Sringeri Sharada Peetham

Ranadipika

Kumaraganaka · 2006/06/10

PDF Proofread

Front matter

TRILAK DR.CLSKVARTES.
***
Śrî Setu Laksmî Prasadamalâ.
589
.
No. VII.
THE
RANADÎPIKA
OF
KUMARAGANAKA
EDITED BY
K. SÂMBAŠIVA ŚÁSTRÍ,
Curator of the Department for the Publication
Sanskrit Manuscripts, Triennurum,
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HER HIGHNESS THE MAHARANI REGENT OF TRAVANCORE,
TRIVANDRUM:
PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS.
1928.

Sr.
TH.
raute
----
E-...
अनन्तशयनसंस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः ९५.
श्रीसेतुलक्ष्मीप्रसादमाला ।
ग्रन्थाकः ७.
V
Parent
रणदीपिका
कुमारगणककृता
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
के. साम्बशिवशास्त्रिणा
संशोधिता।
सा च
अनन्तशयने
महामहिमश्रीसेतुलक्ष्मीमहाराज्ञीशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुद्रयित्वा प्रकाशिता।
कोलम्बाब्दाः ११०३, ऊस्ताब्दाः १९२८.

।
श्रीपमनाभसेवि-
न्यखिलश्रीवर्धनी महाराज्ञी ।
श्रीसेतुलक्ष्म्यभिख्या
प्रत्यक्षा जयति वञ्चिभूलक्ष्मीः ॥
ग्रन्थावलिरियमिन्धे
प्रसाधिता तत्प्रसादगुणगुम्फा ।
श्रीसहितसेतुलक्ष्मी-
प्रसादमाला सुवर्णमणिचित्रा ॥

