Osmania University
Tristhaliisetu 78
Front matter
TEXT PROBLEM
WITHIN THE
BOOK ONLY
UNIVERSAL
LIBRARY
OU_184071
LIBRARY
UNIVERSAL
62445344528।
THISko
माधवाचाय
कालमाछवकारिका:
OUP-43--30-1-1-5,000
OSMANLA UNIVERSITY LIBRARY
3294.536
Accession No.
B.GS2281
Call No.
MIEK
Author माधवाचार्य ।
Title
काठमाघवकारिका - 1942.
This book should be returned on or before the date last marked below.
No text on this page.
आनन्दाश्रमसंस्कृतग्रन्थावलिः। ग्रन्थाङ्कः ११९ भट्टवैद्यनाथमूरिकृतविवरणसहिताः ( श्रीमाधवाचार्यप्रणीत-) कालमाधवकारिकाः। ता एताः- वे. शा० सं० रा. मारुलकरोपावै रङ्गनाथभट्ठा- त्मजशंकरशास्त्रिभिः संशोधिताः । एतत्पुस्तकं बी. ए. इत्युपपदधारिभिः विनायक गणेश आपटे इत्येतेः पुण्याख्यपत्तने श्रीमन् 'महादेव चिमणाजी आपटे इत्यभिधेय- महाभागप्रतिष्ठापिते आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । शालिवाहनशकायदा. १८६४ । ख्रिस्ताब्दाः १९४२। ( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकताः )। मूल्यमाऽऽणकाः (८)
No text on this page.
भूमिका। -:18:- विदितमेवैतत्सर्वेषां संख्यावतां यद्बुक्कणमहाराजस्य कुलगुरुणा मन्त्रिणा च महामहोपाध्यायमाधवाचार्यण पराशरस्मृतिव्याख्याप्रणयनादनन्तरं कालमाधवीयापरपर्यायः कालमाधवाभिख्यः कालनिर्णयात्मकः सर्वाङ्गसुन्दरः पञ्चप्रकरणघटितो ग्रन्थो निरमायीति । तत्र प्रथमस्योपोद्घातप्रकरणस्याऽऽदौ व्याख्याय माधवाचार्यो धर्मान्पाराश. रानथ ' इत्यादिभिः तमेव निर्णय शास्त्रन्यायाभ्यां कर्तुमुद्यमः ' इत्यन्तैश्चतुर्विं. शत्यधिकशतेन श्लोकैयः सर्वप्रकरणगतविषया अनुक्रमेण ग्रन्थकृता संक्षिप्तास्त एते श्लोकाः कालमाधवीयकारिकाः । कालमाधवकारिकाः इति चाऽऽख्यायन्ते । कारिकाश्चैता अतीव समीचीनाः संगृहीतसिद्धान्ता: कालनिर्णयशास्त्रसूत्रीभृता एवेति निःसंदिग्धम् । या एवाधिकृत्य माधवाचार्यः सुविचार परिप्लुतो मीमांसादिशास्त्रीय. विषयोपबंहित उत्सर्गापवादपरस्परविरुद्धार्थकादिवचन विवेचनेन संदेहशङकाकुशङ्कादि. निरासपूर्वकं सिद्धान्तव्यवस्थापको महान ग्रन्थः कालमाधवनामा निबद्ध इति । तत्र मीमांसादिशास्त्राभ्यासाभावाद्वा तावदवकाशाभावाद्वाऽऽलस्यादा मान्यादा निरु- क्तग्रन्थात्सिद्धान्तान्निष्क्रष्टुमशक्नुवतामपि तादृशसिद्धान्तजिज्ञासूनां कृते तत्परिश्रमजिहीर्षया दयालुना भट्टवैद्यनाथसूरिणा कालमाधवकारिकोपरि सरलं सुबोधं च किमपि विवरणं विहितम् । तस्यास्य विवरणस्य कर्ता भट्टवैद्यनाथसूरिः कुत्रत्यः कश्च तस्य वंशः कदा- चाभूत्कस्य गुरोरन्तेवासीत्यादिकं तच्चरितं यत्नेनान्विष्यमाणमपि न किंचिदुपलभ्यते । किंतु ग्रन्थसमाप्तौ श्रीमद्धर्मशास्त्रपारावारीणतत्सद्रामचन्द्रभट्टात्मज इति विशेषण- दानाद् भट्टवंशीयः रामचन्द्रात्मजः धर्मशास्त्रे पण्डितश्चायमिति प्रतीयते । एतत्कृतं विवरणमपि निपुणतरं विलोक्यमानं सदस्य धर्मशास्त्र पाण्डित्यं निवेदयतीति सत्यम् । अस्य ग्रन्थस्य पुस्तकमेकमेवाऽऽसीन्नान्यत् । तच्च जीर्ण हस्तलिखितं ' भोरसंस्थानाश्रित- आहिताग्नि बाबादीक्षितहोशिंगचातुर्मास्ययाजी ' इत्येतेषां सकाशाल्लब्धम् । तस्मादस्य संशोधने मन्मतिमान्द्याकीलकयोजकप्रमादादा जातानां स्खलितानां सूचनेन मामनुगृह. णन्तु दयालवो विद्वांस इति प्रार्थयते- शके १८६४ कार्तिक वद्य १० मारुलकरोपाह्वः शंकरशास्त्री भारद्वाजः । गुरुवासरः, पुण्यपत्तनम् । आनन्दाश्रमः --
No text on this page.
भवैद्यनाथसूरिकृतविवरण सहिताः ( श्रीमाधवाचार्यप्रणीत-) कालमाधवकारिकाः। -- नत्वा गजाननं देवमगजानन्दवर्धनम् । कालमाधवपद्यानि विवरिष्ये यथामति ॥१॥ विघ्नविधाताय मङ्गलमाचरति- वागी शाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १ ॥ वागीशाया इति । सुमनसो देवाः । सर्वार्थानां सर्वपुरुषार्थसाधमानाम् । उप- कम आरम्भे ॥ १ ॥ इदानीं यस्य दवे परा भक्तिर्यथा देवे तथा गुरौ। तस्यैते कथिता यर्थाः प्रकाशन्ते महात्मन इति स्मरणाद्गुरुदेवतयोः स्मरणमाचरति-- सोऽहं प्राप्य विवेकतीर्थपदवीमाम्नायतीर्थे पर मजन्सज्जनसङ्गतीर्थनिपुणः सवृत्ततीर्थं श्रयन् । लब्धामाकलयन् प्रभावलहरीं श्रीभारतीतीर्थतो विद्यातीर्थमुपाश्रयन् हदि भजे श्रीकण्ठमव्याहतम् ॥ २ ॥ सोऽहमिति । सोऽहं माधवाचार्यनामा विवेकरूपस्य तीर्थस्य पदवीं मार्ग प्राप्य हृद्यव्याहतं श्रीकण्ठं महादेवं भजे ध्यायामीत्यर्थः । कीदृशोऽहम् । म्नायो वेदः । तद्रूपतीर्थ परं केवलं मजन्मज्जनं कुर्वस्तदेकपरायण इत्यर्थः । तथा सज्जनसङ्गरूपेण तीर्थेन निपुणो निर्णीतशास्त्रतत्त्वः । तथा सद्वृतं साधू- नामाचरणं तदेव तीर्थ श्रयन्नाश्रयन् । तथा श्रीभारतीतीर्थतस्तन्नामकाद्गुरोः सका. शाल्लब्धां प्रभावलहरीमिष्टदेवताप्रसादरूपां लहरीमाकलयन्प्राप्नुवन्नित्येकोऽर्थः । भारती. रूपात्तीर्थाल्लब्धां प्रभावलहरी साहित्यरूपानाकलयन्नित्यपरः। तथा विद्या ब्रह्मविद्या तद्वपं तीर्थमुपाश्रयन सेवमान इत्यर्थः । एतस्यैव विद्यारण्य इति नाम प्रसिद्धम् ॥ २ ॥ सत्यैकव्रतपालको द्विगुणधीरूयर्थी चतुर्वेदिता पश्चस्कन्धरुती षडन्वयदृढः सप्ताङ्गन्सर्वसहः । अष्टव्याक्तिकलाधरो नवविधिः पुष्यद्दशपत्ययः स्माताच्छायधुरंधरो विजयते श्रीबुक्कणमापतिः॥ ३ ॥ सत्यैकेति । श्रीमान् बुक्कणनामा मापती राजा विजयते । कीदृशः । सत्यरूपं यदेकं आ.
भटूटवैद्यनाथकृतविवरणसहिताः- पुनः सप्तभिरङ्गैः मुख्यं व्रतं तत्पालकः । तथा द्विगुणधीरितरापेक्षया दिगुणबुद्धिमानित्यर्थः । अथवा द्वा गुणौ सत्त्वरजोरूपौ यस्यां तादृशी धीर्यस्य नतु तमोगुणशालिनीत्यर्थः । तथा त्रीन् धर्मार्थकामानर्थयते प्रार्थयते तच्छीलः । अथवा तिस्रः प्रभावोत्साहमन्त्रजाः शक्तीरर्थयते तच्छील इति । तथा चतुर्णी वेदानां सामायुपायानां वा वेदिता ज्ञाता । तथा पञ्चसु स्कन्धषु तन्नामकेषु सहायादिपदार्थेषु कृती कुशलः । तदुक्तं नीतिशास्त्रे-सहायाः साधनोपाया विभागो देशकालयोः । विनिपातप्रतीकारः सिद्धिः पञ्चाङ्गमिष्यत इति । अस्यार्थः-सहाया राजकार्ये मन्त्रिसैनिकायाः । तथा कार्यस्य साधन उपायाः सामादयः । तथा विदेशकालयोर्विभागो व्यवस्थाऽस्मिन् देशेऽस्मिन् कालेऽयमुपाय इत्येवंरूपा। तथा विनिपातस्य राष्ट्ररोगोत्पातादिरूपस्य प्रती. कारो निराकरणम् । तथा सिद्धिः, इष्टलाभः । एते पञ्चस्कन्धा राज्याङ्गमित्यर्थः । पुनः कीदृशो राजा । षडन्वयदृढः । षण्णां गुणानामन्वयेन दृढोऽजेय इत्यर्थः । षण्णां शास्त्राणामित्यप्यर्थान्तरम् । सर्वसहनशीलः । तानि चामात्यसुहृत्कोषराष्ट्रदुगर्बलानि चेति नीतिशास्त्रोक्तानि ज्ञेयानि । तथाऽष्टौ व्य. क्तयो यस्य तादृशस्य शिवस्यांशस्य धारकः ताश्च मूर्तयोऽबमियजमान- चन्द्रसूर्याकाशपृथ्वीवायुरूपा आगमोक्ताः । पुनर्नवनिधिर्नवसंख्याका निधयो यस्य । ते च महापद्मादयः प्रसिद्धाः। नवरसानां निधिरित्यर्थान्तरम् । नवो नूतनो निधि. रिति वा । पुनः पुष्यद्दशप्रत्ययः । पुष्यन्ती वर्धमाना दशा यस्य तादृशः प्रत्ययो ज्ञानं यस्य तादृशः । तथा स्मार्तानां पाखण्डिभिन्नानां शिष्टानामुच्छ्रायस्य वृद्ध धुरंधरः । तत्प्रवर्तक इत्यर्थः ॥ ३ ॥ नन्वतावताऽपि तव कुतो धर्मनिर्णयकरण सामर्थ्य तत्राऽऽह-- व्यामूढानामिह तनुभृतां जाह्नवी तीर्थमेकं विद्यार्थि प्रछातविमलं सद्विवेकोदयानाम् । सर्वेषां तु प्रथमसुखदै भारतीतीर्थमाहु- स्तभावान्मे विमलमनसो निर्णये शक्तिरस्ति ॥ ४ ॥ व्यामूढानामिति । इह लोके व्यामूढानां पुरुषार्थज्ञानशून्यानां तनुभृतां शरी. रिणां जाह्नव्येकं केवलं तीर्थ प्राप्त्युपाय इत्यर्थः । तथा सन् विवेकोदयो येषां तेषां पण्डितानां विद्यारूपं तीर्थमस्तीति शेषः। कीदृक् । प्रकृतिविमलं प्रकृत्यैव विमलम् । तथा सर्वेषां जनानां प्रथमतः सुखदं भारतीरूपं तीर्थमाहुः । शिष्टा इति शेषः । भारतीतीर्थनामानं गुरुमित्यपरोऽर्थः । तस्मिन्भावाद्भक्तेर्वशादिमलं संशयशून्यं मनो यस्य तादृशस्य मम धर्मनिर्णये शक्तिरस्तीत्यर्थः ॥ ४ ॥ व्याख्याय माधवाचार्यों धर्मान्पाराशरानथ । तदनुष्ठानकालस्य निर्णयं वस्तुमुधनः ॥ ५॥ --
कालमाधवकारिकाः।
--
ध्याख्यायेति । शिष्यावधानाय वक्तव्यं प्रतिजानीते। पाराशरान्पराशरप्रोक्तान् । एतेन
कालनिर्णयस्य प्रयोजनं धर्मानुष्ठानमुक्तम् ॥ ५ ॥
वक्ष्यमाणानुक्रमस्य प्रयोजनमाह--
अर्थोऽनुक्रम्यते श्लोकैरखिलो निर्णिनीषितः ।
तावतैवानुतिष्ठासुनिःसंदेहः प्रवर्तताम् ॥ ६ ॥
अर्थ इति । अनुक्रम्यते संक्षेपेण कथ्यते । निर्णिनीषितो निणेतुमिष्टः ।
तावतैवेति । अनुक्रमणमात्रादेवेत्यर्थः । अनुतिष्ठासुरनुष्ठानं कर्तुमिच्छुः । तथा चानु-
ष्ठानसौकर्यमनुक्रमणप्रयोजनमित्यर्थः ॥६॥
ननु वादिकृतविप्रतिपत्तौ संदेहात् कथं निर्णयस्तत्राऽऽह-
ततो मीमांसुचित्तस्य समाधानाय तत्पुनः।
विवरिष्ये यथान्यायं श्रुतिस्मृतिवचोवलात् ॥७॥
तत इति । मीमांसा धर्मनिर्णयच्छा तच्छीलं चित्तं यस्य तस्य समाधानाय सं.
देहनिरासाय तदनुक्रान्तमर्थजातं यथान्यायं न्यायानुसारेण विवरिष्ये विस्तरपूर्वकं कथ.
यिष्य इत्यर्थः ॥७॥
पश्च प्रकरणान्यत्र तेषूपोद्घातवत्सरौ ।
पतिपच्छिष्टतिथयो नक्षत्रादिरिति क्रमः ॥ ८॥
पश्चेति । प्रकरणानि निरूपणीयार्थस्थानानि । तेष्विति । क्रम इत्यन्वयः ।
उपोद्घातः प्रकृतसिद्ध्यर्थ चिन्तनमेकम । संवत्सरप्रकरणं द्वितीयम् । प्रतिपत्प्रकरणं
तृतीयम् । अवशिष्टतिथिप्रकरणं गतर्थम । नक्षत्रादिप्रकरणं पञ्चममिति क्रमेणे.
त्यर्थः ॥ ८ ॥
उपोद्घातप्रकरणे वक्तव्यं दर्शयति--
उपोद्घाते कालसत्त्वं तस्य निर्णययोग्यता।
ईश्वरो नित्यकालात्मा चिन्त्योऽयं सर्वकर्मसु ॥ ९ ॥
उपोद्घात इति । कालसत्त्वं कालसाधनम् । तस्य कालस्य । निर्णययो-
ग्यता । अब्दादिखण्डकालस्य निर्णययोग्यत्वेऽपि नित्यकालस्य कथमनुष्ठानाङ्गत्वं
तत्राऽऽह-ईश्वर इति । ईश्वरस्य सकलकारम्ो स्मरणस्य विधानात् । तस्य
च नित्यकालात्मकत्वात्तदनुसंधानार्थ तत्र निर्णय इत्यर्थः । तदुक्तम्-
यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यून संपूर्णतां याति सयो वन्दे तमुच्यतम् ॥ इति ।
सर्वेष्वाम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥ इति च ॥ ९ ॥
४ - भट्टवैद्यनाथकृतविवरणसहिताः जन्यकालेऽब्दमुख्यत्वमुक्तमेतच्चतुष्टयम् । अन्दायनर्तुमासाश्च पक्षः प्रकरणान्तरे ॥ १० ॥ जन्येति । जन्यकालमध्येऽब्दस्य मुख्यत्वं प्रधानत्वम् । अयनवादीनां तु सदवयवत्वमित्यर्थः । एवं चाब्दमारभ्यैव जन्यकालानरूपणं युक्तमिति भावः । प्रकरणान्तरे संवत्सरप्रकरणे ॥ १० ॥ अब्दः पञ्चविधश्चान्द्रो व्रतादौ तिलकादिके । सुजन्मादिवते सौरो गोसत्रादिषु सावनः ॥ ११ ॥ अब्द इति । अब्दः संवत्सरः पञ्चविधः । सौरः सावनो नाक्षत्रश्चान्द्रो बाह- स्पत्य इति । तत्र चान्द्रो नाम चान्द्रद्वादशमासात्मकः । सौरो नाम संक्रान्तिघ- टितद्वादशमासात्मकः । नाक्षत्रो नाम नक्षत्रघटितद्वादशमासात्मकः । सावनो नाम त्रि- शदिवसात्मकद्वादशमासात्मकः । बार्हस्पत्यो नाम बृहस्पतेरेकराशिभोगपर्यन्तः । तत्र चान्द्रस्तिलकादिवते ग्राह्यः । तत्र तिलकवतं भविष्योत्तरपुराणे । वसन्ते किंशुका. शोकशोभिते प्रतिपत्तिथिः । शुक्ला तस्यां प्रकुर्वीत स्नानं नियममास्थितः । ललाटपट्टे तिलकं कुर्याच्चन्दनपङ्कजम् । ततःप्रभृत्यनुदिनं तिलकालंकृतं मुखम् । धार्य संवत्सरं यावच्छशिनेव नभःस्थलम् । इति । अत्र शुक्लप्रतिपदभारभ्य विधा- नाच्छुक्लप्रतिपदादिदर्शान्तचान्द्रमासघटितजं वर्षम् । सौरवर्षानुसारेण सुजन्मावाप्ति- व्रतं विष्णुधर्मोत्तर मेषसंक्रमणे भानोः सोपवासो नरोत्तमः पूजयेद्भार्गवं देवं रामं शक्त्या यथाविधि ॥ इत्यारभ्य मीनसंक्रमणे मत्स्य वासुदेवं च पूजयेदित्यन्तेन ग्रन्थेन । अन्ते च-कृत्वा व्रतं वत्सरमेतदिष्टं म्लेच्छेषु तिर्यक्षु न चापि जन्मेत्युपसंहृतम् । अत्र संक्रान्तिमारभ्य संवत्सरगणनात्सौर वर्ष ग्राह्यम् । तथा गोसत्रं गवामयनाख्यं तत्र सावनः संवत्सरः । स च षष्टयधिकशत- त्रयदिनात्मकः ॥११॥ त्रयोऽप्याचार्यसेवादौ विकल्प्यन्ते निजेच्छया । आयुदाये तु नाक्षत्रो बार्हस्पत्योऽधिवत्सरे ॥ १२ ॥ आचार्यसेवादौ तु त्रयाणामपि संवत्सराणां विकल्पेन ग्रहणम् । आयुर्दायगण- नायो नाक्षत्रः संवत्सरो ग्राह्यः । अधिवत्सरो नाम मध्यमगणनेन गुरुसंक्रान्तिहीनो यश्चान्द्रो वत्सरस्तत्र बार्हस्पत्यः संवत्रो ग्राह्यः ॥ १२ ॥ अथ चान्द्रस्यावान्तरभेदानाह- चान्द्राणां प्रभवादीनां पञ्चके पञ्चके युगे । संपरीदान्विदित्येतच्छब्दपूर्वास्तु वत्सराः ॥ १३ ॥ चान्द्राणामिति । प्रभवादिनाम्नाम् । पञ्चके पश्चके युगे संघे प्रथमस्य संवत्सर उक्तम् कालमाधवकारिकाः। ५ इति द्वितीयस्य परिवत्सर इति तृतीयस्य इदावत्सर इति चतुर्थस्यानुवत्सर इति पश्चमस्येद्ववत्सर इति संज्ञाः । एवं पञ्चसु जातेषु पुनर्द्वितीयपश्चक एता एव संज्ञा ज्ञेयाः । तथा च ब्रह्मवैवर्ते- संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः । इदावत्सरस्तृतीयश्च चतुर्थश्चानुवत्सरः । इद्ववत्सरः पञ्चमस्तु तत्संघो युगसंज्ञकः ॥ इति । एतेषां विनियोगो विष्णुधर्मोत्तरे-संवत्सरे तु दातॄणां तिलदानं महाफलम् । परि- पूर्व तथा दानं यवानां द्विजसत्तम ॥ इदापूर्व च वस्त्राणां धान्यानां चानुपूर्वके । इत्पूर्वे रजतस्यापि दानं प्रोक्तं महाफलम् ॥ १३ ॥ तदाह- तिलो यवो वस्त्रधान्ये रजतं दीयतेऽत्र तु । उग्रे कणि शान्ते च स्तोऽयने दक्षिणोत्तरे ॥ १४ ॥ तिल इति । उग्र इति । दक्षिणायनं कर्कादि ऋतुत्रयमुग्रदैवते कर्मणि ग्रा- ह्यम् । उत्तरायणं तु मकगदि ऋतुत्रयं सौम्ये कर्मणि ग्राह्यम् । तदुक्तं वैखानस- संहितायाम्--मातृभैरववाराहनारसिंहत्रिविक्रमाः । महिषासुरहन्त्री च स्थाप्या वै दक्षिणायने ॥ इति । उत्तरायणस्य सौम्यकर्माङ्गत्वं स्मृतिप्रसिद्धम् । उदगयन आपूर्य- माण इत्यादौ ॥ १४॥ वसन्तागृतवो द्वेधा चान्द्राः सौराश्च चान्द्रकाः। चैत्राद्या अथ मीनाद्या मेषाद्या वा विवस्वतः ॥ १५॥ वसन्तादीति । वसन्ताद्याः षट्टतवो द्विविधाश्चान्द्राः सौराश्च । तत्र चान्द्र- मानेन चैत्रादिमासद्वयं वसन्तः । ज्येष्ठादिमासद्वयं ग्रीष्मः । श्रावणभाद्रपदौ वर्षा ऋतुः । आश्विनकार्तिको शरत् । मार्गशीर्षपोषौ हेमन्तः । माघफाल्गुनौ शिशिरः । तथा च श्रुति:--मधुश्च माधवश्च वासन्तिकावृतू शुक्रश्च शुचिश्च गृष्मावृतू । नभश्च नभस्यश्च वार्षिकावृतू । इषश्चोर्जश्च शारदावृतू । सहश्च सह. स्यश्च हैमन्तिकावृतू । तपश्च तपस्यश्च शैशिरावृतू । इति । यद्यपि मासद्वया- एक एव ऋतुस्तथाऽप्यूतू इति द्विवचनं तदवयवमासद्वयाभिप्रायम् । मध्वादिशब्दाश्चैत्रादिमासवचनाः । अत्र च वसन्तस्य प्राथम्यं 'मुखं वा एतदृतूनां यद्व- सन्तः' इति श्रुतिवशादवगन्तव्यम् । विवस्वतः सूर्यस्य संबन्धिनः सौरा इत्यर्थः । ते च मीनाया मेषाद्या वेति विकल्पः । तथा च श्रुतिः-मीनमेषयोर्मेषवृषभयो वसन्त इति । ऋतुविनियोगस्तु वसन्ते ब्राह्मणोऽग्नीनादधीतेत्यादिश्रुत्या ज्ञेयः । एवं विष्णुधर्मोत्तरे षटसु ऋतुषु पृथक्षण्मूर्तिपूजोक्ता। तथा वसन्ते स्नात्वाऽनुलेपना- दिदानम । ग्रीष्मे पानकादिदानमुक्तम् । देवीपुराणे वर्षाषु तिलदानमुक्तम् । तथा त्मक
