Library

Shrii Madabhgavadagiitaa Grantha 44

Aapat'e Vinayaka Gand-esha · 2005-11-19

PDF Proofread

Front matter

UNIVERSAL
LIBRARY
OU_184027
LIBRARY
UNIVERSAL

No text on this page.

No text on this page.

आनन्दाश्रमसंस्कृतग्रन्थावलिः । ग्रन्थाङ्कः ४४ वेदव्यासप्रणीत महाभारतान्तर्गता श्रीमद्भगवद्गीता। श्रीमद्धनुमद्विरचितपशाचभाष्यसहिता । एतम्पुस्तकम् थे. शा. रा. “काशीनाथशास्त्री आगाशे" इत्यतः, तथा वे. शा. रा. "बाबाशास्त्री फडके" इत्येतैश्च संशोधितम् । तञ्च बी. ए. इत्युपपदधारिणा विनायक गणेश आपटे इत्यनेन पुण्याख्यपचने श्रीमन् ' महादेव चिमणाजी आपटे ' इत्यभिधेय- महाभागप्रतिष्ठापिते आनन्दाश्रममुद्रणालये आयसाक्षरमुद्रयित्वा प्रकाशितम् । - द्वितीयेयमनावृत्तिः। शालिवाहनशकाब्दाः १८५५ लिस्ताब्दाः १९३३ (अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः)। मूल सा! रूपकः (१०८) ।

No text on this page.

आदर्शपुस्तकोल्लेखपत्रिका। -:- अथास्य श्रीमद्धनुमद्विरचितपैशाचभाष्यसहितश्रीमद्भगवद्गीताग्रन्थस्य पुस्त- कानि यः परहितकपरतया संस्करणाथै प्रदचानि तेषां नामादीनि पुस्तकाना संबाब कृतज्ञतया प्रकाश्यन्ते- (क.) इति संज्ञितम्-समूलं पैशाचभाष्यं पूर्णम् , एनत्पुस्तकपानन्दाश्रमसंस्क- तग्रन्यसंग्रहालयस्थम् । (ख.) इति संज्ञितम्--केवलपैशाचभाष्यं पूर्णम्, एतत्पुस्तकं हत्वाग्रामनिवा- सिना रा० रा "गिरीन्द्रनायदत्तहत्वेकर" इत्येतेषाम् । (ग.) इति संज्ञितम्-केवलपैशाचभाष्यं पूर्णम्, एतत्पुस्तकं दक्षिणापरवर्ति- विद्यालयग्रन्यसंग्रहालयस्यम् । (घ.) इति संज्ञितम्- समूळ पैशाचभाष्यं पूर्णम्, एतत्पुस्तकं काशीक्षेत्रनिवा- सिनां वे० शा. रा. " पण्डितगोविन्ददास " इत्येवे. षाम् । (5.) इति संजित-समूलं पैशाचभाष्यं पूर्णम्, एतत्पुस्तकं पुण्यग्रामनिवा. सिनां रा० रा० रामरावदेशपाण्डे " इत्येतेषाम् । समाप्तेयमादर्शपुस्तकोल्लेखपत्रिका ।

No text on this page.

ॐ बत्सहमणे नमः। हनुमद्विरचितपैशाचभाष्यसहिता श्रीमद्भगवद्गीता। (तत्र प्रथमोऽध्यायः।) * सर्व रसं गूढरविद्धरासभो नागामरावेगरवि शमन्नरा । वेलासरस्तीरकराजहंसः श्लोकामृतं सप्तशतेन पूरितम् ॥ १ ॥ (= प्रपन्नपारिजाताय तोत्रवेत्रकपाणये । ज्ञानमुदाय कृष्णाय गीतामृतदुहे नमः ॥ २ ॥ करकमलनिदर्शितात्ममुद्रः परिकलितोन्नतबहिबर्हचूडः । x इतरकरगृहीतवेत्रतोत्रो मम हृदि संनिधिमातनोतु शौरिः ॥ ३ ॥ सारथ्मर्जुनस्याऽऽदी कुर्वगीतामृतं ददौ । लोकत्रयोपकाराय तम्मै कृष्णात्मने नमः ॥ ४ ॥ . * एतच्छलोकव्याख्या ख. पुस्तके टिप्पण्या वर्तते सा यथा- तनभगवानञ्जनीसूनुः श्रीभगवद्गीताभाष्यमारभमाणस्तदुद्भतस्वश्रद्धातिशयेन तदुत्कर्ष व्यजाति-सर्वमिति । अहं गूढर- विद्धरासभो वेलासरस्तीरकराजहंसोऽपि सप्तशतेन परितं श्लोकामृतमन्तरा सर्व रसमरावेगरवि शं नागामित्यन्वयः । तमनु पदन्याख्या-गूढं यथा भवति तथा रेणामिना लकादहनेनेति यावत् । विद्धः सरली( त्रासी )कृतो रासभो रावणो येन स तथा । वेलाविशिष्टं सरः समुद्रस्तत्तीरकराज. हसः । स च ( समुद्र ) पारावारगामी । ईदग्दुष्कृतकर्मणा प्रभुमाराधितवानपीति भावः। सप्तगु. णितं शतं तेन पूरितं तत्परिमित लोकाभिनममृतं भगवच्छ्रीकृष्णमुखनिर्गतमन्तरा विना सर्व रस- मानन्द[ मात्ररूप ]म् । एतस्यैवाऽऽन-दस्यान्यानि भूतानि मात्रामुपजीवन्ति ' इत्यादिश्रुतेः । अराणां तत्सदृशनाडीना वेगो यस्मात्तदभिन्नं रविम् । अत्र मूलं श्रुतिद्वयं यथा-'अरा इव रथनाभौ संहता, यत्र नाय. स एषोऽन्तश्चरते बहुधा जायमानः । सूर्यो यथ सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्वात्यदोषैः । एफस्तथा सर्वभूतान्तरारमा न लिप्यते लोकदुःखेन बाह्यः' । एलाश [शं] वेदान्तकवेयं सुत्र नागा न प्राप्तमनेन तु प्राप्तमतः परमोत्कृष्टमेतद्वयाख्यायत इति भावः । एतदर्थ व्यक्ष के नाम व्याख्यानं श्रीरामकृष्णविदुषा कृतम् ” । इति । अधिनान्तर्गतो प्रन्यो ग पुस्तके न स्ति । ४ इतरकरगृहीततोत्रवेत्र इति युक्तं पठितुम् । १३. य वेत्रत्रोत्र।

२ हनुमद्विरचितपैशाचभाष्यसहिता [अ०१श्लो०१] मलनिर्मोचनं पुंसां जलनानं दिने दिने । सकृद्गीताम्भसि स्नानं संसारमलनाशनम् ॥ ५ ॥ अकृत्यमपि कुर्वाणो भुञ्जानोऽपि यथा तथा । कदाचिन्नारकं दुःखं गीताध्यायी न पश्यति ॥१॥ वेदोदधिप्रमथितं वासुदेवसमुद्धृतम् । सन्तः पिबन्ति सततं गीतामृतरसायनम् ॥ ७ ॥ एक शास्त्रं देवकीपुत्रगीतमेको देवो देवकीपुत्र एव । एको मन्त्रो यानि नामानि तस्य कर्माप्येकं तस्य देवस्य सेवा ॥ ८ ॥ वन्दे कृष्णार्जुनौ वीरौ नरनारायणावुभौ । धार्तराष्ट्रकुलोन्मत्तगजारोहणवल्लभौ ॥ ९ ॥ अस्य श्रीभगवद्गीताशास्त्रमन्त्रस्य वेदव्याप्तो भगवानृषिः । प्रायेणानुष्टुप्छन्दः । श्रीकृष्णः परमात्मा देवता । अशोच्यानन्वशोचस्त्वमिति बीजम् । सर्वधर्मान्परित्य- ज्येति शक्तिः। ऊर्ध्वमूलमधःशाखमिति की रकम् । मम मोक्षाय जपे विनियोगः ।) कारणख्याति जगतां मा(ता)रणार्थमनागम(सा)म् । वारणाननमात्मानमद्वयं समुपास्महे ॥ १० ॥ प्रणम्य परमात्मानं विष्णुं जिष्णुं जगद्गुरुम् । परमात्मावबोधार्थ गीताव्याख्या मयोच्यते ॥ ११ ॥ अस्य संबन्धाभिधेयपयोजनान्युच्यन्ते । मोक्षस्तावत्प्रयोजनम् । स च गीता. शास्त्रप्रतिपादितात्परमार्थसंबोधादेवेति परमार्थस्वरूपमभिधेयम् । परमात्मस्वरूपा- वबोधस्यास्य च शास्त्रस्य साध्यसाधनलक्षणः संबन्ध इति विशिष्टप्रयोजन संबन्धाभिषे. यवद्गीताशास्त्रम् । अत्र चार्जुनस्य राज्यार्य शत्रु जिगीषोतराष्ट्रः सह युद्धं सं.. प्राप्तम् । तत्र सहायार्थ वृतेन भावता वासुदेवेन सह रथमारुह्य योद्धं युद्धमूर्ति प्रविष्टोऽर्जुन उभयोरपि सेनयोर्मध्ये योद्धं व्यवस्थितानाचार्यपितृपितामह पुत्रमित्रादी- दृष्ट्वैते मया हन्तव्या मदर्थं चैते मरिष्यन्तीति पर्यालोच्य शोकमोहाभिभूतचित्ततया बहु प्रलप्य न योत्स्य इत्युक्त्वा युद्धादुपरराम । एवमुपरताय तस्मै तदविद्यामूल- शोकमोहापनोदाय परमकारुणिको भगवान्मक्तवत्सलो वासुदेवो वेदान्तवाक्यैः समधि. गम्यं परमार्थतत्त्वमुपदिदेश । १ क. स. घ. श्रीविष्णुः । २ क. घ. ङ. °र्थे वि । ३ क. ग. घ. डा. 'रणं ख्या' ।४ प. 'गतामा । ५ छ, 'ममाग' । ६ घ, बोधेन गी । ५ स्व. ग. घ, ङ. 'सबन्धा !

३ [अ० १ श्लो १-२] श्रीमद्भगवद्गीता। ( *संतोषं च गुरुं वन्दे परं संवित्प्रदायकम् । शान्तिसिंहासनारूढमानन्दामृतभोगदम् ॥१॥ मूकं करोति वाचालं पहुं लङ्घयते गिरिम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ।। २ ॥ इह खलु सकललोकहितावतारः परमकारुणिको भगवान्देवकीनन्दनस्तत्त्वाज्ञा- नविजम्मितशोकमोहविभ्रंशितविवेकनया निजधर्मपरित्यागपरधर्मामिसंधिपरमर्जुनं धर्म- ज्ञानरहस्योपदेशलवेन तस्माच्छोकमोहसागरादुद्दधार । तमेव भगवदुपदिष्टमर्थं कृष्ण- द्वैपायना सप्तभि. श्लोकशतरुपनिवबन्ध । तत्र तावद्ध क्षेत्र इत्यादिना विषीदनि दमब्रवीदित्यन्तेन ग्रन्थेन श्रीकृष्णार्जुनसंवादप्रस्तावाय कथा निरूप्यते । ततः परमा समाप्तेस्तयोर्धर्मज्ञानार्थः संवादः । तत्र धर्मक्षेत्र इत्यनेन श्लोकेन धृतराष्ट्रेण हस्ति. नापुरस्थितं स्वसारथिं समीपस्थं संजयं प्रति कुरुक्षेत्रवृत्तान्ते पृष्टे संजयो हस्तिनापुर- स्थितोऽपि व्यासप्रसादालब्धदिव्यचक्षु. कुरुक्षेत्रवृत्तान्तं साक्षात्पश्यन्धृतराष्ट्राय निवे- दयामास दृष्ट्वा तु पाण्डवानीकमित्यादिना ।। धृतराष्ट्र उवाच- धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।। मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥ १ ॥ धर्मक्षेत्र इति । हे संजय मामका दुर्योधनादयश्चान्ये पाण्डवा युधिष्ठिरा- दयो युयुत्सवो योद्धकामा धर्मक्षेत्रे धर्मप्रसवभूमी कुरुक्षेत्रे समवेता मिलिताः सन्तः किमकुर्वत किं विदधुः ।। १ ॥ संजय उवाच- दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ २॥ दृष्ट्रति । तु पुनः । तथा तेषु मिलितेषु सत्सु सदुर्योधनोऽनेकवीरसमुदाये लब्ध. दीधि१ःखेन योधयितु(तुं)मशक्य आचार्य धनुर्वेदोपदेष्टारं द्रोणमुपगम्याऽऽधिक्येनाss- चार्यत्वकृतेन संगम्य सङ्गो (संगतो) भूत्वा वचनम[न]न्तरमब्रवीत् । किं कृत्वा पाण्ड. वानीकं [ब्यूढं] दृष्ट्वा । पाण्डवानों युधिष्ठिरादीनामनीकं सैन्यं व्यूढं सूचीब्यूहरचनया संपन्नं दृष्ट्वाऽवलोक्य ॥ २॥ * एतदादिद्वितीयाध्यायस्थदशमश्लोकव्याख्यासमाप्तिपर्यन्तं ख. पुस्तकेऽधिकम् । इदं च लोकार्थज्ञानोपयुक्तम्।

2 हनुमाद्विरचितपैशाचभाष्यसहिना- [भ०१०१-१] दुर्योधनो द्रोणं प्रति यद्वचाऽवोचत्तदेव नवमिः श्लोकः संजयो धृतराष्ट्रं प्रस्याह- पश्यैतां पाण्डुपुत्राणामाचार्य महली चमूम् ।। व्यूढां दूपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥ पश्यतामिति । हे आचार्यतां पाण्डुपुत्राणां महती साक्षौहिणीपरिमिता चमूं सेनां पश्य । कथंभूता तव शिष्येण द्रूपदपुत्रेण धृष्टद्युम्नेन धीमता तव शिष्यत्वेन सेनाव्यूढ(ह)विन्यासादिबुद्धिमता न्यूढां व्यह विन्यासेन स्थापिताम् | तव शिष्ये- ति तवापि पाण्डवसेनायां कश्चिदनुरागोऽम्तीति कौटिल्यवचनं दुर्योधनस्येति । [पाण्डुपुत्राणामिति] पाण्डुः पाण्डुधर्मा तत्पुत्रा जारपुत्रा इत्यभिपाय(य) वचनं दुर्योधनस्य ॥ ३॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥ अति । अत्रास्णं चम्वाम् । अमी शूराः शौर्येण शत्रुधर्मणोपेता महेष्वासा इषवो बाणा अस्यन्तै यस्तानि धषि महान्ति येषां ते महेष्वासाः । कथंभूताः, युधि संग्रामे भीमार्जुनसमाः । मी(भिया) भयेन मीयत इति चकितैरेव विदा(वारा)-तरे. विलोक्यत इति भीमः । अर्जुनः पशुपतिसंग्रामोपार्जितयशोषिभूतिभिरर्जुनं पाण्डुरं संपादितं विश्वं येन सोऽयमर्जुनः। ताम्यां समास्तुल्या. । युयुधानो वीरकरैरेव मिश्री- भावेन युद्धाविष्टो युध मिश्रणं इति धातुपाठात् । विराटो विनतो विपक्षमूतो [वा] राट्, राजा यस्य शत्रुमूदनस्य स विराटः, द्रुपदो द्रुववृक्षवत्संग्रामे निश्चलो(ले)पा. दौ(पदे) यस्य स द्रुपदः । महारथः, प्रत्येकं महारथ वविशेषणम् । युयुधानो महारथ इत्यादि ॥४॥ धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।। पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥ ४ ॥ धृष्टेति । धृष्टकेतधृष्टः प्रगल्भः शत्रुविनाशनः केतुश्चिहूं ध्वजादियस्य धृष्टानां रणे प्रगल्भानां केतुर्विनाशक इति वा धृष्टकेतुः । चेकितानः संग्रामे कुशलः । काशि- राजः । काशो ब्रह्मतत्त्वप्रकाशो यस्यां निवसतां सुलभः सा काशी तस्या राजा काशिराजो पैरी(र)पुरविजयी, शैब्यः संग्रामविजयी संग्रामविनगाहः ॥ ५ ॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ॥ सौभद्रो द्रौपदेयाश्च सर्व एव महारया: ॥ ६ ॥ युधामन्युरिति । युधामन्युश्च परं विक्रान्तो वीर्यवानुत्तमामा सौभरच परं झोप. देवा द्रौपद्यास्तनयाः प्रतिविन्ध्यादय एते सर्वे महारथाः। एते च महा[य] युद्धोक्स- वायाऽऽसमन्तायाः शस्त्रास्त्र[प्रभूता येषां ते महारथाः । .. - ते

[भ०१ श्लो०७-१०] श्रीमद्भगवद्गीता।
"एको दश सहस्राणि योधयेद्यस्तु धन्विनः ।
अस्त्रशस्त्र वीणश्च महारथ इति स्मृतः ॥
अमितान्योधयेद्यन्तु संप्रोक्तोऽतिरथस्तु सः ।
रथी त्वेकेन यो युध्येत्तन्यूनोऽर्धरयो मतः" इति ॥ ९ ॥
अस्माकं तु विशिष्टा ये तानिबोध द्विजोत्तम ॥
नायका मम सैन्यस्य संज्ञार्थ तान्ब्रवीमि ते ॥ ७॥
अस्माकमिति । हे द्विमोत्तम तु पुनर्येऽस्माकं धार्तराष्ट्राणां विशिष्टाः पाण्डव.
सेनावीरेभ्योऽपि श्रेष्ठास्तान्निबोधावधारय । मम सैन्यस्य नायका जेतारस्तांस्ते तम्य
संज्ञार्थं ब्रवीमि ॥७॥
भवान्भीष्मश्च कर्णश्च कृपश्च समितिजयः॥
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥८॥
भवानिति । भवास्त्वमेव तावत्पश्य तव युद्धकौशल्योपदेशेन भगवान्पशुपतिरर्जु.
नेन निर्जितः स त्वम् । भीष्मः सकलक्षत्रियकुलकालनात्रिवक्राद्यु, योधलीलावतार.
परशुरामस्यापि रणे मयंक रत्वादीष्मः । कणों वैरिणां कर्तन करत्वाकर्णः । कपा
शत्रुहिंसनशीलः कृधातु हिँसार्थः । अश्वत्थामा । अश्नुते व्याप्नोति तदेतादृशं स्था]म
वस्तं (लं)यस्य सः । यद्वा । अनाति वैरिणो भक्षयति [येन तादृशं स्थाम बलं
यस्य सः ] अश्वत्थामा । स किल लोकोपसंहारदक्षस्य दाक्षायणीपतेलीलावतारो
यस्मात् । विकर्णः । यस्यासमवारसंग्रामोपार्जितकीर्तिमञ्जरीवन(ण)नायां प्रत्यर्चि.
(र्थि) भताः पार्थिवा विगतकर्णा बधिरा इवोद्विजन्तो मवन्तीति विकर्णः । पार्वती.
पतिदत्तवरः सौमदत्तिः । तथैव च वयं (यथा) भवान्भीष्मश्च त्रैलोक्यपरानयक्षमा
तथैव चेतरेऽभीत्यर्थः ॥ ८ ॥
अन्ये च बहवः शूरा पदर्थे त्यक्तजीविताः ॥
नानाशस्त्रपहरणाः सर्वे युद्धविशारदाः ॥९॥
अन्ये चेति । अन्येऽपरे सहायत्वेन समाह(ग)ता मगदत्तशल्यप्रभृतयो बहवः शूरा
मदर्थं मम विजयसाधनार्थ त्यक्तं जीवितं यस्ते सर्वे युद्धविशारदा युद्धकुशलाः ॥९॥
सैन्यद्वयपरिकल्पनप्रयोजनमाह-
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्त विदमेसेषां बलं भीमाभिरक्षितम् ॥ १० ॥
अपर्याप्तमिति । तदिति तत्तथाभूतवीरेर्युकमपि भीष्मेणाभितो रक्षितमप्यस्माकं
बलं सन्यमपर्याप्त तेः सह योद्धुमसमर्थ भाति । इदं त्वेषां पाण्डवानां बलं भीमेना-
भितो रक्षितं सत्पर्या समर्थ माति ॥ १० ॥

६ - हनुपरिचितपैशाचभाष्यसहिता- [अ० १ श्लो०११-१५] भीष्मस्योमयपक्षपातित्वादस्मद्दलं पाण्डवसैन्यं प्रत्यसमर्थ भीमस्यकपक्षपातित्वादे. तहलमस्मद्दलं प्रति समर्थ तस्माद्भवद्भिरेवं वर्तितव्यमित्याह- अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥ अयनेविति । अयनेषु व्यूहप्रवेशमार्गेषु यथाभागं विभक्तां स्वां रणभूमि परि. त्यज्यावस्थिताः सन्तो भीष्ममेवामितो रक्षन्तु । यथा तुल्यैर्युध्यमानः पृष्ठतः कैश्चिन्न हन्येत तथा रक्षन्तु । भीष्मबलेनैवास्माकं जीवनमिति भावः ॥ ११ ॥ द्रोणं प्रति राज्ञा भीष्मस्य * च बहुमानपुरःसरं यदुक्तं तच्छ्रुत्वा भीष्मः किम- करोत्तदाह- तस्य संजनयन्हर्ष कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्ख दध्मौ प्रतापवान् ॥ १२ ॥ तस्यति । कुरुवृद्धः पितामहो भीष्मस्तस्य राज्ञो दुर्योधनस्य हर्ष प्रीतिं संज- नयन्नुच्चैर्महान्तं सिंहनादं [ विनद्य ] कृत्वा शङ्ख दध्मो वादितवान् ॥ १२ ॥ तदेवं सेनापतेष्मिस्य युद्धोत्सवमालक्ष्य सर्वतो युद्धोत्सवः प्रवृत्त इत्याह- ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥ तत इति । ततो भीष्मस्य शङ्खपूरणानन्तरम् । शङ्खाश्च परं भेर्यः पणवान. कगोमुखाः । पणवा आनका गोमुखा वाद्यविशेषाः सहसैव तत्क्षणमेवाभ्यहन्यन्त वादिताः । स च शङ्खादिशब्दस्तुमुलो महानभवत् ॥ १३ ॥ ततः पाण्डवसेन्ये प्रवृत्तं युद्धोत्सवमाह तत इति पञ्चभिः- तंत: श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थिती । माधवः पाण्डवाश्चैव दिव्यौ शङ्ख प्रदध्मतुः ॥ १४ ॥ ततो दुर्योधनस्य सैन्ये वाद्यकोलाहलानन्तरम् । श्वेतैः शुक्लैः कैलासाचलकरुपैः परसेन्योत्कर्षतनूकरणसामर्थ्यवद्भिः, हयैः । अतिवेगातिरेकात्स्वभावतो वा ह आकाशे यान्तीति हया विशिष्टा अश्वास्तैर्युक्त संयोजिते महत्यादित्यमण्डलकल्पे पुज्ये स्यन्दने संग्रामभूमिप्रद्रवणशीले रथवरे स्थिती वर्तमानौ । माधवः । मा लक्ष्मीस्तस्या धवः पतिमाधवः कृष्णः, पाण्डवोऽर्जुनश्चापि । दिव्यौ । दिवि भवौ शङ्खौ प्रदध्मतुः । प्रकर्षेण परकीयवाद्यकोलाहलाभिभवसंपादनेन दध्मतुः आपूरितवन्तौ ॥ १४ ॥ चोऽधिक इव भाति।

