University Library,gurukul Kangri Vishwavidyalaya

संकृतप्रवेशिनी

Shaastrii Jii. Raamasvaami · 2006/03/10

PDF Proofread

Front matter

COMPILED Samskritapradesini 7 SRI VANI VILAS PRESS SRIRANGAM- POL www

|| श्रीः ॥
"साम्बाय नमः।
॥ संस्कृतप्रवेशिनी ॥
महीशूरपुरीश्रीमन्महाराजसंस्कृत.
पाठशालाद्वैतवेदान्ताध्यापकेन
जी. रामस्वामिशास्त्रिणा
गीर्वाणभाषाव्युत्पित्सूनां
बालानामुपयोगाय
विरचिता।
प्र
4
भीरमस्थ
श्रीवाणीविलासमुद्रायत्रालये
संमुद्रिता।
१९२१.

॥ श्रीः ॥ ॥ साम्बाय नमः ॥ ॥ भूमिका ॥ यादशग्रन्थपरिशीलनेन संस्कृतभाषया व्यवहाँ लिखितुं च सामर्थ्य भवेताशसुलभवाक्यघटिता गद्यग्रन्थाः भाषान्त- रोश्विव संस्कृतभाषायां प्रचुरतया न सन्ति । सत्स्वपि केषुचन कादम्बर्यादिग्रन्थेषु ते अतिप्रौढतया बालानां भाषाव्यवहारे नोपयुज्यन्ते । अत एवाधीतकाव्यचम्प्वादिग्रन्था अप्यने के जनाः संस्कृतभाषया व्यवहर्तुमशक्का दृश्यन्ते। भाड्ग्लादि- भाषान्तरेषु तथाविधानामेव ग्रन्थानां प्राचुर्येण सत्वात् ताह- शप्रन्थेषु द्विसप्रन्याध्ययनेनापि तद्भाषया प्रायशो बाला व्यवस्तु लिखितु च समर्था भवन्तीति बहवो मन्यन्ते । तदभिप्रायानुसारेण मया भनेनापि ग्रन्थेन संस्कृतभाषाव्युस्पि- सूनां बालानां यत्किंचित्ताशप्रयोजनं भवेदिति भयं ग्रन्थः भाङ्लग्रन्धरचनासरणिमनुसृत्य रचितः ॥ भस्मिश्च प्रन्थे बालानां मृगपक्ष्यादिजनवाकृतिस्वभावादि- परिज्ञानार्थ तत्तत्स्वभावादिबोधकाः कति धन पाठाः प्रवेशिताः। एतद्वन्धपठनेन बालाः साधुवृत्ता भवन्त्यिति सदृत्तबोधकाः २ -- पाठाः बाहुल्येन लिखिताः सन्ति । अध्येतृ चित्तविनोदप्रदा भपि काश्रन कथाः संगृहीताः । गद्यपथविवेकार्थ श्लोकरूपे- णापि केचन पाठाः रचिताः सन्ति । बहुश्रममनीकृत्य यथाशक्ति कृतपरिशोधमेऽप्यस्मिन्मन्थे यदि स्खलितमुपलभ्येत सदा गुणकपक्षपातिभिर्दयालुभि स्त- च्छोदनीयमित्यभ्यर्थयते- जी. रामस्वामिशास्त्री ।

। इवेन सह नित्योसमासा विमक्त्यलोपना वाति
रुपावतार' प्रम र
॥ श्रीः॥
॥ शिवाय नमः ॥
॥ संस्कृतप्रवेशिनी ॥
EMENT
१. गजः ।
पश्य कोऽपि स्थूल कायो नीला जन्तुरागच्छति ।
अस्मइरेषु कोऽप्ययमिव स्थूला न भवति । अयमेव

२ संस्कृतप्रवेशिनी। गज इति कथ्यते । अस्य स्तम्भा इव चत्वारः पादाः सन्ति । शूर्पसदृशी विशालौ द्वौ कौँ स्तः । अस्या- क्षिणी न विशाले। अस्य कन्धरा पीवरा हस्वा च । अत एवायं भारवन्तं बृहन्तं मस्तकं धर्तुं शक्नोति । योऽयं मुसल इवायतोऽवयवस्तस्य मस्तकादधोऽव- लम्बते स क इति किं त्वं जानासि? सैव गजस्य नासिकास्थानीया । अतोऽन्या कापि नासिका अस्य नास्ति । सा शुण्डेति व्यवहियते । गजस्तयैव नि- श्वसिति, गन्धं च जिघ्रति । कन्धराया अतिहस्व- तया सः अश्वादिरिव भूमिस्थस्तृणाद्याहारमास्येन गृहीतुमशक्त इति ईश्वरण द्राीयसी शुण्डा निर- मायि । गजस्तयवाहारादिकमास्यं नयति। शुण्डाया वृहत्त्वेऽपि गजस्तया अल्पमपि वस्तु गृहीतुं शक्नो. ति । तस्या बलिष्ठतयागजस्तया वृक्षस्य महतीमपि शाखामनायासेन भनक्ति। गजस्य जलावगाहने अधिका प्रीतिरस्ति। स स्नानसमये शुण्डया जलमादाय शरीरोपरिमार्ग लिञ्चति; शुण्डानं जलाहिर्निधाय निमजति च । शुङ्गे इव ये द्वे श्वेतेषस्तुनीशुण्डाया उभयपा निर्गते स्तः, तौ गजस्य दन्तौ। तौ पवितस्तिदीर्घ वर्षे पाताम् । गजदन्तः बहुकार्योपयोगी। तेन त्सरः कतिका व्यजनादयश्व क्रियन्ते । गजस्य केनाप्यप- संस्कृतप्रवेशिनी। कारे कृते स तं मनसि निधाय तस्य प्रतिकुर्यात् । तस्मिन्विषये काचन कथा दृष्टान्ततया अत्र लिख्यते- १६ प्रैल गजः सौचिकश्च एकस्मिन्नगरे कश्चन सौचिकोऽवर्तत । कस्मिश्चि- हिने तस्मिन् सेवनशालायां सूचीकर्म कुर्वति कश्चन गजस्तन्मार्गेण जलं पातुमाधोरणेन सह नदी प्राति- ष्ठत । अथाधोरणस्तस्य सौचिकस्य सेवनशालायाः समीपे गजं स्थापयित्वा केनचित्पुरुषेण सह संलपन् क्षणमतिष्ठत् । तदा गजः सौचिको यत्रातिष्ठत्तस्स- मीपस्थे गवाक्षे स्वशुण्डां लीलया केवलं प्रावेश- यत्, न तु तस्य सौचिकस्य यत्किचिदनिष्टस्य चि- कीर्षया । अथापि गवाक्षसमीपोपविष्टः स सौचिका सूच्या तस्य शुण्डाप्रमपाविध्यत् । अनुपमेव गजः स्वशुण्डां यहिरपकृष्य आधोरणेन सह जलपानार्थ नदीमगमत् । स जलं पीत्वा पङ्कमिश्नं जलं शुण्डा- दण्डेनादाय प्रतिनिवर्तमानस्तस्य सौचिकस्य गृह- समीपमागत्य तं तनिकटवर्त्यनर्धवस्त्रोधं च जलेन संसिच्यायासीत् । स च सौचिकः अनर्घवखनाशेन भृशमखिद्यत ॥ २१अप्रैन १९३२ १९५नुमशानाः। २. पिालिकाकपोतश्च ॥ - - काचन पिपीलिका स्वतृषं शमयितुं कस्याश्चिन्न- द्यास्तीरभूमिमधिगत्य जलं पिबन्ती तरङ्गताडिता अलेन्यपतत् । कृतबहुप्रयत्नापि सा तीरमधिगन्तु. मशक्नुवती निमजनोन्मुखी बभूव । तदा तन्नदी तीरप्ररूढस्य कस्यचिदृक्षस्य शाखायां जलोपरि लम्बमानायां तिष्ठन् कश्चन कपोतस्तां तदवस्थाप- मामैक्षत । ततः स दयया एकं पलाशमाच्छिद्य पिपीलिकायाः समीपे जले अपातयत् । सा तदारुह्य सेन सह प्लवमाना सुरक्षितं तीरमगमत् ॥ अथानतिचिरादेव कश्चन व्याधस्तदृक्षसमीपमा गत्य विहगग्रहणोपयोगिद्रवपदार्थलिप्तां विकीर्ण- धान्यविशेषामेकां शाखां प्रच्छन्नः कपोतस्य पुरत: अदर्शयत् । ततस्तीरस्थिता पिपीलिका तां शाखां दृष्टा, मनस्यचिन्तयत्-- अयं कपोतः अस्याः शाखाया उपरि विकीर्णानि धान्यादीनि खादितु- मस्यां शाखायामुपवेश्यति । तद्रा कपोतस्य चरणौ शाखास्थद्रवपदार्थेन दृढं संसक्तौ भविष्यतः, स स्वचरणौ तस्याः शाखाया: मोचयितुमसमर्थः ब्या- धेन गृहीतो भविष्यति; अतः कपोतो लब्धोपकारेण'

संस्कृतप्रवेशिनी।
मया रक्षितव्यः; तं प्रत्युपकर्तुमयमेवावसर इति ।
एवं विचिन्त्य पिपीलिका व्याधस्य पादं दृढमदशत्।
व्याधः पादं ससंभ्रम छन्वन् हस्तस्थितां शाखां
भूमावक्षिपत्। तस्मात् भीत कपोतः कुत्रचिदडयिष्ट।
२८ अप्रैन६३२
३. संभाषणम् ॥
?
रामः-रे, शिव, मुकुन्दसदनद्वारे कुतो जनसं-
मर्दः । पश्य, मुकुन्दस्य भ्राता विषण्णवदन इव
लक्ष्यते । स ससंभ्रममन्तर्गच्छति, बहिरागच्छति
च । किमस्य विषादस्य निमित्तम् ?
शिव:- किं त्वं नाज्ञासी: ? कुत्र त्वमेतावन्तं
कालमतिष्ठा?
रामः- अहमस्मिन्दिने प्रत्युषस्येव पित्रा घृतमा-
नेतुं समीपवर्तिग्राम प्रति प्रेषितः इदानीमेवागत्य
कृतस्त्रानभोजनः बहिरागमम् । अतो नाहं किंचि-
दपि बेमि॥
शिव:- तर्हि शृणु, वच्मि । प्रातरुद्याने मुकुन्दः

संस्कृतप्रवेशिनी। सर्पदष्टो मोहमुपगतः । तस्य पिता तद्वत्तान्तं श्रुत्वा उद्यानं गत्वा, तं स्कन्धेनोर गृहमनपीत् । तद्धात्रानीतेन विषवैद्येनेदानीमेव मुकुन्दो निर्विषः कृतः । इदमेव तत्पितृभ्रात्रादीनां विषादस्य निमि- त्तम् । अत एव मुकुन्दसदने जनसंहतिः ॥ रामः मुकुन्दः कावर्तत? कथं सर्पस्तमदशत् ? शिवः- अनध्यायोऽयं दिवस इति प्रातर्मुकुन्दो विहरणार्थ माधवेन साकमुद्यानमगमत् । स तत्र पुष्पाण्याचिन्वंश्चिरं माधवेन सह विहरति स्म । पश्चादेकं चूतवृक्षं दृष्ट्वा तत्कोटरे शुकशायका घर्तरनिति मत्वा तहणाय वृक्षमारुक्षत् । अत्र कोटरे शुकशाबकोऽस्ति न वेति इशा अनवलो. क्यैव स कोटरे करं न्यक्षिप्त । तदा कोटरस्थः कश्चन सर्पस्तस्य हस्तं दष्ट्वा बहिर्निरगमत् । स सर्प दृष्ट्वा भीतो भूमौ न्यपतत् । अचिरेणैव विष- व्याप्तो मोहमगमश्च ॥ रामः-तर्थस्माभिरपीतःपरं सम्यगवेक्ष्यैव कोटरे बिलादौ वा करः प्रवेशयिसन्यः॥ १मई१६३२ ४. गोदोहकः ॥ . मुग्धस्य कस्यचिद्राम्यस्य वशे एका धेनुरवर्तत । सा तस्मै द्विप्रस्थपरिमितं पयो ददती तस्थौ। अथै- कदा स मुग्धो मनस्यचिन्तयत्- अस्मिन्प्रामे महान् कश्चनोत्सवः प्रत्यासत्रो वर्तते; तदा जनानां ममा. . जो भवेत् पयोमूल्यमधिकं च स्यात् तदितः पर- मानः अस्या मम धेनोः पयः समग्रमपि एकषा- रमेवोत्सवे धोश्यामीति। स एवं विचिन्त्य मास. मानं तां धेनुं पयो नाधुक्षत् । तदनु मासात्परम त्सवः प्राप्तः। तदा स मूढस्तां धेनुमखिलं पयो

८
संस्कृतप्रवेशिनी।
दोग्धुमारभत । बहुदिनपर्यन्तं दोहनविच्छित्या सा
धेनुः पूर्वदत्तपरिमितमपि पयस्तस्मै नादात् ॥
मूर्खभृत्यः ।
कस्यचित्पुरुषस्य मूर्खः कश्चन भृत्यः आसीत् ।
एकदा स तं तैलमानेतुं वणिजोऽन्तिकं प्रैषयत् । स
पणिक्समीपं गत्वा तस्मान्मृत्पात्र तेलमुपादत्त ।
तैलपात्रं गृहीत्वा आगच्छन्तं तं कश्चन सुदिलो-
क्यावदत्, सखे, पात्रतस्तलमधःस्रवति, अतस्तैलं
रक्षेति । तदाकर्ण्य मूढः पात्रस्याधांभागं वीक्षितुं
पात्रं पर्यवर्तयत् । तेन सर्वमपि नेलं पात्रा व्यप-
तत् । तदृष्ट्वा सर्वेऽपि जनाः जहसुः । ततः स्वा-
मिना विदितवृत्तान्तेन स मूढो गृहानिर्वासितः॥
मई१६३२
५. यूकामत्कुणौ
.
राक्षः कस्यापि शयने चिरमासीदलक्षिता।
यूका कुतश्विदागत्य नाम्ना मन्दविसर्पिणी ॥१॥
अकस्मात्तत्र चोपेत्य कुतोऽपि पवनेरितः।
विवेश शयनीयं तट्टिट्टि भो नाम मत्कुणः ॥ ३॥

संस्कृतप्रवेशिनी। ९ मनिवासमिमं कस्मादागतस्त्वं व्रजान्यतः। इति मन्दाविसर्पिण्या स दृष्ट्वा जगदे तया ॥ ३॥" अपीतपूर्व पास्यामि राजामृक्तत्प्रसीद मे। दहीह वस्तुमिति तामवादीत्सोऽपि मत्कुणः ॥४॥ ततोऽनुराधादाह स्म सा तं यद्येवमाश्च तत् । किं त्वस्य राज्ञो नाकाले दंशो देयस्त्वया सखे ॥ देयोऽस्य वंशः सुतस्य रतसक्तस्य वा लघु । तच्छ्रुत्वा मत्कुणः सोऽत्र तथेत्युक्त्वा ह्यवर्तत ॥ शय्याधितं विनिद्रं च नृपमाशु ददंश सः। उत्तस्थौ च ततो राजा हा दष्टोऽस्मीति स ब्रुवन् । ततः पलायिते तस्मिस्त्वरितं मत्कुणे शठे। विचित्य राजभृत्यैः सा लब्धा यूका व्यपाधत ॥ एवं टिट्टिभसंपन्निा मन्द विसर्पिणी ॥ ६अप्रैल६३२ प्रा. 2

१०
संस्कृतप्रवेशिनी।
६. वानरः
पश्य, गृहाणां पटलेषु धावतो वानरान् । तेऽतीव
दुष्टचेष्टिताः आपणादौ विद्यमानानि फलानि अन्या-
नि भस्यवस्तूनि चापहत्य धावन्ति ; तेऽतिचपलाः ;
अनलसाश्च । पश्य, कथं ने गृहट्टहान्तरमुत्लवन्ते।
वानराश्वरमपादाभ्यां नरा इव गन्तुं शक्नुवन्ति ।
किं च यथा वयमस्मद्धस्तावुपयुज्महे, तथा वानराः
स्वेषामनपादावुपयुअने। पश्य, पश्य, कश्चन वानरः
कस्यचिद्वालकस्य हस्तस्थितं नालिकेरखण्डं बला-
गृहीत्वा गृहपटलमारोहति । स तत्रोपविश्य नालि-
केरखण्डमग्रपादेन गृहीत्वा खण्डशो दशवादति ॥

संस्कृतप्रवेशिनी। वानरा यावन्तं खाद्यमास्ये निक्षिपन्ति, तावन्तं युगपन्न असन्ते; किं तु कपोलान्तर्वतिन्यां कस्यांचन चर्मभस्त्रिकायां विन्यस्य यथावकाशंसंदश्य असन्ते। वानरस्य पादाः नाम्मत्पादसदृशाः सन्ति ; किं तु प्रायेणास्मद्धस्ताननुकुर्वन्ति । अत एव केचन वान- रान् चतुष्पाणीन् भणन्ति । वानरा न भूतले निवस- न्ति; किं तु वृक्षेप्येव । अत एव ते शाखामृगा इति कथ्यन्ते। वानरा नर्तितुमुत्प्लवितुमन्या अपि चेष्टाः कर्तु शिक्षिता भवन्ति । अतः केचन वानरान् गृहीत्वा ता- वशीकृत्य शिक्षितनर्तनादिकैस्तैर्विस्मयनीयाश्चेष्टाः कारयित्वा धनादिकमर्जयन्ति । मई লেংটকৰ ७. गोपालः नारङ्गफलं च ॥ - - कश्चन कृषीवलः पिट कमेकं नारङ्गफलपूरितं शिरसोदा पेण्यवीथिकामगच्छत् । तस्मिन्गच्छति पञ्चषाणि फलानि पिटकात्परिभ्रश्य भूमौ न्यपतन् । पतितानि फलानि कृषीवलो नालक्षयत् । गोपाल- नामधेयः कश्चन दरिद्रो बालकस्तानि फलानि गृहीत्वा कृषीवलमाह्वयत् । कृषीवलः परिवृत्य गो- , "रान m- संस्कृतप्रवेशिनी। प्रचार मालेतयाते पालं दृष्ट्रा तत्रैवास्थात् । म बालकस्तत्समीपं गत्वा त्वयि गच्छति, इमानि फलानि पिटकात्परिभ्रष्टानि, गृहाणेमानीत्युक्त्वा तस्मै तानि फलान्यदात् । कृषीवल: शिरस्थं पिटकं भूमौ निधाय तानि फलानि गृहीत्वा बालकमवोवत्, बालक, तव सवृत्तेनाहं भृशमतुषम् ; अतस्त्वमेतेषु फलेषु ये तुभ्यं रोचेते ते वेफले गृहीवेति । तथैव स बालको द्वे फले प्रत्य- ग्रहीत् ॥ गते कृषीवले, अन्यः कोऽपि बालकोगोपालली पमागत्य तमवोचत्, गोपाल, अध:पतितानि सर्वा ण्यपि फलानि कुतस्वयान स्वायत्तीकृतानि ? किमर्थ फलपतनमजानते कृषीवलाय तान्यदाः ? तानि वायत्तीकृतानि चेत् तेष्वेकं मह्यमेकमितरस्मै च दातुं शक्यं स्यादिति। स तं प्रत्यवोचत् , वयस्य मैवं वादीः, यद्यपेक्षा तव गृहाणेदं फलम् , यत एतन्मदी. यम्, यद्यहमनात्मीयं वस्तु अन्यस्मै दद्या तदा चोरः स्याम् , दरिद्रोऽप्यहं चारित्रं मलिनयितुमल्पमपि नेच्छामीति ॥ १०मई १३२ ८. संभाषणम् ॥ - कृष्णः- रेराम कुत्र त्वमतित्वरितं गच्छसि ?