भट्टवैद्यनाथकृतविवरणसहिताः-
विष्णुधर्मोत्तरे--एवं शरयन्नदानं हेमन्ते वस्त्रादिदानं शिशिरे च वस्त्रवानमि-
त्युक्तम् ॥ १५ ॥
तदाह-
-
तेष्वाधानादयस्तद्वत्षणमूर्तिरतपूजनम् ।
मासास्तु सावनः सौरश्चान्द्रो नाक्षत्र इत्यमी ॥ १६ ॥
अथ मासो निर्णीयते । मासास्त्वित्यादिना। सावनस्त्रिंशताऽहोरात्रैः परिमितो
लोकव्यवहारे प्रसिद्धः । सूर्यस्यैकराशिभोगो यावत्कालं स सौरः । अश्विन्यादि-
सप्तविंशतिनक्षत्रपरिवृत्तौ नाक्षत्रः । चान्द्रः शुक्लादिदन्तिः पूर्णिमान्तश्चेति द्विविधः ।
तदुक्तं ब्रह्मसिद्धान्ते-
चान्द्रशुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः ।
एकराशा रविर्यावत्कालं मासः स भास्करः ॥ इति ।
विष्णुधर्मोत्तरे-सर्वक्षपरिवृत्तौ तु नाक्षत्रो मास उच्यते ॥ १६ ॥
दर्शान्तः पूर्णिमान्तो वा चान्द्रोऽसौ विप्रवैश्ययोः ।
सौरो राज्ञः सावनस्तु यज्ञे ज्यौतिषिके परः ॥ १७ ॥
एतेषां व्यवस्थामाह-असौ विप्रवैश्ययोरिति । असौ चान्द्रो विप्रवैश्ययोविहिते कर्मणि
ग्राह्य इत्यर्थः । राज्ञः कर्मणि सौरः। सावनस्तु यज्ञे गवामयनादौ त्रिंशदिनात्मकस्यैव
मासस्य ग्रहणात् । ज्योतिषिक आयुर्दायविवाहादौ परो नाक्षत्र इत्यर्थः । तदुक्तं
ब्रह्मसिद्धान्ते-अमावास्यापरिच्छिन्नो मासः स्याद्राह्मणस्य तु । संक्रान्तिपौर्णमासी-
भ्यां तथैव नृपवैश्ययेरिति । दर्शान्तानां पूर्णिमान्तानां च मासविशेषाणां चैत्रादि-
संज्ञा नक्षत्रप्रयुक्ताः । तदुक्तं संकर्षणकाण्डे-
द्वे द्वे चित्रादिताराणां परिपूर्णेन्दुसंगमे ।
मासाश्चैत्रादयो ज्ञेयास्त्रिकैः षष्ठान्त्यसप्तमाः ॥ इति ।
परिपूर्णेन्दुसंगमे यत्संबन्धिपूर्णिमायां चित्रादिताराणां दे द्वे भवत इति शेषः ।
ते मासाश्चैत्रवैशाखादिसंज्ञा इत्यर्थः । यस्मिन्मासे पूर्णिमा चित्रास्वात्योरन्यतरेण
युज्यते स चैत्रः । एवं वैशाखादयोऽपि विशाखादिनक्षत्रयोगेन ज्ञेयाः । षष्ठो भाद्रपद
स्त्रिकैः शततारकापूर्वाभाद्रपदोत्तराभाद्रपदाख्यस्त्रिभिस्तत्पूर्णिमायोगे। सप्तम आश्विनः ।
रेवत्यात्रिदिकयोगे। अन्त्यः फाल्गुनः। पूर्वीफल्गुन्यादित्रिकयोग इत्यर्थः । सौरादि-
मासत्रयमध्ये कस्यचित्कचित्प्राशस्त्यं ज्योतिम्रन्थ उक्तम्-
सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः ।
आब्दिके पितृकार्ये च चान्द्रो मासः प्रशस्यते ॥ इति ॥ १७ ॥
कालमाधवकारिकाः। माघादिमासभेदेषु तिलदानादयः स्मृताः । चान्द्रोऽधिमासोऽसंक्रान्तः सोऽन्तर्भवति चोत्तरे ॥ १८ ॥ मलमासं निरूपयति । तदुक्तं ब्रह्मसिद्धान्ते-'चान्द्रो मासो ह्यसंक्रान्तो मलमासः प्रकीर्तितः' इति । शुक्लप्रतिपदादिदर्शान्तश्चान्द्रो मासस्तन्मध्ये रविसं- क्रान्त्यभावे मलमासो भवति । तथा च चर्तुदश्याममायां वा रविसंक्रमणम् । ततः शुक्लप्रतिपदमारभ्य दर्शान्तं मासमतिक्रम्य प्रतिपदादौ रविसंक्रमणं तत्रासंक्रान्तो मलमाससंज्ञक इति । मलत्वं च कालाधिक्यात् । तथा च गृह्यपरिशिष्टे--मलं वदन्ति कालस्य मासं कालविदोऽधिकमिति । कालाधिक्यं च विष्णुधर्मोत्तरे दार्शतम्- सौरेणाब्दस्तु मानेन यदा भवति भार्गव । सावने तु तदा माने दिनषट्कं प्रपूर्यते । दिनरात्राश्च ते राम प्रोक्ताः संवत्सरेण षट् । सौरसंवत्सरस्यान्ते मानेन शशिजेन तु । एकादशातिरिच्यन्ते दिनानि भृगुनन्दन ॥ वर्षद्वये साष्टमासे तस्मान्मासोऽतिरिच्यते । स चाधिमासकः प्रोक्तः काम्यकर्मणि गर्हितः ॥ इति । सौरसंवत्सरः षडभिर्दिनैः सावनादतिरिच्यते । एकादशभिर्दिनैश्चान्द्रादतिरि. च्यते । तथा च चान्द्रसंवत्सरद्वयात्सौरसंवत्सरद्वयं द्वाविंशत्या दिनैरधिकं भवति । अत ऊर्ध्व सौरमासाष्टकं चान्द्रमासाष्टकात्साधैः सप्तभिर्दिनैरतिरिच्यते। तथा च मिलित्वा दिनार्धन्यूनो मासो भवति । सोऽयमधिको मास इति । अवशिष्टदिनार्धपूरणं च यथोक्तकालादूचं षोडभिर्दिनैः संपद्यते । अत एव सिद्धान्तेऽभिहितम्- द्वात्रिंशद्भिर्गतैर्मासैर्दिनैः षोडशभिस्तथा। घटिकानां चतुष्केण पतति ह्यधिमासकः ॥ इति । यस्मिन्मासे न संक्रान्तिः संक्रान्तिद्वयमेव वा । मालमासः स विज्ञेयो मासे त्रिंशत्तमे भवेत् ॥ इति काठकवचनं तु ज्योतिःशास्त्रप्रसिद्धस्फुटमानाभिप्रायम् । द्वात्रिंशद्भिरिति वचनं तु मध्यममानाभिप्रायमिति न विरोधः । यद्यपि द्वात्रिंशन्मासेषु गतेषु योऽधिको मासः स शुक्लप्रतिपदादिदर्शान्तत्वाभावाच्छ्रौतस्मातकर्मानुपयुक्त उक्तः । स चायुक्तः । इन्द्रामी यत्र हयेते मासादिः स प्रकीर्तितः । अनषिोमौ स्थितौ मध्ये समाप्तौ पितृसोमकौ ॥ तमतिक्रम्य तु यदा रविर्गच्छेत्कदाचन । आयो मलिम्लचो ज्ञेयो द्वितीयः प्राकृतः स्मृतः ॥ अयमर्थः-दर्शपूर्णमासयाजिना लुक्लप्रतिपदि दर्शष्टिदेवौ इन्द्रामी हूयेते । कृष्णप्र.
भटवैद्यनाथकृतविवरणसहिताः- मासः -- ततः तिपदि तु पूर्णमासेष्टिदेवौ अग्नीषोमौ । अमावास्यायां पिण्डपितृयज्ञदेवौ सोमपितृगणौ। तत्रैवं सति शुक्लप्रतिपदादिदर्शान्तो संक्रान्तिरहितोऽधिमास इत्यर्था- लभ्यत इति । तस्मान्मध्यमानगणना श्रौतस्मार्तयोर्नोपयुक्ता दर्शान्तद्वात्रिंशन्मासोत्तरं षोडशसु दिनेषु गतेषु कृष्णद्वितीयायां मलमासोपक्रमात् तथाऽपि कालाधिक्यमा- त्रेण तदुदाहरणास्त्रिंशत्तमे भवेदित्यस्य तूपलक्षणत्वान्न दोषः । सोऽन्तर्भवतीति । उत्तरमासशेष इत्यर्थः । तथा च ज्यौतिषिके-- षष्टया तु दिवसैर्मासः कथितो बादरायणैः । पूर्वमध परित्यज्य कर्तव्याश्चोत्तरे क्रियाः ॥ इति । तथा आयो मलिम्लुचो ज्ञेयो द्वितीयः प्राकृतः स्मृतः । इति च । एवं च यदा पूर्णिमान्तचैत्रकृष्णचतुर्दश्यां दर्शे वा मीनसंक्रान्तिः । शुक्लप्रतिपदमारभ्याग्रिमदर्शपर्यन्तं न संक्रान्तिः । किंतु तदुत्तरप्रतिपदि द्वितीयायां वा मेषसंक्रातिः, ततः शुक्लप्रतिपदादिदर्शान्तश्चैत्रोऽसंक्रान्तो मलमास इति । अधिक- मास इति व्याख्यायते । एवं वैशाखादिष्वपि च ज्ञेयम् ॥ १८ ॥ असंकान्तावेकवर्षे द्वौ चेत्संसर्प आदिमः । क्षयमासो द्विसंक्रान्तः स चांहस्पतिसंज्ञकः ॥ १९ ॥ असंक्रान्ताविति । एकस्मिन्वर्षे चेवावसंक्रान्तौ भवतस्तदा तयोर्मध्य आदिमः प्रथमः संसर्पसंज्ञः । तत्र द्वयोरसंक्रान्तयोर्मध्ये संक्रान्तिद्वययुक्तः स क्षयमाससंज्ञकोऽहस्पतिसंज्ञकश्च भवति । एवं कार्तिकादिमासत्रयसंज्ञायां हेतुरुच्यते । यदा धनुःस्थे रवौ दर्शसमाप्तिस्तदाऽस्य मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः । चैत्रायः स ज्ञेय इति वचनेन मार्गशीर्षवं प्राप्तं, यदि त्वेकस्मि- नेव मासे शुक्लप्रतिपदि धनःसंक्रान्तिस्तत ऊर्ध्व दशैं मकरसंक्रान्तिः स मासो द्विसंक्रान्तिः क्षयाख्यः । तत्र धनुःस्थे रवौ दर्शो न समाप्तो मकरस्थे तु समाप्त- स्ततः पौषमासत्वं तस्य संपन्नम् । तथा च मार्गशीर्षस्य तत्र लुप्तत्वात्क्षयसंज्ञा युक्तेति । तदुक्तं ज्योति:शास्त्रे- असंक्रान्तिमासोऽधिमासः स्फुटः स्याद्विसंक्रान्त्रिमासः क्षयाख्यः प्रदिष्टः । क्षयः कार्तिकादित्रये नान्यतः स्यात्तदा वर्षमध्येऽधिमासद्वयं च ॥ इति । यदाऽमान्तमानेन भाद्रपदामावास्यायां कन्यासंक्रान्तिस्तदूर्ध्वमसंक्रान्तमेकं मासमतीत्योत्तरयोर्मासयोः क्रमेण तुलावृश्चिकसंक्रान्ती भवतः । तत ऊर्ध्वमेकस्मिन्नेव मासे शुक्लप्रतिपदि धनुःसंक्रान्तिस्तदनन्तरं दर्शे मकरसंक्रान्तिः स क्षयमासः । तत ऊर्ध्वं कुम्भसंक्रान्तिरमावास्यायां तत ऊर्ध्वमेकमसकान्तं मासमतीत्य शुक्लप्रति- पदि मीनसंक्रान्तिः । एवं सत्येकस्मिन्नेव संवत्सरे द्वावसंक्रान्तौ मासावेकश्च मध्ये दिसंक्रान्तिमास इति यथोक्तमासत्रयसंपत्तिबर्बोध्या ॥ १९ ॥ च - कालमाधवकारिकाः। यस्त्याज्या विवाहादौ संसपहिस्पती उभौ शुद्धौ औते तथा स्माते मलमासो विविच्यते ॥ २० ॥ त्रयस्त्याज्या इति । विवाहादौ शुभकार्ये त्रयो ह्येते वर्जनीयाः । तदुक्तं ज्यौतिषे-- यस्मिन्मासे न संक्रान्तिः संक्रान्तिद्वयमेव वा । संसाहस्पती मासावधिमासश्च निन्दिताः ॥ इति । तत्र विशेषमाह-संसपैति । संसर्पः प्रथमासंक्रान्तः । अंहस्पतिः क्षयमासः । एतौ द्वौ श्रोते स्मार्ते च कर्मणि शुद्धौ ग्राह्यावित्यर्थः । तदुक्तम्- मासदयेऽब्दमध्ये तु संक्रान्तिर्न यदा भवेत् । प्राकृतस्तत्र पूर्वः स्यादधिमासस्तथोत्तरः ॥ इति । प्राकृतः शुद्धः । अत एव सम्यक्संसपति कर्माणि यस्मिन्निति योगात्संसर्प- संज्ञा । एवं क्षयमासोऽपि । तत्र प्राप्तस्य कर्मणोऽन्यत्रासंभवात् । तत्र कर्मणि श्रादादौ शुद्ध एव । ननु क्षयमास एकमासलोपात्कथं तत्प्रयुक्तं कर्मानुष्ठानम् । कथं च द्वादश मासाः संवत्सर इति नियम इति । उच्यते । यत्र मासि रविसंक- मद्वयं तत्र मासयुगुलं क्षयाह्वयमिति मासद्वयात्मकत्वमेकस्यैव क्षयस्योच्यते। तथा च वचनान्तरम्-द्विसंक्रातिः क्षयः स्यात्स एकोऽपि यात्मको भवेदिति । तत्र चैवं व्यवस्थोक्ता- तिथ्यर्ये प्रथमे पूर्वो द्वितीयेऽर्धे तथोत्तरः । मासाविति बुधश्चिन्त्यौ क्षयमासस्य मध्यगौ ॥ इति ॥ २० ।। इदानीं मलमासे कार्याकार्यनिर्णयः क्रियते- काम्पारम्भं तत्समाप्ति मलमासे विवर्जयेत् । आरब्धं मलमासात्माक् कृच्छ्रचान्द्रादिकं तु यत् ॥ २१ ॥ काम्यारम्भामिति । अत एव पैठीनसि:-श्रौतस्मार्तक्रियाः सर्वा द्वादशे मासि की. तिताः । त्रयोदशे तु सर्वास्ता निष्फला इति कीर्तिताः । स्मृत्यन्तरेऽपि-इंष्ट्यादि. सर्वकाम्यं तु मलमासे विवर्जयेदिति । अयं च निषेध आरम्भसमाप्तिविषयः । असूर्या नाम ये मासा न तेषु मम संमताः । व्रतानां चैव यज्ञानामारम्भाश्च समाप्तयः ॥ इति । पूर्वमारब्धं तु कृच्छ्रादि मलमासेऽपि समापनीयमित्याह-- आरब्धमिति ॥ २१ ॥ तत्समाप्यं सावनस्य मासस्यानतिलधनात् । म्भस्य समाप्तश्च मध्ये स्थाञ्चेन्मलिम्लुचः ॥ २२ ॥ -- - भट्टबैधनाथकृतविवरणसहिताः- तत्र हेतुमाह-साधनस्येति । द्वादशाहोरात्रमितत्वात्कृच्छ्रस्य मध्ये विरामायोगा- दिति भावः । आरम्भसमाप्योर्मध्यपातिन्यधिमासेऽपि कर्म कार्यमित्याह-आरम्भस्येति । तथा च स्मृति:-अधिमासनिपातेऽपि त्वेष एव विधिक्रम इति । प्रवृत्तमखिलं काम्यं तदनुष्ठेयमेव तत् । कारीर्यादि तु यत्काम्यं तस्याऽऽरम्भसमापने ॥ २३ ॥ कार्य कालविलम्बस्य प्रतीक्षाया असंभवात् । कोम्यस्यापि क्वचित्कर्तव्यतामाह-कारीर्यादि विति । कारीर्या वृष्टिकामो यजे. तेति विहिता कारीरीसंज्ञष्टिः । तदारम्भसमापने मलमासेऽपि कर्तव्ये । शुद्धमा- सप्रतीक्षायां क्षेत्रशुष्कताप्रसङ्गात् ॥ २३ ॥ अनन्यगतिकं नित्यमनिहोत्रादि न त्यजेत् ॥ २४ ॥ अनन्येति । अत एव काठकगृह्ये मलेऽनन्यगतिं कुर्यानित्यां नैमित्तिकी कि. यामिति । नित्या-अमिहोत्रादिरूपा । नैमित्तिकी ग्रहणस्नानादिरूपा । तदुक्तं गृहप- रिशिष्टे-- अवषट्कारहोमाश्च पर्व चाऽऽग्रयणं तथा । मलमासेऽपि कर्तव्याः काम्या इष्टीविवर्जयेत् ॥ अवषट्कारहोमा अग्निहोत्रौपासनवैश्वदेवादयः । पर्व दर्शपूर्णमासौ पार्वर्णस्थाली- पाकश्च । दर्शादीनां नित्यत्वमकरणे प्रत्यवायादवमन्तव्यम् । नित्यमिति । पूर्वो- क्तकाम्यस्याप्युपलक्षणम् । अनन्यगतिक त्वस्य तुल्यत्वात् । अनन्यगतिकानि नैमित्ति- कान्याह यमः- चन्द्रसूर्यग्रहे स्नानं श्राद्धदानजपादिकम् । कार्याणि मलमासेऽपि नित्यं नैमित्तिकं तथा ॥ इति ॥ २४ ॥ एवं च सगतिकं नित्यनैमित्तिकमेव वर्जनीयमित्याह-- गत्यन्तरयुतं नित्यं सोमयागादि वर्जयेत् । अगति ग्रहणस्नानं जातेष्टिगतिसंयुता ॥ २५ ॥ गत्यन्तरयुतमिति । सोमयागो हि वसन्ते विहितः । वसन्तश्च मलमास- वर्जनऽपि शुद्धमासे संभवतीति सगतिकत्वम् । तथा च काठकगृह्यम्-- सोमयागादिकर्माणि नित्यान्यपि मलिम्लुचे । षष्टीष्ट्याग्रयणाधानचातुर्मास्यादिकान्यपि ॥ महालयाष्टकाश्राद्धोपाकर्मायपि कर्म यत् । स्पष्टमासविशेषाख्याविहितं वर्जयेन्मले ॥ इति । षष्टीष्टिः काठकशाखादौ प्रसिद्धा । जातेष्टिगतिसंयुतेति । जाष्टिजननानन्तर -- -- कालमाधवकारिकाः। - 'विहिता । जातकर्मोत्तरं च स्तनप्राशनं न ततः पूर्वम् । तथा प्रथम जातष्टिः । ततो जातकर्म । ततः स्तनप्राशनमिति बालविपतिशङ्का स्यात् । अतः शेषिविरोधाज्जातष्टिर्जातकर्मानन्तरं भवति । एवं च निमित्तानन्तर्यबाधस्या- विशेषादाशौचापगमे सा कार्या । एवं पर्वकालानुग्रहार्थ तत्प्रतीक्षाऽपि । शुद्धमासप्रतीक्षयाऽपि क्रियमाणा न दुष्यतीति सगतिकत्वं द्रष्टव्यम् । आमयणस्य च पुराणान्नलाभे सगतिकत्वं तदभावेऽगतिकत्वम् ॥ २५ ॥ यं नैमित्तिकं तस्य व्यवस्था नित्यवन्मता । नित्यवदिति । यथा नित्यमगतिक कार्य सगतिकं न कार्य तथा नैमित्तिक- मपीत्यर्थः । एवं चाऽऽवश्यकं काम्यमनन्यगतिके नित्यनैमित्तिके मलमासे कार्ये ने. तराणति वावय॑विवेकः संपन्नः तत्र कार्याणि कालादर्शे दर्शितानि दाद. शाहसपिण्डान्तं कर्म ग्रहणजन्मनोः । सीमन्ते पुंसवे श्राद्धं दावेतौ जातकर्म च । श्राद्धं नान्दीश्राद्धम् । द्वावती सीमन्तपुंसवौ । रोगे शान्तिरलभ्ये च योगे श्राद्ध ब्रतानि च । प्रायश्चित्तं निमितस्य पशात्पूर्वे परत्र च । अब्दोदकुम्भमन्वादिमहालय. युगादिषु । श्राद्धं दर्शेष्वहरहः श्राद्धमूनादिमासिकम् । मलिम्लुचान्यमासेषु मृता. नां श्राद्धमादिकम् । श्राद्धं तु पूर्वदृष्टेषु तीर्थेष्वेवं युगादिषु । मन्वादिषु च यहानं दानं दैनंदिनं च यत् । तिलगोभूहिरण्यानां संध्योपासनयोः रिया । पर्वहोमश्चाऽऽग्रयणं सामेरिष्टिश्च पर्वणोः । नित्याग्रिहोत्रहोमश्च देवतातिथिपूजनम् । मानं च नानविधिनाऽप्यभक्ष्यापेयवर्जनम् । तर्पणं च निमित्तस्य नियत्वाकुभयत्र च । अ. मिल्यमानिमित्तं च दानं च महदादिकम् । महदादिकं षोडशमहादानादि । अग्नयाधानाध्य. रापूर्वतीर्थयात्राऽमरेक्षणम् । देवागमतडागादिप्रतिष्ठामौञ्जिबन्धनम् । आश्रमस्वीकृतिः काम्यवृषोल्सर्गश्च निष्करमः । राज्याभिषकः प्रथमश्चूडाकर्म व्रतानि च । अभमाश. नमारम्भो गृहाणां च प्रवेशनम् । स्नानं विवाहो नामातिपन्नं देवमहोत्सवम् ।. तारम्भसमाप्ती च कर्म काम्यं च पाप्मनाम । प्रायश्चित्तं तु सर्वेषां मलमासे विव. जयेत् । उपाकर्मोत्सर्जनं च पवित्रदमनार्पणम् । अवरोहश्च हैमन्तः सर्पणां बलि- रष्टकाः । ईशानस्य बलिर्विष्णोः शयनं परिवर्तनम् । दुर्गेन्द्रस्थापनोत्याने धामोत्यानं च बनिणः । पूर्वत्र प्रतिषिद्धानि परवान्यच्च देविकमिति । अत्र हावाहेत्यारभ्य नित्यत्वाद्भयत्र चेत्यन्तेन ग्रन्थेन कर्तव्यसंग्रहः । अनित्यमनिमित्तं चेत्यास्थ्य बीय- दित्यन्तेन वर्व्यसंग्रहः । उपाकर्मत्यारभ्य परत्रान्यच्च दैक्किमित्यन्तेन मलमासव. ब्रितानां सतां शुद्धमासेऽवश्यकर्तव्यत्वेन संग्रहः । अत्र सर्वत्र साक्षिवचनान्युदाहरि. न्यामः । गर्ने वाधुषिके भृत्ये श्राद्धकर्मणि मासिके । सपिण्डीकरणे नित्ये नाधि- मासं विवर्जयेत् । तीर्थस्नानं जपो होमो यवत्रीहितिलादिभिः । जातकर्मान्त्यकर्माणि १२. भट्टवैद्यनाथकृतविवरणसाहता:- - नवश्राद्धं तथैव च । मघात्रयोदशीश्राद्धं श्राद्धान्यपि च षोडश । चन्द्रसूर्यग्रहे स्नानं श्राद्धदानजपादिकम् । कार्याणि मलमासेऽपि नित्यं नैमित्तिकं तथेति । मासिके श्राद्ध- कर्मणि । अमावास्याश्राद्धकर्मणीत्यर्थः । होमोऽत्रौपासनहोमः । अन्त्यकर्माणि दहनोदकपिण्डदानास्थिसंचयनादीनि । स्मृत्यन्तरे--श्राद्धजातकनामानि ये च संस्का. रसवताः । मलिप्लुचेऽपि कर्तव्या इष्टीः काम्याश्च वर्जयेदिति । संस्कारा अन्नप्राश- ननिष्क्रमणादयः । सवताश्चातुर्मास्यादयः । गभस्तिः-- एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते । तत्कार्य पूर्वमासे च कालाधिक्ये च धर्मतः ॥ इति । मरीचि:--रोगे चालभ्ययोगे च सीमन्ते पुंसवेऽपि च । यद्ददाति समुद्दिष्टं पूर्वत्रापि न दुष्यति ॥ इति । ननु संग्रहवचने महालयश्राद्धस्याप्युभयत्र कर्तव्यतोक्ता । महालययुगादि- वित्युक्तेः । सा वचनान्तरविरुद्धा। महालयाष्टकाश्राद्धोपाकर्माद्यपि कर्म यत् । स्पष्टमा- सविशेषाख्याविहितं वर्जयेन्मल इति निषेधात् । नागरखण्डेऽपि- नभो घाऽथ नभस्यो वा मलमासो यदा भवेत् । सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः ॥ इति । अत्र सप्तमपञ्चमावाषाढीमवधिं कृत्वा द्रष्टव्यौ। अत्र महालयशब्देन तीर्थविशेषस्य विवक्षितत्वातू । शुद्धमासमृतानां तु मलिने प्रथमाब्दिकम् ।। २६ ॥ मलमासमृतानां तु मले स्यादाब्दिकान्तरम् । शुद्धमासमृतानामिति । तथा च हारीतः-असंक्रान्ते हि कर्तव्यमाब्दिकं प्रथम द्विजैरिति । तथा-प्रत्यब्दं द्वादशे मासि कार्य पिण्डक्रिया सुतैः । क्वचित्त्रयो- दशेऽपि स्यादायं मुक्त्वा तु वत्सरमिति । अत्र द्वादशे मासि पूर्णे सत्य- नन्तरदिने कार्येति व्याख्येयम् । एवं त्रयोदश इत्यत्रापि । आब्दिकतिथेईि- तीयवर्षादावेव संभवात मासपक्षतिथिस्पृष्टे यो यस्मिन्म्रियतेऽहनि । प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विदुरिति व्यासवचनात । तस्माच्छुद्धमासमृताना प्रथमाब्दिकं मल एव कार्यम् । द्वितीयाब्दिकं तु शुद्ध एवेति व्यवस्थयोभयत्र कर्तव्यता ज्ञेया ॥ २६ ॥ मलमासमृतानां तु यदि कदाचित्स एव मलमास आगतस्तदा तत्रैव प्रत्या- ब्दिकं मलमासे कर्तव्यं नतूपरितने शुद्धमासि । तथा च भृगुः- मलमासमृतानां तु यच्छ्राद्धं प्रतिवत्सरम् । मलमासे तु तत्कार्य नान्येषां तु कदाचनेति ॥ तथा मलमासमृतानां तु सौरमानं समाश्रयेत् । स एव दिवसस्तस्य श्राद्धपिण्डोदकादिषु ॥ इति ।
कालमाधवकारिकाः। तदेवं किंचिन्मलमास एव कार्य यथा शुद्धमासमृतानां प्रथमाब्दिकं मलमासमृता. नामादिकान्तरं च । किंचित्तु शुद्ध एव । यथोपाकर्मादि सामगातिरिक्तानां, सामगाना तु मल एव । सिंहस्थे रघौ तद्विधानात् । सिंहे रवौ तु पुष्यः पूर्वाहणे विचरेदहिः । छन्दोगा मिलिताः कुर्युरुत्सर्ग सर्वच्छन्दसाम् । शुक्लपक्षे तु हस्तेन उपाकर्मापरा- हणिकमिति गार्ग्यवचनात् । प्रथमोपाकरणं तु तेषामपि मले निषिद्धम् । प्रथमो- पाकृतिर्न स्यात्कृतकर्मविनाशकृदिति वचनात् । एवं च-दशहरासु नोत्कर्षश्चतु. वपि युगादिषु । उपाकर्ममहापश्चार्येतदुक्तं वृषादितः । इति वचनेनोपाकर्मणोऽनु. त्कर्षभिधानं सामगविषयमेव ज्ञेयम् । प्रकृतमनुसरामः । किंचिदुभयत्रापि कार्य- यथाऽब्दोदकुम्मादि । किंचिदन्यतरस्मिन्निमित्तवशात्कर्तव्यम् । यथा द्वादशाहसपिण्डी. करणादि । किंचिन्मलमासे वर्ण्यम् । यथाऽनित्यमनिमित्तं चेत्यादीति संक्षेपः ॥ दैवे मुख्यः शुक्लपक्षः कृष्णः पित्र्ये विशिष्यते ॥ २७ ॥ अथ पक्षः। दैव इति । देवे यागादिकर्मणि शुक्लपक्षः प्रशस्तः । यं काम- येत वसीयान्स्यादिति तं पूर्वपक्षे याजयेद्वसीयानेव भवतीति श्रुतेः । वसीयान्वसु- मत्तरः। पित्र्ये कर्मणि तु कृष्णपक्षः प्रशस्तः । यथा चैवापरः पक्षः पूर्वपक्षादिशि- ध्यते ( म० स्मृ० ३ । २७८ )। पिध्य इत्याह मनुः ॥ २७ ॥ तृतीये तु प्रकरणे वर्णिता पतिपत्तिथिः । प्रतिपन्नाम विज्ञेया चन्द्रस्य प्रथमा कला ॥ २८ ॥ तृतीये विति । प्रथमकलानिष्पत्तिपरिमितः कालः प्रतिपत्तिथिस्तावती । एवं द्वितीयादिष्वपि द्रष्टव्यम् । तथा च स्कान्दे- अमा षोडशभागेन देवि प्रोक्ता महाकला । संस्थिता परमा माया देहिनां देहधारिणी ॥ अमादिपौर्णिमास्यन्ता या एव शशिनः कलाः । तिथयस्ताः समाख्याताः षोडशैव वरानने ॥ इति । अयमर्थः--या महामाया आधारशक्तिरूपा देहिनां देहधारिणी संस्थिता सा चन्द्रमण्डलस्य षोडशभागेन परिमिता चन्द्रदेहधारिणी अमानाम्नी महाकलेति प्रोक्ता । क्षयोदयरहिता नित्या तिथिसंज्ञकैव । इतरा अपि पञ्चदश कला दिवसव्यवहारो- पयोगिन्यः क्षयोदयवत्यः पञ्चदश तिथयो भवन्तीति । तिथयः षोडशैवेत्यविरुद्धं वचनमिति ॥ २८ ॥ शुक्लपक्षे विशेश्चन्द्रं कृष्णपक्षे विनिःसरेत् । शुक्लपक्ष इति । वह्निना पीता प्रतिपत्कला शुक्लपक्षे चन्द्रं पुनः प्रविशति । कृष्णपक्षे च ततो विनिःसरति । वन्यादिदेवतानां कलापानं सोमोत्पत्तौ पठ्यते । प्रथमां पिबते वहिदितीयां पिबते रविरित्यादिना पञ्चदशी प्रजापतिरित्यन्तेन ॥
भट्टपैयनाथकृतविवरणसहिताः-
--
इदानीं सर्वतिथिसाधारणी परिभाषोच्यते-
शुद्धा विद्धा तिथिः शुद्धा हीना तिथ्याऽन्ययाऽहनि ॥२९॥
शुद्धेति। शुद्धा विद्धा चेति तिथिर्द्विधा । अन्यतिथ्या उदयास्तमयान्त-
सले रहिता शुद्धत्यर्थः ॥ २९ ॥
विद्धा लक्षयति-
उदये पूर्वया तिथ्या विध्यते त्रिमुहूर्तकः ।
सायं तूतरया तद्वन्न्यूनया तु न विध्यते ॥ ३० ॥
उदय इति । सूर्योदये पूर्वया तिथ्या त्रिमुहूर्तमितयोत्तरा तिथिर्विध्यते । तथा
सायं त्रिमुहूर्तमितयोत्तरया विध्यते नतु न्यूनयेत्यर्थः । ३० ॥
वेध्याऽपि त्रिमुहूर्तेव न न्यूना वेधमर्हति ।
वेध्याऽपीति । त्रिमहूर्तपरिमित्व दिने विद्यमाना विद्धा भवति न न्यूनेत्यर्थः । तथा
च पैठीनसि:-
पक्षद्वयेऽपि तिथयस्तिथि पूर्वी तथोत्तराम् ।
त्रिभिर्मुहू विध्यन्ति सामान्योऽयं विधिः स्मृतः ॥ इति ।
तथा--उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ । द्विमुहूर्त त्रिरह्नश्च सा तिथि-
हव्यकव्ययोरिति विष्णुधर्मोत्तरे वचनात् । अनः संबन्धि द्विमुहूर्त त्रिमुहूर्त चेत्य-
बयः । दैवतं देवकर्मयोग्यं पित्र्यं पितृकर्मयोग्यम् । अतः सा तिथिः क्रमेण
हव्यकव्ययो ह्येत्यर्थः । द्विमुहूर्तमित्यनकल्पः । तथा पौर्वाहणिकास्तु तिथयो देवे
कार्याः प्रयत्नत इति वृद्धयाज्ञवल्यवचनादपि त्रिमुहूर्तसत्त्वमावश्यकम् । पूर्वा-
हशब्दस्याह्नः पूर्वो भाग इति व्युत्पत्त्या दिनाद्यभागवचनत्वात्तस्य च पञ्चधाविभागे
त्रिमुहूर्तात्मकत्वात् ॥
शुद्धायां नास्ति संदेहो देवे पित्र्ये च कर्मणि ॥ ३१ ॥
मुखायामिति । दिनद्वयसत्त्वे हि संदेहः । तदभावान संदेह इत्यर्थः ॥ ३१ ॥
उपवासश्चैकमत नक्तं चायाचितं व्रतम् ।
दानं च षइविधं देवं कमादत्र विविच्यते ॥ ३२ ॥
व्रतमिति । पूजादिरूपमित्यर्थः ॥ ३२ ॥
एकोद्दिष्टं पार्वणं च पित्यं द्विविधमुच्यते ।
शुक्लपक्षे दर्शविद्धा कृष्णे विद्धा द्वितीयया ॥ ३३ ॥
उपोष्या पतिच्छुक्ले मुख्या स्यादापराहिकी ।
तदभावे तु सायाह्नव्यापिनी परिगृह्यताम् ॥ ३४ ॥
कालमाधवकारिकाः। १५ -- -- एकोद्दिष्टमिति । एकदेवत्यमित्यर्थः । पार्वणं त्रिदेवत्यम् । उपवासे प्रतिपनिर्णयमाह- शुक्लपक्षइति । तथा च पैठीनसिः-पञ्चमी सप्तमी चैव दशमी च त्रयोदशी। प्रतिपसवमी चैव कर्तव्या संमुखी तिथिरिति । संमुखत्वं च स्कान्दे विवेचितम्-संमुखी नाम सायाह्नव्यापिनी दृश्यते यदा । प्रतिपत्संमुखी कार्या या भवेदापराणिकीति । व्यासोऽपि--प्रातिपत्सव विज्ञेया या भवेदापराणिकी। देवं कर्म तदा ज्ञेयं पिश्यं वा मनुरब्रवीत् ॥ ३३ ॥ ३४ ॥ सायालादयः सावनदिवसस्य भागविशेषा इत्याह- पातःसंगवमध्याह्नापराणाः सायमित्यसौ । अबाह्नः पञ्चधा भागो मुख्यो द्विव्यादिभागतः ॥ ३५ ॥ प्रातरिति। मुख्यः श्रेष्ठः । द्विव्यादीति । द्वेधा त्रेधा चतुर्धति विभागेभ्य इत्यर्थः । तथा च सूर्योदयमारभ्य मुहूर्तत्रयं प्रातर्भागः । तदूर्व मुहूर्तत्रयं संगवः । ततो मुहूर्तत्रयं मध्याह्नः । ततो मुहूर्तत्रयमपराहणः । ततो मुहूर्तत्रयं सायानः । तथा च व्यासः- मुहूर्तत्रितयं प्रातस्तावानेव तु संगवः । मध्याहनस्त्रिमुहूर्तः स्यादपराहणोऽपि तादृशः ॥ सायास्त्रिमुहूर्तस्तु सर्वधर्मबहिष्कृत इति । मुहूतिशब्देन च दिनस्य पञ्चदशो भाग उच्यते । तस्य च दिन. वृद्धिहासाभ्यां वृद्धिह्रासौ ज्ञेयौ । एवं सति यदा प्रतिपद्दर्शदिनेऽस्तारपूर्व वि. हूर्तपरिमिता परेगुश्वास्तमयात्प्राक त्रिमुहर्त प्रविष्टया द्वितीयया विद्या भवति तदा दर्शविद्धा ग्राह्या । सा च पूर्वदिनेऽपराणेऽपि यदि वर्तते तदा श्रेष्ठा । तर. भावे सायालमात्रव्यापिन्यपि ग्राह्येत्यर्थः । आवर्तनात्तु पूर्वाणो ह्यपराहणस्ततः इति स्कान्दे द्वेधा विभागो दर्शितः । तथा-ऊर्ध्व सूर्योदयात्प्रोक्तं मुहूर्तानां तु पञ्चकम् । पूर्वाणः प्रथमः प्रोक्तो मध्याह्नस्तु ततः परम् । अपराहणस्ततः प्रोक्तो मुहूर्तानां तु पञ्चकमिति त्रेधा विभाग: । शातातपोऽपि-तस्मादास्तु पूर्वाहणे देवा अशनमभ्यवहरन्ति । मध्यंदिने मनुष्या अपराहणे पितर इति चतुर्धा विभागमाह गोभिलः । पूर्वाहणः प्रहरं सार्ध मध्याह्नः प्रहरं तथा । मा तृतीयादपराहणः सायाह्नश्च ततः परमिति । एते च वेधा विभागादयो यत्र योतकं तत्रैव ग्राह्याः । अन्यत्र तु सर्वत्र पञ्चधा विभाग एवेति । एवं च प्रकृत उपधासे प्रतिपत्पूर्वा ग्राह्येति दर्शितम् । एकादशी तथा षष्ठी ममावास्था चतुर्थिकाः । उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुता इति वचनात् । यसु-प्रतिपत् सद्वितीया स्याद्वितीया प्रतिपयुतेति तदुपवासेतरविषयम् ॥ ३५ ॥ अभावेऽपि प्रतिपदः संकल्पः पातरिष्यते । तिथिस्त्रियामतोऽश्चेित्तिथ्यन्ते पारणं भवेत् ।। ३६ ।। पर
१६
भटवैद्यनाथकृतविवरणसहिताः-
-
तथा
अभावेऽपीति । पूर्वविद्धायाः प्रतिपदः प्रातरसत्त्वेऽपीत्यर्थः । संकल्प उप-
वासादेः । ननु प्रातः संकल्पयेद्विद्वानुपवासव्रतादिकमिति वचनात्प्रतिपदश्च तत्राभा.
वात्कथं संकल्पः स्यादिति चेत् । ज्योतिःशास्त्ररीत्या प्रातरसत्त्वेऽपि धर्मशास्त्ररीत्या
सवात् । तथा च देवल:-
यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः ।
सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु ॥ इति ।
अत्र कर्मस्विति बहुवचनात्सकलदैवकर्मविषयत्वम् । अत्रास्तमयात्पूर्व मुहूर्तत्रय-
ध्यापिनीं तिथिं समनुप्राप्येति विवक्षितम् । अन्यथा पूर्वविद्धत्वाभावेनोत्तरतिथेरेव
ग्राह्यत्वप्रसङ्गात् । अत एव शिवरहस्ये-
यां प्राप्यास्तमपैत्यर्कः सा चेत्स्यात्त्रिमुहूर्तिका ।
धर्मकृत्येषु सर्वेषु संपूर्णा तां विदुर्बुधाः ॥ इति ।
ननु खो दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम् । खर्वदो परौ पूज्यौ
हिंसा स्यात्पूर्वकालिकीति वचनात्कुतो न निर्णयः क्रियत इति चेत् । मैवम् । खर्वादि.
