ॥ ८८ ॥ मन्त्री देव क्षत्रियकुलकमलबान्धव! जगदृशां भवादृशां नायुक्तियुक्तिरेव क्रियते परोपकृतिः । परम्- किमपि स्फुटमेव दैवतं कपटं देव ! विचार्यतामदः । अपि नाम विहङ्गमाविमौ लपतः कापि मनुष्यभाषया॥८९॥ राजा-( सावहेलम् ) - करुणावज्रायुधनाटकम् । ३१ - इदं दैवमदैवं वा कपटं मम तेन किम् । स्वप्रतिज्ञाम्बुधेः पारमपारस्य प्रयास्यतः ॥९॥ अपि च- अग्राह्यनामधेयस्य तस्य स्तादजनिर्जने । स्वयमेव प्रतिज्ञाय यः पश्चादवसीदति ॥ ९१ ॥ (पुनः सरोमाञ्चम् ) अद्य मे फलितं प्राच्यपुण्यवल्लीभिरद्य मे । सफलं जन्म चाद्याहं जातपुण्याहमङ्गलः ॥ ९२ ।। ( इति कृपाणीपाणिः प्रनृत्यति) ( नेपथ्ये) (क) इदो इदो देवी। मन्त्री-(श्रुतिमभिनीय ) कथमहो! वेत्रधारिण्या धारिण्या निर्दि- श्यमानसरणिर्देवी लक्ष्मीवती समेति । (ततः प्रविशति प्रियंवदादत्तहस्तावलम्बा देवी) देवी-(ख) हला पियंवए ! तदो तदो। प्रियंवदा- (ग) जत्थ पइं महुरवाणि! मुसिआ परपुट्ठालहरिणीहि वाणीहि । सहयारपायवाणं पुरओ बुबु व्व पाडेइ ॥ ९३ ॥ - (क) इत इतो देवी। (ख) हले प्रियंवदे ! ततस्ततः । (ग) यत्र त्वया मधुरवाणि ! मुषिता परपुष्टा आलहारिणीभिर्वाणीभिः । सहकारपादपानां पुरतः पूत्कार इव पातयति ॥

३२
श्रीबालचन्द्रसूरिविरचितं
देवी-(सलज्जस्मितम् ) (क) तदो तदो।
प्रियंवदा-(ख) तत्थ उज्जाणे वसन्तूसवकीलननिमित्तं गएण
पहुणा पुव्वभववेरी विज्जुदाढो नाम असुरशिरोमणी नाणाविहझुज्झेहि
पराजिउ अणंगतेरसीदिणंमि सामिणीएऽवि पञ्चक्खं ।
देवी-(सरोमाञ्चम् ) (ग) अध कथय ।
प्रियंवदा-(घ) सामिणि ! अज्ज अवरं किं पि मए सुदं ।
देवी-( ससंभ्रमम् ) (ङ) सावहाणाम्हि, कहेहि तं मए जं
तए सुदं।
प्रियंवदा-(च) चउद्दसीपमुहधम्मतिहीसु धम्मसालाए ठिओ
सामी किं पि झएदि। एवं जाणादि सामिणी ।
देवी-(सस्मितम् ) (छ) सव्वलोअपसिद्धं खु एदं। विसेसं
कहेहि ।
(क) ततस्ततः।
(ख) तत्रोद्याने वसन्तोत्सवक्रीडननिमित्तं गतेन प्रभुणा पूर्वभववैरी विद्युद्दष्ट्रो
नामासुरशिरोमणिर्नानाविधयुद्धैः पराजितोऽनङ्गत्रयोदशीदिने स्वामिन्या अपि
प्रत्यक्षम् ।
(ग) अथ कथय ।
(घ) स्वामिनि ! अद्यापरं किमपि मया श्रुतम् ।
(ङ) सावधानास्मि कथय तन्मां यत्त्वया श्रुतम् ।
(च) चतुर्दशीप्रमुखधर्मतिथिषु धर्मशालायां स्थितःस्वामी किमपि ध्यायति ।
एवं जानाति स्वामिनी।
छ) सर्वलोकप्रसिद्धं खलु इदम् । विशेषं कथय ।
..