संस्कृतप्रवेशिनी। १३ रामा- अहं मम पित्रा देवतार्चनाय पुष्पाण्याह तुमादिष्टोऽस्मि, अतः पुष्पाण्याचेतुं पुष्पवाटिका गच्छामि। कृष्णः- तर्हि क्षणं तिष्ठ, यावदहमपानरीयं गृहीत्वा लघवागच्छामि । रामा (तथैव क्षणमवस्थाम. कृष्णेन सह पुष्पवाटिका गत्वा) कृष्ण, पश्य जातीमल्लिकोप्रभृतीनामनेक- विधानि कुसुमानि विकसितान्यत्र सन्ति । नन्मनोन्नेयं पुष्पवाटिका मनस: प्रीतिमुत्पादयति। कृष्णः -- (विचित्रपक्षान्पतङ्गादीनितस्ततो डयमानान्वि-अ लोक्य) राम, त्वमत्र पुष्पाण्यवचिन्वस्तिष्ठ, अहं गत्वा पतङ्गादिभिः सह क्षणं विहत्य आगच्छामि । (कुसुमान्यवचिन्वानः, सुन्दरमेकं पत गृहीत्वा तस्य पक्षं भजन्तं कृष्णमवलोक्य, सत्वरं तत्समीपमा- गस्य), रे नृशंस, किमर्थमनपराधिनस्तस्य पक्षं भनशि? कृष्णः- पक्षस्य भजने का क्षतिः, केशबो बहु- कुत्वः पतलादीन् कण्टकेनापविध्यन्मया दृष्टः । रामः हा, भतिक्रूरकर्मा सः, स किं पतझादयो , १४ मानुभव संस्कृतप्रवेशिनी। ति व्यथां नानुभवन्तीति जानाति? कृष्ण: नाहं तवभि, न वा तदचिन्तयम् । २ राम:- यद्यहं कण्टकेन तव शरीरमपविश्येयम् , तव हस्तादिकं वा यदि भज्याम्, तदा त्वं किं वेदनां नानुभवेः? कृष्णा अनुभवेयमेव, वेदनामसहमानो रुद्यां च । राम:--' एवं पतझादीनां पक्षादिभाने तेऽपि वेद- नामनुभवेयुरेवेति जानीहि । किं च मया तव हस्ते भग्ने कण्टकेन विद्ध वा, किं त्वं तूष्णी वतेथाः? कृष्ण:--- नाहं कदापि तूष्णीं तिष्ठेयम् , किं तु तुभ्यं कुप्येयम् , यतः तन्मम व्यथां जनयेत् । रामः- यद्येवं तर्यस्माभिः पतनादीनां पक्षे भने, तत्तेषामपि किं व्यथां न जनयेत् ? जनयेदेव । अतोऽस्माभिः पतङ्गादीनां पक्षादयो न भञ्जनीयाः। कृष्णा- अजानता मया अस्य पतङ्गस्य पक्षो भन्नः ; नाहमितः परं प्राणिनां पीडाकरं किमपि कर्म कुर्याम् ॥ पाई १६३२ ९. कोधनः ॥ गृहस्थः कश्चन पुरुषः स्वमित्रस्य कस्यचिदहिः स्थितस्य शुण्यतो गुणान् स्वजनाग्रतो जगाद । तदा तेवेकस्तमब्रवीत् , सखे, सत्यं स गुणवानेव, किं तु द्वौ तस्य दोषौ स्तः, यतः स साहसी क्रोधनधे- ति । एवंवादिनं पुरुषं बहिःस्थित: पुमानिशम्यात्यन्तं क्रुद्धः संहसा अन्तरागत्य वाससा तस्य कण्ठं वेष्ट- यित्वा, रे जाल्म, किं मे साहसम् ? कः क्रोधश्च मया कृत इत्यवोचत् । तदृष्ट्वा हसन्तः तत्रस्था जनाः तमवादिषुः, रे मूर्ख, प्रत्यक्षेणैव त्वया क्रोधसाहसे दर्शिते, किमितोऽन्यद्वक्तव्यमिति । एवमः प्रकटो- ऽपि खदोषो न बुध्यते ॥ अपूपभक्षकः । कश्चन मुग्धः कदाचिद्रामान्तरं जिगमिषुः पथि भोजनायैकेन पणेन अष्टावपूपानकीणात्। स तान् गृहीत्वा ग्रामात् प्रस्थाय बहुदूरमगमत् । ततः श्रा- न्तो मार्गमध्ये कंचन तटाकं रष्ट्वा तत्समीपे समुप. विश्य कृतहस्तादिक्षालनः स्वसमीपस्थेवपूपेषु षड

संस्कृतप्रवेशिनी।
पूपान्प्रथममभुक्त । षद्स्वपूपेषु भुक्तेम्वपि स तृप्ति
नाध्यगच्छत् । तत. सप्तमोऽपूपस्तेन भुक्तः । भुक्तेन
सप्तमेनैव तस्य तृप्तिरुदपद्यत । ततः स जडः क्रन्दि-
तुमारभत, हा हतोऽस्मि मुषितोऽस्मि । कुतो मया
मूढेनादित एवायं सप्तमोऽपूपो न भक्षिता, येन
पिनोऽस्मि, वृथैव मया अन्ये षडपूपा नाशिता इति ॥
१४पई १६३२
१०. हंसौ कूर्मश्च ॥
हिनोपदेशोऽनुष्ठेयो विनाशः प्राप्यतेऽन्यथा।
तथी च कम्बुग्रीवाख्यः कूर्मः क्वापि सरस्यभूत् ।।
तस्यास्तां सुहृदौ हंसौ नाना विकटसंकटौ।
एकदावग्रहमीणजले सरसि तत्र तौ ॥२॥
हंसावन्यत्सरो गन्तुकामौ कूर्मो जगाद सः ।
युषां यत्रोचतो गन्तुं नयतं तत्र मामपि ॥ ३ ॥

स्कृतप्रवेशिनी नसतातया दूर दल आता (एशियो तच्छ्रुत्वा तावुभौ हंसौ कूर्म तं मित्रमूचतुः । सरों दूरीहवीयस्तचनावां गन्तुमुद्यतौ। ४ ॥ तत्रागन्तुं तवेच्छा चेत्कार्यमस्मद्वचस्त्वया । भस्मभृतां गृहीत्वैव दन्तैर्यष्टिं दिवि वजन् ॥ निरालापोऽवतिष्ठेयाष्टो व्यापस्यसेऽन्यथा । तथेति तन दन्तात्तयष्टिना सह तो नभः ॥ ६ ॥ कूर्मेणोपेततुहेमौ १५-योरात्तयष्टिको। क्रमाच तत्सर्ण प्राप्तौ तौ कर्महारिणौ ॥ ७ ॥ दत्तशुस्तधोवर्ति नरामागिणो जनाः । किमतन्त्रीयते चित्रं हसाभ्यामिति तैर्जनैः ॥ ८॥ क्रियमाणं कलकलंस कूर्मश्चलोऽशुणोत् । कुतः कलकलानिति वकाद्विहाय ताम् ।। का पृ यष्टिं स छन्हमी तौ भ्रष्टो जघ्ने जनैर्भुवि एवं बुद्धि तो नश्येत्कूर्मो टिचुतो यथा ॥ १ईमई६३२ ११. महिषः॥ पश्य तस्य महतो वटवृक्षस्य छायायां विद्यमान महिषाणां सइयम् । तस्यानतिदूरे यश्चतुर्दशवर्षध- यस्को बालकः करे दण्डं गृहीत्वा तिष्ठति, स एव महिषचारकः । स तान्महिषान्वने चारयति; सायं च गृहं नयति ; विलोकय, स महिषस्य पृष्ठमारो- हति; आरुह्य दण्डेन तं प्रहरति ; प्रहृतोऽपि स मन्दं मन्दमेव गच्छति । महिषा मन्दगामिनः; किंांच- दूरमपि ते न प्रधावितुं शक्नुवन्ति ॥ महिषस्यापि गोरिव द्वे शृङ्गे विभक्ताश्चत्वारः खुराः एकं पुच्छं च सन्ति । महिषाः प्रायशः श्या- मवर्णाः । गवादीनामिव महिषाणां गात्रे निबिडानि संस्कृतप्रवेशिनी। १९ तनृरुहाणि न सन्ति । अतस्ते आतपादधिकं विस्य- स्ति, आतपतापं न सहन्ते । महिषाणां जलावगाहने अधिका प्रीतिः । जलं पातुं महिषा तदाकं नदी वा यदि नीयेरन् , तदा अनुपदमेव ते जलमवगाहे- रन् । ते स्वशिरांसि जलोपरि निक्षिप्य सुचिरं जले मज्ञन्तस्तिष्ठन्ति ॥ महिषे बलमधिकं वर्तते। स वृषभ इव भारं शकटादिकं च वहति । कृषीवलो वृषभानिव महि- पानपि हले संयोज्य क्षेत्रादिकं कर्षति । महिषी गोरधिकं क्षीरं ददाति । माहिषं क्षीरं गोक्षीराद्ध नम् , तस्मादधिकं नवनीतमुत्पद्यते । किं तु माहिषं क्षीरं गोक्षीरमिव न स्वादु, नापि शरीरारोग्यकरम् । मत एव जनास्तस्याः क्षीरं प्रायशः शिशून्न पायय- न्ति, स्वयं न पिबन्ति च ।। १४ , म १२. यथार्थवादी ॥ वासुदेवाभिधः कश्चन बालकोऽवर्तत । एकदा तस्य पिता तस्मै एकां ताम्रमुद्रामदात् । स तां गृहीत्वा फलादिकं केतुं पण्यवीथिमगच्छत् । तस्मि- नाच्छति तद्धस्तस्थिता ताम्रमुद्रा प्रभ्रश्य भुवि पांसुषु २० संस्कृतप्रवेशिनी। कुत्रचिन्म्यपतत् । स तां सुचिरमन्वेषयामास । अथापि स तां न समासादितवान् । तेन दुःखितः सः तत्रैवोपविश्य रोदितुमारभत । ततस्तन्मार्ग- गामी कश्चन धनिकः पुमान् रुदन्तं वासुदेवं दृष्टा, बालक, किमर्थमत्र रुइंस्तिष्ठसि इत्यपृच्छत् । स तं प्रत्यवदत् , ममैका मुद्रा नष्टा, सा मया चिरमन्वि- टापि न लग्धा, अतो रोदिमीति । ततः स पुमानेकां सुवर्णमुद्रां करे गृहीत्वा, नष्टा त्वदीया मुद्रा किमियं नेत्यपृच्छत् । बालकस्त्ववोचत्, न हि न हि, यं सुवर्णमयी मुद्रा, मदीया तु न स्वर्णमयीति । अथ रजतमयीं मुद्रां प्रदर्श्य, तीयमेव मुद्रा त्वदीया भवेदित्यहं मन्ये इति तेन पुरुषणाभिहितो वासुदेवः, रजतमयी मुद्रापि न मदीयेत्यवाचत् । तीयं किं तव मुद्रेत्युक्त्वा स ताम्रमुद्रामादायादर्शयत् । बाल- कस्तां दृष्टा सहर्षमभाषत, इयमेव, अथवा एतत्स- दृश्येव नटा मदीया मुद्रेति। तुष्टः स पुरुषः अहं सुवर्णरजतमुद्रे अपि तुभ्यं ददामि, यतस्त्वं सस्यमा वादीरित्युक्त्वा, ते अपि बालकायादात् । तदृष्टा तत्रस्था जनाः अयमेव सत्यवादी, यस्मात्सुवर्णमुद्रा लब्धुमयमनृतं नाघादीदित्युक्त्वा' नस्मिन्प्रतिमा कार्युः ॥ मई १६३२ बैशाव सादर 21 १३. संभाषणम् ॥ १६८ 7... 22,7 - केशवः माधव, किं त्वं मया सह स्नातुं वापीमा- गच्छसि? , माधव:-- आगच्छामि, कां वापी गच्छेव ? केशव:- रामस्यारामे विद्यमानां पापी गच्छेव । सा अतिविशाला, चतुर्यु पार्वेषु निर्मितशिला- सोपाना । तस्याः जलमतिस्वच्छम् । माधवः- ओम् अतिविमलं जलम् , अत भवान्त- रस्था मत्स्यादयः स्फुटं दृश्यन्ते, मया दृष्टचरी सा वापी, भागच्छ, गच्छेव । केशवः---- (माधवेन सह गत्वा) माधव, प्रथमतो वस्त्राणि क्षालयित्वा पश्चात्समावः। सख्खे, कुतस्तष वासो मलिनं वर्तते, कः प्रत्यहं तव पासः क्षाल- यति ? मलिनवस्त्रं स्प्रधुमपि मह्यं न रोचते, कथं त्वमेतादृशं मलिनं धलं परिधत्से। माधव:-- माहं प्रत्यहं मम वस्त्रं झालयामि । कि तु माता मे क्षालयति। . রেষ্কাষ २ संस्कृतप्रवेशिनी। -- - केशवः ल्यव दृढे हस्तपादे सति, कुतो वस्त्रं मात्रा क्षालयम् , कथं सा वृद्धा सर्वाणि गृहका- र्याणि कृत्वा तव वस्त्रमपि क्षालयितुं शक्नुयात् ? वार्धके पित्रोः साहाय्यमस्माभिः कार्यम् । एवं स्थिते कथं त्वं वृद्धां वस्त्रक्षालने प्रेरयसि ? माधव: वस्त्रक्षालनादिरूपक्षुद्रकर्मकरणमस्माकं न सशमिति नाहं वस्त्रक्षालनादिकं करोमि। केशवः- दुरभिमानी अल सश्चैवं मन्यते। विवे- किन आर्या नैवं मन्येरन् । यान्यात्मसुखसाधना- न्यस्माभिः कर्तुं शक्यानि कृत्यानि, तान्यस्माभि- रेव कर्तव्यानि, न वितरैः कारयितव्यानि । तद- र्थमेवेश्वरेणेतरेषामिवाम्माकमपि करचरणादयः सृष्टाः सन्ति । अन्धपङ्ग्वादीनां खल्विनरापेक्षा, नास्माकं दृढावयवानाम् । तदितः परमात्मरक्षार्थ यदवश्यं कर्म कर्तव्यं तत्त्वं स्वयमेव कुरु; मात्रा- दीनामपि यथा शक्त्युपकुरु । माधव: अहमित:परं तथैव करोमि । केशवः- सखे जलमवतर, मायाव, जलेन शरीरं सम्यक् क्षालय, शरीरस्थं मलं यथा निःशेषं नि- . - MIN 20' संस्कृतप्रवेशिनी । MALA गच्छेत् तथा स्नातव्यम् । तारशस्नानमेव शरीर- शुद्धिकरमारोग्यकरं च । माधव: अतिशीतलं जलम् , जलस्पर्शेन रोमो- द्मो जायते, शरीरं च कम्पते । केशवः-- वापीमध्यं मा गमः, अगाधतया अ- न्तर्निमजेः । महान्कालो भतिक्रान्तः । तदेहि गृहं या॥ २५भई १९३२ १४. तण्डुलभक्षको जामाता । कश्चन मूर्खः पुमानेकुदा श्वशुरगृहमगमत् । स तत्रैकस्मिन्दिने श्वश्वां स्नानार्थ गतायां महानसं गत्वा तत्र पाकार्थ स्थापितान् शिनान् तण्डुलान्वीश्य, एका तण्डुलमुष्टिमादाय भक्षयितुमास्ये प्राक्षिपत् । तस्मिन् क्षणे स्नातागतां श्वश्रू वीक्ष्य. ह्रिया तांस्त- ण्डुला गरिटमुद्भिरितुं वा स नाशकत् । ततः श्वश्रा पीनोच्छनगलं तं वीक्ष्य किं तव गल्ले वर्तत इति पृष्टोऽपि यदा स मूर्खस्तस्यै प्रत्युत्तरं नादात्, तदा सा रोगेणास्य गल्ल उच्छ्रनो जातः अतो लपि- संस्कृतप्रवेशिनी । तुमयं न शक्नोतीति मत्वा पतिमाहूय तस्यदर्शयत्। सोऽप्यालोक्याशु वैद्यमानयत् । वैद्यर :स्य गल्लं दृष्ठा शोफमाशङ्कमानस्तस्य मूढस्य गल्म पाटयत् । एवमझा अकार्य कुर्वन्ति । किं तु तदहितुमुपायं न जानन्ति। गायकः । कदाचित्कश्चन गायकः कंचनाढ्यं वीणादिवाद्य- युक्तेन गीतेनाधिकमतोषयत् । स तस्य गीतं श्रुत्वा, अहो साध्वनेन गीतमित्युक्त्वा भाण्डागारिकमा- इय, अस्मै गायकाय पञ्चशतरूपकान् दहीति तत्स. मक्षमभाषत । स एवं करोमीत्युक्त्वा निर्ययौ । अथ तुष्टो गायको भाण्डागारिकसमीपं गत्वा तमाढ्यो- कान् रूपकानयाचिष्ट । स याचितोऽपि तस्मै कि- मपि नादात्। ततः स आयसमीपं गत्वा रूपकान् दापयेति प्रार्थयत । स तमवादीत्, किं त्वया मे रूपका दत्ता भवन्ति, येनाहं प्रतिददानि; त्वया गीतादिना केवलं श्रुतिसुखं कृतम्, मयापि तथैव दानवाक्येन तव श्रुतिसुखं कृतमिति। तदाकर्ण्य विहताशोऽपि गायको हसन् ययौ ॥ ईमई १५. मेपवृको ।। कस्मिश्चिदिवसे ग्रीष्मे मध्याह्नसमये क्वचित् । पर्वताग्रादधः कांचित्प्रवहन्तीं तरङ्गिणीम् ॥ १ ॥ तृट्पीडित: कोऽपि वृकः समागत्य जलं पपौ। तस्मिन्नवसरे मेषो व्रजात्प्रभ्रश्य कश्चन ॥२॥ स्त्रोतोवहां च तामेव समागच्छत्पिपासितः। वृकदेशान्क्वचिह्रे तिष्ठन्सोऽपि पपौ जलम् ॥३॥ वृको विलोक्य तं मेषं मनस्येवं व्यचिन्तयत् । कयापि युक्त्या व्यापाद्य खादनीयो मयेत्ययम् ॥ एवं वृकः समालोच्य तं मेषं समुपासरत् । उपसृत्य सदुष्टात्मा सक्रोधं तं समभ्यधात् ॥५॥ मूर्खाविलं कुतोऽकार्षीः पीयमानं मया जलम् ॥ इति तन प्रकथितः प्रोवाच भयकम्पितः॥६॥ वृकराज कथं कर्तुं शक्नुयामाविलं जलम् । त्वत्सकाशान्मत्समीपमागच्छति यतो जलम् ॥ इत्येवमुक्तो मेषेण वृकस्तं पुनरब्रवीत् । तदास्तां वत्सरात्पूर्व मामनिन्दिीरिति श्रुतम् ॥ 16 3 更 संस्कृतप्रवेशिनी। किमर्थ त्वमनिन्दीर्मामित्युक्तः प्रत्युवाच तम् । स्वामिन्निदमसंभाव्यं नाहं जातस्तदा सुचि ॥९॥ जातस्य मातुर्जठरात्रयो माला यतो गताः । मया प्रोनं द्वयमपि विधादस्य च कारणम् ॥ १० ॥ वृथाकृतमनेनेति कुपितोऽसौ वृकोऽब्रवीत् । त्वया मूढानिन्दितोऽपि पिना स्यां तव निन्दिनः॥ इत्युक्त्वा भयभ्रान्तं मेषं हत्वा चखाद सः । निष्कारणं दुष्टजना हिंसन्त्यवं सुदुर्बलान् ॥ १२ ॥ २८मई१६३२ १६. सृगालः ॥ रात्रौ प्रतिदिनमस्मद्गृहसमीपवर्तिनो वनात् यद्भी- षणं रुतं श्रूयते तत्कस्य जन्तोरिति किं त्वं बेन्सि ?