PREFACE. Ranadſpikā is a rare work in the form of Lărikus in. tended, as its title siynifies, to kindle the zeal of kings for battle: by removing ignorance of the art of warfare froin their minds. From the concluding stanza of the work, "राजत्केरलराजराजमकुटोराजीवदधिद्वय- श्रीगोविन्दमहीसुरेन्द्रसहजश्रीदेवशर्माज्ञया । कृत्वासौ रणदीपिकारचनया राज्ञां तमोध्वंसनं अनीयत्यधुना कुमारगणकः सन्तः प्रसीदन्त्वतः॥" it is evident that the author Kumāra iras a Ganaka and a protēgē of Devasarman, and that the latter was a brother of the Brahmin Govinda who was highly hououred by all Kerala kings. If Govinda was also a king, then, he should have belonged either to the Champakasseri Royal family or the I dapalli Royal family, for the members of these two families were said to be Brahmins in the Kerala country, The stany may also be taken to meau that Govinda was a Brahmin Acārya highly respected by the kings of Kerala. The work is citerl as an authority in the Praślainārya tlus : "तत्काले सूर्यशीतांशुश्रितराशिवशादपि । जयभङ्गादिकं वाच्यं तथा च रणदीपिका ॥" which is known to have been written in 825 of the Malabur Era corresponding to 1650 A. D. It is therefore certain that the author flourished earlier than 1650 A, D. From the word are in the above quotation it seems that Raņadipikā was a well known work at the time of the author of the Praśnamārga; and as it is natural to suppose that the work should at least have taken a century before it could become so popular, I think we may not be far from right if we assign the date of the author a century earlier than 1650 A. D. If however, we take the word Rajarāja mentioned in the verse राजत्केरलराजराजमकुटी to mean the same as the king of Mahodayapura described in the Sukasandesa "उत्तीर्णस्तामुदधिदयितामुत्तरेण कमेथा राजत्पत्तिद्विपरथहयानीकिनी राजधानीम् । TIBAINI Afaqurtaraf affareti 1941 Gath that ofertest: !" (ślo. 68). then the date of Kumāraganaka falls at the latest to the middle of the 11th century A. Do, as the last king of Maho 3 dayapura who sustained defeat at the hands of Rajendrachola is known to have reigned between 1052-64 A. D. The work has epitomised in eight chapters the following eight topics respectively, viz., (i) terada, (2) maids, (8) जयाजयविवेक, (4) कालविवेक, (5) शूलचक्रादिविवेक, (6) 48477 विवेक, (7) मृगवीर्यविषेक and (8) भूबलविवेक, which are found elab. orately dealt vith in the Arthasastra, Jyotistantra, Svarāgama, Puksiśāstra and other sciences. The author was well versed in various branches of sästras and is also known to have been a successful astrologer gifted with wonderful power of prediction. It is interesting to note that the author forecasts in the verse, "ग्रामे निवासिनां यद्वच्छूद्रादीनामनन्तरम् । Naria apei per gat zitat afaceria l'(Cha. 3, Slo. 30). the supersession, in course of time, of what is known as the parumcekluthayom system of inheritance by inheritance from father to chillin among the marunakkathayees of Malabar ; and that centuries afterwards, it has been the Royal pleasure of Her inost gracious Highness the Maharani Regent to give the sanctity of law to the latter system in our own days so für is the maru mukkathayees in 'Travancore are concerned. The followly solicisms are found in the work:-- 1. पृथिव्यां स्थिरकनीणि चलकर्माणि वारणे । gaia i ażu Hradilarasiãe n (Cha. 2, Slo. 29). 2. चकोरदर्शनं पुण्यं दक्षभागे विशेषतः । asia atau geaia aga 11" (Cha. 2, Slo. 32). ॐ. द्वादशभूले मरणं भयं बाह्यचतुष्कभे । Agata e faz hala sau (Cha. 3; Slo- 25). The work 11100s is au borities such ancient teachers as 1. Byhuspuii, 2. Gärgpi. 3. Kipili, t. Vēdavyasa, 5. Atri, 6. Jumalann, 7. Välküla, S. Varāhumihira and 9. Yavana. The clition of ile work is based on four inanuscripts marked FR 107, which excepting the second are complete copie Lebouging to the Palace Library, Trivanden; while the second. ad illconiplete cops colitaining the tirsi, the third, still the fifth yayas and in portion of chalet dhyasal is obtailicil frow Nir. Govinda Pillai of Nuhimu mbili Prelui. Irenandrini, L. SAMBASIVA SASTRI. 9-11-1131 9 ? 1 उपोडातः। . अपूर्वयं कापि कारिकाकृतिः कृती रणदीपिका नाम, या राज्ञामज्ञाना- न्धकारमपोह्य रणायाभिनवमुत्साहं दीपयन्ती सुतरामन्वर्थनामा । अस्याः कर्ता देवशर्मणः कस्यापि महीसुरस्याज्ञोपजीवी केरलीयः कुमारसंज्ञः कोऽपि गणकाग्रणीः, योऽसौ देवशर्मा राजत्केरलराजराजमकुटीराजीवदघिद्वयस्य तत्तादृशमहिम्नः श्रीगोविन्दमहीसुरेन्द्रस्य सहजः । इदमन्तिमेनोपसंहारपद्येना- वगम्यते । यथा- "राजत्केरलराजराजमकुटीराजीवदध्रिद्वय- श्रीगोविन्दमहीसुरेन्द्रसहजश्रीदेवशर्माज्ञया । कृत्वासौ रणदीपिकारचनया राज्ञां तमोध्वंसनं बध्नीयत्यधुना कुमारगणकः सन्तः प्रसीदन्त्वतः ॥" (अध्या० ८. श्लो० ३९) इति । यद्येष श्रीगोविन्दमहीसुरेन्द्रः कोऽपि राजा स्यात् तर्हि चेम्पकश्शेरि- राजवंश्यः इटप्पळ्ळिराजवंश्यो वा सम्भाव्यते । यतः खलु केरलेषु तयोरेव उत्तमब्राह्मण्यसमानाधिकरणं राजत्वं सुप्रसिद्धम् । अथवा केरलराजराजवन्द्य- महिमा तदाचार्यों वा कोऽपि ब्राह्मणश्रेष्ठः श्रीगोविन्दाभिधो भवेत् । जीवितसमयश्चास्य कुमारगणकस्य १६५० तमे क्रिस्तुवर्षे कृतत्वेन प्रथमाने प्रश्नमार्गे २४ शे अध्याये ८८तमे श्लोके - "तत्काले सूर्यशीतांशुश्रितराशिवशादपि । जयभङ्गादिकं वाच्यं तथाच रणदीपिका ॥" इति रणदीपिकाया अस्याः स्मरणेन ततः प्राचीनत्वावगतेः क्रिस्त्वब्दीयसप्त- दशशतकपूर्वार्धात् सर्वथा प्राक्तनः सम्भाव्यते । किञ्च, उद्धृतश्लोकघटक- 'तथाच रणदीपिके त्यत्रत्यतथाचपदस्वारस्याद् रणदीपिकायाः सर्वविदितत्व- प्रत्ययावश्यम्भावेन सर्वविदितप्रामाणिकत्वप्रतिपत्तये च माकीमेकशताब्द्यन- २ वरस्य समयस्यापेक्षणात् क्रिस्त्वब्दीयषोडशशतकपूर्वार्धप्राक्तनत्वमप्यस्य ना- शक्यवचनं यद्ययमभ्यूहमार्गो बलवान् । अथच राजस्केरलराजराजमकुटी'ति पूर्वोद्धृतपद्यघटकराजराजपदेन "उत्तीर्णस्तामुदधिदयितामुत्तरेण क्रमेथा राजत्यत्तिद्विपरथहयानीकिनी राजधानीम् । राज्ञामाज्ञानियमितनृणामाननैर्भूरिधाम्नां राजा राजेत्यवनिवलये गीयते यन्निकेतः ।।" (श्लो०. ६८) इति शुकसन्देशोक्तदिशा कोऽपि महोदयपुराधीश्वरो राजा यदि गृह्येत, तदा तेषु महोदयाधिपतिषु सर्वान्तिमस्यापि राजेन्द्रचोलापहृतस्वराज्यस्य ए. डि. १०५२-१०६४. समयजीविनः समसमयजीव्यस्माकं कुमारगणकः क्रि- स्त्वब्दीयैकादशशतकात् सर्वथा नार्वाचीन इत्यपि सम्भावयितुं शक्यम् । अर्थशास्त्र-ज्योतिस्तन्त्र-स्वरागम-पक्षिशास्त्रादिभ्यस्तत्तत्प्रयोगसारं सं- पिण्ड्य नय-यात्रा-जयाजय-काल-शूलचक्रादि-पञ्चस्वर-मृगवीर्य-भूबलविवकैर- ष्टभिरध्यायैः कृतसन्निवेशा विजयसाधुत्वसमर्थिका काचिदन्यैवेयमष्टाध्यायी सञ्चिका स्वस्वामिभ्यः समुपहृतेति हन्त हन्त कृतार्थोऽयं कुमारगणकः । ग्रन्थकर्तायं न केवलं नैकेषु शास्त्रेषु परिचिती विशिष्यते; विशिष्य चोपपत्तिसरसः सफलदृष्टिदैवज्ञोऽपिः यत् किल - "ग्रामे निवासिनां यद्वच्छूद्रादीनामनन्तरम् । भागिनेयान् परित्यज्य पुत्रो भोक्ता भविष्यति ॥" (अध्या० ३. श्लो० ३०) इति भविष्यन् पुत्रदायक्रमः सिद्धवत्कृत्य दृष्टान्तितः, फलितश्च सम्प्रत्यस्माकं प्रत्यक्षतः महोन्नतमहामहिमशालिन्याः प्रत्यक्षवञ्चिलक्ष्म्याः श्रीसेतुलक्ष्म्या महाराच्या राज्यभरणे कोऽपि राजकीयो नियमः । अत्र च दृष्टिपरिहारायेव चिन्तनीयसिद्धयः कतिपयेऽपशब्दा अपि पङिप्रविष्टा मन्ये वचनीयाः । यथा 'पृथिव्यां स्थिरकर्माणि चलकर्माणि वारुणे । कुति सङ्गरं वह्नौ मारणोच्चाटनेऽनिले ॥" (अध्या० २. श्लो० २९) ३ "चकोरदर्शनं पुण्यं दक्षभागे विशेषतः । तद्भागे तस्य शब्दं च मुस्वरं च तदुत्तमम् ॥" (अध्या० २. सो. ३२) "द्वादशशूले मरणं भयं बाह्यचतुष्को । . त्रिचतुष्के च सङ्घामे विजयं भवति ध्रुवम् ॥" (अध्या० ५. श्लो० २५) एतद्ग्रन्थका स्मृताः प्राचीना आचार्याः १. बृहस्पतिः (पृष्ठम् ७) - " २. गार्यः ३. कपिलः ४. वेदव्यासः ५. अत्रिः ६. जनार्दनः माधवः (पृष्ठम् १०) ८. वराहमिहिरः (पृष्ठम् १२) ९. यवनः (पृष्ठम् १३) क-ख-ग-घ- संज्ञिताश्चतस्रो मातृका अवलम्ब्यैतत्संशोधनं निवृत्तम् । तत्र प्रथमा तृतीया चतुर्थी च महाराजमन्दिरग्रन्थशालीयाः समग्राः । द्वि- तीया मुञ्चिर अम्मवीटु गोविन्दप्पिळ्ळस्वामिका असमग्रा प्रथम-तृतीय- पञ्चमैरध्यायैरष्टमेऽन्तिमैश्च भागैः सहिता । अनन्तशयनम्, के. साम्बशिवशास्त्री. ५-११-११०३ ॥ श्रीः॥ रणदीपिका कुमारगणककृता। प्रथमोऽध्यायः । परमानन्दमात्मानं शिवं ज्योतिर्मयं वयम् । जनानां जीवरूपेण मन्महे हृदि संस्थितम् ॥ १ ॥ या देवी भासते नित्यं कृत्यैः पञ्चभिरेव हि । तां नुमः परमानन्ददायिनीमादियोगिनीम् ॥२॥ कुमारनामधेयेन गणकेन मयाधुना । प्रबोधनार्थ बालानां क्रियते रणदीपिका ॥३॥ आदावेव च गृह्णीयानीति शास्त्रोदितां पराम् । तेजोर्थी चेवरो नित्यं रणे तेज प्रदायिनीम् ॥ ४ ॥ अनीतिज्ञः समयोऽपि रिपुणा परिभूयते । गजोऽपि चाम्बुधौ मनो महामत्स्यैर्यथा तथा ॥५॥ क्षमा बलमशक्तानां शक्तानां भूषणं क्षमा । क्षमा जयति लोकेषु भूर्भुवःस्वर्गनामसु ॥ ६ ॥ विप्राणां भूपणं वेदाः स्त्रीणां लज्जा विभूषणम् । सर्वेषां भूषणं धर्मः क्षमा धर्मस्य भूपणम् ॥ ७ ॥ तथापि शोभते पुंसां क्षमा नैव पराभवे । यथा सुरतवेलायां स्त्रियो लज्जा तथैव च ॥ ८ ॥ प्राणाद् यशो रक्षितव्य॑मनित्यादायुगं नृभिः । शक्तो युद्धं ततः कुर्याच्छवी राजा च शत्रुभिः ॥९॥ १. 'ण', २. 'घौ मत्तो मनो मत्स्यै', ३. 'द:' क. पार:. ५. 'स्त', ६. 'व्यं प्रयलारा' क. पाठः, 'सः 1. पाठ: T.1926, 500, 16.2-1103. त रणदीपिकायां अंशोभनेषु सर्वेषु भयं नृणां विवेकिनाम् । तस्मादवश्यं कर्तव्यं यशः सर्वत्र सर्वदा ॥ १० ॥ हेतुतः सर्वलोकानां शत्रुमित्रे भविष्यतः । तस्मिन् काले महीपालः स्वयं कार्य विवेचयेत् ॥ ११ ॥ अरिप्रयत्नं संवीक्ष्य सन्धि कुर्वीत कुत्रचित् । आसनं विग्रहं यानं द्वैधीभावं समाश्रयम् ॥ १२ ॥ यो बली सह हीनेन विग्रहं न कदाचन । ओमपात्रं यथामेन पात्रेण सह नश्यति ॥ १३ ॥ ज्यायसा न विगृह्णीयात् कदाचिदपि बुद्धिमान् । हस्तिनों पत्तियुद्धेन तुल्यः प्रबलिविग्रहः ॥१४॥ हीयमानश्च कुर्वीत सन्धि युद्धं समेन वा । आश्रयेच्छक्तिहीनश्चेद् बलवन्तं महीपतिम् ।। १५ ।। दुर्बलाश्रय एवं हि दुःखमावहति क्षणात् । एरण्डमवलम्ब्यैर्व कुञ्जरेन्द्रं न कोपयेत् ॥ १६ ॥ द्वयोरधृष्ययोद्वैधीभावं कुर्वीत बुद्धिमान् । आसनं कल्पयेत् तत्र शत्रु स्वकुपितं प्रति ॥ १७ ॥ सामाग्रुपायैर्युक्तोऽयं नयो नीतिरितीर्यते । उपायोऽल्पप्रयत्नाद् यत् कार्यसिद्धिः स एव हि ॥ १८ ।। उपायपूर्व यत् कार्यमारभेत विचक्षणः । देशकालविभागज्ञो महीपालः प्रकीर्तितः ॥ १९ ॥ आपत्सु स्नेहसंयुक्तं मित्रमित्यभिधीयते । बलं सम्पद्यते नित्यं मित्रसङ्ग्रहणेन हि ॥२०॥ असहायः समर्थोऽपि सीदत्येव नराधिपः । परिभ्रमति नैवैकं चक्रं यद्वत् तथैव च ॥ २१ ॥ 'अयशोभयेषु' क. ग. घ. पाठ:. २. 'आ(म? मा)वस्थं य' क 'आमपात्रस्थमामे' ग. पाठः. ३. 'न:' ख. पाट. ४. 'नेन कु' क. पाठः. 'तिः' ख. पाटः. ६. 'व कुञ्जरं नैव कोपयेत् ।' क. पाठः, ७. पीय॒तोर्दै' क. ख. भातः ८. 'शत्रुसङ्कुचितं' ग. घ, पाठः, १. 'तीयति ।' ख. ग. घ. पाठ:. .

