University Liberey Allahabad
Vivaranopanyasa Benares
Front matter
BENARES SANSKRIT SERIES; A COLLECTION OF SANSKĶIT WORKS. EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE, > UNDER THE SUPERINTENDENCE OF R. T H GRIFFITH, MA,C I E AND G. THIBAUT, Ph. D Nos 55 & 56 विवरणोपन्यासः विवरणतात्पर्यव्याख्यानरुपः। अपि च FITOFT वाक्यसुधा TI VIVARANOPANYÂSA, A COMMENTARY ON VIVARANATÁTPARYA (A Treatise on Vedanta Philosophy) BY SRI RAMANANDA SARASVATI ALSO VÂKYASUDHA BY ŚRÎ SANKARÂCHÂRYA, WITH A COMMENTARY BY SRI BRAHMÂNANDA BHÂRATI EDITED BY PANDIT DAMODARA SÁSTRÍ SAHASRABUDDHE, OF THE GOVT SANSKRIT COLLEGE, BENARES BENARES PUBLISHED BY THE PROPRIETORS Messis BRAJB DAS & Co. AND SOLD BY HD GUPTA, SECRETARY, CHOWKIAMBA SANSKRIT BOOK DEPÔT PRINTED BY FREEMAN & CO, LTD, AT THU TARA PRINTING WORKS, BENARES 1901 CALL RIGHTS RESERVED) REGISTERED UNDER ACT XXV OF 1867 328 ॥ श्रीः॥ विवरणोपन्यासभूमिका। --8-*-S+ अयं किल वेदान्तप्रमेयागाधविषयविवरणस्वरूपस्य विवरणा- भिधानस्य ग्रन्थरत्नस्याप्रौढवेदान्तव्युत्पत्तीनां दुर्बोधत्व विचार्य क- रुणासान्द्रान्तःकरणैस्तत्रभवद्भिः श्रीमद्रामानन्दसरस्वतीयतीन्द्रपा- 'देस्तत्तात्पर्यव्याख्यानरूपो विवरणोपन्यासाभिधो ग्रन्थो निरमायि । अयं च यतीन्द्रः कदा कतम देशमलञ्चकारेत्यच न किञ्चिद्वि- श्वसनीयं प्रमाणमुपलभ्यत इति व्यर्थ एव तद्विषये निर्मूलानु- मानप्रयासः। सोऽयं अन्थो वेदान्तशास्त्ररसिकानां विद्वद्वराणां मनोविनोदाय भवत्विति तत्प्रकाशने सोत्कण्ठो ऽहं प्राचीनानां द्वित्राणां पुस्तकानां साहाय्येन यथामति तच्छोधनमकरवम् । न्यवेशयं च तत्र तत्राव- शिष्टानामशुद्धीनां शुद्धिपत्रम् । तदेवं सपरिश्रमं कृतशोधने ऽप्यत्र यदि मद्बुद्धेरपाटवेन, सीसकाक्षयोजकादीनां वा प्रमादेन काश्चनाशुद्धय उपलभ्येन्, तद्गुणैकपक्षपातिनो विपश्चिदपश्चिमा मर्षयिष्यन्त्येवेति निश्चितमाशासे अन्ते चास्मिन् यथावकाश तत्र तत्र स्थलेषु शोधनकार्ये कृतसाहाय्यैरस्मत्सुहृद्वरै काशिकराजकीयप्रधानपाठालयाध्यापकै- स्तैलङ्गरामशास्त्रिभिबहूपकृतोऽस्मीति तेभ्यः पर.शतं धन्यवादान बितरन् विरमाम्यस्माद्विस्तरादिति शिवम् । पौ० शु० ११ सोमे सहस्रबुद्धयुपाही काश्याम्। दामोदरशास्त्री शुद्धिपत्रम् । 2230 दुखाभि 0 २२ ज्ञाते ध ५२२५ स्वर्व पृ० पं०अशुद्धम् शुद्धम् पृ० पं०अशुद्धम् शुद्धम् २ ७ त भिन्दन् भिन्दन् ९२ ८ आनन्तर्यविधि आनन्तर्यावधि १ ८ वन्द सर्वव० त वन्दे सर्व ९९ २४ तथा च तथाचा- २ ८ प्रारिप्सितदु. प्रारिप्सित प्रनि- १०१ १८ स्फुरण स्फुरण बन्धकदुरि० १०२ ८ श्रवणाविधि , श्रवणविधि ४१८ सत्यवादि सत्यत्वादिक २०४ ३० बहूत्स्या ऽत्रा बहूत्स्था यत्राना ५ ९ मायच्छदितिः प्रायच्छमिक २०६ २८ बादिन. वादिन ८ १ ज्ञानानिवृत्त. ज्ञानान्निवतेरन् १०८ ६ भपैता ममता ८ ४ प्यवृत्तित्वो० प्यव्याप्यवृ० १०८ २२ शल्यातना शून्यान्तना १२ २७ प्रत्यक्षवादिक प्रत्यक्षत्वात्तत्मन्य- ११२ १३ दु,खभि क्षत्व वादितोऽपि १८ ३० अथ सिद्धान्त अपसिद्धान्त ११२ २६ सूत्रयता सूत्रकृता ८ प्रष्ट ११३ २८ ब्रह्मत्वस्यातु ब्रह्मत्वज्ञानामु प्रमुष्ट ५३ २३ तत्र ११६ १७ नुपमर्द नुपम ५४ १५ घटस्यैव घटस्येव १२६ २० हेयाव हेमावयव ५८२८ शक्तस्येव शक्तस्यैव १२८ ३२ तत्तू स तत्तु स ५१ २३ प्रत्यक्षनष्पल्या प्रत्यक्षनेल्या. ११९ ८ज्ञाने ध सर्व १२१ २१ अचेतनया अचेतनतया ५३ ११ नविय १२७ १६ वेदात्ता वेदान्ता नत्वय ५५ १३ वात्तान १२८ १८ कर्णषष्कुल्या कर्णशकुल्या वाज्ञान ५६ ५ नथहतो नर्थहेतो १२८ २० पाघिकन्तु पाधिके तु ५६ १५ ब्रम्हभिन्ना ब्रह्माभिन्ना १२८ २१ नन्त्यशब्दाः नन्तशब्दा: ५७२० शेषे नि शेषेण नि १३१ १६ ससर्गोऽनु ससर्गानु ५८ १२ एव प्रमा १३६ १२ दिष्टासिद्धि..दिष्टसिद्धिः एवममाम ६० १४ मूलविद्या मूलाविद्या १३७ ८ श्रुतरशरीर श्रुतरश० ६५ ४ ऐन्न्यति ऐन्न्येति १४४ ३० मवे मेव ६५ २२ साद्यस्के साधस्के १४५ २७ संयति दर्शयति ६९ ३२ योगदर्शन योगादर्शन २४५ २४ येद्य ७० १९ लौकिकात्मना लौकिकास्मनो १४८ ८ भूतसर्गस्य भूतससर्ग० ७२ २२ वादादिक वालादेव १४८ २१ अस्ति भवति अस्तिर्भव. ७३ १२ माज्ञातत्व मज्ञातत्व निषेधे १४९ १८ निबन्धे ७६-१४ तात्पर्य तत्र तात्पर्य १४९ २८ प्रत्ययानुदित प्रत्ययानू० वक्ततत्र ७८ ४ श्रेय साधनो श्रेय सावन २४९ २६ तंत्रष्टास्वर्ग तत्रष्टस्वर्ग ७९ ४ भावस्य १४९ ३० नियोगेन नियोगे भाव्यस्य ८०२० वेदस्यध्यय १५० १ इष्टासाधन इष्टसाधन ८२ ९ सशयान १५० २५ नवन्धेनैव नयन्धनेव सशयनि ८५ ३ विधनास्व +-इति-+ ४६ ५ साह्येनोद्दि ग्राह्य नोहि वेद्य वेदस्याध्याय विविनास्व श्रीगणेशाय नमः। ॐ नमो भगवत्यै सङ्कष्टनाशिन्यै । रामानन्दसरस्वतीकृतो विवरणोपन्यासः । वन्दे वन्दारुवृन्दस्फुटमुकुटमणिद्योतिताप्रिं रमेशं श्रीराम सद्य एव प्रणतजनगतध्वान्तविच्छेदहेतुम् । सत्यानन्दानुभूति जनहृदि विशनान्मायया जीवसझं सर्वज्ञं सर्वसंज्ञं निजमहिमहशां नेति नेत्यक्षराख्यम् ॥ १॥ वेदान्तार्थ गभीरं ह्यतिसुगमतया बोधयामीति विष्णु- ासात्मा ऽसूत्रयत्तदुरधिगममभूद्वादिदुर्बुद्धिभेदात् । तंभिन्दन दुर्बुद्धिभेदं य इह करुणया ऽभाष्ययद्भाष्यमेतत् वन्दे सर्ववन्धं त्रिजगति भगवत्पादसंझं महेशम् (१) ॥ २॥ (२ कामाक्षीदत्तदुग्धप्रचुरसुरनुतप्राज्यभोज्यातिपूज्य- श्रीगौरीनायकाभित्प्रकटनशिवरामार्यलब्धात्मबोधैः । श्रीमद्गोपालगीर्भिः प्रकटितपरमाद्वैतभासास्मिता ऽस्य श्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतोऽहं यथालिः ॥ ३ ॥ टीकाकारान्नमस्कृत्य तद्याख्यातूंश्च सिद्धये । तद्भन्थयोजनार्थस्य तदुपन्यास ईर्यते ॥ ४ ॥ 'अर्थसङ्ग्राहकश्लोका अर्थस्मृत्यर्थमीरिताः । तेषामपेक्षितो न्याय इह यत्नात्प्रकाश्यते ॥ ५ ॥ हरिशङ्करयोगे ऽस्मिन् भाष्यतीर्थे मुमुक्षवः । सिष्णासवः सुखोपायः पन्थास्तेषामयं भवेत् ॥ ६ ॥ नन्वभीप्सितकार्यारम्भे शिष्टा मङ्गलमाचरन्ति । तदयुक्तम् । फलाभावात् । न च समाप्तिः फलम् । प्रमत्तानुष्ठितसमाप्तेमङ्गलं विनापि दर्शनात् । नापि विघ्नध्वंसः फलम् । विकल्पासहत्वात् । तथाहि । किं ज्वरादिर्विधन । दुरितं वा । नाद्यः । विज्वरेण कृत- (१) श्रीशङ्कराचायमित्यर्थः। (२) कामाक्षीदत्तदुग्धेत्यय श्लाको ऽसम्बद्ध इति प्रतिभाति ।
२ विवरणोपन्यासे मङ्गलस्य वैफल्यापातात् । मङ्गलानन्तरं ज्वराद्यनिवृत्तेश्च । न द्वितीयः । हरिस्मरणेनापि सर्वदुरितध्वंसे मङ्गलानपेक्षणात् । न च हरिस्मरणमेव मङ्गलमिति वाच्यम्। द्धिदूर्वादिवैफल्यापातात् । न च तयोर्विकल्पः । असमफलत्वात् । वस्तुतो निष्पापेन कृतस्म- रणादेः फलानिरूपणातू । नापि विघ्नानुत्पादः फलम् । उत्पन्ने विघ्ने मङ्गलाननुष्ठानप्रसङ्ग इति चेत् । उच्यते। विधनाभावप्रयोज्य- समाप्तिर्मङ्गलफलम् । न समाप्तिमात्रम् । अतो न प्रमत्तानुष्ठितसमाप्ती व्यभिचारः । न च सापि विघ्नाभावप्रयोज्या । तदीयप्रारिप्सितदु- रितविशेषस्य विनशब्दार्थस्य तत्रासत्त्वेन तदभावाप्रसिद्धः । मङ्गल- स्योत्तेजकत्वेन प्रतिबन्धकस्थलीये कार्ये एव हेतुत्वमुचितम् । नि- र्विघ्नं समाप्यतामिति कामनया स्वेष्टसाधनतांशे भ्रमरहितानां शिष्टा- नामाचारेणानुमितया श्रुत्या विघ्नाभावप्रयोज्यसमाप्तावेव मङ्गलस्य हेतुत्वबोधनात् । मङ्गलं चापूर्वद्वारा समाप्तिहेतु । अपूर्व तु सति , विघ्नं तं ध्वंसयति । अदृष्टस्य स्वकार्यानुकूलकारित्वात् अन्यत एव विघ्नध्वंसे तु समाप्तिमेव करोति । सविघ्नकार्यान्तरसमाप्तिं वा । अत एव मङ्गले कृतेऽपि असमाप्तियुज्यते २ । विघ्नबाहुल्यसंभवात्। फलब- लेन मङ्गलापूर्वस्यैकविघ्नध्वंसमात्रकारित्वकल्पनात् । काम्यकर्माण अङ्गवैकल्येनापूर्वानुत्पत्तिा कल्प्यताम् । अतो मङ्गलस्यापूर्वद्वारावि. शिष्टसमाप्तिफलकत्त्वमिति संक्षेपः। मङ्गल ग्रन्थकरणाङ्गमिति वृद्धाः॥ तत्फलान्यफलशून्यत्वात् । प्रचयगमनस्याङ्गाङ्गिनोः फलीभूतसमा- प्त्यधीनत्वात् । शिष्टाचारपरिपालनस्यानुष्ठानमात्राधीनत्वेन मङ्ग- लापूर्वाजन्यत्वात् । वस्तुतस्तु वैदिक मङ्गलं लौकिकस्य ग्रन्थकरण- स्य नाङ्गमित्यनवद्यम् ॥ ननु युष्मदस्मदित्याद्यध्यासप्रतिपादको ग्रन्थो भाष्यं न भवति । स्वपदव्याख्याने सति सूत्रानुकारिवाक्यैः सूत्रार्थवर्णनस्य भाष्यलक्षणस्याभावात् । तथा हि अथातो ब्रह्मजि- ज्ञासेति सूत्रे निरर्थकानुवादत्त्वपरिहाराय शास्त्रे पुरुषप्रवृत्तये च क- र्तव्येति पदमध्याहर्तव्यम् । अध्याहृतं च भाष्यकृता ब्रह्मजिज्ञासा कर्त- व्यति । तत्र प्रकृतिप्रत्ययार्थयार्शानेच्छयोः कर्तव्यत्वानन्वयातू सन्प्र- त्ययेन जहल्लक्षणया विचारो गृह्यते । जिज्ञासेति यौगिकपदस्य वा- (१) वैफल्यप्रसङ्गादिति पागन्तरम् । (२) भसमाप्तिदृश्यते इति वा पाठः।
१ सू. १ वर्णकम् । ३ क्यत्वात् अशक्तत्वेन लक्षकत्वायोगात् । प्रकृत्या फलीभूतं ज्ञानम् अ- जहल्लक्षणया लक्ष्यते । विषं भुङ्क्षवेत्यादिवत् पदद्वये लक्षणोपपत्तेः । ततश्चाथशब्दोपात्ताधिकारिणा मुमुक्षुणा ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रस्य श्रीतो ऽर्थः। अर्थादधिकारिविशेषणं मोक्षो ज्ञानफल- त्वेनान्वेति । औपनिषदत्वश्रुतेर्ब्रह्मज्ञानकरणतया वेदान्तानां बुद्धौ सं- निधानात् विचारविषयता लभ्यते । तथा चाधिकारिणा मोक्षसाध- नब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति सूत्रतात्पर्यार्थः । एतदर्थाऽस्पर्शित्वेनाभाष्यत्वात् । भाष्यत्वेनायं ग्रन्थो न व्याख्येय इति चेत् । उच्यते । ब्रह्मज्ञानं हि विचारफलत्वेन सूत्रितं तस्य स्वतोऽपुरुषार्थस्य कथं फलत्वमिति वक्तव्यम् । न च सुखसाक्षा- त्कारत्वातू स्वतःफलतति वाच्यम् । वृत्तेरनित्यतया मुमुक्षुकाम्यत्वा- दिसम्भवात् । स्वरूपसाक्षात्कारस्य विचारासाध्यत्वात् । नापि सूत्रितज्ञानस्य स्वर्गादिकं फलं सर्वतो विरक्तस्थ ब्रह्मजिज्ञासा- धिकारात् । अतः परिशेषात् जीवगतबन्धनिवर्तकत्वेनैव ज्ञानं फ- लम् । बन्धस्य सत्यत्वे ज्ञानानिवृत्त्ययोगात् अध्यासो भाष्यकारैर्व- य॑ते । एवञ्चाह कोऽयमित्यादिना अस्यानर्थहेतोः प्रहाणाय आत्मैक- त्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्त इत्यन्तेन भाष्येण लक्षण- सम्भावनाप्रमाणे. साधितमध्यासं युष्मदस्मदित्याक्षेपसमाधानभा- प्याभ्यामनूद्य तात्पर्येण विषयप्रयोजने सूत्रेणात्सूत्रिते प्रतिपाद्य- ते। यथा धूमवानयमिति वाक्येन हेतुमनूद्य वह्निरेव प्रतिपाद्यते । हेतुवचनस्य प्रतिज्ञाताथै तात्पर्यात् । यत्परः शब्दः स शब्दार्थ इति न्यायात् । के चित्तु तात्पर्यार्थः सर्वोऽपि शब्दस्य मुख्यार्थ इत्याहुस्त- न । लक्षणोच्छेदापत्तेः। तस्मादाक्षेपादिभाष्यद्वयं मुख्यवृत्या हेतुम- ध्यासमनूद्य तात्पर्यानुपपत्त्या लक्षणया विषयप्रयोजने साध्ये प्रति- पादयति । ननु ब्रह्मात्मैक्यलक्षणो विषयः कथं सूत्रित इति चेत् उ- च्यते । जीवगतकर्तृताद्यध्यासस्य ब्रह्मज्ञाननिवर्त्यत्वं तावत्सूत्रितमि- त्युक्तम् । जीवब्रह्मणोर्भेदे तत्कथं स्यात् । भिन्नविषययोरध्यासतत्त्वज्ञा- नयोनिवर्त्यनिवर्तकभावायोगादित्यर्थाद्विषयोऽपि सूत्रित इति॥अध्या- सस्य विषयप्रयोजनहेतुत्वं कथमिति चेत् । उच्यते । अथातो ब्रह्मजि- ज्ञासेति सूत्रसङ्घातात्मक शास्त्रं प्रेक्षावत्कृतिविषयः सफलत्वात कृष्यादिवत् । न च गन्धादिज्ञाने व्यभिचारः । कृतिसाध्यत्वे सतीति विशेषणात्। न च सफलत्वासिद्धिः। सूत्राणि सफलानि बन्धनिवृत्त्य- ४ विवरणोपन्यासे नुकूलत्वात् सर्पभ्रमनिवर्तकरज्जुबोधवत् । न च हेत्वसिद्धिः । सूत्रै- विचारितवाक्योत्थज्ञानस्य १) बन्धनिवर्तकत्वात् । बन्धो ज्ञाननिवर्त्यः अध्यस्तत्वात् रज्जुसर्पवदिति प्रयोजनसाधको ऽध्यासः । जीवो ब्रह्माभिन्नः तज्ज्ञाननिवाध्यासवत्त्वात् यदित्थं तत्तथा । यथा रज्ज्वभिन्न इदमंश इति विषयसाधकोऽध्यास इति। तथा चार्थात्सूत्रि- तविषयप्रयोजनपरत्वात् । युष्मदित्यादेः सर्वलोकप्रत्यक्ष इत्यन्तस्य सूत्रार्थस्पर्शिता सिद्धा । तत्राद्यं भाष्यद्वय शास्त्रस्य साक्षाद्विषयप्र- योजनपरं लक्षणादिभाष्य तु सर्वलोकप्रत्यक्ष इत्यन्तमध्यासप्रतिपा- दनद्वारा विषयादिपरं अस्यानर्थहेतोरित्यादिकमारभ्यते इत्यन्तं वेदा- न्तानां विषयादिमत्त्वकथनद्वारा तद्विचारात्मकशास्त्रस्य विषयादि- मत्त्वपरम् । अत एव सवारत्वसाम्यातू पूर्वेण लक्षणादिभाष्येणास्य भा- व्यस्य सहोपादान कृतम्। एवं सूत्रार्थस्पर्शित्वात भाष्यबुद्ध्यायं ग्रन्थो व्याख्येय इति सिद्धम् । नन्वस्य सूत्रस्य जिज्ञास्यबह्मज्ञानाज्ञानाभ्याम-. सङ्गतिः। ज्ञाते ऽर्थे जिज्ञासानुपपत्त्या विचारायोगात् । अज्ञाते धर्मिज्ञा- नाभावात्। तथा सूत्रस्यमूलप्रमाणाभावादसङ्गतिःशास्त्रे प्रथमाध्याया- दौ च कथं सङ्गतिरिति चेदुच्यते । नित्येनैवाध्ययनविधिनाधीतसाङ्ग- खाध्यायस्य व्युत्पन्नस्य सत्यादिवाक्यादापाततो ब्रह्मज्ञानं जायते। ज्ञानस्यापातत्वं सत्यवादिविशिष्टगोचरत्वं तस्य विशेष्यमात्रजिज्ञासा- हेतुत्वं तु विशेष्यगोचरत्वादुपपन्नम् अकस्माच्छुक्तौ रजतविशिष्टझाने सति किमिदमिति विशेष्यजिज्ञासादर्शनात् । यद्वा सत्यादिवाक्यात अखण्डसाक्षात्कार एवादावुत्पन्नः लक्षणवाक्यस्याखण्डार्थत्वव्युत्प- त्तेः किन्तु तात्पर्याज्ञानादिपुरुषापराधादनवधारणत्वं तस्यापातत्वं यथाऽनभ्यासदोषाजलज्ञानस्य, यथा वा पूर्वमत्यन्तमदृष्टस्यामरीच- फलस्य ज्ञाने ऽनवधारणता । एवमापाततो ब्रह्मज्ञाने जाते तदवधा- रणेच्छोर्विचारसूत्रणं युक्तम् । ब्रह्मज्ञानाय विचारकर्तव्यत्वार्थकस्य सूत्रस्यात्मा श्रोतव्य इतिश्रवणविधिमूलम् ।अर्थक्यात् ।नच ब्रह्मात्म- शब्दाभ्यामर्थभेद इति वाच्यम् । आत्मनि विज्ञाते सर्व विदितमित्य- द्वितीयत्वेनोक्तस्यात्मनो ब्रह्मत्वं निर्धार्य सूत्रे ब्रह्मशब्दप्रयोगात् । यत्तु भिन्नात्मविचारविधिरयम् इति नैयायिकतनयानां जल्पन तन्मै- त्रेयीब्राह्मणार्थाज्ञानकृतं जायापतिपुत्रादयो यस्यात्मनः प्रियत्वेन स- (१) विचारितवाक्योक्तज्ञानस्यति पाठान्नरम् ।
१ सू. १ वर्णकम् । भ्मताः स आत्मैव सर्वेभ्यः प्रियतम इति परमपुरुषार्थत्त्वेन त्वंपदा- र्थमुपक्रम्य तस्यैवदर्शनममृतत्वसाधनतया ऽऽत्मा द्रष्टव्य इत्यनूद्यत- साधनत्वेन श्रवणादिक विधाय यज्ज्ञानात्सर्वविज्ञान प्रतिज्ञाय त- सिद्ध्यर्थ दुन्दुभ्यादिदृष्टान्तरुत्पत्तिस्थितिलयेषु प्रपञ्चस्यात्ममात्रत्वं साधयित्वा तदन्ते एतावदरे खल्वमृतत्वमित्युपसंहारात् । तस्मा- दद्वितीयब्रह्मात्मविचार एवामृतत्वसाधनदर्शनमार्थवादिकं फलम- नूद्य तत्कामस्य विधीयते । प्रतिष्ठाकामो रात्रिसत्रं कुर्यादितिवत् । यतु प्रतर्दनं प्रति आहेन्द्रः खस्य ज्ञानमाहात्म्य प्रकटयन अरुन्मुखान् यतीन् सालावृकेश्यःप्रायच्छदिति। तत्र श्रवणशून्यसंन्यासिनामिन्द्र- यातनाश्रवणाच्छवणं नित्यमिति । तन्न।श्रवणशून्यातुरसंन्यासविधि- विरोधेन ज्ञानस्तावकवाक्यस्य श्रवणाकरणप्रत्यवायपरत्वकल्पनायो- गात् । दृष्टफलकत्वादवघातादिवत् यावत्फलमावर्तनीयमित्यावृत्त्यधि- करणविरोधाच्च । किञ्च नानेन वाक्येन श्रवणस्य नित्यत्वं लभ्यते । मुमुक्षुत्रैवर्णिकसर्वाधिकारिकत्वाच्छ्रवणविधेः । वाक्ये च संन्यासि- मात्रस्य प्रत्यवायभावात् । न च संन्यासिन एव श्रवणाधिकारो नान्ये- षामिति वाच्यम् । एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजान्त । त- स्माज्ज्ञानं पुरस्कृत्य संन्यसेदित्यादिश्रुतिस्मृतिभिः ज्ञानफलकत्वेन वि- हितसंन्यासस्य श्रवणाङ्गत्वायोगात् । न च संन्यासस्यानङ्गत्वे ऽपि अधिकारिविशेषणत्वमस्त्विति वाच्यम् । मानाभावात् । न च शान्तो दान्त उपरतस्तितिक्षुः श्रद्धान्वितो भूत्वा ऽऽत्मन्येवात्मान पश्येदिति वाक्यं मानमिति वाच्यम् । अस्य वाक्यस्य एतमेव प्रवाजिन इति वाक्यविहितसंन्यासस्योपरतिपदेनानूदितस्यान्वयव्यातरेकाभ्यां मु- मुक्षोः श्रवणादिद्वारा ज्ञानसाधनत्वेन सिद्धशान्त्यादेरनुवादेन शा- न्यादिमत्कर्तृकश्रवणेन शान्त्यादिना वा पश्येदित्यत्र प्रकृत्यानूदिता- त्मज्ञाने लिङा समुच्चयविधानार्थत्वात् श्रोतव्य इति प्राप्तं श्रवणं पश्ये- दित्यनूद्यानुपादेयाधिकारिविशेषणानां विध्ययोगात् । प्राप्तानु- वादेन बहूनामङ्गानामप्येकस्मिन् वाक्ये विधातुमशक्यत्वात् । श्रवणस्य प्राप्तत्वेन शान्त्याद्यनकगुणविशिष्टविध्यसम्भवाञ्च । त- स्मात्संन्यासो नाधिकारिविशेषणम् । नाप्यङ्ग श्रवणस्य । किन्तु ज्ञान- प्रतिबन्धककल्मषनिवृत्तिद्वारा श्रवणवत् ज्ञानसाधनम् । श्रवणाधि- कारी तु श्रोतव्य इति विधिसन्निहितार्थवादोक्तफलकाम एव रात्रिसत्र इवेत्युक्तम् । स चसन्यास्यसन्यासी वा त्रैवर्णिकः सन्यस्य श्रवणं ६ विवरणोपन्यासे कुर्यादिति वाक्यं क्रमपरं जन्मान्तरीयसन्यासेनापि क्रमसम्भवात् । "नित्य कर्म परित्यज्य वेदान्तश्रवणं विना । वर्तमानस्तु सन्यासी पतत्येव न संशय” इति ॥ एवञ्जातीयकं वाक्य न्यायप्राप्तमनर्थमनुवदति श्रवणे काम्यत्व- बुद्ध्योपेक्षानिरासार्थम् । यदि सांसारिकः श्रेय साधनं कर्म परित्यज्य निःश्रेयससाधनं नानुष्ठीयते तदा श्रेयःसाधनाभावान्मूढः पतत्येवेति प्राप्तानुवादः। अरुन्मुखानिति श्रुतेरपि अयमेवार्थ । वस्तुतो ऽरुच्छब्दन रोति शब्दयतीति व्युत्पत्त्या वेदान्तवाक्यमुच्यते न श्रवणम् । तथा च श्रुतिः उपनिषदमावर्तयेदिति । तथा च मुमुक्षोःश्रवणाकरणे प्रत्यवाया- श्रवणात् श्रवणं काम्यमिति सिद्धम् । यद्यपि श्रवण श्रोतव्यार्थनिर्धा- रणे ऽन्वयव्यतिरेकसिद्धं नापूर्वविध्यर्ह तथाप्यवघातवन्नियम्यते । मु- क्तिसाधनज्ञानकामेनाद्वैतात्मविषयकवेदान्तविचारः कर्तव्य इति । अर्थाद्भिन्नात्मविचारोव्यावर्त्यते । नन्वस्य वस्तुतो मुक्तिहेतुज्ञानसाध- - नत्वाभावात् कथं व्यावय॑त्वम् ।नखविदलनादेस्तुषविमोकसाधनस्यैव व्यावर्त्यत्वदर्शनादिति चेन्न । अपूर्वीयव्रीहितुषविमोकसाधनस्यैव भ्रा- न्त्याप्राप्तस्य तत्र व्यावर्त्यत्वात्। किश्चाप्राप्तिमात्रं विधेरुपजीव्यम्।अप्रा- प्तिस्तु वस्तुत साधनेन भ्रान्तिप्राप्तसाधनेन वा विधेयसाधनस्य भव- त्येव तस्मात्कस्य चिद्भेदरसिकस्य मुमुक्षोभिन्नात्मविचारप्राप्तौ निय- म्यते । के चित्तु ब्राह्मणादेर्वेदाधिकारिणः पुराणप्राधान्यं व्यावर्त्य- मित्याहुः । मुमुक्षुणा वैदिकेन वेदान्तवाक्यान्येव विचारयितव्यानीति नियमादृष्टस्य ज्ञाने उपयोगः सर्वापेक्षान्यायात् । न च वेदान्तेषु विध्यङ्गीकारे लिङादयः श्रूयमाणाः कुण्ठीभवन्तीति भाष्यविरोध इति वाच्यम् । तत्र भाष्ये ज्ञानविधिनिराकरणात् । अनियोज्यवि- षयत्वादिति हेतूक्तेः अज्ञस्य श्रवणादौ नियोगसम्भवात् । न च वि- ध्यङ्गीकारे ब्रह्मासिद्धिः अन्यपराद्वाक्यादन्यासिद्धरित वाच्यम् । उपक्रमादिना ब्रह्मात्मन्येव महातात्पर्यात् । तज्ज्ञानोद्देशेनावान्त- रतात्पर्येण श्रवणादिविधानात् । अत एवोद्देश्यत्वाब्रह्मणः प्राधान्य विधेरेव तच्छषत्वं ब्रह्मकर्मकज्ञानविधाने तु ब्रह्मणो विधेयज्ञानकारक- त्वेन विधि प्रति गुणत्वं स्यात् इति युक्तो ज्ञानविधिनिरासः । ननु ब्रह्मपरे वाक्ये अवान्तरतात्पर्येण श्रवणादिविधानं कथमिति चेत् । उच्यते । ब्रह्मपरे वाक्ये यज्ञेनेत्यादिवाक्येन यज्ञादीनां विविदिषाया- मिष्यमाणसाने वा हेतुत्वविधानवत् अधस्तात्समिधं धारयन्ननुद्र- १ सू. १ वर्णकम् । वेदुपरि हि देवेभ्यो धारयतीत्यत्र विधिस्तु धारणेऽपूर्वत्वादिति न्या- येन अधोधारणवाक्यैकवाक्यतां भक्त्वा सुग्दण्डोपरि समिद्धारण- विधिवत् दर्शपूर्णमासप्रकरणे तिस्रो रात्रीव्रतं चरेदञ्जलिना वा पयः पिबेदित्यवान्तरवाक्येन मलवद्वाससो व्रतकलापविधानवच्चेति। अथ वा तस्माद्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेदिति वाक्ये- न श्रवणं कृत्वा मननं कुर्यादित्यर्थकेन श्रवणादिकं विधीयते । तत्रै- वाथ मुनिरिति निदिध्यासनं नियस्यते इति सूत्रकारेण सह कार्यन्त- रविधिरिति वक्ष्यमाणत्वात् । मनननिदिध्यासनयोः श्रवणाङ्गत्वमग्रे वक्ष्यामः। तथा च श्रवणविध्यपेक्षितानाम् अधिकारिविषयप्रयोजना- नां श्रुतानामपि न्यायेन निर्णयार्थमिदं सूत्रमिति । तद्विधिमूल- कत्वमस्य सूत्रस्य सिद्धम् । ये तु श्रवणे विधि नेच्छन्ति तेषामिदं सूत्र निर्मूलमनारभ्यं स्यात् विध्यभावे अधिकार्यादिनिरूपणायो- गात् इति संक्षेपः । अनेन सूत्रेण श्रवणविधे. स्वार्थे विचारक- तव्ये समन्वये सिद्ध सति जन्मादिसूत्रमारभ्य विचारः प्रवर्तते इत्युपोद्धातत्वाच्छास्त्रे प्रथमाध्यायादावस्य सूत्रस्य सङ्गति । एवं सङ्गतसूत्रार्थस्पर्शित्वादिद भाष्य व्याख्येयम् । अत्र सूत्रे कण्ठोक्तस्य ब्रह्मज्ञानस्य स्वरूपेणाफलत्वादधिकारिणो मुमुक्षो- विशेषणीभूतो मोक्षो बन्धनिवृत्तिरूपो ऽर्थाज्ज्ञानफलत्वेन सूत्रि- तः । बन्धश्च प्रमातृत्वभोक्तृत्वरूपः तस्य सत्यत्वे ज्ञानानिवृत्ययोगा- तू अध्यासोऽर्थात्सूत्रितः। तथा चाध्यासेन विषयप्रयोजने साध्येते ताभ्यां विचारस्य कर्तव्यता साध्यति क्रमः । साध्यसाधनभावश्च पूर्व दर्शित । एवमर्थात्सूत्रितो भाष्ये वर्णित इत्युक्तम् । अत्र शङ्कते। ज्ञानफलत्वेन बन्धनिवृत्तरात्सूत्रितत्वेऽपि बन्धस्याध्यासो न सूत्रितः। सत्यस्यापि निवृत्तिसम्भवादिति। अत्रोच्यते । किं दर्शनबलात्सत्यस्य ज्ञानानिवृतिरुच्यते, श्रुतिबलाद्वा? आद्यपि ज्ञान किं खविषयगतं नि- वर्तयत्याश्रयगतमुतोभयगतम्? आद्यपिज्ञान किं निवर्त्य प्रपञ्चविशिष्ट- ब्रह्मगोचर वा निवागोचरं वा? नाद्यःचित्रावयविनि पटे नीलवि- शिष्टद्रव्यज्ञानस्य नीलनिवर्तकत्वादर्शनात् । न द्वितीयः । नीलो ऽय- मिति ज्ञानेन खागोचरस्य स्वविषयगस्य रसपीतरूपादेरनिवृत्तः।न च सिद्धान्ते ऽपि पटज्ञानात्तद्गतनिवृत्तिः स्यात् ब्रह्मज्ञानादिव प्रपञ्च- निवृत्तिरिति वाच्यम् । ब्रह्मज्ञानस्य प्रपञ्चोपादानाज्ञाननिवर्तकत्वेन प्र- पञ्चनिवर्तकत्वात् । न हि पटाज्ञानविलसितास्तद्गता धर्मा ये न पट- < विवरणोपन्यासे ज्ञाननिवृत्तेरन् । न च चित्रम्य रूपान्तरत्वान्नीलादिकं पटे नास्तीति वाच्यम् । कारणे चित्रस्यासत्वेन कार्ये ऽनुपपत्तेः शुक्लादिरूपाणां स्वसमानजातीयारम्भकत्वादनुभवाच्च । नानारूपसङ्घस्यैव चित्ररू- पत्वात् अनुभवबलात्सयोगादेरिव नानारूपवद्रव्यारब्धद्रव्यरू- पस्याप्यवृत्तित्वोपपत्तेः । न द्वितीयः। घटज्ञानस्य स्वाश्रयात्मगतध- मादिनिवर्तकत्वादर्शनात् । अतो न ब्रह्मज्ञानाजीवगतसत्यबन्धनि- वृत्तिः । न तृतीयः। मम शरीरमिति ज्ञानादेहात्मसन्बन्धानिवृत्तः । अतो न ब्रह्मज्ञानाजीवब्रह्मोभयगतस्य निवृत्तिः । ननु विद्वान्नाम रूपाद्विमुक्त इति श्रुतिबलात् सत्यस्य ज्ञानान्निवृतिरिति चेन्न । श्रुतौ निवत्यै सत्यशब्दाभावात् । उक्तरीत्या लोके सत्यस्य ज्ञानानिवृतेर- दर्शनेन श्रुतायाः बन्धस्य ज्ञानानिवृतेरुपपत्त्यर्थ मिथ्यात्वस्य कल्प- नात् । क्षणिकयागस्य श्रुतस्वर्गसाधनत्वोपपत्त्यर्थमपूर्वकल्पनवत् । न च तार्यस्मरणाद्विषं सेतुदर्शनात्पाप सत्यं निवर्तते इति वाच्यम् । श्रद्धानियमादिसापेक्षज्ञानस्य तत्र निवर्तकत्वात् । बन्धस्य तु नान्यः पन्था इति श्रुत्या केवलज्ञाननिवर्त्यत्त्वात् अध्यासो ऽकामेनापि र- ज्जुसादोरिव वक्तव्य । कालादेरापि निवान्तःपातित्वेन ज्ञानासह- कारित्वात् । अतो ब्रह्मज्ञानं बन्धनिवर्तकं सूत्रयता बन्धस्याध्य- स्तत्वं सूत्रितमेव । नन्वेवमपि सूत्रस्य मुख्यार्थ विहायार्थिको ऽध्या- स एव किमिति भाष्यकारैर्वर्णित इति चेत् । उच्यते । प्रतिपाद्यमर्थ बुद्धौ सह्यादौ तद्धेतुवर्णनमुपोद्घातः, प्रतिपाद्यमादौ प्रतिज्ञाय प- श्चात्तद्धेतुवर्णनं प्रतिपादनमिति विभागो ऽस्ति । एवं च सूत्रस्य श्री- तोर्थो विचारकर्तव्यतातत्साधकविषयप्रयोजनसिद्धिहेतुत्वादध्यास उपोद्घातत्वेनादौ वर्णित इति । ननु भवतु प्रयोजनसिद्धिहेतुर- ध्यासः । बन्धो ज्ञाननिवर्त्यः अध्यस्तत्त्वाद्रज्जुसर्पवदित्यनुमितिहे- तुत्वात् । विषयस्तु प्रत्यगभिन्नमनादि स्वप्रकाशं ब्रह्म । कथं तत्सि- द्धौ हेतुरध्यास इति चेत् । तत्वमस्यादिवाक्येनापेक्षितयोग्यताज्ञान- हेतुत्वादिति ब्रूमः । जीवगतो बन्धो ऽध्यस्त इति यावन्न वर्ण्यते ता- वद्वेदान्तैः स्वार्थों जीवब्रह्माभेदो बोधयितुमशक्यः विरुद्धः किञ्चि- इशत्वादिधमॆभेदाभावरूपायोग्यतानिश्चयात् । वह्निना सिञ्चेदिति- वजरद्वादिवाक्यवञ्च । अध्यासाने तु बिम्बप्रतिबिम्बयोरिव वि- रोधाभावात्सूत्रभाष्यकाराश्यां ब्रह्मात्मैक्ये तात्पर्य वर्णयितुं शक्यं तदनुसारेण वाक्यस्य स्वार्थबोधकत्वमबाधितं भवति । तहत्य- ९ १ सू. १ वर्णकम् । न्तापेक्षितो ऽध्यासः सूत्रकारेण मुखतः किमिति नोक्त इति चेदु- च्यते । सूत्रकारेण प्रतिपादने प्रवृत्तेनादौ विचारकर्तव्यतां प्रतिज्ञाय ब्रह्मात्मनि वेदान्तानां समन्वयं विचार्य जीवात्मनो ऽणुत्वकर्तृत्वादि- ना विरोधमाशङ्कय तद्गुणसारत्वात्तद्यपदेश इति मुखत एवाध्यास उक्तसमन्वये विरोधनिरासार्थमुक्तः । बुद्धिगतधर्माध्यासाजीवो ऽणुरित्यादिव्यवहारो न वस्तुत इति सूत्रार्थः। भाष्यकारस्तु उपो- दाते प्रवृत्तःप्रवृत्त्यङ्गविषयादिसिद्ध्यर्थम् आदावध्यासं वर्णयतीति अनवद्यम् । एतावता ग्रन्थसन्दर्भेण सिद्धमर्थ सङ्ग्रहाति ॥ " सूत्रार्थस्पर्शिता भाष्ये पश्चात्सूत्रस्य सङ्गतिः। श्रवणे विधिरुद्दिष्टः सत्यस्य ज्ञानतोऽक्षति"रिति ॥ ननु तथापीद भाष्यं न व्याख्येयम् आदौ मङ्गलाकरणात् । मङ्गलं हि अलौकिकानिषिद्धशिष्टाचारत्वात् श्रुतिविहितं निर्विघ्नसमाप्ति- फलकञ्च । न च विघ्नाभावान्मङ्गलाकरणं न दोष इति वाच्यम् । त- स्मादेषां तन्न प्रियमिति श्रुत्या, "श्रेयांसि बहुविघ्नानीति" स्मृत्या, लो- कप्रसिद्ध्या च सार्थकभाष्ये विघ्नसत्तानिश्चयात् । यस्मात्तत्त्वज्ञो दे- वान्न सेवते तस्माद्देवानां तत्त्वज्ञानं न प्रियमित्यर्थः । तस्माद्देवकृतवि- नेन कर्तुन्त्यिादिसम्भवात्तत्कृतं भाष्यं न व्याख्येयमित्युच्यते । “स- र्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् । येषां हृदिस्थो भगवान्मङ्ग- लायतनं हरि"रित स्मृतेः। परदेवतातत्त्वानुस्मरण मङ्गलम् । तच्च शिष्टाचारपरिपालनेऽग्रण्याभाष्यकृता कृतम् । अर्थज्ञानं विना वाक्य- रचनानुपपत्ते । भाष्यस्य तत्त्वार्थकत्वात् । तस्मान्निर्दोषमिदं भा- ध्यं व्याख्येयमिति सिद्धम् । अत्र प्रथमसूत्र श्रवणविधिर्विचार्यते इ- त्युक्तम्।श्रवणं नामाद्वैते ब्रह्माणि वेदान्तानां तात्पर्यनिर्णयार्थो विचार- स्तद्विचारात्मक शास्त्रं कर्तव्यं न वेति सन्देहे पूर्वपक्षः। अधिष्ठानसा- मान्यांशस्यारोप्येण तादात्म्यप्रमाजन्यसंस्कारो ऽध्यासहेतुः। इदं र- जतमिति प्रमानन्तर शुक्ताविद रजतमित्यध्यासात तथा च विज्ञानघने प्रत्यगात्मनि अन्तःकरणाद्यनात्माध्यासो न सम्भवति हेत्वभावात् । त- था हि आत्मानात्मानौ तादात्म्यशून्यौ विरुद्धत्वात् तम.प्रकाशवत् । द्विविधो विरोधः । सहावस्थानायोग्यता तादात्म्यायोग्यता चेति । तत्राद्यो गोत्वाश्वत्वयोरस्ति मिथो ऽत्यन्ताभावव्याप्तत्वात् । न तमःप्र- काशयोस्तयोर्मन्दप्रदीपे वेश्मनि सह स्थितेः । अतस्तादात्म्यायोग्य. त्वमत्र हेतु.।ननुतम प्रकाशयोर्भावाभावत्वं तादात्म्यशून्यत्वप्रयोजकम्। २ १० विवरणोपन्यासे तथा चोक्तानुमाने हेतुरप्रयोजक इति चेन्न । हेतोर्हेत्वन्तरादूषकत्वात् घटपटयोस्तादात्म्याभावे तदयोग्यत्वस्यैव हेतुत्वात् । तमसो द्रव्य- त्वेन भावत्वाञ्च। तार्किकास्त्वालोकाभावस्तम इत्याहुस्तन्न । तमाशब्द- वाच्यो नाभावः स्वमात्रवृत्तिधर्मप्रकारकप्रतियोगिज्ञानाजन्यप्रत्यक्ष- विषयत्वाद्धटवत् । सन्निति प्रत्यक्षस्य घटाभाव इति प्रत्यक्षस्येश्व- रप्रत्यक्षस्याभावत्वप्रकारकस्मृतेश्च । विषये घटाभावे व्यभिचारनि- रासार्थानि क्रमेण विशेषणानि । किश्चेषत्तमो गाढन्तम इत्यवस्थाव- त्वाञ्चलत्वाद्रूपवत्त्वाच्च भाव एव तमः अपाकजनीलरूपस्याश्रयान्तरा- भावात्तमो द्रव्यमाश्रय इति युक्तम् । विना बाधं नीलं तम इति प्रतीते- ओन्तित्वकल्पनायामतिप्रसङ्गापातात् । नन्वालोकसंयोगो रूपिद्व्यप्र- त्यक्षकारणं तदभावान्नीलं तम इति भ्रान्तिरिति चन्न । गाढे तमस्य- निध्यणुकप्रत्यक्षदर्शनात् । यद्विषयचाक्षुषज्ञाने तमःप्रतिबन्धकं तत्रैव प्रतिबन्धकनिवृत्त्यर्थमालोकसम्बन्धापेक्षणात् । न च तमसो रूपित्वे, स्पर्शवत्त्वापत्तिः । वायोरपि स्पर्शवत्त्वे रूपित्वापत्तेः । अतो वायौ त- मसि च व्यभिचाराद्रूपस्पर्शयोर्न मिथो व्याप्तिः । किन्तु भूम्यप्ते- जस्सु साहचर्यमांत्रमिति मन्तव्यम् । महाविद्युदादिवन्माया झटिति तमो जनयति । एवमुत्पत्तिज्ञप्तिहेतुसत्त्वात्तमो द्रव्यमिति सिद्धम् । किञ्च एकैकालोकाभावस्य तमस्त्वे सर्वत्र तमोबुद्ध्यापत्तिः । यावदा- लोकाभावकूटस्य तमस्त्वे मन्दप्रदीपे गृहे तमोबुद्धिर्न स्यात् । अ- तिस्थूलप्रदीपे तमो नास्तीति बुद्धिर्न स्यात् एकस्य प्रदीपस्य तमः- शब्दिताभावकूटाभावत्वायोगात् । यावदालोकानामेवाभावकूटाभा- वत्वात् । आलोकसामान्याभावस्य तमस्त्वे तम उत्पन्नं, नष्टमिति बु- द्धिर्न स्थात् । यत्तु निमीलितनयनस्यापि तमोदर्शनाद्रूपदर्शनाभाव एव तम इति प्रभाकरोक्तं, तन्न।पिहितकर्णपुटस्यान्तरशब्दोपलब्धि- चदान्तरतमोद्रव्योपलम्भसम्भवात् । न चैवं सत्यञ्जनद्रव्योपलब्धिः स्यादिति वाच्यम्। फलबलेनायोग्यताकल्पनात्। तमोन्तःस्थस्य बहि- रालोकरूपदर्शनेन सह तमोदर्शनाञ्च न रूपदर्शनाभावस्तम इत्य- लमतिप्रसङ्गेन । एवञ्च तादात्म्यायोग्यत्वादात्मानात्मनोस्तादात्म्य नास्ति तम प्रकाशवदित्यनुरूपो दृष्टान्तः । अत्राह सिद्धान्ती । आ- त्मनि अहङ्कारादेस्तादात्म्याभावे कथमध्यासानुपपत्तिरित्युच्यते? अधिष्ठानसामान्यांशस्यारोप्यविशेषेण तादात्म्यं क्वचित्सत्यं वाच्यम्। अन्यथा तत्प्रमाजन्यसंस्कारालाभादहं कर्तेत्यध्यासे तु चिदात्मैव १ सू. १ वर्णकम् । ११ सामान्य, भ्रमे भासमानाधिष्ठानांशस्यैव सामान्यत्वात् । न च त- स्याहङ्कारेण सत्यं तादात्म्यं सम्भवति द्रष्टदृश्ययोः स्वाभाविकैक्या- योगात् । न च निरवयवस्य चिदात्मनो ऽसङ्गस्य स्वतो वा हेतूपरा- गाद्वा सावयवहश्याहङ्कारात्मना परिणामः सम्भवति येन तादा- त्म्यं सत्यं स्यात् । ननु चिति अचिदध्यासे चिदचितोस्तादात्म्यं क- चित्सत्यम् वाच्यम् । न तु चिदधिकरणकाचित्तादात्म्यं गौरवात् । तश्चात्र सुसम्पादम् । महमुपलभे इत्यहङ्कारे चैतन्यतादात्म्यानुभवा- दिति चेन्न । अहङ्कारस्य स्वत एव चिदभेदे साक्षिवेद्यत्वव्याघातात् । समयोर्दीपयोमिथो ग्राह्यत्वादर्शनात् । न चाहङ्कारस्य हेतूपरागात चित्परिणाम इति वाच्यम् । जडपरिणामस्य चित्त्वायोगात् । ननु दर्पण इव मुखस्य सन्निधानमात्राजडे चितः संसर्गभानमस्त्विति चेत् ? न । बिम्बप्रतिबिम्बभावस्यातात्त्विकत्वेनाध्याससिद्ध्यधीनत्वादतःक- चिदपि चिदचितोस्तादात्म्यासत्वेन तत्प्रमाजन्यसंस्कारस्य हेतोर- भावाध्यासो न सम्भवति । निरवयवनिर्गुणात्मनि गुणावयवसा- हश्याभावाञ्च । यद्यपि कर्तृत्वादिधर्माध्यासो हङ्काराद्युपाधिको न सादृश्यमपेक्षते तथा ऽप्यहङ्कारादिधर्म्यध्यासो निरुपाधिकः साहश्य- मपेक्षते । तस्मादध्यासाभावे विषयप्रयोजनयोरभावाच्छास्त्रं नारम्भ- पीयमिति प्राप्ते सिद्धान्तः। आत्मानात्मनोरहमिति प्रतीतियोग्यत्वं सादृश्यम्। वस्तुतो निरुपाधिकाध्यासेऽपि न साहश्यं कारणम् ।नीलं नभइत्यध्यासात्। न हि रूपनभसोःसाहश्यमस्ति। संस्कारो ऽप्यनुभ- वजन्यः कारणं न प्रमाजन्यो गौरवात् । तथा च रागद्वेषादिदोषकर्तृ- स्वभोक्तृत्वाध्यासानां बीजाङ्कुरवदनादित्वात्पूर्वपूर्वभ्रमजन्यसंस्कारा- दुत्तरोत्तराध्यासः सम्भवति । एतदभिप्रेत्योक्तं भगवता भाष्यकृता। "अन्योन्यात्मकतामध्यस्य सत्यानृते मिथुनीकृत्य नैसर्गिकोऽयं लोक- व्यवहार” इति । सोऽह ममेदमित्यध्यासःप्रवाहतोऽनादिरित्यर्थः।प्र- वाहानादित्वं हेतुहेतुमद्भावनोत दर्शयितुम् अध्यस्य मिथुनीकृत्येति क्त्वा- प्रयोग कृतः। सत्यानृते इति शुक्लो घट इति प्रमानिरासार्थ मिथुनीक- रणमध्यास एव । ननु स्वप्रकाशात्मनि अज्ञानासम्भवात्कथमध्यास इत्याशङ्कयोक्तं मिथ्याज्ञाननिमित्त इति संस्फुरदात्मतत्त्वमाहत्यानाद्य- निर्वचनीयमज्ञानमध्यासं जनयति । तस्योपादानत्वेऽपि दोषतया ऽह- वाराध्यासकर्तीश्वरोपाधितयावा निमित्तत्व मन्तव्यम् । ननु कथमज्ञा- नमध्यासोपादानमिति चेदन्वयव्यतिरेकाभ्यामिति ब्रूमः। ननु शुक्ति- १२ विवरणोपन्यासे तत्त्वज्ञानं रजताध्यासप्रतिबन्धक, ततश्च शुक्तिशाने ऽसत्यध्यासो ऽन्यथा नेत्यन्वयव्यतिरेको प्रतिबन्धकाभावविषयाविति चेदुच्यते । सत्यां सामग्यां कार्यानुत्पादप्रयोजक प्रतिबन्धकम् । तथैववृद्धव्यव- हारान्न हि दोषघटिताध्याससामग्रयां सत्यां तत्त्वज्ञानमस्ति अतो न प्रतिबन्धकम् । न च प्रातीतिकरजतस्योपादानापेक्षा नास्तीति वाच्यम्। प्रातीतिकं सर्व कार्य सोपादानं भावकार्यत्वात् घटवदित्यनुमा- नात्। न चघटेन सहोत्पन्नक्रियागुणयोर्व्यभिचार इति वाच्यम् । सहो- त्पत्त्यसिद्धे । सहोत्पत्त्यङ्गीकारे तु तयोर्घटोपादानमृदुपादानकत्वात् । द्रव्यस्य स्वासमवायिकारणसामानाधिकरण्यनियमेऽपि रूपादीनां त- दभाववत्स्वोपादानवृत्तित्वनियमस्याप्यभावात् । नन्वध्यासस्याज्ञा- नादन्यदुपादानमस्त्विति चेन्न तावदात्मा रजततज्ज्ञानात्मकाध्या- सस्योपादानम् अपरिणामित्वात् । इदमशसंयुक्तचक्षुषेदमाकारज्ञान- परिणाम्यन्तःकरणमपि न प्रातीतिकरजतोपादानं प्रतीतेः प्रागसति रजते इन्द्रियसंयोगासम्भवेन बहिरस्वतन्त्रस्य मनसःप्रतीत्युपादान- त्वायोगात् । न हि प्रतीति विना प्रातीतिकोऽर्थः स्थातुमर्हति । न च साक्ष्येव प्रतीतिरिति वाच्यम् । तथाप्यन्तःकरणाध्यासे ऽन्यस्यो- पादानत्वासम्भवेनाज्ञानस्यैव सर्वत्रोपादानत्वौचित्यात् । नापि प्र- मातृकरणविषयदोषा रागकाचसादृश्यादयो ऽध्यासोपादानं कार्या- नाश्रयत्वात्, कार्यतादात्म्यवतः कारणस्योपादानत्वात, तेषा- मननुगतत्वाञ्च । नापि सत्य इदमंश उपादानं कार्यस्यापि स- त्यत्वापातात् परिणामस्य परिणामिसमानसत्ताकत्वादतः रिशेषाधिष्ठानचैतन्यस्थाज्ञानमेवार्थशानात्मकाध्यासोपादानमित्यह- ड्वाराध्यासो ऽज्ञानोपादानकः अध्यासत्वात् रजताध्यासवदित्यनव- धम् । साक्ष्यभिन्नविषयचैतन्ये ऽध्यासो ऽस्तीति भ्रान्तित्वं साक्ष्यात्म- नो युज्यते । नन्वज्ञान ज्ञानाभावः तस्य कथमध्यासोपादानत्वं,न चा- ज्ञानं भावरूपमस्ति मानाभावादिति चेत् । उच्यते, अहमज्ञो माम- न्यश्च न जानामीति प्रत्यक्षमहं दुःखीति प्रत्यक्षवत्सर्वसंमतं तस्य ज्ञानसामान्यविरोधिवस्तुविषयः स च नाभावः षष्ठप्रमाणवादिना- मभावस्याप्रत्यक्षवादिनोऽपि नात्मनि ज्ञानसामान्याभावः सम्भवति। ज्ञानसमवायिन्यात्मनि यावज्ज्ञानविशेषात्यन्ताभावकूटासत्त्वेन तत्स- मनियतस्य सामान्याभावस्यायोगात् । न चाहमज्ञ इति सामान्यवि. रोध्यनुभवो न भवति किन्तु ज्ञानविशेषाभावानुभव इति वाच्यम् । प- १ सू. १ वर्णकम् । १३ अरूपो वायुरित्यनुभवतुल्यत्वात् । न चात्मनि ज्ञानसामान्याभावा- नुभवोऽपि सम्भवति धर्मिप्रतियोगिज्ञानसत्त्वासत्त्वाभ्यां तद्योगात्। तस्मात्सकलानित्यज्ञानानुगतं यन्नित्यं चैतन्यं तदेव ज्ञानसामान्य तद्विरोध्यज्ञानसामान्य प्रत्यक्षविषयः॥ एवं त्वदुक्तमर्थ विशिष्य न जानामीति विशेषाज्ञानमपि भावरूपमेव विशेषज्ञानस्य सत्त्वेन तदभावायोगात् ।न चात्र परोक्षज्ञानसत्त्वे ऽपि अपरोक्षज्ञानप्रागभावोऽस्तीति वाच्यम् धर्म न जानामीति नित्यपरो- क्षार्थे ऽप्यज्ञानानुभवात् । यस्मिन्वस्तुनि कदापि ज्ञानं न भविष्यति तत्राज्ञानं कथं प्रागभावः स्यात् ?नच तत्रात्यन्ताभावो विषय इति वा- च्यम् । अनुगतभावरूपाज्ञाने सम्भवत्यननुगतविषयकल्पनानुपपत्तेः । न चानादिचैतन्येन विरोधात्तवाप्यज्ञानानुभवो न स्यादिति वाच्यम् । आवरणेन प्रतिबन्धात्स्वतो विरुद्धस्यापि चैतन्यस्याज्ञानानुभव- त्वोपपत्तेः । नन्वज्ञानस्य विशेषणं विषयः कथं साक्षिचैतन्येनाव- भास्यते मानं विना मेयभानायोगात् इति चेत् उच्यते । सर्व वस्तु ज्ञाततया ऽज्ञाततया वा साक्षिचैतन्यस्य विषय एव । तत्र ज्ञातत्वं म- नोवृत्त्यवच्छिन्नचैतन्यतादात्म्यम् तच्च सुखादावस्ति सुखादीनां मनो- वृत्तित्वाच्छुक्तिरूप्यादावप्यस्ति इमाकारवृत्तिसत्त्वात् । घटादौ मा- नाधीना वृत्तिरिति क्वचिज्ज्ञातत्ववृत्तिप्रकारेण विषयभाने प्रमाणापे- क्षा न त्वज्ञानत्वेन तज्ज्ञाने मानापेक्षा ऽज्ञातताविरोधात् । परोक्षार्थे ज्ञातत्त्वानुभवस्तु वृत्तिविषयगोचर इत्यनुसन्धेयम् । तत्र सतोऽप्यज्ञा- तत्वस्य वृत्तिप्रतिवन्धादननुभवः, नतु परोक्षवृत्या तस्य निवृत्तिरवि- रोधातू । अन्यथा शब्दावगतधर्मादौ संशयादिर्न स्यात् । दृश्यते हि निश्चितमहत्त्वे ऽपि चन्द्रे प्रादेशिकत्वभ्रमस्तस्मात्सविषयमज्ञानं साक्षिप्रत्यक्षसिद्धम् । ननु चिनिष्ठाज्ञानस्याहमज्ञ इति अहङ्कारस्थत्व- भानं कथमिति चेतू अहङ्काराज्ञानयोरेकत्राध्यासादिति ब्रूमः । यथा लौहित्यमुखयोः स्फटिकभित्तिप्रतिबिम्बितयो. सतोर्लोहितं मुखमि- ति भ्रमः तद्वदहमज्ञ इति भ्रम इति ॥ अधुना भावरूपाज्ञाने ऽनुमानमुच्यते । विवादास्पदं प्रमाणशा- नं खप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्य स्वदेशगतवस्त्व- न्तरपूर्वक अप्रकाशितार्थप्रकाशित्वात् अन्धकारे प्रथमोत्पन्नप्रदीपप्र- भावदिति । पक्षीकृतज्ञानस्य यः प्रागभावो यो विषयो यस्तत्रान्ध- कारो यच विषयस्थमज्ञातत्वं यश्च भ्रमस्तेषां निरासार्थ क्रमेण वि- १४ विवरणोपन्यासे शेषणानि । अत्र वदन्ति । यथार्थज्ञानमात्रस्य पक्षत्वे सुखादिशाने परोक्षवृत्तौ च बाधः । तयोरज्ञानानिवर्तकत्वेन साध्याभावादपरो- क्षवृत्तः पक्षत्वे धाराद्वितीयादिज्ञाने बाधः, प्राथमिकानात्मापरोक्ष- वृत्तेः पक्षत्त्वे ऽपि बाध एव । अनात्मावरकाज्ञानासत्त्वादात्मज्ञानस्य पक्षत्वे चानात्मज्ञाने व्यभिचारः। साध्ये चाद्यपदं व्यर्थ स्वनिवर्त्य- पदेनैव प्रागभावनिरासात् । ज्ञानस्य तन्निवृत्तित्वात् । द्वितीयपद- मप्यसङ्गतम् । अनात्मनि आवरणाभावात् वृत्तेश्चिदुपरागाद्यर्थकत्वे. नाज्ञानानिवर्त्तकत्वात् । स्वनिवर्त्य पदमप्यसङ्गतम्। अज्ञानस्य चिनि- ष्ठत्वावृत्तेर्मन स्थत्वात्स्वदेशगतपदमप्यसङ्गतम् । हेतुरपि यद्यप्रकाशि- तज्ञानत्वं तदा प्रभायामसिद्धिर्यदि तज्ज्ञानहेतुत्वं तदा पक्षे हेत्व- सिद्धिर्यदि तद्यवहारहेतुत्वं तदा कालादी व्यभिचारः। अर्थस्य घ- टादेरप्रकाशितत्वं यद्यज्ञानावृतत्वं, तदा हेतोः साध्यसमत्वम् असि- द्धिश्च । यदि वृत्त्यविषयत्वं तदा वृत्तिसाक्षिणि व्यभिचार इति । अ- त्राहुः। जन्यसविकल्पकाजन्यघटचाक्षुषप्रमाणज्ञानं पक्षः धारायां द्वितीयादिज्ञाननिरासार्थ सविकल्पकाजन्येति पदं पक्षस्य लाभार्थ जन्यत्वं सविकल्पकस्योक्तम् । पक्षस्य परमते निर्विकल्पकजन्यत्वात् सविकल्पकपदे ईश्वरज्ञाननिरासार्थ चाक्षुषपदम् । सुगममन्यत् । खसमानाधिकरणप्रागभावान्यस्वजननायोग्यस्वजन्यध्वंसप्रतियोगि- स्वदेशगतपूर्वकत्वं साध्यम् । कदाचिद्धटज्ञानस्य घटपटसंयोगहेतु- त्वमस्ति घटं दृष्ट्वा पटेनाच्छादनात्। तथा चेच्छाप्रागभावस्वजनकाह- ष्टात्मत्वानां त्रयाणां घटपटसंयोगप्रागभावस्य च व्यावर्तकानि क्र- मेण विशेषणानि । न च लाघवादभावादन्यत्त्वमेवास्तु स्वप्राक्पदं व्यर्थमिति वाच्यम् । अभावान्यत्वापेक्षया विशिष्टाभावान्यत्वस्य भे- दात् विशिष्टाभावत्वविशेषणं न व्यर्थ तद्विना स्वेष्टस्य विशिष्टा- भावस्यालाभात् । पराभिमतप्रागभावान्यत्वमष्टमिति तत्प्रकारका- नुमित्यर्थ विशेषणं युक्तमेव घटावच्छिन्नचैतन्यस्थं तद्विषयकं तूला- ज्ञानं घटावच्छिन्नचैतन्यविषयया बुद्धिधिया वृत्त्या चक्षुषा निर्गत्य विषयचैतन्यस्थया स्वदेशगतं निवर्त्यत इति न कश्चिद्दोषः । यद्वा अन्धकारनिवृत्त्युत्तरक्षणवृत्तिचाक्षुषप्रमा पक्षः। स्वप्रागभावान्यस्व- विषयसंशयादिजननयोग्यस्खसत्ताक्षणनियतध्वंसप्रतियोगिस्वदेश- गतपूर्वकत्वं साध्यम् । परमते प्रागभावस्यैवाज्ञानत्वेन संशयादिजन- कत्वात् प्रतियोग्यनिवर्त्यत्वे ऽप्यभेदे व्याप्त्यङ्गीकारेण प्रतियोगिनो १ सू. १ वर्णकम् । १५ ज्ञानस्य सत्ताक्षणे नियतो यो ध्वंसो ज्ञानात्मकस्तत्प्रतियोगित्वा- त्तस्य निरासायादिपदं स्वप्राक्पदं पूर्ववदिष्टसिद्ध्यर्थ यथा ब्रह्म स्व- समानसत्ताकजीवभेदवत् अभ्रान्तत्वात् घटवदिति त्वदनुमाने स्वेष्टसत्यभेदसिद्ध्यर्थ स्वसमानसत्ताकेति पदं तद्वत् । प्रमाहेत्वह- ष्टनिरासार्थ द्वितीयपदम् । तस्याः सुखाद्यनुभवफलनाश्यत्वान्न तृती- यपदेन निरास । आत्ममनःसंयोगनिरासार्थ तृतीयम् । अन्धकारनिरा- सार्थ चतुर्थपदम् । एतद्विषयावरणसमयावृत्तित्वे सति एतदावरण- निवर्तकत्वं हतुः कालादिनिरासार्थ सत्यन्तम् । उत्तरकालीनघटादिनि- रासार्थद्वितीयपदम् । संशयादिजननयोग्यमावरणशब्दार्थः। तच्च ज्ञा- ने सति नास्तीति सर्वानुभवसिद्धमिति नासिद्धिः । एव प्रत्यक्षानु- मानाभ्यां भावरूपाज्ञानं सिद्धम् । एवं विशुद्धब्रह्मात्मनि शुक्तिकायां चाहकाररजतादिमिथ्यार्थावभासान्यथानुपपत्तिरपि तत्र प्रमाणम् । पूर्वोक्तरीत्योपादानान्तराभावात् ।तस्य च हेत्वदर्शनादनादित्वम् । एवं च यञ्चानादि खयं मिथ्यामिथ्योपादानं तदज्ञानमिति स्थितम् । एवं सिद्धमर्थमाह ॥ "अन्धकारस्य भावत्वं तथा ऽध्याससमर्थनम् । नैसर्गिकत्वसिद्ध्यर्थं तथा ऽविद्यासमर्थन"मिति ॥ कृतमिति शेषः। अनाद्यविद्यात्मनाऽध्यासस्य नैसर्गिकत्वसिद्धि- रिति भावः। तस्याज्ञानस्यात्मैव विषयः तत्प्रयुक्तावरणरूपातिशयशा- लित्वात् । अनात्मन्यावरणे प्रमाणफलयोरभावात् । ननु अज्ञातो घट इत्यनुभवो मानमिति चेन्न तावदयमनुभवः प्रत्यक्षः, घटस्य ज्ञाने स- त्यज्ञानासत्त्वात् । असति सम्बन्धिनि ज्ञानाभावात् । नाप्यनुमितिः लि- ङ्गाभावात् । ननु घटः पूर्वमज्ञातः इदानीं ज्ञातत्वात् संमतर्वादति चेन्न । धाराद्वितीयादिज्ञानगम्ये दु खादौ च व्यभिचारात् । न चेदानीमेव ज्ञातत्वं हेतुः, एवकारार्थस्यैवात्र साध्यतया विशेषणासिद्धेः । न चास्मर्यमाणत्वं हेतु. । झाते ऽप्यस्मृतिसम्भवात् । तस्मादज्ञाना- तचैतन्यतादात्म्येन घटादीनामध्यस्तत्वादज्ञातो घट इत्यनुभवः । साक्षिरूपचैतन्यावरणादेव जडानामपि अव्यवहारोपपत्तौ पृथगाव- रणे फलाभावात् अनात्मनि शुक्त्यादावावरणाभावेऽपि विक्षेपदर्शना- दज्ञानविषयत्वव्यपदेशः । ननु न जानामीत्यनुभवस्य सर्ववस्तुष्वे- काज्ञानावरणविषयत्वे लाघवादज्ञानमावरणं चैकं तस्यैव जडव्य- वहारप्रतिबन्धकत्वे कथं तन्निवृत्ति विना घटादिव्यवहार इति चेतू 0 १६ विवरणोपन्यासे उच्यते । अस्मिन्पक्षे तत्तदाकारवृत्तिज्ञानमुत्तेजकं तेन व्यवहारः । यद्वा घटादिरपि प्रातिभासिक इत्यावृतचैतन्येनैव तव्द्यवहारः । शु- क्तिरूण्यव्यवहारवदिति रहस्यं पक्षद्वये ऽप्यात्मन्यावरणे सत्यपि ज- डव्यवहारो युज्यते। शुक्तिसाक्षात्कारस्तु न रूप्योपादानाज्ञानवि- नाशक मुक्तिप्रसङ्गात् । किन्तु दण्ड इव घटस्य रूप्यस्योपादाने प्रवि- लयहेतुः । ननु तर्हि सविलासाज्ञाननिवृत्तलॊके क्वाप्यदर्शनात्तत्त्वज्ञा- नस्य सा कथं दृष्टफलमित्युच्यते इति चेत् । उच्यते । लोके शुक्ति- तत्त्वज्ञानात्तद्विरोधिनो ऽध्यासस्य निवृत्तदर्शनादज्ञानस्यापि ज्ञान- विरोधित्वाद्विरोधिनिवृत्तिईष्टफलमित्युच्यते । अथवा मूलाज्ञानमेव लाघवादेकं तस्य धर्मरूपाणि विषयावच्छिन्नचैतन्ये साक्षिणि च व्यासज्यवृत्तीनि अवस्थापद्वाच्यान्यनन्तानि कल्प्यन्ते । ज्ञानेनाशा- नं निवृत्तमित्यबाधितानुभवात् । तानि च मूलाज्ञानवत्स्वाश्रयचैत- न्यमेवावृण्वन्ति नानात्मानमिति सिद्धम् । तत्सङ्ग्रहाति ॥ "जडावृतिनिरासश्चाप्यज्ञानावरणैकता । अथ वा मूलमायैका ऽवस्थाज्ञानं तु भिद्यते” इति । नन्वात्मावरणं नाम कीदृशं, किं तत्र प्रमाणं, किं फलमिति चे- दुच्यते । ब्रह्म तावत्स्वप्रकाशं प्रत्यगभिन्नं सर्वश्रुतिसिद्धं, तथापि लो- को नास्ति ब्रह्म न प्रकाशते इति व्यवहरति । तथा चास्ति प्रकाशते इति व्यवहारे सामग्यां सत्यां नास्तीत्यादिविपरीतव्यवहाररूपफ- लान्यथानुपपत्तिरेव विपरीतव्यवहारयोग्यत्वरूपमावरणं कल्पय- ति । तथाऽप्यनुभवो ऽप्यस्ति मूढोऽहं न किंचिज्जाने इति । अतः स्व- प्रकाशेपि आत्मनि विचित्रशक्तिभावरूपाविद्याप्रयुक्तमावरण दुर- पह्नवम् । नन्वज्ञानप्रयुक्तमावरणमस्तु अज्ञानं तु अग्रहणमिथ्याज्ञा- नतत्संस्कारकर्मभ्यो ऽन्यन्न पश्याम इति चेन्न । सुषुप्तावात्मानवभा- सानुपपत्तेः । न हि स्वयम्प्रकाशस्यात्मनो जडाया मनोवृत्तेर्ग्रहणश- ब्दिताया अभावेनानवभासो युक्तः खद्योताभावेनेव सवितुः । न सु- पुप्तौ भ्रान्तिरस्ति नापि संस्कारः आवरकः भ्रान्तिसंस्कारे सत्यपि शुक्तितत्त्वावभासदर्शनात् । नापि कर्मावरकं मानाभावातू पूर्णान- न्दत्ववच्चैतन्यस्याप्यस्फूर्तिप्रसङ्गाच्च । अज्ञानस्य तु भावरूपस्य प्र- त्यक्षत्वात्स्वसाधकं चैतन्यांशं विहाय खाश्रयविशेषांशावरकत्वं युक्ततरं स्वमपीतो भवतीत्यहङ्कारस्य सुषुप्तौ नाशश्रवणात् । कर्म- संस्काराश्रयत्वेनाविद्या ऽवश्याभ्युपेया । नन्वखण्डतमो द्रव्यमावर- १ सू. १ वर्णकम् । १७ कमिति चेन्न । तस्य नित्यत्वे मुक्त्ययोगात् ज्ञाननिवर्त्यत्वे तस्यैवा- ज्ञानत्वात् । अत्र कश्चिद्भेदाभेदाभ्यां सर्वसङ्करवादी जल्पति । अग्र- हणमिथ्याज्ञानतत्संस्कारा एवाज्ञानमिति स प्रष्टव्यः। किं तन्मिथ्या- ज्ञानमिति ननु मनुष्योऽहमिति भ्रम इति चेन्नायं भ्रमः भेदाभेदज्ञान- त्वात् । खण्डो गौरिति ज्ञानवत्। ननु यथेदमिति प्रतिपन्नं रूप्यं तत्रैव निषिद्ध्यते तद्वदहमिति ज्ञातं मनुष्यत्व निषिद्ध्यते । नाहं मनुष्यः किन्तु ब्रह्मेति तथा चाय भ्रमः स्वविशेष्ये बाधितार्थज्ञानत्वाद्रूप्य- ज्ञानवदिति चेन्नायं गौः खण्डः किन्तु मुण्ड इति गोत्वावच्छिन्नैक्येन ज्ञातस्य खण्डस्य तत्रैव निषेधात् । खण्डो गौरिति ज्ञाने व्यभिचारा- तू । ननु खण्डो गौरिति प्रतिपन्नोपाधौ गोत्वावच्छिन्नमात्रे विशेष्ये खण्डो न बाध्यते किन्तु गोत्वावच्छिन्ने मुण्डे स बाध्यते, अतस्तत्र हेत्वभावान व्यभिचार इति चेन्न । तथा सति पने हेतुखरूपासिद्धः न ह्यहन्त्वावच्छिन्ने मनुष्यैक्यनिषेधः किं त्वहन्त्वावच्छिन्ने ब्रह्मणीति तुल्यत्वात् । ननु जातिव्यक्तिगुणगुणिकार्यकारणविशिष्टस्वरूपांशां- शिभावाः पञ्च यत्र, तेष्वेव भेदाभेदाविति न हेत्वसिद्धिरिति चेन्न । तव क्षपणकशिष्यत्वेन सर्ववस्तुषु भेदाभेद्वादित्वव्याघातात् । मनुष्यशब्दितदेहस्य ब्रह्माभिन्नात्मकार्यत्वाच्च । तस्मात्सर्वत्र भेदा- भेदयोः सत्त्वे भ्रान्तिस्तव मते दुर्लभेति सिद्धम् । किं च भ्रान्तेर्मनो- धर्मत्वे आत्मन्यविद्या न स्यादिति बन्धमुक्तिवैयधिकरण्यम् न चात्मनःपरिणामो भ्रमः । ज्ञानरूपस्य नित्यज्ञानगुणकस्य वा ज्ञा- नान्तरपरिणामायोगात् । यावद्रव्यभाविस्वसमानजातीयगुणान्त- रावरुद्ध एकमात्रवृत्तिगुणान्तरस्यानुदयात् । अतो न शब्दद्वित्वादी परमते व्यभिचारः । आत्मनो नित्यज्ञानं सुषुप्त्यनुसन्धानान्यथानु- पपत्त्या सिध्यति । तस्माद्धान्त्यादिमूलत्वेनानिर्वचनीयभावरूपमज्ञा- नमनायेष्टव्यमिति तस्याध्यासोपादानत्वं युक्तमेव । एवमुपादाना- स्मना प्रवाहरूपेण वा नैसर्गिको ऽध्यासो हेतुहेतुमत्त्वान्नैमित्तिक इ- त्युच्यते भाष्यकृता मिथ्याज्ञाननिमित्त इति । एवं निष्कलङ्कचैतन्यै- कताने निरंशानन्दैकरसे ज्ञानादिसाक्षिणि अज्ञानाध्यासो ऽनादि- स्तत्कार्याध्यात्मिकाध्यासानामहमिति प्रथमो ऽध्यासः । नन्वधिष्ठा- नारोग्यांशद्वयानुपलम्भानायमध्यास इति चेन्न । अहङ्कार टीकायाम- शद्वयस्य वक्ष्यमाणत्वात् । नन्वहङ्कारेन्द्रियाणां साक्षिभेदानुपल- म्भादस्त्वध्यासः, शरीरस्य तु मम शरीरमिति भेदोपलब्धेरिन्द्रियmm १८ विवरणोपन्यासे ग्राह्यत्वाच्च नाध्यास इति चेन्न । कल्पितस्याहङ्काराख्यस्य भोक्तु- भौगोपकरणत्वेनाध्यस्तत्वानुमानात् । मायाविना कल्पितस्य राश- श्छत्रादिवदिति । भेदोपलम्भस्तु परोक्षः। इन्द्रियग्राह्यत्वं च नाध्य- स्तत्वविरोधि । तथा चाधिष्ठानसामान्यज्ञानचैतन्यं पूर्वपूर्वभ्रमजन्य- संस्कारश्च निमित्तं अनाद्यज्ञानमुपादानं दोषश्च । अज्ञातात्मा कर्तेति सामग्रीसत्वादध्यास सम्भवति । तस्माद्विषयप्रयोजनसम्भवाच्छा- समारम्भणीयमिति सिद्धम् । अधुना लक्षणसम्भावनाप्रमाणैरध्यासःसाध्यते। तत्राह-कोऽय- मध्यासो नामेत्यादि ? कथ पुनः प्रत्यगात्मनीत्यस्य प्राक्तनं लक्षणभाष्यं तदादिसम्भावनाभाष्यं तमेतमविद्याख्यमात्मानात्मनोरित्यारभ्य सर्व- लोकप्रत्यक्ष इत्यन्तं प्रत्यक्षानुमानार्थापत्त्यागमाख्यप्रमाणपरमिति वि- भागः? ननु लक्षणस्येतरभेदज्ञानं फलं, सम्भावनाया असम्भावनानि- रास. फलम् । असम्भावना नाम ग्राह्यवस्त्वभावबुद्धिः। एवञ्च प्रमाणेन सर्वतो व्यावृत्तवस्तुसत्तानिश्चये सति लक्षणसम्भावनेन वक्तव्ये तयोः फलस्यार्थसिद्धत्वादिति चेत् ? उच्यते । यदि वस्तुसाधकमानेन लक्ष- गं झायेत यथा चक्षुषा घटत्वं, तदा स्वयं ज्ञानलक्षणसामर्थ्यात्त- त्फलसिद्धेः पृथग्लक्षणं न वाच्यम् । इह तु अध्यासे साक्षिप्रत्यक्ष व्यवहारो ऽध्यासमूलः । तदन्वयाद्यनुविधायित्वादित्यनुमानं व्यव- हारानुपपत्तिः । ब्राह्मणो यजेतेत्याद्यागमश्चाहं मनुष्य इति ज्ञानमात्रे मानं, न तु तज्ज्ञानस्याध्यासत्वं तेन ज्ञातुं शक्यं किन्तु बाधेनाध्यास- त्वं शुक्तिरूपयादिज्ञानस्य ज्ञायते । तल्लक्षणयोगादहं मनुष्य इति ज्ञा- नस्याध्यासत्वं स्पष्ट भवति नान्यथा। तस्मादस्य ज्ञानस्य प्रमातो भे- दशानाय लक्षणं वाच्यम् ।भेदज्ञानं विना बाधानुदयादिति सिद्धम् । आत्मानात्मनोः परोक्षं भेदज्ञानमादायाह(१) नर इत्यादिक्षाने लक्षणं योज्यम् । यद्यपि क्वचिन्प्रमाणेनैवासम्भावना निरस्यते यथा पक्षिणा- माकाशगमने, तथापि क्वचित् प्रत्यक्षसिद्धे ऽप्यसम्भावना दृश्यते । यथा दूरदृष्टवता दृष्टे सवितृसुषौ एवमात्मनि अविषयेऽसङ्गे गुणाव- यवशून्ये स्वतोभासमानविशेषे आरोप्य विशिष्टज्ञानविषयत्वस्य दोषानुषङ्गस्य सादृश्यस्य विशेषादर्शनस्य चाध्यासव्यापकस्याभा- वादध्यासासम्भावना स्यादिति पृथक् सम्भावनाऽपि वाच्या । अतो लक्षणसम्भावनाप्रमाणानि क्रमेणोच्यन्ते। अथ सिद्धान्तन्यू- (१) भेदज्ञानाथाहमिति पाठान्तरम् ।
१ सू. १ वर्णकम् । १९ नाधिकोक्तिभिः पञ्चहेत्वाभासैश्च वर्जिताप्रमाणयुक्तिभ्यां तत्त्वनिर्णय- फलावादकथा । तद्रूपमिदं शास्त्रमिति सूचनार्थ लक्षणप्रश्नभाष्ये आहेति परोक्तिः । स्मृतिरूपः परत्र पूर्वदृष्टावभास इत्यध्यासलक्ष- ण भाष्यम् । अस्यार्थः । स्मृतिः स्मर्यमाणं वस्तु तद्रूपस्तत्सदृशः। साहश्यं स्फोटयति । पूर्वेति । दृष्टं दर्शन संस्कारद्वारा पूर्वदर्शनाद- वभास्यत इत्यर्थः । तथा च संस्कारजन्यज्ञानविषयत्वं शुक्तिरुप्य- स्य स्मर्यमाणेन सादृश्यम् । एव च स्मर्यमाणसदृशत्वे सति परत्राव- भास्यत्वमध्यस्तत्वम् । योग्याधिकरणे प्रत्यभिज्ञायमाने देवदत्ते ऽति- व्याप्तिनिरासाय परत्रेति पदम् । अयाग्याधिकरणपरमुपात्तम्। अधि- करणस्यायोग्यत्वं कल्पितार्थात्यन्ताभावरूपत्वं तदत्यन्ताभाववत्वं वा। यद्यप्येकावच्छेदेन स्वसंसृज्यमानाधिकरणे स्वात्यन्ताभाववत्य- वभास्यत्वं साधनाद्यध्यस्तसाधारणं निर्दुष्टं लक्षणम् । सयोगे ऽति- व्याप्तिनिरासायैकावच्छेदेनेति । कालभेदेन खात्यन्ताभाववत्यवभा- स्ये घटे ऽतिव्याप्तिनिरासाय खसंसृज्यमानेति पदम् तेनाभावकाले तदधिकरणे प्रतियोगिसंसर्गस्य वर्तमानतोच्यते । ननु संयोगादि- कमध्यस्तं लक्ष्यमिति चत्सत्यम् । चैतन्ये सर्वमध्यस्तं न तु जडे वृ- क्षादौ संयोगादिकमध्यस्तमित्यलक्ष्यमेतत् । तथापि स्मृतिरूपपदं न व्यर्थम् । तबलेनैव परत्रावभासपदाभ्यामुक्त लक्षणलाभात्।तत्पद विना परत्रावभास इत्युक्तावन्यथाख्यातिशङ्का स्यात् । तत्पदेन पर- त्रावभास्योऽर्थः । स्मर्यमाणसदृश इत्युक्त्या स्मर्यमाणाद्भिन्नोऽर्थस्तत्र वर्तत इत्युक्तं भवति । तत उक्तलक्षणलाभः तस्मिन्नर्थे पूर्वोक्तसा- मग्रीस्मरणार्थ पूर्वदृष्टपदेन संस्कारजन्यत्वमुक्तमित्यनवद्यम् । अन्ये तु परत्रावभासपदाभ्यामध्याससाधारणलक्षणमुक्तं स्मृतिरूपपूर्व- दृष्टपदाभ्यां प्रातीतिकाध्यासलक्षणमुच्यते । अत्र रूप्यस्य स्मर्यमा- णेन प्रमाणाजन्यज्ञानविषयत्वं सादृश्य स्मृतिरूपशब्दार्थः। स्मृतिभ्र- मयोः प्रमाणाजन्यज्ञानत्वात् । पूर्वदृष्टपदं तु पूर्वदृष्टजातीयपरम् । अ- भिनवरूप्यस्य पूर्वदृष्टत्वाभावात्।सद्योजातघटे स्मर्यमाणे चातिव्या- प्तिवारणाय पदद्वयम् । न चाविद्यायां पूर्वमहष्टायामव्याप्ति. तस्या व्यावहारिकत्वात् । यदि तस्याः प्रातीतिकत्वेन लक्ष्यत्वं तदा त- जातीयत्वं नामातीतदर्शनाविषयत्वमिति संक्षेपः । एतदभिप्रेत्याह- अग्रहभ्रान्तिसंस्कारकर्मभिर्नावृतिर्भवेत् । सर्वसङ्करवादी च मूलाज्ञानस्य सिद्धये ॥ है २० विवरणोपन्यासे निरस्तो ऽध्यासभाष्यस्य विभागस्तस्य लक्षणमिति। अत्राहाख्यातिवादी रजतं स्मर्यमाणमेव न तत्सदृशमत्रापरो- तमनुभूयते अनुभाव्याभावात् बाधविरोधेनार्थासत्वाच्च । तन्न । अधिष्ठानसामान्यज्ञानदोषादीनामनुभावकत्वात् । इदं रजतमिति पु. रोवर्तित्वापरोक्षानुभवबलेनार्थसत्तानिश्चयाश्च । न च बाधानुप- पत्तिः । बाधयोग्यार्थस्वीकारात् । तस्मादत्र कालत्रये ऽपि रजतं ना- स्तीत्यबाधितानुभवरूपबाधादत्यन्ताभावः सत्य । अपरोक्षानुभव- विषयोऽर्थः सन्नपि मिथ्येति न विरोधः । अनुभवबलेन समानसत्ता- कयोरेव भावाभावयोर्विरोधकल्पनात् । पुरोवर्तिविषयकरजतज्ञा- नानङ्गीकारे इदं रजतत्वेन साक्षात्करोमीत्यनुभवविरोधः । इदमि प्र- वृत्त्यनुपपत्तिश्च । ज्ञानस्येष्टतावच्छेदकविशिष्टस्वविषये प्रवर्तकत्वात् । तद्विशिष्टस्य देशान्तरस्थत्वात्तव मते तत्रैव प्रवृत्तिः स्यादिति । शा- नाध्यासलक्षणं तु स्मृतिसहशत्वे सति परत्रावभासत्वम् । साहश्यं, संस्कारजन्यत्वे सति स्मृतिभिन्नत्वम् । विशेषणकृत्यं पूर्ववत् । ननु भ्रमो न संस्कारजन्यः अस्मृतित्वादभिक्षावदिति चेन्न । संप्र- योगमात्रजन्याभिशाप्रत्यक्षादन्येषां ज्ञानानां सर्वेषामपि पूर्वानुभव- जन्यसंस्कारजन्यत्वात् । व्याप्त्यनुभवजसंस्कारे सत्यनुमितिरन्य- था नेत्यन्वयव्यतिरेकदर्शनात्। तथा च हेतोरनुमिती व्यभिचारः । अतो रजतज्ञानस्य संस्कारजन्यत्वेऽपि नस्मृतित्वम् । स्यादेतत् रज- तभानं स्मृतिरेव । संस्कारमात्रजन्यज्ञानत्वात् । गङ्गास्मृतिवत् । न च हेत्वसिद्धिः संप्रयोगस्याधिष्ठानज्ञाने उपक्षयात् । अनुभवस्मृ- त्यात्मकस्य सर्वस्य ज्ञानस्य यथार्थत्वेन भ्रान्तेश्चासत्त्वेन दोषस्य हे. तुत्वे मानाभावात् । न च साध्याविशेषः स्मृतित्वस्य जातित्वात् । अननुभवत्वं वा साध्यम् । नचैवं रजत स्मरामीत्यनुभवापत्तिः स्म- रणाभिमानस्य प्रमोषात् । इदमित्यनुभवाव्यवधानेनोत्पन्नरजतक्षा- नादिदमि प्रवृत्तियुज्यते । ननु बालस्य तिक्तानुभवाभावात्तिक्तो गु- ड इति स्मृतिः कथमिति चेत् ? उच्यते । पित्ताख्यो दोष एव जन्मा- न्तरीयसंस्कारमुबोध्य स्मृतिं जनयति माधुर्यज्ञान प्रतिबध्नाति स्मृ- तित्वं च मुष्णततीति।तस्मादख्यातिर्धान्तिरिति सिद्धम् । अत्रोच्यते। केयमख्यातिः१ न तावद्विशिष्टज्ञानाभावमात्र सुषुप्तौ भ्रान्तिप्रसङ्गात् । नाप्यविविक्तानेकपदार्थज्ञानत्वं भ्रान्तित्वं यदि पदार्थयोरविविक्त- त्व भेदाज्ञानं तहसम्भवः, इद रजतमित्यपुनरुक्तशब्दद्वयस्मृतिहेतु- १ सू. १ वर्णकम् । २१ त्वेन सामान्यविशेषयोर्भेदज्ञानस्य सत्वात । यद्यैक्यज्ञान तदा म- दिष्टसिद्धिः। तादात्म्यससर्गज्ञानलाभात् । खण्डो गौरिति प्रमा- यामतिव्याप्तिश्च । यद्यविविक्त ज्ञानद्वय भ्रमस्तयज्ञाते भेदयोर्घट- पटज्ञानयोर्भ्रान्तित्वापत्तिः । कदाचिद्भेदज्ञान प्रकृते ऽपि तुल्यम् । त- स्मादख्यातिवादिनो लोके भ्रान्तिव्यवहारोच्छेदः । अतो मिथ्यार्थ- ज्ञानं भ्रम इत्यकामेनाप्यङ्गीकार्यम् । किश्च रजतज्ञानस्य स्मृतित्वे स्मरामीत्यनुभवेन ग्रहणादिविवेकापत्तिः । न च स्मरणाभिमानः प्रमृष्ट इति वाच्यम् । न तावत्स्मृतिरेव स्मरणाभिमानः तस्याः सत्त्वे- न प्रमोषाभावात् । नापि स्मृतिध्वसः, तस्याप्यसत्वात् । न च स्मृतित्वस्याज्ञानं प्रमोष इति वाच्यम् । तज्ज्ञानस्यैवापाद्यत्वात्। न च दोषात्तदज्ञानं सो ऽयमिति प्रत्यभिज्ञाभ्रमे सत्यपि दोषे त स्मरामी- ति ज्ञानात् । एतेन पूर्वानुभवदेशकालवैशिष्ट्यं स्मर्यमाणस्य तु- त्तारूपः स्मरणाभिमानः तदशानं प्रमोष इति निरस्तम् । सोऽयमिति भ्रमे तज्ज्ञानस्य सत्त्वेनायमित्यनुभवात् स इति ज्ञानं भिन्नम्।सचा- यञ्च भिन्न इति विवेकापत्तेः । अनुभवस्य खाविषयत्वेन स्वविषय- मात्रविषयकस्वजन्यस्मृतिविषयत्वायोगाच्च । अनुभूतो घट इति स्मृतिस्तु न घटव्यवसायजन्या, किन्तु तदनुव्यवसायजन्या अनुव्यवसायश्च सिद्धान्ते साक्षिरूपः। स च विषयविशिष्टत्वेनानित्य इति संस्कारहेतुः । न चानुभवस्य स्वप्रकाशत्वात्स्वजन्यस्मृतिविष- यत्वं कार्यमात्रस्य जडत्वात्पदार्थस्मृतेर्मूलानुभवागोचरत्वदर्शनाश्च । न स्मर्यमाणे क्वापि पूर्वानुभवसम्भेदः यस्तव स्मरणाभिमानो भवेत् पदार्थस्मृतेरप्यनुभवगोचरत्वे ऽनुभवस्य शब्दार्थता स्यात् । अत्र प्रसङ्गात् कश्चिदाह । शब्दास्यार्थेन संयोगतादात्म्ययारसत्त्वात्सम्ब- न्धान्तरादर्शनाचाप्रामाण्यमिति । तन्न । शक्तेः सम्बन्धस्य सत्त्वात् । नन्वव्युत्पन्नस्य शब्दादर्थस्मृत्यदर्शनाच्छब्दार्थयोः सम्बन्धज्ञानमर्थ- स्मृतेः प्राग्वक्तव्यम् । शक्तिस्तु स्मृतिरूपकालिङ्गानुमेयेत्यन्योन्या- श्रयः। सम्बन्धज्ञाने जाते स्मृतिजन्म तेन च तज्ञानमिति चेन्न । व्यु- त्पत्तिकाले शब्दस्यार्थे शक्तिग्रहानन्तरं शब्दश्रवणात् शक्तिग्रहजसं- स्कारोद्बोधमात्रेण पदार्थस्मृत्यङ्गीकारात् । अर्थस्मृतेः प्रागेव शब्द- स्यार्थेन सम्बन्धज्ञाने तु शब्दवैयर्थ्यं स्यात् सम्बन्धविशेषणत्वेना- र्थस्य शातत्वादित्यलम् । ननु यदि पूर्वानुभवसम्भेदो न स्मृतिविषय- स्तर्हि स्मृतेरनुभवात् विषयविशेषाभावात्कथ भेद् इति चेतू ?