करुणावज्रायुधनाटकम् । ३३ प्रियंवदा-(क) चतुद्दसीनिसाए असुरजुज्झोवज्जिअपावस्स सोहिं कातुं धम्मसालाए सामी विसेसझाणपरो संजाओ। देवी-(ख) तदो तदो। प्रियंवदा-(ग) तत्थ ट्ठियम्स सामिणो मणोवेगेण गयणंगणाओ ओअरिअ भयभरिअभाणसो कंपमाणसव्वंगो संकोचिअखंधबंधो ताएहि मंताएहि मं ति मनुस्सभासाए भासमाणो एगो पारेवओ तिहु- अणिक्कसरणं चरणमूलमल्लीणो। देवी-(घ) अहो! कंदलिदभयकउहल्लो कधालसो। तदो तदो। प्रियंवदा-(ङ) तओ गरुड व्व भुयंगमस्स तस्स मग्गाणुसारी खुहाकरालकुक्खी अणवट्ठिअक्खी मम भक्खमप्पेहि अप्पेहि ति भासंतो एगो सेणपक्खी समागउ त्ति कमेलयमुहमुहादो मए सुदं । अउ वरं किं पि भविस्सदि त्ति न याणामि । .. (क) चतुर्दशीनिशायामसुरयुद्धोपार्जितपापस्य शोधि कर्तुं धर्मशालायां स्वामी विशेषध्यानपरः संजातः। (ख) ततस्ततः । (ग) तत्र स्थितस्य स्वामिनो मनोवेगेन गगनाङ्गणतोऽवतीर्य भयभरित- मानसः कम्ममानसर्वाङ्गः संकोचितस्कन्धवन्धस्त्रायस्व मां त्रायस्व मामिति मनुष्यभाषया भाषमाण एकः पारापतस्त्रिभुवनैकशरणं चरणमूलमालीनः । (घ) अहो ! कन्दलितभयकुतूहल: कथारसः । ततस्ततः । ङ) ततो गरुड इव भुजङ्गमस्य तस्य मार्गानुसारी क्षुधाकरालकुक्षी अनव- स्थिताक्षी मम भक्ष्यमर्पयार्पयेति भाषमाण एकः श्येनपक्षी समागत इति क्रमे- सकमुखमुखतो मया श्रुतम् । अतः परं किमपि भविष्यतीति न जानामि । ३ ३४ श्रीबालचन्द्रसूरिविरचितं देवी-(क्षणमिव ध्यात्वा ) (क) पिअंवए ! हुँतेऽवि बहुमि पला- यणठाणे जं अणेगलोगसंकुले रायकुले आगच्छिअ सो पारेवओ अज्जउत्तस्स पायमूलमल्लीणो तं न मे सरूवं पडिहादि। किञ्च असुदपुव्वं खु एवं जं सउणावि पुरिसभासाए भासंति । प्रियंवदा-(ख) देवि ! जुत्तं भणसि, जं ममावि मणो विआर- वाउलं वट्टदि । जओ- (ग) सच्चतेण कमेण सेणभयओ पारावओ आगओ सं एवं परिवत्तिऊण किमयं विज्जाहरो वट्टदि । किं वा सत्तपरीक्खणाय पहुणो सग्गा समुत्तिण्णओ देवो कोऽवि भवे मयच्छि ! इअ णो सम्मं वियाणीयदि॥९४॥ देवी--( दक्षिणाक्षित्फुरगामिनीय साकुलं परिक्रामति ) मन्त्री-( सहयोपनत्य कलहंसकलकण्णाभ्यां सह ) स्वामिनि ! नि- र्भाग्यशेखरस्त्वामेष पुरुषोत्तमः प्रणमति । (क) प्रियंवदे ! भवत्यपि बहुनि पलायनस्थाने यदनेकलोकसंकुले राजकुले आगत्य स पारापत आर्यपुत्रस्य पादमूल मालीनः । तन मे सरूां प्रतिभाति । किच अश्रुतपूर्व खल्विदं यच्छकुना अपि पुरुषभाषया भाषन्ते। (ख) देवि ! युक्तं भणसि यन्ममापि मनो विचारव्याकुलं वर्तते । यतः- (ग) सत्यत्वेन क्रमेण श्येनभयतः पारापत आगतः स्वं रूपं परिवर्त्य किमयं विद्याधरो वर्तते। किं वा सत्त्वपरीक्षणाय प्रभोः स्वर्गात्समुत्तीर्णकः देवः कोऽपि भवेन्मृगाक्षि ! इति नो सम्यग् विज्ञायते ॥

