Sringeri Sharada Peetham
Pratishthaavidhi
Front matter
॥श्रीः।।
श्रीपाश्चरात्रे भगव....
प्रतिष्ठाविधिः
(श्रीपामसंहितानुसारी)
श्रीशलान्यवेङ्कटाचार्यविरचितः
श्रीमन्महीशूरपुरास्थानधर्माधिकारिणां महामहोपाध्यायानां
लक्ष्मीपुराभिजनानां
श्रीनिवासाचार्याणां
प्रत्यवेक्षणेन
व्याकरणवेदान्तविदुषा श्रीवैखानसप्रधानाध्यापकैन
चक्रवर्ती तिरुमलाचायण
संशोधितः
मैसूरु
राजकीय शाखामुद्रालये सम्मुद्रितः
१९४३
पी ठिका तथा अयि! महाशयाः, इह खलु लोके सर्वेऽपि जनास्सुखाभिलाषिणो दरीदृश्यन्ते । न तु दुःखाभिलाषिण इति विदितचरमेव तत्रभवतां भवतां सर्वेषामेव ॥ सर्वेषां अभिलाषास्पदं च सुखं कीदृशम् ? कथञ्च तत्प्राप्तिः? इत्यादि विषये जनाः बहुधा विप्रतिपद्यन्ते ॥ तत्रतावत् ऐहिकस्यामुष्मिकस्य चाऽपवर्गव्यतिरिक्तस्य सर्व- स्यापि सुखस्याल्पत्वास्थिरत्वदुःखमूलत्वादिदोषसम्भिन्नतया प्रेक्षा- वतां विवेकधनानां कदापि त्रैवर्गिकं सुखं न मनोरथगोचरता- मप्यापद्यते । तादृशदोषगन्धशङ्कादूरमापर्गिकं सुखन्तु स्वरूपानु- रूपम् विवेकशीलानामादरणीयमिति त्रयीशरणानां सरणिः॥ प्रेक्षावद्भिस्तादृशनित्यनिरतिशयसुखस्वरूपं, तत्प्राप्तस्वरूपं, तत्प्रापयितृस्वरूपं, तत्प्राप्त्युपायः, तत्प्राप्निविरोधि- स्वरूपञ्चेत्यर्थपञ्चकमवश्यं ज्ञातव्यं भवति । जोघुष्यते चेदमेव सकलवेदसारभूतमिति ॥ प्राप्यस्य ब्रह्मणो रूपं प्राप्नुश्च प्रत्यगात्मनः। प्राप्त्युपायं फलञ्चैव तथा प्राप्तिविरोधि च ॥ वदन्ति सकला वेदास्सेतिहासपुराणकाः ॥ इति ॥ एवञ्च तादृशनित्यसुखरूपमोक्षस्य प्राप्तिः क्षयन्तमस्य रजसः पराके" " तद्विष्णोः परमं पदं" "सहस्रस्थूणे विमिते दृढ उने यत्र देवानामधिदेव आस्ते "वैकुण्ठभुवनलोकं गमि- ष्यति॥ वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः । आस्ते विष्णुरचिन्त्यात्मा भक्तैर्भागवतैस्सह ॥ in iv सर्वात्मसाधारणनाथगोष्ठी पूरेऽपि दुष्पूरमहावकाशम् । आस्थानमानन्दमयं सहस्त्र. स्थूणादिनाम्ना तमवामवानि ॥ इत्यादि सोपबृंहणश्रुतिशतसमधिगते देशविशेषे एवेति नैगमिकः पन्थाः॥ आत्मा- तादृशाप्राकृतदेशविशेषे शुद्धसत्वमयपूर्णपाड्गुण्यविग्रहो, हेयप्रतिभट कल्याणगुणाकरः स्वानुरूपपत्नीपरिजनविशिष्टः परो नारायणः नित्यसूरिपरिषत्संसेव्यमानो मोक्षप्रदो भगवान्वि- भ्राजत इत्यनुपदमुदाहृतैरेव प्रमाणगणैरवगम्यते ॥ एवं देशविशेषे नित्यसूरिपरिषत्संसेव्यमानोऽपि देशान्तरगत- पुत्रविषयकवात्सल्यवान्पितेव करुणाविष्टमानसोऽवाप्तसमस्त- कामः आश्रितवात्सल्यैकजलधिः “आनीदवात स्वघया तदकम्' इत्यादिश्रुतिसिद्धस्वानुरूपस्वरूपगुणविभवैश्वर्याद्यनन्तकल्याण गुणगणश्रीसहायः परब्रह्माभिधानः “सदेव सौम्येदमग्र आसीत्' " असदेवेदमन आसीत् ब्रह्म वा इदमग्र आसीत् वा इदमग्र आसीत् "एको ह वै नारायण आसीत्" इत्यादि- श्रुतिषु सामान्यविशेषन्यायेन सब्रह्मात्मादिशब्दैः प्रतिपिपाद- यिषितः नारायण एव द्विपरार्धावसानकाले नामरूपविभागानह- सूक्ष्मदशामापन्नः प्रलीनकरणकळेबरानचिदविशेषान्प्रळयसीमनि सञ्चरतो जन्तून्करुणयावलोक्य तेषां. करणकळेबरादीन् घटयितुं दयया जगत्ससर्ज । तदिदं सर्वमभिप्रेत्याचार्यपादा अन्वगृहन् ॥ अचिदविशिष्टान्प्रळये जन्तूनवलोक्य जातनिर्वेदा । करणकळेबरयोग वितरसि वृषशैलनाथ करुणे त्वम् ॥ इति ॥ जगत्सृष्टौ च कृपैव प्रधान कारणम् । कृपा नाम स्वार्थ. निरपेक्षपरदुःखनिराचिकीर्षात्मकस्सङ्कल्पः। तयैव कृपया नित्य- सुखैकसाधनभूतपरमपुरुषार्थप्रदस्वपरिचर्यार्थमेव करणकळेबरादि- प्रदानञ्चाकरोत् । उक्तञ्च- - विचित्रा देहसम्पत्तिरीश्वराय निवेदितुम् । इतिः॥ एवं स्थितेऽपि हस्तपादादिपरिकरपरिकर्मिता जीवा निखिलदुःखनिदानभूतविषयान्तरेष्वासक्ता माभूवन्निति पर्या- लोच्य तदभिलषितसम्पत्प्राप्त्युपायप्रकाशनबहुळां सोपबृहणां त्रयीं प्रवर्तयामास । एवमपि- लब्ध्वा तु मानुषं देहं पञ्चभूतसमन्वितम् । मामेव न प्रपद्यन्ते ततो दुःखतरं नु किम् ॥ शुभमिदमुपलभ्य मानुषत्वं सुकृतकोन वृथेन्द्रियार्थहेतोः। रचयति कुरुते न मोक्षमार्ग स दहति चन्दनमाशु भस्महेतोः॥ महता पुण्यपण्येन क्रीतेयं कायनौस्त्वया । प्राप्तुं दुःखोदधेः पारं त्वर यावन्न भिद्यते ॥ एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ इत्यादि नारसिंहवराहपुराणायुक्तप्रकारेण देवादिभ्योऽप्युत्कृष्ट- तरसर्वोपकरणसमृद्धिमन्तोऽपीमे जीवाः परत्वसौलभ्यादिप्राप्य- त्वोपयिकगुणाकरस्य भगवतः सर्वदेशसर्वकालसर्वावस्थोचित- सर्वविधकैकयेषु स्वरूपयोग्यतया नित्यसूरिवदायभागिनोऽप्य. नादिमाययाऽऽवृताः प्रकृतिमरकान्तारे परिभ्रमन्तः तत्त्वहित- विषयकयथावत्प्रकाशरहिता मृगयासक्तनृपतिकुलपरिभ्रष्टशबर- कुलप्रविष्टराजकुमारवत्स्वाभाविकं स्वस्वरूपं शेषत्वादिकं विस्मृत्य परस्वरूपं शेषित्वादिकमात्मन्यारोप्य बंभ्रम्यन्ते । एवं भ्रान्तजीवात्मोहिधर्षिया सम्प्राप्तं न त्यजेयं कथञ्चन। दोषो यद्यपि तस्य स्यात् सर्व- लोकशरण्याय सुहृदं सर्वभूतानाम्" समोऽहं सर्व- भूतेषु ब्राह्मणैः क्षत्रियैवैश्यैश्शूद्रश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः॥ सर्वस्य शरणं सुहृत् " "मित्रभावन ."
vi - सात्वतं विधिमास्थाय गीतस्सङ्कर्षणेन यः। अपि वर्णापकृष्टस्तु नारीवाधर्मकाक्षिणी ॥ तावप्यतेन मार्गेण गच्छेतां परमां गतिम् ॥ इत्यादिश्रुतिरामायणगीताभारतायुक्ताकारण जातिगुगवृतादि- वैषम्यवतामपि शरण्यत्वे विशेषरहितस्सर्वरक्षको भगवान् समर्थ- मसमर्थञ्चाधिकारिणमुद्दिश्य प्राधान्येन स्वाराधनावबोधकमागम- नामकं शास्त्रं विखनसब्रह्मरुद्रेन्द्रादिमुखेन लोके प्रवर्तयामास । स्वयमेव च- वेदान्तेषु यथासारं सगृह्य भगवान् हरिः । भक्तानुकम्पया विद्वान् सञ्चिक्षेप यथासुखम् ॥ इत्यायुक्तप्रकारेण पञ्चरात्राख्यं शास्त्रं चतुर्मुखायोपदिदेश । तदुक्त- मागमप्रामाण्ये- "सकलसहजसंवेदनसाक्षाद्भवदखिलवेदराशि प्रकीर्णविविध विध्यर्थवादमन्त्रात्मकानेकशाखाध्ययनादिष्वधीरवियो भतानव- लोक्य तदनुकम्पया लघुनोपायेन तदर्थ सक्षिप्योपदिदेश इति ॥ तथा चास्मिन् शास्त्रे चेतनैरनुष्ठीयमाननित्यनैमित्तिक- काम्यरूपसर्वविधर्मसमाराध्यः तत्तत्फलप्रदश्च भगवानेवेति ॥ शरीरारोग्यमांश्च भोगांश्चेवानुषङ्गिकान् । ददाति ध्यायिनां नित्यमपर्वर्गप्रदो हरिः॥ इत्यादिना प्रत्यपादि ॥ तादृशमुक्तप्राप्यस्य परस्य ब्रह्मणस्स्वरूपम् परस्मिन्व्यूहाख्ये विभवनिवहे वतरणे तयैवान्तरजइदविकारादिनियताः । निरुध्य स्वं चित्तं निरवधिमहानन्दजलधौ निरस्तान्यापेक्षा नयत सफलङ्कालमखिलम् ॥ इत्यादिना श्रीमदाचारनुगृहीतदिशा पर, व्यूह, विभव, अन्तर्यामी, अर्चा-इति पञ्चधा प्रतीयते ॥ , vii तत्र परस्वरूपम् "सत्यं ज्ञानमनन्तं ब्रह्म" "विज्ञानमानन्दं ब्रह्म' इत्यादिश्रुतयः सत्यत्यज्ञानत्वानन्नत्यानन्दत्यामलत्वादिस्वरूपनिरूपकवविशिष्ट धारणार्थ नियमनाय च जगति व्याप्य वमानं वस्तु प्रतिपाद- यन्त्यः कारण स्वरूप शोधयन्ति। अस्यैत्र कारणरूपस्य परस्य ब्रह्मगः शुभाश्रयवैशिष्टयं “एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यत" "न तस्य कार्य करणं च विद्यते" "पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च "तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम्" "सकारणं करणाधिपाधिपः" "सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते "वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमस परस्तात्" " सर्वेऽ. निमेषा जशिरे विद्युत पुरुषादीध" इत्याद्याश्श्रुतयः प्रतिपादयन्ति॥ विष्वक्सेनसंहितायाम् 'वैकुण्ठे तु परे लोके श्रीसहायो जनार्दनः "इत्यादिना "दक्षिणं जानुके न्यस्य लम्बयन् जगतां पतिः" इत्यन्तेन ॥ पानसंहितायाम् " आदिमध्यान्तरहितमवृद्धिक्षयमच्युतम् " इत्यादिना पश्यन्ति सूरयशश्वत्तद्विष्णोः परमं पदम्" इत्यन्तेन । एवमेव ईश्वर-विष्णुतिलक-बल-पौष्कर-श्रीसात्वत-सौमन्तव-भारद्वाज- सङ्कर्षण-जय-जयोत्तरानन्दादिसंहितासु च परब्रह्मणः शुभाश्रय- वैशिष्ट्यं प्रत्यपादि॥ व्यूहावतारः पूर्वोक्ततादृशरूपविशिष्टस्य ब्रह्मणः विजायते" " तस्य त्वष्टा विदधद्रूपमेति" इत्यादिश्रुतिषु नाना- विधव्यूहाद्यवताराः प्रतीयन्ते ॥ अवतारो नाम-"उपासकानुग्रहार्थ समाश्रयणीयत्वोपयिक- परत्वसौलभ्यादिदिव्यगुणविशिष्टस्यैव सतः स्वेच्छया देवतिर्य- मनुष्यादिसंस्थानसजातीयसंस्थानदिव्यरूपपरिग्रहः ॥ अस्य च भगवतश्शरीरनिषेधवचनानि तु पुण्यपापरूपकर्म- हेतुकसुखाद्यर्थप्राकृतदेहसम्बन्धरूपजन्मनिषेधपराणि अयश्चार्थः "अजायमानो बहुधा विजायते" इति श्रुत्या प्रकटीकृतः॥ "अजायमानो बहुधा : viii " अजोऽपि सन्नव्ययात्मा भूतानामश्विरोऽपि सन् । प्रकृति स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ इत्यादिगातावचनान्यपि पूर्वोक्तश्रुतिमुपबृंहयन्ति ॥ किञ्च उत्पत्त्यसम्भवाधिकरणशङ्करभाष्ये (२-२-४२) भागवता मन्यन्ते भगवानेवैको वासुदेवः निरञ्जनज्ञानस्वरूपः पर- मार्थतत्त्वं चतुर्धाऽऽत्मानं प्रविभज्य प्रतिष्ठितो वासुदेवन्यूहरूपेण सङ्कर्षणन्यूहरूपेण प्रद्युम्नव्यूहरूपेणानिरुद्धव्यूहरूपेण च । वासु- देवो नाम परमात्मोच्यते । सङ्कर्षणो नाम जीवः । प्रद्युम्नो नाम मनः। अनिरुद्धो नामाहङ्कारः। तेषां वासुदेवः परा प्रकृतिः, इतरेसङ्कर्षणा- दयः कार्यम् । तमित्थंभूतं परमेश्वरं भगवन्तमभिगमनोपादा- नेज्याखाध्याययोगैवर्षशतमिष्ठा क्षाणक्लेशो भगवन्तमेव प्रतिपद्यते इति" । आगमप्रामाण्ये च "वासुदेवः परा प्रकृतिः परमात्मा ततः सङ्कर्षणो नाम जीवो जायते। सङ्कर्षणात्प्रद्युम्नसंझं मनो जायते । ततोऽनिरुद्धनामाऽहङ्कारो जायत" इति ॥ अत्र सङ्कर्षणप्रद्युम्नानिरुद्धानां जीवमनोऽहङ्कारव्यपदेशः तत्तत्तत्त्वाभिमानित्वनिबन्धनः । एषां स्वरूपं, उत्पत्तिः, प्रयोजनादि- पाइगुण्याद्वासुदेवः पर इति स भवान्मुक्तभोग्यो बलाढ्या- दोधात्सङ्कर्षणस्त्वं हरसि वितनुषे शास्त्रमैश्वर्यवीर्यात् । प्रद्युम्नस्सर्गधर्मी नयास व भगवन्शक्तितेजोऽनिरुद्धो- बिभ्राणः पासि तत्त्वं गमयसि च तथा व्यूहरङ्गाधिराज ॥ इत्यभियुक्तवचनेन प्रपञ्चितम् ॥ विभवावतारः विशेषेण भवति आविर्भवतीति विभवः रामकृष्णाद्यवतारः ix " "परित्राणाय साधूना" मिति श्लोकोक्तस्वावतारप्रयोजनं भगवतः मत्स्यादिदशस्ववतारेष्ववगम्यते ॥ रामकृष्णाद्यवतारेषु सर्वसमाश्रयणीयत्वोपयिकपरत्वसौल भ्यादिगुणविशिष्टविग्रहवत्वं सुस्पष्टमेव प्रपश्चितं श्रीरामायण- भागवतादिषु॥ एवं च अप्राकृत इव प्राकृतेऽपि लोके स्वेच्छयाऽवतीर्णस्य दिव्यमङ्गलविग्रहविशिष्टस्य अजत्वाव्ययत्वाभ्यां सत्यत्वम् , भूता- नामीश्वरोऽपि स" नित्यनेन अजहत्स्वस्वभावत्वम् , "प्रकृति स्वामधिष्ठाये" त्यनेन शुद्धसत्वमयद्रव्यप्रकृतिकत्वं " संभवाम्या- त्ममायये" त्यनेन स्वोत्पत्तौ स्वेच्छामात्रस्य कारणत्वम् , "यदा यदा हि धर्मस्ये" त्यनेन धर्मोंपरोधसमयोत्पत्तिकत्वं “परित्राणाय साधूना" मित्यनेन आनुषङ्गिकदुष्टशिक्षणपूर्वकं परमप्रयोजनभूत- साधुपरित्राणार्थत्वं च प्रपञ्चितं भवति॥ दुष्टशिक्षणस्य सङ्कल्पमात्रणाऽपि साध्यतयाऽनुषङ्गिकत्वं साधुपरित्राणमेव परमं प्रयोजनम् ॥ यन्मुहूर्त क्षणं वाऽपि वासुदेवो न चिन्त्यते । सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया। वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः। न शौरिचिन्ताविमुखजनसंवासवैशसम् ॥ विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम् । धनं मदीयं तव पादपङ्कजं कदानु साक्षात्करवाणि चक्षुषा ॥ इत्याधुक्तप्रकारण भगवत्प्रीतिजनकव्यापाररूपभगवदाराधनेन साक्षात्कारमपेक्षमाणानां तदर्शनेन विना जीवितमलभमानाना- माराधकानां स्वस्वरूपप्रदर्शनादिना जीवयितृत्वमेव साधुपरि- त्राणम् । इदमेवावतारस्य परमं प्रयोजनम् । तथा च श्री- मद्भाष्यकारैरेवमनुगृहीतं गीताभाष्ये- b "साधवः उक्तलक्षणधर्मशीलाः वैष्णवाग्रेसराः मत्स- माश्रयणे प्रवृत्ताः मन्नामकर्मस्वरूपाणां वाङ्मनसागोचरतया मदर्शनाहते स्वात्मधारणपोषणमलभमानाः क्षणमात्रकालं कल्प- सहस्रं मन्वानाः प्रशिथिलसर्वगात्रा भवेयुरिति मत्स्वरूपचेष्टिताव- लोकनालापनादिदानेन तेषां परित्राणाय तद्विपरीतानां विनाशाय च क्षीणस्य वैदिकस्य धर्मस्य मदाराधनरूपस्याराध्यप्रदर्शनेन स्थापनाय च देवमनुष्यादिरूपेण युगे युगे सम्भवामि । कृतत्रेतादि- युगविशेषानयमोऽपि नास्तीत्यर्थः॥ एवं च अवताराणां स्वरूपेण, प्रकारेण, द्रव्येण, हेतुना, कालेन, फलेन च दिव्यत्वं वक्ष्यमाणप्रमाणैः सिद्धं भवति । तदुक्तं विष्णुपुराणे- समस्ताश्शक्तयश्चताः नृप यत्र प्रतिष्ठिताः। तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेमहत् ॥ समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यमनुष्याख्या चेष्टावन्ति स्वलीलया ॥ जगतामुपकाराय न सा कर्मनिमित्तजा ॥ इति । महाभारते- न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः । न तस्य प्राकृता मूर्तिमीसमेदोऽस्थिसम्भवा ॥ नैव गर्भत्वमापद न योन्यामवसत्प्रभुः । इते ॥ गीतायां- अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमंहश्वरम् ॥ इति । तथा- अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः। परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ इति च । एतत्सर्वमभिप्रेत्य श्रीभाष्यकारैः एवमनुगृहोतम् । एतदुक्तं भवति । परस्यैव ब्रह्मणो निखिलहेयप्रत्यनीकानन्तज्ञाना- xi नन्दैकस्वरूपतया सकलेतरविलक्षणस्य स्वाभाविकानवधिकाति- शयासङ्ख्ययकल्याणगुणगगाश्च सन्ति । तद्वदेव स्वाभिमतानु- रूपैकरूपाचिन्त्यदिव्यान्तनित्यनिरवद्यनिरतिशयौज्वल्यसौन्दर्य सौगन्ध्यलारण्य वनाद्यनन्तगुणगणनिधिदिव्यरूपमपि स्वाभावि- कमास। तदेवोपासकानुग्रहेणतत्तत्प्रातेपत्त्यनुरूपसंस्थानं करो- त्यपारकारुण्यसौशल्यवात्सल्यौदार्यजलनिधिर्निरस्तनिखिलहेय गन्धोऽपहतपाप्मा परमात्मा परंब्रह्म पुरुषोत्तमो नारायण इति॥ भन्तर्यामी योगिनां हृदयगुहासु परात्मध्यानसौकर्याय परिगृहीतोऽङ्गुष्ठ- प्रमितरूपविशेषः। हृदयगुहासु पूर्वोक्तप्रकारेग चिन्तनाधिकारस्तु योगिनांमव। तथा चाक्तम्- अष्टाङ्गयोगसिद्धानां हृद्यागनिरतात्मनाम् । योगिनामधिकारस्स्यादेकस्मिन्हृदये शये ॥ इति । नित्यमुक्तोपभाग्यत्वात्परव्यूहात्मनो हरेः । तत्कालसनिकृष्टकभोग्यत्वाद्विभवात्मनः ॥ विशुद्धयोगसंसिद्धेश्चिन्त्यत्वादन्तरात्मनः ॥ इत्यायुक्तप्रकारेण पराद्यन्तर्याम्यन्तानामवताराणां देशकालादि- विप्रकर्षान्मांसचक्षुषामस्मदादीनां साक्षात्तदाराधनादिना आनन्द- स्यानुभवितुमशक्यतया अनधिकारात् ॥ अर्चा आनन्दरूपस्य निरन्तरसाक्षात्कारानुबुभूषारूपपरमभक्ति- साध्यस्य विवेकिभिरपेक्ष्यमाणस्य मोक्षस्य प्राप्तये सुलभोपाय- भूतदर्शन-श्रवण - कीर्तन - ध्यानार्चन -प्रणामादिरूपाराधनाधिकार- सिद्धयर्थ “अर्चात्मन्येव सर्वेषामधिकारो निरङ्कुश" इत्युक्तदिशा भगवता अस्मदादिष्वव्याजवात्सल्याद्रत्नादिषद्रव्यात्मना यो रूप- परिग्रहः सैवारी॥ अर्चा नाम अर्च्यत इत्यर्चापदाभिधेयः प्राकृतसुवर्णरजतादि- परिकल्पितः परव्यूहविभवाद्यप्राकृतदिव्यमङ्गळविग्रहसमानाकारः xii तादृशविग्रहविशिष्टभगवदधिष्ठितः भगवतो वासुदेवस्य मूर्ति- विशेषः॥ सच यद्यपि प्रतिष्ठादित प्राक्प्राकृत एव । तथाऽपि शास्त्रीय- प्रतिष्ठादिसंस्कारवशात् तदनुप्रविष्टस्य अप्राकृतशुभाश्रयत्वात् तत्संश्लिष्टस्य प्राकृतस्याप्यस्य बिम्बस्य शुभाश्रयत्वं षाड्- गुण्यप्रकाशकशुद्धसत्वद्रव्यमयत्वं मोक्षप्रदत्वौपयिकमहिमवत्वञ्च प्रमाणशतबलादप्रत्याख्येयं प्रमाणशरणैः ॥ पञ्चोपनिषदात्मानं दिव्यमङ्गळविग्रहम् । स्वामिन् लक्ष्मीश भगवन् सन्निरुन्धस्व विग्रहे ॥ इत्याधुक्तप्रकारेण भागवतप्रार्थनानिबन्धनभगवत्सङ्कल्पासिद्धः अनयोस्संसर्गविशेषः शास्त्रोक्तप्रतिष्ठादिना सिध्यति ॥ तथा च पौष्करसंहितायाम्- देवो वैकुण्ठनाथस्तु अनन्तासनसंस्थितः। सेव्यश्श्रीभूमिनीळाभिः प्रादुर्भावैस्तथाऽखिलैः ॥ बिम्बाकृत्यात्मना बिम्बे समागत्यावतिष्ठते । अर्चापि लौकिकी या सा भगवद्भावितात्मनाम् ॥ मन्त्रमन्त्रेश्वरन्यासात्सापि षाड्गुण्यविग्रहा । इति विवृतं चेदं श्रीमद्रहस्यत्रयसारव्याख्यायां सारास्वादिन्यां तत्व- प्रयाधिकारे- "बिम्बः आराधकैर्यथारुचिसुवर्णरजतादिनिर्मिता प्रतिमा । तस्या आकृतिरिव आकृतिर्यस्य स बिम्बाकृतिः। स चासावात्मा चेति कर्मधारयः। अत्रात्मशब्दो विग्रहपरः बिम्बसदृशविग्रहेणेत्यर्थः। बिम्ब प्रतिमायां समागत्य समित्येकीकारे नीरक्षीरवदविभागेन संश्लेषविशेष प्राप्येत्यर्थः" इति । शरणागतिगद्यव्याख्यायाम्- नानारूपेष्वपि हि व्यूहविभवार्चावतारेषु अप्राकृतत्त्वशुभा- श्रयत्वादिकं “समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः” “समस्त- शक्तिरूपाणि 'बिम्बाकृत्यात्मना बिम्बे" इत्यादिभिरुच्यते । परव्यूहादिवत् तत्तद्विग्रहानुप्रवेशादर्चापि षाड्गुण्यप्रकाशकशुद्ध- सताव्यस्यारर्थः" इति । न्यायसिद्धाञ्जने नित्यविभूतिपरि- च्छेदेऽप्याचार्यैरेवमनुगृहीतम्-- स्वयंव्यक्तदैवार्षादयस्त्वर्चावतारभेदाः। देवादिष्वपि विशि- प्रतिष्ठानन्तरमप्राकृतत्वमनुसन्धेयम् । प्राकृताप्राकृतसंसर्गोऽपि नानुपपन्नः अन्यथा प्राकृतलोके भगवदवताराः परमपदs- प्यारादिमार्गेण सूक्ष्मशरीरस्य वैदिकपुत्रादेर्वा गमनं कथं घटेत" इति॥ एवञ्च शिल्पिनिर्मितस्य प्राकृतस्याप्य विग्रहस्य प्रतिष्ठा- दिना पाडगुण्यप्रकाशकशुद्धसत्वमयद्रव्यप्रकृतिकत्वशुभाश्रयत्वा- दीनां पूर्वोक्तप्रमाणगणप्रतिपन्नत्वेन मुमुक्ष्पास्यत्वमविरुद्धम् । तथा चोकं भगवता शौनकेन- सुरूपां प्रतिमा विष्णोः प्रसन्नवदनेक्षणाम् । कृत्वाऽत्मनः प्रीतिकरी सुवर्णरजतादिभिः॥ तामर्चयेत्तां प्रणमेत्तां यजेत्तां विचिन्तयेत् । विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ॥ इति ॥ अर्चात्मनाऽवतीर्ण मां जानन्तोऽपि विमोहिताः। कृत्वा दारुशिलाबुद्धिं गच्छन्ति नरकायुतम् ॥ इत्युक्तदिशा अर्चायां भगवन्तमजानतां नरकादिप्रवेशरूपदोषस्य प्रतिपादनात् ॥ एतावता अायाः मुमुक्षूपास्यत्वं सिद्धम् ॥ साचाऽर्चा प्रतिष्ठितैवाराध्या न त्वप्रतिष्ठिता। अप्रतिष्ठित- विग्रहाराधने राजराष्ट्रक्षोभादीनां बहूनां दोषाणां भगवच्छास्त्रे प्रतिपादनात् ॥ सर्वत्र व्यापिनो भगवतः शिल्पिनिर्मिते कस्मिंश्चिद्विग्रहे प्रतिष्ठा नाम का? कीदृशश्च प्रतिष्ठादिना तत्र भगवतस्सान्निध्य- विशेषः? इत्याद्याशङ्काः शास्त्रेष्वेवं परिहृताः ॥ पामसंहितायाम्- व्यापिनो देवदेवस्य प्रतिष्ठा कीदृशी मता। भगवन संशयानस्य मम निश्चयतो वद ॥
xiv सर्वस्य भूतजातस्य हरिरात्मा स्थितोऽपि सन् । मन्त्रवीर्याच माहात्म्यात् स्थापकस्स गुरोस्तथा ॥ प्रतिमायां प्रकर्षण सन्निधत्ते हरिस्स्वयम् । कामानशषांस्तत्रैव हरिमर्थयते जनः॥ तेन प्रतिष्ठा नामेदमन्वर्थ वर्तते भुवि । यथा च वहिदहनो न दहन्व्याप्य तिष्ठति ॥ अरणीमथनायो जायमानः प्रहश्यते । दहनादीनि कर्माणि करोति च यथातथम् ॥ तथा सर्वगतो विष्णुरदृश्यः प्राकृतैर्जनः । दृश्यते च प्रतिकृतौ मन्त्रिणो मन्त्रगौरवात् ॥ तस्मात्सर्वात्मना विष्णुं प्रतिष्ठाप्य च पूजयेत् । शिल्पिभिनिर्मिते बिम्बे शास्त्रदृष्टेन वर्मना । इत्यादिना अरणीदृष्टान्तप्रदर्शनमुखेन सेव्यजनानां सर्वविधफल- प्रदानं सिद्धं भवति ॥ लोके च यथा चक्रवर्तिवंशप्रसूतोऽपि राजा पट्टाभिषेकरूप- शास्त्रीयकर्मनिर्वर्तनसमनन्तरमेव निग्रहानुग्रहसमर्थों राष्ट्रसंरक्ष- कश्च भवति तथा सर्वत्र व्याप्तोऽपि भगवान् विग्रहविशेषे शास्त्रीय- प्रतिष्ठारूपकर्मनिर्वर्तनानन्तरं तदाराधकानां सर्वेषां सर्वविध- फलप्रदो भवति । अत्राराधकः अर्चक एव न किन्तु भगव- त्सेवार्थमागतास्सर्वेऽपि जनाः। ते सर्वे फलभागिनो भवान्त ।। एवञ्च सर्वविधलोकक्षेमनिदानभूतं प्रतिष्ठाशब्दवाच्यं कर्म साङ्गोपाङ्गतया होतृपरिग्रहन्यायेन पाझे प्रदिपादितम् । पाझानु- सारी अयं "प्रतिष्ठाविधि" नामकग्रन्थः कार्तयुगधर्मानुष्ठान- बद्धाधरैस्सर्वैस्सादरमादरणीय इति विजयते तमाम् ॥ इति ॥ कस्तूरि श्रीनिवासरङ्गाचार्यः, स्वभानुवत्सराश्विनशुक्ल- आस्थानमहाविद्वान्, विजयदशम्यां स्थिरवासरे. श्रीमन्महाराजसंस्कृतमहापाठशाला- पाश्चरात्रागमप्रधानाध्यापकः.
विषय सूची विषयाः पुटम् 1 .... .... 1 .... .... .... .... 2 .... 3 .... मङ्गळम् बिम्बनिर्णयः श्रीभागवतोताष्टविधप्रतिमादिशेष: मुहूर्तनिर्णयः आचार्यलक्षणम् महाभागवतलक्षणम् आचार्यऋत्विग्वरणम् मण्डपादिलक्षणम् स्तम्भप्रमाणानि कुण्ड विकल्पः मण्टणलङ्करणम् 3 .... .... 4 .... 4 .... 5 .... .... 6 .... .... .... 6 .... कुण्डविकल्पः 6 .... .... 6 .... .... .... 7 .... 8 .... .... .... .... .... .... कुण्डविन्यासक्रमः मेखलानरूपणम् भूसूक्तम् शाकुनसूक्तम् पालिका वधानक्रमलक्षणम् कलशस्थापनम् अङ्करार्पणम् विष्टक्तेनपूजा महासङ्कल्पः तत्र द्वीपादेविवरणम् भगवत्स्वरूपरूपगुणविभवादिकथनम् पुण्याहवाचनक्रमः .... 10 10 10 12 13 13 14 14-15 16 .... .... .... .... .... .... .... .... .... ....
xvi पुटम् 17 18 .... .... .... 18 19 .... .... 19 21 .... 24 .... .... .... .... 26 30 35 36 41 42 .... .... ... .... .... .... .... विषयाः प्रोक्षणमन्त्रः तोरणादिपूजा ध्वजपूजा द्वारपालपूजनम् कुम्भेषु दिक्पतिपूजनम् अग्नचलङ्कारादिक्रमः पुरुषसूक्तषोडशाहुतीः अङ्करार्पणक्रमः अभ्युदयश्राद्धम् प्रासादगमनवास्तुपूजादिक्रमः पुनर नेसाधनक्रमः ना स्तकादीनां बहिर्निर्वासः गोदानम् पुनःप्रदोषसमये प्रतिसरादिहोमक्रमः जपक्रमः लक्ष्मीसूक्तम् वरुणसूक्तम रुद्रसक्तम् ब्रह्मसूक्तम् विष्णुसूक्तम् महीसूक्तम् घृतसूक्तम् पुण्याहमन्त्रः पश्चगव्यक्रमः पञ्चामृताभिषेकक्रमः अर्ध्या दपात्रपरिकल्पनक्रमः मधुपर्कलक्षणम् औपासनादिहोमक्रमः ... .... .... .... .... 42 43 45 46 47 .... .... 47 48 49 .... .... .... .... 50 .... .... 52 .... 53 .... 54 .... 55 .... .... 56 .... .... 56 ....
xvii पुटम् 59 .... .... .... 61 .... 61 .... 61 .... 62 .... .... .... .... 62 63 .... 65 .... .... 68 .... 69 .... .... 70 .... विषयाः श्रीभगवच्छान्तिहोमः प्रतिमायां सान्निध्ययाचनम् महापुरुषविद्या स्वागतम् वीथ्युत्सवक्रमः नारायणसूक्तम् जलाधिवासस्थाने विधिक्रमः पवमानसूक्तम् बलिक्रमः जलाधिवासावधिनिर्णयः द्वितीयदिवसोत्सवः उत्तिष्ठेत्यादिभगवत्प्रबोधक्रमः पञ्चगव्यमेलनक्रमः पञ्चगव्यादिस्नानक्रमः द्वितीयवारं बलिक्रमः पुनर्यानारोहणम् सर्वौषधिगणः सर्वतो रक्षणीयचण्डाद्यावाहनम् कुण्डलक्षणम् औपासनादिहोमक्रमः विष्णुसूक्तेन होमक्रमः वरुणसूक्तेन होमक्रमः श्रीसूक्तेन होमक्रमः 70 .... 71 .... 72 75 76 .... .... .... 77 79 .... .... 83 83 89 .... .... .... 90 91 .... 92 .... फलश्रुतेः भूसूक्तेन होमः 92 .... .... 93 .... ऋगादिहोमक्रमः केशवादहोमः सहस्रनामाधारशक्तयादिहोमः 94 .... 95 C xviii पुटम् 100 .... .... .... .... 101 103 104 .... .... .... 105 105 106 107 107 .... .... .... ... 108 ... .... 109 .... 109 .... .... विषयाः प्रतिष्ठातृतीयदिवसक्रमः अङ्गहोमः (वर्णहोमः) सुदर्शनाद्यायुधन्यासः षोडशन्यासः व्याहृतिन्यासः कारानिमानुकान्याहः नक्षत्रन्यासः ग्रहन्यासः वत्सरन्यासः वर्णन्यासः वेदन्यासः देवन्यासः वैराजन्यासः क्रतुन्यासः गुणन्यासः ज्ञानादिगुणन्यासः लोकन्यासः जयादिहोमः ज्ञाताज्ञातदोषनिर्हरणप्रायश्चित्तम् पूर्णाहुतेश्शुभसूचकत्वम् महाभिषेकः (पञ्चामृताभिषेकक्रमः) (अष्टवन्धन) विष्णुतिलके नेत्रोन्मीलनम् भृतशुद्धिप्रमाणवचनानि भृतशुद्धिक्रमः भगवद्धयानपूर्वकभगवदाराधनक्रमः बिम्बे न्यासक्रमः प्राणप्रतिष्ठा पञ्चोपनिषन्नयासः 110 111 .... .... .... ... .... 112 112 .... .... 112 113 .... .... 116 118 .... .... .... 120 122 .... 124 125 .... 127 .... 131 .... .... 131 ... .... 132 ....
xix ... ... .... पुटम् 132 133 ... 136 .... 137 .... .... .... 137 .... 138 139 ..... .... .... विषयाः आशिमुख्यसूचतर आधारशक्तयादिध्यानम् पूजारम्भः स्नानासनम् अलङ्कारासनम् भोज्यासनम् .... पुनर्मन्त्रासनम् सान्निध्ययाचनम् बलिदानम् भगवत्प्रार्थनम् पुष्पाञ्जलिमन्त्रः अक्षतसमर्पणमन्त्रः पर्यङ्कासनम् .. सात्विकत्यागः ब्राह्मणभोजनम् आचार्यपूजा .... फलश्रुतिः निगमनम् 140 141 ... 142 .... 142 .... 143 145 .... .... ... 115 116 146 146 .... 147 ....
परिशिष्टम् द्वाविंशत्युत्तरसाततसे पुटे पूर्णाहुत्यनन्तरं कर्तव्यः अष्टबन्धः अनुक्तः सः अधोनिर्दिष्टप्रकारेण अनुसन्धेयः पूर्णाहुत्यनन्तरं मुहूर्ते प्राप्ते देवेश प्रणम्य आनम्य कुम्भं विना देवं गर्भगृहमानीय रत्नोपरि विष्णुसूक्तं पुरुषसूक्तं ध्रुवसूक्तं वैष्णवं च जप्ता " प्रतद्विष्णु" रिति देवं संस्थाप्य पश्चादष्टबन्धं प्रयोजयेत् ।। अष्टबन्धः विमानार्चनकल्पे ६५-६६ पुटे लाक्षागुडमच्छिष्टगुग्गुळून् परस्परं समभागं कृत्वा एषां द्विगुणं सज्जरसं गैरिकं घनचर्ण अर्धम् । सर्वेषामधं तैलं संयोज्य लोहपात्रे निक्षिप्य लोहदा समेनामिना सुपक्कं पचेत् । तद्वन्धमानीय तत्पीठरन्ध्र प्रक्षिपेत् तद्दढं दृषत्स मं भवति॥
शुद्धाशुद्धपत्रिका अशुद्धम् शुद्धम् पुटे पत्री वस्त्र 2 6 वस्त स के स केः 6 2 4 11 5 21 चतुः चतु स्त 5 21 8 की 5 22 at 6 2 6 5 6 20 न्तर रया वि पीठक वृ न्तरे राया वि पिटकं 8 8 8 18 11 7 HUSAIN त 18 21 रे 14 11 14 14 17 22 14 5 14 23 रुण ष्णा मे म प्रवि प्रडि त्यl तपय वेदाहमित्यादि सन्ति देवान्तं एकाहुतिः. वपा वाप पितेषु हीनेषु 26 1 10 29 30 7 d xxii पुटे 31 5 अशुद्धम् रन्यैः पुर्ण तदुपरि तदुपरि शुद्धम् रनैः पूर्ण तदुपरि 9 35 35 35* 20 36 6 पार्श्वयोः वा दधति 39 4 पाणी वादधाति षोन्न खुरां 20 41 42 छुरां 7 44 9 58 2 21 त्रीर ननमा त्रिस्ति मलं तिप्य 14 त्रिर ननमो त्रिस्त्रि मला तितप्य ध्यं तितप्य 61 62 67 85 9 7 85 7 ३. ३ ३ ३ तु 86 9 89 11 तिप्य न्वा सयं पूर्ण कर्मान्तरं ङ्गी तीनु यामान्तर्या स्वयं पूर्व कर्मान्तरितं 93 9 11 24 116 19 124 12 12623-24 131 19 137 11 139 14 तीत्यनु यामोन्तर्या चारन् शंत चरन् शत * 'धारयेयुस्तमस्ता ' इत्यनन्तरं 'ध्यायदेवं दलितदनुजं सूत्रवत्या समेत' इत्यत पूर्व मेघश्यामं सुमणिमकुटं पीतवस्त्रं 'शुभाङ्गम्' इति वर्तते मूले. WD 132-GBPM-500 copies-4-1-44 ॥ श्रीः॥ ॥श्रीमते हयग्रीवाय नमः ।। प्रतिष्ठाविधिः रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् । श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् ।। अथ भगवत्प्रतिष्ठां व्याख्यास्यामः ।। तत्र बिम्बनिर्णयः सालग्रामशिलायां च कर्तव्यो विग्रहो हरेः । पुण्यतीर्थे शुभे क्षेत्रे पुण्यपर्वतमस्तके ॥ १ ॥ स्निग्धं रम्यं गृहीत्वा च कारयेच्छुभविग्रहम् । सर्वावयवसंपूर्ण लक्षणैश्च विराजितम् ॥ २ ॥ श्रीभूमिसहितं देवं कारयेच्छुभलक्षणम् । तत्र प्रतिमाविशेषमाह श्रीभागवते- शैली दारुमयी लौही लेख्या लेप्या च सैकती ॥ ३ ॥ मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता । गृहेषु प्रतिमायास्तु न तासां नियमः क्वचित् ॥ ४ ॥ मनसैवेप्सिताः कार्याः सर्वा एव शुभप्रदाः । भुजे चक्रं द्विजातीनां शिरश्चक्रं च दैवतम् ॥ ५ ॥ --
2
प्रतिष्ठाविधिः
अचक्र द्विजदेवानां पूजा दानं च निष्फलम् ।
प्रतिमा सशिरश्चक्रा तस्मा च्छीभूयुता मता ॥ ६ ॥
अथ मुहूर्त निर्णयः
गुरावस्त्रगते शुक्रे व्यतीपाते च वर्जयेत् ।
सक्रान्तौ दुर्दिने चैव ग्रहणे सोमसूर्ययोः ॥ ७ ॥
पुरस्ताच्च परस्ताच्च षोडशाहानि वर्जयेत् ।
अतिचारे तथा मासे सर्वयुग्मयुते तथा ॥ ८ ॥
अप्रशस्तेषु योगेषु गण्डस्थूणार्धकेषु च ।
एवमादिषु योगेषु गर्हितेषु न कल्पयेत् ।। ९॥
दुर्लग्ने दुर्मुहूर्ते तु भूकम्पोल्कानिपातने ।
हरेस्तत्र न कर्तव्या प्रतिष्ठा द्विजसत्तमैः ॥ १० ॥
चैत्रे वा फाल्गुने वापि ज्येष्ठे वा माधवे तथा ।
माघे वा विष्णुबिम्बानां प्रतिष्ठा शुभदा सिते ॥ ११ ।।
कृष्णपक्षत्रिभागेषु प्रथमे स्याच्छुभावहा ।
मध्या द्वितीयभागे तु तृतीये कर्तृनाशिनी ॥ १२ ॥
शुक्ले त्रिभागे प्रथम देशनाशाय कीर्तिता ।
द्वितीये मध्यफलदा तृतीयेऽतिशुभावहा ॥ १३ ॥
पञ्चमी च द्वितीया च तृतीया सप्तमी तथा ।
दशमी पौर्णमासी च तथा षष्ठी त्रयोदशी ॥ १४ ॥
एकादशी द्वादशी च शुक्लपक्षे शुभप्रदाः ।
कृष्णे तु पञ्चमी यावत्तिथयस्सम्प्रकीर्तिताः ॥ १५ ॥
सोमो बृहस्पतिश्चैव भार्गवोऽथ बुधस्तथा ।
एते सौम्यग्रहाः प्रोक्ताः शुभदाः स्थापनं प्रति ॥ १६ ॥
महाभागवतलक्षणम् 3 आषाढद्वितयं मूलमुत्तरात्रयमेव च । ज्येष्ठाश्रवणरोहिण्यः पूर्वभाद्रपदस्तथा ॥ १७ ॥ हस्तोऽश्विनी रेवती च पुण्यो मृगशिरस्तथा । अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते ॥ १८ ॥ धनुनको परित्यज्य सर्वे लमाश्शुभावहाः । आचार्यश्शुभे मुहूर्ते यजमानस्य राज्ञः राज्यस्य स्वस्य च चन्द्राधानुकूल्ये देवस्य प्रतिष्ठामाचरेत् ।। तत्र क्रमप्राप्तमाचार्यलक्षणमाह महाभागवतं चैव आचार्य वृणुयात्सुधीः ।। १९ ।। महाभागवता एव नियोज्या ऋत्विजस्तथा । महाभागवतलक्षणम् तापादिपञ्चसंस्कारान्महाभागवतास्स्मृताः ॥ २० ॥ वेदवेदाङ्गतत्वज्ञान् सर्वशास्त्रविशारदान् । मन्त्ररत्नार्थविदुषः ब्राह्मणान् वृणुयात् शुभान् ।। २१ ॥ तादृग्गुणसमायुक्तं आचार्य वृणुयात् सुधीः । शङ्खचक्रोर्ध्वपुण्ड्रादिचिह्नश्च रहितैर्द्विजैः ॥ २२ ॥ यद्यत्कर्मकृतं तत्तु महाहानिप्रदं भवेत् । चक्रादिचिह्नहीनेन स्थापिते यत्र विग्रहे ॥ २३ ॥ न सान्निध्य हरिर्याति क्रियाकोटिशतैरपि । अवैष्णवस्थापितानां प्रतिमानाञ्च वन्दनम् ।। २४ ।। यः करोति स मूढात्मा रौरवं नरकं व्रजेत् । तस्मा तु वैष्णवा एव नियोज्या स्सर्वकर्मस्तु ।। २५ ।। शास्त्रयुक्तेन विधिना कुर्यात् संस्थापनं हरेः ।
4 प्रतिष्ठाविधिः अथाचार्यऋत्विग्वरणम् अथ यजमानः स्नातः शुचिरलंकृतः तथाभूतया पत्नया सहितः दर्भेष्वासीनः दर्भान्धारयमाणः पवित्रपाणिः पाणानायम्य सङ्कल्पं कुर्यात् । श्रीगोविन्द । अस्यां शुभतिथौ श्रीभगवदाज्ञया भगवत्कै. कर्यार्थ श्रीविष्णोः प्रतिष्ठां कर्तुं तदङ्गतत्कर्मार्थ मण्डपादि कर्तु आचार्यादिवरणमहं करिष्ये । स्वशेषभूतेन मया स्वीयै स्सर्वपरिच्छदैः विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयत् । इत्यनुसंधाय उक्तलक्षण- माचार्य वृणुयात् ॥ मम अस्यां भगवत्प्रतिष्ठायां त्वमाचार्यो भवेति प्रार्थ्य । भवि- ज्यामीत्युक्तेः आचार्यत्वेन त्वामहं वृणे । इति दर्भद्वयं दद्यात्- यजमानः आचार्य गन्धपुष्पदक्षिणादिभिः सम्पूजयेत् । गुरुणा सह यजमानः षोडशाष्टौ चतुरो वा उक्तलक्षणान् ऋत्विजो वृणुयात् । अस्यां भगवत्प्रतिष्ठायां यूय मृत्विजो भवथेति प्रार्थ्य भविष्याम इत्युक्ते ऋत्विक्तेन युष्मा नहं वृण इति दर्भद्वयं ऋत्विग्घस्ते दत्वा वृतास्स्म इति ऋत्विग्भिरुक्ते यजमानः ऋत्विजो गन्धपुष्पदक्षिणादिभि स्सम्पूज- येत् । आचार्येणानुज्ञातो यजमानश्शिल्पिनं संतोष्य तद्धस्तेन बिंब गृहीत्वा आचार्यहस्ते दत्वा यथोचितं कर्म कुर्वित्याचार्य प्रार्थयेत् ॥ अथ मण्डपादिलक्षणम् तत आचार्यो मण्टपादिरचनां कुर्यात् । तत्प्रकारः प्रासादाग्रतः प्रथमावरणे द्वितीयावरणे तृतीयावरणे आशास्वष्टासु अभिमते देशे मण्टपं कुर्यात् । तन्प्रमाणं दशहस्तमितां चतुरश्रां द्वादशांगुलोच्चा मण्टपवेदिं कुर्यात् । तन्मध्ये पञ्चहस्तां चतुरश्रां द्वादशांगुलोच्चां मध्यवेदिं कुर्यात् ॥
मण्डपादिलक्षणम् 5 दशहस्तसमायामं तदधं विस्तरं तथा । तन्मध्ये वेदिकां कुर्यात् कुण्डानि परिकल्पयेत् ॥ अष्टकुण्डं चतुष्कुण्ड मेककुण्डं तथापि वा । अश्वत्थादिद्रुमै र्बद्धतोरणानि चतुर्दिशम् ॥ मध्ये वेद्याश्चतुष्कोणेष्वष्टहस्तमितोच्छ्यान् । द्वादशाङ्गुलपरिमितस्थूलान् चतुरः पलाशस्तंभान् हस्तमात्रं भूमौ निख- नेत् । प्राकारवेद्या श्चतुष्कोणे तु पंचहस्तपरिमितोच्छायान् द्वादशांगुल- परिमितस्थूलान् चतुरः पलाशस्तंभान् हस्तमात्रं भूमौ निखनेत् । प्राच्यां दिशि चतुरंगुलाधिकहस्तद्वयायामविशिष्टप्रारद्वारासिध्यर्थं पञ्च- हस्तपरिमितोच्छ्रायौ द्वादशांगुलपरिमितस्थूलौ द्वौ पलाशस्तभौ हस्तमात्रं भूमौ निखनेत् । दक्षिणस्यां दिशि चतुरंगुलाधिकहस्तद्वयायामविशिशि- ष्टदक्षिणद्वारसिद्धयर्थं पञ्चहस्तपारमितोच्छ्रायौ द्वादशांगुलपरिमितस्थूलो द्वौ पलाशस्तंभौ निखनेत् । प्रतीच्यां दिशि चतुरंगुलाधिकहस्तद्वयायाम- विशिष्टपश्चिमद्वारसिद्धयर्थं पञ्चहस्तपरिमितोलायौ द्वादशांगुलपरिमित- स्थूलौ द्वौ पलाशस्तभौ हस्तमात्रं भूमौ निखनेत् । उदीच्यां दिशि चतुरंगुलाधिकहस्तद्वयायामविशिष्ट उत्तरद्वारसिद्धयर्थं पञ्चहस्तपरिमितो- च्छायौ द्वादशांगुलपरिमितस्थूलौ द्वौ पलाशस्तभौ हस्तमात्रं भूमौ निख- नेत् । मध्ये वेध्याः चतुस्तम्भाग्रेषु पलाशदण्डिका दृढं स्थापनीयाः प्राकारवेद्या द्वादशस्तम्भाग्रेषु पलाशदाण्डका दृढं स्थापनीयाः मध्यमवेद्या श्वतुस्तम्भोपरिगतदण्डिकां चतुःष्कोणषु त्रिहत्तपरिमिततिर्यकाष्ठानि कद- ळीपुष्पाकारनिर्मित डारम्भेषु स्थापनयिानि । प्राकारवेद्या द्वादशस्त- म्भोपरिकल्पितदण्ढिका मध्यमवेदिस्तम्भोपरि कल्पितदण्डिकावधि स्थापनीया । यथा न पतति तथा अयःकीलकैः टुडं कुर्यात् । यथा 6 प्रतिष्ठाविधिः जलं न सवति तथा कुशैः काशैर्वा आच्छादयेत् । विचित्रवसनैः वितानं कुर्यात् । विचित्रपटै स्तम्भाना च्छादयेत् । यथा मण्टपे चतुरता भवति तथा मण्टपकोणाच्छादनं कुर्यात् । मण्डपपूर्वद्वार- देशा बहिर्हस्तान्तेर पञ्चहस्तपरिमितोच्छाये द्वे हरिताश्वत्थशाखे द्वार स्तम्भसमानसूत्रीनपाते हस्तमात्रं निखनेत् । मण्टपदक्षिणद्वारदेशे पूर्वो- क्तरीत्या औदुंबरशाखे निखनेत् । पूर्वद्वारतोरणद्वये शंखद्वयं स्थापयेत् । दक्षिणद्वारतोरणद्वये चक्रद्वयं स्थापयेत् । पश्चिमद्वारतोरणद्वये गदाद्वयं स्थापयेत् । मण्डपालङ्करणार्थं षोडशस्तम्भेषु षोडशकदळीस्तम्भान् स्थापयेत् । आम्रपल्लवमालाभिः पुष्पमालाभिर्वा मण्डपं वेष्टयेत् । चित्रध्वजो दशहस्तदीर्घः त्रिहस्तविस्तारः दशहस्तवंशयुक्तशिरसि चाम- रयुक्तः मण्डपोपरिभागे निवेश्यः पूर्वादिद्वारेषु रक्तपीतौ नीलपांडुरी द्वौ द्वौ ध्वजौ स्थापयेत् । प्रतिस्तम्भेषु पताकाः दीर्घाः त्रिकोणाः स्थापयेत् । एवं मंडपद्वयं कुर्यात् । ध्यानाधिवासमंडप मध्यमवेद्या श्चतुर्दिक्षु चतुरः कुण्डान् विदध्यात् ।। तत्र क्रमः- - पूर्वे चतुरश्रकुण्डं दक्षिणे धनुराकृति । पश्चिमे वर्तुलाकारं उत्तरे च त्रिकोणकम् ।। मेखलाभि स्त्रिभिर्युक्तं सर्वं कुर्वीत बुद्धिमान् ।। विस्तारयामे त्यत्रा यं भावः । विस्तारायामयोः हस्तमात्रप्रमाणे मेख- लाभ्यन्तरप्रवेशः । मेखलास्वरूपं । द्वादशाष्टचतुरंगुलप्रमाणेन निम्नानि प्रथमद्वितीयतृतीयानि मेखलारूपाणि इत्याह । योनिं कुर्यादित्यत्र योनि स्तु पृष्ठतः कुंडकण्ठाादपि द्वयगुळोन्नता अगुळोत्सेधेति यावत् । अग्रतः कण्ठसमा तदुक्तकमान्निम्नेति । आदिमध्यान्तेष्वेव मायतेति मण्डपादिलक्षणम् 7 भावः । एकांगुळिमानेन कुण्डांतनिम्ना कुण्डकण्ठोपार द्वयंगुळमानात्रिमे- खलोपरि द्वादशांगुलिमाना एवमेकीभूयोक्ता पञ्चदशेति ॥ विस्तारायामनिम्नश्च हस्तमात्रं त्रिमेखलम् । द्वादशाष्टचतुर्मानस्स्वांगुलैश्च प्रकल्पयेत् ॥ कुण्डस्य पश्चिमे भागे योनि कुर्यात्सलक्षणम् । अश्वत्थपत्रसदृशीं कुंडे किंचित्प्रतिष्ठिताम् ॥ षट्चतुस्त्रयंगुला चापि भवेन्निन्नाक्रमाद्विजाः । विस्तारेणापि सा योनिः भवेत्पञ्चदशांगुला ॥ स्थलादारभ्य नालं स्याद्योन्या मध्ये सरन्ध्रकम् । नार्पयेत् कोणकुण्डेषु योनि होमपरायणः ।। कुण्डानां कल्पयेन्मध्ये नाभिमम्जुजसन्निभाम् । तत्तत्कुण्डानुरूपं वा मान मस्या निगद्यते ॥ पूर्वे चतुरश्रं चतुर्विंशत्यंगुलायामदैर्ध्य विशिष्टं भूतलं व्यंगुलं निखनेत् । प्रथमा भूमिलग्ना भूमितश्चतुरंगुलोच्चा चतुरंगुलविस्तृता मेखला विधेया। तृतीया द्वादशांगुलोच्चा चतुरंगुलविस्तृता मेखला विधेया । तदुपरि- व्यंगुलोच्च व्यंगुलविस्तृतकुण्डकण्ठो विधेयः । चतुरंगुलविस्तृता मेखला यथा दर्शनीया स्स्यु स्तथा कुर्यात् । तदक्षिणे धनुराकृति चतुर्विंशत्यंगुलायामविशिष्टं भूतलं व्यंगुलं निखनेत् । प्रथमा भूमिलना भूमितश्चतुरंगुलोच्चा चतुरंगुलविस्तृता मेखला कार्या । द्वितीया अष्टांगु लोच्चा चतुरंगुलविस्तृता मेखला कार्या। तृतीया द्वादशांगुलोच्चा चतुरंगुलविस्तृता मेखला कार्या । व्यंगुलोच्चः व्यंगुलविस्तृतः कुण्ड- कण्ठो विधेयः । पश्चिमे वर्तुलाकारं चतुर्विशत्यंगुलायामदैर्घ्यविशिष्टं भूतलं व्यंगुलं निखनेत् । प्रथमा भूमिलमा भूमितश्चतुरंगुलोच्चा चतु- 8 प्रतिष्ठाविथिः रंगुलविस्तृता मेखला कार्या । द्वितीया अष्टांगुलोचा चतुरंगुलविस्तृता मेखला विधेया । तृतीया द्वादशांगुलोच्चा चतुरंगुलविस्तृता मेखला कार्या । बंगुलोच्चो यंगुलविस्तृतः कुण्डकण्ठः विधेयः । कुण्ड. कण्ठोपरि मध्यभागे अश्वत्थपत्राकारां पञ्चदशांगुलायतां मूले षडंगुल- विस्तीर्णा मये अंगुलविस्तीणां अंगुलद्वयोच्चा पृष्ठतोन्नतां अग्रतो निम्नां कुण्डे किञ्चित्प्रतिष्ठितां योनि कुर्यात् । तस्या नालं कुण्डभूमिलमं कुर्यात् । योन्या मध्ये रन्धं कुर्यात् । उत्तरे त्रिकोणं चतुर्विश- त्यंगुलायामदैय॑विशिष्टं भूतलं व्यङ्गुळं निखनेत् । प्रथमा भूमिलमा भूमितश्चतुरंगुलोच्चा चतुरंगुलविस्तृता मेखला कार्या । द्वितीया अष्टांगुलोच्चा चतुरंगुलविस्तृता मेखला कार्या । तृतीया द्वादशांगुलोच्चा चतुरंगुलविस्तृता मेखला कार्या। व्यंगुलोचे यंगुलविस्तृतः कुण्डकण्टो विधेयः । यादृशः कुण्डाकारः तादृशी मेखला विधेया। चतुर्वपि कुण्डेषु चतुरंगुलविस्तृता चंगुलोच्चा पद्माकारा मध्ये नाभि विधेया । एवं प्रतिष्ठार्थ कल्पितं मण्डपद्वयं अन्तर्बहिश्च मार्जयित्वा गोमयोदके- नोपलिप्य रङ्गवल्यादिभिरलंकृत्य दर्भपुजैः पर्यग्निकरणं कृत्वा तत्र घृतपूर्णान् प्रदीपान् प्रस्थापयेत् । गौरसर्षपाक्षतान् विकीर्य । अथाचार्यः ऋत्विग्मिस्सह खनित्रं पीठकं चतुर्हस्तायतं नवं वस्त्रं गन्धपुष्पधूपदीप- नैवेद्यदक्षिणाद्रव्याण्यादाय ध्वजपताकाभिर्वाधघोषैः यजमानेन भागवतै- स्सह बहिर्निष्क्रम्य प्राचीमुदीची वा दिशङ्गच्छेत् । तत्र शुचौ देशे ओन्नमः अस्त्रायफट् इत्यस्त्रमन्त्रेण महीं संप्रोक्ष्य ।। भूसूक्तम् हरिः ओम् । भूमि भूना द्यौ वैरिणा न्तरिक्ष
भूसूक्तम्
9
म्महित्वा । उपस्थे ते देव्यदितेऽग्नि मनाद मन्ना-
द्याया देधे । आ य गैः पृश्नि रकमी दर्तन
न्मातरं पुनः । पितर श्च प्रय न्त्सुवः ।
त्रिग्श द्वाम वि राजति वाक्पतंगार्य शिश्रिये ।
प्रत्यस्य वह धुभिः । अस्य प्राणा दपानत्यन्त
श्वरति रोचना। व्यख्य न्महिष स्सुवः । यत्त्वा
क्रुद्धः परोवर्प मन्युना यदवा । सुकल्प मने
तत्तव पुन स्त्वो हीपयामसि । यते मन्युपरोप्तस्य
पृथिवी मर्नु दध्वसे। आदित्या विश्वे तहेवा वसव श्च
समारन्। मेदिनी देवी वसुन्धरास्यावसुधा देवी
वासी । बृह्मवर्चसः पितृणा श्रोत्रं चक्षु मनः ।
देवी हिरण्यगर्भिणी देवी प्रसूवरी । सदने सत्या-
यने सीद । समुद्रवती सावित्री हनौ देवी मह्यङ्गी ।
मही धरणी महो व्यधिष्ठा शृङ्गेशृङ्गे यज्ञे यज्ञे
विभीषिणी । इन्द्रपत्नी व्यापिनी सुरसरि दिह ।
वायुमती जलशयनी स्वयंधा राजा सत्यन्धो परि-
मेदिनी । श्वो परिधत्तं गाय। विष्णुपत्नी महीं
AGAMA VOL. III.
