Library
Kaavyaratnan'
Front matter
UNIVERSAL
LIBRARY
OU_184374
LIBRARY
UNIVERSAL
No text on this page.
No text on this page.
OSMANIA UNIVERSITY LIBRARY
Call No. S8
Accession No.G.8llä
Abak
Author Asetadddosos.
Title kavyaratia
This book should be returned on or before the date
last marked below.
No text on this page.
WENI
M.
TRIVANDRUM SANSKRIT SERIES.
NO, CVII.
Sri Setu Laksmi Prasadamala.
No. XIX.
HOUSE ROSE
Borsa
काव्यरत्नम् ।
KAVYARATNA
OF
ARHADDÁSA
EDITE!. BY
81
1. SĀM BASIVA SASTRI,
69 K
Curator of 1
Olien'
PUBLISHI
HER HIGHAFSS 11!llit
IST OF
1 TRAXCORE
TRIVANDRUM, PRINTED BY THE SUPERINTENDEN, GOVERNMENT PRESS. 14931
No text on this page.
No text on this page.
No text on this page.
अनन्तशयनसंस्कृतग्रन्थावलिः।
ग्रन्थाङ्क: १०७.
श्रीसेतुलक्ष्मीप्रसादमाला
प्रन्थाङ्क: १९.
अहंहासविरचितं
मुनिसुव्रतकाव्यं नाम
काव्यरत्नं
प्राचीनग्रन्थप्रकाशनकार्याध्यक्षेण
के. साम्बशिवशास्त्रिणा
संशोधितम् ।
अनन्तशयने
महामहिमश्रीसेतुलक्ष्मीमहाराज्ञीशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशितम्
*
कोलम्बामा: : १०६. ऊस्ताब्दाः १९३१.
No text on this page.
PREFACE. It is a matter for gratification that we have been able to enrich the Trivandrum Sanskrit Series by the publication of the Munisuvrata Kávya, a work dealing with the life of Munisuvrata, a Jain Tirthankara, by a Jain poet Arhaddasa, as it is our desire that the Series should include in it the works on all the great religions in India. The work contains 10 Sargas and the title of the poem is inscribed at the commencement of the manuscript as Munisuvrata Kávyil. But it is clear from the stanza, "यद् वर्ण्यते जैनचरित्रमत्र चिन्तामणिर्भव्यजनस्य यश्च । हृद्यार्थरवैकनिधिः स्वयं मे तत् काव्यरत्राभिधमेतदस्तुः ॥” (P. 4). that the title of the poem intended by the poet is Kavyaratna. It is possible to infer from the stanzas, "अहंहास: सभक्त्युलसितमवसितं भूधरे तत्र कृत्वा कल्याणं तीर्थकर्तुः सुरकुलमहितः प्रापदात्मीयलोकम् । अर्हहासोऽयमित्थं जिनपतिचरितं गौतमस्वाम्युपशं गुम्फित्वा काव्यबन्धं कविकुलमहितः प्रापदुचैः प्रमोदम् ॥" "धावन् कापथसंभृते भववने सन्मार्गमेकं पर त्यक्त्वा श्रान्ततरश्चिराय कथमप्यासाच कालादमुम् । सद्धर्मामृतमुद्धृतं जिनवचः क्षीरोदधेरादरात् पायंपायमितश्रमः सुखपदं दासो भवत्यर्हतः ॥" (P. 76). that the name of the poet is Arhaddāsa and that it is a title obtained by him in virtue of his great devotion for the Arhat'. It would be evident to all Sahrdayas that this poem of Arhaddása is a delightful composition like the poems of Kalidāsa. It has not been possible for us to gather any further information about this great poet. An index to all principal topics dealt with in the poem has been prepared and appended.
In the stanza, "श्रीमल्लिनाथगणिनाथ तदीरितेन पृष्टः समस्तविदसौ मिजगाव तत्वम् ।" (P. 73). it is said that the revered teacher Munisuvrata explained the Tattva to Mallinātha and this statement is in obvious contradiction to the statements of Mrs. Sinclair Stevenson M A., Sc. D. and Jagmander Lal Jaini M. A. The former observes :-"The nineteenth Tīrthařkara (Mallinatha) is the most interesting of all (vide page 56, The Heart of Jainism), and the latter also mentions Mallinātha as the 19th and Munisuvrata as the 20th Tīrthankaras (vide table attached after page 6, "Outlines of Jainism”). Thus both of them consider Mallinātha to be the 19th Ācārya and the predecessor of Munisuvrata. If the Mallinātha of our Arhaddāsa who is desirous of receiving instruction at the hands of Munisuvrata, the exponent of Tattva, is the same as the Mallinātha of the above mentioned scholars, then he could only have been a contemporary and not the predecessor. A palm leaf manuscript belonging to the Raja of Chirakkal anil a transcript belonging to the Adyar Library, Madras, have been utilized for the publication of this work and we express our gratitude to the owners of these manuscripts for their kindness in placing them at our disposal. Trivandrum, 15-12-1106.) K. SAMBASIVA SASTRI.
निवेदना। महाकविश्रीमदहहासविरचितमिदं श्रीमुनिसुव्रतकाव्यं नाम काव्य- रत्नं किमप्यनर्घ रत्नमस्मत्पौरस्त्यग्रन्थमालायाः । अखिलमतीयग्रन्थजातमम - त्सरमाविष्कर्तुमनसामस्माकमस्य रत्नस्य प्रकाशनं मन्ये धन्यतायाः कोऽपि प्र- कटनापर्यायः । जिनाचार्यवर्यस्य श्रीमुनिसुव्रतस्य चरितवर्णनपरमिदं दशसर्गी सम्पुटितं काव्यं मातृकायामादौ श्रीमुनिसुव्रतकाव्यनाम्ना समुचितमेव समुत्तसितं दृश्यते । "यद् वर्ण्यते जैनचरित्रमत्र चिन्तामणिभव्यजनस्य यच्च । हृद्यार्थरत्नैकनिधिः खयं मे तत् काव्यरत्नाभिधमेतदस्तु ॥" (श्लो० ० २०. स० १. पृ०४) इति श्लोकेन कविसम्मतमस्याभिधानं काव्यरत्नमिति स्पष्टम् । अर्हदासः स भक्त्युल्लसितमवसितं भूधरे तत्र कृत्वा कल्याणं तीर्थकर्तुः सुरकुलमहितः प्रापदात्मीयलोकम् । अहंद्दासोऽयमित्थं जिनपतिचरितं गौतमस्वाम्युपशं गुम्फित्वा काव्यबन्धं कविकुलमहितः प्रापदुच्चैः प्रमोदम् ॥ धावन् कापथसम्भृते भववने सन्मार्गमेकं परं त्यक्त्वा श्रान्ततरश्चिराय कथमप्यासाद्य कालादमुम् । सद्धर्मामृतमुद्धृतं जिनवचःक्षीरोदधेरादरात् पायंपायमितश्रमः सुखपदं दासो भवत्यर्हतः ॥" (श्लो० ६३, ६४. स० १०. पृ० ७६) इति पद्याभ्यां कविनामधेयमर्हदास इति, तच्चाहद्भक्तिमहिमातिशयात् काव्य- रचनानिपुणमतेरस्य बिरुदसम्पन्नमिति च शक्यमभ्यूहितुम् । सर्वथा दासोत्तरोऽयं महाकविः श्रीकालिदासवद् रघुवंशादिनानेन काव्यरत्न सहृदयोल्लासी विजयत इत्यनुभवसाक्षिकोऽयं समाचारः । तमिमं कविमईहासं प्रति न किश्चिदन्यद् विज्ञातुं पारितम् ।
२ - इहत्यान् मुख्यान् विषयान् संक्षिपती काचन सूची चरितजिज्ञासूनामुप- काराय साकमनेनैव सम्पुटेन मुखतः सङ्घटिता । तदिशा दशमसर्गीयाष्टाचत्वा- रिशंश्लोके "श्रीमल्लिनाथगणिनाथ तदीरितेन पृष्टः समस्तविदसौ निजगाद तत्त्वम् ।" इत्यंशेन श्रीमल्लिनाथगणिने भगवता मुनिसुव्रतेन तत्त्वनिगदनमुपवर्ण्यमानं, मिस्सिस्. सिन्क्लेयर स्टीवन्सन् एम्. ए., एस्सि. डि., जग्मन्द- रलाल् जयिनि एम्. ए. इत्यनयोः पण्डितयोरभिप्रायेण विरुध्यमानं दृश्यते । तयोर्हि - मिस्सिस्. सिन्क्लेयर स्टीवन्सन् एकोनविंशोयं सर्वामिनन्द्यमहिमा तीर्थकरो मल्लिनाथः, विंशश्च मुनिसुव्रतस्तादृश इति (The Ileart of Jainism. p. 56) जग्मन्दलाल् जयिनि एम्. ए. चतुर्विशतौ तीर्षकरेषु सुप्रसिद्ध एकोनविंशो मल्लिनाथो विंशश्च मुनिसुव्रत इति 7 Hard ( Table attached after page 6. Outlines of Jainism.) यदि च मुनिसुव्रतात् तत्त्वाख्यातुरुपदेशलिप्सुरस्मदर्हदासीयम- लिनाथः पूर्वोक्तपण्डिताभिमतश्चाभिन्नावभविष्यतां, तदा समसमयजीवि. तावश्यम्भावेन प्राक्तनतावादो न मनागपि समगंस्यतेति विरोधोऽयं दुष्परिहर एव। अस्य रत्नस्य प्रकाशनोपयोगि परिशोधनघर्षणं बहुमान्यश्री-चिरकल्- राजसम्बन्धिनी तालपत्रामिका, मद्रनगरस्थ-अडयाग्रन्थशालीयां पत्रा- त्मिकां च द्वे मातृके निकषहषदावाश्रित्य साधितम् । अतस्तदुभयस्वामिभ्यां कृतज्ञतानिवेदनपुरस्सरमिदं ग्रन्थमालायामुपगुम्भ्य महद्भ्य उपहरामि । अनन्तशयनम्, के. साम्बशिवशास्त्री. १५-१२-११०६. १०६.}
Pnd
॥श्रीः॥
श्रीपद्मनाभसेवि-
न्यखिलश्रीवर्धनी महाराज्ञी ।
श्रीसेतुलक्ष्म्यभिख्या
प्रत्यक्षा जयति वश्चिभूलक्ष्मीः ॥
ग्रन्थावलिरियमिन्धे
प्रसाधिता तत्प्रसादगुणगुम्फा ।
श्रीसहितसेतुलक्ष्मी-
प्रसादमाला सुवर्णमणिचित्रा ॥
लाज
लाज
No text on this page.
मुख्यविषयाः । सगें सो० विषयाः. १. 2. २३ &c. ४. ६. ४३. ११. काव्यकथाया मूलम् २०,२१. काव्यनामधेयम् १२,१३. नायकजन्मवृत्तसूचनम् नायकमातुः स्वप्नदर्शनम् नायकजन्मसमयः १०. अभिषेकः नामकरणम् १७. विवाहो राज्याभिषेकश्व ३१. राज्यपरिपालनकाल: गजराजवृत्तम् ३. नायकस्य वैराग्योत्पत्तिः ८. तनयं राज्येऽभिषिच्य प्रव्रजनम् १०. पाण्डुवनप्रवेशः नीलवने तपश्चर्या च १५. दीक्षाप्राप्तिसमयः ३५. दीक्षाकालपरिमाणम् ८. धनदेन शक्राज्ञया सभानयनम् सभायां मल्लिषेणगणिप्रार्थितेन भगवता तत्त्वोपदेशः ५९. भगवतः सम्मेदशैलप्राप्तिः ८. २. " " ९. १०.
No text on this page.
॥ श्रीः॥ ॐ नमः सिद्धेभ्यः । अर्हद्दासविरचितं श्रीमुनिसुबतकाव्यं नाम काव्यरत्नम्। प्रथमः सर्गः। श्रियं स वः श्रीवृषभो विशिष्याद् यस्यालिमालावृतवत् सभायाम् । बभौ नतेन्द्रोत्करमौलिनील- प्रभावलीलालितमब्जपीठम् ॥ १ ॥ चन्द्रप्रभं नौमि यदङ्गकान्ति ज्योत्स्नेति मत्वा द्रवतीन्दुकान्तः । चकोरयूथं पिबति स्फुटन्ति कृष्णेऽपि पक्षे किल कैरवाणि ॥ २ ॥ तमांसि हत्वा जगतः पदार्थान् प्रकाशयन्तं यमिव प्रदीपम ननाश मोहादभिपत्य कामः पतङ्गवच्छान्तिजिनं भजे तम् ॥ ३ ॥ अबोधकालोरगलीढमूढ- मबूबुधद्गारुडरत्नवद् यः । G.P. T. 1502,500. 12-9-1105.
काव्यरते
जगत् कृपाकोमलदृष्टिपातैः
प्रभुः प्रसद्यान्मुनिसुव्रतो नः॥४॥
त्रासादिदोषोज्झितमुहजातिं
गुणान्वितं मौलिमणिं यथैव ।
वृत्तात्मकं भावलयाभिरामं
कृतक्रियं मूर्तिं दधामि वीरम् ॥५॥
स्वार्थप्रकाशिद्युतयोऽशरीरा
रत्नप्रदीपा इव मे वसन्तु ।
तमःप्रहाण्यै हृदि दीप्यमानाः
कृताधिवासाः पवनान्तरेऽपि ॥ ६ ॥
निराकृतान्तस्तमसो निषेव्या
दिगम्बरैः सन्ततवृत्तदेहाः ।
सुनिर्मलाः साधुसुधांशवो मे
हरन्तु सन्तापमदृष्टपूर्वाः ॥ ७ ॥
रत्नत्रयात्मा सुचिराय धर्मः
सार्थेन नाम्ना महितः स जीयात् ।
यो धारयत्यच्युतधाम्नि मना-
नुद्धृत्य सत्त्वान् भववारिराशेः॥ ८॥
वीरादिव क्षीरनिधेः प्रवृत्ता
सुधेव वाणी सुधिया कलश्या ।
विधृत्य नीता विबुधाधिपैर्मे
निषेविता नित्यसुखाय भूयात् ॥ ९॥
प्रथमः सर्गः। भट्टाकलङ्काद् गुणभद्रसूरेः समन्तभद्रादपि पूज्यपादात् । बचोऽकलङ्क गुणभद्रमस्तु समन्तभद्रं मम पूज्यपादम् ॥ १० ॥ वीराकरोत्थं मुनिसार्थनीतं कथामणि श्रीमुनिसुव्रतस्य । सुवर्णदीप्रं नवयुक्तिरम्यं विदग्धकर्णाभरणं विधास्ये ॥११॥ सरस्वतीकल्पलतां स को वा संवर्धयिष्यन् जिनपारिजातम् । विमुच्य काझीरतरूपमेषु व्यारोपयेत् प्राकृतनायकेषु ॥ १२ ॥ गणाधिपस्यैव गणेयमेतद् भवामि चोधन भगवञ्चरित्र । भक्तीरितो नन्वगचालनेऽपि शक्तो न लोके ग्रहिलो न लोकः ॥ १३ ॥ मनः परं क्रीडयितुं ममैतत् काव्यं करिष्ये खलु बाल एषः । न लाभपूजादिरतः परेषां न लालनेष्छाः कलभा रमन्ते ॥ १४ ॥ श्रव्यं करोत्येष किल प्रबन्धं पौरस्स्यवन्नेति हसन्तु सन्तः ।
काव्यरने
किं शुक्तयोऽद्यापि महापरायं
मुक्ताफलं नो सुवते विमुग्धाः ॥ १५ ॥
प्रबन्धमाकर्ण्य महाकवीनां
प्रमोदमायाति महानिहैकः ।
विधूदयं वीक्ष्य नदीन एव
विवृद्धिमायाति जडाशया न ॥ १६ ॥
उपेक्षितारोऽपि फलन्त्यनिष्टा-
भीष्टानि यद् दुर्जनसज्जनास्तत् ।
वृथा कृता विश्वसृजा श्रमाय
विषद्रुकल्पद्रुमयोहि सृष्टिः ॥ १७ ॥
सन्तः स्वभावाद् गुणरत्नमन्ये
गृह्णन्ति दोषोपलमात्मकीयम् (?) ।
यथा पयोऽस्रं शिशवो जलूका
जनो वृथा रज्यति कुप्यतीह ॥ १८ ॥
तिक्तोऽस्ति निम्बो मधुरोऽस्ति चेक्षुः
स्वं निन्दतोऽपि स्तुवतोऽपि तहत् ।
दुष्टोऽप्यदुष्टोऽपि ततोऽनयो,
निन्दास्तवाभ्यामधिकं न साध्यम् ॥ १९ ॥
यद् वर्ण्यते जैनचरित्रमत्र
चिन्तामणिर्भव्यजनस्य यञ्च ।
हृद्यार्थरत्नैकनिधिः स्वयं मे
तत् काव्यरत्नाभिधमेतदस्तु ॥२०॥
५ प्रथमः सर्गः। यत् स्थापना नाम भुवं च कालं द्रव्यं च भावं प्रति षट्प्रकारा स्तुतिर्जिनस्य क्रियतेऽत्र तस्मात् काव्यं ममैतत् स्तुतिरेव भूयात् ॥२१॥ अथास्ति जम्बूविटपिच्छलेन द्वीपेषु गर्वोन्नतमस्तकस्य । द्वीपस्य भर्माभरणेऽत्र खण्डे रत्नायमानो मगधाख्यदेशः ॥ २२ ॥ यद्भूधरा भूतलसेव्यपादा भूपा इवाक्रान्तदिगन्तरालाः । इन्दन्ति मत्तद्विपकैरवाक्षि- कस्तूरिकाकाञ्चनरत्नखड्गैः ॥ २३ ॥ नगेषु यस्योन्नतवंशजाताः सुनिर्मला विश्रुतवृत्तरूपाः । भव्या भवन्त्याप्तगुणाभिरामा मुक्ताः सदा लोकशिरोविभूषाः ॥ २४ ॥ उत्तुङ्गगोत्रप्रभवा भवत्यो भजन्तु भूचक्रबहिष्कृतं किम् । इति स्रवन्तीरुदधिं सरन्ती- रवैमि यत्रालिगणो रुणद्धि ॥ २५ ॥ तरङ्गिणीनां तरुणान्विताना- मतुच्छपद्मच्छदलाञ्छितानि । १. 'वर्गोन' क. पाठः. २. 'देहाः।' ख. पाठः.