७ [अ०१-श्लो०१५-१९] श्रीमद्भगवद्वीता। तदेव विभागेन प्रदर्शयन्नाह- पाश्चजन्यं हृषीकेशो देवदत्तं धनंजयः । पौण्डूं दध्मौ महाशङ्ख भीमकर्मा तृकोदरः ॥१५॥ पाश्चजन्यमिति । हृषीकरणामिन्द्रियाणामीशोऽधिष्ठाता लीलागृहीतदेहो मगवा- विष्णुः । [ पाञ्चजन्यं ] पञ्चनना यदैत्यदेहोद्भवं धनंजयो देवदत्तं वृकोदरो भीम घोरं कर्म यस्य सः [ भीमकर्मा ] । महाशङ्ख पौण्डूं दध्मी । आपूरितवान् ॥१५॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पको ॥ १६ ॥ अनन्तविजयमित्यादियुग्मं पूर्वश्लोकक्रियया संबध्यते । अनन्तति । कुन्तीपुत्रो युधिष्ठिरो राजा पाण्डवानां स्वामी, अनन्तविजयं महाशङ्ख दध्मौ । यस्य पूरणा- दनन्तः सततं विजयो भवतीत्यनन्तविजयः । नकुलः सहदेवश्चोभी सुघोषमाणिपु. पको । नकुलः सुघोष नाम शङ्ख दध्मौ । सहदेवो मणिपुष्पकं च ॥ १६ ॥ काश्यश्च परमेष्वासः शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकिश्वापराजितः ॥ १७ ॥ काइयश्चेति । च परं काश्यः काशिराजः परमेष्वासः । परम उत्कृष्ट इष्वासो धनुर्यस्य सः । च पुनः शिखण्डी महारथः शिखण्डवान्सकलसुरा[ सुरा जेय- भीष्मवधार्थमुत्पन्नः पौरुषेयशिखायुक्तश्च परं धृष्टद्युम्नो विराटः सात्यकिः स एवापराजितोऽजेयः । एते . सर्व पृथक्पृथक्शङ्खान्दधमुर्वादयामासुरिति परेण संबन्धः ॥ १७ ॥ द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक् पृथक् ॥ १८ ॥ द्रुपद इति । हे पृथिवीपते द्रुपदश्च परं द्रौपदेया द्रौपदीपुत्राश्च परं महाबाहुः सौभद्रः । एते स प्रत्येकं शङ्खान्दध्मुः ॥ १८ ॥ तस्य शङ्खनादस्य धार्तराष्ट्रान्प्रति x जयभयननकत्वमाह स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयन् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १९ ॥ स घोष इति । स तुमुलो घोरः पाण्डवसेनापतीनां शङ्ख दिजनितो घोषो धार्त- राष्ट्राणां हृदयानि व्यदारयत् । किं कुर्वन् । नभ आकाशं पृथिवीं च व्यनुनादयन्म- तिशब्दं (ब्द)। युक्तं ) कारयन् ॥ १९ ।। x जयेत्यधिकम् ।

हेनुमद्विरचितपैशाचभाष्यसहिता- ०१.०२०-२५]
तस्मिन्समये श्रीकृष्णं प्रत्यर्जुनेन यदुक्तं तच्चनर्मिः श्लोकैः संजय आह-
अय व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसंपावे धनुरुद्यम्य पाण्डवः ॥ २० ॥
अथेति । मय शङ्खपूरणानन्तरम् । कपिध्वजः पाण्डवो व्यवस्थिताविशेषणाव-
स्थितास्वरङ्खनादाद्धोरतरादप्यपारवस्तान्धार्तराष्ट्रान्दृष्ट्वा शत्रपात उत्तमाहवस्थले
च वार्तराष्ट्राणां प्रवृत्ते सति धनुरुद्यम्य सज्नीकृत्य हृषीकेशं प्रति वाक्यमाहेति
द्वितीयेनान्वयः ॥ २०॥
हृषीकेशं तदा वाक्यमिदमाह महीपते ।
अर्जुन उवाच-
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥
हषीकेशमिति । हे महीपते तदा हृषीकेशमिदं वाक्यमाह । हेऽन्युन मे मम
रथमुभयोः सेनयोर्मध्ये मध्यादेशे स्थापय ॥ २१ ॥
यावदेतानिरीक्षेऽहं योद्धकामानवस्थितान् ।
कर्मया सह योदव्यमस्मिरणसमुयमे ॥ २२ ॥
यावदिति । अहं यावदेतान्प्राधान्यांद्वीरान्यो कामानवस्थितानिरीक्षे निरीक्षण-
पूर्व परीक्षा करोमि । अस्मिन्रणसमुद्यमे मया कैः सह योद्रव्यं युद्धं कर्तव्यमि-
त्यर्थः ॥ २२ ॥
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ॥
धार्तराष्ट्रस्य दुर्बुदेयुद्धे पियचिकीर्षवः ।। २३ ॥
योत्स्यमानानिति । अहं योत्स्यमानानने युद्ध करिष्यमाणानवेसे निर्धारयामि
य एतेऽत्र मम च पुनस्तव समागमे दुर्बुद्धेरविचारिणो धार्तराष्ट्र य दुर्योधनस्य युद्धे
युद्धस्थले प्रियचिकीर्षवः प्रिय विनयं कर्तुकामाः समागताः प्रागल्भ्यातिरेकेण सम्प-
गिरचितसमारम्भेण ऽऽता अविचारकारिण इत्यर्थः ॥ २३ ॥
ततः किं वृत्तमित्यपेक्षायामाह, एवमिति युग्मेन-
संजय उवाच-
एवमुक्तो हपीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रयोतमम् ॥ २४ ।।
हे भारत धृतराष्ट्र गुडाकेशेन जुनेनैवं यथावर्णितमुक्तो हृषीकेश उभयोः सेनयो-
मध्ये रथोत्तम स्थापयित्वोवाच ॥ २४ ॥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्येतान्समवेताकुरूनिति ॥ २५ ॥

९
[१०१-लो०११-२९] श्रीमद्भगवद्वीता
भीष्यति । भीष्मद्रोणयोः प्रमुखेऽये तथा सर्वेषां च महीक्षितां भूमण्डलाध्यक्षयो-
धवराणामन इत्युवाच । इतीति किम् । हे पार्थतान्समवेतानस्य (!) द्रष्टुमङ्गुच्या
निर्दिशति । भीष्मद्रोणकर्णकृपादीन्कुरूनवस्थितान्योधान्पश्येति मगवानुवाच ॥२५॥
ततः किं वृत्तमित्यत आह-
तत्रापश्यस्थितान्पार्थः पितृनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातृ-पुत्रान्पोत्रान्सखींस्तथा ।
श्वशुरान्सुहदक्षेत्र सेनयोरुभयोरपि ॥ २६ ॥
तोति । अयानन्तरम् । पार्थोऽर्जुनः । तत्रोभयोः [सेनयोः] स्थितान्पितनियन्ति
चुम्बन्ति लालयन्ति. पर्य(तर्प)यन्त्यपत्यानीति पितरस्तान्पितन् । अत्र च पितृकक्ष्याः
पितृव्यादयः [संग्रामाः] । पितामहान्गाङ्गेयादीन् । आचार्यान्द्रोणादीन् । मातुलान्,
मात्रा जनन्या साम्यं येषां ते मातुलाः शल्यादयस्तान् । भ्रातरसोदरान् । पुत्रान्पुना.
नो नरकास्पितणां त्राणात्पुत्रास्तानपश्यत् । श्वशुरानिति । च पुनः श्वशुरान्मुहदश्वा-
पश्यत् ॥ २६॥
ततः किं कृतवांस्तदाह-
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ।
कृपया परयाऽऽविष्टो विषीदभिदमब्रवीत् ॥ २७ ॥
तानिति । स कौन्तेयोऽर्जुनः सर्वान्विशेषेण बन्धून् । बध्नन्ति परस्परं स्नेहपाशै.
रिति बन्धवस्तानवस्थितान्समीक्ष्य । कृपयेति । कृपया करुणया । परयाऽतिशयि.
तपाऽऽविष्टो युक्तो विषीदन्विशेषेण सीदन्नवसादं ग्लानि लभमान इदमनन्तरमुच्यमान-
मनापीत् ॥ २७ ॥
किमब्रवीदित्यपेक्षायामाह ट्वेममित्यादिना यावदध्याय समाप्ति -
अर्जुन उवाच-
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥ २८ ।।
हे कृष्ण, मकानां संसारक्लेशविलेखनात्कृष्णः । इमं स्वननं युयुत्सुं योबुकामं सन्त
समुपस्थितमिहाऽऽगतं दृष्ट्वा मम गात्राणि सीदन्तीत्युत्तरेण संबन्धः । सीदन्तीति।
हे कृष्ण, इमं स्वननामुपस्थितं दृष्ट्वा मम गात्राण्यङ्गानि सीदन्ति विशीर्णानि
शिपिलानि निरुत्साहानि भवन्ति । च पुनर्मुखं परितः समन्ताच्छुष्यति निर्दवी
भवति ॥२८॥
वेपघुश्च शरीरे मे रोमहर्षश्च जायते ।
गाण्डीवं संसते हस्तात्वक्चैव परिदयते ॥ २९ ॥

मे १० हनुमंदिरचितपशाचभाष्यसहिता [भ०१-लो०१०-१५] मम शरीरे वेपथुः कम्पश्च जायते । तथा रोमहर्षश्च जायते । गाण्डीवामिति । मे मम हस्तादाण्डीवं वंसतेऽधः पतति । स्वक्चैव परिदयते । आन्तरशोकानलेन संतप्यते ॥ २९॥ न च शक्रोम्यवस्थातुं भ्रमतीव च मे मनः ॥ निमित्तानि च पश्यामि विपरीतानि केशव ॥३०॥ च परं मे मनः कर्तव्याकर्तव्यबोधसाधनमन्तःकरणं भ्रमतीव भ्रमं गच्छति निर्धा- रणं क न शक्नोति । व पुनरवस्थातुं स्थिति कर्तुं न शक्नोमि । निमित्तानीति । हे केशव, च पुनविपरीतान्यहितसूचकानि निमित्तानि शकुनानि पश्यामि ॥ ३० ॥ न च श्रेयो नु पश्यामि हत्वा स्वजनमाहवे। न काङ्क्ष विजयं कुष्ण न च राज्यं सुखानि च ॥ ३१ ॥ किं नो राज्येन गोविन्द किं भांगै वितेन वा ॥ ३२ ॥ च पुनः । हे कृष्णाहं विजयं विशिष्टं जयं संग्रामोत्कर्ष न काक्ष न प्रार्थये , च पुना राज्यमाधिपत्यं सुखानि च विषयजन्याप्रमोदान प्रार्थये । हे गोविन्द, नोड. स्माकं राजगेन किं, मोगेविषयसुखैः किं, जीवितेनापि किम् । गोमिः श्रुतिभिर्वेदान्त- वाक्यविद्यते परमार्थरूपेण लभ्यत इति गोविन्दः ।। ३१ ॥ ३२ ।। येषामथे क इक्षितं नो राज्यं भोगाः मुखानि च । त इमेऽव स्थता युद्ध प्राणांस्त्यकन्या धनानि च ॥ ३३ ॥ वेषामर्थ इति । येषां स्वजनानामय प्रयोजनाय नोऽस्माकं राज्यं मोगाश्च पुन: सुखान्येतत्सर्व काक्षितं वाञ्छिनं त इमे युद्धे युद्धनिमित्तं प्राणानान्तरमाणान्धनानि बाबपाणांश्च त्यक्त्वाऽवस्थिताः ॥ ३१ । आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः याला संबन्धिनस्तथा ॥ ३४॥ आचार्या इति । आचार्यादयो यथाव्याख्याताः । पितरः पुत्रास्तथा पितामहा मातुलाः श्वशुराः पौत्रा: इयालाः पत्न्या भ्रातरः । स्वस्य संबन्धिनो विवाहादिसंबन्ध वन्तः ॥ ३४ ॥ यदि कृपया त्वमेतान हन्यास्तहि त्वामेते राज्यलोभेन हनिष्यन्त्येवातस्त्वमेवेता. नहत्वा राज्यं मुक्ष्व तत्राऽऽह सार्धन- एतान हन्तुमिच्छामि ननोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकते। निहस्य परिराष्ट्रामा का प्रीतिः स्याज्जनार्दन । ३५ ।। :

। .. [अ०१ श्लो०३१-३८] श्रीमद्भगवद्गीता। एतानिति । हे मधुसूदनैतानाचार्यादीनतोऽप्यस्मा घातयतोऽपि त्रैलोक्यराज्य. स्यापि हेतोस्तत्माप्त्यर्थमपि हन्तुं नेच्छामि । किं पुनर्महीमात्रप्राप्त्यर्थम् । निहस्येति । हे जनार्दन, देवविपक्षभूतानसुरादीञ्जनानर्दयति पीडयतीति जनार्दनः । अथवा जने. रधिकारिपुरुषैरभ्युदयादिकं प्रार्थ्यत इति जनार्दनः । धार्तराष्ट्रानिहत्य हत्या मोs- स्माकं का प्रीतिः स्यारिक सुखं स्यान्न किमपीत्यर्थः ॥ ३५ ।। नन्वाततायिनामेषां वधो युक्तो विहितत्वात्तथा चोक्तम्- अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहर्ता च षडेते आततायिनः ॥ इति । स्मरणा( तस्मा )दग्निदत्वादिभिः षड्भिरपि हेतुभिरेते भात आततायिनः । आततायिनां वधो युक्त एव । आततायिनमायान्तं हल्यादेवाविच रयन् । नाऽऽततायिवधे दोषो हन्तुति कश्चन ।। इति वचनातत्राऽऽह सान- पापमेवाश्रयेदसान्दत्वैतान ततायिनः ।। ३६ ।। तस्माना वयं हन्तुं धार्तराष्ट्रान्साबान्धवान् । जनं हि कयं हत्वा सुखिनः स्याम माधव ॥ ३७॥ पापमिति । आततायिनमायान्तमित्यादिकपर्यशास्त्रं हि तच्च धर्मशास्त्रादुर्वकम् । यथोकं याज्ञवल्क्येन- स्मृत्योविरोधे न्यायस्तु बल मान्यवहारतः । भर्यशास्त्राच बलाद्धर्मशास्त्रमिति [ स्थितम् ] ॥ स ( त ) स्मादाततायिनां मध्ये तेषामाच र्यादीना वधेऽमा पापमेव भवेत् । अन्याय्यत्वादधर्मत्वाच्च तद्वधस्य । हे माधन, हि यस्मादेतेषा हनने लोकद्वयक. ल्याणमेव तस्मात्स्वान्धवान्धात राष्ट्र नहन्तुं वा नाहीं न यो । एतेषां वस्यान्या- रयत्वादधर्मत्वाच्च . न केवलमस्माकं पारलौकिक सुखं न भवत्यहिकमपि न माती- त्याह---स्वजनं हीति । ह यस्मात्पन ह वा वयं सुखिनः कथं स्याम कर सुखयुक्ता भवाम ॥ ३१ ॥ ३ ॥ ननु तेषामपि ब धुधदोषे समाने सति ययैवैते बन्धुवानीकारेग युद्धे प्रव- सन्ते तथैव भवानपि प्रवर्ततां किमनेन विषादेनेत्याक्षितपविकिवकिभेदेन परि- हरति- यद्यप्यते न पश्यन्ति लोभोपातचेतसः । कुलक्षयनं दोषं मित्रद्रोहे च पातकम् ॥३८ ।।

.. ११ हनुपविरचितपैशाचपाण्यसहिता- [.१.११-१५] अपवीति । हे कृष्ण, यद्यप्येते धार्तराष्ट्रा लोमोपहतचेतसः । [] परद्र. व्यायमिछावः । लुनाति नाशयति लोकद्वयं प्राणिनामिति लोमस्तेनोपहतसाहिए- शासकर्तव्याकर्तव्यविवेकविज्ञानाः सन्तः कुक्षयकृतं गोत्रवधानिमितदो मिनद्रोह नपातकं न पश्यन्ति ॥ ३८॥ कथं न ज्ञेयमस्माभिः पापादस्माभिवर्तितम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥ कथमिति । हे जनार्दन, तथाऽप्यस्माभिः कुलक्षयकृतं दोष प्रपश्यनिरस्मात्पा- पानिवर्तित कथं न ज्ञेयम् । कथं न यस्नः कर्तव्यः ॥ ३९ ॥ कुलक्षये कृते दोष उत्पद्यते तं दोषं कथयति- कुलक्षये प्रणश्यन्ति कुळधर्माः सनातनाः । धर्म नष्टे कुलं कृत्स्नमधोऽभिभवत्युव ॥ ४० ॥ कुलक्षय इति । कुलक्षये गोत्रपुरुषाणां विनाशे सनातनाः पारमर्यागताविर- तमा कुलधर्माः प्रणश्यन्ति । धर्मे नष्ठे कृत्स्नमपि कुलमधोऽभिभवति तिरस्करोति । उतापि । अधर्मामिभवमिवारकधर्मस्यामावादित्यर्थः ॥ १०॥ अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दृष्टासु वाणेय जायते वर्णसंकरः ॥ ११ ॥ अधर्माता हे कृष्णाधर्माभिभवात्कुलत्रियो विशुद्धवंशोद्भवाः प्रदुष्यन्ति स्वैरियो भवन्ति । तासु स्त्री दुष्टासु वाष्णेय वृष्णिशोद्भव, वर्णसंकरो जायते। वर्णस्य वर्णा- म्तरमिश्रीकरणं संकरः ॥ ११ ॥ संकरो नरकायैव कुलमानां कुलस्य च । पतन्ति पितरो श्रेषां लुप्तपिण्डोदकक्रिया: ॥ ४२ ॥ संकर इति । (संकराज्जायतेति ) संकर एषां कुलनानां चापरं कुलस्येव भरकाय भवतीति । हि यस्मादेषां कुलघ्नाना कुलहन्तृणाम् । न केवलं तेषां कुलस्य- व नरकाय भवति, कित्वेषां कुलप्नानां स्वर्गारूढाः पितरो लुपिण्डोदकक्रिया: सन्तः पतन्तीत्यर्थः ॥ १२॥ उक्तदोषमुपसंहरति दोपैरिति द्वाभ्याम् - पर कुलघ्नानां वर्णसंकरकारकैः । उत्सायन्ते जातिधर्षाः कुलधर्माश्च शाश्वताः ।। ४३ ॥ एतर्मनाशाधर्माभिभवादिलक्षणवर्णसकरकारकैदोषः कुलमानां नातिधर्माः क्षत्रि. * धनुश्विनान्तर्गतमधिकंमिव भाति।

(Mot.1-10] श्रीमद्भगवदीना। " पापमुक्ता धर्मास्तथा शाश्वताः कुलधर्माः पारम्पर्यागना पक्षपायोसायने लुप्यन्ते । तेमामाचरणं न भवति । चकासदाश्रमधर्मादयो गृहान्ते ॥ ५॥ उत्सबकुलधर्माणां मनुष्यानां जनार्दन । नरके नियत वासो भवतीत्यनुशुश्रुम ॥ ४४ ।। उत्सति । भो जनार्दन, उत्सन्नकुलधर्माणां विनष्टकुलवर्णाश्रमादिधर्माणां मनु- ज्याणां नरके नियतं नियमेन वासो भवतीत्यनु वारंवारं व्यासादिभ्यः शुश्रुम श्रुत. वन्तो वयम् ॥ ४॥ बन्धुवधाध्यवसायेन संतप्यमानतयाऽऽह- अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखळोमेम हन्तुं स्वजनमुपसा ॥४५॥ अहो बतेति । अहो गत कई यस्परमेश्वरस्य तव संनिधानेऽपि वयं महत्पाप कर्तुं व्यवसिता व्यवसायं निश्चयं गताः । किं तन्महत्पापं कर्तुम् । यदाज्यमुनोभेन स्वजनं हन्तुमुद्यताः । उदतिशयेन यत्नवन्तो यताः ॥ १५ ॥ एवं संतमो मृत्युमेवाऽऽशासानोऽर्जुन आह- यदि मामपतीकरमशस्त्रं खपाणयः। धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेपतरं भवेत् ॥ ४६ ॥ यदीति । यदि शत्रपाणयो धार्तराष्ट्रा अप्रतीकारं प्रतियुद्धमकुर्वाणं मामशवं रणे संग्रामे हन्युर्हनिष्यन्ति चेत्तर्हि तद्धननं मे मम क्षेमतरं पापस्यानुत्पत्तेदारस्य. न्वं हिततरं मोत् ॥ ११ ॥ ततः किं वृत्तमित्यपेक्षायामाह-- संजय उवाच- पवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविनमानसः ॥४७॥ इति श्रीमहाभारते शतसाहया सहितायां वैपासक्या भीष्मपर्वणि श्रीमद्भगवद्रीवासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु- नसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १॥ एवमिति । अर्जुन एवमुक्त्वा संख्ये संग्रामे रथोपस्थे रयस्योपर्युगवितात, १४ हनुपद्विरचितपैशाचमाष्यसहिना- [अ०२ श्लो. १-३] उपविवेश। किं कृत्वा सशरं शरेण वाणेन सह वर्तमानं धनुर्विज्य । शोकसविन- मानसः शोकेन संविग्न मानसं यस्य स एवंविधः सन्नुपविष्ट इत्यर्थः ॥ १७ ॥ इति श्रीमद्भनुमद्विरचिते पैशाचभाष्यनामके श्रीमद्भगवद्गीताब्याख्याने प्रथमोऽध्यायः ॥ १ ॥ अथ द्वितीयोऽध्यायः। . ततः किं वृत्तमित्यपेक्षा यामाह- संजय उवाच- तं तथा कृपयाऽऽविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥ समिति । मधुसूदनः श्रीकृष्णस्तमर्नुन तथा तेन प्रकारेग कृपयाऽऽविष्टमश्र. र्णाकुलेक्षणं विषीदन्तं पूर्वोक्तप्रकारेण विषादं प्राप्तवन्तं प्रतीदं वक्ष्यमाणमुवाच ।। १ ।। तदेव वाक्यं दर्शयति कुत इति द्वाम्पाम्- श्रीभगवानुवाच- कुतस्त्वा कपलमिदं विषमे सपुपस्थितम् । अनार्यजुष्टपस्वयंपकीर्तिकरमणुन ।। २ ।। हेऽर्जुनेदं केश्मलं मोहकलु विषमे संकटे त्वां कुतो हेतोः समुपस्थितमनार्यजु. मायरसेवितमस्वार्थ स्वर्गस्यासाधनमकीर्तिकरमयशस्करम् ॥ २॥ तस्मायत्कर्तव्यं तदाह- क्लैन्यं मा स्म गमः पार्थ नैतत्पशुपपयो । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥ ३ ॥ लैव्यमिति । हे पार्थ, क्लेयं मा स्म गमः कातय मा प्राप्नुहि । त्वयि विषम एतनोपपद्यते युक्तं न भवति । है परंतप, क्षुद्रं तुच्छं हृदयदौर्बल्यं कातर्य त्यक्त्वो. तिष्ठ ॥ ३ ॥ भहं न कातरतया युद्धादुपरतोऽस्मि किंतु युद्धम्यान्यास्यत्वादिति [ प्रतिवच. ममाह - [१०१ श्लो०५-१] श्रीमद्भगवद्गीता । १५ अर्जुन उवाच- कथं भीष्यमहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजाविरिसूदन ।। ४ ॥ कथमिति । हेऽरिसूदनाहं संग्रामे भीष्मं च पुनोगमिषुभिः कथं योत्स्यामि । यौ भीष्मद्रोणौ प्रति वाचाऽपि योत्स्यामीति वक्तुमनुचितं ताविषुमिः कथं योत्स्यामी. त्यर्थः । यतस्तौ पूजाहीं ॥ ४ ॥ तहि तव स्थितिरपि न स्यादिति चेत्तत्राऽऽह- गुरून हत्वा हि महानुभावा- श्रयो भोक्तं भेक्षमपीह लोके ।। इत्वाऽर्थकामांस्तु गुरूनिव मुञ्जीय भोगाधिरमदिग्धान् ॥ ५ ॥ गुरूनिति । हि यम्माद्गुरूनहत्वा । गुरवः शास्त्रोपदेष्टारो मुख्यवृत्त्या । प्राकृतः संस्कृतश्चैव गद्यपद्याक्षरैस्तथा । देशमाषादिभिः शिष्यं बोधयेत्स गुरुः स्मृतः ।। इत्युक्तत्वादन्येऽपि तत्तुल्या जनकादयस्तेऽपि गुरवस्तान्महानुभावान्द्रोणादीन्गुरू. महत्त्वा परलोकविरुद्धं गुरुवधमकृत्वेह लोके भक्ष्यं(ख) भिक्षामात्रमपि मोक्तुं श्रेय उचितम् । न केवलं परत्र दुःखमिहापि नरकदुःखमनुभवितव्यमित्याह-हत्येति । पुनरर्थकामानर्था(थोंs मिलःषस्तत्परान्नाऽऽप्तकामान्गुरून्हत्वेहास्मिन्नेव शरीरे गुरूणां रुधिरेण प्रदिग्धान्प्रकर्षेण लिप्तान्मरणानन्तरं नरके मोक्तव्यान्भोगाजीवन्नेवाई कथं मुन्नीय मेक्ष्यिामात्यर्थः ॥ ५ ॥ किंच यद्यधर्ममप्यङ्गी करिष्यामस्तथाऽप्यस्माकं जयः परानयो वा भवेदिति न ज्ञायते । अपि च तयोः कतरच्छेयः, [ इत्याह ]- न चैतद्वियः कतरनो गरीयो यदा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम. स्तेऽवस्थिताः प्रमुख धार्तराष्ट्राः ॥ ६ ॥ न चेतदिति । च पुनरेतद्वयं न विद्मो न जानामि(नीमः), नोऽस्माकं कतरकिं नाम गुरूणां हननं वाऽइननं गरीयः किमधिकतरं भविष्यतीति न विद्मः । यदेता- स्वयं जयेम जेव्यामो यदि वा नोऽस्मानेव ते जयेयुर्नेष्यन्तीति न विभः । किंचा- स्माकं जयोऽपि फलतः पराजय एवेत्याह- यानेवेति । किंच नयपक्षेऽपि जय- प्रवृत्तिरस्माकं न युक्का, यस्मायानेव धार्तरराष्ट्रान्हत्वा वयं न निमीविषामो न तु