२८ संस्कृतप्रवेशिनी । तत्सृगालस्य रुतम । सृगाला प्रायशो दिवा न सञ्च- रन्ति, किं तु रात्रावेव सङ्घीभूय वहिनिर्गच्छन्ति । मतो रात्रावेव तेषां रुतं शृणुमः । सृगालः शुनक- जातीयः, प्रायशः आकृत्या शुनकसदृशः, किं तु तस्य नासिका शुनकस्य नानिकात उप्रा, वालश्च लोम- शो दीर्घश्च । उत्तरदेशेषु वर्तमानानां सृगालानां श- रीरेषु निबिडानि मृदूनि रोमाणि सन्ति । शिशिरका- लेषु अतिनिबिडं रोमाणि प्ररोहन्ति शुक्लीभवन्ति च । व्याधास्तेषां चर्मग्रहणार्थ तान् नन्ति । व्याधैरनु- धावितं चेत्ते गुल्मादिषु निलीना भवन्ति । तदा श्वानो गन्धेन तत् स्थानं ज्ञात्वा भषणेन दंशनेन वा तान्बहिर्निर्गमयन्ति । तदानीं व्याधास्तान् नन्ति । एकः सृगालो यदि रवितुं प्रारभेत, तदा सर्वे ऽप्येकदैव स्वन्ति । तेषां रूतमति भीषणं विरसं च । बालकास्तेषां रुतं शृणुयुश्चेन् नियतं बिभीयुः । स. गाला भूमौ निखातान्यपि मृतशरीराणि गन्धेन शात्वा स्वाग्रपादाभ्यां भूमि खनित्वा तानि बहिर्नी- त्वा खादन्ति । तेषां कुक्कुटे अधिका प्रीतिः । ते रात्रौ निभृतं कुक्कुटालयं प्रविश्य कुक्कृटान् चोर यित्वा पलायन्ते । मांसाद्याहारः पर्याप्तं यदि न लभ्येत, तदा सृगालाः फलान्यपि खादयेयुः॥ २०मई१६३२ १७. गोविन्दमाधवौ ॥ गोविन्दाभिधः कश्चन दरिद्रो ब्राह्मणो भाग्ये- चछया कस्याश्चिन्नधास्तीरे तपश्चरन्नतिष्ठत् । तं दृष्ट्वा माधवाख्यस्तत्प्रातिवेश्यस्तस्या एवं नद्यास्तीरान्तरे तपस्तेपे । एवं गतेषु बहुषु दिवसेषु, ईश्वरो गोवि- न्दसमीपमागत्य, अहं तव तपसा संतुष्टः, किं तवा- भीष्टं बृहीत्यपृच्छत् । स ईश्वरमब्रवीत् , भगवन् , अन्यस्मिस्तीरे माधवस्तपश्चरंस्तिष्ठति । स यत्त्वां प्रार्थयिष्यते, तद्दिगुणं मम भवत्विति । अनन्तरमी- श्वरो माधवसविधं गत्वा अपृच्छत् का तव वा छे. ति । स त्वीश्वरमपृच्छत् गोविन्दस्त्वां किमयाचि. टेति । ईश्वरेणाभिहितम् , यत्त्वं याचिष्यसे, तस्मात् द्विगुणं तेन लब्धव्यमिति । तच्छ्रुत्वा परोत्कर्षमस- हमानो माधवो ममैकं नेत्रमन्धभावं प्राप्नोत्विती- श्वरं प्रार्थयत । ईश्वरस्तच्छ्रुत्वा हसन तथैव भव- विति तस्मै वरं दत्त्वा अन्तरधात् । तेन माधवः काणो बभूव, गोभिन्दस्त्वन्धः । एवमेवासूयकः पर. नाशमेव स्वभाग्यं मन्यते, स स्वहानिमपि न गण- यति॥

१८. संभाषणम् ॥ पिता-शंकर; पाठं पठ, वृथा कालं मा नैषी- रिति बहुधा मया कथितोऽपि त्वं न पठसि किंतु विहरनेव सततं वर्तसे। पुत्रः ---तात, किमर्थ मया पठनीयम् ? पठनेन किं प्रयोजनम् ? पिता-पठनेन बहूनि प्रयोजनानि सन्ति । तानि त्वमिदानीं न जानासि, यदा परिणतवया भवि. प्यसि, तदा सम्यग्ज्ञास्यसि । पुत्रः-पठनं मह्यं न रोचले, पठनापेक्षया जलाहर जकाष्ठच्छेदनक्षेत्रखननादिरूपकर्मकरणमेव इंद मे रोचते, यतस्तारशैरेव कमेभिर्जना द्रव्यमार्जि. वा सम्वं वर्तन्ते। पिता-अहमेकं वृत्तान्तं कथयामि, तं शृणु । एकदा कश्चनान्यदेशीयो बालकः स्वग्रामादिदं नयरमागत्य स्नातुमेतनगरोपासवर्तिनं ताक- मगमत् । तस्य तटाकस्य तौरे कखचित् स्तम्भ स्योपरि साक्षरः कश्चन फलको बद्धोऽभूत् । ।

संस्कृतप्रवेशिनी। पठनसमर्थः स बालकः फलकं दृष्टा तस्मिन् लिखितानि इमान्यक्षराणि अवाचयत्- 'यः कोऽपि इमं तटाकं वस्त्रक्षालनस्नानादिना दूषयेत् तदा स सद्य एव दण्ड्यो भवेत्' इति । तेन बोधितः स बाककः तस्मिन् सानमकृत्वा गृहं प्रत्ययासीत् । अथ द्विवक्षणात्परं पठनासमर्थ: कोऽप्यन्यो बालकः तमेव तटाकमासाद्य फलक- मपश्यत् । किं तु किं तस्मिन् लिखितमस्तीति शातुं नाशकत् । ततस्तटाक्प्रवतीर्य स यावदनात् तावत्तीरान्तरस्वस्तटाकरक्षकस्तत्समषिमागत्य तं करे गृहीत्वा नगराधिकृतस्य समीपमनयत् । स तस्य द्वादशकृत्वः कशया ताडनरूपं दण्डमशात् । शंकरः तं वृत्तान्तं श्रुत्वा पठनेन प्रयोजनमस्तीति बुध्वा ततः परं पठितुमारभत ॥ जून ३२ १९. कश्चन चोरः॥ एकदा कश्चन चोरः नारिकेलफलमाहर्तु कस्यचिद- हारामं प्रविश्य नारिकेलतरुमारक्षत् । तस्मिन्नारो- हाति, भारामस्वामी आराममागच्छत् । तं दृष्ठा

३२
संस्कृतप्रवेशिनी ।
चोरः फलमनुपवित्यैव वृक्षादवातरत् । आरामस्वा-
मी वृक्षादवरोहन्तं चोरं दृष्टा, रे, किमर्थ
वृक्षमारक्ष
इत्यपृच्छत् । चोरस्तं प्रत्यवोचत् , वत्साया तृणान्यु-
त्पाटयितुं वृक्षमारुक्षमिति । तदाकारामस्वामी
तमब्रवीत्, रे भूमावेव तृणानि प्ररूढानि सन्ति, किं
नारिकेलतरौ तृणानि रोहन्तीति । चोरः प्रत्यभाषत,
तृणाभावादेवावरोहामि इति। तच्छ्रुत्वा आरामस्वामी
बूष्णीं वभूव । चोरस्त्यवरुह्य यथागतमयासीत् ।
मुग्धः कृषीवलः
कश्चिद्रामीणः कृषीवलः कदाचिद्भष्टांस्तिलाम्भु
क्त्वा स्वादूनवेत्य मनस्येवमचिन्तयत् । अस्मक्षेत्रे
समुत्पद्यमानास्तिलाः एवं स्वादवो न भवन्ति ।
तदितःपरमभृष्टतिला न वप्तव्याः किं तु भृष्टा एव
षप्तव्याः, तथा कृताश्चेदीडशाः स्वादवस्तिलाः समु-
त्पधेरन् इति । एवं विचिन्त्य भृष्टतिलोत्पत्तीच्छथा
स भूरि तिलान् भृष्ट्वा भृष्टानेव नान् भूमाववपत् ।
भृष्टास्तिलाः कथं प्ररोहेयुः, ते न प्रारुक्षन् । तस्य
तिलनाशः परमजायत ॥ ५
जून १६३२

२०. पिता पुत्राश्च ॥
अभूवन्कस्यचित्पुंसश्चत्वारः सूनवः पुरा ।
पित्रोपदिष्टा अपि ते साधुवुद्धिं पदे पदे ॥
कुर्वन्त एव कलहं तस्थुस्ते तु परस्परम् ।
एवं कदापि कलहं मा कुर्वन्त्विति तत्पिता ॥२॥
जातूदाहरणेनैव स्पष्टं बोधयितुं सुतान् ।
आहूय कांश्चिदानेतुं काष्ठदण्डान्समादिशत् ॥३॥
आनीतेषु च काष्ठेषु रज्ज्वा बध्वाथ तानि सः।
करेण काष्ठनिचयं तं भङ्कतुं तान्समादिशत् ॥
निजसर्वबलेनापि भक्तुं ते नाशकन्यदा ।
तदा तेषां पिता काष्ठभारस्योन्मोच्य बन्धनम् ॥
एकैकं काष्ठदण्डं तमेकैकस्य करे ददौ
ततोऽसि तान्पुत्रान्मक्तेदानीमिमानिति ॥
स्वस्वहस्तस्थितं काष्ठं बभजुर्हेलयाथ ते ।
अब्रवदिथ तान्पुनान्पिता पश्यत पुत्रकाः ॥ ७ ॥
संहतस्याभेद्यत्वं विभक्तस्यापि भेद्यताम् ।
एवं परस्परं यूयं मेहबद्धा भधेत चेत् ॥ ८ ॥

संस्कृतप्रवेशिनी। तदा युष्मान्न शक्नोति बाधितुं कोऽपि मानवः। यूयं कदाचित्स्नेहस्य शिथिलीकृत्य बन्धनम् ॥ भवेत मिटिता: काष्ठदण्डा इव ध्रुवम् । भवेत भक्तुं शक्याश्च विनायासेन शत्रुभिः ॥ तस्माद्यूयं मा कुरुत कलहादि परस्परम् ऐकमत्येन वर्तध्वं सर्वकार्येवितः परम् ॥ ११ ॥ एवं ने बोधिनाः पित्रा स्निग्धास्तस्थुरनन्तरम् । तत्सोदरैवर्तितव्यं बल्नेहैः परस्परम् ॥ १२ ॥ जून९६३२ २१. चटकः॥ MR.. चष्टकः सर्वैरपि पचर एव । त्वयापि स दृष्टो भकेन् । प्रतिदिनमस्मनहाङ्गणे विकीर्णास्तण्डुलकणान् चच्चा गृहन्तं चटकं वयं पश्यामः । स प्राययो संस्कृतप्रवेशिनी । जना यत्न वसन्ति तत्रैव निवसति । सोऽतीव धृष्टः, जनेभ्यो न बिभति । पश्य, काचनचटका बीथ्यां विप्र- कीर्णास्तण्डुलादिकणांचञ्च्चा गृहीत्वा समीपवर्ति- न्यां भित्तौ तिष्ठते चाटकैराय ददाति । चटकस्य स्त्री चटका, तयोः पुमपत्यं चाटकर इति, स्त्र्यपत्यं चट- का इति च व्यवह्रियते । चटकाचटकयोमहान्भेदो वर्तते । चटकस्य मस्तकः कण्ठाधोभागश्च नीली । चटकायास्तु मस्तककण्ठाधोभागौ म नीलो ॥ एकदा कश्चन चाटकैरः ईषत्समुत्पन्नपक्षः खनी- डात्पन्नश्य भूमौ न्यपतत् । तदा भीता चटका उच्च- ळरावीत् । तस्या विरावं श्रुत्वा समीपस्थाः सर्वेऽपि चटकाः तत्रागत्य तस्याः साहाय्यं कर्तुमयतिषत । - तेषां यत्नः सफलो नाभूत् । किं ते कुर्युः? नीडाद्भूमौ पतितं चाटकैरं नीडं नेतुं ते नाशकन् । ततस्ते सर्वे ऽपि महान्तं कलकलारवं कर्तुं प्रारभन्त । अथ तेप्वे- कश्चतुरः कुत्रचिदुडीय द्विवक्षणात्परं चतुःपञ्चा- गुलपरिमितामेकां रज्जु चञ्च्वा गृहीत्वा तत्राम- च्छत् । ततश्चैकश्चटकः एकमग्रं अपरश्चापरमनं गृहीत्वा, रज्ज्वा मध्यमं भागं चाटकैरो गृह्णात्विति तस्य पुरतो रज्जुमदर्शयताम् । विदिताभिप्रायश्चा- टकैरः रज्ज्चा मध्यमं भागं चञ्च्चा दृढमग्रहीत् । ततस्तौ द्वावपि चटको वियत्युड्डीय चाटकैरं नीड' संस्कृतप्रवेशिनी ॥ मनयताम् । तदृष्ट्वा इतरे चटकाः प्रदृष्टाः स्वेषां स्थानमगमती ६२ २२. विद्यार्थी तपोदत्तः॥ : . गङ्गातीरवर्तिनि कस्मिंश्चन ग्रामे तपोदत्त इनि कश्चन बालकोऽवर्तत । स शैशवे पित्रा बहुधा कथितोऽपि विद्यां नाध्यैष्ट । अनन्तरं अनैर्गर्यमाणो ऽनुशयान्वितो विद्यासिद्धये तपस्तप्तुं गङ्गातटमग; मुत् । तत्रोग्रे तपसि वर्तमानं तं तपसो निवारयि: ध्यन्निन्द्रो वृद्धद्विजवषेण तन्निकटमागत्य, पश्यत- स्तस्य, तटासिकता उद्धृत्योद्धृत्य प्रवहति गङ्गाजले संजातकोतुकस्तपादत्तः सनि- बन्धं तमपृच्छत् , ब्रह्मन् किमर्थमगणितश्रमः लिक- ता उद्धृत्योद्धृत्य जले क्षिपसीति । द्विजाकृतिरिन्द्र- स्तमब्रवीत, प्राणिनां तरणाय गङ्गायां सेतुं बधामी- ति । तदाकर्ण्य तपोदत्तो विहस्यावोचत, मूर्ख, किं केनाप्योघहार्याभिः सिकताभिर्गङ्गायां मेतुर्बध्येत? किमर्थमेवं निष्फले कर्मणि आत्मानं वृथा खेदय- सीति । इन्द्रस्तं प्रत्यवदत् , यद्येवं वेत्सि तर्हि विना क्षिपन्नासीत् । तदृष्ट्वा ,

संस्कृतप्रवेशिनी।
पठनं श्रुतं वा कुतस्त्वं विद्यां साधयितुमुद्युक्तोऽसि?
अध्ययनं विना विद्यासिद्धिर्यदि भवेत् तदा लोके
कोऽपि जनो नाधीयीत इति । तच्छुत्वा
तपोदत्तः
सम्यग्विचार्य अध्ययनादिनैव विद्या साधनीयेत्या-
लोच्य तपसो निवृत्य गृहं ययौ । अथोपाध्यायसविधं
गत्वा स विद्यामध्येतुमारभत, क्रमेण विद्यामधीत्य
प्रसिद्धिमलभत।
१जून१६३२
२३. संभाषणम् ॥
कनिष्ठः हे भ्रातः, पश्य, वीथ्यां कश्चन शकटो
गच्छति, तस्य पश्चात्केचन गुलिकाप्रक्षेपणोमा-
दाय यान्ति । कि तस्मिन्शकटे विद्यते? के ते?
क ते गच्छन्ति?
ज्येष्ठः-शकटे व्याघ्रः, ये गुलिकाप्रक्षेपणीमा-
दाय गच्छान्ति, ते समीपवर्त्यरण्यस्थितमेकं व्याघ्र
गुलिकाप्रक्षेपणेन व्यापाद्य राशः समक्षं नयन्ति,
यतो राजा मनुष्यादिधातुकान् व्याघ्रादि दुष्टमृ.
गान् ये प्रन्ति तेभ्यः पारितोषिकं ददाति ।
कनिष्ठः-मया व्याघ्रो न दृष्टपूर्वः, तत्कश्यतु
भवान्, को व्याघ्रः? कीदृशस्तस्याकार:?