वाक्यस्यैकोद्दिष्टादिश्राद्धविषयत्वात्
व्यास:--द्वितीयादिक युग्मानां
पूज्यता नियमादिषु । एकोद्दिष्टादिवृद्ध्यादौ ह्रासवृद्ध्यादिचोदनेति । नियमादि-
वित्यादिशब्देन पित्र्यकर्मव्यतिरिक्त व्रतोपवासादिसकलकर्मणो ग्रहणम । एकोद्दिष्टादी-
त्यादिशब्देन विवाहादिमङ्गलाङ्गभूतश्राद्भव्यतिरिक्तपार्वणश्राद्धस्य, वृध्यादावित्यादि-
शब्देन माङ्गलिक श्राद्धस्य च ग्रहणम् । खर्वः साम्यम् । दर्पो वृद्धिः । हिंसा
क्षयः । तदेवं पूर्वेयुः शुक्ल प्रतिपदुपवासं कृत्वा परेयुः पारणं कुर्यात् ।
तिथ्यन्ते विहितम् । तथा च सुमन्तुः--- तिथिनक्षत्रनियमे तिथिभान्ते च पारणम् ।
त्रियामादूर्ध्व तिथ्यन्तलाभे तु प्रातरेव च पारणमित्यर्थः । यामत्रयोर्ध्वगामिन्यां
मातरेव हि पारणमिति वचनात् । एवं शुद्धायां परविद्धायां वोपवासेऽपि प्रातरेव
पारणम् । उपवासेषु सर्वेषु पूर्वाहणे पारणं भवेत् । अन्यथा त फलस्या धर्म-
मेवोपसर्पतीति देवलवचनात् । धर्मो यमः
तथा एकभक्तनक्तायाचितानि यां
तिथिमुद्दिश्य विहितानि परेयुस्तत्तिथ्यन्ते पारणं कार्यम् । तिथीनामेव सर्वासा-
मुपवासवतादिषु । तिथ्यन्ते पारणं कुर्यादिना शिवचतुर्दशीमिति स्कान्दवचन
आदिपदेनकभक्तादीनामुपादानात् ॥ ३६ ॥
बल्युत्सवं च पूर्वारुपवासवदाचरेत् ।
पूर्वेयुः पूर्वविद्धायां प्रतिपदि यथोपवासः क्रियते तथा बल्युत्सवं च कुर्या-
दित्यर्थः। बल्युत्सवश्च बलिपूजारूपः कार्तिक शुक्लप्रतिपदि ब्रह्मपुराणादौ विहितो ज्ञेयः ।
मुख्यतिथ्यन्तराये तु तिथिशेषोऽपि गृह्यताम् ॥३७॥
कालमाधवकारिकाः। १७ शुद्धाविका तु कृष्णाऽपि पूर्वा संपूर्तिसंभवान् । ग्रहीतव्या एकभक्ते मध्याह्नव्यापिनी निथिः ॥ ३८ ॥ परेयुरेव पूर्वेयुरेव च्यामिदिनद्वये । नोभयत्रोभयत्रांशे साम्यं वैषम्यमित्यमी ॥ ३९ ।। षट् पक्षास्तेषु चैकैकव्याप्ती सैवात्र गृह्यताम् । दिनद्वयेऽपि तद्व्याप्तावव्याप्ती चैकदेशतः ॥ ४० ॥ समव्याप्तौ च पूर्वैव वैषम्ये त्वधिकेष्यताम् । अन्याङ्गस्यैकभक्तस्य कालस्त्यङ्ग्यनुसारतः ॥ ४ ॥ उपवासमतिनिधेस्तिथिः स्यादुपवासवत् । मुख्यति । मुख्यतिथेः पूर्वविद्धाया अन्तराये तत्र कर्माकरणे तिथिशेषोऽमि परेप: पूर्वाहणे विद्यमानो ग्राह्यः । पार्वाह्निकास्तु तिथयो दैव कार्ये फलप्रदा इति वचनादिति भावः ॥ ३७ ॥ शुद्धाधिका विति । शुद्धा संपूर्णा सति अधिका परेयुस्त्रिमुहूर्ता कृष्णाऽपि प्रतिपत्पूर्वैव ग्राया । संपूर्णत्वस्य संभवादित्यर्थः । एकभक्ते तिथिनिर्णयमाह- ग्रहीतव्येति । एकभक्तं च स्कान्द दर्शितम् । दिनार्थसमयेऽतीते भुज्यते नियमेन यत् । एकपक्तमिति प्रोक्तमतस्तत्स्यादिवेव हीति । अत्र च दिनार्धस्योपरि सार्ध- मुहूर्तपरिमितः कालः पश्चधा विभागे मध्याह्नस्यापरभाग एकभक्तस्य मुख्यः कालः । दिनार्धेऽतीते समनन्तरभावित्वात । अस्तमयात्प्राचीनोऽवशिष्टो गौणः दिवेत्यभ्यनुज्ञानात । एवं च मध्याहनस्य कर्मकालत्वात्तद्रव्यापिनी तिथिरेकभक्त ग्राधा। कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः । तया कर्माणि कुर्वीत ह्रासवृद्धी न कार- णमिति वचनात् । मध्याह्नव्यापिनी ग्राह्या एकभक्ते सदा तिथिरिति वचनाच्च ॥ ३८ ॥ अत्र मध्याहव्याप्तिः षडविधेत्याह--पद्यरवेति । परेड्युरेव मध्याह्नव्याप्तिः पूर्वेपुरेष वा । उभयत्रापि तद्व्याप्तिव्याप्तिर्वा । उभयत्र साम्येन तदेकदेशव्या- प्तिषम्येण वेति ॥ ३९ ॥ एतेषु पक्षेषु मध्य एकेक स्मन्नेव दिन मध्याह्नव्याप्ती सैव ग्राह्या । इतरपक्षेषु साम्यपर्यन्तेषु पूर्वैव । गौणकालव्याप्तिलाभात् । वैषम्ये त्वधिक व्यापिनी ग्राह्या ॥ ४० ॥ अन्याङ्गस्येति । यत्र प्रधानपूजादिकं मध्याह्न विहितं तदङ्गं चैकभक्तं तत्र प्रधानानुसरिणाङ्गभूतस्यैकभक्तस्य प्रधानदिन एव तदुनरमनुष्ठानं कार्यम् उपवासप्रतिनि. धित्वेन विहितं त्वेकभक्तमपवासतिथौ कार्यमित्यर्थः । इत्येकभक्तनिर्णयः ॥ ४१ ।। कालः । cor १८ भट्टवैद्यनाथकृतविवरणसहिताः- अथ नक्तं निीयते- प्रदोषव्यापिनी नते तिथिः । प्रदोषव्यापिनाति । तत्र वराहपुराणे--मार्गशीर्षे सिते पक्षे प्रतिपद्या तिथि- र्भवेत् । तस्यां नक्तं प्रकुर्वीत गत्री विष्णं प्रपूजयेत् । नक्तकालो भविष्यत्पु- राणे--महूर्तोनं दिनं नक्तं प्रवदन्ति मनीषिणः । नक्षत्रदर्शनान्नक्तमहं मन्ये गणाधि- पेति । अस्य च कालवयस्याधिकारिभेदेन व्यवस्थामाह देवलः- नक्षत्रदर्शनान्नक्तं गृह- स्थस्य बुधैः स्मृतम् । यतेर्दिनाष्टमे भागे तस्य रात्रौ निषिध्यते ॥ इति । स्मृत्यन्तरेऽपि-नक्तं निशायां कुर्वीत गृहस्थो विधिसंयुतः। यतिश्च विधवा चैव कुर्यात्तत्सदिवाकरम् । सदिवाक- (सभास्क)रं तत्प्रोक्तमन्तिमे घटिकाद्वये। निशानक्तं तु विज्ञेयं यामार्थे प्रथमे सदेति । रात्रिनक्तभोजन व्यासः--त्रिमहूर्त प्रदोषः स्याद्भानावस्तं गते सति । नक्तं तु तत्र कुर्वीत इति शास्त्रस्य निश्चय इति । तदवं नक्तकालौ व्यवस्थितौ । तत्र नक्तं प्रदोषव्यापिन्यां तिथ्यां कार्यम् । तदाह वत्सः----प्रदोषव्यापिनी ग्राह्या सदा नक्तव्रते तिथिः । एकादशी विना सर्वा शुक्ले कृष्ण तथा स्मृता ॥ इति । एकादश्यां तु यन्नक्तं तत्रोदयव्यापिनी तिथिह्या । तदुक्तं स्कान्दे-प्रदोषव्यापिनी ग्राध्या सदा नक्तवते तिथि: । त्रिमहूर्त प्रदोषः स्याद्भानावस्तं गते सति । नक्तं तत्र तु कर्तव्यमिति शास्त्रविनिश्चयः ॥ इति व्यासोक्तः पारिभाषिको ज्ञेयः । व्याप्तिदिनद्वये ॥ ४२ ॥ अव्याप्तिर्वाऽथवांऽशेन व्याप्तिः स्यात्सर्वथोत्तरा । सौरनक्ते तु सायाह्नव्यापिनी न प्रदोषगा ॥ ४३ ॥ अत्र पूर्ववत्प्रदोषव्याप्ती षट पक्षा इत्याह-व्याप्तिनिद्वय इति । तत्रैक- दिनव्याप्ती संशयाभावात्पक्षद्वयं त्यक्तम् । तत्र दिनद्वयव्याप्ती जाबालि:- सदैव तिथ्योरुभयोः प्रदोषव्यापिनी तिथिः । तत्रोत्तरत्र नक्तं स्यादुभयत्रापि सा यतः ॥ इति । उभयत्रापि दिवा रात्रौ च सा तिथिर्विद्यते यत इत्यर्थः ॥ ४२ ॥ उभयत्र प्रदोषव्याप्त्यभावे पत्याह जाबालि:--अतथात्वे परत्र स्यादस्ता- दग्यितो हि सेति । अतथात्व उभयत्र प्रदोषव्याप्त्यभावे । तेन सायालव्याप्ति. गोणकल्प इत्याभिप्रायः । एवं च गृहस्थोऽप्येतादृशविषये दिवानक्तमाचरेत् । प्रदोषव्यापिनी न स्यादिवा नक्तं विधीयते । आत्मनो द्विगुणच्छायामतिकामति भास्करे । तन्नक्तं नक्तमित्याहुन नक्तं निशि भोजनम् । एवं ज्ञात्वा ततो विद्वान्साया तु भुजिक्रियाम् । कर्यान्नक्तवती नक्तं फलं भवति निश्चितमिति । यत्तु सप्तमीभानुवारादौ रविनक्तं विहितं तत्र पूर्वोक्तविपर्ययेण सायंकालव्याप्तिर्मुख्यः कल्पः । प्रदोषव्याप्तिरनुकल्पः । अत एव समन्तुः--त्रिमुहूर्तरपुगेवाह्नि निशि चैता. बती सिथिः । तस्यां सौरं भवेन्नक्तपहन्येव तु भोजनामति । अत्र सायंव्याले- कालमाधवकारिकाः। १९ यदा रवि - मध्यम उपान्त्यस्ततः मुख्यकालत्वात्प्रथमतो निर्देशः । प्रदोषव्याप्तेरनुकल्पत्वात्पश्चान्निर्देशः । वारादौ रात्रिभोजननिषेधस्तत्र गृहस्थोऽपि दिवैव नक्तं कुर्यात् । तथा च भविष्य- त्पुराणे- ये त्वादित्यदिने ब्रह्मन्नक्तं कुर्वन्ति मानवाः । दिनान्ते तेऽपि भुञ्जीरन्निषेधाद्रात्रिभोजने ॥ इति । अस्मिंश्च दिवाभोजन उत्तमोऽन्तिममुहूर्ता प्राचीनो जघन्यः । एवं च सत्यन्तिमभागत्रिमुहूर्तवचनान्युपपद्यन्ते । रात्रिभोजनेऽपि पटि- कात्रयमुत्तमः कालः । घटिकापदकं मध्यमः कालः । अत्राप्यन्याङ्ग उपवासस्थानीये च पूर्वोक्त एव निर्णयः । तथा रथसप्तमीव्रते तृतीयादिषु सप्तम्यन्तेषु पञ्चसु दिनेषु क्रमेणैकभक्तनक्तायाचितोपवासपारणानि विहितानि तत्र यदा तृतीया यामत्रपयरिमिता तत ऊर्ध्व चतुर्थी तदैकभक्तनक्तयोरेकस्मिन्दिवसे प्राप्ती प्राथ- म्यादेकभक्तस्य मुख्यकालेऽनुष्ठानम् । नक्ते त्वनुकल्पः । स च द्विविधः । दिना- न्तरानुष्ठानात्कञन्तरानुष्ठानाच्च । यदा तु चतुर्थी परेद्यवृद्ध्या सायंकालं व्याप्नोति तदा तस्य गौणकालत्वादेक एवं कर्ता दिनभेदेन व्रतद्वयमनुतिष्ठेत् । यदा चतुर्थी समा क्षीणा वा तदा गौणकालस्याप्यसंभवेन पूर्वेयुरेव भार्यापुत्रादिना कर्वन्तरेण तन्नक्तं करणीयम् ॥ ४३ ॥ इति नक्तनिर्णयः । अयाचिते त् तिथयः स्वीकार्या उपवासवत् । सोदयविमुहूर्तायां कुर्यादानं व्रतानि च ॥ ४४ ॥ उभयत्र तथात्वे तु पूर्वेद्युस्तदनुष्ठितिः । परत्रैव तथात्वं चेत्पूर्वा ग्राह्या तिथिक्षये ॥ ४५ ॥ तिथेः साम्ये च वृद्धौ च गृह्यतां तिथिरुत्तरा । अस्पर्श चकदेशस्य व्याप्ती पूर्वव गृह्यताम् ॥ ४६ ॥ एकोद्दिष्टे तु मध्याह्नयुक्ता स्यादेकभक्तवत् । एकदेशे समव्याप्तौ क्षये पूर्वाऽन्यथोत्तरा ॥ ४७ ॥ अयाचिते विति । याचितं तु याचितभोजननिषेधरूपम् । याचितादन्यदयाचित. मिति । उभयत्राप्युपवासवत्तिथिहित्यर्थः । सोदयेति । उदयमारभ्य त्रिमूहूर्त वर्तमाना. यामित्यर्थः । तदाह वृद्धयाज्ञवल्क्यः-पौर्वाह्निकास्तु तिथयो देवे कार्ये फलप्रदा इति ॥ ४४ ॥ उभयत्रेति । दिनद्वये पूर्वाह्नव्याप्तौ पूर्वेगुस्तदनुष्ठानम्। परचैव तद्व्याप्तौ तिथि. क्षये पूर्वा । साम्यवृद्ध्योस्तु परा । दिनद्वयेऽपि पूर्वाह्नष्याप्तावेकदेशव्याप्तौ च पूर्वा ग्राह्येति ॥ ४५ ॥ ४६॥ इति दानव्रतनिर्णयः ।
भवेद्यनाथकृतविवरणसहिताः- अथ पित्र्यं निर्णीयते- एकोद्दिष्टे त्विति । एक माद्दश्य क्रियमाणं श्राद्धमकी- हिष्टम । श्रीनुद्दिश्य क्रियमाणं पार्वणम् । तदाह कण्वः-एकमुद्दिश्य यच्छ्राद्ध- मकोद्दिष्टं प्रकीर्तितम् । बीनुद्दिश्य तु यत्ताद्ध पार्वणं मुनयो विदुरिति । तत्रैकोहिष्टे मध्याह्नव्यापिनी पार्वणेऽपराहणव्यापिनी थिति_ह्या । तथा च गौतमः-मध्याह्नव्यापिनी या स्यात्सकोद्दिष्ट तिथिर्भवत् । अपराह्नव्यापिनी या पार्वण सा तिथिर्भवेदिति । हा. रीतोऽपि-आमश्राद्धं तु पूर्वाह्न एकोद्दिष्टं तु मध्यमे । पार्वणं चापराह्वे तु प्रातर्वृद्धि- निमित्तकमिति । मध्याह्नश्च सप्तमाष्टमनवममुहूर्तात्मकः । तत्रैकदिने मध्याह- व्याप्ती न संदेहः । दिनद्वये तद्रव्याप्तौ पूर्वः । अपराणः पितृणां तु ग्राऽ. पराहणानुयायिनी । सा ग्राह्या पितृकार्येषु न पूर्वाऽस्तानुयायिनीति हारीतवचनात् । यस्यामस्तं रविर्याति पितरस्तामुपासते । तिथिं तेभ्यो यता दत्तो ह्यपराहणः स्वयंभुवा ॥ इति बृहन्मनुवचनाच्च । एकदेश इति । क्षये तिथिक्षये । अन्यथा वृद्धिसाम्ययो। षम्यैकदेशव्याप्तौ त्वधिक व्यापिनी ग्राह्या ॥ १७ ॥ कुतपाद्यपराह्रान्तव्याप्तिराब्दिक उत्तमा । तभावेऽपराणस्य व्यापिका गृह्यतां तिथिः ॥ ४८ ॥ क्षये पूर्वोत्तरा वृद्धौ व्याप्तिश्चेदपराग योः । न ग्राह्यतिथिगौ वृद्धिक्षयावद्धतिथेस्तु तौ ॥ ४९ ॥ साम्ये तृर्वतिथेह्या परविद्वैव वृद्धिवत् । न स्पृशेदपराणौ चेत्पूर्वा स्यात्कुनपो वृथा ॥ ५० ॥ वैषम्पेणैकदेशस्य व्याप्तौ ग्राह्या महत्त्वतः । साम्येन. चेत्क्षये पूर्वा परा स्याद् वृद्धिसाम्ययोः ॥ ५१॥ वृद्धिसाम्यक्षया ग्राह्यतिथिगा नोर्ध्वगा इह । पार्वण निर्णयमाह-कतपादाति । अष्टम भास्कगे यस्मान्मन्दी भवति सर्वदा । तस्मादनन्तफलदस्तत्राऽऽरम्भो विधीयते ॥ ऊ मुहूर्तात्कुतपाद्यन्मुहूर्तचतुष्टयम । मुहूर्तपश्चकं ह्यतत्स्वधाभवनमिष्यते ॥ इति मात्स्यात् । तदभाव इति । मुहूर्तपञ्चकव्याप्त्यभाव इत्यर्थः । पित्रर्थे चाऽऽपरालिकीति सामान्यवचनादिति भावः ॥ ४८ ॥ क्षय इति । उभयत्रापराह्नव्याप्तौ तदभाव एकदेशसमव्यातौ च क्षये पूर्वा । पक्षान्तरे साम्यवृदध्योः परत्यर्थः । अपराहृदयव्यापिन्यतीतस्य यदा तिथिः । क्षये कालमाधधकारिकाः। पूर्वा च कर्तव्या वृद्धी कार्य तथोत्तग ॥ इति बौधायनाचनात । न पायेति । अपरालद्वयव्याप्तेश्च मिथिवृद्धिनियतत्वे ग्राह्यतिरिक्षयासंभवादिति भावः ॥ ४९ ॥ वृद्धिवदेव साम्येऽपि परैवेत्याह--साम्ये विति । उभयत्रापराह्नव्याप्त्यभावे निर्णयमाह-न स्पृशेदपराहणौ चेदिति । तदाह मनुः-- न व्यहव्यापिनी चेतस्यान्मृताहे तु या तिथिः । पूर्वविवेव कर्तव्या चिमुहूर्ता भवेयवति ॥ ५० ॥ वैषम्येणेति । तथा च मरीचिः-ध्यपराहणव्यापिनी दाब्दिकस्य यदा तिथिः । महती यत्र तविद्धां प्रशंसन्ति महर्षयः ॥ इति । एकदेशसाम्येनोभयत्र व्याप्तौ त्वाह-साम्येन चेदिति । सर्वो दर्प इत्यादिवाक्यादित्यर्थः ॥ ५१ ॥ पूर्ववदत्रोत्तरतिर्वयादिकं न नियामक किंतु ग्राह्यतिथेरवेत्याह-वृद्धिसाम्ये. त्यादीति । इति माधवीयकारिकाविवरणे प्रतिपानिर्णयाख्यं तृतीयं प्रकरणम् ॥ ३॥ द्वितीयाचास्तु पन्तिास्तुपकरणोदिताः ॥५२॥ संचारणीयः सामान्यातिथिषु पतिपचयः । कविचिहिशेषोऽस्ति सोध्यमशाभिधीयते ।। ५३ ॥ पूर्वेधुरसती पातः परेास्त्रिमुहूर्तगा । सा द्वितीया परोपोष्या पूर्वविछा क्लोरा ॥ ५४ ॥ चतुर्थप्रकरणविषयमाह --द्वितीयाद्या इति ॥ ५२ । तत्र प्रतिपदि यो नयो निर्णयः पूर्वमुक्तः स एव समानत्वादुत्तरासु सर्वतिथिषु संचारयितव्य इत्याह-संचारिणीय इति । अत्रेति । अस्मिन्यकरण इत्यर्थः ॥ ५३॥ पूर्वगुरिति । यग्मानियुगभूतानां षणमुन्योर्वसुरन्धयोः । रुदेष्ण सदशी युक्ता चतुर्दश्या च पूर्णिमा । प्रतिपच्छाप्यमावास्या तिथ्योयुमं महाफलम् । एतव्यस्त महादोषं हन्ति पुण्यं पुराकृतम् । इति । यामं द्वितीया । अमिस्तृतीया । युगं चतुर्थी । भूतं पश्चमी । षट् षष्ठी । मुनिः सप्तमी । वसुरष्टमी । रन्धं नवमी । रुद्र एकादशी । अत्र युग्माग्न्यादिसप्तसु युग्मेषु पूर्वी तिथिरुतमकिवा माला- उत्तय पूर्वविद्वेत्युक्तं भवति । एवं च द्वितीया तृतीयाविद्धा ग्राह्येत्यर्थः । उपवास- विनयं चवस । एकादश्यष्टमी षष्ठी द्वितीया, चः चातुर्दशी । ऋयोवशी चतुर्थी च उपोष्याः स्युः पराम्विताः ॥ इति पचनाज्ज्ञेयम् । ततोऽपरा भिमा पूर्वमिदैवा ग्राला । यथा-पूर्वे- मुसक्यमारभ्यः प्रता दिलीयदिनेऽपि त्रिमुहूर्ता सा पूर्वैवः । संपूर्णत्वेन संदेहा- । सा २२ भट्टवैयनाथकृतविवरणसहिताः- भावात् । तथा परेयुस्त्रिमुहूर्तमिताया अभावेऽपि पूर्वैवेति ज्ञेयम् । यदाऽपि पूर्वेयुः पूर्वाणैकदेशमारस्य परेयुस्त्रिमुहूर्ताऽपि सा पूर्वैव । प्रतिपत्संमुखी कार्या या भवे- दापराणिकी । पौर्वााणिकी च कर्तव्या द्वितीया तादृशी विभो ॥ इति स्का- न्दात् ॥ ५४ ॥ इति द्वितीयानिर्णयः । रम्भा तृतीया पूर्वा स्यादुत्तरा स्यावतान्तरे । परेऽनि नास्ति चेत्पूर्वविद्धाऽप्यस्तु व्रतान्तरे ॥ ५५ ॥ मुहूर्तमावसत्त्वेऽपि दिने गौरीवत परे । शुद्धाधिकायामप्येवें गणयोगपशंसनात् ॥ ५६ ॥ चतुर्थी तु परोपोष्या गणनाथव्रतस्य तु । मध्याह्नव्यापिनी पूज्या तद्वन्नागचतुर्थ्यपि ॥ ५७ ॥ परेधुरेव मध्याह्नव्याप्तौ विघ्नस्य सोत्तरा । अन्यथा पूर्वविदैव मातृयोगपशस्तितः ॥ ५८ ॥ तृतीयानिर्णयमाह-रम्भति । रम्भाव्रतं च-भद्रे कुरुष्व यत्नेन रम्भाख्यं बतमुत्तमम् । ज्येष्ठशुक्लतृतीयायां स्नाता नियमतत्परेति स्कान्दाज्ज्ञेयम् । तत्र तृतीया पूर्वविद्धा ग्राह्या । बृहत्तपा तथा रम्भा सावित्री वटपैतृकी । कृष्णाष्टमी च भूता च कर्तव्या संमुखी तिथिरिति तत्रैवोक्तम् । व्रतान्तरे तु तृतीया चतुर्थी युता ग्राधा । रम्भाख्यं वर्जयित्वा तु तृतीया द्विजसत्तम । अन्येषु सर्वकार्येषु गण- युक्ता प्रशस्यते ॥ इति ब्रह्मवैवर्तात् । गणो गणेशः । तद्देवत्या चतुर्थी तद्युक्ते- अत्र द्वितीयावेधः कलामात्रोऽपि निषिद्धः । चतुर्थीयोगश्च कला- मात्रोऽपि प्रायः । कला काष्ठाऽपि या चैव द्वितीया यत्र दृश्यते । तृतीया न कर्तव्या कर्तव्या गणसंयुतेति स्कान्दात् । द्वितीयाशेषसंयुक्तां तृतीयां कुरुते तु यः । स याति नरकं घोरं कालसूत्रं भयंकरम् । द्वितीयाशेषसंयुक्तां या कति विमोहिता । सा वैधव्यमवाप्नोति प्रवदन्ति मनीषिणः ॥ इति निन्दार्थवादे शेषशब्दश्रवणाच्च ॥ ५५ ॥ एतच्च गौरीवत एव । तथा शिष्टाचारात । व्रतान्तरे तु त्रिमुहूर्त एव वेधो शेयः । तदाह-मुहूर्तमात्रेति । शुद्धाधिकायामिति । एवं परग्राह्यत्वमित्यर्थः ॥ ५६ ॥ इति माधवीयकारिकाविवरणे तृतीयानिर्णयः । अथ चतुर्थी निर्णीयते-चतुर्थी त्विति । युग्मवाक्यादिति भावः । एकादशी तथा षठी अमावास्या चतुर्थिका । उपोष्याः परसंयुक्ताः पराः पूर्वेण संगुता इति । बृहद्वसिष्ठवचनाच्च । त्यर्थः । सा कोलमाधवकारिकाः। २३ द्वितीया पञ्चमीवेधादशमी च त्रयोदशी । चतुर्दशी चोपवासे हन्युः पूर्वोत्तरे तिथी ॥ इति वचनं तु परविद्धानिषेधकम् । तत्रेत्थं व्यवस्था-विनायकनागगौरीवतातिरिक्तेषु परा, विनायकादिवते तु मध्याह्नव्याप्तिनिर्णयात्कदाचित्पूर्वयुः प्राप्तौ तद्विषये पञ्चमीविद्धा- निषेधो व्यवस्थाप्यः । विनायकवते मध्याह्नव्याप्तिमाह बृहस्पतिः-चतुर्थी गणनाथस्य मातृविद्धा प्रशस्यते । मध्याह्नव्यापिनी चेत्स्यात्परतश्चेत्परेऽहनीति । नागवतेऽपि-युगं मध्यंदिने यत्र तत्रोपोष्य फणीश्वरानिति वचनान्मध्याह्नव्यापित्वं द्रष्टव्यम् ॥५७॥५८॥ पूर्वेयुरेव तद्व्याप्तौ पूर्वा सर्पपिया तिथिः । नो चेत्सर्पस्य पञ्चम्यां योगोऽत्यन्तं प्रशस्यते ॥ ५९ ॥ गौर्याः शुद्धजयाऽप्यस्तु नागविद्धा निषिध्यते । सर्वत्र पञ्चमी पूर्वा ग्राह्या स्कन्दव्रते परा ॥ ६० ॥ नागविड़ा स्कन्दषष्ठी सा निषिद्धा व्रतान्तरे । उत्तरस्या अलाभे तु नागविद्धाऽपि गृह्यताम् ।। ६१ ॥ विना द्वादशनाडीभिनागवेधी न दोषकन् । पूर्वेयुरेवेति । तद्व्याप्तौ मध्याह्नव्याप्तौ । नो चेदिति । पक्षान्तरेध्वित्यर्थः । चतुर्थी पञ्चमीयुक्ता नागप्रीतिविवर्धिनी । प्रीताः स्युः पूजितास्तस्यां नागास्तांस्तत्र पूजयेदितिवचनादिति भावः । ५९ ॥ गौर्या इति । जया च यदि संपूर्णा चतुर्थी ह्रसते पुनः । जया सैव हि कर्तव्या नागविद्धां न कारयेदिति वचनादित्यर्थः । इति माधवीयकारिका- विवरणे चतुर्थीनिर्णयः । अथ पञ्चमीनिर्णयमाह-सर्वत्रेति । युगभूतानामिति युग्मवाक्यादित्यर्थः । चतुर्थी संयुता कार्या पञ्चमी परया न तु । देवे कर्मणि पित्र्ये च शक्लपक्षे तथाऽसिते । इति वचनाच्च । पश्चमी तु प्रकर्तव्या षष्ठ्या युक्ता तु नारदेति वचनं तु स्कन्दोपवासविषयम् । स्कन्दोपवासे स्वीकार्या पश्चमी परसंयुतेति धाक्यशेषात् ॥ ६० ।। इति माधवीयकारिकाविवरणे पञ्चमीनिर्णयः ॥ अथ षष्ठीनिर्णयमाह-नागविदेति । तथा च वसिष्ठः-कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिश्चतुर्दशी । एताः पूर्वयताः कार्यास्तिथ्यन्ते पारणं भवेदिति । सा निधि- देति । तथा च निगमः- नागविद्धा तु या षष्ठी रुद्रविद्धो दिवाकरः । कामविद्धो भवेद्विष्णुर्न ग्राधास्ते तु वासराः ॥ इति ।
भट्टवैद्यनायकृतविवरणसहिताः- रुद्रः- अष्टमी । दिवाकरः सप्तमी । कामन्त्रयोदशी । विष्णुादशी । एवं च सति षण्मुन्योरिति युग्मवाक्यादपि प्रतान्तरे परा प्राथा ॥ ६१ ॥ नागवेधश्च षण्मुहूर्तपरिमितो बोध्यः । नागो द्वादशमाडीभिर्दिषपञ्चदशभि- स्तथा । भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिमिति स्कान्दादित्यभिप्रेत्याऽऽह- विमेति । इति माधवीयकारिकाविवरणे षष्ठीनिर्णयः । सक्षमी पूर्वविदैव व्रतेषु मिक्लेिष्वपि ॥ १२ ॥ अलाभे पूर्वक्किायाः परविद्यापि गृयताम् । मतमात्रेऽष्टमी कृष्णा पूर्वा, शुक्लाष्टमी परा ॥ ३ ॥ दूर्वाष्टमी तु अक्लाऽपि पूर्वविद्धा विधीयताम् । पक्षहयेऽप्युत्तरैच शिवशक्तिमहोत्सवे ॥ ६४ ।। ज्येष्ठसंयोगे पूर्वेष प्रासा ज्येष्ठाप्रत तिथिः । मध्यानाकर्षमृक्षं चेत्, परेछुः सा प्रशस्थते ।। ६५ ॥ ज्येष्ठदंभानुयाराभ्यां युकाऽसम्पतिदुर्लभा । जयन्त्याख्यं व्रतं भिनं कृष्णजन्माष्टमीव्रतात् ॥ ६६ ॥ अथ सप्तमीनिर्णयमाह--सप्तमीति । षण्मुन्योरिति युग्मवाक्यात् । पय- कादश्यमावास्या पूर्वविद्धा तथाऽष्टमी । सप्तमी परविद्धा तु नोपोय तिथि मिति क्यनाथ ॥ ६२ ॥ इति माधवीयकारिकाविवरणे सप्तमीनिर्णयः । अथाष्टमीनिर्णयमाह-व्रतमात्र इति । कृष्णपक्षेऽष्टमी या श्च कृष्णपक्षे चतुर्दशी । पूर्वविधा तु कर्तव्या परविद्धा म कहिंचित् ॥ उपवासादिकापु- ह्येष धर्म सनातन इति मिगमवचमात् । शुक्लाष्टमी तु बसुरन्धयोरिति युग्मशास्त्रात् । शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे चतुर्दशी। पूर्वविद्धा न कर्तव्या कर्तव्या परसंयुतेति निगमवचनाच्च परा ॥ ६३ ॥ पश्चिमी स्विति । श्रावणी दुर्गनवमी तथा पूर्वाष्टमी च या । पूर्वविदैव कर्तव्या शिवरात्रिबलेदिनमिति पानवञ्चनादित्यर्थः । पक्षयेऽपीति । शुक्ले कृष्णे घेत्यर्थः । अष्टमी नवर्माविद्धा नवम्या चाष्टमी युता। अर्धनारीश्वरप्राया उमामाहे- थी तिथिः । अमीनवमीयुग्मे महोत्साहे महोत्सवः । शिवशक्त्योः शिवक्षेत्रे पक्षयोरुभयोरपीति पनपुराणात् ॥ ६४ ॥ ज्येष्ठःति । मासि भाद्रपदे शुक्ले पक्षे ज्येष्ठझसंयुते । यस्मिन्कस्मिंन्दिने कुर्याज्ज्येष्ठायाः परिपूजनमिति स्कान्द ज्येष्ठावतमुक्तम् । तत्र शुक्लाऽप्यष्टमी नक्षत्रवशात्पूर्वेत्यर्थः । नक्षत्रयोगाभावे तु शुक्लत्वात्परैव । मध्याहूनादिति ।
कोलमाधवकारिकाः। यस्मिन्दिने भवेज्ज्येष्ठा मध्याह्नादूर्ध्वमप्यणुः । तस्मिन्हविष्यं पूजा च न्यूना चेत्पूर्ववासरे ॥ इति स्कान्दादित्यर्थः ॥ ६५ ॥ ज्येष्ठङ्केति । नभोष्टम्यां यदा वारो भानोज्येष्ठक्षमेव च । नीलज्येष्ठेति सा प्रोक्ता दुर्लभा बहुकालिकेति स्कान्दादित्यर्थः । जन्माष्टमीनिर्णयमाह-~-जयन्त्याख्य मिति । जयन्ती जन्माष्टमीति नामभेदात् । रोहिणीनक्षत्राष्टमीतिथिरूपनिमित्तभेदाः च्चेति भावः । एवं दानादिसहितोपवासपूजाप्रकागविशेषयुक्तं जयन्तीव्रतस्वरूपम् । उपवासमात्रस्वरूपं च जन्माष्टमीव्रतमिति ॥ ६६ ॥ शुद्धा च सप्तमीविवेत्येवं जन्माष्टमी द्विधा । सप्तमी चेनिशीथात्माग्विद्धा, शुद्धाऽन्यथा भवेत् ॥ ६७ ॥ शुद्धायां नास्ति संदेहो विद्धा च विविधेष्यते । निशीथयोगः पूर्वेद्यः परेछुवा द्वयोरुत ॥ ६८ ॥ पूर्वैव प्रथमे पक्षे परैवोत्तरपक्षयोः । अष्टमी रोहिणीयुक्ता जयन्ती, सा चतुर्विधा ॥ ६९ ॥ शुद्धा शुद्धाधिकेत्येवं विद्धा विद्धाधिकेति च । शुद्धायामपि विद्धायां न संभाव्योत्तरा तिथिः ॥ ७० ॥ शुद्धाधिकायां योगश्चेदन्यस्मिन्या दिनद्वये । नैफयोगेऽस्ति संदेहो द्वियोग प्रथमं दिनम् ॥ ७१ ॥ निर्णय वक्तुं भेदानाह-शुद्धा चेति । वेधे विशेषमाह---सप्तमी चदिति । यद्यपि दिवैव बेधः पूर्वमुक्तस्तथाऽपि रात्रिप्रधाने कर्मणि रात्रिवेधोऽपि भवति । अहःसु तिथयः पुण्याः कर्मानुष्ठानतो दिवा । नक्तादिवतयोगेषु रात्रिवेधो विशिष्यते ॥ इति बौधायनादिवचनादिति भावः । अत्र चार्धरात्रस्य मुख्यकालत्वमुक्तं वसि. छसंहिताया- अष्टमी रोहिणीयुक्ता निशाधे दृश्यते यदि । मुख्यकाल इति ख्यातस्तत्र जातो हरिः स्वयमिति । अयं च वेधो ग्राह्याया अष्टम्या इष्यते । तथा च विष्णुधर्मोत्तरे- रोहिणीसहिता कृष्णा मासि भाद्रपदेऽष्टमी । सप्तम्यामर्धरात्राधः कलयाऽपि यदा भवेत् ॥ । -
भटवैद्यनाथकसविवरणसहिताः-
।
अत्र
।
तन्न जातो जगन्नाथः कौस्तुभी हरिरीश्वरः
तमेवोपक्सेत्कालं तत्र कुर्याच्च आगरमिति ।
अर्धरात्रनिशीथपदाभ्यां च रात्रेरष्टममुहूर्ता मध्यगतोऽभिधीयते
सकलमहसव्याप्तिमुख्या । घटिकामात्रव्याप्तिस्तु मध्यमा प्रागुवाहता
। मध्यमोत्तम-
पक्षयं तु योगीश्वर आह-अर्धरात्रादधश्चोर्ध्वमेकाघाटकान्विता । रोहिणी था.
एमी आया उपवासवमादिष्यति । एका चार्धघटिका चैकार्धघटिके ताभ्यामन्विता ।
कलामपेक्ष्यार्धघटिका स्थूला । तामपेक्ष्य घटिका स्थूला । तत्रायमर्थः संपयते-
पूर्वभागावसान एका घटिका उत्तरभागादौ चैका, मिलित्वा तनिशीथयोग इति
शब्दवाच्यं मुहूर्त तावत्परिमाणं सर्वैरपि सुलभ्यत्वान्मुख्यः कल्पः । तदसंभवेऽर्धघटि-
काऽन्वेष्टव्या । तस्याप्यसंभवे कलेति । जयन्त्यां चन्द्राय॒स्यावश्यकर्त-
व्यत्वात् तस्य च चन्द्रोदयोत्तरकालीनत्वानिशीथयोगः प्रशस्तः । एतदेव
विष्णुधर्मोत्तरेऽभिहितम्--अर्धरात्रे तु योगोऽयं तारापत्युदये तथा । नियतात्मा
शुचिः स्नातः पूजां तत्र प्रवर्तयेदिति । निशीथयोग इति ॥ ६७ ॥ ६८ ॥
प्रथमपक्ष--पूर्वगुरेव निशीथयोगे। उत्तरपक्षयोः-परेयुरेव द्वयोर्धा निशीथयोगे।
रोहिणीयुक्ताया अष्टम्या भेदानाह--अष्टमीति ॥ ६९ ॥
तत्र भेदद्वये न संदेह इत्याह-शुद्धायामपीति ॥ ७० ॥
योगश्चेदिति । रोहिणीयोगश्चदित्यर्थः । आये न संदेह इत्याह--नैकयोग
इति । तथा च यस्मिन्नेव दिने रोहिणीयोगः सैव ग्राह्येति । द्वियोगे द्वयोर्दिनयोोंगे।
प्रथममिति । संपूर्णत्वादित्यर्थः ॥ ७१ ॥
सदा निशीथे पश्चाद्वेत्युत्तमो मध्यमोऽधमः ।
योगस्त्रिधाऽपि पूर्वेयुः संपूर्णत्वादुपोषणम् ॥ ७२ ॥
बिछाधिकायामप्येकदिनयोगे स गृह्यताम् ।
योर्योगास्वधा भिन्नो निशीथे वृत्तिभेदसः ॥ ७३ ॥
तबृतिदिन एकस्मिन्नुभयोनाभयोरिति ।
एकस्पिश्चेत्तदिनं स्यात्पक्षयोरन्त्ययोः परम् ॥ ७४ ॥
बुधे सोमे जयन्ती चेद्वारे साऽतिफलपदा ।
तिथ्यःयोईयोरन्त उत्तमं पारणं मवेत् ॥७५ ॥
एकस्यान्ते मध्यमं स्यादुरसवान्तेऽधमं स्मृतम् ।
यस्मिन्धर्षे जयन्याख्यो योगो जन्माष्टमी तदा ॥ ७६ ॥
योगश्च त्रिविध इत्याह-सदेत्यादि । निशीथे-अर्धरात्रे । पश्चान्निशीथा[ न त-
तरम् । एवं योगविध्येऽपि पूर्वमेव दिनं ग्राह्यम् ॥ ७२ ॥
कालावकारिकाः। चतुर्थपक्ष आह-विद्धाधिकायामिति । एकदिनयोग एकदिन एव योग इत्यर्थः । स एव योगो गायतामित्यर्थः । दिनद्वययोग विभजते-विधति ॥ ७३ ॥ तदेव विवृणोति--तद्वत्तिरिति । एकस्मिन्नेव दिने निशीथे रोहिणीयोगः, उभयोर्दिनयोः स नोभयोः स इति । तत्र निर्णयमाह-एकविंश्चेति । यस्मिन्नेव दिने विद्धाधिकायां निशीथे रोहिणीयोगस्तदेव दिनं ग्राह्यमित्यर्थः । अन्त्ययोरुभयोर्नो- भयोरिति पक्षयोः परं दिनमित्यर्थः । अत्र क्रमेण च वचनानि । तत्र निशीथव्या- पिन्या ग्राह्यत्वम् --दिवा वा यदि वा रात्रौ नास्ति चेद्रोहिणीकला । रात्रियुक्तां प्रकुर्वीत विशेषणेन्दुसंयुतामिति वचनादवगन्तव्यम् । रोहिणीकाहश्च मुख्यो निर्णायकः । प्राजापत्यर्भसंयुक्ता कृष्णा नभसि चाष्टमी । मुहूर्तमपि लभ्येत सोपोध्या सा महाफला ॥ इति विष्णुरहस्यात् । विनई तु न कर्तव्या नवमीसंयुताऽष्टमी । कार्या विद्वाऽपि सप्तम्या रोहिणीसहिताऽष्टमी । इत्यादिपुराणाञ्च ॥ ७४ ॥ बुधे सोम इलि । प्रेतयोनि गतानां तु प्रेतत्वं नाशितं नः यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता ॥ किं पुनर्बुधवारण सोमेनापि विशेषतः । किं पुनर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा । इत्यादिवचनादित्यर्थः । पारणानिर्णयमाह---तिथ्यर्शयोरिति । रम्भे--अष्टम्यामधः रोहिण्यां न कर्यास्पारणं कचित । हन्यात्पुराकृतं कर्म उप- वासार्जितं फलम ॥ तिथिरष्टगुणं हन्ति नक्षत्रं च चतुर्गणम् । तस्मात्प्रयत्नतः कुर्यात्तिथिभान्ते च पारणमिति । स्कादेऽपि-तिथिनक्षत्रनियमे तिथिभान्ते च पारणम । अतोऽन्यथा पारणे तु व्रतभङ्गमवाप्नुयादिति । तिथिभान्तश्च द्विविधः । उभयान्त एकतरान्तश्चेति । तत्र उभयान्तो मुख्यः । एकतरान्तो गौणः । तिथिनक्षत्रसंयोग उपवासो यदा भवेत । पारणं त न कर्तव्यं यावन्नकस्य संक्षयः ॥ इति नारदीयात् । रात्रावुभयान्तलाभे--तिथ्यर्शयोर्यदा छेदो नक्षत्रान्तमथापि का । अर्धरात्रेऽपि वा कुर्यात्पारणं तु परेऽहनीति । तथा-न रात्रौ पारणं कुर्या- हते. च रोहिणीव्रतात् । तत्र निश्यपि तत्कुर्याद्वर्जयित्वा महानिशामिति क्च- नाच्च ॥ ७५ ॥ अशक्तस्तु प्रातरेव पारणं कुर्यात्-तिथ्यन्ते बोत्सवान्ते वा व्रती कुर्वीत पारण- मिति स्मरणात । उत्सवः पूजाजागरणरूपस्तस्यान्ते प्रातःकाल इत्यर्थः । यस्मि- न्वर्ष इति । जयन्त्यारख्यः--अष्टमीरोहिणीरूपः ॥ ७६ ॥ तथा च व्रता- २८ भट्टवैद्यनाथकृतषिवरणसहिताः- अन्तर्भूता जयन्त्यां स्यादृक्षयोगप्रशस्तितः । नवमी पूर्वविद्धैव पक्षयोरुभयोरपि ॥ ७७ ॥ मध्याह्ने रामनवमी पुनर्वसुसमन्विता । माया, नैवाष्टमीयुक्ता सनक्षत्राऽपि वैष्णवैः ॥ ७८ ॥ कृष्णा पूर्वोत्तरा शुक्ला दशम्येवं व्यवस्थिता । जयन्तीव्रतवन्नित्यं काम्यं चैकादशीव्रतम् ॥ ७९ ॥ अरुणोदयवेधस्तु वेधः सूर्योदये तथा । उक्तौ द्वौ दशमीवेधौ वैष्णवस्मार्तयोः क्रमात् ।। ८० ॥ कलाकाष्ठादिवेधोऽपि ग्राह्योऽत्र त्रिमुहूर्तवत् । वैखानसाद्यागमोक्तदीक्षां प्राप्तो हि वैष्णवः ॥ ८१ ॥ विद्धा त्याज्या वैष्णवेन शुद्धाऽप्याधिक्यसंभवे । एकादशी द्वादशी वाऽधिका चेत्यज्यतां दिनम् ॥ ८२ ॥ पूर्वं ग्राह्यं तूत्तरं स्यादिति वैष्णवनिर्णयः । अन्तर्भूतेति । जयन्तीव्रतानुष्ठानेनैव चरितार्थेत्यर्थः । कुतस्तत्राऽऽह- ऋक्षेति । जन्माष्टम्या अपि रोहिणीयोगेनैव ग्राह्यत्वोक्तरित्यर्थः । इति माधवीयका- रिकाविवरणेऽष्टमीनिर्णयः । अथ नवमीनिर्णयमाह--नवमीति । वसुरन्ध्रयोरिति युग्मवाक्यात् । अष्टम्या नवमी विद्धा नवम्या चाष्टमी युता । अर्धनारीश्वरप्राया उमामाहेश्वरी तिथिः ॥ इति पद्मपुराणवचनाच्चेति भावः ॥ ७७ ॥ मध्याहन इति । रामनवमी चैत्रशुक्लनवमी मध्याहनव्यापिनी पुनर्वसुनक्षत्र- यता ग्राह्या । चैत्र शक्ले तु नवमी पुनर्वसुयुता यदि । सैव मध्याह्नयोगेन महापुण्यतमा भवेदिति वचनात् । अत्र मध्याहनव्याप्तिर्मुख्या निर्णायिका, पुनर्व- सुयोगे तु प्राशस्त्यमात्रम् । तेन मध्याहनव्याप्नेनिद्वये सत्त्व उभयत्रासत्त्वे च पुनर्वसुयोगो निर्णायकः । वैष्णवैश्चाष्टमीविद्धा न ग्राह्या । नवभी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः । उपोषणं नवम्यां वै दशम्यां पारणं भवेदिति वचनात ॥७८ ।। इति माधवीयकारिकाविवरणे नवमीनिर्णयः । अथ दशमीनिर्णयमाह-कृष्णेति । शुक्लपक्षे तिथि ह्या यस्यामभ्युदितो रविः । कृष्णपक्षे तिथि ह्या यस्यामस्तमितो रविः ॥