२२ विवरणोपन्यासे कथं तव घटस्मृतेर्घटानुमितितो भेदः ज्ञानसम्भिन्नार्थगोचरत्वावि- शेषात् । ननु करणविशेषादनुमितिस्मृत्योर्भेद इति चेदिहापितुल्यम्। संस्कारमात्रस्य स्मृतिहेतुत्वात् । तदन्यस्यानुभवहेतुत्वात् तस्मात्स- स्कारमात्रजन्यत्वमेव स्मृतेरनुभवाद्विशेषः । नेतो ऽन्यः स्मरणाभि- मानो नाम कश्चिदस्ति यस्य प्रमोषादविवेकः कल्प्येत । किञ्च स्वप्ने आत्मा गृह्यमाणः अन्यत्सर्व स्मर्यमाणं तत्र गृह्यमाणाविवेके ऽहं नीलमिति स्यात्स्मर्यमाणानामेवान्योन्यमविवेके परोक्षता स्या- तस्मान्नाख्यातिभ्रमः । रजतज्ञानस्य शुक्तिगोचरत्वाभावे तत्र प्रव- तकत्त्वायोगाश्च । एतेनासत्यप्रवृत्तिहेतुज्ञानत्वं भ्रान्तित्वमिति निर- स्तम् । तस्माद्रजतज्ञान पुरोवर्तिविषयकम् । तत्र प्रवर्तकज्ञानत्वाच्छु- तिज्ञानवदिति सिद्धम् । विशिष्टज्ञानात्मको भ्रमः । स्मृतित्वानुमाने हेतोः स्वरूपासिद्धिः । रजतं साक्षात्करोमीत्यनुभूयमानज्ञानस्य सं- स्कारमात्रजन्यत्वाभावादिति स्थितम् । तार्किकास्तु सादृश्यादिदोष- दुष्टमिन्द्रिय देशान्तरस्थरजतात्मना शुक्तिकां गृह्णातीत्यन्यथाख्याति- रित्याहुः । तदयुक्तम् । इदं रजतमिति भ्रमे किमिदाम रजततादात्म्य- मारोप्यं रजतत्वससर्गो वा? आद्ये किं रजतांशज्ञानस्य शुक्तिर्विष- यः रजतं वा ? नाद्यः । अनुभवविरोधात् । द्वितीये देशान्तरस्थरजते प्रवृत्तिः स्यात् ज्ञानस्य स्वविषय एव व्यवहारहेतुत्वात् । एतेन रज- तज्ञानस्य शुक्तिर्विषयः तज्जन्यव्यवहारास्पदत्वादिति निरस्तमुक्त- बाधात् । द्रव्यज्ञानाव्येण सहाादादीयमानगुणादौ व्यभिचाराच। किञ्च सामान्यविशेषयोरत्यन्तभेदवादिना तादात्म्यस्यासत्त्वेन प्र- त्यक्षत्वायोगः, जन्यप्रत्यक्षविषयत्वे इन्द्रियसन्निकर्षाश्रयत्वस्य व्या- पकत्वादसति तदभावात् । एतेन संसर्गारोपो निरस्तः । शुक्तिकेद- रजतत्वाभ्यां निरूपितसंसर्गस्यात्यन्तासत्वात् रजतत्वस्य वातन्त्र्ये- णोपस्थित्यभावेनारोपासम्भवाच । भेदाभेदवादिनां तु तादात्म्यस्य सत्यत्वान्न कापि भ्रमः स्यात् । यत्तु शुक्तिका रजताकारेण परिणम- तीत्यन्यथाख्यातिरिति तन्न । दुग्धपरिणामस्य दन इवास्य बाधा- सम्भवात् । तस्मानान्यथाख्यातिः । अत्राहात्मख्यातिवादी बौद्धः । रजतं बुद्ध्यभिन्नं इन्द्रियासनिकृष्टत्वे सति अपरोक्षत्वाद् बुद्धिवत् । बुद्धरजताकारत्वे तबुद्धिसन्ताने पूर्व कदाचिदुत्पन्नरजतबुद्धिरेव संस्कारशब्दिता हेतुः व्यवहितस्यापि शालिबीजस्य स्खसमानाकार- बीजहेतुत्वदर्शनात् । तस्माद् बुद्ध्यात्मकं रजतम् बहिर्वत्स्यातू इत्या- १ सू. १ वर्णकम् । २३ त्मख्यातिरिति । स वक्तव्यः-रजतं कुतो जायते ? इति न तावदर्थात् ज्ञानाद्वाह्यार्थानङ्गीकारात् । नाप्यतीतरजतज्ञानात् । अतीतस्याहे- तुत्वात् अन्यथा चिरध्वस्तवन्हेरिदानीं धूमप्रसङ्गः । न च यस्य ज्ञा- नस्याकारो रजतं तस्मादेव तज्ज्ञायत इति वाच्यम् । अभेदे तदयो- गात् । भेदे तु क्षणिकस्य जनकज्ञानस्य पश्चाद्भावि रजतं न विषयः ज्ञानान्तरं तु रजतस्य दुर्लभमित्यज्ञातमेव रजत स्यादिति । तस्मा- नात्मख्यातिः । ननु तर्हि रजतज्ञाने का सामग्री, किं तज्ज्ञानं, कस्त- स्य विषय इति उच्यते । अधिष्ठानसामान्यज्ञानं संस्कारो दोषश्च निमित्तम् न च दोषस्य विशेषज्ञानप्रतिबन्धकत्वमेव न विपरीतका- यहेतुत्वमिति वाच्यम् । वेत्रबीजे दावदाहाख्यदोषस्य कदल्यङ्करहे- तुत्वदर्शनात् । ज्ञानं त्वधिष्ठानारोप्यविशिष्टज्ञानमेकमैन्द्रियकं न सम्भवति इन्द्रियसप्रयोगस्याधिष्ठानसामान्यवृत्तावुपक्षयात् । रज- तस्य प्रातीतिकस्य प्रतीतेः पूर्व सन्निकर्षाभावात् । किन्तूक्तनिमित्त- सहिताविद्यारजततवृत्त्याकारेण परिणमते । एवं चाधिष्ठानारोप्य- योवृत्तिज्ञानभेदे ऽपि सत्यानृतयोस्तादात्म्येनैक्यादेकविषयावछिन्नं चैतन्यरूपमेकं विशिष्टज्ञानं फलरूपं भ्रान्तिज्ञानम् । तस्य च मिथ्यार- जतं विषयः । भ्रान्तेर्मिथ्याज्ञानत्वप्रसिद्ध्यन्यथानुपपत्तिर्विषयस्य मिथ्यात्वे मानम् । स्वतो ज्ञानस्याबाधेन मिथ्यात्वायोगादिति । त- प्रचाविद्यावृत्तावनाग्रहः वृत्ति विनापि रजतस्य सुखादिवत्साक्षि- भास्यत्वसम्भवात् । इदमाकारवृत्तिनाशादव रजतस्मृतियोगात् । यवृत्त्यवच्छिन्नं चैतन्यं यावतां सत्तानिश्चयरूपं तवृत्तिनाशात्ताव- द्रोचरसंस्कार इति नियमात् । पूर्वानुभवसंस्कारस्य प्रातीतिकर- जतं प्रत्येव हेतुत्वोपपत्तरिति संक्षेप । ननु सिद्धान्ते रजतं पश्या- मीति चाक्षुषत्वानुभवः कथमिति चेत् ? इदमाकारचाक्षुषवृत्त्यभि- व्यक्तचैतन्यविषयत्वादिति ब्रूमः । यत्तु संप्रयोगस्यानुभवे संस्का- रस्य स्मृतौ निरपेक्षत्वादनुभवस्मृत्यात्मकं शानद्वयमेव युक्तं नैकं विशिष्टज्ञानं निरपेक्षहेत्वोरेककार्यकारित्वादर्शनादिति, तन्न । ज्ञा- नद्वययोगपद्याभावेन प्रवृत्त्यनुपपत्तेः । धूमज्ञानस्य स्वकायें धूम- व्यवहारादी निरपेक्षस्यैव व्याप्तिसंस्कारसहितस्यानुमितिहेतुत्व- दर्शनात् । न च व्याप्तिस्मृतिरेव सहायः अस्या अपि स्वकार्ये नि- रपेक्षत्वेन निरपेक्षहेतोरेककार्यकारित्वानपायात् । धूमदर्शनोबुद्ध- संस्कारादेवानुमितिसम्भवेन मध्ये ऽननुभूयमानव्याप्तिस्मृतिकल्प- २४ विवरणोपन्यासे नानौचित्याच्च । एतेन परामर्शों हेतुरित्यपास्तम् । पक्षतावच्छेदका- बच्छिन्नवृत्तिहेतावव्यभिचरितसाध्यसादेश्यरूपव्याप्तिपरामर्शाङ्गी- कारे तदानीमेव पक्षतावच्छेदकावच्छेदेन साध्यसिद्धरनुमित्युच्छेदा- पत्तेः सिद्धसाधनत्वादसन्निकृष्टवन्हिव्याप्तेः प्रत्यक्षत्वासम्भवाच । ज्ञानस्याप्रत्यासत्तित्वादिति दिक् । संस्कारसंप्रयोगयोरेव प्रत्यभि- ज्ञाकारित्वदर्शनाञ्च । भिन्नजातीयज्ञानहेतुभ्यो नीलादिश्यश्चित्ररू- पाभिक्षाप्रत्यक्षदर्शनाच्च । तस्माद्दोषेण सह संस्कारसप्रयोगाभ्या- मेकं भ्रान्तिज्ञानं युक्तम् । यद्यपि सप्रयोगस्याधिष्ठानसामान्यवृत्तावेव हेतुता दोषसंस्कारयोस्तु मिथ्यारजते तवृत्तौ च तथापि विशिष्ट- भ्रान्तिज्ञानरूपचैतन्यमपि वृत्त्यादिविशिष्टत्वेन जायमानं सत्परम्पर- या संप्रयोगादिजन्यमित्युच्यते इति मन्तव्यम् । किञ्च सर्वेषामेव पु- रोदेशे रजतानङ्गीकारवादिनामत्र तत्साक्षात्करोमीत्यनुभवीवरोधः । ननु तवाप्यस्तीत्यनुभूतस्य सद्भिन्नत्वे ऽनुभवविरोध इति चेन्न । रजते इदन्तासंसर्गवदधिष्ठानसत्तासंसर्गारोपातू । ननु सर्वस्या- विद्यकस्याधिष्ठानचैतन्यरूपसत्त्वसम्बन्धाविशेषे कथं प्रातीतिक- व्यावहारिकविभाग इति चेत् ? उच्यते । अविद्यातिरिक्तदोषाजन्यं जडं व्यावहारिक आगन्तुकदोषजन्यं प्रातीतिकं तथा तत्सम्बन्धा- देकमेव सत्त्वं त्रिविधमित्युच्यते । कालत्रयाबाधिते ब्रह्मणि स्वरूपे पारमार्थिकं सत्त्वं घटादौ व्यावहारिकं तदेव सत्व रजतादौ प्राती- तिकमिति । अन्ये तु त्रीणि सत्त्वानि भिन्नान्येव व्यवहाराय कल्पि- तानीत्याहु. तञ्चिन्त्यम् । सर्वत्र सबुद्धेरेकाकारत्वाल्लाघवाञ्च । तस्मा- दुपाधिभेदादेव सत्त्वस्य त्रैविध्यम् । एवं चानुभवाविरोधान्मायामयं रजतं प्रत्यक्षभ्रान्तिविषय इति सिद्धम् । एतदभिप्रेत्याह- अख्यातिभङ्गः शब्दार्थसम्बन्धकथनं तथा । अन्यथात्मख्यातिभङ्गो मिथ्यारजतसाधनमिति ॥ अत्र केचित् । अविद्यामयं रजतं न मायामयम् । मायाविद्ययो:- दप्रसिद्धरित्याहु. । अत्रोच्यते । किं लक्षणभेदात्तयोर्भेदः, उत व्यव- हारतः? नाद्यः । अनिर्वचनीयत्वस्वरूपलक्षणस्य तत्त्वावरकत्वविशे- षलक्षणस्य भ्रान्त्युपादानत्वोपलक्षणस्य चाविशेषात् रजतादेरप्य- विद्यात्मकत्वेन लक्ष्यत्वान्नाद्यस्यातिव्याप्तिः । यथा पृथिवीलक्षणस्य गन्धस्य पृथिवीत्वेन लक्ष्ये घटे नातिव्याप्तिः तद्वत्। न च सत्यमन्त्रा- दिकमेव मायेत्यनिर्वचनीयत्वासिद्धिरिति वाच्यम् । अनिर्वचनीयका- - -- १ सू. १ वर्णकम् । २५ योपादानस्यैव मायापदार्थत्वात् । अस्ति हि मायाविना सृष्टेषु मि- थ्यागजादिषु मायापदप्रयोगः । स च तदनुस्यूतोपादानविषयः। ग- जादीनां व्यावृत्तानां तदर्थत्वासम्भवात् । तथा च मिथ्योपादानं स्वयं मिथ्यामायापदार्थः । अघटितकारित्वगुणयोगान्मन्त्रादौ मायाशब्दो गौणः। न च स्वाश्रयाव्यामोहिका माया तद्यामोहिकाऽविद्येतिभेद इति वाच्यम्।एकस्या अपि भ्रमाविरोधिज्ञानवत्यव्यामोहकत्वस्य तच्छून्ये मोहकरत्वस्य च सम्भवात् । तस्मान्न लक्षणतो भेदः।नापि व्यवहा- रतः।“तत्त्वभावाद्विश्वमायानिवृत्ति"रिति श्रुतौ। “तरत्यविद्यां वितता हृदि यस्मिन्निवेशिते । योगी मायाममेयाय तस्मै विद्यात्मने नम" इति च स्मृतौ । तत्त्वज्ञाननाश्याविद्यायां मायाशब्दप्रयोगात्तथैव भा- ष्यकारादिभिर्व्यवहारादिति न मायाऽविद्ययोभैदः।किन्त्वेकैवाविद्या सर्वसाधारणभ्रमशक्त्या विक्षेपशक्त्या वा माया असाधारणभ्रम- शक्त्या आवरणशक्त्या वा अविद्येत्युच्यते । तस्माद्भवत्यविद्यं रजतं मायामयमिति । न च रजतं पारमार्थिकमिति सख्यातियुक्ता, शुक्ति वत्सर्वदा ग्राह्यतापत्तेः । कालत्रयेऽपि नास्तीति बाधानुपपत्तेश्च । तेन हि बाधेन प्रतिपन्नस्य रजतस्याधिष्ठाने ऽत्यन्ताभावप्रतियोगित्वरूप- मिथ्यात्वमेव विषयीक्रियते । एतेन बाधप्रत्यक्षमपिमिथ्यात्वे मानमि- त्युक्तं भवति । इदं चाभावः प्रत्यक्ष इति परमतेन द्रष्टव्यम् । सिद्धान्ते तस्यानुपलब्धिग्राह्यत्वात् । यद्वा सिद्धान्ते ऽप्यभावो अनुपलब्धिसहितसाक्षिप्रत्यक्ष इति मन्तव्यम् । बाधानन्तरं मिथ्यै- व रजतमभादित्यनुभवो बाधस्य मिथ्यात्वविषयतां द्रढयति । ननु कोऽयं बाधः?न तावदन्यार्थिनोऽन्यत्र प्रवृत्तिध्वंसो बाधःवीतरागाणां प्रवृत्त्यनुदये ऽप्यधिष्ठानदर्शने बाधप्रसिद्धः । न चाभेदेन ज्ञातयोर्भेद- ज्ञानं बाधः । शुक्लो घट इति ज्ञातयोर्घटस्य शक्लियमिति भेदज्ञानस्य बाधत्वापत्तेरिति उच्यते । किं मिथ्यात्वव्यवहारहेतुर्बाध आति- प्यते, तत्त्वसाक्षात्कारसाध्यो वा ? नाद्यः । प्रतिपन्नस्याधिष्ठाने ऽत्य- न्ताभावप्रमाया एव तद्धेतुत्वेन बाधत्वात्। तदुक्तं बाधप्रत्यक्षसिद्धं वि- द्यात्वमिति।न द्वितीयः । कार्यात्मना परिणताज्ञाननिवृत्तेस्तत्साध्य- त्वेन बाधत्वादित्यनवद्यम् । एवं ख्यात्यन्तरनिरासेन मिथ्यारजते परत्रा- ऽवभास्यत्वमध्याससाधारणलक्षणमुपपादितम् । तत्र स्मृतिरूपपदेन ज्ञानाध्यासे संस्कारजन्यत्वं स्मृतिसादृश्यमुक्तम् । अत्र के चित् । भ्रमस्य संस्कारमात्रजन्यत्वेन स्मृतिसादृश्यायोगात् सादृश्यवात्रि- ४ विवरणोपन्यासे ना स्मृतिरूपपदेन दोषसंप्रयोगसंस्कारजन्यत्वं लभ्यते । तच्च कार्या- ध्यासस्य लक्षणमित्याहुः । तत्र दोषादेरन्वयव्यतिरेकाभ्यां रजता- द्यर्थे ऽपि हेतुत्वं मन्तव्यम् । नन्विदं लक्षणद्वयं स्वप्नाध्यासे नास्तीत्य- व्याप्तम्, न हि तत्रेन्द्रियसम्प्रयोगोऽस्ति, इन्द्रियाणामुपरतत्वात् । अतः कार्याध्यासलक्षणमत्र नास्ति अधिष्ठानादर्शनात् । परत्रावभा- स्यत्वमपि नास्तीति चेत् , उच्यते । निद्रादोषपूर्वानुभवजन्यसंस्का- रसहितं मनः स्वसंप्रयुक्तात्मन्यविद्यां क्षोभयित्वा शुद्धाविद्याविवर्त- गजादिपदार्थसमकालं तद्गोचरं झानमुत्पादयति । अतो लक्षणद्वयमत्र स्वप्ने ऽस्त्येव, मनःसम्प्रयोगसत्त्वान्मनउपहितात्मनो ऽधिष्ठानत्वात् । वस्तुतस्तु मनोध्यासं प्रतीन्द्रियसम्प्रयोगालाभादधिष्ठानसामान्यज्ञा- नमेव हेतुरिति तदेवानुगतं सम्प्रयोगपदेन विवक्षितमिति न कश्चि- दोषः । अत्र निष्कृष्टाहवारचैतन्यमात्रमिति विवरणवाक्येन स्वप्ना- धिष्ठानचैतन्यं प्रति मनसो विशेषणत्वं निषिध्यते । अहं नीलामिति भाननिरासाय तूपाधित्वमपि निषिध्यते । तदवच्छिन्नचैतन्यस्थावि- द्याववर्तः स्वप्नप्रपञ्च इति टीकाया अन्तःकरणेनावच्छिन्नेत्यादिस्व- व्याख्यानेन च विरोधात् । खप्नस्यानुपहितचैतन्यस्थत्वे स्वे शरीरे यथाकाममिति श्रुतिविरोधश्च। मनोवच्छिन्नात्मवेद्यत्वासम्भवश्व।सं- बन्धाभावात् । तस्मात्स्वप्ने घटः स्फुरतीति चैतन्यतादात्म्यानुभवाच्चै- तन्यमेवाधिष्ठानं तस्योपाधिर्मनोरूपाहङ्कारः न विशेषणम् । अयं घट इत्यहङ्कारात्पृथक्त्वन विच्छेदावभासादिति । इदमभिप्रेत्याह- मायाविद्यैक्यमत्रोक्तं सत्रख्यातेश्च विमानता । स्वप्नाध्यासे लक्षणोक्तिर्बाधरूपोक्त्यनन्तरम् ॥ इति । किश्च जागरणे ऽपि प्रत्यगात्मसाक्ष्यभिन्नचैतन्यमेव सर्वप्रपञ्चा- धिष्टानं किमु वक्तव्यं स्वप्ने चैतन्यमधिष्ठानमिति। न हि जागरणे स्व- तश्चैतन्यहीनानां विषयाणां चैतन्यात्मनि कल्पितत्वं विना मयाऽवग- तोयं घटादिरिति भानं सम्भवति संबन्धाभावात् । न च घटपटादि- चैतन्यानां भेदात्तदभेदे प्रत्यगात्मनो ऽपि भेदः स्यादिति वाच्यम्। नियमेन घटाधुपाधिशानपूर्वकं भासमानचैतन्यभेदस्यौपाधिकतया प्रातिभासिकत्वात्स्वतश्चैतन्यभेदे मानाभावादिति द्वितीयं चैत- न्यं जागरइव स्वप्ने ऽधिष्ठानमित्यनवद्यम् । परत्रावभास इति लक्षणम् । अत्रावभासो ज्ञानं अतो नानि ब्रह्मदृष्टौ नातिव्याप्तिः । तस्या विधे- यायाः कृतिसाध्यत्वेन क्रियात्वात् । न हि ज्ञानं कृतिसाध्यं कृति - १ सू. १ वर्णकम् । २७ प्रति साधनत्वादयत्नतो दुर्गन्धादिज्ञानदर्शनाञ्चति । अत्राह शून्य- घादी। परत्रोत पदं व्यर्थ केशोण्डकभ्रमे ऽधिष्ठानाभावात्तस्मादर्थज्ञानं भ्रम इत्येव लक्षणमिति । तत्तुच्छम् । शून्यज्ञानस्यापि भ्रमत्वापातात् । करसमृदितनयनराश्मिषु केशस्य पिण्डाकारभानात् । तस्मात्परत्र प- रावभास इति लक्षणं सर्वमतेष्वनुस्यूतं तत्र सिद्धान्तगत्या सत्ये वस्तुनि मिथ्यासम्भेदावभास इति पर्यवस्यतीति मत्वाह- जागरे चिदभेदोक्तिः स्वप्नावस्थानसिद्धये । शानस्यायनसाध्यत्वं भ्रमे ऽधिष्ठानसाधनमिति ॥ यत्तु संविद्रजतयो/जाकरवत्परस्पराधिष्ठानत्वान्न सत्याधि- ष्ठानको भ्रम इति, तन्न । इष्टान्तवैषम्यात् । न हि यस्माद्वीजाद्यो ऽङ्क- रस्तस्मादेवाङ्कुरात्तवीजं जायते । अन्योन्याश्रयापत्तेः । किन्तु पूर्व- स्मादङ्कुरान्तरात् । ननु भवत्वस्माकमपि सविदो रजते ऽध्यासस्त- स्यापि पूर्वसंविदि तस्या अपि पूर्वरजते इति परम्परेति चेन्न । इदं रजतमिति झायमाने रजते पूर्वसंविदादीनामनन्वितत्वेनाधिष्ठान- त्वायोगात् । बीजस्याप्यनन्धितत्वेनाङ्करं प्रति मिमित्तमात्रत्वात् । अन्वितद्रव्यान्तरस्यैवोपादानत्वेनाधिष्ठानत्वात् संविद्रजतयोः नि- मित्तनैमित्तिकभावस्याप्यहष्टस्य कल्पनानौचित्यात् । तस्मादिदं र- जतमिति याकारावभासनादन्वितसत्याधिष्ठानको भ्रमः । अपि चै- कस्मिन्नाकारे आकारान्तराभावज्ञानस्य बाधत्वात्साधिष्ठान एव भ्रमः। अन्यथा बाधोऽपि निरधिष्ठान एव स्यात् । अधिष्ठानप्रसक्त्य- भावात् । नन्वाप्तवाक्यान्न सर्प इति मिरधिष्ठानो बाधो ऽस्तीति चे- न्न । साभावविशिष्टाधिष्ठानसामाभ्यस्य तत्राप्यवगतत्वात् । किं त- दिति विशेषाकाङ्क्षादर्शनात्। किंबहुना सर्वदा सर्वत्राव्यभिचारिसा- क्ष्यवधिकः सर्वस्य बाध इति न शून्याधिष्ठानको भ्रमः।यस्तु असदेव ख्यायते इत्यसख्यातिरिति, तन्न । असतो ऽपरोक्षत्वायोगात् । स- त्वमपि बाधान्नास्तीत्युक्तम् । न चान्यत्र सत एवान्यत्र बाध इति नि- यमाद्देशान्तरे सत्त्वमिति वाच्यम् । यदि प्रतिहर्ता विच्छिद्यात्सर्ववेदस- न्दयाद्याद्गाता तदिक्षिणो यज्ञ इति ऋत्विग्विच्छेदनिमित्तप्रायश्चि- तयोनिमित्तयोगपद्ये विकल्पः। पूर्वापाथेतु पूर्वस्योत्तरेण बाध इति सिद्धान्तः। न हि तत्र प्रतिहर्तृविच्छेदनिमित्तसर्वस्वदानकर्तव्यतात्र बाधिता ऽन्यत्रास्ति, इह भग्नघटस्यान्यत्रासत एव बाधदर्शनाच्च । (१) पूर्वापर्ये इति क्वचित्पाठः ।
। विवरणोपन्यासे तस्मात्सत्ये वस्तुनि परत्र सदसद्विलक्षणवस्तुसम्भेदावभासो भ्रम इति पर्यवसन्नम् । अत्र भ्रान्तिविषयमिथ्यात्वस्य लोकानुभवसिद्ध- त्वान युक्त्यपेक्षेत्याह भाष्यकारः । शुक्तिका हि रजतवदवभासते एकश्चन्द्रःस द्वितीयवदिति बाधसिद्धमिथ्यात्वस्यात्र वच्छब्देनानु- वादः । तत्रात्मनि अहङ्काराध्यासे रज्जुसोदाहरणं जीवेश्वरभेदा- ध्यासे द्वितीयोदाहरणमिति भावः । नन्वहङ्कारे परत्रावभास्यत्व- मिति लक्षणमव्याप्तम् । दोषादित्रयजन्यत्वमपि तत्र नास्ति । तथा हि । विशिष्याशातं सामान्यतो ज्ञातमधिष्ठानं शुक्त्यादिक परत्रप- दार्थः, नात्मा,नि.सामान्यविशेषस्वप्रकाशत्वादतः परत्रेत्यंशाभावाद- व्याप्तिः। निरवद्यात्मनि दोषाभावात्स्वप्रकाशे वस्तुनि अविद्यारूप- दोषस्याप्यभावात् । दोषघटितसामग्रन्यपि नास्ति । खप्रकाशत्व नाम खव्यवहारे प्रकाशान्तरानपेक्षत्वम् तञ्च यावत्सत्वम् भासमानात्म- न्यस्त्येव । परप्रकाश्यत्वे प्रकाशाभावदशायामात्मनि सत्त्वसंशया- पत्तेः । अत्रायं पुरुषः स्वयंज्योतिः आत्मैवास्य ज्योतिरिति श्रुते- श्व । अत्र हि ज्योतिरात्मेति सामानाधिकरण्यादात्मनो ज्ञानरूपत्वं भाति । स्वयमिति विशेषणेनात्मनो घटादिवश्विद्वेद्यत्वं प्राप्तं वार्यते । ज्योतिरेव स्वयं न ज्यातिर्विषय इत्यर्थः । यत्तु ज्योति पदं ज्ञानक- तैपरं स्वयमिति च स्वज्ञाने कत्रन्तरनिरासार्थमिति, तन्न । तमोवि- रोधिप्रकाशे रूढस्य ज्योतिःपदस्य ज्ञानकर्तरि लक्षणाया अन्या- य्यत्वान्मुख्यार्थग्रहे ऽनुपपत्त्यभावात् । न चानित्यज्ञानस्य गुणस्य नि- त्यद्रव्याभेदानुपपत्तिरिति वाच्यम् । ज्ञानस्यानित्यत्वे गुणत्वे च मा- नाभावात् । किञ्चानादित्वात् ज्ञानस्य तत्कर्तृलक्षणा न युक्ता। ज्ञानं खाश्रये सति न जन्यते प्रकाशत्वात् प्रदीपरूपवदिति अनादित्वा- नुमानात्। प्रकाशत्वं तमोविरोधित्वं, स्वविषये सशयादिजननयो- ग्यत्वं तमस्त्वं, तच ज्ञानसाधारण तमोनिवृत्तौ भास्वररूपमेव हेतुः, न प्रदीपद्रव्यमिति न तत्र व्यभिचारः । निर्गुणोत्पत्तेर्निरस्तत्वात् । अथवास्वाश्रयसत्त्वस्यानेकक्षणव्याप्यत्वस्य विवक्षितत्वान्न दृष्टान्ते साध्यवैकल्यमिति बोध्यम् । परमतेन प्रत्यक्षगुणत्व वा विशेषणम स्तु।अतो नादृष्टे व्यभिचारः । अत एव नाश्रयाप्रसिद्धिः। परमते त- स्य प्रसिद्धत्वात् । परं प्रति बोधकानुमाने परकीयप्रसिद्धेरेवोप- गमात्। अतः सत्याश्रये प्रकाशगुणस्य काऽपि जन्माऽदर्शनादनाद्यात्म- (१) यावत्स्वत्वमिति पागन्तरम् ।
- १ सू. १ वर्णकम् । २९ नि शानमनादि । ननु सति मनसि वृत्तिर्जायते इति चेत्सत्यम् । त- स्या अप्रकाशत्वान्न व्यभिचारः । अथ वा ज्ञानं क्रियाजन्यसस्का- रेषु संस्कारत्ववज्ञानप्रभारूपसाधारणं प्रकाशत्वमखण्ड व्यवहार- बलादस्त्विति न कश्चिद्दोषः । ज्ञानं न जायते ज्ञानत्वादीश्वरज्ञान- वतू व्यतिरेकेण घटादिवञ्चेति वा प्रयोक्तव्यम् । तस्य ज्ञानस्योपा- धिं विना भेदादर्शनादद्वितीयस्य नाशकाभावाजन्मादिप्रतीते: वृ- त्तिविषयत्वादनन्तस्यात्मनः सकाशाद्भेदे मानाभावादुक्तश्रुत्यात्म- त्वमित्यात्मनः खयंप्रकाशत्वमनवद्यम् । तदेतदभिप्रेत्याह- उदाहरणभाष्यार्थः खयं ज्यातिष्वमात्मन इति । तस्मादहकारे लक्षणाव्याप्तिः कारणाभावश्चति प्राप्ते ब्रूमः । निरंशेप्यात्मनि चित्पूर्णानन्दादिपदवाच्यरूपा अंशाः कल्पिता. स. न्ति । तत्र चिदशरूपाधिष्ठानसामान्यज्ञानं स्वप्रकाशत्वादस्ति पूर्णा- नन्दत्वादिविशेषावरणाशानं चास्ति तदेवाधिष्ठानमावृत्त्याहङ्कारादि- भ्रमं करोतीति दोष इत्युच्यते । अतोऽहङ्कार परत्रात्मन्यवभास्यत्वम् अधिष्ठानसामान्यज्ञानदोषसंस्कारजन्यत्वं चास्ति । यत्तु स्वप्र- काशे कथमविद्येति । तन्न । अनादिस्वरूपाज्ञानस्यानुभवबलेनावि- रोधित्वात् । अनुभवस्त्वहमज्ञ इत्यादिः पूर्व दर्शितः। अनुमानमपि द- शिनम्। श्रुतिरपिजीवस्य सुषुप्तीभ्रान्त्यादिप्रतिबन्धकाभावात्स्वप्रका- शत्वाब्रह्मस्वरूपावभासप्राप्तौ प्रतिबन्धकमविद्यादोष दर्शयति । "सर्वाःप्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकंन विन्दन्त्यनृतेन हि प्रत्यूढा" इति । प्रत्यूढा आवृताः। हिशब्देन साक्ष्यनुभवसिद्धत्वमुच्यते । अन- तेनेति मिथ्यात्वोक्त्या ज्ञानाभावत्वं पराभिमतं वार्यते । अत एवा- ज्ञानस्य न प्रामाणिकत्वम् । अनुभवसिद्धाशाने प्रमाणैरभावव्यावृत्ति- मात्रबोधनात् । यद्यपि भावत्वबोधकप्रमाणानामज्ञानं विषयस्तथा- प्यज्ञातभावत्वांशएव तेषां प्रामाण्यं यद्यप्यज्ञानस्य धर्मवद्यावहा- रिकप्रमाणगम्यत्वे ऽपि न क्षतिर्मिथ्यात्वेनाधिष्ठानज्ञाननिवर्त्यत्व- सम्भवात् । तथाप्यज्ञाने साक्ष्येव सत्तासंशयविरोधिनिश्चयत्वाद्ध- मिग्राहक प्रमाणमिति वस्तुगतिरुक्ता । नीहारेण प्रावृताः, "अज्ञाने- नावृतं ज्ञान"मिति श्रुतिस्मृती अपि भावरूपाविद्यादोषे प्रमाणम्। ज्ञा- नान्मुक्तिश्रुत्यन्यथानुपपत्तिरपि ज्ञाननिवाविद्यायां मानमिति । एवं स्वरूपज्ञानस्याविद्यायाः साधकत्वेनाविरोधात्प्रमाणबला- स्वप्रकाशात्मनि ब्रह्मस्वरूपविषयमज्ञानमस्तीति सिद्धम् । न ३० विवरणोपन्यासे चात्मब्रह्मणोरक्यादाश्रयविषयभेदाभावात्कथमज्ञानमिति वाच्यम् । अज्ञानस्यावरकत्वेन तमोवदावृत्तविषयनिष्ठत्वसम्भवात् । न च का- चादौ व्यभिचारः । करणानाश्रयत्वे सतीति विशेषणात् । ननु तर्हि आवृत्ताखण्डब्रह्मनिष्ठाज्ञानाजीवस्याज्ञत्वभ्रान्तत्ववदीश्वरस्याऽपित- प्रसङ्ग इति चेन्न असर्वज्ञत्वात्। यद्यपि चित्त्वाकारेण जीव इवेश्वरे ऽप्यज्ञानमस्ति, तथा ऽपि नित्यसर्वशेश्वरं बिम्बरूपं ब्रह्म खण्डस्वरूपं नावृणोत्यज्ञानमिति नाशत्वादिप्राप्ति ।स्वप्रतिबिम्बरूपंजीवं प्रति त्व- खण्डस्वरूपमावृणोतीति तस्याशत्वादिप्राप्तिः उपाधेः प्रतिबिम्बपक्ष- पातित्वात् । एतेनाखण्डचिदेकरसे ब्रह्मणि कुतो जीवेश्वरभेदो येना- शत्वसर्वज्ञत्वादिव्यवस्था स्यादिति निरस्तम् । मूलाविद्यात एवा- नादेर्भेदस्याङ्गीकारात् । तन्नाशे नाशादनादेरापि भेदस्याविद्यामूलत्वं युक्तम् । यत्त्वभिन्ने वस्तुनि भेदसम्पादकोऽतिरेको नाम कश्चिद्धर्म इति, तन्न । भेदातिरिक्त तस्मिन्मानाभावात् । यदप्यन्तःकरणं भेदकमिति, तदपि न । तस्य सत्यत्वे मिथ्याभेदप्रयोजकत्वानुपपत्तेः । जीवब्रह्म- भेदस्य मिथ्यात्वमद्वैतश्रुत्या दृश्यत्वाद्भेदत्वाञ्चन्द्रभेदवदित्यनुमानेन च सिद्धम् । सुषुप्तावन्तःकरणस्य स्वमपीतो भवतीत्यादिना नाशाव- गमात्प्रत्यहं तद्भेदाज्जीवभेदापत्तिः सूक्ष्मतायाः अविद्योपादानं विना दुर्निरूपत्वादुपादाने लीनकार्यस्यैव शक्तिरूपस्य सूक्ष्मशब्दार्थत्वात्। नन्वस्त्वविद्योपादानकमन्तःकरणं कल्पितमेवा मोक्षात् स्थूलसूक्ष्मभा- वनानुस्यूतं भेदापाधिरिति चेन्न।तस्य प्रमातृजीवभेदोपाधित्वेऽप्य- नादिजीवब्रह्मभेदोपाधित्वायोगात् । तस्मात्तदुपादानादनाद्यविद्याया एवावरकत्वेन क्लत्तायास्तदुपाधित्वमिति सिद्धम् । ननु किमाश्रये- यमविद्या भेदभ्रमहेतुरिति चेत् ? लोके मुखमात्रसम्बन्धिनो दर्पणस्य बिम्बप्रतिबिम्बभेदभ्रमहेतुत्ववश्चिमात्राश्रयाविद्यायास्तद्धतुत्वमिति ब्रूमः । नन्वसङ्गस्वप्रकाशचिन्मात्रस्याऽविद्याश्रयत्वानुपपत्तेरह- मश इत्यनुभवाञ्चान्त करणविशिष्टाश्रयमज्ञानमिति चेदहो पाण्डि- त्यमायुष्मतः विशिष्टस्य विशेषणमात्रत्वे विशेष्यचिदंशे ऽनुपपत्ति- तादवस्थ्यात् । जडस्य कार्यस्य मनसः कारणाविद्याश्रयत्वानुपपत्ते- श्च। अतो अनुपपन्नद्वयाश्रयत्वाद्वरमेकचिदाश्रयत्वं चितिकल्पिताया अविद्याया अनुपपत्तेरसकारत्वाद्विशिष्टस्यान्यत्वे तन्निष्ठाऽविद्यया चिदात्मनि बन्धमुक्ती न स्याताम् । अतो यस्य मुक्तिस्तस्य बन्धस्तस्या- विद्यति नियमाञ्चिन्मात्राश्रयाविद्या । अहमश इति धीस्तु अहङ्कारा- १ सू. १ वर्णकम् । ज्ञानयोरेकचित्सम्बन्धादृष्टव्या । अयो दहतीत्ययसि दग्धृत्वधीवत् । एतेन केवलान्तःकरणमेवाविद्याश्रय इति कस्य चिजल्पनमपास्तम्। अत्र संग्रहश्लोक:- अज्ञानं स्वप्रकाशे ऽस्ति स्वावृते तद्विवर्तते । तन्मूलो जीवभेदः स्यान्नातिरेकान्न चेतस इति ॥ ननु भवतु स्वप्रकाशचिन्मात्रस्याविद्याश्रयत्वम् । एतस्मिन् ख- ल्वक्षरे गार्याकाश ओतश्च प्रोतश्चेति श्रुतेराश्रयान्तराभावाच सुषुप्तौ चिन्मात्राश्रयत्वानुभवाच्च। तथाऽपि तस्य नाविद्याविषयत्वं भासमा- नस्यावृतत्वाख्याज्ञामविषयत्वविरोधादिति चेन्न । घट न जानामी- त्यज्ञानविशेषणस्य घटस्य भासमानस्यैवाज्ञानविषयत्वानुभवात् । सविषयकवस्तुशाने विषयस्य भासमामत्वनियमात् अतोऽनुभववला- स्वरूपचैतन्येन भासमानत्वमविद्याविषयत्वाविरोधीति कल्पनीयम्। नन्वेवमप्यनावृतसाक्ष्यभिन्न ब्रह्माण कथमावरणमिति चेन्न । पूर्णा- नन्दाय भेदनावरणस्योक्तत्वात् । किं च भासमानेऽप्यावृतत्वं युक्तं, स्वतो ऽपरोक्षसाश्यात्मनि देहाद्भेदे भासमाने ऽप्यावृतत्वदर्शनात् । तथा हि अपरोक्षसंविद्रूपसाक्षितादात्म्येनाऽत्मनो ऽपरोक्षत्व देहाद्भेद: साक्षिाणि तद्रूपस्तद्धर्मों वा धर्मिप्रतियोगिनो समानयोः साक्षिता- दात्म्येनात्मनोऽपरोक्षतया भासतएव । तथाप्यावृतो मनुष्योऽहमित्य- भेदभ्रमात् । अत्र कश्चिदाह। भेदो भासतेऽनावृतश्च अभेदज्ञानं तु गौणं मुख्यत्वे प्रमात्वापत्तेः । न चाथायमशरीर इत्यादिश्रुत्या देहः स्वा- तिरिक्तद्रष्टकः दृश्यत्वादित्यनुमानेन च देहात्मत्वे शास्त्रानर्थक्यकृत- हान्यादित:श्च याधान्मुख्यत्वे ऽपि भ्रान्तित्वमिति वाच्यम् । अभेद- प्रत्यक्षविरोधे श्रुत्यादीनामबोधकत्वादिति तन्न । भेदस्यानावृतत्के देहातिरिक्तात्मनिवादिनां विवादाभावप्रसङ्गात् ।नहि माणवकान्यो- भदे वा कश्चिद्विवदति । तस्माद्भेदे विवादादेहात्मज्ञानं मुख्यमेव ।। उक्तबाधेन भ्रान्तित्वनिश्चयात् न प्रमात्वापत्तिः । केवलश्रुत्यादीनाई प्रत्यक्षादुर्बलत्वे ऽपि तर्कसहकृतानां प्रबलत्वात् । नाऽयं सर्प इति वाक्यादातोक्तत्वात्तर्कसहकृतात्प्रत्यक्षबाधदर्शनात् । ननु तर्हि श्रु- तितर्कज्ञानवतोऽहंप्रत्ययेन भिन्नात्मभानादभेदज्ञानं गौणमिति चेत्, किं तज्ज्ञानेनाऽहंप्रत्ययस्य भेदविषयत्वं क्रियते उत भेदांशे स- तानिश्चयत्वान्नाद्यः । शानस्याप्रत्यासत्तित्वेन ज्ञानान्तरोपनीतभे- ३२ विवरणोपन्यासे दस्य प्रत्यक्षाहंप्रत्ययाविषयत्वात् । न हि घटज्ञानेन (१) पटविषय- कं ज्ञानं भवति । शब्दयुक्त्यनुसन्धानात्प्रागप्यहप्रत्ययस्य साक्ष्यात्मनि भेदगोचरत्वाञ्च तस्य भेदांशे सत्तानिश्चयत्वाभावाद्भासमाने ऽपि भेदे आवृतत्वमुक्तम् । द्वितीयस्त्विष्ट एव । न च श्रुतियुक्तिभ्यामहंप्र- त्यये भेदे सत्तानिश्चये सति अभेदज्ञानं गौणमिति वाच्यम् । परोक्ष- निश्चयस्यापरोक्षभ्रमाविरोधित्वात्। अत एव भगवत्पादौर्विदुषां पश्वा- दिभिरविशेष उक्तः। अपरोक्षनिश्चये तु सर्वस्य बाधात्कस्य गौण- त्वमित्यलम् । तस्माद्भासमानस्याप्यात्मनो ऽविद्याविषयत्वं युक्त- मिति मत्वाह- भासमाने ऽप्यावृतत्वं दृष्ट देहात्मभेदगमिति । एवं स्वयंप्रकाशात्मनि तदाश्रिततद्विषयाविद्यादोषसाधनेना- ऽहड्वाराध्यासे दोषादिकारणत्रयजन्यत्व सिद्धम् । अहङ्कारभ्रमस्य साक्षिरूपस्य विषयविशिष्टत्वेन जन्यत्वं मन्तव्यम् । परत्रात्मनि अ-- वभास्यत्वं च लक्षणं सिद्धम् । नन्वधिष्ठानारोप्ययोरेकज्ञानविषय- त्वमध्यासव्यापकं तदभावादविषयात्मन्यहङ्काराध्यासो न सम्भ- वतीति चेन्न । एकज्ञाने भासमानत्वस्यैव तद्यापकत्वात् । चैत- न्यस्याऽहमिति ज्ञानरूपस्यान्तःकरणस्थत्वेन स्पष्टं भासमानत्वा- दर्पणस्थत्वेन सौरालोकवत् । तदाह भाष्यकारः। अस्मत्प्रत्ययविषत्वा- दिति । ननु तथा ऽप्यमिति ज्ञानं नाध्यासः। अधिष्ठानारोप्यांशद्ध- यानुपलम्भादिति चेन्न । अहमुपलभे इति अंशद्वयानुभवस्य सर्व- संमतत्वादयो दहतीति दग्घृतादात्म्येनायस इवा ऽत्राप्युपलब्धृसा- क्षितादात्म्येनाहकारस्य भानात् । अहङ्कारस्य दृश्यत्वेन घटवद् द्र- ष्ट्टत्वायोगात् । कर्मत्वकर्तृत्वयोरेकस्यां क्रियायामेकस्यायोगेन स्व- द्रष्टुत्वायोगाच्च । द्रष्ट्रहङ्कारौ भिन्नौ तादात्म्येनाऽहमिति प्रतिभासे- ते। ग्रूपस्याऽपि विषयविशिष्टचैतन्यवत्त्वेन द्रष्टुत्वं मन्तव्यम् । एवं दुःखित्वपरमप्रेमास्पदत्वाभ्यां जडात्मांशद्वयमूह्यं तयोरेकत्र सम्भ- वादित्याह अंशद्वयमहङ्कारे सर्वानुभवसाक्षिकमिति । अत्र प्राभाकराः प्रत्यवतिष्ठन्ते । घटमहं जानामीति विषय- संविदाश्रयत्वेन केवल आत्मा भासते। नात्रेदमंशोऽस्ति । यः कल्पितः स्यात् । तथा चापलब्धैवाहङ्कारो न तद्भिन्नः। अयोव्यतिरेकेण वन्हि- (१) घटज्ञानपदज्ञानेनेति क्वचित्पाठः । - - १ सू. १ वर्णकम् । वदहकारातिरेकेणात्मनः कदाप्यदर्शनात्तत्र घटस्य कर्मत्वेन सं- विदः स्वप्रकाशत्वेनात्मनः तदाश्रयत्वेनापरोक्षत्वान्न कर्मकर्तृत्व- विरोधः । अत्र सांख्याः बुद्धिस्थचित्प्रतिबिम्बस्तादृशबिम्बाधीनः प्रतिबिम्बत्वात् मुखप्र- तिबिम्बवदित्यात्मनोऽनुमेयत्व वदन्ति । शाततालिङ्गन ज्ञानमनुमेयमि- तिभाट्टाः । सौत्रान्तिकास्तु संवेदनेषु प्रत्यक्षा अर्थप्रतिबिम्बास्तादृश- बिम्बाधीना इति बाह्यार्थानामनुमेयत्वमाहुः । तदयुक्तम् । घटमहं सा- क्षात्करोमीति प्रमातृप्रमाप्रमेयाणां प्रत्यक्षत्वानुभवविरोधात् । किञ्च बाह्यार्थानामनुमितौ साक्षाद्विषयत्वे प्रत्यक्षे ऽपि तेषामेव विषयता किं न स्यादनुमितेरपि प्रतिबिम्बग्राहित्वे बिम्बासिद्धिर्मानाभा- वात् । तस्मात्रयोऽप्यपरोक्षाः। अत्राह विज्ञानवादी । यदपरोक्षं तद्विशा- नाभिन्नं यथा विज्ञानं अपरोक्षश्च घटादिरिति । तथा च विज्ञानाभेद एवार्थस्यापरोक्षत्वं न तु विज्ञानकर्मत्वमिति तन्न । घटं जानामांति भेदानुभवविरोधात्तस्मादिन्द्रियजापरोक्षज्ञानकर्मत्वमेवार्थस्यापरोक्ष- त्वम् । यदयाहुर्भाट्टास्तार्किकाश्च श्चात्मा मानसप्रत्यक्षविषय इति,तदपि ना कर्तृकर्मविरोधात् । विषयसंविदाश्रयत्वेनैव तस्य प्रत्यक्षत्वसम्भ- वेन तद्विषयकशानकल्पनागौरवात् ज्ञानविषयत्वे चानात्मत्वप्रसङ्गात्। अतो ज्ञानाश्रयत्वमेवात्मनोऽपरोक्षत्वम् । यत्तु ज्ञानमनुव्यवसायगम्य- मिति तार्किकास्तन्न । अनवस्थापत्तेः । निश्चितसत्ताकस्यैव ज्ञान- स्यार्थसत्तानिश्चयत्वेनानुव्यवसायग्रहस्यावश्यकत्वात्। किञ्च। व्यव- सायस्यानन्तरं ज्ञानत्वविशेषणज्ञानेन नाशानानुव्यवसायः जन्य- प्रत्यक्षे विषयस्य हेतुत्वात् । न च विनश्यदवस्थोऽनुव्यवसायोऽस्तीति वाच्यम् ।वर्तमानस्यैव प्रत्यक्षविषयत्वात् । अन्यथा प्रत्यक्त्वापि निष्क- म्पा प्रवृत्तिर्न स्यात् । जानामीति वर्तमानतानुभवाच्च । किञ्च येनात्म- मनःसंयोगेन व्यवसायः, तेनैवानुव्यवसायो जायते, संयोगान्तरेण वा? नाद्यः।अनुव्यवसायमालाप्रसङ्गात् । संयोगभेदं विना ज्ञानभेदा- योगाच्च।समूहालम्बने घटपटादिविषयभेदेन सामग्रीभेदे ऽप्यसमवा- यिकारणसंयोगैक्येन ज्ञानक्यदर्शनात् । न द्वितीयः । क्रियाविभागा- दिन्यायेन संयोगान्तरोत्पत्ती व्यवसायस्य चिरातीतत्वात्प्रत्यक्षत्वा- योगात् । न च ज्ञानं बहुक्षणावस्थायि अपसिद्धान्तात् । आत्मनियुगप- ज्ज्ञानद्वयायोगाश्च । तस्मादुत्पन्नमात्रे ज्ञाने संशयादर्शनात्स्वप्रकाश- त्वमेव ज्ञानस्यापरोक्षत्वम् । ५ - ३४ विवरणोपन्यासे यदा हा ज्ञातताख्यो ऽनुभवो विषयनिष्ठश्चाक्षुषप्रत्यक्षः संयुक्ततादात्म्यादिति । तन्न । अयोग्यानुभवग्राहित्वे चक्षुषस्तनिष्ठ- रसादिग्राहकत्वप्रसङ्गात् । घटस्थाऽनुभवाश्रयत्वे चेतनत्वापत्तेश्च । तस्मादात्मसमवेतस्वप्रकाशज्ञानमेव प्रमाणफलं न शातता । प्रमाण त्वात्ममनइन्द्रियार्थानां सम्बन्धः । एतेन ज्ञानमेवार्थाकारवत्त्वेन प्रमाणम् । अर्थाभेदेन प्रमेयं ज्ञानत्वेन फलमिति बौद्धोक्तं निरस्तम् । स्वस्य स्वहेतुत्वायोगात् । नन्वात्मा संविद्विषयः संविदन्यत्वाद्धटवत् । न च कर्मकर्तृत्वविरोधः । द्रव्यबोधरूपत्वादात्मनो द्रव्यांशेन कर्मत्वं बोधांशेन कर्तृत्वमित्यविरोधादिति चेन्न । ज्ञानकर्मत्वेन द्रव्यांशस्य घटवदनात्मत्वाज्ज्ञानकर्बशस्यैवात्मत्वात् । तस्य च निरंशस्य शान- क्रियां प्रति गुणभूतस्य कर्तुस्तां प्रति प्राधान्यरूपकर्मत्वविरोधताद- वस्थ्यात् । तस्मात्संविदाश्रयत्वेनाऽहड्वारस्य भानादात्मत्वमिति प्राप्तमिमं प्राभाकरकृतं पूर्वपक्षं संक्षिपति- मातृमेयप्रमाणत्वं परोक्षत्वं निराकृतम् । अनुव्यवसितिमानमयाभेदश्च दूषितः॥ प्राभाकरमुखेनैव द्रव्यबोधात्मदूषणमिति । एवं प्राप्ते ब्रूमः । ख- प्रकाशानुभूतिरेवात्मा न जडाहकार इति । तथा हि । किं प्रकाशस्या- त्मनो जडानुभवाश्रयत्वेन सिद्धिरुत स्वप्रकाशानुभवाश्रयत्वेन, किं वा जडस्यात्मनः स्वप्रकाशानुभवाश्रयत्वेन सिद्धिरिति? नाद्यः। प्रमाणफलस्यानुभवस्य जडत्वे ततः काप्यज्ञानावरणनिवृत्त्ययोगा- जगदान्ध्यप्रसङ्गात्। तस्मादनुभवः स्वनिवर्त्य सजातीयेनाऽनावृतःसा- क्षादावरणनिवर्तकत्वात्प्रदीपवत् । अनुभवे चाज्ञानशून्यत्वमनावृतत्वं यवस्यति तञ्च नानुव्यवसायादित्युक्तम् । अतः स्वत एवानुभव- स्थानावृतत्वं वाच्यमिति स्वप्रकाशत्वसिद्धिः। न हि स्वप्रकाश आ- स्मा जडानुभवप्रसादात्सिध्यतीति युक्तं वक्तुम् । न द्वितीयः। उभयोः स्वप्रकाशत्वे मानाभावाद्वौरवान्मिथो वार्तानभिशतया ऽनयाश्रयि- भावासिद्धेश्च । न तृतीयः । तथा हि । अहङ्कारधर्मरूपो योजन्यानु- भवः स न स्वप्रकाशः कार्यत्वात् घट जानामीति दृश्यत्वात् घट- वत् खस्य स्वविषयत्वायोगादनुव्यवसायनिरासाच्च । जन्यानुभ- वविषयकं ज्ञानमहड्वारधर्मातिरिक्तमित्यकामेनाप्यङ्गीकार्यम् । किञ्चा ऽहड्कारो ज्ञानविषयः ज्ञानान्यत्वात् घटवत् । विपक्षे व्यवहारानुप- पत्तिः ज्ञानान्यस्य व्यवहारविषयत्वे ज्ञानविपयत्वस्य प्रयोजकत्वात् ।
१ सू. १ वर्णकम् । ३६ नचानात्मत्वापत्तिर्दोष इष्टत्वात्।तचाऽहकारविषयकं ज्ञानं नाऽहड्का- रकर्तृकं कर्तृकर्मविरोधात् ।सत्याश्रये प्रकाशगुणस्य क्वाप्युत्पत्तेरदर्श- नाश्च । तथा चाहङ्कारतद्धर्मसाक्षिभूतं ज्ञानं लाघवादेकं तदेव स्वप्र- काशम् ।स्वप्रकाशत्वस्यैकव्यक्तिवृत्तित्वे लाघवात् ।तञ्चानादि नित्यम् । जन्मविनाशप्रतीतेश्चक्षुरादिजन्यवृत्तिविषयत्वात् । तच्चाद्वितीयम् । उ- पाधिपरामर्श विना भेदाप्रतीतेः। तदेव चात्मा तद्भिन्नस्यानात्मत्वात्। भेदे मानाभावाच्च । आत्मा स्वप्रकाशानुभूत्याभिन्नः अनुभूतिकर्मत्वा- भावे सत्यपरोक्षत्वादनुभूतिवत् । ततश्च स्वप्रकाश आत्मा तदृश्यो जडो नात्माहङ्कार इत्यहमित्यध्यासेशद्वयं सिद्धम् । ननु सिद्धान्ते स्वप्रकाशचिदात्मैवाऽहङ्कार इत्यङ्गीक्रियतामिति चेन्न । दुःखादिपरि- णामिनश्चिदात्मत्वायोगात् । सुषुप्तौ चिन्मात्रात्मनि भासमानेऽप्यह- मित्यभासमानत्वाश्च । देहादिवदनात्मैवाहङ्कार इत्यभिप्रेत्याऽऽह- अनुभूतेः स्वयं भात्वमैक्यमात्मत्वमेव च । अहङ्कारस्य नात्मत्वं सुषुप्त्यादावभासनात् ॥ इति । ननु चिदात्मन एवाहमित्युल्लेखे विषयानुभवो हेतुस्तदभावात सुषुप्तावहमित्युल्लेखाभावो युक्त इति चेन्न । सापेक्षनिरपेक्षयोर्भेदात् । चिदात्मा विषयज्ञानानपेक्षः सुषुप्तौ भाति तन्मात्रगोचरत्वे ऽहमुल्ले- खस्य तदपेक्षा न युक्ता । अतः सापेक्षो ऽहमुल्लेखविषयो ऽहकारो विषयनिरूप्यश्चिदात्मनो भिद्यते । नन्वहमुल्लेखोऽपि चिदात्मभानव- द्विषयभानापेक्ष एव अतो ऽनपेक्षत्वात्तयोरैक्यमिति चेन्न । सुषुप्ता- वहमित्युल्लेखापत्तेः।नचेष्टापत्तिः। अननुभवात्।सुषुप्तिभङ्गप्रसङ्गाश्च। ह्यस्तनाहङ्कार इव सुषुप्तावहमित्यभिमन्यमान एवासमित्युत्थितस्य स्मृत्यापत्तेश्च ।स्वप्रकाशाहङ्काराभिमानस्याप्यनुभवात्। ननु सुषुप्ता- वहङ्कारे न स्मृतिः अनुभवनाशाभावादिति चेत्तर्हि हस्तने ऽपि सा न स्यात् । ननु सिद्धान्ते कथमहङ्कारस्मृतिरिति चेदुच्यते । अह- ङ्कारानुभवो वृत्त्यवच्छिन्नचैतन्यरूपो वृत्तिनाशानश्यति नाशेन संस्का- रात्स्मृतिः । न च वृत्तिकर्तुस्तत्कर्मत्वे विरोध इति वाच्यम् । कतरि वृत्तिकृताऽतिशयाभावेन कर्मत्वाभावात् । अहङ्कारे चिदशो जडांशा- न्तःकरणकर्तृकवृत्तिविषयः, जडांशो वृत्त्यवच्छिन्नचैतन्यविषय इत्य- विरोधात् । शालग्रामादिज्ञानधाराकालीनाऽहङ्कारस्य स्मृतिर्धारावृत्ति- नाशादेव भवति । तवृत्त्यवच्छिन्नचैतन्यस्य वृत्तितद्विषयतदाश्रया- हङ्काराणां सत्तानिश्चयानुभवत्वादिति मन्तव्यम् । यत्तूस्थितस्य सुख- - ३६ विवरणोपन्यासे महमस्वाप्समिति परामर्शसद्भावात्सुषुप्तौ सुखाश्रयत्वेनाहङ्कारानुभवो ऽस्तीति । तत्राह टीकाकारः। नाऽयं परामर्शः सुखगोचरः स्मृतिरूपः सुषुप्तौ विषयानुभवजन्यसुखानुभवाऽसम्भवान्नित्यसुखे मानाभावात्। किन्तूस्थितस्य दुःखाभावगोचरेयमनुमितिरिति । इदञ्चाहङ्कारात्मवा- दिनं प्रति तन्मतमाश्रित्य समाधानम् । सिद्धान्ते तुसाक्षिस्वरूपसुख- सद्भावात्सुषुप्तौ विक्षेपाभावादज्ञानसुषुप्तिसुखसाक्षिगोचराविद्यावृत्ति- प्रतिबिम्बितचैतन्यात्मकसुखानुभवो जायते । तन्नाशे सति सस्कारो ऽप्यविद्यावच्छिन्ने साक्षिण्यनुभावितरि जायते । स एव साक्षी स्मरति सुखमहमस्वाप्समिति । स्मर्तृसाक्षितादात्म्यादहङ्कारे स्मर्तृत्वावभा- सः। अहङ्कारस्तु स्वमपीतो भवतीति श्रुत्या सुषुप्तावसत्त्वादननुभवा- चोत्थितेन न स्मर्यते। किन्त्विदानीमभिव्यक्तोऽनुभूयते । अन्ये तु सा- क्षिस्थसंस्कारेणाऽहङ्कारः स्मरति तस्यानुभवितृसाक्षितादात्म्याना- नुभवस्मृत्योर्वैयधिकरण्यामित्याहुः। अस्मिन्मते सौषुप्तसुखस्मृतिर्मनो- वृत्तिरेव । पूर्वस्मिन्मते तु अविद्यावृत्तिरिति भेदः। तदेतत्संगृह्णाति- सुखसुप्तिपरामर्शी दुःखाभावैकगोचरः। इति टीकाकृदुक्तिर्या सा न्यायमतसंश्रया ॥ स्वरूपसुखसद्भावात्सिद्धान्ते सुखगोचरः । इति । एवं स्मृतिमूलं सुपुप्तौ सुखानुभवो ऽस्तीति सिद्धम्। दुःखाभाव- स्तु सुषुप्तौ सुखलिङ्गेनोत्थितेनाऽनुमीयते। विशेषज्ञानाभावोऽपिभाव- रूपाज्ञानेनाऽनुमीयते । तस्मात्सषुप्तावहङ्कारस्य भाने साधकाभावा- त्सुषुप्तिभङ्गादिवाधकाश्चात्मनि भासमाने ऽप्यभासमानत्वाद्विनाशि- त्वात्परिणामित्वादृश्यत्वाचानात्मत्वम् । श्रुतावथातो ऽहङ्कारादेश इ- त्यहङ्कारमुपदिश्याथात आत्मादेश इत्यहङ्कारान्निष्कृष्यात्मोपदेशान्म- हाभूतान्यहङ्कार इति स्मृतावहङ्कारं क्षेत्रेन्तर्भाव्य तत्साक्ष्यात्मनःक्षेत्र- शस्य दर्शितत्वाचाहकारस्यानात्मत्वमिति सिद्धम् । तच्चाहकारस्या- विद्या माया प्रकृतिरग्रहणमव्यक्तम् तम.कारणं लय शक्तिर्महासुषु- प्तिर्निद्रा ऽक्षरमाकाशमिति नामकमज्ञानमुपादानम् । ईश्वरः कर्ता भ्रान्तिकर्म संस्कारानिमित्तं विज्ञानक्रियाशक्तिद्वयं स्वरूपं कर्तृत्वा- दिकं कार्य साक्षी प्रमाणमिति मन्तव्यम् । तस्याहङ्काराख्यान्तःकर- णस्य सांशत्वात्सुषुप्तौ प्राणव्यापारानुकूलः क्रियाशक्त्यशस्तिष्ठति । ज्ञानशक्त्यशी लीयते । सांख्यास्तु विचित्रपरिणामस्वभावस्य चेतना- ऽनधिष्ठितस्य प्रधानस्य परिणामो बुद्धिरहङ्कारः कर्तृत्वादिमानित्याहु- १ सू. १ वर्णकम् । स्तन्न । कर्तृत्वादीनामात्मसम्बन्धाभावेन परोक्षत्वापत्तेर्बन्धमोक्ष- वैयधिकरण्याश्च । न ह्यसङ्गात्मनः परनिष्ठकर्तृत्वादिसंबन्धन सत्यः संबन्धो युज्यते। अतः ख्यात्यन्तरनिरासादाविद्यक एव संबन्धो वाच्य इत्यविद्ययाऽऽत्मन्यध्यस्ताबुद्धिरहङ्कार । नैयायिकास्तु बुद्धिनिमित्त- कज्ञानाख्यो गुण आत्मधर्मः मनस्तत्र कारणं तदतिरेकेण कर्तृत्वादि- मान् बुद्ध्याख्यो ऽहङ्कारो ऽप्रमाणिक इत्याहुः । अत्रोच्यते । कामादी- नामसङ्गस्वप्रकाशचिदात्मधर्मत्वासम्भवात् कामः संकल्प इत्यादिश्रु- त्या ऽहमिच्छामि करोमीति दृश्यमानधर्मवत्त्वेन मनो द्रव्यमेव बुद्धि- रहङ्कार इत्युच्यते । बुद्धेर्गुणेनाऽऽत्मा स्वतो महानप्याराग्रमात्रो इष्ट इति श्रुत्या परिमाणगुणवत्त्वाद् बुद्धिर्द्रव्यमेव।बुद्धिर्यदा नेङ्गते, त- दा परमात्मानमश्रुते इति श्रुत्या चेष्टावत्त्वाच । सा च बुद्धिर्मन एव कामः संकल्प इत्यादिश्रुतौ धीर्मन इत्यभेदनिर्देशात् स एवाहङ्कारः कामादिधर्मित्वादित्यलम् । तदेतत्संगृह्णाति. अहङ्कारस्य हेतुश्च स्वरूपं कार्यमेव वा। प्रदर्शितं तथा तस्य द्रव्यत्वं बुद्धिरूपतः ॥ इति । तथा च यथा स्फटिके लौहित्यं कुसुमसान्निध्यदोषात्कल्पित- मेवं प्रत्यगात्मनि कर्तृत्वादिन्धिो ऽहङ्कारसान्निध्यात्कल्पित इत्यसं- सारिब्रह्मैक्यशास्त्रार्थे न कश्चिद्विरोधः । अत्राय प्रयोगः आत्मनि कर्तृ- त्वादिकं मिथ्या सोपाधिकत्वात्स्फटिके लौहित्यवत् । इत्याह- अत आत्मनि बन्धः स्याल्लौहित्यं स्फटिके यथा इति । ननु चक्षुःसंयुक्तसमवायेन कुसुमरूपस्य गृह्यमाणस्फटिके- नाविवेकमात्रं न मिथ्यारूपमिति दृष्टान्तासिद्धिरिति चेन्न । कुसुम- स्य लौहित्यं स्फटिके नास्तीति विवेके ऽपि लोहितः स्फटिक इति प्र- तीतेः, चक्षुःसंयुक्तस्फटिकसन्निहिते कुसुमे घटादिव्यवहिते रूप- ग्रहणासम्भवाच्च । एतेन गृह्यमाणारोप इत्यन्यथाख्यातिनिरस्ता। उक्तव्यतिरेकनिश्चयस्य ग्राह्यज्ञानमात्रप्रतिबन्धकत्वात् । यत्तु रू- पप्रतिबिम्बभ्रमो ऽयमिति, तन्न । द्रव्यं विना रूपमात्रप्रतिबिम्बायो- गात् । सद्रव्यरूपप्रतिविम्बे स्फटिके लोहितं कुसुममिति धीः स्यात् । यदपि कुसुमप्रभासंयोगात्तथा भ्रम इति, तदपि न । पद्मरागादरिव कुसुमस्य प्रभायां मानाभावात् । तथा ऽपि रूपितादात्म्यस्य रक्तः स्फटिक इत्यपरोक्षज्ञानविषयस्य मिथ्यात्वावश्यम्भावादसतो ऽप- रोक्षत्वायोगात। तस्माद्रक्तद्रव्यसनिधिदोपात मिथ्यारूपं जायते इति .