संस्कृतप्रवेशिनी। ज्येष्ठः-व्याघ्रः श्वापदेवेकतमः, आकृतौ स बि- डालसदृशः । परं तु स बिडालाद्वृहत्तमः क्रूरतमा बलिष्ठश्च । कनिष्ठः व्याघ्रः किं खादति ? ज्येष्ठः-~-मांसमेव तस्य खाद्यम् , स गवाश्वरास- भादीन् व्यापाद्य तेषां मांसानि खादति । कनिष्ठः ~क गवादयो लभ्यन्न, कथं स तान्हन्ति? ज्येष्ठः ....यदा नद्यां नटाकादौ वा जलं पातुं गवा- दिमगाः आगच्छन्ति, नदायं व्याघ्रस्तान्प्रतीक्ष- माणो निलीनस्तिष्ठति, पागच्छन्तं मृगं यदि पश्येत्तद! निःशब्दं तमुपसृत्य एकनैव प्लुतेन तदुपरि निपत्य तं विदारयति । कनिष्ठ:--मनुष्यानपि किं व्यायो न्यान् ? ज्येष्ठ-व्याण मनुष्यरुधिरं लकदास्पादितं चे- त्तदा ग्रामादिसमीपमागत्य मनुष्यान् हन्तुं प्रती- क्षमाणस्तिष्ठेत् । अनास्वादितमानुषरुधिरस्तु प्रा- यशो मनुष्यान्न हन्ति । कनिष्ठः-मनुप्यः कथं व्याघ्रान् हन्ति ? ज्येष्ठा-अरण्ये यत्र कुत्रचियाघ्रोऽस्तीति झाते, संस्कृतप्रवेशिनी। ३९ अनेके जनाः गुलिकाप्रक्षेपणीरादाय वनं गत्वा क व्याघ्रस्तिष्ठतीति ज्ञातुं प्रथमं शुनकान् प्रेषयन्ति । अनन्तरं पाषाणप्रक्षेपादिना पटहताडनध्वन्यादिना वा व्याघ्र बहिनिर्गमयितुं यतन्ते । बहिर्निगतं तं गुलिकाप्रक्षेपणैःनन्ति । १६जून१६३२ २४. कश्चन श्रमणः । कस्मिंश्चिद्विहारे मूडधीः श्रमणः कश्चिद्वभूव । स जातु रथ्यायां भ्रमन् शुना जानुन्यदश्यत । श्व- दष्टः स मरणो विहारमुपागत्य व्यचिन्तयत्, तव जानुनि कि समिति इह मामेकैकोऽपि प्रक्ष्यति, तदा कियतोऽहं कियश्चिरं प्रत्याययिष्यामि, तदत्र सर्वान्सकद्बोधयितुमेकमुपायं करोमीति । एवं वि- चिन्त्य द्रुतं विहारोपरि समारुना मूढः स भिक्षुः पटहमवादयत् । पटहध्वनि श्रुत्वा आश्वर्येण मिलिता भिश्नधः किमकाले पटहमकारणं वादय- सीति नं पप्रच्छुः। शुना दष्टं मे जानु, तदेकैकस्यापि पृच्छतः कियदहं ब्रुवे इति यूयं मया संघटिता तत्सर्वे यूयं समं बुध्यध्वं मम जानु पश्यतेति श्वा

४०
संस्कृतप्रवेशिनी।
जानु दर्शयन् तान् भिक्षून्प्रत्यब्रवीत् । ततस्ते भिक्षवः
इयन्मात्रे कियामनेन संरम्भः कृत इति जहसुः ।
२१जून
२५. ब्राह्मणो नकुलश्च ॥
बभूव देवशर्माख्यो ब्राह्मणो मगरे क्वचित् ।
तस्याभूदेवदत्तेति गहिनी सदृशान्वया ॥१॥
धृतगर्भा च सा तेन कालेन सुषुवे सुतम् ।
दरिद्रोऽपि स तं मेने निधि लब्धमिव द्विजः।
सूतकान्ते च सा तस्य भार्या स्वातुमगानदीम् ।
देवशर्मा तु तस्थौ स गृहे रक्षन्सुतं शिशुम् ॥ ३॥
तावदाह्वायिका तस्य राजान्तःपुरतो द्रुतम् ।
चेटिका ब्राह्मणस्सागात्स्वस्तिवाचनजीविनः ॥
ततः स दक्षिणालोभानकुलं रक्षकं शिशोः ।
स्थापयित्वा ययौ गेहे चिरमायाल्यवर्षितम् ॥ ५॥
तस्मिन्गतेऽत्राकस्माश्च शिशोस्तस्यान्तिकागतम् ।
सर्पमालोक्य नकुलः स्वामिभक्त्या जघान तम् ।।
अथ तं देवशर्माणमागतं वीक्ष्य दूरतः ।
सर्पाससिको नकुलो दृष्टोऽस्य निरगात्पुरः ॥७॥

संस्कृतप्रवेशिनी। स देवशर्मा तद्रूपं तं दृष्दैवाश्मनावधीत् । ध्रुवं स बालः पुत्रो मे हतोऽनेनेति संभ्रमात् ॥८॥ प्रविश्य चान्तदृष्ट्वा तं भुजङ्गं नकुलाहतम् । जीवन्तं च स्थितं बालं ब्राह्मणोऽन्तरतप्यत ॥९॥ अविचार्योपकारी स नकुलः किं हतस्त्वया। इत्युपालभतायाता भार्यापि तदवेत्य तम् ॥ १०॥ तस्मान्न बुद्धिमान्कुर्यादविचार्य च किंचन ॥ २३जून३२ २६. पशवा प्रायशः पशूनां गात्रेषु सर्वत्रापि निबिडानि दी- _णि च तनूरुहाणि सन्ति । अत एव वस्त्राद्याच्छा- दनं विनापि शीतवातादिबाधां सोढुं शक्ता भवन्ति। सिंहव्याघ्रवृकादयः गजाश्वगवादयश्च पशवः । पशवो मृगशब्देनापि व्यवह्रियन्ते । पशुषु केचनाश्वा इवैकशफवन्तः, केषांचन मृगाणां गोरिव विभक्तौ द्वो शफौ वर्तते । इतरेषां तु बिडालस्येव नखरा अङ्गुलयश्च सन्ति । येषां मृगाणां शृङ्गे स्तः ते द्विश- ४२ संस्कृतप्रवेशिनी। पशुषु सिंहव्याघकादिदुष्टजन्तवो हिंस्रा इति श्वापदा इति च कथ्यन्ते। सिंहादयः गजादीन् हत्वा तेषां मांसादिकमेव खादन्ति । गजाश्वगवादयस्तु तृणपत्रादीनेव खाइन्ति । पशुषु गवादयो मनुष्या- णामतीवोपकारकाः । गौः मधुरं क्षीरं ददाति । बलीवर्दरासभादयः शकटादिकं वहन्ति । अश्वः स्व- पृष्ठारूढान् ग्रामान्तरं नयति । श्वा दस्युभ्यो गृहं रक्षति । बिडालो मूषकबाधां निवर्तयति । मेषादयः शूद्रादीनामाहाराय भवन्ति । एवमेते मृगा मानुषा- नतीवोपकुर्वन्ति । किं च व्याघ्रादय इव प्राणिनां कामपि बाधां न कुर्वन्ति ॥ २७. कश्चन पान्थ:। एकदा अध्वश्रान्तः कश्चन पान्थो मार्गसमीपव. र्तिनः कस्यचिवटवृक्षस्य छायायामशयिष्ट। स भूमौ शयान एव पक्वफलभरितं तं वृक्षं विलोक्य मनस्ये- वमचिन्तयत्, शाखोपशाखाभिरुपेतस्य महतोऽस्य वृक्षस्य फलानि कियन्वल्पानि, भूमावेव प्रसरणशी- लायाः सकृत्पादाभिघातेनापि म्लानिमुपगच्छन्त्याः संस्कृतप्रवेशिनी। ४३ कुश्माण्डलतायाः फलानि कियक्ति स्थूलानि; सर्वक्षः सर्वशक्तिमानीश्वरः कश्चनास्ति, तेनैवेदं जगत्सृष्ट- मिति जना वदन्ति ; सर्वशः कश्चन भगवानस्ति चेत्तर्हि तेन वृक्षलतादीनां तत्तदाकारानुगुणमेव फलादिकं सृष्टं भवेत् ; महतो वृक्षस्य क्षुद्रं फलम् , क्षुद्राया लताया महत्फलं स्रष्टुं स किं मूढः ? एता- वदपि स किं न जानाति? अत ईश्वर एव नास्तीति मम मतिरिति ॥ तस्मिन्नेवं चिन्तयति, वातप्रचलितायाः कस्याश्चन शाखाया एकं फलं प्रनश्य तस्य भूप्रदेशे न्यपतत् । स तत्क्षणमुत्थाय करेण ध्रुवं परिमृजन् पुनश्चिन्तित- वान् , अल्पफलपतनादेव मम कापि क्षति!त्पन्ना, यदि कूश्माण्डफलसदृशं फलं पतितं स्यात्तदा मम शिर एव भिन्नं भवेत् । अतोऽहमेव मूढः, यस्माद- हमीश्वर एव नास्ति, स वृक्षलताद्याकारानुगुणं फलं नानाक्षीदित्यमंसीति ॥ ३०जून १६३२ २८. काकः सर्पश्च ॥ कस्यचिन्नगरस्य समीपस्थिताया नद्यास्तीरे क. श्चन महानश्वस्थवृक्षस्तस्थौ । तस्योन्नतशाखायां संस्कृतप्रवेशिनी। विरचितनीडो कौचन काकदम्पती व्यवसताम् । तस्यैव वृक्षस्याधोभागवर्तिनि कोटरे कश्चन सो निवसति स्म । स सर्पः पदे पदे कुलाये कायोरन- वस्थानवेलायां कुलायं गत्वा काकाण्डानि निगिरन- तिष्ठत् । एवमसकृत्सर्पक्रियमाणस्वाण्डनाशेन भृशं दु:खिता काकस्त्री मनस्यचिन्तयत्, यावदयं नृशंस: सर्पः अस्मिन्कोटरे निवसति तावन्मम शाबका म जीवन्ति, अतः केनाप्युपायेनायं व्यापादनीय इति । एवं विचिन्त्य सा तमाशोपायमविष्यन्ती तस्थौ ॥ अथैकदा करिमश्चित् पुण्यदिने राजमाहिषी सप- रिवारा स्नानार्थ नदीमागत्य स्वाभरणानि तीरे नि. धाय नदीमवातरत् । तदा वृक्षाग्रे स्थिता काकस्त्री अयमेव सर्प घातयितुमवलर इति मत्वा पश्यन्त्या एव राजमहिष्याः तीरस्थापितेवाभरणेषु एकमनध चचा गृहीत्वा लपवासभूते कोटरे निभृतं निधाय कुत्रचिदडयिष्ट । तदृष्ट्वा राजमहिषी स्वाभरणमानेतुं भटानादिशन् । तेषु वृक्षमारुह्य को टरात्सर्पः शिर उदयच्छत् । तं ते विलोक्य लगुडेन व्यापाद्य कोटरगतमाभरणं गृहीत्वा राजमाहिये समर्पयामासुः। तदारभ्य काकदम्पती भयरहिती सुखेन न्यवसताम्। एवं चतुरा उपायेन विपदं नि वारयन्ति ॥ कोटरं पश्यत्सु रजुलाई६३२ २९. विस्मृतमार्गः कश्चन मूलः ।। कश्चन मूर्खः कदाचित्स्वनामाह्वामान्तरं गत्वा प्रतिनिवर्तमानो मार्गान्तरं व्रजन्त्रिजप्रामगामिनं प- न्यानं विसस्मार । अथ पन्थानं पृच्छन्स मूढो जनै- नंदीतटस्थस्य नरोरुपरि वर्त्मना गच्छेत्याचि । ततः स तरुमुपगम्य एतत्पृष्ठे मे पन्था जनैरुपदिष्ट इति तस्य तरोः पृष्ठमारुक्षत् । तत्पृष्ठे सर्पतस्तस्य भारा- त्सा शाखा ननाम । स च तां यत्नेनावलम्बमानो न पपात, किं तु नामालम्ब्य यावदतिष्ठत् तावन्नद्यां पीनजल: कश्चन करी आधोरणेनोपरिस्थितेन सह तेन पथा आययौ। तरुशाखाग्रलम्बी मूर्खस्तं ह- स्त्यारोहं दृष्टा सदैन्यमवोचत् , महात्मन् , मां गृहा. णेति । तदाकर्ण्य हस्त्यारोहस्तं मुग्धं तरोरवतार- यितुं उज्झिताश: पाणिभ्यां तस्य पादयोरग्रहीत् । ताव निर्गते गजे वृक्षाग्रलम्बिनस्तस्य पादयोह स्तिपको ललम्बे॥ ततः स मूर्खस्वरयन् हस्त्यारोहमभ्यधात्, यदि जानासि, तदा शीघ्रं यत्किवित्वया गीयताम्, तव कोऽप्यागस्य नौ जावितोऽवतारवेत्, गानं श्रुत्वा संस्कृतप्रवेशिनी। अन्यथा अध:पतितौ आधामियं नदी हरेदिति । एवं तेनोक्तः सः गजारोहस्तथा मज्वगायत् , यथा सः मुग्धः परं परितोषमगच्छत् । संतोषपरवशः स जडः साधुवादं ददद्विस्मृत्या उज्झितपादपो द्वाभ्यां हस्ताभ्यां करतालिकां दातुं प्रावर्तत । अथ तत्क्षणं सहस्त्यारोहः स नद्यां निपत्य विपेदे । एवं मूर्खः सङ्गः कस्य शर्मणे भवति? जुलाई १३२ ३०. काचन चण्डालकन्यका ॥ अभूपवती कापि मुग्धा चण्डालकन्यका । सार्वभौमवरप्राप्ती संकल्पं हृदि साकरोत् ॥१॥ सा जातु दृष्ट्वा राजानं नगरभ्रमनिर्गतम् । सर्वोत्तम भर्तृबुद्ध्या ह्यनुयातुं प्रचक्रमे ॥ २॥ तावदागात्पथा तेन मुनिस्तस्य प्रणम्य सः । पादौ गजावरूढः सन्राजा स्वभवनं ययौ॥३॥ तदृष्ट्वा राजतोऽप्येनं विचिन्स्य मुनिमुत्तमम् । अपडालकमया राजानं त्याखा सा मुनिमन्धगाव ।

संस्कृतप्रवेशिनी। मुनिः सोऽपि बजम्हष्वा शून्यमग्रे शिवालयम् । न्यस्तजानुः क्षितौ तत्र शिवं नत्वा ययौ ततः ॥ तद्वीक्ष्य सान्त्यजा मत्वा मुनेरप्युत्तमं शिवम् । भर्तृबुद्ध्या मुनिं त्यक्त्वा देवं तत्रैव शिश्रिये ॥ भणाचार प्रविश्य श्वा देवस्यारुह्य पीठिकाम् । जधामुक्षिप्य जातेयत्साशं तस्य तद्यधात् ॥ तद्विलोक्यान्स्यजा मत्वा देवाट्टानं तमुसमम् । यान्तमेवान्वगारसा च स्यक्त्वा देवं पतीच्छया ॥ ध्वा चागत्यैव चण्डालगृहं परिचितस्य सः। चण्डालयूनः प्रणयालुलोठेकस्य पादयोः ॥ ९ ॥ तदालोक्योत्तमं मत्वा शुनश्चण्डालपुत्रकम् । खजातितुष्टा पत्रे सा तमेव पतिमन्स्यजा ॥ १० ॥ एवं कृतपदा दूरे पतन्ति स्वपदे जडाः ॥ ईजूलाई ४३२ ।

३१. उष्ट्रः ।। उष्ट्र उन्नततरो मृगः; तस्य ग्रीवा अतिद्राधी- यसी, मस्तकस्त्वल्पः, आकारश्चातिविकृतः। विकृत. दर्शनोऽप्युष्ट्र: जनानतीवोपकरोति। भूखण्डस्य केषु चिद्भागेषु महान्तो मरुप्रदेशा वर्तन्ते । तत्र गृहाः वृक्षास्तृणानि च न सन्ति । किंतु यावदृष्टिप्रसरं वालुकाः पाषाणशकलाः शिलोचयाः केवलं दृश्य- न्ते । पान्यैस्तादृशप्रदेशो न द्वित्रदिनैरतिक्रमितुं शक्यः किं तु बहुभिर्दिवसैः । अतस्तैः स्वेषाम् , ये तैः सह गच्छन्ति तेषां च कृते, बहुदिनभोज्यमन्नम् , बहुदिनपेयं पानीयं च नेतव्यम् । अश्वा वृषभादयो भारमूदा न तादृशं प्रदेशमतिक्रमितुं समर्थाः । कि तूष्ट्र एक एव तमतिक्रमितुं शक्तः। यथा नाविकाः स्वापेक्षितानि वस्तून्यादाय नापा समुद्रं तरम्ति, तथा पथिका उष्ट्रेणैताशं मरुपदेशं तरन्ति । मत एब स भरपोत इति कैधिकथ्यते॥

संस्कृतप्रवेशिनी।
४९
कतिपयदिनानि बिनाप्याहारमुष्ट्रः पथि गन्तुं
शक्तः । मध्ये जलपानमन्तरेण बहुदिनपर्यन्तं पथि
गन्तुं तस्यानन्यसाधारणी शक्तिरस्ति । स प्रस्थाना-
त्पूर्वमेव षट्सप्तदिनपेयं पयः सकृदेव पिबति । अतः
कतिपयदिनानि जलं विना गन्तुं शक्नोति ॥
उष्ट्रोऽपि गज इव स्वपृष्ठे भारारोपणसमये पृष्ठा-
द्भारावरोपणसमये च माहितसंशः स्वजानूनि भूमौ
निधायावाड्युस्खः शेते। आरोपिते अवरोपिते वा
भारे उत्तिष्ठति । अस्मद्देश तुरगः स्वामिनं वहति ।
गौः क्षीरं ददाति। मेषः कम्बलाद्यर्थ लोमानि ददाति।
अराब्देशे तु उष्ट्र एक एव सर्वकार्यसमर्थो भवति ।
स भारं वहति। तस्य क्षीरं तद्देशीयाः पिबन्ति । तस्य
लोमभिः कम्पलादीनि क्यन्ते । मृते तस्मिन् म्य
मांसानि खादन्ति ॥
-जूलाई
।
..
३२. हिजशद्रौ॥
एकस्मिन्प्रामे वामदेव इति कश्चन द्विजोऽधर्तत ।
स चैकदा संध्यासमये वहिारषेविकायामुपविष्टस्त
स्थौ । तदानीमध्वश्रान्तः कश्चन शद्रः पिपासवा

संस्कृतप्रवेशिभी। बुभुक्षया च पायमानस्तं द्विजमभिगम्य किंचिदन्न- मयाचत । स तु अनं नास्ति गच्छ गच्छेत्यवदत् । पुनः शगस्तमन्ब्रवीत् , अहं भृशं तृषातोऽस्मि पानीयं वा देहीति । तच्छ्रुत्वा द्विजः, भ्रष्ट, किमपि नास्ति, अपेह्यपेहीति परुषमभाषत । तत्परुषभाषणमाकर्ण्य, खिन्नः शुद्रः कुत्रचिजगाम ॥ गतेषु कतिपयेषु दिनेषु, एकस्मिन्दिने स एव द्विजो मष्ट स्वीयमश्वं गवेषयितुं समीपस्थं वनमग- मत् । स तमाश्वं सुचिरमन्विष्यायनासादयन् , भ्रष्टपथस्तत इनो भ्रमन्, अन्ततः कंचन शूद्रकुटी रमपश्यत् । स नं प्रविश्य तत्रस्थं कंचन पुरुषं स्थ. प्रामगामिनं पन्थानमपृच्छत् । स तमवदत्-त्व- हामो बहुदूरे वर्तते, सूर्यस्त्वस्तसमीपे तिष्ठति, अन्ध- कारागमनात्पूर्व भवद्रामो न प्राप्तुं शक्यते, रात्रौं गमने तु वृकव्याघ्रादयः भवन्तं खादेयुः, तदत्रैव कुटीरे राति निवस, श्वः प्रभाते भवद्रामं गमिष्य- सीति । तच्छ्रुत्वा तुष्टो द्विजस्तथेति तत्रैव रात्रि नेतुमन्वमन्यत । ततः शूद्रस्तस्मै अभ्यवहाँ फलानि शयितुं कटं चादात् ॥ प्रातः शनःप्रथमं शयनादुत्थाय द्विज प्रतियोध्या- बोचत्, रविरुदयाचलमाला, भवतो प्रामस्तु गा.

