Others
Nyaayabodhinii Niilakan't'hiiya Vishhauamaalaa
Front matter
K.S.R.I. LIBRARY ACCESSION NUMBER
842
THE KUPPUSWAMI SASTRI
RESEARCH INSTITUTE
MAORAS,
No text on this page.
Meani.beeft
the bega Gumplimouboch/- 7 ho de su
edoodoooredoodroevignac exoorxoxlo exeado co exowdestaowroowenwoodrow
):om
॥ श्रीः ॥
॥न्यायबोधिनी नीलकंठीय
विषयमाला॥
Moove20Remov929
THE KUPPUSWAMI SASTRI
RESEARCHYRISTITUTE,
MADRAS.
मायूरस्थ
Sekakre
-
कामाक्षी संग्रहीता ॥
పాతం..alanticisthaanditaedicateadda
Published by
Kamakshi Amma,
at MAYAVARAM.
Printed at the
SRI VIDYA PRESS, KUMBAKONAM.
(')}\ RINTI'.
1912.
| HISTEIR HD.
Price As, 10.
QXoooomaajoooooooooooooooooo exXXXoone exooyyo copycone xxo xxo
No text on this page.
PREFACE. Kamakshi Amma the authoress of this treatis Nyayabodhini Neelak hanteeya Vishayamalı” lives or the banks of the Kaveri river in Mayavaram. She is : Brahmin lady of the Andhra Community and comes of well known respectable family the founder of which wa: Dubash Ramaswami Iya who built and gave away ir charity Dubash Agraharam in Mayavaram a century ago Her early education was looked after by her mother a literate in Telugu the mother tongue of the family, Loosing her husband Yanamandram Ramalinga Iya, B.A. in 1871 when she was in her teens, she devoted her time to the study of Samaskrita Literature and philosopy. Her father and her brothers had always encouraged her literary and religious pursuits and now the only surviving relation of hers is Rao Bahadur C. S. Subhramanyam. This work was origioally prepared by her solely for her own use as a mnemonie. At the suggestion of her literary friends she has ventured to publish the work. MAYAVARAN. August 1912. K. B. R.
No text on this page.
OPINIONS.
SANSKRIT COLLEGE CALCUTTA.
महाशयाः!
श्रीमत्प्रहितामद्वैतदीपिकां श्रुतिरत्नप्रकाशादीश्वासाद्यामन्दानन्दमवि.
न्दाम। श्रीमत्याः कामाक्ष्याः अद्वैतसिद्धिप्रमुखग्रन्थेषु प्रवेशमवलोक्य चेतो
विस्मयाकुलं सर्वदा तदीयप्रशंसामेव करोति ।।
(Sd.) लक्ष्मणशास्त्री. (द्राविड)
25-6-10
2. इदानी नवसालपुरीनिवासिनः दानाधिकारिणः
बालकृष्णशास्त्रिणः।
सिध्यन्तु सर्वाण्यभीष्टानि । भवत्या विरचितटिप्पणीसहितः पण्डित
शिरोमणित्र्यंबकभट्टविरचितश्रुतिरत्नप्रकाशः श्रुतिमतोद्योतश्चेति पुस्तकद्वयं
लब्धं । पण्डितप्रकाण्डानामपि दुष्प्रवेशे वेदान्तरत्ने ब्रह्मानन्दीयादौ प्रवेशं
तादृशग्रन्थमुद्रणेन विदुषामुपकारे श्रद्धापद्धतिं चालोक्य विस्मयानन्दसागरे
निमग्नाः स्मः । इतोपि पूरं सत्पदश्रद्धासमृद्धिमाशास्महे ॥
(Sd.) बालकृष्णशास्त्री.
11-7-10.
3. महामहोपाध्यायः चन्द्रशेखरशास्त्री
मैलापूर संस्कृतविद्यामन्दिरे वेदभाष्यप्रवक्ता ।
आय-भोः विद्वद्वनिता जनाग्रेसरि !
तत्रभवत्या सबहुमानं प्रेषितं पुस्तकद्वयं अद्वैतदीपिका, श्रुतिरत्न
प्रकाशं च सामोदं ख्यकार्ष मारतीयप्राक्तनविद्यायाः अतीव विरळताहेता
2 वस्मिन् कलिनिनले कमलमिव भवती प्रादुरासेति महदिदमाहादस्थानं । योपिद्भूतया भवत्यापि अद्वैतशास्त्रे संपादितं पाटवमुपलक्ष्य तुंदपरिभृताः पुमांसः इतः परमपिवा शास्त्राभ्यासे बद्धादरा भवेयुरिति विश्वसिमि ॥ इति (उd.) चन्द्रशेखरशास्त्री. 17-7-10. 4. इदानी नवसालपुरीनिवासी राजकीयविद्याशालोपाध्यायः गोकर्णेश्वरशास्त्री। श्रियं नित्यं स दद्यात्ते कामाक्षि शशिशेखरः । लौकिकश्रीनिधिर्यात्वं सती यस्यातिपूजनात् ॥ १॥ ब्रह्मविद्यासमुद्रोत्थं श्रुतिरत्नं महाद्भुतं । अलब्धं पूर्वमस्माभिराशीच्छ्रुत्योरलंकृतिः ॥ २॥ भवद्दापितमध्यास्ते हृदयस्याप्यलंकृतिः । ब्रह्मविद्यासमुद्रानुसारिप्वस्मामु केवलम् ॥ ३ ॥ भवत्या लब्धमित्येतद्भग्याधिस्यनियामकम् । विधायोत्तेजनं तस्य टिप्पण्या शाणया पठम् ॥ ४ ॥ परार्थविनियोगेन वयमानन्दभागिनः । एतादृशानि रत्नानि भवत्संपादितान्यपि ॥५॥ स्वीयत्वेन विभाव्यन्ते विबुधैश्शीलनैस्तव । परार्थंकपराणां तु साधूनां किमियं स्तुतिः । संतु श्रेयांसि भूयांसि सदा शंभोरनुग्रहात् ॥ ६ ॥ 17-7-10. (Sd.) गोकर्णशास्त्री.
. इदानी नवसाळपुरीनिवासिनः दानाधिकारिणः गोपालशास्त्रिणः । अतिमधुरा कामाक्षीवाग्विवृताद्वैतदीपिका जयति । लब्धं पाण्डित्यं च व्यञ्जयतेऽस्याः सतां प्रमोदकरी ॥१॥ श्रुतिरत्नप्रकाशोयं विद्वद्रत्नप्रकाशकः । कामाक्ष्याः श्रवणानंदं तनुते ह्येतदद्भुतम् ॥ २ ॥ पुदुकोट्टा (Sd.) गोपालशास्त्री. 18-10--10 ७. नवसालपुरीनिवासी विद्वान् सुब्रह्मण्यशास्त्री । श्रीमत्याः कामाक्ष्यंबायाः परमेश्वरप्रसादात् सर्वाणि श्रेयांसि भूयासुः पदकोट्टराजधानीनिवामी सुब्रह्मण्यशास्त्री निवेदयति वक्ष्यमाणप्रकारेण श्रुतिरत्नप्रकाशः श्रुतिमतोद्योतश्च ब्रह्मश्री परमहसाना सकाशाल्लब्धः अद्रा- सं अतिमनोहराः तत्रत्यविषयाः भवत्कृतटिप्पण्या प्रकाशिताथश्च सानन्द मन्वभवम् । एतस्मिन्विपये भवत्याः प्रवृत्तिं भवत्परिज्ञानं चालोच्य अभि- नन्द्यावत्याः पण्डितवर्याः एवमेव पूर्वपुस्तकमुद्रणायां तत्परिशोधने च भूय- सी भवत्याः प्रवृत्तिमुत्तरोत्तरमाशास्महे || (Sil ) सुब्रह्मण्यशास्त्री 7. वासुदेवब्रह्मेन्द्रसरस्वती। प्रेपिताद्वैतदीपिकाख्यग्रन्थः प्राप अद्वैतसिद्ध्यम्यसनश्रमजन्यफल- मनायासेन प्रेप्सुभिरनेनैव शीघ्रं लभ्येत । एतद्रामे कृताद्वैतसिद्धिश्रमौ वर्तते । ताभ्यामप्ययं ग्रन्थः समपणीयइति मे आशपः । तदर्थ पुस्तकद्वयं प्रेषणीयम् ।।
4 8. श्री: ॥ श्रीगुरुभ्यो नमः॥ कामाक्षी कणभक्षकाक्षपदयोः शीक्षासु प्रेक्षावती साक्षाच्छंकरपादपक्षप्तमयेष्वीक्षावतीत्यद्भुतम् । कामाक्षी जननीकटाक्षकरुणाभिक्षार्थिनी दीक्षिता ध्यक्षाचार्यमते कुपक्षरहिता हि मातले राजते । अद्वैतदीपिका यस्याः टिप्पणी घृतमिश्रिता । विद्वहृदयपात्रस्थामन्दध्वान्तविनाशिनी ॥ २ ॥ कामाक्षीनाम विदुषी मायूरपुरवासिनी । कावेरीतीरवास्तव्या विद्वन्मोदाय सा भवेत् ॥३॥ विदुषां कामनापूर्ता वक्षि यस्मात्प्रवर्तते । कामाक्षीतेन कथिता भूयात् पुस्तकमुद्रणे ॥ ४ ॥ कुंभघोण (Sd.) तोर्वी शामण्णाचार्यः ।
॥ श्रीराम जय ॥ श्लो. अखिलागमसंचारि श्रीकृष्णाख्यं परं महः । ध्यात्वा गोवर्धनसुधीस्तनुते न्यायबोधिनीम् ॥ ॥ श्रीगणेशाय नमः ॥ छायानायकरोहिणीसहचरसाहापतिखेक्षणं हेयाधेयविलक्षणं श्रुतिशिरोवाक्यप्रमाणेक्षणम् । कायप्राणहृषीकवुद्धिमनसा कामान्तकं साक्षिणं मायादूरविधननाय सततं मायूरनाथं भजे ॥ चन्द्रालंकृतये जगत्प्रकृतये जन्माउनुख्यातये सान्द्रानन्दविभूतये स्वरतये स्वाभिन्नविख्यातये । मायूरेरतये सुतुष्टमतये मायापराभूतये श्रेयोदाय्यभयाम्बिकाधिपतये श्रेयः परं मङ्गळम् ।। पूर्वाचायः ग्रन्थारम्भसमये मङ्गळस्यानुष्ठानात् ग्रन्थादौ नि- बन्धनकरणाच्च तदनुसारेण गोवर्धनसुधीरपि स्वेष्टदेवतारूपकृष्ण- ध्यानरूपमङ्गळमारचय्य शिष्यशिक्षायै ग्रन्थादौ निवनाति ॥ अखि- लागमेति । तनुधातोः कृतिरथः आख्यातस्याश्रयत्वमर्थः । न्यायबो- धिनीमिति द्वितीयायाः कर्मसमर्थः । कर्मतायां न्यायवोधिन्याः आधेयतासं बन्धेनान्वयः । तथाच न्यायबोधिनीनिष्ठा कर्मता । कर्मतायाः निरूपकतासंबन्धेन कृतावन्वयः । तथाच न्यायबोधिनी- निष्ठर्कमता निरूपककृत्याश्रयः गोवर्धनमुधीः ।। ध्यात्वेति ध्यै धाबर्थः ध्यानं तच्च विजातीयधीरहितसजाती- यधीपरंपरारूपं । क्वाप्रत्ययस्य उत्तरकालीनसमर्थः । उत्तरकाली- २ मङ्गलश्लोकशाब्दबोधः नवंच ध्वंसाधिकरणकालतिवं । एकदेशध्वंसे ध्यानस्य प्रतियोगि तासंवन्धेनान्वयः। तथाच ध्यानप्रतियोगिकध्वंसाधिकरणकालवृत्ति- खं । तस्य आश्रयतासंबन्धेन कृतावन्वयः । महइति द्वितीयायाः कर्म ताऽर्थः कर्मतायां महसः आधेयतासंबन्धेनान्वयः। परशब्दस्य अपक- र्षानाश्रयोर्थः। तस्याभेदसंबन्धेन महसि अन्वयः। श्रीकृष्णइति आख्या यस्यतत् । यच्छब्दार्थो महः । षष्ट्याः आधेयताथैः आधेय तायां महसो निरूपितससंबन्धेनान्वयः। आख्याशब्दस्य शक्ति निरूपकोर्थः आधेयताया आश्रयतासंबन्धेन शक्तावन्वयः । श्रीकृष्ण- इत्यस्य श्रीकृष्ण इत्यानुपूर्वी विशिष्टोर्थः । तस्याभेदसंबन्धेन शक्ति- निरूपकेऽन्वयः तथाच महोनिरूपितागताश्रयशक्तिनिरूपकः श्री कृष्णइत्यानुपूर्वी विशिष्टाभिन्नः इति विग्रहवाक्यार्थः । समासार्थस्तु श्रीकृष्णइत्या नुपूर्वीविशिष्टनिरूपितशक्त्याश्रयः । तस्याभेदसंबन्धन महसि अन्वयः। संचारशब्दस्य प्रतिपाद्यतार्थः इनिप्रत्ययस्य आश्र- यतावानर्थःअखिलागमस्य प्रतिपाद्यतायां निरूपितत्वसंबन्धेनान्वयः। प्रतिपाद्यतायाः निरूपितत्वसंबन्धनाश्रयतायामन्वयः । तथाच अ- खिलागम निरूपितप्रतिपाद्यतानिरूपिताश्रयतावान् । तस्य अभेद- संबन्धन महस्यन्वयः। अखण्डबोधस्तु अखिलागमनिरूपित प्रति- पाद्यतानिरूपिताश्रयतावदभिन्न श्रीकृष्णइत्यानुपूर्वीविशिष्टनिरूपित शक्त्या श्रयाभिन्नापकर्षानाश्रयाभिन्न महोनिष्टकर्मतानिरूपक ध्यान- प्रतियोगिकध्वंसाधिकरणकालवृत्तिखाश्रयन्यायबोधिनीनिष्ठ कर्मता- निरूपक कृत्याश्रयः गोवर्धनसुधारित "पदच्छेदः पदार्थोक्तिविग्रहो वाक्ययोजना। आक्षेपस्य समाधान व्याख्यानं पंचलक्षणम्".॥ इत्यभियुक्तोक्त्या मूलोपरि प्राप्ताक्षेपस्य व्याख्यात्रैव समाधे यतया मंगलाचरणं पापजनकं निष्फलबात् । तन्निबन्धनमपि पाप न्यायबोधिनीविषयमाला سہ चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थमिष्ट देवतानमस्कारात्मक मंगलं शिष्यशिक्षायै अन्यतो निबध्नाति निधायेति । जनकं निष्फलखात् जळताडनवत् इत्यनुमानेन मंगलाचरण तन्नि- बन्धनयोः पापजनकत्वे सिद्धे निषिद्धकर्मकठत्वेन मूलकारे प्रेक्षा- यतामनाश्वासेन तदीयग्रन्थस्य प्रेक्षाचदनुपादयसमिति शंका परि जिहीर्घः मंगलाचरणतन्निबन्धनयोः फलप्रदर्शनेनानुमानं तावन्निरा- करोति । चिकीर्षितस्येत्यादिना । तथाच पक्षे हेखभावरूपस्वरूपा- सिद्धिदोषो नुमानस्यक्तिो भवति । मंगल निवन्धने च निष्फल- वरूप हेतोरभावात् समाप्तिशिष्य शिक्षारूपफलसत्त्वात् । चिकीर्षि- तस्येत्या देरयं शाब्दबोधः कृ इ. धातोः कृतिरर्थः सन्प्रत्ययस्य इच्छार्थः क्तप्रत्ययस्य कर्मतावानर्थः इच्छायाः कृतौ विषयतासंबन्धे- नान्वयः। कृतः निरूपितलसंवन्धेन कर्मतायामन्वयः। तथाच इच्छाविषयकृतिनिरूपितकर्मतावान् समुदायार्थः। ग्रन्थशब्दस्य आनुपूर्वीविशपावशिष्टवणसमुदायोर्थः । ग्रन्थशब्दार्थे चिकीर्षित. शब्दार्थस्य अभेद संबन्धेनान्वयः ग्रन्थशब्दोत्तरषष्ट्याः घटकतार्थः घटकतायां ग्रन्थस्य निरूपिनखसंबन्धेनान्वयः तथाच इच्छाविषय- कृतिनिरूपित कर्मतावदभिन्न ग्रन्थनिरूपेत घटकता इति भवति । विघ्नानामभावः निर्विघ्नं । षष्ट्याः प्रतियोगितार्थः प्रतियोगितायां विघ्नस्य आधेयतासंबन्धनान्वयः प्रतियोगितायाः निरूपकतासं. बन्धनाभावेऽन्वयः। तथाच विघ्ननिष्ठप्रतियोगितानिरूपका भाव- इति विग्रहार्थः । समासार्थस्तु सएव । परिसमाप्तिः अर्थः यस्यतत् । यच्छब्दस्य मंगल मर्थः षष्ट्याः जन्यतार्थः जन्यतायां मंगलस्य निरूपितत्रसंबन्धेनान्वयः। अर्थशब्दस्य प्रयोजनमर्थः प्रयोजने अवतारिकावाक्यशाब्दबोधः जन्यतायाः आश्रयता संबन्धेनान्वयः। समाप्तिशब्दस्य चरमवर्ण, सोर्थः तस्य प्रयोजने अभेदसंबन्धेनान्वयः तथाच मंगलनिरूपित जन्यताश्रयप्रयोजनं चरमवर्णध्वंसाभिन्नं इति विग्रहार्थः समासार्थस्तु चरमवर्णध्वंसाभिन्न योजनजनकमिति । निर्विघ्नपदार्थस्य जन्यतासं- बन्धेनसमाप्तावन्वयः । ग्रन्थस्येति षष्ट्यर्थघटकतायाः चरमवर्णेऽन्वयः। तथाच इच्छाविषयकृतिनिरूपित कर्मतावदभिन्न ग्रन्थनिरूपित घटक- ताश्रय विघ्ननिष्ठप्रतियोगिता निरूपकाभावजन्य चरमवर्णध्वंसाभिन्न प्रयोजनजनकाभिन्नं इति निर्विघ्नपरिसमाप्त्यर्थमित्यतस्यार्थः । इष्टदे- वतायाः नमस्कारः षष्ट्याः विशेष्यतार्थः विशेष्यतायां इष्टदेवतायाः आधेयतासंबन्धनान्वयः नमस्कारशब्दस्य अपकर्षावधिवप्रकारक ज्ञानानुकूलव्यापारोर्थः तद्बटकज्ञाने विशेष्यतायाः निरूपकत्वसंबन्धे- नान्वयः। नमस्कारः आत्मा यस्यतत् यच्छब्दस्य मंगलमर्थः षष्ट्याः संबन्धोर्थः संबन्धे मंगलस्यानुयोगितासंबन्धनान्वयःसंवन्धस्य आत्म- शब्दार्थस्वरूपे प्रतियोगितासबन्धनान्वयः नमस्कारस्य स्वरूपे अभेदसं बन्धेनान्वयः तथाच मंगलानुयोगिकसंवन्धप्रतियोगिस्वरूपं इष्टदेवता- निष्ठविशेष्यतानिरूपका पकर्षावधित्वप्रकारकज्ञानानुकूलव्यापाराभि बखरूप प्रतियोगिकसंवन्धानुयोगि इति समाप्तार्थः। तस्य अभेदसंब- न्धेन मंगलेऽन्वयानीत्युपसर्गपूर्वकबधिल्धातोःनिवन्धनमर्थःनिबन्धन च बोधानुकूलवर्णाभिव्यञ्जक रेखानुकूलव्यापारः । आख्यातस्य कृति रर्थः कृतौ व्यापारस्य अनुकूलतासंबन्धेनान्ययः कृतेः आश्रयता संबन्धेन ग्रन्थकारेऽन्वयः। मंगलमिति द्वितीयायाः विषयतार्थः विष- यतायाः निरूपकतासंबन्धेन निबन्धनघटकबोधे अन्वयः। शिष्याणां शिक्षा षष्ट्याः आधेयतार्थः आधेयतायां शिष्यस्य निरूपितत्वसंवन्धे नान्वयः आधेयतायाः आश्रयतासंबन्धेन शिक्षापदार्थे अवश्यकर्तव्य त्वप्रकारकज्ञानेन्वयः। चतुर्थाः प्रयोजकत्वमर्थः प्रयोजकत्वे शिक्षा- न्यायबोधिनीविषयमाला ५ अत्र सप्तग्रहणं पदार्थत्वं द्रव्यादि सप्तान्यतमत्व व्याप्यमिति व्याप्तिलाभाय । याः निरूपितत्वसंबन्धनान्वयः प्रयोजकतायाः आश्रयतासंबन्धन निबन्धनेन्वयः। ग्रन्थतइति तसिल्पत्ययस्य घटकतार्थः घटकतायां ग्रन्थस्य निरूपितत्वसंबन्धनान्वयः घटकतायाः आश्रयतासंबन्धेन निबन्धनघटकवर्णेन्वयः। तथाचायमखण्डबोधः इच्छाविषयकृति निरूपित कर्मतावदभिन्न ग्रन्थनिरूपित घटकताश्रय विघ्ननिष्ठप्रति- योगितानिरूपकाभावजन्य चरमवर्णध्वंसाभिन्न प्रयोजनजनकाभिन्भेष्ट देवतानिष्ठविशेष्यतानिरूपकापकर्षावधित्वप्रकारक ज्ञानानुकूलव्यापा राभिन्न स्वरूपप्रतियोगिकसंबंधानुयोग्यभिन्न मंगलनिष्ठविषयतानिरू- पक बोधानुकूलग्रन्थनिरूपकघटकताश्रय वर्णाभिव्यञ्जक रेखानुकूल- शिष्य निरूपिताधेयताश्रयशिक्षानिरूपित प्रयोजकताश्रय व्यापारानु. कूल कृतिमानिति । मंगलबादशाब्दबोधः समाप्तः ।। ननु द्वंद्वान्ते श्रूयमाणप्रत्ययस्य द्वंद्वघटकतावत्पदार्थपर्याप्त संख्याबोधकत्वेन सप्तपदाभावेपि पदार्थेषु सप्तत्वस्याभावपदोचर बहुवचनेन लाभात् सप्तग्रहणं व्यर्थमित्याशंका परिहरति । अत्र सप्तग्रहणमिति । व्याप्तिलाभायति । व्याप्तेः लाभः षष्ट्याः विषय- ताऽर्थः विषयतायां व्याप्तेः आधेयतासंबन्धेनान्वयः। विषय तायाः निरूपकतासंबन्धेन लाभपदार्थे निश्चये अन्वयः। तथाच च्याप्तिनिष्ठविषयतानिरूपकनिश्चयायेति समुदायार्थः । व्याप्तिनिश्च- याकारश्च यत्रयत्र पदार्थत्वं तत्रतत्र द्रव्यादिसप्तान्यतमत्वमिति । व्याप्तिनिश्चयप्रयोजनंतु अष्टमपदार्थो नास्तीति निश्चयएव । तत्म- कारश्च यदि अष्टमपदार्थस्स्यात् तदा उक्तव्याप्ति संभवति । पदार्थ त्वस्य अष्टमपदार्थे सत्त्वेन तत्र सप्तान्यतमत्वस्याभावात् । ननु उक्तव्या ६ शक्तिवादः ननु शक्तिपदार्थस्याष्टमस्य सत्त्वात्कथं सप्तैवेति । तथाहि मण्यादिसंयुक्ते इन्धनादौ सत्यपि वह्नि संयोगे दाहो न जायते। तच्छृन्ये तु जायते । अतो मणिसमवधाने दाहानुकूला शक्तिनश्यति । मण्यभावदशायां दाहानुकूला शक्तिरुत्पद्यते । तस्मा- च्छक्तिरतिरिक्तः पदार्थइति चेन्न । तिलाभाय सप्तग्रहणमित्यसंगतं । पदार्थत्वस्य शक्तौ सत्त्वेन तत्र सतान्यतमत्तस्याभावादुक्तव्याप्तर्भङ्गात् इति भावेनाक्षिप्य शक्तिसा- धनं प्रतिजानीत तथाहीति । हि येनप्रकारेण उपपादितं चेत् ज्ञातं भवदिति पूरणीयं । तथा तेन प्रकारेण उपपादयिष्याम इति पूरणीयं । मणिः दाहानुकूलधर्मनाशकः दाहानु-पत्तिकारण स्वात् । यत्रयत्र दाहानुत्पत्तिकारणत्वं तत्र दाहानुकूलधर्मनाशकत्वं । यथा वह्निकाष्ठविभागे । तथाच मणेः दाहानुत्पत्तिकारणत्वसत्त्वेन दाहानुकूलधर्मनाशकत्वमावश्यकमिति उक्तहेतौ स्वरूपासिद्धिदोष परिहाराय दाहानुत्पत्तिकारणतानिश्चायको अन्वयव्यतिरेकसहचारी दर्शयति । मण्यादिसंयुक्त इत्यारभ्य तच्छून्येतु जायते इत्यन्तेन । अन्वयसहचारः कारणसत्त्व कार्यसत्त्वं । व्यतिरकसहचारः कारणा भावे कार्याभावः । प्रकृते मणिः कारणं । दाहानुत्पत्तिकारणत्वं कार्य। उक्तानुमाने वाधशंका परिहरति । मण्यभावत्यादिना। शाक्तं प्रसाध्यातिरिक्तत्वं साधयति तस्मा दित्यादिना । तस्मात् उत्पत्ति- विनाशसद्भावात्। अतः सामान्यादिचतुष्टयेनान्तर्भावइति पूरणीयं । शक्तः द्रव्यादित्रिकनान्तर्भावः । गुणवात्तत्वादिति पूरणीयं । अतिरिक्तः द्रव्यत्वादिसप्तोपाध्यन्यतमशून्यः। दाहोनाम पूर्वरूपनाशः न्यायबोधिनीविषयमाला मणेः प्रतिवन्धकत्वेन तदभावस्य कारणत्वेनेव निर्वाहे मण्यसमवधानसमवधानाभ्यां अनन्तशक्ति तत्प्रागभावध्वंसकल्पनाया अन्याय्यत्वात् । तस्मात् सप्तैव पदार्थाइति सिद्धं ॥ रूपान्तरोत्पत्तिा । मणेः दाहानुत्पत्तिकारणत्वमस्तु दाहानुकुलधर्म- नाशकत्वं मास्तु इति अप्रयोजकशंकायां यदि दाहानुकूलधर्मनाशकत्वं न स्यात् तर्हि दाहा नुत्पत्तिकारणत्वमपि नस्यात् । दाहानुत्पत्ति कारणत्वं प्रति दाहानुकूलधर्मनाशकत्वस्य प्रयोजकत्वात् इति अनुकूलतर्को वाच्यः। सच न संभवति । कार्यानुत्पत्तिकारणत्वं प्रति कार्यानुकुलधर्मनाशकत्वमेव न नियामकं । किंतु कार्यप्रति बन्धकत्वमपि नियामकं । प्रकृतेमणेः दाहानुत्पत्तिकारणत्वं प्रति दाहानकूलधर्मनाशकत्वमेव न नियामक दाहप्रतिबन्धकत्वमपि नियामकं भवति । एवंच मणेः दाहानुकूलधर्मनाशकत्वाभावपि दाहप्रतिबन्धकत्वेनैव दाहानुत्पत्ति कारणत्वं संभवति। दाहानु- त्पत्ति कारणत्वरूपहेतुः अनुकूलतर्का भावेनाप्रयोजकइत्याशयेनाह मणेः प्रतिबन्धकत्वेनेत्यादिना । यदि साध्यं लस्यात् तर्हि हेतुरपि नस्यात् इत्यनुकूलतर्कनियामकंतु हेतु प्रति साध्यस्य कारणत्वं प्रयोजकत्वंवा। निर्वाहइति । दाहानुत्पत्तिकारणत्वस्येत्यध्याहर्तव्यं । तथाच मणेः दाहमतिबन्धकत्वेनैव दाहानुत्पत्तिकारणत्वस्य निर्वा- हे इति वाक्यार्थः संपद्यते । ननु मणः दाहप्रतिबन्धकत्वं वह्नौ दाहा नुकूलशक्तिमन्तरा न संभवति । दाहमतिबन्धकत्वस्य दाहानुकूल धर्मनाशकत्वरूपत्वात् इत्याशंक्य दाहप्रतिबन्धकत्वं दाहकारणीभूता भावप्रतियोगित्वं नतु दाहानुकूलधर्मनाशकत्वं । दाहकारणीभता ८ शक्तिवादः भारतियोगित्वरूपप्रतिबन्धकत्वं मण्यभावस्य दाईप्रति कारणता मपेक्षते । नतु वह्नौ दाहानुकूलशक्तिमपेक्षते । वह्निनिष्ठशक्तेः दाह प्रतिबन्धकता प्रत्यकारणत्वात् इत्याशयेनाह तदभावस्य कारणत्वे नेति । अत्र दाहप्रतिबन्धकत्वस्येत्यध्याहारः । मणेरित्यस्यानुषंगः । तथाच मण्यभावस्य दाहंप्रति कारणत्वेनैव मणेः दाहमतिबन्धकत्व स्य निर्वाहे इति वाक्यार्थः । मणेः दाहानुत्पत्तिकारणत्वं मणेः दाहा नुकूलधर्मनाशकत्वमन्तराऽनुपपन्न । दाहानुत्पत्तिकारणत्वंप्रति दाहा नुकूळधर्मनाशकत्वस्य कारणत्वात् इत्यापत्तिप्रमाणेन शक्ति सि- षाधयिषुः प्रथमतः दाहानुत्पत्तिकारणत्वं मीमांसको व्यवस्थापयति मण्यादिसंयुक्त इन्धनादौ इत्यादिना। ननु यदि माणः दाहानुकूल धर्मनाशकस्स्यात् तर्हि मणिसमवधानकाले दाहानुकूला वनिनिष्ठा शक्तिर्यदि नश्यति तदा मण्यपसरणानन्तरं दाहो नस्यात् । दाहा. नुकूलायाः वह्निनिष्ठायाः शक्ते शात् इति बाधशंका परिहरति मण्यभावदशायामित्यादिना। अर्थापत्तिप्रमाणस्यान्यथोपपत्तिमाह मणेः प्रतिबन्धकत्वेनेति । शेषमनुमानवत् । अर्थापत्तिर्नाम किंचि त्पदार्थसत्त्वं विना प्रमितस्यानुपपतिः अर्थापत्तिः। यथा दिवा अभुञ्जानस्य देवदत्तस्य रात्रिभोजनं विना पीनत्वमनुफ्पन्न । अनु मानमेव प्रमाणं वाच्यं शक्तिसाधनविषये न प्रत्यक्षं । शक्रतीन्द्रि यत्वात् । नाप्युपमानं । उपमानस्य पदशक्तिमात्रसाधकत्वात् । नापि शब्दः । वादिवाक्ये अनाश्वासात् । नापि श्रुतिः। तस्याअ भावात् । अत्र कोचित् मणेः दाहप्रतिबन्धकत्वं वह्नौ दाहानुकूल शक्तिमन्तरा नसंभवति । दाहप्रतिबन्धकत्वस्य दाहानुकूलधर्मनाश कत्वरूपत्वात इत्यर्थापत्ति शक्तिसद्भावे प्रमाणमभिप्रेत्य अर्थापनि परतया "मण्यादिसंयुक्तइन्धनादौ" इत्यादिग्रन्थं व्याचक्षते तव्या ख्यानं “दाईप्रति मणेः प्रतिबन्धकत्वेनैव निर्वाहे इति ग्रन्थेन शक्तिवादः ९. विरुध्यते । तथाहि । अर्थापत्तौ दाहप्रतिबन्धकत्वं नियतया प्रविष्टं । सिद्धान्ते च मणेः प्रतिबन्धकत्वेन निर्वाह इति दाहमति बन्धकत्वं निर्वाहकत्वेनाभिहितं । अत: उभयोर्विरोधातम्याख्यानं युक्तं । नच प्रतिबन्धकत्वेनेत्यत्राओतनस्य निर्वाहइत्यस्य नानुषंगः। किंतु तदभावस्य कारणत्वेनेत्यत्र प्रतिबन्धकत्वनेत्यस्य हेतुतया न्वयः । एवंच तदभावस्य कारकत्वं तस्य प्रतिबन्धकवन निहताति नोक्तविरोधइति वा । एवं सत्यन्योन्याश्रयापत्तेः तथाहि मणे: दाहप्रतिबन्धकत्वं वह्नौ दाहानुकूलशक्त्यभावेपि मण्यभावस्य दाई प्रति कारणत्वनैव निर्वहतीति मणेः दाहप्रतिबन्धकत्व निर्वाहाय वहौ शक्त्यंगीकारो निरर्थकः। दाहपतिबन्धकत्वस्य दाहकारणीभूता भावप्रतियोगित्वरूपत्वेन मण्यभावस्य दाहकारणत्वस्यैवापेक्षणात् इति सिद्धान्ताभिप्रायः। यदि प्रतिबन्धकत्वस्य तदभावकारणतायां हेतुत्वेनान्वयः तदा मणे प्रतिबन्धकत्वं तदभावकारणतामपेक्षते । तदभावकारणताच मणेः प्रतिबन्धकत्वमपेक्षतइति भवत्येवान्योन्या. श्रयदोषः। यदिच निर्वाहइत्यस्य मणिसमवधानकालीनदाहानु- त्पादनिर्वाहइत्यर्थः । नतु प्रतिबन्धकत्वस्य निर्वाहइत्युच्यते तदा प्रतिबन्धकत्वस्य निर्वाह्यतया अर्थापत्तौ प्रवेशोऽनुपपन्नः स्यात् । तथाहि मणिसमवधानकालीनवनिसमानाधिकरणदाहानुत्पत्तिः वह्नौ दाहानुकूल शक्तिमन्तरा नसंभवति । कारणसमानाधिकरणकार्यानु. त्पादस्यकारणनिष्ठकार्याकूलशक्तिनाशाधीनत्वात्इत्यापत्तिाच्या। नचैवमस्त्विति वाच्यं । तथात्वे प्रतिबन्धकत्वान्यथानुपपत्तिरूपा पत्तिकथनस्यासांगत्यापत्तः । शक्त्यंगीकार गौरवमप्यधिक दूषणमाह अनन्तेति । अन्याय्यत्वात् युक्तिरहितत्वात् । इति शक्तिवादः समाप्तः ॥ अथ तपोवादः। तमः द्रव्यं नीलरूपाश्रयस्वात क्रियाश्रय त्वात् । यत्रयत्र रूपाश्रयत्वं तत्र द्रव्यत्वं यथा घटे इत्यनुमानं 2 ܘܐ न्यायबोधिनीविषयमाला नन्वन्धकारस्य दशमद्रव्यस्य सत्त्वात्कथं नवैवेति। तथाहि । नीलं तमश्चलतीति प्रतीत्या नीलरूपाश्रय वेन क्रियाश्रयत्वेन च तमसो द्रव्यत्वं सिद्धम् ।। तमसो रूपवत्त्वात् आकाशादिपञ्चकस्य नीरूपत्वा त् वायोश्च नीरूपत्वान्न तेष्वन्तर्भावः। तमसो नि गन्धत्वात् पृथिव्या गन्धवत्वान्न तत्रान्तर्भावः। तम सो निस्स्पर्शत्वात् जलतेजसोः शीतोष्णस्पर्शवत्त्वात् न तयोरन्तर्भावः ॥ तमसो द्रव्यत्वे प्रमाणमभिप्रेत्य नीलरूपाश्रयत्वहतो प्रत्यक्षं प्रमाण- यन् तमसो द्रव्यत्वं साधयति ॥ नीलं तमइति । नीलरूपाश्रयत्वनेत्यत्र तृतीयार्थः ज्ञानजन्य- त्वं । तस्य आश्रयतासंबन्धेन सिधुधात्वर्थनिश्चयेऽन्वयः। क्तप्रत्य- यस्य प्रकारतावदर्थः। एकदेशमकारतायां निश्चयस्य निरूपितत्व संबन्धनान्वयः। तमसइति षष्ट्यर्थः विशेष्यता। विशेष्यनायां तमसः आधेयतासंबन्धेनान्वयः। विशेष्यताया निरूपकतासंबन्धन निश्चयेऽन्वयः। नीलरूपाश्रयत्वस्य विषयतासंवन्धेन तृतीयार्थघटक- ज्ञानेऽन्वयः। तथाच नीलरूपाश्रयत्वविषयकज्ञानजन्यत्वाश्रयतमो- निष्ठविशेष्यतानिरूपकनिश्चयनिरूपित प्रकारतावदभिन्न द्रव्यत्वमिति शाब्दबोधः । तमसो द्रव्यत्वं प्रसाध्यातिरिक्तत्वं व्यवस्थापयति ॥ तमसोरूपववादित्यादिना। तमः आकाशादिपंचकानन्त. भूतं रूपवस्वात् । तमः वायुवृत्त्यसाधारणधर्मशून्यं रूपवत्त्वात् सदा. गतिमत्त्वाभावाच्च । तमः पृथिवीपत्त्यसाधारणधर्मशून्यं गन्धशून्य- त्वात् । तमः जलतेजोवृत्त्यसाधारणधर्मशून्य स्पर्शशून्यत्वात् । आ- काशादिवत् ।
तमावादः ११ । तमसि नैल्यप्रतीतिस्तु भान्तिरेख । एवं कर्मवत्ता प्रतीतिरपि दीपापसरणक्रियाया एव तत्र भानात् ॥ तमसि नैल्पप्रतीतिस्त भ्रान्तिरेवेति । अत्रायमाशयः चक्षुः यस्मिन्देशे विषयं न गृह्णाति तत्र नैल्यप्रतीति जनयति । अतएव आकाशे नैल्यभ्रमः। कर्मवत्तामतीतिरपीति । यथामेव चलति सति चन्द्रमसि चलनप्रतीति तथा दीपे अपसरति सति तमसि चलनप्रती तिर्भवति। तमोवादः समाप्तः ॥ पृथिवी लक्षयतीति । णिजन्तलक्षधातोः लक्षणप्रकारकज्ञान जनकशब्दार्थः। आख्यातस्य कृतिरथः । कृतौ शब्दस्यानुकूल तासंबन्धेनान्वयः। पृथिवीमिति द्वितीयायाः विशेष्यतार्थः। विशे प्यतायां पृथिव्याः आधेयतासंबन्धेनान्वयः । विशेष्यतायाः नि. रूपकतासंबन्धन ज्ञानेऽन्वयः। कृतेः आश्रयतासंबन्धेन ग्रन्थकारे ऽन्वयः। तथाच पृथिवीनिष्ठविशेष्यतानिरूपकलक्षणप्रकारकज्ञानजन कशब्दानुकूलकृत्याश्रयो ग्रन्थकारः इत्यखण्डबोधः । गन्धनिष्ठाधेय तानिरूपकाधिकरणताश्रयत्वं पृथिव्या लक्षणं । पृथिव्यां समवाय संबन्धेन गन्धो वर्तते । गन्धः आधेयः। आधेयता गंधनिष्ठा । आधेयतायां समवायसंबन्धोऽवच्छेदकः । येनसंबन्धेन यद्वर्तते त- मिष्ठाधेयतायां तत्संबन्धोऽवच्छेदक इति न्यायात् । प्रकृते येन संबन्धेन समवायसंबन्धेन । यद्गन्धः वर्तते । तनिष्ठाधेयतायां तत्सं बन्धः समवायसंबन्धः अवच्छेदकः । यः संबन्धो यस्यां अवच्छेदकः सातत्संबन्धावच्छिन्ना। य: संबन्धः समवायरूपः संबन्धः। यस्यां गन्धनिष्ठाधेयतायां अवच्छेदकः । सा गन्धनिष्ठाधेयता। तत्संबन्धा वच्छिन्ना समवायसंबन्धावच्छिन्ना। गन्धनिष्ठाधेयतानिरूपकाधि करणताश्रयत्वं पृथिव्यामेव संभवति । नकाले । कालिकसंबन्धेनैव गन्धः काले वर्तते । नसमावायसंवन्धेन । तथाच गन्धः आधेयः।
न्यायबोधिनीविषयमाला एवं पृथिव्यादित्रिक निरूप्य वायुं निरूपयति रूप रहितति ॥ आधेयता गन्धनिष्ठा आधेयतायां कालिकसंबन्धोऽबच्छेदकः नतु समवायसंबन्धः । समवायसंबन्धन काले गन्धस्यावर्तनात् । येन संबन्धेन कालिकसंबन्धेन यद्गन्धः वर्तते । तनिष्ठायतायां तत्सं बन्धः कालिकसंबन्धः अवच्छेदकः यः संबन्धो यस्यां अवच्छेदकः सा तत्संबन्धावच्छिन्ना। यः संबन्धः कालिकसंवन्धः। यस्यां गन्धनिष्ठाधेयतायां अवच्छेदकः । सा गन्धनिष्ठाधेयता तत्संबन्धा वच्छिन्ना कालिकसंबन्धावच्छिन्ना । तथाच कालिकसंबन्धावच्छिन्न गन्धनिष्ठांधयतानिरूपकाधिकरणताश्रयत्वं कालस्य संभवति । नतु समवायसंबन्धेत्यादिलक्षणं । अत: काले अतिव्याप्तिवारणाय गन्ध निष्ठाधेयतायां समवायसंवन्धावच्छिन्नत्वं निवेशनीयम् । पृथिव्यादित्रिकं निरूप्येति । नीत्युपसर्गपूर्वकरूपधातोः निरूपणमर्थः । निरूपणं नाम लक्षणस्वरूपप्रामाण्याघन्यतमप्रकारक ज्ञानजनक शब्दः । पृथिव्यादित्रिकमिति द्वितीयायाः विशेष्यताऽर्थः । विशेष्यतायां पृथिव्यादित्रिकस्याधेयतासंबन्धनान्वयः । विशेष्य. तायाः निरूपकतासंबन्धेन निरूपशब्दार्थंकदेशज्ञाने अन्वयः । ल्यप्पत्ययस्य उत्तर कालीनत्वमर्थः । उत्तरकालीनत्वं च ध्वंसाधि- करणकालवृत्तित्वं । एकदेशध्वंसे शब्दस्य प्रतियोगितासंबन्धेनान्वयः। वायुं निरूपयतीत्यत्र निपूर्वकरूपधातोः निरूपणमर्थः। आख्या. तस्य कृतियः उत्तरकालीनत्वस्य आश्रयतासंबन्धेन निपूर्वकरूप. धात्वर्थनिरूपणेऽन्वयः। निरूपणस्य अनुकूलतासंबन्धेन आख्यातार्थ कृतावन्वयः कृतेराश्रयतासंबन्धेन ग्रन्थकारेऽन्वयः । वायुमिति हिती- यार्थः विशेष्यता। तस्यां वायोः आधेयतासंबन्धेनान्वयः। विशेष्य- तायाः निरूपकतासंबंधेन रूपधात्वर्थघटकज्ञानेन्वयः । तथाच पृथि वायुनिरूपणं १३ रूपरहितस्पर्शवान्वायुः ॥ च्यादि त्रिकनिष्ठविशेष्यतानिरूपकलक्षणस्वरूपप्रामाण्यायन्यतमप्रका रकमानजनकशब्दप्रतियोगिकध्वंसाधिकरणकालवृत्तित्वाश्रयवायुनिष्ट विशेष्यतानिरूपकलक्षणस्वरूपप्रामाण्याचन्यतमप्रकारकज्ञानजनकश- ब्दानुकूलकृत्याश्रयः ग्रन्थकारः इत्यखण्ड: शाब्दबोधः । रूपेण रहित: रूपरहितः तृतीयायाः प्रतियोगिताऽर्थः । प्रतियोगितायां रूपस्य आधेयतासंबंधेनान्वयः । तथाच रूपनिष्ठ प्रतियोगितेत्यासीत् । रहधातोः अभावार्थः । अभाचे प्रतियोगि तायाः निरूपकत्वसंबन्धेनान्वयः। तथाच रूपनिष्ठप्रतियोगितानि- रूपकाभावः। क्तप्रत्ययस्य आश्रयतावानर्थः। आश्रयतायां अ. भावस्य निरूपितत्वसंपन्धनान्वयः । तथाच रूपनिष्ठप्रतियोगिता निरूपकाभावनिरूपिताश्रयतावान् वायुः । स्पर्शः अस्मिन् अस्तीति स्पर्शवान् । इदंशब्दस्य वायुरर्थः। सप्तम्याः अधिकरणतार्थः । अधिकरणतापां वायोः आधेयतासंबंधनान्वयः । तथाच वायुनि- छाधिकरणता। असधातोः आधेयतार्थः । आख्यातस्याश्रयोऽर्थः आधेयतायां अधिकरणतायाः निरूपितत्वसंबंधेनान्वयः। तथाच वायुनिष्ठाधिकरणतानिरूपिताधेयताश्रयः स्पर्शः इति विग्रहार्थः । समासार्थस्तु स्पर्शनिष्ठाधेयतानिरूपकाधिकरणताश्रयः वायुः। तथा च रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति स्पर्शनिष्ठाधेयता निरूपकाधिकरणताश्रयत्वं वायोर्लक्षणं । रूपनिष्ठप्रतियोगितायां रूपत्वावच्छिन्नत्वं निवेशनीयं । अन्यथा पृथिव्यादित्रिके अति- व्याप्तिः । कथामितिचेत् रूपनिष्ठप्रतियोगितानिस्पको योऽभावः रूपघटोभयाभावः। उभयाभावस्य उभयं प्रतियोगि! प्रतियोग ता उभयनिष्ठा रूपनिष्ठापि भवति । ताशप्रतियोगितानिरूपका रूपयटोभयाभावः पृथिव्यादित्रिके वर्तते । अतः अतिव्यातिः प्रस- १४ न्यायबोधिनीविषयमाला सामानाधिकरण्यसंबंधेन रूपत्वावच्छिन्नप्रतियोगि ताकाभावविशिष्टस्पर्शवत्वं लक्षणमिति फलितार्थः ॥ जते। प्रतियोगितायां रूपत्वावच्छिन्नत्वनिवेशे नातिव्याप्तिः। रूप स्वावच्छिन्नप्रतियोगिता निरूपको योऽभावः रूपाभावएव । नतु रूप घटोभयाभावः । कथमित्युक्तौ उभया भावस्य उभयं प्रतियोगि। प्रतियोगिता उभयनिष्ठा । प्रतियोगितावच्छेदकं उभयत्वं । उभ. यत्वावच्छिन्ना सा प्रतियोगिता । नतु रूपत्वावच्छिन्ना। अतः नातिव्याप्तिः । प्रतियोगितायां समवायसंबंधावच्छिन्नत्वं निवेश- नीयं । अन्यथा संयोगेन रूपाभावमादाय घटादौ अतिव्याप्तिः । तथाहि संयोगेन रूपाभावस्य रूपं प्रतियोगि। प्रतियोगिता रूप निष्ठा। प्रतियोगितावच्छेदकं रूपत्वं । रूपत्वावच्छिन्नमतियोगि तानिरूपकः संयोगेन रूपाभावः। तथाच रूपत्वावच्छिन्नप्रतियोगि तानिरूपकोऽभानः घटादौ वर्ततएवेति तद्वारणाय रूपनिष्ठप्रतियोगि तायां समवायसंबंधावच्छिन्नत्वं निवेशनीयं । तनिवेशे च नाति व्याप्तिः। समवायसंबंधावच्छिन्नरूपत्वावच्छिन्नप्रतियोगितानिरूप को योऽभावः समवायेन रूपाभावः । नतु संयोगेन रूपाभावः । संयोगेन रूपाभावस्य रूपं प्रतियोगि। प्रतियोगिता रूपनिष्ठा । प्रतियोगितावच्छेदकसंबंधः संयोगः। संयोगसंबंधावच्छिना सा प्रतियोगिता । नतु समवायसंबंधावच्छिन्ना । अतो नातिव्याप्तिः । सामानाधिकरण्यसंबंधेनेति । स्वाधिकरणकृत्तित्वं सामानाधि- करण्यं । रूपाभावविशिष्टं स्पर्शवत्वामित्यत्र स्वपदन रूपाभावो ग्रायः। यद्वैशिष्ट्यं यत्रोपपादनीयं तत् खपदन ग्राह्यं । प्रकृते रूपाभाववैशिष्ट्यं स्पर्शवत्वे उपपादनीयं । अतः खपदेन रूपाभावो ग्राह्यः। खं रूपाभावः। स्वाधिकरणं वायुः। तद्वृत्तित्व स्पर्शवत्वस्य । खा धिकरणकृत्तित्वसंबंधेन रूपाभावविशिष्ट स्पर्शवत्वं भवति ।
अतिव्याप्तिलक्षणं १५ अतिव्याप्ति म अलक्ष्ये लक्षणस्य सत्वं । यथा गोः शृंगित्वं लक्षणमुक्तंचेत अलक्ष्यभूतगोभिन्नमहिषा दावतिव्याप्तिः। तत्रापि शृंगित्वस्य सत्त्वात् ॥ अतिव्याप्तिर्नामेति। अलक्ष्ये लक्ष्यभिन्न । सप्तम्यर्थः निरूपि तत्वं । तस्य आश्रयतासंबंधेन सत्त्वशब्दार्थे आधयत्वे अन्वयः । तथाच नक्ष्यांभन्ननिरूपिताधेयत्वं अतिव्याप्तिर्दोषः अतिव्याप्तिदुष्ट स्य लक्षणं । गोः शृङ्गित्वं लक्षणमित्यत्र शृङ्गित्वमतिव्याप्तिदुष्टं । तस्येदं लक्षणं संभवति । लक्ष्या गौः। लक्ष्यभिन्नं महिषः। त. दृत्ति शृङ्गित्वं । तद्वृत्तित्वं भृङ्गित्वस्य । लक्ष्यभिन्ननिरूपिताधेय तायां लक्षणतावच्छेदकसंबंधावच्छिन्नत्वं निवेशनीयं । अन्यथा गोः सानादिमत्त्वं लक्षणमित्यत्र सास्लादिमत्त्वं अतिव्याप्तिः । लक्ष्यभिन्नो पहिषः। तत्र सानादिमत्त्वं कालिकसंबंधन वर्तते । जन्यानां कालोपाधित्वमिति न्यायेन जन्यमान कालिकसंबंधन सर्व वर्तते । अतः सास्नादिमत्त्वमपि वर्तते। आधेयं सास्नादिमत्त्वं । आधेयता सानादिमत्त्वनिष्ठा सा आधेयताच लक्ष्यभिन्ननिरूपिता। आधेयतायाः अधिकरणनिरूपितत्वात् । लक्ष्यभिन्नमहिषस्य आधि- करणत्वात् । आधेयतायां लक्षणतावच्छेदकसंबंधावच्छिन्नत्वनिवे. शे नातिव्याप्तिसंभवः । कालिकसंबंधन सास्त्रादिमत्त्वं महिष वर्तते । आधेयं सानादिमत्त्वं । आधेयता सानादिमत्त्वनिष्ठा। आधे- यतायां कालिकसंबंधोऽवच्छेदकः । येन संबंधन यतते । तन्नि- ठाधेयतायां तत्संबन्धोऽवच्छेदकः। येन संवन्धेन कालिकसंबन्धन । यत् सानादिमत्त्वं वर्तते । तनिष्ठायतायां सानादिमत्त्वनिष्ठाधे. यतायां तत्संबन्धः कालिकसंबन्धः अवच्छेदकः। सानादिमत्त्व निष्ठाधेयता कालिकसंबन्धावच्छिन्ना । नतु लक्षणतावच्छेदकसंब. न्धावच्छिन्ना । लक्षणतावच्छेदकसंवन्धः समवायसंबन्धः ।
न्यायबोधिनीविषयमाला अव्याप्तिर्नाम लक्ष्यैकदेशावृत्तित्वं । लक्ष्यतावच्छे दकाश्रये कचिलक्ष्ये लक्षणासत्त्वमेवाव्याप्तिरित्यर्थः । यथा गोः कपिलत्वं लक्षणमुक्तंचेत् श्वेतगवि कपिल वाभावादव्याप्तिः ॥ असंभवोनाम लक्ष्यमात्रे कुत्रापि लक्षणासत्त्वं । यथा गोरेकशफवत्त्वं लक्षणमुक्तं चेत् गोसामान्यस्य दिशफवत्त्वेन एकशफवत्त्वस्य कुत्राप्यसत्त्वादसंभवः ।। लक्ष्यैकदेशावृत्तित्वमिति । लक्ष्स्य एकदशः लक्ष्यैकदेशः । ल- क्ष्यैकदंश अस्तित्वं लक्ष्यैकदशात्तित्वं । एकदेशशब्दार्थः घटक तावान् । लक्ष्यस्येति षष्ट्यर्थः निरूपितत्वं । निरूपितत्वस्य आश्र- यतासंबन्धन घटकतायामन्वयः। अवृत्तित्वंनाम आयत्वाभावः। आधेयतायां एकदेशशब्दार्थस्य निरूपितत्वसंबन्धनान्वयः। तथाच लक्ष्यनिरूपितघटकताश्रयनिरूपिताधेयत्वाभावः अव्याप्तिः। गीः कपिलत्वं लक्षणमित्यत्र कपिलवं अव्याप्तिदुष्टं । तत्रोक्ताव्याप्ति लक्षणं वर्तते । लक्ष्यं गोसमुदायः। तद्धटिका श्वेतगौः तवृत्ति श्वेतरूपं । आधेयता श्वेतरूपनिष्ठा। आधेयताच लक्ष्यैकदंशश्वेत गोनिरूपिता । आधेयत्वाभावः कपिलत्वं । कपिलवस्य श्वतगाव अभावात् । आधेयतायां लक्षणतावच्छेदकसंबन्धावच्छिन्नत्वं निवेश नीयं । अन्यथा कापलत्वे अव्याप्तिरूप अव्याप्तिदुष्टलक्षणस्य असं भवापत्तः। लक्ष्यैकदंश श्वतगवि कपिलत्वस्य कालिकसंबन्धन सत्त्वात् । कपिलत्वनिष्ठायतायाः श्वेतगोनिरूपितत्वात् । लक्षण तावच्छेदकसंबन्धावच्छिन्नात्वनिवेश नासंभवः । कपिलत्वनिष्ठश्वेत गोनिरूपिताधेयतायाः कालिकसंबन्धावच्छिनत्वपि लक्षणतावच्छे- दकीभूतसमवायसंबन्धावच्छिन्नत्वाभावात् ॥ लक्ष्यमात्रहाते। मात्रपदं यावदर्थकं ।
आकाशलक्षणं सप्तम्याः निरूपितत्वमर्थः । तस्य असत्वशब्दार्थाधेयत्वाभावघट- काधेयतायामन्वयः । तथाच यावलक्ष्यनिरूपिताधेयत्वाभावः अ- संभव इति समुदायार्थः । गाः एकाशफवत्वं लक्षणमित्यत्र एकशफवत्वं असंभवदुष्टं । तस्यासंभवरूपलक्षणं संभवति । एकशफवत्त्वस्य कचिदपि गव्यसत्त्वात् । यावल्लक्ष्यनिरूपिताधेयत्वाभावस्य एक- शफवत्वे संभवात् । शफे एकत्वंच शफविशिष्टान्यत्वं । शफवैशि- ट्यंच खाधिकरणत्तित्व स्वभिन्नत्वोभयसंबन्धेन । एतादृशैकत्वं अश्वनिष्ठशफस्य भवति नतु मोनिष्टशफस्य । उक्तसंबन्धेन गोनिष्ठ शफस्य शफान्तरविशिष्टत्वात् । स्वपदेन गोनिष्ठशफोपादाने स्वाधि- करणं गोपादः। तद्वृत्ति शफान्तरं । वृत्तित्वं शफान्तरस्य । स्व. भिन्नत्वमपि शफान्तरस्यति उभय संबन्धन गोनिष्ठशफस्य शफान्तर विशिष्टत्वात् निरुक्तैकत्वं नसंभवति । लक्ष्यतावच्छेदकसमानाधि- करणत्वेसति लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगितानिरूपकभेदाधिः करणवृत्तित्वं अतिव्याप्तिदोषस्य स्वरूपं । अतिव्याप्तिदुष्टस्य लक्षणं । गोः शृङ्गित्वं लक्षणमित्यत्र शृङ्गित्वमतिव्याप्तिदुष्टं । तस्येदं लक्षणं संभवति । लक्ष्या गौः लक्ष्यता गोनिष्ठा । लक्ष्यतावच्छेदकं गोत्र । लक्ष्यतावच्छेदकाधिकरणं गौः । तद्वृत्ति श्रृङ्गित्वं । वृत्तित्वं भृङ्गि त्वस्य । एवं विशेष्यदळमपि संभवति । लक्ष्यतावच्छेदकावच्छि- नप्रतियोगितानिरूपकः कोभेदः इत्युक्तौ गोभेदो भवति। कथ- मित्युक्तौ गोभेदस्य गौः प्रतियोगी प्रतियोगिता गोनिष्ठा । प्रति- योगितावच्छेदकं गोत्वं । गोत्वावच्छिन्ना प्रतियोगिता। तथाचेत् लक्ष्यतावच्छेद कावच्छिन्नापि भवति । लक्ष्यतावच्छेदकस्य गोत्वस्य च एकत्वात् । लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगितानिरूपकभेदः गोभेदः । गोभेदाधिकरणं महिषः । तद्वृत्ति शृङ्गित्वं । तद्वृत्तित्वं शृङ्गित्वस्येति लक्षणसंगतिः। लक्ष्य तावच्छेदकाधिकरणत्तित्वमा. त्रोको गोः सानादिमत्त्वे सल्लक्षणे अतिव्याप्तिः। अतः विशेष्य १८ न्यायबोधिनीविषयमाला शब्दगुणकमाकाशं । तच्चैकं विभु नित्यंच । दळं । विशेष्यदळमात्रोक्तो गोः एकशफवत्वं लक्षणमित्यत्र एकशफ- वत्त्वे असंभविनि अतिव्याप्तिः। कुतः लक्ष्यभिन्नत्तित्वात् । लक्ष्यता वच्छेदकाधिकरणत्तित्वेसति लक्ष्यतावच्छेदकाधिकरणवृत्त्यत्यन्ता- भावप्रतियोगित्वं अव्याप्तिदोषस्य स्वरूपं । गोः नीलरूपवत्त्वं लक्षणमित्यत्र नीलरूपवत्वं अव्याप्तिदुष्टं। अस्येदं लक्षणं संभवति । लक्ष्या गौः। लक्ष्यता गोनिष्ठा । लक्ष्यतावच्छेदकं गोत्वं । लक्ष्य तावच्छेदकाधिकरणं गौः। तद्वृत्ति नीलरूपवत्वं । तद्वत्तित्वं नील- रूपवत्वस्य । एवं विशेष्यदळमपि संभवति । लक्ष्या गौः । लक्ष्य- तावच्छेदकं गोत्वं । लक्ष्यतावच्छेदकाधिकरणं श्वेतगौः । लक्ष्य- तावच्छेदकाधिकरणवृत्तिः योऽत्यन्ताभावः नीलरूपवत्त्वात्यन्ता- भावः। तत्प्रतियोगि नीलरूपं । प्रतियोगित्वं नीलरूपवत्त्वस्य । लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वं असंभवदोषस्य ख. रूपं । असंभवदुष्टस्य लक्षणं । लक्ष्यतावच्छेदकव्यापकत्वंच लक्ष्य- तावच्छेदकाधिकरणकृत्यत्यन्ताभावाप्रतियोगित्वं । गोः एकशफ- वत्त्वं लक्षणमित्यत्र एकशफवत्वपसंभवदुष्टं । तस्ये लक्षणं संभवति । लक्ष्या गौः लक्ष्यता गोनिष्ठा । लक्ष्यतावच्छेदकं गोत्वं । लक्ष्य- तावच्छेदकव्यापको योऽभावः एकशफवत्त्वाभावः । तत्प्रतियोगि एकशफवत्त्वं । तत्प्रतियोगित्वं एकशफवत्त्वस्य । एकशफवत्त्वा- भावस्य निरुक्तलक्ष्यतावच्छेदकव्यापकत्वं संभवति । तथाहि । लक्ष्यतावच्छेदकं गोत्वं । लक्ष्यतावच्छेदकाधिकरणं गौः। तद्- त्तिर्योत्यन्ताभावः घटात्यन्ताभावः । नतु एकशफवत्त्वाभावाभावः । एकशफववाभावस्यैव तत्र सत्त्वात् । तत्प्रतियोगी घटः । अप्रति. योगी एकशफवत्वाभावः । अप्रतियोगित्वं एकशफववाभावस्य । शब्दगुणकमिति । शब्दो गुणो यस्य तत् । यच्छब्दस्य आकाशमर्थः। षष्ट्याः आधेयतार्थः। आधेयतायां आकाशस्य काललक्षणं १९ निरूपितत्वसंबन्धनान्वयः। आधेयतायाः गुणे आश्रयतासंबन्धे- नान्वयः। गुणे शब्दस्य अभेदसंबन्धेनान्वयः । तथाच आ. काशनिरूपिताधेयताश्रयगुणः शब्दाभिन्न: इति विग्रहार्थः । समासार्थस्तु शब्दाभिन्नगुणनिष्ठाधेयतानिरूपकं आकाशं इति । गुणपदं आकाशे प्रमाणसूचनाय । तथाहि । शब्दः किंचिद्रव्या- श्रितः गुणत्वात् रूपवत् । इतरद्रव्याणां पृथिव्यादीनां शब्दाश्रय त्वासंभवात् अतिरिक्ताकाशसिद्धिः। समवायसंबन्धावच्छिन्नशब्द निष्ठाधेयतानिरूपकाधिकरणताश्रयत्वं आकाशस्य लक्षणं । आधे- यतायां समवायसंबन्धावच्छिन्नत्वं निवेशनीयं । अन्यथा काले अतिव्याप्तिः। सर्वाधारः काल इति न्यायेन काले कालिकसंबन्ध न सर्वस्य सत्त्वात् । शब्दोपि वर्तते । आधेयः शब्दः। आधेय ता शब्दनिष्ठा । तस्यां कालिकसंबन्धोऽवच्छेदकः । अधिकरणं कालः । अधिकरणता कालनिष्ठा। अधिकरणता आधेयताया निरूपिका भवति । तथाच शब्दनिष्ठाधेयतानिरूपकाधिकरणता. श्रयत्वस्य काले सत्त्वात् भवत्यतिव्याप्तिः । समवायसंबन्धाव- च्छिन्नखनिवेशे नातिव्याप्तिः। शब्दनिष्ठकालनिरूपिताधयतायाः कालिकसंबन्धावच्छिन्नत्वेन समवायसंवन्धावच्छिन्नत्वाभावात् । विभु सर्वमूर्त्तद्रव्यसंयोगि । सर्वपदमनुपादाय मूर्तद्रव्यसंयोगि- त्वं विभोर्लक्षणमित्युक्तौ घटात्मकमूर्नद्रव्यसंयोगस्य पृथिव्यादौ स- वात् तत्रातिव्याप्तिः। तद्वारणाय सर्वपदं। मूर्तपदानुपादाने सर्वद्रव्या न्तर्गतकालसंयोगस्य आकाशे असत्त्वादसंभवः । विभुद्वयसंयोग स्यानंगीकारात् । अतः मूर्तपदं । मूर्नद्रव्यपदानुपादाने सर्वान्तर्ग- तगुणसंयोगस्याप्रसिझ्या असंभवः । तद्वारणाय मूर्तद्रव्यपदं । ननु इदं लक्षणं असंभावि । सर्वमूर्तद्रव्यप्रतियोगिकस्यैकस्य संयोगस्या भावात् इति चेत् न । मूर्तद्रव्यत्वव्यापकत्वस्य विभुलक्षणत्वात् । व्यापकता च संयोगसंवन्धेन । संभवतिचेदं लक्षणमाकाशस्य ।