2
10 प्रतिष्ठाविधिः देवी माधवी माधप्रियां । लक्ष्मीप्रियसखी देवी नमा म्यच्युतवल्लभां । ओं धनुर्धराय विद्महे सर्व- सिहयै च धीमहि । तन्नो धरा प्रचोदयात्-- इति महीसूक्तेन भूमि संस्पृश्य वराहरूपिणं भगवन्तं अर्ध्य पाद्या चमन स्नान वस्त्रो पवीत गन्ध पुष्प धूप दीप नैवेद्य ताम्बूल दक्षिणाभि स्सम्पूज्य क्रोडविद्यया खनित्रेण भूमि निखनेत् । वेत्रजे पात्रे मूलमंत्रण उद्धृतासीतिमंत्रेण च मृदं संगृह्य मूलमंत्रेण वाससा संवेष्टय नदीतीर- वालुकां गोकरीषं चा दाय रथे गजे वा समारोप्य ॥ शाकुनसूक्तम् अनुहवं परिहवं परीवादं परिक्षपम् । दुस्स्वप्न दुरुदितं तद्विषद्भयौ दिशा म्यहम् । अनुहूतं परि- हूत शकुने यदाकुनम् । मृगस्य सृत मक्ष्णया तद्विषद्भयो दिशा म्यहम् । आरा से अग्नि रस्त्वारा परशु रस्तुते । निवाते त्वा भिवर्षतु स्वस्ति ते स्तु वनस्पते स्वस्ति मैं स्तु वनस्पते । नम शकृत्सदै रुद्राय नमो रुद्राय शकुत्सदै । गोष्ठ मंसि नमस्ते अस्तु मा माहिश्सीः : । सिगं सि नसि वजो नमस्तेऽस्तु मा माहिश्सीः । उद्गातेव पालिकाविधानम् 11 शकुने सामंगायसि ब्रह्मपुत्र ईव सर्वनेषु शश्ससि। स्वस्तिन शकुनै अस्तु प्रतिन स्तुमा भव ॥ इति शाकुनसूक्त मधीयानैः ऋत्विग्वि ब्राह्मणै स्सह ग्रामं प्रद- क्षिणीकुर्वन् मण्डपं प्रविशेत् । तत आचार्यादयः अल कृता स्सर्वे कुश धान्य कलश मालिका दूर्वा श्वत्थ शिरीष बिल्वपत्र श्वेतसूत्र वस्त्र वृत्तिका वल्मीकमृत्तिका गोकरीष गन्ध पुष्प धूप दीप तुलसी व्रीहि यव माष तिल प्रियङ्गु मुद्ग सर्षप गोधूम चणक पयोनैवेद्य ताम्बूला क्षत । श्रीफला म्रपल्लव पूगीफलादिसम्मारा न्संगृह्य शुद्धजलैः ॥ पालिकाविधानम् ओ नारायणाय विद्महे वासुदेवाय धीमहि । त नौ विष्णुः प्रचोदयात् ॥ इति विष्णुगायत्रयापालिकाः प्रोक्षयेत् । दूर्वाश्वत्थशिरीषबिल्वपत्राणि तासां कण्ठेषु श्वेतसूत्रेण वेष्टयेत् ॥ दूर्वा मश्वत्थपत्रं च शिरीषं बिल्वपत्रकम् । तासां कण्ठेषु बध्नीयात् श्वेतसूत्रेण वेष्टयेत् ॥ ततः कुशै स्तासां बिलं पूरयित्वा आनीतमृत्तिकया वल्मकिया च गोकरीषेण च पालिकाः पूरयेत् ॥ दुत्तूरकुसुमाकारं वक्र मम्भोजसन्निभम् । द्वाविंशाङ्गुल मुत्सेधं पालिकालक्षणं स्मृतम् ॥ शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा तत्र तण्डुला न्विकीर्य दर्भेण पश्चिमत आरभ्य उत्तरपर्यन्तं तिस्र स्तिस्रो 12 प्रतिष्ठाविधिः रेखा लिखित्वा अद्भि रभ्युक्ष्य स्थाण्डिलस्य मध्ये प्रागग्रान् दर्भान् सस्त्रीर्य तदुपर्थ ष्टपालिकाः प्रागाद्यष्टदिक्षु स्थापयेत् । तासां मध्ये कलशं स्थापयेत् । तस्मिन् सुगंधि जलम् । ओं भूर्भुवस्सुवरिति पूरयित्वा वज्रवैडूर्यपुष्यरागमौक्तिकनीलमणीन् पञ्च रत्नानि निक्षिप्य वटाश्वत्थोदुम्बराम्रप्लक्षपञ्चपल्लवान् निक्षिप्य तुलसीदळं पूगीफलं च निक्षिपेत् । कुम्भस्य मुखे एकविंशतिदर्भनिर्मित कूर्च निधाय श्रीफलं निक्षिप्य नववाससा (आ)च्छादयेत् । ब्रीद्यादिनवधान्यानि महति मृण्मये नूतने पात्रे निक्षिप्य तत्पात्रं मूर्ध्नि विन्यस्य तूर्यघोषपुरस्सरं मंदिरं परिक्रम्य ।। अंकुररार्पणम् पालिकानां प्राग्देशे निवेश्य पयसा प्रक्षाळ्य नववाससा (आ). च्छाद्य पुण्याहं कुर्यात् । पादौ प्रक्षाळ्य द्वि राचम्य आचार्यों ब्राह्मणै म्सह नृत्यवाद्यघोषपूर्वकं ताम्बूलफलपुष्पदक्षिणाविशिष्टं पात्रं हस्ते गृहीत्वा यजमानमुखेन अनुज्ञां गृह्णीयात् ।। ओ बम स्सदसे नम सदसस्पतये नम स्सखीनां पुरोगाणां चक्षुषे । नौ दिवे । नमः पृथिव्यै। सप्रथसभा में गोपाय । ये च सभ्या स्सभासदः। ता तिंद्रियावतः कुरु । सर्व मायु रुपासतां ॥ सर्वेभ्य इश्रीवेष्णवेभ्यो नमः । इत्यक्षता श्रीवैष्णवशिरसि विकीर्य । अशेषे हे परिषत् भवत्पादमूले मया समर्पितां इमां सौवर्णी महासङ्कल्पः 13 यत्किंचिदक्षिणां यथोक्तदक्षिणा मिव स्वीकृत्य अस्य भगवतः श्रीभूमि- नीळासमेतस्य समस्तपरिवारस्य श्रीमदादिनारायणस्य प्रतिष्ठाकर्मणः निर्वि- नपरिसमाप्ति भूया दिति भवन्तो महान्तो ऽनुगृह्णन्तु । इति परिषद मनुज्ञाप्य संकल्पं कुर्यात् ॥ विष्वक्स पूजा प्रागग्रेषु दर्भेषु प्राङ्मुख उपविश्य भगवन्तं ध्यात्वा श्रीभगवदा- ज्ञया भगवत्प्रीत्यर्थं करिष्यमाणस्य भगवत्प्रतिष्ठाकर्मणः निर्विघ्नेन परि- समाप्तयर्थ आदी श्रीविष्वक्सेनपूजां करिष्य इति सङ्कल्प्य मध्यम- पलाशपर्णे कूर्च निक्षिप्य तत्र श्रीमते विष्वक्सेनाय नम इति मन्त्रेण सूत्रवत्या साकं सेनेशं ध्यानावहनासनाार्घ्यपाद्याचमनवानवस्त्रोपवीत- गन्धपुष्पधूपदीपनैवेद्यताम्बूलदक्षिणाभिस्सम्पूज्य- यस्य द्विरदवाद्याः पारिषाद्याः परश्शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं समाश्रये ।। इति मन्त्रेण विष्वक्सेनं प्रार्थयेत् । त्रिःप्राणानायम्य दक्षिणोत्तरौ पाणी कृत्वा (तत्र च सव्यपाणेरङ्गुष्ठतर्जनीमध्ये दक्षिणपाणेरङ्गुष्ठवर्जिताः चतस्रोऽङ्गुलीः कृत्वा सव्याङ्गुष्ठं दक्षिणाङ्गुष्ठेनावेष्टयेत् ॥ महासङ्कल्पः ओम्-श्रीगोविन्द गोविन्द गोविन्द आद्यश्रीभगवतो महापुरु षस्य श्रीमदादिनारायणस्य अचिन्त्याद्भुतशक्तया महाजलौघमध्ये परि भ्रममाणानां अनेककोटिब्रह्माण्डानामेकतमे । अव्यक्तमहदहङ्कारपृथि व्यप्तेजोवाय्वाकाशाद्यावरणैरावृते । अस्मिन् महति ब्रह्माण्डकटाह. करण्डके सकलाधिष्ठात्रादिवराहदंष्ट्राङ्कुरमृणाळभूतस्य जगन्मूलकन्दस्य 14 प्रतिष्ठाविधिः तस्य भगवदाधारकूर्माद्यष्टदिग्गजानन्तफणामण्डलस्योपरितले वर्तमानस्य अतल वितलसुतलतलातलरसातलमहातलपातालाख्यलोकसप्तकस्योपरितले वर्त. मानस्य भुवस्सुवर्महर्जनस्तपस्सत्यलोकषट्कस्याधोभागे संस्थितस्य बाह्ये अन्धतमसावृतेन तद्वहिः अनन्तसूर्यप्रकाशेन लोकालोकवलयेन वल- यितस्य लवणेक्षुसुरासर्पिक्षीरदधिशुद्धोदकाख्यसप्तार्णवैः परिमण्डितस्य जम्बूप्लक्षकुशक्रौञ्चशाकशाल्मलिपुष्कराख्यसप्तद्वीपैः परिवृतस्य भरत- किंपुरुषहरीळावृतकुरुभद्राश्वकेतुमालहरण्यकपाञ्चजन्याख्यनवविभूषि- विन्ध्यमेरुहिमगन्धमादनमाल्यवत्सह्यपारियात्राख्यसप्तकुलपर्वतैः परिशोभितस्य इन्द्रकशेरुताम्रगभस्तिनागसौम्यगन्धर्वचारणभरताख्यनव- खण्डैः परिमण्डितस्य अरुणोदयमहाभद्रशीतोदकमानसाख्यसरोवरेविरा- जितस्य बदरिकाश्रमनैमिशकुरुक्षेत्रपुष्करायोध्याद्वारकाश्रीरङ्गवेङ्कटाद्रि- यादवाद्रिवानाव्यादिदिव्यक्षेत्रसङ्कुलस्य गङ्गायमुनागोदावरीसरस्वती- नर्मदासिन्धुकावेरीताम्रपर्णीसरयूतुङ्गमद्राकृष्णवेण्यादिपुण्यनदीभिरलङ्कृतस्य अङ्गवङ्गकळिङ्गकाश्मीरकाम्भोजकामरूपकेरळकैकेयकोसलमैथिलकुन्तल- कुरकुरवकसौवीरसौराष्ट्रमहाराष्टमत्स्यमागधमालवमराळसिंहळमलयाळ- चोळबङ्गाळनेपालपञ्चालसाळूवपुळीन्द्रपौण्डूकर्णाटकवराटकमराटककिरा- तसिक्यासिन्धुपंचाविकपाविकपाण्ड्यद्रविडयवनशूरसेनघूर्जरकुक्कुरपराशरगां- धारविदर्भबर्बरबरमभोजवैद्यबाहीककोंकणटेंकणचीणहूणदशााख्यषट् पञ्चाशद्देशभेदैः तत्तदाचारविचित्रवस्त्राभरणालंकारैश्च अष्टादशवर्णभोज्य- भाषाभेदैः परिष्कृतस्य अयोध्यामधुरामाया काशीकाञ्जयवन्तिका । द्वारवत्याख्यमुक्तिदायकपुण्यनगरीभिर्विराजितस्य भूमण्डलस्योपरि भुव- महर्जनस्तपस्सत्यलोकानामुपरि ब्रह्माण्डकटाहस्योपारी आवरणाद्वाहमहां- धकारस्योपरिस्थिते अनेककोटिवयर्केन्दुदेदीप्यमाने श्रीमद्वैकुण्बाख्ये - महासङ्कल्पः 15 १ दिव्यनगरे दिव्यरत्नमयानन्दमण्टपे भगबदाधारशक्तिप्रकृतिकूर्मानन्त- धर्माद्यष्टमूर्तिभिः उपरिधारितमहापद्मस्य पूर्वाद्यष्टदळेषु विमलाद्यष्ट- चामारग्राहिणीभिः परिवृते तत्कर्णिकोपरि अग्नयादिमण्डलत्रयान्विते तदुपरि ऋग्यजुस्सामाधर्वान्विते अनेककोटिसूर्यप्रकाशदिव्यसिंहासने शेषपर्यंकशायिनः अपरिपिततेजोराशेः अखिलजगन्मातृश्रीभूमिनीळाभिः परिसेव्यमानस्य तद्वहिः अनन्तगरुडमिष्वक्सेनादिनित्यसूरिभिस्संसेव्य- मानस्य तद्वहिः परितः पंचकालपरायणैः भगवच्छेषनिष्ठैः सालो- क्यादिपदस्थितैः नित्यतृप्तैः परिसेव्यमानस्य अखिलजगत्सृष्टिस्थिति- संहारकारणकर्तृभूतस्य भगवतो दिव्याज्ञया प्रवर्तमानस्य आद्य- ब्रह्मणः द्वितीयपरार्धे, श्रीश्वेतवराहकल्पे, वैवस्वतमन्वन्तरे, कलियुगे, प्रथमपादे, जंबूद्वीपे, भारतवर्षे, भरतखण्डे, शकाब्देमेरोदक्षिणे, पार्श्वे, अस्मिन् , वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये अमुके, संवत्सरे, अयने, ऋतौ, मासे, पक्षे, तिथौ, वासरे, नक्षत्रे, एवंगुणविशेषणविशिष्टाया मस्यां शुभतिथौ अस्य अनन्त, गरुड, विष्वक्सेनादिनित्यसूरिपरिषत्संसेव्यमानस्य, पराङ्कुश, परकालयतिवरादिभक्तै स्संततसमर्चितचरणयुगळस्य महाजलकमलमध्य- परिभ्राम्यमाणानेककोटिसूर्यप्रभासमेतस्य श्रीभूमिनीळाकुचकलशविन्यस्त कुंकुमांकितवक्षस्थलनायकस्य, शेषपर्यकशायिनः, शंखचक्रगदापद्म- खड्गशार्डहस्तविराजितस्य, सौशल्यवात्सल्यादिगुणयुक्तस्य श्रीम- नारायणस्य भगवतो दिव्याज्ञया, भगवत्प्रीत्यर्थं अस्य अशेषचिदचि- द्वस्तुशेषीभूतस्य सत्यज्ञानानन्तानन्दामलस्वरूपस्य श्रीवल्लभस्य ज्ञान- शक्तिबलैश्वर्यवीर्यशक्तितेजस्सौशील्यवात्सल्यस्वामित्वसर्वज्ञत्वसर्वशक्तत्व परमकारुणिकत्वकृतित्वकृतज्ञत्वपरिपूर्णत्वपरमोदारत्वमार्दवार्जवसौगन्ध्य - , .
16 प्रतिष्ठाविधिः सौकुमार्यादिगुणगणौघमहार्णवस्य, अभिनवजलधरसुंदरदिव्यमंगळविग्र- हस्य भगवतो नारायणस्य सान्निध्यसिध्यर्थ अमुकमूर्तिप्रतिष्ठा महं करिष्यामि, क्रियापलस्य आत्मगामित्वे कारष्य इति सङ्कल्पयेत् ।। अथ पुण्याहवाचनम् तदङ्गत्वेन पुण्याहवाचनं करिष्ये । इत्युक्त्वा शुचौदेशे तण्डु- लोपारि प्रागग्रान् दर्भान् संस्तीर्य तेषु सुवर्णादिसम्भवं कुम्भ निधाय व्याहृतीभिरद्भिरापूर्य ऊर्ध्वायं कूर्च निधाय गंधपुष्पैरभ्यर्च्य शुध्यर्थं मण्टपशुध्यर्थं भगवत्प्रतिष्ठाङ्गं पुण्याहं वाचयिष्ये । पुण्याहे चतुरो ब्राह्मणान् भोजयित्वा ऋत्विाम्भ स्तैः दर्भहस्तैः पुण्याहं वाचयेत् ॥ अञ्जलिं कृत्वा ओं स्वामिनः मनस्समाधीयतामिति प्रार्थ्य समाहितमनस स्म इति तैः प्रत्युक्ते भवद्भिरनुज्ञातः पुण्याहं वाचयिष्ये । इत्यनुज्ञाप्य वाच्यतामित्यनुज्ञातः । पुण्याहं वाचयिष्ये वाच्यतामित्य- नुज्ञातः । उदकुम्भं सव्यहस्ते निधाय दक्षिणहस्तेन पिधाय भगव- प्रतिष्ठाकर्मणः पुण्याहंभवन्तोब्रुवन्तु भगवत्प्रतिष्ठाकर्मणः ऋद्धिंभवन्तो- ब्रुवन्तु । भगवत्प्रतिष्ठाकर्म ऋध्यताम् । इति त्रिः प्रार्थना प्रतिवचनं ब्रूयुः । कुंभ पूर्ववर्भूमौ निधाय । पुण्याहसमृद्धिरस्तु । शिवकर्मास्तु । प्रजापतिःप्रीयतामिति भवन्तोब्रुवन्त्विति प्रार्थ्य । प्रीयतां भगवान् प्रजापतिः इति ब्रूयुः । ओं शान्तिरस्तु । तुष्टिरस्तु। ऋद्धिरस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु । धनधान्यसमृद्धिरस्तु । गोब्राह्मणेभ्यश्शुभं भवतु । ईशान्यां बहिर्देशे अरिष्टनिरसनमस्तु । आग्नेयां यत्पापं तत्प्रतिहतमस्तु । उत्तरेकर्मण्यविघ्नमस्तु । उत्तरोत्तरा- भिवृद्धिरस्तु । सर्वशोभनमस्तु । सर्वास्संपदस्सन्तु । ओं शुभानिवर्धन्तां प्रोक्षणमन्त्रः 17 .. ओं शान्तिश्शान्तिश्शान्तिरिति सर्वे ब्रूयुः । शान्तिरस्त्वित्येतदारभ्य ओं शान्तिरित्यन्तैर्वाक्यैः कूर्चेन पर्णपुटे जलन्निक्षिप्य पुनस्तज्जलं कुम्भे निक्षिपेत् । अस्मिन् कुम्भे वरुणरूपिणं भगवन्तं पुण्डरीकाक्षमावा- हयिष्ये ॥ इममेवरुणश्रुधीहवमद्याचमृडयेत्यारभ्य प्रमोषीरित्यन्तेनावाह्य अर्घ्यपाद्याचमनवानवस्त्रोपवीतगन्धपुप्पधूपदीपनैवेद्यताम्बूलदक्षिणाभिस्स- म्पूज्य, दधिक्राव्ण्णोअकारिषमित्यारभ्य आपोजनयथाचन इत्यन्तं, हिरण्यवर्णाश्शुचयः पावका इत्यारभ्य बलमोजो निधत्तेत्यन्तं, पवमान- स्सुवर्जन इत्यारभ्य जातवेदा मोर्जयंत्या पुनातु इत्यन्तम्, ओंतच्छंयो रित्यारभ्य शश्चतुष्पद इत्यन्तम् ओं शान्तिश्शान्तिश्शान्तिरित्योभि- माह्मणैस्सह कुम्भं दर्भेस्स्पर्शयेत् ।। अथ प्रोक्षणमन्त्रः ओं वास्तोष्पते प्रतिजानीह्यस्मान्तस्वावेशो अनमीवो भवानः । यत्त्वमेह प्रतितन्नो जुषस्व शन्न एधि द्विपदे शं चतुष्पदे । वास्तोप्पत शग्मया सगंसदा ते सक्षीमहिरण्वया गातुमत्या । आवः क्षेम उत योगे वरन्नो यूयम्पात स्वस्तिभिस्सदा नः । वास्तोष्पते प्रतरणोन एधि गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व । अमी वहा वास्तोष्पते विश्वारूपाण्याविशन् । सखा सुशेव एघि नः । शुभगम् शुभम् (शिवगम् शिवम् ) । स्वस्त्ययनं तार्क्ष्य मरिष्टनेमि महद्भूतं वायसं देवतानाम् । असुरनमिन्द्रसखं समत्सुबृहद्यशो नावमिवारुहेम । अहोमुच माङ्गिरसं गयं च स्वस्त्यात्रेयं मनसा च ताक्ष्यम् । प्रयतपाणिश्शरणं प्रपद्ये स्वस्ति सम्बाधेष्वभयं नो अस्तु ॥ इमं मन्त्रं पठन् आम्रपल्लवेन AGAMA VOL. III. 3 18 प्रतिष्ठाविधिः . पुण्याहजलैः मण्टपादिकं सर्वमन्तर्बहिश्च प्रोक्षयेत् । पुण्याहकलशं शुभे देशे सुरक्षितं कृत्वा स्थापयेत् ॥ अथ तोरणादिपूजा. ततस्तूर्यनादेन तोरणादिपूजां कुर्यात् । अत्र क्रमः । अमिमीळे पुरोहितम् यज्ञस्यदेवमृत्विजम् । होतारं रत्नधातमम्-इति मन्त्रेण गन्धपुष्पधूपदीपनैवेद्यैः पूर्वद्वारं सम्पूज्य, सुशोभनायेन्द्रदेवत्यायाश्वत्थ- ऋग्वेदतोरणाय नम-इति मन्त्रेण गन्धपुष्पधूपदीपनैवेद्यैः पूर्वद्वार- तोरणं संपूजयेत् । इषेत्वोर्जेत्वावायवस्थोपायवस्थदेवोवस्सविताप्रार्पयतु- श्रेष्ठतमायकर्मणे---- इति मन्त्रेण गन्धपुष्पधूपदीपनैवेद्यैः दक्षिणद्वारं सम्पूज्य, श्राद्धदेवाय यमदैवत्याय उदुम्बरयजुर्वेदतोरणाय नम--इति मन्त्रेण गन्धपुष्पधूपदीपनैवेद्यैर्दक्षिणद्वारतोरणं पूजयेत् । अग्न आयाहि- वीतये गृणानोहव्यदातये । निहोतासत्सिबर्हिषि—इति मन्त्रेण गन्धपुष्प- धूपदीपनैवेद्यैः पश्चिमद्वारं सम्पूज्य, सुभद्राय वरुणदेवत्याय न्यग्रोध- सामवेदतोरणाय नम --इति मन्त्रेण गन्धपुष्पधूपदीपनैवेद्यताम्बूल- नीराजनैः पश्चिमद्वारतोरणं संपूजयेत् । शन्नोदेवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तुन-इति मन्त्रेण उत्तरद्वारतोरणं गन्धपुष्पधूपदीप- नैवेद्यैस्सम्पूज्य, भद्राय सोमदैवत्याय प्लक्षाय नम-इति मन्त्रेण गन्धपुष्पधूपदीपनैवेद्यैरुत्तरद्वारतोरणं पूजयेत् ।। अथ ध्वजपूजनम् कुमुदाय नमः । कुमुदाक्षाय नमः । इति मन्त्रद्वयेन पूर्वद्वार- पार्श्वे स्थितौ रक्तौ ध्वजौ गन्धपुष्पधूपदीपनैवेद्यैः पूजयेत् । पुण्डरीकाय नमः, वामनाय नम-इति मन्त्रद्वयेन दक्षिणद्वारपार्श्वे स्थितौ द्वौ पीतौ ध्वजौ गन्धपुप्पधूपदीपनैवेद्यैः पूजयेत् । शङ्कुकर्णाय नमः । सर्वनेत्राय दिक्पतिपूजनम् 19 नमः । इति मन्त्रद्वयेन पश्चिमद्वारपार्श्वे स्थितौ नीलो द्वौ ध्वजौ गन्ध- पुष्पधूपदीपनैवेद्यैः पूजयेत् । सुमुखाय नमः । सुप्रतिष्ठिताय नमः । इति मन्त्रद्वयेन उत्तरद्वारपार्श्वे स्थितौ द्वौ पाण्डुरौ ध्वजौ गन्धपुष्पधूप- दीपनैवेद्यैः पूजयेत् । ततः पूर्वादि चतुर्दारेषु धान्यसञ्चयेषु प्रतिद्वारं द्वौ कुम्भावितिसर्वतः अष्टौ कुम्भान्, इदं विष्णुर्विचक्रमे त्रेधानिदधे- पदम् । समूढमस्यपागँसुरे । इति मन्त्रेण निवेश्य तान्सुगन्धजलै रापूर्य अश्वत्थपल्लवाक्षततुलसीदळानि तेषु निक्षिप्य, सूत्रवस्त्रैरावेष्टय मुखेषु श्रीफलानि दद्यात् । पूर्णाय नमः । युक्तिमन्त्रिणे नमः । इति मन्त्रद्वयेन पूर्वद्वारकुम्भौ, आनन्दाय नमः । नन्दनाय नमः । इति मन्त्रद्वयेन दक्षिणद्वारकुम्भौ, वीरसेनायनमः । सुसेनायनमः । इति मन्त्रद्वयन । पश्चिमद्वारकुम्भौ, सम्भवाय नमः । प्रभवाय नमः । इति मन्त्रद्वयेन उत्तरद्वारकुम्भौ गन्धपुष्पधूपदीपनैवेद्यैः पूजयेत् ॥ , .. अथ द्वारपालपूजनम् कुमुदाय नमः । कुमुदाक्षाय नमः । इति मंत्रद्वयन कुमुद- कुमुदाक्षौ पूर्वद्वारदेशे, पुण्डरीकाक्षाय नमः वामनाय नम इति मन्त्र- द्वयेन पुण्डरीकवामनौ, दक्षिणद्वारदेशे। शङ्कुकर्णाय नमः । सर्वनेत्राय नम इति मन्त्रद्वयेन शङ्कुकर्णसर्वनेत्रौ, पश्चिमद्वारदेशे । सुमुखाय नमः । सुप्रतिष्ठिताय नम इति मन्त्रद्वयेन सुमुखसुप्रतिष्ठितौ उत्तरद्वारदेशे । गन्धपुष्पधूपदीपनैवेद्यः पूजयेत् ॥ तनः दिक्पतिपूजनम् पूर्वादिदिक्षु धान्यसञ्चयेषु कुम्भान् संस्थाप्य पूर्वेशानयोर्मध्ये ब्रह्मकलशं स्थाप्य नैऋतपश्चिमयो मध्ये अनंतकुम्भं स्थाप्य क्रमेण इन्द्रादिदिक्पतीन् पूजयेत् । पूर्वकुम्भे 'त्रातार मिन्द्र मवितार मिन्द्रगं 20 प्रतिष्ठाविधिः . १ हवेहवे सुहवगं शूरमिन्द्रम् । हुवे नु शक्रं पुरुहूत मिन्द्रग्गं स्वस्ति नो मघवा धाविन्द्र-इति मन्त्रेण इन्द्रमावाह्य, इन्द्रायमेघाधिपतयेसायुधाय- सपरिवारायभगवत्पार्षदायनम, इति मन्त्रेण गन्धपुष्पधूपदीपनैवेद्यैरिन्द्र पूजयेत् । 'त्वन्नो अमेवरुणस्य विद्वान्देवस्यहेडोवयासिष्ठिाः। यजिष्ठो- वहितमश्शशुचानोविश्वाद्वेषागंसिप्रमुमुग्ध्यमस्मत्-इति मन्त्रण वह्नितम- मावाद्य, अमये तेजोधिपतये सायुधाय सपरिवाराय भगवत्पार्ष- दाय नम-इति मन्त्रेण गन्धपुष्पधूपदीपनैवेद्यैराभिं पूजयेत् । दक्षिणकुम्भे 'सुगन्नः पन्था मभयं कृणोतु । यस्मिन्नक्षत्रे यम एति राजा । यस्मिन्नेनमभ्यषिञ्चन्तदेवाः । तदस्य चित्रगं हविषा यजाम इति मन्त्रेण यममावाह्य, यमाय धर्मराजाय सायुधाय सपरिवाराय भगवत्पार्षदाय नम-इति मन्त्रेण गन्धपुष्पधूपदीपनैवैधैर्यमं पूज- येत् । नैऋतकुम्भे ‘असुन्वन्तमयजमानमिच्छस्तेनस्येत्यान्तस्करस्या- न्वेषि । अन्यमस्मदिच्छसात इत्यानमोदेविनितेतुभ्यमस्तु --- इति मन्त्रेण निति मावाह्य, निऋतये भूताधिपतये सायुधाय सपरि- वाराय भगवत्पार्षदाय नम-इति मन्त्रेण गन्धपुष्पधूपदीपनैवेद्यै निरऋतिं पूजयेत् । पश्चिमकुम्भे 'तत्वायामिब्रह्मणावन्दमानस्तदा- शास्तेयजमानोहविभिः । अहेडमानोवरुणेहबोध्युरुशगं समान आयुः प्रमोषीरिति मन्त्रेण वरुणमावाह्य, वरुणाय जलाधिपतये सायुधाय सपरिवाराय भगवत्पार्षदाय नम--इति मन्त्रण गन्धपुप्पधूपनैवेद्यै- वरुणं पूजयेत् । वायुकुम्भे 'आनोनियुद्भिश्शतिनीभिरध्वरं । सहस्रिणीभिरुपयाहियज्ञम् । वायो अस्मिन् हविषिमादयस्व । यूयम्पात- स्वस्तिभिस्सदान-इति मन्त्रेण वायुमावाह्य, वायवे प्राणाधिपतये सायुधाय सपरिवाराय भगवत्पार्षदाय नम-इति मन्त्रेण गन्धपुष्प- अधाग्नयलंकारादिक्रमः 21 दीपनैवद्यैर्वायु पूजयेत् । सोमकुम्भे 'वयग्सोमव्रतेतव । मनस्तनूषु- बिभ्रतः । प्रजावन्तो अशीमहि'--इति मन्त्रेण सोममावाह्य सोमाय पीयूषाधिपतये सायुधाय सपरिवाराय भगवत्पार्षदाय नम-इति मन्त्रेण गन्धपुष्पधूपदीपनैवेद्यैस्सोमं पूजयेत् । ईशानकुम्भे 'तमाशानं- जगतस्तस्थुषस्पतिन्धियंजिन्वमवसेहूमहेवयम् । पूषानोयथावेदसा- मसद्वधेरक्षितापायुरदब्धस्वस्तये'-इति मन्त्रेण ईशानमावाह्य, ईशानाय विद्याधिपतये सायुधाय सपरिवाराय भगवत्पार्षदाय नम-~~-इति मन्त्रेण गन्धपुष्पदीपनैवेद्यैरीशानं पूजयेत् । ईशानेन्द्रान्तरे ब्रह्म- कलशे 'ब्रह्मजज्ञानं प्रथमंपुरस्ताद्विसीमतस्सुरुचोवेन आवः । सबु- धिया उपमा अस्य विष्ठास्सतश्चयोनिमसतश्चविवः-इति मन्त्रेण ब्रह्माण मावाह्य, ब्रह्मणे लोकाधिपतये सायुधाय सपरिवाराय भगव- त्पार्षदाय नम-इति मन्त्रेण गन्धपुष्पधूपदीपनैवेद्यैर्ब्रह्माणं पूजयेत् । निऋतिपश्चिमयोर्मध्ये अनन्तकलशे ‘स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छानश्शर्म सप्रथाः' ---इति मन्त्रेणानन्तमावाह्य अनन्ताय नागाधिपतये सायुधाय सपरिवाराय भगवत्पार्षदाय नम- इति मन्त्रेण गन्धपुष्पधूपदीपनैवेद्यैरनन्तं पूजयेत् । एवं मण्टपद्वयेपि दिक्पतीन् पूजयेत् । तत आचार्यः ऋत्विग्भिस्सह यस्मिन् देशे पालिका स्स्थापितास्तं देशमागत्य स्थण्डिलं कुर्यात् ॥ अथाग्नयलंकारादिक्रमः. तच्चेष्टकामी कूर्मपृष्ठसमोन्नतं गोमयेनोपलिप्तं हस्तमात्रं चतुरश्रं तत्र तण्डुलान्विकीर्य पश्चिमत आरभ्य प्राक्पर्यन्तम्, दक्षिणत आरभ्य उत्तरपर्यन्तं तिस्रस्तिस्रो रेखास्स्रवेण दर्भमूलेन वा लिखित्वा तं दर्भ न्यस्य अद्भिरभ्युक्ष्य तृणं स्थण्डिले निक्षिप्य कुर्यात् ।
22 प्रतिष्ठाविधिः . ओं भूर्भुव स्सुव रोमित्यमिं प्रतिष्ठाप्य अमेरुपरि समुद्दीपनार्थ समिधः प्रक्षिप्य, 'चत्वारिश्रृंगात्रयो अस्यपादा द्वेशीर्षे सप्तहस्तासो अस्य । त्रिधाबद्धो वृषभोरोरवीति महोदेवो मागं आविवेश ।' इति मन्त्रेण जलाक्षतान् अग्नेः पश्चिमतः प्रतिष्ठाप्य, एष हि देवः प्रविशो नु सर्वाः पूर्वोहिजातस्सउगर्भे अन्तः । सविजायमान स्सजनिष्यमाणः प्रत्यङ्मुखा- स्थिष्ठति विश्वतोमुखः हे अग्ने प्राङ्मुखो देव ममाभिमुखो भव । इत्यानि प्रार्थ अमिमलंकृत्य, ओम् अनये नमः । ओं जातवेदसे नमः । ओं सहोजसे नमः । ओं अजिराप्रभवे नमः । ओं वैश्वानराय नमः । ओं नापसे नमः । ओं पतिराधसे नमः । ओं विसर्पिणे नमः । ओं श्रीयज्ञपुरुषाय नमः । इतिमन्त्रैः प्रागाद्यष्टसु दिक्षु अक्षता निक्षिप्य ओं आत्मने नमः । इति स्वमूर्ध्नि ओं सर्वेभ्यश्श्रीवैष्णवेभ्यो नम इति श्रीवैष्णवोपर्यक्षतान्निक्षिपेत् । ओं अदितेनुमन्यस्वेतिदाक्षिणतः प्राचीनं, ओं अनुमतेनुमन्यस्वेति दक्षिणत उदीचीनं, ओं सरस्वतेनु- मन्यस्वेत्युत्तरतः प्राचीनं, ओं देवसवितः प्रसुवेति समन्ततोऽग्निपरि- षिच्य परिषेचनक्रमेण प्रागुदगग्रैर्दभैरग्निं परिस्तीर्य अग्नेरुत्तरतः प्रागग्रान् दर्भान् संस्तीर्य दाज्यस्थाल्यौ प्रोक्षणी पूर्णपात्रे इध्मस्रुवौ च दर्भपतिद्वये च निक्षिप्य, अधोमुखानि समौ सानौ द्वौ दर्भी प्रादेश- मात्रौ पवित्रीकृत्याद्भिरनुमृज्य प्रोक्षणीपात्रे निधाय, पवित्रांतर्हिते प्रोक्षणीपात्रे अक्षतसहिता अप आनीय, अग्नेः प्रदक्षिणमानीतं मुखसममुद्धृत्य स्वस्य पुरतस्स्थाप्य हस्तयोरङ्गुष्ठकनिष्ठकाभ्यामुदगो पवित्रे गृहीत्वा प्रागन्तं क्रिरुत्पूय पात्राण्युत्तानानि कृत्वा सपवित्रेण हस्तेन त्रिः प्रोक्ष्य, इध्मं च विस्रस्य त्रिःप्रोक्ष्य, ते पवित्रे पूर्णपात्रे निधाय हस्तयोरङ्गुष्ठकनिष्ठिकाभ्यामुदगो पवित्रे गृहीत्वा प्राग्वत्रिरुत्पूय . - अधाग्नघलंकारादिक्रमः 23 अग्नेः प्रदक्षिणतो निनीय मुखसममुद्धृत्य अमे रुत्तरतो दर्भानास्तीर्य तेषु निक्षिप्य दभैराच्छाद्य दक्षिणतस्विभिर्दभैर्ब्रह्मासनमास्तीर्य । ओं ब्रह्मणे नम----- इति ब्रह्माणमावाह्य' ओं ब्रह्मणे नम इति मन्त्रेण आसनार्घ्यपाद्याचमनस्नानवस्त्रोपवीतगन्धपुष्पधूपदीपनैवेद्यताम्बूलदक्षिणा - भिब्रह्माणमभ्यर्चयेत् । पवित्रे आज्यपात्रे निघाय । अमेः पश्चिमतः पवित्रान्तर्हितायामाज्यस्थाल्यां सचरुमाज्यन्निरूप्य उदीच्यामझारेषु निघाय ज्वलता दर्भणावद्योतनम् । द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाळ्य आज्य- पात्रे प्रत्यस्य, ज्वलता दर्भेण त्रिरमिं प्रदक्षिणीकृत्य तं दर्भमैशान्यां निक्षिपेत् । आज्यमवतार्य अङ्गारान् वहौ निक्षिपेत् । सपवित्रेण हस्तेन अग्नेः प्रदक्षिणत आज्यभनीय स्वस्य पुरतम्स्थाप्य हस्तयोरङ्गुष्ठ- कनिष्ठिकाभ्यामुदगग्रे पवित्रे गृहीत्वा आज्यं त्रिरूत्पूय पवित्रग्रन्थि विस्रस्य पवित्रमद्भिरभ्युक्ष्य प्रागने पवित्रे अग्नौ प्रहरति । स्रुवमग्नौ प्रत्यर्प्य दर्भाग्रैस्वाग्रं दर्भमूलैस्वमूलं दर्भमध्येस्स्रुवमध्यं सर्वत- स्वबिलं सम्मार्टि । पुनः प्रतितप्य प्रोक्ष्योत्तरतो निधाय दर्भानाद्भ- संस्पृश्यानौ प्रहरति । परिधीन् परिदधाति । स्थविष्ठमुत्तराग्रं परिधि- मग्नेः पश्चिमतो निक्षिप्यामेर्दक्षिणत अणीयांसं परिधि पूर्वाग्रं निक्षिप्य उत्तरायमग्नेः पश्चिमतो निहितं मध्यमं परिधिमुपस्पृश्य अग्नेः पुरस्ता- दक्षिणोत्तरक्रमेण ऊर्ध्वाग्रे इतरे द्वे आधारसमिधावादधाति । परि- स्तरणोपर्यन्योन्यसंस्पृष्टान्निधाय सव्येन पात्रं स्पृशन् दक्षिणेन हस्तेन परिध्यन्तः परिस्तरणोपरि अदितेनुमन्यस्व अनुमतेनुमन्यस्व सरस्वतेनु- मन्यस्व देवसवितः प्रसुवेति समन्ततः प्रागारभ्य प्रदक्षिणं परिषिच्य इध्ममाज्येनाभ्यज्य, अस्मिन् भगवत्प्रतिष्ठाहोमकर्मणि ब्रह्मन् इध्म- माधास्य इति ब्रह्माणं प्रति ब्रूयात् । 'ओम् आधत्स्व' इति प्रति- प्रतिष्ठाविधिः वचनम् । प्रजापतिम्मनसा ध्यायन् तूष्णीं घताक्ताः पञ्चदश समिधो वहौ प्रक्षिपेत् । दा आज्यमादाय अमये स्वाहा । अमय इदं न मम । इत्यमेर्दक्षिणभागे जुहुयात् । इन्द्राय स्वाहा । इन्द्रायेदं न मम । इत्यमेर्दक्षिणभागे जुहुयात् । इन्द्राय स्वाहा । इन्द्रायेदन मम । प्रजा- पतये स्वाहा । प्रजापतय इदन्न मम । इत्यमिमध्ये जुहुयात् ॥ द्विशीर्षक सप्तहस्तं त्रिपादं सप्तजिह्नकम् । वरदं शक्तिपाणिं च बिभ्राणं सुक्सुवौ तथा ॥ इत्यमि ध्यात्वा । ततस्सर्पिषा चरुणा मूलमन्त्रेण अष्टोत्तरशतवारं जुहुयात् ।। केवलान्नं पायसान्नं मुद्ान्नं च गुडोदनम् । इति चतुर्विधं चरु । तस्य तस्य पाकश्चल्यामिष्यते ॥ अथ षोडशाहुतीः. पुरुषसूक्तेन सर्पिषा षोडशाहुतीर्जुहुयात् । ओम् सहस्र- शीर्षा पुरुषः। सहस्राक्षस्सहस्रपात् । स भूमिं विश्वतो वृत्वा। अत्यतिष्ठ- दशाङ्गुलम् ॥ १॥ पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणायेदं न मम । पुरुष एवेदः सर्वम् । यद्भूतं यच्च भव्यम् । उतामृतत्वस्ये- शानः । यदन्ननातिरोहति ॥ २ ॥ पुरुषाय नारायणाय स्वाहा । पुरु- षाय नारायणायेदन्न मम । एतावानस्य महिमा । अतो ज्यायागंश्च पूरुषः । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि ।। ३ ॥ पुरु- पाय नारायणाय स्वाहा । पुरुषाय नारायणायेदं न मम । त्रिपादूर्ध्व उदैत्पुरुषः । पादोऽस्येहाभवात्पुनः । ततो विष्वब्यक्रामत् । साशना- नशने अभि ॥ ४ ॥ पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणा- येदं न मम । तस्माद्विराडजायत । विराजो अघि पूरुषः । स जातो षोडशाहुतीः 25 अत्यरिच्यत । पश्चाद्भूमिमथो पुरः ॥ ५ ॥ पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणायेदं न मम । यत्पुरुषेण हविषा । देवा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यम् । ग्रीष्म इध्मश्शरद्धविः ॥६॥ पुरुषाय नारा- यणाय स्वाहा । पुरुषाय नारायणायेदं न मम । सप्तास्यासन् परिषयः । त्रिस्सप्त समिधः कृताः । देवा यद्यज्ञं तन्वानाः । अबध्नन् पुरुषं पशुम् !! ७ ॥ पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणायेदं न मम । तय्यज्ञं बर्हिषि प्रौक्षन् । पुरुषं जातमग्रतः । तेन देवा अयजन्त । साध्या ऋषयश्चये ॥ ८॥ पुरुषाय नारायणायस्वाहा । पुरुषाय नारायणायेदं न मम ॥९॥ तस्माद्यज्ञात्सर्वहुतः । संभृतपृषदा- ज्यम् । पशू स्तागंश्चक्रे वायव्यान् । आरण्यान् ग्राम्याश्चये ॥ १० ॥ पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणायेदं न मम । तस्माद्यज्ञा- सर्वहुतः । ऋचस्सामानिजज्ञिरे । छंदागसिजज्ञिरेतस्मात् । यजुस्तस्मा- दजायत । पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणायेदं न मम ॥ ११ ।। तस्मादश्वा अजायन्त । येकेचोभयादतः । गावोहजज्ञिरेत्तस्मात् । तस्माज्जाता अजावयः । पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणा- येदं न मम ॥ १२॥ यत्पुरुषं व्यदधुः । कतिधा व्यकल्पयन् । मुखं किमस्य को बाहू । कावूरूपादावुच्येते । पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणायेदं न मम ।। १३ ।। ब्राह्मणोऽस्यमुखमासीत्। बाहू राजन्यः कृतः। ऊरूतदस्य यद्वैश्यः । पञ्चायूँ शूद्रो अजायत । पुरुषाय नारायणाय . स्वाहा । पुरुषाय नारायणायेदं न मम ॥ १४ ॥ चन्द्रमा मनसो जातः । चक्षोस्सूर्यो अजायत । मुखादिन्द्रश्चामिश्च । प्राणाद्वायुरजायत । पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणायेदं न मम ॥ १५॥ नाभ्या आसदिन्तरिक्षम् । शीर्णो द्यौस्समवर्तत । पद्भ्यां भूमिर्दिशश्श्रोत्रात् । AGAMA VOL. III. 4 26 प्रतिष्ठाविधिः तथा लोकारों अकल्पयन् । पुरुषाय नारायणाय स्वाहा । पुरुषाय नारा- यणायेदं न मम ॥ १६ ॥ वेताहमेतं पुरुषं महान्तम्। आदित्यवर्ण तम- सस्तुपारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाभिवदन् यदास्ते । धातापुरस्तावमुदाजहार । शक्रः प्रविद्वान् प्रदिशश्चतस्रः । तमेवं विद्वानमृतइहभवति । नान्यः पन्था अयनाय विद्यते । पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणायेदं न मम ॥ १७॥ यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन् । तेहनाकं महिमा- नस्सचन्ते । यत्रपूर्वे साध्यास्सन्ति देवाः । पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणायेदं न मम ॥ १८॥ ततो मूलमन्त्रेण शताहुतीर्तुत्वा । सप्तते अमे समिघम्सप्तजिह्वास्सप्तर्षयम्सप्तधामप्रियाणि । सप्तहोत्रा- सप्तधात्वायजन्ति । सप्तयोनीरापृणस्वाघृतेन स्वाहा । अमये सप्तवत इदं न मम । इत्यनेन मंत्रेण पूर्णाहुतिं कुर्यात् ।। अथ अङ्कुरार्पण.. तत आचार्यः प्राङ्मुखः पुण्याहजलन सकलशाः पालिका प्रोक्ष्य पालिकामध्यकलशे ब्रह्माणमावाहयेत् । ओं भूः ब्रह्माण- मावाहयामि । ओं भुवः चतुर्मुखमावाहयामि । ओयूँ सुवः हिरण्यगर्भ- मावाहयामि । ओं भूर्भुवःसुवः प्रजापतिमावहयामि । एभिर्मन्त्रैः शोभनाक्षतैः कलशे ब्रह्माणमावाहयेत् ॥ ओं भूः इन्द्र मावाहयामि ओं भुवः वज्रिणभावाहयामि । आग सुवः शचीपतिमावाह्यामि । ओं भूर्भुवम्सुवः शतक्रतुमावाहयामि । एभि मन्त्रैः पूर्वपालिकायां इन्द्रमावाहयेत् ॥ ओं भूः अग्मिमावाहयामि । ओं भुवः वह्नि- मावाहयामि । ओयूँ सुवः पावकमावाहयामि । ओं भूर्भुवस्सुवः वीतिहोत्रमावाहयामि । एभिः मन्त्रैः वहिकोणस्थपलिकायां वह्नि 27 । अङ्कुरार्पणम् मावाहयेत् ।। ओं भू. यममावाहयामि । ओं भुवः वैवस्वतमावाहयामि । ओयूँ सुवः पितृपतिमावाहयामि । ओं भूर्भुवस्सुवः धर्मराजमावाहयामि । एभिमन्त्रैः दक्षिणपालिकायां यममावाहयेत् ॥ ओं भूः निति मावाहयामि । ओं भुवः यातुधान मावाहयामि । ओगँ सुवः नक्तंचर मावाहयामि । ओं भूर्भुवस्सुवः पुण्यजनमावाहयामि । एभि- मन्त्रै निऋतिपालिकायां निऋतिमावाहयेत् ॥ ओं भूः वरुण- मावाहयामि । ओं भुवः प्रचेतसमावाहयामि । आगँ सुवः सुरूपिण मावाहयामि । आ भूर्भुवस्सुवः अपांपतिमावाहयामि । एभिर्मन्त्रैः पश्चिमपालिकायां वरुणमावाहयेत् ॥ ओं भूः वायुमावाहयामि । ओं भुवः पवनमावाहयामि । ओयूँ सुवः मारुतमावाहयामि । ओं भूर्भुवम्सुव समीरण पावाहयामि । एभिः मन्त्रायव्यपालिकायां वायुमावाहयेत् ।। ओं भूः सोममावाहयामि । ओं भुवः इन्दु- मावाहयामि । ओगं सुवः निशाकरमावाहयामि । ओं भूर्भुवस्सुवः ओषधीपतिमावाहयामि । एभिमन्त्रैरुत्तरपालिकायां सोममावाहयेत् !! ओं भूः इशानमावाहयामि । ओं भुवः शूलिनमावाहयामि । ओगँ सुवः उमापतिमावाहयामि । ओं भूर्भुवस्सुवः पिनाकिनमावाहयामि । एभिर्मन्त्रैरीशानकोणम्थपालिकायां ईशानमावाहयेत् ॥ ब्रह्मणे नमः । इन्द्राय नमः । अमय नमः । यमाय नमः । निक्रतये नमः । वरुणाय नमः । वायवे नमः । सोमाय नमः । ईशानाय नमः । एभिमन्नेब्रह्मन्द्रामियमनिऋतिवरुणवायुसोमेशान् आसनार्यपाद्या- चमनस्नानवस्त्रोपवीत गन्ध पुष्प धूप दीप नैवेद्य ताम्बूल दक्षिणा- प्रदक्षिण नमस्कारैरचयत् । उत्थाय, दिशां पतीन् नमस्यामि सर्वकाम- प्रलप्रदान् । कुर्वन्तु सफलं कर्म कुर्वन्तु सततं शुभम् । इति 28 प्रतिष्ठाविधिः ब्रह्मादीनुपस्थाय आचार्य उपदिशेत् । या जाता ओषधयो देवेभ्य. स्त्रियुगं पुरा । मन्दामि वभ्रूणा महगं शतन्धामानि सप्तच । शतं वो अम्बधामानि सहस्रमुतवोरुहः । अथाशतक्रत्वो यूयमिमम्मे अगदं कृत । पुष्पावतीः प्रसूवतीः फलिनीरफला उत । अश्वा इव सजित्वरीवरुिषः पारयिष्णवः । ओषधीरिति मातरस्तद्वो देवीरुपब्रुवे । रपागंसि विनतीरितरपश्चातयमानाः । अश्वत्थेवो निषदनं पर्णेवो वसतिः कृता । गोमाज इकिलासथयत्सनवथपूरुषम् । यदहं वाजयन्निमा ओषधी हस्तहस्त आदधे । आत्मायक्ष्मस्य नश्यति पुरा जीवगृभोयथा । यदोषधयस्सङ्गच्छन्ते राजानस्समिताविव । विप्रस्सउच्यते भिषग्रक्षो हामीवचातनः निष्कृतिर्नामवो माता था यूयगॅस्थः संकृतीः । सराः पतात्रस्थिन यदामयति निष्कृत । अन्यावो ता स्सर्वा ओषधय संवि- दाना इदम्मे प्रावतावचः । उच्छुष्मा ओषधीनां गावो गोष्ठादि- वेरते । धनग सनिप्यन्तीनामात्मानं तव पूरुषत । अति विश्वाः परिष्ठास्तेन इव ब्रजमक्रमुः । ओषधयः प्राचुच्यवुर्यत्किञ्च तनुवाणू रपः । यास्त आतस्थुरात्मानं या आविविशुः परुःपरुः । तास्ते यक्ष्म विबाधन्ता मुनो मध्यमशीरिव । साकं यक्ष्म प्रपतश्येनेनकिकिदीविना । साकंवातस्य धाज्या साकं नश्य निहाकया। अश्वावतीगं सोमवती मूर्जयन्तीमुदोजसम् । आवित्सिसर्वा ओषधरिस्मा अरिष्टतातये । याः फलिनीर्या अफला अपुप्पायाश्च पुष्पिणीः । बृहस्पति प्रसूतास्तानो मुश्चन्त्वहसः । या ओषधयस्सोम राज्ञीः प्रविष्टाः पृथिवीमनु । तासां त्वमस्युत्तमा प्रणो जीवातवेसुव । अवपतन्तीवदान्दव ओषधयः परि ! यं जीवमश्नवामहैनसरिष्याति पूरुषः । याश्चेदमुपशृण्वन्तियाश्च अन्यामवत्वन्यान्यस्या उपावत ।
