Bharti Bhawan Library Allahabad

Dharmsharmabhudayam

Pandit Durgaprasad

PDF Proofread

Front matter

KÂYYAMÂLÂ. 8.
THE
DHARMAS'ARMÂBHYUDAYA
OR
HARICHANDRA.
EDITED BY
PANDIT DURGÂPRASAD
AND
KÂSÎNATH PÂNDURANG PARAB.
PRINTED AND PUBLISHED
BY
THE PROPRIETOR
OF
THE "NIRNAYA-SÂGARA” PRESS.
BOMBAY
1888.
Price 1 Rupee.

भारती
(Registered according to act XXV of 1867.)
( All rights reserved by the publisher. )

काव्यमाला. ८. महाकविश्रीहरिचन्द्रविरचित धर्मशर्माभ्युदयम् । जयपुरमहाराजाश्रितेन पण्डितब्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाल- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितम् । तच्च मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । १८८८ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः ।) मूल्यमेको रूप्यकः ।

15 भारत धर्मशर्माभ्युदयस्य विषयानुक्रमः । १ सर्गः-मङ्गलाचरणानि । सज्जनदुर्जनादिवर्णनम् । जम्बुद्वीपवर्णनम् । कनकाद्रिवर्णनम् । भारतवर्षवर्णनम् । आर्यावर्तवर्णनम् । उत्तरको- शलाख्यदेशवर्णनम् । तत्र रत्नपुराख्यनगरवर्णनम् । २ सर्गः-रत्नपुराधिपतेरिक्ष्वाकुवंशोद्भवस्य महासेननरपतेर्वर्णनम् । त- न्महिष्याः सुव्रताया वर्णनम् । राज्ञः सुतप्राप्तिचिन्तावर्णनम् । त- देव प्रचेतसाख्यस्य दिव्यमुनेरुद्यानपालमुखादागमनश्रवणम् । ३ सर्गः-परिकरसमेतस्य राज्ञो मुनिदर्शनार्थ गमनवर्णनम् । वनालीव- र्णनम् । उद्यानप्राप्तिवर्णनम् । तत्र मुनिवर्णनम् । मुनिमहीपालयोः समागमवर्णनम् । मुनिसमीपे राज्ञः पुत्रप्राप्तिचिन्तानिवेदनवर्णनम् । 'त्वद्गृहे पञ्चदशस्तीर्थकरो धर्मनाथः पुत्रत्वेनावतरिष्यति' इत्यादिमु- निवाक्यवर्णनम् । धर्मनाथस्य पूर्वजन्मविषये मुनि प्रति राज्ञः प्र- भस्य वर्णनम् । ४ सर्गः-धर्मनाथस्य प्राग्जन्मत्तान्तवर्णनोपक्रमः। धातकीखण्डाख्य- द्वीपे वत्साख्यदेशवर्णनम् । तत्र सुसीमाख्यनगरीवर्णनम् । तत्र द- शरथाख्यमहीपतिवर्णनम् । एकदा रात्रौ महीपतिना उपरक्तश्चन्द्रो दृष्टः, तं विलोख्य 'जगति कस्यापि श्रीः स्थिरा नास्ति' इति वि- चारयतो महीपतेर्वैराग्योदयस्य वर्णनम् । तृणवद्राज्यं परित्यज्य तपसे यियासुं राजानं प्रति सुमन्त्राख्यस्य तन्मन्त्रिणश्चार्वाकम- तानुकूल उपदेशः। राजकृतं तत्खण्डनं च। ततोऽतिरथाख्याय स्व- पुत्राय राज्यभारं दत्त्वा नरपतिस्तपसे वनं ययावित्यादि वर्ण- नम् । महीपतेस्तीव्रतपोवर्णनम् । तपःप्रभावात्स दिव्यतां प्राप्त इति वर्णनम् । 'पण्मासानन्तरं स एव तव महिप्या गर्भऽवतरि- प्यति' इति मुनिवाक्यवर्णनम् । ५ सर्गः-महासेननृपतिसभायामम्बरात्काश्चन लक्ष्मीसमेता दिव्याङ्गना अवतीर्णास्तासां वर्णनम् । 'किमर्थं युष्माकमागमनम्' इति ताः प्रति ।

२ काव्यमाला । भारती नृपतेः प्रश्नः। “महासेननृपतिमहिण्यां धर्मनाथोऽवतरिष्यति, तत्से- वार्थ यूयं यात' इति महेन्द्रेणादिष्टा वयमागताः, स्वयं महेन्द्रोऽपि समागमिष्यति' इत्यादि तद्वाक्यवर्णनम् । तासां नृपमहिषीसमीपे ग- मनवर्णनम् । तत्कृतं नृपमहिष्याः सेवनवर्णनम् । नृपमहिप्याः स्व- मबिलोकनवर्णनम् । प्रातरुत्थाय महिष्या नृपसमीपे स्वप्ने विलोकितं सवै कथितम्, नृपेणाप्यतिसंतुष्टेन 'तीर्थकरस्तव पुत्रतामेष्यति' इति तत्फलं कथितमित्यादिवर्णनम् । महिषीगर्भ धर्मनाथोऽवतीर्ण इति वर्णनम् । ६ सर्गः-सगर्भाया महिष्या वर्णनम् । माघशुक्लत्रयोदश्यां पुष्पनक्षत्रे धर्मनाथस्य जन्माभूदिति वर्णनम् । इन्द्रादिकृतस्य महीपतिकृतस्य च तज्जन्मोत्सवस्य वर्णनम् । ७ संर्गः-जातवेश्मनि स्थिताया महिण्या अङ्ग्रे मायानिर्मितमेकं शिशु निधाय धर्मनाथमपहृत्य शची शक्राय समर्पितवती, शक्रोऽपि त- मादाय सुरगजमारुह्य देवसेनासमेतो व्योमवर्त्मना सुमेरुपर्वतं ज- गामेत्यादि वर्णनम् । सुमेरुपर्वतवर्णनम् । तत्र देवसेनासंनिवेशवर्णनं गजाश्वादिवर्णनं च । ८ सर्गः-सुमेरौ मणिसिंहासने शक्रो धर्मनाथमुपवेशितवानित्यादिवर्ण- नम् । धर्मनाथाभिषेकोपक्रमवर्णनम् । क्षीरसमुद्रवर्णनम् । धर्मनाथाभि- घेकवर्णनम् । इन्द्रादिदेवकता तत्स्तुतिः । अभिषेकानन्तरं पुनरपि धर्मनाथं तन्मातुर्नुपमहिप्या अङ्के प्रापय्य देवाः स्वानि धामानि जग्मुरिति वर्णनम् । ९ सर्गः-धर्मनाथस्य बाल्यवर्णनं यौवनवर्णनं यौवराज्यप्राप्तिवर्णनं च। विदर्भाधिनाथेन प्रतापराजेन स्वदुहितुः स्वयंवरे धर्मनाथानयनाथ प्रेषितस्य दूतस्यागमनवर्णनम् । पित्राज्ञया ससैन्यस्य धर्मनाथस्य विदर्भान्प्रति गमनवर्णनम् । मार्गे प्राप्ताया गङ्गाया वर्णनम् । १० सर्गः-विन्ध्याचलवर्णनम् । ११ सर्गः-पड्ऋतुवर्णनम् । ।

ma । विषयानुक्रमः । १२ सर्गः-पुष्पावचयवर्णनम् । १३ सर्गः-नर्मदायां जलक्रीडावर्णनम् । १४ सर्गः-सायंकालवर्णनम् । अन्धकारवर्णनम् । चन्द्रोदयवर्णनम् । नायिकानां प्रसाधनवर्णनम् । दूतीप्रेषणादिवर्णनम् । १५ सर्गः-पानगोष्ठीवर्णनम् । रात्रिक्रीडावर्णनम् । १६ सर्गः-प्रभातवर्णनम् । पुनर्धर्मनाथस्य यात्रावर्णनम् । नर्मदामुत्तीर्य विदर्भदेशं प्राप्त इति वर्णनम् । विदर्भदेशवर्णनम् । तत्र कुण्डिनपु- राधिपतिना प्रतापराजेन समागमवर्णनम् । १७ सर्गः-वयंवरवर्णनम् । तत्र राजकन्यया धर्मनाथो वृत इति वर्णनम् । धर्मनाथस्य कुण्डिनपुरप्रवेशवर्णनम् । नगरनारीचेष्टावर्णनम् । धर्म- नाथस्य विवाहवर्णनम् । पितुः सकाशादाबानाथै दूतः समागत इति निखिलमपि कटकं सेनापतेः सुषेणास्याधीनं विधाय धर्म- नाथः स्वयं कुबेरोपढौकितं विमानमारुह्य वध्वा समेतो नभसा खपुरं जगामेति वर्णनम् । १८ सर्गः-रत्नपुरे धर्मनाथप्राप्तिवर्णनं महोत्सववर्णनं च । धर्मनाथपितुर्म- हासेनस्य वैराग्यवर्णनम् । धर्मनाथं प्रति तत्कृतस्य नीत्युपदेशस्य वर्णनम् । धर्मनाथस्य राज्याभिषेकवर्णनम् । महासेननृपतेर्वनगमनव- र्णनम् । धर्मनाथस्य राज्यस्थितिवर्णनम् । १९ सर्गः-अनेकमहीपतिभिः सह सुषेणस्य चित्रयुद्धवर्णनम् । २० सर्गः–पञ्चलक्षवर्षपर्यन्तं सम्यक्प्रजापालनं विधाय, एकदा रात्रौ स्फाटिके सौधशृङ्गे स्थितो धर्मनाथो गगनात्पतन्तीमुल्कामपश्यदिति वर्णनम् । उल्कावर्णनम् । धर्मनाथस्य वैराग्यप्राप्तिवर्णनम् । राज्यं प- रित्यज्य वने गतस्य धर्मनाथस्य तपश्चर्यावर्णनम् । ज्ञानप्राप्तिवर्णनम् । धर्मनाथार्थमिन्द्राज्ञया कुबेरेण निर्मिताया दिव्यसभाया वर्णनम् । तत्र सिंहासने स्थितस्य धर्मनाथस्य दिव्यैश्वर्यवर्णनम् । २१ सर्ग:-धर्मनाथकृतं संक्षेपेण जिनसिद्धान्तवर्णनम् । -ग्रन्थकर्तुः प्रशस्तिः ।

No text on this page.

काव्यमाला महाकविश्रीहरिचन्द्रकृतं धर्मशर्माभ्युदयम्। प्रथमः सर्गः । श्रीनाभिमूनोचिरमझ्युिग्मनखेन्दवः को मुदमेधयन्तु। यत्रानमन्नाकिनरेन्द्रचक्रचूडाश्मगर्भप्रतिबिम्बमेणः ॥ १ ॥ चैन्द्रप्नभं नौमि यदीयभासी नूनं जिता चान्द्रमसी प्रभा सा ।' नो चेत्कथं तर्हि तदजिलग्नं नखच्छलादिन्दुकुटुंम्बमासीत् ॥ २ ॥ दुरक्षरक्षोदधियेव धात्र्यां मुहुर्मुहुर्घष्टललाटपट्टाः । यं खर्गिणोऽनल्पगुणं प्रणेमुस्तनोतु नः शर्म स धर्मनाथः ॥ ३ ॥ संप्रत्यपापाः स्म इति प्रतीत्यै वनाविवाहाय मिथः प्रविष्टाः । यत्कार्यकान्तौ कनकोज्ज्वलायां सुरा विरेजुस्तमुपैमि शॉन्तिम् ॥ ४ ॥ भूयादगाधः स विजोधवार्षिीरस्य नत्रयलब्धये वः । स्फुरत्पयोबुद्बुदबिन्दुमुद्रामिदं यदन्तस्त्रिजगत्तनोति ॥ ५ ॥ १. अस्य कार्यस्थवंशमुक्तामणेर्दिगम्बरजैनमतानुयायिन आर्द्रदेवसूनोः श्रीहरिचन्द्रम- हाकवेः समयः सम्यङ्- न ज्ञायते. हरिचन्द्रद्वयं तावत्प्रसिद्धम् -'पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थितिः । भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते ॥' इति हर्षचरितारम्भ बाणभट्टेन वर्णितः प्रथमः, विश्वप्रकाशकोधकर्तुमहेश्वरस्य पूर्वपुरुषश्चरकसंहिताटीकाकारः साहसाङ्कटपते: प्रधानवैद्यो द्वितीयः. अनयोरेवायमप्येकतरस्टतीयो वेति संदेहः. किं त्वयमपि. (धर्मशर्माभ्युदयकर्ता) स्वकवित्वप्रौढ्या. माघादिप्राचीनमहाकविकक्षामारो- हति, तस्मानार्वाचीनः. कर्पूरमञ्जयाँ प्रथमे जवनिकान्तर एकत्र विदूषकोक्तिव्याजेन राजशेखरोऽपिं हरिचन्द्रकवि स्मरति. एकविंशतिसर्गात्मके चास्मिन्महाकाव्ये नगराण- वशैलर्तुपुष्पावचयजलविहारादिकाव्यवर्णनीयवस्तुवर्णनपुरःसरं चतुर्विंशतिजैनतीर्थकरेषु पञ्चदशतीर्थकरस्य धर्मनाथस्य जन्मप्रभृति निर्वाणान्तं चरितं वर्णितमस्ति. २. को पृथि- व्याम् , मुदं हर्षम्; (अथ च)कौमुदं कुमुदसमूहम्. ३. वर्तत इति शेषः. ४. अष्टमं तीर्थ- करम्. ५. षोडश तीर्थकरम्. ६. चतुर्विंशतितम तीर्थकरम्. ७. सम्यग्दर्शनम्, सम्यग्ज्ञा- नम्, सम्यक्चारित्रं चेति जिनमते रत्नत्रयमुच्यते. रललब्धये समुद्रसेवा समुचितैव, ।

भारत काव्यमाला। निर्माणिते यत्पदपङ्कजानां रजोभिरन्तः प्रतिबिम्बितानि । जनाः खचेतोमुकुरे जगन्ति पश्यन्ति तान्नौमि मुदे जिनेन्द्रान् ॥ ६ ॥ रत्नत्रयं तज्जननार्तिमृत्युसर्यत्रयीदर्पहरं नमामि । यद्भूषणं प्राप्य भवन्ति शिष्टा मुक्तेविरूपाकृतयोऽप्यभीष्टाः ॥ ७ ॥ त्वद्भक्तिननं जनमाश्रयावः साक्षादिति प्रष्टुमिवोपकर्णम् । चन्द्राश्मताटङ्कपदात्पदार्थों यस्याः स्थितौ ध्यायत भारती ताम् ॥८॥ जयन्ति ते केऽपि महाकवीनां स्वर्गप्रदेशा इव वाग्विलासाः । पीयूषनिष्यन्दिषु येषु हर्ष केषां न धत्ते सुरसार्थलीला ॥ ९॥ लब्धात्मलाभा बहुधान्यवृद्ध्यै निर्मूलयन्ती घननीरसत्वम् । सा मेघेसंघातर्मपतपंङ्का शरत्सतां संसदपि क्षिणोतु ॥ १० ॥ वियत्पथप्रान्तपरीक्षणाद्वा तदेतदम्भोनिधिलङ्घनाद्वा । मात्राधिकं मन्दधिया मयापि यद्वय॑ते जैनचरित्रमत्र ॥ ११ ॥ पुराणपारीणमुनीन्द्रवाग्भिर्यद्वा ममाप्यत्र गतिर्भवित्री। तुङ्गेऽपि सिध्यय॑धिरोहिणीभिर्यद्वामनस्यापि मनोभिलाषः ॥ १२ ॥ श्रीधर्मनाथस्य ततः स्वशक्त्या किंचिच्चरित्रं तरलोऽपि वक्ष्ये । वक्तुं पुनः सम्यगिदं जिनस्य समेत नो वागधिदेवतापि ॥ १३ ॥ अर्थ हृदिस्थेऽपि कविर्न कश्चिन्निर्ग्रन्थिगीगुम्फविचक्षणः स्यात् । जिह्वाञ्चलस्पर्शमंपास्य पातुं श्वा नान्यथाम्भो घनमप्यति ॥ १४ ॥ हृद्यार्थवन्ध्या पदबन्धुरापि वाणी बुधानां न मनो धिनोति । न रोचते लोचनवल्लभापि स्नुहीक्षरत्क्षीरसरिन्नरेभ्यः ॥ १५ ॥ वाणी भवेत्कस्यचिदेव पुण्यैः शब्दार्थसंदर्भविशेषगभी । इन्दं विनान्यस्य न दृश्यते द्रुत्तमोधुनाना च सुधाधुनी च ॥ १६ ॥ १, चन्द्रकान्तमणिनिर्मितकर्णभूषणविशेषव्याजात्. २. सुर-सार्थलीला देवसमूह क्रीडा; (पक्षे) सुरसा अर्थलीला. ३ बहुधा अन्यवृद्धयैः; (पक्षे) बहु-धान्यवृद्ध्यैः, ४. धन- नीरसत्वमत्यन्तस्सशून्यत्वम्; (पक्ष) घन-नीर-सत्त्वं' मेघजलास्तित्वम्. ५. में अघसं- घातं पापसमूहम्; (पक्षे) मेघ-संघातम्."६. निष्पापा; विगतकर्दमा च.. ७. किंचिद- धिकम्. ८. 'निःश्रेणिस्त्वधिरोहिणी' इत्यमरः. 5. 'द्युत् शब्दः किरणवाचकः.

१ सर्गः] धर्मशर्माभ्युदयम् । श्रव्येऽपि काव्ये रचिते विपश्चित्कश्चित्सचेताः परितोषमेति । 'उत्कोरकः स्यात्तिलक श्चलाक्ष्याः कटाक्षभावैरपरे न वृक्षाः ॥ १७ ॥ परस्य तुच्छेऽपि परोऽनुरागो महंत्यपि स्वस्य गुणे न तोषः । एवंविधो यस्य मनोविवेकः किं प्रार्थ्यते सोऽत्र हिताय साधुः ॥१८॥ साधोविनिर्माणविधौ विधातुश्युताः कथंचित्परमाणवो ये । मन्ये कृतास्तैरुपकारिणोऽन्ये पाथोदचन्द्रद्रुमचन्दनांद्याः॥ १९ ॥ पराङ्मुखोऽप्येष परोपकारव्यापारभारक्षम एव साधुः । किं दत्तपृष्ठोऽपि गरिष्ठधात्रीप्रोद्धारकर्मप्रवणो नं कूर्मः ॥ २० ॥ निसर्गशुद्धस्य सतो न कश्चिच्चेतोविकाराय भवत्युपाधिः । त्यक्तस्वभावोऽपि विवर्णयोगात्कथं तदस्य स्फटिकोऽस्तु तुल्यः॥२१॥ खलं विधात्रा सृजता प्रयत्नाकि सज्जनस्योपकृतं न तेन । ऋते तमांसि ामणिमणि विना न काचैः स्वगुणं व्यनक्ति ॥ २२ ॥ दोषानुरक्तस्य खलस्य कस्याप्युलूकपोतस्य च को विशेषः । अहीव सत्कान्तिमति प्रबन्धे मलीमसं केवलमीक्षते यः ॥ २३ ॥ न प्रेम नम्रेऽपि जने विधत्से मित्रेऽपि मैत्री खल नातनोषि । तदेष किं नेप्यति न प्रदोषस्त्वामञ्जसा सायमिवावसानम् ॥ २४ ॥ 'श्रव्यं भवेत्काव्यमदूषणं यन्न निर्गुणं क्वापि कदापि मन्ये । गुणार्थिनो दूषणमाददानस्तत्सज्जनादुर्जन एव साधुः ॥ २५ ॥ अहो खलस्यापि महोपयोगः स्नेहबुहो यत्परिशीलनेन । आ कर्णमापूरितपात्रमेताः क्षीरं क्षरन्त्यक्षतमेव गावः ।। २६ ॥ आः कोमलालापपरेऽपि मा गाः प्रमादमन्तःकठिने खलेऽस्मिन् । शेवालशालिन्युपले. छलेन पातो भवेत्केवलदुःखहेतुः ॥ २७ ॥ आदाय शब्दार्थमलीमसानि यदुर्जनोऽसौ वदने दधाति । तेनैव तस्याननमेव कृष्णं सतां प्रबन्धः पुनरुज्ज्वलोऽभूत् ॥ २८ ॥ १. दोषः; (पक्षे) रॉत्रिः. २. प्रकृष्टो दोषः; रजनीमुखं च. ३. दुर्जनः; तैलरहित- स्तिलसर्षपादिपिण्याकश्च.

काव्यमाला। गुणानधस्तान्नयतोऽप्यसाधुपद्मस्य यावद्दिनमस्तु लक्ष्मीः। दिनावसाने तु भवेद्गतश्री राज्ञः सभासंनिधिमुद्रितास्यः ॥ २९ ॥ .उच्चासनस्थोऽपि सतां न किंचिन्नींचः स चित्तेषु चमत्करोति । स्वर्णाद्रिशृङ्गाप्रमधिष्ठितोऽपि 'काको वराकः खलु काक एव ॥ ३० ॥ वृत्तिमरुहीपवतीव साधोः खलस्य बैवस्वतसोदरीव' । तयोः प्रयागे कृतमजनो नः प्रबन्धबन्धुर्लभतां विशुद्धिम् ॥ ३१ ॥ अथास्ति जम्बूपपदः पृथिव्यां द्वीपप्रभान्यकृतनाकिलोकः । यो वृद्धया मध्यगतोऽपि लक्ष्म्या द्वीपान्तराणामुपरीव तस्थौ ॥ ३२ ॥ क्षेत्रच्छदैः पूर्वविदेहमुख्यरधःस्थितस्फारफणीन्द्रदण्डः । चकास्ति रुक्माचलकर्णिको यः सद्म श्रियः पद्म इवाब्धिमध्ये॥३३॥ द्वीपेषु यः कोऽपि करोति गर्व मयि स्थितेऽप्यस्तु स मे पुरस्तात् । इतीव येन ग्रहंकङ्कणाको हस्तो व्युदस्तस्त्रिदशाद्रिदम्भात् ॥ ३४ ॥ पश्यन्तु संसारतमस्यपारे सन्तश्चतुर्वर्गफलानि सर्वे । इतीव यो द्विद्विदिवाकरेन्दुव्याजेन धत्ते चतुरः अंदीपान् ॥ ३५ ॥ अवाप्य साधिपमौलिमैत्री छत्रद्युति तन्वति यत्र वृत्ते ।..' धत्ते समुत्तेजितशातकुम्भकुम्भप्रभां कांचनं काञ्चनाद्रिः ॥ ३६॥ सम्यक्त्वपाथेयमवाप्यते चेजुस्तदस्मादपवर्गमार्गः । इतीव लोके निगदत्युदस्तशैलेन्द्रहस्ताङ्गुलिसंज्ञया यः ॥ ३७ ॥ पातुं बहिर्मारुतमङ्कसुप्तलक्ष्मीलसत्कुङ्कुमपङ्कपीतः । यदन्तरुद्भिद्य महीमहीनामभ्युत्थितो नाथ इवास्ति मेरुः ॥ ३८ ॥ चकास्ति पर्यन्तपतत्पतंगे यत्राम्बरं दीप इवोपरिष्टात् । कयापि शृङ्गाग्रघनाञ्जनानां जिघृक्षया पात्रमिव प्रदत्तम् ॥ ३९ ॥ द्यावाष्टथिव्योः पृथुरन्तरे यः कृतस्थितिः स्थूलरथाङ्गकान्त्योः । युगानुकारिध्रुवमण्डल श्रीरूवा रथस्याक्ष इवावभाति ॥ ४० ॥ १. चन्द्रस्य च. २. मरुतां देवानां द्वीपवती नदी.(गङ्गा. ३. यमुना. ४. गङ्गाय- मुनासंगमरूपे तीर्थविशेषे. ५. जैनमते सूर्यचन्द्रौ नक्षत्राणि च द्विगुणानि सन्ति. 'द्वौ द्वौ रवीन्दू भगणौ च तद्वदेकान्तरौ तोवुयं ब्रजेताम् । यदब्रुवन्नेवमनम्बराद्या ब्रवी- म्यवस्ताप्रति युक्तियुक्तम् ॥ इति सिद्धान्तशिरोमणौ गोलाध्याये श्रीभास्कराचार्यः. । मा HTTA दो E सर्गः] धर्मशर्माभ्युदयम् । तदक्षिणं भारतमस्ति तस्य क्षेत्रं जिनेन्द्रागमभारिसेकात् । स्वर्गादिसंपत्फलशालि यत्र निष्पद्यते पुण्यविशेषसस्यम् ॥ ११ ॥ यत्सिन्धुगङ्गान्तरवर्तिनाच्चैः शैलेन भिन्नं विजयामाम्ना । भारेण लक्ष्म्या इव दुर्वहेन बभूव घट्खण्डमखण्डशोभम् ॥ १२॥ तत्रार्यखण्डं त्रिदिवात्कथंचिच्युतं निरालम्बतयेव खण्डम् । ललामवन्मण्डयति स्त्रकान्त्या देशों महानुत्तरकोशलाख्यः ॥ ४३ ॥ .. अनेकपद्माप्सरसः समन्ताद्यस्मिन्नसंख्यातहिरण्यगर्भाः। अनन्तपीताम्बरधामरस्या ग्रामा जयन्ति त्रिदिवप्रदेशान् ॥ ४ ॥ यन्त्रप्रणालीचषकैरजस्त्रमापीय पुण्ड्रेक्षुरसासवौघम् । मन्दानिलान्दोलितशालिपूर्णा विघूर्णते यत्र मृदादिवोर्वी ॥ ४५ ॥ विस्तार्य तारा रभसान्निशि द्यौः पुनः पुनर्यदिवसे प्रमाष्टि । उत्पुण्डरीकैः किल यत्सरोभिः खं लब्धसाम्यं तदमन्यमाना ॥ ४६॥ उत्पालिकाभूस्तिमितैस्तडागचक्षुःसहस्तैरिव विस्मयेन । यद्वैभवं भूरपि बीक्ष्य धत्ते रोमाञ्चमुद्यत्कलमच्छलेन ॥ ४७ ॥ जनैः प्रतिग्रामसमीपमुच्चैः कृता वैषाब्यैर्वरधान्यकुटाः । यत्रोदयास्ताचलमध्यगस्य विश्रामशैला इव भान्ति भानोः ॥ ४८ ॥ नीरान्तरात्तप्रतिमावतारास्तरङ्गिणीनां तरवस्तटेषु । विभान्ति यत्रोर्ध्वगतार्कतापात्कृतप्रयता इव मज्जनाय ॥ ४९ ॥ सस्यस्थलीपालकबालिकानामुल्लोलगीतश्रुतिनिश्चलाङ्गम् । यत्रैणयूथं पथि पान्थसार्थाः स प्यलीलामयमामनन्ति ॥.५०।। आस्कन्धमृज्वी तदनल्पपत्रप्रसूनशाखावलया द्रुमाली । मयूरपत्रग्रथितातपत्र श्रीर्यस्य देशाधिपतित्वमाह ॥ ११ ॥ १. अनेकानि पद्मयुक्तानि जलतडागानि येषु. स्वर्गे च पद्मा लक्ष्मीः, अप्सरसो रम्भाद्या:. २. असंख्यातं हिरण्यं सुवर्णे गर्भे येषामू. हिरण्यगर्भश्च ब्रह्मा.. ३..पीतमा म्बरं यैस्तादृशैर्धामभी रम्याः. असंख्यैरभ्रंकषप्रासादैः शोभमाना इत्यर्थः. स्वर्गे च पीता- म्बरस्य विष्णोर्धाम. ४. तडागस्य समन्ताज्जलबन्धनार्थ निर्मितो मृत्कूट:. ५. श्यो', धर्मस्तयुक्ताः पुरुषा मार्गमध्ये पान्थविश्रमार्थ स्थलानि कुर्वन्ति.

भारत कान्यमाला । यत्रालिमाला स्थलपङ्कजानां सौरभ्यलोभादभितो भ्रमन्ती । विभाति लोलाध्वगलोचनानां बन्धाय सिद्धायसशृङ्खलेव ॥ १२ ॥ 'यं तादृशं देशमपास्य रम्यं यत्क्षारमब्धि सरितः समीयुः । बभूव तेनैवं जडाशयानां तासां प्रसिद्ध किल निम्नंगात्वम् ॥ १३ ॥ भूकण्ठलोठन्नवपुण्डरीकस्रम्बन्धुरा गोधनधोरणी या ! सा ग्रस्य दिङ्मण्डलमण्डनाय विस्तारिणी कीर्तिरिवावभाति ॥ ५४॥ कल्पद्रुमान्कल्पितदानशीलाञ्जेतुं किलोत्तालपतत्रिनादैः । आय दूराद्वितरन्ति वृक्षा फलान्यचिन्त्यानि जनाय यत्र ॥ ५५ ॥ तत्रास्ति तनपुरं पुरं यहारस्थलीतोरणवेदिमध्यम् । अलंकरोत्यर्कतुरंगपतिः कदाचिदिन्दीवरमालिकेव ॥ १६ ॥. मुक्तामया एवं जनाः समस्तास्तास्ताः स्त्रियो या नेवपुष्परागाः ।.. वैजं द्विषां मूनि नृपोऽपि यस्य वितन्वते नाम विनिश्चितार्थम् ॥१७॥ भोगीन्द्रवेश्मेदमिति प्रसिद्ध्या यहप्रवेषः किल पाति शेषः । तथाहि दीर्धान्तिकदीर्घिकास्य निर्मुक्तनिर्मोकनिमा विभाति ॥ ५८ ॥ समेत्य यस्मिन्मणिबद्धभूमौ पौराङ्गनानां प्रतिबिम्बदम्भात् । मन्ये न रूपामृतलोलुपाक्ष्यः पातालकन्याः सविधं त्यजन्ति ॥ ५९ ॥ प्रासादशृङ्गेषु निजप्रिया, हेभाण्डकप्रान्तमुपेत्य रात्रौ । कुर्वन्ति यत्रापरहेमकुम्भभ्रमं घुगङ्गाजलचक्रवाकाः ॥ ६ ॥ शुभ्रा यदभ्रंलिहमन्दिराणां लग्ना. ध्वजाग्रेषु न ताः पताकाः । किं तु त्वचो घटनतः सितांशोों चेत्किमन्तव्रणकालिकास्य ॥६१॥ कृताप्यधो भोगिपुरी कुतोऽभूदहीनभूषेत्यतिकोपकम्प्रम् । यजेतुमेतामिव खातिकाम्भश्छायाछलात्क्रामति नागलोकम् ॥ ६२॥ संक्रान्तबिम्बः स्रवदिन्दुकान्ते नृपालये प्राहरिकैः परीते । हृताननश्रीः सुदृशां चकास्ति काराधृतो यत्र रुदन्निवेन्दुः ॥ ६३ ॥ १. नीरोगाः; मौक्तिकप्रचुराश्व. २. पुष्परागो. मणिभेदः; (स्त्रीपक्षे तु) वपुषि शरीरेऽरागा रागरहिता न. ३. वज्रमशनिः; हीरकश्च. ४. बहुभूषणयुक्ता; (पक्षे) अहीनामिनः सर्पराजः. ५: परिखा.

१ सर्गः] धर्मशर्माभ्युदयम् । विभाति रात्रौ मणिकुटिमोर्वी संजातताराप्रतिमावतारा । दिक्षया यत्र विचित्रभूतरुत्तानितासीव कुतूहलेन ॥ ६४ ॥ दृङ्गिनिमेषा द्युसदां पतन्ती दोषाय मा भूदिति यस्य रात्र्या । उत्तार्यते मूर्ध्नि जितामरस्य नीराजनापात्रमिवेन्दुबिम्बम् ॥ ६५ ॥ दन्दह्यमानागुरुधूमवर्तिप्रवर्तिते व्योनि धनान्धकारे । सौधेषु यत्रोर्ध्वनिविष्टहेमकुम्भप्रभा भाति तडिल्लतेव ॥ ६६ ॥ यत्रोच्चकैश्चैत्यनिकेतनानां कूटस्थलीकृत्रिमकेसरिभ्यः । रात्रिंदिवं भीत इवान्तरिक्षे भ्राम्यत्युपात्तैकमृगो मृगाङ्कः ॥ ६७ ॥ यत्रोच्चहन्येषु पतत्सपद्मव्योमापगापूरसहस्रशङ्काम् । वितन्वते काञ्चनकुम्भशोभासंभाव्यमानाः सितवैजयन्त्यः ॥ ६८ ॥ यत्राश्मगर्भोज्ज्वलवेश्मभित्तिप्रभाभिंराक्रान्तनभस्तलाभिः । दिवापि वापीपुलिने वराकी रात्रिभ्रमात्ताम्यति चक्रवाकी ।। ६९ ॥ मरुञ्चलत्केतुकराङ्गुलीभिः संतर्जितानीव सिषेविरे यत् । अतुच्छशाखानगरच्छलेन चतुर्दिगन्ताधिपपत्तनानि ॥ ७० ॥ रत्नाण्डकैः शुभ्रसहस्त्रकूटान्याभान्ति यस्मिञ्जिनमन्दिराणि । तदृष्टमुर्वीतलनिर्गताहिभकृतानीव वपूंषि हर्षात् ॥ ७१ ॥ उदेति पातालतलात्सुधायाः सिरासहस्रं सरसीषु यत्र । मन्ये ततस्तासु रसाधिकत्वं मुञ्चत्युपान्तं न च भोगिवर्गः ॥ ७२ ।। मन्थाचलामूलविलोडितान्तर्लब्धैकसत्कौस्तुभदृष्टसारः । रत्नाकरः स्याज्जलधिः कुतस्तत्सेवेत नैतत्परिखामिषाच्चेत् ॥ ७३ ॥ इतीव भास्तम्भितकौस्तुभानां स्तूपान्निरूप्य ज्वलतां मणीनाम् । आक्रीडशैलानिव यत्र लक्ष्म्याःप्रत्येति दूरापणिकोऽपि लोकः।।७४॥(युग्मम्) पदे पदे यत्र परार्थनिष्ठा रसस्थिति कामपि नाटयन्त्यः । वाचः कवीनामिव कस्य नोच्चैश्चेतोमुदं कन्दलयन्ति वेश्याः ॥ ७५ ॥ १. अश्मगर्भो हरिन्मणिः.

। । नही काव्यमाला। भारत संगीतकारम्भरसन्मृदङ्गाः कैलासभासों वलभीनिवेशाः । वृन्दानि यत्र ध्वनदबुदानामनम्बुशुभ्राणि विडम्बयन्ति ॥ ७६ ।। रणझणजिङ्किणिकारवेण संभाष्य यन्नाम्बरमार्गखिन्नम् । मरुञ्चलत्केतनतालबन्तैहावली वीजयतीव मित्रम् ॥ ७७ ।। 'हारावलीनिर्झरहारि तुङ्गमवाप्य कान्तास्तनशैलेंदुर्गम् । यत्र त्रिनेत्रादपि निर्विशङ्कः शङ्के स्मरो भूत्रयदुर्धरोऽभूत् ॥ ७८ ॥ केशेषु भङ्गस्तरलत्वमक्ष्णोः सरांगता केवलमोष्टयोश्च । मुक्त्वा तदास्यं सुदृशां न यत्र दोषाकरच्छायमवैमि किंचित् ॥७९॥ रात्रौ तमःपीतसितेतराश्मवेश्मानभाजामसितांशुकानाम् । स्त्रीणां मुखैर्यत्र नवोदितेन्दुमालाकुलेव क्रियते नभःश्रीः ॥ ८० ॥ महाजिनो नोलधुरा रथेन प्राकारमारोढुममुं समन्ते ।. इतीव यल्लङ्घयितुं दिनेशः श्रयत्यवाचीमथ चाप्युदीचीम् ।। ८१ ।। नीलाश्मलीलाबलभीषु जालव्यालम्बमानैर्निशि चन्द्रपादैः । प्रतारिता यत्र न मुग्धवध्वो हारावचूलेष्वपि विश्वसन्ति ॥ ८२ ॥ 'उपर्युपारूढवधूमुखेन्दूनुदीक्ष्य मन्दाक्षमुपैति नूनम् । यत्रोच्चसौधोच्चयचूलिकाभ्यो नम्रीभवन्निन्दुरतः प्रयाति ॥ ८३ ॥. प्रालेयशैलेन्द्रविशालशाल श्रोणीसमालम्बितवारिवाहम् । विराजते निर्जरराजधानीमुडीय. यज्जेतुमिवात्तपक्षम् ॥ ८४ ।। अगुरुरिति सुगन्धिद्रव्यभेदे प्रसिद्धिः सततमविभवोऽपि प्रेक्ष्यते मेष एव । फलसमयविरुडा यत्र लक्षानपास्य क्वचिदपि न कदाचिल्केनचित्केऽपि दृष्टाः ॥ ८६ ॥ अन्तःस्थितप्रथितराजविराजमानो यः प्रान्तभूवलयिता पृथुसालबन्धः । १. लोकत्रयजित्वरः. २. श्रोणी मध्यभागः. ३. अविभवो विभवरहितः; (पक्षे) अविर्मेषस्तदुत्पन्नः. ४. वृक्षपक्षे विभिः पक्षिमी रुद्धाः, ।

२ सर्गः] ९ धर्मशर्माभ्युदयम् । प्रत्यर्थिनाशपिशुनः परिपूर्णमूर्ते- रिन्दोरुदारपरिवेष इवावभाति ॥ ८६ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये प्रथमः सर्गः । द्वितीयः सर्गः । अभूदथेक्ष्वाकुविशालवंशभूः स तत्र मुक्तामयविग्रहः पुरे । नृपो महासेन इति स्वमेव यः कुलं द्विषन्मूर्धमदोऽप्यभूषयत् ॥ १ ॥ गतेऽपि दृग्गोचरमत्र शत्रवः स्त्रियोऽपि कंदर्पमपत्रपा दधुः । किमद्भुतं तद्धतपञ्चसायके यदद्वन्संगैरसंगताः क्षणात् ॥ २ ॥ न केवलं दिग्विजये चलच्चमूभरभ्रमद्भवलयेऽस्य जङ्गमैः । श्रिताहितत्राणकलङ्कशङ्कितैरिव स्थिरैरप्युदकम्पि भूधरैः ॥ ३ ॥ तदङ्गरूपामृतमक्षिभाजनैर्यदृच्छयासेचनकं पपुः स्त्रियः । प्रमातुमन्तस्तदपारयन्मनाङ्मुदश्रुदम्भान्निरगादिवाङ्गतः ॥ ४ ॥ कुलेऽपि किं तात तवेदशी स्थितियदात्मजा श्रीन सभाखपि त्यजेत् । तदङ्कलीलामिति कीतिरीjया ययावुपालब्धुमिवास्य वारिधिम् ॥ ५ ॥ तदा तदुत्तुङ्गतुरंगमक्रमप्रहारमजन्मणिशङ्कुसंहताम् । न भूरिबाधाविधुरोऽप्यपोहितुं प्रगल्भतेऽद्यापि महीमहीश्वरः ॥ ६ ॥ विभान्त्यमी शत्रुनिमज्जनोत्थितास्तदादि तस्यासिजलस्य बिन्दवः । न तारका व्योनि कुतोऽन्यथा भवेज्झषः कुलीरो मकरश्च तावपि ॥७॥ वितीर्णमस्मभ्यमनेन संयुगे पुनः कुतो लब्धमितीव कौतुकात् । स कस्य पृष्ठं न नतारिभूभुजः कराग्रसंस्पर्शमिघायलोकयत् ॥ ८ ॥ न मन्त्रिणस्तन्त्रजुषोऽपि रक्षितुं क्षमाः स्वमेतद्बुजगादसेः क्वचित् । इतीव भीताः शिरसि द्विषो दधुस्तदभिचञ्चन्नखरत्नमण्डलम् ॥ ९॥ १. शत्रवः कं दर्पमभिमानम्. पत्रं वाहनं पान्तीति पत्रपाः, न पत्रपाः अपत्रपाः. वाहनरहिता इत्यर्थः; स्त्रियश्चापगतत्रपाः सत्यः कंदर्प कामं दधुः. २ सङ्गरसं गताः; संगर-संगताः. ३. 'तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात'. ४. भुजं प्राप्तात्; (पक्षे) सपात्. २ १० काव्यमाला। अतुच्छमच्छाद्यमहो महस्विनां पयोदकाले तदसौ समुद्यते । नवाम्बुधाराविनिपातजर्जरैर्न राजहंसैन पलायितं जवात् ॥ १० ॥ समुल्लसत्खड्गलतापहस्तितक्लमं धरित्री समवाप्य तद्भुजम् । विषाग्निगर्भः श्वसितैरिवाकुला मुमोच मैत्री फणिचक्रवर्तिनः ॥ ११ ॥ नियोज्य कर्णोत्पलवजयश्रिया कपाणमस्योपगमे समिगृहे । प्रतापदीपाः शमिता विरोधिनामहो सलज्जा नवसंगमे स्त्रियः ॥ १२ ॥ असक्तमाकारनिरीक्षणादपि क्षणादभीष्टार्थकतार्थितार्थिनः । कुतश्चिदातिथ्यमियाय कर्णयोर्न तस्य देहीति दुरक्षरद्वयम् ॥ १३ ॥ उपासनायास्य बलाभियोगतः प्रकम्पमानाः कुलपर्वता इव । समाययुर्दारि मदाम्बुनिर्झराः क्षितीश्वरोपायनमत्तदन्तिनः ॥ १४ ॥ निपीतमातङ्गघटाग्रशोणिता हठावगूढा सुरतार्थिभिभटैः । किल प्रतापानलमासदत्समित्समृद्धमस्यासिलतात्मशुद्धये ॥ १५ ॥ ततः श्रुताम्भोनिधिपारदृश्वनो विशङ्कमानेव पराभवं तदा । विशेषपाठाय विधृत्य पुस्तकं करान्न मुञ्चत्यधुनापि भारती ॥ १६ ॥ बभुस्तदत्राहतदन्तमण्डलात्समुच्छलन्तो हुतभुक्कणाः क्षणम् । सरक्तवान्ता वरवैरिवारणव्रजस्य जीवा इव संगराजिरे ॥ १७ ॥ श्रुतं च शीलं च बलं च यत्रयं स सर्वदौदार्यगुणेन संदधत् । चतुष्कमापूरयति स्म दिग्जयप्रवृत्तकीर्तेः प्रथमं सुमङ्गलम् ॥ १८ ॥ तदीयनिस्त्रिंशलसद्विधुतुदे बलाद्लित्युद्यतराजमण्डलम् । निमज्ज्य धारासलिले स्वमुच्चकैर्ददुर्द्विजेभ्यः प्रविभज्य विद्विषः ॥ १९ ॥ उदर्कवक्रां वनितास्वभावतो विभाव्य विस्वम्भमधारयन्निव । व्यशिश्रणद्वैरिकुलाबलाहृतां स्वसंमतेभ्यो बहिरेव स श्रियम् ॥ २० ॥ विदारितारिद्विपगण्डमण्डलीसमुल्ललल्लोलशिलीमुखच्छलात् । कचेषु खड्गः क्रमकिंकरीमिव क्रुधा चकर्षास्य जयश्रियं रणे ॥ २१ ॥ १. मातङ्गघटा हस्तिसमूहः; (पक्षे) मातङ्गघटश्चण्डालकुम्भः. २. देवत्वार्थिभिः; (पक्षे) निधुवनाधिभिः, ३. समिति युद्धे समृद्धम्; (पक्षे) समिद्भिः काष्ठैः. ४. नृपस- मूहम् ; चन्द्रबिम्ब च. ५. आत्मानम् ; धनं च. ६. पक्षिभ्यः; ब्राह्मणेभ्यश्च.

२ सर्गः] धर्मशर्माभ्युदयम् । ११ जगत्रयोत्तंसितभासि तद्यशःसमग्रपीयूषमयूखमण्डले । विजृम्भमाणं रिपुराजदुर्यशो बभार तुच्छेतरलाञ्छनच्छविम् ॥ २२ ॥ वमन्नमन्दं रिपुवर्मयोगतः स्फुलिङ्गजालं तदसिस्तदा बभौ । वपन्निवासृग्जलसिक्तसंगरक्षितौ प्रतापगुमबीजसंततिम् ॥ २३ ॥ अवाप्तवाञ्छाभ्यधिकार्थसंपदोन्नतेषु संक्रान्त इवानुजीविषु । मदस्य लेशोऽपि न तस्य कुत्रचिन्महाप्रभुत्वेऽपि जनैरदृश्यत ॥ २४ ॥ द्विषत्सु कालो धवलः क्षमाभरे गुणेषु रक्तो हैरितः प्रतापवान् । जनेक्षणैः पीत इति द्विषां व्यधादनेकवर्णोऽपि विवर्णतामसौ ॥ २५ ॥ प्रतापवह्नौ किल दीपिते ककुप्करीन्द्रभस्त्राकरफूकतानिलैः स कांचनामा कटकं जगत्पुटे दधानमावर्तयति स्म विद्विषाम् ॥ २६ ॥ अवापुरेके रिपवः पयोनिधेः परे तु वेलां बलिनोऽस्य भूभुजः । ततोऽस्य मन्ये न कुतोऽप्यपूर्यत प्रचण्डदोर्विक्रमकेलिकौतुकम् ॥ २७ ॥ भयातुरत्राणमयीमनारतं महाप्रतिज्ञामधिरूढवानिव । न भूरिशङ्काविधुरे रिपावपि क्वचित्तदीयासिरचेष्टताहितम् ॥ २८ ॥ स कोऽपि चेदेकतमेन चेतसा क्षमेत संचिन्तयितुं फणीश्वरः । तदा तदीयान्रसनासहस्त्रभृद्गुणानिदानीमपि किं न वर्णयेत् ॥ २९ ॥ निशासु नूनं मलिनाम्बरस्थितिः प्रगल्भकान्तासुरते द्विजक्षतिः । यदि किपः सर्वविनाशसंस्तवः प्रमाणशास्त्रे पैरमोहसंभवः ॥ ३० ॥ धनुर्धराणां करवालशून्यता हिरण्यरेतस्यविनीतता स्थिता । अभूजगद्विभ्रति तत्र केवलं गुणच्युतिर्गिण एव निश्चलम् ॥३१॥ (युग्मम्) निरञ्जनज्ञानमरीचिमालिनं जिनेन्द्रचन्द्रं दधतः प्रमोदतः । न तस्य चेतस्यखिलक्षमापतेस्तमोऽवकाशः क्षणमप्यलक्ष्यत ॥ ३२ ॥ १. कृष्णवर्णः; यमश्च. २. शुक्लः; वृषभश्च. ३. हरिद्वर्णः; इन्द्राच्च. ४. पीतवर्णः; सादरमवलोकितश्च. ५. वर्णरहितत्वम् ; नीचत्वं च. ६. कांचन अनिर्वचनीयां शो- भाम् ; सुवर्णकान्ति च. ७. सैन्यम्; कङ्कणं च. ८. व्याकरणप्रसिद्धस्य प्रत्ययविशे- षस्य. ९. परम-उह; पर-मोह. १०. हिरण्यरेता अग्निः स एव अविना तद्वाहनभूतेन मेषेण नीयते नान्यः कश्चनाविनीतः शीलरहितः, १२ काव्यमाला। भारत महानदीनोऽप्यजडाशयो जगत्यनष्टसिद्धिः परमेश्वरोऽपि सन् । बभूव राजापि निकारकारणं विभावरीणामयमद्भुतोदयः ॥ ३३ ॥ तरङ्गिताम्भोधिदुकूलशालिनीमखर्वपूर्वापरपर्वतस्तनीम् । वरोरुदेशे स निधाय कोमलं करं बुभोजैकवधूमिव क्षितिम् ॥ ३४ ॥ अथास्य पत्नी निखिलावनीपतेर्बभूव नाम्ना चरितैश्च सुव्रता । स्थितेऽवरोधे प्रचुरेऽपि या प्रभोरभूत्सुधांशोरिव रोहिणी प्रिया ॥ ३५ ॥ सुधासुधारश्मिमृणालमालतीसरोजसारैरिव वेधसा कृतम् । शनैः शनैर्मोग्ध्यमतीत्य सा दधौ सुमध्यमा मध्यममध्यमं वयः ॥ ३६ ॥ स्मरेण तस्याः किल चारुतारसं जनाः पिबन्तः शरजर्जरीकृताः । स पीतमात्रोऽपि कुतोऽन्यथागलत्तदङ्गतः स्वेदजलच्छलाबहिः ॥ ३७ ॥ इतः प्रभृत्यम्ब न ते मुखाम्बुजश्रियं हरिष्येऽहमितीव चन्द्रमाः । प्रतीतयेऽस्याः सकुटुम्बको नखच्छलेन साध्व्याश्चरणाग्रमस्टशत् ॥ ३८॥ प्रयाणलीलाजितराजहंसकं विशुद्धपाणि विजिगीषुवत्स्थितम् । तदभिमालोक्य न कोषदण्डमाग्भियेव पद्मं जलदुर्गमत्यजत् ॥ ३९ ॥ सुस्त्तमप्याप्तजडोरुसंगमं तदीयजङ्घायुगलं विलोमैताम् । तथा दधावप्यनुयायिनं जनं चकार पञ्चेषुकदर्थितं यथा ॥ ४० ॥ उदश्चदुच्चैःस्तनवप्रशालिनस्तदङ्गकंदर्पविलासवेश्मनः । वरोरुयुग्मं नवतप्तकाञ्चनप्रपञ्चितस्तम्भनिभं व्यराजत ॥ ४१ ॥ जडं गुरूकृत्य नितम्बमण्डलं स्मरेण तस्याः किल शिक्षितं कियत् । तथाप्यहो पश्यत सर्वतोऽमुना बुधाधिपानामपि खण्डितो मदः ॥ ४२ ॥ गभीरनाभिह्रदमज्जबुडुरस्मरप्रभिन्नद्विपगण्डमण्डलात् । समुच्चलन्तीव मधुव्रतावलिर्बभौ तदीयोदररोममञ्जरी ॥ ४३ ॥ सुहृत्तमावेकत उन्नतौ स्तनौ गुरुनितम्बोऽप्ययमन्यतः स्थितः । कथं भजे कान्तिमितीव चिन्तया ततान तन्मध्यमतीव तानवम् ॥ ४४ ॥ १. महान्-अदीनः; महा नदी-इनः. २. अष्टसिद्धिरहितः; (पक्षे) न नष्टा सिद्धिर्यस्य सः. ३. चन्द्रोऽपि. ४. रात्रीणाम्; (पक्षे) अरीणां शत्रूणां विभौ स्वामिनि. ५. लोमर- हितत्वम्; वैपरीत्यं च.

२ सर्गः]
धर्मशर्माभ्युदयम् ।
सती च सौन्दर्यवती च पुंवरप्रसूश्च साक्षादियमेव भूत्रये ।
इतीव रेखात्रयमक्षतस्मयो विधिश्चकारात्र बलित्रयच्छलात् ॥ ४५ ॥
गुरोनितम्बादिह कामिकं गतः स नामितीर्थ प्रमथेशनिर्जितः ।
समुल्लसल्लोमलतारुरुच्छविः स्मरस्त्रिदण्डं त्रिवलिच्छलाद्दधौ ॥ ४६ ॥
कृतौ न चेत्तेन विरश्चिना सुधानिधानकुम्भौ सुदृशः पयोधरौ ।
तदङ्गलग्नोऽपि तदा निगद्यतां स्मरः परासुः कथमाशु जीवितः ॥ ४७ ॥
सुरत्रवन्तीकनकारविन्दिनीमृणालदण्डाविव कोमलौ भुजौ ।
करौ तदने शुचिकङ्कणाङ्कितौ व्यराजतामब्जनिभौ च सुभ्रवः ॥ १८ ॥
सपाञ्चजन्यः कररुक्मकङ्कणप्रभोल्बणः स्याद्यदि कैटभद्विषः ।
स्फुरत्रिरेखं किल कण्ठकन्दलं तदोपमीयेत न वा नतभ्रवः ॥ ४९ ॥
कपोलहेतोः खलु लोलचक्षुषो विधिय॑धात्पूर्णसुधाकरं द्विधा ।
विलोक्यतामस्य तथाहि लाञ्छनच्छलेन पश्चात्कृतसीवनव्रणम् ॥ ५० ॥
प्रवालबिम्बीफलविद्रुमादयः समा बभूवुः प्रभयैव केवलम् ।
रसेन तस्यास्त्वधरस्य निश्चितं जगाम पीयूषरसोऽपि शिष्यताम् ॥ ११ ॥
अनादरेणापि सुधासहोदरीमुदीरयन्त्यामविकारिणी गिरम् ।
हियेव काष्ठत्वमियाय वल्लकी पिकी च कृष्णत्वमधारयत्तराम् ।। १२ ॥
ललाटलेखाशकलेन्दुनिर्गलत्सुधोरुधारेव घनत्वमागता ।
तदीयनासा द्विजरत्नसंहतेस्तुलेव कान्त्या जगदप्यतोलयत् ॥ ५३ ॥
जितास्मदुत्तंसमहोत्पलैयुवां क्व याथ इत्यध्वनिरोधिनोरिव ।
उपात्तकोपे इव कर्णयोः सदा तदीक्षणे जग्मतुरन्तशोणताम् ॥ १४ ॥
इमामनालोचनगोचरां विधिविधाय सृष्टेः कलशार्पणोत्सुकः ।
लिलेख वक्त्रे तिलकाङ्कमध्ययोर्भुवोर्मिषादोमिति मङ्गलाक्षरम् ॥ ५५ ॥
उदीरिते श्रीरतिकीर्तिकान्तिभिः श्रयाम एतामिति मौनवान्विधिः ।
लिलेख तस्यां तिलकाङ्कमध्ययो वोर्मिषादोमिति संगतोत्तरम् ॥ ५६ ॥
कपोललावण्यमयाम्बुपल्वले पतत्सतृष्णाखिलनेत्रपत्रिणाम् ।
ग्रहाय पाशाविव वेधसा कृतौ तदीयकौँ पृथुलांसचुम्बिनौ ॥ १७ ॥

१४ काव्यमाला। भारत स्मरेण कालागुरुपत्रवल्लिवल्ललाटलेखामिषतो नतभ्रुवः । अशेषसंसारविशेषकैर्गुणैर्जगत्रये पत्रमिवावलम्बितम् ॥ १८ ॥ अनिन्द्यदन्तद्युतिफेनिलाधरप्रवालशालिन्युरुलोचनोत्पले । तदास्यलावण्यसुधोदधौ बभुस्तरङ्गभङ्गा इव भङ्गुरालकाः ॥ १९ ॥ तदाननेन्दोरधिरोहता तुलां मृगाङ्क चित्तेऽपि न लज्जितं त्वया । यतोऽसि कस्तत्र पयोधरोन्नतौ स मूढ यत्राभ्यधिकं व्यराजत ॥ ६० ॥ समग्रसौन्दर्यविधिद्विषो विधेपुंणाक्षरन्यायवशादसावभूत् । तदास्य जाने निपुणत्वमीडशीमनन्यरूपां कुरुते यदापराम् ॥ ६१ ॥ सरस्वतीवार्थमनिन्द्यलक्षणा गुणान्विता चापलतेव धन्विनम् । विभेव भास्वन्तमतीव निर्मला तमेकभूपालमलंचकार सा ॥ ६२ ॥ अथैकदान्तःपुरसारसुन्दरीशिरःस्त्रजं तामवलोक्य तत्पतिः । इति स्थिरोत्तानितनेत्रमर्थिनामचिन्त्यचिन्तामणिरप्यचिन्तयत् ॥ ६३ ॥ चकार यो नेत्रचकोरचन्द्रिकामिमामनिन्द्यां विधिरन्य एव सः । कुतोऽन्यथा वेदनयान्वितात्ततोऽप्यभूदमन्दद्युति रूपमीदृशम् ॥ ६४ ॥ द्रुमोत्पलात्सौरभमिक्षुकाण्डतः फलं मनोज्ञां मृगनाभितः प्रभाम् । विधातुमस्या इव सुन्दरं वपुः कुतो न सारं गुणमाददे विधिः ॥ ६५ ॥ वपुर्वयोवेषविवेकवाग्मिताविलासवंशव्रतवैभवादिकम् । समस्तमप्यत्र चकास्ति तादृशं न यादृशं व्यस्तमपीक्ष्यते क्वचित् ।। ६६ ॥ न नाकनारी न च नागकन्यका न च प्रिया काचन चक्रवर्तिनः । अभूद्भविष्यत्यथवास्ति साध्विमां यदङ्गकान्त्योपमिमीमहे वयम् ॥ ६७ ॥ असारसंसारमरुस्थलीभ्रमक्कमार्गहन्नेत्रपतत्रिणां मुदे । मृगीदृशः सिक्त इवामृतष्ठवैरहो प्रकृद्धो नवयौवनद्रुमः ॥ ६८ ॥ फलं तथाप्यत्र यथर्तुगामिनः सुताह्वयं नोपलभामहे वयम् । अनन्यसक्तावनिभारखिन्नवनिरन्तरं तेन मनो दुनोति नः ॥ ६९ ॥ सहस्रधा सत्यपि गोत्रजे जने सुतं विना कस्य मनः प्रसीदति । अपीद्धताराग्रहगर्भितं भवेढते विधोर्ध्यामलमेव दिङ्मुखम् ॥ ७० ॥ १. सरस्वती; पीडा च. २. कर्णिकारपुष्पात. ३. श्यामलम्.

२ सर्गः] धर्मशर्माभ्युदयम् । न चन्दनेन्दीवरहारयष्टयो न चन्द्ररोचींषि न चामृतच्छटाः । सुताङ्गसंस्पर्शसुखस्य निस्तुलां कलामयन्ते खलु षोडशीमपि ॥ ७१ ॥ असावनालोक्य कुलाङ्कुरं मम स्वभोगयोग्याश्रयभङ्गशङ्किनी । विशोषयत्युच्छसितैरसंशयं मदन्वयश्रीः करकेलिपङ्कजम् ।। ७२ ॥ नभो दिनेशेन नयेन विक्रमो वनं मृगेन्द्रेण निशीथमिन्दुना । प्रतापलक्ष्मीबलकान्तिशालिना विना न पुत्रेण च भाति नः कुलम् ॥७३॥ क्क यामि तत्कि न करोमि दुष्करं सुरेश्वरं वा कमुपैमि कामदम् । इतीष्टचिन्ताचयचक्रचालितं क्वचिन्न चेतोऽस्य बभूव निश्चलम् ।। ७४ ॥ इत्थं चिन्तयतोऽथ तस्य नृपतेः स्फारीभवञ्चक्षुषो निर्वातस्तिमितारविन्दसरसीसौन्दर्यमुद्रामुषः । कोऽप्युद्यत्पुलकाङ्कुरः प्रमदजैः सिक्तश्च नेत्राम्बुभि- /जावाप इवाप वाञ्छिततरोरुद्यानपालः स तम् ॥ ७५ ॥ अथ स दण्डधरेण निवेदितो विनयतः प्रणिपत्य सभापतिम् । दुरितसंविदनध्ययनं सुधीरिति जगाद सुधास्नपिताक्षरम् ॥ ७६ ॥ राकाकामुकवद्दिगम्बरपथालंकारभूतोऽधुना बाह्योद्यानमवातरग्रहपथात्कश्चिन्मुनिश्चारणः । यत्पादप्रणयोत्सवात्किमपरं पुष्पाकुरच्छद्मना वृक्षरप्यनपेक्षितात्मसमयैः क्षमापाल रोमाञ्चितम् ॥ ७७ ॥ क्रीडाशैलप्रस्थपद्मासनस्थस्तत्वाभ्यासैः स प्रचेता इतीदम् । नामाख्यातं पाश्ववर्तिव्रतीन्द्रैः कुर्वन्नास्ते तत्र संसूत्रितार्थम् ॥ ७८ ॥ इत्याकस्मिकविस्मयां कलयतस्तस्मात्क्लमच्छेदिनी ज्योत्स्नावद्यतियामिनीशविषयां वार्तामवात्तोत्सवाम् । डग्भ्यामिन्दुमणीयितं करयुगेणाम्भोजलीलायितं पारावारजलायितं च परमानन्देन राज्ञस्तदा ॥ ७९ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये द्वितीयः सर्गः । १. प्रतीहारेण.