११
हनुमद्विरचितपैशाचभाग्यसहिता- [अ०१ लो० ७-९]
जीवितुमिच्छामः । एवं [च ] राज्यादिभोगस्य शङ्काऽपि का। त एक कार्तराष्ट्राः
प्रमुखेऽग्रे युद्धार्थमवस्थिता वर्तन्ते ॥ १ ॥
तस्मात्संशयानो निणे पृच्छति-
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसंपतचेता।।
यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्में
शिष्यस्तेऽहं शाघि मां त्वां प्रपत्रम् ॥७॥
कार्पण्यति । एतान्हत्वा कथं जीविष्याम इति कार्पण्यं दोषश्चास्य कुलस्य क्षय.
कृतस्ताभ्यामुपहनः स्वभावः शौर्यलक्षणो यस्य सोऽहं कार्पण्यदोषोपहतस्वभावः ।
अथवा कृपणस्य भावः कार्पण्यं दैन्यमज्ञाननिमित्तं तदेव दोषस्तेनोपहतः स्वभावो
यस्य स त्वां पृच्छामि । कर्णभृतः । धर्मसंमूढचेताः । धर्म समुदं चतो यस्य । विवेक-
विज्ञानानुस्यात् । अथवा धर्मसमुढचेनाः युद्धं त्यक्त्वा भिक्षाटनमपि क्षत्रियस्य
धर्मोऽधर्मों वेति संदिग्ध चेतश्चित्तं यस्य सोऽहं धर्मसंमूढचेताः । अतो यन्मे श्रेयो
हितं स्यातनिश्चितं ब्रूहि । किंच ते तवाहं शिष्यः शासनाहोऽतस्त्वां प्रपन्नं शरण.
माम शापि शिक्षय ॥७॥
स्पोर विचारवान्पयुकं तत्कुर्विति चेत्तत्राऽऽह-
न हि प्रपश्यामि ममापनुद्या.
घच्छोकमुच्छोषणमिन्द्रियाणाम् ।
अवाप्य भूमावसपत्नमृदं
राज्यं सुराणामपि चाऽऽधिपत्यम् ॥ ८॥
नहीति । क्षत्रियाणां युद्धं स्वधर्मप्रदं तदेव निश्चयेन कर्तव्यमिति भ. गावदुपदेश
स्वयमेवाऽऽदयाऽऽह । युद्धे क्रियमाणे जयस्तावत्पाक्षिकः । निश्चयपक्षेऽपि युद्ध-
फलं भूमौ राज्यं तचासपत्नं निष्कण्टकं च। तदवाप्यापि यन्मम शोकं मदीयं यत्क-
पिनुवादपनयेत्तदहं न हि प्रपश्यामि । किविशिष्टं शोकम् । इन्द्रियाणामुच्छोषण-
मिति शोषकरम् । न केवलं भूमौ राज्यं शोकविच्छेदकरं [न] मवति, सुराणामप्याधि-
पत्यं युद्ध मरणपले प्रासमिति(मपि) जन्मान्तरेऽपि स्वजनवनिमित्तशोकशान्ति न
पक्ष्यामीत्यर्थः । ममावसपत्नमृद्धं राज्यं चापरं सुराणामप्याधिपत्यमवाप्य यत्कर्म कृतं
तन्ममेन्द्रिमाणामुच्छोषणं शोकमपनुद्यादपनयेत्तन्न हि प्रपश्यामीत्यन्वयः ॥ ८॥
एवमुक्त्वाऽर्जुनः किं कृतवानित्यपेक्षायामाह-
संजय वाच--
एरमुक्त्वा हृषीकेशं गुडाकेशः परंतप ।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ॥९॥

[भ०२ श्लो०१०-१२] श्रीमद्भगवद्गीता। एवमिति । गुडाकेशोऽर्जुनो हृषीकेशं श्रीकृष्णं प्रत्येवं पूर्वोकमकारेण कथं भीष्म- महं संख्ये योत्स्यामीत्यादि हे परंतप हे धृतराष्ट्राहं न योत्स्ये युद्धं न करिष्यामी- ति गोविन्दं प्रत्युक्त्वा तूष्णीं वमूव मौनमाश्रितवान् ॥ ९ ॥ ततः किं वृत्तमित्यपेक्षायामाह- तमुवाच हृषीकेशः प्रहसभिव भारत । सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥ तमिति । हे मारत हृषीकेशः श्रीनारायणः प्रसन्नवदनः सन्नुभयोः सेनयोर्मध्ये विषीदन्तं विषादं कुर्वन्तमर्जुनं प्रतीदं वक्ष्यमाणं वचो वाक्यमुवाच । अ च दृष्ट्वा तु पाण्डवानी कमित्यारभ्य न योत्स्य इति गोविन्दमुक्त्वा तूष्णी बभूव हेत्येवमन्तो ग्रन्थः प्राणिनां शोकमोहबहु छ। संसारोऽविद्यामूल इतिप्रदर्शनार्थ, त्वेन व्याख्येयः ॥ १० ॥ श्रीभगवानुवाद-- अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासून गतासंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥ अशोच्या न शोच्या भीष्मद्रोणादयः । धार्मिकत्वाद्वस्तुतश्च परमात्मस्वरूपत्वात् । भन्वशोचोऽनुशोचितवास्त्वम् । प्रज्ञा परमात्मज्ञानं तन्निमित्तांश्च वादान्वचनानीह भाषसे । गता असवः प्राणा येषां ते गतासनस्तानगतासूनगतप्राणांश्च पण्डिना पर: मार्थविदो नानुशोचन्ति । अतो मूढत्वं प्रज्ञा परमा कुतस्ते ॥ ११ ॥ कुतस्तेऽशोच्या जन्ममरण दिसत्ता(त्व) भवाइत आह-- न त्वेवाई जातु नाऽऽसं न वं ने जनाधिपाः । न चेव न भविष्यामः सर्वे वयमतः परम् ।। १२ ॥ न स्विति । नातुशब्दः कदाचिदित्येतस्मिन्नर्थे वर्तते । नाहं कदापिनासमपि स्वासमेव । न त्वं नाऽऽसीरातीरेवेत्यर्थः । नेमे भीष्मादयो नाSSसन्कि स्वासभेव । न चैव न भविष्यामः स वयमतः परम् । त्वमहमिमे रामानश्च स वयं नातु न न भविष्यामोऽपि तु भविष्याम एव ! अनीतेषु देहोत्सत्तिविनाशेषु सर्वेषामेवास्माकमुत्प- त्तिविनाशो न स्तः। परमात्मस्वरूपेण नित्यत्वात् । तथा भविष्यदेहोत्पत्तिविनाशश- का न कर्तव्यत्यर्थः । बहुचनं देहामि ।येण । बहुदेहेषु जायमानेषु विनश्यत्सु चाऽऽत्मनो जन्म विनाशो न स्त इत्युक्तं मवति ।। १२ ।। १६. ख. ग. #. ' । २ क, ख. प. क. 'भ्य यावन यो" ! ३ ष, 'या! कालात्मक ! ३ - १४ हनुमद्विरचितपैशाचभाष्यसहिता- [भ०२-लो०१३-१६) भत्रोषितं दृष्टान्तमाह- देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । वया देहान्तरमाप्तिर्षीरस्तत्र न मुद्धति ॥ १३ ॥ देहिनो देहवतोऽस्मिन्वर्तमाने देहे यथा कौमारं कुमारभावो यौवनं यूनो मावो अरा वृद्धत्वं तथा तद्वदेहान्तरप्राधिः । धीरो धीमास्तत्र न मुह्यति न मोहं गच्छति । यथाऽस्मिन्देहे कौमारयोवनजरास्वात्मनोऽभेद एव भिन्नाः शरीरावस्था एवं शरीरान्त- राणीत्यर्थः ॥ १३ ॥ यद्यप्यात्मनाशनिमित्तः शोको न संभवति नित्य आत्मेति मानतस्तथाऽपि शीतो- ष्णनिमित्तः शोकः संभवतीत्येतदर्जुनस्य वचनमाशङ्कयाऽऽह- मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापाथिनोऽनित्यास्वस्तितिक्षस्व भारत ॥ १४ ॥ मानास्पास्त्विति । मायात आभिः शब्दादय इति मात्री इन्द्रियाणि, मात्राणां स्पर्शाः शब्दादिभिः संयोगाः । शीतोष्णसुखदुःखदा: शीतं चोष्णं च शीतोष्णे ते एव सुखदुःखे ते ददतीति शीतोष्णसुखदुःखदाः । आगमापायिन आगमापाय- शीलास्तस्मादनित्यास्तान्मात्रास्पशास्तितिक्षस्व सहस्व तेषु हर्षविषादी मा कार्षी- रित्यर्थः ॥ ११ ॥ मात्रापन्सिहमानस्य कि स्यादित्यत्राह- ५ हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥ हिन व्यथयन्तीत्यादि । यं हि पुरुषं न व्यथयन्ति न चालयन्त्येते मात्रास्पीः समदुःखसुखं सुखदुःखप्राप्ती हर्षविषादरहितं धीरं धीमन्तं सोऽमृतत्वाया- मृतमावाय मोक्षायेत्यर्थः । करसते समर्यो भवति ॥ १५ ॥ इतब शोकमोहावकृत्वा शीतोष्णादिसहन, यस्मादुक्तम्- नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽतिस्त्वनयोस्तत्त्वदार्शभिः ॥ १६ ॥ नासत इत्यादि । असतोऽविद्यमानस्य रज्जुसर्पवद्दष्ट नष्टस्वभावस्य भगतो भावः ससा न विद्यते । तथा परमार्थस्य सत आत्मनोऽमावोऽविद्यमानता न विद्यते । सर्व- धान्यभिचारात् । अनयोः सदसतोदृष्ट उपलब्धोऽन्तो निश्चयस्तस्वदर्शिमिरात्मदर्शि- भिरित्यर्थः । तस्मात्तत्वदर्शिना दृष्टिमाश्रित्य शोक मोहं च हित्वा शीतोष्णादीस्ति. तिक्षस्वेत्यभित्रायः ॥ ११ ॥ - १ ख. ष्णादि तिति।

.. [१०१-१-१९] श्रीमद्भगवद्गीवा। १९ किं पुनस्तद्यदेव सर्वदा सैदेवेन्युच्यते- अविनाशि तु तादद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ।। अविनाशीति । विनष्टुं शीलमस्येति विनाशि । न विनाश्यविनाशि । तुशब्दोs- सतो विशेषणार्थः। तद्विद्धि जानीहि । येन सर्वमिदं जगद्व्याप्तमाकाशेनेव । विनाशम. दर्शनं घटादिवदस्याव्ययस्य ब्रह्मणो विनाशं कर्तुं नौईति, न कश्चिदात्मानं विनाश- यितुं शक्नोति ॥ १७ ॥ किं पुनस्तदसद्यत्स्वात्मसत्ता व्यभिचरतीत्युच्यते- अन्तवन्त इमे देहा नित्यस्यक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्व तस्पायुध्यस्व भारत ॥ १८ ॥ अन्तो नाशो विद्यते येषां तेऽन्तवन्तः । * नित्यस्य शरीरिणो यथा मृगतृष्ण. कादौ सद्बुद्धिरनुवृत्ता प्रमाणनिरूपणाद्विच्छिद्यते स तस्यान्तस्तथेमे देहाः स्वप्नमाया- लब्धदेहादिवदन्तवन्तः। नित्यस्य शरीरिणः शरीरवतोऽनाशिनोऽप्रमेयस्याऽऽत्मनोऽ- न्तवन्त इत्युक्ताः पण्डितैब्रह्मवादिमिरित्यर्थः । अपमेयस्य प्रत्यक्षादिप्रमाणरपरिच्छेयस्य न त्वात्मा परिच्छिद्यते । तथा च श्रुतिः-यत्साक्षादपरोक्षाब्रह्माऽऽत्मेति । यस्मा- देवं नित्यः सन्नविच्छेद्यश्चाऽऽत्मा तस्माद्युध्यस्व । तदुपरमं मा कारित्यर्थः । नपत्र युद्धकर्तव्यता विधीयते । युद्धे प्रवृत्त एवासी मोहप्रतिबन्धतस्तूष्णीमास्ते तस्य प्रति- बन्धापनयनं भगवता क्रियते । तस्माद्युध्यस्वेत्यनुवादमात्रं न विधिः ॥ १८ ॥ शोकमोहादिसंसारसागरनिवृत्त्यर्थ गीताशास्त्र प्रवर्तत इत्येतस्यार्थस्य साक्षिमते ऋचावानिनाय भगवान् । यत्तु मन्यसे युद्धे भीष्मादयो हन्यन्तेऽहमेषां हन्सेति । एषा बुद्धिर्मषेव सा ते । कथम्--- य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तीन विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥ य एनं प्रकृतं देहिन वेत्ति हन्तारं यश्चैनं मन्यते हतं देहहननेन हतोऽयामिति हन- नक्रियायाः कर्मभूतमात्मानं तावुभौ न विजानीतोऽविवेकेनाऽऽत्मानमहंप्रत्ययविषयं तापावात्मस्वरूपानमिज्ञावित्यर्थः । यस्मान्नायमात्मा हन्ति हननक्रियाया न कर्ता न हन्यते न च कर्म भवतीत्यर्थः । अविक्रियत्वात् ॥ १९ ॥ * इदं पदद्वयमाधिकम् । १ ख. सदित्यु । २ क. ख. घ. . नास्तीति । ३ रु. 'बद्धस्तु। ४ क. ख. ग. 6. ये यौ विजानीतस्तावु। ५ क. ख. घ. . 'वुभौ चाऽऽत्म' ।

.. .. हनुमाद्विरचितपैशाचभाष्यसहिता- [अ०२ला०२०-२२॥ कथमविक्रिय आत्मेति द्वितीयो मन्त्रः-- न जायते म्रियते वा कदाचि. पाचं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते इन्यमाने शरीरे ॥ २० ॥ न जायते नोत्पद्यते जननस्य न कर्ता। जनिलक्षणवस्तुविक्रियाऽऽत्मनो न विद्यत इत्यर्थः । तथाऽयं न म्रियते वा कदाचिनुत्पत्तिक्रियायाः सत्तां नानुभवति । उत्पत्तेः सत्तानुमवस्य मरणान्याभिचारात् । (उत्पत्तेः स नोत्पद्यते जननस्य न कर्ता जनन- क्षणा वस्तुविक्रिया न विद्यते ) । उत्पत्तेः सत्तामननुभवन्न म्रियत इत्युच्यते । सोऽस्तिमलणा भावविक्रियाऽऽस्मनो न विद्यत इत्यर्थः । वाशब्दश्चार्थे । कदाचि. छन्दः सर्वविक्रियापतिषेधैः संवध्यते । न कदाचिज्जायते न कदाचिन्मियत इति सर्वत्र योज्यम् । अयं भूत्वा भविता वा न भूयः । अयमात्मा भूत्वोत्पत्तिक्रियामनुभूय म्योपविता न । भवस्यान्तरं प्राप्यावस्थान्तरं न प्राप्नोति। न विपरिणमत इत्यर्थः । विपरिणामलक्षणा भावविक्रियाऽऽन्मनो न विद्यत इत्यर्थः । अनोऽवयवोपचयरूपेण नोपायस, वृद्धिलक्षणा भावविक्रिया न विद्यत इत्यर्थः । अतो नित्यः । अपक्षय- बक्षमा भाव विक्रियाऽऽत्मनो न विद्यत इत्यर्थः । शश्वद्भवः शाश्वतः । अविना- शीत्यर्थः । अतः पुराणः पुराऽपि नव. पुराणः सदैकरूप इत्यर्थः । तस्मान्न हन्यते न विक्रियते हन्यमाने विक्रियमाणे ऽ पिशरीरे। अस्मिन्मन्त्रे षड्भावविकारा लौकिका कातुविक्रिया आत्मनि प्रतिषिध्यन्ते । सर्वप्रकारविक्रियारहित आत्मेति वाक्यार्थः । यस्मादेवं तस्मादुभी तो न विजानीत इति पूर्वेण मन्त्रणास्य संबन्धः ॥ २० ॥ य एनं वत्ति हन्तारमित्यनेन मन्त्रेण हननक्रियायाः कर्ता कर्म च न भवतीति प्रतिज्ञाय न जायत नायनेनाविक्रियत्वं हेतुमुक्त्वा प्रतिज्ञातार्थमुपसंहरति--- बेवाविनाशिनं नित्यं य एनमजयव्ययम् । कथं स पुरुषः पार्थ कंघातयति हन्ति कम् ॥ २१ ॥ वेदाविनाशिनामिति । वेद विजानाति । अविनाशिनं प्रेत्यभावविकाररहितम् । नित्यं विपरिणामरहितं यो वेदेति संबन्धः । एनं पूर्वोक्तमन्त्रेणोक्तलक्षणम् । अनं जननक्रियारहितम् । अव्ययमपक्षयरहितम् । कथं केन प्रकारेण । स विद्वान्पुरुषोऽ: * धनुविहान्तर्गतमधिक भाति । १ ख. 'न । २ ख. ग. घ. इ. 'शिनमस्य भा।

--
7
(१०२-लो०२२-२५] श्रीमद्भगवद्गीता।
६१
विकतो हन्ति हननक्रियां करोति कथं वा घातयति हन्तारं प्रयोजयति न कषांच.
द्धन्ति न कथंचिद्धातयति । उभयत्राऽऽक्षेप एवार्थः । प्रभासंभवात् । हेवर्षस्य
तुज्यत्वाद्विदुषः सर्वकर्मप्रतिषेध एव प्रकरणार्थोऽभिहितो भगवता । हन्तेस्वाक्षेप उदा-
हरणार्थत्वेनोक्तः । विदुषः सर्वकर्मासमवे के हेतुविशेष पश्यन्कर्माण्याक्षिपति भग-
वान्कथं स पुरुष इति ॥ २१ ॥
आत्मनो नित्यत्वं प्रतिज्ञातं तत्कथं शरीरेषु नश्यत्स्वित्यत्राऽऽह-
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराण विहाय जीर्णा-
नन्यानि संयाति नवानि देही ।। २२ ॥
वासासीति । यथा नरो जीर्णानि वासांसि विहाय नवानि वस्त्राणि गृह्णाति स्वयं
विद्यमान एव तथा जीर्णानि शरीराणि [ विहायान्यानि नवानि ] संयाति देही
स्वयं पूर्वदेहविनाशेऽप्यविक्रियो विनाशरहितः ॥ २२ ॥
कथं पूर्व न विक्रियत इत्युक्तमत आह-
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चेनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥
नैनं छिन्दन्तीति । एनं प्रकृतं देहिनं न छिन्दन्ति निरवयवत्वाचावयवविमार्ग
कुर्वन्ति शस्त्राणि वास्यादीनि । तथा नैनं दहति पावकः । अग्निरपि न भस्मी करो-
ति । तथा च नैनं क्लेदयन्त्यापः । अपां हि सावयववस्तुन्यार्द्रभावकरणेनावयवविश्ले-
षणापादने सामर्थ्य न निरवयव आत्मनि संभवति । तथा स्नेहव्यं स्नेहशोषणेन
शोषयति वायुः । एवं चाऽऽत्मानमस्नेहवन्तं न शोषयति मारुतोऽपि ॥ २३ ॥
यत एवं तस्मात्-
अच्छेद्योऽयमदाह्योऽयमलेद्योऽशोध्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥
अ[च्छेद्य इत्यादि । यस्माद]न्यनाशहेतुभूतान्यात्मानं नाशयितुं बोत्सहन्ते तस्मा-
नित्योऽयं नित्यत्वात्सर्वगतः सर्वगतत्वात्स्थाणुस्वि स्थितः स्थितत्वादचलोऽक्मा-
स्माऽतः सनातनश्चिरंतनो न कारणात्कुत तश्चिनिष्पन्नोऽभिनव इत्यर्थः । कथं नु नाम
संसारिणां बुद्धिगोचरतामापन्नः संसारनिवृत्तये स्यादिति पुनः पुनरुच्यते ॥ २१ ॥
अव्यकोऽयमचिन्स्योऽयमविकायोऽयमुच्यते।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥

२३ हनुमद्विरचितपेशापभाष्यसहिता- [अ०२-लो०२५-२८ भव्यक्तोऽयमिति । सन्द्रियाविषयत्वान्न व्यज्यत इत्यन्यकः । अन्यकोऽय- मात्माऽत एवाचिन्त्योऽयम् । य इन्द्रियगोचरः स विषयत्वमापद्यते । अयं स्वास्मा निरिन्द्रियगोचरत्वादचिन्त्यः । अविकार्योऽयम् । यया क्षीरं दध्यातचनादिना [विक्रि. यते] न तथाऽऽस्मा । [किं तु] निरवयत्वादविक्रियः। न हि निरवययं विक्रियात्मक च वस्तु दृष्टम् । [अतोऽ] विक्रियत्वादविकार्योऽयमात्मोच्यते । तस्मादेवं यथोक्ता- कारमैनमात्मानं विदित्वा नानुशोचितुमर्हसि हन्ताऽहमेषां मयेमे हन्यन्त इति ॥२५॥ आत्मनस्तु हननमभ्युपगम्यैतदुच्यते- अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥२६॥ अथ चनामति । अथ चेत्यभ्युपगमार्थम् । प्रकृतमेनं नित्यजातं लोकपसिया नित्यं जातो नित्यजातो नित्यं वा मन्यसे मत तथाऽप्येवमपि त्वं महाबाहो, एनमा- स्मानं शोचितुं नार्हसि । जननमरणयोरस्य स्वाभाविकत्वात् ॥ २६ ॥ तदेव दर्शयति- जातस्य हि ध्रुवो मृत्युर्बुवं जन्म मृतस्य च । तस्मादपरिहायेंऽये न त्वं शोचितुमर्हसि ॥ २७ ॥ जातस्पोत । जन्मवतो नाशो नाशवतो जन्म स्वाभाविक वेदपरिहार्योऽयम् । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥ कार्यकारणधर्मकान्य(ण्य)प्येतान्युद्दिश्य शोको न युक्तः कर्त, यत:- अध्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥ अव्यक्तादीनीति । अव्यक्तमदर्शनमनुपलब्धिरादिर्येषां भूतानां तान्यव्यक्तादीनि प्रागुत्पत्तेः । उत्पन्नानि च प्राग्विनाशाद्वयक्तमध्यानि व्यक्तान्तरालानि । अव्यक्तनि- धनान्येवं पुनरप्य[व्यक्तम]दर्शनं मरणं येषां तान्यव्यक्तनिधनानि । मरणार्धमन्यः कमेव प्रतिपद्यन्त इत्यर्थः । तया चौक्तम्-" अदर्शनादिहाऽऽयातः पुनश्चादर्शनं गतः" इति । तत्र का परिदेवना को वा विलापः । दृष्टनष्टभ्रान्तिभूतेषु भूतेष्विवे- भ्यर्थः ॥ २८॥ दुर्बोधोऽयं प्रकृत आत्मा किं त्वामेकमुपालभै साधारणे भ्रान्तिनिमित्ते, कथं दुर्विज्ञेय आत्मेति तत्राऽऽह- आश्चर्यवत्पश्यति कश्चिदेन- माश्चर्यवद्वदति तथैव चान्यः । १ क. ग. घ. . 'यवत्वं वि । २ ख. ग. अ. 'त्मकत्वं च । ३ क. ख. ग. रु. व पुनः DIY क. ग. प. द. विप्रलापः ।