-- ३८ विवरणोपन्यासे दृष्टान्तसिद्धिः। नन्वेवं सति स्फटिके कुसुमे च रूपद्वयवदात्मनि अ. हङ्कारे च कर्तृत्वद्वयं भायादिति चेन्न । धर्मिणोरेकत्वाध्यासेन दी- पयोरैक्ये प्रभयोरेकत्वभानवत्कर्तृत्वयोरेकत्वभानाऽविरोधात् । य- द्वा कर्तृत्वादिधर्मको ऽहकार आत्मनि स्वरूपेण तादात्म्येन च कल्पित इति एकमेव कर्तृत्वादिकम् । न च दृष्टान्तासङ्गतिः। उपाधिसान्निध्या- मिथ्याधर्मभानमित्यंशे तत्सङ्गतेः । अत एव वृत्ति विनैव साक्षि- तादात्म्यादहङ्कारस्य दृश्यत्वलक्षणत इदमर्थस्या ऽपि न व्यवहारत इदमर्थत्वम् । शरीरादेस्तु वृत्तिव्यवधानसिद्धिकत्वाद्यवहारतोऽपीद- मर्थत्वमिति विशेषः । एवं बन्धस्यौपाधिकत्वेन मिथ्यात्वादसंसारि- ब्रह्माभेदाविरोधे सति युज्यते । जीवो ब्रह्मैव । तत्प्रतिबिम्बत्वाइप- णजलादिषु मुखसूर्यादिप्रतिबिम्बवदित्याह-- जीवब्रह्मविभागस्तु लोके बिम्बानुबिम्बवत् इति । न च हेत्वसिद्धिः । यथा ह्यय ज्योतिरात्मा विवखानपोभि- ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवम- जो ऽयमात्मा। स एष इह प्रविष्ट इत्यादिश्रुतेः।यथाऽयं विवस्वानेको ऽपि भिन्ना अपोऽनुगच्छन्ननुप्रविष्टःसन् बहुधा क्रियते एवमात्मा चि- मात्र एको ऽप्युपाधिना जलवत्स्वच्छया मायया भेदरूपो भिन्नो जी. व सन् क्षेत्रशब्दितान्तःकरणादिषु बहुधा क्रियते इति योजना । प्र- तिबिम्बभावातिरिक्तप्रवेशासम्भवाद्विभुकूटस्थेश्वरस्य प्रवेशवाक्य- मपि जीवस्य प्रतिबिम्बत्वे मानम् । “एकधा बहुधा चैव दृश्यते जल- चन्द्रवदिति”स्मृतिरपि । ननु यद्यस्य प्रतिबिम्बं तत्तदेवेति न व्याप्ति । मुखे इमे भिन्ने इति भेदानुभवविरोधात्प्रत्यङ्मुखत्वादिविरुद्धध- मवत्त्वाच्च अतो विम्बमुखस्य छायामुखान्तरं वा प्रतिबिम्ब इति चेन्न । स्पष्टदन्तनेत्राद्यनुभवेन छायात्वासम्भवात् । ग्रीवास्थमेवेदंमुखमित्य- भेदप्रत्यभिज्ञया मुखान्तरत्वायोगात्। अतो बिम्बाधीनचेष्टावत्तया तत्र छायाशब्दो गौणः। किञ्च किं मुखान्तरं दर्पणे सत्यं मिथ्या वा ? ना- द्यः शशमस्तके विषाणस्येव दर्पणे मुखस्योत्पत्तिकारणाभावादर्पणा- वयवानां दर्पणे स्थिते परिणामान्तरायोगात् । दर्पणनाशस्त्वनुभवबा- धितः । दर्पणे पर्वताद्युत्पत्तौ गुरुत्वातिशयात्पतनप्रसङ्गाश्च । बिम्बा- पाये ऽपि स्थितिप्रसङ्गाश्च । न चापेक्षाबुद्धिनाशावित्वादिनाशवन्निमि- तापाये नैमित्तिकप्रतिबिम्बद्रव्यापाय इति वाच्यम् । द्वित्वादेर्यावद्र- व्यभाविसतो ऽपेक्षाबुद्धिव्यङ्गयत्वानिमित्तनाग्रे द्रव्यनाशायोगाश्च ।
१ सू. १ वर्णकम् । दर्पणस्यान्तर्मुखादेरुत्पत्तौ कठिनदर्पणभागव्यवधानेनाऽनुपलम्भप्रस- गाश्च । उपर्युत्पत्तावान्तरत्वानुभवविरोधात् । त्वगिन्द्रियग्राह्यत्वापत्ते- श्व । अतो नसत्यं मुखान्तरम् । यत्तु बिम्बस्य प्रतिमुद्राप्रतिबिम्ब इति, तन्न । स्निग्घसमपङ्के पादस्येव दर्पणे मुखस्य संश्लेषाभावात्परिमाणभे- दाश्च । नापि मिथ्या मुखान्तरं नेदं रजतमिति रजतस्वरूपबाधव- नेदं मुखमिति स्वरूपबाधप्रसङ्गात् । तस्मान्नाऽत्र दर्पणे मुखमिति सं- सर्गमात्रबाधान्मदीयमेवेदं मुखमित्यबाधितप्रत्यभिज्ञानात्तदेव । तत्- प्रत्यङ्मुखत्वादिविरुद्धधर्मास्तु कल्पितभेदादुपपद्यन्ते । ननु मुख- स्याचाक्षुषत्वात्तत्प्रतिबिम्ब कथं चाक्षुषमिति चेन्न । नासिकाद्यव- यवसन्निकर्षेण मुखस्य चाक्षुषत्वादर्पणाभिहता नेत्ररश्मयः परावृ- त्य मुखं व्याप्य व्यत्यस्त दर्शयन्ति । ननु लोके भवतु बिम्बप्रतिबिम्ब- योरभेदः, न तु जीवब्रह्मणोः तत्त्वमसीति संसारिस्वरूपबाधादिति चेतू ? अहो कष्टा तव मतिः! अन्तःकरणोपाधिकल्पितः संसार इति विरोधं परिहत्य बिम्बप्रतिबिम्बदृष्टान्तेन सम्भावितमैक्यं वाक्यस्वा- रस्येन प्रमीयमाणं परित्यजति निश्रेयसार्थिनो नाशं चाङ्गीकरोति । तस्मात्सो ऽयं देवदत्त इतिवदभेदार्थमिदं वाक्यं न बाधार्थमिति सि- द्धमित्याह- तत्त्वमस्यादिवाक्यं च न बाधार्थमितीरितमिति । एवं बिम्बमेवोपाधिस्थत्वन भासमानं प्रतिबिम्बमिति प्रतिबि- म्बं सत्यमेव उपाधिस्थत्वादिधर्मा एव कल्पिता इति तदंशे भ्रमः। न- न्वयं भ्रमो न युक्तः उर्ध्वाग्रो वृक्षो न जलस्थ इत्यपरोक्षविशेषदर्शने ऽपि अधोगत्वादिमत्तया जले वृक्षभानात्तद्धत्वज्ञानाभावादिति चे- भ। प्रतिबिम्बविभ्रमस्य मूलाविद्याकार्यत्वात् न च व्यावहारिक- त्वापत्तिः आगन्तुकदोषजन्यत्वेन स्वप्नवत्प्रातिमासिकत्वोपपत्तेः। अस्ति चोपाधिसन्निधिदोषः । के चित्तूपाधिदोषप्रतिबन्धाविम्बप्रति- बिम्बयोरैक्यापरोक्षज्ञानं नास्तीति ऐक्यावच्छिन्नात्मस्थमवस्थाज्ञानं तदावरकं भ्रमहेतुरस्तीत्याहुः । अन्ये त्वैक्यस्य बिम्बस्वरूपत्वात्प्र- त्यक्षज्ञानमस्त्येचेति न तत्रावरणमस्ति । अज्ञानमात्रं तु भ्रमान्यथा- नुपपत्त्या ऽस्तीति कल्प्यते। कालान्तरे न जानामीत्यनुभवाञ्च निरु- पाधिकभ्रम एवावरण हेतुः । सोपाधिभ्रमे तूपाधि । भ्रमत्वावच्छिन्नं प्रत्यज्ञानं हेतुरिति व्यवस्थामाहुः । विद्यमानमप्यज्ञानमावरणाभा- वाद्विशेषदर्शनप्रतिबन्धाच्च तत्काले न व्यवह्रियते । विशेषदर्शनमप्यु- विवरणोपन्यासे पाधिप्रतिबन्धान्न भ्रमं निवर्तयति । नन्वेवं सति अहं ब्रह्मेति तत्त्व- ज्ञानमप्यहङ्कारोपाधिप्रतिबन्धात्कर्तृत्वादिभ्रमं न निवर्तयेत् । तथा चोपाधिनिरासाथै किमपेक्षितमिति तत एव मुक्तिः स्यादिति चे- दुच्यते । तत्वज्ञाननिवर्त्याज्ञानकार्यत्वादहङ्कारोपाधिन प्रतिबन्ध- कः । दर्पणादिस्तु मुखादितत्त्वज्ञाननिवर्त्याज्ञानकार्यत्वाभावात्तत्त्वज्ञा- नकार्यप्रतिबन्धक इति । ननु देवदत्तप्रतिबिम्बस्येव जीवस्य प्रति- बिम्बत्वे तत्त्वज्ञानाश्रयत्वं न स्यादिति चेन्न । देवदत्तशरीरप्रतिबि- म्बस्याचेतनत्वाज्ञानानाश्रयत्वेऽपि चेतनप्रतिबिम्बस्य जीवस्य चेत- नत्वेन तदाश्रयत्वसम्भवात् । ननु तथा ऽपि तत्त्वज्ञान बिम्बस्येव दे- वदत्तस्य दृष्टमित्यत्रापि बिम्बेश्वरस्यैव तत्वज्ञानाश्रयत्वं स्यादिति चेन्न । भ्रमनिवर्तकतत्त्वज्ञानाश्रयत्वे भ्रान्तत्वस्यैव प्रयोजकत्वात् ।जी- वस्यैवभ्रमहेत्वज्ञानवत्त्वेन भ्रान्तत्वात्तस्यैव तदाश्रयत्वम् । यद्यपीश्व- रस्याऽपि जीववञ्चित्त्वेनाज्ञानवत्त्वमस्ति तथापीश्वरस्य कुत्राप्यावर-- णाभावान भ्रमहेत्वज्ञानवत्त्वमिति न भ्रान्तत्वमित्युक्त पुरस्तात् । अतो देवदत्तस्यापि भ्रान्तत्वादेव तत्त्वज्ञानवत्त्वं न बिम्बत्वादित्य- नवद्यम् । जीवस्यामूर्तनीरूपेश्वरप्रतिबिम्बत्वमाकाशस्य साभ्रनक्षत्र- स्याल्पजले प्रतिबिम्बदर्शनादुपपन्नम् । केचित्तु घटाकाशवदविद्या- वच्छिन्नो जीवो न तत्प्रतिबिम्ब इत्याहुस्तन्न । घटानवच्छिन्नाका- शस्य घटाद् बहिरेव स्थितिवदविद्यानवच्छिन्नेश्वरस्याविद्यकब्रह्मा- ण्डाद बहिरेव स्थितिप्रसङ्गात् । तथा च सर्वसम्बन्धाभावात्सर्वोपा- दानत्वसर्वशत्वादिकं न स्यात् । न ह्यवच्छेदकाभावविशिष्टास्याऽन- वच्छिन्नस्याऽवच्छेदकेन सम्बन्धो युज्यते । ननु बिम्बत्वविशिष्टस्ये- श्वरस्य कथं प्रतिबिम्बोपाध्यविद्यासम्बन्धः बिम्बमुखस्य दर्पणस- म्बन्धादर्शनादिति चेत् । उच्यते । बिम्बत्वं हि यावद्विस्वस्वरूपव्या- पित्वेन मुखादावनुभूयते ।न त्वनवच्छिन्नत्ववदव्याप्यवृति । तथा च सर्वगतचिन्मात्रस्थं बिस्बत्वचिन्मात्रव्यापीत्ति भवति बिम्बत्ववि- शिष्टं ब्रह्म सर्वगतं चिन्मात्रसम्बन्ध्यविद्यायां प्रतिबिम्बचैतन्यसम्ब- न्धश्चास्तीति चिन्मात्रस्य बिम्बचैतन्यस्य च सम्बन्धद्वयमादाय बिम्बस्य द्विगुणीकृत्य वृत्तिरित्युच्यते अनवच्छिन्नस्य तु चिन्मात्र- सम्बन्धव्यवच्छेदकसम्बन्धाभावान्न द्विगुणीकृत्य वृत्तिरिति विशेषः। तस्मात् प्रतिबिम्बो जीव इति पक्ष एव श्रेयानिति सिद्धम्। यत्तु अन- वच्छिन्नस्यापिचिन्मात्रत्वरूपेण सर्वसम्बन्धी ऽस्तीति । तन्न । जीव- ४१ १ सू. १ वर्णकम् । व्यावृत्तरूपेणैवेश्वरस्य सर्वगतत्वादेर्वक्तव्यत्वात्। अन्यथा सार्यात्। यदप्यवच्छेदकसमानसत्ताकाभावावच्छिन्नस्यावच्छेदकासम्बन्धेऽपि पारमार्थिकाभावावच्छिन्नस्याविद्यावच्छेदकसम्बन्धो ऽस्तीति स ई. श्वर इति,तन्न ।अभावस्य सर्वोपादानत्वाद्यप्रयोजकस्येश्वरोपाधित्वा- योगातू । तस्मान्मायनं तु महेश्वरमिति मायावच्छिन्नस्येश्वरत्वश्नुतः तस्योपादानत्वादिप्रयोजकत्वाश्च श्रुतिस्मृतिन्यायसिद्धत्वात्प्रतिबि- म्वभावस्य जीवव्यावृत्तबिम्बत्वाकारेण मायावछिन्न एवेश्वर इति पक्षः साधीयानित्यलमतिविस्तरण । एवमविद्याप्रतिबिम्बत्वाकान्तं चिन्मात्रमेव सुषुप्तिसाक्षी प्राज्ञो जीव इत्युच्यते । स चावि- कल्पचिन्मात्रादीषद्विकल्पाहः । उत्थाने परामर्शयोग्यप्रकाशत्वात् । स चाविद्यया चिन्मात्रादीषद्भिन्नः प्रतिबिम्बो जीवः पुनरन्त क- रणप्रतिबिम्बः सन् स्वप्ने तैजसः प्रमाता कर्ता ऽहमित्यादिस्फुटवि- कल्पा) भवति। ततःपुनरन्तःकरणसंसृष्टे स्थूलदेहे ऽभिव्यक्तः स- न जागरणे विश्वाख्यो मनुष्यो ऽहमित्यादि स्फुटतमविकल्पार्हो भ- वति। एवं पूर्वोपाध्यवच्छिन्नस्यैवात्तरापाध्यवच्छेदाङ्गीकारादुपाधि- भेदे पि नैकत्र देहे जीवभेदस्तत्र प्राशेश्वरयोर्भेदो ऽनादिरशातस- त्ताकचानादेरप्यविद्यासम्बन्धवदविद्याधीनस्थितिकत्वादविद्यातन्त्र- त्वं युज्यते । तैजसादिभेदस्तु कार्योपाधिकत्वात्कार्य इति अविद्यो- पादानकः प्रातीतिकश्चेति विभागः । एवं चिन्मात्रस्यैवाविद्याचि- त्तदेहरुपाधिभिः संसार इति न बन्धमुक्तिवैयधिकरण्यम् । जीवे- श्वरयोः कल्पितभेदान्न सर्वशत्वादिसाकर्यमिति सर्व सुस्थम् । तद- तत्प्रमेयं संगृह्णाति- प्रतिबिम्बस्य सत्यत्वमवच्छिन्नेन जीवता। अज्ञानचित्तदेहैश्च जीवभेदः स्फुटीकृत इति ॥ अवच्छिन्ने जीवता नेति सम्बन्धः । नन्वात्मनि अहड्वाराध्यासो न युक्तः उपाध्यभावादिति शङ्कानिरासार्थ रज्जुसर्पमुदाहरन्ति पू. र्वाचार्याः । यथा पूर्वानुभवसंस्काराद्रजी सर्पो निरुपाधिको ऽध्य- स्यते तथा ऽहङ्कार आत्मन्यध्यस्यते । नन्वात्मनि कर्तृत्वादेरध्यासो नास्ति स्वतः कर्तृत्वादिसम्भवात् । न चाऽसङ्गो ह्यय पुरुष इत्यादि- श्रुत्या निमित्तसङ्गाभावान्न कर्तृत्वादिसम्भव इति वाच्यम् । लोके वस्तुमात्रस्य सङ्गित्वेनाऽसङ्गत्वस्यासम्भवादिति चेन्न । आकाश- चन्निरवयवत्वेनात्मनो ऽसङ्गत्वसम्भवादिति वेत्तुं घटाकाशमुदाह- - ४२ विवरणोपन्यासे रन्तिान ह्याकाशे घटसंयोगः सम्भवति।निरवयवे वस्तुन्यवच्छेदक- भेदालाभेनाव्याप्यवृत्तिसंयोगविरोधादिति मत्वाह- निरुपाधिरहङ्कारो रज्जुसर्पवदिष्यते । आत्मासङ्गत्वसिद्ध्यर्थ घटाकाशो ऽप्युदाहृत इति ॥ नन्वात्मनो ऽसङ्गत्वे प्रमातृत्वानुपपत्ति । तथा च प्रमातृत्व- पूर्वकः सर्वो व्यवहारो लुप्यतातः सङ्गशोलः कर्तृत्वादिरूप एवात्मेति न कर्तृत्वादरध्यासः । न चान्तःकरण प्रमात जडत्वात् । न च स्वरूपज्ञानवत्त्वमेवात्मन प्रमातृत्वमिति वाच्यम् । सर्वदा सर्वार्थज्ञानापत्तेः । अत्राह वैतण्डिकः । कात्मवादे ऽपि विषयविशे- षप्रमातृत्वं न युक्तमिति । तथा हि । घटचक्षुःसंयोगाद्यज्ञान वि- श्वात्मनि जातं तत्किमालोकरूपवद्यावदाश्रयव्यापि उत देहाव- च्छिन्नात्ममात्रवृत्ति ? आद्ये आलोकसंयुक्तसर्वार्थप्रकाशवदात्मसं- युक्तसर्वार्थभानं स्यात् । न च स्वजनकेन्द्रियनिरूपितसन्निकर्षाश्रय.. एव विषयो नान्य इति व्यवस्थेति वाच्यम् । अस्मिन् ज्ञाने घटस- निकर्षजन्यतावच्छेदकस्य ज्ञानान्तराव्यावृत्तस्याऽभावेन जन्यजनक- भावस्य दुर्घहत्वात् । न द्वितीयः। देहावच्छिन्नात्मनो घटाद्यसम्ब- न्धेन ज्ञानस्यार्थेन स्वाश्रयद्वारकसम्बन्धस्याभावात् । असम्बन्धा. थभाने सर्वभानापत्तेः। एतेनाणुपरिमाणात्मवादे ऽप्यव्यवस्था दर्शिता। तस्मान्न कस्यापि मते ज्ञानस्य विषयव्यवस्थेति । अत्रोच्यते । अविद्याप्रतिबिम्बचैतन्यं जीवः बिम्बचैतन्यमीश्वर इत्युक्तम् । तत्र घटादयो बिम्बचैतन्यविवर्तत्वादीश्वरेण नित्यसम्ब- द्धाः न तु जीवेन तेषां सम्बन्धो ऽस्ति । तेषु जीवस्यानुपादानत्वा- दन्तःकरणेन तु जीवस्य स्वभावविशेषात्सम्बन्धो ऽस्ति । यथा गोत्वादेर्दण्डायमानत्वेन सर्ववस्त्वव्यवहितत्वे ऽपि सानादिमत्पिण्डे- नैव सम्बन्धो नान्येन; तद्वत् जीवस्यान्तःकरणं प्रत्युपादानत्वाञ्च तेन सम्बन्धो युज्यते । तथा च यदा घटादयश्चक्षुरादीन्द्रियैः संयु- ज्यन्ते तदा जीवाध्यस्तान्तःकरणस्य विपुलावस्थारूपाविषयसंयु- तैव वृत्तिर्जायते । तया वृत्त्या विषयावच्छिन्नबिम्बचैतन्यमवच्छि- द्यत । एवं जीवो ऽन्तःकरणेनावच्छिन्नविषयाधिष्ठानचैतन्यं तेनाव- च्छिन्नं न भवतीति अन्तःकरणावच्छेदाऽनवच्छेदकृतो भेदो यः पूर्व स्थितः स वृत्त्यवच्छदानिवर्तते । वृत्तिवृत्तिमतोरभेदन वृत्तिद्वारा ऽन्त करणेन विषयचैतन्यस्यावच्छेदात् । एवमन्तःकरणोपहित- १ सू. १ वर्णकम् । जीवतन्यस्य साक्षिणो विषयावच्छिन्नेश्वरचैतन्यस्याऽऽविद्यकभेदे सत्येवैकान्त करणोपाध्यवच्छेदादभेदे जाते सति विषयस्य साक्ष्य- भिन्नचैतन्यतादात्म्यरूपः सम्बन्धो भवति । एवं स्वतो ऽपरोक्षसा- क्षिसम्बद्धो ऽर्थो ऽपरोक्ष इत्युच्यते । तादृशापरोक्षार्थविषयतया वृ- त्तिरपरोक्षेत्युच्यते । तया वृत्त्या वृत्तिससृष्टाविषयेण वा विषयाव- च्छिन्नचैतन्यस्थमावरणमभिभूयते । एकाविद्यावरणवाद ब्रह्मज्ञानं विनाऽऽवरणस्य निवृत्त्ययोगात्। न च कार्येण कारणस्य कथमभिभव? इति वाच्यम् । अग्नेरिन्धनाभिभावकत्वदर्शनात् । अवस्थाज्ञानना- नात्वपक्षे त्वावरण निवर्तते । तथा च विषयापरोक्षत्वव्यवहारप्रति- बन्धकावरणनिवृत्तौ सत्याम् अनावृतं चैतन्यमज्ञानं नाशयति । वृत्तिः । ज्ञानस्यैवाज्ञाननाशकत्वात्। एवमावरणाज्ञाननिवृत्तिरूपाभि- व्यक्तियुक्त विषयावच्छिन्नचैतन्यं फल स्फुरणं प्राकट्यमिति चो- च्यते । ननु अन्तःकरणस्थाया घटविषयाया वृत्तिरूपक्रियायाः सा- 'क्षिभेदेनाभिव्यक्तं स्फुरणं कल्पितभेदन साक्षिस्थं कथं फलम् ? भि- म्नाश्रयत्वात् । लोके गमनादिक्रियाफलस्य ग्रामप्राप्त्यादेः कर्तृस्थ- त्वदर्शनात् । स्फुरणस्य घटो न विषयः । वृत्त्यैव तद्यवहारोपपत्तेः। अतो वृत्त्यवच्छिन्नान्त करणादिरेव स्फुरणस्य विषय इति भिन्नवि- षयत्वाच्च तन्न तस्याः फलमिति चेन्न । साक्ष्यन्त करणयारेक्या- ध्यासेन वृत्तेः साक्षिस्थत्वेन स्फुरणसमानाश्रयत्वाद्यवहारे व्यव- हर्तव्यप्रकाशस्यैव हेतुतया व्यवहर्तव्या घटः स्फुरणस्य विषय इति समानविषयत्वाञ्च । के चित्तु विषयससृष्टावृत्तिस्थप्रतिविम्बचैतन्यं फलमित्याहुः । तत्र टीकायां चैतन्यविवर्तत्वादृत्तिससृष्टो विषयो ऽन्तःकरणा- वच्छिन्नचतन्याभेदेन स्वावच्छिन्नचैतन्यरूपामपरोक्षतामभिव्य- नक्तोत्युक्तिविरोधात् । तत्र हि विषयस्यास्वच्छस्य कथे चैतन्य- व्यञ्जकत्वमित्याशक्यान्तःकरणस्य स्वस्मिन्निव स्वसंसर्गिण्य- भिव्यक्तियोग्यताहेतुत्वाद्वात्तिसंसर्गाद्विषयस्यावरणाभिभावकत्वरू- पं व्यञ्जकत्वमित्युपपाद्य विषयेण व्यङ्गयस्य चैतन्यस्याभावमाश- श्य चैतन्यविवर्तत्वाद्विषयस्याधिष्ठानत्वेन चैतन्यमस्तीति प्रतिपा- दितम् । तस्माद्विषयावच्छिन्नमव चैतन्यमज्ञात सत्प्रमेयम् । अभिव्य- तं सत्फल वृत्त्यवच्छिन्न चैतन्यं प्रमावृत्तिमदन्त करणाच्छिन्नं प्र- मातृ इति व्यवस्था सिद्धा। यद्यप्यज्ञानोपाधिना शुद्धचिन्मात्रमंव ४४ - विवरणोपन्यासे सर्वसाक्षि तथापि देवदत्तादिप्रमातुरसङ्कीर्णव्यवहारहेतुत्वमन्तः- करणोपहितत्वेनैव वाच्यमित्यन्तःकरणोपहितो ऽप्तङ्कीर्णव्यवहारा- साक्षीत्युच्यते । सर्वसाक्षिणः सर्वव्यवहारहेतुत्वयोग्यस्य परि- च्छिन्नव्यवहारहेतुत्वायोगात् । एवं साक्षिणो विषयेण तदवच्छि- न्नचैतन्याभेदद्वारा सम्बन्धार्थमावरणभङ्गार्थ वृत्तनिर्गमनमावश्य- कमित्युक्तार्थ द्वाभ्यां संगृह्णाति- जीवस्य व्यापिनः सङ्गसिद्धावावृत्तिभञ्जने । वृत्तिर्हेतुरभेदार्था वेति पक्षा उदाहृताः ॥ धीनित्यसङ्गी विषयव्यक्तचिदिम्बसङ्गि यत् । अपरोक्षं तदेवेति प्रतिकर्मव्यवस्थितिः ॥ इति । यदन्त करणवृत्तिससृष्टो यो विषयः तस्यैव तदन्तःकरणावशि- ष्टप्रमात्रपेक्षया तदुपहितसाक्ष्यपेक्षया वा ऽभेदेनाभिव्यक्तबिम्बचैतं- न्यरूपस्फुरणतादात्म्यादपरोक्षता नान्यस्योति प्रतिविषयव्यवस्था । अपरोक्षविषयव्यवस्था तु वक्ष्यते । ननु साक्ष्यभिन्नबिम्बचैतन्यस्थ- त्वेन घटस्यैव पूर्णानन्दत्वसर्वज्ञत्वादीनामपरोक्षता स्यादिति चेन्न । तदंशावरणनिवर्तकतदाकारापरोक्षवृत्त्यभावात् । तस्मादृत्तिमदन्तः- करणतादात्म्यादात्मनि प्रमातृत्वाद्यध्यास इत्यनवद्यम् ॥ ननु साक्ष्यभिन्नसंविदभिन्नत्वेन नीलाद्यर्थानामापरोक्ष्य विज्ञाना- तिरिक्तोऽर्थो नास्तीत्युक्तं स्यात्तथा च बौद्धराद्धान्तापत्तिरिति चेन्न। वैषम्यात्। ते हि क्षणिकविज्ञानातिरेकेणार्थक्रियासमर्थत्वरूपसत्वा- कान्तो ऽर्थो नास्तीत्याहुः । वयं तु अनाद्यवन्ताद्वितीयसविदतिरेकण ताहशसत्त्वाकान्ता अर्थाः स्थायिनः सन्तीति ब्रूम इति न सिद्धा- न्तसङ्करः । ननु संविद्विषययोर्भेदे किं मानमिति चेदुच्यते । संवि- तावदेका नीलाद्यर्थभेदे ऽपि सवित्सविदित्येकाकारप्रत्ययात् । न चाऽयं जातिगोचर. संविद्यक्तिभेदे मानाभावात् । नीलसंवित पी- तसविन्न भवतीति प्रतीतेरौपाधिकभेदगोचरत्वात् । तथा च संवित् व्यावृत्तार्थेभ्यो भिन्ना अनुवृत्तत्वात् घटमठादिभ्य आकाशवत् । किश्चाऽहं नीलं पश्यामीति कर्तृकर्मभावेनालयसंविदो नीलाद्भेदः प्रत्यक्षः त्वया ऽङ्गीकृतश्च । तथा च नीलसविन्नीलाद्भिन्ना सवित्त्वात् । 'आलयसंविदभिन्नत्वाद्वा आलयसंविद्वत्। न च द्वितीयहेत्वसिद्धिः। संविदैक्यस्य साधितत्वात् । न च नीलस्य स्वसंविदा भेदे तद्विष- 'यत्वं न स्यात्पीतवदिति वाच्यम्।अत्यन्ताभेदे ऽह नीलं पश्यामीति १५ १ सू. १ वर्णकम् । ग्राह्यग्राहकभावेन भेदानुभवविरोधात् । ननु कथं तर्हि नीलसंवि- दो नीलमात्र विषयः ! भिन्नस्याऽसाधारणसम्बन्धाभावात् । न च संविदः इन्द्रियव्यापारेण यस्मिन् वस्तुनि असाधारणसम्बन्धो भवति स एव तद्विषय इत्युक्ता व्यवस्थति वाच्यम् ।क्षणिकविज्ञानानांतादृश- सम्बन्धानुपपत्तः। अतो यद्यद्भानाभिन्नं तदेव तस्य विषय इत्यभेद एव सम्बन्धो ऽभ्युपेय इति । भेदानुभवो विभ्रम इति चेन्न ।आत्मरूपविज्ञा- नस्य क्षणिकत्वे मानाभावात् । नन्विदानी जानामीति वर्तमानक्षणा- वच्छिन्नतया भासमान विज्ञानं क्षणान्तरावच्छिन्नविज्ञानाद्यावृत्तं प्रत्यक्षमिति चेन्न । वर्तमानत्वेनानुभूयमाने विज्ञाने विज्ञानान्तराद्भेद- स्याप्रत्यक्षत्वात्।न चातिसादृश्याद्विज्ञानानां भेदोन स्पष्टमवभासते दीपज्वालानामिवति वाच्यम् । भेदासिद्ध्या सादृश्यासिद्धेः। तथा हि। किंविज्ञान विज्ञानान्तराद्भेदोधर्म्यतिरिक्तोवाधर्मिरूपोवा? आद्येऽपि भेदः किं विज्ञानान्तरग्राह्य उत धर्मिज्ञानग्राह्य.?नाद्यः । धर्मिप्रतियो- गिरूपविज्ञानयोर्भेदग्राहिविज्ञानान्तरग्राह्यत्वापातात् । तथा च स्वप्र- काशत्वभङ्गः तयोराहकज्ञाने कल्पितत्वमभिन्नत्वं च स्यात् । ज्ञाने शेयस्य कल्पितत्वाभिन्नत्वयोस्त्वयाङ्गीकारात्तथा च कस्य कुतो भेदग्रहः । न द्वितीयः । स्वातिरिक्तस्य ग्राह्यत्वानङ्गीकारात् । नापिधर्मिरूपः सादृश्यात्तस्याभाने विज्ञानस्वरूपमेव न भासते इ. त्युक्तं स्यात्तथाच जगदान्ध्यप्रसङ्गः। अपि च सोऽहमित्यालयविज्ञा- नैक्यप्रत्यभिज्ञाविरोधान्न सादृश्य कल्पयितुं न च सादृश्यादियं भ्रा- न्तिरिति वाच्यम् । भ्रान्तित्वे ज्ञाते भ्रान्तिहेतुत्वेन सादृश्यज्ञानं भिन्नयोरैक्यभ्रमे सादृश्यस्य हेतुत्वात् । एव सादृश्ये झाते तेन तिरोहितभेदनिश्चयादैक्यप्रत्यभिज्ञाभ्रान्तित्वज्ञानमित्यन्योन्याश्रयात्। न हि गोसहशो गवय इतिवद्विज्ञानानां सादृश्यं प्रत्यक्षं येनान्योन्या- श्रयो न भवेत् । तस्मात् ज्ञानानां स्वतः प्रामाण्याद्वाधकानुपलम्भाश्च प्रत्यभिज्ञा प्रमति न क्षणिकत्वमित्याह- संविद्विषययोरैक्ये बौद्धवादो भवेदिति । आशङ्क्यैक्यं निरस्तं च तथा क्षणिकता तयोः॥ इति । ननु केय प्रत्यभिज्ञा नाम ? ननु पूर्वानुभवसंस्कारसहितादिदा- नीन्तनकारणाजातं पूर्वापरकालद्वयांपलक्षितं वस्तुगोचरमेकज्ञानमि- ति चेन्न।तात्मनि सा सम्भवति स्वप्रकाशात्मरूपानुभवस्य नित्य- वन तन्नाशजन्यसंस्काराभावात् । स्वप्रकाशस्यानुभवकारणाभा- - ४६ विवरणोपन्यासे बाच्च । सामग्यभावात्सोऽहमित्यत्र स इत्यहाभत्याकारभेदेन विषय- भेदात् ज्ञानक्यासम्भवाच्च । स्वप्रकाशस्याविषयत्वेन विषयाभा- वाञ्च । अतो युक्तिबाधात्प्रत्यभिज्ञाभ्रान्तिरिति चेत् उच्यते । अन्तः- करणविशिष्टात्माहङ्कारस्तस्या विषयः । न च सुषुप्तौ तस्य नाशान्न प्रत्यभिज्ञाविषयत्वमिति वाच्यम् । तदापीतेरिति न्यायेन तदानीमपि सूक्ष्मजड़ांशसत्त्वेनान्तःकरणरूपधर्मिमात्रविशिष्टचैतन्यस्यामोक्षं स्था- यित्वात् । अहमाकारवृत्तिनाशजन्यसंस्कारसहितान्तःकरणं तस्याः सामग्रीत्याह- आत्मनि प्रत्यभिज्ञा या सामग्रीविषयस्थितेः। सवासनाधीः सामग्री विषयो ऽहं मनोयुतः ॥ या प्रमेत्यर्थः । तत्र हेतुः सामग्रीति । ननु पूर्वानुभवसंस्कारप्र- त्यभिज्ञा एकविषया वाच्या। न ह्यात्मा वृत्त्यवच्छिन्नचैतन्यरूपस्य पूर्वानुभवस्य विषय जडांशस्यैव तद्विषयत्वात् । तस्मान्न चिदंशस्य प्रत्यभिज्ञाविषयत्वमिति चन्न । पूर्वानुभवे भासमानस्यैव स्मृता- विव प्रत्यभिज्ञायां विषयत्वप्रयोजकत्वात् । भासमानत्वं चानुभ- वप्रयुक्तः संशयाद्यभाव इत्युक्तम् । जड़विशिष्टत्वेन चिदशस्याऽपि विषयत्वोपपत्तेश्च । एतेन प्रत्यभिज्ञाविषयत्वमात्मनो व्याख्यातम् । नन्वहङ्कारस्य प्रत्यक्षप्रत्यभिज्ञायां कर्मत्वं कर्तृत्व च विरुद्धमिति चेन्न । खतो ऽनावृत्ताहङ्कारे वृत्तिरूपप्रत्यभिज्ञाकृतातिशयाभावेन कर्मत्वाभावात् । भावे वा चिदंशविशिष्टान्तःकरणत्वेन कर्तृत्व पूर्वापरकालोपलक्षितजडविशिष्टचिदंशत्वेन विषयत्वमित्यविरोधा- त् । वृत्त्यवच्छिन्नचैतन्यरूपप्रत्यभिज्ञायां तु चित्प्राधान्येनाश्रयत्वं जडप्राधान्येन विषयत्वमित्यनवद्यम् । यदुक्तमाकारभदान्न ज्ञान- क्यं तन्न । विज्ञान क्षणिकमिति विज्ञानस्याकारभेदे ऽप्येकत्वात् अन्यथा ज्ञाने क्षणिकत्ववैशिष्ट्यं न सिध्येत् । विशिष्टज्ञानाभावा- त् । तच्चैकं प्रत्यभिज्ञानं तत्रांशे संस्कारातिरिक्तहेत्वभावातू स्मृतिरूपं द्रष्टव्यम्।यत्तु प्रत्यभिज्ञाश्रयत्वेनैवात्मनः स्थायित्वमिति प्राभाकरोक्तं तदयुक्तम् । ज्ञानान्यस्य ज्ञानविषयत्वनियमात् । अन्यथा सो ऽहमिति ज्ञानस्य निर्विषयत्वापत्तिः। किञ्चक्षणिकप्रत्यभिशा ह्याश्रयं तत्कालीनं साधयति। न तु तस्य स्थायित्वमनपेक्षितत्वात् । ननु सोऽहमिति व्य- वहारमात्रं, न ज्ञानं न च स्थायित्वासिद्धिः, इदानीन्तनस्मृत्या घटो अनुभूत इत्येवंरूपया तद्विषयानुभवेन च पूर्वकालीनेनात्मनस्तदाश्रयत्वे- १ सू. १ वर्णकम् । न पूर्वापरकालीनत्वसिद्धेरिति चेन्न । स्मृत्यनुभवाभ्यां तत्तत्काली- नात्मसिद्धावप्यैक्यासिद्धेः । न चानुभवस्मृत्योर्भिन्नाश्रयत्वानुप- पत्त्याऽऽश्रय आत्मैक इति ज्ञायते इति वाच्यम्। अर्थापत्तिज्ञानस्याप्या- त्मविषयत्वायोगात् । तद्विषयत्वे च सर्वजनसिद्धप्रत्यभिज्ञाविषयत्वं दुर्वारमित्यलम् । तस्माद्विज्ञानात्मनः प्रत्यभिज्ञाप्रमया स्थायित्वं सिद्धम्। एवं घटादिविषयस्यापि स्थायित्वम् । यत्तु घटोत्पत्त्यव्यवहितानन्तर- क्षणे एतद्धटध्वंसवान् एतदुत्पत्त्यनन्तरक्षणत्वात् एतद्धंसक्षणवदि- त्यनुमानात्वणिकत्वमिति, तन्न । एतद्धसक्षणा एतद्धटवन्तः काल- त्वादुत्पत्तिक्षणवदिति प्रत्यनुमानात् । न च ध्वंसानुभवविरोधः। उत्पन्नो घटो ऽनन्तरमस्तीत्यनुभवेन तदनुमानस्यापि बाधितत्वात् । घटस्योत्पत्त्यनन्तरं सर्वसम्मतनाशक्षणात्पूर्वक्षणा एतद्धटाधारा ए. तद्धटप्रागभावस्य सम्मतध्वंसस्य चानाधारक्षणत्वात् उत्पत्तिक्ष- णवदित्यनुमाने बाधाभावाञ्च । अथ सर्वे भावाः क्षणिकाः अर्थ- क्रियाकारित्वाद्यतिरेकेण नरशृङ्गवत् । न चाप्रयोजकत्वं, स्थायिनो ऽर्थक्रियाकारित्वासम्भवात्।तथा हि । किं तस्य क्रमेण कार्यकारित्वम, उत सकृदेव यावत्स्वकार्यकारित्वम् ? नाद्यः। अनेकानि कार्याणि कर्तु शक्तश्चेद्युगपदेव कुर्यान्निरपेक्षहेतौ सति कार्यक्रमायोगात् । न द्वि- तीयः। एकस्मिन् क्षणे यावज्जीवकृत्यसमाप्तौ क्षणान्तरे सत्त्वायो- गादर्थक्रियाकारित्वरूपत्वात् सत्त्वस्योति। अत्रोच्यते।न तावत्सकृत्कृ- त्वा तूष्णीम्भूतस्यासत्त्वप्राप्तिः । प्रमाणाबाधितत्वरूपसत्त्वानपा- यात् । न चार्थक्रियाकारित्वमेव सत्त्वमिति वाच्यम् । तथा हि । किं स्वविषयकज्ञानमर्थक्रिया उत समानजातीयकार्यान्तरम् अथ वा यत्किञ्चित्कार्यान्तरम् ? नाद्यः । स्वप्रकाशसंविदामसत्त्वापातात् । नन्वेकधीसन्तानसंविदा परस्पराविषयत्वे ऽपि सर्वशेश्वरसन्तान- संविदं प्रति विषयत्वेन जनकत्वमस्ति, प्रत्यक्षज्ञाने विषयस्य हेतु- त्वादिति चेन्न । सर्वज्ञसंविदो ऽसत्त्वापातात् । किञ्च सर्वशवि- शुद्धसविदः सोपप्लवजीवसविद्विषयकत्वे सोपप्लवत्वापत्तिः । ज्ञानस्य त्वन्मते ज्ञेयाभेदात् । न च सर्वज्ञसंवित् जीवस्य शोकायुपप्ल- वान्विहाय ज्ञानमात्रं विषयीकरांतीति वाच्यम् । ज्ञानाभिन्नोपप्लव- विषयताया दुर्वारत्वात् । उपप्लवाशाने तन्निवृत्त्युपायोपदेष्टुत्वायो- गाश्च । न द्वितीयः । चरमक्षणस्यासत्त्वप्रसङ्गात् । तथा हि । सां- सारिकज्ञानानि स्थायित्वादिभिरुपप्लवैरुपेतानि हेतुहेतुमद्भावेन स- की विवरणोपन्यासे न्तन्यमानानि भवन्ति। तत्र सर्व क्षणिकमिति सर्व स्वलक्षणं शुद्ध- मिति सर्व दुखमिति सर्व शून्यमिति चतुर्विधभावनाभिः क्रमेण स्थायित्वं नामजात्यादिसम्बन्धः शोकफलकप्रवृत्तिहेतुरागादिः वि- शानानां सविषयत्वं चेति चतुर्विधा उपप्लवाः क्षीयन्ते । ततो नि- रुपप्लवो विशुद्धविज्ञानरूपस्तत्त्वबोधापरनामा चरमक्षण उपज्ञायते । तस्य कार्यान्तराभावाञ्चरमत्वमिति परस्य मतम् । तथा चार्थक्रिया- शून्यत्वात्तस्यासत्त्वप्रसङ्ग । ततः पूर्वविज्ञानस्यापि कार्यासत्त्वाद- सत्त्वमिति क्रमेण सर्वमसदेव मन्दबुद्धेर्बोधस्य प्राप्नोति । एतेन तृ- तीयः कल्पो निरस्तः। न च चरमक्षणोऽपि सर्वज्ञविज्ञानं विशुद्ध- त्वेन सजातीयं जनयतीति वाच्यम् । सर्वज्ञसन्तानस्थपूर्वक्षणादेव निरपेक्षात्तदुत्पत्तरस्याजनकत्वात् । न च विषयतया सो पि जनक इति वाच्यम् । चरमत्वव्याघातातू सन्तानविच्छेदात्मकमुक्त्यभावप्र- 'सङ्गाश्च । न च संसारसन्तानापेक्षया चरमत्वं सर्वज्ञसन्तानैक्य- रूपमुक्तिश्चेति वाच्यम् । विषयविषयिणोरेकसन्तानत्वायोगात् । तु- ल्ययोः प्रदीपयोरिव विषयविषयिभावासम्भवाच । स्वप्रकाश- सविन्दे मानाभावाच्च । तस्मानार्थक्रियाकारित्वं सत्त्वं; किं तु बाधाभावोपलक्षितस्वरूपत्वमित्यर्थक्रियाशून्यस्यापि सत्त्वमुपपन्नम्। यदुक्तं स्थायिनः क्रमकारित्वायोग इति तन्न । सहकारिसन्निधि- क्रमात्कार्यक्रमोपपत्तेः । ननु शक्तस्यान्यापेक्षा न युक्ता । अशक्तत्वे तु सुतरां न युक्तेति चेन्न । शक्तस्यैव मृदादे. प्रधानकारणस्य दण्ड- चक्रादिसहकार्यपेक्षानुभवादित्याह सार्द्धन- न कार्यकारिता सत्ता किन्त्वबाधस्वरूपता। स्थायिनः क्रमकारित्वं सहकारिक्रमाद्भवेत् ॥ शक्तस्यापि सहापेक्षा त्वन्वयव्यतिरेकत इति ॥ न चात्रैव मृद्धटं प्रति शक्तसामग्रीक्षणसिद्वये सहकारिणमपेक्षते इति वाच्यम् । सामग्रयां मृदः शक्तत्वेऽन्यापेक्षा न युक्ता अशक्तत्वे तु न सुतरामिति त्वदुक्तदोषानपायात् । तस्मादन्वयव्यतिरेकाभ्यां कार्यकारणभावमभ्युपगच्छता प्रधानकारणस्य शक्तस्येव सहकार्य पेक्षा ऽन्वयव्यतिरेकानुभवबलादभ्युपेया । ननूपकारादर्शनात्सह- कारिप्वपेक्षा न युक्ता । न चाकुरे शक्तस्य बीजस्य जलादिभिरुच्छू- नत्वरूपो विशेष उपकारो दृष्ट इति वाच्यम् । तं विशेषं यदि जला- दयो बीजे विशेषान्तरं कृत्वा कुर्युस्तदा विशेषानवस्थाप्रसङ्गात् । - 3 - १ सू. १ वर्णकम् । यदि विशेषान्तरमकृत्वैव निर्विशेषे बीजे विशेषाख्य कार्य कुर्युस्तह- स्मिन्कार्ये बीजस्य स्वस्मिन्ननुपकारकेषु तेषु अपेक्षा न युक्ता किन्तु कार्यमेव स्वजनकत्वेन तानपेक्षते इति चेत्तर्हि स्थायिकारणाजा- यमानं कार्यमेव सहकारिसन्निधिमपेक्ष्य क्रमेण जायतामिति तुल्यम् । नन्वस्त्यत्र वैषम्यम् । क्षणिको भावः स्वसमकालैः क्षणिकैः सहकारिभिरुत्तरकार्यक्षण जनयति।सोऽपि तथा कार्यान्तरमिति का- र्यक्रमः क्षणिकवादे युज्यते । स्थायिवादे तु प्रधानहेतोः सहकारिणां च स्थायित्वेन तत्कृतसन्निधेरपि सदा सत्त्वात्तत्कार्याणां सदा ज- न्मप्रसङ्गे नक्रमो न युज्यते इति । मैवं विषमं मंस्थाः । साम्यस्य सत्त्वात् । तथा हि । न तावत्स्वन्मते व्यक्त्योः कार्यकारणताग्रहः सम्भवति । क्षणिकयोरन्वयव्यतिरेकबुद्धिक्षणद्वयस्थित्यभावात् । न चान्वयमात्रात्कारणताग्रहः । पूर्ववर्तिमात्रस्य सर्वस्य हेतुतापत्तेः । तथा च धूमार्थिनः कारणविशेषाज्ञानाद्वन्ही प्रवृत्तिन स्यात्। तस्माद्वि- ज्ञानात्मसन्तानो द्रष्टा धूमाग्निसन्तानयो—मत्वादिसामान्येनान्वयव्य- तिरेकाभ्यां हेतुतां गृहीत्वाप्रवर्तते इति वक्तव्यम् । तत्रायग्निसन्तानम- त्तदङ्गारावस्थायां धूमानुपपत्तेः । काष्ठस्वलक्षणसन्तानः सहकार्यभ्यु- पेयः । तथा चाग्निकाष्ठसन्तानयोर्नित्यत्वेन तत्संयोगस्य नित्यत्वात्तव सदा धूमजन्मप्रसङ्गः । यदि संयोजकसन्तानकृतः संयोगो न नित्य इत्युच्यते तहस्मिन्मते स्थायिहेतुसहकारिसन्निधेः कादाचित्क- त्वात् क्रमेण कार्यक्रम इति तुल्यम् । इयान्विशेषः । सन्तानातिरिक्त- सन्तानाभावात्तव कार्यकारणताग्रहो दुर्लभः । प्रत्यभिज्ञाबाधश्चा- तिदारुणो न स्थायिवादिनामित्यलमतिप्रसङ्गेन । एवमनाद्यनन्ताद्वि- तीयसंविदो ऽन्ये ऽर्थक्रियासमर्थाःस्थायिनो ऽर्थाः सन्तीत्यङ्गीकारान्न सर्वक्षणिकत्ववादिना वेदबाह्येन वैदिकशिरोमणीनां वेदान्तिनां सि- द्धान्तसाङ्कर्यम् । यदि पुनःसंविदभेदेनार्थापरोक्षोक्तिमात्रेण वेदान्तिनां बौद्धसाम्यं तदा सर्ववादिनां बाह्यसिद्धान्तसावर्य स्यादित्याह- यत्किञ्चिद्वौद्धसाम्यं चेत्सर्वसिद्धान्तसङ्कर इति । मन्त्रार्थवादेतिहासपुराणानां स्वार्थे प्रामाण्यानङ्गीकाराद्विग्रह- वद्देवतेश्वरप्रसिद्धस्वर्गलोकवेदान्तसिद्धतत्त्वानामनङ्गीकाराच लौ- कायतबौद्धसाम्य प्राभाकरस्य भेदाभेदाभ्युपगमाञ्च वार्तिकका- रस्य क्षपणकसाम्यं च परिमाणभेदेन द्रव्यस्य क्षणे क्षणे नाशं पद- न्तस्तार्किका वैनाशिकतनया एव । बन्धमोक्षादीनां साङ्कर्य भेदा- - विवरणोपन्यासे भेदाभ्यां वदतः सर्वसङ्करवादिनः क्षपणकांशपरिणतत्वं स्फुटमेव । एतेन विज्ञाने परिकल्पितत्व पदार्थानां बौद्धवेदान्तिनोस्तुल्यमिति प्रलापोऽपि कस्य चिन्निरस्त.।विज्ञाने प्रतिभास्यत्वं वदतस्तस्याऽपि बौद्धतुल्यत्वापत्ते । तस्मात्कल्पितमत्यन्तासदिति वदता बौद्धेन वे- दान्तिनां कल्पितस्यासद्वलक्षण्यं यथानुभव कार्यकारित्व स्थायित्वं च वदतां साम्यं ब्रुवाणो विवेकिभिः संप्रदायशून्यः परमहंसप्रद्वे- षीत्युपेक्षणीयः । एवमुक्ता तावदपरोक्षविषयव्यवस्था। परोक्षे तु वि- षयस्य वर्तमानत्वानियमेन वृत्ति प्रति कारकत्वाभावान्न स्वावच्छि- न्न चैतन्यव्यञ्जकत्वं कर्मकारकस्यैव वृत्तिसंसृष्टस्यावरणनिवृत्तिरू- पाभिव्यक्तिहेतुत्वात् । तस्मादभिव्यक्तचैतन्यतादात्म्यरूपं फलव्या- प्यत्वाख्यमपरोक्षत्वमनुमेयादेास्तीत्याह- परोक्षे वृत्त्यसम्बन्धान्नापरोक्ष्यमिति स्थितिरिति । वृत्तिविपयत्वं तु वृत्त्याकारतया विद्यते।नचासाधारणसम्बन्धाभा- वे कायं कश्चिदेव वन्यादिरनुमितावाकारो नान्य इति व्यवस्थोति वा- च्यम् । अभावासम्वद्धस्यापि घटस्य तन्निरूपकत्ववद्वन्ह्यादेरनुमिति- निरूपकत्वरूपाकारत्वसम्भवातायाऽनुमितियद्याप्यत्वज्ञानजन्या सा तदाकारेति व्यवस्थोपपत्तेश्च । एवं शक्तिसादृश्यादिसम्बन्धमहिम्नोप- मित्याविषयव्यवस्था ज्ञेया । वस्तुतस्त्वविद्यैवासम्भावितावभासन- चतुरा वृत्त्यवच्छिन्ने साक्षिणि विषयावच्छिन्नचैतन्ये च दण्डायमा- नतया स्थिता सती तयोविषयविषयिभावं घटयतीति मायावादे न क्वाऽप्यनुपपत्ति.। सा चावस्था झानाख्या विद्यासाश्यात्मस्थत्वेन व- न्ह्यादिव्यवहारप्रतिबन्धिका सुषुप्तिरित्युच्यते । विषयावच्छिन्नचै- तन्यस्थत्वेन संशयभ्रमादिहेतुरिति स्थितिः। तन्न। परोक्षवृत्त्या ऽप्या- स्मस्थाज्ञानांशो नश्यति । तदुक्तम् । अनुमेयेषु सुषुप्तिव्यावृत्तिरिति । तथा च विषयावच्छिन्नचैतन्यावरकाज्ञानांशसत्त्वे ऽपि तदाकारवृत्त्य- वच्छिन्नसाक्षिणा ज्ञानांशनाशवता वस्तुत एवाभिन्नचैतन्यद्वारा वि- षयस्य सम्बन्धाद्वन्हि जानामीत्यादिव्यवहारो युज्यते । वृत्तिनिर्ग- मनाभावेनावरणानिवृत्तर्विषयस्याऽऽपरोक्ष्याभावश्चेत्यनवद्यम् । एवम- न्तःकरणोपाधिना परोक्षापरोक्षविषयप्रमातृत्वमसङ्गचिदात्मन उप- पनम् । तत्पूर्वक च कर्तृत्वादिकमहमित्यनुभवे भासमानात्मन्यध्य- स्तमिति सविकल्पकाधिष्ठाने सविकल्पकाध्यासस्य सम्भवो द- शितः अस्मत्प्रत्ययविषयत्वादिति भाष्येण । वस्तुतस्तु निर्विक- १ सू १ वर्णकम् । ल्पके ऽपि स्वप्रकाशत्वेनाऽपराक्ष चिदात्मन्महङ्कारादिसविकल्पका- ध्यासः सम्भवति । अपरोक्षत्वं चात्मन पुन सर्वलोकानुभवसिद्धम् । न च स्वप्रकाशत्वं विना तत्सम्भवति । न च घटादिकर्मकस्वप्रकाश- संविदाश्रयत्वेनात्मनो ऽपरोक्षत्व सम्भवतीति वाच्यम् । संवि- दो ऽन्यस्य संवित्कर्मत्वं विना ऽपरोक्षत्वायोगात् । न च संवित्क- मत्वेनात्मत्वापत्तिः । संविदन्यत्वे ऽपि तदापत्तरपरिहारात् । अस्तु ज्ञानकर्मत्वेनापरोक्षत्वमिति चेन्न । कर्तृकर्मन्वविरोधात् । किञ्च घटानुभवकाले तदाश्रयात्मानुभधो ऽस्ति न वा? न चेन्मया ऽनुभूतो घट इत्यात्मानुभवयो. सम्बन्धनानं न स्यात् । सम्बन्धिज्ञानाभावात्। न च पश्चादात्मनि ज्ञाते अनुभवसम्बन्धज्ञानमिति वाच्यम् । अनु- भवस्य नष्टत्वेन तत्सम्बन्धप्रत्यक्षायोगात् । घटानुभवकाले ऽनुभ- वस्य स्वात्मसम्बन्धाऽनिश्चये घटो मया परेण वा ऽनुभूत इत्यग्रे सं- शयापत्तश्च । अथ तत्काले स्वात्मानुभवो ऽस्तीति चेन्न । युगपदात्मा- ऽनात्मज्ञानद्वयानुपपत्तेः।शालग्रामादिध्यानकाले ध्यानतदाश्रययो - नासम्भवाच्च । तज्ज्ञाने ध्यानविच्छेदादज्ञाने च मया ध्यातमिति स्मरणावशिष्टव्यवहारयोरसम्भवः । तस्माद्धयातृध्यानध्येयसा- क्ष्यात्मा स्वप्रकाशत्वनैवाऽपरोक्ष इति युक्तस्तत्रापरोक्षाहकाराध्यास इत्याह आत्मनस्त्वपरोक्षत्वं स्वयं भात्वान्न चान्यथा । इति । यत्त्वपरोक्षाध्यासेऽधिष्ठानारोप्ययोरेकेन्द्रियग्राह्यत्वनियमादिन्द्रि- याग्राह्यात्मनि प्रत्यक्षाध्यासो न सम्भवतीति,तन्न । अचाक्षुषेऽप्याकाशे प्रत्यक्षनष्फल्याद्यध्यासदर्शनाम्निवमासिद्धानन्याकाशज्ञानं कथमिति चेदुच्यते।शब्दलिङ्गात्तस्थानुमितिरिति कणभक्षाक्षपादपक्षपातिनः। मूर्तद्रव्यानुपलब्धिलिङ्गानुमेयो मूर्ताभाव आकाश इति बौद्धा लौ- कायताश्च । भाषरूप एवाकाशो मूर्ताभावत्वेनोक्तलिङ्गानुमेय इति प्राभाकग । चाक्षुष इति क्षपणका भाट्टाश्चाहुस्तन्न । नीरूपद्रव्यस्य चाक्षुषत्वायोगात् । नाप्यभाष आकाशः शब्दगुणत्धेन श्रुतिस्मृत्या- दिषु द्रव्यत्वावगमात् । सिद्धान्ते तु के चिच्छब्दलिङ्गानुमेयत्वमि- च्छन्ति। अन्ये तुलिङ्गशानं विमैन चक्षुआपारान्वयव्यतिरेकाभ्यामा- लोकवृत्त्यभिव्यक्तचैतन्याभेदेन साक्षिवेद्यत्वमाहुरित्याह अक्षाग्राह्यमपि व्योम साक्षिवेद्यमितीरितम् । इति । तस्मादात्मन्यध्यास. सम्भयतीति सिद्धम् । एवं कर्तृत्वाचनर्थ- - ५२ विवरणोपन्यासे स्याध्यस्तत्वान्निवृत्तिः फलं सिध्यति। तथा च भाष्यम् । यत्र यदध्या- सस्तत्कृतेन गुणेन दोषेण वा ऽणुमात्रेणापि स न सम्बध्यते इति । इस्थमध्यासस्य लक्षणसम्भावने कथिते अधुना प्रमाणमुच्यते । साक्षिप्रत्यक्षं तावदहममाध्यासे प्रमाणम् । अनुमानमपि।तथा हि । दे- हेन्द्रियादिष्वहंममाभिमाने सति लौकिकशास्त्रीयसर्वव्यवहारः अ- भिमानाभावे सुषुप्तौ व्यवहाराभाव इत्यविवादम् । तथा च व्यवहारो भिमानजन्यः तदन्वयाद्यनुविधायित्वात् । यदित्थं तत्तथा यथा दण्डजन्यो घट इति।यद्वा देवदत्तस्य जाग्रत्स्वप्नकालौ देवदत्तस्य दे- हादिष्वभिमानवन्तौ देवदत्तस्य व्यवहारकालत्वात् व्यतिरेकेण तस्य सुषुप्तिकालवत्। देवदत्तसुषुप्तावन्येषां जाग्रत्काले बाधनिरासाय पक्षे देवदत्तस्येति, यज्ञदत्तस्याध्यासेन श्रुक्तिरूप्याध्यासेन चार्था- न्तरतानिरासाय देवदत्तस्य देहादिष्विति क्रमेण पदद्वयम् । अन्यव्य- घहारकाले देवदत्तसुषुप्तौ व्यभिचारवारणाय हेतौ देवदत्तस्येति । न च साध्याप्रसिद्धिः प्रत्यक्षत्वात् । न चानुमानस्य व्यर्थता अभ्युञ्च- यार्थत्वात् । यो यस्य व्यवहारकालः स तस्याभिमानवान्यथा व्या- घ्रभीतयज्ञदत्तपलायनव्यवहारकाल इति अन्वयव्यतिरेकी वा ऽस्तु । एवं प्रमातृप्रमाणादिव्यवहारानुपपत्तिरप्यध्यासे प्रमाणम् ।केवलास- ङ्गात्मनो जडान्तःकरणमात्रस्य वा प्रमाश्रयत्वायोगात्। अतो जडता- दात्म्याध्यासरूपाविद्यावानेवात्मावृत्तीद्धबोधात्मकप्रमाश्रयः प्रमाते- ति व्यवह्रियते। तत्कारणानि प्रमाणानीत्युच्यन्ते । तदाह भगवान् भाग्यकारः । अविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति । यत्तु देहादेरात्मना स्वस्वामित्वस्वेच्छानुविधायित्वस्वभो- ग्यत्वादिसम्बन्धेनैव व्यवहारोपपत्तेः किं तादात्म्याध्यासेनेति तन्न । असङ्गचिदात्मनः स्वामित्वादेरध्यासं विना ऽनुपपत्तेः । ननु स्वर्वशरीरव्यापिजीवात्मनः कथं शरीरविशेषे ऽध्यासनियम? इति चेदुच्यते । एकजीववादे तावत् नाऽयं नियमो ऽस्ति । एकस्यैवसर्वदे- हाभिमानित्वात् । मनोभेदेन प्रमातृभेदान्न प्रमातृत्वादिसावर्यम् । नानाजीववादे तु बदविद्योपाधिकोयो जीवस्तदविद्याकार्यलिङ्गशरीरे एव तस्याभिमानः । यल्लिङ्गतादात्म्याभिमानी यस्तस्य तल्लिङ्गस्थक- रिब्धे तल्लिङ्गसंसृष्टे श्लिष्टो स्थूलशरीरे ऽभिमान इति नियम इति। नन्वविद्यावदाश्रयत्वे प्रमाणानांप्रमाण्यं विरुद्धम्,आश्रयगताविद्यादो- पादप्रमाण्यापातादिति चेत् उच्यते। अबाधितार्थकत्व हि प्रामाण्यम् १ सू. १ वर्णकम् । तञ्चाविद्यावदाश्रयत्वे ऽप्यविरुद्धम् । तत्र वेदान्तानां बाधायोग्यब्रह्मा- र्थकत्वात्तत्त्वावेदकत्वलक्षणं प्रामाण्यम् । प्रत्यक्षादीनां तु व्यवहारल- मर्थवस्तुबोधित्वाद्यावहारिकं प्रामाण्यं व्यवहारकाले प्रपञ्चनाशक- बाधाभावाच्च। नन्वाश्रयदोषजन्यत्वेनाप्रामाण्यापत्तिरित्युक्तमिति चेदु- च्यते । वस्तुतत्त्वबोधके प्रमाणे सति तत्त्वावभासप्रतिबद्ध्यभ्रान्तिप्र- योजको दोष इत्युच्यते । यथा काचादि । अन्तःकरणाध्यासस्तु न क्वापि दोषः प्रमातृत्वेन ज्ञानसामान्यकारणत्वात् अविद्याध्यासस्तु साक्षिचैतन्येन स्वाभिन्नाद्वितीयपूर्णानन्दब्रह्मावभासं प्राप्तं प्रतिब- ध्याहङ्कारादिप्रपञ्चभ्रान्तिप्रयोजकत्वाच्चैतन्यरूपप्रमाणापेक्षया दोष इत्युक्तं विद्यते एवमाप्यग्रहणाविद्यात्मको दोष इत्यत्र टीकायां नत्वियं चैतन्याद्भिन्नवेदान्तजब्रह्मावभास प्रति दोषः । प्रमात्रा- दिद्वारा ब्रह्मप्रमाहेतुत्वात् । चक्षुरादिभिः प्रपञ्चज्ञाने तु भवत्येवाऽयं दोषः । परं तु नैसर्गिकदोषजन्यत्वाद्यवहारकाले न भ्रान्तित्वव्यव- हार: । तस्मादविद्यावदाश्रयाणि प्रमाणानीत्यनवद्यम् । ननु व्यवहारानुपपत्तिरध्यासे न प्रमाण विवेकिव्यवहारस्याध्यासं विना ऽपि दर्शनेनानुपपत्त्यभावादिति चेन्म । विवेकिव्यवहारो ऽध्या- समूलः व्यवहारत्वात् पश्वादिव्यवहारवदित्यनुमानात्पश्वादीनां च स्वप्रकाशात्मानात्मवस्तुद्वयाज्ञानवतामविवेकादध्यासो ऽस्तीति नि- श्चीयते सामग्यसस्वात् । न हि तेषामात्मानात्मविवेको ऽस्ति उपदे- शं विना विवेकासम्भवात्।नराणां तु विवेके सत्यप्यध्यासविरोध्यप- रोक्षज्ञानाभावादध्यासः सम्भवति । देहनिन्दादिना शोकादिदर्शना- श्च । एतेन शास्त्रीये व्यवहारे यागादौ देहान्तरोपभोगफलके देहा- तिरिक्तात्मनिश्चयं विना बहुवित्तव्ययायाससाध्ये प्रवृत्त्ययोगान्ना- ध्यासमूलत्वं व्यवहारमात्रस्येति निरस्तम् । देहातिरिक्तात्मनि कर्तरि निश्चिते ऽपि अध्यासविरोधिनिश्चयाभावात्। अत्र लब्धावस- रश्चार्वाकः प्रत्यवतिष्ठते । दहातिरिक्तात्मानं विना ऽपि कर्मचोदना- प्रामाण्यमुपपद्यते । तथा हि। स्वर्गकामो यजेतेति चोदनायां कः स्वर्गः? नतावल्लोकविशेषजं सुखं कार्यार्थकचोदनामात्रप्रमाणवादिना सिद्धा- र्थकमन्त्रार्थवादादीनां स्वार्थे प्रामाण्याभावेन मानाभावात् । अथ सुखमात्रं स्वर्गस्तर्हि तत्फलकचोदना न देहाद्भिन्नमात्मानमपेक्षते । अस्मिन्नेव देहात्मनि सुखसम्भवात् । यत्तु विध्यपूर्वरूपस्थायि- कार्यानुपपत्त्यैव देहान्तरभोग्यालौकिकस्वर्गसिद्धौ तद्भोकुर्देहाति- विवरणोपन्यासे रेकसिद्धिरिति तत्रालौकिकस्वर्गो स्थितेः प्रागनुपपत्त्यभावेनापूर्वस्या- नुपस्थितस्य सङ्गतिग्रहासम्भवेन विध्यर्थत्वासिद्धेः । तथा च प्रथ- ममलौकिकस्वर्गोपस्थितिस्तत. क्षणिकयागस्य तद्धेतुत्वानुपपत्ति- ज्ञानं ततः स्थाय्यपूर्वोपस्थिति. तत सङ्गतिग्रहस्ततो विधिप्रत्ययेन तज्ज्ञानं तबलादलौकिकस्वर्गसिद्धिरिति षट्चक्रकापत्तिः । एतेना- न्त्येष्ट्याद्यपूर्वस्य देहस्थत्वानुपपत्त्या तद्भिन्नात्मसिद्धिरिति प्रत्युक्तम्। उक्तरीत्या क्रियातिरिक्तापूर्वासिद्धे ।नाऽपि नित्यनैमित्तिकविधिबला- देहाद्भिन्नात्मसिद्धिःनिष्फलविधे कनपेक्षत्वात्। पापनाशादिफलं तु दहमात्रे युज्यते। अत एव न प्रायश्चित्तविधितोऽपि भिन्नात्मसिद्धिः। पापफलभोगायापि न भिन्नात्मापेक्षा अत्रैव दुःखानुभवसम्भवात् । सिद्धार्थकवाक्याप्रामाण्येन नरकलोकासिद्धरिति । सत्यं नास्त्येवा- त्रोत्तर चोदनामात्रप्रमाणवादिनां मीमांसकमन्यानामस्माक तु सि- द्धार्थकमन्त्रार्थवादादेरप्यपौरुषेयत्वेन मानान्तरानपेक्षत्वेन प्रामा- ग्यात् । तत्सिद्धालौकिकस्वर्गफलकविधिसामर्थ्यादेहातिरिक्तात्म- सिद्धिः। सिद्धे वाक्यप्रामाण्यं समन्वयसूत्रे विस्तरेण वक्ष्यते इत्यलं प्रपञ्चेन। तथा चार्थवादैकवाक्यतापन्नचोदनाप्रयुक्तकर्मणि व्यवहारे उपेक्षित एवातिरिक्तात्मनिश्चयस्तथापि वेदान्तवेद्याशनायाद्यतीता- द्वितीयाससार्यात्मबोधस्य कर्ममूलाध्यास विरोधित्वान्नापेक्षित इ- त्यध्यासमूलत्वं शास्त्रीयव्यवहारस्याविकलम् । तथा ब्राह्मणो यजेते- त्याद्यागमो ऽपि ब्राह्मणादिशब्देन देहतादात्म्याध्यासवन्तमधिकारि- णं तमनुवदन्नध्यासे प्रमाणम्। अधुना प्रमाणसिद्धोऽध्यासो विभज्यते । तत्र शुद्धचैतन्ये ऽना- दिरज्ञानाध्यासः । तद्वति चैतन्ये जीवाख्ये मनस्तद्धर्मकामादीनाम- ध्यासः । मनोवच्छिन्नञ्चैतन्ये देहतद्धर्मकार्यादीनामिन्द्रियधर्म- काणत्वादीनां चाध्यासः । देहावच्छिन्नचैतन्ये पुत्रादीनां वृद्धिहानि- शाननिमित्तकः साकल्यवैकल्याध्यास इति विभाग इत्यभिप्रेत्याह- प्रत्यक्षमनुमानं चाप्यर्थापतिस्तथागमः। मानान्यध्याससत्तायां स विभज्य प्रदर्शित इति ॥ यत्तु कामादय आत्मधर्मा एव न तेषामध्यास इति, तन्न । अ- खण्डकूटस्थात्मनः कामादिपरिणामित्वायोगात् । मनसि सत्येव का- मादीनां भावादसति च सुषुप्तावभावात् । कामः सङ्कल्प इत्यादि- श्रुतेश्च मन एव कामाद्धिर्मि तत्तादात्म्यादात्मनि कामादीनाम- १ सू. १ वर्णकम् । ध्यासः । यद्यपि साक्ष्यात्मतादात्म्यं विना कामादीनामपरोक्षत्वा- योगात्तादात्म्यमस्ति तथाऽप्यहं काम इति तादात्म्येन भानंन भवति। किन्तु सत्यपि तादात्म्ये रूपी घट इतिवदहकारे ऽपि अनादिवास- नया सम्बन्धित्वेनैवाध्यासः । तत्रैक्यकल्पितभेदांशद्वयरूपे तादा- त्म्ये भेदांशमात्रभानमिति यावत् । एवमहमिति चिदचितोरैक्य- मात्रभानं द्रष्टव्यम् । तच्च कामादिधर्मिं मनो मध्यमपरिमाणं साक्षिप्र- त्यक्षवेद्यं च। “अगमन्मे मनो ऽन्यत्र सांप्रतं च स्थिरीकृतम् । दुःखितं हृष्टमित्येवं स्वापरोक्षानुभूतितः” । तार्किकास्तु सर्वेन्द्रियेषु स्वस्वा- विषयसम्बद्धेषु युगपत् ज्ञानानुत्पत्त्यन्यथानुपपत्त्या क्रमेणेन्द्रियसयो- गशाल्यणु मन सिध्यतीत्याहुस्तन्न । समनस्कचक्षुःसन्निकृष्टे घटे युग- पदनेकज्ञानप्रसङ्गात्। न च मनस. क्रमज्ञानजननसामर्थ्य कल्प्यते इति वाच्यम् । ज्ञानकर्तृव्यतिरिक्तं मनस्तस्य क्रमेणोन्द्रियसंयोगायाणुत्वं क्रमसामर्थ्यमित्यनेककल्पनागौरवात् । अतोलाघवात्तानकर्तर्येव क्रम- सामर्थ्यमात्रं कल्प्यमित्यनन्यथासिद्धानुपपत्त्या न कर्चतिरिक्तमनः- सिद्धिः । तस्मात्साक्षिवेद्य मन इति सिद्धमित्याह । मनः कामादिधर्म स्यात्साक्षिप्रत्यक्षमेव चेति ॥ एवं प्रत्यगात्मन्यहङ्कारादीनां स्वरूपतः संसर्गतश्चाध्यास उक्तः। आत्मनो ऽस्यहङ्कारादिषु संसर्गतोऽध्यासो वाच्यः।अनध्यस्तस्य भ्रमे भानायोगात् । रजतभ्रमे तादात्म्यसम्बन्धेन रजते ऽध्यस्ताधिष्ठान- सामान्यस्य भानादनध्यस्तशुक्तित्वस्याभानादहमुपलभे इत्यहङ्कारे चैतन्यभानात्संसर्गाध्याससिद्धिः । नन्वात्मनश्चैतन्यरूपविशेषभाने कथमध्यास इति चेन्न । विशेषस्यात्मन्यभानात् । जडाहङ्कारादौ त- द्भानं त्वध्यास एव । वस्तुतस्तु पूर्णानन्दब्रह्मत्वमेव विशेषः चैतन्य तु शुक्तेरिदंत्ववत्सामान्यमिति मन्तव्यम् । चैतन्यस्य स्वरूपाध्यासा- नङ्गीकारात् न शून्यतापातः। तत्र चिदात्मनोऽन्तःकरणे ऽध्यासस्तदुप- हितस्य तत्संसृष्टे देहे ऽध्यासःमनोविशिष्टस्य देहेऽध्यासे चार्वाकस्य देह आत्मेति भ्रमायोगात्। आत्मतादात्म्यं ह्यनात्मनि अहङ्कारे वादि- नामात्मभ्रमहेतु. क्लप्तः । विशिष्टस्त्वनात्मेत्युपहित आत्मैव देहे ऽध्य- स्यते इति देहात्मत्वभ्रमो युक्तः । एवमन्यान्याध्यासः कर्तृत्वादिस- निर्थहेतु. सिद्धस्तस्य हेतुरनाद्यावयेत्युक्त पुरस्तात्तस्यास्तत्त्वम- स्यादिवाक्योत्थापरोक्षतत्त्वज्ञानात्तनिवृत्ती सर्वानर्थनिवृत्तिरात्यन्ति- की प्रयोजनमस्य शास्त्रस्य सिद्ध भवति । नन्वनादभावस्य कथं ।
५६ विवरणोपन्यासे निवृत्तिरिति चेदनादिप्रागभावस्येव । निवर्तकसन्निपाते सति अना- दिभावस्थाऽपि निवृत्तिरिति ब्रूमः। अतोऽन्यदाते यदल्पं तन्मर्त्यमिति सद्विलक्षणस्य सर्वस्य नाशश्रवणात्। नन्वनर्थनिवृत्तिवदानन्दावाप्ति- रपि फलं श्रुतं तरति शोकमात्मवित ब्रह्म वेद ब्रह्मैव भवतीति श्रुतेः । पूर्णानन्दात्मकं ब्रह्म भवतीत्यर्थ । तत्कथं भाष्ये तस्यानर्थहतोः प्र- हाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते इत्यत्रान- र्थनिवृत्तिमात्रं फलमुक्तमिति । उच्यते । आत्मन आनन्दरूपब्रीक्यं विषय इत्युक्तावादभिव्यक्तानन्दः फलमित्युक्तं भवति । अनर्थनि- वृत्तिस्तु तत्त्वज्ञानानान्तरीयकतया जायमाना शास्त्रविषयाऽभिन्नति मत्वा पृथगुक्तत्याह- एवमध्याससंसिद्धौ तन्निवृत्तिः प्रयोजनम् । विषयश्चापि शास्त्रस्य ब्रह्मात्मैक्यं सुखं भवेदिति ॥ नन्वस्थूलादिवाक्यैः प्रपञ्चाभावरूपं ब्रह्म प्रतिपाद्यते तदैक्यं तत्त्वमस्यादिशास्त्रविषय इति कथं निवृत्तिर्विषयाद्भिन्नेति ? सत्यम्। प्रपञ्चात्यन्ताभावः शास्त्रविषयः । ब्रह्माभेदानतु निवृत्तिब्रह्मभिन्ना प्रपञ्चसमानकालीनस्य ब्रह्मणस्तन्निवृत्तित्वायोगात् । ध्वसस्य प्रतियोगिभिन्नकालत्वादिति मतेन विनिवृत्तेविषयात्पृथनिर्देशः । भवतु कल्पितस्याभावः सर्वो ऽप्यधिष्ठानमेवेति मते नेत्यनवद्यम् । सा चानन्दावाप्तिप्रतिबन्धकाभावत्वेन पुरुषार्थः । आनन्दावाप्तिस्तु मुख्यं फलमित्यन्ये । ननु प्रपञ्चाभावत्वेन ब्रह्मनिषेधवाक्यैःप्रमातुम- शक्यम् ।सप्रपञ्चत्वानुभवविरोधादिति चेन्न तावत्प्रत्यक्षेण सप्रपञ्चं ब्रह्मेत्यनुभवः सम्भवति ब्रह्मणो ऽतीन्द्रियत्वात् । नाप्यनुमानेन तस्य कारणमात्रगोचरत्वान्न चागमः सप्रपञ्चपरः कश्चिदस्ति । इदं सर्व यदयमात्मति वाक्यं तु ब्रह्मण उपादानत्वश्रुतिसामर्थ्यप्राप्तसर्वात्म- त्वं नेति नेतीति निषेधायानुवदति । न प्रतिपादयति यच्छब्दयोगात्। द्वैतप्रतिपादने फलाभावादनर्थदर्शनाच्च । द्वैताभावे सुषुप्तौ सुखदर्श- नात्। “अशब्दमस्पर्शमरूपमव्ययं तथा रसं नित्यमगन्धवञ्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते”। इति निषेधज्ञानान्मुक्तिश्रवणाच निषेधवाक्य फलवदज्ञातार्थत्वादलवदि- ति निष्प्रपञ्चमेव ब्रह्मेत्याह- ब्रह्म तनिष्प्रपञ्चं स्यान्निषेधबलवत्त्वत इति । सृष्टिवाक्यं तु न मुख्यतः सप्रपञ्चतां बोधयति । किं त्वन्यत्र प्र- + - १ सू. १ वर्णकम् । पञ्चसत्ताभ्रान्तिनिरासार्थ ब्रह्मोपादानकत्वमुक्त्वा तत्र निषेधेनाद्वि- तीयं ब्रह्म प्रतिपादयति । अर्थात्प्राप्त सप्रपञ्चत्वमुपासनार्थमनुवद- सर्वकर्मा सर्वकामःसर्वगन्ध इत्यादिवाक्यमप्यनन्यशेषनिषेधवाक्य- विरोधान्न तत्परम् । एवं जीवोऽपि कर्तृत्वादिसंसारशून्य एवान चा- ऽनुभवविरोधः।इच्छाकृतिदुःखादिग्राहकप्रमाणाभावेनानुभवस्य भ्र- मत्वात् । मनसस्तदुपादांनत्वेनाप्रमाणत्वात् । यत्तु दुःखादीनां स्वस- त्तायां प्रकाशाव्यभिचारात्स्वप्रकाशत्वमिति बौद्धैः प्राभाकरैश्चोक्तं तन्न । शानान्यस्य घटक्दस्वप्रकाशत्वात्स्वप्रकाशत्वस्यैकात्मवृत्तित्वे लाघवाच्च । तस्माच्छुक्तिरूपादिवत्साक्षिवेद्यः कर्तृत्वादिसंसार इति। वस्तुतो ऽसंसायैव जीव इति निष्प्रपञ्चब्रह्मैक्यमेवावाधितं शास्त्रस्य विषय इति सिद्धमित्याह- असंसारी तथा जीवो न दुःखादिः स्वयंप्रभ इति । नन्वनर्थनिवृत्तेः शास्त्राविषयत्वे कथं सिद्धिरिति चेदुच्यते । अहं ब्रह्मास्मीति ज्ञानाद्वाक्योत्थादनर्थमूलाज्ञाननिवृत्त्या तज्ज्ञानार्थस्य निवृत्तिर्जायते।शुक्तिज्ञानादिव प्रत्यक्षाद्रजतनिवृत्तिः सा च प्रतियो- ग्यनुपलम्भसहकृतेनाधिष्ठानसाक्ष्यनुभवेन ज्ञायते इति नान्तरीय- कतया सिद्धा ऽनर्थनिवृत्ति । तथा चाऽधिष्ठानज्ञानादर्थसिद्धरजत- निरासं यथा नेदं रजतमिति वाक्यमनुवदति । यथा का देवतोहे- रोन द्रव्यत्यागरूपक्रियावाचिना यजतिना क्रियाज्ञानाऽनान्तरीयक- तया सिद्धयोर्द्रव्यदेवतयोराज्यविष्ण्वादिशब्दविशेषे नियमार्थमनु- वादः। तदुक्तम् । यतिचोदना द्रव्यदेवताक्रियासमुदाये कृतार्थत्वा- दिति । यजतिशब्द शक्त्या क्रियांवदस्तदविनाभूतं द्रव्यं देवतांच बोधयति । त्रयाणां समुदाये झाते सति आकाशाशान्तरित सू- त्रार्थः । तथानर्थनिवृत्ति विद्वदनुभवसिद्धां तरति शोकमात्मविदिति वाक्यमनुवदतीति शास्त्रविषयावहिर्भूतानर्थनिवृत्तिरिति मन्वानो भगवान् भाष्यकारस्तां पृथगभाषयत् । अस्याऽनर्थहेतोः प्रहाणायेति मत्वाह- ज्ञानादनर्थनाशस्तु न श्रुत्यर्थो ऽर्थसिद्धित इति । नन्वत्र भाष्ये विद्याप्रतिपत्तये इत्यत्र प्रतिपत्तिशब्दार्थः क इति चेतू, उच्यते। अविचारितवेदान्तवाक्याजाताया विद्याया अपरो- क्षप्रत्यगब्रह्मगोचरत्वेनापरोक्षाया अपि चित्तस्यैकाग्रवृत्त्ययोग्यता- दोषाद्विपरीतभावनादोषाच्चाऽशानावरणनिवृत्तिरूपविषयस्याफ्राक्षत्वं - विवरणोपन्यासे प्रत्यक्षविषयत्वं भवति। यथेदं फलमत्र नसम्भवतीति विषयाऽसम्मा- वनाबुद्धिदोषादाप्तवाक्योस्थस्य सन्निकृष्टाईमरीचफलज्ञानस्य । तथा च तर्कादिना दोषप्रतिबन्धनिवृत्ती यत्तत्क्षमत्वं साविद्यायाः स्वविषये प्रतिष्ठाप्रतिपत्तिशब्दार्थ इति । एतेन वेदान्तवाक्यस्य तापेक्षत्वे प्रामाण्यस्य स्वतस्त्वभङ्ग इति प्रत्युक्तम् । न हि वयं वाक्यप्रमाणस्य तर्कापेक्षया प्रमितिहेतुत्वं ब्रूमः । किन्तु तर्केण प्रतिबन्धे निरस्ते निरपेक्षं वाक्यमेवार्थनिश्चायकमिति न स्वतस्त्वहानिः । एतच मानानां स्वतस्त्वं प्रथमतन्त्रे निरूपितम् । तथा हि । प्रामाण्यमप्रा- माण्यश्च स्वत इति साङ्ख्याः। तन्न दोषोत्कर्षे भ्रमोत्कर्षदर्शनादप्रा- माण्यस्य ज्ञानसामान्यस्य सामग्यूतिरिक्तदोषप्रयोज्यत्वेनोत्पत्तौ स्व- तस्त्वायोगाद्दोषस्य भ्रमाऽहेतुत्वे सर्वज्ञानानाम्भ्रमत्वापातः सामा- भ्यसामग्य एव भ्रमहेतुत्वात् । एवं प्रामाण्यस्य ज्ञानग्राहकमात्रग्रा- ह्यत्वे क्वापि निष्कम्पा प्रवृत्तिर्न स्यात् । भ्रान्तप्रवृत्त्युच्छेदश्च । अतो दोषजन्यम्बाधग्राह्यमप्रामाण्यम्परतः॥ पतेनाप्रामाण्यं स्वतः प्रामाण्यम्परत इति सुगतोक्तमपास्तम् । उभयम्परत इति तार्किकास्तन्न । दोषाजन्यज्ञानमात्रस्य प्रमात्वद- निन ज्ञानसामान्यहेत्वतिरिक्तहेतुगुणजन्यं ज्ञानम्प्रमेत्यत्र माना- भावात् । जन्यप्रमा न गुणजन्या प्रमात्वात् । ज्ञानत्वाद्वा ईश्वरप्रमाव- त्साहश्यादिदोषवद् गुणस्य प्रमामात्रहेतो?निरूपत्वाश्च । न ताव द्विशेषणसन्निकर्षों गुणः । तस्य जन्यप्रत्यक्षमात्रे साधारणहेतुत्वात्। न च तद्वति तत्सन्निकर्षः प्रमायामेव हेतुरिति वाच्यम् । तस्या- ऽपि विशेषणसन्निकर्षत्वेन प्रत्यक्षभ्रमसाधारणत्वात् । जन्यप्रत्य- क्षत्वेन यावद्विषयसन्निकर्षत्वेन कार्यकारणभावे सम्भवति तद्वति तत्सन्निकर्षत्वेन जन्यविशिष्टप्रत्यक्षप्रमात्वेन कार्यकारणभावान्त- रकल्पने गौरवात् । अत एव साध्यवति हेतुज्ञानमनुमितौ गुण इत्यपास्तम् । हेतुज्ञानत्वेनाऽनुमितित्वेन तद्भावे लाघवात् । एवं वक्तृ- यथार्थज्ञानत्वेन शब्दप्रमाणत्वेन तत्तद्भावदोषाऽजन्यत्वनैव शब्दप्रामा- प्योपपत्तेः । अतो दोषाभावे ज्ञानहेतुमात्रादेव प्रमोत्पत्तिरित्युत्पत्ती स्वतःप्रमात्वम् । यत्तु दोषाभाव एव प्रमाहेतुर्गुण इति, तन्न । तस्य प्रमायां प्रतिबन्धकाभावत्वेनाऽन्यथासिद्धत्वात् । धय॑शप्रमायां केव- लान्वयिधर्मप्रकारकप्रमायाञ्च दोषाप्रसिद्ध्या तदभावासम्भवाच । (१) प्रत्यक्षलमिति पागन्तरम् ।
१ सू. १ वर्णकम् । न हि तत्र कस्यापिभ्रमोऽस्ति । येन तद्धेतुर्दोषः प्रसिद्धः स्यात् । एवं ज्ञानग्रहे तद्विशेष्ये प्रकारवत्तारूपप्रामाण्यस्य ग्रहात् ज्ञप्तौ स्वतस्त्वम् । न हि निर्विषयज्ञानमात्रं ग्रहीतु शक्यम् । न च तद्वत्तारूपविषयाति. रिक्तं प्रामाण्यं नाम किञ्चिदस्ति । तद्वद्विषयकत्वस्य ज्ञानमात्र- त्वात् । तत्प्रकारकत्वस्यापि तथात्वात् ।भ्रान्तिसाधारणत्वाच्च ।अत एवम्भ्रान्तोऽपि पुरोवर्तिनि तद्वत्तारूपप्रामाण्यनिश्चयान्निष्कम्पम्प्रवर्तते। दूरस्थजलज्ञानादौ त्वनभ्यासदोषात्प्रामाण्यग्रहस्यानिश्चयत्वमिति तत्संशयो युज्यते इत्यनवद्यम् । मीमांसकानां स्वतः प्रामाण्यमप्रामा- प्रयं परत इति संक्षेपः । ननु वाक्यादेवाऽपरोक्षज्ञानमुत्पन्न प्रतिबन्ध- निरासे सति विषयाऽवरणनिवर्तकमित्युक्त तदयुक्तम् । शब्दस्य परोक्ष- ज्ञानजनकत्वस्वाभाव्यादिति चेत्सत्यम् । साक्ष्यभिन्ने प्रत्यक्ष वस्तुनिश- ब्दादपिअपरोक्षज्ञानं भवति। अपरोक्षार्थकत्वस्यैव ज्ञाननिष्ठाऽपरोक्षता- शब्दार्थत्वात् । न चेन्द्रियजन्यत्वेन ज्ञानस्य प्रत्यक्षता मनोजन्या। अनु- मितेस्तत्प्रसङ्गात् नित्यस्य सुखादिज्ञानस्य तदभावप्रसङ्गाश्च । म. नसः प्रमातृत्वेनानिन्द्रियत्वात् । दशमस्त्वमसि, शुक्तिरियमित्यादि वाक्याश्रमनिवर्तकाऽपरोक्षशानदर्शनाच्च तन्त्वोपनिषदं वेदान्तविज्ञान सुनिश्चितार्था इति च श्रुत्या वेदान्तवाक्यजसाक्षात्कारस्यैव मुक्ति हेतुत्वावगमाञ्च । तस्मात्कर्मभिर्निरस्तसमस्तकल्मषस्य भगवदनुग्र. हाच्छमादिसंपत्त्या ऽनात्ममात्रे रागादिदोषनिबन्धनप्रवृत्तिविमुखस्या- ऽत्मप्रेप्सोः श्रवणेनाऽवधृतशक्तितात्पर्याच्छब्दान्मनननिदिध्यासना- भ्यां प्रमेयाऽसम्भावनादिदोषप्रतिबन्धनिरासे सत्येकाग्रचित्तेन्द्रिये ब्र- मात्मत्वसाक्षात्कारोजायते।चित्तस्याऽपरोक्षधीहेतुत्वमात्रेणाऽऽचार्य- रिन्द्रियत्वोपचार कृत. एकत्र विजातीयकरणद्वयाऽयोगादितिमन्त- व्यम्। अन्ये तु श्रुताच्छब्दाब्रह्मात्मनि परोक्षधीरुदेति । शब्दस्वाभा- व्यात्पश्चादुक्तैकाग्रचित्तसहकृतादपरोक्षधीरित्याहुः । ननु श्रवणमननध्यानानां न तावदाग्नेयादीनामिव समप्राधा. न्यं ज्ञानान्यस्य कस्य फलस्याभावात् । ज्ञानस्य च शब्दमात्रफ- लत्वात् । फलैक्याभावादेव नाऽङ्गाङ्गीभावो ऽपि । यदि परम्परया ज्ञानफलकत्वेनाऽङ्गाङ्गीभावस्तर्हि ध्यानस्याऽनन्तरमेवाऽपरोक्षज्ञान- हेतुत्वेन प्राधान्यम् । इतरयोस्तत्स्वरूपोपकारित्वेनाङ्गत्वमिति चेदुच्यते । श्रवणेनावधृतशक्तितात्पर्यविशिष्टवाक्यस्यापरोक्षज्ञानं प्रति करणत्वात् । करणस्य फलं प्रत्यव्यवाहिततया प्राधान्यात्कर- ६० विवरणोपन्यासे णकोटिनिविष्टत्वेन श्रवणं प्रधानम् । मननध्याने तु करणफ- लापेक्षितायाश्चित्तैकाग्रतायाः प्रतिबन्धकासम्भवनादिनिवृत्तिद्वारा सम्पादकत्वेन फलोपकार्यङ्गतामश्नुवाते । अकरणचित्तसंस्कारक- त्वेन व्यवधानात् । न चाव्यवधानातू ध्यानमव करणमिति वाच्यम् । ध्यानस्य काऽपि प्रमाकरणत्वादर्शनात्तजन्यज्ञानस्य नष्टपुत्रसाक्षात्का- रवगान्तित्वापत्ते । न च वेदान्तविषयसत्तानिश्चयातू ध्यानकरणक- ज्ञानस्य प्रमात्वमिति वाच्यम् । ध्यानजज्ञानस्य परतः प्रामाण्यापत्ते- ानाख्यप्रमाणान्तरकल्पनागौरवाच। नाऽपि ध्यानसंस्कृतं चित्तं करणं प्रमातृत्वात् । ब्रह्मण औपनिषदत्वविरोधाश्च । मनसैवाऽनुद्रष्टव्यमिति तृतीया मनस उपादानत्वेन हेतुत्वादविरुद्धा। तस्माद्विचारितवाक्य- मेव करणमिति मननध्याने तदङ्गे इति सिद्धमित्याह-- प्रमाणानां स्वतो मात्वं शब्दादर्थाऽपरोक्षधीः । मतिध्याने श्रुतेरङ्गेन ध्यानात्स्यात्प्रमोद्भवः ॥ इति । ननु वाक्योत्थस्याऽहं ब्रह्मेत्यपरोक्षज्ञानस्य देहाद्यध्यासाऽनर्थमूलवि- द्यानिवर्तकत्वे ज्ञानिनःसद्यः शरीरपातः स्यात् । तथा च जीवन्मुक्ति- शास्त्रविरोधः । देहादिभिन्न आत्मेति विवेकज्ञानवदनिवर्तकत्वे फ- लाभावाच्छास्त्राऽनारम्भ इति चन्न । विवेकज्ञानस्याऽविरोधादशाना- ऽनिवर्तकत्वेऽपि वाक्यात्याधिष्टानतत्त्वगोचरज्ञानस्याऽज्ञानसमानाश्र- यविषयतया विरोधादस्त्येव निवर्तकत्वम् । शरीरधारणन्तु नष्टा- ऽज्ञानसंस्कारायुज्यते। रज्जुतत्त्वज्ञानिनो ऽपि अहिभयाद्यनुवृत्तिवत् । अस्ति हि विनश्यवस्तुमात्रस्य संस्कारः ज्ञानक्रिययोरिव भावना- वेगादिसस्कारः । अन्यथा प्रलयानन्तरभाक्सिर्गस्य पूर्वसर्गसमान- त्वायोगात्।स चाज्ञाननाशजसंस्कारोऽप्यज्ञानवदात्माश्रितो जगदप- रोक्षभ्रान्तिहेतुः अपरोक्षभानहेतुस्थदोषत्वात्काचादिवत् । स च नि- रुपादानः। तत्त्वज्ञानसस्कारनाश्यज्ञानसंस्कारस्तु नग्धेन्धनाग्निवत्स्व- यं शाम्यतीति जीवन्मुक्तिशास्त्रबलात् कल्पनीयम् । अथ वा शाना- दावरकाऽज्ञानांशस्यैव नाश । विरोधात् । विक्षेपकांशुस्तु प्रारब्धा- ऽवसाने पूर्ववृत्त्यभिव्यक्तचैतन्यान्नश्यतीत्यविद्यालेशादेहधारणम् । त- नाशे विदेहे कैवल्यमिति रमणीयमित्याह- संस्कासदनुवृत्तिः स्यात्संसृतेर्सानिनोऽहिवदिति । ननु सर्वे वेदान्ता आत्मैकत्वविद्यार्थमारभ्यन्ते इति भाष्यक्तिम- युक्तं तेषूपासनापरवाक्यानां बहुलमुपलब्धोति । उच्यते ।
१ सू. १ वर्णकम् । ६१ अध्यारोपापवादाभ्यां निष्प्रपञ्चप्रमित्यर्थ ब्रह्मणि सृष्टिवाक्यैः प्रप- उचो ऽध्यारोपितस्तस्याऽपवादात्प्राप्तनिष्प्रपञ्चनिर्गुणप्रमितिशेषमा- श्रित्य चित्तैकाग्यूद्वारा ज्ञानहेतुत्वाऽभिप्रायेण वेदान्तेषूपासनानि विधीयन्ते । न चाश्रित्य विधाने ज्ञानाधिकारिण एवोपासनेष्व- धिकारो गोदोहनइव स्यादिति वाच्यम् । दर्शपूर्णमासाङ्ग- त्वेन तदधिकारिण एव प्राप्ताप्प्रणयनोद्देशेन गोदोहनविधेरधिकृता- ऽधिकारत्वेऽपिसर्वसाधारणप्रत्यक्षादिसिद्धस्य प्रपञ्चस्य श्रुत्या ऽनू- धमानस्य ज्ञानार्थिनं प्रत्येव प्राप्तत्वाभावात्सर्वान् प्रति प्राप्तप्रपञ्चा- श्रितोपासनेषु अमुमुक्षोरपि तत्तत्फलार्थिनो ऽधिकारोपपत्ते । न हि ज्ञानं विहितं येन प्रपञ्चस्तदङ्गत्वेनासाधारणः स्यादपि तु र- जतारोपस्याऽरजतशुक्तिज्ञानहेतुत्ववत्प्रपञ्चारोपस्य निष्प्रपञ्चब्रह्म- धीहेतुत्वमात्रम् । तदाश्रितोपासनाविधीनां वेदान्तेषु ज्ञानार्थप्रपञ्चा- रोपप्रसङ्गादागतानां ब्रह्मण्येव महाताप्तर्य चित्तैकाग्यूद्वारे ऽपि भाध्ये सर्वशब्दो युक्त इत्याह- ज्ञानार्थत्वादुपास्तीनां वेदान्ता ऐक्यगोचराः। इति । एवं च सर्वेषां वेदान्तानां ब्रह्मात्मैक्यं विषयो ऽनर्थनिवृत्तिः फ- लमिति तद्विचारात्मकशास्त्रस्य सूत्रसन्दर्भस्याऽपि ते एव विषयप्र- योजने सिद्धे । ते च प्रथमसूत्रेणात्सूत्रिते इति मत्वा तयोः सि- द्धये भाष्यकारो ऽध्यासमादौ वर्णयित्वा ते दर्शितवानस्याऽनर्थहे- तोरित्यादिना । तस्मादार्थिकसूत्रार्थस्पर्शित्वादस्य भाष्यत्वेन व्या- ख्येयता सिद्धा॥ ननु विषयप्रयोजनयोः कथमार्थिकत्वमिति ? उच्यते । मुमुक्षुणा ब्रह्मज्ञानार्थ विचारः कर्तव्य इति सूत्रस्य श्रीतो ऽर्थ इत्युक्तम् । तत्र विधिप्रत्ययेन हितसाधनत्वोक्तौ हितविशेषाकाङ्क्षायामधिकारिवि- शेषण मोक्ष. सम्बध्यते इति प्रयोजनत्वबुद्धिर्मोक्षस्यार्थिकी । ब्रह्म- ज्ञानस्य जीवगतबन्धनिवृत्तिरूपमोक्षहेतुत्वाऽन्यथाऽनुपपत्त्यातदैक्य- मर्थात्सूत्रितमिति । अत्र प्राभाकरः । न हि विधिप्रत्ययात् हितसा- धनताबोधः। किन्तु विधिबोधितनियोगात्तद्विषये धात्वर्थे नियोज्य हितसाधनत्वरूपविनियोग विना ऽनुपपद्यमानात्तद्वोध इति ब्रूते । तन्निराकरोति- शाप्यते हितहेतुत्वं विधिना न नियोगत इति । अयं भावः । नियोगे सिद्ध हितहेतुत्वधीः। तस्यां ज्ञातायां क्षणि- ६२ विवरणोपन्यासे कभावार्थस्य कालान्तरभाविहितहेतुत्वाऽनुपपत्त्या स्थायिकार्योप- स्थितौ तत्र शक्तिग्रहाल्लिङादिना तद्वोध इति चक्रकापत्तेः । किञ्च विनियोगाभावे नियोगस्य नानुपपत्तिरस्ति । निष्फलनित्यादिकर्मणि नियोगाङ्गीकारात् । न च फलकामिनं यागे फलहेतुत्वमनापाद्य नि- योगः प्रवर्तयितुं न शक्नोतीति कामिप्रवर्तकत्वानुपपत्त्या नियोगा- द्विनियोगधीरिति वाच्यम् । तथा सति ज्ञातो नियोगो हितहेतुत्व- धियं विना न प्रवर्तक इत्यावश्यकत्वेन तस्या एव प्रवर्तकत्वापा- तात् । यत्तु काम्यत्वेन साध्यस्य स्वर्गादेः कामनाद्वारा नियोगा- धिकारिविशेषणत्वानुपपत्त्या नियोगविषयस्य यागादेस्तत्साधन- ताबोधो न विधित इति, तन्न । अध्येतुकामो भैक्षमाचरेदिति नियो- गविषयस्य भैक्षस्य काम्याध्ययनहेतुत्वबाधापत्ते । तस्मादध्ययनव- द्विधेयधात्वर्थासाध्यत्वे ऽपि स्वर्गस्य तदधिकारिविशेषणमुपपन्नम्। किञ्च स्वर्गकामपदेन साध्यस्वर्गबोधे तस्य नियोगरूपसाध्येनान्व- याभावे स्वतन्त्रसाध्यभेदाद्वाक्यभेदः । अन्वये तु नियोगस्य स्वर्ग प्रति साधनत्वेनैवान्वय इति नियोगप्राधान्यभङ्गः । किञ्चदं स्व- कामपदं न साध्यस्वर्गविशिष्टाधिकारिपरम् । येनतद्विशेषणत्वेन ख- नस्य नियोगविषयसाध्यताबोधः स्यात् । न तावदिदै स्वर्गकामत्ववि- शेषणं पुरुषस्य दर्शादिनियोगेनासम्बन्धनिरासार्थ, नित्यविधिनैव त- निरासात् । नाऽपि नित्यनियोगाधिकार्यपेक्षया । काम्यनियोगाधिका- रिणो भेदज्ञानार्थ नित्यकाम्यनियोगवैजात्यासिद्ध.। न चाधिकारिभेदा- शत्सिद्धि. परस्पराश्रयात् । झाते ऽधिकारिभेदे नियोगयोईजात्यज्ञानम् वैजात्यज्ञाने विशेषणमर्थवादेत्यधिकारिभेदज्ञानमिति । तस्मात्स्व- कामपद हितसाधनत्वबोधिविध्यपेक्षितहितविशेषमात्रपरम् । तथा च स्वर्गकामा यजेतेति पदाभ्यां यागः स्वर्गसाधनमिति बोधिते सति तत्कामो ऽधिकार्याल्लभ्यते । तस्माद्विधिप्रत्ययादेवेष्टसाधन- ताबोधः। अन्ये तु स्वर्गविशिष्टाधिकारिणो नियोगविषयभावार्थेनाऽन्वये सति विशेषणस्याऽपि तेनान्वयः सिध्यति । विशिष्टान्वये विशे- षणस्याप्यन्वयनियमात् । स चान्वयः स्वर्गस्येप्सितत्वेन भावार्थ- साध्यत्वरूप इति विशिष्टाधिकार्यन्वयलभ्यः साध्यसाधनभावो न लिङर्थ इत्याहुः । तन्न । विशेषणस्य विशेष्यपुरुषवक्रियां प्रति हेतुत्वे. नाऽन्वयाद्विशिष्टान्वयोपपत्तेः।