कालमाधवकारिकाः। २९ इति वचनात् । तेन परविद्धानिषेधः कृष्णपक्षदशमीविषयः । इति माधवीयका. रिकाविवरणे दशमीनिर्णयः । अर्थकादशीनिर्णयमाह-जयन्तीव्रतवदिति । उपोष्यैकादशी नित्यं पक्षयो. रुभयोरपीति गरुडपुराणे नित्यमित्यभिधानात् । न करोति हि यो मूढ एकादश्यामुपोषणम् । स नरो नरकं याति रौरवं तमसावृतम् ॥ इति सनत्कमारवचनात् । । तथा विष्णुरहस्ये-यदीच्छद्विष्णुसायुज्यं श्रियं संतति- मात्मनः । एकादश्यां न भुञ्जीत पक्षयोरुभयोरपीति फलश्रवणानित्यकाम्याभयरूपमे. कादशीव्रतमित्यर्थः ॥ ७९ ॥ अरुणोदयेति । उदयात्प्राक्चतम्रस्तु नाडिका अरुणोदयः, इत्युक्तोऽरुणोदय. स्तत्र दशमीप्रवेशेऽरुणोदयवेधो भवति । सूर्योदय तु प्रवेशे सूर्योदयवेधः। वैष्णवेना- रुणोदयविद्धैकादशी न कार्या ॥ ८० ॥ वैष्णवलक्षणमाह-वैखानसाद्यागमोक्तदीक्षां प्राप्तो हि वैष्णव इति । तथा च स्कन्दपुराणे-परमापदमापनो हर्ष वा समुपस्थिते । नैकादशी त्यजेद्यस्तु यस्य दीक्षाऽस्ति वैष्णवी । तथा--दशमीवेधसंयुक्ता यदि स्यादरुणोदये । नैवोपोष्यं वैष्णवेन तद्धि नैकादशीव्रतमिति गरुडपुराणात् । सूर्योदयवेधस्तु तव्यतिरिक्त. स्मार्तविषयः । उदयोपरि विध्येत दशम्यैकादशी यदि । दानवेभ्यः प्रीणनार्थ दत्तवान्पाकशासनः ॥ इति काण्ववचनात् । अत्र न पूर्ववत्त्रिमुहूर्तवेधः, किंतु कलाकाष्ठादिरूपोऽपि-कलार्धे- नापि विद्धा स्यादशम्यैकादशी यदि । तदाऽप्यकादशी हित्वा द्वादशी समुपोषये. दिति व नात् ॥ ८१ ॥ तत्र विद्धा सर्वथैव वैष्णवेन त्याज्या । शुन्छायामप्याह-शुद्धाऽपीति । आधिक्यं चात्र त्रिविधम् । एकादशीमात्राधिक्यम । द्वादशीमात्राधिक्यम् । उभयाधिक्यं च । तत्र एकादशीमात्राधिक्ये प्राह विष्णुः- अधिकैकादशी यत्र द्वादश्यां वृद्धिगामिनी ! द्वादश्यां लङघनं कार्य त्रयोदश्यां तु पारणमिति ॥ द्वादश्याधिक्ये व्यासः- एकादशी यदा लुप्ता परतो द्वादशी भवेत् । उपाष्या द्वादशी तत्र यदीच्छेत परमां गतिमिति ॥ उभयाधिक्ये गुरुराह- संपूर्णैकादशी यत्र प्रभाते पुनरेव सा । तत्रोपोध्या द्वितीया तु परतो द्वादशी यदीति ॥ ८२ । इति वैष्णवनिर्णयः ।
" भटवेषणायनाबिपरणसहिताः- एकादशी वादशी वेश्युभयं वर्धते यदा ॥ ८३ ॥ तदा पूर्वदिनं त्याज्यं स्मार्तेर्यायं परं दिनम् । एकादशीमात्रवृद्धौ गृहियत्योर्व्यवस्थितिः ॥ ८४ ॥ उपोज्या गृहिभिः पूर्वा पतिभिस्तूतरा तिथिः । द्वादशीमावृक्षौ तु शुधाविद्ध व्यवस्थिते ॥ ८५ ॥ शाबा पूर्वात्तरा विद्या स्मात निर्णय ईदृशः। अथ स्मार्तनिर्णयः-एकादशीति । संपूर्णैकादशी यत्र प्रभाते पुनरेव सा । मोमोवा, पर पुण्या परतो द्वादशी यदीति गरुडपुषणात् ॥ ८३ ॥ एकादशीमात्रेति । प्रथमेऽहनि संपूर्णा व्याप्याहोरात्रसंयुप्ता । द्वादश्यां च तथा तात दृश्यते पुनरेव सा । पूर्वा कार्या गृहस्थैस्तु यतिभिश्चोत्तरा विभो । इति स्कन्दपुराणात् ॥ ८४ ॥ द्वादशीमात्रेति । चेस्यादेकादशी विष्णो द्वादशी परतः स्थिता । उपो- व्यकावली. तत्रयदीच्छेत्परमं पदम् । इति नारदवचनात् । एवं शुद्धाभेदा व्यव. स्थिताः । विद्वाधिकायामप्येकादशीमात्राधिक्ये तु प्रचता:-एकादशी विवृद्धा, चेच्छुल्ले कृष्णे विशेषतः । उत्तरां तु यतिः कुर्यात्पूर्वामुपक्सेद्गृहीति । न चैतद्वाक्यं शुद्धा- धिक्ये चरितार्थमिति शमीयम् । बाधकाभावेन विद्याधिक्येऽपि तद्वचनप्रवृत्तेर्नि- माधिसत्यवात । द्वादश्याधिक्ये तु परेद्यसपवासः । तदाह व्यास--एकादशी यक्ष तुला परतो पशी भवेत् । उपोष्या द्वादशी तत्र यदीरछेत्परमां मतिमिति । उभयाधिक्यऽपि परेधुरुपवास:--एकादशी दिशा युक्तां वर्धमाने विवर्जयेत् । क्षय. मानस्थिते रुद्रे कुर्वात दशमीयुताम् । उभयानाधिक्ये तु नास्ति संदेहः । तदेवं स्मातीमर्णयसंग्रहः--एकादशीद्वादश्योरुभयोवृद्धौ परेयुरुपवासः । द्वयोरष्यवृद्धौ पूर्वेयुः । एकादशीमात्रवृद्धौ गृहियतिव्यवस्था । द्वादशीमात्रवृद्धौ शुद्धा पूर्व विद्धा तु परेति ॥ ८५ ॥. ८६ ॥ अथाधिकारी निरूप्यते । तत्र कृर्मपुराणे--एकादश्यां न भुञ्जीत पक्षयो- रुभयोरपि । वानप्रस्थो यलिश्चैत्र शुक्लामेव सदा गृहीति । तेन गृहस्थस्य शुक्लै- कादश्यामेवोपमासः । नैमित्तिककाम्यौ तु कृष्णायामपि कार्यों । तत्र नैमित्तिकः स्मृत्यन्तरे-शयनीबोधनीमध्ये या कृष्णैकादशी भवेत् । सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचनेति । काम्यस्तु मात्स्ये-एकादश्यां तु कृष्णायामुपोष्य विधि- बनरः । पुत्रानायुःसपद्धिं च सायुज्यं च स गच्छति । तथा दिनक्षयेऽपि पुत्रवद्गृहस्थस्योपवासो निषिद्धः । तथा च पितामहः--एकादश्यां क्षयदिन उपवास -- माधकारिकाः। करोति यः । तस्य पुया मिश्यन्ति मघायां पिण्डदो यथेति । अतश्च तत्र किंचिभक्षणीयम् । उपवासनिषेधे तु किंचिद्भक्ष्यं प्रकल्पयेत् । न दुष्यत्युपवासेम उपवासफलं लभेत् ॥ इति वायुपुराणात् । तच्च तत्रैवोक्तम्-नक्तं हविष्यानमनोदनं वा फलं तिलाः क्षीरमथाम्ब चाऽऽज्यम् यत्पश्चगव्यं यदि वाऽपि चायुः प्रशस्तमत्रो. त्तरमुत्तरं चेति । तथा मार्कण्डेये--नारी खल्वननुज्ञाता भी पित्रा मुतेन वा । निष्फलं तु भवेत्तस्या यत्करोति वतादिकामिति । तथा मनुः--पुष्पालंकारवस्त्राणि गन्धधूपानुलेपनम् । उपवासे न दुष्यन्ति दन्तधावनमननर्मिति । मुख्योपवासासामध्ये सर्वे. षामुपकल्पो मार्कण्डेयपराण--एकभक्तेन नक्तेन सथैवायाचितम च । उपवासेन दानेन न निदाशिको भवेदिति । दानं चोक्तं स्मृस्यन्तरे--उपवासासमर्थश्चेदेकं विप्रं तु भोजयेत । तावद्धनादि वा दद्याद्भक्त्या तद्विगुणं भवेदिति । सर्वथैवा- शक्तौ विष्णुरहस्य-असामर्थ्य शरीरस्य व्रते च समुस्थिते । कारयेद्धर्मपत्नी वा पुत्रं वा विनयान्वितमिति । अत्र प्रसङ्गावते निषिद्धानि कथ्यन्ते । अङ्गिराः-- सायमायन्तयोरहोः सायं प्रातश्च मध्यमे । उपवासफलं प्रेप्सुर्जयादमचतुष्टयमिति । बृहस्पतिरपि--दिवा निद्रां परान्नं च पुनर्मोजममैथुने । क्षौद्रं कांस्यामिषं तैलं दादश्यामष्ट वर्जयेदिति । कूर्मपुगणेऽपि-- कांस्यं मांसं मसूरांश्च चणकान्कोरदूषकान । शाकं मध परान्नं च त्यजेदुपवसन्त्रियम् ॥ इति । तथा-असकृज्जलपानं च दिवा स्वापं च मैथुनम् । ताम्बूलचर्वणं मांसं वर्जयव्रतवासरे ॥ इति । वसिष्ठः---उपवासे तथा श्राद्धे न कुर्यादन्तधावनम् । दन्तानां काष्ठसंयोगो हन्ति सप्त कुलानि च ॥ इति । उपवासदिने श्राद्धप्राप्ती कात्यायनः-- उपचासो बदा नित्यः श्राद्धं नैमित्तिकं भवेत् । उपवासं तदा कुर्यादाधाय पितृसेवितमिति । श्राद्धं कृत्वा तु यो विप्रो न भुङ्क्ते पितृसेवितम् । हविवा न गृह्णन्ति कव्यं च पितरस्तथा ॥ इति वचनाद्धोजने प्राप्ते तदनुकल्पतयाऽऽघाणं विधीयते । तत्र मापदनुठान क्रमः- दशम्यामकभक्तं कृत्वा दन्तधावनं कुर्यात् । दशम्यामेक भुम्भूत्वा खादयेइन्तधावनम् ॥ इप्ति स्मरणात् । ततो दशमीरात्रौ नियमग्रहणम्-- कालपाधवकारिकाः। नारदीयात् । अर्धरात्रानन्तरं दशमीयुक्ता चेदेकादशी तदा मध्याहूनोपरि संकल्पः । दशम्याः सङ्गदोषेण अर्धरात्रात्परेण तु । वर्जयेच्चतुरो यामान्संकल्पार्चनयोः सदा ॥ इति वचनात् । द्वादशीकर्तव्यमाह कात्यायनः-- प्रातः स्नात्वा हरि पूज्य उपवासं समर्पयेत् । अज्ञानतिमिरान्धस्य व्रतेनानन कशव ॥ प्रसीद सुमुखो नाय ज्ञानदृष्टिप्रदो भव । मन्त्रं जपित्वा हग्ये निवेद्योपाषणं व्रती ॥ दादश्यां पारणं कुर्याद्वजयित्वा ह्यपोदकीमिति । सूतकादो दानार्चनरहितमुपव समात्रं कुर्यात । तदुक्तं कुर्मपुगणे---- काम्योपवासे संप्राप्ते त्वन्तरा मृतसतके । तत्र काम्यव्रतं कुर्यादानार्चन विवर्जितम् ॥ इति । वराहपुराणे- सूतके च नरः स्नात्वा प्रणम्य मनसा हरिम् । एकादश्यां न भुञ्जीत व्रतमेवं न लुप्यते ॥ मृतकेऽपि न भुञ्जीत एकादश्यां सदा नरः । द्वादश्यां तु समश्नीयाज्ज्ञात्वा विष्णु प्रणम्य च ॥ इति । तत्र परित्यक्तदेवार्चनं सूतकान्ते कुर्यात । तदनं मत्स्यपुराणे---सूतकान्ले स्नात्वा पूजयित्वा जनार्दनम् । दानं दत्त्वा विधानेन व्रतस्य फलम- भुते ॥ इति । स्त्रीणां रजोदर्शनेऽपि न व्रतत्यागः । किंत देवार्चनादिरहितं सूतकादाविवा- पधासमात्र कार्यम् । तदाह पुलस्त्यः-- एकादश्यां न भुञ्जीत नारी दृष्टे रजस्य- पीति । ऋष्याङ्गोऽपि-संप्रवृत्तेऽपि रजसि न त्याज्यं द्वादशीव्रतमिति । सत्य. प्रतोऽपि-आरब्धदीर्घतपसा नारीणां यदजो भवेत् । न तत्रापि व्रतस्य स्यादु- परोधः कदाचनेति । शुद्धयनन्तरं देवार्चनादिकं कारयेत् । तथा च स्मृतिः- मात्वा भर्तुश्चतुर्थेऽह्नि शुद्धिः स्यात्परिचारणे । पञ्चमेऽहनि शुद्धा स्याईवे पिध्ये च कर्मणि ॥ इति । नित्योपवासप्रकारो विष्णुरहस्ये ऽभिहितः---अथ नित्योपवासी चेत्सायंप्रातर्भुजि. कियाम् । वर्जयेन्मतिमान्विप्रः संप्राप्ते हरिवासरे ॥ इति । ब्रह्मवैवर्तीये- इति विज्ञाय कुर्वीतावश्यमेकादशीव्रतम् । विशेषनियमाशक्तोऽहोगनं भक्तिवर्जितः ।। - कालपाधवकारिकाः। - नारदीयात् । अर्धरात्रानन्तरं दशमीयुक्ता चेदेकादशी तदा मध्याहनापरि संकल्पः । दशम्याः सङ्गदोषेण अर्धगतात्पग्ण तु । वर्जयेच्चतुरो यामान्संकल्पार्चनयोः सदा ॥ इति वचनात् । द्वादशीकर्तव्यमाह कात्यायनः-- प्रातः स्नात्वा हरिं पृज्य उपवासं समयत । अज्ञानतिमिरान्धस्य व्रतेनानन कशव ॥ प्रसीद सुमुखो नाय ज्ञानदृष्टिप्रदो भव । मन्त्रं जपित्वा हग्य नियोपाषणं व्रती ॥ द्वादश्यां पारणं कुर्याद यित्वा ह्यपाद कीमिति । सूतकादौ दानाचनरहितमुपव समात्रं कुर्यात । तदुक्तं कृमपगण - काम्योपवास संप्राप्त वन्तग मृतसतके । तत्र काम्यव्रतं कुर्याद्दानार्चनविर्जितम ॥ इति । घराहपुराणे- सूतके च नरः स्नात्वा प्रणम्य मनसा हरिम । एकादश्यां न भुञ्जीत व्रतमवं न लुप्यते ॥ मृतकेऽपि न भुञ्जीत एकादश्यां सदा नरः । द्वादश्यां तु समश्नीयाज्ज्ञात्वा विष्णं प्रणम्य च ॥ इति । तत्र परित्यक्तदेवार्चनं सूतकान्ते कुर्यात । नदतं. मत्स्यपगण--सूतकान्त स्नात्वा पूजयित्वा जनार्दनम् । दानं दत्त्वा विधानेन वतस्य फलम- भुते ॥ इति । स्त्रीणां रजोदर्शनेऽपि न व्रतत्यागः । किंत देवार्चनादिरहितं सूतकादाविवा- पधासमात्र कार्यम् । तदाह पुलस्त्यः-- एकादश्यां न भुञ्जीत नारी दृष्टे रजस्य- पीति । अव्याङ्गोऽपि-संप्रवृत्तेऽपि रजसि न त्याज्यं द्वादशीव्रतमिति । सत्य. अतोऽपि-आरब्धदीर्घतपसा नारीणां यदजो भवेत् । न तत्रापि व्रतस्य स्यादु. परोधः कदाचनेति । शुद्ध्यनन्तरं देवार्चनादिकं कारयेत् । तथा च स्मृतिः- मात्वा भर्तुश्चतुर्थेऽह्नि शुद्धिः स्यात्परिचारणे । पञ्चमेऽहनि शुद्धा स्यादैवे पिये च कर्मणि ॥ इति । नित्योपवासप्रकारो विष्णुरहस्ये ऽभिहितः-- अय नित्योपवासी चेत्सायंप्रातभुजि. फियाम् । वर्जयेन्मतिमान्विप्रः संप्राप्त हरिवासरे ॥ इति । ब्रह्मवैवर्तीये- इति विज्ञाय कुर्वीतावश्यमेकादशीव्रतम् । विशेषनियमाशकोऽहोगत्रं भुक्तिवर्जिन. !! नरः भट्टवैद्यनाथकृतविवरणसहिताः- -- निगृहीतेन्द्रियः श्रद्धासहायो विष्णुतत्परः । उपोष्यैकादशी पापान्मुच्यते नात्र संशयः ॥ इति । यदा द्वादश्यां श्रवणनक्षत्रं तदा शुद्वैकादशीमपि परित्यज्य द्वादश्यामेवो- पघसेदित्याह-- अवणेन युता चेत्स्यावादशी सा हि वैष्णवैः ॥ ८६ ॥ स्मातैश्चोपोषणीया स्यात्त्यजेदेकादशीं तदा । उपवासव्रतादन्यव्रते सार्धमुहूर्तकैः ॥ ८७ ।। सप्तभिर्दशमीविद्धामेतामेकादशीं त्यजेत् । श्रवणेनति । तथा च नारदीय--शक्ला वा यदि वा कृष्णा द्वादशी श्रव- णान्विता । तयोरेवोपवासः स्यात् त्रयोदश्यां च पारणम् ॥ इति । तयोः शक्लकृष्णद्वादश्योः । एचोपवासद्वयासमर्थ प्रति । समर्थस्तूपवा- सद्वयं कुर्यात् । तदा च जलप्राशनेन पारणम् । अपाऽश्नाति तन्वाशितं नैवानशि- तमिति श्रुत्या जलप्राशनस्याशितानशितोभयरूपतयोक्तेः । यदा च पारणादिने कला- मानं दण्डमात्रं दण्डद्वयं वा द्वादशी तदा तन्मध्य एव पारणा कार्या । तदुक्तं नारदीये--अल्पायामथ विप्रेन्द्र द्वादश्यामरुणोदये । स्नानार्चनक्रियाः कार्या दान- होमादिसंयुताः । महाहानिकरी ह्येषा द्वादशी लधिता नरैः । करोति धर्महर- णमस्नातेव सरस्वती । स्कान्देऽपि-यदा भवेदतीवाल्पा द्वादशी पारणादिने । उषःकाले द्वयं कुर्यात्प्रातर्माध्याह्निकं च तदिति । उपवासेति । तथा च द्वाद- शीकल्पे--पूर्णाविद्धां दिनार्धेन नन्दां पूर्णामपि त्यजेत् । यदीच्छेदात्मसंतानं नियमेषु चतुर्वपि । नोपोषितं च नक्तं च नैकभक्तमयाचित्म् । नन्दायां पूर्णवि. द्धायां कुर्यादैश्वर्यमोहितः ॥ इति । दिनार्धन सार्थसप्तमुहूर्तरित्यर्थः । अत , एव दिपञ्चदशभिस्तथेति प्रागदाहृतम् । इतो न्यूनवेधे तु तिथ्यन्तरवन्मध्याह्नादिव्याप्त्या निर्णय इति संक्षेपः ॥ ८६ ॥ ८७ ॥ इति माधवीयकारिकाविवरण एकादशीनिर्णयः ॥ द्वादशी पूर्वविद्धैव व्रतेषु निखिलेष्वपि ॥ ८८ ॥ शुक्ला त्रयोदशी पूर्वा, परा कृष्णा त्रयोदशी। अलाभे साऽपि पू पराऽनङ्गत्रयोदशी ॥८९॥ या शुक्ला गृह्यते पूर्वा, गृह्यते साऽऽपराणिकी । अथ द्वादशीनिर्णयमाह--द्वादशी पूर्वविद्धति । रुद्रेण द्वादशी युक्तेति युगावा- क्यादित्यर्थः । अथ श्रवणद्वादशीनिर्णयः । अत्र द्वादश्या अल्पश्रयणयांगेऽपि श्रर. गदादशाप्रयुक्तमुपवासादि भवति । द्वादशी श्रवणम्पृष्टा कृत्स्ना पुण्यतमा तिथिः। न न तु मा कालमाधवकारिकाः। सा तेन संयुक्ता तावत्येव प्रशस्यते ॥ इति । तत्र विद्धाधिकाया दिनद्वयेऽपि श्रवणयोग एका. दशीयुता ग्राह्या । द्वादशीश्रवणस्पृष्टा स्पृशेदेकादशीं यदा । स एष वैष्णवो योगो विष्णुश- ङखलसंज्ञितः । उपोष्य विधिवत्तत्र नरः संक्षीणकिल्बिषः । प्राप्नोत्यनुपमां सिद्धिं पुनरावृत्ति- दुर्लभामिति मात्स्यात् । तन्त्रेण च तदैकादशीद्वादशीप्रयुक्तमुपवासद्वयम् । तत्रैव यदा श्रवणमेकादशी स्पृष्टा द्वादशी स्पृशति तदाऽतिप्राशस्त्यमुक्तं नारदीये-संस्पृश्यैकादशी राजनद्वादशी यदि संस्पृशेत् । श्रवणं ज्योतिषां श्रेष्ठं ब्रह्महत्यां व्यपोहतीति । यदा शुद्धाधिका दिनद्वयेऽपि श्रवणयोगः । स चोत्तरदिन एव उदयकालीनस्तदोत्तरा ग्राह्या । तथा च बृहन्नारदीये-~-उदयव्यापिनी ग्राह्या श्रवणद्वादशी व्रत इति । यदा तु द्वादश्याः श्रवणयोग एव नास्ति किंत्वकादश्यामेव तदा तस्यामपि श्रवणदादशी- प्रयुक्तं व्रतं कार्यम् । तदुक्तं नारदीयेयदा न प्राप्यते अक्षं द्वादश्यां वैष्णवं क्वचित् । एकादशी तदापोध्या पापघ्नी श्रवणान्वितेति । विद्धाधिकाया अप्युत्त- रदिने श्रवणयोगाभावे श्रवणयोगवती विद्धाऽपि ग्राह्या । दशम्यैकादशी यत्र नोपोष्या भवोतथिः । श्रवणेन तु संयुक्ता सा शभा सर्वकामदेति वह्निपुराणात् । तदाऽप्येकादश्युपवासस्य तेन सह तन्त्रमेव । यदा त्वेकादशीद्वादश्युपवासौ द्वौ दिन- भेदेन प्राप्नुतस्तत्र शक्तेन द्वयमपि कर्तव्यम् । एकादशीमुपोध्यैव द्वादशी समुपोष- येत् । न तत्र विधिलोपः स्यादुभयोर्दैवतं हरिरिति भविष्योक्तः। यस्तु द्वादश्यन्तर उपक्रान्तकतिचिद्वर्षव्यापिश्रवणद्वादशीव्रतप्रयोग उपवासद्वयासामर्थ्यनिश्चयात्कृतैकादशी- व्रतसंकल्पः पश्चात्तत्रासमर्थः स संकल्पं तमेकादश्युपवासं विधाय श्रवणद्वादश्यां तत्प्र- युक्तं विष्णुपूजादि विधाय भुञ्जीत । संकल्पबाधप्रसङ्गाच्छेषिविरोधप्रसङ्गाच्च । तदुक्तं मात्स्ये-द्वादश्यां शुक्लपक्षे तु नक्षत्रं श्रवण यदि । उपोष्यैकादशी तत्र द्वादश्यां पूजयेद्धरिम ॥ इति । हरिपूजामेव कुर्यान्नतृपवासमित्यर्थः । उपवासप्रकरण तदङ्गहरिपूजायाः प्राप्तत्वादेव तद्विधिवैयर्थ्यात् । यस्तु तादृशः प्रागेव निश्चितोपवासद्वयासामर्थ्यः स काम्यं नित्यस्य बाधकमिति न्यायेन श्रवणदादश्यामेवोपवासं कुर्यात् । तदुक्तं नारदीये- उपोष्य द्वादशी पुण्यां वैष्णवर्क्षण संयुताम् । एकादश्यद्भवं पुण्यं नरः प्रामोत्यसंशयम् ॥ वाजपेये यथा योगे कर्महानोऽपि दीक्षितः । सर्व फलमवाप्नोति अस्नातोऽप्यहुतोऽपि सन्निति । तथा तत्रैवोपसंहारग्रन्थे- एवमेकादशी भुक्त्वा द्वादश्यां समुपोषणात् । पूर्ववासरजं पुण्यं सर्व प्राप्नोत्यसंशयम् ॥ इति । श्रवणद्वादशीयोगे बुधवारो यदा भवेत् । अत्यन्तमहती नाम द्वादशी सा प्रकीर्तितेति विष्णु वर्मोत्तरात् । भाद्रेऽत्यन्तफलप्रदा-- भटवैद्यनाथकृतविवरणसहिताः- - मासि भाद्रपदे युक्त द्वादशी श्रवणान्विता । अत्यन्तमहती तरयां दत्तं भवति चाक्षयम् ॥ इति स्कान्दात् । तस्यां संगमस्नानादि कार्यम् । स्नानं जप्यं तथा दानं होमः श्राद्धं सुरार्चनम् । सर्वमक्षय्यफलंदं तस्यां भृगकुलोद्भव ॥ तस्मिन्नेव दिने यस्तु स्नातः क्वचनसंगमे । स गङ्गास्नानजं राम फलं प्राप्नोत्यसंशयम् । श्रवणे संगमाः सर्वे परपुष्टिप्रदा: सदा । विशेषादद्वादशीयुक्त बधयुक्ते विशेषतः ॥ इति विष्णुधर्मोत्तरात् ॥ ८८ ॥ इति माधवीयकारिकाविवरणे द्वादशीनिर्णयः ॥ अथ त्रयोदशीनिर्णयमाह-शक्तति । त्रयोदशी प्रकर्तव्या द्वादशीसहिता मुने । इति ब्रह्मवैवर्तात । इदं च शुक्लत्रयोदशीविषयमेव । षष्ठ्यष्टमी अमावास्या कृष्णपक्षे त्रयोदशी । एताः पग्यता: पूज्याः पराः पूर्वयुतास्तथा ॥ इति निगमे कृष्णत्रयोदश्याः परविद्धत्वेनोक्तेः । अलाभ इति । द्वितीय- दिने त्रिमुहर्तालाभ । साऽपि कृष्णाऽपि । अनङ्गत्रयोदशी मार्गशीर्षशुक्लत्रयोदशी पूर्वा । अनङ्गत्रयोदशी रम्भा उपोष्याः पूर्वसंयुता इति विशेषतोऽपि संवतॊक्तेः । ८९ । या शवति । त्रयोदशी प्रकर्तच्या या भवदापराह्निकौति स्कान्दादित्यर्थः । इति माधवीयकारिकाविवरणे त्रयोदशीनिर्णयः ॥ चतुर्दश्युत्तरा शुक्ला पूर्वा कृष्णा चतुर्दशी ॥ ९० ॥ उदये द्विमुहूर्ताऽपि ग्राह्याऽनन्तवते तिथिः । शुक्लाऽपि रात्रियुक्ता स्याच्चैत्रश्रावणमासयोः ॥ ९१ ॥ शुक्ला सर्वाऽपि पूर्वे यदि स्यादापराणिकी । प्रदोष वा निशीथे वा द्वयोर्वा याऽस्ति सा भवेत् ॥ ९२ ॥ शिवरात्रिवते तत्र द्वयोः सत्ता प्रशस्यते । तदभावे निगीथैकव्याप्ताऽपि परिगृह्यताम् ॥ ९३ ।। तस्याश्चासंभवे ग्राह्या प्रदोषव्यापिनी तिथिः । तिथ्यन्ते पारणं यामायादर्वाक्समापने ॥ ९४ ।। अन्यथा पारणं पातरन्यतिथ्युपवासवत् । पूर्वविद्धैव सावित्रीवते पञ्चदशी तिथिः ॥ ९५ ॥ नाइयोऽष्टादश भूतस्य स्युश्चेत्तत्र परेऽहनि ।