प्रथमाऽध्यायः । ततः सहायानन्विच्छेत् सम्पाद्यात्मानमेव च । तुल्यदुःखसुखो मानी सहायः प्रतिपत्तिमान् ॥ २२ ॥ तथैवोत्पादयेदात्मद्वितीयं मन्त्रिणं पुनः । सर्वारम्भाः सम्भवन्ति मन्त्रमूलां महीपतेः ॥ २३ ॥ एवं विमृश्य मतिमान् मन्त्रिभिः सह मन्त्रयेत् । मत्सरो मन्त्रकाले तु कर्तव्यो नापि केनचित् ॥ २४ ॥ अविनीतं न कुर्वीत स्नेहमात्रेण भूपतिः। मन्त्रे मन्त्रप्रमादेन मन्त्रो याति रिपोवंशम् ॥ २५ ॥ कार्याकार्यप्रदीपो हि मन्त्रो मन्त्राख्यचक्षुषा । शत्रोश्छिद्राणि पश्यन् यः स हि राजान्यथा नहि ॥ २६ ।। पदकर्णश्छिद्यते मन्त्रो मन्त्रो गुप्तः प्रकीर्तितः । त्रयाणामेकवाक्येऽस्मिन् कर्तव्यः प्रत्ययस्तदा ॥ २७॥ यदिदं कार्यमित्येतेः कल्पनीयं तथापि च । पुरुषं कञ्चिदप्येवं कदाचिन्नैव विश्वसत् ॥ २८ ॥ स्वशक्तिं परशक्तिं च सहायांश्च परामृशन् । पूर्व निश्चित्य तत् कार्य पश्चादेव समाचरेत् ॥ २९ ॥ अगम्यागमनादायुर्यशः पुण्यानि च क्षणात् । क्षीयन्ते सर्वलोकानां तथा धर्मनिवारणात् ॥ ३० ॥ दैवतं स्ववशं कुर्याच्छक्तिमाञ्छान्तिकर्मणा । पौरुषं कार्यदोष (यत् ? तु) कौशलेन निवारयेत् ।। ३१ ।। शत्रोश्छिद्रं नरो यावत् तावत् पश्यति संहरेत् । एवं स्मृत्वा महाराज आरभेत रणान्तरम् ॥ ३२ ॥ इति रणदीपिकायों नयविवेकः प्रथमोऽध्यायः ॥ . 5 'यं' ख., 'या' ग. घ. पाठ.. २. 'लान्महीं' क. पाठः. ३. 'श्वेच्च स' ग. घ. पाठः. ४. 'व', ५. 'शी' क, पाठ:. ६. 'तो' ख. पाठः, ७. 'यां प्र' क. पाट:. , रणदीपिकाया अथ द्वितीयोऽध्यायः। अथ संक्षेपतो वक्ष्ये संरम्भाय च लक्षणम् । यात्रायां पूर्वशास्त्रेभ्यः सारसंग्रहधीरहम् ॥ १॥ यात्रामुहूर्ते ये योगा यानि भानि च राशयः । प्रोक्ता यास्तिथयः पूर्वैः शस्ता याने रणाय च ॥२॥ पि(त्रा ? व्या)दिश्रवणान्तानि यानि भानि कदाचन । प्राच्यामुदीच्यां यात्रायां नैव सर्वाणि तान्यपि ॥३॥ वस्वादिजिह्मगान्तानि वर्जितानि महर्षिभिः । यात्रायां दक्षिणस्यां च प्रतीच्यामपि सर्वदा ॥ ४ ॥ वायव्याग्नेयकोणस्थः परिवाख्यः सुदुःखदः । योजनादरतो याने मनीषी तं न लड्डयेत् ॥ ५ ॥ तमतिक्रम्य यो युद्धं करोति रणभूतले । मृतिमामोति भूपालश्चतुरङ्गबलोऽपि सः॥६॥ फणिनं भैरवं चैव योगिनी च दिवाकरम् । शिवं च पृष्ठे संस्थाप्य गच्छेत् सर्वत्र सर्वदा ।। ७ ।। यस्यां दिशि स्थिता नित्या गुलिकार्कजविष्यः । न तां प्रति दिशं यासात् मारने 'जयावहाः ॥ ८ ॥ प्रणम्य गणनार्थ र गौरी व परपश्वरम् । स्मरन ग्रहेन्द्र दिइनाये अनसा च महीपतिः ॥ ५ ॥ पताष्य विधानश्च स्वरषि यनजयम् । समय हविपा यातो लमंत सधनं जयम् ॥ १० ॥ यात्राकाले यथा स्थित्वा परीक्षत महीपतिः । स्वदेहपनकुहरे स्थितं देवं समीरणम् ॥ ११ ॥ प्रधानाः सर्वनाडीला दश नाव्यः प्रकीर्तिताः । तासां तिस्रः प्रधानाः शुस्तासामेका च नाडिका ॥ १२ ॥ 3. योगं क' ग. पाल: 'दान', इ. 'महामतिः' ग. घ. पाठ:

द्वितीयोऽध्यायः । मूलादिब्रह्मरन्ध्रान्तं देहमध्ये व्यवस्थिता । नासाश्रया सुषुम्नाख्या सा च योगपंथानुगा ॥ १३ ॥ तस्या दक्षिणपार्श्वस्था पिङ्गलाख्या प्रकीर्तिता । इडेति वामपार्श्वस्था नासिकान्तंगते हि ते ॥ १४ ॥ प्रधानः सर्ववायूनां प्राणो वायुः प्रकीर्तितः । तमारूढो महानात्मा करोत्येव शुभाशुभम् ॥ १५॥ सूर्यो दक्षिणगः प्रोक्तः सोमो वामगतस्तथा । पावको द्वन्द्वगो देवः स च कार्यविनाशकृत् ॥ १६ ॥ समस्तु चन्द्रमाः प्रोक्तो विज्ञेयो विषमो रविः । चन्द्रः स्त्री पुरुषः सूर्यश्चन्द्रः कृष्णो रविः सितः ॥१७॥ पुरो वामोर्ध्वगश्चन्द्रो दक्षायः पृष्ठगो रविः । यस्यां दिशि स्थितो देवस्तां दिशं गन्तुमर्हति ॥ १८ ॥ वामचारप्रवाहे तु न गच्छेद् याम्यपश्चिमौ । दक्षचारप्रवाहे तु न गच्छेत् पूर्वमुत्तरम् ॥ १९ ॥ निर्गमे तु शुभा वामा प्रवेशे दक्षिणा शुभा । शुभकार्ये शुभा बामा दक्षिणा क्रूरकर्मणि ॥ २० ॥ जपे च नियमे दाने यात्रापूजोत्सवेषु च । विवाहयज्ञयोः शान्तिकर्मण्यब्जः प्रशस्यते ॥ २१ ॥ सन्नाहे मैथुने छूते विवादे कलहेऽपिच । उच्चाटनादिकार्येषु दीप्तो भानुः प्रशस्यते ॥ २२ ॥ रणायापि च यात्रादौ निशानाथः शुभप्रदः । प्रवेशे रणभूदेशे दिवानाथो जयप्रदः ॥ २३ ॥ विषुवस्योदये यात्रा अनलापि न कारयेत् । सर्वकर्माणि संन्यस्य सं स्मरेदीश्वरं तदा ॥ २४ ॥ १. 'फलानु, १. तिकगे हि' ग. पाठ:. ३. 'रे' क. ख. घ. पाठः, 'तो', ५. 'त' ग, पाठः. ६. मणि', ७. 'त', ८. 'स' क. ख. पाठ:.

रणदीपिकायां पञ्च भूताः स्वराः पञ्च पक्षिणः पञ्च पञ्च च । तिथयोऽपि जगत् सर्व विख्यातं पाश्चभौतिकम् ॥ २५ ॥ तस्माद् भूतान् परीक्षेत पूर्वाभिवदनः सुधीः । स्तनद्वयं च संवीक्ष्य श्वासं वक्षसि रेचयेत् ॥ २६ ॥ पुटयोरपि दण्डस्था स्थिरा तोयमधःस्थितम् । कृशानुरूर्व पार्श्वस्थः समीरो मध्यमेऽम्बरम् ॥ २७॥ कण्ठोर्ध्वतः स्थितो वह्निर्नाभिमूले प्रभञ्जनः । जानूंर्ध्वतः स्थिता पृथ्वी पादयोः सलिलं तथा ॥ २८ ॥ पृथिव्यां स्थिरकर्माणि चलकर्माणि वारुणे । कुर्वीत सङ्गरं वह्नौ मारणोच्चाटनेऽनिले ॥ २९ ॥ व्योम्नि केवलमात्मानं मनसा संस्मरेत् तथा । चान्द्रे तोये पृथिव्यां च यायात् सर्वत्र भूपतिः ॥ ३० ॥ पूर्णभागं पुरस्कृत्य कृत्वा शून्ये रणे रिपुम् । करोति विन्दते युद्धं जयं राज्यं च भूपतिः॥ ३१ ॥ चकोरदर्शनं पुण्यं दक्षमागे विशेषतः । तद्भागे तस्य शब्दं च सुस्वरं च तदुत्तमम् ।। ३२ ।। तिर्यग्गतो वायसोऽपि वामतो दक्षिणे शुभः । अन्योऽपि शोभनः पुंसां कृष्णवर्णस्तथैव च ॥ ३३ ॥ पक्षिणी पीतवी च श्वेतवर्णा च वामगा। शाभना मुनिभिः ख्याता शब्दस्तत्र शुभस्तथा ॥ ३४ ॥ वयोनुगानं शुभदं दक्षे वायेऽन्यथा शुभम् । श्येनोऽपि वामगो मान्यो मांसयुक्तो विशेषतः ॥ ३५ ।। दक्षतो वामगश्चापि शोभनो जम्बुकोऽन्यथा । वाम न शाभनः पुंसां कृकलासः शुभोऽन्यथा ॥ ३६ ॥ तिर्यग्गतः शुभो नैव तथा कृष्णसहस्त्रपात् । तस्यागमं शुभं विद्यात् तथा कन्यागमं गवाम् ॥ ३७॥ १. 'मा', २. स्कन्धतोर्चस्थि', ३. 'न्वोरूर्ध्वस्थि' क. ख. पाठः. ४. कार्याणि' क. ख. प. पाठः. ५. 'वभावं पु' ग., 'वभाग' घ. पाठः, ६. 'स' क. 'रं चेत् त' ग., 'रश्चेत् त' घ. पाठः. ख. पाठ..