काव्यमाला। भारत तृतीयः सर्गः। . अथोत्थाय नृपः पीठाद्भानुः पूर्वाचलादिव । साधोः प्रचेतसस्तस्य दिशं प्राप्य ननाम सः ॥ १॥ स तस्मै वनपालाय ददौ तोषतरोः फलम् । मनोरथलताबीजप्राभृतस्येव निष्क्रयम् ॥ २ ॥ आज्ञामिव पुरि क्लेशनिष्कासनपटीयसीम् । मुनीन्द्रवन्दनारम्भमेरी प्रादापयन्नृपः ॥ ३ ॥ व्यानशे ककुभस्तस्याः कादम्बिन्या इव ध्वनिः । उत्कयन्निर्भरानन्दमेदुरान्पोरकेकिनः ॥ ४ ॥ चन्दनस्थासकैर्हास्यं लास्यमप्युल्लसङ्घजैः । पुष्पोत्करैश्च रोमाञ्चं पुरमप्याददे तदा ॥ ५॥ अमान्त इव हम्येभ्यस्तदा गमनसंमदात् । पौराः प्रथितनेपथ्याः खेभ्यः स्वभ्यो विनिर्ययौ ॥ ६ ॥ बहिस्तोरणमागत्य स्थाश्वेभनिषादिनः । दूता इवार्थसंसिद्धेस्तमुदैक्षन्त पार्थिवाः ॥ ७ ॥ दिगम्बरपदप्रान्तं राजापि सह कान्तया । प्रतस्थे रथमास्थाय प्रभया भानुमानिव ॥ ८ ॥ नृपाः संचारिणः सर्वे तमाविष्कृतसात्त्विकम् । मुनीन्द्रवन्दनारूढं रसं भावा इवान्वयुः ॥९॥ संजालकानसौ तत्र मैत्तवारणराजितान् । गृहानिव नृपान्प्रेक्ष्य पिप्रिये प्रान्तवर्तिनः ॥ १० ॥ प्रागेव जग्मुरुद्यानं सेवाक्षणविचक्षणाः । फलपुष्पाहरास्तस्य मूर्तिमन्त इवर्तवः ॥ ११ ॥ १. प्रचेतोनामकस्य यतेः; (पक्षे) प्रचेतसो वरुणस्य दिशं पश्चिमाम्. अलकान् ; सत्-जालकान्. जालको गवाक्षः. ३. 'उक्तो मत्तवारणस्तु प्रभिन्नकटकु- अरे । क्लीबं प्रसादवीथीनां कुन्दवृक्षवृतावपि ॥ इति मेदिनी. २. सज्ज- ३ सर्गः] धर्मशर्माभ्युदयम् । परस्परागसंघट्टभ्रष्टहारावचूलकैः । पथि दुःसंचरो मार्गों मार्गः पाशैरिवाभवत् ॥ १२ ॥ दृष्टया कुंवलयस्यापि जेता देर्शितविग्रहः । नेत्रोत्सवाय नारीणां नारीणां सोऽभवन्नृपः ॥ १३ ॥ सोऽङ्गलावण्यसंक्रान्तपौरनारीनरेक्षणः । गन्धर्वैराटतः साक्षात्सहस्राक्ष इवाबभौ ॥ १४ ॥ बभुस्तस्य मुखाम्भोजपर्यन्तभ्रान्तषट्पदाः । अन्तर्मुनीन्दुसंधानान्निर्यवान्तलवा इव ॥ १५ ॥ बिभ्रत्सविभ्रमश्चारुतिलकामलकावलिम् । उल्लसत्पत्रवल्लीको 'दीर्घनेत्रधृताञ्जनः ॥ १६ ॥ युक्तोऽप्युत्तालपुनांगैः सौलसंगममादधत् । कामाराम इवारामं पौररामाजनो ययौ ॥ १७ ॥ (युग्मम्) पुरंध्रीणां स वृद्धानां प्रतीच्छन्नाशिषः शनैः। इष्टसिद्धेरिव द्वारं पुरैः प्राप महीपतिः ॥ १८ ॥ यतिभावपरः कान्ति बिभ्रदभ्यधिकां नृपः । निश्चक्राम पुराच्छ्रोकः कवीन्द्रस्य मुखादिव ॥ १९ ॥ शाखानगरमालोक्य पुरः प्रान्ते स पिप्रिये । तनूजमिव कान्ताया बहुलक्षणमन्दिरम् ॥ २० ॥ १. मृगसमूहः. २. भूमण्डलस्य; उत्पलत्य च. ३ दर्शितशरीरः; कृतयुद्धश्च. ४. न- अरीणाम्. ५. अश्वैः; देवयोनिविशेषैश्च. ६. पक्षिणां भ्रमणेन सहितः; हावविशेषसहितश्च, ७. चारुतिलकयुक्तां चूर्णकुन्तलपतिम् ; (पक्षे) तिलक आमलकश्च वृक्षविशेषौ. ८. कस्तू- र्यादिरसेन स्तनकपोलादिषु कृता रचना पत्रवल्ली; (पक्षे) उल्लसन्त्यः किसलययुक्ता लता यस्मिन्सः. ९. दीर्घलोचनन्यस्तकज्जलः; (पक्षे) दीर्घण मृलेन धृता अञ्जना वृक्षवि- शेषा यत्र. १०. वृक्षविशेषैः; पुरुषश्रेष्ठैश्चः. ११. सालसं-गमम् ; साल-संगमम्. सालो वृक्ष- विशेषः. १२. नगरस्य. १३. यतिः संन्यासी; (पक्षे) पाठविच्छेदस्थलम्. १४. बहुल- क्षण; बहु-लक्षण. क्षण उत्सवः, ३ RA १८ काव्यमाला। भार प्रागेव विक्रमश्लाघ्यो भवानीतनयोऽप्यभूत् । व्यक्तं पुनर्महासेनो महासेनावृतस्तदा ॥ २१ ॥ उच्चैस्तनशिखोल्लासिपत्रशोभामदूरतः । वनाली वीक्ष्य भूपालः प्रेयसीमित्यभाषत ॥ २२ ॥ कान्तारतरवो नैते कामोन्मादकृतः परम् । अभवन्नः प्रीतये सोऽप्युद्यन्मधुपराशयः ॥ २३ ॥ अनेकविटपस्टष्टपयोधरतटा स्वयम् । वदत्युद्यानमालेयमैकुलीनत्वमात्मनः ॥ २४ ॥ उल्लसत्केसरो रक्तपलाशः कुञ्जराजितः । कण्ठीरव इवारामः कं न व्याकुलयत्यसौ ॥ २५ ॥ सैन्यकोलाहलोत्तिष्ठद्विहंगावलयो द्रुमाः । अस्मदागमनोत्क्षिप्तपताका इव भान्त्यमी ॥ २६ ॥ संचरचञ्चरीकाणां धोरणिस्तोरणस्त्रजम् । विडम्बयति कान्तारे हरिन्मणिमयीमियम् ॥ २७ ॥ पल्लवव्याप्टतास्यानां सूरस्यन्दनवाजिनाम् । फेनलेशा इवाभान्ति द्रुमाग्रकुसुमोत्कराः ॥ २८ ॥ त्वङ्गत्तुङ्गतुरंगोम॑स्तीरगं सैन्यवारिधेः । पुञ्जिताबालशेवालशोभामभ्येति काननम् ॥ २९ ॥ १. भवानी-तनयः (कार्तिकेयः). स च वेः पक्षिण: स्ववाहनमयूरस्य क्रमेण पादन्या- सेन श्लाघ्यः; (पक्षे) भव-आनीत-नयः. २. महासेन इति कार्तिकेयस्य नामान्तरम्; (पक्षे) महती सेना यस्य. ३. उच्चैः-स्तनशिखा (कुचाग्रभागः); उच्चैस्तन-शिखा. ४. उद्यन्मधुपराशयः समुल्लसद्भमर श्रेणयः कामोन्मादकृतो मदनोद्दीपकाः कान्तार-तरवो वनवृक्षाः परं नः प्रीतयेऽभवन्. सोऽपि कान्ता-रत-रवः कान्तायाः सुरतकालीनं मणितं नः प्रीतयेऽभवत्. कीदृशः कान्तारतरवः. कामोन्मादेन कृतः; उद्यत्-मधु-पर-आशयश्च. ५. षिङ्गस्पृष्टकुचा; वृक्षस्पृष्टमेघा च. ६. नीचकुलोत्पन्नत्वम् ; अभूमिलीनत्वं च, उन्नत- त्वमिति यावत्. ७. केसरो वृक्षविशेषः; (पक्षे) उल्लसत्स्कन्धोत्पनकेशः.८. रक्तवर्णा प- लाशा यस्मिन् ; (पक्षे) रक्तं रुधिरं पलं मांसं चाश्नाति. ९. कुञ्ज-राजितः; कुञ्जर-अजितः.

३ सर्गः] धर्मशर्माभ्युदयम् । १९ उत्क्षिप्तसहकाराग्रमञ्जरीरुक्मदण्डिकः । उत्सारयंल्लवङ्गैलालाञ्चिकर्पूरचम्पकान् ॥ ३० ॥ कासारसीकरासारमुक्ताहारविराजितः । प्रेर्यमाणो मुहुवेल्लल्लताहस्ताग्रसंज्ञया ॥ ३१ ॥ अयमस्माकमेणाक्षि चन्दनामोदसुन्दरः । मरुदभ्यर्णतामेति वेत्रीवोद्यानभूपतेः ॥ ३२ ॥ (विशेषकम्) तन्वाना चन्दनोद्दामतिलकं वदने किल। करोत्यक्षतदूर्वाभिर्मङ्गलं मे वनस्थली ॥ ३३ ॥ एताः प्रवालहारिण्यो मुदा भ्रमरसंगताः । मरुन्नर्तकतालेन नृत्यन्तीव वने लताः ॥ ३४ ॥ निरूपयन्निति प्रीत्या प्रियायाः प्राप्य काननम् । तत्क्षणादक्षमत्याक्षीदौद्धत्यमिव पार्थिवः ॥ ३५ ॥ तत्कालोत्सारिताशेषराजचिह्नो व्यराजत । गुरून्नभिव्रजन्नेष विनयो मूर्तिमानिव ॥ ३६ ॥ नक्षत्रैरुन्नतैर्युक्तः सकान्तः केलिकाननम् । कराग्रं कुद्मलीकृत्य रोजा घनमिवाविशत् ॥ ३७ ॥ ददर्शाशोकमस्तोकस्तबकैस्तत्र पाटलम् । रागैश्छन्नमिवासन्नमुनीनां मुक्तमानसैः ॥ ३८ ॥ अधस्तात्तस्य विस्तीर्णे स्फाटिकोपलविष्टरे । तपः प्रगुणितागण्यपुण्यपुञ्जमिव स्थितम् ॥ ३९ ॥ दत्तनेत्रोत्सवारम्भमाश्रितं मुनिसत्तमैः । ऋक्षैरिव धरोत्तीर्ण क्षणं नक्षत्रनायकम् ॥ ४० ॥ १. प्रतीहारः. २. चन्दनवृक्षणोद्दामं तिलकं वृक्षविशेषम् ; (पक्षे) चन्दनस्योद्दामं तिलक विशेषकम्. ३. अक्षताभिर्वाभिः; अक्षतैरभन्नतण्डुलैर्युक्ताभिर्दूर्वाभिश्च. ४. प्रवालैः पल्लवैः; विद्रुमैश्च. ५. भ्रमर-संगताः; भ्रमरसं-गताः. ६. अक्षं रथम; आयव्ययादिव्यवहार- चिन्तां वा. ७. न-क्षत्रैः क्षत्रियैः; (पक्षे) उड्डुभिः ८. बद्धाञ्जलिः; संकुचितकिरणश्च. PATRO ९. राजा चन्द्रः काव्यमाला। अन्तरस्तावकाशेन ज्ञानसिन्धुमहोर्मिभिः । मलेन लिप्तबाह्याङ्गे दर्शयन्तमनादरम् ॥ ४१ ॥ अत्यन्तनिःसहैरङ्गैर्मुक्ताहारपरिग्रहैः । व्यक्तयन्तमिवासक्ति मुक्तिकान्तानुबन्धिनीम् ॥ ४२ ॥ नासावंशापविन्यस्तस्तोकसंकोचितेक्षणम् । भावयन्तमथात्मानमात्मन्येवात्मनात्मनः ॥ ४३ ॥ दर्शनज्ञानचारित्रतपसामेकमाश्रयम् । क्षमागारं गतागारं मुनिमैक्षिष्ट पार्थिवः ॥ ४४ ।। (कुलकम्) अथास्पदं नंभोगानां स्वर्णशैलमिव स्थिरम् । गुरुं प्रदक्षिणीकृत्य स राजा विशदांशुकः ॥ ४५ ॥ इलामूलमिलन्मौलिनत्वा भूमौ न्यविक्षत । न परं विनयश्रीणामाश्रयः श्रेयसामपि ॥ ४६॥ (युग्मम्) मङ्गलारम्भसंरम्भप्रध्वनहुन्दुभिध्वनिम् । विडम्बयन्नथोवाच वाचमाचारवानिति ॥ ४७ ॥ त्वत्पादपादपच्छायां चिन्तासंतापशान्तिदाम् । संप्रति प्राप्य मुक्तोऽस्मि भवभ्रमपरिश्रमात् ॥ ४८ ॥ यदभूदस्ति यद्यच्च मावि स्वं जन्म तन्मया । निर्णीतं पुण्यवन्नाथ त्वदालोकनमात्रतः ॥ ४९ ॥ तपोन्वितेन सूर्येण सदोषेणेन्दुनापि किम् । यो भवानिव दृष्टोऽपि न भिनल्यान्तरं तमः ॥ ५० ॥ चित्रमेतज्जगन्मित्रे नेत्रमैत्री गते त्वयि । यन्मे जंडाशयस्यापि पङ्कजातं निमीलति ॥ ११ ॥ १. मुक्त आहार; मुक्ता-हार. २. न भोगानाम्; (पक्षे) नभोगानां देवानाम्. ३. गी- पतिम् ; यति च. ४. स्वच्छवस्त्रः; निर्मलकिरणश्च. ५. सूर्य; सुहृदि च. ६. मन्दबुद्धेः; जलाशयस्य तडागादेश्व. ७. पापसमूहः; कमलं च, ३ सर्गः] धर्मशर्माभ्युदयम् । २१ युष्मत्पदप्रयोगेण पुरुषः स्याद्यदुत्तमः । अर्थोऽयं सर्वथा नाथ लक्षणस्याप्यगोचरः ॥ ५२ ॥ तथा मे पोषिता कीर्तिस्त्वदर्शनरसायनैः । यथास्तां त्रिदेशावासे मात्यैनन्तालयेऽपि न ॥ १३ ॥ निनिमेषं गलदोषं नियंपेक्षमपक्ष्मलम् । ज्ञानचक्षुः सदोन्निद्रं न स्खलत्येव ते क्वचित् ॥ ५४॥ सिद्धमिष्टं त्वदालोकाज्ज्ञातं च ज्ञानिना त्वया । तत्पुनः प्रोच्यतेऽस्माभिः शंसितुं जाड्यमात्मनः ॥ १५ ॥ इयं प्राणप्रिया पत्नी समयेऽपि स्थिता सती । निष्फलेव क्रियात्यर्थमनपत्या दुनोति माम् ॥ ५६ ॥ अदृष्टसंततिः स्पष्टमिष्टार्थप्रसवामपि । इमामहं महीं मन्ये केवलं भारमात्मनः ।। ५७ ॥ चतुर्थपुरुषार्थाय स्टहयालोर्ममाधुना । अदर्शनायते मोहान्नन्दनस्याप्यदर्शनम् ॥ ५८ ॥ दशामन्त्यां गतस्यापि पुंसस्तावन्न शस्यते । प्रदीपस्येव निर्वाणं यावन्नान्यं प्रकाशयेत् ॥ ५९ ॥ तत्कलत्रे कदात्रैव रसलीलालवालके । संपत्स्यते ममोद्भिन्नमनोरथतरोः फलम् ।। ६० ॥ श्रुत्वेति प्रत्युवाचेदं मुनि पालकर्णयोः । लग्नदन्तद्युतिव्याजात्सुधाधारा इवोगिरन् ॥ ६१ ॥ नेहकिन्चन्ताक्लमस्यासि वस्तुतत्त्वज्ञ भाजनम् । नेत्राधृष्यं क्वचित्तेजस्तमसा नाभिभूयते ॥ ६२ ॥ १. भवदीयचरणारविन्दसंबन्धेन पुरुषो जन उत्तमो भवति. अयमर्थो लक्षणस्य व्याकरणशास्त्रस्याप्यगोचरः. व्याकरणे हि युष्मत्पदयोगेन मध्यमः पुरुषो भवति, न तूत्तमः. २. स्वर्गे; त्रिदशमिते आवासे गृहे च. ३. पाताले; असंख्याते गृहे च. अतिपुष्टा कोति: स्वर्गे पाताले च न मातीति भावः. यश्चातिपुष्टोऽसंख्यातेष्वपि सदनेषु न माति तस्य त्रिदशमितेष्वावासेषु मानं दूरापास्तमेव. ४. मोक्षः; नाशश्व.

२२ काव्यमाला। धन्यस्त्वं गुणपण्यानामापणस्त्वं महीपते । त्वमेव संश्रयः श्रीणां सरितामिव सागरः ॥ ६३ ॥ त्वत्कीर्तिजझुकन्याया इतो लोकत्रयातिथेः । अन्तः प्रपत्स्यते राजबाजहंसश्रियं शशी ॥ ६४ ॥ न परं क्षत्रियाः सर्वे त्वामनु त्रिदिवेश्वराः । नादात्तस्य माहात्म्यं लङ्घयन्तीतरे स्वराः ॥६६॥ क्षोदीयानहमस्मीति मात्मानमवजीगणः । भवितासि त्वमचिराज्जगत्रयगुरोर्गुरुः ॥ ६६ ॥ गुणैर्घनोन्नते नूनं भवदावाग्निदीपितः । त्वजन्मना जनः शान्तिममृतेनायमेष्यति ॥ ६७ ॥ या चैषा भवतः पत्नी सुव्रता सुव्रताख्यया । पयिष्यति सा वेलां रत्नकुक्षितयोदधेः ॥ ६८ ॥ संसारसारसर्वस्वं भूत्रयस्यापि भूषणम् । इदमेनोविषच्छेदि स्त्रीरत्नमिति बुध्यताम् ॥ ६९ ॥ क्षुद्रतेजःसवित्रीभिः स्त्रीभिर्दिग्भिरिवात्र किम् । धन्येयं या जगच्चक्षुोभिः प्राचीव धास्यति ॥ ७० ॥ षण्मासादूर्ध्वमेतस्याः सरस्याः प्रतिमेन्दुवत् । चतुर्दशाधिको गर्भ दिवस्तीर्थकदेष्यति ॥ ७१ ॥ कृतार्थाविति मन्येथामात्मानौ तावामिह । नह्यन्यो भविनां लाभः सुतादेवंविधात्परः ॥ ७२ ॥ जन्म वा जीवितव्यं वा गृहमेधाथवा द्वयोः । आ कल्पं युवयोरेव यास्यति श्लाध्यतामितः ॥ ७३ ॥ इत्थं ग्रन्थिमिव प्रमथ्य कृतिना तेनोरुचिन्ताभरं वागर्थाविव तौ प्रसादमधिकं तं प्रापितौ दंपती । अन्तर्गुढगभीरभावपिशुनं यं भावयन्तश्चिरा- जातास्ते प्रमदेन पीनपुलकप्रोल्लासिनः सज्जनाः ॥ ७४ ॥ १ त्वत्पुत्रेण, २. पञ्चदशस्तीर्थकरो धर्मनाथः, ३. गार्हस्थ्यम्.

४ सर्गः] धर्मशर्माभ्युदयम् । अथ तथाविधभाविसुतोदयश्रवणतः प्रणतः पुनरप्यसौ । प्रमदगद्गदवागिति वाग्मिनां पतिरुवाच वचांसि मुनिं नृपः ॥ ७५ ॥ स्वर्ग संप्रति कः पुनात्ययमथो कुत्रास्य जन्मन्यभू- ब्लाभस्तीर्थकरत्वदानसुहृदः सम्यक्त्वचिन्तामणेः । इत्थं वाग्भववैभवव्यतिकरं त्वं ब्रूहि जन्मार्णवो- त्तीर्णस्यास्य भविष्यतो जिनपतेः शुश्रूषुरेषोऽस्म्यहम् ॥ ७६ ॥ इति प्रीतिप्रायं बहलपुलकस्यास्य सकलं कलकातङ्कानामपशकुनमाकर्ण्य वचनम् । मुनिः स्पष्टं द्रष्टुं तदपरभवोदारचरितं प्रकर्षणाकार्षीदवधिनयनोन्मीलनविधिम् ॥ ७७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये तृतीयः सर्गः । चतुर्थः सर्गः। अर्थापनिद्रावधिबोधचक्षुः स्वहस्तमुक्तावदवेक्ष्यमाणः । जिनस्य तस्यापरजन्मवृत्तं वृत्तान्तसाक्षीव मुनिर्बभाषे ॥ १ ॥ यत्पृष्टमिष्टं भवतार्थसिद्ध्यै तत्पार्थिवाकर्णय वर्ण्यमानम् । कथा कथंचित्कथिता श्रुता वा जैनी यतश्चिन्तितकामधेनुः ॥ २ ॥ स धातकीखण्ड इति प्रसिद्धे द्वीपेऽस्ति विस्तारिणि पूर्वमेरुः । नभो निरालम्बमवेक्ष्य केनाप्युज्जृम्भितः स्तम्भ इवेक्ष्यते यः ॥ ३ ॥ विभूषयन्पूर्वविदेहमस्य सीतासरिदक्षिणकूलवर्ती । एकोऽप्यनेकेन्द्रियहर्षहेतुर्वत्साभिधानो विषयोऽस्ति रम्यः ॥ ४ ॥ राजन्ति यत्र स्फुटपुण्डरीकप्रकाशिनः शाबलशालिवप्राः । च्युता निरालम्बतया कथंचिदाकाशदेशा इव चारुताराः ॥ ५ ॥ उद्गायतीव भ्रमदिक्षुयन्त्रचीत्कारनादैः श्रुतिसुन्दरैर्यः । प्रनृत्यतीवानिललोलसस्यैः स्वसंपदुत्कर्षमदेन मत्तः ॥ ६ ॥ १. रत्नत्रयस्यैव सम्यक्त्वमिति संज्ञान्तरम्. रत्नत्रयं च सम्यग्दर्शनज्ञानचारित्रलक्ष- णम्. २. स्फुरितावधिज्ञाननेत्रः, Sha काव्यमाला ।. अग्रे भजन्तो विरसत्वमन्तः सग्रन्थयो निष्फलमुन्नमन्तः । अचेतना इसव एव यत्र निष्पीड्यमाना रसमुत्सृजन्ति ॥ ७ ॥ द्रष्टुं चिरेणात्मकुलप्रसूतां श्रियं विशिष्टाभ्युदयामुपेताः । यस्मिन्नुदन्वन्त इवावभान्ति विस्फारिताम्भोजदृशस्तडागाः ॥ ८ ॥ फलावनम्राम्रविलम्बिजम्बूजम्बीरनारङ्गलवङ्गपूगम् । सर्वत्र यत्र प्रतिपद्य पान्थाः पाथेयभारं पथि नोद्वहन्ति ॥ ९ ॥ यत्रानुकूलं ज्वलदकान्तैर्विलीनकार्तस्वरपूरशङ्काम् । मध्यंदिनेऽम्भोजरजःपिशङ्ग क्षणं विधत्तेऽम्बु तरङ्गिणीनाम् ॥ १० ॥ काले प्रजानां जनयन्ति तापं करा रवेरेव न यत्र राज्ञः । स्याद्भोगभङ्गोऽपि भुजंगमानां स्वस्थे कदाचिन्न पुनर्नराणाम् ॥ ११ ॥ तटे तटिन्यास्तरवः समृद्धि संप्राप्य यत्र प्रतिनिष्क्रयाय । छायाछलात्तज्जलदेवताभ्यो दातुं फलानीव विशन्ति मध्ये ॥ १२ ॥ निर्माय निर्माय पुरीः सुराणां यच्छिक्षितं शिल्पकलासु दाक्ष्यम् । तस्यैव धात्रा विहितास्ति तत्र प्रकर्षसीमा नगरी सुसीमा ॥ १३ ॥ नितम्बभूचुम्बिवनान्तरीया यानारतोच्चैस्तनवप्रभागम् । वातोच्छलत्पुष्परजःपटेन ह्रींता वधूवत्स्वमुपावृणोति ॥ १४ ॥ अधृष्यमन्यैरधिरुह्य सालं नीलाश्मकूटांशुमिषेण यस्याः । रुणद्धि रुडो बहुधान्धकारः क्रुधेव तिग्मांशुकरप्रचारम् ॥ १५ ॥ यत्रोच्चहर्म्याग्रजुषामुदग्रान्पश्यन्मुखेन्दून्निशि सुन्दरीणाम् । ग्राह्ये तुषारत्विषि जातमोहः क्षणं भवेत्पर्वणि संहिकेयः ॥ १६ ॥ कामं प्रति प्रोज्झितकृष्णवा दृष्टयापि देहीति निमीत्य शब्दम् । लोके दधानोऽपि महेश्वरत्वं न दृश्यते यत्र जनो विषादी ॥ १७ ॥ यत्रोच्चहाग्रहरिन्मणीनां प्रभासु दूर्वाङ्कुरकोमलासु । क्षणं क्षिपन्तो वदनान्यनूरूं रवेस्तुरंगाः परिखेदयन्ति ॥ १८ ॥ १. सुसीमेति नगरीनाम. २. कंदर्पम् ; अभिलाषं च. ३. त्यक्तमलिनमार्गः; मुक्तने- त्रानलश्च. ४. 'देहि' इति याचकशब्दम्; (पक्षे) देही शरीरी. ५. शिवत्वम्; प्रभुत्वं च. ६. विषभक्षकः; खिन्नश्च. ७. अरुणं. सूर्यसारथिम्, ४ सर्गः] धर्मशर्माभ्युदयम् । व्यापार्य सज्जालकसंनिवेशे कैरानभिप्रेङ्घति यत्र राज्ञि । द्वनीचैस्तनकूटरम्या कान्तेव चन्द्रोपलहर्म्यपतिः ॥ १९ ॥ प्रक्षिप्य पूर्वेण मही महीभृत्करेण यान्स्वीकुरुतेऽपरेण । अन्तर्ययाप्तुं ग्रहकन्दुकांस्तान्हस्ता जिनागारमिषादुदस्ताः ॥ २० ॥ सारेषु रत्नेषु यया गृहीतेष्वब्धिवृथा वीचिभुजैः प्रनृत्यन् । रत्नाकरत्वेन न लज्जते यत्ततः स मे भाति जडस्वभावः ॥ २१ ॥ मुहुर्मुहुः स्फाटिकहर्म्यभित्तौ निरीक्ष्य रागापनिनीषयास्ये । स्वच्छामपि क्रान्तरदच्छदाभां दन्तच्छवि यत्र वधूः प्रमाटि ॥२२॥ खस्थो धृताच्छद्मगुरूपदेशः श्रीदानवारातिविराजमानः । यस्यां करोल्लासितव॑जमुद्रः पौरो जनो जिष्णुरिवावभाति ॥ २३ ॥ तद्यत्र चित्रं यदणीयसापि स्नेहेने हीनाः स्मरदीपिकास्ताः । नैतत्पुनर्यन्नंकुलप्रसूता भुजंगमोहं जनयन्ति वेश्याः ॥ २४ ॥ यां सारसर्वस्वनिधानकुम्भी संवेष्टय शश्वत्परिखामिषेण । उद्भिद्य पातालतलान्युदीर्णा विषप्रपूर्णा भुजगी प्रयाति ॥ २५ ॥ निःशेषनभ्रावनिपालमौलिमालारजःपिञ्जरिताङ्गिपीठः । स भूपतिस्तत्र बभूव शास्ता रथं जना यं दशपूर्वमाहुः ॥ २६ ॥ अनेन कोपज्वलनेन दग्धाः सहासपुष्पाः खलु पत्रवल्लयः । त्वक्पाण्डिमा वैरिवधूकपोले कुतोऽन्यथा भस्मवदुछलास ॥ २७ ॥ अन्ये भियोपात्तपयोधिगोत्राः क्षोणीभुजो जग्मुरगम्यभावम् । लक्ष्मीस्ततो वारिधिराजकन्या तमेकमेवात्मपतिं चकार ॥ २८ ॥ वैधव्यदग्धारिवधूप्रहारहारावचूलच्युतमौक्तिकौघाः । बभुः प्रकीर्णाः सकलासु दिक्षु यशस्तरोर्बीजकणा इवास्य ॥ २९ ॥ १. सत्-जालक (गवाक्ष); सज्ज-अलक. २. किरणान् ; हस्तांश्च. ३. चन्द्रे; नृपतौ च. ४. अनीचैस्तन(उच्चतर)-कूट; अनीचैः-स्तनकूट. ५. गुरुबृहस्पतिः; उपदेष्टा च. ६. श्रिया युक्तो यो दानवारातिर्विष्णुस्तेन; (पक्षे) श्रियो दाने वारा उत्सर्गजलेन. ७. पविः; हीरकश्च. ८. इन्द्रः. ९. तैलेन; प्रीत्या च. १०. न-कुल; नकुलः प्राणिविशे- पश्च..११. भुजंगमाः सर्पाः; षिङ्गाश्च. १२. विषं जलम; गरलं च. १३. नदीविशेषः; सर्पिणी च. १४. दशरथमू.

काव्यमाला। युक्तं तदाच्छिद्य वशीकतेऽस्मिन्गोमण्डले तेन षोन्नतेन । रैक्ताक्षतां बिभ्रदियाय रोषा:री वनं यन्महिषीभिरेव ॥ ३० ॥ यत्पुण्डरीकाक्षमपि व्यपास्य स्मराकृतेस्तस्य वशं गता श्रीः । सेयं विरूपाक्ष इतो व्यधासीदेहाधनद्धां किल शैलपुत्रीम् ॥ ३१ ॥ दोषोच्चयेभ्यश्चकितः स विद्वान्गताः पुनस्ते प्रपलाय्य तस्मात् । इत्यस्य विस्तारियशश्छलेन विरुद्धमद्यापि दिशो हसन्ति ॥ ३२ ॥ सकज्जलाश्रुव्यपदेशनिर्यदृङ्गावली वैरिविलासिनीनाम् । राज्ञा कृतं तेन रसाब्धिलोलहृत्पद्मसंकोचमवोचदुच्चैः ॥ ३३ ॥ उत्खातखड्गप्रतिबिम्बिताङ्गो रराज राजा समरप्रदोषे । जयश्रियासावभिसारणाय नीलेन संवीत इवांशुकेन ॥ ३४ ॥ अनारतं वीररसाभियोगैरायासितेव क्षणमस्य यूनः । विलासिनी भ्रूलतिकाग्ररङ्गच्छायासु विश्राममियाय दृष्टिः ॥ ३५ ॥ सरागमुळ मृगनामिदम्भादपारकर्पूरपदेन कीर्त्या । रत्यापि दन्तच्छदरुक्छलेन स एकहेलं सुभगोऽवगूढः ॥ ३६ ॥ असत्पथस्थापितदण्डलब्धस्थामातिवृद्धो विहितस्थितियः । स एव रक्षार्थमशेषलक्ष्म्याः क्षात्रोऽस्य धर्मो ऽजनि सौविदल्लः ॥३७॥ प्रयच्छता तेन समीहितार्थान्नूनं निरस्तार्थिकुटुम्बकेभ्यः । व्यर्थीभवत्त्यागमनोरथस्य चिन्तामणेरेव बभूव चिन्ता ॥ ३८ ॥ दूरात्समुत्तंसितशासनोरुसिन्दूरमुद्रारुणभालमूलाः । यस्य प्रतापेन नृपाः कचाग्रष्टा इवाजग्मुरुपासनाय ॥ ३९ ॥ विधाय कान्तारसमाश्रितांस्तान्होरावसक्तान्विदुषो द्विषश्च । क्रीडन्स लीलारसलालसाभिरासीच्चिरं चञ्चललोचनाभिः ॥ ४० ॥ अथैकदा व्योनि निरभ्रगर्भक्षणक्षपायां क्षणदाधिनाथम् । अनाथनारीव्यथनैनसेव स राहुणा प्रेक्ष्यत गृह्यमाणम् ॥ ४ १ ॥ १. भूवलये; धेनुसमूहे च. २. वृषोऽनडान्; धर्मश्च. ३. महिषत्वम् ; अरुणनेत्रत्वं च, ४, सैरिभीभिः; कृताभिषेकाभिः पत्नीभिश्च. ५. कमलतुल्यनेत्रम्; विष्णुं च. ६. विकृतनेत्रः; शिवश्च. ७. कञ्चुकी. ८. कान्ता; रसं-आश्रितान् ; कान्तार-समा- श्रितान. ९. हार-अवसक्तान ; हा-राव-सक्तान्. १०. पूर्णिमारात्री. ११. चन्द्रम्.

४ सर्गः धर्मशर्माभ्युदयम् । २७ किं सीधुना स्फाटिकपानपात्रमिदं रजन्याः परिपूर्यमाणम् । चलाहिरेफोच्चयचुम्ब्यमानमाकाशगङ्गास्फुटकैरवं वा ॥ ४२ ॥ ऐरावणस्याथ करात्कथंचिच्च्युतः सपको बिसकन्द एषः । किं व्योम्नि नीलोपलदर्पणाभे सश्मश्रु वक्रं प्रतिबिम्बितं मे ॥ १३ ॥ क्षणं वितक्यति स निश्चिकाय चन्द्रोपरागोऽयमिति क्षितीशः। दृमीलनाविष्कृतचित्तखेदमचिन्तयच्चैवमुदारचेताः॥४४॥ (विशेषकम्) हा हा महाकष्टमचिन्त्यधानि किमेतदत्रापतितं हिमांशौ। यहा किमुल्लचयितुं कथंचित्केनापि शक्यो नियतेर्नियोगः ॥ ४५ ॥ सुधाद्रवर्मन्मथमात्मबन्धुमुज्जीव्य नेत्राग्निशिखावलीढम् । क्रुधेव तद्वैरविनिष्क्रयाथै स्थाणोरसौ मूर्ध्नि पदं विधत्ते ॥ ४६ ॥ कुतश्चिरं जीवति वाडवाग्नौ वर्तेत वार्षिः सह जीवनेन । अनेन चेञ्चारुवसुप्रपञ्चै!येत न प्रत्यहमेव वृद्धिम् ॥ ४७ ॥ सुधाकरेणाप्यजरामरत्वं नीता सुरा एव मयात्र नान्ये । इतीव पूर्णोऽप्यतिलज्जमानः पुनः पुनः कार्यमसौ व्यनक्ति ॥ १८ ॥ सुदुर्धरध्वान्तमलिम्लुचानामुत्सार्य सेनामनिवार्यतेजाः । रतेर्गलग्रन्थिमिवाबलानां मानं भिनत्त्येष चिरात्कराणैः ॥ ४९ ॥ इत्येष निःशेषजगल्ललामलीलायमानप्रसरगुणोऽपि । राजा दशां प्रापदिहेदृशीं चेत्को नाम तत्स्यात्सुखपात्रमन्यः ॥५०॥ उपागमे तद्विपदामवश्यं पश्यामि किंचिच्छरणं न जन्तोः । अपारपाथोनिधिमध्यपातिपोताच्युतस्येव विहंगमस्य ॥ ११ ॥ नीरोषिताया अपि सर्वदास्याः पश्यामि ना हृदयं कदाचित् । युक्तं ततः पुंसि कलामयेऽपि स्थिरो न लक्ष्म्याः प्रणयानुबन्धः॥१२॥ अल्पीयसि स्वस्य फले यदेषा विस्तारिता श्रीः परिवारहेतोः । गुडेन संवेष्टय ततो मयात्मा मैत्कोटकेभ्यः किमु नार्पितोऽयम्॥५३॥ १. चन्द्रः. २. मत्कोटकः पिपीलकसदृशो गुडादिमधुरपदार्थभक्षको ‘मकोडा' इति प्रसिद्धः कीटविशेषः. HTTARA २८ २ काव्यमाला। अहेरिवापातमनोरमेषु भोगेषु नो विश्वसिमः कथंचित् । मृगः सतृष्णो मृगतृष्णिकासु प्रतार्यते तोयधिया न धीमान् ॥ १४ ॥ अन्याङ्गनासंगमलालसानां जरा कतेप्येव कुतोऽप्युपेत्य । आकृप्य केशेषु करिष्यते नः पदप्रहारैरिव दन्तभङ्गम् ॥ १५ ॥ क्रान्ते तवाङ्गे वलिभिः समन्तानश्यत्यनङ्गः किमसावितीव । वृद्धस्य कर्णान्तगता जरेयं हसत्युदश्चत्पलितच्छलेन ॥ ५६ ॥ रसाढ्यमप्याशु विकासिकाशसंकाशकेशप्रसरं तरुण्यः । उदस्थिमातङ्गजनोदपानपानीयवन्नाम नरं त्यजन्ति ॥ १७ ॥ आकर्णपूर्ण कुटिलालकोर्मि रराज लावण्यसरो यदङ्गे । वलिच्छलात्सारणिधोरणीभिः प्रवाह्यते तज्जरसा नरस्य ॥ १८ ॥ असंभृतं मण्डनमङ्गयष्टेर्नष्टं व मे यौवनरत्नमेतत् । इतीव वृद्धो नतपूर्वकायः पश्यन्नधोधो भुवि बम्भ्रमीति ॥ ५९ ॥ इत्थं पुरः प्रेष्य जरामधृष्यां दूतीमिवापप्रसरोग्रदंष्ट्रः । यावन्न कालो असते बलान्मां तावद्यतिष्ये परमार्थसिद्धयै ॥ ६० ॥ इत्येष संचिन्त्य विनिश्चितार्थों वैराग्यवान्प्रातरमात्यबन्धून् । पप्रच्छ राजा तपसे यियासुः किं वा विमोहाय विवेकिनां स्यात् ॥६१॥ तं प्रेक्ष्य भूपं परलोकसिद्धयै साम्राज्यलक्ष्मी तृणवत्त्यजन्तम् । मन्त्री सुमन्त्रोऽथ विचित्रतत्त्वचित्रीयमाणामिति वाचमूचे ॥ ६२ ॥ देव त्वदारब्धमिदं विभाति नभःप्रसूनाभरणोपमानम् । जीवाख्यया तत्वमपीह नास्ति कुतस्तनी तत्परलोकवार्ता ॥ ६३ ॥ १. 'वर्ण सितं शिरसि वीक्ष्य शिरोरुहाणां स्थानं जरापरिभवस्य तदेव पुंसाम् । आरोपितास्थिशकलं परिहृत्य यान्ति चाण्डालकूपमिव दूरतरं तरुण्यः ॥' इति भर्तृह- रिश्लोकसमानार्थोऽयं श्लोकः. २. अयं प्रथमः पादः कुमारसंभव(१।३१)श्लोकस्य प्रथमः पादश्च समान एव. ३. खपुष्पशेखरतुल्यम्. ४. चार्वाकमतमेतत्. 'तत्र पृथि- व्यादीनि भूतानि चत्वारि तत्त्वानि । तेभ्य एव देहाकार परिणतेभ्यः किण्वादिभ्यो मदशक्तिवच्चैतन्यमुपजायते । तेषु विनष्टेषु सत्सु स्वयं विनश्यति । तच्चैतन्यविशिष्टदेह एवात्मा । देहातिरिक्ते आत्मनि प्रमाणाभावात् ।' इत्यादि सर्वदर्शनसंग्रहे द्रष्टव्यम्.

४ सर्गः] धर्मशर्माभ्युदयम् । २९ न जन्मनः प्राङ् न च पञ्चतायाः परो विभिन्नेऽवयवे न चान्तः । विशन्न निर्यन्न च दृश्यतेऽस्माद्भिन्नो न देहादिह कश्चिदात्मा ॥६४॥ किं त्वत्र भूवह्निजलानिलानां संयोगतः कश्चन यन्त्रवाहः । गुडान्नपिष्टोदकधातकीनामुन्मादिनी शक्तिरिवाभ्युदेति ॥ ६५ ॥ विहाय तदृष्टमदृष्टहेतोवृथा कृथाः पार्थिव मा प्रयत्नम् । को वा स्तनाग्राण्यवधूय धेनोर्दुग्धं विदग्धो ननु दोन्धि शृङ्गम् ॥६६॥ श्रुत्वेत्यवादीनृपतिविधुन्वन्भानुस्तमांसीव स तद्वचांसि । अपार्थमथै वदतः सुमन्त्र नामापि ते नूनमभूदपार्थम् ॥ ६७ ॥ जीवः स्वसंवेद्य इहात्मदेहे सुखादिवद्वांधकविप्रयोगात् । काये परस्यापि स बुद्धिपूर्वव्यापारदृष्टेः स्व इवानुमेयः ॥ ६८ ॥ तत्कालजातस्य शिशोरपास्य प्राग्जन्मसंस्कार मुंरोजपाने । नान्योऽस्ति शास्ता तदपूर्वजन्मा जीवोऽयमित्यात्मविदा न वाच्यम्॥६९ ज्ञानैकसंवेद्यममूर्तमेनं मूर्ता परिच्छेत्तुमलं न दृष्टिः । व्यापार्यमाणापि कृताभियोगैर्भिनत्ति न व्योम शितासियष्टिः ॥७॥ संयोगतो भूतचतुष्टयस्थ यज्जायते चेतन इत्यवादि । मरुज्ज्वलत्पावकतापिताम्भःस्थाल्यामनेकान्त इहास्तु तस्य ॥ ७१ ।। उन्मादिका शक्तिरचेतना या गुडादिसंबन्धभवा न्यदर्शि । सा चेतने ब्रूहि कथं विशिष्टदृष्टान्तकक्षामधिरोहतीह ॥ ७२ ॥ तस्मादमूर्तश्च निरत्ययश्च कर्ता च भोक्ता च सचेतनश्च । एकः कथंचिद्विपरीतरूपादवैहि देहात्प्टथगेव जीवः ॥ ७३ ।। निसर्गतोऽप्यूर्ध्वगतिः प्रसह्य पीकर्मणा हन्त गतीविचित्राः । स नीयते दुर्धरमारुतेन हुताशनस्येव शिखाकलापः ॥ ७४ ॥ तदात्मनः कर्मकलङ्कमूलमुन्मूलयिष्ये सहसा तपोभिः । मणेरनर्घस्य कुतोऽपि लग्नं को वा न पत परिमाटि तोयैः ॥ ७५ ॥ १.जीवः. २. बाधकप्रमाणाभावात्. ३. स्तन्यपाने. ४. व्यभिचार:.५. 'द्राकर्मणा' इति पाठः.

३० काव्यमाला। दत्त्वा स तस्योत्तरमित्यबाधं ददौ सुतायातिरथाय राज्यम् । यन्नियंपेक्षा परमार्थलिप्सोर्धात्री तृणायापि न मन्यते धीः ॥ ७६ ॥ अथैनमाप्टच्छय सबाप्पनेत्रं पुत्रं प्रपित्सुर्वनसंनिवेशम् । प्रजाः स भास्वानिव चक्रवाकीराक्रन्दिनीस्तत्प्रथमं चकार ॥ ७७ ॥ त्यक्तांवरोधोऽपि सहावरोधैर्नक्षेत्रमुक्तानुपदोऽपि राजा । प्रापद्वनं पौरहृदि स्थितोऽपि को वा स्थिति सम्यगवैति राज्ञाम् ॥७८॥ तद्वाहनं श्रीविमलादिमादौ नत्वा गुरुं भूपशतैरुपेतः । तत्रोग्रकर्मक्षयमूलशिक्षा दीक्षां स जैनीमभजज्जितात्मा ॥ ७९ ॥ तथा समुद्रामधिविभ्रदुर्वी धुन्वन्नरातीनपि विग्रहस्थान् । मुक्तोत्तमालंकरणः प्रजापो वनेऽपि साम्राज्यपदं वभार ॥ ८० ॥ ध्यानानुबन्धस्तिमितोरुदेहो मित्रेऽपि शत्रावपि तुल्यवृत्तिः । व्यालोपगूढः स वनैकदेशे स्थितश्चिरं चन्दनवञ्चकासे ॥ ८१ ॥ पूषा तपस्यल्परुचिः सदोषः शशी शिखावानपि कृष्णवा। गुणोदधेस्तस्य ततो न कश्चित्तमः समुन्मूलयतः समोऽभूत् ॥ ८२॥ निरामयश्रीसदनाग्रनीव्र तीवं तपो द्वादशधा विधाय । धन्योऽथ संन्यासविसृष्टदेहः सर्वार्थसिद्धि स मुनिर्जगाम ॥ ८३ ॥ तत्र त्रयस्त्रिंशदुदन्वदायुदेवोऽहमिन्द्रः स बभूव पुण्यैः । निर्वाणतोऽगिधिकावधीनां मूर्तः सुखानामिव यः समूहः ॥ ८४ ॥ सा तत्र मुक्ताभरणाभिरामा यन्मुक्तिरामा निकटीबभूव । मन्ये मनस्तस्य ततोऽन्यनारीविलासलीलारसनियंपेक्षम् ॥ ८५ ॥ तस्य प्रभाभासुररत्नगर्भा विभ्राजते रुक्मकिरीटलक्ष्मीः । अव्याजतेजोनिवहस्य देहे द्राधीयसी प्रज्वलतः शिखेव ॥ ८६ ॥ १. बन्धनम्; राज्ञामन्तःपुरं च. २, नक्षत्रैर्मुक्तानुपदो राजा चन्द्र इति विरोधः; (पक्षे) न-क्षत्रमुक्तानुपदः. ३. आ समुद्रां पृथ्वी बिभ्रत; (पक्षे) स उर्वी मुद्रां बिभ्रत्. मुद्रा योगशास्त्रादिप्रसिद्धाः. ४. शरीरस्थान्कामक्रोधादीन् ; (पक्षे) युद्रस्थान्. ५. मु. क्तानि त्यक्तानि उत्तमभूषणानि येन; (पक्षे) मौक्तिकमयोत्तमाभरणः. ६. अग्निः. ७. प्र- धानगृहमू. ८. त्रयस्त्रिंशज्जलधिमितायुः.

५ सर्गः] धर्मशर्माभ्युदयम् । ३१ रेखात्रयाधिष्ठितकण्ठहारिहारावली तस्य विभोविभाति सुदर्शनस्यात्यनुरक्तमुक्तिमुक्ता कटाक्षप्रसरच्छटेव ॥ ८७ ॥ नूनं सहस्रांशुसहस्रतोऽपि तेजोऽतिरिक्तं न च तापकारि । शृङ्गारसाम्राज्यमनन्यतुल्यं न चाभवत्तस्य मनोविकारि ॥ ८ ॥ नवं वयो लोचनहारि रूपं प्रभूतमायुः पदमद्वितीयम् । सम्यक्त्वशुद्धाश्च गुणा जगत्सु किं किं न लोकोत्तरमस्ति तस्य॥८९॥ तस्य त्रियामाभरणाभिरामान्वक्तुं गुणान्वाञ्छति यः समग्रान् । आप्लावयन्तं जगतीं युगान्ते मुग्धस्तितीर्षत्युदधिं स दोाम् ॥१०॥ शरद्दलादूर्ध्वमितश्युतः सन्नस्याः स गर्भ भवतः प्रियायाः । शुक्तेरिव स्वातिभवोदविन्दुर्मुक्तात्मकोऽग्रेऽवतरिष्यतीह ॥ ९१ ॥ इति निशम्य स सम्यगुदीरितां यमवतान्यभवस्थितिमर्हतः । ससुहृदुत्पुलकस्तिलको भुवः स्फुटकदम्बकदम्बकवद्वभौ ॥ ९२ ॥ अथोचितसपर्यया मुनिमनिन्द्यविद्यास्पदं प्रपूज्य सपरिग्रहो विधिवदेनमानम्य च । यथासमयमेष्यतां सुमनसामिवातिथ्यवि- द्विधातुमयमर्हणां द्रुतमगादगारं नृपः ॥ ९३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये चतुर्थः सर्गः । पञ्चमः सर्गः । तत्र कारयितुमुत्सवं मुदा यावदेष सदसि न्यविक्षत । तावदम्बरतटावतारिणीः प्रेक्षतामरविलासिनीपः ॥ १ ॥ तारकाः क्व नु दिवोदितद्युतो विद्युतोऽपि न वियत्यनम्बुदे । क्वाप्यनेसि न वह्नयो महस्तत्किमेतदिति दत्तविस्मयाः ॥ २ ॥ कंधरावधि तिरोहिता धनैः क्वाप्यभिन्नमुखमण्डलश्रिया । यामिनीरिपुजिगीषयोद्यतं सोमसैन्यमनुकुर्वतीः क्षणम् ॥ ३ ॥ १. मासषटात. २. पूर्वजन्मवार्ताम्.

३२
काव्यमाला।
रत्नभूषणरुचा प्रपञ्चिते वासवस्य परितः शरासने ।
अन्तरुङरतडित्त्विषो जनैः स्वर्णसायकततीरिवक्षिताः ॥ ४ ॥
कान्तिकाण्डपटगुण्ठिता पुरा व्योमभित्तिमनु वर्णकद्युतिम् ।
तन्वतीस्तदनुभाविताकृतीस्तूलिकोल्लिखितचित्रविभ्रमम् ॥ ५ ॥
शीतदीधितिधियाभिधावितैः सैंहिकेयनिकुरम्बकैरिव ।
सौरभादभिमुखालिमण्डलै जितानि वदनानि विभ्रतीः ॥ ६ ॥
खानुभावधृतभूरिमूर्तिना पद्मरागमणिनूपुरच्छलात् ।
भानुना क्षणमिह प्रतीक्ष्यतामित्युपात्तचरणाः समन्मथम् ॥ ७ ॥
निष्कलङ्कगलकन्दलीलुठत्तारहारलतिकापदेशतः ।
संगता इव चिरेण गौरवादन्तरिक्षसरितावगूहिताः ॥ ८ ॥
पारिजातकुसुमावतंसकस्पर्शमन्थरमरुत्पुरःसराः ।
पश्यतोऽथ नृपतेः सभान्तिकं ताः समीरणपथादवातरन् ॥९॥(कुलकम्)
पीवरोच्चकुचमण्डलस्थितिप्रत्ययानुमितमध्यभागया ।
दुर्वहोरुजघना जगल्लघूकुर्वतीरतुलरूपसंपदा ॥ १० ॥
तत्र कोकनदकोमलोपलस्तम्भमिन्दुमणिमण्डपं पुरः ।
ताः प्रतापधृतमद्भुतोदयं भूपतेर्यश इव व्यलोकयन् ॥ ११ ॥
तत्प्रतिक्षणसमुल्लसद्यशोराजहंसनिकुरम्बकैरिव ।
कामिनीकरविवर्तनोच्छलच्छुभ्रचामरचयैर्विराजितः ॥ १२ ॥
दाक्षिणात्यकविचक्रवर्तिनां हृच्चमत्कृतिगुणाभिरुक्तिभिः ।
पूरितश्रुतिशिरो विघूर्णयन्नेतुमन्तरिव तद्रसान्तरम् ॥ १३ ॥
सुस्वर श्रुतिमुदाररूपकां रागिणी. पृथगुपात्तमूर्छनाम् ।
गीतिमिन्दुवदनामिवोज्ज्वलां भावयन्मुकुलितार्धलोचनः ॥ १४ ॥
एणनाभिमभिवीक्ष्य कक्षयोः क्षिप्तभीततिमिरानुकारिणम् ।
रत्नकुण्डलमिषेण भानुना सेन्दुना किमपि संश्रित श्रुतिः ॥ १५ ॥
अङ्गवङ्गमगधान्ध्रनैषधैः कीरकेरलकलिङ्गकुन्तलैः ।
विभ्रमादपि समुत्क्षिपन्ध्रुवं भीतभीतमवनीश्वरैः श्रितः ॥ १६ ॥

ALLAHABADO BHARATI BHAVATA ५ सर्गः] धर्मशाभ्युदयम् । तत्र हेममयसिंहविष्टरे काञ्चनाचल इवोच्चकैः स्थितः । सप्रमोदमुदितेन्दुसंनिभस्ताभिरैक्षि सदसि क्षितीश्वरः ॥१७॥(कुलकम्) कर्मकौशलदिदृक्षयात्र नः प्राप्त एष पुरतोऽपि किं प्रभुः । सत्खपोहितुमितः प्रभृत्यथो दौस्थ्यमर्थपतिरभ्युपस्थितः ॥ १८ ॥ एकका इह निशम्य तच्छलाद्बाधितुं मनसिजोऽथवा गतः । अन्यथास्य वसुधामिमामतिक्रामति द्युतिरमानुषी कुतः ॥ १९ ॥ तर्कयन्त्य इति ताः परस्परं सप्रमोदमुपसृत्य भूपतिम् । जीव नन्द जय सर्वदा रिपूनित्यमन्दमुदचीचरन्वचः ॥ २० ॥ (त्रिभिर्विशेषकम) ताः स यत्नपरकिंकराप्तेिष्वासनेषु नृपतिर्यवीविशत् । वारिदात्ययदिनोपबृंहितेष्वम्बुजेष्विव विरोचनो रुचः ॥ २१ ॥ ताः क्षितीश्वरनिरीक्षणक्षणे रेजुरङ्कुरितरोमराजयः । अङ्गमनविषमेषुमार्गणव्यक्तपुङ्खलवलाञ्छिता इव ॥ २२ ॥ निर्मलाम्बरविशेषितत्विषस्तं स्फुरच्छ्वणहस्तभूषणाः । कान्तिमन्तममराङ्गना नृपं तारका इव विधुं व्यभूषयन् ॥ २३ सोऽथ दन्तकरकुन्दकुमलस्रग्विभूषितसभं सभापतिः । आतिथ्यवितथीकृतलमा इत्युवाच सुरसुन्दरीर्वचः ॥ २४ ॥ यद्गुणेन गुरुणा गरीयसी स्वर्बिभर्ति गणनां जगत्स्वपि । मन्दिराणि किमपेक्ष्य ताः स्वयं भूभुजामपि नृणामुपासते ॥ २५ ॥ किं तु सा स्थितिरथातिधृष्टता व्याजमेतदथवातिभाषणे । त्वादशेऽपि यदुपागते जने किं प्रयोजनमिहेति जल्प्यते ॥ २६ ॥ भारतीमिति निशम्य भूपतेः श्रीरुवाच सुरयोषिदीरिता । दन्तदीधितिमृणालनालकैः कर्णयोर्निधती सुधामिव ॥ २७ ॥ मा वदस्त्वमिति भूपते भवदास्यमेव भुवि नः प्रयोजनम् । वासरैस्तु कतिभिः पुरंदरोऽप्यत्र कर्मकरवद्यतिष्यते ॥ २८ ॥ mika भारती भवन १. वस्त्रम्; (पक्षे) आकाश:. २. आकाशपक्षे श्रवणहस्तौ नक्षत्रे. a जय स SEAN । NA । काव्यमाला। निर्जरासुरनरोरगेषु ते कोऽधुनापि गुणसाम्यमृच्छति । अग्रतस्तु सुतरां यतो गुरुस्त्वं जगत्रयगुरोर्भविष्यसि ॥ २९ ॥ उक्तमागमनिमित्तमात्मनः सूत्रवत्किमपि यत्समासतः । तस्य भाष्यमिव विस्तरान्मया वर्ण्यमानमवनीपते शृणु ॥ ३० ॥ यच्चतुष्टयमनन्ततीर्थतोऽनर्धहायनमुदन्वतामगात् । तस्य पल्य (१) दलमन्तिमं तथा भारतेऽभवदधर्मदूषितम् ॥ ३१ ॥ तेन धर्मपरिवर्तदस्युना शुद्धदर्शनमणौ हृते छलात् । वीक्षमाण इव केवलीश्वरं वासवोऽनिमिषलोचनोऽभवत् ॥ ३२ ॥ अद्य भूप भवतोऽस्ति या प्रिया सुव्रता तदुदरे जिनोऽन्तरम् । अर्धवत्सरमतीत्य धर्म इत्येष्यतीत्यवधितो विवेद सः ॥ ३३ ॥ तत्प्रयाथ जननीं जिनस्य तां भाविनी चिरमुपाध्वमादरात् । इत्थमादिशदशेषनाकिनां नायकः समुपहूय नः क्षणात् ॥ ३४ ॥ आगतोऽयमिह तत्तवाज्ञया प्रेयसी नृप निशान्तवर्तिनीम् । ध्यातुमिच्छति सुराङ्गनाजनः कौमुदीमिव कुमुद्वतीगणः ॥ ३५ ॥ संवदन्तमिति भारती मुनेर्वाक्प्रपञ्चमवधार्य स श्रियः । उत्सवं द्विगुणितादरो द्वयेऽप्याशु धानि पुरि च व्यदीधपत् ॥ ३६ ।। ताश्च कञ्चुकिपुरःसरास्ततस्तेन तूर्णमवरोधमन्दिरम् । भास्वताग्रचरसंमदा रुचश्चन्द्रमण्डलमिव प्रवेशिताः ॥ ३७ ॥ तत्र भूरिविबुधावतंसकप्रीतिपूरिगुणपूरपूरिताम् । अङ्गसौरभविसर्पिषट्पदा पारिजाततरुमञ्जरीमिव ॥ ३८ ॥ संभ्रमभ्रमितलोललोचनप्रान्तवान्तशुचिरोचिषां चयैः । अद्भुतं धवलितालयामपि ध्यामलीलतविपक्षयोषितम् ॥ ३९ ॥ कामसिद्धिमिव रूपसंपदो जीवितव्यमिव यौवनश्रियः । चक्रवर्तिपदवीमिव द्युतेश्चेतनामिव विलासवेषयोः ॥ ४० ॥ १. मासषटकोनजलधिमितवर्षाणाम्. २. जिनम्, ३. इन्द्रः, ४. मलिनीकृत. HISH HER SARD । ५ सर्ग:] धर्मशर्माभ्युदयम् । तामनेकनरनाथसुन्दरीहन्दवन्दितपदां द्युयोषितः । हारिहेमहरिविष्टरे स्थितां मानुषेशमहिषी व्यलोकयन् ॥४१॥(कुलकम्) तामुदीक्ष्य जितनाकनायिकाकायकान्तिमबलामिलापतेः । ताभिरप्रतिमकालसंचितोऽप्युज्झितः सपदि चारुतामदः ॥ ४२ ॥ श्रीरशेषसुखदा प्रियंवदा भारती रतिरभेद्यकिंकरी। सौम्यदृष्टिरपि कर्णमोटिका कालिका च रचितालकावलिः ॥ ४३ ॥ शीलवृत्तिरपराजिता जने सा वृषप्रणयिनी मनःस्थितिः । हीप्रसत्तिधृतिकीर्तिकान्तयः स्पर्धयेव कुलमण्डनोद्यताः ॥ ४ ४ ॥ देव्य इत्यलमिमामुपासते प्रागपि प्रगुणिता गुणैः स्वयम् । तन्निदेशरसपेशलं हरेब्रूहि कर्म किमु कुर्महेऽधुना ॥४९॥ (कुलकम्) इत्युदीर्य च मिथः प्रणम्य च स्वं निवेद्य च तदिन्द्रशासनम् । स्वःस्त्रियस्त्रिभुवनेशमातरं तां निषेवितुमिहोपचक्रिरे ॥ ४६ ॥ अश्मगर्भमयमूर्ध्वमुद्धृतं छत्रमिन्दुमणिदण्डमेकया । भ्राजते स्म सुदृशोऽन्तरुत्तरजाह्नवौघमिव मण्डलं दिवः ॥ ४७ ॥ कापि भूत्रयजयाय वल्गतो वल्गु तूणमिव पुष्पधन्वनः । पुष्पचारु कबरीप्रसाधनं मूर्ध्नि पार्थिवमृगीडशो व्यधात् ॥ ४८ ॥ अङ्गरागमपि कापि सुभ्रवः सांध्यसंपदिव निर्ममे दिवः । यामिनीव शुचिरोचिषं परा चारुचामरमचालयच्चिरम् ॥ १९ ॥ मूनि रत्नपुरनाथयोषितः सा कयापि रचितालकावलिः । या मुमोष मुखपद्मसंनिधौ गन्धलुब्धमधुपावलिश्रियम् ॥ ५० ॥ एणनाभिरसनिर्मितैकया पत्रभङ्गिमकरी कपोलयोः । अभ्यधत्त सुतनोरगाधतामुल्लसल्लवणिमाम्बुधेरिव ॥ ११ ॥ निष्कलङ्कमणिभूषणोच्चयैः सा कयापि सुमुखी विभूषिता । तारतारकवतीन्दुसुन्दरी शारदीव रजनी व्यराजत ॥ ५२ ॥ १. मनोहरे सुवर्णसिंहासने. २. भूपतेः. ३. चामुण्डा. ४. हरिन्मणिमयम्. ५. ला- वण्यसिन्धोः. HASH अ * a काव्यमाला ।। तावदेव किल कापि वल्लकीवेणुहारि हरिणेक्षणा जगौ । यावर्दर्थपतिकान्तयोदितां नाशृणोदमृतवाहिनीं गिरम् ॥ १३ ॥ एकया गुरुकलत्रमण्डले धृष्टकामुक इवाधिरोपितः । रागचञ्चलकरामलालितः कूजति स्म हतमानमोनकः ॥ १४ ॥ वल्गित नवविभ्रमेक्षणं वेपितस्तनमुदस्तहस्तकम् । चारु चित्रपदचारमेकया नर्तितस्मरमनर्ति तत्पुरः ॥ ५५ ॥ यद्यदिष्टतममुत्तमं च यज्ज्ञातपूर्वमिह यच्च किंचन । तत्तदाभिरभिकर्मकौशलं स्पर्धयेव विधिवद्वयधीयत ॥ ५६ ॥ सर्वतोऽपि सुमनोरमार्पितालंकृतिर्गुणविशेषशालिनी । भारतीव सुकवेरभूत्तदा शुद्धविग्रहवती नृपप्रिया ॥ ५७ ॥ रात्रिशेषसमये किलैकदा सा सुखेन शयिता व्यलोकयत् । स्वप्नसंततिमिमां दिवोऽर्हतस्तीर्थपद्धतिमिवोत्तरिष्यतः ॥ १८ ॥ संचरत्पदभरेण निर्भरं भज्यमानढढकूर्मकर्परम् । कल्पगन्धवहलोलमुडुरं राजताद्रिमिव गन्धसिन्धुरम् ॥ ५९ ॥ शृङ्गसंततिकदर्थितग्रहं शारदाभ्रमिव शुभ्रविग्रहम् । भूत्रयोत्सवविधायिनं द्रषं मूर्तिमन्तमिव बिभ्रतं सुषम् ॥ ६० ॥ गर्जितग्लपितदिग्गजावलीगण्डमण्डलमदाम्बुनिझरम् । एणकेतनकुरङ्गलिप्सयेवान्तरिक्षरचितक्रमं हरिम् ।। ६१ ॥ रावरोषदलिताम्बुदावलीलग्नलोलरुचिसंचयामिव । कंधरामुरुकडारकेसरोल्लासिनी दधतमुद्धतं हरिम् ॥ ६२ ॥ (इति पाठान्तरम्) स्फारकान्तिलहरीपरम्पराठावितप्रकृतिकोमलाकतिम् । तत्क्षणभ्रमदमन्दमन्दरक्षुब्धवारिधिगतामिव श्रियम् ॥ १३ ॥ संभूतभ्रमरसङ्गिविभ्रमं स्रग्वयं शुचि विकासिकौसुमम् । व्योनि दिग्गजमदाविलं द्विधा जाह्नवौघमिव वायुना कृतम् ॥ ६४ ॥ १. नृपपत्न्या. २. पटहः. ३. धर्मम्, ६ सर्गः] धर्मशर्माभ्युदयम् । ३७ उग्रदग्धमधिरोप्य लाञ्छनच्छद्मनात्मभुवमङ्कमात्मनः । ओषधीरसनिषेवणैरिवोज्जीवयन्तमुदितौषधीश्वरम् ॥ ६५ ॥ कौमुदीरसविलासलालसं मीनकेतुनृपतेः पुरोधसम् । कामिनीषु नवरागसंभ्रमाद्वैतवादिनमतिग्मतेजसम् ॥ ६६ ॥ (इति पाठान्तरम्) सर्वथाहमपदोष एव किं ध्यामलो जन इति प्रतिज्ञया । लब्धशुद्धिमुडुदिव्यतण्डुलैश्चर्चितैरिव कृतोत्सवं रविम् ॥ ६७ ॥ स्तम्भितभ्रमितकुञ्चिताञ्चितस्फारितोद्वलितवल्लितादिभिः । प्रक्रमैविहरदम्बुधौ युगं मीनयोनयनयोरिव श्रियः ॥ ६८ ॥ प्राररसातलगतस्य तत्क्षणान्निर्यतः सुकृतमत्तदन्तिनः। कुम्भयोरिव युगं समौक्तिकं शातकुम्भमयपूर्णकुम्भयोः ॥ ६९ ॥ अभ्युपात्तकमलैः कैवीश्वरैः संश्रुतं कुवलयप्रसाधनम् । द्रावितेन्दुरसराशिसोदरं सञ्चरित्रमिव निर्मलं सरः ॥ ७० ॥ पीवैरोच्चलहरिव्रजोडुरं सज्जनक्रमकरं समन्ततः । अब्धिमुग्रतरवारिमज्जितक्ष्मीभृतं पतिमिवावनीभुजाम् ॥ ७१ ॥ स्वस्वदीधितिपरिग्रहग्रहग्रामवेष्टितमिवाद्रिशेखरम् । चित्ररत्नपरिवेषमुच्चकैश्चारुहेमहरिणारिविष्टरम् ॥ ७२ ॥ अश्मगर्भमणिकिङ्किणीचयैः सानुभावमकृताश्रयैरिव । दिव्यगन्धहृतलोलषट्पदैः सस्वनैः सुरविमानमन्वितम् ॥ ७३ ॥ मैत्तवारणविराजितं स्फुरईजहेतिभरतोरणोल्बणम् । लोलकेतुष्टतनाकदम्बकं नाकिनामिव विमानमम्बरे ॥ ७ ४ ॥ (इति पाठान्तरम्) १. महादेवमस्मोकृतम्. २. जलपक्षिश्रेष्ठैः. ३. पीवरोच्चल-हरिव्रजोडुरम्; (पक्षे) पीवरोच्च-लहरि-व्रजोद्धरम्. ४. सज्जन-क्रमकरम् ; (पक्षे) सज्ज-नक्रमकरम्. ५. उग्र- तर-वारि; (पक्षे) उन्न-तरवारि. ६.क्ष्माभृतो राजानः पर्वताश्व. ७. मत्तवारणो वर- ण्डकः; (पक्षे) मत्तगजः. ८. हीरकप्रभाभरनिर्मिततोरणेन; (पक्षे) पविरूपायुधातिशयतः सङ्ग्रामोल्यणम्.

