Library

Shrxng-gaaratilakama~ Da~vitiiya Vrxtti

Shriiraamabhadradiiqs-itaa · 2005-11-30

PDF Proofread

Front matter

UNIVERSAL
LIBRARY
OU_184416
LIBRARY
UNIVERSAL

No text on this page.

OUP-552-7-7-66-10,000
OSMANIA UNIVERSITY LIBRARY
982,
Call No.
R898
Accession No. 8295
Author Ramabadhra Dikshita
Title Sringarathilakadhana
This book should be returned on or before the date
last marked below.

No text on this page.

No text on this page.

No text on this page.

KAVYAMÁLA. 44,
THE
SRINGARATILAKA BHÂNA
OF
RÂMABHADRA DIKSHITA.
EDITED BY
PANDIT KEDARNATHA
AND
WÂSUDEVA LAXMAN SHÁSTRÎ PAŅASHÍKAR.
Second Edition.
PUBLISHED
BY
TUKÂRÂM JÂVAJÍ,
PROPRIETOR
" NIRNAYA-SAGAR
a l'RESS.
BOMBAY.
PRINTED BY B. R. GHÂNEKAR AT TIIE “NIRNAYA-SAGAR" PRESS,
FOR THIE PUBLISHER.
1910.
Price 6 Annas,

(Registered according to act XXV of 1807.) ( All rights reserved by the Publisher.)

काव्यमाला.४४.
श्रीरामभद्रदीक्षितविरचितं
शृङ्गारतिलकम् ।
जयपुरनिवासिसाहित्योपाध्यायपण्डितकेदारनाथशर्मणा
पणशीकरोपाह्वलक्ष्मणतनुजनुषा वासुदेवशर्मणा
च संशोधितम् ।
(द्वितीयावृत्तिः।)
मुंबय्यां
तुकाराम जावजी
इत्येतेषां कृते तेषामेव निर्णयसागराख्ययन्त्रालये बालकृष्ण
रामचन्द्र घाणेकर इत्यनेन मुद्रयित्वा प्रकाशितम् ।
शाकः १८३२, ख्रिस्ताब्दः १९१०.
अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायत्रालयाधिपते.
रेवाधिकारः ।)
मूल्यं ६ आणकाः।

No text on this page.

रामभद्रदीक्षितः। कौण्डिन्यगोत्रोद्भवः श्रीरामभद्रमखीन्द्रोऽयं कविर्दक्षिणदेशेषु कुम्भघोणनगरात्सप्तकोश- मात्रदूरवर्तिनि कण्डरमाणिक्काख्याग्रहारे चतुर्वेदयज्वनो वंशे श्रीयज्ञरामदीक्षितात्समुत्पन्नः. बृहचरणजातीयोऽयं विप्रकुलमणिः. द्राविडी चास्य जन्मभाषा. उपगतमनेन बाल्ये वयसि श्रीमदप्पयदीक्षितसोदर्याचादीक्षितपौत्रस्य श्रीनीलकण्टविजयाख्यचम्पूकाव्यस्य निर्मातु: श्रीनीलकण्ठमखिनः सकाशात्काव्यनाटकरसालंकारलक्षणग्रन्थादिषु नितरां पाण्डित्यम्. अधीता च सम्यकिवद्या पदविद्या श्रीमतश्चोकनाथमखीन्द्रात्. ऊढा च तदीया ज्येष्ठा कन्या. अभ्यस्ता चाध्यात्मिकी विद्या श्रीवालकृष्णभगवत्पादेभ्यः. पुनरयं सती• महा- देवकवेरद्भुतदर्पणाख्यस्य दृश्यकाव्यस्य निर्मातुः. श्रीमान्नीलकण्ठमखी च स्वकृतनी- लकण्ठविजयाख्यचम्पूकाव्यस्य 'अष्टत्रिंशदुपस्कृतसप्तशताधिकचतुःसहस्रेषु कल्यब्देषु गोषु ग्रथितः किल नीलकण्ठविजयोऽयम् ॥' इति कालनिर्णयं कृतवान्. अतस्तदीयशि- प्यश्चायं रामभद्रकविर्बहुशस्तदानीमेवाभूदिति वक्तुं शक्यते. किं च तञ्जनगराधिपतिः शह- जिः कावेरीतीरे कुम्भघोणनगरम्य क्रोशद्वयमात्रपरिसरवर्तिनि तिरुविशनल्लूराग्व्यस्थले शह- जिराजपुरमिति स्वनाम्नाग्रहारमेकं निर्माय तत्रतत्र प्रदेशेभ्यः पण्डितानानाय्य सबहुमानं तत्र निवेश्य वृत्त्यर्थं तत्रैव पर्याप्तामुर्वरां. प्रायच्छत्. तत्र प्रतिगृहीतृषु मुख्यतमाः-(१) श्रीरामभद्रमखीन्द्रः, (२) श्रीभास्करयज्वा, (३) श्रीवेङ्कटकृष्णयज्वा, (४) श्रीमहादेवकविः, (५) तिप्पाध्वरी, अन्ये च. सर्वेऽपि कवय एकग्रामवासिनश्च. विद्वद्राजः शहजिः कले: ४७८४ संवत्सरादारभ्य ४८११ वत्सरावधि सप्तविंशतिं वत्सराम्राज्यमकरोत्. श्रीरामभद्रमखीन्द्रेण कृता उपलभ्यमानाश्च ग्रन्थाः-(१) अष्टप्रासः, (२) चापस्तवः. (३) जानकीपरिणयम् , (४) पतञ्जलिचरिताख्यं काव्यम् , (५) पर्यायोक्तिनिष्यन्दः, (६) प्रसादस्तवः, (७) बाणस्तवः, (८) विश्वगर्भस्तवः, (९) शृङ्गारतिलकम्. तदीयस्तूणी- रस्तवो नोपलभ्यते. अत्र शृङ्गारतिलकाख्यभाणनिर्माणे कारणं कविना खेनैवोच्यते-'प्रार्थितो निज- शिष्येण रघुनाथेन धीमता। शृङ्गारतिलकं नाम भाणं विरचयाम्यहम् ॥' इति. आ- सीत्काञ्चीपुरे अम्माल्लय्यङ्गारापरनामधेयो वरदाचार्य इति कश्चन वैष्णवब्राह्मणः कविः. तेन वसन्ततिलकं नाम भाणो व्यरचि. तस्य ग्रन्थस्य अम्माभाण इत्येव प्रसिद्धिरासीत्. द्राविडभाषायां योषितः सबहुमानं 'अम्मा' इत्युच्यन्ते, पुमांसश्च 'अय्या' इति. अतः सर्वेऽपि विशेषतस्तच्छिष्याः श्रीरामभद्रमखीन्द्रं 'अय्या' इत्येव वदन्तोऽभवन्. यदा त- च्छिध्यैरश्रावि वरदाचार्येण अम्माभाणो निरमायीति तदा अय्याभाणोऽपि निर्मातव्य इति श्रीरामभद्रमखीन्द्रं ते प्रार्थयामासुः. अतस्तेनायं विरचितः. अस्य भाणस्य अय्याभाण इति च प्रसिद्धिः. १. १६८४-१७११ ख्रिस्ताब्दे. २. आर्यशब्दस्य विकृतिरियम्.

२ रामभद्रदीक्षितः । केनचन नाद्यापि शृङ्गारतिलकमिदं प्राकाश्यं नीतम्. तावरवासिभिः टी- एस. कुप्पूस्वामीशास्त्रिभिः प्रेषितेन तालपत्रलिखितपुस्तकत्रयाधारेण, त्रिचना- पल्लीवर्तिभिः एस्. सुब्रह्मण्यशास्त्रिभिः प्रेषितेन देवनागरीलिपिलिखितस्य पुस्तकस्य चा- धारेण मुद्रितमिदं पुस्तकम्. तत्रकं तालपत्रलिखितं पुस्तकं पञ्चपञ्चाशत्पत्रपरिमितं क्वचित्वचिनीर्ण पूर्ण च. प्रतिपृष्टं सप्ताट वा पतयो वर्तन्ते. पुस्तकमेनदितः ६८ संवत्स- रेभ्यः पूर्व लिखितमिति भाति. यतः पुस्तकस्यान्तिमपृष्ठे ‘पार्थिवसंवत्सरस्य वृषभमासे हस्तनक्षत्रे वृश्चिकलने शृङ्गारतिलकं लिखितमासीत्' इति दृश्यते. अन्यत्तालपत्रपुस्तकं द्वि- सप्ततिपत्रपरिमितं बहुशोऽशुद्धमसंपूर्ण च. षोडशसंवत्सरेभ्यः पूर्व तिरुविशनळूरमाम्बाश- वशास्त्रिणा लिखितम्. तत्र ग्रन्थे दशाधिकशततमश्लोकावधि वर्तते. उभयोरपि पुस्तकयोः क्वाचित्को वाक्यभ्रंशो दृश्यते. अपरं च तृतीयं तालपत्रपुस्तकं तञ्जावरवर्तिराजगृह- स्थितपुस्तकप्रतिरूपकम्. प्रायशः शुद्धम् , पूर्णं च पुस्तकत्रयमपि ग्रन्थाक्षरैरेव लि- खितम्. महाशयरेतानि पुस्तकानि काव्यमालार्थमस्मभ्यं दत्तानि तेषामुपकारगौरवं बिभृमः.

काव्यमाला। श्रीरामभद्रदीक्षितविरचितः। शृङ्गारतिलकभाणः । पाणिग्रहावसर एव दृढोपगूढा रागस्पृशा रघुपतेर्नयनाञ्चलेन । लज्जावशान्नववधूरिव संकुचन्ती दृष्टिर्महीदुहितुरस्तु विभूतये वः ॥१॥ अपि च । उन्मृष्टं कुचसीम्नि पत्रमकरं दृष्ट्वा हठालिङ्गना- कोपो मास्तु पुनर्लिखाम्यहमिति स्मेरे रघूणां वरे । रोषेणारुणितस्त्रपातरलितः प्रेम्णा च विस्तारितो दत्तो मैथिलकन्यया दिशतु वः क्षेमं कटाक्षाङ्कुरः ॥ २ ॥ (नान्द्यन्ते) मूत्रधारः (सादरमञ्जलिं बवा ।) भ्रमद्भवल्लीकं भृशतरलितापाङ्गवलनं समुद्यत्सीत्कारं पुलकितकपोलस्थलयुगम् । करौ व्याधुन्वत्याः कनकवलयध्वानमुखरौ मुदे वस्तद्भूयान्मुखकमलपानं मृगदृशः ॥ ३ ॥ (इति पुष्पाञ्जलिं विकीर्य नेपथ्याभिमुखमवलोक्य ।) मारिष, इतस्तावत् । (प्रविश्य) पारिपार्श्वकः-भाव, एषोऽस्मि । मूत्रधारः-अत्र किल वृत्रारिसमाराधितचरणारविन्दस्य विचित्रीकृ- तचतुःषष्टिविधविहारधौरेयम्य सुन्दरेशनाम्नो भगवतश्चन्द्रकलावतंसस्य नित्य- निवासेन निखिलनगरातिशायिसौभाग्यधुरंधरे मधुरापुरे मीनाक्षीपरिणयम- होत्सवदिदृक्षया समागतैवैदेशिकैरादिष्टोऽस्मि सामाजिकैः ।

२ काव्यमाला। पारिपार्श्वकः-कथमिव । सूत्रधारः-अयि मधुरानगरवास्तव्य भरतकुलचूडामणे, रमणीयरूप- कप्रयोगेषु निपुण इति श्रुतोऽसि । तदधुना सरसकविनिबद्धं हृद्यं किमपि नूतनं रूपकमभिनीय चरितार्थय चक्षुष्मत्त्वमस्माकमिति । (सहर्षम् ।) तदद्य चिरलब्धायाः सदस्यानन्दलक्षणम् । अस्मन्नटनविद्यायाः फलमेवोपतिष्ठते ॥ ४ ॥ पारिपार्श्वकः-विप्रतिषिद्धमेतद्यदुक्तं सरसकविनिबद्धत्वं रूपकस्य नूतनत्वं च । न खल्विदानीं निबद्धारः सरसकवयः । सूत्रधारः-(स्मरणमभिनीय ।) मा मैवम् । गिरिक्षुभितनिःसनत्कलशसिन्धुगर्भस्थली- निरर्गलविनिर्गलन्नवसुधारसस्रोतसा । भुजाभुजिरणक्षमो भवति यस्य सूक्तिक्रमः स एष सरसः कविर्जयति रामभद्रः सुधीः ॥ ५ ॥ पारिपार्श्वकः-भाव, कः पुनरेष न जानामि । मूत्रधारः-किमेतमपि जगद्विदितं न जानासि । यश्चतुर्वेदयज्वेन्द्रवंशवारिधिकौस्तुभः । यस्य कण्डरमाणिक्यग्रामो भवति जन्मभूः ॥ ६ ॥ पारिपार्श्वकः-(सशिरःकम्पम् ।) आः, स्मरामि । स एवायं यस्मै किल निखिलविद्वज्जनश्लाघनीयवैदुष्यशालिनो वदावदशिप्यसहस्रविभाव्य- माननिजप्रभावाः श्रौतधर्मा इव मूर्तिमन्तस्तत्रभवन्तश्चोक्कनाथमखिप्रवरा वितीर्णवन्तोऽपि प्रथमामात्मकन्यामन्यामिव पुनरपि स्नेहेन निरवद्यां वित- रन्ति स्म पदविद्याम् । सूत्रधारः-तेनैव सरसकविना प्रणीतं शृङ्गारतिलकं नाम रमणीयं भाणं प्रयुञ्जानाः सामाजिकहृदयमनुरञ्जयामः । पारिपार्श्वकः :-कथमस्य रघुवीरचरणारविन्दस्मरणनिरन्तरप्रवणचे- तसो भाणनिर्माणेऽपि प्रवृत्तं हृदयम् ।

शृङ्गारतिलकभाणः ।
سع
सूत्रधारः-उक्तमत्र तेनैव-
'प्रार्थितो निजशिष्येण रघुनाथेन धीमता ।
शृङ्गारतिलकं नाम भाणं विरचयाम्यहम् ॥ ७ ॥
इति ।
पारिपार्श्वकः-पुनरपि तत्र किंचिदाशङ्कते मे हृदयम् ।
सूत्रधारः-किं तत् ।
पारिपार्श्वकः-तस्य परिचितभूयिष्ठनिष्ठुरकैय्यटवचनसंपर्ककर्कशवा-
क्यक्रमस्य कथं सरसपदसंदर्भेऽपि प्रागल्भ्यमिति ।
सूत्रधारः-यत्किंचिदेतत् । किं न पश्यसि समन्ततोऽपि दुष्कवि-
भिरुपहतस्य सरसकविताकन्दलस्य पुनरुज्जीवनाय धरण्यां गूढमवतीर्णा चतु-
मुखवरवर्णिनीमात्मरूपेत्यसाधारणेन सर्वतन्त्राणि स्वातन्त्र्येण विवृण्वतां नी-
लकण्ठमखिना सदसि सकृत्प्रविष्टस्यापि समुल्लसति सरसपदसंदर्भवैदग्धी ।
अस्य पुनः कवेस्तदीयशिष्यस्य विशिष्य तद्भजनानुरक्तस्य किमु वक्तव्यम् ।
किंच सर्वमपि सुघटितमस्मद्भाग्यवशात् । तथाहि ।
उन्मीलन्नवमल्लिकापरिमलोदग्राः कवेरुक्तयो
भान्त्येतेऽपि रसज्ञपण्डितकविप्रायाश्च सामाजिकाः ।
ख्यातो नृत्तकलासु नः परिचयः किंचायमालक्ष्यते
कालः कोकिलकाहलीकलकलारम्भप्रियंभावुकः ॥ ८ ॥
तन्निवर्तय पात्रमविलम्बेन ।
पारिपार्श्वकः-यदाज्ञापयति भावः । (इति निष्कान्तः)
मूत्रधारः—(सर्वतो विलोक्य ।) तर्कयामि समन्ततो वसन्तसमयमेका-
न्तरमणीयम् । यतः ।
क्वचिद्विकचचम्पकस्तबकगन्धबन्धुः क्वचि-
द्विकासिनवमल्लिकाकुसुमसौरभालंकृतः ।
क्वचिद्भुमधुमायितो दलितबालचूताङ्कुर-
स्फुरत्परिमलैरसौ मलयमारुतः स्पन्दते ॥ ९ ॥

४
काव्यमाला।
अपि च ।
संधारयन्ति तरवो मदनस्य बाणा-
नगन्धाचलोऽपि रथमस्य परिष्करोति ।
उन्मीलति प्रियतमादृढविप्रयोग-
जन्मा च संप्रति विलासिजनप्रलापः ॥ १० ॥
(नेपथ्ये।)
आलोलनीविवसनं दृढमाकलय्य
संयम्य कुन्तलभरं श्लथमाल्यबन्धम् ।
व्युष्टा निशेति रभसादवधूय सा मां
यातैव हन्त तरुणी किमितः करोमि ॥ ११ ॥
सूत्रधारः--(आकर्ण्य । नेपथ्यमवलोक्य ।) किं प्रविष्ट एव रङ्गमण्डपं
हेमाङ्गीवियुक्तस्य भुजङ्गशेखरस्य भूमिकामादाय तत्तदनुगुणवेषभाषणाद्यभि-
नयविचक्षणो मम पैतृप्वसेयः कमलेक्षणः । तथाहि । पुरत एष
सामिस्रस्तं प्रवालारुणमपि शिरसा बिभ्रदुष्णीषभेदं
कस्तूरीचित्रिताकं दधदलिकतलं कारितश्मश्रुरेखः ।
कक्ष्याबद्धावलमः कनकमयतुलाकोटिरम्यैकपादो
निद्राभङ्गारुणाक्षः प्रलपति किमपि ग्रामणीः कामुकानाम् ।। १२ ।।
तदहमनन्तरकरणीयाय सजीभवामि । (इति निष्क्रान्तः ।)
२९
प्रस्तावना।
(ततः प्रविशत्यचिरोपनतनायिकाविरहविधुरो निष्कुटवनं गतो भुजङ्गशेखरः ।)
भुजङ्गशेखरः-('आलोलनीविवसनम्' (११ श्लोकः) इति पुनस्तदेव पठित्वा
स्मरणमभिनीय ।) उक्तं तया तदानीमतिकातरया-
'अम्भोजकाननमहोत्सवलक्षणानि
शीतांशुकान्तिशिथिलीकृतिसूचकानि ।
आविर्भवन्ति मिथुनश्रुतिदुःसहानि
कुकूरुतानि चरणायुधकण्ठनालात् ॥ १३ ॥