७ द्वितीयोऽध्यायः । शङ्खनादं शुभं विद्याच्छुभं वेदरवं तथा। शब्दं मङ्गलवाद्यानां शुभशब्दं नृणामपि ॥ ३८ ॥ पूर्णकुम्भः सुरा तक्रं दधि दीपितपावकः । मांसखण्डो नरो वेश्या तेषामागमनं शुभम् ॥ ३९ ॥ रिक्तपाणिजिो राजा किर्गणकोरगौ । पङ्गुरङ्गविहीनश्च दण्डपाणिस्तथैव च ॥ ४० ॥ तैलहस्तस्तदभ्यक्तो नग्नो मुक्तशिरोरुहः । पाषण्डी चावासाश्च पतितथ कुठारभृत् ।। ४१ ॥ कायस्थो मुण्डितो रोगी रुदन् वेदनया सह । मलिनश्छिन्नवासाश्च नारी च विधवा तथा ।। ४२ ॥ अशस्तचिन्तावचनो मार्जारो गर्दभोऽपि वा । तेषामागमनं वयं गमने सर्वदिक्ष्वपि ॥ ४३ ॥ मुहूर्त शकुनैः सार्ध शुभमाह बृहस्पतिः । वायूदयं प्रधानं तु कपिलः सिद्धनायकः ॥ ४४ ॥ गायः प्रभातमित्याह वेदव्यासो मनोरतिम् । उपश्रुतिं महानत्रिर्विप्रवाक्यं जनार्दनः ॥ ४५ ॥ इत्यादि लक्षणं सर्व विज्ञायैव नराधिपः । युद्धाय रणभूदेशं गच्छेत् सह बलैरपि ॥ ४६ ॥ एकांशस्थितयोश्चन्द्रभौमयोः स्वस्ववर्गयोः । आरभेत महीपालो लग्ने यदि तदा रणम् ॥ ४७ ॥ भौमोदये च तद्वारे परसेनां प्रति ध्रुवम् । यदा विषघटीकाले सायकं विसृजेत् तदा ॥ ४८ ॥ विष्टरभ्युदये काले तस्यां दिशि च संस्थितः । शरान् विमुञ्चन् भूपालो जयं प्राप्नोति सङ्गरे ॥ ४९ ॥ इति रणदीपिकायां यात्राविवेको द्वितीयोऽध्यायः ॥ ३. १. 'तथा दीपो द' ग. घ. पाठः. २. 'वन्धकी गण' क. ख. घ. पाठः. "च्छन् स' क. ख. पाठः. ४. 'लक्षणाध्यायो द्वितीयः ॥' ग, घ. पाद:.

रणदीपिकायाँ अथ तृतीयोऽध्यायः। पुनरन्यदहं वक्ष्ये संक्षेपेण जयाजयम् । योरपि तयोरेव सङ्गरे स्थायियायिनोः ॥ १ ॥ गोजाधिकर्किमिथुनाः समृगाश्चन्द्रराशयः । शेषाः सौरास्तु विख्याता मुनिभिः शास्त्रकोविदैः ॥२॥ चन्द्रराशिगते सूर्ये यायी विजयते तदा । सूर्यराशिगते चन्द्रे स्थायी जयति वैरिणः ॥ ३ ॥ अन्योन्यराशिगौ तौ चेत् सूर्याचन्द्रमसौ यदा। तदा व्रणप्रदौ देहे कलहे स्थायियायिनोः॥४॥ स्वस्वराशिगयोश्चन्द्रसूर्ययो रणभूतले। नेच्छतः कलहं यायी स्थायी च तरुणावपि ॥ ५॥ स्वर्थात् परमपर्यन्तं भास्करैर्गुणितं हरेत् । सप्तविंशतिभिः शिष्टं पञ्चच्छिन्नावशेषितम् ॥ ६ ॥ एतत् क्रमेणं गणयेद् योगिनः प्रतियोगिनः । अकारादिस्वराः पञ्च नन्दादितिथयोऽपिच ॥ ७ ॥ बालः कुमारो राजा च वृद्धा मृत्युरिति क्रमात् । बालस्य बालयोमुत्युमृत्युद्धन्य वृद्धयोः ॥ ८ ॥ तयोः कुमारयोस्तहि सरोमा विजयी भवेत् । द्वयोस्तु राज्ञोः कलहे कुलमो बलवान भवेन् ॥ ९ ॥ तेषां तु बलवान् राजा मृत्युदेईल एव हि । राज्ञा तुल्यः कुमारोऽशि वालो को स्मृतः ॥ १० ॥ स्वादपरनक्षत्रं द्वादशन नबोद्धृतम् । फलाधिके जयं नृपाड् समयेऽल्पवयस्यपि ॥ ११ ॥ तथैव नामनक्षत्रान कल्पनीयं जयाजयम् । तस्मात् तदुच्यते नाम्नां सर्वेषामधुना मया ॥ १२ ॥ १. 'ते चन्द्रे' क. पाठ:. २. गम्" क. ग. घ. पाठः, ३. 'दपरनक्षत्रं भा', 'ण यत्तद्द्योगिनं प्र' क. पाठ:. ५. 'मो' क., 'मे' ख. पाठ:. ६ 'तो दुर्ब' १.ख. घ. पाठः. 'ज' क, पाठः, - तृतीयोऽध्यायः । एकाशीतिपदे चने कोणको विवर्जिते । बाह्येषु कृत्तिकादीनि सप्त चत्वारि भानि वै ॥१३॥ अवौ कं च हडौ प्राच्यां मटौ पं च रतावथ । नयौ वं च शजौ पश्चाद् गदौ सं च चलौ विधोः ॥ १४ ॥ तेषामन्तःपदेष्वेतान् क्रमात् पञ्चसु पञ्चसु । चतुर्दिक्षु भवेष्वेवं लिखेद् वर्णाननन्तरम् ॥ १५ ॥ तेषामन्तःपदेष्वेव मेषसिंहधनुक्रमात् । राशीन् प्रकल्पयेत् तेषामन्तर्भूतानि कल्पयेत् ॥ १६ ॥ वर्णस्वरैश्च सम्भेदादेकैः पञ्चधा भवेत् । चतुश्चतुर्भिरेकैकमेकेनैव चतुर्थभम् ॥ १७ ॥ उक्तैरोजैरनोजाश्च गृह्यन्ते पञ्चभिः स्वराः । केन खं गेन घं ग्राह्यं तद्वचटजडादिभिः ॥ १८ ॥ कापि सन्ति न नामादी आणाः कोऽपि षण्मुखः । क्वचिदस्तीति चेद् भूमौ षकारश्च सकारवत् ॥ १९ ॥ एवं हि नाम्नां सर्वेषां नक्षत्रं प्रथमाक्षरात् । ज्ञातव्यं युद्धयोग्येन मानवेन विशेषतः ।। २० ।। जन्मादपि नामक्षं प्रधानं युद्धकर्मणि । अन्यस्मिन्नपि शूद्राणां नामदं प्रबलं विदुः ॥२१॥ इति केचिद् वदन्त्यन्ये जन्मदं सर्वकर्मसु । प्रधानं नामनक्षत्रात् कृत्रिमात् कृतकेतरम् ॥ २२ ॥ अज्ञातजन्मभं यस्य तस्य नामभमुच्यते । औरसो नास्ति पुत्रश्चेद् दत्तको वस्तुतां व्रजेत् ॥ २३ ॥ वदन्तु बहुधा कामं मुनीन्द्राः शुद्धमानसाः ! अहं सत्यं प्रवक्ष्यामि युक्त्या परमसारया ॥ २४ ॥ १. 'दं', २.. '' ख. पाठः. ३. 'टेषु वर्जयेत् । बा' क. पाठ:.. ४ 'तम् ।' 'क', ६, याज्यं त' क. पाठ:. 'स्मादपि स.पाठः, ख. पाठः, रणदीपिकायां 8 युक्तियुक्तमुपादेयं वचनं बालकादपि । अन्यत् तृणमिव त्याज्यमप्युक्तं पद्मजन्मना ।। २५ ॥ कर्णाटे द्रविडे गौडे काश्मीरे कोङ्कणेऽपिच । तुरुष्कराज्ये वैदेहे वङ्गाले सिंहलेऽपिच ॥ २६ ॥ पाण्ड्यमालवलाटादिपरदेशेषु नामभम् । प्रधानं जन्मनक्षत्रात् सर्वेषां सर्वकर्मसु ॥ २७ ॥ केरले भुवि लोकानां जन्मभं ग्राह्यमेव हि । श्रीपरशुरामशक्त्या विप्राणामधिकृत्यै च ।। २८ ॥ यस्मादुक्तं पण्डितेन माधवाख्यमहाधिया । जन्मर्धिफलं नामनक्षत्रं ब्राह्मणस्य च ॥ २९ ॥ ग्रामे निवासिनां यद्वच्छूद्रादीनामनन्तरम् । भागिनेयान् परित्यज्य पुत्रो भोक्ता भविष्यति ॥ ३० ॥ तद्वत् संसर्गमात्रेण हीनोऽप्युत्तमतां व्रजेत् । रजतं स्वर्णसम्पर्काद् भ(व? ज)त्येव सुवर्णताम् ॥ ३१ ॥ जातिवर्णकुलादीनां क्षयवृद्धी भविष्यतः । मेरुमाश्रित्य सौवर्णा भवन्ति किल वायसाः ॥ ३२ ॥ तस्मादस्मिन केरलाख्ये महीदेवमहीतले । शूद्रादिभिरपि ज्ञयं जन्म यस्य बलाबलम् ॥ ३३ ॥ तयोरपि निरूप्यन्तै शूलचक्रादयो बुधैः । जन्मात केवलादेव ज्ञातच्या ग्रहगोचराः ।। ३४ ॥ अश्विन्यादीष्टभं शावत् तावत् सप्तघ्नमष्टभिः । हत्त्वा शेषान् खगेन्द्रादिकाकान्तान् गणयेत् सुधीः ॥ ३५ ॥ नामाक्षराणामादौ द्वावन्त्ये षण्मध्यवर्तिषु । त्रयोदश तदष्टघ्नं सप्त हत्वावशेषितम् ॥ ३६ ॥ २. 'को', ३. 'माँ' ख. पाठः कः', इ. 'डे', ७. 'तु', ९. 'दिषु भं' क, पाठः. १.. 'ह' ख. पाठः. ११. 'दिकका', १२. 'तु" १० 'दा' क. पाठः 'त्याच।' ख. घ. पाठ: ५. ४. 'त्यतः।' ग., 'ता।' ख. पाठः. - -- ख, पाठ .