काव्यरले पृथूनि यस्मिन् पुलिनानि रेजुः काञ्चीपदानीव नखाश्चितानि ॥ २६ ॥ तमोनिवासेषु वनेषु यस्य मरन्दसा(र्दा ? न्द्रा)स्तरणेमयूखाः । स्फुरन्ति शाखान्तरलब्धमार्गाः कुन्ताः प्रयुक्ता इव शोणिताः ॥ २७ ॥ अभ्रंलिहाग्राणि वनानि यस्मि- नीयुर्धवं नाकतरं निकर्तुम् । को दानवारिप्रतिपन्नवृत्तेः क्षमेत सङ्कल्पितदानगर्वम् ॥ २८ ॥ पाकावनम्राः कलमा यदीयाः पदावनम्रा इव मातृभक्त्या । आघ्रायमाणाः स्वशिरस्सु भान्ति विकासिपद्माननया धरित्र्या ॥ २९ ॥ विभान्ति सस्यान्तरितानि यस्मिन् हेमारविन्दानि मधूल्बणानि । आपाययन्त्या इव शालिपुत्रा- नात्तानि धाच्याः करसेचनानि ॥ ३० ॥ यत्रेक्षुदण्डाः कुसुमाभिरामा वितन्वते पर्वचयाञ्चिताङ्गाः । मनोजराजस्य जगज्जिगीषो- रुच्चामरोड्डामरकुन्तलीलाम् ॥ ११ ॥ १. स्मिन् म'. २. 'चि' ख. पाठः.
प्रथमः सर्गः। भूदेवता यद्विभवं विलोक्य भूयोऽवधूतत्रिदिवं दधाति । निलीनभृगस्थलपद्मदम्भा- निष्पन्दताराणि विलोचनानि ॥ ३२ ॥ यस्योर्वरासारगुणस्य मूर्ताः पुञ्जा इवाभान्ति समन्ततोऽपि । तिलातसीकोद्रवमुद्माष- गोधूमवल्लक्षवशालिशैलाः ॥ ३३ ॥ यत्रार्तवत्त्वं फलिताटवीषु पलाशिताद्रौ कुसुमे परागः । निमित्तमात्रे पिशुनत्वमासी- निरोष्ठयकाव्येष्वपवादिता च ॥ ३४ ॥ स्त्रीणां कचे माल्यमुरोजभारे श्यामाननत्वं जघने जडत्वम् । अपाङ्गता केवलमक्षिसीम्नो- मध्यप्रदेशेषु च नास्तिवादः ॥ ३५ ॥ भुजङ्गमेष्वागमवक्रभावो भुजङ्गहारेऽप्यजिनानुरागः । ध्रुवं प्रदोषानुगमो रजन्याम् ( दिइ)नक्षयः सोऽपि दिनोवसाने ॥ ३६ ॥ तत्रास्ति सा राजगृहाभिधाना पुरी वनैः पृष्ठगतैरुदौः। १. 'माषमुद्गगो', २. 'वा' ख. पाठः, काव्यरत्ने पुरारिवैरप्रतिकारहेतो- यो मुक्तकेशव्रतमादितेव ॥ ३७ ॥ बहिर्वणे यत्र विधाय वृक्षा- रोहं परिष्वज्य समर्पितास्याः। कृताधिकारा इव कामतन्त्रे कुर्वन्ति सङ्गं विटपैर्ऋतत्यः ॥ ३८ ॥ आरामरामाशिरसीव केली. शैले लताकुन्तलभासि यत्र । सकुङ्कुमा निर्झरवारिधारा सीमन्तसिन्दूरनिभा विभाति ॥ ३९ ॥ कण्डूतिशान्त्यै निजकर्णमूलं सङ्घर्षयन्तः सरसीषु मीनाः । अम्भोजदण्डेषु विभान्ति यस्या- मालानदेण्डोष्विव हस्तिपोताः ॥ ४० ॥ वीथ्या हयानां दशया गंजानां श्रमैर्भटानां करणैर्नटानाम् । भुजाहतैर्मल्लगणस्य यस्या जयन्ति बाह्यालिभुवो विशालाः॥४१॥ अहो नु तीरद्रुमराजिराज- द्विचित्रपुष्पोद्गमबिम्बितानि । उतोल्लसत्पन्नगभोगरत्न- द्युतीनि यस्याः परिखाजलानि ॥ ४२ ॥ १. 'ने', २. 'बन्धेष्धि' क. पाठः.
प्रथमः सर्गः । माणिक्यकुम्भोज्ज्वलगोपुराणां रूपेण यां मूर्तिचतुष्टयाप्तः । आप्तः समालक्ष्य विलक्षमास्ते पूर्वाचलः कूटविभासिभास्वान् ॥ ४३ ॥ सुरापगापूरकृतान्तराणि शृङ्गाणि सालाग्रगतानि यस्याः। हैमानि हेमाम्बुरुहाणि बुद्ध्वा मुग्धा जिहीर्षन्ति सुरर्षिकान्ताः ॥ ४४ ॥ प्रतप्तचामीकरवैकृतानि प्राकारशीर्षाणि पुनर्न यस्याः । पत्या दिशां भित्तिषु लिप्तशेषाः प्रतापपिण्डा वियदङ्गणे ते ॥ ४५ ॥ उत्तोरणानां किल मन्दिराणा- मुघड्वजानामसमेषु यस्याः। धनुष्मतो वारिभृतः सशम्पान् निर्माय निर्माय नभः प्रमार्टि ॥ ४६ ॥ यच्चन्द्रकान्तोपलमन्दिराणां ज्योत्स्नाप्रवाहैः परिवाहिता द्यौः । कीडाधियामप्सरसां विधत्ते दिवा दिवा दिव्यसरःप्रमोषम् ॥ ४७ ॥ ताराफलायां वियदामलक्यां क्षेप्तुं व्रजन्तं नतदारुबुद्ध्या ।
१० काव्यरले यचन्द्रशालागतबालचन्द्र बालं हसन्ति स्फुटमीशदाराः ॥ ४८ ॥ नैतानि ताराणि नभस्सरस्याः सूनानि तान्याददेते सुकेश्यः । यदुच्चसौधाग्रजुषो मृषा चेत् प्रगे प्रगे कुत्र निलीनमभिः ॥ ४९ ॥ विकासिनेत्राशुभिरङ्गनानां विषक्तगात्रैरेवसक्तगात्राः। विलासिनां सूचिगृहान्धकारा वितन्वते यत्र सदा नियुडम् ॥ ५० ॥ सदा पठत्कोकिलनन्दनाढ्याः समुल्लसत्पाण्डुकभद्रशौलाः । जिनालयाः सौमनसालयास्ते जयन्ति मेरूनपि यत्र चित्रम् ॥ ५१ ॥ यत्राश्मगर्भार्कजिनालयत्विट - छन्ने भ्रमध्ये तपनो हठेन । दूर्वाम्बुबुद्ध्या द्रवदश्वरोध- क्लेशासहः किं कुरुतेऽयने हे ॥ ५२ ॥ चित्रं जिनेन्द्रावसथस्थलेषु प्रमोदबाष्पोदकपिच्छिलेषु । १. 'ध', २. 'रि', ३. 'सा' क. पाठः.
द्वितीयः सर्गः । भव्यैः किलोप्ताः सिततण्डुलौघाः फलन्ति यस्यां बहुशः फलानि ॥ ५३ ॥ देवीनां मणिगृहमध्यवर्तिहैम- प्रासादे सदलसकर्णिकाम्बुजाभे । आवासे यदधिभुवः कृताधिवासा श्रीरासीद् ध्रुवमरविन्दमन्दिरा सा ॥ ५४ ॥ इत्यहंदासकृतौ काव्यरत्ने भगवदभिजनवर्णनो नाम प्रथमः सर्गः॥ : अथ द्वितीयः सर्गः। अथाभवत् तस्य पुरस्य राजा सुमित्र इत्यन्वितनामधेयः । क्रियार्थयोः क्षेपणपालनार्थ- द्वयादसत्सद्विषयात् सुपूर्वात् ॥ १ ॥ यं राजशब्दासहमन्यपुंसि श्रुत्वा भयाव्यः सुखरोचिरासीत् । स्तुतिप्रसक्ताः कवयो बभूवु- यक्षोऽपि सत्यं धनदो बभूव ॥ २ ॥ कोपारुणेऽप्यक्षणि यस्य चित्रं सकञ्चुकैः कुण्डलिभिः सनाथम् । शिवास्पदं काञ्चनवज्रपूर्ण बभूव सर्व नगरं रिपूणाम् ॥ ३ ॥ १. 'लास्ते फं' क. पाठः.
१२ . काव्यरत्ने प्रयाणभेरीश्रवणेन यस्य पलायमानानरिभूमिपालान् । पदाभिघाताक्षमयेव सद्यः प्रकाशयामास समीरकेतुः ॥ ४ ॥ येनासिना युद्धशिरस्यरीणां साङ्ग(च्छि ? च्छ)दे चैर्मणि रक्तधारा । विनिर्यती तेन पथा व्यराजी- दुहूतकोपाग्निशिखेव तेषाम् ॥५॥ रणेषु खड्गः करिकुम्भमुक्ता- संपृक्तधारोऽनुचकार यस्य । विदारिते वक्रबिले विधातु- विधुन्तुदस्येन्दुकुटुम्बकानाम् ॥ ६ ॥ कृपाणभिन्नैयुधि वैरिवीरै- विभिन्नबिम्बे सति यस्य भानौ । स्वयं भयेनैव बभूव भिन्नः शशी नचेदद्य बिली किमेषः ॥ ७ ॥ बाहौ यदीयेऽर्थिसुरद्रुमेऽपि मन्येऽसियष्टिं विषवल्लिमन्याम् । नो चेत् तया वैरिणि वेष्टयमाने किं तेपिरे तस्य कुटुम्बकानि ॥ ८ ॥ यस्य प्रतापाग्निशिखावलीढं सर्व जगत् सत्यमिदं वदामि । १. 'व' क. पाठः.
द्वितीयः सर्गः । २३ नेदं द्विषो यं यमगुः प्रदेशं तप्ता बभूवुः किमु तत्र तत्र ॥९॥ यस्यासिधाराविनिपातभीता- स्त्यजन्तु पद्माकरसङ्गमानि । विमुक्तवन्तः किल राजहंसाः स्वमुत्तराशाश्रितमानसं च ॥१०॥ तेजोनले व्याप्तसमस्तकाष्ठे तत्र स्थितिं कर्तुमशक्नुवानाः । यस्यारयो वारिधिवासमापु- नचेत् तथा के किल वारिमाः ॥ ११ ॥ उपायनाश्वेभखुरप्रहार- मदाम्बुनिम्नीकृतपूर्णमध्यम् । रत्नाङ्कणं यत्सदसो विशालं क्रीडासरोवद् विरराज लक्ष्म्याः ॥ १२ ॥ प्राणेश्वरी तस्य बभूव राज्ञः पद्मावती नाम नरेन्द्रकन्या । ययाधिविन्नाजनि भूतधात्री या चाधिविन्नाजनि भूरिलक्ष्क्ष्या ॥ १३ ॥ लावण्यवाराशितराङ्गकल्प- लतां नृपस्त्रीमवलोक्य शङ्के । १. 'मन्ये' । ' ख. पाठः.
५ काव्यरत्ने तत्काम्ययाचापि करोति लक्ष्मी- स्तपोऽम्बुमध्ये कमलासनस्था ॥ १४ ॥ निशाकरस्फेटनिभानि तन्व्या नखानि पादाङ्गुलिसङ्गतानि । जगजिगीषोर्मकरध्वजस्य प्रपेदिरे खेटकभल्लकत्वम् ॥ १५ ॥ स्वर्गापगारक्तसरोरुहाणां सजातमेतहयमित्यवैमि । सुराङ्गनानां कथमन्यथा स्तां चिराय सेव्यौ चरणौ मृगाक्ष्याः ॥ १६ ॥ सपर्वरम्भासदृशोस्तदूर्वोः सजङ्घयोरङ्गजकाहला का । कियांश्व पश्चायुधपृष्ठतूणः कियत्तरौ मन्मथदन्तिदन्तौ ।। १७ ।। परिस्फुरत्काञ्चनकाश्चिबन्धं निषद्धनीवीविलसद्दुकूलम् । कलत्रभारं कलिकायुधोऽस्या- श्वकार वास्त्रं किल चक्रयानम् ॥ १८ ॥ वलित्रयत्रासतरङ्गितेऽस्या विलग्नसौन्दर्यमहाम्बुराशौ । उपर्युदस्तस्तनशैलतयों रराज सेतुर्नवरोमराजिः॥ १९ ॥ १. 'यस्त' क. पाठः.
१५ द्वितीयः सर्गः भुजायता चम्पकमालिका स्यात् कुचोन्नतः पङ्कजकुड्मलश्च । मृदुत्वकाठिन्यगुणौ मृगाक्ष्याः कथं दधीतोभयमप्युभय्याः॥२०॥ शुभेन रेखात्रितयेन तन्व्याः कण्ठः स्फुट कम्बुसमान एव । सुधासदार्टेण पुनः स्वरेण विपश्चिकाप्यञ्चत एव तस्य ॥ २१ ॥ यदब्जसौन्दर्यसखं मुखं च यदम्बके मीनविडम्बके च। नभःश्रियः साम्यमुपागता या सरःश्रियः साम्यमतो गता सा ॥ २२ ॥ त्रिलोकनारीतिलकस्य तस्याः क केशपाशस्य पुरो भवामः । इतीदमद्याप्यभिनेतुमेते सधूतयश्चामरवालहस्ताः ॥ २३ ॥ मनोजसंमोहनमन्त्रचिन्ता- फलं नु भूपालतपःफलं नु । जनेक्षणादृष्टफलं नु किञ्चि- न वेद्मि सृष्टेः कलशाकृतिः सा ॥ २४ ॥ निर्मूलिताशेषविपक्षकक्षो निराकुलीभूतसमस्तभूतः। २ १. 'मुपाग', २. 'ष्टिः' क. पाठः.
काव्यरत्ने युवा स पुष्पायुधबाणकोण- व्यधात् परं व्याकुलमानसोऽभूत् ॥ २५ ॥ कुलागते वर्मणि दृष्टशौचे से मन्त्रिवर्गेऽर्पितराज्यभारः। तया समं मन्मथशासनानि बभार भावातिमनोहराणि ॥ २६ ॥ अगायदेषा स ततान तान- मनृत्यदेषा स तताड तालम् । अवादयद् वल्लकिकामथैषा स वल्लकीवानुजगौ द्वितीया ॥ २७ ॥ सह प्रयातौ दयितौ वनान्तं सह प्रियौ केलिसरः प्रविष्टौ । सहाधिरूढौ रमणौ च दोला सह स्थितौ सौधशिरस्सु कान्तौ ॥ २८ ॥ उरोजयोरेणमदेन तन्व्याः कुतूहली यं मकरं लिलेख । विभावयामास स भावयोनेः स्थूलाग्रजाग्रन्मकरध्वजस्य ॥ २९ ॥ सखीसभायां चतुरङ्गकेली चुचुम्ब संरक्षितुमाहतस्य । हयस्य याच्ञाकपटेन कामी मुहुर्मुहुः स्मेरमुखी कपोले ॥ ३० ॥ m १. 'ई' ख. पाठः. २. 'सु' क. पाठः.
१७ तृतीयः सर्गः। मुक्तागुणच्छायमिषेण तन्व्या रसेन लावण्यमयेन पूर्णे। नाभिहदे नाथनिवेशितेन विलोचनेनानिमिषेण जज्ञे ॥ ३१ ॥ अमर्षणायाः श्रवणावतंस- मपाङ्गविद्युहिनिवर्तनेन । स्मरेण कोशादवकृष्यमाणं रथाङ्गमुवीपतिराशशङ्के ।। ३२ ॥ रहस्सु वस्त्राहरणे प्रवृत्ताः सहासगर्जाः क्षितिपालवध्वाः । सकोपकन्दर्पधनुःप्रमुक्त- शरीघहुङ्काररवा इवाभुः ॥ ३३ ॥ इति किलाभिमतौ सुरदम्पति- प्रतिमरूपकलागुणशालिनौं । विविधकेलिरसैः कृतसम्मदैः सफलतां युवतामुपनिन्यतुः ।। ३४ ॥ इत्यहहासकृतौ काव्यरत्ने भगवपितृवर्णनो नाम द्वितीयः सर्गः॥ अथ तृतीयः सर्गः। एषैकदा तु नवकल्पलतेव भूयो। भूयः प्रपन्नऋतुकापि फलेन हीना । १. 'किल स' क. पाठ:.
१८
काव्यरत्ने
आलोक्य केलिकलहंसवधूं सगी
दध्यौ धराधिपवधूरिति दीनचेताः॥१॥
आः पुष्पितापि विफलेव रसालयष्टिः
सेनेव नायकगतापि जयेन शून्या ।
काले स्थितापि धनराजिरवर्षणेव
मिथ्या दधामि हतकुक्षिमदृष्टतोका ॥ २ ॥
चिन्ताभरादिति वहन्नयनोदकां तां
कान्तोऽनुसद्य करपल्लवदत्तगण्डाम् ।
व्यग्रीभवत्परिजनादवगम्य सर्व.