काव्यमाला। अन्तरूज़फणिविस्फुरत्फणास्थालकोल्बणमणिप्रदीपकैः । निष्फलीकृतरिरंसुभोगिनीफूत्कृतोद्यममहीन्द्रमन्दिरम् ॥ ७५ ॥ क प्रयासि परिभूय मेदिनी दौस्थ्यमत्पुर इतीव रोषतः । चित्ररत्नचयमुल्लसत्करैः स्फारितोरुहरिचापमण्डलम् ॥ ७६ ॥ तीर्थकर्तुरहमिन्द्रमन्दिरादेष्यतः पथि समृद्धिभावतः । अग्निमग्निकणसंततिच्छलादुत्क्षिपन्तमिव लाजसंचयम् ॥ ७७ ।। प्रेक्ष्य तत्क्षणविनिद्रलोचना सा विहाय तैलिनं सुभूषणा । पत्युरन्तिकमुपेत्य सुव्रता स्वप्नसङ्घमखिलं तमब्रवीत् ॥ ७८ ॥ बन्धुरं तमवधार्य तस्य सद्वन्धुरन्तकरमेनसां फलम् । व्याजहार स रदानदीधितिव्याजहारमुरसि प्रकल्पयन् ॥ ७९ ॥ तं निशम्य हृदि मौक्तिकावली दन्तढिगुणयन्मरीचिभिः । नीतिकन्दलितरोमकन्दलीसुन्दराकतिरवीवदन्नृपः ॥ ८० ॥ (इति पाठान्तरम्) देवि धन्यचरिता त्वमेव या स्वप्नसंततिमपश्य ईदृशीम् । श्रूयतां सुकृतकन्दलि क्रमाद्वर्ण्यमानमनपायि तत्फलम् ॥ ८१ ॥ वारणेन्द्रमिव दानबन्धुरं सौरभेयमिव धर्मधर्धरम् । केसरीशमिव विक्रमोदितं श्रीस्वरूपमिव सर्वसेवितम् ॥ ८२ ॥ माल्यवत्प्रथितकीर्तिसौरभं चन्द्रवन्नयनवल्लभप्रभम् । भानुवगुवनबोधकोविदं मीनयुग्मवदमन्दसंमदम् ॥ ८३ ॥ कुम्भयुग्ममिव मङ्गलास्पदं निर्मलं सर इव क्लमच्छिदम् । तोयराशिमिव पालितस्थिति सिंहपीठमिव दर्शितोन्नतिम् ॥ ८४ ॥ देवतागमकरं विमानवगीततीर्थमुरगस्य हर्म्यवत् । सद्गुणाढ्यमिह रत्नराशिवत्प्लष्टकर्मगहनं च वह्निवत् ॥ ८५ ॥ लप्स्यसे सपदि भत्रयाधिपं तीर्थनाथममुना त्वमात्मजम् । जायते व्रतविशेषशालिनां स्वप्नवृन्दमफलं हि न क्वचित् ॥ ८६ ॥ १. शय्याम SEE ६ सर्गः] ९ धर्मशर्माभ्युदयम् । इत्थं तदर्थकथया हृदि कुल्ययेव श्रोत्रान्तरप्रहितया हृदयेश्वरेण । देवी प्रमोदसलिलैरभिषिच्यमाना वप्रावनीव विलसत्पुलकाङ्कुराभूत् ॥ ८७ ॥ स श्रीमानहमिन्द्र इत्यभिधया देवस्त्रयस्त्रिंशतो- दन्वद्भिः प्रमितायुषो व्यपगंमे सर्वार्थसिन्देश्च्युतः । चन्द्रे विभ्रति रेवतीप्रणयतां वैशाखकृष्णत्रयो- दश्यां गर्भमवातरत्करितनुः श्रीसुव्रतायास्तदा ॥ ८ ॥ आगत्यासनकम्पकल्पितचमत्काराः सुराः सर्वतो जम्भारातिपुरःसराः सपदि तां गर्भ जिनं बिभ्रतीम् । स्तोत्रैस्तुष्टुवुरिष्टभूषणचौरानचुरुच्चैर्जगु- भक्त्या नेमुरनर्तिपुर्नवरसैस्तत्कि न यत्ते व्यधुः ॥ ८९ ॥ अहमिह मैहमीहे यावदुचैर्विधातुं कथमिव पुरुहूतोत्पादितं तावदीक्षे । इति मनसि विलक्षं तं क्षितीशं सरत्न- त्रिदशकुसुमदृष्टिच्छद्मना द्यौरहासीत् ।। ९० ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये पञ्चमः सर्गः । पष्टः सर्गः । सा भारतीव चतुरातिगभीरमर्थ वेलेव गूढमणिमण्डलमन्बुराशेः । पौरंदरी दिगिव मेरुतिरोहितेन्दु गर्भ तदा नृपवधूर्दधती रराज ॥ १ ॥ तामादरादुदरिणी रहसि प्रहृष्टा दृष्टिः प्रतिक्षणमुदैवतभूमिभर्तुः । १. क्षेत्रभूमिरिव. २. उत्सवम्.

४० काव्यमाला। दैवादवाप्य तपनीयनिधानकुम्भी साशङ्करङ्ककुलमूलकुटुम्बिनीव ॥ २ ॥ अन्तर्वपुः प्रणयिनः परमेश्वरस्य निर्यद्यशोभिरिव सा परिरभ्यमाणा। स्वल्पैरहोभिरभितो घनसारसार- कृप्तोपदेहमिव देहमुवाह देवी ॥ ३ ॥ तृष्णाम्बुधेरपरपारमुपागतं च निर्बन्धनं च तनयं जनयिष्यतीयम् । तेनावरुद्धकलकेलिशकुन्तमुक्ति मुक्त्वान्यवस्तुषु बबन्ध न दोहदानि ॥ ४ ॥ वृद्धि परामुदरमाप यथायथास्याः श्यामाननः स्तनभरोऽपि तथातथाभूत् । यद्वा नितान्तकठिनां प्रकृति भजन्तो मध्यस्थमप्युदयिनं न जडाः सहन्ते ॥ ५ ॥ तस्याः कपोलफलके स्फटिकाश्मकान्तौ कंदर्पदर्पण इव प्रतिबिम्बिताङ्गः । रात्रावलक्ष्यत जनैर्यदि लाञ्छनेन श्रीकण्ठकण्ठजरठच्छविना मृगाङ्कः ॥ ६ ॥ एकेन तेनं बलिना स्वबलेन तस्या भङ्क्त्वा बलित्रयमवर्धत मध्यदेशः। तेनैव संमदरसेन सुहृत्तदाभू- दत्यन्तपीवरतरः कुचकुम्भभारः ॥ ७ ॥ उत्खातपकिलबिसाविव राजहंसौ शुभ्रौ सभृङ्गवदनाविव पद्मकोषौ । १. भूमितलादेवानुकूल्येन लब्धसुवर्णकलशा मा कश्चिद्धाषीदिति भयाकुला दरिद्रग- हिणीव. २. तेन गर्भस्थेन, M ६ सर्गः] धर्मशर्माभ्युदयम् । तस्याः स्तनौ हृदि रसैः सरसीव पूर्ण सेरेजतुर्गवैलमेचकचूचुकायौ ॥ ८ ॥ गर्भ वसन्नपि मलैरकलङ्किताङ्गो ज्ञानत्रयं त्रिभुवनैकगुरुर्बभार । तुङ्गोदयाद्रिगहनान्तरितोऽपि धाम किं नाम मुञ्चति कदाचन तिग्मरश्मिः ॥ ९ ॥ काले कुलस्थितिरिति प्रतिपद्य विद्वा- न्कर्तुं यदैच्छदिह पुंसवनादिकर्म । वःस्पर्धयेव तदुपेत्य पुरंदरेण प्रागेव निर्मितमुदैवत स क्षितीशः ॥ १० ॥ सा गर्भनिर्भरतया सकलाङ्गसाद- मासाद्य निष्क्रियतनुस्तरुणेन्दुगौरी । आलोकिता स्फटिककृत्रिमपुत्रिकेव भर्तुस्तदा मदयति स्म मनो मृगाक्षी ॥ ११ ॥ वजानलादि न ससर्ज न चोजगर्न साश्चर्यमैलविल इत्यपरोऽम्बुवाहः । अष्टौ च सप्त च जिनेश्वरजन्मपूर्वा- न्मासान्व्यधत्त नृपधामनि रत्नवृष्टिम् ॥ १२॥ पुष्पं गते हिमरुचौ तपसो वलक्ष- पक्षाश्रितां तिथिमथ त्रिजयामवाप्य । प्राचीव भानुमभिनन्दितसर्वलोकं सासूत सूत्रितनयं तनयं मृगाक्षी ॥ १३ ॥ शातोदरी शयनसंनिहितेन तेन प्रोत्तप्तकाञ्चनसकाशरुचा चकाशे। कंदर्पदर्पजयिना नयनानलेन कामद्विषः शिरसि चान्द्रमसी कलेव ॥ १४ ॥ १. गवलं माहिषं शृङ्गम्. २. ऐलविलः कुबेरः, ३. त्रयोदशीम्. MAnnani ६ ४२ काव्यमाला । अष्टोत्तरां दशशती शुभलक्षणानां बिभ्रत्स पुण्यविपणिः सहसापि दृष्टः । स्वर्गाहतेऽपि परमोत्सवनिनिमेषाः काश्रित्रमत्र न चकार चकोरनेत्राः ॥ १५ ॥ गच्छन्नधश्चिरतरं जिनजन्मदत्त- हस्तावलम्ब इव निर्मलपुण्यराशिः । अप्रेरितोऽपि भवनामरमन्दिरेषु निःसंख्यशङ्खनिवहः सहसोज्जगर्ज ॥ १६ ॥ रे रे भवभ्रमणजन्मजरान्तकाद्याः सद्यः प्रयात शममेष जिनोऽवतीर्णः । इत्थं प्रशासदिव डिण्डिमचण्डिमोच्चैः खं व्यन्तरानकशतध्वनिराततान ॥ १७ ॥ एको न केवलमनेकपमण्डलस्य गण्डाच्छिखण्डिगलकज्जलकान्तिचौरः । ज्योतिगृहग्राहिलसिंहसहस्त्रनाद- रुत्कंधरः स जगतोऽपि मदो निरस्तः ॥ १८ ॥ तत्काललास्यरसलालसमोक्षलक्ष्मी- विक्षिप्तपाणिमणिकङ्कणरावरम्यैः ।। जन्मन्यनल्पतरकल्पनिवासिवेश्म- घण्टास्वनैः खयमपूरि जगज्जिनस्य ॥ १९ ॥ बालस्य तस्य महसा सहसोद्यतेन प्रध्वंसितान्धतमसे सदने तदानीम् । सेवागताम्बरमुनीनिव सप्त काचि- दीपान्व्यबोधयत केवलमङ्गलार्थम् ॥ २० ॥ जन्मोत्सवप्रथमवार्तिकमात्मजस्य तस्य प्रमोदभरदुर्ललितो नरेन्द्रः । १. व्यन्तरो देवयोनिभेदः, ।

६ सर्गः]
धर्मशर्माभ्युदयम् ।
नोशिमौलिमणिमालिकयाज्ञयैव
लक्ष्म्या पुनर्नियतमात्मसमीचकार ॥ २१ ॥
ते गन्धवारिविरजीकृतराजवर्त्म-
न्यभ्राददभ्रघृणयो मणयो निपेतुः ।
यैस्तत्क्षणोप्तसुलतद्रुमबीजपुञ्ज-
निर्यत्प्ररोहनिकराकृतिरन्वकारि ॥ २२ ॥
उत्क्षिप्तकेतुपटपल्लवितान्तरिक्षे
चिक्षेप तीक्ष्णरुचिरत्र पुरे न पादान् ।
मन्ये पतत्रिदशपुप्परसप्रवाह-
संदोहपिच्छिलपथच्छलपातमीतः ॥ २३ ॥
संवाहयन्निव मनाक्चिरबन्धमुक्ता-
स्त्वङ्गद्विसंस्थुलपदाः प्रतिपक्षवन्दीः ।
मन्दारदाममधुसीकरभारवाही
मन्दोऽतिमन्दगतिरत्र बभूव वायुः ॥ २४ ॥
तौर्यों ध्वनिः प्रतिगृहं लयशालि नृत्तं
गीतं च चारुमधुरा नवतोरणश्रीः ।
इत्याद्यनेकपरमोत्सवकेलिपात्रं
द्रागेकगोत्रमिव भूत्रितयं बभूव ॥ २५ ॥
शुभ्रं नमोऽभवदभूदपकण्टका भू-
भक्त्येव भानुरभिगम्यरुचिर्बभूव ।
आरोग्यवानजनि जानपदोऽपि लोक-
स्तत्कि न यत्सुखनिमित्तमभृत्तदानीम् ॥ २६ ॥
स्नाता इवातिशयशालिनि पुण्यतीर्थे
तस्मिन्रजोव्यपगमात्सहसा प्रसन्नाः ।
एष्यन्निजप्रणयिनां त्रिदिवात्तदानीं
संयोगयोग्यसमयाः ककुभो बभूवुः ॥ २७ ॥

imisinfesMaWNERINDAINTARNATASH काव्यमाला । रङ्गावलीध्वजपटोच्छ्रयतोरणादि- व्यग्रे निधीश्वरपरिग्रहचक्रवाले । उद्वेल्लनोल्लसितरतरुचा हसद्भि- नियमिकैरिव चिराचलितं निधानः ।। २८ ॥ जाते जगत्रयगुरौ गरिमाम्बुराशि- नीरान्तरान्तरितविश्वमहिनि तत्र । कोऽन्यस्य राज्यमहिमति किल प्रभाव- शक्त्या हतं हरिहयासनमाप कम्पम् ॥ २९ ॥ तत्कम्पकारणमवेक्षितुमक्षमाणि ज्ञात्वा शतान्यपि दशोज्ज्वललोचनानाम् । अत्यन्तविस्मयरसोत्सुकचित्तवृत्ति- रिन्द्रोऽवधिं समुदमीलयदेकनेत्राम् ॥ ३० ॥ तेनाकलय्य जिनजन्म जवेन पीठा- दुत्थाय तदिशि पदान्यपि सप्त गत्वा । देवो दिवस्तमभिवन्द्य मुदाभिषेक्तुं प्रस्थानदुन्दुभिमदापयत क्षणेन ॥ ३१ ॥ उन्निद्रयन्निव चिराय शयालुधर्म तस्य ध्वनिर्भरितभूरिविमानरन्ध्रः । हाणि मेदुरतरोऽपि सुरासुराणां द्राक्पारितोषकमिवार्थयितुं जगाम ॥ ३२ ॥ ते घोडशाभरणभूषितदिव्यदेहाः स्वस्वोरुवाहनजुषः सपरिग्रहाश्च । हल्लनजैनगुणसंततिकृष्यमाणा- श्रेलुर्बलादिव दशापि दिशामधीशाः ॥ ३३ ॥ स्वर्दन्तिनं तदनु दन्तसरःसरोज- राजीनटलैंडहनाकवधूनिकायम् । १. लडहः सुन्दरः.

६ सर्गः] ४५ धर्मशर्माभ्युदयम् । उत्फुल्ललोचनरुचां निचयविचित्रः संचित्रयन्निव दिवस्पतिरारुरोह ॥ ३४ ॥ ऐरावणश्चटुलकर्णझलझलाभि- रुडीनगण्डमधुपावलिराबभासे । यात्रोद्यतः पथि जिनस्य पदे पदेऽसौ निर्मुच्यमान इव पापलवैचुटद्भिः ॥ ३५ ॥ गच्छन्ननल्पतरकल्पतरुप्रसून- पात्रीपवित्रकरकिंकरचक्रवालैः । सोढुं तदीयविरहार्तिमशक्नुवद्भिः क्रीडावनैरिव रराज स पृष्ठलग्नैः ॥ ३६ ॥ अन्योन्यघटनरणन्मणिभूषणाया वाचालितोच्चकुचकुम्भभराः सुराणाम् । उल्लासिलास्यरसपेशलकांस्यताल- लीलाश्रिता इव रसाललनाः प्रचेलुः ॥ ३७॥ गायन्नटन्नमदनुव्रजदप्यमन्दं वृन्दं तदा दिविषदां मिलदासमन्तात् । देवः पृथक्टथगुपात्तविशेषभावै- स्तुल्यं सहस्रनयनो नयनैर्ददर्श ॥ ३८ ॥ उद्दामरागरससागरमनहूहू- हाहादिकिंनरतरङ्गितगीतसक्तः । संत्रासहेतुषु नदत्खपि तूर्यलक्षे- प्वन्तन शीतकिरणं हरिणो बबाधे ॥ ३९ ॥ क्रूरः कृतान्तमहिषस्तरणेस्तुरंगा- द्योतिः कुरङ्गरिपवः (१) पवनस्य चैणः । १. गजकर्णगतिसलंझलेत्युच्यते' इति कामन्दकीयनीतिसारटीका (१।४५).

SingRETINA काव्यमाला। सर्वे समं ययुरमी जिनमार्गलग्नाः के वा त्यजन्ति न परस्परवैरभावम् ॥ ४० ॥ पुप्पैः फलैः किसलयैर्मणिभूषणैश्च तैस्तैर्विचित्रवरचीवरसंचयैश्च । कर्तुं जिनेन्द्रचरणार्चनमुत्तरन्तः कल्पद्रुमा इव वियत्यमरा विरेजुः ॥ ४१ ॥ अन्योन्यसंचलनघट्टितकर्कशोरः- क्षुण्णोरुहारमणयो नटतां सुराणाम् । तारापथात्करिघटाचरणप्रचार- संचूर्णितोडुनिचया इव ते निपेतुः ॥ ४२ ॥ सूर्योपगामिभिरिभैर्मरुतां कराम- व्यापारिताभिरभितापिनि गण्डमूले । गण्डूषवारिविसरप्रसरच्छटाभि- र्दभ्रे क्षणं श्रवणचामरचारुलक्ष्मीः ॥ १३ ॥ रक्तोत्पलं हरितपत्रविलम्बि तीरे त्रिस्रोतसः स्फुटमिति त्रिदशद्विपेन्द्रः। बिम्बं विकृष्य सहसा तपनस्य मुञ्च- न्धुन्वन्करं दिवि चकार न कस्य हास्यम् ॥ ४४ ॥ तारापथे विचरतां सुरसिन्धुराणां सूत्कारनिर्गतकराम्बुकणा इवारात् । ताराः सुरैर्दशिरेऽथ मिथोऽङ्गसङ्ग- त्रुट्यद्विभूषणमणिप्रकरानुकाराः ॥ ४५ ॥ त्रैविक्रमक्रमभुजंगमभोगमुक्ता निर्मोकरज्जुरिव दृष्टविषातिरेका । १. दृष्टजलाधिक्या च.

४७ ६ सर्गः] धर्मशर्माभ्युदयम् । व्योमापगा धुपुरगोपुरदेहलीव देवैद्यलोकि घटिता स्फटिकोपलेन ।। ४६ ॥ रेजे जिनं स्नपयितुं पततां सुराणां शुभ्रा विमानशिखरध्वजपतिरभ्रे । आनन्दकन्दलितरूपशतं पतन्ती ज्ञात्वा निजावसरमम्बरनिम्नगेव ॥ ४७ ॥ जाते जिने भुवनशास्तरि संचरन्तः स्वर्दन्तिनो नभसि नीलपयोदखण्डम् । नाथाढते प्रथममिन्दुपुरप्रतोल्यां दत्तं कपाटमिव लोहमयं बभञ्जः ॥ ४८ ॥ अव्याहतप्रसरवातविवर्तमान- नीलान्तरीयविवरस्फुरितोरुदण्डा । बाह्यच्छविव्यपनयार्पितगर्भशोभा रम्भेव कस्य न मनोहरति स्म रम्भा ॥ ४९॥ यावजिनेश्वरपुरं हरिराजधान्याः स्वर्गोकसां नभसि धोरणिरापतन्ती। लोकस्य शास्तरि जिने दिवमारुरुक्षो- निःश्रेणिकेव सुकतेन कृता रराज ॥ ५० ॥ वल्गद्धनोरुलहरीनिवहान्तराल- हेलोल्लसन्मकरमीनकुलीरपोतान् । ये यानपात्रपटलप्रतिमैर्विमानै- रुत्तेरुरम्बरमहाम्बुनिधेरमाः ॥ ११ ॥ द्वारि द्वारि नभस्तलान्निपतितैस्तूपैर्मणीनां मुनि- क्रीडापीतपयोधिभूतलमिव व्यालोकयद्यद्यपि । एकस्यैव जगद्विभूषणमणेस्तस्याहतो जन्मना मेने रत्नपुरं तथापि मरुतां नाथस्तदा सार्थकम् ॥ ५२ ॥ १. अन्तरीयमधोवस्त्रम्. २. कदलीव. ३. समूहै:. S काव्यमाला । पुरमिव पुरुहूतः प्राञ्जलिस्त्रिः परीत्य त्रिभुवनमहनीयं हर्म्यमस्यातिरम्यम् । समुपनयनबुद्ध्या विश्वविश्वाधिपत्वं श्रियमिव सहसान्तः प्रेषयामास कान्ताम् ॥ १३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये षष्ठः सर्गः । सप्तमः सर्गः। प्रविश्य समन्यथ सुव्रतायाः समर्प्य मायाप्रतिरूपमङ्के । शची जिनं पूर्वपयोधिवीचेः समुजहारेन्दुमिवोदितं द्यौः ॥ १ ॥ अवाप्य तत्पाणिपुटाग्रमैत्री प्रकाशमाने जिनयामिनीशे । करारविन्दद्वितयं तदानी बिडौजसः कुड्रमलतां जगाम ॥ २ ॥ प्रमोदबाष्पाम्बुकरम्बितेन दृशां सहस्त्रेण सहस्रनेत्रः । अपश्यदस्याकतिलक्षणानां सकष्टमष्टाभ्यधिकं सहस्त्रम् ॥ ३ ॥ अपारयन्नप्रतिरूपमङ्गं जिनस्य तस्येक्षितुमीक्षणाभ्याम् । सहस्रनेत्राय तदा समूहः सुरासुराणां स्टहयांबभूव ॥ ४ ॥ तमादरादर्भकमप्यदत्रैर्गुणैर्गरीयांसमशेषलोकात् । कृतप्रणामाय पुरंदराय समर्पयामास पुलोमपुत्री ॥ ५ ॥ ससंभ्रमेणाभ्रमुवल्लभस्य न्यधायि मूनि त्रिदिवेश्वरेण । जयेति वाचं मुहुरुञ्चरद्भिः कराञ्जलिः स्वस्य सुरैरशेषैः ॥ ६ ॥ स तत्र चामीकरचारुमूर्तिः स्फुरत्प्रभामण्डलमध्यवर्ती । अनम्बुधाराधरतुङ्गशृङ्गे नवोदितश्चन्द्र इवाबभासे ॥ ७ ॥ तदनियुग्मस्य नखेन्दुकान्तिर्युदन्तिनो मूर्धनि विस्फुरन्ती । बभौ तदाक्रान्तिविभिन्नकुम्भस्थलोच्छलन्मौक्तिकमण्डलीव ॥ ८ ॥ अयाभिषेक्तुं सुरशैलमूनि तमुहँस्तीर्थकरं कराभ्याम् । पथा ग्रहाणां स गजाधिरूढश्चचाल सौधर्मपतिः ससैन्यः ॥ ९ ॥ ध्वनत्सु तूर्येषु हरिप्रणीता स्तुतिस्तदाश्रावि सुरैर्न जैनी । १. निखिलजगत्प्रभुत्वम्, २. शचीम्. ३. शची. ४. ऐरावतस्य. ५. इन्द्रः.

७ सर्गः] धर्मशर्माभ्युदयम् । ४९ मुहुस्तदारम्भचलाधरौष्ठप्रवाललीलाभिरवेदि किं तु ॥ १० ॥ अखण्डहेमाण्डकपुण्डरीकव्रजस्य दम्भात्रिदशोद्धृतस्य । सुवर्णाकुम्भान्स्वशिरोभिरुद्वहन्नियाय तस्य स्नपनाय शेषः ॥ ११ ॥ विधूयमानामरमण्डलीभिः प्रभोरुपान्ते सितचामराली । रराज रागोत्सुकमुक्तिमुक्तकटाक्षविक्षेपपरम्परेव ॥ १२ ॥ प्रदह्यमानागुरुधूमलेखाकरम्बितं व्योम बभौ तदानीम् । जिनस्य जन्माभिषवोत्सवार्थमिवागताशेषभुजंगलोकम् ॥ १३ ॥ तमिन्दुशुभ्रध्वजनिर्मलोमिः सितातपत्रस्फुटफेनपुञ्जः । सुरासुराणां निवहोऽभिषेक्तुं रराज दुग्धाब्धिरिवानुगच्छन् ॥ १४ ॥ बभौ पिशङ्गः कनकोज्ज्वलाभिः प्रभाभिरस्याभ्रमुजीवितेशः । प्रभुं तमायान्तमवेत्य भक्त्या स संमुखायात इवाद्रिराजः ॥ १५ ॥ सुधाप्रवाहैरिव हारिंगीतैस्तरङ्गिते व्योममहाम्बुराशौ । भुजभ्रमोल्लासितलास्यलीलाछलात्प्लवन्ते स्म मैरुत्तरुण्यः ॥ १६ ॥ दिवोऽपि संदर्शितविभ्रमायाः सितैकवेणीमिव वृद्धमूर्तेः । स निर्जराणामधिपः पतन्ती मुमोच दूरेण सुरतवन्तीम् ॥ १७ ॥ स चित्रमन्तर्हितभानुकान्त्या प्रभोरमुप्योपरि मेघखण्डम् । सहेमकुम्भस्य बभार शोभां मयूरपत्रातपवारणस्य ॥ १८ ॥ प्रयाणवेगानिलकृष्यमाणा घना विमानानि तदानुजग्मुः । तदग्रवेदीमणिमण्डलांशुस्फुरन्मरुञ्चापजिघृक्षयेव ॥ १९ ॥ स वारिधेरन्तरनन्तनालस्फुरद्धरित्रीवलयारविन्दे । उपर्यटत्षट्पदकर्णिकाभं ददर्श मेरुं सपयोदमिन्द्रः ॥ २० ॥ अधः कृतस्तावदनन्तलोकः श्रिया किमुच्चैस्त्रिदशालयो मे । इत्यस्य रोषादरुणाब्जनेत्रं भुवाभ्युदस्तास्यमिवेक्षणाय ॥ २१ ॥ परिस्फुरत्काञ्चनकायमाराद्विभावरीवासरयोभ्रमेण । विडम्बयन्तं नवदंपतीभ्यां परीयमाणानलपुञ्जलीलाम् ॥ २२ ॥ १. अयं वंशस्थवृत्तपादोऽत्र प्रमादापतित इति भाति. २. देवाङ्गनाः. ३. गङ्गाम्. ४. एतदुत्तरार्धमस्फुटम्. ७ काव्यमाला। रवीन्दुरम्योभयपार्श्वमन्तधृतेन्द्रनीलद्युति हेमकायम् । सचक्रशङ्खस्य पिशङ्गवस्त्रां त्रिविक्रमस्याकतिमुद्दहन्तम् ॥ २३ ॥ घनानिलोत्थैः स्थलपङ्कजानां परागपूरैरुपबृंहिताग्रम् । मुहुर्जिनस्यापततोऽतिदूरादुदञ्चितग्रीवमिवेक्षणाय ॥ २४ ॥ दिगन्तरेभ्यो द्रुतमापतद्भिर्घनैर्धनाखण्डलचापचित्रैः । उपान्तरत्नप्रकरोपहारधेरैरिवादीन्द्रमुपास्यमानम् ॥ २५ ॥ सिताब्दरुहाहिरण्यदेहं शिरःस्फुरत्पाण्डुशिलार्धचन्द्रम् । कपालमालाललितोडुपतचा धृतार्धनारीश्वरमूर्तिशोभम् ॥ २६ ॥ अमी भ्रमन्तो विततस्थलान्मे अहा ग्रहीष्यन्ति सुवर्णकोटीः । इतीव तेषां प्रसरं निरोद्धं घनानुपान्ते दधतं सचापान् ॥ २७ ॥ नितम्बिनीः संततमेव भाखत्कराभिमृष्टोच्चपयोधरायाः । समासजन्तं सरितां प्रवाहैस्तटीः क्षरत्स्वेदजलैरिवार्दाः ॥ २८ ॥ असाहेतिप्रसरैः परेषां प्रभञ्जनात्प्राप्तहिरण्यलेशैः । महस्विसैन्यैः कटकेष्वद्भिनिषेवितं साधु महीधरेन्द्रम् ॥ २९ ॥ मरुद्धनद्वंशमनेकालं रेंसालसंभावितमन्मथैलम् । धृतस्मरातङ्कमिवाश्रयन्तं वनं च गानं च सुराङ्गनानाम् ॥ ३० ॥ तटैरुदश्चन्मणिमण्डलांशुच्छटैरुदूढोच्छिखबर्हिशङ्काम् । सचेतसोऽपि प्रथयद्भिरुच्चैः मतारितानेकबिडालपोतम् ॥ ३१ ॥ विशालदन्तं घनदानवारिं प्रसारितोद्दामकराग्रदण्डम् । उपेयुषो दिग्गजपुंगवस्य पुरो दधानं प्रतिमल्ललीलाम् ॥ ३२ ॥ ॥ १. पर्वतैः. २. भास्वन्तो देदीप्यमाना ये करा हस्ताः; (पक्षे) भास्वतः सूर्यस्य कराः किरणाः. ३. मरुतो देवाः; मरुद्वायुश्च. वंशो वंशीनामकं वाद्यम्; वेणुश्च. ४. तालः कालक्रियामानम् ; वृक्षभेदश्च. ५. रसेन अलसं मन्थरम्, भाविता मन्मथस्य कामस्य एला गीतबन्धविशेषो येन; (पक्षे) रसालैरानैः संभाविता मन्मथा मदनसंज्ञका वृक्षविशेषा एलालताश्च यस्मिन्, ६. मणिकिरणेषु मयूरभ्रान्त्युत्पादनेन वञ्चिताने- कमार्जारशिशुम्. ७. दन्तोऽद्रिकटकः; रदश्व. ८. घन-दान वारिम्; (पक्षे) धन-दानव- अरिम. ९. शुण्डादण्डम्; किरणाग्रदण्डं च, ७ सर्गः] धर्मशर्माभ्युदयम् । अधिश्रियं नीरदमाश्रयन्ती नवान्नुदन्तीमतिनिष्कलाभान् । स्वनैर्भुजंगाशिखिनां दधानं प्रगल्भवेश्यामिव चन्दनालीम् ॥ ३३ ॥ गजभ्रमान्मुग्धमृगाधिनाथैविदार्गमाणान्नखरप्रहारैः । तडिच्छलान्निर्गलदस्त्रधारान्दधानमा मेखलमम्बुवाहान् ॥ ३४ ॥ जिनागमे प्राज्यमणिप्रभाभिः प्रभिन्नरोमाञ्चमिव प्रमोदात् । समीरणान्दोलदवालतालै नैरिवोल्लासितलास्यलीलम् ॥ ३५ ॥ अकृत्रिमैश्चैत्यगृहर्जिनानां कृतः पवित्रोऽयमिति प्रयत्नात् । सुरेश्वरेणानमता प्रदत्तप्रतिष्ठयेवोच्छिरसं महत्या ॥ ३६ ॥ विलङ्घय पन्थानमथामराणां पतिः स निष्कम्पचमूध्वजाग्रः । नितान्तवेगेन तमुत्सुकत्वात्किलागतं संमुखमाससाद ॥३७॥ (कुलकम्) उपेयुषोऽनन्तपथाध्वनीनाननेनसस्ताशिरसा प्रतीच्छन् । निरन्तराया विबुधानुवृत्तेः फलं व्यनक्ति स्म तदामराद्रिः ॥ ३८ ॥ हरेडिपो हारिहिरण्यकक्षः क्षरन्मदक्षालितशैलशृङ्गः । बभौ तडिद्दण्डविहारसारः शरत्तडित्वानिव तत्र वर्षन् ॥ ३९ ॥ सलीलमैरावणवामनाथैधुतानि यैरेव गजैर्जगन्ति । स्थिरं दधत्तानपि मूनि मेरुर्धराधराख्यामधरीचकार ॥ ४० ॥ सविक्रमं क्रामति हास्तिके यन्ननाम नो नाम मनागिरीन्द्रः । असंशयं सा जिनभक्तिरेव स्थिरा चकारास्य महाचलत्वम् ॥ ४१ ।। मदेन मूर्धन्यमणिप्रभाभिर्विनिर्गतान्तस्तमसेव गण्डात् । निरुद्धदृष्टिप्रसराः सुराणां शनैः शनैर्गन्धगजाः प्रसस्त्रुः ॥ १२ ॥ हिरण्यभूभृहिरदैस्तदानी मदाम्बुधारात्नपितोत्तमाङ्गः । स दृष्टपूर्वोऽपि सुरासुराणामजीजनत्कज्जलशैलशङ्काम् ॥ ४३ ॥ १. लक्ष्मीयुक्तं नीरदं दन्तरहितमप्याश्रयन्तीं निष्कलाभमतिकान्तान्दरिद्रानिति यावत्, एतादृशान्नवांस्तरुणानपि भुजंगान्विटाशिखिनां चूलाधारिदासविशेषाणां स्वनैः कटुभाषणैः करणभूतैर्नुदन्तीं निष्कासयन्तीम्, इति वेश्यापक्षे; चन्दनालीपक्षे तु नीरदं मेघम्, शिखिनां मयूराणां स्वनैरतिमलिनकान्तीन्भुजगानुदन्तीम्, २. निष्पापान, ५२ काव्यमाला । मदाञ्जनेनालिखितां गजेन्द्रैः सहेषमुत्क्षिप्तखुराग्रटङ्काः । हयाः किलाहार्यशिलासु जैनीमिहोत्किरन्ति स्म यशःप्रशस्तिम् ॥४४॥ केशाञ्चनैः किंचिदवाञ्चितास्याः पुरःप्रविष्टापरकायमश्वाः । इह प्लुतोल्लङ्घनवल्गनाद्यैर्मुदेव लास्यं पुरतोऽस्य चक्रुः ॥ ४५ ॥ कृतश्रमा ये नववीथिकासु तुरंगमाः साधितपञ्चधौराः। इहोच्चनीचं चरणैस्त एव विलङ्घय चान्ये नभसीव जग्मुः ॥ ४६ ॥ दृटैस्तुरंगानखुरप्रहारैरिहोच्छलन्तो ज्वलनस्फुलिङ्गाः । बभुर्विभिद्येव महीं विभिन्नफणीन्द्रमौलेरिव रत्नसंघाः ॥ ४७ ॥ समन्ततः काञ्चनभूमिभागास्तथा रथैर्युक्षुदिरे सुराणाम् । यथा विवस्वद्रथनेमिधारापथेऽरुणस्यापि मतिभ्रमोऽभूत् ।। ४८ ॥ नितम्बमाघ्राय मदादुदश्चच्छिरः समाकुञ्चितफुल्लघोणम् । अनुव्रजन्तं चमरी महोलमिहारुणत्कष्टमहो महेशः ॥ ४९ ॥ द्युयोषितां कर्षितकुन्तलाग्राः स्तनोरुजङ्घाजघनं स्टशन्तः । शनैरभीका इव संविचेरुस्तरङ्गिणीतीरसरोजवाताः ॥ ५० ॥ वियोगनामापि न सोढुमीशं दिवः स्वमुद्यानमिवावतीर्णम् । हरिः प्रपेदे सुमनोभिरामं वनं स तत्र पृथु पाण्डुकाख्यम् ॥ ११ ॥ अथो जिनेन्द्रानुचराः सुराणामपास्तविस्तीर्णकुथच्छलेन । विचित्रकर्माचरणैरशेषैश्चिरादमुच्यन्त मतङ्गजेन्द्राः ॥ ५२ ॥ स वारितो मत्तमरुतिपौधः प्रसह्य कामश्रमशान्तिमिच्छन् । रजस्वला अप्यभजत्नवन्तीरहो मदान्धस्य कुतो विवेकः ॥ १३ ॥ गजो न वन्यद्विपदानदिग्धं पपौ पिपासाकुलितोऽपि तोयम् । स्वजीवितेभ्योऽपि महोन्नतानामहो गरीयानभिमान एवं ॥ १४ ॥ करी करोत्क्षिप्तसरोरुहास्योच्छलन्निलीनालिकुलच्छलेन । कचेष्विवाकृष्य हठेन यान्तीं बुभोज वामामपि तां स्ववन्तीम् ॥५५॥ १. अहार्यः पर्वतः. २. वल्गाकर्षणैः. ३. अश्वस्य पञ्चविधा गतिर्धारेत्युच्यते. ४. क्षुण्णाः. ५. कामुकाः. ६. वारितो जलात; (पक्षे) वारितो निषिद्धः.

७ सर्गः) धर्मशर्माभ्युदयम् । ५३ अबालशेवालदलान्तरीयं व्युदस्य मध्यं स्टशति दिपेन्द्रे । तटाग्रभूमिर्जघनस्थलीव जलैरुदलावि वनापगायाः ॥ ५६ ॥ पयस्युदस्तोरुकरं मिमसोड़िपाधिपस्योत्पतितं कपोलात् । उपर्यलीनां वलयं चकासे सदण्डनीलातपवारणाभम् ॥ १७ ॥ विलासवत्याः सरितः प्रसङ्गमवाप्य विस्फारिपयोधरायाः । गजो ममज्जात्र कुतोऽथवा स्यान्महोदयः स्त्रीव्यसनालसानाम् ॥१८॥ दलानि संभोगभरार्पितानि नखक्षतानीव सरोरुहिण्याः । दधन्नदाम्भस्तलिनात्कथंचिदवातरल्लब्धरसो महेभः ॥ १९ ॥ वनेऽत्र सप्तच्छदगन्धदत्तप्रतिद्विपभ्रान्तिविधूतवीतीन् । प्रयुज्य सामैव शनैर्गजेन्द्रान्विनिन्युरालानपदं नयज्ञाः ॥ ६ ॥ निषादिने साधुनयप्रयुक्ताः स्वयं स्वकायाकलनाय वारीम् । ददुर्महेभाः क्रियते कथं वा जडात्मकैरात्महितप्रवृत्तिः ॥ ६१ ।। खलीनपर्याणमपास्य कृच्छ्रात्सुरैर्मुखारोपितवध्रनद्धाः । हयाननाहेषितदत्तकर्णा विनिन्यिरेऽश्वा भुवि वेल्लनाय ॥ १२ ॥ इतस्ततो लोलनभाजि वाजिन्यभिच्युताः फेनलवा विरेजुः । तदङ्गसङ्गत्रुटितोरुहारप्रकीर्णमुक्ताप्रकरा इवोाः ॥ ६३ ।। नदान्मिलच्छैवलजालनीला निरीयुराक्रम्य पयस्तुरंगाः । दिनोदये व्योम समुत्पतन्तः पयोधिमध्यादिव हॉरिदश्वाः ॥ ६४ ॥ इह क्षरन्निर्झरवारिहारिण्यनल्पकल्पद्रुणि कल्पनाथः । निवेशयामास यथायथं स स्थलाम्बुशाखाचरवाहनानि ॥ ६५ ॥ तदादि भूमौ शिशुवक्रमाभ्यां सकौतुकं क्रामति नाकिचक्रे । बभार उग्दोषनिषेधयित्री यमश्छवि कॅन्जललाञ्छनस्य ॥ ६६ ॥ भूदेव्याः शिरसीव कुन्तलतुलालम्बिद्रुमश्यामले लीलोत्तंसितकेतकीकिसलयस्योन्मुद्रयन्ती द्युतिम् । १. शय्यातः. २. 'वीतिरकशकर्मणि.' ३. निजबन्धनरज्जुम्. ४. हयाननाः किंनर्यः. ५. सूर्यरथाश्वाः, ६. इन्द्रः ७. बालकस्यापि मुखादिषु दृष्टिदोषनिवारणार्थ कज्जल- बिन्दु कुर्वन्ति.

६४ काव्यमाला। शृङ्गे स्वर्णगिरेः स धूर्जटिजटाजूटाग्रपिङ्गत्विषि प्रेवत्पाण्डुशिलां कलामिव विधोः कल्पाधिपः प्रेक्षत ॥ ६७ ॥ संसारातिमिव व्यतीत्य पदवीं शुक्केन दिग्दन्तिना ध्यानेनेव महीभृतस्त्रिभुवनस्येवास्य मूर्ध्नि स्थिताम् । तां कैवल्यशिलामिवर्धिरजनीप्राणाधिनाथाकृति प्राप्याहन्निरतो व्रतीव समभूदाखण्डलो निर्वृतः ॥ ६८ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये सप्तमः सर्गः । अष्टमः सर्गः। अथ सरभसमस्यां न्यस्तविस्तीर्णमास्व- न्मणिमयहरिपीठे निर्भरोत्साहयोगः । शरभमिव हिमादूरभ्रमातङ्गकुम्भा- जिनपतिमवतार्य स्थापयामास जिष्णुः ॥ १॥ मदनभिदमधास्यन्नूनमेनं न मूर्धा यदि कथमपि शेषस्तच्छिलापद्मवेषः । अपि मृदुलमृणाली कोमलस्तदुरापां स कथमितरथाप्स्यत्क्षाभरोद्धारकीर्तिम् ॥ २ ॥ किमतनुतरपुण्यैः स्विद्यशोभिः स्वयं वा निजसमयसमेतैरूमिभिः क्षीरसिन्धोः । इति सुरपरिपाट्या शङ्कमानैः शिलायाः शिरसि सितमयूखैः श्लिप्यमाणः स रेजे ॥ ३ ॥ अनुगुणमनुभावस्यानुरूपं विभूतेः समुचितमनुवृत्तेदेशकालानुकूलम् । अविकलमकलङ्क निस्तुलं तस्य भर्तुः स्नपनविधिममाः प्रारमन्ते स्म तस्मिन् ॥ ४ ॥ १. अर्धचन्द्राकृतिम्. २. मुक्तः; संतुष्टश्च.

- ८ सर्गः] धर्मशर्माभ्युदयम् । अवकरनिकुरम्बे मारुतेनापनीते कुरुत घनकुमाराः साधु गन्धोदवृष्टिम् । तदनु च मणिमुक्ताभङ्गरगावलीभि- विरचयत चतुष्कं सत्वरं दिकुमार्यः ॥ ५ ॥ स्वयमयमिह धत्ते छत्रमीशाननाथ- स्तदनुगतमृगाक्ष्यो मङ्गलान्युत्क्षिपन्तु । जिनसविधममा नर्तिता बालवाल- व्यजनविधिसनाथाः सन्तु सानत्कुमाराः ॥ ६ ॥ वलिफलकुसुमस्त्रग्गन्धधूपाक्षताद्यैः प्रगुणयत विचित्राण्यन्नपात्राणि देव्यः । सलिलमिह पयोधेरेष्यति व्यन्तराद्याः पटुपटहमृदङ्गादीनि तत्सज्जयन्तु ॥ ७ ॥ प्रवणय वरवीणां वाणि रीणासि कस्मा- त्किमपरमिह ताले तुम्बरो त्वं वरोऽसि । इह हि भरत रङ्गाचार्य विस्तार्य रङ्गं त्वरयसि नटनार्थ किं न रम्भामदम्माम् ॥ ८ ॥ समुचितमिति कृत्यं जैनजन्माभिषेके त्रिदशपतिनियोगाग्राहयन्नाग्रहेण । कलितकनकदण्डोद्दण्डदोर्दण्डचण्डः सुरनिवहमवादीद्वारपालः कुबेरः ॥ ९॥ (कुलकम्) बहलमलयजन्मोन्मिश्रकर्पूरपांसु- प्रसरपरिमलान्धाः श्रेणयः षट्पदानाम् । जिनपतिमभिषेक्तुं वाञ्छतां त्रुयदेनो- निगलवलयतुल्या निठुठन्ति स्म तस्मिन् ॥ १० ॥ अयमतिशयवृद्धो निम्नगानामधीशः कथमिममधिरोहत्वम्बुनाथो नगेन्द्रम् । १. हे बालमेघाः. २. मङ्गलान्यष्टौ दर्पणदूर्वादध्यक्षतादीनि. ३. रीणा खिन्ना.

५६ काव्यमाला। इति तमुपरि मेरो तुमुत्क्षिप्य देवाः कलितकनककुम्भामारभन्ते स्म पतिम् ॥ ११ ॥ अभिनवमणिमुक्ताशङ्खशुक्तिप्रवाल- प्रभृतिकमतिलोलैर्दर्शयन्नूमिहस्तैः । जडजठरतयैक्षि व्याकुलो मुक्तकच्छः स्थविरवणिगिवाग्रे स्वर्गिभिः क्षीरसिन्धुः ॥ १२ ॥ उपचितमतिमात्रं वोहिनीनां सहस्त्रैः पृथुलहरिसमूहैः क्रान्तदिक्चक्रवालम् । अकलुषतरवारिक्रोडमज्जन्महीधं नृपमिव विजिगीषू मेनिरे ते पयोधिम् ॥ १३ ॥ अनुगतभुजगेन्द्रान्मन्दराद्रीनिवोच्चै- दधतममलमुक्तामालिनः स्वर्णकुम्भान् । सुरनिकरमुपेतं वारिधिक्ष्यि भूयो- ऽप्यतिमथनभियेव व्याकुलोमिश्चकम्पे ॥ १४ ॥ उदधिनिहितनेत्रान्वीक्ष्य वाग्विभ्रमाणां निधिरमृतभुजस्तान्पालकः केलिपात्रम् । विहितगुदमवोचद्वाचमेतामनुक्तो- ऽप्यवसरमुखरत्वं प्रीतये कस्य न स्यात् ॥ १५ ॥ नियतमयमुदञ्चद्दीचिमालाछलेनो- च्छलति जलदमार्गे ज्ञातजैनाभिषेकः । तदनु जडतयोच्चै धिरोढुं समर्थः पतति पुनरधस्तात्सागरः किं करोतु ॥ १६ ॥ प्रशमयितुमिवाति दुर्वहामौर्ववढे- यदधिरजनि चान्द्रीः शीलयामास भासः । १. पूर्णागाधमध्यभावेन स्थूलोदरत्वेन च दृष्टः. २. नदीनाम् ; सेनानां च. ३. पृथु- लहरिसमूहैः; (पक्षे) पृथुल-हरिसमूहै: हरयोऽश्वाः, ४. अकलुषतरं वारि जलम्; (पक्षे) तरवारिः खा.

६७ SMS < सर्गः] धर्मशर्माभ्युदयम् । तदयमिति मतिमें क्षीरसिन्धुजनाना- मजनि हृदयहारी हारनीहारगौरः ॥ १७ ॥ द्विरदतरुतुरंगश्रीसुधाकौस्तुभाद्याः कति कति न ममार्था हन्त धूर्तेर्गृहीताः । इति मुहुरयमुर्ती ताडयन्नूमिहस्तैः ग्रहिल इव विरावैः सागरो रोरवीति ॥ १८ ॥ पवनजववशेनोत्पत्य दूरं पतन्तो जलधिजलतरङ्गाः कम्बुकिर्मीरभासः । उपरि विततमुक्तासंग्रहोत्तालबुद्ध्या झटिति कलिततारामण्डला वो विभान्ति ॥ १९ ॥ पनतरतरुणाढ्येनात्र देशे न केना- प्यतिगुरुगिरिणा वा दुर्निवारप्रचाराः । स्वयमिमममिससूर्यत्समस्ताः सवन्त्यो निरुपममिदमस्मादस्य सौभाग्यमब्धेः ॥ २० ॥ अयमुपरि सविद्युत्तोयमादातुमब्धे- य॑तिषजति तमालश्यामलो वारिवाहः । तुहिनकिरणकान्तं कान्तया श्लिष्यमाणः शिशयिषुरिव शौरिः शेषपर्यङ्कटष्ठम् ॥ २१ ॥ स्फुटकुमुदपरागः सागरो मातरं नः क्षितिमहह कदाचित्लावयिष्यत्यशेषाम् । इति किल जलवेगं रोडुमाबद्धमालाः कथमपि तटमस्य मारुहो न त्यजन्ति ॥ २२ ॥ रतिविरतिषु वेलाकानने किंनरीभिः पुलकितकुचकुम्भोत्तम्भमासेव्यतेऽस्मिन् । १. उन्मत्तः. २. वा इवार्थे. ३. प्रचुरतरवृक्षण समृद्धेन; (पक्षे) बहुभिस्तरुणैराव्येन. ४. विकसितकुमुदवच्छेतः; (पक्षे) कुमुत् भूमेहर्षस्तेनापरागो बद्धमत्सरः.

shanirons ५८ काव्यमाला। चपलकलभलीलाभिन्नकङ्कोलकैला- परिमलमिलितालिध्वानधीरः समीरः ॥ २३ ॥ अयमिह जटिलोमि ति कङ्केल्लिवल्ली- किसलयललिताभिट्ठिमाणां लताभिः । ज्वलिततनुरिवान्तर्वाडवाग्नेः शिखानां विततिभिरतिगायॊत्साहवंहीयसीभिः ॥ २४ ॥ इह हि मिलितरङ्गत्प्रौढसिन्धुप्रियायाः पुलिनजघनरोत्सङ्गसङ्गात्पयोधिः । सरभसमुपकूज कुंकुहक्काणदम्भा- न्मसृणमणितलीलोल्लासमभ्यस्यतीव ।। २५ ॥ सकलजगदधृष्यस्यैकगाम्भीर्यभाजो बहुलहरियुतस्य प्रोल्लसत्कॅणस्य । इति निगदति तस्मिन्नाकिलोकस्य तस्या- प्यजनि सलिलराशेरन्तरं नैव किंचित् ॥ २६ ॥ सुरसमितिरसंख्यैः क्षीरपाथोधिनीरं यदुरुकनककुम्भैरुच्चुलुम्यांचकार । चुलुककलितवार्धेः स्मारयामास नश्य- द्वरुणनगरनारीस्तेन कुम्भोद्भवस्य ॥ २७ ॥ स्नपनविधिनिमित्तोपात्तपानीयपूर्णाः सपदि दिवमुदीयुः शातकुम्भीयकुम्भाः । दृषद इव तदन्ये यच रिक्ता निपेतुः प्रकटमिह फलं तज्जैनमार्गानुत्तेः ॥ २८ ॥ अनुगतभुजमालालीलयारभ्यमाणे- मणिपटपरिवर्तावर्तनैः क्षीरसिन्धोः । १. अतितृष्णासंयोगदीर्घतमाभिः, २. कुकहो जलपक्षिविशेषः. ३. 'मणितं रतिकू- जितम्'. ४. बहु-लहरि; (पक्षे) बहुल-हरि. ५. कङ्कणं करभूषणम्; जलकणश्च. ६. देवसमूहः.

५९ ८ सर्गः] धर्मशर्माभ्युदयम् । उदकमुपनयद्भिदेवचन्दैस्तदानी- मभिनवमभिनीतं वावटीयन्त्रचक्रम् ॥ २९ ॥ घनसुषिरततानामुडुरानद्धनादे तिरयति रवमुच्चैभिन्नभूमीधरन्ध्रे । प्रसरति नवनाव्यप्रक्कणकिङ्किणीना- ममरसहचरीणां मङ्गलोद्गाररावे ॥ ३० ॥ कलुषमिह विपक्षं दर्शनादेव जित्वा स्वगुणगरिमहेलाक्रान्तसिंहासनस्य । प्रथमममरनाथा भूत्रयस्येव राज्ये कनककलशतोयैश्चरस्याभिषेकम् ॥ ३१ ॥ (युग्मम्) जरठविशदकन्दप्रोज्ज्वलायां शिलायां प्रचलदरुणमुग्धस्निग्धपाणिप्रवालः । अमृतमधुरनीरैः सिच्यमानः स देवै- रभिनव इव रेजे पुण्यवल्लीप्ररोहः ॥ ३२ ॥ हिमगिरिमिव मेरुं नीरपूरैः सुजद्भिः स्नपयितुमपि पृथ्वीमाशु पृथ्वी समर्थः । शिशुरपि जिननाथश्रुशुभे नो मनाग- प्यहह सहजधैर्य दुर्निवार्य जिनानाम् ॥ ३३ ॥ यधरितसुधौधेरर्हतः मानतोयैः सममसमसमृद्ध्यानेनिजुः श्रद्धयाङ्गम् । जगति खलु जरायां सर्वसाधारणायां तदसुलभममा भेजिरे निर्जरत्वम् ॥ ३४ ॥ नटदमरवधूनां ढक्कटाक्षच्छटामाः कनकरुचिकपोले तीर्थकर्तुः स्फुरन्तीः । १. वार्घटीयन्त्रमरघट इति प्रसिद्धम्. २. 'ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं धनम् ॥' इत्यमरः. ३. अनेनिजुरक्षालयन.

BaINAR काव्यमाला। स्नपनसलिलशेषाशङ्कया मार्जयन्ती व्यधित हरिपुरंध्री कस्य न स्मेरमास्यम् ॥ ३५ ॥ विशदमणिमयाभ्यां वज्रसूचीविभिन्न- श्रवणयुगमिताभ्यां कुण्डलाभ्यां स रेजे । किमपि समधिगन्तुं तत्त्वविद्यारहस्यं सुरगुरुभृगुपुत्राभ्यामिव ज्ञानसिन्धुः ॥ ३६ ॥ त्रिगुणवलितमुक्तातारहारापदेशा- दुरसि वरणमालाः प्रक्षिपन्त्यस्तदानीम् । अहमहमिकयोर्वी श्रीश्च मुक्तिश्च तिस्त्रः स्वयमपि तृणते स्म प्रेमवत्यस्तमेकम् ॥ ३७ ॥ निरुपममणिमाला तन्मुखेन्दोरुपान्ते विगलदमृतधाराकारमुन्मुद्रयन्ती । शशिनममलकान्त्याक्रम्य बन्दीकृतानां विततिरिव विरेजे तत्प्रियाणामुडूनाम् ॥ ३८ ॥ मणिमयकटकायप्रोतरत्नग्रहश्रीः स घनकनककाञ्चीमण्डलाभोगरम्यः । त्रिदशरचितभूषाविभ्रमो हेमगौरः कनकगिरिरिवान्यो मेरुशृङ्गे रराज ॥ ३९ ॥ ध्रुवमिह भवितायं धर्मतीर्थस्य नेता स्फुटमिति स मघोना धर्मनाम्नाभ्यधायि । न खलु मतिविकासादर्शदृष्टाखिलार्थाः कथमपि विततार्थी वाचमाचक्षते ते ॥ ४० ॥ किमपि मृदुमृदङ्गध्वानविच्छेदमूर्छ- छुतिसुखसुषिरास्यप्रस्वनोल्लासिलास्ये । परिणमति सुधात्माधीनगन्धर्वगीते व्यतिकरपरिरम्भे तत्र तौर्यत्रिकस्य ॥ ११ ॥ १. प्राप्ताभ्याम् १ ८ सर्गः] धर्मशर्माभ्युदयम्। दलितकमठप्टष्ठं चारुचारीप्रयोग- भ्रमितभुजनिरस्तस्त्रस्वविस्तारितारम् । प्रकटघटितलिङ्गाकारमावर्तवृत्त्या प्रमदविवशमिन्द्रैस्तत्पुरस्तादनति ॥ ४२ ॥ (युग्मम्) इति निरुपमभक्ति शक्तिमप्यात्मनीनां स्नपनविनययुक्त्या व्यक्तयन्तः सुरेन्द्राः । स्तुतिभिरवितथाभिः स्तुत्यमेनं समस्ताः शिरसि निहितहस्ताः स्तोतुमारेभिरे ते ॥ ४३ ॥ अखिलमलिनपक्षं पूर्वपक्षे निधाय प्रथममुदितमात्रस्यापि संपूर्णमूतेः। जिनवर तव कान्त्या यत्कलामात्रशेषः प्रतिपदमृतभानुः स्पर्धते तन्मुधैव ॥ ४ ॥ मुनिभिरमलबोधैरप्यशक्यासु कर्तु स्तुतिषु तव गुणानामप्रगल्भप्रभेव । वरद मुहुरमन्दानन्दसंदोहदम्भा- स्खलति गलगुहान्तर्निर्भरं भारती नः ॥ ४५ ॥ स्टशति किमपि चेतश्चुम्बकग्रावगत्या त्वयि जिन जनतायाः स्वस्वकार्योद्यतायाः । किमु कुतुकमपूर्व नाथ यत्पूर्वजन्म- ब्रजजिनघनायःशृङ्खला निर्गलन्ति ॥ ४६ ॥ अमितगुणगणानां त्वद्गतानां प्रमाणं भवति समधिगन्तुं यस्य कस्यापि वाञ्छा । प्रथममपि स तावद्वयोम कत्यङ्गुलानी- त्यनघ सुगमसंख्याभ्यासमङ्गीकरोतु ॥ ४७ ॥ मनुज इति मुनीनां नायकं नाकिनाम- प्यवगणयति यस्त्वां निर्विवेकः स एकः । mmam ६२ काव्यमाला। सकलविदकलङ्कः क्षीणसंसारशङ्क- अकितजनशरण्यः कस्त्रिलोक्यां त्वदन्यः ॥ ४८ ॥ न खलु तदपि चित्रं यत्त्वयोदेप्यतापि प्रथममयमकारि प्राप्तपुण्यो जनोऽत्र । प्रतिशिखरि वनानि ग्रीष्ममध्येऽपि कुर्या- किमु न जलदकालः प्रोल्लसत्पल्लवानि ॥ ४९ ॥ तव वृषमधिरूढो योऽपि तस्य धुलोकः स खलु कियति दूरे यो जनेनापि लभ्यः । यदि चतुरगमाप्तः प्राप्तवास्तदुरापं तदापि जिन जनोऽयं जन्मकान्तारतीरम् ॥ ५० ॥ सर इव मरुमार्गे स्वच्छतोयं तृषार्ते- स्तरुरिव रविरश्मिव्याकुलैरत्र सान्द्रः । निधिरिव चिरदुःस्थैः शर्मणेऽस्माभिरेकः कथमपि भवभीतैनाथ दृष्टोऽसि दिष्टया ॥ ११ ॥ स्वगुणगरिमदौःस्थ्यं रोदसी रन्ध्ररोषा- द्वयतिषजति जिनेश त्वद्यशश्चन्द्रगौरम् । कथय कथममन्दा मन्दिरोद्योतशक्ति प्रकटयति घटान्तर्वतिरूपः प्रदीपः ॥ १२ ॥ गुणपरिकरमुच्चैः कुर्ववैव त्वयेते क्षपितकलुषदोषा रोषितास्तद्विपक्षाः। अथ न कथममीषां नेक्ष्यते त्वद्भयेन त्वदनुगतजनेऽपि प्रायशः प्रीतिलेशः ॥ १३ ॥ इह पिहितपदार्थे सर्वथैकान्तवल्ग- निविडतमतमोभिर्विश्ववेश्मन्यकस्मात् । १. वृषं धर्मम्; (पक्षे) वृषभम्. २. यः जनेन; (पक्षे) योजनेन क्रोशचतुष्टयात्मकेन, ३. चतुरगं चारित्रभारम्; (पक्षे) तुरगम्.