१६ चतुर्थोऽध्यायः । ययोश्च नाम्नोरित्येवमानीतमधिकं फलम् । तयोयोस्तु यस्यास्ति तस्य युद्धे जयं वदेत् ॥ ३७॥ इति रणदीपिकायां जयाजयविवेकः तृतीयोऽध्यायः ॥ अथ चतुर्थोऽध्यायः। कदा शुभफलं नृणामशुभं वा कदा भवेत् । इति कर्मविपाकोऽयं संक्षेपेणोपदिश्यते ॥१॥ पाके जन्मनि चारे वा ग्रहाः कर्मवशानुगाः । काले फलन्ति लोकानां यथा वृक्षाः शुभाशुभम् ॥ २ ॥ दशाज्ञानमविज्ञाय यः करोति नरो रणम् । प्रयाति नाशं बळिशपिण्डीलम्पटमत्स्यवत् ॥ ३ ॥ तस्माद् दशाफलं पूर्व ज्ञातव्यं विजिगीषुणा । ततश्चारफलं लेयं तत्प्रकारोऽभिधीयते ॥४॥ हौरिकैरुक्तमार्गेण दशामानीय तत्फलम् । तैरेव कथितं सम्यक् चिन्तयेद् युद्धकर्मणि ॥ ५ ॥ षष्ठाष्टमव्ययस्थानां दशाकाले यथाक्रमम् । व्रणं भयं धनालस्यं लभते नात्र संशयः॥६॥ अष्टमेशग्रहस्यान्तर्दशायां मरणं भवेत् । तत्र संस्थस्य पापस्य पाके मृत्युमवाप्नुयात् ॥ ७ ॥ रैन्ध्रदेक्काणनाथस्य पाके मृत्युमवाप्नुयात् । नैव कुर्यात् तदा काले सङ्घामं सर्वयत्नतः ॥ ८॥ शुभाना वाशुभानां वा पक्षे कस्यचिदेव वा । दशाछिद्रे नरो युद्धं मनसापि न कारयेत् ॥ ९ ॥ १. 'ना नीत्येव क. पाठः, ३. वं ख. पाउ:. ३. 'कासधिवे' ग. पाठः ४. 'धर्मपुत्रस्थराशीशपा' घ. पाठः १२. रणदीपिकायां कर्मलग्नगयोरन्तर्दशाकाले नराधिपः । धनं जयं च राज्यं च लभते नात्र संशयः॥१०॥ दिग्बलस्य ग्रहस्यान्तर्दशायां दिग्बली भवेत् । स्थानवीर्यान्वितस्याग्दे स्थायी जयति निश्चयः ॥ ११ ॥ कालवीर्यान्वितस्यान्तर्दशाकाले महीपतिः । कालक्रमेण शत्रूणां प्राणनाशं च कारयेत् ।। १२ ।। चेष्टावीर्यान्वितस्यान्दो यावद् भवति भूपतिः। तावत् पराक्रमेणैव नाशयेच्छात्रवं कुलम् ॥ १३ ॥ बली वा योगकर्ता वा गोचरस्थोऽपि वा ग्रहः। स्वस्य पाकदशां प्राप्य शुभं नृभ्यः प्रयच्छति ॥ १४ ॥ शुभदायऽपि चारेण दोषराशिगतो ग्रहः । दोषमेव ददात्येव घृतमाधवयोगवत् ॥ १५ ॥ जन्मकालग्रहेन्द्रेभ्यः सलग्नेभ्यः खगा नृणाम् । केषु दोषप्रदाः सर्वे शुभदाः केषु राशिषु ॥ १६ ॥ वराहमिहिरेणोक्ताः 'स्वादर्कः प्रथमा दयः । शुक्लाक्षराशयस्तेन नोक्ताः कृष्णाक्षलक्षिताः ॥ १७ ॥ म्वेषु स्वेष्वष्टवर्गेषु शुक्लाक्षाधिकराशिषु । गता ग्रहाः शुभं दद्युरन्यस्था न शुभप्रदाः ॥ १८ ॥ फलमिष्टमनिष्टं वा पुष्टं दाहा नृणाम् । अथ संक्षेपतो यत्तत् कथ्यते जन्मचन्द्रतः ॥ १९ ॥ त्रिषडेकाद(श ? शा)ज्ञासु शुभदो भास्करोऽन्यगः । न शोभन इति ख्यातः पूर्वाचार्मनीषिभिः ॥ २० ॥ घ्नजन्मत्रिषड्लाममानराशिषु शोभनः । शीतदीधितिरन्येषु शोभनो नैव राशिषु ।। २१ ॥ यदा लाभारिदुश्चिकगता मन्दारराहवः । तदा धान्यं धनं राज्यं जयं यच्छन्ति नान्यमाः ॥ २३ ॥ १. 'यम्' क. ख. पाउ.. २. "लान्तरेण श' घ. पाठः, ?

पञ्चमोऽध्यायः ।। १३. स्वबन्धुशत्रुकर्मायनिधनेषु बुधो बुधैः । शोभनो गदितोऽन्येषु शुभदो नैव राशिषु ॥ २३ ॥ जायायार्थतपोबुद्धिगतो जीवः सुशोभनः । अन्यत्र न शुभः ख्यातः सर्वशास्त्रपरायणैः ॥ २४ ॥ आसुताष्टमधर्मायव्ययगो भृगुजो यदा । तदा शुभप्रदः खास्तारिषु दोषफलप्रदः ॥ २५ ॥ द्वादशाष्टमजन्मस्थाः कुजमन्दार्कमन्त्रिणः । स्थानमानधनालस्यं कुर्वन्ति माणसंशयम् ॥ २६ ॥ निर्याणमन्दगुर्वर्कचन्द्रा ये कथिताः पुरा । यवनादिभिराचार्यैज्ञातव्यास्ते च संयुगे ॥२७॥ एवं शुभाशुभं ज्ञात्वा शुभकाले महीपतिः । प्रसह्य कलहं कुर्याद् यशसे महतेऽरिभिः ॥ २८ ॥ इति रणदीपिकायां कालविवेकः चतुर्थोऽध्यायः ॥ अथ पञ्चमोऽध्यायः। हमाणशूलचक्रादिलक्षणं कथयाम्यहम् । पूर्वेदृष्टानि शास्त्राणि विमृश्य परया धिया ॥ १ ॥ अर्कादुभयतस्वित्रि षड् भानि गणयेत् क्रमात् । अन्धकाणाक्षियुग्मानि काणानि त्रीणि भान्यथ ।। २ ।। वारान् भानि च संयोज्य शिष्टास्तारा नवोद्धृताः। द्विगेकहगन्धाख्या युगरामाक्षिसम्मिताः ॥ ३ ॥ अर्कादिवारांस्त्रिगुणान् भगणादथ शोधयेत् । काणाक्षियुग्मतिमेिराः शेषा रन्धार्कपण्मिताः ॥ ४ ॥ २. दि ख. पा. 1. 'जयदिवे स. पाटः. भिष' ग. पाट. ३. 'तस्त्रीति ष' ख., 'घटस्त्रि- १४ रणदीपिकायों रविचन्द्रमसोश्चक्षुरस्ति स्तश्चक्षुषी तथा । बुधभार्गवजीवानां न चक्षुर्मन्दभौमयोः ॥५॥ त्रिकोणं विलिखेदने शूलं रेखां च कोणयोः। तिर्यग्गताः सप्त रेखा अष्ट रेखा अधोगताः ॥ ६ ॥ शूलमध्येऽर्कभं न्यस्य तदारभ्य महामतिः । प्रादक्षिण्यन संगण्य यस्यदं यत्र संस्थितम् ॥ ७ ॥ कोणद्वयेऽपि शूलेऽपि न किञ्चिदपि पार्श्वयोः । अर्धप्राणोऽस्ति पूर्णोऽस्ति प्राणोऽधोऽष्टासु कीर्तितः ॥ ८॥ पूर्वपश्चिमयोस्तिस्रस्तिस्रः शूलं तदग्रतः । तिर्यग्भिन्नाष्टरेखं च संलिख्य समभूतले ॥९॥ अधोमध्यस्थेसूर्यात् फलं ब्रूयाच्छुभाशुभम् । क्रमेण यस्य भं यस्मिन्निति संगण्य बुद्धिमान् ॥ १० ॥ शूलत्रये च खंड्गे च क्रमेण मरणं व्रणम् । जयं षोडशरेखासु भयं दण्डनयेऽपिच ।। ११ ॥ सूर्यकालानलं चक्रमेतत् प्रोक्तं मया पुनः । मूर्यचक्रं च वक्ष्येऽहं चक्राणामधिनायकम् ॥ १२ ॥ अघस्त्रिशूलमूर्व च (त्रि? द्वि)त्रिशूलं च पार्श्वयोः । द्विषट्करेखासंयुक्तं चतुष्कं वह्निवातयोः ॥ १३ ॥ सर्वतारागणोपेतं चक्रं संलिख्य भूतले । त्रिशूलमध्ये सूर्यक्ष विन्यस्य गणयेत् ततः ॥ १४ ॥ ब्रूयात फलं च यस्यक्षपधः शूलाग्रतः स्थितम् । मरणं तस्य निर्दिष्टं (त्रिवि)त्रिशूलाग्रतोऽपिच ॥१५॥ द्विषदकताराः शुभदाश्चतस्रोऽतिशुभप्रदाः । इति प्रोक्तं रवश्वकं तस्य शूलमयोच्यते ॥ १६ ॥ १. 'कृत्वा त' ख. ग. ५. पाठ:. २. द्वि ख., 'त्रि ग. घ. पाटा. ३. 'तम् ।' ४. नित्रि शूक. पा. ५. 'मतः सूर्यात्' ग. घ. पाठः, ६. 'षटके ७. 'दयोऽपि', ८. 'स्य' ख. पाठः. ख. पाठः. वस.ग. घ, पाठः.