१ सू. १ वर्णकम् । ६३ काम्ये कर्मणि कामनवाधिकारिविशेषणम् । सा च भावार्थेन हेतुतया ऽन्वति नित्यादी जीवनादिवत् । यदि स्वगै विशेषण कृत्वा तस्य भावार्थेन साध्यतयार्थान्वय उच्येत तर्हि जीवनादे- रपीप्सितरूपस्य तद्विशिष्टाधिकारिकभावार्थसाध्यताप्रसङ्गः । त- स्मात्साक्षात्कृतिसाध्यस्य भावार्थस्यानन्यलभ्यामिष्टसाधनत्वं वि- ध्यमिति युक्तं कृतिसाध्यत्वमाख्यातलभ्यमिति ने तत्र लिङादीनां शक्तिः । ननु ज्योतिष्टोमेन यजैतेत्यत्र लिङाकरणत्वे ऽभिहिते तृतीया न स्यात् । तिङ्कृत्तद्धितसमासैरनभिहिते इत्यधिकृत्य कर्तृकरणयोस्तृतीयेति सूत्रेण तृतीयाविधानादिति चेन्न । योगेक- रणत्वाभिधाने पि जोतिष्टोमाख्ययागविशेषे करणत्वानभिधानात् । लिङा साधनत्वाभिधाने पि करणत्वानभिधानाञ्चेत्यानवद्यम् ॥ तस्माद्भगवान् भाष्यकारः प्रवृत्त्यङ्गतया सूत्रस्याऽऽर्थिकाथै विष- यप्रयोजनरूपमादौ व्याख्याय पदव्याख्यामारभते तत्राऽथशब्द आ- नन्तर्यार्थ इत्यादिनेत्युपपन्नम् । तस्मान्मुमुक्षुणा ब्रह्मजिज्ञासाख्यवेद- मीमांसा कर्तव्या विषयप्रयोजनयोः सद्भावादित्युपसंहरति- मुमुक्षुणा ऽतो जिज्ञासा कर्तव्या विषयार्थयोः। सद्भावादित्यर्थजातं प्रथमे वर्णके स्थितम् ॥ इति । श्रीरामप्रपदप्रसादकलितश्रीमद्गुरुश्रीपद- श्रद्धायुक्प्रणतिप्रभाकरहतवान्ध्यान्धकारत्वतः॥ श्रीमच्छङ्करपद्मपादकृतवाग्गुम्फातिगम्भीरके सिद्धो न्यास उपप्रकाशयति वाक् सवादिमे वर्णके ॥१॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पूज्य- पादशिष्यरामानन्दसरस्वतीकृती विवरणोपन्यास प्रथमसूत्रे प्रथ- मवर्णकं समाप्तम् ॥ रामार्पणमस्तु ॥ भक्तानुग्रहकृद्देवं दुण्डिराज परात्परम् । कर्णवायुचलद्विघ्नहारिशुण्डमहं भजे ॥१॥ अशोक परमानन्दं गोविदं भक्तवत्सलम् । वेदान्तवेद्यं श्रीरामं भूयो भूयो नमाम्यहम् ॥ २॥ श्रोतव्य इति विध्यपेक्षितयोर्ब्रह्मात्मैक्यविषयानर्थनिवृत्तिप्र- योजनयोः सत्त्वाद्वेदान्तविचारः कर्तव्य इत्युक्तम् । पुनरत्र गतार्थत्वा- ऽगतार्थत्वाश्यां सन्दिह्यते स विचारः कर्तव्यो न वेति । तत्र मतार्थ- विवरणोपन्यासे त्वान्न कर्तव्य इति प्राप्तम् तथा हि । विचारविधेरव्यवहितो विचार- विषयः विचार्यः । वेदान्तप्रतिपाद्यस्तु व्यवहितो विषय इति स्थितिः। तत्र सर्ववेदस्य कार्यपरत्वाद्वेदान्तानामपि द्रष्टव्य इति ज्ञानविधी तात्पर्य न ब्रह्मणि विध्यपेक्षित चोत्पत्तिविनियोगप्रयोगफलादिकं सर्व पूर्वतन्त्रे जैमिनिसूत्रन्यायैर्विचारितमतो वेदान्तानां पूर्वतन्त्रे- पाऽवगाथत्वात्तद्विचारः कृत एवेति व्यवहितविषयाभावाच्छास्त्रं नारम्भणीयमित्याह- सर्वो वेदो विधिपरो विधिः पूर्व विचारितः । अनारश्यमिदं शास्त्रम् । इति । ननु विधिपरत्वे ऽपि द्वादशाध्यायानां यथा तत्तंभ्यधिकाऽऽश- कोंत्तरत्वेनारम्भः । तद्वच्छकायामस्य शास्त्रस्यारम्भो ऽस्तु । तथा हि । शब्दप्रामाण्यस्य मानान्तरदृष्टार्थकत्वेन नियमाद्ध, मानान्त- रादर्शनान्न वेदस्य प्रामाण्यमित्यप्रामाणिकत्वाद्धर्मो न विचार्य इत्या- शङ्कचापौरुषेयत्वेन वेदस्य स्वार्थे मानान्तरानपेक्षत्वादबाधिता- ज्ञातफलवदर्थकत्वेन चोदनायाः प्रामाण्यम् । अर्थवादानां विधि- स्तुत्यर्थकत्वन मन्त्राणां धर्मोपयोगिस्मृतिहेतुत्वेन नामधेयानामनु- ष्ठेयधात्वर्थपरिच्छेदकत्वेन स्मृतीनां श्रुतिमूलकत्वेन प्रामाण्य प्रथ- माध्याये निरूपितम् । ननु वेदादिष्टसाधनत्वेन भावनाया नियो- गस्य वा ज्ञानादनुष्ठानसिद्धेः किं द्वितीयेनत्याशङ्कय ? उत्पत्तिविधीनां भेदाभेदनिर्णयं विना ऽनुष्ठानायोगात् शब्दान्तराभ्याससंख्यागुण- प्रक्रियानामधेयैर्भेदः अन्यत्र त्वभेद इति निर्णयाय द्वितीयारम्भः। तत्र यजेत दद्याज्जुहुयादिति प्रकृतिशब्देन तदर्थक्रियाभेदात् तत्त- क्रियानुविद्धभावनादिविधिभेदः । समिधो यजतीत्यादौ गुणविधि विना यजत्यभासादुत्पत्तिविधिभेदः । तिस्त्र आहुतीर्जुहातीत्यत्र हो- मस्यानुवादेन सख्याविधावावृत्त्यापत्तेः संख्याविशिष्टहोमविधौ कर्म- भेदः । वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनमित्यत्र द्रव्यदेवतारूप- गुणभेदाद्भेदः। कुण्डपायिकर्मप्रकरणे मासमग्निहोत्रं जुह्वति, मासं द- शपूर्णमासाविति श्रुतमग्निहोत्रादि प्रसिद्धाग्निहोत्रादोर्भन्नं प्रकर- णान्तरस्थत्वात् । अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योति- रित्यत्रापूर्वनामधेयात्सहस्रदक्षिणादियुक्तं कर्म ज्योतिष्टांमाद्भनाम- त्युक्तम् । ननु शेषत्वस्य दुर्निरूपत्वाच्छेषत्वज्ञानं विना ऽप्याधानवदुप- कारकत्वमात्रण प्रोक्षणाद्यनुष्ठानसम्भवारिक तृतीयेनेत्याशङ्कय स- १ सू २ वर्णकम् । मीहितविध्यन्तराधीनप्रवृत्तिविषयत्वं शेषत्वमिति लक्षणाच। तत्र श्रु- त्यादीनां मानत्वात् उपलक्ष्यमानोपकाराणां प्रयाजादीनां फलवत्क- मशेषत्वज्ञान विना ऽनुष्ठानायोगाच्छेषशेषिभावरूपविनियोगज्ञानाय तदारम्भः । तत्र कदाचन स्तरीरित्यूची गार्हपत्योपस्थाने ऐन्द्यति श्रुत्या शेषत्वं बर्हिदेवसंदन दामीति मन्त्रस्य लिङ्गदर्हि बनाङ्गत्वं इमामगृभणनिति मन्त्रस्येत्यश्वाभिधानीमादत्ते इति वाक्येनाऽश्व- रशनादावनाङ्गत्वम् प्रकरणात प्रयाजादीनां दर्शादिशेषत्वं पारिप्लवस्य राजसूयाङ्गत्वम् शुन्धधं दैव्यायेति मन्त्रस्य सान्नाय्यपात्रशुन्धनशे- षत्वं सन्निबानात् । आध्वर्यवादिसमाख्यया पुरोडाशं प्रथयतीत्या- दिमन्त्राणामावयवादिकाङ्गत्वमिति निरूपितम् । नन्वेवं विनियोग- ज्ञानादङ्गाङ्गिनोरनुष्ठानसिद्ध किश्चतुर्थेनेत्याशङ्कयाऽनुष्ठानमात्रसि- द्धावपि तयोरेककाले ऽनुष्टानस्याऽङ्गवायरेकवाक्यतामापनप्रधान- विधिरूपमहावाक्यात्मकप्रयोगविधिमन्तरेणाऽसिद्धेस्तदर्थ चतुर्थारम्भ इति सिद्धान्तितम् ? ननु व्युक्रमेणाऽप्यनुष्ठानसम्भवात्कि पञ्चमेनत्या- शङ्कय साङ्गप्रधानस्य प्रयोगविधिना युगपदनुष्ठाने प्राप्ते नियत. क्रमो वाच्य. । अन्यथा किमादौ कार्यमिति चित्तविक्षेपापत्तेः । सन्ति हिं क्रमनियमे श्रुत्यर्थपाठस्थानमुख्यप्रवृत्त्याख्यानि प्रमाणानि । दर्शपूर्णमा- साभ्यामिष्टा सोमेन यजेत वाजपेयेनेष्ट्वा बृहस्पतिसवेनेत्यादौ वा - त्या क्रमः । अग्निहोत्रयवागूपाकयोः साध्यसाधनयोरात्सामर्थ्या- क्रम.प्रयाजादीनां पाठाक्रम.।ज्योतिष्टोमे प्रकृतीप्रथमोऽग्नीषोमीयः पशुः पश्चादाश्विनग्रहानन्तरं मवनीय. । तदनन्तरमानुबन्ध्यः पशु- रिति क्रमो ऽवगत.। तद्विकृतीसाधस्के कर्मण्याश्विनग्रहानन्तरं “सह पशुना लभते” इति सहत्वश्रुत्या प्राकृतक्रमबाधे सति क्रमाकाङ्क्षा- यामाश्विनग्रहानन्तरकालस्य सवनीयपशुस्थानत्वेन प्रकृतौ क्लप्त- त्वात् तत्स्थाने सहत्वश्रुत्या तस्य पशोः स्वस्थानाञ्चलनायोगात्प्राथम्ये सति द्वितीयोऽग्नीषोमीयस्तृतीय आनुबन्ध्य इति स्थानक्रम सार- स्वतौ मेषौ भवत इति सरस्वती सरस्वानिति स्त्रीपुंदेवताकयो- होमयां प्रधानत्वेन मुख्ययो. क्रमो याज्यापुरोनुवाक्यायुगलयोर- ङ्गयोः क्रमपाठादवगतः सन् अन्येषां निर्वापादीनां क्रमं नियमयति । स्त्रिया हविर्निरूप्य पुंसो निर्वपेदिति मुख्यक्रमात् क्रमः। वाजपेये स- सदश प्राजापत्यान् पशूनालभते इति श्रुतानां पशूनां प्रोक्षणादिसं. स्कारप्वकैकशः कर्तव्येषु प्राथमिकसंस्कारे नियामकाभावादिच्छया ६ विवरणापन्यासे प्रवृत्तिः । अन्येषां संस्काराणां प्राथमिकसंस्कारप्रवृत्तिक्रमेणैव क्रम हात निरूपणार्थ पञ्चमारम्भ इत्युक्तम्। नवधिकाशिनर्णयफल: षष्ठोऽध्यायो नारब्धव्यः । कर्मणि निष्फलत्वेन तद्भोक्तृत्वलक्षणाधिकारासम्भवात् । स्वर्गकामो यजे- तेत्यत्र प्रत्ययाभिहितभावनाया भाव्याकाङ्क्षायामेकपदोपात्तयागस्य भाव्यत्वेनान्वये सति सुखहेतुद्रव्यस्य स्वर्गशब्दार्थस्य पुत्रादेः साधनत्वेनान्वयादित्याशङ्कय श्रेयःसाधनत्वावच्छिन्नभावनायाःप्र. त्ययार्थत्वात्प्रत्ययस्य श्रेयोविशेषज्ञानं विना स्वार्थाबोधकत्वात्स्व- गंपदेनैकपदत्वं बोधकं पदमित्यङ्गीकारात् । एवमेकपदोपात्तस्वों भाव्यो न यागो भिन्नपदोपात्तत्वात् क्लेशात्मकत्वाञ्चति सफल- त्वात्कर्मण्यधिकारिचिन्तारम्भ इत्यभिहितम् । एवं पूर्वषद्केन प्रकृतिविध्यपेक्षितमुत्पत्तिविनियोगप्रयोगाधिकारचतुष्टयं निरूप्य वि कृतिविचारार्थमुत्तरषटकमारब्धम् । समग्राङ्गं श्रूयमाणं कर्म प्र- कृतिः । यथा दर्शपूर्णमासाविष्टीनां सौर्य चळं निर्वपेदित्यादीनां प्रकृतिः सोमः। स यूपानां ऋतूनां देक्षः पशुः पशुबन्धानामहर्ग- णानां द्वादशाह इत्यादि । ननु यजतत्यादिसामान्यश्रुत्या यागादिधात्वर्थसामान्योद्देशेन विहितानामङ्गानां प्रकृताविव विकृतावप्युपदेशेन प्राप्तेः किमतिदे- शार्थकसप्तमेनेत्याशङ्कय तत्तत्प्रकरणविशिष्टभावनाया विधेयायाः कथंभावाकाङ्या विहितानामङ्गानां साक्षाद्भावनान्वयानुपपत्त्या फलशिरस्कप्राकरणिकभावनाकरणीभूतधात्वर्यान्वयस्य व्यवस्थित- त्वादश्रुताङ्गविकृतीनामनिदेशं विना ऽङ्गालाभात्तदर्थ सप्तमारम्भ इत्यभाणि । ननु तर्हि सर्वप्रकृतीनां यान्यङ्गानि तेषां सर्वेषां विकृतावतिदेशापात्तः । ननु करणस्योपकारद्वारा ऽङ्गान्वयः । म हि सर्वाङ्गानामककरणोपकारकत्वं क्वचित्क्लप्तम् । न चा- क्लप्तस्यातिदशो ऽस्ति । अतः कथ सर्वाङ्गानिदेश इति चेत्तर्हि य- स्याः कस्याश्चित्प्रकृतेरुपकारकत्वेन क्लप्तानां धर्माणां यत्र कुत्र चिद्विकृतावतिदेशः स्यात् नियामकाभावादित्याशङ्कय सौर्यष्टावा- नयष्टिधर्माणां पशुबन्धेषु द्रव्यसाम्यादैक्षपशोरित्यवं द्रव्यमकदेव- तात्वमादृश्यादतिदेशः। ऐन्द्राग्ने चरौ द्विदेवताकत्वसाम्यादग्नीषोमी- येष्टिधर्माणां देवतासामान्यस्य नियामकत्वाद्विशेषातिदेशार्थमष्ट- मारम्भ इत्युक्तम् । नन्वाग्नयादिकरणस्वरूपाकाङ्क्षया ऽन्वितानामग्नये १ सू, २ वर्णकम् । ६७ जुष्टं निर्वपामीत्यादिमन्त्राणामवघातादिसंस्काराणां च सौर्यादिषु प्रसक्त्यभावात्कस्योहार्थ नवमारम्भ इत्याशङ्कय भावनाया भाव्य- मूलसिद्धये करणत्वमानयादीनामङ्गान्वयप्रयोजकम् नन्वाग्नेयादि- स्वरूपत्वं प्रथमं सफलभावनाकाङ्क्षया ऽन्वितानामङ्गानां फलकर- णत्वप्रयुक्त्यैव धात्वर्थेनान्वयस्य वक्तव्यत्त्वात् । फलं चापूर्वद्वारा भाव्यमिति अपूर्वमेव साक्षाद्भाव्यम् । तथा च यस्य फलापूर्वहेतुत्वं तस्याङ्गान्वय इति स्थिते वि- कृतीनामपि तद्धेतुत्वेनास्ति प्राकृताङ्गमन्त्रादिप्रसक्तिः । ततश्च सौर्ये कर्मण्युक्तमन्त्रप्राप्ती तत्प्रकाशनोपकारायाग्नये इति पदं त्यक्त्वा सूर्यायेति पदप्रक्षेपो मन्त्रोह. कृतः । गिरा गिरा च दक्षसइति सानि इरेति पदप्रक्षेपः सामाहः कृतः । म गिरा गिरोत घूयादिति निषेधात् । ब्रीहिसम्बद्धस्यावघातादेनीवारद्रव्येण ब्रो- हिपदस्य सतुषद्रव्यपरत्वं कल्पयित्वा सम्बन्धः संस्कारोहः इत्यादिनिरूपणार्थ तदारम्भ इति स्थापितम् । ननु प्राकृताङ्गानां विकृतौ लुप्तोपकाराणामननुष्ठानलक्षणबाधो न युक्तः । अति- देशप्राप्तानां तेषामवघातादीनां कृष्णलादौ वैतुष्यादिदृष्टोपकाराभा- वे ऽपि अदृष्टोपकारकल्पनया ऽनुष्ठानोपपत्तेः । घृते श्रपयतीति श्रु तपाकवदिति किं दशमेनेत्याशङ्कय वैकृतभावनया करणस्योपकार- माकाङ्क्षमाणया प्रथममुपकारमाक्षिप्य तद्वारा ऽऽक्षिष्यमाणानामङ्गानां द्वारस्य लोपे ऽन्यथासिद्धौ वा बाधः १ यथा कृष्णलषु वैतुष्यरूपद्धा- रलोपादवघातलोपः । घृते श्रपणं तु श्रुतत्वाददृष्टार्थमनुष्ठीयते । तथा ऽभिचारे शरमयबर्हिषा प्रत्यक्षोपदिष्टेन वेद्यास्तरणाद्युपकारस्य सि- द्धत्वात्प्राकृतानां कुशानां बाध इति सिद्धान्तितम् । नन्वनेकशेषिवि- धिप्रयुक्तस्य शेषस्य सकृदनुष्ठानादेवानेकरोन्युपकारकत्वं नाम त- न्त्रम् । तन्न युक्तम् । दर्शाद्यर्थमनुष्ठिताङ्गानां सोमाद्युपकारकत्वोपपत्तेः। न चैकप्रयोगावच्छिन्नत्वं शेषिणा विशेषणमिति वाच्यम् । आग्नेयादीना- मपि पृथक् वाक्योत्पन्नानां प्रयोगैक्यासिद्धेरिति किं तन्त्रार्थने- कादशेनेत्याशङ्कय पौर्णमास्यां पौर्णमास्या यजेतामावास्यायाममा- वास्ययेति श्रुत्या दर्शयागत्रयस्य पूर्णमासत्रिकस्य च पृथक् प्रयो- गैक्यश्रवणादर्शपूर्णमासाभ्यां स्वर्गकामो यजेनेत्येकफलत्वश्रवणा- कफलकानामेकस्मिन्प्रयोगे श्रवणात यागे तदुद्देशेन सकृदनुष्ठि- तस्य प्रयाजादेरु कारकत्वं तन्त्रं युक्तमिति राद्धान्तितम् ।
६८ विवरणोपन्यासे नन्वन्यशेषिविधिप्रयुक्त्या ऽनुष्ठितस्य शेषस्यानुद्दिष्टशेष्यन्तरोप- कारकत्वाख्यःप्रसङ्गो न युक्तः मानाभावात्तथा च किं द्वादशेनत्या- शङ्कय जामात्रुद्देशन स्थापितस्य प्रदीपस्यानुद्दिष्टतरं प्रति उपकारक- त्वदर्शनादग्नीषोमीयपशुमात्रोद्देशेनानुष्ठितप्रयाजादीनां तत्प्रयोगम- ध्यवर्तिनि पशुपुरोडाशाख्य ऽनुद्दिष्टे ऽपि कर्मण्युपकारकत्वं युक्तमित्यु- कम् । तदेवं प्रत्यध्यायमाशङ्कानिरासेन विधिव्यापारभेदनिरूपणार्थ द्वादशाध्यायानामारम्भवद्वेदान्तानां ज्ञानविधिपरत्वं न युक्तम्।शेयस्य प्रत्यगभिन्नस्य ब्रह्मणः प्रत्यक्षादिविरोधादसिद्धरित्यभ्यधिकाशवा- निरासार्थमध्यायचतुष्टयस्यास्य शास्त्रस्यारम्भो युक्त इति चेन्न । घावि धेनुत्वज्ञानवदारोपितविषयस्यापि ज्ञानस्य विध्युपपत्तेः श- कानुस्यानादिति। एवं शास्त्रस्यानारम्भे प्राप्ते सत्येकदेश्युक्तमारम्भ- प्रकारमनुवदति- इति प्राप्ते ऽत्र केचन ॥ विधेरभावाद्वेदान्ता न मानमिति शङ्किते। आरब्धमूचु. शास्त्रं तज्ज्ञानविध्यर्थसिद्धये ॥ इति । अयमर्थ. । वेदस्य हि विधिपरत्वेन प्रामाण्यं प्राचि तन्त्र स्था- पितमतो वेदान्ता न प्रमाणं तेषु विध्यभावात् । नन्वात्मा द्रष्टव्य इ- त्यस्ति विधिरिति चेन्न । अस्य व्यर्थकर्मप्रधानत्वेनाविधित्वात्। तथा हि । तयारव कृत्यक्तखलर्था इति सूत्रेण भावे धात्वर्थे कर्मकारके च कृत्यप्रत्ययान् विधाय कृत्याश्चेति सूत्रेण विधावपि तान् विहित- वान् पाणिनिः । यथा ग्राम प्रति गन्तव्यमिति भावे कृत्यः । स च खातन्त्र्येण क्रियाविधायकः । क्रियाविषयं च नियोगाख्यमतिशयं कारकासमवेतं पुरुषगतं बोधयतीति यावत् । स्वाध्यायो ऽध्येतव्य इति कर्मणि कृत्यः । स च कारकं प्रति गुणत्वेन क्रियां विधत्ते । कर्म- स्थातिशयवाचीति यावत् । तथा चात्मा द्रष्टव्य इत्यस्य कृत्यवि- धित्वे कर्मस्वातिशयो वाच्यः। न ह्यनादिकूटस्थात्मनि निर्गुणे निर्दोषे उत्पत्तिविकाराप्तिसंस्काराः सम्भवन्ति । नन्वात्मनि कल्पितमला- पकर्ष संस्कारः सम्भवतीति चेत्, न। अनुपयोगात्। यथाऽध्ययनसं- स्कृतस्वाध्यायस्य सफल लकर्मसूपयोगः, नैवं ज्ञानसंस्कृतात्मनः क चिदुपयोगं पश्यामः ।अतो व्यर्थात्मकर्मकत्वात् ज्ञानमविधेयम् ।नन्व- स्तु तर्हि सक्तुन्यायेन ज्ञानप्राधान्यकल्पनया विधिः। तथा हि। दर्शपूर्णमासप्रकरणे सकून् जुहोतीतिश्रूयते इति सक्तुहोमस्तदङ्गमि- १ सू २ वर्णकम् । त्यवगतम् । अङ्गानि द्विविधानि ।अर्थकर्माणि संस्कारकर्माणि च। तत्र कारकमनाश्रित्य विहितानि प्रयाजादीन्यर्थकर्माणि वाह्यादिकमाश्रित्य विहितानि प्रोक्षणादीनि संस्कारकर्माणि संस्कारोद्विविधः। विनियुक्त- गतो विनियोक्ष्यमाणगतश्चति । यथा व्रीहिभिर्यजेतेति विनियुक्तबीयु- देशेन प्रोक्षणादिः।आहवनीये जुहोतीति विनियोक्ष्यमाणाग्निगत आ- धानसंस्कारः संस्कृताग्नेः पश्चाद्विनियोगावगमात् । अत्र च सक्त- निति द्वितीययासक्तुगत.संस्कारो होमकृतःप्रतीयते । स चानुपयुक्तः होमेन भस्मीभूतानां सक्तूनां विनियुक्तत्वविनियोक्ष्यमाणत्वयोरस- म्भवात् । ततः सक्तूनां प्राधान्यं भङ्का होमस्य प्राधान्यं कल्पयित्वा सक्तुभिर्जुहोतीत्यर्थकर्मता निरूपिता । तन्न्यायेनात्मनः प्राधान्यं भ- का आत्मना द्रष्टव्यमिति ज्ञानप्राधान्येन विधिरस्त्विति चन्न । होमस्य कर्मापेक्षायां शब्दतः करणीभूतानां सक्तूनामेवार्थाद्भस्मीभावरूपाति- शयशालितया कर्मत्ववत् ज्ञानं प्रति करणीभूतस्यात्मनो निरतिशय- स्यार्थादपि तत्कर्मत्वायोगात् । अकर्मकशानस्यात्यन्तासत्त्वेन वि- ध्ययोगात्ततोविध्यभावावेदान्ता न प्रमाणमित्यभ्यधिकाशङ्कायां तन्नि- रासार्थमिदं शास्त्र ज्ञानविध्यर्थस्यात्मगतसंस्काररूपफलस्य सिद्ध- ये आरब्धव्यमित्याहुरिति।स्वाध्यायोऽध्येतव्य इतिवदाप्तिरूपसस्कारः तस्य स्वयं फलत्वान्नोपयोगापेक्षेति भावः। एवमनारम्भवादी केषां चि- दारम्भप्रकारमनूध अपरेषामकदेशिनामारम्भप्रकारमनुवदति- ब्रह्मण्यमानशङ्कायामारम्भमपरे जगुः । ज्ञाने विधिमुपेत्यैवेति । वेदान्तानां विधिपरत्वात् ब्रह्मणि प्रमाणाभावशङ्कायां तन्निरासा- थै ज्ञाने विधिमङ्गीकृत्यव विधेयज्ञानापेक्षितत्वाद्विग्ये ब्रह्मण्यपि वेदा- न्तानां प्रामाण्य निरूपणीयमिति शास्त्रस्यारम्भ जगुरित्यर्थः । एवं पू. र्वपक्षी मतद्वयमनूद्य दूषितवानित्युपन्यस्यति- मते द्वैते असङ्गते । इत्युक्तं तत्प्रसङ्गन सक्तुस्वर्णनयावपि । दर्शितौ चेति । तत्र तावत्प्रथम आरम्भप्रकारो नयुक्तः। लोके वेदे च कट कर्तव्यः स्वाध्यायोऽध्येतव्य इति कमणि कृत्यस्य विधायकत्वदर्शनेनात्मा द्र- ष्टव्य इति कृत्यो नविधिरिति शङ्कानुस्थानात् । न च संस्कृतस्यात्मनो वि- नियोगदर्शनाच्छङ्केतिवांच्यम्।अनर्थनिवृत्तिः संस्कार इत्युक्तं विनियो- नानाङ्गत्वं नाऽपि विवरणोपन्यासे गाकाङ्क्षानुपपत्तेः । सक्तुन्यायेन ज्ञानस्य प्राधान्येन विधिसम्भवाच । नचात्मन्यतिथयाभावाज्ज्ञानं प्रत्यार्थिकमपि कर्मत्वं नास्ति अकर्मकञ्च ज्ञान नास्तीति शङ्केति वाच्यम्।मुक्त्यतिशयसत्त्वात्। तथा च कर्ता ख- स्य मुक्तये स्वात्मना ज्ञानं कुर्यादितिविधियुज्यते। नन्वहमित्यात्मज्ञानं प्राप्त नतत्र विधिरिति शङ्केति वाच्यम् । प्राप्तेऽपि ज्ञानसन्ताने पुरुषा- र्थाय नियमविध्युपपत्तेः । हिरण्यभरणविधिवत् । तथा हि।तस्मात् सुवर्ण हिरण्यं भार्यमित्यनारभ्याधीतं वाक्यम् तत्र हिरण्यभरण किं क्रत्वङ्गम्?उत तदङ्गहिरण्यस्य संस्कारकम्? अहो पुरुषार्थमिति सन्देहे विधिवाक्ये फलाश्रुतेरङ्गसंस्कारो वेति प्राप्ते कस्य चित्प्रकरणे ऽनाना- जुहूद्वारा पर्णताया इव धारणस्य स्वसंस्कार्यहि- रण्यद्वारा क्रत्वङ्गता । जुह्वा इव सुवर्णस्य लोके पि सत्त्वेन त्वव्य- भिचाराभावात् । अनङ्गद्रव्यसंस्कारस्य च निष्फलत्वेनायोगातू । सुवर्ण एव भवति दुर्वर्णो ऽस्य भ्रातृव्य इत्यबाधितार्थवादिकफलाय सुवर्णभरण रागतःपक्षेप्राप्त नियम्यते इतिराद्धान्तितम्। तद्वदात्मनि ज्ञानाभ्यासो नियम्यते मोक्षाय । यद्वा आत्माऽनात्मप्रत्ययेषुसाधारण- स्य मनस आत्मप्रत्ययेष्वेव नियमः परिसंख्यावा भविष्यति। मनसा ऽऽत्मैव इष्टव्य इति । एव विधिसंभवाच्छङ्कानुत्थानात्तेषां पूर्वपक्षोऽसं- ङ्गत इत्यर्थः । अधुना सिद्धान्तो ऽप्यसङ्गत इत्याह- विधिशान लौकिकालौकिकात्मनाः । नेत्यनारम्भवाद्युक्तौ इति । यदुक्तं बन्धमूलाविद्यानिवृत्तिसंस्कारायात्मकर्मकज्ञानविधिरिति । तत्र न तावल्लौकिकसंसार्यात्मज्ञाने विधिः । अहमिति ज्ञानस्य नि- त्यप्राप्तत्वात् ततो मुक्त्य पोगाच्च । नाप्यलौकिकात्मज्ञाने विधिरप्र- सिद्धत्वात् । यथा किश्चिदुद्दिश्य द्रव्यत्यागत्वरूपयागसामान्यप्र- सिद्धौ तदालिङ्गितब्यक्त्यन्तरस्य चुद्धिस्थस्य विध्यर्थनियोगादि- विषयत्वबोधो भवति। नैवमलौकिकात्मज्ञानत्वावच्छिन्नं प्रसिद्धम् । त- स्मादत्यन्ताप्रसिद्धत्वान्न विषयत्वबोधः । एतेन द्वितीयो ऽप्यारम्भप्रकारो निरस्तः । विधेयज्ञानाप्रसिद्ध्या विध्यङ्गीकारेणारम्भपमर्थनायोगादित्येवमनारम्भवादिना पूर्वपचे कृते सति पुनरारम्भमेकदेशी शङ्कते इत्याह- इदं सर्व मदात्मकम् । इति शब्दोत्यविज्ञाने विधिरुत्थापितः पुनरिति ॥ - १ सू. २ वर्णकम् । ७१ द्वितीयारम्भवादिनेति शेषः । यथा रूपविषयकाचक्षुषो रूपस्पृष्ट- द्रव्यस्यापि प्रसिद्धि., एवं विधिवराद्वेदान्तवाक्याद्विधिस्पृष्टत्वेना- लौकिकात्मनः प्रसिद्धत्वसम्भवादिदं सर्व यदयमात्मति शब्दोत्थं शानं परोक्षं तद्विषयकं प्रसिद्धमिति तत्र विधियुज्यते इत्यर्थः । श्रुत्यर्थस्तुवदिद सर्वमित्यनात्ममात्रं प्रसिद्धमुद्दिश्यायमात्मेति बो- ध्यते।एवं यश्चोरः स स्थाणुरितिवत्सर्वस्य बाधादद्वितीय आत्मेति। नन्वस्मिन् वाक्यार्थे तज्ज्ञान वा न विधिर्युक्तः । अस्मिन् वाक्ये वि- धिप्रत्ययाश्रवणादित्याशङ्कयाश्रुतो ऽपि कल्पित इति सदृष्टान्तमाहे सर्वे यदयमात्मेति वाक्ये चेन्न श्रुतो विधिः। ज्ञातव्याख्यः प्रयोगाय कल्प्य स्यात् पिष्टयागवत् ॥ इति । पूषा प्रप्रिष्टभाग इत्यत्र प्रपिष्टो भागो यस्येति स्वखा- मिभावरूपो द्रव्यदेवतयोः सम्बन्धः कालत्रयानवच्छिन्नो भाति । कालवाचिंपदाभावात् । स च तदुद्देशेन त्यागरूपक्रियां कल्पयति । तां विना द्रव्यस्य देवस्वत्वायोगात् । सा च स्वप्रवर्तकं विनियोगं क- ल्पयति । तं विना प्रवृत्त्ययोगात्। तदनन्तरं यष्टव्यमिति पदं कल्प्यते । नन्वर्थज्ञानार्थ पदं पदात्पूर्वमेव क्रियानियोगयोर्शाने किं पदेन कृत्य- मिति चेत्सत्यम् ।नतयोमनायेदं विधिपदम् । किन्तु साङ्गप्रधानक्रिया- प्रयोगशानाया प्रधानविधिरङ्गविध्येकवाक्यतापन्नः प्रयोग ज्ञापयती- त्यङ्गीकारात् । प्रकृते चेदं सर्वमिति वैदिकपदार्थसंसों नियोगं कल्पयति ।वैदिकार्थसंसर्गमात्रस्य साक्षात्परम्परया वा नियोगाऽवि. नाभावात् । स च नियोगः स्वाऽविनाभूतां क्रियां कल्पयति। तां विना सिद्धार्थसंसर्गमात्रान्नियोगानिष्पत्तेः । नन्वत्र का क्रिया कल्पनीया? न च क्रियासामान्यं कृतिरिति सा कल्प्यते इति वाच्यम् । तथा स- त्यनात्मप्रपञ्च आत्मा कर्तव्य इति स्यात्। न हि तच्छक्य वक्तुम् ।नहि सुनिपुणो ऽपि घटं पटयितुं शक्नोति। किञ्च कृतौ विधेयायामङ्गानि अ- क्लक्तानि कल्पनीयानि क्लप्तशमादीनां शान्तो दान्तः पश्येदिति शा- नाङ्गत्वात् । न च तर्हि ज्ञातव्य इति कल्प्यते इति वाच्यम् । अनात्म- प्रपञ्चस्य सत्यत्वेन तत्प्रमायां सत्यामात्मत्वज्ञानायोगात्। प्रपञ्च आ- त्मेति ज्ञानेऽपितस्य यौषिदग्निरिति ज्ञानवद्धान्तित्वेनानर्थप्रपञ्चनिवर्त- कत्वायोगाश्च । अतो निष्फलत्वाज्ञानमपि न विधेयमिति । उच्यते । स्थाणुशानेन चोरस्येवात्मज्ञाननानात्मनः कल्पितत्वाङ्गीकारानिवृ- - विवरणोपन्यासे त्तियुज्यते । अतः सर्वमात्मेति ज्ञातव्यमिति विधिः परिणम्यते इत्य- र्थः । ननु विधिकल्पनात्प्रागेव सत्यादिवाक्याज्ज्ञानस्य जातत्वात् सिद्ध ज्ञाने कथ विधिरित्यत आह- सत्यादिवाक्यजज्ञानतुल्ये ज्ञानान्तरे विधिः । अधीतिकालससिद्धमन्त्रार्थस्मरणे यथा ॥ इति । मन्त्राः किमष्टार्था उत दृष्टार्था इति सन्देहे मन्त्राणां सिद्ध- द्रव्यादिबोधकत्वेन प्रवृत्तिफलकत्वायोगादनुष्ठानोपयोगिद्रव्यादि- ज्ञानस्य ब्राह्मणवाक्यैरपि सिद्धेरदृष्टार्था इति प्राप्ते श्रुत्यादिभिर्वि- नियोगात्तेषां प्रधानापूर्वनिष्पादकत्वेन फलवत्त्वावगतो किंद्वारा मन्त्रा अपूर्वनिष्पादका इत्याकाङ्क्षायामनुष्ठापकः प्रयोगविधिरङ्गभू- तानां मन्त्राणां स्वापेक्षितमनुष्ठानोपयोग्यर्थप्रकाशनं दृष्टमेव । द्वार कल्पयित्वा मन्त्रैरेव तदर्थाः स्मर्तव्या अनुष्ठानायेति नियमयतीति ब्राह्मणवाक्यव्यावृत्तिरिति दृष्टार्था मन्त्रा इति स्थापितम्। तत्राध्ययन- काले मन्त्रार्थज्ञाने सिद्धे ऽप्यपूर्वोपयोगित्वेन ज्ञानान्तरे यथा विधि- रेवं मन्त्रेऽपीत्यर्थः। ननुतत्र प्रयोगविधिबलात् ज्ञानान्तरे विधियुक्तः। अत्र तु तदभावान ज्ञानान्तरे विधिरित्याशङ्कयाऽत्रापि प्रयोगविधि- रस्तीत्याह- शमाद्यङ्गैर्विमोक्षार्थी वेदान्तैनिमाचरेत् । इति । ज्ञानं कुर्यादित्युत्पत्तिविधिस्तावत्कल्पित.।ब्रह्मणे औपनिषदत्वश्रुत्या वेदान्ताःकरणत्वेन संबध्यन्ते । स चोत्पत्तिविधिःखप्रकरणस्थशमा- दीनङ्गत्वेन गृह्णन् विनियोगविधिर्भवति । पुनः स एव विधिरभयं ब्रह्म भवतिय एवं वेदेत्याद्यर्थवादादिकमोक्षकामिनो रात्रिसत्रन्यायेन मदि- एसाधनमिदं कर्मेति कर्मस्वामित्वरूपाधिकारं बोधयन् अधिकारवि- धिर्भवति। तथा हि प्रतितिष्ठन्ति हवैयएतारात्रीरुपयन्तीत्यत्रापूर्वत्वा- दुपेयुरिति । विधित्वे सिद्धे सत्यधिकार्याकाङ्क्षायां विश्वजिन्न्यायन स्वर्गकामो ऽधिकारी कल्प्यते इति प्राप्ते फलमात्रेयो निर्देशादश्रुतौ त्वनुमानं स्यादिति सिद्धान्तितम् । प्रतितिष्ठन्तीत्यर्थवादश्रुतफलं - हीत्वा प्रतिष्ठाकामो रात्रिसत्रं कुर्यादिति विधिः परिणम्यते । विश्व- जितायजेतेत्यत्र तु फलार्थवादाश्रवणात्सर्वसाधारण. स्वर्गकामोऽधि- कारी कल्पित इति वैषम्यम् । स चाधिकारविधि साङ्गं कर्मानुष्ठा- पयन् प्रयोगविधिः सम्पद्यतइत्यस्ति प्रयोगविधिरित्यर्थः । तथा च विधिसम्भवात्तदपेक्षिते ब्रह्मणि वेदान्तप्रामाण्यीनरूपणाय शास्त्रार- १ सू. २ वर्णकम् । ७३ म्भसिद्धिरिति भावः । अनारम्भवादी दूषयतीस्याह- इत्येवं विधिमुत्थाप्य वैरूप्यात्तं न्यवारयत् । इति । तं विधि तज्ज्ञानं वेत्यर्थः । वैरूप्यं श्लोकद्वयेन स्फुटयति- गुणप्रधानता सिद्धसाध्यता शातता तथा। अज्ञाततेति वैरूप्यमपूर्वब्रह्मधीविधौ ॥ विधयज्ञानशेषत्वाद् गुणत्वादिकमात्मनः । अपूर्वत्वेन मेयत्वात्प्राधान्यादित्रयं भवेदिति ॥ ब्रह्मात्मा ज्ञातव्य इत्यपूर्वस्य मानान्तराज्ञातस्य ब्रह्मात्मनो शा- नविधौ वैरूप्यं स्यात् । तथा हि । किं यदशातब्रह्मसाधकं ज्ञानं तदेव विध्यर्थनियोगविषयतया विधेय उत शानान्तरम् ? आधे ब्रह्मणो ऽपूर्वतया प्रमेयत्वेन ज्ञानजन्यातिशयशालित्वात्प्राधान्यं साध्यातिश- यविशिष्टत्वात्साध्यत्वमाशातत्वं चेति त्रयं प्राप्तम्। एवं यत् ज्ञानापेक्षया प्राधान्यं तज्ज्ञानं विधेय प्रति विषयतया कारकत्वात् गुणत्वं प्राप्त यत् ब्रह्मशानं तत्कर्तव्यमिति विधानायोद्देश्यत्वात्सविषयस्य शानस्य विधेः प्रागेव शातत्वं वाच्यम् । अज्ञातस्योदश्यत्वायोगात् । विषयस्य विशेषणत्वात् । स्वविशिष्टज्ञानज्ञानात्पूर्व शातत्वं वक्तव्यम् । शातत्वं नाम सिद्धज्ञानविशिष्टत्वम्। तथा च ब्रह्मणो विधेयज्ञानापेक्षया सिद्ध- ज्ञानविशिष्टत्वेन कारत्वेन वा सिद्धत्वं ज्ञातत्वं चेति पूर्वत्रयविरुद्धं ध- मंत्रयं प्राप्तम् तदेवमक्षातब्रह्मसाधकज्ञानस्यैव विधेयत्वे मिथो विरुद्ध- त्रिकद्वयरूपं वैरूप्यं दुर्वारं स्यादित्यर्थः । ननु प्रथमं ज्ञानमात्मा ज्ञातव्य इति वाक्योत्थं ब्रह्मात्मार्थसाधक ज्ञानान्तरं विधेयमिति न वैरुप्य- मिति चेन्न। एकमेव वाक्यं पूर्वमर्थपरं पश्चाद्विधिपरमित्ययोगात् । ननु वैरूप्यं न दोषः अन्यथा वीहीन प्रोक्षतीति संस्कारविध्युच्छेदा- पत्तेः । व्रीहीणां प्रोक्षणं प्रति कारकत्वात् गुणत्वं भाति उद्देश्यत्वात् सिद्धत्वं ज्ञातत्वं च । एवं तज्जन्यातिशयत्वात् प्राधान्यं साध्यत्वञ्च भातीति अज्ञातातिशयत्वादशातता चेति वैरूप्यभानादिति चेन्न । वीहीनिति द्वितीयाया अतिशयवैशिष्ट्यवाचित्वाभावात् । अतो द्वितीयया तेषाम्गप्सितत्वेन कारकत्वकथनाच्छाब्दज्ञाने गुणत्वा- दिवयमेव भाति । ईप्सितत्वान्यथानुपपत्त्या ऽतिशयभाने तद्वत्त्वेन प्राधान्यादित्रयमार्थिकमित्यविरोधः।प्रकृते तु व्रीहिवत् ब्रह्मणः प्रमा- णान्तरसिद्धत्वाभावात् ज्ञानविधिवाक्येनैव ज्ञानशेषत्वेन प्रतिपाद्यमे- कस्मिन्नवशाब्दबोधे शेषत्वेन गुणत्वादिभानं प्रतिपाद्यत्वेन प्राधान्या- ७४ विवरणोपन्यासे दिभानमिति विरोधः। ननु विधिप्रत्ययशून्यैः सत्यादिवाक्यैः ब्रह्म प्र- तिपाद्य पश्चाद्विध्येकवाक्यतया ब्रह्मज्ञानविनियोगः प्रतिपाद्यते इति न वैरूप्यमिति चेन्न । त्वया विधिशून्यवाक्यस्य बोधकत्वानङ्गीकारात् । अङ्गीकारे वा फलवदज्ञाताबाधितपरमानन्दनिर्विशेषप्रत्यगब्रह्मप्र- तिपादनेन कृतकृत्यानां वाक्यानां विध्येकवाक्यत्वायोगात् । ननु वाक्यात्परोक्षज्ञानं जायते,तद्वन्धमूलाविद्यांन निवर्तयतीति निष्फलम्। ततः सत्यादिवाक्यानां मोक्षहेतुसाक्षात्कारे विध्येकवाक्यत्वं युक्त- मित्यत आह- साक्षात्कारे तथा ज्ञानसन्तती दूषितो विधिः। साक्षात्कारो विना भानं दृष्टो ऽभ्यासान्न हि क चित्॥ इति । वेदान्यमानागोचरे ब्रह्मणि साक्षात्कारे विधिन युक्त करणा- भावात् । वंदस्य त्वया साक्षात्कारकरणत्वानङ्गीकारात् । ननु वेदवाक्यादवगते ब्रह्मणि साक्षात्काराय शानसन्ततिर्विधीयते इति चेन्न। ज्ञानसन्ततिविधेरश्रवणात् । तथा हि । न तावदात्मत्येवोपासी- तेति सन्ततिविधिः। तत्र लोकसिद्धाहम्प्रत्ययसन्ततिमुपासीतेत्यनूद्य आत्मेत्येवेत्यद्वयात्ममात्रस्य प्रतिपादनात् । तदुक्तम्- यवृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् । तद्वृत्तमेवकारश्च स्यादुपादेयलक्षणम् ॥ इति । तद्वृत्तं तत्पदं नापि पश्यदिति सन्ततिविधिः । सन्तत्यभाना- त् । नापि निदिध्यासितव्य इति सन्ततिविधिः । तस्याद्वयात्म- प्रकरणस्थत्वेन विधिपरत्वायोगात् । अस्तु वा ऽवान्तरतात्पर्येण निदिध्यासनविधिः। नैवम् ।न तावन्मात्रं साक्षात्कारकारण, ध्यान- स्याप्रमाणत्वात् । न हि प्रमाणं विनैव ध्यानमात्रादात्मसाक्षात्कारः प्रमारूपः क्व चिदृष्टः । क्व तर्हि ध्यानविधेरुपयोगः ? एकाग्रतायामिति ब्रूमः । सूक्ष्मार्थसाक्षात्कारे हि चित्तस्य तदन्याकारत्वं प्रतिबन्ध तदभावश्चित्तस्य प्रसाद एकाग्रतेति च गीयते । सा ध्यानसाध्य- साक्षात्कारे निमित्तम् । तथा च श्रुतिः । ज्ञानप्रसादेन विशुद्धस- त्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमान इति विशुद्धचित्तो ध्याता चित्तप्रसादेन तमोपनिषदं निष्कलमात्मान गुरूपदिष्टमहावाक्यादव साक्षादनुभवति । ततो मानान्तराग्राह्यत्वादित्यर्थः । अतो विधेया- भावान विधिपरा वेदान्ताः। किञ्च यत्तवाभिमतं विधिपरैरेव वेदान्तः ब्रह्मात्मान साधयिष्यामीति शास्त्रारम्भ इति, तन्मनोरथमात्रमित्याह- ।
- - -- १ सू. २ वर्णकम् । घेदान्ता विधिनिष्ठाश्चेब्रह्माभावः प्रसज्यते । इति । एकस्योभयार्थत्वायोगादिति भावः । ननु शाल्यर्थ कुल्याः प्रणीयन्ते ताभ्यश्च पानीयं पीयत, उपस्पृश्यते चेति लोके एकस्या- नेकार्थत्वं दृष्टमित्यत आह- तात्पर्यापेक्षशब्दस्य द्यर्थत्वालम्भवात्स्फुटमिति । अस्तु कुल्यादेरेकस्य स्थायिनोऽन्यानपेक्षस्यानेकार्थत्वम् । वा- क्यस्य त्वेकस्याध्रुवस्य तात्पर्यसापेक्षस्य तन्न सम्भवति । उभयत्र तात्पर्ये वाक्यभेदापतेरित्यर्थः । ननु समिधो यजतीत्यादीनां पश्चानां वाक्यानां पञ्च यागास्तेषां क्रमश्चेति द्यर्थत्व दृष्टमित्याशङ्कयाह- प्रयाजा एव चोद्यन्ते शब्दैरर्थात् क्रमप्रमेति । वाक्यैर्यागा एव विधीयते तेषामङ्गत्वादेकेन क; ऽनुष्ठापकः प्रयोगविधिरभङ्गमावहितमपि क्रमं कल्पयन् यागानां बोधकत्वेन स- निहितानां वाक्यानां पाठक्रम बोधक्रमं वातेष्वारोप्यानुष्ठापयति। तथा चैकस्य कर्तुर्युगपदनेकेषां प्रयोगानुपपत्त्या क्रमप्रमावाक्यरित्यर्थः । क्रमो नाम कश्चिन्नास्तीति वदन्तं प्रति प्रसङ्गात्तत्स्वरूपमाह- अर्थान्तरं क्रमो यद्वा ह्याः कालाधुपाधिकाः । इति । ऋमिकार्थद्वयवर्तिपदार्थान्तरं क्रमः । स च सयोगवद्यासज्य- वृत्तित्वान्नैकत्र प्रतीयते । ननु द्वितीयस्यासतः आश्रयत्वं कथमिति चेन्न । अत्यन्तासत्त्वाभावात्। अन्यथा घटत्वादे विघटे भानंन स्यात् । यद्वापूर्वकालावयुत्तरकालस्थः पदार्थ एव कालोपाधिकः सन् कालि- कक्रमः कालस्य पूर्वोत्तरत्वमनिर्वाच्यम् । तत्स्वरूपमेव एकदिगवस्थि- तार्था एव दैशिकःक्रम इत्यर्थः। तस्मात्प्रमेयभेदे वाक्यभेदो दुर्वार इति स्थितम् । ननुभूयाद्विधिपराद्वाक्यात ब्रह्मासिद्धिः, किन्तु क्रमवदर्था- दित्याशङ्कय निषेधति- ननु ज्ञाने नियोगोऽपि ब्रह्माख्यविषयं विना । न युक्तोऽतो ब्रह्मसिद्धिराश्चन्नानपेक्षते ॥ इति । अर्थात्सविषयज्ञानविध्यनुपपत्तेरित्यर्थः । विधेयज्ञानस्य विषया- नपेक्षत्वे दृष्टान्तमाह- वाचि धेनुत्वसन्दष्टेस्तदभावे ऽपि दर्शनादिति। विषयाभावेऽपीत्यर्थः। कस्त_ध्ययनविध्युपात्तानां वेदान्तानामर्थ इति चेदुच्यते।सर्ववेदस्य विधिपरत्वेन पूर्वतन्त्रे निरूपितत्वान्मुमु- क्षुणा मोक्षायाहं ब्रह्मेत्युपासितव्यमिति वाक्यमेव वेदान्तानामर्थ । - - द - ७६ विवरणोपन्यासे न प्रत्यगब्रह्मैक्यम् ।मानान्तरविरोधेनान्यपराद्वाक्यात तदसिद्धरिति। तथा कार्ये विधेश्च सर्वात्मना निरूपितत्वादनारम्भ इत्युपसंहगति । ब्रह्माभावादतः शास्त्रमनारश्यमिति । शास्त्रस्याऽऽरम्भ वक्तुं सिद्धान्ती विकल्पयति- वेदराशेः कार्यगत्वं किं व्युत्पत्त्योत सद्विरा । व्युत्पत्तिर्भाविनी ते ऽग्रे सतां गीस्तु विचार्यताम् ॥ इति । किं लोके सर्वेषां शब्दानां कार्यान्वितार्थव्युत्पत्त्या वेदस्य सर्वस्य कार्यपरत्वमुच्यते उत सतां जैमिन्यादीनां वचनबलेन ? तत्राद्ये तव व्युत्पत्तिः समन्वयसूत्रे सिद्धार्थे भविष्यति।तथा निरूपयिष्यमाणत्वात्। द्वितीये सतां वचनं सर्ववेदस्य कार्यपरत्वबोधकं विचार्यतामित्यर्थः। तादृशं वचनं नास्तीति भावः । नन्वथातो धर्मजिज्ञासेति साङ्गवेदा- ध्ययनानन्तरं धर्मो विचार्य इत्युक्त्या वेदस्य कार्यपरत्वं भातीत्या- शङ्कय सूत्रतात्पर्य तत्रत्य पूर्वपक्षमाह- अदृष्टार्थो ऽधीतिविधिर्वेदो न स्यानिरर्थकः । मानाभावादतो धर्मो न विचार्य इतीरिते ॥ इति । धर्ममीमांसा कर्तव्या न वेति धर्म प्रमाणं भावाभावाभ्यां सन्देहे नेति तावत्प्राप्तम् । तथा हि।धर्मे मीमांसा नाम प्रमाणविचारः।न हि धर्म प्रत्यक्षादिकंमानम्, नापि वेदः। निरर्थकत्वात्। तथाहि । किमध्य- यनविधिईष्टार्थः उताऽदृष्टार्थ ? इति संशये पाक्यादर्थबोधस्य दृष्टस्य सिद्धये विध्ययोगादध्ययनकरणया भावनया विध्यर्थशब्दभावना- भाव्यया भाव्यमहष्टमिति युक्तम् । यद्यपि तददृष्टं स्वाध्यायोऽध्येतव्य इति कर्मणि कृत्येन स्वाध्यायगतं भाति संस्कारादिरूपं, तथा ऽपि वी- हीणामिव स्वाध्यायस्य सफलकत्वङ्गत्वे मानाभावात्स्वतो निष्फल- त्वात्सत्तुन्यायेन कर्मकारकप्राधान्यं भवाऽर्थवादस्थघृतकुल्यादिकाम- स्वाध्यायेनाधीयीतेति कर्तृस्थस्वतन्त्रफलापूर्वमेव भाव्यम् । नन्वहरह स्वाध्यायमधीयानो यहचो ऽधीते पयसः कुल्या अस्य पितृन स्वधा अभिवहन्ति यद्यजुषा घृतस्येत्यादिना ब्रह्मयज्ञाध्ययनस्य फलार्थवादः श्रुतो न ग्रहणाध्ययनस्येति चेत्सत्यम् अध्येयत्वसाम्यातू ग्रहणाध्ययन. स्यापि तत्फलं कल्प्यते। तस्मादध्ययनस्य होमवददृष्टार्थत्वात्तत्र स्वा- ध्यायस्य सक्तुवद्विनियुक्तस्याध्ययननिर्वर्तकत्वेन कृतकृत्यस्य स्वार्थे विवक्षाशून्यत्वानिरर्थकत्वेनाप्रमाणात्ततो मानाभावाद्धमों न विचार्य इति प्राप्ते सिद्धान्तमाह- - १ सू. २ वर्णकम् । ७७ जैमिनिः सूत्रयामास जिज्ञासां धर्मगोचराम् । सफलकत्वपक्ष्यस्य स्वार्थबोधस्य कारणम् ॥ वेदोऽतो नियमाधीत्या संस्कार्यों वा प्य एव च ॥ इति । एवं विवक्षितार्थत्वाद्वेदो मानमिति स्थितमिति धर्मो विचार्यः वेदप्रमाणकत्वात्। तथा हि । अध्येतव्य इतिस्वाध्यायगतातिशय एव नान्यः। स चाध्ययनस्याक्षरावाप्तौ नियमविधेईष्टानुविद्धादृष्टार्थत्वा- त् । अवाप्ति म स्वाधीनोच्चारणक्षमत्वमम् । अध्ययनस्य दृष्टफलसं- स्कारस्तु विधिसामर्थ्याल्लभ्यते । स चापूर्वरूपो विध्यर्थ इति कार्य- वादिनः । अस्माक तु कर्मार्थकतव्यप्रत्ययेन विधिना कर्मविशेषसम- पंकस्वाध्यायपदेन सह बोधकेन बोधकं पदमिति व्युत्पत्त्या तदेक- पदेन समानपदोपात्तखाध्यायरूपेष्टं प्रति साधनत्वमध्ययनगतं बो- ध्यते । अवाप्तिसंस्काराभ्यां विशिष्टत्वेन स्वाध्यायस्य साध्यत्वोपप- त्तिरिति मतम् । भावनावादिनां कर्मार्थकतव्यप्रत्ययन भावनाविध्य- नुपपत्त्या भाव्यमपूर्व सिध्यत् कर्मणि सिध्यति । स चाध्ययनसस्कृतः स्वाध्यायः प्राधानसस्कृताग्निवत् ऋतूपकारकः । न चोपकारकत्वे मानाभावः।क्रतुविधीनामनुष्ठेयबोधं विना ऽनुपपत्त्या बोधकस्वाध्या- यस्योपकारकत्वावगमात् । ननु तर्हि स्वाध्यायमात्रस्यैव बोधक- त्वादुरकारकत्वमागत न संस्कृतस्येति चेन्न । अध्ययनविाधसाम- येन संस्कृतस्वाध्यायजन्यबोधस्यैव क्रत्वपूर्वहेतुत्वकल्पनात् । अ- संस्कृतवेदस्यापूर्वोपयोगित्वे ऽध्ययनविधिवैफल्यापत्तेः । न च सक्तु- न्यायेन तत्साफल्यं यथाश्रुतिस्वाध्यायस्य सफलकत्वपूर्वहेत्वनु- छानानुकूलदृष्टाबाधितार्थबोधकारणस्य प्राधान्येन दृष्टद्वारा ब्रीह्या- दिवत् संस्कार्यत्वेनावाप्यत्वेन च भाव्यत्वसम्भवे श्रुतिभङ्गायोगा- त् । तस्मात्सफलार्थबोधहेतुत्वाद्वेदो विवक्षितार्थत्वेन प्रमाणमिति तत्प्रमाणकत्वाद्धर्मस्य विचारः सालम्बनः कर्तव्य इति स्थितम् । तथा चाऽस्य सूत्रस्य धर्मे प्रमाणं वेद इत्यत्र तात्पर्यम् । नैतावता कृत्स्न- स्य वेदस्य धर्मपरत्वं ज्ञातुं शक्यम् । न हि नीलरूपे चक्षुः प्रमाणमि- त्युक्ते चक्षुषस्तदेकप्रमेयता सिध्यति । पीतादेरपि तत्प्रमेयत्वात् । अ- तो धर्मशब्दावेदार्थैकदेश एव विचारितो न सर्ववेदार्थ इति गम्यते । ननु धर्माय वेदवाक्यानि विचारयदिति भाष्यकारवचनात्सों वे- दार्थो विचारित इति भातीत्याशङ्कयाह- सामान्यतः प्रसिद्धिं च विवादं च विशेषतः। - विवरणोपन्यासे श्रेयःसाधनधर्मस्य भाष्यकारो ऽप्यभाषत ॥ पूर्वतन्त्रे च वेदार्थ. सम्पूर्णो न विचारित.। इति प्रतीयते यस्माद्धर्मे यत्नो महान् कृतः ॥ इति । अयमर्थः । धर्मो नाम कर्तुः कालान्तरभाविधेय साधनो लोका- ख्यप्रमाणाभासेन सामान्यतः प्रसिद्धः । स किमग्निहोत्रादिस्त चै- त्यवन्दनादिरिति विशेषतो विवाद सत्याधे मानाभावात् द्वितीयस्य बुद्धादिवाक्यसिद्धत्वाददृष्टार्थमध्ययनं कृत्वा गुरुकुलानिवर्तितव्यं विचारयितव्याभावादिति धर्मविषय एव पूर्वपक्षो दर्शित ।अथातो धर्मजिज्ञासेति वेदस्यार्थविवक्षा विचारस्यावसर च दर्शयन् सूत्र- कारो ऽपि धर्मों विचार्य इत्यग्निहोत्रादिरूपधर्मस्यैव विचारं सिद्धा- न्तितवान् । एवं सूत्रभाष्यकृतोर्धर्मे यत्नाधिक्यदर्शनात्सर्वो वेदार्थों न विचारित इति निश्चीयते । न च धर्मान्यवेदार्थाभावात् धर्मे वि- चारिते सर्व विचारितमिति वाच्यम् । धर्मवत् ब्रह्मणोऽप्यज्ञाताबाधि- तफलरूपस्य वेदात्प्रतीतेः । अतो धर्माय वेदवाक्यानीति भाष्य वे- दैकदेशविषयमिति भावः । धर्मस्यैव वेदार्थत्वे सूत्रमन्यथा स्या- दित्याह- विवक्षितार्थो वेदोऽतो वेदार्थस्तु विचार्यताम् । इति सूयाद्यदा धर्मः सर्ववेदस्य गोचर.॥ इति । वेदार्थजिज्ञासेति सूत्रं जैमिनिः कुर्यादित्यर्थः । फलितमाह- हेतु वेदविवक्षां च कुर्वन् धर्म च सूत्रयन् । अस्त्वन्योऽपि च वेदार्थ इति वक्त्यत्र जैमिनिरिति ॥ अत्र प्रथमसूत्रे द्वादशलक्षण्यां धर्मो विचारितो न ब्रह्मे- त्यविवादम् । तथा चाथाध्ययनानन्तरमतः वेदस्य विवक्षितार्थ- त्वाद्वेदार्थों विचार्य इति वक्तव्ये धर्मों विचार्य इति वदन् अन्यापि वेदार्थो ऽस्तीति सूचयति जैमिनिः । तस्यायं भावः । यद्यहं वेदार्थों विचार्य इति प्रतिज्ञां कुर्या तदाऽग्रे मया धर्मस्यैव विचार्य- माणत्वाद्धर्मादन्यो वेदार्थो नास्तीति मन्दबुद्धीनां भ्रमः स्यात्स माभूदिति । ननु धर्मो विचार्य इति प्रतिज्ञायां वेदस्य विवक्षिता- र्थत्वादिति हेतुरसङ्गत इति धर्मपदं वेदार्थपरमिति चेन्न । फलव- दर्थबोधकत्वेनाध्ययनविधिभाव्यवेदस्य स्वार्थे तात्पर्यसत्त्वेन प्रमा- णत्वाद्धर्मस्यापि तदर्थत्वात् विचारः कर्तव्य इत्यन्वयसम्भवात् । यद्यप्यध्ययनानन्तरं सर्ववेदार्थविचारस्यावसरस्तथापि धर्मस्यैव १ सू. २ वर्णकम् । ७९ श्रेयःसाधनत्वेन लोके प्रसिद्धत्वात्प्रायणाध्येतणां श्रेयोऽर्थित्वान्मुमु- क्षाया दुर्लभत्वात् तस्मिन्नवसरे धर्मो विचार्य इत्युक्तमित्यविरोध । एवं प्रथमसूत्रतात्पर्यालोचनया पूर्वतन्त्रे सर्ववेदार्थविचारो न कृत इति सिद्धम् । तथा द्वितीयसूत्रेऽपि चोदनां धर्मलक्षणं वदन्नचोदना- भागैः सिद्धलक्ष्यमसूसुचदिति । अयमर्थः । चोदनालक्षणो ऽर्थो धर्म इति धर्मस्य लक्षणप्रमाणपरं द्वितीयसूत्रं चोदनागम्यत्वं लक्षणं मुखतः । अर्थाद्धर्मे प्रमाणं चोदनेत्युक्तमिति प्राभाकरा.।मुखतः प्रमा- णमुक्तमाल्लक्षणमिति भट्टाः वेदो हि चोदनाचोदनात्मक. प्रत्यक्ष । तत्र चोदनां धर्मस्य साध्यरूपस्य लक्षणं वदन्नचोदनाभागस्य सिद्धं प्रतिपाद्यमस्तीति सूचितवानिति । अन्यथा सर्ववेदस्य धर्मपरत्वे वेद- लक्षणो धर्म इति सूत्रं स्यादित्याह- अन्यथा लक्षण वेदं ब्रूयाद्धर्मस्य जैमिनि । इत्युक्तं तत्प्रसङ्गेन भावनापि निरूपिता ॥ इति । विवरणे इति शेषः। ननु चोदनापदं सर्ववेदस्य धर्मपरत्वं ना- स्तीति सूचनार्थ न भवति ; किन्तु धर्मस्य फलवत्त्वसूचनार्थम् । तथा हि । धर्मो नामार्थभावना तद्भाव्यकशब्दभावनावाचि लिङादिमद्वाक्यं चोदना । तत्र शब्दभावना नाम लिङादिशब्दनिष्ठः प्रेरणाख्यो व्यापारः शब्दो वा तद्गता शक्तिी । अर्थभावना ऽभि- धाख्या यज्ज्ञानात् पुरुषः प्रवर्तते, तस्याः शब्दभावनायाः स्तुतिनि- न्दाशानाङ्गकेन विधिशब्दजेन ज्ञानेन प्रवृत्तिं भावयेदित्याकार. । सा च प्रवृत्तिराख्यातत्वाकारेण लिङाद्यभिधया तत्तदङ्गकयागादिकर- णिकार्थभावनेत्युच्यते । तस्यां भाव्याकाङ्क्षायामेकपदोपात्तो धा- त्वर्थों यागादिर्भाव्य इति शङ्का स्यात् । तथा च निष्फलो धमों ऽन- नुष्ठेय आपद्येत । तत्र जैमिनिश्चुद प्रेरणे इति धातुजेन चोदनापदेन प्रवर्तकवाक्यग धर्मलक्षणं वदन् प्रवृत्तिरूपं धर्म सफल सूचयति । फल विना प्रवृत्त्ययोगात् । एवं भगवता जैमिनिना फलसूचनात् क्लेशात्मकं भावार्थ विहाय भिन्नपदोपात्तमपि स्वर्गादिकं भाव्यं गृ. ह्यते इति चोदनापदमर्थवदिति । नैतत्सारम् । अध्ययनविधिना स्वा- ध्यायस्य भावस्य फलवदर्थे तात्पर्यमिति सूचयता प्रमथसूत्रेणैव स्वाध्यायार्थस्य धर्मस्य फलवत्त्वसिद्धेः। तस्माञ्चोदनापदमचोदनाभागस्य धर्मपरत्वनिरामार्थम् । अत एवार्थवादानां सोऽरोदीदित्यादीनां स्वार्थे फलशून्यानां धर्मार्थत्वाभा- S विवरणोपन्यासे वेनाप्रामाण्यमाशङ्कय सफलविध्येकवाक्यत्वमुक्तम् । यदि चोदनासूत्रे- सर्वो वेदो धर्मपर इत्यभिप्रेतं स्यात्तर्हि अतदर्थानामिति हेतुपद्मसङ्गतं स्यात्। क्रियार्थतायाः सिद्धत्वात् । अतश्चोदनात्मकाम्नायस्य क्रियार्थ- त्वेन प्रामाण्ये चोदनासूत्रे स्थिते सत्यक्रियार्थानामानर्थक्यप्राप्तौ विध्ये- कवाक्यत्वं युक्तम् । तत्र चाम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थाना- मिति पूर्व पक्षोपक्रमे सोऽरोदीदित्यादीनि स्वार्थफलशून्यानि वाक्या- न्युदाहरता भाष्यकारेण स्वार्थे फलवतां वेदान्तानामनन्यशेषत्वं सू- चितम् । ननु दृष्टो हि तस्यार्थः कर्मोवबोधनं नाम तद्भूतानां क्रिया- थेन समाम्नायः आम्नायस्य क्रियार्थत्वादिति भाष्यसूत्रवचांसि क- त्स्नाम्नायस्य धर्मपरत्वं सूचयन्तीत्यत आह- दृष्टो हीत्यादिवचसा वेदान्तार्थविरोधिता। कथितैवं भहपादमतेन न गतार्थता । इति ॥ तस्याम्नायस्य कर्मावबोधनमर्थः। तत्तत्र सिद्धार्थेषु भूतानां वर्त- मानानां पदानां क्रियापदेनैकवाक्यतेति सामान्यवचनानि धर्मजि- शासोपक्रमबलात्कर्मकाण्डविषयाणि न कृत्स्नवेदविषयाणि । तेषु व- चनेषु कृत्स्नशब्दाभावात् । अतो नैतैर्वचनैवेदान्तार्थापलापः कर्तु शक्यः । एवं भावनावादिभद्दपादतन्त्रानुसारेण वेदान्तानां गता- र्थता नास्तीति सिद्धम् । तथा नियोगशरणगुरुतन्त्रालोचने ऽपि तेषा- मगतार्थता । तथा हि । अधीतवेदस्य वेदार्थे आपाततो शाते संशयो भवति उद्भिदा यजेत पशुकाम इत्यादिवाक्येषु किमुद्दिश्य किं वि- धीयते इति । एवं सशये सति निर्णयार्थ वेदार्थविचारः कर्तव्यो न वेति सशये वेदस्याप्रमाणत्वात्तदर्थों न विचार्य इति पूर्वपक्षमाह- वेदस्यध्यायने यद्वा ऽधीत्यपूर्वे समाप्तितः। द्वेधा ऽप्यमानो वेदार्थों न विचार्य इतीरितम् । इति । अयमर्थः । आचार्यत्वकामो ऽष्टवर्ष ब्राह्मणमुपनयीत तमध्या- पयीतेति सफलाध्यापनविधिरध्ययनं विना ऽनुपपद्यमानः खाङ्गत्वे- नाध्ययनमाक्षिपति। वेदश्चाध्ययनं प्रति कारकत्वेनाध्यापने विनि- युक्तो न स्वार्थे प्रमाणं बटुवदित्येक मतम् ।अन्ये तु स्वाध्यायो ऽध्ये- तव्य इत्यध्ययनात्पूर्व तव्यप्रत्ययार्थ प्रत्यङ्गत्वेन समाप्तो वेदो भूतं भव्यायति न्यायात् अपूर्वाङ्गवेदाध्ययनमध्यापनोपकारकमतो त- त्प्रयुक्तमित्याहुः । मतद्वये ऽपि वेदस्य स्वार्थे तात्पर्यहेत्वभावादग्रा- माण्यमिति सिद्धान्तयति- R wwemamaee - - १ सू. २ वर्णकम् । ८१ आद्यं मतं मानहीनं द्वितीये ऽर्थावबोधनम् । आवश्यकं फलेक्षित्वादपूर्वस्येति साधितम् ॥ इति । अयं भावः। अध्ययनस्याऽध्यापनप्रयुक्तत्वेऽपि नाऽङ्गत्वं श्रुत्यादी- नामङ्गत्वे मानानामभावात् । न च प्रयुक्तिमात्रेणाऽङ्गता । आधानस्य समूलक्रतुविधिप्रयुक्तत्वे ऽप्यनङ्गत्वात् । अत. स्वतन्त्राध्ययनसाध्यः स्वाध्यायो विवक्षितार्थः । द्वितीये मते कर्मणि कृत्ये भोक्रा ऽपूर्वस्य स्वाध्यायगतस्य फलाकाङ्क्षायामर्थावबोध फलत्वेन कल्प्यते । दृष्टे फले सम्भवत्यदृष्टकल्पनानुपपत्तेः । स च संस्कृतस्वाध्यायजन्यो ऽर्थावबोधः सफलकत्वपूर्वोपयोगीत्यध्ययननियोग एव वेदस्य स्वार्थे तात्पर्य गमयति । तस्माद्वेदप्रमाणे 'को वेदार्थो विचार्य' इति। एवं गुरूणां शास्त्रारम्भप्रकारमनूद्य स्वाभिप्रेतं दर्शयति- इदं प्राभाकरमतं तत्रापि न गतार्थता। वेदार्थत्वप्रकारोऽपि विचारो धर्मगोचरः ॥ सामान्यविधिना ऽपीह विशेषग्रहसम्भवात् । सूत्रे धर्मपदात्कृस्त्रवेदार्थो न विचारितः ॥ इति । यद्यपि कृत्सवेदाध्ययनविधिना सामान्येन वेदार्थविचार: प्र- युज्यते तथा ऽपि प्रायेणाऽध्येतॄणां भोगार्थित्वं तत्साधन धर्म एवादी जिज्ञासित इति सामान्यविधिना वेदार्थविशेषस्य धर्मस्याऽऽदौ विचार प्रयुज्यते।मुमुक्षायां तु वेदार्थविचारप्रयोग इति युक्ततरम् । एतदभि- प्रेत्य सर्वज्ञजैमिनिना धर्मपदं प्रयुक्तम् । तथा च गुरूणां वेदार्थो विचार्य इति प्रतिज्ञासूत्रधर्मपदसामर्थ्यावेदार्थैकदेशधर्मगोचरैव । अतः कृत्स्न- वदार्थो न विचारित इति वेदान्तानामगतार्थत्वं सिद्धमित्यभिप्राय.। ननु धर्मपदं न वेदाथैकदेशवाचि । येन ब्रह्मविचारः परिशिष्टः स्यात् । किन्तु कृत्ववेदार्थवाचकम् । न च तर्हि सूत्रे वेदार्थपदं किमिति न प्रयुक्तमिति वाच्यम् । तत्पदेन पुरुषार्थाप्रतीतेरजिज्ञास्यत्वा- पातात् । अतो वेदार्थस्य सफलत्वप्रतीत्यर्थ धर्मपदेन ग्रहण- मित्याशङ्कयाह- वेदाथै धर्मशब्दस्य वृत्तिः का चन नेक्ष्यते । इति । न तावता वेदार्थे धर्मशब्दस्य रूढिः। अवेदार्थेऽपि चैत्यवन्दनादौ बौद्धः प्रयुज्यमानत्वात् । नाऽपि श्रेयःसाधारणाद्धर्म इति योगः। तथा सति श्रेयःसाधनस्यैव जिज्ञासा प्रतिज्ञापत्तौ श्रेयोरूपस्य नित्याशो- कानन्दस्य ब्रह्मणो विचारविशेषापत्तेः। तथा च परिशिष्टब्रह्मविचारा- ८२ विवरणोपन्यासे रम्भसिद्धिः।न च श्रेयःसाधनधर्मातिरेकेण ब्रह्म नास्तिन प्रतीयते इति वा वक्तुं शक्यम्।सत्यादिवाक्यैरबाधितानुभवविरोधात् । न च तद्ब्रह्म द्वादशलक्षण्यां विचारितम् । येन कथं चिद्धर्मपदेन ब्रह्माऽपि सङ्ग- ह्येत । अतोन्यायोपेतसौत्रधर्मपदेन श्रेयःसाधनस्य साध्यस्य विचार: प्रतिज्ञातो न श्रेयोरूपस्य सिद्धस्य ब्रह्मण इति सिद्धम् । तथा चोदनालक्षणो ऽर्थो धर्म इति धर्मस्य लक्षणसूत्रमेकदेशवि- चार.प्रतिज्ञात इति दर्शयति । किं चोदनालक्षणो धर्मः उत बुद्धाद्या- गमलक्षणः ? इति संशयनिरासार्थ धर्मस्यैव लक्षणकथनात् । यदि किं चोदनालक्षणो वेदार्थः उत मन्त्रार्थवादलक्षण इति वेदार्थसंशय निरा- सार्थ लक्षणं स्यात् तदा चोदनालक्षणो वेदार्थ इति सूत्र स्यात् । अतो वेदैकदेशचोदनाया धर्मलक्षणत्वोक्तेः कृत्स्नवेदार्थों धर्मो न भवतीति ज्ञायते । यथा चक्षुर्गम्यगुणो रूपमित्युक्ते प्रत्यक्षप्रमाणैकदेशप्रमेयं रूपं न कृत्स्नप्रत्यक्षप्रमेयमिति ज्ञायते तद्वत् ।यदि च धर्मशब्दस्य वेदार्थप- रत्वं कल्पयित्वा चोदनालक्षण एव वेदार्थ इत्युच्येत तर्हि सूत्रे ऽर्थपदं व्यर्थम् । तथा हि । श्येनादिश्चोदनार्थो न वा? आये तस्य वेदार्थ- त्वादर्थपदेन निरास. । द्वितीये चोदनापदेनैव श्येनादिनिरासादर्थ- पदवैयर्थ्यम् । श्रेय साधनधर्मस्य लक्ष्यत्वे तु श्येनादेश्चोदनार्थस्य ध- मैत्वनिरासार्थमर्थपदं बलवनष्टाननुबन्धिश्रेयःपरमर्थवद्भवति । श्येनादेहिंसात्वेन तत्साधनत्वाभावान्न हिंस्यादिति निषिद्धत्वे बल- वदनिष्टाननुबन्धित्वाभावादधर्मत्वसिद्धेः । किञ्च चोदनायाः सत्त्वे निरर्थकत्वेन च चोदनार्थस्य कृत्स्मवेदार्थत्वासिद्धिः । चोदनामात्रा- र्थस्य निरर्थकचोदनार्थत्वव्याघातात् । चोदनाशब्दस्य वेदपरत्वे वेदलक्षणो वेदार्थ इति स्यात् । तथा च चोदनाशब्दस्य लक्षणादोषः । किश्च प्रथमसूत्रे सर्वात्मना प्रामाण्य सिद्धं न वा ? न चेच्चोदनासूत्रे त्वत्कृतस्य किं चोदनालक्षणो वेदार्थः, उतार्थवादादिलक्षण, इति विचारस्यानुपपत्तिः। वेदस्य प्रामाण्यनिश्चयं विना वेदार्थाश्रितवि- चारायोगस्य स्फुटत्वात् । आये औत्पत्तिकसूत्रादौ प्रामाण्यचिन्ता- नुपपत्तिः । निश्चिते संशयायोगात् । न चाद्यसूत्रे निश्चितस्यापि प्रामाण्यस्य वेदार्थत्वाञ्चिन्तोति वाच्यम् । सिद्धस्य वेदार्थत्वे सिद्धे वेदप्रामाण्यापातात् । किश्चाऽऽद्यसूत्रे प्रामाण्यनिश्चये द्वितीयाध्याया- रम्भे वृत्तं प्रमाणलक्षणमिति भाष्येण विरोधः। तेन कृत्स्नप्रथमाध्या- येन वेदप्रामाण्यस्य साधितत्वप्रतीतेः । किञ्च चोदनाप्रमाणक एव १ सू. २ वर्णकम् । ८३ वेदार्थ इति द्वितीयसूत्रे निश्चये मन्त्रार्थवादादीनामानर्थक्यस्य सिद्धत्वादाम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामित्यादिपूर्वपक्षी व्यर्थ. स्यात् । तस्मान्न वेदार्थविचारः प्रतिज्ञातः कृतो वा। किन्तु धर्म एव विचार्यत्वेन प्रतिज्ञातो विचारितश्च साध्यरूपः । ततः परिशिष्ट- स्य सिद्धब्रह्मपरस्य वेदस्य विचारार्थमथातो ब्रह्मजिज्ञासेत्यादिशा- स्त्रमारम्भणोयमित्याह- एवं सत्यगतार्थत्वाजिज्ञासा ब्रह्मगोचरा । कार्या मुमुक्षुणेत्येवं द्वितीय वर्णके स्थितम् ॥ इति । एवं एकदेशविचारे कृते सति वेदान्तानामविचारितार्थत्वान्मु- मुक्षुणा तेषां विचारः कर्तव्य इत्यर्थः । तन्त्वौपनिषदं देवं प्रत्यगात्मानमव्ययम् । श्रीरामं परमानन्दं चिन्तये ऽहं मुहुर्मुहुः ॥ १॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पूज्य- पादशिष्यरामानन्दसरस्वतीकृते विवरणोपन्यासे द्वितीयं वर्णकं समाप्तम् ॥ -0- पूर्वत्राऽऽगतार्थत्वाद्वेदान्तशास्त्रमारम्भणीयमित्युक्तं तथाऽपि ना- रम्भणीयमधिकार्यभावादित्याशङ्कय तृतीयवर्णकतात्पर्यमाह- अथाऽधिकारिसिद्ध्यर्थे वर्णकान्तरमुच्यते । आनन्तर्ये ऽथशब्दः स्यात् नार्थान्तरइतीरितम् ॥ अगतार्थतया वेदान्तानां विचार्यत्वोक्त्यनन्तरमित्यर्थः । इदं शा- स्त्रमारम्भणीयं न वेति सन्देहे मानाभावेनाधिकार्यभावान्नारम्भणी- यमिति प्राप्ते सूत्रस्थाऽथशब्दस्यानन्तर्यार्थकत्वसमर्थनेन, 'तद्यथेह क- मंचितो लोकः क्षीयते ब्राह्मणो निर्वेदमायात् । शान्तो दान्तः तरति शोकमात्मविदिति साधनचतुष्टयपरवाक्यप्रमाणको अधिकारी सा- ध्यते इति भावः। नन्वर्थान्तरं किं न स्यात् इत्यत आह । आनन्त- ये इति । किं जिज्ञासापदं यौगिकमाश्रित्याथशब्दस्यार्थान्तरमाश- ङ्कयते उत विचारे रूढमथ लाक्षणिकम् ? आधे न तावदारम्भार्थता ऽथशब्दस्य युक्ता । ब्रह्मज्ञानेच्छाया अप्रतिपाद्यत्वात् । नाऽपि मङ्ग- लार्थता । इच्छा मङ्गलमित्युक्तेः फलाभावात् । नाऽपि प्रकृतादादा- न्तरत्वार्थकता। अर्थविशेषस्याऽप्रकृतत्वात् । यतः कुतश्चिदर्थान्तरता- याश्चावक्तव्यत्वात् । ननु तर्हि कुतश्चिदानन्तर्यमपि न वक्तव्यं विवरणोपन्यासे सिद्धत्वादिति चेन्न । स्वस्मिन् जिज्ञासां जाननतो ऽप्युक्तसाधनच- तुष्टयानन्तर्यस्याज्ञातत्वात् । अथशब्देन तज्ज्ञापने त्वधिकारिविशे- षणमेतावदेवेति निश्चित्य झटिति श्रवणादौ प्रवर्तते । तस्मादानन्त- ार्थत्वमेवेति भावः । ननु जिज्ञासाविचारशब्दयोस्तुल्यार्थकतया शास्त्रकारव्यवहाराढूँढं, पदम् तथा च विचारस्य कर्तव्यत्वादार- म्भार्थो ऽथशब्दो ऽस्त्विति द्वितीयमाशङ्कयाह- जिज्ञासापदमत्र स्याद्यौगिकं पङ्कजादिवत् । इत्यर्थ वृत्तिभेदाश्च शब्दस्याऽत्र निरूपिताः॥ अत्र सूत्रे न रूदमिति शेषः । यस्मिन्पदे योगः क्लप्त तत्र रूढिर्न कल्प्या। ननु क्लप्तयोगस्याऽपि पङ्कजादिपदस्य तामरसे योगरूढिर्नाम वृत्त्यन्तर तार्किकैराश्रितमिति चेन्न । अलौकिकवृत्त्यन्तरकल्पने माना- भावात् । साधारणेनाऽपि योगेन प्रयोगप्राचुर्याद्विशेषार्थभानसम्भ- वात् । शास्त्रकारव्यवहारस्तु विचारलक्षणया ऽप्युपपद्यते इति भावः। ननु योगरूढिलक्षणानां को भेद इत्यत आह । इत्यर्थमिति । यौगि- कत्वज्ञानार्थ वृत्तिभेदज्ञानार्थमिति यावत् । अखण्डपदप्रवृत्तिनि- मित्तकः सङ्केतानपेक्षः शब्दस्यार्थेन सम्बन्धो रूदिः । एकस्मिन्पदे ऽवयवशक्तिसमुदायो योग. । इतीदं वृत्तिद्वयं मुख्यम् । मुख्यार्थसम्ब- न्धो लक्षणा । अत्र पूर्वप्राबल्यम् । ननु सिद्धान्ते जिज्ञासापदं विचार- लक्षकमिति आरम्भार्थताशङ्कामनूद्य निराचष्टे- अर्थत्यारम्भवाचित्वे लभ्यते नाधिकार्यसौ। मोक्षकामो न कल्प्योऽत्र प्रसज्यप्रतिषेधतः ॥ असौ श्रोतसाधनसंपन्न । तत्समर्पकाभावादिति शेष । ननु वि- चारस्य ज्ञानद्वारा मोक्ष. फलं, तत्कामः कल्प्यतामित्यत आह । मो- क्षकाम इति । आरभ्यते विचार इत्युक्ते तत्र सर्वो ऽधिकारीति प्रस- ज्यते प्रतीतिः।सा मोक्षकामकल्पनया बाधनीयेति गौरवम् । आनन्त- याभिधानद्वारा मोक्षकामाधिकारिज्ञानपूर्वकविचारविधिप्रतिपत्तौ लाघवम् । ननु रात्रिसत्रन्यायेन श्रोतव्यविधिप्रकरणस्थार्थवादवाक्यै- रेवाधिकारिविशेषधीसम्भव इति चेत्सत्यम् । किन्तु ज्ञाते ऽधिकारिणि, संशयनिरासार्थमथशब्देनोपादानम् । ननु विश्वजिन्न्यायेन स्वर्गार्थव- न्मोक्षस्याऽपि सर्वान्प्रत्यविशिष्टत्वात्सर्वाधिकारप्रतीतेन बाध इत्य- त आह- सरों लोको न मोक्षार्थी नाधीतिविधिगोचर.। - १ सू ३ वर्णकम् । अधिकारी भवेदत्र तत्प्रयुक्तेरभावतः ॥ विषयलुब्धानां निर्विषयमोक्षे भयमेव भवतीत्यर्थः । ननु वेदाध्ययनविधौ त्रैवर्णिको ऽधिकारीति स एव विधना स्व- फलार्थावबोधार्थमाक्षिप्ते विचारे ऽप्यधिकारी सिध्यतीत्यत आह । नाऽधीतीति । अत्र विचारे अधीतिविधिगोचरो ऽधिकारी न भवेत् । विचारस्याऽध्ययनविधिप्रयुक्तत्वाभावादित्यर्थः । इमं हेतुंसाधयति- अर्थबोधो यदाधीतिविधिभाव्यो भवेत्तदा । विचारस्तत्प्रयुक्तः स्यात्कि त्वसौ भाव्यवेदजः॥ स्यानासौ विधिभाच्य इति शेषः । न तावदध्ययनस्या- र्थबोधो ऽन्वयव्यतिरेकसिद्धं फलम् । अध्येतृणां तददर्शनात् । नन्व- ध्येतव्य इति शब्दभावनाभाव्याया अध्ययनकरणिकाया अर्थ- भावनाया अर्थावबोधो भाव्य. । स्वाध्यायस्याऽफलत्वेन भाव्य- त्वानुपपत्तेः । दृष्टफले सति सक्तुन्यायेन गुणप्रधानताव्यत्ययस्य खाध्यायेनाधीयीत विश्वजिन्न्यायेन स्वर्गकाम इति कल्पनानुपप- त्तेश्चेति शङ्कते किन्त्विति । यद्यधीतस्य वेदस्य व्याकरणाद्यङ्गा- ध्ययने सत्यर्थावबोधो दृष्टं फलं तर्हि चन्द्र इव स्वयमफलत्वे ऽप्यनुष्ठानद्वारा सफलस्यार्थावबोधस्य फलस्य हेतुतया भाव्यो ऽस्तु । अध्येतव्य इति कर्मणि कृत्यप्रत्ययेन वेदस्य भाव्यत्वनिश्चया- त् । फलहेतुपश्वादेर्भाव्यत्वाङ्गीकाराञ्चेति समाधत्ते । असाविति । अध्ययनभाव्यस्य वेदस्यार्थावबोधः फलमित्यर्थः । नन्वध्ययने ऽधि- कार्यश्रवणादृष्टफलार्थावबोधकाम एवाधिकारीत्यत आह- अर्थावबोधकामस्य नाधीतौ स्यान्नियोज्यता। अर्थाज्ञाने तदज्ञानादज्ञाते कामना कुतः ? ॥ अध्ययनमर्थावबोधकाममुद्दिश्य न विहितम् ।येनाधिकारिविशेष- णतया बोधो विधिफलं भवेदित्यर्थः। तत्र हेतुमाह अाज्ञाने इति । उ- द्देश्यस्य विशेषणस्यार्थावबोधेच्छाया अध्ययनात्प्रागेव सिद्धिर्वक्त- व्या।इच्छा त्विष्टसाधनतया ज्ञाते सिध्यति । ततश्चाध्येतव्यानां स- र्वेषां वाक्यानां विशिष्याग्निहोत्रादिरूपार्थज्ञानं विना ऽर्थावबोध इ- टसाधनमिति ज्ञातुमशक्यत्वादिच्छा न सिध्यतीत्यर्थः । उपदेशेन विशिष्टार्थज्ञानाङ्गीकारे फलस्य सिद्धत्वादध्यय(२)नांशे प्रवृत्तिन - (१) वेद एवेति पाठान्तरम् । (२) दध्ययनायासे इति पाठान्तरम् ।
विवरणापन्यासे स्यादिति भावः । नन्वर्थावबोधमुद्दिश्य वेदाध्ययनमिति यदि नोच्य- ते १) ? तदा कथं वेदे तात्पर्यग्रहः ग्राहकाभावादिति शङ्कते । उद्दिश्यति- उद्दिश्योञ्चारणाभावे कथं तात्पर्यधीर्भवेत् । लोके वक्तुारच्छा तात्पर्यमिति उद्दिश्योञ्चारणमपेक्ष्यते । वेदे तु फलवदपूर्वार्थप्रमित्यनुरूपत्वं तात्पर्यमुपक्रमादिना ग्राह्येनोद्दिश्यो चारणेन वक्तुरभावादिति परिहरति- उपक्रमादिलिङ्गैः सा भवेद्वेदे न चान्यथा । अधीतावनियोज्यत्वे बोधकामे भवेन्न सा॥ कर्बभावादिति प्राप्ते जगुः प्राभाकरा इदम् । तस्मादर्थावबोधस्याध्ययनविधिफलत्वाभावेन तदर्थविचारस्य तद्विधिं प्रत्युक्तत्वाभावानाध्ययनविधिना विचारे ऽधिकारिलाभ इ- त्यथशब्देनैवाधिकारी समर्पणीय इति भावः । इदानीमध्ययने ऽधि- कार्यन्तरानिरूपणादगत्यार्थावबोधकामो ऽधिकार्येष्टव्य इति शङ्कते । अधीताविति । मम नियोग इति साक्षान्नियोगबोधानियोज्य । ममा- ऽस्यां क्रियायां नियोग इति क्रियाद्वारा नियोगबोद्धा कर्ता अधिकारी स्वामीति भेदः । सा अधीतिक्रियाप्रवर्तको हि विधिः प्रवृत्तिसमर्थ- मधिकारिणमपेक्षते इति वस्तुगतिः। अध्ययनविधिरध्ययनेन प्रव- तक इत्यधिकारिणं चापेक्षते । किं त्वध्ययनक्रियाध्यापनविधिप्रयु- तेति गुरुमतेनादौ समाधत्ते । जगुरिति । ननु स्वाध्यायो ऽध्येतव्य इत्यध्ययनक्रियाध्यापनविधिप्रयुक्ता। अष्टवर्षे ब्राह्मणमुपनयीत, त- मध्यापयीतेत्यध्यापनविधिः । उभयत्राधिकारी न श्रूयते । तत्र कथमे- केनान्यस्य प्रयुक्तिरिति शङ्कते । अध्यापनप्रयुक्तेति । ननु तुल्यमिदं द्वयम् । किञ्चाधिकारिकल्पनायामध्ययने एव स कल्पनीयः। तेनैवा- ध्यापनस्य प्रयोगो ऽस्तु। न च लिखितपाठेनाविहिताध्यापनेनाप्यध्य- यनसिद्धर्नाध्यापनाक्षेप इति वाच्यम् । आचार्याधीनो वेदमधीष्वति नियमविधानाद्विहिताध्यापनस्यैवाक्षेपादिति वैपरीत्यमाह । अन्त्ये- नति- अध्यापनं चाध्ययनमन्त्येनाऽऽद्यं प्रयुज्यताम् । इति चेत् साधिकारत्वादाद्यमन्त्ये प्रयोजकम् ॥ अर्थतः पाठतो वान्त्यमध्ययनं माद्यमध्यापनं समाधत्ते । साधि- (१) चोच्यते ते वा पाठ. । - १ सू ३ वर्णकम् । कारत्वादिति । अयमाशय. । 'संमाननोत्सञ्जनाचार्यकरणज्ञानभृति- विगणनव्ययेषु निन' इति सूत्रेण संमाननादिषु साध्येषु नयतेर्धातो- रात्मनेपदविधानादुपनयीतेत्युपनयनस्याचार्यकरणं फलं गम्यते। तद- ङ्गित्वादध्यापनस्याऽपि तेन फल कल्प्यते। तत्कामनवाध्यापनविधिना पुरुषस्य सम्बन्धे निमित्तमधिकारस्तेन साधिकारो ऽध्यापनविधिर्निर धिकारस्याध्ययनस्य प्रयोजक इति । ननु विधिः स्वविषयतदङ्ग- योरेव प्रयोजकः। तत्र कथमध्ययनस्य विहितस्यानङ्गस्य विध्यन्तरप्र- योज्यता। नन्ववघातविधिना ऽवृत्तिरिवेति चेन्न । तस्याः फलानुपप- त्तिलभ्यत्वनाऽविहितत्वादित्याशङ्कयाह । साधिकार इति। साधिकारक्रतुविधिराधानस्य यथा तथा । नैतदेवं नयीतेति [पनीते. फलं श्रुतम् ॥ काम्य इत्यर्थः । ब्राह्मणो ऽग्नीमादधीतेत्यग्निसंस्कारार्थो विधिन खयमाधानस्यानुष्ठापकः । निष्फलत्वात् । किन्तूत्तरकाम्यविधिरग्न्य- पेक्षः तसिध्यर्थमाधानमनङ्गमपि प्रयोजयति । तत्सिद्धेष्वग्निषु नित्य- विधयः प्रवर्तन्ते। न स्वयमग्न्यपेक्षा अप्याधानस्य प्रयोजकाः।अग्नीनां संस्कार्यतयोद्देश्यत्वेनानुपादेयानामनाक्षेप्यत्वात् । कामस्तु विधेर्बली- यानग्नानाक्षिप्याधानमनुष्ठापयति तद्वदिति भावः। इदं गुरुमतंदूषयति। नैतदेवमिति । अध्ययनमध्यापनविधिप्रयुक्तं न भवति । अध्यापनविधेः फलाश्रवणेनाप्रयोजकत्वात् । न हि प्रयोजककर्तृत्वरूपमाचार्यत्वं विधि विनाऽपि लोकसिद्धं विधिशब्दितनियोगस्य फलमिति युक्तम् । अस्तु वा शास्त्रीयकर्मप्रयोजकत्वं विशिष्टमाचार्यत्वं विधिफलम् तथापि ना- ध्यापनस्य फलवत्ता। हि यस्मान्नयीतेति निओ धातोरात्मनेपदसाम- र्थ्यांदाचार्यकरणमुपनीतेः फलं श्रुतमिति योजना । न चाङ्गफले- नाङ्गिनो ऽध्यापनस्य फलवत्तेति युक्तमङ्गे फलस्याविवक्षितत्वा- पातात् । ननु यो वेदमध्यापयेत्स आचार्य इति मनुवाक्याध्याप- कस्याचार्यत्वं फलमिति चेन्न । तद्वाक्ये ऽध्यापनानुवादेनाचार्यसं- शामात्रस्य विधानात् । अतो निरधिकारत्वादध्यापनविधिर्न प्रयो- जकः । ननु तर्हि विधिप्रयुक्तत्वे ऽध्ययनस्याधिकारी वाच्य इत्याश- याह । तस्मादिति। आत्मनेपदसामर्थ्यांदाचार्यकरणं निमः। नाध्यापनस्य तस्मात्स्यादुपनीताधिकारिता ॥ ब्रह्मचर्यमागामिति श्रुतौ सर्वस्मृतिषु चोपनयनानन्तरमध्यय- - विवरणोपन्यासे नविधानादुपनीताधिकारिकत्वमध्ययनविधेरित्यर्थः । ननु बालस्या- प्रबुद्धत्वात्कथमध्ययने ऽधिकारज्ञानमित्यत आह । अधीताविति। अधीतो विद्ध्यभावे तु प्रवृत्तिर्न बटोर्भवेत् । वृत्त्यर्थाध्यापनं नैव नित्याधीतिप्रयोजकम् ॥ विद्ध्यभावे प्रवर्तकाभावेन विफलायासे प्रवृतिर्न युक्ता । अधि- कारज्ञानं तूपदेशेन समिदाहरणादाविव भवेदित्यर्थः । किञ्च । षण्णांतु कर्मणां मध्ये त्रीणि कर्माणि जीविकेति स्मरणादध्यापनस्य जीवनार्थत्वेन काम्यत्वावगमादनित्यत्वं ग- म्यते । तथाचाऽनित्येन नित्याध्ययनस्याऽनुष्ठान न युक्तम् । नित्यानित्य- संयोगविरोधादित्याह । वृत्त्यर्थेति । अध्ययनस्य नित्यत्वे किं मान- मित्यत आह- नित्योपनयनाङ्गित्वादधीतेनित्यता भवेत् । अङ्गत्वमुपनीतेः स्यादधीताविति साधितम् ॥ अत ऊर्ध्व त्रयोऽप्येते यथा कालमसंस्कृताः। इति । उपनयनसंस्कारस्याऽकरणे प्रत्यवायश्रवणान्नित्यत्वम् । तदगि- स्वादध्ययनं नित्यम्, अङ्गिनो नित्यत्वाभावे तदधीनाङ्गस्य नित्यत्वानु- पपत्तेरर्थापत्तिमानमित्यर्थः । ननु श्रुत्यादिविनियोजकप्रमाणाभावादुपनयनस्याऽध्ययनाङ्गत्व कथमित्यत आह । अङ्गत्वमिति । श्रुत्याद्यभावे ऽप्युपादानप्रमाणाद- ङ्गत्वं सिध्यति । तथा हि । अनुष्ठानद्वारा स्वर्गादिफलकार्थावबोधह- तुवेदभाव्यकाध्ययनाचीधेः स्वतन्त्रः सन्नाचार्याधीनो वेदमधीष्वेति नियमविधानादाचार्योपगमनमुपनयनपदगृहीतमन्तरेणानुपपद्यमा- नोपादानाख्येन विध्यन्यथानुपपत्तिप्रमाणेन उपनयनमङ्गतयोपादत्ते। नच निराकासमुपनयनं कथमुपादयतइति वाच्यम् । तस्य निष्फ- लतया शेषिसापेक्षत्वात् । एवमङ्गत्वे सिद्ध प्रोक्षणादिवत्स्वरूपोपकारितया संस्कारकर्मत्वं सिध्यति । एवमुपनयनेन संस्कृतमाणवकनिवर्त्यमध्ययनं तदङ्गीति सिद्धं स्मृतिषु प्रकरणादिनाऽप्युपनयनाङ्गितया नित्यमध्ययनम् । अन- नुवाक्या. शूद्रसधर्माण इत्यादिना ऽनध्ययने प्रत्यवायश्रवणाच्च । नन्वध्यापनमपि जीवनार्थतया फलतो नित्यम् । तेन नित्याध्ययन सिध्यतीति शङ्कते । नित्यापेक्ष्येति ।