माश्वासयत्युचितसूक्तिरसेन यावत् ॥ ३ ॥
तावत् तमम्बरतलादवतीर्य देव्यो
मित्रं दिने नमितया रमया समेतम् ।
मुक्त्वा श्रिया सततसङ्गतया सनाथं
भक्तुं सुमित्रमिव दीधितयोऽधिजग्मुः ॥ ४॥
भूपोऽथ जीवजयनन्दपदास्पदास्या-
स्ताः प्राञ्जलीरभिनिरीक्ष्य विलक्षचक्षुः ।
प्राप्तासनेषु विनिवेश्य मुदेदमूचे
प्राप्ताः किमत्र सुरलोकसुखैकसाराः ॥५॥
आकर्ण्य वाचमिति तस्य सुराङ्गनाभिः
श्रीरीरिताकथयदागमहेतुमेवम् ।
मन्दस्मितद्विगुणमञ्जुलवाक्प्रसूनै-
वय॑त् फलं क्षितिपतेरिव सूचयन्ती ॥६॥
२ तृतीयः सर्गः । १९ भूपार्यखण्ड इह भूविदितेऽङ्गदेशे चम्पापुरे नृपवरो हरिवर्मनामा । आसीद् यशःकवचितावनिरस्रधारा- संप्लावितारिनृपतद्वनितावितानः ॥ ७ ॥ ज्ञात्वा जिनाजननदुःखमनन्तवीर्या- देषोऽवगीतभवभोगशरीररोगः । मत्वा तृणाय निजराज्यपदं मनीषी तत्पादयोः किल बभार जिनेन्द्रमुद्राम् ॥८॥ सन्त्यक्तसर्वविषयोऽप्यवरोधमुक्तो- ऽप्येकाक्षरक्षणपरोऽप्यनिशं यतीशः । संभक्तसर्व विषयोऽजनि सावरोधः पश्चाक्षनिग्रहपरः परमेष चित्रम् ॥ ९॥ कुर्वस्तपो जिननिरूपितलक्ष्मलक्ष्मी- भूतं प्रभूतविनयो विविधं मुनीन्द्रः । एकादशाङ्गकुशलोऽजनि हेतुयुग्म- सामग्र्यसञ्जनिततीर्थकरत्वपुण्यः ॥ १० ॥ अन्ते समाधिविधिसात्कृतदेहभारः स्वः प्राणते तदभिधानविमानमध्ये । स प्राणतेन्द्र इति सेन्द्रपतिर्बभूव लोकेषु तप्ततपसां किमसाध्यमस्ति ॥ ११ ॥ मासानतीत्य षडयं गुडनिर्विशेषी- भूतेतविंशतिनदीपतिसम्मितायुः । १. 'म्बा', २. 'दी', ३. 'नो' क, पाठ:. १. 'ज' ख. पाठः, ३ ४ २० काव्यरत्ने सूनुर्भविष्यति च तेऽतुलपुण्यराशे- स्तीर्थस्य विशतितमो भविता च कर्ता ॥१२॥ तस्माद् वयं जिनपतेर्भुवनैकवन्द्य- पादारविन्दयुगलस्य भविष्यतोऽग्रे। दास्यं विपुण्यजनदुर्लभमद्य याता मातुर्विधातुममरेश्वरशासनेन ॥ १३ ॥ इत्थं तदीयमुखचन्द्रमसः समुद्यद्- वाक्चन्द्रिकां श्रुतिपुटेन निपीय सद्यः । चेतस्यवाप चपलेक्षणया समेतो भूपश्वकोर इव भूरितरप्रमोदम् ॥ १४ ॥ भूमीपतेरनुमताभिरथामराणां भ्रूवल्लरीविलसनेन विलासिकाभिः । भूपालमौलिदयिता भृतसंमदाभि- भूलोकसेव्यचरणाम्बुरुहा सिषेवे ॥ १५ ॥ साधः कयापि विधृतस्य सुरेन्द्रनील- च्छत्रस्य चारुवलयस्य महौषधीव । रेजे प्रकाण्डरुचिरस्य सुरद्रुमस्य धारान्तरस्य च घनस्य तटिल्लतेव ।। १६ ॥ दिव्याङ्गनावधुतचामरलालिताना तिष्ठन्त्यसावरुचदुन्नतरत्नपीठे । लक्ष्मीः सुधाब्धिचटुलोमिहतेव शेषे चान्द्री कलेव शरदभ्रचितोदयाद्रौ ॥ १७ ॥ १ १. 'स' ख. पाठः.
तृतीयः सर्गः । सा कुङ्कुमेन परया कुचयोविलिप्ता कर्पूरक्लुप्ततिलका निटिले चकाशे । संबद्धकुन्तलभरा शिरसि द्विरेफ- व्याप्तेव पल्लवितपुष्पितकल्पवल्ली ॥ १८ ॥ तस्याः शिरोरुहभरे विनियोज्यमानं कृष्णं कयापि चमरीरुहमाबभासे । तापिञ्छकच्छमुपसर्पदिवान्धकारं नीलाब्जकुञ्जमुपयन्निव भृङ्गराशिः ॥ १९ ॥ कर्पूरमौक्तिकखगेन्द्रमणिप्रक्लुप्तै- स्ताटङ्कहारवलयरपरोपनीतैः । डिण्डीरितः क्वचन बुबुदितः परत्र शैवालितः क्वचिदहो सुषमाब्धिरस्याः॥२०॥ वामे फलव्यवहिते व्यरुचत् कुचोऽन्य- स्तन्त्रीविवादनचलस्त्रिदशाङ्गनायाः। वक्रेन्दुना सहचरीमभिशङ्कय याता- मुत्कम्पमान इव कान्तिझरीरथाङ्गः ॥ २१ ॥ ताभिर्यथावसरमित्थमुपास्यमाना सानीततुर्यवसना किल तीर्थतोयैः । शुभ्राम्बराभरणमाल्यविलेपना च शिश्ये सुखेन रमणेन समानतल्पा ॥ २२ ॥ नागं वृषाधिपगजारिरमाश्च माले चन्द्रार्कमीनयुगकुम्भयुगानि वापीम् ।
२२ काव्यरत्ने अम्भोनिधिं च हरिपीठविमानभोगि. स्थानानि रत्ननिकरं च विधूमममिम् ॥ २३ ॥ स्वप्नेऽथ सा सदृशताप्रणयादिवेता- नेतान् गजेन्द्रगतिरात्तवृषाधिपत्वा । शातोदरी सविभवा सुकुमारगात्री चन्द्रानना सकलविष्टपसेव्यपादा ॥ २४ ॥ मीनेक्षणा घटकुचा हृदनिम्ननाभि- र्गाम्भीर्यपर्यवसितिः सुनितम्बपीठा। मानोन्नता च कृतभोगिपतिप्रमोदा चेतस्विरत्नममला क्रमशो ददर्श ॥ २५॥ राज्ञी विबुध्य सुरवल्लभिकासुगीतैः कादम्बिनीकलकलैरिव केकिकान्ता । उत्थाय तल्पतलतः सुसमाप्य कृत्यं प्राभातिकं सपदि वल्लभमाससाद ॥ २६ ॥ अर्धासने प्रियनिवेशितवल्लभायै स्थित्वा क्षणं श्रुतिसुखं विनिवेदितायाः । स्वप्नावलेरिति जगाद फलं कुचान्ते दन्तार्चिषा विरचयन्निव चर्चिकां सः ॥ २७ ॥ नागेन तुङ्गचरितो वृषतो वृषात्मा सिंहेन विक्रमधनो रमयाधिकश्रीः । नग्भ्यां धृतश्च शिरसा शशिना क्लमच्छित सूर्येण दीप्तिमहितो झषतः सुरूपः ॥ २८ ॥ कल्याणभाक् कलशतः सरसः सरस्तो गम्भीरधीरुदधिनासनतस्तदीशः ।
तृतीयः सर्गः। २३ देवाहिवासमणिराश्यनलैः प्रतीत- देवोरगागमगुणोद्गमकर्मदाहः ॥ २९॥ एवंविधस्तव भविष्यति तीर्थकर्ता पुत्रो जगत्रयविनेयजनकमित्रम् । मामरोरगखगप्रमदातिशायि- पुण्यातिशायनघनायितचारुमूर्ते ! ॥ ३०॥. एतन्निशम्य वचनं रुचिर्तस्य देवी रोमाञ्चकञ्चुकितचञ्चुरगात्रयष्टिः । आकर्णितान्यभृतमजुरवा वनान्ते माकन्दवल्लिरिव कोरकिता बभूव ॥ ३१ ॥ देवोऽथ पूर्वगदितस्त्रिदिवादुपेतो देव्या वपुः करिवपुर्वदनादविक्षत् । पक्षेऽपरे नभसि मासि तिथौ द्वितीये योगे शिवे श्रवसि भे विरतौ रजन्याः॥ ३२॥ विज्ञायासनकम्पतः सुरपतिस्तस्यावतारं प्रभोः स्वर्गादेत्य चतुर्विधैः सह सुरैरस्याम्बिका कल्पजैः आकल्पाम्बरगन्धमाल्यनिवहैरभ्यर्च्य नामं स्तवं गानं नर्तनमारचय्य जनकं चाहत्य भूयो गतः॥३३॥ इत्यर्हहासकृतौ काव्यरत्ने भगवद्गर्भावतरणवर्णनो नाम तृतीयः सर्गः ॥ १. 'र' क. पाठः.
२ अथ चतुर्थः सर्गः। न्यग्रोधशाखेव रराज सान्द्र- च्छायो दधाना पुरुषोत्तमं तम् । पत्रोदरेऽथार्तवमुष्णशीत- मुच्चैःस्तनीयं नुदती प्रियस्य ॥ १ ॥ सा गर्भिणी सिंहकिशोरगर्भा गुहेव मेरोरमृतांशुगर्भा । वेलेव सिन्धोः स्मृतिरत्नगर्भा रेजेतरां हेमकरण्डिकेव ।। २ ॥ वल्ली वसन्तात् सरसी धनान्तात् सम्पन्नयाच्चन्द्रमसोऽब्धिवेला। यथा तथाजायत सा कृशाङ्गी गर्भार्भकादुज्ज्वलरूपसम्पत् ॥ ३ ॥ अिनस्य माहात्म्यपदेन हृष्टौ सामीप्यलाभेन कुचौ तदीयौ । न बभ्रतुः श्यामलतां मुखेऽल्पा- मप्येष नो हर्षयतीह कांस्कान् ॥ ४ ॥ सुतस्य गम्भीरतरस्य सङ्गात् तस्योदरिया अपि राजपन्याः । नाभिर्न तत्याज गभीरभावं गुणं त्यजेत् को गुणिसङ्गमेन ॥ ५ ॥ m- १. 'य', २. 'री' क. पाठः, ३. 'ण्ड' ख. पाठः, २५ चतुर्थः सर्गः। गर्भेऽपि बोधत्रयमायकोऽयं- मितीदमावेदयितुं किलास्याः । बलिप्रभावाद् वलयो न नष्टाः सनाभिनाशं भुवि के सहन्ते ॥ ६ ॥ तत्सङ्गमे सर्वसमृद्धितौ निरन्तरं सत्यपि कुक्षिरस्याः । समृद्धिमल्पामपि न प्रपेदे भाग्यानुसारीणि फलानि कामम् ॥ ७ ॥ स्मरज्जनानामपि माशयन्त- मन्तस्तमों मूतनरत्नदीपम् । साक्षाद् दधत्या जिममन्तरस्थाः स्पष्टुं तमो नष्ट मियेव जातु ॥ ८ ॥ गर्मस्य लिङ्गं परमाणुकल्प- मप्येतदङ्गेष्वनवैक्ष्य रक्षी। जगवयोडारणदोहदेन परं नराणां बुबुधे ससत्त्वाम् ॥ ९ ॥ सम्बन्धदुःखाखिलजीवमुक्ते- हैंतु तमक्षार्थगतस्पृहं च । प्रसोबती तेन समाभवत् सा- प्युपाधिवत् स्वच्छतरं हि वस्तु ॥ १०॥ गुणान्वितोऽपास्ततमःप्रपञ्चः प्रकार्शितात्मेतरवस्तुरेषः। १. 'म' क, पाठ.. ----- २६ काव्यरत्ने बभौ जिनेन्द्रो जठरे जनन्या दीपो यथा स्फाटिकपात्रमध्ये ॥ ११ ॥ तद्गर्भवासे निवसन्नपीशः स भास्वराङ्गो निहतान्धकारः । तत्याज बोधत्रितयं न तेज- स्त्यजेत् करण्डेऽपि मणिमहाघः ॥ १२ ॥ मासाने पुरे पञ्चदशानुसन्ध्यं बन्धुर्महेशस्य बसून्यवर्षत् । सौधा यदंशुच्छुरिता विरेजुः शैला यथा कर्बुरिताभ्रलिप्ताः ॥ १३ ॥ स्वनामसार्थीकरणाय भक्ति- च्छलेन गत्वातिबलेन राज्ञा । विधित्सितं पुंसवनादिकर्म पुरैव शक्रः स्वयमस्य चक्रे ॥ १४ ॥ मुग्धामरीगानसुधानिपान- मुदश्छलान्मीलितचक्षुरेषा । विचिन्वती क्षेमवतोऽपि सूनोः क्षेमित्वमायात् समयं प्रसूतेः॥ १५ ॥ अवाप्य चैत्रासितपक्षपूर्णा- मथो तिथि सश्रवणामसूत । असावहम्पूर्विकयेव सूनुं भानुं यदेवेन्द्रदिशा तदैव ॥ १६ ॥ १. 'तू' ख. पाठः. २., ३. 'थै' क. पाठः, ३ २७ चतुर्थः सर्गः। बभुः स्त्रियस्तं निहतान्धकारं नवोदितं विश्वजनैकमित्रम् । विलोकयन्त्यः सरसीव सौधे फुल्लाक्षिपद्मा इव पुष्करिण्यः ॥ १७ ॥ गृहान्तराले शशिकान्तभित्ति- विषैव निर्वान्ततमःप्रपञ्चे । सुराङ्गना कापि तदा प्रदीपा- नबोधयत् केवलमङ्गलार्थम् ॥ १८ ॥ हतान्धकारेऽपि शिशुप्रभावाद् गृहोदरे तद्युतिपूर्णमेतत् अजानती काचन रत्नदीपा- नतिष्ठिपद् भक्तिभरेण मुग्धा ।। १९ ।। अरिष्टहर्म्यस्य सवज्रवेदे- बोलाङ्गनीलद्युतिपूरितस्य । मध्ये विरेजुर्नवदीपमाला माला मणीनामिव वारिराशेः ॥ २० ॥ कुमारजन्मादिमवार्तकर्ने कृताङ्गभूषो हृषितः क्षितीन्द्रः। विधूतपत्रोद्गतकोरकस्य विधामधान्नीपतरोर्मुहूर्तम् ॥ २१ ॥ गन्धाम्बुसिक्ता विरजाः पुरश्रीः श्रीखण्डपङ्केन विलिप्तदेहा। १. 'हि' क. पाठः.
२८ काव्यरले दुकूलमुक्तावलिमाल्याम्या भृशं बभूवात्मयतेः प्रियाच ॥ २५॥ प्रत्यङ्गणं कल्पितपश्चरत्न- रङ्गालयश्चक्रुरनेकभङ्गाः। जिनेन्द्रजन्मावसरप्रणश्य- त्पयोधरस्रस्तधनुर्विशङ्काम् ॥ २३ ॥ उत्क्षिप्तचित्रध्वजपङ्ख्योऽपि समीरमार्गे जिनजन्महष्टाः। चश्चत्पताकाग्रामिवाभ्यनुत्यन् परस्परं गाढमिवालिलिङ्गुः ॥ २४ ॥ मृदङ्गमन्द्रध्वनिमांसलेन गीतेन नृत्यद्गणिकानिकायः। उद्देलमुज्जृम्भितरागवाई- स्तरङ्गमालाकृतिमाललम्बे ॥ २५ ॥ भव्याश्चिरं दुस्सहगन्धबन्ध- मुक्त्यर्थिनोऽस्मिन्नुदिते विमुक्किम् । यास्यन्ति यत्तेन्न ययुस्तदैव क्षितीन्द्रबन्यो यदिदं हि चित्रम् ॥ २६ ॥ श्रीखण्डषण्डेन जिनस्य गात्रे सौरभ्यमिभ्यं प्रहितोऽकान्तुम् । प्रभूतभीतेरिव कम्पमान- श्व(का चार चार्मलयादिवातः ॥२७॥ १. 'मि', २. 'न न य' ख. पाठः.
२९ चतुः समः । प्रकाशते भानुसहस्रतुल्यं तथाप्यहो नेत्रसुखैकहेतुः। कुमारकोऽसाविति लजितः किं बभूव मन्दोष्णरुचिर्विवस्वान् ॥ २८ ।। शुचित्ववृद्धेरसपत्नहेतो- र्जिनस्य भक्त्या शुचयः कुरुध्वम् । प्रदक्षिणं यूयमितीव वक्तुं प्रदक्षिणत्वेन शुचिर्दिदीपे ॥ २९ ॥ रजांसि धर्मामृतवर्षणेन जिनाम्बुवाहः शमयिष्यतीति । न्यवेदयन्नम्बुधरा नितान्तं रजोहरैर्गन्धजलाभिवः ॥ ३० ॥ जिनस्य कालारिरिति प्रसिद्धि विबुध्य भीता इव सेवनाय । वनाय सर्वे सहसावनेरु- र्वसन्तमुख्याः सममेव कालाः ॥ ३१ ॥ अहो विभुङ्क्ते सवितारमेषा तमीश्वरं दृष्टि च पश्यतेति । द्विरेफवृत्ति जिनजन्मदम्भा- दम्भोजिनीमुत्पलिनी जहास ॥ ३२ ॥ अप्यद्ययावन्मधुपाननिष्ठाः सम्प्रत्यपाप' इति गानभङ्गया। १. 'श्य' ख. पाठः. २. 'तृप्ति जि' क. पाठः.
