Poorna Prajna Vidya Pheeta Banglore

Tatparya Chandrika Volume I

Sri Vyasateertha · 22/7/2004

PDF Proofread

Front matter

No text on this page.

हरे पाहि प्रकाशनम्-सप्तमं पुष्पम्
श्री ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण
व्यासयतिना विरचितायां श्रीमद्भाष्यटीकाविवृत्ती
तात्पर्यचन्द्रिका
प्रथमाध्यायस्य प्रथमः पादः
(प्रथमसम्पुटम्)
TATPARYA CHANDRIKA
BY SRI VYASATEERTHA
(DISCIPLE OF SRI BRAHMANYA TEERTHA)
(I Chapter I Part)
I VOLUME
Publisher:
Harathi Raghavendra Rao, B. A., Rtd. Tahsildar
Hare Pahi Prakashan
No. 144, 11th Cross, Jayanagar, Mysore-14.

No text on this page.

हरे पाहि प्रकाशनम्-सप्तमं पुष्पम्
श्री ब्रह्मण्यतीर्थपूज्यपादानां शिष्येण
व्यासयतिना विरचितायां श्रीमद्भाष्यटीकाविश्ती
तात्पर्यचन्द्रिका
प्रथमाध्यायस्य प्रथमः पादः
(प्रथमसम्पुटम्)
TATPARYA CHANDRIKA
BY SRI VYASATEERTHA
(DISCIPLE OF SRI BRAHMANYA TEERTHA)
(I Chapter I Part)
I VOLUME
Publisher :
Harathi Raghavendra Rao, B. A., Rtd. Tahsildar
Hare Pahi Prakashan
No 144, 11th Cross, Jayanagar, Mysore-14.

First Edition 198+
(1000 copies)
Price :
Ordinary : Rs, 16
Library : Rs. 20
(Postage Extra)
Copies can be had from
(1) The Publisher
(2) Sri R. Venkoba, B.Sc., B.Com.,
670, II Block B,S.K, I Stage, Bangalore-50
(3) Prof. N K. Narasimha Murthy, M.Sc.,
21/122, DVG Road, Basavanagudi, Bangalore-4
Printers :
Sri Jayantı Printers,
Pampapatha Road, Mysore-14

PREFACE श्रीमध्वः कल्पवृक्षश्च जयाचार्याश्च धेनवः । चिन्तामणिस्तु व्यासार्याः मुनित्रयमुदाहृतम् ॥ (श्रीमुष्णमाहात्म्यम् ) The publication of the first of the three volumes of the Tatparya Chandrika - The Magnum Opus of Sri Vyasa raja-the Saint Emperor-author of the famous Vyasathraya, the three invulnerable buttresses of Madhva Philosophy is necessitated for the reason that the text is not available for the past sixty seven years. Even the available old copies of the text with the Commentry is purchased at exhorbitant rates by foreign scholars, who-of late-are showing keen interest in the study of Madhya Philosophy more than the professed Madhvas. Sri Vyasaraja ( 1478-1539) is the only sanyasin among the Madhva Saints to be showered encomiums by his Guru, the great Sri Sripada raja for his erudite exposition of the essence and cream of the Madhva Bhashya and the Tatva Prakashika (2 Adhyayas only) of Sri Jayatheertha, in a superb manner which could be understood only with the explanation of Sri Raghavendra Swamili's Chandrika Prakasha. For ordinary readers, it is unfathomable. Even pandits fumble to understand the text without the commentary. That is the super Lority of the text. To quote Sri Surendranath Das Gupta, in his preface to "A History of Indian Philosophy", "the readers ... . who will be introduced to the philosophy of Jayatheertha and parti cularly of Sri Vyasatheertha, will realise the strength and uncompromising impressiveness of the dualistic position. The logical skill and depth of acute dialectical thinking shown by Sri Vyasa Tirtha stands almost unrivalled in the whole of Indiani thought ". Sri Vyasaraja was forced by elrcumstances to ascend the throw ne of the Vijayanagar Empire much against his will for just one and half a hours when the Emperor, Sri Krishnadeva raya, surrendered his everything in utter humility to the Saint on the impending 1 11 , attack of the deathkiller - Kuhu Yoga, which was pouncing on him. The Saint had no other alternative except to favour the ruler for, ईशेच्छया प्राप्तमिदं न हेयं इति स्म संचिन्त्य गुहामुखाद्ययौ'। The Saint warded off the danger and gave away everything as dana to the scholars and the needy and established himself a permanent niche in the history of the Vijayanagar Empire Further, he was in a hurry to step down by restoring the throne to its ruler, as he was more interested in the pursuit of true knowledge, for which he was destined and ordained by the Lord as dictated by Sri Madhya in the Yati Pranava Kalpa 'विष्णोस्सर्वोत्तमत्वं च सर्वदा प्रतिपादय He toured the whole of India tablishing Dwaita Schools of thought, defeating his opponents on the way I am grateful to --- a) Vidvanmanı Annacharya K Galagali, Vidwan Hayavadan Puranik and Sri M, M Ramachandrachar, who volunteered to spare the texts for preparation of the press copy, b) Dr. B. N K. Sharma, the international scholar on Dwaita Philosophy for his valuable suggestions in editing the book and also“ to Pandıtaratnam K. S. Varadacharya for helping me a great lot in editing, c) Prof K T. Pandurangi, who guided me to print the text in book form, d) Sri M. Ramanarasiah artist for sparing the photo of Sri Vyasaraja, e) and to M/S Jayantı Printers, who printed this book early. मप्रेरकेण हरिणा या पूजा स्वस्य कारिता । वाग्यज्ञरूपा लक्ष्मीशखया प्रीणातु केशवः ।। Roudri Pushya Bahula Saptami (27-1-1981) ARADHANA' of Sri Narahari Teertha Haratz Raghavendra Rao, Publisher Hare Pahi Prakashan 144, 11th cross, Jayanagar, Mysore - 14

Dedicated
to the memory of my
Revered Parents
who put me
on the Right Royal Road
for the study of Madhva Philosophy

विषयानुक्रमणिका
१
४९
१ जिज्ञासाधिकरणम्
२ जन्माधिकरणम्
३ शास्त्रयोनिस्वधिकरणम्
४ समन्वयाधिकरणम्
५ ईक्षत्यधिकरणम्
६ आनन्दमयाधिकरणम्
अन्तरस्थस्वाधिकरणम्
८ आकाशाधिकरणम्
९ प्राणाधिकरणम्
१० ज्योतिरधिकरणम्
१ गायत्र्यनिकरणम्
१२ अन्तिमप्राणाधिकरणम्
१
११८
१२०
१५३

॥ अव यंत्रोद्धारहनुमत्स्तोत्रम् ॥
नमामि दूत रामस्य सुखद च सर द्रुमम् ।
पीनवृत्तमहाबाहु सर्वगत्रुनिवारणम्
नानारत्नसमायुक्त कुडलादिविराजितम् ।
सर्वदाभीष्ट दातार सता वै दृढमाहवे
॥ २॥
वासिन चक्रतीर्थस्य दक्षिणस्य गिरौ सदा ।
तुगाबोधितरगस्य वातेन परिशोभिते
नानादेशागत सद्भि सेव्यमान नृपोत्तमै. ।
धूपदीपादिनैवेद्यैः पञ्चखाद्यश्च सेवित. ॥४॥
भजामि श्री हनूमन्त हेमकातिसमप्रभम् ।
व्यासतीर्थयतीद्रेण पूजित च विधानत
विवार य पठेन्नित्य स्तोत्र भवत्या द्विजोत्तम ।
वाछित लभतेऽभीष्ट पणासाभ्यन्तरे खलु ॥ ६ ॥
पुत्रार्थी लभते पुत्र यशोर्थी लभते यश ।
विद्यार्थी लभते विद्या धनार्थी धानमाप्नुयात्
सर्प य' मास्तु सन्देहो हरि. साक्षी जगत्पतिः ।
य करोत्यत्रा सन्देह प याति नरक ध्रुवम् ॥८॥
इति श्री व्यासगजविरचितं यन्त्रोद्धारहगुमल्लोत्रम् संपूर्णम्
॥ ५ ॥
॥ श्री ग्रन्थमालिका स्तोत्रम् ॥
॥
m
कृष्ण विद्यापति नत्वा पूर्णबोधार्यसद्गुरून् ।
जयतीर्थमुनीन्नत्वा वक्ष्येऽह ग्रथमालिकाम्
नारायणेन व्यासेन प्रेरितस्तत्वसविदे।
ग्रन्थानध्दश्चकारासौ प्तनिशदमन्दधी
॥२॥

॥४॥
॥ ६ ॥
॥७॥
।। ८।
गीताभाष्यं विधायासौ प्रथम तुष्टिद हरे ।
भाष्यागुभाष्य चक्रेऽथ ह्यनुव्याख्यानमुत्तमम्
प्रमाणलक्षण नाम कथालक्षणसजिकम् ।
उपाधिखण्डन चक्रे मायावादस्य खण्डनम्
चक्रे प्रपञ्चमिथ्यात्वमानखण्डनमेव च ।
चकार तत्वसख्यान साधन विष्णदर्शनम्
ग्रन्थ तत्वविवेकाख्य तत्वोद्य त हरे प्रियम् ।
कर्मनिर्णयनामान ग्रन्थ न्यायार्थबहितम्
सुखतीर्थयतिश्चक्रे विष्णुतत्वविनिर्णयम् ।
ऋग्भाध्य च चकारासौ मर्ववेदार्थनिर्णयम्
ऐतरेय तैत्तिरीय बृहदारण्यमेव च ।
ईशावास्य काठक च छांदोग्याथर्वण तथा
माण्डूक नाम षट् प्रश्न तथा तलवकारकम् ।
चक्रे भाष्याणि दिव्यानि दशोपनिपदां गुरु
निर्णय सर्वशास्त्रणा ग तातात्यनिर्णयम् ।
सन्यायविवति नाम न्यायशास्त्रानिकृन्तनम्
नरसिहनश्वस्तोत्रं चक्रे यमकभारतम् ।
द्वादशस्तोत्रमकरोत्कृष्णामृतमहार्णवम्
तन्त्रसार चकारासौ सदाचारस्मृति सुधी ।
श्रीमद्भागवतस्यापि तात्पर्य ज्ञानसाधनम्
महाभारततात्पर्यनिर्णय सशयछिदम् ।
यतिप्रणवकल्पञ्च प्रणवार्थप्रकाशकम्
जयन्तीनिर्णयं च दवकीगर्भजन्मन. ।
कृष्णस्य कृष्णभक्तोऽय द्वैपायनकराब्जभू
एतेषा पाठमात्रेण मध्वेशप्रीयतामिति ।।
इति श्री व्यासराजकृतग्रन्थमालिकास्तोत्रम् सपूर्णम्
॥ १० ॥
।। १२ ।।
॥ १३॥
॥ १४ ॥

No text on this page.

Sri Vyasaraja warding off the Kuhuyoga of Sri Krishna Devaraya
R
Emw
--07
राजाधिराज सपूज्य सर्व वैष्णवशेखर । गजगह्वर कर्नाट सिहासन गतप्रभो ॥

|| श्री ।। श्रीमहह्मण्यतीर्थपूज्यपाद शिष्य- श्रीमद्यामतीर्थमुनिविचिता तात्पर्यचन्द्रिका । श्रीमद्भनुमद्रीमम बान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः !! [जिज्ञामाधिकरणम् ] ॥ श्रीगुरुभ्यो नमः ॥ हरि ॐ ।। अम्पृष्टदोषगन्धाय कल्याणगुणमिन्धर्व । नमो नमो भक्तमुक्तिदायिने शेषशायिने ।। १॥ गमयन्भवसन्ताप रमयन्साधुचातकान् । कृष्णमेघः कृपादृष्टिवृष्टया पुष्णातु मामपि ।। २ ।। श्रीमदानन्दतीर्थार्यपादपङ्कजरेणवः । पवित्रयन्तु मा नित्यं पापपाटनपण्डिताः ॥ ३ ॥ शारदावासवदनशारदाम्बुरुहान्मुहुः । पद्मनाभमुनीन् वन्दे सर्वशास्त्रविगारदान् ॥ ४ ॥ मिथ्यासिद्धान्तदुर्वान्तवि-वंसनविचक्षणः । जयतीर्थाख्यतरणिर्भासता नो(मे) हृदम्बरे ॥ ५ ॥ कसम्वसिपदाम्भोजससक्तो हसपुङ्गवः । ब्रह्मण्यगुरुगजाख्यो वर्तता मम मानसे ॥ ६ ॥ पदवाक्यप्रमाणाब्धिविक्रीडनविशारदान् । लक्ष्मीनारायणमुनीन् वन्दे विद्यागुरून्मम ॥ ७ ॥ श्रीमद्भाप्यस्य टीका या जयतीर्थार्यनिर्मिता । गम्भीरा निर्मला चेमां व्याकरिप्ये यथामति ।। ८ ।।

नापर्यचन्द्रिका सूत्र भाष्येऽनुभाष्ये च सन्नयायविवृती तथा । टीकासु च यदम्पष्ट तच्च स्पष्टीकरिष्यते ॥ ९ ॥ प्रतिसूत्रं प्रकाश्येते घटनाघटने मया । म्वीयान्यपक्षयोम्सम्य ग्विदाकुर्वन्तु मूग्यः ॥ १० ॥ अन्थादौ मङ्गलमाचरति शुद्धति ।। इदं च पद्य भाष्यस्थाद्यश्लोक विवरणरूपत्वात्तद्वदेव वक्ष्यमाणादिमूचकत्वेन व्याख्येयम् । आनन्दादेः शुद्ध. त्वं(नाम)सान्तत्वसातिशयत्वादिराहित्यम् । लेपः पुण्यपापसंवन्धः । श्रुतिमती श्रवणमनने । नियतध्यानं स्वयोग्योपासनम् । ज्ञानं साक्षात्कारः । स एव योग उपायः। अमलं मुमुक्षूपास्यम् । न तु परमत इव मुकुन्दाभिध मन्दोपाम्यम् । व्याचिख्यासितभाष्यमूलसूत्रप्रामाण्यं सूचयन् मङ्गलान्तरमाचरति-याच्जेति । अत्र यत उदैद्विद्येन्दिरेत्यादिना वक्रानुकूल्य निर्जरैरित्यादिना श्रोत्रानु कूल्यं याच्नेत्यादिना प्रसङ्गानुकूल्यं च दर्शयता 'वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनु. कूलते' त्यनुव्याख्यानोक्ता आप्तिमूलता सूत्राणां सूचिता । ब्रह्ममूत्रपदेन ब्रह्म परश्रुतिव्याख्यानरूपत्वात् श्रुतिमूलत्वं न्यायव्युत्पादकत्वाद्युत्तिमूलत्वञ्च सूचितम् । भाष्यस्य व्याख्येयत्वप्रयोजकं सफलत्वगम्भीरत्वादि दर्शयन् भाष्यकृतं प्रणमति - स्वान्तेति ॥ वैकर्तनांशुव्रजादे: स्वान्तध्वान्तनिकृन्तनादावशक्तन्वा देव भाष्येण जितत्वम् । गङ्गासङ्गेन यथा रथ्याद्भिनर्मल्यं लभ्यते तथा मदी याया वाचो विशुद्धिसिद्धयर्थ गुरोगिरो मदीयया वाचा सगम्यन्ते व्याख्यान व्याख्येयभावेन संबध्यन्त इत्यर्थः । यद्वा गुरोगिरः परस्परं सङ्गम्यन्ते संबद्धतया प्रकाश्यन्त इत्यर्थः । अथाविद्येति ।। प्रतिग्रन्थव्याख्याप्रारम्भा- र्थोऽथशब्दः । फलसाधनतासिद्धयर्थमिति । समङ्गलस्यैव सफलत्वा. दिति भावः ॥ भगवतः प्रसत्या पुरुषार्थो भवतीति भूचित इति ।। भगवत्प्रसादस्य मोक्षहेतुत्वे अतश्शदेन संक्षिप्योक्त इत्यर्थः ।। विशिष्टगु- णानप्याचष्ट इति ॥ नारायणशब्दस्य विशिष्टगुणवाचकत्वप्रदर्शनं च तम्य ब्रह्मशब्दसमानार्थकत्वात् । शास्त्रार्थवाचकत्वाच्च नारायण एव शास्त्रार्थ इति दर्शयितुम् । न रीयत इति ॥ नजुपपदात् रीड्क्षय इत्यस्माद्धातो. करणे जिज्ञासाधिकरणम् डप्रत्यये प्रजादित्वात्म्वार्थेऽण्प्रत्यये च कृते नारमिति रूपसिद्धिरिति द्रष्टव्यम् । अरमण दुःखम् ।। निर्दोषवेदीत्पन्नन्वादिति ॥ निढोश्वेतवाचकान्नारगन्दा- त्तायेदमित्यणि कृते नारानो वेदजन्यज्ञानवाचीति भावः । नगनाकादि (शब्द)वदिति ।। ननु नभ्राण्नपादित्यादिसूत्राभ्या नाकनगशब्दयो• नलो पाभाव उक्तः नारायणशब्दे तु नेति कथं तदृष्टान्तीकरणमितिचेन्मैवम । स्त्रैणार्थ इत्यत्र 'स्त्रीमाभ्या' मित्यादिना विहितस्य नो नलोपाभावार्थ 'न लोपो नत्र' इति मूत्र 'रात्रे. कृतिविभापे'त्यतोऽनुवृत्ताया विभाषाया व्यवस्थित विभाषात्वम्य न्याम एवोक्तत्वेन नारायण इत्यत्रापि नलोपाभावाद्युप. पत्ते । यद्वा नसमासोऽस्तु । अत्र 'पूर्वपढात् सज्ञायामग' इति णवं ल्युटष्टित्करणसामर्थेनायनशब्देऽधिकरणे त्रिलिग इति पुल्लिगत्वं च द्रष्टव्यम् । पृथड्नतिरिति इत्यत्रतिशब्दस्य 'इत्यरुचिं सूचयती'ति पूर्वेण अन्वयः । विध्नाभावम्य नमस्कारेणैव सिद्धLथन व्यर्थ, एवमधिकार्यादिमूचनम्य प्रवृत्यग- तया वक्तव्यत्वेऽपि(कर्तव्यत्वेपि) न महाफलार्थ तत्कार्य, तस्मरणेनैव फलसिद्धे- रित्यत आह नमस्काराधिकार्यादिग्रथनसूचने इति ।।' अनन्यार्थ- तयेति ।। प्रातीतिकार्थान्तरपरं न भवतीत्यनेन प्रकारेणेत्यर्थः ।। प्रायस्त- देवोपादेयमिति ॥ अपमाणत्वादिना निश्चितस्यापि ख्यात्याद्यर्थ व्याख्यान- दर्शनात्प्राय इन्युक्तम् । 'अथेष्टानिष्टेति भाष्ये अथेत्यम्यावतारानन्तरमेव. न तु परोपदेशमपेक्ष्य, येन स्वतः सार्वज्ञ न स्यादित्यर्थः । वेदमुत्सन्नमित्यादे. रित्याय इत्यर्थ इति वक्ष्यमाणेनान्वयः ॥ अवान्तरवेदादिविभागकथन- मिति ॥ स्वत एव ऋङ्गिदादिरूगदेकैकस्मात् महावेदादुर्धनस्य अवा. न्तरम्य ऋगादिवेदस्य चतुर्विगत्यादिशाखाभेदेन । आदिपदेन शाखाना च उपशाखाभेदेन विभागकथनमित्यर्थः । यद्वा महावेदम्यावान्तरवेदत्वेन' आदिपदेन चतुर्विशत्यादित्वेन च विभागकथनमित्यर्थः ॥ तदल्पाक्षरन्व- मिति ।। यावदक्षरतां विना विवक्षितार्थीसिद्धिः तदर्थप्रतिपादनाय ततो ऽधिकाक्षरानुपादानमल्यामरत्वमित्यर्थः ॥ बहुशाखानिर्णायकत्वमिति || सद्या कारणमूत्रादेरपि बहुशाग्वागतपदार्थनिर्णायकन्यान्नाव्याप्तिरिति ज्ञेयम् ।।

नात्पयचन्द्रिका व्याक्षरादिराहिन्यमिति ॥ अर्थाप्रतिपादकत्वेऽपि साम्नि स्तोभाक्षराणा ऋगक्षराव्यामगानभागपरिपूरणायेव प्रयोजनान्तरायाक्षरप्रयोग इत्यर्थः ॥ कारणान्तरसंभवादित्यत आहेति ॥ 'मुख्यस्ये ति मूलग्रन्थे मुख्यस्य निर्विशेषण शब्दवाच्यत्वे ' इति वेदविदः प्राहु'रित्यनेन वेदस्य वृद्धव्यवहारस्य च प्रमाणीकृत्त्वात्तेन शङ्कायाः परिहार इति भाव. ॥ शब्दसमूहै: क्रियमाण इति ॥ शब्दजातस्येति षष्ठी कर्तरि, न तु कर्मणीत्यर्थः ।। परोक्ते दूष्य एवाशो मितैः शब्दैरनूद्यते । दूषणं चापि हनुमद्भाध्यमूचितमुच्यते ।। तत्र भामत्युक्तमधिकरणम् - प्रत्यगात्मन एव ब्रह्मत्वात्तस्य चाहमिति प्रकाशमानत्वेनासन्दिग्ध मान्न विषयत्तम् । नाप्यविद्य.निवृत्तिः प्रयोजनम् । उक्तरीत्याऽऽत्मनि भासमानेऽपि तदनिवृत्तेः । न च वाच्यमहंप्रत्ययः स्थूलोऽहं कर्ता भोक्ता दुखीति गृह्णाति, तद्विपरीतश्च वेदान्तप्रतिपाद्यः सन्दिग्ध इति विषयादिसिद्धिरिति । वेदान्तानामध्ययनविध्यापादितप्रयोजनवदर्थावबोधानामपि प्रबलाहप्रत्ययवाधितत्वेन जपमात्रोपयोगिवेनाविवक्षितार्थत्वादुपचरितार्थत्वाद्वा । तथा च वेदान्तविचारो नारब्धव्य इति पूर्वपक्षः। सिद्धान्तस्तु-वेदान्तवाक्य- ज्ञानानन्दैकरसाद्वितीयोदासीनस्वभाव आत्मोपक्रमादिभिः प्रतिपाद्यते । क्रियासमभिहारेणेगात्मतत्वमभिदधति तत्पराणि सन्ति युक्तमुपचरितार्थानीति वक्तुम् । प्रत्यक्षं तु सम्भावितदोषमपौरुषेयेण निर्दोषेणागमेन बाध्यते । तेन वेदान्तवेद्यः शुद्धोऽहंप्रत्यये न भातीति विषयादिसिद्धिरिति । तन्न । तथा हि । शुद्धो न भातीति कोऽर्थः ? किमात्मस्वरूपे किचिद्भाति किचिन्न भातीति । किं वाऽऽत्मस्वरूपमेव न भातीति । यद्वाऽनात्मापि भातीति । आद्येऽभासमा. नोंऽशः शरीरादिभ्यो भेदो वा, कर्तृत्वभोक्तृत्वाद्यभावो वा, ब्रह्मात्माभेदो वा, द्वितीयमात्राभावो वा ? आत्मभिन्नः सत्यश्चेदपसिद्धान्तः। अभावद्वैतं त्वन्यत्र निरम्तम् । मिथ्या चेन्न तत्वावेदकशास्त्रवेद्यः । आत्ममात्रत्वे तु द्वितीयपक्षा- न्तर्भावः । तथापि कल्पितेन भेदेनागृहीत इव भाती.ते चेन्न । तत्वतो गृह्य जिज्ञासाधिकरणम् . माणेऽधिष्ठाने भेदकल्पनाया अगृहीतत्वारोपस्य चायोगात् । न च मिथ्याभूतेनापि तेनोपलक्षित आत्मा शास्त्रवेद्यः, स च सत्य इति वाच्यम् ; स्वप्रकाशत्वेन नित्यसिद्धात्मावबोधनार्थमुपलक्षणोक्त्ययो त । उपलक्षण एव तात्पर्ये चाप्रामा ण्यापातात् । अत एव न द्वितीयः । तस्य स्वप्रकाशत्वेनाभानायोगात् । स्वप्रकाशस्याप्यविद्यावशादमाने अविद्यादेवुःखादेश्च प्रकाशो न स्यात् । तस्य चैवन्यप्रकाशाधीनप्रकाशत्वोपगमात् ॥ एतेन स्वप्रकाशत्वात्स्फुरति चैतन्यमविद्यावृतत्वाच्च न स्फुरति । न च विरोधः। स्फुरणस्य तात्विकत्वादस्फुरणस्य चातात्विकत्वात् । एव चन कोऽपि दोषः। स्कुरवादज्ञानादिसाधकत्वस्यास्फुरत्वाद्विषयत्वस्य च संभवा दिति निरस्तम् । म्फुरत्यम्फुरणारोपायोगस्योक्तत्वात् । न च स्वरूपचितः प्रकाशेऽपि तस्या अज्ञानाविरोधित्वात् विरोधिन्याश्च वृत्तरभावेनाविद्यावृत त्वात्संदिग्धत्वमिति युक्तम् । स्वरूपचितोऽज्ञानाविरोधित्वे तद्वद्ये दु:खादाव ज्ञानप्रसङ्गात् । त्वन्मते अयं घट इत्याद्यपरोक्षवृत्तेरपि घटाद्यवच्छिन्नचिद्वि श्रवणादिजनितमस्कारसहितान्त:करणवृत्तिनाश्यत्वे च मिथ्या- रूप्यादौ तददर्शनात्सत्ये भ्रमरादिध्याननिवर्त्यकीटत्वादौ च तद्दर्शनाद. ज्ञानस्य सत्यत्वं स्यात् । न तृतीयः । अनात्मनो अधिकस्य मानेऽप्यात्मनो असंदिग्धत्वेनाविषयत्वतावस्थ्यात् । अधिष्ठाने तत्वतः स्फुरत्यनात्मारोपायो- गाच । एतेन यथा षड्जादयो गान्धर्वशास्त्राभ्यासात्प्रागपि स्कुरन्तस्तद्रूपेणा नुल्लखिता न श्रोत्रेण व्यज्यन्ते, व्यज्यन्ते तु शास्त्रवासितेन तेन । एवं वेदान्तवाक्यजन्यब्रह्मैक्याकारवासनावासितान्तःकरणेन तद्भावाभिव्यक्तिनप्रागिति भामत्युक्तं निरस्तम् । तत्र प्रागस्फुरत• पश्चाच्च स्फुरतः षड्जत्वादिजातिभेदस्येव प्रकृते तस्याभावात् । एतेनैव तत्त्वमसीतिवाक्याद्यद्यप्यात्मनो ब्रह्मत्वं ज्ञातं, तथापि वादिविप्रतिपत्त्या संशयाचत्र जिज्ञासेति भामत्युक्तं निरस्तम् । चिन्मात्रे धर्मि णि निश्चिते तन्मात्रैक्ये संशयायोगात् । युक्तं चापौरुषेयस्याप्यागमस्य शङ्किततात्पर्यभ्रमरूपदोषस्य यजमानः प्रस्तर• इत्यादेरिव प्रत्यक्षविरोधेन प्रती वार्थप्रच्यावनम् । उक्ता च त्वयापि तत्त्वमसिवाक्ये प्रत्यक्षाविरोधाय लक्षणा । षयत्वाच्च ।

३ योगात् । तात्पर्यचन्द्रिका तस्मात्परमते स्वरूपमात्रस्य म्वप्रकाशत्वेन नित्यसिद्धत्वादन्यस्य चाज्ञानकल्पित. त्वेन ज्ञानविषयत्वायोगेनाज्ञानसंभवादज्ञातो विषयोऽज्ञाननिवृत्तिः फलमज्ञानी चाधिकारी न युक्त इति शास्त्रमनारम्भणीयमेवेति भामतीमत तावदयुक्तम् ।। एतेन न प्रत्यग्नौक्यं विषयः। कर्तृत्वादेविरुद्धधर्मस्य सत्यत्वेनैक्या नापि सन्निवृत्ति प्रयोजनम् । जानस्याज्ञानमात्रनिवर्तकत्वेन सत्यस्य ज्ञानानिवृत्ययोगादिति प्राप्ते, सत्यं कर्तृत्वभोक्तृत्वादिप्रपञ्चम्य सत्यत्वे विषयादिन सिध्यतीति । प्रपञ्चम्तु मिथ्यैव अन एव भाष्येऽभ्यासवर्णन मिति विवरणाभिप्रेतमधिकरणमपि निरस्तम् । कर्तृत्वादिविशिष्टस्य संभावित दोषेणातन्वावदकेन प्रत्यक्षानुमानादिना मिथ्याभेदे गृहीतेऽपि तात्विकाभेदे मानान्तरविरोधाभावेन तत्त्वंपदमुख्यार्थत्वाय तल्लक्षिते चिन्मात्रे भेदप्रसक्त्या तत्त्वमसिवाक्यायोय च विशिष्टस्यैव निर्दोषया श्रुत्या तात्विकाभेदबोधन- संभवेन विषयार्थम-यासस्यावक्तव्यत्वात् । न च विरुद्धधर्मम्य सदा सत्वे भेदस्तात्विक एव स्यादिति वाच्यम् अस्याप्यनुमानम्य श्रुतिविरुद्धत्वेना तात्त्विकविषयत्वात् । नापि प्रयोजनार्थ तदुक्तिः। सेत्वज्ञानाकार्यस्यापि पापस्य सेतुजानानिवृत्तेः। विस्तृत चैतदन्यत्र । तस्मान्न विवरणमतमपि युक्तम् ।। केचितु वृद्धव्यवहारेण कार्य एव शब्दाना व्युत्पन्नतया सिद्ध ब्रह्मणि वेदान्तानामप्रमाण्याद्विचारो नारम्भणीय इति प्राप्ते, अम्बातातादीनगुल्या निर्दिश्याम्बातातादिशब्देषु प्रयुक्तेषु बालाना तेषु तच्छब्दाना प्रथमव्युत्पत्ति दर्शनात् ब्रह्मणि वेदान्ताना प्रामाण्यसंभवात्तद्विचार आरब्धव्य इति सिद्धान्त अथ कर्मविचारानन्तरमतः कर्मणां विचारितत्वादेव ब्रह्मविचारः कर्तव्य इति हि तव सूत्रार्थः । न चात्राथशब्दादिना कार्य व्युत्पत्तिनिरासः प्रतीयते । न च सौत्रपदनिरम्यहेतुभिः सूत्रावतारिकारूप पूर्वपक्षसमवे हेत्वन्तरेण स युक्तः । न च विधिवाक्यस्थस्यास्य ब्रह्मशब्दस्य स्वप्रधाने सिद्धे व्युत्पत्तिरद्यापि सिद्धा, येन तत्प्रयोगात्सा सूच्येत । किच्च 'अथातो धर्मजिज्ञासे'त्यादि 'अनावृत्तिः शब्दादित्यन्तं विंशतिलक्षणमेकं शास्त्रमिति वदता त्वया चतुर्लक्षणी देवमीमामा द्वादशलक्षण्याः कर्ममीमांसाया . इत्याहुः । तत्र ब्रूमः जिजामाधिकरणम् उत्तरा, ब्रह्ममीमासायास्तु पूर्वेति स्वीकृनत्वेन सिद्ध व्युत्पत्यभाब सिद्धरूपदेवमी- मामानुपपत्तेस्तस्यात्तत्रैव सिद्धत्वात्पुनरिह सिद्धे व्युत्पत्यभावेन पूर्वपक्षो न युक्तः । अत एव सिद्धान्तोऽग्ययुक्त । त्वद्रीत्या सिद्धे व्युत्पत्तरतश्शदादिनाऽबोघ- मात् । . विचारकर्तव्यताहेत्वर्थेनातश्शब्देनोक्तस्याथशब्दादिना मूचितम्य च तत्र हेतुत्वसंभवे तद्विपरीतायाः सिद्धे व्युत्पत्तस्तत्र हेतुत्वायोगात ॥ तदेव मतान्तरीयमधिकरणमयुक्तमिति हृदि निधाय स्वमतेनाधिकरणमा- रचयति-तवेदमित्यादिना ।। अध्यायपादसंगतिस्त्वति ।। यद्यप्येतदधि करणाभावे शास्त्रम्येव तदेकदेशयोरध्यायपाढयोरप्यारम्भासभवः: तथापि सिद्धे शास्त्रारम्भे पुनरव्यायाद्यारम्भाक्षेपस्यानेनासमाधानाच्छात्रणेव न ताभ्यामौ पोद्धा. तिकी संगतिरित्यर्थः । यद्वा यथा तद्विजिज्ञासम्वेत्यादिब्रह्मविचारविधायकवा क्यार्थनिर्णायकन्यायव्युत्पादकत्वाद्रह्मविचाररूपेण शास्त्रेणान्तविलक्षणा संगति. न तथाऽध्यायपादाभ्याम् । समन्वयतद्रिशेषाप्रतिपादकत्वादित्यर्थः । यथोक्तम- संगतिस्तावद्विविधा । अन्तर्भावलक्षणा आनन्तर्यलक्षणा चेति । अत एवोक्त सुधायां 'अत एवास्य मूत्रस्य न शास्त्रबहिर्भाव' इति । एतेन प्रथमपूत्रम्य सम- न्वयाद्यशेषविचारहेतुत्वाच्छास्त्रप्रथमान्यायप्रथमपादसंगतय इति कल्पतरूक्तं निरस्तम् । द्वितीयान्यायतो व्यावृत्तस्य शास्त्रमङ्गत्यतिरिक्तम्य प्रथमाध्यायादिना सङ्गतिविशेषस्यानुक्त वेनाध्यायपादपीठत्वमात्रम्य न्याय्यत्वात् । एतेनैव श्रोतव्या- दिवाक्याना स्वार्थे समन्वयस्य तद्दारेण विचार्यमाणवेदान्तवाक्यानामपि ब्रह्मणि समन्वयम्य च निमित्तत्वादाचं सूत्र समन्वयेन सङ्गतमिति विवरणोक्तं निरस्तम् । तत्तद्वाक्यम्य स्वार्थ समन्वयप्रतिपादनमात्रेण समन्वयाध्यायसङ्गती तृतीयाध्यायादेरपि समन्वयसङ्गतिप्रसङ्गात् । विचारकर्तव्यताप्रतिपादनेन ब्रह्मणि समन्वयनिमित्तत्वस्येवाविरोधादिनिमित्तत्वस्यापि सत्वेन द्वितीयादितो व्यावृत्तम्य प्रथमेन सङ्गतिविशेषस्यासिद्धेश्च । पादसङ्गत्यनुक्तेश्च !! ननु तथाप्यानन्दमयाधिकरणमारभ्येति कथम् १ समन्वयसूत्रे साक्षात्स- मन्वयोनः 'समन्वयमूत्रेणाध्यायशेषस्य प्रपञ्चयश्चकभावसङ्गति' रिति सुधा- अन्याञ्च तत्राध्यायसद्गतेः सत्वान् । ईसत्यधिकरणे ममन्वया साधारणहेतुवाच्य.

नात्पर्यचन्द्रिका ܀ ܀ .. बममर्थनेन तस्मिन्नपि तम्या. सत्त्वात् । न चेक्षता वचनवृत्या जगत्कारणत्या. दिना शास्त्रैकजन्यप्रमागोचरवरूपणास्त्रयोनित्वे अवाच्यत्वरूपं बाधकमेवो. धृतम् , न तु समन्वये हेतुरुक्त इति वाच्यम् । तदभावे कुतोऽन्वय 'इति अनुव्याख्याने वाच्यत्वस्य समन्वयहेतुल्वेनोक्तन्वादिति । उच्यते । वैदिक शब्दाना ब्रह्मण्युपक्रमादिलिङ्गप्रमाणक शक्तिनातर्यलक्षण: संबन्धः समन्वयः । स च न समन्वयमूत्रव्युत्पाद्यः । तत्र तत्प्रमाणस्यानुक्तेः । किन्तु व्युत्पादयिध्य माण: सशास्त्रयोनिस्वे हेतुत्वेन सिद्धवदुपन्यस्त । ईक्षनाववाच्यत्वप्रयुक्तासमन्य. यासभवाशंकव निरस्ता । समन्वयम्तु न व्युत्पादित इति न तयोरध्यायपादाभ्या मन्तर्भावलक्षणा सङ्गतिः । यद्वा आनन्दमयाधिकरणमारभ्य समतिद्वयम् । ततोऽक्सिमन्वयेक्षत्योः पादमात्रेण सङ्गस्यभावः । अन्येषु स्वध्यायेना- पीति सङ्गत्योरभावः पञ्चाधिकरणीसाधारण: । अत एवान्यायपादसतिरिति समुदायैकवचन प्रयुक्तमिति । अव्यायपादपीठत्वादिति । पञ्चाधिकरण्या: समन्वयविशेषाप्रतिपादकत्वात् अध्यायाद्यन्तर्भावासंभवेऽपि विचारकर्तव्यतायाः प्रथमं प्रतिपाद्यत्वाद्वक्ष्यमाणक्रमेण चतुरधिकरण्या बद्धक्रमत्वात्तदनन्तरमेव समन्वये आकाक्षोदयात्तदाकांक्षोत्थापकतया समन्वयाध्यायस्य तदादिनामपादस्य चादौ निवेशो युक्त इत्यर्थः । नाधिकरणश्रुतिसङ्गती इति । पूर्वाधि. करणतद्विषयवाक्याभ्या सङ्गती नेत्यर्थः । एतेनाध्ययन विधिना सामान्यत: प्रयोजनवदर्थावबोधपरता नीतैः विशेषतश्च संदिह्यमानैवेदान्तैर्विचाराकांक्षराक्षे पादस्याधिकरणस्य श्रुतिसङ्गतिरिति कल्पतरुक्तं निरस्तम् । श्रुतिमूलत्वाति रिक्तायाः श्रुतिसमतेरनुक्तत्वादिति ।। संदेहवीजपूर्वस्य टीकादावेव कीर्तनात् । अस्माभिः पूर्वपक्षश्च सिद्धान्तश्च विविच्यते । उपन्यासमुखेनैव टीकार्थोऽपि निरूप्यते । पूर्वपक्षादिमेयानामविक्षिप्तत्वसिद्धये ।। अत्र वेदार्थनिर्णायकन्यायप्रथनात्मकमिदं शास्त्रमनारम्मणीयमुतारम्भणी. यमिति चिन्ता । तदर्थ न्यायानुसन्धानरूपविचारो न कर्तव्य उत कर्तव्य इति । ..

९ जिज्ञासाधिकरणम् तदर्थ विचारविधेविषयादिकं न सम्भवत्युत सभवतीति। तदर्थ विषयभूतं ब्रह्म कि प्रत्यगर्थभूतजीव एव उत तदन्यदिति । यदि तु ब्रह्म प्रत्यगर्थ एव तदा तस्य निश्चितत्वेन विषयाद्यसंभवाच्छास्त्रमनारम्भणीयमिति पूर्वपक्षे फल- फलिभावः । यदि तु ब्रह्म प्रत्यगादन्यत्तदा प्रत्यगर्थस्य जीवस्य निश्चितत्वे ऽपि ब्रह्मणो विषयत्वसंभवाच्छास्त्रमारम्भणीयमिति सिद्धान्ते फलफलिभावः । एवमुत्तरत्रापि फलफलिभाव ऊह्यः। यत्र स्वस्पष्टस्तत्र वक्ष्यते ।। पूर्वपक्षस्तु न शास्त्रमारम्भणीयम् । न्यायानुसन्धानात्मकविचार रूपजिज्ञासाया एवाकर्तव्यत्वात् । तदकर्तव्यत्वं च निर्विषयत्वादिहेतुभ्यः तत्र तावद्विपयत्वेनाभिमतं ब्रह्म न जीवचैतन्याद्भिन्नम् , मानाभावात् । कर्म काण्डस्य कर्मपरत्वात् । वेदान्तैश्चोपक्रमादिभिरद्वैतिरीत्याऽखण्डप्रत्यगात्ममात्र प्रत्गयनात् तस्य चाहमिति स्वप्रकाशतया भासमानत्वात् । अन्यस्य च सत्यस्या भावात् । आत्मनश्चास्वप्रकाशत्वे तत्प्रकाश• किं तार्किकरीत्या मानसानु भवेन किं वा प्राभाकररीत्या स्वप्रकाशसविदाश्रयतया । नाद्यः। तस्यापि परप्रकाश्यत्वेनानवस्थानात् । कस्य चिदनुभवस्य स्वप्रकाशत्वे च लाघवादात्मन एव तदस्तु । न च ज्ञान जिज्ञासितग्रह्यम् । जिज्ञासा च न सर्वत्रेति नानव- स्थेति वाच्यम् । ज्ञानस्य सुखदु खादिवजिज्ञासाभावेऽप्यनुभवात् । अन्यथा जिज्ञासायाः ज्ञानाख्यधर्मिज्ञानसाध्यत्वानुभवादनवस्था स्यात् । न च जिज्ञासा न ज्ञानधर्मिका, किन्तु अहं ज्ञानी न वा, घटो ज्ञातो न वेत्यात्मादिधर्मिकै- वेति वाच्यम् । तादृशजिज्ञासाया अननुभवात् । ननु न ज्ञानमात्रमजि. ज्ञासितप्राचं, ये तानवस्था । नापि जिज्ञासितग्राह्यम्, येनानुभवविरोधः । किन्तु किञ्चिज्ञानम् कदापि न ज्ञायत एवेति न कोपि दोषः इति चेन्न । कदाप्यज्ञायमानज्ञानस्यासत्वापातात् । न द्वितीयः। सुषुप्तावात्मातिरिक्त- ज्ञानाभावादात्मानुभवाभावेनैतावन्तं कालं सुखं सुप्तोऽस्मीत्यौतरिकानुस्मृत्यनु- किचात्मन औतरिकानुस्मृत्यन्यथानुपपत्या संविद्रूपत्वान्न सविदाश्र- यत्वम् । अन्तु वा तार्किकादिरीत्याऽहमर्थप्रकाशः, तथापि प्रत्यगात्मनोऽ. सन्दिग्धत्वादविषयता । टीकायां तु न्यायविवरणानुसारेण वस्तुस्थितिप्रदर्श- पपत्ते. ।

१० तात्पर्यचन्द्रिका नाय स्वप्रकाशतोक्ता । अत एव सुधायां स्वप्रकाशतया वा स्वप्रकाशज्ञानाश्रय. तया वा मानसप्रत्यक्षवेद्यतया वा सिद्धत्वेनेत्युक्तम् ॥ एतेन कर्मकाण्डस्येव ब्रह्मकाण्डस्याप्यर्थनिर्णयाय विचार आवश्यक इति निरस्तम् । धर्मवद्ब्रह्मकाण्डार्थस्यात्मनः परप्रकाश्यत्वाभावात् । एते- नैव जीवचैतन्यस्वरूपस्यासंदिग्धत्वेऽपि देहादिभिन्नत्वादानन्दाद्यात्मकत्वादिना सदिग्धत्वाद्विषयता । अन्यथा सिद्धान्तेऽप्युत्तरत्र जीवविचारो न युक्तः स्या- दिति निरस्तम् । सिद्धान्त इव पूर्वपले जीवचैतन्यातिरिक्तस्य देहादिभिन्न- त्गदे• सत्यत्वाभावात् ॥ केचितु जीवस्याकारान्तरेण सदिग्यतया विचारसंभवेऽपि सिद्धान्त्यभि- मतजीवान्यब्रह्मविचाराक्षेप इत्याहुः । तन । न्यायविवरणविरोधात् । तावता शास्त्रानारम्भासिद्धेश्च । सिद्धचैतन्यमात्रबोधने श्रुनेरनुवादकत्वे च वायुक्षेपिष्ठादिवाक्यवत् , विद्वद्वाक्यवच्च न्यायप्राप्तत्वात्मह्यम् । वेदान्ता- ध्ययनं जपार्थमस्तु । एवं च यथाऽर्थवादाधिकरणेऽपौरुषेयत्वेऽप्यर्थवादानाम- क्रियार्थत्वेन विध्येकवाक्यत्वाभावादानर्थक्यमिति भाट्टमते पूर्वः पक्ष: प्राभाकरमते चार्थवादानां विध्येकवाक्यत्वेऽपि हेतुसमर्पकत्वाद्धेतुसापेक्षत्वेन चोदनानामत्रामाण्यमिति पूर्वक्षः, यथा वा परमते शास्त्रयोनिसूत्रे कारणवाक्य- मनुमानप्राप्तकारणानुवादीति ईअत्यधिकरणे च सांख्यस्मृतिप्राप्तकारणानुवादीति पूर्वः पक्षः, तथेहापि स्वत सिद्धप्रत्यगात्मानुवादका वेदान्ता न विचार्या इति पूर्व पक्षः। यद्वा प्रमाणभूतवेदान्तवाक्यगतिन पूर्वपक्षिणा वाच्या । तदाच्छादनेन तत्प्रवृत्तेः। किंतु प्रमेयस्य ब्रह्मणोऽद्वैतिरीत्या स्वप्रकाशप्रत्य- गात्माभेदान्न विचार्यतेति प्रमेयाश्रयणेनैव पूर्वपक्षः । अत्र चाये पक्षे प्रमा- णभूतवेदविचाररूपेणापि विचारस्याकर्तव्यताऽभिप्रेता । द्वितीये तु प्रमेयमू- तब्रह्मविचाररूपेणैव ॥ केचित्तु वेदमात्रस्य कार्यपरत्वान्न जीवादन्यद्ब्रह्मास्ति । जीवस्त्वसंदिग्ध इति पूर्वपक्ष इत्याहुः । तन्न । प्राभाकररीत्या पूर्वपक्षकरणे न्यायविवरणे जिज्ञामाधिकरणम् ११ - आन्मा. स्वप्रकाशत्वोक्तययोगात् । जीरस्य देहादिभिन्नत्वेन विचार्यत्वमभवेन शास्त्रापारम्भासिद्धेश्च । सुधायां त्वनुन्याख्याने सिद्ध व्युत्पत्यादेरतश्शदार्थ वेनोक्तत्वात्तयावर्त्यपूर्वपक्षे कार्य व्युत्पत्तिरुक्ता । इह तु टीकाया न्यायविव. रणोक्त ब्रह्मशब्दव्यावर्त्यपूर्वपक्ष उच्यत इति नेह सा वक्तव्या ॥ अन्ये तु आत्मनः स्वनः सिद्धत्वेऽपि प्रमाणतः सिध्यभावा(सिद्ध्यवि. षयत्वा)त्तत्सिद्ध्यविषयत्वाद्वा तत्प्रत्यायकानां वेदान्तानां नानुवादकतेत्याहुः । तदपि न । तत एवात्मनो विषयत्वस्यापि संभवेन निर्विषयत्वपूर्वपक्षायो- गात् । नापि जित्रा पायाः प्रयोजनमम्ति । प्रत्यग्रूपे ब्रह्मण्यहमिति ज्ञायमानेऽपि मोक्षानु गलंभात् । विषयाद्यमावादेव नाधिकारी । नापि सबन्धः । ननु कथं तर्हि श्रोत य इति विचारविधानम् । न च तदाच्छादनेन पूर्वपक्षः । विचार विधि शाक्यार्थनिर्णायकन्यायव्युत्पादकत्वादम्याधिकरणत्य तटाच्छादनायोगादिति चेन्न । वक्ष्यमाणरीत्या श्रवणस्य विचाररूपत्वाभावात । मन्तव्यः सोऽन्वेष्टव्य इल्यादेश्च ब्रह्मग्तयाऽभिप्रेतवाक्यमध्यस्थतया विष्णुरुपांशु यष्टव्य इत्यादिवत्कृत्य प्रत्ययस्याहार्थत्वेनाप्युपपत्तरविधायकत्वात् । नापि 'आत्मन्येवात्मानं पश्ये' दिति तद्विजिज्ञासस्वेति वा विधिः । मुख्यार्थयोर्ज्ञानेच्छयोरविधेयत्वात् । विधौ च लक्षणाया अन्याय्यत्वात् । अनयोरपि ब्रह्मपरतया 'यदभिधारयेद्रु दायाम्ये पन्निदध्या'दित्यादिवल्लिडो विधिशक्तिप्रतिबन्धाच्च । एतेन 'तस्मा ड्राह्मग पाण्डित्य'मित्यादेरपि विचारविधित्वं निरस्तम् । विचारस्य ज्ञानहेतुताया अन्वयव्यतिरेकप्राप्तत्वेन विध्यनपेक्षणाच्च । नियमपरिसंख्ययोश्च आत्मनः शब्दक गम्यतया माधनान्तरप्राप्त्यभावेनायोगात् । एतेनान्यपरतया प्रतीतस्यापि 'उपरि हि देवेभ्यो धारयती'त्यादेरिव तद्विजिज्ञासस्वेत्यादेरपि विधित्वमस्त्विति निरस्तम् । प्रकास्य त्वन्मते वस्तुतोऽन्यपरत्वात् । तद्वत्प्रकृतेऽप्राप्तेरभावाच्च । नाप्यध्य- यनविधेरर्थज्ञानपर्यन्ततया तदाक्षिप्तो विचार इति युक्तम् । स्वमते तस्य नित्य त्वेनगर्थज्ञापनपर्यन्तत्वायोगात् । यद्वा स्वर्गकामाधिकरणपूर्वपक्षे विश्वजिदधि करणपूर्वपक्षे च फलाभावेन नियोज्याभावेन च 'खर्गकामो यजेत, विश्वजिता यजेते'त्यादिवाक्यमिव उक्तरीत्या विषयाद्यभावेनोपपत्तिविरोधात्तद्विजिज्ञासरवे- १२ तात्पर्यचन्द्रिका - त्यादिकमप्रमाणम् । अत एवोक्तं विचारविधायकवाक्याना गतिद्वयमभ्युपेत्य सुधाया तद्विजिज्ञासस्वेति श्रुत्यर्थम्याद्याप्यनिर्णीतत्वेनेत्युक्तम् ।। केचित्तु तद्विज्ञासम्वेत्यादिक जीवात्मनो विचारविधायकम् , न तु ब्रह्मण इति सुधाभिप्राय इत्याहुः । तन्न । जीवस्यासदिग्धत्वप्रतिपादकन्याय विवरणविरोधस्य विचारमात्राक्षेपकपूर्वपक्षानानुगुण्यस्य चोक्तत्वात् । तदेतमि प्रयोक्तं न्यायविवरणे 'जीवव्यतिरिक्तेश्वराभावत्तस्य च स्वप्रकाशत्वान्न जिज्ञा स्यते'ति । एवं प्राप्ते सिद्धान्तितं भगवता सूत्रकारेण 1-ॐ ॐ अथातो ब्रह्मजिज्ञा सा ॐ ॥ १-१-१ इति । सिद्धान्तसंक्षेपम्तु- जिज्ञास्यब्रह्मशब्देन गुणपूर्त्यभिधा यिना । अपूर्णत्वेनानुभूताज्जीवाद्भिन्नं प्रतीयते ॥ १ ॥ जिज्ञास्यमेव ब्रह्म । तद्रिजिज्ञासस्व तद्ब्रह्मेत्यादिश्रुतेः। श्रौतब्रह्म शब्दोक्त्या गुणपूर्त्याऽल्पगुणत्वेनानुभूयमानाज्जीवाद्भिन्नत्वेन सदिग्धत्वाच्च । निर्दोषश्रुतिसाक्षिभ्या प्रमिते ब्रह्मजीवयोः । गुणपूर्यल्पगुणते मिथ्येति च न युज्यते ॥ १ ॥ न केवलमथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन्गुणा इति श्रुत्या गुणपूर्तिब्रह्मशब्दार्थः। किन्तु ब्रह्मशब्दावयवशक्त्यापि । अपरिच्छेदे हि तस्यावयवशक्तिः परस्यापि सम्मता। गुणपरिच्छेदोऽपि चापरिच्छेद एव । न च सकोचे हेतुरस्ति । अन्यथा कालमात्रापरिच्छेदस्तदर्थ: स्यात् । वक्ष्यते चैतत्सौत्रब्रह्मशब्दव्याख्यानावसरे । टीकायान्तु देशमात्रापरिच्छेदार्थत्वेऽपि तावतैवाणोर्जीवाद्भेदसिद्धेस्तदुपेत्योक्तम् । न च मन्तव्य इत्यादेर्विष्णुरुपाशु यष्टव्य इत्यादिवदविधित्वमिति वाच्यम् । तत्र जामितादोषोपक्रमतन्निहरणान्तै कवाक्यमध्यस्थाना विष्ण्वादिवाक्याना विधित्वे प्रतीतकवाक्यताभङ्गादेरिव प्रकृते वाधकस्याभावात् । अन्यथा 'स्वाध्यायोऽध्येतव्य' इत्यत्राप्यर्थित्व प्रमङ्गात्। प्रयाजादिवाक्यस्य स्वयमवान्तरवाक्यतया विधायकस्यापि पुनर्देश ..

जिज्ञासाधिकरणम् .. कार्यः । पूर्ण मासादिवाक्येन वाक्यैकवाक्यतावत्प्रकृतेऽपि पृथग्विाधिकस्यापि ब्रह्मपर वाक्येन वाक्यैकवाक्यतोपपत्तश्च । यदभिवाम्येदित्यादौ 'अभिघास्त्रियम्बका नाभिघायों इति मीमास-त' इति मीमासासमभिव्याहारेणेव 'यम्योभय हविरार्ति मार्छ'दित्यादी निमित्तत्वाभिधायकयच्छब्दादिनेव च तद्रिजिज्ञासस्वेत्यादी केन चिद्विधिशक्तिप्रतिबन्धाभावाच्च। आत्मन्येवात्मानं पश्येदित्यादावपि दर्श नस्य लक्षितस्य विचारम्य वा विधिसम्भवाच्च। सति बाधके विधावपि लक्षणाया। स्वीकृतत्वाच । अध्ययनविधेरपि विचाराक्षेपकताया विचारविधेरपूर्वविधि स्वादेश्च अन्यत्रोक्तत्वाच्चेति । तदेतदभिप्रेत्योक्त न्यायविवरणे 'तद्विजिज्ञासस्व तब्रह्मेति ब्रह्मशब्देन पूर्णगुणत्वोक्तानुभवसिद्धाल्पगुणजीवाभेद' इति । नन्वत्रानुव्याख्याने 'तत्र ताराथमूलत्व'मित्योंकारम्य सूत्रादित्वमुक्वा 'ओतत्वाची होकार' इति स व्याख्यातः । सुधाया च 'स्रवत्यनोंकृतं ब्रह्म परस्ताच्च विशीर्यत' इति श्रुतिबलात्प्रतिसूत्रं ब्रह्मविद्यात्वादाद्यन्तयोरोंकारस्योहः न चोह्यमानं वाक्यात्पृथक् । मन्त्रेष्वप्यूह्यमानस्य तदनवयवत्व- प्रसगात् । ओंकारार्थस्य प्रथमसूत्रवाक्यार्थे समन्वयेनावयवत्वनिश्चयाच्च । असंहिततया निर्देशस्तु सर्वसूत्रेष्वनुगतिसूचनाथ' इत्युक्तम् । तत्कथम् १ सूर्या- येत्यूह प्रति अग्नय इत्यादेरिव प्रकृते स्थानिनोऽभावात् । यथोक्तम्- प्राकृतस्थानपतितपदार्थान्तरकार्यतः । ऊहः प्रयोगो विकृत ऊह्यमानतयोदित' इति ॥ न चोहशब्देनाध्याहारो लक्ष्यत इति वाच्यम् । 'स यज्ञपतिराशिषा इषे त्वे'त्यादाविव साक'सत्याभावात् । किञ्च मन्त्रेष्वप्यूह्यमानस्य तदनवय- वत्वमिष्टमेव । ऊहप्रवरनाममन्त्रस्य द्वितीये सिद्धान्तितत्वात् । अपि च ओतत्वस्य न वाक्यार्थेऽन्वय ब्रह्मण. शब्दत उपसर्जनस्य पदान्तरोपात्तौ तत्वान्वयानुपपत्ते । अपि चार्थप्रतीत्यर्थत्वे आदावेव प्रयोगेण चरितार्थत्वा दन्ते प्रयोगवैयर्थ्यम् किञ्च ओंकारस्योत्तरत्रानुषङ्गे अनुषक्तस्य 'ड्याप्राति पदिकादित्यादेः अच्छिद्रेण पवित्रेणेत्यादेः तनूर्वर्षिष्ठेत्यादेश्च तत्र तत्रार्थान्वय- दर्शनात्प्रकृतेऽप्योंकारार्थस्य जन्मादिसूत्रेष्वन्वयो वाच्यः । स चाशक्य इति ।

१४ तात्पर्यचन्द्रिका मान्म । 'न माता उच्यते । नात्रोह शब्दो मन्त्रसाममंस्कारोह इत्यादाविव कर्मव्युत्पत्या विका ग्पर । किन्नु 'अध्याहारम्नर्क ऊह' इति प्रसिद्वैर्भावव्युत्पत्याऽध्याहार वाचकः । अत एव टुप्टीकाया नवमे 'ऊहो नाम तर्कणा । सा चैकरूपा मन्त्रसामसंस्कारेषु क्रियमाणे'त्यादिना तर्क एव मुख्य ऊहः । तद्विषय त्वान्मन्त्रादेरन्यथात्वमप्यूह इत्युक्तम् । तत्र च स्रवत्यनोंकृतमिति श्रुतिरेव यद्यप्यत्र स्रवणविशरणपरिहाररूपादृष्टफलार्थत्वं श्रुतम् । तथापि हास्यापेक्षितस्यार्थप्रत्ययस्यापि फलत्वसंभवान्न तत्त्यागः। एवञ्च स्विष्टकृदादि वदोंकारोच्चारणमुभवार्थम् । अत एव नान्ते प्रयोगवैयर्थ्यम् । नाप्युत्तरसूत्रे ओङ्कारार्थम्यानन्वयदोष । तत्र दृासंभवेन केवलादृष्टार्थत्वोपपत्तः । चैकस्यैकत्रोच्चारणे दृष्टार्थे अन्यत्रापि तथा त्यनियमः । मन्त्राणां प्रयोगकाले उच्चारणस्य दृष्टार्थत्वेऽपि जपकाले तम्यादृष्टार्थत्वदर्शनात् । अन्वेनं मातेत्या दावेकत्वस्यैकपशुके दृष्टार्थत्वेऽपि बहुपशुकेऽदृष्टार्थत्वदर्शनाच । वर्धत' इति श्रुत्या मात्रादिशब्दे उहनिषेधात् । अध्याह्रियमाणस्यापादित मन्त्रावयवत्वं च मन्त्रेण महककार्यकारित्वाभाव इति नेष्टापत्तिः । जिज्ञा सान्वितनया प्रथम प्रतीतस्यौतत्वम्य नत्रासभवेन सप्तदशारनिर्वाजपेयस्य यूप' इत्यादाविवागावतारन्यायेन तदुपम नब्रह्मान्वयसभवाच्च । अर्थवादार्थ(स्य) प्राशम्न्यस्य यजेतेत्यत्रोपसर्जनीभूनयागविशेषणत्वदर्शनाच्च । दण्डी पेंषानन्वा- हेत्यादौ दण्डस्योपपर्जनस्य विध्यन्वयदर्शनाच्च । उक्तं च वार्तिके 'विशेषण. परत्वं च दण्डीत्यादिषु दर्शित मिति । न च ब्रह्मशब्देनैव विषयमूचना दोकारवैयर्थ्यम् । न केवलं जिज्ञास्य तद्विजिज्ञासस्व तद्ब्रह्मेत्यादौ ब्रह्मपदाश्रव. णात्तस्य जीवाद्भिन्नत्वेन जिज्ञाम्यता। किन्तु 'ओमित्यक्षरमुद्गीथमुपासीते त्यादौ जीवेष्यसम्भावितगुणपूर्तिवाचकोंकारादिश्रवणादपीति युक्त्यन्तरसूचक- स्वात् । अदृष्टार्थमादाबवश्यं प्रयोक्तव्यत्वाच्च ।। यत्वव्ययनो पक्रनादावुच्चार्यमाणस्याप्योंकारस्य तदवयवत्वं सुधायामेवोक्तं तदपि तदुच्चारणस्यार्थीनुसंधानद्वारैवाङ्गत्वमभिप्रेत्य । सन्नयायरत्नावल्या तु ओंकारस्तु पृथगुच्चरितो वेदितव्यः । नाथशब्दवत्सूत्रोपनिबद्ध' इति जिज्ञासाधिकरणम् १५ यवत्वं स्यात् । यता मूत्रार्थात्पार्थक्यमेवोक्तम् । तत्रानुव्या व्याने ओतत्ववाचीत्यादिना तदर्थकथनं सर्ववेदव्याख्येयोकारार्थवाचकश्रीनारायणपदवाच्यस्य सर्ववेदार्थत्वाच्छास्त्रविष. यत्वमित्यभिप्रेत्य । न तु सूत्रार्थतया । अन्यथा भर्गादिपदानामपि सूत्राव. स एव भर्गशब्दार्थ इति तदर्थस्यापि कथनादिति भावः । मास्तु 'स्रवत्यनोंकृत'मित्यनेन साधारणोंकारस्यायमूत्रावयवता । तथापि- 'ओंकारश्चाथशब्दश्च तस्मात्प्राथमिकौ क्रमात् । तद्धतुत्वं वदंश्चापि तृतीयोऽत उदाहृतः ।। अतश्च पूर्वमुच्चार्या सर्व एते सतां मताः । इति भाप्योदाहृतस्मृत्याऽथातश्शब्दतुभ्यतयाऽऽद्यसूत्रावयवताया उक्तत्वात् अव्याख्याने तत्र ताराथमूलत्वमित्यथशब्दतुल्यतयोंकारस्याऽऽद्यसूत्रावयव. त्वक्तियुक्ता । एवं च सन्नाययरत्नावली स्रवतीत्यादि श्रुतिप्रापितसाधारणोंकार विश्या, सुधा तु ओंकारश्चेत्यादिस्मृतिप्रापितामाधारणोंकारविषयेति द्रव्ष्टयम् । यद्वा सन्नयायरत्नावल्युक्तं पृथक्त्वमूह्यमानत्वं न तु वाक्येऽनन्वय इत्यविरोध इत्यादि द्रष्टव्यम् ॥ ननु प्रतिवचनाद्यभावेन प्रश्नाद्यर्थत्वासंभवेपि'अथ शब्दानुशासन' मित्या दाविवारम्भरूपाधिकारार्थोऽथशब्दः कस्मान्न स्यात् । अत्र परेषां भाप्यं 'ब्रह्मजिज्ञासाया अनधिकार्यत्वा' दिति । तन्न । इच्छाया आरभ्यत्वासंभवेऽपि विवरणरीत्या जिज्ञासाशब्दस्य विचारलक्षकत्वेन तस्यारभ्यत्वसंभवात् । ननु आनन्तभिधानमुखेन शास्त्रीयस्याधिकारिणो न्यायतः समर्पणाभावे विगरो निरधिकारिकोऽननुष्ठेयः स्यादित्यधिकारितद्विशेषणप्रयोजनलामायानन्त यर्थितेति चेत ; न तावद्विचारविधौ त्वत्पक्षे मुमुक्षुरधिकारी मोक्षश्च फलमिति युक्तम् । विचारो मोक्षसाधनतया न प्राप्त इति तद्विधेरपूर्वविधित्वापातात् । मु सुक्षोरपि ज्ञानकामना विना विचारेऽप्रवृत्तेः त्वन्मते च वक्ष्यमाणरीत्या ज्ञान- कामनानुपपत्तेश्च । नापि विचारविधौ ज्ञानकामोऽधिकारी ज्ञानं च फलमिति युक्तम् । अध्ययनविधेर्ज्ञानकामाधिकार निषेधता त्वया ज्ञाते ज्ञाने कामनायोगत् । ..