१५ पञ्चमोऽध्यायः । सूर्यमण्डलव वृत्तमालिखेत् समभूतले । पूर्वे शूलं ततश्चान्तः षड् रेखास्तदनन्तरम् ॥ १७ ॥ शूलं रक्षसि षड् रेखा बहिः शूलं च मारुते । पुनरन्तश्च षड् रेखाः क्रमेण गणयेत् सुधीः ॥ १८ ॥ पूर्वत्रिशूलमध्येऽर्कनक्षत्रं तत्र विन्यसेत् । तदारभ्य फलं बयानराणां विजयाजयम् ॥ १९ ॥ त्रित्रिशूलाग्रतो मृत्यु ह्यषट्के व्रणं भवेत् । अन्तर्द्विपकतारासु जयो युद्धे भविष्यति ॥ २० ॥ चन्द्रचक्रमथो वक्ष्ये शास्त्राणि परया धिया। विमृश्य सारभूतानि विज्ञातुं विजयाजयम् ॥ २१ ॥ चापाकारेण रेखैकामालिखेद् याम्यसौम्ययोः । पूर्वपश्चिमयोर्मध्ये रेखामेकां च कारयेत् ॥ २२ ॥ अर्ध्वाधो याम्यसौम्याग्रं त्रिशूलं विलिखेत् पुनः । बहिश्चतुष्कमन्तश्च त्रिचतुष्कसमन्वितम् ॥ २३ ॥ तदधः शूलमध्येऽत्र चान्द्रमासादिचन्द्रभम् । न्यस्य तस्मादथारभ्य प्राग्वत् संगण्य कल्पयेत् ॥ २४ ॥ द्वादशशूले मरणं भयं बाह्यचतुष्कों। त्रिचतुष्के च सङ्ग्रामे विजयं भवति ध्रुवम् ।। २५ ।। कोष्ठचक्रमिति (प्रोक्तम? प्राहुर)न्ये केचन सूरयः । अर्धेन्दुसदृशां रेखां मध्ये रेखां च दण्डवत् ॥ २६ ॥ तासामने त्रित्रिशूलं त्रित्रिरेखां च मध्यमे । एवं संलिख्य भूदेशे सर्वतारागणान्वितम् ।। २७ ।। १. 'चक्रे व्र' क. ख. घ. पाठः. २. 'ट्ताराविजयं यु', ३. 'शूलम', ४. 'क्ये विमृश्य प', ५. 'शाखाणि सा' ख. पाठः. ३. 'सोमाका', ७. 'तदार' क. पाठः. 1. भम् । व. पाठ:. ९. 'वम् । अर्धेन्दु' क. ग. घ. पाठः. १०. 'त।' न. पा.

रणदीपिकायां चन्द्रशूलं च तद्याम्येशूलमध्ये च चन्द्रभम् । न्यस्य क्रमेण संगण्य फलं ब्रूयाजयाजयम् ॥ २८॥ नवशूलस्थे मरणं बाह्यषद्के भयं पुनः । अन्तर्दिषद्कसंस्थे चेञ्जन्मः यस्य सङ्गरे ॥ २९ ॥ विजयं तस्य निर्दिष्टं चन्द्रशूलमितीरितम् । एतानन्याननेकांश्च शूलादीन् मतिमान् नरः ॥ ३० ॥ ज्ञात्वा करोति यो युद्धं युद्धे स विजयी भवेत् ॥ ३० ॥ इति रणदीपिकायां शूलचक्रोदिविवेकः पञ्चमोऽध्यायः ॥ अथ षष्ठोऽध्यायः। अथ संक्षिप्य वक्ष्येऽहं पञ्चस्वरबलाबलम् । गुरुनाथपदाम्भोजयुगसेवापराय(णम् ? णः) ॥ १ ॥ पञ्चभूतात्मकं विश्वं देहोऽस्मात् पाश्चभौतिकः । तस्मिन् प्रकाशते देवी नादरूपण नान्यतः ॥ २ ॥ सा मूलेऽङ्कुरिता सूक्ष्मा नाभी पल्लविता परा । हदि कोरकिता बागी व कुसुमिता भवेत् ॥ ३ ॥ पराशक्तिं च पश्यन्ति ?न्ती) मध्यमां वैखरीं क्रमात् । जायमानामिमां वाणी वदन्ति बहुधा बुधाः ॥४॥ सैव सौषुम्नबन्धेन समरिप्रेरितेन च । पश्चस्वरविभिन्न वर्णसङ्घन जायते ॥५॥ वर्णसङ्घोऽप्यकारादिहकारान्तः प्रकीर्तितः । तन्मध्यवर्णलोपेन महामन्त्रोऽहमित्ययम् ॥ ६ ॥ १. 'भ्याम', २. 'कवि' ख. पाठः, ५. 'मा', ६. 'री' ग. घ. पाठ:. ३. 'क्तिश्च प', ४. 'ती', .

षष्ठोऽध्यायः। अहं ब्रह्मेत्ययं बोधो मन्त्रेऽस्मिन् जायते सताम् । तस्माद्धि वर्णसङ्घन धार्यते भुवनत्रयम् ॥ ७ ॥ ब्रह्मात्मकं जगत् सर्व नान्यथा परिकीर्यते । यकारादय आग्नेयाः सौराः कादय ऐन्दवाः ॥ ८॥ स्वराः षोडश चैतेषां शक्तयः स्युः पृथक् पृथक् । वर्णानां समुदायो यः पदं तत् प्रोच्यते बुधैः ॥ ९॥ वाक्यं पदानां वाक्यानां प्रबन्ध इति कथ्यते । प्रबन्धो द्विविधः प्रोक्तो वेदशास्त्रविभेदतः ॥ १० ॥ वेदोपवेदशास्त्राणि विद्या अष्टादश स्मृताः । अस्मिन् विद्याप्रपञ्चेऽसौ नादः पञ्चस्वरात्मकः ॥ ११ ॥ व्याप्तो भवति सर्वत्र देहे देही यथा तथा । ओङ्कारादेव सञ्जात एकारस्तत एव च ॥ १२ ।। उकारोऽत इकारोऽस्मादकारश्च समुद्भवः । स्वराः पञ्चविधाः प्रोक्ता मात्रावर्णग्रहादयः ॥ १३ ॥ अकारादिस्वराः पञ्च मात्राख्याः परिकीर्तिताः । रेखाः षडूर्ध्वगाः कार्यास्तिर्यगष्टौ विलिख्य च ॥ १४ ॥ पञ्चत्रिंशद् भवन्त्येवं कोष्ठास्तत्रादिपञ्चसु । पञ्च मात्राः स्वराः पश्चात् कादीन् ङाणवर्जितान् ॥ १५ ॥ क्रमेण विलिखेद् वर्णान् हकारान्तान् विचक्षणः । अकारपतौ ये वर्णा अधोग्धोत्र व्यवस्थिताः ॥ १६ ॥ अकारसदृशा वर्णाः स्वराः सर्वे भवन्ति ते । इकारादिस्वराश्चैवमिति वर्णस्वरा मताः ॥१७॥ ग्रहस्वरा अथोच्यन्ते राशिवारसमन्विताः । अकारसंज्ञितो भौमः सरविः सविधुर्बुधः ॥१८॥ २. 'सकाराद' ग., 'स्वराः काद' घ. पाठः. 'सौ' क, ख. पाठः. ४. 'ओकारा' क. ख, घ. पाठ:. १. 'अ' क.ख. पाठ:. ३. १ ५. 'ता' ग. पाठा. क.ख. पाट.