करुणावज्रायुधनाटकम् । ३५ देवी-( साक्षेपम् ) ( क ) मंतिराय ! पडिहदममंगलं किमेवं जंपीयदि । मत्री-देवि ! पश्य पश्य स्वामिनः परोपकारव्यसनाहिलल चेष्टितम् । राजा-( सप्रमोदम् ) करेणैकेन जापलपिण्डमाकृष्य क्षुरिकया कृन्तति । देवी- सवाष्पम्) (ख) अमच्च कोयमम्हाणमकण्डे वज निवाओ। अमात्यः-स्वामिनि !, यामिनी भाविनी लोके तज्जानीहि विपन्मयी। यदपाकुर्वते भूपा मन्त्रिमन्त्रमयं महः ॥ ९५ ।। ( राजानं प्रति सव्यथम् ) हाहाहहा ! कनकभङ्गपिशङ्गमङ्ग- मङ्ग स्मराङ्गसुभगं नृप ! कृत्यते किम् । अन्यानि कि नहि पलापणभूमिकायां भिन्दन्ति हन्त ! शकुनेः क्षुधमामिषाणि ॥ ९६ ॥ देवी-( सगद्गदम् ) (ग) अहह ! किमङ्गं चङ्गं कप्पिज्जइ अजउत्त ! छुरिआए। जं विन्नवेदि मंती तं कीरसु नन्नहा नाह ! ॥ ९७ ॥ (क) मन्त्रिराज ! प्रतिहतममङ्गलं किमिदं कथ्यते । (ख) अमात्य ! कोऽयमस्माकमकाण्डे वज्रनिपातः । (ग) अहह किमङ्गं चङ्गं कर्त्यते आर्यपुत्र ! क्षुरिकया । यद्विज्ञपयति मन्त्री तक्रियतां नान्यथा नाथ ! ॥

- ३६ श्रीबालचन्द्रसूरिविरचितं राजा-(सहासम् ) देवि!, यायावरण किमनेन शरीरकेण स्वेच्छान्नपानपरिपोषणपीवरेण । सर्वाशुचिप्रणयिना कृतनाशनेन कार्य परोपकृतये नहि कल्प्यते यत् ॥ ९८ ॥ (इति ब्रुवन् स्वजानुजङ्घायुगलमुत्कृत्योत्कृत्य मांसखण्डानि तुलायामारोपयति) कलहंसः-(सबाष्पम् ) वयस्य कलकण्ठ ! पश्य, मायादोषजुषामधोगतिरितीवाख्याति साक्षादधो- गच्छच्चेलकमण्डजस्य सहसा तद्भारसंभारतः। भाराकृष्टमुदश्चदेतदपि च क्रव्याकुलं चेलक गन्तोच्चैःपदमेष भूपतिरितीवान्तःसभं शंसति ॥९९॥ मत्री सवैलक्षमाकाशे लक्ष्यमालक्ष्य ) अपि घनतरमस्य क्ष्माभुजः सत्त्वभाज-- स्तुलयति पलमेनं छद्मपारापतं न । अवगणयति युक्तिं मामकीमेष पृथ्वी- पतिरपि भविता हाहा किमेतत्किमेतत् ॥ १०॥ राजा-(सहर्षमात्मगतम् ) तुलयति पलभारः सर्वथा चेन्न पारा- पतमभिमतमेतद्वर्त्तते तन्ममैव । यदुपकृतिमहेऽस्मिन् रहसेदं विनाशि व्ययितमहह नाङ्गं तद्वययिष्यामि कर्हि ॥ १०१॥ राजा-( इति जल्पन् शस्त्रिकामपास्य स्वयमेव तुलामारोहति ) करुणावज्रायुधनाटकम् । ३७ अमात्यादयः सर्वेऽपि-(सौत्सुक्यं मनोबिलाध्यासितस्वामिदन्दशूकनिः- शहफुकारववशोल्लसद्रलोदककणसोदरबायोदविन्दुसन्दोहसूत्रितासूत्रहारविराजित- क्षसः प्रणम्य राजानं प्रति) वपुषार्तिमुषामुना त्वया त्रातव्या सकलापि मेदिनी । सहसैव पतत्रिणः कृते त्यजसीदं नरनाथ ! तत्कथम् ॥१०२॥ अपि च- अधिरूढेऽद्य कृते पतत्रिणोऽप्यवनीपाल! तुलामिमां त्वयि । अधिरोहतु कस्तुलामिलारक्षायै पुरुषस्तवापरः ॥ १०३ ।। देवी-( सदैन्यं राज्ञः पादौ शिरसिकृत्य ) (क) हा अजउत्त ! हा तिहुअणिक्कमल्ल ! हा रिउरायहिययसल्ल ! हा कणयसिलायलपिहुलव- स्थत्थल ! हा करिकरघोरसरलभुयजुयल! हा पडिपुण्णपुण्णिमाचन्दव- यण! हा रूवरेहावहत्थिअमयण! हा देवसुन्दरीण वि दुल्लह ! हा हिअयवल्लह ! परोवयारतजिअसरीर ! वीर ! कत्थवि दट्ठव्वोऽसि मए मंदभाइणीए ( इति प्रलपन्ती मूर्छति )। प्रियंवदाधारिण्यौ .( सपूत्कारं चन्दनव्यजनादिभिराश्वासयतः) ( आकाशे ) दिव्यातोद्यनादकरम्वितः सर्वतोऽपि जय जय ध्वनिः, पुनस्तत्रैव कटकटश्च। (क) हा आर्यपुत्र! हा त्रिभुवनैकमल्ल ! हा रिपुराजहृदयशल्य ! हा कनक- शिलातलपृथुलवक्षस्थल ! हा करिकरघोरसरलभुजयुगल ! हा परिपूर्णपूर्णिमाच- न्द्रवदन ! हा रूपरेखावहस्तितमदन ! हा देवसुन्दरीणामपि दुर्लभ ! हा हृदय- वल्लभ ! परोपकारत्यक्तशरीर ! वीर ! कुत्रापि द्रष्टव्योऽसि मया मन्दमागिन्या ।