29 त्राता- अकुर,र्पणम् दूरं परागताः । इह संगत्यताम्सर्वा अम्मै सन्दत्तभेषजम् । मावोरिष- त्खनिता यस्मै चाहं खनामिवः । द्विपच्चतुष्पदस्माकसर्वमस्त्वनातुरम् । ओषधयम्संवदन्ते सोमेन सह राज्ञा । यस्मै करोति ब्राह्मणस्त राजन् पारयामसि ' इत्यनुवाकेन नवधान्यविशिष्टपात्र मनुमन्त्रयेत् ।। रमिन्द्रमवितारमिन्द्रगू हवे हवे सुहवयूँ शूरमिन्द्रम् । हुवेनु शर्क पुरुहूतमिन्द्रग्रॉ स्वस्तिनो मघवाधाविन्द्रः' इति मन्त्रेण पूर्वपालिकायां । बीजावापनं कुर्यात् ।। त्वन्नो अमे वरुणस्य विद्वान्दवस्य हेडोव- यासिसीष्ठाः । यजिष्ठो वह्नितमश्शोशुचानोविश्वाद्वेषासि प्रमुमुग्ध्यस्मत् । इति मन्त्रेण अमिकोणस्थ पालिकायां बीजावपानं कुर्यात् । सुगं नः पन्थामभयं कृणोतु । यस्मिन्नक्षत्रे यम एति राजा । यस्मिन्नेनमभ्य- षिश्चन्त देवाः । तदस्य चित्रगँ हविषा यजाम । इति मन्त्रण दक्षिणपालिकायां बीजावापनं कुर्यात् ॥ असुन्वन्तमयजमानमिच्छस्ते नस्येत्यांतम्करस्यान्वेषि । अन्यमस्मदिच्छसात इत्यानमो देवि निते तुभ्यमस्तु । इति मन्त्रेण निक्रतिपालिकायां बीजावापनं कुर्यात् ।। तत्वायामि ब्रह्मणावन्दमानस्तदाशास्ते यजमानोहविभिः । अहेडमानो वरुणेहबोध्युरुशग्समान आयुःप्रमोषीः । इति मन्त्रेण पश्चिमपालिकायां बीजावापनं कुर्यात् । अनोनियुद्भिश्शतिनीभिरध्वरग्सहस्रिणीभिरुप- याहियज्ञम् । वायो अस्मिन् हविषिमादयस्व यूयम्पातस्वस्तिभिस्सदानः । इति मव्रण वायुकोणस्थपालिकायां बीजावापनं कुर्यात् । वयगं सोमव्रत तव । मनम्तनूषुबिभ्रतः । प्रजावन्तो आशीमहि । इति मन्त्रेणोत्तरपालिकायां बीजावापनं कुर्यात् । ताशानं जगतस्तस्थु- पम्पतिधियंजिन्वमवसे हमहे वयम् । पूषानो यथा वेदसाम- सद्धेरक्षितापायुरदब्धस्वस्तये । इति मन्त्रेण ईशानपालिकायां 30 प्रतिष्ठाविधिः बीजापापनं कुर्यात् । शुद्धाभि म॒द्भिः प्रच्छाद्य पयसा च सिक्ता प्रणवेनाभिमन्त्रय सुरक्षितं कृत्वा प्रतिदिनं सायंप्रात संपूजये द्याव- कर्मावसानम् ॥ II दीपा श्चारोपिता-कृत्वा ब्राह्मणान् ताम्बूलादिभिरभ्यर्च्य गुरुं धनेन संतोषयेत् । (I यावत्कर्मादौ प्राधान्यमेतत्- अङ्कुरषु च हीनेषु शुक्लेषु च तथा शुभम् । विद्याच्छुभं प्ररूढेषु विपरीतेषु चा शुभम् ॥ ३० ॥ कर्मार्थ मथुराण्यादौ य म्समारोपये द्गुरुः । स एव कर्म कालर्येन कुर्यात्प्राज्ञोपि ने तरः ॥ ३२ ॥ अनुज्ञया वा तत्पुत्रश्शिष्यो वा तत्समाचरेत् । ऋत्विजो वापि तत्कर्म यद्य शक्तो गुरुर्भवेत् ३३ ॥) इत्य कुरापिणम् ॥ II अथाभ्युदयिकश्राद्धं प्रातःकाले कुर्यात्. तत्रोपवीती प्राङ्मुख उपविश्य नमितदक्षिणवामजानुः प्रागप्रैः ऋजुभिः युग्मैः तिलार्थे यवैः देवतीर्थेन प्रदक्षिणं सर्व कुर्यात् ।। तत्राऽयं प्रयोगः आचम्य पवित्रपाणिः प्राणानायम्योपवीती श्रीगोविंदगोविंद- गोविंद आद्यश्रीभगवतो महापुरुषम्य .श्रीविष्णोराज्ञया प्रवर्तमानस्य आद्यब्रह्मणः द्वितीयपरार्धे श्रीश्वेतवराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमपाद जम्बूद्वीपे भरतवर्षे भरतखण्डे मेरो दक्षिण पार्श्वे अस्मिन् वर्तमाने व्यावहारिके प्रभवादिषष्टिसंवत्सराणां मध्ये अमुकसंवत्सरे अमुकायने अमुक अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे तत्राऽयं प्रयोगः 31 अमुकनक्षत्रे श्रीभगवदाज्ञया भगवत्कैंकर्यरूपं भगवत्प्रीत्यर्थं भगवत्प्रति- ठोत्सवनिमित्तं वसुसत्यसंज्ञिकविश्वेदेवपूर्वकममुकगोत्राणां प्रपितामही पितामही मातॄणां प्रपितामहपितामह पितॄणां अमुकगोत्राणां वृद्धप्रमा- तामहप्रमातामहमातामहानां एभिरन्यै राभ्युदयिकश्राद्धमहं करिष्ये । नान्दीमुखानां पितॄणां मातामहानां कर्तव्यभगवत्प्रतिष्ठानिमित्ताभ्युदायके द्वे श्राद्धे वैश्वदविको भवन्तौ मयानिमन्त्रितौ इति द्वौ ब्राह्मणौ निमब्रयेत् ॥ अमुकगोत्राणां प्रपितामहीपितामहीमातॄणां नान्दीमुखीनां अद्य- कर्तव्यभगवत्प्रतिष्ठानिमित्ताभ्युदयिकश्राद्ध भवन्तौ मया निमन्त्रिता । इति पीताक्षतैः मात्र) द्वौ ब्राह्मणौ निमन्त्रयेत् । अमुकगोत्राणां प्रपिता- महपितामहपितॄणां नान्दीमुखानां अद्यकर्तव्यभगवप्रतिष्ठानिमित्ताभ्यु- दयिकश्राद्धे भवन्तौ इति पीताक्षतैः पित्र द्वौ ब्राह्मणौ निमन्त्रयेत् । अमुकगोत्राणां वृद्धप्रमातामहप्रमातामहमातामहानां नान्दीमुखाना मद्यकर्तव्यभगवत्प्रतिष्ठानिमित्ताभ्युदायकश्राद्धे भवन्तौ मया निमन्त्रिता विति पीताक्षतैः मातामहार्थ द्वौ ब्राह्मणौ निमन्त्रयेत् । नान्दीमुखानां मातॄणां नान्दीमुखानां पितॄणां मातामहानामद्यकर्तव्यभगवत्प्रतिष्ठा- निमित्ताभ्युदयिकश्राद्धे श्राद्धसंरक्षणार्थं विष्णुरूपेण भवान्निमन्त्रित इति पीताक्षर्विवर्थ मेकं ब्राह्मणं निमन्त्रयेत् । एवं नवब्राह्मणान् वृणुयात् । मधुवाताऋतायते मधुक्षरन्तिसिन्धवः । माध्वीनस्सन्त्वो- षधीः । मधुनक्तमुतोषसि मधुमत्पार्थिवजः । मधुचौरस्तुनः पिता । मधुमान्नोवनस्पतिमधुमागं अस्तु सूर्यः । माध्वीर्गावोभवन्तुनः । इति ऋक्रयं श्रावयेत् । ओं वसुसत्य सज्ञा विश्वेदेवा एतानि पाद्याचमन- गन्धपुप्पधूपदीप यज्ञोपवीतवासांसि वो नमः । इति पाद्यादीनि दद्यात् ।
32 प्रतिष्ठाविधिः ओं प्रपितामह पितामह पितरः एतानि पाद्यार्थ्याचमनगन्धपुष्पधूप यज्ञोपवीतवासांसि वो नम इति पाद्यादीनिदद्यात् । ओं श्राद्धसंरक्षक श्रीमहाविष्णो एतानि पायाचिमनगन्धपुष्पधूपदीपयज्ञोपवीतवासांसि ते नमः । इति पाद्यादीनि दद्यात् ।। अन्नादिपरिषेचनक्रमः. ततोऽन्नादिपरिषेचनं कृत्वा गायत्रया अन्नं प्रोक्ष्य-पृथिवीतेपात्रं चौरपिधानं ब्रह्मणस्त्वा मुखजुहोमि ब्राह्मणानांत्वा प्राणापानयोर्नुहोम्य. क्षितमसिमैषां क्षेष्ठा अमुत्रामुष्मिन् लोके । इति मन्त्रेण पात्रं स्पृष्ट्वा । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढमस्य पासुरे । इति मन्त्रेण ब्राह्मणदक्षिणाङ्गुष्ठमन्ने निवेश्य भगवत्प्रतिष्ठाभ्युदयिकश्राद्धसंबन्धिवसु- सत्यसज्ञिका विश्वेदेवा इदमन्नं सोपकरणं वो नम इति विश्वेदेवपात्र- समीपे पीताक्षतोदकं देवतीर्थेनोत्सृजेत् । गायत्रया अन्नं प्रोक्ष्य । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोर्जुहोम्यक्षितमसि मैषां क्षेष्ठा अमुत्रामुष्मिन् लोके । इति मन्त्रेण पात्रं स्पृष्ट्वा । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य- पासुरे । इति मन्त्रेण ब्राह्मणदक्षिणाङ्गुष्ठमन्ने निवेश्य । प्रपितामही पितामही मातरः नान्दीभुख्यः इदभन्नं सोपकरणं वो नम इति मातृ- पात्रसमीपे पीताक्षतोदकं देवतीर्थन दद्यात् । गायत्रया अन्नं प्रोक्ष्य पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोर्नुहोम्यक्षितमसि मैषां (मामे) क्षेष्ठा अमुत्रामुष्मिन् लोके इति मन्त्रेण पात्रं स्पृष्ट्वा इदं विष्णुर्विचक्रमे त्रेघा निदधे पदम् । समूढ- मम्यपासुरे । इति मन्त्रेण ब्राह्मणदक्षिणाङ्गुष्ठमन्ने निवेश्य प्रपितामह- पितामहपितरः नान्दीमुखा इदमन्नं सोपकरणं वो नम इति पीताक्षतो.
अन्नादिपरिषेचनक्रमः 38 दकं पितृसमीपे देवतीर्थेनोत्सृजेत् || गायत्रयाऽन्नं प्रोक्ष्य । पृथिवी ते पात्रं द्यौरपिघानं ब्रह्मणस्त्वा मुख जुहोमि ब्राह्मणानां त्वा प्राणापानयो- र्नुहोम्यक्षितमसि मैषां क्षेष्ठा अमुत्रामुष्मिन् लोके । इति मन्त्रेण पात्रं म्पृष्ट्वा । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्यपाणूसुरे । इति मन्त्रेण ब्राह्मणदक्षिणाङ्गुष्ठमन्ने निवेश्य वृद्धप्रमातामहप्रमातामह- मातामहा नान्दीमुखा इदमन्नं सोपकरणं वो नमः । इति पीताक्षतोदक देवतीर्थन मातामहपात्रसमीपे दद्यात् । गायत्र्याऽन्नं प्रोक्ष्य । पृथिवी ते पात्रं द्यौरपिघानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयो- र्नुहोम्यक्षितमास मैषां क्षेष्ठां अमुत्रामुप्मिन् लोके इति मन्त्रेण पात्रं म्पृष्ट्वा । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्यपागं सुरे। अनेन ब्राह्मणदाक्षिणाङ्गुष्ठमन्ने निवेश्य । श्राद्धसंरक्षकश्रीमहाविष्णो इदमन्नं सोपकरणं ते नम इति पीताक्षतोदकं विष्णुसमीपे देवतीर्थे- नोत्सृजेत् । ओं भूर्भुवम्सुवः । सत्यन्त्वतेनपरिषिञ्चामीति--- मन्त्रेण परिषचनं कारयित्वा । भगवच्चरणारविन्दतीर्थं ब्राह्मणहस्ते दत्वा ततो यजमानः दूवापीताक्षतादकं हस्ते गृहीत्वा । यज्ञेश्वरो हव्यकव्यसमस्त- भोक्ता अव्ययात्मा हरिरीश्वरोऽत्र । तत्सन्निधानादपयान्ति सद्यो रक्षांसि भीता ह्यसुराश्चसर्वे । त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च यज्वनः । हव्यकव्यभुगम्माकं स नो विष्णुः प्रसीदतु । एको विष्णुमहद्भूतं पृथग्भूतान्यनेकशः । त्रीन्लोकान्व्याप्य भूतात्मा भुते विश्वभुगव्ययः । अनेन श्रीवैष्णवाराधनरूपेणाभ्युदयिकश्राद्धेन वसुसत्यसंज्ञिकविश्वेदेवरूपी नान्दीमुख-वृद्धप्रमातामहप्रमातामहमातामह-स्वरूपी, नान्दीमुख प्रपि- तामहपितामहपितृम्वरूपी, प्रत्यक्ष श्रीमहाविष्णुरूपी सर्वरूपी भगवान् सदेवः श्रीजर्नादनः प्रीयतामित्युच्चारयन् प्राङ्मुखोनामितदक्षिणजानु AGAMA VOL. III. 5 प्रतिष्टाविधिः रुपवीति दूर्वापीताक्षतोदकं सर्वं देवतीर्थेन भूमावुत्सृजेत् । अमृतोप- म्तरणमसीत्यनेन पूर्वापोशनं कारयेत् । ओप्राणायस्वाहा । ओअपा- नाय स्वाहा । ओं व्यानाय स्वाहा । ओं उदानाय स्वाहा । ओं समानाय म्याहा । इति पञ्च प्राणाहुतीः कारयित्वा ततो हम्तोदक दद्यात् । अश्नत्सु तेषु यथाशक्ति मूलमन्त्रमन्त्ररत्नादीन् जपेत् । तत- म्तृप्तान ज्ञात्वासकृत्सकृदपो दत्वा गायत्रीं, मधु वाता ऋताय ते मधु क्षरन्ति सिन्धवः । माध्वीनस्संत्वौषधीः । मधु नक्त मुतोषसि मधुमत्पार्थि- वगं रजः । मधु द्यौरस्तुनः पिता । मधुमान्नो वनस्पति मधुमागं अस्तु सूर्यः । मार्गािवो भवन्तु नः । ओं मधु मधु मधु इति जपेत् । ततम्सम्पन्नमित्युक्तं अमृतापिधानमसीत्यनेन उत्तरापोशनं कारयेत् । विश्वेदेवाः प्रियन्तामित्युक्ता विश्वेदेवसमीपे क्षीरयवोदकं दद्यात् । नान्दीमुखाः पितरः प्रियन्तामित्युक्ता क्षीरयवोदकं देवतीर्थेन पितृ- समीपे दद्यात् । नान्दीमुखामातामहाः प्रियन्तामित्युक्ता क्षीरयवोदकं दवतीर्थेन मातामहसमीपे दद्यात् । विष्णुः प्रियता मित्युक्ता क्षीरय- वादकं विष्णुसमीप दद्यात् । ततो विप्रानुत्थाप्य मुखहम्तशोधनगण्डूष- पादप्रक्षाळनाचमनानि कारयेत् । उपविष्टेषु तेषु ताम्बूलपूगीफलएला- लवंगजातीफलद्राक्षामलकहिरण्ययवान् दक्षिणां दत्वा, ततो दातारो नोभिवर्धन्तां वेदाम्सन्ततिरेव नः श्रद्धा च नो माव्यपगाद्बहुदेयञ्च नोऽस्तु । अन्नञ्चनो बहु भवेदतिर्थीग्श्च लभेमहि । याचितारश्च नम्सन्तु माचयाचिम कञ्चन । इति यजमान आशीः प्रार्थनं कुर्यात् । ततो विप्राः दातारा वोभिवर्धन्तां वेदाम्सन्तति रेववः । श्रद्धा च वो माव्यवगा द्वहुदेय ञ्च बोम्तु । अन्नं च वो बहु भवेदतिथीगंश्च लभध्वम् । याचितार श्च वं म्सन्तु मा च याचध्वं कञ्चन । इति ते ब्रूयुः । वाजे प्रासादगम नवास्तुपूजादिक्रमः 35 - वाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः । इत्युच्चार्य प्रणम्य विप्रान् विसर्जयेत् । तत आचम्य प्रमादात्कुर्वतां कम प्रच्यवेताध्वरेषु यत् । म्मरणादव तद्विष्णाम्संपूर्ण स्यादिति श्रुतिः ।। इति पठित्वा उत्तरकर्म कुर्यात् ।। तत आचार्यः ऋत्विग्यजमानपुरम्सरं मङ्गळतूर्यवेदोषेण जल- पुणकलशब्राह्मणकन्याश्च अग्र कृत्वा प्रासादं गच्छेत् ॥ प्रासादगम वास्तुपूजादिक्रमः प्रासादद्वारदश विप्वक्सनं सकलविबुधौढसनाधिनाथं ध्यायेत- मुद्राचक्र करयुगधरं शङ्खदण्डौ दधानं सर्वेषां पार्षदानां प्रवलतरबलं यः प्रगण्यो महात्मा । यस्याज्ञां नागवक्रप्रमुखगणगणा धारययुम्समम्ता ध्याय देवं दलित दनुजं सूत्रवत्या समेतम् ॥ यम्य द्विरदवत्राद्याः पारिषद्याः परश्शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं समाश्रये ।। इति विष्वक्सनं ध्यात्वा प्रणमेत् । प्रासादं प्रविश्य प्रासादम्य दक्षिण- पावकाण वास्तुदेवं तण्डुलोपरि अधोमुखं पुरुषाकृतिमुल्लिख्य तदुपरि तदुपरि धर्मसप्तकनिर्मितं कूर्च निक्षिप्य तत्र ओं वं वास्तुपुरुषाय नमः आगच्छागच्छत्यावाह्य ; वास्तुनाथं गन्धादिभिरभ्यर्च्य वास्तुनाथस्य शिरसि ओं अंशुमालिन नम इति अंशुमालिनमावाह्य गन्धपुष्पधूपदीप- नैवेद्यैरर्चयेत् । बाहुमूल (झष) ध्वजाय नम इति भूषण ध्वजमावाह्य 36 प्रतिष्ठाविधिः । गन्धपुप्पधूपदीपनैवेद्यैरर्चयेत् । कूपरे कुमाराय नमः इति कुमारमावाह्य गन्धपुष्पधूपदीपनैवेद्यैरर्चयत् । हस्ते विनायकाय नम इति विनायक- मावाह्य गन्धपुप्पधूपदीपनैवेद्यैरर्चयेत् । पादयुगळे अश्विनीदेवताभ्यां नमः इत्यश्विनीदेवावावाह्य गन्धपुष्पधूपदीपनैवद्यैरर्चयेत् । मध्ये चन्द्राय नम इति चन्द्रमावाह्य गन्धपुष्पधूपदीपनैवेद्यैरर्चयेत् । पार्श्वयोर्दुर्गायै नम इति दुर्गामावाह्य गन्धपुष्पधूपदीपनैवेद्यैरर्चयेत् । कूपरे अष्ट- मातृभ्यो नम इत्यष्टमातृरावाह्य गन्धपुष्पधूपदीपनैवेद्यैरचयेत् । बाहुमूले स्थाणवे नम इति स्थाणुमावाह्य गन्धपुष्पधूपदीपनैवेद्यैरर्चयेत् । हृदये विष्णवे नम इति भगवन्तमावाह्य गन्धपुष्पधूदीपनैवेद्यैरर्चयेत् । नाभि- देशे ब्रह्मणे नम इति ब्रह्माणमावाह्य गन्धपुष्पधूपदीपनैवेद्यैरर्चयेत् । पूर्वे तत्परितश्चाष्टसु दिक्षु क्रमेण ओं लं इन्द्राय नम इति इन्द्रमावाह्य गन्ध- पुष्पधूपदीपनैवद्यैरचयेत् । अग्निकोणे ओं रं अग्नये नम इत्यामिमावाह्य गन्धपुष्पधूपदीपनैवेद्यैरर्चयेत् । दक्षिणे ओं हं यमाय नम इति यम- मावाह्य गन्धपुप्पधूपदीपनैवेधैरर्चयेत् । नैऋत्यां ओं पं निर्ऋतये नम इति निर्ऋतिमावाह्य गन्धपुष्पधूपदीपनैवेद्यैरर्चयेत् । पश्चिमे ओं वं वरुणाय नम इति वरुणमावाह्य गन्धपुष्पधूपदीपनैवेद्यैरर्चयेत् । वायव्ये ओं यं वायवे नम इति वायुमावाह्य गन्धपुष्पादिभिरर्चयेत् । उत्तरे ओं सं सोमाय नम इति सोममावाह्य गन्धादिभिरभ्यर्चयेत् । ईशानकोणे ओं शं शङ्कराय नम इतीशानमावाह्य गन्धादिभिरभ्यर्चयेत् । वास्तु- नाथम्योत्तरपाश्व ओं क्षं क्षेत्रपालाय नम इति क्षेत्रपालमावाह्य गन्धा- दिभिरभ्यर्चयेत् ॥ अथाग्निसन्धानक्रमः ततो वास्तुनाथस्य पश्चिमदिग्भागे इष्टकार्मा कूर्मपृष्ठसमोन्नतं अथाग्निसन्धानक्रमः 37 गोमयनोपलिप्तं हम्तमात्रं चतुरनं कुर्यात् । तत्र तण्डुलान् प्रकीर्य पश्चि- मत आरभ्य उत्तरपर्यन्तं तिस्रस्तिस्रो रेखाः सुवेण दर्भमूलेन वा लिखित्वा तत्र दर्भ न्यम्य अद्भिरभ्युक्ष्य तृणं स्थण्डिले निक्षिप्य पात्र- द्वयेनाग्निमादाय ओं भूर्भुवस्सुवरोमित्यनिं प्रतिष्ठाप्य अग्नयानयन पात्रयारुदक निनयंत् ।। तथा च-- अग्नयानयनपात्र च आर्दीकृत्वा समूहयेत् । अकृत नष्टहोमम्म्यादायुम्तत्र न पूर्यत ।। इति । अधा क्षणतोयशेषमुत्सिच्य अग्नरुत्तरतः पूर्ववत्तोयमुपदध्यात् । याज्ञिकैरिन्धनः प्रज्वाल्य-- चत्वारि যুক্লা त्रयोऽस्य पादा द्वे शीर्षे सप्त हस्तासोऽम्य । त्रिधा बद्धा वृषभो रोरवीति महो देवो मागं आविवेश ।। इति मन्त्रेण जलाक्षताननेः पश्चिमतः प्रतिष्ठाप्य- एष हि देवः प्रदिशोनु सर्वाः पूर्वो हि जातस्सउगर्भे अन्तः । सविजायमानम्सजनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति विश्वतोमुखः ।। हे अग्ने प्राङ्मुखो देव ममाभिमुखो भव । इत्यग्निं प्रार्थ्य । अग्निमलंकृत्य ओं अग्नये नमः । ओं जातवदसे नमः । ओं सहाजसे नमः । ओं ओं अजिराप्रभवे नमः | ओं वैश्वानराय नमः । ओं नर्यापसे नमः । ओं पङ्गिराधस नमः । ओं विसर्पिणे नमः । ओं श्रीयज्ञपुरुषाय नमः । इत्यादिमन्त्रः प्रागाद्यष्टसु दिक्षु अक्षतान्निक्षिप्य । ओं आत्मने नम इति म्वमूर्ध्नि । ओं सर्वेभ्यश्श्रीवैष्णवेभ्यो नम इति श्रीवैष्णवोपरि अक्षतान् निक्षिपत् । अदितनुमन्यम्वति दक्षिणतः प्राचीनम् । ओं अनुमतेनु- मन्यस्वति दक्षिणत उदीचीनम् । ओं सरस्वतेनुमन्यस्वेत्युत्तरतः 38 प्रतिष्ठावधिः प्राचीनम् । ओं देवसवितः प्रसुवेति समन्ततोऽग्निं परिषिच्य । परि- चनक्रमण प्रागुदगग्रैर्दभैरग्निं परिस्तीर्य । अनेरुत्तरतः प्रागग्रान्दर्भा- संम्तीर्य । दाज्यस्थाल्यौ प्रोक्षणी पूर्णपात्रे इध्मस्रुवौ च दर्भपतिद्वये निक्षिप्य अधोमुखानि समौ सानौ द्वौ दर्भो प्रादेशमात्रौ पवित्रीकृत्य अद्भिरनुमृज्य प्रोक्षणीपात्रे निधाय पवित्रान्तर्हिते प्रोक्षणीपात्रे अक्षतसहिता अप आनीय अग्नः प्रदक्षिणतो निनीय मुखसममुद्धृत्य स्वस्य पुरतः स्थाप्य हस्तयोरङ्गुष्ठकनिष्ठिकाभ्यामुदगग्रे पवित्रे गृहीत्वा प्राक् त्रिरुत्पूय पात्राण्युत्तानानि कृत्वा सपवित्रेण हस्तेन त्रिः प्रोक्ष्य इध्मञ्च विस्रस्य त्रिः प्रोक्ष्य ते पवित्रे पूर्णपात्र निधाय हस्तयोरङ्गुष्ठकनिष्ठिकाभ्यामुदगग्रे पवित्रे गृहीत्वा प्राक् निरुत्पूय अग्नेः प्रदक्षिणतो निनीय मुखसममुद्धृत्य अग्रे- रुत्तरतो दर्भानास्तीय तेषु निक्षिप्य दभैराच्छादयेत् । दक्षिणतस्त्रिभिदर्भ- ब्रह्मासनमाम्तीय ब्रह्मणे नम इति मन्त्रेणासनार्यपाद्याचमनस्नानवस्त्रो- पतिगन्धपुष्पधूपदीपनैवेद्यताम्बूलदक्षिणाभिब्रह्माणमभ्यर्चयेत् । ते पवित्रे आज्यपात्रे निधाय अग्नेः पश्चिमतः पवित्रान्तर्हितायामाज्यस्थाल्या- माज्यन्निरूप्य उदीच्यामङ्गारषु निधाय प्रज्वलितैदर्भाग्रेस्संदीप्य द्वे दान प्रच्छिद्य प्रक्षाळ्य आज्यपात्रे प्रत्यस्य ज्वलता दर्भेण विरग्निं प्रदक्षिणीकृत्य तं दर्भ नैर्ऋत्यां निक्षिपेत् । आज्यमवताय अङ्गारान्वी निक्षिपेत् । सपवित्रण हम्तेन अग्नेः प्रदक्षिणतः आज्यमानीय स्वम्य पुरतम्स्थाप्य हस्तयोरङ्गुष्ठकनिष्ठिकाभ्यामुदगग्रे गृहीत्वा आज्यं पश्चा- त्रिरुत्पूय पवित्रग्रन्थि विस्रस्य पवित्रमद्भिरभ्युक्ष्य प्रागन पवित्रे अग्नौ प्रतितप्य दर्भाग्रेम्सुवाग्रं दर्भमूलैम्सवमूलं दर्भमध्यस्वमध्यं सर्वतस्स्रुवत- म्सुवाबलं सम्मार्टि । पुनः प्रतितप्य प्रोक्ष्य उत्तरता निधाय दानद्भि- म्सग्गंम्पृश्यामौ प्रहरति । परिम्तरणोपरि अन्योन्यसंस्पृष्टान्परिधीन्परि- अथाग्निसन्धानक्रमः 39) दधाति म्थविष्ठमुत्तराग्रं परिधिममेः पश्चिमतो निक्षिप्य अग्नेदक्षिणतोऽ- णीयांसं परिधि पूर्वाग्रं निक्षिप्य उत्तरायमग्नेः पश्चिमतो निहितं मध्यम परिधिमुपम्पृश्याग्नेः पुरस्तादक्षिणतोत्तरक्रमेण प्रागग्रे इतर द्वे आधार- समिधावादधति । तथा आधारसमिधावनौ सर्वकर्मसु निक्षिपेत् । आदधातीतिम्थानध्याननिश्चित्योक्तं करोति । नो सव्येन पात्रं स्पृशन् । दक्षिणेन हम्तेन परिध्यन्तः परिम्तरणोपरि अदितेन्वमम्गंस्था इति दक्षिणतः प्राचीनं । अनुमतेन्वमग्गस्था इति दक्षिणत उदीचीनं । सरस्वतन्वमग्गंस्था इत्युत्तरतः प्राचीनम् । देविसवितःप्रसुवेति समंततः प्रागारभ्य प्रदक्षिणं परिषिच्य इध्ममाज्येनाभ्यज्य अस्मिन्भगवत्प्रति- ष्ठाङ्गवास्तुहोमकर्मणि ब्रह्मन् इध्ममाधाम्य इति ब्रह्माणं प्रतिब्रूयात् । ओम् आधत्स्वेति प्रतिवचनम् । प्रजापतिं मनसा ध्यायन् तूष्णीं घृताक्ताः पञ्चदशसमिधो बहौ निक्षिपेत् । दऱ्या आज्यमादाय । अग्नये स्वाहा । अग्नय इदन्नमम । इत्यग्नेर्दक्षिणभागे जुहुयात् । मोमायम्वाहा सोमायेदन्नमम इत्यमेरुत्तरभागे जुहुयात् । इन्द्रायस्वाहा इन्द्रायेदं न मम प्रजापतयेम्बाहा प्रजापतय इदं न मम इत्यमिमध्ये जुहुयात- द्विशीर्षकं सप्तहस्तं त्रिपादं सप्तजिह्वकम् । वरदं शक्तिपाणिं च बिभ्राणं सुनुवौ तथा । इत्यग्निं ध्यात्वा । ओम् षान्नमः पराय परमेष्ठ्यात्मने नमस्स्वाहा । परमेष्ट्यात्मन इदन्न मम । ओं, यान्नमःपराय पुरुषात्मने नम म्स्वाहा । पुरुषात्मन इदन्न मम । ओं, रानमः पराय विश्वात्मने नम स्वाहा । विश्वात्मन इदन्न मम । ओं, वा नमः पराय निवृत्त्यात्मने नम म्म्वाहा। निवृत्त्यात्मन इदन्न मम । ओं. लान्नमः पराय सर्वात्मने नमम्स्वाहा । , 10 प्रतिष्ठाविधिः .. सर्वात्मन इदन्न मम । इति पञ्चाहुतीनाम्मिळिताना मेकाहुतिः । एव- म्भूता अष्टोत्तरशताहुतीस्सर्पिषा जुहुयात् । ससर्पिषा पायसान्नेन पुरुष- सूक्तेन षोडशाहुतीर्जुहुयात् । सहस्रशीर्षापुरुष इत्यादिना सर्पिषा चरुणा पुरुषसूक्तेन षोडशाहुतीर्तुत्वा वास्तुदेवाङ्गावाहितदेवतानामभिश्चरुणा होमं कुर्यात् । ओं. अंशुमालिने स्वाहा । अंशुमालिन इदन्न मम । ओं, ऋषध्वजाय स्वाहा ऋषध्वजायेदन्न मम । ओं विनायकाय स्वाहा विनायकायेदं न मम । ओं अश्विनीदेवाभ्यां स्वाहा अश्विनी- देवाभ्यामिदं न मम । ओं चन्द्राय स्वाहा । चन्द्रायेदं न मम । ओं दुर्गायै स्वाहा दुर्गाया इदं न मम । ओं अष्टमातृभ्यस्स्वाहा अष्टमातृभ्य इदं न मम । ओं, स्थाणवे स्वाहा । स्थणव इदं न मम । ओं भगवते स्वाहा भगवत इदं न मम | ओं ब्रह्मणे स्वाहा ब्रह्मण इदन्न मम । ओं इन्द्राय स्वाहा इन्द्रायेदन्न मम | ओं अग्नये स्वाहा अमय इदन्न मम । ओं यमाय म्वाहा । यमायेदन्न मम | ओं, निर्ऋ- तये स्वाहा । निरऋतय इदन्न मम । ओं, वरुणाय स्वाहा । वरुणायेद न मम । ओं वायवे स्वाहा । वायव इदन्न मम । ओं सोमाय स्वाहा । सोमायेदन्न मम । ओं ईशानाय स्वाहा । ईशानायेदन्न मम । ओं क्षेत्रपालाय स्वाहा । क्षेत्रपालायेदन्न मम । ओं अंशुमालिने नम इत्यंशु- मालिने बलिं दद्यात् । ओं ऋषध्वजाय नम इति ऋषध्वजाय बलिं दद्यात् । ओं कुमाराय नम इति कुमाराय बलिं दद्यात्। ओं विनायकाय नम इति विनायकाय बलिं दद्यात् । ओं अश्विनीदेवाभ्यां नम इत्यश्विनी- देवाभ्यां बलिं दद्यात् । ओं चंद्राय नम इति चंद्राय बलिं दद्यात् । ओं दुर्गायै नम इति दुर्गायै बलिं दद्यात् । ओं अष्टमातृभ्यो नम इत्यष्टमातृभ्यो बलिं दद्यात् । ओं स्थाणवे नम इति स्थाणवे बलिं ।
अग्निसन्धानक्रमः 41 दद्यात् । ओं भगवते नम इति भगवते बलिं दद्यात् । ओं ब्रह्मणे नम इति ब्रह्मणे बलिं दद्यात् । इन्द्राय नम इतीन्द्राय बलिं दद्यात् । अमये नम इत्यमये बलिं दद्यात् । ओं यमाय नम इति यमाय बलिं दद्यात् । नितये नम इति निर्ऋतये बलिं दद्यात् । ओं वरुणाय नम इति वरुणाय बलिं दद्यात् । ओं वायवे नम इति वायवे बलिं दद्यात् । ओं सोमाय नम इति सोमाय बलिं दद्यात् । ओं ईशानाय नम इतीशानाय बलिं दद्यात् । ओं, क्षत्रपालाय नम इति क्षेत्रपालाय बलिं दद्यात् ।। ओं सप्तते अग्ने समिध सप्तजिहा स्सप्तर्षयस्सप्तधाम प्रियाणि । सप्तहोत्रा सप्तधात्वा यजन्ति सप्तयोनीरापृणस्वा घृतेन स्वाहा । अमये सप्तवत इदं न मम । इत्यनेन पूर्णाहुतिं कुर्यात् । अनन्तरं सर्वतो मन्दिरं मार्जयित्वा गोमयेनोपलिप्य शुद्धजलेन क्षाळयेत् । पुण्याहजलैः प्रोक्ष्य विचित्रतोरणैर्विचित्रपताकैरावल्यादिभिरलंकृत्य, अखण्डदीपान् संवधीयत्वा, ओं नमः अस्त्रायफट इत्यनेन मन्त्रेण अक्षतसिद्धार्था- नष्टदिक्षु विकिरेत् ॥ नास्तिकान् भिन्नमर्यादान् देवब्राह्मणानन्दकान् । पापरांगयुतान् मान् निन्दितान्पिशुनांस्तथा ।। पाषण्डिनो हीनवृत्तीनतिलोमान्समत्सरान् । लुब्धान्मूर्खानविदुषो बहिर्निसियेत्ततः ।। ओं रक्षोहणो वलगहनो वैष्णवान्खनामीदमहं तं वलगमुद्वपामि यन्नस्स- मानो यमसमानो निचखानेदमेनमधरं करोमि योनस्समानो योऽसमानोs- रातीयति गायत्रेण छन्दसाऽवबाढो वलगः किमत्र भद्रं तन्नौ सह विराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वा AGAMA VOL. III. 6 42 प्रतिष्ठाविधिः राडसि विश्वासां नाष्ट्राणागं हन्ता' इत्यनेन मन्त्रेण रक्तपीततन्तुभिः प्रासादं सर्वतो वेष्टयेत् ॥ गोदानम् ततो हस्तपादौ प्रक्षाळ्याचम्य यजमानहस्तेन गोत्रोऽमुकशर्माहं कृतैतद्भगवत्प्रतिष्ठानिमित्तकवास्तुहोमसाङ्गतासिद्धयर्थं सुवर्णशृङ्गी रौप्य- छुरां ताम्रपृष्ठी प्रवालोष्ठी मुक्तापुच्छी सवत्सां कांस्यदोहनां इमां गां अमुकशर्मणे ब्राह्मणाय तुभ्यं दातुमुत्सृजे । इति ब्राह्मणहस्ते जलाक्षत- सहितहिरण्यं दद्यात् । ततो विप्रं परिक्रम्य प्रणमेत् । ततो ब्राह्मणेभ्यो भूयसी दक्षिणां दत्वा- प्रभादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्ण स्यादिति श्रुतिः ।। इति पठेत् ॥ पुनः प्रदोषसमये प्रतिसरादिहोमक्रमः. तत आचार्यः यजमानो ऋत्विजश्च सर्वे कृतस्नानाः धृतोर्ध्वपुण्ड्राः नवाम्बरधारिणः कृतसन्ध्यावन्दनाः प्रदोषान्ते प्रतिसरमारभेयुः । शुचौ दशेगोमयेन गाचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा तदुपरि तण्डुलान्विकीर्य दर्भेण पश्चिमत आरभ्य प्रापर्यन्तं दक्षिणत अरभ्योत्तरपर्यन्तं तिस्र- स्तिस्रो रेखा लिखित्वा अद्भिरभ्युक्ष्य स्थण्डिलम्य मध्ये प्रागग्रान् दर्भा- संस्तीर्य तेषूपरि कुम्भं निधाय तस्मिन् सुगन्धिजलं भूर्भुवस्सुवरिति पूरयित्वा वज्रवैडूर्यपुष्यरागमौक्तिकनीलमणीन् पञ्चरत्नानि निक्षिप्य तुलसीदळं पूगीफलञ्च निक्षिपेत् । कुम्भस्य मुखे एकविंशतिदर्भनिर्मित- कूर्चन्निधाय श्रीफलं निक्षिप्य नववाससा आच्छादयेत् । तस्मिन् कुम्भे जपक्रमः 43 वरुणमावाह्य वरुणाय नम इति गन्धपुष्पधूपदीप नैवेद्यैः पूजयेत् । कुम्भस्योत्तरतो नवगुणितं गन्धानुलिप्तं कार्पाससूत्रं हरिद्राचूर्णभस्म- गोघृतानुलिप्तं कृत्वा निघाय श्रीभगवदाज्ञया भगवत्प्रीत्यर्थ भगवत्प्रति- ष्ठाजप्रतिसरबन्धकर्म करिष्ये इति सङ्कल्प्य चतुर्दिक्षु चतुरो ब्राह्मणान् जपाथ योजयेत् । अस्मिन् प्रतिसरबन्धकर्मणि पूर्वस्यां दिशि जप- कर्तारं त्वां वृणीमहे । अस्मिन् प्रतिसरबन्धकर्मणि दक्षिणस्यां दिशि जपकतारं त्वां वृणीमहे । अस्मिन् प्रतिसरबन्धकर्मणि पश्चिमस्यां दिशि जपकतार त्वां वृणीमहे । अस्मिन् प्रतिसरबन्धकर्मणि उत्तरस्यां दिशि जपकर्तारं त्वां वृणीमहे ।। अथ जपक्रमः. गायत्री, सावित्री, दधिक्रावण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभिनो मुखाकरत् । प्रण आयूरॉषि तारिषत् । आपो हिष्ठामयो भुवः । ता न ऊर्जे दधातन । महेरणाय चक्षसे । यो व- रिशवतमो रसः । तस्य भाजयतेह नः । उशतीरिव मातरः ।. तस्मा अरङ्गमामवो यम्य क्षयाय जिन्वथ । आपो जनयथा च नः । हिरण्य- वर्णाश्शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः । अमिं या गर्भ दधिरे विरूपास्ता न आपश्शग्गॅस्योना भवन्तु । यासागँ राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् ॥ मधुश्चुतश्शुचयो याः पावकाम्तान आपश्शग्ग्स्योना भवन्तु । शिवेन मा चक्षुषापश्यताप- श्शिवया तनुवोपस्पृशत त्वचम्मे । सर्वांग अमाप्सुषदो हुवेवो मयि व! बलमोजो निधत्त । ओं विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि- विमममे रजागसि यो अस्कभायदुत्तर सधस्तं विचक्रमाणस्नेधो रुगायो विष्णोरराटमसि विष्णोः पृष्ठमसि विष्णोश्न्यतेस्थो विष्णोस्यूरसि .
44 प्रतिष्ठाविधिः विष्णोर्बुवमसि वैष्णवमसि विष्णवे त्वा ॥ कृणुष्वपाजः प्रसितिं न पृथ्वी याहि राजेवामवाण इभेन । तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्यरक्षसस्तपिष्ठैः ॥ तव भ्रमास आशु या पतन्त्यनुस्पृशहषता शोशुचानः तपूर्णोष्यमे जुह्वा पतंगा न संदितो विसृज विष्वगुल्काः । प्रतिस्पशो विसृज तूर्णितमो भवापायुर्विशो अस्या अदब्धः । यो नो दूरे अघशगँसो यो अन्त्यमे माकिष्टे व्यघिरादधर्षीत् ।। उदग्ने तिष्ठ प्रत्यातनुष्व न्यसित्राएँ ओषतात्तिग्महेते । यो नो अरातिग् समिधान चक्रे नीचा तंधध्यत सन्नशुष्कम् ॥ ऊझैभवप्रतिविध्याध्यस्ददावि- प्कृणुष्य दैव्यान्यमे । अवस्थिरा तनुहि यातुजूनां जामिमजामि प्रम- णीहि शत्रन् ॥ स ते जानाति सुमतिं यविष्ठय ईवते ब्रह्मणे गातुमैरत् ॥ विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यों विदुरो अभिद्यौत् ॥ सेदने अस्तु सुभगस्सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः ॥ पिप्रीषतिस्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः । अर्चामिते सुमति घोप्यक्सिंदेवा वाताजरतामियं गीः ।। (अत्र विंशवाक्यलोपः) मदे चिदस्य प्ररुजन्ति भामा न वरन्ते परि- बाघो अदेवीः ॥ इत्यन्तम् । (ऋग्वेदे ८ अध्याय ६ वर्ग १६ ऋ. ३-४-५) (चतुश्शिखण्डा युवतिस्सुपेशाः। घृतप्रतीका वयुनानिवस्त) चतुष्कपर्दा युवतिस्सुपेशा घृतप्रतीका वयुनानिवस्ते । तस्यां सुपर्णा वृषणानिषेदतुर्यत्र देवा दधिरे भागधेयम् ॥ एकस्सुपर्णः स समुद्र- माविवेश स इदं विश्वं भुवनं विचष्टे ॥ तं पाकन मनसापश्यमन्ति तस्तं मातारेहिहु स उ रेहि मातरम् । सुपर्ण विप्राः कवयो वचोभिरेकं सन्तं प्रहुधा कल्पयन्ति ॥ छन्दांसि च दधतो अध्वरेषु ग्रहान्त्सोमस्य मिमते द्वादश ॥ यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवन् .