शृङ्गारतिलकभाणः ।
५
तदधुना यावदतिप्रभाता न भवति निशा तावदितो गच्छामि' इति
(सखेदम् ।) अहो कथं पुनरासादितं दैवहतकेन ।
कालाहोरपि परस्पररागबन्धे
दृष्टेऽप्यलम्भि न समागमयोग्यकालः ।
किंत्वद्य लब्ध इव यावदमुप्य ताव-
लायुक्त कुक्कुटरुतं विधिरन्तरायम् ॥ १४ ॥
अथवा किमर्थमकाण्डे मया विधिरुपालभ्यते । स हि कथंचिदपि निष्कु-
टवने संघटितवानावाम् । स एव पुनरुपालब्धव्यो यः किल
उरसि मम पतन्त्याः श्रान्तिभूम्ना रतान्ते
मधुरमधरबिम्बं यावदास्वादनाय ।
कुवलयनयनाया नोपगृह्णामि ताव-
त्परुषतरमकूजत्पातकी ताम्रचूडः ॥ १५ ॥
(पुनर्विचिन्त्य सोच्छ्वासम् ।)
अमुप्मिन्मन्दारस्तबकसुभगे निप्कुटवने
समुन्मीलादलमृदुनि नीपद्रुमतले ।
तया साकं मञ्चे बहुगुणितमन्चेलरचिते
रतारम्भो भावी पुनरपि किमिन्दीवरदृशा ॥ १६ ॥
कृतं कृतमलभ्यगोचरया चिन्तया । को नु तावतो मम भागधेयस्य
संभवः । इदं पुनरप्यहमाशासे ।
मन्दस्मिताङ्कुरविकखरगण्डभागं
मन्दाक्षसंकुचितमञ्जुलदृग्विलासम् ।
बिम्बाधरारुणपरिप्कृतमानताङ्गी
वाम्बुजं पुनरपि प्रकटीकरोतु ॥ १७ ॥
(विचिन्त्य ।) का पुनरेतस्य प्रसक्तिरपि ।
यदद्य देवरो बालां बाभ्रव्यः पतिमन्दिरम् ।
व्याघ्रो निवासकान्तारं हरिणीमिव नेप्यति ॥ १८ ॥

ur काव्यमाला। अतः सर्वथा पुनरिदानी सा तुङ्गस्तनभरखिन्नमध्यभागा नो द्रष्टुं सकृदपि लभ्यते नतद्रूः । (सास्रगद्गदम् ।) किं वक्ष्ये मुहुरयमप्यकाण्डवैरी मर्माणि प्रहरति मार्गणैरनङ्गः ॥ १९ ॥ (कथंचिदपि शिरस्यञ्जलिं बढ़ा ।) कुटिलायतनीलकुन्तलां कुचभारावनमत्कृशोदरीम् । मृगशावविलोचनां पुरो मम भूयोऽपि विधे विधेहि ताम् ॥ २० ॥ (सहर्षम् ।) स्पन्दत इवैष दक्षिणो भुजदण्डः । तन्मन्ये फलिष्यति मे मनोरथः । (इति चक्षुषी उन्मृज्य सर्वतो विलोक्य ।) किमियं प्रभातप्राया रजनी संवृत्ता । यदिदानी दरदलदम्बुजविगलन्मकरन्दकणानुषङ्गेन । अलिभिर्निरुद्धगमनः परितोऽपि स्पन्दते पवनः ॥ २१ ॥ अपि च । चक्रद्वन्द्वं चटुलनलिनीनालडोलाधिरूढं गाढाश्लिष्टं त्यजति रजनीजातविश्लेषदुःखम् । नक्तं भुक्त्वा नवकुमुदिनी विश्रमार्थी विभाते गञ्जागेहं विकचकमलं गाहते चञ्चरीकः ॥ २२ ॥ तदितो यावन्न प्रचरन्ति जनास्तावदेव शयनाय कल्पितं चेलं दक्षिणतो नीपद्रुमस्य निक्षिप्तमसिमपि गृहीत्वा बहिरेव निष्कुटवनान्निर्गमिष्यामि । (इति निर्गमनं नाटयित्वा पञ्चषट्पदानि गत्वा पुरो विलोक्य ।) एष प्रम्खलितन्यस्तपादः संभ्रान्तलोचनः । कम्पमानोरुरभ्येति कृतमूर्धावगुण्ठनः ॥ २३ ॥ (निपुणं निर्वर्ण्य । खगतम् ।) कथमसौ मप्रियसखो मन्दारको भीत भीत इ- वागच्छति । भवतु । पृच्छामि । (प्रकाशम् ।) सखे मन्दारक, कुतश्चित्कुतो धावसि । किं पाणिना मुखमसकृत्पिदधानः सगद्गदं ब्रवीषि-'वयस्य, शृङ्गारतिलकभाणः । मा शब्दं कुरु । मा शब्दं कुरु । चित्रसेनो हन्तुमन्वेषयति माम्' इति । सखे, मा भैषीः । नन्वेष संनिहित एव प्रियसखस्ते खड्गपाणिर्भुजङ्गशे- खरः । तदधुना चित्रसेनो राजन्यः संनयतु शतेन वा योधैः सहस्रेण वा । पश्चात्कृत्वा भवन्तमहमेक एव हस्ताग्रभ्रमितकठोरखड्गधारानिर्भिन्नप्रतिभटगावनिःसरद्भिः । प्रत्यप्रैरिव हरिचन्दनद्रवैः स्यामालेप्तु रणधरणीमसृक्प्रवाहैः ॥ २४ ॥ किं ब्रवीषि-'यद्येवमकुतोभयोऽस्मि' इति । कुतस्त्वयि विद्वेषो राजन्यस्य चित्रसेनस्य । किं ब्रवीषि–'निजप्रेयस्यां वासन्त्यामनुरक्तः' इति । अहो साहसिन्, किं राजन्यदारेप्वपि व्याप्रियसे । अपि शक्नोषि कालभुजंगफ- णान्मणिमादातुम् । किं न जानासि मानधना विशेषेण क्षत्रजातिरिति । किं ब्रवीषि-'सत्यमित्थं जानन्नपि प्रमुषितचेतनः प्रसवायुधेन संवृत्तो- ऽस्मि' इति । सत्यमेवेदम् । कथमपि किल दृष्टे कामिनीलोकमात्रे परवशयति यूनां मानसं पञ्चबाणः । तदुपरि यदि साक्षात्सैव दृश्येत तन्वी तव कथमिव न स्याच्चेतनायाः प्रमोषः ॥ २५ ॥ कथय सखे, किं तदनुरागस्य पलायनमात्रं फलमासीदुत किंचिदन्यदपि । किं ब्रवीषि- 'आरूढं शयनं तया सह कृताश्चाटूक्तयः सस्पृहं प्रखिन्नेन ततः करेण कथमप्यङ्गाभिमर्शः कृतः । आश्लिष्टो दृढमुन्नतः कुचतटोऽप्यस्याश्चकोरीदृशः' इति । (स्वगतम्।) असौ धन्यो यूनां यदुरसि विशाले मृगदृशः स्तनाभ्यां संक्रान्तो दृढतरपरीरम्भसमये । द्विधा वृत्ताकारो मलयजरसोऽयं मम दृशो- र्वधूटीवक्षोजद्वितयपरिणाहं कथयति ॥ २७ ॥ (प्रकाशम् ।) सखे, किमेतावति लब्धेऽपि कुतस्ते खेदोऽपि । किं ब्रवीषि- - - २ ८ काव्यमाला। 'किंतूपक्रम एव विनितमभूद्विम्बाधरावादनम् ॥ २६ ।। इति । हन्त हन्त, को वा प्रादुर्भावसमय एव नवनीतस्य भग्नवान्दधि- स्थालीम् । किं ब्रवीषि-'कः पुनरन्यो भविष्यति राजग्रहान्निशीथे निज- गृहमागतं चित्रसेनहतकमन्तरेण' इति । अहो प्रमादः । तदा किं कृतं भवता । किं ब्रवीषि-'सोऽपि मम दर्शनमात्रेण वार्षकिनेयमन्दारहतक, किम- त्रापि धूर्तवृत्तिरिति खड्गमुद्यम्य त्वरितमभ्यधावत् । अहमपि तात्कालि- कप्रतिभयान्निर्वाप्य दीपं निलीय कवाटमूले निष्क्रम्य च शनैः शय्यागृ- हानिशीथे तदीयनिष्कुटवनपथेन पलायमानः सर्वामपि शर्वरी परिभ्रम- न्दिष्टया प्राणरक्षकं वयस्यमद्राक्षम्' इति । साधु मन्दारक, साधु । पुरःस- रोऽसि भुजङ्गानां दुष्करेण राजन्यकुलप्रवेशेन । किं ब्रवीषि-'कस्मात्त्व- म्' इति । कामन्तकस्य निष्कुटवनात् । किं ब्रवीषि-'कया तत्र संकेतित- म्' इति । (दीर्घमुष्णं च निःश्वस्य । स्वगतम् ।) किमस्मै निवेद्यतामुत्पन्नविनष्टम- नोरथनिर्विण्णेन मया । भवतु । इदं तावत् । (प्रकाशम् ।) न कयाचिदपि। किं ब्रवीषि--'किमुच्यते न कयाचिदपीति । किं ममापि गोप्यमस्ति । तत्त्वमेव कथय' इति । तर्हि शृणु । कथयामि । (इति कर्ण एवमिवेत्यभिनीय । किं ब्रवी- पि-'दुःसहस्ते तस्या विरहः । यतः । अङ्गानि पाण्डुरकृशान्यलसा च दृष्टिः पादार्पणं च भुवि मन्थरमन्थरं ते । उन्मीलति श्वसितमूष्मलमायतं च मन्ये तदुन्मिषति मन्मथदोःप्रतापः ॥ २८ ॥ अलमितः परं सा पतिगृहं गमिप्यतीति विषादेन । संध्यासमय एव तया सह योजयामि तत्रभवन्तम्' इति । एवं भवतु यदि तावत्कालमहं जीविष्यामि । किं ब्रवीषि-'अनया रथ्यया गच्छावः' इति । तर्हि तथा कुर्वः । सखे, पश्य पश्य अस्यां किल रथ्यायाम् आ हाग्रादपि विसृमरैरन्धकारैरधस्ता- नीलोत्पीडस्तिमितसलिलस्तय॑ते नूतनोऽब्धिः । किंचेदानीमुपरि रुचयः प्रस्थितस्यास्तमिन्दोः फेनच्छायां भवनशिखरप्रान्तलमा वहन्ति ॥ २९ ।।

श्रृङ्गारतिलकमाणः। ९ किं ब्रवीषि-'न किंचिदपि ज्ञातवानस्मि राजन्यकृतरणरणिकेन य- दिदानीमुषस्यतीव रजनी । तथाहि । अस्तं याति शशी, चकोरतरुणीपीतावशिष्टैः करैः किंचित्किंचिदुदञ्चति स्मितमिव प्राचीमुखे पाण्डिमा । दृश्यन्ते च जरन्मृणालरुचयः सप्ताष्ट वा तारका निर्निद्रा निजनीडशाखिषु समं कूजन्त्यमी पक्षिणः' ।। ३० ।। इति । एवमेवैतत् । पश्य सखे, पश्य । इयन्तं कालं वा प्रविकसितनीलोत्पलदृश: शशाङ्कः खच्छन्दं रजनिमुपभुज्यापसरति । अपि च । उडुव्याजाक्रीडारभसशिथिला हारमणयो विवृण्वन्ति व्योमस्थलमुभयसंकेतभवनम् ॥ ३१ ॥ किं ब्रवीषि—'वयस्य, पश्य दक्षिणतः । एताः किल वारवनिता मधुपा- नमदपरवशतया प्रतिपदविकटविन्यासपरिस्खलितपदाम्बुजझलझलायितक- नकमञ्जीरम लगतिकमा रतिरभसशिथिलबन्धस्य कुन्तलभरस्य संय- मनाय समुदस्तकरपल्लवमन्तराल एव व्यापारयन्त्यो विरचयन्त्यो मुहुरपद एव मुग्धस्मितमानर्तितभ्रूलतमकाण्ड एव मदारुणमक्षि विक्षिपन्त्यस्तरलसमु- उज्वलहारमणिरमणीयकठिनकुचतटविस्रंसमानचीनांशुकपरिदृश्यामानानिन- खपदानि निर्दिश्य कराग्रेण सकरतालमितरेतरमुपहसितुमुपक्रम्य रम्यमन्य- देव जल्पन्त्यः परस्परमविदितप्रत्युक्तिकममवगतिसंगतिकामिनिज्ञातरहस्य- कथागोपनमाकस्मिककोपवशादन्तरान्तरा किंचिदुच्चैर्वचनमोदितवाक्यरम- णीयं च संलपन्त्यः प्रावृषिकविद्युत्पुञ्जपिञ्जराभिर्निजाङ्गरुचिमञ्जरीभिरखिल- मपि दिगन्तरमुपलिम्पन्त्यो विजयवैजयन्त्य इव जगदेकवीरस्य मकरकेतनस्य संकेतितविहारभवनात्प्रतिनिवर्तन्ते' इति । सखे, दृश्यत एव इत इदानीं स्त्यायन्तः कबरीभरश्रियमिव प्राप्तुं वचित्सुभ्रुवां वेणीवल्लितुलाभिलाषिण इव श्रेणीभवन्तोऽन्यतः ।

१० काव्यमाला। - खैरावादितवारुणीसुरभिलश्वासैकबद्धस्पृहा वारस्त्रैणमनुप्रयान्ति मधुरखाना जवेनालिनः ॥ ३२ ॥ किं ब्रवीषि- 'मुखरवलयहस्तो मुग्धगात्रप्रकम्पो भयतरलगन्तः प्रस्खलद्वर्णवाक्यः । अलिषु निपतितेषूपर्युपर्योष्ठबिम्ब विवशयति मनो मे सुध्रुवां विभ्रमोऽयम् ॥ ३३ ॥ इति । सत्यमेवेदम् । खतो वारस्त्रैणं तदुपरि दृढं यौवनमिदं मदस्तत्राप्येष स्फुरति मधुपानेन जनितः । इयं चालिश्रेणी तरलयति तत्रापि सखे किमन्यत् । मधुरो विलासोऽयं यूनां सुकृतपरिपाको विजयते ॥ ३४ ॥ सखे, दीयतां पश्चिमतो दृष्टिः । वामस्कन्धे दधदिह मृगत्वङ्मयीं वस्त्रपेटी गृह्णन्दोष्णा किमपि विपुलं पुस्तकं दक्षिणेन । प्रत्यासीदत्यलिकफलकं बिभ्रदस्पष्टपुण्ड्रं कोऽयं धौतांशुकपरिवृतो मुष्टिमेयोपवीतः ॥ ३५ ॥ किं ब्रवीषि--'किं न जानासि पौराणिकोऽयं नारायणभट्टः प्रातःस्नानाया- गच्छति । स्मरसि सखे, वेगवत्यां स्नास्यावः । तत्र चास्मै शाकिनी बद- रीफलानि च दास्यावः' इति । अहो बहोः कालाद्विस्मृतोऽयं स्मरतन्त्रनिष्ठेन मया वैषयिकसुखनिसर्गवैरी श्रोत्रिवराकः । किं ब्रवीषि-'भवतु । अय- मन्येषामतथाविधः पुराणपठनेन । स्वयं तु सम्यगनुभुङ्क्ते वैषयिकानि सौख्यानि । तथाहि । ताम्बूलं कुसुमस्रजो मृगमदोन्मिश्रं च गधन्द्रवं भत्त्यास्मै ददते पुराणपठनं शृण्वन्ति ये मानवाः ।

शृङ्गारतिलकमाणः। किंचायं विधवाः प्रलोभ्य युवतीम्रन्थावसाने रहः क्रीडामेव हि दक्षिणां विरचयन्गृह्णाति चेलाञ्चलम् ॥ ३६ ॥ इति । साधु पौराणिक, साधु । सखे, किं ब्रवीषि-'इतः किंचिदुत्तरतः पश्य । स्फुरदधरमुदश्रु शोणनेनं कमपि कृताङ्गुलिभञ्जनं शपन्ती । कथमपि च सखीजनानुनीता प्रविशति मन्दिरमुत्पथेन तन्वी' ॥३७॥ इति । आस्तामेतत् । पश्य पुरस्तादाविरस्ति नयनोत्सवः । कौशेयं रतिसंभ्रमाद्विलुलितं विस्रस्तकाञ्चीगुणं संयन्तुं दृढमक्षमा करयुगेनालम्बमाना परम् । पश्यन्ती क नखाङ्क इत्यवयवान्संकेतितान्मन्दिरा- द्वाला बन्धुजनावलोकनभिया तूर्ण विनिष्कामति ॥३८॥ किं ब्रवीषि--'इयं किल मालती नाम वसुदेवगुप्तस्य गृहिणी तव सुहृदा व- सन्तकेन संप्रति वशीकृता' इति । अहो, मदीयमेव भाग्यम् । यावतां मत्सुहृ- दामप्युच्छृङ्खला पारदारिका । (निपुणं निर्वर्ण्य ।) शीर्यच्चम्पकगर्भकः कचभरः श्रान्ते परं लोचने निःश्वासेन विशृङ्खलेन कुचयोः स्पन्दोऽप्यमन्दोदयः । एतस्या हरिणीदृशः पुलकिता खिन्ना च गण्डस्थली लोलं नीविदुकूलमप्यचिरजं व्याख्याति वीरायितम् ॥ ३९ ॥ (पुरो विलोक्य ।) प्राचीनाचलभूपमौलिविलसन्माणिक्यकोटीरकं पाकारातिदिगङ्गनाकुचभरालंकारसौगन्धिकम् । उन्नम्रामरवर्त्म किंशुकनमत्प्रत्यग्रगुच्छो रवे- बिम्बं पद्मवनीतपःफलपरीपाकः समुज्जृम्भते ॥ ४० ॥ अपि च। पयोजिनी रागिणि पद्मबन्धावालिङ्गति स्मरेमुखीं करेण । पुनस्त्रपामीलितपद्मनेत्रा बभूव नीलोत्पलिनीति मन्ये ॥ ४१ ॥ किं ब्रवीषि---'चित्रमेतन्ननु शशिनश्चरित्रम् । पश्य । दृष्ट्वा प्रोषितवल्लभां कमलिनीं तस्या मुषित्वा श्रियं दत्त्वा तां परिरम्भमूल्यविधया नीलोत्पलिन्यै निशि ।

१२ काव्यमाला। प्राप्ते सांप्रतमातरश्मिपटले भानौ रुषेवारुणे चन्द्रश्चोरवदस्तभूधरमपि सस्तांशुको धावति' ॥ ४२ ॥ इति । सखे, सम्यगुत्प्रेक्षितं भवता । किं ब्रवीषि-'अहमुत्तरामेव रथ्यामनेन पथा गमिष्यामि यत्र तत्कामन्दकस्य भवनम् । रजनीमुखमेणाङ्को रागी यावन्न चुम्बति । तावदेष त्वया सार्धं तन्वङ्गी योजयामि ताम् ॥ ४३ ॥ तत्कियन्तमपि कालं सोढव्यो विरहवेगः' इति । सखे, सर्वथा योजयामीत्य- मृतमयैरक्षरैराप्याययसि कर्णपुटीम् । साधय सखे, साधय । (इत्युक्त्वा क- तिचित्पदानि गत्वा । विचिन्त्य ।) अद्यैव याति पतिमन्दिरमानताङ्गी संयोजयिष्यति तदेष कथं तया माम् । मन्दारकः परमनङ्गशरार्दितं मा- माश्वासयन्निदमुतापहसन्नवादीत् ॥ ४४ ॥ अनेन पुनरिदमप्युक्तं कियन्तं कालं सोढव्यो विरहवेग इति । कथमयं मया सोढव्यः । यतः । प्रसजति वेल्लति तपति ज्वलयति विदलयति निर्दहति चेतः । प्रागपि तद्विरहामिर्ननु दुःसह एव न पुनरीदृक्षः ॥ ४५ ॥ अहो, विधिरपि व्याहतमेव पुनर्व्याहन्तुमीहते । कुवलयदृशं तन्वीं कुम्भस्तनी कुटिलालका- मनिशमपि तां ध्यायत्प्रागेव दीर्यति मे मनः । तदुपरि पुनः क्रूरो मारो विषैरिव मिश्रितं क्षिपति च शरव्यूहं हा हन्त हन्त करोमि किम् ॥ ४६॥ (अग्रतोऽवलोक्य ।) अयं खलु विशृङ्खलमदनमदारम्भसंभाविततारुण्यः पण्यवि- लासिनीघनस्तनकुम्भगाढपरिरम्भसंक्रान्तहरिचन्दनद्रवमुद्रितबाह्वन्तरो निर- न्तररेखायितवलयपदलाञ्छितपृथुलांसः प्रशिथिलदृश्यमानमृगमदपत्राङ्कुरम- करपरिकर्मितमांसलभुजदण्डलममणिताटकपदः प्रतिनवकज्जललाक्षारसपरि- च्छुरितरदनच्छदः प्रत्यग्रपलाशमुकुलसदृशकुटिलनखक्षतोपलक्षितकण्ठबा- शृङ्गारतिलकमाणः। ३ हुमूलः स्फुटतरदन्तक्षतलक्ष्यपद्मरागशकलाधिकसमुल्लसदधरपल्लवः परिधौतप- क्ष्मपुटयुगलपरिष्कृतनयनाम्बुजः स्तोकश्लथकिसलयारुणमृदुलशिरस्त्राणह- श्यमानचम्पकस्रग्भिर्वेष्टितवककुञ्चिकः परिम्लानविकचकर्णावतंसकहारः सान्द्रजातीलवङ्गचन्द्रशकलसुरभिताम्बूलपूरितवदनारविन्दः सव्यकरमुष्टिगृ- हीततरुणकेतकीपर्णरुचिरनागवल्लीदलसंचयो दक्षिणकरतलसमुत्क्षिप्तनिशित- कौक्षेयकः कौसुम्भपरिधानाञ्चलविन्यासभव्यसव्यभुजशिखरः सुरतान्तसुखसं- वेशवशदृढलग्नपरिम्लानपञ्चषशयनास्तरकुसुमरमणीयचरमाङ्गः प्रसृमरघन- सारविलेपनपरिमलकरम्बितनिजाक्रान्तसरणिः कलहंसो नाम मत्प्रियसु- हृदित एवाभिवर्तते । सखे कलहंस, पश्यन्नपि मां कथमनालपन्नन्यतो ग- च्छसि । किं ब्रवीषि-~'अद्य कश्चिदैन्द्रजालिकश्चन्द्रकलामन्दिरद्वारे वि- विधान्यद्भुतानि प्रदर्शयिष्यतीति प्रतिष्ठिते वेशवाट प्रति विलासिजनः । तदहमपि वेगवतीतीरे मुखमुन्मृज्य त्वरितमागमिष्यामि । त्वमपि तत्रैव गच्छ । तत्रैवावयोः संलापो भविष्यति' इति । (स्वगतम् ।) अयं कश्चिन्ममा- प्याक्षेपो विरहखेदविनोदनोपाय इव । (प्रकाशम् ।) कलहंस, अहमपि वेशवाटमेव गच्छामि । (पदान्तरे स्थित्वा ।) त्रुटितममलं पाणौ कृत्वोपवीतमदक्षिणे मुहुरभिमृशन्नन्येनायं विलूनशिखं शिरः । धवलरदनः सर्वाङ्गीणप्ररूढतनूरुहो द्रुतमभिपतन्कश्चिद्वर्णी करोति मुदं दृशोः ॥ ४७ ॥ (विमृश्य ।) अयं हि गणदत्तोपाध्यायशिष्यो देवरातो नाम ब्रह्मचारी । देवरात, केन कृतमद्भुतमीदृशं ते रूपम् । किं ब्रवीषि- 'उपाध्यायवैधवेये- न' इति । कस्त्वयि तस्य कोपहेतुः । किं ब्रवीषि-'ज्ञायते हि नूतनप्राप्तवै- धव्या सारङ्गिका नाम तस्य तनया' इति । ज्ञायत एव । यां किल मासद्व- यमारभ्य भवान्गूढमेव कलत्रयतीति किंचित्किचिदाकर्ण्यते । अपि च । आमुक्तधौतसिचयाञ्चलकम्बुकण्ठ- मानीलकीर्णकबरीभरसंवृतांसम् ।