तात्पर्यचन्द्रिका : ज्ञानज्ञाने च तदवच्छे इकविषयम्यापि ज्ञातत्वात्सुनस्तज्ज्ञाने कामनायो गादिति युक्त्या ज्ञानकामनानिषेधात् । ननु परोक्षज्ञाने कामनाऽयोगेपि परोक्षण प्रतिबद्धापरोक्षेण वा ज्ञानेन जानब्रह्मावच्छिन्ने अपरोक्षज्ञाने अप्रतिबद्धा- परोक्षज्ञाने वा कामना श्रवणरूपविचारविध्यधिकारिविशेषणमिति चेन्न इच्छाया अपरोक्षत्वात्तदवच्छेदकविषयस्याप्यपरोक्षत्वात् इच्छासमकालवृत्त्यपरोक्षज्ञानस्य विचारसाध्यत्वानुपपत्तेः। अन्यानवच्छेदेनापरोक्षज्ञानस्य विचारसाध्यत्वे च तादृशपरोक्षजाने कामना तस्य विचारसाध्यत्वं चास्तु ।। किञ्च श्रवण साध्यस्य परोक्षज्ञानस्य प्रतिबद्धापरोक्षज्ञानस्य वा तस्मात्प्राग- सत्त्वेन तदधीनाया अपरोक्षज्ञानादौ कामनायाः श्रवणविध्यधिकारिविशेषणत्वा- योगा। न च कामनाहेतुपरोक्षज्ञानादिक श्रवणात्प्रागापातप्रतीतिदशायामेव सिद्धमिति वाच्यम् : तम्या दशाया निश्चयरूपस्य तस्याभावात् । न हि वेदान्तवेद्य सर्व परोक्षज्ञानादिना निश्चित्यापरोक्षाद्यर्थ मीमासाया प्रवर्तते । संदे- हरूपस्य च तस्य तस्या दशायां भावेऽपि संदेहेन ज्ञातब्रह्मावच्छिन्नपरोक्षनिश्चय एव कामनोपपत्तिः । निश्चिते निश्चयकामनाया अदर्शनेन तम्य तस्या निश्चयविषयक संदेहस्यैव हेतुत्वात् । किञ्च त्वत्वक्षे धर्मविचारम्योत्तरकतुविधिप्रयुक्तत्वेऽपि तज्ज्ञानकामनाहीनस्य विचारेऽप्रवृत्तेः धर्मादौ चापरोक्षज्ञानानङ्गीकारात् धर्मादि- विचारे न प्रवृत्तिः स्यात् ।। किंञ्च संदिग्धस्थाण्वा दिविशेषापरोक्षज्ञानकामनातद्विशेषपरोक्षधीपूर्विका स्यात् । तस्मात्यामान्यतो ज्ञाते विशेषज्ञानकामनाया दर्शनाचं प्रति तदेव हेतुः। अवच्छिन्नज्ञाने अवच्छेदकज्ञानस्य हेतुतापि हि दर्शनादेवेति तदुल्लङ्घने साऽपि न स्यात् । तस्मात्परोक्षज्ञाने कामनां निषेधतः परस्य मते जाने मोक्षे वा विचारप्रवृत्तिपर्यन्तकामनाऽयोगात्तत्कामभ्याधिकारिणस्तस्य फलस्य च सूचने नानन्तर्यार्थेनाप्यथशब्देन । भामतीरीत्या जिज्ञासाशब्दस्येच्छावाचकत्वेऽप्या. र्थिकार्थेन विचारेणाध्याहृतस्य कर्तव्यपदस्येव श्रुतस्याधिकारार्थीथशब्दस्याप्यन्व योऽस्तु । यथोक्तं कल्पतरौ 'आर्थिके चास्मिन्नर्थे कर्तव्यपदाध्याहार' इति । न चार्थिकार्थेनाध्याहृतस्यैवान्वयो न तु श्रुतस्येत्यत्र नियामकमस्ति, 'सौर्य चळं जिज्ञासाधिकरणम् १७ म्भार्थः । निपेब्रह्मवचमकाम' इत्यादी द्रव्यदेवतासंबधाक्षिप्तन यागेन 'यदाग्नेयोऽष्टा कपालो भवति' इत्यादौ भवनाक्षिप्तभावनया च विधिप्रत्ययान्वयदर्शनाच्च । तस्मादधिकारार्थ एवाथशब्दोऽस्त्विति । उच्यते । आरभ्यन इत्यनुतवा- प्यारब्धे इदमनेनारब्धमिति ज्ञातुं शक्यत्वादधिकार्याधसूचनापाताच्च नार- अथ शब्दानुशासनमित्यादौ तु व्याकरणेऽङ्गान्तरव्यावृत्तस्याधिकारि विशेषणस्याभावेन तदानन्तर्यार्थत्वासभवान्मङ्गलप्रयोजनकोऽथशब्दोऽगत्याऽऽर- म्भार्थः । मङ्गलप्रत्यायकत्व स्वथशब्दस्याथेत्यनेन मङ्गलम्याप्रतीतेरधिकाराद्य सूचनापातात् 'तन्मान्माङ्गलिकावुभौ' इति स्मृतावोकाराथशब्दयोर्मगल- फलकत्वोक्तेश्चायुक्तम् ॥ अन्येषा भाष्ये तु 'मङ्गलस्य च वाक्यार्थे समन्वयाभावा'दित्युक्तम् । तन्न। अपदार्थत्वहेतौ समन्वयाभावे भामत्या 'पदार्थ एव हि वाक्यार्थे समन्वीयते । स च वाच्यो लक्ष्यो वा । न चेह मङ्गलमथशब्दस्य वाच्यं लक्ष्यं वेत्युक्तापदार्थत्वस्य हेतुत्वेऽन्योन्याश्रयापातात् । नापि 'न तावजिज्ञा साया मङ्गलं कत्रादिभावेन वैयधिकरण्येनान्वेति । कोदिभावे मानाभावात् । कर्नाद्यन्तरभावाच्च । नापि सामानाधिकरण्येन। जिज्ञासा मङ्गलमित्यर्थवादत्व प्रसंगादिति विवरणोक्तो हेतुः । स यूमो गिरिस्साग्निक इतिवन् 'ईक्षतेनाशब्द' मित्यत्र त्वत्पक्षेऽशब्दमितिवच्च मङ्गलत्वाकर्तव्येति हेतुत्वेनान्वयोपपत्तेः ।। एतेन ब्रह्मजिज्ञासाया मङ्गलत्वं प्रसिद्धतरत्वान्नैव वक्तव्यमित निरम्तम्, प्रसिद्धम्यैव हेतूकर्तव्यत्वान् ।। यदपि 'पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेका'दिति परेषा भाष्यम् । तम्य भामत्यनुसारेणाथशब्दम्य पूर्वप्रकृतापेक्षार्थत्वशङ्कनिरासाया- नन्तर्यार्थ इव पूर्वप्रकृतापेक्षार्थत्वेऽपि जिज्ञासाहेतुभूतस्य लाभात् फलभेदाव्यर्थ आनन्तर्यार्थत्वाग्रहोऽस्माकमिति यद्यर्थः; तर्हि भाष्ये 'आनन्तर्यार्थः' इत्युक्त्य युक्तिः । सूत्रे कल्पान्तरानुपन्यासेन पूर्वप्रकृतापेक्षार्थत्वमशक्यशङ्कञ्च । किञ्च कि नित्यः शब्दोऽथानित्य इत्यादिकल्पान्तरोपन्यासेऽपि सामानाधिकरण्यार्थ मनुषक्तस्य धर्मिणोऽनित्य इत्यत्रापेक्षायामपि न साऽथशब्दार्थः । , अन्यथा १८ तात्पर्यचन्द्रिका उतानित्य इत्यादावुतादेरपि पूर्वप्रकृनापेक्षार्थत्वं स्यात् । नापि प्रकृतादर्थादर्थान्त- रत्वाशङ्कानिरासाय, अर्थान्तरत्वं हि यतः कुतश्चित्प्रकृताच्चेद्यर्थ । पुष्कलकारणाच्चे- दानन्तर्याभिधानं विना कारणत्वासिद्धिः । आनन्तर्याभिधाने च प्रकृतादर्था दर्थान्तरत्वस्यान्तीतनया सिद्धिरिति विवरणोक्तोऽभिप्रायः । आनन्तर्यानभि धानेऽपि वैयर्थ परिहारार्थमेव प्रकृतस्य हेतुत्वसिद्धेः । अन्यथा आनन्तर्यार्थत्वे ऽपि तत्प्रतियोगिनो हेतुत्वासिद्धिः ।। ननु कारणादानन्तर्य मुख्यमव्यवधेरव्यभिचाराच्चेति तदेवाथशब्दवाच्य मिति चेन्न । अव्यवधेरकारणादानन्तर्येऽपि संभवात् । अव्यभिचारित्वं तु न मुख्यत्वे हेतुः । चैत्रो गतोऽनन्तरमेव मैत्र आगत इत्यादावमुख्यत्वाभि मानाभावात् । अनन्यथासिद्धनियतानन्तरमावित्वादिरूपे कार्यलक्षणादौ नियतपदानर्थक्यप्रसंगाच्च । कारणस्य प्रकृतत्वं मुख्यमित्यपि सुवचत्वाच्च । पूर्वप्रकृतादर्थान्तरत्वाभिधानेऽप्यानन्तर्यार्थस्यान्तीनतया सिद्धेश्च । तस्मादस्यै वादि मूत्रत्वेन पूर्वप्रकृतार्थपाङ्कर्यशङ्कानुदयात् 'आनन्तर्येऽधिकारस्येति भाष्यो दाहृतस्मृतिविरोधादधिकार्याधसूचनप्रसगाच्च न प्रकृतादर्थादर्थान्तरमथशब्द स्यार्थः । एनमानन्तर्यार्थत्वे स्थिते न तावत्तदानन्तर्यमध्ययनमात्रात् । 'शान्तो दान्त' इत्यादिश्रुतिविरोधात् । नापि कर्मविचारात् । तदनन्तरं ब्रह्मजिज्ञासे. त्यत्र क्रमे श्रुत्यर्थगठनस्थानमुख्यप्रवृत्तिकनाणा तत्प्रमाणानामन्यतमस्यभावात् । विस्तृतं चैत्रदन्यत्र ॥ नापि परेषा भाष्योक्तत् 'नित्यानित्यवस्तुविवेकः इहामुत्रार्थभोगविरागः शमदमादिसंपत्तिर्मुमुक्षुत्वं चे ति साधनचतुष्टयसंपद्रूणदधिकारात् । तथाहि- नित्यानित्यवस्तुविवेको नाम किं ब्रह्मैव नित्यमन्यदनित्यमिति विवेकः, किं वात्मानात्मसमुदाये नित्यत्वानित्यत्वे स्तो धर्मों, तयोश्च धर्मिभ्या भवितव्यमिति निश्चयः । यद्वाऽनित्यस्य संसारस्य किंचिदधिष्ठानमस्तीति निश्चयो न तु ब्रह्मेति । नाद्यः। ज्ञातव्यस्य प्रागेव ज्ञाततया विचारवैफल्यात् । न च सगुणनिर्गुणविवेकाखण्डसमन्वयाद्यर्थ शास्त्रमिति युक्तम् । भामत्या नित्यानि त्यशब्दयोः सत्यानृतपरत्वेनोक्तनया ब्रह्मैव सत्यमन्यदनृतमिति विवेकस्य प्रागेत्र जिज्ञासाधिकरणम् १९ सिद्धौ तदर्थम्य सगुणनिर्गुणविवेकादेरप्यनपेक्षितत्वात् । न हि श्रुतितात्पर्यधी: स्वरूपेणापेक्षिता, किंतु जेयनिश्चायकतया । न चोक्तादन्यन्मुमुक्षुज्ञेयमस्ति । जीवनमभेदम्यापि ब्रह्मा तेरिक्तनया तन्मिथ्यात्वस्य तदभेदस्यापि ब्रह्ममात्रतया तत्सत्यत्वस्यापि तेनैव निश्चितत्वाच्च । न द्वितीयः, तन्मात्रेणानात्मप्रहाणेनात्म- विचारे प्रवृत्ययोगात् । ऐहिकामुमिकभोगविरागायोगाच्च । नान्त्यः । ब्रह्मशब्दार्थवादे. प्रकारस्याज्ञानेऽपि वस्तुतो ब्रह्मगोऽनात्माधिष्ठानस्य शास्त्र वेद्यस्य ज्ञातत्वेन शास्त्रवैयर्थ्यात् । न च विवरणरीत्या नित्यानित्यशब्दो ध्वंसप्रतियोग्यप्रतियोगिपरौ । ततश्च ब्रह्मज्ञानफलं स्थायि कर्मादिफलं त्वस्था- यीति विवेको नित्यानित्यविवेक इति युक्तम् । प्रतिपन्नोपाधावत्यन्ताभाव- प्रतियोगित्वरूपबाध्यत्ववतोऽनात्मनो ध्वमप्रतियोगित्वायोगात् । पारामार्थिकत्वा कारेणात्यन्ताभावः स्वरूपेण तु ध्वंस इति चेन्न । पारमार्थिकत्वस्याबाध्यत्व रूपत्वेनान्योन्याश्रयात् । तथाऽत्यन्ताभावप्रतियोगित्वस्य निराकारे ब्रह्मण्यपि संभावाच्च । अतात्विके रूप्यादावनित्यत्वाव्यवहाराच्च । 'गौरनाद्यन्तवती एषोऽश्वत्थः सनातन' इत्यादिश्रुत्यनुसाराय मोक्षेऽप्यतात्विकी अनुवृत्तिनिवृत्तिन्तु तात्विकी. मुक्तबन्धाद्वैषम्यं तु तात्विकनिवृत्तिमत्तामात्रेणेत्यापाताच्च ।। किञ्च विवेको भेदस्य तद्व्याप्तस्य वा ज्ञानं, तस्य च भ्रमत्वे ब्रह्मविचारो न नित्यफलकः स्यात् । प्रमात्वे तु भेदः सत्यस्यात् । तस्मात्परमते न नित्यानित्यवस्तुविवेको युक्तः। नापीहामुत्रार्थभोगविरागः । विवरणे विष. यैरपि निन्यात्मस्वरूपसुखमेवाभिव्यज्यते, न तु जन्यं सुखमम्तीत्युक्तत्वेन वैष यिकपुखेऽपि विरागायोगान् । मोक्षे रागवतस्ततो भेदहीने भोगे विरागायो- तत्वतम्तद्भेदहीनत्वेऽपि तदभेदहीनत्वमात्रेण विराग इति चेन्न । उभयाभावस्य व्याहतत्वात् । दृश्यते चापारमार्थिकस्यापि रूप्यस्य ने रूप्यमिति शुक्तिधर्मिकलौकिकपारमार्थिकभेदप्रतियोगित्वम् । शमदमादिमम्प- त्तिरित्यत्र चादिशब्दो न युक्तः । तेन तितिक्षादेरेव ग्रहणं न तु विवेकादे रिति नियमहेतोस्तितिक्षानुगतस्य विवेकादिव्यावृत्तस्य चोपसंग्राहकधर्मम्या भावात् । मुमुक्षा न परपक्षे युक्ता । मोझस्य नित्यसिद्धात्ममात्रत्वेन २० तात्पर्यचन्द्रिका तत्रेच्छायोगात् । वृत्त्युपलक्षितम्याप्यात्मनो वृत्तौ पश्चादिव पूर्वमपि सत्त्वाच्च । किच किनई मुक्तान्यामिनीच्छा मुमुक्षा, चिन्मानं मुक्तं स्यादिति वा । नाद्यः, वन्मतेऽहमर्थस्य मुक्तयनन्वयात् । नान्त्यः, जातेष्टयधिकारिणः पितुः पुत्रस्य स्वार्थत्वात्पुत्रः पूतादिः स्यादितीच्छावत्प्रकृते चिन्मात्रस्येच्छाश्रया हमर्थार्थत्वाभावेन तादृशेच्छाया अदर्शनेन विपरीतेच्छया एव च दर्शनेन ज्ञान स्यानिष्टफलत्वापातात् ॥ किञ्च किं भामतीरीत्या साधनचतुष्टये पूर्वपूर्वस्य उत्तरोत्तरहेतुत्वेन मुमुक्षेत्राधिकारिविशेषणमन्यत्तद्वेतुभूतं, किं वा विवरणैकदेशोक्तरीत्या मुमु- क्षावद्विवेकादिरप्यधिकारिविशेषणम् । आये मुमुक्षानन्तर्य मेवाथशब्दार्थः स्यान्न चतुष्टयानन्तर्यम् । अन्यथा विवेकहेत्वानन्तर्यमपि तदर्थः स्यात् । अन्त्येऽपि तत्कि सामर्थ्यादेरिवान्वयव्यतिरेकाभ्या गम्यं किं वा गृहदाहादेरिव शास्त्रात् । नाद्यः। शमाद्यभावेपि मुमुक्षामात्रेण विचारदर्शनात् । ननु स विचारः शूद्रयागवन्न फलपर्यन्तस्तत्पर्यन्तस्तु शमाद्यभावे नास्तीति चेन्न । तथापि विरागशमदमादिमुमुक्षासु सतीषु विवेकाभावेन फलपर्यन्तविचारभावा. दर्शनात् । नान्त्यः । श्रुत्याद्यवगतशेषत्वस्यापि मन्त्रस्य वस्तुसामर्थ्यांपर पर्यायलिनानुष्ठेयप्रकाशनद्वारैव शेषत्ववदारुण्यादेरेकडायन्यादिद्रव्यावच्छेद- द्वारेणैव क्रयशेषत्ववच्च विवेकादेरपि वैराग्यादिद्वारैव विचारहेतुत्वस्य न्याय्य- त्वात् । 'परीक्ष्य लोका'नितिश्रुतिसिद्धत्वाच्च मुमुक्षावदधिकारिविशेषणत्वा- योगात् । न हि यागे स्वर्गकामनावत्तद्धेतुभूतमप्यधिकारिविशेषणम् । अस्माकं तु मते यथाशास्त्रं विवेकादेरधिकारिविशेषणवैराग्यादिहेतुत्वं, शमादे- स्त्वधिकारि वेरोगत्पमित विशेषणाना चतुष्ट्रास्वमिति परोक्तं न युक्तम् ॥ केचितु नियानित्यवस्तुविवेक दीनि न ब्रह्ममीमामाधिकारिविशेष. तेषा तत्साध्यत्वेतान्योन्याश्रयान् । न च ब्रह्मज्ञानफलमेव नित्यमन्यदनित्यमिति विवेको वैशेषिकादिशास्त्रान्तरान् । प्रथममेवा-ययन- विधिवश्यतया पुरुषस्य शास्त्रान्तरानवकाशात् । तत्रोक्तनित्यानित्यविवेकस्य वेदान्तविरुद्धत्वाच्च । नापीतिहासपुराणादिना । विचारात्प्राक् तेन तदनि- णानि ।

जिज्ञासाधिकरणम् २१ तथाऽध्ययन श्चयात् । अन्यथा ब्रह्मनिश्चयोऽपि तेनैव स्यात् । शमढमादीनि तु निदिध्यास नाङ्गानि । 'तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्ये वात्मनं पश्ये दिति श्रुतावेवंविच्छब्देन शास्त्रजन्यज्ञानमनूद्य पश्येदिति निदि ध्यासनाङ्गतया तेषां विधानान् । न तु विचाराङ्गानि । इहैव विचारशास्त्रे 'शमदमाधुपेत. स्या'दित्यत्र तद्विधानादित्याहुः । तन्न। 'यत्त्वादौ श्रद्धया सिद्धं पुनायेन साधित'मितिन्यायेन 'अनित्यत्वात्सुदुःखत्वान्न धर्माद्या. परं सुखम् । मोक्ष एव परानन्दः' इत्यादीतिहासादिना वा 'नास्त्यकृतः कृतेने' त्यादिश्रुतितः, आपाततो वा, श्रुतिमूलहितैषिपित्रादिवाक्येन वा, श्रव. णेन वा, मननात्मकविचारात्प्रागपि श्रद्धामात्रेण नित्यानित्यविवेकसिद्धे. । अन्यथा त्वन्मतेऽप्यपशूदमधिकारे ज्ञातेऽशूदम्यैतच्छास्त्रविचारे प्रवृत्तिः. प्रवृत्तौ चैतच्छास्त्रेणापशू द्रमधिकार इत्यन्योन्याश्रयः स्यात् । विधावप्यधीते स्वाध्याये 'अष्टवर्ष ब्राह्मण'मित्यादि वाक्येनाष्टवर्षत्वादेरधि कारिविशेषणत्वज्ञानं, तज्ज्ञाने चाध्ययने प्रवृत्तिरित्यन्योन्याश्रयः स्यात् । ब्रह्मज्ञानस्यानन्तस्थिरफलत्वनिश्चये तदर्थिनो ब्रह्मविचारे निश्शङ्क प्रवृत्तिः विचारेण च तन्निश्चय इत्यन्योन्याश्रयः स्यात् । फलज्ञानं संभावना- स्मकं चेद्विवेकोऽपि तथास्तु ।। यद्यपि त्वन्मते पूर्वप्रवृत्तेन कर्मविचारेण कर्मणामल्पास्थिरफलत्वं निश्चित तथापि न तन्निश्चय एव नित्यफलर्थिनो ब्रह्मविचारे प्रवृत्तिहेतुः । भिन्न विषयत्वात् । अतिप्रसङ्गाच्च । नापि कर्मणामल्पास्थिरफलत्वनिश्चयसहितो ब्रह्मज्ञानस्यापाततोऽनन्तस्थिरफलसन्देहस्तद्धेतुः । अन्यस्यानुपायत्वनिश्चयेन ततो निवृत्तिमात्रसिद्धावपि तस्योपायत्वानिश्चये तदुपेयार्थिनस्तत्र निश्शङ्कम प्रवृत्तेः । एवंविदिति वाक्येन शमादीनां निदिध्यासनाङ्गत्वेऽपि 'प्रशान्त चित्ताय शमान्विताय - प्रोवाच तां तत्वतो ब्रह्मविद्या'मित्यादिवाक्यावगतं श्रवणाङ्गत्वं च न विरुद्धम् ॥ किञ्च 'परीक्ष्य लोकान् कर्मचितान्ब्रह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थ स गुरुमेवामिगच्छे'दित्यादौ विवेकादीनां श्रवणाङ्गोपसत्ते. पूर्व तथा .. २२ तात्पर्यचन्द्रिका भावश्रुतेः कथं श्रवणानन्तरभावित्वम् । न च नित्यानित्यविवेकमानं विचार फलं येन तद्वैयर्थ स्यात् । तस्मादथशब्दस्याधिकारानन्तर्यमेवार्थः । तदर्थत्वं च स्वमत एव युक्तं, न तु परमत इत्यभिप्रेत्याह भाष्यकर:- अधिकारा नन्तर्यार्थश्चेति ॥ टीकायां तत्फलतयेति पाठस्साधुः, न तु तत्परतयेति । विघ्नोत्सारणा- साधारणकारणरूपस्य विष्णुम्मरणादथशब्दोच्चारणदेर्मङ्गलस्याशब्दार्थत्वेन तत्पर- त्वायोगान् । प्रशस्तरूपमङ्गलात्मकस्य ब्रह्मणोऽथशब्दावयवाकारार्थत्वेऽपि तस्येहा प्रस्तुतत्वात् 'तस्याभिधेयमर्थमाह' इत्युत्तरग्रन्थाननुगुणत्वात् मङ्गलप्रयोज- नक इति सुधाग्रन्थविरोधाच्च । 'मङ्गलोक्यादे.' इति टीकाया अपि विन्न निवर्तकशब्दोच्चारणादेरित्येवार्थः । अन्यथा 'शङ्खवीणावेणुध्वनिवत् श्रुतितो माङ्गलिकत्वादिति सुधाविरोधात । तत्परतयेति पाठेऽप्ययमेवार्थोऽनुसंधेयः । एवञ्चाथशब्दो मङ्गलार्थ इति भाप्यस्याथशब्दो विघ्नोत्सरणासाधारणकारणा- मकानुष्ठेयविष्णुस्मरणाथशब्दोच्चारणरूपमङ्गलप्रयोजनकः प्रशस्तरूपाननुष्ठेयरूप- विष्ण्व मिधायकश्चेत्यर्थद्वयं द्रष्टव्यम् ।। द्वितीयमाक्षिपतीति ॥ अवश्यवक्तव्यार्थत्वार्थाधिक्ययोस्तदभावयोश्च लोके शब्दान्तरेषु दर्शनादथशब्दे तत्पन्देहेन प्रश्नमात्रमाद्यतृतीययो, द्वितीये तु स्वरूपाधिक्यस्य शब्दान्तरेष्वदर्शनादथशब्दे तदाक्षेप इति भावः । कथं- शब्दमाक्षेपपरतया व्याख्याय प्रश्नपरतयापि व्याचष्टे-तृतीयेऽपि पृच्छतीति ।। इति न्याय इति ।। सामान्यव्यातिरेवानुमन्धेया । यथा देवेषु चतुर्मुख इति दृष्टान्तसंभवात् । न तु यः शब्द इति विशेषव्याप्तिः । दृष्टान्ता भावादिति भाव । अत इत्यम्यात:शब्दपरत्वं हेतुपरत्वमसकृदावृत्तिं तृतीय उदाहन इत्यनयोरावृत्ति प्राथमिकावित्यस्य वचनव्यत्ययेनानुषङ्गं चाभिप्रेत्य व्या चष्टे – अतश्च तृतीयतयेति ॥ महतश्चतुर्मुखादिति ॥ महत्तत्त्वाभि मानिनश्चतुर्मुखादित्यर्थः । अयं वै लोकः प्रथमा महानाम्नीति ॥ विदा मधवन्नित्यादिका ऋक् पृथिवीलोकस्थविष्णुवाचिकेत्यर्थः । अरुच्येति ।।

३ .. जिज्ञासाधिकरणम् २३ सच्छूद्रस्य देहान्तरे वैदिकब्रह्मविद्याधिकारेऽपि नैतदेहेऽधिकारः। देहान्तरे ऽधिकारश्च नेदानी प्रवृत्त्युपयोगी(वृत्त्युपयोगी)त्यरुच्येत्यर्थः ॥ अध्ययन बललब्धापीति ॥ 'अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यत' इत्यादे रित्यर्थः ।। अन्यायाध्ययनेति ।। अभक्तानधिकारिकृतत्वमन्यायत्वम् ॥ भक्तिपूर्वकाध्ययन(वत्व) मिति ॥ शमादिकमप्यत्र विवक्षितम् ॥ उत्तरोक्ता प्राचुर्येणेति ।। पूर्वपूर्वस्मिन्निति शेषः। ततश्चायमर्थः - समानाधिकरणाना वेदाध्ययनशमादिविष्णुपादैकसंश्रयत्वादीना मध्ये यस्य शमादिविष्णुपादक संश्रयत्वादिके अप्रचुरे, अध्ययनं तु प्रचुरं सोऽधमः | यस्य विष्णुपाद संश्रयत्वादिकमेवाप्रचुरमध्ययनशमादिके तु प्रचुरे स मध्यमः । यस्य तु विष्णुपदैकसंश्रयत्वादिकं प्रचुरमध्ययनशमादिके त्वप्रचुरे स उतम इति ।। यतो नारायणप्रसादाहते न मोक्ष इत्यादि । ननु प्रकृतम्य हेतुत्ववाचकेनात:शब्देन कथमिदं लभ्यम् । अधिकारिविशेषणत्वेन मोक्षस्य प्रकृतत्वेऽपि तं प्रति नारायणप्रसादस्य साधनत्वादेरप्रकृतत्वेन तस्यान इत्यत्र प्रातिपदिकेन परामर्शसम्भवेन तस्य विचारकर्तव्यतायां हेतुत्वम्य विभक्त्यो- त्ययोगात् । मैवम् । यमेवैष वृणुत इत्यादिश्रुत्या प्रयोजनाभावप्रयुक्तानार- म्भणीयत्वशङ्कानिरासहेतोरन्यस्याभावात् । सुवेणावद्यतीत्यादौ द्रवद्रव्यमिति- वद्यत इत्यादिभाष्योक्ताध्याहारेण शब्दतः प्रतत्वसम्भवात् । 'यत्रानवसर' इतिश्लोके यत इत्याद्यन्याहारसमर्थनपरतयापि व्याख्येयः । यद्वा जन्मादिमूत्रे प्रामाणिकत्वाज्जगत इदंशब्देन परामर्शवदत्रापि प्रसादादेशिहे. तुत्वादेः प्रमाणिकत्वादेतच्छब्देन परामर्श.। बुद्धिसन्निधानमेव हि प्रकृ तत्वम् । अत एव 'तमेवं विद्वा'नित्या दिना तस्य प्रामाणिकता दर्शिता भाष्ये। यद्वा एतत्सूत्रनिर्णतव्येन 'नारायणोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादित्यादिविचारविधिवाक्येनोपस्थापितत्वाद्विचारस्य मोक्षप्रयोजनक- त्वमत शब्दार्थः । व्याख्येये प्रकृतस्य व्याख्यानेऽत इति परामर्शसभवात् । यद्वा अनुव्याख्यानोक्तरीत्या मीमासाङ्गभूतब्रह्मतर्के प्रकृतत्वात्सिद्धे व्युत्पत्यादि- कमिव विचारस्य मोक्षहेतुत्वमत:शब्दार्थः ।। यद्वा जन्मादिसूत्रे ब्रह्मणो अत एव तात्पर्यचन्द्रिका -- विचारसाध्यज्ञानजन्यप्रसादद्वारा मोक्षदत्वस्य वक्ष्यमाणत्वात् 'अथैष ज्योति रित्यादौ वक्ष्यमाणेऽप्येतच्छन्ददर्शनाद्भगवत उक्तद्वारेण मोक्षदत्वस्यातश्शब्दा र्थत्वोपपत्तिः । यद्वा मुमुक्षारूपाधिकारानन्तरं विचारः कर्तव्य इत्यथब्रह्मजि ज्ञासारदाभ्यामुक्ते विचारवि-यधिकारिविशेषणेच्छाविषयत्वेन लब्धं मोक्षस्य प्रयोजनत्वमत इति हेतूक्रियते । न चात्र द्वितीयपक्षेऽधिकार्यादेरप्यतश्शब्देनैः परामर्शसभवादथशब्दादिवैयर्थ्यम् । शमादेरधिकारिविशेषणस्य सिद्धस्य प्रवृत्यङ्गत्वं, प्रयोजनादेस्त्वसिद्धस्यापि बुद्धिस्थस्य, तत्रापि विषयस्य नासिद्ध त्वनियमः, प्रयोजनस्य तु तन्नियम इत्यादिविशेषज्ञापनार्थ पृथक्सूचनात् । यद्वा उपनिषद्भाष्यादिरूपसिद्धार्थकथनात्मकोपदेशाधीनवाक्यार्थग्रहणात्मकस्य श्रवणस्य मननरूपजिज्ञासाधिकारिविशेषणत्वाच्छ्वणविषयस्य मोक्षप्रसादादि साध्यसाधनभावस्याथशब्दोपस्थापितत्वाद्धेतुत्वयोग्यत्वाच्चात इति परमर्श इति । अनुव्याख्याने तु. अतो यथार्थबन्धस्य विना विष्णुप्रसादतः । अनिवृत्तेस्तदर्थ हि जिज्ञासात्र विधीयते ॥ प्रत्यक्षवच्च प्रामाण्य स्वत एवागमस्य हि । व्युत्पत्तिः प्रथमा तस्माद्वर्तमानेऽगते ततः ॥' इत्यादिना बन्धस्य मिथ्यात्वात्तन्निवृत्तेः प्रसादनरपेक्ष्यान्न भगवत्प्रसा दार्था जिज्ञासा मुमुक्षुणा कर्तव्येत्यादिशानिरासाय प्रयोजनसाधकं जगत्सत्य त्वादिकमप्यतःशब्देनोक्तम् । विषयसिद्धिहेतुयुक्तिष्वपि स्वप्रकाशप्रत्यगर्थाभिन्न त्वान्न विषयत्वमिति प्रमेये आरोपिताकारशङ्कानिरासकृद्या ब्रह्मपदसूचिता युक्तिः तदतिरिक्ता 'शब्दस्य न प्रामाण्य, प्रामाण्येऽपि सिद्धार्थ न प्रामाण्य'मित्या- दिका प्रमाण आरोपिताकारशङ्कानिरासकृयुक्तिरप्यतःशब्देनैव सूचिता । अपे क्षितार्थहेतुसूचकत्वादतःशब्दस्येत्युक्त्वा, 'यतोनुभवतः सर्व सिद्धमेतदतोऽपि च' इत्यादिना बुद्धौ विपरिवर्तमानं हि साक्षात्प्रकृतं, ग्रन्थोक्तत्वं तु तल्लिङ्गं. बन्धसत्यत्वादिकं चानुभवसिद्धत्वात्प्रकृतमिति मतान्तरमुक्त्वा, जिज्ञासाधिकरणम् २५ 'अतस्तदर्थ सक्षेपादत इत्यभ्यसूचयत्' इत्यादिना मीमांसाङ्गभूतब्रह्मर्काख्यतर्कशास्त्रे सूत्रकृत्कृते प्रकृतो जिज्ञासाकर्तव्य स्वोपयोगी युक्तिकलापोऽत.शब्दार्थः । तर्कशास्त्रस्य मीमासात्वं च तन्नि- ीतस्वरूपसख्याबलाबलादिभिः प्रमाणैरिह प्रमेयशोधनादिति मतान्तरमुक्तम् ॥ तदेवं स्वर्गादिसाधने ज्योतिष्टोमादौ यथा तत्कामस्त्रैवर्णिकोऽधिकारी तथा विचारस्य सत्यपि विषये फले च मुमुक्षुः त्रैवर्णिकोऽधिकारी न तु शान्त्या. दिकमपि तद्विशेषणमिति शङ्का राजसूयादौ राजत्वादिरिव वचनाच्छान्न्यादिरपि तद्विशेषणमिति सूचयताऽथशब्देन परिहृता । विषयप्रयोजनयोरभावानिरघि. कारित्वमिति शङ्का तु तत्समर्पकाभ्यामतश्शब्दब्रह्मशब्दाभ्या निराकृता ।। एवं सत्यपि विषये जिज्ञासा न साक्षान्मोक्षहेतुः । नापि ज्ञानद्वारा, तस्य 'कर्मणा ज्ञानमातनोती'त्यादिश्रुया कर्म गापि सिद्धेः । किच्च ज्ञानमपि न साक्षान्मोक्षहेतुः। नापि भगवत्प्रसादद्वारा । तस्य 'तत्कर्म हरितोषं य' दित्यादिना कर्मणापि सिद्धेः । ज्ञानेनाज्ञाननिवृत्ती प्रसादस्यानपेक्षितत्वा- चेतिशङ्का अत शब्देन प्रसादादेर्मोक्षादिहेतुत्व सूचयता परिहृता । अहमिति ब्रह्मणि ज्ञायमानेऽपि मोक्षानुपलंभान्निष्प्रयोजनत्वमिति शङ्का तु विषयसूचकेन ब्रह्मपदेनैव निरस्तेति द्रष्टव्यम् ॥ यद्यपि विषयादिकं समन्वयाध्यायादौ वक्ष्यते, । तथापि शास्त्रेण विषयादिकं निश्चित्य शास्त्रप्रवृत्तावन्योन्याश्रयादादौ तत्सूचनीयम् । अध्ययन विधिवाक्यवदेतत्सूत्रस्यापि शास्त्रान्तर्गतस्य शास्त्रारम्भप्रतिपादकेन स्वेनैवारम्भ सिद्धेनीनवस्था ॥ यद्यपि विषयादिकमागमादेवापाततः प्रतीत; तथापि पूर्व पक्षोक्तन्यायेन तदभावशङ्कया न्यायेनैतत्प्रतिपादयितुं सूत्रम् । एवञ्चाथशब्द लब्धहेतुत्वस्यैवातश्शब्देनोक्त्या भास्करस्येव नास्माकं पौनरुक्तयम् । अधिकारि विशेषणस्य शमादेविचारकारकत्वस्याथशब्देन लाभेऽपि सप्रयोजनवादेर्विचार कर्तव्यताप्रमाणस्यातश्शब्देनोक्तेः । भामत्यां तु ब्रह्मशब्देन तत्प्रमाणं वेद उपस्थापितोऽत इति परामृश्यते। स च योग्यत्वात्तद्यथेहेत्यादिः । तथा च ब्रह्मज्ञानकर्मणोनित्यानित्यफलस्वपति 4 तात्पर्यचन्द्रिका पादकादागमादिहामुत्रफलभोगविगगादि ततश्च ब्रह्मजिज्ञासा । एवञ्च नात- श्शब्देन जिज्ञासा प्रति साधनकलापस्य हेतुतोच्यते, येन पौनरुक्तयम् । किन्तु तत्स्वरूपालाभपरिहारोऽभिधीयत इत्युक्तम् । तन्न। हेतोर्विचारकर्तव्य त्वादिरूपसाध्यान्वयत्यागेन विरागादिसाधनान्वयायोगात् । अथशब्दार्थानन्तयों पपर्जनम्य विरागस्यातश्शब्दोक्तहेत्वन्वयायोग्यत्वाच्च । अथशब्दोपस्थापितविरा गेणैव स्वजनकस्य तद्यथेत्यादेर्वाक्यम्य साक्षादेवोपस्थापनसंभवे ब्रह्मशब्देन परम्परयोपस्थापनोक्तययुक्तेश्च । विरागहेतुत्वेन त्वदभिप्रेतसत्यानृतविवेके नेह नानेत्यादेरेव हेतुतया वक्तव्यत्वेन तद्यथेत्याधुक्तययुक्तैश्च ॥ विवरणे तु अथशब्दगृहिताया एव साधनकलापस्य ब्रह्मविचारहेतुताया 'अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृत'मित्यादिनाऽपवादशङ्कायां प्राप्तायां तन्निराकरणं पुनरथशब्दोक्तहेतुत्वाभिधायिनातश्शब्देन क्रियत इत्युक्तम् । तद पिन । अथशब्दोक्तानधिकाभिधायिनाऽतश्शब्देनापवादशानिरासेऽथशब्दे- नैव तन्निरासप्रसङ्गात् । हेतुत्वसाधकहेतोः : कथन एवापवादशानिरास:, न तूक्तस्यैव हेतुत्वस्य पदान्तरेण कथन इति दिक् ॥ केचित्तु अथशब्दो जिज्ञासाविशेषणीभूतकालपरः । न हि ब्रह्मविचा रस्य कर्तव्यतामात्र साध्य,किन्तु धर्मजिज्ञासानन्तर्यविशिष्टम् । अतश्शब्दस्य तु तस्मिन्विशिष्टे साध्ये कर्मणामल्पास्थिरफलत्वनिर्णयसहितो ब्रह्मज्ञानस्यानन्त स्थिरफलतापातप्रतीतिरूपो विशिष्टो हेतुरर्थः । ततश्च सार्थक पदद्वयमित्याहुः । तदपि न। अथशब्दस्वोक्तप्रतीत्यानन्तर्यार्थत्वेऽकारणानन्तर्योक्तवैययनाथशब्दे नैव तस्याः हेतुत्वलाभादतःशब्दयात् । अथशब्दस्य न्यानन्तर्यार्थत्वे तु नोक्तप्रतीतिहेतुत्ववाचकत्वमतश्शब्दस्य । प्रकृतम्य हेतुत्वार्थोऽतश्शब्द इत्यस्य वन्मतस्य भङ्गात् । किश्च सिद्ध व्युत्पत्त्यभावाद्विवाराकर्तव्यत्वे त्वद्रोत्या पूर्व- पक्षिते ब्रह्मविचारकर्तव्यतामात्र सिद्धान्तयितव्यम् । न तूक्तानन्तर्यविशिष्टम् । न हि सिद्ध व्युत्पत्त्यभावेऽन्यदापि विचारस्य कर्तव्यता सिध्यति । तदेवं अथशब्देनाधिकारमत इत्यमुना फलम् । ब्रह्मशब्देन विषयं सूचयामास सूत्रकृत् ॥ -- जिज्ञासाधिकरणम् २७ भामत्यां तु निश्चिते जिज्ञासायोगात्सन्दिग्धत्वेन ब्रह्मैव विषयः । ज्ञानमेवेच्छाविषयत्वेन प्रयोजनमिति जिज्ञासापदेनैव विषयप्रयोजने सूचिते इत्युक्तम् । तन्न। न हि पूर्वपक्षिणा ब्रह्मज्ञाने इच्छामङ्गीकृत्य तद्विचार आक्षिप्तः। किन्तु विषयाद्यभावेनेच्छैव नोदेतुं युक्तेत्याक्षिप्तम् । न च तं प्रतीच्छाया विषयादिसाधनं युक्तम् ।। विवरणे तु अथशब्देनाधिकारी जिज्ञासापदेनेच्छाविषयत्वेन ब्रह्मज्ञानं प्रयोजन अर्थादधिकारिविशेषणं मोक्षो ब्रह्मज्ञानफल विषयश्च सूचित इत्युक्तम् । तदपि न । त्वन्मते जिज्ञासा पदस्य विचारलक्षकत्वेन ज्ञानेच्छापरत्वस्याभा- वात् । न हि विर्ष बुभुक्षते, कूलं पिपतिषतीन्यनेन विषभक्षणादेरिष्टत्वसिद्धिः । प्रतीतस्यापि मुख्यार्थस्य त्यक्तत्वात् । पूर्वपक्षिणेच्छानङ्गीकाराच्च । त्वन्मते ज्ञानेच्छाऽसंभवम्योक्तत्वाच्च । मुमुक्षाया अधिकारिविशेषणत्वनिरासाच्च । विषयमूचन त्वसन्दिग्धादन्यमूचनं विना न शक्यम् । अन्यथा शास्त्रारम्भसा मर्थादेव वा, कर्तव्यतोक्तिसामदेिव वा तत्प्रयोजकविष्यादिसूचनसभत्रा जिज्ञासापदादिना तत्सूचनोक्तययुक्तिरिति । ब्रह्मशब्दश्च 'अथ कस्मादुच्यते ब्रह्मेति, बृहन्तो ह्यस्मिन्गुणा' इत्यादि श्रुतिबलाद्गुणपूर्त्यर्थः । परपक्षेऽखण्डत्य ब्रह्मपदलक्ष्यस्यैव जिज्ञास्यत्वात् श्रुति. सूत्रस्थब्रह्मपदस्यैव मुख्यार्थत्यागः ।। यच्च परैर्ब्रह्मणो जीवाद्भेदे तद्रुपविकलत्वेनाल्पत्वं स्यादिति निरङ्कुशमह. स्वासिद्धेस्त्रिविधपरिच्छेदाभावरूपमहत्त्वार्थेन ब्रह्मपदेनैव जीवाभेदसिद्धिरित्यु- क्तम् । तन्न । तेनैव घटाद्यभेदप्रसङ्गात । जीवस्वरूपस्य तात्विकत्वाद्धटादेश्चातथा स्वाद्वैषम्यमिति चेन्न । देशकालयोरतात्विकत्वेऽपि गगनादाविव धटादों तात्वि कस्य वा, स्वतुल्यमद्रूपस्य वा देशाद्यपरिच्छेदस्याभावेनाल्पत्ववदभेदस्यापरिच्छे दरूपत्वे वस्तुनो धटादेरतात्त्विकत्वेऽपि ब्रह्मणि तात्त्विकस्य स्वतुल्यसद्रुपस्य वा वम्त्वपरिच्छेदस्याभावेनाल्पत्वप्रमङ्गात् । न च परिच्छेदकस्य देशादेर्धटतुल्य सद्रूपत्वाद्धटादेर्देशादितोऽल्पता,ब्रह्मणि तु परिच्छेदकस्य घटादेर्वस्तुनः स्वतु- ल्यसदृपत्वाभावात्तदभेदाभावेऽपि न वस्तुतोऽल्पता। जीवस्य तु ब्रह्मतुल्य. " तात्पर्यचन्द्रिका सिद्धेः । तात्विक- सदूपत्वात्तदभेदाभावे वस्तुतोऽल्पता स्यादिति वाच्यम् । तत्वतः सद्रूपे ब्रह्मणि व्यवहारतः सद्रूपदेशादिनाऽपरिच्छेदेऽपि महत्त्वसिद्धिप्रसङ्गात् । स्वतुल्यसद्र- पघटाद्यनात्म केऽपि गगनादावल्पत्वबुध्यभावाच्च । अन्यथा कालापरिच्छिन्ने ऽपि परमावादी देशपरिच्छेदेनाल्पत्वबुद्धिवदुभयापरिच्छिन्नेऽपि गगनादौ भेद मात्रेण परिच्छिन्नत्वबुद्धिः स्यात् ॥ ननु घटादौ स्वतुल्यसद्रुषदेशादिपरिच्छेदोऽल्पत्वं ब्रह्मणि घटादिप्रति- योगिको भेदरूपो वस्तुपरिच्छेदो न स्वतुल्य मदर इति नाल्पत्वमिति चेन्मैवम् । तथात्वे घटादिवज्जीवादपि स्वतुल्यसदूपभेदाभावमात्रेण महत्त्वसिद्ध्या जीवाभेदा- गगनादौ स्वतुल्यसद्रूपदेशाद्यपरिच्छेदो महत्वम् । ब्रह्मणि घटादिप्रतियोगिकोऽभेदरूपोऽपरिच्छेदस्तथेति महत्वहानिप्रसङ्गाच किञ्च स्वतुल्यपद्रुपस्या गरिच्छेदस्याभावे तादृशपरिच्छेदः स्यादेव । स्यातात्विकादपि स्वतुल्यसद्रूपभेदस्य नेदं रूप्यमिति दर्शनात् । तस्माद्ब्रह्मणो जगतो व्यावृत्तिमपरिच्छिन्नतां चाभिलषता भेदस्य परिच्छेदतैव त्याज्या । परिच्छिन्नाद्भेदेऽपरिच्छे इस्यैव सिद्धेः । किञ्च निरङ्कुशमहत्वार्थ ब्रह्मणः सर्वात्मकत्वे अल्पदेशादधिकदेशेऽल्पगुणादधिकगुणे च महत्वबुद्धिवदेकात्मका- द्गगनादितोऽनेकात्मकराश्याठौ महत्वबुद्धिस्म्यात् । अवयवानेकत्वेऽपि परि- माणोत्कर्षादिनैव महत्वम् । निबिडानेकावयवाय:पिण्डादपि विरलाल्पावयवे तूलगश्यादौ महत्वबुद्धेः। किच्चापरिच्छेदस्य ब्रह्मानन्दत्वे बृमतिधात्वर्थस्य भावेऽपि प्रत्ययार्थाभावेनापरिच्छिन्नत्वासिद्धिः । अन्यत्वेऽपि तात्विकत्वे सुतराम् । तद्रूपविकलत्वात् । अतात्विकत्वे तत्वतः परिच्छिन्नत्वापत्तिः । किञ्च वस्तुतोऽल्पे सत्येव तन्निरूपितमहत्वस्य वास्तवत्वमिति ब्रह्मशब्देनैव सद्वितीयत्वम् । देशाद्यपरिच्छेदेऽपि न देशादेर्वस्ततोऽभावो हेतुः । घटादेरपि तत्प्रसङ्गान् । देशादे सत्वेऽपि तत्परिच्छेदाभावमात्रेणापि तत्सि- द्धेश्च । बौद्धाभिमतक्षणिकविज्ञानादेरपि वस्तुतः कालाद्यभावेनापरिच्छिन्न- तम्मात्- देशतः कालतश्चैव गुणतश्चापि पूर्णता । त्वप्रसङ्गाच्च ।

जिज्ञासाधिकरणम् २९ ब्रह्मता न तु भेदस्य राहित्यं ब्रह्मतेप्यते ॥ तदुक्तं- 'देशतः कालतश्चैव गुणतश्च त्रिधा ततिरिति ।। तदेतदभिप्रेत्योक्तं भाष्ये 'ब्रह्म शब्दश्च विष्णावेवेति । त्रिविधपूर्ति- वाचको हि विष्णुशब्दः॥ अत्र परैः ब्रह्मणो जिज्ञासेति षष्ठीसमासः, न चतुर्थीसमासः । षष्ठी च कर्मणि, न तु शेषे । कर्मणि षठ्या हि प्रतीत्यनुबन्धितया जिज्ञा- सापेक्षितकर्मणः साक्षाल्लाभः । शेषषष्ठया तु साम न्यद्वारेणेति कुसृष्टिः । शेषषष्ठीपक्षे तद्विजिज्ञासस्वेति साक्षाजिज्ञासाकर्मत्वप्रतिपादकत्यननुगमश्चति शेषषष्ठी निराकृता । तदयुक्तम् । परपक्षे विचारजन्यज्ञानाकर्मणो ब्रह्मणो विचारकर्मत्वायोगात् । अपरोक्षवृत्तिव्याप्यस्य फलव्याप्यत्वनियमाच्च । स्वपक्षे कर्मणि षष्ठयामपि प्रमाणसाधनप्रयोजनादिपरिकरयुक्तस्यैव ब्रह्मणो जिज्ञासा- कर्मत्वान्न प्रमाणादिविचारस्याप्रतिज्ञातताप्रसङ्गः । कृद्योगलक्षणा च पष्ठी समस्यत इति प्रतिप्रसवात्पतिपदविधाना षष्ठी न समस्यत इत्यस्य निषेधस्य नार्य विषय इति ।। युक्त्यनुसन्धानात्मको मननापरनामको विचारो जिज्ञासा । सुधाया 'जिज्ञासा नाम युक्त्यनुसन्धानात्मकविचारापरपपर्यायं मनन'मित्युक्तत्वात् । न्याय निब-धानात्मकशास्त्रारम्भणीयत्वस्य न्यायानुसन्धानकर्तव्यतोक्तिमात्रेण सिद्धेश्च । न ह्यौपदेशिकवाक्यार्थग्रहणलक्षणश्रवणस्य कर्तव्यता उक्तरूपशास्त्रस्यारम्भ णीयत्वे हेतुः । 'श्रवण ज्ञानं पूर्ववृत्त'मिति सुधायां मीमांसातस्तस्य पूर्व- वृत्तत्वेनोक्ततया शास्त्रस्यारम्भणीयत्वं विनापि तत्कर्तव्यतासिद्धेः। 'श्रवणादि रूपा जिज्ञासा कार्येति टीकाया स्वतद्गुणसंविज्ञानबहुव्रीहिणा विचार एवोक्तः । अत एव 'विचारेऽपि तत्प्रयोगा'दित्युत्तरग्रन्थः । यदा यथा श्रवणनिदि-यासने विहितत्वान्नुमुक्षुणा कार्य तथा मननमपीति दृष्टान्ततया तयोरुपादानम् । तु शास्त्रारम्भहेतुतया । अथवा निदिध्यासनस्थाकर्तव्यत्वे तदङ्गमननस्यापि तथात्वात्परम्परया निदिध्यासनकर्तव्यता आरम्भणीयत्वे हेतुः । न तथा प्रति- eu तात्पर्यचन्द्रिका वाक्यार्थमय वाक्यार्थी युक्त अन्यो वेति सशयादिनिरासकविचारशास्त्रव्युत्पाद्य न्यायावताराङ्गमन्देहकारणम्य यत्नसाध्यस्य प्रतिवाक्यमय मस्य वाक्यस्यार्थ इत्येवरूपम्य श्रवणजज्ञानम्याभावे शास्त्रारम्भासिद्धेस्तत्कर्तव्यताप्यारम्भणीयत्वे हेतुरेवेत्यारम्भसिद्ध्यर्थमेव त्रितयकर्तव्यतोक्ता ।। यस्तु सर्वशाखाधिकरणे टीकाया श्रवणमनने कर्तव्ये इति प्रथमसूत्रे उक्तमित्यनुवादः स तदुत्तराधिकरणे निदिध्यासनस्य विचारयिष्यमाणत्वात्तत्र- तयोरेव विचार्यत्वातदुपयोगितयैकदेशानुवादः । न तु प्रथमसूत्रे तन्मा त्रोक्तया। अत एवोपासना नाम ब्रह्मजिज्ञासेति त्रिविधोपासनाया जिज्ञासात्वं तत्रैवोक्तम् । न चैकम्य जिजामाशब्दस्य श्रवणाद्यनेकार्थत्वायोगः । इच्छाओं जिज्ञासाशब्दो विचारलक्षक इति पक्षे दोषाभावात् । मननरूपविचाराभिधा- यक इति पक्षे श्रवणादौ छत्रिवल्लक्षणोपपत्तेः । यद्वेह टीकाया जिज्ञासाविचार शब्दाभ्या साक्षात्प्रमाणद्वारा वा चित्तस्य तत्प्रावण्यरूपा श्रवणादित्रयानुगतो- पासना विवक्षिता । न तु सुधायामिव मननमिति युक्ता टीका । सुधायान्तु सति मननकर्तव्यत्वे इतराकर्तव्यत्वेन शास्त्रानारम्भाभावान् तत्कर्तव्यतैवारम्भे हेतुरिति मननमेव जिज्ञामात्वेनोक्तमिति मननविधिमूलमेवेदं सूत्रम् । समान- विषयत्वात् । न तु विवरणमत इव श्रवणविधिमूलम् । विस्तृतं चैतदन्यत्र ।। यत्तु पञ्चपादीविवरणयोरुक्तम् - अवयवशक्त्या ज्ञानेच्छावाचिनो जिज्ञासाशब्दम्य विचारे लक्षणया प्रयोगप्रत्यययोरुपपत्तौ न शक्तयन्तरकल्प नम् । अनन्यथासिद्धकार्यान्तराभावादिति जिज्ञासाशब्दो विचारे लाक्षणिको न तु रूह इति । तन्न । जिज्ञासाशब्दतो हीच्छामज्ञात्वैव विजानते । विचार लौकिकाम्तेन तत्रायं रूढ इप्यते ॥ अन्यथा मण्टपादीना गृहादौ स्यान्न रूढता । गङ्गाशब्दात्तु तीरादि तद्धीपूर्व प्रकाश्यते ॥ तथा हि। जिज्ञासाशब्दान्मीमासाशब्दादिवेच्छाप्रतीत्यभावेऽपि विचारः प्रतीयते । अन्यथा बुभुत्सापदादपि विलम्बेन तद्धीसंभावान्नियमेन यतः - जिज्ञासाधिकरणम् ३१ : विचारे जिज्ञामापदं न प्रयुज्येत । स्वीकृतश्च त्वयापि 'विचारसाध्यज्ञानेच्छा जिज्ञासाशब्दात्प्रतीयते । नोपदेशमात्रसाध्यज्ञानविषयेति वदता विचारप्र- तीतेरिच्छाप्रतीतिपूर्वकस्वाभावः । एवञ्च तद्रिजिज्ञासस्वेत्यादावस्मिंश्च सूत्रे विधौ न लक्षणा । अन्यथा लोके मण्टपशब्दस्य मण्डपानकर्तृत्वरूपयौगिकार्थ संबन्धाद्गृहविशेषे, प्रवीणकुशलादिशब्दना च प्रकृष्टवीणावदादिगतप्राल्भ्यरूप गुणयोगादेव निपुणे, वाजिशब्दस्य च वाजशब्दवाच्यान्नवत्सम्बन्धादेवाश्वजाती प्रयोगसम्भवाढिन स्यात् । वेदे चापरिमितं देयमित्याधानप्रकरणे श्रुतस्यापरि मितशब्दस्य परिमितान्यरूपमुख्यार्थनिष्ठानेकत्वगुणयोगादेव बहुत्ववति प्रयोग सम्भावादूढिन स्यात् । उक्ता च रूढिः षष्ठे । न च प्रवीणादिशब्द इष्टा पत्तिः । यौगिकार्थप्रतीत्यभावेऽपि नैपुण्यप्रतीतेः । न चैवं वैश्वदेवेन यजे तेत्यादौ वैश्वदेवीमामिक्षामिति वाक्यविहितयागे यौगिकस्य वैश्वदेवशब्दस्य समुदाये गङ्गापदादेश्च तीरादौ लक्षणा न स्यात् । किन्तु रूढिरेव स्यादिति वाच्यम् । तत्र मुख्यार्थप्रीतिपूर्वकमेवेतन्प्रतीतेः । प्रकृते च तदभावादित्यु क्तत्वात् । किश्च त्वन्मते ज्ञानसामान्येच्छायाः क्वाप्यभावादपरोक्षेच्छायाञ्च जिज्ञासाशब्दस्यावयवशक्तयभावात्समुदायशक्तेः कल्प्यत्वाविशेषे विचारे समु- दायशक्तिरपरोक्षेच्छायां च लक्षणेत्येव किं न स्यात् ।। एतेन जिज्ञासाशब्दवाच्ययेच्छयाऽऽक्षिप्तो विचार इह विधीयत इति विवरणाभिप्रेतं मतान्तरं निरस्तम् । विचाराक्षेपस्य भामतीनिरासावसरे निराकरिष्यमाणत्वाच । तस्मा जिज्ञामाशब्दो विचारे रूढ एव ॥ केचित्तु जिज्ञासाशब्दो रूड्या लक्षणया वा विचारं नापयति । नाप्यर्थादाक्षिपति । किं विच्छार्थ एव । तथापीच्छायाः विषयवैलक्षण्या धीनत्वेनाविधेयत्वादिन्छा प्रति कर्मीभूतमिष्यमाणं विचारात्मक तकरूपं ज्ञानं विधेयम् । यद्यपि जिज्ञासा कर्तव्येति प्रत्ययार्थभूतेच्छायाः कर्तव्यत्वं भाति, न तु ज्ञानस्य, तथापि स्नात्वा भुञ्जीत, प्राडमुखो भुञ्जीत इत्यत्र भुजिधातो: विधिप्रत्ययान्तत्वेन भोजनस्य कर्तव्यत्वे प्रतीतेऽपि तस्य रागतः प्राप्तत्वेनाप्रा. प्यो: स्नानप्राङ्मुखत्वयोर्विधेस्तात्पर्यम् । न चैतावता भुजिधातोः स्नाने रूढिः .. ..

३२ तात्पर्यचन्द्रिका .. लक्षणा वा, आक्षेपकता वाऽम्ति । एवमिहापीच्छायाः अविधेयत्वाद्विचा- रात्मकं ज्ञानं विधेयम्, न तु जिज्ञासाशब्दस्य विचारे रूट्यादिरित्याहुः । तन्न । स्नानादिकं हि प्राधान्येनाप्रतीत्वाद्विधातुं युक्तम् । इह तु ज्ञानमिच्छा प्रति कर्मतया प्राधान्येन प्रतीतमिति कथं तद्विरोधिनी विधेयता । न हि स्वर्गकामपदेनेच्छा विषयतया प्रतीतः स्वर्गो विधेयः । किञ्च प्राडूमुखो भुञ्जीतेत्यादौ विधेयप्राङ्मुखादेराश्रयमर्पयितुं भुजिधातुः सार्थकः । प्रकृते तु विधेयज्ञानं प्रतीच्छाया आश्रयत्वाद्यभावात्तद्विजिज्ञासस्वेति श्रुतौ सूत्रे च सन्प्रत्ययो व्यर्थः । किञ्च जानातेः प्रमिती स्वारस्यात्सन्वाच्याया इच्छायाश्च प्रमितिरूपफलविषयत्वस्य स्वरसत्वान्न सन्नन्तजानातेस्तकरूपज्ञानपरता । किञ्च त्वत्पक्षे विचारकर्तव्यगया मानान्तरप्राप्तत्वाच्छ्रोतव्य इत्यादिवाक्यव- सूत्रमप्यनुवादकमेव स्यादिति कथं विधायकतोकिः ? कथञ्चिदप्राप्तिसंपादने तु श्रोतव्य इत्यादिरपि विधिः स्यात् । तस्मा जिज्ञासाशब्दस्येच्छार्थत्वे विव्यसभवातद्वियर्थ स रूढ्या विचारपरः । तदेतदाह-न च श्रवणादे- रसन्वाच्यतेति ॥ नन्विच्छायामपि जिज्ञासापदयोगादिच्छाऽत्र जिज्ञासाशब्दार्थः किं न स्यादित्यत्राह- इच्छाया अविधेयत्वादिति ॥ सुधायां तु ज्ञानेच्छान्त- णीतो विचारो जिज्ञासापदेन लक्ष्यत इति परमतमुक्त्वा, यदि च जिज्ञासाशब्दों मीमांसाशब्दवद्विचार एवोपसंख्यायत इति स्वमतमुक्तम् । यद्वा सुधाया पक्ष द्वयेऽपि जिज्ञासाशब्दस्य विचारपरत्वाविशेषादन्यतरनिर्धारणस्याप्रयोजनत्वात्प. क्षद्वयोक्तिः । तदनुसारेणात्राप्यसन्वाच्यत्वेऽपि लक्षणया विचारेऽपि तत्प्रयो. गान्मुख्यार्थस्य चेच्छाया अविधेयत्वादित्यपि योज्यम् ।। भामत्यां तु न जिज्ञासा नाम विचारः, इच्छाया सन्विधानात् । न च शास्त्रप्रवृत्यङ्गविषयप्रयोजनसूचनेन स्वार्थपरत्वोपपत्तेर्विचारे युक्ता। एवञ्च मुमुक्षानन्तरं ब्रह्मजिज्ञासा भवितुं युक्तेत्येव श्रौतोऽर्थः । विचारस्त्वार्थिकोऽर्थ । ज्ञातुमिच्छा हि सन्दिग्धे विषये निर्णयाय भवति । निर्णयश्च विचारसाध्य इतीच्छानिमित्तेन विचाराक्षेपात् । आर्थिके चास्मिन्नर्थे लक्षणा जिज्ञासाधिकरणम् ३३ कर्तव्यपदाध्याहारादित्युक्तम् , तदपि न । विचारे रूढेरुक्तत्वात् । व्याकरणस्य च साधुत्वमात्रपरत्वात् । उनं हि- 'यत्रार्थस्य विसंवादः प्रत्यक्षेणोपलभ्यते । स्वरसंस्कारमात्रार्था तत्र व्याकरणस्मृतिः' इति ।। भवतीत्यध्याहारस्य स्वतः सिद्धस्वेऽप्यनुवादत्वप्रसङ्गात् । तद्विजिज्ञा सस्वेति श्रुत्यनुसारिणा च सूत्रेणेच्छाया अविधेयस्वेन लक्षणयापि विचारस्य विधेयत्वात् । विषयाद्यभावादिच्छाभावं वदन्तं प्रतीच्छाया विषयादिसूच नोक्तययुक्तेश्च । किञ्चवसति तावन्मात्रेण नैराकांक्ष्यान्नार्थिकविचारकर्तव्यता परता युक्ता । शास्त्रारम्भवचस्य फलत्वेनैव सिद्धः । कथश्च विचारं विने च्छाया अनुपपत्तिः, येन विचाराक्षेपकता । न हि कारणस्य कार्य विनानु पपत्तिः । न चेच्छा विचारसामग्री । फलेच्छाया सत्यामपि साधनाननुष्ठान दर्शनात् । तस्माद्भामत्युक्तमयुक्तम् । तदेतदाह-भवतीत्यादिकथनस्य वैयादित्यादिना ॥ एतेन कौमुद्यां यस्मादधिकारिणां ब्रह्मज्ञानेच्छा संपन्ना तस्माद्ब्रह्मविचारः कर्तव्य इत्यवान्तरवाक्ये श्रुत्येच्छापरत्वेऽपि महावाक्ये लक्षणया विचारपर इत्यु भयपरो जिज्ञासाशब्दः । अत एव विचारे लाक्षणिकोऽपि विषयादिसूचक इति यदुतम् , तदपि निरस्तम् । युगपत्तिद्वयप्रसङ्गात् । उक्तरीत्या विषयफलयोरन्यथैव सूचनसंभवेन जिज्ञासाशब्दस्येच्छापरत्वे मानाभावाच्च । अध्याहारसापेक्षावान्तरवाक्यभेदादिकल्पनानुपपत्तेश्च । तस्माजिज्ञासाशब्दो विचारपरः, नेच्छापर इति ।। यत्तु परस्य शास्त्रस्य पूर्वतन्त्रेण गतार्थत्वमाशक्य तत्र कार्यनिष्ठो वेद भागो विचारितः इह तु वस्तुतत्वनिष्ठो विचार्यत इत्यगतार्थत्वमुक्तम् । तन्न । इहातत्वभूतोपास्त्रसविशेषब्रह्मविचारस्य उपासनापादे तद्विधिविचारस्य चायोगात् । न चोपासना मन्मत इव त्वन्मते मोक्षसाधनम् ; येन फलसाधना दियुक्तबह्मविचारप्रतिज्ञानात्तद्विचारस्संगच्छेत । स्वन्मते हि उपासनाया मान ..

तात्पर्यचन्द्रिका . सत्वेन विद्यासाम्येऽप्यनित्यफलत्वाद्धेयत्वाच्च तद्वाक्यानामतत्वावेदकत्वादुद्गीथा छुपासकाना काश्तित्वाच्च ,ममुद्रं मनसा ध्यायीते'त्यादिवाक्यविहितसमुद्र ध्यानादिवत्कर्मकाण्ड एवोपासनाया विचारो युक्तः । निर्विशेषज्ञानार्थत्वादुपास नाया. इह विचारे च यागादिनित्यकर्मणामपि तदर्थत्वान्मानससङ्कल्परूपतयो पासनावद्विद्यामाम्याच्च तद्विचारोऽपाहैव स्यात् । तस्मात्सर्वस्यापि वेदस्य ब्रह्मपर त्वात् सर्वोऽपीहैव विचार्यः । कर्मदेवमीमासयोदेकदेशावान्तरतात्पर्य विषय कर्मदेवताविचार इति ॥ यदपि परैर्ब्रह्मणो जिज्ञास्यत्वार्थमेव प्रत्यगर्थेऽहमस्मीति प्रत्यक्त्वरूपेण सामान्येन प्रलिपत्तिः । चार्वाकादीनामहमर्थे देहेन्द्रियमनश्शून्यब्रह्मत्वादि विप्रतिपत्तेः विप्रतिपत्तिश्चेत्युक्तम् ; तब्यधिकरणम् –प्रत्यगर्थ एव ब्रह्मेति चेदस्तु तावत् । तथापि न तावद्विम् ब्रह्म न जिज्ञासामि । प्रतिबिम्ब मात्रे विप्रतिपत्त्या बिम्बे जिज्ञासाऽदर्शनेन ब्रह्मोद्दिश्य प्रत्यगाभेदादिविधानाय ब्रह्मण्येव तयोर्वक्तव्यत्वात् । नापि देहत्वादिना विप्रतिपन्नः प्रतिबिम्बः प्रत्य गर्थ एव जिज्ञासाधर्मी, प्रतीचो ब्रह्मत्वेन जिज्ञासा च ब्रह्मजिज्ञासेति युक्तम् । लोके निश्चितेन धर्मिणेवानिश्चितेन प्रकारेण विशिष्य विचारपदाप्रयोगेण सूत्रेऽश्रुतप्रत्यक्पदकल्पनापातात् । धर्मजिज्ञासेत्यादाविव श्रुतस्य ब्रह्मपदस्य कस्य कथं विचार इति प्रथमाकाङ्कितप्रधानधर्मिपरत्वसंभवे तत्त्यागेन तद्विपरीत प्रकारपरत्वायोगेन श्रुतहानापाताच्च । विरुद्धांशत्यागेन मुखमात्रस्येव चिन्मात्र स्यैवाभेदस्वीकारेण विशिष्टयोबिम्बप्रतिबिम्बयोरभेदाभावेन ब्रह्माभेदविधानाय तस्योद्देश्यत्वासंभवाच ॥ किञ्च धर्मिण्यतदारोपनिवृत्यर्थत्वाल्लक्षणस्योत्तरसूत्रे प्रत्यगर्थ एव ब्रह्मत्वेन लक्षणीयं स्यात् । न हि वस्तुतः पुरुषे इदंवादिना ज्ञायमाने स्थाणुत्वाद्या- रोपः करचरणादिमान् पुरुष इति पुरुषलक्षणोक्तया निवर्तते । किन्त्वयं पुरुष इत्याधुक्तया। न च जिज्ञासुना प्रतीचो ब्रह्मत्वं निश्चितम् ; येन ब्रह्मणि लक्षिते प्रतीचि ब्रह्मलक्षणविरोध्याकारो मिथ्येति ज्ञायेत । नापि लक्षण प्रतीचोऽसाधारणधर्मतया तेन निश्चितम् ; येन ब्रह्मणि तत्कथनमुखेन जिज्ञासाधिकरणम् . - ब्रह्माभेदो ज्ञाप्येत । स्वत्पक्षेऽपि 'शारीरश्चोनये-पि हि भेदेनेनमधीयते प्राणभृच्च, अधिकं तु भेदनिर्देशा'दित्यादौ जन्मसिनोकरयणाय जीवे निषेधात् । अत एवोभयानुगतचिन्मात्र तत्वंपदलक्ष्ये विप्रतिपत्ति जिज्ञा- साधर्मि तु बिम्बं ब्रह्म चिन्मात्रमेवेति प्रत्युक्तम् ; विशेष्यमात्रै विप्रतिपत्या विशिष्टधर्मिकविचारादर्शनात् । विशिष्टस्य मुमुक्षुभिरविचार्यत्वाच्च । चिन्मात्रे देहत्वादिविप्रतिपत्तरभावाच्च । सौत्रब्रह्मशब्दस्वारस्याच्च । अथ जिज्ञासा- धर्मिणि ब्रह्मण्येव प्रतीचोऽन्यन्न वेति विप्रतिपन वैयधिकरण्यं, तर्हि भवदीय- भाष्ये इह सूत्रे प्रतीचि देहत्वादिविप्रतिपत्युक्ति , उत्तरसूत्रे जीवाद्भेदकम्य लक्षणोक्तिश्चायुक्ता ॥ एतेन भास्करीयं जगत्कारणे प्रधानत्वादिविप्रतिपत्तिप्रदर्शन निर- स्तम् । आद्यसूत्रे कारणपदस्य, उत्तरसूत्रे तल्लक्षणस्य च कर्तव्यत्वप्रसङ्गात् ॥ किच्च ज्ञातं सामान्यतोऽज्ञातं विशेषेण विचार्यते । ज्ञाताज्ञातविभागस्तु निर्विशेषे न युज्यते । उक्तं च अनुव्याख्याने 'इदमित्थमिति ज्ञान जिज्ञासायाः प्रयोजन'मिति ।। तस्माद्वेदान्तादिनाऽऽपातप्रतीते ब्रह्मणि सगुणनिर्गुणाल्पगुणत्वादिना विप्रतिपत्तेर्जिज्ञास्यत्वमिति । तदुक्तमनुव्याख्याने- 'तस्माच्छ स्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् । वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखिलोतम मिति ॥१॥ टीकाशेषाक्षरार्थस्तु-नामानि सर्वांगीति श्रुतावनृतस्येत्यनेन ऋशब्द वाच्याद्विष्णोरन्यद्विवक्षितमित्याह-विष्ण्वितरस्येति ।। लक्ष्म्या ब्रह्मादीनां स्वाधीनत्वोक्तरिति ॥ अस्य सूक्तस्यांभ्रणीदेवताकत्वादंभ्रण्याश्च लक्ष्मी मूर्तित्वादिति भावः । हरीवंशत्रयेति ॥ हरिवंशे भागत्रयं विवक्षितम् ।। नटनं वचनं वेति ।। विद्यमानाकाराच्छादनेनाविद्यमानाकागन्तरप्रदर्शन नटनम् । वञ्चनं स्वविद्यमान कथनम् ।। क्वाप्यविद्यमानं लिङ्गमूलान्वे ३६ तात्पर्यचन्द्रिका षणादिकं अतथ्यम् । विष्ण्वादौ विद्यमान रुद्रादिनिष्ठतयोच्यमानं स्वातन्त्र्या दिकं वितथ्यम् । शिष्टं सुगमम् ।। इति श्रीमद्ब्रह्मण्यतीर्थपूज्यपादशिप्यश्रीमयासतीर्थमुनिविरचिताया तात्पर्यचन्द्रिकाया जिज्ञासाधिकरणं संपूर्णम् ॥ [जन्माद्यधिकरणम् ] 2 - ॐ जन्माद्यस्य यतः ॐ ॥ १-१-२॥ जिज्ञासाकारणीभूतगुणर्तिप्रसिद्धये । जीवादिभेदकं विष्णोविश्वकर्तृत्वमुच्यते ॥ पूर्वोक्तजिज्ञासाक्षेपेणेह पूर्वपश्नोत्थानात् पूर्वाधिकरणेनापिकी संगतिः चिन्तायाः सफलत्वं च । सुधाया तु आद्यसूत्रे साधनादिसहितं ब्रह्म विचार्य मित्युक्तम् । तत्र साधनफलयोब्रह्मज्ञानसाधनं ब्रह्मज्ञानफलमिति ब्रह्मोपहितत्वेन तज्ज्ञानाधीनज्ञानत्वात् , ब्रह्मणश्च साधनादिज्ञानाधीनज्ञानत्वाभावादभ्यहि- तत्वाच्चादौ तजिज्ञासैव प्राप्ता । सा च लक्षणप्रमाणाभ्याम् । तत्रापि लक्षणविशिष्टं प्रमाणाकाक्षेति लक्षणस्य प्राथम्यमिति प्रकारान्तरेणाधिकरण. संगतिरुक्ता ॥ अत्र 'तद्विजिज्ञासस्व तद्ब्रह्मेति वाक्यस्थं ब्रह्म किं जीव उत विष्णुरिति चिन्ता। तदर्थ ब्रह्मशब्दस्य रूढयर्थजीवत्यागेन यौगिकार्थविष्णुग्रहणे हेतु नास्त्युतास्तीति । तदर्थ विध्युद्देशस्थब्रह्मशब्दस्वारस्याय 'यतो वे'त्यादिपूर्व वाक्यं किं जीवे कथंचिन्नेतुं शक्यमुताशक्यमिति ।। पूर्वपक्षस्तु- जीव एवेदं ब्रह्म । 'बृहजातिजीवे'त्यभिधानाद्ब्रह्मशब्दम्य तत्र रूढेः। वि णौ तु यौगिकत्वात् । रूढेश्चावयार्थनिरपेक्षायास्तत्सा- पेक्षयोगालीयस्त्वस्य रथकारादिशब्देषु स्थितत्वात् । प्रोक्षण्यादिशब्देषु तु क्लप्तो योग; । अक्लया रूढिः । न च जीवेऽपि योगांगीकारागुढिरक्लप्तेति यौगिकार्थस्य गुणपूर्ते|वेऽसंभवात् । संभवे वा जिज्ञास्यत्वेनाभि वाच्यं ।

जिज्ञासाधिकरणम् ३७ न मतस्य जीवाद्भेदासिद्धेः। गुणपूर्तितोऽन्यस्य यौगिकार्थत्वे तु जिज्ञास्यस्यापि गुणपूर्त्यसिद्धिः । न च जिज्ञास्येऽपि रूढिः । तथात्वे गुणपूयंसिद्धः । च योगरूढिः 'बृहन्तो ह्यस्मिन् गुणा' इति श्रुत्यनुसारिक्लप्तावयवशक्त्यैवोप पत्तौ समुदायशक्तौ मानाभावात् । 'तदेव ब्रह्म परमं कवीना'मित्यादेः केवल- योगेनाप्युपपत्तेः । न च पङ्कजादाविव योगोऽतिप्रसक्तः । येन योगरूढिः । अन्यत्र गुणपूर्तेरनंगीकारात् । अन एव टीकाया 'योगेनैवेत्येवकारः । तथाच 'तदेव ब्रह्म परम'मित्यादौ रूढिवाधकसमुद्रशयित्वादिलिंगाद्विष्णुपरत्वेऽपि तद्विजि ज्ञासस्वेत्यत्र न तत्परता । अत एव टीकाया 'यद्यपि ब्रह्मशब्दो विष्णौ प्रवर्तत' इत्युक्तम् ॥ नन्वत्रापि जिज्ञास्यत्वमेव बाधकम् । न चास्यासंदिग्धजीवपरतया जिज्ञास्यत्वमेवासिद्धमिति वाच्यम् । अन्योन्याश्रयात् । न च जीवस्यापि देहादन्यतया संदिग्धत्वेन जिज्ञास्यत्वम् । टीकाया पूर्वपक्षे जीवस्याजिज्ञास्त्र त्वोक्तिम्तु ब्रह्मवदतिगहनत्वं नेत्यभिप्रेत्य । अत एव सुधायां पूर्वपक्षे 'देहा- दितो विविक्ततया न प्रसिद्ध' इति जिज्ञासाप्रयोजकमप्रसिद्धत्वमुक्तम् । ततश्च जिज्ञास्यत्वस्य जीवेऽपि संभवान्न तज्जीवपरत्वे बाधक्रमिति वाच्यम् । कथञ्चिज्जि- ज्ञासासंभवेन तदाक्षेपेण पूर्वपक्षानुदयादिति चेन्न । विशिष्टाधिकारिकमोक्षफलक जीवान्यधर्मिकपूर्णगुणत्वप्रकारकपूर्वसूत्रोक्तजिज्ञासाक्षेपेणैव टीकाद्वयेऽपि पूर्व पक्षप्रवृत्तः। यद्वा इह टीकायां पूर्वपक्षे पूर्वाधिकरणपूर्वपक्षापत्या तद्विजि ज्ञासस्वेत्वस्यापि पूर्वधिकरणपूर्वपक्षन्यायेनाजिज्ञास्यत्वेऽप्युपपत्तेरजिज्ञास्य- त्वेनैव पूर्वपक्षः ॥ सुधाया तु देहाद्यन्यतया जीवस्य जिज्ञासामङ्गीकृत्यापि सिद्धात्यभिप्रेत जिज्ञासाक्षिप्तेति द्रष्टव्यम् । न च जीवपरत्वे यतो बेत्यादिपूर्ववाक्योक्त कारणत्वमेव बाधकम् । विध्युद्देशगतब्रह्मपदस्वारस्याय जीवस्याप्यदृष्टद्वारा वा जगतो जीवकल्पितत्वेन वा तत्र हेतुत्वेपत्ते । इमानीत्यनेन जीवकर्तृककार्य- जातस्यैव निर्देशोपपत्तेश्च । अत एव आत्मा द्रष्टव्य इत्यादी जिज्ञासाविधा- यकवाक्ये जीवे प्रसिद्धात्मपदप्रयोगः । अत एव च जात्यादिकमिह ब्रह्म- ३८ तात्पर्यचन्द्रिका .. शब्दार्थः । ब्रह्मगो निष्क्रियत्वेन कर्तृत्वस्य, निर्विकारत्वेनोपादानत्वस्य चासं- भवेन कारणत्वस्य ब्रह्मपक्ष एव बाधकत्वाच्चेति ।। सिद्धान्तस्तु। विष्णुरेव जिज्ञास्य ब्रह्म । 'य' इत्यादि भाष्योक्त श्रुतिभिः विष्ण्वेकनिष्ठस्य कारणत्वस्य जिज्ञाम्ये यतो वेत्यादिना श्रवणात । तस्य च जीवेऽनुपपत्या रूढेरपि बाधात् । अदृष्टद्वारा वा कल्पकत्वेन वा जीवकारणत्वे जातादिपदाना मुख्यार्थत्यागापत्ते । 'अभिसविशंतीति पदोक्तमुक्त पाप्यत्वस्थ व सर्वथानुपपत्तः। 'यत इति येनेति यदिति तद्ब्रह्मेति' च प्रतीतकारणैक्यस्य च बाधकाभावात् । इमानीति सर्वनाम्नश्च संकोचका. भावात् । जीवकर्तृतायाश्च 'इतव्यपदेशा'दित्यादिसूत्रेषु निराकरिष्यमाण. त्वात् । जिज्ञास्ये श्रुतस्य चात्मशब्दस्य 'आत्मा नारायणः पर' इत्यादि श्रुत्या धुभ्वाद्यधिकरणन्यायेन ब्रह्मशब्दवद्विष्णुपरताया एव न्याय्यत्वात् । अन्वेषणविधिवाक्योक्तापहतपाप्मत्वादीना च जीवे शुद्धरूपाभिप्रायेण संभव शंकायामपि सत्यकामत्वादीना सर्वथानुपपत्तेः । निष्क्रियत्वश्रुतेश्च 'स हि कर्तेति सत्यकर्मेति स इदं सर्वमसृजतेति स इमान् लोकानसृजतेति नामरूपे- व्याकरोदित्यादिकर्तृत्वश्रुतिबलात् 'अकर्माक्लिष्टकारित्वा'दित्यादिस्मृत्यनुमारेणा- क्लिटमारित्वादेनोपपत्तेश्च । न च यत इत्यादेः कारणानुवादेन जिज्ञासा- विधायकत्वादनुवादे च यथाप्राप्ति तात्पर्यामानान्तरेणास्मदादेयादृशं कारणत्वं प्राप्तम् , तत्परमेवेदं वाक्यमिति युक्तम् । अस्यानुवादकत्वेऽपि 'शास्रस्था वा तन्निमित्तत्वादिति न्यायेन भाप्योक्तश्रुतिप्राप्तकारणपरत्वात् ॥ किंच कवीना मते 'तदेव परमं ब्रह्मेत्याहु'रिति श्रुतौ विष्णौ विद्वदूढि- रुक्ता । न हि चैत्रः परमधार्मिक इत्युक्ते धार्मिकत्वादन्येनाकारेण परमत्वं भाति । न च स्वम्यामुख्यत्वे मुस्यान्तरे वा सति स्वस्य परमत्वम् । न चैव गुणपूर्त्यलाभः । बृहन्तो हीति श्रुन्या योगस्यापि सत्त्वात् । पङ्कजादौ रूढेरनतिप्रमगेऽपि प्रमितत्वाद्योगवत्प्रकृते योगस्यानतिप्रसगेऽपि तदेवेति श्रुत्या रूढेरपि सत्वाच्च । रूढिं विना परमपदोक्तमुख्यत्वानुपपत्तेः । उपपत्तौ वा तावतैव प्रकृतसिद्धेश्च । प्रयोगबाहुन्यरूपरूढेगहुरित्यनेनोक्तत्वाच ।।