लक्ष्मीसूक्तम् 45 छन्धि तव तन्न ऊतये विद्विषो विमृषो जहि । स्वस्तिदा विशस्पति- वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नस्स्वास्तिदा अभयङ्करः । महाग् इन्द्रो वज्रबाहुषोडशी शर्म यच्छतु । स्वस्तिनो मघवा करोतु हन्तु पाप्मानं योस्मान्द्वेष्टि ॥ लक्ष्मीसूक्तम्. हरिः ओम् । हिरण्यवर्णागं हरिणीं सुवर्णरजतस्रजाम् । चन्द्रा हिरण्मयीं लक्ष्मीं जातवेदो ममावह । तां म आवह जातवेदोलक्ष्मीमनप- गामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् । अश्वपूर्वी रथमध्यां हस्निाथ(द)प्र(बोधि)नीम् । श्रियंदेवामुपह्वये श्रीर्मादेवी जुष- ताम् । कांसोस्मितां हिरण्यप्राकारामार्दीज्वलन्ती तृप्तां तर्पयन्तीम् । पझेस्थितां पद्मवर्णी तामिहोपहये श्रियम् । चन्द्रां प्रभासां यशसाज्वलन्ती श्रियं लोके देवजुष्टामुदारां । तां पद्मनेनी शरण(महं) प्रपद्येऽलक्ष्मीर्मे- नश्यतां त्वांवृण । आदित्यवर्णे तपसोधिजातो वनस्पतिस्तववृक्षोथबिल्वः । तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः । उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोस्मि राष्ट्रेस्मिन् कीर्तिमृद्धिं ददातु मे । क्षुत्पिपासामलां ज्येष्ठामलक्ष्मी नाशयाम्यहम् । अभूतिमस- मृद्धिं च सर्वान्निर्गुदमेगृहात् । गन्धद्वारा धुराधर्षां नित्यपुष्टां करीषिणीं । ईश्वरी सर्वभूतानां तामिहोपहये श्रियं । मनसः काममाकूतं वाचस्सत्य- मशीमहि । पशूनां रूपमन्नस्य मयिश्री श्रयतां यशः । कर्दमेनप्रजा- भूता मयिसंभवकर्दम । श्रियंवासयमेकुले मातरंपद्ममालिनीम् । आप- स्सृजन्तुखिग्धानिचिक्लीतवसमेगृहे । निचदेवीमातरंश्रियं वासयमेकुले । (आद्री पुष्करिणीं पुष्टिं पिंगळां पद्ममालिनीम् )। चंद्रां हिरण्मयीं लक्ष्मी जातवेदो ममावह । आर्द्रा यः करणीं यष्टिं सुवर्णां हेममालिनी ।
46 प्रतिष्ठाविधिः सूर्या हिरण्मयीं लक्ष्मीं जातवेदो म आवह । तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम् । यश्शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । श्रियः पञ्च- दशञ्च श्रीकामस्सततं जपेत् । पद्मप्रिये पमिनि पद्महस्ते पद्मालये पभदळायताक्षि । विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपमं मयि सन्नि- धत्स्व । श्रिये जातश्श्रिय आनिरियाय श्रियं वयो जनितृभ्यो दधति । श्रियं वसाना अमृतत्वमायन् भवन्ति ससत्यासमिधामित वितङ्न् । श्रिय एवैनं तच्छियमादधाति । सन्ततमृचा वषट्कृतगँ सन्धत्त सन्धीयते प्रजया पशुभिः य एवं वेद । ओं। महादेव्यै च विद्महे विष्णुपत्नयै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥ वरुणसूक्तम् . उदुत्तमं वरुण पाशमम्मदवाधर्म विमध्यमगं श्रघाय । अथा वय- मादित्यव्रते तवानागसो अदितये स्याम । अस्तन्नाद्या मृषभो अन्त- रिक्ष ममिमीत वरिमाणं पृथिव्या आसीद द्विश्वा भुवनानि. सम्राविश्वे- तानि वरुणस्य व्रतानि । यत्किञ्चदं वरुणदैव्ये जनेभिद्रोहं मनुष्या- चरामसि । अचित्तयत्तव धर्मायुयोपिम मानस्तस्मा देनसो देवरीरिषः । कितवासो यद्रिरिपुर्नदिवि यद्वाघासत्य मुतयन्नविन । सर्वाताविष्य शिथिरेव देवाथाते स्याम वरुणप्रियासः । अवते हेडो वरुण नमोभि स्वयज्ञेभिरीमहे हविभिः । क्षय नस्मभ्य मसुरप्रचेतो राज नेनागसि शिश्रथः कृतानि । तत्वायामि ब्रह्मणा वन्दमान स्तदाशास्ते यज- मानो हविर्मिः । अहेडमानो वरुणेहबोध्युरुशरों समान आयुः प्रमोषीः ॥
47 ब्रह्मसूतम् रुद्रसूक्तम्. रुद्रसूक्तं जपित्वा-ओं परिणो रुद्रस्य हेति वृणक्तु । परित्वे- षस्य दुर्मति रघायोः । अवस्थिरामघवद्भयस्तनुष्वमीढ़ स्तोकाय तनयाय मृडय । स्तुहि श्रुतं गर्त सदं युवानं मृगन्नभीममुपहनुमुग्रम् ॥ मृडा जरित्रे रुद्रमतवानो अन्यन्ते अस्मन्निवपन्तु सेनाः ॥ मीढुष्टमशिवतम शिवो न स्सुमनाभव परमे वृक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं बिभ्रदागहि ॥ अर्हन्विर्षि सायकानि धन्व । अर्हन्निष्क यजत्तं विश्वरूपं ॥ अर्हन्निदं दयसे विश्वमभ्भुवं । नवा ओजीयो रुद्र त्वदस्ति । त्वमग्ने रुद्रा असुरो महोदिवस्त्वगं शङ्ख मारुतं पृक्ष ईशिषे ॥ त्वं वातररुणैर्यासि शङ्मयस्त्वं पूषा विधतः पासि नुत्मना ।। आवो राजानमध्वरम्य रुद्रगू होतार सत्य यजगं रोदस्योः ॥ अमिं पुरा तवयित्नोरचित्ताद्धिरण्य रूपमवसे कृणुध्वम् ।। ब्रह्मसूक्तम्. ब्रह्मजिज्ञानमित्यारभ्य अतृपं यदाव इत्यन्तं ब्रह्मसूक्तं जपित्वा- ओं ब्रह्मजिज्ञानं प्रथमं पुरस्ताद्विनीमतस्सुरचो वेन आवः सबुनिया उपमा अस्याविष्ठास्सतश्च योनिमसतश्वविवः । पिता विराजा मृषभो रयीणाम् ॥ अन्तरिक्षं विश्वरूप आविवेश । तमरभ्यर्चन्ति. वत्सं ॥ ब्रह्मसन्तं ब्रह्मणा वर्धयन्तः । ब्रह्म देवानजनयत् । ब्रह्म विश्वमिद जगत् । ब्रह्मणः क्षत्रं निर्मितं ॥ ब्रह्मब्राह्मण आत्मना || अन्तरस्मि- निमे लोकाः । अन्तर्विश्वमिदं जगत् ॥ ब्रह्मैव भूतानां ज्येष्ठं । तेन कोर्हति स्पर्धितुं ॥ ब्रह्मन् देवास्त्रयस्त्रिग्शत् ।। ब्रह्मन्निन्द्रप्रजापती ।। ब्रह्मान्ह विश्वा भूताति । नावी वान्तस्समाहि ता । चतस्र आशाः 48 प्रतिष्ठाविधिः । प्रचरन्त्वग्नयः । इमन्नो यज्ञान्नयतु प्रजानन्न् । पतं पिन्वन्नजरगं सुवीरम् । ब्रह्मसमिद्भवत्याहुतीनाम् ॥ विष्णुसूक्तं जापत्वा. ओं । विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विम में रजागसि यो अस्कभायदुत्तर, सधस्थं विचक्रमाणस्नेघोरुगायो विष्णो- रराटमसि विष्णोः पृष्ठमसि विष्णो भतेस्थो विष्णोस्स्यूरसि विष्णोर्बुव- मसि वेप्णवमसि विष्णवे त्वा । तदस्याप्रियमपिपाथो अश्यानरो यत्र देवयवो मदन्ति । उरुक्रमस्य स हि बन्धुरित्था । विष्णोः पदे परमे मध्व उत्सः । प्रतद्विष्णुस्तवते वीर्याय । मृगो नभीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा । परो मात्रया तनुवा वृधान । न ते महित्वमन्वश्नुवन्ति । भे ते विद्म रजस- पृथिव्या । विष्णो देव त्वं परमस्य वित्से । विचक्रमे पृथिवीमेष एताम् । क्षेत्राय विष्णुर्मनुषे दशस्यन् । ध्रुवासो अस्य कीरयो जनासः । उरु- क्षितिगँ सुजनिमाचकार । निर्देवः पृथिवीमेषएताम् । विचक्रमे शतर्चसं महित्वा । प्रविष्णुरस्तु तवसस्तवीयान् । त्वेषग्यू ह्यस्य स्थविरस्य नाम । अतो देवा अवन्तुनो यतो विष्णुर्विचक्रमे । पृथिव्यास्सप्तधामभिः । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं । समूढमम्य पागँसुरे । त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः । ततो धर्माणि धारयन् । विष्णोः कर्माणि पश्यतयतो व्रतानि पस्पशे । इन्द्रस्य युज्य स्सखा । तद्विष्णोः परमं पदणे सदा पश्यन्ति सूरयः । दिवी व चक्षु राततं । तद्विप्रासो विपन्यवा जागृवाँस समिंधते । विष्णोर्यत्परमं पदं ।। जातवेदसे सुनवाम इति दुर्गासूक्तं जापित्वा । जातवेदसे सुनुवाम सोममरातीयता निजहाति वेदः । स नः महीसूक्तम् 49 पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः । तामग्निवर्णांतपसा ज्वलन्तीं वैरोचनी कर्मफलेषु चुष्टां । दुर्गा देवीगं शरणमहं प्रपद्ये सुत- रसि तरसे नमः । अग्ने त्वं पारया नव्यो अस्मा स्वस्ति भिरिति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुलान उर्वी भवा तोकाय तनयाय शंयोः । विश्वानिनो दुर्गहा जातवेदम्सिन्धु ननावा दुरितातिपर्षि । अमे अत्रिप न्मनसा गृणानोऽस्माकं भू त्वविता तनूनाम् । पृतनाजितग सहमान- माग्नि मुग्र हुमेव परमात्सधस्थात् । स नः पर्षदतिदुर्गाणि विश्वाक्षाम देवो अतिदुरितात्याग्निः । प्रत्नोषिकमिड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि । म्वाञ्चाग्ने तनुवं पिप्रयस्वास्वास्मभ्य ञ्च सौभगमा- यजस्व । महसूिक्तं ओं महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् । ओं भूमिम्निा द्यौर्वरिणा न्तरिक्ष महि त्वा । उपस्थे देव्य दितेऽग्नि मन्नादमन्नाद्या यादधे । आयं गौः पृश्निरक्रमी दसर न्मातर पुनः । पितरञ्च प्रयन्सुवः । त्रिस द्धाम विराचति वाक्पतं- गाय शिश्रिये । प्रत्यस्य वहधुभिः । अस्य प्राणादपानत्यन्तश्चरति रोचना । व्यख्यन्महिष स्सुवः । यत्वा क्रुद्धः परो वप मन्युना यदवर्त्य । सुकल्पमग्न तत्तव पुनस्त्वोद्दीपयामसि । यत्ते मन्युपरोप्तस्य पृथिपमिनु- दध्वसे | आदित्या विश्वे तद्देवा वसवश्च समाभरन् । मेदिनी देवी वसुन्ध- रास्याद्वसुधा देवी वासवी । ब्रह्मवर्चसः पितृणां श्रोत्रं चक्षुर्मनः देवीहिरण्यगर्भिणी थेवी प्रसूवरी सदने सत्यायने सीद । समुद्रवती सावित्री । हनो देवी मांगी। महीधरिणी मही व्यघिष्ठा । श्रृंगेशृंगे यज्ञेयझे विभीषिणी । इन्द्रपत्नी व्यापिनी सुरसरि दिह वायुमती जलश- AGAMA VOL. III. 7 50 प्रतिष्ठाविधिः यिनी स्वयं धाराजा सत्यंघो परिमेदिनीश्वो परिधत्तं गाय । विष्णुपर्न महीं देवी माधवीं माधवप्रियां । लक्ष्मी प्रियसखीं देवीं नमाम्युच्युतवल्ल भाम् । धनुर्धराय विद्महे सर्वसिद्धयै च धीमहि । तन्नो धरा प्रचोदयात् ॥ आयुष्यं वर्चस्यग् सुवीर्यग् रायस्पोषमौद्भिद्यं इदरों हिरण्य जैत्रयाया विशतां मां उच्चैर्वादिपृतनाजिसत्रासाहं धतञ्जयम् । सर्वा- स्समृद्धीर् ऋद्धयो हिरण्ये ऽस्मिन् थ्समाहिताः । शुनमहः हिरण्यर पितुरिव नामाग्रभैषम् । तं मा हिलण्यवर्चसं पूरुषु प्रियं कुरु । प्रियं मा देवेषु कुरु प्रियं मा ब्रह्मणे कुरु । प्रियं विश्येषु शूद्वेषुप्रियगाजसु माकुरु । या तिरश्ची निपद्यसे हं विधरणी इति । तां त्वा घृतस्य धारया यजेसगं राधनी महं । संग् राधन्यै देव्यै स्वाहा प्रसाधन्यै देव्यै स्वाहा । संराजं च विराजं चाभिशीर्या च नो गृहे । लक्ष्मी राष्ट्रस्य यामुखे तया मा सगं सृजामसि । एतान्मत्रान् जपित्वा ॥ घृतसूक्तम्. तत आचार्यः । यो ब्रह्मा ब्रह्मण उजभार प्राणेश्वरः कृत्तिवासाः पिनाकी । ईशानो देवस्सन आयुर्दधातु तस्मै जुहोमि हविषा घृतेन । विभ्राजमानस्साररस्य मध्या द्रोचमानो धर्मरुचिर्यआगात् । समृत्युपाशा- दपनुत्य घोरानिहायुषे वर्धयामो घतेन । ब्रह्मज्योतिब्रह्मपत्नीषु गर्भ यमा- वधात्पुरुरूपं जयन्तम् । सुवर्णरं भग्रहमर्कमर्च तमायुषे वर्धयामो घृतेन । श्रियं लक्ष्मी मौपलामम्बिकां गां षष्ठीं जयामिन्द्रसेनेत्युदाहुः । तां विद्यां ब्रह्मयोनिगं सरूपामिहायुषे तर्पयामो घृतेन । दाक्षायण्य- स्सर्वयोन्यस्सुयोन्यः सहस्रशोविश्वरूपा विरूपाः । ससूनवस्सपतयस्स- यूथ्या इहायुषेणो घृतमिदं जुषन्ताम् । दिव्या गणा बहुरूपाः पुराणा 51 घृतसूक्तम् आयुच्छिदो नः प्रमथन्तु वीरान् । तेभ्यो जुहोमि हविषा धृतेन मानः प्रजाग रीरिषो मोतवीरान् । एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोप्ता । यमप्येति भुवनम् सांपराये सनोहविधुतमिहायुषेत्तु देवः । वसून् रुद्रानादित्यान् मरुतोह (थ)साध्यान् । ऋभून् यक्षान् गन्धर्वाग्श्च भृगूंश्च विश्वान् घृतं हुत्वा स्वायुष्याम आयाम शश्वत् । विष्णात्वन्नो अन्तमश्शर्मयच्छसहन्त्य । प्रते धारामधुश्च्युत उत्संधु हते अक्षितम् ॥ इति सूक्तं पठन् कूर्चेन कलशस्थजलं संगृह्य प्रतिसरं प्रोक्षयेत् ॥ ओं अस्त्राय हेतिराजाय हुंफट्, इति मन्त्रेण संरक्ष्य सघृतेन हरिद्राचर्णेन, त्रियंबकं यजामहे सुगंधिं पुष्टिवर्धनम् । उर्वारुकमिव- बन्धनान्मृत्योर्मुक्षीयमामृतात् ॥ इति मन्त्रेण प्रतिसरं त्रिवारमभिमृश्य वासुकिं ध्यात्वा, ततो यजमानः आचार्यादिसर्वेषां ऋत्विजां तांबूल श्रीफलपूरितहस्तानां, "बृहत्सामक्षत्रभृद्धवृष्णियं त्रिष्टुभौजश्शुभित- मुग्रवीरं । इन्द्रस्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्ष ।। इति मन्त्रेण दक्षिणहस्ते रक्षाकङ्कणं बध्नीयात् ।। तत आचार्यः पूर्वोक्तरीत्या यजमानहस्ते कङ्कणं बध्नीयात् । आचार्यः भगवद्विम्बपूजापात्राणि च गङ्गामृत्तिकाभिः कदळीभस्मगोमयतित्रिणीसहिताभिात्रिंशद्वारं भगवन्नामस्मरणपूर्वकं शुद्ध जलेन शोधयेत् । अनन्तरं चतुर्दिक्षु चतुःकलशान् स्थापयेत् । तेषु भूर्भुवस्सुवरिति सुगन्धिजलं पूरयित्वा, तेषु वज्रवैडूर्यपुष्यरागमौक्तिक- नीलमण्याख्यपञ्चरत्नानि निक्षिप्य वटाश्वत्थौदुम्बराम्रप्लक्षपञ्चपल्लवान्निक्षि- प्य, कुशदूर्वाक्षततिलचन्दनगौरसर्षपहिरण्यकविंशतिदनिर्मितकूर्चतुल- सीदलपूगीफलश्रीफलानि निक्षिप्य, नववाससाच्छादयेत् । ओं अस्त्राय तत - 52 प्रतिष्ठाविधिः हेतिराजाय हुंफट् इति मन्त्रयुतां सौदर्शनी मुद्रां तेषु दर्शयेत् । मूलमन्त्रेण प्रत्येकं शतसंख्ययाऽभिमन्व्य ॥ पुण्याहमन्त्रः. आपोहिष्ठा मयो भुवस्ता न ऊर्ने दधातन । महेरणाय चक्षसे । यो वश्वितमो रसस्तस्य भाजयते हैं नः। उशतीरिव मातरः । तस्मा अरंगमामवो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ हिरण्य- वर्णाश्शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः । अग्निं या गर्भ दघिरे विरूपास्ता न आपश्शग्गँ स्योना भवन्तु । यासा राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् । मधुश्चुतश्शुचयो याः पावकारता न आपश्शग्गँ स्योनों भवन्तु । यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति । याः पृथिवीं पयसोन्दन्ति शुक्रा- स्ता न आपश्शग्णू स्यो ना भवन्तु शिवेन मा चक्षुषा पश्यतापश्शिवया तनुवोपस्पृशत त्वचं मे । सर्वा५ अनी रप्सुषदो हुवेवो मयि वर्षो बलमोजो निधत्त ॥ पवमानस्सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मा । पुनन्तु मा देवजनाः । पुनन्तु मनवो घिया । पुनन्तु विश्व आयवः । जातवेदः पवित्रवत् । पवित्रेण पुनाहि मा । शुक्रेण देव दीद्यत् । अग्ने क्रत्वा क्रतू रनु ॥ १ ॥ यत्ते पवित्रमर्चिषि । अग्ने विततमन्तरा । ब्रह्म तेन पुनीमहे । उभाभ्यां देव सवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे ॥ २ ॥ वैश्वदेवी पुनती देव्या गात् । यस्यै बह्वीस्तनुवो वीतपृष्ठाः। तयामदन्त सधमाद्येषु । वयः स्याम पतयो रयीणाम् ॥ वैश्वानरो रश्मिभिर्मा पुनातु । वातः प्राणेनेषि रोमयो भूः । द्यावापृथिवी पयसा पयोभिः । ऋतावरी यज्ञिये मा पुनीताम् । बृहद्भि- सवितस्तृभिः । वर्षिष्ठर्देवमन्माभिः । अमे दक्षैः पुनाहि मा । येन पञ्चगव्यक्रमः 53 देवा अपुनत । येनापो दिव्यं कशः । तेन दिव्येन ब्रह्मणा ॥ ३ ॥ इदं ब्रह्म पुनीमहे । यः पावमानीरध्यति । ऋषिभिस्सभृत रसम् । स्सर्व सपूतमश्नाति । स्वदितं मातरिश्वना । पावमानीर्यो अध्येति । ऋषिभिस्संभृत५ रसं । तस्मै सरस्वती दुहे। क्षीर सर्पिमेधूपकम् । पावमानी स्वस्त्ययनीः ॥ ४ ॥ सुदुघा हि पयस्वतीः । ऋषिभिस्संभृतो रसः । ब्राह्मणेष्वमृत हितम् । पावमानार्दिशन्तु नः । इमं लोकमथो अमुम् । काभान्सभर्धयन्तु नः । देवीर्देवैस्समाभृताः । पावमानीस्व- म्त्ययनीः । सुदुघा हि घृतश्चयुतः । ऋषिभिस्संभृतो रसः ॥ ५ ॥ ब्राह्मणेष्वमृत हितम् । येन देवाः पवित्रेण । आत्मानं पुनते सदा । तेन सहस्रधारेण । पावमान्यः पुनन्तु मा । प्राजापत्यं पवित्रम् । शतो द्याम हिरण्मयम् । तेन ब्रह्मविदो वयम् । पूतं ब्रह्म पुनीमहे । इन्द्रस्सुनीती सह मा पुनातु । सोम स्वस्त्या वरुणस्समीच्या । यमो राजा प्रमृणाभिः पुनातु मा । जातवेदा मोर्जयन्त्या पुनातु ।। विष्णुसूक्तम्. विष्णोर्नुकमित्यारभ्य . इत्यन्तम् । एभिर्मन्त्रैः कलशानभिमन्वयेत् ।। यत्परमं पदम् . . पञ्चगव्यक्रमः श्रियासहितं बिंबं पीठे निवेश्य नूतनवस्त्रेण सुदर्भेण संवेष्टय तण्डुलैश्चतुरश्रं म्थण्डिलं कल्पयित्वा, कुशमूलेन प्राचीरुदीचीस्तिस्र- स्तिस्रो रेखा लिखित्वा पूर्व पलमेकं गोमूत्रं दक्षिणे अङ्गुष्ठाधं गोमयं, पश्चिमे सप्तपलं क्षीरं, उत्तरे त्रिपलं दधि । तन्मध्ये त्रिपलमाज्यम् , ईशान्ये पलमेकं कुशोदकम् , विन्यसेत् ॥
51 प्रतिष्ठाविधिः अत्र प्रमाणवचनम् . गोमूत्रं विन्यसेत्पूर्व गामयं दक्षिणे न्यसेत् । क्षीरन्तु पश्चिमे न्यस्य उत्तरे दघि विन्यसेत् ॥ तन्मध्ये विन्यसेत्सर्पिरीशान्ये तु कुशोदकम् ।। इति ॥ एवं क्रमेण गव्यानि स्थापयित्वा पुण्याहजलेन तानि द्रव्याणि प्रोक्ष्य, गोमूत्रे ओं विष्णवे नमः । गोमये ओं ब्रह्मणे नमः । क्षीरे ओं अच्युताय नमः । दनि ओं शुक्राय नमः । घृते ओं कृष्णाय नमः। कुशोदके, ओं सवित्रे नमः। प्रणवादिनमोन्तैस्तत्तन्नामभि- रावाहनार्घ्यपाद्याचमनस्नानवस्त्रोपवीतगन्धपुष्पधूपदीपनैवेद्यताम्मूलदक्षिणा- भिरभ्यर्च्य, ओं नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् । इति गोमूत्रं । ओं गन्धद्वारां दुरादर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीगं सर्वभूतानां त्वामिहोपह्वये श्रियम् । इति गोमयम् । आप्यायस्व समेतु ते विश्वतस्सोम वृष्णियम् । भवा- वाजस्य सन्धधे इति क्षीरम् । दधिक्रावण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभिनो मुखाकरत् । प्रणआयूगंषि तारिषत् । इति दधि । शुक्रमसि ज्योतिरसि तेजोसि देवोवस्सवितो त्पुनात्वच्छिद्रेण पवित्रेण वसोम्सूर्यस्य रश्मिभिः इति घृतम् । देवस्य त्वा सवितुः प्रसवे श्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे ॥ इति कुशोदकम् ॥ शुभे नूतने मृत्पात्रे संगृह्य प्रणवेनाभिमन्त्रय मूलमन्त्रेण भगवन्तं खापयेत् ।। अथ पञ्चामृताभिषेकक्रमः. आप्यायस्वेति मन्त्रेण पयसा स्नापयेत्ततः । दधिक्राव्ण्णेति मन्त्रेण दध्नया चैव ततः परम् !!
अादिपात्रपरिष्कारक्रमः 55 शुक्रमसीत्येव मन्त्रेण सर्पिषा वापयेत्सुधीः । मधुवातेति मधुना ताश्शर्करेति च शकरैः ।। पञ्चामृताभिषेकन्तु कुर्यादेवं विधानतः । आप्यायस्व समेतुते विश्वत स्सोमवृष्णियम् । भवा वाजस्य सन्धधे । इति मन्त्रेण पयसा वापयेत् । दधिक्रावण्णेत्यादि तारिषदित्यन्तेन मन्त्रण दध्ना स्नापयेत् । शुक्रमसि ---रश्मिभिरित्यन्तेन मन्त्रेण सर्पिषा सापयेत् । मधुवाताऋतायते मधुक्षरन्ति सिन्धवः । माध्वीनस्सन्त्वौषधीः । मधुनक्तमुतोषसि मधुमत्पार्थिवगं रजः । मधु चौरस्तु नः पिता । मधुमान्नो वनस्पतिर्मधुमागं अस्तु सूर्यः । माध्वी- वो भवन्तु नः । इति मन्त्रेण मधुना स्नापयेत् । ताश्शर्करा अभवन् । तच्छर्कराणागं शर्करत्वम् । ब्रजोवै शर्कराः । पशुरग्निः । यच्छर्क- राभिरग्निं परिमिणोति । वज्रेणै वा स्मै पशून्परिगृह्णाति । इति मन्त्रण शर्करामिस्त्रापयेत् । अनन्तरम् , चतुःकलशजलेन 'विष्णोर्नुकम् विष्णवेत्वा । इति मन्त्रेण स्नापयेत् । अनन्तरं नववस्त्रेण भगवन्तं संवेष्टयित्वा पुण्याहजलैर्मूलमन्त्रेण भगवन्तं प्रोक्ष्य गोघृतपूरितान्दीपां श्चतुर्दिषु स्थाप्य ।। अादिपात्रपरिष्कारक्रमः. अग्निकोणे अर्घ्यपात्रम् , नैऋत्यां पाद्यम् , वायव्यामाच- मनीयम् , ऐशान्यां स्नानीयपात्रम् , मध्ये शुद्धोदकपात्रम् संस्थाप्य, अर्घ्यपात्रसमीपे कुम्भं स्थाप्य, ओं भूर्भुवस्सुवरिति तस्मिन्सुगन्धिजलं पूरयित्वा । ओं यं देहं शोषयामि । ओं रं दाहयामि । ओं वं प्लाव- यामि । इति शोषणदाहनप्लावनानि कृत्वा । दशकृत्वः मूलमन्त्रेणाभि- मन्त्र्य, गन्धपुष्पतुलसीदळानि निक्षिप्य । सुरभिमुद्रां प्रदर्य, तेन .
56 प्रतिष्ठाविधिः जलेनादिपात्राणि पूरयित्वा शोषणदाहनप्लावनानि मूलेन कृत्वा मूलेनाभिमन्व्य, सिद्धार्थाक्षतकुशाग्रतिलयवगन्धफलपुष्पाणि अर्घ्यपात्रे निक्षिपेत् । दूर्वा विष्णुपर्णी श्यामाकपद्मानि पाद्यपात्रे निक्षिपेत् । एलालवंगजातीतकोलानि आचमनपात्रे निक्षिपेत् । कोष्ठमञ्जिष्ठद्विहरिद्रा- मुराशैलेयचंपकवचाकचोरमुस्तानि नानपात्रे निक्षिपेत् । ततः पञ्चपात्रेषु गन्धपुष्पतुळसदिळानि निक्षिपेत् । सुारभिमुद्रां प्रदर्श्य । अस्त्राय हेतिराजाय हुंफट् । इति मन्त्रेण पञ्चपात्ररक्षां कृत्वा । उद्धरिण्याऽ- यजलमादाय श्रीमते नारायणायनमः । अयं समर्पयामीत्ययं दत्वा पाद्याचमनीयादिकं च दत्वा तत्तच्छेषं तत्तद्गहे निक्षिपेत् । आश्रियै नमः इति मन्त्रेण देव्या अादि दत्वा, मधुपर्क निवेद्य ।। मधुपर्कलक्षणम् घृतस्येकपलं ग्राह्यं दधि त्रिपलमुच्यते । मधुनः पलमेकं च मधुपर्कस्स उच्यते ॥ मधुपिण्याकेन नेत्रे पिघाय मण्डपस्याग्नेयभागे इष्टकाभिः कूर्म- पृष्ठसमोन्नतं गोमयेनोपलिप्तं हस्तमात्रं चतुरश्रं कुर्यात् ।। औपासनादिहोमक्रमः तत्र तण्डुलान्प्रकीर्य पश्चिमत आरभ्य प्रापर्यन्तं दक्षिणत आरभ्य उत्तरपर्यन्तं तिस्रस्तिस्रो रेखा लिखित्वा तत्र दर्भ न्यस्य अद्भिरभ्युक्ष्य तृणं स्थण्डिले निक्षिप्य । भूर्भुवस्सुवरोमित्यनिंप्रतिष्ठाप्य याज्ञिकैरिन्धनैः प्रज्वाल्य । चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य | त्रिधा बद्धो वृषभोरोरवीति महो देवो मा, आविवेश ॥ इति मन्त्रेण जलाक्षतानग्नेः पश्चिमतः प्रतिष्ठाष्य, एष हि देवः प्रदिशोनुसर्वाः पूर्वो हि जात स्स उ गर्ने अन्तः । स विजाय- 57 . औपासनादिहोमक्रमः मानस्सजनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति विश्वतो मुखः । प्राङ्मुखो- देव अग्ने ममाभिमुखोभव । इत्यग्निं प्रार्थ्य अग्निमलंकृत्य ओं अग्नये नमः। जातवेदसे नमः । सहोजसे नमः । अजिराप्रभवे नमः । वैश्वानराय नमः । नर्यापसे नमः । पङ्गिराधसे नमः । विसर्पिणे नमः । श्रीयज्ञपुरुषाय नमः । इति मन्त्रैः प्रागाद्यष्टदिक्षु अक्षतान्निक्षिप्य आत्मनेनम इति स्वमूर्भिसर्वेभ्यश्श्रीवैष्णवेभ्यो नम इति वैष्णवोपरि चाक्षतान्निक्षिपेत् । अदितेऽनुमन्यस्वेति दक्षिणतः प्राचीनम् । अनुमतेऽनुमन्यस्वेति दक्षि- णत उदीचीनम् । सरस्वतेऽनुमन्यस्वेत्युत्तरतः प्राचीनम् । देवसवितुः प्रसुवेति समन्ततोऽग्निं परिषिच्य परिषेचनक्रमेण प्रागुदगग्रैर्दभैरागि परिस्तीर्य अनेरुत्तरतः प्रागग्रान् दर्भान्सग्स्तीर्य दाज्यस्थाल्यौ प्रोक्षणीपूर्णपात्र इध्म सवा च दर्भपतिद्वये अधोमुखान् निक्षिप्य, समौ द्वौ दर्भो प्रादेशमात्रौ पवित्रीकृत्य अद्भिरनुमृज्य प्रोक्षणीपात्रे निधाय, पवित्रान्तर्हिते प्रोक्षणीपात्रे अक्षतसहिता अप आनीय, अग्नेः प्रद- क्षिणतो निनीय मुखसभमुद्धत्य स्वस्य पुरतस्स्थाप्य हस्तयोरङ्गुष्ठ- कनिष्ठिकाभ्यामुदगग्रे पवित्रे गृहीत्वा प्रावित्ररुत्पूय पात्राण्युत्तानानि कृत्वा इध्मञ्च विस्रस्य सपवित्रेण हस्तेन त्रिः प्रोक्ष्य प्रोक्षणपात्रस्थपवित्रे पूर्णपात्रे- निधाय हस्तयोरङ्गुष्ठकनिष्ठिकाभ्यामुदगग्रे पवित्रे गृहीत्वा प्राक्रिरुत्पूय अग्नेः प्रदक्षिणतो निनीय, मुखसममुद्धृत्य, अमेरुत्तरतो दर्भानास्तीर्य तेषु निक्षिप्य दर्भराच्छादयेत् । दक्षिणत स्त्रिभिर्दर्भब्रह्मासनमास्तीर्य, ओं ब्रह्मणेनम इति मन्त्रण ब्रह्माणमावाह्य ओं ब्रह्मणेनम इति मन्त्रेणा- सनायपाद्याचमनस्नानवस्त्रोपवातगन्धपुष्पधूपदीपनैवेद्यताम्बूलदक्षिणाभि - ब्रह्माणमभ्यर्च्य, पूर्णपात्रस्थपवित्र आज्यपात्रे निधाय, अग्नेः पश्चिमतः पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरूप्य । उदीच्यामङ्गारेषु निधाय AGAMA VOL. III. 8 - 58 प्रतिष्ठाविधिः प्रज्वलितैर्दांग्रेस्संदीप्य द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाळ्य आज्यपात्रे प्रत्यस्य जबलता दर्भेण त्रीरनिं प्रदक्षिणीकृत्य तं दर्भमीशान्यां निक्षिप्य आज्य मानीय स्वस्य पुरतस्स्थाप्य हस्तयोरङ्गुष्ठ कनिष्ठिकाभ्यामुदगले गृहीत्वा आज्यं पश्चात्रिरुत्पूय पवित्रग्रन्थि विस्रस्य पवित्रमद्भिरभ्युक्ष्य प्रागने पवित्रे अनौ प्रहरति । सुत्रमनौ प्रतितप्य दर्भाप्रैस्सुवाग्रं दर्भमूलैस्सुव मूलं दर्भमध्येस्रुवमध्यं, एवं त्रिः पुनः प्रतितप्य प्रोक्ष्योत्योत्तरतो निधाय दर्भानद्भिसगॅस्पृश्याऽनौ प्रहरति । परिस्तरणोपर्यन्योन्यसंस्पृष्टान्परिधी- परिदधाति । स्थविष्ठमुत्तराग्रं परिधिमग्नेः पश्चिमतो निक्षिप्याने- दक्षिणत अणीयांसं परिधि पूर्वाग्रं निधाय, उत्तराग्रमनेः पश्चिमतो निहितं मध्यमं परिधिमुपस्पृश्यानेः पुरस्तादक्षिणोत्तरक्रमेण प्रारद्वये इतरे द्वे आधारसमिधावादधाति । सव्येन पात्रं स्पृशन् दक्षिणेन हस्तेन परिध्यन्तः परिस्तरणोपरि अदितेऽन्वमगंस्था इति दक्षिणतः प्राचीनम् । अनुमतेऽन्वमग्स्था इति दक्षिणत उदीचीनम् । सरस्वतेऽ- न्वमगंस्था इत्युरतः प्राचीनम् । देवसवितःप्रसुवेति समन्ततः प्रागारभ्य प्रदक्षिणं परिषिच्य । इध्ममाज्येनाभ्यज्य, अस्मिन् भगवत्प्रतिष्ठाहोम- कर्मणि ब्रह्मन् इध्म माधास्य इति ब्रह्माणं प्रति ब्रूयात् । ओं आधत्स्वेति प्रतिवचनम् । प्रजापतिं मनसा ध्यायन् तूष्णीं घृताक्ताः पञ्चदश समिधो बह्रौ प्रक्षिपेत् । दा आज्यमादाय, अग्नयेस्वाहा अनय इदं न मम । इत्यमर्दक्षिणभागे जुहुयात् । सोमायस्बाहा सोमायेदं नममेत्यग्ने- रुत्तरभागे जुहुयात् । ओम् इन्द्रायस्वाहा इन्द्रायेदं न मम । ओम् प्रजापतये स्वाहा प्रजापतय इदं न मम । इत्यमिमध्ये जुहुयात् ॥ . अग्निध्या म् द्विशीर्षकं सप्तहस्तं त्रिपादं सप्तजिह्वकम् । वरदं शक्तिपाणिश्च बिभ्राणं सुसुवौ तथा ॥
पुरुषसूक्तेन षोडशाहुतिक्रमः इत्यानं ध्यात्वा : श्रीभगवदाज्ञया भगवत्प्रत्यर्थ गर्भाधानपुंसवनसीम- न्तोन्नयनजातकर्मनामकरणकर्णवेधनोपनिष्क्रमणडोलारोहणान्नप्राशनचौ- लोपनयनवेदव्रतस्वानविवाहसंस्कारसिद्धयर्थं तिलैराज्यैश्च वासुदेवद्वादशा- क्षरेण होमं करिष्ये । ओम् नमो भगवते वासुदेवाय स्वाहा । वासु- देवायेदं न मम । इत्यष्टोत्तरशताहुतीर्जुहुयात् ।। श्रीभगवतश्शान्तिहोमः श्रीभगवदाज्ञया भगवत्प्रीत्यर्थ बिम्बस्य मानोन्मानादिन्यूनाति- रिक्तप्रायश्चित्तार्थ शान्तिहोमं करिष्ये । शमीपल्लवाक्षतानि सप्तव्याहृ- तिभिः प्रत्येकं शतं जुहुयात् । ओं भूम्वाहा । भूरिदं न मम । ओं भुवः स्वाहा । भुव इदं न मम । ओं सुवस्वाहा । सुव इदं न मम । ओं महः स्वाहा । महस इदं न मम । ओं जनः स्वाहा । जनायेदं न मम । ओं तपः स्वाहा । तपस इदं न मम । ओगँ सत्यं स्वाहा । सत्यायेदं न मम । एवं सप्ताहुतीरेकीकृत्य एवं भूताश्शताहुतीर्जुहुयात् । ततः पुरुषसूक्तेन ससर्पिषा पायसान्नेन पोडशाहुतीर्जुहुयात् ।। . पुरुषसूक्तेन षोडशाहुति क्रमः ओं सहस्रशीर्षापुरुषः । सहस्राक्षस्सहस्त्रपात् । स भूमि विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम् । पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणायेदं न मम ॥ १ ॥ पुरुषएवेदगें . यदन्नेनाति- न मम ॥ २॥ एतावानस्य महिमा त्रिपादस्यामृतं दिवि । पुरुपाय न मम ॥ ३ ॥ त्रिपा. दूर्ध्व उदैत्पुरुषः साशनानशने आभि । पुरुषाय ने मम ॥ ४॥ तस्माद्विराळजायत पश्चाद्भुमिमथो पुरः । पुरुषाय-न मम ॥ ५॥ यत्पुरुषेण हविषा ग्रीष्म रोहति पुरुषाय . . .
60 प्रतिष्ठाविधिः . . इध्मश्शरद्धविः । पुरुषाय-न मम ॥ ६॥ सप्तास्यासन् परिषयः अबध्नन् पुरुषं पशुम् । पुरुषाय-न मम ॥ ७॥ तं यज्ञं बर्हिषिप्रौक्षन् साध्या ऋषयश्चये । पुरुषाय- न मम ॥ ८ ॥ तस्माद्यज्ञात्सर्वहुतः आरण्यान् ग्राम्या श्वये । पुरुषाय-न मम ॥ ९॥ तस्माद्यज्ञात्सर्व हुतः यजुस्तस्मादजायत । पुरुषाय-न मम ॥ १०॥ तस्मादश्वा अजायन्त तस्माज्जाता अजावयः । पुरुषाय न मम ॥११॥ यत्पुरुषं व्यदधुः कावूरूपादा वुच्यते । पुरुषाय न मम ॥ १२ ॥ ब्राह्मणोऽस्य मुखमासीत् पञ्चागंशूद्रे अजायत । पुरुषाय- न मम ॥ १३ ॥ चन्द्रमा मनसो जातः प्राणाद्वायुरजायत । पुरुषाय-न मम ॥ १४ ॥ नाभ्या आसी. दन्तरिक्षं तथा लोकाएँ अकल्पयन् । पुरुषाय-न मम ॥ १५ ॥ वेदाहमेतं पुरुषं महान्तम् अयनाय विद्यते । पुरुषाय-न मभ ॥ १६ ॥ . . . . . नान्यः पन्था. . ततः पञ्चोपनिषन्मन्त्रैरष्टोत्तरशतं हुत्वा- ओं षों नमः पराय परमेष्ठयात्मने नमः स्वाहा । परमेष्ठ्यात्मन इदं न मम | ओं यां नमः पराय पुरुषात्मने स्वाहा । पुरुषात्मन इदं न मम | ओं रां नमः पराय विश्वात्मने स्वाहा । विश्वात्मन इदं न मम । ओं वां नमः पराय निवृत्यात्मने स्वाहा । निवृत्यात्मन इदं न मम । ओं लां नमः पराय सर्वात्मने स्वाहा । सर्वात्मन इदं न मम। ओं नारायणाय विद्महे वासुदेवाय धीमहि । तन्नोविष्णुः प्रचोदयात् । सप्तपते अमे समिधस्सप्तजिहास्सप्तर्षयस्सप्तधाम प्रियाणि । सप्तहोत्रा- पुरुषसूक्तेन षोडशाहुतिक्रमः 61 सप्तधा त्वा यजन्ति । सप्तयोनीरापृणस्वा घृतेन स्वाहा । अग्नये सप्त- वत इदं न मम । इत्यनेन पूर्णाहुति जुहुयात् ।। नत आचार्यः नमस्तुभ्यं भगवते जातवेदस्वरूपिणे नरायणाय हव्यस्य भोक्ते यज्ञस्वरूपिणे ।। इष्टदेवाय देवानामात्मने परमात्मने । सन्निधत्स्व चिरं देव प्रतिमायां हिताय नः ॥ इति भगवन्तं विज्ञापयेत् । ततस्सदर्भेण नववस्त्रेण प्रतिमा मूलमन्त्रे- णाच्छाद्य, उत्तरीयमपि दत्त्वा, ओं नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ' इति विष्णुगायत्र्या अर्घ्यपाद्या- चमनगन्धपुष्पधूपदीपनैवेद्याक्षतान्विष्णवे दत्वा । ओं श्रियैनमः । इति श्रीमन्त्रेणार्घ्यपाद्याचमनगन्धपुष्पधूपदीपनैवेद्याक्षतान्महालक्ष्म्यै दत्त्वा । मूलेन सप्तकृत्वोभिमन्त्रितं सूत्रं मूलेन भगवतो दक्षिणहस्ते महालक्ष्म्या वामहस्ते बध्वा, श्लो. जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन । नमस्तेस्तु हृषीकेश महापुरुष पूर्वज ।। इति महापुरुषविद्यया सर्षपदूर्वा हरिद्राद्रव्येण भगवन्तं संस्पृशेत् । अनन्तरं वृत्ताकारं शालिमारं कृत्वा तदर्ध तण्डु- लान् तदुपारी विन्यस्य तदुपरितदर्घ तिलान्निक्षिप्य तस्मिन् पद्म विलिख्य प्रागग्रान् कुशानास्तीर्य नूतनपटेनाच्छाद्य, तदुपार सिंहा- सनं विधाय, पुण्याहजलैः प्रोक्षयेत् । मूलमन्त्रोच्चारणपूर्वकं सुप्रतिष्ठो- भवेति मन्त्रेण तस्मिन् पीठे देवमारोपयेत् । स्वागतम् । तत आचार्यः- स्वागतं देवदेवेश विश्वरूप नमास्तुते । शुद्धेऽपि त्वदधिष्ठाने शुद्धिं कुर्मस्सहस्वताम् ।। इति भगवन्तं ध्यात्वा । श्रीमते नारायणाय नम इति मन्त्रेण भगवते । ओं श्रियै नम इति मन्त्रेण महालक्ष्मै एकवारमय 62 प्रातष्ठाविधिः .- द्विवारं पाधं त्रिवारं आचमनीयं दत्वा। मधुपर्क निवेद्य, नीराज कुर्यात् । बिम्बस्य पुरतः भारपरिमितं तण्डुलं चतुरश्रं कृत्वा, तदुपरि चतुर्दिक्षु चतुः कलशान् स्थापयेत् । तेषु भूर्भुवस्सुवरिति सुगन्धिजलं पूरयित्वा, तेषु वज्रवैडूर्यपुष्यरागमौक्तिकनीलमणीन् पञ्चरत्नानि निक्षिप्य, वटाश्वत्थोदुम्बराम्रप्लक्षपञ्चपल्लवानि निक्षिप्य, कुशक्षिततिलचन्दन- गौरसर्षपहिरण्यएकविंशतिदर्भनिर्मितकूर्चतुलसीदलपूगीफलश्रीफलानि नि. क्षिप्य नववाससाच्छादयेत् । ओं अस्त्राय हेतिराजाय हुंफडिाते मन्त्रसंयुतां सौदर्शिनी मुद्रां तेषु दर्शयेत् । मूलमन्त्रेण प्रत्येकं शत सङ्ख्ययाभिमन्त्रय- स्वागतं दैवदेवेश विश्वरूम नमोस्तुते । शुद्धेऽपि त्वदधिष्ठाने शुद्धिं कुर्मस्सहस्वताम् ॥ इति भगवन्तं प्रार्थ, श्रीमते नारायणाय नम इति मन्त्रेण भगवते, ओं श्रियै नम इति मन्त्रेण महालक्ष्मै च, एकैकवारमध्ये त्रिस्तिवार- माचमनीयं दत्वा । चतुःकलशजलेन, विष्णोर्नुकं वीर्याणि प्रबोचं यः पार्थिवानि विममे रजागसि यो अस्कभाय दुत्तरगं सदस्थं विचक्र- माणस्नेधोरुगायो विष्णो रराटमसि, विष्णोः पृष्ठमसि विष्णोश्नतेस्थो विष्णास्यूरसि विष्णोध्रुवमसि वैष्णवमसि विष्णवे त्वा । इति मन्त्रण स्नापयेत् । ततो देवस्य पुरतो गजा नश्वान् नरवाहनान् रथान् संस्थाप्य गजाद्यभावे रथाश्वानेव, तेषूपरि भगवन्तमारोप्य वीथीं सञ्चार्य उत्सवानन्तरमाचार्याय तद्वाहनं दद्यात् । नववस्त्रेण प्रतिमा संवेष्टय यानमारोप्य वीथीं सञ्चारयित्वा ।। नारायणसूक्तम् ओं सहस्रशीर्ष देवं विश्वाक्षं विश्वशं भुवम् । विश्वं नारायण देवमक्षरं परमं प्रभुम् ॥ १॥ विश्वतः परमं नित्यं विश्वं नारायणगं जलाधिवासस्थाने विधिक्रमः 63 हरिम् । विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ॥ २ ॥ पतिं विश्वस्यात्मेश्वरं शाश्वतरां शिवमच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥३॥ नारायणपरं ब्रह्म तत्त्वं नारायणः परः । नरायणपरो ज्योतिरात्मा नारायणः परः ॥ ४ ॥ यच्च किञ्चिजगत्यस्मिन्दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः ॥ ५॥ अनन्तमव्ययं कविगं समुद्रेन्तं विश्वशम्भुवम् । पद्मकोशप्रतीकाशगं हृदयञ्चाप्यधो- मुखम् । अधो निष्टया वितस्त्यान्तुनाभ्यामुपरि तिष्ठति । हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥ ७ ॥ सन्ततम् सिराभिस्तुलं बत्य कोशसन्निभम् । तस्यान्ते सुषिरगं सूक्ष्मं तम्मिन्सर्वं प्रतिष्ठितम् ॥ ८ ॥ तस्य मध्ये महाननिर्विश्वार्चिविश्वतो मुखः । सोग्रभुग्विभजन्तिष्ठन्नाहार- मजरः कविः ॥ ९ ॥ सन्तापयति स्वं देहमापादतलमस्तकम् । तस्य मध्ये वहिशिखा अणीयोर्ध्वा व्यवस्थितः । नीवारशूकवत्तन्वी पीता भा स्यात्तनूपमा । तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः ॥ ११॥ स ब्रह्मा स शिवस्सेन्द्रम्सोऽक्षरः परमस्स्वराट् । ऋतगं सत्यं परं ब्रह्म पुरुष कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः । ओं नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ इति नारायणसूक्तं पठन्त आचार्यादयः जलाधिवासस्थानमागच्छेयुः ।। जलाधिवासस्थाने विधिक्रमः तत्र जलाधिवासार्थ कल्पितं चतुरश्रं कुण्डं पात्रं वा वस्त्रपुष्प- माल्यादिभिरलंकृत्य चतुर्दिक्षु कदळीस्तम्भानादीप्य शुद्धैर्गन्धोदकैः पूरयित्वा सर्वोषधीनिक्षिप्य अष्टाविंशतिदर्भनिर्मितकूच तस्मिन् जले निक्षिप्य तस्मिन् कूर्चे 'हरये नम' इति मन्त्रेण गन्धपुष्पधूपदीप- नैवेद्यैर्हरि सम्पूज्य ओं पौनमः पराय परमेष्ठ्यात्मने नमः । ओं 64 प्रतिष्ठाविधिः यान्नमः पराय पुरुषात्मने नमः । ओं रानमः पराय विश्वात्मने नमः । ओं वान्नमः पराय निवृत्यात्मने नमः । ओं लानमः पराय सर्वात्मने नमः । इति पञ्चोपनिषन्मन्त्रान् भगवतो महालक्ष्म्याश्च शिरोनासाग्र- हृदयगुह्यपादेषु क्रमेण विन्यसेत् । ततस्सुदर्शनाय हेतिराजाय हुंफट् " इति मन्त्रेण जलाधिवासपात्रे चक्रमुद्रां प्रदर्श्य । अनन्तरं पूगीफल- पुप्पतुलसीसहितान् सुगन्धिजलपूरितान् एकविंशतिदर्भनिर्मितकूर्च- सहितान् श्रीफलाम्रपल्लवपिहितमुखान् नववस्त्राच्छादितान् चतुरः कुम्भान् धान्योपरि स्थापयेत् । तेषु ब्रह्मणे नम इति मन्त्रेण गन्धपुष्प- धूपदीपनैवेद्यैब्रह्माणं पूजयेत् । ततः कुम्भसमीपे पूगीफलपुष्पतुलसी- सहितं सुगन्धिजलपूरितं एकविंशतिदनिर्मितकूर्चसहितं श्रीफलाम्र- पल्लवपिहितमुखं नववस्त्राच्छादित करकं स्थापयित्वा तस्मिन् सुदर्शनाय नम इति मन्त्रेण गन्धपुष्पधूपदीपनैवैद्युम्सुदर्शनं पूजयेत् । ततोऽष्टदिक्षु स्थापितेषु पूगीफलपुष्पतुलसीसहितेषु सुगन्धिजलपूरितेषु एकविंशति- दर्भनिर्मितकूर्चसहितेषु श्रीफलाम्रपल्लवविहितमुखेषु नववस्त्राच्छादितेषु अष्टकलशेषु । इन्द्राय नमः । अग्नये नमः । यमाय नमः । निर्ऋतये नमः । वरुणाय नमः । वायवे नमः । सोमाय नमः । ईशानाय नमः । एभिर्मन्त्रैरिन्द्रामियमनैऋतवरुणवायुसोमेशान् गन्धपुष्पधूपदीपनैवेद्यैः पूजयेत् । अनन्तरं जलाधिवासपात्रे सुगन्धिजलपूरिते गन्धपुष्पतुलसी- दलानि निक्षिप्य । ओं यं शोषयामि । ओं रं दाहयामि । ओं वं प्लावयामि । इति शोषणदाहनप्लावनानि कृत्वा सुरभिमुद्रां प्रदर्य शतकृत्वः मूलमन्त्रेणाभिमन्त्रय मूलमन्त्रोच्चारणपूर्वकं सुप्रतिष्ठो भवेति मन्त्रेण भगवन्तं देव्या सहितं उदयखं प्राक्शिरसं जलद्रोण्यां स्थाप- येत् । नववस्त्रेणाच्छिद्रमाच्छाद्य, तत आचार्यः ऋत्विग्भिस्सह विष्णु- पवमानसूक्तम् 65 जातवेदा मायन्त्या . सूक्तं पठित्वा पवमानस्सुवर्चनः •पुनातु इतन्तं पुण्याहमन्त्रं पठित्वा ॥ पवमानसूक्तम् (सगंहिता कां. ६ प्र. ६). ओं अश्मन्नूज पर्वते शिश्रियाणां वाते पर्जन्ये वरुणस्य शुष्मे । अद्भय ओषधीभ्यो . वनस्पतिभ्योधिसम्भृतान्तान्न इष- मूर्ज धत्त मरुतम्सगंरराणाः । अश्मग्ग्स्ते क्षुदमुं ते शु गृच्छतु यं द्विष्मः । समुद्रस्य त्वा वाकयाग्ने परिव्ययामसि । पावको अस्मभ्यग् शिवो भव । हिमस्य त्वा जरायुणाग्ने परिव्ययामसि ॥ पावको अम्मभ्यम् शिवो भव । उप ।। ९ ।। ज्मन्नुप वेतसेऽवत्तरं नदीष्वा।। अम पित्तमपामसि । मण्डूकिताभिरागहि सेमं नो यज्ञम् । पावकवर्णगं शिवं कृधि । पावक आचितयन्त्या कृपा । क्षामत्रुरुच उषसो न भानुना ॥ तूर्वन्नयामन्नेतशस्य नूरण आयो घृणे । नततृषाणो अजिरः । अग्न पावकरोचिषा मन्द्रया देवजिह्वया । आदेवान्वक्षि याक्षि च । स नः पावक दीदिवोग्ने देवागं इहावह । उपयज्ञगं हविश्व नः । अपामिदं न्ययनगं समुद्रस्य निवेशनम् । अन्यं ते अस्म तपन्तु हेतयः पावको असभ्यम् शिवो भव । नमस्ते हरसे शोचिषे नमस्ते अस्त्वचिषे । अन्यं ते अस्मत्तपन्तु हेतयः हेतयः । पावको अस्मभ्यग् शिवो भव । नृषदे वट् ॥ ३ ॥ अप्सुषदे वड्वनसदे वबर्हिषदे वट्थ्सुवर्विदे पट् । ये देवा देवानां यज्ञिया यज्ञियानाम् संवत्सरीणमुपभागमासते । अहुतादो हविषो यज्ञे अस्मिन्थस्वयं जुहुध्वं मधु नो घृतस्य । ये देवा देवेष्वधिदेवत्वमायन् ये ब्रह्मणः पुर एतारो अस्य । येभ्यो नर्ते पवते धाम किंचन न ते AGAMA VOL. III. 9 66 प्रतिष्ठाविधिः दिवो न पृथिव्या अधिनुषु । प्राणदाः ॥ ४ ॥ अपानदा व्यानदा- श्चक्षुर्दा वादा वरिवोदाः । अन्यं ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यग् शिवो भव ॥ अग्निस्तिग्मने शोचिषा यगं सद्विश्वं न्यत्रिणं ॥ अमिविग् स ते रयिं । सैनान केन सुविदत्रो अस्मै यष्टा देवागं आयजिष्ट स्वस्ति । अदब्धो गोपा उत नः परस्पा अमे धुमदुतरेवद्दिदीहि ॥५॥ इति विष्णुसूक्तं पवमानसूक्तं च जपेत् ॥ अनन्तरं जलस्थं भगवन्तं देव्या सहितं गन्धपुष्पधूपदीपनैवेद्यः पूजयित्वा नीराजनं कुर्यात् ॥ चतुर्दिक्षु अनिर्वाणान् दीपान् स्थापयित्वा, हरिद्रापीताक्षतगौरसर्षपान्परितो विकीर्य, रक्षोहण इति मन्त्रण रक्षां कुर्यात् ।। तै. सं. कां. ३ प्रश्ने–ओं रक्षोहणो वलगहनो वैष्णवान् खनामीदमहं तं वलगमुद्वपामि यन्नस्समानो यम- समानो निचखानेदमेनमधरं करोमि यो नस्समानो यो समानो रातीयति गायत्रेण छन्दसावबाढो वलगः किमत्र भद्रं तन्नौस्सह विराडसि सपत्नहा संराडास भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वा- राडसि विश्वासां नाष्ट्रणागं हन्ता ॥ ३ ॥ सुदर्शनाय हेतिराजाय हुं फडिति मन्त्रेण च सर्वतो रक्षा कुर्यात् ॥ अनन्तरं प्राणानायम्य सङ्कल्पं कुर्यात् ॥ अस्मिन् भगवत्प्रतिष्ठारूपकर्मणि सर्वतो रक्षार्थं चण्डदीनावाहयिष्ये ॥ ततः, चण्डाय नमः प्रचण्डाय नमः । इति मन्त्रेण प्राग्द्वोर गन्धपुष्प- धूपदीपनैवेद्यैश्चण्डप्रचण्डौ पूजयेत् । दक्षिणद्वारे भद्राय नमः । सुभ- द्राय नमः इति मन्त्रद्वयेन भद्रसुभद्रौ । प्रतच्यिां जयाय नमः विजयाय नमः इति मन्त्रद्वयेन जयविजयौ । उदीच्यां -धात्रे नमः।
पवमानसूक्तम् 67 विधात्रे नमः । इति धातृविधातारौ । गन्धपुष्पधूपदीपनैवेद्यैः पूजयेत् ॥ ततः प्राग्द्वारे । कुमुदाय नमः । कुमुदाक्षाय नमः । इति मन्त्रद्वयेन कुमुदकुमुदाक्षौ । दक्षिणे-पुण्डरीकाय नमः वाम- नाय नमः । इति मन्त्रद्वयेन पुण्डरीकवामनौ ॥ प्रतीच्यां-शङ्कु. कर्णाय नमः । सर्वनेत्राय नमः । इति मन्त्रद्वयेन शङ्कुकर्णसर्वनेत्रौ ॥ उत्तरे- सुमुखाय नमः सुप्रतिष्ठिताय नमः ॥ इति सुमुखसुप्रतिष्ठितौ गन्धपुष्पधूपदीपनैवेद्यैः पूजयेत् ॥ अनन्तरं प्राच्याम् --- ओं विमलायै चामरहस्तायै नमः इति मन्त्रेण विमलम् ॥ आग्नेय्यां-ओं, उत्कर्षिण्यै चामरहस्तायै नम इति मन्त्रेण उत्कर्षिणीम् ।। दक्षिणस्यां-~~ओं ज्ञानायै चामरहम्तायै नम इति मन्त्रेण ज्ञानाम् !! नैऋते-ओं क्रियायै चामर- चामरहम्तायै नम इति मन्त्रेण क्रियाम् । पश्चिमायां-~ओं प्रढ चामर- हस्तायै नम इति मन्त्रेण प्रहीम् । वायव्ये-सत्यायै चामरहस्तायै नम इति मन्त्रेण सत्याम् । उत्तरे-ओं ईशानायै चामरहस्तायै नम इति मन्त्रेणेशानाम् । ईशान्यां-ओं योगायै चामरहस्तायै नम इति मन्त्रेण योगाम् । भगवत्पुरत-ओं अनुग्रहायै चामरहस्तायै नम इति मन्त्रण अनुग्रहां च गन्धपुष्पधूपदीपनैवेद्यैः पूजयेत् । अनन्ताय नागराजाय नमः। इति पूर्वे अनन्तम् । विहगेशाय नम इत्यामेय्यां विहगेशम् । विष्वक्सेनाय नम इति दक्षिणे विष्वक्सेनम् । ओं सुदर्शनाय हेति- राजाय नम इति नैऋते सुदर्शनम् । ओं पाञ्चजन्याय शङ्खाधिपतये नम इति पश्चिमे पाञ्चजन्यम् । ओं कौमोदक्यै गदाधिपतये नम इति वायव्ये कौमोदकीम् । ओं नन्दकाय खड्गाधिपतये नम इत्युत्तरे नन्दकम् । ओं शायि चापाधिपतये नम इतीशाने शाङ्ग गन्धपुष्पधूपदीपनैवेद्यैः पूजयेत् । अनन्तरं बलीन् दद्यात् ॥
68
प्रतिष्ठाविधिः
बलिक्रमः.