संस्कृतप्रवेशिनी। दूरवर्ती, तदागच्छ, अहं भवन्तं मार्ग दर्शयामीति । एवमुक्त्वा सायुधः स शूद्रः पुरतो जगाम। द्विजस्त- मनुजगाम । अनुगच्छंश्च द्विजः सूर्यालोके शुद्रं दृष्ट्वा दृष्टचरोऽयमिति मनस्यचिन्तयत् । किं तु कस्मि- समये कुत्र मयायं दृष्ट इति तस्य स्मृति!त्पन्ना । ततो बहुदूरं गत्वा, क्रोशमात्रावशिष्टेऽध्वनि स्थित्वा शूद्रो द्विजमपृच्छत् , किं मां भवान् प्रत्यभिजानाती- ति । द्विजस्तं प्रत्यवोचत्-मया त्वं दृष्टचर एवासि, किं तु कदा केति नाहं स्मरामीति । शूद्रस्तमवा- दीत्-- कतिपयदिवसात्माक एकस्मिन्दिने क्षुत्पि. पासापीडितमन्नं किंचिद्यायमानं यं पुरुषं बहिबा- रवेदिकोपविष्टो भवान् किमपि नास्त्यपेहीति परुष- मुक्तवांस्तमेव मामवहीति । तन्निशम्य अस्यन्तं वीडितो द्विजः अधोमुखस्तूष्णीमभूत्। ततः शूद्रः इतः कोशात्परत: भवद्भामो वर्तते, अनेन पथा गच्छसि चंद्रामं प्राप्नुया इत्युक्त्वा भूयस्तम- भाषत-इतःपरं यः कोऽपि क्षुधितस्तृषितो वा त्वमन्नं जलं वा यदि याचेत, तदा यथाशक्ति तस्मै तत् देहि, नास्त्यपेहीति मावोच इति । १०जूलाई ३३. अन्धः पुरुषध । कमिश्चिामे वृद्धः कश्चनाम्ध आसीत् । स एक- दा रात्रौ नद्या जलमाहृत्य जलपूर्ण घटं शिरसोदा कांचित्प्रदीपिका करे गृहीत्वावीथ्यां गच्छन्नासीत्। तदा मार्गमध्ये तदभिमुखमागच्छन् कश्चन पुरुषस्तं विलोक्य मनस्यचिन्तयत् , वृद्धेऽस्मिन्नन्धत्वमिव मुग्धत्वमप्यस्तीति प्रतिभाति, भवत्वेनमालपिण्या- भीति । एवं विचिन्त्य अन्धमपृच्छत्, स्थविर ! तवाहोरात्रिश्च समाने; एवं स्थिते, अनया करस्थ- दीपिकया किं ते प्रयोजनमिति । अन्धस्तमवदत्- भद्रमुख! अनया दीपिकया यन्मम प्रयोजनमस्ति, तदीगिति ज्ञातुमसमर्थस्त्वं न सूक्ष्मबुद्धिरित्यहं मन्ये, अतोऽहं नत्प्रयोजनं कथयामि, शृणु- अस्मिन्नन्धकारे दीपिकारहितो यद्यहं जलाहरणार्थ वीथ्यां गच्छेयम् , तदा मदभिमुखमागच्छन्तो जना गवादयो वा मामन्धकारणाजानन्तः ममोपरि निए- तेयुः, तेनाहमपि पतेयम् ; शिरःस्थघटोऽपि भूमी निपत्य भज्यात्; यद्यहं दीपिकायुक्तो बजेयम् , तदा दीपिकालोकेनागच्छन्तं मां दृष्टा दुरतो गच्छे- युः; तस्मादहं दीपिका करे गृहीत्वा गच्छामि ; - व संस्कृतप्रवेशिनी। इदमेव मम दीपिकया प्रयोजनम् इति । तदाकर्ण्य स पुरुषः मनस्यचिन्तयत् , अहमेव मूढो न त्वन्धः, यदई तत्करस्थदीपिकाप्रयोजनं प्रातुमसमर्धस्तम- पृच्छमिति । एवं विचिन्त्य लज्जानम्रमुखस्तूष्णी- मगात्॥ ३४. मूखौं शिष्यो । कस्यचिद्गुरोद्वौं शिष्यावन्योन्यमत्सरावभूताम् । तयोरेकस्तस्य गुरोर्दक्षिणं पादमन्वहमभ्यज्य क्षाल- यन्नासीत् । तथैवेतरस्तस्य वामं पादमभ्यञ्जन् क्षाल- यामास । जातु दक्षिणपादाभ्यञ्जकः गुरुणा ग्राम प्रति प्रेषितोऽभूत् । तदा गुरुरभ्यक्तवामपादं द्वितीयं शिष्यं त्वमेवाझ दक्षिणमपि पादमभ्यज्य क्षालयेत्य- भ्यधात् । तच्छ्रुत्वा मूर्खः स शिष्यः स्वैरं गुरुम- भाषत-- अयं प्रतिपक्षसंबन्धी पादः, तदेष मया नाभ्यङ्गय इति । एवमुक्तवतस्तस्य निर्बन्धं गुरुया- वदकरोत् तावत्स शिष्यो रोषात् गुरोस्तं विपक्ष चरणं बलादाकृष्य ग्राव्णा भग्नवान् । मुक्ताक्रन्दे च गुरौ अन्यैः प्रविश्य ताड्यमानः स कुशिष्यः स- शोकेन तेन गुरुणा मोचितः ॥ १२जूलाई ।

५४ संस्कृतप्रवेशिनी । अन्येधुश्चापरः शिग्यो ग्रामादागतः गुरोस्ताम- विपीडां विलोक्य विदितवृत्तान्तः क्रुधा ज्वलन् नाहं किं तं द्विषःसंबन्धिनं पादं भनज्मीत्युक्त्वा द्वितीयं गुरोरधिमाकप्य बभक्ष। ततः सोऽप्यन्यै- स्ताड्यमानो भग्नोभयाविणापि गुरुणा कृपया मोचि- तः। ततस्तौ शिष्यौ सर्वद्वेश्योपहास्यतां ययतुः। क्रमात्वस्थो गुरुः क्षमाश्लाघ्यो बभूव । एवमन्योन्य- विद्विष्टो मूर्खः परिजन: स्वामिनार्थ निहन्ति न चा- त्महितमश्नुते ॥ ३५. मुनिर्मूषिका च ॥ यादृशो यः कृतो धात्रा भवेत्तादृश एव सः। तथा च प्राङ्मुनिः कश्चिच्छ्रयेनचञ्चुच्युतांशिशुम् मूषिकां प्राप्य कृपया कन्यां चक्रे तपोबलात् । वर्धितामाश्रमे तां च स दृष्ट्वा प्राप्तयौवनाम् ॥ २॥ मुनिलवते दातुमिच्छन्नादित्यमाह्वयत् । बलिने दित्सितामेतां कन्यां परिणयस्व मे ॥३॥ इत्युवाच स चर्षिस्तं ततस्तं मोऽब्रवीद्रविः । मत्तोऽपि बलावान्मेघः स मां स्थगयति क्षणात्।। १५नलावि संस्कृतप्रवेशिनी। तच्छ्रुत्वा त विसृज्यार्क मेघमाहूतवान्मुनिः । तं तथैव च सोऽवादीत्तनाप्येवमवादि सः ॥ मत्तोऽपि बलवान्वायुर्यो विक्षिपति दिक्षु माम् । इत्युक्ते तेन स मुनिर्वायुमाह्वयति स्म तम् ॥ स तथैव च तेनोक्तस्तमेवमवदन्मरुत् । मयापि ये न चाल्यन्ते मत्तस्त बलिनोऽद्रयः ॥ श्रुत्वैतदेकं शैलेन्द्रमायन्मुनिसत्तमः । तथैव यावत्तं वक्ति तावत्सोऽदिर्जगाद तम् ॥ मूषका बलिनो मत्तो ये मे छिद्राणि कुर्वते । इति क्रमेण प्रत्युक्तो दैवतैानिभिः स तैः ॥ ९ ॥ महर्षिराजुहावैकं मूषक वनसंभवम् । कन्यां वहनामिन्युक्तस्तेनोवाच स मूषकः ॥ १० ॥ कथं प्रवक्ष्यति बिलं ममैषा दृश्यतामिति । पूर्ववन्मूषिकैघास्तु घरमित्यथ मोऽब्रवीत् ॥ ११ ॥ मुनिस्तां मूषिकां कृत्वा तस्मै प्रायच्छदाखवे । एवं सुदूरं गत्वापि यो याताइगेव सः ॥१२॥ १६जूलाई१२३२

No text on this page.

३६. गौः ॥ गौः परिशुद्धः पशुः। तस्याः द्वे के, चत्वारः पादाः, चत्वारः खुराश्च सन्ति । गोः खुरो द्वेधा विभक्तो वर्तते। खुरस्य बहिर्भागः लोह इव कठिनः। अत एव खुरे पाषाणादिना ताडितेऽपि गोर्व्यथा न जायते । गोः पुच्छः मूलात्क्रमेण सूक्ष्मः दीर्घश्च । वालस्यान्ते बहूनि दीर्घाणि लोमानि प्ररूढानि सन्ति । गौरधिकतया तृणानि खादति । तृणखाद- नानन्तरं तिष्ठन्ती शयाना वा पूर्वमर्धवादितनिगी- र्णान् तृणाचाहारानास्यमानाय्य पुनः सम्यक्त्रादि- त्वा निगिरति । एवं खादनस्यैव रोमन्थ इति नाम ॥ गौः वर्षे वर्षे प्रायशः एकैकं शिशुं सूते। गोः शिशुः वत्स इति तर्णक इति च कथ्यते । गोः स. काशाद्वयं बहूनि फलानि लभामहे । सा अस्माकं मधुरं क्षीरं ददाति। शैशवात्प्रभृति वयं तत्क्षीरं पत्वैिव वर्धामहे । अस्माभिः पीतशिष्टं क्षीरं कथितं तक्रमिश्रितं सहधिभावं भजते । वयं मन्धेन तहधि मथित्वा तस्मान्नवनीतमाप्नुमः । कथितं नवनीतं घृतं भवति । मथितोवृतनवनीतं दधि तक्रं भवति । क्षीरं दधि नवनीतं घृतं तकं च प्रत्यहमस्माकमा. 5 संस्कृतप्रवेशिनी। हारायोपयुक्तानि भवन्ति । किं च गोमयं गृहोपले- पनार्थ करीषमग्निप्रज्वालनार्थ चोपयुज्यते । एवं गो. चर्मणा कुतूभस्त्रिकापादुकादयः, तस्या मेदसा दीप- वादयः, तस्याः शृशेण त्सरुः कङ्कतिकादयश्च कि- यन्ते । तस्या मांसमपि केचन खादन्ति ॥ एजूनारी ३७. क्षीरपात्रं हरिश्च ॥ हरिः कस्मिाश्चिदिने सदने कन्दुकेन विहरनव- तेत । तस्मिन्विहरति, कश्चन बिडालो महानसा- भिमुखमगच्छत् । हरिस्तं दृष्ट्वा कन्दुकेन प्रहर्तु तस्योपरि कन्दुकं बलादक्षिपत् । वेगेन विक्षिप्तः कन्दुकः बिडालोपरि नापतत् । किं तु महानसं प्रविश्य चुल्लीस्थक्षीरपात्रोपरि निपत्य तत्पात्रमधो न्यपातयत्। तेन पात्रस्थं क्षीरं निःशेषं भुव्यसु. नुवत् ॥ अनुपदमेव हरेर्भगिनी कमला अनुजेन कृष्णेन सह तत्रागत्य महानसानिर्गच्छन्तं बिडालमपश्यत् । ततः कमला महानसं प्रविश्य अधः पातितं क्षीर- पात्रं तस्माद्भूतले निःस्नुतं क्षीरं च दृष्ट्वा, पश्य, अयं बिडालहतकः क्षीरपात्रं भुवि निपात्य क्षीरमप्यना- वयदिति सकोपमवदत् । तदाकर्ण्य हरिस्ताम- संस्कृतप्रवेशिनी। वदत्- भगिनि! यः पयःपात्रं भुव्यपातयत् स न बिडालः किं त्वहमेव इति कुतस्त्वमेवमका. रिति तया पृष्टो हरिरुदीरितवान् मय्यत्र कन्दुकेन क्रीडति बिडालो महानसं प्रविशन्दृष्टः, तमहं कन्दुकेन ताडयितुं कन्दुकं तदुपरि व्य- क्षिपम् , मया विक्षिप्तेन कन्दुकेनाकस्मात्ताडितं क्षीरपात्रं भूमावपतत्, तस्मात्सर्वमपि क्षीरं असु. स्रुवत् इति । तच्छ्रुत्वा सा, मया मात्रा चात्र गृहे त्वया न कन्दुकेन विहर्तव्यमित्यसकृत्कथितोऽपि त्वमत्रागत्य विहरन् श्रीरं भुव्यस्रावयः, तवैतस्या अविधेयतायाः प्रमत्ततायाश्च कृते माता त्वां ताड- यिष्यति इति वदन्ती स्नानगृहमयासीत् ॥ ततः कृष्णो हरिसमीपमागत्यावोचत् , हरे, कि- मर्थमहमेव क्षीरपात्रं भुव्यपातयमित्यवोचः, त्वं कि- मप्यवदन तूष्णीं वितश्चेत्तदा भगिनीव मातापि दि- डालेनैव क्षीरपात्रं पातितं भवेदिति संभावयेत् । यद्यहं तत्कर्ता स्यां तदा किमप्यनुक्त्वा मूकवत्ति- ष्ठेयम् इति । तच्छ्रुत्वा हरिरवदत् , नाहमन्तवादी भवितुमिच्छामि इति । कृष्णस्त्ववोचत् , कथ- मनृतवदनम् ? भगिन्यां बिडालहतकः पानं निपात्य क्षीरमनावयदित्युक्तवत्याम् , कमपि शब्दमनुश्चार्य त्वया तूष्णीं स्थितं चेत्कथमन्तवदनम् ? इनि। हरिः संस्कृतप्रवेशिनी। प्रत्यवोचत्, तदप्यनृतवदनतुल्यमेव, तत्कर्ताप्यन- तवाद्येव; वयं वाचेव मौनेनापि अनृतं बोधयितुं शक्नुमः, बिडालेन भीरपानं पातितमिति भाष- णेन यथा भगिनी प्रतारयितुं शक्नुयां तथा बि- डालः क्षीरपात्रमपातयदिति भगिन्याः संभावनया संभाषणसमये, तद्रष्टुर्मम यत्तूष्णीमवस्थानम् , ते. नापि तां प्रतारयितुं शक्नुयाम् इति । हरेर्माता तं निर्भर्त्सयितुमागता प्रच्छन्ना तदुक्तं श्रुत्वा भृशमहः न्यत् । अकरोच मनसि, दिने दिने पुत्रेण भीरपात्र- पातनं वाभिमतं मे न त्वनृतभाषणम् इति ॥ ৪০ লা ३८. अहितुण्डिका सर्पश्च ॥ कस्मिश्चिद्रामे कश्चनांहितुण्डिको बभूव । स जातु आत्मजीविकासाधनभूतस्य सर्पख दैववशान्मृतत्वे. नान्यं कंचन सर्पमासादयितुकामो वनमगच्छत् । तत्रासायमन्विष्यापि सर्पमलभमानो विफलमनोरथः स्वग्राम प्रति निवर्तमानः अकस्मान्मार्गाभ्याशे व- ल्मीकं प्रविशन्तमकं सर्पमद्रासीत् । हृष्टः स सर्पो- पजीवी, यथात्मानं स न दशेत् , तथा युक्त्या तं गृहीत्वा वेणुनिर्मितपेटिकायां प्रवेश्य, तां पिधाय संस्कृतप्रवेशिनी। स्कन्धेनोवा कंचिदध्वानमत्यकामत् । ततो निशाग- मेन अन्धकारे गन्तुमक्षमो मार्गाभ्याशवर्तिनमेकं देवालयं प्रविश्य तन निशां नेतुकामः सर्पपेटिका कुत्रचिनिधाय स्वयं भुवि तनाशयिष्ट । सर्पस्य कृते कान्तारचिरसंचरणश्रमजनितेन ज्वरेण पीड्यमानः परेधुरपि ततो गन्तुमशक्नुवंस्तत्रैवातिष्ठत् । तदा दिनद्वयमाहाराभावेन क्षुधयात्यन्तं पीड्यमानः पेटि कान्तर्गतः सो मनस्यचिन्तयत् , कथं ममैतारशं कष्टमापतितम् , आहारमनश्तो मम दिनद्वयं व्यती- तम्, आत्मानमेतत्पेटिकाया विमोच्य बहिर्गन्तुम- शक्तोऽस्मि, इहैव पिण्डीकृतशरीरस्य मम मरणमे- वोपनतमिति । एवं तस्मिन्सखेदं चिन्तयति, रावा- वेक आखुस्तद्देवालयविद्यमानात्कस्माश्चिद्विलानिर्गत्य सर्पपेटिकां विलोक्य अस्यां धान्यादिकं निहितं भवेदिति मत्वा तां प्रवेष्टुं रन्धं कृत्वा अन्तःप्रावि- शत् । तत्क्षणमन्तःस्थितः सर्पः दैववशान्ममैष लब्ध इति संतुष्टचित्तस्तमा खादित्वा तत्कृतेनैव द्वारेण पेटिकाया निष्क्रम्य कुत्रचिदगात्। अतः पुंसां वृद्धौ क्षये च दैवमेव कारणम् । एतदर्थप्रति- पादुकोऽयं श्लोकः- भग्नाशस्य करण्डपिण्डिततनो नेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।