९ सर्गः] धर्मशर्माभ्युदयम् । त्वमसि स खलु दीपः केवलालोकहेतुः शलभमुलभलीलां लप्स्यते यत्र कामः ॥ १४ ॥ अलमलममृतेनास्वादितं त्वद्वचश्चे- त्किममरतरुलक्ष्म्या त्वय्यपि प्रार्थ्यमाने । जिन जगदतमस्कं कुर्वति त्वत्प्रबोधे किमहिमरुचिना वा कार्यमत्रेन्दुना वा ॥ ५५॥ दुरितमुदितं पाकोद्रेकात्पुराकतकर्मणां झटिति घटयत्यर्हद्भक्तेः स्वशक्तिविपर्ययम् । उपजलतरुच्छायाछन्ने जने जरठीभव- ह्युमणिकिरणैर्भीष्मो ग्रीष्मो न कि शिशिरायते ॥ ५६ ॥ इत्याराध्य त्रिभुवनगुरुं तत्र जन्माभिषेके भक्त्या मातुः पुनरपि तमुत्सङ्गभाजं विधाय । भूयो भूयस्तदमलगुणग्रामवार्ताभिरुद्य- लोमानस्ते त्रिदशपतयः स्वानि धामानि जग्मुः ॥ १७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्येऽष्टमः सर्गः । नवमः सर्गः। सिक्तः सुरैरित्थमुपेत्य विस्फुरज्जंटालवालोऽथ स नन्दनद्रुमः । छायां दधत्कौञ्चनसुन्दरी नवां सुखाय वैतुः सुतरामजायत ॥ १ ॥ चित्रं किमेतजिनयामिनीपतिर्यथा यथा वृद्धिमनश्वरीमगात् । सीमानमुल्लङ्घय तथा तथाखिलं प्रमोदवार्धिर्जगदप्यपूरयत् ॥ २ ॥ लप्स्यामहे तीर्णभवार्णवं पुनर्विवेकिन कैनमितीव तं प्रभुम् । बाल्याङ्गसंस्कारविशेषसत्क्रियाः किमप्यहंपूर्विकया सिषेविरे ॥ ३ ॥ लोकस्त्रिलोक्यां सकलोऽपि सप्रभः प्रभावसंभावितमेकमर्भकम् । ज्योतिर्ग्रहाणामिव मण्डलो ध्रुवं ध्रुवं समन्तादनुवर्तते स्म तम् ॥ ४ ॥ १. जटाला जटायुक्ता बालाः केशा यस्य; (पक्षे) जटा मलम्, आलवालमावालः. २. कांचन अनिर्वचनीयाम्; (पक्षे) काञ्चनवत्सुन्दरीम,. ३. पितुः; मालाकारादेश्च.

काव्यमाला। तैस्तैस्त्रिसंध्यं मणिभूषणैः प्रभुं तमेकमेवोपचचार वासवः । को वा दुरापां समवाप्य संपदं विचक्षणः क्षेमविधौ विमुह्यति ॥ ५ ॥ औत्सुक्यनुन्ना शिशुमप्यसंशयं चुचुम्ब मुक्तिर्निभृतं कपोलयोः । माणिक्यताटङ्ककरापदेशतस्तथाहि ताम्बूलरसोऽत्र संगतः ॥ ६ ॥ प्राच्या इवोत्थाय स मातुरङ्कतः कृतावलम्बो गुरुणा महीमृता । भून्यस्तपादः सवितेव वालकश्चचाल वाचालितकिङ्किणीद्विजः ॥ ७ ॥ रिडन्पदाक्रान्तमहीतले बभौ स्फुरन्नखांशुप्रकरेण स प्रभुः । शेषस्य वाधाविधुरेऽस्य धावता कुटुम्बकेनेव निषेवितक्रमः !! ८ ॥ बभ्राम पूर्व सुविलम्बमन्थरप्रवेपमानाप्रपदं स बालकः । विश्वंभरायां पदभारधारणप्रगल्भतामाकलयन्निव प्रभुः ॥ ९ ॥ पुत्रस्य तस्याङ्गसमागमक्षणे निमीलयन्नेत्रयुगं नृपो बभौ । अन्तः कियगाढनिपीडनाद्वपुः प्रविष्टमस्येति निरूपयन्निव ॥ १० ॥ उत्सङ्गमारोप्य तमङ्गजं नृपः परिष्वजन्मीलितलोचनो बभौ । अन्तर्विनिक्षिप्य सुखं वपुगृहे कपाटयोः संघटयन्निव द्वयम् ॥ ११ ॥ चित्रं प्रचिक्रीड यथा यथा करप्रकीर्णपांसुप्रकरैः कुमारकैः । आदर्शवनिर्मल एव सोऽभवत्तथा तथान्तःफलितावनीत्रयः ॥ १२ ॥ कः पण्डितो नाम शिखण्डमण्डने मराललीलागतिदीक्षकोऽथवा । नैसर्गिकज्ञाननिधेर्जगद्गुरोर्गुरुश्च शिक्षासु बभूव तस्य कः ॥ १३ ॥ शस्त्रेषु शास्त्रेषु कलासु चाभवन्मनीषिणां यश्चिरसंचितो मदः । ज्ञानापणे तत्र पुरः स्थिते ऽगलच्छरीरतः स्वेदजलच्छलेन सः ॥१४॥ बाल्यं व्यतिक्रम्य समुन्नति क्रमाद्दधत्समस्तावयवानुवर्तिनीम् । लक्ष्मी स निःशेषकलाजुषस्तदा पुपोष पीयूषमयूखमालिनः ॥ १५॥ मध्यंदिनेनेव सहस्रदीधितेर्महाध्वराग्नेहविषेव भूयसा । वाल्यव्यपायेन किमप्यपूर्ववजिनस्य नैसर्गिकमप्यभून्महः ॥ १६ ॥ तस्योद्धृताद्रिदेशकंधरो मुदे वहन्न येनैक्षि महीमहीश्वरः । नाश्चर्यकृत्तस्य बभूव तहयं स येन दृष्टस्त्रिजगडुरंधरः ॥ १७ ॥ ।

९ सर्गः] धर्मशर्माभ्युदयम् । चक्राब्जशङ्खादिविलोकनोत्थया स्वकान्तसंकेतनिवासशङ्कया । मन्ये न लक्ष्मीनवपल्लवारुणं तदङ्ग्रिपङ्केरुहयुग्ममत्यजत् ॥ १८ ॥ उद्यत्पदाङ्गुष्ठनखांशुदण्डिकाप्रकाण्डगर्भ युगमस्य जङ्घयोः । कार्तस्वरस्तम्भविशेषशालिनी जहास दोलां नवधर्मसंपदः ॥ १९ ॥ अत्यन्तमव्याहतवेगवीर्ययोर्जगत्रयीनेत्रमनोगजेन्द्रयोः । स्तम्भाविवोरूदृढबन्धहेतवे व्यधायिषातां ध्रुवमस्य वेधसा ॥ २० ॥ कण्ठीरवेणेव नितान्तमुन्नतं नितम्बबिम्बं परिणाहि बिभ्रता । एनोमयी तेन जनस्य दर्शनात्प्रमत्तमातङ्गघटाविघटिता ॥ २१ ॥ तप्तो ध्रुवं प्राग्जिननाभिपल्वले विवेश दानोद्धरधर्मसिन्धुरः । समुल्लसल्लोमलतापदेशतो मदाम्बुधारा कथमन्यथा तटे ॥ २२ ॥ लक्ष्मीरिहान्तःपुरसुन्दरी चिरं गुणैः सह स्थास्यति सौविदल्लकैः । जानन्नितीवास्य मनोहितं विधिय॑धाद्विशालं हृदयं दयावतः ॥ २३ ॥ तस्यैकमुच्चैर्भुजशीर्षमुद्दहन्सहेलमालम्बितभूत्रयो भुजः । भूभारनियुक्तशिरःसहलकं फणीश्वरं दूरमधश्चकार सः ॥ २४ ॥ रेखात्रयेणेव जगत्रयाधिकां निरूपयन्तं निजरूपसंपदम् । तत्कण्ठमालोक्य ममज्ज लज्जया विशीर्यमाणः किल कम्बुरम्बुधौ॥२५॥ यन्निस्तुलेनापि तदाननेन्दुना व्यधात्तुलारोहणमुग्रपातकम् । अद्यापि हेमद्युतिरुद्यतस्ततो भवत्यसौ श्वित्रविपाण्डुरः शशी ॥२६॥ स्निग्धा बभुमूर्धनि तस्य कुन्तलाः कलिन्दकन्याम्बुतरङ्गभङ्गुराः । फुल्लाननाम्भोरुहि सारसौरभे निलीननिःशब्दमधुव्रता इव ॥ २७ ॥ वजाब्जसारैरिव वेधसा कृतं तमास्पदं विक्रमसौकुमार्ययोः । उर्व्याः करं ग्राहयितुं न केवलं बभूव वध्वा अपि वप्तुराग्रहः ॥२८॥ तं यौवराज्ये नयशीलशालिनं व्यधात्तनूजं नवयौवनं नृपः । प्रागेव लोकत्रयराज्यसंपदां निधानमेनं न विवेद भूपतिः ॥ २९ ॥ तस्मिन्गुणैरेव नियम्य कुर्वति प्रकाममाज्ञावशवर्तिनः परान् । आसीन्नृपोऽन्तःपुरसारसुन्दरीविलासलीलारसिकः स केवलम् ॥ ३० ॥ १. पितु:.

काव्यमाला ।
शृङ्गारवत्या दुहितुः स्वयंवरे प्रतापराजेन विदर्भमूभुजा ।
दूतः कुमारानयनार्थमीरितः समाययौ रत्नपुरप्रभोगृहम् ॥ ३१ ॥
भर्तुः प्रतीहारनिवेदितस्ततः प्रविश्य संसद्गृहमाहितानतिः ।
भ्रूभेददत्तावसरः स कर्णयोः क्षरत्सुधासारमुवाच वाचिकम् ॥ ३२ ॥
किं चाग्रतस्तेन निरीक्ष्य भूपतेः कुमारमाकारविनिर्जितस्मरम् ।
तद्रूपशोभासुभगोऽस्य दर्शितो जगन्मनोलुण्ठनलम्पटः पटः ॥ ३३ ॥
पीयूषधारागृहमत्र नेत्रयोनिरीक्ष्य कन्याप्रतिबिम्बमद्भुतम् ।
किं तथ्यमित्थं भवितेति चिन्तयन्पुरो नृपः श्लोकमिमं व्यलोकयत् ३४
अस्याः स्वरूपं कथमेणचक्षुषो यथावदन्यो लिखितुं प्रगल्भताम् ।
धातापि यस्याः प्रतिरूपनिर्मितौ घुणाक्षरन्यायकृताकतेर्जडः ॥ ३५ ॥
ततोऽधिकं विस्मितमानसो नृपः सुतस्य तस्याश्च विलोक्य विग्रहम् ।
तच्चारुरूपासवपानघूर्णितोत्तमाङ्गसंसूचितमित्यचिन्तयत् ॥ ३६ ॥
यः स्वप्नविज्ञानगतेरगोचरश्चरन्ति नो यत्र गिरः कवेरपि ।
यं नानुबध्नन्ति मनःप्रवृत्तयः स हेलयार्थो विधिनैव साध्यते ॥ ३७ ॥
क्वायं जगल्लोचनवल्लभो युवा क्व कन्यकारत्नमतय॑मीदृशम् ।
तत्सर्वथा दुर्घटकर्मनिर्मितिप्रगल्भ्यमानाय नमोऽस्तु वेधसे ॥ ३८ ॥
नूनं विहायैनमियं स्वयंवरे वरार्थिनी नापरमर्थयिष्यति ।
इन्दं सदानन्दविधायिनं विना किमन्यमन्वेति कदापि कौमुदी ॥३९॥
यत्कन्यकायामुपवर्ण्यते बुधैः कुलं च शीलं च वयश्च किंचन ।
सर्वत्र संबन्धविधानकारणं प्रियस्य तत्प्रेम गुणैर्विशिष्यते ॥ ४० ॥
प्रत्यङ्गलावण्यविलोकनोत्सुकः कृतस्टहोऽस्यां युवराजकुञ्जरः ।
दृष्टयापि रागोल्बणया विभाव्यते करी यथान्तर्मददर्पदुःसहः ॥४१॥
इत्थं विचिन्त्यैष कृतार्थनिर्णयो नृपः सुतं दारपरिग्रहक्षमम् ।
प्रस्थापयामास ससैन्यमादराद्विदर्भभूवल्लभपालितां पुरीम् ॥ ४२ ॥
राजा च दूतेन च तेन चोदितस्ततो ध्वजिन्या च मुदा च संयुतः ।
रूपेण चास्यास्त्वरितस्मरेण च प्रभुः प्रतस्थे स विदर्भमण्डलम् ॥४३॥

९ सर्ग:] धर्मशर्माभ्युदयम् । शोभां स बिभ्रत्करवालशालिनी सुवर्णसारं कैटकं प्रकाशयन् । भव्यं च भीमं च तदा प्रसाधनं बभार नारोहितपूरणक्षमम् ॥ १४ ॥ दन्तीन्द्रमारुह्य स दानभोगवान्पथि प्रवृत्तश्च गुरोरनुज्ञया । शोभामसंप्राप्तसहस्त्रचक्षुषः पुरंदरस्यानुचकार सुन्दरीम् ॥ ४५ ॥ धुन्वन्निवोर्वी दलयन्निवाम्बरं गिलन्निवाशाश्चलयन्निवाचलान् । प्रस्थानशंसी पटहध्वनिस्तदा समुज्जजृम्भे जगदाक्षिपन्निव ॥ ४६ ॥ ओंकारवत्प्रस्तुतमङ्गलश्रुतेः समुत्थिते व्योमनि शङ्खनिःस्वने । कण्ठेऽपतद्दयुप्रसवच्छलात्प्रभोः स्वयंवरस्त्रनिहितैव कान्तया ॥४७॥ राज्ञा प्रयुक्ताः स्वयमाहितौजसः समर्पितालंकृतयः क्षितीश्वराः । तं साधुशब्दा इव साध्यसिद्धये मनश्चमत्कारिणमर्थमन्वयुः ॥ १८ ॥ भद्राश्च मन्दाश्च मृगाश्च केऽपि ये नदीगिरीन्द्रोभयवर्त्मचारिणः । ते तस्य संकीर्णसमन्विताः पुरो बभूवुरैरावतवंशजा गजाः ॥ ४९ ॥ काम्बोजवानायुजबाहिका हयाः सपारसीकाः पथि चित्रचारिणः । शैलूषसभ्यां इव दृष्टिनर्तकीमनर्तयन्नृत्यविचक्षणाः प्रभोः ॥ ५० ॥ तां नेत्रपेयां विनिशम्य सुन्दरी सुधामलङ्कामयमान उत्सुकः । क्रामन्नपाची हरिसेनया तो बभौ स काकुत्स्थ इवास्तदूषणः ॥५१॥ कल्पद्रुचिन्तामणिकामधेनवस्तटेऽपि मन्नाः खलु दानवारिधः । स्तोत्रैरजस्त्रं कथमन्यथाथिनो धनार्थमस्यैव यशांसि तुष्टुवुः ॥ १२ ॥ रत्नावनीबिम्बितचारुमूर्तयो विरेजिरे तस्य चमूचराः प्रभोः । विज्ञाय सेवावसरं रसातलाहिनिःसरन्तो भवनामरा इव ॥ ५३ ॥ लावण्यकासारतरङ्गसीकरवरिवोद्वृत्तभुजायपातिभिः । लाजैस्तमानचुरुदग्रमन्मथद्रुमप्रसूनैरिव पौरयोषितः ॥ १४ ॥ १. खड्गः; (पक्षे) कराश्च वालाश्च(2). २. शोभनवर्णा ब्राह्मणादयः; कनकं च. ३. सेना; भूषणविशेषश्च. ४. न अरोणामिति च्छेदः; (पक्षे) नारीणाम्. ५. सुधां-अलं- कामयमानः; (पक्षे) सुधाम-लकां-अयमान:. ६. दक्षिणां दिशम्. ७. अश्वसेनया; वा- नरसेनया च. ८. दूरीकृतदोषः; नाशितदूषणाख्यराक्षसश्च.

काव्यमाला। जीवेति नन्दति जयेति चोच्चकैरुदीरिताशीर्जरतीमिरात्मनः । सिद्धरिव द्वारमवाप तत्क्षणं पुरस्तदानीं युवराजकुञ्जरः ॥ ५५ ॥ अग्रे प्रसर्पञ्चतुरङ्गविस्तृतां कृशां च मध्ये विशिखावरोधतः । पश्चादतुच्छामपि तां पैताकिनी प्रियामिव प्रेक्ष्य स पिप्रिये प्रभुः ॥१६॥ हरिवोत्तम्भितकुम्भशोभितैरुपात्तनानावलभीमतैर्गजैः । निर्यान्तमुत्केव वियोगविझवा तमन्वगात्सालसमुन्नतैः पुरी ॥ ५७ ॥ रम्याननेन्दोघृतकोननश्रियः श्रितस्य सद्भिः संदनाश्रयस्य च । वेगेन भर्तुः पथि गच्छतोऽन्तरं महत्तदा तस्य पुरस्य चाभवत् ॥१८॥ श्रेणीव रेणूद्रमनिष्ठितावनिस्फुटीभवच्छेषफणामणित्विषाम् । सर्पत्सु सैन्येषु रराज दन्तिनां मदनुतिस्तत्क्षणपातलोहिनी ॥ १९ ॥ कम्पाद्भुवः क्षुभ्यदशेषवारिधिस्तदा भविष्यजगतोऽप्युपप्लवः । अस्या व्यधास्यन्भरभङ्गुराकतेर्गजा न चेदानजलाभिषेचनम् ॥ ६०॥ प्रायोऽपदस्ष्टष्टमहीतलाः खुरैवियद्गमाभ्यासरसं हया व्यधुः । तन्मत्तमातङ्गचमूभरादुवो विभावयामासुरमी विपर्ययम् ॥ ६१ ॥ लीलाप्रचारेषु यथा यथा व्यधुनखाग्रभागोल्लिखनं तुरंगमाः । उत्सर्पिपांसुप्रकरच्छलादभूत्तथा तथोाः पुलकाङ्कुरोद्गमः ॥ ६२ ॥ अन्तःस्खलंल्लोहखलीननिर्गलहिलोललाला जलफेनिलाननाः । चेलुः पिबन्तः पवनातिरंहसो द्विषद्यशांसीव तुरंगपुंगवाः ॥ ६३ ॥ तस्योत्क्रमालक्ष्यत पार्श्वयोईयोः समुल्लसल्लोलप्टथुप्रकीर्णका । ध्यानान्नभोवम॑गतेरसंशयादुदीर्णपक्षेव तुरंगमावलिः ॥ ६४ ॥ तस्य व्रजहीरतुरंगसंनिधौ मयूरपत्रातपवारणव्रजः । वीचीचयोल्लासितशैवलावलीविलासमासादयति स्म तोयधेः ॥ ६५ ॥ १. रथ्या. २. सेनाम्. ३. उपात्ता नाना बलस्य बलेन वा भीमता भयंकरत्वं यैः; (पक्षे) वलभी चन्द्रशाला तया मतैः. ४. सालवत्समुन्नतैः; (पक्षे) सालसमिति क्रिया- विशेषणम्. ५. वनम् ; (पक्षे) कुत्सितं मुखम्. ६. सतामनाश्रयस्य; (पक्षे) सदनानां गृहाणामाश्रयस्य.

९ सर्गः] धर्मशर्माभ्युदयम् । ६९ दुष्प्रेक्ष्यतामस्य बलाभियोगतो रजोभिरुत्सर्पिमिरम्बरे गते । रक्तोऽपि दोषैकभयादिवोच्चकैर्न दिक्षु चिक्षेप दिवाकरः करान् ॥६६॥ आसिन्धुगङ्गाविजयासिंहलादभिद्रवहुवंहवाहिनीभृतः । त्रस्यद्धरित्रीधरवजपञ्जरो बलोदधिस्तस्य बभूव दुर्धरः ॥ ६७ ॥ तापापनोदाय सदैव भूत्रयीविहारखेदादिव पाण्डुरद्युतिम् । कीर्वयस्यामिव भर्तुरग्रतो विलोक्य गङ्गां बहु मेनिरे नराः॥ ६८ ॥ शंभोर्जटाजूटदरीविवर्तनप्रवृत्तसंस्कार इव क्षितावपि । यस्याः प्रवाहः पयसां प्रवर्तते सुदुस्तरावर्ततरङ्गभङ्गुरः ॥ ६९ ॥ पर्यन्तकान्तारसमीरविस्फुरत्तरङ्गविस्फारितफेनलाञ्छिता । प्रालेयशैलोरगराजरेचितप्रलम्बनिर्मोकनिमा विभाति या ।। ७० ॥ विष्णोरिवाशेर्नखरश्मिरञ्जिता करैरिवेन्दोर्भवमूनि लालिता । भिन्ना हिमाद्रेस्तुहिनैरिवोच्चकैश्चकास्ति या क्षीरसहोदरद्युतिः ॥७१॥ काञ्चीव रनोञ्चयगुम्फिता सितेर्दिवच्युतेवामलमौक्तिकावलिः । कृष्टा सशब्दं पुरुहूतदन्तिनो विराजते राजतशृङ्खलेव या ॥ ७२ ॥ सूर्यस्य तापेन दिवानिशं ज्वलन्महौषधीनामशः कशानुभिः । तप्तस्य नीहारगिरेरिव द्रवश्चकास्ति यस्याः शुचिरम्भसा प्लवः॥७३॥ तीरेऽपि यस्यास्त्रिजगज्जुषश्चरन्स सार्वभौमोऽपि निमज्जति ध्रुवम् । बुद्ध्येव नावा घटितोरुकाष्ठया ततार तृष्णामिव तां स जाह्नवीम् ॥७४॥ हेलोत्तरत्तुङ्गमतङ्गजावलीकपोलपालीगलितैर्मदाम्बुभिः । गङ्गाजलं कज्जलमञ्जुलीकृतं कलिन्दकन्योदकविभ्रमं दधौ ॥ ७५ ॥ एके भुजैर्वारणसेतुभिः परे चमूचराः केचन नौभिरायताम् । अह्नाय जदोस्तनयां यदृच्छया पुरः प्रतिज्ञामिव तामतारिषुः ॥७६॥ उत्साहशीलाभिरलं जडात्मिका त्रिमार्गगासंख्यपथप्रवृत्तिभिः । तद्वाहिनीभिः प्रसभं दिवौकसां कथं न पश्चात्क्रियते स्म वाहिनी ७७ नागैः समुत्सर्पिभिराक्षिपन्नगान्पुरीरशेषाः पटवेश्मभिर्जयन् । उत्केतनै रिवनानि तर्जयन्नदीश्चमृभिः स विडम्बयन्नगात् ॥ ७८ ॥ ।

७० काव्यमाला। प्रमितिविधुरा ये मिथ्यात्वं पंथः प्रतिपेदिरे पिदधुरपि ये कूटारम्भैदिगम्बरदर्शनम् । प्रेगुणबलवांस्तांस्तानुच्चैः प्रमथ्य गिरीश्वरा- न्स्वमिह सुगमं कुर्वन्मार्ग जगाम जिनेश्वरः ॥ ७९ ॥ इत्युच्चस्तनवप्रभूषणवती रीः पुरी श्रय- न्कान्तारङ्गमितानरीनिव नगेष्वालोकयन्किनरान् । देशानप्यतिलङ्घयन्समकरान्सिन्धुप्रवाहानिव प्राप प्रेमवतीमिवात्तमैदनां देवः स विन्ध्यस्थलीम् ॥ २० ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये नवमः सर्गः । दशमः सर्गः। अथाधिपेनार्थयितुं दिनानां रथस्य पन्थानमिवोपरिष्टात् । पादानप्रेण निषेव्यमाणं धराधरं विन्ध्यमसौ ददर्श ॥ १ ॥ समुन्नमत्कूटपरम्पराभिराक्रान्तमन्तः पृथुकंदराभिः । भुवोऽर्धमधैं नभसो गृहीत्वा मन्ये यमुच्चैर्विदधे विधाता ॥ २ ॥ स्वष्टा दधात्येव महानदीनां महानदीनां शिखरोन्नतिं यः । स्वर्गादिहागत्य सदानभोगैः सदा नभोगैरनुगम्यमानः ॥ ३ ॥ 'मुँनेर्महिनामभितो निरोडुरध्वानमन्वेष्टुमिवोत्सुको यः । शृङ्गाग्रलग्नोडुचयच्छलेन नक्तं समुन्निद्रसहस्त्रनेत्रः ॥ ४ ॥ प्रस्थैरदुस्थैः कलितोऽप्यमानः पादैरमन्दैः प्रसृतोऽप्यगेन्द्रः । युक्तो वनैरप्यवनः श्रितानां यः प्राणिनां सत्यमगम्यरूपः ॥ ५ ॥ १. अतिशयेनाप्रमाणाः; (पक्षे) प्रमाणपञ्चकोपलक्षिततर्कशास्त्रविह्वला:. २. मार्गस्य जिनदर्शनस्य च. ३. शिखरारम्भैः; अनुचितप्रारम्भैश्च. ४. दिगाकाशावलोकनम्; जिनदर्शनं च. ५. सुसंनद्धसैन्यवान् ; चतुर्दशगुणस्थानशक्तिमांश्व. ६. पर्वतेन्द्रान्; समर्थान्नैयायिकप्रतिवादिनच. इत्यादर्शपुस्तकस्थं टिप्पणम्. ७. उच्चैः-स्तनवप्र; (पक्षे) उच्चैस्तन-वप्र-इति च्छेदः. ८. इवाथै. ९. कान्ता-रङ्ग-इतान्; (पक्षे) कान्तारं- गमितान्, १०. सम-करान् ; (पक्षे) स-मकरान, ११. कामः; (पक्षे) वृक्षविशेषः. १२. महा-नदीनाम्; महान-अदीनाम्. १३. दानभोगाभ्यां सहितः. १४. अगस्त्यस्य.

१० सर्गः] ७१ १ धर्मशर्माभ्युदयम् । विहाय मानं स्मरवासभूमाविहायमानं सहसा सुरस्त्री। रसालसारं विपिनं निरीक्ष्य रसालसा रन्तुमियेष कान्तम् ॥ ६ ॥ पञ्चाननोत्क्षिप्तकरीन्द्रकृत्तिगुहान्वितो दत्तशिवाप्रमोदः । अहिप्रहारोल्बणनीलकण्ठो यो रौद्रभावं क्वचिदातनोति ॥ ७ ॥ पुंनागनारङ्गलवङ्गजम्बूजम्बीरलीलावनशालि यस्य । शृङ्गं सदापारनभोविहारश्रान्ताः श्रयन्ते सवितुस्तुरंगाः ॥ ८ ॥ प्रियायुतं सानुनि कुञ्जरं गां निकुञ्जरङ्गां गतमीक्षमाणः । मुनीश्वरोऽपि स्मरति प्रियाया रतिप्रियायासवशेन यत्र ॥ ९ ॥ वप्रक्रीडाप्रहतिषु दृढैर्यत्र मत्तद्विपानां दन्ताघातैझटिति जलदाभोगभाजो नितम्बात् । पक्षच्छेदवणगणगतोदामदम्भोलिधारा- शल्यानीव स्फुरदुरुतडिद्दण्डखण्डानि पेतुः ॥ १० ॥ मम यदि लवणोदानन्दिसोमोद्भवायाः सममपरमपत्यं स्यादहं तत्कृतार्था । इति किल निशि सूते यस्य सोमोद्भवानां सितकरमणिभित्तिहिनीनां शतानि ॥ ११ ॥ यत्राम्बुजेषु भ्रमरावलीनामेणावली सत्तमरावलीना । पपौ सरस्याशुतरं गतान्तं न वारि विस्फारितरङ्गतान्तम् ॥ १२ ॥ निर्मुक्तगर्भमरनिर्भरदुर्बलासु कादम्बिनीषु कटकाग्रविलम्बिनीषु । भग्नामनेकमणिभासुररश्मिजालै- यः पूरयत्यनुदिनं हरिचापलक्ष्मीम् ॥ १३ ॥ स दृष्टमात्रोऽपि गिरिगरीयांस्तस्य प्रमोदाय विभोर्बभूव । गुणान्तरापेक्ष्यमभीष्टसिद्ध्यै नहि स्वरूपं रमणीयतायाः ॥ १४ ॥ १. इह-अयमानं आगच्छन्तम्. २. नर्मदायाः. ३. समीचीनशब्दनवणे आसत्ता. ४. प्राप्तसमीपम्.

७२ काव्यमाला। सुहृत्तमः सोऽथ सभासु हेत्तमःप्रभाकरश्छेत्तुमिति प्रभाकरः । धेरे क्षणं व्याप्टतकंधरेक्षणं तमीश्वरं प्राह जगत्तमीश्वरम् ॥ १५ ॥ पूर्वापराम्भोधितटीतरङ्गमालाग्ररङ्गत्कटकोऽयमद्रिः । त्वत्सैनिकाक्रान्ततनुश्चकास्ति नम्रीभवन्नन्य इव क्षितीशः ॥ १६ ॥ अशेषसुरसुन्दरीनयनवल्लभोऽयं दध- न्मदान्धधनसुन्दरभ्रमरुचिः सहस्राक्षताम् । महावहनभक्तितो मुकुलितायभास्वत्करः पुरस्तव पुरंदरद्युतिमुपैति ऐथ्वीधरः ॥ १७ ॥ अनेकधातुच्छविभासुरा बलान्निवर्तिताः कुम्भभुवार्कमण्डलात् । अनेकधातुच्छविमा सुराबला न का श्रयत्यस्य वनाकुलास्तटीः॥१८॥ विम्बं विलोक्य निजमुज्ज्वलरत्नभित्तौ क्रोधात्मतिद्विप इतीह ददौ प्रहारम् । तद्भग्नदीर्घदशनः पुनरेव तोषा- ल्लीलालसं स्टशति पश्य गजः प्रियेति ॥ १९ ॥ पलाय्य निर्यन्मदवारिधारा गिरेरुपान्ते करिणः प्रयान्तः । त्वत्तूर्यनादैसुटितोरुमूला विभान्ति कूटा इव निठ्ठन्तः ॥ २० ॥ न वप्रे नवप्रेमबद्धा भ्रमन्ती स्मरन्ती स्मरं तीव्रमासाद्य भर्तुः । क्षणादीक्षणादीश बाष्पं वमन्ती दशां का देशाङ्कामिहान्वेति न स्त्रीः॥२१॥ प्रकटितोरुपयोधरबन्धुराः सरसचन्दनसौरभशालिनीः । मदनबाणगणाङ्कितविग्रहो गिरिरयं भजते सुभगास्तटीः ॥ २२ ॥ इयं गिरेगैरिकरागरञ्जिता विराजते गह्वरवारिवाहिनी । पविप्रहारत्रुटितोरुपक्षतिक्षतागलन्तीव नवास्त्रधोरणिः ॥ २३ ॥ ३. पर्वते. १. हृदयान्धकारदूरीकरणे सूर्यः. २. एतन्नामकः. ४. जगचन्द्रमू. ५. पृथ्वीछन्दोऽपि. ६. अनेक-धातु-च्छवि-मासुराः. ७. अगस्त्येन. ८. अनेकघा- अतुच्छ-विभा. ९. देवाङ्गना. १०. दशमी कामदशाम. मरणमित्यर्थः, ११. मदन- बाणः पुष्पविशेषः; कामशरश्च.

१० सर्गः] धर्मशर्माभ्युदयम् । ७२ निर्जयता निजरत्नरुचा भां मैन्दरसानुगतारमणीनाम् । सा न कदाप्यमुना ध्रियते या मन्दरसानुगता रमणीनाम् ॥ २४ ॥ रोढुं पुनर्ग्रहपथं लघु हारिदश्वै- रश्वैरुपद्रुतनिकुञ्जलताप्रवालः। शृङ्गादुदग्रजलदैरयमुन्नमद्भिः प्रोल्लयन्निव मुनेः समयं विभाति ॥ २५ ॥ दिवाकरोत्तापिततापनोपलात्स्मरारिभालादिव निर्गतो गिरेः । समूलमारात्कुसुमेषु सुन्दरं क्षणादधाक्षीन्मेदनं हुताशनः ॥ २६ ॥ द्रुपतिभिः प्रांशुमनोरमाभिगिरौ हरत्याशु मनोऽरैमाभिः । पिकध्वनीनां कैमितारमन्ते सुरस्त्रियः सोत्कमिता रमन्ते ॥ २७ ॥ विस्तारं पथि पुरतोऽधिकं दधाना वक्रत्वं विषमविषा प्रदर्शयन्ती । एतस्मात्प्रसरति शैलवामलूरात्कन्येयं सरिदुरगीव मेकलस्य ॥ २८ ॥ उन्मीलन्नवनलिनीवनप्रसून भात्येतद्गतमलमम्बु नर्मदायाः । निर्भिन्नं शिखरशतैरमुष्य पुष्यन्नक्षत्रं पतितमिवान्तरिक्षखण्डम् ।। २९ ।। मुदा पुलिन्दीभिरिहेप्यते भवान्कान्तारसानुग्रहभूरिभान्वितः । अयं महीनोऽप्यधिरुह्यते भिया कान्तारसानुग्रहभूरिभान्वितः ॥ ३० ॥ सत्सूत्रमत्र तरुतीरनिकुञ्जवेदी- विद्यामठे कलरवक्रमपाठकेषु । अश्रान्तमेव निगदत्सु वधूद्वितीयः को नाम कामनिगमाध्ययनं न धत्ते ॥ ३१ ॥ भियेव धात्र्या स्थलपङ्कजाक्ष्या निरीक्ष्यमाणं वनसैरिभाणाम् । क्रीडत्युदञ्चद्धनपङ्कशृङ्गं गिरेः शिशूनामिव वृन्दमग्रे ॥ ३२ ॥ १. मन्दर-सानुग-तार-मणीनाम्. २. मन्द-रस-अनुगता. ३. सूर्यसंबन्धिभिः, ४. कुसुमेषु इति सप्तमी; (पक्षे) कुसुममयैरिषुभिर्वाणैः सुन्दरम्. ५. वृक्षविशेषम् ; कामं च. ६. अरं शीघ्रम्. ७. कामुकम्. ८. सोत्कण्ठं प्राप्ताः. ९. पर्वतरूपवल्मीकात्. १०. नर्मदा. ११. कान्ता-रस-अनुग्रहभः-इभान्वितः. १२. कान्तार-सानु-ग्रह- भूरि-भ-अन्वितः.

७१ काव्यमाला। त्वत्सैनिकास्तुल्यमदुर्महाभयं निस्त्रिंशचक्रेघुवराहवा नराः। नश्यत्सु सिंहादिषु तेन निर्भया निस्त्रिंशचक्रेषु वराहवानराः ॥ ३३॥ यो नारङ्गः सरल इति यो यश्च पुंनागनामा ज्ञात्वा वृक्षः सरसपयसा पोषितः पालितश्च । गूढं सोऽपि प्रथयति निधि यत्प्ररोहाग्रहस्तै- स्तत्कि युक्तं गिरिरयमिति व्याकुलो रोरवीति ॥ ३४ ॥ जराधवलमौलिभिः प्रचुरसौविदल्लैरिव प्रफुल्लतरुभिर्खता प्रणयिनामुनोत्सङ्गिता । परिष्वजति चन्दनावलिरियं भुजंगान्यत- स्ततोऽतिगहनं स्त्रियश्चरितमत्र वन्दामहे ॥ ३५ ॥ मन्दासमन्दा क्षणमत्र तावन्नेव्यापि न व्यापि मनोभवेन । रामा वरा मावनिरन्यपुष्टवध्वा नेवध्वानवशा न यावत् ॥ ३६ ॥ कुपितकेसरिचक्रचपेटया करटिकुम्भतटादभिपातिताः । इह विभान्ति तरुस्खलनच्युतस्फुरदुडुप्रकरा इव मौक्तिकाः ॥ ३७ ॥ प्रणयिनि नवनीवीग्रन्थिमुद्भिद्य लजा- विधुरसुरवधूनां मोचयत्यन्तरीयम् । अधिरजनि गुहायामत्र रत्नप्रदीपे करकुवलयघाताः सार्वपार्थीभवन्ति ॥ ३८ ॥ नवो धनी यो मदनायको भवेन्न बोधनीयो मदनाय को भवे । स सुध्रुवामत्र तु नेत्रविभ्रमैर्विबोध्यते सत्तिलकोऽपि कानने ॥ ३९ ॥ उद्भिद्य भीमभवसंततितन्तुजालं मार्गेऽपवर्गनगरस्य नितान्तदुर्गे। १. निस्त्रिंश-चक्र-इषु-वर-आहवाः, निस्त्रिंशः खड्गः. २. हिंस्रसमूहेषु. ३. वराह- वानराः. ४. लज्जाव्याकुला. ५. नवीनापि. ६. व्याप्ता. ७. लक्ष्मीस्थानम्. ८. को- किलया. ९. नवीनकृजिताधीना. १०. निष्फला भवन्ति. ११. तरुण:. १२. संसारे. १३. वृक्षविशेषः, स च नारीकटाक्षपातेन विकसितो भवतीति प्रसिद्धिः, ७१ धर्मशर्माम्युदयम् । लब्ध्वा भवन्तममयं जिन सार्थवाह प्रस्थातुमुत्थितवतामयमग्रभूमिः ॥ ४० ॥ वनेऽत्र पाकोल्बणदाडिमीफलप्रकाशमाकाशमणि नवोदितम् । जिघृक्षवोऽमी निपतन्ति वानरा अनूरुदण्डाग्रनिवारिता अपि ॥४१॥ कैटके सरोजवनसंकटके हरिणानपास्य सविधे हरिणा । करटङ्ककैदलयता कॅरटं करिणः सताः स्फुटमिहाकरिणः ।। १२ ॥ क्वेदं नमः क्व च दिशः क च पुष्पवन्तौ कैताः प्रकामतरलद्युतयश्च ताराः । मन्येऽमुना नगनिशागतिना गिलित्वा सर्व स्वमेव विहितं ननु पीनपीनम् ॥ १३ ॥ दूरेण दावानलशङ्कया मृगास्त्यजन्ति शोणोपलसंचयातीः । इहोच्छलच्छोणितनिझराशया लिहन्ति च प्रीतिजुषःक्षणं शिवाः ॥ १४ ॥ स्मरति स्म रतिप्रियाद्यतः क्षणमीक्षणमीलितं रतम् । परमाप रमात्र तत्तमस्तरसास्तरसा वियोगिनी ॥ ४५ ॥ अत्रोच्चरुक्मशिखरी गिरिरत्र रौप्यः साक्षादिह स्फटिकसारशिलोचयोऽपि । अस्मिन्वनैहिममयोऽत्र च चित्रकूटो रनैरनेकगिरिभिर्घटितोऽयमेकः ॥ १६ ॥ अनेन पूर्वापरदिग्विभागयोः प्रमाणदण्डायितमत्र भारते । अयं कुबेरान्तकगुप्तयोर्दिशोरलक्यसीमेव एथुः स्थितोऽन्तरे ॥ ४७ ।। ढक्का नदन्तीह भवत्यरीणां नवाशु भङ्गाय तिरोहितानाम् । यशस्तवोच्चैः शुचि किंनरेन्द्रे न वा शुभं गायति रोहितानाम् ॥ १८ ॥ प्रेकन्मरुञ्चलितचम्पकचारुपुष्पै- रघे च निर्झरजलैश्च वितीर्य पाद्यम् । १. सूर्यम्. २. अद्रिनितम्बे. ३. सिंहेन. ४. कुम्भम्. ५. आकरः खनिरेषामस्ति योनित्वेन ते. आकरजा इत्यर्थः. ६. चन्द्रसूर्यो. ७. पर्वतरात्रिंचरेण. ८. मूर्छालक्षण- मन्धकारम्. ९. मृगविशेषाणामू.

Harya Mahat ७६ काव्यमाला । त्वय्यागते मणिशिलारुतविष्टरार्थः शैलः करोति सकलामयमातिथेयीम् ॥ १९ ॥ उद्दामसामोद्भवचीत्कृतानां प्रत्यारवैर्भूरिदरीमुखोत्थैः । त्वत्सैन्यसंमर्दभवोरुदुःखान्मुहुर्मुहुः पूत्कुरुतेऽयमद्रिः ॥ ५० ॥ कृतार्थीकता हित वा हितत्वात्सदानं सदा नन्दिनं वादिनं वा । विभालम्बिभालं सुधर्मा सुधर्मापितख्यापितख्याति सा नौति सानौ ॥५१॥ प्राभाकरीरिति गिरो विनिशम्य सम्य- ग्देवेऽपि तां परिषदं प्रति दत्तनेत्रे । एकोऽवतीर्य शिखरादथ किंनराणा- मिन्द्रः प्रणम्य विनयाजिनमित्यवादीत् ॥ १२ ॥ दिक्सैव पुण्यजननी विषयः स धन्यः सेव्यानि तानि नगपत्तनकाननानि । यान्यर्हता भगवता भवता कथंचि- दध्यासितान्यपरमस्ति किमत्र तीर्थम् ॥ १३ ॥ भव्यस्तवस्याद्यमलंकृतीनामनर्धरत्नत्रयमाश्रितोऽपि । भव्य स्तवस्याद्यमलं कृतीनां प्राप्याङ्ग्रिपङ्केरुहयोः क्षणेन ॥ १४ ॥ अत्र प्रचारो न विल्लवानां विपैलवानां यदि वा तरूणाम् । आवासमस्मद्गृहसंनिधाने हसन्निधानेशपुरी ददातु ॥ ५५ ॥ कुंशोपरुद्धां द्रुतमालपल्लवां वरीप्सरोभिर्महितामकल्मषाम् । नृपेषु रामस्त्वमिहोररीकुरु प्रसीद सीतामिव काननस्थलीम् ॥ १६ ॥ १. सामोद्भवा हस्तिन:. २. पूत्करणमार्तव्याहरणमिति नलचम्यूटीका. ३. अर्थी- कृताश्च तेऽथिनोऽर्थीकृतार्थिन:. कृतमर्थीकृतार्थिनामीहितं येन तत्संबोधनम्. त्वा त्वाम. विभालम्बी सप्रभो भालो यस्य. सुधर्मा देवसमा. शोभनधर्मेणापिता प्रापिता सती ख्यापिता प्रकटीकृता ख्याति: कीर्तियंत्र भवनकर्मणि तत्तथाभतम्. नौति स्तौति. ४. विपदंशानाम्. ५. विगतकिसलयानाम्. ६. कुशैस्तृणविशेषैः; (पक्षे) तन्नान्ना पुत्रेण. ७. द्रु-तमालपल्लवाम् ; (पक्षे) द्रुतं-आलपत्-लवाम. लवोऽपि सीतायाः पुत्रः. ८. अप्सरसो देवाङ्गनाः; (पक्षे) अद्भिर्युक्तानि सरांसि. ६. रमणीयः; (पक्षे) दाशरथिः.

११ सर्गः] धर्मशर्माभ्युदयम् । इत्याकर्ण्य स तस्य किंनरपतेर्भक्तिप्रगल्भां गिरं श्रान्तं सैन्यमवेत्य वीक्ष्य करिणां संभोगयोग्यां भुवम् । देवो यावदचिन्तयन्निधिभृता तावत्क्षणानिर्मितं शालामन्दिरमन्दुरावलभीप्राकारसारं पुरम् ॥ १७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशीभ्युदये महाकाव्ये दशमः सर्गः । एकादशः सर्गः। अथ स तत्र निधीश्वरनिर्मिते प्रविशति स्म पुरे परमेश्वरः । समुदितोऽपि चतुर्विधसेनया विहितमोहतमोहतिरद्भुतम् ॥ १ ॥ सुहृदमात्यगणाननुजीविनो नयनिधिविनिवेश्य यथायथम् । स्वयमिहोज्ज्वलरत्ननिकेतने स पदमाप दमान्वितमानस ॥ २ ॥ बलभरोच्छलितैः पिहितप्रभोऽभजत मृण्मयतामिव यैर्जनः । मुकुरवत्स तु तैरपि पांसुभिर्नरमणी रमणीयतरोऽभवत् ॥ ३ ॥ न घनधर्मपयाष्टषतोदयो न च तनुत्वमजायत यत्प्रभोः । तदभिनत्पटुतां न जगज्जनोत्सवपुषो वपुषोऽध्वपरिश्रमः ॥ ४ ॥ तदपि रूढिवशात्कृतमजनो विहितयात्रिकवेषविपर्ययः । अयमुवाह रुचि नयनप्रियां न च न कांचन काञ्चनदीधितिः ॥५॥ (युग्मम्) नभसि दिक्षु वनेषु च संचरन्तुगणोऽथ गुणाब्यमियाय तम् । समुपभोक्तुमिवैतदुपासनारसमयं समयं स्वमवन्निव ॥ ६ ॥ हिममहामहिमानमपोहितुं सरसतामनुशासितुमङ्गिनाम् । दधदनिन्द्यगुणोपनतामृतुक्रमधुरं मधुरैञ्चति काननम् ॥ ७ ॥ कतिपयैर्दशनैरिव कोरकैः कुरबकप्रभवैर्विहसन्मुखः । शिशुरिव स्खलितस्खलितं मधुः पदमदादमदालिनि कानने ॥८॥ मलयशैलतटीमटतो रवर्धवमभूत्प्रणयी मलयानिलः । पुनरमुष्य यतो दिशमुत्तरामपरथाप स्थायवरः कथम् ॥ ९ ॥ १. विहिता मोहरूपतमसो हतिर्येन. २. नरश्रेष्ठः. ३. अलंकरोति. ४ अपरथा-आप.

७८ काव्यमाला। कलविराजिविराजितकानने नवरसालरसालसषट्पदः । सुरभिकेसरकेसरशोभितः प्रविससार स सारबलो मधुः ॥ १० ॥ अहह निर्दहति स्म वियोगिनां सुभगमङ्गमनङ्गहुताशनः । मुहुरुदीरितरोचिरयं चलत्कमलया मलयानिललीलया ॥ ११ ॥ तदभिधानपदैरिव षट्पदैः शबलिताम्रतरोरिह मञ्जरी। कनकभल्लिरिव स्मरधन्विनो जनमदारमदारयदञ्जसा ॥ १२ ॥ समधिरुह्य शिरः कुसुमच्छलादयमशोकतरोर्मदनानलः । पथि दिधक्षुरिवेक्षत सर्वतः समवधूतवधूतरसोऽध्वगान् ॥ १३ ॥ युवतिदीर्घकटाक्षनिरीक्षितः पुलकितस्तिलकः कुसुमच्छलात् । अकृत लास्यमिवास्य जगत्पतेरुपवने पवनेरितपल्लवः ॥ १४ ॥ शशिमुखीवदनासवलालसे बकुलभूरुहि पुष्पसमाकुले । धृतिमघत्त परां मधुपावलिः किमसमा न समानगुणे रतिः ॥ १५ ॥ उचितमाप पलाश इति ध्वनि द्रुमपिशाचपतिः कथमन्यथा । अजनि पुष्पपदादलिताध्वगो नृगलजङ्गलजम्भरसोन्मुखः (१) ॥ १६ ॥ गहनकुञ्जलतान्तरितक्रमां सहचरी निभृतः प्रतिपालयन् । विधुरितोऽपि पपौ स पिपासया कुसुमलीनमली न मधु क्षणम् ॥१७॥ रसविलासविशेषविदो नराः कथममी विलयं न ययुः क्षणात् । विकसितास्तरकोऽपि विचेतना मृगदृशोऽङ्ग दृशोर्व्यतिषङ्गतः॥१८॥ मलयमारुतचूतपिकध्वनिप्रभृतिसायकसंचयमर्पयन् । मधुरसौ विदधे स्मरधन्विनं कमपि नाकिपिनाकिजयोर्जितम् ॥ १९॥ श्वसिति रोदिति मुह्यति कम्पते स्खलति ताम्यति यत्सहसाध्वगः । तदयमक्षतपक्षशिलीमुखैः किमधुना मधुना हृदि नाहतः ॥ २० ॥ विनिहतोऽयमनाथवधूजनो विधुरिता धुरि ता मुनिपतयः । सुरभिणा समभेदि नतभ्रवामिह स मानसमानमतङ्गजः ॥ २१ ॥ १. कोकिल:. २. वृक्षविशेष:. ३. प्रकटितज्वाल:. ४. स्त्रीरहित जनमदारयद, ५. अगणितवकोपान, ६. संबोधनम्, ११ सर्गः ७९ धर्मशर्माभ्युदयम् । इति विशङ्कय मधोर्वनवासिनः प्रहरतः परितोऽपि पराभवम् । प्रणयिनीकुचकञ्चकमुच्चकैरुरसि को रसिको न दधे जनः॥२२॥(कुलकम्) प्रचलवेणिलताञ्चलताडितोन्नतनितम्बतटस्तरुणीजनः । स्मरनिषादकशाभिरिवाहतश्चिरमतोऽरमतोडुरदोलया ॥ २३ ॥ स्मरवशीकरणौषधचूर्णवन्निधतोपरि सौमनसं रजः । किमपरं मधुना वशिनोऽपि ते मुनिजना निजनामवशीकृताः ॥२४ ॥ खयमगाद्वसति कलिमत्यजदृशमदत्त मुखे प्रियकामिनाम् । इति बहूनि चकार वधूजनः स किल कोकिलकोविदशिक्षया ॥२५॥ मधुनिवृत्तिजुषां शुचिसंगमाइतमुदामिव काननसंपदाम् । विचकिलप्रसवावलिरन्वगादिह सिता हसितानुकृति मुखे ॥ २६ ॥ सकलदिग्विजये वरमल्लिकाकुसुमसंगतभृङ्गरवच्छलात् । इह निनाय जनं स्मरभूपतेर्न न वशं नवशङ्खभवो ध्वनिः ॥ २७ ॥ युवतिदृष्टिरिवासवपाटला स्मरनृपस्य बभौ नवपाटला। प्रणदिता मधुपैरिव काहला प्रियतमायतमानपराजये ॥ २८ ॥ वपुषि चन्दनमुज्ज्वलमल्लिका शिरसि हारलता गलकन्दले। मृगहशामिति वेषविधिर्नृणामनवमो नवमोहमजीजनत् ॥ २९ ॥ इह तृषातुरमर्थिनमागतं विगलिताशमवेक्ष्य मुहुर्मुहुः । हृदयभूस्त्रपयेव भिदां गता गतरसा तरसा सरसी शुचौ ॥ ३० ॥ इह शुनां रसना वदनाद्वहिनिरगमन्नवपल्लवचञ्चलाः । हृदि खरांशुकरप्रकरार्पिताः किमकशा नुकशानुशिखाः शुचौ ॥३१॥ खल इव द्विजराजमपि क्षिपन्दलितमित्रगुणो नवकॅन्दलः । अजनि कामकुतूहलिनां पुना रसमयः समयः स धनागमः ॥ ३२ ॥ इह घनैमलिनैरैपहस्तिता कुटजपुष्पमिषादुडुसंततिः । गिरिवने भ्रमरारवपूत्कृतैरवततार ततारतिरम्बरात् ॥ ३३ ॥ १. वाद्यविशेषः. २. चन्द्रम्; (पक्षे) ब्राह्मणश्रेष्ठम्. ३. सूर्यः; (पक्षे) सुहृत, ४. अ- पुरः; (पक्षे) कलहः. ५, तिरस्कृता. ६. प्रसृतखेदा.

(० काव्यमाला। भृशमधार्यत नीपनभस्वता सह पयोधरनम्रनभःश्रिया । गलितहारनिभोदकधारया प्रथमसंगमसंगरविभ्रमः ॥ ३४ ॥ भुवनतापकमर्कमिवेक्षितुं कलितकान्तचलद्युतिदीपिका । दिशि दिशि प्रससार कृषीवतां सह मुदारमुदारघनावलिः ॥ ३५ ॥ जलधरेण पयः पिबताम्बुद्ध्वमपीयत वाडवपावकः । कथमिहेतरथा तडिदाख्यया रुचिररोचिररोचत वहिजम् ॥ ३६ ॥ नभसि निर्गतकोमलमालतीकलिकया स्मरतोमरतीक्ष्णया । हृदयविद्ध इवालिगणः पुरा चलति का लतिकाः स्म निरीक्षितुम् ॥ ३७ ।। निभृतभृङ्गकुलाकुलकेतकीतरुरुदीर्णसितप्रसवाङ्करः । भृशमशोभत मत्त इव स्मरद्विरदनो रैदनोदितभूत्रयः ॥ ३८ ॥ त्वयि विभावपि भावपिधायिनि ध्रुवमनाथवतीमिव तां सखीम् । रिपुरिवैष विषं जलदो ददत्समद हन्ति दहन्ति च विद्युतः ।। ३९ ॥ समधिगम्य पयः सरसामसावसहतापहता पतिवचिता । यदतनोतनुतापितपूत्तरं तदयि तद्दयितस्य न पातकम् ॥ ४० ॥ स्वयमनम्बुजमेव सरोऽभवद्वयधित सा तु वनान्तमपल्लवम् । यदि तया मृतयैव सुखं स्खलन्निनदया न दयास्ति वनेऽपि ते ॥ ११॥ न रमते स्मयते न न भाषते स्वपिति नात्ति न वेत्ति न किंचन । मुभग केवलमस्मितलोचना स्मरति सा रतिसारगुणस्य ते ॥ ४२ ॥ इति कयापि दयापरयापरः प्रणयपूर्वमिहाभिहितो युवा । मुदमिवोदवहन्न च चारुतामदममन्दममन्थरमन्मथः ॥ ४३ ॥(कुलकम्) तृणकुटीरनिभे हृदि योषितां ज्वलति तीव्रवियोगहुताशने । स्वजनवच्छिखिभेकगणो नदन्नत पूत्कृतपूरमिवाकुलः ॥ ४४ ॥ प्रलपतां कृपयैव वियोगिनां किमपि दाहमहाज्वरशान्तये । शरदियं सरसीषु निरन्तरं व्यतनुतातनुतामरसं पयः ॥ ४५ ॥ १. मुदा अरं-उदारघनावलिः. २. श्रावणे. ३. दन्तक्षुण्णलोकत्रयः. ४. शरीरता- पतक्रिमिविशेषं यच्चकार.

११ सर्गः] धर्मशाभ्युदयम् । ८१ इयमुदस्य करैः परिचुम्बतः सरसिजास्यमभून्न घनादरा । शरददत्त सुधाकरलालनासुखरता खरतापमतो रवेः ॥ ४६ ।। किमपि पाण्डुपयोधरमण्डले प्रकटितामरचापनखक्षता । अपि मुनीन्द्रजनाय ददौ शरत्कुसुमचापमचापलचेतसे ॥ ४७ ॥ विघटिताम्बुपटानि शनैः शनैरिह दधुः पुलिनानि महापगाः। नवसमागमजातहियो यथा स्वजघनानि धनानि कुलस्त्रियः ॥ ४८॥ स्फुरदमन्दतडिद्दयुतिभासुरं शरदि शुभ्रमुदीक्ष्य पयोधरम् । कपिशकेसरकेसरिशङ्कया प्रतिनदन्ति न दन्तिगणाः क्षणम् ॥ ४९॥ कलमरालवधूमुखखण्डितं विपुलवप्रजले कमलाकरम् । निकटमप्यवधीरयति स्म साभिनवशालिवशालिपरम्परा ॥ ५० ॥ अयमनङ्गगजस्य मदाम्भसः परिमलो न तु शारदभूरुहः । इयमयस्त्रिपदी त्रुटिताभितः कमलिनीमलिनीविततिर्न तु ॥ ११ ॥ हृदयहारिहरिन्मणिकण्ठिकाकलितशोणमणीव नभःश्रियः । ततिरुदैक्षि जनैः शुकपत्रिणां भ्रमवतामवतारितकौतुका ॥ ५२ ॥ मरुति वाति हिमोदयदुःसहे सहसि संततशीतभयादिव । हृदि समिद्धवियोगहुताशने वरतनोरतनोद्वसति स्मरः ॥ १३ ॥ पतितमेव तदा हिममङ्गिनां वपुषि कीर्तिहरं शरदत्यये । शरणमुद्धतयौवनकामिनीस्तनभरो न भरोपचितो यदि ॥ १४ ॥ बहलकुङ्कुमपङ्ककृतादरा मंदनमुद्रितदन्तपदाधराः । तुहिनकालमतो घनकञ्चका निजगदुर्जगदुत्सवमङ्गनाः ॥ ५५ ॥ अपि जगत्सु मनोभवतेजसां प्रवणयन्त्यतिरेकमनेकशः । हिममयानि तदा सवितुर्महोमहिमहानिमहानि वितेनिरे ॥ ५६ ॥ स महिमोदयतः शिशिरो व्यधादपहृतप्रसरत्कमलाः प्रजाः । इति कृपालुरिवाश्रितदक्षिणो दिनकरो न करोपचयं दधौ ॥ १७ ॥ १. अभिनवशालिवशा-अलिपरम्परा. २. सप्तच्छदवृक्षस्य. ३. लोह शृङ्खला. ४. भ्रमरीश्रेणिः. ५. सिक्थकः, ६. महः-महिम-हानिमू-अहानि.

८२ काव्यमाला। विघटयन्नखिलेन्द्रियपाटवं भृशमुरीकृतधर्मदिगाश्रयः । वपुषि विभ्रदसौ तपसा महः कशमिनः शमिनः समतां दधौ ॥१८॥ मृगदशामिह सीत्कृतकम्पिताधरपुटस्फुटदन्तसमद्युतः । विदधिरे नवकुन्दलता दलत्सुमनसो मनसो धृतिमङ्गिनाम् ॥ ५९ ॥ सुरभिपत्रवतः कुसुमेष्वभून्मरुवकस्य जनो विगतस्टहः । सुभगरूपजुषो मृगचक्षुषः प्रथितमान्यतमान्यगुणेष्विव ॥ ६० ॥ इह हि रोध्ररजांसि यशांसि वा विशदभांसि जगज्जयशालिनः । विदधिरे न मनोभवभूपतेः सममनन्तमनन्तरितं भुवा ॥ ६१ ॥ करणबन्धविवर्तनसाक्षिणीः समधिगम्य निशाः सुरतक्षमाः । तपसि कामिगणस्तरुणीजनैररमतारमतामसमानसैः ॥ ६२ ॥ अथ दिदाममुं रमणीयतामृतुगणस्य समं समुपेयुषः । अभिदधे जिनमित्यमराधिपो विनयतो नयतोषितभूत्रयम् ।। ६३ ॥ ऋतुकदम्बकमाह्वयतीव वः श्रवणगोचरतां युगपद्तैः । भ्रमरकोकिलहंसकलापिनां रसकलैः सकलैरपि निःस्वनैः ॥ ६४ ॥ सेना सुराणाममना मितारम्भवत्ययाना मधुना च येन । सेना सुराणा मम नॉमितारं भवत्यंयानामधुना चयेन ॥ ६५ ॥ प्रभावितानेकलतागताया प्रभाविताने कलता गता या। प्रभावितानेकैलतांगताया सा स्त्री मधौ किं स्टहणीयपुण्या ॥ ६६ ॥ वीक्ष्याङ्गना सत्तिलकान्सरागा विलासमुद्रायतनेऽत्र कान्ते । गुणांस्त्वयीवाभवदस्तशत्राविलौं समुद्रायतनेत्रकान्ते ॥ ६७ ॥ पदप्रहारैः पुरुषेण दधे मदः समुद्यत्तरुणीहतेन ! रुतं तदश्रावि वने पिकीनामदः समुद्यत्तरुणीह तेन ॥ ६८ ॥ १. प्रथित-मान्यतम-अन्यतमगुणेषु. २. अमनस्का. ३. मनोविरहान्मितारम्भवती. ४. गमनरहिता. ५. कामदेवेन सह. इ: कामः. ६. स्तुतिमुखरा. ७. नामिता-अरम्, ८. अयानां भाग्यानां चयेन. ९. अवलोकितबहुविधवल्लीवृक्षविस्तारा. १०. मनोज्ञता. ११. प्रभौ-इता-न. १२. हे इकलत, इ: कामस्तद्वत्कलता मनोज्ञता यस्य तत्संबोधनम्, १३. अप्राप्तशुभविधिः. १४. भूमिः. १५. समुद्रा-आयतनेत्रकान्ते. १६. समुत्-यत्- तरुणि-(वृक्षे)-इह. ।

१२ सर्गः ८३ धर्मशर्माभ्युदयम् । त्वामद्य केकिध्वनितापदेशात्सुराजमानेन स मानवेन । घनागमः स्तोत्यमृतोदयार्थी मुंराजमानेनस मा नैवेन ॥ ६९ ॥ कलापि नो मन्दरसानुगास्ते पयोदलेशोपहिता हिमांशोः । कलापिनो मन्दरसानुगास्ते संभाव्यते तेन शरत्प्रवृत्तिः ॥ ७० ॥ गुणलतेव धनुर्धमरावली शरदि तामरसं गमिताधिकम् । ततिरतोऽप्सरसां कुसुमेषुणा शरदितामरसङ्गमिताधिकम् ॥ ७१ ।। इति वचनमुदारं भाषमाणे मुदारं प्रशमितवजिनस्य स्वर्गिनाथे जिनस्य । मतिरिह बैनगानां रन्तुमासीन्नगानां ततिषु कुसुमलीनां वीक्ष्य पालीमलीनाम् ॥ ७२ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्य एकादशः सर्गः । । द्वादशः सर्गः दिदृक्षया काननसंपदां पुरादथायमिक्ष्वाकुपतिर्विनिर्ययौ । विधीयतेऽन्योऽप्यनुयायिनां गुणैः समाहितः किं न तथाविधः प्रभुः ॥१॥ बभूव यत्पुष्पवतीमृतुक्षणे वनस्थली सेवितुमुत्सुको जनः । अचिन्तितात्मक्रमविष्लवो महान्मनोनुरागः खलु तत्र कारणम् ॥ २॥ विकासिपुष्पगुणि कानने जनाः प्रयातुमीषुः सह कामिनीगणैः । स्मरस्य पञ्चापि न पुष्पमार्गणा भवन्ति सह्याः किमसंख्यतां गताः ॥ ३ ॥ बभौ तदारक्तमलक्तकद्रवैर्वधूजनस्याभिसरोरुहद्वयम् । पथि स्थलाम्भोरुहकोटिकण्टकक्षतक्षरच्छोणितसंचयैरिव ॥ ४ ॥ गतागतेषु स्खलितं वितन्वता नितम्बमारेण समं जडात्मना । भुजौ सुटत्तावपि कङ्कणक्वणैः किलाङ्गनानां कलहं प्रचक्रतुः ॥ ५ ॥ १. हे मनुष्यस्वामिन्. २. हे सुराजम. शोभना राज्ञा मा यस्य तत्संबोधनम्, ३. स्त- वेन. ४. मन्दर-सानु-गा-आस्ते. ५. मन्द-रस-अनुगा:-ते. ६. शरदिता बाणख- ण्डिता अतएव अमरसङ्गमिता देवसङ्गं प्राप्ता. अधिकं जले. ७. धनं निरन्तरं गानं यस्यास्तासू.