फललाजदाधिसक्तनां चतुरः पिण्डान् कृत्वा तेष्वेकं हस्ते
गृहीत्वा-
आद्याश्च कर्मजाश्चैव ये भूताः प्राग्दिशि स्थिताः ।
प्रसन्नाः परितुष्टास्ते गृह्णन्तु बलिकांक्षिणः ।।
इति पूर्वं बलिं दद्यात् ॥ द्वितीय पिण्डं गृहीत्वा-
वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः ।
भूमौ व्योनि स्थिता ये च बलिं गृह्णन्तु तेऽपि च ।।
इति दक्षिणे बलिं दद्यात् ।। तृतीयपिण्डं हस्ते गृहीत्वा -
विनायकाः क्षेत्रपालाः येचान्ये बलिकांक्षिणः ।
पूषाद्याः पार्षदाश्चैव प्रतिगृह्णतु मे बलिम् ||
इति पश्चिमे बलिं दद्यात् ।। चतुर्थ पिण्डं हस्ते गृहीत्वा-
चण्डाद्याः कुमुदाद्याश्च ये भूतास्सर्वतस्थिताः ।
आगच्छन्तु च ते सर्वे गृह्णन्तु तमिमं बलिम् ।।
इति उत्तरे बलिं दद्यात् ॥
तत आचार्यः हस्तपादादौ प्रक्षाळ्य आचम्य पवित्रपाणिः प्राणा-
नायम्य शुद्धात्मा ध्यायेद्ब्रह्मसनातनम् । अनन्तरं प्रहरे प्रहरे श्रीमते
नारायणाय नम इति मन्त्रेण भगवन्तम् । ओं श्रियै नम इति महा-
लक्ष्मीम् । अर्घ्यपाद्याचमनगन्धपुष्पधूपदीपनैवेद्यैः पूजयेत् ।
आचार्य ऋत्विग्भिम्सह मूलमन्त्र द्वयं रामकृष्णवासुदेवादि मन्त्रं च जपं
कुर्यात् । चतुर्दारेषु चतुरो वेदान् धर्मशास्त्रेतिहासपुराणश्रीभाष्यादीन्
पाठयेत् । एवं नृत्तगीतवाद्यवेदघोषपूर्वकं रात्रौ जागरणं कुर्यात् ।
---
तत
एवमुत्सवः कर्तव्यः॥
बलिक्रमः
69
एकरात्रं द्विरात्रं वा जलमध्येऽधिवासयेत् ।
यामं यामाधकं वापि जलवासं समाचरेत् ॥ १ ॥
गृहा स्थापने काले सद्य एव समाचरेत् !
प्रदोषेष्वधिवासस्य शयनं तु महानिशि ॥ २ ॥
प्रतिष्ठाञ्च दिवा कुर्यान्मुहूर्ते कालचोदिते ।
नद्याद्यभावे बिम्बस्य जलाधिवसनं भवेत् ॥ ३ ॥
जलद्रोणी कटाहं वा समुद्धृत्य महाजलम् ।
यथासम्भवमन्यस्मिन् मृन्मयादौ तदिष्यते ॥ ४ ॥
सद्यो वा तोयवासं च पुरस्तादधिवासनात् ।
अल्पतोये स्मशानान्ते लवणोदकदूषिते ॥ ५ ॥
चैत्यवृक्षसमीपे च नीचेरध्यासिते तथा ।
कषाये कटुक चैव त्यक्ते फेनैश्च दूषिते ॥ ६ ॥
ऊषरे शैवलयुते वर्णान्तरयुते तथा ।
एवमादिषु दुष्टेषु प्रतिमा नाघिवासयेत् ॥ ७ ॥
नदीषु दीर्घिकायां वा तटाके निझरेऽपि वा।
जलाधिवसनं कुर्यात् प्रसन्नसलिलेऽपि वा ॥ ८ ॥
जलाधिवसने चैव तथानयनमोक्षणे ।
शयन वदिकायां च न कालः कमलासन ॥ ९ ॥
यस्याः प्रतिकृते स्साक्षान्नाधिवासो जले भवेत् ।
तस्याश्छायाधिवासोऽयं कथितः कमलासन ॥ १० ॥
70 प्रतिष्ठाविधिः दारुलोहशिलामध्याः प्रतिमायाः पृथग्विधाः । तासां जलाधिवसनं साक्षादेव विधीयते ॥ ११ ॥ लोहजप्रतिमानां तु पूर्व वार्यधिवासनात् । इति जलाधिवासः, अथ द्वितीयदिवसोत्सवः. ततो द्वितीयेऽह्रि आचार्यो ऋत्विजश्च सर्वे कृतस्नानाः धृतोर्ध्व- पुण्ड्राः नवाम्बरधारिणो नवभूषणालङ्कृताः यागशालां प्रविशेयुः । त्रुट्यनन्तरं आचार्यः पुण्याहजलेन यागमण्डपं प्रोक्ष्य, श्रीमते नाराय- णाय नम इति मन्त्रेण भगवन्तम् । ओं श्रियै नम इति महालक्ष्मी अर्यपाद्याचमनवस्त्रगन्धपुष्पधूपदीपनैवेद्यनीराजनैः पूजयेत् ।। अथ भगवदुत्थापनम्. ओं उत्तिष्ठ ब्रह्मणस्पते । देवयन्तस्त्वेमहे । उपप्रयन्तु मरुतस्सु- दानवः । इन्द्रप्राशूर्भवासचा । प्रेतु ब्रह्मणस्पतिः । प्रदेव्ये तु सूनृता । अच्छावीरं नयं पक्तिराधसम् । देवा यज्ञं नयन्तु नः । देवी द्यावापृथिवी अनुमेमगं साथाम् । ऋध्यासमद्य । मखस्य शिरः ॥२॥ मखाय त्वा । मखस्य त्वा शीर्णे । इयत्यग्र आसीः । ऋध्यासमद्य । मखस्य शिरः। मखाय त्वा। मखस्य त्वा शीर्णे। देवीम्रीरस्य भूतस्य प्रथमजा ऋतावरीः । ऋध्यासमद्य | मखस्य शिरः ॥ ३॥ त्वा । मखम्य त्वा शीणे । इन्द्रस्यौजोसि । ऋध्यासमद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीर्णे । अग्निजा असि प्रजापते रेतः । ऋध्यासमद्य । मखस्य शिरः ॥४॥ मखाय त्वा । मखस्यत्वा शीर्णे | आयुर्धेहि प्राणं धेहि । अपानं घेहि व्यानं घेहि । चक्षुर्धेहि पञ्चगव्यमिलनक्रमः 71 श्रोत्रं घेहि। मनो धेहि वाचं घेहि । आत्मानं घेहि प्रतिष्ठां धेहि । मां धेहि मयि धेहि । मधु त्वा मधुला करोतु । मखस्य शिरोऽसि ॥ ५ ॥ यज्ञस्य पदे स्थः । गायत्रेण त्वा छन्दसा करोमि । त्रैष्टुभेन त्वा छन्दसा करोमि । जागतेन त्वा छन्दसा करोमि। मखस्य रास्नासि । अदितिस्ते बिलं गृह्णातु । पातेन छन्दसा । सूर्यस्य हरसाश्राय । मखोऽसि ॥ ६॥ इति मन्त्रेण भगवन्तमुत्थाप्य, स्नानपीठे निवेश्य तिन्त्रिणी- फलोदकैस्संशोध्य शुद्धोदकेन प्रक्षाळय सदर्भण नववस्त्रेणाच्छाद्य, देवस्य पुरतः सूत्रवेष्टितान् पूगीफलपुष्पतुलसीसहितान् सुगन्धिजल- पूरितान् एकविंशतिदर्भनिर्मितकूर्चसहितान् श्रीफलाम्रपल्लवपिहित- मुखान् नववस्त्राच्छादितान् अष्टादशसङ्ख्याकान् कलशान् धान्य- राशिषु संस्थाप्य सुरभिमुद्रां प्रदर्य मूलमन्त्रेणाभिमन्व्य ततस्तण्डुलै- श्चतुरश्र स्थण्डिलं कृत्वा कुशमूलेन प्राचीरुदीचीस्तिस्रो रेखा लिखित्वा- पञ्चगव्यमेलनक्रमः. पूर्वे पलमेकं गोमूत्रं दक्षिणेऽङ्गुष्ठाधं गोमयम् । पश्चिमे सप्त- पलं क्षीरं । उत्तरे त्रिपलं दधि ॥ मध्ये पलमेकमाज्यम् । ईशान्ये पलमेकं कुशोदकम् ॥ एवं क्रमेण गव्यानि स्थापयित्वा, पुण्याहजलेन तानि द्रव्याणि प्रोक्ष्य ॥ गोमूत्रे-ओं विष्णवे नमः । गोमये-ओं ब्रह्मणे नमः । क्षीरे–ओं अच्युताय नमः । दान-ओं शुक्राय नमः। घते-ओं कृष्णाय नमः । कुशोदके-ओं सवित्रे नमः । प्रणवादिनमोन्ततंत्तन्नामभिरावाहनार्यपाद्याचमनस्नानवस्त्रोपतिगन्धपुष्प- धूपदीपनैवेद्यताम्बूलदक्षिणाभिरभ्यर्च्य, ओं नारायणाय विद्महे वासु- देवाय धीमहि । तन्नो विष्णुः प्रचोदयात् । इति गोमूत्रम्। ओं गन्धद्वारा दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीगं सर्वभूतानां - 72 प्रतिष्ठाविधिः . त्वामिहोपह्वये श्रिय" मिति गोमयम् । आप्यायस्व समेतु ते विश्वत- स्सोमवृष्णियम् । भवा वाजस्य सन्दधे । इति क्षीरम् । दधि क्राण्णो अकारिषम् । जिष्णो रश्वस्य वाजिनः । सुरभिनो मुखाकरत् । प्रण आयुषि तारिषत् । इति दधि। शुक्रमसि ज्योतिरसि तेजोसि देवो वस्सवितोत्पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभि' रिति घृतम् । देवस्य त्वा सवितुः प्रसवेऽश्विनो हुभ्यां पूष्णो हस्ताभ्यामाददे इति कुशोदकम् ।। शुभे नूतने मृत्पात्रे सङ्गृह्य प्रणवेनाभिमन्त्रय मूलेन भगवन्तं स्नापयेत् ॥ अथ पञ्चगव्यादि स्नानक्रमः (तत्र तैलाभ्यञ्जनम् ). ततो " वामदेव्यमभिगायत उध्रियमाणे । अन्तरिक्षं वै वाम- देव्यम् । अन्तरिक्षमेवैनं प्रतिष्ठितमाधत्ते ॥ अथो शान्ति वाम- देव्यः ॥ इति मन्त्रेण तैलाभ्यञ्जनं कुर्यात् ॥ अथ आमलकोदकनापनम् . यज्ञा यज्ञियं पुच्छं छन्दागंस्यङ्गानि घिष्णियाश्शफा यजूगंक्षि नाम । सुपर्णोसि गरुत्मान् दिवं गच्छ सुवः पत ॥ इति मन्त्रेण आमल- कोदकेन स्नापयेत् ॥ अथ मापमुद्गहरिद्राचूर्णैरुद्वर्तनम् . कया नश्चित्र आभुव दूती सदा वृधस्सखा । कया शचिष्टया वृता ॥ इति माषमुद्गहरिदाचूर्णैरुद्वर्तनं कुर्यात् ।। अथोष्णवाारस्नापनम्. मानम्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः । वीरान्मानो रुद्रभामितो वधीहविष्मन्तो नमसा विधेम ते ।। इत्युष्णवारिणा स्नापयेत् ॥
पुष्पोदकेन
73
भवा
अथ पयस्तापनम् .
ओं आप्यायस्व समेतु ते विश्वतस्सोम वृष्णियम् ।
वाजम्य सन्दधे ॥ इति पयसा सापयेत् ॥
अथ दध्ना स्नापनम् .
ओं दधिक्रावण्णो अकारिषम् । जिष्णोरश्वस्य वाजिनः ।
सुरभिनो मुखाकरत् । प्रण आयूगंषि तारिषत् ॥ इति मन्त्रेण दध्ना
खापयेत् ॥
सर्पिषा.
ओं शुक्रमसि ज्योतिरसि तेजोऽसि । देवोव्वस्सवितोत्पुना-
त्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्माभः॥ इति मन्त्रेण सर्पिषा
सापयेत् ॥
मधुना.
ओं मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः। मार्ची-
नस्सन्त्वोषधीः ॥ मधु नक्तमुतोषसि मधुमत्पार्थिवगं रजः । मधु
द्यौरस्तु नः पिता॥ मधुमान्नो वनस्पतिर्मधुमागं अस्तु सूर्यः ।।
माध्वीवो भवन्तु नः ॥ इति मन्त्रेण भधुना स्नापयेत् ।।
शर्करया.
ओं ताश्शर्करा अभवन् । तच्छर्कराणागं शर्करत्वम् । वज्रो-
वै शर्कराः पशुरग्निः। यच्छर्कराभिरनि परिमिणोति। वज्रेणैवास्मै
पशून्परिगृह्णाति ।। इति शर्करया स्नापयेत् ।।
फलोदकेन.
ओं याः फलिनीर्या अफला" इति फलोदकेन स्नापयेत् ।।
पुष्पोदकेन.
ओं अपुष्पा याश्च पुष्पिणीः ॥ इति पुष्पोदकेन स्नापयेत् ॥
AGAMA VOL. III.
10
74 7 प्रतिष्ठाविधिः लोहोदकेन. ओं हिरण्यगर्भस्समवर्तताग्रेभूतस्य जातः पतिरेक आसीत् । सदाधारपृथिवीं चामुतेमा कस्मै देवाय हविषा विधेम ॥ इति लोहोद- केन सापयेत् ॥ अक्षताम्बुना. ओं त्रातारमिन्द्रमवितागमिन्द्रगं हवे हवे सुहबगं शूरमिन्द्रं । हुवे नु शक्रं पुरुहूतमिन्द्रग्गं स्वस्ति नो मघवा धाविन्द्रः ।। इत्यक्षताम्बुना सापयेत् ॥ यवोदकेन. ओं इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्यपागू सुरे ॥ इति यवोदकेन स्नापयेत् ॥ गन्धोदकेन. ओं गन्धद्वारां दुराधर्षी नित्यपुष्टां कारषिणाम् । ईश्वरीम् सर्वभूतानां त्वामिहोपह्वये श्रियम् ॥ इति गन्धोदकेन स्नापयेत् ॥ हरिद्रया. ओं हिरण्यवर्णागं हरिणीं सुवर्णरजतस्रजाम् । चन्द्रा हिरण्मयीं लक्ष्मी जातवेदो ममावह इति हरिद्रया स्नापयेत् ॥ रत्नोदकेन. वषट् ते विष्णवास आकृणोमि तन्मे जुषस्व शिपिविष्ट हव्य मिति रत्नोदकेन स्नापयेत् ।। नारिकेळोदकेन. देवस्यत्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्या- माददे ॥ इति नारिकेळोदकेन स्नापयेत् ।। " बलिक्रमः 76 - ततः पूर्वस्थापित अष्टादशकलशोदकेन-पवमानस्सुवर्जनः जातवेदा मोर्जयन्त्या पुनातु " इत्यन्तेन पुण्याहमन्त्रेण स्नापयेत् । ततो नव- वस्त्रयुग्मेनाच्छादयेत् । ततश्श्रीमते नारायणाय नम इति मन्त्रेण भगवन्तं ओं श्रियै नम इति महालक्षीञ्च अर्घ्यपाद्याचमनगन्धपुष्पधूपदीपनैवेद्य- नीराजनैरभ्यर्चयेत् ॥ द्वितीयवारं वलिक्रमः. ततो बलिं दद्यात् । फललाजदघिसक्तूनां चतुरः पिण्डान् कृत्वा एकं हस्ते गृहीत्वा- आद्याश्च कर्मजाश्चैव ये भृताः प्राग्दिशि स्थिताः । प्रसन्नाः परितुष्टास्ते गृह्णन्तु बलिकांक्षिणः ।। इति पूर्वे ॥ द्वितीय पिण्डं गृहीत्वा. (दक्षिणे) वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः । भमा व्याम्नि स्थिता ये च बलिं गृह्णन्तु तेऽपि च ।। इति दक्षिणे ॥ तृतीय पिण्डं गृहीत्वा. (पश्चिम) विनायकाः क्षेत्रपालाः ये चान्ये बलिकांक्षिणः । पूषाद्याः पार्षदाश्चैव प्रतिगृह्णन्तु मे बलिम् ॥ इति पश्चिम ॥ चतुर्थ पिण्डं गृहीत्वा. (उत्तर) चण्डाद्याः कुमुदाद्याश्च ये भूतास्सर्वतस्थिताः । आगच्छन्तु च ते सर्वे गृह्णन्तु तमिमं बलिम् ।। इत्युत्तरे बलिं दद्यात् ॥
76 प्रतिष्ठाविधि: पुनर्यानारोहणम्, ततो भगवन्तं यानमारोप्य तूर्यघोषनृत्यगीतपुरस्सरं छत्रचामर- पुरस्सरं आचार्यादिभिः- - शकुनसूक्ताम्. .. अनुहवं परिहवं परीवादं परिक्षिपम् । दुस्स्वप्नं दुरुदितं तद्विषद्भयो दिशाम्यहम् । अनुहूतं परिहतगं शकुनेर्यदशाकुनम् । मृगस्य सुतमक्ष्णया तद्विषद्भयो दिशाम्यहम् । आरात्ते अमिरस्त्वारा- त्परशुरस्तु ते । निवाते त्वाभिवर्षतु स्वस्ति तेऽस्तु वनस्पते स्वस्ति मेऽस्तु वनस्पते । नमश्शकृत्सदे रुद्राय नमो रुद्राय शकृत्सदे । गोष्ठमसि नमस्ते अस्तु मामाहिग्सीस्सिगसिनसि वज्रो नमस्ते अस्तु मामाहिग्सीः । उद्गातेव शकुने सासगायसि ब्रह्मपुत्र इव सवनेषु शग्ससि । स्वस्ति न- श्शकुने अस्तु प्रतिनस्सुमना भव ॥ इति शाकुनसूक्तमधीयानैः ऋत्विग्भिस्सह वीथ्यां सप्रदक्षिणमुत्सवं कृत्वा, यागशाला पुनरागत्य पीठमध्ये शय्यां कल्पयेत् । ओं नमो भगवते वासुदेवायेति मन्त्रेण वेदिं प्रोक्ष्य तस्यां प्रागग्रान्दर्भानास्तीर्य तेषु चतुर्भारान् शालीन चतुरश्रमास्तीर्य तदुपरि द्विभारान् तण्डुलानास्तीर्य तदुपर्येकभारतिला- नास्तीर्य वस्त्रेणाच्छाद्य तदुपरि प्रागग्रान्कुशानास्तीर्य तदुपरि व्याघ्र- चर्म आस्तीर्य तदुपरि तूलिकायुतं मृद्रास्तरणमास्तीर्य क्षौमं चित्र- वस्त्राणि शुक्लवस्त्राणि च उदयुपर्यास्तीर्य उपधानानि त्रीणि कल्पयित्वा कस्तूरिकादिसुगन्धद्रव्यैः सुगन्धपुष्पैश्च संयुतां शय्यां कारयेत् ॥ तत आचार्यों वेदघोषैस्सह पूर्वोक्तेन " उत्तिष्ठ ब्रह्मणस्पते । इत्यादि- मखोसीत्यन्तेन मन्त्रेण बिंबं यानादवतार्य कुण्डशय्यावेदी प्राग्दक्षिणेन नीत्वा " इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्यपागूसुरे।
शकुनसूक्ताम् 77 विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो हस्त उत विश्वतस्पात् । संबाहुभ्यां नमति संपतत्रैर्यावापृथिवी जनयन् देव एकः । यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः । हिरण्यगर्भ पश्यत जायमानगं स नो देवश्शुभया स्मृत्या संयुनक्तु ।" इति मन्त्रेण प्राक्शिरो दक्षिण- वक्तं मन्दिराभिमुखं वा दक्षिणशिरसं वा भगवन्तं शाययित्वा । युवा सुवासाः परिवीतः। आगात्स उ श्रेयान् भवति जायमानः। तं धीरासः कवय उन्नयन्ति स्वाधयो मनसा देवयन्तः ।" इति मन्त्रेण कम्बलैर्वस्त्रैर्वा आच्छादयेत् । ततश्चतुर्दिक्षु अनिर्वाणान् दीपान् संस्थापयेत् ।। तत आचार्यः श्रीमते नारायणाय नम इति मन्त्रेण भगवते । ओं श्रियै नम इति महालक्ष्म्यै अर्घ्यपाद्याचमनगन्धपुष्पधूपदीपनैवेद्य- नीराजिनानि दत्वा भगवतः पुरतः सुवर्णरजतताम्रनिर्मितं सूत्रवेष्टितं कलशं " ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः । स बुध्नया उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विवः । ” इति मन्त्रेण पश्चिमोत्तरदेशे धान्योपरि प्रतिष्ठाप्य । तस्मिन् सुगन्धिजलं “आपो वा इदगं सर्वं विश्वा भूतान्यापः प्राणा वा आपः पशव आपोऽमृत- मापोऽन्नमापस्संम्राडापो विराडापस्स्वराडापश्चन्दाग्यापो ज्योतीग्ष्याप- म्सत्यमापस्सर्वा देवता आपो बूर्भुवस्सुवराप ओम् ॥ इति मन्त्रेण निक्षिप्य, वटाश्वत्थोदुम्बराम्रप्लक्षाणां पल्लवानि (दत्वा) तुलसीदलं पूगी- फलं सत्वौषधिगणञ्च मूलेन निक्षिपेत् ॥ कुष्ठां मांसी हरिद्रे द्वे वचाचन्दनशैलजाः । करा रोचना मुस्ता सत्वोषध्यो दश स्मृताः ।।
--- 78 प्रतिष्ठाविधिः -- एलालवङ्गकर्पूरं जातीतक्कोलचन्दनम् । पुष्पाण्येतानि निक्षिप्य मन्त्ररत्नेन कुर्चकम् ।। कूर्चाग्रे राक्षसान् घोरान् भिन्धि कर्मविघातिनः । त्वामर्पयामि कुम्भेऽस्मिन् साफल्यं कुरु कर्मसु । इति मन्त्रेण एकविंशतिदर्भनिर्मितमूर्ध्वायं कुर्च निघाय--- वृक्षराजसमुद्भूताश्शाखायाः पल्लवत्वचः । युष्मान् कुम्भेष्वर्पयामि सर्वपापापनुत्तये ।। इति मन्त्रेण पल्लवं निधाय-- नारिकेलसमुद्भूतत्रिनेत्रहरसम्मत । शिखया दुरितं सर्वं पापं पीडाञ्च मे नुद ॥ इत्यूर्ध्वशिखं नारिकेर निधाय । नववस्त्रेणाच्छाद्य । बूर्भुवस्सुवरो- मित्यक्षतानिक्षिप्य, गन्धपुष्पैरलङ्कृत्य | ओं यं शोषयामि । ओं रं दाहयामि । ओं वं प्लावयामि । इति शोषणदाहनप्लावनानि कृत्वा द|ः प्रच्छाद्य मूलमन्त्रेण मन्त्ररत्नेन च अष्टोत्तरसहस्रवारं शतवारं वा अभिमन्त्रय । सुदर्शनाय हेतिराजाय हुं फडिति मन्त्रेण चक्रमुद्रां रं प्रदर्य ॥ रक्षाहणा वलगहनो वैष्णवान्खनामीदमहन्तं वलगमुद्वपामि यं नस्समानो यमसमानो निचखानेदमेनमधरं करोमि यो नस्समानो यो समानोरातीयति गायत्रेण छन्दसाऽवबाढोवलगः किमत्र भद्रं तन्नौ सह बिराडसि सपत्नहा सम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वारा- डसि विश्वासां नाष्ट्राणाम् हन्ता” इति मन्त्रेण रक्षां कुर्यात् । अनन्तरं शय्यावेद्या अष्टदिक्षु सूत्रवेष्टितान् सुगन्धिजलपरिपूरितान् बजवैडूर्यपुष्यरागमौक्तिकनीलमणीन् वटाश्वत्थोदुम्बरामलक्षपल्लवत्वक्स- सर्वतो रक्षणीयचण्डाद्यावाहनम् 79 . हितान् कुष्ठमांसीहरिद्राद्वितयवचाचन्दनशैलजकर्पूररोचनमुस्ताएलालवङ्ग- कर्पूरजातींचम्पकपुष्पपूगीफलतुलसीसहितान् एकविंशतिदर्भनिर्मितकूर्च- सहितान् श्रीफलाम्रपल्लवपिहितमुखान् नववस्त्राच्छादितान् अष्टकलशान् धान्यराशिषु संस्थाप्य तेषु भूर्भुवस्स्वरित्यक्षतान्निक्षिप्य, ओं यं शोष- यामि । ओं रं दाहयामि । ओं वं प्लावयामि । इति शोषणदाहन- प्लावनानि कृत्वा, गन्धपूष्पैरलंकृत्य दभैः प्रच्छाद्य सुरभिमुद्रां प्रदर्य मूलेनाभिमन्त्रय, सुदर्शनाय हेतिराजाय हुं फडिति मन्त्रेण रक्षा कुर्यात् ॥ सर्वतो रक्षणीय चण्डाद्यावाहनम् . अस्मिन् भगवत्प्रतिष्ठारूपकर्मणि सर्वतो रक्षणार्थं चण्डादीना- वाहयिष्ये । ततश्चण्डाय नमः । प्रचण्डाय नमः । इति मन्त्रद्वयेन प्राग्द्वारे गन्धपुष्पधूपदीपनैवेद्यैश्चण्डप्रचण्डौ पूजयेत् ॥ भद्राय नमः । सुभद्राय नम इति मन्त्रद्वयेन दक्षिणद्वारे भद्रसुभद्रौ गन्धादिभिरर्चयेत् ॥ जयाय नमः । विजयाय नम इति मन्त्रद्वयेन प्रतीच्यां जयविजयौ धात्रे नमः । विधात्रे नम इति मन्त्रद्वयेन उदीच्यां धातृविधातारौ । गन्धापुष्पादिभिः पूजयेत् । ततः कुमुदाय नमः । कुमुदाक्षाय नमः इति मन्त्रद्वयेन प्राग्द्वारे कुमुदकुमुदाक्षौ । पुण्डरीकाक्षाय नमः । वामनाय नम इति मन्त्रद्वयेन दक्षिणद्वारे पुण्डरीकवामनौ ।। शङ्कुकर्णाय नमः । सर्वनेत्राय नम इति मन्त्रद्वयेन पश्चिमे शङ्कुकर्णसर्वनेत्रौ ॥ सुमुखाय नमः । सुप्रतिष्ठिताय नम" इति मन्त्रद्वयेन उत्तरे सुमुखसुप्रतिष्ठितौ। गन्धपुष्पादिभिरभ्यर्चयेत् ॥ अनन्तरं ओं विमलायै चामरहस्ताय नम इति मन्त्रेण प्राच्या विमलाम् । ओं उत्कर्षिण्यै चामरहस्तायै नम इति मन्त्रेणामेय्यां 80 प्रतिष्ठाविधिः उत्कर्षिणीम् । ओं ज्ञानायै चामरहस्तायै नम इति मन्त्रेण दक्षिणे ज्ञानाम् । ओं क्रियायै चामरहस्तायै नम इति नैऋते क्रियाम् । ओं प्रयै चामरहस्ताये नम इति मन्त्रेण पश्चिमे प्रहीम् । ओं संत्यायै चामरहस्तायै नम इति मन्त्रेण वायव्ये सत्याम् । ओं ईशानायै चामरहस्तायै नम इति मन्त्रेण उत्तरे ईशानाम् । ओं योगायै चामर- हस्तायै नम इति मन्त्रेण ईशाने योगाम् । ओं अनुग्रहायै चामरहस्तायै नम इति मन्त्रेण भगवत्पुरतोऽनुग्रहां गन्धादिभिरभ्यर्चयेत् ।। ओं अनन्ताय नागराजाय नम इति मन्त्रेण पूर्वे अनन्तम् । विहगेशाय नम इति मन्त्रेणाग्नेय्यां विहगेशम् । विष्वक्सेनाय नम शति मन्त्रेण दक्षिणे विश्वक्सेनम् । ओं सुदर्शनाय नम इति मन्त्रेण नैऋते सुदर्शनम् । ओं पाञ्चजन्याय शङ्खाधिपतये नम" इति मन्त्रेण पश्चिमे पाञ्चजन्यम् । ओं कौमोदक्यै गदाधिपतये नम इति मन्त्रेण वायव्ये कौमोदकीम् । ओं नन्दकाय खड्गाधिपतये नम इति मन्त्रेण उत्तरे नन्दकम् । ओम् शायि चापाधिपतये नम" इति ईशाने शाङ्गम् । गन्धादिभिरभ्यर्चयेत् ।। अनन्तरं बलीन् दद्यात्. फललाजदघिसक्तूनां चतुरः पिण्डान् कृत्वा तेष्वेकं गृहीत्वा- आद्याश्च कर्मजाश्चैव ये भूताः प्राग्दिशि स्थिताः । प्रसन्नाः परितुष्टास्ते गृह्णन्तु बलिकांक्षिणः ।। इति पूर्वे बलिं दद्यात् ।। द्वितीयं गृहीत्वा दक्षिणे- वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः ।
सर्वतो रक्षणीयचण्डाद्यावाहनम् 81 - ---- भूमौ व्योम्नि स्थिता ये च बलिं गृह्णन्तु तेऽपि च ।। इति बलिं दद्यात् ।। तृतीयं गृहीत्वा पश्चिमे- वैनायकाः क्षेत्रपालाः ये चान्ये बलिकांक्षिणः । पूषाद्याः पार्षदाश्चैव प्रतिगृह्णन्तु मे बलिम् ।। इति बलिं दद्यात् ॥ चतुर्थ गृहीत्वा उत्तरे चण्डाद्याः कुमुदाद्याश्च ये भूतास्सर्वतस्थिताः । आगच्छन्तु च ते सर्वे गृह्णन्तु तमिमं बलिम् । इति बलिं दद्यात् ।। तत आचार्यः हस्तपादौ प्रक्षाळ्य आचम्य पवित्रपाणिः प्राणानायम्य, शुद्धात्मा ध्यायेद्ब्रह्म सनातनम् । अनन्तरं प्रहरे प्रहरे श्रीमते नारायणाय नम इति मन्त्रेण भगवन्तम् । ओं श्रीयै नम इति महालक्ष्मीम् अादिभिरर्चयेत् ॥ तत आचार्यों ऋत्विग्भिस्सह मूल- मन्त्रद्वयमन्त्ररामकृष्णवासुदेवादिमन्त्रजपं कुर्यात् । चतुारेषु चतुरो वेदान् धर्मशास्त्रेतिहासपुराणश्रीभाष्यादीन् पाठयेत् । एवमाचार्यो यजमानश्च सर्वे ऋत्विजश्च तस्मिन् दिने उपवसेयुः । ततस्साया ऋत्विग्यजमानाचार्यास्सर्वे कृतस्नानाः धृतोर्ध्वपुण्ड्राः नवाम्बरधारिणः नवभूषणाल कृताः कृतसन्ध्यावन्दनाः प्रदोषान्ते यागमण्डपं प्रविश्य होममारभेयुः ॥ ततो हस्तपादौ च प्रक्षाळ्य आचम्य आचार्यस्तथाभूतः हस्तपादौ प्रक्षाळ्य गोदानं कारयेत् । श्रीगोविन्द गोविन्द गोविन्द अद्य अमुकमासे अमुकपक्षे अमुकतिथौ अमुकगोत्रो अमुकश ऽहं करिष्यमाणभगवत्प्रतिष्ठानिमित्तहोमप्रारम्भसिध्यर्थं सुवर्णशृङ्गी रौप्य- AGAMA VOL. III. 11 82 प्रतिष्ठाविधिः , खुरों ताम्रपृष्ठीं सवत्सकाम् । मुक्तापुच्छी कांस्यदोहनामिमां गाममुक- गोत्रायामुकशर्मणे ब्राह्मणाय तुभ्यमुत्सृज इति जलसहितानक्षतान्ब्राह्मण- हस्ते देवतीर्थेन दद्यात् । कृतैतद्गोदान(प्रतिष्ठार्थ)साद्गुण्यार्थं इदं हिरण्यं अमुकगोत्रायामुकशर्मणे ब्राह्मणाय तुभ्यं नमः” इति ब्राह्मण- हस्ते जलाक्षतसहितं हिरण्यं दद्यात् । ततो विप्रं परिक्रम्य प्रणमेत् ॥ अनन्तरं धान्यराशिषु अष्टोत्तरशतसहस्रकलशान्निक्षिप्य सुगन्धि- जलं पूरयित्वा, वरुणसूक्तपवमानादिभिर्नानासूक्तैरभिमन्त्रयेत् । अनन्तर- माचार्यो ऋत्विजश्च स्वगृह्योक्तप्रकारेण चतुर्षु कुण्डेषु होमं कुर्युः । योनिकुण्डे आचार्यः अन्येष्वन्ये ऋत्विजश्व उपविशेयुः । तत आचार्य आचम्य प्राणानायम्य श्रीभगवदाज्ञया भगवत्प्रीत्यर्थ अस्मिन् बिम्बे परंज्योतिरागमनार्थं नानासूक्तैर्नानामों में होष्यामीति सङ्कल्प्य ब्राह्मणैस्सह नृत्यवाद्यघोषपूर्वकं ताम्बूलपुष्पदक्षिणाविशिष्टं पात्रं हस्ते गृहीत्वा, ओं नमस्सदसे । नमस्सदसस्पतये । नमस्सखीनां पुरोगाणां चक्षुषे । नमो दिवे । नमः पृथिव्यै । सप्रथसभा मे गोपाय । ये च सभ्यास्सभासदः । तानिन्द्रियावतः कुरु । सर्वमायुरुपासताम् । सर्वेभ्यश्श्रीवैष्णवेभ्यो नमः । इत्यक्षतान् श्रीवैष्णवशिरसि विकीर्य, अशेषे हे परिषत् , भवत्पादमूले मया समर्पितां इमां सौवर्णी यत्किाञ्च- दक्षिणां यथोक्तदक्षिणामिव स्वीकृत्य अस्य भगवतः श्रीभूमिनीळा- समेतस्य ससमस्तपरिवारस्य प्रतिष्ठाङ्गहोमकमर्णः निर्विघ्नपरिसमाप्ति- भूयादिति भवन्तो महान्तोऽनुगृह्णन्तु । इति परिषन्मुखेन अनुज्ञां गृह्णीयात् । तथास्त्विति परिषद्वदेत् । ततो वस्त्रोत्तरीयकर्णाङ्गुल्या- भरणोपवीततुलसीनलिनाक्षमालासनस्थालीकमण्डत्वाचमनपात्रदाक्षिणाभि- ब्राह्मणान् तोषयेत् । ततो मूलमन्त्रेण कुण्डं वीक्ष्य ॥
औपासनादिहोमक्रमः 83 कुण्डलक्षणम. तत्र तावत्प्रवक्ष्यामि कुण्डस्यावयवं क्रमात् । तदैन्द्रे मेखले पादौ सुभुजे दक्षिणोत्तरे ॥१॥ पश्चिमं पृष्ठमित्युक्तं सयोनिश्शिर उच्यते । कुण्डवकं तु वकं स्यात् अक्षतं दन्तमेव च ॥२॥ तत्पुन्यं दृष्टिरित्युक्तं तदग्रं पक्ष उच्यते । उदरं कुक्षिरित्युक्तं पद्मं हृदयमेव च ॥ ३ ॥ तल्लेपनं मदम्भस्यादिन्धनं चास्थिमेव च । आज्यं रुधिरमेवोक्तं तद्गन्धं धर्मवाससम् ॥ ४ ॥ अनलं प्राणमेवोक्तं तज्जालामुखजिहिका । सदर्भ केशमित्युक्तं परिधिं बाहुमेव च ।। ५ ।। इति । औपासनादिहोमक्रमः कुण्डावयवं, ओं अस्त्राय फडिति मन्त्रेण प्रोक्ष्य गन्धपुष्पैरल. मृत्य, तत्र तण्डुलान्विकीर्य, पश्चिमत आरभ्य, प्रापर्यन्तं दक्षिणत आरभ्योत्तरपर्यन्तं स्रवेण दर्भमूलेन वा तिस्रस्तिस्रो रेखा लिखित्वा तत्र दर्भ न्यस्य, तृणमद्भिरभ्युक्ष्य, तृणं कुण्डे निक्षिप्य, ओं भूर्भुवस्सुवरो- मिति मन्त्रेण सूर्यकान्ताश्मजं लौकिकं मथितं मणिजं वा आमिं प्रति- ष्ठाप्य, याज्ञिकैरिन्धनैः प्रज्वाल्य, " चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मागं आविवंश" इति मन्त्रेण जलाक्षताननेः पश्चिमतः प्रतिष्ठाप्य, एष हि देवः प्रदिशो नु सर्वाः पूर्वो हि जातस्स उ गर्भे अन्तः । स विजायमानस्स जनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति विश्वतोमुखः । हे अग्ने प्राङ्मुखो देव ममाभिमुखो भव । इत्यग्निमलङ्कृत्य, ओं, अग्नये 84 प्रतिष्ठाविधिः . नमः। जातवेदसे नमः। सहोजसे नमः । अजिराप्रभवे नमः । वैश्वानराय नमः। नर्यापसे नमः । पतिराधसे नमः । विसर्पिणे नमः । श्रीयज्ञपुरुषाय नमः " इत्यादिमन्त्रैः प्रागाद्यष्टदिक्षु अक्षता- निक्षिप्य, “आत्मने नमः" इति स्वमूर्ध्नि । “सर्वेभ्यः श्रीवैष्णवेभ्यो नम" इति श्रीवैष्णवोपरि अक्षतान् निक्षिपेत् । अदितेऽनुमन्यस्वेति दक्षि- णतः प्राचीनम् । अनुमतेऽनुमन्यस्वेति दक्षिणत उदीचीनम् । सरस्वतेऽनुमन्यस्वेत्युत्तरतः प्राचीनम् । देव सवितः प्रसुवेति समन्त- तोऽग्निं परिषिच्य, परिषेचनक्रमेण प्रागुदगग्रैर्दभैरैग्निं परिस्तीर्य, अमेरुत्तरतः प्रागग्रान् दर्भान् संस्तीर्य, दाज्यस्थाल्यौ प्रोक्षणीपूर्ण- पात्रे इध्मसुचौ च दर्भपतिद्वये निक्षिप्य, अधोमुखानि समौ सानौ द्वौ दर्भी प्रादेशमात्रौं पवित्रीकृत्य अद्भिरनुमृज्य प्रोक्षणीपात्रे निधाय, पवित्रान्तर्हिते प्रोक्षणीपात्रे अक्षतसहिता अप अनीय, अग्नेः प्रदक्षि- णतो निनीय, मुखसममुद्धृत्य स्वस्य पुरतः स्थाप्य, हस्तयोरङ्गुष्ठकनिष्ठि- काभ्यां उदगग्रे पवित्रे गृहीत्वा प्राक्रिरुत्पूय पात्राण्युत्तानानि कृत्वा सपवित्रेण हस्तेन त्रिः प्रोक्ष्य, इध्मं च विस्रस्य, त्रिः प्राक्ष्य प्रोक्षणीपात्रस्थपवित्रे पूर्णपात्रे निधाय हस्तयोरङ्गुष्ठकनिष्ठिकाभ्यां उदगग्रे पवित्रे गृहीत्वा प्राक्रिरुत्पूय, अग्नेः प्रदक्षिणतो निनीय मुखसममुद्धृत्य अग्नरुत्तरतो दर्भानास्तीर्य तेषु निक्षिप्य दभैराच्छादयेत् । दक्षिणतस्त्रिभिर्दभैर्ब्रह्मासनमास्तीर्य, ओं ब्रह्मणे नमः । इति ब्रह्माणमावाह्य ओं ब्रह्मणे नम इति मन्त्रेणास- नार्घ्यपाद्याचमनवानवस्त्रोपवीतगन्धपुष्पधूपदीपनैवेद्यताम्बूलदक्षिणाभि ब्रह्माणमभ्यर्च्य, पूर्णपात्रस्थपवित्रे आज्यपात्रे निधाय, अग्नेः पश्चिमतः पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरूप्य, उदीच्यामङ्गारेषु निधाय, औपासनादिहोमक्रमः 85 ज्वलितैर्दर्भाप्रैस्सन्दीप्य द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाळ्य, आज्यपात्रे प्रत्यस्य, ज्वलता दर्भेण निरनिं प्रदक्षिणीकृत्य, तं दर्भमैशान्यां निक्षिपेत् । आज्यमवतार्य अङ्गारान्वहौ निक्षिप्य, आज्यमानीय स्वस्य पुरतः स्थाप्य हस्तयोरङ्गुष्ठकनिष्ठिकाभ्यामुदगग्रे गृहीत्वा, आज्यं पश्चात्त्रिरुत्यूय, पवित्रग्रन्थि विस्रस्य पवित्रमद्भिरभ्युक्ष्य, प्रागने पवित्रे अग्नौ प्रहरति । स्रुवमग्नौ प्रतिप्य, दर्भाप्रैस्स्रुवमूलं धर्ममध्येस्स्रुवमध्य सर्वतस्सुवबिलं सम्मार्टि, पुनः प्रतिप्य प्रोक्ष्य, उत्तरतो निधाय, दर्भा- नद्भिस्सग्ग्स्पृश्य, अग्नौ प्रहरति । परिधीन्परिदधाति। स्थविष्ठमुत्तरतः। अग्नेर्दक्षिणत अणीयांस परिधि पूर्वाग्रं निधाय, अनेरुत्तरतो हस्वं परिधि पूर्वाग्रं निक्षिप्य, उत्तराग्रमग्नेः पश्चिमतो निहितं मध्यमं परिधि- मुपस्पृश्य अग्नेः पुरस्तादक्षिणोत्तरक्रमेण प्रागने इतरे द्वे आधारसमिधा- वादधाति । सव्येन पात्रं स्पृशन् दक्षिणेन हस्तेन परिध्यन्तः परिस्तरणोपरि। आदितेऽन्वमग्ग्स्थाः इति दक्षिणतः प्राचीनम् । अनुमतेऽन्वमग्गं स्थाः इति दक्षिणत उदीचीनम् । सरस्वतेऽन्वमग्गंस्थाः इत्युत्तरतः प्राचीनम् । देव सवितः प्रसुवेति समन्ततः प्रागारभ्य प्रदक्षिणं परिषिच्य, इध्ममाज्येनाभ्यज्य । अस्मिन् भगवत्प्रतिष्ठाहोमकर्मणि ब्रह्मन् इध्म- माधास्ये। इति ब्रह्माणं प्रतिब्रूयात् । ओं आधत्स्वेति प्रतिवचनम् । प्रजापतिं मनसा ध्यायन् , तूष्णीं घृताक्ताः पञ्चदशसमिधोऽनौ प्रक्षिपेत् । दा आज्यमादाय । ओं, अग्नये स्वाहा । अमय इदं न मम । इत्यनेर्दक्षिणभागे जुहुयात्। सोमाय स्वाहा। सोमायेदं न मम । इत्यमेरुत्तरभागे जुहुयात् । इन्द्राय स्वाहा। इन्द्रायेदं न मम । प्रजापतये स्वाहा। प्रजापतय इदं न मम । इत्यग्निमध्ये जुहुयात् ॥ द्विशीर्षकं सप्तहस्तं त्रिपादं सप्ताजह्वकम् ।
86 प्रतिष्ठाविधिः ओं . वरदं शक्तिपाणिं च बिभ्राणं सुनुवौ तथा ॥ अभीतिदं चर्मधरं वामे चाज्यधरं करे ।। इत्यानि ध्यात्वा। श्रीमते नारायणाय नम इति भगवन्तम् । श्रियै नम इति महालक्ष्मीम् । वहावाबाहनाऱ्यापाद्याचमनस्नानवस्त्रोप- वीतगन्धपुष्पधूपदपिनैवेद्यताम्बूलदक्षिणादिभिस्सम्पूज्य, अमिमध्ये ऋतु- स्नातया लक्ष्म्या सह भगवतस्संयोगं विचिन्त्य आहितगी लक्ष्मी विचिन्त्य तस्या अनेरुत्पत्तिं विचिन्तयेत् । अनेन विधिना वैष्ण- वाग्निस्सम्पद्यते । अनन्तरमुत्तरत आरभ्य कुण्डत्रयं मूलमन्त्रेण वीक्ष्य । ओं अस्त्राय फडिति प्रोक्ष्य गन्धपुष्परलङ्कृत्य तत्र तण्डुलान्विकीर्य पश्चिमत आरभ्योत्तरपर्यन्तं सुवेण दर्भमूलेन वा तिसस्तिस्रो रेखा लिखित्वा तत्र दर्भ न्यस्य तृणमद्भिरभ्युक्ष्य तृणं कुण्डत्रये निक्षिप्य, ओं भूर्भुवस्सुवरिति मन्त्रेण प्रधानकुण्डसंस्कृतमग्निं कुण्डत्रये प्रतिष्ठाप्य याज्ञिकैरिन्धनैः प्रज्वाल्य । अग्नये नमः । जातवेदसे नमः। सहोजसे नमः । अजिराप्रभवे नमः । वैश्वानराय नमः। नर्यापसे नमः । पति राधसे नमः । विसर्पिणे नमः । श्रीयज्ञपुरुषाय नमः। इत्यादिमन्त्रः प्रागाद्यष्टदिक्षु कुण्डत्रये अक्षतान् निक्षिप्य। आत्मने नम इति स्वमूर्ध्नि । सर्वेभ्यश्श्रीवैष्णवेभ्यो नम इति श्रीवैष्णवोपरि अक्षतान्निक्षि- पेत् । अदितेऽनुमन्यस्वेति दक्षिणतः प्राचीनम् । अनुमतेऽनुमन्यस्वेति दक्षिणत उदीचीनम् । सरस्वतेऽनुमन्यस्वेत्युत्तरतः प्राचीनम् । देव सवितः प्रसुव इति समन्ततोऽग्निकुण्डत्रये परिषिच्य परिषेचनक्रमेण प्रागुदगग्रैर्दभैरग्निकुण्डत्रये परिस्तीर्य । पुरुषसूक्तेन होमक्रमः. ततश्च पुरुषसूक्तेन होमं कुर्यात् । ओं सहस्रशीर्षा पुरुषः । सहस्राक्षस्सहस्रपात् । स भूमि विश्वतो वृत्वा । अत्यतिष्ठद्दशाङ्गुलम् ।
पुरुषसूक्तेन होमक्रमः 87 पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणायेदं न मम ॥ १॥ एवं पूर्वोक्तक्रमेण पञ्चदशहोमान् हुत्वा । वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसस्तु पारे । सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाभिवदन् यदास्ते । धाता पुरस्ताद्वयमुदाजहार । शक्रः प्रविद्वान् प्रदिशश्चतस्रः । तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते । पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणा- येदं न मम । यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानस्सचन्ते । यत्र पूर्व साध्यास्सन्ति देवाः । पुरुषाय नारायणाय स्वाहा । पुन मम ॥ १७ ॥ अद्भयस्संभूतः पृथिव्यै रसाच्च । विश्वकर्मणम्समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमाजानमग्रे । पुरु -- स्वाहा । पुरु - न मम । वेदाहमेतं पुरुषं महान्तं । आदित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय । पुरु-स्वाहा । पुरु--न मम । प्रजापति- श्वरति गर्ने अन्तः । अजायमानो बहुधा विजायते । तस्य धीराः परि- जानन्ति योनिम् । मरीचीनां पदमिच्छन्ति वेदसः । पुरु-स्वाहा । पुरु-न मम । यो देवेभ्य अतपति । यो देवानां पुरोहितः । पूर्वो यो देवेभ्यो जातः । नमो रुचाय ब्राह्मये । पुरु-स्वाहा । पुरु-ना-न मम । रुचं ब्राझं जनयन्तः । देवा अग्रे तदब्रुवन् । यस्त्वैवं ब्राह्मणो विद्यात् । तम्य देवा असन् वशे । पुरु-स्वाहा । पुरु-ना-न मम । हीश्च ते लक्ष्मीश्च पत्नयौ । अहोरात्रे पावें । नक्षत्राणि रूपम् । अश्विनौ व्यात्तम् । इष्टं मनिषाण । अमुं मनिषाण । सर्व मनिषाण । पुरुषाय नारायणाय स्वाहा । पुरुषाय नारायणायेदं न मम ॥ २३ ॥ ओं सहश्रशीर्ष देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देवमक्षरं
88
प्रतिष्ठाविधिः
परमं प्रभुम् । पुरुषाय नारायणाय स्वहा । पुरु-न मम ॥ २४ ॥
विश्वतः परमं नित्यं विश्व नारायणगं हरिम् । विश्वमेवेदं पुरुषस्त-
द्विश्वमुपजीवति । पु-हा । पु-म ॥ २५ ॥ पतिं विश्वस्यास्मेश्वरं
शाश्वतं शिवमच्युतम् । पु-हा । पु-म ॥२६॥ नारायणं
महाज्ञेयं विश्वात्मानं परायणम् । नारायणपरं ब्रह्म तत्वं नारायणः
परः । पु-हा । पू-म ॥२७॥ नारायणपरो ज्योतिरात्मा नारायणः
परः । पू-हा । पू-म ।। २८ । यच्च किञ्चिज्जगत्यस्मिन् दृश्यते
श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः ।पू-हा।
पु-म ॥ २९ ॥ अनन्तमव्ययं कविगं समुद्रेन्तं विश्वशम्भुवम् ॥
पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् । पु.--हा। पु-म ॥३०॥
अघो निष्टया वितस्त्यान्तु नाभ्यामुपरि तिष्ठति । हृदयं तद्विजानीया-
द्विश्वस्यायतनं महत् । पु-हा । पु-- म ॥ ३१ ॥ संततरां सिराभि-
स्तुलंबत्या कोशसन्निभम् । तस्यान्ते सुषिरगं सूक्ष्मं तस्मिन्त्सर्व
प्रतिष्ठितम् । पु--हा । पु--म ।।३२ ॥ तस्य मध्ये महानमि-
विश्वार्चिविश्वतो मुखः । सोग्रभुग्विभजन्तिष्ठन्नाहारमजरः कविः ।
पु-हा । पु-म ॥ ३३ ॥ सन्तापयति स्वं देहमापादतलमस्तकम् ।
तम्य मध्ये वह्निशिखा अणीयो; र्व्यवस्थितः । पूरु-हा । पु-म॥
नीलतोयदमध्यस्था विद्युल्लेखव भास्वरा । नीवारशूकवत्तन्वी पीता-
भा स्यात्तनूपमा । पुरु-हा । पु-म । तस्याश्शिखाया मध्ये परमात्मा
व्यवस्थितः । स ब्रह्मा स शिवस्सेन्द्रस्सोक्षरः परमस्स्वराट् । पु--हा ।
पु-म। ऋतगं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गळम् । ऊर्ध्वरेतं
विरूपाक्षं विश्वरूपाय वै नमः। ओं नारायणाय विद्महे वासुदेवाय
धामहि । तन्नो विष्णुः प्रचोदयात् । पुरु-हा । पुरु-न मम ॥ २६ ॥