'३० काव्यरले भृङ्गा वदन्तो विविशुः प्रतीत्यै पद्माग्निकुण्डेषु परीत्य विद्मः ॥ ३३ ॥ मुक्ता रजोभिर्बहुकण्टकैश्च जिनप्रभावेन समुज्ज्वलात्मा । वसुन्धरापि प्रमदेन जाता सस्यच्छलाङ्कुरितरोमराजिः॥ ३४ ॥ स्वभावशुद्धा अपि सर्वजीवा- श्चिरं रजोभिः परिभूयमानाः । न केवलं निर्गलितेषु तेषु दधुः प्रसादं ककुभोऽपि सद्यः ।। ३५ ।। गृहेषु शङ्खा भवनामराणां वनामराणां पटहाः पदेषु । ज्योतिस्सुराणां सदनेषु सिंहाः कल्पेषु घण्टाः स्वयमेव नेदुः ॥ ३६ ॥ पुष्पाः पतन्तो नभसः सुधांशो- रेणस्य सिंहध्वनिजातभीतेः । पदप्रहारैः पततामुडूनां शङ्कां तदा विद्रवतो वितेनुः ।। ३७ ।। अभ्रात् पतन्तो मणयस्तदानी- मुच्चण्डघण्टाध्वनिताडनेन । भिन्नेन्द्रकोशालयतो जनानां मतिं वितेनुर्गलतां मणीनाम् ॥ ३८ ॥ १. 'म्भे' क. पाठः.
३१ चतुर्थः सर्गः । जाते जिने मा जनि भूजनानां विपत्कणोऽपीति विभुत्वशक्त्या। बन्दीकृतानीव भुवि ग्रहाणां बलानि रेजुर्मणयो विकीर्णाः ॥ ३९ ॥ देवोत्तमाङ्गान्यखिलोत्तमाना- मानम्यपादस्य विभोः प्रणामैः । सार्थ स्वनामेव विधातुकामा- न्यानेमुरत्यद्भुतमात्मनैव ॥ ४० ॥ जिनामृतांशोरुदितात् त्रिलोक्या- मुत्कूलितस्य प्रमदाम्बुराशेः । प्रत्युच्चलद्वीचिवशेन सत्यं भद्रासनानि घुसदां विचेलुः ॥ ४१ ॥ विज्ञाय तेनाधिपजन्म पीठा- दुत्थाय सप्तेत्य पदानि नत्वा । प्रादापयन्मेघहयोऽतिमेघां प्रस्थानभेरीमभिषेक्तुकामः ॥ ४२ ॥ शङ्खादयोऽर्हज्जननं प्रणादै- रेकैकलोकं स्वमवूबुधंस्ते । तत् सर्वलोकानभिषेकयात्रा सा बोधयामीति मदादिवाप ॥ ४३ ॥ ज्योतिष्कवन्योरगकल्पनाथा भेरीप्रणादादवगम्य यात्राम् । १. 'ज्ज्व' क. पाठः, ३२ ३ काव्यरले विभूषिताङ्गाः सपरिच्छदाः खे विलोकयन्तः शतमन्युमस्थुः ॥ ४ ॥ सामानिकैदिक्पतिभिः पदाति- मन्धर्वहस्त्यश्वरथाद्यनीकैः । शरीररक्षश्च समन्वितोऽयं शच्या सहास्थाय गजं प्रतस्थे ॥ ४५ ॥ साथैः सुरेन्द्रस्तरिभिर्विमानैः सांयात्रिकोऽयं जलधिं विहायः । सन्तीर्य चिन्तामणिमीशितारं सचेतुमेयाय खनि कुशाग्रम् ॥ १६ ॥ इन्द्रोऽथ रुद्रविभवं गणिकानिकाय- सङ्गीतकेलिरुचिरं रचिताष्टशोभम् । भक्त्या परीत्य पुरवन्नृपवासमीश- मानेतुमन्तरचिरेण ससर्ज कान्ताम् ॥ १७ ॥ इत्यहहासकृतौ काव्यरत्ने भमवजन्मोत्सववर्णनो नाम चतुर्थः सर्गः ॥ अथ पशमः सर्गः अदृश्यरूपाथ गृहे प्रविश्य ददर्श बालामृतभानुमारात् । शची जनन्याः स्थितमम्बरान्ते सुधारसस्यन्दिनमीक्षणानाम् ॥ १॥ वहन्त्यसो भक्तिरसप्रवाहे दिदृक्षमाणेव दृढावलम्बम् ।
३३ पञ्चमः सर्गः। समर्प्य मायाशिशुमम्बिकायाः पुरो जहारोन्नतांशमेनम् ॥ २॥ पाण्योर्जिनं न्यस्य निरित्य हाद् व्रजन्त्यसौ वल्लभमाभिमुख्यात् । द्विरेफमध्याम्बुरुहेव रेजे सरोजिनी भानुमभिस्फुरन्ती ॥ ३ ॥ जिनास्यचन्द्रेक्षणमात्रतोऽभू- चतुर्निकायामररागसिन्धुः । विशृङ्खलो यत्र मुखस्मितानि वितेनिरे फेनविभङ्गलीलाम् ॥ ४ ॥ दिवौकसा बालसुधामरीचि- जयस्वनापूरितदिक्तटानाम् । हृदक्षिहस्तान् कुमुदेन्दुकान्त- कुशेशयार्थान् कुरुते स्म सद्यः॥ ५ ॥ जिनाङ्गलावण्यरसप्रपूर्णे निश्शेषमस्मिञ् जगदन्तराले । विभासुरं तन्नगरं सुराणा- मजीजनत् पाशिपुराभिशङ्काम् ॥ ६ ॥ जिगाय शच्या शतमन्युहस्त- द्वये कृतस्तन्नयनाचिताङ्गः। जिनार्भको भृङ्गकुलाभिरामं दामोत्पलानां मणिभाजनस्थम् ॥ ७ ॥ १. 'धा' क. पाठः.
३१
काव्यरत्ने
जिनाङ्गदीप्त्या पिहितस्वकान्ति-
विकस्वरस्फारसहस्रनेत्रः ।
सुराधिनाथः शुशुभेऽञ्जनाद्रि-
यथैव फुल्लस्थलपुण्डरीकः ॥ ८ ॥
करारविन्दद्वयभृङ्गराशि
जिनं पदाब्जद्वितये प्रणम्य ।
चकार देवाधिपतिहितीय-
मनर्थ्यचूडामणिमुत्तमाङ्गे ॥ ९॥
अथैष संसारमहाम्बुराशि
समुत्तितीर्धर्जिनपोतमेनम् ।
दधत् कराभ्यां दृढमुत्सवेन
खसिन्धुरस्कन्धतटं निनाय ॥१०॥
द्वात्रिंशदास्यानि मुखेऽष्ट दन्ता
दन्तेऽब्धिरब्धौ बिसिनी बिसिन्याम् ।
द्वात्रिंशदब्जानि दलानि चाब्जे
द्वात्रिंशदिन्द्रहिरदस्य रेजुः ॥ ११ ॥
अस्पृष्टनीरेजदलं नटन्त्यो
नव्यः सुराणामभितो नृसिंहम् ।
रंहो वितेनुर्निजवल्लभाशा-
प्रकाशमानाब्जनिवेशनानाम् ॥ १२ ॥
ईशाननाथः स्वयमातपत्रं
दधौ तोभयकल्पनाथौ।
प्रकीर्णके प्राक्षिपतां परेऽपि
यथाखमासन् करणीयभाजः ॥ १३ ॥
३५
पञ्चमः सर्गः।
संसारगर्तापतिताखिलैक-
हस्तावलम्बं जिनराजमिन्द्रः ।
हृदा च दोामवलम्बमानः
पथा सुराणामथ संप्रतस्थे ॥ १४ ॥
आकारमात्रेण तुषारशैल!
का कूटराशेस्तव तुल्यतेति ।
आकर्णयिष्यन्निव विप्रलापा-
नाकाशमार्गेऽक्रमताभ्रनागः॥ १५ ॥
आरुह्य नानाविधवाहनानि
जिनाग्रवामेतरपृष्ठदिक्षु ।
क्रमेण वन्योरगकल्पवासि-
ज्योतिष्कनाथा व्यचलन ससैन्याः ॥ १६ ॥
नभोन्तरे नाथतनुप्रभाभिः
प्रपूरिते प्रोज्ज्वलरत्नकूटाः ।
बभुर्विमानाः कुलिशास्त्रभीतेः
समुद्रममा इव सानुमन्तः ॥ १७ ॥
जिनाङ्गदीप्त्या दधुरभ्रवीथ्यां
तरङ्गितायां सितचामराणि ।
सुरावधूतानि कलिन्दकन्या-
तरङ्गदोलारतहंसलीलाम् ॥ १८ ॥
चला न्यलीयन्त जिनाङ्गरोचि-
वींचीप्रपञ्चेऽगरुधूमलेखाः ।
हरेविभीताः फणिराजपत्न्य-
स्तरङ्गकुञ्जेष्विव यामुनेषु ॥ १९ ॥
काव्यरत्ने नभस्थलेनागरुधूमलेखाः स्फुरत्स्फुलिङ्गाः शशिशङ्कयामी । सितातपत्रग्रसनाय धाव- हिधुन्तुदा वान्तविषस्फुलिङ्गाः ॥२०॥ अङ्गारविक्षिप्तदशाङ्गधूपः सङ्क्रान्तसन्ताप इव क्षणेन । आश्लिष्यदुत्थाय पटीरहार- कर्पूरकल्हारपयोरुहाणि ॥ २१ ॥ गयेन पद्येन च दण्डकेन शशंस गीतेन च गाथया च । मरुद्गणोऽयं न परं परोऽपि गुहामुखोद्यत्प्रतिशब्ददम्भात् ॥ २२ ॥ वियत्तलं वीतघनाघनौघ- मपि प्रपूर्ण जिनदेहभासा । विभिन्ननीलाञ्जनसन्निभेन पुनर्घनापूर्णमिवाबभासे ॥ २३ ॥ जिनाम्बुदोऽसाविभदानवृष्टि- नेटीतटिद वाद्यनिनादगर्जः । विमानमालारुचिकार्मुको दि- व्याकालिकी प्रावृषमाततान ॥ २४ ॥ अभ्राण्यदभ्राणि सुरेभदन्त- प्रोतानि रेजुः परितो जिनेन्द्रम् । उत्क्षिप्यमाणानि मुदामुनेव चन्द्राश्मदण्डातपवारणानि ॥ २५ ।।
पञ्चमः सर्गः । १७ : सेनापदामर्दितपाण्डुमेघान् मुक्तागुरूनभ्रतले बिडालाः। हठेन दध्यन्नधिया व्रजन्तः स्कन्धाधिरूढाननयन्त मन्युम् ॥ २६ ॥ प्रयाणवेगानिलनीयमानाः पयोधराः श्यामतनूनिभेन्द्रान् । सर्जितानूर्जितदानवर्षान् स्वबन्धुबुद्ध्या ध्रुवमन्वरुन्धन् ॥ २७ ॥ सदाभियुक्तापि तदामरौधैः सहोत्पला भानुसुता प्रतीये। जिनाङ्गरोचिर्निचयेन दिग्धा विबुद्धहेमाम्बुरुहा द्युसिन्धुः ॥ २८ ।। विशालमाकाशतलं चकाशे विभुप्रभाश्यामलतारकौघम् । विपाकनीलैर्विपुलैः फलौटु- विलम्बमानामभिभूय जम्बूम् ॥ २९ ॥ स्वशून्यवादे परमागमेन सद्यो निरस्ते विशदान्तरस्य । व्योम्नो विरेजुः पुलकोपमानि जिनप्रभाश्यामलतारकाणि ॥३०॥ मुग्धाप्सरा कापि चकार सर्वा- नुत्फुल्लवक्रान् किल धूपचूर्णम् ।
३८ काव्यरत्ने रथाग्रवासिन्य रुणे क्षिपन्ती हसन्तिकाङ्गारचयस्य बुद्धया ॥ ३१ ॥ मन्दाकिनीसालिसितारविन्द- धियान्यया मूर्ति कृतो मृगाङ्कः । अमन्यतापूर्णसुधं तमन्या सनीलनीरेरुहदुग्धकुम्भम् ॥ ३२ ॥ अगच्छिदर्हद्द्युतिभानुजायां सुरद्विपद्युतसुरसिन्धुसख्याम् । मज्जत् प्रतीहारसुरासुराणा- मनीकमाद्रिं कथमप्यनैष्ट ॥ ३३ ॥ गिरीशमुद्यद्विपदन्तवृत्तिं रवीन्दुतारामरसेव्यपादम् । दिगम्बरैरावृतमेनमारा- दपश्यदने प्रभुतुल्यमिन्द्रः ॥ ३४ ॥ सजातरूपोऽपि गिरिः प्रवृत्त- दिगम्बराक्रान्तिरुदग्रकूटः । अघान्तकं पापभियाभ्ययासीत् किमित्यमयैर्भणितः क्षणाप्तः ॥ ३५ ॥ धुमण्डलं मध्यगतस्य मेरो- मणिप्रभापञ्जरभासमानम् । विभोरमुष्योपरि हेमदण्डां बभार नीलातपवारणाभाम् ।। ३६ ॥ १. 'धू' क. पाठः. - - ३९ पञ्चमः सर्गः । अगाह्यतः पाण्डुवनं समन्ता- दुपर्यटन्त्या सुरसेनयाद्रेः । सजीवचित्राङ्कितमन्दवायु- चलोत्तरीयश्रियमावहन्त्या ॥ ३७ ॥ अनीकिनीमत्र वने समस्तां सुरद्रुमच्छायसुखे यथार्हम् । निवेशयन् पाण्डुशिलामवाप पूर्वोत्तरस्यां दिशि तस्य जिष्णुः ॥ ३८ ॥ शतार्धमष्टौ शतमुज्ज्वलाया विशालतामुन्नतिमायतिं च । क्रमेण यस्याः खलु योजनानि वदन्ति सर्वज्ञजिनेन्द्रपादाः ॥ ३९ ॥ आद्यहिकल्पेशपरार्ध्यपीठ- मध्यस्थजैनासनरम्यमध्या । सतोरणा रत्नमयाश्चला या समङ्गला शुक्तिसमाकृतिश्च ॥ ४० ॥ या चाबभासेऽमरकल्पितेन महाभिषेकोत्सवमण्डपेन । ज्वलन्मणिस्तम्भसहस्रमुक्ता- वितानचित्रध्वजभूषितेन ॥ ४१ अभ्रेऽवलम्बरहिते सुचिरं सुमेरु- क्ष्माभृत्प्रदक्षिणकृतिश्रममा काव्यरत्ने प्राप्तोऽष्टमीन्दुरिव पाण्डुवनं शिलैषा प्रादात् सुरेन्द्रनयनोत्पलषण्डहर्षम् ॥ ४२ ॥ इत्यहदासकृतौ काव्यरत्ने भगवन्मन्दरानयनवर्णनो नाम पञ्चमः सर्गः ॥ अथ षष्ठः सर्गः। अथामरेन्द्रेण गजेन्द्रतो जिनः संनीयमानः प्रति पाण्डुकं महत् । निराकृतोत्रो मधुनेव मन्मथो नितम्बमुच्चैः शुशुभे हराचलात् ॥ १ ॥ नगेन्द्रफालस्थलबद्धपट्टिका- शिलोपरि स्थापित एष जिष्णुना । जिनार्भकः प्रोतपुरन्दरोपल- स्फुरन्मनीषामपुषद् दिवौकसाम् ॥ २ ॥ तरङ्गितज्योतिषि तच्छिलातले सरोजरागतिपवैरिविष्टरे । तरङ्गिताम्बौ त्रिदिवौकसां सर- स्यलियथा कोकनदेऽशुभद् विभुः॥ ३ ॥ जिनेश्वरः पाण्डुशिलाप्रभान्तरे गज माणिक्यमयासने स्थितः । विद्रुमरागरञ्जिते भोगे कलशार्णवान्तरे ॥ ४ ॥ गर्मणिपीठरश्मिभिः :: कान्तिरयो व्यराजत ।
षष्ठः सर्गः।
यथा निमज्जवनिताङ्गकुडम-
द्रवैर्जलौघो यमुनात्रिमार्गयोः ॥ ५॥
बभौ नगेन्द्रः प्रभुपीठपाण्डुक-
प्रभावितानैः परितस्तिरोहितः ।
यथैव तापात्ययसान्ध्यशारदै-
र्घनाघनौधैर्युगपत् समावृतः ॥ ६ ॥
अथेन्द्रवाचा मणिदण्डभृद् विभुं
दिदृक्षयोपव्रजतो मुहुर्मुहुः ।
धनी दिगीशान् सपरिच्छदान् हठा-
निजे निजेऽस्थापयदाशु धामनि ॥ ७ ॥
जिनाभिषेकाय सुराङ्गनाजनं
सुरप्रतानं सुरनायकानपि ।
अशेषकृत्यं जिनभक्तिभावितान
यथार्हमग्राहयदेष कृत्यवित् ॥ ८ ॥
अनन्तरं दक्षिणवामभागयो-
र्जिनस्य पूर्वाभिमुखस्य सुस्थिते ।
शचीपतीशानपती ससम्भ्रमौ
निजासने सम्मुखमध्यरोहताम् ॥ ९ ॥
अनेकतीर्थोपहृतैरथाम्बुभि-
घंटोद्धृतैः स्नापयितुं जिनार्भकम् ।
यदारभेते स्म मुदा सुरानक-
स्तदाप्सरोगीतरवाप्तदिक्तटम्॥१०॥
काव्यरले तदा ऋभूणामुभयी घटा घटैः पयांसि नेतुं घटिता प्रयत्नतः । सुमेरुचूलादि सुधार्णवावधि प्रबद्धनीलोत्प? पोलतीर्थपद्धतिः ॥ ११ ॥ बभुव॑जन्तो मणिकुम्भधारिणः सुधाशिनः पाण्डुवनात् पयोवनम् । जिनेन्द्रभक्त्या जलनीतये स्वयं प्रवृत्तपत्राङ्गसुरद्रुमा इव ॥ १२ ॥ मुवा च भीत्या भिदुरात्मकं सुराः स्वभावतो यक्षमुखैर्विवर्जितम् । विशालमाद्यन्तविदूरमहुतं गभीरमापुरत्वरया पयोनिधिम् ॥ १३ ॥ निपीड्य लक्ष्मीमपहृत्य चक्रिरे ठकाः स्वकं जीवनमात्रशेषकम् । अपीदमायान्त्यपहर्तुमित्यगा- दपांनिधिर्वेपथुमूर्मिभिर्न तु ॥ १४ ॥ मरुत्सु कुम्भान् युगपत् क्षिपत्स्वलं जलाय संक्षोभमिषेण सागरः । जिनोत्सवा)ऽहमभूवमित्यभू- न्मुदा समुन्मेषित एष केवलम् ॥ १५ ॥ विनिन्युरेकं मुखयोजनं घटै- दधद्भिरष्टोदश योजनानि च । १. 'इतीद', २. 'दरयो' ख. पाठः.