श्रीबालचन्द्रसूरिविरचितं
अङ्गीकृत्यात्मनो दुःखं सुखयत्यपरान् महान् ।
आतपादातपस्थोऽयं पथिकानवति द्रुमः ॥ १०४ ॥
द्वितीयः-
सुव्रतः सुगुणः सोढा परार्थेऽनर्थमात्मनि ।
अन्तर्भूय स्फुरत्स्फारघातादवति देहिनम् ॥ १०५ ।।
राजा-(परोपकृतिध्यानपर एवास्ते । अपरे संभ्रमं नाटयन्ति )
मत्री-( नभस्तलमालोक्य ) अये !,
दिवौकसामङ्कनिषण्णवल्लभा-
स्तनस्थहस्ताम्बुरुहां सकौतुकम् ।
मार्तण्डमालाभिरिवैतदम्बरं
विमानसेनाभिरलङ्कृतं किमु ॥ १०६ ॥
इमौ च हारार्द्धहारस्फारकेयूरकर्णपूरमुकुटकटकतिलककुण्डलाभ-
रणधोरणीभिर्बभ्रूकृतरोदसीकौ मिथः किंवदन्तीपरौ पुरः सुराविवावत-
रतः । ततः क्षितिपतिशिरसि पुष्पवृष्टिं कुर्वाणौ जय जय राजनि-
ति व्याकुर्वाणौ सुपर्वाणौ किंकुर्वाणाविव प्रविश्य राज्ञः पुरस्ता-
दुपविशतः ।
राजा- उन्मील्य चक्षुषी सिंहासनस्थः सविस्मयं पुरोऽवलोक्य च
खगतम्)
क तौ शकुन्तौ क्व च सा पलाकुला
तुला कलाभिः कलिताविमौ च कौ।
आत्मानमालोक्य च
बीभत्सतागेहमिदं च देह-
महो! कथं मे रुचिरं बभूव ॥ १०७ ॥

करुणावज्रायुधनाटकम् । ३९ ततः स्वप्नः किं मनसो श्रमः किमथवा दोषोदयश्चक्षुषो- रासीदस्ति किमिन्द्रजालमथवा जन्मान्तरं मेऽभवत् । पाताले दिवि वान्तरिक्षभुवि वा द्वीपान्तरे चाथवा कोऽहं क्वास्मि किमत्र चास्मि विदधत्कर्मप्रकारश्च कः॥१०८॥ सुरौ-( घातकरसंपु-विराजमानो तमा. भागों ) नरेन्द्र ! प्रतिपच्चन्द्रनिष्कलङ्ककलामय !। स्मेरचेताः कथं चिन्ताचितामेतां प्रपद्यसे ॥ १०९ ॥ अस्माकमधुना कस्मादखर्व सर्वमप्यदः । श्रूयतां विस्मयातङ्कवेष्टितं बत चेष्टितम् ॥ ११० ॥ ( सर्वे सावधाना भवन्ति ) सुरौ- अद्य सिंहासनासीनः श्रीमानीशानवासवः । विस्मितः सस्मितं पर्पत्प्रत्यक्षमिदमब्रवीत् ॥ १११ ॥ राजा-( सकौतुकं ) किं तत् । सुरौ-इदम्, सेन्ट्रैरपि सुरैः संप्रत्यक्षोभ्यमहिमा भुवि । शरण्यः सकृपो वज्रायुधादस्त्येव नापरः ॥ ११२ ॥ राजा-( सलज्जमधोमुखीभवति । अपरे रोमाञ्चमुद्वहन्ति ।) मन्त्री-( सहर्ष ससंभ्रमम् ) ततस्ततः । सुरौ-(तदेतदाकर्ण्य सुराः सोत्प्रासमिदं प्रवदन्ते स्म।) वसति मनुजमात्रं कोऽप्यहो ! सप्तधातु- स्थगितवपुरिलायां मांसहग् धान्यकीटः।