, १ सू. ३ वर्णकम् । (९ नित्यापेक्ष्यधनार्थत्वान्नित्यमध्यापनं न हि। प्रतिग्रहादिना ऽपीह धनलाभस्य सम्भवात् ॥ नित्यं प्रत्यहमपेक्ष्य धनं तदर्थत्वादध्यापनं नित्यमिति शङ्कार्थः । काम्ये कर्मणि फलेच्छा प्रवृत्तिहेतु., न तु नित्यकर्मणीव विधिः। येन वि- धिनित्यत्वेन काम्यानुष्ठानं प्रत्यह नित्यं स्यात् । तत्र धनफलस्य नि- त्यमिष्टत्वे ऽप्युपायान्तरेण फलेच्छापूर्ती नाध्यापने नित्यप्रवृत्ति हेत्व- भावादिति परिहरति न हीत्यादिना । ननु ऋतौ भार्यामुपेयादिति पुत्रोत्पादनविधिनित्यः पितुः वपुत्रानुष्ठितकर्मद्वारा पितृणां त्राणे पर्यवस्यन्ननुष्ठानार्थ पुत्रस्योपनयनपूर्वकाध्यापनार्थ ज्ञानात्मकमनु- शासनमपेक्षते । तदनुशासनं नित्यविध्यङ्गतयेति । तस्मात्पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेवमनुशासतीति विधिना पित्रा नित्यमनुष्ठेयमि- ति तत्प्रयुक्त्या नित्याध्ययनमर्थज्ञानञ्च सिध्यतीति शङ्कते- पुत्रोत्पादविधिनित्यः सो ऽनुशास्त्यङ्गकः स्मृतः। तदङ्गत्वेन नित्यत्वं नन्वध्यापनइध्यताम् ॥ अथातः सम्प्रत्तिरित्यादिश्रुतौ मरिष्यता पित्रा वेदयज्ञलोकानां स्वीयानां सुशिक्षिते पुत्रे समर्प्यमाणानां पुत्रेण स्वीकरणं सम्प्रत्ति- नामकं कर्म विहितम् । तद्धेतुत्वादिदमनुशासनं ते पुत्र त्वदीय कर्मा- चार्योपगमनाध्ययनादि नित्यं त्वया ऽनुष्ठेयमित्यवश्यं कर्तव्यार्थोपदे- शनमात्रम् । तस्मात्पुत्रमिति वाक्ये श्रुतमर्थवाद एव स्यात् । नतूपनय- नादिरूपमनुशासनं पितुर्नित्यविध्यङ्गतया विधीयते नित्यविध्यधि- कारिण पितुरायुर्नियमाभावेन बहुकालसाध्याङ्गविधानायोगादिति प- रिहरति । नैवमिति- नैवं सम्पत्ति शेषत्वादर्थवादो ऽनुशासनम् । उपदेशनमात्र स्यात्तस्मात्पुत्रमिति श्रुतम् ॥ किं चोपनीयाध्यापयेदित्याचार्यस्य विधिप्रयुक्तमध्ययनं यदि तदा शिष्य उपनीय मृते आचार्य अध्ययनं न स्यात् । शिष्या- ध्ययने विध्यनङ्गीकारादध्यापनाधिकारिणो मृतत्वादधिकारिणः प्रतिनिध्यभावादुपनयनरूपाङ्गस्य जातत्वेनाचार्यान्तरेणाध्यापयितु- मयुक्तत्वात्स्वकर्तृकोपनयनस्यैवागत्वात् । तस्मादनित्येनाध्यापनेन नित्यस्याध्ययनस्यानुष्ठानमयुक्तमिति स्वविधिनवानुष्ठानमित्युपस. हरति । तस्मादिति- १२ विवरणोपन्यासे तस्मादनित्यसंयोगो नित्यस्येह विरुध्यते । नित्यमध्ययन स्वेन विधिनैव प्रयुज्यते ॥ ननु तर्हि अध्ययनविधिनैवाध्यापनसिद्धेस्तमध्यापयीतेति वि- धिर्व्यर्थ इति चेत्सत्यम् । न ह्यत्राध्यापनं विधीयते । तस्य प्रयोजक- व्यापारत्वाकारेण वृत्त्यर्थतया रागतो याजनवत् प्राप्तत्वात् । अध्ययन- विधौ सत्यर्थादध्यापनत्वाकारणाऽपि प्राप्तेरवश्यंभावित्वात् । तस्मा- द्रागतो ऽर्थतो वा प्राप्तमध्यापन णिचा ऽनूद्यते ।भाविप्राप्त्या ऽप्यनु- वादसंभवात् । अध्ययनं तु विधीयते । विधि विना प्राप्त्यभावात् । यथा ग्रामकामं याजयेदित्यत्र णिचा याजनमनूद्य यजनं विधीयते तद्वत् । ननु तमध्यापयतिति शिष्यव्यापारे विधिर्न युक्तः । उपनयीते- त्याचार्यव्यापारविधानात् । न चाऽत्राऽप्यपगमन शिष्यस्य विधेयम् । अप्राप्तत्वात् । न तूपनयनं रागतो ऽर्थतो वा प्राप्तत्वादिति वाच्यम् । उपगमनस्य वाचकाभावेनाप्रतीतेरिति चेत्तत्राह । लक्षायित्वेति । लक्षयित्वोपगमनमप्राप्तत्वाद्विधीयते- णिजी नूद्यते वाक्ये तत्राधीतिर्विरुध्यते । उपनयीतेत्युक्ते नीयमानशिष्यव्यापारो ऽर्थादम्यते । स एव तत्पदन लक्षणया विधीयते । विधिं विना प्राप्त्यभावादित्यर्थः । उत्त- रार्धस्थवाक्ये तन्नेति पदद्वयं पूर्वार्द्ध ऽपि सम्बध्यते । उपनयीत तम- ध्यापयीतेति वाक्ये इत्यर्थः । एवञ्चोपगच्छेत्सोऽधीयीतेति विधिः परिणतो भवति । कस्तत्राधिकारी तबाह । वय इति- वयोजातियुगाद्ये ऽधिकार्यन्त्ये तूपनीतकः । स्वामित्वपूर्वकर्तृत्वं मतं तेषां नियोगिनाम् ॥ अष्टवर्षत्वं वय । ब्राह्मणत्वं जातिः । इद द्वयं मिथोविशिष्टमधि- कारिविशेषणं न प्रत्यकमतिप्रसङ्गात् । तत्राद्ये ऽङ्गे उपगमने वयोवि- शिष्टजातियुक्तो ऽधिकारी । अन्त्ये ऽङ्गिन्यध्ययने स एव ब्राह्मणो ऽधिकारी अङ्गाङ्गिनोरेकाधिकारात् । वयस्तु नाऽत्र विशेषणमङ्गका- लस्याङ्गिन्यनुपपत्तेः । अनुष्ठितपूर्वाङ्गस्यैवाङ्गयनुष्ठानमित्यभिप्रत्यो- पनीतको ऽन्त्येऽधिकारीत्युक्तमिति विभागः। अत्र प्राभाकराः।वयोजात्योनाधिकारनिमित्तत्वम् उपादेयकर्तृवि- शेषणत्वादिति मन्यन्ते । तथा हि । विधितो ऽनुष्ठेयं क्रियाकारक तद्विशेषणमिति त्रयमुपादेयमित्युच्यते । यथाव्रीहिभिर्यजेतेति यागो बीहयो बहुत्वं च यत्पुनरननुष्ठेयतया विधिसम्बन्धि तदनुपादेयमुद्दे- - १ स. ३ वर्णकम् । ९१ श्यमुच्यते, यथा यः स्वर्गकामः स यजेतेत्यत्र स्वर्गकामः तत्र लिङों नियोग. स्वरूपज्ञप्तये विषयमिवाधिकारिणमादावपेक्षते। अधिकारो नामात्र ममायं नियोग इति स्वामित्वेनान्वयस्तदोधे निमित्तमनुपा- देयविशेषणं प्रधानमेव भवति यथा स्वर्गकामना तस्या उद्देश्यविशे- षणत्वेन विध्यपेक्षया प्राधान्यान्न कर्तृविशेषणंतत्र निमित्तं कर्तृकार- कस्य क्रियाद्वारा विधि नियोग प्रति गुणत्वेन तद्विशेषणस्य सुतरां गुणतया स्वामित्वान्वयहेतुत्वायोगात् । प्रकृते च तमध्यापयीतेति द्वितीयया ऽध्ययनकर्तृत्वं गम्यते। धात्वर्थकर्तुरेव णिचि कर्मत्वात् । तत्र णिजनुवादेन कर्तृव्यापारविधाने वयोजात्योरुपादयविशेषण- त्वात् नाधिकारनिमित्तत्वमिति । तदङ्गीकरोति स्वामित्वति । स्वा- मित्वान्वयादनन्तर मया क्रियया साध्यो नियोग इति कर्तृत्वान्वय इति येषां मतं तेषामधिकारे निमित्तमनुपादेयविशेषणं भवत्वित्य- थे । कथं त पादयविशेषणस्य जात्यादेस्तत्र निमित्ततेति चेत् भट्ट- मतेनेत्याह । कर्तृत्वेति- अधिकारे निमित्तं स्यादनादेयविशेषणम् । कर्तृत्वपूर्व स्वामित्वं भावनावादिनां मतम् ॥ भावना हि विध्यर्थः क्रियात्वात् कर्तारमादावपेक्षते इति स्वर्ग- कामादिः कर्तृत्वेनैव प्रथम सम्बध्यते । पश्चात्कर्तुः क्रियाफलमिति न्यायेन ममेदं कर्मेति भोक्तृतया ऽन्वेतीति कर्तृत्वान्वयपूर्वकस्वामि- त्वान्वयो ऽधिकारस्तत्र निमित्तं कर्तृविशेषणमेव कामनादिकं भवति । तथा च जात्यादेनिमित्तत्वं युक्तमिति भावः।अस्माकं तु श्रेयःसाध- नत्व विध्यर्थः। तत्र यजेत यागःश्रेयःसाधनमित्युक्ते कस्य श्रेयो भोक्तु- राकासितत्वात्स्वर्गकामादिस्वामित्वेनैव विधिना सम्बध्यते । पश्चा- न्मदिष्टसाधनत्वान्मया कर्तव्यं कर्मेति स्वामित्वान्वयपूर्वकः कर्तृ- त्वान्वयःन कामना । वयोजातिजीवनादिकमनुपादेयविशेषणमेवाधि- कारहेतुर्भवतीत्याह । स्वामित्वेति- तेषां तत्र निमित्तं स्यादुपादेयविशेषणम् । स्वामित्वपूर्व कर्तृत्वं श्रेयःसाधनवादिनाम् ।। अस्माकं तत्र हेतुः स्यादनादयविशेषणम् । वयोजात्योरधिकारनिमित्तत्वसमर्थनस्थ विधिनित्यत्वं फलमाह। एवं नित्य इति- - News - ९२ विवरणोपन्यासे एवं नित्यो ऽधीतिविधिदावाप्तौ समाप्यते । कर्मणां विधयस्तत्र विचारस्य प्रयोजकाः ॥ अवाप्तिपर्यन्तमध्ययनं तस्यावृत्तिराल्लभ्यते । नन्वेवमध्ययनविध- नित्यत्वे विचारप्रयोजकत्वाभावादधीतो वेदो विचारहेतुरिति भाष्य- विरोध इत्याशङ्कय परम्परया प्रयोजकत्वान्न विरोध इत्याह । कर्मणा- मिति।अध्ययनविधिना ऽप्ते स्वाध्याये तत्र सन्दिग्धार्थाविधय उपल- भ्यमाना अवश्यानुष्ठेयार्थत्वादनुष्ठानहेत्वर्थनिर्णयाय स्वस्य वाक्यवि- चारंपृथक् पृथक् आक्षिपन्तीति परम्परया ऽध्ययनविधिविचारप्रयो- जकाः।साक्षात्प्रयोजकास्तुनित्यादिविधयः। न च ते ब्रह्मविचारस्यापि प्रयोजकाः। ब्रह्मज्ञानस्य नित्यादिविध्यनपेक्षितत्वात् । तस्मादधीतवेद- स्य धर्मविचारो विधिभिः प्राप्त इति शाबरभाष्यमविरुद्धमित्यर्थः । परमप्रकृतमुपसंहरति । श्रोतव्य इति- श्रोतव्यविधिनैवातो वेदान्तार्थविचारणा। आनन्तर्यमुखेनास्यामधिकारी समर्प्यते ॥ अतो ऽध्ययनविधेर्नित्यत्वात्कर्मविधीनां स्वविचारमात्रहेतुत्वा- दित्यर्थः । मुखं द्वारं अथशब्देनेति शेषः । अस्य मङ्गलाद्यर्थत्व नेत्यु- तत्वादानन्तर्यार्थकत्वं जिज्ञासायाः सामग्रीज्ञानाय वक्तव्यम् । पुष्क- लकारणात्कार्यस्याव्यवधानेन नियतत्वादानन्तर्य मुख्यमिति तदभि- धाने भवत्येव सामग्रीज्ञानम् । प्रकृतादर्थान्तरत्वोक्तौ तुतन भवति।अ- कारणस्यापि प्रकृतत्वसम्भवात्। किञ्च कारणादानन्तर्योक्तौ प्रकृता- दर्थान्तरत्वमन्तर्भवति,न कारणानन्तर्यमर्थान्तरत्वेऽन्तर्भवति।तस्मा- दानन्तर्याभिधानद्वारा तदवधिसामग्रीसंपन्नाधिकारी समर्प्यते इति भावः। अधुना ऽऽनन्तर्यविधिःसाधनचतुष्टयसंपत्तिरेव परिशेषादिति वक्तमवध्यन्तरं दूषयति । आनन्तर्येति- आनन्तर्यविधिस्तत्र नाधीतिर्नापि कर्मधीः । न तन्न्यायो ऽथ कर्माऽपि शुद्ध्यन्यद्वारकं न च ॥ तत्र जिज्ञासायामानन्तर्यविधित्वेन पुष्कलकारणमेव वक्तव्यं तदानन्तर्यस्यैव मुख्यत्वादधिकारिसिद्धिहेतुत्वाञ्च । वेदाध्ययनन्तु धर्मजिज्ञासासाधारणं न ब्रह्मजिज्ञासाया. पुष्कलकारणमतो नावधिः। अत्र वृत्तिकृत आहुः । आनन्तर्यविधिर्धर्मजिज्ञासा । तस्या ब्रह्म- जिज्ञासोपकारकत्वात् । यस्यैते चत्वारिशत्संस्कारा. स ब्रह्मणः सा- युज्य सलोकतां गच्छति ।
१ सू ३ वर्णकम् । ९३ महायज्ञैश्च यज्ञैश्च ब्राह्मीय क्रियते तनुः । विविदिषन्ति यज्ञेनेत्यादिस्मृतिश्रुतिपरेभ्य. उपकारकत्वावगमात् । एव सति सम्पूर्णस्य वेदस्यैकमोक्षफलकत्वादेकेनाध्ययनविधिनोपा- दानं युक्ततरं भवतीति। तत्र वक्तव्यं केयं धर्मजिज्ञासा ? किं द्वादश- लक्षण्यां स्थितं न्यायसहस्त्रं, उत तजः कर्मावबोध., अथवा कर्म? तत्र न तावत्कर्मावबोधो ब्रह्मविचारप्रवृत्तिहेतुः । अन्यज्ञानादन्यत्र प्रवृत्त्य- योगात् । नाऽपि विचारसाध्यब्रह्मावबोधे हेतुः । कर्मब्रह्मणोप्प्त्य- भावात् । न हि सम्बन्धं विना ऽन्यज्ञानादन्यज्ञानं भवति । अस्तु तर्हि न्यायसहस्रमानन्तर्यविधिः। तदपेक्षत्वाब्रह्मविचारस्येति चेन्न । कृति- साध्यधर्मनिर्णयापेक्षितानामुत्पत्तिविनियोगप्रयोगाधिकारातिदेशादि- न्यायानां स्वतः सिद्धब्रह्मविचारानपेक्षितत्वात् । श्रुतिलिङ्गादयस्तु लोकसिद्धा एव धर्मब्रह्मविचारयोरुपादीयन्ते । ननुगुणोपसंहारे विध्यपेक्षितोत्पत्त्यादिन्याया अपेक्ष्यन्ते इति चेत्स- त्यम् । उपासनाया धर्मविशेषितत्वात्तद्विचारे विधिन्यायापेक्षोपपत्ते । स्यादेतत् । अथाऽतोधर्मजिज्ञासेत्यादिप्रथमपादे वर्णिता वेदप्रामाण्या- पेक्षिता अध्ययनविधेरर्थावबोधावसानत्वेन वेदस्य विवक्षितत्वाच्छ- ब्दाथसम्बन्धस्योत्पत्तिकत्वादपौरुषेयत्वादित्यादयो न्याया वेदमूलब- ह्मविचारे ऽपेक्षिता इति उच्यन्ते । अध्ययनवदेते न्याया अपि धर्मब- ह्मविचारयोःसाधारणत्वान्नानन्तर्यावधिभूता इति।वस्तुत एतेन्यायाः शास्त्रयोनित्वा, दत एव च नित्यत्वं, समाननामरूपत्वादित्यस्मच्छास्त्रे सन्तीति न पूर्वतन्त्रापेक्षा । नन्वस्तु कर्मानन्तर्य ब्रह्मविचारस्येत्यत आह । अथ कर्माणीति । चो ऽवधारणे । प्रतिनकारमवधिपदं सम्बध्यते । कर्माऽपि शुद्ध्य- तिरिक्तद्वारेण नैवावधिरित्यर्थः । तथा हि । प्रासादारोहणे सोपान- क्रमवदाचमनादीनां सहस्रसंवत्सरान्तानां कर्मणामनुष्ठानक्रमेण द्वारेण न ब्रह्मजिज्ञासायां हेतुत्व मानाभावात् । न ह्युत्तरकर्मोपादा- नात्पूर्वकर्मत्यागे चरमकर्मान्ते ब्रह्मजिज्ञासोत्पत्तौ च मानमस्ति । स्थादेतत् । ब्रह्मविचारे कामध्वंसो हेतु । सकामस्य तदसम्भवात् । तथा च कर्मणां हि रागभ्रान्तफलोपभोगन वैराग्यद्वारा तत्र हेतुत्व- मिति तन्न स्यात् । हिरण्यगर्भस्यैव शास्त्राधिकारित्वोपपत्तेः, भोगस्य कामाभिवृद्धिहेतुत्वेन वैराग्यहेतुत्वायोगाच्च । क्षयादिदोषदर्शनं हि वैराग्यहेतुर्न भोग । यत्तु स्वर्गकामो यजेत गोदोहनेन पशुकामस्ये- ९४ विवरणोपन्यासे त्यादिशब्दे देहात्मत्वाधिकारिभेदादिद्वैतनाशप्रमित्यर्थः । अतः कर्म- काण्डस्य कर्मणि प्रवृत्तिव्याजेन द्वैतनाशप्रमितिद्वारा ब्रह्मज्ञा- नार्थतेति । तन्न । कर्मवाक्यं तु तनाशस्याप्रतीतेः । अत्र के चित्। भवतु तर्हि पुरुषसंस्कारकर्मत्वं फलं तद्वारा कर्मणां जिज्ञासाहेतुत्वात्कर्मानुष्ठानानन्तर्यमथशब्दार्थ इति। ननु स्वतन्त्रफल- साधनानां सस्कारकर्मत्वं न युक्तम् । तथात्वे प्रोक्षणादिवत्स्वतन्त्रफ- लसाधनत्वविरोधादिति चेदुच्यते। चत्वारिंशत्संस्कारा इत्यादिस्मृतेः धर्मेण पापमपनुदति इदमनेनाङ्गं संस्क्रियते इत्यादिश्रुतेश्च सर्वेषां कर्मणां पापक्षयरूपसंस्कारहेतुत्व वाच्यम् । स च संस्कारः श्रवणादौ सति ज्ञाने उपकरोति तदभावे सर्वे एते पुण्यलोका भवन्तीत्यादिश्रुत्य- वगतस्वतन्त्रपितृलोकादिफले उपकरोतीति व्यवस्था । अत एव य. स्यैते चत्वारिंशत्सस्काराः स ब्रह्मणः सायुज्यं सलोकतां गच्छतीति फलद्वयोक्तियुज्यते । नन्वत्र सायुज्यसालोक्यलिङ्गात्कार्य ब्रह्माप्तिरेव न मुक्तिः। तथा च संस्कारस्य ज्ञानद्वारा मुक्ति हेतुत्वं कथं शेयमिति चं- दुच्यते । अभेद हि सायुज्यशब्दा मुख्यः । न च कार्यब्रह्माभेदो जीवस्य युक्तः । पूर्वरूपे स्थिते नष्टे वा ऽन्यस्यान्यात्मत्वा- योगात् । अत उक्तव्यवस्थया मुक्ति सालोक्ये उच्यते । स्मृत्या स्वे स्वे कर्मण्यभिरते इत्यादिगीतायां 'कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तते' इत्यादिस्मृतौ च संस्कारस्य मुक्तिद्वारत्वं स्फुटं दर्शितम् । एवं च विधेयकर्माङ्गसंस्कारकर्मण एव गुणकर्मत्वादविधेयब्रह्मज्ञानका- रकमन सस्कारकर्मणां गुणकर्मत्वाभावात् न स्वतन्त्रफलसाधनत्वं विरुध्यते । अङ्गे हि फलश्रुतिरर्थवादः । न च संस्कारकर्मत्वेनाङ्ग- त्वानुमानम् आधाने व्यभिचारात् । तस्माद् द्रव्यार्जनविधेः सत्यां श्रद्धायां ऋतूपकारकत्वं तदभावे भोगार्थत्वं यथा; तद्वत्सर्वकर्मणा- मनियमेन श्रवणादिसहकारिभेदादुभयार्थत्वमित्येकः पक्षः । यथो- त्पत्तिमात्रसिद्धाग्निहोत्रादीनां स्वर्गकामादिवाक्यैः स्वर्गादिसम्ब- न्धस्तथा विविदिषावाक्येनेष्यमाणज्ञानसम्बन्ध सयोगपृथक्त्वन्याया- दित्यपरः पक्षः। अस्मिन्पक्षे कर्मणां नियमेन ज्ञानार्थत्वं तादर्थ्यवि- धानात् । तत्रेच्छाया विषयसौन्दर्यलभ्यतया कर्मसाध्यत्वायोगा- ब्रह्मसाक्षात्कारस्य प्रतिबन्धनिवृत्तिद्वारा साध्यत्वसम्भवात् । यज्ञेने- त्यादिसुबन्तपदैर्व्यवहितान्यपि कर्माण्यनूध विविदिषन्तीत्यत्र लेट- । १ ३ वर्णकम् । परिग्रहेण साक्षात्कारकामो यज्ञादीन्यनुतिष्ठेदिति विधिः परिणम्य- ते । कुण्डपायिनां सत्रे तु मासमग्निहोत्रं जुहोतीति श्रुतम् अग्निहोत्रं जुह्वति पदयो साध्यकर्मवाचित्वेन मासाग्निहोत्रं कर्मान्तरव्यवहि- ताग्निहोत्रपरामर्शकपदाभावात् कर्मणां मुक्तौ साक्षाद्धेतुत्वमप्रा- माणिकं नान्यः पन्था विद्यते इत्यादिमानविरुद्धश्च । तस्माञ्चित्तशु- द्धिविवेकवैराग्यादिपरम्परया ज्ञानार्थानि कर्माणीति सिद्धम् । अतः कर्मानन्तर्यम् अथशब्दार्थ इति प्राप्ते ब्रूमः । प्रवृत्तिपूर्वक्षणे सतो नि- श्चितस्यैवाधिकारिविशेषणत्वम्। न च जायमानो वै ब्राह्मणस्त्रिभि - णवत्यादिश्रुते ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेदित्यादि- स्मृतेश्च एकजन्मार्जितेन शुद्धिर्झरमिति कर्मावगमः प्रवृत्तिहेतुरि- ति वाच्यम् । ब्रह्मचर्यादेव प्रव्रजेदिति विधिविरोधेनार्थवादश्रुति- स्मृत्योर्दुर्बलत्वादिति। ननु जायमान इति वाक्यस्य हृदयाद्यवदा- नविधिशेषार्थवादत्वे ऽपि ब्रह्मचर्य समाप्य गृही भवेदिति क्रमश्रुते- रुक्तस्मृतेश्च का गतिरित्यत आह । बटोरिति- क्रमो भोगेन वैराग्यं द्वैतनाशश्च कर्मणाम् । द्वारं न स्यात्किन्तु शुद्धिः सा ऽपि नैकभवार्जिता ॥ बटोः सन्यासकथनादविरक्त क्रमश्रुतिः। ऋणश्रुतिश्च सामर्थ्य नान्धादासयोग्यता ॥ ननु ब्रह्मचर्यादेवेति वाक्यं कर्मानधिकार्यन्धपचादिविषयमस्तु। अतःश्रुतिस्मृतिभ्यां कर्मानन्तरं संन्यासपूर्वकब्रह्मजिज्ञासेत्यत्राह।ना- न्धादेरिति । श्रवणाद्यसमर्थस्य ज्ञानार्थसंन्यासेनाधिकारः। ननु गुरुमे- वाभिगच्छेतू कर्णाभ्यां भूरि विश्रुव अन्नं प्राणं चक्षु श्रोत्रं मनो वाचमि- त्यादिश्रुतः दृष्टिपूतंन्यसेत्पादमित्यादिस्मृतेश्च पटुतरेन्द्रियस्यैव संन्या- सप्रतीतेः गृहाद्वा वनाद्वेत्यधिकारिसमभिव्याहाराश्च । तस्मात्सति वैराग्ये कर्माधिकारिणां संन्यासपूर्वकब्रह्मजिज्ञासाविधानान्न तस्याः कर्मानन्तर्यम् । अत्र प्रसङ्गाद्यज्ञोपवीतत्यागो नास्तीति भद्दभास्करमत- माशंकय इदमेवास्य तद्यज्ञोपवीतं य आत्मा मुण्डोपरिग्रह इत्यादिश्रुतेः अत उर्व यज्ञोपवीतमासनमित्यादीनि वर्जयित्वेत्यादिस्मृतेश्च त- त्याग इति साधितम् । एतत्सर्वमभिप्रेत्योक्तं भगवत्पादैः धर्मजिज्ञा- साया:प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति। अथाऽपि हृदय- स्याग्रेऽवद्यत्यथ जिह्वायाः अथ वक्षस इत्यत्रानन्तर्यद्वारा क्रमार्थो ऽथ- शब्दो यथा, तद्वदत्रास्त्वित्यत आह । न क्रमार्थ इति- - ९६ विवरणोपन्यासे न क्रमार्थो ऽथशब्द. स्याद्धर्मब्रह्मविचारयोः । सूत्रस्य न्यायवेदित्वात्क्रमस्याप्यनपेक्षणात् ॥ किं विचारयो.क्रमे सूत्र मानम् उत एकैकप्रयोगानुपपत्तिः? नाद्यः। सूत्रस्य मानापेक्षितन्यायसूचकत्वेन स्वयं मानत्वायोगात् । न द्वितीयः। तयोः शेषशेषित्वेऽधिकृताधिकारे वा मानाभावेनैव प्रयोगा- सिद्धेः। नन्वाग्नेयादीनामेकफलकत्वेन यथा क्रमापेक्षा यथा वा द्वाद- शाध्यायानामेकधर्मजिज्ञास्यकत्वेन क्रमापेक्षा तथा धर्मब्रह्मविचारयो- र्मोक्षफलकत्वेन ब्रह्मजिज्ञास्यकत्वेन च क्रमापेक्षा ऽस्त्विति चेन्न । तयोः फलभेदात् । ब्रह्मविचारस्य ज्ञानद्वारा मुक्तिः फलं न धर्म- विचारस्य स्वर्गकामादिवाक्यैः कर्मणामभ्युदयफलकत्वावगमात् तेषां मुक्ति हेतुत्वे मानाभावान कर्मणेत्यादिना निषेधाश्च । न च के- वलकर्मणां निषेधो न ज्ञानसमुचितानामिति वाच्यम् । समुच्चये मा- नाभावात् । न तावद्विविदिषावाक्यं तत्र मानम् । तस्य कर्मणां शा- नार्थत्वबोधकत्वात्, अविद्यया मृत्यु तीवेति कर्मणां पापनिवृत्तिफ- लमुक्त्वा विद्यया ऽमृतमश्नुते इति फलभेदश्रुतेश्च, वेदान्तेषु ज्ञानादेव कैवल्यमित्युद्घोषाच, । संन्यासस्य ज्ञानाङ्गतया विधानाञ्च न कर्म- समुच्चयो मुक्ति हेतुः। न च नित्यकर्मणां विध्यनुपपत्त्या साक्षान्मुक्तिफ- लकत्वम् । शुद्धादिपरम्परया सफलत्वे ऽपि विध्युपपत्तेः । कर्मणां ब्र- ह्मात्मैक्ये अविद्याध्वंसे वा सामर्थ्याभावाश्च । बन्धमूलाविद्यानङ्गी- कारे ज्ञानवैयर्थ्यप्रसङ्गात्तदङ्गीकारे शानादेव तन्निवृत्तेर्न समुच्चयाव- काशः । एतेन समुच्चयसामर्थ्यात्कर्मावबोधानन्तर्य भास्करोक्तं परास्तम्। किं च समुच्चयपक्षे ऽप्यानन्तर्यनियमो दुर्वचः । ज्ञानवतैवानुष्ठि- तस्य कर्मणो मोक्षहेतुत्वेन प्रथमाश्रमएव मुमुक्षोर्ब्रह्मावबोधानन्त- रकर्मवाक्याध्ययनविचारादिकर्मानुष्ठानस्य युक्ततया वैपरीत्यस्य सुवचत्वात् । न च नित्याध्ययनविधिप्रयुक्तत्वात्कर्मविचारस्य प्र- थममनुष्ठेयत्वमिति वाच्यम् । ब्रह्मविचाराविरोधेनापि तदनुष्ठानस- म्भवात्तत्प्रयुक्तत्वासिद्धेश्च । तत्प्रयुक्तत्वे वा ब्रह्मविचारस्याऽपि तत्प्र- युक्ततया प्राथम्यं किं न स्यात् । न च श्रोतव्यविधिसद्भावान ब्रह्म- विचारस्य नित्याध्ययनविधिप्रयुक्ततेति वाच्यम् । क्लप्तविधिनैव प्र- योगसम्भवे श्रोतव्यविध्यसिद्धेः । न च शमाद्यनपेक्षाध्ययनविधिना शमाद्यङ्गकश्रवणप्रयोगो न सम्भवतीति वाच्यम् । वाक्यान्तरे शिरो- १ सू. ३ वर्णकम् । ब्रतानपेक्षाध्ययनविधिना शिरोवताङ्गकमुण्डकाध्ययनप्रयोगवत्कर्म- विचारे शमाद्यनपेक्षेणापि विधिना तदङ्गकश्रवणप्रयोगसम्भवात् । तस्माद्विचारद्वयस्यैकविधिप्रयुक्तत्वात्क्रमापेक्षायां वैपरीत्यस्य न्याय्यत्वादेकमोक्षफलकत्वेन समुच्चयमङ्गीकृत्य कर्मविचारानन्तर्यक- मनियमार्थो ज्यशब्द इत्युक्तिरयुक्तत्याह । समुच्चये ऽपीति-- फलजिज्ञास्यभेदाच्च न क्रमो ऽपेक्षितोऽनयोः । प्रमाण नैव पश्यामो ज्ञानकर्मसमुच्चये ॥ समुच्चये ऽपि नैव स्याद्धर्मब्रह्मविचारयोः । पौर्वापर्यस्य नियमो वैपरीत्यस्य सम्भवात् । यदुक्तम् एकजिज्ञास्यकत्वेन क्रमापेक्षेति, तत्राह । जिज्ञास्यभेद इति- जिज्ञास्यभेदः स्पष्टोत्र विभेदाब्रह्मधर्मयोः मानन्तर्यावधिस्तस्माद्विवेकादिचतुष्टयम् ॥ अत्र विचारद्वये ब्रह्मधर्मयोः सिद्धत्वसाध्यत्ववैलक्षण्या दः स्पष्टः । प्रमाणवैलक्षण्याश्च जिज्ञास्यभेदः ।धर्मों हि प्रवर्तकवाक्यगम्यः ब्रह्म त्वप्रवर्तकवाक्यगम्यम् अतः क्रमस्यानपेक्षितत्वान्न तदर्थोऽथशब्दः। किन्त्वानन्तर्यार्थक एव।कस्तानन्तर्यावधिरिति चेत् श्रोतसाधनस- म्पत्तिरित्याहानन्तर्येति । ननु सो ऽन्वेष्टव्य इत्यत्र तह कर्मचितो लोकः क्षीयतइति कर्मफलस्यानित्यत्वं श्रुतं ज्ञानप्रकरणे परीक्ष्य लोकानिति वैराग्यं श्रुतमन्यत्र शान्तो दान्त इति शान्त्यादिकं श्रुतं ब्रह्म वेद ब्रह्मैव भवतीत्यादिफलश्रुतिषु मुमुक्षा लभ्यते एवं विश- कलितविशेषणानां कथमेकश्रवणविध्यधिकारनिमित्ततावगतिरिति तत्राह । तत्र तत्रेति- तत्र तत्र विवेकादि श्रुतमेकत्र नीयते । सर्वशाखाप्रत्ययेन विधेरकत्वनिश्चयात् ॥ सर्वशाखाप्रत्ययन्यायेन यथा ऽग्निहोत्रादिविधीनां सर्वशाखा- स्वैक्यं तथा सो ऽन्वेष्टव्यः तद्विजिज्ञासस्व श्रोतव्य इत्यादौ सर्वत्र श्रवणविधिरेक इति निश्चीयते । वैराग्यवाक्ये विज्ञानार्थमिति फ- लोक्त्या श्रवणस्थतया सर्वविशेषणानामेकाधिकारनिमित्ततावगति- रिति। यद्यप्यतेनापि विशेषणेन विधेरधिकार्याकाङ्क्षा शाम्यति तथापि शास्त्रेणासकीर्तितत्वात्सर्वेषां निमित्तत्वमन्यथा संकीर्तनं व्यर्थ १३ १८ विवरणोपन्यासे स्यात् । केचित्तु काम्यकर्मणि कामनाया एव निमित्तत्वान्मुमुक्षवा- धिकारिविशेषणमितरसंकीर्तनं तु मुमुक्षानुमानार्थमित्याहुः । ननु शान्त्यादीनामङ्गानां कथमधिकारिविशेषणत्वमिति चेतू दी- क्षितो जुहोतीत्यत्र दीक्षायामङ्गत्वविशेषणत्ववदिति भाव । ननुसत्या मुमुक्षायां श्रवणव्यतिरेकामावान विवेकादीनां विशेषणत्वमित्याश- वय मुमुक्षाहेतुत्वेन तेषां विशेषणत्वमित्यभिप्रेत्य कार्यकारणभा- वमाह विवेकादिति- विवेकात्तु विरक्ति स्यात्ततः शमदमादिकम् । ततो मुमुक्षत्यतेषां कार्यकारणता भवेत् ॥ सबै कार्य सोपादानं कार्यत्वात्तञ्चोपादानंलाघवादेकमनादि तथा सर्व कदाचित् कात्स्न्येन विनाशि एकोपादानकत्वात्सुखादिवत् । उपादानं तु नित्यं तन्नाशे पुनः सृष्टयभावप्रसङ्गादिति तर्कोपोद्वलितया तद्यथेहेत्यादिश्रुत्या कार्यमात्रे नाशदोषदर्शनात् । नित्यवस्त्ववलम्बन बैराग्यं जायते तत इन्द्रियप्रवृत्ती निमित्तरागाभावाच्छमादिकं भवति एवं सर्वतो वैराग्यान्मुमुक्षा प्रवृत्तिपर्यन्ता जायते विषयानुरक्तस्य नि- विषयमोक्षेच्छानुपपत्तेः । ततो मोक्षस्य शानैकलभ्यत्वावगमात शा- नार्थी सन् विचारे प्रवर्तते इत्यन्वयव्यतिरेकाभ्यां हेतुहेतुमद्भावेनै- तेषां विशेषणानामधिकारनिमित्तत्वमेतद्विशेषणशून्येन कृतं श्रवणं तु शूद्रकृतयागवन्निष्फलम् । यत्तु भास्करोक्त सूत्रकारस्य शमादीनां बुद्धिस्थत्वे मानाभावान्नाथशब्देनोपादानमिति । तन्न । श्रवणविधि सूत्रयतस्तत्प्रकरणस्थवाक्यैस्तेषां बुद्धिस्थत्वादिति । ननु तथश- ब्देनैव साधनानां सिद्धत्वादत शब्दो व्यर्थ इत्यत आह । अथोक्तेति- अथोक्तसाधनासिद्धिं वेदवादरता जगुः । तदा शङ्कानिरासेन हेतुता ऽतो विरोचते ॥ अथशब्देनोक्तानांनित्यानित्यविवेकादीनामसिद्धि कर्मजडाः अक्ष- य्यं हवै चातुर्मास्ययाजिनःसुकृतमित्यर्थवादरताः अथ यदल्पं तन्म- त्यमित्यादिव्याप्तेः परमाणुभिर्व्यभिचारं वदन्तो जगुः कृतकस्यापि नित्यत्वं पृथ्वीपरमाणुलौहित्यवदिति । अतो नित्यफलप्रेप्सोः कर्मफ- लाद्वैराग्यमसिद्धम् ।नच ब्रह्मणोऽपि नित्यत्वात्तच्छ्रवणेऽपि पाक्षिकी प्रवृत्तिः स्यादिति वाच्यम् । फलाभावात् । न च जीवस्य ब्रह्मैक्यं विरोधात् । नापि ब्रह्मसंयोगः नित्यसुखार्थिनस्तद्नं पेक्षत्वात् । न च जीवस्य स्वभिन्नब्रह्मनिष्ठसुखप्रत्यक्षं युक्तम् ।
१ सू. ३ वर्णकम् । ९९ न हि जीवः स्वनिष्ठस्वरूपं वा मुक्ती नित्यं सुखमनुभवतीति युज्यते योग्यानुपलब्ध्या नित्यसुखाभावनिश्चयात् । न च दुःखाभा- वार्थमात्मश्रवणे प्रवृत्तिरिति वाच्यम् । सकलसुखविरोध्यवस्थापेक्ष- या स्वल्पदुःखयोगे ऽपि देवादिभोगस्य श्रेयस्त्वात् । तस्मादधिकार्य- भावान्मोक्षशास्त्रं नारम्भणीय नित्यफलार्थिनां कर्मण्येव प्रवृत्तरिति प्राप्ते तदाशङ्कानिरासेन विवेकादीनां ब्रह्मजिज्ञासाहेतुत्वमतःशब्देन समर्थ्यते इत्यर्थः । परमाणुतल्लौहित्ययोर्नित्यत्वे मानाभावाद्यदल्पं यश्च कृतकं तदनित्यमिति न्यायविरुद्धा चातुर्मास्यश्रुतिर्विध्यनपेक्षितं कर्म फलनित्यत्वं न प्रमापयति उक्तन्यायोपेता तद्यथेहेत्यादि श्रुति. श्रव- पविध्यपेक्षितं कर्म फलानित्यत्वं प्रमापयतीति ततो वैराग्यं सिध्यति । एतेन स य आत्मानमेव लोकमुपास्ते न हास्यकर्म क्षीयते इति श्रुति- ाख्याता। फलनित्यत्वस्याश्रुतेायविरोधे कल्पनानुपपत्तेः । कर्म- पदेनात्रोपासनानुवादेन ज्ञानद्वारा ऽक्षयफलकत्वेन स्तुतिकरणात् । अनेवंविन्महत्पुण्यं कर्म करोति । तद्वास्यान्ततः क्षीयते इत्युक्तेश्च । न कर्मफलस्य नित्यत्वं न व्यतिरेकमुखेनात्रात्मविदा कृतं कर्माक्षय- फलकमुच्यते इति समुच्चय इत्यपि वाच्यम् । नान्यः पन्था इत्यादि- ना मुक्तावुपायान्तरनिषेधादत एव महत्पुण्यमिति प्रकृतत्वान्न हा- स्य कर्म क्षीयते इत्यग्निहोत्रादिपरामर्श एव नात्मोपासनाया इति नि- रस्तम् । निषेधश्रुतेर्बलवत्त्वात् । यत्तु फलाभावान्न ब्रह्मविचारे प्रवृ. त्तिरिति। तदसत् । ब्रह्म वेद ब्रह्मैव भवतीत्यादिश्रुत्या स्वप्रकाशानन्द- ब्रह्मभावस्य सत्त्वाद्धर्माणां कल्पितत्वेन बिम्बयोरैक्ये विरोधाभावाद- नाद्यविद्योवृतत्वेनानुपलब्धिसम्भवात् । न चात्मन सुखत्वे ऽहं सु- खीति न स्यादिति वाच्यम् । शुभकर्मोपार्जितवृत्तिकृतभेदेन तथानु- भवत्वोपपत्तेः । न च मुक्तौ भेदाभावादहं सुखीति न स्यात्तथा च पुरुषार्थतेति वाच्यम् । सुखापरोक्षानुभवस्यैव पुरुषार्थत्वान्न हि सु- खात्मनोहेंदः कस्य चिदिष्टः ऋते कुतार्किकबलीवर्दादित्यलम् । त. स्मादतःशब्दबलाद्विवेकादीनां ब्रह्मजिज्ञासाहेतुत्व सिद्धमित्यधि- कारिणा सा ऽवश्यं कर्तव्येति भावः। ननु भाष्यकारैर्ब्रह्मणो जिज्ञासेति षष्ठीसमासः किमिति दर्शितः धर्माय जिज्ञासेतिवत् सम्भवादित्यत्राह । इच्छाप्राधान्यमिति- इच्छाप्राधान्यमाश्रित्य षष्ठी कर्मणि भाषिता। प्राक् चतुर्थीसमासस्तु विचारापेक्षया कृतः ॥ - - १०० विवरणोपन्यासे इच्छाया अपेक्षितकर्मफलयोक्यात् षष्ठ्या प्रधानत्वेन कर्मोक्ती फलं सिध्यतीति षष्ठीसमासः कृतः। विचारप्राधान्ये तु कर्मफलत्वयो- भेदात् क्लेशात्मकविचारस्यादौ फलस्यापेक्षत्वाद्धर्मायेति चतुर्थीस- मासः पूर्वतन्त्रे कृतः।अर्थाद्वेदवाक्यानां कर्मत्वलाभादित्यर्थः । ननु जातिजीवकमलासनवेदपरेषु ब्रह्मशब्दः प्रयुज्यते तत्र सूत्रे ब्रह्मशब्दार्थः क इति चेत् । जगजन्मादिकारणं परमिति बमः। मुमु- क्षुभिः तस्यैव जिज्ञास्यत्वाद्वक्ष्यमाणलक्षणादिसम्भवाञ्चेत्यभिप्रेत्याह। जात्यादिरिति- जात्यादिब्रह्मशब्दार्थो न भवेब्रह्मगोचरा । षष्ठी न स्यात्प्रधानस्य ग्रहाच्छेषार्थसिद्धिकः॥ ब्रह्मण इति कर्मणि षष्ठीत्युक्तं वृत्त्यन्तरे तु शेषलक्षणा व्याख्याता तां निरस्यति शेषगोचरा षष्ठी न स्यादिति । सम्बन्धसामान्य शेषः तस्मिन्षष्ट्या ऽभिहिते विशेषाकाङ्कायां जिज्ञासायाः कर्मापेक्षित- मिति कर्मत्वलाभ इति वृत्तिकारमतम् । ननु कर्मणि द्वितीया कर्तृकरणयोस्तृतीया सम्प्रदाने चतुर्थी अपादाने पञ्चमी अधिक- रणे सप्ताति विभक्तिपञ्चकाभिहितेभ्यः कर्मत्वादिकारकसबन्धे- भ्यो ऽन्यः स्वस्वामित्वादिः शेष इति शाब्दिकोक्तिविरुद्धं मतमिति चेत् । उच्यते। यथा देवदत्तस्य स्वमिति सम्बन्धसामान्यवाचि- पदेषष्ठ्याः स्वत्वादिविशेषसम्बन्धवाचिनाऽन्विताभिधायित्वं न तथा फर्तृत्वकर्मत्वादिकारकसम्बन्धवाचिपदेनान्विताभिधायित्व देवद- त्तस्य गच्छति देवदत्तस्य गम्यते इति वा प्रयोगे तिङाद्यभिहि- तकर्तृत्वादिना षष्ठ्यर्थसामान्यस्यान्वयाप्रतीतरिति शाब्दिकाभि- प्रायः । अतो न विरोधः। कारकसंबन्धवाचिपदाभावे षष्ठया तदाक्षेपसम्भवादिति तन्मतमत्रायुक्तं कर्मत्वस्य षष्ठ्या साक्षाद- भिधानसम्भवेनापेक्षायोगात् । ननु ब्रह्मसम्बन्धिनां लक्षणप्रमाणा- विरोधसाधनफलानां जिज्ञास्यत्वेन प्रतिज्ञासिद्धये शेषे षष्ठी युक्ता अतः कर्मत्वाक्षेप इति चेत् न । कर्मणि षष्ठ्या प्रधानस्य ब्र- ह्मणो जिज्ञास्यप्रतिज्ञायां सत्यां यैर्विना ब्रह्मज्ञानं न सम्भवति तेषा- मर्थसिद्धत्वात् । न हि शेषस्य मुख्योक्तिः प्रधानस्य त्वाक्षेप इति युक्तं सत्यां गतावित्यर्थः । तद्विजिज्ञासखेति सूत्रमूलश्रुतौ ब्रह्मणः कर्मत्वं व्यक्तं निर्दिष्टम् । ननु जिज्ञासापदं योगेन ज्ञानेच्छावाचकं वि- चारलक्षकामत्युक्तं तवेच्छायाः फलविषयत्वात् ज्ञानस्य फलत्वं व- १ सू. ३ वर्णकम् । १०१ तन्यं तन्न युक्तम् । इच्छाया शानसाध्यत्वेन कर्मफलत्वायोगादित्यत आह । ज्ञातुमिति-- शातुमिच्छति चेच्छायाः फलमूलविवेचनम् । प्रमातृव्यापृतिानं तद्यक्तं स्फुरणं फलम् ॥ ज्ञातुमिच्छा जिज्ञासेत्यादिभाष्ये ऽवयवार्थकथनेनेच्छायाः फल- मूलज्ञानयोविवेचनं कृतं तत्रावाप्तिपर्यन्तं ज्ञानं सन्वाच्यायाः इच्छायाः कर्मति फलोक्तौ सत्यामर्थादापातज्ञानं मूलमित्युक्तं भवति तत्रावगतिरभिव्यक्तं चैतन्यं तदभिव्यञ्जिका अपरोक्षवृत्तिनिश- ब्दार्थः । शब्दात्परोक्षशानमेवति मते शाब्दमापातज्ञानं मूलं साक्षात्कारः फलम् । शब्दादपि अपरोक्षमिति मते पुरुषापरो- क्षक्षानं मूलम् । अप्रतिबद्धापरोक्षज्ञानं फलमिति विवेकः । ननु शानावगत्योर्न भेदः वादिनां विप्रतिपत्तेरित्यत आह प्रमात्रिति । घटः स्फुरतीति प्रमाणफलं प्रत्यक्षं तत्कर्तृव्यापारजन्यं कारकचकं फल- त्वात् । कुठारादिसाध्यवृक्षभेदनवत् । न च हेत्वसिद्धिः । ज्ञानेना- वरणविवृत्तिरूपाभिव्यक्तिद्वारा चैतन्यस्य साध्यत्वेन कारकचक्रफ- लत्वात् । न च शानमेव फलमित्यप्रयोजकता कारकसमुदायफलस्य प्रातिखिकव्यापाराभावे जन्मानुपपत्तेः। तत्र यः कर्तृव्यापारस्तज्ज्ञान समुदायफलं तु स्फुरणं संविद्वगतिरिति चोच्यते । असङ्गात्मनि व्यापारः कथमिति चेत् । अध्यासपरिनिष्पन्नान्तःकरणसपिण्डित- स्यात्मनः प्रमातृव्यापारो ज्ञानमिति बम । यद्यपि ज्ञानं कारकचक्र- साध्यं तथापि न फलं न हि गमनमेव कारकफलं किन्तु गन्तव्यप्रा- प्तिः। एवं ज्ञापनाज्ञानद्वारा शेयस्फूर्तिरिति संक्षेपः । अत्र वृद्धाः अर्थजवृत्तिप्रतिबिम्बितं चैतन्यं फलमित्याहुः । अन्ये तु साक्ष्यभेदेन वृत्त्यभिव्यक्तं विषयावच्छिन्नचैतन्यं फलमिति । एवं भगवान् भाष्य- कारः सूत्रस्यावयवार्थमुक्त्वा तस्माद्ब्रह्म जिशासितव्यमिति विचार- कर्तव्यतां वाक्याथै बभाषे । तत्रेयमाशङ्का समुल्लसति । किमिदं सूत्र विचारात्मकशास्त्रात् बहिर्भूत्वा शास्त्रारम्भकम् । सूत्रस्यारम्भः के- नेति वक्तव्यम् । स्वेनैव चेदात्माश्रयः खसिद्धौ स्वस्यारम्भकत्वातू । अन्येन चेदनवस्थति । तत्राह शास्त्रमध्यगतं सूत्रमिति- शास्त्रमध्यगतं सूत्र सानुबन्धचतुष्टयम् । विचार कार्यमाहातः कर्तव्यः सो ऽधिकारिणा ॥ अध्ययनविधिवत् श्रवणविधिरेव स्वापेक्षितानुबन्ध निर्णायक- - १०२ विवरणोपन्यासे न्यायविचारात्मकमाद्यसूत्रमारम्भयति । अत एवास्य श्रुतिसङ्गतिः। अनेन सूत्रेण श्रवणविधेः स्वार्थे बेदान्तविचारकर्तव्यतारूपे सिद्ध सति विचारात्मकशास्त्रप्रवर्तते इति शास्त्राध्यायादिसङ्गतयः। इदानीं वर्णितं सूत्रार्थ वदन् फलितमाह । सानुबन्धेति। मुमुक्षुर्हि मोक्षोपायं चिकीर्षति । तत्रज्ञानस्यैव श्रुतावुपायत्वावगमात् तस्य कर्तुमशक्य- त्वात्तदिच्छायाश्च सिद्धत्वात् कर्तव्यत्वायोगात् सूक्ष्मवस्तुविशाने तत्प्रमाणविचारं कर्तव्यं पश्चाद्वेदान्तविचारः कर्तव्यतया ऽवगच्छ- तीति तनियमार्थः श्रवणाविधिः । ब्रह्मज्ञानाय वेदान्तवाक्याविचारः कर्तव्य इति तत्राज्ञातत्वेन ब्रह्मविषयः शातत्वेन प्रयोजनं तत्कामो अधिकारी एतेषां यथायोगं शास्त्रेण सम्बन्ध इति । तस्मादनुबन्धस- द्भावादधिकारिणेदं शास्त्रं श्रोतव्यमिति सिद्धम् ॥ इति तृतीय वर्णकं समाप्तम् ।। नन्वेवं शास्त्रारम्भस्य सिद्धत्वादग्रिमसूत्रं व्याख्यायतां किं चतुर्थवर्णकनेत्यत आह । ब्रह्मेति- ब्रह्मप्रसिद्ध्यप्रसिद्ध्योर्विषयादेरसम्भवात् । अनारश्यमिति प्राप्ते वर्णकान्तरमुच्यते ॥ आपाततः प्रसिद्धत्वात्सम्भवेद्विषयादिकम् । आदौ तन्त्रितयम् वाच्य प्रवृत्त्यङ्गत्वकारणात् ॥ वेदान्तशास्त्रमारभ्यं न वेति सन्देहे विषयाद्यसम्भवान्नारभ्यमिति प्राप्तम्।तथा हि । ब्रह्म यदि प्रसिद्धं तर्हि नास्य शास्त्रस्य विषयः अज्ञातत्वाभावात् । नापि प्रयोजनम् अज्ञानाभावेन तन्निवृत्तरसम्भ- वात् ।प्रथाप्रसिद्ध तर्हि तदुद्देशेन विचारासम्भवात् विचारापेक्ष।- दान्तस्तत्प्रतिपादनमशक्यमिति शास्त्रेण ब्रह्मणस्तजन्यज्ञानविषय- त्वरूपसम्बन्धाभावः फलाभावश्च । ज्ञानासम्भवेनाज्ञानानिवृत्तिरिति एतन्निरासार्थ चतुर्थवर्णकमित्यर्थः । निरासप्रकारमाह । आपातत इति । यद्यपि प्रथम वेदान्तैर्ब्रह्मज्ञानं भवति तथापि तदनवधारणा- त्मकमेवाग्रे संशयदर्शनात् । तथा च केवलप्रमाणादनिश्चिते ऽर्थे तर्कस्य प्रमाणसहायत्वाद्वैदान्तः सन्दिग्धतया प्रसिद्धं ब्रह्मोद्दिश्य तर्करूपविचारे विधिसम्भवाद्विषयादिसम्भवाश्च स कर्तव्यः। ननु सर्वज्ञबादरायणप्रणीतत्वेन शास्त्रस्य विषयादिमत्त्वसिद्धेः समन्व- १ सू. ३ वर्णकम् । १०३ थानिमविचारे विषयादेविशिष्य ज्ञानसम्भवात् भाष्यकारा- पामादी विषयाद्यनुबन्धचिन्ता निष्फलेति चेन्न । अधिकारि- प्रवृत्त्यर्थत्वात् । ननु शास्त्रस्यादी प्रवृत्त्यङ्गत्वेन फलमेव वाच्यम् । इष्टसाधनताज्ञानस्य प्रवर्तकत्वान्न विषयसम्बन्धी वक्तव्यौ फल- ज्ञाने तयोरन्तर्भावात् । कारकसाध्यविषयस्थातिशयो हि फलं तज्ज्ञाने फलशालिविषयो ज्ञात एव भवति । स कारकसम्बन्ध एव यथा कुठारस्य वृक्ष इति चेन्न । विषयस्य द्विविधत्वात् । तत्र फल- शालिविषयः फलज्ञाने ऽन्तर्भवति नान्यसाधारणाख्य.।अतःसोऽवश्य वाच्यः प्रवृत्तिनियमाय यदि फलमात्रमुच्येत तदा तच्छालिविषयस्य झाने ऽपि तस्य शास्त्रान्तराप्रतिपाद्यताया अज्ञानात्तत्रापि प्रवृत्तिः स्यात् । यथा चिकित्साशानार्थिनश्चरकसुश्रुतात्रेयादिग्रन्थेष्वनियता प्रवृत्तिः अतः शास्त्रान्तरप्रवृत्तिनिरासाय तदप्रतिपाद्यतारूपविषय- ता वक्तव्या एतच्छास्ने प्रवृत्तिसिद्धये एतत्प्रतिपाद्यतारूपसम्बन्धो ऽपि वक्तव्य इति त्रितयमादी वाच्यमित्यर्थः । ननु वेदान्तविषयो ब्रह्म न न्यायविचारात्मकशास्त्रस्य विषयो नापि तेन सम्बन्ध शास्त्रस्थ- न्यायैः प्रमाणादिसम्भावनाविषयकत्वात् । ननु यथा प्रयाजाधङ्गा- ङ्गिनोरेकस्वर्गफलकत्वं तथा विचारवेदान्तयोरेको ब्रह्मावगमः फलं शब्दशक्तितात्पर्यविचारस्य प्रमाणस्वरूपोपकार्यङ्गत्वात्प्रमेयविचा- रस्य फलोपकार्यङ्गत्वादवमवगमहेतोर्विचारस्यावगम्यब्रह्मविषय इ- त्येकदेशिनः।न च शास्त्रस्य भावनैव विषयः अव्यवधानात् । सम्भा- धनाबुद्धिव्यवहित ब्रह्म न विषय इति वाच्यम् । व्यवहितस्याप्युहे- श्यतया विषयत्वदर्शनात् । यथा देवदत्तकर्तृकस्योद्यमननिपतनरूप- व्यापारस्याव्यवधानेन कुठारकर्मस्य कुठारव्यापारव्यवहितोऽपिवृक्ष उद्देश्यद्वैधीभावफलशालितया कर्म भवति तद्वत् । ननु कर्तृकरण- कर्मणां को भेद इति चेदुच्यते । सर्वाणि कारकाणि स्वस्वव्यापारे कर्तृणि अवान्तरभेदेन कादिव्यवहारः। तत्र स्वतन्त्रः कर्ता । फलं प्रति सन्निपत्योपकारक करणम् । परसमवेतक्रियाफलशालि कति। नेतद्युक्तं विचारस्य वेदान्ताङ्गत्वे मानाभावात् । न हि श्रुत्यादिकम- प्रास्ति न धा ऽन्वयव्यतिरेकी विना विचारं शाब्दबोधदर्शनात् । न च संशयविपर्ययोत्तरशाब्दबोधे विचारों हेतुरिति वाच्यम् । निर्दो- षशब्दस्य संशयाधहेतुतया निर्णयस्य शब्दैकसाध्यत्वात् । शब्दशक्ति- तात्पर्यादिविचारस्तु शक्त्याद्यज्ञानभ्रमादिपुरुषापराधनिबन्धनसंश- - - १०४ विवरणोपन्यासे यादिनिरासहेतुः।निरस्ते प्रतिबन्धे शब्दादेव ज्ञानं जायतेजातं वा नि- श्चलमवतिष्ठते । तस्माद्विचारस्यावगमहेतुत्वाभावान वेदान्तगम्यब- ह्मविषयकत्वमिति शङ्कते । ननु वेदान्तविषय इति- ननु वेदान्तविषयो विचारविषयः कथम् । अङ्गाङ्गिनोः फलैक्याचेद्विचारो नाङ्गमिष्यते ॥ सत्य शक्तितात्पर्यावधारणेन विचारस्य प्रतिबन्धनिरासे उप- क्षयः परन्तु निरस्ते प्रतिबन्धे शाब्दज्ञानं निर्णयात्मकं भवतीति उपचाराद्विचारस्य ब्रह्मनिर्णयहेतुतया वेदान्तैः समानविषयत्वमिति सिद्धान्तयति अत्र ब्रूम इति- अत्र बमो विचारो हि प्रतिबन्धानरासतः । वेदार्थज्ञानहेतुत्वाद्वेदैकविषयो भवेत् ॥ तात्पर्य शाब्दबोधे हेतुरिति तार्किकमतं दूषयति तात्पर्यमिति- तात्पर्य तन्मतिर्वापि शाब्दबोधे न कारणम् । प्रतिबन्धनिरासार्थ तात्पर्यज्ञानमिष्यते ॥ किमज्ञातं तात्पर्यंवा क्यार्थसंसर्गज्ञानहेतुः तात्पर्यशानंवा। नाधः। तात्पर्यविचारवैयर्थ्यप्रसङ्गात्।न द्वितीयः । वाक्यार्थज्ञानात्प्राक्तद्वि- षयकस्य तात्पर्यस्य ज्ञातुमशक्यत्वात् । न च पदार्थेषु झातेषु योग्यतया संसर्गमुत्प्रेक्ष्य तत्र तात्पर्य ज्ञातुं शक्यमिति वाच्यम् । उत्प्रेक्षाया अनुमि- तित्वे वाक्यवैयर्थ्यात्। न च वैशेषिकमतेनेष्टापत्तिरिति वाच्यम् । प्रकृ- ततात्पर्यज्ञानवैयापातात्।वाक्येनेममर्थजानामीत्यनुभवविरोधात्। पक्षादिज्ञानबिलम्बाभावात् । अनुमिनोमीत्यनुभवाभावाच । न च सा तर्कः । अनारोपत्वात् । न चानारोपोपस्थायिलिङापूर्वोहवत्तत्व- मिति वाच्यम् । तर्कितापूर्वाल्लिपदसङ्गतिरित्यनङ्गीकारात्। ननु तर्का- त्मकविचारोपस्थितेब्रह्मणि सत्यादिपदलक्षणेति सिद्धान्तःनचतदुप- स्थितेस्तर्कत्वेऽप्यारोपत्वमस्ति अवाधादिति चेतू उच्यते । भागत्या- गलक्षणायां पदजन्यविशिष्टवाच्योपस्थितिरेव लक्ष्यभागविषयतया हेतुः । अत्र विशेषणानां कल्पितत्वात विशेष्यमात्रस्यैवाबाधितानधि- गतत्वे सति फलवत्त्वादित्याद्यनुमानरूपविचारस्य विशेष्यमात्रे ता- त्पर्यग्रहद्वारा लक्षणायामुपयोग इति विचारोपस्थिते लक्षणेत्युच्यते। किं बहूक्त्या नानारोपे तर्फत्वव्यवहारः स तो ऽनुमानमेवेति नाभ्रमस्यातर्कत्वम् अनिष्टारोपस्तर्क इति लक्षणादित्युपन्यासग्रन्थे ऽप्यधिक प्रसङ्गागतमिति क्षन्तव्यम् । नापि सा स्मृतिः । अज्ञातार्थ- १ सू. ४ वर्णकम् । स्वात् । अतः परिशेषात्सा शाब्दप्रमैति तात्पर्यज्ञानं जातायां तस्यां न हेतुः । अपि च तात्पर्यज्ञानं भ्रमादिमूलवाक्यार्थभ्रमादिप्रतिबन्धनि- रासार्थमित्यर्थः । एवं वेदान्तानां विषयभूतमापाततः प्रसिद्धं ब्रह्म वेदान्तापेक्षितन्यायविचारस्यापि परस्परया विषय इत्युक्तम् । तत्र कथं वेदान्तेष्वापातत. प्रसिद्धिः न तावत् ब्रह्मशब्दात् । ब्रह्माप्रसि- ध्या सङ्गतिग्रहाभावात् नापि वाक्यात्पदार्थाज्ञानादित्यत आह । इत्यादाविति-- इत्यादौ ब्रह्मशब्दस्य सार्थकत्वे विनिश्चिते। विशिष्टार्थप्रसिद्ध्यर्थ लक्षितं निगमादिकम् ॥ ब्रह्मशब्दस्य श्रुतिसूत्रयोः प्रयोगान्यथानुपपत्त्या कश्चिदर्थों उम्तीति निश्चीयते प्रमाणवाक्ये व्यर्थशब्दप्रयोगायोगात् तत्रार्थवि- शेषाकाङ्क्षायां जात्यादेर्निरस्तत्वानिगमनिरुक्तव्याकरणानां शेषसि- द्धिहेतुत्वात् प्रकृते च बृहतेर्धातोर्वृद्धौ स्मरणात् निरवधिकमहत्त्व- संपन्नं वस्तु ब्रह्मशब्दार्थ इति निश्चीयते । निगमो नाम शब्दस्य लक्षणां विना अकृत्यर्थानुगमेनार्थान्तरे वृत्तिः यथा देहशब्दस्य प्रसिद्धार्थाद- र्थान्तरे उपचयवति प्रयोगः। निरुक्तं नाम शब्दस्य सर्वावयवार्थानुग- मेन रूढ्यर्थादर्थान्तरे वृत्तिः यथा सोमशब्दस्य चन्द्रादन्यस्मिन् उमासहितेश्वरे वृत्तिः। अस्मिन्नर्थे ऽयं प्रत्ययो भवतीति विधानं व्या- करणं यथा वदनशीलो वादीति ताच्छील्ये इनिप्रत्ययविधानम् । ननु बृहणाद् ब्रह्मेति प्रवृद्धवस्तु यत्किञ्चित्प्रतीयते न पदार्थविशेषः तत्र वाक्यार्थनियमः कथमिति चेदुच्यते वाक्यार्थनिर्णयार्थ प्रसिद्धार्थकैः सत्यादिपदान्तरैः सह ब्रह्मशब्दस्य प्रयोगानुपपत्तिरेव निगमादिबले- नार्थमाददाना सन्निहितानन्तादिपदार्थान्वययोग्यनिरवधिकमहत्त्व- संपन्नं वस्तु शापयति सङ्कोचकाभावाच ततो वाक्यार्थनियम इति । अत्रायं निष्कर्षः । श्रीतादिप्रयोगानुपपत्त्या ऽर्थमात्रस्य निश्चयः निग- मादिना वृद्धिरूपार्थस्य पदान्तरासत्त्या निरवधिकवृद्धेरिति । ननु ब्रह्मणो महत्त्वमात्रेण कथं मुमुक्षुजिज्ञास्यत्वमित्यत आह । नित्यशु- द्धमिति- नित्यशुद्धं बुद्धमुक्तं सर्वशं सर्वशक्तियुक्। ब्रह्मशब्दबलादेव वस्त्वेताह प्रतीयते ॥ निरवधिकमहत्त्वं देशकालवस्तुकृताल्पत्वस्याभावरूपं नित्यशब्दा- र्थः । तथाप्यविद्यादिदोषवत्त्वे अल्पत्वं स्यादिति न निरवधिकं मह- १०६ विवरणोपन्यासे त्वं लोके गुणहीनस्य दोषवतश्चाल्पत्वप्रसिद्धः अतो ऽस्य ब्रह्मशब्द- बलादेव सर्वदोषराहित्य सर्वगुणवत्त्वं च सिध्यतीति मत्वाह । शुद्ध- मित्यादिना । शुद्धिोषाभावः तस्यापेक्षिकत्वं वारयति । मुक्तमिति । बन्धकाले ऽपीति शेषः । जडत्वेनाल्पत्व प्रत्याह । बुद्धेति पाठस्तुभा- ध्यानुसारी चेतनत्वेपि शेयस्य कार्यस्य वा ऽवशेषे ऽल्पता स्यात्तां निरस्यति । सर्वज्ञ सर्वशक्तियुगिति । निरस्तसमस्तदोषत्वात्परमपुरु- षार्थत्वाञ्च ब्रह्मणो जिज्ञास्यत्वमिति भावः ।जात्यादेब्रह्मशब्दार्थत्वेऽपि न नित्यशुद्धादिरूपत्वं धर्मिग्राहकमानविरोधात् । ब्रह्मणस्त्वादी शब्दादेव प्रसिद्धिरिति बाधकाभावान्निरङ्कुशं सर्वरूपत्वेन महत्त्वमि- ति मन्तव्यम् । ननु स्वरूपतटस्थलक्षणश्रुतिवाक्याभ्यां ब्रह्मनिर्णयात् ब्रह्मपदव्युत्पत्त्यैवादी प्रसिद्धिरिति कथमिति चेत् उच्यते। पदार्थक्षा- नात् प्राक् वाक्येन निर्णयायोगादत्र सूत्रे श्रुतौ वा ब्रह्मपदव्युत्पत्त्या प्रसिद्धिः । यदीत्थं नोच्यते जन्मादिसूत्रात्प्राक् लक्षणवाक्यस्यानि- र्णायकत्वाश्चात एव पदात्प्रसिद्धरमानत्वात् जिज्ञासोपपत्तिरिति सुस्थम् । इदानीं अज्ञानाधिरोधेन ब्रह्मणः प्रसिद्धौ हेत्वन्तरमाहापि चेति- अपि चात्मत्वतो ब्रह्म प्रसिद्ध किन्तु वादिनाम् । विवादात्तत्र जिज्ञासाविवादस्त्वधुनोच्यते ॥ अस्ति तावत्सर्वप्राणिनामहमित्यात्मनि प्रसिद्धिः सा वस्तुतो ब्रह्मगोचरा अयमात्मा ब्रह्मत्यादिश्रुत्या ब्रह्मणः आत्मत्वावगमात् । न चात्यन्ताभेदे सामानाधिकरण्यायोगात् भेदाभेदः श्रुत्यर्थ इति वा- च्यम् । कल्पितभेदेनात्र सामानाधिकरण्यसम्भवात् । तत्र प्रसिद्ध- जीवानुवादेनाप्रसिद्धब्रह्माभेदबोधनादहमिति वस्तुतो भवति ब्रह्म- प्रसिद्धिः । यथेदं रजतमिति वस्तुतः शुक्तिप्रसिद्धिरित्यर्थः । ननु ब्रह्मणो निःसामान्यविशेषात्प्रसिद्ध्यङ्गीकारे सर्वात्मना ऽपि प्रसिद्धः शास्त्रविषयत्वं न स्यादिति शङ्कते । किन्विति । यदि सर्वात्मना प्रसिद्धिः स्यात्तर्हि वादिविवादो न स्यात् । न हि शरदिन्दुकुन्दध- वलिम्नि निबिडनीरदनीलिम्नि वा विवदन्ति बादिनः । अतो विशेष- विप्रतिपत्तेः सामान्यरूपेण प्रसिद्धं ब्रह्म किं तत्सामान्यं देहेन्द्रिया- धनुगतं तदधिष्ठानचैतन्यरूपं पराग्घटादिव्यावृत्तं प्रत्यक्त्वमिति ब्रूमः । यद्यपि चैतन्यं सर्वानुगतं तथापि जीवसाक्षिचैतन्यं देहादिषु मानमनपेक्ष्यानुगतत्वात् घटादिषु तदभावात् भवति प्र- ܦ . ܕ ७ १ सू. ४ वर्णकम् । त्यक्त्व सामान्यं तत्सम्बन्धादेहादिष्वेवात्मत्वभ्रमो वादिनां तत्र प्रत्यक्त्वेन प्रसिद्ध वस्तुनि देहादिविशेषनिरासेन पूर्णानन्दब्रह्मरूपो विशेषः शास्त्रेणैव प्रतिपाद्यते इति भवति शास्त्रस्य विशेषो विषयः भ्रमाविरोधेन भासमानाधिष्ठानांशः सामान्यं भ्रमविरोध्यज्ञातांशो विशेषः अंशभेदस्तु ब्रह्मणि चैतन्यपूर्णादिपदवाच्यभेदेन कल्पित इति सर्वमनवद्यम् । अधुना सङ्केपेण विप्रतिपत्तयः उपन्यस्यन्ते । यथा गोशब्दाव्यभिचारात गोव्यक्त्याकृतिजातिषु शब्दार्थत्वविप्र- तिपत्तिः । तथा देहादिष्वहप्रत्ययाव्यभिचारादात्मत्वविप्रतिपत्तिः सम्भवति । तत्र देहमानं चैतन्यविशिष्टमात्मेति प्राकृता लौ- कायतिकाश्च विप्रतिपन्नाः मनुष्योऽहमित्यनुभवात् ।भूतचतुष्टयाति- रिक्त वस्तुनि मानाभावादिति इन्द्रियाणि प्रत्येकमात्मेत्यपरे । काणो ऽहमित्याद्यनुभवात् इन्द्रियाणां रूपादिज्ञानाश्रयत्वस्यैवान्वयव्यति- रेकाभ्यां जघन्यकरणत्वापेक्षया कल्पनौचित्यावहूनामपि वरगोष्ठी- न्यायेन स्वसाधारणविषयभोगक्रमोपपत्तरेकदेहाश्रयत्वेन द्रष्टा ऽहं श्रोतेत्यादिप्रत्यभिशोपपत्तेश्चेति मन एवात्मेत्यन्ये । यत इन्द्रियान्त- राणामभावे ऽपि स्वप्ने च भोगदर्शनात् । बौद्धास्तु विज्ञानमात्र क्षणिकमात्मत्याहुः । तथा हि देहेन्द्रियाणां शेयत्वेनानात्मत्वात् मनसोऽपि समनन्तरप्रत्ययमात्रत्वात् अन्यस्य विज्ञानाश्रयस्याननु- भवाद्विशानमेव स्वरसभङ्गुरं हेतुफलभावेनाविरतोदयत्वात् सो ऽहमिति प्रत्यभिज्ञास्पदं कर्मफलास्पदं चेति वदन्ति । माध्यमिका- स्तु विज्ञानातिरिक्तात्मनो निरस्तत्वात् विज्ञानस्यापि सुषुप्तावद- शैनात् तदानीं निराकारज्ञानसन्ततौ मानाभावात् यज्ज्ञानं तत्सा- कारमिीत नियमादुत्थितस्याहमिति निर्विषयासद्विकल्पमात्रमिति शून्यमेवात्मेति सङ्गिरन्ते । कणभक्षाक्षपादपक्षपातिनस्तु अस्ति देहादिव्यतिरिक्तः स्थायी कर्ता भोक्तेत्याहुः। तथा हि अहमुल्लेखवि- षयो ज्ञानसुखाद्याश्रय आत्मा सर्वैरनुभवबलादेष्टव्यः न च सुषुप्तौ तदभावः यो ऽहं पूर्वद्युर्विश्वेशमद्राक्षं सो ऽहमद्य बिन्दुमाधवं द्रक्ष्या- मीति अबाधितप्रत्यभिज्ञया सुषुप्तौ सत्तानिश्चयात् । अतो न शून्य- स्यात्मत्वं नापि विज्ञानस्यात्मत्वं मम विज्ञानमित्यात्मभिन्नत्वानुभ- वादह विज्ञानमित्यप्रतीतेः। सोऽहमिति प्रत्यभिज्ञायाः क्षणिके ऽनुप- पत्तेः । मुख्यैक्ये प्रत्यभिज्ञायमाने निरन्तरोत्पत्तिसादृश्ययोः कल्पना- नौचित्याच्च । किञ्च कदलीफलदर्शनं तद्रसानुभव. ततः सुखं पुनः १०८ विवरणोपन्यासे फलान्तरदर्शन व्याप्तिस्मरणं फलत्वेन सुखहेतुत्वानुमितिः ततो रागः प्रयत्न इत्यष्टक्षणेष्वेक आत्मा स्थिरो ऽङ्गाकार्यः । अन्यानुभूते अ- न्यस्य सुखाद्ययोगात् । चैत्रमैत्रादिसन्तानभेदेष्वन्यदृष्टे अन्यस्य स्मरणाद्यदर्शनात् । तस्यात्मनो ऽने नाशकांशाभावान्नित्यत्वमिति ।म- नो ऽपि नात्मा तत्राप्यहं मन इत्युल्लेखाभावात् । युगपज्ज्ञानानुत्पत्त्या तस्य करणत्वेनैव क्लप्तत्वाश्चेति । एवमिन्द्रियाणि नात्मा ममैतानीति प्रतीतेः । द्रष्टाहं श्रोतेत्यैक्यप्रत्यभिज्ञानात्। एकदेहस्थत्वेन प्रत्यभिज्ञा. ने चैकप्रासादस्थानामैक्यप्रत्यभिज्ञाप्रसङ्गाल्लाघवेनैकस्यैव रूपादिशा- माश्रयत्वौचित्याकाणोऽहमित्यादेंभ्रमत्वादिति । तथा देहोऽपिनात्मा स्वप्नादौ देहभेदे ऽप्यहमित्यनुवृत्तेः । जातमात्रस्य स्तन्यपानप्रवृत्ति- दर्शनात् । स्तन्यपानं तृप्तिसाधनमिति व्याप्तिस्मृतिमूलानुभवार्थ जन्मान्तरसम्बन्धकल्पना । मम देह इति अबाधितभेदानुभ- वात् मनुष्यो ऽहमिति भ्रमः । तस्मादहमुल्लेखप्रत्यभिज्ञादिना देहेन्द्रियमनोविज्ञानशून्यव्यतिरिक्त आत्मा नित्यः सिद्धः । तस्य निर्विकारत्वे भोक्तृत्वायोगात् कर्तृत्वमेष्टव्यम् । एनेन श्लोके कर्जन्त- भागः स्फुटीकृतः । एकशब्दः केवलवाची भोक्तव केवलं न कति सांख्यपक्षः स चाग्रे वक्ष्यते। देहादेरनात्मत्वमिदानी प्रकारान्तरेणाह व्यस्तानामिति-- देहेन्द्रियमनोबुद्धिशून्यकत्रकभोक्तृषु । सर्वज्ञब्रह्मणोरात्मबुद्धिरस्तीह वादिना ॥ व्यस्तानां वा समस्तानां भूतानां भोक्तृता कुतः। इन्द्रियादेरपि तथा शून्या तेनात्मता ततः ॥ थिव्यादिभूतानां सङ्घातस्तावच्छरीरं देहात्मवादिनां न च भूमी पार्थिवमेव शरीरं वरुणलोके त्वाप्यं स्वर्गे तैजसं ब्रह्मलोके वायव्यमेव न पाञ्चभौतिक व चिच्छरीरमस्ति प्रत्यक्षाप्रत्यक्षभूतवृत्तित्वे देहस्य घटाकाशसंयोगवदप्रत्यक्षत्वापातादिति तार्किकोक्तियुक्ता । अस्मदा- दिशरीरं जलाधुपादानकं जलाधुपचयापचयानुविधाय्युपचयापच- यवत्त्वाद्यदित्यं तत्तथा यथा नैकतन्त्वारब्धः पट इत्यनुमानात् । अन्न मशितमित्यादि छान्दोग्यश्रुतौ मांसलोहितास्थिमयदेहस्य भूजलते- जःकार्यत्वोक्तेश्च। पञ्चभूतात्मकेतात शरीरे पञ्चताङ्गते इत्यादिस्मृ- तेश्च । महत्त्वोद्भूतरूपाभ्यां देहस्यातीन्द्रियद्यणुकवृत्तित्र्यणुकवत् प्र- त्यक्षत्वोपपत्तेश्च । तस्मात्पञ्चभूतारब्धावयवी देहः । तस्यात्मत्वं पूर्व १ सू. ४ वर्णकम् । निरस्तम्। अधुना भूतचतुष्टयसङ्घात एव देह आत्मेति मतं निरस्यते । तथाहि सङ्घात. किं भूताभिन्नः भूतातिरिक्तो वा आद्ये ऽपि भूतानां व्यस्तानां भोत्कृत्वं समस्तानां वा तत्र न तावद्यस्तानां युगपत् भो- कृत्वं सर्वेषां भूतानां खतन्त्रात्मत्वे सङ्घाताभावप्रसङ्गात् । अथ भि- नात्मनामपि वरगोष्ठीवदङ्गाङ्गितया क्रमेण भोक्तृत्वमिति चेन्न । दृष्टान्तवैषम्यात् । वराणां कन्यात्मकविषयस्यासाधारणत्वादकस्य स्वविषयभोगकाले अन्यस्य गुणभावो युक्तः भूतानाङ्गन्धादिवि- षये साधारणाङ्गाङ्गिभावायोगाद्भोगक्रमायोगः । यदि भूम्यादिभूता- स्मनाङ्गन्धादयो ऽप्यसाधारणास्तदा घ्राता ऽहं द्रष्टेति प्रत्यभिज्ञानुप- पत्तिः।नापि समस्तानां भोक्तृत्वं सर्वेषामपि भूतानामसंहतानां भो- कृत्वादर्शनात् । सङ्घाते च निमित्ताभावात् । आगामिभोगस्यास- त्वेनानिमित्तत्वाच्छेषस्य शेष्याक्षेपकत्वात् । सर्वेषामपि भोक्तृणां भोगे समप्रधानतया सङ्घातायोगात् । न च भूतानां भोक्तृतया भोगं प्रति प्राधान्ये ऽपि कर्तृतया शेषत्वात् संघातोऽस्त्विति वाच्यम्। संघा- तात्प्राक् कर्तृत्वासिद्धः संहन्त्रभावाश्च । कार्ये हि कारणानां संहन्तरि संघातो भवति यथा तिलानां ज्वालायां न तु भोगः । नाप्येकस्यैव भूतस्य भोक्तृत्वं विनिगमकाभावात् । एतेन भूतातिरिक्तः संघातो भोक्तति निरस्तम् । संघातस्यावस्तुत्वाञ्च । वस्तुत्वे चत्वारि भूता- म्येव तत्त्वानीति मतहानिरिति । एवं व्याससमासविकल्पदूषणानी- न्द्रियात्मवादे ऽपिसमानि। एतेन भूतेन्द्रियसंघात आत्मेति प्रत्युक्तम्। इन्द्रियादेरपि तथेति नभोक्तृत्वमित्यर्थ । तस्मादेहादिशून्यान्तेषु ना- स्मत्वमिति उपसंहारः । प्रसङ्गादिन्द्रियस्वरूपं निरूपयति । न गोल- कानीति- न गोलकानीन्द्रियाणि नापि तच्छक्तयो ऽपि शक्तिमव्यरूपाणि भौतिकान्यविभूनि च ॥ गोलकानीन्द्रियाणीति सुगतमतमसङ्गत गोलकासत्त्वे ऽपि सर्व- स्य शब्दोपलम्भात् । पश्यन्ति पादपा इत्यादि शास्त्राश्च । गोलकशक्तय इति मीमांसकमतमप्ययुक्तम् । लाघवेन शक्तीनामात्मताप्रसङ्गाश्च । गोलकानामत्रैव भस्मीभावे तच्छक्तीनां विनाशात् । तमुक्रामन्तं प्राणोऽनूजामति प्राणमनूकामन्तं सर्वे प्राणा अनूकामन्तीतीन्द्रियाणां उक्रान्तिश्रुतिविरोधाच्च । तस्माच्छक्तिमव्याणि तेषूक्तश्रुतिर्मानं तदपरिचयाल्लोकानां गोलकेष्विन्द्रियत्वबुद्धिमण्डले आदित्यत्वबुद्धि- वत् । तानि चाहङ्कारप्रकृतिकानीति सांख्याः तदयुक्तं मानाभावात् ।
११० विवरणापन्यासे "त्रिविधो ऽयमहङ्कारो महत्तत्त्वादजायत । इन्द्रियाणां ततः सृष्टिर्गुण- द्वारा महामुने" इत्यादिपुराणवचनमहङ्काराधीनत्वपरम् । अहमित्यभि- मानपूर्वकत्वादिन्द्रियप्रवृत्तेःनतु तत्प्रकृतिकत्वपरम् अन्नमयं हि सोम्य मन इति । य एष एतस्मिन्मण्डले करणात्मकः पुरुषस्तस्य ह्येष रस इति परोक्षापञ्चीकृतभूतप्रकृतिकत्वश्रुतिविरोधात् । अतः श्रुत्या भौ- तिकानीन्द्रियाणि।तानि विभून्यपि सांख्याः तदयुक्तं सर्वत्र रूपायुप- लब्धिप्रसङ्गात् । नाडीद्वारोक्रान्त्यादिश्रुतिविरोधाचातः परिच्छिन्नानि सर्वे । न ता इति श्रुतिस्तूपासनेन्द्रियाणां सौरालोकादिवत् व्यापि- वाभिप्राया। अत एवोपासनासिद्धा ब्रह्मादयः सर्वमपरोक्षतया ऽनुभवन्ति । तान्यप्राप्यकारीणीति सुगता' ।तदपि फल्गु । दूरस्था- सम्बद्धरूपाद्युपलब्धिप्रसङ्गात् । चक्षुषः सौरालोकवत् शीघ्रगा- मित्वाद्भुवादिसम्बन्धः श्रोत्रस्योचितदेशव्यापित्वाच्छब्दसम्बन्धो न वीचीतरङ्गन्यायेन शब्दागमनात्। तस्मात्प्राप्यकारीणीति चकारार्थः। मनो नित्यं निरवयवमणु चोत तार्किकास्तदसाधु । अन्नमयं मनः एतस्माज्जायते प्राणो मन इति श्रुत्या कार्यद्रव्यत्वेन सावय- वत्वात् । अतो देहव्याप्यनित्यं सावयवत्वाद्दीपवत्सकोचविकास- वत्त्वेन गजपुत्तिकादिदहप्रवेशयोग्यञ्च । यत्तु ज्ञानसन्ताने ऽनुत्तर- शानकारणं पूर्वज्ञानसमनन्तरप्रत्ययाख्यं मन इति शाक्यमतं तन्मान. हीनमित्युपेक्ष्यम् । आत्मा जडः कर्ता प्रतिदेहं भिन्न इति तार्किकास्तन्न । अत्रायं पुरुषः स्वयंज्योतिरसङ्गो ह्ययं पुरुष उपाधिना क्रियते भेदरूप इत्याद्यनेकश्रुतिभि. सयुक्तिकाभिर्विरोधात् । युक्तयश्चाचा- यैर्दर्शिताः सुषुप्त्यनुसन्धानादय इति । मनमात्मनोः स्वरूपमाह । मन इति- मनो ऽनित्यं सावयवं सनोचि च विकासि च । आत्मा विभुः स्वप्रकाशः सर्वप्राणिषु चैकलः ॥ आनित्यमिति छेदः । प्रात्मनो विभुत्वमपि आकाशवत्सर्वगत इत्याद्यागमादव । न चादृष्टं स्वाश्रयसयुक्ताश्रयान्तरे ऽग्न्यादावूर्व- ज्वलनादिक्रियां करोति अव्यासज्यवृत्तित्वे सति क्रियाहेतुगुणत्वात गुरुत्ववत् । स्वाश्रयमात्रे क्रियाजनके नोदनाख्यसंयोगे व्यभिचा- रनिरासाय सत्यन्तम् । गुरुत्वं स्वाश्रयपतत्फलसंयुक्तपर्णादी क्रियां जनयतीति दृष्टान्ते साध्यसिद्धिरित्यनुमानसिद्धविभुत्वानुवादत्व- मात्रं श्रुतेरिति वाच्यम् । स्वाश्रयासंयुक्ते ऽप्याकाशे शब्दजन- १ सू. ४ वर्णकम् । १११ कत्ववददृष्टस्य क्रियाजनकत्वसम्भवेनाप्रयोजकत्वानिरवयवात्मनः संयोगायोगाददृष्टवदात्मप्रदेशस्य देहादन्यत्रासत्त्वेनासंयोगात् । केवलात्मसंयोगस्य कार्याहेतुत्वाश्च । तस्मादतीन्द्रियार्थेषागम एव शरणम् अनुमानं तदनुग्राहकंन स्वतन्त्रामति द्रष्टव्यम् । इन्द्रियादि- स्वरूपकथनं प्रासङ्गिक समाप्य आत्मनि विप्रतिपत्त्यन्तरमाह । भोक्तारामिति- भोक्तारं केवलं सांख्या आत्मानं प्रतिपेदिरे । ततोऽन्यमीश्वर के चित्स आत्मा वेदवादिनाम् ॥ निरवयवस्यात्मनः स्वतः परतोवाऽऽगन्तुककर्तृत्वायोगात् कर्तृ- त्वस्य स्वाभाविकत्वे चैतन्यवत्सदा भानप्रसङ्गादनिर्मोक्षापत्तश्चाक- र्ता आत्मा।नाऽपि बुद्धिस्थकर्तृत्वस्यात्मन्यध्यासःअख्यातिवादित्वात्। अतो दृश्यसाक्षित्वमात्रमात्मनो भोक्तृत्वमित्यर्थः । पक्षान्तरमाह । ततोऽन्यमिति केचिद्वैशेषिकादयो योगिनश्च जीवाद्भिनमीश्वरमिच्छ- न्ति।तनुभुवनादिकार्य स्वरूपोपादानादि विज्ञानवत्कर्तृकंविचित्रकार्य वत्त्वात् प्रासादादिवदित्यनुमानेन लाघवादेकः सर्वज्ञः सिध्यतीति तार्किकाः । योगिनस्तु ज्ञानेश्वर्यतारतम्यं क चिद्विश्रान्तं सातिश- यत्वात् परिमाणतारतम्यवदिति निरतिशयज्ञानेश्वर्यशालीश्वर- सिद्धिः। तथा च योगसूत्रम् निरतिशय सर्वज्ञबीजमिति । यत्साति- शयं तन्निरतिशयेनाविनाभूतमिति व्याप्त्या निरतिशयं ज्ञानं सि- ध्यत् सर्वशसिद्धिहेतुरित्यर्थ इति मन्यन्ते । नन्वात्मविप्रतिपत्तिषु अनात्मेश्वरोपन्यासो न युक्त इति चेत् उच्यते । अत्र हि प्रत्यगभिन्ने ब्रह्मण्यखण्डैकरसे आत्मत्वसामान्याकारेण प्रसिद्धिजिज्ञासातु वि- प्रतिपत्तिद्वारा कथ्यते । तत्रात्मा देहादभिन्नस्ताद्भिन्नो वेति विप्रति- पत्तिकोटित्वेन देहाद्युपन्यासवदात्मा किमीश्वरादभिन्नो भिन्नो वेति विप्रतिपत्तिकोटित्वेन भिन्नेश्वरोपन्यासो युज्यते । एवं विप्रति- पत्त्या विरुद्धकोटिद्वयसाधारणात्मत्वाकारण प्रत्यगात्मनि प्रसिद्ध तदुद्देशेन विचारविधौ सत्यनभिमतकोटिनिरासेन स्वाभिमताद- यानन्दब्रह्मत्वनिर्णयो मुक्तिफलो वेदान्तैर्जायते।अत्र कश्चिदाह । आ- त्मनि विप्रतिपत्त्युपन्यास एवायुक्तः तस्याजिज्ञास्यत्वात् । किन्तु ज- गत्कारणे किं प्रधानम् परमाणवो वाऽन्यद्धति विप्रतिपत्तिर्वक्तव्या । जन्मादिसूत्रालोचनायां जगत्कारणस्यैव जिज्ञास्यत्वावगमादिति । तन्न । फलाभावेन तटस्थजगत्कारणस्याजिज्ञास्यत्वात् । न चोपा- ११२ विवरणोपन्यासे सनार्थ तजिज्ञासेति वाच्यम्। तस्यासत्त्वे ऽप्यारोपेणोपासनासम्भ- वादुपासनया ऽपि मुमुस्वभीष्टासिद्धश्च । तस्मान्मुक्त्यर्थ प्रत्यगब्रह्मणों जिज्ञास्यत्वात् । प्रत्यगात्मनि विप्रतिपत्त्युपन्यासो युक्ततम इति स- झेपः । सिद्धान्तकोटिमाह । स इति । ईश्वरः प्रत्यगात्मा ऽस्माकमि- त्यर्थः । ब्रह्म सच्चिदानन्दरूपम् अहमस्मि भामि प्रियतम इति प्रतीतेः प्रत्यगात्मा ऽपितथा। तथाच जीवो व्रत्मैव तदविलक्षणत्वात् ब्रह्मवत् । भेदस्त्वौपाधिक पवाहड्काराद्युपाध्यनुविधायित्वात् । तत्त्वमस्यादि- श्रुतेश्चाभेदः जीवाद्भिन्नस्य घटादिवत् ब्रह्मत्वायोगाश्च वस्तुतः परि- च्छेदादिति भावः । ननु यदि ब्रह्मणो ब्रह्मत्वादेव जीवाभेद. तर्हि दुःखात्मकजगदभेदोऽपि तस्यास्ति कुतश्चिदपि भिन्नस्य जगतो ब्रह्म- त्वायोगात् । उपादानत्वाञ्च ब्रह्मणो हेयाभेद इत्यपरिमितानर्थरूप- त्वादजिज्ञास्यत्वमापन्नमिति शङ्कते । नन्विति- ननु ब्रह्मत्वतो ब्रह्म जीवाभिन्नं यथा तथा । दुःखभिन्नमजिज्ञास्यं नैवं दु खादिकल्पनात् ॥ नेह नानास्तीति अधिष्ठाने निषिद्धस्य द्वैतस्य कल्पितत्वेन रज्जु- सर्पवदधिष्ठानानतिरेकात् ब्रह्मत्वं कल्पितानासंस्पर्शादधिष्ठानस्य जिज्ञास्यत्वं च युक्तमिति । परिहरति । मैवमिति । ननु देहात्मादि- पक्षेषु जागरूकेषु ब्रह्मण एव मुमुक्षुभिर्जिज्ञास्यत्वं कथमित्यत आह । प्रत्यगति- प्रत्यगब्रह्मैक्यमेवात्र युक्तिवाक्यसमाश्रया। युक्त्यङ्गा ब्रह्ममीमांसा कर्तव्या ऽतो मुमुक्षुणा ॥ अत्र उक्तपक्षेषु अन्त्यपक्षे संक्षेपतो युक्तिवाक्ये दर्शिते। ननु स वा एष पुरुषो ऽन्नरसमयः इन्द्रियसंवादे चक्षुरुवाच मन उवाच यो ऽयं विज्ञानमय असदेवेदमन आसीत् कर्ता बोद्धा अनश्नन्नन्य: आत्मानमन्तरा यमयतीति वाक्यानि देहाद्यात्मत्वे युक्तयश्च सन्तीति चेत् । न । युक्तीनामाभासताया दर्शितत्वात् । आनन्दमयोऽभ्यासा- दित्यादिना वाक्यानां ब्रह्मान्मनिसमन्वयस्य सूत्रयतावश्यमाणत्वात्। ननु ब्रह्मण एव जिज्ञास्यत्वे ऽपि तद्विचारस्य जिज्ञासापदलक्षितस्ये- ध्यमाणशाननार्थाक्षिप्तस्य वा किमुपकरणं किं वा फलमित्याशङ्का निराकुर्वन् सूत्रार्थमुपसंहरति । युक्त्यङ्गेति । युक्तिर्ब्रह्मणि प्रमाणवि- चारो मुक्तये कर्तव्य इत्यर्थ. । मुक्तिस्तु ज्ञानेनाज्ञाननिवृत्तौ प्रमा- तृत्वाध्यासनिवृत्तेः सत्यपि मायिकद्वैते अनर्थदर्शनाभाव इत्येकः - - १ स. ४ वर्णकम् । ११३ पक्षः । इतरस्तु सर्वद्वैतनिवृत्तिपक्षः सकलवृद्धसंमतः समन्वयसूत्रे वक्ष्यते । यस्यायमपरोक्षतया ब्रह्मानुभवः तस्य निरस्तसमस्तानर्थ- स्वप्रकाशानतिशयानन्दात्मना ऽवस्थानमित्यत्र न विवादः। तस्माद- नुबन्धचतुष्टयसम्भवात् वेदान्तविचारकर्तव्यता युक्तेति रमणीयम् । इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दसरस्वतीपूज्यपाद- शिष्यरामानन्दविरचिते विवरणोपन्यासे अनुक्रमणिकाव्याख्याने चतुर्थवर्णकं प्रथमसूत्रञ्च समाप्तम् ॥ जगजन्मस्थितिध्वंसहेतुं सञ्चित्सुखात्मकम् । सीताभिरामं श्रीराम सगुणं केवलं भजे ॥ प्रथमसूत्रे यथोक्ताधिकारिणा ब्रह्मज्ञानाय विचार कर्तव्य इति प्रतिज्ञातम् । तत्र ब्रह्मणि लक्षणप्रमाणाविरोधज्ञानसाधनफलानां विचारोऽर्थात्प्रतिज्ञातः तं विना फलसमर्थब्रह्मज्ञानायोगाद्विचारः क्रियते इत्याह । ब्रह्मति- ब्रह्म मीमांस्यमित्युक्तौ विचारो लक्षणादिषु । अर्थादेव प्रतिज्ञातो लक्षणं तु विचार्यते ॥ जन्माद्यस्य यतः। ब्रह्माण लक्षणाभावात् निःखरूपब्रह्मविचारो न सम्भवतीत्याक्षेपसङ्गत्या ऽस्याधिकरणस्य प्रवृत्तिः । यतो वा इ- मानि भूतानि जायन्ते इत्यादिश्रुतिसिद्धलक्षणविचारात्मकत्वाच्छुति- सङ्गतिः।अत्रश्रूयमाणं जन्मादिकं ब्रह्मलक्षणं न वेति सन्देहे सम्बन्धा- भावान्न लक्षणमिति प्राप्ते सिद्धान्तः । जन्म आदिर्यस्य जन्मस्थिति- भङ्गस्य तजन्मादीति तद्गुणसंविज्ञानो बहुव्रीहि. जन्मस्थितिभड़ समासार्थ इति नपुंसकलिङ्गनिर्देशात प्रतीयते । ननु बहुत्वविवक्ष- या जन्मादय इत्येव किमिति न कृतमिति चेत् । जन्मस्थितिभङ्ग- निरूपितं कारणत्वत्रयं मिलितमेवाद्वितीयब्रह्मणो लक्षणमिति ज्ञाप- नार्थमिति बमः । प्रत्येकं लक्षणत्वे जन्मकारणादन्यदेव स्थितिका- रणमिति कारणस्य सद्वयत्वज्ञानात् जगत्कारणानुवादेन तद्ब्रह्मेति ब्रह्मत्वप्रतिपादनमशक्यं स्यादतः कारणस्य ब्रह्मत्वस्यानुकूलल- क्षणसिध्द्यर्थ युक्त एव समाहारलिङ्गनिर्देशः । ननु तथापि जन्मस्थि- तिभङ्गानामनादिसंसारे घटीयन्त्रवदावृत्ते. कथं जन्मन आदित्वमिति चेत् श्रुतौ जन्मनः आदी निर्देशात् जनित्वा स्थित्वा मश्यतीति व- स्त्वनुसाराश्चेत्याशयेनाह तृतीयेति-- १५ ११४ विवरणोपन्यासे तृतीयलिङ्गनिर्देशात्समाहारो ऽत्र गम्यते । तदादि जन्म विज्ञेयं श्रुतिर्वस्त्वनुसारतः ॥ इति । अद्वितीये लक्ष्ये जन्ममात्रकरणत्वस्यासम्भवादादिपदम् । निर- पेक्षं लक्षणत्रयमिति शङ्कानिरासार्थ नपुंसकैकवचननिर्देशः।अस्येति सर्वनाम्ना कार्य सर्वमुपस्थाप्यते सङ्कोचकाभावात् । षष्ठी तु जगतो जन्मादिभिर्भावविकारैरनिर्वचनीयतादात्म्यसंबन्धार्था सतो ऽसतो वा कार्यस्य तैः सत्यसबन्धायोगादित्याह । इदमर्थ इति- इदमों जगत्सर्वे षष्ठी सबन्धबोधिका ॥ तेन लक्षणवमविरुद्धमिति मन्तव्यम् । यस्य जगतः कारणं ब्रह्म तस्य स्वाभिमतं विभागमाह । जगदिति- जगद्विभागः श्रीतो ऽत्र नाना रूपेण कर्मणा । सर्वविज्ञप्तिमात्रं च स्वरूपं लक्षणं भवेत् ॥ त्रयं वा इदं नामरूपं कर्मेति श्रुत्या जगतः सर्वस्य त्रेधा वि- भागो दर्शितः अत्र नामरूपकर्माणि शब्दार्थतत्सम्बन्धाः । तत्र सं- बन्धस्य सबन्ध्यन्तर्भावाच्छब्दार्थों द्वावेव पदार्थों इति वृद्धाः। श्रुति- भाष्यवार्तिकपरिशीलने तु प्रकाशकमात्रं नाम प्रकाश्यं रूपं चलं क- मेंति व्याख्यानात् सत्त्वतमोरजांसि सर्व जगदिति विभागो भाति । एतेषु सर्वान्तर्भावस्यातो हि सर्वाणि नामान्युतिष्ठन्तीत्यादिश्रुत्या द- शितत्वाञ्च नामरूपाभ्यामेव व्याक्रियते इति । द्वित्वोक्तिस्तु कर्मणः प्रकाश्यत्वेन रूपेऽन्तर्भावाभिप्रायेणेति द्रष्टव्यम् । अश्रौतास्तु पुम्बुद्धि- भवा विभागा अधुनोच्यन्ते । द्रव्यगुणकर्मसामान्यानि चत्वारः प- दार्था इति वार्तिककारीयाः । गुरूणां विशेषशक्तिसमवायनियोगा उक्तैः सहाष्टौ । वैशेषिकाणां षट् । नैयायिकानां षोडश पदार्थाः प्र- सिद्धाः। कार्यकारणयोगविधिदुखान्ताः पञ्चेति शैवाः। कार्य मह- दादि । कारणमीश्वरः । योग. समाधिः । विधिस्त्रिषवणस्नानादिः । दुःखान्तो मोक्षः । जीवाजीवानवसंवरनिर्जरबन्धमोक्षाः सप्तेति क्ष- पणकाः । जीवश्चेतन । अजीवः परमाण्वादिः। विषयेषु इन्द्रियाणां प्रवृत्तिरानवः । तं संवृणोतीति शमदमादिः संवरः । नितरां जरयति कल्मषमिति तप्तशिलारोहणादिनिर्जरः। बन्धः कर्म । सततोर्ध्वगमनं मोक्षः । पृथिव्यप्तेजोवायवश्चत्वारि तत्त्वानीति लौकायताः । चित्तचैत्ये इति सुगता. । पञ्चविंशतितत्त्वानीति २ सू. ५ वर्णकम् । ११५ सांख्याः । षड्विंश ईश्वर इति पातञ्जला इति । अश्रौतत्वादेते विभागा नादर्तव्या इति । ननु किं ब्रह्मणः स्वरूपलक्षणं न च यतः सर्वशात्सर्वशक्तेः कारणादिदं भवति तद्ब्रह्मति भाष्यात् सर्वशत्वं सर्वशक्तित्वं वा स्वरूपमिति वाच्यम् । सर्वापेक्षधर्मत्वादित्यत आह । सर्वविज्ञप्तिमात्रमिति । आनन्दस्य विज्ञानादभेदान्मात्रपदमविरुद्ध अविद्यादशायां स्वाध्यस्तसर्वावभाप्सनक्षम स्वतो विषयानपेक्षं वि- शानमात्र स्वरूपलक्षणमित्यर्थः । ननु सिद्धान्ते ब्रह्मणः सर्वज्ञत्वं कथं स्वरूपज्ञानस्यातीतानागतवस्तुसम्बन्धाभावात् । इन्द्रियाणा- मपि वर्तमानसन्निकृष्टमात्रग्राहित्वात् । अचक्षुरश्रोत्रमित्यादिश्रुत्या ब्रह्मणि तेषामभावादिति चेत् । उच्यते । विद्यमानसर्ववस्तुगोचर सत्त्वप्रधानमायावृत्तिरूपः परिणाम उदेति तत्राभिव्यक्तं चैतन्यं प्र- त्यक्षानुभवः । वृत्तिनाशे सति संस्कारानियमेन स्मरणं पूर्वानुभूत- वस्तुगोचरमायावृत्त्यभिव्यक्तचैतन्यरूपं तथा ऽनागतज्ञानमपि वृत्त्यु- पाधिकं द्रष्टव्यम् । कालत्रयावगाहिनी एकैव वृत्तिरिति केचित् । स्व- रूपचैतन्येनैव विद्यमानसर्वज्ञत्वमित्यपरे । उपादानत्वमात्रमस्मि- न्सूत्रे तटस्थलक्षणमुक्तं न कर्तृत्वमिति कृत्वा चिन्ता शरभ्यते । ननु जगदुपादानत्वं न ब्रह्मलक्षणं मायां तु प्रकृतिमिति श्रुत्या सर्गाद्य- कालीनं कार्य जडोपादानकं कार्यत्वात् घटवत् । अन्यथा जगति जाड्यानुगमो न स्यादित्यनुमानेन च मायायामतिव्याप्तेः । न च मायाया उपादानत्वे इन्द्रो मायाभिः पुरुरूप ईयते इति करणत्वं विरुद्धमिति वाच्यम् । मायाकार्यबुद्धीनामात्मबहुत्वभ्रमहेतुतायास्तृ- तीयार्थत्वात् । माया प्रज्ञा च संविच्चेति बुद्धिपर्यायवपि मायाश- ब्दस्मरणात् । एतेन मायां तु ब्रह्मस्वरूपप्रज्ञाप्रकृति विद्यादिति श्रु- त्यर्थ इति ब्रह्मैवोपादानमिति निरस्तम् । मायिनं तु महेश्वरमिति श्रुतेश्च न चैतन्यं माया प्रकृतौ शक्तिशब्दः पारतन्त्र्यद्योती न विरु- ध्यते । अत एव शक्तिशक्तिमतोरभेदात् सत्यमायाशक्त्यभिन्नं ब्र- लैवोपादानमिति नातिव्याप्तिरिति निरस्तम् । लोके मायाविसृष्टाने- कमिथ्यागजाद्यनुस्यूतोपादाने मायाशब्दप्रयोगात् । मायाविद्यै क्य- साधनाच्च । सत्यत्वस्य मायायामसिद्धेः । तस्मादनिर्वचनीरामायो- पादाने ब्रह्मलक्षणस्यातिव्याप्तिरिति । अत्रोच्यते । ब्रह्ममाये सा- म्येन मिलित्वा जगदुपादाने इत्येक मतम् । अत्रोपादानत्वस्य तुल्य- त्वेऽपि चिदानन्दस्वरूपलक्षणान्मायातो ब्रह्मणो भेदशानम् । अन्ये तु ११६ विवरणोपन्यासे ब्रह्मज्ञानात्सर्वज्ञानश्रुतेः सञ्चासश्चाभवदित्यादिश्रुतेश्च ब्रह्मैवोपा- दानं माया तु ब्रह्मणः प्रकृतित्वनिर्वाहकशक्तित्वेन प्रकृतिरिति व्य- पदिश्यते इत्याहुः । अत्रोपादानत्वमनतिव्याप्तं लक्षण ब्रह्मण एव प्राधान्येनोपादानत्वात् । केचित्तु मायैव जगद्योनिस्तदधिष्ठानत्व- मात्रेण ब्रह्मणः कारणत्वमिति वदन्ति । अत्र परिणममानाविद्या- धिष्ठानत्वं लक्षणमिति विभागमभिप्रेत्याह । ब्रह्ममाये इति- ब्रह्ममाये जगद्योनी माया शक्त्यथवा महत् । यद्वा योनिस्तु मायैव ब्रह्माधिष्ठानमिष्यते ॥ महद्ब्रह्म मायाशक्तिकं योनिरिति मध्यमं मतमित्यर्थः । के चितु ब्रह्मपरिणामीत्याहुः । तन्न । तथा हि पूर्वस्वरूपोपमर्दैन रूपान्तरा- पत्ति परिणामः स चोपादानसमसत्ताकः यथा क्षीरस्य दधिभावः । विवर्तस्तु पूर्वस्वरूपानुपमर्देन रूपान्तरापत्तिः उपादानभिन्नसत्ताकः यथा शुक्तेर्व्यावहारिकसत्तावत्याः प्रातिभासिक रजतं तत्र प्रलया- वस्थमायास्वरूपोपमर्दाजगत्तस्याः परिणामः सच्चिदानन्दनिष्कल- ब्रह्मस्वरूपानुपमर्दाब्रह्मणो विवर्त एव एतावानस्य प्रपञ्चो महिमा अतो ज्यायांश्च पुरुषः नामरूपयोर्निर्वहिता ते यदन्तरा यत्र विलक्षणे कल्पिते तब्रह्मेत्याद्याः श्रुतयो ब्रह्मस्वरूपानुपमर्दै मानं निष्कलं निष्क्रिय शान्तमसङ्गमरसमगन्धमित्यादिना निरवयवत्वादिश्रुतेश्च ब्रह्मणः परिणामो न युज्यते । अत्र कश्चिन्निरवयवमपि परिणमते इति जल्पति । हेयावयवपरमाणूनां परिणामाभावे हेनः कथ रुच- काकारः परिणामः स्यात् । अवयवविकारं विना अबयविविकारायो गात् । स वक्तव्यः को ऽयं परिणामो नामेति यद्यवयवानां संयो- गविशेषः परिस्पन्दो वा गुणान्तरोदयो वा परिणामः तāकस्मिन् अचले निर्गुणे ब्रह्मणि स नास्ति लोके द्रव्यरूपकार्यासिद्धिश्च । अथोपादानानुरक्तं द्रव्यान्तरं परिणामः तर्हि यथादर्शनं हेमाद्य- वयविन एव परिणामो ऽस्तु अवयवानां नाशादिकं विना ऽप्यवय- विनो नाशवत् घटत्वादिजातिविशेषसमवायवञ्च तेषां परिणाम विना ऽपि तस्य परिणामोपपत्तेः न वयविनि यावदस्ति तत्सर्व. मवयवेषु कल्पयितु शक्यम् अनुभवविरोधात् । ननु स्वाभिन्ना- वयवेष्वविकारिषु कथमवयविनो विकार इति चेत् स्वाभिन्नजाति- गुणादिष्वविकारिषु द्रव्यपरिणामवदिति बमः । ननु अवयविनि संयोगो ऽवयवसंयोगपुर सरो दृष्ट इति चेत् । न । संयोगद्वयादृष्टेः ।