अ०२ श्लो०२९-३५] श्रीमद्भगवद्गीता । २३ आश्चर्यवचैनमन्यः शृणोति श्रुत्वाऽप्येनं वेद न चैव कश्चित् ॥ २९ ॥ आश्चर्यवादति। आश्चर्यवदाश्चर्यमद्भुतम् । स्वार्थे वतिप्रत्ययः। आश्चर्यमेवाऽऽश्चर्य- बददृष्टमननुभूतमकस्मादृश्यमानमाश्चर्यमेनमात्मान कश्चित्पश्यतीत्याश्चर्यम् । तथैवे. नमात्मानमन्यः कश्चिद्वदतीत्येतदाश्चर्यम् । श्रुत्वा दृष्टोक्त्वाऽप्येनं न च वेदेत्याश्चर्यमतो दुर्बोध आत्मेत्यभिप्रायः ॥ २९ ॥ अथेदानी प्रकरणमुपसंहियते- देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुर्हसि ॥ ३० ॥ तस्माद्भीष्मादीनि सर्वाणि भूगन्युद्दिश्य न त्वं शोचितुमर्हसि ॥ ३० ॥ परमार्थतत्वापेक्षया शोकमोही न संभवत इत्युक्तम् । न(किं) केवलं परमार्थ- तत्वापेक्षया शोकमोहयोरकर्तव्यता साध्यते तत्राऽऽह- स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धादि युद्धाच्छ्रेयोऽन्यत्क्षषियस्य न विद्यते ॥ ३१ ॥ स्वधर्ममपि स्वधर्मः क्षत्रियस्य युद्धं तदप्यवेक्ष्य त्वं विकम्पित नाहसि प्रचलित माईसि । स्वाभाविकायुद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते । हि यस्मात् ॥ ११ ॥ ईतश्च युद्धं कर्तव्यमित्युच्यते-- यहच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षपियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ।। यहच्छया चोपपन्नमागतं कर्तव्यतया प्राप्तमपि ॥ ३२ ॥ अथ चेत्त्वमिमं धम्र्य संग्रामं न करिष्यसि । वतः स्वधर्म कीति च हित्वा पापमवाप्स्यसि ॥ ३३ ॥ धय धर्मा दानपेतम् ॥ ३३ ॥ न केवलं स्वधर्मकीर्तिपरित्यागः- अकीति चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । संभावितस्य चाकीर्तिमरणादतिरिच्यते ॥ ३४॥ संभावितस्य धर्मात्मा शूर इत्यादिगुणैः संभावितस्याकीवरं मरणमित्यर्थः ॥१४॥ भयाद्रणादुपरतं मंस्यन्ते स्वां महारथाः ।। येषां च त्वं बहुमतो भूत्वा वास्यसि लाघवम् ॥ ३५॥ १ क. इ. अतथा

२५ हनुपद्विरचितपैशाचभाष्यसहिता- [भ०२-लौ०६१-३९]
मयात्कर्णादिमी रणायुद्धादुपरतं निवृतं मंस्यन्ते चिन्तयिष्यन्ति न कृपयेति त्वा
महारथा दुर्योधनप्रभृतयः । के मस्यन्त इत्यत्राऽऽह-येषां च दुर्योधनादीनां त्वं
बहुमतो भूत्वा पुनर्यास्यसि लाघवं लघुभावं ते मस्यन्ते ॥ ३५ ॥
किंच-
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः।
निन्दन्तस्तव सामर्थ ततो दुःखतरं नु किम् ।। ३६ ।।
अवाच्यवादानव्यक्तवादांश्च बहुननेकप्रकारान्वदिष्यन्ति तवाहिताः शत्रवो निन्द-
न्तः कुत्सयन्तस्तव सामथ्य निवातकवचादिजयसामयनिमित्तम् । ततस्तस्मानिन्दाप्रा-
शेर्दुःखतरं नु किम् । ततः कष्टतरं नास्तीत्यर्थः ।। ३६ ।।
युद्धे पुनः कर्णादिभिः क्रियमाणे-
हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ।। ३७ ।।
हतो पति जित्वा कर्णादीन्मोक्ष्यसे महीम् । उभषयाऽपि ते लाभ इत्यभि-
प्रायः । यत एवं तस्मादुत्तिष्ठ कौन्तेय । कृतनिश्चयो जेष्यामि परान्मरिष्यामि वेति
निश्चयं कृत्वेत्यर्थः ।। ३७ ।।
सुखदुःखे समे कृत्वा लाभालामो जयाजयो।
ततो युद्धाय युज्यस्व नैवं पापमवारयसि ।। ३८ ॥
ततः स्वधर्म इत्येव युध्वस्व । उपदेशभिम आणु-सुखदुःखे समे कृत्वा लामा-
लामी नयाजयी च समों कृत्वेति । एष उपदेशः प्ररोचनाः प्रासङ्गिकः ॥ ३८ ॥
शोकापनये लौकिको न्यायः स्वधर्ममपि चावयेत्याधः श्लोकरुको न तात्पर्यण।
परमार्थदर्शनमिह प्रोक्तं (प्रकृत), तचोकमुपसंहरति-
एषा वेऽभिहिता सांख्ये बुद्धियोंगे विमां शृणु ।
बुद्धया युक्तो यया पार्थ कर्मवन्य महास्यसि । ३२ ।।
एषा ते तुम्बमभिहितोक्ता सांख्ये परमात्मवस्तुविवेकविषये बुद्धिर्ज्ञानं साक्षाच्छो.
कमोहादिसंसारनिवृत्तिकारणम् । योगे तत्प्राप्त्युपाये निःसङ्गतया द्वंद्वपहरणपूर्वकमी.
श्वराराधनाएँ कर्मानुष्ठाने समाधियोगे चेमामनन्तरं मयोच्यमानां बुद्धिं शृणु। तां
बुद्धि स्तौति श्रोतृणां परोचनार्थम् । बुद्धया यया योगविषयया युक्तो हे पार्थ कर्म-
बन्धं कर्मव धर्माधर्माख्यं बन्धस्तं महास्थति। ईश्वरंपातिनिमित्तज्ञान प्राप्स्यसीत्यभि-
प्रायः ॥ १९ ॥

- [अ०९-लो०१०-४३] श्रीमद्भगवद्गीता । किंच- नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥ इह मोक्षमार्गेऽभिक्रमनाशोऽभिकमणमभिक्रमः पारम्मस्तनाशो नास्ति । यथा कृष्यादेः, मोक्षविषये प्रारम्भस्य नानकान्तिकफलत्वमित्यर्थः । किं चिकित्साव. प्रत्यवायो न विद्यते, किं तु भवति । स्वल्कमप्यस्य धर्मस्य मोक्षसाधनानुष्ठित प्रायते रक्षति संसारमयाजन्ममरणादिलक्षणात् ॥ ४० ॥ व्यवसायात्मिका बुद्धिोकेह कुरुनन्दन । बहुशाखा हनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥ व्यवसायात्मिका निश्चयात्मिका बुद्धिः सांख्ययोगे व्यवसायिनां पुरुषार्थसाधिका । अव्यवसायिनां बुद्धयो बहुशाखा बहुस्कन्धा अनन्ताश्च भवन्ति । न ताः पुरुषार्थ प्रति साधनमित्यभिप्रायः ॥ ४१ ।। यामिमां पुष्पिता वाचं भवदन्त्यविपश्चितः। वेदवादरताः पार्थ नान्यदस्तीतिवादिनः ॥ ४२ ॥ यामिमां वैदिको वेदभवां द्रव्यगुणकर्मणां स्वर्गादिफलोत्पादनसमर्थानां फलपूर्वमा. वित्वात्पुष्पमिव पुष्पं तानि च पुषितानि । एषां पुषितानां प्रतिपादिका वागपि पुष्पिता। तां व.चं वदन्ति पठन्त्यविपश्चितोऽण्डिता वेदस्य वादो वदनं वेदवादस्तत्र रताः सका वेवादरताः । वेदवाक्यप्रतिपादितस्वर्गादिफलाशापाशपद्धा इत्यर्थः । स्वर्गादिफलादन्यदपवर्गाख्यं सुखं नास्तीतिवादिनो वदनशीलाः ॥ ४२ ॥ कथंभूतास्तेऽविपश्चित इत्यत्राऽऽह- कामात्मानः स्वर्गपरा जन्मकर्मफलपदाम् । क्रियाविशेषबहुला भोगेश्वर्यगति प्रति ॥ ४३ ॥ कामात्मानः कामिनः स्वर्गपराः स्वर्गपधानाः । जन्मकर्मफलप्रदां जन्म विशिष्टश. रेन्द्रियप्राधिः । कर्मणः फलानि स्वर्गादीनि । जन्म च कर्मफलानि च जन्मकर्मफ. लानि । तानि प्रददातीति नन्मकर्मफलपदा तां वाचम् । क्रियाविशेषबहुलां क्रियाणां विशेषाः क्रियाविशेषाः पाकयज्ञादयः । बहूनालाति प्रतिपादयतीति बहुला।[क्रिया- विशेष हुला ] क्रियाविशेषबहुना ताम् । भोगैश्वर्यगति भोगः शब्दादिविषयलाभः, ऐश्वर्यमणिमादि, भोगैश्वर्थयोतिस्तां मोगेश्वगति प्रति तलक्षणां शब्दादिविषस्लाभा- णिमादिसाधनभूतामित्यर्थः । तां वाचं त्यन तदर्थे पुरुषार्थनुदि मा कापीरित्यर्थः । । .. १. स.न. घ.. 'लाभगतिमा।

२६ हनुमद्विरचितपैशाचभाष्यसहिता- [अ०२ श्लो०४१-११) तथा च श्रुतिः प्लवा ह्येते अढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म " इत्यादि ।। ४३ ॥ कस्मात्सा वाक्त्याज्येत्यत्राऽऽह यदि सा वाक्प्रमाणत्वेनोपादीयते तदनुष्ठाने तत्फलपाचौ च प्रसक्तिः स्यात्ततश्व- भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसाम । व्यवसायात्मिका बुद्धिः समाचौ न विधीयते ॥ ४४ ॥ मोगैश्वर्यप्रसक्तानां मोगैश्वर्ययोरव प्रणयवतां तया वाचाऽपहृतचेतसामाच्छादित. विवेकप्रज्ञानां व्यवसायामिका साख्ये योगे वा बुद्धिः समाधी परमात्मावबोध इय. मेव बुद्धिः परमपुरुषार्यतया कर्तव्यत्येवं निश्चिता सा बुद्धिर्न विधीयते नोत्पादयितुं शक्यते । तस्मादियं वाक्परमपुरुषाविरोधित्वात्याज्येत्यभिप्रायः ॥ ४ ॥ केनोपायेन सा वाक्यज्यत इत्याह त्रैगुण्यविषया पेदा निलंगण्यो भवार्जुन । निद्वां निन्यसाय नियोगक्षेम आत्मवान् ॥ ४५ ॥ श्रय एव गुणास्त्रैगुण्यं सत्सरजस्तमासि तत्कार्यत्वाद्रागद्वेषौ * गुण्यवन्तौ । ते। विषयौ येषां ते वेदास्त्रैगुण्यविषयाः । निस्गुण्यो भवोपायरुन्मूलितरागद्वेषो भवे. स्यर्थः । निद्वो निर्गतशीतोष्णादिः । नित्यत्तस्थः सदा सत्त्वगुणपधानः । तथा नियोगक्षेमः । अनुपात्तस्योपादानं योग उपात्तस्य रक्षणं क्षेमः । योगक्षेमप्रसक्तस्य श्रेयसि प्रवृत्तिर्दुकरेत्यतो नियोगक्षेमो भव । एष तव तस्या वाच + स्तत्यागो- पदेशः ॥ ४५ ॥ ज्ञाननिष्ठ कार्यभूतबुद्धवसायिनो योगनिष्पन्नस्य श्रौतस्मातफलानवाधिलक्षणो दोष इति चेन्नवम् । यतः- यापानर्थ उदपाने सर्वतः संप्लुतोदके। तावान्सधु वेदेषु ब्राह्मणस्य विजानतः ॥४६॥ * यथा ले.के कूपतटाकायनेकस्मिन्नुदपान उदय पीयतेऽस्मिन्नित्युदपानं जलाशय. स्तस्मिञ्जलाशये यावयाप्रमाण: नानपानादिरयः फलं स सर्वोs: सर्वतःसंप्लुतो- दके कूपताकाधविभागेन स्थिते जपूर मा५व, येवं तथा वेदपिहितयादानादि साधनसाध्यो यावानर्थस्तावान्विजानतisक.महतस्य ब्राह्मणस्य भवति । "सर्व तदभिः * त्रैगुण्यशब्दोऽस्ति ययोस्तो लक्षणया त्रैगुण्यशब्दबोध्यावित्यर्थः । + त्यागोपाय इति तु पठित युक्तम् । - यथेत्यधिकम् । १क. ख. ग, घ. अ. न त'।

[भ०१ लो०४७-१०] श्रीमद्भगवद्गीता। २७ समेति यत्किच प्रजाः साधु कुर्वन्ति यस्तद्वेद स वेद " इति श्रुतेः । " सर्व कर्मा. खिलं पार्थ ज्ञान परिसमाप्यते " इति च वक्ष्यते ॥ १६ ॥ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्म ते सङ्गोऽस्त्वकर्मणि ॥ ४७ ॥ कर्मण्येवाधिकारो न ज्ञाननिष्ठायां ते तव । तत्र कर्म कुर्वतो मा फलेष्वधिकारोऽस्तु कर्मफलतृष्णा मा भूत् । कदाचन कस्यां चिदवम्थायामित्यर्थः । यदा कर्मफलतृष्णा स्यात्तस्मान्मा कर्मफलहेतुर्भू । यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि प्रवर्तते तदा कर्मफलस्यैव जन्मनो हेतुर्भवेत् । यदि कर्मफलं नेष्यते किं कर्मणि(गा) बहुरूपेणानु. ष्ठितेनेति मा ते तव सङ्गोऽस्त्वकर्मणि, अकरणे प्रीतिर्मा भूत् ॥ १७ ॥ यदि कर्म फलयुक्तेन न कर्तव्यं कर्म कथं तर्हि कर्तव्यमित्यत्रोच्यते- योगस्थः कुरु कर्माणि मङ्गं त्यक्त्वा धनंजय । मिद्धयसिद्धय : ममो भूत्वा सम व योग उच्यते ॥ ४८ ॥ योगस्थः सन्कुर्वनुष्ठगमणि केवलमीश्वरार्थमीश्वगे मे तुष्यतीति सङ्गं त्यक्त्वा धनंजय । फटतृष्णा शून्येन क्रियमाणप] सत्त्वशुद्धिज्ञान प्राप्तिलक्षणा सिद्धिस्तद्विपर्य- योऽसिद्धिस्तयोः सिद्धयसिद्धयोरपि समस्तुल्यो भूत्वा कुरु कर्माणि । कोऽसौ योग इदमेव तत्सिद्धचसिद्धयो. समन्वं योग उच्यते ॥ ४८॥ दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय । बुद्धौ शरणमन्विच्छ कृपणाः फलंहतवः ॥ ४९ ॥ यत्पुनः समत्वबुद्धियुक्तमीश्वराराधनार्थ कर्म तस्मात्कर्मणो दूरेणात्यन्तदूरमेवावरम- धर्म निकृष्टं कर्म फलार्थिना क्रियमाणं बुद्धियोगात्समत्वबुद्धियुक्तात्कर्मणो जन्ममरणा- दिहेतुस्वादित्यर्थः । अत एव योगविषयायां बुद्धौ तत्पाकनायां सांख्यबुद्धौ शरण- माश्रयममयप्राप्तिकारणमन्विच्छ प्रार्थय । परमार्थज्ञानशरणो भवेत्यर्थः । यतोऽवरं कर्म कुर्वाणाः फलहेतवः फलतृष्णाप्रयुक्ताः सन्तः कृपणाः । " यो वा एतदक्षरं गार्य- विदित्वाऽस्माल्लोकात्प्रेति स कृपणः " इति श्रुतेः ॥ ४९ ॥ समत्वबुद्धियुक्तः सन्स्वकर्म चानुतिष्ठन्यत्फलं प्राप्नोति तच्छृणु - बुद्धियुक्तो जहातीह उभे सुकनदुष्कृने । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ५० ॥ बुद्धियुक्तः समत्त बुद्धया युक्तो जहातीहास्मिल्लोक उमे सुकृतदुष्कृते पुण्यपापे सत्त्वशुद्धिज्ञानप्राधिद्वारेण । तस्मात्समत्वबुद्धियोगाय युज्यस्व घटस्व । योगः कर्मसु कौशलम् । स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्भयसिद्धयोः समत्वबुद्धिरीश्वरा ।

- २८ हनुपविरचितपेशावमाम्पसहिता- [१०२ श्लो०११-10] पिसोतस्कतया, तस्कौशलम् । यदम्बस्वभावान्यपि कर्माणि समत्वबुद्धया स्वभावा. निवर्तन्ते तस्मात्समत्वबुद्धियुक्तो मा त्वम् ॥ १० ॥ इतश्च फलसहं त्यक्त्वा स्वधर्मोऽनुष्ठेयः कर्मचं पुदियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिकाः पदं गच्छन्त्यनामयम् ॥ ५१ ॥ कर्ममं कर्मफलमिष्टदेहादिप्राजिलक्षणं त्यक्त्वा बुद्धियुक्ता ज्ञानिनो मनीषियो मननशील जन्ममा कन्धो जन्मबन्धस्तेन विनिर्मुक्ता जीवन्त एव जन्मबन्धविनि. मुक्काः काः सन्तः पदं वैष्णवं मोक्षारूयं गच्छन्त्यनामयं सर्वोपदवरहितमित्यर्थः ॥११॥ योगानुष्ठानजनिता सत्यशुद्धिः कदा प्राप्यत इत्यत्राह- यदा से मोहकलिकं बुद्धिव्यतितरिष्यति । तदा मन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ।। ५२ ॥ यदा बस्मिन्काले ते तव मोहकलिलं मोहात्मकमविवेकरूपं कालुष्यं येनाऽऽत्मा. आत्मविवेक कलुपीकृस्य विषयान्प्रत्यन्तःकरणं प्रवर्त्यते तद्वृद्धिळवितरिष्यति । शुद्धभावमापयत इत्यर्थः। तदा तस्मिन्काले गन्तासि प्राप्तासि निर्वेदं वैराग्यं श्रोतव्यस्थ श्रुतस्य च । तदा श्रोतव्यं श्रुतं [ च ] निष्फलं प्रमातीत्यर्थः ।। ५२ ॥ मोहकलिलात्ययद्वारेण लब्धात्मविवेकप्रज्ञः कदा कर्मयोगजं फलं परमार्ययोगमवा- प्स्यसि तच्छृणु श्रुतिविमतिपकाते यदा स्वास्थति निश्चला । समाचारचला बुदिस्तदा योगमवाप्यास ॥ ५३ ॥ श्रुतिविवनिपचाऽनेकलाध्यसाधन संबन्धप्रकाशनश्रुतिमिः श्रुतैः श्रवर्विप्रतिपन्ना न संप्रतिषमा विक्षिक्षा सती ते तव बुद्धिमदा यस्मिन्काले स्थास्यति निश्चला विशेषचछ- नवनिता समाची समाधीयतेजस्मिन्नित्रि समाधिरात्मनीत्येतत् । अचला तत्रापि विक- पनितेत्तबुद्धियुक्तेः कारणं तदा योममवाप्स्यसि ।। ५६ ॥ अवाप्योगस्य लक्षणबुभुत्सयाऽर्जुन उवाच- अर्जुन उवाच-- स्थितपस्य का भाषा समाधिस्थस्य केशव । सितमी किमभाषेत किमासीत ब्रजेत किम् ॥१४॥ स्विता प्रतिकिताइहमस्मि परं बोलि प्रज्ञा यस्य तस्य का भाषा भाषणं वचन १ गं. बीते । २ क, ख. गं... ये तेनाऽऽ।

(ROPो ०५५-१०] श्रीमद्भगवद्वीता। २१ कथमसो भाष्यते । समाधिस्थस्य समाधौ स्थितस्य केशव । स्थितधीः स्थितपकि प्रभाषेत किमर्थं स्वरूपं भाषेत । किमासीत कथं वासीत । प्रमेत किं कथं वा गच्छेदित्यर्थः । स्थितप्रज्ञस्य छक्षणमनेन श्लोकेन पृच्छचते। स्थितपस्येत्यारम्याss. ध्यायपरिसमाः स्थितप्रज्ञस्य लक्षणं साधनं चोगदिश्यते । सर्वत्राध्यात्मशास्त्रे लक्ष- णानि यानि तान्येव साधनान्युपदिश्यन्ते यत्नसाध्यत्वात् । यानि यत्नसाध्यानि [ तानि ] लक्षणानि सर्वत्राध्यात्मशास्त्रे विद्यन्ते ॥ ५ ॥ अतस्तान्येव साधनानि भगवानुवाच- श्रीभगवानुवाच-- प्रजहाति यदा कामान्सर्वान्पार्थ मनोमतान् । आत्मन्येवाऽऽत्मना तुष्टः स्थितप्रजस्तदोच्यते ॥ ५५ ॥ प्रनहाति प्रकर्षेण जहाति परित्यजति यदा कामानिच्छाभेदान्हे पार्थ मनोमताम- नसि प्रविष्टानात्मन्येव प्रत्यगात्मस्वरूप एवाऽऽत्मना स्वेनैव बाह्यलामनिरपेक्षम्तुष्टः परमार्थदर्शनामृतरसलामेनान् यस्मिन्यातुन्यलंपत्ययवास्थितपज्ञः । स्थिता प्रज्ञाऽऽत्मा- नात्मविवेकजा यस्य स स्थितप्रज्ञो विद्धास्तदोच्यते । त्यक्तपुत्रवित्तलाभः संन्यास्या- स्माराम आत्मक्रीडावास्थितप्रज्ञ इत्यर्थः ॥ १५ ॥ किंच- दु.खेष्वनुदिनमाना। सुखेषु विगतस्पृहः । वीतरागभ यक्रोधः स्थितधीर्मनिरुज्यते ॥ ५६ ॥ दुःखेष्वाध्यात्मिकादिष्वनुद्विग्नप्रक्षुभितं मनो यस्य सोऽमुद्विग्नमनाः । तथा मुखेषु प्राप्तेषु विगता स्पृहा तृष्णा यस्य , नाग्नेरिवेन्धनाद्यामानेन मुखान्यनुवर्तन्ते स विगतस्पृहः । वीतरागभयक्रोधः । रामश्च भयं च क्रोधश्च विगता यस्लाम वीतरागमय. क्रोधः । स्थितधीः स्थितप्रज्ञो मुनिर्मननशीलस्तदोच्यते ॥ १९ ॥ यः सर्वत्रानभिस्नेहस्तत्तत्माप्य शुभाशुभम् । नाभिनन्दति न दृष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥ यो मुनिः सर्वत्र स्वदेहजीवनादिष्वनभिस्नेहोऽमिस्नेहवर्नितः । तस्याप्य शुभाशु- मम् । तत्तच्छुमाशुभं लब्ध्वा [नाभिनन्दति ] न दृष्यति न द्वेष्टी(e) [न विवाद करोती त्यर्थः । तस्यैवं हर्षविषादवर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता ॥१७॥ क, 'मधु' । क. स. ग... |