६२ संस्कृतप्रवेशिनी। तृप्तस्तत्पिशितेन सत्त्वरमसौं तेनैव यातः पथा वस्थास्तिष्ठत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥ २२जूलाई ३९. पेट्रारक्षका भृत्याः ॥ कस्यचिद्वणिजः कश्चन करभः पथि भारेणाव- सन्नो बभूव । तदा स वणिग्भृत्यानब्रवीत्, अहं गत्वा कंचनान्यमुष्टुं क्रीत्वा आनये, योऽस्य करभस्य भारार्धमितो हरेत्; मेघागमे, यथा जलं वस्त्रपेटा- चर्माणि न स्पृशेत्तथा इह स्थितैः युप्माभिः कार्य- मिति । एवमुक्त्वा भृत्यांस्तानुष्ट्रपार्श्वेऽवस्थाप्य स वणिग्जगाम | अथाकस्मादुन्नम्य घनो वर्षितुमारेमे । ततस्ते जडा भृत्याः, यथा अंभः पेटाचर्माणि न स्पृशेत्तथा कार्यमिति स्वामिना प्रोक्तमित्यालोच्य पेटाभ्यो वस्त्राणि कृष्टवा तैश्चर्माण्यवेष्टयन् । तेन वस्त्राणि वारिणा विनेशुः। अथ स वणिगागत्य दृष्ट्वा क्रुद्धस्तान्भृत्यानभाषत, हे पापा:! किं सकलो वस्त्रोघोऽम्भसा नाशित इति । ते तं प्रत्यभाषन्त-- त्वयैवोदकात्पेटाचर्माभिरक्षणमादिष्टम् , तानि चा- स्माभी रक्षितानि, तत्र च कोऽस्माकं दोष इति । चर्मखाइँषु वस्त्राणि नश्येयुरिति वस्त्राणामेव रक्षार्थ

संस्कृतप्रवेशिनी।
मया तथोक्तम् , न तु चर्मणां रक्षार्थमिति तानुक्त्वा,
स वणिगन्यकरभन्यस्तभारस्ततः स्वगृहं गत्वा
भृत्यान्सर्वस्वमदण्डयत् । एवमहातहृदया मूर्खा
विपर्ययं कृत्वा खार्थ परार्थ च घ्नन्ति ।।
२५जूलाई
४०. वणिक्सूनुर्लाहतुला च ।।
आसीत्कोऽपि तुलाशेषः पित्र्यार्थात्प्राग्वणिक्सुतः।
अयापलसहस्रेण घटितां तां तुलां च सः॥१॥
कस्यापि वणिजो हस्ते न्यस्य देशान्तरं ययौ ।
आगतश्च ततो यावत्तस्मान्मृगयते तुलाम् ॥ २॥
आख्नुभिर्भक्षिता सेति तावत्तं सोऽब्रवीद्वणिक् ।
सत्यं सुखादु तल्लोहं तेन जग्धं तदाखुभिः ॥३॥
इति सोऽपि तमाह स्म वणिक्पुत्रो हसन्हदि ।
प्रार्थयामास च ततो वणिजोऽस्मात्स भोजनम् ॥
सोऽपि संतुष्य तत्तस्मै प्रदातुं प्रत्यपद्यत ।
ततः स सहकृत्वास्य वणिजः पुत्रमर्भकम् ॥५॥
स्नातुं वणिक्सुतः प्रायाइत्तामलकमानकम् ।
मात्वार्भकं तं निक्षिप्य गुप्तं कापि सुगृहे ॥६॥

६४ संस्कृतप्रवेशिनी। एक एवाययौ तस्य स धीमान्वणिजो गृहम् अर्भकः क स इत्येकं पृच्छन्तं वणिजं च तम् ॥७॥ श्येनेन सोऽर्भको नीतः खानिपत्येत्युवाच सः । छादितो मे त्वया पुत्र इति क्रुद्धेन तेन च ॥ ८ ॥ नीतः स वणिजा राजकुलेऽप्याह स्म तत्तथा । असंभाव्यमिदं श्येनो नयेत्कथमिवार्भकम् ॥९॥ इति सभ्यैश्च तत्रोक्त वणिकपुत्रो जगाद सः। मूषकैर्भक्ष्यते लौही देशे यत्र महातुला ॥ १० ॥ तत्र द्विपमपि श्येनो नयेतिक पुनरर्भकम् । तच्छ्रुत्वा कौतुकात्पृष्टवृत्तान्तैस्तस्य दापिता ॥ सभ्यैस्तुला सा तेनापि स आनीयार्पितोऽर्भकः। इत्युपायेन घटयन्त्यभीष्टं बुद्धिशालिनः ॥ १२ ॥ जूबाई -

४१. सिंहः॥
सिंहाः आफरिकादेशवर्तिवरण्येषु, पर्वतप्रान्तेषु
च 'प्रचुरतया वर्तन्ते । एण्यादेशेऽपि क्वचित्प्रदेशे
सन्ति । परं तु तत्रस्थाः सिंहाः आफरिकादेशवर्तिन
इव स्थूला बलिष्ठाश्च न भवन्ति । सिंहो भयंकरो
धीरदर्शनश्च । सिंहगर्जनं मनुष्याणामितरेषां प्रा-
णिनां च भयं जनयति । श्वापदेषु सिंह एव बलिष्ठः।
स चैकेनैव प्रहारेण तुरगादीन् प्रहृत्य व्यापादयितुं
शक्रोति । बिडालो यथा मूषकमास्येन गृहीत्वा
धावति, तथा सिंहोऽपि वृषभादिकमास्येन गृहन्
पलायते । सिंहो विशतिवितस्तिदूरवर्तिनि मृगे
एकेनैव प्लुतेनोत्लुत्य निपतेत् । सिंहः स्वपराक्रमेण
इतरानखिलानपि मृगान् हन्यात् । सिंहं तु कोऽपि

संस्कृतप्रवेशिनी । न हन्यात् । अत एव तस्य मृगरिपुरिति मृगाधिप इति मृगेन्द्र इति च प्रसिद्धिः। सिंहः प्रायशो दिवा न संचरति । सूर्यास्तमयान- न्तरमेव स्वावासभूताया गुहाया बहिराहारसंपाद- नार्य निर्गच्छति । कदाचिहिवापि बहिरागत्य मृगा- दीन्गवेषयेत । आसन्नवर्तिनं सिंहं रासभादयो ग- न्धेन ज्ञात्वा पलायेरन् । केचन मृगाः सिंहगर्जनं श्रुत्वा भयभ्रान्तचित्ताः स्वयमेव तत्समीपं गत्वा तख्य खाद्या भवेयुः॥ सिंही सिंहापेक्षया अल्पा। यथा सिंहस्य स्क- न्धावलम्धिनः केसरा वर्तन्ते तथा सिंहाः केसरा न सन्ति ॥ २८जूलाई १२ ४२. आखुसिंहो । एकदा कस्मिंश्चिदरण्ये कश्चन सिंहः स्वपमति- ष्ठत् । तदानी केचनाखयो विनोदार्थमितस्ततो धा- वमानाः सिंहशरीरे पतित्वा तं प्राबोधयन् । तेन क्रुद्धः सिंहस्तेग्वेकं करे गृहीत्वा यावद्धन्तुमारभत तावत्स आखुः सदैन्यं तं जीवितमयाचत। तेन संस्कृत प्रवेशिनी। शान्तकोपः केसरी तमा व्यसृजत् । ततः कृतज्ञः स आखुः सिंहमवदत् , मृगराज, अहं त्वां यदा कदा वा प्रत्युपकुर्यामिति प्रत्येमीति। सिंहस्तदा- कर्ण्य, अल्पतमोऽयं जन्तुः कथं मामुपकुर्यादिति मत्वा तमपाहसीत् । आखुस्तु किमप्यनुक्त्वा स्व. बिलं प्राविक्षत् ॥ गतेषु केषुचिहिनेषु जातु स एव सिंहः आहारार्थ भ्रमन्, मृगादिग्रहणार्थ व्याधैः प्रसारिते दृढतर- रज्जुनिर्मिते जालेऽलगत् । स तस्माजालादात्मानं मोचयितुं बहून् यत्नानकरोत् । तथापि तस्य यत्नः सफलो न बभूव । ततो भयेन स जगर्ज। महान्तं तस्य ध्वनिं श्रुत्वा स एवाखुः किमेतदिति जिज्ञासु- बिलानिंर्गस्य सिंहसमीपमागत्य तमेव सिंह जालब. बमपश्यत् । ततः स तस्य प्रत्युपकारं चिकीर्षु- स्तीक्ष्णैः स्वदन्द्रिः जालं छित्वा तस्मात्तममोचयत् । अवोचश, मृगेन्द्र, अल्पतमोऽयं प्राणी कथं मामुप- करिष्यतीति पूर्व मामवामंस्थाः, पश्येदानीमल्सेनापि महत्कार्य कर्तव्यमापतितमिति । एवमुक्त्वा आखु: स्वस्थानमगमत् । सिंहोऽपि संतुष्टः कुत्रचिदगात् । एवं बलिष्ठानामप्यल्पानां साहाय्यमवश्यमपेक्षितम्, भतस्तैरल्पा नावमन्तव्या इति ज्ञायते ॥ ३० जूलाई ४३. ब्राह्मणो व्याघ्रश्च । एकदा कन्चन ब्राह्मणः वनमार्गेण कंचन ग्रामम- गच्छत् । मार्गमध्ये पवरबद्धः कश्चन व्याघ्रः गच्छ- न्तं ब्राह्मणमायावदत् , हे ब्राह्मण, पजरबद्धस्य मम द्वौ दिवसावतिक्रान्तौ, तदारभ्य ममाहारो नास्ति, अतस्त्वं मयि दयां निधाय पारद्वारमपावृणुयाश्चे- त्तव सुकृतं भवेदिति । तच्छ्रुत्वा ब्राह्मणस्तमवोचत्, त्वं सर्वेभ्य: प्राणिभ्यः क्रूरतमः, अपावृते पारद्वारे मामेव हन्या, तन्नाहं द्वारमपावृणोमीति । व्याघ्रस्त- मब्रवीत् , मम प्राणरक्षणेन परमोपकारिणं त्वां कि- महं हन्याम न कदापि हन्याम् ; अतः पारद्वारमु. द्वाट्य मां निर्गमयति । एवं व्याघ्रणाधिकं प्रार्थ्य- मानो ब्राह्मणस्तस्य वचने विश्वस्य पारद्वारमपा- वृणोत् । व्याः पारानिर्गस्य ब्राह्मणमवदत्, दिन- द्वयमाहारामावेन अहमत्यन्तं बुभुक्षितोऽस्मि, अत:. स्त्वां खादितुमिच्छामीति । तच्छ्रुत्वा भीतो ब्राह्मण- स्तमवोचत् , उपकारिणो मम हननं किं तवोचित- मिति । सोऽवृत , मनुष्यादिहननं व्याघ्राणां कुल- धर्मः, तत्तव हननमुचितमेवेति ॥

संस्कृतप्रवेशिनी। एवं तयोः परस्परं विवदमानयोः, कश्चन जम्बुक- स्तत्रागच्छत् । तं दृष्ट्वा उभावपि स्वस्वविवाद त- स्मायवोचेताम् । तदाकर्ण्य जम्बुकस्तावब्रवीत्, युवयोर्विवादः केवलं श्रोत्रेण श्रुत्वा न निर्णेतुं शक्यते, किं तु कथं व्याघ्रः पश्चरे निरुद्धः कथं वा त्वया पारद्वारमुद्धाट्य व्याघ्रः पञ्जरबन्धान्मोचितः, तधुवां मां दर्शयतम् , अहं प्रत्यक्षतो दृष्ट्वा विवादस्य निर्णयं दास्यामीति । मूढो व्याघ्रस्तथैव भवत्विति प्रतिपद्य, पञ्जरं प्राविक्षत् । प्रवेशमात्रेण पञ्जरद्वारं संवृतमभूत् । ततो जम्बुको ब्राह्मणमब्रवीत् , हे मुग्धबुद्धे, कुत एनमुपकार्षीः? त्वत्कृतोपकारस्थानेन नीचेन चिकीर्षितः प्रत्युपकारः किं सम्प्रति सम्यक् बातः ? इतःपरमेतादृशानां दुष्टानामुपकारं कदापि मा कार्षीः, त्वमिदानी गच्छ; अयमत्रैव तिष्ठत्विति। एवमुक्त्वा जम्बुकः कुत्रचिदयासीत् । ब्राह्मणोऽपि गन्तव्यं स्थानं जगाम । तस्मात्रीचा नोपकर्तव्याः । १अगस्त ४४. मूर्खः कदर्यः॥ कमिश्चिनगरे कश्चनाढ्यः कदर्यः पुमानभूत् । महाधनस्यापि तस्य उपर्युपरि धनसंचय एवाधिका ७० संस्कृतप्रवेशिनी। आसक्तिरासीत् , न तु संचितधनेषु अल्पमपीतरस्मै दातुं स्वयमुपयोक्तुं वा। स चानुदिनमितोऽपि प्र- युरधनसंचयो भवत्विति लक्ष्मी प्रार्थयमानस्तस्थौ। सापि तत्प्रार्थनानुगुणं तस्य धनमवर्धयत् एवं स्थिते कस्मिश्चिहिने स कृपणः स्वस्य समयां धनसंपत्ति विलोक्य मनस्यचिन्तयत्, ईट- शधनसंपत्त्या यद्यहं जातु वियुक्तः स्यां तदा कथ- महं जीवेयम् , क्षणमात्रमप्येतद्वियुक्तो न जीवेयम, तस्मादियं संपन्मद्गृह एव यथा स्थिरा तिष्ठेत् तथो. पायः कर्तव्य इति । स एवं विचिन्त्य तपसा लक्ष्मीमाराद्धमारभत । ततो लक्ष्मीः साक्षादागत्य तमभाषत, अहं तव तपसा तुष्टास्मि, किं ते करवाणि इति । तां दृष्ट्वा दृष्टः स कृपणः प्रोवाच, देवि, त्वं यावन्तं कालं मम गृहे वर्तसे, तावन्तं समयमियं संपदपि मद्वशे तिष्ठेत् । मां त्यक्त्वा गतायां त्वयि, इयमपि संपदनुपदमेव गच्छेत् । तत्त्वं यदा मां त्यक्त्वा गन्तुमिच्छसि तदा त्वया प्रत्यक्षीभूय 'त्वां त्यक्त्वा गच्छामि' इति मामुक्त्वैव गन्तव्य- मिति । तच्छ्रुत्वा सा तथैवास्त्वित्युक्त्वा अन्तर्हिता बभूव । अन्तर्हितायां तस्यां स लुब्धो मनस्यचिन्त- यत्, त्वद्गृहानिर्गमनसमये गच्छामीति त्वामुक्त्वैय संस्कृतप्रवेशिनी। ७१ गच्छामीति लक्ष्म्योक्तम् , तस्या वचनं कदाप्यलीकं न भवेत् एवं सति यद्यहं जीवंस्तिष्ठेयं तदा सा मामुपगम्य गच्छामीति मामुक्त्वा गच्छेत् , गतायां तस्यामियं संपदपि गच्छेत्, यद्यहं मृतः स्यां तदा कथं सा मां गच्छामीति वदेत्, गच्छामीति मामनु- क्त्वा तु तया मद्गृहानिर्गन्तुं न शक्यते, अगतायां तस्यां , इयं संपदपि न गच्छेत्, किं तु मद्ह एव तिष्ठेत् इति । एवमालोच्य स मूढः कस्मिंश्चिदन्ध- कूपे निपत्य प्राणान्विजहौ । एवं लुब्धानां प्राणेभ्यो- ऽपि धनमेव प्रियतमम्, क्लेशार्जितं तेषां अनमून्यै- हैलया भुज्यते ॥ १ ईलाई१३२ HI ४५. बको मकरश्च ।। आसीत्कोऽपि बकः पूर्व मत्स्याढ्ये सरसि क्वचित् । मत्स्यास्तत्र पलायन्त तस्य दृष्टिपथाद्भयात् ॥१॥ अप्राप्नुवंश्च मिथ्या तान्स मत्स्यानब्रवीद्वकः । इहागतो मत्स्यघाती पुरुषः कोऽपि जालवान् ॥ स जालेनाचिरायुष्मान्गृहत्विा निहनिष्यति । तत्कुरुध्वं मम पचो विश्वासो वोऽस्ति चेन्मयि ॥

संस्कृतप्रवेशिनी।
अस्त्येकान्ते सरः स्वच्छमक्षातमिह धीवरैः ।
अहं तत्र निवासार्थ नीत्वैकैकं क्षिपामि वः॥४॥
तच्छ्रुत्वा
सभयेरूचे मत्स्यैस्तै डबुद्धिभिः ।
एवं कुरुष्व विश्वस्ता वयं त्वय्यखिला इति ॥५॥
ततो बकस्तेम्वेकैकं मत्स्यं नीत्वा शिलातले।
विन्यस्य भक्षयामास स बहून्विप्रलम्भकः ॥ ६ ॥
दृष्टा मीनान्नयन्तं तं मकरस्तत्सरोगतः ।
एको बकं तं पप्रच्छ नयसि क झषानिति ॥ ७॥
ततस्तं स तदेवाह बको मत्स्यानुवाच यत् ।
तद्भीतो मकरोऽवोचत्तन्मामपि नयेति तम् ॥ ८ ॥
सोऽपि तन्मांसगन्धिबुद्धिरादाय तं यकः।
उत्पत्य प्रापयति तद्यावद्वध्यशिलातलम् ॥९॥
तावत्तजग्धमीनास्थिशकलास्तत्र वीक्ष्य सः ।
तं बुध्यते स्म मकरो बकं विश्वासघातुकम् ॥
ततः शिलातलन्यस्तमात्रस्तस्य स मस्तकम् ।
बकस्य मकरो धीमांश्चकाविह्वलः क्षणात् ॥११॥