२० न्यायबोधिनीविषयमाला अतीतादिव्यवहारहेतुःकालः ॥ आकाशसंयोगशून्यस्य मूर्नद्रव्यस्या भावात् । अतो मृतद्रव्यत्यव्या- पकमाकाशं भवति । यदिच आकाशसंयोगस्य वृत्त्यनियामकतया संयोगसंबन्धन आकाशस्य व्यापकत्वासंभवात् नोक्तलक्षणं संभवती- त्युच्यते तदा स्वनिष्ठप्रतियोगितानिरूपकात्यन्ताभाववत्वसंवन्धेन व्यापकत्वं विनक्षणीयं । खनिष्ठप्रतियोगिता च स्वानुयोगिकसं योगशून्यत्वसंवन्धावच्छिन्ना । एवंच आकाशस्य व्यापकसमुपपद्य- ते । तथाहि । भूतले संयोगसंवन्धेन घटः यथा वर्तते एवं विष. यतासंबन्धेन ज्ञाने वर्तते । तथा भूतले घटाभावदशायां घटः स्व. निष्ठप्रतियोगितानिरूपकाभाववत्त्वसंवन्धन भूतले वर्तते । स्खं घटः । स्वनिष्ठप्रतियोगितानिरूपकोयोऽभावः घटाभावः तद्वत्त्वं भूतलस्य । खानुयोगिकसंयोगशून्यत्वसंबन्धेन आकाशं सर्वमूर्तद्रव्येषु नास्ति । किंतु आकाशाभावो वर्तते । आकाशाभावस्य प्रतियोगि आकाशं । प्रतियोगिता आकाशनिष्ठा । प्रतियोगितायां स्वानुः योगिकसंयोमशून्यत्वसंवन्धः अवच्छेदकः । प्रतियोगिता स्वानु- योगिकसंयोगशून्यत्वसंबन्धावच्छिन्ना । इत्थंच स्वानुयोगिकसंयोग शून्यत्वसंबन्धावच्छिन्नाकाशनिष्ठप्रतियोगितानिरूपकाभावः सर्वमूर्त द्रव्येषु वर्तत इनि स्वानुयोगिकसंयोगशून्यन्वसंबन्धावच्छिन्नम्वनिष्ठ प्रतियोगितानिरूपकाभाववत्वसंवन्धन आकाशस्य सर्वमूर्तद्रव्येषु सत्त्वात आकाशस्य मूर्तद्रव्यत्वव्यापकत्वं नानुपपन्न ! एकं स्वस- जानीद्वितीयरहितं । साजात्यं च स्वकृत्त्यसाधारणधर्मरूपेण ।। अतीति । अतीतादीनां व्यवहारः अतीतादिव्यवहारः । व्यवहारम्य हेत: व्यवहार हेतुः । षष्ट्याः विषयतार्थः। विषय- तायां अतीतादेः आधेयतासंबन्धेनान्वयः। विषयतायाः व्यव- हार निरूपकतासंवन्धनान्वयः । व्यवहारस्यनि षष्ट्याः जन्ये- ताथः । जन्यता या व्यवहारस्य आधेयतासंवन्धेनान्वयः । हेतुशब्द आत्मलक्षणं २१ स्य जनकतावानर्थः । जनकतायां जन्यतायाः निरूपितखसंबन्ध नान्वयः। अतीतादिनिष्ठविषयतानिरूपकव्यवहारांनष्टजन्यतानि. रूपितजनकतावान् कालः। अतीतादिनिष्ठविषयतानिरूपकव्यवहा- रनिष्ठजन्यतानिरूपितजनकतावत्वं कालस्य लक्षणं । अत्र आदि पदेन वर्तमानः भविष्यश्च ग्राह्यः । अतीतादिनिष्ठविषय तानिरूपको या व्यवहारः अयमतीतः अयंवर्तमानः अयंभविष्यन् इति व्यवहा. रः। ताशव्यवहारंपात कालः कारणं । व्यवहारे व्यवहर्तव्य- तावच्छेदकस्य कारणखात् । यथा धनवानिति व्यवहारे धनवान् व्यवहर्तव्यः । व्यवहर्तव्यता धनवनिष्टा । व्यवहर्तव्यतावच्छेदकं धनवत्त्वं । धनवत्वं च धनमेव । मतुप्पत्ययान्तपदोत्तरं श्रूयमाण भावप्रत्ययः मतुप्पत्ययप्रकृत्यर्थ बोधयति । धनवानिति व्यवहारे धनवानिति पदं मतुष्प्रत्ययान्त । तदुत्तरं श्रूयमाणः भावप्रत्ययः खप्रत्यः । सच मतुप्पत्ययस्य या प्रकृतिः धनतिप्रकृतिः। तदर्थधनं बोधयति । तथा प्रकृते अतीतकालवानिति व्यवहारे अतीतकाल वत्पदं मतुप्पत्ययान्तं । तदत्तरंखप्रत्ययः । मतुप्पत्ययः तत्प्रकृति भूतं अतीतकालपदं । तदर्थ कालं बोधयति । एवंच अतीतादि व्यवहारतुत्वस्य काले विद्यमानत्वात् लक्षणसंगतिः । ननु व्यव. हारं प्रति व्यवहर्तव्य नावच्छेदकज्ञानं कारणं । ननु व्यवहर्तव्यता वच्छेदकं । धनवति पुरुष धनज्ञानाभावे धनवानिति व्यवहारानु- त्पादात् । अतः अतीतादिव्यवहारहेतुखं अतीतादिव्यवहारज्ञान स्यैव । अतः उक्तलक्षणस्य काले अभावादसंभवः इनि चत् न । अतातादिव्यवहारकारणज्ञानविषयवस्य काललक्षणवांगीकारात् । अतीतादिव्यवहारकारणं यज्ज्ञानं कालविषयकं ज्ञानं । तद्विषयख- स्य काले सत्त्वान्नासंभवः । एवं दिग्लक्षणपि बोध्यं । ज्ञानाधिकरणमिति । ज्ञानस्य अधिकरणं ज्ञानाधिकरणं षष्याः आधेयतार्थः । आधेयतायां ज्ञानस्य आधेयतासंवन्धनान्वयः।
२२ बोधिनीविषयमाला तथाच ज्ञानाधिकरणमात्मा। मद्विविधः परमात्मा जी. वात्मा चेति। तत्रेश्वरः सर्वज्ञः परमात्मा एकएव। जीव स्तु प्रतिशरीरं भिन्नः॥ सुखाद्युपलब्धिसाधनमिन्द्रियं मनः। तच्च प्रत्या त्मनियतत्वादनन्तंपरमाणुरूपं नित्यं च ॥ आधेयतायाः निरूपकतासंबन्धनाधिकरणतायामन्वयः। तथाच ज्ञाननिष्ठाधेयतानिरूपकाधिकरणतावानामति बांधः। तादृशाधि- करणतावत्त्वं आत्मनो लक्षणं । स द्विविध इति । द्वे विधे यस्य सः द्विविधः । यच्छन्दस्य आत्मार्थः । पट्याः आधेयतार्थः । आधेय तायां आत्मनः निरूपितलसंबन्धनान्वयः। आधेयतायाः आश्रय तासंबन्धन विधाशब्दार्थविभाजकधर्म अन्वयः। विभाजकधर्मे द्वि. शब्दार्थभूतद्विवसंख्याविशिष्टस्य अभेदसंबन्धनान्वयः । आत्मनिरूपिताधेयताश्रयविभाजकधर्मों द्विवसंख्याविशिष्टाभिन्नौ इति विग्रहार्थः । समासार्थस्तु द्विखसख्यावशिष्टाभिन्नविभाजकधर्म निष्ठाधेयतानिरूपक आत्मा इति । परमात्मा जीवात्माचतीनि । परमात्मशब्दस्य परमाखमर्थः । जीवात्मशब्दस्य जीवात्मत्वमर्थः । इतिशब्दस्याभेदार्थः । परमा- त्मखजीवात्मत्वयोः प्रतियोगितासंवन्धनाभदन्वयः । अभेदस्य आश्रयतासंबन्धन द्विविधशब्दार्थघटकविभाजधर्मन्वयः । चशब्द- स्य परमात्मत्वसमुच्चयोर्थः । तस्याश्रयतासंबन्धन जीवात्मत्वेन्वयः। तथाच परमात्वप्रतियोगिकपरमात्मत्वसमुच्चयविशिष्टजीवात्मत्वप्रति- योगिकाभंदाश्रय द्वित्वसंख्याविशिष्टविभाजकधर्मनिष्ठाधयतानिरूप. कः आत्मा इति समुदायाथः । तत्रेतितच्छब्दस्य परमात्मजीवात्मसमुदायोर्थः । वल्पत्ययस्य घटकतार्थः। घटकतायां समुदायस्य निरूपितत्वसंबन्धेनान्वयः। घट- मन लक्षणं २३ -- - कतायाः आश्रयतासंवन्धन परमात्मनि अन्वयः। तथाच परमात्म जीवात्म समुदायनिरूपितघटकताश्रयः परमात्मा ईश्वरः सर्वज्ञः एक- एवेत्यन्वयः। ईश्वरः ईशनशीलः : ईशनं प्रवृत्तिनिवृत्त्यनुकूलव्यापारः। सर्व जानातीति सर्वज्ञः । द्वितीयायाः विषयतार्थः । विषयतायां सर्वस्य आधेयतासंवन्धनान्वयः । विषयतायाः जानातीत्यत्र ज्ञा- धात्वर्थज्ञाने निरूपकतासंबन्धेनान्वयः। आख्यातार्थः आश्रयः । तथाच सर्वनिष्ठविपरतानिरूपकज्ञानाश्रयः परमात्मा इति बोधः । प्रतिशरीरं भिन्नइति । प्रतिपदसमभिव्याहृतशरीरशब्दस्य शरीरत्वव्यापकत्वमर्थः : । तस्याश्रयतासंबन्धेन भिन्नशब्दार्थघटक- भेदेन्वयः । तथाच शरीरत्वव्यापकभेदाश्रयः जीवः इति बोधः ।। मनोनिरूपयतीति । नीत्युपसर्गपूर्वकरूपधातोः निरूपणमर्थः। मनइति द्वितीयार्थविशेष्यतायाः निरूपणशब्दार्थैकदेशज्ञाने निरूपक तासंबन्धेनान्वयः। आख्यातस्याश्रयोर्थः । तथाच मनोनिष्ठविशे- प्यतानिरूपकलक्षणस्वरूपप्रामाण्याद्यन्यतमप्रकारकज्ञानजनकशब्दानु कूलकृत्याश्रयः इतिबोधः॥ सुखादीति ! सुखादीनां उपलब्धिः सुखाद्युपलब्धिः। षष्ट्याः विषयतार्थः । विषयतायां सुखादः आधेयतासंबन्धनान्वयः। उए. लब्धिशब्दस्य साक्षात्कारार्थः । साक्षात्कारे विषयतायाः निरूपकता संबन्धेनान्वयः। उपलब्धः साधनं । षष्ट्याः जन्यतार्थः। जन्य- तायां उपलब्धिशब्दार्थस्याधयतासंबन्धनान्वयः। साधनपदस्य जनकतावदर्थः । एकदेशजनकतायां जन्यतायाः निरूपितत्वसंबन्धे नान्वयः। तथाच मुखादिनिष्ठविषयतानिरूपकसाक्षात्कारनिष्ठज. न्यतानिरूपितजनकतावत् मनइति शाब्दबोधः । अनन्तं एकत्वा न्यसंख्यापर्याप्त्यनधिकरणं । तत्र हेतुः प्रत्यात्मनियतत्वादिति । आत्मानि आत्मनि प्रत्यात्म । प्रत्यात्मनियतं प्रत्यास्मनियतं । तस्य भावः नियतत्वं । तस्मात् नियतत्वात् । शाब्दबोधस्तु इत्थं प्रति- न्यायबोधिनीविषयमाल पदसमाभच्याहतात्मपदस्य आत्मत्वव्यापकत्वमर्थः । तस्य आश्रय तासंबन्धेन नियतत्वेन्वयः । नियतत्वं वृत्तिमत्वं । तथाच आत्मत्व व्यापकवृत्तिमत्त्वादिति । परमाणु रूपं यस्य तत् परमाणुरूपं। यच्छ ब्दार्थः मनः । षष्ट्यथः अभेदः । अभेदे मनसः अनुयां गतासंबन्ध- नान्वयः। अभेदस्य प्रतियोगितासंबन्धन स्वरूपेन्वयः। स्वरूप परमाणुपदार्थस्य अभेदसंवन्धेनान्वयः । तथाच मनोनुयोगिकाभेद प्रतियोगिस्वरूपं परमावभिन्नं इति विग्रहार्थः। समासार्थस्तु पर- मावभिन्न स्वरूपप्रतियोगिकाभेदानुयोगि मनइति। परमाणुशब्दार्थ स्तु अपकर्षानाश्रयाणुत्वविशिष्टः । परमपदार्थस्य अपकर्षानाश्रय- त्वस्य अणुत्वविशिष्टे अन्वये अणुत्वेपि अर्थात्परमत्वस्य लाभात् । अणुषु मनोपेक्षया अणुपदार्थस्याभावेन मनोनिष्ठाणुत्वस्य उत्कृष्टत्वे न अपकर्षानाश्रयत्वात्परमत्वोक्तिर्नानुपपन्ना । नित्यं बंसापति. योगि इति द्रव्यनिरूपणं ।। अथ गुणनिरूपणं । चक्षुर्मात्रेति । चक्षुर्मात्रेण ग्राह्यः चक्षु- मात्राधः । तृतीयार्थः जन्यता । जन्यतायां चक्षुर्मात्रस्य निरूपित स्वसंबन्धेनान्वयः। ग्रहधातोः ज्ञानमर्थः । ज्ञाने जन्यतायाः आश्र- यतासंबन्धेनान्वयः। ण्यत्मत्ययस्य विषयतावानर्थः । विषयतायां ज्ञानस्य निरूपितत्वसंबन्धनान्वयः । तथाच चक्षुत्रिनिरूपितजन्य ताश्रयज्ञाननिरूपितविषयताश्रयो गुणः रूपं इति शाब्दबोधः । रूप- ज्ञानं हि चक्षुत्रिण जन्यते । जन्यं ज्ञानं । जन्यता ज्ञाननिष्ठा । जन्यताश्रयः ज्ञानं । जन्यताच चक्षुर्मात्रेण निरूपिता । तादृशज्ञा ने रूपं विषयः । विषयता रूपनिष्ठा । विषयताश्रयः रूपं । विषय- ताच ज्ञानेन निरूपिता। तथाच चक्षुर्मात्रनिरूपितजन्यताश्रयज्ञान निरूपितविषयतावद्रूपमिति न वाक्यार्थानुपपत्तिः । चक्षुर्मात्रजन्य ज्ञानविषयत्वे सति गुणत्वं रूपस्य लक्षणं । मानपदस्य चक्षुर्भिन्नेन्द्रि- यजन्यज्ञानाविषयत्वमर्थः । विशेषणानां प्रयोजनं न्यायबोधिन्यां रूपलक्षणं २५ स्पष्ट । अत्रेदं विचार्यते । नन्वत्र कि मात्रपदेन चक्षुभिन्नत्वगिन्द्रियं विवक्षितं उतचक्षुभिन्नं सर्वेन्द्रियमपि । नायः। सर्पश्रुतशब्देतिव्याप्तेः। तस्यशब्दस्य त्वगिन्द्रियजन्यप्रत्यक्षाविषयत्वात् सर्पसंबन्धिचक्षुरिन्द्रि- यजन्यप्रत्यक्षविषयत्वाच । सर्पस्य श्रोत्रेन्द्रियाभावात् चक्षुरिन्द्रिय स्यैव शब्दग्रहणसामर्थ्यात् । नच सर्पस्य श्रोत्रेन्द्रियमपि वर्ततइति वाच्यं । चक्षु श्रवा इति कोशे चक्षुषी एव श्रवसी यस्य इति बहु- ब्रीहिणा सर्पस्य श्रोत्रेन्द्रियनिषेधावगमात् । ननु चक्षुषि श्रवः यस्य सः इति व्यधिकरणबहुव्रीचंगीकारेण चक्षरधिकरणे श्रोत्रेन्द्रियवानि- त्यर्थलाभात् सर्पस्य श्रोत्रेन्द्रियांगीकारेपि न कोशविरोधइति चेत् न ।। एकस्थैव चक्षुरिन्द्रियस्य शब्दग्रहणसामर्थ्यागीकारेण निर्वाहे अति-- रिक्तश्रोत्रन्द्रियकल्पनाया अन्याय्यत्वात् । नच शब्दग्रहणान्यथानुः पपत्या श्रोत्रेन्द्रियमवश्यभंगीकार्य । अन्यथा चक्षुषः अन्यत्रादृष्टस्या शब्दग्रहणसामर्थ्यस्यांगीकारे अदृष्टकल्पनाप्रसंगादिति वाच्यं । धर्मि कल्पनातो वरं धर्मकल्पनं इति न्यायात् लाघवानुरोधेन चक्षुषएक तादृशसामर्थ्यकल्पनात् । अन्यथा मार्जारादीनां रात्रौ नवनीतादि ग्रहणात् चक्षुषः आलोकासमवधानकाले रूपग्राहकत्वस्य काप्यदर्श- नात् आलोकासमवधानकाले रूपग्रहणान्यथानुपपत्त्या इन्द्रियान्तर स्वीकारापत्तेः । तस्मात् सर्पस्य श्रोत्रेन्द्रियाभावात् शब्देतिव्याप्ति दुारा । नच मार्जारादीनां इन्द्रियान्तरस्वीकारे तस्य अधिष्ठानं वाच्यं । न तावत् चक्षुरिन्द्रियाधिकरणमेव । एकस्मिन् मोळके इन्द्रियद्वयसमावेशायोगात् । नाप्यधिष्ठानान्तरं अनुपलंभात् । यदि च एकस्मिन्नेवाधिकरणे इन्द्रियद्वयं स्वीक्रियते । तदा सर्पस्यापि इन्द्रियद्वयं स्वीक्रियतां । अतः मार्जारादीनां इन्द्रियान्तरस्वीकाराप- त्यसंभवइति वाच्यं । मार्जारादीनां आलोकासमवधानतदभावकाले रूपग्रहणान्यथानुपपत्त्या तयोग्येन्द्रियान्तरस्वीकारापत्तिसंभवात् ।। नवैवमपि कौशिकादीनामालोकासमवधानकालएष रूपादिग्रहण . 4 २६ न्यायबोधिनीविषयमाला सत्वेनास्मदादीनामिव चक्षुरिन्द्रियस्य मार्जारादीनामिव इन्द्रिया. न्तरस्यवा स्वीकारासंभवेन एतदुभयविलक्षणेन्द्रिगस्वीकारापत्तिरि- ति वाच्यं । इष्टत्वात् । न द्वितीयः। चक्षुर्भिन्नेन्द्रियेण मनसा रूपस्य ग्रहणात् असंभवापत्तेः। अत्रेदं समाधानमाकलयामः । चक्षुर्मात्रग्राह्यइत्यनेन चक्षुर्भिन्नेन्द्रियेण संवद्धस्सन् अग्राह्यः चक्षुरि- न्द्रियेण संबद्धस्सन् ग्राह्यो यो गुणः तद्रूपमिति विवक्षणानकोपि दोषः। शब्दोहि चक्षुर्भिन्नेन्द्रियेण श्रोत्रेण समवायरूपसमिकर्षण संबद्धस्सन् गृह्यते । अतः न तलातिव्याप्तिः । रूपं हि चक्षुर्भिन्ने- न्द्रियेण न केनापि संबद्धं सत् गृह्यते । अतो नासंभवः । अस्यचायं परिष्कारः चक्षुर्भिन्नेन्द्रियसनिकपविशिष्टविषयत्वाभावः मात्रपद- स्यार्थः। विषयतायां सन्निकर्षवैशिष्ट्यंच स्वप्रयोज्यत्व स्वसामाना- धिकरण्योभयसंबन्धेन | चक्षुर्भिन्नेन्द्रियेण त्वगिन्द्रियेण घटपटादि प्रत्यक्षजनने संयोगः सन्निकर्षः। घटपटादिप्रत्यक्षपति संयोगः कारणं । कार्य धटपटादिप्रत्यक्षं । तच्च विषयतासंबन्धन घटे उत्प- द्यते । कार्यता घटप्रत्यक्षनिष्ठा । कार्यतायां विषयतासंबन्धोवच्छेद- कः। कार्यतावच्छेदकसंबन्धः विषयतासंबन्धः । विषयतासंबन्ध श्व सन्निकर्षप्रयोज्यः। कार्यतावच्छेदकत्वात् । तथाहि । त्वगि- न्द्रियेण घटस्य संयोगे सति घटस्य प्रत्यक्षविषयत्वं भवति । यस्मि. न सति यद्भवति तंप्रति तत्मयोजकं । यथा झुन्नित्ति प्रति भोजनं प्रयोजकं । प्रकृते घटे यस्मिन्सति त्वक्संयोगेसति यद्भवति प्रत्यक्ष विषयत्वं भवति । तंप्रति प्रत्यक्षविषयत्वंप्रति तत् त्वक्संयोगः प्रयोजकः। एवंसति घटे प्रत्यक्षविषयता वर्तते । त्वक्संयोगोपि वर्तते । प्रत्यक्षविषयता त्वक्संयोगप्रयोज्या। त्वक्संयोगाधिकरणे घटे प्रत्यक्षविषयता वर्तते । स्वाधिकरणवृत्तित्वस्वप्रयोज्यत्वोभय संबन्न त्वक्संयोगविशिष्टाप्रत्यक्षविषयता। खपदेन त्वक्संयोगो. पाहाो खाधिकरणं घटः। तदृत्तिः प्रत्यक्षाविषयता। वृत्तिक रूपलक्षणं प्रत्यक्षविषयतायाः। स्वप्रयोज्यत्वंच प्रत्यक्षविषयतायां । अत: उक्तोभयसंबन्धेन चक्षुर्भिन्नेन्द्रियसन्निकर्षविशिष्टा या प्रत्यक्षविषयता घटनिष्ठा प्रत्यक्षविषयता। तदभावः रूपे वर्तते इति लक्ष्ये लक्षण- समन्वयः। चक्षुर्भिन्नेन्द्रियपदेन मनइन्द्रियमादाय नासंभवः । चक्षुर्भिन्नेन्द्रियं मनइन्द्रियं । तत्सन्निकर्षः मनस्संयोगः । तद्विशि- या या प्रत्यक्षविषयता आत्मनिष्ठमानसप्रत्यक्षविषयता। आत्मनः मनसा संयोग आत्मप्रत्यक्ष भवति । प्रत्यक्षे आत्मा विषयः । प्रत्यक्षविषयता आत्मनिष्ठा । साच मनस्संयोगप्रयोज्या । यस्मि- न्सति यद्भवति तंप्रति तस्य प्रयोजकत्वात् । प्रकृते यस्मिन्सति आत्मनि मनस्संयोगेसति यद्भवति प्रत्यक्षविषयता भवति । तंप्रति प्रत्यक्षविषयतांप्रति तत् प्रयोजकं मनस्संयोगः प्रयोजकः । एवंच आत्मनिष्ठा प्रत्यक्षविषयता मनस्संयोगप्रयोज्या भवति । एवंच मनस्संयोगाधिकरणे आत्मनि प्रत्यक्षविषयता वर्तते । तथाच स्वा- धिकरणत्तित्व स्वप्रयोज्यत्वोभयसंबन्धेन चक्षुर्भिन्नेन्द्रियमनस्सन्नि- कर्षविशिष्टा प्रत्यक्षविषयता आत्मनिष्ठप्रत्यक्षविषयता । तदभावः रूपेऽस्तीति नासंभवः । शब्दे नातिव्याप्तिः। चक्षुर्भिन्नेन्द्रियं श्रोत्रे- न्द्रियं । तत्सन्निकर्षः समवायः। तद्विशिष्टा या प्रत्यक्षविषयता शब्दनिष्ठप्रत्यक्षविषवता । कथमित्युक्तौ खं श्रोत्रसमवायः। स्वा. धिकरणं शब्दः तद्वृत्तिः प्रत्यक्षविषयता । तद्वृत्तित्वं प्रत्यक्षविषय- तायाः। एवं स्वप्रयोज्यत्वमपि वर्तते । यस्मिन्सति यद्भवति तं प्रति तस्य प्रयोजकत्वात् । यस्मिन्सति शब्दे श्रोत्रसमवाये सति यद्भवति प्रत्यक्षविषयता भवति । तंप्रति प्रत्यक्षविषयतां प्रति तत् श्रोत्रसमवायः प्रयोजकः। तथाच चक्षुर्भिन्नेन्द्रियश्रीत्रसन्निकर्षवि- शिष्टा या प्रत्यक्षविषयता शब्दनिष्ठप्रत्यक्षविषयता। तदभावः शब्दे नास्तीति नातिव्याप्तिः । चक्षुर्भिन्नेन्द्रियपदेन त्वगिन्द्रियमा वि. वक्षितवतो न्यायबोधिनीकारस्यायमेवाभिमायः । तथाच चक्षुर्मि- २८ न्यायवोधिनीविषयमाला भेन्द्रियेत्यत्र इन्द्रियपदेन शब्दाग्राहकचक्षुरिन्द्रियं विवक्षणीयं । सर्पचक्षुषः शब्दग्राहकत्वेन तयावृत्तिः । यद्वा सर्पस्य श्रोत्रेन्द्रिय मपि वर्तते इत्यंगीकार्य । अन्यथा शब्दग्रहणस्यैवानुपपत्तेः। नच चक्षुरिन्द्रियस्यैव शब्दग्रहणसामोगीकारात् न शब्दग्रहणानुपपत्ति रिति वाच्यं । चारिन्द्रियेण शब्दग्रहणस्यासंभवात् । तथाहि । शब्दः किं चक्षुरिन्द्रियेण सनिकृष्टस्सन् गृह्यते उत असनिकृष्टस्सन् । नायः। इन्द्रियेण शब्दस्य सन्निकर्पे प्रत्यक्षायोगात् । आद्यपि किं चक्षः शब्ददेशं गत्वा शब्देन संयुज्यते उत शब्दः चक्षुर्देशमागत्य चक्षुषा संयुज्यते । नाद्यः । दूरस्थ शब्दस्यापि प्रत्यक्षप्रसंगात् । चक्षुषो दूरस्थशब्ददेशपर्यन्तं गमनासंभवात् । न द्वितीयः । चक्षुषः शब्देन सन्निकर्षासंभवात् । सच संवन्धः संयोगोवा समवायोवा वाच्यः । नोभयमपि संभवति । शब्दस्य गुणत्वेन चक्षुषो द्रव्यत्वेन उभयोः संयोगासंभवात् । शब्दस्य आकाशगुणत्वेन चक्षुषा सम- वायासंभवात् । तस्मात् चक्षुर्गोळकावच्छिन्नाकाशं श्रोत्रेन्द्रियं । तेन घ शब्दग्रहणमिति न शब्दे अतिव्याप्तिः। शब्दस्य चक्षुरिन्द्रिय जन्यज्ञानविषयत्वाभावात् । अतः मात्रपदेन त्वगिन्द्रियाग्राह्यत्व विषक्षणं न्यायबोधिनीकृतो युक्तमेवेति । परंतु मात्रपदेन चक्षुर्भिन्ने न्द्रियजन्यज्ञानाविषयत्वस्यैव लाभात् विशिष्य त्वगिन्द्रियजन्यज्ञाना विषयत्वस्यालाभात् तत्पक्षमपहायान्यमेवाश्रितवन्तः । नच वाच्य अस्मिन्गृहे चैत्रमैत्रौ उभौ किं वर्तते इति प्रश्न चैत्रमानो वर्तते इत्युत्तरं प्रयुज्यते । तत्र चैत्रान्यस्य सर्वस्य निषेधो न मात्रपदेन बोधयितुंशक्यः। चैत्रान्यदेवदत्तस्य तस्मिन्गृहे वर्तमानतादशायामपि चैत्रएवास्तीत्यु. तरस्य दृष्टत्वात् । अतः चैत्रान्यपत्रस्यैव निषेध्यतया तद्वन्मात्रपदेन चक्षुभिन्नत्वगिन्द्रियजन्यज्ञानविषयत्वं निषटुं शक्यतएवेति । सर्व पद्रस्य स्वरसतः सकलवस्तुबोधकत्वेपि चैत्रागतः मैत्रआगतः विष्णुमित्र आगतः सर्वे आगताः इत्यत्र प्रकान्तयावद्वस्तुबोधकत्वस्ये रसादिलक्षणं २९ रसनग्राह्यो गुणो रसः॥ घ्राणग्राह्यो गुणो गन्धः ॥ त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः ॥ व अस्मिन्यूह चैत्री मैत्रश्च किं वर्तते इति प्रश्नस्थले उत्तरवाक्यघट- कैवकारस्य पूर्वप्रसक्तमैत्रनिषेधकत्वसंभवेपि प्रकृते रूपं किं चक्षषा गिन्द्रियेणच गृह्यते इति प्रश्नाभावात् मात्रपदेन त्वगिन्द्रियग्राह्यत्व स्य विशिष्य निषडुमशक्यत्वात् न्यायबोधिनीकारोक्तमात्रपदार्थस्य यथाश्रुतमूलार्थत्वासंभवात् ॥ रसनेन्द्रियनिरूपितजन्यताश्रयज्ञाननिरूपितविषयतावान्गुणः रसः। रसनेन्द्रियजन्यं यज्ज्ञानं अयं रसइति ज्ञानं । जन्यता ज्ञाननिष्ठा । जन्यताश्रयः ज्ञानं । जन्यताच रसनेन्द्रियेण निरूपि. ता। रसनेन्द्रियस्य जनकत्वात् । जन्यतायाः जनकतानिरूपित. त्वात् । तादृशज्ञाने रसो विषयः । विषयता रसनिष्ठा । विषय- ताश्रयः रसः। विषयताच ज्ञानेन निरूपिता भवति । तथाच रसने न्द्रियनिरूपितजन्यताश्रयज्ञाननिरूपितविषयतावानसो भवति । इति शाब्दबोधोपपादनं। रसनेन्द्रियजन्यज्ञानविषयत्वंसति गुणत्वं रसस्य लक्षणं । गुणत्वानुपादाने रसत्वजातौ अतिव्याप्तिः ॥ घ्राणेन्द्रियनिरूपितजन्यताश्रयज्ञाननिरूपितविषयतावान् गुणो गन्धः ॥ स्वगिन्द्रियमात्रेति । त्वगिन्द्रियमात्रनिरूपितजन्यताश्रयज्ञान निरूपितविषयतावान् गुणः स्पर्शः । चक्षुरिन्द्रियजन्यज्ञानाविषय. स्वे सति त्वगिन्द्रियजन्यज्ञानविषयत्व सति गणत्वं स्पर्शस्य लक्षणं । अत्र विशेषणप्रयोजनं न्यायबोधिन्यां वर्तत । परमाणुस्पर्शस्य अती- न्द्रियत्वेन केनापीन्द्रियेणाग्राह्यतया त्वगिन्द्रियजन्यज्ञाने अविषय- स्वादव्याप्तिः । अतः चक्षुरिन्द्रियजन्यज्ञानाविषय त्वगिन्द्रियजन्य ३० न्यायबोधिनीविषयमाला । एकादिव्यवहारहेतुः संख्या ॥ आद्यपतनासमवायिकारणं गुरुत्वं ॥ ज्ञानविषय जातिमत्त्वे सति गुणत्वं स्पर्शस्य लक्षणमिति जातिघटित परिष्कारः कार्यः । उक्तपरिष्कार परमागुम्पर्श अव्याप्तिनभवति । परमाणुस्पर्शनिष्ठस्पर्शत्वजातिः घटस्पनिष्ठस्पशत्वजानिरपि एकैव घटस्पर्शस्य त्यागान्द्रयण प्रत्यक्ष जाते या गुणा यादन्द्रियेण ग्राह्य ः तनिष्ठा जातिरपि तदिन्द्रियग्राह्या इात न्यायन घटस्पर्शनिष्ठस्पर्शत्व जातेः त्वगिन्द्रियेण ग्रहण परमाणस्पशनिष्ठस्पर्शत्वजातिरापि गृहीता भवति । उभयारेकत्वात् । तथाच त्वगिन्द्रियग्राह्या चक्षु- रिन्द्रियाग्राह्या या जातिः स्पर्शत्वरूपा जातिः। तादृशजातिमत्त्वस्य परमाणुस्पर्शपि सत्त्वात् लक्षणसंगतिः। अस्मिल्लक्षणे गुणपदानुपा- दाने वायावतिव्याप्तिः। प्राचीनमते वायोः त्वगिन्द्रियजन्यप्रत्यक्ष विषयत्वेन वायुत्त्वज़ातराप त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वात् चक्षु. सिंन्द्रयजन्यप्रत्यक्षाविषयत्वाच । तथाच चक्षुरिन्द्रियाग्राह्या त्वगि न्द्रियग्राह्या या जातिः वायुत्वरूपा जातिः । तादृशजातिमत्त्वस्य वायाः सत्वादतिव्याप्तिः। अतो गुणपदं ॥ एकादिनिष्ठविषयतानिरूपकव्यवहानिष्ठजन्यतानिरूपित ज- नकतावती संख्या ॥ आद्यपतनासमवायिकारणं गुरुत्वं । असमवायिकारणपद- स्य समवायसंवन्धावच्छिन्नकार्यतानिरूपित समवायसंबन्धावच्छिन्न कारणतावानर्थः । आद्यपतनासमवायिकारणति समुदायस्य आधः पतननिष्ठसमवायसंबन्धावच्छिन्नकार्यतानिपत समवायसंवन्धाव. छिन्नकारणतावत् गुरुत्वमित्यर्थः । गुरुत्वं समवायसंबन्धेन ताल फले विद्यपानं सत् समवायसंबन्धन आद्यपतनं जनयति । जन्यं आद्यपतनं । जन्यता आद्यपसननिष्ठा। जन्यतायां समवायसंबन्धो द्रवत्वादिलक्षणं ३१ आद्यस्यन्दनासमवायिकारणं द्रवत्वं ।। चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः ।। ऽवच्छेदकः । समवायसंबन्धावच्छिन्ना जन्यता । जनकं आद्यपतनं । जनकतायां समवायसंबन्धोऽवच्छेदकः । समवायसंबन्धावच्छिन्ना जनकता। अब जन्यतायां समवायसंबन्धावच्छिन्नत्वानिवेशे उपरि चरवसोरदृष्टेऽतिव्याप्तिः। तादृशादृष्टमपरिचरवसी समवायसंबन्धन विद्यमानं सत् स्वजन्यभोगाश्रयत्वसंबन्धेन पतनं जनयति । जन्य पतनं । जन्यतायां स्वजन्यभोगाश्रयत्वसंबन्धोऽवच्छेदकः । स्वं पतनं । स्वजन्यभोगः अहं दुःखीति दुःखानुभवः । तदाश्रयः उपरिचर- वसुः। अतः तत्रातिव्याप्तिवारणाय समवायसंबन्धावच्छिन्नत्वं निवेश नीयं । निवेशे नातिव्याप्तिः। उपरिचरवसुपतननिष्टजन्यतायाः स्वजन्यभोगाश्रयत्वसंबन्धावच्छिन्नत्वेन समवायसंबन्धावच्छिन्नत्वा भावात् ॥ आयस्यन्दननिष्ठसमवायसंबन्धावच्छिन्नकार्यतानिरूपित सम. वायसंबन्धावच्छिन्नकारणताश्रयत्वं द्रवत्वस्य लक्षणं । भगीरथा दृष्टे अतिव्याप्तिवारणाय आद्यस्यन्दननिष्ठजन्यतायां समवायसंव- धावच्छिन्नत्वं निवेशनीयं ॥ चूर्णादीनां पिण्डीभावः चूर्णादिपिण्डीभावः । षष्ट्याः आधे. यतार्थः । आधेयतायां चूर्णादेः निरूपितत्वसंवन्धेनान्वयः । तथाच चूर्णादिनिरूपिता आधेयता। आधेयनायाः पिण्डीभावे आश्रयतासंबन्धेनान्वयः। तथाच चूर्णादिनिरूपिताध्यताश्रयः पिण्डी भावः। पिण्डीभावस्य हेतुः पिण्डीभावहेतुः । षष्ट्याः जन्यतार्थः । जन्यतायां पिण्डीभावस्याधेयतासंबन्धनान्वयः । तथाच चूर्णादि निरूपिताधेयताश्रयपिण्डीभावनिष्ठजन्यता। हेतुशब्दस्य जनकता वानर्थः। जनकतायां जन्यतायाः निरूपितत्वसंबन्धनान्वयः ।
न्यायवोधिनीविषयमाला श्रोत्रग्राह्यो गुणः शब्दः॥ सद्विविधः ध्वन्यात्मको वर्णात्मकश्चेति ॥ सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः ॥ सादिविधा स्मृति- रनुभवश्चेति ॥ संस्कारमात्रजन्यं ज्ञानं स्मृतिः॥ तथाच चूर्णादिनिरूपिताधेयताश्रयपिण्डीभावनिष्ठजन्यतानिरूपित जनकतावान् स्नेहः॥ श्रोत्रजन्यज्ञानविषयत्वे सति गुणत्वं शब्दस्य लक्षणं । ध्वनि: आत्मा स्वरूपं यस्य सः ध्वन्यात्मकः। वर्णः आत्मा स्वरूपं यस्य सः वर्णात्मकः॥ सर्वेचते व्यवहाराश्च सर्वव्यवहाराः। सर्वव्यवहाराणां हेतुः सर्वव्यवहार हेतुः । षष्ट्याः जन्यतार्थः । जन्यतायां सर्वव्यवहार- स्य आधेयतासंबन्धेनान्वयः । तथाच सर्वव्यवहारनिष्ठजन्यता । हेतुशब्दस्य जनकतावानर्थः । जनकतायां जन्यतायाः निरूपितत्व संबन्धेनान्वयः। सर्वव्यवहारकारणत्वं बुद्धेर्लक्षणं । केवलं संस्कारः संस्कारमात्रं । संस्कारमात्रात् जन्यं संस्कार मात्रजन्यं । पञ्चम्याः जनकतार्थः। जनकतायां संस्कारमात्रस्य आधेयतासंबन्धनान्वयः। संस्कारमात्रनिष्ठजनकता । जन्यपदस्य जन्यतावानर्थः । जन्यतायां जनकतायाः निरूपितत्वसंबन्धनान्वयः। तथाच संस्कारमात्रनिष्ठजनकतानिरूपितजन्यतावज्ज्ञानं । संस्कार मात्रजन्यत्वे सति ज्ञानत्वं स्मृतेर्लक्षणं । स्मृतिलक्षणेपि मात्रपदेन संस्कारतराजन्यत्वस्यैव विवक्षणं । मनइन्द्रियमादायासंभवस्तु संस्का. रेतराजन्यत्वस्थाने संस्कारेतरविशिष्टान्यत्वं निवेश्य चारणीयः । वैशिष्ट्यं च स्वप्रयोज्यत्वस्वाधिकरणवृत्तित्वाभयसंबन्धेन । एवंच न कोपि दोषः। मात्रपदेन बहिरिन्द्रियाजन्यत्वविवक्षणे सोऽहं सुखी यथाथानुगवलक्षणं तद्भिन्नं ज्ञानमनुभवः । स द्विविधः । यथार्थो ऽयथार्थश्चेति ॥ तद्धति तत्प्रकारकानुभवो यथार्थः ॥ तिप्रत्यभिज्ञायामतिव्याप्तिः। तस्याः प्रत्यभिज्ञायाः संस्कारजन्य त्वात् बाहरिन्द्रियाजन्यत्वाच ! अतः उक्तविवक्षणमोवश्यकं ॥ तस्याः भिन्नं तद्भिन्नं स्मृतिभिन्नं । पञ्चम्याः प्रतियोगितार्थः । तच्छब्दस्य स्मृतियः । प्रतियोगितायां स्मृतेः आधेयतासंबन्धेना न्वयः। तथाच स्मृतिनिष्ठप्रतियोगिता। भिन्नशब्दस्य भेदवदर्थः । भेदे प्रतियोगितायाः निरूपकतासंबन्धेनान्वयः। तथाच स्मृतिनिष्ठ प्रतियोगितानिरूपकभेढवत् ज्ञानं । तद्भिन्नं ज्ञानमनुभवः इत्यत्र तद्भिन्नमित्यरा स्मृतिभिन्नत्वमित्यर्थइति न्यायबोधिनीकारः। अत्रेदं बोध्यं । एवंसति अन्योन्याश्रयः। स्मृतिभिन्नत्वघटितलक्षणज्ञानं प्रति स्मृतिभिन्नत्वज्ञानं कारणं । घटितज्ञाने घटकज्ञानस्य कारण त्वात् । स्मृतिभिन्नत्वज्ञानं प्रति लक्षणज्ञानं कारणं। इतरभेदज्ञानस्य लक्षणज्ञानाधीनत्वात् । अतस्तद्भिन्नमित्यस्य स्मृतिभिन्नमिति नार्थः । किंतु संस्कारमात्रजन्यभिन्नमित्यर्थः ॥ सः अस्मिन् अस्तीति तद्वान् । तस्मिन् तद्वति । सप्तम्या: विशेष्यतार्थः । विशेष्यतायां तद्वतः आधेयतासंबन्धेनान्वयः। तथाच तद्वन्निष्ठविशेष्यता। विशेष्यतायाः अनुभवे निरूपकतासंबन्धेनान्वयः। तथाच तद्वमिष्ठविशेष्यतानिरूपकः । अनुभवः । तत्प्रकारकः सः प्रकारः यस्मिन् सः तत्प्रकारकः । यच्छन्दस्यानुभवोर्थः । सप्तम्याः निरूपितत्वमर्थः । प्रकारशब्दस्य प्रकारतावानर्थः । निरूपितत्वस्य प्रकारतायामन्वयः । तथाच अनुभवनिरूपिनप्रकारतावान् सइति विग्रहार्थः । समासार्थस्तु तन्निष्ठप्रकारतानिरूपकः अनुभवइनि । तद्वनिष्ठविशेष्यतानिरूपकत्वे सति तनिष्ठप्रकारतानिरूपकत्वे सति न्यायबोधिनीविषयमाला तदभाववति तत्प्रकारकोऽयथार्थः ॥ अनुभवत्वं यथार्थानुभवस्य लक्षणं । नन्वेवं सति घंटे घटत्वमिति प्रमायां घटःप्रकारः घटत्वं विशेष्यं । यत्सप्तम्यन्तं तत् ज्ञाने प्रकारः। प्रथमान्तं विशेष्यं । तच्छब्देन प्रकारो ग्राह्यः। तथाच सः घटः तद्वत् घटत्वमिति वक्तव्यं ! तच्च न संभवति । घटत्वे घटस्यासत्त्वात् । अतः अव्याप्तिः इतिचेदुच्यते । तद्वतीत्यत्र तत्संबन्धवतीति विवक्ष- णीयं । तथाच तत्संबन्धिनिष्ठविशेष्यतानिरूपकत्वे सति तन्निष्टः प्रकारतानिरूपकत्वं यथार्थानभवस्य लक्षणं । एवंसति घटे घटत्व मिति प्रमायां नाव्याप्तिः। घटत्वे घटस्थासत्वपि घटसंबन्धो वर्तते। घट आधारः। घटत्वमाधेयं । तथाच घटघटत्वयोः आधाराधेय भावरूपः संबन्धः । तद्वन्निष्ठविशेष्यतानिरूपिततनिष्ठप्रकारतानिरूप कानुभवत्वं यथार्थानुभवस्य लक्षणं । रजते इदं रजतमित्यनुभवे तच्छब्देन रजतत्वोपादाने तद्वत् रजतं । तद्वन्निष्ठा या विशेष्यता रजतनिष्ठा विशेष्यता। विशेष्यतानिरूपिता या तनिष्ठा प्रकारता रजतनिष्ठा प्रकारता। प्रकारतानिरूपकत्वस्य तादृशानुभवे सत्त्वा- न् । अत्र तच्छब्देन रजतत्वोपादाने अयंघटः इत्यनुभवे अव्याप्तिः । तच्छब्देन घटत्वोपादाने इदं रजतमित्यनुभवे अव्याप्तिः। तच्छन्द स्य तत्तद्व्यक्तिवाचकत्वेन एकदा घटत्वरजतत्वादीनां तच्छब्देन ग्रहीतुमशक्यत्वात् । अतः प्रकारताविशिष्ठविशेष्यतानिल्पकत्वं यथार्थानुभवस्य लक्षणं इति परिष्कर्तव्यं । प्रकारतावैशिष्ट्यं च स्व निरूपितत्व स्वाश्रयवनिष्ठत्वोभयसंबन्धन | स्वपदेन रजतत्त्वनिष्ठ प्रकारताया उपादाने स्वनिरूपितवं रजतनिष्ठविशेष्यतायां । एवं स्वाश्रयः रजतत्वं । खाश्रयवत् रजतं । तन्निष्ठवं विशेष्यतायां । एवंच उक्तोभयसंबन्धेन प्रकारताविशिष्टविशेष्यता रजतनिष्ठविशे- ध्यता । विशेष्यतानिरूपकवं अनुभवस्येति लक्षणसमन्वयः ॥ तस्य अभावः तदभावः । तदभावः अस्मिन्नस्तीति तद- भाववान् । तस्मिन् तदभाववति । षष्ट्याः प्रतियोगिसमर्थः। प्रीत.
अयथार्यानुभवलक्षणं योगितायां तच्छब्दार्थस्य आधेयतासंबन्धनान्वयः । तथाच तमिष्ठ प्रतियोगिता । प्रतियोगितायाः अभाव निरूपकत्वसंबन्धनान्वयः। तथाच तनिष्ठमतियोगितानिरूपकाभाववान् । सप्तम्याः विशेष्यता- र्थः। विशेष्यतायां अभाववतः आधेयतासंबन्धेनान्वयः । तथाच तनिष्ठप्रतियोगितानिरूपकाभावनिष्ठ विशेष्यता। विशेष्यतायाः निरूपकतासंबन्धेनानुभवेन्वयः । तथाच तन्निष्टप्रतियोगितानिरूप- काभाववनिष्ठविशेष्यतानिरूपकः अनुभवः। तदभाववनिष्ठविशे- ध्यतानिरूपकले सति तनिष्ठप्रकारतानिरूपकले सति अनुभवलं अ. यथार्थानुभवस्य लक्षणं । शुक्तौ इदंरजतमिति ज्ञानं अयथार्यानुभवः। तत्र तदभाववनिष्ठविशेष्यतानिरूपकत्वं वर्तते । तच्छन्देन प्रकारो ग्राह्यः । तत् रजतत्वं । तदभावः रजतलाभावः। तदभाववती शुक्तिः। साच ज्ञाने विशेष्या। विशेष्यता शुक्तिनिष्ठा । तदभाव- वनिष्ठा विशेष्यता । विशेष्यताया अनुभवो निरूपकः । तथा तनिष्ठप्रकारतानिरूपकलं च वर्तते । तत् रजतत्वं । प्रकारता रजत खनिष्ठा । तन्निरूपकश्चानुभवः । तदभाववन्निष्टविशेष्यतानिरूपकले. सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवलं अयथार्थानुभवस्य लक्षणं । एसति रंगरजतयोर्जायमानायां इमे रंगरजतेइति समूहा लंबनप्रमायामतिव्याप्तिः । तज्ज्ञाने रंगं विशष्यं । रंगांशे रंगलं प्रकारः । रजतं विशेष्यं । रजतांशे रजतत्वं प्रकारः । एवंच तत्. रजतवं । तदभावः रजतखाभावः । तदभाववत् रंगं । तथाच तज्ज्ञानं तदभाववभिष्टविशेष्यतानिरूपकं तनिष्ठप्रकारतानिरूपकंच भवति । अतः तत्रातिव्याप्तिवारणाय तदभावनिष्ठविशेष्यतानि- रूपकत्वावच्छिन्नतनिष्ठप्रकारतानिरूपकलं अयथार्थानुभस्य लक्षणं । इति परिष्करणायं । एवंसति अतिव्याप्तिन भवति । रंगनिष्ठविशे- ष्यतानिरूपकत्वावच्छिन्नं रंगखनिष्ठप्रकारतानिरूपकसमेव भवति । नतु रजतनिष्ठभकरतानिरूपकत्वं । ययोर्विषयतयोनिरूप्यनिरूपक- भावः तन्निरूपितविषयतयोः अवच्छेद्यावच्छेदकभावः ॥
न्यायबोधिनविषयमाला व्यापारवदसाधारणकारणं करणं ॥ कार्यनियतपूर्ववृत्ति कारणं ॥ तज्जन्यत्वे सति तजन्यजनकत्वं व्यापारस्य लक्षणं । तज्ज. न्यखमात्रोक्तौ घटादिरूपकार्ये अतिव्याप्तिः । अतः तज्जन्यजनक त्वमपि निवेशनीयं । तज्जन्यजनकत्वमात्रोक्तो कुलाले अतिव्याप्तिः । कुलालस्य दण्डजन्यघटजनकत्वात् । असाधारणकारणत्वं करण. स्य लक्षणमित्युक्तौ चक्रभ्रमणे अतिव्याप्तिः। चक्रभ्रमणस्य कार्य त्यातिरिक्तघटत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वात् । व्या- पारवत्त्वमात्रोक्तो काले अतिव्याप्तिः । कालस्य सर्वकार्यप्रति कारण त्वेन चक्रभ्रमणं प्रत्यापि कारणत्वात् । अतः जनकतासंबन्धेन चक्र भ्रमणात्मकन्यापारवत्त्वस्य काले सत्त्वेनातिव्याप्तिः । तद्वारणाय असाधारणकारणत्वनिवेशः। कार्यत्वावच्छिन्नकार्यतानिरूपितकार- णताश्रयत्वं साधारणकारणस्य लक्षणं । कालः अदृष्ट ईश्वरश्च सा. धारणकारणं । तत्रेदं लक्षणं वर्तते । सर्वकार्यप्रति कालः कारणं । कार्य सर्व । कार्यता सर्वनिष्ठा। कार्यतावच्छेदकं कार्यत्वं । कार्य त्वावच्छिन्ना कायना । कारणं कालः । कारणता कालनिष्टा । कारणताच कार्यतानिरूपिता । तथाच कार्यत्वावच्छिन्नकार्यतानि- रूपितकारणताश्रयत्वं काले वर्तते इति लक्षणसमन्वयः ॥ कार्यव्यापकत्वे सति कार्यपूर्ववृत्तित्वं कारणस्य लक्षणं । घट प्रति दण्डः कारणं । तत्रदं लक्षणं वर्तते । कार्य घटः । कार्यव्याप- कत्वं दण्डस्य भवति । कार्यव्यापकत्वं नाम कार्याधिकरणवृत्त्यत्यन्ता भावापतियोगित्वं । कार्य घटः । कार्याधिकरणं कपालं । कार्या- धिकरणवृत्तिः योत्यन्ताभावः पटात्यन्ताभाषः। नतु दण्डात्यन्ता. भावः। दण्डस्यैव तत्र सत्त्वात् । तादृशाभावस्य प्रतियोगी पटः। अप्रतियोगी दण्डः । अप्रतियोगित्वं दण्डस्य । कार्यपूर्वचित्वं समवायिकारणलक्षणं कारणं त्रिविधं । समवाय्यसमवायिनिमित्तभेदात् । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणं। यथा त- न्तवः पटस्य । पटश्च स्वगतरूपादेः॥ नाम कार्यपागभावाधिकरणकालवृत्तित्वं । कार्यप्रागभावः घटमाग भावः । तदधिकरणकालः घटोत्पत्तेः पूर्वकालः। तद्वृत्तित्वं दण्डस्य । कार्यव्यापकत्वमात्रोक्तौ कार्ये घटे अतिव्याप्तिः । अतः पूर्ववृत्तित्वं । पूर्ववृत्तित्वमात्रोक्तौ गसभादावतिव्याप्तिः । अतः कार्यव्यापकत्वं देयं । कारणेन कार्ये जननीये व्यापारो वाच्यः । यथा कुठारण छेदनरूपे काय जननीये उन्नमनं व्यापारः । तथाच कार्य छेदनं कुठारोन्नपनं व्यापारः। सकलकार्येषु विद्यमानः अकार्येषु अवि. धमानः यो धर्मः स कार्यतावच्छेदकः ! घटे कार्यन्वं वर्तत घटत्वं च वर्तते । घटत्वं च कार्यत्वादन्यदेव । यथा चेत्रे पाचकत्वं ब्राह्म- णत्वंच वर्तते । ब्राह्मणत्वं पाचकत्वादन्यत् ॥ तन्तुः तादात्म्यसंबन्धेन स्वस्मिन् वर्तमानः सन् समवायसं. बन्धेन पटं जनयति । कार्य पटः । कार्यता पटनिष्ठा । कार्यतायां समवायसंबन्धोऽवच्छेदकः । येन संबन्धन यत्कार्यमुत्पद्यते । तनिष्ठ कार्यतायां तत्संबन्धः अवच्छेदकः । प्रकृते येन संबन्धेन समवाय संबन्धेन । यत्पटरूपकार्यमुत्पद्यते। तन्निष्ठकार्यतायां तत्संबन्धः सम बायसंबन्धः। अवच्छेदकः । तथाच समवायसंबन्धावच्छिन्ना पट निष्ठा कार्यता । यस्संबन्धो यस्यामवच्छेदकः सा तत्संबन्धावच्छिन्नति न्यायात् यस्संबन्धः समवायरूपसंबन्धः। यस्यां अवच्छेदकः पट निष्ठकार्यतायामवच्छेदकः । सा पटनिष्टकार्यता तत्संबन्धावच्छिन्ना समवायसंबन्यावच्छिन्ना । कारणं तन्तुः। कारणता तन्तुनिष्ठा । कारणतायां वादात्म्यसंबन्धः अवच्छेदकः । येन संवन्धेन यत्कारणं भवति । तन्निष्टकारणतायां तत्संबन्शेऽच्छेदकः । येन संबन्धन न्यायवोधिनीविषयमाला । तादात्म्यसंबन्धेन । यत् तन्तुः कारणं । तनिष्ठकारणतायां सन्तु- निष्ठकारणतायां । तत्संबन्धः तदात्म्यसंबन्धः अवच्छेदकः । तादा- त्म्यसंबन्धावच्छिन्ना कारणता। तन्तुनिष्ठकारणता पटनिष्ठकार्य- तया निरूपिता भवति । कार्यतायां समवायसंबन्धावच्छिन्नत्वानि. वेशे संयोगे अतिव्याप्तिः । तादात्म्यसंवन्धन संयोगः स्वस्मिन्वत मानः प्रतियोगितासंवन्धेन संयोगध्वंसं जनयति । संयोगध्वंस: कार्य । कार्यता संयोगध्वंसनिष्ठा । कार्यतायां प्रतियोगितासंबन्धो ऽवच्छेदकः । येन संबन्धन यत्कार्यमित्युच्यते तन्निष्ठकार्यतायां त. त्सबन्धाऽवच्छदकः । यन सबन्धन प्रतियोगितासबन्धन । यत् स योगध्वंसः । कार्यमित्युच्यते । ध्वंसनिष्टकार्यतायां प्रतियोगितासं- बन्धोऽवच्छेदकः प्रतियोगितासंबन्धावच्छिन्ना ध्वसनिष्ठकार्यता। तथाच प्रतियोगितासंवन्धावच्छिन्नसंयोगध्वंसनिष्ठकार्यतानिरूपित तादात्म्यसंवन्धावच्छिन्नकारणतायाः संयोगे सत्त्वादतिव्याप्तिः । अतस्तद्वारणाय कार्यतायां समवायसंबन्धावच्छिन्नत्वं निवेशनीयं । संयोगध्वंसनिष्ठकार्यतायाः प्रतियोगिता संबन्धावच्छिन्नत्वेन समवा- यसंबन्धावच्छिन्नत्वाभावान्नातिव्याप्तिः। तन्तवः पटप्रति किनिमित्तं समवायिकारणं भवतीति प्रश्ने पटस्य तन्तुषु समवायसंबन्धनोत्पद्य मानत्वात् इत्युत्तरं । वह्निसंयोगस्यापि दाहंप्रति कारणत्वसिद्ध्या दाहानुकूलशक्तिः वह्निसंयोगरूपगुणपि सिद्ध्यतीति मीमांसकमत कार्यानुकूलशक्तेः सर्वत्रांगीकार्यत्वात् एवं शक्तेः गुणवृत्तित्वं लभ्यते । जनकतासंबन्धेन जन्यं जनके वर्तते । जन्यतासंबन्धन जनक जन्ये वर्तते । विषयतासंबन्धेन ज्ञानं इच्छा कृतिश्च विषये वर्तते । विष- यितासंबन्धन विषयः ज्ञाने इच्छायां कृतौ च वर्तते। आधेयतासंबंधन अधिकरणं आधेये वर्तते । आश्रयतासंबन्धन आधेयं अधिकरणे वर्तते । प्रतियोगितासंबन्धन अभावः प्रतियोगिनि वर्तते । अनुयो- गितासंबन्धेन प्रतियोगी अभावे वर्तते ॥