८४ काव्यमाला। गुरुस्तनाभोगभरेण मध्यतः कशोदरीयं झटिति त्रुटिप्यति । इतीव काञ्ची कलकिङ्किणीक्वगैर्मगीदृशः पूत्कुरुते स्म वर्त्मनि ॥ ६ ॥ नितम्बसंवाहनबाहुलालनश्रमोदभारापनयादिभिर्धनैः । चटूनि चक्रे मुहुरेणचक्षुषां विचक्षणो दक्षिणमारुतः पथि ॥ ७ ॥ प्रवालशालिन्यनपेतविभ्रमा नितान्तमुचैस्तनगुच्छलाञ्छिता । सलीलमुद्यतरुणावलम्बिता वनं ययौ कापि लतेव जङ्गमा ॥ ८ ॥ नितम्बबिम्बप्रसराहतक्रमः कुचस्थलीताडनमूर्छितश्च यः । विलासिनीनां मलयाद्रिमारुतः स जीव्यते स्म श्वसितानिलैः पथि ॥९॥ प्रियस्य कण्ठार्पितबाहुबन्धना पथि स्खलन्ती विनिमीलनादृशोः । प्रकाशयन्तीव मनोभवान्धता जगाम काचिद्वनमेणलोचना ॥ १० ॥ यथाभवन्नूपुरपाणिकङ्कणकणप्रगल्भो मणिकिङ्किणीरवः । उपयुषीणां वनमेणचक्षुषां तथा पुरो लास्यमवत्त मन्मथः ॥ ११ ॥ उदञ्चति भ्रूलतिका मुहुर्मुहुः प्रकम्पते तन्वि यदोष्ठपल्लवः । अवमि तेन स्मितपुष्पशातनो विजृम्भते ते हृदि मानमारुतः ॥ १२ ॥ जगज्जनानन्दविधायिनि क्षणे यथा त्वयारम्भि मृगाक्षि विग्रहः । मनस्विनीनां सुलभाभिमानता महानृतुप्रक्रम एष दुर्लभः ॥ १३ ॥ अथापराद्धं दयितेन कुत्रचिद्विनोपपत्येति तवाकुलं मनः । परस्परं प्रेम समुन्नतिं गतं भयानि भामिन्यपदेऽपि पश्यति ॥ १४ ॥ अनन्यनारीप्रणयिन्यपि त्वया यदागसां चिह्नमदर्शि स भ्रमः । रसेन यस्त्वामभितोऽपि वीक्षते कथं स ते विप्रियमाचरिष्यति ॥ १५ ॥ अपास्तपीयूषमयूखशोभया प्रभातकान्त्येव वियुक्तया त्वया । अनुज्झितस्नेहभरः स संप्रति प्रपद्यते दीप इवाभिपाण्डुताम् ।। १६ ॥ कृतेय॑येव त्वयि दत्तचेतसो गतं क्षुधेव क्वचिदस्य निद्रया। मुखस्य ते दास्यमिवागतोऽधुना शशी स शीतोऽपि ददाह तद्वपुः ॥१७॥ १. पल्लवयुक्ता प्रकृष्टकेशयुक्ता च. २. विलाससहिता पक्षिसंचारसमेता च. ३. उच्चै- स्तन-गुच्छलाञ्छिता; उच्चैः स्तनगुच्छलाञ्छिता. ४. तरुणा वृक्षण तरुणपुरुषेण च अवलम्बिता.

१२ सर्ग:
धर्मशर्माभ्युदयम् ।
ध्रुवं वियोगे कुसुमेषुमार्गणैस्तवापि भिन्नं हृदयं विभाव्यते ।
अमी समुल्लासितसारसौरभाः स्फुरन्ति निःश्वाससमीरणाः कुतः ॥ १८ ॥
तदस्तु संधिर्युवयोः प्रसीद नः प्रतप्तयोरायसपिण्डयोरिव ।
सखीभिरित्थं गदितानुकूलयांचकार कान्तं किल कापि कामिनी ॥ १९ ॥
विभिद्य मानं कलकोकिलस्वने मनोनुरागं मिथुनेषु तन्वति ।
कुतूहलादेव स केवलं तदा धनुर्बुनीते स्म जगज्जयो स्मरः ॥ २० ॥
त्रिनेत्रसङ्ग्रामभरे पलायितः स्मरस्य विश्वासपदं कथं मधुः ।
उमार्पितप्रत्यय एष मन्यते विलासिनीर्जीवितदानपण्डिताः ॥ २१ ॥
विवर्णतां लोकबहिःस्थिति पिका मधुं प्रभुद्रोहिणमाश्रिता ययुः ।
नतध्रुवां पादयुगस्य पङ्कजं समाश्रितच्छायमभूत्पदं श्रियः ॥ २२ ॥
तरुन्निषङ्गानिव बिभ्रतामुना स्मरस्य पौष्पाः कति नार्पिताः शराः ।
परं तथाप्येष जगज्जये वधूकटाक्षमेवेषुममन्यत क्षमम् ॥ २३ ॥
वसन्तलीलामलयानिलादिभिः समं मनोभूः समयेन युज्यते ।
निरन्तरं तस्य समस्तदिग्जये सहायभावं सुदृशो वितन्वते ॥ २४ ॥
इति प्रसङ्गादुपलालिताः प्रियैः स्वशक्तिमाकर्ण्य मधुप्रधर्षिणीम् ।
खरूपगर्वोहरकंधराः स्खलत्पदप्रचारं पथि जग्मुरङ्गनाः ॥ २९ ।।
प्रभोदयाह्लादितलोकलोचनो विलासिनीभिः परिवारितस्ततः ।
शशीव ताराभिरलंकृतो घनं वनं विवेशोत्तरकोशलेश्वरः ॥ २६ ॥
गिरीशलीलावनमित्युपश्रुतेभ्रमन्निह लोषमयादिव स्मरः ।
न कान्तिपीयूषनिधानकुम्भयोर्मुमोच कान्ताकुचयोरुपान्तिकम् ॥ २७ ॥
ध्रुवं त्रिनेत्रानलदाहतः प्रभृत्युदर्चिषि द्वेषमुपागतः स्मरः ।
यदत्र सान्द्रद्रुमदीर्घदुर्दिने वने निवासैकरसो बभूव सः ॥ २८ ॥
इहाबभौ मारुतधूतकेतकीपरागपांसुप्रकरः समन्ततः ।
अनङ्गदावानलमीलितात्मनां वियोगभाजामिव भस्मसंचयः ॥ २९ ॥

काव्यमाला।
इतस्ततः कज्जलकोमला दधौ पुरो भ्रमन्ती भ्रमराङ्गनावलिः ।
जगजिगीषोविषमेषुभूभुजः कराग्रवल्गन्निशितासिविभ्रमम् ॥ ३० ॥
विजित्य बाणैर्मदनस्य कुर्वतः समस्तमेकातपवारणं जगत् ।
अभङ्गुरां षट्पदबन्दिनो वने जगुस्तदानी बिरुदावलीमिव ॥ ३१ ॥
परागपुञ्जा यदि पुष्पजा अमी न पांसुतल्पाः स्मरमत्तदन्तिनः ।
अलिच्छलात्पान्यवधाय धावतः कथं तदन्तस्त्रुटिताकि शृङ्खला ॥ ३२ ॥
ददत्तवालौष्ठमुपात्तयौवनो मधुः प्रसूनांशुककर्षणोत्सुकः ।
लतावधूनामिह संगमे जनैरदर्शि कूजन्निव कोकिलस्वनैः ॥ ३३ ॥
शिखण्डिनां ताण्डवमत्र वीक्षितुं तवास्ति चेञ्चेतसि तन्वि कौतुकम् ।
समाल्यमुद्दामनितम्बचुम्बिनं सुकेशि तत्संटणु केशसंचयम् ॥ ३४ ॥
जलेषु ते वक्रसरोजनिर्जितो जनैः स्फुटच्चारुसरोरुहाकरः ।
अदर्शि सव्रीड इवोदरे क्षिपन्क्रपाणपुत्रीमिव षट्पदावलिम् ॥ ३५ ॥
सविभ्रमं वीक्ष्य तवेक्षणद्वयं गतं च वाचालितरत्ननूपुरम् ।
महोत्पलैर्वारि निमीलितं दिवि ह्रियेव हंसैश्च पलायितं जवात् ॥ ३६ ॥
यदि स्फुरिष्यन्ति तवाधरातेः पुरः कियत्कालमशोकपल्लवाः ।
तदाधिगत्यान्तरमुद्यतत्रपा ध्रुवं गमिष्यन्ति विवर्णताममी ॥ ३७ ॥
भव क्षणं चण्डि वियोगिनीजने दयालुरुन्मुद्रय सुन्दरी गिरम् ।
अमी हताशाः प्रथयन्तु मूकतां कृतान्तदूता इव लक्षिताः पिकाः ॥३८॥
उदीरयन्नित्यमृतप्रपां गिरं विचित्रचाटूक्तिविचक्षणः क्षणात् ।
प्रसर्पदानन्दतिरोहितक्रुधं चकार कश्चित्तरुणो मनस्विनीम् ॥ ३९ ॥
(कुलकम्)
अगोचरं चण्डरुचेरपि द्युतां निकुञ्जलीलासदनेषु पुञ्जितम् ।
प्रभाभिरुद्भासितवीरुधस्तमो विनिन्यिरे भङ्गमनङ्गदीपिकाः ॥ ४० ॥
परिभ्रमन्त्यः कुसुमोच्चिचीषया विरेजिरे तत्र सरोजलोचनाः ।
जिनेन्द्रमभ्यर्चयितुं सपर्यया कृतप्रयत्ना वनदेवता इव ॥ ४१ ॥
उदग्रशाखाकुसुमार्घमुदुजा व्युदस्य पाणिद्वयमञ्चितोदरी ।
नितम्बभूत्रस्तदुकूलबन्धना नितम्बिनी कस्य चकार नोत्सवम् ॥ १२ ॥

१२ सर्ग:7 धर्मशर्माभ्युदयम् । करैः प्रवालान्कुसुमानि लोचनैर्नखांशुभिस्तत्र विजित्य मञ्जरीः । वधूजनस्यास्य जिघृक्षतो भयात्किलाचकम्पे पवनाहतं वनम् ॥ ४३ ॥ प्रमत्तकान्ताकरसंगमादमी सदागमाभ्यासरसोज्ज्वला अपि । क्षणान्निपेतुः सुमनोगणा यतो ह्रियेव विच्छायमभूत्ततो वनम् ॥ ४४ ॥ किमन्यदन्ये पिकपञ्चमादयो यशांसि पुण्यैरलभन्त सेवकाः । समर्थ्यते कार्यमनङ्गभूपतेः पुनस्तदेकेन वसन्तशाखिना ॥ ४५ ॥ इतीव काचिन्नवचूतमञ्जरी प्रियस्य वश्यौषधिमाददे मुदा । स्वमेव तदर्शनमात्रकर्मणा विवेद मुग्धा न वशीलतं पुरा ॥ ४६ ॥ (युग्मम्) लताग्रदोलाञ्चनलीलया मुहुर्नतोन्नतस्फारनितम्बमण्डला । श्रमं प्रचक्रे पुरुषायितक्रियाप्रकर्षहेतोरिव कापि कामिनी ॥ १७ ॥ स्वमूर्ध्नि चूडामणिरश्मिकार्मुके निवेशयन्ती नवनीपगोलकम् । पिकाय मर्मव्यथकाय कानने निबद्धलक्ष्येव वधूरलक्ष्यत ॥ १८ ॥ कयाचिदुज्जृम्भितचारुचम्पकप्रसूनमाला जगृहे न पाणिना । स्मरान्तकग्रस्तवियोगिनीच्युतां विडम्बयन्ती कलधौतमेखलाम् ॥ ४९ ॥ उदाशाखाञ्चनचञ्चलाङ्गुले जस्य मूलं स्टशति प्रिये छलात् । स्मितं वधूनामिव वीक्ष्य सत्रपैरमुच्यतात्मा कुसुमैर्दुमाग्रतः ॥ ५० ॥ मिथः प्रदत्तैर्नवपुष्पदामभिर्बभुस्तदानीं मिथुनानि सर्वतः । अवन्ध्यपातप्रसरैः प्रकोपतश्चितानि बाणैरिव पुष्पधन्वना ॥ ११ ॥ विपक्षनामापि कुरङ्गचक्षुषां बभूव मन्त्रो ध्रुवमाभिचारिकः । प्रियैस्तदुच्चारणपूर्वमर्पिता प्रसूनमाला यदियाय वज्रताम् ॥ ५२ ॥ रतावसाने लतिकागृहाद्वधूर्विनियंतीः चिन्नकपोलमण्डलाः । प्रवीजयन्ति स्म समीरणेरितैः प्रवाललीलाव्यजनैर्महीरुहाः ॥ १३ ॥ स्रजो विचित्रा हृदि जीवितेश्वरैः समाहिताश्चारुचकोरचक्षुषाम् । तदन्तरेऽन्तर्विशतो मनोभुवश्चकासिरे वन्दनमालिका इव ॥ ५४ ॥ १ आम्रेण.

24 काव्यमाला। स्मितं विलासस्य कटाक्षविभ्रमं रतेरनङ्गस्य सुधारसच्छटाः । यशांसि तारुण्यनृपस्य मेनिरे विलासिनीनां शिरसि स्रजो जनाः ॥ ५५ ॥ प्रसूनशून्येऽपि तदर्थिनी तरौ नियोजयन्ती करपल्लवं मुहुः । निरीक्षणात्पत्युरनङ्गविह्वला स्मितं सखीनां विदधे सुलोचना ॥ ५६ ॥ तदा यदासीत्तनुरामणीयकं प्रसूनमालाभरणैर्मगीदृशाम् । अवैति तद्वर्णयितुं तदा स्मरो यदा कवित्वं लभते प्रसादतः ॥ १७ ॥ कृतेऽपि पुष्पावचये समन्ततो लतासु लीलार्पितपाणिपल्लवाः । स्फुरन्नखांशुप्रकरण तत्क्षणं वितेनिरे पुष्पविभङ्गिमङ्गनाः ॥ १८ ॥ प्रमूनलक्ष्मीमपहृत्य गच्छतां वधूजनानां भयलोलचक्षुषाम् । वनेन मुक्ता विषमेषुशालिना शिलीमुखास्तत्र निपेतुरन्तिके ॥ ५९ ॥ समुल्लसत्संमदबाष्पबिन्दुभिनिलीयमानौरव लोचनैर्नृणाम् । वपुर्जलाई श्रमभारभङ्गुरास्तदा वहन्ति स्म कुरङ्गलोचनाः ॥ ६ ॥ शुभ्राम्भोजविशाललोचनयुगोपान्तेषु विभ्रन्नवां सद्यः प्रस्फुटशुक्तिसंपुटतटीनिष्क्रान्तमुक्ताकतिम् । मूले च स्तनकुम्भयोरनुकृतथ्योतत्सुधाम्भोलवः स्त्रीणां जीवितमन्मथः समजनि स्वेदोदबिन्दुव्रजः ॥ ६१ ॥ वनान्मकरकेतनप्रणयिनः करोल्लासित- स्फुरत्कमलकेलयस्तुलितपूर्णचन्द्राननाः । अशेषकुसुमोच्चयश्रमजलादेहास्ततो जवाजनितविस्मयाः श्रिय इव स्त्रियो निर्ययुः ॥ १२ ॥ तादृक्कान्ताचरणकमलस्पर्शजाग्रत्स्मरस्य प्रस्वेदाम्बुद्रव इव पुरो विन्ध्यधात्रीधरस्य । उद्दामोर्मिप्रसरपुलको धर्ममर्मव्यथायां दृष्टः सैन्यैरसिरिव महान्नर्मदाम्भःप्रवाहः ॥ ६३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये द्वादशः सर्गः ।

१३ सर्गः] धर्मशर्माभ्युदयम् । ८९ त्रयोदशः सर्गः । द्विगुणितमिव यात्रया वनानां स्तनजघनोहहनश्रमं वहन्त्यः । जलविहरणवाञ्छया सकान्ता ययुरथ मेकलकन्यकां तरुण्यः ॥ १ ॥ जलभरपरिरम्भदत्तचित्ताः श्रमसलिलप्रसरच्छलेन रागात् । प्रथममिव समेत्य संमुखं ताः सपदि जलैः परिरेभिरे तरुण्यः ॥ २ ॥ क्षितितलविनिवेशनात्प्रसर्पन्नखमणिशोणमयूखमङ्गियुग्मम् । श्रमनिवहविलम्बमानजिह्वाप्रसरमिवाध्वनि सुध्रुवां बभासे ॥ ३ ॥ प्रियकरकलितं विलासिनीनां नवशिखिपत्रमयातपत्रन्दम् । मृदुकरपरिमर्शनात्तसौख्यं वनमिव पृष्ठगतं रराज रागात् ॥ ४ ॥ इह मृगनयनासु साम्यमक्ष्णोः प्रथममवेक्ष्य विशश्वसुः कुरङ्गयः । तदनु निरुपमैर्भुवो विलासैर्विजितगुणा इव ताः प्रणश्य जग्मुः ॥ ५ ॥ वदनमनु मृगीदशो द्रुमाग्रात्पतदलिमण्डलमाशु गन्धलुब्धम् । क्षितिगतशशिनो भ्रमेण राहोरवतरतो गगनायुतिं जहार ॥ ६ ॥ दिनकरकिरणैरुपर्यधस्तात्तुलितकुकूलकशानुभिः परागैः । पुटनिहितसुवर्णवद्वधूभिः खतनुरमन्यत हन्त तप्यमाना ॥ ७ ॥ वनविहरणखेदनिःसहं ते वपुरतिपीनपयोधरं बभूव । इति किल स मुदस्य कोऽपि दोा युवतिमनाकुलितो जगाम रागी ॥८॥ मिलदुरसिजचक्रवाकयुग्माः प्रथयति भास्वति यौवने प्रकाशम् । स्फुटरवकलहंसकास्तरुण्यः सरित इव प्रतिपेदिरे नदी ताम् ॥ ९ ॥ अधिगतकरुणारसेव रेवा श्रमभरमन्दरुचो विलोक्य तन्वीः । जललवनिचितारविन्ददम्भात्सपदि सबाप्पकणेक्षणा बभूव ॥ १० ॥ प्रकटय पुलिनानि दर्शयाम्भोभ्रमणमुदञ्चय निर्भरं तरङ्गान् । धनजघनगभीरनाभिनृत्यद्भुकुटि तुलां न तथाप्युपैषि तन्व्याः ॥ ११ ॥ नयनमिव महोत्पलं तरुण्याः सरसिजमास्यनिभं च मन्यसे यत् । तदुभयमपि विभ्रमरुभाभ्यां जितमिह वल्गसि किं स्योहहन्ती ॥ १२ ॥ इति मुहुरपरैर्यथार्थमुक्ता क्षणमपि न स्थिरतां दधौ ह्रियेव । गिरिविवरतलान्यधोमुखी सा परमपराब्धिवधूद्रुतं जगाम॥१३॥(कालापकम्) १२ LANTHAORADAHAITAMINA Miniansevine ९० काव्यमाला । प्रकटितपुलकेव सा स्वन्ती विदलितशैवलराजिमञ्जरीभिः । सरलिततरलोमिबाहुदण्डा प्रणयभरादिव दातुमङ्कपालिम् ॥ १४ ॥ स्मितमिव नवफेनमुद्वहन्ती प्रथममनल्पसरोजकल्पिता; । कलविहगरौवरवालपन्ती व्यतनुत पाद्यमिवाम्बुभिर्वधूनाम् ॥१५॥(युग्मम्) उपनदि पुलिने प्रियस्य मुक्तामणिमयभूषणभाजि वक्षसीव । खयमुपरि निपत्य कापि रागान्मुहुरिह लोलयति स्म चञ्चलाक्षी ॥ १६ ॥ प्रणिहितमनसो मृगेक्षणानां चटुलविवर्तितनेत्रविभ्रमेषु । प्रविदधुरधिकस्टहां ह्रदिन्यां चलशफरीस्फुरिते क्षणं युवा नः ॥ १७ ॥ उपनदि नलिनीवनेषु गुञ्जत्यलिनि निमीलितलोचनः कुरङ्गः । तटगतमपि नो ददर्श सैन्यं नहि विषयान्धमतिः किमप्यवैति ॥ १८ ॥ कथमपि तटिनीमगाहमानाश्चकितदशः प्रतिमाछलेन तन्व्यः । इह पयसि भुजावलम्बनार्थं समभिसृता इव वारिदेवताभिः ॥ १९ ॥ अधिगतनदमप्यगाधभावैः सलिलविहारपरिच्छदं वहन्त्यः । प्रणयिभिरथ धार्यमाणहस्ताः प्रविविशुरम्भसि कातरास्तरुण्यः ॥ २० ॥ अविरलपलितायमानफेनं वैलिनमिवोर्मिभिरङ्गमुद्वहन्ती । जतुबहलवधूपदप्रहारैरजनि सरिजरती रुषेव रक्ता ॥ २१ ॥ ध्वनिविजितगुणोऽप्यनेकधायं रटति पुरः कथमत्रपो मरालः । इति समुचितवेदिनेव तन्व्याः स्थितमिह वारिणि नूपुरेण तूष्णीम् ॥२२॥ प्रसरति जललीलया जनेऽस्मिन्बिसवदनो दिवमुत्पपात हंसः । नवपरिभवलेखभन्नलिन्या प्रहित इवांशुमते प्रियाय दूतः ।। २३ ॥ पृथुतरजघनैनितम्बिनीनां स्खलितगतिः पयसामभूत्प्रवाहः । अधिगतवनितानितम्बभारः कथमथवा सरसः पुरः प्रयाति ॥ २४ ॥ अपहृतवसने जडेन लौल्याज्जघनशिलाफलके नितम्बवत्याः । करजलिपिपदात्तदाविरासीहिषमशरस्य जगज्जयप्रशस्तिः ॥ २५ ॥ कथमधिकगुणं करं मृगाक्षी क्षिपति मयीह वनान्तमाश्रितायाम् । इति विदितपराभवेव लक्ष्मीः सपदि सरोजनिवासमुत्ससर्ज ॥ २६ ॥ १. वलीयुक्तम्.

१३ सर्गः]
धर्मशर्माभ्युदयम् ।
९१
निवसनमिव शैवलं निरस्य स्टशति जने नवसङ्गभाभि मध्यम् ।
वदनमिव पिधातुमुद्यतोमि प्रसरकराथ सरिद्वधूश्चकम्पे ॥ २७ ॥
पृथुतरजघनैविलोड्यमाना युवतिजनैः कलुषत्वमाश्रयन्ती ।
स्वपुलिनमुपसर्पिभिः पयोभिः सरिदुपगोपयति स्म लज्जितेव ॥ २८ ॥
प्रतियुवति निषेव्य नाभिरन्ध्रेष्वभिनवविन्ध्यदरीप्रवेशलीलाम् ।
अभजत गुरुगण्डशैलयुक्त्या स्तनकलशाग्रविघटनानि रेवा ॥ २९॥
वरतनुजवनाहतैर्गभीरप्रकृतिमिरप्यतिचाभे पयोभिः ।
इह विकृतिमुपैति पण्डितोऽपि प्रणयवतीषु न किं जडस्वभावः ॥ ३० ॥
समसिचत मुहुर्मुहुः कुचाग्रं करसलिलैर्दयितो विमुग्धवध्वाः ।
मृदुतरहृदयस्थलीप्ररूढस्मरनवकल्पतरोरिवाभिवृद्ध्यै ।। ३१ ॥
स्तनतटपरिघहितैः पयोभिः सपदि गले परिरेभिरे तरुण्यः ।
अधिगतहृदया मनस्विनीनां किमु विलसन्मकरध्वजा न कुर्युः ।। ३२ ॥
हृदि निहितघटेव बद्धतुम्बीफललुलिताङ्गलतेव कापि तन्वी ।
इह पयसि सविभ्रमं तरन्ती पृथुलकुचोच्चयशालिनी रराज ॥ ३३ ॥
तटमनयत चारुचम्पकानां स्वजमबलागलविच्युतां तरङ्गैः ।
निजदयितरिपोरिवौर्ववह्नः प्रचुरशिखापरिशङ्कया स्त्रवन्ती ॥ ३४ ॥
प्रियतमकरकल्पितेऽङ्गरागे प्रथममगान्न तथा लमं सपत्नी ।
अनुनदि सलिलैर्यथापनीते नखपदमण्डनवीक्षणान्मृगाक्ष्याः ॥ ३५ ॥
नवनखपदरानिरम्बुजाक्ष्या हृदि जलबिन्दुकरम्बिता बभासे ।
वरसारदुपेढाकितप्रवालव्यतिकरदन्तुररत्नकण्ठिकेव ॥ ३६ ॥
सरभसमधिपेन सिच्यमाने पृथुलपयोधरमण्डले प्रियायाः ।
श्रमसलिलमिषात्सखेइमश्रूण्यहह मुमोच कुचद्वयं सपत्न्याः॥ ३७ ॥
प्रियकरसलिलोक्षितातिपीनस्तनकलशोत्थितसीकरैस्तरुण्याः ।
प्रतियुवतिरथर्वसारमन्त्राक्षरनिकरैरिव ताडिता मुमूर्छ ॥ ॥ ३८ ॥
अहमिह गुरुलज्जया हतोऽस्मि भ्रमर विवेकनिधिस्त्वमेक एव ।
मुखमनु सुमुखी करौ धुनाना यदुपजनं भवता मुहुश्चचुम्बे ॥ ३९ ॥

९२ काव्यमाला। इति सरसिरुहभ्रमातिप्रयाणामनुसरते वदनानि षट्पदाय । रतिरसरसिकोऽपि लज्जमानः किमपि हृदि स्टहयांबभूव कामी ४० (युग्मम्) प्रियकरसलिलैमनस्विनीनां न्यशमि हृदि प्रबलोऽपि मन्युवह्निः । अविरलमलिनाञ्जनप्रवाहो नयनयुगान्निरगादिवास्य धूमः ॥ ४ १ ॥ अपहृतवसने जलैनितम्बे निहितदृशं करकेलिपङ्कजेन । प्रियमुरसि विनिम्नती स्मरस्य स्फुटमकरोत्कुसुमायुधत्वमेका ॥ ४२ ॥ मुखतुहिनकरेऽपि संहतेन स्तनयुगलेन तुलां कुतोऽधिरूढे । इति जघनहतं पयो वधूनां रजनिवियोगिविहंगमौ निरासे ॥ १३ ॥ सरभसमिह यत्तटात्पतन्त्यः प्रविविशुरन्तरशङ्कितास्तरुण्यः । घनपुलक इवाशयो जलानां तदुदितबुद्बुदाबिन्दुभिर्बभूव ॥ ४४ ॥ प्रियकरविहितामृताभिषेकैरुरसि हरानलदग्धविग्रहोऽपि । प्रतिफलितचलहिरेफदम्भादनि सजीव इव स्मरस्तरुण्याः ॥ ४५ ॥ निपतितमरविन्दमङ्गनायाः श्रवणतटादतिदुर्लभोपभोगात् । मधुकरनिकरखनैर्विलोले पयसि शुचेव समाकुलं रुरोद ॥ १६ ॥ अविरललहरीप्रसार्यमाणैस्तरलदृशश्चकितेव केशजालैः । स्तनकलशतटान्ममज पत्रान्तरमकरी सरितः पयस्यगाधे ॥ ४७ ॥ अभजत जघनं जघान वक्षस्तरलतरङ्गकरैश्चकर्ष केशान् । विट इव जलराशिरङ्गनानां सरभसपाणिपुटाहतश्चुकूज ॥ ४८ ॥ मुखमपहृतपत्रमङ्गनानां प्रबलजलैरवलोक्य शङ्कितेव । सरिदकृत पुनस्तदर्थमूर्मिप्रसरकरार्पितशेवलप्ररोहैः ॥ ४९ ॥ सपदि वरतनोरतन्यतान्तर्य इह परिप्वजता जडेन रागः । स किल विमलयोर्युगे तदक्ष्णोः स्फटिक इव प्रकटीबभूव तस्याः ॥१०॥ निरलकमपवस्त्रमस्तमाल्यं क्षततिलकं च्युतयावकाधरौष्ठम् । सह दयिततनिषेव्यमाणं सुरतमिवाम्बु मुदेऽभवद्वधूनाम् ॥ ११ ॥ श्रवणपथरतापि कामिनीनां विशदगुणाप्यपदूषणापि दृष्टिः । अभजत जडसंगमेन रागं धिगधिकनीचरताश्रयं जनानाम् ॥ १२ ॥ १. केशकौटिल्यरोहित्यात.

१३ सर्गः] धर्मशर्माभ्युदयम् । ९३ धुतकरवलयस्वनं निशम्य प्रतियुवतेरलिखण्डिताधरामाः । अविहितकथया कयापि सेय विवलितकंधरमैक्षि जीवितेशः ॥ १३ ॥ अकलुषतरवारिभिर्विभिन्नास्वभिनवपत्रलतासु कामिनीनाम् । नखपदविततिर्दधौ कुचान्तर्भुवि परिशेषितरक्तकन्दलीलाम् ॥ ५४ ॥ अविरतजलकेलिलोलकान्तास्तनकलशच्युतकुङ्कुमैस्तदानीम् । कृतबहलविलेपनेव रेवा पतिमकरोत्सरितामतीव रक्तम् ॥ ५५ ॥ अहमुदयवता जनेन नीचैःपथनिरतापि यदृच्छयोपभुक्ता । इति सरलितवीचिबाहुदण्डा प्रमदभरादिव वाहिनी ननत ॥ १६ ॥ दिनमैबलमथो गृहान्प्रयाथ क्षणमहमप्यभयं भजामि कान्तम् । इति करुणरुतेन चक्रवाक्या समभिहिता इव ताः प्रयातुमीषुः ॥ १७ ॥ इति कृतजलकेलिकौतुकास्ताः सह दयितैः सुदृशस्ततोऽवतेरुः । कलुषितहृदयस्तदा नदोऽपि प्रकटमभूदिव तद्वियोगदुःखैः ॥ ५८ ॥ जलविहरणकलिमुत्सृजन्त्याः कचनिचयः क्षरदम्बुरम्बुजाक्ष्याः । परिविदितनितम्बसङ्गसौख्यः पुनरपि बन्धभियेव रोदिति स्म ।। ५९ ॥ मुखशशिविमुखीकतावतारे सतमसि पक्ष इवोच्चये कचानाम् । अविरलजलबिन्दवस्तदानीमुडुनिकरा इव रेजिरे वधूनाम् ॥ ६० ॥ प्रणयमथ जलाविलांशुकानां मुमुचुरुदारदृशः क्षणात्तदानीम् । ध्रुवमवगणयन्ति जाड्यभीत्या स्वयमपि नीरसमागतं विदग्धाः ॥ ६१ ॥ अतिशयपरिभोगतोऽम्बुलीलारसमयतामिव सुभ्रुवोऽभिजग्मुः । सितसिचयपदाद्यदुत्तरङ्ग पुनरपि भेजुरिमाः पयःपयोधिम् ॥ ६२ ॥ मैरुदपहृतकंकणापि कामं करकलितामलकङ्कणा तदानीम् । कचनिचयविभूषितापि चित्रं विकचसरोजमुखी रराज काचित् ।। ६३ ॥ अनुकलितगुणस्य सौमनस्यं प्रकटमभूत्कुसुमोच्चयस्य तेन । अहमहमिकया स्वयं वधूभिर्यदयमधार्यत मूर्ध्नि संभ्रमेण ॥ ६४ ॥ समुचितसमयेन मन्मथस्य त्रिभुवनराज्यपदे प्रतिष्ठितस्य । मृगमदतिलकच्छलान्मृगाक्षी न्यधित मुखे नवनीलमातपत्रम् ॥६५॥ १. समाप्तप्रायम्. २. नीर-समागतम; नीरसं-आगतम्. ३. पवनापनीतजलकणापि.

काव्यमाला। अभिनवशशिनो भ्रमेण मा भून्मम वदनेन समागमो मृगस्य । श्रवणगतमितीव कापि पाशद्वयमकरोन्मणिकुण्डलच्छलेन ॥ ६६ ॥ मृगमदघनसारसारपङ्कस्तबकितकुम्भनिभस्तनी सखीनाम् । हृदि मदनगजेन्द्रमात्तधूलीमदमिव काचिददर्शयत्कृशाङ्गी ॥ ६७ ॥ लवणिमरसपूर्णनाभिवापीमनु जलयन्त्रघटीगुणोपमानम् । निरवधि दधती कयापि मुक्तामणिमयहारलता न्यधायि कण्ठे ॥ ६८ ॥ अभिमुखमभिदह्यमानकृष्णागुरुधनधूमचयच्छलेन तन्व्यः । स्मरपरवशवल्लभाभिसारोत्सुकमनसः परिरेभिरे तमांसि ॥ ६९ ॥ रतिरमणविलासोल्लासलीलासु लोलाः किमपि किमपि चित्ते चिन्तयन्त्यस्तरुण्यः । प्रविरचितविचित्रोदारशृङ्गारसाराः सह निजनिजनाथैः स्वानि धामानि जग्मुः ॥ ७० ॥ इत्थं वारिविहारकेलिगलितश्रोणीदुकूलाञ्चला वीक्ष्यैताः परयोषितः सुझतधुर्यों जगद्वान्धवः । तद्दोषोपचयप्रमार्जनविधौ दत्ताशयः सांशुको- ऽप्यब्धि स्नातुमिवापरं दिनमणिस्तत्कालमेवागमत् ।। ७१ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये त्रयोदशः सर्ग: चतुर्दशः सर्गः। स्वं सप्तधा स्यन्दनसप्तिदम्भात्कृत्वा समाराधयतोऽथ वृद्ध्यै । ध्वान्तस्य भानुः कृपयेव दातुं प्रस्तावमस्ताचलसंमुखोऽभूत् ॥ १ ॥ अपास्य पूर्वामभिसर्तुकामो गुप्तां दिशं पाशधरेण सूर्यः । विलम्बमानापसरन्मयूखैः पपात पाशैरिव कृष्यमाणः ॥ २ ॥ स्वैराभिसारोत्सवसंनिरोधात्क्रोधोडुराणामिव बन्धकीनाम् । अर्कस्तदा रक्तकटाक्षलक्षच्छटाभिराताम्ररुचिर्बभूव ॥ ३ ॥ तां पूर्वगोत्रस्थितिमप्यपास्य यद्वारुणी नीचरतः सिषेवे । स्वसंनिधानादपसार्यते स्म महीयसा तेन विहायसार्कः ॥ ४ ॥ । १.रथाश्वव्याजातू. २. वरुणेन.

१४ सर्गः] धर्मशर्माभ्युदयम् । यथा यथा चण्डरुचिः प्रतीच्यां संतापमुत्सृज्य बभूव रक्तः । स्पर्धानुबन्धादिव कामिनोऽपि तथा तथा प्रेमवतीप्वरज्यन् ॥ ५ ॥ प्राप्तं पुनः प्रत्यगमोषधीषु न्यासीचकारात्मरुचोऽत्र कच्चित् । शेषा रविः स्थापयितुं दिनान्ते यियासुरस्ताचलमाजगाम ॥ ६ ॥ मूर्धीव लीलावनकुन्तलाब्ये तिष्ठन्भुवो भानुरिहास्तशैले । चूडामणित्वं प्रययौ दिनान्तेऽप्यहो, महत्त्वं महतामचिन्त्यम् ॥ ७ ॥ अस्ताद्रिमारुह्य रविः पयोधौ कैवर्तवक्षिप्तकराग्रजालः । आकृष्य चिक्षेप नभस्तटेऽसौ क्रमात्कुलीरं मकरं च मीनम् ॥ ८ ॥ आविर्भववान्तकृपाणयष्टया छिन्नेव मूले दिनवलिरुच्चैः । स्रस्तांशुमत्पक्कफला पतन्ती सद्यो जगद्व्याकुलमाततान ॥ ९ ॥ बिम्बेऽर्धमग्ने सवितुः पयोधौ प्रोद्वृत्तपोतभ्रममादधाने । लोलांशुकाष्ठाग्रविलम्बिताहःसांयात्रिकेणाम्बुनि मङ्खमीषे ॥ १० ॥ भूयो जगढूषणमेव कर्तुं तप्तं सुवर्णोज्ज्वलभानुगोलम् । कराग्रसंदंशधृतं पयोधेश्चिक्षेप नीरे विधिहेमकारः ॥ ११ ॥ आवर्तगर्तान्तरसौ पयोधेर्यधीयत स्यन्दनवाहवेषैः । आकृष्य शूरोऽपि तमःसमूहैरहो दुरन्तो बलिनां विरोधः ॥ १२ ॥ प्रवासिना तद्विरहाक्षमेव सूर्येण पत्यारुणकान्तिदम्भात् । दत्त्वालये पत्रकपाटमुद्रां ययौ सहाम्भोजवनस्य लक्ष्मीः ॥ १३ ॥ दिशां समानेऽपि वियोगदुःखे पूर्वैव पूर्व यदभूद्विवर्णा । तेनात्मनि प्रेम रवेरतुल्यं प्रवासिनोऽनक्षरमाचचक्षे ॥ १४ ॥ कामस्तदानीं मिथुनानि शीघ्र प्रत्येकमेकः प्रजहार बाणैः । न लक्ष्यशुद्धिनिबिडान्धकारे भविष्यतीत्याहितचेतसेव ॥ १५ ॥ अन्योन्यदत्तं बिसखण्डमास्ये रथाङ्गनानोर्युगलं प्रयत्नात् । सायं वियोगातमुत्पतिष्णोर्जीवस्य वजार्गलवद्वभार ॥ १६ ॥ लब्ध्वा पयोमज्जनपूर्वमब्धे रम्यांशुकप्रावरणं दिनान्ते । मित्रेण दूराध्वचरेण मुक्तं वाम्बरं ध्वान्तमलीमसं तत् ॥ १७ ॥ १. प्रतिपर्वतमू, काव्यमाला । निर्मज्ज्य सिन्धौ सवितुर्दिनान्ते थोडुरत्नोद्धरणाय यत्नः । यत्तत्करस्पर्शमवाप्य जग्मुर्भूयोऽपि रत्नाकरमेव तानि ॥ १८ ॥ मित्रं क्वचित्कूटनिधिनिधत्ते वसूनि हृत्वेत्युदितापवादः । संध्यामथोदीरितरागरक्तां शस्त्रीमिवान्तर्निदधेऽस्तशैलः ॥ १९ ॥ प्रदोषपञ्चास्यचपेटयोच्चैरुन्मुक्तमुक्तोज्ज्वलतारकौघः । ध्वस्तो नमःप्रौढगजस्य भास्वत्कुम्भोपरश्चन्दुमिषादुदस्तः ॥ २० ॥ अथास्तसंध्यारुधिराणि पातुं विस्तारिताराभरदन्तुरास्यः । वेतालवत्कालकरालमूर्तिः समुजिजृम्भे सहसान्धकारः ॥ २१ ॥ अस्ताचलात्कालवलीमुखेन क्षिप्ते मधुच्छन्त्र इवार्कबिम्बे । उड्डीयमानैरिव चञ्चरीकैर्निरन्तरं व्यापि नभस्तमोभिः ॥ २२ ॥ अन्यं जलाधारमितः प्रविष्टे कुतोऽपि हंसे सहिते सहायैः । नभःसरोऽच्छेदगरीयसीभिश्छन्नं तमःशैवलमञ्जरीभिः ॥ २३ ॥ अस्तं गते भास्वति जीवितैशे विकीर्णकेशव तमःसमूहैः । ताराश्रुबिन्दुप्रकरैवियोगदुःखादिव द्यौ रुदती रराज ॥ २४ ॥ तेजोनिरस्तद्विजराजजीवे गते जगत्तापिनि तिग्मरश्मो तद्वासहयं तमसा विशुद्ध्यै द्यौर्गोमयेनेव विलिम्पति स्म ॥ २५ ॥ नूनं महो ध्वान्तभयादिवान्तश्चित्ते निलीनं परिहृत्य चक्षुः । यञ्चेतसैवेक्षणनियंपेक्षमद्राक्षुरुच्चावचमत्र लोकाः ॥ २६ ॥ आज्ञामतिक्रम्य मनोभवस्य यियासतां सत्वरमध्वगानाम् । पुनस्तदा नीलशिलामयोच्चप्राकारवन्धायितमन्धकारैः ॥ २७ ॥ लब्ध्वा समृद्धि रतये स्वभावान्मलीमसानां मलिना भवन्ति । यत्पांसुला दस्युनिशाचराणामभन्मुदे केवलमन्धकारः ॥ २८ ॥ तथाविधे सूचिमुखाग्रभेद्ये जातेऽन्धकारे वसतिं प्रियस्य । हृत्कक्षलग्नस्मरदाहवह्निविज्ञातमार्गेव जगाम काचित् ॥ २९ ॥ १. यथा कश्चिच्छद्मनिधानो मित्रद्रोही द्रव्यं गृहीत्वा मित्रं घातयति, रक्तलिप्तां कार्यकारिणी छुरिकां च पिदधाति तद्वत्.

१४ सर्गः धर्मशर्माभ्युदयम् । संचार्यमाणा निशि कामिनीमिर्गृहागृहं रेजुरमी प्रदीपाः तेजोगुणद्वेषितया प्रस्तिमोभिरान्ध्यं गमिता इवोच्चैः ॥ ३० ॥ दधुर्वधूभिर्निशि साभिलाषमुल्लासितप्रांशुशिखाः प्रदीपाः । प्रत्यालयं क्रुध्यदनगमुक्तप्रोत्तप्तनाराचनिकायलीलाम् ॥ ३१ ॥ पूर्वाद्रिभित्त्यन्तरितोऽथ रागात्स्वज्ञापनायोपपतिः किलेन्दुः । पुरंदराशाभिमुखं करागृश्चिक्षेप ताम्बूलनिभां स्वकान्तिम् ॥ ३२ ॥ ऐरावणेन प्रतिदन्तिबुद्ध्या क्षते तमोध्यामलपूर्वशैले । प्राची तटोत्यैरिव धातुचूर्णैरिन्दोः करात्रैश्छुरिता रराज ॥ ३३ ॥ उदंशुमत्या कलया हिमांशोः कोदण्डयष्टयार्पितबाणमेव । भेत्तुं तमस्तोमगजेन्द्रमासीदाबद्धसंधान इवोदयाद्रिः ॥ ३४ ॥ व्यापारितेनेन्द्रककुब्भवान्या हत्वार्धचन्द्रेण तमोलुलायम् । कीलालधारा इव तस्य शोणाः प्रसारिता दिक्षु रुचः क्षणेन ॥ ३५ ॥ अोदितेन्दोः शुकचञ्चरक्तं वपुः स्तनाभोग इवोदयाद्रौ। प्राच्याः प्रदोषेण समागतायाः क्षतं नखस्येव तदाबभासे ॥ ३६ ॥ इन्दुर्यदन्यासु कलाः क्रमेण तिथिप्वशेषा अपि पौर्णमास्याम् । धत्ते स्म तद्वेनि गुणान्पुरंध्रीप्रेमानुरूपं पुरुषो व्यनक्ति ॥ ३७॥ उद्धर्तुमुद्दामतमिस्त्रपङ्काद्व्योमापि कारुण्यनिधिः पिशङ्गः । भूद्धारलीलाकिणकालिकाङ्गः सिन्धोः शशी कूर्म इवोजगाम ।। ३८ ॥ मुखं निमीलन्नयनारविन्दं कलानिधौ चुम्बति राज्ञि रागात् । गलत्तमोनीलदुकूलबन्धा श्यामाद्रवञ्चन्द्रमाणिच्छलेन ॥ ३९ ॥ एकत्र नक्षत्रपतिः स्वशक्त्या निशाचरोऽन्यत्र दुनोति वायुः । निमील्य नेत्राब्जमतः कथंचित्पत्युर्वियोगं नलिनी विषेहे ॥ ४० ॥ लेभे शशी शोणरुचं किरातों बाणविद्वेण इवोदयाद्रौ। अग्रेऽवदातद्युतिरङ्गनानां धौतः स हर्षाश्रुजलैरिवासीत् ॥ ४१ ॥ १. शरभिन्नमृग इव. १३ काव्यमाला। रात्रौ नभश्चत्वरमापतन्तमुद्वेल्लदुल्लोलभुजः पयोधिः । तनूजमिन्दुं सुतवत्सलत्वादुत्सङ्गमानेतुमिवोल्ललास ॥ ४२ ॥ तथाश्चवानेन जगन्महोभिः कृतस्तनीयाञ्शशिनान्धकारः । मन्ये यथास्यैव कलङ्कदम्भादनन्यगामी शरणं प्रपेदे ॥ ४३ ॥ कुमुद्वतीविभ्रमहासकेलिं कर्तुं प्रवृत्ते भृशमोषधीशे । प्रभावभाजां ज्वलति स्म रात्रौ महौषधीनां ततिरीर्ण्ययेव ॥ ४४ ॥ दिवार्कतप्तैः कुमुदैः सुहृत्वात्प्रकाश्यमाने हृदये सितांशुः । उत्खाततत्पक्षसरोजमूलो रुषेव रेजे लसमानरश्मिः ॥ ४५ ॥ विलासिनीचित्तकरण्डिकायां जगमात्खिन्न इवाहि सुप्तः । उत्थाप्यते स्म द्रुतमंशुदण्डैः संताज्य चन्द्रेण रते जंगः ॥ ४६ ॥ शशी जगत्ताडनकुण्ठितानां निशानपट्टः स्मरमार्गणानाम् । उत्तेजितांस्तान्यदनेन भूयो व्यापारयामास जगत्सु कामः ॥ ४७ ॥ कर्पूरपूरैरिव चन्दनाब्यैर्मालाकलापैरिव मालतीनाम् । द्यौर्दक्षिणेनेव समं धरित्र्या प्रसाधिता चन्द्रमसा करात्रैः ॥ ४८ ॥ वपुः सुधांशोः स्मरपार्थिवस्य मानातपच्छेदि सितातपत्रम् । अनेन कामास्पदमानिनीनां छाया परा कापि मुखे यदासीत् ॥ ४९ ॥ किमप्यहो पाष्टर्चमचिन्त्यमस्य पश्यन्तु चन्द्रस्य कलङ्कभाजः । यदेष निर्दोषतया जितोऽपि तस्थौ पुरस्तात्तरुणीमुखानाम् ॥ ५० ॥ यन्मन्दमन्दं बहलान्धकारे मनो जगामाभिमुखं प्रियस्य । तन्मानिनीनामुदिते मृगाङ्के मार्गोपलम्भादिव धावति स्म ॥ ११ ॥ तावत्सती स्त्री ध्रुवमन्यपुंसो हस्ताग्रसंस्पर्शसहा न यावत् । स्टष्टा करात्रैः कमला तथा हि त्यक्तारविन्दाभिससार चन्द्रम् ॥ १२ ॥ उपात्ततारामणिभूषणाभिरायाति पत्यौ निलये कलानाम् । कान्ताजनो दिग्भिरिवोपदिष्टं प्रचक्रमेऽथ प्रतिकर्म कर्तुम् ॥ ५३ ॥ १. काम:. २. तीक्ष्णीकरणपाषाणः, ३.नायकविशेषेण.

१४ सर्गः] धर्मशर्माभ्युदयम् । ९९ जनैरमूल्यस्य कियन्ममेदं हैमं तुलाकोटियुगं निबद्धम् । इत्यम्बुजाक्ष्या नवयावकार्द्व रुपेव रक्तं पदयुग्नासीत् ॥ १४ ॥ त्रिनेत्रभालानलदाहविभ्यत्कंदर्पलीलानगरस्य हैमम् प्राकारमुच्चैर्जवनस्य पार्श्वे बबन्ध काचिद्रशनाछलेन ॥ ५५ ॥ पयोधराणामुदयः प्रसर्पद्धारानुबन्धेन विलासिनीनाम् । विशेषतः कस्य मलीमसास्यो ने दीप्रभावोन्नतिमाततान ॥ ५६ ॥ चन्द्रोदयोज्जृम्भितरागवावेलाग्रकल्लोलमिवोल्ललन्तम् । श्वासैः सकम्पं निशि मानिनीनां मेने जनो यावकरक्तमोष्ठम् ।। ५७ ॥ कायस्थ एव स्मर एष कृत्वा डग्लेखनी कज्जलमञ्जुलां यः । शृङ्गारसाम्राज्यविभोगपत्रं तारुण्यलक्ष्म्याः सुदृशो लिलेख ॥ ५८ ॥ श्लक्ष्णं यदेवावरणाय दने नितम्बिनीभिनवमुल्लसन्त्या । क्रोधादिवोच्छृङ्खलया तदङ्गकान्त्यात्मनान्तर्निदधे दुकूलम् ।। ५९ ॥ आरोप्य चित्रा वरपत्रवल्लीः श्रीखण्डसारं तिलकं प्रकाश्य । नारङ्ग'नागनिषेवणीया कयापि चक्रे नवकाननश्रीः ॥ ६ ॥ आदाय नेपथ्यमथोत्सुकोऽयं कान्ताजनः कान्तमतिप्रगल्भाः । मूर्ती इवाज्ञाः स्मरभूमिभर्तुरलङ्घनीयाः प्रजिघाय दूतीः ॥ ६१ ॥ गच्छ त्वमाच्छादितदैन्यमन्यव्याजेन तस्यापसदस्य पावै । ज्ञात्वाशयं ब्रूहि किल प्रसङ्गात्तथा यथास्मिल्लघिमा न मे स्यात् ॥६२॥ यद्वा निवेद्य प्रणयं प्रकाश्य दुःखं निपत्य क्रेमयोरपि त्वम् । प्रियं तमत्रानय दूति यस्मात्क्षीणो जनः किं न करोत्यकृत्यम् ॥६३॥ नार्थी स्वदोषं यदि वाधिगच्छत्यालि त्वमेवात्र ततः प्रमाणम् । इत्याकुला काचिदनङ्गतापादभिप्रियं संदिदिशे वयस्याम् ॥६४॥(कुलकम्) दृष्टापराधो दयितः श्रयन्ते प्राणाश्च मे सत्वरगत्वरत्वम् । तदन्त्र यत्कृत्यविधौ विदग्धा दूति त्वमेवेति जगाद काचित् ॥ ६५ ।। १. प्रसर्पत्-हारानुबन्धेन; प्रसर्पत्-धारानुबन्धेन. २. न-दीप्रभावोन्नतिम् . दीप्रभावः कामोद्रेकः; नदी-प्रभावोन्नतिम्. ३. नारङ्ग'नागा विटश्रेष्ठाः; (पक्षे) वृक्षविशेषाः. ४. नवका-आननश्रीः; नव-काननश्री. ६५ पदयोः.

१००
काव्यमाला।
त्वद्वासवेश्माभिमुखे गवाक्षे प्रतिक्षणं चक्षुरनुक्षिपन्ती ।
त्वद्रूपमालिख्य मुहुः पतन्ती त्वत्पादयोः सा गमयत्यहानि ॥६६॥
स्त्रीत्वादरुद्धप्रसरो यथास्यां शरैरमोधैः प्रहरत्यनङ्गः ।
साशङ्कवत्केवलपौरुषस्थे तथा न दृप्ते त्वयि किं करोमि ॥ ६७ ॥
यत्कम्पते निःश्वसितैः कवोष्णं गृह्णाति यल्लोचनमुक्तमम्भः ।
अवैम्यनङ्गज्वरजर्जरं तत्त्वद्विप्रयोगे हृदयं मृगाक्ष्याः ॥ ६८ ॥
आविर्बभूवुः स्मरसूर्यतापे हारावलीमूलजटा यथाङ्गे ।
त्वन्नामलीना गलकन्दलीयं तथाधिकं शुष्यति चञ्चलाक्ष्याः ॥ ६९।।
स्तुत्वा दिने रात्रिमहश्च रात्रौ स्तौति स्म सा पूर्वमपूर्वतापात् ।
संप्रत्यहो वाञ्छति तत्र तन्वी स्थातुं न यत्रास्ति दिनं न रात्रिः॥७०॥(युग्मम)
प्रगल्भतां शीतकरः स्फुरन्तु कर्णोत्पलानि प्रसरन्तु हंसाः ।
त्वद्विप्रलम्भज्वरभाजि तस्यां वीणाप्यरीणा रणतु प्रकामम् ।। ७१ ॥
इत्थं घने व्यञ्जितनेत्रनीरे प्रदर्शिते प्रेम्णि सखीजनेन ।
क्षणान्मृगाक्षी हृदयेश्वरस्य हंसीव सा मानसमाविवेश ॥ ७२ ॥ (कुलकम्)
प्रकाशितप्रेमगुणैर्वचोभिराक्रम्य बद्धा हृदये सखीभिः ।
आकृष्यमाणा इव निविलम्ब ययुर्युवानः सविधं वधूनाम् ॥ ७३ ॥
आः संचरन्नम्भसि वारिराशेः श्लिष्टः किमौर्वाग्निशिखाकलापैः ।
स्विचण्डचण्डद्युतिमण्डलामप्रवेशसंक्रान्तकठोरतापः ।। ७४ ॥
अथाङ्कदम्भेन सहोदरत्वात्सोत्साहमुत्सङ्गितकालकूटः ।
अङ्गानि यन्मुमुरवह्निपुञ्जभाञ्जीव मे शीतकरः करोति ।। ७५ ॥
इत्थं वियोगानलदाहमङ्गे निवेदयन्ती सुमुखी सखीनाम् ।
समेयुषस्तत्क्षणमद्वितीयामजीजनत्कापि रतिं प्रियस्य ॥७६॥ (विशेषकम्)
आयाति कान्ते हृदयं विधेयविवेकवैकल्यमगान्मृगाझ्याः ।
तत्कालनिस्त्रिंशमनोभवास्त्रसंघातघातैरिव पूर्णमानम् ॥ ७७ ।।
बाप्पाम्बुसंछावितपक्ष्मलेखं चक्षुः क्षणात्स्फारिततारकं च ।
कि प्रेम मानं यदि वा मृगाक्ष्याः प्रियावलोके प्रकटीचकार ॥ ७॥

१६ सर्गः] धर्मशर्माभ्युदयम् । १०१ समुच्छ्रसन्नीवि गलहुकूलं स्खलत्पदं सक्कणकङ्कणं वा । प्रियागमे स्थानकमायताक्ष्या विसिस्मिये प्रेक्ष्य सखीजनोऽपि ॥ ७९ ॥ लावण्यमङ्गे भवती बिभर्ति दाहश्च मेऽभूवयवधानतोऽपि । तहि शृङ्गारिणि संप्रतीदं कुतस्त्वया शिक्षितमिन्द्रजालम् ॥ ८० ॥ जाड्यं यदि प्राप्यमुरोजयोस्ते तद्वेपथुर्मानिनि मे कुतस्त्यः । इत्युच्चरंश्चाटुवचांसि कश्चित्प्रियामकार्षीच्युतमानवेगाम् ॥ ८१ ॥(युग्मम्) मानस्य गाढानुनयेन तन्व्या निर्वासितस्यापि किमस्ति शेषः । इतीव बोद्धं हृदि चन्दना व्यापारयामास करं विलासी ।। ८२ ॥ सभ्रूभङ्ग करकिसलयोल्लासलीलाभिनीत- प्रत्ययार्था प्रतिविद्धती विस्मयस्मेरमास्यम् । सा दंपत्योरजनि मदनोज्जीविनी कापि गोष्टी यस्यां मन्ये श्रवणमयतां जग्मुरन्येन्द्रियाणि ॥ ८३ ॥ चन्द्रे सिञ्चति चान्दनैरिव रसैराशा महोभिः क्षणा- दुन्मीलन्मकरन्दसौरभमिव प्रादाय दूतीवचः । सोत्कण्ठं समुपेत्य कैरवमिव प्रोल्लासि कान्तामुखं स्वस्थाः केऽपि मधुब्रता इव मधून्यापातुमारेभिरे ॥ ८४ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये चतुर्दशः सर्गः । पञ्चदशः सर्गः। भर्गभालनयनानलदग्धं मन्मथं यदधिजीवयति स्म । कोऽपि कल्पतरुमध्वमृतं तत्पातुमारभत किंनरलोकः ॥ १ ॥ शीतदीधितिविकासि सुगन्धं पत्रवद्दशनकेसरकान्तम् । स्त्रीमुखं कुमुदवन्मधुपानां पातुमत्र मधुभाजनमासीत् ॥ २ ॥ यावदाहितपरित्रुति पात्रे चित्तमुत्तरलितं मिथुनानाम् । तावदन्तरिह बिम्बपदेन द्वागमजि वदनैरतिलौल्यात् ॥ ३ ॥ दन्तकान्तिशबलं सविलासाः सामिलापमपिबन्मधु पात्रे । श्लिष्यमाणमिव सोदरभावाद्वयक्तरागममृतेन तरुण्यः ॥ ४ ॥ १. शैत्यं स्थौल्यं च. २. दलयुक्तम्; (पक्षे) पत्रवल्लरीमण्डनसमेतम्, १०२ काव्यमाला। यामिनीप्रथमसंगमकाले शोणतां यदभजहिजनाथः । तन्मधूनि ललनाकरपात्रे सोऽपि नूनमपिबत्प्रतिमूर्त्या ॥ ५ ॥ श्वासकीर्णनवनीरजरेणुच्छद्मना चषकसीधु पिबन्ती । कान्तपाणिपरिमार्जनशिष्टं मानचूर्णमपि कापि मुमोच ॥ ६ ॥ निष्ठितासवरसे मणिपात्रे पाणिशोणमणिकङ्कणभासः । कापिशायनधियाशु पिबन्ती काप्यहस्यत सखीभिरभीक्ष्णम् ॥ ७ ॥ यौवनेन मदनेन मदेन त्वं कशोदरि सदाप्यसि मत्ता । तदृथायमधुना मधुधारापानकेलिकलनास्वभियोगः ॥ ८॥ पुण्डरीककमलोत्पलसारैर्यत्रिवर्णमकरोत्किल वेधाः । किं तु कोकनदकान्तिचिकीर्षुर्नत्रयुग्ममधुना मधुपानात् ॥ ९ ॥ अङ्गसादमवसादितधैयों यो ददाति मतिमोहनमुच्चैः । सोऽपि सस्टहतया रमणीभिः सेव्यते कथमहो मधुवारः ॥ १० ॥ सीधुपानविधिना किल कालक्षेपमेव कलयन्मदनान्धः । कामिनी रहसि कोऽपि रिरंसुश्चाटुचारुपदमित्थमवादीत् ॥ ११॥ (कुलकम्) उल्ललास विनिमीलितनेत्रं यन्मृगीशि मधूनि पिबन्त्याम् । तन्निपीतचषके स्फुरिताक्ष्यां लज्जयेव गतमब्जमधस्तात् ॥ १२ ॥ मद्यमन्यपुरुषेण निपीतं पीयते कथमिवेति जिहासुः । चन्द्रबिम्बपरिचुम्बितमेतत्कामिना बहिरहस्यत काचित् ॥ १३ ॥ किं न पश्यति पतिं तव पार्श्वे धृष्ट एष सखि शीतमयूखः । आसवान्तरवतीर्य यदुच्चैः पातुमाननमुपैति पुरस्तात् ॥ १४ ॥ त्वत्प्रदष्टमंथवा कथमग्रे दर्शयिष्यति मुखं स्ववधूनाम् । इत्युदीक्ष्य चषके शशिविम्बं काप्यगद्यत सनर्म सखीभिः ॥१५॥(युग्मम्) स्त्रीमुखानि च मधूनि च पीत्वा द्वित्रिवेलमपरः कुतुकेन । अन्तरं महदिह प्रतिपद्य प्रीतिमासवरसेषु मुमोच ॥ १६ ॥ बिम्बितेन शशिना सह नूनं पीवरोरुभिएपीयत मद्यम् । यत्तदीयहृदयान्तरलीनैर्निर्गतं सपदि मन्युतमोभिः ॥ १७ ॥ १. प्राङ्गणोपविष्टा.