श्रीबालचन्द्रसूरिविरचितं सहरिभिरपि देवैः पात्यते नो स सत्त्वा- दिति वदति विभुनः पूतरे स्वामिधर्मः ॥ ११३॥ मत्री-ततस्ततः। सुरौ- असह्यमविषह्य स्वस्वामिनोऽपि वचस्ततः । उत्थाय च सदस्युच्चैरावाभ्यामिति भाषितम् ॥ ११४ ।। तथा च- देव ! स्वामितया यूयं प्रजल्पत यथा तथा । किन्त्वावां क्षोभयिष्यावः सत्त्वात्तं नरकीटकम् ॥ ११५॥ अथ च- शकोऽप्युवाच सक्रोधं युवां यातमरे ! जवात् । ध्रुवं ध्रुवः पतेद्वयोम्नः सत्त्वात्स तु न कर्हिचित् ॥११६॥ मन्त्री-(सानन्दम् ) ततस्ततः । सुरौ-ततश्च, एतावावां क्षोभयावः क्षमायां गत्वा सत्त्वात्तं प्रतिज्ञाय चेति । ( राजानं बाहौ विधृत्य ) सत्त्वस्योच्चैस्ते विधातुं परीक्षामत्रायातौभूप! भूत्वा शकुन्तौ॥११॥ इदं च- संप्रत्यपारं गुरुसत्त्वसत्त्वं मायाविहङ्गौ भवतः परीक्ष्य । विहङ्गतां तां च विमुच्य देवरूपाविमौ देव ! बभूविवावाम् ॥११८॥ अपरं च-- किं भूयसा भुवनभूषण ! भूतलेऽस्मि- नेकस्त्वमस्य भयदः शरणागतानाम् । - करुणावनायुधनाटकम् । - ( सविनयमजलिं बवा) क्षन्तव्यमेव नरदेव ! तदेतदस्म- दुश्चेष्टितं कृतधियो हि न कोपवन्तः ॥ ११९ ॥ राजा-( विहस्य ) देवौ ! नैतदुच्यते। यतः तत्रभवद्भयां सत्त्वपरीक्षामिषेणाहमनुगृहीतोऽस्मि । सुरौ-राजन् ! तवानुग्रहकर्ता भगवानेव तीर्थभर्ता, कावावाम् । परं देव ! श्रयतां मुहूर्तमेकमावयोर्वचः । तथाहि- फुल्लकैरवभैरवाहसितश्वेतं त्वदीयं यशः श्रुत्वा संसदि गीयमानमनिशं हाहादिभिर्गायनैः । धारावाहिभिरश्रुभिः प्रमुदितस्तद्यन्त्रधारागृह- क्रीडाकौतुकमातनोति सुचिरं शच्याः सहस्रेक्षणः।।१२०॥ अपि च- दिग्दन्तावलकर्णतालमितिभिस्ते कीर्तिरङ्गाङ्गना नृत्यन्ती श्रममागतेव जगतीविस्तीर्णरङ्गाङ्गणे । म्लानं माल्यमिवाक्षिपन्मृगधरं धमिल्लकोशादुडू- न्यादाय स्वनखैर्ललाटतटतः खेदोदबिन्दूनिव ॥ १२१ ॥ अपि च-- त्वं न्यायी भुवनावतंस ! भवतः कीर्तिस्तु किं कथ्यते बद्ध्वा वासरुचिं सुरालयमधि क्षीबत्वमाबिभ्रती। आकाशे विलुलोठ यत्तदपतद्गङ्गानिभादशुकं तस्या ऋक्षमिषाच्च हारमणयस्ताटकमिन्दुच्छलात्॥१२२॥ - ४२ श्रीबालचन्द्रसूरिविरचितं किश्च-- दिग्दन्तावलगल्लपल्वलगलद्दानाम्बुभिः पक्किले क्रीडित्वा तव कीर्तिरत्र रिपुभुग्दोर्दण्डदिग्मण्डले। न्यस्यन्ती यदमुष्य वक्षसि रयाद्धामागमत्रैदशं धत्ते तत्पदमेकमङ्कमिषतः पकाकुलं चन्द्रमाः ॥ १२३ ॥ राजा-- सलज्जस्मिन देवौ! कथमित्थमवितथमिव मामल्प- कमप्यनल्पं युवामुपश्लोकयतः । सुरौ-( राजानं दोःस्तम्भन परामृशन्तौ विहस्य ) सप्ताम्भोधितटीपटीरपटलच्छायानिषण्णोरगी- गीतस्फीतगुण ! क्षितीश्वर ! जडावस्मादृशौ कीदृशौ । उच्छ्वस्य प्रमदाश्रुपूर्णनयनः श्लाघां शरण्येषु ते तामीशानसुराधिपोऽप्यधिसभं गृह्णाति धुन्वन् शिरः॥१२४॥ राजा-( विहस्य ) देवौ ! भगवानीशानवासवोऽनन्यसामान्य- धर्मचेता ममालीकगुणस्यापि श्लाघामातनोति । तथाहि- सज्जनाः परमस्तोकं स्तोकमप्यालपन्ति हि। कवयः कवयन्त्यब्धि क्षारमप्यमृताकरम् ॥ १२५ ॥ सुरौ-राजन् ! यद्भवतोक्तं तद्युक्तम् । परं नहि निर्मूला प्रसिद्धिः स्यादेव । राजा-(विहस्य ) स्यादेव । तथाहि- कीर्चिः स्फूर्तिरलीकापि केषाञ्चिदिह वर्तते । कीटः खद्योततां धत्ते कोऽपि श्रीफलतां तरुः ॥१२६॥ सुरौ-(सहासम् ) राजन् ! महात्मासि, लजसे निजप्रशंसया, .