षष्ठः सर्गः। ४३ जलानि सर्वाण्यपि दुग्धवारिधेः स्वकेन मार्गेण धराधरं सुराः॥ १६ ॥ जिनोऽयमक्षीणमहानसर्द्धिभाग भविष्यतीत्यस्य विवक्षया स्फुटम् । वितीर्णमप्यम्बुधिना पयोऽखिलं जिनाधिपायाक्षयतामयात् पुनः ॥ १७ ॥ अथामरेन्द्रौ सुरवृन्दढौकितान् भुजैरनेकैर्विकृतैः पयोघटान् । विधृत्य जन्माभिषवं विधीच्छया सुनिर्मलस्यापि जिनस्य चक्रतुः ॥ १८ ॥ सुवर्णगारुत्मतरूप्यकुम्भिमि- मुंजासहस्रैरमराधिपावुभौ । व्यराजतां पाकशलाटुपुष्पिभि- लतासहस्ररिव कल्पशाखिनौ ॥१९॥ शिशुश्च शैलश्च धृतिं परीक्षितुं ध्रुवं सुरेन्द्रद्वितयेन वारिधेः । निपीड्यमानौ युगपत् सुधाजलै- रुभावभूतां समधैर्यसम्पदौ ॥ २० ॥ वहत्पयःपूरशतानि पाण्डुकाद् बभुस्त्रिलोकैकगुरोर्जिनेशिनः । भरेण भिन्नादभितो विनिस्सरत्- प्रभूतनिर्यासरसप्रवाहवत् ॥ २१ ॥ १. 'वपिष्य' ख. पाठः.
. १ काव्यरत्ने नगेन्द्रसम्पत्तिदिदृक्षया ध्रुवं पयःप्रवाहाः परितोऽपि सम्भ्रमात् । हटत्तटीशृङ्गशिलागुहासरो- वनेषु पर्याटुरनेकधा चिरम् ॥ २२ ॥ वहत्पयःपूरशतोऽभितो बभौ सुमेरुराच्छिद्य पतत्रयोद्धयम् । पुनश्च केनापि चलिष्यतीत्ययं गिरिद्विषा राजतरज्जुबद्धवत् ॥ २३ ॥ विरेजुरुन्ममनिमममूर्तयो मुहुर्मुहुज्योतिषलोकसंश्रिते । पयःप्रवाहे परितोऽपि तारका येथैव विस्पष्टविनष्टबुबुदाः ॥ २४ ॥ निशाकराहस्करभार्गवासितै- रलक्ष्यत क्षीरतरङ्गिणी क्षणम् । सिताब्जरक्ताम्बुजकैरवोत्पलै- विराजमानेव वियत्तरङ्गिणी ॥ २५ ॥ वहन्ति नानामणिमेदिनीप्रभा- प्रबद्धदुग्धाम्बुधुनीशतान्यभुः । सुरेन्द्रभीताचलपालिनेऽब्धये नगाधिपक्षिप्तविचित्रवस्त्रवत् ॥ २६ ॥ महीभृता तेन तदोपदीकृताः पयस्तटिन्यो भुवनैकपालकम् । १. 'रि' ख. पाठः. २. 'स्त', ३. 'धी' क. पाठः. ३ षष्ठः सर्गः । ४५ सुगोत्रलावण्यनिवासमर्णवं समेत्य वर्याः स्वमयं व्यधुः क्षणात् ॥२७॥ अथामरास्तीर्थजलैः सुरेश्वर- द्वयेन सृष्टे जिनगन्धवारािण । पटीरकर्पूरनिषद्वराविले- ऽप्यहो ममज्जुर्हतपापकर्दमे ॥ २८ ॥ बभौतरां पाण्डुकसंज्ञिता शिला समीपकीर्णैः स्नपनोदबिन्दुभिः । यथा शरच्चन्द्रकलोडुभिः श्रितै- यथाच शुक्तिनवमौक्तिकैश्च्युतैः ॥ २९ ॥ प्रमार्य निर्मज्जनशीकरांस्तनौ दुकूलचेलाञ्चलपल्लवेन तम् । शची विमुग्धा जगदेकवृद्धम- प्यलंचकाराखिलबालभूषणैः ॥ ३० ॥ निसर्गरन्ध्रश्रुतिसंश्रयाभ्यां रराज रक्तोत्पलकुण्डलाभ्याम् । जिनाधिपः पल्लवितहिपाश्र्थों यथा रसालः शिशिरात्ययस्य ॥ ३१ ॥ हारस्य मुक्ता गलशङ्खमुक्ता इव प्रभोरङ्गमरीचिवश्याः । उरकपाटीयमुनाहदान्त- वितेनिरे बुबुदपशिलीलाम् ॥ ३२ ॥ १. 'मार्जुहृत', २. 'द्वयसं' ख. पाठः.
४६ काव्यरने महीघरे तत्र निषेदिवांसं तमालनीलाकृतिमुद्वहन्तम् । पयोदबुडया श्रितमिन्द्रचाप- म(सि ?स)स्मरद् रत्नमयः कलापः ॥ ३३ ॥ बालामृतांशोधूवमस्य पाद- मेकान्ततः पङ्कजरुरशान्तेः । निबन्धनं बन्धुहिताय भानु- भैजे ज्वलन्नूपुरवेषधारी ॥ ३४ ॥ कलङ्कमुक्त्यै सकुटुम्बमिन्दु- नखच्छलेनाभजदस्य पादौ । सदाश्रयं सोऽपि न मोचयेति. च्छलेन नीलोपलकिङ्किणीनाम् ॥ ३५ ॥ मुहुर्विलिप्तोऽपि जिनेन्द्रगात्रे शचीशरत्नोज्ज्वलभासि शच्या । सिताभ्रविभ्राजिपटीरपङ्क: स्फुटोऽभवत् केवलसौरभेण ॥ ३६ ॥ अथाखिलेन्द्रैः सहितोऽमरेन्द्रः समर्चनाभिः स्तवनैश्च नाट्यैः । समाप्य जन्माभिषवं समग्रं कुशाग्रमेनं पुनरानिनाय ॥ ३७ ॥ ऋभुक्षिचक्षुर्युतिसिच्यमानो जिनो बभौ देवगजे निषण्णः । १. 'मुनीन्द्र' क. पाठः.
षष्ठः सर्गः। तदापि पाण्डूपरि रत्नकुम्भ- शतक्षरत्क्षीरनिषिच्यमानः ॥ ३८ ॥ पुरं नृपागारमपि प्रवेश्य पुरैव यक्षेन्द्रकृते सुरेन्द्रः। निवेशयामास स हेमपीठे सभागृहे रत्नमये जिनेन्द्रम् ॥ ३९ ॥ ततः सुतास्येन्दुविलोकमात्र- प्रवृद्धहर्षामृतसिन्धुमग्नौ । विलोक्य मातापितरौ स्मितास्यो निवेदयामास समस्तमिन्द्रः॥ ४०॥ माता स्वयं च परिरम्भमिषेण देवं रोमाश्चनीपकलिकानिकरैः कृतार्ध्या । प्रीत्याभ्यषिश्चदमितप्रमदाश्रुनीरैः स्वच्छैरतुच्छकुचकुम्भपयोद्वितीयैः ॥ ४१ ॥ मणिकाञ्चनदिव्यवस्त्रदानैः पटुभेरीपटहोत्थितारवैश्च । युगपत् परिपूरिताखिलाशं विदधे स्वःपतिरस्य जातकर्म ॥ ४२ ॥ करिष्यते मुनिमखिलं च सुव्रतं भविष्यति स्वयमपि सुव्रतो मुनिः । विवेचनादिति विभुरभ्यधाय्यसौ बिडीजसा किल मुनिसुव्रताक्षरैः ॥ ४३ ॥ १. 'वि' ख, पाठः.
१८ काव्यरत्ने देवर्मिजनमण्डनादिकरणे प्रौढाः प्रहृष्टाशया देवांश्चापि विनोदकर्मणि समानाकृत्यवस्थां गतान् । देवस्यास्य नियुज्य निर्जरपतिः प्रत्युद्ययौ स्वं जगत् प्रीत्यानुव्रजतो विसृज्य विबुधान् फालाग्रबहाञ्जलीन् । इत्यहंदासकृतौ काव्यरने भगवज्जन्माभिषेकवर्णनो नाम षष्ठः सर्गः ॥ अथ सप्तमः सर्गः :। न निर्जरैर्वर्जितसेवनोऽयं न कान्तिसम्भावितशुक्लपक्षः। नच प्रदोषावसरं प्रपन्नः क विद्म बालेन्दुरियाय वृद्धिम् ॥ १ ॥ कराङ्गुलिं लिप्तसुधां स लीदवा बबन्ध मातुः स्तनयोन बुद्धिम् । सुरेन्द्रवन्धः सुरदेहतायां चिरानुभूतामृततृष्णयेव ॥ २ ॥ जिनार्भकस्येन्द्रियतृप्तिहेतुः करे बभूवामृतमित्यचित्रम् । चित्रं पुनः स्वार्थसुखैकहेतु- स्तञ्चामृतं तस्य करे यदासीत् ॥ ३ ॥ उल्लोकितैरुत्पललोचनायाः ससम्भ्रमोत्क्षेपणकौतुकेषु । १. 'था' क. पाठः.
सप्तमः सर्गः ४९ रराज राजाङ्गभवोऽन्तरिक्ष तटिल्लताश्लिष्ट इवाम्बुवाहः ॥ ४ ॥ नराधिपेनोरसि नीयमानो बभार हारान्तरनायकत्वम् । भेजे चलत्कुण्डलतां भुजाग्रे चूडामणित्वं शिरसि प्रपन्नः ॥ ५॥ करात् करं बन्धुजनस्य गच्छन् रराज विभ्राजितहेमसूत्रः । स लेखवन्द्यः कृतहेमलेखो वणिग्जनस्येव निकाषपट्टः ॥ ६ ॥ स जानुचारी मणिमेदिनीषु स्वपाणिभिः स्वप्रतिबिम्बितानि । पुरः प्रधावत्सुरसूनुबुद्धया प्रताडयन् नाटयति स्म बाल्यम् ॥ ७ ॥ शनैः समुत्थाय गृहाङ्कणेषु सुराङ्गनादत्तकरः कुमारः । पदानि कुर्वन् किल पञ्चषाणि पपात तबीक्षणदीनचक्षुः ॥ ८॥ स पांसुकेलौ सुरतर्णकानां करावकीर्णनवरत्नचूर्णैः । कृतोपवीतो व्यरुचत् कुमारः सदिव्यधन्वेव नवाम्बुवाहः ॥ ९ ॥ H काम्यरत्ने अशेषविज्ञोऽनिमिषैः परीक्षा- प्रदित्सयेवैष विधीयमानान् । नियुद्धमुख्याखिलबालकेलीन् निरूपयामास नरेन्द्रसूनुः ॥१०॥ गतोनपादायुतवत्सरस्य श्रितं ततो यौवनमस्य गात्रम् । मधुर्यथा नन्दनपारिजातं शरद् यथां सान्ध्यसुधामयूखम् ॥ ११ ॥ अधर्मता निर्मलता च नित्यं पयः सुधा वानिकरो हितत्वम् । समाकृतिः संहननं च पूर्व सुगन्धिता निन्दितकैणनाभिः ॥१२॥ परश्शतैरम्बुजकम्बुमत्स्य- श्रीवत्समुख्यैर्वरलक्षणैश्च । सयञ्जनेश्वोनसहस्रकोण- मसूरिकाद्यैरुपलक्षितत्वम् ॥ १३ ॥ विलोचनासचनकं स्वरूपं बांसि पीयूषरसालघट्टाः। जगत्त्रयीमप्यतथाविधातुं पटीयसी काचन दिव्यशक्तिः ॥ १४ ॥ युतः स्वभावातिशयैरमीभिः कृतोन्नतिर्विशतिचापदण्डैः। १. 'के' क. पाठः.
५१ सप्तमः सर्गः। विषाभिशस्त्रादिविघातदूर- त्रिदोषवैषम्यभवामयारिः ॥ १५ ॥ त्रिंशत्सहस्रीमितवत्सरायुः स्फुटातसीसूनसमानवर्णः। तदायमुत्सृष्टधनुःशरस्य स्मरस्य शङ्कां जनयाम्बभूव ॥ १६ ॥ पित्रापि निर्वर्तितदारकर्मा ततः स यूनामधिपोऽपि वृद्धाम् । अग्राह्यत स्वामधिराजलक्ष्मी पुरैव राजा जगतां त्रयाणाम् ॥ १७ ॥ पुण्यैकलभ्योऽधिकसौख्यहेतु- विचित्रवर्णो विशदान्तरङ्गः। नृपासनस्थोऽनमयत् त्रिलोकी सदीपवर्तीन् निधिवत् पदाग्रे ॥ १८ ॥ भास्थानलक्ष्म्याः सगुणोरुकान्ति- नृपावलीमौक्तिकहारमध्ये । स्थितो दधौ नायकरत्नशोभा- मसौ महानीलरुचिर्नृपेन्द्रः॥ १९ ॥ स चन्द्रपाषाणसभापयोधौ सचामरोल्लोलतरङ्गमाले । शेषोपमस्फाटिकविष्टरस्थः श्रिया सनाथो हरिवञ्चकाशे ॥ २० ॥ १. 'न्तिः' क. पाठ
५२
काव्यरले
चकम्पिरे हेममयाः किरीटा
मुहुः सभासौधसदां नृपाणाम् ।
जिनोक्तिपीयूषजुषां यथामी
मरुद्वशाज्जाह्नवपद्मकोशाः ॥ २१ ॥
जिनाम्बुदः पीठनगाधिरूढो
दिवौकसामेष धिनोतु वृन्दम् ।
प्रवर्षणैर्वागमृतस्य चित्रं
प्रमोदयामास च राजहंसान् ॥ २२ ॥
स्वस्थैरदुस्थोऽतनुसौख्यकृष्टै-
र्जुष्टामृतैरष्टगुणाभिरामैः
वृतोऽजरैः सिद्ध इवैष रेजे
विलोकयल्लोकगतिं समस्ताम् ॥ २३ ॥
नरोरगस्वर्गिमनोरमाभि-
रुपास्यमानः स बभौ सभायाम् ।
जयार्थमुन्मुद्रितशस्त्रकोशो
जगत्रयाणामिव पुष्पकेतुः ॥ २४ ॥
उपायनीकृत्य गजाश्वरत्ना-
न्युपागतानामधिपं नृपाणाम् ।
न केवलं मार्गरुधो नगेन्द्रा
निपेतुरेषां दुरिताद्रयश्च ॥ २५ ॥
भक्तुं जिनेन्द्रं व्रजतां नृपाणां
चमूपदोघृतपरागपाल्या ।
विहाय चेतांसि पलायमान-
कपोतलेश्याकृतिरन्वकारि ॥ २६ ॥
सप्तमः सर्गः । ५३ चित्रं कृपालोर्जिनपस्य राज्य यत् प्राप्तबन्धानपि पापदस्यून् । बाधां दुरन्तां ददतो नितान्तं विमोचयामास जगज्जनानाम् ॥ २७ ॥ जिनेऽवनिं रक्षति सागरान्तां नयप्रतापद्वयदीर्घनेत्रे । कस्यापि नासीदपमृत्युरीति- पीडा च नाल्पापि बभूव लोके ॥ २८ ॥ अधर्मता खगिनि तस्य राज्ये पयोधरे सत्पथरोध आसीत् । वधूकटाक्षे श्रवणातिपातो गजे कदाचिद् यदि दानलोपः ॥ २९ ॥ रतिक्रियायां विपरीतवृत्ती रतावसाने किल पारवश्यम् । बभूव मल्लेषु गदाभिघातो भयाकुलत्वं रविचन्द्रयोश्च ॥ ३०॥ इति निरुपमभक्त्या सानुरक्तधावनम्र- त्रिभुवनपरिचूडाचित्ररत्नांशुवा । विलिखितपदपीठे राजपीठे स तस्थौ दश दश शतसङ्ख्यान वत्सरान् पञ्च चैव ॥ ३१ । इत्यहंहासकृतौ काव्यरले भगवत्कौमारयौवनदारकर्मसाम्राज्यवर्णनो नाम सप्तमः सर्गः ॥
: अथाष्टमः सर्गः। अत्रान्तरे श्रुतधरः श्रुतधर्मतत्त्वै- भव्योत्तमैर्दमवराख्यमुमुक्षुमुख्यः । आलोक्य यागकेरिपुङ्गवहस्तहर्ष- मापृष्ट इत्यचकथद् गजराजवृत्तम् ॥ १ ॥ राजाभवन्नरपतिः पुरि पूर्वताले दानं ददौ निकृतनिर्मलजैनधर्मः । स्वैरं कुपात्रनिवहाय ततोऽजनिष्ट सोऽयं गजः स्मृतवतः कबलं निरुन्धे ॥२॥ आकर्ण्य तद्वचनमाप्तभवस्मृतिः सन् सद्यः सदृग्विकलसंयममग्रहीत् सः । श्रुत्वा जगत्त्रयगुरुस्तदिदं सभास्थो निर्वेदमात्महृदये बिभराम्बभूव ॥ ३ ॥ हन्ताशुभाशरणदुःखचले भवेऽस्मिन् बीभत्सके वपुषि चेतननेययन्त्रे । प्रारम्भमृष्टपरिणामकटौ च भोगे लोलो वसाम्यलमलं स्वहिते यतिष्ये ॥ ४ ॥ तं निश्चितात्मकरणीयतया वसन्तं स्वान्तनितान्तमवधार्य विमुक्तिनार्या । सम्पर्कलालसधियेव चरा विसृष्टाः सम्प्राप्य साधु जगदुर्जगदन्तदेवाः ॥५॥ १. 'गजपु', २. 'मस्तिह' ख. पाठः. ३. 'न:', १. 'वि', ५. भिक. पाठः. ६. 'न्तं निता' ख. पाठः.