संस्कृतप्रवेशिनी। गत्वा पुनः शेषमत्स्थान्यथावत्स शशंस तम् । ते चाप्यभिननन्दुस्तं झषाः प्राणप्रदायिनम् ॥१२॥ तस्मात्प्रहावलं नाम निष्पक्षस्य बलेन किम् । अगस्त १९१२ ४६. शुकः ॥ an म शुकाः प्रायशः उष्णदेशे निवसन्ति । शुका नाना- विधाः । तेषु केचन हरितवर्णाः केचन रक्तवर्णाः केचन धूसरवर्णाश्च । तेषां पक्षा उज्ज्वला मनोज्ञान। शुकस्य चञ्चुःप्रायशो रक्ता वृहती उढा वर्तुला चें। तस्या उपरितनभागः अधोभागापेक्षया आयतो धक्रस्तीक्ष्णाग्रश्च । शुकस्य जिह्वा कोमला मांसला च । तस्य पुच्छो दीर्घः । शुकस्य पादौ स्वावासभूतं 6 संस्कृतप्रवेशिनी। दण्डं ग्रहीतुम, हस्ताविवाहारभूतवस्तून्यास्यं नेतुं चोपयुक्तौ स्तः। तस्य पादयोः पुरोभागे पसाझागे च सनखरे वेढे अहुली स्तः। शुकचमचुचरणसाहा- म्येन पक्षादीनारोदुं शक्रोति ॥ शुकाः स्वजातीयसंसर्गप्रियाः । अत एव ते आरामादिषु सहशो उयमाना दृश्यन्ते न त्वेकैकशः। शुकः वृक्षकोटरे पाषाणच्छिद्रादौ भण्डानि सूते, भण्डाभिर्गमनात्परं बहूनि दिनानि शुकशाबकाः पक्षशून्या एव पर्तन्ते । मासत्रयानन्तरमेव सम्यक्प्र- पढपक्षा डयनयोग्याश्च भवन्ति । शुकः प्रायशः फलादीनि खाइति । कदाचित्पकानादिकमपि खा. देत् । तस्य शर्करायामतीव प्रीतिः। शुकः पदे पदे जले माति । धर्मकाले जलमवगाह्य पक्षपुटेन जल- मादाय खस्योपरिभागं सिञ्चति । शुको बहुकाल- जीवी । पञ्चाशद्वत्सरादूर्ध्वमपि जीवतीति केचन बदन्ति । अस्माभिरुचार्यमाणानां वचनानामनूचारणे बिरालशुनकादीनां ध्वन्यनुकरणे च शुकाः अतीय याताः॥ १० अगस्त १२ ४७. कश्चन बालकः शुकशावकश्च ।। अहमेकदा प्रातःकाले विनोदाई पुष्पवाटिकामग- मम् । तस्यां च कस्यचिदुन्नतचूतवृक्षण शाखाप्रेषु विरचितनीडाः शुका निवसन्ति स्म। तस्मिन्समये कश्चन व्याधस्तत्रागत्य तं पादपमारुह्य शुकशावका- नग्रहीत् । ग्रहणसमये तेष्वेकः शाबको नीडात्प्र. भ्रश्य भूमावपतत् । पतितं शावकं व्याधो नालक्ष. यत् । वायुपुजितस्य शुष्कपतस्य पुणे पतिततया स शाबको गतासु भूत् । व्याधस्तु वृक्षादवतीर्याया- सीत् । अथाहं तं शाबकं रिरक्षिषुस्तमादाय गृह- मगमम् । कदाचिद्विडालो गृहीत्वा खादेदित्यालोच्य तदानीमेवैक दारुपञ्जरं कारयित्वा तस्मिस्तं प्रवेश्य द्वारं पिधाय प्रयमेनापोषिषम् । स एवं पुण्यमाण: समुत्पन्नपक्षः कालेनाल्पेनैव तथा परिचितोऽभूत्, यथा कदाचिदपावृते पारद्वारे स बहिरागस्य गृहा- भ्यन्तर एव इतस्ततो डयमानः ममोत्सङ्गे समुप- विश्य हस्तस्थितं फलादिकं चमच्या गृहीत्वा सा- देत्, कदाचिन्मया एोहीत्याहूते सटित्यागत्य माँ- कुलो निषीदेत् । अहमधिकं तस्मिन्नतिहम्; अतो मत्तः स नाभैषीत् ॥

संस्कृतप्रवेशिनी। किं च यदा यदा ममावकाशो लभ्यते तदा तदा अहं तं कानिचिद्वाक्यानि अशिक्षयम्। मयैवं शि. शितः कानिचिद्वाक्यानि मनुष्य इव स्पष्टमुखारयितुं शक्तोऽभूत् । प्रत्यहमहं पाठशालातः प्रतिनिवृत्य तेनोचार्यमाणानि वाक्यानि शृण्वन् कंचित्कालमा- त्मानं विनोदयन्नतिष्ठम् । एवं गतेषु कतिपयदिनेषु, एकस्मिन्दिने प्रमादादपावृतद्वारात्पनरानिर्गत्य स शुकः समीपवर्ति बनमगमत् । अहं शुकरहितं पञ्जरं दृष्ट्वा अयं कुत्रचितो भवेत्, कंचित्कालं बहिः संचर्य पुनः प्रत्यागच्छेदित्यमंसि । अतीतेवपि चतुःपनदिनेषु यदा स नागतः तदाहं केनाप्यन्येन वायं गृहीतो भवेत्, अथवा बिडालेन वा व्यापा. दितो भवेदित्यालोच्य सिवन्नमनास्तूष्णीमभूवम् ॥ तदनु कतिपयदिवसानन्तरमेकदाहं मदरके आसनोपविष्टः पठन् अपि कुशलं भवत इति केनचिदु- कंवाक्यमश्रौषम्। तच्छुत्वा कोऽपि द्वारदेशमागस्य मामालपतीति मत्वा आसनादुत्थाय बहिर्गत्वाव्य- लोकयम् । कोऽपि तत्र नासीत् । किमेतदिति चि. न्तयन् प्रतिनिवृत्त्यासने समुपाविक्षम् । ततः क्षणा- त्परम्, ईश्वरस्त्वां सपुत्रकलत्रमवत्विति पुनरन्यद्वा- क्यं श्रुतिपथमगच्छत् । तेनात्यन्तं विस्मयापन्नो संस्कृतप्रेवेशिनी। यहच्छयोविलम्बितं पचरमद्राक्षम् । तस्मिन्स एव न शुकः पजरोपविष्टो मया दृष्टः। ततस्तेने- वेमे वाक्ये उक्त स्यातामित्यवासिषम् । किं तु स शुकः कदा समागत्य पञ्जरं प्राविक्षदिति नावेदि- षम् । बहुदिवसात्परं नष्टं शुकं पुनर्रष्टवतो मम महान्विस्मयः संतोषश्चोदभूत् । अथायं पजरे निरोद्धव्यः नो चेत्पलायेत इति मत्वा पञ्जरं गृही- वा तमन्तः प्रवेश्य पारस्य द्वारं दृढं प्यधाम् । तेन स विषण्ण इवालस्यत । अथाहं निर्गत्य सानभो. अनादिकं निवर्त्य पाठशालामगाम् । सायं चागत्य यथापूर्व सादरं मयोपनीतं फलादिकं किंचित्वादि- स्वा विषण्ण एवातिष्ठत् , न पूर्ववत्तुष्टः । अहमपि कृताहारः शयनं श्रितोऽस्वाप्सम् ॥ अथ रात्री स्वप्ने शुको मामेवमवादीत्, त्वगहा- मिर्गमनादारण्य एतावन्त कालमहमरण्ये विविध- विहगगणाकीणे दृष्टमनाः स्वजातीयैः साकं स्व- च्छन्दं वृक्षावृक्षं डयमानः सुखं न्यवात्सम् । तमा. स्माकं खादितुं नानाविधानि मधुराणि फलानि पातुं स्वच्छानि नदीसलिलानि च सन्ति । एवं स्वेच्छया वने विहर्तुमिच्छोमम निरोधस्तव न युकः । त्वया सस्नेहं वर्धिततया तिर्यग्जाती जातो- संस्कृतप्रवेशिनी। ऽपि कृतमोऽहं त्वां द्रष्टुमिहागतः। त्वयैवं नियो भवेयमिति पूर्वमेव मया बातं चेचाहमिहागतो भवे. बम् । किं च त्वत्पिता माता वा स्वां कस्मिश्चनागरे निक्षिप्य भगारद्वारं पिधाय स्वेच्छया विहर्तुमननु मत्य यदि निरोधयेत्तदा त्वं निरोधदुःखमनुभवितुं किमिछछे:! अतः स्वेच्छया बने विहर्तु मां विसजे- ति । प्रातचाहं प्रबुद्धः स्वमे शुकोक्तं स्मृत्वा विस्म- बाविष्टः: शुकमुपगम्याद्राक्षम् । पूर्ववद्विषण्ण एषा- सीत् । अथाहं स्वेच्छयायं स्वजातीयैः सह मुलं बने विहरस्विति पारद्वारमपावृत्य तं व्यसासम् । सोऽतीव हष्ठःखमुदपत ॥ ४८. कम्धन दुष्टवालका शुनकश्च ॥ एकदा कश्चन बालकः बहिर्वारे सोपाने समुप- विष्टः एकमपूपं खादन्नवर्तत । तदा कश्चन शुनक- स्तस्यानतिरे पीथ्यां शयानस्तस्थौ। स बालकस्तं शुनकं पृष्ट्वा पोहीत्याह्वयत्। तद्वचनं श्रुत्वास शुनकः समुत्थायस्वलाङ्गलंचालयन्तस्य समीपमागच्छत् । ततः स बालकः स्वकरस्थस्यापूपस्यैकं शकलं करे पहीत्वा तस्मै शुनकायादर्शयत् । तदृष्ट्वा शुनके संस्कृतप्रवेशिनी। ७९ तग्रहीतुं स्वमुखं प्रसारयति, स दुष्टवालको मुण्ट्या तस्य नासिकायां रदं प्राहरत् । तेन प्रातः शुनको बी विरुदन् प्राद्रवत् । तदा स नृशंसः स्वखा बुधेष्टितेन उर्जहास ॥ अथ दुवालको यत्रातिष्ठत् तदभिमुखसदनान्त- उपविष्टः कधन पुरुषो गवाक्षरन्ध्रेण सर्व तस्य दुधे- तिं पिलो तदसहमानो बहिरागस्य तं बालक- माय तस्मै एकं रूपकं प्रदर्श्व गृहाणेमं रूपकमि- त्यवोचत् । बालकस्तदृष्ट्वा सत्वरमागत्य तं प्रहीतुं यापरस्तं प्रासारयत्, तावत्स पुमान् स्वहस्तव- तिना दण्डेन तस्यालिपर्वणि दृढं प्राहरत् । तदा बालकः शुनक इव रुदन हस्तेन हस्तं वर्षनषदीत्, किमर्थ मां प्राहार्षीः१ नाहं तव कामपि पीडामका. र्षम् , न पा स्वां रूपकमयाचिषीति । पुरुषस्तं प्रत्य- वोचत्, कुतस्त्वं क्षणात्पूर्व शुनकं प्राहार्षीः? स तव कामपि बाधा नाकार्षीत् , न वा वामपूपमयाचिर। यथा त्वमनपराधिनं प्रतवान् । प्रहारायथा तब न्यथा समुत्पना तथा शुनकस्यापि व्यथा समुत्पन्ना भवेदिति त्वमिदानीमहि । इतःपरमेवमनपराधि शुनकरासभादिप्राणिजातं मा हिंसीरिति । . ५अगस्त

४९. अनृतवादी मेषपाला॥
आसीनामे कचित्कचिदालको मेषपालकः ।
सोऽतिष्ठचारयन्मेषान्संनिकायवे सदा ॥१॥
स जातु संभ्रमेणैत्य प्रामस्थानप्रवीन्मना ।
अवास्कन्दति नो मेषान्कोऽभ्यत्य कुतश्चन ।
तद्रक्षार्थमितो यूयं समागच्छत सरपरम् ।
समाकाथ तद्वाक्यं सत्यं मत्वा च तत्क्षणम् ॥
रिरक्षिषन्तस्ते मेषान्गृहीत्वा लगुडादि च ।
आजग्मुस्तत्र तेऽपश्यन्मेषानेव तु केवलम् ॥
न वृकं सोऽथ तानाष्टवा जहासोहि बालकः।
विनोदार्थमनेनैवं कृतं स्यादिति ते विदुः॥५॥
मथ निर्भयं तं बालं ततो प्राममयासिषुः ।
दिवसेषु भ्यतीतेषु स बालः सत्यमागतम् ॥ ६ ॥
वृकं दृष्टा भयभ्रान्तस्त्वरितं प्राममाययौ ।
आगतो वृक इत्येवं सोऽब्रवीद्रामवासिनः ॥७॥

संस्कृतप्रवेशिनी। ८१ श्रुत्वा ते तस्य तद्वाक्यं प्रत्यवोचस्तदा जनाः । मूर्ख त्वया वयं भूयो न प्रतारयितुं क्षमाः ॥ ८॥ गच्छ गच्छति तैरुक्तः स बालः पुनरप्रवीत् । मेदानीमनृतं वच्मि किं तु सत्यं वदाम्यहम् ॥९॥ इत्येवं बहुधा तेन कथिता अपि ते जनाः। पूर्ववदितथं मत्वा तद्वाक्यं न विशश्वसुः॥ १० ॥ वृकोऽथ मेषान्सुबहून्हत्वा कामं धनं ययौ। मेषनाशं जनाबुद्दा स्वामी बालाय चुक्रुधे ॥११॥ क्रोधाच स्वामिनो बालः पदाइष्टो बभूव सः । हायार्थ वाप्यतो वाच्यं नानृतं भूतिमिच्छता॥ स्वामिनो महती हानिः स्वस्यापि हि पदच्युतिः । संजाता मेषपालस्य परिहासमृषागिरा ॥ १३ ॥ १८अगस्तव ५०. कोकिलः ॥ कोकिलः काक इव न स्थूलः । स नीलमिभधूस- रवर्णः । तस्य पक्षपुच्छौ नीलौ। पक्षस्य ह्रखतया बहुदूरं डयितुं स न शक्नोति । तस्य चञ्चुः काक- ८२ संस्कृतप्रवेशिनी। चम्युरिष मतामा दर्धा च । स तया मुभिकाः कीटादीच सहसा ग्रहाति, धान्यं फलानि च लुनाति । स कीटादीन् धान्यफलादिकं च बादति । कोकिलो रुचिरं गायति । स प्रायशो वसन्तसमय एव श्यते, यतो वयं तस्य मनोहरं शम्दं तदानी- मेष श्णुमः॥ कोकिला अण्डानि प्रसवितुमितरविहगा इव न नांडं निर्मिमीते । सा नी निर्मातुमशक्ता वा माल- स्येन न निर्मिमीते वा तन जानीमः। भतः काक- सियां स्वाण्डानि नोडे निधायाहारान्वेषणाय बहिर्ग- तायाम् , इयं कोकिला स्वाण्डानि चचा गृहीत्वा काकस्सीनीडे निक्षिप्य गच्छति। पिकाण्डानांप्रायशः काकाण्डसहशतया तानि न मदीयानीति काकस्त्री कथं ज्ञातुं शक्नुयात् । सा तानि स्वीयानीति मत्वा तेषूपविश्य तावत् तान्युष्णीकरोति, यावदण्डेभ्यः शावका न निर्गच्छन्ति । ततः पिकशाषका अण्डे- भ्यो बहिनिर्गत्य काकत्रियोपनीतेनैव फलाचाहारेण वर्धमानस्तस्मिन्नेव नीडे तावनिवसन्ति, यावत्प्ररू- ढपक्षा अयितुमाहारादि संपादयितुं च न शक्नुव. स्ति । प्ररूढपक्षास्तु स्वीयैः कोकिलैरेव मिलन्ति । भत एव कोकिला: परपुष्टा इति भण्यन्ते ॥ २० अगस्त १ संस्कृतप्रवेशिनी। ८६ ५१. कनकदत्तः ॥ सोमपुरनानि नगरे कनकदत्तास्यः कश्चन वैश्यो ऽवर्तत । गर्भस्थस्यैव तस्य पिता मृतिमगच्छत् । ततः पापास्तस्य शातयः पैतृकं सर्वमपि धनमपा. हरन् । तदृष्ट्वा गर्भिणी तस्य जननी, ते अन्यदप्यनिष्टं कुर्युरिति भीत्या स्वपतिमित्रस्य कुमारदत्तस्य गृह गत्वा तत्रैवात्मनो गर्भ रक्षन्ती तस्थौ । ततः सा कालेन कनकदत्तं प्रसूय कृच्छ्राणि कर्माणि कुर्वन्ती तमवर्धयत् । विद्याभ्यासयोग्यां दशामापने कनक- दत्ते, सा कंचनोपाध्यायमभ्यर्थ्य तस्माल्लिपिं गणि तादिकं च पुनमध्यापयामास ॥ अथैकदा, सा अधीतविधं धनार्जनयोग्यां धयो ऽवस्थामापमं पुत्रं दृष्टा एवमब्रवीत्, पुत्रक, अस्मि- भगरे विशालाखिलाख्यः कश्चन महाधनो वणिग- स्ति, स दरिद्राणां कुलीनानां वणिजां भाण्डमूल्यं ददाति, वणिक्पुत्रतया त्वमपि तत्समीपं गत्वा तं भाण्डमूल्यं याचस्व, तेन दीयमानेन भाण्डमूल्येन त्वमपि त्वत्पूर्वजा इव वाणिज्यं कुर्षिति । तच्छ्रुत्वा सधेति कनकदत्ते विशालाखिलसमीपं गतवति, स बाणिकंचन पणिपुत्रमवदत् हे दुराचार! भूतले .

८४ संस्कृतप्रवेशिनी। योज्यं गतजीवितो मूषको दृश्यते, तेनापि पण्येन कुशलो धनमर्जयति, तव पुनर्मया बहवो दीनारा दत्ता भवन्ति, तद्वदिस्तावत्तिष्ठतु, मूलधनमपि त्वया न रशितमिति । एवं विशालाविलोक्ताम्येतानि वाक्या- नि श्रुत्वा कनकदत्तस्तमवोचत्, वणिक्छेष्ठ, अहमिमं मूषकं त्वत्तो भाण्डमूल्यार्थ गृहामीति । एवमुक्त्वा पनिकायां स्वस्य नामादिकं लिखित्वा तां तस्मै दत्वा मृतमूषकमग्रहीत् । तत्रस्थो वणिक्पुत्रस्त हट्वा जहास ॥ ततः कनकदत्तः कस्मैचिदिडालपोषकाय चण काजलियुग्मेणमूल्येन तं मूषकं व्यक्रेष्ट।अथ तांश्वण. कान्भृष्टान् कृत्वाएकं शीतलास्वादुसलिलपूर्ण कल- शंभृष्टचणकांश्चादाय नगरादहिर्गत्वा चत्वरे कस्य- चिवृक्षस्य छायामुपविश्य श्रान्तागताय काष्ठभारिक- सहाय तांश्चणकान् शीतलं जलं च सादरं प्राय- ग्छत् । तेन प्रीतः एकैकः काष्ठिकः हे द्वे काष्ठे कन- कदत्तायादात् । स तानि काष्ठानि नत्विा आपणे विक्रीय तैर्लब्धेन मूल्येन काष्ठिकेभ्यः काष्ठानि ऋत्विा पूर्ववत्तान्यापणे विक्रीणानः क्रमेण कतिपयदिवसा. भ्यन्तर एव सकलान्यपि काष्ठानि काष्ठिकेभ्योऽक्री- णात् । अथाकस्मादतिवृष्ट्या दिनत्रयं काष्ठिकेषु वनात्काष्ठान्याहर्तुमशक्तेषु, कनकदत्तः स्ववशे स्थि- संस्कृतप्रवेशिमी । तानि काष्ठानि बहुभी रूपकैर्विक्रीय तैरापणं कृत्वा वाणिज्यं कुर्वनिजकौशलेनाधिकं धनमार्जयत् । ततः सौवर्ण मूषकं कारयित्वा विशालाखिलाया- दात् । स तं दृष्ट्वा तस्य बुद्धिकौशलमभिनन्ध तस्मै स्वसुतां दत्वा विवाहमकारयत् । एवं मितव्ययिनः कुशला अल्पमूलधनेनापि बहु धनमार्जयन्ति ॥ २२ अगस्त १२ ५२. नकुलमूषकमार्जारोलुकाः ॥ पुरा विदिशानगरीबाह्ये महान्यग्रोधोऽभूत् । तस्मिन्महातरौं नकुलोलूकमाजारमूषकाश्चत्वारः प्राणिनः पृथगालया वसन्ति स्म । तेषु नकुलमूषकों तस्य तरोमूले भिन्न भिन्ने बिले न्यवसताम् । मार्जा- रस्तस्य मध्यभागस्थै महति कोटरे न्यवसत् । उलू- कस्तु शिरोभागे लतालयेऽनन्यलभ्ये । एतेषु मूषक- खिभिर्वध्यः, मार्जारेणापरे त्रेया वध्याः । नकुल- मूषको मार्जारभयादाहाराय निशि परिभ्रमतुः। उलूकः स्वभावेनैव रात्री परिषभ्राम। मार्जारस्तु निर्भयो दिवा रात्रौ च । तनासन्ने यवक्षेत्रे मार्जारः सदा मूषकलिप्सया, अन्येऽपि त्रयः स्वकाले अन्ना.