जिज्ञासाधिकरणम् ३९ .. ननु न प्रयोगबाहुल्यं रूढिः किंतु समुदायशक्तिः। षङ्कजादेरपि पद्मत्वजात्यंशे समुदायशक्तिरेव । प्रयोगप्राचुर्येण झडिति तेन जाति प्रतीतेरिति चेत् - तीहापि भाप्ये वक्ष्यमाणश्रौतस्मार्तप्रयोगप्राचुर्येण विदुर्षा ब्रह्मशब्देन विष्णुव्यक्तिप्रतीतेः तत्र तस्य समुदायशक्तिरस्तु । विद्वद्र्ढेश्च यवादि शब्दानां प्रियंग्वादिषु म्लेच्छप्रसिद्धितोऽपि दीर्धशूकेष्वार्यप्रसिद्धेरिव बालानां चित्र लिखितसिहे सिंहप्रसिद्विवदुर्बलातोऽविद्वद्रूढितो बलीयस्त्वात् । पिकादि शब्दानां चार्यप्रसिद्ध्यविरोध एव म्लेच्छप्रसिद्धितः कोकिलाद्यर्थत्वमुक्तं पिक नेमाधिकरणे । राजशब्दस्य पालनादिकर्तार्याणा प्रयोगेऽपि 'राजा स इत्यार्यवरपाणिनिस्मृत्यनुगृहीतत्वात् क्षत्रिय जातिविषया म्लेच्छप्रसिद्धिरेव ग्राह्ये- त्युक्तमवेष्टिनये ॥ न चात्राविद्वढिः स्मृत्यनुगृहीता। प्रत्युत तदेवेति श्रोतावधारण विरुद्धा । अमुख्यत्वाविशेषेऽपि गौणलक्षणावृत्योः प्राभाकरमते गौण्या मता. न्तरे लक्षणाया ज्यायस्त्ववत् लक्षणात्वाविशेषेऽपि 'प्रोद्गातृणा'मित्यत्र बहिरङ्ग षोडशविलक्षणातोऽन्तरङ्गप्रस्तोत्रादिचतुष्टयलक्षणाया ज्यायस्त्ववत् लक्षणा मात्रान्निरूढलक्षणाया ज्यायस्त्ववत् मुख्यत्वाविशेषेपि योगाढेज्यायस्त्ववत् गवादिशब्दानामनेकार्थेषु रूढत्वेऽपि प्रकरणोपपदाद्यभावे सास्नादिमध्यक्तरेव प्रतीतिवच्च रूढित्वाविशेषेऽपि विद्वद्र्ढेरेवासभाविताज्ञानमूलाया बलीयस्त्वो 'नारायणीसौ परमो विचित्यः, नारायणं महाज्ञेय'मित्यादिश्रुतौ जिज्ञास्ये नारायणशब्दश्रवणाचेति ।। सुधाया तु ब्रह्मशब्द• कि प्रसिद्धजीवपर उतार्थान्तरपर इति सन्दिह्य अन्त्ये तस्यार्थस्य तद्वाचितायाः तत्र तात्पर्यस्य च कल्प्यत्वागौरवम् । आधे तु लाघवम् । जीवस्याकल्प्यत्वात् । बृहजातिजीवेत्यभिधानाच्छक्ते रपि क्लुप्त स्वादबाधेन तात्पर्यस्यापि सिद्धत्वादिति पूर्वपक्षितम् । तत्रात्रेव तद्ब्रह्मेति वाक्य एव ब्रह्मशब्दस्य न विष्णुपरत्वमिति न विवक्षितम् । किन्तु सर्वत्र । अन्यथा सिद्धान्तिनं प्रत्यर्थादेः कल्प्यत्वोक्तिरयुक्ता स्यात् । तत्रत्यं 'न हि ब्रह्मशब्दो गुणपूर्तिवाचीत्येतावता सर्वत्र तत्परो भवती'तिवाक्यं तु तत्पूर्वपक्षे कचि - पपत्तेश्च ।

तात्पर्यचन्द्रिका गुणपूर्तिवाचिसाङ्गीकारेण न प्रवृत्तं । किन्तु ब्रह्मशब्दो गुणपूर्तिवाची न वेत्येव सन्दिह्यतां किं तात्पर्यसन्देहेनेति शङ्कायां वाचकत्वे सिद्धेऽपि तात्पर्यासिद्ध्या विव क्षितार्थीसिद्धेनत्यं सन्देहः । कितु तार्यसन्देह एव दर्शनीय इति परिहर्तुम् । अत एवैतद्वाक्यं सन्देहावसर एव कृतम् । 'तद्ब्रह्मेत्ययं ब्रह्मशब्द' इति विशिष्य संशयधर्मिनिर्देशस्तु पूर्वोक्तजिज्ञासाक्षेपेण सङ्गति दर्शयितुम् । न त्वत्रेव कजिब्रह्मशब्दस्य विष्णुगचित्वाङ्गीकारेण पूर्वपक्ष इति दर्शयितुम् । न च शक्त्यभावेऽपि लक्षणादिना तात्पर्यसम्भवात्सिद्धान्तिनं प्रति शक्तेः कल्प्यत्वोक्तिरयुक्तेति वाच्यम् । लक्ष्येऽर्थे योगासम्भवेन तदधीनगुणपूर्त्यसिद्धः सिद्धान्तिना लक्षणादेवक्तुमशक्यत्वात् । न चावयवशक्तेः क्लमत्वेन कल्प्य. त्वोक्त्ययुक्तिः। गुणपूर्तेरेवाभावेन तत्र बृहतेः शक्त्यक्लप्तेरिति । सिद्धान्तस्तु यन्न दुःखेन संभिन्न न च प्रस्तमनन्तरम् । अभिलाषोपनीतं च (तत्सुखं स्व:प) सुख स्वर्गपदास्पदम् इति श्रुतेः स्वर्गशब्दस्य चन्दनादिरूपप्रसिद्धार्थत्यागेनाप्रसिद्धार्थपरत्ववद्ब्रह्म शब्दस्यापि 'यतो वे'त्यादिवाक्यशेषात्प्रसिद्धार्थत्यागेनालौकिकार्थपरत्वोपपत्ति यद्वाऽलौकिकविशेष्यपरत्वे गौरवात्रसिद्धविशेष्यपरत्वे तु लाघवा तदनुसारेण जावेषु सम्भवद्गुणपूर्ति रेवप्रवृत्तिनिमित्तं, न तु सिद्धान्त्यभि- प्रेतगुणपूतौं तात्पर्यमिति प्राप्ते कारणत्वेनैव बाधकेनालौकिकविशेष्यपरत्वं ततश्च सङ्को वकाभावात्सर्वगुणपूर्ति रेव निमि तमित सिद्धान्त इति सुधा भिप्रायः । अत एव न्यायविवरणे अत्रोक्तं सुधोक्तं चाधिकरणशरीर मभिप्रेत्य 'न जीव एवायं ब्रह्मशब्दः। यतो वा इमानि भूतानि जायन्त इत्यादिना जन्मादिकारणत्वस्यैव ब्रह्मलक्षणत्वोक्तरित्युक्तम् ।। अनुव्याख्याने तु मोक्षदत्वाद्ब्रह्म जिज्ञास्यमित्युक्तं प्रथमसूत्रे । तत्कथ- मिति शङ्कायामनेन सूत्रेण तदुपपाद्यत इत्युक्तम् । तत्राय भावः । मोच कत्वेन विष्णुर्जिज्ञास्यश्चेद्वन्धकत्वेनाजिज्ञास्योऽपि स्यात् । न चायं न बन्धकः । जीवस्याबद्धत्वस्वबद्धत्वयोरयोगेनान्यबद्धत्वे वाच्ये अन्यस्य चेतनस्याचेतनस्य , रिति ।

जिज्ञासाधिकरणम् ४१ चेश्वराधीनत्वे पुनरीश्वरस्य बन्धकत्वेनाजिज्ञास्यता । अनधीनत्वे स्वानधीन कृताइन्धान्मोचकत्वं नेश्वरस्येति न जिज्ञास्यत्वमिति प्राप्ते अप्रसन्नस्य बन्धकत्वं प्रसादहेतोर्जिज्ञासायाः कर्तव्यत्वानुकूलमेव न तु प्रतिकूलम् । सूत्रे सृष्टयादिहेतुत्वोक्तिस्तु मोचकत्वसंभावनार्थेति सिद्धान्त इति ।। अत्र परैर्न तावदुपलभ्यमानं जगदेव ब्रह्मलक्षणम् । तस्यानित्याशुद्ध परिच्छिन्नादिरूपस्य तद्विरुद्धब्रह्मलक्षणत्वानुपपत्तेः। नापि नित्वत्वकारणत्वादि ब्रह्मधर्मः। तस्यानुपलब्धेरिति प्राप्ते मा भूदनुभूयमानं जगत्तद्धर्मतया तदात्म तया वा लक्षणम् । तदुत्पत्त्यादि तु भविष्यति । देशान्तरप्राप्तिरिव सवितु व्रज्याया इति सिद्धान्तितम् । तन्न । जिज्ञास्यस्येतरव्यावृत्त्यर्थ लक्षण सूत्रेऽस्मद्रीत्याऽव्यावृत्तिपूर्वपक्षस्यैवोचितत्वात् । अनित्यादिरूपस्य शब्दादे नित्यादिरूपाकाशादिलक्षणत्वदर्शनाच्च । जगत इव कारणत्वस्याप्यनात्मतया ऽऽत्मविरुद्धस्वभावत्वाच्च । जिज्ञास्यत्वेनाद्यसूत्रे प्रकृतस्य निर्विशेषब्रह्मणो भ्रमाधिष्ठानन्वेनाकारणत्वाच्च । अधिष्ठानत्वस्यैव विवक्षाया तु श्रुतिसूत्रयोर्जन्मो त्ययोगात् । देशान्तरप्राप्तेः सूर्यगत्यनुमापकत्वेऽपि तल्लक्षणत्वाभावाच्च । न चात्र सूत्रे यतो वेत्यादिश्रुतौ वा उत्पत्त्यादिकमद्वितीये ब्रह्मणि लिङ्गत्वे- नोच्यत इति त्वयापि स्वीकृतम् ॥ केचित्त न तावजन्मादयो विशेषणत्वेन लक्षयन्ति । विशेषणत्य स्वाश्रये सर्वविशेषधर्मव्यावर्तकत्वेनैकस्मिन्ननेकविशेषणयोगेनानेकविशेषणा श्रयस्य ब्रह्मणोऽनेकत्वप्रसङ्गात् । चैत्रः श्यामो युवा लोहिताक्ष इत्यादौ तु मानान्तरवशाक्यम् । न चात्रापि ब्रह्मशब्दक्यात् ब्रह्मैक्यम् । खण्डो मुण्ड: पूर्णशृङ्गो गौरित्युक्ते अज्ञातगोव्यक्तेः पुंसो गोव्यक्तिबहुत्वस्येवात्रापि ब्रह्म व्यक्तिबहुत्वप्रतीतिप्रसङ्गात् । नाप्युपलक्षणतया। उपलक्ष्याकारान्तराप्रतीतेः । तास्मजन्मादिवाक्यं न ब्रह्म लक्षयितुं शक्तमिति प्राप्ते । अस्तु तावद्विशेषण त्वम् । न च ब्रह्मणोऽनेकत्वप्रसङ्गः । विशेषणाना स्वविरोधिधर्मव्यावर्त कत्वात् । जन्मादीनां तु कालभेदेनाविरोधात् । उपलक्षत्वं वास्तु । बृहत्यर्थस्य पूर्णत्वस्योपलक्ष्यत्वादिति सिद्धान्तयन्ति । तन्न । पूर्वपक्षानौ ४२ तात्पर्यचन्द्रिका .. .. तत्र चित्यस्योक्तत्वात् । किंच जन्मादय इत्यत्र जन्मादिशब्देन कार्यावस्थागतोत्प स्यादिविवक्षाया तद्भेदेन तदनाश्रय ब्रह्मभेदाशङ्का सूत्रे यत इति पदं चायुक्तम् । न हि यतश्चैत्रजन्म स मैत्र इत्युक्ने चैत्रनिष्ठजन्म मैत्रलक्षणं भवति । किन्तु मैत्रगतं कारणत्वम् । कारणगताना 'यतो येने ति श्रौतपञ्चम्याधुक्तानां जन्मा- दिकारणत्वानां विवक्षायामपि त्वन्मते सृष्टयादिकारणत्वानामेकस्मिन्नेवोषादाने दर्शनान्न भेदाशङ्का युक्ता । सिद्धान्ते कालभेदेनाविरोधोक्तिश्चायुक्ता । लयादिकाले 'सर्गाा भावशक्तय' इत्यादिस्मृतिसिद्धायाः सामर्थ्यरूपाया: मृष्टयादिकारणतायाः सत्त्वात् ।। यादवप्रकाशीये तु 'तद्विजिज्ञासस्वति वाक्ये साख्याभिमतप्रधान स्यापि ब्रह्मशब्दार्थत्वाजिज्ञास्यत्वमिति शङ्कानिरासाय जन्मादिसूत्रमित्युक्तम् । न तावत्प्रधानम्यैव जिज्ञास्यत्वशङ्कानिरासकं सूत्रम् । जीवस्यापि ब्रह्मशब्दार्थत्वेन जिज्ञास्यत्वशङ्कायाः कारणत्वाभावेन तन्निरासस्य च संभवात् । जीवप्रधानादीनां जिज्ञास्यत्वशङ्कानिरासार्थत्वं तु सूत्रस्यास्माकमिष्टम् ॥ यच्चोक्त परैर्जन्मादीत्यत्रोत्पत्तिस्थितिभङ्गमेवोच्यते न त्वन्यत् । यतो वेत्यादिश्रुत्यनुसारादिति । तन्न। 'यतो वे'त्यत्र चतुर्णा 'तमेवैकं जानथे' त्यादौ 'यस्मिन्छौ'रिति स्थित्यादिनामेकैकस्यैव श्रवणात् । न चाभिसंवि शन्तीत्येतत्प्रलयपरम् । प्रयन्तीत्यनेन पौनरुक्तचापत्त्या तस्य मोक्षपरत्वात् । न च प्रयन्तीत्यनेन सुषुप्तौ ब्रह्मप्राप्तिरुच्यते । तथापि चतुष्ट्वापरिहारात् । जगतो जन्माङ्गीकारेऽनित्यत्वापत्त्या मिथ्यात्वासिद्धरुक्तत्वाच्च । तस्मात्सृष्ट्या द्यष्टकमेव जन्मादिपदार्थः । 'यतो वे'त्यत्र सृष्टिस्थितिप्रलयमोक्षाणा 'य आत्मानमन्तगे यमयति, त्वं मुक्तिदो बन्धदोऽतो मतो नस्त्वं ज्ञानदोऽज्ञानदश्वासि विष्णो' इत्यादौ नियमनादीनामप्युक्तेः । सूत्रकृतैव स्कान्देऽष्टकर्तृत्वस्य लक्षणत्वेनोक्तेश्च । न च नियत्यादीना जन्मादावन्तर्भावः । पारेषु प्रवृत्त्यादिरूपाणा नियत्यादीनां विनाशादेरिव जन्मादिमत्त्वेऽपि जन्मादिभ्यो भेदानुभवात् । मोक्षस्य बन्धध्वंसत्वे चोत्पत्तिरपि प्रागभाव निवृत्तिः स्यात् ।। खस्वव्या- जिज्ञासाधिकरणम् ४३ ननूत्पत्तिः प्रागभावस्य ध्वंसो न तूत्पद्यमानस्येति चेत्तर्हि मोक्षोऽपि बन्धस्य ध्वंसो न तु बद्धस्य । मोक्षम्य परमपुरुषार्थतया पृथग्वाच्यत्वाच्च । अज्ञानं तु न बन्धः। किंतु बन्धकम् । ननु तथापि नियमनज्ञानादीनस्ये- त्यनेन विवक्षित्वा तेषामुत्पत्त्यादिके जन्मादिपदेनोक्ते नियमनादीन्प्रति जगत्प्रतीव ब्रह्म कारणं सिद्धयति । कि जन्मादीत्यत्र तद्ग्रहणेनेति चेन्न । अस्येतनेन निर्दिष्टधर्मिभूतजगत्सबन्धार्थ धर्माणा नियमनादीनां धर्मनिर्देशकेन जन्मादिपदेनैव ग्राह्यत्वात् । न चे परमतेऽस्येत्यनेन भङ्गं विवक्षित्वा तस्योत्पत्त्या दिके जन्मादिपदेनोक्ते भङ्गस्य ब्रह्म कारणं सिध्यति । कि जन्मादीत्यत्र भङ्गग्रहणेनेति स्यात् । नन्वेवमपि चेतनादिगंबन्धिज्ञानादेब्रह्मकार्यत्वे सिद्ध ऽपि ज्ञानादिसबन्धिनियमादेब्रह्मकारणं न सिध्यतीति चेन्न । यो यस्य धर्मः स तदाश्चित इन्युक्ते धर्मित्वे सति धर्मस्य रूपादेर्यथा धर्मत्वेन य इत्यनेन धर्मितया यस्येत्यनेन च ग्रहणं, तथा ज्ञानादीनामष्टकान्तर्गतत्वाजन्मादीत्यनेन गृहीतानामपि नियम्यत्वादिना रूपेणास्येत्यनेनापि ग्रहणात् । अन्यथा तवापि भङ्गसंबन्धिजन्मादिकारणं ब्रह्म न सिध्यत् । नित्यकर्मणि यस्य पुंसो याव- दङ्गोपसंहारे शक्तिस्तत्प्रयोगे तावदगोपेततेव ब्रह्मण्यपि यस्य वस्तुनः सृष्टया द्यष्टके यावत्संभवति तावद्धतुताऽनुगतैव ।। यद्यपि चेतनस्थानि सुखदु:खादीन्यचेतनस्थानि वृद्ध्यादीन्यपि सन्ति, तथापि विचारविधायकनानावाक्यपरामर्शन स्कान्दे सूत्रकृतैवाष्टककर्तृत्वस्यैव लक्षणत्वेनोसत्वादत्रापि तस्यैव विवक्षणीयत्वान्न दोषः। यद्वा सर्वैर्मुमुक्षुभिर्वि शिष्याष्टककर्तृत्वस्येवान्यकर्तृत्वस्य ज्ञेयत्वनियमाभावान्नान्यदिहादिशब्दार्थः । उक्तं च 'सृष्टिरक्षाहृतिज्ञाननियमाज्ञानबन्धनान् । मोक्षं च विष्णुतश्चैव ज्ञात्वा मुक्तिन चान्यथा' इति । अथवा विषयोपादकगुणपूर्तिप्रसिद्धये जीवाद्भेदके प्रसिद्ध जन्मादि त्रितयहेतुत्वेऽभिहितेऽपि प्रयोजनसिद्धये मोक्षदत्वस्यापि वक्तव्यत्वात्तस्य च बन्धकत्वं विनाऽयोगात्तयोश्च तद्धेतुज्ञानाज्ञानदत्वं विनाऽनुपपत्तेस्त्रितयहेतुत्व तात्पर्यचन्द्रिका व्यावाभावात् । स्यापि वक्तव्यत्वात् पुनश्च दीपस्तम इव ज्ञानं बन्धकाज्ञान स्वभावादेव हन्ति किमीश्वरेणेति शङ्काया दीपज्ञानादिस्वभावोऽपि भगवनियत इति वाच्य स्वात्प्रकृतोपयोगितयाऽटकोक्तिः । यथा च स्रष्टुत्वादावकै कस्यैव लक्षणत्वो पपत्तावपि त्रितयोक्तिः स्थितिहेतुरन्य इति शङ्कानिरासार्थ वाऽनेकलक्षणसूच नार्थ वा तथाऽष्टकोक्तिरपि तदर्थमस्तु । न चोपादानत्वाय त्रितयोक्तिः । सृष्टिलयाभ्यामेव तत्सिद्धेः । संभवति च गुणपूर्तावनेकोपपादकोपन्यासः | तस्मादष्टकमेव जन्मादिशब्दार्थ || केचित्तु यतो वेत्यादिश्रुतौ प्रतिवाक्यं तद्रसत्यनुक्तेरनेकलक्षणवैय र्थ्याच जन्मादिहेतुत्वसमुदाय एकं लक्षणम् । अत एव सूत्रे जन्मादीत्येकवचन मित्याहुः । तन्न न हि सर्वजगज्जन्मकारणं स्थित्याद्यकारण च किंचिदस्ति । ननु जन्मादिहेतुत्वं निरतिशयबृहत्वस्योपल क्षकम् । न च तदुपलक्षणमेकेनैव युक्तम् । जन्ममात्रोक्तौ स्थित्याधुपयोगि ज्ञानाद्यभावेन निरतिशयबृहत्त्वासिद्धः । अतः समुदायोकिरिति चेन्न । त्रितयोक्तावपि मोचकत्वोपयोगिशक्त्याद्यलाभात् । उपलक्षणस्योपलक्ष्योपपादक स्वानियमाच्च । उक्तशंकानिरासार्थमेवानेकलक्षणोक्तिसभवाच्च । प्रतिवाक्यं तद्ब्रह्मत्यनुक्तिन्तु ब्रह्मव्यक्तिभेदशंकानिरासार्थमिति त्वयापि स्वीकृतम् । अन्यथा सत्यज्ञानादिवाक्येऽपि प्रतिपदं ब्रह्माहाश्रवणान्निरुपाधिकसत्तायोगित्वनित्यासंकु. चितज्ञानत्वाऽपरिच्छिन्नगुणत्वरूपाणा सत्यत्वज्ञानवानन्तत्वात्मकाना स्वरूपलक्ष णानामपि प्रत्येकं लक्षणत्वं न स्यात् । सौत्रैकवचनादपि न समुदायस्य लक्षणता । यत्र सास्नादयः सागौः 'हलोऽनन्तराः संयोग' इत्यादौ बहुवचनेऽपि समुदाये लक्षणस्वसयोगसंज्ञादेः, यस्य छत्रादिकं स राजा , 'अजाद्यतष्टाप्' इत्यादा- वेकवचनत्वेऽपि प्रत्येकं लक्षणत्वादेर्दशनाच्च । गर्गाः शतं दण्ड्यन्तामित्यादौ समुदाय इव विप्रा भोज्यन्तामित्यादी प्रत्येकमपि वाक्यसमाप्तेर्दर्शनाच्च । तस्माजन्मादिहेतुत्वं प्रत्येकं लक्षणमिति ॥ यच्चोक्तं पर्जन्मादिकारणत्वं तटस्थलक्षणम् । आनन्दादिरेव स्वरूप. लक्षणमिति । तत्र न तावल्लभ्यगतागते स्वरूपतटस्थलक्षणे इति युक्तम् ।

जिज्ञासाधिकरणम् काकादेहे कारणत्वस्य च ब्रह्मणि अध्यासटस्थलक्षणस्य कारणत्रितय- जन्यत्वस्य चाव्यासे सम्वेन स्वरूपलक्षणत्वापातात् । आनन्दादेः स्वरू- पलक्षणत्वाभावप्रसंगाच्च । एतेन सत्यासत्ये स्वरूपतटस्थलक्षणे इति निर. स्तम् । काकादेरध्यासतटस्थलक्षणस्य च गृहादावकल्पितत्वात् । ननु कारणताऽपि विशिष्टे, न तु शुद्ध इति चेन्न । शुद्धेऽयतोऽसंभवादिप्रसंगेन तल्लक्षणत्वायोगात् । न च लक्षणत्वस्यैवाभावे तद्विशेषतटस्थलक्षणत्वं युक्तम् । शाखाग्रस्थूलतारादिकं तु न चद्रारुन्वत्यादिलक्षणत्वेनोच्यते । कितु चन्द्रादि- व्यवर्ति प्रदर्थ स चन्द्र इत्यादिकं वक्तुम् । प्रकृते तु न तथा । शब्दैकग. म्यशुद्धरूपस्य मानान्तरायोग्यत्वात् । न च यतो वेत्यादिवाक्यमेवाभिघया कारणत्वमुपस्थाप्य पुनस्तन्मुखेन लक्षणया कारणत्वरहितमानन्दैकरसं शुद्धं बोध- यतीति युक्तम् । सकृत्प्रयुक्ते वृत्तिद्वयायोगात् । केवललक्षणयैव शुद्धबोधन संभवेनाभिधया कारणत्वोपम्थापनवैयर्थ्याच्च ।। एतेन यत इत्यनेनैव पदेन शुद्धप्रतीतिरिति निरम्तम् । স্তম্ভ रूपस्य तेनैव सिद्धत्वेन शेषवैयोत् । सत्यज्ञानादिवाक्यान्तरेण शुद्धसिद्धौ तु कारणवाक्यवैयर्थ्यम् । न हि प्रकृष्टप्रकाशश्चन्द्र इत्युक्त्वा शाखाग्रमपि दर्शयन्ति । न वा प्रकृष्टप्रकाशत्वादिज्ञानानुषायमन्यदेवोक्त्वा प्रकृष्ट- प्रताशश्चन्द्र इति वदन्ति । न च जगत्कारणं ब्रह्मेत्यनुक्त्वाऽऽनन्दो ब्रह्मेति वक्तुमशक्यम् ॥ नापि यावत्स्वप्रत्याय्यव्यावृत्तिभाव्यभाविनी स्वरूपतटस्थलक्षणे । वन्मते यावघ्यावृत्तिभाविव्यावर्तकान्तराभावेनास्यैव यावघ्यावृत्तिभावित्वावश्य- भावात् । अध्यासतटस्थलक्षणेऽतिव्याप्तेश्च । अत एव न यावल्लक्ष्यभाव्यभा- विनी स्वरूपतटस्थलक्षणे । अलक्ष्यव्यावर्तकस्याभावे लक्ष्यस्यानवस्थानाच्च । न ह्यक्षीराब्यावर्तकहीनं क्षीरम् । न वाऽक्षीरदशायामसन्माधुर्यविशेषो न क्षीरस्य स्वरूपलक्षणम् । 'ईशानः प्रभुरव्ययः । अद्वैतः सर्वभावाना देवस्तुओं विभुः स्मृतः । तुरीयं तत्सर्वदृक् सदे'त्यादिश्रुत्या कारणत्वादेरपि यावल्लक्ष्यभावित्वाच्च ।।

तात्पर्यचन्द्रिका 20 - नापि लक्ष्यान्तर्गतानन्तर्गते स्वरूपतटस्थे । अन्तर्गतपदेन लक्ष्यैकदे शोक्तौ लक्ष्यम्याग्वण्डत्वहाने । अभेदोक्तौ तु प्रकृष्टप्रकाशत्वादेश्चन्द्रस्वरूप लक्षणत्वेन स्वीकृतस्यापि तन्न म्यात् । स्वया लक्षणवाक्यस्याखण्डार्थत्वाय प्रकृष्टत्वादेश्चन्द्रप्रातिपदिकार्थाद्वहिर्भावस्योक्तत्वात् । प्रसिद्धस्यासाधारणधर्मस्य लक्षणत्वेनाप्रसिद्धस्य धर्मिणश्च लक्ष्यतया लक्षणस्य लक्ष्यमात्रत्वानुपपत्तेश्च । कारणत्वे लक्ष्यमात्रत्वरूपस्वरूपलक्षणत्वस्य ममाप्यनभिलषितत्वाच्च । आनन्द त्वादेरपि धर्मत्वाच्च । आनन्दो लक्षणमिति चेत्तर्हि जगत्कारणं लक्षणमस्तु । कारणस्य सोपाधिकत्वेन निरुपाधिकस्वरूपत्वाभावे आनन्दस्यापि तन्न स्यात् । त्वन्मते शुद्ध आनन्दत्व जातेरभावेनानुकूलवेदनरूपस्य वा परमप्रेमास्पदस्य वा दुःखविरोधोपलक्षितम्वरूपम्य वा तस्य सोपाधिकत्वात् । एवं ज्ञानमप्यर्थ प्रकाशात्मकत्वेन सोपाधिकमेव । भोजनस्य भोक्तृभोज्यसापेक्षत्ववज्ज्ञानस्य ज्ञातृज्ञेयसापेक्षत्वात् ॥ एतेन यदुक्तं विवरणे विषयानवच्छिन्नमादित्यादिप्रकाशवदर्थप्रकाशन समर्थ ज्ञानं स्वरूपलक्षणमिति तन्निरस्तम् । सामर्थ्यस्य शक्तिरूपत्वान् । विषयनिरूप्यत्वाच्च । जगज्जननादिसामर्थ्यस्यैव स्वरूपलक्षणत्वोपपत्तेश्च । स्वरूपप्रकाशत्वं नान्योगाधिकमिति चेन्न । स्वरूपस्य स्वावेद्यत्वात् । (स्व) व्यवहारयोग्यतायाश्च व्यवहारोपाधिकत्वात् ॥ एतेन निरुपाधिकसोपाधिके स्वरूपतटस्थे इति निरस्तम् । प्रकृष्ट प्रकाशत्वादेनिकृष्टादिनिरूप्यतया मिथ्यार्थावभासत्वस्यापि मिथ्यार्थनिरूष्यतया तयोश्चन्द्राव्यासस्वरूपलक्षणत्वाभावापाताच्च । एतेन स्वयं व्यावर्तक स्वरूपलक्षणम् । व्यावर्तकोपस्थापकं तु तटस्थम् । काकादिर्हि व्यावर्तकं सस्थानाद्युपस्थापयतीति निरस्तम् । त्वन्मते कारणत्वेनो पम्थाप्यव्यावर्तकान्तराभावात् । स्वरूपमात्रस्य च जिज्ञासाधर्मित्वेन प्रागेवो पस्थितेः। एतेनैव कार्यान्वयिरूपं विशेषणं स्वरूपलक्षणम् । तदनन्वयि रूपापलक्षणं तटस्थम् । आनन्दत्वादिकं हि तद्विजिज्ञासस्वेति वाक्यविहित जिज्ञासारूपकार्यान्वयि । तस्य मुमुक्षुज्ञेयत्वात् । न तु कारणतेति निरस्तम् ।

जिज्ञासाधिकरणम् अन्यथा इतरत्र्यावृत्त्यर्थमानन्दत्वादेरिव कारणत्वस्यापि जिज्ञास्यत्वात् । समन्वयाविरोधाध्याययोस्तव्युत्पादनं न स्यात् । न च ब्रह्मण्यानन्दत्वादे: कारणत्वादेश्वारोपितत्वेऽविशिष्टेऽपि दु:खव्यावृत्तिरेव ज्ञेया. न त्वकारणव्यावृत्ति रित्यत्र हेतुरस्ति । सुखम्वभावत्वादपुखत्र्यावृत्तौ कारणस्वभावत्वादकारणन्या वृत्तिरम्तु । 'देवस्यैष स्वभावोऽय' मित्यादिश्रुतेः । किंच जन्महेतुत्वेनैवोप लक्षणेनोपलक्ष्यज्ञानसिद्वैः स्थितिहेतुत्वाद्युपलक्षणान्तरवैयर्थ्यम् । अस्मन्मते तु जन्महेतुत्ववस्थितिहेतुत्वमपि मुमुक्षुणा ज्ञेयम् । न त्वन्यज्ञानोपक्षीणम् । तस्माद्ब्रह्मशब्दार्थगुणपूर्तिरूपस्वरूपलक्षणोपपादकं - 'शक्तयः सर्वभावानामचिन्त्यज्ञानगोचरा । यतोऽजो ब्रह्मणस्तान्तु सांद्या भावशक्तयः॥ इत्यादिवचनसिद्धं 'यतो येने'त्यादिकारकशक्तिवाचिपञ्चम्याधुक्त जग जन्मादिसामर्थ्यमपि परमानन्दादिवद्यावलक्ष्यमाविरूपस्वरूपलक्षणमेव । वहे दोहशक्तिवत् । 'एष नित्यो महिमा, स्वाभाविकी ज्ञानबलक्रिया चेत्यादि श्रुतेः । किंच असाधारणधर्मो हि लक्षणं परिकीर्त्यते । तच्च निधर्मकब्रह्मवादिना युज्यते कथम् ॥ १॥ किंच, स्वरूपं वा तटस्थं वा लक्षणं भेदकं मतम् ! सजातीयाद्विजातीयात्तच्चाद्वतिमते कथम् ॥ २ ॥ न च मिथ्याभेदसिद्ध्यै मिथ्यालक्षणकीर्तनम् । मुमुक्षु तत्वजिज्ञातुं प्रति शास्त्रेषु शोभते ॥ ३ ॥ न च कारणत्वे श्रुतेरतात्पर्यान्नाप्रमाण्यम् । तात्पर्यनिर्णायकैः सूत्रैः प्रत्यधिकरणं सदेवेत्यादि वाक्यं न प्रधानादिकारणत्वपरं किंतु ब्रह्मकारणत्वपरमि त्युक्तेरिति ॥ केचित्तु यतो वेत्यादिवाक्येन प्रतिपन्नजन्मादिकारणत्वस्य ब्रह्मणः सकलेतरव्यावृत्तं स्वरूपं सत्यज्ञानादिवाक्येनाभिधीयते । न च कारणत्वेनैवलक्ष णेन स्वेतरसर्वव्यावृत्तिसिद्धेः कि सत्यादिवाक्येनेलि शङ्कयम् ; यथा हि घटम्य ..

तात्पर्यचन्द्रिका ४८ , संस्थानविशेषादिना स्वेतरसर्वव्यावृत्तत्वेऽपि गन्धवत्त्वात्पृथिवीजातीयत्वम् , एव ब्रह्मणो जगत्कारणवेन स्वेतरव्यावृतत्वेऽपि जीवजडजातीयत्वमिति शङ्कायां यथाऽबादेर्गन्धाभावादपृथिवीत्वम् , तथा ब्रह्मणोऽपि सोपाधिकसत्त्वादेरभा- वान्न जीवजडजातीयत्वमिति दर्शयितुं निरुपाधिकसत्यत्वादिलक्षणोक्तरित्याहुः । तन्न । संस्थानविशेपो हि घटं पटादिभ्य एव व्यावर्तयति न तु पृथिवी मात्रात् । घटम्यापि पृथिवीत्वात् । एवं च संस्थानादिकं येभ्यः पटादिभ्यो व्यावर्तयति तद्विजातीयत्वमपि तेनैव सिद्धम् । अबादेरपि पृथिवीमात्रव्यावर्तका स्वादियोगादेव हि पृथिवीवैजात्यम् । यस्मात्तु पृथिवीजातीयासंस्थानादिना वैजात्यं न सिध्यति तस्मान्यावर्तकत्वमपि संस्थानादेनास्ति । प्रकृते तु कारणत्वं जीवादिभ्यो ब्रह्म व्यावर्तयतीति कथं तेनाकारेणेभ्यो जीवादिभ्यो वैजात्यं तदन्तीवायोग्यत्वादिरूपं न सिद्धयेत् ? तदनिष्ठजातियोगित्वं तु सत्यज्ञान स्वादिना लक्षणान्तरेणापि न सिद्ध्यति । कारणत्ववन्निरुपाधिकसत्यत्वादेरप्य- जातिरूपत्वात् । तम्मात्सत्यज्ञानत्वादिवत्कारणत्वमपि स्वेतरसर्वव्यावर्तक- मिति । तदेतदभिप्रेत्योक्तमनुव्याख्याने अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम् । कृष्ण-यानच्छलेनैव स्वयं भागवतेऽब्रवीत् ॥' इति ॥ टीकाक्षरार्थस्तु भेदकाभावेन जिज्ञास्यता न सभवतीत्यत्रत्यस्येति शब्दम्येतिश्रुत्यादिसंगतिरिति पूर्वेणान्वयः । एवमुत्तरत्रापि द्रष्टव्यम् ॥ पर्य वर्तयदिति ॥ विपरिवर्तन इति धातोरिति भावः । पञ्चाशन्मरुत इति ।। एकोनपञ्चाशन्मस्ता मुख्यवायुना सह पञ्चाशत्वादिति भावः ॥ एकादशा दित्या इति ॥ आदित्याना द्वादशत्वेऽपि विष्णुव्यतिरिक्ताना नियम्यानामेका दशत्वादियमुक्तिः ॥ तत्त्वप्रदीपे तु 'आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि । बृहस्पतिश्च कामश्च (मनु)मुनिर्दक्षो विनायकः ॥ भृगुश्चैवानिरुद्धश्च धर्मो निऋतिरेव च । - शास्त्रयोनित्वाधिकरणम् कुबेरसहिता देवा नवतिः सप्रकीर्तिता ॥ अनन्तो गरुडो वायुश्चत्वारो ब्रह्मणा सह' इतिवचनानुसारेणेयं श्रुतिः प्रकारान्तरेण व्याख्याता । सृष्टिस्थितीत्या. दिभाष्ये प्रयोजकव्यापारवाचिना मृष्ट्यादिशब्देन प्रयोज्यव्यापारो जन्मा. दिलश्यते । लसगाप्रयोजनं ब्रह्मगः स्रष्टुत्वादिकमेव न तूगदानस्वमिति प्रदर्शनम् ॥ ॥ इति जन्माधिकरणम् ॥ [शास्रयोनित्वाधिकरणम् ] : 3- ॐ शास्त्रयोनित्वात् ॐ ॥ १-१-३॥ उक्तस्य लक्ष गस्यातिव्याप्तिनिरासाय प्रमाणमुच्यत इ-यनन्तरसंगतिः ।। नन्वेत'स्मृत्यनवकाशदोषे'ते स्मृत्यधिकरणेन पुनरुक्तम् । तत्रैवात्रापि सांख्यपाशुपतादिदुरागमानामपि निरासात् । न चेह कर्तृत्वादिकं विष्णोर न्यस्य वेति संदेहः । तत्र तु विष्णोः कर्तृत्वादिकं युक्तमयुक्तं वेति । ततो भेद इति वाच्यम् । एकेवनै सिद्धान्तेन संदेहद्वयनिरासान् । संदेहप्रकार- भेदमाग चाधिकरण भेदेऽतिप्रसंगात् । न च स्मृत्यनन्तर्गतयुक्तिविरोध परिहारः तत्राप्यस्ति ।। एतेन तत्र समयविगानं संदेहबीजं, अत्र तु पूर्वन्यायप्रसिद्धी इति निर स्तम् । प्रसिद्धरपि समयमूलत्वात् । न चात्रागमानामांन्निरामः। तत्र तु कण्ठन इत्येतावतैवापौनरुक्त्यं । अनुमानस्थापि कारणे प्रामाण्यस्य कण्ठतो निषेधा- याधिकरणान्तरारंभप्रसंगात् । न चेदानुमानस्यापि निरायान्न गतार्थतेति वाच्यम् । आगमाशे गतार्थत्वात् । अनेनाधिकरणेन तम्य गतार्थत्वापरिहाराच्च । न चात्र दृष्टफलेषु संवादेन प्रामाण्ये प्राप्ते, दृष्टफलेष्वेव विसंवादेनाप्रामाण्यमिति सिद्धान्तः । तत्र तु सर्वज्ञत्वादिना प्रसिद्धप्रणीतत्वात्प्रामाण्ये प्राप्ते प्रबलस्मृत्या दिविरोधाद्विपलंभमूलमप्रामाण्यमिति सिद्धान्त इति वाच्यं । 'इतरेषां चानुप 7 तात्पर्यचन्द्रिका ५० - .. लब्धेरिति सूत्रेण विसंवादस्य तत्रैवोक्तेः । न चोक्त सिद्धान्तयोविनिमयादपौन रुक्त्यम् । अनुव्याख्यानविरोधात् । अत्र ह्यनुव्याख्यानम् 'शैवाद्यागमसंप्राप्तदृष्टगेन फलेन तु' इति । तत्र तु 'आप्तैः प्रत्यक्षतो दृष्ट्वा' इति । न चेहानुमानमात्रनिरासादग- तार्थतेति वाच्यं । सौत्रशास्त्रपदेन दुरागमानामपि निरासात् । अस्मिन्न- धिकरणेऽनुव्याख्याने 'तर्हि पाशुपतादिशास्त्रेण रुद्रादेः कारणत्वं स्या' दित्यादिटीकाया चागमावष्टं भेनापि पूर्वपक्षयित्वा तन्निरासाच्चेति ।। उच्यते- तत्र पाशुपतादिस्मृत्या पूर्वपक्षे पंचरात्रादिस्मृत्या सिद्धान्त । अत्र तु स्मृत्यनुमानाभ्या पूर्वपक्षे श्रुत्यादिरूपेण शस्त्रेण । अत एव तत्र सूत्रे नान्यस्मृतीति स्मृतिशब्दः । अत्र तु शास्त्रशब्दः । न च तीह श्रत्यादिना सिद्धान्तिते पुनस्तत्र स्मृतिमात्रेण पूर्वपक्षानुदय इति शंक्यम् । गुणहीनाया: पिपीलिकालिपिनिभायाः श्रुतेर्गुणवत्या पाशुपनादिम्मृत्या विरोधेनान्यपरत्वे वाच्ये श्रुतिनूरपंचरात्रादिस्नृतेरप्यन्यपरत्वम् । पाशुपतास्तु शिवादिप्रत्यक्षमूलत्व- मिति तत्र पूर्वपक्षे प्राप्ते, तिष्ठन्तु तावत् श्रुतयः विवादिप्रत्यक्षमूलाभिः पंचरात्रादिम्मृतिभिर्विवक्षिनार्थसिद्धेरिति सिद्धान्तोपपत्तेः । यद्वा अत्रानुमानेन पूर्वरक्षे तदयोग्यत्वेन सिद्धान्तः। तत्र तु शैवाद्यागमेन पूर्वपक्षे तदप्रामाण्येन सिद्धान्न इति भेदः । अत एवात्रा'नुमानत' इति भाष्यम् । तत्र तु तेषा वचनविरोध' इति ।। यत्वनुव्याख्याने स्मृत्यधिकरणप्रमेयमिह शिष्यहिताय व्यवहृतं, तदत्र शास्त्रपदेनानुमानन्य जगत्कारणतायामप्रामाण्ये दृष्टान्तीकृतस्य दुरागमस्याप्रामा- ण्यमुपपादयितुम् । अनेनैवाभित्रायेणात्र भाष्ये ऋगादिक शास्त्रं न तु शैवादिकमित्युक्तम् । अथवा तत्र दृष्टफलेषु संवादादिना प्रामाण्ये प्राप्तेऽति. हेयत्वव्युत्पादनाय दृष्टफलेश्वेव बहुलं विसंवादादिनाऽप्रामाण्यम् । कचित्क. चिसंवादस्तु काकतालीय इत्यागममात्रासाधारणन्यायव्युत्पादनम् । इह तु दृष्ट फलेष्वंगीकृत्य प्रामाण्यमन्यत्र प्रामाण्यं चेत्कारणत्वेऽपि प्रामाण्यमिति प्राप्ते 'नावेदविदित्यादिश्रुते कारण वे न मानमित्यनुमानागमसाधारणन्यायव्युत्पा- शास्त्रयोनिस्वाधिकरणम् दनम् । अत एवात्र 'कारणत्वस्य शास्त्रैकगम्यत्वादिति टीका । तत्र तु 'अवैदिकस्मृतीनामप्रमाणत्वादिति । यद्वा अत्र विष्णोरन्येषा च कारण- त्वमिति समुच्चयेन लक्षणस्यातिव्याप्त्या पूर्वपक्षे विष्णोरेवेत्यवधारणेन सिद्धान्तः । तत्र तु विष्णोः कारणत्वं नेत्यसंभवेन पूर्वपक्षेऽस्तीति सिद्धान्त । अत एवात्र टीकाया 'विष्णोरिवान्यस्याप्यन्ति न वेति सदेहः । 'कारणस्वम्य भगवदेकनिष्ठत्वाभावादिति पूर्वपक्षोपसहारश्च । तत्र तु 'युक्तं न वे'त्येव संदेहः । 'न विष्णोः कारणत्वं सिध्यतीति पूर्वपक्षोपसहारश्च । सुधा. प्यत्र 'अतिव्याप्तिमाशंक्ये ति, तत्र तु 'शिवप्रभृतीनामेव कारणत्वमिति । न्यायविवरणं चात्र 'न च रुद्रादौ सममेतल्लक्षण'मिति ।। यद्यप्यागमप्रामाण्यवादिनेहाप्यसंभवो वक्तुं शक्य । तथापि वक्ष्य- माणे श्रुतेः स्वतःप्रामाण्यविष्णुपरत्वे समबलना चोपेत्य कालादिभेदेनाविरुद्ध द्वयोः कर्तृत्वम् । श्रुत्यादौ ‘स इदं सर्वममृजते' ति विष्ण्वादेः सर्वकारण- त्वोक्तिस्तु तत्तकालसृज्याभिप्राया । सर्वस्रष्टुत्वयोग्यताभिप्राया वा । वन्मतेऽ प्यागामिन्यसृजतेत्यादिनिर्देशायोगात् । श्रुतौ शिवस्यागमे च विष्णोः कारण तानिषेधस्तु यथोदितहोमादिनिन्दाऽनुदितहोमादिस्तुतिपरा । तथा विष्ण्वादे: कारणताविधिपर इति प्राप्ते, प्रमाणत्वेनागीकृतश्रुतिपरिगृहीतया 'ऋग्यजु' रित्यादिभाष्योदाहृतया स्मृत्यैव दुरागमाप्रामाण्यमिति सिद्धान्तः । तत्र तु स्वप्रयोजकगुणप्रयुक्तम्य प्रामाण्यस्य मुख्यत्वादप्रामाण्यप्रयोजकदोषाभावप्रयुक्तम्य तु जघन्यत्वादागमविरोधे श्रुतेस्तद्गृहीतम्मृतेश्च न स्वार्थपरत्वं, कितु विस्पष्टा- गमानुसारेणस्पष्टश्रुत्यादि नेयमिति प्राप्ते प्रामाण्यस्य स्वतस्त्वेन सिद्धान्तः । किचास्य समन्वयप्रस्तावायोक्तलक्षणे ब्रह्मणि प्रमाणप्रतिज्ञार्थत्वेन स्वपक्षमाध- कोपन्यासपरत्वात्तस्य च समन्वयोपपादकाविरोधव्युत्पादनाय बाधकोद्धारपरत्वात् द्वयमर्थवत् । अनुमानस्य त्वतिदुर्बलत्वान्न पृथनिरासः । 'रचनानुपपत्तेश्च नानुमानम्, पत्युरसामंजस्या'दित्यादौ तु प्रधानस्याचेतनत्वाच्छिवादेश्व जननादिदोषवत्त्वान्न कर्तृत्वयोग्यतेति वक्ष्यते । न तु तत्तदागमाप्रामाण्यमिति न तेनापि पुनरुक्तिः । एवमन्यत्रापि यथासंभवं पौनरुत्त्याशङ्का समाधेया ।।

तात्पर्यचन्द्रिका । किं कल्पत्वव्याप्य अत्र जगत्कारणत्वं किमन्यस्यापि कि वा विष्णोरेवेति चिता । तदर्थ कारणत्वं विमनुमानादि विषयत्वयोग्यमुतायोग्यमिति । आगमावष्टंभेन पूर्वपक्षः पौनरुक्तयनिराससमय एवोक्तः। अनुमानावष्टंभेन पूर्वपक्षस्तु । अनुमानेन रुद्रादीनामपि कारणतासिद्धरतिव्याप्तिः । न चानुमानमप्रमाणमतिप्रसगादिति युक्तम् । व्याघातात् । न चान्यत्र प्रमाणमपि जगत्कारणे न प्रमाणम् । नियामकाभावात् । न ह्यामान दिवदनुमानं नियतविषयम् ॥ यद्यपि कार्यत्वाद्यनुमानाकर्तृमात्र सिध्यति न तु शिवादिः कर्तेति । कर्तृमात्रं च विष्णोः कर्तृत्वा विरोधि । लोकप्रसिध्यादेरुभयत्र तुल्यत्वात् । तथाप्यनुमानं स्वप्रामाण्य निषेधक्श्रुन्युक्ते कर्तरि न पर्यवस्यति स्वागमोक्ते कर्तत्यतिव्याप्तिः । शिवो जगजन्मादिकर्ता सर्व ज्ञत्वादित्यादिव्यतिरेकिणा तत्सिद्धि. । सर्वज्ञत्वादिकं चागमसिद्धमित्यागमसहा येनानुमानेनेह पूर्वपक्षः। यद्वा महाकल्पत्वं कल्पत्वव्याप्यधर्मेण स्वाश्रयस मानजातीयकल्पवृत्यादिकार्यकर्तृभिन्नकर्तृकादिकार्यवदृत्ति । त्वात् । अवान्तरकल्पत्ववत् । एवं महाकल्पभेदेन वर्तृ नेदवत्पालकादिभेदोऽप्य नुमेयः । तथा जगत्वहर्तृत्वं जगत्स्रष्ट्रकनिष्ठम् । सहारशकतित्वात् । घटसंहा- शक्तिवदिति स्रष्ट महत्रों र्मेदसिद्धिः । तथा महीमहीधरादि नानाकर्तृकम् । विचित्रकार्यत्वात् । प्रासादादिवत् । एवं च सर्वजगजन्मादिकतृत्वं लक्षणं चेदमंभवः । कतिपयकर्तृत्वं चेदतिव्याप्तिः ॥ यद्वा सर्वजगन्निर्माणादिशक्तिः स्वमात्रवृत्तिधर्मेण स्वसमानजातीय शक्त्याश्रयभिन्नाश्रिता । निर्माणादिशक्तित्वात् घटनिर्माणादिशक्तित्वत् । जग स्कर्तृत्वं विष्ण्वितरवृत्ति, कर्तृत्वव्याप्यत्वात् , घटकर्तृत्ववत् इत्याद्यनुमानैरनेकेषा सर्वजन्मादिवर्तृगां साधकैर्विण्वितरसर्वजगत्कर्तृसिद्धावितरेषां प्रसिद्धशिवाय (द)न्यत्वे गौरवादतिव्याप्तिः । यद्वा कार्यत्वाद्यनुमानेन नित्यज्ञानेच्छाप्रयत्नमात्र वतोनित्यप्रयत्नमात्रवतो वा कर्तु सिद्धेः त्वया च तस्य विष्णुत्वानङ्गीकारात्संहर्तृ स्वादिना रुद्रादिशब्दोदिते तस्मिन्नेवातिव्याप्तिः। न च विष्णोरन्यस्य कारणत्व निषेधकोदाहृतश्रुतिविरोधः । तासामुक्तयुक्तिविरोधेन विष्णोः कारणत्वविधि ..

माम्बयोनित्वाधिकरणम् परत्वादिति केवलानुमानेनैव पूर्वपक्ष इति । तदेतदभिप्रेत्योक्तं टीकाया 'अनु मानेन रुद्रादेरपि कारणते'त्यादि । सिद्धान्तम्तु चक्षुरादि यथाऽशक्तं रसगन्धादिवस्तुपु । अनुमापि तथाऽशक्ता धर्मब्रह्मादिवस्तुषु ।। 'न हि धर्मादिनिश्चयोऽनुमानेने'ति टीकयैव महाकल्पत्वमित्याद्यनु मानेषु श्रुतिबाधादेः 'शशादीना विषाणित्वादौ च कर्तु शक्यत्वादिति टीकाया चातिप्रसङ्गस्योक्तत्वात् । अनुव्याख्याने च- 'वस्तुत्वात्तुरगः शृङ्गी पुष्पवरख सुतैयुता । चित्रिणी च रसः षष्ठो रसत्वात्सोत्तरो भवेत् ।। इत्यतिप्रसङ्गस्य प्रपञ्चितत्वादन्यत्र कार्यत्वादिहेतूना सप्रपञ्च निरासात् 'नावेदविदित्यादि श्रुत्या जगत्कारणेऽनुमानप्रामाण्यनिषेधाच्च नानुमान जगत्कारणे प्रमाणमिति । आगमाश्रयपूर्वपक्षनिरासस्तु पौनरुक्तयपरिहारावसर एव विवृतः ॥ अत्र परेषां भाष्ये शास्त्रस्य योनिरिति विग्रहमाश्रित्य 'ऋगादिकारणत्वं ब्रह्मण इहोच्यते। पूर्वसूत्रेऽर्थलब्धस्य सार्वज्ञस्य स्फोरणार्थमित्युक्तम् । तन्न। लक्षणानन्तरमवश्यापेक्षितप्रमाणपरत्वसंभवेऽन्यपरत्वायोगात् । त्वदभिमतभ्रमा धिष्ठानत्वरूपकारणत्वेन सार्वज्ञालाभाच्च । पूर्वसूत्रेऽर्थलब्धसर्वशक्त्यादित्यागेन सार्वज्ञस्यैव स्फोरणे निमित्ताभावाच । सांख्यामिमताचेतनकारणतायाश्च चेत- नत्वमात्रैण निषेधसंभवात । सांख्यानङ्गीकृतेन शास्त्रयोनित्वेन साविज्ञस्य साधना योगाच्च । श्रुत्या शास्त्रयोनित्वं तेन सार्वज्ञं प्रसाध्य तेन प्रधानस्य कारणता. निषेधादरं श्रुत्यैव तन्निषेधः । जगन्निर्माणेनास्फुटीकृतस्य सार्वज्ञस्य तदेक देशशास्त्रनिर्माणेन स्कुटीकरणायोगाच्च ।। अत्र भामतीविवरणोः 'जगत्कारणत्वेन सिद्धे सार्वज्ञे शास्त्रयो. नित्वं हेत्वन्तरमुच्यते । वेदः स्वविषयादधिकविषयकज्ञानवत्प्रणीतः, वाक्य प्रमाणत्वात् , पाणिन्यादिशास्त्रवत् ' इत्युक्तम् । तन्न। एकार्थमात्रज्ञेन प्रयुक्तस्यानेकार्थस्य शब्दस्याबाधितानेकार्थबोधकत्वदर्शनात् । नन्वन्योऽर्थो तात्पर्य चन्द्रिका .. . तथा न तात्पर्यविषय इति चेत्तर्हि प्राशस्त्यपरार्थवादप्रतीतवायुक्षेपिष्ठादिसंसर्गज्ञं ब्रह्म न स्यात् । पदार्थज्ञानं विना पदप्रयोगायोगेऽपि संसर्गज्ञानासिद्धेः। माना न्तरप्राप्ते संसर्गेऽवान्तरतात्पर्यस्याप्यभावात् । किच वेदस्यातत्वे तात्पर्ये प्रामा ण्यायोगात्तत्वे चिन्मात्रे तात्पर्याब्रह्मापि तन्मात्रज्ञं स्यात् । किंच प्रत्यक्षादि सिद्धस्य घटादेर्निष्प्रयोजनस्य गङ्गावालुकेयनादेश्च शास्त्राविषयत्वाझं ब्रह्म न स्यात् । अपि च न तावदर्थमुपलभ्य रचयितृत्वं प्रणेतृत्वम् पौरुषेयत्वा पातात् । नाप्यध्यापकवदुच्चारयितृत्वमात्रम् , तेन सार्वज्ञासिद्धेः । किच स्वव्यतिरिक्तोपदेश्य पुरुषगोचरम्य भ्रमस्य भ्रान्तिसिद्धशरीरादेश्वाभावे उच्चारणा योगात्तस्य चासार्वज्ञ विनाऽसंभवाच्छास्त्रयोनित्वमसार्वज्ञ एव हेतुः ॥ विवरणे तु यथा दीपगता प्रकाशनशक्तिस्तदुपादाने वह्नौ, वेदगता सर्वप्रकाशनशक्तिस्तदुपादाने ब्रह्मणि , कार्योपादानयोरेकशत्तित्वा दित्युक्तम् । तन्न। कारणेऽदृष्टस्यापि शक्तिविशेषस्य कार्ये दर्शनात् । किच त्वन्मतेऽन्धकारदहनादेरपि बह्मोपादानकत्वात्तद्गताप्रकाशनदाहादिशक्ति मद्ब्रह्म स्यात् । अविद्यापि शास्त्रोपादानमिति सापि सर्वज्ञा स्यात् । किंच परिणामिपरिणामयोरेकशक्तित्वेऽपि कथमधिष्ठानाध्यस्तयोम्तत् । एतेनाधिष्ठानस्य ब्रह्मणो विज्ञानशक्तिविवर्तरूपं शास्त्रमिति निरस्तम् । अविद्याकाशादेरपि तद्विवर्तत्वेन शास्त्रवत्सर्वप्रकाशकत्वापातात् । रज्ज्वामपि भयकम्पादिशक्ते. ब्रह्मण्यप्यावरणविक्षेपादिशक्तेः प्रसङ्गाच्च । बाह्यागमानामपि ब्रह्मविवर्ततया तदर्थज्ञत्रे ब्रह्मणो भ्रान्तत्वप्रसङ्गाच्च । अपि च त्वया कार्योपादानयोरेकशक्ति त्वस्योक्तत्वाद्वेदः स्वयमज्ञ एव जीवान्प्रति प्रकाशक इति ब्रह्मापि तथा स्यात् । तथाच सार्वज्ञार्थ यत्नेऽत्यन्ताज्ञत्वमेवापन्नम् । किंच जन्मादिकारणत्वेनैवोप लक्षणेनोपलक्ष्यस्वरूपसिद्धेः कि निर्विशेषत्वप्रतिकूलसार्वज्ञस्फोरणादिना ।। ननु तर्हि पूर्वसूत्रोक्तसर्वकारणत्वाक्षेपे तत्समाधानार्थमिदमस्तु । उक्तं हि कल्पनरौ अथवा वेदनित्यत्वाहह्मणो विश्वयोनिता । नेति शङ्कामपाकर्तु शास्त्रयोनित्वमुच्यते ॥

शास्त्रयोनित्वाधिकरणम् ५५ . इतीति चेन्न । अस्य श्रुतीना परस्परविरोधपरिहारेण यावद्वि- कार'मित्यादिसूत्रोक्तैः भिन्नत्वादिसाधारणहेतुभिः ब्रह्मेनरम नित्यत्वप्रतिपादके वियत्वादे वक्तव्यत्वात् । किंचाध्यापकेऽपि पूर्वपूर्वसदृशानुपूर्वीरचयितृत्वम्य भावात् अभिनवानुपूर्वीरचयितृत्वादेश्च ब्रह्मण्यप्यभावात् अध्यापकादधिकस्य शास्त्रयोनित्वस्य ब्रह्मण्यसिद्धि । ननु बहु कालविरतमप्रदायम्य वेढम्य सर्गा दावकस्मानिस्सरण ब्रह्मण्यधिकमिति चेन्न । जन्मादिसूबेऽस्येत्यनेन शास्त्रम्यापि विवक्षाया घटादिकं प्रति प्रसिद्धकतृत्वस्याकाशादीन्प्रतीव लौकिकप्रमाणवाक्यं प्रति प्रसिद्धकर्तृत्वस्य शास्त्रं प्रति वक्तव्यतया निम्मरणावधित्वस्यानुक्तत्वेनेह तत्समर्थनायोगात् ॥ एतेनैव 'अम्य महत' इत्यादिवेदवाक्यं ब्रह्मणों वेदकर्तृत्वेन सर्वज्ञत्वं न साधयति वेदस्य सापेक्षत्वप्रसङ्गादेति पूर्वरक्षे साधयति अर्थमुपलभ्य रचयि तृत्वत्याभावात् । उच्चारयितृत्वमात्रस्य च सापेक्षत्वानापादकत्वादिति परेषा मधिकरणपास्तम् । अभ्य महत' इत्यादेरनुमानरूपत्वाभावाच्च ॥ केचित्तु जगत्कारणं न वेदवाक्यप्रतिपाद्यम् । अनुमानेन सिद्धेः । तथाच वाक्यानामनुमानप्राप्तानुवादित्वेनाविचार्यत्वमिति प्राप्ते, अत्यन्तातीन्द्रिय त्वेन प्रत्यक्षाद्यविषयत्वात् कार्यत्वाद्यनुमानाना दुष्टत्वेनेश्वरासाधकत्वाच्च वेदान्त वेद्यत्वमित्यननुवादकाना वेदान्ताना विचार्यत्वमिति सिद्धान्त इत्याहुः । तत्र ब्रुमः 'यतो वे' त्यादि वाक्यं प्रसिद्धार्थवच्छब्दयोगाद्वाक्यान नरसिद्ध कारणत्वानुवादेन तस्य लक्षणत्वविधायकमिति हि ते मतम् यथोक्तं यच्छन्दयोगात्कारणत्वमनूद्यत' इति 'ब्रह्मलक्षणत्वमेवाम्य वाक्यस्य विधेय'मिति च । एवं च कारणत्वस्या ऽऽनुमानिकत्वेऽपि तदनुवादेन लक्षणत्वविधायकम्य 'यतो वे'त्यादेरनुवाद कत्वासिद्धप्तरिसच्यर्थ कारणत्वस्य ब्रह्मरक्षणत्वमानुमानिकमिति पूर्वपक्षयितव्यम् । तदेव च शास्त्रयोनीति सिद्धान्तयितव्यं स्यात् । किंच कारणवाक्यस्यानुवाद कत्वेऽपि 'सत्यकामः सत्यसङ्कल्प, हिरण्यश्मश्रुर्हिरण्यनखः इत्यादीनाम कारणवाक्याना विचारः पूर्वपक्षेऽपि सेत्स्यत्येव । न च जिज्ञासासूत्रे कारण वाक्यस्यैव विचारः प्रतिज्ञातः येनेह पूर्वपक्षे स आक्षिप्येत । किंचास्य तात्पर्यचन्द्रिका न च तत्व .. सूत्रस्य जन्मादिसूत्रस्य च कारणमात्रविचारसाधकत्वे कारणाकारणवाक्यविचार साधकाद्यचतुर्थमूत्रमध्यस्थत्वमयुक्तम् ।। एतेनैवाद्वैतिना, शास्त्रं योनिः - ज्ञप्तिकारणमस्येति विग्रहाश्रयणेन पूर्वोक्तलक्षणस्यानुमानतोपमर्दनेनागमोपदर्शनार्थमिदमधिकरणमिति वर्णकान्तरं निरस्तम् । प्रमेये विशेषाभावे प्रमाणे विवादायोगात् । किचाद्यसूत्रे ब्रह्म- शब्देन बृहत्त्वादिधर्मवत्तया द्वितीयसूत्रे च कारणत्वादिधर्मवत्तयोक्ते उत्तर त्रापि 'ईक्षते शब्द, अन्तस्तद्धर्मोपदेशात् , आकाशस्तल्लिङ्गादित्यादावीक्षि तृत्वादिभिस्तैस्तैरसाधारणधमै : कारणत्वादिविशिष्टतया तत्तद्वाक्यार्थत्वेन वक्ष्य माणे ब्रह्मणि शास्त्रं प्रमाणं, कि वा बृहत्त्वकारणत्वादिधर्मरहिते पञ्चमाध्याय सिद्धे त्वदभिमते शून्यब्रह्मणि ? नाद्यः तस्यातात्विकत्वात् । जिज्ञासु प्रत्यादित एव शास्त्रस्यातत्वावेदकत्वं वक्तुं युक्तम् । अन्त्ये तु पूर्वोत्तराविरोधाय न ब्रह्मजिज्ञासा, न जन्माद्यस्य यतः, अनीक्षतेरित्यादिः सूत्रविन्यास: स्यात् । उक्तं वानुव्याख्याने सर्वधर्मोज्झितस्यास्य कि शास्त्रेणाधिगम्यते । मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता ॥' इति किञ्च, यत्सत्यं नैव तद्वेद्यं यद्वेद्यं तच्च नैव सत् । इति ते समयस्तत्र कुत्रार्थे शास्त्रभानता || आधुनिकरीत्या फलव्याप्यत्वं इति कल्पने प्रतिवाद्यसिद्धिनित्यातीन्द्रियेषु वाद्यसिद्धिरप्रयोजकता च । अपि च शास्त्रपदेनानुमानवदुरागमस्यापि निरासप्रतीतेर्नानुमानमात्रनिरासपरं सूत्रम् ॥ यादवप्रकाशीये तु यतो वेत्यादिवाक्येन कारणत्वमनूद्य ब्रह्मज्ञान विधेयम् । अन्यथा वाक्य भेदापातात् । तच्चायुक्त । कारणवस्य माना न्तरेणा प्राप्तेरिति शकायां 'सदेव सोम्ये'त्यादिशास्त्रान्तरेण प्राप्तिरस्तीति वक्तुं शास्त्रयोनिमूत्रमित्युक्तम् । तन्न । लक्षणानन्तरमत्याकाक्षितप्रमाणपरत्वसंभवे ऽन्यपरत्वायोगादित्युक्तत्वात् । शास्त्रयोनित्वहेतोः पूर्वसूत्रोक्तप्रस्तुतनाकारणत्व रू'साध्यान्वयसंभवेऽनुवादकत्वरूपाध्याहृतसाध्यान्वयायोगाच्च ।