: नामः सर्गः । ५५ अस्मात् तृतीयजनने जननान्धकूपा. दभ्युद्धरेयमखिलं जगदित्युदीर्णा । चित्तस्थले तव कृपाच्छलकल्पवल्ली या साद्य देव ! फलिता जगदेकबन्धोः ॥६॥ सांयात्रिकस्त्वमसि बोधनकर्णधारो यस्मात् तपःप्रवहणो गुणरत्नवाही । तस्माद् विनेयवरसार्थयुतो विमुक्ति- हीपं गमिष्यसि भवाम्बुनिधेरवश्यम् ॥ ७ ॥ स्वं लोकमित्थमभिवन्द्य गतेषु तेषु देवोऽपवर्गपुरसाधननिर्गमं तम् । बन्धून निवेद्य जननीजनकौ परांश्च प्राज्यं नियोज्य तनये विजये स्वराज्यम् ॥ ८ ॥ तीर्थीम्बुनाथदिविजप्रभुणाभिषिक्तो दिव्याङ्गरागवसनाभरणैः प्रसिद्धः । अग्रेभवां ग्रहविवर्तमिव स्फुरन्ती- मध्यारोह शिबिकामपराजिताख्याम् ॥ ९ ॥ भूमीभृतामभृत सप्त पदानि भूमौ विद्याधृतां वियति सप्त पदानि वृन्दम् । आरभ्य पाण्डुवनमप्यतुभिः प्रपन्नै- रानिन्यिरे तदनु नीलवनं निलिम्पाः ॥१०॥ रजे नभःस्थलविराजिविमानराजि- रश्मिप्रतानविततापविभागमेतत् । :
५६ काव्यरले अत्तुं फलप्रकरमापततो विहङ्गा- नानायविस्तृतमिवोपरि निग्रहीतुम् ॥ ११ ॥ रेजे बहिर्घटितरत्नविमानमेत- दन्तश्वरामरगलन्मकरन्दधारम् । सेन्द्रायुधं सचपलं च सवोरिधार- मभ्रच्युतं मिथ इवाहतमभ्रजालम् ॥ १२ ॥ यानादथायमवतीर्य वनस्य मध्ये श्रीदेन दिव्यपदमण्डपिकां प्रक्लप्ताम् । आविश्य देवपतिदत्तकरावलम्बः श्रीब्धमौक्तिकचतुष्कमलश्चकार ॥ १३ ॥ षष्ठोपवासनियमी सुरदिङ्मुखस्थः पल्यवान् परिहताम्बरमाल्यवेषः । त्यक्ताखिलोपधिरुपेतसहस्रभूभृ- दुच्चार्यमाणवरसिद्धनमस्कृतिश्च ॥ १४ ॥ उत्खाय पश्चभिरुदश्चितमुष्टिबन्धैः कैश्यं स पञ्चभवमूलचयं यथैव । वैशाखकृष्णदशमीदिवसेऽपराह्ने दीक्षामुपादित युतश्रवणे सिताशौ ॥ १५ ॥ लोकत्रयैकगुरुरेष पुरैव पूर्ण- चारित्रशीलगुणसंयमभारवाही । प्राप्ताखिलर्डिरुपजातचतुर्थबोधि- रत्यन्तगौरवपदं पुनरास देवः ॥ १६ ॥ १. 'तः पतना' क. पाठः. २. 'नीरधा' ख. पाठः.
भामः सर्गः। रजलयं दशशतैः श्रमणैरुपेवो मरिचामरपतिः किरणैरिपार्कः । परिवाम्बुजमरैरिव चक्ररत्नं शेषः फणैरिव निधानमिवैष यः॥ १७ ॥ यस्माद् बभूव लवनं नियमेन तस्मि- नेः पुष्पधन्व धुनतः पुरतो जिनेन । तस्मात् तदादि किल नीलवनाभिधानं तस्याभवत् त्रिभुवनप्रथितं वनस्य ॥ १८ ॥ पश्चाग्जिनालकभरं मणिभाजनस्थं रक्तोत्पलस्थमिव भृङ्गकदम्बमिन्द्रः । चिक्षेप दुग्धजलधौ जयघोषघूर्णद्- बम्भाप्रणाचबधिरीकृप्तसर्वलोकम् ॥ १९ ॥ वो यत्र यत्र जिनकुन्खलकर्बुरोऽभू- छैवालमञ्जस्तिषत् स हि तत्र तत्र । क्षीराम्बुधिस्त्रिदशलोकमनांसि कर्षन् वातावघूर्णितघनावृतवद् बभासे ॥२०॥ तं पारणा वृषभसेन इति प्रतीतो राजाथ राजगृहनामनि राजधान्याम् । श्रद्धादिसप्तगुणवान् नवभेदभिन्नैः पुण्यैरकारयदुपस्थितपूर्वपुण्यः ॥ २१ ॥ आश्चर्यपञ्चकमभूदथ रनवृष्टि- राच्छादिताम्बरवला च लतान्तवृष्टिः ।
काव्यरत्ने व्याप्तश्रुती विषुधदुन्दुमिनिस्वनाहो- दानस्वनी सुरभिशीतलमन्दवायुः ॥ २२ ॥ मुनिपरिवृढो निर्वत्यैवं तनुस्थितिमुत्तमा मृदुमधुरया वाचाशास्यं विधाय यथोचितम् । मुनिसमुदय रक्षित्रातैश्च पौरनृणामनु- व्रजितचरमः पुण्यारण्यं गजेन्द्रगतिर्ययौ ॥ २३॥ इत्यहंहासकृतौ काव्यरत्ने भगवत्परिनिष्क्रमणवर्णनो नामाष्टमः सर्गः ॥ अथ नवमः सर्गः। आलोक्य देवमथ पाटितपञ्चवाणं प्रायेण नश्यति मधौ मधुरा(ौ ? स्त्र)बन्धौ । वेलामुपेत्य किल विस्फुरितप्रतापः सद्योऽग्रहीदरिपदं विपिनं निदाघः ॥ १॥ वाताश्ववेगजरजःपिहिताभ्रभाग- मागत्य सर्वमपहाय मैघोर्दुतस्य । ग्रीष्मस्तुतोद पिकभृङ्गबलान्यधाक्षीत् केलीवनानि रुजति स्म च पुण्डरीकम् ॥ २ ॥ तहावि दुःखमिव वीक्षितुमक्षमत्वात् क्षिप्रं मघौ ब्रजति तीव्रनिदाघयोगात् । संतप्यमानमखिलं तरुवल्लिजातं तापज्वरीव ददृशे मधुविप्रयोगात् ॥ ३ ॥ १. 'स्त', २. 'पथो द्रुत' ख. पाठः, नवमः सगः । ५९ ग्रीष्मे विदीर्णवनभूमिविशालदयों रेजुः कनकनकशेवधिदीगर्भाः। मान्याभिरुग्रकरपादहतेः प्रवेटुं क्लुप्ताग्निकुण्डशतवद् वनदेवताभिः ॥४॥ मिथ्यात्वकर्मकृतयाशुभयेव दृष्टया जन्तुप्रजापरमतत्त्वधियाप्यतत्वम् । ग्रैष्म्या तृषा मृगगणा मृगतृष्णकाम्भः सेदुनंदीरयधिया बत धावमानाः ॥ ५ ॥ तृष्णातुरः स्वयमपि घुमणिर्बभूव सन्तापवांश्च समयेऽत्र न चेत् करात्रैः पङ्काविलान्यपि जलान्यपिबत् किमर्थ प्रालेयशैलतटमध्युषितश्च कस्मात् ॥६॥ शङ्कामयं जनितवान् जगतो वनान्तः किं पाटलाः कुसुमिता दवपावकाः किम् । किं वल्लिकाः स्तिभितभृङ्गगणाः किमेते शान्तोल्मुका विशदभस्मचया इतीत्थम् ॥७॥ सन्तप्तरेणुनिकरं कृपयेव वाता निन्युः सुशीतलजलां धुनदी निंदाघे । एकान्ततप्तवसुधास्थितिभीतभीता द्रागद्रवन्निव तदा मृगतृष्णिकौघाः ॥ हा हन्त तृड्भरविदीर्णगला मृगाली पङ्काविलोष्णसलिलं वनपल्वलानाम् । १. 'म', ३. 'र', ३. 'ततीभिः' ख. पाठ.
६०
काव्यरने
अल्पं कथश्चिदपिबत् कृपयावगम्य
केनाप्युपाहतमिवोडकषायतोयम् ॥ ९ ॥
धात्री दरीमुखगतैर्विपिनस्थलीनां
व्यादीर्णवेणुगलिमणिभिर्विरेजे।
मा लोकमित्र ! शिखिनो मम पीडयति
दीनं प्रकाशितरदेव दिनाधिपाय ।। १०॥
सन्तापिताः स्वरिपुराहुमहारुषेव
चण्डांझुना सदृशराहुकुलाः फणीन्द्राः।
शङ्केतान्यशरणा व्यलुठस्तपीये
पादान एव कृतवक्रपुटप्रमोकाः ॥११॥
इत्येष तीघ्रतरभावनिपीज्यमान-
निशेषजीवनिवहोऽपि मिदाघकालः।
निम्थेऽत्र जीवनिवर्हः सुखमात्तयोगः
पुण्ये जगद्गुरुरवास्थित यत्र शैले ॥ १२ ॥
गम्भीरगनितभरादथ कम्पमान-
चकाङ्गबालविरहिब्रजमब्दकालः ।
छिद्राविशत्पणि सत्यमयूरयूथ-
मुन्मीलदोष्ठयुटचातकमुद्बभूव ॥ १३ ॥
प्राजीजनन् प्रसृतसर्वसमुद्रदेशाः
सकेण सिन्धुजलमन्ननगग्रहाय ।
क्षिप्तोरुजालधिषणां पुषरुत्पतन्तः
खं नीयमाननगशेमषिका नवाब्दीः ॥ १३ ॥
नवमः सर्गः । ६१ नो विद्म साभ्रमपराम्बुनिधेरटन्ती विद्युत्वतां किमु ततिर्बडवानलार्ता । बार्दन्तिसन्ततिरुत धुनदीक्षणार्थ व्यारूढपाशिवनितामकरीततिर्वा ॥ १५॥ मीरन्ध्रमभ्रपटलं पिहिताखिलधु भ्रेजेतरां विधृतदीर्घतराम्बुधारम् । देव्याः क्षितरुपरिलम्बितदीर्घमुक्ता- मालं विशालमिव धातृकृतं वितानम् ॥ १६ ॥ रेणु प्रसृत्य जलधिं परितोऽप्यशेषं मेघा मुहुर्मुहुरभिप्रसृताभ्रभागाः । आदानवर्षअमिषात् पयसां पयोधि व्योमापि मान्त इव संशयिनीशयेन ॥ १७ ॥ कान्तारभूमिषु विधर्णिदरीनिधान- देदीप्यमानमणिराशिमुपोपविष्टाः । अङ्गाशुञ्जमनसा किल सेवमानाः शाखामृगाः शुशुभिरे नववृष्टिशीर्णाः ॥ १८ ॥ नीलोपलोर्ध्वनिलयैर्मणितोरणाप्रै- रन्तर्बहिः परिमुहुर्विचरद्वधूकैः । किमीरिता जलधराः सुरचापरम्या विद्युद्युता विविदिरे नगरेषु वषैः ॥ १९ ॥ उन्मार्गवर्सपि जगज्जनमान्यवृत्ति- रुल्लासभासुरकुजोऽप्युरुबाष्पसीतः । १. 'सा', २. 'वि' ख. पाठः, .
६२ काम्बर अम्भोमुचामशमयत् प्रथयो रजांसि प्रत्याहतामलदिगम्बरदर्शनोऽपि ॥२०॥ किं केतकी कुसुमिता किमयं तडित्वान् सम्बोधतो जलमुचां पतितः पृथिव्याम् । किं वा धृतेन्दुशकलस्तमसां समूहः किं साकिनी शितरदा तरुणादनाय ॥ २१॥ गोत्रारिगोपकरका व्यरुचन् धरायां मेघागमेन दयितेन कृताङ्कपाल्याः। व्योमश्रियः स्तनतटत्रुटितोरुहार- स्रस्तावकीर्णनविद्रुममौक्तिकाभाः ॥ २२ ॥ आलप्य खल्वतितरां चतुरैरमुष्मि- नारूढधन्वनि सतामवमानहेतौ । काले हि राजबिकले कलुषात्मनीति() कामं पिकोऽमवदुरीकृतमूकभावः ॥ २३ ॥ प्रत्युन्मिषन्नवकदम्बरजोभिरुच्चै- श्चके दिगम्बरहृदप्यनुरक्तमाशु । चित्तान्यरञ्जयत रागिजनस्य तस्ये- त्याश्चर्यमत्र किमु पश्चिमगन्धवाहः ॥ २४ ॥ इत्यम्बुवाहसमयोऽपि विजृम्भमाणो वज्रानलं जनपदेषु ससर्ज नेषत् । चक्रेऽतिवृष्टिमितरां नच दुर्दिनानि तस्य दुमूलगतलोकपतेः प्रभावात् ॥ २५ ॥ १. साततो' क. पाठः.
मनमः। सुश्लिष्टकान्तमथ सीत्कृतमर्भवष्टं निःस्वेददीर्घसुरतं स्वदमानकहि। कर्पूरखण्डविकलक्रमुकोपभोगं कश्चिद् बभूव विषयः समयो जनानाम् ॥२६॥ उच्चाटनाय शरदः सितसर्षपौधो निर्दग्धुमजनिलयानिलयं तुषामिः । आलम्भचूर्णमसहायजनस्य कामं प्रालेयशीकरमिषेण कुतोऽप्यपप्सत् ॥ २७ ॥ रेजुः प्रभातसमयेषु लतावनद्याः क्षोणीरुहस्तुहिनवारिकणैर्विकीर्णैः। आलिङ्गितस्तबकचारुकुचा रतान्त- प्रादुर्भवद्भिरिव धर्मलवैर्युवानः ॥ २८ ॥ कालेऽत्र तीव्रहिमभाजि न वासरेन्द्रः सान्द्रांशुकोऽपि सहते स्म हिमाद्रिवासम् । दूरस्थमप्यथ ययौ मलयाचलेन्द्र गोशीर्षकोटरफणिश्वसितैः कवोष्णम् ॥ २९॥ लौधेण सौरभसनद्रितदिङ्मुखेन रेणूत्करेण पिहितानि वनानि रेजुः । लोकातिदुःसहसहस्यभयादिवात्त- पत्राङ्गचारुतरभूरिनिवारकाणि ॥ ३० ॥ सन्तापिता रेतिपतस्त्रिजगज्जयार्थ नाराचिकाः सुनिशिता इव निर्विचारम् । १. 'स्सुनिशितानि' ख. पाठः.
६५ कान्बरले कातर्यमम्बुजसी दिविशर्जनान्य काश्मीररेणुकलितालता हिमत्तौं ॥ ११ ॥ कान्तावियोगदहनेन नितान्तदग्धाः पान्थास्तुषारपतनेन विशीर्यदङ्गाः। ऊष्मायमाणवदनाः श्वसितैरशङ्क चूर्णोपलाः समभवन् सलिलोपसिक्ताः ॥ ३२ ॥ सत्यं तुषारपटलैः शमिनो न रुहाः सिद्धेः पुनः परिचयाय हिम लक्षम्या । छन्ना दुकूलवसनैर्नु पटीरपकै- लिप्ता नु मौक्तिकगुणैयदि भूषिता नु ॥ ३३ ॥ इत्थं सुदुःसहतुषारतुषावपातै- निर्दग्धनीरजकुले समयेऽपि तस्मिन् । म्लानानि नैव कमलानि महानुभावो यस्याः स्थितः स भगवान् सरितः प्रतीरे॥३४॥ कायक्लेशाभिधाने तपसि जिनपतिनिष्ठितो वर्षमेक बाह्यान्तर्विग्रहद्वादशविधतपसां मध्यमेऽप्यप्रच इत्थम् । दीक्षाकल्याणमादौ समभवदभवद् यत्र तत्रैव भूयो नीलारण्ये शरण्ये भवचकितधियामात्तपुण्ये वरेण्थे॥३५॥ इत्यर्हदासकृतौ काव्यरले भगवत्तपोवर्णनो नाम नवमः सर्मः॥ १. 'द्वैः' क. पाठः.