१४ काव्यमाला। गात्रं निराभरणसुन्दरकर्णपाशं तस्यां न कस्य हृदयं तरलीकरोति ॥ ४८ ॥ किंच। पार्थेषु दन्तपक्तया प्राक्तनताम्बूलकृष्णिकाङ्कितया । तरलयति सा नताङ्गी स्मयमाना कामिनां चेतः ॥ ४९ ॥ किं ब्रवीषि-'सा पुनरद्य विविक्तममिहोत्रभवनकोणमासाद्य मया सह वि- हृतवती । तच्चोपाध्यायेन साक्षादेव दृष्टम्' इति । तर्हि युक्तमेवाचरितमु- पाध्यायेन । यतः । इतस्तुर्याश्रमप्राप्त्यै स्मरतन्त्रविधानतः । उपाध्यायस्तवाकृन्तदुपवीतं शिखामपि ॥ ५० ॥ (सरोषम् ।) किं ब्रवीषि-'अहमपि दुर्वृत्तं धनमित्राय निवेद्य तस्य प्रतिकरि- प्यामि' इति । (सोत्कण्ठम् ।) किं तत्कथय कथय । किं ब्रवीषि-किं भवानपि न जानाति यदा प्रियंवदा नाम धनमित्रद्वितीयगृहिणी पुष्पिणीत्येकाकिनी देहलीमधिशेते, तदा तिसृष्वपि रजनीषु गणदत्तोपाध्यायः स्वगृहान्निशीथे धनमित्रगृहमागच्छति । अनन्तरं च कराग्रदरघट्टनस्मृतपुराणसंकेतया तया कृतकनिद्रया लघु कवाटबन्धे हृते । प्रविश्य गृहदेहली झटिति पुष्पवत्या समं निशीथमखिलं विटः प्रमुदितः परिक्रीडते ॥ ५१ ॥ इदं तु मया कदाचिदर्धरात्रे दृष्टम्' इति । (सहस्तास्फालनं विहस्य ।) अद्भुतमिदं श्रोत्रियमानिनश्चरित्रम् । ततस्तरां पतिव्रतांमन्यायाः प्रियंव- दायाः । अथवा कुलाङ्गनेत्येव न विश्वसनीया स्त्रीजातिः । तथाहि । नान्यं किंचिदवेक्षते न सकृदप्येषा बहिर्गच्छति खामालीमभिभाषते न कुलटां दृष्ट्वा परं वेपते । नियत्येव सतीष्विति प्रणयिनो विस्रम्भमातन्वती निद्राणेषु जनेषु नक्तमबला निर्याति रन्तुं विटैः ॥ ५२ ॥ शृणु देवरात, इतः परं ते हितमुपदिशामि ।

शृङ्गारतिलकभाणः। १५ किं वेदाध्ययनेन किं नु तपसा किं कृच्छ्चान्द्रायणैः क्लेशः प्रत्युत तेन माचर सखे मूढोपदिष्टान्विधीन् । रन्तुं किंतु निरोधिहस्तवलयप्रत्युप्तरत्नाङ्कुर- च्छायापूरितनिम्ननाभिसुदृशां नीवीं रहः संसय ॥ ५३ ।। किं च । मास्तु ते तत्संपादनाय धनार्थमपि विचारः । समाश्रयख तत- श्वौर्य नाम कल्पतरुम् । किं ब्रवीषि-'अनुगृहीतोऽस्मि स्मरतन्त्रसिद्धान्त- विदा तत्रभवता' इति । साधय देवरात, संस्मर मामपि सततम् । संचर वेश- वाटगृहेषु खच्छन्दम् । अहमपि वेशवाट प्रवेक्ष्यामि' इति । (पुरतोऽवलोक्य ।) इयमिदानीं युवपरिषदानीयमानपणीकृतमदकरटिधोरणीपार्श्वयुगलविलम्बमा- नश्रोतृजनश्रुतिलुण्टाकमुखरघण्टारवकथितवारवधूपभोगसौभाग्या निरन्तरम- दनतन्त्रसिद्धान्तसमाचरणप्रचारणजागरूकवावदूकमदनाचार्यसतत विचार्य- माणसाङ्गवात्स्यायनमतानुष्ठाना निरवद्यरसाभिनयहृद्यसंगीतनटन विद्यावैश- द्यशालिना शिक्षितकरणजातेन शीलितनखार्पणदन्तपदचुम्बनोपगृहनभेदेन संस्तुतमणितसीत्कारेण समभ्यस्तयुवजनसंवननप्रकारेण निरतिशयरूपधेयेन निरवधिकविभवभागधेयेन मूर्तिमदपवर्गेण वारविलासिनीवर्गेण सौवर्गमपि मुखं लघूकुर्वती सर्वरसिकजनहृदयनिरोधिका मधुरापुरवेशवीथिका । परिकामद्दतीजनसविनयव्याहृतिवचः- सुधाशाम्यत्क्रीडाकुपितमिथुनान्योन्यकलहा । पणाधिक्याल्पत्वव्यवहरणनिष्पादितमिथो विवादातिक्रुध्यद्विटजरठवेश्यानिबिडिता ॥ ५४ ॥ अत्रैव प्रविश्य चन्द्रकलामन्दिरद्वारे विविधमैन्द्रजालिकं दर्शयिप्यमाणं विविधमद्भुतं द्रक्ष्यामि । (इति वेशवाटप्रवेशं नाटयित्वा ।) अत्र हि वेशवाटे उरसि स्तनकुमलौ प्रकाशं भजतो वारमृगीदृशां न यावत् । समुदञ्चति मञ्जुलस्ततः प्राग्वचने दृग्वलने च वक्रभावः ॥ ५५ ॥ (विचिन्त्य ।) किं ब्रवीम्यत्रत्यानां वैदेशिकयुवजनसंवननचातुर्यम् । यतः । यत्किंचिद्यपदिश्य संनिदधते वेश्याः पुरः कामिनां गायन्त्यः कलमन्तरेव च ततस्तिष्ठन्ति दृग्गोचराः ।

१६ काव्यमाला। सव्यानश्लथनच्छलेन च मुहुः संदर्शयन्ति स्तनौ पश्चात्तान्प्रणयस्पृशेव च दृशा दृष्ट्वा वशीकुर्वते ॥ ५६ ॥ किं च । विचित्रमेव वेश्यानां युगपदनेकयुवजनावर्जनवैदग्ध्यम् । यत्किल एकं भ्रुवोर्विलसितैरितरं कटा:- राभाषणैरपरमन्यमपि स्मितेन । आवर्जयन्ति हि तथा गणिका यथा ते खखैकदत्तहृदया इति विश्वसन्ति ॥ ५७ ॥ अत्र पुनरन्यादृश एव वैदेशिके कामिनि जरतीजनस्य व्यापारः तथा हि। अभ्यायान्तं विटमभिनवं दूरतो वीक्षमाणा तस्याढ्यत्वे तदनु विदिते प्रौढचेटीमुखेन । पार्श्वे कृत्वा जरठगणिका भूषितामेव कन्यां तैस्तैर्वाक्यैः परिचितमिव द्रायत्यात्मगेहम् ॥ ५८ ॥ (विमृश्य ।) अहो जरतीजनो नाम कामिनो मनोरथसिद्धिप्रत्यूहः । यतः । पणान्कलहतोऽधिकान्प्रथममाददानो विटा- निजं गृहमुपागते तदनु रन्तुमस्मिन्पुनः । निशामहह भाषणैश्चटुभिरर्धमधै सुता- प्रसाधनविधानतः क्षिपति वृद्धवेश्याजनः ॥ ५९ ॥ (ऊर्वमवलोक्य ।) इह खल्व_लिहेषु हम्र्येषु आरुह्योच्चैः पृथुकुचभरे वक्षसि प्रेयसीना- माजिघ्रन्तो वदनमधरं शश्वदाखादयन्तः । संक्रीडन्ते सुरतविरमे प्राप्य चानन्दमूर्छा तस्मिन्नेव श्रमपरवशाः कामिनः संविशन्ति ॥ ६० ॥ (श्रवणमभिनीय ।) अत्र हि शिरोगृहाभ्यन्तरे मदनमहाहवशंसी मदिराक्षीकण्ठजयशङ्खात् । उदितो हरति मनो मे भवनकपोतैरनूदितो निनदः ॥ ६१ ॥ अन्यत्रापि ।

शृङ्गारतिलकभाणः । - असकृदवकर्ण्यमानो हाग्रे मेखलाखलात्कारः । कस्याश्चिच्चतुरायाः कथयति पुरुषायितं सुदृशः ॥ ६२ ॥ (पार्थतो विलोक्य ।) कथमत्रैव सख्या कलकण्ठ्या सह बालातपमनुसरति लीलावती । अस्याः किल सिन्दूरद्युतिविभ्रमं विदधते सीमन्तरेखान्तरे कलारस्तबकावतंससुषमां पुष्णन्ति कर्णाग्रयोः । शङ्कामङ्कुरयन्ति कुङ्कुमनवक्षोदस्य वक्षोजयो- बोलां संप्रति सर्वथा बत परिष्कुर्वन्ति बालातपाः ॥ ६३ ॥ पषा मामालोक्य सख्या सममुत्तिष्ठति । तदहमुपसमि । सखि लीला- वति, सुखमास्यताम् । पूर्वदासेऽपि मयि कियानुपचारः । किं ब्रवीषि- 'किं वक्तव्यं भावस्य वचनचातुर्यम्' इति । अये कलकण्ठि, भवति विरलरागः पल्लवो निःसहेन स्तबकयुगमनेन स्पन्दते मारुतेन । मधुकरनिकरोऽपि व्याकुलो दृश्यतेऽयं वद तदियमवस्था वल्लिकायाः कुतोऽभूत् ॥ ६४ ॥ किं ब्रवीषि-'परंतपात्' इति । यद्येवमनुचितमनया सखिवल्लभया संभा- षितुम् । किंतु कथयामि किमपि सखी प्रति कलकण्ठीम् । सस्नेहमङ्कमधिरोप्य बृहन्नितम्ब- संबन्धकन्दलितसौख्यनिमीलिताक्षः । गाढोपगूढकठिनस्तनबद्धतृष्णः कान्ते त्वया सकृदपि स्पृहयामि रन्तुम् ॥ ६५ ॥ किं ब्रवीषि-'यदि भावः प्रार्थयते धन्या भवति कलकण्ठी' इति । तस्यिताम् । उभाभ्यां श्वः समागमो भविता । (इति पदान्तरे स्थित्वा ।) इयं किल भवनद्वारे कमलावती आरक्तसंकुचदपाङ्गमुदस्तहस्त- मुन्ननितस्तनमृजूकृतमध्यभागम् ।

१८ काव्यमाला। नीवीसमुच्छ्रसितदर्शितनाभिदेशं निद्रावशेषकलुषा कुरुतेऽङ्गभङ्गम् ॥ ६६ ॥ सखि कमलावति, मणिहारमनोहरान्तरालं च्युतसंव्यानमुरस्तवावलोक्य । कुतुकं वहतः करौ मदीयौ कुचकुम्भग्रहणे चकोरनेत्रे ॥ ६७ ॥ किं ब्रवीषि-'मन्दं भण। जरती श्रोष्यति' इति । (सभयम् ।) कः प्रभवति कालभुजंगीमुखे पतितुम् । तद्दन्यतो गच्छामि । हस्तेन मामवलम्ब्य किं ब्रवीषि-'श्वः संभाव्यताम् । न विस्मरणीया कमलावती' इति । साधु कमलावति, साधु । आलम्ब्य धैर्यमविचार्य नितम्बमार- मारुह्य मय्यधिकमुच्छ्रसितं निशम्य । अन्तः कलक्कणितकन्धरमुनमन्त्याः किं विस्मरामि दयिते रतिकौशलं तत् ॥ ६८ ॥ आस्ख । साधयामि । (अग्रतो विलोक्य ।) काचित्कुचाग्रचलमौक्तिकदाम दोभा कस्याश्चिदम्बुजदृशः पुरतः स्थितायाः । आकीर्य मारुतविधूतकलिन्दकन्या- कल्लोलविभ्रमभृतश्चिकुरान्धुनोति ॥ ६९ ॥ इयं हि पद्मावती कनीयस्याः कमलिन्याः कबरी बध्नाति । ( उपसृत्य ।) अये पद्मावति, किमिदं मम बध्यते मनः कमलिन्याः कचबन्धकैतवात् । अथवास्य विलासिनि स्वतश्चपलस्योचितमेव बन्धनत् ॥ ७० ॥ किं ब्रवीषि-'प्रगल्भाभोगरसिकस्य कथमस्यामपि तवाभिलाषः' इति । सखि, मा मैवम् । तैस्तैश्चाटुवचोभिरार्द्रहृदयामानीय शय्यागृहं सव्याजं शयने निवेश्य च कृते काञ्चीगुणत्रंसने ।

शृङ्गारतिलकभाणः । १९ पाणिभ्यामपि नीविबन्धमचिरादाच्छादयन्त्या भिया तन्व्यास्तत्प्रथमा निषेधमधुरा धन्यो गिरः श्रोप्यति ॥ ७१ ।। तदिदानीम् दृशि दलदुत्पलकान्त्या दन्तपुटे कन्दलेन शोणिम्ना । वक्षसि कुचमुकुलाभ्यामपि च विलोभयति मामियं बाला ॥ ७२ ।। किं ब्रवीषि-'तर्हि भवानेव हरिष्यति कौमारं मे कनीयस्याः' इति । यद्यनुमन्यते जरत्यपि कृतार्थोऽस्मि । (इति परिक्रम्यान्यतो विलोक्य ।) इयमत्र रत्नावली । अस्याः किल पश्चाद्भागविलम्बिनीं मृगदृशः पर्यायभुनाकृतिं दृष्ट्वा कालभुजंगविभ्रमभरां द्राघीयसी वेणिकाम् । पर्याकुञ्चितपक्षतिप्रविततग्रीवं च तूर्ण परि- क्रामन्नेष विहारबर्हिणयुवा चञ्च्या समाकर्षति ॥ ७३ ॥ इयमपि, ससंभ्रमम् पार्श्वस्रस्तललाटभूषणशिखापर्यस्तकर्णोत्पलं नासामौक्तिकसंनियोगसुभगप्रस्तब्धसव्यांसकम् । साचीकृत्य मुखारविन्दमसितापाङ्गभ्रमत्तारक वेणीकर्षिणमीक्षते सुकृतिनं केलीमयूरं वधूः ॥ ७४ ॥ (उपसृत्य ।) सखि रत्नावलि, किमर्थमाहन्यते लीलाम्बुजेन केलीमयूरः । किं ब्रवीषि-'भवदाचरितव्यमयमाचरति वराकः' इति । तथा चेदाहन्य. तामयं निसर्गवैरी भुजंगवर्गस्य । यद्वा नायमान्यताम् । यतः । आकर्षत्युपसृत्य वेणिलतिकामप्यम्बुजेनाहतो नायं मुञ्चति पादमूलमृजुतां चित्ते विधत्ते गिराम् । प्रेमावेशविकखरेण शनकैरङ्गीकृतश्चक्षुषा कामीवैष तवानताङ्गि पुरतः केकी मुदा नृत्यति ॥ ७५ ॥ किं ब्रवीषि—'अलं प्रियालापेन । जानामि काञ्चनलताकामुकं तत्रभवन्तम्' इति । कल्याणि, कथमिदमनृतमुच्यते । ३ २० काव्यमाला । कथमन्यत्र भवेन्मम रागस्त्वत्संगमैकरसिकस्य । रमते किमितरतोऽपि भ्रमरः सहकारमञ्जरीचपलः ॥ ७६ ॥ तदहमजस्रमपि गाढाश्लिष्टतुषारशीतलकुचं कण्ठोन्मिषत्कूजितं निःश्वासोद्तसौरभं नवसुधानिष्यन्दिबिम्बाधरम् । निःशेषापहृतांशुकस्फुटतराशेषाङ्गरूपोच्चयं संभोगं तब चिन्तयामि दयिते सर्वेन्द्रियाह्नादनम् ॥ ७७ ॥ किं ब्रवीषि—'चतुरोऽसि यथोचितमालपितुम् । याहि यथागतं धूर्तधौरेय' इति । त_नुचितस्त्वया संप्रति संलापः । प्रत्युत कोपाय भवति । तत्पश्चादाग- मिप्यामि समीकर्तुम् । (इत्यन्यतः परिक्रम्य ।) कथमत्रैव प्रतिपदमपि सखी- जनोपलालितसंगीतरीतिरङ्गीकृतगृहवितर्दिकामध्यवासा मधुरवाणी आपीनस्तनकुम्भकुङ्कुमरसैरर्धारुणां वल्लकी- मासज्योपरि वक्षसो नखमुखैरास्फालयन्ती क्रमात् । मन्दान्दोलितकर्णपत्रमधुरस्मेरानना कामिनी शृण्वत्केलिकुरङ्गशावकलितोत्सङ्गा कलं गायति ।। ७८ ।। सखि मधुरवाणि, कथं गायसि । 'एव्वं जस्स सुणीअदि त्तिहुवणक्खोहोजिदं साहणं वामक्खीण विलोअणं ति महुरालावो त्ति हासो त्ति अ । दक्खो कामिजणाणरत्तिसु वहूभोगोवदेसे ससी मित्तं जम्स खु दाव होदु विजई सो केलिणीकामुओ ॥ ७९ ॥' इति । अहो गानस्य माधुर्यम् । (इति शिरः कम्पयन् ।) मुञ्चतीव मधु क्षौद्रं सिञ्चतीव सुधारसम् । को हरति मे कामं गानं मधुरवाणि ते ॥ ८० ॥ अपि च । तरुणि य इह गाने व्यक्तसप्तखरोऽभू- दलिनि परभृते वा दृश्यते नैष नादः । १. 'एवं यस्य श्रूयते त्रिभुवनक्षोभोचितं साधनं वामाक्षीणां विलोचनमिति मधुरा- लाप इति हास इति च । दक्षः कामिजनानुरक्तिसु वधूभोगोपदेशे शशी मित्रं यस्य खलु तावद्भवतु विजयी स केलिनीकामुकः ॥' इति च्छाया.