२०
हनुमद्विरचितपेशाचभाष्यसाहिता- [अ०२ श्लो०१८-११]
किंष-
यदा संहरते चायं कूर्पोऽङ्गानीव सर्वशः।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।। ५८॥
यदा संहरते सम्यगुपसंहरति, अयं ज्ञाननिष्ठायां प्रवृत्तो मुनिः कूर्मोऽङ्गानीव । यथा
कर्मोऽभ्यासात्स्वानान्युपसंहरति सर्वशः सर्वत एवं ज्ञाननिष्ठ इन्द्रियाणीन्द्रियार्थेभ्यः
सर्वविषयेभ्य उपसंहरति । तस्य प्रज्ञा प्रतिष्ठितेत्युक्तार्थ वाक्यम् ॥ १८ ॥
तत्र विषयाननाहरन्नम्यासात्कूमोऽङ्गानीवेन्द्रिया[ण्य फैन्य उपसंहरति, अतस्त-
स्यापि प्रज्ञा प्रतिष्ठिता स्यादित्यत आह-
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जे रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ५९ ॥
यद्यपि विषयोपलक्षितानि विषयशब्दवाच्यानीन्द्रियाणि निराहारस्यानाहियमाण-
विषयस्याऽऽतुरस्य काष्ठनपसि स्थितस्य मूर्खम्यापीन्द्रियाणि निवर्तन्ते न व्याप्रियन्ते
देहिनो देहवतः । मूढमदन हेण क्रियमाणं तपः काष्ठनपः । रसव, रसो रागो रसिको
रसज्ञ इति प्रयोगदर्शनाद्रागं वर्जयित्वा । स्थितप्रज्ञालक्षणं तु रागेण सहेन्द्रियाणां
विषयेभ्यो व्यावृत्तिरमिमता । कथं तर्हि विषयेभ्यो रागस्य निवृत्तिरिति चेद्रसोऽप्यस्य
पतेः परं परमात्मानं दृष्ट्वीपलम्याहमेव तदिदंभूत इति निवर्तते । निर्धाजरागः संपद्यत
इत्यर्थः । नासति सम्यग्दर्शने रागस्योच्छेदः । तस्मात्सम्यग्दर्शनात्मिकायाः प्रज्ञायाः
स्थैर्य कर्तव्यमित्यभिप्रायः ॥ १९ ॥
तस्य च सम्यग्दर्शनस्थैर्यस्योपायमाह-
यततो पि कौन्तेय
पुरुषस्य
विपश्चितः।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६॥
यततो यतमानस्यापि पुरुषस्य विपश्चितो मेधाविनोऽपि मन इन्द्रियाणि प्रमाथीनि
प्रमथनशीलानि प्रसमं हरन्ति ॥१०॥
यस्मादेवं तस्मात्-
तानि सर्वाणि संयम्य युक्त आसीत मत्परः।
पशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥
तानि सर्वाणीन्द्रियाणि वशीकृत्य युक्तः समाहितः समासीत । मत्परोऽयं वासु.
देवः सर्वप्रत्यगात्मा परः प्रधानं यस्य स मत्परः । नान्योऽहं तस्माद्वासुदेवादित्युपा-
सीतेत्यर्थः । वशे हि यस्येन्द्रियाणि वर्तन्तेऽभ्यासबलात्तस्य प्रज्ञा प्रतिष्ठिता ॥११॥

[अ०२ला०६२-६५] श्रीमद्भगवद्रीवा। ३१ अथेदानीमात्मनाशस्य मूलमुच्यते- ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्संजायते कामः कामाक्रोषोऽभिजायते ॥ ६२ ।। ध्यायतश्चिन्तयतः शब्दादिविषयान्सङ्गः प्रीतिस्तेषु शब्दादिषु विषयेषूपजायत उत्पद्यते। सङ्गात्पीतेः संजायते समुत्पद्यते कामस्तृष्णा । कामात्कुतश्चित्प्रतिहतात्तु क्रो- घोऽभिजायते (ज्यमाने विसेवितश्च ) ॥ १२ ॥ क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः। स्मृतिभ्रंशाबुद्धिनाशो बुद्धिनाशात्मणश्यति ॥ ६३ ॥ क्रोधाद्भवति जायते संमोहः कार्याकार्याविवेकः । संमोहात्स्मृतिविभ्रमः शास्त्राचा- योपदेशजातसंस्कारजनितायाः स्मृतेभ्रंश उत्सत्तिनिमित्तप्राप्ती सत्यामनुत्पत्तिः । ततश्च स्मृतिभ्रंशादबुद्धिनाशः कार्याकार्यविवेकलक्षणाया बुद्धेन शः । बुद्धिनाशात्स्वयं प्रण. श्यति । एतावान्हि पुरुषो यावत्कार्याकार्यविवेकस्तन्नाशे नष्ट एव पुरुषो भवति॥१३॥ अथेदानी मोक्षकारणमुच्यते- रागद्वेषवियुक्तस्तु विषयानिन्द्रियश्चरन् । आत्मवश्यविधेयात्मा प्रसादमधिगच्छति ॥ ६४॥ रागश्च द्वेषश्च रागद्वेषो तत्पुरःसरा हीन्द्रियाणां प्रवृत्तिः स्वाभाविकी। ताम्यां वियु. कैरिन्द्रियरात्मवश्येषियाश्चरन्नुपलभभानो योग्यात्मवश्यः स्वाधीनविधेय आत्माऽ. न्तःकरणं यस्य सोऽयं विधेयात्मा प्रसाद स्वास्थ्यमधिगच्छति पाप्नोति ॥ १४॥ प्रसादे सति किं स्यादिस्यत्रोच्यते- प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याश घुद्धिः पर्यवतिष्ठने ॥ ६५ ॥ प्रसादे प्रसन्नतायां सत्या सर्वदुःखानामाध्यामिकाधिभौतिकाधिदेविकानां हानि- नाशः । आध्यात्मिकानि जन्मजरामरणे तदन्तराले परिपतितवातपित्त-श्लेष्मसंक्षोभ- अनिता विकाराः । अधिभतिकानि भूतानामितरेतरं वयघातकमावेन जनितानि दुः- खानि शस्त्रप्रहरणादीनि । आधिदेषिकानि वातातपवर्षतत्प्रतिबन्धमनितानि दुःखानि । एतेषामाध्यात्मिकादीना दुःखानां हानि शोऽस्य योगिनः प्रजायते । किंच प्रसन्न- चेतसः स्वस्थान्तःकरणस्याऽऽशु शीघ्र बुद्धिः पर्यवतिष्ठत आकाशमिवाऽऽत्मकत्व- प्राहिणी परितः समन्तादवतिष्ठते । आत्मस्वरूपेणव निश्चला भवतीत्यर्थः ॥१५॥ : * एतचिन्हान्तर्गतो प्रन्थोऽधिक इति भाति । १ग, राज्यमाने। क.. 'राछोप' ।। क. ग. घ.. 'भ्यवधा।

३५ हनुपद्विरचितपैशाचभाष्यसहिता- [अ०२-श्लो०१८-१९] नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयता शान्तिरशान्तस्य कुन: सुखम् ।। ६६ ॥ न विद्यते सेयं प्रसन्ना बुद्धिरात्मस्वरूपविषयाऽयुक्तस्यासमाहितस्य । न चायुक. स्य मावनाऽऽत्मज्ञानाभिनिवेशो भावना । न चाभावयतः शान्तिरमावयत आत्म. ज्ञानाभिनिवेशशून्यस्य शान्तिरुपशमो न विद्यते । अशान्तस्यानुपरतेन्द्रियस्य कुतः मुखम् । इन्द्रियाणां विषयतृष्णातो निवृत्तिः सुखं न विषयतृष्णा, दुःखमेव हि सा । तृष्णायां सत्यां न सुखस्य गन्धमात्रमप्युपपद्यते ॥ ११ ॥ अनुपरतेन्द्रियस्य सुखं नास्ति कस्मादित्यत्राह - इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । सदस्य हरति प्रज्ञा वायुविमिवाम्भासि ॥ ६७ ॥ इन्द्रियाणां हि यस्माचरतां विषयेषु वर्तमानानां यन्मनोऽनुविधीयतेऽनुवर्तते तदस्य हरति प्रज्ञा =हरति तदिन्द्रियविषयविकल्पने प्रवृतं मनोऽस्य यतेर्हरति प्रज्ञामात्मा. नात्मविवेकजां वायु वमिवाम्भसि, उदके जिगमिषतां मार्गादुद्धृत्य दुर्गममार्गे यथा वायुर्नावं प्रवर्तयत्येवमात्मविषयां प्रज्ञामिन्द्रियानुविधाये मनो विषयाभिमुखी करोति ॥१७॥ यततो पीत्युपन्यस्तस्यानेकविधोपपत्तिमुक्त्वा तस्यार्थमुपपायोपसंहरति तस्पायस्य महाबाहो निगृहीतानि सर्वशः। इन्द्रियाणीन्द्रियायेंभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।। ६८ ॥ यस्येव योगिनः परमात्मनि नित्यशुद्धबुद्धमुक्तस्वभावे सर्वगतेऽयमहमस्मीति प्रज्ञा प्रतिष्ठिता स संयमयोगी ॥ १८ ॥ या निशा सर्वभूतानां तस्यां जागति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥ ६९ ॥ या निशा रात्रिः सर्वपदार्थानामविवेककारिणी सर्वभूतानां निशेति सर्वप्राणिव्यवहा- रागोचरब्रह्मरूपमुच्यते, तस्यां नागर्ति प्रबुद्धवानास्ते । यस्यां सर्वभूतानि जाप्रति प्रबुध्यन्ते. यस्यां व्यवहरन्ति साऽविद्या निशा परमार्थस्वरूपं ब्रह्म पश्यतो मुनेयोगिनः । एवमविद्याविधामेदादविदुषः सर्वकर्माणि, विदुषः सर्वकर्मनिवृत्तिः स्वभा- बास्सकलकर्मसंन्यास एव ॥ १९ ॥ विदुषस्त्यषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षो न कामकामिन इत्येवमर्थ दृष्टान्तन प्रतिपादयिष्यन्नाह- आपूर्यमाणमचलपविष्ट समुद्रमाः प्रविशन्ति यत् । - इदं पदमधिकम् १ क. ग. घः १. दुर्भार्ग। १. मुखांक।

[अ०२ श्लो०७०-७२] श्रीमद्भगवद्गीता । ३३ तत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥७॥ आपूर्यमाणमाद्भः । अचलपातिष्ठम् । अचला प्रतिष्ठा यस्य सः । तमचलप्रतिष्ठ समुद्रमापः प्रविशन्ति यद्यथा तद्वतथा कामा यं प्रविशन्ति परमात्मज्ञानेनैव रागद्वे- पाभ्यामकम्प्यमानं स शान्ति मोक्षलक्षणां प्राप्नोति । न कामकामी । कामान्कामयत इति कामकामी ॥ ७॥ यस्मादेवं तस्मात्- विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः । निर्ममो निरहंकारः स शान्तिपधिगच्छति ॥ ७१ ॥ चरति शरीरजीवनमात्रमेव चेष्टते । निस्पृहः शरीरजीवनमात्रेऽपि निर्गता स्पृहा यस्य स नि:स्पृह उपेक्षकः । निर्ममा शरीरादौ ममेदमितिबुद्धिरहितः । निरहंकारो विद्यावत्वादिनिमित्तेनाऽऽत्मसंभावनारहितः । स शान्तिमविद्योपरमलक्षणामधिगच्छति सषा ज्ञाननिष्ठा ॥ ७१ ।। एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वाऽस्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छति ॥ ७२ ॥ इति श्रीमहाभारते शतसाहरूयां संहितायां वैयासक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु- नसंवादे सांख्ययोगो नाम द्वितीयोऽध्यायः ।। २ ।। एषा यथोक्ता बामी ब्रह्मणि भवेयं स्थितिः । नैनां स्थिति प्राप्य लब्ध्वा विमु. ह्यति न मोहं प्राप्नोति । स्थित्वाऽस्यां ब्राहस्यां स्थितो यथोक्तायामन्तकालेऽप्यन्ते वयस्यपि ब्रह्मनिर्वाणं ब्रह्मनिति मोसमृच्छति गच्छति ॥ ७२ ।। इति श्रीमदनुमद्विरचिते पेशाचभाष्यनामके श्रीमद्भगवद्गीताव्याख्याने द्वितीयोऽध्यायः ॥ २ ॥ (आदितः श्लोकानां समामकाः-११९ )।

३४ हनुमद्विरचितपैशाचभाष्यसाहिता- [अ०३-लो०१-१) (अथ तृतीयोऽध्यायः) .. . अर्जुन उवाच- ज्यायसी चेत्कर्मपस्ते मत बुद्धिर्जनार्दन । ताकि कर्मणि घोरे मां नियोजयसि केशव ॥१॥ कर्मणः सकाशाद्धे जनार्दन बुद्धिायसी तव मता चेत्तत्र तर्हि घोरे युद्धात्मके कर्मणि मी किमर्थ नियोजसि केशव ॥ १॥ किंच- व्यामिश्रेणेव वाक्येन घुदि मोहयसीव मे । सदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥ व्यामिश्रेणेव संकीर्णेनेव बुद्धिं मोहयसीव कदाचित्कर्म श्रेय इति कदाचिद्बुद्धिः श्रेयसीति च संकीर्णनेव वाक्येन बुद्धिं मोहयसीव मोहं नयसीव मे । तत्तस्मादेवमनु- ठेयं निश्चित्य वद । येनानुष्ठितेन श्रेयोऽहमाप्नुयाम् ॥ २ ॥ श्रीभगवानुवाच-- लोकेऽस्पिन्द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन साख्यानां कर्मयोगेन(ण) योगिनाम् ॥३॥ लोकेऽस्मिशास्त्रानुष्ठानाधिकृतेषु पुरुषेषु द्विविधा द्विपकारा निष्ठा स्थितिरनुष्ठे- पतात्पर्य पुरा पूर्व सर्गादौ प्रजाः सृष्ट्वा तासामभ्युदयनिःश्रेयसप्राप्तिसाधनं वेदार्थ- संपदायं कुर्वता पुरा प्रोक्ता मया सर्वनेश्वरेणानघापाप । का निष्ठा द्विविधेत्यत माह-तत्र ज्ञानमेव योगस्तेन सांख्यानामात्मविषयविवेकज्ञानवता निष्ठा प्रोक्का । कर्मयोगेन(ण) कर्मव योगः । अनेन कर्मयोगेन( ण ) कर्मिणां कर्मनिष्ठा प्रोक्त्यर्थः ॥ ३॥ घोरं कर्म न कर्तव्यमिति मन्यमानमर्जुनं प्रति कर्माधिकारिणा कर्म कर्तव्यमिति प्रतिपादयितुमाह- न कर्मणामनारम्भान्नष्कर्प पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धि समधिगच्छति ॥ ४ ॥ कर्मणामनारम्भादकरणांनष्कर्थ नष्कर्यलक्षणामकस्मिज्ञानलक्षणां सिद्धि पुरुषो नाश्नुते । यथा ज्ञानाधिकारी ज्ञानेन । तर्हि सकल कर्मसंन्यास एव पुरुषार्थ. स्तमनुतिष्ठामीति चेत्तदपि न नियतः । न च संन्यसनादेव कर्मत्यागमात्रादेव सिद्धि कलक्षणां सिद्धि समधिगच्छति किंच योगानुष्ठानपूर्वकारसत्त्वशुद्धिजनितास्मवि. शामासिद्धि समधिगच्छति ।। ४ ॥

[म.लो.५-१] श्रीमद्भगवद्रीता। ३५ तत्र कश्चित्कुतो नैष्कम्य नाश्भुत इति हेत्वाकाङ्क्षायामाह- न हि कश्चित्क्षणमपि जातु निष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ ५ ॥ न हि यस्मात्क्षणमपि जातु कदाचित् , तिष्ठत्यकर्मकृदक्रियः । कस्मात् , कार्यते पवर्त्यते हि यस्मादवश एव कर्मैव सर्वः प्राणी प्रकृतिजैर्गुणैः सत्वरजस्तमोमिः । अज्ञ इति वास्यशेषः ॥५॥ कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ६॥ कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थानि संयम्य निरुध्य य आस्त उपविशति मनसेन्द्रियान्विषयान्स्मरन्विमूढात्मा विमूढान्तःकरणो मिथ्याचारः पापाचारः स उच्यते । नासो संन्यासी, मानसन्यापारस्यानुपरतत्वादित्यभिप्रायः ॥ ६ ॥ * यत एवमतः- यस्त्विन्द्रियाणि मनसा नियम्याऽऽरभतेऽर्जुन । कमेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ ७ ॥ यस्तु पुनः कर्मण्यधिकृतोऽज्ञो बुद्धीन्द्रियाणि मनसा नियम्याऽऽरमतेऽर्जुन कमें- न्द्रियैर्वाक्पाण्यादिभिः । किमारमत इत्यत्राऽऽह-कर्मयोगम् । कर्मैव योग आरा- ध्याराधकसंबन्धरूपकत्वात् । असतोऽफलाकाङ्क्षी स विशिष्यते तस्मास्मिथ्याचा- रात् ॥ ७॥ यत एवमता- नियतं कुरु कर्म त्वं कर्म ज्यायो हकर्मणः। शरीरयात्राऽपि च ते न प्रसिध्येदकर्मणः ॥ ८॥ तस्मानियतं नित्यं कर्म त्वं कुरु । यतः कर्म ज्यायः श्रेष्ठं फलकरत्वात् । अक: मणोऽनारम्मात् । इतश्च ज्यायः, शरीरयात्रा शरीरस्थितिरपि च ते तव न प्रसिध्येन प्रसिध्यति । अकर्मणोऽकरणात्तस्मात्कर्तव्यमित्याभपायः ॥ ८॥ यत्तु मन्यसे बन्धहेतुत्वात्कर्म न कर्तव्यमिति तदसत् । कथम्- यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ ९ ॥ यज्ञार्थात् । यज्ञो विष्णुः । " यज्ञो वै विष्णुः " इति श्रुतेः । सोऽर्थः प्रयोजन •• * इतः पूर्व सकलादर्शपुस्तकेषु " तस्मानिमच्याचारात्" इत्यधिको प्रयोस्ति ।

हनुपद्विरचितपैशाचभाष्यसहिता- [अ०३ श्लो०१०-११ यस्य तज्ञार्य विष्ण्वाराधनार्य तस्माद्विष्ण्वाराधनार्याकर्मणोऽयंत्रायं लोकः कर्म- बन्धनः । तदर्थ विष्ण्वाराधनार्य यज्ञादिकर्म कौन्तेय मुक्तः सङ्गो येन स मुक्तसङ्गः समाचरानुतिष्ठ ॥९॥ इतश्चाधिकृतेन कर्तव्यं कर्म- सहयज्ञाः प्रजाः सृष्ट्वा पुगेवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥१०॥ सहयज्ञा यज्ञसहिताः प्रनाः प्राणिनो ब्राह्मणाद्यान्यज्ञाधिकारिणः सृष्ट्वा पुरा पूर्व सर्गादावुवाच प्रजापतिः प्रजाः सृष्टेरनन्तरम् । कथमुवाच । अनेन यज्ञेनोत्पादयध्व- मेष यज्ञो वो युष्माकमस्तु भवत्विष्टकामधुक् । इष्टकामानभिमतान्फलविशेषान्दोग्बी. तीष्टकामधुक् ।। १०॥ कथमिष्टकामधुग्यज्ञ इत्यत्राऽऽह- देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥ देवान्भावयताननेत्यादि । देवानिन्द्रादीन्भावयत वर्धयतानेन यज्ञेन । ते देवा वर्धिता युष्मान्मावयन्तु । परस्परं मावयन्तः श्रेयः परं विज्ञानप्राप्तिक्रमणावा- प्स्यथ । ११ ॥ - इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः। तैर्दत्तानप्रदायेभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥ इष्टान्भोगानभिमतान्स्वर्गपुत्रादीन्वो युभम्यं देवा इन्द्रादयो दास्यन्ते यज्ञमा. विताः । अतस्तैर्देवैर्दत्तान्परिगृह्याप्रदाय चरुपुरोडाशादिरूपेणादत्ता(चै ) [ न्यो ] यो भुङ्क्ते स्तेन एव सः । आनृण्यमकृत्वा तैर्दत्तोपभोगादीनामित्यभिषायः ॥१२॥ यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सनकिल्विषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्यकारणात् ॥ १३ ॥ यज्ञाः पञ्च महायज्ञाः । देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञो ब्रह्मयज्ञ इति । एते पञ्च महायज्ञास्तेषां शिष्टं यज्ञशिष्टम् । देवयज्ञादीनिवर्त्य तच्छिष्टमशनममृता- ख्यमशितुं शीलं येषां ते यज्ञशिष्टाशिनः । सर्वकिल्विषैः सर्वपापैर्मुच्यन्ते [यज्ञ]- शिष्टाशिनः । चुल्लीपेषण्यवस्करीखण्डनीकुम्भलक्षणपश्चसूनाकृतैः प्रमादकृतहिंसाजनितेश्च किल्विषैर्मुच्यन्ते । ये त्वात्मकारणास्पचन्ति ते तु पापा: पापस्वरूपा अघं पापमेव भुञ्जते । तस्मादवश्यं पञ्च महायज्ञाः कर्तव्याः ॥ १३ ॥ 1 क. घ. ङ. वस्कारिख । २ क. घ. इ. 'खण्डिनिकु' । क. ख. ग. रु. क्षणा खुलथा. दिप। घ. चुल्लयादिप।

१०३लो०१४-10] श्रीमद्भगवडीवी। भमाद्भवन्ति भूतानि पर्जन्यादमसंभवः । यवाद्भवति पर्जन्यो यज्ञः कर्मसपुंगवः ॥१४॥ मन्नाद्भवन्ति जायन्ते भूतानि कार्यकरणसंघातामकानि । पन्याटिरमसंभवः । यज्ञाद्भवति पर्जन्यः। अग्नी प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिदृष्टेरनं ततः प्रजाः ॥ इति स्मृतेः । यज्ञायागक्रियासमुद्भवाद्यज्ञा( दर्मा )द्भवति पर्जन्यः । यज्ञः कमसमयी चान- क्रियासमुद्भवो धर्मः कर्मसमुद्भवः कर्मविन्यज॑मानन्यापारात्मको धगिः समुद्भवः कारणं यस्यासौ कर्मसमुद्भवो यागक्रियासमुद्भव इत्यर्थः ॥ १४॥ कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५॥ कर्म ब्रह्मोद्भवं ब्रह्म वेदः प्रकाशकं यस्य तत्कर्म ब्रह्मोद्भव विहिं विमानाहि । ब्रह्म पुनर्वेदाख्यमक्षरसमुद्भवं विद्धि । अक्षरः परमात्मा समुनवः कारण यस्य - णस्तदक्षरसमुद्भवम् । अक्षरात्पुरुषनिःश्वासंवत्समुद्भूतं ब्रह्म । तस्मात्सर्वार्थप्रकाशकवा. सर्वगतं ब्रह्म वेदो यज्ञप्रकाशकत्वाद्यज्ञे प्रतिष्ठितम् ॥ १५ ॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह था। अघायुरिन्द्रयारामो मोघं पार्थ स जीवति ॥ १६ ॥ एवमन्नपूर्वकं प्रवर्तितं चक्रं निष्पादितं चङ्क्रमणशी नानुवति मानुक्तिक्षति योऽघायुरघमात्मन इच्छतीत्यवायुः । इन्द्रियाणामाराम इन्द्रियक्रीडास्थानं मोघं वृथा हे पार्थ स जीवति स प्राण धारयति । तस्मादन कर्मण्यधिकृतन कक्षाः कर्तव्या इत्यभिप्रायः ॥ १६ ॥ कर्मण्यनधिकृतस्य ज्ञानिनः कर्म न कर्तव्यमित्याह-- यस्त्वात्मरतिरेव स्थादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्य न विद्यते ॥ १७॥ यस्त्विति । यस्बु सांख्य आत्मज्ञाननिष्ठ आत्मरतिरात्मनि रतियस्य स] आत्म- रतिः । बारमन्ये नै)व तृवो नान्नरसादिना । आत्मन्येव च संतुष्टः समुष्टो बाबार्ष- लामे भवति तमनपेक्ष्याऽऽत्मन्येव च संतुष्टः । आत्मविदस्तस्य कार्य करणाय न विद्यते ॥ १७ ॥ १ ग. घ. 'यंकार' । २ क. ख.. श्रुतेः । ३ क. स्व. ग. . "मनुपू 17 कमणशीर्ष ! ५ क.. 'ति प्रा । ६ प. प्राणान्धार।