अथ दशमः सर्गः। श्रीमन्तमेनमखिलार्चितमात्मधाम प्राप्तं स्वयं सपदि तहनभूजषण्डम् । शाखाकरेषु धृतपुष्पफलप्रतान- मासीदिवार्चयितुमुद्यतमादरेण ॥ १॥ तस्यैव कीलकलनाः किमु पल्लवानि तस्य स्फुलिङ्गनिकरो ननु कुड्मलानि । तस्यैव धूमविततिर्न पुनर्हिरेफा दत्त्वा वने यमनलं मदनो निमग्नः ॥ २ ॥ अस्मिन्नमूनि न पलाशदलान्यघारे- रुहेलशान्तरससागरविद्रुमा नु । वान्ता मृगश्चिरविरोधलवा मिथो नु वन्यैस्ततार्चनमणिप्रकरा नु रेजुः ॥ ३ ॥ अध्यास्य चम्पकतरोस्तलमात्तपृष्ठो धाणि बिभ्रदवलम्बितशुभ्रलेश्यः । शुद्धात्मतत्त्वमिव जातविवर्तमीशो ध्यानं दधे दुरितधूननचुञ्चु शुक्लम् ॥ ४ ॥ स्त्यानत्रयं जिनपतिः क्रमशो रजांसि सोम्नि त्रयोदश पुरा हतसप्तमोहः । मोहकविंशतिमपि क्षपयन् ददाह क्षीणेऽथ षोडशचिदीक्षणरोधविनान् ॥ ५॥ *. १. 'घ', २. 'ना' ख. पाठः. र काम्यरले घातीन्यपि प्रबलशक्त्यतिगर्वितानि देवस्य योगकरवालदितान्यभूवन् । वात्मनः किमिति चिन्तनयेव दग्ध. रज्जूपमं सममघातिबलं बभूव ॥ ६ ॥ इत्यस्तपापरिपुराप सहैव लब्धि. वैशाखकृष्णदशमीश्रवणेऽपराहे । साक्षायिकीनवदशातिशयान् पदं च प्राप्तोदयं नभसि पश्चसहस्रदण्डैः ॥ ७॥ अत्रान्तरे सकललोकपतेरमुष्य शक्राज्ञयाचरितवान् धनदः सभां ताम् । तस्याः प्रमाणमुदितं मुनिभिः पुराणै- रध्यर्धयोजनयुगं बहुरत्नमय्याः ॥ ८ ॥ रेजेतरां दिविजराजहषत्प्रतिष्ठा संसैन्मही विनयसङ्कुचिताखिलाङ्गा । व्योमस्थलीव भुवि यः समवाप्य सेव्यः सोऽयं स्वयं गुणनिधिः समगच्छतेति ॥९॥ प्रासादचैत्यपरिखालतिकाद्रुमक्ष्मा जाता ध्वजघुकुजहर्म्यगणेक्षमाश्च । पीठानि चेति हरसङ्ख्यभुवस्तदन्त- रेकान्तकेलिसदनं जिनबोधलक्ष्म्याः॥१०॥ प्रासादचैत्यनिकरः परिखा व्रतत्यो वृक्षा ध्वजः सुरकुजाः क्रमशोऽष्टभूषु । १. 'स' क. पाठः. २. 'दश्च प्रा', ३. 'प' ख. पाठः १. 'णा' क. पाठः.
दशमः सर्गः ।
आसन् गृहाणि च गणास्त्रिषु विष्टरेषु
श्रीधर्मचक्रविविधध्वजमङ्गलानि ॥ ११ ॥
सालैश्चतुर्भिरपि पञ्चभिरप्युदार-
वेदीभिरुन्नतिरवापि चतुर्गुणैव ।
लोकोन्नतादपि जिनाधिपतेरमुष्मा-
ज्जैनप्रदक्षिणकृतेः फलमीदृशं हि ॥ १२ ॥
आवेष्टय संसदवनीतलवारिवाहं
प्रारभ्यमाणसुकृतामृतपूरवर्षम् ।
सालेन सर्वमणिचूर्णमयेन तेने
तेनापि तानसुरकार्मुकसम्पुटश्रीः ॥ १३ ॥
लोकेषु कूटरहितेषु महामहिम्नो
देवस्य तस्य निकटेऽपि कृतधिवासाः ।
प्रासादचैत्यनिलयाः प्रथयांबभूवुः
कूटान् दिगम्बरपथप्रतिरोधिनो धिक् ॥१४॥
मार्गेष्वपि त्रिषु चिरभ्रमणेन खिन्ना
भिन्ना पुरैव भवलालनया द्युसिन्धुः ।
शके जिनेन्द्रचरणं शरणं प्रवेष्टुं
सम्प्राप सम्प्रति सभां जलखातकात्मा ॥१५॥
वल्लीक्षितौ सुमनसो रतिवल्लभस्य
भल्लक्रियागतजगल्लयपातकानि ।
सलप्य भृङ्गरणितेन विशुद्धिहेतोः
किं लोकनाथमभजन् सुमनोनिषेव्यम् ॥१६॥
काव्यरने कङ्केलिसप्तदलचम्पकचूतषण्डाः कामारिसन्निधियशादिव शान्तकामाः । पुष्पाणि वामचरणाहतिचाटुवाद- च्छायाकटाक्षनिरपेक्षमधुर्वधूनाम् ॥ १७ ॥ अर्चा जिनस्य वनचैत्यमहीरुहाणा- मच्छिन्नधारमकरन्दमुचां तलेषु । चर्निरत्ययतपात्यययोगनिष्ठा- निष्कम्पगात्रजिनयोगिवराभिशङ्काम् ॥ १८ ॥ ज्ञानोदये जिनपतेः स्थिरभावमाप्ते लोके स्वयं च तडितः स्थिरभावमाप्ताः। प्रायः प्रलम्बितघनास्तमुपासते स्म प्रेङ्ख़त्पताककनकध्वजदण्डदम्भात् ॥ १९ ॥ भव्यावलेदेशविधामरभूजकृत्य वाञ्छां विनैव विदधात्ययमेक एव । यत्ते तदेनमभितोऽप्यभजन जिनेन्द्र रुद्रान् गुणैर्विगुणिनः समुपाश्रयन्ते ॥ २० ॥ आकीर्णकेतुचमरीरुहतालवृन्त- कालाचिकाब्दकलशातपवारणादिः । हावनी जिनजितद्रुतपुष्पकेतोः सेनानिवेश इव चेलकुटीचितोऽभीत् ॥ २१ ॥ देवेन्द्रनेत्रकुमुदोत्सवचन्द्रिकाया देदीप्यमानमणिवैकृतगन्धकुट्याः । १. 'त्यमिच्छां वि', २ 'न्द्रा' ख. पाठ ३. 'ध', ४. 'भू' क. पाठः,
देशमः सर्गः ।
३
उच्चैर्ऋतोरिव विदिनु भृशं विरेजुः
कोष्ठाः प्रकीर्णकवदुज्ज्वलरूपभाजः ॥ २२ ॥
तेषु प्रदक्षिणमनुक्रमतो मुनीन्द्राः
कल्पाङ्गनाश्च नृवधूसहितार्यिकाश्च ।
ज्योतिष्कभौमभक्नामरिकाश्च भोगि
भौमोडुकल्पसुरमर्त्यमृगाश्च तस्थुः ।। २३ ॥
वीथीषु नाथचतुरानननिर्यदुक्ति-
पीयूषनधुभयचारुतटानुकाराः ।
अष्टायतस्फटिकभित्तय आवितेनु-
वृद्धेशभूतिविनिवेशितयष्टिशङ्काम् ॥ २४ ।।
यच्छूयते सुरपथात् सुमनस्स्रवन्ती
स्रस्ता तरङ्गिततनूरिति पुस्तकेषु ।
तत्त्वेतदित्यनुमिमे भगवत्सभाया
यत् तीर्थपद्धतिचतुष्टयमर्कशिल्पम् ॥ २५ ॥
वाराशितीर्थकरवारणसंख्यरूपा
देवादिरुद्रनगकज्जलभूधरास्तम् ।
दैर्ध्यस्पृहो निखिलदिग्गतहेमरूप्य-
नीलाश्मगोपुरनिभादभजन्त देवम् ॥ २६ ॥
सम्प्राप्य चारगुणरत्ननिधि जिनेन्द्र
लोकैकमङ्गलममुं समपक्षरागात् ।
शक्तानि मोक्तुमथ नो निधिमङ्गलानि
द्वारेषु तस्थुरखिलेष्विह को वितर्कः॥ २७ ॥
10 काव्यरले ज्योतिष्कयक्षफणिकल्पसदः क्रमण तेजस्विनः प्रतिदिशं मणिदण्डहस्ताः । द्वारत्रयद्वितययुग्मयुगेषु तेनु- ःपाल कृत्यमपि जन्मशतैरलभ्यम् ॥ २८ ॥ नुन्नाम्बरं प्रतिदिशं नवगोपुराणा- मष्टान्तरेषु बहिरादिमगोपुराच्च । नानाविधाभिनवशिल्पमनोभिरामं माणिक्यतोरणशतं पृथगाविरासीत् ॥ २९ ॥ आद्यन्तरे निहतदुर्मतिमानगुम्फाः स्तम्भाश्चतुर्थ इह राजतनाट्यशालाः । षष्ठेऽपि नाट्यनिलयाः किल सप्तमेऽस्मिन् स्तूपाश्च तोरणशतान्तरिता बभूवुः ॥ ३० ॥ दुःखौघसर्जनपटूंलिजगत्यजेयान् साक्षानिहत्य चतुरोऽपि च घातिशत्रून् । स्तम्भा जयादय इव प्रभुणा निखाताः स्तम्भा बभुः प्रतिदिशं किल मानपूर्वाः॥३१॥ संसारदुस्तरमहार्णवममजन्तू- तारैकनावि सदसीश्वरकर्णधारे । स्तम्भश्रियं विदधुरुज्ज्वलरत्नमान- स्तम्भाः समीरचलकेतुपटाभिरामाः ।। ३२ ॥ मानाधिको कनकगोपुररूप्यसाल- व्याजेन मानमवितुं बहुरूपभाजी । १. 'दि' क. पाठः. M ... me-
दशमः सर्गः।
मन्ये सुमेरुविजयार्धनगौ स्म मान-
स्तम्भानुपेत्य भजतश्चतुरोऽपि भीत्या ॥ ३३ ॥
मज्जत्पुरन्ध्रिकुचकुडमलालितानि
पर्यन्तखातसलिलानि वितेनुरेषाम् ।
आलोकनेन सुचिरोपचिताभिमान-
लोकैर्विवान्तदृढमानरसाभिशङ्काम् ॥ ३४ ॥
विश्रामसुन्दरमृदङ्गनिनादगर्जा
विद्युल्लतायितनिलिम्पनटीसनाथाः ।
नाट्यालया विजितशारदवारिवाहा-
श्चित्तक्षितौ नवरसान् ववृषुर्जनानाम् ॥ ३५ ॥
सौवर्णधूपघटनिर्गतधूमजालं
सौरभ्यशालि ददृशे जिनपूजनाय ।
आयज्जनस्य सुचिरं हृदयारविन्द-
गन्धाधिवासितमिव द्रवदन्धकारम् ॥ ३६ ॥
जैनी सभा जिनपदाम्बुजसेवयैव
सेत्स्यन्ति मङ्घ नव केवललब्धयो वः।
इत्येवमुन्नतनवाङ्गुलिसंज्ञयो(च्चैः?चे)
स्तूपच्छलादुपयतां जिनसेवनार्थम् ॥ ३७॥
रेजे विशालगणभूतलवेष्टितस्य
पीठत्रयस्य शिरसि द्विपवैरिपीठम् ।
धर्तु जिनेश्वरमुपागतभद्रसाल-
रुद्धनिसानुकनकाचलचूलिकेव ॥ ३८ ॥
७२. काम्मरले तत्र त्रिकालविषयारिखलवस्तुवृत्ति- साक्षी प्रबोधमहसा सकलं स जानन् । जिज्ञासयोपगतसङ्घचतुष्टयस्य तज्ज्ञापनोत्सुकतयेव चतुर्मुखोऽस्थात् ॥ ३९ ॥ भामण्डलेन निकटोच्चलचामरेण संवेष्टितो दिवि जिनाधिपतिश्चकाशे। हंसान्वितेन शरदम्बुदैमण्डलेन नीलाम्बुवाह इव कोऽपि कृतोपवीतिः ॥१०॥ अस्याशरीरपदलिप्सुतया शरीरं बोधासिना हतवतो भुवनैकमल्लम् । वीरस्य पार्श्वमुपयन्ति तदा तदीय- दिव्यायुधान्यनुचकार लतान्तवृष्टिः ॥ ४१ ॥ दिव्यध्वनिश्च सुरदुन्दुभिनिवनश्च सन्त्यक्तशासनतदीयफलाभिलाषम् । उत्पधमानमुभयं युगपज्जहार श्रोत्रं मनश्च सुतरां परिषज्जनानाम् ॥ ४२ ॥ सर्वज्ञपादरतयो वयमप्यशोका मुग्धाङ्ग्रिजातरतयः किल तेऽप्यशोकाः। इत्यालपन्नलिनिनादपदादशोकः प्रत्युन्मिषत्कुसुमकैतवतो जहास ॥ १३ ॥ छायां तिरस्कृतवतो जगदेकभर्तु- श्छायां प्रदातुमितमेतदलं ललज्जे । १. 'क्षि' क. पाठः. २. 'ज', ३. 'वि' ख. पाठः. " 'त्य क. पाठः.
दशमः सर्गः। छत्रत्रयं न यदि शारदनीरदाभं श्यामं जिनाङ्गरुचिसङ्गनिभात् कुतोऽभूत् ॥ स्त्रीबालवृद्धनिवहोऽपि सुखं सभां ता- मन्तर्मुहूर्तसमयान्तरतः प्रयाति निर्याति च प्रभुमहात्मतयाश्रितानां निद्रामृतिप्रसवशोकरुजादयो न ॥ ४५ ॥ मिथ्यादृशः सदसि तत्र न सन्ति मिश्राः सासादनाः पुनरसंशिवदप्यभव्याः । भव्याः परं विरचिताञ्जलयः सुचित्ता- स्तिष्ठन्ति देववदनाभिमुखं गणोाम् ॥ १६ ॥ इत्यहुतां त्रिभुवनैकपतेः सभा ता- मागत्य वीक्ष्य निखिलं हरिणा जिनेन्द्रम् । आकीर्णपुष्पमवनम्य पुनर्भमज्जे हर्षाम्बुधौ भवसमुद्रतितीर्षणापि ॥ ७ ॥ साक्षायिकाचलहशोज्ज्वलसंयमेन सप्तर्डिसम्यगवबोधचतुष्कभाजा । श्रीमल्लिनाथगणिनाथ तदीरितेन पृष्टः समस्तविदसौ निजगाद तत्त्वम् ॥ ४८ ॥ अथ समयविदिन्द्रादेशतो वाघदेवै- विनिहतजिनसंख्योदारभेरीप्रणादः । विघटितगिरिसन्धिविश्वविश्वकभर्तु- स्त्रिभुवनमपि यात्रारम्भमावेदयत् तम् ॥ १९ ॥ १. 'घ' क. पाठः.
ܕܟ काव्यरले समवसरणमभ्रे भव्यपुण्यैश्चचाल स्फुटकनकसरीजश्रेणिना लोकवन्धः । सुरपतिरपि सर्वाम् जैनसेवानुरक्तान कलितकनकदण्डोऽयोजयत् स्वस्वकृत्ये ॥५॥ सितचमररुहाली पार्श्वयोश्चिक्षिपाते सुधिय उपरि शुभ्राण्यातपत्राणि देवेः । उदधृषत तथाष्टौ मङ्गलान्यप्सरोभि- दिशि दिशि धृतमग्रे धर्मचक्रं च यक्षैः ॥५१॥ सपदि पवनदेवाः शर्करालोष्टधूली- कृमितृणमपनिन्युभूतलान्मेघदेवाः । सुरभिसलिलसेकं चक्रुरत्रेदमासी- न्मुकुरतलवदच्छाकाशदिक्पर्धयेव ॥ ५२ ॥ धरणिरमरवृष्टरुद्गमैः सोपहारा सुरमणिमकुटाचिःशकचापार्चितं खम् । सुरनरजयशब्दस्तोत्रकिम्मीरभेरी- मुखरवमुखरं चाप्यास दिक्चक्रवालम् ।। ५३ ॥ गलितचिरविरोधाः प्राप्तवन्तश्च मैत्री मिथ इव जिनसेवालम्पटाः संपदिदाः । षडंपि च ऋतवस्ते तत्र तत्रान्वंगच्छन् व्यवहरदयमीशो यत्र यत्रै देशे ॥ ५४ ॥ न परमखिलेलीक: प्रोतिकूल्य विहाय त्रिभुवनतिलक ते वायुरप्यन्वियीय । दिविजसरसि ममः पुष्पगन्धोपवाही मधुकरकुलशब्दच्छद्मना संस्तुवानः॥ ५५ ।। १. 'स' ख. पाठः. २. 'स्य क. पाठः. ३. 'नु' ख. पाठः.