- . २ सू. ५ वर्णकम् । ११७ अवयवानामवच्छेदकत्वमात्रमिति नास्ति निरवयवे परिणामः कि- उचावयवानां मायिकानां सावयवतया परिणामेऽपि न निरवयवन- ह्मणः परिणामः दृष्टान्ताभावात् । अस्तु तर्हि ब्रह्म सावयवमिति चेन्न । अवयवानां स्वप्रकाशत्वे ब्रह्मसम्बन्धासिद्धेः तुल्यानां मिथो ग्राह्यग्राहकत्वायोगात् । तेषां जडत्वे च न स्वयंप्रकाशब्रह्मांशत्वं व- स्तुविरोधान्मानाभावाच निष्कलमित्यादिश्रुतेश्च । तस्मान्मायया ब्रह्म जगद्रूपण भातीति विवर्त एवेति मत्वाह । ब्रह्मरूपेति- ब्रह्मरूपापरित्यागाद्विवर्ती जगदिध्यते । निष्कले निष्क्रिये ऽसङ्गे परिणामो न युज्यते ॥ अन्ये त्वाकाशवन्महाभूतानि न जायन्ते इत्याहुः तन्न । पृथिव्य. तेजोवायवः प्रत्येकं पक्षीकृताः जायन्ते पृथिवीत्वादप्त्वात्तेजस्त्वात वायुत्वात् घटवञ्चन्द्रकान्तजलमथिताग्निव्यजनपवनवदित्यनुमाना- नुगृहीतादश्य पृथिवीत्यादिसृष्टिवाक्यात् जन्मसिद्धराकाशदृष्टा- न्तासिद्धेश्च । अत एव यतो वा इत्यादिवाक्ये जन्मादीनि सिद्धवद- नुवाद इति मन्तव्यम् । अत्र लक्षणसूत्रे ब्रह्मणो जगद्धतुत्वसिद्धये ब्रह्मान्यहेत्वसम्भवयुक्तिरर्थात्सूत्रिता हेत्वन्तरसत्त्वे ब्रह्मासिद्धस्त- लक्षणायोगादिति मत्वाह । प्रधानेति- प्रधानपरमाणूनां शून्यजीवस्वभावतः। हेतुत्वासम्भवाद् ब्रह्म जगद्धेतुः स्वमायया ॥ षष्ठीबहुवचने तसिप्रत्ययः । अत्र सांख्याः । सर्वे भावाः सुख- दुःखमोहात्मकसामान्यप्रकृतिकाः नियमेन तदन्वितत्वात् यदित्थं तत्तथा यथा मृदन्विता घटादयः तत्प्रकृतिकाः। इति सत्त्वरजस्तमो- रूपं प्रधानमनुमिमते । तार्किकास्तु आद्यं कार्यद्रव्य स्वन्यूनपरि- माणसंयुक्तानेकद्रव्यारब्धं कार्यद्रव्यत्वात् घटवदिति परमाणून कल्पयन्ति । बाह्यास्तु सर्व कार्यमभावजन्य योग्यत्वे सत्यनुपलभ्य- मानपूर्वावस्थत्वात् व्यतिरकेण वैदिकात्मवदिति जल्पन्ति । हैरण्य- गर्भास्तु हिरण्यगर्भमागमबलेन कारणं वदन्ति । स्वभाववादिनस्तु सर्व कार्य निनिमित्त जायते निमित्तकल्पने ऽनवस्थापातात् । निमित्तस्यान्यानपेक्षत्वे स्वभाववाद इति वदन्ति । तदयुक्तम् । अनुमानार्थयोरसम्भवात् । तथा हि न तावत्सांख्यानुमान साधु सुखादीनामान्तरत्वानुभवेन पक्षे हेत्वसिद्धेः । प्रधानस्याचेत- नतया विचित्रजगद्रचनारूपार्थासम्भवश्च । तार्किकानुमाने हेतोरति- - विवरणोपन्यासे विस्तृतदीर्घदुकूलारब्धरजो व्यभिचारः । शानत्वेन शरीरत्वेन का- र्यकारणाभावात् । नित्यज्ञानकल्पनायोगादीश्वरे शरीराङ्गीकारे सु- खदुःखयोरावश्यकत्वादुखिनो जीवत्वेनाल्पज्ञतया परमाणुप्रेरक- स्वानुपपत्तिः। शून्यानुमाने घटस्य पूर्वावस्था मृदुपलभ्यते इति हेत्वसिद्धिः । अभावप्रकृतिकत्वे कार्येषु सद्वद्ध्यसम्भवः। किञ्च पूर्व- कल्पस्य नाशे सत्याश्रयाभावेन संस्काराणां सजातीयकार्यनियाम- कानामभावाद्विलक्षण एवायं कल्पः स्यात् । तथा च धर्मः सुखाया- ऽधर्मो दुखाय मृदादेरेव घटादिकार्यमस्य शब्दस्यायं वाच्य इत्या- दिव्यवस्था लुप्येत प्रतिक्षणविलक्षणत्वात् स्वलक्षणानामित्यलम् । हिरण्यगर्भस्य जीवत्वात् न सर्वहेतुत्वम् ईश्वरत्वं त्वथ यन्मर्त्यः स- नमृतानसृजतेत्याद्यागमबाधितम् । स्वभाववादे तैलार्थी तिलेषु न प्रवर्तेत । न चानवस्था ऽनादिकारणे पर्यवसानात् इत्थं प्रधानादीनां हेतुत्वासम्भवादचिन्त्यमायाशक्त्या ब्रह्मैव निखिलजनिमन्निदानामि- ति सिद्धम् । येयं युक्तिरभिहिता विना कर्तारमचेतनात्कार्य न भव- तीति तां युक्तिं सतीमनुमानं सर्वशसाधकं मन्यन्ते वैशेषिकादयः । युक्तिर्नाम सम्भावनाहेतुर्व्याप्त्याभासज्ञानम् । यथाग्निमत्त्वाद् घूमो ऽत्र स्थास्यतीति । वस्तुनिश्चायकं व्याप्तिज्ञानमनुमानं यथाऽत्र धूमाद- न्हिरस्त्येवेति । तत्र यत्कार्य तत्सकर्तृकमिति व्याप्त्या सर्वज्ञः कर्ता निश्चेतुं न शक्यते जगदनेककर्तृकं विचित्रकार्यत्वात्प्रासादादिव- दिति प्रत्यनुमानसम्भवात् । न च लाघवात् कत्रैक्ये सति सर्वशसि- द्धिरिति वाच्यम् । यज्ज्ञानं तच्छरीरजमिति निश्चयेनाशरीरस्य कर्तु- बर्बाधे सति लाघवानवतारात् । न च यत्सातिशयं तन्निरतिशयजा- तीयमिति व्याप्त्या सर्वगोचरज्ञानसिद्धिरित्युक्तम् । लक्षकोटिवस्तु- गोचरज्ञानेनार्थान्तरत्वात् । अशरीरस्य ज्ञानायोगेन शरीरिणो ऽल्प. ज्ञत्वन सङ्कोचस्य न्याय्यत्वात् । तस्माच्छ्रुत्या सर्वशे कारणे सिद्धे सत्युक्तव्याप्त्या सम्भावनामात्रं भवतीत्येषा युक्तिरेवेति मत्वाह । अनुमानमिति- अनुमानमिमां युक्तिं मन्यन्ते तार्किका जनाः । श्रुतिरेव स्वतन्त्रा ऽत्र युक्तिः सम्भवबुद्धिकृत् ॥ नन्वनुमानमेव स्वतन्त्रमनेन सूत्रेण विचार्यते न श्रुतिस्तस्या- स्तत्रान्तर्भावादित्यत आह । श्रुतिरेवेति । यदि श्रुतिरनुमानान्तर्भूता स्यात्तदा तस्याः शक्तितात्पर्यवत्त्वं ब्रह्मणि तत्तू समन्वयादित्यादिना - २ सू. ५ वर्णकम् । ११९ सूत्रकारो न ब्रूयात् । तस्मादतीन्द्रिये प्रत्यग्ब्रह्मणि श्रुतेरेवस्वातन्त्र्यं लौकिकदृष्टान्तमात्रेण तस्योहितुमशक्यत्वात् इत्यर्थः । ननु तर्हि श्रु- तिसिद्धार्थे युक्त्या किं क्रियते ननूक्तं सम्भावनति सत्यमुक्तं परन्तु तस्याः फलं पृच्छाम इत्यत आह । एवञ्चेति । एवञ्च श्रुतियुक्तिभ्यां ब्रह्मण्यनुभवो भवेत् । धर्मे त्वनुभवायोग्ये श्रुत्यादेरेव मानता ॥ श्रोतव्यो मन्तव्य इत्यादिश्रुतेरिति भावः। नन्ववधृततात्पर्याच्छ- ब्दात् ज्ञाने धर्मे मननादिनिदिध्यासनानुभवा नापेक्ष्यन्ते तथा ब्र- ह्मणोऽपि वेदार्थत्वात् शब्दमात्रमपेक्ष्यतां नत्वेते इत्याशङ्कयाह । ध. में त्विति । धर्मस्यानुभवितुमशक्यत्वादनपेक्षितानुभवाच्च ते नापे- क्ष्यन्ते । किन्तु अनुमानोपयोगिथुत्यादिमात्रमपेक्ष्यते । आदिपदेन लिङ्गादयः श्रुतिगमकाः शब्दप्रभेदा उच्यन्ते । ब्रह्मणः प्रत्यक्त्वेना- ऽनुभवितुं शक्यत्वादपरोक्षभ्रान्तिध्वंसायापेक्षितानुभवत्वाञ्च ते ऽपे- क्ष्यन्ते । साक्षादनुभवाय श्रुत्यादयो ऽप्यत्र शाब्दबोधायापेक्ष्यन्ते । यदि वेदार्थत्वमात्रेण ब्रह्मणि धर्मवन्मननाद्यपेक्षाच्येत तर्हि धर्मे इव ब्रह्मण्यपि प्रकृतिसाध्यत्वविधेयत्वनिषध्यत्वोत्सर्गापवादादयोऽपिप्र- सज्येरन् । तच्चानिष्टम् । सिद्धस्य वस्तुन एकरूपत्वात् वस्त्वनुसार्ये- कमेव ज्ञानं प्रमा भवति साध्यस्य तु ज्ञानाधीनत्वाद्ययाशास्त्रं वि. कल्पादिशानं सर्व प्रमा ऽतो धर्मविलक्षणत्वाब्रह्मणि मननाद्यपेक्षा यु- तोति भावः । ननु ब्रह्मणि श्रुतेर्युक्त्यपेक्षा न युक्ता भिन्नविषयत्वात् । तथाहि । सद्ब्रह्मैकमद्वितीयमित्यादिश्रुतिर्विशेषविषया मृदादिदृष्टा- न्तवाक्यलभ्यं यत्कार्य तत्वोपादानाभिन्नमिति युक्तिः सामान्यवि- षयेत्यत आह । सामान्येति- सामान्यद्वारतो युक्तेर्वेदार्थे स्यात्सहायता। तस्माद्वेदविचारार्थमिदं सूत्रमिति स्थितम् ॥ अद्वितीयब्रह्मण उपादानत्वे श्रुते सत्युपादानत्वादिसामान्यद्वारा युक्तरद्वितीयत्वादि सम्भाव्यते इति युक्त्यपेक्षा युक्तेति भाव । एव- मतीन्द्रियार्थे युक्तेः स्वातन्त्र्याभावोक्तिफलमाह तस्मादिति । को ऽसौ चेद इत्यत आह । भृगुरिति- भृगुर्व प्रभृतिर्वेदः सूत्रे ऽस्मिन विषयो भवेत् । जगद्धत्वनुवादत्वमिति पूर्वकमीरितम् ॥ ब्रह्मताबोधकं तस्य निर्णयो वाक्यशेषतः । - - १२० विवरणोपन्यासे ननु भृगु वारुणिरित्यादि किमर्थमुदाहृतं लक्षणसूत्रे । न च पाठज्ञानार्थमिति वाच्यम् । अर्थज्ञाने पाठक्रमस्यानुपयोगात् । प्रसिद्धानुवादेन ह्यप्रसिद्ध बोध्य तथा च यत आकाशादिक सम्भूतमिति प्रसिद्धानुवादेन तत्सत्यं ज्ञानमनन्तं ब्रह्मेति पाठ- भङ्गेनैव बोध्यते इति सत्यं किन्त्वधिकारिणाऽऽचार्याधीनेन ब्रह्म वि- चार्यमिति प्रथमसूत्रे विचारितार्थकं भृगुर्वा इति वाक्यं किं तब्र - त्याकाङ्क्षायां तत्प्रतिपादकं यतो वा इमानीत्यादिलक्षणवाक्यं द्वि- तीयसूत्रेण विचार्यते इति क्रमज्ञानार्थमुदाहृतं भाष्यकारैरिति न दोषः । ननु यतो वा इमानीत्यादिवाक्ये जगत्कारणानुवादेन ब्रह्मत्वं विधीयते । तदयुक्तम् । कारणनानात्वस्य पटादाविव प्रतीतेरिति चेन्न । येन जातानीत्यपूर्वस्यैकत्वस्य विधानात् । तत्र यजगत्कारणं तदेमिति अवान्तरवाक्येनेकत्वप्रमिती सत्यां यदुक्तकारणमेकं तद्- हति महावाक्येन बोध्यते । एवञ्च वाक्यान्तरे कारणस्येक्षितृत्वश्र- वणादेकं सर्वशं सर्वशक्ति सर्वतोऽवच्छिन्नं जगत्कारणं ब्रह्मशब्दाभि- धेयमित्यर्थासिध्यति । तस्य स्वरूपाकासायामेकत्वस्य भेदाभाव- स्वात् सर्वज्ञत्वादीनां जडघटितधर्मत्वादस्वरूपत्वादाकाङ्कितं धर्मि- स्वरूपमानन्दाध्येव खल्विमानि भूतानि जायन्ते इति वाक्यशेषेणा- नन्द इति निर्णायते इत्याह । जगद्धेत्विति । न चानन्दस्य स्वरूप- त्वे विज्ञानं गुणः स्यात् । अन्यथा विज्ञानमानन्दं ब्रह्मेति सामानाधि- करण्यायोगादिति वाच्यम् । केवलो निर्गुण इति श्रुतिविरोधात् । यत्तु निर्गुणस्योपादानत्वमयुक्तमिति भास्करोक्तं तन्न । भ्रान्त्यधि- ष्ठानत्वरूपोपादानत्वस्याज्ञातत्वमात्रेणोपपत्तेः । तस्मात् द्रव्यं घट इतिवत् कल्पितसामान्याविशेषभावेन विज्ञानमानन्दमिति सामा- नाधिकरण्यं वृत्त्यहीनचित्त्वं वृत्तिविशेषावच्छिन्नत्वमानन्दत्वमिति मत्वा सूत्रार्थमुपसंहरति । यजगदिति- यजगत्कारणं तद्धि स्वप्रकाशमनन्तकम् । आनन्दरूपं ब्रह्मेति पञ्चमे वर्णके स्थितम् । सर्वशाखासु सृष्टिवाक्ये पाठव्यत्ययेन कारणमद्य सत्यज्ञाना- दिरूपं बोध्यते इति भावः । पञ्चमं वर्णकं द्वितीयसूत्रञ्च समाप्तम् ॥ -- ३ सू. ६ वर्णकम् । १२१ यस्य निःश्वसितं वेदाः सर्वार्थज्ञानशक्तयः। श्रीराम सर्ववेत्तारं वेदवेद्यमहं भजे ॥ पूर्व ब्रह्मणो जगत्कर्तृत्वोक्त्या ऽर्थात्सर्वशत्वमुक्तम् । तत्र हेत्वन्त- रोक्त्यर्थमिदं सूत्रं पूर्वाधिकरणान्तर्भूतत्वेनावतारयति । सर्ववित्त्वे इति- सर्ववित्त्वे परो हेतुः शास्त्रयोनित्वमुच्यते । यद्वा वेदस्य नित्यत्वाशङ्कायामिदमुच्यते ॥ यद्वा धिकरणान्तरमेतत् । तथा हि । शास्त्रयोनित्वात् । अस्य महतो भूतस्य नि.श्वसितमेतत् यहग्वेदो यजुर्वेदः सामवेद इति चाक्यं ब्राह्मणो वेदकर्तृत्वपरं न वेति सन्देहे पौरुषेयत्वेन वेदस्य सापेक्षत्वप्रसङ्गान्नति पूर्वपक्षः । तथा च वेदस्य नित्यत्वाद्ब्रह्मणः सर्वप्रपञ्चहेतुत्व पूर्वोक्तमसिद्धमित्याक्षेपसङ्गतिः । सर्वशत्वासिद्धिः फलम् । सिद्धान्ते तूपलभ्यरचनानङ्गीकारेण पौरुषेयत्वाभावा- सर्वार्थप्रकाशनशक्तिमद्वेदोपादानत्वेन ब्रह्मणः सर्वज्ञत्वसिद्धिः । दीपस्य प्रकाशनशक्तेस्तदुपादानशक्तिपूर्वकत्वस्य तद्भदस्य वा दर्शनातू उपादानोपादेययो शक्त्यैक्यादिति मत्वाह यद्वेति । वेद- गता सर्वार्थशानशक्तिः तदुपादानगतशक्तिपूर्विका तद्वता वा कार्य- गतत्वे सति ज्ञानानुकूलशक्तित्वात्कार्यगतशक्तित्वाद्वा दीपगतश- क्तिवदिति प्रयोगः । सगुणस्याकाशस्य ब्रह्मोपादानकतया शब्दगुणं प्रति उपादानत्वाभावान्नाकाशस्य सर्वत्रत्वापत्तिः । यद्वा ज्ञानानुकू- लराक्तिमत्त्वेऽपि यथा वेदो न सर्वज्ञः अचेतनया ज्ञान प्रति अक- र्तृत्वात् तथा ऽऽकाशोऽपीति मन्तव्यम् । तथा ऽन्यः प्रयोगः वेदः स्वविषयादधिकशप्रणीतः प्रमाणवाक्यत्वात् पाणिन्यादिशास्त्रव- दिति । ननु किं नाम प्रणीतत्वं यद्यध्येतृवाक्ये इवोच्चरितत्व तह- ध्येतृवनाधिकता ब्रह्मणः । अथ काव्ये इवार्थज्ञानवता कृतत्वं तदा पौरुषेयतापातो वेदस्येति शङ्कते यदीति- यदि वेदस्य कर्तृत्वाब्रह्म सर्वशमुच्यते । पौरुषेयस्तदा वेदो मानं न स्यान्न वाक्यवत् ॥ अत्र के चित् । वेदस्य पौरुषेयत्वे को दोषः । ननु तथात्वे मा- नान्तरसापेक्षत्वेनाप्रामाण्यं दोष इति चेत् । उच्यते । वेदे लोके च वक्तृरागो वाक्यार्थः तत्र जीवानां ज्ञानस्यानित्यत्वात्तन्मूलरागा- र्थकं वाक्यं सापेक्ष भवति ईश्वरस्य तु ज्ञानरागयोर्नित्यत्वात् त- - १२२ विवरणोपन्यासे कर्तृको वेदो 'नित्यरागार्थको न मानान्तरमपेक्षते इत्याहुः । तत्स- माधानं दूषयति । नित्य इति- नित्यो रागो न वेदार्थों मानाभावादितीरितम् । ज्ञात्वा कृतत्वे वेदस्य सापेक्षत्वं ध्रुवं भवेत् ॥ ज्ञानेच्छयोर्नित्यत्वेनानुमानमस्तीति पूर्वमुक्तं वेदस्य तु मानत्वमद्या- प्यसिद्धं ताहग्वेदानुपलम्भाश्च । क्वापि रागो न वाक्यार्थ इति समन्व- यसूत्रे वक्ष्यते इति भावः। अन्ये तु लौकिकवाक्यमेव रागे तात्पर्यवत् वेदस्त्वर्थ ज्ञात्वा कृतोऽपि न रागार्थकः अध्ययनविधिना विधौ ता- त्पर्यावगमादित्याहुः । तत्राह। ज्ञात्वेति । ज्ञात्वा कृतत्वे लौकिकवाक्य- वत् विधिपरत्वमपि दुर्लभमिति भावः । अपरे तु ब्रह्मस्वरूपज्ञानस्य निर्विकल्पकत्वात् तजन्यत्वेऽपि न वेदस्य सापेक्षत्वमित्याहुः तद- तिमन्दम् । तस्य वेदार्थगोचरत्वे निर्विकल्पकासिद्धेः तदगोचरत्वे हेतुत्वासिद्धरिति । तस्मान्नैते परिहाराः । अस्तु तर्हि वेदस्य पौरुषे- यत्वमिति तार्किकाः । तथा हि वेदो बहुज्ञकर्तृकः प्रमाणवाक्य- त्वात् भारतवाक्यवदिति तेषां मते वेदस्य रचनायां भूताभूत. ज्ञानाभावात्प्रामाण्यं दुःसाधम् । न चेश्वरस्य नित्यं ज्ञानं वेदमूल- मित्यत्र किञ्चिन्मानमास्त ज्ञानत्वावच्छिन्नस्य मनःसंयोगकार्यत्वद- र्शनेन नित्यज्ञानानुमानायोगात्। तेषां प्रामाण्यस्य संदिग्धत्वात् । अ- स्त्वीश्वरस्याप्यनित्यज्ञानं तन्मूलमिति चेत् न वेदार्थस्याप्रत्यक्ष- त्वात् । इन्द्रियजन्यज्ञानायोगात् । ननु योगजधर्मप्रत्यासत्या मनसा तस्य वेदार्थज्ञानमिति चेन्न ताहशप्रत्यासत्तौ मानाभावात् । भावे वा दूरस्थयोग्यवस्तुमात्रग्रहे तस्योपयोगात्। तदुक्तम्। “यत्राप्यतिशयो इष्टस्तत्वार्थानतिलवनात्। दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोतृवृत्तिते- ति” । तस्मादप्रामाण्यापातात् वेदस्य न पौरुषेयतेत्याह- तार्किका घोषयन्त्यत्र वेदः पुरुषजो स्त्विति । तेषां तत्र प्रमात्मत्वं दुःसाधं मूलशून्यतः॥ सुगतास्तु वेदाप्रामाण्यमिष्टमित्याहुः तैरिद वक्तव्यं किमामु- मिकफलसाधनं धर्मादिकम् अस्ति न वेति । आद्ये वेदं विना तद- सिद्धेः तत्प्रामाण्यं दुर्वारमित्याह । सुगता इति- सुगताः सनिरन्ते ऽत्र वेदो मानं न चास्त्विति। धर्माद्यतीन्द्रियार्थो हि तेषां पक्षे सुदुर्लभः ॥ नेति पक्षं शङ्कते । लौकायतेति- - -- - ३ सू. ६ वर्णकम् । १२३ लोकायतवराकाश्च परोक्षं नेति भाषते । लोकोक्तिवद्वेदमात्रे परोक्षार्थः प्रसिध्यति ॥ अप्रत्यक्षप्रमेयाभावात् । न वेदः प्रमाणमिति वदता बक्तव्यं किं लौकिकवाक्यं मानं न वेति न चेत्तव कथानधिकारः । मिथःश- ब्दानामबोधकत्वात् । आद्ये वेदेनानधिगताबाधितफलवदर्थबोध- केन किमपराद्धमित्याह । लोकोक्तिवदिति । एवं तार्किकाणां पौरु- षेयत्वानुमाने वेदस्याप्रामाण्यापातो बाधकतर्क उक्तः इष्टापत्तिः प्रसंगाद्वारिता । किञ्च किमिदं पौरुषेयत्वं शब्दार्थसम्बन्धस्य गुरु- षकृतत्वं वा उत वेदवाक्यस्य तत्कृतत्वमात्रम् । आहोस्वित् अर्थ- ज्ञानवत्पुरुषकृतत्वं नाद्यः । तत्र मानाभावात् । न हि सर्गादावीश्वरेण मोघटादिशब्दाः सर्वे संकेतिता इत्यत्र किञ्चिन्मानमस्ति किञ्च श- ब्दार्थसंकेतं कुर्वन्नीश्वरः पूर्वकल्पीयशब्दार्थसम्बन्धमनुसृत्य करोति उत स्वातन्त्र्येणाभिनवसम्बन्धान्तरं अन्त्ये प्रतिकल्पं वेदार्थभेदा- दिदमिष्टसाधनमिदं दुःखसाधनमिति व्यवस्थालोपः । आद्येनेश्वर- स्य सम्बन्धे स्वातन्त्र्यं सिद्धसम्बन्धस्मारयितृत्वात् । तथा च प्र- योगः एतत्कल्पस्यादौ गोशब्दार्थसम्बन्धव्यवहारः पूर्वसिद्धतत्सं- बन्धशानजन्यः जीवेनाकृतशब्दार्थसम्बन्धव्यवहारत्वात् । अधुना तद्यवहारवत् सांकेतिकनिरासाथै जीवाकृतेत्युक्तम् ।न द्वितीयः सि. द्धसाधनात् । प्रतिक्षणमानुपूर्वीविशिष्टवर्णात्मकवाक्यस्याध्यतृभिः क्रियमाणत्वात् । अभिनवानुपूर्त्या ईश्वरेणाप्यकरणात् । धाता य- थापूर्वमकल्पयदिति श्रुते' शब्दार्थसम्बन्धवदानुपूर्व्या अपि प्रवाहा- नादित्वानुमानाञ्च । आद्या वेदानुपूर्वी तत्पूर्वानुपूर्वी स्मृतिजन्या वे- दानुपूर्वीत्वात् । संमतवदिति एतेन निःश्वसितादिश्रुत्या वेदस्यापी- रुषेयत्वमिति निरस्तम् । महाप्रलये प्रलीनवेदस्याकाशादिवश्चिद्वि- वर्तस्येष्टत्वात् । अत एव न तृतीयः निःश्वलितश्रुत्या ऽर्थज्ञानप्रया- सात् । तस्मान्न पौरुषेयो वेद इत्याह । शब्दार्थ इति- शब्दार्थयोगः सहजो वेदे पुंसो स्वतन्त्रता । न चार्थज्ञानजो वेदः पौरुषेयः कथं भवेत् ॥ ननु लोके शाब्दबोधप्रमात्वे वक्तृयथार्थशानं गुणत्वे न हेतुः त- जत्वज्ञानत्वं तु शापकं वेदस्याप्तप्रणीतत्वाभावे तदभावात् । कथं वेदार्थब्रोधे प्रमात्वमित्यत आह । स्वत इति-- १२४ विवरणोपन्यासे स्वतो निर्दोषवेदोऽत्र नाप्तशानमपेचितम् । नित्योन्तःस्थायिवर्णात्मा वेदस्तुल्यक्रमान्वितः ॥ खारसिकं प्रमाणानां प्रामाण्यं नान्यापेक्षं परन्तु लोके शब्दस्य भ्रान्त्यादिजन्यत्वं नाम दोषः स्वारसिकप्रमाप्रतिबन्धको भ्रान्तिहेतुः सम्भवतीति तन्निरासार्थमाप्तज्ञानं गुणो ऽपेक्ष्यते वेदे तु अपौरुषेय- तया दोषाभावान्न तदपेक्षेत्यर्थः । अतो वेदे पुरुषस्य सर्प इव र- जोरुपादानत्वे ऽपि स्वातन्त्र्याभावे न पूर्वकल्पक्रमविसदृशक्रमाभा- वात् प्रवाहात्मना नाद्यनन्तत्वं सिद्धमित्याह । नित्य इति । ननु वे. दस्य सर्ववन्मिथ्यात्वे प्रामाण्यं कथमिति चेत् उच्यते । क्रमवि- शेषवन्तो वर्णा वेद इत्यविवादम् । नभोवद्यापिषु नित्येषु न देशका. लनिमित्तः क्रमो वर्णेष्विति किन्तु श्रोतुः नानगतः क्रमो झेयेषु व. णेषु आरोप्यते इति वेदज्ञानं सर्वेषां मते भ्रम एव न च क्षणिक त्वात् वर्णानां स्वत क्रम इति युक्तम् । सोऽयं गकार इत्यबाधितप्रत्य- भिज्ञाविरोधात् । अनन्तव्यक्तिजातिकल्पनायां गौरवात् । तथा च पदवाक्यप्रत्यक्षायोगाश्च । नष्टानां वर्णानां श्रोत्रेणासम्बन्धात् । ज्ञानादेरप्रत्यासत्तित्वात् । तदात्वे पदवाक्यानुभवः प्रत्यक्ष इति अ- नुव्यवसायविरोधात् । न हलौकिकशाने क्वचिदपि प्रत्यक्षत्वोल्लेखो इस्तीत्यलम् । अख्यातिवाद एव नास्ति विशिष्टार्थतज्ज्ञानयोरभावात् । अन्यथाख्यातावपि तथैव विशिष्टार्थाभावात् । अस्माकं तु विशि- टार्थों भ्रान्तावस्तीति विशेषः । यथा लिखितरेखासर्पबुद्धन्तत्वे ऽपि तजन्यं वस्तुशानं प्रमावेदज्ञानाजातं तदर्थज्ञानं प्रमत्याह । मि- थ्यात्वे ऽपीति- मिथ्यात्वे ऽपि च वेदस्य प्रामाण्यं लिखितादिवत् । वेदयोनित्वतो ब्रह्म सर्वज्ञमिति सुस्थितम् ॥ ननूपलभ्यरचनानङ्गीकारे वेदस्य हेतुत्वेन पाणिनिदृष्टान्तेन सर्वज्ञत्वं कथमिति चेत् । उच्यते । वेदकर्तरि वेदविषयादधिकं ज्ञा- नमस्तीत्येतावन्मानं अनुमाने विवक्षितम् । नार्थज्ञानजन्यत्वं वेदस्य विवक्षितम् । ननु तबध्येतृवद्वर्णावलीज्ञानमात्रेण वेदरचनोपपत्तेः प्रमाणवाक्यत्वादिति हेतुरप्रयोजक इति चेत् न । उपादाने ब्रह्मणि सर्वार्थज्ञानशक्त्यभावे तत्कार्ये वेदे तदनुपपत्तेः । तस्मात् अनावृ. तस्वप्रकाशब्रह्मणः स्वाध्यस्तानेकशाखाभेदभिन्नवेदानां हानवत् ३ सू. ७ वर्णकम् । १२५ तदर्थानामपि शानं नान्तरीयकतया ऽस्तीति वर्णकार्थमुपसंहरति । वेदयोनित्वत इति ॥ इति षष्ठं वर्णकं समाप्तम् । इदानी सूत्रस्यानेकार्थत्वं भूषणमिति मत्वा ब्रह्मणि प्रमाणप्रति- सामर्थान्तरमाह । यद्वति- यद्वा ब्रह्मपमित्यर्थ शास्त्रयोनित्वमुच्यते। वेदैकमानकं ब्रह्म नानुमेयमिति स्थितिः ॥ शास्त्रयोनित्वात् । किं ब्रह्म वेदान्तैकवेद्यम् उत कार्यलिङ्गकानु- मानमिति सदेहे जन्मादिसूत्रे कार्यलिङ्गमेवोपन्यस्तमिति भ्रान्ति निराचष्टे सूत्रकारः । शास्त्रयोनित्वादिति । वेदैकप्रमाणकत्वस्य. तन्त्वोपनिषदमिति श्रुतत्वात् कार्यलिङ्गस्याद्वितीयब्रह्मसाधक- स्वायोगात्तत्र वेदान्ता एव मानमित्यर्थः । ननु पूर्व मायया जगद्यो- नित्वं ब्रह्मण उक्तम् । तस्याः पूर्वमुक्ततत्त्वज्ञानेन निवृत्तत्वात इदानी द्वैतोपलम्भः कथमिति चेत् । अत्र के चित् । बिम्बस्थानीय ब्रह्म मायाशक्तिमत्कारणं जीवास्तु प्रत्येकं मायाभिन्नाभिरविद्या- भिरवच्छिन्ना इत्येकस्याविद्यानिवृत्तावप्यन्यस्य मायिकद्वैतोपल- म्भसम्भवादिति वदन्ति । अन्ये त्वविद्यानां समष्टिरेव माया जला- शयराशिवत् तस्य प्रतिबिम्बितं चैतन्यं ब्रह्म कारणं जीवास्तु व्यष्टया विद्योपाधिका इति वदन्तः पूर्ववत् बद्धमुक्तव्यवस्था- माहुः । अपरे तु जीवानां स्वरूप ब्रह्मणि जीवस्थाविद्याभिर्विषयी- कृते प्रतिजीवं भिन्ना एव प्रपञ्चाः कल्प्यन्ते शुक्ताविव प्रतिपुरुषं भि- नानि रजतानि सादृश्यादेकवदवभासन्ते इति व्यवस्थां कल्पय- न्ति । सिद्धान्तरहस्यज्ञास्तु मायैवाविद्या चिनिष्टा चिन्मात्रविषया चाचिन्त्यशक्तितया ब्रह्म जगद्रूपं भातीति वदन्ति । बद्धमुक्तव्यवस्था तु स्वप्ने तादृशव्यवस्थावदुपपद्यते । ननु श्रुतिस्मृतिपुराणेषु मूलप्र- कृतेर्मायाविद्यादिपदवाच्याया एकत्वं प्रतीयते । सांख्या योगिनश्च प्रकृत्यैक्यं वदन्ति मुक्ता अपि बहवो जाता इति बहुशः श्रूयते बहवो ज्ञानतपसा पूता मद्भावमागता इत्यादौ । न चैतेषां वाक्यानां सर्वा- त्मना बाधितार्थकत्वं सर्वत्रानाश्वासप्रसङ्गात् । तस्मादीषदेक्यावि- रोधेन बद्धमुक्तव्यवस्था वाच्येति चेत् । यदि व्यवस्थायामाग्रहः शस्य नाशेन १२६ विवरणोपन्यासे- तीत्थं व्यवस्था तथा हि अविद्यायाः सांशत्व तावत्सरेष्टव्यम् । अन्यथा अनन्तपरिणामानामेकस्यामयोगात् । तथा च यदन्तःकरणे ब्रह्मसाक्षात्कारोदयः तदीयकार्यकारणसंघातात्मना परिणताविद्यां- सङ्घनतस्य नाशे सति तदंशोपाधिको जीवः स्वरूपान- न्दब्रह्मात्मना ऽवतिष्ठते। अवशिष्टाविद्योपाधिको जीवोंशान्तरैः सं. सरतीति व्यवस्था। न च नानाविद्यापक्षादविशेषः मूलप्रकृतिभेदप्रप- चभेदादेरत्रासत्त्वात् । एवं क्रमेणांशनाशेनाविद्यानिवृत्तौ सर्वमुक्ति, रिति ।न च तस्यैवांशान्तरेणानर्थभावे का नाम मुक्तिरिति वाच्यम् । श्रवणादिकर्तुः स्वानर्थनिवृत्तिमात्रस्योद्देश्यस्य लाभात् अंशान्तरानर्थे दु.खबुद्ध्यभावेन तन्निवृत्तेरनुद्देश्यत्वात् । कर्तुतिशासनात्मकशा- खस्य तावतैव चरितार्थत्वादित्यलं विस्तरेण । तदेतदाह । अक्षा •जीवा इति श्लोकद्वयेन-- अज्ञा जीवा ब्रह्म मायि प्रतिबिम्बमथापि वा । अज्ञातजीवरूप वा यद्वा ब्रह्मैव मायया ॥ अविद्यया जगद्रूपमिति पक्षा उदाहृताः । बद्धमुक्तव्यवस्था तु यथा दृष्ट्युपपद्यते ॥ तस्मान्मायया ब्रह्म जगत्कारणं वेदान्तप्रमाणकमिति सिद्धम् ॥ सप्तमवर्णकं तृतीयसूत्रञ्च समाप्तम् ॥ -- -- रामनानि परे धानि कृत्स्नानायसमन्वयः । कार्यतात्पर्यबाधेन साध्यते शुद्धबुद्धये ॥ ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्त्वा वेदान्तप्रमाणकत्वं प्रतिज्ञातं तत्र सन्दिह्यते सिद्धं वस्तु वेदमानकं न वेति नेति पूर्व- पक्षमाह । वेदान्तेति- वेदान्तगम्य ब्रह्मेति प्रतिज्ञातन्न युज्यते । वेदस्य कार्यनिष्ठत्वात् सिद्धे प्रामाण्यबाधनात् ।। वेदतात्पर्यज्ञेन जैमिनिना आम्नायस्य क्रियार्थत्वादित्यादिना का- यैपरत्वं वेदस्य दर्शितं वेदमानकत्वव्यापकं कार्यत्वं तन्निवृत्त्या सिद्धस्वभावे ब्रह्मणि व्याप्यनिवृत्तिः । किञ्च यत् सिद्धं तद्वेदाति- रिक्तमानयोग्यमिति व्याप्तेर्ब्रह्म मानान्तरयोग्यम् । तत्परत्वे वेदान्ता- नां मानान्तरसापेक्षता स्यात् । यथा घटो ऽस्तीति वाक्यस्य, नापौरुषेयत्वादनपेक्षत्वमिति चेन्न । अपौरुषेयत्वं हि वाक्यस्य मूल . ।
- ४ सू. ८ वर्णकम् । १२७ मानानपेक्षत्वे हेतुः न तु योग्ये वस्तुनि संवादानपेक्षत्वे । तथा च यदि वेदान्ताः सिद्धं वस्तु मानान्तरयोग्यं बोधयेयुः तदा संवा- दापेक्षा दुर्वारा । तन्न । सति संवादे तेषामनुवादकत्वम् असंवादे त्वादित्ययूपाभेद्वाक्यवदप्रामाण्यम् किञ्चाध्ययनविधिगृहीतवेदा- न्तानां फलावसायित्वं वाच्यं फलन्तु प्रवृत्त्यधीन प्रवृत्तिः कार्य- ज्ञानतन्मात्रत उदासीनं ब्रह्म निष्फलत्वान्न वेदार्थ इति निरर्थका वेदान्ताः सफलजयस्वाध्यायार्था कर्मकर्तृस्तावका वा । ननु कस्य कर्मणः कर्तृस्तावका न हि कर्मविशेषस्य प्रकरणे वेदान्ता अधीताः । अथाविशेषात्सर्वकर्मकर्तृस्तावका इति चेन्न ।वेदान्तेषु सर्वकर्मणाम् उ- पस्थापकप्रकरणाद्यभावेन तच्छेषस्तुत्ययोगात् । जुह्वाः क्रत्वव्यभिचा- रित्वाऋतूपस्थितौ सत्यां तच्छंषपर्णताकार्यपरत्वं पर्णमयीवाक्यस्य युक्त कर्तुः कर्ममात्रसाधारणत्वात् न वैदिककर्मोपस्थितिरिति न तत्कर्तुः स्तावकत्वमिति चेत्तर्हि स्वप्रकरणस्थोपासनाविधिशेषा भवन्तु वेदान्ताः । तथा चासदेव ब्रह्म सर्वज्ञत्वादिमत्तया ऽमृतत्व- काम उपासीतेति कार्यपरा वेदान्ताः इत्याह । सापेक्षत्वेति-- सापेक्षत्वाफलत्वाभ्यां वेदान्ता स्युनिरर्थकाः। कर्मकर्तृस्तावका वा यद्वा ध्यानैकगोचराः ॥ तदुत्तरत्वेन तत्तु समन्वयादिति सूत्र व्याचष्टे वेदान्तेति-- वेदान्तगम्यं तद्ब्रह्म तुशब्दश्चोद्यवारकः । तात्पर्यकत्वं हेत्वर्थः तल्लिङ्गं प्रक्रमादिकम् ॥ ब्रह्म वेदान्तजप्रमागोचर. वेदान्ततात्पर्यविषयत्वात् । यो यद्वा- क्यतात्पर्यविषयःस तत्प्रमेयः । यथा चोदनागम्यो धर्मः तात्पर्य नाम अपूर्वफलवदर्थप्रमित्यनुकूलशक्तिरूपं शब्दगतं न विवक्षात्मकं वेद- स्यापौरुषेयत्वात् । न च हेत्वसिद्धिः । उपक्रमादिषड्विधलिङ्गैस्तत्सि- द्धेः। न च प्रमेयस्य कार्यत्वमेवतात्पर्यलिङ्गं नोपक्रमादिकमिति युक्तम् । जतिलयवाग्वा जुहुयादिति वाक्यस्यारण्यतिलयवागूहोमे तात्पर्यप्र- सङ्गात् । न चैतदस्ति प्रकृताज्यक्षीरहोमविधिशेषार्थवादत्वात् । अतः उपक्रमादिकमेव लिङ्ग तच्च वेदान्तानां ब्रह्मविषयकतात्पर्ये विद्यते । तथा हि सदेव सौम्येदमासीत् ऐतदात्म्यमिदं सर्वमित्यद्वितीये ब्रह्मण्युपक्रमोपसहारयोरैकरूप्यं तत्सत्य स आत्मेति नवकृत्वोभ्यासः तत्र मानान्तराप्राप्तत्वा दपूर्वता । अथ संपत्स्ये इति फलं येनाश्रुतं (१) मानान्तरात्राप्तत्वादिति पाठान्तरम् ।
१२८ विवरणोपन्यासे श्रुतं भवतीत्यर्थवादः वाचारम्भणं विकारो मृत्तिकेत्येव सत्यमिति कारणाद्वयत्वे युक्तिरिति षड्विधानि लिङ्गानि छान्दोग्ये दृश्यन्ते । अथ प्रारब्धक्षयानन्तर विद्वान् ब्रह्म केवलं सपद्यते इति श्रुत्यर्थः । एवं प्रतिवेदान्तं लिङ्गानि द्रष्टव्यानीत्यर्थः । अधुना समन्वयादित्यत्र सो- पसार्थमाह । सम्पदेनेति- सम्पदेन च तात्पर्य वेदान्तानामखण्डगम् । द्योतितं सर्वशब्दानां तत्रैवावसितिर्यतः ॥ वेदानामन्वयस्य तात्पर्यस्य सम्यक्त्वमखण्डार्थगोचरत्वम् अख- ण्डार्थकत्वं नाम अपर्यायशब्दानां संसर्गागोचरप्रमाजनकत्वम् एकप्रा- तिपदिकार्थमात्रनिष्ठत्वं वा । उद्भिदा यजेतेत्यत्रोद्भिद्यागशब्दयो- रेकार्थनिष्ठत्वे ऽपि विधिपदाकाङ्क्षया संसृष्टबोधकत्वानाखण्डार्थता सत्यादिपदानान्तु विध्याकाङ्क्षा नास्तीति वक्ष्यमाणत्वात् अखण्डार्थ- त्वमविकलम् । न चाखण्डार्थत्वे पर्यायतापत्तिः । वाच्यभेदात् । तथा हि आकृतिः शब्दार्थ इति मीमांसकाः। तथा च ज्ञानत्वानन्द - त्ववाचिनौ ज्ञानानन्दशब्दो वृत्युपहिते ब्रह्मणि मुख्यवृत्त्या घर्तेते ज्ञानसामग्रीजन्यवृत्तिव्यक्तिष्वनुगतं चैतन्यं ज्ञानत्वमुभे कर्मजन्य- वृत्त्यनुगतमानन्दत्वमिति भेदः । तत्राकाशस्य श्रोत्रशब्दवाच्यत्वे सति कर्णषष्कुल्याः प्रयोगोपाधित्वमात्रं न वाच्यमिति यथा तद्वत् वृत्तीनामुपाधित्वमिति ज्ञानानन्दशब्दौ ब्रह्मणि मुख्यावित्यक्तम् निरु- पाधिकन्तु न कश्चिदपि शब्दो मुख्यः यतो वाचो निवर्तते इति श्रुतेः । एवमेकसत्यानन्त्यशब्दाः एकत्वादिवाचिनः एकत्वं भेदाभावः सस्यत्वं बाध्यत्वाभावः आनन्त्यं नाशाभावः अभावमात्रप्रतियोगित्वाभावो वा । अभाववाचिनः शब्दा ब्रह्मणि जहल्लक्षणया वर्तन्ते सर्वज्ञसर्वश- क्त्यादिशब्दाः यौगिकाः सोपाधिकब्रह्मवाचिनः तत्वमस्यादिशब्दाः विशिष्टवाचिनः जहदजहल्लक्षणया ब्रह्मणि पर्यवस्यन्तीत्यपर्यायत्वम् अतो ऽखण्डवस्तुलक्षकत्वमविरुद्धमित्यर्थः। वेदान्तवाक्यं द्विविधम् । महावाक्यं पदार्थवाक्यञ्च तयोःक्रमेणाखण्डार्थत्वे उदाहरणमाह । तत्त्वमिति- तत्त्वमस्यादिवाक्यञ्च सो ऽयमित्यादिवाक्यवत् । सत्यज्ञानादिवाक्यन्तु चन्द्रलक्षणवाक्यवत् ॥ तत्त्वमस्यादिवाक्यम् अखण्डार्थे अकार्यकारणद्रव्यसमानाधिक- रणवाक्यत्त्वात् । सो ऽयं देवदत्त इति वाक्यवत् । तथा हि अस्य ४ सू. ८ वर्णकम् । १२९ वाक्यस्य मूलं प्रत्याभिशा तस्या ऐक्यं प्रमेयं न च तत्तेदन्ताविशिष्टयो- रैक्यं सम्भवति । विशेषणविशिष्टयोरैक्यापातात् । न च तत्तोपलक्षि- तस्येन्दताविशिष्टेनैक्यं युक्तं विशिष्टस्य पूर्वमपि सत्त्वापातात् । तद- भिन्नदेवदत्तस्य पूर्व सत्त्वात् अतस्तत्तदन्तोपलक्षितपिण्डस्वरूपमैक्यं तस्या प्रमेयमिति तन्मूलकवाक्यस्यापि तावन्मानं प्रमेयम् । यद्यपि तस्यां तत्तेदन्ते अपिभासेतेतथापि तयोरभिशाद्वयसिद्धत्वेनाशातत्वा- भावान प्रत्यभिज्ञाप्रमेयता । ननु पिण्डस्वरूपमपि अभिज्ञासिद्धमिति चेत्सत्यम् । परन्तु ज्ञाते ऽपि तस्मिन् भेदभ्रमानुकूलमज्ञानमस्तीति तन्निराकृतिफलायाः प्रत्यभिज्ञायाः भवति तत्प्रमेयं स्वनिवर्त्याज्ञान- विषयस्यैव तत्प्रमेयत्वात् । एतेन भागत्यागलक्षणया पदेनैव वा. क्यार्थज्ञानाद्वाक्यं व्यर्थमिति निरस्तम् । पदेन ज्ञातेऽपि सो ऽयमिति वाक्यं विना भेदभ्रमविरोधिज्ञानालाभात् । तस्मात्प्रत्यभिज्ञाप्रमे- यैक्यमात्रतात्पर्येण प्रयुक्तः सो ऽयमिति वाक्यवत् तत्त्वमसीति- वाक्यं विरुद्धांशत्यागेन लक्षणया पदेनावगतमेवाखण्डं वस्तु भे- दभ्रमनिरासार्थ बोधयतीति सिद्धम् । अत्र केचिदाहुः । इदं वाक्यं भेदाभेदपरम् । अत्यन्ताभेदे पदार्थवाक्यार्थयोर्भेदालाभादिति । तै- रिदं वक्तव्यं किं मुक्ती भेदो नश्यति न वेति न चेत्संसारादवि- शेषः। आधे नाशकं न पश्यामः । वाक्यजन्यभेदाभेदज्ञानस्य स्व- विषयनाशकत्वायोगात् । अन्यथा भेदवभेदस्यापि नाशप्रसङ्गात् न चाभेदमात्रज्ञानं नाशकम् । तस्य धाक्याजन्यत्वेनाप्रमाणत्वात् । तस्य नाशकत्वे तद्विषयाभेदमात्रस्यैव वाक्यार्थत्वापातात् । भे- दस्य सत्यत्वे शानानिवृत्त्ययोगात्। कर्मणा भेदनाशाङ्गीकारे ब्रह्म वेद ब्रह्मैव भवतीति ज्ञाननाश्यत्वश्रुतिविरोधात् । किञ्च.निरवयवेवस्तुन्य- वच्छेदकभेदस्याभावात् कथं विरुद्धौभेदाभेदी स्याताम् । किञ्चमुक्ती परिशिष्यमाणब्रह्मण एवाधुना संसारो वाच्यःतद्भिन्नस्य संसारित्वे बन्धमुक्तिवैयाधिकरण्यापत्ते तथा च क भेदाभेदी । एतेनातिरेको नाम कश्चिद्धर्मः स वाक्यार्थ इति निरस्तं तस्य भेदादन्यस्य दु- निरूपत्वात् भेदस्य निरस्तत्वात् । तस्मादस्यन्ताभेद् एव वाक्यार्थः पदार्थवाक्यार्थयोरभेदे ऽपि भेदभ्रमनिरासेन वाक्यस्यार्थवत्त्वादित्यलं प्रपञ्चेन । तथा च तत्पदार्थलक्षकं सत्यादिवाक्यमखण्डाथै लक्षण- वाक्यत्वात् । लक्ष्यमात्रप्रश्नोत्तरत्वाद्वा प्रकृष्टप्रकाशश्चन्द्र इति वा- क्यवतू न च दृष्टान्तासिद्धिः कश्चन्द्र इति प्रश्नस्य चन्द्रस्वरूपा- --- १३० विवरणोपन्यासे ज्ञानमूलत्वेतदुत्तरवाक्ये तत्स्वरूपमात्रस्य लक्षणप्रतिपाद्यत्वात् ता- त्पर्यानुपपत्तेरेव लक्षणाबीजत्वात् । न चाप्रयोजकता । एकधैवानु- द्रष्टव्यम् नेह नाना इस्तीत्यादिश्रुतिविरोधात् ब्रह्मभिन्नस्य सर्वस्य मिथ्यात्वेनश्रुतिजन्यतत्त्वज्ञानविषयत्वायोगात् । तस्माद्वदान्तानाम- खण्डे तात्पर्यमित्यर्थः । यदुक्तं भूतवस्तुनो मानान्तरयोग्यत्वात तत्परत्वे वेदान्तानां सापेक्षत्वं स्यादिति तत्राह रूपादीति-- रूपादिविरहाब्रह्म न मानान्तरगोचरः। अतो भूतार्थको वेदो न सापेक्ष इतीरितम् ॥ अयमाशयः । किं ब्रह्मणो योग्यत्वे सति अनुपलब्ध्या बाधाद्वे- दान्तानामप्रामाण्यम् उत मानान्तरं ज्ञातार्थकत्वात् । अथ वा माना- न्तरयोग्यार्थकत्वात् । नाद्यः । रूपादिहीनस्य खतन्त्रस्य वस्तुनः प्रत्यक्षाद्ययोग्यत्वात् । अतो रूप मानान्तरसंवादाभावे ऽपि चक्षुष इवानधिगतार्थबोधित्वाद्वेदान्तानां प्रामाण्यं युक्तम् । न द्वितीयः।हेत्व- सिद्धेः । न च वेदान्ता मानान्तरज्ञातार्थकाः भूतार्थकवाक्यत्वात् नदीतीरादिवाक्यवदिति वाच्यम् । अप्रयोजकत्वान्मानान्तरस्यानु- पलब्ध्या बाधाञ्च । किञ्च विधिवाक्य तथा कार्यार्थकत्वाद्दामानये- त्यादिवाक्यवदित्याभाससाम्याच्च । तस्मादपौरुषेयत्वाद्विधिवाक्य- वद्वेदान्तानां न मानान्तरातार्थकता पौरुषेयत्वस्यैव वाक्ये ज्ञाता- र्थहेतुत्वात् । ब्रह्मस्वरूपज्ञानस्य तु प्रमेयत्वान्न मानान्तरत्वम् । न तृ- तीयः तथात्वे ऽपि त्वगिन्द्रिययोग्ये घटे चक्षुष इव प्रामाण्योपपत्तेः ब्रह्मणो मानान्तरयोग्यत्वासिद्धेश्च । भूतत्वेन घटवत् ब्रह्म योग्यमिति चेत् । कार्यत्वेनानयनवतू विध्यर्थो योग्यः किं न स्यादिति तुल्यम्। विधिवद्वेदान्तानामनपेक्षत्वमित्यर्थः । ननु लोके मानान्तरसिद्ध एव शब्दार्थो दृष्टः ब्रह्मणो मानान्तरासिद्धत्वे कथं शब्दार्थतेति चेत् किं सङ्गतिग्रहार्थ मानान्तरेण सिद्धिरपेक्ष्यते उत मानान्तरविशिष्टार्थे स- अतिरिति । आद्यस्त्विष्टा । सत्यज्ञानादिपदानामबाधित्वादी लोकसि- द्ध सङ्गतिग्रहात् । किञ्च पदार्थस्योपस्थितिमा सङ्गतिग्रहोपयोगि न प्रमाणान्तरेण सिद्धिः यूपाहवनीयलिङादिपदानां वेदे एव सङ्गति- ग्रहात् । न द्वितीयः । गौरवादनुपस्थितत्वाच्च । तथा हि व्युत्पित्सु. मध्यमनरस्य प्रवृत्तिलिङ्गन स्वात्मदृष्टान्तेन प्रवृत्तिविषयार्थमात्रज्ञान- मनुमिनोति न प्रमाणविशिष्टार्थज्ञानं दृष्टान्ताभावात् । न हि स्वस्य प्रवृत्ती प्रमाणविशिष्टभोजनशान हेतुत्वेन दृष्टं भोजनमात्रज्ञाना- ४ सू. ८ वर्णकम् । १३१ स्वस्य प्रवृत्ते अतोऽनुमितार्थमात्रज्ञाने शब्दस्य सामर्थ्यावगमाद- थैमात्र पदशक्यं न प्रमाणान्तरसंभिन्नोऽर्थः शक्यःमध्यमनरेण ज्ञा- तार्थे वस्तुतो विद्यमानस्यापि वक्तृप्रमाणस्य प्रवृत्तिलिङ्गेनानुपस्थि- तत्वात् । अत्र कश्चिदाह । अर्थासंस्पर्शिन सर्वेऽपि शब्दा अगुल्यग्रा- दिशब्दवदिति । स प्रष्टव्यः कि शक्यार्थाभावः साध्य उत पदार्थसं- सर्गरूपवाक्यार्थाभाव इति । आधे दृष्टान्तासङ्गतिः। द्वितीयपक्षे प्राभा- करा. समादधते । पुरुषवचसां न पदार्थसंसर्गः प्रमेयः किन्तु वक्त- ज्ञानमेव प्रमेयं तत्र निर्विषयस्य ज्ञानस्य वाक्येन प्रमातुमशक्यत्वा- द्वाक्यप्रमेयस्य वक्तृज्ञानस्य विषयतया पदार्थमंसर्गसिद्धिः । अङ्गु- ल्यग्रे करिणां शतमित्यादिवाक्यानामपि मूलं यत्किञ्चिज्ज्ञान प्रमेयम- स्तीति सार्थकाः सर्वे शब्दाः। तत्समाधानमयुक्तम् । पूर्वोक्तरीत्या वक्तृ- ज्ञानस्य पदार्थत्वाभावेन वाक्यार्थत्वायोगात् । अपि च अनन्यलक्ष्यः शब्दार्थः वक्तृज्ञानं तु अनुमानलभ्यत्वान्न वाक्यप्रमेयम् । तथा हि अय- मेतदर्थज्ञानवान् एतद्वाक्यस्य स्वातन्त्र्येण प्रयोक्तृत्वात् यो यद्वाक्य- प्रयोक्ता स तदर्थज्ञानवान् यथाहमिति । किञ्च वैदिकवाक्यवत् लौकिकवाक्यस्य संसर्ग एव प्रमेयः उभयत्र संसर्गोऽनुभवाविशेषा- तू । किञ्च संसर्गज्ञानं विना वाक्येन वक्ता संसर्गज्ञानवानिति प्रमा- तुमशक्यम् अतो लाघवादावश्यकत्वाञ्च संसर्ग एव मखण्डवाक्यानां प्रमेयः न वक्तृसंसर्गज्ञानम् । यत्तु सर्ववाक्यानां अङ्गुल्यादिवाक्यवत् प्रमेयास्पर्शित्वमिति तन्न । शुक्तिरूप्यज्ञानवत् सर्वज्ञानानां भ्रान्ति- त्वापातात् । तस्मादसति बाधे वाक्यानांसप्रमेयतेत्यभिसन्धायाह । वक्तृमानमिति । वक्तृमानं न शब्दार्थो व्युत्पत्तावनुपस्थितः। अत एव न वाक्यार्थोऽप्यन्यलभ्यत्वतोऽपि च ॥ एवं वेदानामपौरुषेयतया मूलप्रमाणानपेक्षणात मानान्तरायो- ग्यरूपादिहीनब्रह्मपरतया संवादानपेक्षणाल्लोके वक्तज्ञानासम्भिन्ने सिद्ध वस्तुनि गृहीतसङ्गतिकानां सत्यादिपदानांविचारेण वाचकपदै- र्वाच्यैकदेशत्वेनोपस्थितम् अखण्डवस्तु लक्षकत्वेन सङ्गतिग्रहाय लभ्योपस्थितये वा मानान्तरानपेक्षणात् । सिद्धवस्तुपरत्वे ऽप्यनपे- क्षत्वमक्षतमिन्युक्तम् । अत्र शङ्कते । अनपेक्षश्रुतिजन्यो ऽप्यद्वयबोधो द्वैतग्राहिप्रत्यक्षविसंवादादप्रमाणं समताग्राहि त्वगिन्द्रियविसंवाद चाक्षुषचित्रनिनोन्नतज्ञानवदिति तत्राह । करणे इति ।
- १३२ विवरणोपन्यासे करणे विषये वा ऽपि दोषो नास्ति यतस्ततः । वेदान्तजो ब्रह्मबोधः प्रमाण विधिबोधवत् ॥ प्रत्यक्ष क चिद् भ्रान्तिदर्शनेन दोषस्य सम्भावितत्वादिन्द्रो मायाभिः पूरुरूप ईयते इति द्वैतज्ञाने मायादोषजन्यत्वनिश्चयाच द्वैतावभासो विभ्रमःअद्वैतज्ञानंप्रमा अपौरुषेयनिर्दोषश्रुतिजन्यत्वात् । न च विषये चित्रत्ववत्सिद्धत्वमपि दोष इति वाच्यम् । लोके सि- खवस्तुज्ञानानां सर्वेषां तव भ्रान्तित्वापत्तेः। शाब्दबोधे विषयस्या- हेतुतया तनिष्ठदोषस्याहेतुत्वात्।अतोबाधाभावात्तत्त्वावेदकश्रुतीनां व्यावहारिकमानानां भिन्नविषयत्वाच सिद्ध वेदान्तप्रामाण्य रमणी- यमित्यर्थः । यदुक्तमानायस्य क्रियार्थत्वादिति सूत्रात्सिद्धन वेदार्थ- तोति तत्राहाज्ञात इति- अज्ञातः फलवानर्थो येन वाक्येन मीयते । तस्यैव तत्र मेयत्वात् कुतः कार्यकमेयता ॥ धेदस्यति शेषः । आन्नायशब्दितविधिवाक्यस्य मानत्वं किं कार्यार्थकत्वेन उत फलवदशातार्थकत्वेन आधे ऽपि कार्यार्थकत्वं किं कार्यबोधकत्व कार्यपरत्वम् । उभयथापि तत्प्रामाण्यस्य व्याप्यं व्यापक वा। नाद्यः पतनतात्पर्येणानाप्तोक्ते कूपे पतेदिति वाक्ये स्वार्थाप्रमाणे जर्तिलयवागूहोमवाक्ये च व्यभिचारात् । न द्वितीयः रूपादिप्रमाणं चक्षुरादौ व्यभिचारात् । शब्दप्रामाण्यं व्याप्यमिति चेन्न । पुत्रज- न्मवाक्ये व्यभिचारात् । वेदप्रामाण्यं व्याप्यमिति चेन्न । तथा व्या- तेरदृष्टेः। विधिवाक्ये व्याप्तिर्दष्टेति चेन्न । सन्दिग्धत्वात् । विधिमान- त्व क्रियार्थत्वप्रयुक्तम् अज्ञातार्थप्रयुक्तत्व वेत्यनिश्चयात् । अक्रियार्था- नामप्रामाण्यात क्रियार्थकत्वस्य प्रयोजकत्वनिश्चय इति चेन्न इतरे- तराश्रयात् । क्रियार्थत्वस्य विधौ प्रामाण्यव्यापकत्वे निश्चिते तद- भावादक्रियार्थानामप्रामाण्यनिश्चयः तन्निश्चये तनिश्चय इति आ- बायपदस्य कृत्सावेदपरत्वे क्रियार्थत्वादिति हेत्वसिद्धिः । एतेन वेदार्थत्वव्यापककार्यमिति निरस्तम् । अनुकूलतर्काभावेन व्याप्त्य- सिद्धेः । तस्मादध्ययनविध्युपात्तवेदराशेः फलवदशातार्थत्वेन प्रामा- ण्यमर्थे ऽनुपलब्धे तत्प्रमाणमिति वदतोजैमिनेः संमतम् । अतदर्थत्वे- नार्थवादानामप्रामाण्यमाशय विध्येकवाक्यत्वोक्त्या स्वार्थे निष्फ- लानां फलवदज्ञातकियापरत्वेन प्रामाण्य दर्शितमित्यनवद्यम् । यदुक्तं ४ सू. ८ वर्णकम् । १३३ सिद्धवस्तुशानात्फलं नास्ति तस्य कार्यबोधाधीनप्रयत्नसाध्यत्वा- दिति तत्राह । ब्रह्मज्ञानादिति- ब्रह्मशानात्परानन्द. सर्वानर्थबुतिस्ततः । अज्ञातं फलवब्रह्म सिद्धं वेदान्तमानकम् ॥ सर्वो हि लोकः सुखं मे स्याहुःखं माभूदिति वाञ्छति । न तु फलस्य प्रयत्नायाससाध्यत्वं यद्यप्राप्त स्वर्गादि प्रेप्सति परिहर्तव्यं वा रोगादिदुःखं परिजिहीर्षति तदा तत्साधनप्रयत्ना- यासमङ्गीकरोति । यदा तु प्राप्तमेव कण्ठगतमणिवदज्ञानात्प्रेप्सति । रज्जुसर्पवद्धतमेव जिहासति तदा तत्त्वज्ञानमेवान्यानपेक्षंसाधनमि- ति तज्जनका वेदान्ताः कर्मवाक्येभ्य उत्कृष्टफलाः साधनायासफला नित्यत्वादिदोषाभावात्तस्मादशातश्रेयःसाधनबोधिविधिवाक्यवब्रह्म- णि वेदान्ताः प्रमाणमिति सिद्धम् ॥ इत्यष्टमवर्णकं समाप्तम् ॥ एवं पदानां योग्यतरान्विते शक्तिमिच्छता लौकिकवाक्यानांभूता- थै मानत्वेऽपि वेदान्तैर्ब्रह्मासिद्धिर्नास्तीति वदतां मतं निरस्तमिदानी कार्यान्विते शक्तिवादिनां कार्यमेव लोके वेदे च वाक्यं प्रमेयं तच्छे-.. षत्वेन सिद्धार्थत्वादिति वदतां मतम् उत्थापयति- अपरे प्रत्यवतिष्ठन्ते (१) वेदान्तैर्ब्रह्म सिध्यताम् । खप्राधान्य विधेरेव तच्छेषे ब्रह्म गीयते ॥ वेदान्ताः कार्यशेषत्वेन ब्रह्म बोधयन्ति उतानन्यशेषत्वेनेति सन्देहे शेषत्वेनेति प्राप्तम् । तथा हि लोके व्युत्पित्सुमध्यमवृद्धस्य प्रवृत्तिलि- ड्रेन त तुज्ञानमनुमायानुमितज्ञानस्य विषये प्रवर्तकशानहेतूनां पदानां सामान्येन सामर्थ्य गृह्णाति तत्र प्रवर्तकं कार्यमेव कार्य- मिति ज्ञानात्स्वस्य नानपानादिप्रवृत्तिदर्शनात् । इष्टसाधनताशानं न प्रवृत्तिहेतुः कार्यताशानहेतुत्वेनान्यथासिद्धत्वात् । एवञ्च प्रवर्त- कज्ञानविषयाः कार्यसंसृष्टा अर्थाः पदशक्या इति समुग्धव्युप्तत्त्यन- न्तरमावापोद्वापाभ्यां गोपदं कार्यान्वितगवि शक्तमिति विषयगत- शक्तिग्रहो भवति शक्यतावच्छेदकन्तु सर्वपदानां कार्यान्वयाश्रयत्वं तञ्च कार्ये ऽप्यस्तीति तदवच्छेदेनैवानयनलिङ्गादिकार्यवाचिपदानां सङ्गतिसिद्धिःएवसङ्गतिग्रहानुसारात्कार्यान्वितार्था एव सर्वत्र वाक्य (१) वैदान्तब्रह्म वाग्छतामिति पाठान्तरम् । Paane -- विवरणोपन्यासे जन्यज्ञानविषयाः तत्र भूतं भयायोति न्यायात कार्यस्य प्राधान्येन प्रमेयत्वम् अन्येषां तच्छेषत्वेनेति स्थितिन कार्यसंस्पर्श विना व चि. दपिशब्दार्थोऽस्ति केवलभूतार्थे सङ्गत्यग्रहादिति । अपि च वेदान्तानां सिद्धवस्तुबोधने फलाभावात्कार्यपरत्वं वाच्यम् । कार्यज्ञानाधीन- प्रवृत्त्यादिसाध्यत्वात् फलस्य । यद्यपि लोके कण्ठगतविस्मृतमण्यादि- निमात्राल्लभ्यते तथापि ब्रह्माहमिति ज्ञाने ऽपि यथापूर्व संसारोपल- म्भात्कार्याधीनमेव निःश्रेयसमित्यवगम्यते । मननादिविधानाच्च । यदि महावाक्यजज्ञानादेव मुक्तिस्तदा मननादिविधिनस्यादस्ति च वि- धिस्ततो वाक्यजज्ञानानन्तरं कार्यमस्त्येव । अस्तु साक्षात्कारार्थमिति चेन्न । अतीन्द्रिये साक्षात्कारासम्भवाच्छब्दस्य परोक्षवृत्तित्वात्तस्मा- सो ऽन्वेष्टव्य इत्यादिना मोक्षायात्मप्रतिपत्तिः कर्तव्येत्युक्ते को ऽसा- वात्मेत्याकाङ्क्षायां तच्छेषतया सत्यादिवाक्यैरात्मा ब्रह्मरूपः प्रति- पाद्यते इत्याह-- सिद्ध व्युत्पत्तिविरहात्तज्ज्ञानस्याफलत्वतः । मननादिविधानाच्च वेदान्ताः कार्यतत्परा.॥ इति । एवं ब्रह्मनियोगौ शेषशषिभावेन वेदान्ताप्रतिपाद्यौ इति प्राप्त नियोगासिद्धि तावदाह- अत्रोच्यते नियोगस्य विषयः सप्रयोजनः । न दृश्यते ऽतो वेदान्तैर्नियोगो नैव सिध्यति । न तावच्छाब्दज्ञाने नियोगः । व्युत्पन्नस्य शब्दादेव तत्सिद्धः । ननु शब्दात्परोक्षानुभवे जाते स्मृतिसन्तानो विधेय इति चेन्न । फलाभावात् । न तावददृष्ट फलं मुक्तरदृष्टसाध्यत्वे स्वर्गवत्तारत- म्यानित्यत्वादिप्रसङ्गात् । न चादृष्टान्मुक्तिहेतुः स्मृतब्रह्मसाक्षात्कार इति युक्तं प्रमाणफलस्य केवलादृष्टफलत्वायोगात् । न चादृष्टं सा- क्षात्कारहेतोः प्रमाणस्य सहकारीति वाच्यम् । अतीन्द्रिये ब्रह्मणि साक्षात्कारहेतोः प्रमाणस्याभावात् कार्यपराच्छब्दाब्रह्मण्यपरोक्षज्ञा- नस्यासम्भवात्त्वया ऽनङ्गीकाराञ्च । अङ्गीकारे शब्दादेव तत्सिद्धे- रदृष्टवैयर्थ्यात् । अस्तु तर्हि स्मृतिसन्तानस्य साक्षात्कारो दृष्टं फलमिति चेन्नासम्भवात् । न हि परोक्षज्ञानावृत्तरपरोक्षज्ञानं फल सम्भवति । अनुमित्या वृत्त्या ऽनुमेयापरोक्षादर्शनादावृत्ते. रप्रमाणत्वाश्च । अत एव ध्याने नियोग इति निरस्तम् । उक्तरीत्या फलासम्भवात् । ननु स्मृतिसन्तानध्यानयोः को भेद - ४ सू. ९ वर्णकम् । १३५ इति चेत् उच्यते। स्वार्थे प्रमाणजन्या वस्तुनिष्ठा स्मृतिर्ध्याने तु मनो- मात्रायत्तं वस्त्वनपक्षम् इति भेदः । ननु ध्यानात् ध्येयस्य नष्टपुत्रादेः साक्षात्कारो दृष्ट इति चेन्न तद्वदेव ब्रह्मसाक्षात्कारस्य ध्यानजस्य भ्रान्तित्वापातात् । अप्रमाणजन्यत्वाञ्च । न च ब्रह्माण शब्दप्रमाण- सम्भवात्तस्य प्रमाणत्वं ज्ञेयं स्वतस्त्वभङ्गापातादतः सफलस्य वि- षयस्याभावान्नास्ति वेदान्तैर्नियोगप्रमितिरित्यर्थः । किञ्च शब्दसं- वादात्साक्षात्कारस्य प्रमात्वे तत्करणस्य ध्यानस्य प्रमाणान्तरत्वा- पत्ति क्लुप्तप्रमाणानन्तर्भावात् । किञ्चात्र संवादोऽप्यसिद्धःशब्दस्य कार्यपरत्वादित्याह- वाक्यस्य विधिनिष्ठत्वे ब्रह्माद्वैतं न सिध्यति । विरोधे ऽन्यपराद्वाक्यादन्यसिद्धरसम्भवात् ॥ इति । ननु देवताविग्रहादिवत्सत्यादिवाक्यैरवान्तरतात्पर्यणाद्वैतं ब्रह्म सिध्यतीत चेन्न । द्वैतग्राहिप्रत्यक्षादिविरोधादसति हि विरोधे देवताविग्रहन्यायः। न चोपासनाविधेरुपास्यब्रह्मसत्त्वमन्तरेणानु- पपत्ति । योषाग्निदृष्टिवदुपपत्तेः । न च विधौ सावकाशैर्वेदान्तैः प्रत्यक्षादिबाधो युक्तः सिद्धान्ते तूपक्रमादिना ब्रह्माद्वैतमेव वेदान्तार्थ इत्यनवकाशत्वाद्वेदान्तानां प्रत्यक्षादिभ्यः प्राबल्यं ब्रह्मसाक्षात्कार- प्रतिबन्धनिरासार्थमवान्तरतात्पर्येण श्रवणादिविधानं चेत्यनवद्यम् । यत्तु कश्चिदुक्तम् । शमाद्यङ्गको ध्यानकरणकः साक्षात्कार एव मुक्तये विधेय इति तन्मन्दम् ।ध्यानादसतोऽपिनष्टपुत्रवत्साक्षात्कारसम्भवे- न ब्रह्मासिद्धिप्रसङ्गात् । न च वेदान्तानां ब्रह्मविशिष्टसाक्षात्कारविधी तात्पर्याद्विशेषणत्वेन ब्रह्मसिद्धिरित वाच्यम् । लाघवाब्रह्मण्येव तात्पर्यापातात्। न च विधिस्पर्श विना वाक्यस्य प्रामाण्यायोगागौरवं न दोष इति वाच्यम् । अज्ञातज्ञापनेन लौकिकवाक्यादिवत्प्रामाण्य- स्योक्तत्वाद्वक्ष्यमाणत्वाञ्च । न च लौकिकप्रमाणानामज्ञातज्ञापनेन प्रा- माण्यम् वेदस्य तु विधिपरत्वेनैवेति वैषम्यं युक्तम् । साम्यसंभवात्। तदुक्तम् । गुणाद्वा ऽप्यभिधानं स्यात्सम्बन्धाच्छास्त्रहेतुत्वादिति । आदित्यो यूप इत्यादिशब्दानां लोके गृहीतसङ्गत्या बोधकत्वासभवे सति वेदे किं पृथक् पुरुषैः संबन्धकल्पनाद्वरं लौकिकसंबन्धानुसरण- मित्याह ।गुणाद्वाऽपीति । पौरुषसम्बन्धस्य शास्त्रार्थनिर्णयाहेतुत्वात् लौकिकसम्बन्धानुसारेण गौण्यादिवृत्त्या बोधकत्वं स्यादित्यर्थः। तथा च लोकवेदयोःसम्बन्धात्प्रामाण्यस्याप्येकरूपत्वं युक्तम् । तस्माद्विधे- १३६ विवरणोपन्यासे याभावात् ब्रह्मासिद्धिप्रसङ्गाश्च न विधिपरा वेदान्ता इति स्थितम् । किश्च कोऽसौ विधिशब्दितो लिङाद्यर्थो नियोगः । न तावद्वक्तुरभि- प्रायः । अपौरुषेये वेदे तदसभवात् । नापि कार्य कूपपतनादौ कार्य- ताज्ञाने ऽप्यप्रवृत्ते । न चालौकिकं कृतियोग्य वस्तु नियोग इति वाच्यम् । लोके प्रवर्तकज्ञानविषयत्वेनावगतावलौकिकत्वायोगात् । अनवगतौ विध्यर्थत्वायोगात् । यज्ज्ञानाल्लोके प्रवृत्तिस्तस्यैव विध्य- र्थत्वात् । ननु कर्तुमिच्छाविषयतायोग्य कार्यमिति कूपपतनादौ नातिप्रसङ्ग इति चेत्सत्यं तथाऽपि क्रियातत्फलाश्यां भिन्नं त्वदभिमतं कार्य न सिध्यति तथाहि सुखदुःखाभावरूपात् फलाद्भिन्नस्येच्छा- योग्यत्वं फलसाधनत्वमेव तथा च कर्तुमिच्छायोग्यताशानात्प्रवृत्ति- रिति वदता कृतिसाध्यत्वे सति श्रेयःसाधनताज्ञान प्रवर्तकमित्युक्तं भवति । तथा चास्मदिष्टासिद्धिः । यत्तु श्रेयःसाधनत्वज्ञानं कार्य- ताशानहेतुत्वेनान्यथासिद्धमिति तन सुधांशूदये व्यभिचारेण तस्य तदहेतुत्वात् । एतेन कार्यत्वविशिष्टश्रेयःसाधनत्वज्ञानस्य प्रवर्तकत्वे विशिष्टस्य विध्यर्थत्वावगौरवमतो लाघवात्कार्यमेव विध्यर्थः । तज्ज्ञानस्य प्रवर्तकतावच्छेदकश्रेयःसाधनताशानजन्यकार्यज्ञानत्व- मिति नातिप्रसङ्ग इति निरस्तम् । अवच्छेदकगौरवाच । कार्याख्यप- दार्थान्तरकल्पनागौरवादग्निहोत्रादिप्रवर्तके नियोगशाने उक्तावच्छे- दकालाभाच्च। नियोगाधीनो विनियोग इति हि कार्यवादिनां सिद्धान्तः। नियोगज्ञानात्तद्विषये धात्वर्थे श्रेयःसाधनत्वज्ञानं भवतीत्यर्थः । यत्तु बलवदनिष्टाननुबन्धित्वज्ञानाभावे कार्यशानमेव प्रवर्तकमिति तन्न । प्रयोजनमनुद्दिश्य न मन्दो ऽपि प्रवर्तते इति प्रसिद्धः काकदन्तपरी- क्षावदप्रसङ्गाच्च । तस्माद्वालानामशाब्दभोजनादिप्रवृत्तौ विशिष्टज्ञा- नमेव प्रवर्तकमिति विशिष्टे लिङः शक्तिः । यद्वा कृतिसम्बन्धस्य क्रियायामाख्यातलभ्यत्वाच्छ्रेय साधनत्वमा शक्तिः। अस्तु तर्हि श्रे- यःसाधनविधिपरा वेदान्ता इति चेन्न। ज्ञातस्य तत्त्वस्य तत्त्वज्ञानस्य वा तदज्ञाननिवृत्तिसाधनत्वस्य लोकसिद्धत्वादतो वेदान्तानां प्रमे- यान्तराभावाब्रह्मैव प्रमेयमित्याह । धात्वर्थव्यतिरेकेण कार्य नाम न हश्यते । श्रेयोहेतुर्लिङर्थो ऽतो वेदान्ता ब्रह्मगोचराः ॥ अत्राह भेदवादी । विधिपराद्वाक्यादद्वैतं न सिध्यतु भिन्नं ब्रह्म सिध्यत्येव । अथ यदतः परो दिवो ज्योतिर्दीप्यते इत्यादिश्रुत्या - ४ सू. ९ वर्णकम् । जीवप्रपञ्चाभ्यां भिन्नस्य ब्रह्मणः श्रुतत्वात्तत्र द्वैतभानाविरोधात् । तब्रह्माहमिति सम्पदुपासनया मोक्ष सेत्स्यति न च कृतकत्वेन मोक्षस्यानित्यत्वानुमानं युक्त न स पुनरावर्तते इत्यादिश्रुतिबाधा- दिति । तत्राह- मोक्षस्य फर्मसाध्यत्वे स्वर्गादिवदनित्यता । १. तारतम्यञ्च तस्मान्न ब्रह्मणः कार्यशेषता ॥ अयं भावः ब्रह्म वेद ब्रह्मैव भवति अथायमशरीरो ऽमृतः विमु- तश्च विमुच्यते ब्रह्मैव सन्ब्रह्माप्यतीति श्रुतिरशरीरब्रह्मभावरूपो मोक्षो नित्यसिद्ध उच्यते स कथमुपासनाख्यकर्मसाध्यः स्यान्न हि सिद्धं कर्मणा कर्तुं शक्य यदि कर्मफलं मोक्षःतर्हि स्वर्गादिवत्सादिः शरीरेन्द्रियादिमता भोग्यः सातिशयः क्षयिष्णुश्च स्यात् । ननु कर्म- णां पशुपुत्रादिविचित्रफलकत्वं दृष्टमित्युपासनाया अशरीरब्रह्मभावो ध्रुवं फलं सम्भवतीति चेन्न । अशरीरं शरीरष्वित्यादिश्रुतावशरीर- त्वस्य स्वाभाविकत्वावगमात् युक्तेश्च । न तावत् शरीरेणात्मनः सं- योग. निरवयवत्वादसङ्ग इति श्रुतेश्च । समवायो नास्ति न सम्भव- ति च नापि तादात्म्यं सत्यं युक्तम् । जडाजडयोस्तदयोगात् । तस्माद्धान्तिसिद्धं तादात्म्यं सम्बन्ध इत्यशरीरत्वं स्वतःसिद्धं न कर्मायत्तं न चानादिसिद्धस्य नित्यस्यापि सांख्यानां सत्त्वादि- गुणवत्परिणामिनित्यतया मुक्तिपरिणामवत्त्वेन कर्मसाध्यता स्यादिति वाच्यम् । परिणामिनो नित्यत्वायोगातू । ब्रह्मणः कूटस्थ- त्वश्रुतेश्च । तस्मादुपासनायाः सर्वेषु उपासकेषु जीवनाद्यनियमेनै- करूपत्वायोगात् । स्वभिन्ने ब्रह्मणि उपासनाजन्यसाक्षात्कारस्य भ्रान्तित्वेन मुक्त्यहेतुत्वात् । उपासनया क्लेशक्षये सत्येकाने चेतसि उदिततत्त्वज्ञानमेवैकरूपं मूलाविद्यानिरासादुपचारेण ब्रह्मभावसा- धनमित्यनन्यशेषब्रह्मपरा वेदान्ता इति । यत्तु श्रुतिबलात्कृतकस्यापि नित्यत्वमिति तन्न । यत्कृतकं तदनित्यमिति न्यायसहितया तद्यथेहे- त्यादिश्रुत्या विरोधात् । ननु न स पुन रावर्तते इति श्रुतिर्मोक्षरूप- कार्यस्य नित्यत्ववादिना विशेषविषयत्वाद्वलवतीति चेन्नेत्याह । वर्तमानापदेशत्वादिहेममिति चोक्तितः। अनावृत्तिश्रुतिः क्षीणा न कार्ये नित्यतां वदेत् ॥ इति । उपासकस्य मोक्षो ब्रह्मलोकप्राप्तौ उपास्यब्रह्मसारूप्यादिरूप- स्तस्य नित्यत्वेनेयं श्रुतिर्मानं ब्रह्मलोकमभिसंपद्यते न स पुनरावर्तते विवरणोपन्यासे इति लोकप्राप्तिकाले पुनरावृत्तरप्रसक्तत्वेन निषेधायोगात् ननु न स पुनरावर्तिष्यते इति कल्प्यते इति चेन्न । न्यायसहितोक्तश्रुतिवि. रोधकल्पना ह्यविरोधमपेक्षते अतो ऽर्थवादमात्रमेतत् । किञ्च ये उपा- सका ब्रह्मलोकं गतास्तेषामिह न पुनरावृत्तिः इमं मानवमावत ना- वर्तन्ते इति श्रुताविहेममितिपदाझ्या यास्मन्कल्पे ब्रह्मलोकगतिस्त- कल्पवाचिभ्यामनावृत्तविशेषितत्वाददुत्तरकल्पे तेषामावृत्तिःप्र- तीयते । प्रात्यन्तिकानावृत्तौ विशेषणवैयर्थ्यात् । तस्मादनावृत्तिश्रुते- बलत्वान्न्यायसहितश्रुतिविशेषणाभ्यामुपासनाफलस्य मोक्षस्यानि- त्यत्वं दुर्वारमित्यर्थः। अपि च ब्रह्म वेद ब्रह्मैव भवति तद्वैतत्पश्य- नृषिर्वामदेवः प्रतिपेदे इत्याद्यनेकश्रुतिषु ब्रह्मविद्यासमकालं फलं श्रूयते तदस्मत्पक्षे युक्तं साक्षात्काराविद्यानिवृत्त्योर्मध्ये व्यवधाना- भावात्त्वत्पक्षे तूपासनाफलयोर्मध्ये कार्यस्यापूर्वस्य कालान्तरभा- विफलहतोः सत्त्वात्पश्यन् प्रतिपेदे इति मध्ये कार्यनिषेधो न युक्तः। अपि च तरति शोकमात्मविदिति ब्रह्मात्मसाक्षात्कारस्याविद्या- तमोनिवृत्तिः फलं श्रूयते तमसः पारं दर्शयतीत्युपसंहारात् । अवि- धायाः परं पारं तारयसीति श्रुत्यन्तराञ्च । न चोपासनायाः अविद्या- निवर्तकत्वं युक्तं अप्रमाणत्वात्तस्माद्ब्रह्म वेदेत्यादिश्रुतीनां तमोनि- वृत्तिरूपफलस्य च पर्यालोचनया तत्त्वज्ञानमेव मुक्ति हेतुरिति ब्रह्मात्मत्वपरा वेदान्ताः । किञ्च गौतमादिभिया॑यकुशलैस्तत्त्वज्ञानं मुक्तिहेतुरित्युक्तत्वान्नोपासना मुक्तिहेतुरित्याह- तत्त्वज्ञानं मुक्ति हेतुर्मध्ये कार्यनिषेधतः । तमोनिवृत्तेर्युक्तित्वान्यायविद्भिश्च भाषणात् ॥ इति । नन्वैक्यज्ञानं न मुक्ति हेतुः इतरभिन्नजीवात्मज्ञान मुक्तिहेतुरिति न्यायविद्भिक्तत्वात् तथा हि । षोडशपदार्थानां तत्त्वज्ञानान्निश्रेय- सप्राप्तिः कथमित्याकाङ्क्षायां दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्त- रोत्तरापाये तदनन्तराभावा(१) दपवर्ग इत्युक्तम् । अयमर्थः प्रमाण- संशयादिपदार्थविचारः आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रे- त्यभावफलदुःखापवर्गरूपद्वादशविधप्रमेयतत्त्वज्ञानार्थः । लक्षणप्रमा- णाभ्यां प्रमेयतत्त्वज्ञाने सति तद्भिन्नत्वेन जीवात्मनो ध्यानपरिपा- कात्साक्षात्कारे जाते गौरो ऽहमित्यादिमिथ्याज्ञानं निवर्तते ततो रागद्वेषमोहाः प्रवृत्तिहेतवो दोषा नोत्पबन्ते ततो धर्माधर्मरूपप्रवृत्त्य- (२) तदनन्तरापायारपवर्ग इत्यपि पागन्तरम् । - ४ सू ९ वर्णकम् । १३९ भावात्पूर्वसंचितानां पापपुण्यकर्मणां श्रवणध्यानादिक्लेशानन्दभो- गेन कायव्यूहेन वा विनाशाजन्माभावे सति एकविंशतिदुःखध्वं- सो मोक्ष इति । तथा वैशेपिकैरपि साधर्म्यवैधाभ्यां षट्पदार्थ- तत्त्वज्ञानादीश्वरध्यानानुगृहीतात्तद्भिन्नजीवात्मनाने जाते मिथ्या- ज्ञाननिवृत्त्या मुक्तिरित्युक्तम् । योगास्तु स्वर्गादौ प्रविष्टस्य मनुष्य- जन्ममात्रहतूनां कर्मणामवशेषे सति मानुषं जन्म भवतीति मनुष्या- णां संचितकर्म नास्त्येव तत्र मुमुक्षोः काम्यनिषिद्धवर्ज नित्यनैमि- त्तिकानुष्ठायिनः एकभविकन्यायेन कर्माभावात्साङ्गयोगानुष्ठानेन क्षीणक्लेशस्यासंप्रज्ञातसमाधिजनितेन प्रधानविविक्तपुरुषमात्रविषये. णापरोक्षज्ञानेनानाद्यविवेकलक्षणाविद्यानिवृत्तौ दृष्टदृश्ययोः स्वस्वा- मिभावसंयोगनाशादनागतदु खाभावः पुरुषस्य कैवल्यमित्याहुः । सांख्यास्तु पचविंशतितत्त्वानामभ्यासेनैव विवेकज्ञाने जाते पुरु- षस्य स्वास्थ्यमित्याचक्षते । सौगतास्तु सर्व क्षणिकं शुद्धं दुःखं शून्यमिति चतुर्विधभावनाभिः स्थायित्वकार्यत्वप्रवृत्तिविषयभ्रमेषु फ्रमेण क्षीणेषु विशुद्धविज्ञानात्मकचरमक्षणेन सोपप्लवसन्तानोच्छेदो मुक्तिरिति संगिरन्ते । एवमन्ये ऽपि भिन्नात्मज्ञानान्मुक्तिरिति वदन्ति । भवानेवको ब्रूते ब्रह्मास्मीति ज्ञानान्मुक्तिरिति तत्कथं श्रद्धेयमिति । उच्यते । बहुभिरप्यन्धैरुक्तं न श्रद्धेयं एकेनापि श्रुतिचक्षुषोक्तं श्रद्धेयमेव तथा चेन्द्रो मायाभिः पुरुरूप ईयते इत्यादिश्रुत्या भेदज्ञान- स्य भ्रान्तित्वावगमात्तदाऽऽत्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्स- र्वमभवदित्यभेदज्ञानस्य मुक्तिहेतुत्वश्रुतेस्तदेव मुक्तिहेतुरित्याह- ब्रह्मात्मैकत्वविज्ञानं मिथ्याज्ञाननिवर्तकम् ॥ इति । नवभेदज्ञानमपि न प्रमा किन्तु विश्वेदेवा एव मन इतिवदारो- प्यप्रधाना सम्पत् । यद्वा मनो ब्रह्मेतिवदालम्बनरूपप्रतीकप्रधानी ऽध्यासः वेदस्य कार्यनिष्ठत्वेन वस्तुनि तात्पर्याभावादित्यत आह । ऐक्यज्ञानं न सम्पत्स्यानाध्यासो वस्तुसत्त्वतः ॥ इति । तत्त्वम्पदलक्ष्ययोरक्ये मानान्तरविरोधाभावात्सर्वेषु वेदान्तेषु ऐ- क्यम् तत्त्वमसीत्यादिनोपदिश्यानेन जीवनात्मना ऽनुप्रविश्येत्यादिना प्रवेशार्थवादेन हढीकृत्याथ ये ऽन्यथा ऽतो विदुरन्यराजानस्ते ऽक्षय्य- लोका भवन्तीत्यादिना भेदस्य निन्दितत्वेन प्रक्रमादिना वस्तुनि तात्प- विगमादैक्यज्ञानं प्रमा। किञ्च यदि सम्पदादिरूपं स्यात्तर्हि ततो जीवस्य ब्रह्मभावो ऽविद्यानिवृत्तिर्वा न स्यादन्यस्यान्यान्मत्वायोगाद- - - १४० विवरणापन्यास प्रमात्वाच । तस्मान्न सम्पदादिरूपं ब्रह्मास्मीति ज्ञानं किं त्वखण्डात्मप्र- मेत्यर्थः । अत्र कश्चिदखण्डात्मप्रद्वेषी भिन्नाभिन्नो जीव इति जल्पति अत्यन्ताभेदे जीवेश्वरयोर्बद्धत्वनित्यमुक्तत्वव्यवस्था कथमिति मुह्य- मानस्तन्मतं दर्शयति- भिन्नाभिन्नो जीव इति विरुद्ध मानवर्जितम् । जीवेश्वरव्यवस्थोक्ता मुख्या भेदाजलार्कवत् ॥ इति । जातिव्यक्तिगुणगुण्युपादानोपादेयविशिष्टस्वरूपांशांशिभावानां जीवब्रह्मणोरभावान भेदाभेदौ । ननु पादो ऽस्य विश्वाभूतानि ममैवा- शो जीवलोफे इति श्रुतिस्मृतिभ्यामंशांशिभावोऽस्तीति चेन्न ।निष्फ लत्वश्रुत्या तस्य कल्पितत्वावगमात् । ब्रह्मणो वस्तुतः सांशत्वे ज- न्मनाशादिप्रसङ्गात् । घटादिना नभस इव बुद्ध्याधुपाधिनाऽवच्छदा- तू वस्तुतो निरंशस्य ब्रह्मणः सांशत्वं कल्पितमेवेति अंशे जीवे भेदः कल्पित एव न हि सत्यौ भेदाभेदी एकत्र सम्भवतः विरोधान्माना- भावाच । नान्यो ऽतो ऽस्ति दरेत्यादिना भेदं निषिध्यैष आत्मान्तर्या- मीत्यभेदोपदेशाच्च । किं चाङ्गदुःखनाङ्गिन्नो देवदत्तस्येवांशिनो ब्रह्मणः सर्वजीवानामंशानां दुःखैदुःखित्वं दुर्वारमिति तत्प्राप्तिर्मुमुक्षोरनर्थ एव स्यात् अस्मन्मते तु जीवनानात्वे मुक्तजीवाजीवान्तरसंसारस्य कल्पितत्वेनाधिष्ठानब्रह्मासंस्पर्शाब्रह्मभावः पुरुषार्थः जीवैक्ये तु तत्त्वज्ञानान्मूलाविद्यानिवृत्त्या सर्वद्वैत स्वप्नवनिवर्तते न च वामदे- धादिमुक्त्या ऽधुना संसारोपलम्भो न स्यादिति वाच्यम् । अनन्ता- तीतकल्पेष्वनन्तजीवानां मुक्तत्वात्संसारोपलम्भस्तवाप्ययुक्तः अतो निरुपाधिकाद्वितीयचैतन्ये त्वयि ब्रह्मणि प्रत्यक्षे बन्धावभासे सोपा- धिकचैतन्येषु मुक्तत्वावभासो विभ्रम एव ब्रह्मणोऽन्यस्य मुक्तावस- स्वेन बन्धायोगातून हि ब्रह्मद्वयमस्ति । येन त्वत्तोऽन्यो बद्धो मुक्तो घा स्यात् । ब्रह्मैकमेव ह्यविद्यया संसरति विद्यया मुच्यते तथा च ध्रुतिःब्रह्म वा इद मग्रआसीत्तदाऽऽत्मानमेवावेदह ब्रह्मास्मीति तस्मा- -प्तत्सर्वमभवदिति जीवानां बन्धमुक्तिव्यवस्थायामाग्रहिणस्त्वविद्या- शभेदेन समाधानमुक्तं तस्माजीवेश्वरयोः कल्पितभेदेन धर्मव्यवस्था जलखस्थार्कयोरिवेत्यनवद्यम् । एवं सति वाक्यादखण्डात्मज्ञानमा- प्रादेव मुक्तिलाभान्न विधेरवकाशः । ननु ब्रह्मणो ज्ञानक्रियाकर्मत्व- पद्विवेयोपास्तिक्रियाकर्मत्वमपि शङ्कास्पदमिति चेन्न । अन्यदव तद्वि- वितादित्यादिश्रुत्या कर्मत्वमात्रनिषेधादित्याह- - ४ सू ९ वर्णकम् । १४१ म कर्मकारकं ब्रह्म किन्तु शास्त्रात्प्रगीयते । चैतन्याविषयो ब्रह्म वृत्तेस्तु विषयो भवेत् ॥ इति । भविषये ब्रह्मणि शास्त्रस्य प्रामाण्यं कथमिति शङ्कते । किन्त्विति । तत्त्वमसीति शास्त्रादहं ब्रह्मास्मीत्यखण्डब्रह्माकारं ज्ञान जायते तेन निवृत्तावरणं ब्रह्मचैतन्य स्वाध्यस्तामविद्यां निवर्तयति तत आ- विद्यकं प्रमात्रादिद्वैतं निवर्तते इति निवर्तकत्वेन शास्त्रस्य प्रामा- ण्यं यद्यपि वाक्योत्थवृत्तिस्थप्रतिबिम्बाकारनिरूपकस्य ब्रह्मणो वृत्ति- जन्यावरणादिनिवृत्तिफलशालित्वाद्वृत्तिविषयताऽस्ति तथापि नोपा- स्तिविषयता नेदं यदिदमुपासते इति ब्रह्मण उपास्यत्वनिषेधा- भाप्यन्यदेवेत्याद्यप्रमेयत्वश्रुतिविरोधः स्वयंप्रकाशे ब्रह्मणि प्रमाणेन स्फुरणं न क्रियते इति चैतन्याविषयत्वपरत्वादिल्यभिप्रेत्याह । शा- नादिति । असकतुक्तमपि जीवस्वरूपं वादिविवादादुर्ग्रहं भवतीति मत्वा पुनर्बोधयति- ब्रह्मैवाविद्यया जीवस्तत्त्वमस्यादिवाक्यतः। लक्ष्यैक्यं बोध्यते तस्माद्भेदाभेदो ऽप्रमाणकः ॥ इति । ब्रह्मैवाविद्याप्रतिबिम्बितं जीवः तस्य ब्रह्मणैक्य विरुद्धांशत्यागेन लक्षणया पाक्येन बोध्यते। ननु भिन्नाभिन्नता वाक्यार्थःकि न स्यादिति चेन्न । देहादिविशिष्टः संसायहं ब्रह्मणा भिन्नाभिन्न इति ज्ञाने बन्धा- निवृत्तेः । न हि भेदांशस्य शास्त्रार्थस्य ध्यानादिनानिवृत्तिः कल्पयितुं शक्यते । शास्त्रविरोधात् । ननु ब्रह्म वेद ब्रह्मैव भवतीति फलवा- क्यान्मुक्तावत्यन्ताभेद इति चेतू तर्हि अभेदज्ञानादेव भेदनिवृत्तिरिति अभेद एव वाक्यार्थः स्यात् । किञ्च किं भेदाभेदांशद्वयवान् जीवः उत अंशद्वयं आहोस्विद्भेदांश एव जीवनाद्यः । अभेदांशस्य ब्रह्मत्वे जीवस्यांशो ब्रह्म स्यादब्रह्मत्वे जीवब्रह्मणोरत्यन्तभेदः स्यात् । द्वितीये किमंशद्वयं भिन्नं उताभिन्नम् अथ भिन्नाभिन्नम्।आद्य जीवद्वयप्रसङ्गः द्वितीये ब्रह्मैव जीवः स्यात् तृतीये ऽनवस्थानात् । नापि भेदाभेदां- शो जीवः अत्यन्तभेदापातात् । अतो भेदाभेदौ दुर्निरूपी विरुद्धौ धादिसापेक्षौ तत्तद्रव्यत्वादिना लोकसिद्धौ निष्फलौ मुक्तावनव- स्थितौ न शास्त्रार्थः । यत्तु भेदेन कर्माविद्यादिदोषव्यवहारः अभेदे- नाहं ब्रह्मास्मीति ज्ञानमोक्षव्यवहार इति तत्प्रलापमात्रम् । दोषवन्तं भे- दोशं जीवं प्रति त्वं ब्रह्मेति उपदेशायोगातू । अभेदांशं ब्रह्म प्रति उप- देशवैयर्थ्यात् । सर्व वस्तु भेदाभेदाभ्यां साङ्कर्यवादिनस्तव म का १४२ विवरणोपन्यासे चिद्यवस्था अनादावपि विषाभेदेन प्रवृत्त्ययोगादित्यादिदोषभूय- प्टो ऽयं पक्ष इत्युपेक्षणीयः तस्मान्मायया स्वप्नवत्सर्वव्यवस्था यथा- दर्शनमुपपद्यते इति अद्वैतवस्तु शास्त्रार्थ इति शोभनम् । एवमह ब्रह्मा- स्मीति ज्ञान न सम्पदादिरूपं नापि भेदाभेदगोचर किन्वखण्डात्म- प्रमारूपं तस्य फल नित्यसिद्धब्रह्मानन्दाभिव्यक्तिरविद्यावरणनिवृत्ति- मुक्तिशब्दिता तस्या आत्ममात्रत्वादनात्मत्वे ऽपि ध्वंसत्वान्नानित्य- तादोषः । यस्य तु विधेयक्रियाफलं मोक्षस्तेनेदं वक्तव्य मोक्षः स्वर्गवत्कर्तृसमवेतापूर्वफलं वा कर्मकारके ब्रह्मणि विधेयज्ञानक्रि- याजन्यउत्पत्त्याचतिशयो वेति। आये तारतम्यनित्यत्वादिदोष उक्तः। न द्वितीय इत्याह- नोत्पाद्यो न विकार्यः स्यान्मोक्षो नित्यत्वदोषतः । न चाप्यो नापि संस्कार्य प्रात्मशुद्धागुणत्वतः ॥ पिष्टं सयौतात्युत्पाद्यपिण्डवत्तडुलान्पिनष्टीति विकार्यतण्डुलवश्व ज्ञानेन ब्रह्मण उत्पत्ती विकारे चानित्यत्व स्यात् । अत्र के चिदाहुः । जीवब्रह्मणोर्भेदसहिताभेदस्तादात्म्यमतिरेकाख्यं स्वाभाविकम् अत्य- ताभेदस्तु तद्भावो जीवस्य ज्ञानजन्यो मोक्षः स च जन्यत्वेऽपि क्रिया- जन्यत्वाभावान्नित्यः लोके क्रियाजन्यस्यैवानित्यत्वदर्शनादित्याहुः । अत्रोच्यते । किं तद्भावज्ञानात्तद्भावो जन्यते तादात्म्यज्ञानाद्वा आद्यपि ज्ञानं परोक्षमपरोक्षं वानाद्यः परोक्षज्ञानात्सर्वेषां तद्भावादर्शनात् ।न द्वितीयः ज्ञानजन्यस्य ब्रह्मत्वस्य ज्ञानात्प्रागसत्त्वेन प्रत्यक्षत्वायोगात् । नापि तादात्म्यज्ञानात्तद्भावजन्म तादात्म्यनाशं विना तद्भावायोगात् । नहि भेदे सत्यत्यन्ताभेदो भवति । न च तस्य नाशकमस्ति तादात्म्य- झानं च साधकम् न नाशकम् तस्माल्लोके ज्ञानजन्यसंस्कारवन्मो. क्षस्यानित्यत्वं दुर्वारमिति संक्षेप.। ननु गन्तुमप्राप्तिवज्जीवस्य ब्रह्म- प्राप्तिीनफलमिति चेन्न ब्रह्मण आत्मत्वेन नित्यप्राप्तत्वादनात्मत्वपि विभुत्वेन नभोवत्प्राप्तत्वात् । ननु सर्वलोकोपरितनं विकारास्पृष्टं ब्रह्म प्राप्यमिति चेन्न। तस्यात्रासावे मध्यमपरिमाणत्वेनानित्यत्वापातात्। ननु सर्वगतमपि ब्रह्म विकारास्पृष्टत्वेन प्राप्यमिति चेत् । केयं प्राप्ति- नं तावजीवस्य भिन्नस्य ब्रह्मत्वोत्पत्तिः । भिन्नयोरैक्यायोगानापि संयोग अनित्यदोषात् । तस्मान्न प्रदेशान्तरवर्तिब्रह्मप्राप्तिर्मुक्तिरिति । यत्तु तयोर्ध्वमायन्नमृतत्वमेति स एनान् ब्रह्म गमयतीति मूर्धन्यना- ज्यार्चिरादिमार्गेण गन्तणां प्रदेशान्तरे निर्गुणप्राप्तिर्मुक्तिः श्रूयते नपुं.