समन्वयाधिकरणम् ५७ , अयं च दोषो मतान्तरेऽपि समः। अद्वैतिमते पूर्वसूत्रे कण्ठोक्त कारणत्वत्यागेनार्थाक्षिप्तसार्वज्ञान्वयात् केषाचित्पक्षे व्यवहिताद्यसूत्रोक्त विचारकर्तव्यतयाऽन्वयात् ॥ टीकाक्षरार्थस्तु – ऐक्याभिप्रायाभावे पञ्चरात्राधिक्यकथनमिति ।। वेदारण्यकशब्देन पञ्चरात्रस्याविवक्षाया 'एतेष्वेतद्विशिष्यत' इति निर्धारणा योग । पञ्चरात्रम्य प्रागनिर्देशात् । वेदविरुद्धनया निर्दिष्टमाख्यायैक्यमभि प्रेत्य साख्यादिशब्देन पञ्चरात्रविवक्षाया तु पञ्चरावादेर्वेदादप्याधिक्यमुक्त स्यात् । न च तद्युक्तम् । वेदविरोधेनालब्धपामाण्यस्य तम्य वेदाधिक्यस्य दूरनिरस्तत्वात् । वेदारण्यकशब्देन पञ्चगत्रविवक्षा तु वेदारण्यकैक्याभिप्रायं विना न युक्तेत्यर्थः । यद्वा अदृष्टविषयस्य पोरुपेयवाक्यस्य पञ्चरात्रस्य वैदैकार्थत्वरूपवेदमूलत्वाभावे प्रामाण्यरूपमाधिक्यं न स्यादित्याधिक्योक्त्य- न्यथानुपपत्या वेदमूलत्वसिद्धिरित्यर्थः ।। किं नोच्यत इति प्रश्नस्योत्तरमाह - पञ्चरात्रप्रामाण्यसिद्ध्यर्थमिति ।। वेदप्रामाण्योक्तौ हि न पञ्चरात्रप्रामाण्यसिद्धिः । न ह्यदृष्टविवयम्यापि वेदस्या पौरुषेयस्य प्रामाण्यं पञ्चरात्रप्रामाण्यं विनाऽनुपपन्नम् । न च मूलप्रामाण्योक्ती मूलिनोऽपि तत्सिद्धिः । वेदपञ्चरात्रयोगलमूलिभावस्याद्याप्यसिद्धेरिति भावः । ॥ पञ्चरात्रप्रामाण्योक्ताविति ।। पञ्चरात्रस्यावेदमूलत्वे मूलस्य वेदस्या प्रामाण्ये वा प्रामाण्यायोगात्पञ्चरात्रप्रामाण्योक्ती वेदप्रामाण्यसिद्धिरित्यर्थः । ।। समासप्राबल्यादिति ॥ समस्यमानपदार्थत्यागेनान्यपदार्थप्रधानाद्बहुव्रीहे स्तत्पुरुषस्य तदत्यागेनोत्तरपदार्थप्रधानस्य प्राबल्यमिति भावः ।। ॥ इति शास्त्रयोनित्वाधिकरणम् ॥ [ समन्वयाधिकरणम् ] 4 ॐ तत्तु समन्वयात् ॐ ॥ १-१-४॥ शास्त्रयोनित्वेन कारणत्वस्य नातिव्याप्तिरिति पूर्वाधिकरणफलाक्षेपाद्वा पूर्वाधिकरणसिद्धकारणस्य शास्त्रयोनित्वं विष्णोरन्यस्य वेति विशेषविचाराद्वा तात्पर्यचन्द्रिका ऽनन्तरमङ्गतिः ॥ अत्र शास्त्रायोनि किमन्यस्यापि किं वा विष्णोरेवेति चिन्ता। तदर्थ वेदतार्यनिश्चयः किं वा शैवागमादिना, कि वोपक्रमा. दिनेति । तदर्थमुपक्रमादेवलावलव्यवस्था संभवत्युत न संभवतीति ।। पूर्वपक्षस्तु – कारणत्वम्य शास्त्रयोनित्वेऽप्यतिव्याप्तिः, शैवाद्यागमा द्वेदव्याख्यानरूपाद्वेदजप्रतीत्यनुगुणा)न्मानन्तराविरुद्धाद्रुढ़ादेः कारणत्वे वेद तात्पर्यनिश्चयात् । काव्यादिव्याख्यानादिव काव्यस्य । तदुक्तं 'व्याख्या नतो विशेषप्रतिपत्ति'रिति । उक्तं ह्यागमेषु 'ज्ञात्वा शिवं शान्तिमत्यंत मेतीत्यादि शास्त्रं शिवस्य मोक्षदत्यादिपर'मिति । न च प्रमाणभूतव्याख्येय प्रतीत्यनुमारित्र्याख्यानप्रामाण्ये मानान्तराविरोत्रं विना हेत्वंतरापेक्षाऽस्ति । न च कारणत्वमिव शस्त्रातात्पर्यमपि शास्रगम्यम् । आत्माश्रयात् । येन शैवागमादिः तात्पर्यानिश्चायकः स्यात् । सर्वे वेदा यत्पदमामनन्तीत्यादि श्रुतिरपि शिवे वेदतात्पर्यमित्येवंपरतयाऽऽगमैरेव व्याख्याता ॥ न चैवं पञ्चरात्रादिना विष्णावपि तात्पर्य निश्चयापत्तिः । तथापि सिद्धान्त्यभिप्रेतावधारणासिद्धेः । न तात्पर्यनिश्चायकम् । अश्वप्रतिग्रहेष्टिरुपक्रमादातुम्पमहारात्प्रतिग्रहीतुरिति प्रसङ्गात् । परस्परविरोधे मानान्तरविरोधं विनैकेान्यम्य बाधस्त्वयुक्तः । द्वयोरपि शात्रैकदेशत्वेन तुज्यत्वात् । न चानुपर्म नातविरोधित्वेन पूर्वस्योपक्रमस्य बलीयस्त्वेनोपसंहार स्यास्वारस्यम् । अपच्छेदादौ परबलीयस्त्वस्यापि स्वीकारात् । संहारस्य व्याख्यानरूपतया बलीयस्त्वेनेतरास्वारस्यम् । वेदोपक्रमाद्यधिकर- णेषूपक्रमबलीयस्त्वस्याप्युक्तेः । पौरुषेयवाक्ये विवक्षानुसारेणान्यन्नेयम् । अभ्यासोऽपि न तात्पर्यधीहेतुः । असकृदुक्तेः वैयर्थ्यात् । अन्यथा समिधो यजतीत्यादावभ्यामात्कर्मभेदो न स्यात् । पौनरुक्तयं न क्वापि दोषः स्यात् । मानान्तराग्राह्यार्थत्वरूपाऽपूर्वतापि न तात्पर्यधीहेतुः । श्रुतिमूल स्मृत्या सर्वज्ञत्वादिमाधकसर्वकर्तृत्वाद्यनुमानेन जगत्सत्यत्वजीवेशभेदादिग्राहि प्रत्यक्षेण च गृहीतार्थायाः श्रुतेरतात्पर्यप्रसङ्गात् । फलमपि न तात्पर्यधीहेतुः । अश्रुतफलानां नित्यादिवाक्यानामनात्पर्यापणतात् । अफले श्रुतितात्मानुपपत्त्या च उपक्रमादि तु न चोप समन्वायधिकरणम् ५९ फलकल्पनेऽन्योन्याश्रयात् । एवमर्थवादोऽपि । लोके वेदे चार्थवदाहीनाना मपि तात्पर्यदृष्टेः । उपपत्तिरपि श्रुत्युक्ता वा अनुना वा । न द्वयमपि । सापेक्षत्वेनानपेक्षत्वरूपप्रामाण्यहानेः । अत एव 'तेन ह्यन्नं क्रियत' इत्यादि हे नुवन्निगदार्थवादम्य हेतुसमर्पकत्वेऽप्रामाण्यप्रसङ्गात्तत्त्यागः । तस्मान्नोपक्रमा दिना तात्पर्यनिश्चयः । किंतु सर्वज्ञप्रणीतागमादेव ।। यहा शास्त्राद्रादेः कारणता तावद्भाति । तत्र शास्त्रतात्पर्य चाबा- घितप्रतीत्या निश्चीयते । न हि रुद्रादेः कारणत्वे शास्त्रादन्यताधकमस्ति । नैषा तर्केणेत्यादि श्रुत्या कारणतायामशास्त्रस्य साधकताया इव बाधकनाया अप्यभावात् । नापि विष्णोः कारणत्यसाधकं रुद्रादेः कारणत्वनिषेधकं वा शास्त्रं बाधकम् । वैपरित्यस्यापि सम्भवात् । पूर्ववादिनश्च सिद्धान्त्यभिमत विवेकनिष्ठत्वनिश्चयविघटनेन कृतार्थत्वात् । कालादिभेदेन विष्णोः कारण स्वस्य रुदादेः तदभावस्य चोपपत्तेश्च । अबाधोपपत्तौ च बाघस्पान्याय्यत्वात् । पक्षे बाधस्य च षोडशिग्रहणयोरिव न्यायप्राप्तत्वात् । यदि च पोरुषेयेण पूर्वा. परपरामर्शन शब्दस्वरसप्रतीनत्यागः, तदा पुरुषोत्प्रेक्षयाऽपौरुषेयः शब्दो बाध्येत । एवं च विष्णोरेव कारणत्वे सर्वः कारणवाक्यैः प्रतिपाद्यत्वस्य हेतुत्ने ऽसिद्धिः। कतिपयपतिपाद्यत्वस्य हेतुत्वे तु व्यभिचार इति ॥ अत्र चाद्यपूर्वपक्षो 'न च पाशुपतशास्त्रोदितत्वादि शास्त्रप्रतिपाद्यत्वे कारण' मिति न्यायविवरणोक्तः । द्वितीयस्तु अज्ञानां प्रतीयमान'मिति भाष्योक्तः । अन एव सुधाया 'न शास्त्रतात्पर्यावगता वापातप्रतीतिर्वा व्याख्वातृवचनं वा लिमित्युक्तम् । अत्र तु टीकायां न्यायविवरणे आदिपदेन प्रतीतेर प्युक्तवाद्भाष्ये प्रतीत्या पाशुपतादिशास्त्रस्याप्युपलक्षणात्प्रतीतिसध्री वीनागमेनैक एव दृढः पूर्वपक्षो दर्शितः ।। सिद्धान्तस्तु- व्याख्यातृवचनानां यैलिङ्गैतात्पर्यनिश्चयः । उपक्रमाद्यैस्तैरेव श्रुतितात्पर्यनिर्णयः ।। आपातजप्रत्ययाश्च परस्परविरोधिनः । - ६० तात्पर्यचन्द्रिका न च लोके अविरुद्धा प्रतीतिस्तु पूर्वापरविमर्शजा ।। अनिश्चिततापर्यस्त्रागमस्य शास्त्रतात्पर्यानिश्चायकत्यादुपक्रमादिमिरा गमतार्यनिश्चये वेदे.पि तैरेव लोके क्लप्तस्तन्निश्चयोऽस्तु । न हि मानान्तरा विद्धपानधी विषऽप्यु करायन गे व्यारूगनेना प तालर्यम्। अन्यथा परे णापि कालादिनेदेन वाक्यद्वयविरोधो न परिहार्यः स्यात् । वक्त्रुपदेशेन वा तन्मूलव्याख्यानेन वा तात्पर्यधर्धान तूपक्रमादिनेति शक्यम् । वक्तरि तात्पर्थमनुपदिश्य नटेऽपि तात्पर्यधीदर्शनात् ॥ यत्ततमापातप्रतीतत्यागे शब्द एव बाधितः स्यादिति-तन्न । आपाततो भ्रमप्राप्तमर्थ हित्वा विमर्शतः । गहनश्रुतितात्पर्यविषयोऽन्विष्यते यतः ।। एव चापातप्रतोतत्यागे पुरुषे भ्रान्तिरेव त्यक्ता भवति । न वेदार्थः । कुत ? न हीक्षुलेहनेनैव ज्ञात इक्षुरसो भवेत् । न चेक्षुदण्डं निष्पीड्य लब्धो नेचुरसो भवेत् ।। न ह्यनन्तशाखालकत्वात्स्वरूपे वाऽपरिच्छेद्यो नान निगमनिरुक्तव्याकर णा दिना विना दुर्बोधपदार्थो नानान्यायकलापं च विना दुरधिगमवाक्यार्थश्च वेदः सुबोधार्थः। तदुक्तं वार्ति के-- 'अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते । अन्यश्च परिपूर्णेन समस्ताङ्गोपसंहृतौ ।। पौर्वापयारामृष्टः शब्दोऽन्या कुरुते मति' इति ।। एतेन पुराणादेरप्यापातप्रतीतार्थ वदन्तो निरस्ताः ।। उपक्रमादयोऽपि सावकाशत्वनिरवकाशत्वादिनाऽऽलोचिताः तात्पर्य प्रमापकाः। तात्पर्यज्ञानं च साक्षात्प्रतिबंधनिगसेन वा शाब्दप्रमाधीहेतुः । उपक्र. मादीनि च शेषत्वादौ श्रुतिलिंगादीनीव तात्पर्ये प्रत्येक प्रमाणानीत्येकैकस्याननु गमेऽपि न दोषः। न बैकमने फलिन साव्यते। दुरधिगमेऽसंभावितेऽर्थे तार्या मावाशकानिरासार्थमसदुक्तिश्चार्थवती । यत्र शपथरूपत्वं वा प्रश्नो समन्वयाधिकरणम् पयोगिप्रमेयान्तरकथनेन पुनस्तदुपसहाररूपत्व वाधिकविवक्षादिकं वा नास्ति केवल ज्ञातज्ञापकता तत्र पोनरुक्तयं दोषः । 'समिधो यजतीडो यजती'त्या दावसकृदुक्तेर्भिन्नप्रकारत्वेनैकप्रकारामकृदुक्तिरूपतात्पर्यलिंगाभ्यासाभावात् पञ्च प्रयाजा इति सख्याभेदस्य समिदाढिनामभेदस्य च सत्त्वाच्चाऽविशेषपुन.श्रुति- रूपाभ्यासाकर्मभेदः । यत्र त्वमकृदुक्तिरेकप्रकारा उक्तं च बाधकं नास्ति तत्राभ्यामात् 'अहो दर्शनीया' 'अहो दर्शनीया' इत्यादिसिद्धार्थवाक्य इव 'एह्येहि फुल्लाम्बुजपत्र नेत्र, बध्यता बध्यता बाल' इत्यादिसाध्यार्थवाक्येऽपि तात्पर्यधीदृष्टव ॥ अपूर्वता तु स्वबोधनीयपरुषगताज्ञानादिविरोधिना स्वानुपजीविमानान्त. रेणाग्राह्यार्थत्वम् । वेदार्थस्य धर्माधर्मादेरीश्वरसार्वज्ञादेश्च स्वोपजीविना स्मृति- वाक्येन सर्वकर्तृत्वाद्यनुमानेन च ग्राह्यत्वेऽपि तयोर्वेदोपजीवित्वादिस्यापूर्वता । वेदार्थस्य वेदानुपजीवीश्वरप्रत्यक्षग्राह्यत्वेऽपीश्वरम्य वेदबोधनीयत्वाभावात् वेदाबोधनीयास्मदादिगताजानं प्रति चेश्वरज्ञानस्याविरोधित्वाद्वेदस्यापूर्वता । प्रत्यक्षग्राह्येऽर्थे प्राक्प्रवृत्तस्य शब्दस्य तदगृहीतार्थत्वेऽपि तबाह्यार्थत्वादपूर्वत्वा- भावः । अत एवावधातादेवैतुष्यसाधनताया वेदानुपजीविमानान्तरग्राह्यत्वेन 'त्रीहीनवहन्ती'त्यादरपूर्वविधित्वासभवान्नियमविधित्वमाश्रितम् ॥ अत एव च 'इमामगृभ्णनशनामृतस्ये'त्यादेः स्वरूपसिध्याऽऽदौ स्वान पजीविना मन्थरगामिना मन्त्रसामर्थ्य रूपेण लिंगेन गृहीतार्थत्वाभावेऽपि ग्राह्या र्थत्वेनापूर्वविधित्वासंभवात्परिसंख्यात्वमुक्तं । 'य एवं विद्वा'नित्याद्यनुवादस्य स्वानुपजीविना पुरोवादरूपेणा यादिवाक्येनाऽगृहीतार्थत्वाभावा[नगृहीतार्थत्वा] दपूर्वार्थत्वाभावः । 'दना जुहोती'त्यादिना ग्राह्यार्थत्वान्न होमांशेऽपूर्वता । कितु तदग्राह्यदध्यादौ । एवं देवतासहितकर्मविधायकस्य ब्राह्मणवाक्यस्य स्वविहिते कर्मणि देवतापकं समानशाखास्थं शीखान्तरस्थं वा मन्त्रं प्रत्युपजी व्यत्वाद्देवताशेप्यपूर्वता। तु तदंशे नापूर्वता । कितु ब्राह्मणा प्राप्तदेवतागुणादौ । भिन्नशाखास्थयोश्चैककर्मविधायकयोर्वाक्ययोर्मध्ये यत्र वाक्ये द्रव्यदेवताख्ययागरूपं वा इतिकर्तव्यताभूयस्त्वं वा तत्रैव कर्म- मन्त्रस्य દર तात्पर्यचन्द्रिका विधिः । इनरस्य तु तदनुवादेनेतिकर्तव्यताविधायकत्वमिति स्वीकारात् । इति- कर्तव्यताविधायकस्य कर्मविधायकोपजीवित्वान्न कर्माशेऽपूर्वता । किं विति. कर्तव्यताशे ॥ यदि शाखाद्वयस्थ वाफ्यद्वयेऽप द्रव्यदेवतारू रूपं वेतिकर्तव्यतासाम्यं वा तत्र मीमांसकमते एकस्मिन्यजुरादिरूपे वेदे आध्वर्यवौद्गात्रादिसर्वकर्मानुन देशेन ‘स त्रिभिर्विधीयत' इति वचनात् त्रयीं विना सर्वांगोपेतकर्मानवगतेर्वेद त्रयस्याध्येतव्यत्वनियमवदेकैकस्या तैत्तिरीयादिरूपायां शाखाया सर्वाध्वर्यवादि को देशेन काण्वादिशाखान्तरस्याध्येतव्यस्वनियमाभावात्तत्तच्छाखाध्यायिनं प्रति तत्तद्वाक्यस्य व्यवस्थाया बोवकत्वादपूर्वताप व्यवस्थैिरव ॥ अस्मन्मते तु शाखाभेदोऽशक्तविषय इति तृतीये वक्ष्यमाणत्वाच्छक्तान् प्रति मीमांसकमते वेदद्वयस्थवाक्यद्वयवच्छाखाद्वयस्थवाक्यद्वयेऽपि ऋयवाक्य बव्यवस्थितविकल्पेन विधायकत्वम् । अशक्तान्प्रति तु व्यवस्थितविकल्पेन विधायकत्ममित्यवतापि व्यवस्थितव । अन एव स्मृतीना स्वानुषजीविवेद ग्राह्यार्थ-वेऽपि वेदे नानाशाखास्वस्पष्टं विक्षिप्योक्तस्य स्मृतिभिरिव वेदेन स्मृति बोधनीयैरस्मदादिभिरग्राह्यत्वादपूर्वतापि । अपूर्वस्वाभावेऽपि वा सप्रयोजनत्वा स्मृतीना विद्वद्वाक्यवदनुवाद्यपरता ॥ एवं वादिविप्रतिपत्ति जन्यातत्वावेदकत्वशङ्काकलकिनासर्वविश्येण प्रत्यक्षेण 'विश्वं सत्य'मित्तादिवाक्येनेव जगत्सत्यत्वाप्राप्तेस्तद्वाक्यस्यापूर्वता । तदभावेऽपि वा सप्रयोजनत्वात्तात्पर्यम् । तदेतदभिप्रेत्यान्यत्र टीकाकारैः प्राचु येण 'मानान्तराप्राप्तिरपूर्वते युक्तम् । अत्रापि टीकायामेतदेवाभिप्रेतम् । स्तुतौ निन्दायामेककर्तृकोपाख्यानरूपपरकृतौ वहुकृतोपाख्यानरूपपुगकल्पे चार्थ वादशब्दोऽक्षादिशब्दवन्नानार्थः। मन्त्रशब्दवदभियुक्तप्रयोगरूपैकोपाधिको वा विधिशेषत्वरुपैकोपाधिको वेति द्रष्टव्यम् । तत्र चैकप्रकरणे प्रथमेनार्थे ई.स्ये चरमस्य तद्वित्रयम्य प्रथमस्वारस्थविरोधिनोऽप्यवैयर्थ्याय प्रथमव्याख्यान रूपताया. लोके गानानय बलीवर्दमानयेत्यादौ वेदे च वासः परिधत्ते यत् सौ ममित्यादौ दर्शनात् निश्चितप्रामाण्यव्याख्यानानुसारेण च व्याख्येयस्य समन्वमाधिकरणम् ६३ .. - 'अशनापिपासे ह वा उग्रं वचः' इत्यादि ब्राह्मणानुसारेण 'उग्रं वचोपावधी' मित्यादिमन्त्रस्येव 'सदिति प्राणस्तीत्यन्नं यमित्य सावादित्य' इत्याद्यनुसारेण च सत्यमित्यादेरिव च नेयत्वात् ।। तथा पूर्वाबाध उत्तरस्यानुत्थानाच्चोपक्रमादुपसहारस्य प्राबल्यं यथा 'प्रथमे ऽश्रवणादिति चेन्न ता एव युपपत्ते रित्यत्र 'श्रद्धा जुबती'त्युपक्रमात् 'इति तु पञ्चम्यामाहुतावापः' इत्युपसंहारस्य । नत्र ह्यप्शब्दानुसारेण श्रद्धाशब्दस्य लक्षणा वक्ष्यते । न चैवं वेदोरक्रमाधिकरणविरोधः । न हि तत्र 'उच्चैर्ऋचा क्रियते' इत्युपसंहारम्थऋगादिशब्दस्त्रयो देवा इत्युपमहारस्थवेदशब्दमात्राद्वेदे लाक्षणिकः। किन्तु 'अग्नेर्ऋग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेद' इति वेद शब्दाभ्यासात् । नाप्यश्वप्रतिग्रहेष्टिनयविरोधः। तन्त्रमारे 'मैत्रायणीयशाखाया दात्रुपक्रमतोऽप्यते । काङ्गत्ववशादेव दातुरिष्टिःप्रतीयत' इत्युपकर्म विनैव दातुरिष्टिरित्युक्तत्वात् ॥ शास्त्रदीपिकायामपि 'सा लिंगादाविजे स्यादित मूत्रानुमाराद्भाष्यकारान्त रैः 'तत्राप्युपसहागनुरोधा- प्रतिग्रहे दातुरेवेष्टिरित्युक्त'मित्युक्तत्वात् । याज्ञिकैरपि तथैव स्वीकृतत्वात् । प्राभाकरैरपि पौण्डरीके श्रूयत इति कृवा चितेयम् । अन्यथा दातुरि- ष्टिरिति सिद्धान्तासिद्धे 'रिति वदद्भिर्वस्तुतः प्रतिग्रहीतुरिष्टिरिति स्वीकृतत्वाच ! तदुक्तं न्यायविवरणे 'उपक्रमप्रामाण्यार्थमेवोपसहारानुमारित्वमंगीकर्तव्यम् । व्याख्यानस्य पश्चात्तनत्वनियमा'दिति । विस्तृतं चैतदन्यत्र ।। एवमुपमहारादिरूपसकृदुक्तितोऽकृसदुक्तिरूपाभ्यासस्य प्राबल्यम् । बहुबाघस्यान्याय्यत्वात् । यथाऽऽनन्दमयाधिकरणे तस्यैष एव शारीर आत्मा यः पूर्वस्ये'तिजीवप्रापकोपसंहाराद्ब्रह्मशब्दाभ्यासस्य । समतं चैतन्मीमांसकानामपि भूयसामनुग्रहायाल्पबाधं वदताम् । एवममकृदावृत्तस्याप्येकस्य पदम्य वाक्यम्य वा संभवदनेकार्थस्य स्वारसिकप्रामार्थत्यागेनाय.याप्राप्तार्थपरताया आवश्य कत्वाइभ्यासादप्यपूर्वतायाः प्राबल्यम् । यथा 'इतरव्यपदेशाद्धिताकरणादि दोषप्रमक्ति' रित्यत्र- :

नात्पर्यचन्द्रिका 'जीवाद्भवन्ति भूतानि जोवे तिष्ठन्त्यचञ्चलाः । जीवे तु लयमृच्छन्ती'तिजीवशब्दाभ्यासाद्ब्रह्मपरत्वेऽपूर्वतायाः। तत्र हि प्रत्यक्षानुगृहीतश्रुया पूर्वपक्षः । उक्तं चैतरेयभाष्ये 'तदस्य प्रथम जन्म तदस्य द्वितीयं जन्म तदस्य तृतीयं जन्मेति जीवे प्रसिद्धजन्मशब्दा भ्यासेऽप्यपूर्वतया ब्रह्मप्रादुर्भावविषयत्वम् । संमतं चैतन्मीमांसकानामपि 'दध्ना जुहोति पयसा जुहोत अजुमाघारयति संततमाघारयती'त्यादौ जुहो त्यादेगवृत्तावष्यप्राप्तदध्यादावेवतात्पर्य तथा प्राप्तार्थार्थवादानामप्राप्तार्थविध्यनु सरणं वदताम् ।। एवं फलार्थत्वात्सर्वस्य लोकेऽप्यप्राप्तेऽपि निष्फले तात्पर्यादर्शनात् प्राप्तेऽपि सफले तात्पर्यदर्शनाच्चापूर्वतातोपि फलस्य प्राबल्यम् । यथा 'असंभवम्तु सतोऽनुपपत्ते'रित्यत्र 'असद्वा इदमग्र आसीत् ततो वै सदजायते'त्यस्मात्सतो ब्रह्मणोऽसतः सकाशादुत्पत्तिरूपदोषप्रतिपादकादपूर्वतायुक्ताद्वाक्यात् 'सदेव सोम्येदमग्र आसी'दिति ब्रह्मणोऽनुत्पत्तिप्रतिपादकस्य सफलस्य वाक्यस्य । उनं ह्यनुव्याख्याने 'प्रीत्या मोक्षफलत्वाच्च तात्पर्य नैव दूषणे' इति । उक्तं च विष्णुतत्वनिर्णये 'घातयन्ति हि राजानो राजाहमिति वदन्तम् । ददति । सर्वमभिप्रेतं गुणोत्कर्ष वदत' इत्यादिनापूर्वतायुक्तादप्य भेदवाक्यात्सफलभेदवाक्यस्य प्राबल्यम । संमतं चैतन्मीमांसकानामपि अङ्ग प्रधानवाक्ययोरपूर्वताया सत्यामपि निष्फलस्य सफलाङ्गत्वं तथा निष्फलामवाक्ये फलवत्प्रधानवाक्यानुमरणम् । तथा 'सौर्य चकै निर्वपेद्ब्रह्मवर्चसकामः'इत्या देरिव 'अग्निहोत्रं जुहुयात्स्वर्गकाम' इत्यस्यैवोत्पत्त्यादिपरत्वसंभवे 'अमिहोत्रं जुहोती'त्यस्य कर्मान्तरविधिपरत्वेऽपूर्वताया संभवन्त्यामपि फलाभावप्रसङ्गेनाधि कारवाक्यबोधितफलयुक्तकर्मोत्पत्तिमात्र परत्वं च ददताम् ॥ एवं फलमात्रात्करणाकरणयोरिष्टानिष्टकथनादिरूपार्थवादस्य प्राबल्यं यथा उत्क्रमिष्यत एवं भावादित्यौ डुलोमिः इत्यत्र काम्यकर्मसु श्रुतात्पश्वादि फलात् 'कर्मणा ज्ञानमातनोति ज्ञानेनामृतीभवति अथामृतानि कर्माणि प्लवा घेते समन्वयाधिकरणम् ६५ अदृढा यज्ञरूपाः' इत्यादावर्थवादस्य । न हि कर्मणा प्लवा इत्यादिना निन्दित काम्यरूपेण कर्तव्यता। किंतु 'कर्मण्येवाधिकारस्ते मा फलेषु कदाचने'त्याद्य नुमारेण सर्वापेक्षा च यज्ञादिश्रुते'रिति वक्ष्यमाणन्यायेन 'कर्मणा ज्ञान' मित्यादिना स्तुतज्ञानसाधनरूपेणैव । समतं चैतन्मीमासकानामपि निवीतवाक्य स्यानुष्ठानसौकर्यवत्वेन सप्रयोजनत्वेऽपि 'देवलक्ष्यमेव तत्कुरुत ' इतिसार्थवादको पवीतवाक्यानुसारं वदताम् । एवं सार्थवादम्याप्यनुपपन्नेऽर्थे तात्पर्यादर्शनादु पपन्ने च तदर्शनादुपपत्तेः सर्वमूलत्वादर्थवादादपि प्राबल्यम् । यथा 'पृथगु- पदेशा'दित्यत्र सार्थवादाभेदश्रतितो 'भिन्नोऽचिंत्यः परमो जीवसंघात्पूर्णः परो जीवसघो ह्यपूर्णः' इति सोपपत्तिकभेदश्रुते । अत एव तत्र भाष्यं 'सोपप त्तिकको शिकश्रुते'रिति । उक्तं चानुव्याख्याने 'युक्तोऽयुक्तश्च यत्रार्थ आगमस्य प्रतीयते । स्यात्तत्र युक्त एवार्थ' इति ॥ संमतं चैतन्मीमामकानामपि 'न ह्यशङ्कनीयमर्थ विधिरपि विदधाती'ति वदताम् । न च तात्पर्यनिर्णयाय श्रुन्युक्ताया अनुक्ताया वापपत्तेरपेक्षायामन पेक्षत्वरूपप्रामाण्यहानिः। किंतु निर्णीते तस्मिन्नर्थनिर्णयाय तदपेक्षायाम् । अन्यथा तात्पर्यनिश्चयाय विचारमपेक्षमाणो वेदोऽप्रमाणं स्यात् । हेतुबन्नि गदाधिकरणे 'तेन ह्यन्नं क्रियत' इत्यत्राप्रामाण्यापत्त्या हेतुत्वत्यागो न तावद्भट्ट रीत्या । तन्मते तेन ह्यन्नं क्रियत इत्यादेः प्रामाण्यमुपेत्य हेतुपरत्वमित्येव पूर्वपक्षकरणान् सिद्धान्ते च दीपिठरादिनाऽऽनुमानिकेन प्रत्यक्षस्य शूर्पस्य विकल्पादिप्रसङ्गापस्य होमसाधनतायामन्नकरणत्वस्य हेतुत्वत्यागो न त्व प्रामाण्यापत्तिभयात् । नापि निबन्धनरीत्या 'न ह्यत्रानूयाजा इज्यंत' इत्यादौ यत्र यत्रानुयाजाभावस्तत्र तत्राष्टगृहीताभाव इति व्याप्तेः सत्त्वेनानुयाजाभाव म्याष्टगृहीताभावे हेतुत्वेनान्वयोपगमात् । रक्तपटन्यायेन च स्तुताविव हेता वप्याकांक्षोत्थापनात् । हेतुत्वोपपादकव्याप्त्यादेश्चालौकिकसुखरूपम्वोपपादक देहादेरिव शब्देनैवाक्षेपान्मानान्तरानपेक्षत्वोपपत्तेस्तद्रीतेरेवायुक्तत्वात् ।। एतेनार्थवादाधिकरणे निबन्धने विवरणे च 'वायुर्वै क्षेपिष्ठे'त्याद्यर्थ वादाना हेतुत्वेनान्वयादप्रामाण्ये प्राप्ते सिद्धान्ते प्रामाण्याय हेतुत्वत्यागोक्ते तात्पर्यचन्द्रिका स्तद्विरोध इति निरस्तम् । तात्पर्यनिर्णयाय हेत्वपक्षायामप्रामाण्यानापत्तेः । अर्थनिर्णयाय तदपेक्षायास्त्वन्मतेऽप्यभावात् । तस्मादुपक्रमादौ परबलीयस्त्वं श्रुत्यादौ तु पूर्वबलीयस्त्वम् । तदुक्तमनुव्याख्याने 'उपक्रमादिलिंगाना बलियो ह्युत्तरोत्तरम् । श्रुत्यादौ पूर्वपूर्व च ब्रह्मतकविनिर्णया'दिति ।। यत्रैकस्यार्थस्योपक्रममात्रमुपसंहारमात्र वा तत्र तन्मात्रादुपक्रान्तादिमात्रे ऽर्थे तात्पर्यम् । अत एव प्रमाणलक्षणे भगवत्पादैः 'उपक्रमोपसंहारतदैकरूप्या भ्यामापूर्वताफलार्थवादाश्चेति तदैकरूप्यं पृथगुक्तम् । अत्र तूपक्रमोपसंहारा वित्यत्र प्रत्येकविवक्षया विशकलितौ द्वाविव समुदायविवक्षया तदैकरूप्यमपि विवक्षितम् । अत्र टीकाया तदैकरूप्यम्य पृथगनुक्तिस्त्वन्यत्रोक्तत्वात् ॥ यद्वात्रोपक्रमादेवकावल योर्निरूप्यमाणत्वात् यत्रेकैकं तत्र सन्निपातन्यै वाभावात् यत्र चैकस्मिन्वाक्य एकम्मिन्नर्थ उभयसन्निपातस्तत्र विरोधस्यैवाभावात् यत्र च विरुद्धार्थवाक्ययोरेकत्रोपक्रमो वाक्यान्तरे चोपसंहारम्तत्र बलाबलयोरभा- वात् । यत्र चैकस्मिन्महावाक्ये भिन्नयोरर्थयोरुभयसन्निपातस्तत्रोपसंहारानुसा रेणेकरूप्याचात्पर्यनिश्चयेोपसंहारप्राबल्योक्तावत्तिदैकरूप्यस्याप्युक्तत्वादत्रपृथग नुक्तिः । प्रमाणलक्षणे तूपक्रनमात्रादिकमपि क्वचिदुपक्रांतादौ तात्पर्यनिर्णायक मिति निदर्शयितुं पृथगुक्तिः। उपसंहारमात्रयुक्तस्य चोभयैकरूप्यवद्वाक्यानुरोधे नास्वारस्यादुपसंहारादैकरूप्यस्य बलवत्त्वम् । यद्वोपक्रमस्वारस्यादुपसंहारस्वार स्यस्य बलीयस्त्ववदुपसंहारमात्रस्वारस्थादुभयम्वारस्यस्य बलीयस्त्वम् । एतच्चो पक्रमादिक स्वार्थे शब्दात्मकमपि इदमेतत्परमबाधे सत्येतदुपक्रमत्वादित्यादि रूपेण महावाक्यतात्पर्य लिङ्गं च। उपपत्तिस्तु स्वार्थेऽपि लिङ्गरूपा, तात्पर्येऽपि । अयं तार्यविषयः उपपन्नत्वादिति लिङ्गरूपेति पृथगुक्ता । तत्र विरोधे दुर्बलं बाध्यम् । उपक्रमादिद्यस्य समस्य विरोधे सावकाशं बाध्यम् । उपजीवकत्यादिना स्वभावदुर्बलेनापि निरवकाशेनोपजीव्यत्वादिना स्वभाव प्रबलस्यापि सावकाशस्य बाधः । एवमेकेन निरवकाशेन सावकाशा नेकपाधः । सावकाशत्वं च न लक्षणादिनाऽर्थांतरपरताकल्पनाहत्वम् । येनोपक्रमादेर्दुर्बलस्यापि प्रमाणत्वेन सावकाशस्वनियमात्तदेव बाध्यत्वे तन्त्रं न तु स्वभावदुर्बलत्वं नामास्तीति स्यात् । किंतु स्वत एवार्थान्तरवाचित्वम् । यथा समन्वयाधिकरणम् .. चैवंविधसावकाशत्वशून्यस्यापि स्वभावदुबलस्य स्वभावबलवद्विरोधेऽर्थांतरकल्पना एवं म्वभावप्रबलस्य निरवकाशत्वनियमाभावोऽप्यूह्यः । इयं च बाधव्यवस्था न केवलमुपक्रमादौ । कितु ध्रुतिलिंडादौ च द्रष्टव्या । श्रुत्यादिकमपि श्रुत्याद्यविरुद्ध लिङ्गादौ प्रामाण्यादिह ग्राह्यमिति । (श्रुत्यादिक्रमेऽपि श्रुत्याद्य विरुद्ध लिंगादौ प्रामाण्यादि ग्राह्यमिति ) ॥ सूत्राक्षरार्थस्तु तत्तु ब्रह्मैव शास्त्रयोनि सावकाशत्वनिरवकाश- त्वादिना विचारितस्वरूपप्सम्यक्त्वयुक्तादवीयतेनेनेत्यन्वयशब्दवाच्यादुपपत्त्यादे लिङ्गादिति । सुधाया तु न केवलमुपपत्त्यादिकं समन्वयशब्दार्थः। किंतु तद्धेतुकशास्त्रजन्यप्रमागोचरत्वरूपशास्त्रयोनित्वे हेतुभूतः सर्वशास्त्रस्य सम्यग्वचन वृत्त्या तत्परत्वरूपसंबन्धोऽपीत्युक्तम् ॥ अत्र पर्वेदान्ता ब्रह्मणि न प्रमाण सिद्धवस्तुबोधने प्रवृत्त्याद्यभावेन फला भावात्सापेक्षत्वप्रसङ्गाचेति प्राप्ते 'द्विविधं हीप्सितम् । किचिदप्राप्तम् । यथा प्रामादि । किंचिच्च प्राप्तमपि विभ्रमवशादप्राप्तमित्यवगतम् । यथा कण्ठमण्या दिकम् । एवं जिहासितं द्विविधम् । किंचिदहीनं जिहासति । यथा वलयित चरणं फणिनम् । किचिच्च हीनमेव । यथा चरणाभरणनू पुरे आरोपितं फणि नम् । तत्र ब्रह्मात्मैक्यज्ञानात्प्राप्तब्रह्मप्राप्तिः कल्पितत्वेन नित्यहीनसंसारहानिश्च संभवतीति फलवस्त्वम् । सिद्धस्यापि ब्रह्मणो मानान्तरागोचरत्वान्न सापेक्षत्वं चेति सिद्धान्तयित्वा 'समन्वयश्च लक्षणयाऽखण्डार्थपरत्वम् । ततश्च तद्ब्रह्म शास्त्रप्रतिपाद्यं समन्वयादिति सूत्रार्थ' इत्युक्तम् । तत्र पूर्वपक्षो निर्दलः । निष्प्रयोजनत्वशङ्कायास्त्वन्मते आद्यसूत्र एव जिज्ञासाशब्देन परिहृतत्वात् । लौकिकार्थपरवाक्येऽपि सापेक्षत्वदर्शनेन पौरुषेयत्वस्यैव सापेक्षत्वप्रयोजकत्वाच। सिद्धान्तोऽप्ययुक्तः। तथा हि॥ स्वप्रभवादसंदिग्धेऽवाच्यत्वात् श्रुत्यगोचरे । निर्विशेषे च चिन्मात्रे कथं श्रुतिसमन्वयः ॥ एवं सन्दिग्धस्यैव विषयत्वात् सामान्यज्ञानविशेषाज्ञाननिबन्धनस्य च सन्देहस्य निर्विशेषेऽसंभवात् पूर्वपक्षसिद्धान्तयोश्च सन्देहकोट्यन्यतरकोट्य तात्पयचन्द्रिका वलम्बित्वान् फलस्य चैककोटिनिर्गया वीनत्वात् निर्विशेगात्मनि विषयसंशयर्व पक्षसिद्धान्तप्रयोजनाल्यावकरूपाधिकरणासंभवो द्रष्टव्यः ।। अपि च- आद्यमूत्रेऽहमर्थे हि प्रसिद्धिः प्रतिपादिता । जिज्ञासार्थ द्वितीये हि जगजन्मादिहेतुता ॥ १ ॥ अविद्यमानाऽहमर्थे लक्षणत्वेन कीर्तिता। ईश्वरस्य तृतीये तु निर्विशेषप्रामाणता ।। २ ॥ शास्त्रस्योक्ता चतुर्थे च तस्मिन्नेव समन्वयः । प्रतिज्ञातोऽजरित्यादौ सविशेषं तु कथ्यते ॥ ३ ॥ ब्रह्मति मायिना पक्षस्तत्र किं के संगतं । तत्वविद्वेषमात्रण अतिसूत्रे कथिते ॥ ४ ॥ किच कण्ठमण्युपदेशस्य प्राप्तमणिप्राप्ति फलम् । किंतु प्रप्तिज्ञान जन्यमुखस्य । वस्तुतः प्रगप्राप्तस्य प्राप्तिः मण्यप्राप्तिभ्रमादिजन्यस्य दु:खस्य वस्तुत: प्रगनिवृत्तम्य निवृत्तिवी फलम् । एवं चरणाभरणमिदं नसर्प इत्युपदेश स्यापि न नित्यनिवृत्तसर्पनिवृत्तिः फलम् । किन्वाभरणत्वज्ञानजन्यसुखस्य वस्तुनः प्रागप्रातस्य प्राप्तिः सर्पभ्रमजन्यदुःग्वस्य वस्तुतः प्रागनिवृत्तस्य निवृतिर्वा । न युपदेशेन मणिः प्राप्तः सर्पो निवृत्त इत्यनुभवः। किंतु प्राप्तिर्जाता भ्रमो निवृत्त इति । न च प्रकृते प्राप्तस्वरूपसुखादन्यत्प्राप्यं सुखं नित्यनिवृत्ताविद्याभ्रम दु खादेरन्यन्निवर्त्य वास्ति । येन सप्रयोजनता स्यात् । किंच पूर्ववादिना फला भावादिना तात्पर्य आक्षिप्ते सिद्धान्तसूत्र फलादिकं तात्पर्य चानुपपाद्य प्रामाण्ये तात्पर्य हेतूकर्तुम युक्तम् । लक्षणाया अमुख्यत्वेन सौत्रसंशब्दार्थत्वायोगश्च । तदुक्तमनुव्याख्याने 'कथं च लक्षणावादी याब्रह्मसमन्वयम् । योऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात्समन्वय' इति ॥ केचित्तु फलाभावापातासिद्ध मरत्वं नेति प्राप्ते, पुत्रस्ते जात इत्यादी सिद्धरत्वेऽपि फलइनान्न दोष इति सिद्धांतयित्वा, 'समन्वयश्च पुरुषा- ईक्षत्यधिकरणम् र्थस्य ब्रह्मणोऽभिधेयत्वेन संबंधः । तथा च तच्छास्त्रयोनित्वं समन्वया' दिति सूत्रार्थः इत्याहुः । तन्न। फलसद्भावेन सिद्धपरसवाक्यविचारो- पपादकस्यास्य सिद्धे व्युत्पत्तिप्रतिपादनेन तदुपपादकाद्यसूत्रानन्तर्यस्लेव युक्तत्वात् । त्वन्मने हि जन्मादिशास्त्रयोनिमूवे कारणवाक्यस्यैव विचारो. पपादके। किच । समन्वयाध्याये या तात्पर्यलिङ्गैब्रह्मपरतोपपादयिष्यते सैवेह मूत्रे समन्वयशब्देन निर्देष्टच्या । यद्यपीह सूत्रे मन्मते शास्त्रयोनीत्य- नुपञ्जनीयम् । त्वन्मते तु न । तथापि मन्मते तच्छब्देन प्रकृतब्रह्म परामर्शात्तस्यानन्दमयादिष्वनुषक्तस्याऽऽन्यायममाप्ति विधेयसमर्पकतयान्वयः । त्वन्मते तु शास्त्रयोनित्वपरामर्शादुत्तरसूत्रेषु ब्रह्मशब्दोऽध्याहार्यः स्यात् ।। यञ्चोक्त चतुम्पूच्याः शास्त्रारंभमापकत्वादुयोद्धातत्वम् । यथोक्त 'व्युत्पत्यभावः प्रविपत्तिदौस्थ्यमन्येन सिद्धत्वमथाफलत्वम् । एतानि वै सूत्रचतुष्टयेनानारंभमूलानि निराकारे'ति ।। तदपि न । जन्मादिसूत्रे लक्षणोक्त्या शास्त्रयोनिमूत्रादौ च प्रमाणा द्युक्त्या ब्रह्मणो विचार्यमाणत्वेनोपोद्धातत्वायोगान् ।। टीकाक्षरार्थस्तु मुख्यस्येति। अप्राप्तस्येत्यर्थः । भगवद्वाक्ये इत्यहमित्यत्रत्यस्येतिगदस्य हृदयमित्यनेनान्वय इत्याह - इत्यभिप्रायमिति ॥ ।। इति समन्वयाधिकरणम् ।। [ ईक्षत्यधिकरणम् ] 5- ॐ ईक्षतेन शब्दम् ॐ ॥ १-१-५ ।। आद्यमूत्र ब्रह्मशब्देन जीवगदिव्यावर्तकगुणपति लक्षणत्वेन सूचयित्वा द्वितीये तस्य गुणपूर्तिवाचितासिद्धये जीवपरतानिरासाय कारणतां जिज्ञास्यब्रह्म लक्षणत्वेनोक्वा तृतीये पूर्तिकारणतयोरतियाप्तिपरिहाराय तत्र शास्त्रं प्रमाणी कृत्य चतुर्थे तयोर्विष्ण्वेकनिष्ठत्वाय शस्त्रास्यान्यपरता निषिध्य सर्वशास्त्रस्थसर्व तात्पर्यचन्द्रिका ७० सङ्गतिः । शब्दप्रवृत्तिनिमित्तसर्वगुणपूर्तिसिद्धये वचनवृत्त्या सर्वशास्त्रतात्पर्यविषयतायां चोक्ताया संशब्दार्थस्य वाच्यत्वस्य कात्नयस्य चेहाक्षिप्य समाधानादनन्तर । सङ्गत्यादिटीकापि समन्वयसूत्रसङ्गत्यादिपरत्वेन योज्या ॥ अत एव गतिसामान्यादित्यस्य संशब्दार्थसमर्थनरूपतयैक्यादेतदधि करणान्तर्भावः । अन्यथा गतिसूत्रस्य 'अनन्ता वै वेदा' इतिश्रुतेर्वेदानामनन्त त्वेन शाखान्तरेज्यथात्वे शङ्किते 'सर्वे वेदा युक्तय'इति श्रुत्या प्रसिद्धशाखादृष्टा. न्तेनान्यत्रापि तदनुमानात् शाखान्तरस्यापि प्रमाणत्वाच्च नैतच्छाखाविरोध इत्येवं परत्वात् सूत्रान्तराणां तु वाच्यत्वसाधकस्वादधिकरणभेदः स्यात् । युक्ता च शाखान्तरे सत्त्वादिगुणयुक्तेऽप्यात्मशब्दो मुख्यत्योच्यताम् । तज्ज्ञानान्मोक्षादि श्चोच्यताम् । अतश्च नात्मशब्दादिना निर्गुणस्यैक्षणमिति . शङ्कानिरासकस्य गतिसामान्यस्य ब्रह्मकारणतादिरूपेऽर्थातरेऽपि श्रुतीनां नान्योन्यं विरोध इति सूचकत्वेऽपि समन्वयहेतुवाच्यत्वसाधकेक्षत्यधिकरणान्तर्गतिः । अत एव भाष्यकृता गतिमूत्रं 'न च कासुचिच्छाखास्वन्यथोच्यत' इति सामान्यपरतयैव व्याख्यातम् । सूत्रकृता च वाच्यत्वसाधकात् 'श्रुतत्वाच्चे'त्यस्मात्प्रागेव तन्निवेशितम् ॥ अत्र ब्रह्मणि समन्वयो न युक्तो युक्तो वेति चिन्ता । तदर्थ शुद्धं ब्रह्मा- वाच्यं वाच्यं वेति । तदर्थमवाच्यत्वश्रुतिर्वाच्यत्वाभावाभिप्रायोताप्रसिद्धत्वा भावाभिप्रायेति। तदर्थ वाच्यत्वाभावाभिप्रायत्वे बाधर्क नास्त्युताम्तीति । तदर्थ शुद्धं ब्रह्मानीक्षणीयमुतेक्षणीयमिति । तदर्थ 'तमेवैकं जानथ आत्मानं आत्मन्येवात्मानं पश्ये 'दित्यादावीक्षणीयत्वेन श्रुत आत्मा सगुणो निर्गुणो वेति। तदर्थमात्मशब्दः किं गौणात्मनि मुख्यः किं वा निर्गुण एवेति । तदर्थ 'यस्यानुवित्त' इत्यादि श्रुत्युक्तमात्मनिष्ठस्य मोक्षोपदेशादिकं गौणात्मनि युक्त मुत नेति । यदि मोक्षोपदेशादिकं गौणात्मनि युक्तं तदाऽऽमशब्दस्य गौणा त्मनि मुख्यत्वे वाधकाभावात् 'तमेवैक'मित्यादावीक्षणीयत्वेनोक्तो गौण एवेत्यवाच्यत्वबाधकमीक्षणीयत्वं न निर्गुणस्येति न तस्य वाच्यत्वसिद्धिरिति पूर्वपक्षे फलम् । यदितु न युक्तं तदाऽऽत्मशब्दस्य गौणात्मनि मुख्यत्वे बाध ईक्षत्यधिकरणम् ७१ सद्भावात्तमेवैक'मित्यादावुक्तमवाच्यत्वबाधकमीक्षणीयत्वं निर्गुणस्यैवेति तस्य वाच्यत्वसिद्धिरिति सिद्धान्ते फलम् ।। पूर्वपक्षस्तु- न ब्रह्मणि समन्वयो युक्तः । 'यतो वाचो निवर्तन्त' इत्यादिश्रुतिभिस्तस्यावाच्यत्वात् । ननु 'पुरिशयं पुरुषमीक्षत' इति ब्रह्मण ईक्षणीयत्वं श्रुतम् । तच्च न शब्देतरेण । ब्रह्मण औपनिषदत्वात् । शब्देनेक्षणं च वाच्यत्वं विना न युक्तमिति चेन्न । तत्रेक्षणीयत्वेनोक्तो हि सगुण आत्मा । स च वाच्य एव । यश्चावाच्यः शुद्धो न तस्येक्षणी यत्वम् । 'यत्तइद्रेश्य' मित्यादिश्रुतिभिम्नम्यादृश्यत्वात् । अस्तु वा शुद्ध- म्येक्षणीयत्वम् । तथापि न वाच्यत्वसिद्धिः । लक्षणया शब्दबोध्यत्वात् । नन्ववाच्यत्वे लक्षणापि न स्यात् । सर्वशब्दावाच्यम्य लक्षणायोगात् । तथा हि । किमम्य शब्दस्य लक्ष्यमिति प्रश्नवाच्ये लक्षक पदांतरमेव प्रयोक्त- व्यम् । तत्रापि किमस्य लक्ष्यमिति प्रश्नापर्यवसानादनवस्थेति चेन्न । वाचकपदप्रयोगेऽपि किमस्य वाच्यमिति प्रश्नापर्यवसानेनानवस्थापातादिति ॥ सिद्धान्तस्तु न तावच्छुद्धस्यात्मनो ज्ञेयत्वमेव नेति युक्तम् । सूत्र आत्मशब्दतन्निष्ठमोक्षोपदेशादिमिर्जेयस्य शुद्धत्वोपपादनात् । त्वयापि- शुद्धात्मज्ञानेनैव मोक्ष इति स्वीकृतत्वाच्च । नापि तस्य ज्ञेयत्वेऽपि लक्षणयैव तदिति युक्तम् । वाच्यसबद्धतया ज्ञातस्यैव लक्ष्यत्वात् । औपनिषढस्य चाशब्देनाज्ञानात् स्वप्रकाशतया नित्यसिद्धौ च शास्त्रवैयथ्योत् । अवाच्ये च शब्दस्य लक्षकस्यैव वक्तव्यत्वात्तत्रापि वाच्यसंबधितया ज्ञानस्यापे- क्षितत्वातदर्थ लक्षकातरप्रयोगेऽनवस्थानात् । टीकायामपीयमेवानवस्था विव- क्षिता । न च वाचकशब्दस्यापि गृहीतसंबंधस्यैव बोधकत्वात् संबंध ज्ञानस्य च संबंधिज्ञानाधीनत्वात् संबंधिनश्च ब्रह्मण औपनिषदत्वाच्छब्दातरे. णैव तद्बोध इत्यनवस्था स्यादिति शंक्यम् । यौगिकानां पदानां वाक्य- तुल्यतया संगतिग्रहणानपेक्षत्वात् । यथोक्तं 'श्रोत्रियंश्छंदोऽधीते । वाक्यार्थे पदप्रयोग' इति । न च शुद्धात्मनो वृत्तिव्याप्यत्वमेव । न त्वीक्षण- कर्मत्वमिति वाच्यम् । वृत्तिव्याप्यत्वेनैव वाच्यत्वसिद्धः ।।

तात्पर्यचन्द्रिका किंच निर्गुणावाच्यादिपदाना सगुणं न बाच्यमिति शुद्धम्यैव तद्वाच्य. त्वसिद्धिः । विस्तृतं चैतदन्यत्र । अवाच्यत्वाज्ञेयत्वादिश्रुतिम्त्वप्रसिद्धत्वामि- प्रायेति भाष्य एवोक्तम् । अन्यथा 'अशद'मित्यादिश्रुतावशब्दमित्यादि- शब्दवाच्यताऽपि निषिध्यते चेद्गङ्गाशब्दावाच्यम्य गङ्गात्वाभाववदशब्द. शब्दावाच्यस्थाशलत्वाभावः स्यात् । न निषिव्यते चेदशब्दमित्यादिशब्द- वाच्यत्वं म्यात् । तस्मात् 'न चैतद्विद्मो वय ब्राह्मणा' इत्यादाविवेहाप्यज्ञा. नादिवचन दुर्ज्ञानत्वाद्यभिप्रायम ॥ तदुक्तमनुव्याख्याने 'अद्भुतत्वादवाच्यं तदतक्याज्ञेियमेव च । अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिना श्रुति' रिति । यद्यपि वाच्यत्वे 'सर्वे वेदा यत्पदमामनन्ति अथ कस्मादुच्यते ब्रह्मेति तत्सत्यमित्याचक्षते यमिंद्रमाहुवरुणं यमाहुः इत्याचक्षत एनमेव सन्तं तस्मादुच्यते परं ब्रह्मे' त्यादिका श्रुतिः 'वचसा वाच्यमुत्तमम् । परमात्मेति चाप्युक्तो देहे ऽस्मिन्पुरुषः परः' इत्यादिका स्मृतिश्चास्ति । तथाप्यवाच्यत्वेऽपि श्रुतेः सत्त्वा द्वान्यत्वश्रुतिर्विशिष्टविषया न तु शुद्धविषयेति डोदयाच्च । न श्रुत्यादि मात्रेण वाच्यत्वनिश्चय इति सूत्रे प्रसिद्धश्रुत्यनुग्राहकन्याय एवोक्तः । एव वाच्यत्वस्य श्रुतत्वादित्यर्थम्येभतिसूत्र एव विवक्षितत्वात् 'श्रुतत्वाचे'ति सूत्रं तत्परतया भाष्ये न व्याख्यातम् । न च 'तस्मादुच्यते परं ब्रह्मे' त्यादिश्रुतिलक्षणया ब्रह्ममात्रपरेति न तया वाच्यत्वसिद्धिरिति शंक्यम् । अन्योन्याश्रयात् । 'यतो वाच' इत्यादेरपि लक्षणया स्वरूपमात्रपरत्वेन तयाप्यवाच्यत्वासिध्यापत्तेश्च । तस्मादनुभवादिविरुद्धं सर्वशब्दावाच्यत्वम् । तदुक्तं न्यायविवरणे 'सर्वे वेदा यत्पदमामनन्ती'त्यादिश्रुतिसहितानुभवस्य बलवत्त्वादिति ॥ अत्राद्यसूत्रेऽनुषक्तेन तदित्यनेन सामानाधिकरण्यायाशब्दमिति नपुंसक त्वेऽपि द्वितीयसूत्रे 'आत्मन्येवात्मानं पश्ये'दित्यादावात्मा न गौण आत्मशब्दा दित्यात्मशब्दसामनाधिकरण्याय गौणश्चेदिति पुंल्लिंगनिर्देशः । प्रत्युत परस्यैव 'ईक्षतेरिति न धातुनिर्देशः। किंतु तदर्थस्य । तेन यः सर्वज्ञ इत्या. अत ..

ईक्षत्यधिकरणम् धुढाहर्तव्य' मिति वदतो गौणश्चेदिति पुल्लिंगं क्लिष्टम् । ईक्षणस्य पुल्लिंगानिर्दे- शान् । 'स ईक्षाचक्र' इति परोदाहृते स्त्रीलिंगनिर्देशाच्च । यद्यप्यत्र 'स एतस्मा'दिति यत्र वाक्य ईक्षतिस्तत्रात्मशब्दो नास्ति । एवमात्मन्येवात्मानं पश्येदित्यत्रात्मशब्दम्य सद्भावेऽपि तनिष्ठस्य मोक्षोपदेशा दिकं नास्ति । ततश्च 'गौणश्चन्नात्मशतादित्यादि व्यधिकरणमिव भाति । तथापीते रत्यनेन शब्दमात्रस्यामाधकतया ज्ञानकर्मत्वस्यैव विवक्षणीयत्वात् । तस्य च ‘स एतस्मा शिते वाक्य इवात्मन्येवेत्यादिवाक्येवपि सत्त्वेन तेषामपि भाप्यकृतेक्षतिमूत्र उदाहृनत्वान् तेषा च वाक्यनामेकार्थत्वादात्मशादिमत एकस्य वाक्यस्य निर्गुणपरत्वेऽन्यस्यापि तत्परताया अपरिहार्यत्वादेकस्य निर्गुण पात्वमात्रैण तस्य वाच्यत्वसिद्धश्च न वैयधिकरण्यम् । यद्यपि 'तमेवैकं जानथे तिवाक्ये ईक्षणीयत्वात्नशब्दनन्निष्ठमोक्षोपदेशहेयत्वावचनानि सन्तीति तदेव वाक्यमाद्यसूत्रचतुष्टय उदाहतुं शक्यम् । स्वाप्ययश्रुतत्वयोस्तु तनिष्ठ मोक्षोपदेशहेयत्वावचनयोरेवात्मशब्दस्य गौणात्मपरत्वनिरासकत्वाभावात् स्वातं व्येणैव च निर्गुणस्य वाच्यत्वे हेतुस्वात्तमेवैकमिति वाक्ये तयोरभावेऽपि न दोषः। तथापि सौत्र आत्मशब्दः स एतस्मादित्यादिवाक्यम्थपुरुषादि शब्दानां परात्परत्वादिलिंगाना चोपलक्षकः । तथा ईक्षणीयत्वं बहुश्रुतिसिद्ध खानापलापाईम् । तथा स एतस्मादिति वाक्ये मूत्रोपात्तेक्षतिधात्वनुगतिरप्य स्तीत्यादि दर्शयितुं भाष्ये स एतत्मादित्यादिवामान्यप्युदाहृतानि । न च परेषामिगस्माकमिदमधिकरणं वाक्यावशेषसमन्वयार्थम् । कितु वाच्यत्वमाध नार्थम् । न चैकप्रकरणस्थैरेव वाच्यत्वं साध्यमित्यत्र नियामकमस्ति । परैरपि प्रकृत्यधिकरणे नानाप्रकरणस्थैः प्रतिज्ञादृष्टान्तानुपरोधसाक्षादुभयानानात्मकृत्या- दिभिरुपादानत्वसाधनात् । इहापि परोदाहृते सदेवेत्यादिवाक्य ईक्षतिधात्वा त्मशब्दतनिष्ठमोक्षोपदेशहेयत्वावचनस्वाप्ययाना भावेऽपि गतिसामान्यश्रुतत्व योरभावाच्च । यः सर्वज्ञ इत्यादौ परोदाहृते स्वाप्ययादेरप्यभवाच्च । यद्यपि तनिष्ठस्येत्यादिसूत्रद्वयमपि गौणश्चेदितिवदीक्षणीयस्य सगुणात्मत्वं नेत्यत्रापि हेतुः सभवति । तथाप्यात्मशब्दो गौणात्मपरोऽस्त्विति शङ्कानिरासकस्यान्यस्या- JO नात्ययचन्द्रिका यभावातनिठम्येत्यत्र चशब्दाभावाचामशब्दस्यान्यपरत्वशङ्कानिरासतयापि भाप्यटीकयोाख्यातम् ।। सूत्रक्रमस्तु आद्यसूत्रे साभाद्वाच्यत्वहेतोरीक्षणीयत्वस्योक्तिः । द्वितीये तस्य व्यधिकरणा सद्ध्य द्वारः । तृतीयचतुर्थयोस्तु तदुद्धारकस्यान्यथा सिद्धिशानिरामः। तत्रापि सगुणात्मनिष्ठस्यापि परंपरथा मोक्षो युक्त इति शङ्काया अपि तनेवैकमत सावाधारणा हेयत्ववचनं न स्यादिति वदता हेयत्वेत्य नेन निरासादभावरूपाच्च हेत्वावचनस्य तन्निष्ठेत्येतदानन्तर्यम् । स्वाप्पयस्य तु ' युक्रत्वाच्च निर्गुणो वाच्य इति बहिरेवोक्ते कुतोऽयं निर्गुण इति शङ्का परिहारात्मकत्यत्तत्र चशहाभात्र' इति टीको करीत्या वाच्यत्वे परंपरया हेतु त्वात् तथा 'आत्मानं विलापयती'त्यात्मनो नाशिलेन हेयत्ववचनात वचनम सिद्धमिति शङ्काया अपि, नात्र नाश उच्यते कित्येकीभाव इति वदता म्वाप्यया दित्यनेन निरामात्पंचमता । तत्र चशब्दाभाचे टीकायामेव हेतुरुक्तः । षष्ठे तु गौणात्मन्यपि स्वाप्ययादिः शाम्बान्तर उच्यतामिति शङ्कानिरामः । श्रुतत्वाचेत्यत्र त गतिमामान्यम्य श्रुतत्वादित्यस्यापि विवक्षितत्वात्तम्यान्त्यतेति॥ अन्ये तु सदेव सोम्येडमग्र आसी'दित्यादिकारणवाक्यं सांख्यादिस्मृति सिद्धाचेतनकारणानुवादीति प्राप्ते ईक्षणेन चेतनकारणताप्रापकमिति सिद्धान्त इत्याहुः । तत्र कि विशिष्टस्य परिणामित्वमेतद्वाक्यबोध्यमिति सिद्धान्त्यते, किं वा कर्तृत्वं बोध्यमिति । यद्रा शुद्धस्य भ्रमाधिष्ठानत्वं बोध्यमिति । नाद्य द्वितीयौ । विशे? मदेवेत्यादिगक्योक्तसत्त्वाद्ययोगान् । पूर्वमूत्रेऽखण्डे समन्वयस्यैव प्रतिज्ञातत्वेनात्राखण्डस्यैव वक्तव्यत्वाच्च । द्वितीये वैयधिकरण्यं च । न हि प्रधान परिगामीति प्राप्ते ब्रम कत्रिति सिद्धान्तो युक्तः। अत एव न तृतीयः । प्रधानं परिगामीति प्राप्ते ब्रह्माधिठानमित्यस्य व्यधिकरण स्वात् । कथंचिदवैयधिकरण्येऽप 'तदैक्षत सेयं देवतशत नामरूरे व्याकरो' दित्यादिकमयुक्तं स्यात् । तस्य लक्षणयाऽचिन्मात्रपरत्वे च सर्वमपि लक्षणया प्रधानपरं स्यात् । मूत्र ईसतेरित्यादिहेतूक्तिश्च न स्यात् । न च तात्पर्याविषयेणे क्षणेन प्रधाननिरासः ॥

इक्षत्याधिकरणम् ७५ .. वा । अपि चात्र सदेबेत्यादिवाक्यसमन्वयोक्तिश्चदानन्दमयोऽभ्यासादित्यादि वत्सदीक्षतेरिति सूत्रं स्यात् । प्रधानस्य शाब्दस्वनिरासमा चेदिदमधिकरणं तन्निरासके चतुर्थपादे स्यात् । किं चास्मन्मते आनन्दमयस्तत् ब्रह्मैवेत्यादि रूपेण विधेयार्पणायानुषंजनीयस्य तत्पदस्येह तदशब्दं न ईक्षतेरित्युद्देश्यसमर्पक तयान्वयो हेतुसाध्ययोः सामानाधिकरण्यं च । तव तु अशब्दं प्रधानं करणं न कारणस्येक्षितृत्वादिति वदतो हेतुविभक्त्यभावेन साध्यत्वयोग्यश्रुताशब्दत्वरूप साध्यत्यागेन साध्यकल्पनार्धमध्याहृतस्य कारणपदस्य विभक्तिपरिणामेनावृत्ति. वैयधिकरण्यं च । कारणमशब्दं प्रधान नेति कारणस्योद्देश्यत्वे च 'अशब्द हि तदिति हेतूकतस्याशब्दत्वस्य कारणेऽसिद्धिः। किंचाशब्दत्वमवाच्यत्वं वा शब्दवृत्तिमात्राविषयत्वं वा वेदासिद्धत्वं वा कारणत्वेन वेदासिद्धत्वं चतुष्टयमपि ब्रह्मण एव । त्वन्मते शास्त्रप्रतिपाद्यस्य शुद्धस्या वाच्यत्वात् अवाच्ये च वृत्त्यंतरायोगात् । न तु प्रधानस्य । साख्यमते तस्य वाच्यत्वात् । कारणत्वेनैवाजामित्यादिश्रुतिसिद्धत्वाच । त्वयापि त्रिगुणस्योपादानतया 'माया तु प्रकृति'मित्यादिश्रतिसिद्धत्वाङ्गीकाराच । त्रिगुणस्य पारमार्थिकत्वादावेव हि तव विवादः ।। ननु 'आनुमानिकमप्येकेषा'मित्यत्रानुमानिकशब्देन सांख्यानुमानकल्पितं यत्त्वया विवक्ष्यते तदेव मयाऽत्राशब्दशब्देन लक्ष्यत इति चेन्न । सांख्यो- प्रेक्षितानुमानगम्यत्वस्य प्रधानं सदेवेत्यादिवाक्यार्थो नेत्यत्राहेतुत्वात् । अन्यथा तार्किकोत्प्रेक्षितानुमानगम्यत्वादीश्वरस्यापि सदेवेत्यादिवाक्यार्थत्वं न स्यात् । त्वया चाशब्दं हि तदिति तस्य तत्र हेतुत्वोक्तेः । किंच त्वया त्रोक्ताशब्दत्वसिद्ध्यर्थ चतुर्थपादेऽव्यक्ताजादिशब्दानां सूक्ष्मशरीरादिपरतामुक्त्वा प्रधानपरतां निषेधता तस्य सर्वथा वेदासिद्धत्वमेवाशब्दत्वं वाच्यम् । शक्यमित्युक्तम् ॥ एतेन स्वप्रधानतया वेदाप्रतिपाद्यत्वमशब्दत्वमिति निरस्तम् । तदेत दभिप्रेत्योक्तं भाष्ये 'न चाशब्दत्वमितरसिद्ध'मिति । अनुव्याख्याने च 'न शब्दत्वं प्रधानेऽङ्गीकरोत्यसाविति । किंचात्मन ईक्षारूपस्य न स्वरूपेणेक्षि तात्पर्यचन्द्रिका m तृत्वम् । अव्यक्तादिजडविशिष्टम्य तत्सभवेऽव्यक्तस्याप्यात्माविवेकेनात्म विशिष्टस्य तत्स्यात् । तनिष्ठस्येत्याधुत्तरसूत्रविरोधश्च । आत्मशब्दादित्य त्राप्यात्मशब्दवाच्यत्व हेतुश्चदसिद्धिः। तल्लक्ष्यत्वतत्प्रतिपाद्यत्वमात्रे तु प्रधान स्यापि। किंच किमात्मशब्दस्य चेतनार्थत्वाइचेने प्रधाने तदनुपपत्तिर्विवक्षिता कि वा तस्य स्वरूपार्थत्वत्दनेन जीवनात्मनेति चेतनतया प्रसिद्धजीवस्वरूपताया अचेननेऽनुपपत्तिः । नाद्यः। चेतनत्वस्य ज्ञातृत्वरूपत्वे ब्रह्मण्यपि शुद्ध तद भावात् । विशष्टे चेत्नधानेऽप्युक्तरीत्या तत्मभवान् । ज्ञानत्वरूपत्वे तु तदर्थम्यात्मशब्दस्येक्षितृत्वं गौणमि यत्रैव हेतुत्वेन गौणत्वाभावे हेतुत्वायोगात् । नांत्यः । सार्वज्ञासार्वज्ञादिविरुद्धाशत्यागेन चिद्रूपेश जीब्रह्मैक्यत्रज्जडत्वादि विरुद्धाशत्यागेन सद्पेग प्रधानैक्यस्यापि संभवान् । तन्निस्येति मूत्रेऽपि तच्छब्दार्थः शुद्ध आत्मा विशिष्टो वा। नाद्यः। तस्याद्यसूत्रोक्तेक्षितृत्वा योगात् । नात्य । विशिष्टनिष्ठस्य साक्षान्मोक्षानन्वयात् । परंपरया तदन्वयस्तु प्रधाननिष्ठस्थापि। एवं सूत्रान्तरेपि सुघोक्तरीत्या दूषणं द्रष्टव्यम् । एतेन इदमधिकरणं प्रधानादेजडस्य हेतुत्वनिरासकमिति केषां चित्पक्षो. समन्वयामगत्यादेः । किंच न तावत्प्रधानस्य कारणत्वमुपा. दानत्वं वा निरसितुमिदमधिकरणम् । तयोस्त्वन्मतेऽपि प्रधाने सत्वात् । उक्त हि 'तदवीनत्वादितिपूत्रे स्वयैव 'न वयमव्यक्तं तत्परिणामविशेषाश्च स्वरूपेण नाभ्युपगच्छामः । अपि तु परमपुरुषशरीरतया तदात्मकत्वविरहेणे'ति। च प्रधानं केवलम कारणं तथा ब्रह्मापि । विशिष्टस्यैव कार- णत्वात् । नापि प्रधानस्य वाक्यांत कारणत्वेऽपि 'सदेव सोम्येदमित्यादि. सद्विद्याया ब्रह्मकारणत्वपरत्वमिति वक्तुमिदम् । 'यदि सद्विद्या ब्रह्मपरा तदा तदैकार्थ्यात्सर्वाणि कारणवाक्यानि ब्रह्मपराणीति त्वयैवोक्तत्वात् । अन्यथे. क्षत्यधिकरणं कारणस्यचित्वनिगमकमिति त्वदभिप्रेतस्यासिद्धेः । सर्वेषा कारणवाक्याना ब्रह्मपरत्वेऽपि प्रधानकारणताया मानातरात्सिद्धिः । कारणन्य शास्त्रयोनित्वात् । नापि प्रधानस्येश्वरनियम्यत्वादिरूपतच्छरीरत्व- निरूपणार्थमिदम् । अत्र तदप्रतीतेः। अंतर्याम्यधिकरणे तदधीनत्वादित्या. ऽप्यपास्तः । यथा न च ..

समन्वयाधिकरणम् , दावन्यत्रैव तन्निरूपणाच्च । नापि प्रधानस्य कर्तृत्वं वा कर्तृत्वे सत्युपगदानत्वं वा निरमितुमिदम् । तयोः प्रधाने साख्येनाप्यनंगीकारान् । प्रकृत्यधिकर- णेन पुनरुक्तेश्च ।। किंच त्वत्पक्षेशास्त्रयोनिमूत्रे वेदातानामनुमानप्राप्तकारणानु वादित्वेनाविचार्यत्वमिति पूर्व पक्षवदिहापि सांख्यम्मृतिप्राप्तानुवादित्वेना . विचार्यत्वमिति पूर्वपक्षसंभवादिदमधिकरणं चतुस्त्रीवच्छास्त्रारंभममर्थनार्थ सत्समन्वयसूत्रात्पूर्व स्यात् ॥ यादवप्रकाशीये तु 'स्वाप्यया'दित्यस्य 'सना सोम्य तदा संपन्नो भवती तिवाक्य विषयः । 'गतिसामान्या' दित्यस्य तु 'सति संपत्स्यामह इति वाक्यं विषय इत्युक्तम् । तन । वाक्यभेदेन सूत्रभेदेऽतिप्रसंगात् ।। टीकाक्षरार्थस्तु न तच्छब्दगोचरमितियुक्तमिति ॥ उपल- क्षणं चैतन् । शब्दाना गवां ज्ञानानां च चरश्चरणं वृर्तियस्मिन् । तच्छन्द- गोचरमिति व्यधिकरणबहुव्रीहिर्वा । चरश्चरणमन्यास्तीति मत्वर्थीयाऽच्प्र- त्ययात- वाश्रिय शब्दगोचरमित्यत्य साधुत्वं द्रष्टव्यम् । ततश्च 'इत्या- दिश्रुतौ मनसा सहेत्यदृश्यत्वस्याप्युक्तत्वादीक्षणीयत्वमसिद्धमिति पूर्वपक्ष्यभि- प्रायः । पूर्वमर्थापत्तिपरतया व्याख्यातम् । इदानी परिशेषपरतया व्या- चष्टे-परिशेषप्रमाणेन वेति ॥ यद्यपि स्वमतेऽर्थापत्तिपरिशेषयोरनुमानता । तथापि तयोर्भेदमुपेत्य वानुमानत्वावान्तरभेदमाश्रित्य वा पक्षान्तरोक्तिः । श्रुतिस्मृती चाहेति । श्रुतावामनन्तीति साक्षाद्वाच्यत्वोक्तेः । स्मृती चाहमेवेत्यवधारणोपपत्तये मुख्यतया वेद्यत्वस्य विवक्षणीयत्वात् । वाच्यत्वं विनाऽयोगात् । सर्ववेदलक्षणाया अयोगाच वाच्यत्वसिद्धिरितिभावः । ननु न विशिष्टमीक्षितृ येन जिज्ञास्यत्वायोग. कितु शुद्धमेव माया सबंधादीक्षित्रिति पूर्वत्रारुच्या दोषान्तरमाह किंच माययेक्षणमिति । गौणग्रहणे बाधकम्येत्यादौ गौणशब्देन मुख्यासंभवे गौणाश्रयणादित्यत्रेवा मुख्यार्थो न विवक्षितः। कितु सत्त्वादिगुणयुक्तजीवरूपमुख्यार्थ इति द्रष्टव्यम् ।। स्वरूपप्रतिमारूपाभिप्राय इति। आत्मनि स्वरूपाभिप्रायोऽनात्मनि प्रतिमारूपाभिप्राय इत्यर्थः। श्रुतेरार्जवसंभवादिति । आत्मानात्मशब्दयो तस्य च नात्पर्यचन्द्रिका श्चेतनाचेतनविषयतया प्रसिद्धेः रूपशब्देऽनेकार्थत्वस्याकल्प्यत्वाच्च तद्विषयत्वे श्रुतेरार्जवं भवतीत्यर्थः । स्वभावविषयत्वोपपत्तरिति । जीवात्मन्यपि हि दुःखादिदोर औपधिक एवेति भावः । 'यम्येति श्रुतौ विश्वशब्दो 'विश्वो हिरण्यगर्भोऽग्निरित्याहा'विव वावर्थः। तेन सर्वस्य कर्तेत्यनेन न पुनरुक्तिरित्याह - वायुर्तेति । प्रतिबुद्धशब्दार्थमाह - सर्वज्ञ इति । अनुवित्तशब्दार्थमाह- ज्ञात इति । ततश्च तयोन पौनरुक्तयमिति भावः ।। न सपक्षसत्त्वमिति । ततश्च नासाधारणानकान्तिकतेति शेषः । केवलान्वयिनीति । केवलान्वयी दृष्टान्ततयोक्तः। ब्रह्म वाच्यं लक्ष्यत्वादि त्यभिप्रेतकेवलान्वय्युपयोगितया वा। तदविनाभाव्यभावत्वाभावादिति । साध्याभावाविनाभूताभावप्रतियोगिन एवोपाधित्वादिति भावः । व्याप्तयनिश्च यादिति । साध्यव्यापकत्वानिश्चयादित्यर्थः । कार्यकारणभावादेरेव व्याप्ति निबन्धनत्वे तदभावाव्यत्वसंयोगित्वयोरपि सा न स्यादित्याह द्रव्यत्वसं योगित्वयोरिति ॥ ननु संयोगिताया द्रव्यत्वाद्यवच्छेद्यत्वहानरेव विपक्षे बाधिका तयो ाप्तिनिबन्धनमित्याशङ्कय तहींहाप्यनवस्था विपक्षे याधिकेत्यभिप्रेत्याह । अवाच्यस्य लक्षणायामित्यादिना । ननु सत्यज्ञानादिवाक्ये लक्ष्यापकं ब्रह्मपदं वाचकमेव।। सत्यादीनि लक्षणपदानि तु न वाचकानीति शकते- लक्ष्यपरपदस्येति ।। ॥ इति ईक्षत्यधिकरणम् ॥ । [आनन्दमयाधिकरणम् ] 6- ॐ आनन्दमयोऽभ्यासात् ॐ ॥ १-१-६॥ वैदिकाः शब्दास्तावच्चतुर्विधाः। अन्यत्रैव प्रसिद्धा उभयत्र प्रसिद्धा अन्यत्र प्रसिद्धास्तत्र प्रसिद्धा इति ।।

आनन्दमयाधिकरणम् नन्वन्यत्रैव प्रसिद्धवतंत्रव प्रसिद्धा अपि पृथग्वाच्याः । न च तत्रेत्य नेन तत्रैवेति विवक्षितम् । अन्यथा तत्रापीति विवक्षापत्त्योभयत्र प्रसिद्धप्वंत र्भावः स्यात् । अत एव तत्र प्रसिद्धाः सुधाया ब्रह्मण्येव प्रसिद्धा इति निर्दिष्टा इति वाच्यम् । तथात्वेऽन्यत्रैव प्रसिद्धाना पार्थक्यायोगात् ।। ननु लोकतोऽन्यत्रैव प्रसिद्धा अन्यत्र प्रसिद्धाः श्रुत्यादिमिरन्यत्रैव प्रमि द्धान्त्वन्यत्रैव प्रसिद्धा इति भेदः । अत एव 'श्रुतिलिंगादिभिग्न्यत्रै प्रसे द्धाना'मिति चतुर्थपादे भाष्यम् । अत्र च प्रत्यधिकरण लोकतोऽन्यत्र प्रसिद्धा नामित टीका च । तत्र प्रसिद्धानां तत्रैव प्रसिद्धाना चाव्युत्गद्यसमन्वयत्वेना भेदविवक्षेति चेन्न । अन्यत्र प्रसिद्ध नाभिमतम्यानन्दमयादिनाम्नोऽन्यस्मि नर्थविशेषे सर्वगतत्वान्तयमित्यादिलिंगात्मकशब्दजातस्याप्यन्यत्रादित्यादौ, इंद्राकाशादिशब्दानामिंद्रादाविर लोकतोऽप्रसिध्याऽन्यत्र प्रसिद्धत्वाभावापा तान् । प्रत्युतादित्यश्रुत्यादिना सर्वगतत्वादेरन्यत्र प्रसिद्धर्वक्ष्यमाणत्वेनावर त्वादिल्लिोनान्यत्रैव प्रसिद्धाव्यक्तादिशब्दानामिवान्यत्रैव प्रसिद्धता स्यात् । यथा च सर्वगतत्वादेरन्यत्र प्रसिद्धिसाधकादित्यादिश्रुतिः अन्तर्यामित्वादेरन्यत्र प्रसिद्धिमाधकशरीरित्वादिलिंगं च लोकतोऽन्यत्र प्रसिद्ध तथाऽव्यक्तादिशब्दस्या न्यत्र प्रसिद्धिसाधकमवरत्वादिलिंगमपि लोकतोऽन्यत्र प्रसिद्धमेव ॥ किच अन्यत्रैव प्रसिद्धाव्यक्तप्रकृत्यादिशब्देष्वपि लोकतोऽप्यन्यत्र प्रसि त्तित्त्वात् अन्यत्र प्रसिद्धेन्द्राकाशादिशब्देषु च श्रुत्यादिनाप्यन्यत्र प्रसिद्धः सवात्माकर्य म्यात् । न च प्रबलश्रुतिलिङ्गादिभिरन्यत्र प्रसिद्धा अन्यत्रैव प्रसिद्धाः। श्रुयादिमात्रेणान्यत्र प्रसिद्धान्त्वन्यत्र प्रसिद्धा इति भेदः । अव्यक्तादिशनाना मन्यत्र प्रसिद्धि पावकावरत्वादीनामिव गुहाप्रविष्टत्वादेरन्यत्र प्रसिद्धिपाधव द्वित्वादीनामप्येकस्मिन्ब्रह्मण्यसभवेन बलवत्वात् । प्रसिद्धानामन्यत्रैव प्रसिद्धेभ्यो भेदः ॥ किंचोभयत्र प्रसिद्ध शुभ्वाद्यायतनत्वादिलिङ्गे ज्योतिरादिनानि च न तावल्लोकत उभयत्र प्रसिद्धाः। प्रकृत्यादौ तस्य लोकतोप्राप्तेः । नापि श्रुत्या दितः । तथैव टीकाढौं वक्ष्यमाणत्वादिति युक्तम् । आनन्दमयेन्द्राव्यक्तादि तस्मान्नान्यत्र तात्पर्यचन्द्रिका शब्देष्वपि पूर्वोत्तरपक्षधुत्यादिनोभयत्र प्रसिद्धर्ववतुं शक्यत्वात् । तस्मादुभयत्र प्रसिद्धानामपि नान्टन प्रसिद्धादिभ्यो भेदः ।। किचाकाशादिशब्दाना 'आकाशस्तल्लिादितिप्रथो 'आकाशोऽर्थातर त्मदिव्यादेशा'दिति तृगये 'कारणत्वेन चाकाशादि'प्विति चतुर्थे च पादे समन्वयोत्तेरन्यत्रोभयत्रान्यत्रैव च प्रसिद्धना स्यात् ।। किच रूढत्वयौगिकत्वाभ्यां हि नामलिङ्गभेदः । सुधाया तथैवोक्तेः। 'धर्मविशिष्टधर्मिवाचिनामित द्वितीयपाहीयटीकायामपि यौगिकत्वं लिङ्गत्वमित्य भिप्रेतत्वाच । अत्रापि टीकाया धर्मधर्मिवाचिपदाभ्या ते एव विवक्षिते । अन्यथा धर्मिवाचिनामन्तयोम्यादिशब्दानां नामता धर्मवाचिनामानन्दादि शब्दाना रिङ्गता च ग्यात् । स च भेदोऽयुक्तः। सर्वेषामपि ब्रह्मणि महा योगाङ्गीकागत् । न चापातप्रतीत्या रूढता। अन्नमयादिषु तदसंभवात् । न च योगरूढियुक्तानि नामानि केवलयौगिकानि लिङ्गानीति भेदः । सर्वेषा ब्रह्मणि विद्रुढे ॥ किंत्रान्यत्र प्रसिद्धाना नाम्ना लिङ्गाना चान्यत्र प्रसिद्धत्वाविशेपात्पादभेदो न स्यात् । अन्यथा तृतीय उभयत्र प्रसिद्धाना चतुर्थं चान्यत्रैव प्रसिद्धाना नाम्मा लिङ्गाना च समन्वयोक्तिी स्यात् । तस्मान्न पादभेदो युक्तः ॥ नापि तत्क्रमः। महामभङ्गन्यायेनातिप्रयत्नपाध्यस्य प्राथम्ये ह्यन्य त्रैव प्रसिद्धाना प्राथम्यं स्यात् । सोपानारोहणन्यायेनानतिप्रयत्नमाध्यस्य प्राथम्ये तूमयत्र प्रसिद्धानां प्राथम्यं स्यादित्यन्यत्र प्रसिद्धाना पूर्व समन्वयः । तत्रापि नाम्ना पूर्वमनन्तरं लिङ्गानां तदनन्तरमुभवत्र प्रसिद्धाना अंतेऽन्यत्रैव प्रसिद्धाना मिति क्रमस्य सर्वथाप्ययोगादिति ॥ उच्यते अयंतरादिभिन्तुन्या बुभयस्मिन्प्रसिद्धता । श्रुत्यादितो लोकतो वाऽपीतरेषु प्रसिद्धता । बलवच्छृतिलिङ्गाद्यैरन्येष्वेव प्रसिद्धता । उभयत्र प्रसिद्धादेः क्रमाल्लक्षणमुच्यते ॥