१५ सर्गः]
धर्मशर्माभ्युदयम् ।
कामहेतुरुदितो मधुदाने गोत्रभेदमकरोत्पुरतोऽन्यः ।
संगताप्यपुरुषोत्तमबुद्ध्या श्रीयंवर्तत ततो वनितायाः ॥ १८ ॥
होविमोहमपनीय निरस्यन्नन्तरीयमपि चुम्बितवक्रः ।
सस्टहं प्रणयवानिव भेजे कामिनीभिरसकन्मधुवारः ॥ १९ ॥
जग्मतुर्मुहुरलक्तकतिक्तौ यद्विदशपदवीमधरोष्ठौ ।
तेन मद्यमधिकं स्वदते स्म स्मेरमन्मथवते मिथुनाय ॥ २० ॥
क्षालितोऽपि मधुना परिपीतोऽप्याननेन दशनैर्दलितोऽपि ।
खां मुमोच न रुचिं मिथुनानां यत्ततः कथमभूदधरोऽयम् ॥ २१ ॥
त्यज्यतां पिपिपिपिप्रिय पात्रं दीयतां मुमुमुखासव एव ।
इत्यमन्थरपदस्खलितोक्तिः प्रेयसी मुदमदाहयितस्य ॥ २२ ॥
कापिशायनरसैरभिषिच्य प्रायशः सरलतां हृदि नीते ।
भ्रूलतासु रचनासु च वाचां सुभ्रुवां घनमभूत्कुटिलत्वम् ।। २३ ॥
प्रोल्लसन्मृगदृशां मदनो हृद्यालवाल इव सीधुरसेन ।
भ्रूलताविलसितैरिह साक्षात्कस्य हास्यकुसुमं न चकार ॥ २४ ॥
तोषितापि रुषमाहितरोषाप्याप तोषमबला मधुपानात् ।
सर्वथा हि पिहितेन्द्रियवृत्तिर्वाम एव मदिरापरिणामः ॥ २५ ॥
भूलता ललितलास्यमकस्मात्स्मेरमास्यमवशानि वचांसि ।
सुध्रुवां चरणयोः स्खलितानि क्षीवतां भृशमनक्षरमूचुः ।। २६ ॥
भिन्नमानदृढवजकवाटेनास्यता जवनिकामिव लज्जाम् ।
तत्क्षणाञ्चितशरासनचण्डः सीधुना प्रकटितो विषमेषुः ॥ २७ ॥
प्रावृताः शुचिपटैरतिमृद्दीः स्पर्शदीपितमनोभवभावाः ।
प्रेयसीः समगुणा इह शय्याः कामिनो रतिसुखाय विनि-युः ॥ २८ ॥
कान्तकान्तदशनच्छददेशे लग्नदन्तमणिदीधितिरेका ।
आबभावुपजनेऽपि मृणालीनालकैरिव रसं प्रपिबन्ती ॥ २९ ॥
प्रेयसा धृतकरापि चकम्पे चुम्बितापि मुखमाक्षिपति स्म ।
व्याहृतापि बहुधा सदूचे किंचिदप्रकटमेव नवोढा ॥ ३० ॥

१०४ काव्यमाला। उत्तरीयमपकर्षति नाथे प्रावरिष्ट हृदयं स्वकराभ्याम् । अन्तरीयमपरा पुनराशु भ्रष्टमेव न विवेद नितम्बात् ।। ३१ !! कामिना द्रुतमपास्य मुखान्तर्धानवस्त्रमिव कञ्चकमस्याः । व्यञ्जितः पृथुपयोधरकुम्भो दुःसहो मदनगन्धगजेन्द्रः ॥ ३२ ॥ पीनतुङ्गकठिनस्तनशैलैराहतोऽपि न मुमूर्छ युवा यत् । तत्र नूनमधरामृतपानप्रेम कारणमवैश्यवलायाः ॥ ३३ ॥ वक्षसा पृथुपयोधरभारं निष्पिपेष हृदयं दयितायाः । कोऽपि कर्तुमिह चूर्णमिहान्तीनदुर्ललितकोपकणानाम् ॥ ३४ ॥ श्लिष्टमिष्टवनितावपुरादौ नापनेतुमपरः प्रशशाक । प्रीतिभिन्नपुलकाङ्कुरशङ्कुप्रोतविग्रह इवाग्रहतोऽपि ॥ ३५ ॥ श्लिष्यतापि जघनस्तनमुच्चैरन्तरे प्रणयिनाहमपास्तम् । सुभ्रुवो वलिमिषादिह मध्यं भ्रूविभङ्गमतनिष्ट रुषेव ॥ ३६ ॥ योषितां सरसपाणिजरेखालंकतो धनतरः स्तनभारः । आबभौ प्रणयिसंगमहर्षोच्छ्रासवेगभरभिन्न इवोच्चैः ॥ ३७ ॥ कर्कशस्तनयुगेन न भन्नास्त्वन्नखा हृदि न वा व्यथितस्त्वम् । इत्युदारनवयौवनगर्वा कापि कान्तमधि गर्वमहासीत् ॥ ३८ ॥ सुप्त इत्यतिविविक्ततया स्वं संप्रकाश्य निलयः कुतुकेन । ऐक्षतेव सुतनो रतचित्रं बोधितैकतरदीपकनेत्रः ॥ ३९ ।। नात्र काचिदपरा परिणेतुः प्रीतिधाम वसतीति पुरंध्री। ईर्ण्ययेव परिरब्धवतोऽन्तद्रष्टुमस्य हृदयं प्रविवेश ॥ ४० ॥ कुन्तलाञ्चनविचक्षणपाणिः प्रोन्नमय्य वदनं वनितायाः । कोऽपि लोलरसनाञ्चललीलालालनाचतुरमोष्ठमधासीत् ।। ४१ ॥ पीवरोच्चकुचतुम्बकचुम्बिन्यापुपोष कमितुः करदण्डे । वल्लकीत्वमनुताडिततन्त्रीक्वाणकूजितगुणेन पुरंध्री ॥ ४२ ॥ अङ्गसंग्रहपरः करपातं मध्यदेशमभितो विदधानः । योषितः स्म विजिगीषुरिवान्यः क्षिप्रमाक्षिपति काञ्चनकाञ्चीम् ॥४३॥ स १६ सर्गः धर्मशर्माभ्युदयम् । स्पर्शभाजि न परं करदण्डे कामिनः प्रकटकण्टकयोगः । ईपदुच्छसितकोमलनाभीपङ्कजेऽपि सुदृशोऽद्भुतमासीत् ॥ ४ ॥ संचरन्नित इतो नतनाभीकूपके निपतितः प्रियपाणिः । मेखलागुणमवाप्य मदान्धोऽप्यारुरोह जघनस्थलमस्याः ॥ १५ ॥ नीविबन्धभिदि वल्लभपाणौ सुभ्रवः कलकलो मणिकाक्ष्याः । नोदितालिसुरतोत्सवलीलारम्भसंभ्रमपटुः पटहोऽभूत् ॥ ४६ ॥ नीविबन्धमतिलचय कराग्रे कामिनः प्रसरतीह यथेच्छम् । भर्त्सना स्मितमलीकतरा इत्याख्यदक्षतमनङ्गवतीनाम् ॥ ४७ ।। पाणिना परिमृशन्नबलोरुस्तम्भमश्चितकलापगुणेन । कश्चिदाकलितमारमहेभं मोचयन्निव रतेषु रराज ॥ १८ ॥ भ्रूकपोलचिबुकाधरचक्षुशूचुकादिपरिचुम्बनदक्षः । कोऽपि कोपितवधूप्रतिषिद्धां सान्त्वयन्निव रति विरराज ॥ ४९ ।। सीत्कृतानि कलहंसकनादः पाणिकङ्कणरणत्कृतमुच्चैः । ओष्ठखण्डनमनोभवसूत्रे भाष्यतां ययुरमूनि वधूनाम् ॥ ५० ॥ गण्डमण्डलभुवि स्तनशैले नाभिगह्वरतले च विहृत्य । सश्रमा इव दृशो दयितस्यानङ्गवेश्मानि विशश्रमुरासाम् ॥ ५१ ॥ नोत्पपात पतिता नवकामिन्यूरुमूलफलके खलु दृष्टिः । कामिनः प्रमदकारिणि रङ्कस्येव गूढमणिभाजि निधाने ॥ १२ ॥ पूर्वशैलमिव तुङ्गकुचाग्रं प्रेयसि यति लोचनचन्द्रे । प्लावितं मनसिजार्णवनीरैः सुभ्रुवो जघनमण्डलमुच्चैः ॥ ५३ ॥ प्रेङ्क्षति प्रियतमे निरवद्यातोद्यवाद्यपटुकूजितकण्ठे । चित्रलास्यलयवल्गु नितम्बो वल्गति स्म सुरते वनितायाः ॥ ११ ॥ ओष्ठखण्डननखक्षतिवक्षस्ताडनस्तनकचग्रहणाद्यैः । मत्सरादिव मिथो मिथुनानां कामकेलिकलहस्तुमुलोऽभूत् ॥ १५ ॥ सोत्सवैः करणसंपरिवर्तश्चाटुभिश्च मणितैः स्तनितैश्च । पूर्वसंस्तुतमपि च्युतलज कामिनां रतमपूर्वमिवासीत् ॥ १६ ॥ ।

काव्यमाला।
।
अश्रुगद्गदगिरामिह तावद्योषितां रतविधौ करुणोक्तिः ।
तानि शुष्करुदितान्यपि यूनां भेजिरे श्रवणयोरमृतत्वम् ॥ १७ ॥
आहतानि पुरुषायितमुच्चैर्धाष्टमीगुपमर्दसहत्वम् ।
कामिभिः क्षणमवेक्ष्य वधूनामन्यतैव सुरते प्रतिपेदे ॥ १८ ॥
भग्नपाणिवलया च्युतमाल्या भिन्नतारमणिहारलतापि ।
ताम्यति स्म सुरते न कथंचित्प्रेमकार्मणवशेव कशाङ्गी ॥ ५९॥
स्पष्टधाष्टमविरोधितवाञ्छं मञ्जुकूजितमनादृतदेहम् ।
चित्रचाटुरुचि यत्प्रणयिन्यास्तत्प्रियस्य रतये रतमासीत् ॥ ६ ॥
मीलितेक्षणपुटै रतिसौख्यं योषितामनुभवद्भिरभीष्टैः।
निनिमेषनयनकविभोग्यं तत्रिविष्टपसुखं लघु मेने ॥ ६१ ॥
संवितेनुरधिकं मिथुनानां प्रीतिमप्यवमतात्मसुखानि ।
प्रेमनिर्भरपरस्परचित्ताराधनोत्सवरतानि रतानि ॥ १२ ॥
भूरिमद्यरसपानविनोदैर्गावशून्यहृदयानि तदानीम् ।
कान्यपि स्म मिथुनानि न वेगात्प्राप्नुवन्ति रतकेलिसमाप्तिम् ॥ ६३ ॥
उत्थितान्यपि रतोत्सवलीलाकौशलापहृतनेत्रमनांसि ।
युक्तमेव मिथुनानि रतान्तेऽन्योन्यवस्त्रवरिवर्तमकार्षुः ।। ६४ ॥
प्रेयसीप्टथुपयोधरकुम्भे वल्लभस्य शुशुभे नखपङ्क्तिः ।
चारुतामणिनिधाविव मुद्रावर्णपद्धतिरनङ्गनृपस्य ॥ ६५ ॥
संप्रविश्य वलभीष गवाक्षर्वीक्ष्य चोन्नतपयोधरमङ्गम् ।
कामतप्त इव कामधुनीनामाचचाम पवनः श्रमवारि ॥ ६६ ॥
पश्यति प्रियतमेऽवनतास्या कान्तदष्टदशनच्छदबिम्बम् ।
ऐक्षतेव हृदयं त्रपमाणा स्त्री पुनः स्मरशरव्रणचिह्नम् ॥ ६७ ॥
गन्तुमारभत कोऽपि रतान्ते गृह्यमाणवसनान्तरदृष्टम् ।
उरुदण्डमवलम्ब्य तरुण्याः सश्रमोऽमि रतवर्त्मनि भूयः ॥ ६८ ॥
चुम्बनेन हरिणीनयनानामोष्ठतो मिलितयावकरागम् ।
ईय॑येव दयितेक्षणयुग्मं चुम्बति स्म समयेऽपि न निद्रा ॥ ६९ ॥

१६ सर्ग:
धर्मशर्माभ्युदयम् ।
१०७
इत्थं विलोक्य मधुपानविनोदमत्त-
कान्तारतोत्सवरतान्स्ष्टहयेव लोकान् ।
चन्द्रोऽपि कैरवमधूनि समं रजन्या
पीत्वास्तशैलरतिकाननसंमुखोऽभूत् ॥ ७० ॥
इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये पञ्चदशः सर्गः।
-
घोडशः सर्गः।
सेवायै समयविदागतः सुराणां संदोहः क्षुभितपयोधिमन्द्रनादः।
धर्माय त्रिभुवनभानवेऽभ्युदेतुं यामिन्याः परिणतिमित्थमाचचक्षे ॥ १ ॥
रथ्यासु त्वदमलकीर्तिकीर्तनेषु प्रारब्धेष्वभिनवमागधरिदानीम् ।
व्योमायात्पतति मुदामरप्रयुक्तः पुष्पाणां प्रकर इवैष तारकौघः ॥ २ ॥
संभोगं प्रविदधता कुमुद्रतीभिश्चन्द्रेण द्विगुणित आत्मनः कलङ्कः ।
तन्नूनं रतिपरमम्बरान्तलग्नं यात्येनं समवगणय्य यामिनीयम् ॥ ३ ॥
गाढस्त्रीभुजपरिरम्भनिर्भरोद्यन्निद्राणि स्फुटपटहारवैश्च भूयः ।
वर्तन्ते विघटितसंपुटानि यूनां भ्रूकुंसप्रगुणगुणानि लोचनानि ।। ४ ॥
दृग्दोषव्यपनयहेतवे सगर्वा निर्वाणोल्मुकमिव कर्परं पुरस्तात् ।
वक्त्रेन्दोरुपरि तवावतार्य दूरं द्यौरेषा क्षिपति सलक्ष्म चन्द्रबिम्बम् ॥ ५ ॥
ते भावाः करणविवर्तनानि तानि प्रौढिः सा मृदुमणितेषु कामिनीनाम् ।
एकैकं तदिव रताद्भुतं स्मरन्तो धुन्वन्ति श्वसनहताः शिरांसि दीपाः ॥६॥
यद्दोषोपचिततमोऽपि ते कथासु प्रारब्धास्वमरवरैविलीयतेऽस्मिन् ।
तन्मन्ये तव गुणकीर्तनानि नाम साधर्योदयमपि न द्विषां सहन्ते ॥ ७ ॥
राजानं जगति निरस्य सूरसूतेनाक्रान्ते प्रसरति दुन्दुभेरिदानीम् ।
यामिन्याः प्रियतमविप्रयोगदुःखैहृत्संधेः स्फुटत इवोर्टः प्रणादः॥ ८ ॥
चेतस्ते यदि चपलं पुरानुशेते तन्मानिन्यमुमधुनापि मानयेशम् ।
आकर्ण्य ध्वनितमितीव ताम्रचूढस्याननं प्रियमुषसि प्रपद्यतेऽन्या ॥९॥
संदष्टे प्रियविधिनाधरीकतेऽस्मिञ्शीतांशौ हिमपवनातपान्यवक्त्रैः ।
सीत्कारं प्रवितनुते विधूतहस्ता मुग्धापि क्षणरजनी विद्वत्तलक्ष्मीः ॥१०॥

काव्यमाला।
विध्वस्तां निजवसतिं विलोक्य कोपान्निष्क्रान्ता किल कमलेयमोषधीशात् ।
निःश्रीकं तमिव शुचावलोकयन्ती स्वं तेजस्त्यजति च पतिरोषधीनाम् ११
संभोगश्रमसलिलैरिवाङ्गनानामङ्गेषु प्रशममितं मनोभवाग्निम् ।
उन्मीलज्जलजरजःकणान्किरन्तः प्रत्यूषे पुनरनिलाः प्रदीपयन्ति ॥ १२ ॥
युष्माभिः प्रकटितकामकौशलाभिः साध्वेतन्निधुवनयुद्धमत्र सोढम् ।
इत्युक्त्वा स्टशति मुदेव भृङ्गनादैः प्रत्यूषानिललहरी वधूः सखीव ॥१३॥
प्रागल्भ्यं विहितममीभिरत्ययेऽहां नाथस्य प्रतिगृहमित्यसौ रुषेव ।
प्रत्यूषः पवनकरेण धूमकेशेष्वाकप्य क्षपयति संप्रति प्रदीपान् ॥ १४ ॥
मूर्धीवोद्गतपलितायमानरश्मौ चन्द्रेऽस्मिन्नमति विभावरीजरत्याः ।
अन्योन्यं विहगरवैरिवोल्लसन्त्यो दिग्वध्वो विदधति विष्ठवाहासान॥१५॥
आसज्योवृतचरणापरार्धमेताः कण्ठाग्रं मुकुलितलोचनास्तरुण्यः ।
प्रस्थातुं शयनतलोत्थितानभीष्टान्याचन्ते प्रकटितचाटु चुम्बनानि ॥ १६ ॥
पद्मिन्यामहनि विधाय कोषपानं चिक्रीडुनिशि यदमी कुमुद्वतीभिः ।
तद्वर्णैर्न परमुदीरयन्ति भृङ्गाः कृष्णत्वं निजचरितैरपि प्रकामम् ॥ १७ ॥
पर्यस्ते दिवसमणौ न काचिदासीद्वाधा वस्तिमिरपिशाचगोचराणाम् ।
इत्याशाः पतितहिमद्रवाश्रु लोकान्वात्सल्याविहगरुतैरिवालपन्ति ॥१८॥
भात्येषा सुभगतम क्षपापटत्तौ विच्छाया नभसि निशाकरस्य कान्तिः ।
एतं ते मुखमकुरं प्रमाद्य लक्ष्म्या प्रक्षिप्ता स्वगुणदिक्षयेव भूतिः॥१९॥
तन्नं प्रियविरहार्तचक्रवाक्याः कारुण्यान्निशि रुदितं धनं नलिन्या ।
यत्प्रातर्जललवलाञ्छितारुणानि प्रेक्ष्यन्ते कमलविलोचनानि तस्याः ॥२०॥
त्रस्तोडुक्रमपरिणामिपाण्डुपत्रे व्योमागे द्रुम इव संश्रये खगानाम् ।
उन्मीलत्किसलयविभ्रमं भजन्ते जम्भारेः ककुभि विभाकरस्य भासः ॥२१॥
भस्मास्थिप्रकरकपालकश्मलोऽग्रे यः संध्यावसरकपालिनावकीर्णः ।
तं भावत्युदयति चन्द्रिकोडुचन्द्रव्याजेनाक्करमपाकरोति कालः ॥ २२॥
निःशेष हृतजनजातरूपवृत्तेर्वान्तस्य प्रविरचितोऽमुनावकाशः ।
इत्युच्चैर्गगनमुदस्तमण्डलायो विच्छिन्नश्रवणकरं करोति भानुः ॥ २३ ॥

१६ सर्गः]
धर्मशर्माभ्युदयम् ।
१०९
आरम्भोच्छलिततुरंगकुअरश्रीः क्षुण्णोद्यन्मकरकुलीरमीनरक्तः ।
देवार्थ विदधदहीनरश्मिरब्धेरुन्मज्जत्ययमहिमांशुमन्दराद्रिः ॥ २४ ॥
पाथोधेरुपजलतैलमुत्थितार्चिान्तच्छिद्भजति रविः प्रदीपलक्ष्मीम् ।
यस्याभात्युपरि पतङ्गपातमीत्या विन्यस्तं मरकतपात्रवद्विहायः ॥ २५ ॥
दीपेनाम्बरमणिना रथाश्वदूर्व संयोज्यारुणघुसुणं खमेव पात्रम् ।
नक्षत्राक्षतनिकरं पुरः क्षिपन्ती प्राचीयं प्रगुणयतीव मङ्गलं ते ॥ २६ ॥
पाथोधेरधिगतविद्रुमांशुभिर्वा सिद्धस्त्रीकरकलितार्यकुङ्कुमैर्वा ।
लोकानामयमनुरागकन्दलैर्वा प्रत्यूषे वपुररुणं बिभर्ति भानुः ॥ २७ ॥
उत्तिष्ठ त्रिजगदधीश मुञ्च शय्यामात्मानं बहिरुपदर्शयाश्रितानाम् ।
तिग्मांशुद्भुतमधिरोहतु त्वदीयैस्तेजोभिर्विजित इवोदयाद्रिदुर्गम् ॥ २८ ॥
आयातो दुरधिगमामतीत्य वीथीमासीनः क्षणमुदयाद्रिभद्रपीठे।
प्रारब्धाभ्युदयमहोत्सवो विवस्वान्दिकान्ताः करघुसुणैर्विलिम्पतीव ॥२९॥
मार्तण्डप्रखरकराग्रपीड्यमानादेतस्मादमृतमिव च्युतं सुधांशोः ।
मथ्नन्त्यो दधि कलशीषु मेघमन्द्रः प्रध्वानैः शिखिकुलमुत्कयन्ति गोप्यः ॥
यामिन्यामनिशमनीक्षितेन्दुबिम्बं व्यावृत्ते प्रणयिनि भास्करे मुदेव ।
सोल्लासं मधुकरकज्जलैरिदानी पद्मिन्यः सरसिजनेत्रमञ्जयन्ति ॥ ३१ ॥
सिन्दूरद्युतिमिह मूर्ध्नि कुङ्कुमानां वक्रेन्दौ वसनगतां कुसुम्भशोभाम् ।
बिभ्राणा नवतरणित्विषोऽपि साध्वीवैधव्येऽभिजनवधूर्विदूषयन्ति ॥ ३२ ॥
स्वच्छन्दं विधुमभिसार्य यत्प्रविष्टा प्रातः श्रीः कमलगृहे निरस्य मुद्राम् ।
भूयोऽपि प्रियमनुवर्तते दिनेशं कः स्त्रीणां गहनमवैति तच्चरित्रम् ॥ ३३ ॥
प्रस्थातुं तव विहितोद्यमस्य भर्तुः प्रोत्सर्पद्वदनविलोलनीलपत्रः ।
प्राच्यायं समुचितमङ्गलार्थमग्रे सौवर्णः कलश इवांशुमानुदस्तः ॥ ३४ ॥
तहारि द्विरदमदोक्षिते मिथोऽङ्गसंघट्टच्युतमणिमण्डिते नृपाणाम् ।
राज्यश्रीश्चलतुरगानि तूर्यनाद्वैालोलवजकपटेन नृत्यतीव ॥ ३५ ॥
मार्तण्डप्रखरकरापटङ्कघातप्रक्षुण्णस्थपुटतमस्तुषारकूटाः।
उद्योगप्रगुणचमूचरस्य योग्याः प्रस्थातुं तव ककुभोऽधुना बभूवुः ॥ ३६॥

काव्यमाला। : आयाति प्रबलतरप्रतापपात्रे नेत्राणां दिवसकति त्वयीव मैत्रीम् । संतापः प्रकटतरो भवत्विदानी शत्रूणामिव तपनाश्मनां गणेषु ॥ ३७ ॥ इत्थं स त्रिदशजनस्य मन्दराद्रिक्षुब्धाम्भोनिनदसमां निशम्य वाणीम् । उत्तस्थौ सितवसनोमिरम्यतल्पाढुग्धाब्धेः पवनतरङ्गितादिवेन्दुः ॥ ३८ ॥ उत्तिष्ठन्नुदयगिरेरिवेन्दुरस्माद्देवेन्द्रान्मुकुलितपाणिपङ्कजाग्रात् । सोऽद्राक्षीदथ नमतो नगोपमेभ्यः पीठेभ्यो भुवि सरितामिव प्रवाहान ३९ कारुण्यद्रविणनिधे निधेहि दृष्टि सेवार्थी भवतु जनश्चिरात्कृतार्थः । यच्चिन्ताभ्यधिकफलान्यसौ ददाना तां चिन्तामणिगणनामपाकरोति ॥ ४० इत्युच्चैर्निगदति वेत्रिणामधीशे श्रीधर्मः समुचितविन्नरामरेन्द्रान् । भूदृष्टिस्मितवचसामसौ प्रसादैः प्रत्येकं सदसि यथार्हमाचचक्षे४ १(कुलकम्) निःशेषं भुवनविभुर्विभातकृत्यं कृत्वायं कृतसमयानुरूपवेषः । आरुह्य द्विरदमुदग्रदानमुच्चैः प्रत्यग्रं सुकृतमिवाथ संप्रतस्थे ॥ ४२ ॥ भास्वन्तं द्युतिरिव कीर्तिवद्गुणाब्यं सोत्साहं सुभटमिवोत्सुका जयश्रीः । दुर्धर्षा भुवनविसर्पिणी दुरापा तं सेना त्रिभुवननाथमन्वियाय ॥ १३ ॥ अक्षिप्तप्रलयनटोद्भटाहासैः प्रेङ्खद्भिः पटु पटहारवैः प्रयाणे । एकत्रोच्छलितरजश्छलेन सर्वाः संसक्ता इव ककुभो भयाद्बभूवुः ॥ ४४ ॥ मेण्ठेन द्विपमपनीतवन्धमन्यं प्रेक्ष्यैतत्प्रमथनमांसलाभिलाषः । प्रश्नोतहिगुणमदाम्बुधारमुच्चैरालानQवरमिभो हठादभाङ्क्षीत् ॥ ४५ ॥ तिष्ठन्ती मृदुलभुजंगराजमूर्धन्युरोढुं दृढपदमक्षमा क्षमा ते । कर्णान्तेऽभिहित इतीव भङ्गदूतैर्नागेन्द्रः पथि पदमन्थरं जगाम ॥ ४६ ॥ भ्रश्यन्त्याश्चरणभरात्करावलम्बं ये दातुं भुव इव लम्बमानहस्ताः । कर्णान्तध्वनदलिकोपकूणिताक्षास्ते जग्मुः पथि पुरतोऽस्य वारणेन्द्राः ४७ संचेलुः प्रचलितकर्णताललीलावातोमिव्यतिकरशीतलैः समन्तात् । संघटभ्रमभरमूर्छिता इवाशाः सिञ्चन्तः पृथुकरसीकरैः करीन्द्राः ॥ ४८ ॥ अश्रान्तं श्रिय इव चारुचामराणां यः पश्चाद्विचरति लोलवालधीनाम् क्रामद्भिर्भुवमभितो जवेन वाहैः स व्यक्तं कथमिव लछितो न वायुः ॥४९ १. हस्तिपकेन. २. पृथ्वी.

१६ सर्गः] धर्मशर्माभ्युदयम् । अन्योन्यस्खलनवशादयःखलीनप्रोद्गच्छज्ज्वलनकणच्छलेन सान्द्रम् । कान्तारे विदधति भूरिवेगबाधां गन्धर्वा निदधुरिव क्रुधा दवाग्निम्॥१०॥ आक्रान्ते चटुलतुरंगपुंगवाभिक्षुण्णो:वलयरजोभिरन्तरिक्षे । दिङ्मोहात्पतित इव क्वचित्तदानीं तिग्मांशुर्न नयनगोचरीबभूव ॥ ११ ॥ उत्फालैद्रुतमवटस्थलीरलङ्घयास्तद्वाहर्गतिरभसेन लङ्घयद्भिः । सर्वत्र श्वसनकुरङ्गपुंगवोत्था संभ्रान्तिमनसि समादधे न केषाम् ॥ १२ ॥ उद्वगत्तुरगतरङ्गिताग्रसेनासंचारक्षतशिखरोच्चयच्छलेन । विन्ध्यादेः प्रथमकृताध्वसंनिरोधस्योलूनं शिर इव सैनिकैः प्रकोपात् ५३ उत्खाताचलशिखरैः पुरः परागेणाश्वीयैः स्फुटमवटेषु पूरितेषु । सा बुद्धिः खलु रथिनो यदस्य पश्चात्प्रस्थाने सुगमतरो बभूव मार्गः ॥९४ प्राग्भागं द्विरदभयादुदनदन्तः प्रोत्सृज्य प्रकटितघर्षरोरुनादः । उत्कूर्दन्विकटपदैरितस्ततोऽग्रे दौसेरः पटुनटकौतुकं चकार ।। ५५ ॥ सर्वाशाद्विपमदवाहिनीषु सेनासंचारोच्छलितरजःस्थलीकतासु । उड्डीनैर्ऋमरकुलैरिवावकीर्ण व्योमासीदविरलदुर्दिनच्छलेन ॥ १६ ॥ आतङ्काकुलशबरीवितीर्णगुञ्जापुञ्जेषु ज्वलितदवानलभ्रमेण । कारुण्यामृतरसवर्षिणी स गच्छंश्चिक्षेप प्रभुरसकद्वनेषु दृष्टिम् ॥ १७ ॥ संसर्पबलभररुद्धसिन्धुवेगं प्रोदामद्विरदतिरस्कृताग्रशृङ्गम् । आक्रम्य ध्वजविजितोरुकन्दलीकं विन्ध्या िस विभुगुणैरधश्चकार ॥५८ सर्पत्सु द्विरदबलेषु नर्मदायाः संजातं सपदि पयः प्रतीपगामि । वाहिन्यो मदजलनिर्मितास्त्वमीषामुत्सङ्गं द्रुतमुदधेरवापुरेव ॥ १९ ॥ मदन्तद्वयवलभीनिवासलीलालोलेयं नियतमनन्यगा तु लक्ष्मीः । सामर्षप्रसरमितीव चिन्तयन्तो दन्तीन्द्राः सरिति बभञ्जुरम्बुजानि ॥६॥ आ स्कन्धं जलमवगाह्य दीर्घदन्तैरामूलोद्धृतसरलारविन्दनालाः । आलोड्याखिलमुदरं तरङ्गवत्याः कष्टान्त्रावलय इव द्विपा विरेजुः ॥११॥ उन्मीलन्नवनलिनीमराललीलालंकारव्यतिकरसुन्दरीं समन्तात् । आनन्दोदवसितदेहलीमिवार्थश्रीसिद्धेः सरितमलङ्घयत्स रेवाम् ॥ १२ ॥ १. पवनवाहनीभूतहरिणश्रेष्ठोत्या. २. उष्ट्रः.

१ काव्यमाला। एकान्तं सुरसवरार्थमाश्रयन्ती प्रेक्ष्योच्चैरतनुपयोधराग्रलक्ष्मीः । स्त्रीरत्नोत्सुकमनसापि तेन विन्ध्यारण्यानी गुणगुरुणा स्थिर सिषेवे ॥६॥ उत्तुङ्गट्ठमवलभीषु पानगोष्ठीव्यासक्तैर्मधुपकुलैर्निलीनमुक्तम् । बिभ्राणा मधु मधुरं प्रसूनपात्रे गे व द्रुतमटवी बलैः प्रमुक्ता ॥ ६४ ॥ वाहिन्यो हिमसलिलाः सशाबला भूयंत्रोच्चैढिरदभरक्षमा द्रुमाश्च । संसिद्ध्यै द्रुतमटतो बभूवुरध्वन्यावासाः कतिचिदमुष्य तत्र तत्र ॥ ६९ ॥ द्राधीयांसमपि जवान्नितान्तदुर्ग गव्यूतिप्रमितमिव व्यतीत्य मार्गम् । सोत्कण्ठं हृदयमसौ दधत्प्रियायां वैदर्भ विषयमथ प्रभुः प्रपेदे ॥ १६ ॥ आरूढस्तुरगमिभं सुखासनं वा प्रोल्लचच द्रुतमसमं सुखेन मार्गम् । देशेऽस्मिन्महति पुनर्वसुप्रधाने व्योन्नीव द्युमणिरगादसौ रथस्थः ॥१७॥ प्रध्वानैरनुकतमन्द्रमेघनादैः पाण्डित्यं दधति शिखण्डिताण्डवेषु । ग्रामीणैर्धन इव वीक्षिते सहर्ष वजीव प्रभुरधिकं रथे रराज ॥ १८ ॥ क्षेत्रश्रीरधिकतिलोत्तमा सुकेश्यः कामिन्यो दिशि दिशि निष्कुटाः सरम्भाः। इत्येनं ग्रथितमशेषमप्सरोभिः स्वर्गादप्यधिकममस्त देशमीशः ॥ ६९ ॥ विस्फारैरविदितविभ्रमैः स्वभावाड्रामेयीनयनपुटैनिपीयमानम् । लावण्यामृतमधिकाधिकं तथापि श्रीधर्मों भुवनविभुर्बभार चित्रम् ॥ ७० ॥ पुण्ड्रेक्षुव्यतिकरशालिशालिवप्रे प्रोन्मीलद्विशदसरोरुहच्छलेन अन्येषां श्रियमिव नीटतां हसन्ती देशश्रीगुणगुरुणा मुदा लुलोके ॥७१॥ कूष्माण्डीफलभरगर्भचिर्भटेभ्यो वृन्ताकस्तबकविनम्रवास्तुकेभ्यः । संकीणे मिथ इव दृष्टिरस्य लग्ना निष्क्रान्ता कथमपि शाकवाटकेभ्यः ॥ देशश्रीहृतहृदयेक्षणः क्षणेन प्रोल्लङ्घय लममिव वर्त्म नातिदूरे । तत्रोमणिमयकुण्डलानुकारिताकारं पुरमथ कुण्डिनं ददर्श ॥ ७३ ॥ १. सुरा एव सबरा भिल्ला:. दन्त्यादिरपि सबरशब्दः; (पक्षे) सुरसो यो वरः. २. म- दिरागृहम्. पानशालेति यावत. ३. गृहारामाः. ४. अप्सरोभिर्देवाङ्गनाभिस्तिलोत्तमा- सुकेशीरम्भाप्रभृतिभिः; (पक्षे) जलयुक्तसरोभिः. ५. देशानाम. ६. चिर्भटः 'कचरी' इति देशभाषाप्रसिद्धः फलविशेषः.

१६ सर्गः] १ धर्मशर्माभ्युदयम् । वार्तादौ तदनु रजस्ततः प्रणादो मेरीणामतनुबलान्वितस्य भर्तुः । एतस्याभिमुखगमोत्सुकं तदानी सानन्दं पुरि विदधे विदर्भराजम् ॥ ७४ ॥ सोल्लासं कतिपयवेगवत्तुरंगैरेत्यास्मिन्नभिमुखमंशुमानिवासीत् । अस्योद्यद्गुणगरिमप्रकर्षमेरोः पादान्ते प्रणतिपरः प्रतापराजः ॥ ७९ ॥ देवोऽपि प्रणयवशीकृतः कराभ्यामुत्क्षिप्य सितिमिलितोत्तमाङ्गमेनम् । यद्गम्यं क्षणमपि नो मनोरथानां तद्वाह्वोः पृथुतरमन्तरं निनाय ॥ ७६ ॥ श्लाघ्यं मे कुलमखिलं दिगप्यवाची वन्येयं समजनि संततिः कतार्था । कीर्तिश्च प्रसरतु सर्वतोऽद्य पुण्यैरातिथ्यं भुवनगुरौ त्वयि प्रयाते ॥ ७७ ॥ सोऽप्यन्तमनसि महानयं प्रसादो देवस्येत्यविरतमेव मन्यमानः । उन्मीलदनपुलकाङ्कुरः प्रमोदादित्यूचे विनयनिधिविदर्भराजः ॥ ७८ ॥ किं ब्रूमः शिरसि जगत्रयेऽपि लोकराज्ञेयं स्त्रगिव पुरापि धार्यते ते । स्वीकारस्तदखिलराज्यवैभवेषु प्राणेप्वघ्ययमधुना विधीयतां नः ॥ ७९ ॥ अत्यन्तं किमपि वचोभिरित्युदारैः सप्रेम प्रवणयति प्रतापराजे । देवोऽयं सरलतरं स्वभावमस्य प्रेक्ष्येति प्रियमुचितं मुदाचचक्षे ॥१०॥ सर्वस्वोपनयनमत्र तावदास्तां जाताः स्मस्त्वदुपगमाद्वयं कृतार्थाः । नास्माकं तव विभवे परखबुद्धिनों वास्ते वपुषि मनागनात्मभावः ॥ ८१॥ आलापैरिति बहुमानयन्समीपे गच्छन्तं तमुचितसक्रियाप्रतीतः । ताम्बूलार्पणमुदितं विदर्भराजं स्वावासं प्रति विससर्ज धर्मनाथः ॥ ८२ ॥ आनन्दोच्छसितमनाः पुरोपकण्ठे योग्यायामथ वरदाप्रतीरभूमौ । आवासस्थितिमविरोधिनी विधातुं सेनायाः पतिमयमादिदेश देवः ॥ ८३॥ स यावत्सेनानीरलमलभताज्ञामिति विभोः पुरं पूर्वस्थित्या सपदि धनदस्तावदकरोत् । सुरस्कन्धावारद्युतिविजयिनो यस्य विशिखा- समासन्नं शाखानगरभिव तत्कुण्डिनमभूत् ॥ ८४ ॥ द्वारि द्वारि पुरे पुरे पथि पथि प्रत्युद्धसत्तोरणां पौराः पूर्णमनोरथा रचयत प्रत्यपरगावलिम् । १. दक्षिणा दिक्. २. वरदा विदर्भदेशप्रसिद्धा नदी.

काव्यमाला।
पुण्यैर्वस्त्रिदशेन्द्रशेखरमणिः सोऽयं जगबल्लभः
प्राप्तो रत्नपुरेश्वरस्य तनयः श्रीधर्मनाभः प्रभुः ॥ ८५ ॥
यास्तूर्यारवहारिगीतमुखराः पात्राणि दध्यक्षत-
स्त्रग्दूर्वादलभाजि विभ्रति करे सोत्तंसवेषाः स्त्रियः ।
श्रीशृङ्गारवतीचिरार्जिततपःसौभाग्यशोभा इव
श्रेयः प्राप्य समागमं वरमिमं धन्याः प्रतीच्छन्तु ताः ॥८६॥
अद्योक्षिप्य करं ब्रवीम्यहमितः शृण्वन्तु रे पार्थिवाः
का शृङ्गारवती कथापि भवतां प्राप्ते जिने संप्रति ।
वाती तावदमी ग्रहप्रभृतयः कुर्वन्तु भाप्राप्तये
देवो यावदुदेति नाखिलजगचूडामणिर्भास्करः ॥ ८७ ॥
इत्थं विदर्भवसुधाधिपराजधान्यां
द्राग्दण्डपाशिकवचःशकुनं निशम्य ।
तिष्ठन्स तत्र नगरे धनदोपनीते
सिद्धिं विभुढयति स्म हृदि खकायें ॥ ८८ ॥
इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये घोडशः सर्गः ।
सप्तदशः सर्गः ।
अथायमन्येारुदारवेषः प्रतापराजाप्तजनोपहूतः ।
देशान्तरायातनरेन्द्रपूर्णा स्वयंवरारम्भभुवं प्रपेदे ॥ १ ॥
मुक्तामयी कुङ्कुमपङ्किलायां रङ्गावलियंत्र पतिवरायाः ।
सौभाग्यभाग्योदयभूरुहाणामुप्तेव रेजे नवबीजराजिः ॥ २ ॥
यशःसुधाकूर्चिकयेव तत्र शुक्रं नभोवेश्म स कर्तुमुचैः ।
मञ्चोच्चयान्कुण्डिनमण्डनेन प्रपञ्चितान्भूमिभुजा ददर्श ॥ ३ ॥
शृङ्गारसारङ्गविहारलीलाशैलेषु तेषु स्थितभूपतीनाम् ।
वैमानिकानां च मुदागतानां देवोऽन्तरं किंचन नोपलेभे ॥ ४ ॥
निःसीमरूपातिशयो ददर्श प्रदह्यमानागुरुधूपवर्त्या ।
मुखं न केषामिह पार्थिवानां लज्जामषीर्चिकयेव कृष्णम् ॥ ५ ॥

१७ सर्गः] धर्मशर्माभ्युदयम् । अयं स कामो नियतं भ्रमेण कमप्यधाक्षीगिरिशस्तदानीम् । इत्यद्भुतं रूपमवेक्ष्य जैनं जनाधिनाथाः प्रतिपेदिरे ते ॥ ६ ॥ अथोऽङ्गिनां नेत्रसहस्त्रपात्रं निर्दिष्टमिष्टेन स मञ्चमुच्चैः । सोपानमार्गेण समारुरोह हैमं मरुत्वानिव वैजयन्तम् ॥ ७ ॥ सिंहासने शृङ्ग इवोदयाद्रेस्तत्र स्थितो रत्नमये कुमारः । स तारकाणामिव भूपतीनां प्रभां गभूय शशीव रेजे ॥ ८ ॥ उल्लासितानन्दपयःपयोधौ पीयूषधाम्नीव विशेषरम्ये । कासां न नेत्राणि पुराङ्गनानां दृष्टेऽपि तन्दुमणीवभूवुः ॥ ९ ॥ इक्ष्वाकुमुख्यक्षितिपालकीर्ति पठत्वथो मङ्गलपाठकेषु । दृप्तस्मरास्फालितकार्मुकज्यानिर्घोषवन्मूर्छति तूर्यनादे ॥ १० ॥ करेणुमारुह्य पर्तिवरा सा विवेश चामीकरचारुकान्तिः । विस्तारिमञ्चान्तरमन्तरिक्ष कादम्बिनी लीनतडिल्लतेव ॥११॥ (युग्मम्) सा वागुरा नेत्रकुरङ्गकाणामनङ्गमृत्युंजयमन्त्रशक्तिः । शृङ्गारभूवल्लभराजधानी जगन्मनःकार्मणमेकमेव ॥ १२ ॥ लावण्यपीयूषपयोधिवेला संसारसर्वस्वमुदारकान्तिः । एकाप्यनेकैर्जितनाकनारी नृपैः सकामं ददृशे कुमारी ॥१३॥ (युग्मम्) एतां धनुर्यष्टिमिवैष मुष्टिप्रायैकमध्यां समवाप्य तन्वीम् । नृपानशेषानपि लाघवेन तुल्यं मनोभूरिघुभिर्जघान ॥ १४ ॥ यद्यत्र चक्षुः पतितं तदङ्गे तत्रव तत्कान्तिजले निमन्त्रम् । शेषाङ्गमालोकयितुं सहस्त्रनेत्राय भूपाः स्टहयांवभवुः ॥ १५ ॥ पयोधरश्रीसमये प्रसर्पद्धारावलीशालिनि संप्रहत्ते । सा राजहंसीव विशुद्धपक्षा महीभृतां मानसमाविवेश ॥ १६ ॥ स्वभावशोणौ चरणौ दधत्या न्यस्ते पदेऽन्तः स्फटिकावदातम् । उपाधियोगादिव भूपतीनां मनस्तदानीमतिरक्तमासीत् ॥ १७ ॥ १. इन्द्रः. २. एतनामकं निजप्रासादम्. ३. यौवने, प्राकृषि च. ४. हारावलो, धारावली च. ५. शुद्धमातापिटकुला, शुक्लोभयपतत्रा च. ६. हृदयं, सरोविशेषं च. ।

काव्यमाला। अहो समुन्मीलति धातुरेषा शिल्पक्रियायाः परिणामरेखा । जगहयं मन्मथवैजयन्त्या यया जयत्येष मनुष्यलोकः ॥ १८ ॥ धनुर्लता भ्रूरिषवः कटाक्षाः स्तनौ च सर्वस्वनिधानकुम्भौ । सिंहासनं श्रोणिरतुल्यमस्याः किं किं न योग्यं स्मरपार्थिवस्य ॥१९॥ मॉ जले वाञ्छति पद्ममिन्दुव्योमाङ्गणं सर्पति लङ्घनार्थम् । क्लिश्यन्ति लक्ष्म्याः सुदृशा हृतायाः प्रत्यागमार्थ कति न त्रिलोक्याम् २० कुतः सुटत्तं स्तनयुग्ममस्या नितम्बमारोऽपि गुरुः कथं वा । येन द्वयेनापि महोन्नतेन समाश्रितं मध्यमकारि दीनम् ॥ २१ ॥ यद्वय॑ते नितिधाम धन्यैर्बुवं तदस्याः स्तनयुग्ममेव । नो चेत्कुतस्त्वक्तकलङ्कपङ्का युक्ता गुणैरत्र वसन्ति मुक्ताः ॥ २२ ॥ इत्यङ्गशोभातिशयेन तस्याश्चमत्कृताश्चेतसि चिन्तयन्तः मनोभवास्त्रैरिव हन्यमानाः शिरांसि के के दुधुवुर्न भूपाः ॥ २३ ॥ मन्त्रान्निपेठुस्तिलकान्या न्यकार्षानं दधुश्चिक्षिपुरिष्टचूर्णम् । इमां वशीकर्तुमनन्यरूपां किं किं न चक्रुर्निभृतं नरेन्द्राः ॥ २४ ॥ शृङ्गारलीलामुकुरायमाणान्यासन्नृपाणां विविधेषितानि । कन्यानुरागि प्रतिबिम्ब्यमानं व्यक्तं मनोऽलक्ष्यत यत्र तेषाम् ॥२५॥ कंदर्पकोदण्डलतामिवैको ध्रुवं समुत्क्षिप्य समं सुहृद्भिः । करप्रयोगाभिनयप्रवाला विलासगोष्ठी रसिकश्चकार ।॥ २६ ॥ स्कन्धे मुहुर्वक्रितकंधरोऽन्यः कस्तूरिकायास्तिलकं ददर्श । अभ्युद्धरत्युद्धरवैरिवाधेर्वसुंधरापङ्कमिवात्र लग्नम् ॥ २७ ॥ लीलाचलत्कुण्डलरत्नकान्त्या कर्णान्तकृष्टं धनुरैन्द्रमन्यः । अदर्शयचन्द्रधिया गतस्य सङ्गं मृगस्येव मुखे निषेदुम् ॥ २८ ॥ व्यराजतान्यो निजनासिकाग्रे निधाय जिघन्करकेलिपदाम् । सदस्यलक्ष्यं कमलाश्रितेव श्रियानुरागात्परिचुम्ब्यमानः ॥ २९ ॥ कश्चित्कराभ्यां नखरागरक्तं सलीलमावर्तयति स्म हारम् । स्मरास्त्रभिन्ने हृदयेऽस्त्रधाराश्रमं जनानां जनयन्तमुच्चैः ।। ३० ॥

१७ सर्गः] धर्मशर्माभ्युदयम् । ११७ तान्बूलरागोल्वणमोष्ठबिम्ब प्रमार्जयशोणकराङ्गुलीभिः । पिबन्निवालक्ष्यत दन्तकान्तिच्छलेन शृङ्गारसुधामिवान्यः ॥ ३१ ॥ अथ प्रतीहारपदे प्रयुक्ता श्रुताखिलक्ष्मापतिवृत्तवंशा। प्रगल्भवागित्यनुमालवेन्द्रं नीत्वा सुभद्राभिदधे कुमारीम् ॥ ३२ ॥ अवन्तिनाथोऽयमनिन्द्यमूर्तिरमध्यमो मध्यमभूमिपालः । ग्रहा ध्रुवस्येव समग्रशक्तेर्यस्यानुवृत्तिं विदधुनरेन्द्राः॥ ३३ ॥ त्रुध्यत्सु वेलाद्रितटेषु नश्यत्युदनदिक्कुञ्जरचक्रवाले । यस्य प्रयाणे पटहप्रणादैः स्पष्टाहासा इव रेजुराशाः ॥ ३४ ॥ निक्षत्रियादेव रणान्नित्तो विनार्थिनं कामपुषश्च दानात् । अभूत्करः केवलमस्य कान्ताप्टथुस्तनाभोगविभोगयोग्यः ॥ ३५ ॥ अस्येदमावर्जितमौलिमालाभृङ्गच्छलेनाङ्गियुगं नरेन्द्राः । के के न भूष्टष्टलुठल्ललाटभ्रष्टोद्भटभ्रूकुटयः प्रणेमुः ॥ ३६ ॥ एनं पतिं प्राप्य दिवाप्यवन्तीप्रासादशृङ्गाग्रजुषस्तवायम् । सिप्रातटोद्यानचकोरकान्तानेत्रोत्सवायास्तु चिरं मुखेन्दुः ॥ ३७ ॥ ततः सुभद्रावचनावसाने श्रीमालवेन्द्रादवतारिताक्षीम् । नीत्वा नरेन्द्रान्तरमन्तरज्ञा पतिवरां तां पुनरित्यवोचत् ॥ ३८ ॥ दुष्कर्मचिन्तामिव यो निषड़े विवेश चित्ते सततं प्रजानाम् । विलोक्यतां दुर्नयवह्निपाथः सोऽयं पुरस्तान्मगधाधिनाथः ॥ ३९ ॥ सुखं समुत्सारितकण्टकस्य बभ्राम कीर्तिर्भुवनत्रयेऽस्य विशालवक्षःस्थलवासलुब्धा दूरानृपश्रीः पुनराजगाम ।। ४० ॥ महीभुजा तेन गुणैर्निबद्धं गोमण्डलं पालयता प्रयत्नात् । अपूरि पूरैः पयसामिवान्तर्ब्रह्माण्डमाण्डं विशदैर्यशोभिः ॥ ४१ ॥ ज्ञातप्रमाणस्य यशोऽप्रमाणं वृद्धास्य जज्ञे तरुणस्य लक्ष्मीः । दैवात्ततोऽतुल्यपरिग्रहस्य त्वमेव कल्याणि भवानुरूपा ॥ ४२ ॥ विदारयन्ती विषमेषुशक्टला मर्माणि तस्मादहितस्वरूपात् । आकृष्यमाणापि तया प्रयत्नात्पराङ्मुखी चापलतेव साभूत् ॥ ४३ ॥ १. 'क्षुद्रशत्रुश्च कण्टकः'. १. भूमण्डलं, धेनुसमूहं च.

काव्यमाला। स्फुरत्प्रतापस्य ततोऽङ्गभर्तुः सूर्याशुराशेरिव संनिकर्षम् । कुमुद्रती सा सरसीव कृच्छ्रान्निनाय चैनामिति चाम्यवत्त ॥ ४४ ।। अङ्गोऽप्यनङ्गो हरिणेक्षणानां राजाप्यसौ चण्डरुचिः परेषाम् । भोगैरहीनोऽपि हतद्विजिह्वः को वा चरित्रं महतामवैति ॥ १६ ॥ वक्रेषु विद्वेषिविलासिनीनामुदश्रुधाराप्रसरच्छलेन । भेजुः कथंचिन्न पुनः प्ररोहमुन्खातमूला इव पत्रवल्लयः ॥ ४६॥ संख्येषु साक्षीलतमात्मसैन्यं खड्गोऽपि वश्यप्रतिभूरुपात्तः । कृतार्थवत्पत्रपरिग्रहेण दासीकतानेन विपक्षलक्ष्मीः ॥ ४७ ॥ गङ्गामुपास्ते अयति त्रिनेत्रं खं निर्जरेभ्यः प्रविभज्य दत्ते । अस्याननेन्दुद्युतिमीहमानो व्योमापि धावन्नधिरोहतीन्दुः ॥ ४८ ॥ यद्यस्ति तारुण्यविलासलीलासर्वस्वनिवेशमनोरथस्ते । तत्कामिनीमानसराजहंसं मूर्त्यन्तरानङ्गममुं वृणीष्व ॥ ४९ ॥ ग्रीष्मार्कतेजोभिरिव स्मरास्त्रैस्तप्ताप्युदञ्चत्कमलेऽपि तत्र । सा पल्वले निर्मलमानसस्था न राजहंसीव रतिं बबन्ध ॥ ५० ॥ संपूर्णचन्द्राननमुन्नतांसं विशालवक्षःस्थलमम्बुजाक्षम् । नीत्वा कलिङ्गाधिपति कुमारी दौवारिकी सा पुनरित्युवाच ॥ ५१ ॥ खिन्नं मुहुश्चारुचकोरनेत्रे प्रौढप्रतापार्कविलोकनेन । नेत्रामृतस्यन्दिनि रोज्ञि साक्षानिक्षिप्यतां निर्वृतयेऽत्र चक्षुः ॥५२॥ अनारतं मन्दरमेदुराङ्गैः प्रमथ्यमानोऽस्य गजैः पयोधिः । शुशोच दुःखान्मरणाभ्युपायं अस्तं त्रिनेत्रेण स कालकूटम् ॥ ९३ ॥ चकर्ष निर्मुक्तशिलीमुखां यत्करेण कोदण्डलतां रणेषु । जगत्रयालंकरणैकयोग्यमसौ यशःपुष्पमवाप तेन ॥ १४ ॥ चेतश्चमत्कारिणमत्युदारं नवं रसैरर्थमिवातिरम्यम् । त्वमेनमासाद्य पति प्रसन्ना श्लाघ्यातिमात्रं भव भारती वा।। ५५ ॥ भूतिप्रयोगैरतिनिर्मलाङ्गात्तस्मात्मवृत्तादपि राजपुत्री। आदर्शबिम्बादिव चन्द्रबुद्ध्या न्यस्तं चकोरीव चकर्ष चक्षुः ॥ १६ ॥ १. कुत्सितहर्षवती च. २. चन्द्रे, नृपे च.

१७ सर्गः] धर्मशर्माभ्युदयम् । ११९ नरप्रकर्षोपनिषत्परीक्षाविचक्षणा दक्षिणभूमिभर्तुः । नीत्वा पुरस्तादवरोधरक्षा विदर्भभूपालसुतां बभाषे ॥ ५७ ॥ लीलाचलत्कुण्डलमण्डितास्यः पाण्ड्योऽयमुड्डामरहेमकान्तिः । आभाति शृङ्गोभयपक्षसर्पत्सूर्येन्दुरुच्चैरिव काञ्चनाद्रिः॥ १८ ॥ निर्मूलमुन्मूल्य महीधराणां वंशानशेषानपि विक्रमेण । तापापनोदार्थमसौ धरित्र्यामेकातपत्रं विदधे स्वराज्यम् ॥ ५९ ॥ अनेन कोदण्डसखेन तीक्ष्णैर्बाणैरसंख्यैः सपदि क्षताङ्गः । अभाजनं वीररसस्य चक्रे को वा न संख्येषु विपक्षवीरः ॥ ६ ॥ गृहीतपाणिस्त्वमनेन यूना तन्वि स्वनिःश्वाससहोदराणाम् । श्रीखण्डसारां मलयानिलानां सखीमिवालोकय जन्मभूमिम् ॥ ६१ ॥ कोलकैलालवलीलवङ्गरम्येषु वेलाद्रितटेषु सिन्धोः । कुरु स्टहां नागरखण्डवल्लीलीलावलम्बिक्रमुकेषु रन्तुम् ॥ ६२ ॥ दिनाधिनाथस्य कुमुद्वतीव पीयूषभानोर्नलिनीव रम्या । सा तस्य कान्ति प्रविलोक्य दैवान्नानन्दसंदोहवती बभूव ॥ ६३ ॥ महीभुजो ये जिनधर्मवाद्याः सम्यक्त्ववृत्त्येव तया विमुक्ताः । सद्योऽपि पातालमिव प्रवेष्टुं बभूवुरत्यन्तमधोमुखास्ते ॥ ६४ ॥ कर्णाटलाटद्रविडान्ध्रमुख्यैर्महीधरैः कैरपि नोपरुद्धा । रसावहा प्रौढनदीव सम्यरत्नाकरं धर्ममथ प्रपेदे ॥ ६५ ॥ यचक्षुरस्याः श्रुतिलङ्घनोत्कं यद्वेष्टि च भ्रूः स्मृतिजातधर्मम् । अद्वैतवादं संगतस्य हन्ति पैदक्रमो यच्च जैडद्विजानाम् ॥ ६६ ॥ प्रजापतिश्रीपतिवाक्पतीनां ततः समुद्यदृषलाञ्छनानाम् । मुक्त्वा परेषामिह दर्शनानि सर्वाङ्गरक्तेयममूजिनेन्द्रे ॥६७॥ (युग्मम्) १. कर्णपथलानोत्कण्ठम्; (पक्षे) वेदमार्गातिक्रमणाभिलाषम्. २. स्मृतिजातः का- मस्तस्य धर्म चापम्. धनुर्वाचकोऽपि धर्मशब्दो मेदिन्यादिषु पठ्यते; (पक्षे) मन्वादिस्मृ- तिप्रोक्तं धर्मम्. ३. शोभनगमनस्य, बुद्धस्य च. ४. वरणप्रचारः; (पक्षे) पदस्य क्रमो वैदिकप्रसिद्धः पदपाठः. ५. जलपक्षिणाम्. हंसानामिति यावत; (पक्षे) मूढब्राह्मणानाम् . ६. अवलोकनानि, शास्त्राणि च.

१२० काव्यमाला। . तथाहि दृष्टयोभयमार्गनिर्यन्मुदश्रुधारान्वितया मृगाक्षी । प्रसारितोदामभुजाग्रयेव सोत्कण्ठमालिङ्गति नूनमेनम् ॥ ६८ ॥ विभावयन्तीत्यथ मन्मथोत्थं विकारमाकारवशेन तस्याः। अर्हगुणग्रमाकथासु किंचिद्विस्तारयामास गिरं सुभद्रा ॥ ६९ ॥ गुणातिरेकप्रतिपत्तिकुण्ठीकतामरेन्द्रप्रतिभस्य भर्तुः । यद्वर्णनं महचसाप्यमुष्य भानोः प्रदीपेन निरीक्षणं तत् ॥ ७० ॥ इक्ष्वाकुवंशप्रभवः प्रशास्ति महीं महासेन इति क्षितीशः । तस्यायमारोपितभूमिभारः श्रीधर्मनामा विजयी कुमारः ॥ ७१ ॥ मासान्निशान्ते दश जन्मपूर्वानस्याभवत्पञ्च च रत्नदृष्टिः । यया न दारिद्यरजो जनानां स्वप्नेऽपि दृग्गोचरतां जगाम || ७२ ॥ जन्माभिषेकेऽस्य सुरोपनीतैर्दुग्धाब्धितोयैः प्रविधीयमाने । संध्लाव्यमानः कनकाचलोऽपि कैलासशैलोपमतां जगाम ॥ ७३ ॥ लावण्यलक्ष्मीजितमन्मथस्य किं ब्रूमहे निर्मलमस्य रूपम् । वीक्ष्यैव यद्विस्मयतो बभूव हरिदिनेत्रोऽपि सहस्त्रनेत्रः ॥ ७४ ॥ वक्षःस्थलात्प्राज्यगुणानुरक्ता युक्तं न लोलापि चचाल लक्ष्मीः । बद्धा प्रबन्धैरपि कीर्तिरस्य बभ्राम यद्भूत्रितयेऽद्भुतं तम् ॥ ७५ ॥ बुद्धिर्विशाला हृदयस्थलीव सुनिर्मलं लोचनवञ्चरित्रम् । कीर्तिश्च शुभ्रा दशनप्रमेव प्रायो गुणा मूर्त्यनुसारिणोऽस्य ॥ ७६ ।। सुराङ्गनानामपि दुर्लभं यत्पदाम्बुजद्वन्द्वरजोऽपि नूनम् । तस्याङ्कमासाद्य गुणाम्बुराशेस्त्रैलोक्यवन्द्या भव सुन्दरि त्वम् ॥ ७७॥ इत्थं तयोक्ते द्विगुणीभवन्तं रोमाञ्चमालोकनमात्रभिन्नम् । सा दर्शयामास तनौ कुमारी जिनेश्वरे मूर्तमिवाभिलाषम् ॥ ७८ भावं विदित्वापि तथा करेणुं सख्याः सहासं पुरतः क्षिपन्त्याः । चेलाञ्चलं सा चलपाणिपद्मा प्रोत्सृज्य लज्जा द्रुतमाचकर्ष ॥ ७९ ॥ श्रीधर्मनाथस्य मनोज्ञमूर्तेः प्रवेपमानायकरारविन्दा । संवाहितां वेत्रभृता कराभ्यां चिक्षेप कण्ठे वरणरजं सा ॥ ८ ॥ ।

१७ सर्गः] धर्मशर्माभ्युदयम् । १२१ निःसीमसौभाग्यपयोधिवेला वीचीव वक्षःपुलिने जिनस्य । समुल्लसन्ती परिपूर्णमस्याः सा पुण्यचन्द्रोदयमाचचक्षे ॥८१॥ उन्मुद्रितो यत्नवतापि नूनं धात्राधुना स्त्रीनररत्नकोषः । यदस्य युग्मस्य समानमन्यन्नादर्शि रूपं न च दृश्यतेऽत्र ॥ ८२ ॥ इत्थं मिथः पौरकथाः स शृण्वन्पुरःसरीभूतविदर्भराजः । स्वकर्मवृत्त्येव नरेन्द्रपुत्र्या समं तदात्मेव पुरं विवेश ॥ ८३ ।। वधूतं वीक्ष्य वरं तमन्ये नृपा यथावासमपास्तभासः । विभान्वितं भास्करमाकलय्य जग्मुः समूहा इव तारकाणाम् ॥ ८४ ॥ स्वयंवरं द्रष्टुमुपागतानां ध्वजांशुकैव्योमसदामुग्रैः । विचित्रवस्त्रार्पणतत्परेव रेजे विदर्भाधिपराजधानी ॥ ८५ ॥ अथाभवन्नम्वुदनादमन्द्रं ध्वनत्सु तूर्येषु पुराङ्गनानाम् । उत्कण्ठितान्तःकरणानि कामं शिखण्डिनीनामिव चेष्टितानि ॥ ८६॥ करेऽन्दुकं कङ्कणमनिभागे मुखे च लाक्षारसमायताक्षी। तमुत्सुका वीक्षितुमीक्षणे च संचारयामास कुरङ्गनाभिम् ।। ८७ ॥ एतैत हे धावत पश्यताये जगन्मनोमोहनमस्य रूपम् । इत्थं तमुद्दिश्य पुराङ्गनानां कोलाहलः कोऽपि समुज्जगाम ॥ ८ ॥ अटालशालापणचत्वरेषु रथ्यासु च व्याकुलकेशपाशाः । द्रष्टुं तमम्भोजशो भ्रमन्त्यः स्वमूचिरे कामपिशाचवश्यम् ॥ ८९॥ मुक्तामये स्वच्छरुचौ गुणाढ्ये तस्मिन्मनोज्ञे हृदयावतीणे । असूययेव त्रुटितोऽपि हारः स्ष्टष्टो वधूभिर्न जनावकीर्णे ॥ ९० ॥ पत्राङ्कुरैः कापि कपोलमेकं संभाव्य नेत्रं च तथाञ्जनेन । उद्घाटितैकस्तनमण्डलागात्तमर्धनारीश्वरतां वहन्ती ॥ ११ ॥ यियासतस्तस्य नरेन्द्रहर्म्यमत्यद्भुतं रूपमवेक्ष्य मागें । पुरःप्रयाणप्रतिषेधनाय शिरांसि मन्ये दुधुवुस्तरुण्यः ॥ ९२ !! रुद्धे जनैनेत्रपथेऽत्र काचिदुच्चैस्तरां निर्भयमारुरोह । आरूढचेतोभवपौरुषाणां किमस्त्यसाध्यं हरिणेक्षणानाम् ।। ९३ ।। १. पुरं शरीरमपि. २. नुपूरम्.