विष्णुसूक्तेन होमक्रमः 89 विष्णुसूक्तेन होमक्रमः. ओं विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजाग्सि यो अस्कमा यदुत्तरगं सधस्थं विचक्रमाणस्त्रेधोरुगा यो विष्णो. रराटमसि विष्णोः पृष्ठमसि विष्णोञ्यप्त्रेस्स्थो विष्णोस्यूरसि विष्णो- ध्रुवमसि वैष्णवमसि विष्णवे त्वा स्वाहा । विष्णव इदन्न मम । तदस्य प्रियमभिपाथो अश्याम् । नरो यत्र देव यवो मदन्ति । उरुक्रमस्य स हि बन्धुरित्था । विष्णोः पदे परमे मध्व उत्सस्स्वाहा । वि-म। प्रतद्विष्णुस्तवते वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा स्वाहा । विष्णव इदं न मम । परो मात्रया तनुवा वृधा न । न ते महित्वमन्वाअवन्ति । उभे ते विद्मरजसी पृथिव्या। विष्णो देवत्वं परमस्य वित्से स्वाहा । वि-म । विचक्रमे पृथिवीमेष एताम् । क्षेत्राय विष्णुर्मनुषे दशस्यन् । ध्रुवासो अस्य कीरयोजनासः । उरुक्षितिग् सुजनिमाचकार स्वाहा । वि-म । त्रिर्देवः पृथिवीमेष एताम् । विचक्रमे शतर्चसं महित्वा । प्रविष्णुरस्तु तवसस्तवीयान् । त्वेषग्गं ह्यस्य स्थविरस्य नाम स्वाहा । विष्णव-म। अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे । पृथि- व्यास्सप्तधामभिस्स्वाहा । वि-म । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्यपागं सुरे स्वाहा । वि-म। त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः। ततो धर्माणि धारयन् स्वाहा । वि-म । विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यस्सखास्स्वाहा । वि-म । तद्विष्णोः परमं पदम् सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम् । तद्विप्रा सो विपन्यवो जागृवां सस्समिन्धते । विष्णोर्यत्परमं पदं स्वाहा । वि-म ॥ AGAMA VOL. III. : 12 90 प्रतिष्ठाविधिः वरुणा वरुणसूक्तहोमः. ओम् उदुत्तमं वरुणपाशमस्मदवाधमम् विमध्यमग्गं श्रधाय । अथावयमादित्यव्रते तवानागसो अदितये स्याम स्वाहा। वरुणायेदं न मम । अवते हेडो वरुण नमोभिरवयज्ञेभि रीमहे हविर्मिः क्षयन्नमभ्यमसुरप्रचेतो राजन्नेनागं सिशिश्रथः कृतानि स्वाहा । -- न मम। अस्तभ्नाद्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आसीदद्विश्वा भुवनानि सम्राडिश्वेत्तानि वरुणस्य व्रतानि वनेषु व्यन्तरिक्षं ततान वाजमवत्सु पयो अन्नियासु हृत्सु स्वाहा । वरु-न मम । इति मन्त्रेण पूर्वकुण्डे आहुतित्रयं दद्यात् । अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे । पृथिव्यास्तप्तधामभिस्स्वाहा । विष्णव इदं न मम । त्रीणि पदा विचक्रमे विष्णुगोपा अदाभ्यः । ततो धर्माणि धारयन् स्वाहा। विष्णव इदं न मम । इति मन्त्रत्रयेण दक्षिणकुण्डे आहुतित्रयं दद्यात् । विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजागंसि यो अस्कभायदुत्तरगं सधस्थं विचक्रमाणस्त्रे- घोरुगायो विष्णो रराटमसि विष्णोः पृष्ठमसि विष्णोनयन्त्रेस्थो विष्णो- स्स्यूरसि विष्णोध्रुवमसि वैष्णवमसि विष्णवे त्वा स्वाहा। विष्णव- म। तदस्य प्रियमभिपाथो अश्याम् । नरो यत्र देव यवो मदन्ति । उरुक्रमस्य स हि बन्धुरित्था । विष्णोःपदे परमे मध्व उत्स स्स्वाहा । विष्णव-न मम । प्रतद्विष्णुस्तावते वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेषु । आधिक्षियन्ति भुवनानि विश्वा स्वाहा । वि-म। इति मन्त्रत्रयेण पश्चिमकुण्डे आहुतित्रयं दद्यात् । परो मात्रया तनुवा वृधान । न ते महित्वमन्वश्नुवन्ति । उभे ते विमरजसी पृथिव्या । विष्णो देव त्वं परमस्य वित्से स्वाहा । वि-म । विचक्रमे पृथिवीमेष एताम् । क्षेत्राय विष्णुर्मनुषे दशस्यन् । - 91 श्रासूक्तेन होमः ध्रुवासो अस्य कीरयोजनासः ! उरुक्षितिगं सुजनिमाचकार स्वाहा । वि-म । त्रिदेवः पृथिवीमेष एताम्। विचक्रमे शतर्चसं महित्वा । प्रविष्णुरस्तु तवसस्तवीयान् । त्वेषग्गं ह्यस्य स्थविरस्य नाम वाहा। वि-म। इति मन्त्रेणोत्तरकुण्डे आहुतित्रयं दद्यात् । ततश्च श्री- भूसूक्ताभ्यां चतुर्वपि कुण्डेषु होमं कुर्युः ॥ श्रीसूक्तेन होमः, ओम् हिरण्यवर्णां हरिणीम् सुवर्णरजतस्रजाम् । चन्द्रा हिरण्मयीं लक्ष्मी जातवेदो ममावह स्वाहा । श्रिया इदं न मम । तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् स्वाहा। श्रिया इदं न मम। अश्वपूर्वां रथमध्यां हस्तिनाथप्रप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषतां स्वाहा । श्रिया इदं न मम । कांसोस्मितां हिरण्यप्राकारामार्दा ज्वलन्ती तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां त्वामिहोपह्वये श्रियम् स्वाहा । श्रिया-म । चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदा- राम् । तां पद्मनेमीगं शरणमहं प्रपद्ये खाहा । श्रिया-म । अलक्ष्मीर्मे नश्यतां त्वां वृणे खाहा । श्रिया-म । आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसा नुदन्तु मायान्तरा- याश्च बाह्या अलक्ष्मीस्वाहा । श्रिया-म । उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेस्मिन् कीर्तिमृद्धिं ददातु मे खाहा । श्रिया-म । क्षुत्पिपासामला ज्येष्ठामलक्ष्मी नाशयाम्यहम् । अभूतिम- समृद्धिञ्च सर्वान्निर्गुद मे गृहात् खाहा । श्री-म । गंधद्वारां दुराधर्षा नित्यपुष्टां करीषिणीम् । ईश्वरीगं सर्वभूतानां त्वामिहोपह्वये श्रियम् खाहा । श्रि-म । मनसः काममाकतिं वाचस्सत्यमशीमहि । पशूनागू 92 प्रतिष्ठाविधिः रूपमन्नस्य मयि श्रीश्रयतां यशस्वाहा । श्रि-म। कर्दमेन प्रजा भूता मयि सम्भव कर्दमा । श्रियं वासय मे कुले मातरं पद्ममालिनीम् स्वाहा । श्रि-म। आपस्सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे । निचदेवी मातरं श्रियं वासय मे कुले स्वाहा । श्रि-म । आर्द्रा पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो ममावह स्वाहा। श्रि-म । आर्द्रा पु(य)ष्करिणीं पु(य)ष्टिं पिङ्गळां पद्म मालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मी जातवेदो ममावह स्वाहा । श्रि-म। तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो- दाम्योश्वान् विन्देयं पुरुषानहम् स्वाहा । श्रिया-न मम ।। फलश्रुतिः. यश्शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । श्रियः पञ्चदशर्चञ्च श्रीकामस्सततं जपेत् ॥ पद्मप्रिये पद्मनि पद्महस्ते पद्मालये पद्मदळायताक्षि । विश्वप्रिये विष्णुमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व । ओं महादेव्यै च विद्महे विष्णुपत्नयै च धीमहि । तन्नो लक्ष्मीः प्रचोदयात्स्वाहा । श्रिया इदन्न मम ॥ भूसूक्तहोमः. ओं भूमिर्भूना द्यौर्वरिणान्तरिक्षं महित्वा। उपस्थेते देव्य- दितेऽमिमन्नादमन्नाद्यायादधे । स्वाहा। भूम्या इदन्न मम । आयं गौः पृश्निरक्रमीदसनन्मातरं पुनः । पितरञ्च प्रयन्त्सुवस्स्वाहा। भूम्या इदन्न मम । त्रिगं शद्धाम विराजति वाक्पतङ्गाय शिश्रिये । प्रत्यस्य वह धुभिः स्वाहा। भू-म ।। अस्य प्राणादपानत्यन्तश्चरति रोचना । व्यख्य- न्महिषस्सुवस्स्वाहा । भू-न मम । यत्वा क्रुद्धः परो वपमन्युना यदवा ।
भूसूक्तहोमः 93 सुकल्पमने तत्तवपुनस्त्वोद्दीपयामास स्वाहा । भू-म । यत्ते मन्युपरोप्तस्य पृथिवीमनुदध्वसे । आदित्या विश्वे तद्देवा वसवश्च समाभरन् स्वाहा । भूम्या-म । मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी । ब्रह्मवर्चसः पितृणागं श्रोत्रं चक्षुर्भनः । देवी हिरण्यगर्मिणी देवी प्रसूवरी। रसने सत्यायने सीद स्वाहा । भू-म । समुद्रवती सावित्री ह नो देवीमह्यङ्गी। महीधरणी महोब्यधिष्ठा स्वाहा । भू-म । शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी । इन्द्रपत्नी व्यापिनी सुरसरिदिह । वायुमती जलशयिनी स्वाहा । भू-म। सयं धाराजा सत्यन्धोपरि मेदिनी । श्वोपरिधत्तं गाय- स्वाहा । भू-म। विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियाम् । लक्ष्मी- प्रियसखीं देवीं नमाम्यच्युतवल्लभां स्वाहा। भू-म । ओं धनुर्धरायै विद्महे सर्वसिद्धयै च धीमहि । तन्नो धरा प्रचोदयात्स्वाहा । भूम्या इदं न मम॥ ओं अग्निमीळे पुरोहितम् । यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमं स्वाहा । ऋग्वेदायेदं न मम। अनेनानुवाकेन पूर्वकुण्डे अष्टोत्तरशताहुतीर्जुहुयात् । इषेत्वोर्जे त्वा वायवस्थोपायवस्थ देवो वस्सविता प्रापयतु श्रेष्ठतमाय कर्मणे स्वाहा। युजुर्वेदायेदं न मम । अनेन दक्षिणकुण्डे अष्टोत्तरशताहुतीर्जुहुयात् । अग्न आयाहि वीतये गृणानो हव्यदातये। निहोता सत्सि बर्हिषि स्वाहा । सामवेदायेदं न मम । अनेन पश्चिमकुण्डे अष्टोत्तरशताहुतीर्जुहुयात् । शं नो देवीरभिष्टये। आपो भवन्तु पीतये । शं योरभिस्रवन्तु नस्स्वाहा । अथर्वणवेदायेदं न मम । अनेनोत्तरकुण्डे अष्टोत्तरशताहुतीर्जुहुयात् । हिरण्यगर्भस्समवर्त- ताने भूतस्य जातः पतिरेक आसीत्। सदाधारपृथिवीं चामुतेमां कस्मै देवाय हविषा विधेम स्वाहा । हिरण्यगर्भायेदं न मम । अनेन पूर्णकुण्डे 94 प्रतिष्ठाविधिः अष्टोत्तरशताहुतीर्जुहुयात् । आमिर्गीर्भिर्यदतो न ऊनमाप्यायय हरि वो वर्धमानः। यदा स्तोतृभ्यो महिगोत्रा रुजासि भूयिष्ठभाजो अथ ते स्याम स्वाहा । इन्द्राय हरिवते वर्धमानायेदं न मम। इति मन्त्रण तिलैर्दक्षिणकुण्डे अष्टोत्तरशताहुतीर्नुहुयात् । नारायणं महाज्ञेयं विश्वा- स्मानं परायणम् । नारायणपरं ब्रह्म तत्वं नारायणः परः। नारायण- परो (ध्याता ध्यान) ज्योतिरात्मा नारायणः परस्स्वाहा। नारायणायेदं न ममेति मन्त्रेण पश्चिमकुण्डे ब्रीहिभिरष्टोत्तरशताहुतीर्नुहुयात्। उत्तिष्ठ- ब्रह्मणस्पते । देव यन्तस्त्वेमहे । उपप्रयन्तु मरुतस्सुदानवः । इन्द्र प्राशूभवा सचा स्वाहा । ब्रह्मण इदं न मम । अनेनोत्तरकुण्डे समिद्भि- रष्टोत्तरशताहुतीर्जुहुयात् । ततो मूलमन्त्रेण सर्पिषा ओं नमो भगवते वासुदेवाय नम इति मन्त्रेण पश्चिमकुण्डे अष्टोत्तरसहस्राहुतीर्जुहुयात् । ओं केशवाय स्वाहा। केशवायेदं न मम। ओं नारायणाय स्वाहा । नारायणायेदं न मम । ओं माधवाय स्वाहा। माधवायेदं न मम। ओं गोविन्दाय स्वाहा । गोविन्दायेदं न मम। ओं विष्णवे स्वाहा। विष्णव इदं न मम । ओं मधुसूदनाय स्वाहा। मधुसूदनायेदं न मम । ओं त्रिविक्रमाय स्वाहा । त्रिविक्रमायेदं न मम । ओं वामनाय स्वाहा। वामनायेदं न मम । ओं श्रीधराय स्वाहा। श्रीधरायेदं न मम । ओं हृषीकेशाय स्वाहा । हृषीकेशायेदं न मम । ओं पद्मनाभाय स्वाहा । पद्मनाभायेदं न मम । ओं दामोदराय स्वाहा । दमोदरायेदं न मम । ओं वासुदेवाय स्वाहा । वासुदेवायेदं न मम । ओं सङ्कर्षणाय स्वाहा। सङ्कर्षणायेदं न मम । ओं प्रद्युम्नाय स्वाहा । प्रद्युम्नायेदं न मम । ओं अनिरुद्धाय स्वाहा । अनिरुद्धायेदं न मम । -एभिर्मन्त्रैश्चतुर्वपि कुण्डेषु होमं कुर्यात् ॥
95 भूसूक्तहोमः ततो विष्णुनामसहस्रेण चतुर्वपि कुण्डेषु होमं कुर्यात् । ओं विश्वस्मै स्वाहा । विश्वमा इदं न मम। ओं विष्णवे स्वाहा । विष्णव इदं न मम । ओं सर्वप्रहरणायुधाय स्वाहा । सर्वप्रहरणायुधायेदं न मम । इत्येवं सहस्रनाम होतव्यम् ॥ ततो नित्यमुक्तनामभिश्चतुर्वपि कुण्डेषु होमं कुर्यात् । ओं आधारशक्तयै स्वाहा । आधारशक्तया इदं न मम । ओं अखिल- जगदाधाराय कूर्मरूपिणे नारायणाय स्वाहा। अखिलजगदाधाराय कूर्म- रूपिणे नारायणायेदं न मम | ओं अनन्ताय नागराजाय स्वाहा । अनन्ताय नागराजायेदं न मम । ओं भू भूम्यै स्वाहा । भूम्या इदं न मम । ओं श्रीवैकुण्ठाय दिव्यलोकाय स्वाहा। श्रीवैकुण्ठाय दिव्यलोकायेद न मम । ओं श्रीवैकुण्ठाय दिव्यजनपदाय स्वाहा । श्रीवैकुण्ठाय दिव्यजनपदा- येदं न मम । ओं श्रीवैकुण्ठाय दिव्यनगराय स्वाहा । श्रीवैकुण्ठाय दिव्य- नगरायेदं न मम । ओं श्रीवैकुण्ठाय दिव्यविमानाय स्वाहा। श्रीवैकुण्ठाय दिव्यविमानायेदं न मम । ओं आनन्दमयाय दिव्यमण्टपरत्नाय स्वाहा । दिव्यमण्टपरत्नायेदं न मम । ओं आस्तरणरूपिणे अनन्ताय नागराजाय स्वाहा । अनन्ताय नागराजायेदं न मम । ओं धर्माय पीठपादाय स्वाहा । धर्माय पीठपादायेदं न मम । ओं ज्ञानाय पीठपादाय स्वाहा । ज्ञानाय पीठपादायेदं न मम । ओं वैराग्याय पीठपादाय स्वाहा । वैराग्याय पीठपादायेदं न मम । ओं ऐश्वर्याय पीठपादाय स्वाहा । ऐश्वर्याय पीठपादायेदं न मम । ओं ऋग्वेदाय पठिवाहकाय स्वाहा । ऋग्वेदाय पीठवाहकायेदं न मम । ओं यजुर्वे- दाय पीठवाहकाय स्वाहा । यजुर्वेदाय पीठवाहकायेदं न मम । ओं 96 प्रतिष्ठाविधिः सामवेदाय पीठवाहकाय स्वाहा । सामवेदाय पीठवाहकायेदं न मम । ओं अथर्वणवेदाय पीठवाहकाय स्वाहा । अथर्वणवेदाय पीठवाहका- येदं न मम | ओं धर्माय पठिगात्राय स्वाहा । धर्माय पीठगात्रायेदं न मम । ओं अधर्माय पीठगात्राय स्वाहा । अधर्माय पीठगात्रायेदं न मम । ओं अज्ञानाय पीठगात्राय स्वाहा । अज्ञानाय पीठगात्रायेदं न मम । ओं अवैराग्याय पीठगात्राय स्वाहा । अवैराग्याय पीठगात्रा- येदं न मम । ओं अनैश्वर्याय पीठगात्राय स्वाहा । अनैश्वर्याय पाठगात्रायेदं न मम । ओं एभिः परिच्छिन्नतनवे सदसदात्मकाय स्वाहा ! सदसदात्मकायेदं न मम । ओं पीठभूताय नागराजाय म्वहा । पीठभूताय नागराजायेदं न मम । ओं पीठम्योपरि अष्टदल- पद्माय स्वाहा । अष्टदलपद्मायेदं न मम । ओं वह्निमण्डलाय स्वाहा । वहिमण्डलायदं न मम । ओं मोममण्डलाय स्वाहा। सोममण्डलायेदं न मम । ओं सूर्यमण्डलाय स्वाहा । सूर्यमण्डलायेदं न मम । ओं विमलायै चामरहस्तायै स्वाहा । विमलायै चामरहस्ताया इदन्न मम । ओं उत्कर्षिण्यै चामरहस्तायै स्वाहा । उत्कर्षिण्यै चामरहस्ताया इदन्न मम । ओं ज्ञानायै चामरहस्तायै स्वाहा । ज्ञानाया इदन्न मम । ओं क्रियायै चामरहस्तायै स्वाहा । क्रियाया इदं न मम । ओं प्रय चामरहस्तायै स्वाहा । प्रड्या इदं न मम । ओं सत्यायै चामरहस्तायै स्वाहा । सत्याया इदं न मम । ओं ईशानायै चामरहस्तायै स्वाहा । ईशानाया इदं न मम । ओं योगायै चामरहस्तायै स्वाहा । योगाया इदं न मम । ओं अनुग्रहायै चामरहस्तायै स्वाहा । अनुग्रहाया इदं न मम । ओं जगत्प्रकृतये योगपीठवाहकाय स्वाहा । जगत्प्रकृतय इदं न मम । ओं सहस्रशीर्षायानन्ताय नागराजाय स्वाहा । अनन्ताय भूसूक्तहोमः 97 नागराजायेदं न मम । ओं पुरतः पादपीठाय स्वाहा । पादपीठायेदं न मम । ओं भगवत्पादुकाभ्यां स्वाहा । भगवत्पादुकाभ्यामिदं न मम । ओं अस्मद्गुरुभ्यस्स्वाहा । अस्मद्गुरुभ्य इदं न मम । अस्मत्परमगुरुभ्य- स्स्वाहा । अस्मत्परमगुरुभ्य इदं न मम । ओं अस्मत्सर्वगुरुभ्यस्स्वाहा । सर्वगुरुभ्य इदं न मम । श्रीमते वेदान्तगुरवे स्वाहा । वेदान्तगुरव इदं न मम। ओं श्रीमते रामानुजाय स्वाहा । रामानुजायेदं न मम । ओं श्रीपूर्णमिश्राय स्वाहा। पूर्णमिश्रायेदं न मम । ओं श्रीमद्यामुनमुनये स्वाहा। श्रीमद्यामुनमुनय इदं न मम । ओं श्रीराममिश्राय स्वाहा । राममिश्रायेदं न मम । ओं श्रीपुण्डरीकाक्षाय स्वाहा । श्रीपुण्डरीका- क्षायेदं न मम । ओं श्रीमन्नाथमुनये स्वाहा । नाथमुनय इदं न मम । ओं श्रीशठकोपाय स्वाहा । शठकोपाय इदं न मम । ओं श्रीमते विष्वक्सेनाय स्वाहा । विष्वक्सेनायेदं न मम । ओं पद्मायै स्वाहा । पद्माया इदं न मम । ओं सुदर्शनाय हेतिराजाय स्वाहा । सुदर्शनाय हेतिराजायेदं न मम । ओं पाञ्चजन्याय शङ्खाधिपतये स्वाहा । पाञ्चजन्याय शङ्खाधिपतय इदं न मम । ओं कौमोदक्यै गदाधिपतये स्वाहा । कौमोदक्यै गदाधिपतय इदं न मम । ओं नन्दकाय खड्गाधिपतये स्वाहा । नन्दकाय खड्गाधिपतय इदं न मम । ओं शाीय सशराय चापाधिपतये स्वाहा । शायि चापाधिपतय इदं न मम । ओं श्रीवत्साय श्रीनिवासाय स्वाहा । श्रीवत्साय श्रीनिवासायेदं न मम । ओं श्रीकौस्तुभाय रत्नाधिपतये स्वाहा । कौस्तुभाय रत्नाधि- पतय इदं न मम । ओं वैजयन्त्यै वनमालायै स्वाहा। वैजयन्त्यै वन- मालाया इदं न मम । ओं श्रियै स्वाहा । श्रिया इदं न मम । ओं भू म्यै स्वाहा । भूम्या इदं न मम। ओं नीळायै स्वाहा । नीळाया इदं न मम। ओं हां पुष्टयै स्वाहा। पुष्टया इदं न मम । ओं AGAMA VOL. III. 13 98 प्रतिष्ठाविधिः इं सरस्वत्यै स्वाहा । सरस्वत्या इदं न मम । ओं द्रां निद्रायै स्वाहा । निद्राया इदं न मम । ओं क्लीं कान्त्यै स्वाहा। कान्त्या इदं न मम । ओं कं पृथिव्यै स्वाहा । पृथिव्या इदं न मम । ओं गं गरुडाय स्वाहा । गरुडायेदं न मम । ओं किरीटाय मकुटाधिपतये स्वाहा । किरीटायेदं न मम । ओं किरीटमालायै आपीडात्मने स्वाहा। आपीडात्मन इदं न मम। ओं दक्षिणकुण्डलाय मकरात्मने स्वाहा । दक्षिणकुण्डलायेदं न मम। ओं वामकुण्डलाय मकरात्मने खाहा । वामकुण्डलायेदं न मम । ओं कण्ठिकाभरणाय स्वाहा । कण्ठिकाभरणायेदं न मम । ओं श्रीमत्तुलस्यै स्वाहा। तुलस्या इदं न मम । ओं हाराय सर्वाभरणाधिपतये स्वाहा। हारायेदं न मम । ओं काञ्चीगुणोज्ज्वलाय दिव्यपीताम्बराय स्वाहा। पीताम्बरायेदं न मम । ओं सर्वेभ्यो भगवद्भूषणेभ्यस्स्वाहा । भगवद्भूषणेभ्य इदं न मम । ओं सर्वेभ्यो भगवदिव्यायुधेभ्यस्स्वाहा । भगवहिव्यायुधेभ्य इदं न मम । ओं सर्वाभ्यो भगवत्पादसंवाहिनीभ्यस्स्वाहा । भगवत्पाद संवाहिनीभ्य इदं न मम । ओं सर्वेभ्यो भगवत्परिकरेभ्यस्वाहा । भगवत्परिकरेभ्य इदं न मम । ओं अनन्ताय नागराजाय स्वाहा । अनन्ताय नागराजा- येदं न मम । ओं विष्वक्सेनाय खाहा । विष्वक्सेनायेदं न मम । ओं सूत्रवत्यै खाहा । सूत्रवत्या इदं न मम । ओं जयत्सेनाय स्वाहा । जयत्सेनायेदं न मम । ओं गं गजाननाय स्वाहा । गजाननायेदं न मम । ओं हं हयवक्ताय स्वाहा। हयवत्रायेदं न मम । ओं के कालप्रकृति- संज्ञाय स्वाहा । कालप्रकृतिसंज्ञायेदं न मम । ओं सर्वेभ्यो विष्व- क्सेनपरिकरेभ्यस्स्वाहा । विष्वक्सेनपरिकरेभ्य इदं न मम । ओं चण्डाय द्वारपालाय स्वाहा। चण्डाय द्वारपालायेदं न मम । ओं प्रचण्डाय द्वारपालाय स्वाहा। प्रचण्डाय द्वारपालायेदं न मम । ओं भूसूक्तहोमः 99 भद्राय द्वारपालाय स्वाहा। भद्राय द्वारपालायेदं न मम । ओं सुभद्राय द्वारपालाय स्वाहा। सुभद्राय द्वारपालायेदं न मम । ओं जयाय द्वारपालाय स्वाहा। जयाय द्वारपालायेदं न मम । ओं विजयाय द्वारपालाय स्वाहा। विजयाय द्वारपालायेदं न मम । ओं धात्रे द्वार- पालाय स्वाहा । धात्रे द्वारपालायेदं न मम । ओं विधात्रे द्वारपालाय स्वाहा। विधात्रे द्वारयालायेदं न मम । ओं कुमुदाय गणाधिपतये सायुध- सवाहनसपरिवारप्रहरणाय स्वाहा । कुमुदायेदं न मम । ओं कुमुदा- क्षाय गणाधिपतये सायुधसवाहनसपरिवारप्रहरणाय स्वाहा । कुमुदाक्षायेदं न मम । ओं पुण्डरीकाय गणाधिपतये सायुधसवाहन- सपरिवारप्रहरणाय स्वाहा । पुण्डरीकायेदं न मम । ओं वामनाय गणाधिपतये सायुधसवाहनसपरिवारप्रहरणाय स्वाहा । वामनायेदं न मम । ओं शङ्कुकर्णाय गणाधिपतये सायुधसवाहनसपरिवार- प्रहरणाय स्वाहा। शङ्कुकर्णायेदं न मम । ओं सर्वनेत्राय गणाधिपतये सायुधसवाहनसपरिवारप्रहरणाय स्वाहा । सर्वनेत्रायेदं न मम । स्वाहा । ओं सुमुखायेदं न मम । ओं सुप्रतिष्ठिताय गणाधिपतये सायुध स्वाहा। सुप्रतिष्ठिता- येदं न मम । ओं सर्वेभ्यो भगवद्गणाधिपतिभ्यस्स्वाहा। भगवद्गणाधि- पतिभ्य इदं न मम । ओं मुक्तेभ्यस्स्वाहा। मुक्तेभ्य इदन्न मम । ओं समस्तपरिवाराय श्रीमते नारायणाय स्वाहा । नारायणायेदं न मम । श्रीमते रामानुजाय स्वाहा । रामानुजायेदं न मम । ओं श्रीमते वेदान्त- गुरवे स्वाहा । वेदान्तगुरव इदं न मम । एवं रात्रौ होमं कृत्वा जागरणं कुर्यात् ॥ ओं सुमुखाय गणाधिपतये . इति धान्याधिवासस्सम्पूर्णः.
100 प्रतिष्ठाविधि: अनन्तरं रजन्यां व्युष्टायामाचार्यों ऋत्विजश्च सर्वे कृतस्नाना धृतोर्ध्वपुण्ड्रा नवाम्बरधारिणो नवभूषणालङ्कृताः कृतनित्यक्रिया गशालामागच्छेयुः ॥ अथ प्रतिष्ठातृतीयवासरक्रमः तत आचार्यः । ओं उत्तिष्ठ ब्रह्मणस्पते । देवयन्तस्त्वेमहे । पप्रयन्तु मरुतस्सुदानवः इन्द्रप्राशूर्भवासचा । प्रेतु ब्रह्मणस्पतिः । प्रदेव्येतु सूनृता । अच्छावीरं नवं पङ्किराधसम् । देवा यज्ञं नयन्तु नः । देवी द्यावापृथिवी अनुमेमगं साथां । ऋध्या समद्य । मखस्य शिरः । मखाय त्वा। मखस्य त्वा शीणें । देवीर्वम्रीरस्य भूतस्य प्रथमजा ऋता- वरीः। ऋध्या समद्य। मखस्य शिरः। मखाय त्वा । मखस्य त्वा शीर्णे। इन्द्रस्योजोसि । ऋध्या समद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीणे । अग्निजा आसि प्रजापतेरेतः । ऋध्या समद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीणे । आयुर्धेहि प्राणं घेहि । अपानं घेहि व्यानं घेहि । चक्षुर्धेहि श्रोत्रं घेहि । मनो धेहि वाचं धेहि । आत्मानं घेहि प्रतिष्ठां देहि । मां घेहि मयि घेहि । मधु त्वा मधुलाकरोतु । मखस्य शिरोसि । यज्ञस्य पदेस्थः । गायत्रेण त्वा छन्दसा करोमि । त्रैष्टुमेन त्वा छन्दसा करोमि । जागतेन त्वा छन्दसा करोमि । मखस्य रास्नासि । अदितिस्ते बिलं गृह्णातु पालेन छन्दसा । सूर्यस्य हरसाश्राय । मखोसि । इति मन्त्रेण भगवन्त- मुत्थाप्य प्रधान कुण्डस्योत्तरपार्वे नवीनपीठे निवेशयेत् । श्रीमते नारायणाय नमः इति मन्त्रेण भगवते ओं श्रियै नम इति मन्त्रेण महालक्ष्म्यै अर्यपाद्याचामस्नानवस्त्रोपवीतगन्धपुष्षधूपदीपनैवेद्यमधुपर्क- नीराजनानि दद्यात् ।। ।
अथाजहोमः 101 अथाङ्गहोमः. तत आज्येन सूर्योदयात्मागङ्गहोमं कुर्यात् । आहुत्यन्ते प्रति- माया अवयवेषु न्यसेत् । ओं मकाराय जीवात्मकाय स्फटिकाकाराय स्वाहा । इति हुत्वा ओं मं नम इति त्यागं कृत्वा शिरसि न्यसेत् । ओं भकाराय सितवर्णाय प्रकृत्यात्मने नमस्स्वाहा । इति हुत्वा भं नम इति त्यागं कृत्वा शिरसि न्यसेत् । ओं बकाराय बुद्धितत्वात्म- काय स्फटिकाकारायस्वाहा । इति हुत्वाबनम इति त्यागंकृत्वा हृदिन्य- सेत् । ओं फकाराय पाटलवर्णाय अहङ्कारात्मने स्वाहा । इति हुत्वा फं नम इति त्यागं कृत्वा हृदिन्यसेत् ॥ ओं पकाराय सितवर्णाय मन आत्मने स्वाहा । इति हुत्वा ओं पं नम इति त्यागं कृत्वा हृदि न्यसेत् । ओं नकाराय शुक्लवर्णाय शब्दतन्मात्रात्मने स्वाहा । इति हुत्वा । ओं नं नम इति त्यागं कृत्वा श्रोत्रयोन्यसेत् । ओं धकाराय लोहितवर्णाय स्पर्शतन्मात्रात्मने स्वाहा । इति हुत्वा धं नम इति त्यागं कृत्वा त्वचि न्यसेत् । ओं दकाराय कर्बुरवाय रूपतन्मात्रात्मने स्वाहा । इति हुत्वा दं नम इति त्यागं कृत्वा दृशोन्यसेत् । ओं थकाराय पाण्डुरवाय रसतन्मात्रात्मने स्वाहा । इति हुत्वा । थं नम इति त्यागं कृत्वा तालुनि न्यसेत् । ओं तकाराय सितवर्णाय गन्ध- तन्मात्रात्मने स्वाहति हुत्वा तं नम इति त्यागं कृत्वा नासिकायाम् । ओं णकाराय पाटलवर्णाय श्रोत्रात्मने स्वाहा । इति हुत्वा णं नम इति त्यागं कृत्वा कर्णयोन्यसेत् । ओं ढकाराय हेमवर्णाय त्वगात्मने स्वाहेति हुत्वा ओं ढं नम इति त्यागं कृत्वा त्वचि न्यसेत् । ओंडकाराय कृष्णवर्णाय नेत्रात्मने नमस्स्वाहेति हुत्वा । ओं डं नम इति त्यागं कृत्वा नेत्रयोः । ओं ठकाराय गौरवर्णाय जिह्वात्मने स्वाहेति हुत्वा ओं ठं नम इति त्यागं कृत्वा जिह्वायाम्। ओं टकाराय 102 प्रतिष्ठाविधिः असितवर्णाय घ्राणात्मने स्वाहेति हुत्वा। ओं टं नम इति त्यागं कृत्वा प्राणे । ओं अकाराय सितवर्णाय वागिन्द्रियात्मने स्वाहेति हुत्वा । ओं नं नम इति त्यागं कृत्वा वागाघरे । ओं झकाराय रक्तवर्णाय पाणीन्द्रियात्मने स्वाहेति हुत्वा ओं झन्नम इति त्यागं कृत्वा करयोः । ओं जकाराय रक्तवर्णाय पादात्मने स्वाहेति हुत्वा ओं जं नम इति त्यागं कृत्वा पादयोः। ओं छकाराय रक्तवर्णाय पायवात्मने स्वाहेति हुत्वा ओं छं नम इति त्यागं कृत्वा पायौ। ओं चकाराय हेमवर्णाय मेहनात्मने स्वाहेति हुत्वा । ओं चं नम इति त्यागं कृत्वा मेहने न्यसेत् । ओं डकाराय पीतवर्णाय पृथिवीतत्वाय चतुरश्राय स्वाहेति हुत्वा ओं ऊँ नम इति त्यागं कृत्वा पादादिजानुपर्यन्तं न्यसेत् । ओं धकाराय स्फटिकवर्णाय जलात्मने अर्धचन्द्राकाराय स्वाहेति हुत्वा । घं नम इति त्यागं कृत्वा जान्वादिगुह्यपर्यन्तं न्यसेत् । ओं गकाराय लोहितवर्णाय तेज आत्मने त्रिकोणाय स्वाहेति हुत्वा । ओं गं नम इति त्यागं कृत्वा गुह्यादिनाभ्यन्तम् । ओं खकाराय वेदिकाकाराय धूम्रवर्णाय वाय्वात्मने स्वाहेति हुत्वा ख नम इति त्यागं कृत्वा नाभ्यादिघ्राणान्तं न्यसेत् । ओं ककाराय पृथ्व्यात्मने स्वाहेति हुत्वा ओं कं नम इति त्यागं कृत्वा घ्राणादिकेशपर्यन्तं न्यसेत् । इति तत्वहोमं न्यासं च कृत्वा । दशवायूनां होमं न्यासं च कुर्यात् ॥ प्राणाय स्वाहेति हुत्वा प्राणाय नम इति त्यागं कृत्वा हृदि । ओं अपानाय स्वाहेति हुत्वा । अपानाय नम इति त्यागं कृत्वा अपाने न्यसेत् । ओं समानाय स्वाहेति हुत्वा समानाय नम इति त्यागं कृत्वा नाभौ । ओं उदानाय स्वाहेति हुत्वा । उदानाय नम इति त्यागं कृत्वा कण्ठे । ओं व्यानाय स्वाहेति हुत्वा व्यानाय नम इति त्यागं कृत्वा सर्वाङ्गे । ओं नागाय स्वाहेति हुत्वा नागाय नम अथानहोमः : 108 : इति त्यागं कृत्वा हृदि । ओं कूर्माय स्वाहेति हुत्वा । कूर्माय नम इति त्यागं कृत्वा गुदे । ओं कृकलाय स्वाहेति हुत्वा । कृकलाय नम इति त्यागं कृत्वा कण्ठे। ओं केसराय स्वाहेति हुत्वा । केस- राय नम इति त्यागं कृत्वा नाभौ । ओं धनञ्जयाय स्वाहा । इति हुत्वा । धनञ्जयाय नम इति त्यागं कृत्वा सर्वाङ्गे विन्यसेत् । एवं श्रियादीनामपि न्यसनं कुर्वात् ।।- सुदर्शनाद्यायुधानि वनमालादिकान्यपि । न्यस्येद्यथायुधं मन्त्री प्रतिकायञ्च शाङ्गिणः ॥ ओं सुदर्शनाय हेतिराजाय स्वाहेति हुत्वा, सुदर्शनाय नम इति दक्षिण. हस्ते ओं पाञ्चचन्याय शंखादिपतये स्वाहेति हुत्वा, ओं पाञ्चजन्याय शंखादिपतये नम इति त्यागं कृत्वा वामहस्ते । ओं कौमोदक्यै गदाधिपतये स्वाहेति हुत्वा, कौमोदक्यै गदाधिपतये नम इति त्यागं कृत्वा वामहस्ते । ओं नन्दकाय खड्गाधिपतये स्वाहेति हुत्वा नन्दकाय खड्गाधिपतये नम इति त्यागं कृत्वा वामकट्याम् ! ओं शाीय चापधिपतये स्वाहेति हुत्वा, शामय चापाधिपतये नम इति त्यागं कृत्वा वामहस्ते न्यसेत्। ओं किरीटाय मकुटात्मने स्वाहा इति हुत्वा । किरीटाय मकुटात्मने नम इति त्यागं कृत्वा शिरसि । ओं किरीटमालायै आपीडात्मने स्वाहेति हुत्वा। किरीट- मालायै आपीडात्मने नम इति त्यागं कृत्वा असयोः। ओं दक्षिणकुण्डलाय मकरात्मने स्वाहा इति हुत्वा, दक्षिणकुण्डलाय मकरात्मने नम इति त्यागं कृत्वा दक्षिणकर्णे । ओं वामकुण्डलाय मकरात्मने स्वाहेति हुत्वा । बामकुण्डलाय मकरात्मने नम इति त्यागं कृत्वा वामकर्णे । ओं वैजयन्त्यै वनमालायै स्वाहा । .
104 प्रतिष्ठाविधिः . वैजयन्त्यै वनमालाया इदं न मम । इति त्यागं कृत्वा वक्षः- पार्श्वयोः । ओं हाराय सर्वाभरणाधिपतये स्वाहेति हुत्वा । हाराय नम इति त्यागं कृत्वा वक्षःपार्श्वयोः। ओं श्रीवत्साय श्रीनिवासाय स्वाहा इति हुत्वा । श्रीवत्साय नम इति त्यागं कृत्वा दक्षिणोरसि । ओं कौस्तुभाय रत्नाधिपतये स्वाहेति हुत्वा कौस्तुभाय नम इति त्यागं कृत्वा ऊरोमध्ये । ओं काञ्चीगुणोज्ज्वलाय दिव्यपीताम्बराय स्वाहेति हुत्वा, पीताम्बराय नम इति त्यागं कृत्वा कट्याम् । ओं दक्षिणनूपुराय स्वाहेति हुत्वा दक्षिणनूपुराय नम इति त्यागं कृत्वा, दक्षिणपादे । ओं वामनूपुराय स्वाहेति हुत्वा वामनपुराय नम इति त्यागं कृत्वा वामपादे। ओं श्रीमत्तुलस्यै स्वाहेति हुत्वा तुलस्यै नम इति त्यागं कृत्वा पादयोः। ओं श्रीं श्रियै स्वाहेति हुत्वा श्रियै नम इति त्यागं कृत्वा दक्षिणपार्श्वे । ओं ह्रीं पुष्टयै स्वाहेति हुत्वा ओं ह्रीं पुष्टयै नम इति त्यागं कृत्वा वामपार्श्वे । ओं ऐं सरस्वत्यै स्वाहेति हुत्वा सरस्वत्यै नम इति त्यागं कृत्वा मुखे । ओं द्रां निद्रायै स्वाहेति हुत्वा निद्रायै नम इति त्यागं कृत्वा पश्चाद्भागे। ओं क्लीं कान्त्यै स्वाहेति हुत्वा कान्त्यै नम इति त्यागं कृत्वा ऊर्ध्वदेहे । ओं के पृथिव्यै स्वाहेति हुत्वा पृथिव्यै नम इति त्यागं कृत्वा पादयोः। ओं गरुडाय स्वाहेति हुत्वा गरुडाय नम इति त्यागं कृत्वा ऊर्वोः। एवं बालार्चायामपि न्यासं कुर्यात् । षोडशन्यासं कुर्यात् ।। न जङ्गमेषु बिम्बेषु षोडशन्यासमाचरेत् ।। । षोडशन्यासमाह. प्रणवस्य व्याहृतनामकाराद्यक्षरस्य च ॥ १॥ ऋक्षाणामपि कालस्य वासराद्ययनस्य च ।।
अथाकारादिमातृकान्यासः 105 ब्राह्मणादेश्च वर्णस्य तोयस्य निगमस्य च । देवतानां विराजश्च ऋतूनां च गुणस्य च ।। सत्वादेश्चैव मूर्तीनां शक्तीनां षड्गुणस्य च । लोकानां न्यसनं कुर्यात् षोडशानामिति क्रमात्॥ ओं स्वाहा । ओं अं नम इति हृदये। ओं स्वाहा । ओं ओं नम इति दक्षिणपार्थे । ओं स्वाहा। ओं नम इति वामपार्श्वे । इति प्रणवन्यासः॥ अथ व्याहृतीनां न्यासः. ओं भूस्स्वाहा। भुव इदं न ममेति पादयोः। ओं भुव- स्स्वाहा। भुव इदन्न ममेति हृदये । ओं सुवस्स्वाहा । सुव इदं न ममेति शिरसि ॥ अथाकारादिमातृकान्यासः. ओं अं स्वाहा। ओं अं नम इति त्वचि । ओं आं स्वाहा । ओं आं नम इति मुखे । ओं इं स्वाहा । ओं इं नम इति दक्षिणशि । ओं ई स्वाहा। ओं ई नम इति वामहशि । ओं स्वाहा । ओं कं नम इति दक्षिणनेत्रे । ओं ऋ स्वाहा । ओं ऋन्नम इति वामनेत्रे । ओं लं स्वाहा । ओं लं नम इति अधरे । ओं लूं स्वाहा । ओं लूं नम इत्युत्तरे। ओं एं स्वाहा। ओं एं नम इति ऊर्ध्वदन्तपतौ । ओं ऐं स्वाहा। ओं ऐं नम इति अधोदन्तपङ्कौ । ओं अं स्वाहेत्यास्ये। ओं अः स्वाहा इति शिरसि । ओं यं स्वाहेति- त्वचि । ओं रं स्वाहेति नेत्रयोः । ओं लं स्वाहेति नासिकायाम् । ओं वं स्वाहेति दशनारे। ओं सं स्वाहेति कठ्याम् । ओं हं स्वाहेति हृदये । ओं ळं स्वाहेति नाभौ । ओं क्षं स्वाहेति मेहने । ओं कं खं गं AGAMA VOL. III. 14 106 प्रतिष्ठाविधिः घं डं स्वाहेति अंगुळीषु । ओं चं छं जं झं में स्वाहेति जघनयोः । ओं टं ठ ड ढ णं स्वाहेति त्यागं कृत्वा दक्षिणजङ्घायाम् । ओं तं थं दं धं न स्वाहेति त्यागं कृत्वा वामजङ्घायाम् । ओं पं फं बं भं मं स्वाहेति हुत्वा भुजयोः ॥ अथ नक्षत्रन्यासः, ओं रोहिण्यै स्वाहा । रोहिण्यै नम इति त्यागं कृत्वा हृदये ओं मृगशिरसे स्वाहा । मृगशिरसे नम इति त्यागं कृत्वा मार्के ओं आर्द्रायै स्वाहा नम इति त्यागं कृत्वा । केशेषु । पुनर्वसवे स्वाहा । नम इति त्यागं कृत्वा ललाटे । ओं पुष्याय स्वाहा । नम इति त्यागं कृत्वा वदने । ओं आश्लेषाय स्वाहा। नम इति त्यागं कृत्वा नासिकायाम् । ओं मखायै स्वाहा । नम इति त्यागं कृत्वा दन्तेषु । ओं पूर्वफल्गुन्यै स्वाहा । नम इति त्यागं कृत्वा दक्षिणकर्णे। ओं उत्तरफल्गुन्यै स्वाहा । नम इति त्यागं कृत्वा वामकर्णे । ओं हस्ताय स्वाहा । इति हुत्वा नम इति त्यागं कृत्वा बाहोः । ओं चित्रायै स्वाहा नम इति त्यागं कृत्वा दक्षिणकर्णे । ओं स्वात्यै स्वाहा। नम इति त्यागं कृत्वा वामकरे। ओं विशाखायै स्वाहा । नम इति त्यागं कृत्वा दक्षिणस्तने । ओं अनूराधायै स्वाहा । नम इति त्यागं कृत्वा वामहस्ते । ओं ज्येष्ठायै स्वाहा नम इति त्यागं कृत्वा उदरे। ओं मूलायै स्वाहा । नम इति त्यागं कृत्वा, दक्षिण कट्याम् । ओं पूर्वाषाढायै स्वाहा । नम इति त्यागं कृत्वा वामकट्याम् । ओं उत्तराषाढायै स्वाहा नम इति त्यागं कृत्वा मेहने । ओं श्रवणाय स्वाहा। नम इति त्यागं कृत्या वृषणयोः । दक्षिणभागे। ओं धनिष्ठायै स्वाहा । नम इति त्यागं कृत्वा वृषणयोः । वामभागे। ओं शतभिषजे स्वाहा । नम इति त्यागं ।
अथ वत्सरन्यासः 107 पादयोः । ओं पूर्वाभाद्रायै स्वाहा। नम इति त्यागं दक्षिणजंधे। ओं उत्तराभाद्रायै स्वाहा । नम इति त्यागम् । वामजंधे। ओं रेवत्यै स्वाहा । नम इति त्यागम् । दक्षिणदेशे। ओं अश्विन्यै स्वाहा । नम इति त्यागम् । वामदेशे । ओं भरण्यै स्वाहा । नम इति त्यागम् । दक्षिण- पादागे । ओं कृत्तिकायै स्वाहा । नम इति त्यागम् । वामपादाने ।। अथ कालन्यासः. ओं चैत्रायै स्वाहा । नम इति शिरसि । ओं वैशाखाय स्वाहा । नम इति मुखे । ओं ज्येष्ठाय स्वाहा नम इति हृदये। ओं आषाढाय स्वाहा नम इति स्कन्धयोः। ओं श्रावणाय स्वाहा नम इति स्तनयोः । ओं भाद्रपदाय स्वाहा नम इति उदरे। ओं आश्विनाय स्वाहा नम इति लिङ्गे। ओं कार्तिकाय स्वाहा नम इति कट्याम् । ओं मार्ग- शीर्षाय स्वाहा नम इति ऊरुदेशे । ओं पौषाय स्वाहा । नम इति जान्वोः। ओं माघाय स्वाहा नम इति जंघायाम् । ओं फाल्गु- नाय स्वाहा नम इति पादयोः ।। अथ ग्रहन्यासः. । ओं आदित्याय स्वाहा। नम इति दक्षिणनेत्रे । ओं चन्द्राय स्वाहा नम इति वामनेत्रे । ओं अङ्गारकाय स्वाहा नम इति शिरसि । ओं बुधाय स्वाहा नम इति भ्रुवोः । ओं बृहस्पतये स्वाहा । नम इति जिह्वायाम् । ओं शुक्राय स्वाहा नम इति लिङ्गे । ओं शनैश्चराय स्वाहा । नम इति ललाटे । ओं राहवे स्वाहा । नम इति दक्षिणपाद । ओं केतुभ्यस्स्वाहा । नम इति वामपादे ।। अथ वत्सरन्यासः. ओं संवत्सराय स्वाहा । नम इति दक्षिणभुजे । ओं परिवत्स- राय स्वाहा । नम इति वामभुजे । ओं इदुवत्सराय स्वाहा । नम इति 108 प्रतिष्ठाविधिः मुखे । दक्षिणभुजे । ओं वत्सराय स्वाहा । नम इति वामभुजे । ओं ऋतुभ्य- स्स्वाहा । नम इति लिङ्गे । ओं अहोरात्रेभ्यस्स्वाहा । नम इत्यस्थिषु ओं क्षणाय स्वाहा । नम इति रोमकूपे । ओं कृताय स्वाहा । नम इति त्रेताय स्वाहा । नम इति त्यागकृत्वा हृदये । ओं द्वापराय- स्वाहा । नम इति नितम्बे । ओं कलये स्वाहा । नम इति पादयोः । ओं मन्वन्तरेभ्यस्स्वाहा । नम इति बाहोः । ओं पराय स्वाहा । नम इति दक्षिणजङ्घायाम् । ओं परार्धाय स्वाहा इति वामजङ्घायाम् । ओं उदगयनाय स्वाहा । नम इति त्यागं कृत्वा दक्षिणपादे । ओं दक्षिणायनाय स्वाहा । नम इति वामपादे । ओं विषुवते स्वाहा । नम इति सर्वाङ्गुलीषु ॥ अथ वणन्यासः. ओं ब्राह्मणाय स्वाहा । नम इति मुखे । ओं क्षत्रियाय स्वाहा । नम इति बाहोः । ओं वैश्याय स्वाहा । नम इति ऊर्वोः । ओं शूद्राय स्वाहा । नम इति पादयोः। ओं सङ्करेभ्यस्स्वाहा । नम इति पादयोश्च । ओं अनुलोमेभ्य स्वाहा । नम इति सर्वाङ्गे । ओं गोभ्य- स्वाहा । नम इति मुखे । ओं अजाभ्यस्स्वाहा । नम इति दक्षिणस्तने । ओं आविकाभ्यस्स्वाहा । नम इति वामस्तने । ओं ग्राम पशुभ्यस्स्वाहा । नम इति ऊर्वोः ॥ अथ तोयन्यासः. ओं मेघेभ्यस्स्वाहा । नम इति केशेषु । ओं अभ्रेभ्यस्स्वाहा । नम इति रोमसु । ओं नदीभ्य स्वाहा । नम इति सर्वगात्रेषु । ओं समुद्रेभ्य स्वाहा । नम इति कुक्षौ ।
अथ देवन्यासः 109 अथ वेदन्यासः. ओं ऋग्वेदाय स्वाहा। नम इति शिरसि । ओं यजुर्वेदाय स्वाहा । नम इति दक्षिणभुजे । ओं सामवेदाय स्वाहा । नम इति वामभुजे । ओं सर्वोपनिषद्भयस्स्वाहा । नम इति हृदये । ओं इतिहासपुराणेभ्य. स्वाहा । नम इति जङ्घयोः । ओं अधर्वाङ्गिरोभ्यस्वाहा । नम इति नाभौ । ओं कल्पसूत्रभ्यस्स्वाहा ! नम इति पादयोः। ओं व्याकरणे. भ्यम्स्वाहा । नम इति वक्ते । ओं तर्केभ्यस्वाहा । नम इति कण्ठे । ओं मीमांसायै स्वाहा । नम इति हृदि । ओं निरुक्ताय स्वाहा । नम इति हृदि च । ओं छन्दश्शास्त्रेभ्यस्स्वाहा । नम इति दक्षिणनेत्रे । ओं ज्योतिश्शास्त्रेभ्यस्स्वाहा । नम इति वामनेत्रे । ओं गीताशास्त्रेभ्यस्स्वाहा । नम इति वामनेत्रे । ओं आयुर्वेदाय स्वाहा । नम इति दक्षिणभुजे ओं धनुर्वेदाय स्वाहा । नम इति वामभुजे। ओं योगशास्त्रेभ्यस्स्वाहा । नम इति हृदये । ओं नीतिशास्त्रेभ्यस्स्वाहा । नम इति पादयोः । ओं वश्यतन्त्राय स्वाहा । नम इत्योष्ठयोः ॥ अथ देवन्यासः. ओं मत्स्याय स्वाहा । नम इति मूर्ध्नि । ओं कूर्माय स्वाहा । नम इति पादयोः । ओं वराहाय स्वाहा नम इति ललाटे । ओं नृसिंहाय स्वाहा । नम इति जङ्घयोः । ओं वामनाय स्वाहा । नम इति मुखे । ओं परशुरामाय स्वाहा । नम इति हृदि । ओं रामाय स्वाहा ! नम इति बाहोः । ओं बलरामाय स्वाहा । नम इति हृदि ।ओं कृष्णाय- स्वाहा । नम इति नाभौ । ओं बौद्धाय स्वाहा । नम इति बुद्धौ । ओं कल्किने स्वाहा । नम इति जान्वोः । ओं केशवाय स्वाहा । नम इति शिरसि । ओं नारायणाय स्वाहा । नम इति मुखे । माधवाय 110 प्रतिष्ठाविधिः नम स्वाहा। नम इति ग्रीवायाम् । ओं गोविन्दाय स्वाहा । नम इति बाहोः । ओं विष्णवे स्वाहा । नम इति हदि । ओं मधुसूदनाय स्वाहा । नम इति पृष्ठे । त्रीविक्रमाय स्वाहा। नम इति कट्याम् । ओं वामनाय स्वाहा । नम इति जठरे । ओं श्रीधराय स्वाहा । नम इति हृदि । ओं हृषीकेशाय स्वाहा । नम इति जङ्घयोः। ओं पद्मनाभाय स्वाहा । नम इति जान्वोः । ओं दामोदराय स्वाहा । नम इति पादयोः ।। अथ वैराजन्यासः ओं देवेभ्यस्स्वाहा । नम इति मूर्ध्नि । ओं मरुद्भयस्स्वाहा । नम इति प्राणे । ओं वसुभ्यस्स्वाहा । नम इति कण्ठे । ओं रुद्रेभ्यस्स्वाहा । नम इति दन्तपत्रौ । ओं सरस्वत्यै स्वाहा । इति जिह्वायाम् । ओं इन्द्राय स्वहा । नम इति दक्षिणभुजे । नम इति वामभुजे । ओं प्रहादाय स्वाहा । नम इति दक्षिणहस्ते । ओं विश्वकर्मणे स्वाहा। नम इति वामहस्ते । ओं नारदाय स्वाहा । नम इति दक्षिणकुक्षौ । ओं अतन्तादिनागेभ्य. स्स्वाहा । नम इति वामकुक्षौ । वरुणाय स्वाहा । स्तनयोः । मित्राय स्वाहा । नम इति पादयोः। ओं विश्वेदेवेभ्य- स्स्वाहा । नम इति ऊर्वोः । ओं पितृभ्यस्स्वाहा। नम इति जान्वोः। ओं पक्षेभ्यस्स्वाहा । नम इति जङ्घयोः । ओं राक्षसेभ्यस्स्वाहा। नम . इति गुल्फयोः। ओं पिशाचेभ्यस्स्वाहा। नम इति पादयोः । ओं असुरेभ्यस्स्वाहा । नम इति पादाङ्गुलीषु। ओं विद्याधरेभ्यस्स्वाहा । नम इति पार्श्वयोः । ओं ग्राहेभ्यस्स्वाहा। नम इति पादतलयोः । ओं कार्तिकेयाय स्वाहा । नम इति दक्षिणकटिपार्श्वे । ओं गणेशाय स्वाहा। नम इति वामकाटिपार्श्वे ॥ ओं बलये स्वाहा । नम इति अथ ऋतुन्यासः 111 अथ क्रतुन्यासः. ओं अश्वमेधाय स्वाहा । नम इति मूनि । ओं नरमेधाय स्वाहा। नम इति ललाटे। ओं राजसूयाय स्वाहा । नम इति मुखे । ओं गोसवाय स्वाहा। नम इति कण्ठे। ओं द्वादशाहाय स्वाहा । नम इति हृदि । ओं अहेभ्यस्स्वाहा । नम इति नाभौ। ओं सर्पजनेभ्य- स्स्वाहा । नम इति दक्षिणकट्याम् । ओं सर्वमेधाय स्वाहा । नम इति वामकट्याम् । ओं अमिष्टोमाय स्वाहा । नम इति लिने । ओं अतिरात्राय स्वाहा । नम इति वृषणयोः । ओं अप्तोर्यामाय स्वाहा । नम इत्यूर्वोः। ओं षोडश्यै स्वाहा । नम इति जान्वोः। ओं उक्थाय स्वाहा । नम इति दक्षिणजङ्घायाम् । ओं वाजपेयाय स्वाहा। नम इति वामजवायाम् । ओं अग्निष्टोमाय स्वाहा। नम इति दक्षिणबाहौ । ओं चातुर्मास्येभ्यस्स्वाहा । नम इति वामबाहौ । ओं सौत्रामण्यै स्वाहा । नम इति हस्तयोः। ओं पशुयज्ञाय स्वाहा । नम इत्यङ्गु- लीषु । ओं दर्शाय स्वाहा । नम इति दक्षिणस्तने। ओं पौर्णमासाय स्वाहा । नम इति वामस्तने । ओं पञ्चमहायज्ञभ्यस्स्वाहा । नम इति पादाङ्गुलीषु । ओं आहवनीयाय स्वाहा । नम इति मुखे । ओं बार्हस्पत्याय स्वाहा । नम इति हृदये । ओं दक्षिणामये स्वाहा । नम इति नाभौ । ओं वेद्यै स्वाहा। नम इत्युदरे। ओं प्रवाय स्वाहा । नम इति भूषणेषु । ओं सवनेभ्यस्स्वाहा । नम इति पादयोः। ओं धर्मेभ्यस्स्वाहा । नम इति बाहोः । ओं दर्शेभ्यस्स्वाहा । नम इति केशेषु ।।
112
प्रतिष्ठाविधिः
अर्थ गुणन्यासः.