शृङ्गारतिलकभाणः ।
२१
अपि तु तव सकाशाद्वलकी रागभङ्गी-
मसकृदनुसरन्ती गानमभ्यस्यतीव ॥ ८१ ॥
किं ब्रवीषि-'भाव, किमहमप्यसि पात्रमेतावत्तव स्तोत्रस्य । पक्षपातस्तु भवा
दृशामारोपयति माहात्म्यमल्पेऽपि' इति । सखि मधुरवाणि, कियन्म-
यपि बहुमानवचनम् । यदहमङ्कशायी तव हरिणशिशुरिव पात्रमस्मि वि-
हारमात्रस्य । यद्वा ।
पार्थे चरत्यरुणपाणितलाभिमृष्टः
पर्यकमध्यमधिरोहति निर्विशङ्कम् ।
माध्वीमुचं तव शृणोति च तन्वि गीति
मत्तोऽयमभ्यधिक एव कुरङ्गशावः ॥ ८२ ॥
किं ब्रवीषि 'क प्रस्थितो भावः' इति । चन्द्रकलामन्दिरद्वारे सलीलमैन्द्र.
जालिकं दर्शयिष्यमाणमद्भुतं द्रष्टुम् । तदास्ख । साधयामि । (इति परिक्रम्या-
वलोक्य ।)
एकस्मिन्नुपविश्य रत्नफलके सोल्लासमालीजनै-
मेनाम्बुरुहं करेण दधती वाचालभृङ्गीकुलम् ।
उझान्तेन दृगञ्चलेन परितोऽप्युन्मोहयन्ती विटा-
नक्षैर्दीव्यति सेयमिन्दुवदना मञ्जुक्कणत्कङ्कणम् ॥ ८३ ॥
इदानीमेतस्याः
पाटीरद्रवचित्रकेण निटिले पत्राङ्कुरैर्गण्डयो-
रक्ष्णोरञ्जनरेखया च सुदृशो मुह्यामि नाहं तथा ।
अर्धव्यक्तनखत्रणाङ्कमधुरावभ्यन्तरे कञ्चुली-
बन्धादूर्ध्वमधश्च दृश्यवलयौ पश्यन्नुरोजौ यथा ॥ ८४ ॥
(निपुणं निरूप्य ।) कथमस्या द्यूतप्रतिपक्षिणी मत्परिग्रहः कलभाषिण्येव ।
मुहुरियमनुविद्धानूमिकारत्नभाभिः
कणितवलयमक्षान्विक्षिपन्ती करेण ।
प्रचलदलकभारं प्रस्फुरत्कर्णपत्रं
किमपि विवदमाना मन्दहासं तनोति ॥ ८५ ॥

२२ काव्यमाला। (विमृश्य ।) कौटिल्यं वचनेऽपि दृष्टिवलनेऽप्यभ्यासतोऽजानती- मज्ञातच्छलकल्पनामविदितक्रीडारसां तत्वतः । प्रागेतां बदरीफलोपमकुचोद्भेदां प्रसन्नानना- मारोप्योरसि मन्दमन्दमधरं चुम्बन्ननैषं निशाः ॥ ८६ ॥ कथमत्र द्यूतसाक्षिण्यौ तमालिका सुकुन्तला च । (सहर्षस्मितम् ।) अत्रैव वसन्तकोऽप्युपरिक्रीडाचतुरो मत्प्रियसखो माध्यस्थ्यमवलम्ब्य तिष्ठति । तदतिलङ्घय समाजमेतमनुचितमन्यत्र मया गन्तुम् । (इत्युपसृत्य ।) कथमियं मत्प्रेयसी कलभाषिणी मामवलोक्य ससंभ्रममुत्थाय गन्तुमिच्छति । (सवि. षादमिव ।) अहो बहिरमुप्या मौग्ध्येन वयं बाध्यामहे । वर्तन्ते सममेव संसदि गिरः शृण्वन्ति माध्वीकिरः किंचास्याः स्तनकुड्मलोज्ज्वलमुरः पश्यन्ति धन्याः परे । एषामेकमपीह मे न सुलभं भोक्तेति वादः परं मय्यास्ते यदवेक्ष्य मां परिहरत्येषा समक्षे स्थितिम् ॥ ८७ ॥ तदिदानीं त्वरितमुपसृत्य हस्ते गृहीत्वा समीप एव निवेशयाम्येनाम् । (इति पञ्चषट्पदानि गत्वा ।) प्रेयसि कलभाषिणि, कथं वेश्याङ्गनाविरुद्धं मौ. ध्यमारोपयसि । तदत्रैवोपविशतु भवती । सख्यः, सर्वा अपि किं ब्रूथ- 'इत आस्यतां भावेन' इति । सखे, किं ब्रवीषि— 'कथमस्य द्यूतस्य भवा- नन्तरायः संवृत्तः यत्कलभाषिणी तव संनिधौ मन्दाक्षेण नानुमन्यते विक्षे- पमक्षाणाम्' इति । तयहमेवास्या मम प्रेयस्याः प्रतिनिधीभवन्निन्दुवदनया सह दीव्यामि । सखि इन्दुवदने, किं ब्रवीषि-'यद्येवं धन्यास्मि' इति । तमालिकासुकुन्तले, किं ब्रूथः-- 'युवयोः पणबन्धोऽपि कश्चित्संकेतितव्यः' इति । तर्हि श्रूयताम् । द्यूते यदीयं विजिता मया स्या- दस्याः पिबामि स्वयमाननाजम् । अहं जितश्चेदधरं मदीयं गृह्णातु पातुं पुरतः सपत्याः ॥ ८८ ॥ - शृङ्गारतिलकमाणः । २३ इन्दुवदने, किं ब्रूथः----'यथोचितमावयोः पणबन्धः' इति । तमालिका- सुकुन्तले, किं ब्रूथः- 'कर्मसाम्ये किं भवितव्यम्' इति । सखे, सपरिहासं किं ब्रवीषि-'कर्मसाम्ये व्यत्यस्तचुम्बनमुभयोरित्यर्थत उक्तमासीत्' इति । इन्दुवदने, किं ब्रवीषि-'कुतः साम्यप्रसक्तिरपि । जयाम्येनं द्यूत एव गृह्णामि चाधरमेतस्य पश्यन्त्यामेव कलभाषिण्याम्' इति । प्रिये कलभाषिणि, मा भैषीरस्याः प्रलापेन । जेप्यति परं भुजंगशेखरः । यद्वा विजयख मामि- न्दुवदने, द्यूतविधौ कृतार्थोऽस्मि । यतः । उरः काषंकाषं कठिणकुचययुग्मेन वदनं पिबन्त्या मे कण्ठार्पितमृदुलदोर्वल्लिनमितम् । कराभ्यां ते काञ्चीपदमभिमृशेयं धुतपटो हठादौत्सुक्येन स्मरनृपतिभद्रासनमिव ॥ ८९ ॥ वसन्तक, किं ब्रवीषि-'अनुचितमेव भवादृशानां यदुच्यते विजयख मामि- त्यस्यामपि मानवत्याम्' इति । सखे, परमार्थतो योजयिष्यामि । यतः किल ओष्ठं चुम्बितमुन्नमय्य चिबुकं केशे गृहीते मया मामेति भ्रमितभ्रु वक्रकमलं पातुं च दद्यात्स्वयम् । दष्टे दन्तपटे तु कङ्कणझणत्काराङ्कलोलाङ्गुले- रस्यास्तावदनश्रु हारि रुदितं द्रष्टुं मनः काङ्कति ॥ ९० ॥ इन्दुवदने, सामर्ष किं ब्रवीषि-'अयं नाम पुनरिन्दुवदनां जेष्यति यः किलाक्षपरिक्षेपमात्रानभिज्ञया रत्नावल्यापि द्यूते पराजितः पणीकृतेन दिन- मात्रपरिचरणेन बलवत्पर्याकुलितः' इति । (विहस्य ।) अयेऽनभिज्ञे, किमहं पर्याकुलितोऽस्मि रत्नावल्याः परिचरणेन । प्रलपत किंचित् । आमर्शो यत्कुचकलशयोः प्राप्यते पत्रलेखा- दूरुस्पर्शो यदपि सुलभः पादसंवाहनेषु । यत्कान्ताया व्यजनवलने सिध्यति स्नेहदृष्टि. स्तन्मे तस्याः परिचरणतः प्रार्थनीयं किमन्यत् ॥ ९१ ॥ अये तमालिके सुकुन्तले च, श्रूयताम् । पुरा किलेयमुद्दामयौवनमदोन्मेषा सुपरिज्ञातमदनतन्त्रसिद्धान्तरहस्या च । तदिदानी हि २४ काव्यमाला। रन्तुं प्राप्य युवापि सीदति विटो यस्याश्चिरक्रीडया या च द्रावयितुं क्षमा न युवभिः कामागमज्ञैरपि । सैवेयं सुरतेऽप्यजीयत मया मध्यावबद्धक्कण- द्धण्टानिखनदर्शितस्मरकलाचातुर्यया चेष्टया ॥ ९२ ॥ तदेव किं नालमस्याः प्रमाणं संप्रत्यपि पराजये द्यूतविधौ । इन्दुवदने, स- क्रोधलजं किं ब्रवीषि—'कितव, कृतं प्रलापेन । यदि शक्नोषि विक्षिप तावदक्षान्' इति । तर्हि द्यूतविधिरावयोः श्वो भविता । अद्य पुनरैन्द्रजा- लिकं दर्शयिप्यमाणमद्भुतं द्रष्टुं प्रस्थितोऽस्मि । तदतिक्रामति समयः । वस- न्तकादयः, ब्रूथ-'तर्हि पुरतो गन्तव्यम् । वयमप्यनुपदमागमिप्यामः' इति । तदहं साधयामि । (इत्यन्यतो विलोक्य ।) इह हि नवमालिका संगृह्य च्युतमेखलाविलुलितां नीवीमियं पाणिना सस्तं चांसविवर्तितेन चिबुकेनालम्ब्य चेलाञ्चलम् । लीलासंभ्रमलोलकुन्तलभरव्याकीर्णपुप्पोच्चया खिन्नाङ्गी मणिकन्दुकेन तरुणी खैरं परिक्रीडते ॥ ९३ ॥ (उपमृत्य ।) सखि नवमालिके, पाणिस्पर्शात्तव शशिमुखि प्राप्य रागातिरेकं रन्तुं याचन्निव निपतति प्रायशः पादमूले । लब्ध्वा पश्चादनुमतमिव त्वत्कटाक्षावलोकं भूयः पातुं मुखमिव समुज्जृम्भते कन्दुकोऽयम् ॥ ९४ ॥ किं ब्रवीषि-- 'भाव, धन्यः क्रियतामयं कन्दुकः क्षणं तव कटाक्षपातनेन' इति । सखि, मा मैवम् । स्पृहयामि पुरस्ते धन्याय तव कन्दुकाय य एष विस्रस्तालकया कपोलयुगलव्यालोलताटङ्कया खेदाम्भःपरिमृष्टपत्रलतया संभ्रान्तनेत्रान्तया । व्यावलगत्कुचकुम्भभारवहनक्लान्तोच्चलन्मध्यया नम्रोन्नम्रनितम्बया विहरते कान्ते त्वया कन्दुकः ॥ ९५ ॥ किं ब्रवीषि-'नैतदुर्लभं भावेन परंतु भवितव्यं नवमालिकाया भाग्यपरि- णामेन । यतः ।

शृङ्गारतिलकमाणः । २५ सारज्ञा तरुणीषु सैव भवता या रन्तुमुत्कण्ठते सा धन्या तव या कटाक्षपदवीं प्रेमोज्वलां प्रापिता। स्तुत्या सा किल सुभ्रुवामपि भवान्यामालपत्येकदा तस्या जन्म च सार्थकं त्वमधरं यस्या रह: पास्यसि ॥ ९६ ॥ इति । यद्येवं तव व्यवसायः श्व एवगन्ता भुजंगशेखरः । आस्व । साध- यामि । (इति परिक्रम्यावलोक्य ।) अत्र गृहवेदिकाशिखरे कनकमयकरण्डगर्भलीनं करजमुखैम॑गनाभिमाददाना । करधृतमुकुरा कपोलबिम्बे कलयति काचन चारुपत्रवल्लीम् ॥ ९७ ॥ इयं मम कलत्रचरी काञ्चनलता मदागमनमुपलभ्य पश्यन्ती तिष्ठति । अस्याः किल केलीजन्मभुवौ ध्रुवौ कचभरः कादम्बिनीश्रीहरः कोकस्पर्धिरुचौ कुचौ कुवलयच्छायामुषी चक्षुषी । वल्लीवाञ्छितसौरभं भुजयुगं वाचश्च माध्वीमुचः पादौ पल्लवकान्तिडम्बरभिदौ तव्याः किमन्यैर्गुणैः ॥ ९८ ॥ (उपसृत्य ।) प्रेयसि काञ्चनलते, मां प्रति किमपि वक्तुकामेव दृश्यसे । किं ब्रवीषि-'कथमिदानी पत्रावलीलेखनस्य भवानन्तरायः संवृत्तः' इति । प्रिये, मा मैमम् । कान्ते नियुक्ष्व कलयामि कपोलबिम्बे पत्रावलिं तव नितान्तपरिश्रमासि । येन त्वदाननसरोजनिसर्गगन्ध- माघ्राय निःश्वसितनीतमहं कृती स्याम् ॥ ९९ ॥ किंच। कलितार्धपत्रलेखं कान्ते कमनीयपुलकमुकुलं ते । कथमपि कपोलबिम्बं काङ्क्षति मम चुम्बितुं चेतः ॥ १०० ।। (सस्मितम् ।) किं ब्रवीषि—'सत्यमेवंविधमेव मयि तावकं हृदयम् । यद्बहु- दिनमारभ्य भवन्तं न दर्शयते ।