हनुमद्विरचितपैशाचभाष्यसहिता- [भ०१-लो०१८-१९] .. .. .. नव तस्य कृतेनार्यों नाकृतेने कश्चन । न चास्य सर्वभूनेषु कविदर्यव्यपाश्रयः ॥ १८ ॥ तस्याऽऽस्मरतेः कृतेन करणेन नार्थः प्रयोजनमेवं नाप्यकृतनाकरणेन कश्चित्पत्य- बायः । न चास्य विदुषः कश्चिद्ब्रह्मादिस्थावरान्तेष्वर्यव्यपाश्रयः कार्यार्थमाश्रय- णम् ॥ १८॥ त्वं तु कर्मण्यधिकृत:-- स्मादसक्तः सततं कार्य कर्म समाचर | असक्तो चाचरन्कर्म परमानाति पुरुषः ॥ १९ ॥ तस्मादसक्तः फलसङ्गवर्जितः सततं सदा कार्य कर्तव्यं कर्म युद्धादि समाचरानु. तिष्ठ । किं तत इति चेत् । असक्तः सङ्गवर्नितो हि यस्मादाचरन्ननुतिष्ठन्कर्म परं परमात्मानमाप्नोति पुरुषः, तस्मान्नित्यं कर्म कुर्विति संबन्धः ॥ १९ ॥ इतब [कर्म कर्तव्यम्- कर्मणेव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवापि संपश्यन्कर्तुपईसि ॥ २० ॥ कर्मणैव हि पूर्वे क्षत्रिया जनकप्रभृतयः संसिद्धिं मोक्ष प्राप्तुं प्रवृत्ताः । यदि ते प्रामसम्बग्दर्शनाः केवलं लोकसंग्रहार्थ कर्मणि प्रवृत्तास्तहि त्वमपि लोकसंग्रह लोकस्य धर्मपरिसंग्रहं पश्यस्तदर्थमेव कर्म कर्तुमर्हसि ॥ २० ॥ छोकसंग्रहार्थ कि कर्तव्यमित्युच्यते- यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥ यद्यत्कर्माऽऽचरति श्रेष्ठः प्रधानस्तत्तदेव कर्माऽऽचरतीतरो जनस्तदनुगतः । किंच स श्रेष्ठो यल्लौकिक वैदिकं वा प्रमाणं कुरुते प्रत्येति लोकस्तदनुवर्तते तदेव प्रमाणी करोतीत्यर्थः ॥ २१ ॥ सदर्शयति- न में पायस्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ।। २२ ।। मे मम पार्थ कर्तव्यमनुष्ठेयं त्रिषु लोकेषु किंचन किमपि न । कुन इति चेत्, न मेऽनवासमप्राप्तमवाप्तव्यं प्राप्तव्यं प्रापणीय नास्ति तथाऽपि कर्मण्येव वर्ते ॥ २२ ।। यदि पुनरहमिव त्वं कृतार्थबुद्धिरात्मविदन्यो वा तस्याऽऽत्मविदः कर्तव्याभावेऽपि परानुग्रहः कर्तव्य इत्यात्मसम इदमुच्यते-- १ क. ख. घ. F. 'त्मसंभेद उच्य।

[सं०१ श्लो०२३-२८] श्रीमद्भगवद्गीता। ३९ यदि यह न वर्तेय जातु कर्मण्यतन्द्रितः । मम पानुषर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥ [यदि बहमिति] ॥ २३ ॥ ततश्च को दोष इत्यत आह- उत्सीदेयुरिमे लोका न कुर्या कर्म चैदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमा: प्रजाः ॥ २४ ॥ उत्सीदेयुरिमे लोका इति । अनेन कारणेनोपहन्यामिमाः प्रजाः प्रजानामनुग्रहाय प्रवृत्तः कर्मोपहतिं कुर्यामिति । ततश्च ममेश्वरस्याननुरूपमापयेत ॥ २४ ॥ ततश्च- सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वस्तियाऽसक्तश्चिकीर्षुलोकसंग्रहम् ।। २५ ॥ सक्ताः प्रसक्ताः फलापिसंधी । विद्वाज्ञानी तथा तेन प्रकारेण। असक्तः फलामि- संधिरहितः । चिकीर्षुः कर्तुमिच्छुः । लोकसंग्रहं कर्तव्यं धर्मोत्पादनम् ॥२५॥ न बुद्धिभेदं जनयेदवानां कर्षसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥ समाचरन्कर्म न कर्तव्यमिति बुद्धेरन्यथाभावं न जनयनोत्पादयेत् । केषामज्ञाना- मविकिनां कर्म सङ्गिनामिदं विशिष्टफलसाधनमिति कर्मसङ्गिनाम् । किं तु कुर्यात् । मोषयेत्कारयेत्सर्वकर्माणि यज्ञादीनि विद्वान्स्वयं तदेवाविदुषां कर्म युक्तोऽमियुक्तः समाचरन् ॥ २६ ॥ इदं च कर्तृत्वमात्मनोऽपरमार्थरूपम् । कथम् -- प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहंकारविमूढात्मा कर्नाऽहमिति मन्यते ॥ २७ ॥ प्रकृतेन्यतस्य गुणैः सत्वरजस्तमोभिः क्रियमाणानि कर्माणि लौकिकानि शास्त्री. याणि च सर्वशः सर्वप्रकाराणि । अहंकारविमूढात्माऽहंकारोऽव्यक्त कार्य]करणसंघाते- ध्वनात्मन्यहमिति बुद्धिस्तेनाहंकारेण विमूढो व्यामूढ आत्मा यस्य सोऽयमहकारवि. मूढात्मा कर्ताऽहमेषां कर्मणामिति (*कर्तव्यमिति) मन्यते ॥ २७ ॥ तत्त्ववितु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वन्त इति मत्वा न सज्जते ॥२८॥ : -- * धनधितान्तर्गतमधिकर।

ये .. ७ हनुमद्विरचितपैशाचमाध्यसाहिता अ. ३ श्लो९९९-1] तत्त्वविदकर्ता स्वरूपवित् । मुणाः सत्त्वादयः । गुणानां कर्तृभूतानां कर्मणां च कार्य- भूतानां विमागयो सतोः । गुणाः सस्वरजस्तमांसि गुणेषु तत्काषु गमनागमनादि. कर्मसु कर्तृत्वेन वर्तन्त इति तु मन्यमानो न सज्जते । नाई कति मन्यत इत्या२८॥ पुन:- प्रवेशसंमूढाः सज्जन्ते गुणकर्मसु । बानासनविद्रो मन्दान्कत्वविन विचालयेत् ॥ २९ ॥ प्रय कार इति संमूढाः सन्तः सज्जन्ते गुणानां कर्मसु वयं कुर्य कुर्मः फलायेी मगन्ते मन्यन्ने । तानकृत्स्नविदः कर्मफलमात्रदर्शिनो पन्दान्मन्दराजाक- त्ववित्सविद्रमविन विचालयेत् । बुद्धिभेदकरणमेव चालनं तन्न कुर्यादित्यर्थः ॥२९॥ स्वं तु कर्माधिकारी- मयि सणि कर्माणि संन्यस्वाध्यात्मचेतसा । निराग्रीमिमो भूत्वा युध्यस्व विगवज्वरः ॥३ ०॥ असिनामो परमेश्वरे सर्वज्ञे सर्वकर्मभोक्तरि सर्वाणि कुर्माणि सन्यायाध्यात्म- चेतसा विवेकनुढ्या निराशीनिर्ममः कर्मणि तत्फले च ममत्ववर्जितो युध्यस्व विगत. ज्वरी विगतसंतापः ॥३०॥ यदेवत्सम प्रतं कर्म कर्तव्यमिति सप्रमाणमुक्तं त[स]पा- ये मतपिदं नित्यमनुतिष्ठन्ति मानवाः। अदालोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥ अधिकारणो मे मम मतमिदमुक्तस्वरूपं नित्यं सदाऽनुतिष्ठन्ति मानवाः श्रद्धा- वैनः अधाना अनसूयन्तो मयि वासुदेव उपदेष्टर्यसूयारहितास्तेऽपि कर्मभिः सकलकिल्मिषैर्मुच्यन्ते ॥ ३१॥ वे स्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वजानषिमूढास्तान्विदि नष्ठानचेतसः ।। ३२ ॥ थे वेतन्मम मतमम्यस्यन्त ईयन्तो नानुतिष्ठन्ति न कुर्वन्ति मे ममेश्वरस्य मतं सर्वाणि प्रतानि ज्ञानानि तेषु विमूढानपरमार्थविदो विद्धि विजानीहि नष्टानचेतसोऽ- विषफिनः ॥ १२॥ तथा हि- सर चेष्टते स्वस्याः प्रकृतेजानवानपि । प्रकृति यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥ १.क.स. . . वन्तोऽन'।

म.३सो ०१४-३०] श्रीमद्भगवद्गीता। ४१ सदृशमनुरूपं चेष्टते स्वस्याः प्रकृतेः । प्रकृति म पूर्वकृतधर्माधर्मादिसंस्कारो वर्तमानजन्मादावभिव्यक्तो यः सा, प्रकृति(ते)स्तस्याः सदृशमेव सर्वजन्तुर्ज्ञानवानपि किमुत मूर्खः । प्रकृति यान्ति भूतानि निग्रहो निरोधः किं करिष्यति मम वाऽन्यस्य वा ॥ ३३ ॥ अतः शाबानर्थक्यमिति चेत्तत्राऽऽह- इन्द्रियस्येन्द्रियस्यायें रागद्वेषो व्यवस्थिती । सयोर्न वशमागच्छेत्तौ बस्य परिपन्थिनौ ।। ३४ ॥ इन्द्रियस्यन्द्रियस्यायें सन्द्रियाणामय रागोऽनिष्टे द्वेष इत्येवं यद्यपि प्रकृत्याख्य. स्वभावतः प्रवृत्तिनिवृत्ती तथाऽपि तयो रागद्वेषपूर्वकत्वं प्रत्यक्षा रागात्प्रवृत्तिषानि- वृत्तिरिति । अतो रागद्वेषो नियम्य यथाशास्त्रं प्रवर्तते । यतस्तौ रागद्वेषौ परिपन्थिनी पुरुषार्थप्रतिबन्धको ॥ ३४॥ कि चान्यत्- श्रेयास्वधमों विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्म निधनं श्रेयः परषों भयावहः ॥ ३५ ॥ यतः श्रेयान्भशस्यतरः स्वधर्मो विगुणः कतिपयाने रहिनः परस्य धर्मः परधर्म- स्तस्मात्परधर्मात्सगुणमनुष्ठिताद्विनाऽतः स्वधर्मे निधनं श्रेयः प्रशस्यतरम् । परधर्मों भयावहः । भयमावहतीत्यर्थः * ॥ ३५ ॥ बुद्धिपूर्वकारिपुरुषेषु प्रसिद्धा (परधर्मा(?)) नुष्ठानदर्शनात्तस्य कारणबुभुत्सयाऽर्जुन .. उवाच- अर्जुन उवाच-- अय केन प्रयुक्तोऽयं पापं चरवि पूरुषः । अनिच्छन्नपि वाष्णेय बलादिव नियोजितः ॥ ३६ ॥ अपेति । मियोजित इव ।। ३९ ॥ आत्मपापप्रवृत्तिकारणं श्रीभगवानुवाच- श्रीभगवानुवाच- काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विदयेनमिह वैरिणम् ॥ ३७॥ *इत उत्तर " बुद्धिपूर्वकारिपुरुषेषु प्रसिद्धमित्यर्थः " इत्यधिक ख. ग. प. अ. पुस्तकेषु । १. ग. घ... 'तम 11. 'सक्ष रा।३ क. स. प. 3. प्रवर्तते । क.. ग..'त्मा।

हनुमद्विरचितपैशाचभाष्यसहिता- [अ०३श्लो०३८-११ -- 1 एष कामः क्रोधश्च रजोगुणसमुद्भवः । महाशनः । महदशनं यस्य स महाशनो विषयसेवानुपरतः । अत एव महापाप्मा । महापाप्मा पापं यस्माद्भवति स महा- पाप्मा । एनं काम क्रोधं च, इहाधिकारिपुरुषाणां विषये शत्रु विद्धि ॥ ३० ॥ कथं स वैरीत्यत्राऽऽह-- धूमेनाऽऽवियते वह्निर्ययाऽऽदशों मलेन च । यथोल्वेनाऽऽवृतो गर्भस्तथा तेनेदमात्रम् ॥ ३८ ॥ धुमेनाऽऽप्रियते विधीयते वह्निर्यथा । यथा चाऽऽदों दर्पणो मलेन च कालिमा- ख्येन विधीयते । यथा चोल्न जरायणा गर्भाशयगतः प्राणी तथा तद्वत्तेन कामेन क्रोधेनेदं विवेकप्रमवं ज्ञानमावृतमाच्छन्नम् । सकलपुरुषार्थप्रकाशकज्ञानावरणद्वारेणायं कामः क्रोधश्च वैररीत्याभिप्रायः ॥ ३८॥ आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। कामरूपेण कौन्तेय दुःपूरेणानलेन च ॥ ३९ ॥ आवृतं पिहितं विवेकज्ञानमेतेन कामेन क्रोधेन च ज्ञानिनोऽपि किमु। मूर्खस्य मित्यवैरिणा नित्यं वैरी तेन । नित्यरित्वं ज्ञानापिधानद्वारकम् । कामरूपेण दुष्पूरेणा- नलेन च । दुःखेन पूर्यत इति दुःपूरः । न विद्यतेऽलं पर्याप्तिरस्येत्यनलः । भूयो भूयो विषयसेवया वर्धमानेन कामेन श्रेयार्थी पुरुषः पापं चरतीत्यर्थः ॥ ३९ ॥ किं चास्य कामस्य कारणमुच्यते-- इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानगुच्यते । एवैवियोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥ इन्द्रियाणि लोचनादीनि । मनः संकल्पात्मकम् । बुद्धिरध्यवसायात्मिका । अस्य कामस्याधिष्ठानं कारणमुमो न्द्रिय पहिः प्रथमं मदद विषयमालोच्य मनसा तस्य सुखहेतुत्वं संकरप्या मनात वि. हाल बुद्धयाऽध्याय पुरुषः कामयते। तम्मादिन्द्रिादीनि कामयाब titi । एतरिन्द्र गदि भः कारणैरनं देहिन विमोहयति । बोक्सत्वपतिपत्तो हि करणं भवतीति ज्ञान । सम्यग्ज्ञानमा. स्याउछाध यत एवमतः ॥ ४० ॥ यस्मादिन्द्रियाणि रागद्वेषमूल----- तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मान प्रजाई होनं ज्ञानविज्ञाननाशन ॥ ४१ ।। तस्मात्तान्यादी प्रथमं नियम्य निरुधन प्रकृत वैरिणं पाप्मानं सकलपापहेतुं काम प्रजहीति । ज्ञानमात्मशास्त्राचार्योपदेशजनित विज्ञान तत्पूर्वकः प्रत्यगात्मानुभवस्तयो- शिन एजंह ॥ ११ ॥ प्रयुक्तः सव :

[अ० ४ लौ ०१-२] श्रीमद्भगवद्गीता
४३
यं ज्ञानरूपमात्मानं काम आवृणोति तस्य स्वरूपमाह-
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धियों बुद्धः परतस्तु सः ॥ ४२ ॥
इन्द्रियाणि श्रोत्रादीनि पराणि प्रकृष्टानि सूक्ष्मत्वात्सकलदेहव्यापित्वाचाऽऽहुः
कथयन्ति । तेभ्योऽपीन्द्रियेभ्यः परं प्रकृष्टं मन आहुः । तत्पूर्वकत्वादिन्द्रियाणां प्रवृत्तेः ।
मनसोऽपि परा बुद्धिः । बुद्धिरध्यवसायात्मिका तदर्थत्वान्मनसः । यो बुद्धेः परतो
बोद्धा स कामेनाऽऽत इत्यभिप्रायः ॥ ४२ ॥
एवं बुद्धः परं बुद्ध्वा संस्तभ्याऽऽत्मानमात्मना ।
जहि शत्रु महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥
इति श्रीमहाभारते शतसाहलयां संहितायां वैयासक्यां भीष्मपर्वणि
श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु.
नसंवादे कर्मयोगो नाम तृतीयोऽध्यायः ॥ ३ ॥
एवं बुद्धेः संभवं यतो बुद्धेः परं बोद्धारमात्मानं बुद्ध्वा ज्ञात्वाऽन्तःकरणमात्मनेव
संस्तम्य कामरूपं शत्रु जहि । दुरासदं दुःखेनाऽऽसाद्यते विनाश्यत इति दुरासद.
[स्त]म् ॥ ४३ ॥
इति श्रीमद्धनुमाद्विरचिते पैशाचमाष्यनामके श्रीमद्भगवद्गीताव्याख्याने
तृतीयोऽध्यायः ॥ ३ ॥
( आदितः श्लोकानां समष्टयङ्काः-१६२ )
( अथ चतुर्थोऽध्याय.)।
पूर्वोक्तं योगमनेकशिष्टपरिग्रहेण च(प)स्तौति प्ररोचनार्य श्रीभगवान्-
श्रीभगवानुवाच-
इमं विवस्वते योग प्रोक्तवानहमव्ययम् ।
विवस्वान्मनवे माह मनुरिक्ष्वाकवेऽब्रवीत् ॥ १ ॥
इमं पूर्वोक्तं विवस्वते प्रोक्तवानहमव्ययमविनाशिनम् । स च विवस्वान्मनवे स्वपु-
त्राय पाह । स च मनुरिक्ष्वाकवेऽब्रवीत् ॥ १॥
एवं परम्परामाप्तमिमं राजर्षयो विदुः।
स कालेनेह महता योगो नष्टः परंतप ॥२॥

•. .. ४४ हनुपद्विरचितपैशाचमाष्यसाहिता- [अ०१सो०३-७] एवं क्षत्रियपरम्परामा प्रोक्तमिमं राजर्षयो मनुप्रभृतयो विदुर्विजानन्ति । स योगो महता कालेन नष्टो विच्छिन्नसंप्रदायः संवृत्तः । परंतप परास्तापयतीति पर. तपः । शन्तप इत्यमिपायः] ॥२॥ स एवायं मया तेऽय योगः मोक्तः पुरावनः । भक्तोऽसि मे सखा चेति रहस्य तदुत्तमम् ॥ ३॥ स एव विपिछलसंप्रदायो योगः प्रोक्तः पुरातनः । ते तव। रहस्यमप्रकाश्यम- त्तमं निरुपमम् ॥ ३॥ एवं श्रुत्वाऽर्जुन उवाच- अर्जुन उवाच- अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥ अपरमर्वाचीनं वसुदेवगृहे मवतो जन्म, परं पूर्व विवस्वत मादित्यस्य जन्म सर्गा- दावतः कथमेतद्विजानीयां त्वमादौ विवस्वते प्रोक्तवानिति ॥१॥ आत्मनो निरीश्वरता मुर्खबुद्धिपरिकल्पिता परिहरन्भगवानुवाच- श्रीभगवानुवाच- बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥५॥ बहूनीति । तान्यहं वेद विजानाम्यनावरणज्ञानत्वात्त्वं तु न वेल्प न जानीs- विद्याकामकर्मावृतत्वात् ॥ ५॥ कथं तर्हि तव नित्येश्वरस्य धर्माधर्मामा जन्मेत्यर्जुनस्य प्रश्ने सति मगवानाह- अजोऽपि सनव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृति स्वामधिष्ठाय संभवाम्यात्ममायया ॥६॥ अनोऽपि जन्मरहितोऽपि सन्नन्ययात्माऽनुपक्षीणज्ञानशक्तिस्वभावो भूतानामाब्रह्म स्तम्बपर्यन्तानामीश्वर ईशनशीलोऽपि प्रकृति मम वैष्णवी मायां त्रिगुणात्मिको यस्या क्शे सर्व जगद्वर्तते यया मोहितं स्वमात्मानं वासुदेवं मां न जानाति तां प्रकृति स्वामधिष्ठाय स्वीकृत्य संमवामि देहवानिव जात इव च भवामि । आत्ममाययाss. स्मनो मायया । न परमार्थतो लोकवत् ॥ १॥ तच्च जन्म कदा किमयं चेत्यत्रोच्यते- यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ।। ७ ॥

[१०१ श्लो०८-१२] श्रीमद्भगवद्गीता। ४५ यदा यदा यस्मिन्यस्मिन्काले धर्मस्य प्राणिनामभ्युदयस्य नि.(यनि)श्रेयससाथ- नस्य ग्लानिर्भवति । अधर्मस्य यदाऽभ्युत्थानमुद्भवो भवति तदाऽहमात्मानं सृजाम्यु. त्पत्स्यामीति ॥ ७ ॥ किमर्थमित्यत्राऽऽह- परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ।।८।। परित्राणायोति । युगे युगे प्रतियुगम् ॥ ८ ॥ जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः। त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥९॥ जन्म मायारूपं कर्म च धर्मसंस्थापनार्थाय कंसवधादिरूपं दिव्यममाकृतमैश्वर्य यो बत्ति तत्त्वतो यथावद्देहं त्यक्त्वा पुनर्जन्म न गच्छति किं तु मामेति प्राप्नोति मुच्यत इत्यर्थः ॥ ९ ॥ नेष मोक्षमार्ग इदानी प्रवृत्तः किं तर्हि पूर्वमपि- वीतरागभयकोधा मन्मया मामुपाश्रिताः। बहवो जानतपसा पूता मद्भावमागताः ॥ १० ॥ मन्मया ब्रह्मविदो मामुपाश्रिता मामेव परमेश्वरमाश्रिताः । ज्ञानमेव तपस्तेन ज्ञान. तपसा पूताः शुद्धाः । मद्भावमीश्वरमावमागता मुक्ता इत्यर्थः ॥ १० ॥ मद्भावमागता इन्युपश्रित्य मोक्षमेव प्रयच्छति भगवान्मक्तानां न ज्ञानेश्वर्यादिफल- मित्यर्जुनस्य वचनमाशङ्कयाऽऽह- ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः ।। ११ ॥ ये यत्फलमाथिनः पुरुषा यथा येन प्रकारेण सात्त्विकराजसतामसभावेन मां प्रप. धन्ते तानहं तथैव तत्फलदानेनैवेश्वर्यादिफलार्थिनस्तहानेनैवेत्यभिप्रायः । ममेश्वरस्य वर्त्म मार्ग यथाभिलषितफलप्रदत्वमनुवर्तन्तेऽनुसरन्ति । यद्यत्फलमाभिलषितं तदेव मां प्रार्थयन्त इत्यभिप्रायः ॥ ११ ॥ किंच- काङ्क्षन्तः कर्मणां सिदि यजन्त इह देवताः । क्षियं हि मानुषे लोके सिद्धिर्भववि कर्मजा ॥ १२ ॥ काङ्कन्तः कामयमानाः कर्मणां यज्ञादीनां सिद्धिं स्वर्गादिफलं यनन्ते पूजयन्तीह लोके देवता इन्द्राद्याः । यतः क्षिप्रं शीघ्रं मानुषे लोके कर्मजा सिद्धिः कर्मफलं भवति जायते न लोकान्तरे वर्णाश्रमादिविशेषालाभात् ।। १२ ॥