असमवायिकारणलक्षणं m कार्येण कारणेनवा सह एकस्मिन्नर्थे समवेत सत्का रणमसमवायिकारणं ॥ यथा तन्तुसंयोगः पटस्य तंतु रूपं पटगतरूपस्य च ॥ समवायसंबन्धावच्छिन्नकार्यतानिरूपितसमवायसंबन्धावच्छि- नकारणताश्रयत्वं प्रथमासमवायिकारणस्य लक्षणं । तन्तुसंयोग: तन्तुषु समवायसंबन्धेन वर्तमानस्सन् समवायसंबन्धेन पटं जनयति। कार्य पटः । कार्यता पटनिष्ठा । कार्यतायां समवायसंबन्धी ऽवच्छेदकः । समवायसंबन्धावच्छिन्ना कार्यता । कारणं तंतुसंयो- गः । कारणता तन्तुसंयोगनिष्ठा । कारणतायां समवायसंबन्धो ऽवच्छेदकः । समवायसंबन्धावच्छिन्ना कारणता । कारणता च कार्यतानिरूपिता। तथाच तादृशकारणताश्रयत्वं तन्तुसंयोगे वर्तते इति लक्षणसमन्वयः। समवायसंबन्धावच्छिन्नकार्यतानिरूपित ख- समवायिसमवेतत्वसंबन्धावच्छिन्नकारणताश्रयत्वं द्वितीयासमवायि कारणस्य लक्षणं। पटरूपंपति तन्तुरूपं द्वितीयासमवायिकारणं । तत् वसमत्रायिसमवेतत्वसंबन्धेन पटे वर्तमानं सत् समवायेन पटरूपं जनयति । कार्य पटरूपं । कार्यता पटरूपनिष्ठा ।। मीमांसकैकदेशभामते प्रत्यक्षानुमानादिवत् अनुपलब्धिरिति प्रमाणान्तरं । चक्षुरिन्द्रियेण घटपटादिप्रत्यक्षवत् अनुपलब्धिप्रमाणेना- भावपमा जायते । प्रतियोग्यारोपजन्यारोपविषयोपलब्ध्यभावो ऽनुपलब्धिः। संयोगेन घटवति भूतले समवायेन घटाभावः। सम- वायन घटवति कपाले संयोगेन घटाभावः । एवं कालिकादिसंब- न्धभेदेन एकस्यैव घटस्यानेकाभावो द्रष्टव्यः। अन्योन्याभावपति- योगिता सर्वापि तदात्म्यसंबन्धावच्छिन्ना। प्रतियोगितावच्छेदकधर्म भेदेनान्योन्याभावानां भेदः। प्रतियोगितावच्छेदकविशिष्टपतियो- गिना साकं अभावस्य विरोधः। केवलप्रतियोगिना साकं अभाव स्य विरोधांगीकारे केवलदेवदत्तवति भूतले दण्डविशिष्टदेवदत्ताभावो न स्यात् । विशिष्टाभावविरोधिनः देवदत्तरूपप्रतियोगिनः विद्यमा- न्यायबोधिनीविषयमाला नत्वात् । प्रतियोगितावच्छेदकं दण्डविशिष्टदेवदत्सत्यं । केवलदेव- दत्तवति भूतले दण्डविशिष्टो नास्ति । अन्योन्याभावां द्विविधः सामान्यभेदः विशेषभेदश्वति । स्त्रीभेदः सामान्यभेदः। डिस्थडि- वित्यादिभेदः विशेषभेदः। घटभेदापेक्षया घटपटोभय भेदोतिरिक्तः। घटपटोभयभेदः केवलान्वयी। घटभेदस्त घंटे नास्ति । घटातिरिक्त यावत्पदार्थेषु वर्तते । अभावबुद्धिसामान्य प्रतियोगितावच्छेदक- विशिष्टपतियोगिना साकमभावस्य वैशिष्ट्यविषयकं भवति । घटत्वेन पटो नास्तीति प्रतीतेः प्रतियोगितावच्छेदकविशिष्टप्रतियोगिवैशिष्ट्य विषयत्वं न संभवति । घटोत्पत्तेः पूर्व घटमागभावः कुत्र वर्तते इति चेत् कपाले वर्ततइति वक्तव्यं । कपालोत्पत्तः पूर्वं घटनागभावः कुत्र वर्तते इतिचेत् परमाणौ वर्तते इति वक्तव्यं । एवंसति परमाणौ वर्त- मानः घटमागभावः कपालोत्पत्त्यनन्तरं कपालंपति कथमागतः । मण्डुकादिवत् घटमागभावस्य चलनाभावादिति चेत् परमाणो विद्य- मानस्यैव घटप्रागभावस्य कपालोत्पत्यनन्तरं कपालन साकं स्वरूपा ख्यसंवन्धविशेषो भवति । चक्षुषा द्रव्ये कमानानां गुणकर्मजाती- नां प्रत्यक्षे जननीये संयुक्तसमवायः सन्निकर्षः । चक्षुस्संयुक्तः घटा दिः। तत्समवायः गुणकर्मजातिप्रत्यक्षे । गुणकर्मजातयः विषयाः। विषयता गुणकर्मजातिनिष्ठा । द्रव्यसमवेतनिष्ठापि भवति। द्रव्य. समवेताः गुणकर्मजातयः । तन्निष्ठा विषयता । साच विषयता लौकि- कविषयता भवान । षड्विधसन्निकर्षजन्यत्वात् । तथाच द्रव्यसम- वेतवृत्तिलौकिकविषयता संबन्धेन गुणकर्मजातिप्रत्यक्षं गुणकर्मजाति घु जायते । तत्र चक्षुस्संयुक्तसमवायः स्वरूपसंबन्धेन वर्तते । एवं द्रव्यसमवेतवृत्तिलौकिकविषयतासंबन्धन खाचप्रत्यक्षप्रति त्वक्संयुक्त समवायः कारणं । त्याचप्रत्यक्षं नाम त्वगिन्द्रियजन्यप्रत्यक्षं। इन्द्रि- यार्थसन्निकर्षजन्यत्त्वे सति ज्ञानत्वं प्रत्यक्षस्य लक्षणं । ज्ञानत्वमात्री तो अनुमित्यादावतिव्याप्तिः । इन्द्रियार्थसन्निकर्षजन्यत्वमात्रोक्तो इन्द्रियार्थसनिकर्षध्वंसे अतिव्याप्तिः। अतः उभयनिवेशः ।। ॥ इति प्रत्यक्षपरिच्छेदः ॥ :
श्रीराम जय। .. अनुमानप्रकरणप्रारंभः ॥ अनुमितिकरणमनुमान। परामर्शजन्यं ज्ञानमनु मितिः ॥ व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः ॥ अनुमितेः करणमनुमितिकरणं । करणशब्दस्य असाधारण कारणतावदर्थः। षष्ठ्याः निरुपितत्वमर्थः। निरूपितत्वस्य असा.. धारणकारणतायामन्वयः । तथाच अनुमितिपमानिरूपितासाधार- णकारणतावत्वमनुमानस्य लक्षणं ॥ परामर्शाजन्यं परामर्शजन्यं । पंचम्याः जनकतार्थः। जन- कतायां परामर्शस्य आधेयतासंबन्धेनान्वयः । तथाच परामर्शनिष्ठ जनकता। जन्यपदस्य जन्यतावदर्थः ! जन्यतायां जनकतायाः निरूपितत्वसंबन्धनान्वयः । तथाच परामर्शनिष्ठजनकतानिरूपित जन्यतावज्ज्ञानमनुमितिः । परामर्शनिष्ठजनकतानिरूपितजन्यताव- ते सति ज्ञानत्वमनुमितेर्लक्षणं ॥ यत्रयत्र धूमः तत्रतत्र वहिरिति व्याप्तिज्ञानं । पर्वतो धूमवा. निति हेतुज्ञानं । एतज्ज्ञानद्वयात् वहिव्याप्यधूमवान्पर्वतइति ज्ञानं जायते। सएव परामर्शः। व्याप्तिनिष्ठप्रकारतानिरूपकत्वे सति पक्षसंवन्धनिष्ठविषयतानिरूपकत्वे सति ज्ञानत्वं परामर्शस्य लक्षणं । ज्ञानत्वयात्रोक्तो घटज्ञानेऽतिव्याप्तिः। अतः पक्षसंबन्धनिष्ठविषयता निरूपकत्वं निवेशितं ! पक्षसंबन्धनिष्ठविषयतानिरूपकत्वे सति ज्ञान त्वमात्रोक्तौ धूमवान्पर्वतः इतिज्ञाने अतिव्याप्तिः। अतः व्याप्तिनिष्ठ प्रकारतानिरूपकत्वं निवेशितं । पक्षसंबन्धनिष्ठविषयतानिरूपकत्वा नुपादाने वहिव्याप्यो धूमः इति व्याप्तिज्ञानेऽतिव्याप्तिः। अतस्तदु- 0 ४२ न्यायबोधिनीविषयमाला पादानं । ज्ञानत्वानुपादाने पतिव्याप्पधूमवान्भवेत्पर्वतः इतीच्छाया पतिव्यातिः । अतः ज्ञानत्वं । विशिष्टवैशिष्ट्यावगाहि परामर्शः उप- लक्षितवैशिष्ट्यावगाहि परामर्शः इति द्विविधः परामर्शः । वहिव्या. प्यधूमवानिति परामर्श पर्वतांशे धूमस्य शुद्धसंयोगसंबन्धेन प्रकार- त्वे उपलक्षितवैशिष्ट्यावगाहीत्युच्यते। व्याप्त्यवच्छिन्नप्रतियोगिता निरूपकसंयोगसंबन्धन प्रकारत्वे विशिष्टवैशिष्ट्यावगाहीत्युच्यते । दण्डे रक्तत्वदशायां रक्तदण्डवानिति ज्ञानं विशिष्टवैशिष्ट्यावगाही- त्युच्यते । यदाकदाचिद्रक्तत्वे उपलक्षितवैशिष्ट्यावगाहीत्युच्यते । धूमव्यापकवयधिकरणवृत्ति धूपवान्पर्वतः इतिज्ञाने पर्वतांशे संयोग संबन्धन धूमः प्रकारः । धूमांशे स्वरूपसंबन्धेन वृत्तिः प्रकारः । वृत्यंशे निरूपितत्वसंबन्धेनाधिकरणं प्रकारः। अधिकरणांशे वह्निः संयोगसंबन्धेन प्रकारः। वन्ाशे स्वरूपसंबन्धेन व्यापकत्वं प्रकारः। व्यापकांशे निरूपितत्वसंवन्धेन धूमः प्रकारः । एतादृशपरामर्शन पर्वतो वह्निमानितिज्ञानं जायते सेवानमितिः। व्याप्तिज्ञानमनुमानं । तव व्यापारवद्भवति । परामर्शो व्यापारः। तादृशव्यापारवत् व्याप्तिज्ञानं । जनकतासंबन्धेन परामर्शो व्याप्तिज्ञाने वर्तते । व्याप्ति ज्ञानं च अनुमित्यसाधारणकारणं भवति । अनुमित्यसाधारणकार- णत्वं च कार्यत्वातिरिक्तधर्मावच्छिन्नानुमितिनिष्ठकार्यतानिरूपितका- रणताश्रयत्वं । अनुमिति प्रति व्याप्तिज्ञानं कारणं । कार्य अनुमितिः। कार्यता अनुमितिनिष्ठा । कार्यतावच्छेदकमनुमितित्वं । अनुमिति त्वावच्छिन्ना कार्यता । कार्यत्वातिरिक्तो यो धर्मः अनुमितित्वरूपी धर्मः । तदवच्छिन्ना या कार्यता अनुमितिनिष्ठा कार्यता । तनिरू- पिता या कारणता व्याप्तिज्ञाननिष्ठा कारमता । तदाश्रयत्वं व्याप्ति ज्ञानस्य । व्यापारवत्त्वमनिवेश्य अनुमित्यसाधारणकारणत्वमनुमान स्य लक्षणमित्युक्तौ परामर्श अतिव्याप्तिः । अनुमितिप्रति परामर्शस्या प्यसाधारणकारणत्वात् । अतो व्यापारवत्त्वं निवेशितं । परामर्श अनुमितिलक्षणं स्य व्यापारत्वेन जनकतासंबन्धेन व्यापारयत्वासंभवान्नातिव्यो- प्तिः। व्यापारवत्तमनुमानस्य लक्षणमित्युक्तौ काले अतिव्यातिः । कार्यसामान्य प्रति कालस्य कारणत्वेन परामर्शमत्यपि कारणत्वात् जनकतासंबन्धेन परामर्शरूपव्यापारवत्वस्य काले सत्त्वादतिव्याप्तिः। तद्वारणाय अनुमित्यसाधारणकारणलं निवेशनीयं । कालस्य सा- धारणकारणत्वान्नातिव्याप्तिः। परामर्शजन्यत्वेसति ज्ञानत्वमनुमिते लक्षणं । एवंसति परामर्शप्रत्यक्षे अतिव्याप्तिः। भूतले घटइति प्रत्यक्ष प्रति घटः कारणं । तद्वत् मम परामर्शो जातः इति प्रत्यक्षप्रति परा- मर्शः कारणं । अतः परामर्शजन्यत्वेसति ज्ञानत्वं परामर्शप्रत्यक्षस्य भवति । तद्वारणाय परामर्शजन्यतायां परामर्शनिष्ठजनकतायांवा सम चारसंबन्धावच्छिन्नत्वं निवेशनीयं । तथासति समवायसंबन्धावच्छिन्न परामर्शनिष्ठजनकतानिरूपितजन्यताश्रयत्वेसति ज्ञानत्वमित्येकं लक्ष- णं परामर्शनिष्ठजनकतानिरूपितसमवायसंबन्धावच्छिन्नजन्यताश्रयत्वे सति ज्ञानत्वं इत्यपरं लक्षणं लम्यते। परामर्शप्रत्यक्षे नातिव्याप्तिः। परामर्शः तादात्म्यसंबन्धेन स्वस्मिन्वर्तमानस्सन् विषयतासंबन्धेन परामर्शप्रत्यक्षं जनयति । नन्वेवंसति ज्ञानत्वं व्यर्थ । तादात्म्यसं- धन्धेन परामर्शः स्वस्मिन्बर्तमानस्सन् प्रतियोगितासंबन्धेन परामर्श ध्वंसं जनयति । परामर्शनिष्ठजनकता तादात्म्यसंबन्धावच्छिन्ना । ध्वंसनिष्ठजन्यता प्रतियोगितासंबन्धावच्छिन्ना । नतु समवायसंब. धावच्छिन्ना। अतः ध्वंसे अतिव्याप्ति संभवतीति ज्ञानत्वं व्यर्थ इतिचेन्न । संस्कारे अतिव्याप्तेः। समवायसंबन्धेन परामर्शः आत्म- नि वर्तमानस्सन् समवायसंबन्धन संस्कारं जनयति । एवमपि अयं स्थाणुर्वा पुरुषोवा इति संशयानन्तरं पुरुषत्वव्याप्यकरादिपानिति परामर्शेन अयं पुरुषइति प्रत्यक्षं जायते। तत्मत्यक्षे अतिव्याप्तिः । अतः पक्षतासहकृतपरामर्शजन्यत्वं विवक्षणीयं । अनुमितावेव पक्ष- ता कारणं । नपत्यक्षे । एवं परामर्शजन्यत्वेसति ज्ञानस्वमिति लक्ष- .४४ न्यायबोधिनीविषयमाला णस्य वह्निव्याप्यधूमवत्पर्वतवानयं देशइति ज्ञाने अतिव्याप्तिः। पक्ष- तासहकृतपरामर्शजन्यत्वविवक्षणेनातिव्याप्तिः॥ साध्यसंशयस्य पक्षतात्वे घनगर्जितेन मेघानमितौं व्यभिचारः। तद्वारणायांसपाधयिषाविरहांवांशष्टांसद्ध्यभावः पक्षतांतांववक्षणीयं । सिषाधयिषाविरहवैशिष्ट्यंच सिद्धौ स्वाधिकरणवृत्तित्वसंबन्धेन । स्वं सिषाधयिषाविरहः। खाधिकरणमात्मा। तद्वत्तिः सिद्धिः । वृत्तित्वं सिद्धः। स्वाधिकरणवृत्तित्वसंवन्धेन सिषाधयिषाविरहः सिद्धौवर्तते । सिषाधयिषा समवायसंबन्धन आत्मनि वर्तते । सिषाधयिषाभावः स्वरूपसंबन्धेन सिद्धौ वर्तते किल । स्वरूपसंबन्धेन सिपाधयिषा विरहवैशिष्ट्य सिद्धावुच्यतां । किं स्वाधिकरणत्तित्वसंबन्धेन वै. शिष्ट्यमुच्यते इतिचेत् सिषाधयिषाकालेपि स्वरूपसंबन्धेन सिषाध. विषाभावविशिष्टसिद्धेः सत्त्वादनुमितिर्नस्यात् । स्वाधिकरणवृत्ति त्वसंबन्धेन सिपाधयिषाभाववैशिष्ट्यनिवेशेतु आत्मनि सिपाधयिषा सत्वेन सिपाधयिषाभावासत्त्वात् स्वाधिकरणवृत्तित्वसंबन्धेन सिषा धयिषाऽभावविशिष्टा नभवति सिद्धिः। पर्वतो वह्निमानित्यनुमतिप्रति पर्वतोवतिमानिति सिद्धिः प्रतिबन्धिका । पर्वते वन्ह्यनुमिति जाय तामिति इच्छा उत्तेजिका । प्रतिबन्धककाले कार्यजननी उत्तेजिका। 'स्थाधिकरणत्तित्वसंबन्धेन इच्छाभावविशिष्टसिद्धिः प्रतिबंधिका । खं इच्छाभावः । स्वाधिकरणमात्मा । तद्वत्तिः सिद्धिः । तद्वृत्ति स्वं सिद्धेः। धूपो व्याप्यः। व्याप्यता धूमनिष्टा व्याप्यतावच्छेद के धूमत्वं । धूमत्वावच्छिन्ना व्याप्यता। अतः अवच्छेदकं धूमत्वं अवच्छेद्या व्याप्यता। साच व्याप्तिरेव । तथाच धूमत्वावच्छिन्ना व्याप्तिः। व्याप्तिश्च साध्यसमानाधिकरणहेतुतावच्छेदकं । हेतुता वच्छेदकंच धूमत्वं । अतः धूमत्वमेवावच्छेदकमवच्छेद्यं च भवतीति विरोधः। विरोधपरिहारस्तु धूमत्वत्वेन व्याप्तिर्भवति अवच्छेचं च भवति । धूमत्वं स्वरूपतः अवच्छेदकं भवतीति । धूमो वह्नि सिद्धान्तव्याप्तिलक्षणं . शयइति व्याप्तिज्ञानप्रति व्यभिचारज्ञानाभावः सहचारज्ञानं च हेतुः । व्यभिचारश्च हेतुसमानाधिकरणात्यन्ताभावप्रतियोगिताव. च्छदकसाध्यतावच्छेदकं । सहचारश्च साध्याधिकरणत्तित्वं । धूमो वह्निव्याप्यइत्यस्य धूमसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छ- दकवह्नित्वावच्छिन्नवह्निसमानाधिकरणइत्यर्थः । व्याप्तौ अव्यभिचा- र: सहचारश्चेति अंशद्वयं वर्तते । तत्र सहचारज्ञानं घटितज्ञाने घट. कज्ञानं कारणमिति न्यायेन कारणं । हेतुप्रति प्रतियोगितानवच्छेदकं साध्यतावच्छेद कमिति अव्यभिचारज्ञानप्रति प्रतियोगितावच्छेदक साध्यतावच्छेदकमिति व्यभिचारज्ञानाभावः प्रतिबन्धकाभावविध- या कारणं॥ सिद्धान्तव्याप्तिः । हेतुव्यापकसाध्याधिकरणवृत्तित्वं व्या- प्तिः। साध्यस्य हेतुव्यापकत्वनाम हेत्वधिकरणवृत्त्यत्यन्ताभावा प्रतियोगित्वं । साध्यं हतोयापकंचेत् व्याप्तिस्संभवति । अव्या- पकं चेदव्याप्तिः । पर्वतो वह्निमान् धूमादित्यत्र साध्यं हेतोर्व्यापक भवति । पर्वतो धूमवान् वः इत्यत्र साध्यं न हेतोर्व्यापकं भवति। वह्निमान्धूमादित्यत्रापि यथाश्रुते वह्नः हेतुव्यापकत्वं न संभवति । हेत्वधिकरणे पर्वते वर्तमानो योऽभावः महानसीयवन्ह्यभावः । प्रति- योगी। महानसीयवह्निः । एवं हेत्वधिकरणे महानसे वर्तमानः यो ऽभावः पर्वतीयवन्यभावः। प्रतियोगी पर्वतीयवह्निः । एवं सकलोपि वह्निः प्रतियोग्येव भवति । अतः हेतुव्यापकइत्यस्य हेत्वधिकरण वृत्त्यत्यन्ताभावप्रतियोगितानवच्छेदकधर्मवानित्यर्थो वाच्यः । एवं सति धूमवान् वह्नेः इत्यत्र धूमस्य हेतुव्यापकत्वापत्तिः। हेत्वधिकर- णवृत्त्यत्यन्ताभावप्रतियोगितनवच्छेदको यो धर्मः प्रमेयत्वरूपो धर्मः। तद्वत्त्वं धूमस्येति । अतः प्रतियोगितानवच्छेदकसाध्यतावच्छेदक- धर्मवत्वं हेतुव्यापकत्वमिति वक्तव्यं । एवंसति धूमस्य हेतुव्यापक त्वापत्तिर्न संभवति । साध्यतावच्छेदकं धूमत्वं हेत्वधिकरणबत्त्यत्य - ४६ न्यायबोधिनीविषयमाला ताभावप्रतियोगितावच्छेदकमेव भवतीति । एवंसति वृक्षः कपि संयोगी एतद्वृतत्वादित्यत्र साध्यतावच्छेदकं कपिसंयोगित्वं प्रति. योगितानवच्छेदकं न भवति । हेतुः एतद्वृक्षत्वं । हेत्वधिकरणं वृक्षः। तवृत्तियोंत्यन्ताभावः कपिसंयोगात्यन्ताभावः । अग्रे कपिसंयोग सत्यपि मूले कपिसंयोगाभावात् । तादृशाभावस्य प्रतियोगी कपि संयोगः । प्रतियोगितावच्छेदकं कपिसंयोगित्वं । अनवच्छेदकं न भवतीति अव्याप्तिः। तद्वारणाय हेत्वधिकरणस्यत्यन्ताभावे प्रति योग्याधिकरणात्तित्वं विशेषणं देयं । तथाच हेत्वधिकरणरत्तिः प्रतियोग्याधिकरणात्तिः योऽभावः तादृशाभावप्रतियोगितानवच्छ- दकसाध्यतावच्छेदकधर्मवत्वं हेतुव्यापकत्वं । एवंसति अव्याप्तिन भवति । हेत्वधिकरणवृत्तिः प्रतियोग्यधिकरणे अत्तिः योऽभावः पर्वतवृत्तिघटाभावः । प्रतियोगितावच्छेदकं घटत्वं । प्रतियोगिता. नवच्छेदकं कपिसंयोगित्वं । अतः हेतुव्यापकत्वं कपिसंयोगस्य भवति । पर्वतो वहिमान् धूमादित्यत्र वहः हेतुव्यापकत्वं नसंभवति । कालिकसंबन्धेन हेत्वधिकरणं कालः । तद्वृत्तिर्योत्स्न्ताभावः वन्य- भावः । प्रतियोगितावच्छेदकमेव वह्नित्वं । प्रतियोगितानवच्छेदक न भवति । अतः हेतुतावच्छेदकसंबन्धेन हेत्वधिकरणमिति वक्तव्यं । हेतुतावच्छेदकसंबन्धः संयोगसंबन्धः । घटः द्रव्यत्ववान् गुणकर्मा- न्यत्वविशिष्टसत्त्वादित्यत्राव्याप्तिः । साध्यं हेतुव्यापकं न भवति । साध्यं च द्रव्यत्वं । हेतुगुणकर्मान्यत्वविशिष्टसत्ता । विशिष्टसत्ता शुद्धसत्ताच एकैव । गुणे शुद्धसत्ता अस्तिचेत् विशिष्टसत्तापि वर्तते। हेत्वधिकरणं गुणः । तद्वृत्तिर्योत्यन्ताभावः द्रव्यत्वात्यन्ताभावः । प्रतियोगि द्रव्यत्व । अप्रतियोगि न भवति । अतः हेत्वधिकरण मित्यत्र हेतुतावच्छेदकरूपेण हेत्वधिकरणमिति वक्तव्यं । एवंसति नाव्याप्तिः। हेतुतावच्छेदकं गुणकर्मान्यत्वविशिष्टसत्तात्वं । विशि ष्टसत्तात्वेन रूपेण हेत्वधिकरण द्रव्यमेव भवति । तत्तिर्योत्यन्ता- पूर्वपक्षीयव्याप्तिलक्षणं भावः घटाभावः। नतु द्रव्यत्वाभावः। तथाच हेतुतावच्छेदकसं बन्धन हेतुतावच्छेदकरूपेण हेत्वधिकरणे वर्तमानः प्रतियोग्यधिकरणे अत्तिः योऽभावः तादृशाभावप्रतियोगितानवच्छेदकसाध्यतावच्छे दकधर्मवत्साध्याधिकरणकृत्तित्वं व्याप्तिरिति निष्कर्षः । इति सिद्धान्तव्याप्तिः ॥ अथ पूर्वपक्षीयव्याप्तिः । साध्यतावच्छेदकसंबन्धावच्छिन साध्यतावच्छेदकावच्छिन्न प्रतियोगितानिरूपकाभाववन्निरूपिताधेय त्वाभावो व्याप्तिः । पर्वतो वहिमान् धूमादित्यत्र धूमस्येयं व्याप्तिः संभवति। साध्यतावच्छेदकसंबन्धावच्छिन्नसाध्यतावच्छेदकाच्छि- नप्रतियोगितानिरूपकोयोऽभावः संयोगेन वन्ह्यभावः। कथमित्युक्ती वाभावस्य वह्निः प्रतियोगी। प्रतियोगिता वह्निनिष्ठा । प्रति- योगितावच्छेद वह्नित्वं । वह्नित्वावच्छिन्ना प्रतियोगिता। प्रति- योगितायां संयोगसंवन्धविच्छेदकः। येन संबन्धेन यन्नास्तीत्यु- च्यते लनिष्ठपतियोगितायां तत्संबन्धविच्छेदकः । प्रकृते येन सं- बन्धेन संयोगसंबन्धन । यत् वह्निः नास्तीत्युच्यते । तनिष्ठप्रतियोगि तायां वहिनिष्ठप्रतिगोगितायां । तत्संबन्धः संयोगसंवन्धः अवच्छे दकः । संयोगसंबन्धावच्छिन्नापतियोगिता । एवंसति साध्यताव- च्छेदकसंबन्धावच्छिन्नापि भवति । संयोगस्य साध्यतावच्छेदकसंबन्ध त्वात् । येन संबन्धेन साध्यमस्तीत्युच्यते स संबन्धः साध्यतावच्छे- दकसंवन्धः । एवं प्रतियोगिता साध्यतावच्छेदकधर्मावच्छिन्नापि भवति । वह्नित्वस्य साध्यतावच्छेदकधर्मत्वात् । साध्यवाचकपदेन यद्धविशिष्टं प्रत्याय्यते स धर्मः साध्यतावच्छेदकः । प्रकृते साध्य. वाचकपदं वह्निपदं । तेन च वह्नित्वविशिष्ट प्रत्यायर । स धमः वहिवरूपो धर्मः साध्यतावच्छेदकः। अभावश्व प्रतियोगितानि. रूपको भवति । एवंच साध्यतावच्छेदकसंबन्धावच्छिन्नसाध्यताव. च्छेदकावच्छिन्नमतियोगितानिरूपकाभावः संयोगेन बन्यभावः न्यायवांधिनीविषयमाला तद्वान् इदः । तद्वृत्ति जलं । तदवृत्तिधूमः । अत्तित्वं धूमस्य । एवंसति वृक्षः कपिसंयोगी एतदृक्षवादित्यत्र एतद्वक्षन्वे अव्याप्तिः। साध्यं कपिसंयोगः । साध्याभावः कपिसंयोगाभावः । साध्या भाववान् वृक्षः । तत्ति एतद्वृक्षत्वं । तद्वचित्वं एतदृक्षत्वस्येति तद- वृत्तित्वं नास्ति । अतः साध्याभाव प्रतियोगिव्यधिकरणत्वं निवेश- नीयं । प्रतियोगिव्यधिकरणत्वंच प्रतियोग्यधिकरणावृत्तित्वं । तथाच स्वप्रतियोग्यधिकरणे अवृत्तिः यः साध्याभावः गुणवृत्तिकपिसंयो- गाभावः । नतु वृक्षत्तिकपिसंयोगाभावः। युतइत्युक्तौ स्वपदेन वृक्षनिकापिसंयोगाभावग्रहणे स्वप्रतियोगी कपिसंयोगः । स्वप्रति- योग्यधिकरणे वृक्षे कपिसंयोगाभावस्यैव सत्त्वात । तथाच स्वपति योग्यधिकरणे अवृत्तिः यः साध्याभावः गुणवृत्तिकपिसंयोगाभावः । तद्वान् गुणः । तदवृत्ति एतदृक्षत्वं । तदवृत्तित्वं एनद्रुतत्वस्य । अतो नाच्याप्तिः। साध्याभावे प्रतियोगिवैयधिकरण्यनिवेश द्रव्यं गुण कर्मान्यत्वविशिष्टसत्तावत् द्रव्यत्वादित्यत्र द्रव्यत्वे अव्याप्तिः । साध्याभावः गुणकर्मान्यत्वविशिष्टसत्ताभावः । सच प्रतियोगि व्य. धिकरणो न भवति । कुतइत्युक्तौ प्रतियोगिव्यधिकरणइत्यस्य प्रति योग्यधिकरणेअकृत्तिरित्यर्थः । गुणकर्मान्यत्वविशिष्टमत्ताभावस्य प्रति योगिनी गुणकर्मान्यत्वविशिष्टसत्ता । प्रतियोग्यधिकरणं गणोपि भवति । विशिष्टसत्तायाः शुद्धसत्तायाथाभेदात् । तथाच गुणकर्मा न्यत्वविशिष्टसत्तारूपसाध्याभावः प्रतियोग्यधिकरणवृत्तिरेव । नतु तदवृत्तिः। अतः प्रतियोग्यधिकरणइत्यत्र प्रतियोगिनिष्ठाधेयतायां प्रतियोगितावच्छेदकधर्मावच्छिन्नत्वं निवेशनीयं । निवेशे च नाव्या प्तिः । गुणकर्मान्यत्वविशिष्टसत्ता द्रव्ये वर्तते । अधिकरणं द्रव्यं । अधिकरणता द्रव्यनिष्ठा । आधेयं गणकर्मान्यत्वविशिष्टसत्ता । आ- धेयता गुणकर्मान्यत्वविशिष्टसत्तानिष्ठा । आधेयतावच्छेदकं गुण- कर्मान्यत्वविशिष्टसत्तात्वं तदेव मुणकर्मान्यत्वविशिष्टसत्तारूपं यत्सा- पूर्वपक्षीयव्याप्तिलक्षणं यं तदभावंप्रतियोगितावच्छेदकं । तथाच तादृशमतियोगितावच्छे- दकरूपं यद्गुणकर्मान्यत्वविशिष्टसत्तात्वं तदवच्छिन्नाधेयतानिरूपका- धिकरणताश्रयो द्रव्यमेव । नत गुणः । तथाच गुणकर्मान्यत्वविशि- टसत्ताभावः प्रतियोग्यधिकरणे द्रव्ये अवृत्तिर्भवत्येवेति नाव्याप्तिः । एवं प्रतियोगिनिष्ठाधेयतायां प्रतियोगितावच्छेदकसंबन्धावच्छिन्नत्व मपि निवेशनीयं । अन्यथा वह्निमान्धूमादित्यत्र वन्धभावरूपसा- ध्याभावस्य प्रतियोगिव्यधिकरणत्वं न संभवति । प्रतियोग्यधिकरणं इदः । तत्र कालिकसंबन्धेन वह्नः सत्त्वात् । तथाच वन्यभावः प्रतियोग्यधिकरणवृत्तिरेव । नतु तदवृत्तिः । अतः प्रतियोगिनिष्ठा धेयतायां प्रतियोगितावच्छेदकसंबन्धावच्छिन्नत्वं निवेशनीयं । नि- वशे च वाभावस्य प्रतियोगिव्यधिकरणत्वं संभवति । प्रतियोगि व्याधिकरणलं च प्रतियोग्यधिकरणे अत्तित्वं । प्रतियोग्यधिकरण इत्यस्य प्रतियोगिनिष्ठा धेय तानिरूपिताधिकरणताश्रयइत्यर्थः । प्रति- योगिनिष्टाधेयतायां प्रतियोगितावच्छेदक संबन्धावच्छिन्नत्व निवेशे प्रतियोगितावच्छेदक संबन्धावच्छिन्नप्रतियोमिनिष्ठाधेय तानिरूपिता- धिकरणताश्रयेति प्रतियोग्यधिकरणेत्यस्यार्थः । एतादृशाधिकरणं पर्वतएव । नतु हृदः । संयोगेन बह्नः इदे असत्त्वात् । प्रतियोग्य- धिकरणे पर्वते वन्यभावः अवृत्तिरेव भवति । एवं साध्याभावव- दृत्तिवाभावइत्यत्र वृत्तिखाभावइत्यस्य वृत्तिखनिष्ठप्रतियोगितानि रूपकाभाव इत्यर्थः । वृत्तिखमिष्ठप्रतियोगितानिरूपको योऽभावः वृत्तिखघटोभयाभावोपि । उभयाभावस्य उभयं प्रतियोगि । प्रति. योगिता उभयनिष्ठा । वृत्तिखनिष्ठापि भवति । उभयाभावःधूमवान् वह्नः इत्यत्र बहिरूपहेतौ वर्तते इत्यतिव्याप्तिः । तद्वारणाय वृत्तिव. निष्ठप्रतियोगितायां वृत्तिखत्वावच्छिन्नवं निवेशनीयं । निवेशे नाति- व्याप्तिः । वृत्तिखघटोभयाभावप्रतियोगिताका उभयसावच्छिन्नलेन वृत्तिखखावच्छिन्नत्वाभावात् ॥ इति व्याप्तिवादः ॥ 7 न्यायबोधिनीविषयमाला' ॥श्रीरामो विजयते॥ ॥ हेत्वाभासलक्षणम् ॥ यदिषयकत्वेन ज्ञानस्यानुमितितकरणान्यतरपनि बन्धकत्वं तत्त्वं दोषसामान्यलक्षणम् ॥ यविषयकखेने त्यत्र तृतीयार्थोवच्छिन्नत्वं । ज्ञानस्य त्यत्र षष्ट्य र्थ आधेयत्वं । उभयोः प्रतिबन्धकत्वेन्वयः । तथाच ज्ञाननिष्टं अनुः मितितकरणान्यतरप्रतिबन्धकले यद्विषयकत्वावच्छिन्नं तत्वं दोष. त्वमित्यर्थः। तथाहि । दोपज्ञानं अनुमितिप्रतिबन्धकं । प्रतिवन्धकता दोपज्ञाननिष्ठा । दोपज्ञाने दोषो विषयः । विषयता दोषनिष्ठा । दोष निष्ठविषयता ज्ञाननिरूपिता। दोपनिष्ठविषयतानि रूपकं ज्ञा नं । दोपनिष्ठविषयतानिरूपकत्वं दोपज्ञाने वर्तते । तत्र दोषनिष्ठविष यतानिरूपकत्वं दोपज्ञाननिष्ठप्रतिबन्धकतायामवच्छेदकं । दोषस्य यत्पदनोपादाने यनिष्ठविषयतानिरूपकत्वामित्यस्य दोषनिष्ठविषय तानिरूपकत्वमित्यर्थो भवति । तथाच यनिष्ठविषयतानिरूपकत्वं अनुमितितत्करणान्यतरप्रतिबन्धकतावच्छेदकं स दोषइत्यों भवति। हदा हिमान्धूमादित्यत्र बन्ह्यभावबद्भदो दोषः । तस्येदं लक्षणं संभवति । यत्पदन वन्यभावबद्रदोपादाने यनिष्टविषयतानिरूपकरवं वाभावबद्भदनिष्ठविषयतानिरूपकत्वं । तच्च हुदो वाभाववानिति ज्ञाने वर्तते । तादृशज्ञाने बाह्यभाषच दो विषयः । विषयता वन्ह्य- भावव ददनिष्ठा। तादृशविषयतानिरूपकं हृदो वन्हाभाववानिति ज्ञानं . विपयतानिरूपकत्वं तादृशज्ञाने वर्तते । वन्ह्यभाववदनिष्ठविषय- तानिरूपके ह्रदो वन्यभाववानित्याकारकज्ञाने ह्रदो वह्निमानित्यनुः मितिप्रतिबन्धकता वर्तते । ताशप्रतिबन्धकतायां वन्ह्यभाषवद्रद मिष्टविषयतानिरूपकज्ञानत्वमवच्छेदकं वन्ह्य भावबढ्दो दोपः । एवं हेत्वाभासलक्षणं ५१ संवत्र यत्पदेन दोषमुपादाय प्रतिबन्धकतापदेन च दोषज्ञाननिष्ठपात वन्धकतामादाय लक्षणमुपपादनीयं । यभिष्टविषयतानिरूपकत्वमनु- मितितत्करणान्यतरप्रतिबन्धकतावच्छेदकं स दोषः । अत्र स्वरूप संबन्धरूपावच्छेदकत्वनिवेशे पर्वतो वह्निमान्धूमादित्यत्र बन्यभावो अतिव्याप्तिः । अनुमितिः पर्वतो बहिमान् इत्यनुमितिः । अनुमिति प्रतिबन्धक पर्वतो वह्यभाववानिति ज्ञानं । प्रतिवन्धकता ज्ञाननिष्ठा । प्रतिबन्धकतावच्छेदक पर्वतनिष्ठविषयतानिरूपकत्वं वन्ह्यभागनिष्ठ विषयतानिरूपकत्वं निश्चयत्वं च । एवंच यनिष्ठविषयतानिरूपकत्वं वन्यभावनिष्ठविषयतानिरूपकत्वंच । अतो वन्ह्यभावेऽतिव्याप्तिः । तद्वारणाय अवच्छेदकतापर्याप्त्यधिकरणत्वं विवक्षणीयं । एवमपि दो वहिमान् धूमादित्यत्र वन्यभावबद्भदे असंभवः। दो बन्यभाववानि ति निश्चयनिष्ठानुमितिप्रतिबन्धकतावच्छेदकतापर्याप्तः अप्रामाण्य ज्ञा. नानादितत्व बाह्यभावकद्रदनिविषयतानिरूपकत्व निश्चयत्वेत. त्रितये सत्तेन केवलंबन्यभाववदनिष्ठविषयतानिरूपकत्वे असत्त्वात्। अता व्यापकत्वरूपावच्छेदकत्वं निवेशनीयं । तत्प्रकारश्च अनुमिति प्रतिबन्धकत्वं यनिष्ठविषयतानिरूपकत्वव्यापकं सः दोष इति । एवमप्पसंभवः । हृदो वह्निमानित्यत्र बन्ह्यभाव वदनिष्टविषय तानिरूपकत्सस्य इदइति ज्ञाने सत्त्वेपि तत्रानुमिति प्रतिवन्धकत्व. स्याभावात् । अतो यद्विषयकत्वमित्यस्य यद्रूपावच्छिन्नविषयता- निरूपकत्वामत्यर्थो वाच्यः। एवंसात नासंभवः । यद्प पदन दोषनावच्छेदक धर्तव्यं । एवमाप यद्पावच्छिन्नविषयतानिरूप. कत्वस्य ह्रदो वन्य भाववानवेति संशये सत्त्वेपि तत्रानुमितिप्रति बन्धकत्वस्याभावादसंभवः । अतो यद्रूपावच्छिन्नविषयतानिरूपक निश्चयत्वव्यापकत्वं निवेशनीयं । एवं वन्धभाववान् इदो वह्निमा- नितेि. आहार्यज्ञाने यद्पावच्छिन्नविषयतासत्त्येपि अनुमितिप्रति- बन्धकत्वाभावादसंभवत्राणाय अनाहार्यत्वं निवेशनीयं । एवं अ- ५२ न्यायबोधिनीविषयमाला प्रामाण्यज्ञानानास्कन्दितत्वं निवेशनीयम् । अन्यथा इदं ज्ञानं अंप्रमे- ति अप्रामाण्यज्ञानकालीने ह्रदो वन्यभाववानिति ज्ञान प्रतिवन्धक- स्वाभावेनासंभवः स्यात् । लक्षणंतु यद्पावच्छिन्नविषयतानिरूप- कानाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयत्वव्यापकं अनुमितिपति- बन्धकत्वं सः दोषः इति ॥ यद्रूपावच्छिन्नविषयताव्यापिका प्रकृतानुमितिप्रतिबन्धकता- तद्रूपावच्छिन्नत्वं दोषसामान्यस्य लक्षणम् । ह्रदो वह्निमानित्यत्र वन्ह्यभाववढ्दो दोषः । यद्रूपं वन्ह्यभावहूदत्योभयं । यद्रूपावच्छि. नविषयता इदो वन्यभाववानिति ज्ञानीयवन्यभाषवद्रदनिष्ठाविषय ता। तादृशविषयता निरूपकतासन्धेन इदो वन्यभाववानिति ज्ञाने वर्तते । तत्र इदो वह्निमानित्यनुमितिप्रतिबन्धकतापि वर्तते इति यद्रूपावच्छिन्नविषयताव्यापकत्वस्य अनुमितिमतिबन्धकतायां सत्त्वा त् वन्ह्यभावबद्भदे लक्षणसमन्वयः ! इदमिहावधेयम् । यद्पाव- च्छिन्नविपयता कालिकेन वन्धभाववानिति ज्ञानेपि वर्तते । तत्र दो वहिमानित्यनुमितिप्रतिबन्धकता नास्ति । कुत इत्युक्तौ संयोगेन वाहि मानिति बुद्धिप्रति स्वरूपेण वन्यभाववत्तानिश्चयस्यैव प्रतिवन्धकत्वा त् । तथाचासंभवः । नच यद्रूपावच्छिन्नविषयतायां प्रकृतानुमिति प्रतिवन्धकतावच्छेदकत्वं निवेश्यते । कालिकेन वन्ह्य भाववानिति ज्ञानीयवन्ह्यभाववद्भदविषयतायां प्रकृतानुमितिप्रतिबन्धकतावच्छेद- कत्वाभावान्नासंभवइति वाच्यं । कालिकेन इदो बन्यभाववान व रूपेण हृदो वन्ह्यभाववानिति ज्ञानविशिष्टज्ञानस्य हुदो वह्निमानित्य- नुमितिप्रतिबन्धकत्वेन कालिकेन हुदो वन्ह्यभाववानिति ज्ञानीयवन्ह्य भाववद्रदाविषयतायाअपि प्रतिबन्धकतावच्छेदकत्वेनैवमसंभववार- गायोगादिति चेत् उच्यते । यादृशाधेयतासमानाधिकरणाविषयता व्यापिका प्रकृतानुमितिप्रतिबन्धकता तादृशाधेयतावत्वं दोषसामान्य स्य लक्षणम् । यादृशाधेयतापदेन स्वरूपसंबन्धेन वन्यभाववदनि- हेत्वाभासलक्षणं १३ साधेपत्ता ग्राह्या । सामानाधिकरण्यं च खाधिकरणवृत्तित्वं। स्वा- धिकरणत्वं च स्वावच्छेदकतापर्याप्त्यनुयोगितापच्छेदकतासंबन्धन अवृत्तित्वं च तेनैव संबन्धेन ॥ अनुमितिप्रतिवन्धकयथार्थज्ञानविषयत्वंवा हेत्वाभासत्वं । इदो वह्निमान् धूमादित्यत्र वन्ह्यभाववद्भदो दोषः। तत्रेदं लक्षणं घटते । अनु- मितिःइदो वह्निमानित्यनुमितिः। तत्मतिबन्धक यथार्थज्ञानं इदो वन्य- भाववानिति ज्ञानम् । तद्विषयः वन्यभाववद्रदइति लक्षणसमन्वयः । अनुमितिः पक्षः साध्यवान साध्यव्याप्य हेतुमान् इत्याकारकसमूहालं- वनरूपा। उक्तानुमितौ पक्षे साध्य भासते । तदंश साध्याभावव- स्पक्षज्ञानं साध्याभावव्याप्यप्रतिहेतुमत्पक्षशानंच प्रतिवन्धकं । पक्षे हेतुर्भासते । तदंश हेत्वभाववत्पशज्ञान प्रतिबन्धकं । एवंहेतो साध्य व्याप्तिर्भासते तदंश व्यभिचारज्ञान प्रतिबन्धक । हेतौ साध्याधिकरण बुत्तित्वं निवेशितम् । तदंशे साध्याधिकरणावृत्तित्वज्ञानं विरोधि । पक्षे पक्षतावच्छेदकज्ञानप्रति पक्षतावच्छेदकाभाववत्पक्षज्ञानं विरोधि। अनुमितिप्रतिबन्धकेत्यादिलक्षणं दोषस्यैव ना दुष्टस्य । तथासति दुष्टलक्षणस्यैव दोषेष्वतिव्याप्तिः संभवति । तथाहि हुदो वहिमान् धूमादित्यत्र वन्ह्यभाववदा दाषः । धूमो दुष्टः । वन्ह्यभाववद्भदः अनुमितिप्रतिबन्धकयथार्थज्ञानविषयो भवतीत्यतिव्याप्तिः । किंच हदो वन्ह्यभावधान घटश्चेति समूहालंबनज्ञानमादाय घटेतिव्याप्तिवार णाय प्रतिबन्धकतावच्छेदकविषयताश्रयत्वमिति वक्तव्यं । तथाच दुष्टेष्वसंभवः । दुष्टहेतविषयताया अनुमितिप्रतिबन्धकतावच्छेदकता विरहात् । नन दुष्टहेतुनिरूपणं प्रतिज्ञाय दोषलक्षणे कथिते प्रकृता संगतिारति चेत् उच्यते । दोषलक्षणे कथितेपि दोषवत्त्वं दुष्टानां लक्षणमिति स्वयं ज्ञातुं शक्यतया दुष्टानां लक्षणाकथनं न विरुद्धम् । अत्रानुमितिपदं अनुमितितत्करणान्यतरपरं । अन्यथा व्यभिचार ज्ञानस्य अनुमित्यप्रतिबन्धकतया अव्याप्तिः। व्यभिचारज्ञानं कृतो न्यायवोधिनीविषयमाला ऽनुमितिप्रति न प्रतिवन्धकमिति चेत् एकहेतो व्यभिचारज्ञानपि अन्य हेती व्याप्तिज्ञानेनानुमितेर्जननात् । व्यभिचारज्ञानं व्याप्तिज्ञानेना न्यथासिद्धं । तथाहि व्यभिचारज्ञानं अनुमितिप्रति न प्रतिबन्धक चत् को दोषः व्यभिचारज्ञानकालं अनुमितिर्जायतामिति चेत् तदानी परामशोस्ति नवा । अस्तिचत् व्यभिचार ज्ञानमप्रयोजकं । अ- सत्त्वे कारणाभावान्नानुमनिर्जायते । कुतोवा व्यभिचारज्ञानस्य प्रति बन्धकत्वं । अतः अनुमितिमात्रनिवेश व्यभिचारे अव्याप्तवारणाय अनुमितिपदं अनुमितितत्करणान्यतरपरं वाच्यं । यनिरूपणान न्तरं यनिरूप्यते तन्निरूपितसंगतिस्तत्र प्रदर्शनीया। प्रकृते सद्धेतु निरूपणानन्तरमसद्धेतुर्निरूप्यते । तत्र असतो सद्धतुसंगतिः प्र. दर्शनीया । संगतिश्च प्रकृत प्रसंगः । प्रसंगांनाम स्मनस्योपेक्षान- हत्वं । प्रकृते असद्धतः स्मृतिविषयः । सचापेक्षानः । अवश्यं निरूपणीयत्वात् । असद्धेतुस्मरणं च सद्धतनिरूपणाद्भवति । कथ मिति चेत् एकसंबन्धिज्ञानमपरसंवन्धिस्मारकमिति न्यायात् । तदर्षश्च ययोः पदार्थयोः संबन्धः पूर्व गृहीतः तयोरन्य तर ज्ञान अन्यतर स्य स्मरणं भवति । यथा हस्ति हस्तिपालकयोः पात्यपालकभाव रूपः संबन्धो गृहीतः । अनन्तरं हस्तिदर्शने हस्तिपालकस्मरणं भवति । एवं सद्धत्वसद्धत्वोः स्ववृत्तिधर्मविरुद्धधर्मवत्वरूपसंवन्धो गृहीतः । अनन्तरं सद्धेतज्ञाने असद्धेतुस्मरणं भवात । स्खं सद्धेतुः । स्ववृत्तिधर्मः व्याप्तिः पक्षधर्मत्वंच । तद्विरुद्धधर्मः व्याप्तिपक्षधर्मत्वो भयाभावः । तथाच सद्धेतुनिरूपणात्सद्धेतुज्ञाने जाते सद्धेनुज्ञानरूपै कसंबन्धिज्ञानादसद्धेतुरूपापरसंबन्धिस्मरणात् सद्भतुनिरूपितप्रसंग संगतिः असद्धताविति ज्ञातव्यं । एवमेककार्यजनकत्वमाप संगति भवति । एककार्य तत्वनिर्णयविजयरूपं । तज्जनकत्वं सदेतोरस देतोश्च । अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं दोषस्य लक्षणम् । इति हेत्वाभाससामान्य लक्षणम् ॥
साधारण्यासाधारण्यलक्षणं । साध्याभाववत्पक्षो पाधः । साध्याभावव्याप्यप्रतिहतुमत्पक्षः सत्प्रतिपक्षः । साध्याभाववत्तिहेतुः व्यभिचारः । साध्याधिकरणा वृत्तिर्हेतुः विरोधः । साध्यव्यापीभूताभावप्रतियोगिहेतुः असाधार ज्यं । त्वभाववत्पक्षः स्वरूपासिद्धिः । पक्षतावच्छेदकाभाववत्पक्षः आश्रयासिद्धिः। साध्यतावच्छंद काभाववत्साध्यं साध्याप्रसिद्धिः। हेतुतावच्छेदकाभाववद्धतुः साधनाप्रसिद्धिः । अत्यन्साभावापति- योगि साध्यं तादृशहेतुश्वानपसंहारः । एतेषां लक्षणंतु अनुमितित. करणान्यतरमनिबन्धकयार्थज्ञानविषयत्वं । साध्याभावववृत्तित्व साधारण्यदोषः । अयंच दोषः साधारणदुष्टहेतौ वाच्यः । पर्वतो चह्निमान् प्रमेयत्वादित्यत्र प्रमेयत्वरूपहेतुः साधारणदृष्टहेतुः । तत्र साध्याभावववृत्तिस्वरूपं साधारण्यं संभवति । साध्यं वह्निः । सा- ध्याभावः वन्ह्यभावः । साध्याभाववान् इदः । तत्ति प्रमेयत्वं । वृत्तित्वं प्रमेयत्वस्य । प्रमेयत्वरूपहेतो साथ्याभावयत्तित्वरूपसाधा- रंण्यदोषज्ञान जात अनन्तरं साध्याभाववदत्ति प्रमेयत्वमिति व्याप्ति ज्ञानं न भवति । तत्पकारकज्ञानस्य तदभावप्रकारकज्ञानप्रति प्रति. वन्धकत्वात् । इति साधारण्यनिरूपणम् ॥ साध्याधिकरणावृत्तित्वमसाधारण्यदोषः। शन्दो नित्यः शन्द खादित्यत्र शब्दत्वमसाधारण्यदोषविशिष्टम् । तस्य साध्याधिकरणावृ. त्तिवरूपासाधारण्यदोषस्संभवति । साध्यं नित्यत्वं । साध्याधिकरण माकाशं । तदवृत्तित्वं शब्दत्वस्य । अत्र शब्दत्वं नित्यत्वाधिकरणावृ: तीति असाधारण्यदोषज्ञाने जाते शब्दत्वव्यापकनित्यत्वाधिकरण वृत्ति शब्दत्वमि ते व्याप्तिज्ञानं न जायते । व्याप्तिज्ञाने शब्दत्वांशे नित्यत्वाधिकरणवृत्तित्वं भासते । अत: नित्यत्वाधिकरणावृत्ति शब्दत्वमिति ज्ञान नित्यत्वाधिकरणत्ति शब्दस्वमिति ज्ञानप्रति प्रति बन्धकं । तज्ज्ञाने तदभावज्ञानस्य मतिबन्धकत्वात् । दोपज्ञानस्या- नुमित्यनुत्पादः व्याप्तिज्ञानानुत्पादोषीमयोजनं । इत्यसाधारण्यनि- रूपणम् ॥
न्यायमोधिनीविषयमाला अनुपसंहारदोषः। अभावाप्रतियोगि साध्यं अभावापातयोगि हेतुश्च अनुपसंहारदोषः। एतदोषज्ञानं व्यतिरेकव्याप्तिज्ञानप्रति प्रति- बन्धकं । यथा घटोभिधेयः प्रमेयत्वादित्यत्र अमावाप्रतियोग्याभ धेयत्वं अभावाप्रतियोगि प्रमेयत्वं चानुपसंहारदोषः। एतज्ज्ञानं अभिधेयत्वाभावव्यापकाभावप्रतियोगिप्रमेयत्वामिनि व्यतिरेकव्याप्ति ज्ञानप्रति अनुपसंहारदोषज्ञान प्रतिबन्धकं । व्याप्तज्ञाने साध्ये अभावप्रतियोगित्वं भासते । एवं हेतौ अभावप्रतियोगित्वं भासते। अनुपसंहारज्ञाने साध्ये अभावाप्रतियोगित्वं भासते । हेतावप्यभावा प्रतियोगित्वं भासते । अतः अभावाप्रतियोगि अभिधेयत्वमिति अनुपसंहारज्ञानं अभिधेयत्वाभावव्यापकामावप्रतियोगिप्रमेयत्वमिति व्याप्तिज्ञानप्रतिबन्धकं । अतः अनुमितिकरणपदेन उक्तव्याप्तिहान मादाय लक्षणसमन्वयो बोध्यः । इत्यनुपसंहारनिरूपणम् ॥ साध्याभावव्याप्तिः विरोधदोषः । साध्याभावव्याप्तिविशि टहेतुः विरुद्धदुष्टहेतुः । शदो नित्यः कार्यवादित्यत्र कार्यत्वं हेतुः । सचविरुद्धदुष्टहेतुः । तत्रचंद लक्षणं वर्तते । साध्यं नित्यत्वं । साध्या भावः नित्यत्वाभावः । साध्याभावव्याप्तिः कार्यत्वरूपहेतोवैतते। यत्रयत्र कार्यत्वं तत्रतत्र नित्यत्वाभावः । यथा घटे । तथाच साध्या- भावव्याप्तिविशिष्टो हेतुरिति विरोधदोषज्ञाने सति पक्षः साध्यवा निस्यनुमितिर्नभवति । पक्षस्साध्यवानित्यनुमितौ साध्यव्याप्यो हेतु रितिज्ञानं कारणम् । साध्याभावव्याप्यो हेतुरिति ज्ञानं अनुमिति प्रतिबन्धकं । प्रकृते नित्यत्वाभावव्याप्यं कार्यत्वमिति ज्ञानेसांत शब्दः नित्यत्ववानित्यनुमिनिन भवति । शब्दः नित्यत्ववानित्यनुमितो नित्यत्वाभायच्याप्यकार्यत्ववान शब्बइति ज्ञानं तद्वत्ताबुद्धिप्रति तद. भावव्याप्यवत्तानिश्चयविधया प्रतिबन्धकं । प्रतिबन्धकता तादृश ज्ञाननिष्ठा । प्रतिककतावच्छेदकं नित्यत्वाभावव्याप्तिनिष्ठविषय सानिरूपकत्वं । कथमित्युक्तौ नित्यत्वाभावव्याप्यकार्यत्वमितिज्ञाने सत्प्रतिपक्षलक्षणं नित्यत्वाभावव्याप्तिर्विषयः । विषयता नित्यत्वाभावव्याप्तिनिष्ठा । विषयतानिरूपकं तादृशज्ञानं । विषयतानिरूपकत्वं नित्यत्वाभाव व्याप्यं कार्यत्वमिति ज्ञाने । नित्यत्वाभावव्याप्तिनिष्ठविषयतानि- रूपकवं अनमिनिप्रतिबन्धकतायामवच्छेदकं । यनिष्ठविपयता. निरूपकत्वं अनुमितिप्रतिबन्धकतायामवच्छेदकं सः दोषइति दोष. लक्षणे यत्पदेन नित्यत्वाभावव्याप्त्युपादाने यनिष्ठविषयतानिरूपक त्वं नित्यत्वाभावव्याप्तिनिष्ठविषयतानिरूपकत्वं नित्यत्वाभावव्याप्यं कार्यत्वमितिज्ञाने वर्तमानं अनुमितिप्रतिबन्धकतावच्छेदकं । सः नित्यत्वाभावव्याप्तिर्दोषइति लक्षणसंगतिः । इति विरोधदोषान- रूपणम् ॥ सत्पतिपक्षः । साध्याभावव्याप्यप्रतिहेतुमत्पक्षः सत्पतिपक्षः। दो वह्निमान् धूमादित्यत्र वन्ह्यभावव्याप्यजलवद्धदः सत्प्रतिपक्ष दोषः । एवं शब्दो नित्यः श्रावणत्वादित्यत्र नित्यत्वाभावव्याप्य कार्यत्ववच्छब्दः सत्पतिपक्षः। साध्यं नित्यत्वं । साध्याभावः नित्य स्वाभावः । साध्याभावव्याप्यः नित्यत्वाभावव्याप्यः यः प्रतिहेतुः कार्यत्वरूपहेतुः । तद्विशिष्टः यः पक्षः शब्दः । तथाच नित्यत्वाभाव व्याप्यकार्यत्ववच्छब्दः सत्यतिपक्षदोषइति भवति । नित्यत्वाभाव व्याप्यकार्यत्ववान शब्दइति सत्प्रतिपक्षदोषज्ञाने सति शब्दः नित्यः इत्यनुमितिनभवति । तत्मकारकबुद्धौ तदभावव्याप्यप्रकारकज्ञानस्य प्रतिबन्धकत्वात् । तथाच तल्पदेन नित्यत्वोपादाने तदभावव्याप्य प्रकारकं नित्यत्वाभावव्याप्यकार्यत्ववान् शब्द इति ज्ञानं भवति । तथाच यनिष्ठविषयतानिरूपकत्वं नित्यत्वाभावच्याप्यकार्यत्वत्रच्छन्द निष्टविषयतानिरूपकत्वं । तच्च नित्यत्वाभावव्याप्यकार्यत्ववान् शब्द इति ज्ञाने वर्तते । तादृशज्ञाने शब्दो नित्यः इत्यनुमितिप्रतिबन्धक ताच वर्तते । प्रतिबन्धकतायां नित्यत्वाभावव्याप्यकार्यलवर निष्टविषयतानिरूपकत्वमवच्छेदकं । वच्छब्द न्यायबोधिनीविषयमाला साध्याभावव्याप्यप्रतिहेतुविषयकपरामर्शकालीन साध्यव्या. प्यप्रकृतहेतुविषयकपरामर्शविषयत्वं सत्प्रतिपक्षत्वं । साध्यं नित्यत्वं । साध्यव्याप्यो यः प्रकृतहेतुः श्रावणत्वरूपहेतः । तद्विषयकः नित्य त्वव्याप्य श्रावणत्ववान् शब्द इति परामर्शः । तद्विषयः श्रावणत्व हेतुः। साध्यव्याप्यप्रकृत हेतुमान्पक्षः साध्याभावव्याप्यप्रतिहेतुमा- निति परामर्शसत्त्वे श्रावणत्वरूपहेतुः सत्प्रतिपक्षः। उक्तपरामर्श- यसो न काप्यनुमितिर्भवतीति प्राचीनमतम् । नवीनमतेतु प्रकृता नुमितिप्रतिबन्धकानुमितिजनकज्ञानविषयत्वं सत्प्रतिपक्षदोषस्य ल- क्षणम् । शब्दो नित्यः श्रावणत्वादित्यत्र नित्यत्वाभावव्याप्यकार्य त्ववच्छब्दः सत्प्रतिपक्षदोषः । तस्येदं लक्षणं संभवति । प्रकृतानु- मितिः शब्दः नित्यत्ववानित्यनुमितिः । तत्प्रतिबन्धकं यज्ज्ञानं शब्दः नित्यत्वाभाववानित्यनुमित्यात्मकं ज्ञानम् । तज्जनकं यज्ज्ञानं नित्यत्वाभावव्याप्यकार्यत्ववान शब्दः इति ज्ञानं तद्विषयः कार्यत्व रूपहेतुः । विषयत्वं कार्यन्वरूपहेतोः ॥ असिद्धिस्त्रिविधा आश्रयासिद्धिः स्वरूपासिद्धिः व्याप्यत्वा- सिद्धिश्शेति । तत्र पक्षतावच्छेदकामावविशिष्टपक्षः आश्रयासिद्धि दोषः । गगनारविन्द मुरभि अरविन्दत्वादित्यत्र गगनीयत्वाभाव विशिष्टारविन्दं आश्रयासिद्धिदोषः । गगनीयत्वनाम गगनात्पन्नत्वं । तथाच गगनीयत्वाभाववत् अरविन्दमिति निश्चयेसति गगना- रविन्दं सुरभि इति अरविन्दे गगनीयत्वावगाह्यनुमितिनोंदति । अनारविन्दं गगनीयत्वाभाववत् इति ज्ञान प्रतिवन्धकं । गगनारविन्द सुरभीति ज्ञान प्रतिवध्यं । प्रतिबन्धकता गगनीयत्वाभाववत् अरविन्द मिति निश्चयनिष्ठा । प्रतिबन्धकतावच्छेदकं गगनीयत्वाभावविशिष्टा रविन्दनिष्ठविषयतानिरूपकत्वं । तज्ज्ञाने गगनीयत्वाभावविशिष्टार- विन्द विषयः। विषयता अरविन्दनिष्ठा । विषयतानिरूपकं ज्ञानं । निरूपकलं ज्ञानस्य । तथाच दोषलक्षणे यत्पदेन गगनीयवाभाव असिद्धिलक्षणं विशिष्टारविन्दोत्वपादाने यनिष्ठविषयतानिरूपकत्वं गगनीयत्वाभाव विशिष्टारविन्दनिष्टविषयतानिरूपकत्वं । तत् गगनारविन्दं सुरभि इत्यनुमितिप्रतिबन्धकतायामवच्छेदकं । सःगगनीयत्वाभावविशिष्टार- विन्दं दोपः। इत्याश्रयासिद्धिः ॥ अथ स्वरूपासिद्धिः हेत्वभावविशिष्टपक्षः स्वरूपासिद्धिदोषः शब्दो गुणः चाक्षुषत्वादित्यत्र चाक्षुषत्वं हेतुः । शब्दः पक्षः। चाक्षु पत्वाभावविशिष्टशब्दः स्वरूपासिद्धिदोषः । तस्य दोषलक्षणं सं. भवति । यनिष्ठाविषयतानिरूपकत्वं अनुमितितत्करणान्यतरपति. बन्धकतावच्छेदकं सः दोषइति लक्षणे यत्पदेन चाक्षुषत्वाभावविशि शब्दोपादाने यनिष्ठविषयतानिरूपकत्वं चाक्षुषत्वाभावविशिष्टशद्ध निष्ठविषयतानिरूपकत्वं चाक्षुषत्वाभाववान् शब्दइति ज्ञाने वर्तते । नादृशविषयतानिरूपकत्वं शब्दः चाक्षुषत्ववानित्यनुमितिप्रति प्रति- बन्धकतावच्छेदकं । सः चाक्षुषत्वाभावविशिष्टशब्दः दोषो भवति । अनुमितिनकरणान्यतरप्रतिबन्धकयथार्थज्ञान विषयत्वरूपदोषलक्षण मपि संभवति । अनुमितिः शब्दो गुणः इत्याकारिकानुमितिः । तत्करणं चाक्षुषत्ववान शब्दइति हेतु ज्ञानं । तत्प्रतिबन्धकं यज्ज्ञानं चाक्षुषत्वाभाववान् शब्दइति ज्ञानं । तद्विषयः चाक्षुषत्वाभाववान् शब्दः । विषयत्वं शब्दस्य । इति स्वरूपासिद्धिः ॥ स.ध्यव्यापकत्वेसति साधनाव्यापकत्वमुपाधेलक्षणम् । एता. दृशोपाधिज्ञानं हतौ साध्यव्यभिचारज्ञानं जनयति । साध्याभावविशिष्ठः पक्षो बाधः। बहिरनुष्णः पदार्थत्वादि त्यत्र अनुष्णत्वाभाववद्वह्निर्वाधिदोषः । तस्यानुमितिपतिबन्धकज्ञान विषयवरूपदोषलक्षणं संभवति । अनुमितिः वहिरनुष्णइत्यनुमितिः । तत्पतिबन्धकं यज्ज्ञानं वह्निरनुष्णत्वाभाववानिति ज्ञानं । वह्निरनुष्ण इति ज्ञानप्रति वहिरनुष्णत्वाभाववानिति ज्ञानस्य तद्वत्ताबुद्धिप्रति तदभाववत्तानिश्चयविधया प्रतिबन्धकत्वात् । तद्विषयः अनुष्णत्वा- भावविशिष्टवाहिरित लक्षणसमन्वयः।
६० न्यायबोधिनीविषयमाला प्रकृतानुमितिप्रतिबन्धकतात्तिधर्मवत्वं हेत्वाभासस्य लक्षणं धर्मे प्रतिबन्धकतात्तित्वं च खाधिकरणवृत्त्यत्यन्ताभावापतियोगि त्वसंबन्धेन । खाधिकरणत्वंच स्वावच्छिन्नविषयकनिश्चयत्व संबन्धे न । इदो वह्निमान् धूमादित्यत्र वन्ह्यभाववदे लक्षणसमन्वयः । प्रकृतानुमितिः ह्रदो वह्निमानित्यनुमितिः तत्मतिबन्धकं यज्ज्ञानं दो वन्यभावनानिति ज्ञानं । प्रतिवन्धकता ज्ञाननिष्ठा । प्रतिवन्धकतायां बन्धभाववद्रदत्वरूपधर्मः स्वाधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्व संबन्धेन वर्तते । स्खं वह्यभाववद्रदत्वं । स्वाधिकरणं हृदो वन्ह्य- भावचानिति निश्चयः । तद्वृत्तियोंभावः घटाभावः । तत्पतियोगी घटः अप्रतियोगि प्रतिबन्धकत्वं । अप्रतियोगित्वं प्रतिबन्धकत्वे । खं भाववद्धत्वं स्वावच्छिन्नविषयकानश्चयः ह्रदो वन्यभाववानि ति निश्चयः। निश्चयत्वं तादृशनिश्चये। अनेन संबन्धेन वन्ाभाव वदत्वं निश्चये वर्तते इति । इति हेत्वाभासनिरूपणम् ॥ ॥श्रीरामो विजयते॥ ॥ उपमानपरिच्छेदः ॥ !.com उपमितिकरणमुपमानम् ॥ उपमितिप्रति व्यापारबदसाधारणकारणं उपमानं । उप- मितिः अयं गवयपदवाच्यः इत्याकारिका । एतादृशोपमितिप्रति गोसदृशो गवयः इत्याकारकातिदेशवाक्यार्थज्ञानं असाधारण कारणं । अतिदेशवाक्यार्थज्ञाने गोसदृशः विशेष्यः। विशेष्यता गोसशनिष्टा । विशेष्यतावच्छेदकं गोसदृशत्वं । गोसदृशत्वं च गोसादृश्यं । गोसादृश्यावच्छिन्ना विशेष्यता । तादृश विशेष्यता- निरूपकं ज्ञानं । गवयपदवाच्यत्वं प्रकारः । प्रकारता मवय. पद- वाच्यत्वनिष्टा । प्रकारतानिरूपकं ज्ञानं । तथान . गोसादृश्याव- .
शब्दपरिच्छेदः ६१ ६ च्छिचविशेष्यकगवयपदवाच्यत्वप्रकारकमित्यस्य गोसादृश्यावच्छिन्न विशेष्यतानिरूपकं गश्यपदवाच्यत्वनिष्ठपकारतानिरूपकमित्यर्थः । उपमाननिरूपणानन्तरं शब्दनिरूपणे का संगतिरित्युक्ती कार्यकारणभावसंगतिः । उपमानकार्योपमित्या शब्दकार्यशाब्दबोधों जायते । कारणं उपमितिः । कारणत्वमुपमिती वर्तते । तच्च कारण त्वं स्वाश्रयकारणतासंबन्धेन उपमाने वर्तते । खं उपमितिनिष्ठशाब्द- बोधकारणत्वं । खाश्रयः उपमितिः । स्वाश्रयकारणमुपमानं । खा. श्रयकारणत्वमुपमान । एवं कार्यत्वं शाब्दवोधे । खं कार्यत्वं । खाश्रयः शाब्दबोधः । स्वाश्रयकारणं शब्दः । खाश्रयकारणत्वं शब्दे। अनन संबन्धन कार्यत्वं शब्दे वर्तते । उपमाननिरूपणान: न्तरं शब्दनिरूपणंप्रति उक्तसंगतिः प्रयोजिका भवति । नवीनमते शक्तिज्ञानस्योपमितिरूपत्वात उपमितरुपमानजन्यत्वात्साक्षादेव का- र्यकारणभावः संभवति ॥ इत्युपमानपरिच्छेदः ॥ आप्तवाक्यं शब्दः ॥ आप्तस्तु यथार्थवक्ता॥ आप्तोच्चरितत्वेसति वाक्यत्वं शब्दप्रमाणलक्षणं । आलोच्चरि तत्वंच आप्तजन्योच्चारणकर्मत्वं । उच्चारणंच कण्ठताल्वाद्यभिघातसं योगानुकूलव्यापारः। उच्चारणकर्मत्वं च उच्चारणजन्यत्वं । प्रयो- गहेतुभूतयथार्थज्ञानवत्त्वं आप्तस्य लक्षणं । प्रयोगशब्दार्थो व्यवहारः। तथाच व्यवहारजनकयथार्थज्ञानवत्वं आप्तस्य लक्षणं । पर्वतो वति- मानिति शब्दप्रयोगो व्यवहारः। तंति पर्वता वह्रिमानिति ज्ञानं कारणं । अर्थ बुध्वा शब्दरचनेति न्यायेन व्यवहाररूपशब्दप्रयोगं प्रति अर्थज्ञानस्य कारणत्वात् । तथाच व्यवहारजनकं यज्ज्ञानं पर्वतो वह्निमानित्याकारकं ज्ञानं । तच्च ज्ञानं यथार्थ । तादृश- यथार्थज्ञानवत्वं पर्व नो वह्निमानिति शब्दप्रयोक्तरि चैत्रादावाप्लेवर्तत न्यायबोधिनीविषयमाला इति लक्षणसंगतिः। यथार्थज्ञानजन्यत्वसति वाक्यत्वं शब्दप्रमा- णस्य लक्षणं । पर्वती बतिमानिति वाक्यं शब्दप्रमाणं । तत्र यथार्थज्ञानजन्यत्वं वर्तते । यथार्थज्ञानं पर्वतो वह्निमानित्याकारक ज्ञानं । तज्जन्यं पर्वतो वह्निमानित्याकारकं वाक्यं । अर्थ बुध्या शब्दरचनेति न्यायात् । अस्मिन्लक्षणे यथार्थज्ञानजन्यत्व शब्दप्रमा. णस्य लक्षणमित्युक्तो यथार्थज्ञानध्वंसेतिव्याप्तिः। ध्वंसंप्रति प्रतियो- गिनः कारणत्वात् । अतः वाक्यत्वोपादान । वाक्यत्व मात्रोक्तो भ्रान्त- वाक्येऽतिव्याप्तिः। तद्वारणाय यथाथज्ञानजन्यत्वोपादानं । पद ज्ञानं शाब्दबोधप्रति कारणं। शक्तिज्ञानसाहाय्येन जायमानपदार्थों पस्थितिापारः। अनन्तरं शाब्दबोधः फलं भवात । तत्प्रकारच उपदेशादिना । गोएदस्य गौरर्थः । अंपदस्य कर्मत्वार्थः । नीङ्धातोः आनयनमर्थइति प्रथमतः शक्तिज्ञानं भवति । कदाचित् गामानयेति केनचिदुक्तवाक्यश्रवणे जाते गोः कर्मत्वस्य आनयनस्य च स्मरणं भवति । सएव व्यापारः। गामानयेति वाक्यश्रवणन गवानयना दीनां स्मरणं एकसंबन्धिज्ञानमपरसंबन्धिस्मारकमिरि न्यायन भवति । अस्य न्यायस्यायमर्थः । ययाः पदार्थयोः संबन्धज्ञानं जातं तयोर्मध्ये एकस्य ज्ञाने जाते अन्यस्य स्मरणं भवतीति । यथा हस्तिहस्तिपालकयोः पाल्यपालकभावरूपसंबन्धज्ञान जाते अनन्तरं कदाचित् हस्तिमात्रं हस्तिपालकं वा यदा पश्यति । तदा हस्ति दशनात् एतद्धस्तिरक्षकः पूर्वमागतइति हस्तिपालकस्य स्मरणं भवति। हस्तिपालकदर्शने वा अयं ताशहस्तिनमारूढ आगतइति हस्तिनः स्मरणं भवति । पाल्यपालकभावरूपसंबन्धज्ञानाकारश्च अयमंत- द्धस्तिनः पालकः इत्याकारकः । तथाप्रकृते इदं गोपदं गोवाचकं गौः गोपदस्य वाच्यः इत्याकारकं वाच्यवाचकभावरूपसंबन्धज्ञानं गोपदगोरूपाथयोभवति । अनन्तरं कदाचिद्रोपदश्रवणे गोपदरूपैक संबन्धिज्ञानात् गोरुपापरसंबन्धिनः स्मरणं भवति । एवं चैत्रपत्र शब्दपरिच्छेदः .. योः अविनाभावरूपसंबन्धज्ञाने जाते चैत्रमैत्रयोर्मध्ये एकस्य दर्श- ने अन्यस्य स्मरणं भवति । एवमेव तत्तत्पदस्य तत्तदर्थस्य च अय मेतत्पदवाच्यः इत्याकारकवाच्यवाचकभावसंबन्धज्ञाने जाते अनन्त रं कदाचित्पदश्रवणे अर्थस्य स्मरणं भवति । पदात्पदार्थस्मरणे जननीये पदनिरूपित शक्तिज्ञानं कारणं । तद्वत्पदनिरूपितलक्षणा- ज्ञानमपि कारणं । यथा गामानयेत्यत्र गोपदेन गोरूपार्थस्मरणे जननीये गोपदनिरूपितशक्तिज्ञान कारणं । गोपदानिरूपितशक्तिश्व गोपदात् गौर्बोद्धव्यः इतीश्वरसंकेतः । तादृशसंकेतः विषयतासंबन्धे न गवि वर्तते । संकेतएव शक्तिः। तद्वत् गङ्गायां घोषइत्यत्र गङ्गा पदेन तीरविषयकस्मरणे जननीये गङ्गापदनिरूपित शक्ति ज्ञानं कारणं न भवति । गङ्गापदनिरूपितशक्तेः तीरे अभावात् । कुतइत्युक्तौ गङ्गा पदेन प्रवाहो बोद्धव्यइतीश्वरस्य संकेतः नतु गङ्गापदात्तीरं बोद्धव्य मिति । अतो गङ्गापदन तीरस्मरणे जननीये गङ्गापदनिरूपितलक्ष. णाज्ञानं कारणं वाच्छ । लक्षणा च पदस्यार्थस्य च संबन्धविशेषः । सच गङ्गापदस्य स्ववाच्यसंबन्धः । स्वं गङ्गापदं । स्ववाच्या प्रवाहः। तत्संबन्धस्तीरे वर्तते । तथाच पदनिरूपितशक्तिर्नाम पदादर्थो वोद व्यइति संकेतः । लक्षणानाम पदार्थसंबन्धः । गङ्गापदस्य तीरे लक्ष- णानाम गङ्गापदार्थसंबन्धः । गङ्गापदार्थः प्रबाहः । तत्संबन्धः सं योगस्तीरे वर्तते । तीरं गङ्गापदशक्यमवाहसंबन्धीति लक्षणाज्ञान सत्से अनन्तरं कदाचिद्गङ्गायां घोषइति केनचिदुक्ते घोषः प्रवाह वृत्तिनभवतीति वाधज्ञाने सति गङ्गापदं तीरतात्पर्येण प्रयुक्तमिति तात्पयज्ञाने जाते तीरोपस्थितिर्भवति । अनन्तरं तीरे घोषइति शान्द योयो भवति । लक्षणा त्रिविधा । तत्र काचिल्लक्षणा लक्ष्यतावच्छे- दकरूपेण लक्ष्यमात्र बांधयाते। यथा गङ्गायां घोषइत्यत्र गङ्गापदस्य तीरे लक्षणा वर्तते । एषा लक्षणा लक्ष्यतावच्छेदकतीरत्वेन रूपेण न्यायबोधिनीविषयमाला तीरमात्रं बोधयति । लक्ष्यं तीरं । लक्ष्यता तीरनिष्ठा । लक्ष्यतीव- च्छेदकं तीरत्वं । गङ्गायां घोषइति वाक्येन तीरवृत्तिर्घोषइति शाब्द वोधोदयात् । इयं लक्षणा जहल्लक्षणेत्युच्यते । जहती शक्याथै परि त्यजन्ती लक्षणा जहल्लक्षणा। वर्तते चदं लक्षणं तत्र । सा लक्षणा गङ्गापदशक्यार्थ प्रवाई परित्यजनीति । तीरनिष्ठगङ्गापदलक्षणा गङ्गा पदनक्याथ प्रवाहं परित्यजतीत्यस्य कोऽर्थइतिचेत् गङ्गापदेन तीर- वृत्तिर्घोषः इत्याकारकशाब्दवोधे जाते तादृशशाब्दबोधे गङ्गापदार्थ प्रवाहो न भासते । यथा चैत्रो मैत्रं परित्यज्य ग्रामं गच्छतीत्युक्तो मैत्रस्य परित्यागोनाम ग्रामे प्रवेशाभावः । तथा गङ्गायां घोषइत्यत्र गङ्गापदलक्षणा गङ्गापदशक्यार्थ प्रवाहं परित्यजतीत्युक्तौ गङ्गापद लक्षणाजन्यशाब्दबोधे तौरवृत्चिर्घोषइत्या कारके प्रवाहो विषयो न भवतीति । तथाच यादशलक्षणाजन्यशाब्दबोधे शक्यार्थो न भासते सा लक्षणा जहल्लक्षणा । ननु गङ्गायां घोषइत्यत्र गङ्गापदस्य मङ्गा सीरे लक्षणामंगीकृत्य गङ्गातीरवृत्तिर्घोषः इत्याकारकशाब्दबोधांगी कारे इयं लक्षणा जहल्लक्षणैव । शाब्दबोधे शक्यार्थप्रवाहस्यापि विषयत्वात् । इति चन्न । यादृशलक्षणाजन्यशाब्दबोधे शक्यार्थस्य क्रियान्वयो न भासते सा जहल्लक्षणेत्यर्थात् । प्रकृते गङ्गायां घोषो वर्ततइति क्रियाधेियत्वे प्रवाहस्य निरूपकत्केनान्वयाभावात् । लक्ष्य शक्योभयं या लक्षणा बोधयति सा लक्षणा अजहल्लक्षणा । यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदस्य काकविडालकुक्कुटादि. लक्षणा। लक्षणानाम शक्यसंबन्धः । प्रकृते काकपदस्य काकः शक्यः। तत्संबन्धः विडालकुक्कुटादिषु वर्तते । सच संबन्धः स्वनाश्यनाशक त्वं । स्वं काकः । स्वनाश्यं दधि | तन्नाशको विडालादिः। नाश कत्वं बिडालादौ । अजहल्लक्षणेत्युक्तौ न जहातीत्यजहती अपरि त्यजन्ती शक्याथै या लक्षणा सेत्यर्थः । तथाच या लक्षणा लक्ष्या थमिव शक्यार्थमपि बोधयति साऽजहल्लक्षणा। काकेभ्यो दधि रक्ष्य- ।
হারবা ६५ । पदस्य पदान्तव्यतिरेकप्रयुक्तान्वयाननुभावकत्व माकांक्षा ॥ तामित्यस्य काकेभ्यः दधिनाशककुक्कुटबिडालादिभ्यः दधि रक्षणीय मित्यर्थः । एतादृशशाब्दवोधे काकेभ्यो दधिरक्ष्यतामित्यनेन जन- नीय काकपदस्य काकविडालकुक्कुटादिषु लक्षणा नियामिका। काका दिभ्यो दधि रक्षणीयमिति शाब्दबोधे विडालादिरिव काकोपि विष. यः। अतः काकपदलक्षणा काकं न जहाति । अतः काकपदलक्ष णा अजहल्लक्षणा। शक्यतावच्छेदकं परित्यज्य शक्यमानं या लक्षणा बोधयति सा जहदजहल्लक्षणा। यथा तत्त्वमसीत्यत्र वं अल्पज्ञसकि- शिष्टः तदसि सर्वज्ञत्वविशिष्टोसि इत्यर्थे उभयोर्विरोधेन ऐक्यायोगा त् खपदस्य अल्पज्ञत्वं परित्यज्य चेतनमात्रे तत्पदस्य सर्वज्ञत्वं परित्यज्य चेतनमात्रे लक्षणाङ्गीकारात् त्वचेतनः तच्चेतनाभिन्नः इति शाब्दबोधाङ्गीकारात् । तादृशशाब्दबोधे, सर्वज्ञत्वाल्पज्ञत्वयोर- विषयत्वात् । इयं लक्षणा जहदजहल्लक्षणा ॥ गामानयेत्यत्र गामिति द्वितीयान्तगोशब्देन गोनिष्ठं कर्मत्व- मित्याकारकशाब्दबोधे जननीये गोपदांपदयोः आकाङ्क्षा कारणं । साचाकांक्षा कीदृशीत्युक्तौ यत्पदविशेष्यकाव्यवहितोत्तरत्वसंवन्धेन यत्पदप्रकारकज्ञानाभावप्रयोज्यः यादृशशाब्दबोधाभावः अव्यवहि- तोत्तरत्वसंबन्धेन तत्पदस्य तत्पदवत्वमाकांक्षा । गामित्यत्र गोनिष्ट कर्मत्वमित्याकारकशाब्दबोधप्रति अव्यवहितोत्तरत्वसंबन्धेन गोपदवत् अंपदमित्याकारकज्ञानं कारणं । तादृशज्ञाने अंपदं विशेष्यं । गो. पदं प्रकारः। अव्यवहितोत्तरत्वंसंसर्गः। गोपदयत् अंपदमित्या कारकज्ञानसत्त्वे गोनिष्ठं कर्मत्वमित्याकारकशाब्दबोधो भवति । गोपदवत् अंपदमित्याकारकाकांक्षाज्ञानाभावे गोनिष्ठं कर्मत्वमित्या. कारकज्ञानाभावः इति स तत्प्रयोजकः। यस्मिन्सति यद्भवति । । 9 न्यायबोधिनीविषयमाला अर्थावाधो योग्यता ॥ पदानामविलंबेनोचारणं संनिधिः ॥ प्रति तस्य प्रयोजकलात् । यथा घटाभावं प्रति दण्डाभावः प्रयोज कः। यस्मिन्सति दण्डाभावे सति यद्भवति घटाभावो भवति । तं प्रति घटाभावप्रति सः दण्डाभावः प्रयोजकः । प्रकृते यस्मिन्सति गोपदवदंपदमित्याकारकज्ञानाभावे सति यद्भवति गोनिष्ठं कर्मत्व मित्याकारकशाब्दबोधाभावा भवतीति तंप्रति गोनिष्ठं कर्मसमित्या कारकशाब्दबोधाभावंप्रति सः गोपदवत् अंपदमित्याकारकज्ञानाभा- वः प्रयोजकः । यत्पदविशेष्यकाव्यवहितोत्तरखसंबन्धेन यत्पदम- कारकज्ञानाभावप्रयोज्यः यादृशशाब्दबोधाभावः तत्पदे तत्पदवत्व माकांक्षेति आकांक्षालक्षणे। यत्पदविशेष्यकेत्यत्र यत्पदेन अंपदोपादा ने यत्पदप्रकारकेत्यत्र यत्पदेन गोपदोपादाने अव्यवहितोत्तर खसंबन्धे न गोपदवदंपदमित्याकारकज्ञानाभावप्रयोज्यः गोनिष्ठं कर्मखमित्या. कारकशाब्दबोधाभावइति गोनिष्ठं कर्मखमित्याकारकशाब्दबोधे जन- नीये तत्पदे अंपदे तत्पदवत्वं गोपदवत्त्वं गोपदांपदयोराकांक्षा || योग्यतानाम बाधनिश्चयाभावः। बाधनिश्चयः प्रतिबन्धक निश्चयः। यथा अनिना सिञ्चतीत्यत्र सेचनकरणमग्निरिति शान्द. बोधे जननीये सेचनकरणत्वाभाववाननिरितिनिश्चयः प्रतिबन्धकः। स एव बाधनिश्चय इत्युच्यते । सेचनकरणमग्निरिति बुद्धिमति सेच. नकरणत्वाभाववानग्निरिति निश्चयः तदभावप्रकारकनिश्चयविधया प्रतिबन्धकः । जलेन सिञ्चतीत्यत्र जलं सेचनकरणत्वाभाववदिति निश्चयाभावो योग्यता । स एव बाधनिश्चयाभावः ॥ अविलंबेनोचारणं व्यवधानाभावविशिष्टं पदकर्मकमुच्चारणं सनिधिरित्यर्थः ॥ इति शब्दपरिच्छेदः ॥ इति कामाक्षी संगृहीता ॥ न्यायपोधिनीविषयमाला संपूर्णा ॥
६७ श्रीरामो विजयते ॥ नीलकण्ठीयविषयमाला ननु मंगलस्य कतव्यत्वे किं प्रमाणमितिवेन्न । शिष्टाचारानुमितश्रुतेरेव प्रमाणत्वात् । तथाहि मंगलं वेदबोधितकर्तव्यताकं अलौकिकाविगीतशिष्टाचारवि षयत्वात् दर्शादिवत् ॥ वह्निः अनुमितइति व्यवहारे अनुमितइत्यस्य अनुमितिविधेय इत्यर्थः । नतु अनुमितिविषयइति । तथासति पर्वतो वह्निमानित्य- नुमितो वहेरिव वह्नितस्यापि विषयखात् अनुमितिविषयवरूपानु- मितवस्य वहिले सत्त्वात् वह्नितमनुमितमिति व्यवहारः स्यात् । अतः अनुमितपदस्य अनुमितिविधेयार्थकखमेवांगीकरणीयं । एवं विधेयविशेषणस्य विधेयत्वं नास्तीति नियमोंगीकरणीयः। अन्य- था पर्वतो वहिमानित्यनुमिती विधेयभूते वह्नौ विशेषणस्य वहित स्यापि विधेयखप्राप्त्या वह्रिखमनुमितमिति व्यवहारापत्तिः स्यात् । अतः विधेयाविशेषणस्य विधेयत्वं न संभवति । पर्वतो वह्निमानि- त्यनुमितौ वह्नित्वस्य वह्निरूपविधेये विशेषणत्वात् अनुमितिविधेय त्वं न संभवति । अतः वाहित्वमनुमितमिति व्यवहारस्य नापत्तिः। व्यवहारे व्यवहर्तव्यतावच्छेदकस्य कारणत्वात् वह्नित्वमनुमितमिति व्यवहारे अनुमितिविधेयत्वरूपानुमितत्त्वस्य च व्यवहर्तव्यतावच्छेद- कत्वात् अनुमितिविधेयत्वरूपव्यवहर्तव्यतावच्छेदकस्य वहित्वे अभा- वात् । एवंच मंगळ वेदबोधित कर्तव्यताकमित्यत्र मंगळमुद्देश्यं । घेदवोधितकर्तव्यताकत्वं विधेयं । विधेयविशेषणं वेदः। तथाच वेदस्य विधेयविशेषणत्वेन अनुमितिविधेयत्वरूपानुमितत्वस्याभावे न शिष्टाचारानुमितश्रुतेरिति व्यवहारः कथं संगच्छतइति शंकाभि.