२६ काव्यमाला। बहिस्तु मधुराकारमन्तस्तिक्तरसं पुनः । विटस्य हृदयं मन्ये विषद्रुमफलोपमम् ॥ १०१ ॥ इति । मानिनि, भवत्येवमन्यत्र विलासिनि । न पुनरस्मिन्नपि त्वदीयहृद- यानुवर्तिनि भुजंगशेखरे । परंतु पणे विवदमानया तव जनन्या पञ्चषदि. नेभ्यः प्राग्निष्कासितोऽस्मि । तदा प्रभृत्येवं चिन्तयामि । कामिनि रहसि मुहुर्मे कराङ्गुलीमृदितचूचुका भवती । खयमेव रागभूम्ना चुम्बेदपि मां पुरेव किमु भूयः ॥ १०२ ॥ इति । (पार्श्वतो विलोक्य । सभयकम्पम् ।) कथमियं जरती मन्दारिका मदु- क्तिमाकर्णयन्ती तूर्ण दक्षिणकरगृहीतजीर्णशूर्पा सकोपमापतति सदनान्त- रात् । (स्वगतम् ।) अहो दुर्दर्शनमस्या रूपम् । पादौ दुष्प्रचलौ पृथूदरभरादेषोऽप्यलाबूफल- द्राधीयान्हृदि लम्बते कुचभरः श्वेता वलन्ते कचाः । दृश्यन्ते च मुखान्तरे त्रिचतुरा दन्ताः शलाकोपमाः किं वक्ष्ये विधिनैव कापि रचिता कृत्या जरत्यात्मना ॥ १०३ ।। तदियं किं करिष्यति न जाने । न प्रसरति पाणिपादं मम साध्वसेन । तदद्य किं करोमि । भवत्वेवं तावत् । (प्रकाशम् ।) अये मातुलानि मन्दा- रिके, सुखमास्यते । सक्रोधं किं ब्रवीषि-रे रे दुराचार, धूर्तजनाधम, कपटैकनिकेतन निर्लज दुरात्मन्, कथमिदानीं करलग्नो मातुलानीति मृ- दुलमामन्त्र्य वञ्चयसि । अनेन जीर्णशूर्पण प्रहरिष्यामि । दातव्यं दत्त्वा पुन- रन्यतो गच्छ। मृज्यमाणोऽपि मासमारभ्य न दृश्यसे । किं न पश्यसि भवा- दृशानपेक्षितादप्यधिकं धनं वितीर्य सुखमुपभुञ्जानान्वारवनितानाम्' इति । (कर्णी पिधाय ।) शान्तं पापं शान्तं पापम् । श्रुतानि श्रोतव्यानि । कथमस्या भुजंगशेखरोऽपि धूर्तजनाधमः संवृत्तः । (सक्रोधम् ।) हुम् । दुष्टाचरणे, कष्टजीवने, वार्धकिहतके, जरठमर्कटिके, काञ्चनलतामुद्दिश्य पूर्वमप्यभिश- पन्तीं भवन्तीमुपेक्षितवानस्मि । अद्य पुनरनेन खङ्गेन विग्रीवामेव विधा- स्यामि । यद्वा जिह्वामेव ते निकृन्तामि । भोभो वेशवाटवास्तव्याः, माध्यस्थ्य- मवलम्ब्य किं ब्रूथ-'कथमत्रैव युवयोवृथा वाक्कलहः सत्यपि विवादमात्र- शृङ्गारतिलकभाणः । २७ परिच्छेत्तरि मदनाचार्ये' इति । तर्हि कलत्रपत्रमानीय मदनाचार्यमेवोपग- मिष्यावः । (इति परिक्रम्य । विचिन्त्य ।) सपदि कलहभाजोरावयोरप्रगल्भा मम हि नियमने वा वारणे वा जनन्याः । कृतपरिहृतबाष्पं कातरा केवलं सा यदधित मयि दृष्टिं तन्मनो मे दुनोति ॥ १०४ ॥ (पुरो विलोक्य ।) अत्र हि शिक्षामण्डपमध्यतो मणिशिलामध्यास्य तालस्तनीः सस्नेहं सुदृशः स्मरागमशिरःसिद्धान्तमध्यापयन् । पाणिप्रेतिहेमवेत्रलतिकस्तत्त्वं निजं व्यञ्जितुं कामो विग्रहवानिवैष मदनाचार्यः पुरो दृश्यते ॥ १०५ ।। कथमविदूर एव मदनाचार्यः । उत्तालालकमधुरा विलेपतैल- श्यामा|रुकपरिमण्डितोरुकाण्डाः । तोंतत्तितिमिति वदन्सहस्ततालं वारस्त्रीनटयति मित्रविन्द एषः ॥ १०६ ॥ तदुपसर्पामि । एष मयि विदूर एव दृष्टमात्रे तात्कालिकसंभ्रमोपजनितनि- कटोपविष्टलवङ्गिकाकठोरकुचगण्डोपलाभिघातविह्वलवक्षःस्थलवामभागम्,ई- पदुच्चलितमकरकुण्डलरत्नाङ्कुरशिखासंघट्टनदन्तुरितप्रान्तकनककेयूरम्, एक- पार्श्वविस्रस्तविषमकण्ठाभरणकृतापकर्षदुष्प्रसारभुजनालम् , अतिश्लक्ष्णमणि- कुट्टिमसमुत्तम्भनमात्रविसस्तकनकवेत्रलतावलोकनवित्रस्तपरिजनससंभ्रमद- तहस्तम्, निजसरसाभ्युत्थानसमसमयससंभ्रमसमुत्तिष्ठदखिलवारसुन्दरीज- नकदम्बकन्दलितकनकाभरणझणत्कारमुखरीकृतशिक्षागृहोदरम् , अभ्यु- स्थित एव किं मदनाचार्यः । (सरभसमुपसृत्य ।) आचार्य, नमस्ते । कथं मयि शिष्यकल्पेऽपि प्रत्युत्थानमित्ययुक्तमाचरणम् । तदुपविश्यताम् । किं ब्रवीषि-~-'परिगृह्यतामिदमासनाधैं प्रियसखेन, बहोः कालादद्य दिष्टया २८ काव्यमाला । दृष्टोऽसि । अपि कुशलं प्रियसखस्य' इति । अद्य विशेषतो भवत्समागम- नेन । किं ब्रवीषि----'कच्चिदाराध्यते भगवान्कामदेवः, कच्चिदालोच्यते तदीयतन्त्रसिद्धान्तः, कच्चित्परीक्ष्यते जात्यादिभेदः, कच्चिदवगम्यन्ते कला- स्थानानि, कच्चिद्रमयसि रहस्तरुणीजनम् , कच्चिदावर्जयसि धनैर्वारवनिताः, कच्चिदनुकूलयसि चतुरदूतीजनेन कुलनारीः, कच्चिदनुभवसि चतस्रोऽपि यौवनदशाः पक्ष्मलदृशाम्' इति । शासति त्वयि सर्वज्ञे वात्स्यायन इवापरे । अनुष्ठानेषु शिष्याणामस्माकं क विपर्ययः॥ १०७ ।। (सस्मितम् ।) किं ब्रवीषि- 'तत्तत्कर्माचरणविषये संशयश्चेदुदञ्चे- द्वाक्सिद्धानामपि किल यदाचार एव प्रमाणम् । नीवीमोक्षः कुवलयदृशामास्थितो येन मोक्ष- स्तादृक्षस्त्वं ननु भवसि का शासिता कश्च शिष्यः ॥ १०८ ।। इति । कियानयमाचार्यस्य मयि पक्षपातः । अद्य मे मन्दारिकायाश्च विवादे प्रमाणमाचार्य एव । किं ब्रवीषि-'कीदृशो वां विवादः' इति । आगतैव करगृहीतकलत्रपत्रिका मन्दारिका । सैव प्रष्टव्या । किं ब्र- वीषि----'मन्नियुक्तेयं मन्दारिका ब्रवीति--आर्य, मत्कन्यकायै न ददाति कलत्रपत्रिकानुगुणं परिपणं भुजंगशेखर इति । इयमेवं भणतु । मद्वच- नमपि श्रूयताम् । अस्याः किल कन्या पत्रिकादानपूर्व कलत्रीकृता । अहं तु प्रागेव तस्यै सर्वमपि दातव्यं प्रकृप्य दत्तवानस्मि स्नेहेन । अत एव जरती तामन्यत्र कलत्रयितुमुद्युते । तदर्थ च मया सह मुहुर्मुहुः कल- हायते । भाषते च परुषाणि वचनानि । अद्य पुनरमुप्या विशिष्य परु- षभाषणेन प्रकुपितस्तत्रत्यजनेन ससान्त्ववादमाहूय भवन्निकटमनया सह प्रापितोऽस्मि । किंचास्याः कन्यका मध्ये यद्यन्यस्यापि भवेत्तदा विनापि परिपणं यावज्जीवं भोक्तव्येति पत्रिकायां लिखितमस्ति । इतः परं तद- नुरूपमाचरिष्यामि । किं ब्रवीषि--'पत्रिकामालोक्य निर्णेप्यामि' इति । तयवेक्ष्यतां तत्रभवता । कथं वाचयसि- - शृङ्गारतिलकभाणः । २९ 'स्वस्ति श्रीमति मन्मथे सति विभौ तन्नाम्नि संवत्सरे मासे तत्सचिवे तदीयसुहृदा पूर्णेन भोज्ये तिथौ । वेश्यायै वितरामि काश्चनलतानाम्न्यै कलत्रीक्रिया- चीटीमेष भुजंगशेखरविटो हालास्यपुर्या वसन् ॥ १०९ ॥ इयमस्तु काञ्चनलता वत्सरमेकं कलत्रं मे । प्रदिशामि परिपणार्थे प्रतिदिनमस्याः शतं तु दीनारान् ॥ ११०॥ किंच। , दद्यामस्यै मृगमदकुङ्कुमकर्पूरगन्धमाल्यानि । ताम्बूलान्यपि नित्यं प्रतिमासं क्षौमयुगलं च ॥ १११ ॥' इति । सत्यं भण मन्दारिके, किमेषु किंचिदप्यदत्तमस्ति । किं ब्रवीषि-'न किमप्यस्ति, किंतु पद्मावत्यै रनचूडः प्रतिदिनमेकं कलभमपि प्रयच्छति' इति । (सकोपम् ।) अये असंबद्धप्रलापिनि, तर्हि मयापि दातव्यमिति किमस्ति लिखितम् । आचार्य, ततस्ततः । कथं वाचयसि- 'इयमन्यमपेक्षेत मध्ये यदि सुमध्यमा । यावज्जीवं कलत्रं मे भवेत्परिपणं विना ॥ ११२ ॥' इति । मन्दारिके, सकोपोद्वेगं किं ब्रवीषि-'न जानीमो वयमेतदर्थम् , भुजंगशेखरस्तु लेखेन वञ्चितवानस्मान्' इति । (सक्रोधन् ।) किमुच्यते ज- रत्या किं तत्र साक्षिणो न सन्ति । आचार्य, उपरि कथं वाचयसि- "एवं वेत्ति वसन्तक इत्थं जानाति कलहंसः । विदितमिदं मालत्या विज्ञातमिदं च वृद्धकमलिन्या ॥ ११३ ॥ इत्थं भुजंगशेखरकाञ्चनलतयोरनुज्ञया लिखितम् । मणलूरुपुराश्रयिणा माधवपुत्रेण चित्रलेखेन ॥ ११४ ॥ इति । (सोत्साहम् ।) अये जरति, किमिदानी मूकासि । आचार्य, श्रूयता- मिदमेकं कलत्रपत्रिकानुरूपमाचरितम् । द्वितीयं च पुनः समयपचेलिमेन प्रणयभरेण मुक्तादाम प्रथममदिशं भूरिमूल्यं प्रियायै हैमान्यस्यास्तदनु करयोः कङ्कणान्यर्पितानि । - काव्यमाला। दत्ता पश्चात्कुचकलशयोः काञ्चनी कापि कक्ष्या किंच द्वैप्यं सिचययुगलं दत्तमासीदनर्धम् ॥ ११५॥' इदं तु सर्वेऽपि जानन्ति । आचार्य, किं ब्रवीषि-'अये मन्दारिके, कीदृशं ते मौर्व्यम् । यदेवमत्यर्थ धनिनापि भुजंगशेखरेण विगृह्णासि । तत्परित्यज्य कोपमाद्रियस्व जामातरम् । अयि भुजंगशेखर, इयं सुलभक्रोधा किमपि न जानाति, विदितमेव तव संपत्तिरौदार्यमुचितज्ञता चेति सर्व- मपि, तदस्मद्वचनेन सोढव्यानि मन्दारिकायाः परुषभाषणानि, किं तव सर्वज्ञस्य कृत्यमुपदेष्टव्यम् , तन्मन्दारिकामनुसृत्य सुखमनुभुक्ष्व काञ्चनल- ताम्' इति । अनुगृहीतोऽस्मि । वद मातुलानि, कस्तवाभिप्रायः । ब्रवीषि—'प्रतिदिनमपि मदोत्कटं कलभद्वयमस्याः काञ्चनलतायाः परिर- म्भमूल्यं दातव्यम्' इति (विहस्य ।) सत्यमियं वञ्चिता जरती । यतः । असमशरज्वरभेषजमनवधिकानन्दसंप्लवनिदानम् । मूल्यातीतममुप्या मुग्धदृशो वेद्मि परिरम्भम् ।। ११६ ।। मन्दारिके, यत्किंचिदेतद्भुजङ्गशेखरस्य किं न श्रूयते धनसंपत्तिः । आस्तां पित्रार्जितं द्रव्यं मेरुकूटोपमं गृहे । मयैव द्यूतचौर्याभ्यामार्जितस्यास्ति किं मितिः ॥ ११७ ॥ तदद्य प्रभृति कलभद्वयमपि दत्त्वा कनकमयमेव तव गृहमखिलं कल्पयि- प्यामि । तद्गम्यतां गृहं प्रति सुखेन । अहमपि सायमागमिष्यामि । (इति पार्श्वतो विलोक्य ।) कथमपि निष्क्रान्ता कालरात्रिः । आर्य, किं व्र- वीषि-'भवन्तमयमनामयं पृच्छति भरतकुलचूडामणिमित्रविन्दः' इति । प्रियसख मित्रविन्द, कुशल्यसि । किं ब्रवीषि-'अद्य विशेषतः प्रिय- सखपदपरिग्रहणेन' इति । अपि सुशिक्षिता नूतनक्रीता चन्द्रलेखा चित्र- लेखा च नाट्येषु । किं ब्रवीषि—'पश्य पश्चिमतश्चन्द्रलेखा नृत्यति' इति । (निर्वर्ण्य ।) अस्याः किल प्रत्यक्षीकुरुते रसानभिनयः पाण्योर्विलोलायो रम्यस्ताललयानुकारिणि पदन्यासेऽपि शिक्षाक्रमः ।

शृङ्गारतिलकभाणः।
३१
दृग्द्वन्द्वं हृदयस्थितान्प्रकटयत्याहत्य भावानिदं
गीतं चामृतवर्षि चञ्चलदृशो जागर्ति नृत्तोत्सवे ॥ ११८ ॥
आर्य, किं ब्रवीषि---'अगोचरं खलु गिरां नर्तनचातुर्य मित्रविन्दस्य'
इति एवमेतत् । मित्रविन्द, किं ब्रवीषि-'अहं किमपि न जाने । स्नेहः
परं मयि युष्मान्मुखरयति' इति । आर्य, पश्य उत्तरतस्तस्याश्चित्रलेखापि
रत्नस्यूतनिचोलगर्मितकुचाभोगस्खलद्भूषणं
धर्माम्भःकणिकापत्रमकरीरम्याननाम्भोरुहम् ।
लोलापाङ्गनिरुद्धकामिजनतानीरन्ध्रपार्श्व वधू-
रेषा नृत्यति नृत्तदेशिककरास्फालोक्ततालक्रमा ॥ ११९ ॥
किंच
पर्यन्तच्यवमानकेशकुसुमं भ्रश्यद्वतंसोत्पलं
वेगोद्भूतविवर्तिहारलतिकाविश्लिष्टवक्षोरुहम् ।
दुर्लक्ष्याङ्गमुदञ्चतीदमधुना तालान्तचक्रभ्रमी-
व्यावल्गन्मणिमेखलामुखरितश्रोणीकमेणीदृशः ॥ १२० ॥
मित्रविन्द, किं ब्रवीषि-'अनयोरन्यतरा कलत्रीक्रियतां भावेन' इति ।
तर्हि द्वे अपि समीपमानय । पश्यतु वयःप्रमाणमाचार्यः । आचार्य, किं
ब्रवीषि-'किमत्र द्रष्टव्यम् । पश्य चन्द्रलेखाया
इदं कर्णोपान्तावनुपतति दैर्घ्य नयनयो-
रुरो दृश्यादृश्यस्तनयुगलपर्यन्तवलयम् ।
नितम्बस्याभोगः कियदपि वलग्नं कृशयते
तदस्याः सौभाग्यं प्रथयति नवं यौवनमिदम् ॥ १२१ ॥
इति । आर्य, चित्रलेखामहं प्रौढां पश्यामि । कुतः ।
कटाक्षा दृश्यन्ते मनसिजशरासारवदमी
तनीयांसं मध्यं ग्लपयति कठोरः स्तनभरः ।
इतो नाभीरन्ध्र परिपतति रोमालिभुजगी
तदस्यामौल्बण्यं प्रकटयति गाढं तरुणिमा ॥ १२२ ॥

३ काव्यमाला। आर्य, किं ब्रवीषि-'यदि चन्द्रलेखां कलत्रयिष्यसि, तदा शय्यायां चटुभिः प्रलोभितवतो मत्त्वाशयं ते शनैः पूत्कारानिलशान्तदीपकलिका कोणे निलीना कचित् । अन्विष्टा परितः प्रसारितकरेणेयं चिरेण त्वया हासेनावगता ततः पुलकिनोः स्पृश्येत वक्षोजयोः ॥ १२३ ॥ अथ तु चित्रलेखामनुमन्यसे, तदानीं वामाङ्कस्थितया रहस्त्वदुरसि न्यस्तैकवक्षोजया किंचिद्वक्रितकण्ठनालविषमव्यालम्बिहारस्रजा । नाभीमूलविलेखिभिर्नखमुखैरुद्बोधितानङ्ग्या वकं ते चिबुके गृहीतमनया वामझुवा चुम्ब्यताम् ॥ १२४ ॥ इति । अनुगृहीतोऽस्म्याचार्यवचनेन । मित्रविन्द, किं ब्रवीषि-'अनयोः सद्यो भोगक्षमा चित्रलेखा परिगृह्यताम्' इति । मैवं वादीः । रतक्षमायाः प्रौढाया वरं मुग्धा रताक्षमा । यतो भोगः क्रमाल्लभ्यः प्रौढामध्यमयोरपि ॥ १२५ ॥ तच्चन्द्रलेखेव कलत्रीकरिष्यते । मित्रविन्द, किं ब्रवीषि—'अद्य सफल- -मस्या जन्म मदवलम्बनं च' इति । आर्य, किं ब्रवीषि-'प्रयच्छ कलत्र- 'पत्रमविलम्बमस्यै' इति । चित्रलेखामानीय श्वः प्रभाते तथा कर्तास्मि । (ससंभ्रमं परावृत्य ।) कथमत्र कलकल: (निरूप्य ।) बवा भुजावपरतो रशनागुणेन भ्रूभङ्गपूर्वमसकृत्परितर्जयन्ती। कण्ठे विधाय बकुलस्रजमिन्दुचूडं कर्षत्यवाङ्मुखमनगलता किमेतत् ॥ १२६ ॥ आर्य, किं ब्रवीषि- 'अन्तःकृताश्रुसलिलं नयनोत्पलेन बिम्बाधराप्तिकराङ्गुलिना मुखेन । त्रासस्खलत्पदरणन्मणिनूपुरेय- मन्वेति चम्पकलतापि तमिन्दुचूडम् ॥ १२७ ॥' .

शृङ्गारतिलकभाणः। ३३ - इति । आर्य, कथं ज्यायसीकनीयस्योरनङ्गलताचम्पकलतयोः सापत्न्यमा- चरितमिन्दुचूडेन । किं ब्रवीषि-'ममापि स एव तर्कः' इति । तदेतत्स- माधास्ये । अये अनङ्गलते, बद्धः पुरा तव विलोचनशृङ्खलेन पश्चादयं भुजलतायुगलेन बाले । भूयोऽपि यन्त्रितभुजो यदि सांप्रतं ते काञ्चीगुणेन सुकृती न किमिन्दुचूडः ॥ १२८ ॥ किं ब्रवीषि-'यद्येतदप्येवमनुमतं भवति कः पुनरन्यस्त्वत्सुहृदो जाल्मस्य दण्डः' इति । किमपराद्धमिन्दुचूडेन येनैवं कथयसि । किं ब्रवीषि- 'भाव, बह्वपराद्धं त्वत्सुहृदा । तन्न शक्यं कृत्स्नशो वक्तुमिदानीम् । शृणु संग्रहेण । षण्मासानारभ्य पत्रिकाग्रहणपूर्वकमस्य कलत्रमस्म्यहमेकैव । अयं तु तदाप्रभृति किंचिद्विगलितमौग्ध्यां मत्कनीयसीं चम्पकलतामभिलषति । तथा हि। पश्यत्येष पराङ्मुखोऽप्यनुदिनं तिर्यग्दृशा कैतवा- द्वाचं मिश्रयति स्पृशत्यवयवान्गाढेऽन्धकारोदये । एषा किं च यदृच्छयापि विजने स्थाने निरीक्ष्येत चे- दालिङ्गय स्तनमण्डलं द्रुतमसौ धूर्तोऽधरं चुम्बति ॥ १२९ ॥ अद्य पुनरिन्दुचूडसनाथे शय्यागृहे समुन्मिषन्नखपदभूषितस्तनी कपोलयोर्विलुलितपत्रवल्लिकाम् । विरागिणीमधरदले विलोक्य तां कनीयसीं कलुषितमेव मे मनः ॥ १३० ॥' इति । आर्य, किं ब्रवीषि-'अहो महदपराद्धमेतेन' इति । अस्त्वेतत् । इन्दुचूडवचनमपि श्रोतव्यम् । सखे, किं ब्रवीषि-'मया न किंचिदपराद्ध- म् । इदं तु किंचित्कृतमस्ति । यत्किल तन्वीं शय्यागृहमुपगतो जातु मञ्चे शयानां पश्यन्किचिद्गलितरशनामुच्छ्रसन्नीविबन्धाम् ।

काव्यमाला । एकेनास्याः स्तनमभिमृशन्नेकमन्येन रागी पातुं बिम्बाधरमपि हठादग्रहीषं करेण ॥ १३१ ॥ इति । अनङ्गलते, किं ब्रवीषि-'तन्मुखादेव श्रोतव्यं तदीयं दुर्वृत्तम्' इति । सखे, किं ब्रवीषि-'शेषमपि श्रोतव्यमाचार्येण वयस्येन च । अन- गलतेति मत्वा तदप्याचरितं मया शय्यागृहे यन्मम रूपेणानयोरक्यभ्रमः' इति । आर्य, युज्यत एतत् । पश्य ज्यायसीमिव कनीयसीमपि चम्पकलताम् । तच्चन्द्रार्धसमानरूपमलिकं सा चम्पकस्पर्धिनी नासा ते मदनायुधे च नयने सा कान्तिरेखा भ्रुवोः । तद्रम्यं चिबुकं स चाधरदले रागस्तदेव स्मितं तत्केलीगमनं किमन्यदुभयो नैव भेदग्रहः ॥ १३२ ॥ अनङ्गलते, किं ब्रवीषि-'आर्य, पक्षपाती खलु सुहृदि भुजङ्गशेखरः । तत्रभवता ताटस्थ्यमालम्बयितव्यम्' इति । आर्य, किं ब्रवीषि-'अयि इन्दुचूड, ईषध्यक्तवलित्रयां स्फुटतरास्तिस्रो दधत्या वलीः किंचियञ्जितनैल्यरोमलतिकामानीलरोमावलेः । कुम्भस्पर्धिपयोधरद्वयभृतस्तालप्रमाणस्तनी ज्यायस्या न कनीयसीमवयवैः पश्यामि शङ्कावहाम् ॥ १३३ ॥ अतः कृतं गोपनप्रकारेण । असंवृतस्तवापराधः' इति । यद्येवं सखे, प्र- सादयतु भवाननङ्गलताम् । किं ब्रवीषि- 'उदयारुणमुत्पलाक्षि चन्द्र कलये कोपकषायमाननं ते । यदवेक्षणमात्रतो मदीयं हृदयाम्भोजमिदं मुदं जहाति ॥ १३४ ॥ कान्ते कथंचिदपराधमिमं क्षमख नैवं करिष्यति जनोऽयमितः परं ते । आर्येण तावदधुना मधुना शपेऽहं 'वेन वा सुदति शम्बरशासनेन ॥ १३५ ॥' किं ब्रवीषि-'आर्य, पश्य पक्षपातिनं भुजङ्गशेखरम् ।