करुणावज्रायुधनाटकम् । न पराजीयसेऽप्युत्तरोत्तराभिर्वचनरचनाभिः । यतः- वीक्ष्य वक्षसि सानन्दामिन्दिरां कृतमन्दिराम् । स्पर्द्धयेव मुखाम्भोज भेजे तव सरस्वती ॥ १२७ ॥ परं देव ! किंबहुना- जितकर्पूरकुन्देन्दु को विदामास कोविदः । तव विस्मापितेशानाखण्डलं गुणमण्डलम् ॥ १२८ ॥ राजा-( लज्जया शीतेनेव संकुचति । अमात्यादयः पुत्रजन्मोत्सवमिव तदाकर्ण्य प्रहृष्यन्ति ।) ( नेपथ्ये वैतालिकौ ) प्रथमः- द्वितियः- सकलजगदपूर्वां तावकी जीवितेना- प्युपकृतिकृतिमेतामर्थिषु प्रेक्ष्य देव !। कुतुककलितचेता रंहसोरिक्षप्तपादः प्रथयितुमिव पूषा पांशुपाणिर्जगाम ॥ १२९ ॥ प्रथम:- ममे लमघटीपटीयसि रवौ पातालकुण्डीजले वेलावर्द्धितवार्द्धिमर्दलघुमत्कारे परिस्फूर्जति । गायन्तीषु दिगङ्गनासु विहगश्रेणीरवेण श्रियं चन्द्रः सांप्रतमुद्वहत्युदयजामुल्लासिनव्यांशुकः ॥ १३०॥ द्वितियः- नभसि यदुदयन्ते तारकास्तत्प्रतीम- स्त्रिभुवनमपि जेतुं पुष्पबाणः स्वबाणान् । - - श्रीबालचन्द्रसूरिविरचितं - - विकिरति विधुचापं कुण्डलीकृत्य लक्ष्म्या- यसकवचविपश्चीदृश्यमूर्तिस्तदन्तः ॥ १३१ ॥ प्रथमः त्रिभुवनवनक्रीडाखेदच्छिदे नियतं विधौ सरसि सहसा कामः कुम्भी ममज्ज किमन्यथा । मदमधुकरच्छायामङ्कः स्पृशत्युडुसंहतिः श्रयति परितो झम्पापातोद्गतोदकणश्रियम् ॥ १३२ ॥ द्वितीयः दिग्वृद्धिषचयादृतेऽम्बरखले ज्योतिस्सुमैरञ्चिते पश्य त्वं नृप ! संप्रति प्रतिभटे नंष्ट्वा गते भास्वति । चन्द्रः सान्द्रमहा महाभट इहाभिज्ञानदम्भादयं बिभ्राणः क्षुरिकां स्फुरक्रमगतिर्जेता नरीनृत्यते ॥१३३॥ राजा-( श्रुतिमभिनीय सप्रसादं मन्त्रिणं प्रति ) अमात्य ! एताभ्यां मागधाभ्यां भवता सुवर्णतुलाऽयुतमेकं प्रदेयम् । मन्त्री-( सत्वरमजलिं बद्ध्वा ) आदेशः प्रमाणम् । राजा-( सप्रणयं देवीं प्रति ) देवि ! त्वमपि शुद्धान्तमधितिष्ठ । राजा-( सुरौ प्रति सादरम् ) देवौ ! निजचरणतामेरसैरवतंसयन्तु दिवं तत्रभवन्तो भवन्तः । वयमपि सन्ध्याविधिमनुतिष्ठामः । सुरौ- सप्रश्रयम् ) महाराज ! अमोघं हि देवदर्शनम्, वरं वृणु वरं वृणु, भवतः किमावामुपकुर्वः । राजा-देवौ ! निजधर्मपरायणः सर्वथैव कृतकृत्योऽस्मि । विशेषेण पुनरय किमुच्यते - करुणावज्रायुधनाटकम् । १५ ईशानेन्द्रवचः प्रमाणपदवीमध्यारुरोहाऽभवं संख्यापूरणमातरक्षणधियामद्याहमस्मिन् कुले । ईदृक्कौतुकवीक्षणेन जहृषुः स्वर्वासिनः सांप्रतं किञ्चानेन मिषेण दुर्लभमपीदं वोऽभवदर्शनम् ॥१३॥ सुरौ-(सरोमाञ्चम् ) देव ! तथापीदमस्तु- श्रेयोऽतुच्छं जगत्सु प्रसरतु विपदः प्रक्षयं यान्तु सर्वाः पर्वालीमिर्भवन्तु प्रमुदितमनसः सन्ततं हन्त सन्तः । सन्तु ध्वस्तत्रिलोकीवृजिनजिनपदाम्भोजभक्तेविंशोका लोकाः स्वस्त्यस्तु तुभ्यं रिपुकमलकलाबालचन्द्र ! क्षितीन्द्र ॥