कालमाधवकारिकाः। । अथ चतुर्दशीनिर्णयमाह--चतुर्दश्यत्तरेति । चतुर्दश्या च पूर्णिमेति युग्म वाक्यात् । कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी । पूर्वविद्धा तु कर्तव्या पर. विद्धा न कहिचिदित्यापस्तम्बवचनाच्चेत्यर्थः ॥ ९० ॥ उदय इति । भाद्रपदशक्ल चतुर्दश्यामनन्तवम् । तत्र मध्याह्नव्यापिनी ग्राह्या । मध्याह्न भोज्यवेलायां समुत्तर्यि सरित्तटे । ददर्श शीला सा स्त्रीणां समूह रक्तवाससाम ॥ चतुर्दश्यामर्चयन्तं भक्त्या दवं पृथक्पृथगितीतिहासदर्शनादिति केचित्तनिरासार्थ- मिदमुच्यते । दैवे ह्यौदायकी ग्राह्यति वचनेन युग्मशास्त्रादिभिश्चोदयव्यापिन्यास्त्रि- मुहूर्ताया द्विमुहूर्ताया वा ग्रहणमुचितम् । इतिहासे तु मध्याह्नस्य विधानाभावात्तत्कल्पनस्य च प्रत्यक्षवचनविरोधेऽनुचितत्वादिति भावः । क्वचिदपवादमाह--शुक्लाऽपीति । मधोः श्राव- णमासस्य शुक्ला या तु चतुर्दशी । सा रात्रिव्यापिनी ग्राह्या परा पूर्वाह्रगामिनीति बौधायनोक्तेः । परा मासान्तरवर्तिनी शुक्लचतुर्दशीत्यर्थः । पूर्वदिनेऽपराह्णव्यापित्वे शुक्लचतुर्दश्यपि पूर्ववेत्यर्थः । तदुक्तं स्कान्द- चतुर्दशी च कर्तव्या त्रयोदश्या यता विभो । मम भक्तैर्महाबाहो भवेद्या चाऽऽपराहणिकी ॥ दर्शविद्धा न कर्तव्या राकाविद्धा कदाचनति । अत्र मम भक्तरिति लिङ्गा-: च्छिषचतुर्दशीविषयत्वं द्रष्टव्यम् । अथ शिवरात्रिनिर्णयमाह-- प्रदोषे वति । त्रयो- दश्यस्तगे सूर्ये चतसृष्येव नाडिषु । भूतविद्धा तु या तत्र शिवरात्रिव्रतं चरे- दिति वायुपुराणात् । प्रदोषव्यापिनी ग्राह्या शिवरात्रिचतुर्दशी । रात्री जागरणं यस्मात्तस्मात्तां समुपोषयेदिति स्मरणाच्च । निशीथवेधो नारदीये-- अर्धरात्रयुता यत्र माघकृष्णचतुर्दशी । शिवरात्रिवतं तत्र सोऽश्वमेधफलं लभेत ॥ इति । तथा--माघकृष्णचतुर्दश्यामादिदेवो महानिाश । शिवलिङ्गतयोद्भुतः कोटिसूर्यसमप्रभः ॥ तत्कालव्यापिनी शिवरात्रिव्रते तिथिरितीशानसंहितोक्तेश्च एवं सत्येकस्मिन्नेव प्रदोषनिशीथोभयव्यापिनी तत्र व्रतं कार्यम । दिनद्वयेऽप्युभय- व्याप्तिस्तदभावश्चासंभवी । यदा पूर्वेयुर्निशीथव्याप्तिः परेयश्च प्रदोषव्याप्तिस्तत्र त्रयो. दशीयोगस्य प्रशस्तत्वात्पूर्वैव । तदुक्तं स्कान्दे--- जन्माष्टमी रोहिणी च शिवरात्रिस्तथैव च । पूर्वविद्वैव कर्तव्या शिवरात्रिः शिवप्रियैरिति ॥ यदा पूर्वेयुर्निशीथादूर्ध्व प्रवृत्ता चतुर्दशी परेगुः प्रदोषव्याप्तेरेकस्याः सद्भा- वाच्च परविद्धैव ग्राह्या । एतदभिप्रेत्य स्मर्यते–माघासिते भूतदिनं कदाचिदुपैति योगं यदि पञ्चदश्या । जयाप्रयुक्तां नतु जातु कुर्याच्छिवस्य रात्रि प्रियकृच्छि- ग्राह्या ३. भट्टवैद्यनाथकृतविवरणसहिताः- वस्येति । यदा पूर्वेयुः प्रदोषादूर्ध्व प्रवृत्ता चतुर्दशी परेयुः क्षयवशात्प्रदोषात्पूर्व- मेव समाप्ता तदा पूर्वेयुरेव निशीथव्याप्तत्वाग्राह्या । एवं च दिनद्वयेऽपि निशी. थव्याप्तौ तदव्याप्तौ च प्रदोषव्याप्तिनियामिका । तथा दिनद्वयेऽपि प्रदोषव्याप्तौ तदव्याप्तौ च निशीथव्याप्तिर्नियामिका । एकैकस्मिन्दिन एकैकव्याप्तो जयायोगो नियामक इति । पारणानिर्णयमाह-तिथ्यन्त इति । कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिचतुर्दशी । एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत् । इति स्कान्दवचनस्य, उपोषणं चतुर्दश्यां चतुर्दश्यां च पारणम् । कृतैः सुकृतलझैश्च लभ्यते वाऽथवा न वा ॥ इत्यस्य चैवं व्यवस्था इत्यर्थः ॥ ९१ ॥ ९२ ॥ ९३ ॥ ९४ ॥ इति माधवीयकारिकाविवरणे चतुर्दशीनिर्णयः ॥ अथ पञ्चदशीनिर्णयमाह-पूर्वविद्वैवेति । भूतविद्धा न कर्तव्या अमावास्या च पूर्णिमा । वर्जयित्वा मुनिश्रेष्ठाः सावित्रीवतमुत्तममिति ब्रह्मवैवर्तात् ॥९५ ॥ यदा त्वष्टादशघीटका चतुर्दशी तदा सावित्रीव्रतेऽपि परैवेत्याह-नाड्य इति । भृतोऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिमिति वचनादिति भावः । व्रतान्तराणि सर्वाणि परेऽहन्यपि सर्वदा ॥ ९६ ॥ श्रादेऽपराणकालीनो दर्श आब्दिकवन्मतः । दिनद्वयेऽप्येकदेशवृत्तौ ग्राह्यो महत्त्वतः ॥ ९७ ॥ तुल्यत्वं चैकदेशे चेत्क्षये पूर्वाऽन्यथोत्तरः। कृत्स्नव्याप्तौ द्वयोरह्नोरुत्तरस्तिथिवृद्धितः ॥ ९८ ॥ साग्न्यनग्निव्यवस्था स्यान्स्यान्न चैदपराह्णयोः । पूर्वेयुः साग्निकाः कुर्यरुत्तरयुनिरग्निकाः ॥ ९९ ॥ पर्वपतिपदोः संधिर्मध्याह्ने वा ततः पुरा । अन्वाधानं पूर्वदिने यागः संधिदिने भवेत् ॥ १० ॥ ऊर्ध्वं मध्याह्नतः संधावन्वाधानं हि तद्दिने । इष्टिं परदिने कुर्यादन्यो वानसनेयिनः ॥ १०१ ॥ यस्तु वाजसनेयी स्यात्तस्य संधिदिनात्पुरा । न क्वाप्यन्वाहितिः किंतु सदा संधिदिने हि सा ॥ १०२ ॥ :
कालमाधवकारिकाः। संधिश्चेत्सङ्गवादूर्व पाक्चेदावर्तनाद्रवेः । सा पौर्णमासी विज्ञेया सद्यस्कालविधौ तिथिः ॥ १०३ ॥ व्रतान्तराणि तु परविद्धायामेवेत्याह--व्रतान्तराणीति ॥ ९६ ॥ इति माधवी. यकारिकाविवरणे पञ्चदशीनिर्णयः ॥ अथ श्राद्धदर्शनिर्णयमाह-श्राद्ध इति । अपराह्नः पितॄणामिति वचनादित्यर्थः । दिनदयेऽपीति। अपराणैकदेशे दिनद्वयेऽपि प्रवृत्ताऽधिकैकदेशव्यापिनी ग्राह्येत्यर्थः ॥९७॥ एकदेशसमव्याप्तावाह-तुल्यत्वं चेदिति । खर्वादिवचनादित्यर्थः । कृस्नेति । दिनद्वयेऽपि सकलापराहणव्याप्ती तिथिवृद्धिवशादुत्तरेत्यर्थः ॥ ९८ ॥ सानीति । उभयत्राध्यपराहणस्पर्शाभावे साग्निकानग्निकव्यवस्था भवेत् । तामेव दर्शयति-पूर्वद्युरिति । तदाह जाबालि:-अपराह्णयाव्यापी यदि दर्शस्तिथिक्षये । आहिताग्नेः सिनीवाली निरग्न्यादः कुहूर्मतति । सिनीवाली दृष्टचन्द्रा पूर्वैव । कुहूर्नष्टचन्द्रा, उत्तरेत्यर्थः । निग्न्यादेरित्यादिपदात्स्त्रीशद्रादेरपि ग्रहणम् । तथा च लौगाक्षिः-सिनीवाली द्विजैः कार्या साग्निकः पितृकर्मणि । स्त्रीभिः शूद्रैः पृथक्कार्या तथा चानग्निकैद्धिजैरिति ॥ ९९ ॥ इति माधवीयकारिकाविवरणे दर्शनिर्णयः ॥ अथेष्टौ पर्वनिर्णयमाह--पर्वेति । अन्वाधानममिपरिग्रहरूपो यागारम्भः । पूर्वेयुरनि गृह्णात्युत्तरमहर्यजतीति शतपथश्रुतेः । संधिपूर्वापरकाले यागप्रयोगः । अत एवं बौधायनः-- सूक्ष्मत्वात्संधिकालस्य संधेविषय उच्यते । सामीप्यं विषयं प्राहः पूर्वेणाप्यपरेण वा ॥ इति । एवं च--त्रीनंशानोपवस्तस्य यागस्य चतुरो विदुः । द्वावंशावुत्सजे- दन्त्यौ यागे च व्रतकर्मणीति लौगाक्षिकचनात्पर्वणोंऽशत्रयमौपवस्तस्यान्वाधानरूपस्य च चत्वारोंऽशाः, पर्वचतुर्थाशमारभ्य प्रतिपदंशत्रयं कालः । अन्वाधाने पर्वचतुर्थाशो वर्ण्यः । यदा पर्वप्रतिपदौ संपूर्ण तदा नैव संदेहः । खण्यत्वे तु लौगाक्षिः-पूर्वाणे वाऽथ मध्याले यदि पर्व समाप्यते । उपोष्य सत्र पूर्वेषु- स्तदहांग इष्यते । अपराहणेऽथवा रात्रौ यदि पर्व समाध्यते । उपोष्य प्तस्मि- नहनि श्वोभूते याग इष्यत इति । उपोष्यान्वाधायत्यर्थः । अत्र मध्याह्लादिशब्दा यौनि. काः, नतु पञ्चधाभागाश्रयणन पारिभाषिकाः । तेनाली मध्यो मध्याल इति योगे. नाऽऽवर्तनं मध्याह्नशब्दार्थः । तत्पूर्वोत्तरभागौ पूर्वाणापराहणशब्दार्थों ज्ञेयौ । अयं च निर्णयो माध्यंदिनीयभिन्नानामित्याह--अन्य इति । वाजसनेयिभिन्न इत्यर्थः ॥ १०० ॥ १०१ ॥ धाजसनेयिनं प्रत्याह-यस्त्विति । अत एव तद्भाष्यार्थसंग्रहकारः-ध्वंदिया- स्याहनीह यभिमप्रापर्वणः संधिरियं तुती । सा खाका वाजसनेयिमत्या कालः । यागस्य
भट्टबैद्यनाथस्तविवरणसहिताः-
तस्यामुपोष्याथ परेयुरिष्टिः । आवर्तनादूर्ध्वमस्तमयादर्वाग्यदा संधिर्भवति तदाऽहःसंधिमती
तिथिः प्रथमा । रात्रौ संधिश्चेत्सा तिथिद्वितीया । ते उभे अपेक्ष्य पूर्वाह्न संधिमती पर्व-
तिथिस्तृतीया खर्विका भवति । तस्यां तृतीयतिथौ पर्वकालस्याल्पत्वात्सा खर्विकाऽल्पे-
त्युच्यते । शाखान्तराध्यायिनामीदृशे विषये पूर्वेद्युरन्वाधानादिकं संधितिथाविष्टिः ।
वाजसनेयिनां तु संधितिथावन्वाधानमुत्तरतिथाविष्टिः । एवं सति वाजसनेयिनी
न कापि संधिदिमात्पूर्वयुरन्वाधानादिकमस्ति । सोऽयं विशेषः । आवर्तने ततः पुरा वा यदा
संधिर्भवति तदा वाजसनेयिव्यतिरिक्तानां पर्वचतुर्थाश इष्टिः प्राप्नोति । तत्र विशेषमाह
गार्य:-प्रतिपद्यप्रविष्टायां यदि चेष्टिः समाप्यते । पुनः प्रणीय कृत्स्नेष्टिः कर्तव्या याग-
वित्तमैरति । नन्वपराणे संधौ प्रतिपच्चतुर्थांशस्य यागकालत्वं प्राप्नोति । तच्च
प्रतिषिद्धम् ।
न यष्टव्यं चतुर्थेऽशे यागैः प्रतिपदः कचित् ।
रक्षांसि तद्धि लुम्पन्ति श्रुतिरेषा सनातनी ॥
इति स्मृतः । अतस्तादृशे विषये याग एव लुप्येतेति चेन्मैवम् । वृद्धशातात.
पेम प्रतिप्रसवाभिधानात्-संधिर्यद्यपराहणे स्याद्यागं प्रात: परेऽहनि । कुर्वाणः प्रति.
पद्भागे चतुर्थेऽपि न दुष्यतीति । एवं तर्हि तनिषेधो निर्षियः स्यादिति चेत् ।
मैवम् । सबस्कालविषये चरितार्थत्वात ।
तदाह कात्यायन:--संधिश्चेत्संगवा.
पूर्व प्रावपर्यावर्तनाद्रवेः । सा पौर्णमासी विज्ञया सग्रस्कालविधौ तिथिरिति ।
अनेन संधिदिनात्पूर्वेयुः प्राप्तमन्वाधानं संधिदिन उत्कृष्यते । तदेतदाह-संधि-
श्वेदित्यादि ॥ १०२ ॥ १०३ ॥
संधिनिर्णयश्च न यथास्थितरीत्या किंवन्यथेत्याह-
वृद्धिः प्रतिपदो याऽस्ति तदर्धं पर्वणि क्षिपेत् ।
क्षयस्या तथा क्षिप्त्वा संधिनिणीयतां सदा ॥ १०४ ॥
बोधायनमते दर्शश्राद्धं चेष्टिविशिष्यते ।
द्वितीया त्रिमुहूर्ता चेत्पतिपद्यापराणि की ॥ १०५ ।।
अन्वाधानं चतुर्दश्यां दर्शे स्वल्पेऽपि कारयेत् ।
दर्शश्राद्धं तथा कार्यमिति बौधायनोदितम् ॥ १०६ ॥
इष्टयादिविरुतिः सर्वा पर्वण्येवेति निर्णयः ।
पश्चमे तु प्रकरणे पूर्वार्धे भादिनिर्णयः ॥ १०७ ।।
उत्तरार्धे कालभेदात्कर्मभेदोपदेशनम् ।
यस्मिन्नस्तपिपाद्भानुस्त नक्षत्रमुपोषणे ॥ १०८॥
कालमाधवकारिकाः। ४० दृध्यमानत्वात्त- मुख्यं तस्यासंभवे तु ग्रहीतव्यं निशीथयुक् । वृद्धिरिति । तिथेः परस्या घटिकास्तु याः स्युय॒नास्तथैवाभ्यधिकाश्च तासाम् । अर्ध वियोज्यं च तथा प्रयोज्यं ह्रासे च वृद्धौ प्रथम दिने तदिति वचनादि. त्यर्थः । अमावास्यायां विशेषमाह शातातपः-द्वितीया त्रिमुहर्ता चेत्प्रतिपयाऽऽपग- हर्णिकी । अन्वाधानं चतुर्दश्यां परतः सोमदर्शनादिति ॥ १०४ ॥ सोऽयं विशेषो नाऽऽश्वलायनापस्तम्बविषयः, किंतु बौधायनमतानुष्ठायिविषय इत्याह-बौधायनेति । अत एव बांधायन:-द्वितीया त्रिमुहर्ता चत्प्रतिपद्याऽऽपराहाणिकी । अन्वाधानं चतुर्दश्यां . परतः सामदर्शनात् । चतुर्दशी चतुर्यामा अमावास्या न दृश्यते । श्वोभूते प्रतिपच्चस्यात्पूर्वी तव काग्यत । चतुर्दशी तु संपूर्णा द्वितीया क्षयगामिनी । चरुरिष्टिग्मायां स्यादभूते कव्यादिकी क्रिया ॥ इति । एतेषां बचनानामयमर्थः । अह्नि चतुर्दशी संपूर्णा । अस्तमयादयंगमावास्या स्वल्पा । अत एव पूर्वापराह्नव्याप्त्यभावाच्छाद्धायान्वाधानाय वा पूर्वोक्तगत्या यद्यपि निमित्त. भावं न भजत तथाऽपि प्रतिपदि द्वितीयायां सत्यां चन्द्रस्य दर्शने चेष्टेनिषिद्धत्वात्प्रतिपातायाममावास्यायामिष्टिः स्वल्पामावास्योपतायां चतुर्दश्यां आद्धान्वाधानादिकं कर्तव्यमिति । तथा च बौधायनेनानमयदा चतुर्दशी याम तुरीयमपि पूरयेत् । अमावास्या क्षीयमाणा तदेव श्राद्धमिष्यते ॥ इति । चन्द्र- दर्शनोपेतायां शुक्लप्रतिपदि यागानुष्ठान प्रायश्चित्तमाह कात्यायनः-यजनीय हनि मोमच- द्वारुण्यां दिशि दृश्यते । तत्र व्याहृतिभिहुत्वा दण्टुं दद्यादद्विजातये ॥ इति । स्मृत्यन्तरऽपि-अर्वागस्तमयाअत्र द्वितीया त प्रदृश्यते । यागं न कुर्वीत विश्वेदेवाः पराङमखाः ॥ इति । यदहः पश्चाच्चन्द्रमा अभ्युदेति तर्हय जन्निमा होकानभ्युदेतीति अतिवचनं यचन्द्रदर्शनदिनऽपि यागकर्तव्यताबोधक तदबाधाय. नातिरिक्तविषयम् ॥ १०५ ॥ १०६ ॥ इति प्रकृतिनिर्णयः । अथ विकृतिकालो निरूप्यते-इष्टयादीति । आदिना पशुयागसंग्रहः । पर्व- ज्येवेति । य इष्टया पशुना सामेन यजत सोऽमावास्यायां पौर्णमास्यां वा यजेतेति बचने यहकालकत्वस्य बाधादित्यर्थः । तत्र विशेषः कात्यायननोक्तः-आवर्तनात्प्रा. यदि पर्वसंधिः कृत्वा तु तस्मिनप्रकृति विकृत्याः । तत्रैव यागः परतो यदि स्यात्तस्मिन विकृत्याः प्रकृतेः परेयुरिति । आवर्तन ततः पुग वा पर्वसंधी संधिदिने प्रकृतिं कृत्वा पश्चाद्विकृतिः कर्तव्या । यदाऽऽवर्तनात्परतः संधिस्तदा कंवलवि- कृतियागः संधिदिने कर्तव्यः । प्रकृतियागस्तु संधिदिनात्परतोऽनुष्ठेय इत्यर्थः । आवर्तने ततः पूर्वकाले परकाले वा संधिरित्यतषु संधिदिन एव विकृतरनुष्ठानम । प्रकृतेस्तु पूर्वोक्तरीत्या संधिदिने परधुर्वाऽनुष्ठानं व्यवतिष्ठत । इति विकृतिकाल- निर्णयः ॥ इति माधवीयकारिकाविवरणे चतुर्थ प्रकरणम् ॥ तत्र
४६
भट्टवैद्यनाथकृतविवरणसहिताः--
पञ्चमप्रकरणार्थमाह-पञ्चमे त्विति । तत्र पूर्वार्धे नक्षत्रादिनिर्णयः । आदिना
योगकरणसंग्रहः ॥ १०७ ॥
उत्तरार्धे तु कालभेदेन कर्मविशेषनिरूपणमित्यर्थः । यस्मिन्निति । नक्षत्रस्य
दिनदयेऽपि सत्त्व यस्मिन्दिनेऽस्तमयव्यापित्वं तत्र तन्निमित्तकोपवासः कार्यः । अयं
मुख्यः पक्षः ॥ १०८ ॥
तदसंभवे तु निशीथव्यापि ग्राह्यमित्यर्थः । उपोषितव्यं नक्षत्रं यस्मिन्नस्तमि.