आनन्दमयाधिकरणम् ८१ यदा - येषां प्रसिद्धिरन्यत्र केवलैव विरोधिनीं । समन्वयस्योभयत्र प्रसिद्धास्ते हि कीर्तिताः ॥ १ । येषां ब्रह्मण्यप्रसिद्धिः प्रसिद्धिश्चान्यवस्तषु । विरोधिन्यौ हि तेऽन्यत्र प्रसिद्धाः कथिता इह ॥ २ ॥ येषामुक्तद्वयं ब्रह्मपरत्वस्यात्यशक्यता । इति तिस्रो विगेधिन्यस्तेऽन्यत्रैव प्रसिद्धकाः ॥ ३ ॥ य। शबानां लोके ब्रह्मणीवान्यत्रप्यप्रयोगाभ्यक्तिविशेषनिर्णयाय श्रुत्यन्तान्वेषणे श्रुभ्यन्तरेऽन्यत्रेव ब्रह्मण्यपि प्रयोगात् अत्यन्तरसाधारण्यं प्रवृत्ति निमित दिपाधारण्यं वा पूर्वपक्षिणोऽपि संमतम् । अत एव येषां विषयवाक्य आपातोऽन्योपस्थापनसमये तत्तुल्यतया च ब्रह्मोपस्थापकत्वं अत एव च येषां ब्रमणि नमन्वयम्यान्यत्रोपस्थितिमात्रेण प्रतिवन्धः त उभयत्र प्रसिद्धाः । येषां तु वस् वारे लोकप्रसिद्ध्यादेः सत्त्वात्तद्विरोधेन क्वापि ब्रह्मणि वृत्त्यादिकं पूर्व पक्षिणो न संमतं, अत एव येषां विषयवाक्य आपाततोऽन्यमात्रोफेपस्थापकत्वं, अत एव च येषां समन्वयस्यान्योपस्थितिब्रह्मानुपस्थितिभ्यामेव प्रतिबन्धः तेऽन्यत्र प्रसिद्धाः॥ येषां पुनर्वस्त्वंतरे लोकप्रसिद्धिस्तत्परत्वे प्रबलश्रुयादिकमप्यस्ति, अत एव येषां विषयवाक्य आपाततोऽत्यंतमन्यमात्रोरस्थापकत्वम् च येषा समन्वयस्थान्योपस्थितिब्रझानुपस्थितिभ्यां ब्रह्मपरत्वस्यात्यशक्यकल्पनत्व- शंकया चातितरां प्रतिबंधस्तेऽन्यत्रैव प्रसिद्वाः । अत्र च सर्वत्र प्रत्येक हेतुम्वरूपफलमुखेन लक्षणत्रय विवक्षितम् । तत्र चाद्येन येषामित्यादिनाऽत एवेत्यतः पूर्वेण हेतुमुस्वं लक्षणयुक्तम् । द्वितीयेन येषामित्यादि नाऽत एवेत्यतः पूर्वण स्वरूपमुखं अवशिष्टेन फलमुखम् । तत्र स्वरूपमुखानि द्विती. यानि लक्षणान्युभयनान्यत्रान्यत्रैव प्रसिद्धति शब्दावयवार्थरूपाणि भाष्ये इहापि संग्रहश्लोके तत्तच्छब्दप्रयोगादेव मूचितानि । प्रथमानि तु टीकायामाद्या- दिपादेषु लोकतोऽन्यत्र प्रसिद्धेत्यादिना त्रिविधसिदिकारपाकीर्तनात्मचितानि । अत एवं १ ८२ तात्पर्यचन्द्रिका तानि । - तृयीयान्यपि टीकाकृतोभयत्र प्रसिद्धत्रु साधारण्यस्य संदेहवीजतां तथा- न्यत्र प्रसिद्धप्वन्यकोटेरन्यत्र प्रसिद्धितः प्राप्तिं तथान्यत्रैव प्रसिद्धेष्वन्य कोटेरन्यत्रैव प्रसिद्धितः प्राप्तिं च वदना समन्वयप्रतिबंधतारतम्यमूचनात्सूचि उक्तं हि- 'यम्तानि प्रविभक्तानि हेतुरूपफलैः पृथ'गिति ।। अत्र चेनग्यो.तुमूलत्वाद्धेतः प्रदर्श्यते । उभयत्र प्रसिद्धानां हि धुभ्वाद्यायतनवादीना 'रुद्रो वा व लोकाधारः विष्णावेवोताश्च प्रोताश्चे'त्यादिश्रुत्यंतरसाधारण्येन, अक्षरादिशब्दाना प्रवृत्तिनिमित्तसाधारण्येन मदादिशब्दानां विषयवाक्यस्थकारणत्वादिधर्नमाधारण्येन, 'आकाशोऽर्थातर त्वादिव्यपदेशादिति सूत्र वेश्ये आकाशा ह वै नाम नामरूपयोर्निर्व- हिते'ति वाक्यस्थाकाशशब्दे 'आकाशस्तल्लिंगा'दित्यत्र ब्रह्म ग्यपि प्रयोगस्योक्त त्वात्प्रयोगसाधारण्येनोभयत्र प्रसिद्धिः । न तु पूर्वपक्षसिद्धांतन्यायाभ्याम् । येन साकय स्यात् । तदुक्तेस्तु प्रागाकाशस्तल्लिंगादिति सूत्रविषयवाक्ये 'अस्य लोकस्य का गतिरित्याकाश इति होवाचे'त्यत्रान्यत्र प्रसिद्धिः । 'कारण- त्वेन चाकाशादिब्धि'ति सूत्रविषयवाक्ये 'आत्मन आकाशस्संभूत' इत्यत्र तु ब्रह्मलिंगाभावेन लोकतोऽन्यत्र प्रसिद्धरबाधात्संभूतत्वादिविपरीतलिंगाच्चान्यत्रैव प्रसिद्धिरित्येकस्यैव प्रयोगभेदन दशाभेदात् द्वितयं युक्तम् ॥ यद्वा कारणत्वेनेत्यत्रावाताकारणत्वस्यैव समन्वय इति वक्ष्यते । एवं ज्योतिश्शब्दस्यापि 'ज्योतिश्चरणे'त्यत्रान्यत्र प्रसिद्धता ज्योतिर्दर्शना' दित्यत्रोभयत्र प्रसेद्वना 'ज्योतिरुपक्रमा' दित्यनान्यत्रै प्र सेद्धतोया । अन्यत्र प्रसिद्धानां तिवद्रादिशब्दानां लोकतः सर्वगतत्वादिलिंगानां च लोकतोऽन्यत्र प्रसिद्धादित्यादिश्रुत्यादिसाहचर्येणान्यत्र प्रसिद्धिः । न तूभयत्र प्रसिद्धानामिव ब्रह्मसाधारणश्रुत्यंतरादिनान्यत्र प्रसिद्धिः । तच्च श्रुत्यादिकं चतुर्थपादीयश्रु- त्यादिवन्न प्रबलम् । श्रुत्यादेः प्राबल्यं हि प्रवृत्तिनिमित्तस्य तदधीनत्वादिना- ब्रह्मणि शब्दस्य परममुख्यत्वेऽपि तस्य शब्दस्य तद्युतवाक्यस्य वाऽपरममुख्यवृ. त्यान्यपरत्वं विनाऽनुपपद्यमानत्वम् । न त्वापाततो ब्रह्मण्यसंभवमात्रम् । येन आनन्दमयाधिकरणम् ८ वाक्यातर- द्वित्वादिकमपि बलवत्स्यात् । नापि सर्वथाऽसंभवः । येन सिद्धांतानुदयः स्यात् । न हि 'गुहा प्रविष्टा वित्यादिषु द्विवचनं तद्युक्तवाक्यं वाऽपरममु. ख्यवृत्याऽप्यन्यपरम् । अन्यत्रैव प्रसिद्धेषु च 'अव्यक्तात्पुरुषः परः । बसंते वसते ज्योतिषा यजेते'त्यादिष्वव्यक्तादिशब्दस्तद्युक्तं वाक्यं वाऽपरम- मुख्यवृत्यान्यपरमेव । अन्यथा देवतातारतम्यकर्मादि न सियेत् । स्याप्येतत्तुल्यत्वात् । अत एव 'कामादीतरत्र तत्र चायतनादिभ्य' इत्य धिकरणेऽपरममुख्यवृत्याश्रितन्वपरत्वेन भाष्योदाहृतं 'सैषा प्रकृतिरविकृति'रिति वाक्यमेव प्रकृत्यधिकरणे टीकायामुदाहृतम् । एवं च एतेन सर्वे व्याख्याता' इत्यत्राप्यपरममुख्यवृत्याऽन्यपरवाक्यस्था एवासदादिशब्दा उदाहार्याः । प्रकरणात् । भाष्ये वाक्यविशेषानुपादानाच । टीकायां 'असद्वा इदमग्र आसी'दित्यपरममुख्यवृत्याप्यन्यपरत्वरहितस्योदाहरणं तु क्वचिन् श्रुतावसच्छ- ब्दस्य 'शून्ये मुख्यत्वे ब्रह्मणि चामुख्यत्वे 'असद्वा इदमय' इत्यत्रापि मुख्यार्थत्वाय शून्यमेव गृह्येतेति दर्शयितुम् ॥ अथवा ब्रह्मपरत्वे बहुविप्लवापत्तिरूपतानुगृहीतत्वं बलवत्वम् । बहुविप्लवापत्तिश्चतुर्थपादीयाधिकरणेषु तत्र तत्रैव टीकायां वक्ष्यते । श्रुत्या- दिभिरन्यत्रैव प्रसिद्धानामिति.चतुर्थपादीयभाष्ये तु ब्रह्मणि वृत्तरत्यंतासभा- वितत्वरूपस्योक्तद्विविधबलवत्वकार्यस्यावधारणेन विवक्षिततयातिव्याप्तेरभावन तत्परिहारार्थ बलवत्पदं न प्रयुक्तम् । चतुर्थवादीयटीकाया तु भाष्योक्ताव. धारणनिर्वाहकेन बलवत्वेनैवातिव्याप्तिः परिहृतति दिक् ॥ नामलिंगभेदस्तु यान्यापाततो रूढान्येव. तानि नामानि । तद्विप- रीतानि तु लिंगानि । अथवा यान्यापाततो रूढानि तानि नामानि । या- न्यापारतो यौगिकानि तानि लिंगानि । अत्राद्यपक्षे योगरूढानि लिंगानि । द्वितीये तु नामलिंगोभयात्मकानि ।। वस्तुतस्तु यान्यापाततो रूढिरहितान्यंतर्यामीत्यादीन्येकप्रातिपदिकमा- रूपाणि वा 'सर्वेषु भूतेष्वेतम् । यस्मिन्यौ रित्याद्यनेकपदसमभिव्याहार रूपाणि वा मर्वेषु यस्मिन्निति सप्तमीविभनि सहितप्रातिपदिकरूपाणि वा ..

८४ तात्पर्यचन्द्रिका वकाशः । : धर्मद्वारा धथुपस्थापकानि तानि लिंगानि । यान तु तद्विपरीतान्यापाततो रूढानि योगरूढियुक्तानि वा तानि नामानि । अत एव पूर्वपक्षदशायामपि देवतासु योगरूढियुक्तानामिद्रादिशब्दाना नामता । अत एवं च रूढाना नामत्वे यौगिकानां च लिंगत्वे योगरूढानां तृतीयप्रकारतापत्तिरिति शंकान- नाम्ना लिंगानां चान्यत्र प्रसिद्धत्वाविशेषेऽप्यवान्तरभेदात्पाद- भेदः । अध्याये पादचतुष्टयादिनियमादवान्तरभेदविवक्षया तृतीयादौ न पादभेद आश्रितः ।। यद्वा नाम्नां प्राधान्याल्लिंगाना च द्वितीये समन्वयोक्त्या बुद्धिस्थत्वादु. भयानुसरणाय न तत्र भेद आश्रितः। अथवाऽऽपातसिद्धनामलिगयोर्भेदमा. श्रित्याद्यद्वितीयपादयोर्भदः कृतः । इदानीमापातप्रसिद्धितिरस्कारेण तत्रो- क्तमहायोगविद्वद्रूढिभ्यामेकीकृतत्वान्न भिन्नपादनिवेशाहतेति दर्शयितुं न तत्र भेद आश्रितः । तस्माद्यथाग्रंथं पदभेदो युक्तः ॥ पादक्रमस्तु चतुर्थपादीयसमन्वयस्यासर्वाधिकारिकत्वात् तथा पाद त्रयेण श्रुतिलिङ्गादिभिर्ब्रह्मणि समन्वय उक्ते तर्हि तैरेव श्रुति लेङ्गादिभिरन्य पर ताऽस्त्विति शङ्कायास्त्रितयानन्तरमेवोदयात् तत्तच्छब्दप्रवृत्तिनिमित्तगुणमात्र सिद्धिफलकत्वेन कारणत्वादिसिद्धिफलकत्वाभावाच्चात्यता । इतरयोरपि महामल्ल भगन्यायेनान्यत्र प्रसिद्धपमन्वयस्य प्राथम्यम् । तदुक्तमनुव्याख्याने 'तत्र प्रथमतोऽन्यत्र प्रसिद्धाना समन्वयः । शब्दाना वाच्य एवात्र महामल्लेशभङ्गव'दित्यादि । यद्वा अन्यत्र प्रसिद्धेष्वन्यपरत्वस्य प्रसिद्धिमात्रमूलत्वेन स्थूलत्वात् उभयत्र प्रसिद्धेषु 'रुद्रो वा व लोकाधार' इत्यादिश्रुत्यादिमूलत्वेन सूक्ष्मत्वात् अन्यत्रैव प्रसिद्धेषु पुनः प्रसिद्धिः श्रुतिलिङ्गादिकं चेत्युभयमूलत्वात्तन्निरासकपाद क्रमः । अयं च पझो भाग्ये न्यत्र प्रसेद्ध दिशब्दप्रयोगादेव सूचितः ।। केचित्तु उभयत्र प्रसिद्धरन्यत्र प्रसिद्धनिरूप्यत्वादन्यत्रैव प्रसिद्धेश्चैवकार व्यावर्त्यतया तदुभयनिरूप्यत्वात्पादक्रम इत्याहुः। तन्न उभयत्र प्रसिद्ध्यादेरु क्तरीत्याऽन्यत्रप्रसिद्धिनिरूप्यत्वाद्यभावात् । अन्यत्र प्रसिद्धेष्वपि नाम्ना प्रधानभूत आनन्दमयाधिकरणम् धर्मिणि साक्षाद्धीजनकत्वात् यौगिकस्यावयवाथै रूढयपेक्षावद्रूढस्य योगापेक्षाया अभावाच्च प्राथम्यम् । यद्वा लिंगै मसमन्वय उक्ते संदिग्धब्रह्मपरत्वेषु हेतू कृतलिंगेष्वेव वा तज्जातीयत्वेन बुद्धिस्थेषु लिङ्गान्तरेषु वा कथं ब्रह्मपरत्वमिति शङ्कायां तन्निरासाल्लिंगानामानन्तर्यम् । लिंगसमन्वयस्तु प्रयेण निर्णीतलिंगा न्तराधी तो न तु नामाधीन इति वैषम्यम् । तस्माद्युक्तः पादक्रमः ।। न चैवमन्यत्रैव प्रसिद्धादीना समन्वयेनैव कैमुत्यन्यायेनान्यत्र प्रसिद्धा दिसमन्वयसिद्धस्तदुक्तिवैयर्थ्यम् । 'अत्मन आकाशसंभूत' इत्यादौ भूता काशस्य संभूनत्ववदस्य लोकस्येत्यादावाकाशस्य लोकगतित्वादिप्रसंगात् पाद त्रयसिद्धान्तमुपेत्य चतुर्थवादे विशेषहेतुभिः पूर्वपक्षोदयेन पादत्रयपूर्वपक्षदशाया चतुर्थादीयसिद्धान्तानुन्मेषाच्च । अन्यथा स्वर्गकामाधिकरणसिद्धफलान्वयम पेत्य कि भावार्थम्य फलकरणता कि वा नामार्थस्येति विचारात्मकभावार्था धिकरणसिद्धन्तेन फलाभावकारूपस्वर्गकामाधिकरणपूर्वपक्षानुदयः स्यात् ।। ननु यथान्यत्रैव प्रसिद्धाना ब्रह्मपरता तथा तत्रैव प्रसिद्धानामपि 'जनितोत विष्णो'रित्यादाविवान्यपरत्वाशङ्काया समन्वयो व्युत्पाद्य एवेति चेन्न । तत्र प्रसिद्धा इत्यनेनान्यपरत्वशङ्काराहित्यस्य विवक्षितत्वात् । अन्यत्तु स्वस्वस्थाने वक्ष्यते ॥ अन्ये तु प्रथमे स्पष्टब्रह्मलिङ्गान्युदाहरणानि । द्वितीयतृतीययोस्त्व सष्टब्रह्मलिङ्गानि । तयोस्तु मविशेषनिर्विशेषविषयतया भेदः । चतुर्थे प्रधानस्याशब्दत्वोक्तिरिति पादार्थानाहुः । तन्न। यथा प्रथमे 'अतस्तद्धर्मोप देशा'दित्यादौ 'सैवमि तदुक्थं तद्यजु रिति सर्वात्मकत्वस्य 'सर्वेभ्यः पाप्मभ्य उदित' इति सर्वपापराहित्यस्य च ब्रह्मलिङ्गस्य स्पष्टता तथा द्वितीये 'सर्वत्र प्रसिद्धोपदेशा दित्यत्र 'सर्व खल्विद ब्रह्मेति जीवेष्वयुक्तस्य सार्वात्म्यादेः 'अत्ता चराचरे'त्यत्र 'अन्यत्र धर्मादन्यत्राधर्मादिति पुण्यपापरहित्यादेः 'अन्तर' इत्यत्र 'एतदमृतमभयमेतद्ब्रह्मे'त्यमृतत्वादेः 'अन्तर्यामी'त्यत्र 'एष त आत्मा न्तर्याम्यमृत'इत्यमृतत्वादेः 'अदृश्यत्वादिगुणक' इत्यादौ 'यः सर्वज्ञ' इति सार्वज्ञादेब्रह्मलिङ्गस्य स्पष्टत्वात् । एवं तृतीये 'द्युभ्वादी'त्यत्र अमृतस्यैष सेतुः तात्पर्यचन्द्रिका य सर्वज्ञ'इत्यमृतसेतुत्वसार्वज्ञादेः 'भूमे'त्यत्र 'यत्र नान्यत्पश्यति' इत्यद्वि तीयत्वादे: 'अक्षरमंबरे'त्यत्र 'अदृष्टं द्रष्टश्रुतं श्रोत्रस्थूलमनवि'त्यदृश्यत्वास्थूल त्वानणुत्वादेः 'ईक्षतिकर्मे'त्यादौ 'पगत्पर'मिति परात्परत्वादेब्रह्मलिङ्गस्य स्पष्टत्वाच ॥ वाक्यान्तरे ब्रह्मधर्मतया निर्णीतत्वं वा जीवादौ स्वारस्येनानुपपद्यमानत्वं वा स्पष्टत्वम् । न च स्वारस्येनापि जीवादावनुपपद्यमानत्वं विषयवाक्ये ब्रह्म- धर्मतया निर्णीतत्वं वा जीवादिप्रापकलिङ्गराहित्यं वा । पूर्वपक्षानुदयापातात् । तच्च सर्व खल्विदमित्यादावस्ति । न च 'सर्वत्र प्रसिद्धे'त्यादेः 'मनोमयः प्राण शरीरो भारूप' इत्यादिकमुदाहरणम् । तत्र च न ब्रह्मलिंग स्पष्टम् । किंतु 'सर्व खल्विद 'मित्युपक्रम इति वाच्यम् । प्रथमेऽप्यंतरित्यस्योदाहरणे य एषोंत रित्यत्र सार्वात्म्यस्य 'ज्योतिश्चरणे'त्यस्योदाहरणे 'यदतःपरो दिवो ज्योति' रित्यत्रामृतत्वादेः 'प्राणस्तथे'त्यस्योदाहरणे 'प्राणोस्मि प्रज्ञात्मे'त्यत्र हिततमत्वा देब्रह्मलिङ्गस्याभावात् । द्वितीयादावपि 'य एषोऽतरक्षिणि पुरुषो दृश्यते एतदमृतमभयमेतद्ब्रह्म एष त आत्मान्तर्याम्यमृत' इत्याद्युदाहरणवाक्य एवामृत वादे स्पष्टत्वाच्च । यथा च द्वितीये तृतीये च समन्वेतव्यं मनोमयत्वादिकं न ब्रह्मणि स्पष्टं तथा प्रथमे समन्तव्यमादित्यस्थत्वाकाशप्राणशब्दादिक न ब्रह्मणि स्पष्टम् ।। यच्च द्वितीये सविशेष तृतीये निर्विशेषमित्युक्तं, तदपि न । द्वितीयेऽपि 'सर्वत्रे'त्यत्र 'सर्वं खल्विदं ब्रह्मे'त्यविद्यादिसर्वभ्रमाधिष्ठानत्वरूप सार्वात्म्यादेः 'अत्ते'त्यत्र 'अन्यत्र भूताच्च भव्याच महतो महीया'निति कालत्रयातीतत्वादेः 'अन्तर' इत्यत्र 'कं ब्रह्म ख ब्रह्मेति पूर्णसुखत्वादेः 'अन्त र्यामी'त्यत्र 'एष त आत्मेति जीवतादात्म्यादेः 'अदृश्यत्वादी'त्यादौ च 'यत्तदद्रेश्य'मित्यदृश्यत्वादेस्सविशेषेऽनुपपत्तेः ।। तृतीयेऽपि 'शुभ्वादी'त्यत्र 'तमेवैकं जानथ यदा पश्यः पश्यते रुक्म वर्ग'मिति दृश्यत्वरूपित्वादेः 'भूमे'त्यत्र ‘एवं पश्य निति सप्रकारकज्ञानविषय वादेः 'अक्षर'मित्यत्र 'अष्टं दष्श्रुतं श्रोत्रिते द्रष्टुत्वादेः 'ईक्षतिकमें'त्यत्र आनन्दमयाधिकरणम् पुरुषमीक्षत' इति दृश्यत्वादे: 'दहर' इत्यादी 'सत्यकामः सत्यसंकल्प' इति कामादेर्निर्विशेषेऽनुपपत्तेश्च ।। यदि च चिन्मात्रस्यैव निर्विशेषत्वेन भ्रमाधिष्ठानत्वादिविशिष्टस्य सविशे पत्वं तर्हि द्युभ्वाद्यायतनत्वविशिष्टमपि सविशेषमेव स्यात् । यस्मिन्द्यौरित्यादेश्व लक्षणया चिन्मात्रपरत्वे सर्व खल्विदमित्यादेरपि प्रामाण्याय तन्मात्रपरत्वं स्यात् । सविशेषे वस्तुनो निर्विशेष वम्य निर्विशेषे चारोपितविशे- पस्याविरोधेऽप्युभयत्राप्युभयोक्तौ वाक्यव्यवस्थायोगेन तन्निबंधनपादव्यवस्था न युक्ता ।। एतेन प्रायिकत्वात्पादव्यवस्थेति निरस्तम्, सर्वसाङ्कयस्योक्तत्वात् । अस्माकं नामपादे 'अन्तस्तद्धर्मे'त्यत्र लिङ्गसमन्वय इन्द्रायनेकनामसमन्वयार्थः तथा लिङ्गपादे वैश्वानरनामममन्वयः पाचकत्वाद्यनेकलिङ्गसमन्वयार्थ इति टीकायामेव वक्ष्यते ॥ यत्तु यौगिकरूढविषयतया द्वितीयतृतीययोर्भेद इति परमतं तन्न। तृतीयेऽपि धुभ्वाद्यायतनत्वस्य 'ईक्षतिकर्मे'त्यत्राभिध्यातव्यत्वस्थ 'शब्दादेव प्रमित' इत्यादौ चागुष्ठमात्रत्वादेश्च यौगिकत्वात् । एवं चतुर्थेऽपि पादे त्वया 'आनुमानिक'मिति 'ज्योति'रिति 'न सख्ये 'त्यधिकरणत्रय एव प्रधानस्या शाब्दताया निरस्तत्वादन्यत्र 'कारणत्वेन चाकाशादिष्वित्यत्र सृष्टिवाक्यविगा नस्य 'जगद्बाचित्वा'दित्यत्र 'यस्य चैतकर्म स वेदितव्य' इत्यादिवाक्यानां जीवादिपरत्वस्य वाक्यान्वया'दित्यत्र 'आत्मा वा अरे द्रष्टच्य' इत्यादि वाक्याना जीवपरत्वस्य च 'प्रकृतिश्चे'त्यत्र निमित्तोपादानभेदस्य च निरस्तत्व प्रधानाशब्दता न चतुर्थपादव्यापिनी ॥ यच्चोक्तं परै प्रधानाद्येव कारणतया सर्ववेदान्तार्थ इति लक्षणासंभवा शङ्कायास्त्रिपाद्यां निरासः । चतुर्थपादे तु प्रधानमपि कारणतया वेदान्तैकदेशार्थ इत्यतिव्याप्ति शङ्कायाः । अत एवानुमानिकमप्येकेषा'मिति सूत्रेऽपिशब्द एकशब्दश्चेति । तन्न । आनुमानिकमित्यादौ पूर्वपक्षिणा यस्य 'महत• पर मव्यनं अजामेका'मित्यादेः प्रधानपरत्वं गङ्कितं तस्यैकदेशस्य सिद्धान्तेऽपि :

तात्पर्य चन्द्रिका ब्रह्मपरत्वाभावात् अविद्यादिपरत्वे च ब्रह्मलक्षणस्य प्रधानेऽनतिव्याप्तावप्य विद्यायामतिव्याप्त्यपरिहारान् । तस्मान्न परमते पादभेदो युक्तः ।। नापि नत्कम. - सुबेधम्य प्राथम्ये आनन्दमयादौ निशेिषविचारा. योगात् । दुर्बोपन्य प्राथम्ये तु स्परब्रमलि गानां प्राथम्यायोगात् । निर्विशेषम्य तृतीये निरूपगायोगाच्च । ईक्षत्यधिकरणोक्ताशब्दत्वस्य विक्षिप्य चतुर्थपादे व्युत्पादने हेत्वभावाच्च । चतुर्थस्य तु समन्वयासङ्गतिः परै रेवाङ्गीकृतेति ।। केचित्तु जन्मादिमूत्रे ब्रह्म कारणमेव ब्रह्मैव कारणमित्यवधारणद्वयं विवक्षितम् । तत्र लक्षणेऽभिवरूपायोगव्यवच्छेदः प्रथमपादे, अतिव्याप्ति रूमान्ययोगव्यवच्छेदस्त्रिपद्या तत्राप्यस्पष्टजीवादिलिङ्गकानि वाक्यानि द्वितीये स्पष्ट जीरादिलिगकानि तृतीये ततत्प्रतिपादनच्छायानुपारीणि चतुर्थे विचार्यन्त इत्याहुः । तन्न। आद्यपादेऽपि त्वन्मते 'ईक्षतेन शब्द' मित्यत्र प्रधान कारण याः 'कामाच्च न'नुमानापेोत्यादौ जीवादिकारण याश्च निषिद्धत्वे नातिव्याप्ति रिहारस्य तत्रापि मत्त्वात् ।। नन्वीक्षत्याधिकरणादी 'मदेवे'त्यादिवाक्यानां प्रधानपरत्वे तदैकार्थ्या सर्वाणि कारणवाक्यानि तथा । एवं च न ब्रह्म कारगमित्यादिः पूर्व पझः । स चामभवपर्यंत इति चेत् सदेवेत्यादिवाक्याना ब्रह्मपरत्वे तदैका Oमर्वाणि वाक्यानि तथा । एवं च न प्रधानादि कारणमिति सिद्धान्तः । स चातिव्याप्त परिहारपति इत्यपि संभवात् । द्वितीयतृतीययोरपि पादयोः पूर्वरक्ष एवमसभवपर्यंतताया वक्तुं शक्यत्वाच ।। यच्चोक्तं चिदचिद्विलक्षणं मूलकारणभूनं वस्तु प्रथने प्रतिपाद्यते । अथ तस्य गुणविशेषास्त्रिपाद्यामिति । तत्र चिदचिद्विलक्षण वं यदि कारग त्वेनैव तदांतों ते रेत्यादी कारणत्वादन्यन्यादित्यानस्थ बज्योतिट्वादेरुकोरंत- रित्यादेग्प्याद्यपानांतर्गतिनं स्यात् । यदि तु गुणांतरेणापि तदा विद्या अप्याद्यपादातर्गतिः स्यात् ॥ यच्चोक्तमत्तष्टजीवादिलिंगकानि वाक्यानि द्वितीय इत्यादि तच्चायुक्त । द्वितीयेऽपि मनोनयत्वप्राणशरीरत्वादेरत्तृत्वस्य च मन:प्राणादियुक्ते भोक्तरि आनन्दमयाधिकरणम् ८२ वा जीवे तथा कर्मफलभोक्तृजीवसाहित्येन ब्रह्मणीव बुद्धौ यत्य पृथी शीरमिते शरीरित्वसाहियेन श्रुनातर्यामित्वादेश्च जीवे म्पष्ट- त्वात् ।। .. ननु मनोमयत्वादिकं शुद्धेन मनसा ग्राह्यत्वादिकम् । अत्तृत्वं च सहर्तृत्वम् । तच्च जीवेऽनुपपन्नत्वादस्पष्टमिति चेन्न । मनोमयत्वादेरेवंरूप- त्वस्य पूर्वपक्षिणानंगीकृतत्वेनापाततो जीवादिष्वेव स्पष्टत्वात् । सिद्धातदशाया च जीवेऽनुपपत्तेः सर्वपाधारण्यात् ।। ननु मनोमयत्वं न मन:सबंधमात्रम् । तस्य जीवत्वासाधकत्वात् । कितु मनःकरणकत्वम् । तच्च तस्मिन्वाक्ये न स्पष्टस्मिति चेन्न । मनस्स- बंधमात्रोक्तावपि तस्य कारणत्वप्रसिद्ध्या तथैव सबंधसिद्धेः । न हि चक्षुप्म- च्छब्देन तत्सयुक्तस्याकाशादेः प्रतीतिः ।। ननु 'मनोमयः प्राणशरीरनेते'त्यादी वाक्यातरे मनोमयत्वादिकं ब्रह्मणि प्रसिद्धमिति जीवादावस्पष्टमिति चेन्न । तृतीयेऽपि धुभ्वाद्यायतनत्व- स्यापि ‘एको दाधार भुवनानि विश्व'त्यादौ वाक्यातरे ब्रह्मणि प्रसिद्धः । तत्र जायमानत्वादिलिंग जीवे प्रसिद्ध चेदत्रापि 'एष म आत्मान्तर्हृदय'इत्यभको कस्त्वमपि जीवे प्रसिद्धम् । प्रत्युत तृतीये धुभ्वाद्यायतनत्वं स्वरूपेण 'अमृत स्यैष सेतु' रित्यादिब्रह्मलिङ्गसन्निधानेन च तथा पूर्णत्वरूप भूमत्वमपि स्वरू पेण 'यत्र नान्यत्पश्यती'त्यादि ब्रह्मलिङ्गसन्निधानेन च तथाऽक्षरत्वमपि 'अक्ष रस्य प्रशासने गार्गि सूर्या चन्द्रमसौ विधृनौ तिष्ठत' इत्यादिब्रह्मलिङ्गसन्निधा नान्न जीवादी स्पष्टम् । तत्तत्प्रतिपादनच्छायानुसारिणोऽपि न परस्परविरुद्ध स्पष्टास्पष्टजीवादिलिङ्गकवाक्यबहिर्भावः ।। ननु तत्तत्प्रतिपादनच्छायानुसारित्वं नाम स्पष्टतरपूर्वपक्षहेतुकत्वमिति चेन्न चतुर्थपादे 'आनुमानिक'मित्यस्य विषये 'महतः परमव्यक्तमव्यक्तात्पुरुषः पर' इति वाक्ये ज्योतिरुपक्रमादित्यस्य विषये 'अजा'मित्यादिवाक्ये 'न संख्योपसंग्राहा'दित्यादेविषये 'यस्मिन्पंच पंचजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्नमामृत' इत्यादिवाक्ये च पूर्वपक्षहेतोरस्पष्टत्वात् । 12 तात्पर्यचन्द्रिका तथाहि । न तावत्तत्र प्रधानमस्तीत्येव पूर्वपक्षः । तस्य सिद्धान्तेऽपि सत्वात् । किं त्वीश्वरानधीन तदम्तीति । न चोक्तविषयवाक्य ईश्वरानवीन प्रधानादिक मस्तीत्यत्र स्पष्टो हेतुरस्ति ।। यच्चोक्तं द्विताये सर्वशरीरत्वं तृतीये सर्वात्मकत्वं चतुर्थे त्वतकार्यातच्छ रीरवत्त्वाभावः प्रतिपाद्यत इति । तन। द्वितीये 'अन्तर्यामी'त्यत्रैव 'यस्य पृथिवी शरीरं वस्यापः शरीर'मित्यादिना सर्ववस्तूना प्रत्येकं विशिष्य निय म्यत्वरूपशरीरत्वोक्तेः । तृताये 'युवाद्यायतन' मेत्यत्रैव 'यस्मिन्यौ'रित्यादिना सर्वप्रकारित्वरूपसर्वात्मकयोक्तेर्द्वितीयतृतीयस्थाधिकरणान्तरवैयापातात् द्वितीये 'अदृश्यत्वादिगुणक'इत्यादौ सर्वशरीरत्वस्य तृतीयेऽपि 'भूमे'त्यादौ सर्वा त्मत्वस्याप्रतीतेश्च । श्रुतिमूत्रानुसारेण सर्वगतत्वात्तृत्वद्युभ्वाद्यायतनत्वपूर्णत्वा घनेकगुणपरत्वभवे एकैकस्य पादम्यककगुणमात्रपरत्वायोगाच्च । अतत्कार्य स्तुनो 'न विय'दित्यत्र निरसिप्यमाणत्वादतच्छरीरत्वस्य च 'अन्तर्यामी' त्यत्र निरस्तत्वेन चतुर्थवैयर्थ्यात् । चतुर्थस्य समन्वयाध्यायासंगतेश्च । तस्मान्नान्योकं पाठभेदादिकं युक्तम् । तदेतदभिप्रेत्योक्तं भाप्ये 'नान्यथा तददृष्टे'रिति ॥ अत्र च 'सर्वे वेदा यत्पदमामनंती'त्यादिश्रुत्युक्तस्यापि समन्वयस्य बाधकोद्धारादिना स्थापनार्थमयमध्यायः सफलः । 'स एष यज्ञः पश्च विधोऽग्निहोत्रं दर्शपौर्णमासौ चतुर्मास्यानि पशुः सोम' इत्यादिश्रुतिसिद्धाग्निहो त्रादिपदनामधेयत्वस्थापनार्थ नामधेयपादः ।। शास्त्रेऽध्याये तथा पादे श्रुत्याधिकरणेन च । सङ्गतिः पञ्चधा प्रोक्ता सर्वाधिकरणेष्वपि ॥ १ ॥ तत्र चायत्रिकं प्रायेणातर्भावात्मकं मतम् । उत्तरं तु द्वयं प्रोक्तमानंतर्यात्मकं सदा ॥ २ ॥ अध्याययोः पादयोरप्यानन्तर्यात्मिकैव हि । तत्राद्यत्रितयं स्पष्टमस्पष्टं तु परं द्वयं ॥ ६ ॥ ब्यध्याय्या च द्विपाधां च द्विपाद्यां चापि संगतिः । यथा :

जान्दनवाधिन ९१ ऊड्नीया यथायोगमिति सङ्गतिसग्रहः ॥ ४ ॥ - पेटिकासंगतिस्तु न सार्वत्रिकी। तत्तदधिकरणसङ्गतेस्तत्तदधिकरण विषयवाक्यभूतश्रुतिवङ्गत्याऽविनाभाव एव न त्वभेद इति सा पृथक् । ईक्षत्य धिकरणादेः समन्वयाध्यायादिना सङ्गतेगनन्तर्यरूपत्वेनान्तर्भावरूपत्वाभावा त्तस्या. प्रायिकता । अधिकरणस्याधिकरणान्तरे पादम्य पादान्तरेऽध्यायम्य वाध्यायान्तरेन वाभावादानन्तर्यमेव नियतं । तत्र शस्त्राध्यायपाद गतीना सर्वत्र स्पष्टत्वानाष्ये छापि तदनुक्तिः। श्रुभ्यधिकरणमगती त्वम्पटे इति ते सर्वत्र भाष्ये वक्ष्येते । एवं पूर्वतन्त्र उपदेशातिदेशविषयत्वेन पूर्वोत्रपटकद्वय ददिहाप्यनुव्याख्याने 'समन्वयाविरोधाभ्या संजाते वस्तुनिर्णये' इत्युक्तत्वात्सिद्धरूपविषयसाध्यरूपमाभनफलप्रतिपादकत्वेन पूर्वोत्ताद्रिक भेदसंभवात्तत्स्थाधिकरणाना यथायोग द्विकसङ्गतिरूया । एवं पूर्वतन्त्रेऽविनि योगसमुत्थाप्रामाण्यनिरामकत्वेन द्वितीयादिपादत्रयस्यैकार्थत्वेन त्रिपादीन्यवाद हाप्यनुव्याख्याने 'महासमन्वये तस्मिन्नधिकारोऽखिलस्य ही' त्युक्तत्वेन चतुर्थपादस्यासर्वाधिकारिकतयाऽऽद्यादिपादत्रयस्य सर्वाधिकारि कत्वेन त्रिपादीत्वसंभवात्तत्स्थाधिकरणाना तत्सङ्गतेः । तथाऽऽद्यादिपाद द्वयस्यान्यत्र प्रसिद्धविषयत्वेन द्विपारीत्वसंभवात्तत्रत्याधिकरणाना तत्सङ्गति रप्यूया ॥ आदोपिक्यातिदेशिक्याडपोद्धातापवाइते । प्रसङ्गश्चत्यादिरूपा सा चानन्तर्यलक्षणा ॥१॥ आनन्तर्यलक्षणापि सङ्गतिराक्षेपिकी आतिदेशिकी आपवादिकी प्रासङ्गिकी इत्यादिरूपेण बहुविधा । आसा स्वरूपनुत्तराधिकरणेषु व्यक्तं भविष्यति ॥ अत्र टीकायां पादसंगत्यं 'आनन्दमयनाम्न' इत्यानन्दमयशब्दस्य ९२ तात्पर्यचन्द्रिका नामत्वमुक्तम् । तत्र केचिदुद्विदग्निहोत्रादिशब्दानामिवानन्दमयादिशब्दाना यौगिकत्वेऽपि पूर्वपडेऽपि कोगादिनामत्वम् । सन्ति ह्यन्वर्या अपि संज्ञा इत्याहुः । तन्न। अत्राभिप्रेतस्य रूढत्वरूपनामत्वस्य यौगिकेऽनुपपत्तेः ! अन्ये त्यानन्दमयादिशब्दाः कोशेतु रूढाः । 'आनन्दमया मे शुद्ध्यता'मित्यादौ कोशेषु प्रयोगबाहुल्यादित्याहुः । तदपि न । पूर्वपझे विकारे सिद्धान्ते च प्राचुर्ये यौगिकत्वेन केवलन्टवायोगात || अपरे तु आनन्दमयादिशब्दा योगरूडा । एवं च यान्यापानतो रूढान्येव तानि नामानीति पक्ष आनन्:मयादेनीमत्वाभावेऽपि यान्याशततो रूढानि तानि नामानि यानि तु यौगिकानि तानि लिगानीति पक्ष आनन्दमयादि शब्दानामुभयात्मकत्वम् । एवं च यथा 'स्मृत्यनवकाशदोषप्रसङ्ग' इत्यत्र स्मृतिविरोधपरिहारम्य चतुर्विधविरोधपरिहारात्मकत्वेनैकैकविरोधपरिहारपरेषु पादेप्वसंगते. पूर्व पश्चाद्वा कर्तव्यत्वे प्रथमातिक्रमे कारणाभावात्पूर्व निवेशः तथास्योभयसमन्वयपरत्वेन पादद्वयेऽसगते. पूर्व पश्चाद्वा कर्तव्यत्वे पूर्व निवेश इत्याहुः। नन । वक्ष्यमागरीत्या दृष्टान्तस्य दातिकस्य च तत्तत्पाद सगतिसभवे तबहिर्मीवायोगात् । तस्मादानन्दमयादीनामुक्तरीत्योभयात्मक- त्वात्पादयसमन्वयसगतिसंभवेनेहापि विचारसंभवात्प्रथमातिक्रमे कारणामावा. चाद्यपादे तत्समन्वयः । यथा स्मृतिविरोधपरिहारस्याद्यपादे निवेशः तद्द्यान्या- पाततो रूढिरहिनानि तानि लिङ्गानि । यानि तु तद्विपरीतान्यापाततो रूढानि वा तानि नामानीति पक्ष आनन्दमयादिशब्दाना नामतैव ।। तत्वप्रदीपे तु 'आनन्दमयाधिकरणे लिगविगरा'दित्यानन्दमयादेर्लिङ्ग त्वमेवोक्तम् । तदनुमारेण 'आनन्दमयनाम्न' इति टीकायामानन्दमयनाम शब्द आनन्दादिनामपरो वा योज्यः । तथा चानन्दादिनामसमन्वयस्यापीह समर्थनात्फलतः पादसंगति । यथा पूर्वतन्त्रे पौर्णमास्यधिकरणस्य मुखतो विद्वद्वाक्यमनुवादकमिति व्युत्पादकत्वेऽपि करणेतिकर्तव्यताभेदस्य फलितत्वेन फलतो भेदलक्षणसंगतिः। यथा चात्रैव शास्त्रे 'असदिति चे'दित्यधिकरणस्य मुखतः श्रुत्यविरोधव्युम्पादकत्वेऽपि फलतो युक्त्यविरोधव्युत्पादकत्वाद्युक्तिपाद आनन्दमयाधिकरणम् संगतिः यथा चान्तरधिकरणम्य मुखतो लिगमपन्वयव्युत्पादकत्वेऽपि फलतो नामसमैन्वयव्युत्पादकत्वान्नामपादसंगतिः तद्वत् ।। यद्यप्यानन्दादिनामसन्धय उक्ते आनन्दमयादिलिङ्गसमन्वयोऽप्यर्था त्सेत्स्यति । पादसगतिश्च स्वरसा भवति । तथाप्यानन्दमयोदाहरणे विकार शब्दादिपूर्वपक्षबीजस्य तद्योगमित्यादिसिद्धान्तहेतोश्च सत्त्वाल्लिंगस्य मुखतः कीर्तनमिति ॥ इह समन्वयमूत्रप्रतिज्ञातसमन्वयहेतौ वाच्यत्व ईक्षत्यधिकरणेनोक्तेऽध्याय शेषेण प्रतिज्ञातसमन्वय उपपादनीयः। तत्रान्तराधिकरणानामानन्दमयानन्तर्ये हेतोर्वक्ष्यमाणत्वात्सर्वापेक्षितानन्दप्रदोपासनाविषयपूर्णानन्दत्वरू महागुणस्य प्रथम वक्तव्यत्वाचानन्तरसगतिः । यद्वा ईक्षत्यधिकरणोक्त आत्मशब्दाद्गौणत्वनिरासो न युक्तः । अब्रह्मणि गौणात्मन्यानन्दमये 'एतमानन्तययमात्मान'मिति तच्छूवणात् । तथा ब्रह्मनिष्ठस्य मोक्षोपदेशो वा 'पूर्णमेवावशिष्यत' इति पूर्णस्य ब्रह्मणः स्वाप्ययो वा न युक्तः । ब्रह्मण आनन्द मयावयत्वेऽवयविनं विहायावयवनिष्ठाया अवयवपूर्णतायाश्चायोगात् । तथा ब्रह्मणो जिज्ञास्यताया कारणतायां च यद्गतिसामान्यमुक्तम् तदयुक्तम् । ब्रह्म प्रत्यवयविन आनन्दमयस्य 'सोऽकामयत बहुस्या'मित्यादिना कारणत्वावगतेः कारणस्यैव जिज्ञास्यत्वनियमा दिति पूर्वोक्ताक्षेपेण पूर्वपक्षप्रवृत्तेराक्षेपिकी सगतिः ।। भाष्ये तु विप्रकीर्णनानाशाखाम्थवाक्यविनिर्णायकेप्वन्यथापि क्रमहेतोरु स्प्रेक्षासभवेन नियतपूर्वापरीभावहेतुविशेषशून्येषु चाधिकरणेषु वाचः वृत्तित्वेन क्रमे सिद्धे येन केनचित्पूर्वाधिकरणेनाक्षेपादिरूपा सगतिरेवापेक्षिता । तावन्मात्रेण चिन्तायाः साफल्यसिद्धेः । न त्वव्यवहितपूर्वेणेति भावेनानन्तर संगत्यनुक्तिः। अत एवात्र 'जिज्ञासा कर्तव्येत्युक्त'मिति भाप्ये जिज्ञासासूत्रे णैव संगतिर्दर्शिता । उत्तरत्र चाकाशाद्यधिकरणेषु 'को ह्येवान्या'दित्यादि भाष्य आनन्दमयायधिकरणैरेव संगतिर्दर्शयिष्यते ॥ यद्वाऽव्यवहितपूर्वाधिकरणसंगतिः स्फुटत्वाच्छिष्यैरेवोह्येति भावेन भष्ये तदनुक्तिः । तदुक्तं सुधायां 'उत्तराधिकरणेष्वप्येवं क्रम निमित्तादिकं ..

तात्पर्यचन्द्रिका सिध्यति । . ।। स्वयनूहनीय मिति । 'जिज्ञामा कर्तव्येयुक्त' निति भाष्येण तु चिताफलमा. नुक्कर। यता उक्त सातयो भाष्य आत्नशब्दादियुक्तमहागुणवाचका- नंदमयादोदाहरणाजिज्ञासासूत्राक्षेपणैव तन्निष्ठ मूत्रस्थाक्षितत्वाच सूचिता इति तदनुक्तिः । इह गुणि सामान्यवाचका आनंदमयादिशब्दा उदाहरणम् । तेा समन्वये सिद्वे ननोमयादावुदाहृत श्लोकस्थाना गुणवाचिना 'आनंदं ब्रह्मणो विद्यानित्यान्दादिगदानामपि समन्वयः तदुक्त- ननुव्याख्याने- शब्दाना प्रथमे पादे गुणिसामान्यवाचिनाम् । गुणवाचिता च प्रथमनाह देवममन्वय'मिति अत्राननमयः कि चतुर्मुखादि कि वा विष्णुरिति चिंता । तदर्थ 'अममेति वेद वेदित्यानंदमये श्रुनो ब्रह्मशब्दः कि जघन्यवृत्तिरुतमुख्यवृ- त्तिरिति । तदर्थ मय ट्प्रत्ययः कि ब्रह्मशब्दस्य मुख्यत्वविरोध्युत नेति । तदर्थ मयट् कि विकागर्य उस प्राचुर्यार्थ इति । प्राचुर्यार्थत्वेऽपि प्राचुर्य कि समानाधिकरणविजातीयाल्पत्वेनैव भवति कि वा व्यधिकरणसजातीया- ल्पत्वेनापीति । आये ब्रह्मणि विजातीयस्य दुःखस्याल्पम्याप्यभावादानंदप्रा- चुर्यायोगः । द्वितीये तु जीवगतम्य सुखम्याल्यत्वाद्ब्रह्मण्यानंदप्राचुर्यसभवः ।। अत्र पूर्वोतर पक्षयोनायादावेव व्यक्तत्वात्सूत्रे पामतम्यैव पूर्वपक्षि- तत्वेन परमततन्निरासोरेवेह पूर्वपक्षसिद्धातरूपतया पृथक्तयोरभावाच न तो पृथगुच्यते ॥ यद्यपि जिज्ञासासूत्रे तद्विजिज्ञासम्वेति वाक्यस्थब्रह्मशब्दस्य गुणपूर्ती योगिकत्वेन जीवाद्भेदकतोक्ता । जन्मादिसूत्रे च तस्मिन्नेव वास्ये कारण- त्यादिना रुढि बाधित्वा योगः स्थापितः । तथाप्यानंदमयवाक्ये रूढौ बाधकानावात्प्रत्युत विकारशब्दादेस्तत्माधकस्यैव च भावापूर्वपक्षोदय इति द्रष्टव्यम् ॥ अत्र श्रुतावन्नमयस्यादित्वेऽपि सूत्र आनंदमयस्येतरोपलक्षकत्वेनोपादानं युक्तम् । तत्र जिज्ञासासूत्राक्षेपकस्यावयवत्वादिपूर्वपक्षहेतोः सत्वात् । यथा आनन्दमयाधिकरणम् ९५ चित्राज्याधिकरणे 'आज्यैस्तुवत' इत्युत्पत्तिवाक्यमुपेक्ष्य वाक्यभेदरूपसिद्धात- हेतोः : सत्वात् 'पंचदशान्याज्यानी ति गुणवाक्योदाहरणं तद्वत् ।। अत्र ब्रह्मशब्दाभ्यासो यद्यपि मूत्रोदाहृतमानंदमयं प्रति श्रुन्योदाहृते लोके 'असह्मेति वेद चेत् अम्ति ब्रह्मेति चेद्रेदेति तथ विज्ञानमयेऽपि 'विज्ञानं देवास्सर्वे ब्रह्म ज्येष्ठमुपासते। विज्ञान ब्रह्म चेद्वेदे'त्यन्ति । न चास दिति श्लोक आनन्दमयपुच्छविषयः । अन्नमयादीन्प्रत्युदाहृतश्लोकानामपि तदीय पुच्छविषयत्वापातान् । अन्नमयप्राणमयमनोमयेषु तु 'येऽन्नं ब्रह्मोपासते ये प्राणं ब्रह्मायासते आनन्दं ब्रह्मणो विद्वा'निति ब्रह्मशब्द• सकृदेव श्रुतः। तथापि तन्मात्रेणैव तेषा ब्रह्मता । आनन्दमयविज्ञानमययोस्त्वभ्यासोऽप्यस्तीति स सूत्रितः ॥ अत एव भाष्ये 'तथापि न त आनन्दमयशब्देनोच्यते । किंतु विष्णुरेव । ब्रह्मशब्दाभ्यासा'दित्युक्त्वा येऽन्नं ब्रह्मेत्यादिब्रह्मशब्दादित्येवोक्तम् । टीकायामपि आनन्दमये ब्रह्मशब्दाभ्यासादित्युक्त्वा 'अन्नमयादीन्प्रत्युदाहृत श्लोकेषु तद्विषयत्वेन ब्रह्मशब्दश्रवणादित्येवोक्तम् । सुधायां तु 'येनं ब्रह्मत्यादिरूपादभ्यासात्तैतिरीयक' इत्यनुव्याख्यानानुसारेण 'एकविषयासकृदुक्तिलक्षणमुख्याभ्यामाभावे ऽप्यसकृदुक्तिमात्रमस्ति । तथा चान्नमयादिविषयत्वेन ब्रह्मशब्दस्य श्रुतत्वामि प्रायोऽभ्यासशब्द' इत्युक्तम् ॥ यद्वा ब्रह्मशब्दवत् 'अन्योंऽतर आत्मा एतमन्नमयमात्मानमुपसंक्रामति एतमन्नमयमात्मनमुपसक्रम्ये'त्यादौ ब्रह्मशब्दसमानार्थात्मशब्दसद्धावादभ्यासः । भाष्ये तु ब्रह्मशब्दपदेन ब्रह्मवाचकः शब्दो विवक्षितः । अत एव भाष्ये 'पर मात्मे'त्यात्मपदोपेतस्मृत्युपादानम् । यद्वा अन्नं ब्रह्मेति व्यजाना'दित्युत्तरानुवाके ऽप्यन्नमयादौ ब्रह्मशब्दसद्भावादभ्यास. ।। केचित्तु शाखान्तरेऽप्यन्नमयादौ ब्रह्मशब्दसद्भावादभ्यासः । अत एवा. नुन्याख्याने- 'अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः' तात्पर्यचन्द्रिका इत्युक्तमित्याहुः। तन्न । शाखान्तरमादायाभ्यासेऽतिप्रसंगात् । अनुव्याख्याने- 'येऽनं ब्रह्मेत्यादिरूपादभ्यामात्तैत्तिरीयके । अन्यासु चैतद्रपा' स्विति प्रतिशाखमभ्यासोक्तेश्च । न चान्नादेरब्रह्मत्वेऽपि ब्रह्मत्वेनो पासनोपपत्तिरिति शंक्यम् । असदुपासनाया नित्स्यमानत्वात् । 'विज्ञानं ब्रह्म चेद्वेद अन्नं ब्रह्मेति व्यजाना'दित्यादावुपासनाया अश्रवणाच्च । एत- मानन्दमयमात्मान'मित्यादावुपासनाया अश्रवणेऽपि ब्रह्मसमानार्थात्मशब्दश्रव न च ब्रह्मशब्दोऽन्यत्र युक्तः॥ प्रवृत्तिहेतुपोकल्याद्भाष्यद्भिरुदाहृतः । श्रुतिम्मृतिशतैश्वापि ब्रह्मशब्दो हि विष्णुगः ।। यद्यपि 'तपो ब्रह्मे'त्यसकृच्छ्वणात्तपस्यपि ब्रह्मशब्दाभ्यासोऽस्ति तथापि पूर्वत्र 'तपसा ब्रह्म विजिज्ञास्वेति उत्तरत्र च 'स तपस्तत्वा अन्नं ब्रह्मेति व्यजाना दिति चाभ्यासात्तपसि ब्रह्मशदो न मुख्य इति न तपसो ब्रह्मता ॥ णाच्च । यद्यपि, 'तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् विधे' तिवचनात्तादात्म्ये मयट्स्वीकारे प्रतियोगिनो दुःखस्येषदनुवृत्यादिशंका नवकाशः तथापि 'यतो वाचो निवर्तते को वेवान्या'दिल्यादिश्रुत्यनुसरेणानंदादेः पूर्णत्वसिद्ध्यर्थ स्वार्थिकत्वे मयटा वैयर्थ्यपरिहारार्थ त्र प्राचुर्यार्थतोक्ता। अन्नमया दिमाधारणहेतोरभ्यामात्पश्चान्मान्त्रवर्णिकगानादेस्तु पूर्वमानंदमयमात्रासाधार णस्य तद्धेतुव्यपेदशस्य निवेशनन्तु मान्त्रवर्णिकमूत्र आनन्दमयादिस्थब्रह्मशब्दस्य परब्रह्मपरत्वशङ्काया अपि मन्त्रवर्णस्थपरत्वविशेषणेन निरामात् 'मस्मिन्निति सूत्रे च भेदस्य मुक्तावपि सवेनापारमार्थिकत्वशङ्काया अपि निरासात्त दनन्तरं तद्धतुव्यपदेशोक्तो तन्निरासेऽपि तद्धेतुव्यपदेशो हेतुरिति शंका स्थात् सा मा भूदित्येवमर्थम् । न चैवमप्यभ्यासं तद्धेतुव्यपदेशं च साधकमुक्त्वानन्तरं 'विकारशब्दादिति बाधकमुद्धर्तव्यमिति शक्यम् । 'को ह्येवान्या'दिति तद्धेतु व्यपदेशस्यानन्दमयस्य विणुत्व इव प्राचुर्य मयडर्थ इत्यत्रापि हेतुत्वात् 'अस्मि' आनन्दमयाधिकरणम् निति सूत्रस्य स्वपक्षसाधकत्वेऽपि 'नेतर: भेढव्यपदेशात्' इत्याभ्या मूत्राभ्या पर पक्षे वाधकोक्तौ भेवस्यापारमार्थिकत्वशंकानिरासेन परपक्षे बाधकत्वस्यापि सत्त्वा त्तदानन्तयम् । तथा 'भेदव्यपदेशा'दित्यम्यानन्तर भेदवतभेदोऽपि प्रनाणिकः तत्र प्रत्यक्षस्यासमवेऽपि 'श्रुतेश्च तद्गुणसारत्वा' दित्यत्रान्यपरताया वक्ष्यनाणत्वेऽपि जगत्कारणस्य शास्त्रयोनित्वेऽपि तत्सार्वज्ञादौ सर्वकर्तृत्वादेरिव विमता अन्नानः परमात्मनो न भियंते आत्मत्वात्परमात्मवदित्याद्यनुमानस्य संभवादिति परपने साधकशङ्काया श्रुत्यादिसाहाय्यरहितं तद्विद्धं चानुमानमप्रमाणनतिप्रसंगादिति 'कामा'दिति सूत्रेण निरस्ताया अनन्तरं भेदश्रुन्य नेदानुमानयोरपारमा र्थिकपारमार्थिकविषयत्वादविरोध इति या शङ्का दम्बा अपि अम्मिन्निति- सूत्रेण निरासात्तस्यांत्यत्वम् ।। यद्यपि नेतर इत्यत्रानुपपत्तेरित्यनेन हिरण्यगर्भादिजीवानामानन्दमयत्वं तज्ज्ञानान्मोक्षानुपपत्तिरिव हिरण्यगर्भादीनामानन्दमयाद्भेदव्यपदेशानुपपत्तिरपि विवक्षितु शक्या तथापि जीव एवानन्दमयो न ब्रह्मेति वढता पूर्वपक्षिणा पूर्व स्वागीकृतं जीवब्रह्मभेदं त्यक्त्वा जीवानामानन्दमयत्वेऽपि जीवचैतन्यस्य ब्रह्मचैत न्याभेदाजीवतत्त्वज्ञानेनापि मोक्षोपपत्तिरिति प्रकारान्तरेण शंकिने तच्छकाया अपि जीवानन्दमययोरिव जीवब्रह्मणोरपि भेदं कथयता 'भेदव्यपदेशा'दित्यनेन निरामाय भेदव्यपदेश• पृथगुक्तः । अत एव भेदेति मूत्रमत्र टीकाया हिर ग्या दिनीवानामानन्दमयत्वनिरामकतया व्याख्याय सुधाया जीवब्रह्मा भेदनिरामकतया व्याख्यातम् । अत एव च कामादिति मूत्रे जीवाभेदानु माननिरास: भाष्ये च न च तत्त्वमसीत्यादिना जीवब्रह्माभेदश्रुतिगत्युक्तिः अनुव्याख्याने च - 'न जीवभेदसूत्राणा शक्यात्र पुनरुक्तता । वाक्यान्तरद्योतकत्वात् पृथगित्यत्र पूर्णता' ।। इति भेदेत्यस्य सूत्रस्यातरधिकरणादिस्थः 'भेदव्यपदेशाच्चान्य' इत्या दिभिर्जिवेश्वराभेदनिरासकैः पौनरुक्त्यशंकासमाधानं च सगच्छन इति ।। अन्ये तु आनन्दमयतढवयवपुच्छरोईया ब्रह्मत्वायोगादेकस्य : - ब्रह्मता 13 तात्पर्यचन्द्रिका त्यागः । वाच्या । तत्रानन्दमयस्य ब्रह्मत्वे विकारार्थमयटः प्रायपाठत्यागः प्राचुर्य स्यापि प्रतियोग्यलात्वापेक्षत्वाद्ब्रह्मणि च दुःखलेशम्याप्यभावान्मयटः स्वार्थ पुच्छवाक्यगतब्रह्मशब्दम्य च गौणार्थत्वं सैषाऽऽनन्दस्य मीमांसे त्यादावभ्यस्यमानानन्दप्रातिपदिकेन मयडर्थो लक्ष्यते इति चत्वारो दोषाः । पुच्छस्य ब्रह्मत्वे त्ववयवप्रायपाठबाघमात्रम् । पुच्छपदमुख्यार्थत्यागस्त्वानन्द मयस्य ब्रह्मवाक्षेऽपि समः। लागूले मुख्यस्य तस्यानन्दमयावयवेऽपि गौण स्वात् । तस्मान्मयट्प्रत्यय शब्दानन्दप्रातिपदिकरूपमुख्य त्रितयानुगुप् या त्पुच्छमेव ब्रह्मेति युक्तम् । पुच्छ पदं तु प्रतिष्ठापदसन्निधानादाधारलक्षकम् । तदुक्तं भामन्यां प्रायपाठपरित्यागो मुख्यत्रितमलवनम् । पूर्वस्मिन्नुत्तरे पक्षे प्रायपाठस्य बाधन मिति ॥ किंच प्रियाद्यवयवयोगेनानन्दमयः सविशेष. । ब्रह्म तु निर्विशेषम् । अपि चानन्दमयः प्रतिशरीरं प्रियादिभेदाद्भिन्नः । ब्रह्म त्वभिन्नम् । तस्मादा नन्दमयो न ब्रह्म। किंत पश्चापि कोशाः । न च सा रत्वादानन्दमयो ब्रह्म । पुच्छवाक्ये ततोऽप्यन्तरस्य प्रतिष्ठापदेनोक्तेः । या तु भार्गवी वारुणी विद्या तस्या मयटः प्रियशिरस्त्वादेश्चाश्रवणायुक्तमानन्दम्य ब्रह्मत्वमिति सिद्धान्तः । सूत्राणि तु- 'वेदसूत्रविरोधे तु गुणे त्वन्याय्यकल्पने' तिन्यायेनान्यथा व्याख्येयानीत्याहुः । तन्न । यत. एकत्रापि न मुख्यार्थलवनं मामके मते । सर्वत्रापि च मुख्यार्थलङ्घन तावके मते ॥ १ ॥ तथा हि। आनन्दमयपुच्छ्योर्द्वयोरपि पूर्ण वेन ब्रह्मशब्दस्तावन्मुख्यः । पूर्णत्वं हि ब्रह्मशब्दस्य मुख्यार्थः। यथा धर्मातरेष्वदृष्टमपि जातिसमवायादौ धर्मितोऽधिकदेशत्वं यथा वा परिच्छिन्नेनात्रियमाणसबन्धिनावृतेष्वन्येष्वदृष्टमपि परिच्छिन्नाज्ञानावृते निरंशे चैतन्येऽपरिच्छिन्नत्वं यथा वाऽऽनन्दतिरेष्वदृष्टमनि ब्रह्मानन्दस्य पूर्णत्वादिकं तथान्यत्राष्टमप्यवयवस्य पूर्णत्वं विचित्रशक्तियुक्त - आनन्दमयाधिकरणम् - .. ब्रह्मावयवेऽस्तु । उक्तं च 'विश्वतश्चक्षुः पूर्णमदः पूर्णमिद'मित्यादिश्रुत्या 'सर्वतः पाणिपादन्त'दित्यादिस्मृत्या चावयवम्य पूर्णत्वम् । तथा 'उहवात्मनः केशौ' इत्यादि स्मृत्वा केशस्य कृष्णस्य 'व्याप्तं त्वयैकेन दिशश्च सर्वा' इति पूर्णतोक्ता । तदुक्तमनुव्याख्याने- 'ब्रह्मताऽवयवेऽपि स्यात्तथाऽवयविनि स्वतः । यथैव कृष्णकेशम्य कृष्णस्य ब्रह्मनाखिला ॥ दर्शिता चैव पार्थाय निस्तीमा• शक्तयोऽस्य हि' इति । युक्तं चानवस्थापरिहाराय क्वचिसंबन्ध्यादेरिव सबन्धत्वादिवदस्मिन्नेव प्रकरणे 'आनन्दं ब्रह्मण' इति श्रुतेरानन्दात्मकम्यैव ब्रह्मण आनन्दित्ववच्च विशेषवलाच्छक्तिव्यक्तिभावात् 'स शिरः स दक्षिणः पक्षः' इत्यादि श्रुत्यावय विन एवावयवत्वम् ॥ तदुक्तं न्यायविवरणे 'न चावयवत्वविरोधः। नेह नानास्ति कि चने त्यादिश्रुतेरवयवाद्यभेदादिति । अन्नमयादावपि प्राचुर्यार्थत्वस्य भाष्य एवोक्त. स्वान्न प्रायपाठत्यागः । प्राचुर्यस्य प्रतियोग्यल्पत्यापेक्षत्रेऽपि न प्रतियोगिन: सामानाधिकरण्यनियमः । यतः प्राचुर्यस्य विजातीयसमानाधिकरणाल्पं यथा तथा सजातीयविभिन्नाधिकरणाल्पं निरूपकम् । दृश्यते हि ब्राह्मग- प्रचुरो ग्राम इत्या समानाधिकरणस्य विजातीयशूदादेरल्पत्वेनेव प्रचुरप्रकाशः सवितेत्यादौ व्यधिकरणस्य सजातीयस्य नक्षत्रादिप्रकाशस्याल्पत्वेनापि प्राचुर्यम् । प्रकृते च 'सौषाऽनंदस्ये'त्यादिश्रुत्यैव व्यधिकरणस्य सजातीयस्य जीवानंदस्याल्पत्वमुक्त्वा ब्रह्मानंदस्य 'यतो वाच' इति महत्वमुक्तम् ॥ यत्तु प्राचुर्यस्य विशेषणत्वे प्रतियोगिन ईवदनुवृत्तिप्रतीतिनियमाभावेऽपि विशेष्यत्वे तन्नियमः । ब्राह्मणप्रचुरो ग्राम इत्यादौ दर्शनात् । आनंदमय इत्यत्र च प्राचुर्य विशेष्यमिति कल्पतरूक्तम् । तन्न । प्रकाशप्रचुरः सवितेत्युक्तेऽपि तस्मिन्नंधकारलेशाप्रतीतः । 'अंतःशरिरे ज्योतिर्मयो हि शुभ्रो यं पश्यति यतयः क्षीणदोषाः। य एषोऽहिंदय आकाशस्तस्मिन्नयं पुरुषो मनोमयः प्रज्ञानघन एवानंदमयः' इत्यादौ त्वन्मतेऽपि ब्रह्मण्यपि विज्ञान तात्पर्यचन्द्रिका १०० मयादिशप्रयोगाच । न चात्र प्रावुर्या वसंभवे वैयशिदकं स्वार्थिकत्वं युक्तम् । ब्राह्मण प्रचुर इत्यादावपि प्रचुरशब्दो महत्वमात्रमाह । विरो- धिपती तेस्तु मानातरान् । सैषाऽऽदम्ये यादावानंदपई न प्राचुर्यलक्षकम् । किं त्वानंदमात्र परम् । अन्यथा 'ते ये शत मिति तारतम्योत्तययोगात । 'आनंदं ब्रह्मण' इत्यत्र स्ववाङ्मनसगोचरत्वेनानंदस्य प्राचुसिद्धिः। 'यदेष' इत्यत्रापि सुखरागस्य दुःखद्वेषस्य दुःखोद्रेकस्य च प्रवृत्तिहेतोभगवत्यसंभवेन सृष्ट्यादिप्रवृत्यन्यथानुपपत्यानंदोद्रे के सिद्ध महाप्रवृत्या महानंदोद्रेकसिद्धिः । न त्वानंदशब्दस्य प्रार्चुयलक्षकत्वेन । न चास्मकं भात्रादीनामिव 'सैषाऽऽनं- दस्ये' त्यादावानंदपाभ्यासो हेतुः । येनानंदमात्रस्य जीवेऽपि संभवात्तदभ्या- सस्य ब्रह्मचामाधकतया प्राचुर्य लक्षणा स्यात् । किंतु ब्रह्मपदम्य । सविशेषत्वं तु बझात्रपाकम् । न च 'यतो वाचो निवर्तत' इते श्रुतिनिर्विशेष. स्वमा । किं त्ववाङ्मनसगोचरानंतविशेषवत्वम् । प्रियादिके च यः प्रतिशरीरं भिन्नो नासौ भगवतोऽवयवः । यश्चावयवो न स भिन्नः । विस्तृत चैतत्तैत्तिरीयकभाष्ये भगवत्पादैः ।। किंच 'सोकाऽमयते'त्यत्र लिंगेन सन्निहितपरामर्शिना तच्छब्देन नपुंसकब्रह्मपुच्छशब्दनिर्दिष्टस्य 'तस्माद्वा एतस्मादात्मन' इति व्यवहितात्म- शब्दनिर्दिष्टस्य च परामर्शायोगेन सन्निहितम्यानंदमयस्यैव पगमष्टव्यत्वात् 'सोऽकामयते'त्यस्य च कारणवाक्यस्य व्यापि ब्रह्मपरत्वेनांगीकृतत्वात्कथ- मानंदमयस्याब्रह्मता ।। अपि चानुवाकात उदाहृतो 'यतो वाच' इति श्लोक एव मनोमयेऽपि श्रुत्यो दाहृतः । तस्य च 'आनई ब्रमण' इति ब्रह्म भूत्या 'यतो वाचो निवर्तते न बिभेति कुनश्चनेति लिंगाच्च ब्रह्मविषयत्वं त्वयापि स्वीकृतमिति- कथं मनोमयस्याब्रह्मता । न च यथा परमते 'अपन्नेवेति श्लोक आनंद मयपुच्छविषयस्तथाऽयमपि मनोमयपुच्छविषय इति वाच्यम् । 'अथगि रसः पुच्छं प्रतिष्ठे'त्युक्तमनोमयपुन्छस्य ब्रह्मत्वानंगीकारात् ।। किंचान्नमयादीनामब्रह्मत्वे ब्रह्मजिज्ञासोस्तदुपदेशायोगः । द्वारमपि आनन्दमयाधिकरणम् १०१ द्वारत्वेनेवोपदेष्टव्यं न स्वात्मतया । लोके हि चंद्रारुंधत्यादौ शाखास्थूल. तारादिकं द्वारत्वेनैपयोदिश्यते । न चानं ब्रह्मेत्यनुक्स्वानंदो ब्रह्मेति वक्तुमशक्यम् । येन द्वारत्वं स्यात् । न च 'सत्यं ज्ञान'मिति स्वरूपलक्षणेन ब्रह्मोपदिश्य पुनस्तस्य देहादिरूपताभ्रान्तिमुत्पाद्य पुनरपि पुच्छवाक्येन तदुप. देशोऽर्थवान् । न च द्वारोपदेशश्चित्तस्य प्रत्यक्प्रावण्यार्थः । कोशानां परा क्त्वात् । परागुपदेशेन च प्रत्यक्प्रावण्येऽतिप्रमङ्गात् । प्रत्यक्त्वेनारोपस्याप्या नन्दमये उत्तरानुवाकोक्तान्नादौ चाभावात्। तत्रत्यानामन्नादीनामन्नमयादित्वे च तत्रत्यस्त्वया ब्रह्मत्वेन स्वीकृत आनन्दोऽप्यानन्दमय: स्यात् । स्थान प्रमाणात् । न चाज्ञातधर्मनत्वं चैत्यवन्दनादि धर्म इति मन्वानं प्रति चैत्यवन्द नादि धर्म इसुपदिश्य ज्योतिष्टोमादि धर्म इत्युपदिश्यते । न च त्वन्मतेऽपरिच्छिन्न स्थात्मनः शरीराद्यन्तरत्वमहत्वरूपं प्रत्यक्त्वं वाऽस्ति । न च घटाकाशादि ज्ञानोपायोऽपि घटादिर्महाकाशज्ञानोपायः । इह च 'सत्यं ज्ञानमनन्त'मिति प्रकृतोऽप रेच्छिन एवात्मा जिज्ञापयिषित इति तेऽपि मतम् । किंत्र निर- वयवे चितगाव ग्यार्थ निस्वयवान्तरमेवोपदेष्टव्यम् । न तु 'अयं दक्षिगः पक्ष' इति सावयवम् ॥ अपि च न तावदन्नादीनामन्नमयादीना वा प्राणादीन्प्राणमयादीन्वा प्रति द्वारत्वम् । अन्नादिज्ञानं विनापि प्राणादिज्ञानात् । ब्रह्मणि द्वारत्वे नादिपूर्वकं प्राणाद्युपदेशो न युक्तः। अनेकद्वारवैयर्थं च । न च द्वारवि कल्पः । उत्तरानुपाके 'अन्नं ब्रह्मेत व्यजानात् प्राणो ब्रह्मेति व्यजानात् मनो ब्रह्मेति व्यजाना'दित्यादिनान्नप्राणादिद्वारसमुच्चयोक्तेः ।। अपि च 'यतो वेत्यादिपूर्ववाक्योक्तकारणत्वस्यापि त्वत्पक्षे ब्रह्मणि द्वारत्वा कोशोपदेशवैयर्थ्यम् । किंच भृगुवरुणोपदिष्टानां द्वारत्वं न वेत्ति चेद्विरो चनस्येव पुनरुपसत्ययोगः । वेत्ति चेन्नान्न ब्रह्मेति व्यजानात् नान्नाध्ये वेत्यादि अयेत । तस्माइन्नमयाइयो ब्रह्मैव न कोशाः । अत्रावशिष्टं 'आत्मन आकाश'इत्यादौ 'अन्नासुरुष' इत्यंते वाक्ये हरेरप्याकाशादिनियामकरूप प्रादुर्भावलक्षणजनेरुतत्वात् 'स वा एष पुरुषोऽन्नरसमय' इत्यत्र हरेः परामर्श ब्रह्मलक्षणाचा १०२ तात्पर्यचन्द्रिका स्वारस्यम् । तथा परेणापि ब्रह्मपरतया स्वीकृतेन 'रसो वैमा रसं ह्येवायं लवा ऽऽनन्दी भवतीतिर सगब्देन सहिन्नितपरामर्शस्यैतच्छब्देनैव सिद्धेय॑वहिताका शादिकारणब्रह्मपरमर्शिना तच्छब्देन च विशेषणात्प्रकृतान्नमयपरत्गभावः । तथा 'भृगुई वारुणि रित्युत्तरानुवाक उक्तानामन्नादीना ब्रह्मत्वं तावदुपेयम् । भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठितेति श्रुत्या स्वयमेव ब्रह्मपरत्वोक्तेः । 'अधीहि भगवो ब्रह्मेति ब्रह्मप्रश्नोत्तरत्वात् । 'स तपस्तत्वा अन्नं ब्रह्मेति व्यजानादिति श्रवणानन्तरभाविनिदियालनाख्यतपसापरक्षीक्तत्वलिङ्गान् । 'अनं ब्रेझ'त्या दिब्रह्मनात् 'अन्नाद्येव खल्विमानि भूतानि जायन्त' इत्यादि तत्समाख्यया चात्राप्यन्न यादीता ब्रह्मत्वम् ।। न च तत्र मयटो श्रवणाद्भिनविषयत्वम् । तत्रापि एतमन्नमयमात्मान मुपसंक्रामती'त्यादौ 'एतमानन्दमयमात्मानमुम्सक्रामती'त्यन्ते मध्ये तथा 'एन मन्नमयमात्मानमुपसंक्रम्ये त्यदौ 'एतमानन्दमयमात्मानमुपसंक्रम्ये'त्यन्त उपमं हारे च तन्मणान् । 'अन्ना प्रजाः प्रजायन्त' इत्यादौ तदश्रवणान् । तत्राप्यन्न उभयत्राप्यन्न)मयादीनामब्रह्मत्वे 'एतमन्नमयमात्नानमुपपक्रामती'त्या स्मशब्स्य मुक्तप्र प्यत्वस्य चायोगान । न चोपनक्रम्येत्यत्र पशब्दोऽतिक्रमार्थः । अव्ययानामनेकार्थत्वस्यापि प्रयोगानुमारित्वात् । अन्यथा-नश्शब्दो बहि रर्थस्स्यात् । 'अस्माल्लोकारत्ये'त्यनेवि शरीराख्यानमयत्यागस्पोक्तत्वेन 'अन्ननयमात्मानमुपरक्रामती'त्यनेनारे तदुक्ती पुनरकिश्च स्थान् । अवि रुद्धं चान्नादिशब्दैरन्नमयादिप्रत्यायनं 'ज्योतिषा यजेते'त्यत्र ज्योतिश्शब्देन ज्योतिष्टोमस्येव ।। अन्न,दीनां ब्रह्मत्वेऽपि 'द्विज्ञाय पुनरेव वरुणं पितरमुपमसार अर्धहि भगवो बहोती'ति पुनरुपतत्तिम्त्वेकं रूपं निदि-यःसनेन साक्षात्य रूपान्तरस्य गुणा तरविशिष्टतया निदिध्यामनार्थमनुज्ञामादातुम् । तत्रानुजानीहीति वक्तव्ये यदधीहीत्याह तद्विनयातिशयादित्यादिकमुत्तरप्रस्थानादवगन्तव्यम् । 'अन्नमय प्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्यन्ता'मिति शुद्धिप्रार्थनवाक्ये तु ब्रह्म शब्दाभावात् तल्लक्षणाभावात् ज्ञानिनस्तत्प्राप्तिकथनाभावात् रसशब्देन विशेषणा n आनन्दमयाधिकरणम् १०३ भावेन 'अथैष ज्योतिरथैव विश्वज्येतिरथेष सर्वज्योति' रित्यादाविव संज्ञाभेदात् कुण्डपायिनामयने मासममिहोत्रं जुहोतीत्यादाविव प्रकरणभेदात् शुद्धिप्रार्थन लिङ्गाच्चान्नमयादयो न ब्रह्म । किंतु कोशाः । अत्र तु कोशांतर्गतभगवन्मूर्ति विशेषाः। भन्योऽतर इत्यन्यत्वान्तरत्वाद्युक्तिस्तु अधिष्ठानभूतकोशानामन्य स्वात् आन्तरत्वात् भगवतो बहुरूपत्वात् । विशेषसद्भावात् 'अनन्योऽप्यन्य शब्देने'त्यादिभाष्योदाहृतस्मृतिबलाच युक्ता । तस्मात् श्रुतिविरोधाभावान्न सूत्राण्यन्यथा नेयानि ।। अनन्तशाखातत्वार्थविदा सूत्रकृतेरितम् । कूपमंडूकवत्स्वल्पवाक्यज्ञोऽन्यथयेत्कथम् ॥ १ ॥ उक्तं च ब्रह्मसूत्रणां निश्चितत्वम् - ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चित' रित्यादौ । सूत्रास्वारस्य तु परै रेव स्वीकृतम् ।। यच्चोक्तं शुद्धब्रह्मपरमेतदिति। तन। 'कामा'दीत्यादिसूत्रे सोऽका मयत भीवास्मादित्यादिश्रुतौ च कामादिगुणविशिष्टस्यवोक्तेः । किच निर्वि शेषज्ञानस्य सविशेषज्ञानाधीनत्वादादौ निर्विशेषोतिरयुक्ता । अत्र च 'भेदव्य पदेशा'दित्यनेनैक्यनिषेधादभेदप्रतिकूलता स्फुटैवेति ॥ केचित्तु 'तस्यैष एव शारीर आत्मेति शारीरत्वेन जीव एवानन्दमय इति प्राप्ते 'सैषाऽऽनन्दस्ये'त्यारभ्य निरतिशतदशाशिरस्कस्यानन्दस्याभ्यासात्तस्य चानन्तदुःर :खमिश्रपरिमितसुखलवभागिनि जीवेऽनुपपत्तस्तदाश्रय आनन्दमयः पर मात्मा । विज्ञानमेयस्तु जीवः । अन्नमयादयस्तु त्रयः कोशा इति सिद्धान्त इत्याहुः । तन्न। पूर्वपक्षिणापि जीवतयानङ्गीकृतप्राणमयादिसाधारणेन शारीरत्वेन जीत्वशङ्कानुदयात् । श्रयते हि प्राणमयादावपि 'तस्यैष एवेति शारीरत्वम् ॥ सिद्धान्तोऽप्ययुक्तः। आनन्दमयस्य ब्रह्मत्वे ब्रह्मणः पुच्छत्वाद्यनु पपत्तीनामपरिहारात् । ब्रह्मस्वरूपमेव शिरःपक्षपुच्छादिना रूप्यत इति चेत् रूपणं यद्यध्यासस्तर्हि श्रुतेरप्रामाण्यमतिप्रसङ्गश्च । यदि तु सदृशतयोक्तिस्तदा १०४ तात्पर्यचन्द्रिका मुख्यार्थयागस्लादृश्याभावाश्च । न हि ब्रह्मवरूपं शिरआदिसदृशम् । किच विज्ञानमयस्य जीयत्वे 'विज्ञानं देवा सर्वे ब्रह्म ज्येष्ठमुपासते विज्ञानं ब्रह्म चेद्वेद तस्माच्चन्न प्रमाद्यति शरीरे पाप्मनो हित्वा सर्वान्कान्समश्नुत'इत्यादेरयोगः । 'विज्ञानं यज्ञ सनु।' इत्यादिकं तु ब्रह्मगः पर्वत यात् 'यज्ञभृद्यज्ञकृद्यज्ञी' त्यादेश्च युक्तम् । अन्नमयादे कोशत्वं च निरस्तम् ।। नन्वानन्दमयाधुपदेशानन्तरं 'अन्योऽनर आत्मे युक्तरानन्दमयोप देशानन्नरंतदनुक्तेरानन्दनय एव ब्रम न त्वन्नमयादय इति चेत् तर्हि छान्दोग्ये 'यो वे भूमा तल्लुख'मिति भूमोपदेशानन्तरं 'अथात आत्मा देश' इत्युक्तेस्तदनन्तरं चान्यानुक्तेर्भूमा ब्रह्म न स्यात् । 'यत्र नान्य त्पश्यति' इत्यादिब्रह्मलिङ्गाद्भूम्नो ब्रह्मन्वे वन्नमयादिरपि ब्रह्मशब्दाभ्यासा दिना ब्रह्मास्तु ॥ ननूनगनुवाकेऽन्नप्राणमनोविज्ञानज्ञानानन्तरं 'तद्विज्ञाय पुनरेव वरुणं पितरमुपससारे'तेि पुनरपमत्तिवत् 'आनन्दो ब्रह्मेति व्यजाना'दित्यानन्दज्ञाना नन्तरं पुनरुपसत्तेरभावादानन्दम्य ब्रह्मत्वात् अन्नप्राणमनोविज्ञानानन्तरं श्रुतेना नदेनान्नमयप्राणामयमनोमयविज्ञानमयानन्तरं श्रुतस्यानन्दमयस्य स्थानप्रमाणे नाभेदादानन्दमय एव ब्रम । अन्नमयदायस्तु तद्द्वारभूता इति चेन्न । अन्नादीन द्वारम्वेऽपि पुनरुपपत्त्ययोगस्योक्तत्वात् ।। किं चैवं छांदो ये 'यथा सोम्य मधु मधुकृतो निस्तिष्ठती'त्यादेरनन्तरं भूय एव मा भगवान्विज्ञापयत्विति श्रवणात्तत्रोक्तमब्रह्म 'पुरुषं सोम्योत हस्तगृहीत'मित्यादेरनन्तरं तदश्रवणातत्रोक्तमेव ब्रह्म स्यात् । 'यथा सोम्य मधि'त्यादौ 'ऐनदात्म्यमिदं सर्व'मित्यादिब्रह्मलिङ्गादिना तत्रोक्तस्य ब्रह्मत्वे त्वत्रापि 'अन्नं ब्रह्मेति व्यजानात् । अन्नाध्येत खल्विमानिभूतानि जात' इति ब्रह्म श्रुत्यादिनाऽन्नादिकमपि ब्रह्मास्तु ।। किचाधमूत्रे यदि भास्करमत इवानन्दमात्राभ्यासो हेतुस्तदा ब्रह्मत्व- रिद्धिः तस्य जीवेऽपि सभवात् । निरतिशयत्वविशिष्टस्य चाभ्यासोऽसिद्धः । शतगुणि तोत्तरक्रमेण गुणितत्वं तु नाभ्यासशनस्याभिधेयम् ॥