रणदीपिकायां इकारसंज्ञितः शेषा उकारादिस्वरा मताः । जीवस्वरा अथोच्यन्ते यावन्तः स्वस्वराक्षराः ॥ १९ ॥ यस्मिन् नामनि तावन्तो गुण्या वर्गाक्षरैरथ । पञ्चभिर्विभजेच्छिष्टाः स्वरास्ते जीवसंज्ञिताः ॥ २० ॥ राशिस्वरी अथोच्यन्ते स्वरशास्त्रानुसारतः । रेवत्यादीनि सप्ताण्यकारस्य भवन्त्यथ ॥ २१ ॥ अन्येषां पञ्चपञ्चक्षमिति राशिस्वरा मताः । नामादौ यो भवेद् वर्णः से स्वरः परिकीर्तितः ॥२२॥ अकारभोक्ता भेरण्डश्चकोरस्तदनन्तरम् । उकारभोजी काकोऽयमेकारेशः स कुक्कुटः ॥ २३ ॥ प्रणवाक्षरनायोऽयं नीलकण्ठः प्रकीर्तितः । प्राच्यादिब्रह्मपर्यन्तं स्थिता एते खगाः क्रमात् ॥ २४ ॥ चैत्रादिदिनमारभ्य द्वादशैव दिनानि च । मुले माहेन्द्रदिक्स्थोऽयं भेरण्डः पूर्वमप्यथ ॥ २५ ॥ पश्चात् तथैव सर्वेऽपि भोक्तारो मण्डलं प्रति । भेरण्डतिथयो नन्दा भद्रास्ताः पिङ्गलस्य च ॥ २६ ॥ विजया विहगेशस्य रिक्तास्ताः कोक्कुटाः स्मृताः। पूर्णाश्च तिस्रस्तिथयो बर्हिणः परिकीर्तिताः ॥ २७ ॥ भोक्ता भवति यः पक्षी स च बालः प्रकीर्तितः। कुमाराख्यो द्वितीयोऽसौ खगो राजा तृतीयकः ॥ २८ ॥ वृद्धश्चतुर्थो मृत्युश्च विहगः पञ्चमः स्मृतः । बालः कुमारो राजा च वृद्धो मृत्युरिति क्रमात् ।। २९ ॥ आत्मस्वरादि संगण्य स्वरं विद्याद् विचक्षणः । तिथिमध्ये च षण्णाडीभुक् खगो वारपस्तथा ॥३०॥ १. र ततो वक्ष्ये स्व' ग., 'रमथो वक्ष्ये स्व' घ. पाठः. २. 'स्व' ग. पाठः. ३. 'गो' ग. घ. पाठः. ४. 'न्तं' क. ख. ग. पाठः. ५., ६. 'भा' ग. घ. पाठः, षष्ठोऽध्यायः । १९ शेषाच षड्घटीकालभोक्तारः पक्षिणः क्रमात् । भोजनं गमनं राज्यं निद्रां च मरणं क्रमात् ।। ३१ ॥ प्राप्नुवन्ति खगा यामे मृतो भोक्ता पुनः पुनः ॥ ३१३ ॥ इति रणदीपिकायां पञ्चस्वरविवेकः षष्ठोऽध्यायः॥ १. 'नः। पक्षेऽपरे विशेषोऽस्ति पक्षिणामिति केचन ॥ तत्प्रकारमहं वक्ष्ये लक्षणेन विचक्षणः । भृगुवाराधिपः श्येनः पिङ्गलो गुरुवारपः॥ बुधस्य काकोरव्यारवारेशश्चरणायुधः । मन्दचन्द्रमसोरीशो मयूरः परिकीर्तितः ॥ भोजनं निद्रा मरणं गमनं राज्यमेव हि । प्राग्यामे गमनं यस्य तस्य पश्चात्तु भोजनम् ॥ पुनः पुनस्तथैवैवं क्रमेण गणयेत् सुधीः । स्वे । स्वरो ! - नारी दीर्घति परिकीर्तिता॥ मात्रादा महती यस्य तस्य युद्धे जयं भवेत् । मात्राहीनं तु यन्नाम्ना तस्य नास्ति रणे जयम् ।। आदौ गुरुस्पर्शवर्णो भवेद् यस्य स वीर्यवान् । आधानादि शुभं कर्म धनधान्यादिसङ्ग्रहाः ॥ वापनं सर्वबीजश्च पुरवेश्मप्रवेशनम् । रसायनप्रयोगं च व्याधीनां च चिकित्सितम् ॥ स्वरे बाले यथा काले तथा कुर्याद् विचक्षणः । पाणिग्रहं च भृत्यानां सङ्ग्रहः स्वामिसङ्ग्रहः ॥ राज्ञां प्रत्यर्थिनां राज्यदेशगेहप्रवेशनम् । इत्यादिकर्म कुर्वीत स्वर कोमारके बुधः ॥ गजायारोहणं युद्धं पट्टबन्धाभिषेचनम् । नारीसमागमं द्यूतं रिपूणां प्राणखण्डनम् ॥ यात्रा कुर्वीत भूपालो दारा राज्ञि स्वरे तदा । शान्तिकं पौष्टिकं कर्म मोक्षदीक्षा समाचरेत् । यदा वृद्धस्वरे जाते मात्राख्ये मतिमान् नरः ॥ स्नानं दानं व्रतं ध्यानं यदा मात्र स्वरे मते । जाते कुर्यात् तदा काले महीपालो महामतिः ॥ इति रणदीपिकायां पञ्चस्वरभुक्तिविवे' ग. पाठः,

रणदीपिकायां
अथ सप्तमोऽध्यायः।
अथो बलाबलं वक्ष्ये मृगाणां पूर्वशास्त्रतः ।
सारं संगृह्य संक्षेपात् साम्प्रतं मंतिमानहम् ॥ १ ॥
स्वरास्त्रयोदश प्रोक्ताः पुरागस्त्येन धीमता।
हलोऽष्टादश विख्याता मुनिना संस्कृतेतराः ॥२॥
तैरेव सन्ति नामानि दक्षिणाभुवि वर्तिनाम् ।
जनानामपि सर्वेषां शूद्रादीनां विशेषतः ॥ ३॥
दृक्षमाचलवेदाष्टसप्तभूशरसागराः ।
तर्कमारशरक्ष्माभृदग्नयः स्युरकारतः ॥ ४ ॥
नामाक्षरोद्भवाः सङ्ख्याः सप्तघ्नाष्टहृताः क्रमात् ।
शिष्टा अष्ट मृगाः प्रोक्ता मुनिभिर्गरुडादयः ॥ ५ ॥
इस्वदीर्घावसानानां द्विस्त्रयोदश षट् क्रमात् ।
यावत् सप्तघ्नमष्टाप्तं शिष्टं यद् गणयेत् ततः ॥ ६ ॥
वैनतेयोतुपश्चास्यश्वोरगाखुगजाः शशः ।
एवमष्ट मृगाः प्रोक्ताः क्रमात् प्राच्यादिदिकस्थिताः ॥ ७ ॥
ताक्ष्यों नागान्तकः प्रोक्तस्तथा सिंहो गजान्तकः ।
ओतुराखुरिपुः प्रोक्तः श्वा शशान्तक एव हि ॥ ८ ॥
तेषां बली विष्णुरथः शशो दुर्बल एव हि ।
गरुडं फणिनं हित्वा सर्वेषां बलवान् हरिः ॥९॥
मूषिकं फणिनं सिंहं विहाय विजयी गजः ।
गजादृते मूषिकश्च सर्वेषां दुर्बलो भवेत् ॥ १० ॥
शशाभ्यां बली श्वा च विलाळोऽपिच संयुगे ।
गजं हित्वा खगोऽन्येषां बली कैश्चिदुदाहृतः ॥ ११ ॥
तथापि कालतो याति बलहीनश्च शक्तताम् ।
गजोऽपि हन्ति पञ्चास्यं गरुडं च तथा फणी ।। १२ ॥
यथा कालविशेषेण राहुणा परिभूयते ।
महानादित्यदेवोऽपि फणिना गरुडस्तथा ॥ १३ ॥

सप्तमोऽध्यायः । २१ तस्मात् कालबलं वक्ष्ये मृगाणां परमार्थधीः । ततः स्थानबलं तेषां कथ्यते सुधिया मया ॥१४॥ सुपर्णगजमार्जारश्वपञ्चास्याहिमूषिकाः । क्रमेण दिननाथादिवारेशाः परिकीर्तिताः ॥ १५ ॥ भोक्ता विहरन् विमृशन् गच्छंस्तिष्ठन् क्रमाच्छेते । निद्रां कुरुते म्रियते प्राग्यामे वारनाथादेः॥१६॥ द्वितीये दिनभागेऽस्मिन् मृतो भोक्ता भविष्यति । ततः सर्वेषु यामेषु तथैव परिचिन्तयेत् ॥ १७ ॥ नागान्तको हन्ति वारे रवेराखुमनन्तरम् । सोऽपि हन्ति मृगाधीशं स च हन्ति शशं शशः ॥ १८॥ फणिनं कणी विलालं विलालो हन्ति दन्तिनम् । दन्ती दन्तायुधं हन्ति सोऽन्तकं हन्ति भोगिनाम् ॥ १९ ।। शशिवारे गजः श्वान कौजे मार्जारको गजम् । इत्येवं वारनाथादेः क्रमेण गणयेत् सुधीः ॥२०॥ देवस्थाने वने रम्ये पूर्वाह्न बलवान् खगः । विलालो बलवान् प्रामे सायाह्ने सबहुद्रुमे ॥ २१ ॥ अरण्येषु गुहाव्यादौ वलवान् सर्वदा हरिः । पौरजानपदे देशे बली श्वा राजसन्निधौ ॥ २२॥ वल्मीकवनतटाके सन्ध्यायां बलवान् फणी । इलायां तु विलादौ च निशायां भूपिको बली ॥ २३ ॥ सुरालये राजधान्यां सदा शैलपनादिषु । गजो बली दिवा रात्रौ तटाकोपबने शशः ॥ २४ ॥ एवं बलाबलं ज्ञात्वा मृगाणां युद्धकर्मणि । करोति यो नरो युद्धं भवेद स बलवीर्यवान् ॥ २५ ॥ इति रणदीपिकायां मृगवीर्यविवेकः सप्तमोऽध्यायः॥ १. प्यान्यां गु, २. तुतीराके नि', ३. 'भा' ग. घ. पाठ:. नित्यं युद्धकर्म स नी' ध, पाड: ५५. बलव' ग. घ. पा.