याद्रविः । युज्यते यत्र वा गम निशीथे शशिना सहेति विष्णुधर्मोत्तरात् ।
अस्तमयनिशीथोभययोगे त्वतिप्राशस्त्यम् । एवं यदा पूर्वेयुः केवलनिशीथयोगः
परेग्रुश्च केवलारतमययोगस्तदा परेयुरेवोपवासः । निशीथयोगस्तु ज्योतिःशास्त्र पर
बोध्यः, नतु लौकिकः । दिनद्वयेऽप्यस्तमययोगाभावे निशीथयोगेन पूर्वेयुरेवोपवासः ।
उपवासे यदृक्षं स्यात्तद्धि नक्तैकभक्तयोः ॥ १२९ ॥
उदये त्रिमुहूर्तस्थं नक्षत्रं व्रतदानयोः ।
दिनद्वये तथात्वे तु पूर्वं स्यावलवत्त्वतः ॥ ११०॥
श्रवणं तूतरं ग्राह्यमुपाकरणकर्मणि ।
पित्र्ये तु तिथिवस्सा नक्षत्रस्य विनिर्णयः ॥ १११ ॥
पूर्वः स्यादुपवासादावुत्तरो बतदानयोः ।
योगः श्राद्ध कर्मकालव्याप्तस्तु परिगृह्यताम् ॥ ११२ ॥
करणं यद्दिने तत्तु ग्रामं रात्रौ यदा तदा ।
दिनद्वयैकभक्ताभ्यामुपवासः प्रसिध्यति ॥ ११३ ॥
वारेषु संशयाभावाग्रहीतव्यं यथास्थितम् ।
उपवास इति । उपवासे यादृशो नक्षत्रनिर्णयस्तादृश एवं नक्तैकमक्तयोः ।
नतु प्रदोषमध्याह्नव्याप्तिभ्यामित्यर्थः । उपवासे यहक्षं स्याचद्धि नक्कभक्तयोरिति
स्कान्दात् ॥ १०९ ॥
उदय इति । तथा च विष्णुधर्मोत्तरे-सा तिथिस्तच्च नक्षत्रं यस्याम-
भ्युदितो रविः । तया कर्माणि कुर्वीत ह्रासवृद्धी न कारणमिति । एतच्च
परिशेषाव्रतादिविषयम् । दिनद्वय इति । तथात्वे-उदयव्यापित्वे । बलवस्वतः
संपूर्णाहोरात्रव्यापित्वात् ॥ ११० ॥
श्रवणं त्विति । धनिष्ठासहितं कुर्याच्छ्रावणं कर्म यद्भवेत् ।
तत्कर्म सफलं विद्यादुपाकरणसंज्ञकम् ॥ इति वचनात् ।
पिये विति । अपराहणध्यातिषशादित्यर्थः ॥ १११ ॥
कालमाधवकारिकाः। योगनिर्णयमाह-पूर्वः स्यादिति । पूर्वेगुरस्तमयव्याप्तो प्रायः । निशीथमात्र. व्याप्तिस्तु न ग्राह्या । प्रमाणाभावात् । व्यतीपातपारणस्याहन्येव शास्त्रोक्तत्वात् । केवलनिशीथव्याप्तिग्रहणे संभवायोगादिति बोध्यम् व्रतदानयोरुत्तरो ग्रायः । श्राद्ध त्वपराणव्यातः ॥ ११२ ॥ करणमिति । बवबालवादिकरणानां तिथ्यर्धपरिमितत्वादिनद्वयाच्यापित्वान्न संदेहः । तस्मायस्मिन् दिने करणसद्भावस्तद्दिन एव तत्कर्म कार्यम् । यदा तु सायंसंध्या. मारभ्य परेगुरुदयात्प्रागेव करणं समाप्येत तत्र कथमिति चेत् । तदा भद्राकरणो. कन्यायेन सर्वकरणेषु निर्णय इति ब्रूमः । भद्राकरणे च निर्णयो भविष्योत्तरे भद्रावते पठ्यते-यस्मिन्दिने भवेद्भद्रा तस्मिन्नहनि भारत । उपवासस्य नियम कुर्यानारी नरोऽपि वा । यदि रात्री भवेदिष्टिरेकभक्तं दिनदये । कार्य तेनोपवासः स्यादिति पौराणिको विधिः । प्रहरस्योपरि यदा स्याद्विष्टिः प्रहरत्रयम् । उपवा- सस्तदा कार्य एकभक्तं ततोऽन्यथेति । उदयादारभ्य यावदस्तमयं विष्टिसत्तायां नोपवासे संदेहः । यदा तु प्रहरमात्रे विष्टिनास्ति तस्योपरि प्रहरत्रयं विष्टिर्भवति तदा कृत्स्नदिनव्याप्तेर्भद्राया अभावेऽप्येकदेशव्याप्तेः सद्भावादुपवासोऽनष्ठेयः । अन्यथेत्यनेनैकदेशव्याप्त्यभावोऽपि विवाक्षितः । तस्मिन्पक्षे समनन्तरातीतवचना. हिनदयेऽप्येकभक्तं कार्यम् । यस्तु भद्रावतं संकल्प्याहोरात्रमुपोषितुं न शक्नुयात्, असौ भद्रायुक्तघटिकासु भोजनं परित्यजेत् । भद्रारहितकाले भुक्त्वाऽप्यपवासान्न. हीयते । तथा च भविष्योत्तरे पठ्यते.... स्नातः संपूज्य तामेव ब्राह्मणं च स्वशक्तितः । ततो भुञ्जीत राजेन्द्र यावद्भद्रा न जायते । अथवाऽन्तेऽपि भद्रायाः कामतो वाग्यतः शुचिः । न किंचित्भक्षयत्प्राज्ञो यावद्भद्रा प्रवर्तते ॥ इति । आश्चरमभागे यदा भद्राप्रवेशस्तदानीमेकदेशे भद्रायोगिनो दिवसस्य तब- साहत्वावशक्तस्य भद्राप्रवेशात्प्रागेव भोजने प्राप्ते सत्यभुक्तेनैव पूजादेरनुष्ठेयत्वाद्भद्रा- रहितेऽपि काले तत्पूजादिकं न विरुध्यते । यदा तु भद्राया अन्ते भुङ्क्ते तदा कर्मकालव्याप्तिशास्त्राभद्रोपेतकाल एव तत्पूजादिकं कर्तव्यम् । पक्षद्वयेऽपि भवायुक्तघटिकासु न किंचिद्भक्षयेत् । तावतैव भद्रोपवासः पूर्यते । बवादिकरणेषु कस्यापि विशेषस्य शास्त्रेणानुक्तत्वादभद्रायां क्लप्तस्य न्यायस्यातिकमे कारणाभावाच्चा- यमेव निर्णयप्रकारः सर्वोऽपि योजनीयः ॥ ११३ ॥ नच तिथिनक्षत्रयोगकरणानां पञ्चाङ्गान्तःपातिनां निर्णयं कृत्वा तदन्तःपाति. शास्त्रीयकर्मोपयोगी वारः कुत उपेक्ष्यत इति शङ्कनीयम् । अहोरात्रपरिमितत्वेन वारे संदेहाभावात् । तदाह-वारेष्विति । तदेवं नक्षत्रयोगकरणानि निर्णीतानि ।
'४४ भटटवैद्यनाथकृतविवरणसहिताः- आसन्ननाडयः संक्रान्तेः पुण्याः स्नानादिकर्मसु । चरेषु कर्कटे पूर्वा मकरे विंशतिः पराः ॥ ११४ ॥ वर्तमाने तुलामेषे नाट्यस्तूभयतो दश । वृषभादौ स्थिरे पुण्याः प्राक्पश्चादपि षोडश ॥ ११५॥ मिथुनादी द्विःस्वभाव उत्तराः षष्टिनाडिकाः । अहःसंक्रमणे राबावनुष्ठाननिषेधतः ॥ ११६ ॥ उक्तौ कालौ व्यवस्थाप्यौ तबलात्पूर्वपश्चिमौ । गवी मंक्रमण भानोदिनार्धं स्नानदानयोः ॥ ११७ ॥ तथा अथ मंक्रान्तिनियते । तत्र संक्रान्ति म मंषादिष द्वादशसु राशिषु कगंण मंचरतः मूर्यस्य पर्वस्माद्राशरुनग्गी संक्रमणं प्रवेशः । तत्र च होम. ग्नानादि विहितम् । तस्य च सूक्ष्मकालेऽनुष्ठानासंभवात्कदाऽनुष्ठानमित्यत आह- आमन्नति । तदाह देवल:-----संक्रान्तिसमयः सूक्ष्मो दर्जेयः पिशितेक्षणैः । तयो- गादप्यधश्चोर्ध्व त्रिशन्नाड्यः पवित्रिताः ॥ इति । एवं च संक्रान्तेः पूर्व त्रिंशत् , अवं च त्रिंशदघटिकाः पण्या इति सामान्यत उक्तम् । तत्रापि संक्रान्तिसमी- पनायः पुण्यतमा इत्यर्थः । या याः मंनिहिता नाट्यस्तास्ताः पुण्यतमाः स्मृता इति वचनात । तत्र विशेषमाह----चरेष्विति । मंपादिद्वादशगशिपु चत्वारि त्रिकाणि । तत्रककस्मिंत्रिक क्रमेण चस्थिरद्विस्वभावसंज्ञाः । च मेषकर्कतुलाम- कगग्व्याश्चत्वारश्चगः । तेषु मध्ये कर्कट पूर्वा विंशतिर्नाड्यः पुण्याः । मकरे च विंशति ड्यः पग: पुण्याः । तुलामषयोस्तु वर्तमाने ग्वावुभयतः परा: पूर्वाश्च दश नाड्य इत्यर्थः । मिथुनादाविति । मिथुनकन्याधनुर्मानानां द्विःस्वभावसंज्ञा षडशीतिमुख़संज्ञा च । तत्रोत्तग घटिकाः पुण्या इत्यर्थः । इदं चाहःसंक्रमण- विषयमित्याह- अहर्गित । तत्र तुमाह---गत्राविति । राक्षसी सा हि कीर्तितेति मनुवचनाद्रात्रिसंक्रमण दिवास्नानाद्यनुष्ठानासंभवाञ्चति भावः । उक्तौ कालौ~- पूर्वपश्चिमी । तद्बलान्निषेधानसोग्ण व्यवस्थापनीयावित्यर्थः । तथा चास्तमय- प्रत्यासन्नदिवासंक्रमणे सति प्रशस्तमप्युत्तरकालं त्यक्त्वा पूर्वकाल एवं ग्राह्यः । एवं सूर्योदयोत्तरमेव संक्रमणे प्रशस्तमपि पूर्वकालं त्यक्त्वोत्तरकाल एवं ग्राह्यः तत्रार्थे वचनानि । वृद्धवसिष्ठः--अतीतानागते पुण्ये द्वे उदगदक्षिणायने । त्रिंशत्कर्कटके ग्राह्या मकरे विंशतिः स्मृताः ॥ इति । उत्तरायणमतीतं सत्पुण्यं भवति । दाक्षि- णायनमनागतं पुण्यम् । विंशतिरित्यनेन त्रिंशन्नाइयः पवित्रिता इत्युत्सर्गस्य मक- रे ऽपवादः । बृहस्पतिरपि-वर्तमाने तुलामेषे नाट्यस्तुभयतो दशेति । परीति- -- कालमाधवकारिकाः। वि कहानियानम्-पडशीत्यामतीतायां पष्ठिरुक्तास्तु नाटिका इति । कन्यायां मिने मीने धनुष्यपि रवर्गतिः । षडशीतिमुखाः प्रोक्ताः प्रीतिगृपाः फलैः । इति वचनोक्ताः संक्रान्तयः षडशीतिमुखसंज्ञाः । विष्णुपदे स पुवाऽ--पुण्यपयां विष्णुपयां च प्रापश्चादपि षोडशेति । वषवृश्चिकुम्भेषु सिंहे चैत्र यदा रविः । पनवनि. पर नाम विषुवाधिकं फलैरिति वचनेनाऽऽम्नातं विष्णुपम । त्रिषुरमिति तुला मेहन्योः संज्ञा । बृद्धबसिष्ठ:-- अहि संक्रमणे पुण्यमहः कृत्स्नं प्रकीर्तितम् । रात्रौ संक्रमण भानोदिनार्थ स्नानदानयोः ॥ इति । पूर्वदिनोत्तरार्धमत्तरदिनपूर्वार्ध चेत्यर्थः । तदेतदाह--रात्रो संक्रमण इति ॥ ११४॥ ११५ ॥ ११६ ॥ ११७ ॥ अर्धरात्राद्धस्तस्मिन्मध्याहूनस्पोपरि क्रिया । ऊर्ध्वं संक्रमणे चोर्ध्वमुदयात्प्रहरद्वयम् ॥ ११८॥ पूर्ण चेदर्धरावे तु यदा संक्रमते रविः । पाहुर्दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटौ। ११९ ॥ कर्कटे मकरे राबावप्याचाराइनुष्ठितिः । तत्र व्यवस्थामाह--अर्धरात्रादिति । अर्धरात्रादधस्तस्मिन्मध्याहनस्योपरि क्रिया। ऊळ संक्रमणे चोर्ध्वमुदयात्प्रहरद्वयम् ॥ पूर्णे चेवर्धरात्रे तु यदा संक्रमत रविः । प्राहुर्दिनद्वयं पुण्यं मुक्त्वा मकरकर्क टाविति वृद्धवसिष्ठवचनात् । एवं सति-- विष्णुपद्यां धनुर्मीनवृषकन्यासु वै यदा । पूर्वोत्तरगतं रात्रौ भानोः संक्रमणं भवेत् ॥ पूर्वाहणे पञ्च नाड्यस्तु पुण्याः प्रोक्ता मनीषिभिः । अपराहणे तु पञ्चैव श्रौते स्मार्ते च कर्मणि ॥ इति वचनमत्यन्तप्राशस्त्यपरं द्रष्टव्यम् । एवमयनव्यतिरिक्तेषु संक्रमणेषु रात्रिगतेषु यो निर्णय उक्तस्तं पयुदसितुं मुक्त्वा मकरकर्कटावित्युक्तम् । तयोस्तु कथमित्याकाड़- क्षायामाह--कर्कट इत्यादि । तथा च याज्ञवल्क्य:- राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु । स्नानदानादिकं कार्य निशि काम्यवनेषु चति । सुमन्तुरपि-रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः । नैमित्तिकं च कुर्वीत स्नानं दानं च रात्रिषु ॥ यज्ञे विवाहे यात्रायां तथा पुस्तकवाचने । दानान्येतानि शस्तानि रात्रौ देवालये तथा ॥ ग्रहणादाहसंकान्तियात्रार्तिप्रसवेषु च । श्रवणे चेतिहासस्य रात्रौ दानं प्रशस्यते ॥ इति ।
तथा भट्टयनाथकृतविवरणसहिताः नन्वेतव्रात्रावनुष्ठानं शास्त्रान्तरविरुद्धम् । च भविष्योत्तरे-मिथुनात्कर्कर्स- कान्तिर्यदि स्यादंशुमालिनः । प्रभाते वा निशीथे वा कुर्यावहनि पूर्वतः । कार्मुकं तु परित्यज्य सघं संक्रमते रविः । प्रदोषे वाऽर्धरात्रे वा स्नानं दानं परेऽहनीति । वृद्धगायोऽपि-यदाऽस्तमयवेलायां मकरं याति भास्करः । प्रदोषे वाऽर्धरात्रे वा स्नानं दानं परेऽहनि । अर्धरात्रे तदूर्ध्व वा संक्रान्तौ दक्षिणायने । पूर्वमेव दिनं पायं यावनोदयते रविः ॥ इति । मैवम् । भविष्योत्तरवृद्धगार्यवचनेषु रात्रावनुष्ठाननिषे. धस्याप्रतीतेः । दिवसानुष्ठानविधानेनैवार्थाद्राव्यनुष्ठानप्रतिषेधकल्पने च पर्युदासानुगही- तवचनानामानर्थस्यं प्रामोति । तस्माच्छास्त्रदयबलेन विकल्पप्राप्तौ तत्तद्देशप्रसिद्धशि- टाचारेण व्यवस्था द्रष्टव्या । तदाह-आचारादिति । तत्तद्वारयोगेन तत्तनक्षत्रयोगेन च संक्रान्तीनां मन्दादिसंज्ञा विस्तरभयान दर्शिताः । अत्र स्नानादिकृत्यमुक्तं ब्राह्म-नित्यं द्वयोरयनयोस्तथा विषुवतोयोः । चन्द्रार्कयोग्रहणयोर्व्यतीपातेषु पर्वसु । अहोरात्रोषितः स्नानमर्थ्य दानं तथा जपम् । यः करोति प्रसन्नात्मा तस्य स्याद. क्षयं च तदिति । संक्रान्तिभ्यः पूर्व द्वादशदिने मेषायनमित्यादिनामाङ्कितमयनं भवति । तत्र स्नानादिषु पुण्यकालमाह जाबालिः-संक्रान्तिषु यथा कालस्तदीयेऽप्ययने तथा । अयने विंशतिः पूर्वी मकरे विंशतिः परेति । मकरव्यतिरिक्तासु संक्रान्तिषु यादृशः काल उक्तस्तदीयायनेऽपि स एव ज्ञेयः । मकरायने तु पूर्वा विंशतिर्मकरसंक्रान्तौ तु परा विंशतिरिति विशेष इत्यर्थः । इति संक्रान्तिनिर्णयः ॥ ११८॥ ११९ ॥ पूर्णिमापतिपत्संधौ राहुः संपूर्णमण्डलम् । प्रसवे चन्द्रम: च पर्वपतिपदन्तरे ॥ १२० ॥ अस्यमाने भवेत्स्नानं ग्रस्ते होमो विधीयते । मुच्यमाने भवेद्दानं मुक्त स्नानं विधीयते ॥ १२१ ॥ सूर्यग्रहे तु नाभीयात्पूर्वं यापचतष्टयम् । चन्द्रग्रहे तु यामांस्त्रीबालवृद्धातुविना ॥ १२२ ॥ अथ ग्रहणं निर्णीयते । तत्र तत्स्वरूपं निरूपयति--पूर्णिमेत्यादिना । पूर्णिमा- प्रतिपत्संधौ चन्द्रं असते । पर्वणो दर्शस्य प्रतिपदश्चान्तरेऽकं च असत इत्यर्थः । तवाह वृद्धगार्ग्य:- पूर्णिमाप्रतिपत्संधौ राहुः संपूर्णमण्डलम् । ग्रसते चन्द्रमर्क च दर्शप्रतिपदन्तरे ॥ इति । तत्र किं कार्य तदाह--ग्रस्यमान इति । ग्रासारम्भ इत्यर्थः । ईदृशमेव स्मृत्यन्तरवचनमत्र मानम् । होमदानवदेवार्चनमपि कार्यम् । तदुक्तं ब्रह्मवैवर्ते-नानं स्यादुपरागादौ मध्ये होमः सुरार्चनमिति । एवं श्राद्धम- प्याह मार्कण्डेयः- विशिष्टब्राह्मणे प्राप्ते सूर्येन्दुग्रहणे दिने । जन्मर्वाग्रहपीडासु श्राद्धं कुर्यात्तथोच्छ्रये ॥ इति । तम्बाऽऽमेन हेम्ना वा । आपयननौ तीर्थे च चन्द्रसूर्यग्रहे तथा । आमश्राद्धं प्रकुर्वीत हेमश्राद्धमथापि वा ॥ - कालमाधवकारिकाः। ४७ इति शातातपवचनात् । आशौचेऽपि ग्रहणे स्नानादि कार्यम् । तथा च वृद्धवसिष्ठः-- सूतके मृतके चैव न दोषो राहुदर्शने । तावदेव भवेच्छुद्धिर्यावन्मुक्तिर्न दृश्यते ॥ इति । तथा स्मातकर्मपरित्यागो राहोरन्यत्र सूतक इति वचनात्सकलं स्मार्त कर्म भवति । यत्तु-ग्रहणनिमित्तमाशौचं तत्स्नानेन निवर्तते । ग्रहणे शावमाशौचं विमुक्तौ सौतिकं स्मृतम् । तयोः संपत्तिमात्रेण उपस्पृश्य क्रियाक्रमः ॥ इति । उपस्पृश्य स्नात्वा । षट्त्रिंशन्मतेऽपि-~-सर्वेषामेव वर्णानां सूतकं राहुदर्शने । स्नात्वा कर्माणि कुर्वीत शतमन्नं विवर्जयेदिति । शतमन्नं ग्रहणान्तरितमनम् । तत्र केषुचित्प्रतिप्रसवः-आरनालं तथा क्षीरं किलाटं घृतसक्तवः । तैलपकं च तैलं च न कदाचित्प्रदुष्यतीति । तथा-आरनालं च तवं च पादेयं घृतपाचितम् । उदकं च कुशच्छन्नं न दुष्येदाहुदर्शने । इति वचनात् । ग्रहणे भोजनव्यस्थामाह मनु:--चन्द्रसूर्यग्रहे नाबाद्दयात्स्नात्वा विमुक्तयोः । अमुक्तयोरस्तगयोदृष्ट्वा स्नायात्परेऽहनीति । स्पर्शमारभ्य मोक्षपर्यन्तो ग्रहणकालस्तत्र न भुजीत । किंतु मुक्तयोः सतोः पश्चात्स्नात्वा भुञ्जीत । यदा ग्रस्तास्तस्तदा परेयुस्ती विमुक्तौ दृष्ट्वा भुञ्जीतेत्यर्थः । न केवलं ग्रहणकाल एवाभोजनं किंतु प्रागपि। तदाह व्यासः- नायात्सूर्यग्रहात्पूर्वमाल सायं शशिग्रहात । ग्रहकाले च नानीयात्नात्वाऽश्रीयादि मुक्तयोरिति । पूर्वकालभोजननिषेधे विशेषमाह वृद्धवसिष्ठः- ग्रहणं तु भवदिन्दोः प्रथमादधियामतः । भुञ्जीलाऽऽवर्तनात्पूर्व पश्चिमे प्रथमादधः ॥ रस्त्वावर्तनादूर्ध्वमर्वागेव निशीथतः । चतुर्थप्रहरे चेत्स्याच्चतुर्थप्रहरादधः ॥ इति । रात्रौ प्रथमयामादूर्ध्व चन्द्रग्रहणं चेदावर्तनान्मध्याह्नात्पूर्व भुञ्जीत । रात्रिपश्चिमयामे चेद्राविप्रथमयामादर्वाग्भुञ्जीत । अह्नश्चतुर्थे प्रहरे रविग्रहणं चेत्पूर्वरात्रेश्चतुर्थप्रहरादधो भुञ्जीतेत्यर्थः। चन्द्रग्रहणयामात्पूर्व यामत्रयं भोजननिषेधः। सूर्यग्रहे च यामचतुष्टयमिति तात्पर्यार्थः । तथा च वृखगौतमः--सूर्यग्रहे तु नाश्नीयात्पूर्व यामचतुष्टयम् । चन्द्रग्रहे तु यामास्त्रीन वालवृद्धातुरैविनेति । तदाह--सूर्यग्रहे विति ॥ १२० ॥ १२१ ॥ १२२ ।। अपराह्ण न मध्याह्न मध्याह्ने नतु संगवे । भुञ्जीत संगवे चेत्स्यान्न पूर्वं भोजनकिया ॥ १२३ ॥ यस्तोदये विधोः पूर्वं नाहर्भोजनमाचरेत् । प्रस्तावेवास्तमानं तु रवीन्द्र प्राप्नुतो यदि ॥ १२४ ॥ प्रयोदश्यादितो वयं दिनानां नवकं ध्रुवम् । मन्टेषु समस्तेषु महणे चन्द्रसूर्पयोः ॥१२५॥ - ४८ -- भट्टवैद्यनाथकृतविवरणसहिताः- द्वादश्यादिस्तृतीयान्ता वेध इन्दुग्रहे स्मृतः। एकादश्यादिकः सौरे चतुर्थ्यन्तः प्रकीर्तितः ॥ १२६ ॥ खण्डग्रहे तयोः पोक्त मुभयत्र दिनद्वयम् । नित्ये नैमित्तिके जप्ये होमयज्ञक्रियासु च ॥ १२७ ॥ उपाकर्मणि चोत्सर्ग ग्रहदोषो न विद्यते । तयोः परेधुरुदये स्नात्वाऽभ्यवहरेन्नरः ॥ १२८ ॥ ईदृशं नियमं न्यायविवरीतुमिहोद्यतः । तमेव निर्णयं शास्त्रन्यायाभ्यां कर्तुमुद्यतः ॥ १२९ ॥ इति श्रीमाधवाचार्यविरचिने लघुमाधवे कालनिर्णयः समाप्तः ॥ बालादिविषये त्वाह--अपराहण इति । एवमेव मात्स्यवचनम् । समर्थस्य निषिद्धकालभाजने तु त्रिरात्रेणैव शुद्धिगिति । चन्द्रस्य प्रस्तोदये विशेषमाह वृद्ध वसिष्ठ:--ग्रस्तोदये विधोः पूर्व नाहीजनमाचरदिति । तदाह---ग्रस्तोदय इति । ग्रस्तास्तमये विशेषमाह भूगः-- ग्रस्तावेवास्तमानं तु रवीन्द प्राप्नुतो यदि । तयाः परेद्यरुदये स्नात्वाऽभ्यवहरेन्नरः ॥ इति । तवाह--ग्रस्तावेवेति । पापक्षयकामस्य ग्रहणदिन उपवास उक्तो दक्षेण-- अयने विषुव चैव ग्रहण चन्द्रसूर्ययोः । अहोराबोषितः स्नात्वा सर्वपापः प्रमुच्यते ॥ इति । पुत्रवतो निषेधमाह नारद:--संक्रान्तावपवासं च कृष्णकादशिवासरे । चन्द्रसूर्य- ग्रहे चैव न कुर्यात्पुत्रवान्गृहीति । वागविशेषयोगे फलातिशयमाह व्यासः--- रविग्रहः सूर्यवार सोम सोमग्रहस्तथा । चडामणिरिति ख्यातरतत्र दत्तमनन्तकम् ॥ इति । ध्यासः---सर्व गङ्गासमं तोयं सर्वो ब्रह्मसमा द्विजः । सर्व भूमिममं दान ग्रहणे चन्द्रसूर्ययोरिति ॥ १२३ ॥ १२४ ॥ ग्रहणपूर्वापरदिनेषु विवाहादिवर्जनं स्मृतावुक्तं तद्दर्शयति--त्रयोदश्यादित इति । एतवपादं दर्शयति-नित्ये नैमित्तिक इति ॥ १२५॥ १२६ ॥ १२७ ॥ १२८ ॥ १२९ ॥ इति श्रीमद्धर्मशास्त्रपारावारीणतत्सद्रामचन्द्रभटटात्मजभटटवैद्यनाथसूरिकृते कालमाधवीयकारिकाविवग्णे पञ्चमं प्रकरणं संपूर्णम् । समाप्तः समभूग्रन्धश्च ॥ --
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.