शृङ्गारतिलकभाणः । my येनाविधाय दण्डं सुहृदि प्रकटापराधेऽपि । मम सान्त्वमेव कर्तुं प्रवर्तितोऽयं सखिस्नेहात् ॥ १३६ ॥' इति । अनङ्गलते, मा मैवम् । अस्य दण्डः सशोकस्य ताडनं बकुलस्रजा । अशोक एव यह्वाले पादताडनमर्हति ॥ १३७ ॥ किं ब्रवीषि-'तर्हि तथा करोमि' इति । सखे, किं ब्रवीषि- 'आहन्तुं बकुलस्रजोऽपि समुपादाने करौ रज्यतो लुम्पत्युद्यमनं श्रमाम्बुनिकरैः पत्रावलीगण्डयोः । संरम्भेण समुच्चलन्कुचभरः क्लिश्नाति मध्यं पुन- ब्रूहि प्रेयसि दण्डने मम गुणो दृष्टस्त्वया कीदृशः ॥ १३८ ।' इति । अनङ्गलते, दण्डनसाहसं विना तर्हि दयनीयोऽयं कृतपूर्वशपथमिन्दु- चूडः । किं ब्रवीषि—'तर्हि इदमेकं मृष्ये । भाव, भवन्नियोगेन यदलङ्घ- नीयवचनोऽसि वारसुदृशाम्' इति । आर्य, किं ब्रवीषि-'कार्यज्ञा ख- ल्वियमनङ्गलता' इति । किमिदं वक्तव्यमस्याः । सखे, सुखमनन्यगतमनो- वृत्तिरनगलतामनुभुक्ष्व । सखि, युवयोरियमाशीः- विगलितत्रपयोः प्रणयार्द्रयोः शयनमेकमजस्रमुपेयुषोः । भगवतः कृपयैव मनोभुवो भवतु वामनिशं सुरतोत्सवः ॥ १३९ ॥ किं ब्रूथः- 'अनुगृहीतं भवद्वचनेन' इति । आर्य, किं ब्रवीषि- 'दधती मृदुदर्शिताङ्गभूषं कदलीगर्भदलोपमं दुकूलम् । कबरीधृतकेतकीप्रसूना तरुणी केयमुपैति संभ्रमेण ॥ १४० ॥' इति । इयं पाण्ड्यराजपरिगृहीतायाश्चन्द्रकलायाश्चेटी निपुणिका नाम । वस्ते या वसनानि चन्द्रकलया भुक्तोज्झितानि क्रमा- द्धत्ते केलिवनाहृतानि चिकुरे माल्यान्यनेकानि च । भुते दुग्धमधूक्षितानि मधुराण्यन्नानि च प्रत्यहं चेटी तत्परिचर्यया पुनरियं किं किं सुखं नाचते ॥ १४१ ।। आर्य, कथमियं मदभिमुखमेव समापतति । भवतु । ज्ञास्यामि । हजे निपुणिके, - काव्यमाला। नवनखपदरम्यकण्ठमूलं रदपददन्तुरिताधरप्रवालम् । रमणलुलितचन्दनस्तनाग्रं किमपिं गृणाति वपुस्तवापदानम्॥१४२॥ किं ब्रवीषि-'नाहमस्मि भाजनं भाव परिहासस्य' इति । (विहस्य ।) किं न जाने तव वैदग्ध्यम् । दिवा वा नक्तं वा दिवसविरतौ वाप्युषसि वा गिरौ वा गेहे वा वनतरुतले वा सरसि वा । जडं वा धीरं वा तरुणमपि वा वृद्धमपि वा विलज्जा लीलाभिर्ननु रमयसि त्वं निपुणिके ॥ १४३ ॥ किं ब्रवीषि—'भाव, बिभेमि विशृङ्खलाद्भवतो वाग्जालात् । विज्ञाप- यति भट्टिनी चन्द्रकला -अद्य केनचिदैन्द्रजालिकेन दर्शयिष्यमाणान्यद्भु- तानि सहैव द्रक्ष्यावः' इति । ( सहर्षम् ।) अयमहं प्रागेव संनद्धः । आ- चार्य, तत्रभवाननुजानातु । गमिष्यामि । किं ब्रवीषि-स्नेहः परं मयि स्थाप्यताम्' इति । आर्य, भक्तिरिति वक्तव्यम् । तदास्व । साधयामि । (इति परिकम्य । श्रुतिमभिनीय ।) हङ्गे निपुणिके, कोऽयं कलकलः । किं ब्र- वीषि-'त्वदागमनं प्रतीक्षमाणा भट्टिनी चन्द्रकला कुक्कुटसमरादिकौतुकम- वलोकयति' इति । (पुरो विलोक्य ) आकुञ्चिताङ्गरुहमानतपूर्वकाय- मन्योन्यमौलिदलनावसरप्रतीक्षौ । उड्डीय पादनखपातितबालपक्षौ भूयः समं निपततो भुवि ताम्रचूडौ ॥ १४४ ॥ अयं पुनरनयोः रन्ध्र प्रतीक्ष्य चिरमापततः परस्य पादाहतिं परिहरन्नपसृत्य किंचित् । चचक्षतं शिरसि शत्रुमथाभिभूय कूजन्मुहुश्चरति कुक्कुटसार्वभौमः ॥ १४५ ॥ (अन्यतो विलोक्य ।

शृङ्गारतिलकमाणः। शिलाफलकनिष्ठुरस्थपुटमस्तकास्फालन- प्रचण्डरवखण्डितप्रलयकालमेघध्वनिः । अशेषजनभीषणः प्रबलरोषयोर्मेषयो- विलासिजनमुक्तयोरयमुदेति युद्धोत्सवः ॥ १४६ ॥ अये निपुणिके, . दुरे पश्चादुपेत्य क्रमकृतचरणन्यासमन्दायमानौ पौराणामक्षिपातैः सह तदनु पुरस्तूर्णमभ्युत्पतन्तौ । उद्यत्पौरस्त्यपादं विषमितविनमनीवमास्फालयन्ता- वन्योन्यं मस्ताकाभ्यामिह हि विहरतो भीषणौ पश्य मेषौ ॥१४॥ (पार्श्वतो विलोक्य ।) कथमत्र धोरमुष्टिवज्रमुष्टयोरेव मल्लयोः संरम्भः । य- दिदानी कालीहर्यक्षकण्ठध्वनिभरपरुषं कुर्वतोरट्टहासं साटोपन्यस्तपादक्रमनमदवनि भ्राम्यतोर्मण्डलेन । निर्घातक्रूरमुष्टिप्रहृतबृहदुरस्तारठात्कारघोरा युद्धारम्भा हिडिम्बानिलसुतबलयोर्मल्लयोरुल्लसन्ति ॥ १४८ ॥ अपि च । अन्योन्यस्य विभिद्य मुष्टिभिरुरो वेगादधः पातिता- वाश्लिष्टावितरेतरं भुवि पुनः शिक्षाबलादुत्थितौ । दिग्धाङ्गो खुरलीरजोभिररुणैः कक्ष्यापिनद्धोदरौ मल्लौ मुण्डितमूर्धचञ्चलशिखौ भूयः परिक्रामतः ॥ १४९ ॥ (परतो दत्तदृष्टिः ।) कथमुत्तरोत्तरमत्रैव कौतुकमुन्मीलयति । यतः । पार्थोत्तम्भितनीलकुन्तलभरो भस्मानुलिप्ताननः कर्णोत्तंसितबन्धुजीवकलिकः कान्त्या तमालोपमः । भीमो जाङ्गलिकोऽयमायतगुणो नद्धैकशाखामृगो बालैः कौतुकिभित्तो नटयितुं गृह्णात्यहिं पेटिकात् ॥.१५० ॥ (निरूप्य ।) पश्य निपुणिके,

३८
काव्यमाला।
उन्नम्रलोलफणमण्डलदत्तदृष्टि-
रुच्छूनगण्डयुगलो मृदुफूक्रियाभिः ।
बाहू निवेश्य भुवि नर्तयति द्विजिर्जा
सव्याङ्ग्रिजानुवलनेन नरेन्द्र एषः ॥ १५१ ॥
किं ब्रवीषि-'पश्य फणिनं गृहाणेति चोदयति साहसी प्लवङ्गं जाङ्गलि-
कः' इति । हले, साधु निरूपितं भवत्या । यतः ।
जाङ्गलिकेन नियुक्तः प्लवगोऽयमनूपविश्य फणिराजम् ।
स्पृशति कराभ्यां पुरतः परतस्तु मुखं विवर्तयति ॥ १५२ ॥
किं ब्रवीषि-'इयं भट्टिनी प्रतिपालयन्ती भवदागमनं सौदामिनीव शर-
द्धनं प्रसाधयति सौधं सुधाधौतम्' इति । तर्हि त्वरितमुपसामि । (इति
पुरतो विलोक्य ।)
वेत्राङ्कया विरचितस्तुतिरेकयाने
पश्चात्कयाचिदपि नर्तिततालवृन्ता ।
वीटीप्रदानपरया निकटे कयापि
संसेविता जयति चन्द्रकला किलेयम् ॥ १५३ ।।
तदहमारोहामि तावन्निभृतं सौधशिखरम्, न यावदियं प्रत्युत्तिष्ठति ।
(इति सौधारोहणमभिनीय ।) स्वस्ति भवत्यै चन्द्रकले । किं ब्रवीषि-~-'स्वागत-
मार्यपुत्रस्य पाण्ड्याधिपतेः प्रियसुहृदे भुजङ्गशेखराय' इति । कीदृशं म-
दाहाने कारणम् । किं ब्रवीषि-'बहुमायो नामायमैन्द्रजालिको विद्यापरि-
चयं दर्शयितुमुपस्थितः । आर्यपुत्रश्च मृगयामहोत्सवे प्रवृत्तः । अतस्तस्य प्र-
तिनिधिना प्रियसुहृदा भवता सह विलोकयेयम्' इति । तर्हि नियुज्यता-
मैन्द्रजालिकः । यतः खलु समवेता एव पीठमर्दकविटविदूषकप्रायाः सर्वेऽपि
सामाजिकाः । (श्रवणमभिनीय ।) कथमुपक्रान्तमेव बहुमायेन ।
लोकानसौ झटिति नागरिकानशेषा-
नाकारयन्निव कुतूहलदर्शनाय ।
पश्यैन्द्रजालिकनिदेशकृतः समन्ता-
दुड्डामरो डमरुकध्वनिरुज्जिहीते ॥ १५४ ॥

शृङ्गारतिलकमाणः। ३९ (पुनः कर्ण दत्त्वा । ) किमयं बहुमायः समुदस्तसव्यकरनिषेधविनिवारितपरि- जनडमरुकध्वनिरितरकरविध्यमानपिच्छिकागुच्छः कथयति । स्पन्दन्तां गिरयश्चरन्तु तरवस्तिष्ठन्तु वाताः कचि- द्वह्नौ शैत्यमुदेतु वारिणि घनीभावः समुन्मीलतु । नक्षत्राण्यवनौ पतन्तु नभसि भ्राम्यन्तु गण्डोपला हृष्यन्तो मम शाम्बरीविलसितं पश्यन्तु सामाजिकाः ॥ १५५ ।।' इति । अहो, कथमेतस्य वार्तासमनन्तरमेव समुच्चलन्ति सर्वे गिरयः । तथा हि। एष स्वच्छन्दघोषत्करटिवरघटाकृष्टकूटस्त्रिकूटः क्रीडागाढानुरागत्रिदशमिथुनभृत्कन्दरो मन्दरोऽयम् । एष श्रीखण्डगन्धप्रसरगुरुमरुद्वन्धुरो गन्धशैलः कैलासोऽयं विलासप्रचुरहरपदाम्भोजविन्यासधन्यः ॥ १५६ ।। चन्द्रकले, किं ब्रवीषि-'कुतः पुनरमी सामाजिकाः परिभ्रमन्ति' इति । ऐन्द्रजालिक, प्रयुक्तमेतत् । पश्य । निष्क्रामन्नकचक्रग्रहणभयपरावृत्तविभ्रान्तसुभ्रू- खैराश्लेषप्रहृष्यजलमनुजकुलव्याकुलव्याप्तकूलाः । पर्याप्तव्योमरन्ध्रोपरि परिविलसद्धोरसंघर्षगर्ज- द्वीचिव्याकीर्णफेनस्तबकितशिरसः सागराः संपतन्ति ॥ १५७ ।। अयि बहुमाय, किं ब्रवीषि–'सकलसुरचक्रचूडामणिमिन्द्रमानयामि । दृश्य- ताम्' इति । पश्य चन्द्रकले, पुरस्तात्पौलोमीसुरतगुरुरुद्दाममदन- भ्रमद्रम्भाकुम्भस्तनभरपरीरम्भरसिकः। असावाद्यः पान्थः परकुलवधूभोगसरणे- रहल्याया जारः स्फुरति हरिरैरावतधृतः ॥ १५८ ।। किं ब्रवीषि-'पार्श्वत एवायमेतस्य तनयः उद्दामस्मरकेलिमन्थरवयोभेदोपलम्भस्खल- न्नालीकाक्षकनीयसीतरलितापाङ्गक्रियाकिंकरः ।

काव्यमाला। 4 -- दिव्यस्त्रीस्पृहणीयरूपगरिमा चित्राङ्गदाकामुकः पाञ्चालीकिलकिञ्चितैकरसिकः पार्थोऽपि. किं दृश्यते ॥ १५९ ॥' इति। सखि, किं किं न करोति मायाबलम् । बहुमाय, किं ब्रवीषि- 'हरिहरहिरण्यगर्भा. अपि मदीयमायाबलादुपमनन्ति । दृश्यताम्' इति । (परितो विलोक्य ।) सखि, पश्य पश्य । प्रसूय तरुणी जगत्रयदुरापरूपोच्चयां कलत्रयति कामुको य इह तामिदानीमपि । अयं प्रथमकिंकरो भगवतो मनोजन्मनो मरालरथमास्थितो दिवि विधिदरीदृश्यते ॥ १६० ।। चन्द्रकले, दीयतामितो दृष्टिः । आरोप्य स्त्रीमुरसि रसिको यो वसत्यम्बुराशौ यश्चौर्येण स्मरपरवशो रुक्मिणी पर्यणैषीत् । गोपीजारः कुसुमधनुषो जन्मभूरेष तार्थ्य- स्कन्धारूढः स्फुरति गगने कामिनामग्रगण्यः ॥ १६१ ॥ पश्य सखि, पार्वतीरमणोऽपि समानीयते बहुमायेन । यतः । साटोपभ्रमितत्रिशूलरभसव्याधूतपाथोवहा- स्त्रस्यत्सिद्धवधूविलोकनमयन्यस्तारविन्दास्तराः । भस्मोद्भूलनपाण्डराकृतिभृतो भूता भ्रमन्तः शतं दृश्यन्ते वियदन्तरे हिमवतः पर्यन्तशैला इव ॥ १६२ ।। किं ब्रवीषि---'भगवतो विषमेक्षणस्य समानयने भविष्यति भूयानपचारः। तदुपसंहियतामिन्द्रजालमैन्द्रजालिकेन' इति । तर्हि दीयतामस्मै पारितोषि- कम् । किं ब्रवीषि–'नियुक्तैव तत्र तारावली । तत्रभवता गृह्यतामिदं ता- म्बूलम्' इति । अद्य खलु धन्यो भुजङ्गशेखरः, यदस्मै ताम्बूलमिति स्नेह- सर्वखं प्रतिपाद्यते तत्रभवत्या । (इति ताम्बूलं नाट्ये गृहीत्वा । श्रवणमभिनीय ।) अहो कलकलः पौराणामाकर्ण्यते । (परितो विलोक्य । सभयकौतुकम् ।) विस्रस्ताभरणं द्रवन्ति कतिचित्केचित्पतन्ति द्रुता उत्तिष्ठन्त्यपरे निपत्य पतितानाक्रम्य यान्तीतरे।

शृङ्गारतिलकभाणः। ४१ लीयन्ते भवनेषु केचन परे भ्राम्यन्ति चेतस्ततो मुग्धाः केवलमुन्मिपन्ति कतिचित्पौराः क एषः क्रमः ॥१६३॥ (दक्षिणतो दत्तदृष्टिः ।) सखि चन्द्रकले पश्य । . . लीलाधूतकराग्रघट्टनदलत्प्रासादगोपानसी- विश्लिष्यद्वलभीचटच्चटरवत्रस्यत्कपोतान्गृहान् । कुर्वन्नुन्मदगण्डपिण्डकषणप्रध्वस्तभित्त्युत्पत- खूलीधूसरिताननो मदगजः क्रूरं परिक्रीडति ॥ १६४ ॥ अपि च । करेण पदयोर्नरं लघु विकृप्य हन्ति क्षितौ पिनष्ट्यथ तमत्रिणा त्यजति नष्टचेष्टं ततः । अनुद्रवति चापरानयमुदस्य हस्तं करी पुनर्भमति धावति स्खलति गर्जति प्रेक्षते ॥ १६५ ।। तदनुचितमस्माकमत्र स्थातुम् । प्रविशतु गृहाभ्यन्तरं भवती । अहमपि सौधादवतीर्यान्यतो गच्छामि । (इति सौधावतरणं नाटयित्वा । परितो विलोक्य ।) समापतन्नयमुद्दाहुराधोरणवृद्धः । किं ब्रवीषि-'भो भोः श्रीमद्वा जनाः, यन्त्रितोऽयमुपायविदा मम कुमारेण गन्धसारेण गन्धहस्ती' इति । (सहर्षम् ।) अद्य खलु पुत्रवत्यः पौराणां जनन्यः । (श्रवणमभिनीय ।) अये, मध्याह्रो वर्तते । यतः । कल्पान्तोद्भटचण्डमारुतजवप्राग्भारसंघट्टन- क्षुभ्यन्नीरदगर्भनिर्भरमिलन्निर्घोषघोरश्रुतिः । श्रीहालास्यपुरीपतेर्भगवतश्चन्द्रार्धचूडामणेः स्निग्धोऽयं विवृणोति मध्यममहः सेवामृदङ्गध्वनिः ॥ १६६ ॥ अपि च । पुनरिमा मृदङ्गघोषानुबोधितमाध्यंदिनदेवसेवावसरा देवदारिका देवालयमभिवर्तन्ते । (निपुणं निरूप्य ।) प्रम्लानश्रवणावतंसकलिकाः प्रविन्नगण्डस्थला भूयिष्ठं मसृणीकृताधरदलाः फूत्कारवेगोष्मणा । .

४२ काव्यमाला । हस्ताग्रस्फुरदंशुकान्तकृतकच्छत्रापनीतातपाः स्पन्दन्ते सुदृशः सलीलमलघुश्रोणीभरणालसाः ॥ १६७ । अहो सुदुःसहोऽयमातपसंपातः । संप्रति हि । तापार्ताः करशीकरैः करटिनः सिञ्चन्ति कुम्भस्थली छायावृक्षतले निषद्य हरिणा रोमन्थमातन्वते । लीयन्ते च षडङ्गयो जलरुहामन्तर्दले शीतले गाहन्ते गृहदीर्घिका युवतयः कान्तैः : सह क्रीडितुम् ॥१६ किंच। गच्छन्तीनां तटभुवि नदीमारुतः पद्मगन्धी पान्थस्त्रीणां सुखयति वपुः शीकरासारवृष्ट्या । छायादानात्क्षणमभिनवास्तोयवाहा लभन्ते धन्यास्तासां कुवलयदलप्रेक्षणीयान्कटाक्षान् ॥ १६९ ॥ (विमृश्य ।) उर्वी पांसुभरैरधः परितपयुष्णांशुरूज़ करै- रङ्गारानिव विक्षिपन्ति परितोऽप्यूष्मायमाणा दिशः । संचाराद्विरमन्ति पान्थनिवहा नैवोड्डयन्ते खगा लीनस्तापभियेव कुत्रचिदितो वातोऽपि न स्पन्दते ॥ १७ तदहमप्यस्मिन्नुद्याने वेगवतीप्रान्तवर्तिनि मुहूर्तमुपविशन्नप्रतीकार्यहेम विरहतापोऽप्यातपतापमपनेष्यामि । (इत्युद्यानप्रवेशं नाटयित्वा ।) इह हि चूतानामिव यन्नवैः किसलयैर्बद्धा वितानावली कीर्यन्ते यदपि स्फुटानि कुसुमान्याचारलाजा इव । यत्कूजत्कलकण्ठमण्डलमिषादाकर्ण्यते काहली सर्व तद्विवृणोति शम्बरभिदो राज्याभिषेकोत्सवम् ॥ १७ किंच। निकुञ्जान्तःक्रीडानिरतवनितागण्डयुगली विकीर्णखेदाम्भःकणमणिगणस्तेयचकितः ।