ओं सत्वाय स्वाहा । सत्वाय नम इति हृदये। ओं रजसे-
स्वाहा । नम इति शिरसि । ओं तमसे स्वाहा । नम इति
शिखायाम् ॥
अथ ज्ञानादिगुणन्यासः.
ओं ज्ञानाय स्वाहा । नम इति हृदये। ओं ऐश्वर्याय स्वाहा ।
नम इति शिरसि । ओं शक्तयै स्वाहा। नम इति शिखायाम् । ओं
बलाय स्वाहा। नम इति बाहोः । ओं तेजसे स्वाहा । नम इति
नेत्रयोः । ओं वार्याय खाहा नम इति करयोः ।।
अथ लोकन्यासः.
ओं पाताळाय स्वाहा । नम इति पादमूले । ओं रसातलाय
खाहा । नम इति पाणिदेशे। ओं महातलाय खाहा । नम इति
गुल्फो । ओं तलातलाय स्वाहा । नम इति जङ्घयोः। ओं
सुतलाय खाहा । नम इति जान्वोः । ओं वितलाय
खाहा। नम इति ऊर्वोरघोभागे । ओं अतलाय वाहा । नम
इत्यूर्वोरूर्वभागे । ओं महीतलाय वाहा ।
नम इति जघने ।
ओं नभस्थलाय स्वाहा । नम इति नाभौ । ओं स्वर्गाय खाहा ।
नम इति वक्षस्थले । ओं महर्लोकाय स्वाहा । नम इति ग्रीवायाम् ।
ओं जनलोकाय स्वाहा । नम इति वदने । ओं तपोलोकाय स्वाहा ।
नम इति ललाटे । ओं सत्यलोकाय स्वाहा । नम इति शिरसि । एवं
षोडशन्यासं कृत्वा । श्रीयादीनामाप्रे चतुषु कुण्डेषु व्याहृतिभिश्शान्ति-
होमं कुर्यात् । प्राच्यां कुण्डे मधुना भूरिति शताहुर्तुित्वा पादौ स्पृशेत् ।
याम्यकुण्डे पयसा भुवरिति शताहुतीर्तुत्वा जठरं स्पृशेत् । प्रतीच्या
अथ जयादिहोमः 113 कुण्डे दना सुवरिति शताहुतीर्तुत्वा वक्तं स्पृशेत् । उदीच्यां कुण्डे भूर्भुव- स्सुवरित शताहुतीर्तुत्वा शिरः स्पृशेत् । प्राच्यां कुण्डे आज्येन भूर्भुव- स्सुवरिति शताहुतीर्तुत्वा सर्वाङ्गं स्पृशेत् । विष्णुगायत्र्या शताहुतर्हित्वा मुखं स्पृशेत् । एवं शान्तिहोमं कृत्वा चतुर्वपि कुण्डषु जयादिहोम कुर्यात् ।। अथ जयादिहोमः ओं चित्तं च स्वाहा । चित्तायेदं न मम । ओं चित्तिश्च स्वाहा । चित्या इदं न मम | आकूताय स्वाहा। अकूतायेदं न मम । आकूतिश्च स्वाहा । आकूत्या इदं न मम । विज्ञातं च स्वाहा । विज्ञातायेदं न मम । विज्ञानं च स्वाहा । विज्ञानायेदं न मम । मनश्च स्वाहा । मनस इदं न मम । शक्करीश्च स्वाहा । शकरीभ्य इदं न मम । दर्शश्च स्वाहा । दर्शायेदं न मम । पौर्णमासश्च स्वाहा। पौर्णमासायेदं न मम । बृहच्च स्वाहा । बृहत इदं न मम । रथन्तरं च स्वाहा । रथन्तरायेदं न मम । प्रजापतिर्जयानिद्राय वृष्णे प्रायाच्छदुनः पृतनाज्येषु तस्मै विशस्समनभन्तसर्वास्स उग्रस्स हि हव्यो बभूव स्वाहा । प्रजापतय इदं न मम । अमिभूतानामधिपतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रे स्यामाशिष्यस्यां पुरोधायामास्मिन् कर्मन्नस्यां देवहूत्यागं खाहा । अमये (भूतानामधिपतय) इदं न मम । इन्द्रो ज्येष्ठानामधि- पतिस्समावत्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रे स्यामाशिष्यस्यां पुरोधायामस्मि- कर्मन्नस्यां देवहूत्यागं स्वाहा । इन्द्राय ज्येष्ठानामधिपतय इदं न मम । यमः पृथिव्या अधिपतयस्समावत्वस्मिन् । 'स्वाहा। पृथिव्या अधिपतय इदं न मम । वायुरन्तरिक्षस्याधिपतिस्समावतु खाहा । वायवे अन्तरिक्षस्याधिपतय इदं न मम । सूर्यो दिवोधिपति- AGAMA VOL. III. .. .... यमाय 15 114 प्रतिष्ठाविधिः स्समावतु-खाहा। सूर्याय दिवोधिपतय इदं न मम । चन्द्रमा नक्षत्राणा- मधिपति--स्वाहा । चन्द्रमसे नक्षत्राणामधिपतय इदं न मम । बृह- स्पतिब्रह्मणोऽधिपतिस्समावत्वस्मिन्-खाहा। बृहस्पतये ब्रह्मणाधिपतय इदं न मम । मित्रस्सत्यानामधिपतिः-स्वाहा । मित्राय सत्यानामधि. पतय इदं न मम । वरुणोपामधिपतिस्स--स्वाहा। वरुणाय अपामधि- पतय इदं न मम। समुद्रस्रोत्यानामधिपति-स्वाहा। समुद्राय स्रोत्या- नामधिपतय इदं न मम । अन्नगं साम्राज्यानामधिपति-खाहा । अन्नाय साम्राज्यानामधिपतय इदं न मम । सोम ओषधीनामधिपतिस्तन्मा- वत्वस्मि-स्वाहा । सोमाय ओषधिवनस्पतय इदं न मम । सविता प्रसवनामधि-स्वाहा । सवित्रे प्रसवानामधिपतय इदं न मम । रुद्रः पशूनामधिपतिस्समावत्वस्मिन् स्वाहा । रुद्राय पशुपतय इदं न मम । अप उपस्पृश्य । त्वष्टा रूपणामधिपतिस्समावतु-स्वाहा । त्वष्ट्रे रूपाणा- मधिपतय इदं न मम | विष्णुः पर्वतानामधिपतिस्समा--स्वाहा । विष्णवे पर्वतानामधिपतय इदं न मम । मरुतो गणानामधिपतयस्तेमा- वन्त्वस्मिन्- स्वहा । मरुद्भयो गणानामधिपतिभ्य इदं न मम । पितरः पितामहाः परेवरे ततास्तता महा इह मावत अस्मिन्-स्वाहा। पितृभ्यः पितामहेभ्यः परेभ्योऽवरेभ्यस्ततेभ्यस्ततामहेभ्य इदं न मम। (जीवपितृ- कस्य) पितामहा अवरे ततामहा इह मावत्वस्मिन्-स्वाहा । पितामहेभ्योऽ- वरेभ्यस्ततामहेभ्य इदं न मम । (जीवत्पितृपितामहस्य च एतद्धोम- लोपः)। इति हुत्वा । अप उपस्पृश्य । ऋताषावृतधामामिर्गन्धर्वस्तस्यौ- षधयोप्सरस ऊर्जो नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा । ऋतासाहे ऋतधान्ने अग्नये गन्धर्वाय इदं न मम । ओं ताभ्यस्स्वाहा । ओषधीभ्योऽप्सरोभ्य ऊर्य इदं न मम । सगं- हितो विश्वसामा सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नाम स इदं अथ जयादिहोमः 115 ब्रह्मक्षत्रं पातु ता इदं ब्रह्मक्षत्रं पान्तु तस्मै स्वाहा । सगंहिताय विश्व- साने सूर्याय गन्धर्वायेदं न मम । ताभ्यस्स्वाहा । मरीचिभ्योऽप्सरोभ्य- आयुभ्य इदं न मम । सुषुम्नस्सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्य- प्सरसोभे कुरयो नाम स इदं ब्रह्मक्षत्रं-स्वाहा । सुषुम्नाय सूर्यरश्मये चन्द्रमसे गन्धर्वाय इदं न मम । ओं ताभ्यस्स्वाहा । नक्षत्रेभ्यो- प्सरोभ्य भेकुरिभ्य इदं न मम । भुज्युम्सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणा- अप्सरसस्तवानाम स इदं-खाहा । भुज्यवे सुपर्णाय यज्ञाय गन्धर्वा- येदं न मम । ताभ्यस्स्वाहा । दक्षिणाभ्योप्सरोभ्यस्तवाभ्य इदं न मम । प्रजापतिर्विश्वकर्मा मनोगन्धर्वस्तस्यसामान्यप्सरसो वह्नयो नाम स इदं ब्रह्मक्षत्रं-स्वाहा । प्रजापतये विश्वकर्मणे मनसे गन्धर्वायेदं न मम । ओं ताभ्यस्स्वाहा। ऋक्सामेभ्यो अप्सरोभ्यो वह्निभ्य इदं न मम । इपिरो विश्वव्यचावातो गन्धर्वस्तस्यापोप्सरसो मुदा नाम स इदं ब्रह्मक्षत्रं- स्वाहा । इषिराय विश्वव्यचसे वाताय गन्धर्वायदं न मम । ओं ताभ्य- स्वाहा । अद्भयोऽप्सरोभ्यो मुदाभ्य इदं न मम । भुवनस्य पते यस्यत उपरिगृहा इह च । स नो रास्वाज्यानिगं रायस्पोषगं सुवीर्यगं संवत्सरी- णागं स्वस्तिगं स्वाहा । भुवनस्पत्य इदं न मम । परमेष्ठयधिपति- मृत्युर्गन्धर्वस्तस्य विश्वमप्सरसो भुवो नाम स इदं-स्वाहा । परमेष्ठिने अधिपतये मृत्यवे गन्धर्वायेदं न मम । ओं ताभ्यस्स्वाहा । विश्वमा अप्सरोभ्योभूभ्य इदं न मम । सुक्षितिस्सुभूतिर्भद्रकृत्सुपर्वान्पर्जन्यो गन्धर्वसस्यविद्युतोऽप्सरसो रुचो नाम स इदं स्वाहा । सुक्षितये सुभूतये भद्रकृते-सुपर्वते पर्जन्याय गन्धर्वायेदं न मम । ओं ताभ्यस्स्वाहा विद्युद्भयोऽप्सरेभ्यो रुग्भ्य इदं न मम । दूरहेतिरमृडयो मृत्युर्गन्ध- स्तस्य प्रजा अप्सरसो भीरुवो नाम स इदं-स्वाहा । दूरे हेतये अमृडये मृत्यवे गन्धर्वायेदं न मम । ओं ताभ्यस्स्वाहा । प्रजाभ्योऽप्सरेभ्यो- 116 प्रतिष्ठाविधिः न मम । भीरुभ्य इदं न मम । चारुः कृपणकाशी कामो गन्धर्वस्तस्याधयोप्सरस- श्शोचयन्ती म स इदं-स्वाहा । चारवे कृपणकाशिने कामाय गन्दर्वायेदं ओं ताभ्यस्स्वाहा । आदिभ्योप्सरोभ्यश्शोचयन्तीभ्य इदं न मम । स नो भुवनस्य पते यस्य त उपरिगृहा इह च । उरु ब्रह्मणेऽस्मै क्षत्राय महिशर्म यच्छ स्वाहा । भुवनस्य पत्यै ब्रह्मण इदं न मम । प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयग्स्याम पतयो रयीणां स्वाहा । प्रजापतय इदं न मम । ओं भूस्स्वाहा । अग्नय इदं न मम । ओं भुव- स्वाहा । वायव इदं न मम । ओं सुवस्स्वाहा। सूर्यायेदं न मम । ओं भूर्भुवस्सुवस्स्वाहा। प्रजापतय इदं न मम । अत्र वा समित्सन्नहने अमावपि दध्यात् । तथा प्रयोगसरण्याम्-यद्यस्य मन्त्रानुपरोधस्स्यात् जयादिहोमादनन्तरं वा स्यात् समिच्चसन्नहनं च दद्यादितोन्यथा न कालो दृष्टः। यदस्य कर्मणोत्यरीरिचम् । यद्वान्यूनमिहाकरम् । अग्निष्टस्विष्ट- कृद्विद्वान् । सर्वग्रां स्विष्टगं सुहुतं करोतु स्वाहा । अमये स्विष्टकृत इदं न मम । इति हुत्वा ।। अनाज्ञातादिहोमः अस्मिन् भगवत्प्रतिष्ठाहोमकणि ज्ञाताज्ञातदोषनिर्हरणार्थ अनाज्ञातत्रयम् । कर्मान्तरं कर्मविपर्यासप्रायश्चित्तार्थ, आभिर्गीभिरिति ऋग्वाङ्मय प्रायश्चित्तार्थं यद्विद्वांस इति पदाक्षरवर्णलोपप्रायश्चित्तार्थ इदं विष्णुः त्रयम्बकमिति सर्वोपघातप्रायश्चित्तार्थं पुनस्त्वादित्या इति सर्वप्रायश्चित्तार्थ भूर्भुवरित्येतैर्मन्त्रैराज्याहुती)ष्यामीत्युक्ता- ओं अनाज्ञातं यदाज्ञातम् । यज्ञस्य क्रियते मिथु। अग्ने वदम्य कल्पय । त्वगं हि वेत्थ यथातथं स्वाहा । अमय इदं न मम ।
कर्मसाद्गुण्यार्थ केशवादिद्वादशहोमं होष्यामि 117 पुरुषसम्मितो यज्ञो यज्ञः पुरुषसम्मितः । अग्ने तदस्य कल्पय । त्वगं हि वेत्थ यथातथं स्वाहा । अमय इदं न मम । यत्पाकत्रा मनसा दीनदक्षा न । यज्ञस्य मन्वते मर्तासः । अमिष्टद्धोता क्रतुविद्विजानन्य- जिष्ठो देवागं ऋतुशो यजाति स्वाहा । अग्नय इदं न मम । त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हेडोऽवयासि सीष्ठाः । यजिष्ठो वह्नित- मश्शोशुचानो विश्वाद्वेषागंसि प्रमुमुग्ध्यस्मत्स्वाहा । अग्रीवरुणाभ्या- मिदं न मम । स त्वन्नो अग्नेऽवमोभवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अवयक्ष्मनो वरुणगं रराणो वीहि मृडीकगं सुहवो न एघि स्वाहा । अग्नी- वरुणाभ्यामिदं न मम । त्वमने अयास्य यासन्मनसा हितः । अयासन्हव्यमूहिषेऽया नो धेहि भेषजं स्वाहा । अग्नीवरुणाभ्यामिदं न मम । आमिर्गीमियदतो न ऊनमाप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महिगोत्रारुजासि भूयिष्ठभाजो अथ ते स्याम स्वाहा । इन्द्राय हरिवत इदं न मम । यद्विद्वांसो यदविद्वांसो मुग्धाः कुर्वनृत्विजः । अमिमातस्मादनसः श्रद्धादेवी च मुचता स्वाहा । अग्नये श्रद्धादेव्या इदं न मम । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।समूढमस्यपागं सुरे स्वाहा । विष्णव इदं न मम । त्रयम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्स्वाहा। त्रयम्बकायेदं न मम । पुनस्त्वादित्या रुद्रावसवस्समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः । घृतेन त्वं तनुवो वर्धयस्व सत्यास्सन्तु यजमानस्य कामास्स्वाहा । अग्नये वसुनीथायेदं न मम । ओं भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदं न मम ॥ कर्मसाढुण्यार्थ केशवादिद्वादशहोमं होष्यामि. ओं केशवाय स्वाहा केशवायेदं न मम । ओं दामोदराय स्वाहा । दामोदरायेदं न मम । ओं श्रीविष्णवे स्वाहा । . . . .
118 प्रतिष्ठाविधिः श्रीविष्णवे परमात्मन इदं न मम । सुवेण स्रुच्याज्यमादाय तस्मिन् पूगी- फलसहितं श्रीफलं निघाय नववस्त्रेणाच्छाद्य रक्तपीततन्तुभिरावेष्टय पुनराज्येनाभ्यज्य, सप्तते अग्ने समिधस्सप्तजिह्वास्सप्तर्षयस्सप्तधामप्रियाणि। सप्तहोत्रास्सप्तधात्वा यजन्ति सप्तयोनीरापृणस्वाघृतेन स्वाहा । अमये सप्तवत इदं न मम । पूर्णा पश्चादुत पूर्णा पुरस्तादुन्मध्यतः पौर्णमासी जिगाय । तस्यां देवा अघिसंवसन्त उत्तमे नाक इह मादयन्ताम् । यत्ते देवा अदधुर्भागधेयममावास्ये संवसन्तो महि त्वा । सा नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरं स्वाहा । अग्नये (पूर्णाहुतय) इदं न मम । इति पूर्णाहुति हुत्वा- पूर्णाहुतिं च जुहुयुस्स्वस्वकुण्डेषु मूर्तिपाः । पद्मोत्पलवदामोदो धूमो हुतभुजो यदि ।। रक्तश्श्वतस्तथा पीतो धूमस्स्याच्छुभदो भवेत् । ज्वालाश्च दक्षिणावर्ताश्शुभं शंसन्ति निश्चितम् ॥ सूर्यमण्डलनिर्घोषैर्ब्रह्मघोषैश्च मङ्गलैः यापयेत्तां निशां सर्वे यजमानो गुरुश्च तौ परिधीनाघारसमिधौ अपसार्यामौ प्रहरति । कुर्यात् । अदितेन्वमग्ग्स्थाः । इति दक्षिणतः प्राचीनम् । अनुमतेन्व- मग्ग्स्थाः । इति पश्चादुदीचीनम् । सरस्वतेन्वमग्गस्थाः । इत्युत्तरतः प्राचीनम् । देव सवितः प्रासावीरिति प्रागारभ्य प्रदक्षिणं परिषेचयेत् । प्रणीतपात्रं पुरस्स्वस्य निघाय, सदसि सन्मे भूयाः पूर्णमसि पूर्णम्मे भूयाः अक्षितमसि मा मेक्षेष्ठाः । इति मन्त्रेण प्रणीतपात्रे अन्यज्जलं निनीय, प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम् । इति मन्त्रेण तज्जलं प्राच्या निरस्य । दक्षिणायां दिशि भासाः पितरो मार्जयन्ताम् इति मन्त्रेण दक्षिणायां दिशि निरस्य । प्रतीच्यां दिशि ग्रहाः पशवो मार्जयन्ताम् ततः परिषेचन 119 कर्मसाद्गुण्यार्थ केशवादिद्वादशहोमं होष्यामि इति मन्त्रेण प्रतीच्यां तजलं निरस्य, उदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्तामिति मन्त्रणोदीच्यां दिशि तज्जलं निरस्य, ऊर्ध्वायां दिशि यज्ञस्संवत्सरो यज्ञपतिर्मार्जयन्तामित्यनेनोर्वायां दिशि तज्जलं निरस्य पुरस्तानिस्सारितेन आत्मानं प्रोक्ष्य, समुद्रं वः प्रहिणोमि खां योनिमभिगच्छत अरिष्टा अस्माकं वीरामापरासेचिमत्पयः, इति मन्त्रेण शेषमुदकं पत्नयञ्जली निनयेत् । पत्नयभावे यजमानश्शिरो मार्जयेत् । दक्षिणतो निषण्णं ब्राह्मणं गन्धपुष्पधूपदीपदक्षिणाभि- स्सम्पूज्य । उत्तिष्ठ ब्रह्मणस्पते । देवयन्तस्त्वेमहे । उपप्रयन्तु मरुत- स्सुदानवः । इन्द्रप्राशूर्भवासचा । इति मन्त्रेण ब्रह्माणमुद्वासयेत् ।। अने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् । युयो- ध्यस्म जुहुराणमेनो भूयिष्ठान्ते नम उक्तिं विधेम इति मन्त्रेणामिमुपस्थाय प्रणम्याभिवादयेत् ॥ मन्त्रहीन क्रियाहीनं भक्तिहीन हुताशन । युद्धतन्तु मया देव परिपूर्णं तदस्तु मे ॥ प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानि वै । यानि तेषामशेषाणां श्रीकृष्णानुस्मरणं परम् ।। यस्य स्मृत्या च नामोक्तया जपहोमक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोस्सम्पूर्ण स्यादिति श्रुतिः ।। इति पठित्वा वशेषभूतेन मया वीयैस्सर्वपरिच्छदैः। विधातुं प्रीत- मात्मानं देवः प्रक्रमते स्वयम् । इति भगवदर्पणं कृत्वा, अनेन होमेन यज्ञस्वरूपी भगवान् प्रीयतां वासुदेव इति जलाक्षतान् भूमौ निक्षिपेत् । अनन्तरं महाभिषेकं कुर्यात् ।।
120 प्रतिष्ठाविधिः महाभिषेकपञ्चामृताभिषेकक्रमः श्रीमते नारायणाय नम इति मन्त्रेण भगवते, ओं श्रियै नम इति महालक्ष्म्यै अर्घ्यपाद्याचमनगन्धपुष्पधूपदीपनैवेद्यनीराजनानि दद्यात् । अनन्तरमाप्यायख समेतु ते विश्वतस्सोमवृष्णियं भवा वाजस्य सन्दधे । अनेन पयसा स्नापयेत् । दधिक्रावण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखाकरत् । प्रण आयूगंषि तारिषत् । अनेन दध्ना नापयेत् । शुक्रमसि ज्योतिरसि तेजोऽसि देवो वस्सवितोत्पुनात्वच्छिद्रेण पवित्रण वसोस्सूर्यस्य रश्मिभिः । अनेन सर्पिषा नापयेत् । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीनस्सन्त्वौषधीः । मधु नक्तमुतोषसि मधुमत्पार्थिवगं रजः । मधु द्यौरस्तु नः पिता। मधुमान्नो वन- स्पतिर्मधुमागं अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः। अनेन मधुना स्नापयेत् । ताश्शर्करा अभवन् । तच्छर्कराणां शर्करत्वम् । वज्रो वै शर्कराः । पशुरमिः । यच्छर्कराभिरमिं परिमिणोति । वज्रेणैवास्मै पशून्परिगृह्णाति । अनेन शर्करया स्नापयेत् । देवस्य त्वा सवितुः प्रसवेऽश्विनो हुभ्यां पूष्णो हस्ताभ्यामाददे । इति मन्त्रेण शुद्धजलेन नापयेत् । शुभवस्त्रेणाच्छाद्य, तास्सवितुर्वरेण्यस्य चित्रामाहं वृणे सुमतिं विश्वजन्याम् । यामस्य कण्वो अदुहत्प्रपीनागं सहस्रधारां पयसा महीं गाम् । इति मन्त्रेण भगवदुपरि सहस्रधाराकलशं स्वापयेत् । अनन्तरं पूर्वप्रतिष्ठापिताष्टोत्तरशतसहस्रकलशोदकैः पञ्च- सूक्तैरभिषेचयेत् ॥ ओं सहस्रशीर्ष देवं विश्वाक्षं विश्वशम्भुवम् । विश्वं नारायणं देव- मक्षरं परमं प्रभुम् । . '. तन्नो विष्णुः प्रचोददयात्। इति नारायणसूक्तम् । विष्णोर्नु वीर्याणि प्रवोचम् । विष्णोर्यत्परमं पदमित्यन्तं विष्णुसूक्तम् । श्रीसूक्तम् । हिरण्यवर्णा- .
121 नीळासूक्तम् मित्यारभ्य तन्नो लक्ष्मीः प्रचोदयगदित्यन्तम् । भूसूक्तम् । ओं भूमि भूना-तन्नो घरा प्रेचादयात् । इत्यन्तं जपित्वा ।। नीळासूक्तम्. ओं शृण्वन्ति श्रोणाममृतस्य गोपाम् । पुण्यामस्या उपशृणोमि वाचम् । महीं देवीं विष्णुपत्नीमजूर्याम् । प्रतीचीमेनागं हविषा यजामह। त्रेधा विष्णुरुरुगायो विचक्रमे। महीं दिवं पृथिवीमन्तरिक्षम् । तच्छाणैतिश्रव इच्छमाना। पुण्यग्गं श्लोकं यजमानाय कृण्वती । म्योना पृथिवी भवा नृक्षरा निवेशिनी । यच्छानः शर्मसप्रथाः। अदि- तिर्देवा गन्धर्वा मनुष्याः पितरो सुरास्तेषागं सर्वभूतानां माता मेदिनी महती मही सावित्री गायत्री जगत्युर्वी पृथ्वी बहुला विश्वाभूता कतमाका- यासासत्येत्यमृतेति वसिष्ठः । नीळान्देवीगं शरणमहं प्रपद्ये । गृणाहि । घृतवती सावतराधिपत्यै । पयस्वतीरन्तिराशानो अस्तु । ध्रुवा दिशां विष्णुपत्नयघोराऽस्येशाना सहसोयामनोता। बृहस्पतिर्मातरिश्वोतवायु- स्सन्तुवाना वाता अभिनो गृणन्तु | विष्कम्भो दिवो धरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी । -ओं विष्णुपत्नयै च विद्महे भूमिसख्यै च धीमहि । तन्नो नीळा प्रचोदयात् ।। अनन्तरं शय्यावेद्याः प्रागाद्यष्टदिक्षु पूर्वस्थापिताष्टकलशोदकैः पुरुषसूक्तऋम्भिरभिषेचयेत् । ओं सहस्रशीर्षापुरुषः । सर्वं मनिषाण । इत्यन्तमुच्चार्य। अनन्तरमाचार्यः प्राणप्रतिष्ठाकलशोद- केन आम्रपल्लवेन मूलमन्त्रमन्त्ररत्नाभ्यामष्टोत्तरशतवारं शिरो नासाग्रहृदय- गुह्यपादेषु प्रोक्ष्य मूलमन्त्रेणाभिषेचयेत् । अनन्तरं शुभ्रवस्त्रेण प्रतिमा सम्मृज्य तिरस्करिणीमन्तरा अलङ्कारासन उपवेश्य, श्रीमते नारायणाय नम इति भगवते । श्रियै नम इति माहालक्ष्यै अर्घ्यपाद्याचमनानि दत्वा . . AGAMA VOL. III. 16 122 प्रतिष्ठाविधिः वस्त्राणि मूलमन्त्रेण प्रोक्ष्य, यं शोषयामि । रं दाहयामि । वं प्लावया- मीति विशोध्य । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो- हस्ताभ्यां माददे । इति मन्त्रेण वस्त्रमादाय । उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्य" इति मन्त्रणादित्याय प्रदर्य । आवहन्ती वितन्वाना। कुर्वाणा चीरमात्मनः । वासागंस मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह " इत्यनेन वासांसि भगवन्तं परिघापयेत् । भगवतो महालक्ष्म्याश्च हरिद्राचूर्णसहितमूर्ध्वपुण्डूं विलिखेत् । आयुष्यं वर्चस्यं सुवीर्य रायस्पोषमौद्भिद्यम् । इदगं हिरण्यं जैत्रयाया विशतां मां । उच्चैवाजि पृतनाजि सत्रासाहं धनंजय सर्वास्समृद्धीर् ऋद्धयो हिरण्येऽस्मिन् समाहिताः । अनेन मन्त्रेण भगवन्तं भूषणानि परिधारयेत् । अपाशोऽस्यु रोमे मासगं शारीश्शिवो मोपतिष्ठस्व दीर्घायुत्वाय शतशारदाय । शतम् शरद्भय आयुषे वर्चसे जीवात्वै पुण्याय । रेवतीस्त्वाव्यक्ष्णन्नित्येता इत्यनेन मालां समर्पयेत् । श्रीमते नारायणाय नम इति मन्त्रेण भगवते । ओं श्रियै नम इति महालक्ष्म्यै अर्घ्यपाद्याचमनानि दद्यात् । ततो भगवतः पुरतः सवत्सां सोपस्करां गां कन्यां वस्त्रभूषणालङ्कतां स्थापयेत् । सुवर्णरजतदूर्वा- हरिद्रामधुघृताक्षतगौरसर्षपशङ्खचक्रपताकाभेरीदर्पणमण्डलवैनतेय मत्स्य- युग्मकुम्भशङ्खचक्रगदापद्ममुसलगदाखड्गधनुर्वनमालायवगोधूममुद्गतिल - माषप्रियंगुकुळुत्थश्यामाकवीहीनेतान् संभारान्महति ताम्रपात्रे कृत्वा स्थापयेत् अन्यानपसार्य आचार्यः नेत्रोन्मीलनं कुर्यात् । आचार्यः भगवतः पृष्ठभागे आसने उपविश्य प्राणानायम्य, लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ।।
128 नीळासूक्तम् इति गुरुपरम्परानुसन्धानपूर्वकं,. भगवन्तं ध्यात्वा, अद्याहं नेत्रोन्मीलनं करिष्य इति सङ्कल्प्य, अष्टाङ्गुलपरिमितां दृढसुवर्णशलाका, “मधु- वाता ऋतायत मधु क्षरन्ति सिन्धवः । माध्वीनस्सन्त्वौषधीः। इत्य- नेनाभिमन्त्रय । मध्वक्तया सुवर्णशलाकया "चित्रं देवानामुदगादनीक चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्राद्यावापृथिवी अन्तरिक्षम् सूर्य आत्मा जगतस्तस्थुषश्च । इत्यनेन दक्षिणनेत्रं विलिखेत् । घृताक्तया सुवर्ण- शलाकया । तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदश्शतम् । जीवेम शरदश्शतम् । नन्दाम शरदश्शतम् । इत्यनेन वामनेत्रं विलिखेत् । यदाञ्जनं त्रैककुदंजातम् हिमवत उपरि । तेन वामां जेतेजसे भगाय च इत्यनेन नेत्रयोरञ्जनं दद्यात् । एवं देव्यादीनामपि दद्यात् । ततस्तिरस्करिणी दूरीकृत्य पूर्वावस्थापितमङ्गलानि दर्शयेत् । ततो गन्धपुष्पधूपदीपनीराजनानि दद्यात् । अनन्तरं रत्नसिंहासनोपरि उत्तरपार्श्वे निधि निक्षिप्य नृत्यगीतवाद्यदुंदुभिवाद्यवेदघोषैर्मन्दिरं विचित्रं कृत्वा पुण्याहजलेन “ओं नमो भगवते वासुदेवाय" इत्यनेन अष्टोत्तरशतवारमभिमन्त्रय सुरभिमुद्रां प्रदर्य रत्नसिंहासनादधस्ता- तण्डुलोपरि सुगन्धिजलपूरितं श्रीफलाम्रपल्लवपिहितमुखं च्छादितं कलशद्वयं स्थाप्य सिंहासनोपरि अष्टदलं पद्मं विलिख्य सुखास्तरणं कुर्यात् । पीताक्षतगौरसर्षपान्विकीर्य “ रक्षोहणोवलगहनो वैष्णवान्खनामीदमहं तं वलगमुद्वपामि यन्नस्समानो यमसमानो निचखाने- दमेनमघरं करोमि योनस्स मानो यो समानोरातीयतिगायत्रेण छन्दसाव- बाडो वलगः किमत्र भद्रं तन्नौ सह विराडसि सपत्नहा संम्राडसि भ्रातृव्यहा स्वराडस्यभिमातिहा विश्वाराडसि विश्वासान्नाष्ट्राणागं हन्ता इति मन्त्रेण रक्षां कुर्यात् । ततो भगवन्तं यानमारोप्य नृत्यवाद्यघोषपूर्वक " अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे । पृथिव्यास्सप्तधामभिः । नववस्त्रा-
1:21
प्रतिष्ठाविधिः
अनेन लक्ष्मीपूर्वकं भगवन्तं निजं मन्दिरं प्रवेशयेत् । ततो ध्रुवन्ते
राजा वरुणो ध्रुवं देवो बृहस्पतिः । ध्रुवन्त इन्द्रश्चाग्निश्च राष्ट्र धारयतां
ध्रुवम् । पर्वत इवा विचाचलिः । इन्द्र इवेह ध्रुवस्तिष्ठ । इह राष्ट्रमु-
धारय । अभितिष्ठ पृतन्यतः । अधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा
तिष्ठ । इति मन्त्रेण रत्नसिंहासनोपरि सुस्थिर प्रासादाभिमुखं भगवन्तं
वामभागे देव्या सहितं स्थापयेत् । ततः प्रजापतेश्शरणमसि ।
ब्रह्मणश्छदिर्विश्वजनस्य छायासि सर्वतो मा पाहि । इति मन्त्रेण छत्रं
समर्पयेत् । ततो यजमानहस्तेन गोदानं कारयेत् । ततो गन्धपुष्प-
धूपदीपैः पूजितां गामानीय सङ्कल्पं कुर्यात् । श्रीगोविंद-अमुकपक्षे
अमुकतिथौ अमुकगोत्रो अमुकशर्मा अहं कृतैतद्भगवत्प्रतिष्ठासिध्यर्थं
सुवर्णशृङ्गी रौप्यखुरी ताम्रपृष्ठीं प्रवालोष्ठी मुक्तापुच्छी सवत्सां कांस्य-
दोहनामिमां गां अमुकगोत्राय अमुकशर्मणे ब्राह्मणाय तुभ्यं संप्रददे
इति जलसहितानक्षतान् ब्राह्मणहस्ते देवतीर्थेन दद्यात् । कृतै-
तद्गादान (प्रतिष्ठार्थ) साद्गुर्णार्थमिदं हिरण्यममुकगोत्रायामुकशर्मणे
सम्प्रददे इति पूर्ववद्दद्यात् । ततो विप्रं परिक्रम्य प्रणमेत् । समागतेभ्यो
ब्राह्मणेभ्यो भूयसी दक्षिणां दद्यात् । तत आचार्य उपविश्य मूलमन्त्रेण
भूमिं प्रोक्ष्य, ओं यं शोषयामि । ओं रं दाहयादि । ओं व प्लावयामि"
इति विशोध्य भूतशुद्धिं कुर्यात् ॥
भूतशुद्धिप्रमाणवचनानि.
भूतशुद्धिं विना कर्तु पहोमार्चनक्रियाः ।
भवन्ति निष्फलास्सर्वाः प्रकारेणाप्यनुष्ठिताः ॥१॥
शिर आरभ्य पादान्तो देहेप्युत्पत्तिसंज्ञकः ।
संहारो विपरीतोऽन्यो मूर्धाङ्गे स्थितनाभिगः ॥ २ ॥
भूतशुद्धिप्रकारः 125 स्थितिन्यासो गृहस्थस्य संहारो वनिनो यतेः । ब्रह्मचारिण उत्पत्तिस्त्रियश्शूद्रस्य चेष्टदः ॥३॥ इति समर्चन चन्द्रिकायाम् ॥ भूतशुद्धिप्रकारः. ओं लां नमः पराय सर्वात्मने नमः इति पादयोन्य॑स्य, घ्राण- वायुभ्यां गन्धतन्मात्रया सह पञ्चगुणां पृथ्वीमप्सु विलापयामीत्यप्मु- विलाप्य । ओं वां नमः पराय निवृत्यात्मने नम इत्युपस्थे न्यस्य जिह्वोपस्थाभ्यां रसतन्मात्रया सह चतुर्गुणीरपस्तेजसि विलापयामीति तेजसि विलाप्य । ओं रां नमः पराय विश्वात्मने नम इत्ति हृदये न्यस्य चतुष्पादाभ्यां रूपतन्मात्रया सह त्रिगुणं वायौ विलापयामीति वायौ विलाप्य । ओं यां नमः पराय पुरुषात्मने नम इति नासाने न्यस्य, त्वक्पाणिभ्यां स्पर्शतन्मात्रया सह द्विगुणं वायुमाकाशे विलापयामीत्या- काशे विलाप्य । ओं पौन्नमः पराय परमेष्ठ्यात्मने नम इति मूर्ध्नि न्यस्य श्रोत्रवाग्भ्यां शब्दतन्मात्रया सह एकगुणं मनस्सहितमाकाश- महङ्कारे विलापयामीत्यहङ्कार विलाप्य । अहङ्कारं महति विलापया- मीति महति विलाप्य, महान्तं प्रकृतौ विलापयामीति प्रकृतौ विलाप्य, प्रकृति तमसि विलापयामीति तमसि विलाप्य, तमः परमात्मनि विला- पयामीति तमः परमात्मनि विलाप्य । प्राणायामैनैकेन मूलमन्त्रं नाभौ न्यस्य, मन्त्रोद्भूतचण्डवाय्वाप्यायितनामिदेशस्थवायुना शरीरमन्तर्बहिश्च शोषयामीति शोषयित्वा, पुनः प्राणायामेनैकेन मूलमन्त्रं हृदये न्यम्य मन्त्रो- द्भूतचक्राग्निज्वालोपब्रह्मितजाठराग्निना शरीरं तत्तत्वक्रमेण दाहयामीति दग्ध्वा, बद्धाञ्जलिः शरीरभस्मनोद्भूतं उद्यद्भास्करसङ्काशं जीवात्मानं मूर्धोपरि स्थिताष्टदळकमलासनासीनभगवद्वामपादाङ्गुष्ठे प्रवेशयामीति प्रविष्टं ध्यात्वा । पुनः प्राणायामेनैकेन मूलमन्त्रं मूर्ध्नि न्यस्य मन्त्रोद्भूत- 126 प्रतिष्ठाविधिः . मू|परिस्थिताष्टदलकमलासनासीनभगवद्वामपादाङ्गुष्ठनखशीतांशुमण्डल - गळदिव्यामृतधारयाऽत्मानमाभिषिच्य भगवद्वामपादाङ्गुष्ठादधस्थात्स्थाप- यित्वा, तद्धारया शरीरभस्मप्लावयामीति प्लावयित्वा, भगवन् त्वत्कैकर्य- योग्यं दिव्यशरीरं मे देहीति भगवन्तं प्रार्थ्य, भगवत्कृपया दिव्यशरीरं लब्धं ध्यात्वा सृष्टिचिन्तनं कुर्यात् । ओं परायात्मने नमः । परमा- त्मनः प्रकृतिमुत्पादयामि । ओं, प्रकृत्यै नमः । प्रकृतेर्महान्तमुत्पाद- यामि । ओं महते नमः । महतः अहङ्कारमुत्पादयामि । ओं अहङ्काराय नमः । अहङ्काराच्छोत्रवाग्भ्यां शब्दतन्मात्रया सह मनस्सहितमेक- (शब्द) गुणकमाकाशमुत्पादयामि । बद्धाञ्जलिात्वा, ओं पौन्नमः पराय परमेष्ठयात्मने नमः । इति मूर्ध्नि न्यस्य । ओं आकाशाय नमः । आकाशात्त्वक्पाणिभ्यां स्पर्शतन्मात्रया सह द्विगुणं वायुमुत्पादयामि । ओं यां नमः पराय पुरुषात्मने नम इति नासाग्रे न्यस्य ओं वायवे नमः । वायोश्चक्षुःपादाभ्यां रूपतन्मात्रया सह त्रिगुणं तेज उत्पादयामि । ओं रानमः पराय विश्वात्मने नम इति हृदये न्यस्य । ओं तेजसे नमः तेजसा जिह्वोपस्थाभ्यां रसतन्मात्रया सह चतुर्गुणा अप उत्पादयामि । ओं वां नमः पराय निवृत्यात्मने नमः इत्युपस्थे न्यस्य, ओं तोयाय नमः । अद्भयः घ्राणपायुभ्यां गन्धतन्मात्रया सह पञ्चगुणां पृथिवीमुत्पादयामि । ओं लां नमः पराय सर्वात्मने नम इति पादयोन्यस्य, ओं पृथिव्यै नम इति भूतसृष्टिं विचिन्त्य, पुनः प्राणायामेनैकेन मूलमन्त्रं मूर्ध्नि न्यस्य, मन्त्रोद्भुतमू|परिस्थिताष्टदळकमलासनासीनभगवद्भामपादाङ्गुष्ठनखशीतां- शुमण्डलगळदिव्यामृतधारया शरीरमन्तबहिश्च प्लावयामीति प्लाव- यित्वा परमात्मानं जीवात्मना सह हृदयकमले प्रविष्टं ध्यात्वा धृतोर्ध्व- पुण्ड्रः धृतशङ्खचक्रलाञ्छनोऽस्मीति भावयित्वा, भगवानेव सर्वं कारयती. नुसन्धानं कुर्यात् । ओं षौं नमः पराय परमेष्ठयात्मने वासुदेवाय नम .