४६ हनुमद्विरचितपैशाचभाष्यसहिता- [४ श्लो०११-१५ अत एव- चातुवर्ण्य मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम् । १३ ॥ चत्वारो वर्णाश्चातुर्वर्ण्य मयेश्वरेण सृष्टम् । गुणाः सत्त्वादयस्तद्विभागेन च । तत्र सात्विकस्य ब्राह्मणस्य शमो दमस्तप इत्यादीनि कर्माणि । सत्त्वोपसर्जनस्य रजःप्र. धानस्य क्षत्रियस्य शौर्यतेजःप्रमृतीनि कर्माणि । रजःप्रधानस्य वैश्यस्य कृष्यादीनि कर्माणि । तामसाय शुद्रस्य शुश्रूषेव कर्मत्येवंगणकर्मविभागशश्चातुर्वण्र्य मया सृष्ट मित्यर्थः । तस्य चातुर्वर्ण्यस्य कर्मणः शम भनेः कर्तारं मामीशरं विद्धि जानीहि । वस्तुतोऽकर्तारमव्ययमविकारिणम् ॥ १३ ॥ कर्तृत्वे कर्मफलसंबन्धात्तवानीश्वरत्वमित्याशङ्कचाऽऽह--- न मां कर्माणि लिम्पन्ति न कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिन स बध्यते ॥ १४ ॥ न मां कर्माणि यज्ञादीनि लिम्पन्ति, उपश्लिष्यन्ति देहाद्यारम्भकत्वेनाहंकाराभावात्। न मे कर्मफले स्पृहा । अतो हतोरकळत्मज्ञानादहं कर्मभिरलिप्त इत्यतोऽपि मां पर. मात्मानं योऽमिजानात्यवगच्छति कर्ममिन स बध्यते न लिप्यते ॥ १४ ॥ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मव पूर्वः पूर्वतरं कृतम् ॥ १५॥ अहमेवेश्वरः कर्मणः स्रष्टाऽहमेव च कर्तेति ज्ञात्वा पूर्वैः पुरुषैः पूर्वतरमेव कृतं कर्म, त्वं तस्मादेव हेतोः कुरु ॥ १५ ॥ अध्यात्मज्ञानेन कर्मफलं प्राप्तं मन्यमानः स्वयमेव कर्मणामाध्यात्मिकस्वरूपाविष्क. रणार्थमाह- किं कर्म किमकर्मति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्षसेऽशुभात् ॥ १६ ॥ किं कर्म किमकति । कर्माकर्मस्वरूपमनानन्तः कवयोऽपि मोहिताः परममूढाः। तत्त्वतस्तत्ते कर्म प्रवक्ष्यामि यत्कर्मस्वरूपं ज्ञात्वाऽशुभासंसाराद्विमोक्ष्यसे ॥ ११ ॥ कर्म नाम शरीरेन्द्रियव्यापारस्तदभावश्चाकर्म कथमत्र कवयोऽपि मोहिता इति चेदुच्यते- कर्मणोऽह्यपि बोद्धव्यं बोद्धव्यं च विकर्षणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥ तस्मात्त्वं १ क. ख. घ. कृ. °णाऽऽध्या ।

.. ता ॥ [अ०४ श्लो०१८-२२] श्रीमद्भगवद्गीता। कर्मणो ह्यपि बोद्धव्यं शरीरन्द्रियव्यापारनिर्वत्वं रूपं बोद्धव्यं किंचिदस्ति । तथा विकर्मणः प्रतिषिद्धस्यापि बोद्धव्यं प्रतिषेध्यरूपमस्ति । तथाऽकर्मणः कर्माभावस्यापि बोद्धव्यं रूपमस्ति । यत. कर्मणो गतिर्गहना दुर्योधा ।। १७ ।। इदानी कर्माकर्मविकर्मणा बोद्धव्यं रूपं दर्शयितुमाह कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः। स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥ कर्मणि शरीरेन्द्रियव्यापारलक्षणे कर्मण्यकर्म नित्यसिद्धत्वादात्मस्वरूपं द्रष्टव्यमिति शेषः । यथा मरीच्युदक उदकस्य स्वरूपभूता मरीचयस्तदभाव उदकस्य नैरात्म्यंप्र- सङ्गादेवं कर्मणि अकत्मिस्वरूपमस्ति । तथाऽकर्मके वस्तुनि निश्चले कर्मस्वरूपं द्रष्टव्यम् । यथा नावि स्थितस्य निश्चले तट नगे भ्रमिकर्मदर्शनम् । अत एव यः कर्मण्यकर्मरूपमकर्माण कर्मरूपं पश्यति स मनुष्येवाधिकारिषु पुरुषेषु बुद्धिमान् । स च युको योगी । स च कृत्स्नकर्मकृत्सकल मदित्यर्थः । तस्मात्त्वमपि कर्माकर्मणोर्य- पावरस्वरूपपरिक्षानेन कर्माणि कुपित्यर्थः ॥ १८ ॥ तस्मात्- यस्य सत्र समारभाः कामसंकल्पवर्जिताः । जानाग्निदग्वकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ।। यस्य कर्मामविक्षः सर्वाः क्रिया: कामसंकल्पवर्जिताः फलसंकल्परहितास्तं ज्ञाना- निदवकमाणमाकर्मतरता जान मिस्तेन दम्पकर्माण बुधा ब्रह्मविदः पण्डित. माहुः ॥ १९ ॥ त्यक्त्वा कर्मफलीपनियता निर.श्रयः । ५.०५.12... 1 .11 .. १९१०।। सः ॥ २० ॥ स ५०डतः ला . 4. 11id५ मा यि जिनः । कम्यमिप्रवृ. तोऽपि ने विकराति स: । his त बवाना मादित्यभिप्रायः ॥ २० ॥ निगसानिनि 11 मारहा। शामा केवल 55 किल्वियम् ॥ २१ ॥ निराशी प्रार्थनारहित., Adi di: मा संयन्त:करणारत्यक्वसर्वपरिग्रहः शारीर केवलं कर्म शरीरस्थितिसाधनं कर्म पुर्वन्नाऽऽनोति किरियषं पापम् ।। २१ ॥ यहरछालामसंतुष्टो द्वंद्वातीतो विमत्सरः । समा सिद्धावसिद्धी च कृत्वाऽपि न निबध्यते ॥ २२ ॥ . १ ग. इ. भ्रमेण क २ ग. 4. मेणा त° . ३ क. प. अ. बद्धकत्ता । ग. बन्धकला !

..
.
"
४८ इनुमद्विरचितपैशाचभाष्यसहिता- [अ०४ श्लो०२३-३७)
यहच्छालामसंतुष्टोऽप्रार्थितलाभसंतुष्टः । द्वंद्वातीतः शीतोष्णसुखदुःखादिरहितः ।
विमत्सरः क्रोधवर्जितः । कर्मणां फल पावाभावयोः समचितः । स एवंभूतः कृत्वाऽपि
न निबध्यते न कर्मफलं शरीरादि प्राप्नोति ॥ २२ ॥
गतसङ्गस्य मुक्तस्य ज्ञानावस्थिवचेतसः ।
यज्ञायाऽऽचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥
गतसङ्गस्य फलसंकल्परहितस्य, ज्ञानावस्थित चेतसः परमात्मनि व्यवस्थितबुद्ध,
यज्ञायेश्वराराधनार्थमाचरतः कर्मानुष्ठातुस्तकर्म समग्रं प्रविलीयतेऽफलप्रदं मवेत्,
अषदकं भवति ॥ २३ ॥
अयमपरो योगः-
ब्रह्मार्पणं ब्रह्म इविब्रह्मानौ ब्रह्मणा हुतम् ।
ब्रमेव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
ब्रह्म परमात्माऽप्यते हूयतेऽनेनेति अर्पणं सुवादिस्तदेव ब्रह्म तदेव हूयत इति
हविश्वरुपुरोडाशादिकं तथा ब्रह्मैवाग्निस्तत्र ब्रह्मणा हुने प्रक्षिप्त यस्यैतत्सर्वं तेन पुरु.
घेण ब्रह्मव गन्तव्यम् । कथंभूतेन, ब्रह्मकर्म समाधिना । ब्रहाणा कर्मणि समाधि प्रति
पर्यवस्यते(ता) । अत्र श्लोकेऽविदुषोऽर्पणादिपञ्चके ब्रह्मदृष्टिः कर्तव्यतयोपदिश्यते ।
विदुषामात्मैवेदं सर्वमिति परमार्थरूपत्वं विद्यमानमुपदिश्यते ॥ २४ ॥
इदानी ब्रह्मोपासनपसङ्गेनोपासनान्तराणि सत्त्वशुद्धयर्थमविदुषामाह -
देवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्मानावपरे यन्नं यज्ञेनैवोपजुह्वति ॥ २५ ॥
देवा इन्द्रादयस्तेषांमिदं देवं सोमयागादि । अपरे योगिनोऽनुष्ठानमन्तरेणापि
देवमेव यज्ञं ध्यानेन निष्पादयन्ति सत्त्वशुद्धयर्थं ब्रह्मैवाग्निब्रह्मानिरूपेणोपास्यं ब्रह्मा.
मिस्तस्मिन्ब्रह्मानौ । अपरे तु यज्ञं परमात्मानं यज्ञेन सोमयागादिनोपजुह्वति ध्यानेन
संपादयन्ति होममित्यर्थः ॥ २५ ॥
श्रोत्रादीनीन्द्रियाण्यन्ये संयाग्निषु जुह्वति ।
शब्दादीविषयानन्य इन्द्रियाग्निषु जुह्वति ॥ २६ ॥
श्रोत्रमादियैषां तानि श्रोत्रादीनीन्द्रियाणि, अन्ये ब्रह्मविदः संयमामिषु चित्तनि.
रोधाग्निषु जुहति ध्यानेन संपादयन्ति । अन्ये योगिनः शब्दादीशब्दस्पर्शरूपरस-
गन्धादीन्वि(न्धान्वि)षयानिन्द्रियाग्निषु जुह्वति ॥ २६ ॥
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगानो जुह्वति ज्ञानदीपिते ॥ २७ ॥

स . [अ० लो०१८-३१] श्रीमद्भगवद्गीता । ४९ इन्द्रियाणां कर्माणि प्रेक्षणादीनि, तथा प्राणकर्माण्युच्छ्वासादीने, अपरे योगिन आत्मनोऽन्तःकरणस्य संयमः स एव योगः स एवाग्निरात्मसंयमयोगाग्निस्तस्मिना. नदीपिते विवेकज्ञानेन प्रज्वलिते जुडुति । एवं होम संपादयन्तीत्यर्थः ।। २७ ।। द्रव्ययजास्तपोयना योगयज्ञास्तथाऽपरे । स्वाध्यायज्ञान यज्ञाश्च यतयः संशितव्रताः ॥ २८ ॥ द्रव्यादीनां हिरण्यगवादीनां दानमेव यज्ञो येषां ते द्रव्ययज्ञाः । दानमेव यज्ञमु. पासत इस्यपः । आरे तु तपोयज्ञाः । तपः कृच्छ्चान्द्रायणादिकं तदेव यज्ञबुद्ध्या कुर्वन्ति । योगयज्ञा योगश्चित्तवृत्तिनिरोधः स एव यज्ञो येषा ते योगयज्ञाः । यज्ञबु. या चित्तवृत्तिनिरोधमेव कुन्तिीत्यर्थः । स्वाध्यायज्ञानयज्ञाः । यज्ञशब्दः प्रत्येक मभिसंबध्यते । स्वाध्यायो वेदसाठः स एव यज्ञो येषा ते तथा । ज्ञानं शास्त्रपरि- ज्ञानं तदेव यज्ञो येषां ते ज्ञानयज्ञ : । यज्ञबुद्धया ज्ञानं कुर्वतीत्यर्थः । सर्व एव यतयो पतनशीलाः । संशितं ती गीत बाषा ते संशितवमाः ॥२८॥ आने जुह्वति पाणं प्राणेऽानं तथाऽपरे । माणापानगवी रुना प्राणायामपरायणाः ॥ २९ ॥ अपाने आनायो प्राणं जुवति, उपासनया पाणहोम संपादयन्तीत्यर्थः । प्राणाख्ये वायावानं जुह्वति । यथा घृतादिकं तया हमें ध्यानेन संपादयन्ति । कथंभूताः सन्तः । प्राणश्वापानश्च तपोगनी प्राणापानगती रुम्बा निरुध्य प्राणाया- मपरायणाः। प्राणायामः परमयनं स्थितिका ते प्राणायामारायणाः ॥ २९ ॥ अपरे नियताहाराः प्राणायाणेषु जुह्वति । सऽप्यते यनविदो यज्ञक्षपित करमपाः ॥ ३० ॥ भारे योगिनो नियत संकुचितं येषा मोननं ते नियताहाराः । अनशनलक्षणे तपसि व्यवस्थिता इत्यर्थः । प्राणायाणेषु जुह्वति प्राणहोमं ध्यानेन संपादयन्ती- त्यर्थः । सऽस्यते यज्ञविदो यज्ञोपासकाः ॥ ३० ।। यज्ञशिष्टामृतभनो यान्ति ब्रह्म सनातनम् नायं लोकोऽत्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ३१ ॥ यज्ञस्य शिष्टं यज्ञशिष्टम् । यज्ञशिष्टमेवामृत, यज्ञशिष्टं तथाऽमृतमिति श्रुतेः । अतो यज्ञविदो यज्ञपरिश्रान्ताः सन्तः शरीरयात्रार्थ यद्भजो तयज्ञशिष्टामृतं भुञ्जाना [ यज्ञशिष्टामृतभुज ] इत्यर्थः । यान्ति गच्छन्ति ब्रम सनातनं नित्यम् । अवज्ञस्य पुंसोऽयमपि लोको नास्ति, विशिष्टेनियमानत्वात् । कुतोऽन्यः परलोकोऽनेकसाधा नसाध्य ज्ञ.दिसाध्यस्तस्माद्यज्ञः प्रयत्नतः कार्य इत्यर्थः ॥ ३१ ॥ क. यत्नशी , १ घ. एतै:

५० हनुमद्विरचितपैशाचभाष्यसहिता- [अ० श्लो०३२-११] एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान्सर्वान ज्ञात्वा विमोक्ष्यसे ॥ ३५ ॥ एवमुकप्रकारेण बहुविधा बहु का। यज्ञा वितता विस्तीर्णा ब्रह्मणः परमात्मनो मुख आस्थे । एते यज्ञाः परमात्मनः प्रत्यासन्नाराधनभूता इत्यर्थः । तांश्च यज्ञानक- मजान्वाङ्मनःकायकर्मात्मनः । स्वरूपमृतात्मनः शुद्धकूटस्थरूत्वात् ॥ ३२ ॥ श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप । सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥ श्रेयानिति । ज्ञाननिवृत्तो यज्ञो ज्ञान यज्ञः । मनोनियमरूपत्वेन परमात्मसंबो- घस्य प्रत्यासन्नरूपत्वात् । [स] क्रियानुरूपमुपासनानुरूपं च । ज्ञाने परमात्मसंबोधे परिसमाप्यते विलीयते । विलयनं गच्छ तीत्यर्थः ॥ ३३ ।। एवंभूतं परमात्मानं कथमहं जानीयामित्यत्राह- तद्विद्धि प्रणिपातेन परिषश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः ॥ ३४ ॥ तज्ज्ञानरूपं ब्रह्म विद्धि विजानीहि । प्रणिपातेन प्रकर्षेण नीपर्दण्डवत्पतनं प्रणि. पातो नमस्कारविशेषस्तेन । परिप्रश्नेन परितः सर्वतोऽवलोक्य गुरोश्चित्तप्रसादावगत्या प्रश्नस्तेन च । सेवयेच्छानुवर्तनेन । एवं सत्युपक्षन्ति ते तव ज्ञानं परमार्थसंबोधन- स्वरूपं ब्रह्म । ज्ञानिनो ज्ञानवन्तस्तत्वदर्शिनः साक्षात्कृतपरमार्थाः ।। ३४ ।। तज्ज्ञानं विशिनष्टि- यज्ज्ञात्वा न पुनमोहमेवं यास्यास पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्ययो मयि ॥ ३५ ॥ यज्ज्ञानरूपं ब्रह्म ज्ञात्वा पुनः पश्चादेवं मोहं व्यामोहं न यास्यसि न गन्तासि । तज्ज्ञानमुपदेक्ष्यन्तीत्यर्थः । पुनरपि विशिनष्टि-येन ज्ञानेन भूतानि कार्यकरणसंघा- सानि भूतान्यशेषेण द्रक्ष्यसि, उपलक्षयिष्यसि । आत्मनि प्रत्यगात्मनि, मयीश्वरे वासुदेवात्मनि ॥ ३५ ॥ आत्मनि च ज्ञानफलमाह- अपि चेदसि पापेभ्यः सभ्यः पापकृत्तमः । सर्व वानप्लवेनैव वृजिनं संतरिष्यासि ॥ ३६ ।। अपि चेदसि मवसि सभ्यः पापद्भयोऽतिशयेन पापकृत्पापकृत्तमः । सर्व ज्ञान. प्लवेनैव प्लवतेऽनेनेति प्लवो जलतरणं ज्ञानमेव प्लयो ज्ञानप्लवस्तेव वृजिनं पापं तरिष्यसि ।। १६॥ १ क, ख, प... 'नव्रता ।

[अ०४ श्लो०६७-४०] श्रीमद्भगवद्गीता। ५१ ब्रह्मन सकलवृजिनतरणत्वमाह- यथैधार्सि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकाणि भस्मसात्कुरुते तथा ॥३७ ।। यथाऽयं दृष्टान्तः। एधांसि काष्ठानि समिद्धो ज्वलितोऽग्निर्मस्मसात्सर्वं कुरुतेऽर्जुन । तथा ज्ञानमेवाग्निः सर्वकर्माणि नित्यनैमित्तिककाम्यप्रतिषिद्धरूपाणि भस्मसात्कुरुते * तथा ॥ ३७ ॥ यत एवमतः न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसिद्धः कालेनाऽऽत्मनि विन्दति ।। ३८ ॥ ज्ञानेन तत्वावबोधेन सदृशं पवित्रं पावनमिह लोके न विद्यते । तज्ज्ञानं योगसं. सिद्धो योगानुष्ठानेन संस्कृतान्तःकरणः कालेन परिपाकेणाऽऽन्मन्यातःकरणे विन्दति छमते स्वयमेव ॥ ३८ ॥ इदानी ज्ञान प्राप्त्युपाय उच्यते- श्रद्धावाल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परी शान्तिमचिरेणाधिगच्छति ॥ ३९ ।। श्रद्धावान्श्रद्दधानः । लभते प्राप्नोति । तत्परस्तदेव परं प्रधानं यस्य स तोपरो ज्ञाननिष्ठ इत्यर्थः । संयतेन्द्रियः संयतानि निरुद्धानीन्द्रियाणि चक्षुरादीनि येन स संयतेन्द्रियः । अनेनोपायेन ज्ञानप्राप्ती किं लभत इत्यत्राऽऽह -ज्ञानमेकत्वावबोध लब्ध्वा प्राप्य परां मोक्षलक्षणां शान्तिमधिरेणाल्पकालेनाधिगच्छति ॥ ३९ ॥ इदानी ज्ञानप्राप्तौ बाधकमाह- अज्ञश्चाश्रधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥४०॥ अज्ञश्चेति । अज्ञो ज्ञानप्राप्ोर्षिमुखोऽश्रद्दधानः श्रद्धाशून्यश्च संशयात्मा । संशय इति पचाद्यच् । संशयः सर्वत्र संदहवानात्मा यस्य स संशयामा विनश्यति । ज्ञान- लक्षणात्पुरुषार्थाश्यत इत्यर्थः । किंचान्यत्संशयात्मनस्तस्यायं सर्वसाधारणोऽपि लोको नास्ति । न च परः स्वर्गाख्यः । नाप्यस्यान्नपानादि किमपि सुखमस्तीति ॥१०॥ असंशयानं तु-- * इदमधिकम् । १ क. ख. ग. ड. 'नस्योपा । २ घ. त्मनः सर्वसंशयात्मन । ३ ख. 'दिकम।

५२ हनुमद्विरचितपैशाचभाष्यसहिता [अ०५ सो०१] योगसंन्यस्तकर्माणं ज्ञानसंछित्रसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥ ४१ ॥ योगसंन्यस्तकर्माणं योगेन फलत्यागेन संन्यस्तानि त्यक्तानि कर्माणि येन तं ज्ञान- संछिन्नसंशयं ज्ञानं परमात्मावबोधस्तेन संछिन्नाः संशया यस्य तमात्मवन्तं जितेन्द्रिय कर्माणि बन्धकान्यपि न निबध्नन्ति । इष्टानिष्टानि शरीरेन्द्रियविषयमापकाणि न भव- न्तीत्यर्थः ॥ ४१॥ अत उपसंहरुति- तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४२ ॥ इति श्रीमहाभारते शतसाहच्या संहितायां वैयासक्या भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषन्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु. नसंवादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥ ४ ॥ यस्मात्सर्वानर्थहेतुः संशयस्तस्मादज्ञानसंभूतमविद्याप्रभवं हृत्स्थं हृदि तिष्ठतीति हृत्स्थस्तं ज्ञानप्रतिपक्षतया ज्ञानावकाशं हृदयदेशमधिष्ठाय वर्तमानं ज्ञानमेवासिर्जाना. सिस्तेन* च्छित्वा विनाश्येनं पूर्वोक्तसंशयं योगं फरसङ्गरहितं कर्माऽऽतिष्ठ सेवस्व । उत्तिष्ठ योद्धा भव हे मारतेति ॥ ४२ ॥ इति श्रीमद्वनुमद्विगचिते पैशाचभाष्यनामके श्रीमद्भगवद्गीताब्याख्याने चतुर्थोऽध्यायः ॥ ४ ॥ (आदितः श्लोकानां समष्टयङ्काः-२०४ )। ( अथ पञ्चमोऽध्यायः)। [संन्यासकर्मयोगान्यतरश्रेष्ठ्यविविदिषया ] अर्जुन उवाच अर्जुन उवाच- संन्यासं कर्मणां कृष्ण पुनयोगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥१॥ * एतदने सकलादर्शपुस्तकेषु “ मुहुर्भयो भूय उत्पद्यमानः" इत्यधिकम् । १ ख. ग. प. उ. 'त्तिष्ठौवीं भ'।