आनन्दमयाधिकरणम् यत्तु ब्रह्मशब्दाभ्यासो हेतुरिति यादवप्रकाशीयं मतं तदप्ययुक्तम् । तन्मते ब्रह्मत्वेनानङ्गीकृतविज्ञानमयादावपि ब्रह्मशब्दाभ्यासस्य सत्त्वात् । द्वितीयसूत्रं चायुक्तम् । प्रायपाठबाधात् ।। ननु प्राणमय एव विकारार्थत्वं त्यक्तमिति छेत्तर्हि तत्र मयटः स्वार्थिक त्वाद्वैयर्थ्यम् । विज्ञानमयेऽपि तत्प्रसंगश्च ।। यच्चोक्तं विज्ञानमये मयटः संबंधोऽर्थः । वैया दप्यमुख्यार्थत्वस्य न्याय स्त्वादिति तन्न । अन्नमये विकारार्थः प्राणमयमनोमययो. स्मार्थिको विज्ञान मये सबंगार्थ आनन्दमये प्राचुर्यार्थ इति वैरूप्यप्रसंगात् । न च प्राणमयादा वपि संबधार्थता । प्राणादेः प्राणादिसंबधाभावात् । प्राणशब्दस्याप्रसिद्धा र्थत्वे तु वरं परमात्मपरत्वम् । एवं सूत्रातरेप्वप्यनुपपत्तिरूह्या । तस्मात् ब्रह्मशब्दारसमस्तात्तृत्वादिलिङ्गाच्च वाक्यतः । पूर्वोतरस्मान्मन्त्रस्थब्रह्मप्रकरणादपि ॥ १ ॥ भृगुवल्लीसमाख्यानान्मुक्तगीतावसानकात् । स्थानप्रमाणतश्चैव पश्चानां ब्रह्मता स्थिता ॥ २ ॥ उक्तं हि तत्तिरीयभाष्ये- शन्नो मित्रादिभिर्वाक्यस्तैरेव हरिमस्तुवत् । मुक्तगीतवसानैस्तु स्तुतस्तेन जनार्दन' इत्यस्य स्थानत्य ब्रह्मपरत्वम् । ब्रह्मप्रश्नोत्तराद्रालझणाशब्दतः । विज्ञातत्याच तपसा मुक्तगम्यत्वतस्तथा ॥ १ ॥ वाधूलीयसमाख्यानादनुव्याख्यानिरूपितात् । भृगुवल्युदितस्यान्नप्राणादेब्रह्मग स्थिता ॥ २ ॥ उक्ता ह्यनुव्याख्याने समाख्या 'तच्च वाधूलशाखायामष्टरूपमुदाहत'मिति ।। एवं च यथा 'दाक्षायणयज्ञेन यजेत साकं प्रस्थानीयेन यजेते'त्यादी दाक्षायणयज्ञसाकंरस्थानीयादिशब्दाः प्रकृत एव दर्शपूर्णमासयाग आवृत्यादि तथा- - तात्पर्यचन्द्रिका गुण विध्य न तु ततोऽतिरिक्तकर्मविधिपगः यथा वा भूमाधिकरणे ब्रह्मत्वेन निर्गी तात् 'सय वेव जिशासितव्य'मिति च्छान्दोग्योक्तात्मत्यादुपरि श्रुताः 'विज्ञानं स्वेव विजिज्ञासितव्यं मतिम्व विजिशासितव्येति विज्ञानमतिश्रद्धा निष्ठाकृयादिशकाः पूर्वोक्तमत्याख्ये ब्रह्मणि गुणविध्याः न तु वस्त्वन्तर पराः। एवमन्नमयादिशब्दा अपि प्रकृते ब्रह्मणि सर्वोपजीव्यत्वादिगुणविशेष विधानार्थाः न तु दस्त्वन्तरपरा इति ब्रह्मैव नारायणवासुदेवाद्याख्यानन्द मयादिपञ्चरूपमिति ॥ टीकाक्षरार्थस्तु श्रुयधिकरणसङ्गती दर्शयति । येन केन चित्रधिकरणेन तद्विषयश्रुत्या च सङ्गतिरेवापेक्षितेत्याद्यपत्रेण तद्वियवाक्येन चाक्षेपिकी सङ्गतिरस्तीत्यर्थः । यात्र पूर्वपझे आद्यसूत्रतदिषयवाक्योक्त जिज्ञामाक्षेपास्मिद्धान्ते च तत्समाधानात्तत्सङ्गती स्त इति प्रयोजनवानयं विचार इत्यर्थः। अआ एवोत्तात्र टीकायां 'किमर्थमानन्दमयस्य विष्णुत्वससर्थन'मिति प्रभः 'ब्रह्मजिज्ञापासियर्थ मिति परेहारश्च । एवमुत्तरत्रापि सङ्गतिटीका द्विवा व्याख्येया ॥ नस्माद्भूत इति ॥ शरीरिस्थानीयात्तदंतगन्नारायणाख्यादानंदमया- च्छरीरस्था यो बाह्यो वीसुदेवाख्यो विज्ञानमयः प्रादुर्भूत इत्यर्थः ।। इन्द्रबृहस्पत्यादीनामपि सूर्याधिष्टाववादिनेति ॥ तेषां सूर्यदुत्तमतग तन्नियामवत्वेनावस्थानं तदधिष्ठातृत्वम् । आदिशब्देन 'स एक इंद्रस्यानंदः स एको बृहस्पतेरानंदः' इतींद्रश्रु यादिकं विपक्षितम् ।। आनंदप्रचुर इति यधुच्यत इति ॥ प्राचुर्यस्य विशेषणताया मनानंदाप्राप्तः परैरप्यंगीकृतत्वात् 'प्रचुगनंदत्ग'दिति वदता भाष्यकृता यथा प्राचुरानंद इत्युक्तावनानंदाप्राप्ति तथा श्रुतिस्त्रानुसारेणानंदमर इत प्राचु स्य विशेप्यत्वेनोक्तावपि तत् प्राप्तिः। प्रकाशप्रचुरोरदिरित्युत्तेऽपि सन्ति यधकारलेशाप्रतीतेरिति मूचिसमित्यर्थः ॥ ननु विस्तृतकंठमणिरिति सिद्धात ग्रंथे नन्धित्यस्य इत्येवोच्यते नन्वित्यन्वयः ॥

अन्तरस्थत्वाधिकरणम् १०७ विमतानि शरीराणीति । शरीरस्वहेतोर्जीवानामन्योन्यमभेदसाधकत्वेऽपि विशिष्टरूपस्याभेदायोगेन शुद्धस्य शुद्धेनाभेदे वक्तव्ये शुद्धस्यैव ब्रह्मत्वा. ब्रह्माभेदोऽपि सेत्स्यतीति भावः ॥ ॥ इत्यानन्दमयाधिकरणम् ।। [ अन्तस्स्थत्वाधिकरणम् ] 7 - ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ १-१-७ ।। अत्रांतम्स्थत्वलिंगसमन्वयम्याधिदेवगतेन्द्रादिनामसमन्वयार्थत्वात्पादसंग- तिरिति टीकायामेवोक्तम् । अनंतरसंगतिस्तु आनंदमयधर्मस्यादृश्यत्वस्यां- तम्स्थ श्रवणादंतस्स्थस्य चाविष्णुत्वादानंदमयोऽपि न विष्णुरिति पूर्वसिद्धांता क्षेपेगेह पूर्वपक्षोत्थानादाक्षेपिकी । इयं च 'अदृश्येऽनाम्ये' इत्यादिभाष्य. एवोक्ता । न चैतद्भाष्यं 'ब्रह्मजिज्ञासा कर्तव्येत्युक्त'मित्यानंदमयाधिकरण- भाष्यवत्प्रयोजनप्रदर्शनमात्रपरम् । 'अंतः प्रविष्टं कर्तारं अंतः प्रविष्टः शास्ता जनाना'मित्यंतस्थ श्रुतम्य कर्तृत्वादेः पूर्वपक्षेऽन्यनिष्ठत्वेन जन्मादि- सूत्राक्षेपस्य 'सर्वे वेदा यत्रैक भवंती'त्यतस्स्थ श्रुतम्य सर्ववेदप्रतिपाद्यत्वस्याप्य- न्यनिष्ठत्वेन शास्त्रयोनिसमन्वयसूत्राक्षेपस्यापि संभवेन प्रयोजनस्यान्यथा- प्युपपत्तेः ॥ यद्वा युक्तमानंदमयशब्दो विष्णुपर इति । तस्यार्थविशेषे निरूढ- वाभावात् । इन्द्रादिशब्दास्त्वर्थविशेषे निरूढा नान्यत्र नेतुं शक्याः । उक्त हि- 'पदमज्ञातसं(बंध)दिग्धं प्रसिद्धैरपृथक्श्रु(ति तैः ! निर्णियते निरूढं तु न स्वार्थदपनीयत' इति ।। (नि)रूढोऽप्यन्नशब्दोऽद्यतेऽत्ति चेति श्रुत्यक्तस्य योगस्यान्यत्रासंभवा. ब्रह्मपरः । इंद्रादिशब्दानां त्विह श्री योगो नोक्तः । यौगिकार्थश्चैश्वर्यादि: ।

तात्पर्यचन्द्रिका देवतामु मंभवतीति पूर्वाधिकरणवैव येग पूर्वपक्षोत्थानासंगतिः । आकाशा- द्यधिकरणेष्वाकाशादिशब्दानामन्यत्र रूढ्या पूर्वपक्षेऽपि तेषामेतदधिकरणा नन्तर्ये हेतुर्वक्ष्यते ॥ यद्वा यदि ब्रह्मशब्दादानन्दमयो ब्रह्म तीन्द्रादिशनादन्तस्थ इन्दादिः न तु ब्रह्म तच्छदाभावादिति पूर्वसिद्धान्तन्यायेन पूर्वपक्षिते पूर्वाधकरणक्तं शुत्यादिनिर्णयमपोद्य लिओन निर्णय उच्यत इति सङ्गतिः । इदं च सङ्गतिद्वयम् - 'आशय तत्र रूढिं च तच्छब्दागमपि स्वय' मित्यनुव्याख्याने रूढिपदतच्छन्दपदप्रयोगात्मूचितम् ।। यद्वा मान्त्रवर्णिकपत्र 'यो वेढ निहितं गुहाया' इन्यानन्दमयस्यान्तस्स्थ स्वमुक्तम् । तदिहाक्षिप्य समाधीयत इति सङ्गतिः। न च गुहानिहितत्व मन्यन्तःस्थत्वं चान्यनिति वाच्यम् । अन्नस्स्थ शक्यशेषे 'निहितं गुहा'स्विति श्रवणात । ग्यं च सङ्गतिग्त्रत्येन 'अदृश्येऽनात्म्ये' इति भाष्येग 'यो वेनिहितं गुहायामिक्त'मिति ज्योतिरधिकरणभाष्येण च समान्याय तया सूचिता ॥ यद्यप्यास्स्थत्येन्द्र दिघारम्यत्सक आनन्दमयोऽपीद्रादिरेवेत्याक्षेप ऋजः । अन्तस्स्थस्येन्द्रादित्वादन्तम्स्थधणादृश्यत्वेन युक्त आनन्दमयोऽपीन्नादि रेवेत्याक्षेपम्तु वक्रः। यथा चान्तस्स्थत्वं वाक्यशेप मोचनया गुहानिहितत्व रूपमिति शेयमिति विम्बः। तथ सहैव सन्तं न विजाननि देवा' इति देवाशपत्वानुत्पन्यारेनाश्यत्वं ज्ञेय मे ते विलम्पः । तथाप्यदृश्यत्वमुत्रे नानाझे रेऽदृश्यत्वेन विष्णुलिङ्गेन विष्णुरेशन्तम्स्थ इति शहा सात् । मा भूत् । अदृश्य-वस्यापीन्दादिधर्मत्वादिति दर्शयितुं वक्राक्षेपमुखात्पतिः अन्या तु मूचिता ॥ अत्रान्तस्स्थः किमिन्द्रादिः किं वा विष्णुरिति चिन्ता । तदर्थ किमिन्दादिश्रुत्यनुसारेण समुद्रशायित्वादिलिङ्गं नेयनुन विपरीतमिति । तदर्य किं श्रुतिरिवकाशा लितु सावकाशनुन विपरीतमिति । सा कण्ठोता। तथा लिङ्गस्य अन्तस्स्थत्वाधिकरणम् १०९ निरवकाशत्वेऽपि किं श्रुतित्वप्रयुक्तप्राबल्यं बलवर्तिक वा निरवकाशत्वप्रयुक्त प्राबल्यं बलवदिति ॥ पूर्वपक्षस्तु अयमन्तस्स्थः इन्द्रादिरेव । इन्द्रादिश्रुतेरिति । नविद्रादिषु निर्धारित एक एव.न्स्स्थ इति वा पूर्वपक्षोऽनिर्धारितो यः कश्चि दिति वा सर्वोऽपीति वा। नाद्यः। अनेकप्रारकसद्भावेन निर्धाणायोगात । वरुणादिलिझानामिन्द्रादिश्रुतितो दौर्बल्यनिश्चयेऽपीन्द्रबृहस्पत्यादिश्रुतीनां साम्ये नैकस्यां दौर्बल्यानिश्चयात् । योगेन च बृहस्पत्यादिश्रुनेरिन्द्र सावकाशत्ववत् बृहस्पत्यादावपीन्द्रश्रते: सावकाशत्वात् । न द्वितीयः । निर्धारणाभावे पूर्व पक्षस्य सन्देहादविशेषापाता । समुद्रस्थत्वादिविष्णुलिंगानामपि सत्वेन विष्णोरन्य एवेत्यनधारणस्थप्यनुपपत्तेश्च । तेषां लिंगत्वादेव दौर्बल्यनिश्चये च मूर्यवरुणानिलिंगानामपि तनिश्चयः स्यात् । न तृतीयः। 'अन्तः प्रविष्टः शास्ता जनानां सर्वात्मे'त्यन्तःप्रविष्टे शास्तृत्वादेः श्रत्रणेनानेकेश्वरापातादिति चेन । आद्यस्तावदस्तु । इन्द एगन्तम्स्थः । 'इन्द्रो गजा ब्रमेन्द्रमाम'मित्यादीन्द्र श्रुत्यभ्यासेन 'अपा नेतार'मित्यादिवरुणलिंगानां बृहस्पत्यादिश्रुतीनां च बाधादित्येकः पूर्वपक्षः।। सूर्य एवांतस्थः । 'सप्त युंजत रथमेकचक्र'मिति निरवकालिग- सहितया 'सवितारं बृहस्पति'मिति सवितृश्रुत्येन्द्रादिश्रुतीनां स्वेचितश्वर्या.दे. मति सूर्ये संभवादित्यन्यः ।। वरुण एवांतम्स्थः। वरणलिंगस्यांते श्रवणदौर्बल्यन्यायेन तेने- तरबाधादित्यपर इति पक्षभेदेनारधारणात् ।। अन्ये तु यथा सिद्धांतप्रापळसद्भावेऽपि तदज्ञानेन पूर्वपक्षस्तथा सुर्या- दिप्रापकसद्भावेऽपि तदज्ञानेनेंद्रायेकैकावधारगेनानेके पूर्वरक्षा इत्याहुः ।। द्वितीयो वाऽस्तु । अंतम्स्थो विष्णुरन्यो वेति संदेहे अन्य एवेत्येका. वारणेन प्रवृत्तस्य पूर्वपक्षस्य संदेहाद्विशेषसद्भावात् । सोऽन्य इंद्र एवेत्या. दिनिर्धारण तु नास्ति । इंद्रादिप्रापकाणां बलाबलानिश्चयात् । विष्णु- लिंगानां विन्द्रादिश्रुतिभ्यो दौर्बल्यं निश्चितमिति तदन्यत्वेनावधारणं युक्तम् ।

११० तात्पश्चन्द्रिका न हि विष्णु लिंगानां बहुरऽपि बहुलप्र.क्नप्रावल्यस्य स्वभावपयुक्तप्राबल्यात् दुर्वलत्वात । न च तेषा निरवकाशस्वम् । समुद्रस्थत्वादेवरुणादावपि संभवात् ।। यद्वा निरवकाशत्वेऽपि लिंगस्य प्रवलया श्रुत्या बाधोऽस्तु । निरवकाशः शशशावको मृगेन्द्रेण न बाध्यते । न वा निरवकाशमिदं रूप्यमिति ज्ञान नेदं रूप्यमित्यनेन न बाध्यते । सूर्यलिंग तु सवितृश्रुत्यनुगृहीतमिति न तस्यापि दोबल्यनिश्यापत्तिः । 'ब्रह्मेन्द्रमग्नि'मिति ब्रह्मशब्दस्तु 'ब्रह्मान्वविद'दित्याद विव 'तपयान्वविंद'दित्युत्तरवाक्यस्थ क्रयापेक्षितकर्तृमम. पंकरलेन प्रथमाततया ल्लिगत्वाञ्च चतुर्मुखपरो न तु परब्रह्मपरः । 'अपा नेतार' निति वरुणलिंगस्य दौर्बल्यनिश्चयेन्द्रिमवितृवृहस्पन्या दिषु श्रुतत्वाविशेषाद- नवधारणं युक्तम् । टीकाया पूर्वपक्षे वरणलिंग तिस्तु सतीष्वपींदादिलिग- अतिषु यदि विष्णुलिङ्गारतरस्थो विष्णुन्तर्हिवरुणलिंगावरुणोऽपि स्यादिति सिद्धां तेनं प्रत्सनिष्टं दायितुम् । यहा वरुणस्याते श्रवणापूर्वदौर्बल्य. न्यायेन न तस्यापि दर्बिल्यनिश्चयः ।। तृतीयो वाऽस्तु । विष्णु लिंगानां निरवकाशत्वेनाबाध्यत्वादिन्द्रादिश्रु. त्त्विादेव लिंगाबाध्यताभयानुग्रहार्थ विष्णुरेव तत्तदुपाधिवशादिन्द्रादिसंज्ञा लभत इति वदता पूर्वपक्षिणेंद्रादीनां विष्ण्वैक्यागीकारेणानेकेश्वरापत्य- भावात् । तथा च श्रुतिः स ब्रह्मा स शिवः सेद्रः सोक्षर' इत्यादिका । स्मृतिर्थ- 'उहं भवो भवन्तश्चम वं नारायणात्मक' मित्यादिका । न चैवं विष्णोरेवान-स्थत्वापतिः । वलितभेदस्यो पहितम्य प्रसिद्धम्येन्द्रादेरेवान्तम्स्थत्वात् । विष्णुलिङ्गानां चानुपहित रूपा भप्रा येणोपपत्तेः । एतच्च पूर्वपक्षत्रयं सुधायामत्र च पूर्वपक्ष इन्द्रादीना विष्ण्वभेद स्याप्मुक्तत्वात् अत्र च टीकाया 'इन्द्रादिः स्या'दिन्युक्तमा इन्द्राद्यन्यतम इत्यप्यकत्वात् आन्दमयाधिकरणे च हिरण्यगर्मदायनेकप्रापकयुक्ते 'पूर्वपक्षा. नाह' तिबहुवचनप्रयोगाच्च टीकाभिप्रेतम् । भाष्ये च पक्षत्रयसाधारण्येन - - अन्तरस्थत्वाधिकरणम् 'अन्यः प्रतीया' इत्युक्तम् । एवमन्यत्राप्यनेकप्रापकयुक्तपूर्वपक्षो यथासंभव एवंन्द्रबृहसत्यादीनामेवानन्दमयत्वाषामानन्दमयाद्भेदव्यपदेशोऽ. मूह्यः । प्ययुक्त इति ॥ सिद्धान्तस्तु- लिङ्गादिभ्यो बलवती श्रुतिर्यद्यपि च स्वतः । अवकाशोज्झितैर्लिंगैस्सावाकाश तु बाध्यते ॥ १ ॥ यद्यपि 'ऐन्या गार्हपत्यमुपतिउन' इत्यादौ श्रुत्या लिङ्गबाधेन श्रुतेरुस र्गतो बलवत्त्वम् । तथापि यथा 'इयेनेनाभिचरन्यजेते'त्यादौ श्येनशब्दोऽ न्यत्र रूढोऽपि 'यथा वै श्येनो निपत्यादत्त' इतिवाक्यशेषोक्तम्य श्येनसादृश्यम्य श्येनेऽनुपपत्त्या यागपरः तथा समुद्रान्तस्स्थत्वादीनामन्यत्रासंभवादिन्द्रादि शब्दा विष्णुपरा एव ॥ लोके श्रुतौ स्मृतौ चैव विष्णुलितया स्थितम् । समुद्रान्तरवस्थानपूर्वकं कथमन्यगम् ॥ १॥ श्रुत्यादिकं च भाष्य उदाहृतम् । एवं च 'आनर्थक्यप्रतिहताना विपरीतं बलाबल'मिति न्यायेन निरवकाशलिंगेन वैदिकतया सर्वथा बाधा- योग्येन सावकाशश्रुतिबाधः । तदेतदभिप्रेत्योकं न्यायविवरणे 'श्रुतिसंदेहे- ऽनन्यथासिद्धलिंगेन निर्णयोपपत्ते'रिति ।। किंच 'इन्द्रं मित्रं वरुणमनिमाहु'रित्यादिश्रुत्येन्द्रादिशब्दानां विष्णावेव विद्वद्र्ढेः सत्त्वेन इन्द्रादिशब्दप्रवृत्तिनिमित्तस्य परमेश्वर्यादेविष्णावेवानन्याधीन सनिरवधिकत्वाभ्यां मुख्यतः संभवेन महायोगस्यापि सत्वेन चेन्द्रादिश्रुति विष्णावेव मुख्या। न चेन्द्र मित्रमित्यादिवाक्यमिन्द्राद्यभेदपरम् । आहुरिति ततच्छन्दवाच्यत्वस्यैवोक्तः। 'सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशाविधर्मणी ति वाक्यशेषे भेदोक्तेश्च । 'यो देवानां नामधा' इति श्रुत्यन्तर संदाच । 'सोनकः स रुद्रः स प्राणभृत्स प्राणनायकः स ईशो यो हरि' रिति श्रुयन्तरेऽनेदविवक्षायां स रुद्र इत्यनेन स ईश इत्यस्य पौनरुक्त्यापत्त्या तत्तच्छब्दवाच्यताया एवं विवक्षणीयत्वाच्च। 'स प्रथमः 'स प्रथमः संकृतिर्विश्वकर्मा - ११२ तात्पयचन्द्रिका स प्रथमो मित्रो वरुणों अग्निः । स प्रथमो वृहस्पति'रिति श्रुत्यन्तरे प्रथम पदेन भेदेन प्रतीतेश्च । 'यमिन्द्रमाहुवरुणं यमाहुर्यमु सत्यमाहु'रेति श्रुत्यन्तरे 'यो देवानां देवतमस्तस्मै त्वा तेभ्यस्त्वे'ति भेदोक्तेश्च । 'भीषास्माद्वातः पवते'इति 'भयादम्याग्निस्तपती'ति च श्रुत्यन्तरे भेदोक्तेश्च ॥ 'न तु नारायणादीनां नाम्नामन्यत्र संभवः । अन्यनाम्नां गतिर्विष्णुरेक एवं प्रकीर्तित' इति स्मृतेश्च ।। यदि च श्रुतिलिंगयोरनुग्रहायाभेदस्तर्हि 'आकाशादेव समुत्पद्यन्त' इत्याकाशश्रुतेः कारणत्वादिरूपलिंगस्य चानुग्रहायकाशब्रह्मणः तथा 'कदा चन स्तरीरसि नेन्द्र'तिम-त्रस्यम्यन्द्रप्रकाशनसामर्थ्य रूपलिंगस्य 'ऐन्द्रया गाई पत्यमुपतिष्ठत' इति द्वितीयाश्रतेश्चाविरोधायेन्द्रगार्हपत्ययोः तथा व्रीहियव शास्त्रयोः षोडशिग्रहणाग्रहणशास्त्रयोश्चाविरोधाय व्रीहियवयोग्रहणाग्रहणयोश्च विरुद्धांशत्यागेतक्यं च स्यादिति बहुविप्लवापत्तिः ।। स ब्रह्मेत्यादिश्रुतिरपि तत्तच्छन्नप्रवृत्तिनिमित्तोत्तिमुखेन तत्तच्छन्द समन्वयपा। न तु प्रसिद्धदेवाभेदपग । अन्यथा 'सोऽक्षर' इत्युक्ते ब्रह्म प्रसिद्धाकाराद्यक्षरात्मकं स्यात् । 'अहं भव' इत्यादिम्मृतिरपि 'पुरुा एवेदं सर्व भूनं भयं भवञ्च यत् । इत्युच्यते तदीयत्वान्न तु सर्वस्वरूपत' । इत्यादिम्मृतिवशात्तदीयत्वपरा वा, 'यम्तान्टेष्टि स मा द्वेष्टि यस्ताननु ममामनु । ऐकात्म्यमागतं विद्धि पाण्डवैधर्मसंश्रये ॥ रित्यादिवदत्यन्तप्रियत्वाभिप्राया वा द्रष्टव्या । इन्द्रादीनां ब्रह्म- णोऽन्यत्वं स्वीकृत्य वाक्यस्येन्द्रादिपरस्वाङ्गीकारे त्वर्थकत्वाभावाद्वाक्यभेदः स्यात्। अग्नींद्रादिश्रुतिनानामार्गा लिंगैर्हि वैष्णवैः । नीतककण्ठ्य नो चेत्तत्कलह को निवारयेत् ॥ १ ॥ इन्द्र,मयादिशब्दानां ब्रह्मणि परममुख्यत्वेऽपि यत्र बाधकं तत्र देवता - एवं च अन्तस्स्थत्वाधिकरणम् ११३ परत्वं युक्तमेव । पादान्त्यप्राणाधिकरणन्यायेन च सूर्यवरुणादिलिङ्गमपि तत्तदन्तर्गतभगवत्येव मुख्यमिति त्रिविधपूर्वपक्षोऽप्ययुक्तः। तत्रायद्वितीयौ प्रथमसूत्रेण निरस्तौ । तृतीयस्तु द्वितीयेनेति द्रष्टव्यम् ॥ न च 'इन्द्रस्यात्मे'त्यादावात्मशब्दः स्वरूपपरः । तथाच सूत्रोक्तो भेदव्यपदेशोऽसिद्ध इति शङ्कयम् । 'सहैव सन्तं न विजानन्ति देवा' इति साहित्यकर्मकर्तृभावादिना भेदव्यपदेशात् । षष्ठया औपचारिकत्वापाताच्च । इन्द्रादिशब्दवाच्य उपहिते परमात्माभेदस्य परेणाप्यनङ्गीकृतत्वेनेन्द्रादिप्राति पदिके लक्षणापाताच्च । अत्रैव प्रकरणे 'आत्मा जनाना'मित्यन्तयामिण्या- स्मशब्दप्रयोगाच्च ।। न च तत्राप्यात्मशब्द: स्वरूपपरः । अस्मिन्नव प्रकरणे 'शास्ता जनाना'मित्यस्यायोगात् । अत्रैव प्रकरणे 'सर्मात्मेति चात्यन्तायुक्तं स्यात् । ज्ञानादिरूपस्य ब्रह्मणस्तद्विरुद्धजडरूपतायाः केनाप्यनङ्गीकृतत्वात् । तस्मात् 'इन्द्रस्यात्मे'त्यादावात्मशब्दो न स्वरूपवाची। किंतु शरीरप्रतिसबन्धिवाची । तत्र तस्य प्रयोगबाहुल्यात् । तथा च 'इन्द्रस्यात्मे त्यादिश्रुतिरिन्द्रादेरीश्वर शरीरस्थानीयत्वाभिप्राया । 'इन्द्रो राजे'त्यादाविन्द्रशब्दस्य ब्रह्मपरत्वेऽपि 'इन्द्रस्यात्मे'त्यादावन्यपरता च बाधकबलायुक्ता ।। अन्ये 'य एषोऽतरादित्य हिरण्मयः पुरुषो दृश्यते य एषोऽतरक्षिणि पुरुषो दृश्यत' इत्यक्ष्यादित्ययोरन्तस्स्थः प्रतीयते । स विद्याकर्मातिशयलब्ध श्वर्यः कश्चित्संसारी न तु परमात्मा । 'हिरण्यश्मश्रु'रित्यादौ रूपादिश्रवणात । परमात्मनश्वारूपत्वेन श्रुतत्वादिति प्राप्ते परमात्मैवेति सिद्धान्तः । आदित्यवाक्ये 'सर्वेभ्यः पाप्मभ्य उदित' इति श्रुतस्य सर्वपापराहित्यस्याक्षिवाक्ये 'सैवत. सामे'त्यादौ श्रुतस्य सात्म्यिस्य च संसारिण्यसंभवान् । रूपादिकं तु नीरूपेऽपि सविशेषब्रह्मणि साधकानुग्रहार्धमैच्छिकमुपास्यं मायामयमस्ति ।। यद्वा सर्वस्य कार्यजातस्य ब्रह्मोपादानकत्वादुपादेयस्य चोपादानादनन्य त्वात्कार्यशरीरगतरूपादिभिर्ब्रह्म व्यपदिश्यते । मुमुक्षु प्रति सविशेषनिरूपणं च मोक्षसाधननिर्विशेषब्रह्मज्ञानार्थम् । यथोक्तम् - 15 तु तात्पर्यचन्द्रिका न । स्वप्रकर 'निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकंप्यते सविशेषनिरूपणै'। रित्यादीत्याहुः ।। केचित्तु इदमेव वाक्य मुदाहृत्यवमेव च पूर्वपक्षयित्वा 'तस्य यथा कप्यासं पुण्डरीक'मिति श्रुतं पुण्डरीकाक्षत्वं सिद्धान्त क्तिमाहुः। तदुभयमपि अम्मद्रीत्यानन्दमयाधिकरणाक्षेपायादृश्यत्मादिगुणयुक्तस्य णत्योदयपदेशातच वाक्यम्योदाहरणत्वसं भवे तद्रहितस्य तदयोगात् । उक्तं हि त्ययैव 'य आदित्यमन्तरो यमयतीति श्रुत्यन्तरे भेदव्यपदेशा' दिति । किंच नीरूपेऽपि च रूपादि रद्युपास्त्यर्थमुच्यते । जीवेऽपि पाप्माभावादि रघु राम्त्यर्थमुच्यताम् ॥ १॥ ननु जीवे पाप्मनो व्यावहारिकत्वात्तद्राहित्य प्रातिभासिकम् । ब्रह्मणि तु नीरूपत्वस्य तात्विकत्वावं व्यावहारिकम् । न च व्यावहारिकविषयत्वेन प्रामाण्यसंभवे श्रुतेः प्रातिभासिकविषयत्वं युक्तमिति चेन्न । त्वन्मत उगस्यस्य नामादौ ब्रह्मत्वादेः प्रतिभासिकत्वनियमेनात्रापि तथैव युक्तत्वात् । चोपासनावाक्यस्य तस्कर्तव्यतामात्रपरत्वेनार्थपरत्वाभावात् । कर्तव्यताया च व्यावहारिकप्रातिभासिकविभागाभ.वान् । श्रुतौ श्रद्धालुना श्रुत्यो विषयभेदेन तात्विकविषयत्वस्यैव वक्तव्यमाच्च । न च हिरण्यश्मश्रुत्वादिकमन्यतः प्राप्तम् । येनतद्वाक्यमनुवादक सत्रातात्पर्यादप्रमाणं न स्यात् ॥ किं जीवे पाप्मादेव्यावहारिकरोऽपि तद्राहित्यश्रुतिस्त्वंपलक्ष्यशुद्ध रूपाभिप्राया पारमार्थिकविषयैवास्तु। न च रद्ध रूपं ब्रह्मैवेति ब्रह्मविषयत्वा पत्तिः। त्वयाऽस्य वापयत्य सविशेषाशुद्धब्रह्मविषयत्वाझीकारात् ।। यच्चोगदानं ब्रा कार्यकारणयोरभेदात्कार्यगतधर्मैयपदिश्यत इत्युक्तं तन्न । स्वर्णे कटकत्वादेरिव कटकारावप स्वगत्वस्य व्यवहारेण ब्रह्मधर्मः कार्य एवं व्यपदेशापातात् । न चैतदधिकरणप्रतिपाद्यं सविशेषं ब्रह्म शरीरा दिभ्रमाधिष्ठानम् । येनाधिष्ठान एवारोप्यधर्मव्यवहारो न तु विपरीतमिति त्वन्मत अन्तम्स्थत्वाधिकरणम् ११५ नाद्यः । न शक्येत । कथ चाधिष्ठाने ब्रह्मणि पापराहित्याधसाधारणरूपेण भासमाने तत्रा भ्यस्तगतधर्मव्यवहारः। किंचेवं ब्रह्मणो विरुद्धधर्माधिकरणनानाकार्योपादान तया ब्रह्मविषयकवाक्यविरोध: काप्यपरिहार्यः स्यात् ।। यच्चोक्तं सविशेषनिरूपणं मोक्षसाधननिर्विशेषज्ञानार्थमिति तन्न । 'उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेदेति श्रुतसर्वपापनिवृत्तिरूपमुक्तिफल हानस्याश्रुतफलान्तरकल्पनस्य चायोगात् ।। किंच किं सविशेषज्ञानं निर्विशेषज्ञानार्थ किं वा तस्य ज्ञानविजातीय वृत्त्यन्तररूपमारोपितविषयमुपासनापरपर्यायं ध्यानम् । निर्विशेष शब्देन विशेषाभावविशिष्टस्योक्ती त्वन्मते विशिष्टज्ञानस्य मोक्षाहेतुत्वात् । तद भावेनोपलक्षितस्योक्तौ च काकेन गृहे सस्थानविशेषस्येव विशेषाभावेन विशेषत्यै वोपलक्ष्यत्वे तस्य विशिष्टग्राहिणा ज्ञानेन प्रागेव ज्ञातत्वात्, अन्यस्य चोपल क्ष्यस्याभावात् उपलक्ष्यत्वाकारेण च ज्ञानस्य त्वन्मते मोक्षासाघनत्वात् । च विशेषणाविषयं विशेष्यज्ञानं प्रागसिद्धमिति वाच्यम् । विशिष्टज्ञानस्य विशेषणज्ञानाभावार्थत्वायोगात् । विशिष्टब्रह्मधीसाध्या शुद्धधीरित्यसङ्गतम् । विशिष्टप्रत्यये यस्माद्विशेष्यं भासतेतराम ॥ १ ॥ किच सविशेषज्ञानं निर्विशेषज्ञानस्य न तावदृष्टद्वारा हेतुः । तद्रि शिष्टज्ञानजन्येनाज्ञानध्वंसेन चित्तवशीकरणेन वा तदभावविशिष्टज्ञानस्य वा तदभावोपलक्षितज्ञानम्य वा तद्विशेषणाज्ञानस्य वा काप्यदर्शनात् । रूपादि युक्तमरारभूत सविशेषज्ञानेन तद्विपरीतनिर्विशेषज्ञानायोगाच्च । निषेधोपयोगिनो बुद्धिपूर्वकारोपस्यापि शब्दप्रमाणानपेक्षत्वात् । न ह्यत्र घटोऽस्तीत्युक्त्वाऽत्र म नास्तीति वक्तव्यम् । नाप्यदृष्टद्वारा । विहितक्रियाजन्यत्वाददृष्टस्य । स्वन्मले च ज्ञानस्याविधेयत्वात् । नापि ज्ञानप्रतिबन्धकदुरितनिवृत्तिद्वारा । तस्य नित्यादिकर्मणैव निवृत्तः। नित्यादिकर्मणामपीहेव शास्त्रे निरूपणापत्तेश्च । त्वन्मते ज्ञानस्याज्ञानमात्रनिवर्तकत्वाच्च । न च व्यावहारिकं दुरितं व्याव हारिकसविशेषब्रह्माज्ञानकार्यम् , येनाज्ञाननिवृत्त्या तत्कार्य पापं निवर्तेत ॥ तथा च

११६
तात्पर्यचन्द्रिका
..
एतेन सविशेषज्ञानसंतानरूपं निदिध्यासनमदृष्टद्वारा वा दुरितनिवृत्ति-
द्वारा वा चित्तवशीकरणद्वारा वा निर्विशेषज्ञानार्थमिति निरस्तम् ।
श्रुत-
हान्यायापातात् । सविशेषनिदिध्यासनस्यापि निर्विशेषनिदिध्यासनवत्स्व-
विषयापरोक्षहेतुताया एव युक्तत्वाच । दशमस्त्वममीत्यादाविव शाब्दे ज्ञाने
चित्तवशीकरणानपेक्षणाच्च । आपरोक्ष्यहेतुचित्तैकाग्र्यादेश्च निर्विशेषपरोक्ष-
ज्ञानाधीनतन्निदिध्यासनादेव सिद्धः । चित्तवशीकरणाभावे सविशेषनिदिध्या-
सनस्यैवायोगाच्च । नापि सविशेषध्यानं निर्विशेषज्ञानार्थमिति द्वितीयः । ज्ञान
विशेपो ध्यानमित्यन्यत्रोक्तत्वात् । इह 'य एवं वेदेति ज्ञानार्थविदधातुश्रव
णाच । भगवति रूपं तात्विकमित्यन्यत्रोक्तत्वाच्च । 'हिरण्मयः पुरुषो दृश्यत'
इत्यपरोक्षज्ञानविषयत्वोक्तेश्च । न हि योषित्यग्नित्वं दृश्यत इत्युच्यते । किंच
योषिदादेरग्मित्वाद्यभावेऽपि तथा ध्यानवनिर्विशेषब्रह्मण एव हिरण्यश्मश्रुत्वा-
दिना ध्यानमभवेन सविशेषब्रह्मणः साधकानुग्रहार्थमैच्छिकरूपपरिग्रहोक्ति-
रयुक्ता। तस्मान्न सविशेषनिरूपणं निर्विशेषज्ञानार्थम् ।।
अन्यथा वैपरीत्यं म्यात् । 'सत्यं ज्ञान'मित्यादिसब्रह्मनिरूपणमपि
'असद्वा इदमग्र आसी'दित्यादिश्रुतिसिद्धासद्ब्रह्मज्ञानार्थ स्यात् । एवं च-
असदूपं परं ब्रह्म साक्षात्कतुमनीश्वराः ।
ये मंदास्तेऽनुकंप्यते सब्रह्मप्रतिपादनैः ॥ १ ॥
निर्विशेषं परं धर्ममनुष्ठातुमनीश्वराः ।
ये मंदास्तेऽनुकंप्यते सविशेषनिरूपणैः ।। २ ।।
इति स्यात् । शक्यं हि ब्रह्मकाण्डे लक्षणया निर्विशेषब्रह्मेव कर्मकाडे.
ऽप्यग्निहोत्रादिसविशेषधर्मविलक्षणः कश्चिन्निर्विशेषो धर्मः प्रतिपाद्यत इति
वक्तुम् । किंच-
आद्यसूत्रे धर्मशब्दाद्वितीये भेदशब्दतः ।
निर्धर्मकत्वमक्यं च निरस्त परवस्तुनः ॥ १ ॥
धर्मो भेदश्च मिथ्या चेत् श्रुतिसूत्राप्रमाणता ।
व्याख्याव्याजेन चोक्ता स्यात्वचा सौगतसौहृदात् ॥२ ॥

अन्तस्स्थत्वाधिकरणम् ११७ परमतेऽस्याधिकरणस्य 'अतर उपपत्ते'रित्यनेन पौनरुक्त्यं स्वमते तदभावश्च तत्रैव वक्ष्यते ॥ टीकाक्षगर्थस्तु- प्राबल्याद्यविवेकेनेति ॥ श्रुतिलिङ्गाधिकरण- सिद्धाता-प्रागिव श्रुतिः प्रबला लिंग तु दुर्बलमित्यविवेकेनेत्यर्थः । यद्वा श्रुते. स्वतो बलवत्वाल्लिङ्गस्य च निरवकाशत्वेन बलवत्वादिदं प्रबलमिदं दुर्वलमित्य- विवेकेनेत्यर्थः । संगतत्वाद्ग्रहणमिति ।। अल्पाक्षरे सूत्र एकलिंगसमन्वयो त्याऽनेकनामसमन्वयस्यार्थिकसिद्धेरेव संगतत्वात् । अनेकसमन्वयोक्त्या त्वेकस्य समन्वयस्यार्थिकसिद्धरसङ्गतत्वात् । एकनामसमन्वयोक्त्या चोदाहरणवाक्य स्थसजातीयनामसमन्वयाक्षेपस्य विजातीयलिंगसमन्वयाक्षेपस्य च सति गत्य न्तरे गौरवापादकतया क्लिष्टत्वेनासंगतत्वात् । सजातीयस्योपलक्षणं विजाती यस्याक्षेप इत्यस्यापि वैरूप्येणासभावितत्वादित्यर्थः ।। यद्वा यत्रैकं साक्षादन्यदर्थादिति नामलिंगात्मकमुभयं तत्रान्यत्र निरूढ नामसमन्वयस्य प्रथमं बुद्धावनारोहान्न तन्मुखेन लिंगसमन्वयः सगतः। अनि रूढलिंगमुखेन तु नामसमन्वयः संगतः । अत एव पूर्वमानन्दमयलिंगसम न्वयमुखेनानन्दादिनामसमन्व[यउक्त:]यो युक्तः । यस्तु द्वितीयपादे वैश्वानरा धिकरणे नामसमन्वयमुखेन लिंगसमन्वयः स प्रथमपादेऽन्यत्र निरूढनामसम न्वयस्योक्तत्वेन बुद्धावारोहात्पाचकत्वादिलिंगानामप्यन्यत्र निरूढत्वाद्वहुत्वाच्च युक्त इत्यर्थः । यद्वा अन्तस्स्थनिष्ठतया श्रुतेन समुद्रस्थत्वादिनान्तस्स्थस्यैव विष्णुत्वसाधने सामानाधिकरण्येन संगतिः । इन्द्रादेस्तु तत्साधने वैयधिकर ण्येनासगतिः स्यादित्यर्थः ।। यद्वा अन्तरस्थस्याविष्णुतयाऽऽनन्दमयस्यापि विष्णुत्वाक्षेपो युक्तः । तद्धर्मस्यादृश्यत्वस्यान्तरस्थे साक्षाच्छूवणात् । न विद्रादेरविष्णुत्वेन । तत्रा दृश्यत्वाश्रवणात् । ततश्च पूर्वाधिकरणसंगत्यर्थ लिंगग्रहणमित्यर्थः ।। ॥ इति अन्तस्स्थत्वाधिकरणम् ॥

तात्पर्य चन्द्रिका [भाकाशाधिकरणम् ] 8 - अ आकाशस्तल्लिङ्गयात् ॐ ॥ १-१.८ ॥ अत्राधिभूतगताकाशादिनाम्नां समन्वय उच्यते । भूतेष्वाकाशस्य प्राधान्यात्सूत्रे तस्य मुखतः कीर्तनम् । अन्येषां तूपलक्षणम् । भत एव सङ्गतिटीकायां 'आकाशनाम्न' इत्युक्त्वाधिकरणोपसंहारटीकायां 'आधिभौतिक सर्वशब्दोपलक्षके'त्युक्तम् ॥ यद्यपि भूतेतरवाचिनामप्येतन्न्यायविषयाणामनेन समन्वयः सिध्यति तथापि सजातीये भूतशब्दे प्रथम बुद्ध्यवतारादाधिदेविकेन्द्रादिशब्देष्वाध्या त्मिकप्राणादिशब्देषु च स्वभावप्रवृत्तिनिमित्तकत्वाभावेनेतरत्रैतन्न्यायाप्रवृत्तेश्च टीकायामाधिभौतिकोपलक्षकतोक्तिः । न चात्रापि पूर्वत्रेवाकाशनामसमन्व यार्थमनन्तत्वादिलिङ्गसमन्वय एवोच्यतामिति शंक्यम् । पूर्वत्रान्तस्स्थत्व- रूपैकलिङ्गममन्वयेन बहुनामसमन्वयात् । अत्र त्वाकाश इत्येकनामसमन्व येन बहुलिङ्गसमन्वयसिद्धः । अनन्तत्वादेः सिद्धान्तहेतुत्वेन तत्र सशयानु दयाच्च । अनन्तरसङ्गतिस्त्वधिकाशङ्कां कृत्वा पूर्वन्याय एवातिदिश्यत इत्या तिदेशिकी ॥ यद्यपि 'अत एव प्राण' इत्याद्यधिकरणत्रयेऽप्यन्तरधिकरणन्यायाति देशः तथाप्यधिकाशङ्काक्रमात्तत्क्रमः । शङ्काकमश्च तत्र तत्र वक्ष्यते । यद्वा आकाशाद्वायुः वायोरग्नि' रिति श्रुत्याऽऽकाशादेर्वाग्वादिकारणत्वोक्तेस्तदनु सारेणाकाशप्राणज्योतिरधिकरणानां क्रमः । 'को ह्येवान्या'दिते भाष्ये तु 'आकाश इति होवाचे'त्यत्राकाशस्य विष्ण्वन्यत्वे 'यदेष आकाश' इत्यत्रा प्यन्यः स्यादित्यानन्दमयोऽप्यन्यः प्रमज्येतेति पूर्वपक्षे आनन्दमयाधिकरणा- क्षेगत् सिद्धान्ते च तत्ममाधानात्सफलोऽयं विचार इत्युक्तम् ॥ न च यथा सिद्धान्ते 'आकाश इति होवाचे'त्यत्राकाशशब्दस्य ब्रह्मपर वेऽपि 'आकाशः संभूत' इत्यत्र भूतपरत्वं तथा सिद्धान्ते 'यदेष आकाश' आकाशाधिकरणम् १९ इत्यत्रापि भूत्परत्वमस्तु । यदि तु 'यदेष' इत्यत्र ब्रह्मलिङ्गाब्रह्मपरता तर्हि यथा सिद्ध न्ते संभूतवाक्य आकाशशब्दप भूतलिङ्गाद्भूतपरत्वेऽपि यदेष इति वाक्ये ब्रमलिङ्गापरता तथा (पझे इति होवावेतिवाक्ये भूतपरत्वेपि यदेष इत्यत्र ब्रह्मलिङ्गाह्मद्रपरता भविष्यतीति नानन्दमयाधिकरणाक्षेप इति शक्यम् । सिद्धान्ते संभूतवाक्ये संभूतत्ववद्यदेव इति वाक्ये कस्यचितलिङ्गस्याभावात् । भूते प्रसिद्धिमात्रस्य चैतत्सिद्धान्तेन निरासात् । इति होवाचेति वाक्ये च पूर्वपक्षे प्रबलभूतलिंगाभावात् । ब्रह्मलिङ्गानामेव च भावात् । भूते प्रसिद्विमात्रेण ब्रह्न लिंगानामन्यथाकरणस्य 'यदेष' इतिवाक्येऽपि साम्यात । तस्माद्युक्तं प्रयोजनम् । ए,मुत्तत्रापि द्रष्टव्यम् ॥ ननु ययेवमानन्दमयाधिकरणाक्षेपस्तर्हि साक्षात्तदाक्षेपार्थमानन्दमयशब्दे मयटो विकारार्थत्व मिव यदेघ इति वाक्ये आकाशशब्दस्य भूताकाशपरत्वम शंक्यानन्दमयम्य विष्णुत्वसिद्धये ब्रह्मणि म.न्वय उच्यता । अन्तस्स्थत्वस्य स्वानन्दमयप्रकरणे श्रवणेऽपि तस्य स्वतोऽभत्र प्रसिध्यभावादन्यत्र प्रसिद्धन्द्रादि श्रुतिसाहचर्यस्य तत्प्रकरणेऽभावेन तत्र पूर्वपक्षानुदयाद्वाक्यान्तरोदाहरणं युक्तम् । आकाशशब्दस्त्वानन्दमयप्रकरणे श्रुतः स्तोऽन्यत्र प्रसिद्धश्चति तत्रैव पूर्वपक्षोदय इति वैषम्यम् ॥ सत्यम् । तथापि मयट इवाकाशशब्दस्थ समन्तव्यानन्दमयशब्दा तर्भावाभावेन न्याय नेदेन च,धिकरणभेदे सिते 'आकाश इति होवाचेति वाक्यान्तरस्यापि समन्वये एकप्रकरणस्थबहुगुण छ.भात् तथैतत्समन्वयेन निर्णित ब्रह्मप्रकरणास्थयदेषवाक्यसमन्वयवद्यदेष इति वाक्यसमन्वयेनानिर्णीतब्रह्मप्रकरण स्थैतद्वाक्य पमन्यासिद्धेः तथा सिद्ध निमना सावकाशयितव्यना भूतलयाधिष्ठा नत्यादिपर्वपक्षयुक्तीनां निरवकाशयितव्याना परोवरीयस्त्वादिसिद्धान्तयुक्तीना च यदेष इत्यत्र मावा व वाक्यान्सरोदाहरणं युक्तम् ॥ अत्र यद्यपि 'आकाश इति होवाचे'त्यत्राकाशस्यान्यत्वे देव समुत्पद्यत इति तत्प्रकरणे श्रुतं कारणत्वमप्यन्यस्यैव स्यादिति जन्मादिमूत्र मप्याक्षेप्तुं शक्यं भाति तथापि समुत्पबत इत्यस्योपादानत्वेऽप्युपपत्तेजन्मादिसूत्रोक्त 'आकाशा १२० तात्पर्यचन्द्रिका तन्न । कर्तृत्वाक्षेपायोगादानन्दमयाधिकरणानाक्षेपे तदाक्षेपकान्तरधिकरणप्राणाधिकरणयो मध्येऽस्य निवेशायोगाच्चानन्दमयाधिकरणमेवाक्षिप्तम् ।। केचित्तु अचेतनस्यैव पूर्वपक्षिणाऽऽकाशत्वेन शंक्यमानत्वाजन्मादि सूत्रोक्तकर्तृत्वानाक्षेप इत्याहुः । तन्न । अचेतनस्याप्यभिमानिद्वाराऽनन्दमयत्वव कर्तृत्वस्याप्युपपत्ते ॥ अन्ये तु सन्निकृष्टानन्दमयाक्षेपसंभवे विप्रकृष्टजन्मादिमूत्राक्षेपो न युक्त इत्याहु. । टीकायामानन्दमयाक्षेपस्य व्यवहितजिज्ञासाक्षेपपर्यन्त स्वोक्तः ॥ अत्राकाशः किं भूताकाशः किं वा ब्रह्मेति चिन्ता । तदर्थ किमाका शश्रुतिप्रसिद्ध्यनुसारेण परोवरीयस्त्वादिलिंग बाध्यं किंवा विपरीतमिति । तदर्थ प्रसिद्धिवाधे श्रुतेः किं मुख्यस्वहानिरुत नेति । तदर्थमाकाशशब्दप्रवृत्तिनि मित्त ब्रह्मणि किं नास्त्युतास्तीति । तदर्थ जडस्वभावः किमीश्वरानधीन उत तद धीन इति। यद्यधीनस्तदा तदधीनत्वन्यायेन ब्रह्मणि मुख्यत्वमन्यथा तु न । यद्यपि निरवकाशलिंगोकप्रसिद्धिबाध इह पूर्वत्र चाविशिष्टः विषय वाक्यभेदमात्रेण च नाधिकरणभेदः, तथाप्यधिकाशङ्कानिरासादपौनरुक्त्यम् । शङ्का च- 'चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः । अचेतनस्वभावस्तु विवरादिः कथं ततः' इत्यनुव्याख्याने दर्शिता । तत्राकाशशब्दप्रवृत्तिनिमित्तस्य विवरत्वा देर्भगवदधीनत्वेऽचेतनगतत्वं स्वभावत्वं चेति हेतुद्वयं विवक्षितम् ।। तत्राद्ये भृत्यगतस्य जयस्य राजाधीनत्वेन राजा जयीति प्रयोगस्येवाचेत नगतप्रवृत्तिनिमित्तस्य चेतनाधीनत्वे चेतने जडवाचिशब्दप्रयोगादर्शनात्तत्प्रसाद लब्धत्वरूपं तदधीनत्वं शब्दप्रवृत्तिनिमित्तम् । न तु यथेष्टविनियोगाईत्व रूपम् । न चाचेतने भगवतः प्रसादोऽस्तीति शङ्काभिप्रायः । अत एवा नुव्याख्याने 'तत्प्रसादत' इत्युक्तम् । एवं चाचेतनगतप्रवृत्तिनिमित्तकाः सर्वे ऽपि शब्दा इह तेन रूपेण विचायोः ।।

आकाशाधिकरणम् १२१ नाद्यः । नान्य. । , द्वितीये तु इन्द्रादिशब्दप्रवृत्तिनिमित्तानामैश्वर्यादीनामिव विवरत्वा दीना स्वभावत्वाऽनेशाधीनता । अन्याधीनत्वे स्वभावत्वहानेः । भृत्यादिगत स्वाभाविकाभिरूप्यादिना राश्यभिरूपादिशब्दाप्रयोगाच्चेति शङ्काभिप्रायः । अत्रापि स्वाभाविकप्रवृत्तिनिमित्तकारशब्दास्सर्वेऽपीह तेन रूपेण विचार्या । कस्यचिदुदाहर्तव्यत्वादानन्दमयाक्षेपकत्वाच्चाकाशशब्द उदाहृतः । वाजपेया धिकरणे उद्भिदादिशब्दानामपि विचार्यत्वेऽपि वाजपेय शव्द इव ।। यद्वा विवरत्वादिकं किमिन्द्रादिगतैश्वर्या दिवदीश्वरप्रमादलब्धत्वा- सदधीनं कि वा कुलालाद्यधीनचक्रादिभ्रमणवदागंतुकत्वमात्रेण । तस्याचेतनगतत्वेन तदभावात् । स्वभावत्वात् । तथा च विवरत्वादिकं नेश्वराधीनमितीश्वरानधीनत्वे सापेक्षयोरेवाचेतनगतत्वस्वभावत्व- योर्हेतुत्वम् । यद्वा- 'स्वातंत्र्यं तद्तत्वं च शब्दवृत्तर्हि कारण मित्युक्तत्वाद्यं निमित्तम् । तत्र न तावन्निरवधिकैश्वर्यादिवन्निरव घिक विवरत्वादिकं ब्रह्मगतम् । तस्याचेतनगतत्वात् । नापि पुरंदरादि गतैश्वर्यवत्तदधीनम् । स्वभावत्वात् । तथा च विवरत्वादिकं ब्रह्मण्याकाशा दिशब्दवृत्तौ न निमित्तमिति निमित्तत्वाभावे सापेक्षयोर्हेतुत्वम् । श्लोके सार्वविभक्तिकतस्यंतस्य ततश्शब्दस्य तत्रेयप्यर्थः । अस्मिन्मते तद्गतत्व- पक्षोऽपि श्लोकेनैव दूषितः । मतातरे तु बहिरेव दूष्यः ।। सुधायां तु 'न तावद्विवरत्वादिकमैश्वर्यादिवदागन्तुकज्ञानादिरूपहेतु- द्वारेश्वरायत्तम् । अचेतनाश्रितत्वात् । नापि स्वरूपतः । स्वभावत्वा' दिति व्याख्यातम् । तत्रंद्रादिशब्दप्रवृत्तिनिमित्ते पालनादिरूपप्रयत्नात्मकैश्वर्ये- ज्ञानादेरेव हेतुत्वदर्शनादत्रापि ज्ञानादिरेव हेतुर्वाच्यः । स चाचेतने नास्ती त्यभिप्रायः ॥ यत्तु सुधायां अतरधिकरणपूर्वपक्षेऽचेतनस्वभावस्यान्नत्वादेर्भगवदधी- नत्वागीकरणम् तदेतदधिकरणसिद्धानन्यायानुसधानेन । न ह्येतदधिकरणपूर्व- पक्षस्थेनैव तत्रापि पूर्वपक्षिणा भाव्यम् । तथात्व एतदधिकरणसिद्धांतेनैव 16 १२२ तात्पर्यचन्द्रिका तत्रत्यपूर्वपक्षनिरासेन तत्रत्यसिद्धानवैयर्थ्यात् । अतुव्याख्यानसुधाद्यनुसारेण चात्रापि टीकाया 'आकाशस्याचेतनत्वेनान्याचीनत्वायोगा'दित्यादावाकाशपदं तत्पदप्रवृत्तिनिनिचपरम् । तस्लादाकाशादिगनाना पलप्त रूढं वा 'आकाश- ननवकाशत्वमिति सुधोक्तं यौगिकं वा क्लतं निमित्त नेश्वरगतम् । नापि ततधनम् । आ समन्तात्काशत इति कल्प्यो योगन्तु क्लप्तया भूताकाशे रूड्या वाधितः । विद्रूढिमहायोगौ त्वसिद्धौ । वैदिकप्रयोगबाहुल्यादेर- धाप्यसिद्धः ॥ यत्वानंदमयाधिकरणे अध्यात्मगैश्च प्राणायैस्तथैव ह्यधिभूतगै' रित्याद्यनुव्याख्यानं तदानन्दमयप्रकरणस्थाकाशादिशब्दाना ब्रह्मपर. त्वायाकाशाद्यधिकरणे वक्ष्यमाणन्यायमुपजीव्य प्रवृत्तमिति न तेन विद्वढ्यादि- सिद्धिः। तस्माद्युक्ताऽभ्यधिकाशंका ।। इयं च प्रमेयाश्रिताऽऽकाशशब्दस्य ब्रह्मणि मुख्यन्वविरोधिनी शंका । प्रमाणाश्रिता वाक्यस्य ब्रह्मपरत्वविरोधिनी शङ्का तु' युक्तः पूर्वत्र श्रुतित्वमात्रप्रयु तपावल्यान्निरवकाशत्वप्रयुक्तप्राबल्यस्य बलवत्वान्निरवकाशलिंगेन श्रुतिबाधः । अत्र त्वाकाशश्रुतेः 'अकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यति आकाशो ह्येवेभ्यो ज्यायान् आकाशः परायण'मिति बहुकृत्वः श्रुतत्वात् श्रुतित्ववहुत्वो भयप्रयुक्तप्राबल्यान्निरवकाशत्वमात्रप्रयुक्तप्राबल्यस्य दुर्बलत्वानिरवकाशस्यापि लिंगस्य बाधः॥ अत एव पूर्वत्र सवित्रादिश्रुतेरबहुत्वेन बाधेपीन्द्रश्रुतेर्बहुत्वान्न बाधः । एवं चेन्द्रश्रुतिः श्रुतित्वेन तत्रोदाहरणम् । बहुश्रुतित्वेनात्रापि । यथाग्निहोत्रा दिशब्दो नामधेयतया नामधेयपादे तुदाहरणं समुदायानुवादापवादतया शब्दा न्तरपादे' यथा च जीवकारणता श्रुतिप्राप्ततया द्वितीयस्याद्यपाद उदाहृता । समय प्राप्ततया तु द्वितीयपादे यथा चायमेवाकाशशब्दोऽन्यत्र प्रसिद्धत्वेनात्रोदाहरणमुभ यत्रप्रसिद्धत्वेन तु तृतीये तद्वदित्येका। अपग तु युक्तमन्यत्र निरूढानामपीन्द्रा दिशब्दानां श्येनादिशब्दानां यजिसामानाधिकरण्यवत् 'मत्सीन्द्रमिन्दी पवमान विष्णुं इत्यादौ विष्णुशब्दसामानाधिकरण्यात् 'यो देवानां नामधा' आकागाधिकरणम् १२३ .. इति विशेषश्रवणादन्यत्रानिरूढान्तस्स्थत्वमुखसद्भावाच्च विष्णुपरत्वम् । उत्प- त्तिशिष्टसोमावरुद्धेऽपि याग उत्पन्न शिष्टस्य फलचमसस्य भक्षणमुखेनानु प्रवेशवदर्थातरावरुद्धेऽपीन्द्रादिशब्देऽन्तस्स्थत्वमुत्रेन ब्रह्मप्रवेशाविरोधात् ।। आकाशशब्दस्य तु कापि तत्सामानाधिकरण्याभावाद्विशेषश्रुत्यभावादन्य त्रानिरूढमुखाभावाच्च आमिक्षावरुद्धे यागे वाजिनवद्विरोधान विष्णुपरत्वमिति ॥ अन्या तु आकाशशब्दस्योपक्रमस्थत्वेन श्रुतित्वेन च प्रबलत्वादिन्द्र बृहस्पत्यादिशब्दवच्च परस्परविरुद्धनानार्थोपस्थापकत्वाभावनैकवाक्यत्वभङ्गामा वात् आकाशब्रह्मणोविरुद्धांशत्यागेनैक्याङ्गीकारे च पूर्वत्रेवात्र बाधकस्य भेतव्य पदेशस्याभावाच्चाकाशशब्दः प्रसिद्धार्थपर इति प्रबल श्रत्यनुसारेण चानन्तत्वा दिलिङ्गानि कथंचिद्भूताकाशे योज्यानि ॥ एताश्च प्रमाणाश्रिताः शङ्का अनुव्याख्याने 'आकाश इति नाम चे' त्यन्यत्रानिरूढमुखान्तरेण विष्णुशब्दसामानाधिकरण्येन विशेष श्रवणेन च रहित नामोक्त्या अत्र भाष्यटीकयोरसकृत् श्रुनोपक्रमस्थाकाशैकशब्दवतो भेदव्यपदेश शून्यस्य च विषयवाक्यस्योदाहरणेन च सूचिताः ॥ ननु च भूतप्रकरणाद्भूतकारणत्वलिङ्गाच्च भाष्ये भूताकाशस्य प्राप्तिरित्यु क्तम् । अनुव्याख्याने च विवरत्वादिराकाशस्वभाव इत्युक्तम् । तत्कथम् । अवकाशरूपाव्याकृताकाशस्वभावत्वाद्विवरत्वस्येति चेन्न । 'प्राणेन सृष्टावन्त रिक्षं च वायुश्च अन्तरिक्ष वा अनुचरन्ती'त्यादि श्रुत्या- 'शब्दमात्रमभूत्तस्मान्नमः श्रोत्रं तु शब्दगम् । भूतानां च्छिद्रदातृत्व' मित्यादिस्मृत्या चाचार्यैः प्राणिमञ्चरणाद्यनुकूलत्वरूपं विवरत्वं भूताकाशस्य स्वभाव इत्यङ्गीकारेणाविरोधात् । एवं चाधिकाशङ्कया पूर्वपक्षोत्थानान्न पूर्वेण गतार्थता ॥ यद्वा येन समुद्रान्तस्स्थस्वादिलङ्गेन पूर्वत्र सिद्धान्तो न तेनैवात्रापि । किं त्वनन्तत्वादिलिंगान्तरेणैव । एवं चात्र पूर्वपक्षेऽन्तरधिकरणे भाष्योदाहृत श्रुत्यादिना समुद्रान्तस्स्थत्वादेविष्णुलिगत्वनिश्चयेऽप्यनन्तत्वादेस्तदनिश्चयादाका शश्रुतिबलाच्चाकाशस्यैवानन्तत्वादिनिश्चयायुक्तोऽभ्यधिकाशङ्काभावेऽपि पूर्वपक्षो :