शृङ्गारतिलकभाणः । ४३ सदालीनो लीनश्चरति तरुमूलेषु पवनो वलन्ते लोलम्बा वनभुवि तदन्वेषिण इव ॥ १७२ ।। (परितो विलोक्य ।) मधुकरचिकुरकलापा वनलक्ष्मीर्मधुरकोकिलालापा। उल्लसदधरकिसलया हेमाङ्गीमनुकरोतीव ॥ १७३ ॥ अहो भ्रमः । सा कथमनुक्रियेत वनश्रिया कल्याणी । यतः । प्रेयसी मम हेमाङ्गी सुधानिष्यन्दिदर्शना । वनलक्ष्मीरियं रूक्षा दृशोरप्रियकारिणी ॥ १७४ ॥ यद्वा । विषमशरशरायमाणनिखिलतरुकुसुमसमुद्गमकारी रूक्षयति वनलक्ष्मी वसन्तावसर एषः । अतस्तमेवं कथयामि । (किंचित्परावृत्य ।) जेतव्ये जगतां त्रयेऽपि तदलंकर्मीणमेकं शरं तस्या यौवनकैतवेन मदनो लब्ध्वा कृती वर्तते । भ्रातः कस्य कृते वसन्त भवता बाणाः क्रियन्ते वृथा वासन्ती सहकारनीलनलिनाशोकारविन्दादयः ॥ १७५ ॥ (स्पर्शमभिनीय ।) कथं मन्दानिलहतकोऽपि प्रवर्तते मां बाधयितुम् । वासश्चन्दनशीतलेषु मलयप्रान्तेषु ते विश्रुत- स्त्वं चेन्मारुत दावपावकसमस्पर्शोऽसि गात्रे मम । न प्राप्तं किमु तत्र चन्दनगतं शैत्यं त्वया शीलता संसर्गेऽप्यथवा गुणो न महतां मूर्खेषु संक्रामति ।। १७६ ।। यद्वा । कृतमाभ्यां वसन्तमलयानिलाभ्याम् । अनयोरपि प्रभवते निवेद- यामि प्रसवायुधाय । तस्या मनोज भवदीयशरायमाणैः प्रागेव विद्धहृदयोऽस्मि भृशं कटाक्षैः । भूयोऽपि मां किमिति खेदयितुं वसन्तं मन्दानिलं च भटमत्र भवान्नियुते ॥ १७७ ॥ किं च । न तावदेव । सव्यापसव्यकरकृष्टशरासमौर्वी- विक्षिप्तनिर्भरविनिःसृतबाणवषैः । ५ ४४ काव्यमाला। तस्यां निबद्धमनसस्तरलेक्षणायां प्राणान्मम स्वयमसि स्मर हतुकामः ॥ १७८ ॥ (विचिन्त्य ।) भगवन्कुसुमायुध, देवेऽपि त्रिपुरान्तके कृतवता वीर त्वया विक्रम क्षिप्यन्ते यदि मानुषे मयि शराः शौर्य किमेतावता । यद्वा कस्तव वक्ष्यते रतिमुखाम्भोजासवाखादना- दुन्मत्तस्य हि तन्नहि प्रसजति क्षीबे विवेकः कचित् ॥१७९॥ (परितो विलोक्य ।) अहो न कंचिदुपलक्षये मित्रजनं यस्मिन्निममान्तरं तापं निवेद्य संविभक्तमिव नातिविशोकमनुभविष्यामि । (इति निर्वर्ण्य ।) कथं मम परमं मित्रं कलहंसः समापतति । (सानुस्मरणम् ।) उक्तं ह्यनेन तत्रावयोः संलापो भविष्यतीति । युक्तं हि मित्राणां मिथः संलपितुम् । कुतः । सुखं वा हृदि दुःखं वा खयं यदनुभूयते । मिथो विभज्य संलापैस्तन्मित्राण्यनुभुञ्जते ॥ १८० ॥ (सहर्षम् ।) सखे कलहंस, परिप्वजख माम् । (गाढमाश्लिष्य ।) किं ब्रवी- षि--'किं ज्वरित इव गात्रेषु दुःस्पर्शोऽसि' इति । अत्रापराध्यति हेमाङ्गी- विरहः । किं ब्रवीषि- 'क भवान्मधुरावासी क सा रङ्गपुरीस्थिता । तत्कुतः कुरुषे तस्यां खेदमात्रफलं मनः ॥ १८१ ॥' इति । सखे, मा मैवम् । सा किल रङ्गनगरादग्रजेन कलाधरेण नगरमि- दमानीता मासमारभ्य वर्तते । किं ब्रवीषि-'तर्हि किमद्यापि सा न घ- टिता त्वया' इति । (निःश्वस्य ।) सखे, शृणु परतोऽपि । घटितैव यावन्नि- प्कुटवने विघटितैव तावन्मदीयविधिदुर्विपाकेन । किं ब्रवीषि-'कथं तत्क- थय' इति । श्रूयतां तावत् । ह्यः किल पूर्वरात्रे समन्ततोऽपि विसृमरति- मिरमलीमसस्य भूमण्डलस्य निर्णेजनाय विकिरति चन्द्रमसि तरलतरदु- ग्धजलधितरङ्गभङ्गानिव मुग्धकिरणाङ्कुरानभङ्गुरनखरचरणतलाभिघातविश्ल- थमूलफलकान्निर्गत्य मन्दुरामध्यनिरुद्धोऽपि दारुपञ्जरादवधीर्य पाशबन्ध- मङ्गधूननैरवस्कन्ध प्रथमचरणाग्रभागेन निरुध्य श्वगणानुत्प्लुत्य त्वरितमु- - शृङ्गारतिलकमाणः। ४५ लङ्घय मन्दुराप्राकारमुत्सार्य यामिककुलमभितः संरम्भेण पलायमानः स्वकुल- वास्तव्यघोरकान्तारसंमुखीनेन पथा सर्वमपि पौरजनमाकुलीकृतवान्यदैव दारुणविकृष्टलाङ्लो राजशार्दूलः । अतर्कितभयस्खलत्पदपरिक्रमाधःपत- त्प्रमुग्धनरमस्तकप्रहृतिनिःसृतास्रारुणैः । कठोरकुटिलैर्नखैः स्वमनुधाविनां धन्विनां पलाशमुकुलास्तरं प्रतिपदं वितन्वन्निव ॥ १८२ ॥ तदानीमहमपि भुक्त्वा गृहीतताम्बूलो वेशवाट प्रति प्रतिष्ठमानो मध्येपथ- ममुना दुष्टमृगहतकेन निरुद्धोऽस्मि । किं ब्रवीषि-'हा हतोऽस्मि । त- तस्ततः' इति । तदनन्तरमहो प्रमाद इति त्वरितमेव संनिहितं पतिक- मुल्लङ्घय हेमाङ्गीपितुः कामान्तकस्य निष्कुटवनमद्वितीयः प्रविष्टोऽस्मि । किं ब्रवीषि-'अद्य जीवामि प्रियसुहृल्लाभेन । ततस्ततः' इति । अशृणवमथ तत्र कर्णरन्धं शिशिरसुधारसधारयेव सिञ्चत् । नखमुखमृदुताड्यमानतन्त्री- मधुरनिनादमदापहारि गीतम् ॥ १८३ ॥ तदा किल रागखरेणापसरणपथेन गानमन्विप्यन्कामान्तकस्य गोष्ठमेव प्रवि- ष्टोऽस्मि । प्रविश्य च तत्र समुत्तुङ्गधान्यकुम्भीतिरस्कृतशरीरो हेमाङ्गीमेव मधुरमात्मजननीनिकटे गायन्तीमपश्यम् । किं ब्रवीषि-'क्व पुनस्तज्येष्ठः कलाधरस्तद्भगिनी सुमुखी च' इति । अन्तर्गृहं प्रविष्टोऽभूत्तज्येष्ठो भार्यया सह । भगिनी च समं पत्या देहल्यामेव शायिता ॥ १८४ ॥ किं ब्रवीषि-'अथ निर्विघ्नस्ते मनोरथः । यतो भर्तृव्यपगमात्प्रभृति कृशा दुर्बला च तज्जननी । तस्या निद्रयैव सुकरो विप्रलम्भः' इति । सम्यगुप- लक्षितं भवता । यतो गायन्त्यामपि स्वदुहितरि सह शिशुभ्यां तज्जननी सु- सवती । किं ब्रवीषि-'ततः किं कृतवानस्मि' इति । शृणु ।

काव्यमाला। श्रुत्वा श्रुत्वा श्रवणसुभगं गानमस्या मृगाक्ष्या दृष्ट्वा दृष्ट्वा स्तनतटमपि व्यक्तमिन्दोः प्रभाभिः । घ्रायं घायं कचपरिमलं मन्दवातोपनीतं मग्नं हर्षाम्बुधिषु मनसा वा मया वा किमन्यत् ॥ १८५ ॥ किं ब्रवीषि-'किमेतावतैव हृष्टः केवलं स्थितोऽसि । दिष्टया संनिहिता- यामपि चिरकाश्तिायां तस्याम् पश्चाद्भागमुपेत्य गूढपदविन्यासं तदानीं शनै- रेकेन प्रथमं करेण रभसादाश्लिप्य पीनौ स्तनौ । अन्येन द्रुतमुन्नमय्य चिबुकं तस्या गृहप्राङ्गणे गायन्त्या हरिणीदृशः सपदि किं नाचुम्बि बिम्बाधरः ॥ १८६ ॥' इति । सखे, किमपि न जानासि । अत्वरमाणेन परमुपगन्तव्याः कुल- नार्यः । यतः खल्वियमेतासां प्रकृतिः । यदुत ज्वलतु हृदि रागवह्निर्विध्यतु मदनोऽपि मर्मणि तथापि । सौशील्यभङ्गभीत्या कुलनार्यः किमपि नानुमन्यन्ते ॥ १८७ ॥ अतः क्षणमात्रं निभृतमतिष्ठम् । अतः परमर्धरात्रमासीदित्यवसितगाना सापि तरुणी जननीपार्श्व एव शयितवती । अहमपि तदानीं निःश- ब्दपदमुपसृत्य मणिमयादर्शनिर्मलकपोलतलस्पर्शधन्योपधाने कठिनकुचकु- म्भविमर्दनिमग्नान्तरप्रच्छदपटेविटजनस्पृहणीयघनजघनसंघर्षसूचितभाग्यप- रिणामे हंसतूलशयने पार्श्वतो जनन्याः संविशन्तीमवाङ्मुखीमेव हेमाङ्गीम- पश्यम् । दृष्ट्वा च तामात्मजीवनाडीमिव सुखशयितामादाय हर्षचञ्चलेन हस्तयुगलेन शनैः शनैरागत्य तदेव निष्कुटवनमास्तीर्य तरुणदूर्वादलकोमले कस्यापि नीपतरोस्तले बहुगुणितमेव मदीयमंशुकं शयनाय तत्रैव निवेशि- तवानस्मि । किं ब्रवीषिकिं तदानीमपि तया नोहुद्धम्' इति । नोट्ठद्ध- मेव मद्भाग्यवशात् । यतः । विलुलितमृगनाभिचित्रकाङ्क मुकुलितमुग्धविलोचनाभिरामम् ।

शृङ्गारतिलकभाणः। दरपरिगलितककर्णपत्रं मुखमपिबं सुदृशस्तदा दृशैव ॥ १८८ ॥ अथ किं च । मन्दं मन्दमचुम्बमम्बुजदृशः खैरं कपोलस्थली सुप्तायाः स्तनमण्डलं च कठिनं निर्विघ्नमेवास्पृशम् । खच्छन्दं मुहुरामृशं च शनकैरुत्क्षिप्य चीनांशुकं प्रस्निग्धं पृथु शीतलं मृदुलमप्यूरुद्वयं पाणिना ॥ १८९ ।। किं ब्रवीषि-'धन्योऽसि । ततस्ततः' इति । ततश्च तामाकरमिव लावण्या- नाम् , अवधिमिव स्त्रीसर्गस्य, परां कोटिमिव पञ्चशरभागधेयस्य, चतुप्पथमिव तारुण्यचाकचक्यस्य, संकेतस्थानमिव सकलयुवजनहृदयवशीकरणविद्यायाः, चन्दनलतामिव भुजंगकुलकाङ्क्षणीयसेवानाम् , चन्द्रकलामिव सर्वज्ञमौलिला- लनीयरूपधेयाम्, शरद्रात्रिमिच मलयजद्रवपाण्डुपयोधराम्, संध्यामिव सा- न्द्रारुणकान्तिधाराधरामवलोकयन्नतृप्तिमतैव लोचनयुगलेन दुरतिलशास- नेन भगवता शम्बरशासनेन रतये पुनः पुनर्नियुज्यमानः सरसकिसलयभाग- धेयपरिणामं सद्यस्तनसुधारसनिःप्यन्दमाधुर्यगर्वसर्वकषं तदीयमधरबिम्बमा- खादयितुमभिलषामि यावदहं तावदुहृध्य मुह्यन्ती विस्मयेन भयेन च । परितस्तरलापाझं पश्यन्तीदमुवाच सा ॥ १९० ।। किं ब्रवीषि-'किं परुषमेव भाषितं हठादधरग्राहिणि तत्रभवति' इति । न हि न हि का प्रसक्तिरेतस्य । यदहं तदुद्बोधसमये पश्चिमत एव नि. लीनोऽस्मि । किंत्वयमुक्तिप्रकारः । यत्किल नीतास्मि निष्कुटवने केन वा मातुरन्तिकात् । उत भ्रमोऽयमाहोस्वित्स्वप्नोऽयमनुभूयते ॥ १९१ ॥ किं ब्रवीषि-'किं प्रतिपन्नं त्वया तदानीम्' इति । अहमपि पश्चिमभा- गादग्रत आगत्य सगद्गदमेवमवोचम्- त्वदर्शनात्प्रभृति मानिनि यस्त्वदर्थ- मङ्गान्यनङ्गशरजर्जरितानि धत्ते ।

काव्यमाला। - किं त्वद्य मातृनिकटादिह भाग्यभूम्ना नीतासि तेन करभोरु कुतो बिभेषि ॥ १९२ ॥ तदिदानी शिशिरय शशिकान्तशीतलाङ्गि स्मरशरपावकतप्तमङ्गमङ्गम् । कथमपि परिरभ्य किं च तृष्णा- मधरसुधाभिरपाकुरु प्रिये मे ॥ १९३ ॥ इति । अथ तदाकर्णनमात्रेण किमयमराजको जनपदः, किमयमधार्मिको ग्रामः, किमिदमनायकं सदनमिति निर्भय॑ प्रयातुमुपक्रान्तामयमन्य इति मां संभावयतीति निश्चित्य पुनरपि तामवोचम् - अये मनागप्यधरामृतार्पणादनङ्गसंतापमपाकुरु प्रिये । क यासि बद्धाञ्जलिरस्मि पश्य मां प्रसीद हेमाङ्गि भुजंगशेखरे ॥१९४॥ इति । तदा मदीयनामश्रवणसमनन्तरम् उत्पुलकगण्डमण्डलमुद्भिन्नप्रणयपिशुननयनान्तम् । मुखमुन्नमय्य किंचिन्मुग्धाक्षी मामुदैक्षत तदानीम् ॥ १९५ ॥ अवेक्षमाणामथ तां मृगाक्षीमालम्ब्य हस्ते सरसाङ्गुलीके । न्यवेशयं नीपतरोरधस्तान्मञ्चे मदीयेन कृतेंऽशुकेन ॥ १९६ ।। अतः परं च । उन्निद्रचन्द्रकरसंयुतनीपमूल- मुद्भिन्नबालतृणकोमलभूविभागम् । कान्ते विविक्तरमणीयमिदं वनान्तं .पश्यामि जारमिथुनस्य विहारयोग्यम् ॥ १९७ ॥ इत्युदीरयतैव मया दीयमानं ताम्बूलं मदीयमिवाशयमङ्गीकुर्वतीमङ्कमेवारोप्य किंचिदिव कपोलपालीमचुम्बम् । कथंचिदिव स्तनभरममर्दयम् । अन- न्तरं च । तत्तद्देशनिवेशितैर्नखमुखैः सा रञ्जिता तत्क्षणं प्राप्तस्त्वं चिरलिप्सितोऽद्य विधिनेत्युक्त्वा विलजं मुदा ।

शृङ्गारतिलकमाणः । ४ खैरलंसिदुकूलदृश्यजघनाभोगा कराभ्यां बला- दुत्तानं विनिपात्य मां यदकरोदद्यापि तन्मे हृदि ॥ १९८ ॥ सखे, किं बहुना । उद्यन्मन्दस्मितमुखमुपक्रान्तकापोतनादं किंचिन्मीलन्नयनकमलं केशनिर्यत्प्रसूनम् । नृत्यत्कुम्भस्तनभरपरिक्लान्तमध्यं च तस्यां क्रीडन्त्यां मे हृदयमवशं जातमानन्दभूम्ना ॥ १९९ ॥ किं ब्रवीषि--'अहो बहोः कालात्फलितं तव मनोरथेन' इति । (ग्वेदम- भिनीय ।) फलितं भग्नं च । किं ब्रवीषि-'कथं तत्कथय' इति । यावन्नास्वादयाम्यस्या रतान्तेऽधरपल्लवम् । तावद्वयुष्टा निशेत्येषा गृहं प्रति गता सखे ॥ २० ॥ किं ब्रवीषि-- 'कुतस्ते खेदः । युक्तं नन्विदं जारिणीनाम्' इति । शृणु सखे, मम खेदकारणम् । अद्य किल तां देवरः पतिगृहं गमयिप्यति । उक्तं हि तया तदानीं यदद्य मां नेष्यतिं देवरस्तत्कुतः पुनः स्यात्तव संगमो मे। अतः क्षणाज्जीवितनायकस्य गृहं गतां श्रोप्यसि मामधन्याम् ॥ २०१॥ इति । किं ब्रवीषि-'जीवितनायकस्येत्यन्यदपि व्यज्यते । तद्विहन्तव्य- मेव तस्याः पतिगृहाभिगमनम्' इति । एवमेतत् । प्रेषितस्तत्र मन्दारकः किं करोतीति न जाने । प्रथमतः प्रकटय्य दृशोः पुरो हृदि विलिख्य विलिख्य ततः स्मरः । उपगमय्य कथंचिदपि प्रियां विघटयन्नधुना मयि दारुणः ॥ २०२ ॥ तन्नातिचिरेण कालेन सांशयिकशरीरो भविष्यति ते वयस्यः । किं ब्रवीषि- 'समाश्वसिहि समाश्वसिहि । कस्तव मन्दारकेऽपि संघटनाचतुरे विषाद- समुन्मेषः । किं विस्मृतं तदीयं कौशलम्, यः किल दुर्लभयापि मम वल्ल- भया कालिन्द्या मां योजितवान्' इति । - ५० काव्यमाला। अपि मन्दारके तत्र प्रवृत्ते दृष्टकौशले । अभाग्योऽयमिति स्वस्मिन्निश्चित्य व्यथते मनः ॥ २०३ ॥ किं च । आलापानवकर्णयामि सुदृशां तामेव चित्ते सर- न्संलापं च सुहृज्जनैर्विरचये तामेव चित्ते स्मरन् । ‘आ कल्याच्च गतागतानि कलये तामेव चित्ते स्मर- न्काष्ठामप्यहह क्षिपामि युगपत्तामेव चित्ते स्मरन् ॥ २०४ ॥ किं ब्रवीषि-'अलं विषादेन । गवेषयिष्यते कृतकृत्यो मन्दारकः । तद- स्मिशिलातले निमिषमास्त्र' इति । बाढम् । उपवनस्य विनिर्गमनपथमादे- शय । किं ब्रवीषि-'इत इतो भवान्' इति । सखे, पश्य रमणीयता- मुपवनस्य । पक्वानि प्रच्यवन्ते क्रमुकविटपिनामुच्छ्रितानां फलानि स्पन्दन्ते राजरम्भाः फलभरनमिता वाति मन्दानिलोऽपि । संदृश्यन्ते विपाकच्युतमधुरफलव्याप्तमूला रसाला भारेणामी फलानां युवतिकुचभरस्पर्धिनो नालिकेराः ॥ २०५॥ कथमियमुद्यानपालिका सुचरिता समापतति । सखि, किं ब्रवीषि-~-'कथ- मनासाद्य माधवीमण्डपमविश्रम्य तत्रत्यसैकतवेदिकायामननुभूय च पुरोप- वनसौभाग्यं केवलमपावर्तते तत्रभवान्' इति । सखि, प्रियावृत्तान्तहारिणं मन्दारकमनुवर्तते हृदयम् । तदेतदेवं क्रियते । किं ब्रवीषि-'स किल मया भवन्तमन्विष्यन्नुपवनमेव प्रवेशितः; पश्चिमतो माकन्दमूले मृगयते । पश्य' इति । सखे कलहंस, तत्रैव गच्छावः । (विलोक्य सहर्षगद्गदम् ।) एहि मन्दारक, एहि । किं ब्रवीषि-'दिष्टया वर्धसे वयस्य' इति । वद सखे मन्दारक, किमासादिता सा मम प्राणनाडी । किं ब्रवीषि—'न केवलमा- सादिता । शारिकया कृतसमया च पुनरस्मिन्नुपवने' इति । (सहर्षम् ।) कथं विनितमस्याः पतिगृहाभिगमनम् । किं ब्रवीषि–'मदुल्लिखितैरेव क्षुता- १. जानकीपरिणयनाटकेऽप्ययं श्लोको वर्तते.