२२ रणदीपिकायाम् अथ अष्टमोऽध्यायः। अथाहं भूबलं वक्ष्ये नृपाणां प्रीतयेऽधुना । रणभूमो लिखेच्चक्रं चतुरनं सुशोभनम् ॥१॥ तत्पूर्वदिश आरभ्य रेखां वायव्यमानयेत् । वायव्यादानयेद् याम्यं याम्यादीशानमानयेत् ॥ २ ईशानात् पश्चिमं पश्चात् कोणयाग्नेयमानयेत् । आग्नेयादुत्तरं तस्मादुत्तरानैर्ऋतं नयेत् ॥३॥ नैर्ऋतादैन्द्रमित्येवं चक्रमष्टाश्रकं भवेत् । चक्रस्य पूर्वभागेऽस्मिन् त्रिपञ्चदिवसं न्यसेत् ॥४॥ चैत्रादिकं ततस्तावद् वायव्यां दिशि संन्यसेत् । ततो यमेशवरुणवहीन्दुनिर्ऋतिक्रमात् ॥ ५ ॥ रेखाविन्यासमार्गेण भूवलं कल्पयेद् बुधः । भूवलं पृष्ठतो वापि दक्षिणे विजयप्रदम् ॥ ६ ॥ अस्यैव चक्रराजस्य पूर्वस्यां दिशि संस्थितौ । ब्राह्मी माहेश्वरी सौम्ये कौमारी वह्निदिग्गता ॥७॥ नैऋत्यां वैष्णवी याम्य वाराही सैव पञ्चमी । इन्द्राणी विशि वारुण्यां चामुण्डी मरुदाश्रिता ॥ ८॥ ऐशान्यां तु महालक्ष्मीयोंगिन्योऽष्टौ प्रकीर्तिताः । रविवाराधिपा ब्राह्मी माहेशी शशिवारपा ॥९॥ कौमारी कुजवारेशा वैष्णवी बुधवारपा । वाराबैन्द्री चण्डिकाख्या गुरुशुक्रशनैश्चराः ॥ १० ॥ योगिनी शुभदा पृष्ठे पुरतो भरणप्रदा । वामे न शोभना देवी दक्षिणे विजयप्रदा ॥ ११ ॥ योगिनी प्रथम यामं नीत्वा न्यस्य पदाम्बुजम् । चतुर्थ्यां दिशि पृष्ठस्थ सर्व खड्गेन ताडयेत् ॥ १२ ॥ १. क्षदिवसस्य चेत् म. पाठः ४. '' ग. पाठ.. २. 'या' ग. घ. पाठ:. पाठः अष्टमोऽध्यायः । २३ निस्त्रिंशे न च तिष्ठेत न तिष्ठेत् पादधट्टने । इदानीमुच्यतेऽस्माभिस्तथैव तिथियोगिनी ॥ १३ ॥ केसरीभोगशेषाहि पुंसां स्त्रीभोगशेषदिक् (?)। ना(यकी? यिका) प्रथमादीनां तिथीनां योगिनी क्रमात् ॥ प्रतिपत्तिथौ नवम्यां ब्राह्मी पश्यति वारुणीम् । वायवीं राक्षसीमधदृष्टया पश्यति भैरवी ॥ १५ ॥ दृष्टयासंस्थः समरे पादद्वन्द्वे हतः पतेत् । भक्षणायैव तद्ब्राह्मथाश्चतुरङ्गबलोऽपि सः ॥ १६ ॥ पाताले दश नाड्यस्ताः पार्श्वयोश्च त्रयोदश । ऊर्ध्वं पश्यन्ति तिथयो नाड्यः शेषाः समेन वा ॥ १७ ॥ दृश्यो भवति यो युद्धे मरणं याति स ध्रुवम् । योगिन्या मांसकाझिण्या शक्त्या शक्रोऽपि शूरया ॥ १८ ॥ तथैव विष्टिरत्युगारुणकेशी भयङ्करी । निशाचरविनाशाय पुरा जाता पुरारिणा ॥ १९ ॥ सा विष्टिरष्टधा भिन्ना नाना दिक्षु च पक्षयोः । ज्वालानला कराली च घोरा रौद्री सिते ततः ॥२०॥ पक्षेऽपरे महाजिह्वा तथैव बडवामुखी । मारी च यमजिह्वा च विष्टयोऽष्टौ प्रकीर्तिताः॥ २१ ॥ नक्तं दिवा च सञ्चिन्त्या विष्टिस्तिथ्यर्धभोगिनी । इति केचिद् वदन्त्यन्ये विष्टिः प्रहरभोगिनी ॥ २२ ॥ घुजादृणी सिते पक्षे गुच्छबुष्टि सितेतरे शरादसौ सिते यामे तिलादेकसितेतरे ॥ २३ ॥ हला तिथिं विजानीयादचा दिग्यामनाडिकाः । विष्टरग्रे स्थितो याति समरे मरणं नरः॥ २४ ॥ १. हतं वदेत् ।' क. ख., 'ततः परैः।' ग. पाठः. २. 'दक्षिणा', ४. "स्सा' ग. घ. पाठ:. ५. 'न्यो', ६. 'ण्यः' क. ख. ५. "', ८. 'नाम', ९. 'रे हला' ग. घ. पाठः ३. 'माह्याथ क. ख. पाठः. पाठः. ७ २४ रणदीपिकायाम् यावत्तावद्धटीकाले कालवेलान्वितोऽपिच । हेली तपोभिः संग्रामे दिक्षु शुक्ल तदा चरेत् ॥२५॥ सेवायां तु गजे मारे नित्या विष्टिरिति क्रमात् । नित्यविष्टिः स्थिता यत्र तत्स्थानं विजयप्रदम् ॥ २६ ॥ तस्य दृग्भागसंस्था ये ते यान्ति समरे यमम् । अर्कार्कजाररावादीन् पृष्ठे विन्यस्य दक्षिणे ॥२७॥ न्यस्य ताराधिपं युद्धं यः करोति स वीर्यवान् । राहुर्यत्र स्थितस्तत्र ध्वान्तं हिमकरः स्थितः ॥२८॥ दीपस्थानं भयं तत्र ध्वान्ते हि विजयं भवेत् । *रेखा ऊर्ध्वगताः सप्त सप्त तिर्यग्गता अपि ॥ २९ ॥ पूर्वे मध्यमतः कृत्तिकायाः सङ्ग्रामभं यतः । ततो नवर्क ध्वान्ताख्यं द्विनवर्क प्रदीपकम् ॥ ३० ॥ वामेन पूर्वपक्षेऽस्मिन् दक्षिणेन सितेतरे । अन्ययेति वदन्त्यन्ये तदयुक्तं निरूपणम् ॥ ३१ ॥ पश्चाद् ध्वान्तं यतः शुक्ले कृष्णे च पुरतस्ततः । दिक्ताराचक्ररेखासु यस्यां तिष्ठति भानुमान् ॥ ३२ ॥ तस्मात् त्रिकं त्रिकं सप्तनवषट्कमिति क्रमात् । दण्डं घटं कपालाख्यं शैम्पदे कुलिशं ततः॥ ३३ ॥ दण्डे घटे फलं मिश्रं कपाले मरणं फलम् । शम्पदे सम्पदं ब्रूयात् कुलिशे व्रणमादिशेत् ॥ ३४ ॥ २. 'जो मारो नि' ग, पाठः. ३. 'ई' क. पाठः. 'स' ख. घ. पाठः. ५. 'ते', ६. “ण ॥' ख. पाठः. ७. 'चम्पटं कु', ८. 'चम्पटे संक. पाठः. ९. 'हवे ॥ ऐशा' ख. पाठ:. * ख-मातृकायां पञ्चमाध्यायानन्तरमेकमध्यायान्तरमुपकान्तम् । तत्रादौ "ताराधिपो वा सूर्यो वा भूजो वा स्वोच्चगा यदि । द्विनेत्रभेऽपि वा यस्मिन् दिने शस्त्रस्य लब्धिदाः ॥ नीचादिराशिगा यस्मिन शस्त्रहानि विनिर्दिशेत् ।" इस्यध्ययश्लोकानन्तरं 'रेखाः' इत्याद्यष्टमाध्यायान्ताः श्लोका लिखिताः। १. 'स' ग.प. पाठ:. 6.

२५ अष्टमोऽध्यायः । तचक्रे युद्धभ यत्र तत्पश्चानवमर्शतः। दक्षिणेन घटादीनि गण्यानीति परे विदुः ॥ ३५ ॥ ऐशान्यां च शिरो न्यस्य नैर्ऋत्यां चरणद्वयम् । शेते होरापुमान् युद्धभूमौ दुर्लङ्घन्य एव सः ॥३६॥ राशौ यस्मिन् रविस्तिष्ठेत् तस्मिन् पादौ च सप्तमे । शिरो विन्यस्य दुर्लङ्घयः शेते वास्तुपुमान् भुवि ॥ ३७ ॥ इत्यादिलक्षणं ज्ञात्वा तिष्ठते यो रणाङ्कणे । युद्धाय सार्वभौमः स सर्वत्र विजयी भवेत् ॥ ३८ ॥ राजत्केरलराजराजमकुटीराजीवदनिद्वयं- श्रीगोविन्दमहीसुरेन्द्रसहजश्रीदेवशर्माज्ञया । कृत्वासौ रणदीपिकारचनया राज्ञां तमोध्वंसनं (बाधा? बघ्नी)यत्यधुना कुमारगणकः सन्तः प्रसीदन्त्वतः॥ इति रणदीपिकायां भूबलविवेकः अष्टमोऽध्यायः ॥ शुभं भूयात् १. 'भू' ख. पाठः. २. 'यं' क. पाठः. ३. 'दाख्यम' ख. ग. घ. पाठः. ४. 'धूननं', ५. 'बोधाय' क. ख., 'भाभाय' ग. पाठः. ६. 'न्तु तम्' क. पाठः

Ranadipika

Author
Kumaraganaka
Other authors
K.sambasiva Sastri
Title
Ranadipika
File name
Ranadipika
Text
OCR done
Published
2006/06/10
Publisher
Governament Of Her Higness The Maharani Regnt Of Travancore
Language
Sanskrit
Pages
33
Library
Sringeri Sharada Peetham
Classification
Religions Of The Indian Subcontinent
DLI number
496533
Barcode
1990030083645.00
Scanning centre
Sringeri Sharada Peetham
Digital publisher
Sringeri Sharada Peetham
Rights
Not Avaailable
VMLT id
CPsgOTE6zG7
Download PDF

Ranadipika