८६
संस्कृतप्रवेशिनी।
।
भिवाच्छया गच्छम्तस्तस्थुः॥
अथैकदा कश्चन लुब्धकश्चण्डालस्तत्रागत्य तत्क्षे-
अगामिनी मार्जारपदश्रेणी दृष्ट्वा तद्वधाय क्षेत्रमभितः
पाशाम्बला ततो ययौ । रात्रौ मार्जारो मूषकजिघां-
सया समेत्य क्षेत्रं प्रविष्टः पाशैरबध्यत । मूषको-
ऽप्याहारार्थी तत्र निभृतागतः पाशबद्धं मार्जारं
वीस्य जहर्ष ननत च। ततः स मूषकस्तत्क्षेत्रं दूरा-
देकेन वर्मना यावद विशत् , तावदुलूकनकुलावपि
तत्रायातौ । तौ बद्धं मार्जारं दृष्ट्वा मूषकं लग्धुमै-
च्छताम् । मूषकोऽपि दूरातो हष्वाकविनो व्यचिन्त.
यत्, नकुलोलूकभयप्रदं मार्जारं यदि संश्रये,
बद्धोऽपि स शत्रुर्मामेकप्रहारेण मारयेत्, यदि
न संश्रये, नकुलोलूको मार्जारादूरगं मां हन्या-
ताम्, तच्छत्रुसङ्कटगतः क गच्छामि, किं करो-
मीति । एवं विचिन्त्य हन्तापदतोऽहमात्मत्राणाय
मार्जारमेव श्रयामि । स मां जातु पाशच्छेदोपयो-
गिनं रक्षेत् इत्येवं पुनरालोच्य मूषकः शनैर्मार्जार
गत्वाब्रवीत् , बद्ध त्वय्यतिदुःखं मम ; तत्ते पाशमहं
छिनभि, सहवासाउजूनां रिपुष्वपि हो जायते,
किं तु तव चित्तमजानतो मम मास्ति विश्वास
इति। मार्जारस्तच्छ्रुत्वाऽवोचत्, भद्र, विश्वस्थता
स्वया, अद्य प्रभृति प्राणप्रदायको भवामित्र ममेति।

संस्कृतप्रवेशिनी। सदाकर्ण्य मार्जारोत्सहं मूषकः शिभिये । तदृष्ट्वा नकुलोलूको निराशौ ततो ययतुः । ततः पाशपीडि- तो मार्जारो मूषकं जगाद, मित्र गतप्राया निशा तद्भुतं मे पाशं छिन्दीति । मूषको लुग्धकागमनोन्मु- खो मृषा कटकटायमानैर्दशनैः शनैछिन्दन् विल- म्बमकरोत् । क्षणात्प्रभातायां रजन्याम् , लुब्धके निकटागते, माजोरे अर्थयमाने, मूषको द्राक् पाशां- श्चिच्छेद । ततश्छिन्ने पाशे मार्जारे लुब्धकत्रासा- विद्रुते, मूषको मृत्युमुक्तः पलाय्य बिलं प्राविशत् । पुनर्मार्जारेणाहूतः स्वस्थानान्नाचलत्, किं त्ववो- चत्, कालविशेषे ह्यरिर्मित्रं जायते न सर्वदेति । एवं तिरश्चापि मूषकेण बहुभ्यः शत्रुभ्यः प्रक्षया आत्मा रक्षितः ॥ २५अगस्त€३२ है ५३. कैलासगामी मूर्खः ।। कचिन्मठे बहूनां मुग्धानां मुख्यो मुग्धः कश्चना- सीत् । स जातु केनचिद्वाच्यमानात्पुराणात्तटाक- कर्तुरमुत्र महत्फलमनीषीत् । ततः स धनसंपूर्णो निजान्मठान्नातिदूरे विपुलं सलिलपूरितं तटाकं ८८ संस्कृतप्रवेशिनी । कारयामास । एकदा स मुग्धाप्रणास्तं तटाकं द्रष्टुं गतः केनाप्युत्पाटितं तस्य तटं व्यलोकयत् । स तथैवान्येचुरागस्य तस्य तटाकस्यान्यत्तटमुत्वातं दृष्ट्वा सोद्वेगः समचिन्तयत्, प्रातः प्रभातादारभ्य इहैव वासरं स्थापयामि, द्रक्ष्यामि तं. य एवं करो- तीति । एवं विचिन्त्य अन्येषुः प्रगे यावदेत्यास्ते, तावत्तन दिवोऽवतीर्य शुङ्गाभ्यां तटं स्खनन्तं वृषभ ददर्श । स तं दृष्ट्वा दिव्योऽयं वृषभः, तत्किममुना सह न दिवं यामीति विचिन्त्य तस्य वृषभस्य समी- पमुपेत्य तस्य पुच्छं हस्ताभ्यां रढमग्रहीत् । ततः स भगवान् वृषभः पुच्छाग्रलग्नं तं मुग्धमुरिक्षप्य क्षणा- तस्वं धाम कैलासं निनाय । स तत्र दिव्यानि भस्या- णि मोदकादीन्यवाप्य भुजानः कतिचिाहनानि सुखं न्यवसत्॥ अथैकदा मुग्धानणार्गतागतानि कुर्वाणं तं महा वृषभं विलोक्य दैवेन मोहितो मनस्याचिन्तयत्, वृषपुच्छाग्रलग्नो गच्छामि, पश्यामि बान्धवान् , अद्भुतमिदं तेभ्यः कथयित्वा पुनरहं तथैवैष्यामीति। एवं संचिन्त्य कृषभमुपेत्य गच्छतस्तस्य पुच्छमाल- लम्म्य भुवस्तलमगात् । अथ मठं प्राप्तस्तन स्थितें- रन्यै मुग्धैराश्लिष्य क गतोऽसीति पृष्टस्तान् स्व- सान्तं शशंस । ततस्ते सर्व श्रुताश्चर्यास्तं प्रार्थयन्त, संस्कृतप्रवेशिनी। प्रसीद, नय तत्रास्मानपि, भोजय मोदकानिति । स तथेत्युक्त्वा परदिने तान् तटाकोपान्तमनयत् । क्षणात्परं वृषस्तत्राययौ । तस्य लालं मुख्यो मुग्धः पाणिद्वयेन जग्राह । तस्य चरणावन्योऽगृहात् । तस्यापि चेतरः । एवमन्योन्याशिलग्नेस्तैर्मुग्धैर्याव- झाला रचिता तावत्स दृषो जवादुत्पपात नभः । लाङ्गलालम्बि मुग्धके वृषे याति, दैवयोगादेको मुग्धो मुग्धमुख्यं पप्रच्छ, कियत्प्रमाणा मोदका भवता भक्षिता इति । तदाकर्ण्य स मुग्धनायको भ्रष्टानुसन्धानो वृषपुच्छं विमुच्य संश्लिष्टौ पंमी. कारौ करौ कृत्वा, इयत्प्रमाणा इत्याशु दर्शयन् याव- तान् प्रत्यवोचत्, तावत्स चान्येऽपि ते सर्वे खा- जिपत्य विपेदिरे । वृषभः कैलासं प्रायात् ॥ अगा ५४. सुहृदो भल्लूकश्च ।" एकदा सुहदी कौचिहामं जिगमिषु पथि । गच्छतो रहितं किंचित्संभवेदावयोर्यदि ॥१॥ आवाभ्यां प्रतिपत्तव्या परस्परसहायता। इत्येवं तावकुरुतां समयं पुरुषौ मिथः ॥२॥ 7

संस्कृतप्रवेशिनी।
माजगाम तयोरेवं गच्छतोः कृतसंविदोः ।
भप्रतः कोऽपि भलूको गुल्माभिर्गस्य सत्वरम् ॥
तं रष्ट्वा तु तयोरेकः पुरुषो लघुविप्रहः ।
पक्ष कंचित्समारुह्य तस्थौ गूढकलेबरः ॥ ४॥
मपरस्तु महाकायो मनस्यालोचयत्तदा ।
न सामयं ममैकस्य पथि भल्लूकनिग्रहे ॥ ५ ॥
ऋक्षो नरं गतप्राणं न कदाचिदपि स्पृशेत् ।
इत्येषा लौकिकी वाती मया मातुः श्रुता पुरा ।
तदहं मृतवत इत्यालोच्य स बुद्धिमान् ।
श्वासं संस्तभ्य शेते म हस्तौ पादौ प्रसार्य च ॥
ऋक्षस्तु तमुपागत्य जघ्रावनानि सर्वशः।
श्वासाभावान्मृतं मत्वा हिंसां कामपि नाकरोत् ।
ऋक्षो धनमगाहिष्ट ततो वृक्षस्थपूरुषः।
भवरुह्य तरोस्तस्मात्समागत्येतरान्तिकम् ॥ ९ ॥
पप्रच्छ सस्मितं मित्र भलूकस्त्वां किमब्रवीत् ।
यतो मयैष दृष्टोऽभूनिधाय वदनं सकम् ॥ १० ॥
निकटे तव कर्णस्व कथयनिक किंचन ।
तं परः प्रत्युवाचेदमूसो मां नान्यदब्रवीत् ॥ ११ ॥

संस्कृतप्रवेशिमी । * इतःपरमपीरक्षे जाल्मे स्वार्थपरे नरे । विश्वासो नैव कर्तव्य इत्येतन्मात्रमीरितम् ॥१२॥ तूष्णीमासीत्स तच्छुत्वा लज्जावनतमस्तकः । आपद्धि निकषमावा मित्रतत्त्वपरीक्षणे ॥ १३ ॥ २०अगस्त ५५. लोहाः सुवर्ण च ॥ लोहाः प्रायशः कठिनाः भास्वरा भारषन्तश्च । सर्वेऽपि लोहा पहिसंयोगे सति द्रवन्ति। परंतु केचन धातवो द्रवीभवितुमधिकमग्नितापमपेक्षन्ते । लोहाच पार्थिवांशैः शिलावयवैश्च समाकी भूमौ . वर्तन्ते । खनिनादिना भूमि खनित्वा तान्बहिर्नयन्ति। बहिर्नीताः अग्न्यादिसंस्कृताः शुद्धा भवन्ति । शु. अयनन्तरमेव ते स्वस्वरूपं भजन्ते । संस्कारात्पूर्व पाषाणादय इव दृश्येरन् । तदा तान्दृष्ट्वा एते लोहा इति न वयं ज्ञातुं शकुमः॥ लोहरनेके सोपयोगाः पदार्थाः क्रियन्ते । लोहा भनेकविधाः सन्ति । तेषु सुवर्णम्, रजतम् , अयः, ताम्रम्, पित्तलम्, सीसं च मुख्यानि । तेवपीतरा- ९२ संस्कृतप्रवेशिनी। पेक्षया सुरूपतया सुवर्णमेव उत्तमो धातुः। सुवर्ण पीतं गुरु सीसमिवातिमृदु च। तद्रुघणादिना अभि- हन्यमानं प्रत्तनुपत्ररूपताम्, आकृष्यमाणं सूक्ष्मसू- प्रतां चाधिगच्छति । एकबीहिपरिमितेन सुवर्णेन त्रिंशत्पाददीर्घा तन्त्री माक्रष्टुं शक्यते । वाय्वालो- कादिसंसृष्टमपि ताम्रपत्सुवर्ण न मलिनी भवति । सुवर्णेन धल्यकुण्डलाजुलीयाद्यनेकविधान्याभरणा- नि पात्रादीनि च कुर्वन्ति । दीनारा अपि सुवर्णेन रच्यन्ते । दीनाराम्कर्तुं सुषणेन द्वादशांशं तानं संयोजयन्ति । ताम्रसंयुक्तमेव सुवर्ण कठिनतामाप- धते । अन्यथा शुद्धसुवर्णनिर्मिता दीनाराभरणादयः भयेयुः॥ सुषर्णरसेन रजतादिनिर्मितान्याभरणानि भाज- नानि च लिम्पन्ति । सुवर्णरसलिप्तानि वस्तूनि सुवर्णमयकल्पान्येव दृश्यन्ते। तारशवस्तुषु लिप्तं सुवर्ण चिरकालं स्थायिभवति । सुवर्णपरीक्षिकाः सुवर्ण निकषे घर्षित्वा निकषपतितां सुवर्णरेखां दृष्ट्वा सुवर्णस्य शुद्धतां जानीयुः । उज्ज्वलतया दुर्लभतया च सुवर्ण बहुमूल्यम् ॥ सुवर्ण भूमौ बहुषु देशेषु लभ्यते। नदीनां मध्य- वर्तिमीषु सिकतासु स्तोकशः, खनिषु बाहुल्येन लभ्यते । खनिषु सुवर्णाणुगर्भाः वृहदुपलाः : सन्ति

संस्कृतप्रवेशिनी।
९३
तान्बहिर्नीत्वा चूर्णीकृस्य पात्रस्थापितान् प्रवहजले
निक्षिपन्ति । जलप्रवाहः सुवर्णाणून गुरुतया वि.
सृज्य पाषाणाणूनपोहति ॥
पप्तितंबर
५६. भारिकः सिद्धदत्तः ॥
प्राक्पाटलिपुत्रके पुरे सिखदत्ताभिधः कश्चन भा.
रिको बभूव । स प्रत्यहं काष्ठभारं वनादानीयापणे
विक्रीय ततो लब्धेन मूल्येन कुटुम्ब पुग्णनवर्तत ।
एकदा स वनं दूरे गतो दैवात्तनस्थांश्चतुरो यक्षान्
दिग्याभरणवाससो ददर्श । ते यशास्तं भीतं वश्य
प्रीत्या तं पृष्ट्वा कुटुम्बिनं दरिद्रं बुवा समुत्पन्नकृपा
बभाषिरे, भद्र त्वमिहास्मदन्तिके कर्मकरस्तिष्ठ, वर्ग
तव गृहनिर्वाहमक्लेशं करिष्याम इति । तच्छ्रुत्वा
सिद्धदत्तस्तथेति तदन्तिके तस्थौ । तेषां कृत्वमा
नानादिपरिचर्या चकार । समागते भोजनसमये
ते यक्षास्तं जगदुः, भद्र! आहारमस्मभ्यममुतो
घटाहेहीति । एवमुक्त्वा एकंघटं तस्मै दर्शयामासुः।
स तं घटमन्तःशून्यं विलोक्य व्यलम्बत । तदा ते
गुह्यकाः सस्मिताननाः भूयस्तमाहुः, सिप्रदत्त,

९४ संस्कृतप्रवेशिनी। त्वं न बत्ति, घटान्तस्तव हस्तं क्षिप, यथेच्छ सर्व सस्यले, यदसो घटः काम्यप्रद इति । तदाकर्ण्य स धरान्तः पाणि प्रवेश्य कामितमन्नपानादि ष्ट्रा स. विस्मयस्तेभ्य आहारादिकं दत्वा स्वयमपि बुभुजे । सिखदत्तः कुटुम्बचिन्तार्तस्तान् यक्षान् एवमन्वह भवस्या भीत्या च परिचरंस्तदन्तिके तस्थौ । कुटुम्बं च दुःखात गुह्यकैः स्वप्नादेशेनाश्वासितं तत्प्रसाद- बग्धाहारादिवस्तुजातं सुखमवर्तत । एवं मासमालमतिकान्तम् । ततस्ते यक्षाः सिद्ध- इत्तमभ्यधु, भद्र तवानया भक्त्या तुष्टाः स्मा, अहि किं ते दम इति । तच्छुत्वा स तान् जगाद, यदि सत्यं तुष्टाः स्ख, तर्हि युष्माभिरयं घटो दीयतामिति ते तमूचुः, त्वं नैनं रक्षितुं शस्यास, भग्नो भवेद्यदि किमपि न दद्यात् तदपरं वृणीष्वेति । एवं तैरुक्तो ऽपि स मूढो यदापरं नैच्छत्तदा ते तं घटं तस्मै बदुः। दृष्टः स तान्प्रणम्य घटमादाय जवात्स्वगृहं जगाम । तत्र स नन्दितबान्धवः तस्माद्धटाद्भोजना- दि लब्ध्वा गुप्यर्थ तमन्यभाण्डे निधाय स्वजनैः सह सुखं भुजानोऽतिष्ठत् ॥ मथ जातु स भारमुक्तो भोगान्भुआनः पानमत्तः कुतस्तवैषा भोगश्रीरिति बन्धुभिरपृच्छयत । मूढो संस्कृतप्रवेशिनी। ९५ गर्षेण तान् व्यक्तमधुषनीप्सितार्थदं तं घटं गृहीत्वा नर्तितुं प्रारेभे । नृत्यतस्तस्य मदोद्रेकस्पलगतेः स्क- म्धात्स घटः पतित्वा भुवि खण्डशो बभूव । तदा शिवदत्तो विषण्णः पूर्वावस्थामलभत । एवं देवाभि- प्रसानां प्राप्तोऽप्यर्थः पलायते ॥

संकृतप्रवेशिनी

Author
Shaastrii Jii. Raamasvaami
Title
Sanskrxtapraveshinii
File name
संकृतप्रवेशिनी
Text
OCR done
Citation
1924
Published
2006/03/10
Publisher
Shrii Vaand-iivilaas Pres, Shriirangam
Language
Sanskrit
Pages
99
Library
University Library,gurukul Kangri Vishwavidyalaya
Classification
LANGUAGE LINGUISTICS LITERATURE
DLI number
477369
Barcode
99999990173221.00
Scanning centre
C-DAC, Noida
Digital publisher
Digital Library of India
VMLT id
BU67H94wYcT
Download PDF

संकृतप्रवेशिनी