शृङ्गारतिलकभाणः।
दिभिः प्रकारैः । किं च तावदेव दैवज्ञेनापि मालवेन गृहीतोत्कोचेन मास-
त्रयं यात्रोचितवासरालाभशंसिना वञ्चितो बन्धुवर्गः । निष्कामितश्च तदीयो
देवरः' इति । सखे, दुष्करेण कर्मणानन्दनीयोऽसि । कलहंस, किं ब्रवीषि-
'किं न जानीमो मन्दारकस्य कौशलम् । जितमद्य ते मनोरथेन । इयं
यदि मासत्रयमत्र स्थास्यति, तदा त्वदुपभोगचिह्नशङ्कनीयामेनां न
विस्रम्भेत बन्धुजनवर्गः । न संमन्येत पुनरस्याः संसर्गम् । निन्देदपि ततो
गूढमिव प्रकाशमिव । अथ नातिचिरेण कालेन प्रकटं भवेदस्याश्चरितम् ।
प्रकटिते च तस्मिन्परित्यजेदप्येनाम् । परित्यक्ता चेयं भवन्तमेव भजेत
यावज्जीवम् । भवानपि वेशवाट एव स्थापयन्निर्धन इव निधिं सानुरागमनु-
भविष्यति करगतमिदं स्त्रीरत्नम्' इति । कलहंस, ममाप्येवमेवाशयः ।
मन्दारक, कथय विस्तरेण कथमासादिता मे दयिता शारिकया। किं ब्र-
वीषि–'निष्क्रान्ते च देवरे मेघमुक्तेव चन्द्रलेखा प्रसादमुपेयुषी भवन्त-
मेव हृदि चिन्तयन्ती तदेव निष्कुटवनं प्रविश्य गतमत्र मदगजगामिना,
संलपितमत्र चाटुवचनेन, प्रणतमत्र प्राणसुहृदा, परिरब्धमत्र रतिपण्डितेन,
विहृतमत्र विभ्रमवतेति च खेनैव मुहुर्मुहुरावर्तयन्ती विरहखेदविह्वलाङ्गतया
भृशालसेन पदविन्यासेन गतागतानि कलयन्ती सौशील्यभङ्गभीरुतया स-
खीजनाय वक्तुमपि हृदयगतमर्थमपारयन्ती प्रगल्भतया च कथमपि मदन-
विकारमन्तरेव परिहरन्ती पुनरपि निष्कुटवनादागत्य भवनबहिर्द्वारपर्यन्त-
भुवमुपजातदेवरप्रवासादिवृत्तान्तविज्ञापनाय नायकनिवासदेशाभिज्ञां कां-
चिदपि संचारिकामुपलब्धुमिव परितोऽपि तरलतरमक्षि विक्षिपन्ती हेमाङ्गी
मप्रेषितायाः शारिकाया दिष्टया विजन एव नयनगोचरमागतवती । अन-
न्तरं च परस्परमप्युक्तिप्रत्युक्तिपरिचितमनसोरनयोः कुलं शीलं नाम च
विदितमासीत् ।
तदनु तव कथायां प्रस्तुतायां प्रसङ्गा-
त्किमिति किमिति भूयः पृच्छती सानुरागम् ।
पुलकमुकुलभिन्नां गण्डपालीं तदानीं
चकितमपिदधे सा चञ्चलाक्षी करेण ॥ २०६॥

५२ काव्यमाला अथ पतिगृहदासी सेयमुद्दिश्य किंचि- नगरमिदमवाप्ता मामपि ज्ञातपूर्वा । अगमदिति तदानीं वञ्चयित्वा स्वबन्धू- न्भवनवननिकुञ्ज प्राप सार्ध तयैव ॥ २०७ ॥ तत्र च सा हेमाङ्गी विविक्ततया भवनोद्यानस्य, विजृम्भिततया च विष- मायुधपारवश्यस्य, विस्रम्भणीयतया च प्रियतमगुणानुरोधिवचनायाः शा- रिकायाः, निर्विशङ्कमिदमवादीत्-'सखि शारिके, जानामि तव भुजङ्ग- शेखरे मैत्रीसंपदम् । जानामि तव वैदग्ध्यं विनयभूषितत्वं च । तदिदानीम- नितरसंवेद्यं किमपि वचनमभिधास्ये । तदवधार्यताम्' इति । शारिका च तदाकर्ण्य 'सखि हेमाङ्गि, हृदयान्तरमहं भुजङ्गशेखरस्य । तत्कथय विश्र- ब्धम्' इत्यवोचत् । अनन्तरं च 'वासो मासत्रितयमिह मे मालवेनोपदिष्टः पत्युर्गेहं प्रति बहुमतः प्रस्थितो देवरोऽपि । इत्थं सत्यप्यहरिति परं वर्तते विघ्न एक- स्त्वत्संपर्के दयित भवतः किंतु चेतो न जाने ॥ २०८ ॥ इति वक्तव्यो मत्प्राणनाथः' इत्यभिहिते हेमाङ्गया, 'सखि, त्वद्विरहासहेन भुजंगशेखरेण कथमपि संघट्टनीया प्रेयसीति प्रार्थितस्य प्रियसुहृदो मन्दा- रकस्य वचनमनुरुध्य मालवेन विनितस्तव पतिगृहवासः । मया च तव समीपमागतम् । अतस्तव विदितमेव भुजंगशेखरस्य हृदयम् । अहमिदानी- मिमं वृत्तान्तं मन्दारकाय निवेद्य पुनरागमिष्यामि तव मनोविनोदनाय' इत्यभिधाय शारिका, निर्गत्य च तदीयभवनादुक्त्वा च मां प्रति वृत्तान्तमिम- मवश्यमद्य पूर्वरात्रे मन्दिरोद्यानमानेप्यामि हेमाङ्गीम् , तत्रैव संनिधातव्यं भुजंगशेखरेण सह भवतेति कृतप्रतिज्ञा पुनरपि तत्र गतवती' इति । सखे मन्दारक, सम्यगुपकृतं भवता । अत्रैव प्रच्छायशीतले माकन्दमूले दिनशेषं यापयामि यावदभिगमिप्यति सा सह शारिक्या मे प्राणनाडी । मन्दारक, किं ब्रवीषि-'कथमनया पतिगृहमधिवसन्त्या हेमाझ्या प्रागेव कृतो रागोद्भेदः । कथय । श्रोतुमिच्छामि' इति । श्रूयतां तावत् । पुरा किल कदा- शृङ्गारतिलकभाणः । चिदहं कुतूहलादनेन सवयसा कलहंसेन सह चरन्नभितः प्रसृते कवेरकन्या- सलिलसमुञ्चलितकोमलकुमुदकहारकलिकासंसर्गसुरभिलतरङ्गपवनापनीयमा- नसुरतपरिश्रमसुललिततरुणीशतविलासोचितविविधसौधशृङ्गां रङ्गनगरीमुप- गतवान् । यत्र कमलामनोहरमीडे भुजगाधिराजपर्यम् । कुलधनमिक्ष्वाकूणां कुवलयदलनीलमादिमं तेजः ॥ २०९ ॥ तत्र च कदाचन रथ्यामुखे रजतगिरिशृङ्गमिव समुत्तुङ्गं कमपि तुरङ्गम- धिरुह्य महोत्सवमनुभवन्तं रङ्गनायकमभिवन्ध प्रतिनिवर्तमानां कयापि हृदयान्तर्भूतया प्रतिनिवेशिन्या सलीलमालम्बितसव्यकरपल्लवामखिलयुवलो- कवशीकरण विद्यामानङ्गीमिव हेमाङ्गीमपश्यम् । सखे, किमन्यत् । तदानी हि हृदयं तथा मदीयं तस्या लावण्यसागरे मग्नम् । तप्तं यथा भविष्यति तद्गतमदनास्त्रवाडवशिवाभिः ॥ २१० ॥ किंच। विक्षिप्तमुत्कलिकया त्रपया निरुद्धं प्रेम्णा विनिश्चलमथाकुलितं भयेन । तस्याः सरोजदलमुग्धदृशः सलील- मालोकितं विविधमन्वभवं तदानीम् ॥ २११ ॥ तदनु नियन्त्रित इव तदीयकटाक्षेण, निराकृत इव मदनशरवेगेन, निरुद्ध इव प्रथमरसपूरेण, केवलं पदात्पदमपि चलितुमपारयन्नप्रभवन्नात्मनोऽपि तत्रैव क्षणमतिष्ठम् । सा च तरुणी किंचिदिव साचीकृतेन वदनेन परतो मयि पर्यस्तलोचना पुरतस्तु विषमविन्यासपरिस्खलितपदरणन्मञ्जीरा मन्दं- मन्दमाविवेश मन्दिरम् । हृदये सुदृशा हृते मदीये विवीतं मे न किमप्यभूत्तदानीम् । चरितं परतस्तनं विबोद्धं कलहंसो मदनोऽपि वा ममालम् ॥ २१२ ॥ कलहंस, किं ब्रवीषि-'तस्यास्त्वं मदन एव' इति स्मरसि सखे, सर्वम- पादानम् । शृणु मन्दारक, तदनु कतिपयकालमस्या भवनोपान्तरथ्यामुख- संचारिणि मयि पश्यन्त्येव मम हृदयमुन्नीय किमपि पद्यमारचय्य नखमुखे- ५४ काव्यमाला । , नैव नवकिसलये विलिख्य चन्द्रिकया नाम संचारिकया समर्पितवती। यत्किल लब्धव्या रसिकेन चन्दनलता सा चेन्न लब्धं क्षमा द्वीपे भीमभुजंगमावृततया किं तस्य हीनं ततः । सारजैरुपलालनीयमनघं सौरभ्यमभ्येयुषी मोघा दुर्विधिना कृता परिणतौ सा केवलं निन्द्यते ॥ २१३ ॥' इति । अनन्तरमिदमवलोकयन्नहं तस्या हरिणीदृशो यातर इत्यवेतनाः पिशुनाः, ननान्दर इत्यरज्जुकृतास्ताडिन्यः, श्वश्रूरित्यलोहमयी शृङ्खला, प- तिगृहमित्यराजपुरुषकृतं कारागृहमिति च निश्चित्य सखि चन्द्रिके, यदि मातृगृहमागमिष्यति तव प्रियसखी तदानीमयमपि तस्या विरहदासो भ- विष्यति माथुरो भुजंगशेखर इति प्रतिनिवर्त्य चन्द्रिका विषादमात्रशरणः कथंचिदनेन कलहंसेन समाश्वसितो बलवन्मम नगरमिदमानीतः । मन्दारक, किं ब्रवीषि—'अतः परं विदितमेव' इति । (परितो विलोक्य ।) कथमियं मरालिकायाः सहचरी मयूरिका समुच्चिनोति कुसुमानि किसलयानि च । तन्मन्ये मरालिका ताम्यति मदनेन । भवतु । पृच्छामि । मयूरिके, किमे- तत् । किं ब्रवीषि—'मरालिकायाः शिशिरोपचाराय । ईदृशी खलु तस्या दशा। पुष्पाण्यङ्गविवर्तनेन शयने ताम्यन्ति शुष्यन्ति च छिद्यन्ते करयोर्मृणालवलयान्यासाद्य शोषं क्षणात् । काथो बुहुदफेनिलस्तनतटे गन्धद्रवो दृश्यते तन्व्या हन्त न वेद्मि किं लिखितवान्फाले कठोरो विधिः ॥ २१४ ॥ सिञ्चत्यस्या हिमजलकणैः शश्वदङ्गानि सख्यः सद्यो लूनाम्बुजदलमयैस्तालवृन्तैर्व्यजन्ति । भूयो भूयः किसलयमयीं कल्पयन्ते च शय्यां किंच न्यस्यन्त्युरसि सरसीशीकरार्दा मृणालीः ॥ २१५ ॥ इति । सखि मयूरिके, केन वा यूना मरालिकाया विरहः । किं ब्रवी- षि-'केन वा पुनरन्येन भविष्यति मरालिकाया विरहः' इति । मन्दारक, श्रृङ्गारतिलकभाणः । किं ब्रवीषि-'कलहंसमिव स्पृशति वचनमस्याः' इति । कलहंसमेवेति कथय । सखे कलहंस, प्रोषितो यो मनोजेन शोषितो यत्कृते पुरा । अद्य ते तस्य विरहाविद्यते सा मरालिका ॥ २१६ ॥ तदनुचितमुपेक्षितुमेषा भवता । यावन्नास्या वियोगाग्निः प्रशान्तिमुपगच्छति । पीताधरदला तावदियमालिङ्गयतां त्वया ॥ २१७ ॥ किंच शापितोऽसि । मदनेन मत्प्रणयेन च । किं ब्रवीषि-'अहो वचन- मतिप्रसक्तं वयस्यस्य । किमन्यदुत्तरमेतस्य । इतो गम्यते यत्र मरालिका' इति । सखि मयूरिके, नय कलहंसं यत्र तव प्रियसखी सीदति । मन्दा- रक, किं ब्रवीषि- 'निष्क्रान्तः कलहंसः कान्तागृहमभि समं मयूरिकया । किंच चरमाचलं प्रति दिनलक्ष्म्या साकमहिमांशुः ॥ २१८ ॥ इति । (परितो विलोक्य ।) एवमेतत् । पश्य । प्रसाद्य कुपितामिव प्रथमतः प्रियां पद्मिनी- मुपेत्य परिरम्भणं तदनु दिग्वधूनां चिरम् । विहर्तुमनुरक्तया सह दिनश्रिया सांप्रतं विविक्तमिव पश्चिमं गिरिमुपैति मन्ये रविः ॥ २१९ ॥ संप्रति हि । भानोः पश्चिमशैलकन्दरकुटीमभ्येयुषः संभ्रमा- संध्यारागमिषेण किं विगलिता भान्ति त्विषः पञ्चषाः । किंचैषा कृतनिश्चयेन कवलीकत महीमण्डली- माक्रान्ता प्रथमं घनेन तमसा नीला तमालाटवी ॥ २२० ॥ सखे, किं ब्रवीषि-'कथं पश्यत एव जगतः प्रसृतमन्धकारेण । इदानीं वस्तूनां बृहदणुविभागानपहर- समीकुर्वन्निनोन्नतमपि जगत्यन्धतमसम् ।

काव्यमाला। मुदं वासोमाल्याभरणरुचिसाधारणतया विधत्ते संकेतस्थलमभिसृतानां मृगदृशाम् ॥ २२१ ॥ इति । पश्य सखे, कथमियन्तमपि समयं विलम्बते मम प्रियतमा । यद्वा दुर्लभ एव कुलस्त्रीणामुपगमावसरः । अयि, किं करोमि । अभिनवकज्जलमसृणो निखिलं जगदावृणोति तिमिरौघः । मम च पुनरन्तरङ्गं मदनज्वरशोकसंभवस्त्वपरः ॥ २२२ ॥ सखे, किं ब्रवीषि-'क्षणमात्रं प्रतीक्षख । यतः । तिमिरच्छिदा करेण त्वरयन्नभिसारिणीस्तरुणीः । इन्दुरुदयमधिरोहन्कुरुते मुदमद्य समयिनां यूनाम् ॥ २२३ ॥' इति । (पुरतो विलोक्य ।) कथमुदितं कुमुदवलयबन्धुनेन्दुना । एष खलु उद्यन्नेव कलात्मनानुकुरुते तां मद्वियोगात्कृशां पश्चात्तन्निटिलस्य च श्रियमसाव|दितः सेवते । तद्वक्रोपमया प्रहृष्यति शशी पर्याप्तबिम्बोऽधुना तामेव स्मरयन्नयं प्रियतमां मन्ये दृशोरुत्सवः ॥ २२४ ॥ किंच। आकर्ण्यन्ते मदकलरणत्कोकिलव्याहृतानि स्त्यायन्ते च स्फटिकविमलाः सर्वतश्चन्द्रपादाः । अर्धोन्मीलत्कुमुदमुकुलामोदगर्भश्च वायुः सर्व रम्यं भवति यदि मामेष्यति प्रेयसी च ॥ २२५ ॥ किं ब्रवीषि-'इतो रक्ताशोकमूले पदशब्द इव श्रूयते । स तदीयो वा पुनरन्यदीयो वेति निभृतौ जानीवः' इति । (किंचित्परावृत्य । सहर्षम् ।) क- थमितः शारिका समापतति । भवितव्यं च तदनुयायिन्या मम वल्लभया । मन्दारक, किं ब्रवीषि-'सखि शारिके, किमासीत्' इति । शारिके, किं ब्रवीषि-'इयमद्य हेमाङ्गी पुष्पिण्यभूदिति विप्रलब्धया बन्धुतया बहिस्त्यक्ता मुधापतिकुलदासीभूतया मयैव सहायवती कृता हेमाङ्गी । तदनन्तरमस्तंगते सवितरि विसृत्वरे च कज्जलकालिम्नि तमस्काण्डे मन्द- मेव विनिर्गत्य मन्दिरान्तरादुपवनमिदं गतमावाभ्याम्' इति । सखि शा- शृङ्गारतिलकभाणः । रिके, बहूपकृतं त्वया भुजंगशेखरस्य । (ससंभ्रममुपसृत्य ।) सखे मन्दारक, कुवलयदलनीलस्निग्धचेलाभिरामा कथमुडपतिलेखा कालकालंकृतेव । अमुखरमणिकाञ्चीनूपुरेयं पुरो मे सरिदपकलहंसी सारसेवाविरासीत् ॥ २२६ ॥ पश्य । सखे, पश्य । नेयं नारी कुसुमधनुषश्चायकी चापवल्ली बद्धा मुग्धस्मितरुचिमिषादानने चामरेण । हस्तालम्बादिव युधि मुहुर्येन मध्ये कृशेयं वेणीव्याजादिह विरचिता दृश्यते यच्च मौर्वी ॥ २२७ ॥ किंच। आस्ते कुत्रचिदम्बरं हिमकरः कादम्बिनी च क्वचि- द्वापी कापि चकास्ति मीनमिथुनं कोकद्वयं चान्यतः । किंचाधः पुलिनोच्चयस्य कदलीकाण्डाववाग्रोपितौ तन्मन्ये चतुरस्य पुष्पधनुषः सर्गोऽयमन्यादृशः ॥ २२८ ॥ (सरभसमुपसृत्य ।) मदनाग्निनाभितप्तस्तृषितोऽस्मि चिरादहं दयिते । मधुरमधरामृतं ते वितर विशालाक्षि किं विलम्बन ॥ २२९ ॥ कथमियं लज्जानतमुखी तिष्ठति । यावदस्या वदनमुन्नमयामि । (इति चिबु- कग्रहणमभिनीय।) मधुरमिदमधरबिम्बं मानिनि नासा च रुचिरेयम् । अलकमिदं रमणीयं पश्यामि तथालकानपि मनोज्ञान् ॥ २३० ॥ अपि च । अधरीकरोति चम्पकमात्मसुधामिति किमष्टमीचन्द्रः । अलिकुलमस्य विपक्षं धारयते शिरसि ते विशालाक्षि ॥ २३१ ॥ १. अयं श्लोको जानकीपरिणयनाटकेऽप्यस्ति.

५८ काव्यमाला। , - किं ब्रवीषि-'मानद, स्वाधीनोऽयं ते जनः' इति । कल्याणि, तव पुनरयं विहारदासस्त्वदायत्तजीवितश्च । शारिके, किं ब्रवीषि- 'अज्ञातविविधचुम्बनमनभिज्ञातोपगृहनविशेषम् । अविदितनखार्पणं पतिमवाप्य हि रतेषु खिन्नेयम् ॥ २३२ ॥ अतस्त्वया तदनुगुणमुपभोक्तव्या' इति । किमनङ्गागमपारीणस्य ममापीदं वक्तव्यम् । मन्दारक, किं ब्रवीषि-'अतःपरं किं मया तव कर्तव्यम्' इति । (सहर्षम् ।) प्रस्थानं पतिमन्दिरं प्रति बलादस्यास्त्वया विनितं बाभ्रव्यश्च विवासितो दयितया दत्ताशया शारिका । लब्धा मे चिरलिप्सिता च तरुणी तीर्णा प्रतिज्ञा त्वया कर्तव्यं च किमन्यदस्ति भवता भूयोऽपि यन्मे प्रियम् ॥ २३३ ॥ तथापीपमस्तु । (भरतवाक्यम् ।) आचन्द्रार्कमिदं भवेदविरलं गोब्राह्मणेभ्यः शिवं भूमिस्त्वागमवृद्धसेविभिरियं राजन्वती राजभिः । लाल्यन्तां सरसोक्तयश्च कवयः शश्वद्रसज्ञैर्जनैः स्यादेतस्य कवेश्च भक्तिरचला देवे रघूणां प्रभौ ॥ २३४ ॥ (इति निष्कान्ताः ।) इति कौण्डिन्यकुलमण्डनरामभद्रकविविरचितशृङ्गारतिलकमाणः संपूर्णः।

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Shrxng-gaaratilakama~ Da~vitiiya Vrxtti

Author
Shriiraamabhadradiiqs-itaa
Title
Shrxng-gaaratilakama~ Da~vitiiya Vrxtti
File name
Shrxng-gaaratilakama~ Da~vitiiya Vrxtti
Text
OCR done
Citation
1910
Published
2005-11-30
Publisher
Nira~naya Saagara~ Presa
Language
Sanskrit
Pages
78
Classification
Religion. Theology
DLI number
369659
Barcode
2030020016477.00
Scanning centre
RMSC, IIIT-H
Digital publisher
Digital Library Of India
Rights
OUT_OF_COPYRIGHT
VMLT id
CIANutHrPRi
Download PDF

Shrxng-gaaratilakama~ Da~vitiiya Vrxtti