१२२ काव्यमाला। अङ्गेषु जातेष्वपि तद्विलोकादुन्निरोमोच्चयकञ्चुकेषु । दृढप्रहारो विषमेषुवीरो मर्माणि बाणैरभिनवधूनाम् ॥ ९४ ॥ कोलाहलं कापि मुधा विधाय तस्य स्वमालोकपथं निनाय । द्रष्टुं दृढोपायमनङ्ग एव चक्षुस्तृतीयं सुदृशामुदेति ॥ ९५ ॥ निर्व्याजपीयूषसहोदरोऽपि तदङ्गलावण्यरसनवाहः ! नेत्रार्धभागेन निपीयमानो न तृप्तयेऽभून्नगराङ्गनानाम् ॥ ९६ ॥ आलिङ्गय बालाय समर्पयन्ती मुखेन काचित्क्रमुकस्य खण्डम् । न केवलं तत्प्रणयानुवत्तिमूचे निजां चुम्बनचातुरी च ॥ ९७ ॥ तस्य प्रभोध(वरतां गतस्य समन्ततः सर्पति कान्तिजाले । बन्धाय सद्यो रसवाहिनीनां पपात लोला शफरीव दृष्टिः ।। ९८ ॥ उद्यद्भुजालम्बितनासिकाया स्थिता गवाक्षे विगलन्निमेषा । गौरी क्षणं दर्शितनाभिचका चक्रे भ्रमं काञ्चनपुत्रिकायाः॥ ९९ ॥ कामान्धमेव द्रुतमाकुलाभिः क्षिप्तं मनस्तत्र विलासिनीभिः । तेनेतरालम्बनविप्रयोगाद्वचारत्तियोग्यं न पुनर्बभूव ॥ १० ॥ किमेणकेतुः किमसावनङ्गः कृष्णोऽथवा किं किमसौ कुबेरः । लोकेऽथवामी विकलाङ्गशोभाः कोऽप्यन्य एवैष विशेषितश्रीः॥१०१॥ शृङ्गारवत्याश्चिरसंचितानां रेखामतिकामति का शुभानाम् । लब्धो यया नूनमसावगम्यो मनोरथानामपि जीवितेशः ॥ १०२ ॥ पीयूषधाराभिरिवाङ्गनानामित्थं स वाग्भिः परिपूर्णकर्णः । उत्तोरणं द्वारमुदारकीर्तिः संवन्धिनः प्राप शनैः कुमारः ॥१०३॥ (कुलकम्) तत्रायमुत्तीर्य करेणुकायाः सुवासिनीसाधितमङ्गलश्रीः । विवेश यक्षाधिपदत्तहस्तः प्रशस्तमुच्चैः श्वशुरस्य सौधम् ॥ १०४ ॥ निवर्तिताशेषविवाहदीक्षामहोत्सवोऽसौ श्वशुरेण सन्यक् । वध्वा समं तत्र चतुष्कमध्ये सिंहासनं हैममलंचकार ॥ १०५ ॥ अत्रान्तरे वेत्रिनिवेद्यमानमग्रे पितृप्रेषितस्पेकदूतम् । ददर्श सम्यक्स निवेदितार्थ तदर्पितं लेखमपि व्यवत्त ॥ १ १. द्वारोपरिस्थितं काष्ठं नासिकेत्युच्यते. ।

१८ सर्गः] २ धर्मशर्माभ्युदयम् । १२३ अथायमाहूय पति चमूनां सुषेणमित्यादिशति स्म देवः । स्वराजधानी प्रति संवृतार्थ पित्राहमत्यथितयोपहूतः ॥ १०७ ॥ ततोऽतिवेगेन मनोवदाप्तुं वध्वा समं रत्नपुरं समीहे । त्वं कायवत्कार्यमशेषयित्वा शनैः ससैन्यो भवितानुगामी ॥ १०८ ॥ उक्त्वा तमित्यनुचरं श्वशुरानुमत्या यावत्प्रभुः स्वपुरयानसमुत्सुकोऽभूत् । तावद्धनाधिपतिरम्बरपुष्पकल्पं भक्त्या विमानमुपढोकयति स्म तस्मै ॥ १०९ ॥ तत्रारुहा वितीर्णविस्मयरुचा शृङ्गारवत्याधिक पूषेव प्रविकासितास्यकमलो दिश्युत्तरस्यां ब्रजन् । सद्यः प्राप सखेदमाह्वयदिव व्यालोलसौधध्वजै- देवो रत्नपुरं पुरंदरगुरुः श्रीधर्मनाथः प्रभुः ॥ ११० ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये सप्तदशः सर्गः अष्टादशः सर्गः। अथ श्रुताशेषसुखप्रवृत्तिना मुदं महासेननृपेण विभ्रता । प्रवर्तितानेकमहोत्सवं पुरं समं कलत्रेण विवेश स प्रभुः ॥ १ ॥ स चन्द्रमाश्चन्द्रिकयेव कान्तया तयान्वितोऽत्यन्तमनोरमाकृतिः । कुमुवतीनामिव पौरयोषितां चकार हक्कैरवकाननोत्सवम् ॥ २ ॥ अलंकृतं मङ्गलसंविधानकैः प्रविश्य हयं हरिविष्टरस्थितौ । तदान्वभूतामनुभाविनाविमौ महत्तरारोपितमक्षतक्रमम् ॥ ३ ॥ यदल्पपुण्यैर्मनुजैर्दुरासदं सदैव यच्चाननुभूतपूर्वकम् । वधूवरालोकनलोलनेत्रयोर्बभूव पित्रोः सममेव तत्लुखम् ॥ ४ ॥ स नन्दनालोकनजातसंमदं सुरागलीलालसनिर्जराङ्गनम् । अमन्यत स्वर्गपुरोपमं नृपः प्रसक्तसंगीतकहारि तादिनम् ॥ ५ ॥ 1. शृङ्गारवती धर्मनाथस्य राज्ञी.

१२४ काव्यमाला। अथैष शृङ्गारवतीमिवापरां सकौतुकेनैव करेण मेदिनीम् । तमादराग्राहयितुं नरेश्वरः स्थितं सदस्यात्मजमित्यभाषत ।। ६ ॥ नियम्य यद्राज्यतृणेऽपि पालितं तवोदयात्प्राग्गहनकैसत्त्ववत् । विबन्धनं तद्विषयेषु निःस्ष्टहं मनो वनायैव ममाद्य धावति ॥ ७ ॥ प्रतापटकैः शतकोटिनिष्ठुरैः किरीटरत्नोपलपष्टिकाव्रजे । स्फुरन्निजाज्ञाक्षरमालिकामयी मया प्रशस्तिनिहिता महीभुजाम् ॥ ८ ॥ यशो जगन्मण्डलमण्डनीकृतं कृताः कृतार्थाः कतिनोऽपि संपदा । त्वया च जाता धुरि पुत्रिणां वयं किमस्त्वपर्याप्तमतोऽत्र जन्मनि ॥९॥ ततोऽवशिष्टं पुरुषार्थमर्थतश्चतुर्थमेवार्थयतीह मे मनः । अथान्यदप्यस्ति विधेयमादरात्वमेव तत्साधु विचारयोचितम् ॥ १० ॥ उपेत्य वात्येव जरातिजर्जरं करोति यावन्न वपुः कुटीरकम् । निकेतनं तावदुपैतुमक्षयं द्रुतं यतिप्ये जिननाथवर्मना ॥ ११ ॥ अपत्यमिच्छन्ति तदेव साधवो न येन जातेन पतन्ति पूर्वजाः। इति त्वयापत्यगुणैषिणा पतन्नुपेक्षणीयो न भवामि संसृतौ ॥ १२ ॥ ततोऽनुमन्यस्व नयज्ञ साधये समीहितं त्वद्भुजदण्डशायिनि । चिरं धरित्रीवलये फणावतामपेतभारः सुखमेधतां पतिः ॥ १३ ॥ तवापि शिक्षा भुवनत्रयीगुरोबिभाति भानोरिव दीपदीधितिः । इति प्रपद्यापि यदुच्यते मया ममत्वमोहः खलु तत्र कारणम भृशं गुणानर्जय सद्गुणो जनैः क्रियासु कोदण्ड इव प्रशस्यते । गुणच्युतो बाण इवातिभीषणः प्रयाति वैलक्ष्यमिह क्षणादपि ॥ १५ ॥ उपात्ततत्रोऽप्यखिलाङ्गरक्षणे न मन्त्रिसांनिध्यमपेतुमर्हसि । श्रिया पिशाच्येव नृपत्वचत्वरे परिस्खलन्कश्छलितो न भूपतिः॥१६॥ न बद्धकोषं स तथा यथाम्बुजं विकोषमाक्रामति षट्पदोञ्चयः । पराभिभूतिप्रतिबन्धनक्षमं नृपो विदध्यादिति कोषसंग्रहम् ॥ १७ ॥ Ramind १. आटविकजीववत. २. वज्रवत्कटोरः, १८ सर्गः] धर्मशर्माभ्युदयम् । अनुज्झितस्नेहभरं विभूतये विधेहि सिद्धार्थसमूहमाश्रितम् । स पीडितः स्नेहमपास्य तत्क्षणात्खलीभवन्केन निवार्यते पुनः ॥ १८ ॥ स मन्दरागोपहतः पयोनिधिर्मुमोच लक्ष्मी सगजामपि क्षणात् । इतीव जानन्निजसंनिधौ जनान्न मन्दरागाननिशं विधास्यासि ॥ १९ ॥ गतत्रपो यस्त्रपुणीव सन्माणि नियोजयेद्योग्यमयोग्यकर्मणि । विवेकवन्ध्यः स महीपतिः कथं भवेदनौचित्यविदाश्रयः सताम् ॥२०॥ अचिन्त्यचिन्तामणिमर्थसंपदां यशस्तरोः स्थानकमेकमक्षतम् । अशेषभूभृत्परिवारमातरं कृतज्ञतां तामनिशं त्वमाश्रय ॥ २१ ॥ स्थितेऽपि कोषे नृपतिः पराश्रयी प्रपद्यते लाघवमेव केवलम् । अशेषविश्वभरिकुक्षिरच्युतो बलि भजन्कि न बभूव वामनः ॥ २२ ॥ अनाहतोपक्रमकर्णधारकाः श्रयन्ति ये नीतिनिमां तरीमिव । विरोधिदुर्वातविदर्भितां विपनदी न दीनाः परिलङ्घयन्ति ते ॥२३॥ महोभिरन्यानिह कूपदेशवजडाशयाञ्शोषय भीषणैः क्रमात् । यथा न लक्ष्म्या घटवोढयेव ते कृपाणधारासलिलं विमुच्यते ॥ २४ ॥ अपेक्ष्य कालं कमपि प्रकर्षतः स्फुरन्त्यमी धामधना अपि द्रुतम् । हिमेन तेनापि तिरस्कृति कृतामहो सहस्ये सहते न कि रविः ॥२५॥ विशुद्धपाणिः प्रकृतीरकोपयञ्जयाय यायादरिमण्डलं नृपः । बहिर्व्यवस्थामिति विभ्रदान्तराजयी कथं स्यादनिरुध्य विद्विषः ॥२६॥ ततो जयेच्छर्विजिगीषुरान्तरान्यतेत जेतुं प्रथमं विरोधिनः । कथं प्रदीप्तानवधीर्य बहिना गृहानिहान्यत्र कृती व्यवस्यति ॥ २७ ॥ यथावदारम्भविदो महीपतेर्गुणाय पाडण्यसपि प्रजायते । असंशयं स्यादविमृश्यकारिणो मणि जिवृक्षोरिव तक्षकात्क्षयः ॥ २८ ॥ विधेयमार्गेषु पदे पदे स्खलनराधिनाथो मदमोहिताशयः । न शारदेन्दुद्युतिकुन्दसोदरं यशोशुकं स्वस्तमवैति सर्वतः ॥ २९ ॥ १. स्नेहः प्रेमा; (पक्षे) तैलम्. २. आश्रितं जनं सिद्धार्थसमूहं कृतकृत्यं विधेहि; (पक्षे) सिद्धार्थो गौरसर्षप:. ३. दुर्जनीभवन्; (पक्षे) पिण्याकतां गच्छन्, ४. मन्दरागो मन्दर- पर्वतः. अन्यत्र मन्दरागान्मन्दस्नेहान्, oro काव्यमाला। १२६ हिनस्ति धर्म हृदयाभिनन्दिनीं तदर्पितां यो विलसन्नपि श्रियम् । स दुर्जनानामकृतज्ञचेतसां धुरि प्रतिष्ठां लभतामचेतनः ॥ ३० ॥ सुखं फलं राज्यपदस्य जन्यते तदत्र कामेन स चार्थसाधनः । विमुच्य तौ चेदिह धर्ममीहसे वृथैव राज्यं वनमेव सेव्यताम् ॥ ३१ ॥ इहार्थकामाभिनिवेशलालसः स्वधर्ममर्माणि भिनत्ति यो नृपः । फलाभिलाषेण समीहते तरुं समूलमुन्मूलयितुं स दुर्मतिः ॥ ३२ ।। इहेहते यो नतवर्गसंपदं तापवर्गप्रतिपत्तिमायतौ । अपास्तबाधंस निषेवते क्रमात्रिवर्गमेव प्रथमं विचक्षणः ॥ ३३ ॥ नृपो गुरूणां विनयं प्रकाशयन्भवेदिहामुत्र च मङ्गलास्पदम् । स चाविनीतस्तु तनूनपादिव ज्वलन्नशेषं दहति स्वमाश्रयम् ॥ ३४ ॥ धनं ददानोऽपि न तेन तोषकत्तथा यथा साम समीरयन्नृपः। तदर्थसिद्धावपरैरुपायकैन सामसाम्राज्यतुलाधिरुह्यते ॥ ३५ ॥ त्वमत्र पात्राय समीहितं ददत्प्रसिद्धिपात्रं परमं भविष्यसि । अभिन्नतृष्णे जलधौ कमर्थिनो न बैद्धपीताद्यपवादमादधुः ॥ ३६ ॥ नितान्तघोरं यदि न प्रसर्पते कृतं कदर्यद्रविणेन पातकम् । अदृष्टलोकव्यवहारमन्वहं विपच्यते किं वसुधातलोष्मणा ॥ ३७ ॥ सुमन्त्रबीजोपचयः कुतोऽप्यसौ परप्रयोगादिह भेदमीयिवान् । सुरक्षणीयो निपुणैः फलार्थिभिर्यतः स भिन्नो न पुनः प्ररोहति ॥३८॥ पथि प्रवृत्तं विषमे महीभृतां नितान्तमस्थाननिवेशिनो भ्रमात् । स्वमन्धमाख्याति निपातयत्यपि प्रसह्य दण्डः खलु दण्डधारकम् ॥३९॥ धिनोति मित्राणि न पाति न प्रजा बिभर्ति भृत्यानपि नाथसंपदा । न यःवतुल्यान्विदधाति बान्धवान्स राजशब्दप्रतिपत्तिभाक्कथम् ॥४०॥ १. नतवर्गः सेवकादिसमूहः; (पक्षे) न-तवर्ग संपदाम् इति च्छेदः. २. अपवर्गो मोक्षः; (पक्षे) पवर्ग:. ३. त्रिवर्गो धर्मार्थकामाः; (पक्षे) कुचु-टु इति वर्गत्रयम्. ४. अग्निरिव. ५. दाशरथिना बद्धः अगस्त्यमुनिना पीत इत्याद्यपवादमलब्धमनोरथा अर्थिनः समुद्रस्यो- दोषयन्तीति भावः १८ सर्गः] धर्मशर्माभ्युदयम् । १२७ विचारयैतद्यदि केऽपि बान्धवा महाकविभ्योऽपि परे महीभुजः । यदीयसूक्तामृतसीकरैरसौ गतोऽपि पञ्चत्वमिहाशु जीवति ॥ ४१ ॥ इहोपमुक्ता कतमैन मेदिनी परं न केनापि जगाम सा समम् । फलं तु तस्याः सकलादिपार्थिवस्फुरगुणग्रामजयोर्जितं यशः ॥ ४२ ॥ किमुच्यतेऽन्यद्गुणरत्नभूषणैविभूषयात्मानमनन्यसंनिभैः । स्वभावलोला अपि यैर्विलोभिताः श्रियो न मुञ्चन्ति कदाचिदन्तिकम्।। ४३ इति प्रमोदादनुशास्य भूपतिस्तदैव दैवज्ञनिवेदितेऽहनि । बलादनिच्छन्तमपि न्यवीविशत्स धर्ममुच्चैरभिषेकपट्टके ॥ ४४ ॥ अथैष मूर्छत्सु मृदङ्गझल्लरीस्वनेषु रङ्गत्यपि मङ्गलध्वनौ । चकार चामीकरकुम्भवारिभिर्महाभिषेकं स्वयमस्य भूपतिः ॥ ४५ ॥ सभूषणे तत्परिधाप्य वाससी निवेशितस्यास्य मृगाधिपासने । स्वयं दधत्काञ्चनदण्डमञ्जसा पुरः प्रतीहारनियोगमादधे ॥ ४६॥ प्रसीद दृष्टया स्वयमेष नैषधो नमत्यवन्तीपतिरेष सेवते । इदं पुरः प्राभृतमङ्गभूपतेरयं स कीरो विनयेन भाषते ॥ ४७ ॥ सितातपत्रं द्रविडो विभय॑सौ सचामरौ केरलकुन्तलाविमौ । इति प्रियैरप्यपदानुवर्तिनः पितुर्वचोभिः शुचमेव सोऽवहत् ॥ ४८ ॥ प्रभाकरे गच्छति वृद्धिमेकतः कैलानिधौ राज्ञि विवृत्तिमन्यतः । रराज राज्यं रजनीविरामवत्तदा न नक्षत्रविशेषशोभितम् ॥ ४९ ॥ पुरा त्रिलोक्यामपि मन्दरे सुरैः कृतेऽभिषेके किमिदं पुनः पुनः । इति स्फुरदन्तरुचेव निर्मलं नभोऽहासं पटहवनैर्व्यधात् ॥ ५० ॥ कृताभिषेको न परं स गामिमां प्रसूनगन्धोदकरत्नदृष्टिभिः । दुदोह कामान्दिवमप्यसंशयं किमस्त्यसाध्यं सुकतात्मनामपि ॥५१॥ स पञ्जरेभ्यः कलकेलिपक्षिणो विपक्षबन्दीश्च विमोचयन्नृपः । मनोरथादप्यधिकं ददत्तदा प्रवर्तयामास न कस्य संमदम् ॥ १२ ॥ १. महाकविभ्योऽधिकः कोऽपि महीपतीनां बान्धवो नास्तोति भावः. २. कीरदे. शमहीपतिः. ३. धर्मनाथे सूर्ये च, ४. महासेनमहीपतौ चन्द्रे च. ५. राज्यपक्षे क्षत्र- विशेषैन शोभितमित्यर्थः. .

काव्यमाला। जनेषु गायत्सु जगौ प्रतिवनैननत नृत्यत्स्वपि लोलकेतुभिः । अवाप्य संहर्षमिवोत्सवे प्रभोर्मुदा न किं किं विदधे तदा पुरम् ॥ १३ ॥ इति व्यतिक्रम्य दिनानि कानिचिन्महोत्सवेऽस्मिञ्जरठीभवत्यपि । स पुत्रमाप्टच्छय तपश्चिकीर्षया ययौ महासेनमहीपतिर्वनम् ॥ १४ ॥ अथ श्लथीभूतविमोहबन्धनोऽप्यसौ वियोगापितुरन्वतप्यत । अवेत्य संसारगतिं ततः स्वयं प्रबुद्धमार्गः समचिन्तयत्प्रजाः ॥ ५५ ॥ प्रजाः प्रशस्याः खलु ताः स्मरन्त्यमुं जिनेश्वरं याः प्रविधूतकल्मषम् । स्तुमः कथं तत्सुकतानि चिन्तनं चकार यासां स्वयमेव स प्रभुः॥५६॥ कचिन्न चक्रे करवालकर्षणं न चापरागं विदधे कमप्यसौ स कोमलेनैव करेण लालयन्वशीचकारैकवधूमिव क्षितिम् ॥ १७ ॥ गुणार्णवं नम्रनरामरोरगस्फुरत्किरीटोच्चयचुम्बितक्रमम् । पति तमासाद्य मही महीयसी बभूव लोकद्वितयादपि ध्रुवम् ॥ १८ ॥ न चापमृत्युनं च रोगसंचयो बभूव दुर्भिक्षभयं न च क्वचित् । महोदये शासति तत्र मेदिनी ननन्दुरानन्दजुषश्चिरं प्रजाः ॥ ५९ ॥ ववौ समीरः सुखहेतुरङ्गिनां हिमादिवोष्णादपि नाभवद्भयम् । प्रभोः प्रभावात्सकलेऽपि भूतले स कामवर्षी जलदोऽप्यजायत ॥ ६ ॥ ध्रुवं भुजस्तम्भनियन्त्रिता गुणैरनेन गाढं करिणीकृतोचला। कुतोऽन्यथा भूभृदुपायनच्छलात्समाययुः काममदोद्धता गजाः ॥ ६१ ॥ अजस्त्रमासीर्द्धनसंपदागमो न वारिसंपत्तिरदश्यत क्वचित् । महौजसि त्रातरि सर्वतः सतां सदा पराभूतिरभूदिहाद्भुतम् ॥ ६२ ॥ न नीरसत्त्वं सलिलाशयाहते दधावधः पङ्कजमेव सद्गुणान् । अभूदधर्मद्विषि तत्र राजनि त्रिलोचने यद्यजिनानुरागिता ॥ ६३ ॥ १. करवालः खगः; (पक्षे) करौ हस्तौ वालाः केशा:. २. चाये धनुषि रागम्'; (पक्षे) अपरागं विरक्तम्. ३. हस्तेन बलिना च.. ४. पूज्या. ५. भूमिः. ६. अधि- कसंपत्प्राप्तिः (पक्षे) मेघसंपदागमः. ७. जलसंपत्तिः; (पक्षे) अरिसंपत्तिः शत्रुबाहुल्यम्. ८. परिभवः; (पक्ष) उत्कष्टमैश्वर्यम्. ९. नीरस्य सत्वं विद्यमानता; (पक्षे) नीरसस्य भावः. १०. जिनेऽनुरागाभावः; (पक्षे) अजिनं गजादि चर्म, १९ सर्गः] धर्मशर्माभ्युदयम् । १२९ प्रसह्य रक्षत्यपि नीतिमक्षतामभूर्दनीतिः मुखभाजनं जनः । भयापहारिण्यपि तत्र सर्वतः को नाम नासीत्प्रेभयान्वितः क्षितौ ॥६४॥ त्रिसंध्यमागत्य पुरंदराज्ञया सुराङ्गना दर्शितभूरिविभ्रमाः । वितन्वते स्म स्मरराजशासनं सुखाय संगीतकमस्य वेश्मनि ॥ १५ ॥ वक्राब्जेन जयश्रियं विकसता क्रोडीकृतां दर्शय- न्हस्तोदस्तजयध्वजेन विदधद्वयक्तामथैनां पुनः । एकः प्राप सुषेणसैन्यपतिना संप्रेषितः संसदं तस्यानेकनृपप्रवर्तितसमिदृत्तान्तविद्यार्तिकः ॥ ६६ ॥ प्रणतशिरसा तेनानुज्ञामवाप्य जगत्पतेः कथयितुमुपक्रान्ते मूलादिहाजिपराक्रमे । श्रवणमयतामन्यान्यापुस्तदेकरसोदया- दपरविषयव्यारत्तानीन्द्रियाणि सभासदाम् ।। ६७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्येऽष्टादशः सर्गः । एकोनविंशः सर्गः । आहवक्रममामूलमथ दूतः पुरः प्रभोः । आह वैक्रममामूलमिति विद्वेषिभूभुजाम् ॥ १ ॥ कार्यशेषमशेषज्ञोऽशेषयित्वा स निर्थयौ। यावत्संबन्धिनो देशात्सुषेणः सह सेनया ॥२॥ तावदङ्गादयः क्षोणीभुजो दौराधियातया । वामयास्यानुजग्मुस्ते भुजोदारा धिया तया ॥ ३ ॥ (युग्मम्) अथ तैः प्रेषितो दूतः पृथ्वीनाथैर्युयुत्सुभिः । साक्षाद्गर्व इवागत्य तमवोचञ्चभूपतिम् ।। ॥ १. नीतिरहितः, (पक्षे) स्वचऋपरचकादि ईतिरहितः, २. प्रकृष्टभयेन; प्रभया कान्त्या च. ३. युद्धवार्ताभिज्ञः. वार्तिको वार्ताहरो दूतः. ४. अस्मिन्सर्गे आदर्श. पुस्तके यमकादिषु संक्षिप्तं टिप्पणं कचिद्वर्तते प्रायस्तदेवात्र गृहीतम् . ५. वक्र विषमम्, अत एव अमामूलमलक्ष्मीकारणम्. ६. दारसंबन्धी य आधिस्तेन यातया प्राप्तया धिया. ७. वामया वक्रयेति धियेत्यस्य विशेषणम्.

१३० काव्यमाला। त्वं क्षमो भुवनस्यापि तेनेनेन प्रेभास्वतः । तैवानूना चमूचक्रे तेनेऽनेन प्रभा स्वतः ॥ ५ ॥ तवानूरोरिवाकाशे प्रभुभक्तिर्न बाधिका । अग्रेसरी पुनः किं न वोरिराशौ निमज्जतः ॥ ६ ॥ चतुरङ्गा चमूं त्यक्त्वा चतुरं गां गतः कथम् । प्रभयाधिकरक्षा स प्रभयाधिगतोऽवति ॥ ७ ॥ कार्मणेनैव तेनोना सा शृङ्गारवतीति यः । साशङ्कस्तु कृतः पत्या राजवर्गः प्रणश्यता ॥८॥ नवमायोधनं शस्यानवमायो धनं ददत् । समनागबलः कतु स मनागवलत्वचा ॥ ९॥ (युग्मम्) लक्ष्मीजिघृक्षया तुभ्यं राजकं नापराध्यति । किं तु रीत्येव वैदा गौडीयायाभ्यसूयितम् ॥ १० ॥ मौरसारसमाकारा रोकामा सरसा रेमा । सा गता हँसना तेन न तेनासहतागसा ॥ ११ ॥ (प्रतिलोमानुलोमपादः) वामिहायुत विश्वस्तभूतलोपक्रतिक्षमः । न वापराधकन्नाथः केवलं भूतिहेतवे ॥ १२ ॥ १. तेन इनेन स्वामिना. २. प्रभास्वतस्तेजस्विनः, ३. तव चमूचक्रे अनेन स्वत: अनूना प्रभा चक्रे. ४. नवा अधिका च; (पक्षे) बाधिः का न. ५. समुद्रे (पक्षे) वा-अ- रिराशौ शत्रुसमूहे. ६. प्रभया तेजसा; प्रकर्षण भवाधिगतः. योऽकारणं चमू त्यक्त्वा प्रपलायते स भयान्वितो भवत्येव. ७. प्रत्यग्रसङ्गामम्. ८. न अवम: अयः शुभावही विधिर्यस्य. ९. तुल्यहस्तिसैन्यः. १०. मनाक्-अवलतू. ११. गोडदेशभवाय. यथा वैदर्भी रीतिौडीवल्लभाय कवये कुप्यति तथा तुभ्यं शृङ्गारवत्याभ्यसूयितम्. १२. का- मसर्वस्वतुल्याकृतिः. १३. राकावन्मा लक्ष्मीर्यस्याः सा. १४. कामिनी. १५. स्मितमुखी; (पक्षे)अहसना अस्मेरास्या. चित्तानुरागविरहात्. १६. तेन आगसापराधेन. १७. विश्वस्तं समस्तं यद्भूतलं तस्योपकाराय समर्थः; (पक्षे)-विश्वस्त-भूत-लोप कृति-क्षमः श्रद्धालु- जनविनाशकः. विश्वासघातक इति यावतू. १८. न-वा-अपराधकृत (पक्षे) नव- अपराधकृत.

१९ सर्गः] धर्मशर्माभ्युदयम् । अस्य मानाधिकैः सेना अस्थमाना नैवाजितः । अस्यमानाहतेरेता अस्यमानावितुं क्षमः ॥ १३ ॥ परलोकभयं बिभ्रत्मभुभक्तिं प्रपद्यसे । भवितासि ततो नूनं स्ववंशोद्धरणक्षमः ॥ १४ ॥ अरमभीतियुक्तस्ताः कष्टं स्कन्दोऽपि रक्षति । अरमभीतियुक्तस्ता दूरे पास्यति वाहिनीः ॥ १५ ॥ अबलां तां पुरस्कृत्य त्यक्तोऽसि सवलोऽमुना । निराश्रयस्ततो धीर राजवर्ग त्वमाश्रय ॥ १६ ॥ प्रार्थयैतांश्चतुर्वर्ग रैथवाजिनदानतः । लप्स्यसे पञ्चतामुच्चैरैथवाजिप्रदानतः ॥ १७ ॥ परमस्नेहनिष्ठास्ते परदानकतोधमाः । समुन्नति तवेच्छन्ति प्रधनेन महापदाम् ॥ १८ ॥ राजानस्ते जगत्ल्याता बहुशोभनवाजिनः । वने कस्तत्क्रुधा नासीबहुशोभनवाजिनः ॥ १९ ॥ संकपाणां स्थितं बिभ्रतधामनिधनं तव । दाता वा राजसंदोहो द्राकोन्तारसमाश्रयम् ॥ २० ॥ सहसा सह सारेभैर्धावितांधाविता रणे । दुःसहेऽदुः सहेऽलं ये कस्य नाकस्य नार्जनम् ॥ २१ ॥ तेषां परमतोषेण संपदातिरसं गतः । स्वोन्नति पतितां विभ्रसंझहीनो भविष्यसि ॥२२॥ (युग्मम्) १. प्रमाणाधिकैः. २. क्षिप्यमाणा. ३. नवीनसङ्ग्रामात. ४. खड्गाप्रमाणघाततः. ५. असि-अमान-अवितुं. ६. परलोको जन्मान्तरं शत्रुश्च. ७. स्वामिसेवां मर्दनतां च (?). ८. रथ-वाजि-प्रदानतः. ९. अथवा-आजि-प्रदानत:. १०. बहुशोभन- वाजिनः. ११. बहुशोभ-नव-अजिनः. १२. सदयानाम्; (पक्षे) सखड्गाम्. १३. स्व- धामनि स्वगृहे धनं तव दाता दास्यति (पक्षे) स्वधान्ना निधनम्, १४. राजसमूहः. १५. कान्ता-रसं-आश्रयम्; (पक्षे) कान्तार-समाश्रयम्. १६. गजप्रधानः, १७. धा- विताधौ आधिरहित रणे इताः प्राप्ताः. १८. संपत्त्याधिकरागम् ; (पक्षे) संपदातिः सेवकः, असंगत एकाकी. १९. स्वामित्वम् ; (पक्षे) च्युताम्. २०. सतू-मही-इन: समीचीन- भूपाल:; (पक्षे) गृहरहितः.

काव्यमाला। बहुशस्त्रासमाप्यैषां बहुशस्त्रासमाहतेः । को वा न रमते प्राप्ताङ्को वानरमते गिरौ ॥ २३ ॥ किएँ दासतया स्थातुमीहसे क्वापि भूभृति । असंख्यं कर्म तत्कुल्लप्स्यसे कम्बलोत्सवम् ॥ २४ ॥ बहुधामरणेऽच्छाबहुधा मरणेच्छया। परभीरहितं पश्येत्परंभीरहितं परम् ॥ २५ ॥ बन्धाय वाहिनीशस्य तवैते मेदिनीभृतः । आयान्ति कटकैर्जुष्टाः सनागहरिखङ्गिभिः ॥ २६ ॥ मुरलो मुरलोपीव कुन्तलः कुन्तलश्च कैः । मालवो मौलवोनीवैर्वार्यते वार्य ते रणे ॥ २७ ॥ उद्दामद्विरदेनाद्यो (१) कलिङ्गेन वृषध्वजः । शिरोपितार्थचन्द्रेण कार्यस्त्वमगजाश्रितः ॥ २८ ॥ अनेकपापरतो वा लभ सेनाशमं गतः। अनेकपापरक्तो वा लभसे नाशमङ्गतः ॥ २९ ॥ हितहेतु वचस्तुभ्यमभ्यधामहमीदृशम् । विरोधिन्यपि यत्साधुन विरुद्धोपदेशकः ॥ ३० ॥ अधिकं दरमेत्याहो अधिकंदरमुन्नतान् । समासादयशाः शैलान्समासादय वा नृपान् ॥ ३१ ॥ इति राजगणे तस्मिन्नधिकोपकतिक्षमे । गतिद्वयमुदाहृत्य प्रणिधिविरराम सः ॥ ३२ ॥ १. बहुशः-त्रासम्. २. बहुशस्त्र-आसमाहतेः. ३. लब्धोत्सङ्गः. ४. उदासतया; (पक्षे) दासतया. ५. राज्ञि, पर्वते च. ६. कं-बलोत्सवम्; (पक्षे) कम्बलोत्सवम्. ७, धाम-रणे. ८. अच्छद्युत्स्वच्छतेजाः. ९. पर-भी-रहितम्. १०. परभीः कातरः. ११. विष्णु रिव. १२. कुन्तलदेशनृपः. १३. कुन्तान लातीति. १४. मा लक्ष्मीस्तस्या लवस्तेनोद्रीवैः. १५. अनेकप-अपरक्ताः. १६. समासात-अयशाः.

१९ सर्गः] धर्मशर्माभ्युदयम् । रैरोऽरीरोरुररुरत्काकुकं केकिकङ्किकः । चञ्चच्चधूच्चचिच्चोचे तततातीति तं ततः ॥ ३३ ॥ (चतुरक्षरः) अन्तरत्यन्तनिगूढपदाभिप्रायभीषणा । वाग्भुजङ्गीव ते मृट्ठी कस्य विश्वासरूद्धहिः ॥ ३४ ॥ दुर्जनः सत्सभा प्रष्टामीहते न स्वभावतः । किमुलूकस्तमोहन्त्री भास्वतः सहते प्रभाम् ।। ३९ ॥ (गूढचतुर्थपादः) सीमा सौभाग्यभाग्यानां शोभासंभावितस्मरः । अहो पाष्टर्च जगन्नाथः कार्मणीत्युच्यते खलैः ॥ ३६ ॥ प्रभाप्रभावभाग्येन भाग्येन स वधूकरम् । तेने तेनेऽपतन्माला तन्मालाएं वृथा कथाः ॥ ३७ ॥ गुणदोषानविज्ञाय भर्तुभक्ताधिका जनाः । स्तुतिमुच्चावचामुच्चैः कां न कां रचयन्त्यमी ॥ ३८ ॥ धर्मे बुद्धि परित्यक्त्वापरत्रानेकपापदे । सदयः कुरुते कस्तां परत्रानेकपापदे ॥ ३९ ॥ आस्तां जगन्मणेस्तावद्भानोरन्यैर्महखिभिः । अनूरोरपि किं तेजः संभूय परिभूयते ॥ ४० ॥ मम चापलतां वीक्ष्य नवचापलतां दधत् । अयमाजिरसागन्तुं किं यमाजिरमिच्छति ॥ ४१ ।। सौजन्यसेतुमुद्भिन्दन्यत्त्वया नैव वारितः । तन्नः क्रोधार्णवौघेन लावनीयो नृपब्रजः ॥ ४२ ॥ ७ १. रायं धनं ददातीति रेस; अरीन् ईरयन्तीत्यरीराः सुभटाः, तेषां उरुमहान्. केकिना कङ्कत इत्येवंशील: केकिकड़ी कार्तिकेयः, तस्येव कः कामो यस्य स केकिक- किका. चञ्चन्ती चञ्चुर्दक्षा उच्चा महती चिद्बुद्धिर्यस्य. ततां प्रचुरां तां लक्ष्मीमतति गच्छति इत्येवंशीलस्ततताती. काकुकं मर्मव्यथकशब्दम्. २. अधर्मे. ३. परे- भ्यस्त्रायन्ते ते अनेकपा हस्तिनस्तेषामापदे.

काव्यमाला। विपद्विधास्यतेऽत्राहंकारिभिः कारिभिर्मम । एकाकिनापि रुध्यन्ते हरिणा हरिणा न किम् ॥ ४३ ॥ जयश्रियमथोडोढुं त्वत्प्रतापाग्निसाक्षिकाम् । वित्तमाजौ ददतं सुषेणो विससर्ज सः ॥ ४४ ॥ रागिताजिवरा कापि नेतेनातततामसा । सामताततना तेने पिकारावजिता गिरा ॥ १५ ॥ (अनुलोमप्रतिलोमाः तथाप्यनुनयैरेष शाम्यति स्म न दुर्जनः और्वस्तनूनपान्नीरैर्नीरघरिव भूरिभिः ॥ ४६ ॥ युद्धानकाः स्म तद्धीमाः सदानव नदन्ति नः । बबंहिरे जयायोच्चैः सदानधनदन्तिनः ॥ ४७ ।। उद्भिन्नोदामरोमाञ्चकचकेषु मुदस्तदा । अन्तरङ्गेषु शूराणां संनाहा न बहिर्ममुः ॥ ४८ ॥ निजदोरदनोदीर्णश्रीरता घेनताविभा। तरसारवलं चेरुरिभा भूतहतो भृशम् ॥ १९ ॥ (प्रातिलोभ्येनानन्तरश्लोकः) संभृतो हतभूमारिरुचेऽलं वरसारतः । भावितानघतारश्रीन दीनो दरदोऽजनि ॥ १० ॥ शङ्केऽनुकूलपवनप्रेखितः स्यन्दनथ्वजैः । निक्वणत्किङ्किणीकाणैर्योढुं जुहुविरे द्विषः ।। ५१ ॥ नवप्रियेषु विभ्राणाः सङ्गरागमनायकाः । क योषितोऽभवन्नोत्काः संगरागमनाय काः ॥ १२ ॥ १. का-अरिभिः. २. निजबाहुदन्ताभ्यामुदीर्णा या श्रीस्तस्यां रताः, ३. धनानां समूहो घनता तद्वद्विभा येषाम्. ४. तरसा आरबलं शत्रुसैन्यम्. ५. भूतहृतः प्राणि- घातकाः. ६. भुवि भान्तीति भूभास्ते च तेऽरयश्च, तेषां रुचिः सा हृता येन, तत्संबो- धनम्. ७. वरसारत उत्कृष्टबलात. ८. भाविता अधिगता अनघा तारा उज्ज्वला श्रीयन.

१९ सर्गः धर्मशर्माभ्युदयम् । सदशावत्यनीकेऽत्र त्वत्प्रतापप्रदीपके । वधायैव निपेतुस्ते पतंगा इव शत्रवः ॥ १३ ॥ गङ्गोरगगुरुबाङ्गगौरगोगुरुरुग्रगुः । रागागारिगरैरङ्गैरग्रेऽङ्गं गुरुगीरगात् ॥ ५४ ॥ (चक्षरः) अङ्गमुत्तुङ्गमातङ्गमायान्तं प्रत्यपद्यत । वात्येव वारिदानीकं सा सुषेणस्य वाहिनी ॥ ५५ ॥ अंतस्तमानसे सेना सैदाना सारवा रणे । अतस्तमानसेसेना सदानासारवारणे ॥ ५६ ॥ (समुद्गकः) कुम्भभूरिव निर्मग्नसपक्षानेकभूधरम् । उच्चुलुम्पांचकारोच्चैः स क्षणादङ्गवारिधिम् ।। ५७ ।। निस्त्रिंशदारितारातिहृदयाचलनिर्गता ! न करिस्कन्धदनासृङदी दीनैरतीयत ॥ ५८ ॥ (निरौष्ठयः) स्नेहपूर इव क्षणे तत्रोद्रेकं महीभुजः । अस्तं यियासवोऽन्येऽपि प्रदीपा इव भेजिरे ॥ ५९॥ हेमवर्माणि सोऽद्राक्षीदाविना भाविनासिना । हिड्बलान्यत्सकेनेव निचितानि चिताग्निना ॥ ६ ॥ तद्धनोत्क्षिप्तदुरितरवारिमहोर्मयः । अरिक्ष्माघरवाहिन्यो रणक्षोणी प्रपेदिरे ।। ६१ ।। समुत्साहं समुत्साहंकारमाकारमादधत् । ससारारं ससारारम्भवतो भवतो बलम् ।। ६२ ।। कोदण्डदण्डनिर्मुक्तकाण्डच्छन्ने विहायसि । चण्डांशुश्चण्डभीत्येव संवत्रे करसंचयम् ।। ६३ ।। १. गङ्गा च उरगगुरुश्च उप्राङ्गं च तद्वद्गौरा या गौर्वाणी तया गुरुबृहस्पतिः. उग्रा गावो बाणा मयूखा वा यस्य सः. राग एवागारं येषां तेषां गरैविषप्रायः. गुरुगीमहा- नादः. २. सत् शोभनं अनोत बलं यस्याः सा सदानाः, अतस्तमानान् अक्षीणाहंकारान् श्यति तस्मिन्. सेना स्वामियुक्ता. सदानासारा वारणा यस्मिन्. ३. त एव घनाः, ४. वारि जलम्; (पक्षे) तरवारिः खङ्गः, । ।

काव्यमाला। : । सारसेनारसे नागाः समरे समरेखया । न न दाननदाश्चराजिनो वाजिनोहताः ॥ ६४ ॥ उद्दण्डं यत्र यत्रासीत्पुण्डरीकं रणाम्बुधौ । निपेतुस्तव योधानां तत्र तत्र शिलीमुखाः ॥ ६५ के न बाणैर्नवाणैस्ते सेनया सेनया हताः । मानवा मानबाधान्धाः सत्वराः सत्वराशयः॥ ६६ ॥ बाणैर्बलमरातीनां सदापिहितसौरभैः । अपूरि सुरमुक्तैश्च त्वद्वलं कुसुमोत्करैः ॥ ६७ ॥ मूर्धानं दुधुवुस्तत्र कङ्कपत्रक्षता भटाः । प्रभोरासमाप्तौ वा प्राणानां रोडमुत्क्रमम् ॥६८॥(अतालव्यः) त्रुध्यहिट्कण्ठपीठास्थिटात्कारभरभैरवे । पेतुर्भयान्वितास्तत्र पत्रिणो न पतत्रिणः ॥ ६९ ॥ शरघातागर्दीनरसितैरुत्पलायितम् । रक्ताब्धौ तत्कश्छिन्नैरसितैरुत्पलायितम् ॥ ७० ॥ वेतालास्ते तृषोत्तालाः पश्यन्तः शरलाघवम् । पाणिपात्रस्थमप्यत्र कीलालं न पपुयुधि ॥ ७१ ॥ त्वद्वलैर्विषमारातिमारातिस्फुटविक्रमैः । अखगं व्योम कुर्वाणैः कुर्वाणैस्तस्तरे तदा ॥ ७२ ।। संसारसारलक्ष्म्येव वैदा स्वीकृतस्य ते । ईय॑या वर्धितोत्साहा तत्र शत्रुपरम्परा ॥ ७३ ।। पराजिताशु भवतः सेनया यतमानया। पराजिता शुभवतः सेनया यतमानया ॥ ७४ ॥ (युग्मम्) १. रसो राग:, शब्दो वा. २. छत्रं, सिताम्भोज च. ३. बाणा:,मराथ. ४. नवशब्दैः. ५. आच्छादितसूर्यकान्तिभिर्बाणैः, प्रकटीकृतसौरभ्यैः कुसुमोत्करैश्च, ६. भया प्रभया; (पक्षे) भयेन. ७. युद्धात्पलायिता गंजा इत्यर्थः. ८. उत्पलवदाचरितम्, ९. विषमा ये अरातयस्तेषां मारो मारणम्. १०. कुः पृथ्वी. ११. परैरजिता आशु. १२. यलं कुर्वाणया. १३. स्वामिसमेतया. १४. विस्तताहंकारया. .4 १९ सर्गः] धर्मशर्माभ्युदयम् । १३७ ततो भन्ने बलेऽन्यस्मिन्पुलकस्फारसैनिकः । एकहेलं सहोत्तस्थे मालवेन्द्रेण कुन्तलः ।। ७५ ॥ सुषेणस्तद्वलचूहं सन्नाहवपुषं ततः । हर्षेण वीक्ष्य सौवर्णसंनाहवपुषं ततः ॥ ७६ ॥ चतुरङ्गबले तत्र परिसर्पति शात्रवे । सैन्यमाश्वासयामास व्याकुलं स्वं चमूपतिः ।। ७७ ।। (युग्मम्) स वाजिसिन्धुरसामान्संभ्रमादभिधावितः । जवादसिं स्फुरद्धामा बिभ्रन्नादमधात्ततः ॥ ७८ ॥ (गोमूत्रिका) सगजः सरथः साश्वः सपदातिः समन्ततः । क्रामन्नभिमुखं क्रोधात्तीव्रतेजाः शितायुधः ॥ ७९ ॥ (युग्मम्) समारेभे समारेभे समारे भे रणे रिपुः । स दानेन सदानेन सदानेन व्यपोहितुम् ॥ ८ ॥ अम्भोधिरिव कल्पान्ते खङ्गकल्लोलभीषणः । स्खलितो न स भूपालैस्तत्र वेलाचलैरिव ॥ ८१ ॥ कङ्कः किं कोककेकाकी किं काकः केकिकोऽककम् । कौकः कुकैककः कैकः कः केकाकाकुकाङ्ककम् ॥ ८२ ॥ (एकाक्षरः) अनेकधातुरङ्गाट्यान्कुंजराजिदुरासदान् । रिपुशैलानसिभिन्दञ्जिष्णोर्वजमिवाबभौ ॥ ८३ ॥ जघान करवालीयघातेनारेबलं बली। न नाप्ता ते निरालम्बा करे तेनावनिर्वरः ॥ ८४ ॥ (अर्धभ्रमः) १. सन्न-आहब-पुषं, २. स-मार-इभे, सम.आरेभे, आरेभः शब्दः. समारेभे समा- रब्धः. दानेन खण्डनेन सदानेन सदलेन. व्यपोहितुमुपक्रान्तुम्. ३. कङ्को बकः. को- ककेकाकी चक्रवाकहंसगामी. काको वाङ्क:. केकिकः मयूरवत्क आत्मा स्वरूपं यस्य सः. कुकैककः स्वर्गपृथ्वीजलेष्वद्वितीयः. गुरुत्वात्. कुटिलं जगाम. केकाका- कुको मयूरः स चिह्न यस्य स केकाकाकुकाङ्कः, तस्येव के शरीरं यस्य तम्. ४. अने- कथा-तुरंग; (पक्षे) अनेक-धातु-रङ्ग. ५. कुञ्जर-आजि; (पक्षे) कुञ्ज-राजि.

काव्यमाला। तेन सङ्ग्रामधीरेण तव नाथ पदातिना । एकहेलमनेकेभ्यः शत्रुभ्यो निशितासिना ॥ ८५ ॥ भरं याममयारम्भरञ्जिता ददताजिरम् । याता क्षमा माक्षता या मदमाररमादम ॥ ८६ ॥ (युग्मम्) (सर्वतोभद्रम) धाना धाराजलेनेव दृष्टमातङ्गसंगमाम् । अभ्युक्ष्याभ्युक्ष्य जग्राह तत्कृपाणो रिपुश्रियम् ॥ ७ ॥ देवेन्दो विववादिवाददावदवाम्बुद । दिवं दहुदावेदं दुद्दवृन्दं विदैववत् ॥ ८८ ॥ (द्वयक्षरः) पीत्वारिशोणितं सद्यः क्षीरगौरं यशो वमन् । इन्द्रजालं तदीयासिः काममाविश्चकार सः ।। ८९॥ स प्रसादेन देवस्य रसादेकपदे बलम् । संपदेऽजयदेव द्विट्कम्पदेन सदेवनम् ॥ ९० ॥ (मुरजबन्धः) तेन मालवचोलाङ्गकुन्तलव्याकुले रणे । भानुनेव तमःकीणे किं किं नो तेजसा कृतम् ॥ ९१ ॥ काननाः कानने नुन्ना नाकेऽनीकाङ्ककानिनः । के के नौनीकिनीनेन नौकोनैकाकिना ननु ॥ ९२ ॥(ब्यक्षरः) सागरे भुवि कान्तारे संगरे वा गरीयसि । त्वद्भक्तिः कस्य नो दत्ते कामधेनुरिवेहितम् ॥ ९३ ।। देवनाथमनाढत्य भावनास्तम्भनाहते। त्वयीनासीत्स नास्तद्विजयी नाथमनास्ततः ॥ ९४ ॥(मुरजबन्धः) खङ्गत्रासावशिष्टेऽथ प्रणष्टे विद्विषां बले । सुषेणः शोधयामास रणभूमि महाबलः ॥ ९९ ॥ १. भरमत्यर्थम्. अयारम्भरञ्जिता शुभावहविधिप्रारम्भरञ्जिता सती. मा लक्ष्मी- स्तस्या अक्षता नित्यता, आररमादम अरिसमूहलक्ष्मीदमन, याता लब्धा. २. शत्रुस- मूहम्. ३. विपरीतभाग्ययुक्तम्. ४. जितवानेव. ५. सक्रीडनं यथा भवति. ६. अस्फुटो- ऽस्य बन्धस्य विन्यासः. ७. कुत्सितमुखा:. ८. अनीकाङ्क सङ्कामोत्सङ्गे कनन्ति एवं- शीला:. ६. सेनापतिना.. १०. हे देवेश, एकाकिना.

१९ सर्गः धर्मशर्माभ्युदयम् । १३९ गजवाजिजवाजिजयानुगतः स रसात्तरसात्तयशोविभवः । क्रमवन्तमवन्तमिलां श्रयितुं स्वयमेवंयमेत्य भवन्तमितः ॥ ९६ ॥ चन्द्रांशुचन्दनरसादपि शीतमङ्गं पीयूषपूरमसलहमतीव दृष्टिः । क्वायं पुनर्वसति वैरिमहीशवंश- संलोषणो भुवनभूषण ते प्रतापः ॥ ९७ ॥ चक्रेऽरिसंततिमिहाजिघु नष्टपद्मा- तिख्यातिमेकचकिताकृतिधारिणी यः । तिग्मासिरिष्टमतवत्स तवावति मां किं तत्परं धरणिमित्र कृतिन्ब्रवीमि ॥ ९८ ॥ कः शर्मदं वृजिनभीतिहरं जितात्मा हर्षाय न स्मरति तेऽभिनवं चरित्रम् । संपगुणातिशयपस्त्य रूचं तवैति कः कान्तिमानतिसुधाद्रवरोचमानाम् ॥ ९९ ॥ (इति श्लोकद्वयनिर्वर्तितषोडशदलकमलचित्रे कविकाव्यनामाङ्कः यथा---कर्णिकाक्षरेण सह प्रथमदलाबदलानेषु 'हरिचंद्रकृतधर्मजिनप- तिचरितमिति' इति ।) हतमोहतमोगतेस्तव क्षणदेनेक्षणदेशशोभितः । समया समयात्वयं ततः कमला त्वां कमलाभमैक्षत ॥ १० ॥ आतङ्कार्तिहरस्तपद्युमणिसरिप्रभाजिद्वसु- द्रष्टव्यं हृदि चिह्नरत्नमसमं शौचं च पीनोन्नते । देहेऽवत्त हितं त्वमन्दमहदि क्षुद्रेऽप्यतो दर्शने वल्गुभद्रेमहस्य रम्यमपरं क्षीणव्यपायं पदम् ॥ १०१ ॥ दम्भलोभभ्रमा आदिरुद्धा गुणेष्टुमप्यक्षमादेव वकं तव । वर्जयित्वा ययुः सुश्रुत त्वां तथा ते भजन्ते यथा नेश भक्तानपि।। १०२॥ १. भाग्यं प्राप्य. २. उत्सवदेन. ३. समीपे, ४. कौस्तुभमणिम्, ५. मनोज्ञोत्सवस्य.

१४० काव्यमाला। (अत्र श्लोकद्वयविनिर्मिते चक्रचित्रे प्रथमतृतीयषष्टाष्टमाक्षररेखाभ्रमेण कविनामाङ्कश्लोकः । यथा--- 'आर्द्रदेवसुतेनेदं काव्यं धर्मजिनोदयम् । रचितं हरिचन्द्रेण परमं रसमन्दिरम् ॥') स्फुटामिति कथायित्वा सत्कृति प्राप्य दूते गतवति निजगेहं तत्सुषेणः ससैन्यः । अहितविजयलब्धं वित्तमानीय भत्त्या- नतिचिरमुपनिन्ये धर्मनाथाय तस्मै ।। १०३ ॥ लभ्या श्रीविनिहत्य संगरभुवि क्षुद्रद्विषोऽभ्युन्नता धिक्तां धर्मपरिच्युतामरमिति स्वीकारमन्दस्टहः । तद्भर्माभरुचं दधद्वरमरिद्रव्यं सदायो ददे देवोऽस्तालसमाधिभित्कृतधियां ताम्यन्महखी मुदे ॥ १०४ ॥ (अत्र चक्रवन्धचित्रे तृतीयषष्ठाक्षररेखाभ्रमण काव्यकविनामाङ्कः । यथा-श्रीधर्माभ्युदयः । हरिचन्द्रकाव्यम् ।) इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्य एकोनविंशः सर्गः । विंशः सर्गः। इत्यब्दानां पञ्चलक्षाणि यावत्क्षीणक्षुद्रारातिरुवत्प्रभावः । देवः पारावारवेलावनान्तं प्राज्यं धर्मः पालयामास राज्यम् ॥ १ ॥ रात्रौ तुङ्गे स्फाटिके सौधशृङ्गे तामास्थानीमेकदा स प्रतेने । चन्द्रज्योत्स्नान्तर्हितेऽस्मिन्प्रभावादाकाशस्था या सुधर्मेव रेजे ॥ २ ॥ जीर्ण कालाजातरन्धं नु पश्यन्देवस्तारादन्तुरं व्योमभागम् । ज्वालालीलां बिभ्रती कल्पवढेरबायोल्कां निष्पतन्ती ददर्श ॥ ३ ॥ आविष्कतु स्फारमोहान्धकारच्छन्नं मुक्तेर्मार्गमत्यन्तदुर्गम् । आदौ दिष्टया व्यञ्जिता या ज्वलन्ती वर्तिीपस्येव शोभामभार्षीत् ॥ ४ ॥ १. स्वर्णाभदीप्तिम्.

२० सर्गः] धर्मशर्माभ्युदयम् । १४१ व्यादायास्यं विस्फुरत्तारतारादन्तश्रेणीभीष्ममत्तुं जगन्ति । कालेनैका व्योनि विस्तार्यमाणा जिह्वेवाशु श्रद्धया या चकासे ॥ ५ ॥ कान्तिः कालव्यालचूडामणेः किं पिङ्गा स्थाणोव्योममूर्तेर्जटा वा । ज्वाला किं वास्यैव भालाक्षवादीहायेन्दोर्धाविता कामबन्धोः ॥ ६ ॥ भूयोऽनेन त्रैपुरं किं नु दाहं कर्तुं मुक्तस्तप्तनाराच एषः । इत्याशङ्काव्याकुलं लोकचेतो या सर्पन्ती व्योनि दूरादकार्षीत् ॥ ७ ॥ कर्तु कार्य केवलं स्वस्य नासौ देवो विश्वस्यापि धाता तपस्याः(?) । इत्यानन्दात्तस्य नीराजनेव व्योन्ना रेजे या समारभ्यमाणा ॥ ८ ॥ तामालोक्याकाशदेशादुञ्चज्ज्योतिर्वालादीपिताशां पतन्तीम् । इत्थं चित्ते प्राप्तनिर्वेदखेदो मीलचक्षुश्चिन्तयामास देवः ॥ ९॥ देवः कश्चिज्ज्योतिषां मध्यवर्ती दुर्गे तिष्ठन्नित्यमेषोऽन्तरिक्षे । यातो दैवादीशी चेवस्थां कः त्याल्लोके नियंपायस्तदन्यः ॥ १० ॥ आयुःकालानभङ्गे प्रसर्पन्नापद्वीथीदीर्घदोर्दण्डचण्डः । प्राणायामाराममूलानि भिन्दन्कैरुत्सितः सह्यते कालदन्ती ॥ ११ ॥ यत्संसक्तं प्राणिनां क्षीरनीरन्यायेनोचैरङ्गमप्यन्तरङ्गम् । आयुश्छेदैर्याति चेत्तत्तदास्था का बाह्येषु स्त्रीतनूजादिकेषु ॥ १२ ॥ प्रत्यावृत्तिर्न व्यतीतस्य नूनं सौख्यस्यास्ति भ्रान्तिरागामिनोऽपि । तत्तत्कालोपस्थितस्यैव हेतोर्वघ्नात्यास्था संसृतौ को विदग्धः ॥ १३ ॥ वातान्दोलत्पद्मिनीपल्लवाम्भो बिन्दुच्छायाभङ्गुरं जीवितव्यम् । तत्संसारासारसौख्याय कस्माज्जन्तुस्ताम्यत्यब्धिवींचीचलाय ॥ १४ ॥ सारङ्गाक्षीचञ्चलापाङ्गनेत्रश्रेणीलीलालोकसंक्रामितं नु । व्यालोलत्वं तत्क्षणादृष्टनष्टा पत्ते नृणां हन्त तारुण्यलक्ष्मीः ॥ १५ ॥ हालाहेलासोदरा मन्दरागप्रादुर्भूता सत्यमेवात्र लक्ष्मीः । नो चेञ्चतोमोहहेतुः कथं सा लोके राग मन्दमेवाद्धाति ॥ १६ ॥ विष्मूत्रादेर्धाम मध्यं वधूनां तन्नःप्यन्दद्वारमेवेन्द्रियाणि । श्रोणीबिम्बं स्थूलमांसास्थिकूटं कामान्धानां प्रीतये धिक्तथापि ॥ १७ ॥ १. वहिरिव घासकूट काव्यमाला। मेदोमज्जाशोणितैः पिच्छलेऽन्तस्त्वक्प्रच्छन्ने स्नायुनद्धास्थिसंधौ । साधुदेहे कर्मचण्डालगेहे बध्नात्युद्यत्पूतिगन्धे रति कः ॥ १८ ॥ इन्द्रोपेन्द्रब्रह्मरुद्राहमिन्द्रा देवाः केचिद्ये नराः पन्नगा वा । तेऽप्यन्येऽपि प्राणिनां क्रूरकालव्यालाक्रान्तं रक्षितुं न क्षमन्ते ॥ १९ ॥ बालं वर्षीयांसमाढ्यं दरिद्रं धोरं भी सज्जनं दुर्जनं च । अनात्येकः कृष्णवमेव कक्षं सर्वग्रासी निर्विवेकः कृतान्तः॥ २० ॥ स्वच्छामेवाच्छाद्य दृष्टि रजोभिः श्रेयोरत्नं जाग्रतामप्यशेषैः । दोषैर्येषां दस्युरूपैरुपात्तं संसारेऽस्मिन्हा हतास्ते हताशाः ॥ २१ ॥ वित्तं गेहादङ्गमुच्चैश्चिताग्नेियावर्तन्ते बान्धवाश्च श्मशानात् । एकं नानाजन्मवल्लीनिदान कम द्वेधा याति जीवेन सार्धम् ॥ २२ ॥ छेत्तुं मूलात्कर्मपाशानशेषान्सद्यस्तीक्ष्णैस्तद्यतिप्ये तपोभिः । को वा कारागाररुद्धं प्रबुद्धः शुद्धात्मानं वीक्ष्य कुर्यादुपेक्षाम् ॥ २३ ॥ इत्थं यावत्प्राप्य वैराग्यभावं देवश्चित्ते चिन्तयामास धर्मः । ऊचुः स्वर्गादित्युपेत्यानुकूलं देवास्तावत्केऽपि लौकान्तिकास्ते ॥ २४ ॥ निःशेषापन्मूलभेदि त्वयेदं देवेदानी चिन्तितं साधु साधु । एतेनैकः केवलं नायमात्मा संसाराब्वेरुद्दता जन्तवोऽपि ॥ २५ ॥ नष्टा दृष्टिनष्टमिष्टं चरित्रं नष्टं ज्ञानं साधुधर्मादि नष्टम् । सन्तः पश्यन्वत्र मिथ्यान्धकारे त्वत्तः सर्व केवलज्ञानदीपात् ॥ २६ ॥ तैरानन्दादित्थमानन्धमानं स्वर्दन्तीन्द्रारूढजम्भारिमुख्याः । आसेदुस्तं दुन्दुभिध्वानवन्तस्ते चत्वारो निर्जराणां निकायाः ॥ २७ ॥ दत्त्वा प्राज्यं नन्दनायाथ राज्यं देवोऽतुच्छप्रीतिराष्टच्छय बन्धून् । दत्तस्कन्धं याप्ययानं सुरेन्द्ररारुह्यागात्सालपूर्व वनं सः ॥ २८ ॥ सिद्धान्नत्वा तत्र षष्ठोपवासी मौलौ मूलानीव कर्मद्रुमाणाम् । मुष्टिग्राहैः पञ्चभिः कुन्तलानां वृन्दान्युच्चैरुच्चखान क्षणेन ॥ २९ ॥ केशांस्तस्याधत्त माणिक्यपात्रे क्षीराम्भोधिप्रापणायामरेन्द्रः। भ; मूर्तीदाय मुक्तान्कथंचित्को वा विद्वान्नाददीतादरेण ॥ ३० ॥ १. भवनवासि-व्यन्तर-ज्योतिष्क-कल्पवासिनो जैनागमप्रसिद्धाः. २. शिबिकाम्, २० सर्गः] धर्मशर्माभ्युदयम् । १४३ प्रालेयांशो पुष्यमैत्री प्रयाते माघे शुक्ला या त्रयोदश्यनिन्द्या । धर्मस्तस्यामात्तदीक्षोऽपराह्ने जातः क्षोणीभृत्सहस्त्रेण सार्धम् ॥ ३१ ॥ तत्र त्यक्तालंकृतिर्मुक्तवासा रूपं विभ्रजातमात्रानुरूपम् । देवो भेजे प्रावषेण्याम्बुवाहश्रेणीमुक्तवर्णशैलोपमानम् ॥ ३२ ॥ गीतं वाद्यं नृत्यमप्यात्मशक्त्या कृत्वा चेतोहारि जम्भारिमुख्याः । देवाः सर्वे प्राप्त पुण्यातिरेका नत्वार्हन्तं स्वानि धामानि जग्मुः ॥ ३३ ॥ स्कन्धावारे पाटलीपुत्रनान्नि क्षोणीभर्तुर्धन्यसेनस्य गेहे । क्षीरान्नेनाचारवित्पाणिपात्रे कृत्वा पञ्चाश्चर्यकृत्पारणं सः ॥ ३४ ॥ पुण्यारण्ये प्रांशुके क्वापि देशे नासाप्रान्तन्यस्तनिःस्पन्दनेत्रः । कार्योत्सर्ग विभ्रदभ्रान्तचित्तो लोके लेप्याकारशङ्कामकार्षीत्॥३५॥(युग्मम्) अध्यासीनो ध्यानमुद्रामतन्द्रः स्वामी रेजे लम्बमानोरुवाहुः । ये निर्मग्नाः श्वभ्रगर्भान्धकूपे व्यामोहान्धास्तानिवोर्तुकामः ॥ ३६ ।। मुक्ताहारः सर्वदोपत्यकान्तारब्धप्रीतिः स्वीकृतानन्तवासाः । देवो धुन्वन्विग्रहस्थानरातीन्कान्तारेऽपि प्राप सौराज्यलीलाम् ॥ ३७ ॥ देवोऽक्षामक्षान्तिपाथोदपाथोधारासारैः सारसंपत्फलाय । सिञ्चन्नुच्चैः संयमारामचक्रं चक्र क्रोधोद्दामदावाग्निशान्तिम् ॥ ३८ ॥ भिन्दन्मानं मादवेनार्जवेन च्छिन्दन्मायां निःस्टहत्वास्तलोभः । मूलादेवोच्छेत्तुकामः स चक्रे कारीणामाश्रवद्वाररोधम् ॥ ३९ ॥ कुर्वन्गुर्वी वाङ्मनःकायगुप्तिं रक्षन्साक्षात्वं समित्यर्गभाभिः (१) । बधन्नक्षाण्येष दीधैर्गुणौवैश्चित्रं मोक्षायैव बहोद्यमोऽभूत् ।। ४० ॥ तस्यारण्ये ध्याननिष्कम्पमूर्तेर्वक्रस्येवामोदमाघ्रातुकामाः । वडावासाश्चन्दनस्येव तस्थुः स्वस्थाः खैरं स्कन्धवन्धे भुजंगाः ॥ ४१ ॥ १. चित्रलिखित इव तस्थौ. २. त्यक्तभोजनः; (पक्षे) मुक्ताहारोऽस्यास्तीति. मौ- क्तिकहारवानिति यावत्. ३. सर्वदः, अपत्येषु कान्तासु च आरब्धप्रीतिः; (पक्षे) सर्वदा उपत्यकायाः पर्वतासन्नभूमेरन्ते आरब्धप्रीतिः. ४. स्वीकृतानि अनन्तानि वासांसि येन सः; (पक्षे) स्वीकृतमनन्तं वियदेव वासो येन सः. दिगम्बर इति यावत्. ५. युद्धस्था- न् शत्रून् ; (पक्षे) देहस्थान् कामक्रोधादीन्.