१३५॥ । इति श्रीवालचन्द्रकवीन्द्रेण विरचितं श्रीकरुणा- वज्रायुधनाम नाटकं समाप्तम् । भद्रश्रीहरिभद्रसूरिसुगुरोः षट्तर्कविद्याविदः शिष्यः श्रीश्रुतदेवतासुत इति ख्यातः प्रबन्धं व्यधात् । श्रीवज्रायुधचक्रवर्तिचरितव्याहारवैतालिकम् । विद्वत्कर्णरसारसायनममुं श्रीबालचन्द्रः कविः ॥ १॥ येऽमुं वीक्ष्यमुदं वहन्ति सुहृदस्ते सन्तु दीर्घायुषो ये तु द्वेषमसज्जनास्तदथवाऽलप्यालमतनम् । अस्तु खस्ति जगत्रयेऽपि जनता प्रीतिं मिथः प्रामुया- दाचन्द्रार्कममूर्जयन्तु च परा वाचः कवीनामपि ॥२॥ - करुणावज्रायुधस्थपद्यानामनुक्रमणी । पद्यम् पृष्ठम् ११७ ४० ५१/ १६ ४० १३ ३२ ११ ३ ५० १६ १८ ५७ १९ ६ पद्यारम्भः अग्राह्यनामधेयस्य अङ्गीकृत्यात्मनो दुख अज्ञाः केचिद्विदधति अद्य मे सफलं अद्य सिंहासनासीनः अधिरूढेऽद्य कृते- अपालयित्वा सह- अपि कण्ठगतः प्राणैः अपि घनतरमस्य अभेद्यो वादिभिर्जनः अयमुदयति मिथ्या- असमय इति बुद्ध्वा असह्यमविषह्य असारस्य शरीरस्य अस्माकमधुनाकस्मा- अहह ! किमङ्गं चों आकर्णयन्नुभाकर्णि- आर्ता इवास्तमयति इदं दैवमदैवं वा इह कीर्तिः परत्र ईशानेन्द्रवचः : प्रमाण- उत्कृष्टभूपगणनासु उत्खन्यमाने तव उदधिकूलदुकूल- उदयमयमखण्ड- एकतो वेदविदुरः पद्यम् पृष्ठम् पद्यारम्भः ९१ ३१ एकः क्षमापोऽपेक्ष्यते- १०४ ३८ एकस्यैव विहङ्गस्य ३५/ १२, एतावावां क्षोभयावः ९२, ३१/ एते बन्धुरगन्ध- १११/ ३९ एनं जैनं विना धर्म- १०३ ३७ एसको गयणंगणिक्क- ४६ १४ ऐन्द्रो मण्डप एष ७२, २३ करस्थमप्येवममी १०० ३६ कल्प्यते किमिति ३८ १३३ कष्टकारस्करः स्पष्ट- २९ १० का कामधनुरिह ५२ १८ किमपि स्फुटमेव ११४ ४० किमयं सादरस्तऽहं ५८ १९/ किं भूयसा भुवन- ११० ३९] किरणदशशतार- ९७ ३५ कार्तिः स्फुरतिरलीकापि ४१ १३. व तौ शकुन्ती व च २. क्षितीशा बहवोऽभूवन् ९० ३१) क्षोणीभर्तुश्चरित- ८८ ३० खन्ता पियन्ता इह जे १३४ ४५, गच्छन्तो न स्थिरता ८ चतुःसागरपर्यन्तां ७१/ २३ चलत्येकेन पादेन ६० २० जगत्पिता यस्य पिता ३॥ २ जत्थ पई महरवाणि! ३४/ १२/ जितकर्पूरकुन्देन्दु ७६, २५ ११९ ४. ८४/ २८ १२६ ४२ १०७/३८ २५ १३ - ४ २३ ७९/ २६ ६९/ २३ ५३/ १८ ९३३१ १२८, ४३ अनुक्रमणी। २ पद्यम् पृष्ठम् १२० ४ १४) ६ ५ १३०४३ ८२/ २८ ७५, २५ ६८/ २३ १२/ ४८ १५ २८ ९५, ३५ ९८ ३६ ३६ १३ यो जन्तु - पद्यारम्भः तत्पुत्रः समभू- तरुणतरणितेज- तवार्पयिष्ये नहि तुभ्यं श्येन ! ददे तुलयतितमामर्क- तुलयति फलभारः तुष्टिं ममैति न मनो त्रिभुवनवनक्रीडा- त्वं न्यायी भुवना- दयैव सर्वभूतेषु दर्यतां देव ! तत् दिग्दन्तावलकर्ण- दिग्दन्तावलगल्ल- दिगवृद्धिप्रचयाहते- दिवौकसाम- देवः पायादपाया- देव ! स्वामितया युग द्विजातिभावादुल्लासिक धर्माधर्मविमर्शनमिहं नभसि यदुदयन्ते नरेन्द्र ! प्रतिपचन्द्र- निष्कारणोपकर्तृणा- परोपकारकरणात् परोपकृतिशालिना पातः ! पासि यथा पादौ वक्रौ धनुरिव पुरेऽस्मिन्नावासान् पूर्वाभ्यासवशा- प्रतिच्छन्दः कुन्द- प्रत्यक्षमनवेक्ष्यापि प्रलीयन्ते न कर्माणि प्राग्वाटान्वयासिन्धु- पद्यम् पृष्ठम्। पद्यारम्भः ३) फुल्लत्कैरवभैरवा- ८३ २८ बुनादेवायमहाय ६६ २२/ भजत भजत धर्म्य ८६ २९/ मग्ने लग्नघटीपटी- २ मध्याह्नकूरसूरद्युति- ५०१ ३६ मा भैपार्वत्स ! मा भैषीः ८१ २८ मायादोषजुषामधो- १३२, ४४ मार्गणान्सफलीकृत्य १२२ ४१/ मृगाक्षीणां नामा- ४२, १४ यत्कीर्तिगौर्यण ५५/ १९/ यथा प्रातः कश्चि- १२१ ४१ यद्वारे हृदयं हृदा १२ः ४२ यामिनी भाविनी १३३ ४४ यायावरेण किमनेन १०६ ३८ हिंसार्जित- १. रसकर्मनरी दत्त- ११५ ४० रिपुक्षितिपभूधर- ८० २६, लाभावेषाद्भयाद्वापि । ७४ २४ वज्रायुधा मे शरणं १३१ ४३. वपुषार्त्तिमुषामुना १०९, ३९ वसति मनुजमात्रं २६ विजित्य जगतीमेतां १६ १/ विलसदमृतद्वेषा ७७, २५ वीक्ष्य वक्षसि सानन्दा- ३३ ११ वैकुण्ठनाकाध्वनि ५९ २० शक्रोऽप्युवाच सक्रोधं ४७/ १५ शत्रूणां कालरात्रि- २४ ८ शमोपष्टम्भितः ५४ १८ शास्त्राम्भोधिमतीव- ४४ १४ शेषदण्डजुषः क्षोणी- श्येनो मांसमृते न १ ३१ १ १०२/ ३७ ११३/३ ६ विना तेजोऽन्तरं चक्षु- २० २ - ६३, २१ - ६२/ २१ ६१/ २. ८ ३ २२ - २ अनुक्रमणी। पचम् शाम् १.५३८ ११२/ ३९ १०८ ३९ ३९/१३ - पवारम्भः श्रेयोऽतुच्छं जगत्सु संवर्मिता दधुरिमा- सकलजगदपूर्वा सञ्चत्तेण कमेण सजनाः परमस्तोकं सप्ताम्भोधितटीपटी- सम्प्रत्यपारं गुरु- सर्वः परार्थमारम्भः साहित्याम्बुधिबन्धुरा- सीमालक्षितिपाल- पद्यम् पृष्ठम् पद्यारम्भः १३५/४५/ सुवृत्तः सुगुणः सोढा ३० १० सेन्ट्रैरपि सुरैः १२९ ४३/ स्वप्नः किं मनसो ९४ ३४ स्वर्गापर्वगसम्पत्ति- १२५ ४२ स्वीयः स्वीयः कुलाचारः १२४ ४२ हत्थागया इमे कामा ११८४० हाहाहहा कनक- १५/ ६ हिंसामयः शिशुक्रीडा- हुतमिष्टं च तप्तं च ६४ २१ - ४९ १६ ९६ ३५ ३० १३ २३

No text on this page.

करुणावज्रायुधम (नाटकम)

Author
Chaturavijaya Muni
Title
Karund-aavajraayudham (naatakam)
File name
करुणावज्रायुधम (नाटकम)
Text
OCR done
Citation
1984
Published
2005/07/25
Publisher
Shriijaina Aatmaananda Sabhaa, Bhaavanagara
Language
Sanskrit
Pages
54
Library
University Library,gurukul Kangri Vishwavidyalaya
Classification
LANGUAGE LINGUISTICS LITERATURE
DLI number
477265
Barcode
99999990173109.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
VMLT id
B1eygdFSDhM
Download PDF

करुणावज्रायुधम (नाटकम)