४ सू. ९ वर्णकम् । सकब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वादिति । तन्न यः सर्वशः सर्ववित्त- स्मादेतब्रह्म जायते इत्यादिश्रुतौ कार्यब्रह्मण्यपि प्रयोगमुख्यत्वात्तस्य शब्दस्य ।किञ्चामानव. पुरुष एतानुपासकान्ब्रह्मलोकान् गमयतीति बहुवचनान्तलोकशब्दाल्लोकेषु ते वसन्तीत्याधारत्वलिङ्गात् । ऐरंमदी- यं सरः इराऽन्नरसस्तत्कृतमैरं मदकर सर इति सरोलिङ्गात्तु अश्वत्थः सोमसवनः सुधावर्षी अपराजिता पूस्तत्र हिरण्मयं वेश्मास्ति प्रजा- पतेःसभेत्यादिबहुलिङ्गेभ्यः कार्यलिङ्ग()प्राप्तिरेवोपासकानामिति नि- श्चीयते । किञ्च यद्यर्चिरादिमार्गेण गन्तॄणां निर्गुणप्राप्तिस्तदा पञ्चा- ग्निगायत्रीशाण्डिल्यषोडशकलोपकोसलवैश्वानरभूमदहरपयङ्कादिवि- घानां गुणतारतम्यादुपचयापचयौ व्यौँ स्यातां कार्यब्रह्मप्राप्तौ तु फलस्या तारतम्यसम्भवात् सफलौ स्याताम् । किं च निर्गुणब्रह्मरू- पस्य मुक्तस्य संकल्पादेव पित्रादय समुत्तिष्ठन्तीति विरुद्धम् । किं च य उपरि गत्वा ब्रह्म भवति स जीवो ऽणुर्विभुमध्यमपरिमाणो वा प्राधे कथमणोर्ब्रह्मत्वं द्वितीये गत्ययोगः तृतीयपि नाशिता। ननु ब्रह्म- वोपाधिपरिच्छिन्नं जीव इत्युपाधिगत्या गतिरिति चेन्न । उपाधिनाऽन- वच्छिन्नस्य निरवयवस्योद्धृत्य नयनायोगादुद्धरणे चाय देशो ब्रह्मशू- न्यः स्यात् उपाधेरपि उपादानस्य ब्रह्मणो निश्चलत्वेन गमनायोगा- तू न हि निश्चलायां मृदि घटस्य गमनं दृष्टं तस्मात्स्वप्नवद्गमनागमना- दिसंसारो विभ्रम इत्यज्ञानध्वंसे सत्यत्रैव मुक्तो ब्रह्मात्मना वतिष्ठते न तस्य प्राणा उकामन्ति अत्र ब्रह्म समश्नुते इति श्रुतेन देशान्तर- ब्रह्मप्राप्तिर्मुक्तिरिति । अस्तु तर्हि ज्ञानेन सस्कार्य ब्रह्मेति चेन्न ।स्वतः- शुद्ध ब्रह्मणि दोषाभावेन तन्निवृत्तिरूपसंस्कारायोगाग्निर्गुणत्वे गुणा- धानायोगाच्च । शुद्धत्वे निर्गुणत्वे च शुद्धमपापविद्ध केवलो निर्गु- ण इति श्रुतिर्मानम् । ननु तायध्यानाद्विषनिवृत्तिवब्रह्मध्यानाजीव- गतानाद्यविद्यामलनिवृत्तिः किं न स्यादिति चेन्न । लोके शानकनिर- स्यत्वादविद्यायाः । ननु शास्त्रीयैः कर्मभिरात्मनो गुणरूपः संस्कारः श्रूयते इति चेन्न । साभासबुद्धिरूपाहवारस्यैव कर्मकर्तृत्वेन संस्का. रफलभाक्त्वात्तस्मान्न ब्रह्मसंस्कारो मोक्ष इति। एवं मोक्षस्य क्रिया- फलत्वायोगाज्ज्ञानैकसाध्यत्वमिति सिद्धम् । ननु क्रियाज्ञानयो को भेदः शानस्यापि मानसत्वेन ध्यानादिवक्रियात्वादित्यत आह- क्रियाविलक्षणं ज्ञानं संयोगादिविलक्षणा । (१) कार्यब्रह्मप्राप्तिरित्यपि पाठान्तरम् ।
FRavnias विवरणोपन्यास क्रिया प्रत्यक्षतो शेया नानुमेयेति साधितम् ॥ ज्ञानस्य फलं स्फुरणं नित्यं कर्मफलं जडमनित्यमिति फलतो वैलक्षण्यं विध्यधीनपुरुषेच्छाजन्यप्रयत्नसाध्या क्रिया विषयानपेक्षा च यथा योषाग्निध्यानम् । ज्ञानं तु न पुरुषकृतिजन्यं किन्तु प्रमाण- घस्तुपरतन्त्रम् । यथा ऽग्नावग्निज्ञानमिति महान्भेदस्तयोरित्यर्थः । अत्र कश्चिदाह । संयोगविभागाभ्यामन्या क्रियैव नास्तीति । न चैवं श्येनसंयोगविभागवति स्थाणौ चलतीति बुद्धिः स्यादिति वाच्यम्। तयोराधेये द्रव्ये चलनबुद्धिविषयत्वात् । स्थाणोः श्येनं प्रत्याधार- त्वात् । श्येनस्तु आधेयत्वाञ्चलतीति बुद्धिविषयः पक्षिणामप्याका- शाधारनिरूपितौ संयोगविभागौ चलनबुद्धिविषय इति तन्न आका- शंस्याचाक्षुषत्वेन तन्निरूपितयोस्तयोश्चलति पक्षीति चाक्षुाबुद्धि- विषयत्वायोगातू । न गाढान्धकारे नभोज्ञानाभावेन खद्योतश्चलतीति बुद्ध्ययोगात् । गङ्गाप्रवाहादौ सुस्थिरे मकरे जलसंयोगादिमत्याधेये चलतीति बुद्धिप्रसङ्गाञ्च । तस्मात्संयोगादिविभागाभ्यामन्या क्रिया ऽस्तीत्याह । संयोगादीति । प्राभाकारास्तु ताभ्यामनुमेया क्रिया न प्रत्यक्षेत्याहुः। तथा हि संयोगाजन्यः संयोगः स्वाश्रयगतकादाचि: कातिशयजन्यः स्वसमकालमनुत्पन्नद्रव्यनिष्ठत्वे सति कादाचि- कत्वात् पाकजरूपादिवदिति संयोगेनार्थान्तरतानिरासार्थ संयोगा- जन्य इति पक्षविशेषणम् । क्षणनिरासार्थ स्वाश्रयगतेति सत्ता- दिनिरासार्थ कादाचित्केति । वेदान्तिमते द्रव्यसहोत्पन्नगुणेषु व्य; भिचारनिरासार्थ सत्यन्तम् । नभोगतपरिमाणादिनिरासार्थ कादा; चित्कत्वादिति । तदयुक्तं किं यावदाश्रयगतातिशयः साध्य उता- श्रयगतः नाद्यःअन्यतरकर्मजसंयोगे व्यभिचारात् । न द्वितीयः कर्मा- समवायिकारणादेव संयोगजन्मसंभवेनाप्रयोजकत्वाद्यथाप्रयत्नवदा- स्मसंयोगात्पादसमवेताद्भपादसंयोगः किं बहूक्त्या । कर्मणो यत्कार्य तत्कर्मकरणादेव सुसम्पादमिति नानुमानाकर्मसिद्धिः । किन्तु प्रत्यक्षादित्याह । प्रत्यक्षत इति । शब्दविद्युदादिवदाशुतरविनाशि- स्वे ऽपि क्रियायाः प्रत्यक्षत्वसम्भव इति भावः। एवञ्च वेदान्तवि- ज्ञानसुनिश्चितार्था इति सम्यग्ज्ञानस्य मुक्तिहेतुत्वावगमाक्रियावि. लक्षणमवे ज्ञानं मोचकमिति न तत्र विधेरवकाशः । नन्वात्मन्येवा- स्मानं पश्येदात्मा द्रष्टव्य इति ज्ञाने विधयः श्रूयन्ते इति चेत्सत्यम् अशक्ये ज्ञाने नियोगासम्भवात्फलरूप आत्मा तैः स्तूयते बहिर्मुखदु- - ४ सू. ९ वर्णकम् । १४५ लभी बहुपुण्यपुञ्जलभ्यो ज्ञानलभ्यो ऽयमात्मेति एवं स्तुतौ तदर्थी विषयविमुख. सन् श्रवणादौ प्रवर्तते यद्वा द्रष्टव्य इत्यहाथै कृत्य- प्रत्ययः पश्येदिति वाक्यं शान्त्यादिविधिपरम आत्मानमेव लोकमुपा- सीतेति वाक्यं तूपासीतेतिपदेनाहमहमित्यात्मज्ञानधारानुवादेनैव- कारणानात्मांशं निषिद्ध्य केवलात्मविषयपरं भवति तस्माद्वेदान्तेषु विधेयक्रियातत्फलयोरभावान्न विधिशेषतया ब्रह्मप्रमितिः किन्तु स्वप्राधान्येनेत्युपसंहरति- ज्ञाने श्रुतो लिङादिः स्यात्स्तावको ऽर्हार्थ एव वा। एवं ब्रह्मणि मानत्व वेदान्तानां प्रसाधितम् ॥ इति । एवं तावत्समन्वयसूत्रस्य प्रथमवर्णके वेदान्तानां मानान्तरान- पेक्षत्वं द्वितीयवर्णके विध्यनपेक्षत्वं सफलत्वं चोक्तम् अधुना वर्णक- द्वयार्थ आक्षिप्य समाधत्ते- ये तु सिद्धार्थको वेदो नास्तीत्युञ्चैर्वदन्ति ते । तन्त्वोपनिषदंश्रुत्या बाध्या. स्मृत्या च संविदा ॥ इति। किमहं कर्ता वेदान्तै प्रतिपाद्यः किं वा तदन्यः आये तस्य कर्मकर्तृत्वाद्विधिशेषता न द्वितीयस्तदन्यस्यानात्मत्वादात्मत्वे कर्म- शेषतायाः दुरपन्हवत्वात्तथापस्तम्बोऽपि वेदानां कार्यार्थतां दर्शयति विद्यवृद्धानां वेदाः प्रमाणमिति निष्ठा तत्र यानि श्रूयन्ते ब्रीहिय- वादीनि तैरुच्चैर्नीचे फलाय कर्म कार्यमिति शङ्कार्थः । विद्यं वेदाः। सिद्धान्तस्तु अहङ्कारादन्यस्तत्साक्षी ब्रह्मत्वेन प्रतिपाद्यते । न च तस्याङ्गत्वं भवति नाप्यङ्गत्वे मानमस्ति वेदान्तवाक्यस्यापूर्वब्रह्मा- त्मपरत्वात् । तेनैवात्मनः कर्माङ्गत्वबोधने वाक्यभेदापत्ते. माप- स्तम्बवाक्यं तु कर्मकाण्डपरं तन्त्वौपनिषद पुरुषं पृच्छामि सर्वे वेदा यत्पदमामनन्तीति श्रुत्या वेदैश्च सर्वैरहमेव येद्य इत्यादिस्मृत्या च सिद्धस्य ब्रह्मण एव सर्ववेदार्थत्वावगमात्कर्मकाण्डस्यापि शुद्धिद्वारा ब्रह्मप्रतीतेश्च । न च सा भ्रान्तिबांधाभावात् न ह्यात्मनो ऽत्यन्ताभाव: प्रमातुं शक्यते प्रमातुरभावात् अतः सर्वसाक्ष्यबाधितो वेदान्तार्थ इत्यर्थः। यत्तु प्रवृत्तिलिङ्गानुमितज्ञानविषये कार्यार्थे सङ्गतिग्रहादाना- यस्यक्रियार्थत्वादिति सूत्राच वेदान्ताःकार्यपराः सिद्धार्थे शक्त्यभावा- दिति तन्न सूत्रहृदयज्ञैर्भट्टपादैरभिहितान्वयस्य दर्शितत्वात् । तथा हि गामानयेति वाक्यप्रयोगसमनन्तरमाविमध्यमनरप्रवृत्तिलिङ्गानुमित- प्रवर्तकज्ञानविषयतया ज्ञाते ऽपि कार्यसंसृष्टार्थे पदानां शक्तिः गां बधा- विवरणोपन्यास नति प्रयोगे आनयनकार्यास्पृष्टपिण्डमात्रान्वयादतो गोपदस्याव्याभ- चाराद्गोमात्र शक्यम् एवं सर्वपदानां सिद्धे कार्ये वा शुद्धार्थे शक्तिः पदैरभिहितैः शुद्धाथैः ससर्गो बोध्यते इत्यभिहितान्वयवादः । पदानां पदार्थस्मृत्यन्यथासिद्धत्वादर्थानां करणत्वमित्यभिमानः । अस्मिन् मते त्वक्रियार्थानां शब्दानामानर्थक्यं नाम फलाभाव एव । न त्वर्थाभावः शुद्धार्थस्य सत्वात् । तथा च यस्मिन्वाक्ये स्वार्थफलाभावस्तस्या- प्रामाण्यपरिहाराय सफलविधिशेषत्वं वाच्यमिति जैमिनेर्हृदयम् । एवञ्च सो ऽरोदीदित्यादिवाक्यानां विधिशेषत्वं न्याय्य न वेदान्तानां स्वार्थे ब्रह्मणि मुक्तिफलसत्त्वादिति मत्वा ब्रूते- भट्टपादा जगुः स्पष्ट शुद्धार्थे पदसङ्गतिम् । अर्थः ससर्गधीरेषा ऽभिहिता ऽन्वयवादिता ॥ इति ॥ प्राभाकरास्तु व्युत्पित्सुना प्रवृत्तिलिङ्गानुमिते कार्यसंसृष्टार्थ- ज्ञाने ऽन्वयव्यतिरेकाभ्यां वाक्यस्य सामर्थ्यावगमात्कार्यसंसृष्टार्थे पदानां संमुग्धशक्तिरवगता पश्चादावापोद्धाराभ्यां कार्यान्वितगवि गोपदशक्तिरवगम्यते न शुद्धार्थ कार्यविशेषस्य व्यभिचारे ऽपि कार्य- मात्रस्याव्यभिचारादन्यथा पश्चाच्छुद्धार्थे शक्तिग्रहे संमुग्धव्युत्पत्ति- बाधात्पदार्थानां संसर्गधीकरणत्वकल्पनागौरवाच तत्कार्यान्विते श- क्तिरित्याहुः । अत्रोच्यते क्रियातिरिक्त कार्य तच्च लोके वक्तुरिच्छारूपं वेदे त्वपूर्वमिति तव मतम् । तत्र यदि कार्यान्विते सर्वेषां पदानां शक्तिस्तदा शुक्लां गामानयेत्युक्ते गवि गुणकर्मकारकक्रियाभिः सं- सर्गाः क्रमेण शब्दैन प्रतीयरन् शब्दानां तत्राशक्तत्वात् । अतस्तत्प्र- तीतिनिर्वाहार्थमितरान्वितेऽर्थेशक्तिरिति युक्तम् । न चैव सति संसर्ग- भेदाद्वाक्यभेदः स्यादिति वाच्यम् । अवान्तरसंसर्गनानात्वेऽपि प्रधा- नसंसर्गस्यैकत्वात् न चाव्यभिचारात्कार्यान्विते शक्तिरिति वाच्यम्। वक्तृज्ञानस्यापि अव्यभिचारात् । न च वक्तज्ञानस्य प्रयोगे हेतुत्वेनैवा- न्वयो ऽन्यथासिद्ध इति न शक्यत्वमिति वाच्यम् । कार्यान्वयस्यापि प्रवृत्तावन्यथासिद्धत्वेन शक्यत्वात् राजपुत्रः पीतवासाः सुरूपः स्नात्वा भुक्त्वा क्रीडतीत्यादिभूतार्थवाक्येषु कार्यस्य व्यभिचाराच्च । न च कार्य विना राजपुत्रादेर्भूतार्थस्य द्रव्यगुणादिभि संसर्गो न भा- तीति युक्तमनुभवविरोधाद्वक्तृश्रोत्रोरनपेक्षितस्य कार्यस्याध्याहारे कल्पनागौरवादतः कार्य विना भूतसंसर्गानुभवाल्लाघवाच्च योग्येत- तरान्वितत्वं शक्यतावच्छेदकम् । न च ततोऽपि लाघवाच्छुद्धार्थे शक्ति- १४७ ४ सू. ९ वर्णकम् । रिति वाच्यम् । पदासामान्यान्वयप्रतीतावन्वयप्रतियोगिविशेषाकासा- नुपपत्तः। नच पदार्थत्वेनान्वयानुमानादाकाङ्केति वाच्यम् । झटित्या- काङ्क्षानुभवविरोधात् । शब्दश्रवणानन्तरं नियमेनानुमानकल्पनायां शब्दाप्रामाण्यापाताच्च । वृत्ति विना शब्दानामबोधकत्वात्संसर्गबोधस्य शाब्दत्वप्रसङ्गाञ्चत्यलम् । किञ्च कार्ये कार्यान्वयाभावादितरान्वितत्वं शक्यतावच्छेदकर न च तत्रापिधात्वर्थयागादिरूपकार्यान्वयोऽस्ती- तिवाच्यम् । यजेतात लिङा नियोगाख्यकार्यबोधक्षणे यागे कार्यत्वाप्र- तीतेः । धात्वर्थमात्रान्वितकार्यप्रतीत्युत्तरकालत्वाद्धात्वर्थे कार्यता- प्रत्ययस्य । तथा चान्योन्याश्रयः । लिङर्थज्ञाने सति धात्वर्थे कार्य- ताज्ञानमस्मिन्सति लिऊर्थज्ञानमिति । न च कार्यान्वयाश्रयत्वं का- ये ऽप्यस्तीति तदेवावच्छेदकीमति वाच्यम् । पदात्तत्प्रकारकबोधादर्श- नात्पदजन्यज्ञानाविषयस्यानवच्छेदकत्वात्तस्येतरान्वयापेक्षया गुरु- त्वाच्चकिञ्च लोके निघण्वादिना सिद्धे ऽथै सगतिग्रहान्न कार्य सर्व- शब्दार्थः। तस्मादितरान्वितः शब्दार्थ इति सिद्धम् । एतेन गामानयेत्यत्र गोपदस्थेतरान्वितशक्तावनेकेतरसंसर्गाणां पदार्थत्वादयं संसर्गोवा- क्यार्थ इति नियमो न म्यात् । न चानयनान्वित एव गोपदार्थ इति वाच्यम् । आनयेतिपदवैयर्थ्यांपत्तेः । विशेषाणामानन्त्येन तदन्वितार्थे शक्तेदुर्घहत्वात्सर्वपदानां पर्यायतापत्तेश्च ।न चाभिहितेतरान्विता गौः पदार्थस्ततश्चेतराभिधानार्थमानयपदमर्थवदिति वाच्यम् । आनयप- दस्याप्यभिहितेतराभिधायित्वनान्योन्याश्रयात् । गोत्वे ऽभिहिते तत्सं- सृष्टानयनाभिधानम् आनयने ऽभिहिते तत्संस गोत्वाभिवानमिति । तस्मान्नेतरान्विते शक्तिर्नापि विशेषान्वितेनाप्यभिहितान्वितेऽतः परि- शेषात्कार्यान्विते शक्तिरिति निरस्तम् । गोपदादितरान्वितगोरभिधाने सतीतरविशेषाकाङ्क्षायामानयनपदेनानयनमितरान्वितमभिधीयते । तयोरभिहितयोर्विशेषयोरितरेतरसंसर्गो वाक्यार्थ इति सिद्धम् । त- स्य निर्दोषत्वात् । यत्तु पदातिरिक्तवाक्याभावात्पदानां क्षणिकत्वात् न संसर्गबोधे करणत्वं किन्तु स्थायित्वात्पदार्थानां करणत्वमिति तदति- मन्द ।अनभिहितार्थानां करणत्वेसदाबोधप्रसङ्गात् । न चाभिहितानां करणत्वम् । अन्त्यपदार्थाभिधानक्षणे पूर्वाभिधानां स्मृतिरूपाणां नष्ट- त्वात् नचान्त्ये समूहालम्बनस्मृत्युषारूढा अर्था करणमिति वाच्यम् । पदानामपि तथा करणत्वापेपत्तेः पदार्थस्मृतापारत्वेनाव्यवधाय- कत्वादन्यथा वाक्यार्थस्याशाब्दत्वापत्तरित्यलं विस्तरेण । एतत्सर्व- - १४८ विवरणोपन्यासे मभिप्रेत्याह- प्राभाकरास्तु कार्येण ससृष्टे शक्तिवादिनः । अस्माकमन्विते शक्तिलाधवाद्युपपत्तिभिः ॥ इति । यत्नु तद्भूतानां क्रियार्थेन समाम्नाय इति सूत्रात्कार्य सर्वशब्दार्थ इति तन्न । तद्भाष्यकारेण शुक्लः पटः खण्डो गौरित्येवं सिद्धार्थे व- र्तमानानां पदानां समानायः सामानाधिकरण्यार्थत्वेनोच्चारणमि- ति दर्शितत्वात् । क्रियार्थेनेत्युक्तिस्तु धर्मविचारस्य प्रस्तुतत्वादु- पपद्यते । कर्मकाण्डे निष्फलस्य भूतसर्गस्य क्रियार्थत्वाद्यदि पुनर्जे- मिनेः कार्यमेव वेदार्थ इति मतं स्यात्तदार्थे ऽनुपलब्धे तत्प्रमाणमि- त्युक्तिर्न स्यात् तद्गुरुणा भगवता व्यासेन वेदान्तानामखण्डाथै तत्तु समन्वयादित्यादिना तात्पर्य निरूपयितुं पृथक् शास्त्र नारश्येतेत्याह- व्यासेन पृथगारम्भात्सिद्धार्थे वेद इष्यताम् । व्यासोक्ताथै जैमिनेस्तु विमतिर्न कदाचन ॥ इति । इतरान्वितशब्दार्थ इत्युभयो संमतं तन्त्रभेदस्तु सिद्धसाध्यरूप- प्रतिपाद्यभेदादिति भावः । ननु सामान्यान्वयः पदार्थो विशेषान्वयो वाक्यार्थ इति स्थिते कथमखण्डार्थत्वमिति चेदुच्यते । सैन्धवधन एवेत्येकरसत्वावधारणादतो ऽन्यदातमित्यन्यस्य नाशित्वेन कल्पि- तस्य तत्त्वावेदकवाक्योत्थज्ञानविषयत्वानुपपत्तेर्लक्षणया ऽखण्डा- र्थत्वम्। न च प्रथमाविभक्त्यर्थसंसर्गः तस्याः पाणिन्याचार्येण प्राति- पदिकार्थमात्रे स्मरणात् । यत्तु क्रियान्तराभावे ऽपि अस्त्यर्थन क्रियासंसर्गः सर्वत्रास्ति अस्तिभवतिपरः प्रयोक्तव्यः इति कात्या- यनस्मरणात् । भवतिपरः लडन्त इत्यर्थः इति तन्न । वने सिंह इत्यादी प्रथमायोगे यत्र क्रियाकाङ्क्षा तत्रास्तिः प्रयोक्तव्यः यत्र तु अमी द्रुमाः फलिता इति विशेषणे तात्पर्य तत्र नैवास्तिक्रियासम्ब- न्धः निराकाङ्कत्वात् । एवं सत्यादिवाक्यैरखण्डार्थबोधे निराकाङ्कि- तत्वान्न क्रियासम्बन्ध इति सिद्धान्तः। एवं तावदितरान्वितशक्ति- कथनेन वेदान्तानां सिद्धार्थे प्रामाण्यमुक्तमिदानी ब्राह्मणो न हन्तव्य इत्यादिनिषेधवाक्यवद्वेदान्तानां सिद्धार्थनिष्ठत्वमित्याह- कार्य निषेधशास्त्रे स्पाहुर्लभं कूर्मदुग्धवत् । तद्वद्वेदान्तशास्त्रस्य सिद्धार्थ मानता स्थिता ॥ इति । नअस्तावदभावो मुख्योर्थः । नेक्षेतोद्यन्तमादित्यमित्यत्र तु तस्य ब्रह्मचारिणो व्रतमित्यनुष्ठेयवाचित्रतशब्दादीक्षणविरोधिनी नेक्षेऽह- ४ सू. ९ वर्णकम् । १४९ मिति सङ्कल्पक्रिया ना लभ्यते। ननु “नामधात्वर्थयोगी तुनैव न प्रतिषेधकः । वदत्यब्राह्मणाधर्मावन्यमात्रविरोधिना"विति वार्तिके तदन्यतद्विरुद्धयोरपि नअर्थत्वमुक्त मिति चेत्सत्यम् । नअर्थाभावस- म्बन्धादन्यविरुद्धौ लक्ष्यावित्येतत्परत्वात् । लक्षणया तल्लाभे शक्य- त्वकल्पना ऽयोगात् । निषेधवाक्ये तु लक्षणायां कारणाभावादभाव एवार्थ इति न सर्ववाक्यानां कार्यपरत्वम् । अत्राह प्राभाकरः । न ब्रा- झणस्याभावी नअर्थ प्रत्यक्षविरोधानापि हन्त्यर्थस्याभावः हननस्य प्राप्तत्वात् । नापि तव्यप्रत्ययस्याभावार्थ । हनने कार्यत्वस्येष्टसा- धनत्वस्य वा सत्त्वात् । तस्मादभावरूपार्थासम्भवाद्धननविरोधिस- ङ्कल्पो नर्थो विधेयो ऽहननं कुर्यादिति । तस्मात्कार्यनिष्ठमिदं वा- क्यमिति । उच्यते । हननप्रागभावो नार्थः। न हन्तव्यम् हनना- भाव इष्टसाधनमित्यर्थः । इष्टश्चागामिदुःखाभावस्तस्य प्रयोजको ह- ननाभावः।कारणाभावस्य कार्याभावपरिपालकत्वात्।न चहननाभावे नियोगः प्रत्ययार्थ इति वाच्यम् । अभावस्यानादित्वेनाननुष्ठेयत्वात्। अथ वा प्रत्ययार्थस्येष्टसाधनत्वस्याभावो नञर्थः । ननु हननादिष्टं हश्यते इति चेत्सत्यं न तदिष्टं बलवदनिष्टानुविद्धत्वात् । बलवदनि- टाननुविद्धमिष्टमित्याचक्षते वृद्धास्तथा च हन्तव्यो न हननं बलव- दनिष्टाननुबन्धीष्टसाधनं नेति प्रत्ययानुदितस्य विशिष्टस्य निबन्धे सति अर्थाद्वलवदनिष्टानुबन्धि हननमिति बुद्धिर्भवति । तया हनने विशिष्टष्टसाधनत्वभ्रमो निवर्तते । ततस्तङ्गममूलयो रागप्रयत्नयोरा- त्यन्तिकनिवृत्तिरूपमौदासीन्यं भवतीति निषेधयाक्यम् नर्थे ऽभावे सिद्धरूपे पर्यवसितं तद्वद्वेदान्तानां सिद्धार्थनिष्ठत्वमित्यर्थः । किञ्च विधिवाक्ये ऽपि नापूर्वनियोगाख्यं कार्य प्रत्ययार्थः । येन तत्र वेदस्य तात्पर्य स्यात् कुत इति चेदप्रसिद्धत्वेन लोके तत्र लिङादे सङ्गत्य- प्रहात् । ननु लोके धात्वर्थकार्यतायां सङ्गतिग्रहात्स्वर्गकामिकृति- साध्यता यागादौ लिङा प्रतिपन्नासती तत्रेणा स्वर्गसाधनत्वं कल्प- यति ततः क्षणप्रध्वंसिनः स्वर्गसाधनत्वानुपपत्त्या कल्पिते नियांगे सङ्गतिग्रह इति चेन्न । बकबन्धप्रयासान्नियोगः स्वविषये यागे का- यता बुद्धिहेतुरिति ते मतम् आदावेव श्चेल्लिङा सा लब्धा किं कल्पि- तनियोगेन सङ्गतिप्रयासेन। न हिबके लब्धे तच्छिरसि नवनीतप्रक्षे- पायासः फलवान् । अथ यागादौ प्रतिपन्नकार्यतानिर्वाहार्थमेवापूर्व कल्प्यतामिति चेत्कामं कल्प्यतामन्यलभ्यत्वान्न तस्य शब्दार्थत्व- - १५० विवरणोपन्यासे मिति वदामः । इटासाधनता विध्यर्थ इत्युक्तम् न विस्मर्तव्यमिति सझेप । यत्तु श्रुतब्रह्मणो ऽपि यथापूर्व ससारदर्शनान्न ज्ञानमात्रा- न्मुक्तिरिति तत्राह- ब्रह्मात्मावगतौ सत्यां संसारः पूर्ववन्न हि । अज्ञानमूलः संसारो ज्ञाने सति कथ भवेत् ॥ इति । अवगति. साक्षात्कारः । ननु कर्मनिमित्तः शरीरबन्धः आत्मनः कर्मणैव निवर्तनीयो न ज्ञानेनेत्यत आह । अज्ञानेति । असङ्गकूटस्था- त्मनि कर्मासम्भवादनाद्यनिर्वचनीयाज्ञानमूलैः कामकर्मभिः संसारो वाच्यः । अतो ज्ञानेन मूलध्वंसान ज्ञानिनः संसारः तत्र को मोहः कः शोक एकत्वमनुपश्यत इत्याद्याः श्रुतयो ऽपि ज्ञानमात्रान्मुक्ति दर्शयन्तीति भावः । ननु तर्हि ज्ञानिनो द्वैतदर्शनं कथमित्यत आह- ज्ञानात्सर्वस्य नाशे ऽपि प्रारब्धं न निवर्तते । देहे सत्यपरोक्षा धीासादीनां यथा तथा ॥ इति । करतलीकृतब्रह्मतत्त्वस्यापि प्रारब्धकर्मास्ति तस्य तावदेव चिर- मिति श्रुत्यैतत्सङ्घातध्वंसरूपे विदेहकैवल्ये विलम्बश्रवणादेतच्छ्रुति- बलात्क्षीयन्ते चास्य कर्माणीति सामान्यश्रुतिः प्रारब्धकर्मातिरिक्त- कर्मविषया । न चाज्ञाननाशे तदुपादानक प्रारब्धं कथं तिष्ठेदिति वाच्यम् । अंशभेदादज्ञानस्य द्वावावरणविक्षेपावंशौ तत्रावरणा- ज्ञानांश एव ज्ञानात्सद्यो निवर्तते ज्ञानेन समानं विषयतया विरो. धाद्विक्षेपकाज्ञानांशस्तु यावत्प्रारब्धमवतिष्ठते छिन्नमूलवृक्ष इव यावत्त्वक्सारम् । ज्ञानाभिव्यक्तचैतन्यात्मके निवर्तके सत्यपि प्रार- ब्धप्रतिबन्धाद्वा तन्निर्वाहकाज्ञानांशानिवृत्तिः अत. प्रारब्धदोपबलाद् व्युत्थानदशायां द्वैतदर्शनमिति भावः । अत्राह जीवन्मुक्तिद्वेषी नास्त्येव सशरीरस्यापरोक्षात्मज्ञानमिति तत्राह । देहे सतीति । अस्तीति शेषः । न ह्यन्धनैव चक्षुष्मता रूपदर्शनं नास्तीति वक्तुं शक्यमप्रतिबद्धसामग्रीमत्त्वादतो निबिडपापमण्डलीजडीकृतवान्त- स्य ध्वान्तध्वंसिज्ञानभानुजनुरभावे ऽपि बहुजन्मनिचयसञ्चितभग- घदपचितिवञ्चितपञ्चक्लेशमलमानसानां महानुभावलब्धमहावा- क्यानां सत्येव शरीरे ज्ञानमुत्पद्यते । उपपद्यते चोक्तयुक्त्या जीवन्मु- क्तिशास्त्रं तद्यथाऽहिनिलयनी अभयं वै जनकप्राप्तोऽसि क्षीयन्ते चास्य कर्माणीत्यादि स्मयते च व्यासवसिष्ठादयो जीवन्मुक्ता इति । ननु शानिनो देहदर्शनसत्त्वे कर्माधिकारः स्यादित्यत आह- अब R ४ सू. ९ वर्णकम् । १५१ शानिनो न नियोगः स्या१)न्न स्वेष्टाचरणं तथा । मननादिनियोगस्य ज्ञानात्पूर्व गतत्वतः ॥ इति । अविद्यावद्विषयं शास्त्रमित्युक्तम् । ज्ञानिनः कर्मकरणाध्यासा- भावात्तत्फलानपक्षत्वाच्चति । न च विधिनिषेधानीतत्वे यथेष्टचेष्टा- प्रसङ्गस्तत्रापि रागस्य हेतुत्वात् न हि निरस्तसमस्तानानन्दाब्धि- मग्नचित्तस्यान्यत्र रागः सम्भवति । ननु ज्ञानिनः कर्म नास्तीति कथ श्रवणानन्तरं मननादिविधिरिति चेतिक तावता न हि श्रवण- मात्रादपरोक्षज्ञानमस्ति अतस्तदर्थमेव मननादिविधानम् । अतो वा- क्यार्थानुभवे सति न किञ्चित्कार्यमस्ति येन विधिपरा वेदान्ता. स्युः। सर्वज्ञबादरायणेन पृथक् शास्त्रं नारभ्येत । यदि बाह्यान्तरसाधनविधि- भेदाच्छास्त्रभेदस्तर्हि अथातः परिशिष्टमानसधर्मजिज्ञासेत्यारभ्यत अतो ब्रह्मजिज्ञासेत्यारब्धत्वाब्रह्मपरा वेदान्ता इति सिद्धम् । अत्राह सर्वसंकरवादी सत्यो भेदो नाभेदज्ञाननिवों ऽविरोधात्किन्त्वभेदा- ध्यासरूपात्कर्मणो भेदनाश इति तन्न । मानाभावात् । ब्रह्म वेद ब्रह्मैव भवतीति ज्ञानकनिवर्त्यत्वावगमादविरोधे तदभ्यासादपि निवृत्त्ययोगात् । विरोधे तु नोभयोः सत्यत्वं खण्डो गौरित्यादिप्रत्य- यानां कल्पितभेदविषयत्वात् बहुधा निरस्तो ऽयं भेदाभेदवाद इत्यु- पेक्ष्यते । तार्किकाभिमतात्यन्तभेदेवादस्तु मानयुक्तिहीनः । तथा हि सर्वदेहेष्वहमित्येकाकारप्रत्यय आत्मैक्ये प्रमाणम् । विवादग्रस्ता देहास्त्वद्भोक्तकाः जीवदेहत्वात्त्वद्देहवत् इत्याद्यनुमानमेको देवः एक एव हि भूतात्मा भूते भूते व्यवस्थित इत्यादिरागम सुख- दुःखादिवैचित्र्यं त्वन्तःकरणभेदादुपपद्यते द्वा सुपर्णेत्यादिश्रुतिस्तु कल्पितभेदमनूद्यानश्नन्नन्य इति वाक्यशेषणासंसारित्वं बोधयति । नान्यो ऽतो ऽस्ति द्रष्टेत्यादिना भेदस्य निषेधाच्च कल्पितत्वं धर्मि- प्रतियोगिसापेक्षत्वाच्च । तथा हि प्रतियोग्यवृत्तित्वेनानुयोगिवृत्ते- धर्मस्य ज्ञानं भेदज्ञाने कारणं घटत्वं पटे नास्तीति जानत एव घटः पटो न भवतीति प्रतीतेरजानतोऽप्रतीतेरनुयोगितावच्छेदकस्य धर्म- स्य प्रतियोग्यवृत्तित्वज्ञानं तु भेदज्ञानाधीनमिति अन्योन्याश्रयात् । प्रातिभासिक एव भेदो ऽभेदस्तु न भेदाभावः किन्तु भेदभ्रमहेत्व- ज्ञानाधिष्ठानवस्तुस्वरूप. । तस्मादद्वैतवस्तुसाक्षात्कारमात्रात्सर्व- वस्तुद्वैतनिवृत्तिर्युज्यते इत्याह- (२) स्थायथेष्टाचरण तथेति पाठान्तरम् ।
१५२ विवरणोपन्यासे भेदाभेदी न सत्यौ स्तो ऽभेदः सत्यो मृषा भिदा । अभेदाज्ञानजं सर्व तज्ज्ञानाद्विनिवर्तते ॥ अनाद्यविद्याविलसितान्त करणाद्युपाधिनिबन्धनः प्रमातृत्वाभि- मान आत्मनो यावन्न निवर्तते तावदेव शास्त्रीयो लौकिकश्च सर्वो व्यवहारः अद्वितीयनिरतिशयानन्द चैतन्यकताननिरवयवस्वच्छास- गप्रत्यग्भूतब्रह्मसाक्षात्कारात्तन्निवृत्तौ सर्वो व्यवहारो निवर्त्तते इति वेदान्तजन्यज्ञानात्कृतकृत्यतामाह- प्राप्तव्यमखिलं प्राप्तं हातव्यमखिलं हतम् । कृत्यं शेयं समाप्तं च ब्रह्मास्मीत्यवबोधने ॥ इति । अश्वमेधादिभिरप्यात्मानन्दस्यैव लेशाः प्राप्तव्या एतस्यैवान- न्दस्यान्यानि भूतानि मात्रामुपजीवन्तीत्यादिश्रुतेरत आत्मज्ञानिना ते लब्धा भवन्ति तदाहापस्तम्बः । आत्मलाभान्न परं विद्यते इति निर्गलितसकलशोकस्यात्मनो ये शोका भ्रान्तिमूला हातव्या प्रा- संस्ते सर्वे ऽपि हता भवन्त्यतः कामयितव्यान्तराभावात्कामानुपपत्तेः कृतकृत्यता भवति । इत्थं निरतिशयफलावसानाद्वेदान्तानां ब्रह्मा- त्मनि तात्पर्यमिति सिद्धम् ॥ गोविन्दानन्दभगवत्पूज्यपादपदीकसा। रामानन्दसरस्वत्या रचितो ऽनुक्रमो मुदे ॥ बोधगन्धा विवरणवाक्पुष्पा नवरूपिणी । उपन्यासाभिधा माला प्राप्ता श्रीरामपादुकाम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पूज्य- पादशिष्यरामानन्दसरस्वतीकृती विवरणोपन्यासे नवमं वर्णक समाप्तम् ॥ समाप्तो ऽयं विवरणोपन्यास ॥
श्रीगणेशाय नमः। श्रीसच्चिदानन्दजगद्गुरवे नमो नमः । श्रीमच्छङ्कराचार्यप्रणीता वाक्यसुधा श्रीमद्ब्रह्मानन्दभारतीप्रक्लृप्तया टीकया सहिता । यस्मात्सर्व समुत्पन्नं चराचरमिदं जगत् । इदं नमो नटेशाय तस्मै कारुण्यरूपिणे ॥१॥ कारण खादिजगतां तारणार्थमनागसाम् । वारणाननमात्मानमद्वयं समुपास्महे ॥२॥ परापश्यन्त्यादिदेहां प्रणताभीष्टदायिनीम् । सत्यज्ञानानन्दरूपां ध्याये ह्याद्यां सरस्वतीम् ॥३॥ नत्वा श्रीभारतीतीर्थविद्यारण्यमुनीश्वरौ । मया वाक्यसुधाटीका यथामति विरच्यते ॥४॥ न ख्यातिाभपूजे च टीकाकरणकारणम् । न विद्वत्ताबलं वा ऽत्र मुक्तिरेवात्र कारणम् ॥५॥ प्रारीप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्तिप्रचयगमनाय शिष्टा- चारपरिपालनाय च केवलकूटस्थप्रत्यग्बोधरूपपरमात्मस्वरूपानु- स्मरणलक्षणं मङ्गलमाचरन् सच्चिदानन्दाखण्डैकरसस्वरूपावस्था- नलक्षणस्य मोक्षस्य तत्त्वमस्यादिमहावाक्यार्थापरोक्षज्ञानफलत्वा- द्वाक्यार्थज्ञानस्य चान्वयव्यतिरेकाभ्यां पदार्थपरिशोधनपूर्वकत्वात्प- दार्थपरिशोधनस्य प्रसिद्धानुवादेनाप्रसिद्धं निरूपणीयमिति न्यायेन प्रतिशरीरमहमहमिति प्रसिद्धजीववाचकत्वंपदार्थपरिशोधनपूर्वक- त्वात् श्रीमच्छारीरकमहाशास्त्रे श्रीमद्भाष्यकारैःप्रतिपादितमर्थ हृदि निधाय प्राण्यनुजिघृक्षया दृग्दृश्यविवेकद्वारा प्राधान्येन त्वपदार्थ- परिशोधनपरमिदं प्रकरणमारभमाणः परमकृपानिधिः श्रीभारतीती- र्थगुरुः प्रकरणप्रतिपाद्यमानमर्थ संक्षिप्य प्रथमश्लोकेन तावदर्श- यति ।
सव्याख्यायां वाक्यसुधायाम् । श्रीरामचन्द्राय नमः। रूपं दृश्यं लोचनं दृक् तदृश्यं दृक्तु मानसम् । दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते ॥ १॥ रूपमिति ॥ लोके चक्षुरिन्द्रियग्राह्य यद्रूपमस्ति तत्सर्व दृश्यं भवति तद्ग्राहकं चक्षुरिन्द्रियं स्वग्राह्यापेक्षया दृग्भवति तथा तत्पुनश्चक्षुरि न्द्रियं स्वस्मादप्यान्तरस्य मनसो दृश्य भवति स्वभास्यचक्षुरिन्द्रिया- पेक्षया मानसमपि दृग्भवति द्रष्ट भवति मनसः सर्वेन्द्रियावभासक- त्वसामर्थ्य द्योतयति।तुशब्दःधीवृत्तयःअन्त करणस्य वक्षमाणवृत्तय- स्तदविद्याकार्यत्वेन जडरूपत्वात् दृश्या भवन्ति साक्षी शरीरत्रयवि- लक्षणः प्रत्यगात्मा हगेव भवति द्रष्टैव भवति एवकारेणार्थादृश्यत्वे निषिद्धे ऽपि कण्ठतो ऽपि दृश्यत्व निषेधयन्प्रत्यगात्मनो द्रष्टत्वमेव द्रढयति नतु दृश्यते इति । साक्षिणि वर्तमानस्य दक्त्वस्य सर्वान्तरत्वे सापेक्षितत्वाभावात्ततस्तस्य लोचनमानसावर्त्तमानहत्त्ववलक्षण्यं द्योतयति द्वितीयस्तुशब्दः साक्षिण. दृश्यत्वमप्रमाणिकमिति यस्मा- त्तस्मात्कालत्रये पि हत्क्वमेवास्य स्वरूपमिति भावः ॥१॥ एवं प्रकरणे प्रतिपाद्यमानमर्थ संक्षिप्य प्रथमश्लोकेन दर्शयित्वा इदानी प्रथमश्लोकस्य प्रथमपादेन दर्शितमर्थ द्वितीयश्लोकेन स्पष्ट- यति । नीलपीतस्थूलसूक्ष्महस्वदीर्घादिभेदतः । नानाविधानि रूपाणि पश्येल्लोचनमेकधा ॥ २॥ नीलति ॥ दृश्यत्वहत्वयानानात्वकत्वहेतुकत्वान्नीलपीताधनेक- भेदभिन्नत्वेन दृश्यत्व प्राप्तानि रूपाणि चक्षुरिन्द्रिय स्वयं स्वग्राह्यरू- पभेदानुकूलखरूपभेदमगृहीत्वैव एकरूपेणैव पश्येत् गृह्णीयात् अत एवास्य हत्कं स्यादिति भावः ॥२॥ एवं प्रथमश्लोकस्य द्वितीयपादोक्तमर्थ स्पष्टीकुर्वन् चक्षुरिन्द्रिय प्रदर्शितन्यायं श्रोत्रादीन्द्रियेष्वप्यतिदिति । आन्ध्यमान्द्यपटुत्वेषु नेत्रधर्मेषु चैकधा । सङ्कल्पयेन्मनः श्रोत्रत्वगादौ योज्यतामिदम् ॥ ३ ॥ आन्ध्यमिति ॥ आन्ध्यं नाम सामान्याकारेणापि स्वविषयग्रहणा- सामर्थ्य विषयसामान्याकारग्राहकत्वं मान्ध स्खविषयसूक्ष्मविशे- ।
सव्याख्याया वाक्यसुधायाम् । ३ षाकारग्रहणसामर्थ्य पटुत्वम् । एवमत्र नेत्रधर्मेषु आन्ध्यमान्धादिभे- दभिन्नेष्वपि नानात्वेनैव हेतुना भास्य*मानान् तान्नेत्रधर्मान् भास्यभे- दानुरूपस्वरूपभेदमगृहीत्वैकरूपेणैव मनः सङ्कल्पयेत् मम चक्षुरन्धं मम चक्षुर्मन्दं मम चक्षुः पट्विति अत एवास्य मनसो क्त्वं भवती- त्यर्थः। श्रोत्रत्वगादीत्यत्र चशब्द. सम्बध्यते श्रोत्रत्वगजिव्हाप्राणेष्व- पीदं स्खविषयापेक्षया हक्त्वं खभासकमानसापेक्षया दृश्यत्वं यथोचितं बाधिर्यादिकश्च योज्यतामुह्यतामित्यर्थः। एकस्मिन्निन्द्रिये दग्दृश्यवि- वेकंदयित्वा श्रोत्रादीन्द्रियान्तरेग्वप्येवं योज्यतामित्यतिदिशति । आचार्यस्य स्खशिष्यै स्वबुद्ध्या क्रियमाणो दृश्यविवेक एव पुरुषा- र्थोपायो भवतीत्यभिप्रायः ॥३॥ प्रथमश्लोकस्योत्तरार्द्ध साक्षी हगेवेत्यन्तेन ग्रन्थेन प्रदर्शितमर्थ विशदयति। कामः सङ्कल्पसन्देही श्रद्धाश्रद्धे धृतीतरे । ही(मीरियेवमादीन्भासययेकधा चितिः ॥ ४ ॥ काम इति ॥ रज्ज्वज्ञानाद्रज्ज्वारोपितान् सादीन रज्जुरिव स्वा- ज्ञानात्स्वस्मिन्नारोपितान् कामः सङ्कल्पो विचिकित्सा श्रद्धा ऽश्र- द्धा धृतिरधृतिही रित्येतत्सर्वं मन एवेति बृहदारण्यकश्रु- त्युक्तानादिशब्देन संगृहीतानतरेयोपनिषद्युक्तान्संज्ञादींश्च स्वरूपज्ञाना- पनोद्यानेतान् सर्वानप्यन्तःकरणवृत्तिविशेषान्स्वगतादिभेदरहितस- च्चिदानन्दलक्षणब्रह्माभिन्नकूटस्थप्रत्यग्यूपा सर्वसाक्षिणी चितिरेकधा भासयति विकारकारणाभावात्खभास्याऽवस्तुभूतविकारानुरूपं स्व- गतविकारमन्तरेणाप्येकरूपेणैव प्रकाशयतीति यावत् ॥ ४॥ इन्द्रियमनसोरुक्तन्यायेन उक्तलक्षणायाश्चितेरपि दृश्यत्वं स्या- दित्याशङ्कायां दृश्यत्वस्य द्रष्टपूर्वकत्वाञ्चितेष्टुत्वेन चित्यन्तराङ्गी- कारणानवस्थाख्यो दोषः स्यात् चितेश्चितिरेव द्रष्ट्रीत्यस्मिन् पक्षे ऽपि कर्मकर्तृविरोध. स्यात्तस्मात्प्रकाशान्तरनिरपेक्षतया स्वयंप्रकाशमा- नायाश्चितेईश्यत्वं न स्यादित्यर्थतो दर्शयन्मुखतः स्वव्यतिरिक्तान्तः- करणादियुष्मदर्थेभ्यश्चिते_लक्षण्यं न तु दृश्यते इत्यशविवरणेनानेन श्लोकेन दर्शयति । * भासमानानिति वा पाठ'।
४ सव्याख्यायां वाक्यसुधायाम् । नोदेति नास्तमेसेषा न वृद्धिं याति न क्षयम् । स्वयं विभायथान्यानि भासयेत्साधनं विना ॥५॥ नोदेतीति॥ यत्साक्षादपरोक्षाब्रह्मेति श्रुत्युक्तप्रकारेण विद्वदपरो- क्षतां चितेरात्सूचयन् उक्तलक्षणां चिति परामृश्यत्येषोति । सर्व- साक्षिण्येषा चितिरहमादियुष्मदर्थवत्प्रागभावाभावानोदेति नोत्प- द्यते प्रध्वंसाभावाभावान्नास्तमेत्यन्तं विनाशं न प्राप्नोति वृद्धिक्षयौ ताभ्याम् उपलक्षितौ अस्तित्वपरिणामौ च न प्राप्नोति सर्वथा ऽप्येकरूपत्वादुत्पत्त्यनन्तरं भाविव्यावहारिकास्तित्वमेव विकारान्त:- पातित्वेन निषिध्यते न तु स्वरूपास्तित्वं तस्याविकारत्वेन निषे- झुमशक्यत्वाचितेः षड्भावविकाररहितत्वे हेतुं दर्शयति स्वयं विभा- तीति । एषा चितिः स्वस्य प्रकाशान्तरनिरपेक्षतया स्वयंप्रकाशमाना सती सच्चिदानन्दात्मकस्वरूपप्रकाशानन्तरमेव स्वव्यतिरिक्तान्यखि- लान्यारोपितवस्तूनि भासयेत् प्रकाशयेत् तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभातीति श्रुतेः सविकल्पस्य ज्ञानस्य निर्विकल्पकज्ञानपूर्वकत्वाचात्रानुमानद्वयं सूचितम् अस्मत्प्रत्ययवि- षया एषा चितिः षड्भावविकारराहता प्रकाशान्तरनरपेक्ष्येण स्वयं- प्रकाशमानत्वाद्यत्षड्भावविकाररहितं न भवति तत्प्रकाशान्तरनैर- पेक्ष्येण स्वयप्रकाशमानमपि न भवति यथा युष्मत्प्रत्ययविषयो हिमादिः उक्तलक्षणा एषा चितिः षड्भावविकाररहिता प्रकाशा- न्तरनरपेक्ष्येण स्वव्यतिरिक्तवस्त्ववभासकत्वाद्यन्नैवं तन्नैवं यथा ऽहमादिरित्येवमुक्तप्रकारेण स्वयंप्रकाशमानत्वात्षड्भावविकाररहि- तत्वाञ्च युष्मदर्थवैलक्षण्ये समर्थिते सति चितेः कालत्रये ऽपि हक्त्वमेव स्वरूपं न तु दृश्यत्वमित्यर्थात्समर्थितं भवति अदृष्टं द्रष्ट्र- श्रुतं श्रोत्रमत मतमविज्ञात विज्ञातृ न दृष्टेष्टारं पश्येन श्रुतेः श्रोतारं श्रुणुयान्न मतेमन्तारं मन्वीथाः न विज्ञातेर्विज्ञातारं विजानीया इत्या- दिश्रुतिसहस्त्रेणाप्ययमेवार्थस्तात्पर्येण प्रतिपाद्यते इति अतो युष्मत्प्र- त्ययविषयान्तःकरणादिरूपं दृश्यमेवास्मत्प्रत्ययावलम्बनभूतायाः प्र- त्यचितेः स्तरूपं हक्त्वमेवात प्रत्यचितिरेव परं ब्रह्मेत्ययमेवाभि- प्रेतार्थः॥५॥ ननु युष्मदर्थावभासकत्वं प्रथमश्लोके साक्षिण इत्युक्तम् । अत्र तु चितेरित्युक्तम् अतः पूर्वापरविरोध इति चेनैष दोषः प्रथम- -- सव्याख्याया वाक्यसुधायाम् । श्लोकोक्तसाक्षिण एवात्र चितिशब्देन परामृष्टत्वात्तस्यैव पुन प्रथम- श्लोकार्थविवरणेन प्रकरणपरिसमाप्तिपर्यन्तेनोत्तरग्रन्थसन्दर्भेणापि तत्र तत्र साक्षिशब्देन परासृष्ट*त्वात्साक्षी चितिश्चिञ्चैतन्यं ज्ञानं बोधः प्रत्यगात्मा कूटस्थ इत्यादिशब्दानामेकार्थपर्यवसायित्वाञ्च । ननु तर्हि युष्मदर्थस्यान्तःकरणस्य सापेक्षकं त्वमपि न सम्भवति भौतिक- त्वेन जडात्मकत्वाद्धटादिवत् द्रष्टरि नास्ति दृश्यत्व दृश्यस्य द्रष्टता न हि दृश्यरूपस्य कुड्यादेष्वृता न हि दृश्यत इति पुराणवचनाच्च तथा सति तस्य संसारो नोपपद्यते।अथ वा पूर्वोक्तप्रकारेणाहमादि- विलक्षणस्य कूटस्थस्य स्वयप्रकाशप्रत्यग्बोधरूपस्य साक्षिणश्च जा- प्रदादिविमोक्षान्तः संसारो नोपपद्यते तस्यासङ्गोदासीनत्वात् यो ऽसंसारी न भवति सो ऽसङ्ग उदासीनो ऽपि न भवति यथाहमादिः असङ्गो ह्ययं पुरुष इत्यादिश्रुतिसद्भावाद्धेतुरसिद्धो न भवत्येवमुक्त- प्रकारेणान्तःकरणतत्साक्षिणोरुभयोरप्यसंसारित्वे समर्थिते सति निवर्त्यसंसाराभावात्तनिवर्तकज्ञानस्यापि नैरर्थक्यं स्यात्ततस्त- ज्ज्ञानप्रतिपादकवेदान्तवाक्यानामप्यप्रामाणिकत्वप्रसङ्गः स्यात् पुन- रुक्तलक्षणस्याशेषविशेषशून्यस्य साक्षिणः शब्दप्रवृत्तिनिमित्तषष्ठया- दिरहितत्वेन वेदान्तवाक्यर्विधिमुखेन प्रतिपाद्यमानत्वासम्भवादत- स्तन्निरसनमात्रेण तद्रूपाप्रसिद्धश्च शास्त्रस्याप्रामाण्यं प्रसज्येत एवं परम्परया ऽनेकदोषसम्भवात्साक्षिण' कूटस्थत्वस्वयंप्रकाशमान- त्वादिकमप्यप्रामाणिक स्थादित्यनेकदोषमाशयान्तःकरणप्रतिफ- लितानिर्वचनीयचिच्छायाङ्गकार सति सर्वो ऽपि दोषः परिहृतः स्यादित्यभिप्रेत्य चिच्छायां तावदङ्गीकरोति । चिच्छायावेशतो बुद्धौ भानं धीस्तु द्विधा स्थिता । एकाहङ्कतिरन्या स्यादन्तःकरणरूपिणी ॥ ६ ॥ चिच्छायेति॥चिच्छायावेशतो बुद्धौभानं रजतसुवर्णादिववि- धपरिणामाहेमन्त करणाख्यं द्रव्यमत्र बुद्धिशब्देन धीशब्देन चोच्यते तस्यान्तःकरणस्य कर्तृस्वरूपवृत्तिमदशो ऽहंकृतिशब्देनोच्यते करण- स्वरूपमन शब्दवाच्याहमिदमात्मिकवृत्यशो ऽन्तःकरणशब्देनांच्यते तत्र श्रोत्रादिकरणापेक्षया अन्तःकरणत्वादन्तःकरणं बुध्यते अनया चिच्छायावेशतः।चिच्छाया चित्प्रतिबिम्बं तस्या आवेशो ऽनुप्रवेश- * परामृश्यत्वादिति वा पाठः ।
६ सव्याख्याया वाक्यसुधायाम । स्ततो स्वरूपमिति वुद्धिस्तस्यां भान स्यात्स्वभावतो जडरूपा ऽप्यनु- प्रविष्ट वैतन्यबलाद्बुद्धिः स्वयंप्रकाशमानेव भवतीति यावत् । धीस्तु द्विधा। तुशब्दो ऽवधारणे ।भ्रामकसन्निधौ लोहवत्साक्षिसन्निधौ बहु- विधचेष्टांस्थिताकुर्वती साधीधैिवस्थिता तयोर्मध्ये एका धीरहङ्क- तिशब्दवाच्यकर्तृरूपा स्यादन्या धीर्मनःशब्दयाच्याऽन्तःकरणरूपिणी स्यातू कामादीनां संज्ञादीनां च सर्वेषामप्यन्तःकरणपरिणामविशे- षाणां मनोबुद्ध्यहङ्कारचित्ताख्येष्वन्तःकरणचतुष्टयेष्वन्तभूतत्वात् बु- द्धिचित्तयोरपि यथाक्रममहङ्कारमनसोरेवान्तर्भूतत्वावृत्तिमदृत्तिल- क्षणाकारद्वयव्यतिरिक्तान्तःकरणाकारान्तरस्य निरूपयितुमशक्य- त्वात् चित्कर्मभूताबुद्धिः स्वविकारानुकारिणा ऽनुप्रविष्टचैतन्यन स- हिता ऽहकारमन शब्दवाच्यकर्तृकरणात्मकवृत्तिमद्वृत्तिलक्षणाकार- द्वयनकावस्थितेति भावः ॥ ६ ॥ उक्त लक्षणयोरहकारमनसोर्मध्ये ऽहङ्कारस्य चिच्छायया सह तप्ताय पिण्डवत्तादात्म्यात्तेन सच्चिदाभासाहङ्कारेण तादात्म्याजड- रूपो ऽपि देहश्चेतनत्वं प्राप्नुयादित्याह । छायाहङ्कारयोरैक्यं तप्ताय:पिण्डवन्मतम् । तदहङ्कारतादात्म्यावेहश्चेतनतामगात् ॥ ७ ॥ छायेति ॥ छायाहकारयोश्चिदाभासकरिक्यं तप्तायःपिण्डवद्व- न्हिसम्बन्धेन तद्रूप तप्ताय पिण्डवन्मतमभिप्रेत तथा दृष्टान्ते अयम- ग्निरिदमय इति पृथक्करणमशक्यं तथा दार्शन्तिके ऽप्ययमहङ्कार इयं चिच्छायेत्यहङ्कारस्वरूपस्य तत्रानुप्रविष्टचिच्छायास्वरूपस्य च पृथ- करणमशक्यमितिभावः। तदहकारतादात्स्यात्तेन चिच्छायासहितेनाह- कारेण तादात्म्यात् सो ऽहकार आत्मा नाम स्वरूपं यस्य देहस्य स तदात्मा तस्य भावस्तादात्म्यं सम्बन्ध इत्यर्थः तस्माद्देहः स्थूलश- रीर स्वय जडरूपमपि चेतनतां चेतनं ज्ञानं तस्य भावश्चेतनतातां ज्ञान- स्वरूपतामगात्मानुयादित्यर्थः। यथा पयसि परीक्षणार्थ प्रक्षिप्तो मरक- तमणिः पयोशेषमात्मच्छायं कुर्यात्तथा स्वभावत एव सर्वान्तरः कूट- स्थोऽसङ्गबोधरूपः साक्ष्यप्यहङ्कारादिस्थूलदेहपर्यन्तमशेष युष्मदर्थ- मात्मच्छायं कुरुते इति भावः ॥ ७ ॥ नन्वेवमहङ्कारस्य चिच्छायादेहाभ्यां तादात्म्ये सत्यहं पश्याम्यहं ७ सव्याख्यायां वाक्यसुधायाम् । शृणोमात्यादरनुभवसिद्धत्वादिन्द्रियरपि तादात्म्यमस्तीत्याशय इन्द्रियाणां स्वस्वगोलकस्थानमन्तरेण स्वस्वविषयग्रहणसामर्थ्याभा- वादोलकानां च स्थूलशरीरावयवत्वादवयवावयावनो दाभावान्म- नुष्योऽह ब्राह्मणोऽह गृहस्थोऽहं कृष्णकेशो ऽहमित्यादिवदह चक्षुरहं श्रोत्रमित्याद्यनुभवाभावात्कस्त्वमिति पृष्टे अहमिति वदतो देहस्यैव पृश्यमानत्वाञ्चन्द्रियतादात्म्यस्यापि देहतादात्म्ये ऽन्तभूतत्वात्पृथक न निरूपणीयमित्यहङ्कारस्य सम्बन्ध्युद्देशद्वारेण तादात्म्यस्येयत्तां दर्शयति । अहङ्कारस्य तादात्म्यं चिच्छायादेहसाक्षिभिः । सहजं कर्मजं भ्रातिजन्यञ्च त्रिविधं कमात् ॥ ८॥ अहङ्कारस्येति ॥अहङ्कारस्येत्युक्तलक्षणस्य कर्तुश्चिच्छायादेहसा- क्षिभि चिच्छायया देहेन साक्षिणा च सह क्रमात्सम्बन्ध्युद्देशक्रमेण त्रिविध त्रिप्रकारं तादात्म्य सम्बन्धस्तेषां तादात्म्यानां सदानि नामानि कल्पयति सहज चिच्छायाहङ्कारयोर्यत्तादात्म्य तत्सम्बन्धि- नोरुभयोरप्युत्पत्तिकाले सहैव जायते इति सहजमित्युच्यते कर्मजम् उक्तलक्षणाहकारस्य देहस्य च यत्तादात्म्यं तदन्वयव्यतिरेकाभ्यां जाग्रद्भोगप्रदकर्मणैव जायते इति कर्मजमित्युच्यते भ्रान्तिजन्यमधि- ष्ठानयाथात्म्याज्ञान भ्रान्तिशब्देनोच्यते अहङ्कारसाक्षिणोयत्तादात्म्यं तदनाद्यनिर्वचनीयभ्रान्त्यैव जायते इति भ्रान्तिजन्यमित्युच्यते । तादात्म्यत्रयसमुच्चयार्थश्चशब्दः । अत्रायं प्रयोगः । अहङ्कारसाक्षिणो- स्तादात्म्यमधिष्ठानयाथात्म्याज्ञानजन्यमधिष्ठानयाथात्म्यज्ञानापनोद्य- त्वात् यद्यदधिष्ठानयाथात्म्यज्ञानापनोद्यन्तत्तदधिष्ठानयाथात्म्याज्ञान- जन्यं यथा रज्जुसादीनां तादात्म्यं तथा चेदमधिष्ठानयाथात्म्यज्ञा- नापनोधं तस्मादधिष्ठानयाथात्म्याज्ञानजन्यमेवेति । एवमहङ्कारस्य चिच्छायादेहसाक्षिभिः सम्बन्ध्युद्देशक्रमेणैवोक्तलक्षण त्रिविधं तादात्म्यमस्तीति शेषः ॥८॥ ननु, तर्हि "ऊर्ध्वमूलमध शाखमश्वत्थ प्राहुरव्ययम्" एवमनादि- रनन्ता नैसर्गिको ऽयमिति च श्रीभगवद्भाष्यकाराश्यामुक्तत्वादहका- रसाक्षिणोस्तादात्म्यस्य निवृत्तिर्नास्त्यत एव नि शेषदु खोच्छित्तिनि- रतिशयानन्दावाप्तिलक्षणमोक्षो ऽप्याशामात्रमित्याशङ्ख्य ब्रह्मात्मज्ञान- * समर्थानीति वा पाठ ।
८ सव्याख्याया वाक्यसुधायाम् । पर्यन्तमेव भ्रान्तिजन्यतादात्म्यस्याऽविनाशित्वेन ताभ्यां विवक्षित- त्वादन्यथा स्ववाक्याविरोधात्सर्वेषामपि मोक्षशास्त्राणामप्रामाण्यप्र- सङ्गाश्च मुमुक्षूणामपि सर्वेषां मोक्षविषयश्रवणादिप्रवृत्त्यभावाश्च कर्मजन्यतादात्म्यनिवृत्तेश्च प्रतिदिनं सुषुप्तावनुभूतत्वाच्च सहजता- दात्म्यातिरिक्तयोरपि तादात्म्ययोः खस्वकारणनाशद्वारा निवृत्तिर- स्त्येव सहजतादात्म्यस्य तु सहजत्वादव निवृत्तिर्नास्तीत्याह । सम्बन्धिनोस्ततोर्नास्ति निवृत्तिः सहजस्य तु । कर्मक्षयात्मबोधाच्च निवर्तेते क्रमादुमे ॥ ९॥ सन्बन्धीति ॥ सम्बन्धिनोः सतोःपरस्परसम्बन्धित्वेनैवोत्पद्यमा- नयोरुत्पत्तिकाले एव सम्बन्धिनोरित्यर्थ.। तुशब्दो ऽवधारणे । सह- जतादात्म्यस्येतरतादात्म्यवैलक्षण्यद्योतनार्थों वा । उक्तलक्षणयोश्चि- च्छायाहकारयो. सहजाख्यस्य तादात्म्यस्य निवृत्तिर्नास्त्येव परस्परं पृथग्भावो न सम्भवत्येव सुषुप्तिर्मूर्छा मरणादौ जाग्रद्भोगप्रदकर्म- क्षयात् जाग्रत्काले श्रुत्याचार्यानुग्रहबलनाह ब्रह्मास्मीति ब्रह्मात्मैक्य- साक्षात्काराश्च कर्मजन्यभान्तिजन्याख्ये उभे अपि तादात्म्ये निमित्ता- भावान्नैमित्तिकस्याप्यभाव इति न्यायेन क्रमान्निवतते कर्मक्षयात् कर्मजं तादात्म्य निवर्तते अहवारदेहास्याबुभावपि सम्बन्धिनौ पर- स्परसम्बन्ध त्यजते इत्यर्थः। प्रबोधादप्रबोधक्षये सतिभ्रान्तिजन्यमपि तादात्म्यं निवर्तते बोधानन्तरं साक्षिसम्बन्धराहित्येनाप्यहड्वारप्रती- तिरन्यदृष्ट्यैव स्वदृष्टया निवर्तते यथा शुक्तिकाज्ञानात्तत्स्वरूपाशाने नष्टे सति तत्रैव रजतं लीयते तथा स्वरूपपरिज्ञानात्स्वरूपाऽपरिज्ञाने नष्टे सति स्वस्मिन्नेवाहङ्कारो लीयते एव ॥६॥ संक्षेपेणावस्थात्रयस्वरूपमन्वयव्यतिरेकाभ्यां देहस्याचेतनत्वञ्च दर्शयति । अहङ्कारलये सुप्तौ भवेदेहो ऽप्यचेतनः । अहङ्कारविकासार्द्धः स्वप्नः सर्वस्तु जागरः॥ १० ॥ अहङ्कारोति॥स्थूलसूक्ष्मभोगद्वयप्रदकर्मक्षयात्खकारणा*ज्ञाने अह- कारे लीने सति तदहङ्कारलयावस्था सुषुप्तिरित्युच्यते तस्याम- वस्थायां पूर्वमहकारसम्बन्धाश्चेतनत्वेन भातो देहोऽप्यचेतनो भवेत क्षयात्सकारणाज्ञाने इति वा पाठ. ।
सव्याख्यायां वाक्यसुधायाम् । ९ "अन्धः सननन्धो भवति विद्धः सन्नविद्धो भवति उपतापी सन्न- नुपतापी भवती"त्यादिश्रुतेः अहङ्कतिविकासार्द्धः स्वप्नः सूक्ष्मभो- गकर्मण्युद्बुद्धे सति तद्वशात्स्वकारणा*शानादुत्पन्नस्याहङ्कारस्य स्व- व्यतिरिक्तवस्त्वन्तराभावे ऽपि जाग्रजनितसंस्कारमात्ररूपभोगार्थ स्थूलशरीराभिमानमन्तरेणापि शरीरस्यान्तःसूक्ष्मनाडीप्रचारो यः स एव तस्याहङ्कारस्या विकासः स एव स्वप्न इत्युच्यते तत्राहङ्कार- व्यतिरिक्तवस्त्वन्तराभावेश्रुति “न तत्र रथानरथयोगा न पन्थानो भव- न्ती"त्यादिः सर्वस्तु जागरः स्थूलभोगप्रदकर्मण्युबुद्धे सति तद्वशा- दापादमस्तकं स्थूलदेहे ऽभिव्याप्तस्याहङ्कारस्य सर्वेन्द्रियै. सर्वविष- यज्ञानं यत्स एव तस्याहङ्कारस्य पूर्णविकासस्तदेव जागरणमित्यु- च्यते अस्यामवस्थायां पुनरहङ्कारसम्बन्धाहेहः पूर्ववञ्चेतनत्वेन भा- सते उभयत्राहङ्कारे समाने स्वप्नाजागरितस्येन्द्रियविषयसद्भावात्म- कवैलक्षण्यद्योतनार्थस्तुशब्द. अत्रदर्शिते ऽवस्थात्रयलक्षणे माण्डूक्य- तापिनीयाद्युपनिषदः प्रमाणानि “दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तेजसः आकाशे च हृदि प्राशस्त्रिधा देहे प्रतिष्ठितः” इन्द्रियैरथापल- ब्धिर्जागरितं करणेपूपसंहृतेषु जागरितसंस्कारप्रत्ययसविषयः स्वप्नः सर्वप्रकारकज्ञानोपसंहारोबुद्धः कारणात्मना ऽवस्थानं सुषुप्तिरित्यादी- नि श्रीमद्गौडपादाचार्यभगवत्पादाचार्यादिपूर्वाचार्यवचनानि च ॥१०॥ एवं कर्तृव्यापारं निरूप्य करणस्यापि क्रियाव्याप्यत्वं तक्रियां दर्शयति ॥ अन्तःकरणत्तिश्च चितिच्छायैक्यमागता । वासनाः कल्पयेत् स्वप्ने बोधेविषयान्बहिः॥ ११ ॥ अन्तःकरणेति ॥ अन्तःकरणं चासौ वृत्तिश्चेत्यन्तःकरणवृत्तिःस- चिदाभासकर्तृरूपवृत्तिमदपेक्षया करणभूतं मन.शब्दवाच्याहमिद्- मात्मिका वृत्तिरिति यावत् वृत्तिश्चेति चकारेण छायाहङ्कारैक्यवि- षये प्रदर्शितो दृष्टान्तादिरवस्थात्रये ऽप्यहङ्कारवत्सङ्कोचविकासादि- श्चात्रापि समान इति धोत्यते उक्तलक्षणा सा वृत्तिश्च सुषुप्तौ लीयते सा पुनः सूक्ष्मभोगप्रदकर्मवशादुत्पत्तिसमये चिच्छायया तप्तायः- पिण्डवदैक्यं प्राप्ता सती स्वप्नावस्थायां नाडीमध्ये कर्तृकरणकर्मक्रि- तवशासकारणाज्ञानादिति वा पाठ। ૨ १० सव्याख्याया वाक्यसुधाणम् । यात्मकव्यवहारवासनाः कल्पयेत्सैव पुनः स्थूलभोगप्रदकर्मवशा- स्थूलशरीरेणैक्यं प्राप्ता सती जाग्रदवस्थायां श्रोत्रादीन्द्रियैः शब्दा- दिविषयान्बहिः कल्पयेत् । ननु बाह्यविषयाणामीश्वरस्रवृत्वेनान्तःकर- णकल्पितत्वमयुक्तमिति चेन्नैष दोषः स्वरूपमात्रस्येश्वरस्रष्ट्टत्वे ऽपि भोग्यत्वाकारस्यान्तःकरणकल्पितत्वात् "करणं कर्म कर्ता च क्रिया स्वमे फलं च धीः जाग्रत्येवं यतो हष्टे त्याचार्यवचनाच ॥ ११ ॥ एकमेवान्तःकरणं व्यवहारसौकर्यार्थमहङ्कारमनोभेदेनावयवशो विभज्य प्रदर्शयित्वा इदानीमहङ्कारस्यापि मनोपेक्षया कर्तृरूपत्वे ऽपि चिच्छायावेशतो बुद्धौ भानमित्यत्र बुद्धिशब्देन निर्दिष्टान्तःकरणा- ज्यद्रव्यापेक्षया करणत्वात्तस्यैव सर्वसंसारनिर्वर्तकत्वेन मुख्यकर्तृ- त्वान्मुख्याहङ्कारत्वाचाहङ्कारमनोविभागपूर्वावस्थालक्षणस्य तस्या- न्तःकरणाख्यद्रव्यस्य स्वरूपं दर्शयति ॥ मनोहङ्कत्युपादानं लिङ्गमेकं जडात्मकम् । अवस्थात्रयमन्वोत जायते म्रियते तथा ॥ १२ ॥ मन इति ॥ मनोहङ्कत्योरुपादानं कारणं यत्तन्मनोहङ्कृत्युपादानं किं तल्लिङ्गं लियते गम्यते ऽनेनेति लिङ्गमन्तःकरणाख्यं द्रव्य- मित्यर्थ तस्यैवाहं ब्रह्मास्मीत्यखण्डाकारवृत्तिद्वारण सश्चिदानन्दा- द्वितीयब्रह्मात्मगमकत्वात् । ननु तत्त्वविवेकाख्ये ग्रन्थे “ बुद्धिकमें- न्द्रियप्राणपञ्चकैर्मनसा धिया शरीरं सप्तदशभिः सूक्ष्म तल्लिङ्गमु- च्यते” इति सप्तदशावयवात्मकस्य सूक्ष्मशरीरस्यैव लिङ्गत्वमुक्तं मान्तःकरणस्य लिङ्गत्वमुपपद्यते इत्याशङ्य बुद्धिकर्मेन्द्रियप्राणप- ञ्चकानां वेदान्तेषु भौतिकत्वेन श्रुतत्वे ऽपि “अन्यत्रमना अभूवं नाद- शमन्यत्रमना अभूवं नाऔष"मित्यादिश्रुतिम्वन्तःकरणाधीनत्वश्रव- णादत एवाहङ्कारमनःसहितानां तेषां शानक्रियाशक्तिद्वयात्मकान्तः- करणवृत्तित्वादत्तिवृत्तिमतोर्व्यावहारिकभेदविवक्षया तत्रोक्तत्वात्त- योः पारमार्थिकभेदविवक्षयैवात्रोक्तत्वात्तद्विवक्षाभेदेन पक्षद्वयस्या- प्युपपन्नत्वादुक्तलक्षणस्यान्तःकरणस्य सूक्ष्मशरीरत्वं लिङ्गत्वं चोप- पद्यते एवेत्यभिप्रायेणाह एकमिति । एवमुक्तलक्षणमन्तःकरणं स्वभा- वतो जडमप्यनुप्रविष्टचिच्छायाबलेनैव स्थूलशरीरमध्यात्मत्वेनैव गृहीत्वा पूर्वोक्तसङ्कोचविकासप्रकारेणानुदिनमवस्थात्रयं प्राप्नोति सव्याख्यायां वाक्यसुधायाम् । ११ यथा कर्मवशादत्रस्थात्रयं प्राप्नोति तथा जनममरणादिकश्च कर्मव- यात्प्राप्नोतीत्यर्थः ।जायते म्रियते इत्युक्त्वा ऽनन्तर तथाशब्दप्रयोक्तुर्धर्मा- धर्मवशाघटीयन्त्रवत्पीनःपुन्येन जन्ममरणे प्राप्नोतीत्यभिप्रायः"शोक- हर्षभयक्रोधलोभमोहस्पृहादयः अहङ्कारस्य दृश्यन्ते जन्ममृत्युश्च नात्मनः एवं दुःखाद्यनुभवन्संसारे ऽस्मिन्पुमान् मुने घटीयन्त्रवतु- विनो जायते म्रियते च सः" इत्यादिपुराणवचनात् ॥ १२ ॥ एवं निखिलसंसारनिर्वाहकलिङ्गशरीरस्वरूपं निरूप्येदानीमस्य लिङ्गस्य विराडन्तसमस्तप्रपश्वस्य मूलकारणभूताया सच्चिदानन्द- ब्रह्माश्रयाया अविद्याज्ञानतमोमोहादिशब्दवाच्यायाः सर्वानर्थवीज- भूतायाः अनिर्वचनीयायाः मायायाः स्वरूपं तच्छक्तिद्वारेण विभज्य दर्शयितुं तच्छतेरियतां तावदर्शयति ॥ शाक्तिद्वयं हि मायाया विक्षेपात्तिरूपकम् । विक्षेपशक्तिलिङ्गादिब्रह्माण्डान्तं जगत्सजेत् ॥ १३ ॥ शक्तिद्वयमिति ॥ उक्तलक्षणमायाया आवरणशक्तिर्विक्षेपशक्ति- रितिद्वयमस्तीति शेषः । “जीवेशावाभासन कति माया चाविद्या च स्वयमेव भवती"त्यादिवेदान्तवाक्येषु मायायाः शक्तिद्वयात्मक प्रसिद्धमिति शास्त्रप्रसिद्धि द्योतयति हिशब्दः । अधिष्ठानमनाच्छाध विक्षेपयितुमशक्यत्वेन विक्षेपशक्ते आवरणशक्तिपूर्वकत्वादत पवावरणशक्तरग्यत्वेऽपि छन्दोभङ्गभयाद्विक्षेपशब्दपूर्वनिपातः कृतः। एवं शक्तरियत्तामुक्त्ता इदानीं सच्चिदानन्दलक्षणब्रह्मात्मस्वरूप- मात्राच्छादिकायाः विक्षेपशक्त्यभिव्यक्तः पूर्वावस्थालक्षणायाः आव- रणशक्तः सर्वानर्थबीजत्वनाग्यत्वे ऽपि विक्षेपशक्तेनैरपेक्ष्येण - झानन्दानुभवं तिरस्कृत्य सांसारिकसुखदुःखादिभोगप्रदत्वसा- माभावात्प्रतिदिनं सुषुप्तावनुभूतत्वेनास्मिन्नर्थे कस्यापि विप्र- तिपत्त्यसम्भवात् विक्षेपशक्त्यभिव्यक्त्यनन्तरं तया सृष्टस्वाहका- रादिदेहान्तस्य युष्मदर्थस्य शरीरत्रयविलक्षणस्य कूटस्थासङ्ग- बोधरूपस्य साक्षिणश्च स्वभावसिद्ध भेदं सैवावरणशक्तिर्येनांशेना- वृणोति तस्यैवांशस्य सुखित्वदुःखित्वाद्यनेकविधसंसारकारणत्वा- चाहशावरणशक्त्यंशस्योक्तरीत्या विक्षेपशक्त्यनन्तरभावित्वात्तइपेक्ष- या विक्षेपशक्तेरम्यत्वादनेनैवाभिप्रायेणावरणशक्तिस्वरूपं पनान्नि- १२ सव्याख्यायां वाक्यसुधायाम् । रूपयिष्यन्विरूपशक्तिस्वरूपं तावनिरूपयति विविधं करणं विक्षेपः विविधं भानं भवनं वा सा चासौ शक्तिश्चेति विक्षेपशक्तिः अध्यात्म विश्वतैजसप्राशादिभेदेनाधिदैवतं विराट् हिरण्यगर्भान्तर्याम्यादिभे- देन च स्वगतादिभेदरहितं चिन्मात्रं विक्षेपयतीति विक्षेपशक्तिः उ. तलक्षणं चिन्मात्रमनया विक्षिप्यते इति वा गिरिनदिसमुद्राद्यनेक- नामरूपाकारेण स्वयमेव विक्षिपति नामरूपाद्याकारेण परिणमते विवर्तते इत्यर्थः। एवमिति विक्षेपशक्तिर्जायते पुनर्लयं गच्छतीति जग- दुक्तलक्षणा सा शक्तिरुक्तलक्षणं समष्टिव्यष्टयात्मकं लिङ्गशरीरादि- ब्रह्माण्डान्तं जगत्सृजेदुत्पादयेदित्यर्थः ॥ १३ ॥ एवं विक्षेपशक्तिस्वरूपं निरूप्य तद्विक्रियात्मकसृष्टिस्वरूपनिरू- पणद्वारेणापि तदेव विशदयति ॥ सृष्टिर्नाम ब्रह्मरूपे सच्चिदानन्दवस्तुनि । अब्धौ फेनादिवत्सर्वनामरूपप्रसारणा ॥ १४ ॥ सृष्टिरिति ॥ ब्रह्मस्वरूपे सच्चिदानन्दवस्तुन्यारोपितनामरूपयो- रवस्तुत्वादधिष्ठानस्य तद्वैलक्षण्यं द्योतयति वस्तुशब्दः। सच्चिदानन्द- ञ्च तद्वस्तु चति सश्चिदानन्दवस्तु तस्मिन्परमार्थसच्चिदानन्दलक्षणे ब्रह्मणीत्यर्थः । नाम च रूपश्च नामरूपे सर्वे च ते नामरूपे च तयोः प्रसारणा विस्तारः विततिःसृष्टिरित्युच्यते । एतदुक्तं भवति। ब्रह्मण्य- वस्थिताया विक्षेपात्मिकायाः मायायास्तस्मिन्नेव ब्रह्मणि समस्त- नामरूपाकारेण विवर्तनं यत्सैव सृष्टिरित्युच्यते इत्यत्र दृष्टान्तमाह अब्धौ फेनादिवदब्धाववस्थितायाः विक्षेपात्मिकाया मायायास्तत्रैव फेनतरङ्गबुबुदाद्याकारेण विवर्तनं यथा सृष्टिशब्देनोच्यते तथा ऽत्रापीति भावः ॥१४॥ एवं विक्षेपशक्ति द्वारा मायाखरूपं दर्शयित्वा आवरणशक्तिबारे- णापि तदेव दर्शयति ॥ अन्तरदृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः। आणोसपरा शक्तिः सा संसारस्य कारणम् ॥ १५ ॥ अन्तरिति॥अन्तः स्थूलशरीरस्यान्तर्देशे हरहश्ययोर्भेदम् "अहमन्नादो ऽहमन्नाद” इत्यादिश्रुत्यनुसारेण शरीरत्रयतादात्म्यवशाद्भोत्कृत्वमापन- सव्याख्यायां वाक्यसुधायाम् । १३ स्य परमार्थतस्तद्रहितस्य केवलहडमात्रम्वरूपस्यास्मदर्थस्य सा- क्षिण. अविद्याकार्यत्वेन जडरूपस्याहङ्कारादिदेहान्तस्य युष्मदर्थस्य च भेदमन्योन्यवैलक्षण्यमन्योन्यपृथग्भाव बहिः शरीरस्य वाह्यदंश ब्रह्मसर्गयोर्भेदं "सचासश्चाभवत् अहमश्नमहमन्न"मित्यादिश्रुत्यनुसारे- ण नामरूपतादात्म्यवशाद्भोग्यत्वमापनस्य परमार्थतस्तद्रहितस्य परब्रह्मणस्तस्मिन् शुक्तिकायां रजतवदध्यस्तनामरूपात्मफस्य सर्गस्य च भेदम् एवमन्तरुक्तलक्षणयोईग्हश्ययोर्भेदं बहिर्बह्मसर्गार्भेदं चापरा शक्तिः पूर्वोक्तरीत्या विक्षेपशक्त्यनन्तरभावित्वे पि स्वरूपतो विक्षेपशक्तिप्रवर्तकत्वेन तत्कारणभूता आवरणवाच्या मायाश- क्तिरावृणोत्याच्छादयति सा संसारस्य कारणं अतईस्वरूपस्य साक्षिणः कर्तृत्वात्कृत्वादिलक्षणस्य संसारस्य सैव कारणं तस्या पवान्योन्याध्यासहेतुत्वेन सर्वानर्थकारित्वादिति भावः। बाहिःसचि- दानन्दलक्षणस्य ब्रह्मणः भोग्यत्वादिविकारस्यापि सैव कारणमित्य- ल्लभ्यते भोक्तृत्वस्य भोग्यापेक्षत्वात् ॥ १५ ॥ एवं शक्तिद्वयात्मक मायास्वरूपं प्रहश्येदानी प्रकृतानुसारेण म- नोहंकृत्युपादानमित्यस्मिन्श्लोके सामान्यतो दर्शितं लिङ्गस्वरूपं विशे- षतः प्रदर्शयति ॥ साक्षिणः पुरतो भातं लिङ्गं देहेन संयुतम् । चितिच्छायासमावेशाज्जीवः स्याब्यावहारिकः ॥ १६ ॥ साक्षिण इति ॥ चितिच्छायासमावेशादनुप्रविष्टचैतन्यस्य बला- त्साक्षिणः प्रत्यगात्मनः पुरतो ऽग्रतः कर्मत्वेनेति यावत् भात भासमानं देहेन संयुतं स्थूलशरीरेणैक्यं प्राप्तं लिङ्गं पूर्वोक्तलक्षणं लिङ्गशरीरं जीवः स्यात् व्यावहारिक. लोकद्वये ऽपि प्रमात्रादिसमस्त- व्यवहारनिर्वाहकत्वाद्यावहारिकाख्यो जीवः स्यादस्यानिर्वचनीय- मायाकार्यत्वेन प्रकृतिलक्षणविकारित्वात्सकलसंसारनिर्वाहकत्वात्स- चिदानन्दब्रह्मात्मक्यस्वरूपावस्थानलक्षणमोक्षदशायामभावाश्च व्या- वहारिकजीव इत्युक्तम् ॥ १६ ॥ ननु व्यावहारिकजीवस्य सकलसंसारनिर्वाहकत्वे ऽपि मिथ्या- भूतत्वान्नित्यमुक्तस्य साक्षिणः संसाराभावाश्चोभयोरपि मोक्षानधि- कारादन्यस्य कस्य चिदधिकारिणो ऽभावाश्च मोक्षशास्त्रवैयर्थं स्यादित्यत आह॥
सव्याख्याया वाक्यसुधायाम् । अस्य जीवत्वमारोपात्साक्षिण्यप्यवभासते । आवृत्तौ तु विनष्टायां भेदे भाते ऽपयाति तत् ॥ १७ ॥ प्रस्येति ॥ अस्य व्यावहारिकजीवस्य जीवत्वं जीवभावः आरोपादावरणशक्तिकृतादन्योन्याध्यासात्साक्षिण्यपि इग्रूपे प्रत्य- गात्मन्यपि जीवत्वं साक्षिणि प्रत्यगात्मनि परमार्थतो जीवत्वा- सम्भव द्योतयत्यपिशब्दः अवभासते प्रकाशते स्वरूपचैतन्यावगति- त्वेन भासते इति भावः। तुशब्दोऽवधारणे आवृत्तावसत्त्वावृत्तिरूपेणा- भानावृत्तिरूपेण च द्विप्रकारमायावरणशक्ती अह ब्रह्मास्मीत्यखण्डै- करसब्रह्मात्मसाक्षात्कारेण विनष्टायां विशेषेण नष्टायां सत्यां पुनर्धा- न्त्यनुदयो नाशस्य विशेषः आत्यन्तिकनाशं प्राप्तायामित्यर्थः। भेदे भाते व्यावहारिकजीवस्वरूपस्य लिङ्गशरीरस्य घटादिवत् दृश्यत्वं प्रत्य- ग्बोधस्वरूपस्य साक्ष्याख्यस्य स्वस्य दृष्टत्वञ्च भेदस्तस्मिन् सम्यक् प्रकाशिते सति साक्षिण्यारोपित तजीवत्वमपयात्यपगच्छत्येवेत्यत्र तुशब्दः सम्बध्यते यस्मादेवं तस्माच्छास्त्रवैयर्थ्य न स्यादित्यभि- प्रायः॥ १७॥ यथा व्यावहारिकजीवगतं जीवत्वमारोपात्साक्षिण्यप्यवभासते तथा नामरूपात्मकः सर्गगतो विकारः आरोपाब्रह्मण्यप्यवभासते इत्याह । तथा सर्गब्रह्मणोश्च भेदमावृत्त्य तिष्ठति । या शक्तिस्तद्वशाब्रह्म विकृतत्वेन भासते ॥ १८॥ तथेति॥ यथा अन्तः हग्दृश्ययोर्भेदमाच्छादयति तथा सर्गब्रह्मणो- भेंदं चावृत्त्य या आवरणशक्तिस्तिष्ठति तद्वशात्तदावरणशक्तिक- तादन्योन्याध्यासवशाब्रह्म सच्चिदानन्दलक्षणः परमात्मा विकृतत्वेन भासते स्वयं कूटस्थमपि षड्भावविकारशून्यमपि तद्वत्त्वेन भासते इत्यर्थः ॥ १८॥ बाधे ऽप्यावृत्तिनाशेन सर्गब्रह्मभेदस्फुरणात् ब्रह्मण्यारोपितो विकारो निवर्तते इत्याह ॥ अत्राप्यात्तिनाशेन विभाति ब्रह्मसर्गयोः । भेदस्तयोर्विकारं स्यात्सर्गे न ब्रह्मणि क चित् ॥ १९ ॥ अत्रेति॥अत्रापि यथान्तस्तथा बाह्येऽप्यावृत्तिनाशेनान्वयव्यतिरे-
सव्याख्यायां वाक्यसुधायाम् ।
१५
काभ्यामन्तबहिश्च पदार्थद्वयपरिशोधनपूर्वकेषाहं ब्रह्मास्मीत्यभिव्य-
तेन सच्चिदानन्दलक्षणब्रह्मात्मबोधेन उक्तलक्षणायामावरणशक्ती
वासनया सह विनष्टायां सत्यां तेनावृत्तिनाशेन ब्रह्मसर्गयो दो विभा-
ति घटपटयोरिव भेदः सम्यक् प्रकाशते एवं भेदे भाते सति तयोब्रह्मस-
योर्मध्ये नामरूपात्मके सगै एव जन्मादिविकारः स्यान्न ब्रह्मणि क
चिदानन्दलक्षणे ब्रह्मण्यैकदेशे ऽपि विकारो न स्यादित्यर्थः ॥ १९ ॥
एवमन्तबहिश्चावृत्तिकार्यतादात्म्यवशात्साक्षिब्रह्मणो भोकृत्वभो.