काव्यमाला। दृष्ट्वात्मानं पुंगलाद्भिन्नरूपं देवो देहे न त्वबुद्धि बबन्ध । तेनात्याक्षीत्तोयशीतातपात श्रेयोनिष्ठः काष्ठवदूरमेनम् ॥ ४२ ॥ विघ्नं निघ्ननाक्षिपन्नेष दोषाञ्जज्ञे स्वामी भाजनं यत्क्षमायाः । सैषा काचिचातुरी तस्य भर्तुश्चित्तेऽस्माकं चित्रमद्यापि दत्ते ॥ ४३ ॥ आसंसारं साहचर्यव्रतस्थं दुःस्थीकुर्वन्रागमागन्तुकेऽपि । योगे मैत्री पक्षपातं च मोक्षे विभ्रच्चित्रं चं चरित्रं स ऊचे ॥ ४४ ॥ तस्याशेष कर्षतो धीवरस्य स्फारीभूतं मानसान्मोहजालम् । तत्पाशान्तःपीड्यमानैकमीनो मन्ये त्रासान्निर्ययौ मीनकेतुः ॥ ४५ ॥ कल्पान्तोद्यहादशद्वादशात्म श्रेणीतेजःपुजतीव्रतेऽस्मिन् । दृग्व्याघातत्रस्तचित्तेव चक्षुर्नो चिक्षेप प्रत्यहं मोहलक्ष्मीः ॥ ४६ ॥ चक्रे कार्य संयमस्तस्य देहे तन्वानोऽपि ज्योतिरत्यन्तरम्यम् । माणिक्यस्येवावनीमण्डनार्थ शाणोल्लेखः सम्यगारभ्यमाणः ॥ ४७ ।। एकं पात्रं सौकुमार्यस्य तीव्र तेजःपुञ्जे तापसे वर्तमानः । चण्डज्योतिर्मण्डलातिथ्यभाजो भेजे लक्ष्मी क्षीणपीयूषरश्मेः॥ ४८ ॥ भर्गादीनां भग्नगर्वातिरेकः कः श्रीधर्मे मीनकेतुर्वराकः । अध्यारूढप्रौडिरग्नौ न कुर्याद्वनज्योतिःस्तम्भमम्भोनिषेकः ॥ ४९ ॥ भ्रूचापेनाकर्णमाकप्य मुक्ता स्वर्गस्त्रीभिस्तत्र दीर्घाः कटाक्षाः । हृत्संतोषाविभवद्वारवाणे बाणाः कामस्येव वैफल्यमीयुः ॥ ५० ॥ भोगे रोगे काञ्चने वा तृणे वा मित्रे शत्रौ पत्तने वा वने वा । देवो दृष्टिं निर्विशेषां दधानोऽप्येकः सीमासीद्विशेषज्ञतायाः ॥ ५१ ॥ तथ्यं पथ्यं चेदभाषिष्ट किंचित्सिद्धं शुद्धं चेदभुतान्यदत्तम् । मुक्त्वा नक्तं चेदयासीत्स पश्यन्सर्वे किंचित्तस्य शास्त्रानुरोधि ॥ १२ ॥ तस्यावश्यं वायुरेकेन्द्रियोऽपि प्रत्यासत्तौ भाप न प्रातिकूल्यम् । तत्कि चित्रं तत्र पञ्चेन्द्रियाणां सिंहादीनां यन्न दुःशीलभावः ॥ १३ ॥ १. देहात्. २. धिया श्रेष्ठस्य; (पक्षे) कैवर्तत्य. ३. अन्तःकरणात; (पक्षे) सरोविशेषात. ४. द्वादशात्मा दिवाकरः. ५. वारबाणः कञ्चुकः.

२० सर्गः] धर्मशर्माभ्युदयम् । १४५ अन्तर्बाद्यैर्दीप्यमानैस्तपोग्निज्वालैर्नीत्वा दुर्जराण्याशु पाकम् । भुञ्जानोऽसौ कर्मवल्लीफलानि श्लाघ्यः स्वरुपैरप्यहोभिर्वभूव ।। ६४ ।। निर्व्यामोहो निर्मदो निष्प्रपञ्चो निःसङ्गोऽयं निर्भयो निर्ममश्च । देशे देशे पर्यटन्संयतानां केषां नासीन्मोक्षशिक्षकहेतुः ॥ ५५ ॥ छद्मस्थोऽसौ वर्षमेकं विहृत्य प्राप्तो दीक्षाकाननं शालरम्यम् । देवो मूले सप्तपर्णद्रुमस्य ध्यानं शुष्कं सम्यगालम्ब्य तस्थौ ।। ५६ ॥ माघे मासे पूर्णमास्यां सपुष्पे कृत्वा धर्मो घातिकर्मव्यपायम् । उत्पादान्तध्रौव्यवस्तुस्वभावोद्भासि ज्ञानं केवलं स प्रपेदे ॥ १७ ॥ भित्त्वा कर्मध्वान्तमभ्युद्गतेऽस्मिन्दत्तानन्दे केवलज्ञानचन्द्रे । तत्कालोद्यदुन्दुभिध्वानदम्भाब्योमाम्भोधिर्गाढमभ्युजगर्न ॥ ५८ ॥ जातं चेतो व्योमवन्नीरजस्कं नृणां पूर्वाद्या इवाशाः प्रसेदुः । प्राप द्वेषीवानिलोऽप्यानुकूल्यं किं किं नासीन्निष्कलङ्कं तदानीम् ।। ५९ ॥ तन्माहात्म्योत्कर्षवृत्त्येव हर्ष बिभ्राणासौ साधुगन्धोददृष्टया। तत्कालोद्यत्सस्यसंपच्छलेन क्षोणी तत्रायत्त रोमाञ्चमुच्चैः ॥ ६ ॥ नित्योपात्तानङ्गसङ्ग्रामलीलासाहाय्येन व्यजितात्मापराधम् । भीत्येवास्य क्रूरकंदर्पशत्रोः सेवां चक्रे चक्रमस्मिन्नृतूनाम् ।। ६१ ॥ भाषाभेदैस्तैश्चतुर्भिश्चतुर्धा संसारस्यापारदुःखां प्रवृत्तिम् । वक्तुं चातुर्वर्ण्यसंघस्य हेतोर्मन्ये देवोऽसौ चतुर्वक्र आसीत् ॥ ६२ ॥ तस्य क्षीणाशातवेद्योदयत्वान्नाभूक्तिनोंपसर्गः कदाचित् । निःष्पन्दाया ज्ञानदृष्टेरिवापुः पक्ष्मस्पन्दं स्पर्धया नेक्षणानि ॥ ६३ ॥ वृद्धि प्रापुर्नाङ्गजा वा नखा वा तस्यावश्यं योगनिद्रास्थितस्य । का वार्ता वा कर्मणामान्तराणां येषां रेखा नाममात्रावशेषा ।। ६४ ॥ पादन्यासे सर्वतो न्यस्यमानप्रेकुत्सद्माम्भोजलीलाशयेव । सेवानम्रप्राणिसंचारलक्ष्या पादाम्यण नास्य लक्ष्मीर्मुमोच ॥ ६५ ॥ १. 'संस्कृतं प्राकृतं चैवापभ्रंशो भूतभाषितम् । इति भाषाश्चतस्रोऽपि यान्ति का- व्यस्य कायताम् ॥ इति वाग्भट:.

काव्यमाला। नो दौभिक्ष्यं नेतयो नोपसर्गा नो. दारिद्र्यं नोपघातो न रोगाः । तन्माहात्म्याद्योजनानां शते द्वे नाभूत्किचित्वापि कर्माप्यनिष्टम् ॥६६॥ नादैर्घण्टासिंहशङ्खानकानां कल्पज्योतिर्भावनव्यन्तरेन्द्राः । कर्तु सेवा ते प्रचेलुगुणौधैर्हत्संलग्नैः कृप्यमाणा इवास्य ॥ ६७ ॥ स्वर्गात्तत्रागच्छतामन्तराले रेजे पङ्क्तिः कापि वैमानिकानाम् । शुभ्रीकत कीर्तिसंपत्सुधाभिव्योमेवोच्चैर्मञ्चकाध्यासितानाम् ॥ ६८ ॥ तस्मिन्काले तां समां धर्मनाथस्येन्द्रादेशाद्वयोनि चक्रे कुबेरः । यस्या नानारत्नमय्याः प्रमाणं पञ्च प्राहुर्योजनान्यागमज्ञाः ॥ ६९ ॥ नेदीयस्याः प्रेयसा विप्रलम्भव्याख्यादक्षां तेन वेणी विमोच्य । धूलीजालच्छझना पार्श्वतोऽस्याः क्षिप्तं मुद्राकङ्कणं मुक्तिलक्ष्म्याः ॥ ७० ॥ ते प्रत्याशं वायुवेल्लवजाग्रा मानस्तम्भास्तत्र चत्वार आसन् । क्रोधादीनां ये चतुर्णा निरासे संसलक्ष्म्यास्तर्जनीकार्यमीयुः ॥ ७१ ॥ तत्पर्यन्ते रत्नसोपानरम्या वाप्यो रेजुस्ताश्चतस्त्रश्चतस्त्रः । प्रौढेनाइत्तेजसा यत्र रात्रौ कोकः शोकं नाप कान्तावियोगात् ॥ ७२ ॥ आस्यं तस्याः सालकान्तं दधत्याः शोभामले संसदः स्वां दिदृक्षोः । तच्चत्वारि स्फाटिकस्वच्छनीराण्यापुर्लीलादर्पणत्वं सरांसि ॥ ७३ ॥ मन्दान्दोलद्वातलीलाचलोमिस्तेभ्योऽप्यने खातिका तोयपूर्णा । जैनव्याख्याज्ञातसंसारदुःखत्रस्यनिष्क्रान्ताहिगर्भव रेजे ॥ ७४ ।। अन्तर्लीनैकैकनिष्कम्पभृङ्गप्रेसत्पुष्पा पुष्पवाटी तदूर्ध्वम् । दत्ताश्चर्यां भूत्रयस्यापि भर्तुष्टुं लक्ष्मी स्फारिताक्षीव रेजे ॥ ७९ ॥ सालः शृङ्गालम्बिनक्षत्रमालस्तस्याः प्रान्ते नायमासीद्विशालः । भ्रष्टं किं तु प्रोतरत्नं तदानीमिन्द्रक्षोभात्कुण्डलं स्वर्गलक्ष्म्याः ॥ ७६ ॥ भृङ्गाराद्यैर्मङ्गलद्रव्यचन्दैः शङ्खध्वानैः सुप्रधानैनिधानैः । द्वारे द्वारे निःस्टहस्यापि भतुविश्वैश्वर्य व्यज्यते स्म प्रभूतैः ॥ ७७ ॥ तस्यैवोच्चै!पुराणां चतुर्णामन्तढे हे रेजतुर्नाट्यशाले । यत्रावर्ण शासनं मीनकेतोरेणाक्षीणां लास्यमासीजनेषु ॥ ७८ ॥ १. सालेव प्राकारेण कान्तम् ; (पक्षे) अलकान्तः समेतम्, ।

२० सर्गः] धर्मशर्माभ्युदयम् । द्वौ द्वौ मार्गे धूपकुम्भावभूतां यद्वक्रेभ्यो निर्गता धूमराजिः । मुक्त्वा देहं ज्ञातुरभ्रे भ्रमन्ती भर्तुः कर्मश्यामिकेवावभासे ॥ ७९ ॥ कृत्वा रूपं दंशपोतप्रमाणं भीत्या कोणे क्वापि लोके स्थितस्य । पापस्येवोत्सारणार्थ सुगन्धो धूमस्तस्मिन्धूपजन्मोज्जिम्भे ॥ ८ ॥ क्रीडोद्यानान्यत्र चत्वारि ताभ्यामासन्नूर्ध्वप्रोल्लसत्पल्लवानि । इन्द्रोद्यानं तच्चतुर्यागटक्षव्याजाज्जेतुं यैरुदस्ताः स्वहस्ताः ॥ ८१ ॥ प्रेडदोलासीनसेव्याम्बुधारैर्धारायन्त्रैस्तैलतामण्डपैश्च । स्वैरक्रीडल्लोकचित्तेक्षणैणास्तेऽप्यारेजुः काञ्चनाक्रीडशैलाः ॥ ८२ ॥ नानारत्नस्तम्भशोभैरथासीत्सालंकारा तोरणैः वर्णवेदी। रात्रावन्तविम्बितेन्दुग्रहोच्चैरास्थानीव श्रेयसो या विरेजे ॥ ८३ ॥ उर्व तस्यास्ताप॑हसोक्षमुख्या दिक्संख्यातास्ता बभुर्वैजयन्त्यः । यासु व्योमोडेछनारष्टगङ्गाभ्रान्ति चक्रुः स्यूतमुक्ताफलाभाः ॥ ८४ ॥ कर्णाकारं गोपुराणां चतुष्कं विभ्रत्सालस्तत्परं काञ्चनोऽन्यः । धर्मव्याख्यामाईती श्रोतुमिच्छन्मन्ये मेरुः कुण्डलीभूय तस्यौ ।। ८५ ॥ वाञ्छातीतं यच्छतोऽप्यस्य याचे वाञ्छामात्रत्यागिनः कल्पवृक्षाः । तस्मिन्नुच्चैस्तस्थुरुद्धृत्य शाखाः का वा लज्जा हन्त निश्चेतनानाम्॥ ८६ ॥ उर्व तेभ्योऽभूञ्चतुर्गोपुराङ्का विश्वानन्दोजीविनी वनवेदी । रेजे पङ्गिस्तादृशानां दशानां रत्नज्योतिायसी तोरणानाम् ॥ ८७ ॥ स्तूपास्तेषामन्तरन्तनवोच्चैस्ते प्रत्येकं रेजुरचर्चासनाथाः । तत्रैवासन्सन्मुनीनां मनोज्ञा नानासंसन्मण्डपास्तुङ्गतुङ्गाः ॥ ८ ॥ रुडकूरानङ्गहेतिप्रचारस्तत्प्राकारः स्फाटिकः प्रादुरासीत् । तस्याप्यन्तश्चन्द्रकान्तप्रतिष्ठाः कोष्ठास्तत्र द्वादशासन्गरिष्ठाः ।। ८९॥ वीतग्रन्थाः कल्पनार्योऽप्यथार्या ज्योतिर्भीमा हि स्त्रियो भावनाश्च । भौमज्योतिः कल्पदेवा मनुष्यास्तिर्यग्यूथान्येषु तस्थुः क्रमेण ।। ९० ।। ऊर्व तेभ्यो वल्लभं लोचनानां स्थानं दिव्यं गन्धकुन्याख्यमासीत् । अन्तस्तस्योद्दाममाणिक्यदीपं रेजे रम्यं काञ्चनं सिंह पीठम् ।। ९१ ॥

काव्यमाला।
रत्नज्योतिर्भासुरे तत्र पीठे तिष्ठन्देवः शुभ्रभामण्डलस्थः ।
क्षाराम्भोधेः सिच्यमानः पयोभिभूयो रेजे काञ्चनाद्राविवोच्चैः ॥ ९२ ॥
गायन्नादेनेव भृङ्गाङ्गनानां नृत्यल्लोलैः पल्लवानामिवौधैः ।
किं ब्रूमोऽन्यत्तस्य वृत्तं गुणौधैर्जज्ञे रक्तो यस्य वृक्षोऽप्यशोकः ॥ ९३ ॥
वृष्टिः पौष्पी सा कुतोऽभून्नमस्तः संभाव्यन्ते नात्र पुष्पाणि यस्मात् ।
यहा ज्ञातं द्रागनङ्गस्य हस्तादहद्भीत्या तत्र बाणा निपेतुः ॥ ९४ ॥
आविर्भूतं यद्भवतभावि ज्ञानाकारं तुल्यमिन्दुत्रयेण ।
अव्यावाधामातपत्रत्रयं तत्तस्यावोचभूत्रयैश्वर्यलक्ष्मीम् ॥ ९५ ।।
छाया कायस्यास्य सेवोपसर्पदास्वञ्चक्रेणेव भामण्डलेन ।
क्षिप्ता नान्तश्चेत्कथं तत्प्रपेदे तीब्रा चेतस्तापसंपत्प्रशान्तिम् ॥ ९६ ॥
रेजे मुक्तिश्रीकटाक्षच्छटामा पार्श्वे पतिश्चामराणां जिनस्य ।
ज्ञानालोके निष्फलानामिवेन्दो सामुच्चैर्दण्डनियन्त्रितानाम् ।। ९७ ॥
अप्युद्धीवैः श्रूयमाणा कुरङ्गैः कर्णाभ्यर्णस्फारपीयूषधारा ।
आ गव्यूतिद्वन्द्वमभ्युल्लसन्ती दिव्या भाषा कस्य नासीत्सुखाय ।। ९८॥
केयं लक्ष्मीः क्वेशं निःस्टहत्वं क्वेदं ज्ञानं वास्त्यनौद्धत्यमीढक् ।
रे रे ब्रूत द्राकृतीर्था इतीव ज्ञाने भर्तुर्दुन्दुभिव्योम्यवादीत् ॥ ९९ ॥
लास्योल्लासा वाद्यविद्याविलासा गीतोगाराः कर्णपीयूषधाराः ।
स्थाने स्थाने तत्र ते ते बभूवुश्छायाप्यस्मिन्दुर्लभासीयदीया ।। १०० ॥
इति निरुपमलक्ष्मीरष्टमिः प्रातिहार्य-
रतिशयगुणशाली केवलज्ञानभानुः ।
समवसरणमध्ये धर्मतत्त्वं विवक्षुः
सुरपरिषदि तस्थौ धर्मनाथो जिनेन्द्रः ॥ १०१ ॥
इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये विंशतितमः सर्गः
एकविंशः सर्गः।
तत्त्वं जगत्रयस्यापि बोधाय त्रिजगद्गुरुम् ।
तमाष्टच्छदथातुच्छज्ञानपण्यापणं गणी ॥ १ ॥

२१ सर्गः]
धर्मशर्माभ्युदयम् ।
१४९
ततो भूतभवद्भाविपदार्थव्यक्तिसाक्षिणी ।
निःशेषदोषनिर्मुक्ता त्यक्तमिथ्यापथस्थितिः ॥ २ ॥
विपक्षगर्वसर्वस्वदूरोच्चाटनडिण्डिमः ।
अपारपापसंभारभूधरोपद्रवाशनिः ॥ ३ ॥
स्याद्वादवादसाम्राज्यप्रतिष्ठाप्रसवश्रुतिः ।
अतुल्यधर्ममल्लोरुकरास्फोटस्फुटाकृतिः ॥ ४ ॥
भ्रूविभ्रमकरन्यासश्वासौष्ठस्पन्दवर्जिता ।
वर्णविन्यासशून्यापि वस्तुबोधविधायिनी ॥ ५ ॥
पृथक्टथगभिप्रायवचसामपि देहिनाम् ।
तुल्यमेकाप्यनेकेषां स्पष्टमिष्टार्थसाधिका ॥ ६ ॥
सर्वाद्भुतमयी सृष्टिः सुधाष्टिश्च कर्णयोः ।
प्रावर्तत ततो वाणी सर्वविद्येश्वराद्विभोः ॥ ७ ॥ (कुलकम्)
जीवाजीवाश्रवा बन्धसंवरावपि निर्जराः ।
मोक्षश्चेतीह तत्त्वानि सप्त स्युर्जिनशासने ॥ ८ ॥
बन्धान्त विनोः पुण्यपापयोः पृथगुक्तितः ।
पदार्था नव जायन्ते तान्येव भुवनत्रये ॥ ९ ॥
अमूर्तश्चेतनाचिह्नः कर्ता भक्तातनुप्रभः ।
उर्ध्वगामी स्मृतो जीवः स्थित्युत्पत्तिव्ययात्मकः ॥ १० ॥
सिद्धसंसारिभेदेन द्विप्रकारः स कीर्तितः ।
नरकादिगतेभैदात्संसारी स्याच्चतुर्विधः ॥ ११ ॥
नारकः सप्तधा सप्तष्टथ्वीभेदेन भिद्यते ।
अधिकाधिकसंक्लेशप्रमाणायुर्विशेषतः ॥ १२ ॥
रत्नशर्करावालुकापङ्कधूमतमःप्रभाः ।
महातमः प्रभा चेति सप्तैताः श्वभ्रभूमयः ॥ १३ ॥
तत्राद्या त्रिंशता लबिलानामतिभीषणा ।
द्वितीया पञ्चविंशत्या तृतीया च तिथित्रमैः ॥ १४ ॥

१५० काव्यमाला। । चतुर्थी दशभिर्युक्ता पश्चमी त्रिभिरुल्बणैः । षष्ठी पञ्चोनलक्षण सप्तमी पञ्चभिविलैः ॥ १५ ॥ एवं नरकलक्षाणामशीतिश्चतुरुत्तरा । विज्ञेया तासु दुःखानां न संख्या निपुणैरपि ॥ १६ ॥ षडङ्गलास्त्रयो हस्ताः सप्त चापानि विग्रहे । इयत्येव प्रमा ज्ञेया प्राणिनां प्रथमक्षितौ ॥ १७ ॥ द्वितीयादिष्वतोऽन्यासु द्विगुणद्विगुणोदयः । उत्सेधः स्याद्धरित्रीषु यावत्पञ्चधनुःशती॥ १८ ॥ प्रसरगुःखसंतानमन्तातुमिवाक्षमम् । वर्धयत्यङ्गमेतेषामधोऽधो धरणीष्वतः ॥ १९ ॥ एक आये द्वितीये च त्रयः सप्त तृतीयके । चतुर्थे पञ्चमे च स्युर्दश सप्तदश क्रमात् ॥ २० ॥ षष्ठे द्वाविंशतिज्ञेया त्रयस्त्रिंशच सप्तमे । आयुःखापवरके नरके सागरोपमाः ॥ २१ ॥ आद्ये वर्षसहस्त्राणि दशायुरधर्म ततः । पूर्वस्मिन्यद्यदुत्कृष्टं निकृष्टं तत्तदाग्रिमे ॥ २२ ॥ कदाचिदपि नैतेषां विधिरेधयतीहितम् । दुःखिनामनभिप्रेतमिवायुर्वर्धयत्यसौ ॥ २३ ॥ रौद्रध्यानानुबन्धेन बह्वारम्भपरिग्रहाः । तत्रौपपादिका जीवा जायन्ते दुःखखानयः ॥ २४ ॥ तेषामालिङ्गिताङ्गानां संततं दुःखसंपदा । न कदापि कृतेष्येव सुखश्रीर्मुखमीक्षते ॥ २५ ॥ साश्रुणी लोचने वाणी गद्गदा विह्वलं मनः । स्यात्तदेषां कथं दुःखं वर्णयन्ति दयालवः ॥ २६ ॥ सूतवद्भिन्नमप्यङ्गं यन्मिलत्यापदे पुनः । दुःखाकरोति मञ्चित्तं तेन वार्तापि तादृशाम् ॥ २७ ॥ १.पारदवत.

२१ सर्गः धर्मशर्माभ्युदयम् । मधुमांसासवासत्त्यावगणय्य जिनागमम् । कौलादिदाम्भिकाचार्यसपर्याकारि यत्त्वया ॥ २८ ॥ तस्येदं भुज्यतां पक्कं फलमित्यसुरामराः । उत्कृत्योत्कृत्य तन्मांसं तन्मुखे प्रक्षिपन्त्यमी ॥ २९ ॥ पाययन्ति च निस्त्रिंशाः प्रतप्तकललं मुहुः । घ्नन्ति बन्नन्ति मनन्ति ऋकचैर्दारयन्ति च ॥ ३० ॥ खण्डनं ताडनं तत्रोत्कर्तनं यन्त्रपीडनम् । किं किं दुष्कर्मणः पाकात्सहन्ते ते न दुःसहम् ॥ ३१ ॥ हता श्वभ्रगतेर्भेदात्तत्वरूपनिरूपणा । व्यावीते कियानस्या भेदस्तिर्यग्गतेरपि ॥ ३२ ॥ तिर्यग्योनिर्दिधा जीवस्त्रसस्थावरभेदतः । त्रसा द्वित्रिचतुःपञ्चकरणाः स्युश्चतुर्विधाः ॥ ३३ ॥ स्पर्शसाधारणेष्वेषु नूनमेकैकमिन्द्रियम् । वर्धते रसनं घ्राणं चक्षुः श्रोत्रमिति क्रमात् ।। ३४ ।। वर्षाणि द्वादशैवायुर्मानं द्वादशयोजनम् । विवृणोति प्रकर्षेण जीवो डीन्द्रियविग्रहः ॥ ३५ ॥ दिनान्येकोनपञ्चाशदायुरुयक्षे शरीरिणि । पादोनयोजनं मान जिनाः प्राहुः प्रकर्षतः ॥ ३६ ॥ आयुर्योजनमानस्य चतुरक्षस्य देहिनः । घण्मासप्रमितं प्रोक्तं जिनैः केवललोचनैः ॥ ३७॥ सहस्रमेकमुत्सेधो योजनानां प्रकीर्तितः । पूर्वकोटिमितं चायुः पञ्चेन्द्रियशरीरिणाम् ॥ ३८ ॥ पृथिवीमारुताप्तेजोवनस्पतिविभेदतः । अद्वितीयेन्द्रियाः सर्वे स्थावराः पञ्चकायिकाः ॥ ३९ ॥ द्वाविंशतिः सहस्राणि वर्षाणामायुरादिमे । द्वितीये त्रीणि सप्त स्यात्तृतीयेऽपि यथाक्रमम् ॥ १० ॥ amundane १.साश्चराः

काव्यमाला।
चतुर्थे त्रीण्यहान्येव पञ्चमस्य प्रकर्षतः।
पञ्चेन्द्रियाधिकोत्सेधस्याब्दानामयुतं मतम् ॥ ११ ॥
आर्तध्यानवशाज्जीवो लब्धजन्मात्र जायते ।
शीतवर्षातपक्लेशवधबन्धादिदुःखभाक् ॥ ४२ ॥
इति तिर्यग्गर्भेदो यथागममुदीरितः ।
मानवानां गतेः कोऽपि प्रकारः कथ्यतेऽधुना ॥ ४३ ॥
द्विःप्रकारा नरा भोगकर्मभूभेदतः स्मृताः ।
देवकुर्वादयस्त्रिंशत्प्रसिद्धा भोगभूमयः ॥ ४४ ॥
जघन्यमध्यमोत्कृष्टभेदात्तास्त्रिविधाः क्रमात् ।
द्विचतुःषड्यनुर्दण्डसहस्रोत्तुङ्गमानवाः ॥ ४५ ॥
तास्वेकद्वित्रिपल्यायु विनो भुञ्जते नराः ।
दशानां कल्पवृक्षाणां पात्रदानार्जितं फलम् ॥ ४६ ॥
कर्मभूमिभवास्तेऽपि द्विधार्यम्लेच्छभेदतः ।
भारताद्याः पुनः पञ्चदशोक्ताः कर्मभूमयः ॥ ४७ ॥
धनुःपञ्चशतैस्तासु सपादैः प्रमितोदयाः ।
उत्कर्षतो मनुष्याः स्युः पूर्वकोटिप्रमायुषः ॥ १८ ॥
उत्सर्पिण्यवसर्पिण्योः कालयोवृद्धिहासिनी ।
भरतैरावते स्यातां विदेहस्त्वक्षतोदयः ॥ ४९ ॥
मागरोपमकोटीनां कोटिभिर्दशभिर्मिता ।
आगमहरिह प्रोक्तोत्सर्पिणी चावसर्पिणी ॥ १० ॥
सुखमामुखमा प्रोक्ता सुखमा च ततो बुधैः ।
सुखमादुःखमान्यापि दुःखमासुखमा क्रमात् ॥ ११ ॥
पञ्चमी दुःखमा षष्ठी दुःखमादुःखमा मता।
प्रत्येकमिति भिद्यन्ते ते षोढा कालभेदतः ॥ १२ ॥
चतस्त्रः कोटयस्तिस्त्रो द्वे च पूर्वादिषु क्रमात् ।
तिसृष्वम्भोधिकोटीनां मानमुक्तं जिनागमे ॥ ५३ ॥

१ सर्गः धर्मशर्माभ्युदयम् । उना सहस्रब्दानां द्वाचत्वारिंशता ततः । चतुर्थ्यम्भोधिकोटीनां कोटिरेका प्रकीर्तिता ॥ ५४ ॥ पञ्चमी वत्सराणां स्यात्सहस्राण्येकविंशतिः । तत्प्रमाणैव तत्त्वज्ञैनूनं षष्टी प्रतिष्ठिता ॥ ५५ ॥ पोढा षट्कर्मभेदेन ते गुणस्थानभेदतः । स्युश्चतुर्दश धात्रीर्या म्लेच्छाः पञ्च प्रकीर्तिताः ॥ १६ ॥ खभावमार्दवत्वेन स्वल्पारम्भपरिग्रहाः । भवन्त्यत्र नराः पुण्यपापाप्तिप्रक्षयक्रमाः ॥ १७ ॥ नारीगर्भेऽतिबीभत्से कफामासुजलाविले । कुम्भीपाकाधिकासाते(?) जायते कृमिवन्नरः ॥ १८ ॥ वर्णितेति गतिर्नृणां देवानामपि संप्रति । कियत्यापि स्मरानन्दोजीविनी वर्णयिप्यते ।। १९ ।। भावनव्यन्तरज्योतिर्वैमानिकविभेदतः । देवाश्चतुर्विधास्तेषु भावना दशधोदिताः ॥ ६ ॥ असुराहिसुपर्णाग्निविद्युद्वातकुमारकाः । दिग्द्वीपस्तनिताम्भोधिकुमाराश्चेति भेदतः ।। ६१ ॥ तत्रासुरकुमाराणामुत्सेधः पञ्चविंशतिः । चापानि दश शेषाणामप्युइन्वत्परायुपाम् ।। ६१ ॥ दशसप्तधनुर्माना व्यन्तराः किंनरायाः । शिष्टास्तेऽष्टविधा येपामायु: पल्योपमं परम् ॥ ६३ ॥ ज्योतिप्काः पञ्चधा मोक्ताः सूर्यचन्द्रादिभेदतः । येषामायुःप्रमाणं च व्यन्तराणामिवाधिकम् ॥ ६४ ॥ वर्षाणामयुतं भौमभावनानामिहावमम् । पल्यस्यैवाष्टमो भागो ज्योतिषामायुरीरितम् ॥ ६१ ॥ वैमानिका द्विधा कल्पसंभूतातीतभेदतः । कल्पजास्तेऽच्युतादर्वाक्कल्पातीतास्ततः परे ।। ६६ ॥

१५४
काव्यमाला।
सौधर्मशाननामानौ धर्मारम्भमहोद्यमौ ।
सनत्कुमारमाहेन्द्रौ ब्रह्मब्रह्मोत्तरावपि ॥ ६७ ॥
ततो लान्तवकापिष्ठौ शुक्रशुक्रोत्तरौ परौ ।
शताराख्यसहस्रारावानतप्राणतावपि ॥ ६८ ॥
अथारणाच्युतौ कल्पाः षोडशेति प्रकीर्तिताः ।
इदानीं तेषु देवानामायुर्मानं च कथ्यते ॥ ६९ ॥
हस्ताः सप्त द्वयोर्मानं षडूवं नाकिषु द्वयोः ।
चर्तुणा पञ्च चत्वारस्तदूर्ध्व तावतां क्रमात् ॥ ७० ॥
त्रयः सार्धा द्वयोरूर्ध्वमूर्ध्वमाभ्यां द्वयोस्त्रयः ।
इति षोडशकल्पानामूर्ध्व ग्रैवेयकेष्वपि ॥ ७१ ॥
अधःस्थेषु करौ साधों द्वौ मध्येपूर्वगेषु च ।
त्रिषु सार्धकरास्तेभ्यः परे हस्तप्रमाः सुराः ॥ ७२ ॥
सौधर्मशानयोरायुःस्थितिौं सागरौ मतौ ।
सनत्कुमारमाहेन्द्रकल्पयोः सप्तसागराः ॥ ७३ ॥
दशैव कल्पयोर्जेया ब्रह्मब्रह्मोत्तराख्ययोः।
निर्णीता लान्तवे कल्पे कापिष्ठे च चतुर्दश ॥ ७४ ॥
षोडशैव ततः शुक्रमहाशुक्राभिधानयोः ।
अष्टादश शतारे च सहस्त्रारे च निश्चिताः ॥ ७९ ॥
वर्णिता विंशतिनूनमानतप्राणताख्ययोः ।
उक्ता द्वाविंशतिः प्राज्ञैरारणाच्युतयोरपि ॥ ७६ ॥
सर्वार्थसिद्धिपर्यन्तेष्वतो ग्रैवेयकादिषु ।
एकैको वर्धते तावद्यावत्रिंशत्रयाधिका ॥ ७७ ॥
अकामनिर्जराबालतपःसंपत्कयोगतः ।
अत्रौपपादिका भूत्वा प्रपद्यन्ते सुरा सुखम् ।। ७८ ॥
विलासोल्लाससर्वस्खं रतिकोषसमुच्चयम् ।
शृङ्गाररससाम्राज्यं भुञ्जते ते निरन्तरम् ॥ ७९ ॥

२१ सर्गः]
धर्मशर्माभ्युदयम् ।
इति व्यावर्णितो जीवश्चतुर्गत्यादिभेदतः।
संप्रत्यजीवतत्वस्य किंचिद्रूपं निरूप्यते ॥ ८ ॥
धर्माधर्मों नभः कालः पुद्गलश्चेति पञ्चधा।
अजीवः कथ्यते सम्यग्जिनस्तत्त्वार्थदर्शिभिः ।। ८१ ॥
षड्व्याणीति वर्ण्यन्ते समं जीवेन तान्यपि ।
विना कालेन तान्येव यान्ति पञ्चास्तिकायताम् ॥ ८२ ॥
धर्मः स तात्त्विकैरुक्तो यो भवेद्गतिकारणम् ।
जीवादीनां पदार्थानां मत्स्यानामुदकं यथा ॥ ८३ ॥
छायेव धर्मतप्तानामश्वादीनामिव क्षितिः ।
द्रव्याणां पुद्गलादीनामधर्मः स्थितिकारणम् ॥ ८४ ॥
लोकाकाशमभिव्याप्य स्थितावतावनिष्क्रियौ।
नित्यावप्रेरकौ हेतू मूर्तिहीनावुभावपि ॥ ५ ॥
पुद्गलादिपदार्थानामवगाहैकलक्षणः ।
लोकाकाशः स्मृतो व्यापी शुद्धाकाशो बहिस्ततः ॥ ८६ ।।
धर्माधर्मकजीवाः स्युरसंख्येयप्रदेशकाः ।
व्योमानन्तप्रदेशं तु सर्वज्ञः प्रतिपाद्यते ॥ ८७ ॥
जीवादीनां पदार्थानां परिणामोपयोगतः ।
वर्तनालक्षणः कालोऽनशो नित्यश्च निश्चयात् ॥ ८ ॥
कालो दिनकरादीनामुदयास्तत्क्रियात्मकः ।
औपचारिक एवासौ मुख्यकालस्य सूचकः ।। ८९॥
रूपगन्धरसस्पर्शशब्दवन्तश्च पुद्गलाः ।
द्विधा स्कन्धाणुभेदेन त्रैलोक्यारम्भहेतवः ॥ १० ॥
भूमितैलतमोगन्धकर्माणुप्रकृतिः क्रमात् ।
स्थूलास्थूलादिभेदाः स्युस्तेषां घोढा जिनागमे ॥ ९१ ॥
भाषाहारशरीराख्यप्राणापानादिमूर्तिमत् ।
यत्किचिदस्ति तत्सर्वं स्थूलं सूक्ष्मं च पुद्गलम् ॥ १२ ॥

काव्यमाला ।
यथागममजीवस्यकता रूपनिरूपणा ।
इदानीमाश्रवस्यापि कोषमुन्मुद्रयाम्यहम् ॥ ९३ ॥
शरीरवाङ्मनःकर्मयोग एवाश्रवो मतः ।
शुभाशुभविकल्पोऽसौ पुण्यपापानुषङ्गतः ॥ ९४ ॥
गुरुनिह्नवदोषोक्तिमात्सर्यासादनादयः ।
आश्रयत्वेन विज्ञेया दृग्ज्ञानात्तिकर्मणोः ॥ ९५ ॥
दुःखशोकभयाक्रन्दसंतापपरिदेवनैः ।
जीवो बनात्यसद्धेचं स्वपराभयसंश्रयैः ॥ ९६ ॥
शान्तिक्षौचदयादानसरागसंयमादयः ।
भवन्ति हेतवः सम्यगसद्धेद्यस्य कर्मणः ॥ ९७ ॥
केवलिश्रुतसंघार्हद्धर्माणामविवेकतः ।
अवर्णवाद एवाद्यो दृष्टिमोहस्य संभवः ॥ ९८ ॥
कषायोदयतस्तीब्रपरिणामो मनस्विनाम् ।
चारित्रमोहनीयस्य कर्मणः कारणं परम् ॥ ९९ ॥
श्वभ्रायुषो निमित्तानि बह्वारस्भपरिग्रहाः ।
मायार्तध्यानतामूलं तिर्यग्योनिभवायुषः ॥ १० ॥
नरायुपोऽपि हेतुः स्यादल्पारम्भपरिग्रहः ।
सरागसंयमत्वादिनिदानं त्रिदशायुषः ॥ १०१ ॥
स्याद्विसंवादनं योगवक्रता च निरत्यया ।
हेतुरशुभस्य नान्नस्तदन्यस्य तदन्यथा ॥ १०२ ॥
षोडशदग्विशुद्धबाबास्तीर्थकन्नामकर्मणः ।
स्वप्रशंसान्यनिन्दाद्या नीचेगात्रस्य हेतवः ॥ १०३ ॥
विपरीताः पुनस्ते स्युरुच्चैगात्रस्य साधकाः ।
अन्तरायः सदानादिविघ्ननिवर्तनोदयः ॥ १०४ ॥
रहस्यमिति निर्दिष्टं किमप्याश्रवगोचरम् ।
वन्धतन्वप्रबोधोऽयमधुना विधिनोच्यते ॥ १०६ ॥

२१ सर्गः धर्मशर्माभ्युदयम् । सकपायतया दत्ते जीवोऽसंख्यप्रदेशगान् । पुद्गलान्कर्मणो योग्यान्वन्धः स इह कथ्यते ॥ १०६ ॥ मिथ्याडक्च प्रमादाश्च योगाश्चाविरतिस्तथा । कपायाश्च स्मृता जन्तोः पञ्च बन्धस्य हेतवः ॥ १०७ ॥ प्रकृतिस्थित्यनुभागप्रदेशानां विभेदतः । चतुर्विधः प्रणीतोऽसौ जैनागमविचक्षणैः ॥ १०८ ॥ अष्टौ प्रकृतयः प्रोक्ता ज्ञानावृतिगावृती। वेद्यं च मोहनीयायुर्नामगोत्रान्तराययुक् ॥ १०९ ॥ तद्भेदाः पञ्च नव द्वावष्टाविंशतिरप्यतः । चत्वारो द्विचत्वारिंशही पञ्चापि स्मृताः क्रमात् ॥ ११० ॥ आदितस्तिसणां प्राज्ञैरन्तरायस्य च स्मृताः । सागरोपमकोटीनां त्रिंशत्कोव्यः परा स्थितिः ॥ १११ ।। सप्ततिमोहनीयस्थ विंशतिनामगोत्रयोः । आयुषस्तु त्रयस्त्रिंशद्विज्ञेयाः सागरोपमाः ॥ ११२ ॥ अवरावेदनीयस्य मुहूर्ता द्वादश स्थितिः । नाम्रो गोत्रस्य चाष्टौ स्याच्छेषास्त्वन्तर्मुहूर्तकम् ॥ ११३ ॥ भाव्यक्षेत्रादिसापेक्षो विपाकः कोऽपि कर्मणाम् । अनुभागो जिनरुक्तः केवलज्ञानभानुभिः ॥ ११४ ॥ ये सर्वात्मप्रदेशेषु सर्वतो बन्धभेदतः । प्रदेशाः कर्मणोऽनन्ताः स प्रदेशः स्मृतो बुधैः ।। ११९ ॥ इत्येष बन्धतत्त्वस्य चतुर्धा वर्णितः क्रमः । पदैः संहियते कैश्चित्संवरस्यापि डम्बरः ॥ ११६ ॥ आश्रवाणामशेषाणां निरोधः संवरः स्मृतः । कर्म संब्रियते येनत्यन्धयस्यावलोकनात् ॥ ११७ ॥ आश्रवद्वाररोधेन शुभाशुभविशेषतः । कर्म संवियते येन संवरः स निगद्यते ॥ ११८ ॥ (इति पाठान्तरम्)

काव्यमाला।
धर्मात्ममितिगुप्तिभ्यामनुप्रेक्षानुचिन्तनात् ।
असावुदेति चारित्रादरिषट्कजयादपि ॥ ११९ ।।
किमन्यविस्तरैरेतद्रहस्यं जिनशासने ।
आश्रवः संसृतेर्मूलं मोक्षमूलं तु संवरः ॥ १२० ॥
संवरो विस्तः सैष संप्रति प्रतिपाद्यते ।
जर्जरीकतकर्मायःपञ्जरा निर्जरा मया ॥ १२१ ॥
दुर्जरं निर्जरत्यात्मा यया कर्म शुभाशुभम् ।
निर्जरा सा द्विधा ज्ञेया सकामाकामभेदतः ॥ १२२ ॥
सा सकामा स्मृता जैनैर्या व्रतोपक्रमैः कृता ।
अकामा स्वविपाकेन यथा श्वभ्रादिवासिनाम् ॥ १२३ ॥
सागारमनगारं च जैनरुक्तं व्रतं द्विधा ।
अणुमहाव्रतभेदेन तयोः सागारमुच्यते ॥ १२४ ॥
अणुव्रतानि पञ्च स्युस्त्रिप्रकारं गुणवतम् ।
शिक्षाव्रतानि चत्वारि सागाराणां जिनागमे ॥ १२५ ॥
सम्यक्त्वं भूमिरेषां यन्न सिध्यन्ति तदुज्झिताः।
दूरोत्सारितसंसाराातपा व्रतपादपाः॥ १२६ ।।
धर्माप्तगुरुतत्वानां श्रद्धानं यत्सुनिर्मलम् ।
शङ्कादिदोषनिर्मुक्तं सम्यक्त्वं तन्निगद्यते ॥ १२७ ॥
तत्र धर्मः स एवाप्तैर्यः प्रोक्तो दशलक्षणः ।
आप्तास्त एव ये दोपैरष्टादशभिरुज्झिताः ॥ १२८ ।।
गुरुः स एव यो ग्रन्थैर्मुक्तो बाढरिवान्तरैः ।
तत्वं तदेव जीवादि यदुक्तं सर्वदर्शिभिः ॥ १२९ ॥
शङ्काकाङ्क्षा विचिकित्सा मूढदृष्टिः प्रशंसनम् ।
संस्तवश्चेत्यतीचाराः सम्यग्दृष्टेरुदाहताः॥ १३० ॥
अदेवे देवबुद्धिर्या गुरुधीरगुरावपि ।
अतत्त्वे तत्त्वबुद्धिश्च तन्मिथ्यात्वं विलक्षणम् ॥ १३१ ॥

२१ सर्ग:] धर्मशर्माभ्युदयम् । मधुमांसासवत्यागः पञ्चोदुम्बरवर्जनम् । अमी मूलगुणाः सम्यग्दृष्टेरष्टौ प्रकीर्तिताः ॥ १३२ ॥ द्यूतं मांस सुरा वेश्या पापर्डिः स्तेयत्तिता । परदाराभियोगश्च त्याज्यो धर्मधुरंधरैः ॥ १३३ ॥ मोहादमूनि यः सप्त व्यसनान्यत्र सेवते । अपारे दुःखकान्तारे संसारे बम्भ्रमीति सः ॥ १३४ ॥ मुहर्तहितयादृवं भूयस्तीयमगालितम् । शीलयेन्नवनीतं च न देशविरतिः क्वचित् ।। १३५ ।। दिनद्वयोषितं तकं दधि वा पुप्पितौदनम् । आमगोरससंप्टक्तं द्विदलं चाद्यान्न शुद्धधीः ॥ १३६ ॥ विद्धं विचलितस्वादं धन्यमन्यद्विरूढकम् । तैलमम्भोऽथवाज्यं वा चर्मपात्रापवित्रितम् ॥ १३७ ॥ आईकन्दं कलिङ्ग वा मूलकं कुसुमानि च । अनन्तकायमज्ञातफलं संधानकान्यपि ॥ १३८ । एवमादि यदादिष्टं श्रावकाध्ययने सुधीः । तज्जैनी पालयन्नाज्ञां क्षुत्क्षामोऽपि न भक्षयेत् ॥ १३९ ॥ पापभीरुर्निशामुक्ति दिवा मैथुनमप्यसौ । मनोवाकायसंशुद्ध्या सम्यग्दृष्टिर्विवर्जयेत् ॥ १४ ॥ वर्तमानोऽनया स्थित्या सुसमाहितमानसः । भवत्यधिकतो नूनं श्रावकव्रतपालने ॥ १४१ ॥ हिंसानृतवचःस्तेयस्त्रीमथुनपरिग्रहात् । देशतो विरतिज्ञेया पञ्चधाणुव्रतस्थितिः ।। १४२ ।। दिग्देशानर्थदण्डेभ्यो यन्त्रिधा विनिवर्तनम् । पोतायते भवाम्भोधौ त्रिविधं तद्गुणव्रतम् ॥ १४३ ॥ शोधनीयन्त्रशस्त्रानिमुखलोलूखलार्पणम् । ताम्रचूडश्वमार्जारशारिकाशुकपोषणम् ॥ १४४ ॥ १. मृगया.

काव्यमाला ।
अङ्गारशकटारामभाटकास्फोटजीवनम् ।
तिलतोयेक्षुयन्त्राणां रोपणं दावदीपनम् ॥ १४५ ॥
दन्तकेशनखास्थित्वग्रोम्णां निन्द्यरसस्य च ।
शणलाङ्गललाक्षायःक्ष्वेडादीनां च विक्रयः ॥ १४६ ॥
वापीकूपतडागादिशोषणं कर्षणं भुवः ।
निर्लाञ्छनं भक्षरोधः पशूनामतिभारणम् ॥ १४७ ॥
वनकेलिर्जलक्रीडा चित्रलेप्यादिकर्म वा ।
एवमन्येऽपि बहवोऽनर्थदण्डाः प्रकीर्तिताः ॥ १४८ ॥
सामाजिकमथाद्यं स्याच्छिक्षाव्रतमगारिणाम् ।
आर्तरौद्रे परित्यज्य त्रिकालं जिनवन्दनात् ॥ १४९ ॥
निवृत्तिभुक्तभोगानां या स्यात्पर्वचतुष्टये ।
पोषधाख्यं द्वितीयं तच्छिक्षाव्रतमितीरितम् ॥ १५० ॥
भोगोपभोगसंख्यानं क्रियते यदलोलुपैः ।
तृतीयं तत्तदाख्यं स्याहुःखदावानलोदकम् ॥ १५१ ।।
गृहागताय यत्काले शुद्धं दानं यतात्मने ।
अन्ते सल्लेखना वान्यतच्चतुर्थ प्रकीर्त्यते ॥ १५२ ॥
व्रतानि द्वादशैतानि सम्यग्दृष्टिबिभर्ति यः।
जानुदन्नीकतागाधभवाम्भोधिः स जायते ॥ १५३ ॥
यथागममिति प्रोक्तं व्रतं देशयतात्मनाम् ।
अनागारमतः किंचिद्रूमस्त्रैलोक्यमण्डनम् ॥ १५४ ।।
अनागारं व्रतं द्वेधा बाह्याभ्यन्तरभेदतः ।
षोडा बाह्यं जिनैः प्रोक्तं तावत्संख्यानमान्तरम् ॥ १५५ ॥
वृत्तिसंख्यानमौदर्यमुपवासो रसोमनम् (?) ।
रहःस्थितितनुक्लेशौ पोटा बाह्यमिति व्रतम् ॥ १५६ ॥
स्वाध्यायो विनयो ध्यानं व्युत्सों व्यारतिस्तथा ।
प्रायश्चित्तमिति प्रोक्तं तपः षधिमान्तरम् ॥ १५७ ॥

२१ सर्गः] धर्मशर्माभ्युदयम् । यास्तिलो गुप्तयः पञ्च ख्याताः समितयोऽपि ताः । जननात्पालनात्पोषादष्टौ तन्मातरः स्मृताः ॥ १५८ ॥ निरूपितमिदं रूपं निर्जरायाः समासतः । इयमक्षीणसौख्यस्य लक्ष्मीमोक्षस्य वर्ण्यते ॥ १६९ ।। अभावाद्वन्धहेतूनां निर्जरायाश्च यो भवेत् । निःशेषकर्मनिमोक्षः स मोक्षः कथ्यते जिनैः ॥ १६० ।। ज्ञानदर्शनचारित्रैरुपायैः परिणामिनः । भव्यस्यायमनेकाङ्गविकलैरेव जायते ॥ १६१ ॥ तत्त्वस्यावगतिर्ज्ञानं श्रद्धानन्तस्य दर्शनम् । पापारम्भनिवृत्तिस्तु चारित्रं वर्ण्यते जिनैः ।। १६२ ।। ज्वालाकलापहरू-मेरण्डवीजवत् । ततः स्वभावतो याति जीवः प्रक्षीणबन्धनः ॥ १६३ ॥ लोकानं प्राप्य तत्रैव स्थिति बनाति शाश्वतीम् । उर्व धर्मास्तिकायस्य विप्रयोगान्न यात्यसौ ॥ १६४ ॥ तत्रानन्तमसंप्रातमव्यावाघमसन्निभम् । प्राग्देहात्किचिदूनोऽसौ सुखं प्राप्नोति शाश्वतम् ॥ १६५ ॥ इति तत्वप्रकाशेन निःशेषामपि तां सभाम् । प्रभुः प्रह्लादयामास विवस्वानिव पझिनीम् ॥ १६६ ॥ अथ पुण्यैः समाकृष्टो भव्यानां निःस्टहः प्रभुः । देशे देशे तमश्छेत्तुं व्यचरद्वानुमानिव ॥ १६७ ॥ दत्तविश्वावकाशोऽयमाकाशोऽतिगुरुः क्षितेः । गन्तुमित्याढतस्तेन स्थानमुयियासुना ॥ १६८ ॥ अनपायामिव प्राप्तुं पादच्छायां नभस्तले! उपकण्ठे लुलोठास्य पादयोः कमलोत्करः ॥ १६९ ॥ यत्तदा विदधे तस्य पादयोः पर्युपासनम् । अद्यापि भाजनं लक्ष्म्यास्तेनायं कमलाकरः ॥ १७० ॥ २१ काव्यमाला। तिलकं तीर्थकल्लक्षम्यास्तस्य प्राह पुरो भ्रमत् । धर्मचक्रं जगच्चक्रे चक्रवर्तित्वमक्षतम् ॥ १७१ ॥ विश्वप्रकाशकस्यास्य तेजोभिर्व्यर्थतां गतः । सेवार्थ संचचाराने धर्मचक्रच्छलाद्रविः ॥ १७२ ॥ यत्रातिशयसंपन्नो विजहार जिनेश्वरः । तत्र रोगग्रहातकशोकशङ्कापि दुर्लभा ॥ १७३ ॥ निष्कलामा बभूवुस्ते विपक्षा इव सज्जनाः । प्रजा इव भुवोऽप्यासनिष्कण्टकपरिग्रहाः ॥ १७४ ॥ के विपक्षा वराकास्ते प्रातिकूल्यविधौ प्रभोः । महाबलोऽपि यद्वायुः प्राप तस्यानुकूलताम् ॥ १७५ ॥ हेमरम्यं वपुः पञ्चचत्वारिंशद्धनुर्मितम् । विभ्रद्देवैः श्रितो रेजे स्वर्णशैल इवापरः ॥ १७६ ॥ द्वाचत्वारिंशदेतस्य सभायां गणिनोऽभवन् । नवैव तीक्ष्णबुद्धीनां शतानि पूर्वधारिणाम् ॥ १७७ ।। शिक्षकाणां सहस्त्राणि चत्वारि सप्तभिः शतैः । सह पङ्किः शतैस्त्रीणि सहस्राण्यधिबोधिनाम् ॥ १७८ ॥ केवलज्ञानिनां पञ्चचत्वारिंशच्छतानि च । मनःपर्ययनेत्राणां तावन्ति क्षपितांहसाम् ।। १७९॥ सत्तैव च सहस्राणि विक्रयद्धिमुपेयुषाम् । शतैरष्टाभिराश्लिष्टे वे सहने च वादिनाम् ॥ १८ ॥ अर्जिकाणां सहस्त्राणि षट्चतुर्भिः शतैः सह । श्रावकाणां च लक्षे द्वे शुद्धसम्यक्त्वशालिनाम् ॥ १८१॥ श्राविकाणां तु चत्वारि लक्षाणि क्षपितैनसाम् । निर्जराणां तिरश्यां च संख्याप्यंत्र न बुध्यते ॥ १८२ ।। इत्याश्वास्य चतुर्विधेन महता संघेन संभूषितः सैन्येनेव विपक्षवादिवदनाकष्टामशेषां महीम् ।

२१ सर्गः
धर्मशर्माभ्युदयम् ।
दृप्यन्मोहचमू विजित्य विजयस्तम्भायमानं तदा
सम्मेदाचलमाससाद विजयश्रीधर्मनाथः प्रभुः ॥ १८३ ।।
तत्रासाद्य सितांशुभोगसुभगां चैत्रे चतुर्थी तिथि
यामिन्यां स नवोत्तरैर्यमवतां साकं शतैरष्टभिः ।
सार्धद्वादशवर्षलक्षपरमारन्यायुषः प्रक्षये
ध्यानध्वस्तसमस्तकर्मनिगलो जातस्तदानी क्षणात् ॥ १८४ ॥
अमजदथ विचित्रैर्वाक्प्रसूनोपचारैः
प्रभुरिह हरिचन्द्राराधितो मोक्षलक्ष्मीम् ।
तदनु तदनुयायी प्राप्तपर्यन्तपूजो-
पचितसुकतराशिः स्वं पदं नाकिलोकः ॥ १८५ ।।
इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये एकविंशः सर्गः ।
श्रीमानमेयमहिमास्ति स नोमकानां
वंशः समस्तजगतीवलयावतंसः ।
हस्तावलम्बनमवाप्य यमुल्लसन्ती
वृद्धापि न स्खलति दुर्गपथेषु लक्ष्मीः ॥ १ ॥
मुक्ताफलस्थितिरलंकतिषु प्रसिद्ध-
स्तत्रादेव इति निर्मलमूर्तिरासीत् ।
कायस्थ एव निरवद्यगुणग्रहः स-
न्नेकोऽपि यः कुलमशेषमलंचकार ॥ २ ॥
लावण्याम्बुनिधिः कलाकुलगृहं सौभाग्यसद्भाग्ययोः
क्रीडावेश्म विलासवासवलभी भूषास्पदं संपदाम् ।
शौचाचारविवेकविस्मयमही प्राणप्रिया शूलिनः.
शर्वाणीव पतिव्रता प्रणयिनी रथ्येति तस्याभवत् ॥ ३ ॥
अर्हत्पदाम्भोरुहचञ्चरीकस्तयोः सुतः श्रीहरिचन्द्र आसीत् ।
गुरुप्रसादादमला बभूवुः सारस्वते स्त्रोतसि यस्य वाचः ॥ ४ ॥

BHARATI BHAYANA काव्यमाला। भक्तेन शक्तेन च लक्ष्मणेन निर्व्याकुलो राम इवानुजेन । यः पारमासादितबुडिलेतुः शास्त्राम्बुराशेः परमासलाद ॥ ६ ॥ पदार्थवैचित्र्यरहस्यसंपत्सर्वस्वनिर्देशनयात्मसादात् । वाग्देवतायाः समवेदि सभ्यैर्यः पश्चिमोऽपि प्रथमस्तनूजः ॥ ६ ॥ स कर्णपीयूपरसप्रवाहं रसध्वनेरध्वनि सार्थवाहः । श्रीधर्मशर्माभ्युदयाभिधानं महाकविः काव्यमिदं व्यवत्त ॥ ७ ॥ एप्यत्यसारमपि काव्यामिदं मदीय- मादेयतां जिनपतेरनधैश्चरित्रैः । पिण्डं मृदः स्वयमुदस्य नरा नरेन्द्र- मुद्राङ्कितं किमु न मूर्धनि धारयन्ति ॥ ८ ॥ दक्षः साधु परीक्षितं नवनवोल्लेखार्पणेनादरा- बच्चेतःकपपटिकासु शतशः प्राप्तत्रयोदयम् । नानाभगिविचित्रमावघटनासौभाग्यशोभास्पद तन्त्रः काव्यसुवर्णमस्तु तिनां कर्णद्वयीभूषणम् ॥ ९ ॥ जोयानमिदं मतं शमयतु रानपीयं कपा भारत्या सह शीलयत्वविरतं श्रीः साहचर्वत्रतम् ! मात्सर्य गुणिषु त्यजन्तु पिशुनाः संतोषलीलाजुषः सन्तः सन्तु भवन्तु च श्रमविदः सर्वे कवीनां जनाः ॥ १० ॥ समातोऽयं ग्रन्थः se

Dharmsharmabhudayam

Author
Pandit Durgaprasad
Title
Dharmsharmabhudayam
File name
Dharmsharmabhudayam
Text
OCR done
Citation
1888
Publisher
The Nirnaya Sagara Press Bombay
Language
Sanskrit
Pages
172
Library
Bharti Bhawan Library Allahabad
DLI number
272822
Barcode
5990010894162.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
BE5fde8NKz6
Download PDF

Dharmsharmabhudayam