६८ नीलकण्ठीयविषयमाला द्रव्यत्वजातिमत्त्वं गुणवत्त्वं वा द्रव्यसामान्यलक्षणं । प्रायः। विधेयविशेषणस्यापि विधेयत्वं संभवति । परंतु अनुमितः पूर्वमसिद्धस्य विधेयाविशेषणत्वेपि विधेयत्वं । प्रकृते वेदस्य विधेय विशेषणत्वेपि मंगळं वेदबोधितकर्तव्यताकमित्यनमितेः पूर्वमसिद्ध त्वात् विधेयत्वं नानुपपन्नं । अतः वेदस्यानुमितिविधेयत्वरूपानु- मितत्त्वस्य संभवेनानुमित श्रुतिरिति व्यवहारः संगच्छते । पर्वतो वह मानित्यनुमितेः पूर्वं वह्नित्वस्य सिद्धत्वात् तस्य विधेयत्वासंभवइति वह्नित्वमनुमितमिति व्यवहारस्य नापत्तिरिति सिद्धान्ताभिप्रायः । शिष्टाचारविषयत्वादित्यत्र शिष्टाचारात् इति हेतुःकुतो नोक्तः। नच आचारस्य प्रयत्नरूपत्वात् प्रयत्नस्य च समवायसंबन्धनात्मनि छत्वात् मंगळे अभावात् स्वरूपासिद्धिदोपः स्यादिति तत्परिहाराय आचारविपयत्वादिति हेतुरुक्तइति शंकनीयं । विषयतासंबन्धन प्रयत्नरूपाचारस्य मंगळे सत्वात् स्वरूपासिद्धिदोपो न भवतीति शंकाभिप्रायः । विपयतासंबन्धः कृत्यनियामकः आधेयताऽप्रयो- जकः । विषयतासंवन्धन प्रयत्न रूपाचारः मंगळे न वर्ततइति स्वरूपा सिद्धिदोषः अपरिहार्यएवेति आचारविषयत्वस्य हेतुत्वकथनं इति समाधानाभिप्रायः। स्वर्गरूपफलस्य वेदबोधितकर्तव्यताकत्वाभावे पि उद्देश्यतारूपकृतिविपयत्वसत्त्वेन व्यभिचारः। अतः कृतिविषय त्वादिति स्थाने कृतिविधेयत्वादिति विधेयतापर्यन्तानुसरणं कार्य । कृतिविधेयत्वं च यागएव वर्तते ॥ द्रव्यत्वति। संयोगजनकतावच्छेदकतया द्रव्यत्वजातिसिद्धि रिति भावः । द्रव्यनिष्ठसंयोगकारणता किंचिद्धर्मावच्छिन्ना कारण तात्वात् दण्डनिष्ठघटकारणतावत् । यत्रयत्र कारणतात्वं तत्र किं चिद्धर्मावच्छिन्नत्वं । दण्डनिष्ठघटकारणतायां कारणतात्वं वर्तते । दण्डत्वरूपकिंचिद्धर्मावच्छिन्नत्वं वर्तते । किंचिद्धर्मावच्छिन्नत्वव्याप्य लक्षणलक्षणं लक्ष्यतावच्छेदकसमनियतत्वमिति । लक्ष्यतावच्छे- दकव्यापकत्वेसति लक्ष्यतावच्छेदकव्याप्यत्वमित्यर्थः । कारणतात्ववती द्रव्यनिष्ठसंयोगकारणवा इति परामर्शकाले सिध्य- तो धर्मस्य जातित्वे लाघवमिति लाघवज्ञानसत्त्वे जातिरूपकिंचि धर्मावच्छिन्ना द्रव्यनिष्ठा संयोगकारणता इत्यनुमितिर्भवति । सच जातिरूपधर्मः द्रव्यत्वात्मकः । द्रव्यस्य द्रव्यत्वजातिमत्त्वं लक्षणमि. त्युक्तो लक्षणलक्ष्यतावच्छेदकयोस्क्यं भवति । लक्षणं द्रव्यत्व जातिः। लक्ष्यतावच्छेदकं द्रव्यत्वजातिः। अत उभयोरक्यामिति द्रव्यस्य द्रव्यत्वजातिमत्त्वं लक्षणं विहाय गुणवत्वं लक्षणमभिहितं । ननु पृथिवीत्यादिद्रव्यविभागोऽनुपपन्नः द्रव्यसामान्यस्य लक्षणाकथ नादितिचेत् न । गुणवत्वस्य द्रव्यसामान्य लक्षणतयाभिप्रत्तत्वात् । लक्ष्यतावच्छेदकव्यापकत्वं च लक्ष्यतावच्छेदकाधिकरणवृत्त्य त्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्वं । लक्ष्यतावच्छेद कव्याप्य त्वं च लक्ष्यतावच्छेदकाभाववदवृत्तित्वं । लक्ष्यतावच्छेदकव्याप्य- त्वं सल्लक्षणस्य लक्षणमित्युक्तौ गोः कपिलत्वं लक्षणमित्युक्तौ कपि- लत्वे अव्याप्तिदुष्टे अतिव्याप्तिः । घटस्य गगनं लक्षणमित्युक्तौ गगने असंभवदुष्टे चानिव्याप्तिः । गगनस्य कपिलवस्य च लक्ष्यताव- च्छेदकाभाववदत्तित्वात् । लक्ष्यतावच्छेदकं घटत्वं । लक्ष्यतावच्छे. दकाभाववान् पटः। तदत्ति गगनं । अत्तित्वं गगनस्य । यस्य लक्षणस्यातिव्याप्तिदोषो भवति तस्य लक्षणस्य हेतुत्वे व्यभिचार दोषः । अव्याप्तिदोपसत्त्वे भागासिद्धिदोषो भवति । भागासिद्धि रपि पक्षकदेशे हेत्वभावः । गौः इतरभिन्ना कपिलत्वात् इत्यत्र पक्ष कदेशे श्वेतगवि कपिलत्वस्यैवाभावात् । गौः इतरभिन्ना एकशफ- वत्त्वादित्यत्र पक्षे गवि एकशफस्याभावात्स्वरूपासिद्धिदोषः । येन लक्षणेन लक्ष्ये इतरभेदः साधयितुं शक्यते तल्लक्षणं व्यावर्तकलक्ष.
७० नीलकण्ठीयविषयमाला णं । येन लक्षणेन लक्ष्ये इतरभेदः साधयितुं न शक्यते तल्लक्षणं व्या. वहारिक लक्षणं । गोः सानादिमत्त्वं लक्षणमित्युक्तौ सानादि मत्वं व्यावर्तकं भवति । तथाहि । लक्ष्य पक्षीकृत्य लक्षणं हेतुं कृत्वा इतरभेदः साधनीयः । यथा गौः पक्षः । सानादिमत्त्वं हेतुः । इनरभेदः साध्यं । इतरभेदव्याप्यसानादिमत्त्ववनी गौः इति परा- मर्शत् गौः इतरभिन्नत्यनुमितिर्भवति । इतरभेदानमितिजनक सा- स्नादिमत्त्वं । अतः सानादिमत्त्वं व्यावर्तकं । व्यवर्तकमित्यस्य इतर भेदानुमितिजनकमित्यर्थः । गोः इतरभेदवत्त्वं लक्षणमित्युक्तौ इतर भंदवत्त्वरूपलक्षणं व्यावहारिकं । कुतइत्युक्तौ इतरभेदहेतुना गाव इतरभेदः साधयितुं न शक्यते । कुतइत्युक्तौ गौः इतरभिन्ना इतर भेदवत्त्वात् इति साधने हेतुसाध्ययोरैक्यात् इतर भेदरूपहेतः इतर भेदानुमितिजनको न भवति । अतो व्यावर्तको न भवति । किंतु गौः इतरभिन्ना इति व्यवहारजनको भवति । व्यवहारे व्यवहर्तव्य तावच्छेदकस्य कारणत्वात् । अत्र व्यवहारः इतरभिन्ना इति व्य- वहारः । व्यवहर्तव्यतावच्छेदकं इतरभिन्नत्वं । इतरभिन्नत्वं च इतर भेदएव । तथाच इतरभेदः व्यावहारिकलक्षणं भवति । व्यावर्तक इत्यस्य इतरभेदानुमितिजनकतावच्छेदकपकारताश्रयः इत्यर्थः । इतर भेदानुमितिः गौः इतरभिन्ना इत्याकारकानुमितिः । तज्जनकं इतर भेदव्याप्यसास्नादिमत्त्ववती गौः इत्याकारकपरामर्शात्मकं ज्ञानं । तत्र गौः विशेष्या। सानादिमत्त्वं प्रकारः। प्रकारता सानादि मत्वनिष्ठा । सास्नादिमत्त्वनिष्ठमकारता च ज्ञाननिष्ठतरभेदानुमिति जनकतायामवच्छेदिका । इतरभेदानुमितिजनकतावच्छेदकमकार- ताश्रयः सास्त्रादिमत्वं । प्रकारताश्रयत्वं सास्नादिमत्वस्य । विषय. ता विशेषत्यस्य प्रकारतेत्यर्थः। व्यावर्तकस्यैव लक्षणत्वे लक्ष्यताव च्छेदकसमनियतत्वे । सतीत्यध्याहर्तव्यं । तथाच लक्ष्यतावच्छेदक- समनियतत्वं व्यावर्तकलक्षणस्य लक्षणं चेत् इति तदर्थः । ननु व्या- लक्षणलक्षणं ७१ व्यावर्तकस्व लक्षणले व्यावृत्तावभिधेयत्वादौ चा तिव्याप्तिः । अतस्तद्धारणाय तद्भिन्नत्वं धर्मविशेषणं देयं ॥ वृत्तिरभिधेयत्वं प्रमेयत्वमित्येतत्सर्व व्यावहारिकं । लक्ष्यतावच्छेदक समनियतत्वं व्यावर्तकलक्षणस्य लक्षणं चेत् व्यावहारिके अतिव्या- प्तिः इत्येवं वक्तुं युक्तं । कुतः प्रत्येक व्यावृत्ताभिधेयत्वादौ चाति- व्याप्तिरित्युक्तमिति चेत् अयमाशयः । साध्यसंशयः पक्षता। साचा नुमितिप्रति कारणमिति प्राचीनमते गौः इतरभेदयत्वं लक्षणमित्यत्र इतरभेदो व्यावर्तको न भवति । तथाहि गोः इतरभिन्ना इतरभेद वत्वात् इतरभेदरूपलक्षणेन गवीतरभेदः साधनीयः। तच न संभवति । हेतसाध्ययोरैक्येन इतरभेदव्याप्येतरभेदवती गौः इति परामर्शस्य गौः इतरभिन्ना इति साध्यनिश्चयरूपत्वेन गौः इतर भिन्ना नवेति साध्यसंशयाभावेन पक्षताविरहात् गौःइतरभिनेत्यनुमितिर्न भवति । अतः इतरभेदः प्राचीनमते व्यावर्तको न भवति । इतर भेदानुमित्यिजनकत्वात् । नवीनमते इतरभेदव्याप्येतरभेदवती गौः इति परामर्शस्य गौः इतरभिनेति साध्यनिश्चयरूपत्वेपि अनुमिनुया- मितीच्छया गौः इतरभिन्नत्यनुमितिसंभवात् अनुमितिप्रति साध्य- संशयस्याकारणत्वात इतरभेदो व्यावर्तको भवति । इतरभेदानुमिति जनकत्वादिति नवीनमते इतरभेदो लक्ष्यएव । ननु व्यावर्तकत्वं च भेदानुमितिजनकत्वमिति न वक्तव्यं । तथासति भेदानुमितिजनक स्य लक्ष्यतावच्छेदकव्यापकत्वेसति लक्ष्यतावच्छेदकव्याप्यत्वं लक्ष- णमित्युक्तं स्यात् । तथाच व्यावृत्ती लक्षणलक्षणस्यातिव्याप्तिकथन मसंगतं भवति । कथमितिचेत् यद्यपि गोः इतरभेदवत्वं लक्षणमि- त्यत्र इतरभेदरूपलक्षणेन लक्ष्ये गवि इतरभेदः साधयितुं न शक्यते । हेतुसाध्ययोरैक्यात् । तथापि एतद्गवि तद्गोभेदः साधयितुं शक्यते ।
७२ नीलकण्ठोयविषयमाला तथाहि । एतद्गाः तद्गोभिन्ना। महिषादीतरभेदात् इति यत्किंचि छेदः साधयितुं शक्यते । अतः इतरभेदरूपव्यावृत्तिरपि इतरभेदा- नुमितिजनिकैव । अतो व्यावृत्तिरपि लक्ष्यैव । तस्मात् व्यावृत्तावति व्याप्तिकथनमसंगतमेव । भेदानुमितिजनकत्वं व्यावर्तकत्वमित्युक्ती अभिधेयत्वप्रमेयत्वादीनां यत्किचिदुपयत्वावच्छिन्नप्रतियोगिताक- भेदानुमापकतया तत्रातिव्याप्तिकथनमसंगतमेव । व्यतिरेकिधर्माणां शृङ्गित्वकपिलत्वादीनां केवलान्वयिभिन्नानां यत्किंचिढ्यावर्तकत्व मस्त्येव । कपिलगवि श्वेतगोभेदानुमितिजनकतया गवि अश्वभेदा- नामतिजनकतया भेदानुमितिजनकत्वं व्यावर्तकत्वमित्युक्तौ कपिल त्वं शृङ्गित्वं च भेदानमितिजनकत्वेन व्यावर्तकमेव भवति । कपिल त्वशृङ्गित्वयोः भेदानुमितिजनकत्वं कथमिति चेत् कपिलगौः श्वेतगो भिन्ना कपिलत्वात् गौः अश्वभिन्ना भृङ्गित्वात् इत्यनुमानसंभवेन कपिलत्वं शृंगित्वमपि भेदानुमितिजनकं भवति । अतो व्यावर्तकत्वे न लक्ष्यत्वात् तत्रातिव्याप्तिन भवति । अतो लक्ष्यतावच्छेदकव्या- पकन्वनिवेशनं व्यर्थं भवति । तस्मात्सामान्यसो भेदानुमितिजनक त्वं व्यावर्तकत्वमिसि न वक्तव्यं । किंतु पृथिवीत्वावच्छिन्नेतरभेदा नुमितिजनकस्य गन्धस्य पृथिवीत्वसमनियतत्वं लक्षणं पदार्थेतर भेदानुमितिजनकस्य पदार्थत्वसमनियतत्वं लक्षणमिति विशिष्य वक्तव्यं । तच्च न संभवति । पदार्थेतरस्याप्रसिद्धः । अभिधेयत्वादेः गोत्वव्याप्यत्वं च नास्ति । यत्रयत्राभिधेयत्वं तत्र गोत्वमिति व्याप्ति नास्ति । महिषादावभिधेयत्वं वर्तते तत्र गोत्वं नास्ति । सास्नादि मत्त्वं इतरभेदानुमितिजनकं गोमात्रवृत्तित्वात् । यः ययक्तिमात्र निष्ठः सः तदितरभेदानुमितिजनकः यथा गन्धः इत्यपि न । इतर भेदरूपसाध्येइतर भेदानुमित्तिजनकत्वं नास्तीति साधारण्यदोषः । सामान्यतः प्रतियोगिविशेपमनन्तर्भाव्य गवेतरभेदानुमितिजनकत्वं व्यावर्तकत्वमित्युक्तौ तादृशष्यावर्तकत्वशरीरे प्रतियोगिविशेषः अन्त- लक्षणलक्षणं भूतः कथमित्युक्तौ गवेनरभेदस्य गवेतरत् प्रतियोगि तच्च प्रतियोगि गवेतरभेदानमितिजनकत्वरूपव्यावर्तकत्वे अन्तर्भनं । व्यावर्तकत्वे प्रतियोगिविशेषः नान्तर्भतः। भेदानमितिजनकत्वं व्यावर्तकत्वमित्यु- तो गोभिन्ना महिषादयः ये सर्वपदार्थाः तद्भेदस्य गोनिष्ठस्य व्या. वृत्तिरूपस्य व्यावर्तकत्वं स्यात् । गोनिष्ठेतरभेदरूपव्यात्तेरपि गौः घटपटोभयभिन्ना इतरभेदात् इति गवि घटपटोभयभेदानमिति जनकत्वात् इतरभेदरूपन्यारत्तेरपि व्यानर्तकत्वापत्तिः। अतः भंदा नुमितिजनकत्वं व्यावर्तकत्वमिति न वक्तव्यं । सामान्यतः इतरभेदा नुमितिजनकव्यावर्तकस्य लक्ष्यतावच्छेदकसमनियतत्वं लक्षणामिति नोच्यते । किंतु प्रत्येकं गोव्यावर्तकस्य गोत्वसमनियतत्वं लक्षणं पृथिव्यावर्तकस्य पृपिवीत्वसमनियतत्वं लक्षणंइत्युच्यते इतिचेत् गोव्यावर्तकइत्यस्य गवेतरभेदानमितिजनकइत्यर्थः । पृथिवीव्याव- तकइत्यस्य पृथिवीतरभेदानमितिजनकइत्यर्थः । तथाच पृथिवीतर- भेदानमितिजनकस्य पृथिवीत्वसमनियतत्वं लक्षणमित्युक्तं भवति । एवंसति व्याहत्तेः व्यावर्तकलसंभवेपि अभिधेयत्वादावतिव्याप्तिकथ- नमसंगतं। पदार्थतरभेदानमितिजनकस्य पदार्थत्वसमनियतत्वं लक्ष- णमित्यस्य वक्तुं शक्यत्वे अभिधेयत्वे अतिव्याप्तिकथनं संगतं रयात् । तथा वक्तुं न शक्यते । पदार्थेतरस्याप्रसिद्धत्वात् । गवेतरभेदान- मितिजनकस्य गोत्वसमनियतत्वं लक्षणमिति प्रत्येकं वक्तुं न शक्यते। गवेतरभेदानमितिजनकस्य गोत्वसमनियतत्वं लक्षणमित्युक्तौ इतर भेदरूपव्यानुत्तावतिव्याप्तिः संभवति । इतरभेदस्य गवेतरभेदान- मितिजनकत्वं न संभवति । हेतुसाध्ययोरक्यात् । अतः इतरभेद रूपव्यावृत्तः गवेतरभेदानमितिजनकत्वरूपव्यावर्तकत्वासंभवेनालक्ष्य त्वात् इतरभेदरूपव्याहत्तौ गोत्वसमनियतत्वेनातिव्याप्तिः। तथा पि अभिधेयत्वप्रमेयत्वादौ अतिव्याप्तिकथनमसंगतं । पदार्थेतरभंदा नुमितिजनकस्य पदार्थत्वसमनियतत्वं लक्षणमिति वक्तव्यतया पदा 8 नीलकण्ठीयविषयमाला थेतरस्याप्रसिद्धत्वात् लक्षणलक्ष्ययोरेवाभावात् अतिव्याप्रसंभवात् लक्ष्यतावच्छेदकसमनियतत्वं व्यावर्तकस्य लक्षणमित्युक्तौ व्यावृत्ती अभिधेयत्वादी अतिव्याप्तिवारणाय व्यावृत्तिभिन्नत्वं अभिधेयत्वा दिभिन्नत्वं निवेशितं कथं संगच्छतइतिचत् अस्यायमभिप्रायः । गवि सास्नादिमत्त्वं वतते । महिषादिरूपेतरभेदोपि वर्तते । एवं द्रव्यत्व पृथिवीत्वादयः । तत्र सानादिमत्त्वं गवेतरभेदानुमितिजनकं भवति । नत द्रव्यत्वादिकं । तत्कुतः इति शङ्कायां सास्नादिमचं गोत्वाव- च्छिन्ने गवि इतरभेदानुमितिजनकं गोत्वव्यापकत्वेसति गोत्वव्याप्य- त्वात् । यः यद्धर्मव्यापकत्वे सति यद्धर्मव्याप्यः सः तद्धर्मावच्छि. नेतरभेदानमितिजनकः यथा गन्धः । गन्धश्च पृथिवीन्वव्यापकः । यत्रयत्र पृथिवीत्वं तत्र गन्धः इति गन्धस्य व्यापकत्वात् । एवं पृथि- वीत्वव्याप्योपि भवति । पृथिवीवाभाववति जले गन्धस्यावृत्ति त्वात् । अतः गन्धः पृथिव्यां इतरभेदानुमितिजनकः। तथा सा- स्नादिमत्चे गोत्वव्यापकत्वे सति गोत्वव्याप्यत्वात् गोत्वावच्छिन्ने गवि इतरभेदानुमितिजनकत्वं सानादिमत्वस्यावश्यकं इत्यनुमानेन सानादिमत्त्वस्य गवंतरभेदानुमितिजनकत्वं साधनीयं । एवंसति व्यावृत्तौ अभिधेयत्वादौ च व्यभिचारः । व्यभिचारश्च द्विविधः । प्रकृतसाध्याभाववति प्रकृतहेतोः सत्वं प्रकृतसाध्यसदृशसाध्याभाव वति प्रकृतहेतुसदृशहेतोः सत्वमपरो व्यभिचारः। प्रकृते यः यद्धर्म समनियतः सः तद्धर्मावच्छिन्नेतरभेदानुमितिजनकः इति व्याप्ती व्यावृत्तौ व्यभिचारः । कथमित्युक्तौ सास्त्रादिमचं पक्षीकृत्य गो. त्वसमनियतत्वेन हेतुना गोत्वावच्छिन्ने गोत्वविशिष्टे गवि इतरभेदान मितिजनकत्वसाधने इतरभेदानुमितिजनकत्वं प्रकृतसाध्यं । तच्च गो निष्ठतरभेदरूपव्यावृत्तौ नास्ति । हेतुसाध्ययोरैक्यात् । अतः साध्या भाववत्यां इतरभेदरूपव्यात्तौ गोत्वसमनियत-वरूपप्रकृतहेतसत्त्वेन व्यभिचारः। एवं अभिधेयत्वादावपि व्यभिचारः संभवति । तत्र लक्षणलक्षणं प्रथमव्यभिचारो यद्यपि न संभवति । गोत्यसमनियतत्वरूपप्रकृत. हेतोरसत्वात् । तथापि द्वितीयव्यभिचारो भवति । द्वितीयव्यभि- चारश्च प्रकृतसाध्य गोत्वावच्छिन्नंतरभेदानुमितिजनकत्वं । तत्सदृश साध्यं पदार्थत्वाच्छिन्नेतरभेदानुमितिजनकत्वं । तदभाववत् अभि धेयत्वं । तच्च पदार्थेतरभेदानमितिजनकं न भवति । पदार्थतरस्या- प्रसिद्धत्वात् । तत्राभिधेयत्वे प्रकृतहेतुसदृशहेततिते । प्रकृतहतुः गोत्वसमनियतत्वं । तत्सदृशहेतः पदार्थत्वसमनियतत्वं । तच्चाभि- धेयत्वे वर्तते । अभिधेयत्वस्य पदार्थत्वव्यापकत्वे सति पदार्थत्व. व्याप्यत्वात् । अतः व्यावृत्तावभिधेयत्वादौ व्यभिचारवारणाय हेतौ व्यावृत्तिभिन्नत्वं अभिधेयत्वादिभिन्नत्वं च निवेशनीयमिति । सास्नादिमत्त्वं गवतरभेदानुमितिजनक गोत्वसमनियतत्वात् । अत्र सास्त्रादिमत्त्वं पक्षः । गवतरभेदानमितिजनकत्वं साध्यं । गोत्वसम नियतत्वं हेतुः । यो धर्मः यद्धर्मसमनियतः स धर्मः तद्धर्मावच्छिन्ने तरभेदानुमितिजनकः। यथा यो धर्मः गन्धरूपो धर्मः । यद्धर्मसम नियतः पृथिवीत्वसमनियतः । सः गन्धरूपो धर्मः। तद्धर्मावच्छि- 'नेतरभेदानुमितिजनकः पृथिवीत्वावच्छिन्नेतरभंदानुमितिजनकः । तद्वत् सास्नादिमचे गोत्वसमनियतत्वरूपहेतोः सत्त्वात् गोत्वावच्छि बेतरभेदानुमितिजनकत्वमावश्यकं । गोत्वावच्छिन्नं सकलगौः त. दितरत् महिषादिकं । तद्भेदः गवि वर्तते । तादृशभेदानुमितिः गौः इतरभिन्नत्यनुमितिः । तजनक सास्नादिमत्त्वं । जनकत्वं साना- दिमत्त्वस्य । गवंतरभेदानुमितिजनकत्वं साध्यं । साध्याभाववति इतरभेदे गोत्वसमनियतत्वरूपहेतोः सच्चात् साधारण्यदोषः । एवं प्रकृतसाध्यं गवेतरभेदानुपितिजनकत्वं । तत्सदृशसाध्यं पदार्थेतर- भेदानुमितिजनकत्वं । साध्याभाववत् अभिधेयत्वप्रमेयत्वादिकं । तत्र प्रकृतहेतुसदृशहेतुः पदार्थत्वसमनियतत्वं । तच्चाभिधेयत्वादी वर्तते । अभिधेयत्वं हि पदार्थत्वस्य व्यापकं यत्रयत्र पदार्थत्वं तवा नीलकण्ठीयविषयमाला ननु गुणवत्त्व न द्रव्यलक्षण । आद्यक्षणावच्छि नघटे उत्पन्न विनष्टघटे चाव्यालेरितिचेन ॥ गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वस्य विवक्षि तत्वात् । भिधयत्वमिति व्याप्तः। अतः व्याहत्तौ अभिधेयत्वे च व्यभिचार वारणाय व्यावृत्तिभिन्नत्वमभिधेयत्वभिन्नत्वं च निवेशनीयमिति ॥ द्रव्ये उत्पद्यमानं गुणं प्रति द्रव्यस्य कारणत्वेन कारणत्वस्य कार्यपूर्वत्तित्वरूपत्वान् द्रव्ये गुणोत्पत्तः पूर्व निर्माण द्रव्यमर्गीकर- गीयं । अतः उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठतीति न्यायेनाद्यक्षणाव. च्छिन्नघटे अव्याप्तिरित्यर्थः । गुणाश्रयत्वं द्रव्यस्य लक्षणमित्युक्तो आद्यक्षणावच्छिन्नघट अव्यातिन संभवति । द्वितीयादिक्षणे गुणस्यो. स्पत्स्यमानतया आद्यक्षणेपि घटे गुणाश्रयत्वसंभवादित्यभिप्रेत्य उत्प- नविनष्टघटे अव्याप्तिराभिहिता ! उक्तोत्पन्नविनष्टघटस्य द्वितीयादि क्षणे अभावात् तत्र गुणस्यानुत्पद्यमानतया गुणाश्रयत्वमपि नास्ती ति उत्पन्नविनष्टघटे अव्याप्तिरिति भावः ॥ गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वं द्रव्यस्य लक्षणमित्यु. तो नाव्याप्तिः। गुणसमानाधिकरणजातिमत्त्वं द्रव्यस्य लक्षणं । गुणसमानाधिकरणा का जातिः द्रव्यत्वजातिः। तादृशजातिमत्त्वं द्रव्यस्य लक्षणं भवतीतिचत तादृशसत्ताजातिमत्वेन गुणे अतिव्याप्तिः। अतः सत्ताभिन्नत्वं निवेशनीयं । सत्ताभिन्नजातिमत्वं द्रव्यस्य ल. क्षणमित्युक्तो तादृशगुणत्वजातः सत्त्वेन गुणे अतिव्याप्तिः । अतः गुणसमानाधिकरणति ॥ इति द्रव्यलक्षणम् ॥ इति कामाक्षी संगृहीता ॥ नीलकण्ठीय विषयमाला संपूर्णा ॥
No text on this page.
No text on this page.