भगवद्धयानपूर्वकभगवदाराधनक्रमः 127 इति शिरसि | ओं यां नमः पराय पुरुषात्मने सङ्कर्षणाय नम इत्यास्ये । ओं रां नमः पराय विश्वात्मने प्रद्युम्नाय नम इति हृदये । ओं वां नमः पराय निवृत्यात्मने अनिरुद्धाय नम इति गुह्ये । ओं लां नमः पराय सर्वात्मने नम इति पादयोः । एवं पञ्चोपनिषन्यासं कृत्वा भगवन्तं ध्यायेत् ॥ भगवद्धयानपूर्वकभगवदाराधनक्रमः. वासुदेवमजं शान्तमुज्ज्वलं सन्ततोदितम् । अनादिमध्यनिधनमेकच्चाप्यचलं स्थिरम् ॥ १ ॥ चिद्धनं परमानन्दं तमसः परमव्यम् । ज्ञानशक्तिबलैश्वर्यवीर्यतेजस्समन्वितम् ॥ २ ॥ अपाणिपादमस्पृश्यमचक्षुश्श्रवणादिकम् । सर्वतः करवाक्पादं सर्वतोऽक्षि शिरोमुखम् ॥ ३ ॥ गतागतविनिर्मुक्तं रविकोटिसमप्रभम् । चैतन्यं सर्वगं नित्यं व्योमातीतं तदद्भुतम् ॥ ४ ॥ चित्सामान्यं जगत्यस्मिन् मूलम (ष्टाक्षरं) ब्रात्मकं परम् । एवं विधं सदाविष्णुमाहादं प्रणवात्मकम् ।। ५ ।। तं नियुज्य महाविष्णुं तद्विष्णौ विनियोजयेत् । विष्णुञ्च हृदये पद्म समावाह्यायेत्क्रमात् ॥ ६ ।। देवस्य दक्षिणे पाधै स्वस्य वामपार्श्वे पात्राणि पीठोपरि निवेश्य पूर्णकुम्भेषु गन्धजलं परिपूर्य तुलसीगन्धपुष्पाणि मूलेन निक्षिप्य यं शोषयामि । वं प्लाक्यामीति विशोध्य मूलमत्रेण सप्तकृत्योऽभिमन्व्य अमृतमयं तोयमुत्पाद्य, अस्त्राय फडिति मन्त्रेण रक्षां कृत्वा सुरभिमुद्रां प्रदर्य अन्यानि पूजाद्रव्याणि स्वदक्षिणपार्श्वे निधाय प्रोक्ष्य शोषणा- दिभिर्विशोध्य आत्मनः पुरतः स्वास्तीर्णे पीठे आग्नेयमारभ्य प्रदक्षिण- 168 प्रतिष्ठाविधि: क्रमेण अर्घ्यपाद्याचमनस्तानीयपात्राणि निक्षिप्य तेषां मध्ये शुद्धोदक- पात्रं न्यसेत् । मूलमत्रेण प्रक्षाळ्य, यं शोषयामि । रं दाहयामि । वं प्लावयामीति प्रत्येकं विशोध्य, तानि संस्कृतेन पूर्णकुम्भतोयेन मूलेन पूरयित्वा तेषु गन्धपुष्पतुलसीदलानि निक्षिपेत् । सिद्धार्थाक्षत- कुशाग्रतिलगन्धयवपुष्पाण्यय॑पात्रे विनिक्षिपेत् । दूर्वाविष्णुपर्णीश्यामाक- पद्मानि पाद्य निक्षिपेत् । एलालवङ्गकङ्कोलजातीराचमनीयके निक्षिपेत् कोष्ठमञ्चिष्ठहारिद्रमुराशेलेयचंपकवचाकचोरलामजानि स्नानीयपात्रे निक्षिपेत् । तदभावे मूलमत्रोच्चारणपूर्वक तुलसीदलं निक्षिपेत् । अादिपञ्चपात्राणि स्पृशन् मूलमन्त्रेणाभिमत्रयेत् । ओं नमो भगवते अयं परिकल्पयामि । ओं नमो भगवते पाद्यं परिकल्पयामि । ओं नमो भगवते आचमनीयं परिकल्पयामि। ओं नमो भगवते स्नानीयं परिकल्प- यामि । ओं नमो भगवते शुद्धोदकं परिकल्पयामि। इति पात्राणि परिकल्प्य, अर्घ्यपात्रादुद्धरिण्या जलमादाय, तुलसीगन्धपुष्पयुतं कृत्वा मुखसममुद्धृत्य तम्मिन् ओं विरजायै नम इति विरजामावाह्य, तजलं, अादिपञ्च- पात्रेषु कुम्भे च किञ्चित्किञ्चित्प्रक्षिप्य शेषेण भगवद्विग्रहं सर्वाणि याग- द्रव्याणि आत्मानञ्च सम्प्रोक्ष्य आसनं परिकल्पयेत् । ओं आधार- शक्तयै नमः । ओं प्रकृत्यै नमः । ओं अखिलजगदाधाराय कूर्मरूपिणे नारायणाय नमः । ओं भगवते अनन्ताय नागराजाय नमः । ओं भूम्यै नमः । इति पूर्वपूर्वम्योपरि उत्तरोत्तरं यथास्थानं ध्यात्वा गन्ध- पुप्पैरभ्यर्च्य प्रणमेत् । श्रीवैकुण्ठाय दिव्यलोकाय नमः । श्रीवैकुण्ठाय दिव्यजनपदाय नमः । श्रीवैकुण्ठाय दिव्यनगराय नमः । श्रीवैकुण्ठाय दिव्यविमानाय नमः । इति श्रीदिव्यवैकुण्ठचतुष्टयं ध्यात्वा गन्धपुष्पै- रभ्यर्च्य प्रणमेत् । वैकुण्ठे ओं आनन्दमयाय दिव्यमम्डपरत्नाय नमः । इति दिव्यमण्डपरत्नं ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । तस्मिन् मण्डपे भगवद्ध्यानपूर्वकभगवदाराधनकमः 129 ओं अनन्ताय नागराजाय आस्तरणभूताय नम इत्यनन्तं ध्यात्वा गन्ध- पुष्पैरभ्यर्च्य प्रणमेत् । अनन्तोपरि , धर्माय नमः । इत्याग्नेय्यां पीठपादं ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं ज्ञानाय नम इति नैऋत्यां विन्यस्तपीठपादं ध्यात्वा गन्धपुप्पैरभ्यर्च्य प्रणमेत्। ओं वैराग्याय नम इति वायव्यां विन्यस्तपीठपादं ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं ऐश्वर्याय नम इति ईशान्यां विन्यस्तपीठपादं ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं धर्माय पठिगात्राय नम इति प्राच्यां विन्यस्तपीठगात्रं ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं अवैराग्याय पीठगात्राय नम इति पश्चिमायां दिशि विन्यस्तपीठगात्रं ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं, अनैश्वर्याय पीठगात्राय नम इत्युत्तरस्यां दिशि विन्यस्तपीठगात्रं ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं ऋग्वेदाय पीठवाहकाय नमः । ओं यजुर्वेदाय पीठवाहकाय नमः । ओं सामवेदाय पठिवाहकाय नमः । ओं अथर्वणवेदाय पीठवाहकाय नमः । इति पीठगात्रेषु विन्यस्तं वेदचतुष्टयरूपं पीठवाहक ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । पीठवाहकोपरि, ओं एभिः परिच्छिन्नतनवे पीठभूताय सदात्मकाय अनन्ताय नागराजाय नम इति पीठरूपेण विन्यस्तमनन्तं ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । अनन्तोपरि ओं अष्टदळपद्माय नम इति विन्यस्तं पद्मं ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । पद्मदलकेसरेषु । ओं वह्निमण्डलाय नमः । ओं सोममण्डलाय नमः । ओं सूर्यमण्डलाय नमः । इति मण्डलत्रयं ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । पद्मस्य पूर्वपार्श्वस्थदले ओं विमलायै चामरहस्तायै नमः। इति विन्यस्तां चामरहस्तां ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । पद्मस्य आग्नेयकोणस्थले ओं उत्कर्षिण्यै चामरहस्तायै नम इति विन्यस्तां चामरहस्तां ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । पद्मस्य दक्षिणतले । ओं ज्ञानायै चामर- AGAMA VOL. III. . 17 130 प्रतिष्ठाविधिः . . गन्ध . हस्तायै नम इति विन्यस्तां चामरहस्तां ध्यात्वा गन्धपुष्पै-प्रणमेत् । पद्मस्य नैऋत्यकाणदले क्रियायै चामरहस्तायै नम इति विन्यस्ता चामरहस्ता क्रियां ध्यात्वा गन्धपुष्पै प्रणमेत् । पद्मस्य पश्चिमदले ओं योगायै चामरहस्तायै नम इति न्यस्ता चामरहस्तां ध्यात्वा गन्ध प्रणमेत् । पद्मस्य वायव्य- दले । प्रहायै चामरहस्तायै नम इति विन्यस्तां चामरहस्तां ध्यात्वा प्रणमेत् । पद्मस्योत्तरदले । ओं सत्यायै चामरहस्तायै नम इति विन्यस्तां चामरहस्तां ध्यात्वा गन्ध । प्रणमेत् । पद्मस्येशानदले । ओं ईशानायै चामरहस्तायै नम इति विन्यस्ता चामरहस्तां ध्यात्वा गन्धपुष्पैरभ्यर्च्य पणमेत् । भगवतः पुरतः कर्णिकापूर्वभागे ओं, अनुग्रहायै चामरहस्तायै नम इति विन्यस्तां चामरहस्तां ध्यात्वा गन्ध प्रणमेत् । पद्मकर्णिकायां ओं जगत्प्रकत्प्रकृतये दिव्ययोगपीठाय नम इति विन्यस्तं दिव्ययोग- पीठं ध्यात्वा गन्ध प्रणमेत् । योगपीठे ओं दिव्य योगपर्याय नमः । इति विन्यस्तं योगपर्यत ध्यात्वा गन्ध प्रणमेत् । दिव्ययोगपर्यके ओं अनन्ताय नागराजाय सहस्रफण- शोभिताय नमः । इति विन्यस्तं आस्तरणातपवारणरूपमनन्तं ध्यात्वा प्रणमेत् । पुरतो भगवत्पादपीठाय नमः । तदुपरि ओं भगवत्पादुकाभ्यां नमः । इति पुरतो विन्यस्तं पादपीठ- पादुकाञ्च ध्यात्वा प्रणमेत् । अनन्तोपरि देव्या सहितं भगवन्तमावाहयेत् । ओं वं यां नमः पुरुषात्मने नमः । इति भगवन्तं निवेश्य आवाह्य प्राञ्जलिस्सन् तादृशं तेजोमयं नारायणम् । ओं रं वां नमः पराय निवृत्यात्मने नमः । इति मन्त्रेण पीठस्थ बिम्बे सर्वतो न्याप्य स्थितं स्मरेत् । अनन्तरं बिम्बब्रह्मरन्ध्र प्रणवेन पिहितं . . . . गन्ध गन्ध अनन्तरं प्राणप्रतिष्ठां कुर्यात् 131 भावयेत् । अनन्तरं बिम्बे न्यासं कुर्यात् । ओं पुरुषात्मने नमः । ओं प्राणात्मने नमः । इति बिम्बशिरसि हस्तं न्यसेत् । ओं प्रकृति- तत्त्वाय नमः । ओं बुद्धितत्त्वाय नमः । इति बिम्बहृदये हस्तं न्यसेत् । ओं शब्दतत्त्वाय नमः । इति विम्बश्रोत्रयोर्हस्तं न्यसेत् । ओं स्पर्श- तत्त्वाय नमः । इति बिम्बत्वचि हस्तं न्यसेत् । ओं रूपतत्त्वाय नमः । इति बिम्बचक्षुषोर्हस्तं न्यसेत् । ओं रसतत्त्वाय नमः । इति बिम्ब- जिह्वायां हस्तं न्यसेत् । ओं गन्धतत्त्वाय नमः । इति बिम्बनासि- कायां हस्तं न्यसेत् ।। अनन्तरं प्राणप्रतिष्ठां कुर्यात्. ओं अयं पुरोभुवस्तस्य प्राणोभौ वायनोवसन्तः प्राणायनो गायत्री वासन्ती गायत्रियै गायत्रं गायत्रादुपागं शुरुपागं शोस्त्रि- वृत्रिवृतो रथंतरगं रथंतराद्वसिष्ठऋषिः प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यः आः, हीं, को हंसः श्रीमन्नारायणस्य महालक्ष्म्याश्च प्राणा इह प्राणा इह जीवः स्थितस्सर्वेन्द्रियाणि वाक्पाणिपादोपस्थ- पायुमनःश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि सर्वे पाणा इहागत्य स्वस्तये सुखेन सुचिरं तिष्ठन्तु स्वाहा । इति मन्त्रेण सर्वेन्द्रियाणि हृदयञ्च स्पृशेत् ॥ अयं दक्षिणा विश्वकर्मा तस्य मनो वैश्वकर्मणं ग्रीष्मो मानस- स्त्रिष्टुग्य॒ष्मात्रिष्टुभ ऐडमैडादन्तर्यामाऽन्तर्यामात्पञ्चदशः पञ्चदशाहद्वृहतो भरद्वाजऋषिः प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाभ्यः । ओं हां ह्रीं क्रौं हंसः । अस्य श्रीमन्नारायणस्य महालक्ष्म्याश्च इह जीव इह स्थितः सुखेन चिरं तिष्ठन्तु स्वाहा । अनेनहृदयं स्पृशेत् ।। अयं पश्चाद्विश्वव्यचास्तस्य चक्षुर्वैश्वव्यचसं वर्षाणि चाक्षुषाणि जगतीवार्जिगत्या ऋक्षममृक्षमाच्छुकश्शुक्रात् सप्तदशस्सप्तदशाद्वैरूपं 132 प्रतिष्ठाविधिः वैरूपाद्विश्वामित्रऋषिः प्रजापतिगृहीतया त्वया चक्षुर्गृहामि प्रजाभ्यः ओं आं ही क्रौं हंसः । श्रीमन्नारायणस्य महालक्ष्म्याश्च सर्वेन्द्रियाणि इहागत्य सुखेन चिरं तिष्ठतु स्वाहा । अनेन सर्वेन्द्रियाणि स्पृशेत् । इदमुत्तरात्सुवस्तस्य श्रोत्र सौवशरच्छौत्यनुष्टुप् छारधनुष्टुभः स्वार- स्वारान्मन्थी मन्थिन एकविश्श एकविश्शाद्वैराजं वैराजाज्जमदग्निरऋषिः प्रजापतिगृहीतया त्वया श्रोत्रं गृह्णामि प्रजाभ्यः आं ह्रीं क्रौं हंसः श्रीमन्नारायणस्य महालक्ष्म्याश्च वाङ्मनश्चक्षुश्रोत्रप्राणा इहागत्य सुखं चिरन्तिष्ठन्तु स्वाहा । अनेन वाङ्मनश्चक्षुश्रौत्रप्राणान् स्पृशेत् । इयमु. परिमतिस्तस्यै वाङ्मातीहेमन्तो वाच्यायनः पतिहमन्ती पतयै निधनवन्नि- धनवत आग्रयणमाग्रयणात्रिणवत्रयसिंशौत्रिणव्रतयस्त्रि शाभ्यां शाकर- रैवतैशाकररैवताभ्यां विश्वकर्मऋषिः प्रजापतिगृहीतया त्वया वाचं गृहामि प्रजाभ्यः ओं आं ह्रीं क्रौं हंसः । अस्य श्रीमन्नारायणस्य महा- लक्ष्म्याश्च वागिहागत्य सुखं चिरं तिष्ठतु स्वाहा। अनेन मुखं स्पूशेत् ।। एवं प्राणप्रतिष्ठां कृत्वा पञ्चोपनिषन्नयासं कुर्यात् । ओं पौं नमः पराय परमेष्ठयात्मने नमः । इति भगवच्छिरः स्पृशेत् । ओं यां नमः पराय पुरुषात्मने नम इति भगवन्नासाग्रं स्पृशेत् । ओं रान्नमः पराय विश्वात्मने नम इति भगवद्धृदयं स्पृशेत् । ओं वां नमः पराय निवृत्यात्मने नम इति भगवद्गुह्यं स्पृशेत् । ओंलां नमः पराय सात्मने नम इति भगवत्पादौ स्पृशेत् । मूलमन्त्रेण मन्त्ररत्नेन च वाक्पाणिपादोपस्थपायुमनःश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि स्पृशेत् । इति भगवन्तं श्रियं चावाह्य, ओं नमो भगवते वासुदेवायेति मन्त्रेणात्माभिमुखं भगवन्तं भावयित्वा प्रणम्य, समाराधनाभिमुखो भवेति संप्रार्थ्य- ब्रह्माद्यास्सकला देवा यन्नस्मर्तुमपीश्वराः । स एष भगवानद्य मम प्रत्यक्षतां गतः ॥१॥ - अनन्तरं प्राणप्रतिष्ठां कुर्यात् 133 स्वागतं भगवन्नद्य मां तारयितुमागतः । धन्योऽस्म्यनुगृहीतोऽस्मि कृतार्थोऽस्मि कृपानिधे ।। २ ।। आवाहयामि लक्ष्मीशं परमात्मानमव्ययम् । पञ्चोपनिषदात्मानं दिव्यमङ्गळविग्रहम् ।। ३ ।। आतिष्ठतामिमां मूर्ति मदनुग्रहकाम्यया । श्रिया साध जगन्नाथो (देवो) दिव्यो नारायण प्रभुः ॥४॥ इति । स्वागतं निवेद्य स्वागतं श्रीहरिं पश्येत् । दक्षिणतः ओं श्रीं श्रियै नमः । वामतः । ओं भू भूम्यै नमः । पुरतः । ओं नी नीळायै नमः । इति श्रयादीन् ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं किरीटाधिपतये नमः । इति भगवतः पश्चिमे पार्श्वे चतुर्बाहुं चतुर्वक्तं मूर्ध्नि भगवत्कि- रीटधर कृताञ्जलिपुटं किरीटाख्यं दिव्यपुरुषं ध्यात्वा गन्धपुष्पैरभ्यर्य प्रणमेत् । ओं किरीटमालायै आपीडात्मने नमः । इत्यापीडां भगवत्प- श्चिमपार्श्वे ध्यात्वा गन्धपुष्पैरभ्वर्य प्रणमेत् । ओं दक्षिणकुण्डलाय मकरात्मने नमः । इति भगवतो दक्षिणभागे दक्षिणकुण्डलम् । ओं वाम- कुण्डलाय मकरात्मने नम इति भगवतो वामभागे वामकुण्डलं ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं वैजयन्त्यै वनमालायै नमः । इति भगवत्पुरतो वनमालां ध्यात्वा गन्धाधैरभ्यर्च्य प्रणमेत् । ओं श्रीमत्तु- लस्यै नम इति तुलसी देवी भगवत्पादमूले ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं हाराय सर्वाभरणाधिपतये नमः । इति हारात्मानं भगव. त्पुरतो ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं श्रीवत्साय श्रीनिवासाय । इति श्रीवत्सं भगवद्धृदयदक्षिणभागे ध्यात्वा गन्धपुष्पै- रभ्यर्च्य प्रणमेत् । ओं काञ्चीगुणोज्वलाय पीताम्बराय नमः । इति पीताम्बरं भगवत्कट्यां ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं नूपु- राभ्यां नमः । पादयोः । ओं सर्वेभ्योङ्गदवलयाङ्गुलीयेभ्यो नमः । नमः 134 प्रतिष्ठाविधिः स्वस्वस्थानेषु सर्वेभ्यो भगवद्भूषणेभ्यो नमः । इति सुदर्शनात्मानं सुवर्णरक्तनेत्रं कृताञ्जलिपुटं भगवन्तमाह्वयन्तं तद्दर्शनानंदोपब्रह्मितमुख मूर्ध्नि भगवच्चक्रं धारयन्तं ध्यात्वा । ओं नन्दकाय खड्गाधिपतये नमः । इति खड्गात्मानं भगवत्खङगं शिरसि धारयन्तम् । ओं पद्माय नमः । इति पद्मात्मानं भगवत्पनं शिरसि धारयन्तं भगवतो दक्षिणभागे ध्यात्वा चक्रखड्गपद्मानि गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं पाञ्चजन्याय शङ्खाधिपतये नमः । इति शङ्खात्मानं सितवर्णं सितनेत्रं द्विभुजं कृता- अलिपुटं शिरसि शङ्ख धारयन्तम् । ओं कौमोदक्यै गदाधिपत्ये नमः । इति शिरसि गदां धारयन्तीं गदादेवीम् । ओं शायि चापाधिपतये नमः । इति शाात्मानं शिरसि शाङ्ग धारयन्तं भगवतो वामभागे ध्यात्वा शङ्खगदाशाङ्गाणि गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं सर्वेभ्यो भगवदिव्यायुधेभ्यो नम इति सर्वाणि भगवदिव्यायुधानि ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं सर्वाभ्यो भगवत्पादारविन्दसंवाहिनी- भ्यो नमः । इति भगवत्पादारविन्दसंवााहनीयात्वा गन्धपुष्पैरभ्यर्थ्य प्रणमेत् । ओं सर्वेभ्यो भगवत्परिचारकेभ्यो नम इति भगवत्परिचार- कान्ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं अनन्ताय नागराजाय नम इति भगवन्तमनन्तं चतुर्भुजं हलमुसलधरं कृताञ्जलिपुटं फणामणिसहस्रमण्डि- तोत्तमाङ्गं श्रीभगवद्दर्शनानन्दब्रह्मितसर्वगात्रं भगवतः पृष्ठभागे ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं वारुण्यै नमः । इति वारुणी अनन्तस्य दक्षिणपार्श्वे ध्यात्वा । ओं काञ्चयै नम इति काञ्चीमनन्तस्य वामपार्थे ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं सर्वेभ्यो भगवत्परिजनेभ्यो नमः इत्यनुक्तासङ्ख्येयपरिजनान्भगवत्पुरतो ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं भगवत्पादुकाभ्यां नम इति पीठस्य पुरतः पादुके ध्यात्वा गन्धपुष्पै- रभ्यर्च्य प्रणमेत् । ओं सर्वेभ्यो भगवत्परिच्छदेभ्यो नम इति अनन्तरं प्राणप्रतिष्ठां कुर्यात् 135 भगवत्परिच्छदासमन्ततो ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं वैनतेयाय नम इति भगवदने आसीनं द्विभुजं कृत्वाञ्जलिपुटं वैनतेयं ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं रुद्रायै नम इति वैनतेयस्य दक्षिणपार्थे रुद्रां सुकीत्र्यै नम इति वैनतेयस्य वामपाधै सुकीर्ति ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं विष्वक्सेनाय नम इति भगवतः प्रागुत्तरपार्श्वे दक्षिणाभिमुखं भगवन्तं विष्वक्सेनं चतुर्भुजं कृताञ्जलिपुटं नीलमेघनिभं ध्यात्वा गन्धपष्पैरभ्यर्च्य प्रणमेत् । ओं सूत्रवत्यै नम इति विष्वक्सेनवामभागे विष्वक्सेनपत्नीं ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । ओं गं गजाननाय नमः । ओं जं जयत्सेनाय नमः । ओं हं, हरिवक्ताय नमः । ओं के कालप्रकृति- संज्ञाय नमः । ओं सर्वेभ्यो विष्वक्सेनपरिजनेभ्यो नमः । इति विष्वक्सेनपरिजनान् विष्वक्सेनपृष्ठभागे ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । पीठस्य पश्चिमोत्तरदिग्भागे, पराङ्कुश, परकाल, यतिवर, देशिकादीन्स्वाचार्यान्तान् गुरून् ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणवेत् । ओं चण्डाय द्वारपालाय नमः । ओं प्रचण्डाय द्वारपालाय नमः। इति पूर्वद्वारपार्श्वयोः चण्डप्रचण्डौ । ओं भद्राय द्वारपालाय नमः । ओं सुभद्राय द्वारपालाय नम इति दक्षिणद्वारपार्श्वयोर्भद्रसुभद्रौ । ओं जयाय द्वारपालाय नमः। ओं विजताय द्वारपालाय नम इति पश्चिम- द्वारपार्श्वयोर्जयविजयौ । ओं धात्रे द्वारपालाय नमः । ओं विधात्रे द्वारपालाय नम इत्युत्तरद्वारपार्श्वयोर्धातृविधातारौ ध्यात्वा गन्धपुष्पै- रभ्यर्च्य प्रणमेत् । ओं कुमुदाय गणाधिपतये सवाहनपरिवारप्रहणाय- नम इति पूर्वस्यां कुमुदम् । ओं कुमुदाक्षाय गणाधिपतये सवाहन- परिवारप्रहरणाय नम इत्यमिकोणे कुमुदाक्षम् । ओं पुण्डरीकाय गणाधि- पतये सवाहनपरिवारप्रहरणाय नम इति दक्षिणे पुण्डरीकम् । ओं ।
186 प्रतिष्ठाविधिः . वामनाय गणाधिपतये सवाहनपरिवारप्रहरणाय नम इति नैऋत्ये. वामनम् । ओं शङ्कुकर्णाय गणाधिपतये सवाहनपरिवारप्रहरणाय नम इति पश्चिमे शङ्कुकर्णम् । ओं सर्वनेत्राय गणाधिपतये सवाहनपरिवार- प्रहरणाय नम इति वायव्ये सर्वनेत्रम् । ओं सुमुखाय गणाधिपतये सवाहनपरिवारप्रहरणाय नम इत्युत्तरे सुमुखम् । ओं सुप्रतिष्ठिताय गणाधिपतये सवाहनपरिवारप्रहरणाय नम इतीशाने सुप्रतिष्ठित ध्यात्वा गन्धपुष्परैभ्यर्च्य प्रणमेत् । ओं सर्वेभ्यो भगवद्गणाधिपतिभ्यो नमः । ओं सर्वेभ्यो भगवत्पार्षदेभ्यो नमः । ओं नित्येभ्यो नमः । ओं मुक्तेभ्यो नमः । ओं समस्तपरिवाराय श्रीमते नारायणाय नमः । इति सर्वान् ध्यात्वा गन्धपुष्पैरभ्यर्च्य प्रणमेत् । परमव्योम, क्षीरार्णवा- दित्यमण्डल, हृदयकमल, मधुरा, द्वारकायोध्यादि, यथारुचिस्थानेष्वेव- स्थितं भगवन्तं नारायणं देवीभूषणायुधपरिजनपरिच्छदद्वारपालैस्सेव्य- मानः स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं स्वाभाविकान- वधिकातिशयज्ञानबलैश्वर्यशक्तितेजःप्रभृत्यसङ्खयेयकल्याणगुणौघमहार्णवं ध्यात्वा प्रणम्य मूलेन स्वात्मानं देवाय निवेद्य पुनः प्रणम्य अनुज्ञाय भगवत्पूजामारभेत ॥ अर्घ्यपात्रादुद्धरिण्याय॑जलमादाय घ्राणसममुद्धृत्य भगवन् मत्- (मे) पूजाम्परिगृह्णीष्व इति प्रार्थ्य मुखे दर्शयित्वा भगवद्दक्षिणहस्ते तुलसीदलेन किञ्चित्प्रदाय प्रतिग्रहपात्रे निक्षिपेत् । स्वहस्तौ प्रक्षाळ्य, पादयोः पुष्पाणि दत्वा पाद्यपात्रादुद्धरिण्या जलमादाय प्राणसममुद्धृत्य, भगवन् मत् (मे) पूजां प्रतिगृह्णीष्वेति प्रार्थ्य उत्तरवाक्यमुच्चरन् वा तुलसीदलेन भगवत्पादयोः किञ्चित्प्रदाय मनसा पादौ प्रक्षाळ्य प्रतिग्रहे तज्जले प्रक्षिपेत् । पादौ वस्त्रेण संमृज्य गन्धपुष्पाणि दत्वा आचमनपात्रादुद्धरिण्या जलमादाय प्राणसममुद्धृत्य भगवन्मत्पूजां अनन्तरं प्राणप्रतिष्ठां कुर्यात् 137 तत उत्तरवाक्य- प्रतिगृह्णीष्वेति प्रार्थ्य उत्तरवाक्यमुच्चरन् भगवद्दक्षिणहस्ते किञ्चित्प्रदाय प्रतिग्रहपात्रे प्रक्षिपेत् । ततो गन्धपुष्पधूपदीपाचमनमुखवासताम्बूलानि उत्तरवाक्यमुच्चरन् तुलसीदलेन दद्यात् । प्रणम्यात्मानमात्मीयञ्च सर्व भगवन्नित्यकिङ्करत्वाय स्वीकुरु इति भगवते निवेदयेत् ॥ ततस्वानासनमानीय गन्धपुष्पैरभ्यर्च्य भगवन्तं प्रणम्य तुलसी- दलेन मनसा पादुके दत्वा स्वानासने भगवन्तं मनसा उपवेशयेत् । तत्रोपविष्टे सति माल्यपुष्पवस्त्राण्यपनीय स्नानशाटिकां प्रदाय तत्र उत्तरवाक्यमुच्चरन् पाद्याचमनानि दत्वा पादपीठार्थं तुलसीदलं दद्यात् । ततस्तुलसीकाष्ठेन गण्डूपमुखप्रक्षाळनं कारयेत् । मुच्चारन् आचमनं दत्वा आदर्श दद्यात् । ततस्सुगन्धितैलेनाभ्यज्य माषमुद्गचूर्णेन भगवद्विग्रहसम्मर्दनं कृत्वा, आमलकचूर्णेन प्रक्षाळ्य हरिद्रोदकेन मङ्गळस्नानं कारयित्वा, स्नानीयपात्रजलेन मूलमन्त्रोच्चारण- पूर्वकं पुरुषसूक्तेन स्नापयेत् । शाट्या सम्मृज्य, उत्तरवाक्यमुच्चरन् वस्त्रोपवीतपाद्याचमनपवित्रकेशप्रसाधनानि कुर्यात् । तत अलङ्कारा- सनम् । पुष्पैरभ्यर्च्य, अलङ्कारासनमासादयेति विज्ञाप्य तुलसीदलेन पादुके दत्वा तत्रोपविष्टं भगवन्तमुत्तरवाक्यमुच्चारयन् अर्घ्यपाद्याचमन- भूषणगन्धपुष्पैरभ्यर्चयेत् । भगवते स्वात्मानं निवेद्य यथाशक्तिमूलमन्त्रं जपेत् । ततो देव्यादिसर्वपरिवाराणां अर्घ्यपाद्यालङ्कारासनं पूर्ववद्दद्यात् । ततो अर्ध्या दिपात्राणि प्रक्षाळ्य पूर्ववत्पूर्णकुम्भस्थजलेन पूरयित्वा, " मयि पर्वतपूरुष-मयि पर्वतवर्चसं-मयि पर्वतभेषजं-मयि पर्वता- युषम् । यन्मे वर्चः परागतमात्मानमुपतिष्ठति । इदं तत्पुनराददे दीर्घायुत्वाय वर्चसे । प्रतिष्ठेस्तोदेवतानां मामासंताप्तम्” इति मन्त्रेण दर्पणं दद्यात् । ततो नृत्यगीतछत्रचामराग्रुपचारान्मूलेन समर्पयेत् । धूरसि धूर्वपूर्वन्तं धूर्वतं योऽस्मान् धूर्वतितं धूर्वयं वयं धूमिस्त्वं AGAMA VOL. III. 18
138
प्रतिष्ठाविधिः
देवानामसीति मत्रेण धूपं दद्यात् । उद्दीप्यस्व जातवेदोपघ्नं निरऋति
मम । पशूश्च मझमावह जीवनं च दिशो दश । मानो हिसीजातवेदो
गामश्वं पुरुषं जगत् । अविनदन आगहि श्रीया मा परिपातय ।"
इति दीपं दद्यात् । ततश्शुद्धं मधुसर्पिर्दधिक्षीरं शर्कराश्च पात्र निक्षिप्य
मूलेन विशोध्य अय॑जलेन प्रोक्ष्य सुरभिमुद्रां प्रदर्य, मूलमन्त्रोच्चारण-
पूर्वकमवनतशिरा हर्षोत्फुल्लनयनो हृष्टरोमा भूत्वा मधुपर्क प्रदाय
आचमनं दद्यात् । ततो गां रत्नसुवर्णादिकं च यथाशक्ति दद्यात् ।।
ततस्सुसंस्कृतान्नमाज्याव्यं दधिक्षीरमधनि च ।
फलमूलव्यञ्जनानि मोदकांश्चान्यानपि लोके प्रियतमान्यात्मनः
श्रेष्ठानि शास्त्राविरुद्धानि संभृत्य भगवत्पुरतः शोधितस्थले स्थापयेत् ।
यं शोषयामि । रं दाहयामि । वं प्लावयामीति विशोध्य, अय॑जलेन
संप्रोक्ष्य, ओं नमः अस्त्राय फडिति मन्त्रेण रक्षां कृत्वा मूलमन्त्रेण परि-
षेचनापोशनश्च कारयेत् ॥
असत्यमशुचिं नित्यमपराधैकभाजनम् ।
अशक्तं चाप्यचैतन्यमनहँ भृत्यकर्मणि ॥ १ ॥
दोषाकरं दुरात्मानं मामेवं परिचिन्तयन् ।
मत्समर्पितमित्येतन्न त्वमर्हस्युपेक्षितुम् ।। २ ॥
कौसल्याकल्पितं गेहे कानने लक्ष्मणार्पितम् ।
पम्पायां शबरीदत्तं भरद्वाजार्पितश्च यत् ।। ३ ।।
नवनीतं घतं क्षीरं व्रजे यत्स्वयमार्जितम् ।
यद्यन्नन्दयशोदाभ्यां यद्यद्गोपीभिरर्पितम् ॥ ४ ॥
यदत्तं ब्रजपत्नीभिः यन्महेन्द्रेण कल्पितम् ।
यदर्पितं कुचेलेन यद्यद्विदुरकल्पितम् ॥ ५ ॥
अन्यद्वा यद्यदिष्टं ते नित्यमुक्तैर्निवेदितम् ।
श्रिया भूम्या च यदत्तं शठारिप्रमुखैश्च यत् ॥ ६ ॥
अनन्तरं प्राणप्रतिष्ठां कुर्यात् 139 नाथार्ययामुनाचार्ययतीश्वरसमर्पितम् । त्वन्महिनोऽनुरूपञ्च त्वत्प्रियाणाश्च यत्प्रियम् ॥ ७ ॥ यथा तथा स्वसङ्कल्पात् कल्पयित्वेदमेव हि । अतिप्रभूतमत्यन्तभक्तिपूतं चतुर्विधम् ॥ ८॥ पथ्यं पाकविशेषाढ्यं रुच्यं दोषविवर्जितम् । दिव्यं दृष्टिप्रिय स्वाधं सरसं सौरभोत्तमम् ॥ ९॥ सर्वोपचारपूर्वं यत्संपाद्य प्रेमपूर्वकम् । देवदेव तदेतत्ते ददौ वेदान्तदेशिकः ॥ १० ॥ अतस्तद्विषयप्रीतिप्रेरितः करुणानिधे । अत्रैवसन्निधाय्य त्वमखिलैस्सह भोक्तृभिः ॥ ११ ॥ अनन्यहृदयस्सम्यगासीनः परमासने । श्रीमन्नारायण स्वामिन् एतत्स्वीकर्तु मर्हसि ॥ १२ ॥ इति विज्ञाप्य गुरुपरम्परामनुसन्धाय मूलमन्त्रमष्टोत्तरशतवारं जप्त्वा ग्रासमुद्रया हविनिवेदयेत् । ततो मध्ये मध्ये पानीयं दत्वा ततो मूलेन उत्तरापोशनहस्तशोधनगन्डूषपाद्याचमनमुखवासकर्पूरताम्बूलानि दद्यात् । पुनः प्रणम्य-- अनेनान्नाद्ययोगेन सम्यगाराधनेन च । पद्मनाभोरविन्दाक्षः प्रीतिमभ्येतु मेऽच्युतः ।। इति विज्ञापयेत् । पुनर्मत्रासनं कूर्चेन मार्जयित्वा गन्धादि- भिरभ्यर्च्य, ओं भगवत्पादुकाभ्यां नमः । इति पादुके चाभ्यर्च्य, भगवन्मन्त्रासनमासादयेति भगवन्निमे पादुके इति विज्ञाप्य, तत्रोपविष्टे अादि दत्वा फलाचमनमुखवासताम्बूलनृत्यगीतादिभिरभ्यर्च्य प्रण- मेत् । भगवन्निवेदितं सर्व शुद्धोदकेन श्रियै निवेदयेत् । श्रियै निवेदितं मनसा चतुर्षा विभज्य भूम्यै एकं नीलायै एक अनन्तगरुड- विष्वक्सेनादिभ्य एकं पराङ्कुश, परकाल, यतिवर, वेदान्तदशिक- -
140
प्रतिष्ठाविधिः
ये
स्वाचार्यपर्यन्तेभ्यः एकं शुद्धोदकजलेन निवेदयेत् । मूलमन्त्रेण
अष्टोत्तरसहस्रदढरेभ्यर्चयेत् । ओं नर्यप्रजां मे गोपाय । अमृतत्वाय
जविसे । जातां जनिष्यमाणां च । अमृते सत्ये प्रतिष्ठिताम् ।
अधर्वपितुं मे गोपाय । रसमन्नमिहायुषे । अदब्धायोशीत-
तनो । अविषन्नः पितुं कृणु । शश्स्य पशून्मे गोपाय । द्विपादो
चतुष्पदः । अष्टाशफाश्च य इहाग्ने । ये चैकशफा आशुगाः ।
सप्रथसमां मे गोपाय । ये च सभ्यास्सभासदः। तानिन्द्रियावतः कुरु ।
सर्वमायुरुपासताम् । अहे बुनियमन्त्रम्मे गोपाय । यमृषयस्त्रैविदा विदुः ।
ऋचस्सामानि याजू षि । सा हि श्रीरमृतासताम् । साम्राज्य
भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं वैराज्यं महाराजमाधिपत्यमिति
मन्त्रेण तिरस्करणीमन्तरा करेण नीराजनं कुर्यात् । तद्विष्णोः
परमं पद सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रा
सोविपन्यवो जागृवा सस्समिन्धते । विष्णोर्यत्परमं पदम् । पर्याप्या
अनन्तरायाय सर्वस्तोमोतिरात्र उत्तममहर्भवति सर्वस्याप्त्यै सर्वस्य
जित्यै सर्वमेव तेनाप्नोति सर्व जयति " इत्यनेन मन्त्रपुष्पं दद्यात् ।
अनन्तरं देवस्य दक्षिणपार्श्व समासाद्य---
नमो नमो वाड्मनसातिभूमये
नमो नमो वाङ्मनसैकभूमये ।
नमो नमोऽनन्तमहाविभूतये
नमो नमोऽनन्तदयैकसिन्धवे ॥
अनेन अष्टवारं दण्डवत्प्रणम्य, बद्धाञ्जलिपुटो भूत्वा इमां गामुदीरयेत्-
भक्तवत्सल देवानामभिप्रेतार्थसाधक ।
प्रार्थये त्वामहं देव मदनुग्रहकाम्यया ॥ १॥
सन्निधत्स्व चिरं स्थाने कल्पिते श्रद्धया मया ।
प्रसीद देवदेवेश पूजामपि गृहाण मे ॥२॥
अनन्तरं प्राणप्रतिष्टां कुर्यात् 141 ग्रामस्य राज्ञो राष्ट्रस्य प्रजानामिन्दिरावह । देवतुष्टिं च पुष्टिं च गतिं च परमां तथा ॥ ३ ॥ नमस्तुभ्यं भगवते राघवाय महात्मने । रावणादिजगद्वैरिनिबर्हणमहौजसे ॥ ४ ॥ वृष्णिवर्याय कृष्णाय नमस्तुभ्यं मधुद्विषे । भूभारभूतकंसादिमहाबलिनिषूदिने ।। ५ ।। इति विज्ञापयेद्देवं वासुदेवं तु देशिकः । अनन्तरमाचार्यः मन्दिरस्य चतुर्दिक्षु बलीन् दद्यात्। फलला । दघिसक्तनां चतुरः पिण्डान् कृत्वा तेष्वेकं हस्ते गृहीत्वा आद्याश्च कर्मजाश्चैव ये भूताः प्राग्दिशिस्थिथाः । प्रसन्नाः परितुष्टास्ते गृह्णन्तु बलिकांक्षिणः।। १ ।। इति पूर्वस्यां बलिं दद्यात् । द्वितीय पिण्डं हस्ते गृहीत्वा- वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः । भूमौ व्योम्नि स्थिता ये च बलिं गृह्णन्तु तेऽपि च ॥२ ।। इति दक्षिणायां दिशि बलिं दद्यात् । तृतीय पिण्डं हस्ते गृहीत्वा-- विनायकाः क्षेत्रपालाः ये चान्ये बलिकांक्षिणः । पूषाद्याः पार्षदाश्चैव प्रतिगृह्णन्तु मे बलिम् ॥ ३ ॥ इति पश्चिमायां दिशि बलिं दद्यात् । चतुर्थ पिण्डं हस्ते गृहीत्वा- चण्डद्याः कुमुदाद्याश्च ये भूतासर्वतस्स्थिताः । आगच्छन्तु च ते सर्वे गृह्णन्तु तमिमं बलिम् ॥ ४ ॥ इत्युत्तरस्यां दिशि बलिं दद्यात् ।। तत आचार्यः हस्तपादौ प्रक्षाळ्य आचम्य पवित्रपाणिः प्राणा- नायम्य शुद्धात्मा ध्यायेद्ब्रह्म सनातनम् । तत आचार्यो यागशाला प्रविश्य भगवत्प्रतिष्ठार्थमावाहितदेवताविसर्जनं करिष्ये इति सङ्कल्प्य -- AGAMA VOL. III. 19 142 प्रतिष्ठाविधिः आवाहितदेवताभ्यो नम इति मन्त्रेण अर्घ्यपाद्याचमनगन्धपुष्पधूपदीप- नैवेद्यानि दत्वा- यान्तु देवगणास्सर्वे पूजामादाय मामकीम् । इष्टकामप्रदानाय पुनरागमनाय च ।। इति मन्त्रेण पूर्वस्थापितपालिकादेवताश्च विसर्जयेत् । अनन्तर- माचार्यः मन्दिरं प्रविश्य भगवन्तं प्रदक्षिणीकृत्य सुखासने उदङ्मुख उपविश्य अष्टोत्तरशतवारं मन्त्ररत्नं जपित्वा- न धर्मनिष्ठोऽस्मि न चात्मवेदी न भक्तिमांस्त्वच्चरणारविन्दे । अकिञ्चनोऽनन्यगतिश्शरण्य त्वत्पादमूलं शरणं प्रपद्ये।। इति भगवन्तं प्रार्थयेत् ।। अथ पुष्पाञ्जलिः. ओं नर्यप्रजां मे गोपाय | अमृतत्वाय जीवसे । जातां जनिष्य- माणाञ्च । अमृते सत्ये प्रतिष्ठिताम् । अथर्वपितुं मे गोपाय । रसमन्न- मिहायुषे । अदब्दायोशीततनो । अविषन्नः पितुं कृणु । शस्य पशून्मे गोपाय । द्विपादो ये चतुष्पदः। अष्टाशफाश्च य इहाने । ये चैकशफा आशुगाः । सप्रथसभां मे गोपाय । ये च सभ्यास्सभा- सदः । तानिन्द्रियावतः कुरु । सर्वमायुरुपासताम् । अहेवुनियमन्त्रं मे गोपाय । यमृषयस्त्रैविदा विदुः। ऋचस्सामानि यजूषि । साहि श्रीरमृता सताम् । साम्राज्यं भोज्यं वैराज्यं स्वाराज्यं पारमष्ठ्यं वैराज्यं महाराज्यमाधिपत्यमित्यनेन तिरस्करिणीं दूरीकृत्य महानीराजनं कुर्यात् । तत आचार्यस्सर्वे ऋत्विजः- - अथ पुष्पाञ्जलिः 143 योऽपां पुष्पं वेद । पुष्पवान् प्रजावान्पशुमान्भवति । चन्द्रमा वा अपां पुष्पम् । पुष्पवान् प्रजावान् पशुमान्भवति । य एवं वेद । योऽ- पामायतनं वेद। आयतनवान्भवति । अग्नि, अपामायतनम् । आय- तनवान्भवति । योऽनेरायतनं वेद । आयतनवान् भवति । आपो वा अमेरायतनम् । आयतनवान्भवति । य एवं वेद । योऽपामायतनं वेद । आयतनवान्भवति । वायुर्वा अपामायतनम् । आयतनवान्भवति । यो वायोरायतनं वेद । आयतनवान्भवति । आपो वै वायोरायतनम् । आय- तनवान्भवति । य एवं वेद । योऽपामायतनं वेद आयतनवान्भवति । असौ वै तपन्नपामायतनम् । आयतनवान्भवति । योऽमुष्यतपत आयतनं वेद । आयतनवान्भवति । य एवं वेद । योऽपामायतनं वेद । आयतनवान् भवति चन्द्रमा वा अपामायतनं । आयतनवान्भवति । यश्चन्द्रमस आयतनं वेद । आयतनवान्भवति । आपो वै चन्द्रमस आयतनम् । आयतनवा- न्भवति । य एवं वेद । योऽपामायतनं वेद । आयतनवान्भवति । नक्षत्राणि वा अपामायतनम् । आयतनवान्भवति। यो नक्षत्राणामाय- तनं वेद । आयतनवान्भवति । आपो वै नक्षत्राणामायतनम् । आय- तनवान्भवति । य एवं वेद । योऽपामायतनं वेद । आयतनवान्भवति । पर्जन्यो वा अपामायतनम् । आयतनवान्भवति। यः पर्जन्यस्यायतनं वेद । आयतनवान्भवति । आपो वै पर्जन्यस्यायतनम् । आयतन- वान्भवति । य एवं वेद । योऽपामायतनं वेद। आयतनवान्भवति । संवत्सरो वा अपामायतनम् । आयतनवान्भवति । यस्संवत्सरस्यायतनं वेद । आयतनवान्भवति । आपो वै संवत्सरस्यायतनम् । आयतनवान्भवति य एवं वेद । योऽप्सुनावं प्रतिष्ठितां वेद । प्रत्येवतिष्ठति। इति मन्त्रेण पुष्पाञ्जलिं समर्पयेत् ॥ ऐन्द्राममुपसादितं । सर्वाभ्यो वा एष देवताभ्यो जुहोति योऽमिहोत्रं जुहोति । यथा खल वै धेनुं तीर्थे तर्पयति । एवमाग्निहोत्री 144 प्रतिष्ठाविधिः .. यजमानं तर्पयति । तृप्यति प्रजया पशुभिः। प्रसुवर्ग लोकं जानाति । पश्यति पुत्रम् । पश्यति पौत्रम् । प्रप्रजया पशुभिमिथुनैर्जायते । यस्यैवं विदुषोऽग्निहोत्रं जुहति । य उचैन देवं वेद । शतमानं भवति शतायुः पुरुषश्शतेन्द्रिय आयुष्येवेन्द्रिये प्रति तिष्ठति । आशास्ते यं यज- मानोऽसौ । आयुराशास्ते । सुप्रजास्त्वमाशास्ते । सजातवनस्यामाशास्ते। उत्तरां देवयज्यामाशास्ते। भूयो हविष्करणमाशास्ते। दिव्यं धामा- शाम्ते । विश्वं प्रियमाशास्ते। यदनेन हविषाशास्ते । आशिषमेवैता- माशास्ते पूर्णपात्रे। अन्ततोऽनुष्टुभा। चतुष्वद्वा एतच्छन्दः प्रतिष्ठितं पत्नियै पूर्णपात्रे भवति । अस्मिन् लोके प्रतितिष्ठानीति। अस्मिन्नेव लोके प्रतितिष्ठति । अथो वाग्वा अनुष्टुक् । वान्निथुनम् । आपो रेतः प्रजननम् । एतस्माद्वै मिथुनाद्विद्योतमानस्तनयान्वर्षति । रेतस्सिञ्चन् । प्रजाः प्रजनयन् । यद्वै यज्ञस्य ब्रह्मणा युज्यते। ब्रह्मणा वै तस्य विमोकः । अद्भिश्शान्तिः । विमुक्तं वा एतर्हि योकं ब्रह्मणा। आदा- यैनस्पत्नी सहाप उपगृह्णीते शान्त्यै । अञ्जलौ पूर्णपात्रमानयति । रेत एवास्यां प्रजां दधाति। प्रजया हि मनुष्यः पूर्णः । मुखं विमृष्ट। अव- भृथस्यैवरूपं कृत्वोत्तिष्ठति । गो मृगकण्ठेन प्रथमामाहुतिं जुहोति । पशवो वै गोमृगः। रुद्रोनिस्विष्टकृते । रुद्रादेव पशूनन्तर्दधाति । अथो यत्रैषाहुतिहोयते । न तत्र रुद्रः पशूनभिमन्यते । अश्वशफेन द्वितीय- माहुतिं जुहोति । पशवो वा एकशफम् । रुद्रोऽग्निस्विष्टकृत् । रुद्रा- देव पशूनन्तर्दधाति। अथो यत्रैषाहुतिहूयते । न तत्र रुद्रः पशूनभिमन्यते । अयस्मयेन कमण्डलुना तृतीयाम् । आहुतिं जुहोत्या- यास्यो वै प्रजाः। रुद्रोमिस्विष्टकृत् । रुद्रादेव प्रजा अन्तर्दधाति । अथो यत्रैषाहुतिहूयते । न तत्र रुद्रः प्रजा अभिमन्यते । अपश्यत्वा मनसा चैकितानम् । तपसो जातं तपसो विभूतम् । इह प्रजामिह- अथ पुष्पाञ्जलिः 145 प्रजायस्व प्रजाया रयिगं रराणः पुत्रकाम । सहस्रमाख्यात्रे दध्याच्छतं प्रतिगरित्रेते ते वासने स्वेनस्याश्वतरो होतुः पुत्रकामाख्या- लभन्ते हि पुत्रान् लभन्ते हि पुत्रान् सर्वस्याप्तयै सर्वस्य । जित्यै सर्वमेव तेनाप्नोति सर्व जयति । ऋध्यास्म हव्यैर्नमसोपसद्य । मित्रं धेवं मित्रधेयं नो अस्तु । अनुराधान् हविषा वर्धयन्तः। शतं जीवेम शरदस्सवीराः। नवो नवो भवति जायमानोहां केतुरुषसामेत्यग्रे । भागं देवेभ्यो विदधात्यायन् प्रचन्द्रमास्तरति दीर्घमायुः । शतमानं मवति शतायुः पुरुषश्शतेन्द्रिय आयुष्येवोन्द्रये प्रतितिष्ठति । अनेन पतिाक्षतान् समर्पयेयुः । ततः प्रदक्षिणीकृत्य दण्डवत्प्रणम्य पर्य- शासनमभ्यर्च्य पर्यशासनमासादयेति भगवन्तं विज्ञाप्य पादुके च प्रदाय तत्रोपविष्टं भगवन्तं पाद्याचमनैरभ्यर्चयेत् । माल्यवस्त्रभूषणा- न्यपनीय विष्वक्सेनाय दत्वा । शयनोचितं सुखस्पर्शवासः तदुचित- भूषणानि उपवीतं दत्वा गन्धपुष्पधूपदीपमुखवासताम्बूलैरभ्यर्चयेत् ।। चरणं पवित्रं विततं पुराणं येन. पूतस्तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूताः । अतिपाप्मानमरातितरेम । लोकस्य द्वार- मर्चिमत्पवित्रम् । ज्योतिष्मद्भाजमानं महस्वत् । अमृतस्य धारा बहुधा दोहमानम् । चरणं नो लोके सुधितां दधातु इति मन्त्रण पुष्पाञ्जलिं समर्पयेत् । स्वनियाम्यस्वरूपस्थितिप्रवृत्तिना स्वशेषतैकरसेन स्वकीयैश्च देहेन्द्रियान्तःकरणैस्स्वकीयकल्याणतमद्रव्यमयानौपचारिक- सांस्पर्शिकाभ्यवहारिकादिसमस्तभोगानतिप्रियतमानतिसमग्रानत्यन्त भक्तिकृतानखिलपरिजनपरिच्छदान्विताय स्वस्मै स्वप्रीतये स्वयमेव प्रति- पादितवानित्यनुसन्धाय भगवन्तं अनुज्ञापयेत् । ततो हस्तपादौ प्रक्षाळ्य आचम्य यजमानहस्तेन प्रतिष्ठासाफल्यार्थ गोदानं कारयेत् । गन्धपुष्पधूपदीपैः पूजितां गामानीय सङ्कल्पं कुर्यात् । श्रीगोविन्द 146 प्रतिष्ठाविधिः गोविन्द गोविन्द अद्य अमुकमासे अमुकतिथौ अमुकगोत्रोऽमुक. शर्माहं कृतैतद्भगवत्प्रतिष्ठासाङ्गतासिध्यर्थं सुवर्णशृङ्गी रौप्यखुरां ताम्र- पृष्ठी प्रवालोष्ठी मुक्तापुच्छी सवत्सां कांस्यदोहनामिमां गां अमुकगोत्राम अमुकशर्मणे ब्राह्मणाय तुभ्यं सम्प्रददे । इति जलसहितानक्षतान् ब्राह्मणहस्ते देवतीर्थेन दद्यात् । कृतैतगोदानप्रतिष्ठार्थ इदं हिरण्य- ममुकगात्रायामुकशर्मणे ब्राह्मणाय तुभ्यं सम्प्रददे । इति ब्रामणहस्ते जलाक्षतसहितं हिरण्यं दद्यात् । ततो विप्रं परिक्रम्य प्रणमेत् ।। भोजयित्वा ततो विप्रान्सहस्रं तु शतं तु वा । दद्याद्वै दक्षिणां शक्तया ऋत्विजः पूजयेत्ततः ॥ १ ॥ गोभूहिरण्यवस्त्राद्यैराचार्य परितोषयेत् । महोत्सवं पञ्चदिन यथाशक्तयनुसारतः ॥ २॥ एवं प्रतिष्ठां कुर्वीत पञ्चरात्रोक्तमार्गतः । तत्र देवस्तु सान्निध्यं याति नारायणो हरिः ॥ ३ ॥ ॥ श्रीः श्रीमते रामानुजाय नमः श्रीः ॥ प्रतिष्ठया सार्वभौमस्सद्मना भुवनत्रयम् । पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात् ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ।। ॥ इति श्रीपाञ्चरात्रे पाद्मसंहितोक्ता भगवत्प्रतिष्ठापद्धतिस्सम्पूर्णा ॥
अथ पुष्पाञ्जलिः 147 श्रीशैलवंशजातो वेङ्कटनामा लिलेख पाद्मोक्ताम् । परया मुदा प्रतिष्ठाप्रयोगसरणिं मधुद्विषो रम्याम् ॥ लक्ष्मीपुराभिजनपण्डितबृन्दवन्द्य श्रीश्रीनिवासगुरुवर्यकृपात्तबोधः । मैसूरुपत्तननृपामरवानिकेत- वैखानसप्रथमबोधकनामयातः ॥ श्रीशैलवंशजनितो बहुळप्रबन्ध- साहायकात्तिरुमलार्यसुधीः प्रबन्धम् । एतं न्यशोधयदसौ कमलानिवासः प्रीणातु तेन परमः पुरुषः पुराणः ॥ ॥ श्रीकृष्णार्पणमस्तु । WD 132--GBPM-500-14-8-43.