१२४ तात्पर्यचन्द्रिका दयः । एवं ज्योतिरधिकरणादावपि पूर्वपक्षेऽनन्तत्वादेर्विष्णुलिंगत्वनिश्चयेऽपि कर्णादिविदूरत्वादेस्तदनिश्चयाज्योतिःश्रुत्यादिवलाच्याग्नयादेरेब कर्णादिविदूर त्वनिश्चयादभ्यधिकाशङ्काभावेऽपि पूर्वपक्षोदयः । अत एव तत्तदधिकरण सिद्धान्तभाष्येऽनन्तत्वकर्णादिविदूरत्वादीना विष्णुलिंगत्वममर्थनम् ॥ अत एव च भाष्येऽभ्यधिकाशङ्कानुक्तिः। अनुव्याख्याने तदुक्तिस्त्व नन्तत्वादिलिंगाना स्वतोऽवकाशराहित्यरूपं निरवकाशत्वमुपेत्य तदनुसारेणा काशादिश्रुतीनां ब्रह्मण्यमुख्यत्वे प्रबलश्रुत्यनुसारेण दुर्बलस्यानन्तत्वादिलिंगस्यैवा कागादावमुख्यत्वं स्यात् । सिद्धांत्यभिमतगुणपूर्त्यर्थसमन्वयश्च न सियेत् । श्रुतीनां ब्रह्मणि मुख्यत्वं तु न युक्तम् । प्रवृत्तिनिमित्तस्य तदधीनत्वादेरभावा दिति पूर्वपक्षदाढर्याय स्वभावनियामकत्वरूपमहागुणलाभाय चेति द्रष्टव्यम् । तस्मान्न पूर्वेण गतार्थत्वम् ।। 'तदधीनत्वा'दित्यत्र सर्वस्येश्वराधीनतामङ्गीकृत्य तस्याः प्रवृत्तिनिमित्तत्वं नेति प्राप्तेऽन्तीति सिद्धान्तः। आकाशोऽर्थातरत्वादीत्यत्र स्वाकाशशब्दप्रवृत्ति निमित्तस्य भगवदधीनता 'आकाश इति होवाचे'त्यादावाकाशशब्दस्य विष्णु परतां चाङ्गीकृत्य आकाशो वै नाम नामरूपयोर्निर्वहिते'त्यादौ वै नामेति प्रसिद्धि द्योतकनिपातबलात्प्रसिद्धाकाशार्थत्वे शङ्किते तन्निरासः । न चात्रापि सर्वाणि इ वा इमानि भूतानी'ति ह वै शब्दश्रवणात्प्रसिद्धार्थतेति शङ्कयम् । भूतसन्निधानेन भूतेष्वेव प्रसिद्धिप्रतीतेः । 'कारणत्वेन चाकाशादिष्वित्यत्रापि पूर्ववदुभयमप्यङ्गीकृत्य ‘आत्मन आकाशः संभूत' इति संभूतत्वादिलिंगभूता काशपरत्वे शङ्किते तन्निरासः । इह त्वाकाशशब्दस्य भगवति मुख्यत्वार्थ प्रवृत्तिनिमित्तस्य भगवदधीनत्वमुच्यते । ततश्चैतदधिकरणाभावे वापि वाक्ये तस्य भगवति न मुख्यत्वं सिध्यति । 'न वियदश्रुते'रित्यत्र तु भूताकाशस्ये श्वरादुत्पत्तिरेव वक्ष्यते । न तु तत्स्वभावस्येश्वराधीनत्वमिनि न तैर्गतार्थता । अधिकाशङ्कानिरासेन सिद्धान्तस्त्वित्थम् चिद्वतस्येशतन्त्रत्वे स्यादेवाचिद्गतस्य तत् । यतोऽत्यन्तपरधीन चेतनादप्यचेतनम् ।।१ तस्य - आकाशाधिकरणम् १२५ अम्ति च राजा जाति प्रयोग इव जगतम्य मृत्त्वादेरभिमानिदेवता धीनत्वावताया मृदब्रवीदित्यादिप्रयोगः । तस्माद्विवरत्वादिकमचेतनगतत्वान्ने श्वराधीनमिति मतं न युक्तम् । नापि स्वभावत्वात्तदनधीनत्वमिति मतं युक्तम् ।। अस्तु खं च्छिद्रमिति या हरीच्छा तशान्नम, छिद्रात्मकं हि संजातमन्यथा निबिडं भवेत् ।। १ ।। लोकेऽपि हि- कुम्भस्वभावः कुम्भत्वं पुंतन्त्रं धर्मिणा सह । न शरावार्थयत्नेन कुम्भाकारो हि सिध्यति ॥२॥ ययैव हि मृदा कुम्भः कुम्भकारेण निर्मितः । तयैव च मृदा कर्तुं शरावाद्यपि शक्यते ॥ ३ ॥ किंतु कुम्भादौ कुलालाद्यसङ्कल्पितमपि बहु जायते । ईश्वरासङ्कल्विं तु नाणुमात्रमपि जायत इति विशेषः ॥ किंचोत्पत्त्यनन्तरमप्याकाशस्य विवरत्वं नियाविवरत्वं संपादयितुं शक्त ईश्वरः । तथेच्छाभावात्तु न संपादयति ॥ औषधादिवशाल्लोके ताम्रादेरप्यताम्रताम् । कुर्वन्तीशस्तु नेष्टे किं छिद्रस्याच्छिद्रताकृतेः ॥ १ ॥ तस्मादन्यथाकरणाभावेऽप्यन्यथा कर्तु शक्यत्वाद्यथेष्टविनियोगार्हता स्त्येव । बोधयन्ति च श्रुतिस्मृतयः स्वभावम्यापीश्वराधीनत्वम् ॥ स्यदन्ते शासनानधो भीषाऽस्मात्पवतेऽनिलः । नभो ददाति श्वसतो मार्गमित्यादिकाश्च ताः ।। १ ।। एवं च यथा नवमोक्तरीत्या 'स्रवेण पार्वणी होमा'वित्यत्र पर्वशब्द. प्रीयते दीयतेऽस्मिन्निति दर्शादिकाले यौगिको न तु रूढः तथा 'आकाशनमा- काश' इति मुधोक्तरीत्या यौगिडाकाशशब्दप्रवृत्तिनिमित्तस्याकाशगतस्य विव- रत्वरूपस्यावकाशप्रदत्वस्य न केवलमीश्चरायत्तत्वात्तत्र तस्य महायोगः । किंतु परिच्छिन्नादाकाशादप्यपरिच्छिन्ने ब्रह्मणि 'सर्वभूतगुणैर्युक्त'मित्यादिवच. त् तस्य निरवधिकत्वादपीति द्रष्टव्यम् । अत एवोक्तं सुधायां 'न हि १२६ तात्पर्यचन्द्रिका तस्मा- देशकालाभ्या परिच्छिन्नस्यावकाशदातृत्वं निरवधिक मिति 'आकाशस्यावका- शदातृत्वस्येश्वरायत्तत्वमीश्वरस्यापि पृथक् तद्वत्वं चेति च ॥ एवं च यत्सूर्वपक्षिणाऽवकाशप्रदत्वस्याचेतनस्वभावत्वमुक्तं तदभिमान. मात्रेण । सिद्धांते तस्येशन्तत्रत्वसमर्थनं च स्वभावनियामकत्वरूपमहागुण. सियर्थ जडमात्रस्वभावनिमित्तकशब्दांतरसमन्वये न्यायः फलिष्यतीति प्रदर्श- नार्थ च कृत्वाचिंतया युक्तम् । यथा तृतीये 'इन्द्रपीतस्येति मन्त्रस्य मैत्रावरुणादिशेनभक्षणे वस्तुन ऊहाभावेऽपि न्यायव्युत्पादनार्थमूहविशेषनिरू- पणार्थान्यनेकान्यधिकरणानि कृत्वाचिंतया युक्तानि तद्वत् । आसमन्ता. स्काशन इति वा आ समन्तात्कमश्नातीति वा ईश्वरे यौगिकत्वं तु भगवत्पादै. रन्यत्रोक्तत्वात्पूर्वपश्यभिमतरूढार्थमुखेनैव ब्रह्मणि वृत्तेस्तहाघोऽपि नेत्युक्तिदशा. यामनुपयोगाचेह नोक्तम् । अत एव विद्वदूढिरपि सिद्धा। वैदिकप्रयोग बाहुल्यात् । एवमुत्तराधिकरणेष्वपि विद्रूट्यादिकमुपपाद्यम् । दाकाशशब्दो ब्रह्मणि मुख्यः । अनन्तत्वादिलिङ्गानि तु निरवकाशानि ।। अन्तत्रयोज्झिते विष्णो निरूंढ लोकवेदयोः । अनन्तत्व कथं तिष्ठेद्भतेऽतत्रयसंयुते ॥ १ ॥ यद्यप्यव्याकृताकाशे गुणतोऽनंतत्वाभावेऽपि देशकालाभ्यामानंत्ये अनन्तशब्दस्य नैघण्टुकी प्रसिद्धिश्चास्ति । तथापि पूर्वपक्ष्यभिमतेंऽतत्रयवति भूताकाशे ते अपि न स्तः । निरूढश्चान्तत्रयतहीने विष्णौ भाष्योक्त श्रुतितो लोकतश्च नामत्रयांतर्गतोऽनंतशब्दः । लोकप्रसिद्धिमाश्रित्यापि नाकाशश्रुत्या विष्णुलिङ्गं बाधाहम् ॥ द्वाभ्यामावृत्तिजातिभ्यामेव हि प्रबला श्रुतिः । अगतित्वपरत्वानेकत्वैर्लिंगानि तु त्रिभिः ॥ १॥ श्रुतिर्हि जात्याऽऽवृत्त्या च प्रबला । लिंगानि तु निरवकाशत्वचर- मत्वानेकत्वैः। एवं च यदा च निरवकाशत्वप्रयुक्तमेव प्राबल्यं परनित्यांतरङ्ग प्रतिपदविधिषु परबलीयस्त्वमित्युक्तत्वात्' कांस्यभोजिन्यायेन सर्वप्राबल्यान बाधकं तदा किमु वाच्यं चरमत्वादियुतमिति । परोवरीयस्त्वादिविष्णु आकाराधिकरणम् १२७ लिंगानां तु निरवकाशता भय एवोक्ता । दृश्यते च घृतादौ निरूहानाम प्याज्यादिशब्दाना मुग्वान्तरं विनैव 'आज्यैः स्तुवत' इत्यादौ तैहेतुभिः स्तोत्रादिनामधेयत्वम् । भूतकारणत्वादि तु भूनलिंग श्रुत्यन्तरानुसारेण विप्यावेव मुख्यम् । तस्मादाकाशादिशब्दवाच्यो विष्णुरिति ।। अत्रोभयेऽप्याहुः । 'आकाश इति होवाचे'त्या फाशे निरूढप्रथमानुप संजातविरोन्याका शपदानुरोधेन बहून्यपि चरमाणि सर्वकारणत्वज्यायस्वानन्त स्वादीनि भूनाकाशे कथं चिद्योज्यानीति प्राप्ते यद्यप्याकागदं सर्वाणीत्यादितः प्रथमं तथापि परिहारवाक्यस्थाकाशपदादपि प्रथमानुपसंजातविरोधिप्रश्नानु सारेण चरमत्योत्तरस्य नेयत्वादस्य लोकस्य का गतिरिति प्रश्नस्य च दृश्यमानसर्व प्रपञ्चविषयत्वात्सर्वलोकगतिरेवाकाशपदेन प्रतिवक्तव्या। न च लोकान्तर्गतो भूताकाशः सर्वलोकगतिः । किंच सर्व कारणत्वादिबहनुग्रहार्थमेकमाकाश पदं जघन्यवृत्त्या ब्रह्मपरं 'त्यजेदेकं कुलस्यार्थ' इति न्यायात् । तस्मात्सोपाधिक ब्रमैवाकाशपदेनोपास्यत्वेनोपक्षिप्तमिति सिद्धान्त इति । अत्र बूमः । प्रथमानुसारेण चरमास्वारस्य पूर्वाधिकरणेऽपि प्रथम - हिरण्यश्मश्रुत्वाद्यनुमारेण चरमं पापातीतत्वं जीवे कथिञ्चन्नेयं स्यात् । इहापि हि प्रश्नस्यानुरोध्यत्वे प्राथम्यमेव हेतुः। प्रश्नोत्तरयोरेकविषयत्वस्योत्तरानुसारेण प्रश्नव्याख्यानेऽपि सिद्धेः । किंच प्रकृतां पृथिवी वक्ति प्रश्नस्थं सर्वनाम यत् । तस्मात्तदनुरोधी चेत्समाधिश्च तथा भवेत् ॥ १ ॥ तथा हि । 'असौ लोक'इत्यादिना दाल्भ्योक्तं स्वर्गलोकस्य सामा- श्रयत्वं शालावत्यः 'अप्रतिष्ठित वै किले'त्यादिना दूषयित्वा 'अयं लोक'इत्या दिना पृथिवीलोकः सामाश्रय इत्यूचे । प्रवाहणस्तु तं 'अन्तवढे किले'त्या दिनाऽदूषयत् । तस्य लोकस्य का गतिरिति शालावत्येन प्रकृतपृथिवीलोकगति रे पृष्टा न सर्वगतिः । अस्येति सर्वनान. 'प्रारमा अग्निमित्यादावित्र प्रकृत्त परत्वात् । तथाच प्रश्नानुमारेणोत्तरव्याख्याने 'सर्वाणि ह वा' इत्यत्र सर्वशब्द: पृथिवीमात्रपर: स्यात् । न च पृथिवीकारणस्यापा प्रसिद्धत्वेन प्रश्नवैयर्थ्यम् ।

१२८ तात्यय चन्द्रिका सर्वलोककारणस्यापि वाक्यातरतः प्रसिद्धः । लोकनस्त्वपा पृथिवीकारणत्वस्या प्यप्रसिद्धेः। न च पृथिवीमात्रकारणप्रश्ने आप इति वक्तव्यत्वात्प्रतिवचने आकाशमई सर्वाणीति सर्वपदमाकाशादेवेत्यवधारगं चायुक्तम् । तस्मात्प्र- नोऽपि सर्वलोकगतिविषय इति वाच्यम् । भामत्यां प्रश्नानुरोधेनोत्तरव्या- ख्याना'दित्युक्तत्वेनोतरानुसारेण प्रश्नव्याख्यानेऽयोन्याश्रयात् ।। यच्चोक्तं 'त्यजेदेकं कुलस्यार्थ' इति तन्न । आकाशश्रुतेः प्रधान- त्वादप्रधानानेकलिङ्गवाधस्यापि 'आत्मार्थे पृथिवीं त्यजे'दिति न्यायसिद्ध. स्मात् । उक्तं हि षठे प्रधानखदिराबाधाय तक्षणाद्यनेकगुणबाधेन तक्षणाद्ययो. ग्योऽप पशुनियो जनयोग्यः खदिर एवोपादेयो न तु तक्षणादियोग्यः खदिर- प्रतिनिधिः कदर इति । न हि त्वत्पक्षे ब्रह्मण्याकाशशब्दो मुख्यः । किंच- कारणे कार्यगा यद्वत्तथा कार्यऽपि हेतुगाः । व्यपदेष्टुं हि शक्यन्ते धर्मा ऐक्याविशेषतः ॥ १ ॥ पूर्वाधिकरणे त्वत्पक्षे कार्यगतस्य हिरण्यश्मश्रुत्वादेः कारणे व्यपदेश इवेह कारणब्रह्मधर्माणा सर्वकारणत्वादीना भूताकाशे व्यपदेशोऽऽस्तु । तयोरभेदाविशेषात् । किंच- विशिष्टविषयत्वं चेदनन्तत्वाद्यसंभवः । विशुद्धविषयत्वं चेज्ज्यायस्त्वादेरसभवः ॥ १ ॥ न हि सोपाधिके परिच्छिन्ने ब्रह्मण्यनन्तत्वादिकम् । नापि निर्विशेषे ज्यायस्त्वादिकम् । न हि ज्यायस्त्वमपरिच्छिन्नत्वम् । इत्यनेन पुनरुक्तेः। किंतु परिमाणाधिक्यं गुणाधिक्यं वा । तन्निर्विशेषेऽस्ति ।। यद्यपि वस्तुतो निर्विशेषे आरोपितो विशेषो न विरुद्धः । तथापि त्वदुक्तः सविशेषनिर्विशेषविद्ययोरधिकारिभेदः फलभेदो विद्याभेदेन पाद- भेदश्च न स्यात् । एवमुत्तराधिकरणविषयवाक्येष्वपि सगुणनिर्गुणोभयलिङ्ग- युक्तेषु दोष ऊयः । किंच सूत्रोक्तं लिङ्गं न तावद्ब्रह्मणि तत्वतोऽस्ति || अनन्त न च प्राणाधिकरणम् १२९ यदि चारोपित लिङ्ग तस्मा-या ब्रह्मतापि हि । आरोपिता स्यादेव च पूर्वपक्षः स्थिरो भवेत् ॥ १ ॥ तस्मान्मतातरमयुक्तं ।। टीकाक्षरार्थस्तु अस्ति शास्त्रादि- मङ्गतिरिति । अत्र ब्रह्मणीत्यनेन शास्त्रसङ्गतिः सनन्वयेत्यनेनाध्यायसङ्गति. अन्यत्र प्रसिद्धनान्न इत्यनेन पादमङ्गगतिः सूचिता । एवमुत्तरत्रापि द्रष्टव्यम् ।। || इत्याकाशाधिकरणम् ।। [प्राणाधिकरणम् ] 9 ॐ अत एव प्राणः ॐ ॥ १-१-९ ॥ अत्राध्यात्मिकप्राणादिशब्दसमन्वय उच्यते । अत्रापि प्राणशब्दप्रवृत्ति निमित्तं जीवनादिहेतुत्वमन्वयव्यतिरेकाभ्या प्राणशब्दार्थत्वेन प्रसिद्धस्य वायो रेवेति स एव प्राणशब्दवाच्यो न तु विष्णुरित्याद्यधिकाशङ्कानिरासेन पूर्वन्याय एवातिदिश्यत इत्यातिदेशिक्यवान्तरसङ्गतिः । भूताकाशस्य स्ववकाशहेतुत्वे न्वयव्यतिरेको न स्तः । परिच्छिन्नस्य तस्याभावेऽपि क्वचिदवकाशदर्शनात् ।। यद्यप्यत्र 'तद्वै त्वं प्राण' इत्यत्र प्राणस्य विष्णोरन्यत्वे 'प्राणं देवा' इत्यादावप्यन्यत्वं स्यादित्यपि प्रयोजनं वक्तुं शक्य तथापि सूत्रे कंठोक्तानन्दम यत्वाक्षेपो दर्शनीय इति भाप्यादौ तदुक्तिः । अत एवानन्दमयोक्ताया विष्णो: प्राणताया इहाक्षेपान्न तेन गतार्थता । नापि प्राणशब्दस्योभयत्र प्रसिद्धता ॥ अत्र प्राणः कि मुख्य वायुरुत ब्रह्मेति चिंता । तदर्थ कि प्राणश्रुति प्रसिद्धयनुसारेण श्रीपतित्वादिलिङ्ग बाध्यं कि वा विपरीतमिति । तदर्थ प्रसि द्धबाधे कि श्रुतेमुख्यत्वहानिरुत नेति । तदर्थ प्राणशब्दप्रवृत्तिनिमित्त जीवन हेतुत्वं किं ब्रह्मणि नास्त्युतास्तीति । तदर्थ किं जीवनं मुख्यप्राणान्वयव्यति रेकानुविधाय्युतेश्वरान्वयव्यतिरेकानुविधायीति । तथा 'भर्ता सन्ध्रियमाण' इत्यनुवाकस्थेन 'तद्वै त्वं प्राण इति' वाक्येनोक्तः प्राणः कि 'अन्यः संभूत' 17 १३० तात्पर्यचन्द्रिका इत्यनुवाकस्थन 'श्रीश्च ते लक्ष्मीश्च पन्या'विति वाक्येनोक्तादन्यः किं वाऽ नन्य इति ॥ नन्वत्र प्राणो न तावजडरूपो वायुरिति पूर्वः पक्षः । जडं प्रति त्वं प्राणोऽभव इत्याद्युक्त्ययोगात् । 'ओषधे त्रायस्वैन' मित्यादेश्च स्वमतेऽमि मानिदेवतापरत्वात् । मीमासकमते चान्यपरत्वेनाचेतनसंबोधनपरत्वाभावात् । नापि मुख्यप्राण इति । जीवनस्य तदन्वयव्यतिरेकानुविधानादर्शनेनाधिका शङ्कायोगात् ॥ नन्वाकाशाधिकरणपूर्वपक्षे जडस्याप्याकाशस्य आनन्दमयत्वादिकमिवा त्रापि जडस्याप्यमिमानिद्वारा संबोधनादियुक्तम् । न च मुख्ये मुख्यत्वात्प्राण शब्दस्य कथं जडपरत्वेन पूर्वपक्ष इति युक्तम् । लोकप्रसिद्ध्या पूर्वपक्षयतो ब्रह्म णीव मुख्येऽपि मुख्यत्वज्ञानाभावादिति चेन्न । 'मुख्यवायावेव मुख्यत्वा'दि त्यादिपूर्वपक्षटीकया 'प्रेरकोऽस्यापि यद्धरि रित्याद्यनुव्याख्यानेन च विरोधात् । त्वमभव. करिष्यमाणः प्राणय इत्यादीनां बहूनाममुख्यार्थत्वापाताच्चेति चेदु च्यते । प्रत्यक्षेण जीवनस्य मुख्यप्राणान्वयव्यतिरेकानुविधानाज्ञानेऽपि तत्प्राणे प्रपन्न उदतिष्ठत् तत्प्राण उत्कान्तेऽपद्यते'त्यादिवाक्यात्तज्ज्ञानम् । 'प्राणस्तभानुगमादिति वक्ष्यमाणन्यायेन 'तत्प्राण' इत्यत्र प्राणो विष्णुरिति युक्तम् । अत्रत्यसिद्धान्तन्यायेन प्राणशब्दप्रवृत्तिनिमित्तं जीवनादिहेतुत्वं विष्णो रङ्गीकृत्य निरवकाशान्यलिङ्गेन तत्र पूर्वपक्षोदयेन तद्विचारस्यैतत्सिद्धान्तानन्तर भावितयैतत्पूर्वपक्षदशायां तत्रत्यसिद्धान्तासिद्धेः। यथा 'आकाशोऽर्थातरे'त्यस्य 'आकाशस्तल्लिङ्गा'दित्येतत्सिद्धान्तानन्तरभावितया 'आकाशस्तल्लिङ्गा'दित्ये तत्पूर्वपक्षदशायामाकाशोऽर्थातरेत्येतत्सिद्धान्तासिद्धिः तद्वत् ॥ एतेन प्राणस्तथेत्यनेनास्य गतार्थत्वशङ्कापिं निरस्ता । एतदभावे ब्रह्मणो जीवनहेतुत्वाभावेन तत्र प्राणशब्दस्य मुख्यत्वासिद्धः। अत एव टीकाया मन्वयव्यतिरेकयोः 'यत्प्राप्तियत्परित्याग' इति स्मृतिरेवोक्ता । यद्वा कुलालशरीरस्य घटं प्रतीव मुख्यप्राणशरीरभूतवायोर्जीवनं प्रत्य न्वयव्यतिरेकदर्शनमात्रेण तस्य तत्र हेतुत्वम् । अत एवोक्तं सुधायां 'वायु नच प्राणाधिकरणम् विकारशरीरस्वान्मुख्यम्येति । ब्रह्मणन्तु सर्वगतत्वादशरीरत्वाच्च तस्य वा तच्छरीरस्य वा नास्मदादिशरीरेऽभाव इति न तव्यतिरेकाज्जीवनव्यतिरेकः ॥ यद्यप्यन्तर्यामीत्यत्रेशस्य गौणं यौगिकं वा गरीरमस्तीति वक्ष्यते । तथापि न जीवनव्यतिरेकस्य गौणादिशरीरव्यतिरेकानुविधानेन तत्कार्य त्वम् । अतिप्रसङ्गात् । भूमाधिकरणे तु सर्वगतस्यापीशस्यास्मदादिशरीरादु स्क्रमणमस्तीति च वक्ष्यते । न तु तत्राभावः । तस्मान्न विष्णोर्जीवनादि हेतुत्वमन्वयव्यतिरेककल्प्यम् । नापि श्रुतिसिद्धम् । अन्वयव्यतिरेकानु सारेण 'येन जातानि जीवन्ती'त्यादेर्मुरव्यप्राणविषयत्वात् । जीवन्ती'त्यादावितरशब्दस्तु वायुवृत्तिरूपप्रसिद्धप्राणेतरत्वविवक्षया मुख्य 'इतरेण तु प्राणेऽपि युक्तः॥ नाप्य- केचित्तु 'अन्वयव्यतिरेकाभ्यां हि हेतुता कल्प्येति सुधायाः प्रातीति कार्थ गृहीत्वा हेतुताया अन्वयव्यतिरेकमात्रगम्यत्वान्न श्रुतिस्तत्र प्रमाणमिति पूर्वपक्ष्यभिप्राय इत्याहुः । तत्र यागादेः स्वर्गादावहेतुत्वापातात् ।। अन्ये तु व्यतिरेकगर्भिताया हेतुतायास्तद्रहिते परमात्मन्ययोगान्न तस्य जीवनहेतुता श्रुत्यापि बोधयितुं शक्येति तदभिप्राय इत्याहुः । तदपि न । नित्यविभूनामहेतुत्वापत्तेः। तस्माज्जीवनादिहेतुत्वं न ब्रह्मगतम् । न्यगतं तदधीनम् । जन्मादिसूत्रोक्तस्थितिहेतुताया असभवादिप्रसगात् । तस्मान्मुख्यवायुरेव प्राण इति स एवानन्दमयः । तस्यातरधिकरणे पूर्वपक्षि- तेद्रादिवदानन्दवल्ल्यामानंदमयात् भेदव्यपदेशाभावेनाकाशाधिकरणे पूर्व- पक्षिताकाशवच जडत्वाभावेन स्वत एवानंदमयत्वसंभवात् । तस्मात् 'अन्वय व्यतिरेकत' इत्यनुव्याख्यानोक्ताधिकाशंका युक्ता । इयं च प्रमेयाश्रिता । प्रमाणाश्रिता तु पूर्वत्राकाशश्रुतेरिवेह न श्रुतेरावृत्तिमात्रम् । 'त्वं प्राणः देवान्प्राणयः मातरिश्वे'ति श्रुतिबहुत्वमत्तीति निरवकाशेनापि न बाध इत्येका । इयं च भाष्ये बहुश्रुतियुक्तविषयवाक्योदाहरणात्सूचिता । अन्या तु यदि प्राणशब्दस्य योगेन विष्णुपरता तर्हि लक्ष्म्यादिशब्दानामपि योगेन प्राणभार्यापरत्वसंभवालक्ष्मीपतित्वादिलिास्यवासिद्धिः । अथ लक्ष्म्यादि कितु १३२ तात्पर्यचन्द्रिका आकाश- - शब्देषु न प्रसिद्धार्थत्यागः तर्हि प्राणशब्देऽपि तथा । इयं च 'प्रसिद्धे- वायु'रिति भष्ये सूचिता ॥ इयं यद्यप्याकाशादिशब्दसाधारणी। आकाशश्रुतेः प्रसिद्धार्थहाना- वनंतत्वादिलिङ्गानामपि तद्धानिः स्यादिति शंकोदयात् । तथापि पूर्वाधिकरणे. ऽनुद्धृतेत्यधिकाशङ्का । अपरा तु मुख्यवायौ मुख्यप्राणत्वप्रसिद्धः 'मुखे मुख्यः प्रकीर्तित' इति वचनाच्च प्राणशब्दस्य परमात्मनि मुख्यत्वायोगा- न्मुख्यसभवे चामुख्यग्रहणायोगान्नात्र प्राणशब्दः परमात्मपरः । शब्दस्य तु भूते मुख्यत्वे न प्रमाणमस्तीति । इयं च टीकायां मुख्यपदप्रयो- गादिना सूचिता । इतरा तु पूर्ववन्निवरवकाशब्रह्मलिङ्गाभावान्न ब्रह्मपरतेति ॥ न च श्रीपतित्वादिकं लिंग निरवकाशमिति वाच्यम् । 'अन्यः संभूत' इत्यनुवाके 'श्रीश्च ते लक्ष्मीश्च पन्या वित्युक्तस्य विष्णुत्वेऽपि 'भर्ता सन् म्रियमाण' इत्यनुवाके 'तद्वै त्वं प्राण' इत्युक्तस्य 'स्वं भर्ता मातरिश्वा प्रजाना' मिति मातरिश्वश्रुत्या 'प्राणापानावजिरं संचरंता'वित्यपानसाहित्यलिंगेन चा- विष्णुत्वात् । इयमपि शङ्का 'न चात्र वाक्ये पूर्ववदनन्यथासिद्ध लिङ्गमस्ति' इति सुधारन्थेऽत्र पदेन सूचिता । तस्माद्युक्ताऽधिकाशा। तत्परिहारेण सिद्धान्तस्तु - 'वायुवतियथा मुख्यप्राणदेहत्तथैव सः । विष्णोदेहस्ततस्तस्यैवान्वयव्यतिरेकिता ॥१॥ वायुवृत्तिमुस्त्यप्राणस्येव सोऽपि हि ब्रह्मणो देहस्थानीयः । भूमाधिकरण ईश्वरस्यास्मदादिशरीरादुत्क्रमणस्य वक्ष्यमाणत्वादजीवनदशाया रूपविशेषस्य व्यक्त्यात्मना तत्संयोगाभावाध्यतिरेकः । 'इतरेणे'ति श्रुतावितर शब्दो ब्रह्मपरः । पूर्वत्र 'मध्ये वामन मिति वामनशब्दादुत्तरत्र च 'गुह्यं ब्रह्म सनातन'मिति ब्रह्मशब्दात ॥ किंच मुख्यप्राणस्य जीवनादिहेतुत्वेऽपि तस्य भगवदधीनत्वेनापि तत्र प्राणशब्दो मुख्यः । लक्ष्म्यादिशब्दानां तु बहुत्वादन्यत्र प्रयोगाभावा- न्मुख्यार्थत्यागापातादन्यपरत्वे मानाभावाच नान्यत्र यौगिकता। प्राणशब्दस्य प्राणाधिकरणम् १३३ , त्वेकत्वात् । 'प्राणम्य प्राण' इन्यादौ ब्रह्मणि प्रयोगात्तत्र परममुख्यत्वेन मुख्यार्थात्यागात् 'नामानि सर्वाणी'त्यादिमानसद्भावाच्च ब्रह्मपरता ॥ आपेक्षिकाच मुख्यत्वाद्वायौ मुख्यपदं भवेत् । यथा पराक्षरपदं श्रीतत्वे मध्यमाक्षरे ॥१॥ मुख्यप्राणो हि करणभूतचक्षुरादिप्राणापेक्षया मुख्य: । दृश्यते च मध्य माक्षरेऽपि श्रीतत्वे 'तामक्षरं प्राहु'रित्यादौ परशब्दो जडप्रकृतिरूपाधमाक्षरा स्परत्वात्। अत एव श्रुतिः 'प्राण एवाकरणस्तस्मान्मुख्यत्तस्मान्मुख्य' इति । 'यो ऽयं'मध्यमः प्राण इति च ।। अन्य इत्याद्यनुवाकद्वयस्य भिन्नार्थत्वेऽपि 'अन्य' इत्यत्र श्रीपतित्वादे. रिव 'भास'नित्यत्र 'तमेव मृत्युममृतं तमाहुस्तं भर्तारं तमु गोप्तारमाहुः । यस्तद्वेद यत आ बभूव संधा च या संदधे ब्रह्मणैषत' इत्यादिब्रह्मलिझाना सत्त्वात् । एतदेवाभिप्रेत्य भाष्यादौ 'इत्यादितल्लिंगा'दित्यादावादिशब्दः । कथं चानुवाकद्वयं भिन्नार्थम् । 'श्रीश्च ते' इति युष्मच्छब्देनोक्तस्य 'तद्वै त्वं प्राण'इत्यत्रापि युष्मच्छब्देन प्रत्यभिज्ञानात् । मातरिश्वश्रुतिरप्यंतरधिकरण न्यायेन 'हरि हरंतमनुयंति देवा' इति हरिश्रुत्या हस्तमिति निरुपपदसंहर्तृत्व लिंगेन च ब्रह्मपग। अपानसाहित्यं तु मुख्यप्राणेऽपि न स्वरसम् । तस्मा- प्राणो विष्णुरेवेति । तैत्तिरीयशाखायां 'हीश्च त' इति पाठः । तथापि भाष्ये शाखान्तरमाश्रित्य श्रीश्च त इति पठितमिति द्रष्टव्यम् ॥ अन्ये तु 'प्रस्तोता देवता प्रस्ताव'मि युगक्रम्य भूयते 'कतमा सा प्राण इति होवाच । सर्वाणि हवा इमानि भूतानि प्राणमेवाभि संविशन्तीति । प्रसिद्ध प्रण र इति प्राप्ठे ब्रह्मपर एव । सर्वभूतसंवेशनादिब्रह्मलिंगादिति सिद्धान्तः ।। न चैवं पूर्वेणेदं गतार्थम् । 'यदा वै पुरुषः स्वपिति । प्राणं तर्हि वागप्येति । प्राणं चक्षुः' इत्यादिश्रुतेः स्वापकाले प्रसिद्धप्राणे सर्वभूतसारेन्द्रियलयाधुक्तिद्वारा सर्वभूतलयादिपराया मानान्तरानुगृही. तत्वेन प्रबलत्वात् । ब्रह्मणि भूतलयादिबोधिकायाश्च' यतो वा इमानी देवता। तत्र प्राणशब्द १३४ तात्पर्यचन्द्रिका त्यादिश्रुतेस्तदननुगृहीतत्वेन दुर्बलत्वात् । प्रस्ताववाक्यमपि प्रबलानुसारेण प्रसिद्धप्राणे सर्वभूतलयादिपरम् । न तु ब्रह्मणि सर्वभूतलयादिपरम् ।। यद्वा प्रबलस्वापवाक्यानुसारेण प्रस्ताववाक्यमपि प्रसिद्धे प्राण इन्द्रिय मात्रलयादिपरम् । अकाशाद्वायुरित्यादिवाक्यं तु न मानान्तरानुगृहीतमिति तदनुसारेण 'सर्वाणि भूतान्याकाशादेवेति वाक्यं न वाय्वादिमात्रकारणभूता काशपरमिति पूर्वस्मादधिकाशङ्कायां पुंवाक्ये मानातरानुग्रहतदभावाभ्यां प्राब ल्यदौर्बल्ये स्तः । अपुंवाक्येऽनाशंकितदोषे न ताभ्यं ते स्त इति तन्निरामार्थ स्वादस्येत्याहुः। तदुक्तं भामत्याम् 'पुंवाक्यस्य वलीयस्त्वं मानान्तरसमागमात् । अपौरुषेयवाक्ये तत्सङ्गतिः किं करिष्यति'ती ।। तन्न। पूर्वषः प्राणस्य जडवायुत्वे प्रश्न 'कतमा सा देवतेति प्रतिवचने च 'सैषा देवते'ति देवताशब्दायोगात् । तदभिमानिचेतनत्वे च 'वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्त'मित्यादि त्वत्पूर्वपक्षभाष्यविरो धात् । स्वापवाक्ये मानान्तरसंवादस्यैवाभावेन तं स्वीकृत्य पूर्वोत्तरपक्षोक्त्य योगाच्च । तथा हि न हि स्वापे पृथिव्यादेरक्षाणां वा विनाशधीः । प्रत्यक्षादनुमानाद्वा देवतायां जडेऽथवा ॥ १ ॥ न तावत्स्वापकाले जडे देव साया वा महाभूताना लयादो मानान्तर संवादः । तेषां स्वापकालेऽप्यलीनानामेवानुभावात् । दृष्टिसृष्टिमते च तदा वायुविकारादेरप्यभावेन तत्र भूतलयायोगात् । नापि स्वापकाले जडे वा देवताया वेन्द्रियाणां लये प्रत्यक्षसंवादः । तेषामतीन्द्रियत्वात् । नापि मापकाले वायुवेतरलोपादिन्द्रियवृत्तीना च लोपातत्र तेषां लयोऽनुमीयत इत्यनु मानसंवादोऽस्तीति वाच्यम् । त्वया जन्मादिसूत्रे ब्रह्मण उपादानत्वेऽपि श्रुति संवाद्यनुमानानामुक्तत्वात् ॥ यस्मिन्सव्यापारे सति यन्निापारं तत्तत्र लीयत इति व्याप्त्य- भावाच्च । पूर्वेधुर्थेन दृष्टं तनव चक्षुषा पश्यामीत्यादिप्रत्यभिज्ञाविरोधाच्च ।

प्राणाधिकरणम् १३५ 'यथा सोम्य वयांसि वासो वृक्ष संप्रतिष्ठते एवं ह वै तत्सर्व परमात्मनि संप्रतिष्ठत' इति प्रक्रम्य 'चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं चेत्यादिना सुप्तौ चक्षुरादीनामनाशस्यैव श्रवणाच्च । किं चाकाशाद्वाय्वाद्युत्पत्तिरपि मानान्तरसंवादिनी । अवकाशात्पव नस्य पवनाच फूत्कारादहनस्य दहनाच्चोष्मतः स्वेदस्य वृष्टितश्च पार्थिवपदार्थी नामुत्पत्तेर्दर्शनादिति नाकाशवाक्यात्प्राणवाक्येऽधिकाशङ्का ।। न च 'कतमा देवतोदीथमन्वायत्ता। आदित्य इति होवाचे' त्यादिनोद्गीथादावादित्यादेरब्रह्मण एव देवतात्वेनोक्तत्वात्तत्सन्निहिते प्रस्तावे ऽप्यब्रह्मण एव देवतात्वमित्यधिकाशंकेति वाच्यम् । पूर्वाधिकरणेऽपि 'अपां का गतिरिति । असौ लोक इति होवाचे'त्यादिकेनाब्रह्मण एव गतित्वेनो क्ततया तत्मन्निधानादस्य लोकस्य का गतिरिति वाक्येऽप्याकाशस्याब्रह्मत्वं युक्तमिति साम्यात ॥ यच्चोक्तं वाक्यस्येत्यादि, तत्र ब्रम अपुंवाक्यद्वयेऽप्येकेनान्यानुसरणे ध्रुवम् । कर्तव्ये सति क्लप्तत्वात्संवाद्येवानुरुध्यताम् ॥ १ ॥ तथा हि। प्रमाणभूते पुंवाक्ये प्रत्यक्षादौ च संवादिन एवानुसर- णीयत्वं क्लममितीहापि तथैव युक्तम् । अर्थाबाधरूपप्रामाण्यस्य संवादेन दाात् । अनपेक्षत्वस्य च दैवात्संवादेनाहानेः । सप्रयोजनत्वाय च प्रस्ताववाक्यस्यापूर्वार्थत्वे स्वापवाक्येऽपि तत्प्रसङ्गात् । स्वापवाक्यस्या- प्यभिमानिदेवतापरत्वेऽपूर्वार्थत्वसंभवाच्च । अनाशङ्कितदोषत्वात्त द्वयोरपि प्रामाण्यम्, न त्वन्योन्यमननुसरणम् । अन्यथा श्रुत्या श्रुत्यन्तरसंवादः उपक्रमाद्यानुगुण्यं च नानुसरणीयं स्यात् । मानातरविरोधश्च न परि हार्यः स्यात् । उक्तं च भामत्यामपि ' यद्यपि श्रुतयः स्वतः प्रमाणतया. ऽनपेक्षाः । तथापि मानातरोपनीतार्थवशेन व्यवस्थाप्यन्त' इति । तस्मात्परेषा- मधिकरणमयुक्तम् ॥ केचित्तु कृत्लस्य जगतः प्रसिद्धप्राणाधीनप्रवृत्त्यादिदर्शनात्प्रस्ताववाक्ये तात्पर्यचन्द्रिका प्रसिद्धप्राण एवोच्यत इत्याकागाधिकरणादधिकाशङ्काया शिलाकाष्ठादिषु तद- भावात् 'सर्वाणी'त्यस्यायोग इति परिहारोऽभिप्रेत इत्याहुः । प्राणावीनप्रवृत्तिकं शरीरमिव तदनधीनप्रवृत्ति शरीरादन्यदपि बहु पश्यतः पूर्वपक्षिण : सर्व प्राणाधीनप्रवृत्तिकमिति शङ्कायोगात् ॥ ग्रन्थस्तु स्पष्टार्थः ॥ || इति प्रणाधिकरणम् ॥ [ ज्योतिरधिकरणम् ] 10 ॐ ज्योतिश्चरणाभिधानात् ॐ ॥ १-१.१० ॥ अत्र त्रीणि दर्शनानि । ज्योतिरित्यादिचतुस्सूध्येकमधिकरणम् । विषयवाक्यं त्वग्निसूक्तस्थ 'ज्योतिर्हृदय अहितं यदितिवाक्यमेवेत्येकं मतम् ।। इदं च ज्योतिरित्यस्य सूत्रस्याग्निसूक्तस्थं वाक्यमेवोदाहृत्य 'इदं चैकमधिकरण' मिति वदतस्तत्वप्रदीपकृतोऽभिप्रेतम् ।। मतातरं तु चतुस्सूया एकाधिकरणस्वेऽपि विषयवाक्यं ज्योतिरित्य- स्यापि 'अथ यदतः परो दिवो ज्योति'रिति छादोग्यवाक्यमेवेति । 'छन्दोभिधानादितिसूत्रव्याख्यानरूप 'नित्यत्वादेव शब्दना इत्यनुव्याख्यानं ज्योतिश्चरणाभिधानादित्यधिकरणं तात्पर्यतो विवृणोती'त्यवतार्य ज्योतिरिति सूत्रस्य छांदोग्यवाक्यमेवोदाहरतस्सन्न्यायरत्नावलीकारस्याभिप्रेतम् ।। मतान्तरं तु ज्योतिस्सूत्रमेकमधिकरणम्, छन्द इत्यादित्रिसूत्री स्वाधिकरणान्तरमिति । इदं च टीकाकारस्याभिप्रेतम् । न चात्राद्यपक्षेऽग्निसूक्त गायत्रीरूपछन्दोऽभिधानभूतादिपादव्यपदेशोपदेशभेदानामभावेन छन्दोऽभिधा नादित्यादेरयोग इति वाच्यम् । ज्योतिहृदय आहितं यदित्यमिसूक्तस्थस्यैव ज्योतिषश्छान्दोग्येऽपि ज्योतिश्श्रुत्या 'योऽयमन्त«दय' इति हृदयनिहितत्व धर्मेण च शाखान्तराधिकरणन्यायेन प्रत्यभिज्ञायमानत्वेनैकत्वात् । अन्यथाऽने काधिकरणपक्षेऽपि छान्दोग्योक्तस्य ज्योतिषो 'गायत्री वा इदं सर्वमिति प्राणाधिकरणम् १३७ श्रवणाच्छन्दस्त्वेऽप्यमिमूक्तस्थस्य छन्दस्त्वानापत्त्या पूर्वाधिकरणसिद्धान्ता क्षेपेणोत्तराधिकरणपूर्वपक्षो न स्यात् । तथा च छन्दोऽभिधानादित्यस्या यमर्थः । अग्निसूक्तस्थं ज्योतिन विष्णुः । अस्यैव ज्योतिषः छान्दोग्ये गायत्रीत्वाभिधानादिति। एवं भूतादिपादव्यपदेशादावपि द्रष्टव्यम् । न च पूर्वपक्षेऽग्निसूक्तस्याग्निपरत्वाच्छान्दोग्यस्य च छन्दःपरत्वात्प्रत्यभि ज्ञायोग इति शंक्यम् । अस्मिन्मते 'तेजो वै ब्रह्मवर्चस गायत्री'ति श्रुतावग्नि शब्दानतिभिन्नार्थतेजश्शब्दगायत्रीशब्दयोः सामानाधिकरण्यदर्शनेनारनौ गायत्री शब्दस्य गायत्र्यां चाग्निशब्दस्य संभवेन अग्नि मूक्तवच्छान्दोग्यस्याग्निपरताया श्छान्दोग्यवदग्निसूक्तस्यापि गायत्रीपरतायाश्च संभवेन द्वयोरप्येकार्थत्वात् । चामिमुक्तस्थेन कर्णादिविदूरत्वेन 'तदेतद्दष्टं च श्रुतं चेति छान्दोग्यस्थदृष्टत्वा दिकं विरुद्धमिति शङ्कयम् । आकारभेदेनाविरोधात् । एकाधिकरणत्वादेव हि 'छन्दोऽभिधाना'दिति सूत्रे समन्वेतव्यशब्दान्तरमनुक्त्वा 'विकारशब्दान्नेति चे' दित्यादाविव पूर्वसूत्रोक्तसमन्वयबाधकमात्रमुद्धृतम् । भाष्येऽपि छन्दस्सूत्र- व्याख्यानावसारे 'अग्निगायच्यादी'त्यग्निपदं प्रयुक्तम् । तस्मादाचं मतं युक्तम् ।। द्वितीयेऽपि छान्दोग्ये चरणाभिधानाभावेऽप्युक्तरीत्या वाक्यद्वयोक्तस्य ज्योतिष एकत्वात् 'चरणाभिधाना'दित्येतन्न व्यधिकरणम् । तथा च चर. णाभिधानादित्यस्यायमर्थः। छान्दोग्यस्थ ज्योतिर्विष्णुः। अस्यैव ज्योतिषो ऽग्निसूक्ते विचरणाभिधानादिति । यद्यपि छान्दोग्योक्तस्य ब्रह्मत्वे 'यद्वै तहमे' त्यादिश्रुतिलिङ्गानि स्ववाक्यस्थानि सन्ति । तथापि तत्तत्सूक्तस्थनिरवकाश विष्णुलिझैः सावकाशश्रुतिसूक्तबाधेन भिक्षुकपादप्रसरणन्यायेन सर्ववेदानां विष्णौ समन्वयं दर्शयितुं सुत्रकारेणाग्निसूक्तस्थ लिङ्गमुक्तम् । तस्माद्वितीय मपि निरवद्यम् ।। यद्वा मतद्वयेऽपि वाक्यद्वयमप्युदाहरणम् । यथा ह्यग्निसूक्तस्थवाक्ये प्रकरणानुगृहीतश्रुत्या पूर्वपक्षः, तथा छान्दोग्येऽपि 'गायत्री वा इदं सर्व' मित्युप्रक्रमात 'सैषा चतुष्पदा षड्विधा गायत्री 'तिचोपसंहारात्तस्य गायत्रीप्रकर पत्वेन तदनुगृहीतज्योतिःश्रुत्या पूर्वपक्ष इति पूर्वपक्षयुक्तिसाधारण्यात् । तथाग्नि , 18 १३८ तात्पर्यचन्द्रिका सूक्ते निरतिशयवैभवत्वलक्षणचरणेन सिद्धान्तवच्छान्दोग्येऽपि 'एवमेव नातिशी यन्त इति निरतिशयवैभवरूपेण चरणेन सिद्धान्त इति सिद्धान्तयुक्तिसाधारण्या चैकाधिकरणता । यथाऽऽधाराग्निहोत्राद्यधिकरणेषु 'आधारमाघारयति अग्नि होत्रं जुहोती'त्यायुदाहरणभेदेऽपि द्रव्यदेवतालक्षणयागरूपाभावान्नानयोर्याग विधित्वमिति पूर्वपक्षयुक्तिसाधारण्यान्मन्त्रवर्णादिना देवतादिलाभान्न रूपाभाव इति सिद्धान्तयुक्तिसाधारण्याच्चैकाधिकरणता तद्वत् । छन्दःसूत्रे तु छन्दश्शब्दो ऽग्नेरप्युपलक्षकः । अत एव 'अग्निगायच्यादी'ति भाष्येऽग्निपदप्रयोगः । उप देशभेदादिपूर्वपक्षयुक्ति: 'भूतादिपादेति सिद्धान्तयुक्तिश्व छान्दोग्यवाक्यमात्रा साधारणी । एवं च यथाऽर्थवादनये भट्टमत एको विचारोऽर्थवादमन्त्रादिसाधा रणोऽन्यस्त्वर्थवादमात्रासाधारण इति द्विपर्वा विचारः तथा ऽत्राप्युक्तरीत्या द्विपर्वा विचारः । अत एवास्य तत्वप्रदीपेऽन्तर्भेदाधिकरणत्वमुक्तमिति दिक् ।। तृतीयेऽपि 'कंपनात् शब्दादेव प्रमित' इत्यादाविवाधिकरणान्तरत्वेऽपि समन्वेतव्यशब्दान्तरस्य साक्षादनुक्तिन विरुद्धा। सूचनं तु प्रकृतेऽपि 'छन्दों मिधाना'दित्यनेन कृतम् । भाष्येऽग्निपदं त्वन्यत्र प्रसिद्धगायत्रीपदस्य विष्णौ प्रयोगे प्रयोजनमत्र वदता सूत्रकृता पूर्वत्रोतरत्र चाम्न्यादिपदस्य विष्णौ प्रयोगे प्रयोजनं सूचितमिति दर्शयितुम् । अन्यथा मतान्तरेपि 'अग्निगायत्र्यादी' त्यादिपदं व्यर्थ स्यात् ॥ अनुव्याख्यानन्यायविवरणयोयोतिरित्यत्राधिकाशङ्कानुक्तिस्तु 'अग्नि सूक्तस्थत्वादिति भाष्य एवोक्तत्वात् । न तु तस्यैका धिकरणत्वात् । 'अधि भूताध्यात्माधिदेवगतानामपि शब्दाना मिति न्यायविवरणे ज्योतिरधिकरणस्य पृथगुपाध्यनुक्तिपि तस्याकाशाधिकरणवदधिभूतगतशब्दविषयत्वं वान्तरधि करणवदधिदेवगतशब्दविषयत्वं वेत्यभिप्रेत्य । न त्वेकाधिकरणत्वमभिप्रेत्य । सूक्तविषयत्वमेव हि ततोऽस्य विशेषः । इदंच मतत्रयं सूत्रयोजनामात्रे भिन्नम् । प्रमेये त्वविरुद्धम् । एवमन्यत्राप्यविरोध ऊह्यः ।। तत्र ज्योतिरधिकरणे सूक्तस्था ज्योतिरादिशब्दा उदाहरणम् । प्राणा धिकरणन्यायागोचरत्वप्रदर्शनेन पूर्वपक्षोत्थानादनन्तरसगतिः ॥

ज्योतिरधिकरणम् १३९ अत्र ज्योतिः किमग्निः कि वा विष्णुरिति चिंता। तदर्थ किं ज्योतिश्श्रुतिप्रसिद्ध्यनुसारेण कर्णादिविदूरत्वलिङ्गं बाध्यमुत विपरीतमिति । तदर्थ किं श्रुत्यनुग्राहकं सूक्तं निरवकाशमुत सावकाशमिति । पूर्वपक्षस्तु - युक्तः पूर्वत्र वायुसूक्तस्थस्य प्राणश्रुतिमात्रस्य निरवकाश विष्णुलिङ्गैर्बाधः । अत्र तु ज्योतिश्श्रुतेर्न बाधः । प्रकरणरूपेण सूक्तेनानुगृही तत्वात् । यद्यपि ज्योतिश्शब्दस्तमोविरोधिमात्रे प्रसिद्धः तथापि हृदयाहितत्व लिङ्गात् 'वामग्ने तमसी'त्य मिशब्दसन्निधानाच्चामिपरः । न त्वग्निसूक्तस्थ त्वाज्ज्योतिश्शब्दोऽग्निपरः। तथात्वे सूक्तस्यामिश्रुतिसपादकत्वेन श्रुत्यनुप्राह करवायोगात् ।। एतेन ज्योतिश्शब्दाग्निशब्दौ देवतापरौ चेदन्तरधिकरणन्यायेन ब्रह्म परौ । भूतपरौ चेदाकाशाधिकरणन्यायेन ब्रह्मपरौ । सावकाशामिश्रुतेर्निर वकाशविष्णुलिङ्गैर्वाधात् । न चाग्निश्रुतिः प्रकरणानुगृहीतेति वाच्यम् । तत्तत्सूक्तस्थाग्न्यादिश्रुतीनां विष्णौ सावकाशत्वे सूक्तानामपि तथात्वात् । सर्व सूक्तानां वैष्णवत्वेऽपीदमनिसूक्तमिदं त्वन्यदितिव्यवस्था तु 'अभिव्यक्तरित्याश्म रथ्य' इति वक्ष्यमाणन्यायेन युक्ता । एवं च सावकाशसूक्तस्य निरवकाश विष्णुलिङ्गैः सुतरां बायेन पूर्वपक्षानुदय इति परास्तम् । सावकाशामिश्रुत्या सावकाशविष्णुलिङ्गवाधात् ॥ नन्वेवं सावकाशलिङ्गस्य सवकाशश्रुत्यैव बाधसंभवाद्भाप्ये सूक्तंक्ति यी । न च ज्योतिरितिसामान्यश्रुतेरमिरूपविशेषपर्यबसानार्थ तदुक्तिः । टीकाया 'श्रुतिप्रकरणयो'रिति द्विवचनस्य भाष्ये 'अग्निसूक्तस्थत्वाच्चे'ति चशब्दस्य चायोगात् । सामान्यश्रुतेः 'त्वामग्ने'इति विशेषोपस्थापके शब्दे सति प्रकरणाप्रतीक्षणाच्चति चेन्न । लिङ्गस्यातिशयेन बाधाय सूक्तोक्तः । एवोक्तं टीकायां 'यावता श्रुतित एव लिङ्ग दुर्बल'मिति । निरवकाशं तु विष्णुलिङ्ग नास्ति । गुहानिहितत्वस्य जाठराग्नावपि संभवात् । निरतिशय वैभवरूपकर्णादिदूरत्वस्य चाग्निश्रुत्यादिबलादनावप्युपपत्तेः ।। सुधायां तु ज्योतिरधिकरणे 'अधिकाशङ्का अग्निसूक्तस्थत्वादिति भाष्य अत ११० तात्पर्यचन्द्रिका एव दर्शिते'त्युक्तम् । तत्र च श्रुतिमात्रेण पूर्वपक्षानुदयात्तदुदयार्थमधिकाशको क्तिरिति नाभिप्रायः । उक्तरीत्या सूक्ताभावेऽपि पूर्वपक्षोदयसंभवात् । किं तु पूर्वपक्षदाढ्योर्थ तदुक्तिरित्यभिप्रायः । यद्वा सुधायां प्राणाद्यधिकरणेष्वधिका शङ्काप्रदर्शकस्यानुव्याख्यानस्य 'नन्वेतदपि पूर्वन्यायेन परिहृतम् । न सूत्रा रंमं प्रयोजतीत्यतोऽभ्यधिकाशङ्का दर्शयती'त्यवतारितत्वादिहापि पूर्वपक्षो दयार्थमेव भाष्येऽधिकाशङ्कोक्तिरिति सुधाभिप्रायः ।। एवं च तत्रेत्थं पूर्वपक्षः । यद्यपि पूर्वाधिकरणन्यायेन निरवकाशब्रह्म लिङ्गैः सावकाशाग्निश्रुतिबाधः । यद्यपि च सर्वसूक्तानां वैष्णवत्वेऽप्यभिव्यक्ते रित्यादिन्यायेनेदमग्निमूक्तमिदं वायुमूक्तमिति व्यवस्था संभवति । तथापीदम ग्निसूक्तं न तु विष्णुमूक्तमित्यध्यापकप्रसिद्धरयोगात्सूक्तं निरवकाशम् । एवं च निरवकाशत्रकरणानुगृहीतश्रुया निरवकाशमपि कर्णादिविदूरत्वलिङ्गं बहु वैभवाभिप्रायेण कथंचिदग्नावपि नेयम् । निरवकाशत्वमात्रप्रयुक्तस्य लिङ्ग गतस्य प्रावल्यम्य श्रुतिगतान्निरवकाशसूक्तसाहित्यश्रुतित्वोभयप्रयुक्तप्राबल्या. दुर्बलत्वात् । लिङ्गे बहुत्वप्रयुक्ते प्राबल्ये सत्यपि तस्य श्रुतित्वरूपस्वभावप्रयुक्त प्रावल्यादुर्बलत्वात् । अतरधिकरणस्थेन्द्राग्मयादिश्रुतिस्तु न सूक्तानुगृहीतेति । एवंचात्र टीकायां पूर्वपक्षहेतोः सूक्तस्य सिद्धांतहेतोर्लिङ्गस्य च सावका शत्वमिति पूर्वःपक्षः । सुधाया तूभयोनिरवकाशत्वमिति भेदः ॥ यद्वा सुधानुसारेणात्रापि 'सावकाशश्रुतिप्रकरणयो'रितिटीकायां सावका शत्वं श्रुतेरेव विशेषणं न तु प्रकरणस्य । टीकाया लिङ्गस्य सावकाश- त्वोक्तिश्च कर्गादिविदूरत्वस्य निरवकाशत्वेऽपि गुहानिहितत्वस्य सावकाशत्व- मभिप्रेत्य वा स्वतो निरवकाशस्यापि सूक्तानुगृहीतश्रुतिविरोधात्कल्प्यावकाश- मभिप्रेत्य वा द्रष्टव्या । लिङ्गस्य श्रुतित एव बाधोक्तिरपि सावकाशलिङ्गाभि- प्रायेति ॥ एते च शंके प्रमाणाश्रिते । प्रमेयाश्रिता तु तमोविरोषित्वस्य ज्योतिश्शब्दप्रवृत्तिनिमित्तस्य सर्वगतत्वेन तमसा सह स्थिते ब्रह्मण्ययोग तत्र यद्यपि वैश्वानरो जायमान इत्यग्निसूक्ते वैश्वानरश्रुतिर्जायमनत्व- ज्योतिरधिकरणम् न तु सर्वथा : लिङ्गं चास्ति तथापि विष्णौ श्रुतेः सावकाशताया वैश्वानराधिकरणे लिङ्गस्य सावकाशतायाश्च युभ्वाद्यधिकरणे कंठोक्तत्वान्न ताभ्या पूर्वपक्षितं भाष्य- टीकयोः ॥ सिद्धांतस्तु- कर्णादीनां विदूरत्वं विष्णोरन्यत्र नैव हि । अग्नेम्तु श्रुतिसूक्तादि सावकाशं परात्मनि ॥ १ ॥ कर्णादिविदूरत्वं हि यदितिपरिच्छेदानहवैभवत्वम् । कर्णादिविदूरत्वम् । क्वाप्यसंभवात् । तच्च परों मात्रयेत्यादिभाष्योक्तश्रुतिभि निरवकाशम् । न हि 'अग्नि देवानामवम'इत्यवमतया 'भीषाऽस्मादग्नि स्तपती तिसभयतया 'परि ह्येनं नियन्ते विद्यु वृष्टिश्चन्द्रमा आदित्योऽग्नि' रिति मरणादिमत्तया च श्रुतस्याग्नेरपरिच्छेद्यं वैभवम् । अग्निश्रुत्यादि तु 'अग्निनाग्निः समिध्यते तद्देवा ज्योतिषा ज्योतिः नारायणपरो ज्योति. विष्णुरेव ज्योतिः अहमग्निरहं हुतम् । ज्योतिषामपि तज्ज्योति'रित्यादि श्रुतिभिर्विष्णौ सावकाशम् ॥ इदं न विष्णुसूक्तमित्यध्यापकप्रसिद्धिस्तु 'धान्यमसी'ति मन्त्रस्य मास हविष्कयागे निविष्टम्य मासम सीन्यूहे कर्तव्ये मृगोऽसीत्यूहवत् प्रसिद्धविष्ण्वादि शब्दाभावादज्ञानमूला। तदुक्तं न्यायविवरणे 'संदिग्धश्रुतिलिङ्गाभ्यामप्य सदिग्धयोः केवलयोरेव बलवत्वादिति ॥ अत्र च सदिग्धत्वं नाम सावकाशत्वम् । एवं सूक्तातरेप्वपि द्रष्टव्यम् । तथा हि । एन्द्रे 'न त्वावा इन्द्र कश्चन न जातो न जनियत' इति । तथा 'ईशानमस्य जगतः स्वदृशमीशानमिन्द्र तस्थुष' इति । 'समुद्रे अतश्शयत' इति । तथा बाहम्पत्ये 'विश्वेषामिज्जनिता ब्रह्मणा- मसी'ति । तथा सौरे 'सूर्य आत्मा जगतस्तस्थुष' इति । यो विश्वस्य जगतो देव ईश इति । तथा विश्वकर्ममूक्ते 'विश्वतश्चक्षुः यो नः पिता जनिते'त्यादीनि ब्रह्मलिङ्गानि सति । किच सौरे 'येनापा वक चक्षसा भुरण्यं तं जनाँ अनु । त्वं वरुण पश्यसीति मूर्यस्य पावक तथा तथा वारुणे १४२ तात्पर्यचन्द्रिका .. वरुणादिशब्दस्संबोधनम् । तथा वरुणे 'अथावयमादिन्येति वरुणस्यादित्या दिशब्दैः संबोधनम् । तथाऽऽग्नेये 'त्वमग्न इंद्रो वृषभं सतामसि त्वं विष्णुरु रुगायो नमस्य' इत्यग्नि सबोध्य तत्रेन्द्रविष्ण्वादिशब्दप्रयोगः तत्तत्सूक्तानां सर्व शब्दवाच्यब्रह्मपरत्वे युक्तः[] । नान्यथा । यदि चन्द्रादावेव ब्रह्मलिङ्गोक्तिः स्तुत्यर्था ताकाशप्राणादावपि ब्रह्मलिङ्गोक्तिस्तदर्था स्यादिति दिक् ।। न चैवमत्रत्यसिद्धान्तेनैवान्तरधिकरणादिपूर्वपक्षाणा कैमुत्यन्यायहतत्वा त्तत्रत्यसिद्धान्तन्यायव्युत्पादनं व्यर्थम् । स्वतो बलवतोऽपि सावकाशस्य स्वतो दुर्बलेनापि निरवकाशेन वाध इत्यन्तरधिकरणन्यायेन विनाऽवत्यसिद्धान्त स्यैवासिद्धेः अत्र अकाशाद्यधिकरणेषु च अधिकाशानिरासकन्याय एव हि व्युत्पाद्यः । न त्वन्तरधिकरणन्यायः । 'ज्योतिर्दर्शना'दित्यत्र त्वग्निसूक्तस्थ स्यापि ज्योतिषो म्रिययाणत्वादिलिंग वत्वे शङ्कित लिङ्गानि ब्रह्मपरोपक्रमोप संहारमध्यस्थत्वादन्तर्भावितण्यन्तानीति वक्ष्यत इति न तेनाप्यस्य पुनरुक्तिः । ज्योतिश्शब्दप्रवृत्तिनिमित्तं च प्रकाशत्वं चित्प्रकाशरूपे ब्रह्मण्यप्यस्ति ॥ यद्यप्यत्र वावयशेषे 'विश्वे देवा अनमस्य न्भियाना' इति सर्वदेवोपास्य स्वादिकमपि निरवकाशविष्णुलिङ्गमस्ति । तथापि कर्णादिविदूरत्ववद्विषयवाक्य एवाश्रुतस्वादपरिच्छेद्यवैभवान्तर्भूतत्वाच्च न सूत्रकार दिभिः पृथगुक्तम् ॥ यद्यप्यत्र ज्योतिः प्रति कर्णादीना विरुद्धचर गरूपं कर्णादिविदूरत्वं वक्तुं विचरणाभिधानादिति सूत्रयितव्यम् । तथाप्युपसर्गस्य द्योतकत्वमा धातोरेव तु विचरणाभिधायकत्वमिति प्रदर्शनार्थ सूत्रस्य श्रुत्यनुगमप्रदर्शनार्थ च चरणाभिधानादित्युक्तम् । विचरणाभिधानादित्युक्तौ हि श्रुतौ वीत्यनेन चरती त्यस्य मे मन इति पदद्वयवहितत्वात् श्रुत्यनुगमो न ज्ञायेत । तस्माद्विप्गुरेवेदं ज्योतिरिति॥ टीकाक्षरार्थस्तु स्पष्टः ॥ ॥ इति ज्योतिरधिकरणम् ॥

गायत्र्यधिकरणम् १४३ [गायत्र्यधिकरणम् ] 11 – ॐ छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पण निगदात्तथा हि दर्शनम् ॐ ॥ १-१-११ ।। अत्राधिवेदगायत्र्यादिशब्दा उदाहरणम् । अत्र विषयवाक्यं 'अथ यदतः परो दिवो ज्योति'रिति छान्दोग्यस्थ ज्योतिक्यिमित्येकं मतम् । मतान्तर तु 'गायत्री वा इदं सर्व'मिति । अत्राचं मतं 'अथ यदतः परो दिव इति वाक्योक्ते ज्योतिषि सन्देहः। किं ब्रह्मोतान्य'दिति सुधोक्तम्। द्वितीयं त्वत्र टीकायां सुधायां चोक्तम् ।। अत्राचे मते ज्योतिरधिकरणेऽमिसूक्तस्य ज्योतिषोऽग्नित्वनिरासः अत्र तु छादोग्यस्थस्य ज्योतिषश्छन्दस्त्वनिरासः । द्वितीय तु ज्योतिरधिकरणेऽग्नि सूक्तस्थस्य ज्योतिषोऽग्नित्वनिरासः ॥ अत्र तु छान्दोग्यस्थाया• गायत्र्याश्छन्द स्त्वनिरास इति भेदः॥ आये भाष्ये गायत्रीवाक्योपादानं गायत्रीशब्दरूपपूर्वपक्षबीजप्रदर्श नार्थम् । द्वितीये भाष्ये ज्योतिर्वाक्योपादानं पूर्वपक्षे ज्योतिरधिकरणाक्षेपप्रदर्श नार्थम् । आद्येऽपि छान्दोग्यस्थज्योतिषो गायत्री वेत्युपक्रमेण गायत्रीत्वा दग्निसूक्तस्थमपि गायत्रीत्येकः पूर्व:पक्ष. । अपरस्तु अस्त्वग्निसूक्तस्थ ज्योतिः कर्णादिविदूरत्वाद्विष्णुः । छान्दोग्यस्थं तु तदेतद्दष्टं च श्रुत चेति तद्विरुद्ध दृष्टश्रुनस्वादिश्रवणान्न विष्णुरिति ।। न चैवं सति पूर्वपक्षे पूर्वसिद्धान्तानाक्षेपादफलेयं चिन्ता । ज्योतिषो गायत्रीत्वे 'इयं वा व सा येयं पृथिवी'ति गायव्यभिन्नत्वेनोक्ताया पृथिव्या 'अस्यां हीदं सर्व प्रतिष्ठित'मित्युक्तस्य स्थितिहेतुत्वादेरपि तद्धर्मत्वापत्त्या जन्मा दिसूत्राक्षेपात् । 'योऽयमन्नहृदय' इति छान्दोग्यस्थे ज्योति यानन्दमयवर्म भूतहृदयनिहितत्वश्रवणेन ज्योतिरधिकरणमनाक्षिप्यैवानन्दमयाधिकरणाक्षेपाच्च । द्वितीयेऽपि गायच्याश्छन्दस्त्वे तामुपक्रम्य छान्दोग्य उक्तस्य ज्योतिषोऽपि छन्द स्त्वादग्निसूक्तस्थमपि छन्द इत्येकः पूर्वः पक्षः ।।