ग्यत्वादिरूपविकारं तदावृत्तिनाशेन तत्कृतविकारनिवृत्तिञ्च दर्शयि-
त्वा इदानी ब्रह्मणः सर्वात्मकत्वप्रदर्शनद्वारेण त्वंपदार्थमप्यर्थाद्विवेच-
यन्मुनतस्तत्पदार्थ विविनक्ति ॥
अस्ति भाति मियं रूपं नाम चेसंशपञ्चकम् ।
आयत्रयं ब्रह्मरूपं जगद्रपं ततो द्वयम् ॥ २० ॥
अस्तीति ॥ अस्ति विद्यते भाति प्रकाशते प्रियं प्रेमास्पदं रूपं
जगद्रूपं पृथुबुध्नोदरोतप्रोतादिकं नाम घट पट इत्यादिकमेतत्सर्व
मिलित्वांशपञ्चकमिदमेकं वस्तु अस्तीदं भातीदं प्रियमिदमस्य स्व-
रूपमिदमस्य नामेत्येतदंशपञ्चकव्यतिरेकेण व्यवहारासम्भवाल्लोक-
व्यवहारगोचरभूतं भौतिकात्मकं समस्तं वस्त्वपि सश्चिदान्दरूप नाम
लक्षणांशपञ्चात्मकमेव भवतीति यावदंशपञ्चकसमुच्चयार्थश्चशब्दः।
पतेशेषु मध्ये आधत्रयं सच्चिदानन्दात्मकमंशत्रयं ब्रह्मरूपं ब्रह्मस्व-
रूपं ततो द्वयं तस्मात्सश्चिदानन्दात्मकांशत्रयादुपरितन नाम रूपा-
त्मकमंशद्वयं जगद्रूपमित्यर्थः ॥ २० ॥
उक्तमेवार्थमन्वयव्यतिरेकाभ्यां स्पष्टयति ॥
खवायग्निजलोर्वीषु देवतिर्यङ्गरादिषु ।
अभिन्नाः सच्चिदानन्दा भिद्यते रूपनामनी ॥ २१ ॥
खमिति ॥ आकाशवायुतेजोम्ब्वन्नाख्यषु पञ्चभूतेषु देवतियङ्गरा-
दिभेदभिन्नेषु शरीरलक्षणेषु भौतिकेषु वर्तमानाः सञ्चिदानन्दात्रयो
ऽप्यंशा अभिन्ना निर्विशेषाःस्युः घटो ऽस्ति पटोऽस्ति घटो भाति पटो
भाति घटः प्रियः पटः प्रिय इति सर्वत्रानुवृत्तस्वभावत्वाद्रूपनाम-
नी भूतेषु भौतिकेषु च वर्तमानौ रूपनामात्मको उभावप्यंशौ भिद्यते
ईडग्रूपस्ताग्रूपो घट पट इत्यादिभेदभिन्नत्वेन वर्तेते अनिर्वचनीय-
मायाकार्यत्वेन व्यावृत्तस्वभावत्वात् ॥२१॥
सव्याख्यायां वाक्यसुधायाम् । एवं प्राक्तनग्रन्थसन्दर्भेणान्वयव्यतिरेकाभ्यां पदार्थद्वयं परिशोध्ये- दानी नामरूपोपेक्षापुरःसरं सश्चिदानन्दतत्परो भूत्वा वाक्यश्रवणा- ङ्गत्वेन वाक्यार्थज्ञानसाधनभूतं वक्ष्यमाणभेदभिन्न समाधि हृदये वा बाह्ये वा निरन्तरं कुर्यादित्याह ॥ उपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः । समाधि सर्वदा कुर्याद्धृदये वा ऽथ वा बहिः ॥ २२ ॥ उपेक्ष्येति ॥ जगद्रूपे नामरूपे द्वे उपेक्ष्यावशाय उदासीनीकृत्य सच्चिदानन्दतत्परः सच्चिदानन्दरूपब्रह्मात्मन्येव तात्पर्यवान् तदेक- चित्त इत्यर्थः ताहशो भूत्वा समाधि वक्ष्यमाणं चित्तसमाधानं सर्वे- न्द्रियाण्यपि हृदयकमले निरुध्य तत्रतत्र वागादीन्द्रियाणां स्वस्वगो- लकावस्थाने ऽपि तेषां वृत्तिमात्र निरुध्य शरीरादन्तर्बाह्यदेशे वा वक्ष्य- माणप्रकारेण निरन्तरं कुर्यादित्यर्थः विधिमुखतःसमाधि विधायानेन श्लोकेन प्रतिपादितं पदं प्रति परमहंसस्यैव ब्रह्मज्ञानाधिकारो नान्य- स्येत्यर्थादुच्यते एततूश्लोकार्थानुष्ठानस्यान्यस्मिन्नसम्भवात्परमहं- सस्यैव सम्भवाच ॥ २२॥ एवं ब्रह्मजिज्ञासुं मुमुक्षु प्रति निदिध्यासितव्य इत्येतद्वाक्यानु- सारेणावश्यकर्तव्यत्वेन समाधि विधायेदानीं तस्य समाधेरवा- न्तरभेद दर्शयन्नेतान्समाधीन हृदये कुर्यादित्याह ॥ सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि । दृश्यशब्दानुभविद्धन सविकल्पः पुनर्द्विधा ॥२३॥ सविकल्प इति ॥ सविकल्पसमाधिनिर्विकल्पसमाधिरिति समा- धिद्धिविधो द्विप्रकारो भवेत् दृश्यानुविद्धः सविकल्पकः शब्दानु- विद्धः सविकल्पक इति सविकल्पसमाधिरपि द्विप्रकारो भवेतू एवमुक्तप्रकारेण दृश्यानुविद्धः सविकल्पकसमाधिः शब्दानुविद्धः सविकल्पकसमाधिनिर्विकल्पकश्चेति त्रिप्रकारं समाधि क्रमेण हृदये कुर्यादिति शेषः। दृश्यमिश्री दृश्यानुविद्धः शब्दमिश्रः शब्दानु- विद्धः॥२३॥ सविकल्पो निर्विकल्पश्चेति सविकल्पस्य प्रथमोद्दिष्टत्यात्तत्रापि रश्यशब्दानुविद्धनेति दृश्यानुविद्धस्यैव प्रथमोद्दिष्टत्वादन्तईग्दृश्य- विवेकं दृगेकनिष्ठ दृश्यानुविद्धं सविकल्पसमाधि तावदर्शयति ॥ दृश्यशष्वानुबंधनेति वा पाठ ।
सव्याख्या वाक्यसुधा । १७ कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् । ध्यायेद् दृश्यानुविद्धो ऽयं समाधिः सविकल्पकः ॥२४॥ कामाद्या इति ॥ कामाद्याः कामसङ्कल्पादयः पूर्वोक्ताश्चित्तगाः अन्तःकरणवृत्तित्वेनान्तःकरणनिष्ठाः दृश्याः कर्मभूताः युष्मत्प्रत्यय- विषया. भवन्तीति शेषः तत्साक्षित्वेन तेषां कामादिचित्तगतहश्यानां प्रकाशकत्वेन चेतनमात्मान प्रत्यक्चैतन्यं ध्यायेत्। एतदुक्त भवति । तेषां कामादीनां मध्ये एकमेक प्रतियोगिनं कृत्वा अस्य कामस्य यत्साक्षिभूतं चैतन्यं तदेव मम यथार्थ स्वरूपमित्येव निरन्तरं प्रत्यग्रूपं चिन्मात्रं भावयेदिति । एवमुक्तप्रकारेण चिन्मात्रे भाविते सत्ययं दृश्यानुविद्धः सविकल्पकसमाधिरित्युच्यते इति शेषः "नते स्याद्वि- क्रियां दुःखी साक्षिता का विकारिण. धीविक्रियासहस्त्राणां साक्ष्य- तोऽहमविक्रिय" इति नैष्कर्म्यसिद्धिकारैरुतत्वात् ॥ २४॥ एवं दृश्यप्रतियोगिकं सविकल्पकसमाधि दर्शयित्वा इदानीं क्रमप्राप्तं कामाद्यशेषदृश्यविलापकं साक्षिनिष्ठं शब्दानुविद्धसविक- ल्पकसमाधि दर्शयति॥ असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः । अस्मीतिशब्दविद्धो ऽयं समाधिः सविकल्पकः ॥२५॥ असङ्ग इति ॥ असङ्गः सङ्गरहितः "असङ्गो ह्ययं पुरुष” इति श्रुते सच्चिदानन्दः सत्यज्ञानानन्दस्वरूपः "सत्यं ज्ञानमनन्त ब्रह्म विज्ञान- मानन्दं ब्रह्म"त्यादिश्रुतेः स्वप्रभः स्वयंप्रकाश. अदृष्टं द्रष्टश्श्रुतं श्रोतृ "न दृष्टेष्टारं पश्ये"दित्यादिश्रुतेः द्वैतवर्जितः प्रकाश्यस्य प्रकाशाभिन्न- त्वेन कामाद्यशेषरहितः स्वगतादिभेदरहित इत्यर्थ. "एकमेवाद्विती- य"मिति श्रुतेः एवमुक्तलक्षणः प्रत्यग्रूपो य साक्षी अयमहमस्मीति निरन्तरं भावयेत् एवमुक्तप्रकारेण कामाद्यशेपवृत्तिविलापको ऽसङ्गा- दिशब्दमात्रमिश्रितो विजातीयप्रत्ययशून्यसजातीयप्रत्ययप्रवाहलक्ष- णः प्रत्यचिन्मात्रविषयकश्चिदाभासनिष्ठो यो ऽनुभवः अयंशब्दानु- विद्ध सविकल्पकसमाधिरित्युच्यते इति शेष. "निरीहोऽस्मि निरंशो ऽस्मि स्वस्थो ऽस्म्यस्मि च निस्पृहः शान्तो ऽहमर्यरूपो ऽस्मि चिरा- याहमलं स्थित” इति वसिष्ठवचनात् ॥ २५ ॥ ३ .
सव्याख्या वाक्यसुधा। एवं द्विप्रकारं सविकल्पकसमाधि दर्शयित्वा इदानी कामादि- दृश्यानामसङ्गादिशब्दानां विलापकं निवातस्थितदीपवञ्चिन्तनैश्च- ल्यात्मकं निर्विकलासमाधि दर्शयति ॥ स्वानुभूतिरसावेशाद् दृश्यशब्दानुपेक्षितु । निरिकल्पः समाधिः स्यानिवातस्थितदीपवत् ॥२६॥ स्वानुभूतिरिति ॥ अनुभूतिर्ज्ञानं प्रत्यक्चैतन्यं “या ऽनुभूतिरजा ऽमया त्वनन्तानन्दविग्रहा महदादिजगन्मायाचित्रभित्ति नमामि ता"- मिति इष्टसिद्धिकारैरुक्तत्वात् रस आनन्दस्वरूपः परमात्मा "रसो वै सः रसं ह्येवायं लब्ध्वा ऽऽनन्दी भवती"ति श्रुतेः प्रत्यगात्मापि रसाभिन्नत्वेन परमप्रेमास्पदत्वाद्रसस्वरूपभूता अनुभूतिः स्वानुभूतिरेव रसस्तस्यावेश स्वानुभूतिरसावेशः पूर्वोक्तसमा- घिद्वयाभ्यासपाटवादन्त करणे स्वरूपभूतज्ञानानन्दाविर्भावः स्वा- नुभूतिरसावेश इत्युच्यते यद्वा आवेशो ऽभिनिवेश. मन्नत्वं स्वानु- भूतिरसावेश. यहा आसमन्तात्प्रवेशः आवेशः स्वरूपज्ञानानन्दपूर्ण- त्वं यद्वा देवतायावेशवत् स्वानुभूतिरसस्यावेशस्तस्मात्स्वानुभूति- रसावेशात स्वानुभूतिरसास्वादादिति पाठेचिदानन्दस्वरूपो ऽहमिति स्वानुभूनिरसस्यात्मत्वेन स्वीकरणं स्वानुभूतिरसास्वादस्तस्मात् इश्वशब्दानुगेक्षितु. पूर्वोक्तान्कामादिदृश्यानसङ्गादिशब्दांश्चोपेक्षितु- रुदासीनकर्तुरुभयत्र तात्पर्यराहित्येन तूष्णी स्थितस्य देवताद्यावि- वत्स्वानुभूतिरसाख्यमहाग्रहग्रस्तत्वेन स्वातन्त्र्याभावात्परतन्त्रत- या स्थितस्येति तात्पर्यार्थः निर्विकल्पकसमाधि स्यात् "प्रशान्तवृत्तिकं चित्तं परमानन्ददीयकम् असंप्रज्ञातनामायं समाधिोगिनां प्रिय" इति उक्तलक्षणो निर्विकल्पकसमाधिरुक्तलक्षणस्याधिकारिणः स्वयमेव स्यात् लयविक्षेपकपायादिप्रतिबन्धाभावादसंप्रज्ञाताख्यो निर्विकल्प- कसमाधि' स्वयमेव भवतीत्यर्थ । तस्मिन्समाधीचित्तनैश्चल्ये दृष्टान्त- माह निवातस्थितदीपवदिति । निवातस्थले स्थापितो दीपो यथा निश्चलो भवति तथा समप्राप्तचित्तमपि निश्चलं भवतीत्यर्थ। "तत्परं पुरुषख्यातंर्गुणवैतृष्ण्यं तीसंवेगानामासन्न. समाधिलाभः व्युत्था- नागेधसस्कारयोरभिभवप्रादुर्भावौ निरोधलक्षणचित्तान्वयो निरो- धपरिणाम" इति पतञ्जलिना सूनितत्वात् “यथा दीपो निवातस्थो सव्याख्या वाक्यसुधा । १९ नेङ्गते सोपमा स्मृता योगिनो यतचित्तस्य युञ्जतो योगमात्मन” इत्या- दिभगवद्वचनात् “अन्त शून्यो बहि शून्य शून्यकुाम इवाम्बरे अन्त पूर्णो बहिः पूर्णः पूर्णकुम्भ इवार्णवे मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव भावनामखिला त्यक्त्वा यदिष्टं तन्मयो भव ब्रदर्शनदृश्यानि त्यक्त्वा वासनया सह दर्शनप्रथमाझ्यासमात्मान कंवल भज प्रशान्त- सर्वसंकल्पा या शिलावदवस्थिति. जाग्रन्निद्राविनिर्मुक्ता सा खरू- पस्थिति परे"ति वसिष्ठवचनाच्च । अस्य समाधेर्वाक्यश्रवणाङ्गकत्वं च तत्त्वविवेकाख्ये ग्रन्थे श्रीमद्विद्यारण्यगुरुभिर्निरूपित "अघुना वासनाजाले नि शेष प्रविलापिते सभूलोन्मूलिते पुण्यपापाख्ये कर्म- सञ्चये वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासित करामलकवड्वोधम- परोक्षं प्रसूयते” इति ॥ २६ ॥ एवं हृदयसम्बन्धित्वेन दर्शितं त्रिप्रकारमिम समाधि बाह्यसम्व- न्धित्वेनापि दिदर्शयिषुर्बहिर्ब्रह्मसर्गविवेक सच्चिदानन्दलक्षणब्रह्मनिष्ठ दृश्यानुविद्धसमाधि तावदर्शयति ।। हृदीव बाह्यदेशे ऽपि यस्मिन् कस्मिश्च वस्तुनि । समाधिराधः सन्मात्रानामरूपपृथक्कृतिः ॥ २७ ॥ हृदीनि ॥ यथा हृदये साक्षिण. सकाशात्कामादीनां पृथक्करण- भाद्य. समाधिः। एतदुक्तं भवति यथा हृदि कामादीनांमध्ये एकमेकं प्रतियोगिनं कृत्वा स्वात्मनः सकाशातू नामरूपयो. पृथक्करणमस्य साक्षिभूतं यच्चैतन्यं तदेवाहमस्मि अस्य संकल्पस्य साक्षिभूत यञ्चैतन्य तदेवाहमस्मीत्यनुचिन्तनं दृश्यानुषिद्धसमाधिरित्युच्यते तथा बाह्ये ऽपि स्वाभीष्टमेकं वस्त्ववलम्ब्यांशपञ्चके तस्मिन्वस्तुनि वर्तमानात्सच्चिदानन्दलक्षणब्रह्मणः सकाशानामरूपे पृथक्कृत्याऽनयोः पृथक्कृतयोर्नामरूपयोरधिष्ठानभूतं सच्चिदानन्दलक्षणं यद्वस्तु तदेव तत्पदलक्ष्यं ब्रह्मेत्यनुचिन्तनं दृश्यानुविद्धसमाधिरित्युच्यत इति “यत्र स्थितेय विश्वश्रीः प्रतिमामात्ररूपिणी रज्ज्वां भुजङ्गवद्भाति सो ऽहमात्मा सदोदित" इत्यादिवसिष्ठवचनाच्च ॥ २७ ॥ एव दृश्यानुषिद्धसमाधि निरूप्येदानी समष्टिव्यष्ट्यात्मकसम- स्तदृश्यप्रपञ्चविलापक शब्दानुविद्धलमाधि निरूपयति ।
२० सव्याख्या वाक्यसुधा । अखण्डैकरसं वस्तु सच्चिदानन्दलक्षणम् । इसविच्छिन्नचिन्तेयं समाधिर्मध्यसो भवेत् ॥ २८ ॥ अखण्डकरसमिति ॥ अखण्ड देशकालाद्यपरिच्छिन्नं स्वगतादिभे- दरहितमिति यावत् “एकमेवाद्वितीयमिति श्रुतेः “न व्यापित्वादेशतो ऽन्तो नित्यत्वान्नापि कालत. न वस्तुतोऽपि सार्वात्म्यादानन्त्यं ब्रह्मणि विधे"त्येतत्तैरेव पञ्चकोशविवेकाख्ये ग्रन्थ उपपत्तिभिरखण्डत्वस्य समर्थितत्वाच्च । एकरसं कालत्रयेऽप्ये करूपं कूटस्थमित्यर्थः "अव्यक्तो ऽयमचिन्त्योऽयमविकार्यो ऽयमुच्यते” इति भगवद्वचनातू अखण्डञ्च तदेकरसं चेत्यखण्डैकरसं सच्चिदानन्दलक्षणं स्पष्टो ऽर्थः एवमुक्त- लक्षणं यद्वस्तु तदेव ब्रह्मेत्यविच्छिन्नचिन्ता विजातीयप्रत्ययानन्तरि- तसजातीयप्रत्ययप्रवाहरूपा या चिन्तेयं मध्यमः समाधिर्भवेत् शब्दा- नुविद्धसविकल्पकसमाधिर्भवेदित्यर्थः "एवं ब्रह्म चिदाकाशं सर्वात्मक- मखण्डितम् नीरन्ध्रभूरिवाशेषमिति भावय राघव नाहं न चान्यद्वा ऽस्तीति ब्रह्मैवास्मि निरन्तरम् आनन्दपूर्णः सर्वत्राप्यनुद्वेगादुपास्य- ता"मिति वसिष्ठवचनात् ॥ २८ ॥ एवं ब्रह्मविषयं द्विप्रकारं सविकल्पकसमाधि निरूप्येदानी पूर्वोक्त- समस्तदृश्यशब्दविलापकनिर्विकल्पसमाधिप्रदर्शनपूर्वकमुक्तलक्षणैरे- तैः षड्भिः समाधिभिनिरन्तर कालं नयेदित्याह ॥ स्तब्धीभावो रसास्वादातृतीयः पूर्ववन्मतः । एतैः समाधिभिः षड्भिर्नयेत्कालं निरन्तरम् ॥ २९ ॥ स्तब्धीभाव इति ॥ रसशब्दो व्याख्यातः आन्तरस्य त्रिप्रकारस्य समाधेर्विपयभूतस्य साक्षिणः साक्षित्वसिद्ध्यर्थ ब्रह्माभिन्नत्वं बलाद- ङ्गीकर्तव्यमन्यथा समाध्यवलम्बाभावाद्वाह्यस्य त्रिप्रकारस्य समाधे- विषयभूतस्य ब्रह्मणोऽपि सर्वात्मकत्वसिद्ध्यर्थमात्माभिन्नत्वं बलादङ्गी- कर्तव्यमेवं ब्रह्मण.सर्वात्मकत्व सिद्धे सति स्वस्यापिरसरूपेऽस्मिन्परे ब्रह्मण्यन्तःपातित्वेन स्वस्यापि रसरूपस्वीकारो रसास्वाद इत्युच्यते तस्माद्रसास्वादादपूर्वोक्तान्तरनिर्विकल्पकसमाधिवत्रापि द्विप्रका- रसविकल्पकसमाध्यभ्यासपाटवेन भूमानन्दास्वादाध्यष्टिसमष्ट्या- त्मकसमस्तदृश्यप्रपञ्चमखण्डकरसादिशब्दजातं चोपेक्ष्यास्वादितभू- मानन्दपरतन्त्रत्वेनावस्थितस्य चित्तस्य निवातस्थले स्थापितदीपस्य- सव्याख्या वाक्यसुधा । २१ व यः स्तब्धीभावो निश्चलत्वं स एव तृतीयो मतो निर्विकल्पकसमाधि- रित्यभिप्रेतो विद्वद्भिरिति शेषः।निर्विकल्पकसमाधेरान्तरवाह्यमात्रवि शिष्टविशेषभावात्पूर्वोक्तवचनान्येवात्रापि प्रमाणान्यवमुक्तलक्षणेरतैः षड्भि समाधिभिरेव मुमुक्षुनिरन्तरं काल नयेत्कालमित्यनेन समाधी- नां दीर्घकालकर्तव्यत्वं द्योत्यते तत्रापि नैरन्तर्येण कर्तव्यत्वं निरन्तर- शब्देनोच्यते कालनिरन्तरशब्दौ सत्कारस्याप्युपलक्षको “दीर्घकाल- नैरन्तर्यसत्कारसेवितो दृढभूमि"रित पतञ्जलिना सूत्रितत्वात् ॥२६॥ एवमन्तर्बहिश्च मिलित्वा षड्डिधान्समाधीन दीर्घकालनैरन्तर्य- सत्कारपूर्वकं मुमुक्षोरवश्यकर्तव्यत्वेन विधाय इदानीं पूर्वोक्तप्रकारे- णान्वयव्यतिरेकाभ्यामन्तबहिश्च पदार्थद्वयपरिशोधनेन देहाभिमाने गलिते परमात्मनि च विज्ञाते सत्युक्तलक्षणा. षड्विधाः समाधयश्च अन्तर्बहिर्वा यत्र यत्र मनोगच्छति तत्र तत्र स्वयमेव प्रवर्तन्ते इत्याह ॥ देहाभिमाने गलिते विज्ञाते परमात्मनि । यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ ३०॥ देहाभिमानेति ॥ रूपं दृश्यमित्यारभ्यास्य जीवत्वमारोपादित्य- न्तेन श्लोकपर्यन्तेन ग्रन्थेन प्रदर्शितन्यायमनुसृत्य सम्यक् कृतेना- न्तईरहश्यविवेकेनास्मदर्थे साक्ष्यात्मत्वाभिमानादहकारादिदेहान्तषु युष्मदर्थेष्वहं कर्ता ऽहं मनुष्य इत्याद्यात्मत्वाभिमाने गलिते शिथि- लीभूते "अस्ति भाति प्रियं रूप नाम च” इत्यत्र दर्शितप्रकारेण सम्यक् कृतेन बहिब्रह्मसर्गविवेकेन नामरूपात्मक समस्तमिदं जगन्मिथ्या तदधिष्ठानभूतं सच्चिदानन्दलक्षण ब्रह्मैव सत्यमिति एवं परमात्मनि च विज्ञात सत्येवमुक्तप्रकारेण गलितदेहाभिमानस्य विज्ञातपरमा- त्मतत्त्वस्य मुमुक्षोरन्तर्बहिर्वा यत्र यत्र मनो गच्छति तत्र तत्रोक्तलक्षणाः षडपि समाधयः स्वयमेव भवन्तीति शेषः। तीववैराग्यबलात्परम- हंसाश्रमस्वीकारपूर्वकं ब्रह्मसाक्षात्कारपर्यन्त सद्गुरुसन्निधौ श्रीम- च्छारीरकशास्त्रमवलम्ब्य निरन्तरं पौनःपुन्येन क्रियमाणेन तत्त्वंप- दार्थविवकेन गलितदेहाभिमानस्य विज्ञातपरमात्मतत्त्वस्य मुमुक्षो. रुक्तलक्षणा. षड्विधाःसमाधयः स्वयमेवानायासेन प्रवर्तन्ते इत्ययमेव तात्पर्यार्थः । “आवृत्तिरसकृदुपदेशा"दिति वैयासिकसूत्रानुसारणे अह ब्रह्मेति वाक्यार्थ बोधो यावद् दृढीभवेतू शमादिसहितस्तावद- २२ सव्याख्या वाक्यसुधा। भ्यसेच्छवणादिक"मित्याचार्यैरुक्तत्वात् ॥ ३० ॥ वैराग्यसंन्यासादिश्रवणसाधन दीर्घकालनैरन्नर्यसत्कारसहकृत- श्रवणादिज्ञानसाधने च प्रयासं दृष्ट्वा ब्रह्मात्मैक्यलक्षणस्य शान- फलस्याग्निहोत्रकार्यवत्सद्यः प्राप्त्यभावं च स्वबुद्ध्या कल्पयित्वा साधनानुष्ठानादुपरनं शिष्यं प्रति फलप्रदर्शनद्वारेण साधनानुष्ठाने तं प्रवर्तयितुं तस्य विश्वासार्थ परावरदर्शनफलप्रदर्शिनी श्रुतिमेव पठति ॥ भिद्यते हृदयग्रन्थिच्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥३१॥ भिद्यते इति ॥ देहाद्वहिः सकलनामरूपात्मकेषु वस्तुबु सर्पा- धाररज्जुरिव व्याप्तः सच्चिदानन्दलक्षणो यः परमात्मा स एव परशब्देनाच्यते अन्तरहमादिदृश्यविलक्षणो ऽस्मत्प्रत्ययालम्बनभूतः प्रत्यचिन्मात्ररूप. साक्ष्याख्यो यो जीवात्मा स एवावरशब्देनो- च्यते परश्चासाववरश्चंति परावर. प्रत्यगाभिन्न. परमात्मा तस्मिन्प- रावरस्यैव स्वयंप्रकाशत्वेनावाड्मनसगांचरत्वमुच्यते तच्छब्देनावा- मनसगोचरे ब्रह्मात्मनीत्यर्थ । यद्वा परावरविभागाधिष्ठानभूत शुद्ध- चैतन्यं तच्छब्देनोच्यते तस्मिन्पक्षे पररूपेण वा ऽवररूपेण वा ऽव- स्थित परमार्थतः परावरविभागरहिते स्वगतादिभेदरहिते कूटस्थे शुद्धचैतन्ये इत्यर्थ. । तस्मिन्परावरे तस्मिन्निति पक्षद्वये ऽप्येक एव फलितोऽर्थ. । परावरस्यैव शुद्धचैतन्यत्वाच्छुद्धचैतन्यस्यैवावाङ्मनस- गोचरत्वाच्च। तस्मादुक्तलक्षणे तस्मिन्पराबरे दृष्टे सति "त्व वा अह- मस्मि भगवो देवते अह वा त्वमसी"ति "तुभ्यं मह्यमनन्ताय मह्यं तुभ्य शिवात्मने नमो देवाधिदेवाय पराय परमात्मने” इत्यादिश्रुतिस्मृत्य- नुसारेणाहं ब्रह्मास्मि ब्रह्मैवाहमस्मीति व्यतिहारणाखण्डेकरसत्वेन करतलामलकवत्साक्षात् कृते सति अस्यैव साक्षात्कृतवतो ऽधि- कारिण. हृदयग्रन्थिर्भिद्यते हृदित्यहङ्कारः अयमित्यपरोक्षरूपः साक्षी अन्योन्यतादात्म्येन तयोरुभयोरपि स्वरूपं मिलित्वा हृदयग्रन्थिरि- त्युच्यते "अहङ्कारस्य कर्तृत्व चित्यध्यस्य तथा चिन स्फूर्ति चाहङ्कतो ग्रन्थिं कुर्यान्माया तयोर्धव"मिति वचनात् हृदयशब्दवाच्यं तादात्म्य- मेव ग्रन्थिरिव ग्रन्थिः । यद्वा हृदित्यहङ्कार. अयमिति साक्षी तयोस्ता- सव्याख्या वाक्यसुधा । २३ दात्म्यं हृदयग्रन्थिरुच्यते एवमुक्तलक्षण आवृत्तिरूपमायाकार्यो ऽयं हृदयग्रन्थिभिद्यते मुच्यते चशब्देदशब्दौ सर्वत्रानुवर्तेते एवं हृदयग्रन्थों भिन्ने सत्यस्य सर्वसंशयाश्छिद्यन्ते च परमार्थता ममैव ब्रह्म त्वमस्ति वा नवा ब्रह्मत्वेऽपि तायूपत्व मम साक्षात्कृत वा न वा साक्षात्कृते ऽपीतः परं ममापि कर्तव्यमस्ति वा न वा कर्तव्याभावे ऽपादानी मम जीवन्मुक्तत्वमस्ति वा न वा जीवन्मुक्तत्वे ऽपि वर्तमानदेहपाता- नन्तरभाविनी विदेहमुक्तिर्भविष्यति वा न वा विदेहमुक्तिप्राप्तावपि कालान्तरे पुनर्जन्म भविष्यति वा न वेत्यादिसशयाश्छिद्यन्ते च सश- यरूपा. पाशाश्च परावरदर्शनशस्त्रेण खण्ड्यन्ते इत्यर्थ. एवं सर्वसशयेषु भिन्नपु सत्सु अस्य कर्माणि च दीयन्ते परावरदर्शनस्य देहारम्भनि- रोधकत्वे ऽपि वर्तमानदेहारम्भसमये तस्याविद्यमानत्वेन तन्निरोध- कत्वासम्भवात् “तस्य तावदेव चिरं यावन्न विमोक्ष्ये” “भूयश्चान्ते विश्वमायानिवृत्ति"रित्यादिश्रुतेश्च प्रारब्धकर्मणां भोगादेव क्षया- दागामिकर्मणां च परावरसाक्षात्कारसमये अविद्यमानत्वात्पश्चात् सर्वेषामपि तेयामसंश्लेषाञ्च जन्मकाटिसहस्रोपादानभूतानि सञ्चिता- न्यनारब्धशब्दवाच्यानि पुण्यापुण्यमिश्ररूपाणि कर्माण्येवात्र कर्म- शब्देन विवक्ष्यन्त तानि सर्वाणि च क्षीयन्ते परावरदर्शनाग्निना दग्धानि भवन्तीत्यर्थः । अन्यदृष्टिमाश्रित्यैव कर्मशब्दो व्याख्यातः । "अशरीर वाव सन्तं न प्रियाप्रिये स्पृशन" इत्यादिश्रुतिसहस्रेष्वस्या- शरीरत्वश्रवणादशरीरस्य परावरदर्शनानन्तरमप्यागामिकर्मण एव असम्भवात्प्रारब्धकर्मणा फलभोगो ऽप्यस्याशरीरस्याभिमानाभावा- दारब्धानारब्धरूपाणि सर्वकर्माणि क्षीयन्ते इति स्वदृष्ट्यनुसारो ऽयमर्थ. भिद्यते इत्यादिवर्तमानप्रयोगेण ज्ञानसमकालमुक्तत्वं द्यो- त्यते अत्र प्रमाणं "तद्वैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चति ब्रह्मविद्ब्रह्मैव भवति ब्रह्मविदाप्नोति परं तरति शोकमात्म- वित् अभयं वै जनक प्राप्तो ऽसि एतावदरे खल्वमृतत्वमिति तमेव विदित्वा ऽतिमृत्युमेति तमेवं विद्वानमृत इह भवति यत्र नान्यत्प- श्यति यत्र नान्यच्छृणोति यत्र त्वस्य सर्वमात्मैवाभूदित्यादिश्रुतयः "तीर्थे श्वपचगृह वा नष्टस्मृतिरपि परित्यजन्देहम् ज्ञानसमकालमुक्तः कैवल्यं याति हतशोक.” इति शेषवचनम् “दर्शनादर्शन हित्वा स्वयं केवलरूपत. यस्तिष्ठति स तु ब्रह्म ब्रह्म न ब्रह्मवित्स्वय"मिति वसिष्ठ- २४ सव्याख्या वाक्यसुधा। वचनम् "यस्मिन्काले स्वमात्मानं योगी जानाति केवलम् तस्मात्का- लात्समारभ्य जीवन्मुक्तो भवेत्सदेति” पुराणवचनम् ॥ ३१ ॥ एवमवरशब्दवाच्यस्य जीवस्य ब्रह्मत्वे दर्शिते सति रूपं दृश्य मित्यारभ्याऽस्य जीवत्वमारोपादित्यंतच्लोकपर्यन्तेन ग्रन्थेन दर्शि- तमर्थ विस्मृत्यास्य साक्षिण ब्रह्मत्वमेव स्वरूप चेत्तर्हि जीवत्व नोप- पद्यते जीवत्वसेव स्वरूपं चेत्तदा ब्रह्मत्व नैवोपपद्यते उभयथापि शास्त्रनैरर्थक्यं स्यादित्याशङ्कमान शिष्यं प्रति अस्य साक्षिण एव उपाधिवशाजीवत्वं स्वभावतो ब्रह्मत्वं चोपपद्यते तस्माच्छास्त्रनरर्थ- क्यमपि न स्यादिति प्रकरणपरिसमाप्तिपर्यन्तेन ग्रन्थसन्दर्भेण कृपया पुनर्विविच्य प्रदर्शयिष्यन्नवरशब्दवाच्यजीवस्यावान्तरभेदं तावत् दर्शयति ॥ अवच्छिन्नश्चिदाभासस्तृतीयः स्वप्नकल्पितः । विज्ञेयस्त्रिविधो जीवस्तवाद्यः पारमार्थिकः ॥ ३२॥ अवच्छिन्न इति ॥ अवच्छिन्नः परिच्छिन्नः परिपूर्णे परब्रह्मण्यवि- धाहकाराभ्यामवच्छेद्यं यत्साक्षिचैतन्यं स एवावच्छिन्नाख्य. प्रथमो जीवः स्यातू चिदाभासः चिल्लक्षणरहितस्तद्वदवभासमानश्चिदा- भासः अन्त करणाख्येऽहङ्कारादिशब्दवाच्ये लिङ्गशरीरे प्रतिबिम्बित यच्चैतन्यं स एव चिदाभासाख्यो द्वितीयो जीवः स्यात्स्वप्नावस्थायां नरपशुपक्ष्याद्यनेकशरीरलक्षणं परिगृह्य सर्वा दिशो यः परिभ्रमति स एव स्वप्नकल्पितस्तृतीयो जीव स्यादेवं जीवस्त्रिप्रकारो ज्ञातव्यः तेषु जीवेषु मध्ये आद्यो ऽवच्छिन्नाख्यः साक्षी पारमार्थिकः परमार्थ- भूतो ब्रह्मभूत इत्यर्थः ॥३२॥ नन्ववच्छिन्नजीवस्यानवच्छिन्नब्रह्मभूतत्व कथं संभवतीत्याशङ्ख्य तस्य स्वरूपनिरूपणद्वारेणारोपवशाजीवत्वं स्वभावतो ब्रह्मत्वं च तस्मिन्संभवतीत्याह ॥ अवच्छेदः कल्पितः स्यादवच्छेद्यं तु वास्तवम् । तस्मिन् जीवत्वमारोपाब्रह्मत्वं तु स्वभावतः ॥ ३३॥ अवच्छेद इति ॥ अवच्छेदावच्छेद्ययोर्जीवत्वब्रह्मत्वयोश्च परस्पर- वैलक्षण्यद्योतकावुभावपि तुशब्दो अवधारणवाचको वा ब्रह्मभूते २६ सव्याख्या वाक्यमुधा । साक्षिण्यविद्याहङ्कारकृतो यो ऽवच्छेदः परिच्छेदः स आकाशे तल- मलिनताद्यध्यासवदहकारेणाध्यस्त एव स्वात्सुषुप्तावहङ्कारलये सत्यविद्यावच्छिन्नोऽहमहङ्कारावच्छिन्नो ऽहमित्युभयविधस्यावच्छि- नत्वस्याप्यभिमानाभावादविद्याहड्वाराभ्यां परिच्छेद्यं यत्साक्षिचैतन्य तत्कालत्रये ऽप्येकरूपत्वाहास्तवमेव सत्यमेव स्यादेवं यस्मात्त- स्मादुक्तलक्षणे तस्मिन्साक्षिणि चिदाभासबारेणाहकारसाक्षिणोर- न्योन्याध्यासादेव जीवत्वं स्थात् "कर्तृत्वादीन्वुद्धिधर्मान्स्फूाख्या- मात्मरूपताम् दद्विभाति पुरत आभासो ऽता भ्रमो भवे"दिति वच- नातू प्रकृते साक्षिणि ब्रह्मत्वं स्वभावत एव स्वतःसिद्धमेव स्वान तु चतुर्विध*क्रियासाध्यमित्यर्थः ॥ ३३॥ पवमस्य साक्षिणश्चिदाभासाहङ्काराख्योपाधिवशाजीवत्वं स्वभावतो ब्रह्मत्वं चोपपत्तितो दर्शयित्वा इदानीमस्य साक्षिण एव ब्रह्मणा सह ऐक्यं वाक्यानि बोधयन्ति नेतरयोश्चिदाभासस्वप्नक- ल्पितयोरित्याह। अवच्छिन्नस्य जीवस्य पूर्णेन ब्रह्मणैकताम् । तत्त्वमस्यादिवाक्यानि जगुर्नेतरजीवयोः ॥ ३४ ॥ अवच्छिन्नस्यति ॥ अविद्याहङ्काराभ्यामवच्छिन्नस्यात एव स द्वितीयवत्प्रतीयमानस्य पारमार्थिकजीवस्यैवाविद्याश्रयभूतत्वेन देश- कालवस्तुभिरनभिप्लुतेन परमात्मना "तत्वमसि ग्रह ब्रह्मास्मि अय- मात्मा ब्रह्म प्रशानं ब्रह्मे" त्येवमादिवाक्यान्यैक्यं जगुः आरोपित- पष्ठयादिकमवलम्ब्य लक्षणावृत्त्या तात्पर्येणैक्यं वोधयन्तीत्यर्थः।चि. दाभासस्वप्नकल्पितयोर्ब्रह्मणा सहैक्यं वाक्यानि न बोधयन्ति तयोर्मा- याकार्यत्वेनावस्तुभूतत्वादित्यभिप्रायः। ननु प्रमाणफलस्य प्रमातृगा- मित्वादहं ब्रह्मास्मोति चिदाभासेनैव प्रतिपन्नत्वेन तस्यैव प्रमातृ- त्वात्कूटस्थस्य साक्षिणः प्रमातृत्वासम्भवेन प्रमाणफलाश्रयत्वानुप- पत्तः काकस्य कार्य धवलप्रासाद इतिवदन्यस्य फलमन्यस्य स्यादित्याचार्यैरसम्बद्वमंवोच्यते इति चेनप दोषः चिदाभासस्य साक्षिप्रतिबिम्वत्वेन तदर्थत्वादनिर्वचनीयमायाकल्पितत्वनावस्तुत्वा- चास्य प्रमाणफलाश्रयत्वानुपपत्तेः साक्षिणश्चिदामासाधिष्ठानत्वेन * चतुर्वि व फल नाम । उत्पात्तराप्ति सस्काग गुणान्तरमिति ।।
सव्याख्या वाक्यसुधा ।
नदात्मत्यात्परमार्थरूपत्वाच प्रमाणफलाशयोपपत्ते. प्रत्ययी प्रत्यय-
श्चैत्र यदाभासौतदर्थता तयोरचितिमत्त्वाञ्च चैतन्ये कल्प्यते फलम्
कूटस्थ ऽपि फलं योग्य राजनीव जयादिकम् तदनात्मत्वहेतुभ्यां
क्रियायाः प्रत्ययस्य चे"त्याचार्यैः कूटस्थस्य साक्षिणा ऽपि प्रमाण-
फलाश्रयत्वमस्तीति समर्थितत्वाच "ज्ञानिताशामिते त्वास्मामासस्येव
न चात्मनः तथा च कथमाभासः कूटस्था ऽस्मीति वुध्यताम् नायं
दोषश्चिदाभासः कूटस्थैकस्वभाववान् आभासस्य च मिथ्यात्वात
कूटस्थत्वावशेषणादिति” तृप्तिदीपाख्ये ग्रन्थे तैरेवाचार्यराशय परि-
हतत्वाश्च ॥३४॥
एवं पारमार्थिकजीवस्य साक्षिण एव परिपूर्णानन्दपरमात्मनैक्ये
लिद्धे सत्यन्तर्बहियष्टिसमष्टिभावेन जीवपररूपस्याविद्यावच्छिन्नस्य
तत्त्वता ऽनवच्छिन्नब्रह्मरूपस्यास्य साक्षिण एव भोक्तभोज्यात्मकस-
मस्तप्रपञ्चाधिष्ठानत्वमन्तबहिश्चोपाधिभूतयांश्चिदाभासजगतोर्माया.
कार्यत्वेन मिथ्यात्व साक्ष्यनन्यत्वं तन्मात्रणावशेषत्व चोत्तरग्रन्थ-
स दर्भेण दर्शयितुं साक्षिणो जीवजगदधिष्ठानत्वं जीवजगतोर्माया-
कार्यत्व च दर्शयति ।।
ब्रह्मण्यवस्थिता माया विक्षेपाऽऽतिरूपिणी ।
आवृत्या ऽखण्डतां तस्मिन् जगज्जोवौ प्रकल्पयेत् ।। ३५ ॥
ब्रह्मणीति ॥ अत्रापि छन्दोभङ्गभयादेव पूर्वापरनिपातव्यत्यासः
कृतः शब्दतश्चार्थतश्च न पौनरक्याख्यो दोषोऽत्र शङ्कनीयः ब्रह्मा-
स्मस्वरूपस्यालौकिकस्यातिसूक्ष्मत्वेन झटिति ज्ञातुमशक्यत्वादभ्या-
सनैव प्रतिपत्त व्यत्वाच्छू येत नवकृत्व उपदिष्टत्वाञ्च सत्यादिलक्षणं
ब्रमण्यवस्थिताऽऽवृतिविक्ष लक्षणशक्तिद्वयात्मिका निर्वचनीया मा-
या स्वाश्रयभूतस्थ ब्रह्म गा जण्डतामाच्शद्य तरिमन्नवच्छंद्यसाक्षि-
स्वरूपे ब्रह्मणि जगजीवो प्रकल्पयत्पूर्वोक्तप्रकारेण सृजदित्यर्थः ॥३५॥
मातृभाग्ययोर्मध्य भक्तिरूपस्य जीवभ्यैव प्राधान्य ऽपि पया-
नुसारण जगजोवावित्युक्तमर्थक्रमानुसारेण । इदानीं तयोर्जीवजगताः
स्वरूपं विविव्य दर्शयति ॥
जीवो धीस्थश्चिदाभामो भवेदोक्ता हि कर्मकृत् ।
भोग्यरूपमिदं सर्व जगत्स्याद्भूतभौनिकम् ॥ २६ ॥
सव्यास्गा दारयनुपा। २७ जीप इति ॥ कृष्यादिकं यज्ञादिकं श्रवणादिकं च कर्म करोतीति कर्मकृत् स्वार्जितमैहिकामुष्मिकफललक्षण भोगं भुनक्तीति भोक्ता एव मुक्तलक्षणो यो धीस्थश्चिदाभासः स एव ब्रह्माश्रितमायाक. ल्पिता जीव इत्यच्यते हिशब्दा यस्मादर्थे धीस्थश्चिदाभासः कर्म- कृद्भोक्ता च यस्मात्तस्माजीवो भवेदित्यक्षरयोजना। भूतं पृथिव्यादि- भौतिकं देवतिर्यगादिशरीरजातं भूतं च भौतिकं च भूतभौतिकं भोक्तृणां भोगाधिष्ठानभूतं तत्तच्छरीरानुरूपेण भोज्परूपमिद परि- दृश्यमानं सर्व भूतभौतिक जगत्स्याजगदित्युच्यते ॥ ३६ ॥ एवं जीवजगतोः स्वरूपं दर्शयित्वा इदानीमनयोरनिर्वचनीय- मायाकार्यत्वेन मोक्षदशायामभावाद्यवहारमात्रे स्थितत्वाश्चैतदुभयं व्यावहारिकमित्याह ॥ अनादिकालमारभ्य मोक्षात्पूर्वमिदं द्वयम् । व्यवहारे स्थितं तस्मादुभयं व्यावहारिकम् ॥ ३७॥ अनादिकालमिति ॥ अस्मिन्काले आरब्धे एते जीवजगती इति विचार्य केनापि निर्गतुमशक्यत्वात् "प्रकृति पुरुषं चैव विध्यनादी उभावी"ति भगवद्वचनाच अनयोर्जीवजगतोरादिर्नास्त्येव "गताः कला. पञ्चदश प्रनिष्ठां यथा नद्यः स्यन्दमानास्समुद्रे ऽस्तं गच्छन्ति तस्य तावदेव चिरं भूयश्चान्ते विश्वमायानिवृत्ति"रित्यादिश्रुतेः "ततस्तिमितगम्भीरंनतजोन तमस्ततम् । अनाख्यमनभिव्यक्तं यत्कि- ञ्चिदवशिष्यत" इति वसिष्ठवचनाञ्च अनयोर्जीवजगतोर्वर्तमानदेहरा- हित्यलक्षणविदेहकैवल्यदशायामभावादन्तोऽस्त्येष यस्मादवं तस्मा- दनादिकालमारभ्य वर्तमानदेहराहित्यलक्षणविदेहकैवल्यप्राप्ते. पूर्व प्रमातृप्रमाणप्रमेयाद्यनकावान्तरभेदभिन्नत्रिपुट्यात्मके व्यवहारे जीव- जगदास्यमिदं वस्तुद्वयं स्थितम् उक्तलक्षण व्यवहारमाश्रित्य वर्तते तस्मादेतदुभयं व्यावहारिकं न तु पारमार्थिकं प्रतिभासिकं च एवं जीवजगतोर्मायिकत्वं साक्षिणो जीवजगदधिष्ठानत्वं मुखत एव ब्रह्म- ण्यवस्थिता मायंत्यस्मिन् श्लोके दर्शितम् अस्मिन् श्लोके तयोर्मुखतो व्यावहारिकत्वकथनद्वारा मिथ्यात्वं दर्शितमधिष्ठानानन्यत्वमधि- ष्ठानावशेपत्वं चार्थात्सूचितम् ॥ ३७ ॥ एवं ब्रह्मण्यवस्थितेत्यादिभिस्त्रिभिः श्लोकैः प्रदर्शितमर्थ स्वाम- २८ मव्याख्या वाक्यसुधा। जीवजगदवजम्बनेन हृढीकरिष्यामीत्यभिप्रायेण स्वप्नजीवजगतोनि- द्राकार्यत्वं दर्शयति ॥ चिदाभासस्थिता निद्रा विक्षेपाऽऽतिरूपिणी । आइत्य जीवजगती पूर्वे नूने तु कल्पयेत् ॥ ३८ ॥ चिदाभासस्थितेति ॥व्यावहारिकजीवाख्यचिदाभासाश्रयाऽऽ१- तिविपात्मिका तमोरूपा प्रसिद्धा निद्रा वरणशक्त्याकारेण पूर्वे व्यावहारिकजीवजगती प्रावृत्य ततो निद्राश्रयत्वेन निद्रावच्छिन्नचि. दाभासखरूपं जाग्रत्समस्तप्रपश्चसंस्कारसहिते देहस्थान्तर्नाडीमध्ये स्थिते ऽस्मिन् निद्रावच्छिन्नचिदाभासाकारे विक्षेपशक्त्याकारेण नूत्ने नूतने जीवजगती कल्पयेत् पूर्वनूननजीवजगतोव्यावहारिकप्राति- भासिकत्ववलक्षण्यद्योतनार्थस्तुशब्दः यथा निद्रा चिदाभासाश्रया तथामायाऽपि ब्रह्माश्रया यथा निद्रावृतिविक्षेपाख्यशक्तिद्रयात्मिका तथा माया ऽपि शक्तिद्वयात्मिका यथा स्वमजीवजगतीनिद्रा- कार्यत्वं तथा व्यावहारिकजीवजगतोरपि मायाकार्यत्वं यथा निद्रा- वच्छिन्नचिदाभासाकारस्य स्वप्नजीवजगदधिष्ठानत्वं तथा मायाव- च्छिन्नसाक्ष्याख्यब्रह्माकारस्यापि व्यावहारिकजीवजगदधिष्ठानत्वं स्थात्तस्माब्रह्मण्यवस्थिता मायेत्यनेन श्लोकेन प्रदर्शिते थे विप्र- तिपत्तिहेतुः कोऽपि नास्तीत्यभिप्रायः ॥ ३८ ॥ तुशब्देन घोतितं पैलक्षण्यं स्पष्टयति ॥ प्रतीतिकालएवैते स्थितस्वात्मातिभासिके । न हि स्वममबुद्धस्य पुनः स्वप्ने स्थितिस्तयोः ॥ ३९ ॥ प्रतीतिकालइति ॥ प्रतीत्यनन्तरकालस्थिति निषेधयत्येवकार: प्रतीतिकाले एव वर्तमानत्वादेते स्वप्नजीवजगती प्रातिभासिके इत्यु- ध्येते श्ममेवाथै व्यतिरेकमुखेनापि द्रढयति न हीति । एकस्मिन् दिने स्वानं दृष्ट्वा तस्मात्प्रबुद्धस्य दिनान्तरे दृश्यमाने स्वप्ने पूर्वदिनस्वान- सम्बन्धिमोर्जीवजगतोरवस्थिति स्ति यस्मात्तस्मात्ते प्रातिभासिके एव न तु व्यावहारिके पारमार्थिकत्वशकैच नास्त्यनयोरनेन प्राति- भासिकत्वकथनेन खमजीवजगतोः प्रतीतिकाले एव स्थितत्वात्पुनः खप्ने स्थित्यभावाच मिथ्यात्वं तथा व्यावहारिकजीवजगतोरप्यनादि- कालमारभ्य मोक्षात्पूर्व स्थितत्वात्ततः परमभावाच मिथ्यात्वं बस्मात्तस्मादनादिकालमारभ्येति अनेन श्लोकेन प्रदर्शिते ऽर्थे विप्र-
सव्याख्या वाक्यमुधा ।
तिपत्यवकाशो नास्तीत्यभिप्रायः ॥ ३६ ॥
एवं खानजीवजगदृष्टान्तेन संक्षेपेण प्रदर्शितं व्यावहारिकजीव
जगतोमिथ्यात्व पुनः स्वप्नदृष्टान्तमवलम्ब्य लोकत्रयण द्रढयितुं
बष्टान्तभूतयो. स्वप्नजीवजगतोर्मिथ्यात्वं तावदर्शयति ।
पातिभासिकजीवो यस्तज्जगत्मातिभामिकम् ।
वास्तवं मन्यते ऽन्यस्तु मिथ्येति व्यावहारिकः ॥ ४०॥
प्रातिभासिकेति ॥ स्वप्नकल्पितप्रातिभासिकाख्यो यो जीव:
सः स्वप्नकल्पितं प्रातिभामिकाल्यं तज्जगद्वास्तवं मन्यते सत्यमित्य-
धगच्छति न तु मिथ्येति स्वस्य यावदवस्थानं तावत्तस्याप्यवस्थि-
सत्वादन्योन्यपक्षव्यावृत्त्यर्थस्तुशब्द. प्रातिभामिकादन्यो व्यावहारि-
काख्यो जीवस्तत्प्रातिभासिकं जगञ्च तद्दष्टारं प्रतिभासिक जीवं
च मिथ्येति मन्यते न तु वास्तवमिति स्वप्नात्पूर्व स्वप्नानन्तरं प्रबोधे
च तयोरुभयोरप्यवस्थानाभावादिति भावः ॥४॥
दृष्टान्तेन प्रदर्शितं न्यायं दान्तिके योजयति ॥
व्यावहारिकजीवो यस्तज्जगद्यावहारिकम् ।
ससं प्रसेति मिथ्येति मन्यते पारमार्थिकः॥४१॥
व्यावहारिकेति ॥ उक्तलक्षणो यो व्यावहारिकजीवः स माया-
कल्पितं तद्यावहारिक जगत्मत्यं प्रत्येति वास्तवमित्यवगच्छति न
तु मिथ्येति स्वस्य यावदयस्थानं तावत्तस्याप्यवस्थितत्वात्तस्मा-
दन्यः पारमार्थिकजीवस्तद्यावहारिक जगच तदृष्टारं चिदाभासश्च
मिथ्यति मन्यते एतदुभयमसत्यमित्यवगच्छति न तु सत्यमिति
नित्यप्रलयाख्यसुषुप्ती तयोरनवस्थानस्यानुभवसिद्धत्वात् “नासदा-
सीनो सदासी"दित्यादिश्रुत्यनुसारेणानादित्वे ऽपि “गताः कला"
इत्यादिश्रुत्यनुसारेण वर्तमानदेहराहित्यलक्षणविदेहकैवल्यदशायां
तयो प्रतीतिरप्यात्यन्तिकनाशस्य निश्चितत्वात् श्रुत्याचार्यानुभवव-
शात्स्वभावसिद्ध ब्रह्मात्मत्वे साक्षात्कृते सति भाविदेहराहित्यलक्षण-
जीवन्मुक्तिदशायां तयोर्व्यावहारिकजीवजगताः कादाचित्कप्रतीति-
सद्भावे पितयाःसत्ताऽऽत्यन्तिकनाशस्य श्रुतियुक्त्यनुभवसिद्धत्वाञ्च
तस्मात्प्रतिभासिकजीवजगती यथा मिथ्याभूते तथा व्यावहारिकजी-
वजगतीच मिथ्यास्वरूपति भावः॥४१॥
३०
सव्याख्या वाक्यसुधा।
मिथ्यति मन्यते पारमार्थिक इत्येतावता ग्रन्थेन प्रतिपादितमर्थ
पुनढयति ॥
पारमार्थिकजीवस्तु ब्रह्मैक्यं पारमार्थिकम् ।
प्रसेति वीक्ष्यते नान्यदीक्षते त्वनृतात्मना ॥ ४२ ॥
पारमार्थिकेति ॥ अवधारणवाचको तुशब्दो पारमार्थिको
जीवः साक्षात्परमात्मस्वरूपः वर्तमानदेहराहित्यलक्षणविदेहकैवल्य-
प्राप्तिपर्यन्तं ब्रह्म चिच्छब्दलक्ष्यं साक्षिस्वगतादिभेदरहित बन्धमोक्षा-
दिव्यवहारातीतं सच्चिदानन्दलक्षणं खस्वरूपं ब्रह्मैक्यमेव पारमा-
र्थिकमित्यवगच्छति नान्यद्वीक्षते “यत्र नान्यत्पश्यति यत्र त्वस्य
सर्वमात्मैवाभू"दित्यादिश्रुतेः बीक्षते त्वनृतात्मना प्रबलप्रारब्धवशा-
स्वरूपावस्थानाच्चिदाभासाकारेण व्युत्थितः सन्कदाचिजीवजगदा-
दिकं यद्यपि वीक्षते तथा ऽपि मिथ्यात्वेनैव पश्यति न.तु सत्यत्वे-
नेत्ययमेव तात्पर्यार्थः ॥ ४२ ॥
एवं प्रातिभासिकजीवजगदृष्टान्तेन व्यावहारिकजीवजगतोर्मा-
याकार्यत्वमत एव मिथ्यात्वं च दृढीकृत्येदानी दृष्टान्तभूतयोर्जीवज-
गतोरधिष्ठानचिदाभासानन्यत्वं तन्मात्रेणावशेषत्वं च प्रसिद्धमपि
पुनरपि बाह्यदृष्टान्तेन दृढीकृत्य तेन बाह्याभ्यन्तरदृष्टान्तद्वयेनापि व्या-
वहारिकजीवजगतोरधिष्ठानभूतसाक्ष्यनन्यत्वं तन्मात्रेणावशेषत्वं च
द्रदयितुमारोपिताकारस्याधिष्ठानानन्यत्वे बाह्यदृष्टान्तं तावदर्शयति॥
माधुर्यद्रवशैयानि नीरधर्मास्तरङ्गके ।
अनुगम्याथ तनिष्ठे फेने ऽप्यनुगता यथा ॥ ४३ ॥
माधुर्यमिति ॥ यथा दृष्टान्ते माधुर्य च द्रवत्वं च शैत्यं च
माधुर्यद्रवशैत्यानि नीरधर्मा जलगुणाः जलस्योपरि वातवशात्तरङ्गे
उत्पन्ने सति जलविवर्तत्वेन जलनिष्ठे तस्मिन् तरङ्गे अनुगम्याथ
तरङ्गोत्पत्त्यनन्तरं तत्तरङ्गविवर्तत्वेन तरङ्गनिष्ठे फेने ऽप्यनुगताः
जलतरङ्गः फेन इति भेदव्यवहारे विद्यमाने ऽपि जलादीनां माधुर्य-
द्रवशैत्यध्यतिरेकेण स्वरूपाभावतया तेषां माधुर्यद्रवशैत्यात्मकत्वा-
पूर्वपूर्वाधिष्ठानस्यैवोत्तरोत्तरव्यावृत्ताकारेण विवर्तमानत्वादुत्तरोत्स-
रकार्यस्य पूर्वपूर्वाधिष्ठानानन्यत्वं प्रदर्शितमनेन श्लोकेन ॥ ४३ ॥
सव्याख्या वाक्यसुधा। ३१ एवमारोपिताकारस्याधिष्ठानामन्यत्व बाह्यदृष्टान्तेन दर्शयित्वा तमेव न्याय दार्शन्तिके योजयति ॥ साक्षिस्थाः सच्चिदानन्दाः सम्बन्धाद्यावहारिके । तवारेणानुगच्छन्ति तथैव प्रातिभासिके ॥ ४४ ॥ साक्षिस्था इति ॥ यथा दृष्टान्ते तथा दार्शन्तिके ऽपि ब्रह्मस्वरूपे साक्षिणि स्थिताः स्वरूपलक्षणशब्दवाच्याः सत्यज्ञानानन्दाः साक्षि- गुणास्तरङ्ग जलगुणानां सम्बन्धवद्यावहारिकजीवजगतोः सम्बन्धा- द्यावहारिकजीवजगद्यवधानेन प्रातिभासिकजीवजगतोरप्यनुवृत्ता भवन्ति । व्यावहारिकः प्रातिभासिक इत्यंतौ व्यावहारिकप्रातिभा- सिकजगतोरप्युपलक्षण जीवयोस्तत्तजगदन्तःपातित्वेन जगद्यति- रेफेणाभावात्साक्षिस्था इत्याचाराधेयभावी गुणगुणिभावश्च राहोः शिर इति धदौपचारिकः प्रातिभासिकजीवजगतोश्चिदाभासविवर्त- कत्वे स्वभावतः प्रसिद्धे ऽपि तरङ्गस्थानीयचिदाभासस्थाः सञ्चिदा- नन्दा एव फेनस्थानीयप्रातिभासिकजीवजगतोरप्यनुगता इति पुनर- प्येवं निश्चिते सति यथा तयोः प्रातिभासिकयोर्जीवजगतोश्चिदाभा- सानन्यत्वं यथा वा जलस्थमाधुर्यादीनामंव तरङ्ग ऽप्यनुगतत्वेन तरङ्गस्थजलानन्यत्व यथा जलस्थानीये साक्षिणि स्थितानां माधुर्या- दिस्थानीयानां साश्चदानन्दानामव तरङ्गस्थान पयोश्चिदाभासजग- तोरप्यनुगतत्वेन तयाः ब्रह्मानूनसाक्ष्यनन्यत्व सिमिति भाव. “एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते” इत्यादिश्रुते. ॥४४॥ एवं व्यावहारिकजीवजगतोरधिष्ठानभूतसाक्ष्यनत्यत्वं दृष्टान्त- मुखेन दर्शयित्वा तदेव पुनरधिष्ठानावशेषत्वेन द्रढयितु पूर्वोक्तमेव दृष्टान्तं दर्शयति॥ लये फेनस्य तद्धर्म द्रवाद्याः स्युस्तरङ्गके । तस्यापि विलये नीरे तिष्ठन्येने यथापुरा ॥ ४५ ॥ लये इति ॥ तरङ्गविवस्य फेनस्य नाशं सति तत्फेनधर्मा. द्रव- माधुर्यशैत्याख्याः फनाधिधान तरङ्गे भवन्ति जलविवर्तस्य तरङ्ग- स्यापि नाश सत्यंत द्याद्यास्तरङ्गफना द्युत्पत्ते. पूर्व यथा सर्वाधिष्ठाने नीर तिष्ठन्ति तथा तिष्ठन्त्येय कालत्रय ऽपि नीरस्य विद्यमानत्वातू ३२ सव्याख्या वाक्यसुधा। तरङ्गफेनयोरविद्यमानत्वान्नीरजत्वान्नीरस्थत्वान्नीरलयत्वाचनीरव्य- तिरेकेण तरङ्ग केनी न स्तं इत्यर्थः ॥ ४५ ॥ दृष्टान्तसिद्रमार्थ दान्तिके योजयति ॥ प्रातिभासिकजीवस्य लये स्युर्व्यावहारिके । तल्लये सच्चिदानन्दा. पर्यवस्यन्ति साक्षिणि ॥ ४६ ॥ प्रातिभासिकेति ॥ अत्रापि प्रातिभासिकजीवजगतोलये सति तत्र स्थिताः सचिदानन्दाः जाग्रत्प्रपञ्चसंस्कारसहिते चिदाभासे भवन्त्यत्रापि तल्लये तजगतोऽप्युपलक्षणं नित्यनैमित्तिकप्राकृतात्यन्ति- काख्येषु प्रलयेषु व्यावहारिकजीवजगतालये सति तत्र स्थिताः सश्चिदानन्दाः सर्वाधिष्ठानभूते साक्षिण्येव पर्यवस्यन्ति निष्ठां प्राप्नु- वन्ति तस्याप्यधिष्ठानभूतस्य कस्य चिद्वस्तुनो ऽभावादेवं साक्षिणः कालत्रये ऽपि सद्रूपत्वात् व्यावहारिकजीवजगदादेः सृष्टेः पूर्व प्रलयानन्तर चाविद्यमानत्वात्तजत्वात्तत्रस्थत्वात्तल्लयत्वाश्च तलश्य- ब्रह्माभिन्नसाक्षिव्यतिरकेण व्यावहारिकजीवजगदादि स्त्येवेत्यर्थः ।। चोरव्याघ्रादीनामाभिमुख्यागमनेन प्रातिभासिकजीवकर्तृकेण तदर्श- नेन निद्रावच्छिन्नचिदाभासस्यैव निद्राश्रयभूतेन चिदाभासेनैक्यवि- षये जागरणाख्य प्रबोधे जाते सति दिनान्तरे विद्यमानप्रातिभासिक- जीवदृष्ट्या स्वरूपभूतचिदाभासाक्षानपूर्वकसमस्तसंसारे विद्यमाने ऽपि वर्तमानदिन चारव्याघ्रादिदर्शनेन प्रबुद्धः प्रातिभासिकजीवः स्वदृष्ट्या शक्तिद्वयात्मकनिद्रात्यन्तिकनाशानिद्राश्रयावच्छिन्नादिवि- भागरहिते एकरूपे चिदाभासे भृगुपतनादिकर्तेव स्वनाशेन चिदा- भासपदं प्राप्तुमिच्छया प्रतिभासिकभोग्यरूपसमस्तप्रपञ्चेन सहा- त्यन्तिकनाशं यथा प्राप्नोति तथा व्यावहारिकजीवो ऽपि व्यावहा- रिकान्तरदृष्ट्या स्वरूपभूतप्रत्यगभिन्नसच्चिदानन्दलक्षणब्रह्मताशान- मूल समस्तसंसार विद्यमाने ऽपि चारव्यात्राद्याभिमुख्यागमनस्थानी- यन श्रुत्याचार्यानुग्रहण प्रातिभासिकजीवकर्तृकतदर्शनस्थानीयेन स्वकर्तृकश्रवणाद्यनुष्ठानन निद्रावच्छिन्नचिदाभासस्थानीयस्य माया- वच्छिन्नस्य स्वभावतो ऽनच्छिन्नस्य ब्रह्मरूपस्य साक्षिण एव निद्रा. श्रयभूतचिदाभासस्थानीयंन पूर्णेन ब्रह्मणक्यविषयं ब्रह्मविद्याख्ये प्रबांध जाते सति स्वदृष्ट्या शक्तिद्वयात्मकमायात्यन्तिकनाशान्मा- याश्रयावच्छिन्नादिमागरहिते अत एच स्वगतादिभेदवर्जित सञ्चिदा- सव्याख्या वाक्यसुधा। नन्दलक्षणे ब्रह्मात्मनि देवत्वकामनया ऽग्निप्रतिष्ठेव साक्षित्वमात्रा- वशेषवाञ्छया ब्रह्मसाक्षात्कारकालमारभ्य वर्तमानदेहराहित्यलक्षण- विदेहकैवल्यप्राप्तिपर्यन्तं व्यावहारिकभोग्यरूपसमस्तप्रपञ्चेन सह शनैः शनैर्नाशं यात्यात्यन्तिकलयं प्राप्नोति “देवत्वकामा अग्न्यादी प्रविशन्ति यथा तथा साक्षित्वेनावशेषाय स्वविनाशं स वाञ्छति यावत्स्वदेहदाहः स्यान्नरत्वं नैव मुञ्चति यावदारब्धदेहः स्यान्नाभा- सत्वविमोचन"मित्येतत्तैरेव तृप्तिदीपाख्ये ग्रन्थे उपपत्त्या सह प्रदर्शित- त्वात्तस्मादस्य चिदाभासस्य भ्रान्तिविवेकौ नित्यमुक्त साक्षिण्यध्य- स्तौ न वास्तवावित्येतत्तैरेव भारतीतीर्थगुरुभिरुपनिषत्संक्षेपवार्तिके सम्यक् निरूपितम् । “बोधात्पुरा तु चिद्भान्त्या मन्ना भोक्तरि शोचति सा भ्रान्तिर्भोक्तृनिष्ठेव तद्विवेको ऽपि भोक्तृगः भोगावान्तरभेदो हि भ्रान्तितद्वोधकावुभौ इतरारोपितत्वाच्च चित्यध्यस्तौ न वास्तवाविति। अस्य साक्षिणः साक्षित्वं साक्ष्यापेक्ष न तु वास्तवमित्येतदप्यद्वैतम- करन्दकारैर्निरूपितम्। “चैत्योपरागरूपा मे साक्षिता ऽपिन तात्त्विकी उपलक्षणमेवेयं निस्तरङ्गचिदम्बुधेरिति चैत्यं जडपदार्थः यस्मादेवं तस्माद्यावहारिकदृष्ट्यनुसारेण मायाश्रयत्वं मायाहकाराभ्यामव- च्छिन्नत्वं नामरूपतादात्म्येन भोग्यत्वं अन्तःकरणे प्रतिबिम्बितचिदा- भासाकारेण कर्तृत्वभोक्तृत्वादिरूपसंसारित्वं “ब्रह्म वा इदमग्र- आसीत् तदात्मानमेवावेदहं ब्रह्मास्मी"ति श्रुत्यनुसारेण ब्रह्मसाक्षा- स्कर्तृत्वं जीवन्मुक्तत्व च विदेहमुक्तत्वं च "न निरोधो न चोत्पत्ति- न बद्धो न च साधकः न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थते" त्यादि- श्रुतिप्रामाण्यात्परमार्थदृष्ट्यनुसारेण मायाश्रयत्वादिविदेहमुक्तित्वप- र्यन्तसमस्तव्यवहारातीतत्वं च प्रत्यगभिन्नस्य सच्चिदानन्दलक्षण- स्याद्वितीयस्यावाङमनसगोचरस्य ब्रह्मण एवोपपद्यते अत एव मोक्ष- शास्त्रस्यापि साफल्यं स्यादित्ययमेवास्य प्रकरणस्य समस्तवे- दान्तशास्त्रस्य महातात्पर्यत्वेन पिण्डीकृतोऽर्थः । तस्मात्सर्वमनवद्य- मिति ॥ ४६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमदानन्दभारतीतीर्थमुनिवर्यशिष्य- ब्रह्मानन्दभारतीप्रक्लप्ता वाक्यसुधाटीका सम्पूर्णा ॥ शुभं भवतु ।
॥ श्रीः॥ अथैषा प्रस्तूयते वाक्यसुधानानी वेदान्तसुधालहरीव प्र- कणिका सम्मुद्रय प्रकाशितुम् । एतत्कर्तारो भगत्पूज्यपादा- चार्याः श्रीमच्छङ्कराचार्यपादा इति तद्विषये परिचयदानं नाम दीपेन भगवत उष्णरश्मे प्रकाशनमिसत्र न सन्देहः । करुणामसृणान्तरङ्गैर्भगवदाचार्यैरेतत्सुधासेचनेन शान्तान्तःकर- णतां सम्पादयितुं कृते ऽपि रचनापायासे तस्याः सुदुर्लभतया न माभूवन् वेदान्तशास्त्ररसिकास्तमास्वादयितुमिति विचार्या- त्रसचौखम्भासंस्कृतसीरिजाख्यग्रन्थमालाध्यक्षेण श्रेष्ठिवरेण श्री- मद्धरीदासाभिधेन तन्मुद्रणकार्ये दत्तोत्साह. प्रावर्तेऽहमेन्मुद्रणे । इयं किल सुधा सल्पापि सुधेन विबुधानां मोदहेतुर्भव- त्विति भगवन्तं काशीविश्वेश्वरं प्रार्थयन, मदृष्टिदोषेण चात्रावशिष्टाः मुलभा अशुद्धीः क्षान्तुं विनयेन गुणकपक्षान् धीमद्वारान निवेदयन्, विरमाम्यस्माल्लेखादिति शुभम् । माघकृष्णाष्टम्यां रवी सहस्रबुद्धयुपाह्वो दामोदरशास्त्री " | सहसवादप्रपा काश्याम् ।