:
दशमः सर्गः।
७५
अपिच सदसि भर्तुः कच्छपाङ्कस्य रेजुः
सवरुणबहुरूपिण्यन्वहाराधितस्य ।
गणधरपदमाजोऽष्टादशैतच्छताङ्का
न परमवधिनेत्राः केवलज्ञानिनोऽपि ॥ ५ ॥
शतविगलितमाना वादिनस्तुर्यबीधा-
स्त्रिंशतगलितसंख्या विक्रियप्रिसिद्धाः।
अधिकशतचतुष्काः केवलिभ्यो बभूवु-
स्त्वधिगतदशेपूर्वास्तुर्यबोधत्रिभागाः ।। ५७ ॥
त्रिहतहयसहस्राण्यर्धलक्षं च लक्षं
त्रिगुणितमपि लक्षं शिक्षकाचार्यकाश्च ।
उपगतगृहमेधाः श्राविकाश्चाप्यसंख्याः
सुरसुरसुकुमार्यः प्राप्तसङ्ख्या मृगाश्च ॥ ५८ ॥
इति विषयमशेषं विश्ववन्यो विहत्य
त्रिचरणपरिशिष्टं नूनमब्दायुतं सः ।
सुजनहृदयवप्रेषूप्ततत्त्वार्थसस्यः
प्रविशदमणिचूलं प्राप सम्मेदशैलम् ॥ ५९ ॥
तत्र स्थित्वैकमासं व्यपगतविहतिः फाल्गुने कृष्णपक्षे
द्वादश्यामर्धरात्रौ सदशशतमुनिर्जन्मभे घात्यरातीन् ।
आरूढा योगिधामाद्विचरमसमये सप्ततिं द्विःप्रयुक्तां
शुक्लध्यानासियष्टया स चरमसमये वृत्तसङ्ख्याञ् जघान ॥
ईषत्प्राग्भारसंजेऽष्टमधरणितलेऽमर्त्यलोकप्रमाणे
सिद्धक्षेत्रे विशुद्धः स जयति तनुपातान्त्यभागे कृतौकाः ।
किश्चिन्यूनान्त्यदेहप्रमितिघननिजाकारभाक् क्षायिकैः स्वैः
सम्यक्त्वाचैरुपेतोऽष्टभिरमितसुखापादकैरस्तकर्मा ॥ ६१ ॥
काव्यरत्ने दशमः सर्गः। १ ७६ आस्ते तत्र स निर्वृतः सुखसुधां चर्वन् सदात्यन्तिकी स्वस्थः संमृतिनाटकं स्फुटरसं पश्यन् विभावादिभिः । सम्पन्नः सकलैर्गुणैरनुपमैः स्थानं सिताभ्राकृतेः कीर्तेरात्मसमैः सहैव पुरुषैः शुद्धैश्च बुडैः परम् ॥ ६२ ॥ अर्हहासः स भक्त्युल्लसितमवसितं भूधरे तत्र कृत्वा कल्याणं तीर्थकर्तुः सुरकुलमहितः प्रापदात्मीयलोकम् ! अर्हद्दासोऽयमित्थं जिनपतिचरितं गौतमस्वाम्युपशं गुम्फित्वा काव्यबन्धं कविकुलमहितः प्रापदुच्चैः प्रमोदम् ।। धावन् कापथसम्भृते भववने सन्मार्गमेकं परं त्यक्त्वा श्रान्ततरश्चिराय कथमप्यासाद्य कालादमुम् । सद्धर्मामृतमुद्धृतं जिनवचःक्षीरोदधेरादरात् पायंपायमितश्रमः सुखपदं दासो भवेत्यर्हतः ॥ ६४ ॥ मिथ्यात्वकर्मपटलैश्विरमावृते मे युग्मे दृशोः कुपथयाननिदानभूते । आशाधरोक्तिलसदञ्जनसम्प्रयोगै- रच्छीकृतेऽद्य पृथुसत्पथमाश्रितोऽस्मि ॥ ६५ ॥ इत्यहँदासकृतौ काव्यरत्ने भगवदुभयमुक्तेवर्णन। नाम दशमः सर्गः ॥ मुनिसुव्रतकाव्यं सम्पूर्णम् । शुभमस्तु। १. 'द्धं', २. 'वाम्यह' ख. पाठः. ३. 'धा' क. पाठः.
LIST OF SANSKRIT PUBLICATIONS FOR SALE. RS. AS. P. Himad Bhaktimanjari (Stuti) by H. H. Svāti Sri iiama Varma Mahårāja. 1 0 0 स्यानन्दूरपुरवर्णनप्रबन्धः Syanandurapuravarnanaprabandha (Kavya) by H. H. Svati Sri Rama Varma Mahārāja, with the commentary Sundarī of Rājarāja Varma Koil Tampuran. 2 0 0 Trivandrum Sanskrit Series. No. 1-94 Daiva (Vyakaraṇa) by Deva with Puruşakāra of Krşñalīlābukamuni (out of stock). 1 0 0 No. 2-अभिनवकौस्तुभमाला-दक्षिणामूर्तिस्तवौ Abhinavakaustubhamala and Daksinamurtistava by Krşñalīlāśukamuni (out of stock). 0 2 0 No. 3-etaze: Nalabhyudaya (Kavya) by Vaiana Bhatta Baņa (second edition). 0 4 0 No. 4-fararstovura: Sivalilarnava (kävya) by Nīlakaņķha Dīkşita (out of stock). 2 0 0 No. 5-fatalaan Vyaktiviveka (Alankāra) by Mahima-Bhatta with commentary (out of stock). 2 12 0 No. 6-aizafer: Durghatavrtti (Vyakaraṇa) by Sarañadeva (out of stock), 2 0 0 No. 7-Autorent Brahmatattvaprakasika (Vedānta) by Sadasivendrasarasvati (out of stock). 2 4 0 No. 8-gener Pradyumnabhyudaya. (Nataka) by Ravi Varma Bhüpa (out of stock). 1 0 0 RS. AS. P. No. 9-विरूपाक्षपञ्चाशिका Virupaksapaneasika (Vedanta) by Virūpākṣanātha with the commentary of Vidyacakravartin (out of stock). O 8 0 No. 10—ATTEICOT Matangalila (Gajalakşaņu) by Nilakantha (out of stock) 0 8 0 No. 11-acarcia urh Tapatisamvarana (Nataka) by Kulasekhara Varma with the commentary of Sivarāma (out of stock). 24 0 No. 12-TATTArch Paramarthasara (Vedānta) by Adišeşa with the commentary of Rāghavä nanda (out of stock). 0 8 0 No. 13-सुभद्राधनअयम् Subhadradhananjaya (Nataka) by Kulasekhara Varma with the commentary of Sivarāma (out of stock). 2 0 0 No. 14--tfarc: Nitisara (Nīti) by Kamandaka, with the commentary of Sankarārya (out of stock). 3 8 C No. 15-targar Svapnavasavadatta (Nataka) by Bhāsa (second edition). 1 8 ( No. 16-afaritcrarurh Pratijnayaugandharayana (Nataka) by Bhasa (out of stock). 1 8 0 No. 17-AITH Pancharatra (Nataka) by Bhāsa (out of stock). 1 0 0 No. 18-urruit Narayaniya (Stuti) by Närāyaṇa Bhatta with the commentary of Desainangalavärya (out of stock). 4 0 0 No. 19- AITHRITQe: Manameyodaya (Mimāmsā) by Nārāyaṇa Bhatta and Nārāyaṇa Paņqita (out of stock). 1 4 0 -STATE Arimaraka (Nataka) by Bhasa (out of stock). 1 8 0 No. 21-arsaftag Balacarita (Nataka) by Bhasa (out of stock). 1 0 0 8 RS. A8. P. No. 22-मध्यमव्यायोग-दूतवाक्य-दूतघटोत्कच-कर्णभारो. quia Madhyamavyayoga-Duta - vakya-Dutaghatotkaca-Karnabhara and Urubhanga (Nataka) by Bhasa (out of stock). 180 No. 23-Ararefulerinta: Nanartharnayasam ksepa (Kosa) by Keśavasvämin (Part I, 1st and 2nd Kāņdas). (out of stock). 11:0 No. 24-519eafturg: Janakiparinaya (Kavya) Cakra Kavi (out of stock). 100 No. 25-Turgfagtraersen Kanadasiddhantacandrika (Nyaya) by Gangadharasūri (out of stock). 0 12 0 No. 26–37 front Abhisekanataka by Bhasa (out of stock). 0 12 0 No. 27-ARCHFHą: Kumarasambhava (Kāvya) by Kalidā sa with the two commentaries, Prakasikā of Arunagirinatha and Vivaraņa of Nārāyaṇa Paņạita (Part I, 1st and 2nd Sargas) (out of stock). 1 12 0 No. 28—ATTFTT: Vaikhanasadharmaprasna (Dharmasutra) by Vikhanas (out of stock). 0 8 0 No. 29—aratefurarieta: Nanartharnayasam - ksepa (Koša) by Keśavasvamin (Part II, 3rd Kaņda) (out of stock). 2 40 No. 30—areglaen Vastuvidya (Śilpa) (out of stock). 0 12 0 No. 31-amarefufa fiata: Nanartharnayasam ksepa (Koša) by Keśavasyāmin (Part II1, 4th, 5th and 6th Kandas). i co No. 32-SATTETHET: Kumarasambhava í Kavya) by Kalidasa with the two coinmentaries, Prakasika of Aruņagirinatha and Vivarana of Narayana l'aņdita Part II, 3rd, 4th and 5th Sargas) (out of stock). % 8 0 4 RS. AS. P. No. 33-Touring: Vararuoasangraha (Vyakaraņa) with the commentary DIpaprabhā of Narāyaņa (out of stock). 0 8 0 No. 34-Aforator: Manidarpana (Nyāya) by Rājacuļāmaņimakhin. 1 4 0 No. 35-A FORETT: Manisara (Nyāya) by Gopinātha. i 80 No. 36~ARTEFE: Kumarasambhava (Kavya) by Kalidasa with the two commentaries, Prakäsikă of Arunagirina tha and Vivarana of Narayana Pandita (Part II], 6th, 7th and 8th Sargas). 3 0 0 No. 37–3raitella Asauoastaka (Smſti) by Vararuci with commentary. 0 4 0 No. 38-नामलिङ्गानुशासनम् Namalinganusasana (Kośa) by Amarasimha with the commentary Tſkāsarvasva of Vandyaghatiya Sarvananda (Part I, 1st Kāņda). 2 0 0 No. 39-91 Carudatta (Nāțnka) by Bhāsa (out of stock). 0 12 0 No. 40—3705EETH Alankarasutra by Rājānaka Ruyyaka with the Alaňkārasarvasva of Mankhuka and its commentary by Samudrabandha (second edition). 2 8 0 No. 41--CHUTCH Adhyatmapatala (Vedānta) by Apastamba with Vivaraña of Sri Sankara-Bhagavat-Păda (out of stock). 04 0 No. 42-afahra Pratimanataka by Bhasa (out of stock). 1 8 0 No. 43-aracteata Namalinganusasana (Koša) by Amarasimha with the two commentaries, Amarakosodghatana of Kşīrasvāmin and Tikåsarvasva of Vandyaghatiya Sarvānanda (Part II, 2nd Kanda, 1-6 vargas). 2 8 0 N7. 44-Turn Tantrasuddha by Bhattaraka, Vedottama. Q 4 0 3 RS. AS. P. No. 45-4914 Prapancahrdaya. 1 0 0 No. 46-Creteer: Paribhasavrtti (Vyakaraña) by Nilakantha Dikşita. 0 8 0 No. 47—fograf GTSTTH Sidhantasiddhanjana (Vedārta) by Krşņånanda Sarasvati (Part I.) 1 12 0 No. 48-सिद्धान्तसिद्धाजनम् Do. Do. (Part II). 2 0 0 No. 49-teatre Goladipika (Jyotişa) by Paramešvara. 0 4 U No. 50 - Terulangerent: Rasarnayasudhakara (Alankâra) by Singa Bhūpāla. 3 0 0 No. 51 -ATARSEQleah Namalinganusasana (Kośa) by Amarasimha with the two commentaries, A marakošodghatana of Kşīrasvămin and Tīkāsarvasva of Vandyaghatīya Sarvānanda (Part III, 2nd Kanda, 7-10 vargas). 2 0 0 No. 52-ATHISTERIETH Namalinganusasana (Koša) by Amarasimha with the commentary Tîkâ sarvasva of Vandyaghatiya Sarvananda (Part IV, 3rd Kåņda). 1 80 No. 53-3776 facrer: Sabdanirnaya (Vedanta) by Prakasatmayatîndrå. 0.12 0 No. 54 pontefalerier: Sphotasiddhinyayavichara (Vyakaraṇa). 04 0 No 55-मत्तविलासप्रहसनम् Mattavilasaprahasana. (Nâtaka) by Mahendravikrama- 0 8 0 No. 56--AEKryem Manusyalayacandrika (Šilpa) fout of stock). 0 8 0 No. 57-Tyercartan Raghuviracarita (Kavya). 1 40 No. 58-frenata Siddhantasiddhanjana (Vedânta) by Krşnananda Sarasvati (Part III). 2 0 0 variuan.
6 RS. AS. P. No. 59--TER Nangananda (Nataka) by Hargadeva with the commentary Vimarsinſ of Sivarama (out of stock). 34 0 No. 60-geafa: Laghustuti by Laghubhattaraka with the commentary of Râghavânaada. 0 8 0 No 61-fargmalergare Siddhantasiddhanjana (vedånta) by Rşşnânanda Sarasvati (Part IV). 1 4 0 No. 62– APACETE: Sarvamatasangraha. 0 8 0 No. 63-forcareira Kiratarjuniya (Kavya) by Bharavî with the commentary Sa. bdârthadſpika of Citrabhânii (1, 2 and 3 Sargas). 280 No. 64-Herret: Meghasandesa by Kålidāsa wîth the commentary Pradipa of Dakşiņâvartanātha. 0 12 0 No: 65—FTHA Mayamata (Šilpa) hy Mayamuni (out of stock). 3 4 0 No. 66-HET fara Maharthamanjari (Darsana) with the commentary Parimala of Maheśvarânanda. 2 40 No. 67-TEGET: Tantraasamuccaya (Tantra) by Narâyaņa with the commentary Vimarsinſ of Sankara (Part I, 1-6 Patalas) (out of stock).' 3 4 0 No. 68-7991T: Tattvaprakasa (Agama) by Sri Bhojadeva with the commentary Tâtparyadipikā of Śri Kumāra. 1 12 0 No. 69- farraigtagatarefa: Isenasivagurudevapaddhati(Tantra)byIsânativagurudevamišra Part 1, Sâmányapâda). 1 8 0 To. 70Arstiftactica Aryamanjusrimulakalpa (Part 1). 2 8 0 No. 71-ESTEET: Tantrasamuocaya(Tantra) by Vârâyana with the commentary Vimarsint of Sankara(Part II, 7-12 Patalas) (out of stock). 38 0 7 RS. AS. P. No. 72-aaragatangra: Isanasivagurudevapaddhati (Tantra) by Isanasiraguruderamiéra (Part II, Mantrapada). 4.00 No. 73-searcarafat: Isvarapratipattiprakasa (Vedānta) by Madhusudanasarasvati. 0 4 0 No. 74-erroia: Yajnavalkyasmrti with the commentary Balakridå of Visvarûpâcârya. (Part I - Acara and Vyavahâra Adhyâyās). 3 4 0 No. 75-Falaqah Silparatna (Silpa) by Srikumâra (Part I). 2 12 0 No. 76—pthagafrecieq: Aryamanjusrimulakalpa (Part II). 3 0 0 1o. 77-aparacayfa: Isanasivagurudevapaddhati (Tantra) by Isānasiva. gurudevamisra (Part III, Kriyāpāda 1-30 Patalas). 3 0 0 No. 78-आश्वलायनगृह्यसूत्रम् Asvalayanagrhyasutra with the commentary Anāvilā of Haradattācārya. 260 No. 79—stelallah Arthasastra of Kautalya with commentary by Mahāmahopadhyāya T. Ganapati Sāstri (Part 1-1 & 2 Adhikaraņās). 3 12 0 No. 80—37efalleth Do. Do. (Part II—3—7 Adhikaraņās). 4 0 0 No. 81—37cfuhala:Yajnavalkyasmrti with the commentary Balakrida of Visvarūpācārya (Part II. Prayascit tadhyya). 2 0 0 No. 82—37e Arthasastra of Kautalya with commentary by Mahamahopadhyāya T. Ganapati Sastri (Part III, 8-15 Adhikaraņās). 3 40 No. 83-arafareya qugfa: Isanasivagurudevapaddhati (Tantra) by Isana sivagurudevamisra (Part IV, Kriya pada 31-64 Patalas and Yogapada). 3 8 0 RS. AS. P. No. 84—374A=Teftaeq: Aryamanjusrimulakalpa (Part III). 2 0 0 0 No. 85-errorofen Visnusamhita (Tantra) 2 8 0 No. 36-erantat Bharatacarita (Kavya). by Krşņakavi. 1 8 0 No. 87—ESTEATERT: Sangitasamayasara (Sangīta) of Sangītakara Pârśvadeva. 1 20 No. 88—149979T: Kavyaprakasa (Alarkâra) of Mammațabhatta with the two commentaries the Sampradāyaprakāšinī of Sri Vidyācakravartin and the Sâhityacândâmaņi of Bhattagopala (Part I, 1-5 Ullâsās). 3 0 0 No. 89-stefargeSphotasiddhi (Vyākaraña) by Bharatamiéra. 0 8 0 No. 90-AfHierati Mimamsaslokavartika with the commentary Kāśikā of Sucaritamiśra (Part I). 2 8 0 No. 91-errore Horasastra of Varāhamihirā. cārya with the Vivarana of Rudra. 3 0 0 No. 92-cigaret Rasopanisat. No. 93-atraghra Vedantaparibhasa (Vedānta) of Dharmarājādhvarindra with the commentary Prakasika of Peddadīkşita. 1 8 0 No. 94-cat Brihaddesi (Sangita) of Matangamuni. 1 8 No. 95--Turgtfat Ranadipika (Jyotişa) of Kumāraganaka. 0 4 0 No. 96-***ilegt Rksamhita with the Bhāşya of Skandasvămin and the commentary of Venkatamādbavārya (Part I, 1st Adhyāya in 1st Astaka). 18 2 0 0 9 RS. AS. P. ( No. 97—ATCFTATárear Naradiyamanusamhita (Smrti) with Bhaiya of Bhavasvamin. 2 0 No. 98-ROTETTAA Silparatna (Šilpa) by ŚrIkumāra. 280 No. 99-ATHIETRIT Mimamsaslokavartika (Mimāmsā) with the commentary Käsikā of Sucaritamisra (Part II). 2 0 0 No. 100_1677417:Kavyaprakasa (Alankāra) of Mammaţabhațţa with the two commentaries, Sampradāyaprakasini of Srividyācakravartin and Sāhityacūļāmaņi uf Bhattagopāla. (Part II, 6-10 Ullāsās). Ğ 0 0 No. 101–3rfaith Aryabhatīya (Jyotişa) of Aryabhatăcărya with the Bhāşya of Nilakanthasoinasutvan (Part I. Gaạitapāda). 2 8 0 No. 102- Dattila (Sangīta) of Dattilamuni. 0 4 0 No. 103— feat Hamsasandesa (Vedānta) with commentary. 0 8 0 No. 104-Arraysafnt Sambapancasika (Stuti) with conmentary. No. 105-fafaragta: Nidhipradipa of Siddha- Srikanthasambhu. 0 4 0 No. 106-after fra Prakriyasarvasva. (l'ya karaña) of Srī Nārāyaņa Bhatta with commentary (Part I.) 1 0 0 No. 107–parcaFE Kavyaratna (Kavya) of Arhaddasa 0 120 Apply to:- The Curator for the publication of Oriental Manuscripts, Trivandrum 1 0.0
No text on this page.
No text on this page.
No text on this page.
No text on this page.