तात्पर्यचन्द्रिका : मिति । अन्यस्तूक्तरीत्याऽग्निसूक्तस्थस्य विष्णुत्वेऽपि छांदोग्यस्थं छन्द एवेति ॥ अपरस्तु छांदोग्यस्थस्यापि ज्योतिषो ज्योतिरधिकरणे विष्णौ निर्णीत ज्योतिश्श्रुत्या विष्णुत्वेऽपि गायत्री न विष्णुः तत्र तच्छुतेरभावादिति । अत्रापि द्वितीये प्रथमोऽत्र टीकायामुक्तः। आये प्रथमद्वितीयौ (प्रथम. द्वितीययोराद्योऽत्र टीकायामुक्तः । प्रथमे द्वितीयः) । द्वितीये द्वितीयतृतीयौ च सुधायाम् । अ(त)त्र मतद्वयेऽप्याद्ये पूर्वपक्षे पूर्वसिद्धाताक्षेपादाक्षेपिक्य- वातरसंगतिः स्फुटा। अद्ये द्वितीये द्वितीये द्वितीयतृतीययोस्तु पूर्वपक्षयोः पूर्वाधिकरणवैषम्यप्रदर्शनाय तदुपजीवित्वादवातरसंगतिः ।। अत्र गायत्री किं छन्दः किं वा विष्णुरिति चिन्ता । तदर्थ किं गायत्रीश्रुतिप्रसिद्ध्यनुसारेण भूतपादत्वादि विष्णुलिङ्गं बाध्यं किं वा विपरीत- तदर्थ प्रसिद्धिबाधे किं श्रुतेर्मुख्यत्वभङ्ग उत नेति । तदर्थ गायत्रीशब्दप्रवृत्तिनिमित्तं ब्रह्मणि नास्त्युतास्तीति । तदर्थ किमनादिस्वभाव ईशानधीन उत तदधीन इति । तथा ब्रह्मपक्षे दिवि दिव इत्युपदेशभेदः कि न युक्त उत युक्त इति ।। यद्यपि पूर्वत्र निरवकाशलिङ्गैः सावकाशज्योतिश्श्रुतिबाध उक्तोऽत्र 'यद्वै त 'त्यादिश्रुत्यनुगृहीतैर्भूतपादत्वादिनिरवकाशलिङ्गैः सुतरां सावकाश- गायत्र्यादिश्रुतिबाध इति पूर्वपक्षानुदयः । तथाप्यधिकाशङ्कया तदुदयः ॥ शङ्का तु विष्णौ प्रसिद्धेषु शब्देषु सत्स्वन्यत्र प्रसिद्धगायच्यादिशब्द प्रयोगे प्रयोजनं नेत्येका। इयं च 'चेतोऽर्पणनिगदा वितिसूत्र सिद्धान्ते प्रयोजनोक्त्या सूचिता । आकाशादिशब्दसाधारणी चेयम् । गायत्रीशब्दे ऽनुपपत्त्यन्तरसद्भावात्स उदाहृता । अत एवाग्निगायत्र्यादीति भाष्य आदिपद प्रयोगो युक्तः। 'अधिकरणान्तरेऽप्येतनयायस्यानुसंधेयत्वं च सूचयतीति टीका चोपपन्ना। आसाधारणी त्वन्या। युक्तमग्नि मूक्तस्थज्योतिषो विष्णुत्वम् । उपदेशभेदाभावात् । इह तु दिव इति पञ्चम्युपदेशस्थस्य ज्योतिरश्रुत्या विष्णु त्वेऽपि दिवीति विरुद्धसप्तम्युपदेशस्थगायत्र्या न विष्णुत्वमिति ॥ अपरा तु अग्निसूक्तस्थज्योतिर्निष्ठकर्णादिविदूरत्वबिरुद्धदृष्टश्रुतत्वाद्युप ज्योतिरधिकरणम् १४५ स्वात् । देशान्नेदं ज्योतिर्विष्णुः । ततश्च गायत्र्यपि न विष्णुरिति । इदं च शङ्काद्वयं 'उपदेशभेदादिति सूत्रे कण्ठोक्तम् ।। अपरा तु एकस्य वहिश्रुतेरन्यत्र प्रसिद्धिवाधेऽपि गायत्रीवाक्पृथिव्या धनेकशब्दानामन्यत्र प्रसिद्धिबाधो न युक्तः। अन्तरधिकरण इन्द्रादिबहुश्रुती नामन्यत्रप्रसिद्धिबाधस्त्वन्यत्र प्रसिद्धान्तःस्थत्वमुखेन युक्तः । न चेह तथा मुखमस्तीति । इदं च 'कथं प्रसिद्धबहुलशब्दानामन्यथार्थते'त्यनुपाख्यान उक्ता । एताश्च प्रमाणाश्रिताः ॥ प्रमेयाश्रिता तु युक्तमाकाशाद्यधिकरणोक्तं जन्यभूताकाशस्वभावस्य विवरत्वादेर्योतिश्शब्दप्रवृत्तिनिमित्तस्य चेशाधीनत्वम् । धर्मिणा सह जन्य गायत्रीरूपवेदस्य त्वनादित्वात्तत्स्वभावस्य गानबाणकर्तृत्वादिरू प्रवृत्तिनिमित्तस्य नेशाधीनत्वमिति ।। ननु कृतकक्रमविशिष्टवर्गात्मकस्य वेदस्य नानादित्वम् । उक्तं हि विष्णुतत्वनिर्णयटीकायां न हि वयं वेदस्य कूटस्थनित्यता बम' इति । 'कमस्य' कृतकत्वेऽपी'ति चेति चेन्मैवम् । तत्वसंख्यानटीकायां नित्यत्वं नाम कूटस्थ तयाऽऽद्यन्तशून्यत्वम् । तच्च वेदानां 'नित्या वेदास्समस्ताश्चेत्यादिप्रमाणसिद्ध' मित्युक्तत्वात् । युक्तं चैतन् । क्रमस्य सदेश्वरबुद्धिस्थत्वात् । अत एवोक्तं विष्णुतत्वनिर्णये। सर्वज्ञत्वादीश्वरस्य तदुद्धौ सर्वदा प्रतीयमानत्वादिति । तट्टीकायां कौटस्थ्यनिषेधस्त्वस्मदादीन्प्रति प्रमापकत्वोपयुक्तस्यास्मदादिबुद्धि- स्थस्य क्रमस्योच्चारणाद्यधीनत्वेन कृतकत्वात् । कृत्वा चिन्तया वाऽनादित्वोक्तिः क्रमस्यानन्याधीनत्वात् । इयं च- 'नित्यत्वादेव शब्दाना तत्स्वभावः कथं हरेः' इत्यनुव्याख्याने दर्शिता । तत्राद्या शा 'चेतोऽर्पणनिगदादिति सूत्रे प्रयोजनोक्त्या परिहृता। द्वितीयतृतीये तु 'उभयस्मिन्नायविरोधा'दित्यनेन परिहृते । तस्य यथा विवक्षाभेदेन सप्तमीपञ्चम्यौ न विरुद्धे इत्यर्थः , ssकारभेदेन कर्णादिविदू त्वष्टत्वादिके न विरद्धे इत्यप्यर्थोपपत्तेः । चतुर्थी तु 'बाहुल्याच्त् श्रछुतिलिङ्गयो'रित्यनुव्याख्याने 'ज्यायांश्च पुरुष इत्यादिशब्द तथा 19 तात्पर्यचन्द्रिका सहितलिंगेश्चेत्यादिन्यायविवरगे च परिहृता ।। अयं भावः । अतो ज्यायांश्च पुरुषः यद्वै तद्ब्रह्म एतामेव ब्रह्मोपनिषद मियादिश्रुतीनां गानत्राणकर्तृत्वं भूनादिपादत्वं एतामेव नातिशीयन्त इति सर्वोत्तमत्वमित्यादिलिंगाना च बाहुल्याइनेकेषामपि शब्दानां प्रसिद्धार्थत्यागः । पुरुषशब्दो हि ‘स वा अयं पुरुषः सर्वायु पुरि शयो नैनेन किं च नानावृत' मित्यत्र सर्वातर्यामित्वं पुरुषत्वनियुक्तेः तथा 'पुरुषो ह वै नागयणः महस- शी: पुरुषः सहस्राक्षः सहरूपादित्येष ह्येवाचिन्त्यः परः परमो हरिः पुरषः परः परमात्माऽजो ब्रह्म नारायणः प्रभु'रित्यादिश्रुतेः 'यथा हि पौरुषे सूक्तं विष्णुरेवाभिधीयते' । इत्यादिस्मृतेश्च पुरुषोत्तमे मुख्य इति । पञ्चमी तु 'तादृशगत्तु तन्छक्ते'रित्यनुव्याख्याने परिहता । अयं भाव: अनादीनां गुणादीनां यथा गुण्यादितन्त्रता । तथाऽऽनादिश्रुतेरस्तु क्षेमायेश्वरसन्त्रता ॥१॥ यथा वैशेषिकमते गगनादिपरिमाणादीनामनादीनामपि स्वाश्रयगगनाथ धीनता ॥ यथा चातिमतेऽनादेरात्माज्ञानसंपन्यस्य जीवब्रमविभागादेव संबन्ध्यज्ञानाद्यधीनता। यथा वा प्रामाकरमते दुःखप्रागभावम्य मोक्षस्य ज्ञानाधी नता यथा वा मतान्तरे दुरितप्रागभावस्य निषिद्धाकरणाधी नता । तथा गायच्यास्तत्पदप्रतिनिमित्स्य चौपत्यभावेऽपि स्थिती विष्ण्वधीनता ।। किंत्र सादेरप्पुतात्तावन्यापेक्षायामो तदनन्तरं सिनावनादितो न विशेषः। तत्र च साहिन केवलमुन्पनावीशतन्त्रः किं तु स्थितावति 'प्रकृ तैतावत्वं हि प्रतिषेधती'त्या वश्यमागवादनादेपत्यभाषेत तत्रान्यानोक्षाया मी सिमावीशारेशा किं न स्या।। दृश्यने हे योन्याशय पराधीनवव रक्षेमे पि तदपेक्षस्य तदधीनता । किंच अकर्तुमन्यथाकतुं कर्तुं चास्तीश्वरस्य यत् ।

गामव्यधिकरणम् नयः। सामर्थ्य तेन तन्त्रमनाद्यपि च सादिवत् ॥ १ ॥ ईश्वरो हि सर्वत्राप्रतिहतशक्तित्वाद्धटेनेवाव्याकृताकाशादिनापि रहितम तीतादिकालं कर्तुं शक्नोति । सकल्पाभावात्तु तदकरणम् । तदभावश्च कार्यों न च शक्त्यमावादेव तदुपपत्तिः । 'स्वभावजीवकर्माणि' इत्यादि टीकोदाहृतश्रुन्यादिविरोधादैश्वर्यविरोधाच्च । तथा चानादीशेच्छाधीनानादिस्वभा बता कथमीशतन्त्रताविरोधिनी। स्वभावमात्रस्येशाधीनताऽऽकाशाधिकरण उक्ता। अत्र स्वानादेरपीति भेदः। पाकावीनविशेषावाप्तिलक्षणोत्पत्ति रीशादन्यस्य सर्वस्यापीति वियत्पादे वक्ष्यते । अत्र तु प्रागसतस्सता संबन्ध रूपोत्पत्तिरहितानामपि स्वरूपसत्तशाधीनेत्युक्तमित्यविरोधः ।। यद्यप्यनादिस्वभावस्येशाधीनतामनुक्वाऽपि गायत्रीशब्दप्रवृत्तिनिमित्स्य गानत्राणकर्तृत्वस्य वेदोपदेष्टरि रक्षके च विष्णावेव संभवेन तस्य विष्णुपरता वक्तुं शक्या । न च योगाद्वंदेः प्राबल्याढिबाधकमहायोगायेशाधीनस्वोक्तिः। गायति च त्रायति चेति श्रुत्युक्तान्निरवकाशविष्णुलिझानुग्रहाच रूढित्यागेन योगस्यैव प्राबस्वात् । भाष्ये विष्णौ पौराणिकरूढेरुक्तत्वाच । तथापि यथा वीही नवहन्तीत्यत्र द्वितीयाश्रुतिमतन्त्रीकृत्यावघातादेलिशाहीहिशेषतोक्ता द्वितीये। तथात्रापि तद्गतत्वमतन्त्रीकृत्य छन्दोगतस्य प्रवृत्तिनिमित्तस्य विष्ण्वधीनत्वेन श्रुतेर्विष्णावेव महायोगेन परममुख्यत्वमिति प्रदर्शनार्थ अनादिस्वभावनियाम कशक्तिरूपमहागुणसिद्ध्यर्थ विष्णावसंभवदनादिप्रवृत्तिनिमित्तकशब्दसमन्वयार्थ शाधीनतोक्ता । तस्माद्विष्णुरेवाधिवेदगतगायच्यादिशब्दवाच्य इति ॥ सूत्रक्रमस्तु आये उपक्रमस्थहेतूक्तिः। द्वितीये तूपसेहारोदाहृतमन्त्रण हेतूक्तिः । तृतीये बायकोद्धार इति ।। अत्रोभाभ्यामुक्तं चतुम्सूयेक्रमधिकरणम् । चरणभिधानादित्यस्य च पादाभिधानादित्यर्थः । पादानिधानं च 'अथ यदत' इति छान्दोम्यगत मेव । तत्र 'तदेतहचाभ्युक्तम् । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवी' तिपादाभिधानादिति । तत्र लावार्थ श्रुत्यनुगमार्थ च पादामिधानादिति सूत्रं स्यादिति सुधायामेवोक्तम् । किं चास्मद्रीत्या 'इन्य आहितं यदिति गुहा तात्पर्यचान्द्रका निहितत्वयुक्तज्योतिक्यिोदाहरणेनानन्दमयाधिकरणाक्षेपेण पूर्वपक्षसंभवे तद नाक्षेपेण 'अथ यदत' इति वाक्योदाहरणमयुक्तम् । किंच- पौनरुक्त्यं परमते ज्योतिर्भूनादिमूत्रयोः । पादोपदेशादन्या हि नवास्ति चरणाभिधा ॥ १ ॥ पादोऽस्य मर्वा भूतानीति पूर्ववाक्यस्थपादाभिधानादन्यस्य ज्योतिर्वाक्ये पाहाभिधानम्याभावात्तस्य च भूतादिमूत्रेणैवक्तत्वाच्चरणाभिधानादित्यस्य पौन रुत्यम् । अथ 'चरणाभिधाना'दित्यनेन 'पादोऽस्य सर्वा भूतानी'ति मन्त्र वाक्यम्थं सर्वभूतानामेकपातत्वममृतस्य त्रिगत्त्वं चोच्यते। 'भूता दिपादे'त्यनेन तु 'सैषा चतुष्पदे'ति ब्राह्मणवाक्यस्थं भूतपृथिवीशरीरहृदयानां पादत्व मुच्यते । ब्राह्मणवाक्ये हि 'इदं सर्व भून मिति भूतं 'येयं पृथिवी ति पृथिवीं 'यदिदमस्मिन्पुरुषे शरीर'मिति शरीरं 'यदिदमस्मिन्नन्तः पुरुषे हृदय'मिति हृदयं चोक्त्वा 'सैषा चतुष्पना पविधा गायत्री'ति भूतादीना चतुर्णा पादत्वं व्यपदिश्यते । ततो न पौनरुत्तयमिति चेन्न । 'चरणाभिधाना'दित्यनेन 'पादोऽस्य सर्वा भूतानि त्रिपादस्य'ति मन्त्रस्थपादाभिधानद्वयस्येव ततोऽधिका- र्थस्य ब्राह्मणस्थपानाभिधानम्यापि वक्तुं शक्यत्वेन भूतादिसूत्रवैयात् ॥ अपि च त्वत्पक्षे हि ब्रह्मणम्तत्तत्पादत्वं तत्तदात्मकत्वम् । सर्वात्मकत्वं चरणाभिधानादित्यनेनैवोक्तमिति किं तदेकदेशभूतभूताद्यात्मकत्व प्रतिपादकेन भूतादिसूत्रेण । किं च चतुष्पदे त्यत्र चतुश्शब्दो न भूतादिपरः । पूर्ववाक्ये भूतादिवत् 'वाग्वै गायत्री वाग्वा इदं सर्व'मिति वाचः 'अस्मिन्हीमे प्राणाः प्रतिष्ठिता' इति प्राणानां चोक्त्या भूतादीनां षट्वेन चतुष्वायोगात् । अत एव श्रुतौ पविधेत्युक्तम् ।। न च वाच्यं भूतादीनां वादप्राणरहितानां चतुर्णा पादत्वं तत्सहिताना तु षण्णां विधात्वमिति । पादशब्देन तदात्मकत्वविवक्षायां वाक्प्राणयोरपि तदात्मकत्वाद्विधाषटकान्तर्गतस्य भूतादिचतुष्टयस्य पृथवकृत्य पादत्वोत्तेर्निष्फ लत्वात् । उपासनार्थ ब्रह्मणि भूतादीनां चरणत्वारोपश्चगायच्याख्यछन्दस्येव स स्यादिति गायत्री ब्रह्मेति सिद्धान्तासिद्धिः ।। तथाच गायच्यधिकरणम् १४९ तस्मात्मैपेत्यत्र न पूर्ववाक्यस्थाना भूतादीनां पादत्वमुच्यते । किं तु पाड्विध्यमनूद्य चतुष्पदत्वं विधाय तद्विवरणाय पादोऽस्येत्यादि ऋगुदाहृता । अन्यथा मन्त्रब्राह्मणयोभिन्नार्थत्वाद्राह्मणोक्ते 'तदेतदृचाभ्युक्त मितिमन्त्रसंमतिन स्यात् । 'त्रिपादस्यामृतं दिवि पादोऽस्येति पादशब्दनिर्दिष्टे चतुष्टये सति तदनिर्दिष्टस्य भूतपृथिव्यादेः पादचतुष्टयत्वायोगाच्च । विवि दिव इति विरुद्ध वेभक्तिसहितधुप्रातिपदिकार्थसंबद्धस्यैक्यम् तद्रहितचतुस्संख्यासंबद्धानां तु मन्त्रब्राह्मणस्थपादानी भेद इत्यस्यात्यन्तायुक्तत्वाच्च । अस्माकं मते पाड्वियं तु 'गायत्र्यां संस्थितो विष्णु रित्यादिछान्दोग्यभाष्याज्ज्ञेयम् । तस्मा न्मान्त्रवर्णिकादन्यस्य पादाभिधानम्याभावातस्य च चरणाभिधानादित्यनेनै वोत्तत्वात्परमते भूतादिसूत्रवैयर्थ्यम् ॥ अस्माकं पक्षे भूतादीत्यत्रादिशब्दस्तु 'अमृतं दिवी'त्युक्तामृताख्य स्वरूपपरः । न चात्र पादमुद्दिश्य विश्वभूतविधिः । येन पादैकत्वमुद्देश्य विशेषणत्वात् 'ग्रहं समाष्र्टी'त्यत्र ग्रहगतैकत्ववदविवक्षितमिति चतुष्पदत्वं न सिद्धयेत् । किं तु विश्वभूतो देशेन पादविधिः । पादानामेव जिज्ञासितत्वात अत एव टीकायां 'सर्वाणि भूनान्यस्यैकः पाद' इति पादविधानं दर्शितम् । तथा च पशुना यजेतेत्यत्र पश्वकत्ववद्विधेयगतत्वात्पादकत्वं विवक्षितम् । यथा च वर्णमास्यां पौर्णमास्या यजेते'त्यादौ सप्तम्यन्तः पौर्णमास्यादिशब्दः काले मुख्यः तृतीयांतस्त तत्संबन्धिनि कर्मण्यमुख्यः । तथा 'त्रिपा' दित्यत्र पादशब्दः स्वरूपांशे मुख्य. 'पादोऽस्ये'त्यत्र भिन्नांशे त्वमुख्य इति न कश्चिदोषः ।। यच्च 'उभयस्मिन्नप्यविरोधा'दित्यस्य परकीयं व्याख्यानं 'यथा वृक्षामा संबद्धोऽपि श्येनो वृक्षाग्रे श्येनो वृक्षापात्परत्र श्येन इति च व्यपदिश्यते । तथा दिव्ये वसब्रह्म दिव: परमित्यप्युच्यते । यथा वा वृक्षाणासंबद्धोऽपि श्येनो वृक्षा प्रात्परत्र श्येनो वृक्षाग्रे श्येन इति चोच्यते । एवं दिवः परमपि ब्रह्म दिवीत्यप्यु च्यत' इति । तदपि न । यस्य वृक्षाग्रस्य यं प्रति मुख्यमाधारत्वमवधित्वं वा तस्यैव तं प्रत्येवामुख्यस्यावधित्वस्य वाऽऽधारत्वस्य वा विवक्षायां वृक्षापात्परल ..

१५० बात्पयचान्द्रका श्येन इत्यादिप्रयोगामावेन दृष्टांतासिद्धः ।। अत्र भामत्यामुक्तम् । यदाऽऽधारत्वं मुख्यं तदा वृक्षाग्रादित्यत्र श्येन शब्दो वृक्षाप्रलमश्येनावयवादुपरितनश्येनावयवावच्छिन्नश्येनावयविलक्षकः । अग्रशब्दो वाऽऽप्रादर्वाग्भागलक्षकः । यदा त्ववधित्वं मुख्यं तदान इत्यत्र सप्तमी सामीप्यं लक्षयति । एवं दाष्टोन्तिकेऽपि ज्योतिश्शब्दो वा दिव इत्यत्र धुप्रातिपदिकं वा दिवीत्यत्र सप्तमी वा लाक्षणिकति। तन्न । ज्योतिषो ब्रह्मणो निरवयवत्वात् । लक्षणादिप्रसङ्गात् । 'पृथिव्यां चौमहामेरु' रित्यादिस्मृतिविरोधाच्च ।। केचित्तु सप्तमी अन्तर्बहिरधरोर्वभागस्थितिसाधारणी । प्रासादस्यान्त रघरभागस्थित इव बहिरूलभागावस्थितेऽपि वस्तुनि प्रासादे वर्तत इति प्रयोगान् । पञ्चमी तूपरिस्थित्यपाधारणी । अत उभाभ्यां स्थानविशेषादु परिस्थितिरेव विवक्षिनेत्युभे अपि मुख्याथें एवेत्याहु :। तन्न। उभयत्रापि घुश ब्दस्यैकार्थत्वे द्वयोरपि मुख्यार्थत्वायोगान् । सप्तमी द्याधारन्वे । परं तु तदा धारत्वमधरान्तभोगाभ्यामिवोर्ध्वबहिभागाभ्यामप्यवच्छिद्यते। न त्ववयविनो ऽधित्वे सप्तमी । न हि वृक्षात्परतो अमन् श्येनो वृक्षेऽस्तीत्युच्यते । पञ्चमी स्ववधित्व एव । न त्वाधारत्वे । न बूभागावच्छिन्नेऽपि वृक्षे वसन् वृक्षात्परत इत्युच्यते । किंतु वृक्षम्योर्श्वभाग इति । तस्मात् 'त्रिसप्तलोका पेक्षयेति भाष्योक्त एव परिहारः साधुः ।। भाष्ये वेवमभिप्रेतम् । यदा भूर्भुवस्स्वरिति लोकत्रयविवक्षा तदा लक्ष योजनोच्छ्रितान्तरिक्षलोकादुपरितनस्य सर्वस्यापि द्युत्वाच्छ्वेतद्वीपानन्तासन वैकुण्ठानां चान्तरिक्षादुपरितनत्वाचनत्यं नारायणवासुदेववैकुण्ठाख्यं निपात्संज्ञ रूपनयं दिवीयुच्यते । 'पृथिवीस्थेषु सर्वोचो लोकोऽनन्तामनात्मकः' इत्युक्तत्वादनन्तासनस्य नांतरिक्षादुपरितनतेति शंक्यम् । पृथिवीस्थत्वेऽपि बहुलक्षयोजनोच्छूितत्वेनकलक्षये जनोच्छितान्तरिक्षादुपरितन मोरपत्तेः । सर्वपृथिवीस्योचत्वोत्या तु नान्ययोमो व्यावय॑ते । किं त्वयोगः ।

प्राणाधिकरणम् १५१ यदा तु भूर्भुवस्वर्महर्जनस्तपम्सत्यमिति सप्तलोकविवक्षा । वदेन्द्रसदनस्य द्युत्वाचत्रस्य वैकुण्ठस्य दिवः परत्वम् ।। 'पृथिव्यां धौर्महामेरुराकाशे सूर्यमण्डलम् । दिवसदनं चैव तत्परे तु दिवः परे' इति स्मृतेरोरपि धुत्वा तत्परस्यानन्तासनस्यापि दिवः परता । सूर्य मंडलस्यापि धुत्वात्तत्परस्य श्वेतद्विपस्यापि दिवः परत्वम् ।। अत्र ययपि लोकत्रयविवक्षायामप्पनन्नापनादीनां मेर्वादिपरत्वेन दिवः परत्वसिद्धिः। स्वर्गलोकात्परत्वं स्वनन्तासनश्वेतद्वीपयोर्नास्ति । 'यावानुचः स्वर्गलोकस्तावानुचतया स श्वेतद्वीपो दिविष्ठोऽत' इत्यादेः । तथापि वैकुण्ठस्य सर्वद्युपरत्वसिद्धये सप्तलोकविव क्षोक्तिः। तदुक्तं- 'यात्मकेभ्यश्च सर्वेभ्यो वैकुण्ठश्वोच्च उच्यत' इति। एवं च यथा चैत्रो प्रामेऽस्तीत्युक्त्वा स प्रामाहिरियो आधे प्रयोगे प्रामशब्दो मरप्यादिसहिते वर्तते । द्वितीये तु वाटपरिक्षेपे । तदुक्तं महाभाष्ये । 'ग्रामशब्दोऽयं बहर्थः अस्ति वाटपरिक्षेपे वर्तते । त धथा प्रामं प्रविष्ट इति । अस्ति सारण्यके सस्थडिलके वर्तते । ग्रामो लय' इनी ते । ताप्रोऽपि धुशमोऽनेकार्थः ।। अनेकार्थत्वं चाक्षादिशब्दववृद्धव्यवहारादिना सर्वत्र मुख्यत्वेन वैकत्र मुख्यत्वेऽप्यन्यत्रामुख्यत्वेन वेति । 'अन्याय्यं चानेकार्थत्व'मितिन्यायस्य नायं विग्यः । सर्वतः पृष्ठवं चानन्तासनादीनां यथासंभवं पृथिव्यादि लोकोच्चत्तम् । विश्वतः पृठत्वं च मेस्वैजयंतसत्यलोकरूप चतुर्मुखस्थानादुश्चस्व मिति टीकायामेवोक्तम् । इदं च- 'पृथिव्या ब्रह्मणो मेरुजयन्तं त्वन्तरिक्षगन् । तृतीयं सत्यलोके च सदनं त्रिविधं स्मृतम् ।। तेभ्योऽनन्तासनाद्या यत्परतो विश्वतः परः' तद्यथा १५२ तात्पर्यचन्द्रिका इत्यादिवाक्यादवगन्तव्यम् । अत्र यद्यपि वैकुण्ठस्य स्वर्गलोकात्परत्वे. नैव दिवः परत्वसिद्धिः । तथापि तस्य सर्वतः पृष्ठेवित्यनेनैवोक्तत्वादिवः पर इत्यस्य वैयर्थ्य मा भूदितीन्द्रसदनस्य धुत्वोक्तिः ।। यद्वाऽचित्प्रकृत्यात्मकत्वेन द्योतमाने स्थानत्रये सप्तम्यन्तो धुशब्दो यौगिकः । पञ्चम्यन्तस्तु स्वर्गादौ रूढ इत्यविरोधः। अयमपि मूत्राविरोध. शब्दार्थ इति द्रष्टव्यम् । अयं च परिहार:- 'बहुलक्षोच्छ्रिते नित्ये विमाने संस्थितं यतः । चिप्रकृत्यात्मनि ततो दिवीति कथितं श्रुता' वितिछान्दोम्यभाष्ये सूचितः ॥ यच्च तं परंर्जागरिते हि जीवस्य शरीरबाहाकाशः स्थानम् । सम्मे तु तन्मध्याकाशः । सुप्तौ तु हृदयाकाशः । तथा चावस्थात्रयविशिष्टो जीवः त्रिगत् । उत्त.त्रिविधाकाशं च धुशार्थ इति । तम। जाग्रदाय वस्थावतो विश्वादिशब्दवाच्यम्य, 'दक्षिणाक्षिमुने विश्वो मनस्यन्तस्तु तेजस' इत्यादि श्रुत्या स्थानान्तरोक्तेः । जागरादौ जीवस्य बाह्यादिपदार्थभोगे ऽपि 'हृदि ह्येष आत्मे'तिश्रुत्या हृदयस्थस्य ज.वस्य बाह्याकाशादिस्थानत्वे माना भावाच। जीवेऽमृतत्वस्यासंभावाच्च । दिवि दिव इति वाक्ययोरैकार्थ्यस्य समतन्येन दिव इति वाक्योक्तम्य ज्योतिषोऽपि जीवत्वापत्त्या ब्रह्मत्वसिद्धान्त हानेश्च । 'त्रिपादूर्व उत्पुरुष' इत्यादिश्रुती- 'सुदर्शनाख्यं स्वास्त्रं तु प्रयुक्तं दयितं त्रिपा' दिति भागवते भगवत्येव त्रिपाच्छब्दप्रयोगाच्च । यच्चोक्तं परैर्विश्वतः पृष्ठेप्वित्यत्र विश्वशब्दोऽसंकुचितवृत्तिरिति दर्श यितुं सर्वतः पृष्ठवित्युक्तमिति । तत्र व्यक्तमेकस्य वैयर्थम् ॥ केचित्तु 'तथाऽक्षरात्संभवतीह विश्वमिति' श्रुतौ विश्वशब्दः कार्ये प्रयुक्त इत्यत्रापि तत्परः । सर्वशब्दस्तु परिशेषात्कारणपर इत्याहुः । तदपिन । 'स इदं सर्वमसृजते'त्यादौ सर्वशब्दः कार्ये प्रयुक्त इति तत्परः। परिशेषा आन्तमप्राणाधिकरणम् द्विश्वशब्द: बारणपर इति प्रसङ्गात् । 'सभक्तीह विश्वमित्यत्र च संभवतिपद र निधान । विश्वशब्दः कार्यरो न तु स्तः। अन्यथा 'विश्वतः परमा नित्य विश्वात्मानं परायणं' इत्यादावपि कार्थमात्रपरः स्यात् । तस्मात् श्रुति सूत्रयोरन्योक्तार्थस्यार क्तत्वाद्भायोक्त एवार्थ इति ।। टीकाक्षरार्थस्तु - आदिपदेन वाचो ग्रहणमिति । वाग्वै गायत्रीति श्रुतौ वाक्शन्नार्थगुणवत्तयोपासनार्थ विष्णु गिन्युक्तः । तथा च वाक्त्वमपि न विष्णुत्वबाधकमिति दर्शयितुं भाप्य आदिपदनित्यर्थः । अनुसन्धेयत्वं च सूनयत ति । आदिपन नित्यनुपङ्गः ॥ आदिपदेन या वैसा गायत्रीति । या वै सेत्यादिना गायत्र्याः पृथिव्यभेदमुक्त्वा 'अस्यां हीदं सर्व प्रतिष्ठित' निति पृथिव्या:सर्वाधारवमुक्तम् । तच्च विष्णोरेव गायत्रीपृथिव्यादिशब्दार्थत्वे युक्तं नान्यथेत्यर्थः ।। ॥ इति गायत्र्यधिकरणम् ।। [ अन्तिमप्राणाधिकरणम् ] । 12 ॐ प्राणरतथानुगमात् ॐ ॥ १.१-१२ ॥ त्र तिलिङ्गबाहुल्येन गायन्यधिकरणसिद्धानन्यायेन पूर्वपक्षप्रवृतरे नन्तरसंगतिः ।। अत्र प्राणः किं मुख्यवाय्वादिः किं वा विष्णुरिति चिंता । तदर्थ कि वावादिश्रुत्याद्यनुसारेण विगुश्रत्यादि नेयमुन विपरीतमिति । तदर्थ किं वाय्या श्रुित्यादिकं निरवकाशं विष्णुश्रुत्यादिकं तु सावकाशमुत विपरीमिति ॥ ननु 'अत एव प्राण' इत्यनेन गतार्थमिदम् । न च पूर्वत्र प्राणशब्दो वायुपरो नेयुक्तम् । इह विन्द्रजीवपरो नेस्युच्यत इति भेदः। इह सूत्रे मुख्यप्राणपहायोगात् । न च पूर्वत्र वायुपरत्वस्यैव निरासः । इह स्विन्द्र जीववायुपरवानाभिति भेदः । अस्य विषयस्य नागता खेऽप्यनेन तस्य 20 तात्पर्यचन्द्रिका ल्पविषयस्य गतार्थत्वात् । निरापकन्यायभेदं विना निरसनीयभेदमात्रेणा धिकरणभेदासिद्धेश्च । न च पूर्वत्र प्ररि झ्यवलंबेन श्रुत्या पूर्वपक्षे लिंगैः सिद्ध न्तः। अत्र तु लिङ्गैः पूर्वपक्षे श्रुतिलिङ्गाभ्या सिद्धान्तः ॥ अत एव तत्र पूर्वपक्षे भाप्ये प्रसिद्धेरिन्युक्तम् । अत्र तु सूत्रे लिङ्गादित्युक्तमिति वाच्यम् । श्रुत्या प्राप्तस्य पूर्वपक्षस्य लिङ्गमात्रेण बाधितस्य पुनर्विरोधिश्रुतिलिङ्गबाधेन लि रूज्जीवनासंभवात् । न च अतिवाहुल्यादुज्जीवनम् । तद्बाहुल्यणमस्यापि पूर्वप: स्याधि) गायत्र्यधिकरण निरामात । न च तत्र गायत्रीवाक्पृथिव्यादि श्रुतयो भिन्नविषयाः । अत्र तु चक्षुः श्रोत्रं मनो वावप्राणः । 'तत्प्राणे प्रपन्न उतिष्ठन् स एष प्राण' इत्यादाववैव प्राण श्रुतिरावृतति वाच्यम् । तत्रापि 'गायत्री वा इदं सर्व वाग्वै गायत्री सैषाषविधा गायत्री'तिश्रवणात । आका- शाधिकरणविषयवाक्य आकाशश्रुतेरेवावृत्तेश्च । न च श्रुतिलिड्गबाहुल्यादु- जीवनम् । अत एगनुव्याख्याने बाहुल्यत श्रुतिलिङ्गयो'रित्युक्तम । इह भाप्ये टीकायां च लिङ्गमात्रोक्तिः पूर्वपक्षोपक्रममात्रमिति वाच्यम । इंद्रे 'इन्द्रम्य प्रियं धामोपेयाय तमिन्द्र उगच प्राणों वा अहमस्मी'त्यादिश्रुतीनां महाव्रत्याजित्यदिलिङ्गाना मुख्यागे प्राणादिश्रुतीनां 'ता अहिसते'ति प्राण संगादिलिङ्गनाम् जीवे 'पुरुारूपेण य एष तपति स एष पुरुषः समुद' इत्यादिश्रुती । 'तावति शतसंवत्सरस्याह्नां सहस्त्राणि भवन्तीति शतसंवत्स रस्वामिलिंगाना च बाहु येऽपि इंद्रादिश्रुतेरन्तरित्यत्र प्राणश्रुतेश्चात एव प्राण इत्यत्र पुरुषश्रुतेश्च गायत्र्यधिकरणे सावकाशितत्वेन लिंगानां च विष्णौ प्रवृत्तप्रब लश्रुन्यनुसारेणान्तरधिकरणपूर्वपक्षोक्तानामणनेतृत्वादिलिंगानामिव विप्णौ प्रवर्त नीयत्वेन संभावितावकाशतया बहुविष्णुश्रुतिबाधकत्वायोगात ॥ दृष्टं हि 'दर्शपूर्णमासाभ्यां यजेते'त्यादौ यजेः प्रवृत्तदर्शपूर्णमासनामानु सारेण षड्यागमानपरत्वम् । अन्यथा राजसूययजेरिव सन्निहि नसर्वयागपरता स्यात् । संति च विष्णौ प्रवृत्ताः 'ब्रह्मे पुरुष'मिति ब्रह्मशब्दाद्याः श्रुतयः । न चेन्द्रश्रुत्यादिकं पश्यन्पूर्वपक्षी तत्सन्निहितं विष्णुश्रुत्यादिक न पश्यतीति युक्तम् । उक्तं चानन्दमयाधिकरणे ब्रमशब्दस्य विष्णौ मुख्यत्वमिति चेत् अन्तिमप्राणाधिकरणम् १५५ मैवम् । इन्द्रादिलिङ्गादीनां विष्णौ प्रवर्तयितुमप्यशक्यत्वेन पूर्वपक्षोदयात् । तथा हि । 'इन्द्रो वै वृत्रं हत्वा महानभवत् । यन्महानभवत्तन्महानतम भव'दित्यादौ यो वृत्रहन्तेन्द्रो महावतयजमानः प्रकृतः । स एव 'मिन्द्र उवाच प्राणो वा अह'मिति तत्रापीन्द्रशब्देनोच्यते । न च वृत्रहन्तृत्व महाव्रतयजमानत्वादिकं ब्रह्मणि युक्तम् । नापि 'प्राणो वा अहमिति प्रसिद्धेन्द्र प्रयुक्तोऽहंशब्दो विष्णौ युक्तः। न चाहमित्यस्य मयीत्यर्थः । विभक्तिव्यत्यय प्रसङ्गात् । अन्तर्यामिपरत्वे च लक्षणा स्यात् । न चाहंशब्दः स्वायोक्त यामिण्येव मुख्यः। 'तदात्मानमेवावेदहं ब्रह्मास्मि' । 'अहं कृत्स्नस्य जगतः' इत्यादावीश्वरप्रयुक्ताहंशब्दस्यामुख्यार्थत्वप्रसगात् । यथा च 'वत्स मालभेते'त्यत्रालंभनं गुणकर्मभूतगोदोहनादिसाहचर्याद्गुणकर्म । तथा प्राणोऽप्य प्रधानचक्षुरादिसाहचर्यादप्रधानभूतः। न तु प्रधानभूत ब्रह्म । चक्षुरादिभि श्वातिनिकृष्टैः सर्वोत्कृष्टस्य ब्रह्मणः कलहोऽप्ययुक्तः । शतसंवत्सरत्वं तु जीवादन्यत्र न युक्तमेव ॥ यद्यपि 'तावन्ति शतसंवत्सरस्याह्ना सहस्राणि भवन्ती'त्यत्र शसंवत्स रत्वं प्राणनिष्ठं न भाति । बृहतीसहस्त्रवर्णानां शतसंवत्सरस्याहा च त्रिंशत्सह सत्वेन संख्यासाम्यस्यैवोक्तेः। तथापि 'तं शतं वर्षाण्यभ्यार्च'दित्यत्र 'प्राणो वा व तदभ्याच'दिति प्रकृतस्य प्राणस्यान्वयात्तावन्तीत्यत्रापि तस्यैवान्वयः। अत एव टीकायां 'प्राणो वा व तदभ्याच'दित्यादिपूर्ववाक्यं पठितम् । न च तदन्तर्यामिणि लिंगानां सावकाशता । दुःखित्वादेरपि प्रसंगात् । नेतृत्वादिलिंगानामप्यन्तर्यामिगतताऽवत्यसिद्धान्ताधीना । न च स्वातन्त्र्यादेवे श्वरे प्राणशब्दः । सति विरोधिश्रुत्यादौ तदयोगात् । न हि दरिद्रो भृत्यो जयीत्यत्र राज्ञि जयिशब्दः । तदेतदभिप्रेत्योक्तं टीकायां 'न चैतल्लिंग विष्णा ववकाशं लभत' इति । अन्विष्याप्यवकाशं न लभत इत्यर्थः । अन्यथा न चैतल्लिंग सावकाशमित्येवावक्ष्यत् । विष्णुश्रुत्यादिकं विन्द्रादौ गौणम् ।। नन्वथापि 'प्राचीनोऽप्यन्य' इतिप्रयोजनोक्तिरयुक्ता । आकाशाधि करणे पूर्वपक्षबीजभूताया भूते प्रसिद्धर्याक्यद्वयेऽपि तुल्यतया 'आकाश' इति अपा १५६ तात्पर्यचन्द्रिका वाक्ये भूतपरत्वे 'यदेष'इतिवाक्येऽपि तत्परत्वमिति प्रयोजनसंभवेऽपि अत्र प्राचीनपूर्वपक्षादत्रत्यपूर्वपक्षे प्राणस्याविष्णुत्वे यो विशेषहेतुस्तदभावादेव प्राचीन प्राणस्य तत्रत्यसिद्धान्तन्यायेन विष्णुत्वोपपत्तेरिति चेन्मैवम् । यथा प्राभाकर मते कामिनियोज्यान्वयबलाल्लिडादेः स्थायिकार्यार्थत्वे निश्चिते तदन्वयशून्येऽपि नित्याधिकारे तदर्थता । यथा वा मतान्तरे वाक्यशेषेण क्वचिद्यवादिशब्दाना दीर्धशूकाद्यर्थत्वे निश्चितेऽन्यत्रापि तदर्थता । तथानेन्द्रादिलिंगाप्राणशब्द स्येन्द्राद्यर्थत्वे निर्णीते 'तद्वै त्वं प्राण' इत्यत्रापि तदर्थत्वात् ।। न चात्रामुख्यवृत्त्येन्द्रादिपरत्वेऽपि तल्लिंगोपपत्तिः । तद्वै त्वं प्राण इत्यत्र तु मुख्यवृत्त्या विष्णुपरतास्त्विति वाच्यम् । अत्रेन्द्रादौ मुख्यत्वे बाधका भावात् । न च विष्णौ मुख्यत्वमेव बाधकम् । तस्याद्याप्यसिद्धः। इंद्रादौ योगसंभवात् । मुख्यप्राणे रूढेरपि सत्त्वाच्च । पूर्वपक्षे सर्वत्रापि वैदि कप्रयोगे प्राणशब्दस्येन्द्रादिपरत्वेन विष्णौ विद्वदूढेस्तव्याप्यमहायोगस्य चाभा वाच । न चात्र मुख्यवृत्त्येन्द्रादिपरत्वेऽपि पूर्वत्रामुख्यवृत्त्या विष्णुपरता सिद्धा तिनेष्यते । न चन्द्रादौ विष्णौ च मुख्यता । सत्यां गतावनेकार्थत्वस्या न्याय्यत्वात् । न च वाक्यद्वयस्थप्राणशब्दस्य मुख्यवृत्यैकार्थत्वे पूर्वपक्षिणं प्रति बाधकमस्ति । येन मासाग्निहोत्रेऽग्निहोत्रशब्दस्येव तत्र विष्णौ प्राण शब्दस्य गौणता स्यात् । अत एवानुव्याख्याने पूर्वपक्षे 'अन्यस्य मुख्य बाच्यत्वं' इत्युक्तम् ॥ न च तत्र श्रीपतित्वादिलिंगात्प्राणशब्दस्य विष्ण्वर्थत्वे निश्चितेऽत्रापि तदर्थतेति विपरीतं कि न स्यादिति शंक्यं, प्राणसंवादोत्क्रमणप्रवेशादीनां बहुत्वात् श्रुत्यनुगृहीतत्वात्साक्षात्प्राणविशेषणत्वश्रवणाच्च । श्रीपतित्वादिलिंगानां तु वैपरीत्यात् । पूर्वस्याविष्णुत्वशङ्कामात्रेण विष्णुत्वनिश्चयाक्षेपसंभवात् । अत एव टीकाया शङ्कापदप्रयोगः । अन्यथा प्राचीनप्राणोऽप्यन्य एव स्यात् । एकप्रकरणत्वादित्युत्तराधिकरणप्रयोजनटीकायामिवात्राप्यन्य एव स्यादित्यवक्ष्यत् । एकस्य निर्णयस्यानेकन्यायसाध्यत्वेऽपि निर्णयविरोधितत्त पूर्वपक्षन्यायाभासनिरासकन्यायसाध्यावातरनिर्णयभेदादधिकरणभेदश्च युक्तः ।

अन्तिमप्राणाधिकरणम् १५७ यथा प्राभाकरमते चोदनाप्रामाण्यनिर्णयस्याध्यायमात्रसाध्यत्वेऽप्यवान्तरनिर्णय भेदादधिकरणभेदः । यथा वा मतान्तरे 'ऊर्ज पशूनाप्नोति न स पापं श्लोकं शृणोती'त्यादेरर्थवादत्वनिर्णयस्यौदुंबराधिकरणपर्णमय्यधिकरणसाध्यत्वेऽप्यवान्त रनिर्णयभेदादधिकरणभेदस्तद्वत् । तस्मात्प्रयोजनोक्तियुक्ता । एवमन्यत्रापि पूर्वोक्ताक्षेपेण प्रयोजनोक्तिरुपपाद्या ।। एवं च 'अत एव प्राण' इत्यत्र तैत्तिरीयस्थप्राणशब्दसमन्वय उक्तैऽपि अत्र पूर्वपक्षे ऐतरेयवाक्यस्थप्राणस्याविष्णुत्वेन तैत्तिरीयस्थस्यापि विष्णुत्वाक्षेपा दुभयत्र प्रसिद्धत्वाभावः प्राणशब्दस्य । 'आकाशोऽर्थान्तरत्वादिव्यपदेशा' दिल्यत्र तु 'आकाशस्तलिङ्गा'दित्यत्रोक्तस्य 'आकाश इति होवाचे'ति वाक्यस्थाकाशशब्दो ब्रह्मपर इत्यस्यानाक्षेपादुभयत्र प्रसिद्धित्वम् । अत एव तत्र टीकायां पादान्तरस्थं तल्लिंगा'दित्यधिकरणमनाक्षिप्यैकपादस्थं द्युभवाद्य- धिकरणमेवाक्षिप्तम् ॥ नन्वेवं सति 'ज्योतिदर्शना'दित्यत्र टीकायां तच्च ज्योतिर्यदि विष्णोर न्यत्तदा ज्योतिश्चरणाभिधानादिति पूर्वोक्तमप्यन्यत्स्यादित्युक्तत्वादग्निमूक्तेऽपि ज्योतिश्शब्दस्य पूर्वपक्षे विष्णुपरत्वाभावादुभयत्र प्रसिद्धत्वाभावाचस्य तृतीय पादसंगतिर्न स्यादिति चेन्मैवम् । न हि ज्योतिर्दर्शनादित्यत्र ज्योतिर्वहिरिति पूर्वः पक्षः । येन वह्नौ प्रसिद्धेः स्वतस्सिद्धत्वेमान्यत्र प्रसिद्धता । प्रसिद्धता तु क्वचिद्विष्णुपरत्वेन साध्या स्यात् । किंतु जीव इति पूर्व पक्षः। न च जीवे स्वतः प्रसिद्धिरस्ति । ज्ञानात्मकत्वात्तु जीवे प्रवृत्तिः । तच्च जीवव दीश्वरेऽप्यस्तीत्युभयत्र प्रसिद्धता ज्योतिर्दशनादित्यत्र । 'ज्योतिश्चरणे'त्यत्र तु वहिरिति पूर्वपक्षितत्वादन्यत्र प्रसिद्धता । 'कारणत्वेने त्यत्र 'ज्योतिरुपक्रमा' दित्यत्र च पूर्वपक्षे पूर्वोक्ताया आकाशज्योतिश्शब्दयोर्विष्णुपरताया अनाक्षेपे ऽपि तत्र प्रागनुक्तसमन्वयस्यावान्तरकारणत्वरूपस्य लिङ्गस्यौषध्यादिनानो ज्योति ष्टोमवसतादिशब्दस्य च समन्वयोक्तेन तयोरुभयत्र प्रसिद्धपादान्तर्भावप्रसङ्गः ।। यद्वा प्राणादिशब्दाना प्राक्समन्वयोक्तावपि लोकसिद्धयान्यन प्रसिध्या न्यत्रप्रसिद्धता। आकाशोऽर्थातरेत्यत्र त्वाकाशशब्दस्य न पूर्व समन्वयोक्त्योभयत्र उभयत्र १२८ तात्पर्यचन्द्रिका .. प्रसिद्धता। किंतु वै नामेति निपातद्योतितप्रसिद्धिव्यावर्त्यत्वेन पूर्वपक्षिण्णाप्य प्रसिद्धस्य ब्रह्मरूपस्याकाशशब्दवाच्यस्याङ्गीकृतत्वेनेति ज्ञेयम् । तस्मात्पाद सङ्गतिः पूर्वपक्षोदयश्च ॥ सिद्धान्तस्तु - 'तं देवाः प्राणयन्ते'ति देवोपदेश्यत्वं 'तं भूतिरिति देवा उपासाञ्चक्रिर'इति भूतत्वेन देवोपास्यत्वं 'सर्वे वेदा'इति सर्ववेदप्रतिपाद्यत्वं 'प्राणो ह्येष य एष तपती'ति सूर्यमंडलस्थत्वं 'प्राणम्त्वं प्राणः सर्वाणि भूतानि' इति सर्वातर्यामित्वं 'सर्वाणि भूतान्यापिपीलीकाभ्यः प्राणेन बृहत्याविष्टब्धानी'ति सर्वव्यापित्वमित्यादीनि प्राणे यन्ते । तानि च 'विष्णुमेवानयन्देवा' इत्यादिभाष्योक्तस्मृत्या 'सर्वे वेदा यत्पदमामनन्ति, य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते तस्य यथा कप्यासं पुंडरीकमेवमक्षिणी । पुरुष एवेदं सर्वम् । अन्तर्बहिश्च तत्सर्व व्याप्य नारायणस्स्थित' इत्यादिश्रुतिभिः वेदेश्च सर्वैरहमेव वेद्यः ध्येयस्सदा सवितृमण्डलमध्यवर्ती । तपाम्यहमहं वर्षम् । विष्टभ्याह मिदं कृत्स्न' मित्यादिस्मृतिभिश्च विष्णावेव ।। परकीयश्रुत्यादिकं तु सावकाशम् । तथा हि इन्द्रस्य प्रसिद्धेन्द्रत्वेऽपि तत्प्रयुक्तोऽहंशब्दस्तावत् 'अहं मनु'रिति वामदेवप्रयुक्ताशब्दवत् अतितुल्यया निरूढया लक्षणया- 'समान्तर्यामिको विष्णुः सर्वनाम्नाऽभिधीयते । एषोऽहन्त्वमसौ चेति न तु सर्वस्वरूपत' इत्यादिस्मृतिभिभुख्यवृत्त्या वाऽन्तर्यामिपरः। न च तत्रापि विवादः । विशिष्टस्य वामदेवस्य मन्वादित्वाभावात् । अहं मन्वादिशब्दैश्चैतन्यमात्र लक्षणा चेत्प्राण इन्द्र इति पूर्वपक्षे इन्द्रशब्देन विशिष्टोक्तौ विशिष्टेन्द्राभिन्नस्य प्राणस्य 'प्राणस्त्वं प्राणः सर्वाणीति सार्वात्म्योक्तिरयुक्ता स्यात् । इन्द्रशब्देन शुद्धोक्तौ तु प्राणस्य शुद्धब्रह्मत्वेन प्राणो न ब्रह्मेति पूर्वपक्षायोगः । 'प्राणो ह्येष य एष तपती'ति पूर्ववाक्यायोगश्च । न हि चिन्मानं तापकम् ॥ यद्यपि अः इति ब्रह्म तत्रागतमहमिति तस्योपनिषदहमिति । ततो ऽहनामाभव'दित्यादि श्रुतेः । 'न वा अहमिमं विजानातीति । अहं तत्तेजो - मन्तिमप्राणाधिकरणम् रश्मीनारायणं पुरुषं जातमग्रतः' इत्यादिश्रीतप्रयोगात् 'अहेयत्वादहं नामे' त्यादिस्मृतेश्चाहंशब्दोऽहेयत्वाद्यर्थोऽप्यन्ति । न वा इत्यादि श्रुतावहंशब्दस्या मच्छब्दत्वे विजाना मीति स्यात् । 'भूरिति शिर' इत्यादिनाऽक्षिस्थो भगवान् हि तत्राहंशब्दः । तथापीह प्राणे 'प्राणो वा अहमस्मी'त्युत्तमपुषश्रवणादन्तयामि परतैवोक्ता । चक्षुरादिसाहचर्य तु सति संशये निर्णायकम् । उक्तं हि 'विशये प्रायदर्शना'दिति। अत्र तूक्तलिङ्गादिना निश्चयान्न संशयः । प्राणसंवादोऽपि 'स्वमुक्थमसि त्वमिदं सर्वमसि तव वयं स्म' इत्युत्कर्षपर्यवसायित्वादन्तर्यामिणि 1 विष्णौ युक्तः । एवं च - प्राणलिङ्गादिकं यद्यप्यवकाशीज्झितं स्वतः । तथाप्यन्तर्यामिगततया नेतुं हि शक्यते ॥१॥ उदासी(नवदास्तांत)नौ हि तावस्ता केशवश्वाब्जसंभव' इत्यौदासीन्यं तु बाह्यरूषेण । दुःखित्वादिकं त्वतर्यामिणि बाधितम् । 'शतं वज्यिभ्याचदिति यच्छतसंवत्सरपर्यंत प्राणस्य जीवशरीरेऽवस्थान न तज्जीवलिङ्गम् । किंतु 'तस्माच्छत वर्षाणि पुरुषायुषो भवंति' इति तद्धतकं शतायुष्वम् । तच्च न प्राणे श्रुतम् । तस्मात्- बहुत्वात् श्रुतिसाहित्यादवकाशोज्झितत्वतः । बलवद्भिर्विष्णुलिङ्गैः प्राणश्रुत्यादि नीयते ॥ १ ॥ तदेतदभिप्रेत्योक्तं न्यायविवरणे 'न चानन्यथासिद्धत्वमन्यत्र श्रुति लिङ्गादेः। अन्यगतलिंगादीनामपि तद्गतभगवद्रूपापेक्षया युक्त'रिति ।। सूत्रक्रमस्तु- आधे स्वपक्षहेतूक्तिः । तस्य च 'तद्वै स्वं प्राण' इत्यत्र यथा प्राणो विष्णुस्तथाऽत्रापि प्राणो विष्णुः । तत्शृतिलिंगानामस्मि प्रकरणे बहुस्थलेष्वनुगमादित्यर्थः। एवं च 'तद्वै त्वं प्राण इति श्रुताविवे'ति टीकायाः 'तथाशब्दस्समुच्चयार्थ' इति टीकया सह न विरोधः ॥ द्वितीये 'प्राणो वा अह'मितीन्द्रप्रयुक्ताहंशब्दरूपबाधकोद्धारः । तत्रा ध्यात्मसंबंधभूमशब्दस्य यदा 'प्राणस्त्व'मित्यादिभाष्यानुसारेणाध्यात्मशब्दस्य देहार्थत्वस्वीकारेण भगवद्देहभूतेन्द्रविश्वामित्रादिबह्वात्मसंबंधोऽर्थः । अस्मि यदा तु १५० तात्पर्यचन्द्रिका नियम्य तितकरण इत्ई:। तदेद्रे भगवतम्सत्वाचदभिप्रायेण 'प्राणो वा अहमिक्तिः । अन्यथा स्वि प्रकरणे 'प्राणत्वं प्राण • स्वाणि भूनानी'ति न स्यात् । पर्वपक्षेऽपि विश्वामित्रादेः प्राणत्वाभावादिति परिहागर्थः । अत एव सूत्रे भूमपटम् । भाष्येऽपि प्राणस्वामिन्युपादानम् । 'अ यात्मसंबन्धशब्देनावेशो विप्ण रिन्द्रे विवक्षितः। अधिका-मनः परमात्मनः संबन्योऽध्यात्ममंबन्ध' इयतरेयभा'यानुमारेण भगवतः सन्निधानविशेषोऽध्या स्मसंबन्धभूमशब्दार्थ । असिदित्यस्य चेन्द्र इत्यर्थः । तदेन्द्रे तात्कालि कभगवत्सन्निधानविशेषाभिप्रायेण 'प्रणो वा अहमिन्युतिरित्यर्थः । एचै तरेयभाप्योराहतात 'आविष्टो विष्णुनाथेन्द्रः प्राणेन सह कौशिक' नित्यादिब्रह्मांडवाक्यादगन्तव्यम् ।। तृतीये तु तर्हि मयोति स्यादितीदं बाधकोद्धारे यहाधकं तमुद्धारः । तत्र च शास्त्रपदं ब्रह्मणः सर्वशास्तृत्वाचवच्छब्दवाच्यता युक्तेति दर्शयितुम् । अत एव भाप्ये 'तत्तानोच्यते विष्णुः सर्वशास्तृत्वहेतुत' इति स्मृतिरुदाहृता ॥ चतुर्थे जीगा लिङ्गं तदन्तर्यामिनिष्टमित्यस्यार्थस्य तृतीयेनेन्द्रप्रयुक्त हैं शब्दस्यान्ता मेविषयवं वदतोक्तप्रायत्सात् तदनुक्त्वान्तर्यामिकथनं कमा विति शङ्कायामन्तगदिनोपास् त्रैविध्यादित्येवोक्तम् ।। अन्ये तु प्रतर्दन प्रतीन्द्रण प्रयुक्तं 'प्राणोऽस्मि प्रज्ञात्मेति वाक्यमुदा हृन्य 'मामेव विजानाहीत.न्द्रलिङ्गात् 'इदं शरीरं परिगृहोत्थापयतीति वायु लियात 'वक्तार विद्यादिति जीवलिगवेन्द्रादिरेव प्राण इति प्राप्त 'यं वं मनु ज्याय हिनतम मिति हिततमत्वादिब्रह्मलिंगाीव प्राण इति सिद्धान्त इत्याहुः। न तावत्परमपुरुषार्थसाधन हिततमत्वम् । स्व.मते ज्ञानादेवाज्ञान निवृत्त्या ब्रह्मणि तस्याभावात् । परमपुरुषार्थत्वं हितनमत्वं चे सोप्लवरहित मोक्षदशानुगतं शुद्धचैतन्यं हिततम वाच्यम् । तस्य हिततमत्वं च न विशिष्टं गायच्यधिकरणम् १६१ प्रति । तस्य मोक्षदशायामभावात् । नापि शुद्ध प्रति । तस्याखण्डत्वेना स्येदं हितमिति विभागायोगात् । किं च हितत्वं विना न हिततमत्वम् । न चाखण्डे हितत्वसामान्यं हिततमत्वविशेषश्च युक्तः । तस्मान्न हिततमत्वं ब्रह्मलिंगम् । नापि 'तं मामायुरमृतमित्युपास्वे'त्युक्तममृतत्वोपासनकर्मत्वं च ब्रह्मलिगम् । अविद्यमानतदुपासनकर्मत्वस्येन्द्रादावपि सभवात् । नापि 'स यो मां वेद न स्तेयेन न भ्रणहत्यये'त्युक्तः स्वज्ञानेन सर्वकर्मालेपो ब्रह्मलिंगम् । शुद्ध 'एष ह्येव साधु कर्म कारयति एष लोकाधिपति'रित्या देरयोगात् । विशिष्टज्ञानेन च त्वन्मते सर्वकर्मलेपाभावात् । एवं लिंगा न्तरं दूष्यम् । इदं चाधिकरणं जीवत्वनिषेधेन ब्रह्मत्वविधानात्तदभेदप्रतिकूलम् !! केचित्तु 'मामुपास्स्वे'तीन्द्रलिंगात् जीवलिंगाना च जीव- विशेषेन्द्रे पर्यवसानात् प्राणलिङ्गे सत्यपि 'प्राणोऽस्मीति प्राणस्य जीवविशेषेन्द्रे विशेषणत्वप्रतीतेर्जीववायुपक्षयोरनुत्थानादिन्द्रः प्राण इति प्राप्त 'आनन्दोऽजरो ऽमृत' इत्यादिब्रह्मलिंगाह्मैव प्राण इति सिद्धान्त इत्याहुः । तन्न। इन्द्र इत्येव पूर्वपक्षे सति सूत्र 'जीवमुख्यप्राणलिङ्गादिति शङ्कायोगात् । तत्र जीव शब्दस्य तद्विशेषेन्द्रपरस्त्रे वक्तुरात्मोपदेशस्यापीन्द्रलिङ्गस्यानेनैव सग्रहसंभवात् 'न वक्तुरात्मोपदेशा'दिति पृथक्सौत्रशङ्कायोगात् । अस्मदीयोदाहरणे तु जीव लिंगं शतायुष्ट्वं नेन्द्रे युक्तम् । मनोवाक्प्राण इत्यादौ प्राणोऽपि नान्यविशेषणम् ।। यत्तु परकीयं 'न वक्तु रितिसूत्रव्याख्यानं वक्तुरुपदेप्टरीन्द्रस्य प्राणो- ऽस्मीत्यात्मोपदेशादिति चेन्न । अस्मिन्प्रकरणे यावद्ध्यस्मिन् शरीरे प्राणो- वसति तावदायु'रित्यायुरवधित्वस्य 'वक्तारं विद्यादिति वक्तृत्वप्रज्ञात्मत्वादे. श्चोक्तः प्रत्यगात्मसंबन्धबाहुल्यमस्ति । तच्च पराचीनेन्द्रे न युक्तमिति । तन्न। उपदेशादित्यनेनैवोपदेष्टुत्वरूपवक्तृलाभे न वक्तुरित्यस्य वैयर्थ्यात् । स्वात्मोपदे शादित्यस्य तु बक्तृपदप्रयोगेऽप्यलाभात् । अस्मत्पक्षे च बृहतीसहस्रवक्तारं प्रतीन्द्रस्य विप्रलम्भो न युक्त इति सूचनाय तस्य सार्थक्यात् । इन्द्रेऽपि 20 १६२ मात्पर्यचन्द्रिका स्वशरीरावस्थानवक्तृत्वप्रज्ञात्मन्वादेः सभवादायुरवधित्ववक्तृत्वयोश्च वायुजीव. योरेव संभवेन सदा सर्वगत इन्द्रियादिरहिते च ब्रह्मण्यसंभवेन च ब्रह्मपक्षप्रति कूलत्वात् । कि चास्माकं मत इव वक्तुगत्मोपदेशस्य गतिमनुक्त्वा प्रकरणस्य ब्रह्मपरत्वोक्तिरयुक्ता । उक्तं चानुगमादित्यनेन प्रकरणस्य ब्रह्मपरत्वम् ॥ केचितु परमात्मासाधारणधर्मोऽध्यात्मशब्दार्थः। तत्संबन्धबहुत्वमध्यात्म संबन्धभूमेत्याहुः। तन्न । उक्तदोषत्वात् । संबन्धपदवैयर्थ्याच्च । भन्यथा 'अन्तस्तद्धर्मे'त्यादावपि संबन्धपदप्रसङ्गात् । अस्मिन्निति सप्तम्यैव संबन्धोक्तेश्च । किं चेह भूमपदप्रयोगाद्धिततमत्वादिवदानन्दाजरत्वादीनां सर्वेषां ब्रह्मधर्माणा मत्रैव विवक्षासंभवेनानुगमादिति व्यर्थम् ॥ यच्च शास्त्रदृष्टेचत्यस्य परकीयं व्याख्यानं इन्द्र स्वात्मानं यथा शास्त्र मार्गेण ज्ञानेनाई मेति पश्यन्मामेव जानीहीत्युपदिदेश वामदेववदिति। तन्न । चिदचित्सवलनात्मकाहं शब्दार्थ ब्रह्मत्वस्य मन्वादित्वस्य वाऽभावेन 'मामेव जानीहि अहं मनु'रित्यादिव्यपदेशहेतोरहं ब्रह्मेत्यादिदृष्टान्तिदृष्टित्वेन शास्त्र दृष्टित्वाभावात् । चिन्मात्रैक्यदृष्टेश्च भिन्नविषयत्वेन मां विजानीहीत्यादिव्यपदेश हेतुचात् । मामित्यादी चिन्मात्रलक्षणायां च 'मां विजानीहि यो मां वेदेति वित्तिकर्मत्वोक्तिरयुक्ता ॥ किं च शास्त्रशब्दस्य हिताहितशास्तरि वेदादौ योगसंभवान्न रूढिः । उक्तं च- 'भवेतां यदि वृक्षस्य वाजिकौँ कथं च न । अदृष्टां समुदायस्य कः शक्तिं जातु कल्पये' दिति । शास्तृत्वं च 'एकः शास्ता न द्वितीयोऽस्ति शास्ते'त्यादिश्रुत्या ब्रमण्येव मुख्यम् । मुख्यसंभवे चामुख्यमयुक्तम् । दर्शितश्च भाष्यकृता 'संविच्छात्रं परं पद'मिति ब्रह्मणि शास्त्रपदप्रयोगः । लोकप्रसिद्धिस्तु शास्त्रशब्दस्य वेदादन्यत्रैव । अपि च सकारणकदृष्टिद्वारा व्यपदेशविपयोक्तितो अन्तिमप्राणाधिकरणम् युक्तः । ऽप्यस्मद्रीत्या साक्षादेव तदुक्तियुक्ता । सौत्रो वामदेवदृष्टान्तोऽपि परपक्षे न 'अहं मनु रित्यादिनोक्तं |क्यं चिन्मात्रविवक्षया वक्तव्यम् । न च तद्विवक्षायां 'अहं भूमिमददामा-याहं दृष्टिं दाशुषे माये'त्यादिविशिष्ट विषयमुत्तरवाक्यं युज्यते । भगवद्धर्मो हीन्द्राय भूमिप्रदानादिकम् ॥ केचित्तु 'यस्यात्मा शरीर'मित्यादिशास्त्रेण या दृष्टिः जीवो ब्रह्मशरीरं शरीरवाची च शब्दो देवमनुष्यादिशब्दवच्छरीरिपर्यन्त इत्येवरूपा सा शास्त्रदृष्टि रित्याहुः । तन्न। उक्तदोषत्वात् । भगवत्यहंशब्दप्रयोगे शरीरशब्दः शरीरिपर्यन्त इति लोकदृष्टेरपि हेतुत्वेन शास्त्रपदप्रयोगे विशेषहेत्वभावाच्च ।। यत्तु 'जीवमुख्यप्राणे'तिसूत्रस्य परकीयं व्याख्यानं ततलिंगानुग्रहार्थ किं चिदत्र जीववाक्यं किंचिन्मुख्यप्राणवाक्यं किंचिद्ब्रह्मवाक्यम् । तथा च त्रयोs प्युपास्या इति चेन्न । उपासात्रैविध्यप्रसङ्गात् । अन्यत्र 'प्राणस्य प्राण'मित्या दिवाक्यान्तरे ब्रह्मलिंगैःप्राणशब्दे ब्रह्मपरताया आश्रितत्वादिहापि हितमत्वादि ब्रह्मलिङ्योगादिति । तन्न। 'अपीती तद्वत्प्रसङ्गात्' इत्यादिवत्प्रसङ्गपदा- भावात् । 'मामेव विजानीही'तीन्द्रलिङ्गस्यापि सत्त्वेन चातुर्विध्यादिति वक्तव्य त्वाच्च । पूर्ववादिनं प्रतीष्टापत्तश्च ।। मनूपक्रमोपसंहारैकरूप्यादेकवाक्यतावगता। अत एव भामत्या भाष्य मुल्लंघ्य त्रिविधोपासनापरत्वेन वाक्यभेदेन पूर्वपक्षं प्रापय्य तदेकवाक्यताप्रतीते ब्रह्ममात्रपरत्वमिति सिद्धान्तितमिति चेदुच्यते ॥ बुद्ध्यादिपरमत्रैव सा प्रज्ञेत्यादिकं यथा । मामुपास्स्वेत्यादिवाक्यं तथास्त्विद्रादिगोचरम् ॥ १॥ अत्रैव ब्रह्मपरवाक्यसमुदाये यथा 'यो वै प्राणः सा प्रज्ञा स प्राणः सह ह्येतावस्मिन्शरीरे वसतः सहोत्नामत' इत्येकदेशो ज्ञानक्रियाशक्त्याश्रयबुद्धिप्राण परः सिद्धान्तेऽपि प्रज्ञाप्राणशब्दयोरुत्क्रमणादिलिङ्गैर्बुद्धिवायुपरत्वात् तथा पूर्व पक्षेऽपीन्द्रादिलिङ्गस्वारस्यार्थ तत्तद्वाक्यमिन्द्रादिपरमस्तु । आश्रितत्वादित्यत्र १६४ तात्पर्य द्रका , च प्रकृतत्रैविध्यस्यवान्वय संभवे ब्रह्मपरताया इत्यध्याहारो न युक्तः। तद्योगा दिति च सर्वनाम्नः सन्निकृष्टत्रैविध्यपरत्वसभवे विप्रकृष्टब्रह्मलिङ्गपरत्वमयुक्तम् । तद्योगादित्यस्यानुगमादित्यनेन पुनिरुक्तिश्च ।। इतरे तु प्राणधर्मेण बुद्धिधर्मेण च ब्रह्मोपासायास्त्रैविध्याब्रह्मवाक्येऽपि जीवमुख्यप्राणलिङ्गं न विरुद्धमिति व्याचक्षते । तन्न। अन्यधर्मणान्योपासने ब्रह्मधर्मादिना जीवोपासायाः त्रैविथाजीववाक्येऽपि ब्रह्मलिनं न विरुद्ध मिति वैपरीत्यप्रसङ्गात् ।। केचित्तु चिद्विशिष्टत्वेनाचिद्विशिष्टत्वेन स्वरूपेण चेत्युपासायास्त्रैविध्यम् । न च वाक्यभेदः, 'तं मामायुरमृतमित्युपास्वे'त्येकस्मिन्नव वाक्ये मामिति जीव- विशिष्टाया आयुरिति प्राणविशिष्टाया अमृतमिति स्वेन रूपेण चोपासानाय । विधानादित्याहुः । तन्न । 'तान्वरिष्ठः प्राण उवाच य एवायं मुख्यप्राणः अपहतपाप्मा द्वेष' इत्यादिश्रुत्या मुख्यप्राणस्य चेतनत्वात्तलिंगनिर्वाहाया चिद्विशिष्टोपासनोक्त्ययोगात् ।। टीकाक्षरार्थस्तु । ननु 'एतद्ध स्म वै तद्विद्वानाह हिरण्यदन्वै' इति हिर ण्यदन्वदवन्महिदासोऽपि ऋषित्वेनोच्यतामित्यत आह-न हि महिदासोऽपि मुनित(यैवो)योच्यते वैयर्थ्यादिति । अस्या उपनिषद ऐतरेयसंज्ञयैवेतरा पुत्रस्य महिदासस्य ऋषित्वसिध्या तदुक्तिनष्फल्यादित्यर्थः। यद्वा ऋषिमात्रत्वे महिदासस्य 'इतः प्रदाना ह्येत इतः संभृता' इत्यादिना देवतापदप्रदातृत्वं तत्पो षकत्वमित्यादीनामुपास्यब्रह्मधर्माणामुक्तेन॑ष्फल्यादित्यर्थः । यद्वा महिदासस्य मुनित्वेनाप्युक्तिरिष्टा । मुनित्वेनवोक्तिन तु ब्रह्मतयेति तु न युक्तम् । 'इत: प्रदाना ह्येत इत: संभृता' इत्यादीनां ब्रह्मधर्मवाचिनां विरुद्धार्थत्वादित्यर्थः ।।. पञ्चाधिकरणी समन्वयविशेषाप्रतिपादकत्वादध्याय पादव हिर्भूता तदुपोद्धातत्वेनका पेटिका । तत्राप्यायं शास्त्रमात्रोपोद्धात रूपम् । इतरा चतुरधिकरणी तु शास्त्रान्तर्गताप्यध्यायोपोद्धावरूपा । आनन्द .. अत्र चाद्या अन्तिमप्राणाधिकरणम् १६५ मयमारभ्यापादपरिसमाप्ति समन्वयपरत्वेनैका महापेटीका । तत्राप्यानन्दम यान्तरधिकरणे बहुविषयपूर्वपक्षयुक्तत्वेन । अन्तरादिचतुरधिकरणी तु साक्षादा नन्दमयाक्षेपकपूर्वपक्षयुक्तत्वेन । तत्राप्याकाशादित्रयमन्तरधिकरणन्यायातिदे शकत्वेन भूते प्रसिद्धनामविषयकत्वेन चैकावान्तरपेटिकेत्याग्रह्यम् ।। शब्दास्सामान्याधिदेवाधिभूताध्यात्मगोवराः । ससूक्ता अधिवेदस्थाः सलिगाश्चात्र चिंतिताः ॥ १ ॥ अस्मिश्च पादे आनन्दमय इत्यत्र सामान्यशब्दाः अन्तरित्यत्राधिदेव गताः। आकाश इत्यत्राधिभूतगताः । अत एव प्राण इत्यत्राध्यात्मगता । ज्योतिरित्यत्र सूक्तसहिताः। छन्द इत्यत्राधिवेदगताः । प्राणस्तथेत्यत्र लिगसहिताः शब्दा विचारिता इति ॥ .. इति श्रीमद्ब्रह्मण्यतीर्थपूज्यपादाना शिष्येण व्यासयतिना विरचितायां भीमद्भाष्यटीकाविवृतौ तात्पर्यचन्द्रिकायां प्रथमाध्यायस्य प्रथमःपादः शुद्धाशुद्धपत्रम् Page Line For Read ३ शब्दे योत् ३ ९ १५ ग्रह्यम् वाय १० १२ ११ १४ १२ ३ १३ २१ १४ २० १५ १९ शब्दो योगात् ग्राह्यम् वायु उपपत्ते तद्विजिज्ञास शब्दोक्तया नामधेयानाममंत्रस्य पदश्रवणात् लक्षकत्वे अवच्छेदकज्ञानावच्छेदक सूचनं अधिकार्याद्य भूतस्यपूर्वप्रकृतस्य काभात् पठन चैतत् ब्रह्मतक्तों ब्रह्मानन्यत्वे प्रागल्भ्य वैश्वदेवस्य वैश्वदेवावैश्वदेव जिज्ञासाधर्मिप्रतिबिंबे तु सामान्य उपपत्त तद्विज्ञास शब्दोक्त्या नाममंत्रस्य पदाश्रवणात् लक्षकत्वेन अवच्छेदक सूचने अधिकाराद्य भूतस्य-लाभात् पाठन चैत्र ब्रह्मको ब्रह्मानंदत्वे प्रारभ्य वैश्वदेवस्य जिज्ञासाधर्मि २२ १७ ७ २२ १८ १७ १८ २५ २ २८ १८ ३१ ११ Page Line For Read ३५ २४ हरीवंशत्रयेति हेतुत्वेपपत्तेः प्राप्यत्वस्य च : प्रतिपत्यादितियुक्तम् हरिवंशत्रयेति हेतुत्वोपपत्तेः प्राप्तत्वस्य च क्लिष्टकारित्वादिनोपपत्तेश्व नित्यत्व ६ २३ ४२ २२ नित्वत्व तास्म मुक्तिदो अस्येवनेन चेपरमते तस्मा भुक्तिदो अस्येत्यनेन चेत्परमते तहाधित ar तदाश्चित ४५ १६ प्रताश प्रकाश ४९ १४ ५२ १० ५८ १० ५९ १ ६० ११ ६१ २१ श्वरूपस्य एकेनवै कर्तत्यरीति शस्त्रातात्पर्य चार्थवदाहीन प्रतात स्वरूपस्य एकेनैव कर्तरीत्यति शास्त्रतात्पर्य चार्थवादहीन प्रतीत दध्नाजुहोतीत्यादेश्वगुणविधेः स्वानुपजीविनाअग्निहोत्रं जुहोती वेदा तावद्भाट्ट रीत्या नापि प्राभाकरेविवरणरीत्या दधनाजुद्योती ६५ १६ देवा तावट्ट रीत्या 111 Page Line For Read ६६ तात्पर्य ६८ ११ यत्र तूभयं तत्र विरोधलक्षणैक्यतद रूप्यादुभयानुगुणे तात्पर्यम् मात्रेण प्राप्तिज्ञान प्रागनिवृत्तस्य प्रतिपत्ति मात्रण प्रतिज्ञान प्रगनिवृत्तस्य प्रलिपत्ति शस्त्रस्य करणं चेने १२ २६ ७५ ७६ १३ ७८ ३ ७ : १८ २५ ८२ १७ ८३ २४ ८९ २६ १०५ १९ १०६ ततश्च औपाधिक संभवान् प्रसिद्धाः द्वितय प्रातिपदिकमा ब्रह्मामृतं छेत्तर्हि शास्त्रस्य कारणं चेतने ततश्च 'यतो वाच' औपाधिक संभवात् प्रसिद्धिः त्रितयं प्रातिपदिकमात्र ब्रह्मामृतोमृत चेतर्हि ब्रह्मशब्दतः समादुद्भूत शब्दतः तस्माद्भुत १५

No text on this page.

Tatparya Chandrika Volume I

Author
Sri Vyasateertha
Title
Tatparya Chandrika Volume I
File name
Tatparya Chandrika Volume I
Text
OCR done
Citation
1981
Published
22/7/2004
Publisher
Harthi Raghavendra Rao, Mysore
Language
Sanskrit
Pages
182
Library
Poorna Prajna Vidya Pheeta Banglore
DLI number
383121
Barcode
2040100047011.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
Udl Ttd Tirupati
VMLT id
BsDvkKHhMbn
Download PDF

Tatparya Chandrika Volume I