[अ०५श्लो०२-६] श्रीमद्भगवद्गीता। ५३ सकलकर्मसंन्यासेन शमदमादिसाधनानुष्ठानेन ब्रह्म जिज्ञासमानस्य ब्रह्मावबोधः स्यादेव । तथा मुमुक्षोः सकलकाम्यप्रतिषिद्धकर्मसन्यासेन वासुदेवार्चनबुद्ध्या कर्मा- ण्यनुतिष्ठनः सत्त्वशुद्धेर्नान्तरीयकत्वेन संबोधः स्यादेवेत्यभिप्रायः ॥ १ ॥ भगवानर्जुनस्याभिप्राय विदितवानुवाच- श्रीभगवानुवाच- संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासाकर्मयोगो विशिष्यते ॥ २ ॥ संन्यासः कर्मयोगश्चोभी निःश्रेयसकरौ मोक्षकरावेव । तर्हि तयोः को विशेष इति चेत्तयोस्तु कर्मसंन्यासात्कर्मत्यागात्कर्मयोगः श्रेयान् । कर्मणां ज्ञानफलकत्वेन विस्पष्ट विधानात्स्वकर्मणा तमभ्यर्थ्य सिद्धि विन्दति मानव इति ॥२॥ कथं श्रेयानिति चेत्- ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निद्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥ ज्ञेयो बोद्धव्यः । स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति , कथमिति चेत्कामको. पादयो द्वंद्वास्तद्रहितो निद्वः । हि यस्मान्महाबाहो सुखमक्लेशेन बन्धासंसारात्प्रमु- च्यते मुक्तो भवति । कर्मयोगी कृतसकलकर्मसंन्यास एवेत्यभिपायः । रागद्वेषवियो- गात् । ३॥ इदानीं योगस्य संन्यासयोगत्वात्स्वरूपैक्येन(ग) फलैक्यं दर्शयितुमाह- सांख्ययोगी पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोविन्दते फलम् ॥ ४ ॥ सांख्ययोगी पृथभिन्नौ बाला मन्दाः प्रवदन्ति न पण्डिता बुद्धिमन्तः । यस्मादेक. मप्यास्थितः सेवमानः सम्यग्यावदुभयोः सांख्ययोगयोः फलं विन्दते लभते ॥ ४ ॥ यत्सांख्यः प्राप्यते स्थानं तद्योगैरपि गम्यते । एक सांख्यं च योगं च यः पश्यति स पश्यति ॥५॥ यत्सांख्याननिष्ठैः प्राप्यते स्थानं मोक्षाख्यं तद्योगः कर्ममिरपि गभ्यते । अत एवामिन्नं सांख्यं योगं च यः पश्यति स पश्यति सम्यग्दीत्यर्थः ॥ ५ ॥ कर्मसंन्यासाकर्मयोगो विशिष्ट इत्युक्तं कथं विशिष्ट इत्यत्राऽऽह- संन्यासम्तु महाबाहो दुःखमाप्तुपयोगतः । योगयुक्तो मुनिब्रह्म नचिरेणाधिगच्छति ॥ ६॥ संन्यापो ज्ञाननिष्ठा महाबाहोऽयोगिभिर्दुःखेन प्राप्यते कर्मभिस्तु सुखेन सत्त्वशुद्धि .. ॥

हमुमद्विरचित्रपैशाचभाष्यसहिता- [अ०१ श्लो०७-१० द्वारेण प्राप्यतेऽतः कर्मयोगो विशिष्यत इत्युक्तम् । यतो योगयुक्तो मुनिज्ञानी ब्रह्मा- चिरेणाधिगच्छति प्राप्नोति ॥ ६ ॥ अतः योगयुक्तो विशुद्धामा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूनात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥ योगयुक्तो विशुद्धात्मा प्राप्तसत्त्वशुद्धिर्विजितात्मा रागद्वेषाभ्यामनाकृष्यमाणो निते- न्द्रियः सर्वभूतात्मभूतात्मा सर्वेषु भूतेष्वात्मकत्वदर्शी कर्माणि कुर्वन्नपि तत्फलैर्न लिप्यते न संबध्यते ॥ ७ ॥ यत एवमतः नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यञ्शवनस्पृशञ्जिघनश्नन्गच्छन्स्वपञ्चसन् ॥ ८ ॥ आत्मनोऽकर्तृत्वानेव किंचिदहं करोमीति मन्येत तद्दर्शनादिषु कर्तृत्वस्याविद्यातः प्रतिमासे सत्यपि । पश्यरूपमालोचपञ्शवशब्दं शृण्वञ्जिघन्गन्धानुपाददानोऽश्न. खोदनान्भुनानो गच्छन्पद्भयां विहर स्वपन्शयानः श्वसवासं विसृजन्नपि ॥८॥ तथा- .. मळपन्विसृजन्गृह्णन्नुन्मिपन्निमिषन्नपि । इन्द्रियाणीन्द्रियायेंषु वर्तन्त इति धारयन् ॥ ९॥. प्रलपन्प्रमाषमाणो विसृजन्मत्रपुरीषे विसृजन्गृह्णन्हस्तेनोपाददान उन्मिषन्निमिषन्नु- न्मीलन्निमीलन्नपीन्द्रियाणि चक्षुरादीनीन्द्रियार्येषु विषयाभिमुखं वर्तन्त इति धारयः मन्यमानो नैव किंचित्करोमीति युक्तो मन्येत तत्त्वविदिति पूर्वेण संबन्धः । तस्यैवं तत्वविदः सर्वकार्यकारणचेष्टासु कर्मस्वकर्मैव संपश्यतः सम्यग्दर्शिनः सर्वकर्मसंन्याप्त एवाधिकारस्तत्तत्कर्मणोऽभावदर्शनात् । न है मृगतृष्णिकाय मुदकबुद्धया पानाय प्रवृ. तावुदकाभावज्ञानेऽपि तत्रैव पानप्रयोजनाय प्रवर्तन्ते ॥ ९॥ यस्तु पुनरतत्त्ववित्प्रवृत्तश्च कर्मयोगे मवति()- ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः। लिप्यते न स पापेन पनपत्रमिवाम्भसा । १० ।। कर्माणि ब्रह्मणीश्वर आधाय तदर्थ करोमीति भृत्य इव स्वात्मार्थ मोक्षेऽपि फले सहं त्यक्त्वा करोति यः कर्माणि लिप्यते न स पापेन संबध्यते पद्मपत्रमिवाम्भसो. दकेन । केवलं सत्त्वशुद्धिफलमात्रमेव स्यात् ॥ १० ॥ १९. नस्तत्त्व।

५५ [अ०१ श्लो०११-१३] श्रीमद्भगवद्गीता । कायेन मनसा बुद्धया केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये ॥ ११ ॥ केवलैर्ममत्ववर्जितैरीश्वराय करोमि न कर्मफलायेति ममत्वबुद्धिशून्यैरिन्द्रियः। केव- लशब्दः कायादिभिरपि प्रत्येकमभिसंबध्यते । सर्वव्यापारादिषु ममतावर्जिता योगिनः कर्माणि कुर्वन्ति । सङ्गं त्यक्त्वा फलविषयमात्मशुद्धये सत्त्वशुद्धय इत्यर्थः । तस्मात्तो- वाधिकार इति कर्मैव कुरु ॥ ११ ॥ तस्माच- युक्तः कर्मफलं त्यक्त्वा शान्तिमामोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ १२ ॥ युक्तः कर्मफलं त्यक्त्वा युक्त ईश्वराय कर्माणि न कर्मफलायेत्येवं समाहितः सन्क. मफलं त्यक्त्वा शान्ति मोक्षाख्यामाप्नोति नैष्ठिकी निष्ठायां भवाम् । सत्त्वशुद्धिज्ञान- प्राप्तिसर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेणेति वाक्यशेषः । यस्तु पुनरयुक्तोऽसमाहितः । कामेन करणं कामकारस्तेन कामकारेण कामप्रेरणयेत्यर्थः । मम फलायेदं करोमि कर्मेत्येवं फले सक्तो निबध्यते । न मुक्तो भवेदित्यर्थः ॥ १२ ॥ सर्वकर्माणि मनसा संन्यस्याऽऽस्ते सुखं वशी। नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ।। यस्तु परमार्थदशीस नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं च सर्वाणि कर्माणि तानि मनसा विवेकबुद्धयाऽकर्मदर्शनेन संत्यनेदित्यर्थः । आस्ते तिष्ठति सुखमित्यर्थः। वाङ्म- नाकायचेष्टानिरायासः प्रसन्नचित्त आत्मनोऽन्यत्र निवृत्तवाह्यतर्वप्रयोजन इति सुखमास्त इत्युच्यते । वशी जितेन्द्रिय इत्यर्थः । काऽऽस्त इत्यत्राऽऽह-नवद्वारे । सत शीर्ष- ज्यान्यात्मन उपलब्धिद्वाराणि । अयो द्वे मूत्रपुरीपविसर्गाय इति । तेर्निवद्वारं पुर. मुच्यते । शरीरं पुरमिव पुरमात्मकस्वामिकं तदर्थप्रयोजनेश्वेन्द्रियमनोबुद्धिविषयरनेक. फलविज्ञानोत्पादक: पोरीरिवाधिष्ठिते देहे देही सर्वाणि संन्यस्याऽऽस्ते । किं विशेष. गेन, सर्वोऽपि देही संन्यस्य संन्यासीव देह एवाऽऽस्त इति चेन् । उच्यते-यस्त्वज्ञो देहेन्द्रियसंघातमात्रात्मदर्शनः स सर्वोऽपि देहे (ही) भूमावासने वाऽऽस इति मन्यते । नहि देहमात्रात्मदर्शिनो गेह इव देह आस इति प्रत्यय उपपद्यते । पर. कर्मणां च परास्मिन्नात्मन्यविद्ययाऽध्यारोपितानां विद्यया विवेकज्ञानेन मनसा संन्यास उपपद्यते । उत्पन्न विवेकज्ञानस्य सर्वकर्मसंन्यासिनोऽपि देह एव नवद्वार आसन प्रवृत्तं प्रारब्धकर्मादिसंस्कारशेषानुवृत्त्या देह एव विशेषज्ञानोत्पत्तेदेह एवाऽऽस्त ११. गहे।

५६ हनुमद्विरचितपैशाचभाष्यसहिता- [अ०९ श्लो०१४-१७] इत्यस्त्येव विशेषणफलं विद्वदविद्वत्प्रत्ययभेदापेक्षत्वात् । यद्यपि कर्माण्य- विद्ययाऽध्यारोपितानि सन्यस्यतीत्युक्तं तथाऽप्यात्मसमवाथि कर्तृत्वं कारयितृत्वं च स्यादित्याशङ्कयाऽऽह-नैव कुर्वन्स्वयं न च कार्यकरणा:ने कारयन्क्रियासु न प्रव. तयन् । किं तत्कर्तृत्वं कारयितृत्वं चं देहिनः स्वात्मसमवायि सत्संन्यासान भवति यथा गच्छतो गतिः, किंवा स्वत एवाऽऽत्मनो नास्ति । अत्रोच्यते-नास्ति स्वात्मनः कर्तृत्वं कारयितृत्वं वा । उक्तं हि-" अविकार्योऽयमुच्यते " इति । "शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते " इति । "च्यायतीव लेलायतीव " इति श्रुतेः ॥ १३॥ न कर्तत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोग स्वभावस्तु प्रवर्तते ॥ १४ ॥ न कर्तृत्वं स्वतो न च कुर्वन्नपि कर्माणि रथप्रासादादीनीप्सिततमानि लोकस्य सृज- त्युत्पादयति प्रभुरात्मा । नापि रथादि कृतवतस्तत्फडेन संयोगं कर्मसंयोगम् । यदि किंचिदपि स्वतो न करोति न कारयति न देही कस्तहि कुकिारयंश्च प्रवर्तत इत्यु- च्यते-स्वभावस्तु स्वभावोऽविद्यालक्षणा प्रकृतिर्माया प्रवर्तते ॥ १४ ॥ परमार्थतस्तु- नाऽऽदत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनाऽऽकृतं ज्ञानं तेन मुह्यन्ति जन्तवः ।। ११ ॥ नाऽऽदत्ते न गृह्णाति भक्कस्यापि कस्यचित्पापं नेवाऽऽत्ते सकृतं भकैः प्रयुक्त विभुः । कथं तर्हि मक्तेः पूजालक्षणयागदानानि सुकृतं प्रयुज्यत इत्यत्राऽऽह-- अज्ञानेनावृतं ज्ञानं तेन मुद्यन्त करोमि कारयामि भोये भीनयामीत्येवं मोह गच्छन्त्यविवकिनः संसारिणो जन्तवः ॥ १५ ॥ ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ञान प्रकाशयति तत्परम् ॥ १६ ॥ ज्ञानेन तु नाज्ञानेनाऽऽवृता मह्यन्ति जन्तास्तदक्षानं येषा जन्तुना विवेकज्ञाने. नाऽऽत्मविषयेण नाशितमात्मनो मति वा गन्तनामादित्यवत् । यथाऽऽदित्यः समस्तरूपादिनातमवमाप्तयति तद्वज्ज्ञान ज्ञेयं वस्तु सर्व प्रकाशयति तत्परम् ॥१६॥ तबुद्धयस्तदात्मानस्वनिष्ठास्वत्परायणाः। गच्छन्त्यपुनराविज्ञाननिर्धेतकल्मषाः॥ १७ ॥ भात्मतत्त्वं यत्परं ज्ञानं प्रकाशितं तस्मिन्गता बुद्धिर्येषां ते तद्बुद्धयः । तदेव परं ब्रह्माऽऽस्मा येषां ते तदात्मानः । तनिष्ठास्तस्मिन्निष्ठाऽभिनिवेशस्तात्पर्य सर्वाणि कर्माणि संन्यस्य ब्रह्मण्येवावस्थानं येषां ते तनिष्ठाः । तत्परायणास्तदेव परमयनं परा गतिषां भवति [२] तत्परायणाः । केवलात्मरता इत्यर्थः। ते गच्छन्त्येवविधा अप : ते Mornint-१०] श्रीमदमस्तीमा ६७ नाति-न पुनसंवन्धम् । ज्ञाननि—तकरमपाः । यथोक्तज्ञानेन निर्मूलो(त) अधिका() कल्मषः() पापादिसंस्मरकारणदोषो येषां ते ज्ञाननिषूतकल्मषा पसय भावः १७॥ को ज्ञान पाशितमालमोऽज्ञानं ते पण्डिताः। कथं ते वस्वं पश्यन्तीपत्रोच्यते- विद्याविनयसंपने ब्राह्मणे मचि झस्तिनि । शुनि चैव श्वपाके च पण्डिवाः समदर्शिनः ॥ १८॥ विद्याविनयसंपन्न उत्तमसंस्कारवति ब्राह्मणे सात्विके । मध्यमायां राजस्यां गवि संस्कारहीनायाम् । अत्यन्तमेव केवलतामसे हस्त्यादौ सत्त्वादिगुणस्तज्नैश्च संस्का. रस्तथा रजसा राजसस्तमसा तामसैश्च संस्काररत्यन्तमेवास्पृष्टं सममेवाविक्रियं ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः समदर्शिनः ॥ १८ ॥ नवभोज्यानास्ते दोषवन्तः, समासमाम्यां विषमसमे पूनात इति स्मृतेन ते दोष- वन्तः । कथम्- इहव तेजितः सगों येषां साम्पे स्थितं मनः। निदोष हि समं ब्रह्म तस्माद्रमणि वे स्थिताः ॥ १९ ॥ इहव जीवद्भिः समदर्शिभिः पण्डितजिनो वशीकृतः सर्गो जन्म येषां साम्ये सर्व- भूतेषु ब्रह्मणः समभावे स्पितं मनोऽन्तःकरणम् । निषिम् । यद्यपि दोषवत्सु श्वपा. कादिषु मुस्तदोषवंदिव विमान्यते तथाऽपि तोपरस्पृष्टमिति निर्दोषं दोषामित हि "परमानापि स्वगुणभेदादिम निर्गुणत्वांचेतन्यस्य । वक्ष्यति भावानिच्छादाना क्षेत्रध. मत्वममादिस्वामिर्गुणस्वादिति । नाप्याल्या विशेषा आत्मनो भेदकाः सन्ति । प्रतिशरीरं तेषां सरसे प्रमाणामुपपत्तेः । अतः समं च ब्रह्मेकं तस्माइमण्येव ते स्थिताः । तस्मान दोषगन्धमात्रमपितास्पृशति, देहादिसंघातात्मदर्शनाभिमानामावा- सेषाम् । देहांदिसंघातात्मदर्शनापिमानवद्विषयं तु सत्सूत्रं समासमाम्यां विषमसमे 'पूमात इति । माविषयत्वेन विशेषणात् । दृश्यो हि ब्राह्मविषडङ्गविश्च दविदिति पूजादानादो गुणविशेषसंवन्धः । कारणं ब्रह्म तु सर्वगुणदोषनितमित्यतो ब्रमणि ते 'स्थिता इति 'युक्तम् । कर्मिविषयं तु समासमाम्यामित्यादि । इदं सर्वसन्यासविषय प्रस्तुतं सर्वकर्माणि मनसा संन्यस्येत्यारम्पाऽऽध्यायपरिसमाः ॥ १९ ॥ यस्मादेवं समं ब्रह्मा-मा तस्मात्- न प्राण्येरिक्यं प्राप्य मोदिजेमाप्य वापिया। स्थिरघुद्धिरसंसूबो ब्रह्मविद्रमणि स्थितः ॥२०॥ १५. परसु विनवास भादिमू। २ ख. ग. घ..लाचेतनत्वस्य । ३ स. ग. प. मन्ये स्मा"! . , ते ५८ हनुमद्विरचितपैशावमाष्यसहिता- [अ०५ श्लो ०२१-२३] न प्रहृष्यत्प्रहर्ष न कुर्यात्मयमिष्टं प्राप्य नोद्विनेत्प्राप्य चाप्रियमनिष्टं लब्ध्वा । देहमात्रात्मदर्शिनां हि प्रियाप्रियप्राप्ती हर्षविषादौ कुर्वाते न केवलात्मदर्शिनस्तस्य प्रियाप्रियप्राप्स्यसंमवात् । किंच सर्वभूतेष्वेकः समो निर्दोष आत्मेति स्थिरा निर्वि. चिकित्सा बुद्धिर्यस्य स स्थिरबुद्धिरसंमूढः संमोहवर्जितश्च स्याद्यथोक्तब्रह्मविद्ब्रह्मणि स्थितः । अकर्मकृत्सर्वकर्मसंन्यासीत्यर्थः ॥२०॥ किंच ब्रह्मणि स्थितः- बाह्यस्पर्शध्वसत्तात्मा विन्दत्यास्मान यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ २१ ।। बाह्यस्पर्शेषु बाह्याश्च ते पश्चि । स्पृश्यन्त इति स्पर्शाः शब्दादयो विषयास्तेषु बाह्यस्पर्शेऽवसक्त आत्माऽन्तःकरणं यस्य सोऽयमसत्तात्मा विषयेषु प्रीतिवर्णितः स विन्दति लमत मात्मनि यत्सुखं तद्विन्दतीत्येतत् । स ब्रह्मयोगयुक्तात्मा ब्रह्मणि योगः समाधिर्बह्मयोगस्तेन युक्त आत्माऽन्तःकरणं यस्य स ब्रह्मयोगयुक्तात्मा सुखमक्षय- मभुते प्राप्नोति । तस्माद्बाह्यविषयेषु प्रीती क्षणिकायामिन्द्रियाणि निवर्तयेत् ॥२१॥ ये हि संस्पर्शजा भोगा दुःखयोनय एव आधन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥ ये हि संस्पर्शना भोगाः, ये हि यस्मात्-संस्पर्शमा विषयेन्द्रियसंस्पर्शेभ्यो जाता मोगा मुक्तयो दुःखयोनय एव तेऽविद्याकृतत्वात् । दृश्यन्ते ह्याध्यात्मिकानि दुःखानि तानिमित्तान्येव । यह लोके तथा परलोकेऽपीति गम्यत एवशब्दात् । न संसारे सुखस्य गन्धमात्रमप्यस्तीति बुद्धवा विषयमृगतृष्णिकाया इन्द्रियाणि निवर्त- येत् । न केवलं दुःखयोनय आद्यन्तवन्तश्च । आदिपियेन्द्रियसंयोगो मोगानामन्तश्च तद्वियोगमावोऽत(वस्तद्वन्त आद्यन्तवन्तः । अनित्या मध्यक्षणभावित्वादित्यर्थः कौन्तेय, न तेषु रमते बुधो विवेक्यवगतपरमार्थतत्तः । अत्यन्तमूढानामेव विषयेषु रतिदृश्यते । यथा पशुपभृतीनाम् ॥ २२ ॥ STML च श्रेयोमार्गपरिपन्धिकष्टतमो दोषो दुर्वारश्चातस्तत्परिहारे यस्नः कर्तव्य इत्याह भगवान शकोतीहैव या सोढुं प्राक्शरीरविमोक्षणात् । कमलोपोद्भवं स सुखी नरः ॥ २३ ॥ शमोत्यासह का जीवन्नेव यः सोढुं प्रसहितुं प्राक्पूर्व शरीरविमोक्षणान्मरiptमाणीकरणीव तोऽवश्यंभ वी हि कामक्रोधोद्भवो वेगोऽनन्तनिमित्तवान्हि स इति । यावन्मरणं तावत्स न विश्रम्भणीय इत्यर्थः । कामश्चेन्द्रियगोचरप्राप्त इष्टवि- वेगं स युक्तः [भ०५ श्लो०२१-२१] श्रीमद्भगवद्गीवा। ५९ षये दृश्यमाने श्रूयमाणे वाऽनुभूते मुखहेती या गर्षिस्तृष्णा स कामः । क्रोधश्चाss. त्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा यो द्वेषः स क्रोधः । तौ कामक्रोधावुद्भवौ यस्य स कामक्रोधोद्भवः । रोमाञ्चपहृष्टवदननेत्रलिशान्तःकरण- प्रक्षोमरूपः कामोद्भवो वेगः । गात्रप्रकम्पप्रस्वेदसंदष्टोष्ठपुटरकनेत्रादिलिङ्गः क्रोधोद्भवो वेगस्तं कामक्रोधोद्भवं वेगं यः प्रस( पोत्स )हते सोढुं स युक्तो योगी सुखी चेह लोके नरः ॥ २३ ॥ कथंभूनश्च ब्रह्मणि स्थितो ब्रह्म प्राप्नोतीत्यत्राऽऽह भगवान्-- योऽन्तःसुखोऽन्तरारामस्तथाऽन्तज्योतिरेव यो। स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥ योऽन्तःसुखोऽन्तरात्मनि सुखं यस्य सोऽन्तःसुखः । तथाऽन्तरेवाऽऽत्मन्यारामा क्रीडा यस्य सोऽन्तरारामः । तथाऽन्तरात्मैव ज्योतिः प्रकाशो यस्य सोऽन्तज्योतिः । य ईदृशः स योगी ब्रह्मनिर्वाणं ब्रह्मनिवृतिमिह नीवन्नेव ब्रह्ममूतः सन्नधिगच्छति प्राप्नोतीति ॥ २४ ॥ लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिने रताः ॥२५॥ लमन्ते ब्रह्मनिर्वाणं मोक्षमृषयः सम्यग्दार्शनः संन्यासिनः । क्षीणकरमपाः क्षीण- पापादिदोषाश्छिन्नद्वैधाश्छिन्नसंशया यतात्मानः संयतेन्द्रियाः । सर्वभूतहिते रताः सर्वेषां भूतानां हित आनुकूल्ये रता अहिंसका इत्यर्थः ॥ २५ ॥ कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥ कामक्रोधवियुक्तानाम् । कामश्च क्रोधश्च ती कामक्रोधी ताम्यां वियुक्तानाम् । यतचेतसा संयतान्तःकरणानाम् । अभिन उभयतो जीवतां मृतानां च ब्रह्मनिर्वाण मोक्षो वर्तते । विदितात्मनां विदितो ज्ञात आत्मा येषां ते विदितात्मानस्तेषां सम्य. ग्दर्शिनामित्यर्थः ॥ २६ ॥ सम्यग्दार्शनां सन्यासिनां सद्योमुक्तिरुक्ता, कर्मयोगश्वेश्वरार्पितसर्वभावेनेश्वरे ब्रह्म ण्याधाय क्रियमाणः सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण सर्वकर्मसंन्यासक्रमेण मोक्षायेति मग- वापदे पदेऽब्रवीद्वक्ष्यति च । अदानी सम्यग्दर्शनान्तरङ्गं ध्यानयोग विस्तरेण वक्ष्या. मीति तत्र सूत्रस्थानीया श्लोकानुपदिशति-- १ ग. 'रात्मन्येव ।

हनुमदिरचितपेशवमाम्यसाहिवा- [01-०१५-२९) सर्भकन्या श्री सांवक्षुबैवान्तरें अषों । पाणापानौ समौ कृत्वा नासाभ्यन्तरचारिणी ।। सर्वा शब्दादी-कृत्वा बहिवाश्रीवादिद्वारेणान्तरे बुद्धी प्रशिता शब्दा. दय विषयास्तानचिन्तयतो वासा बहिरेव कृता भवन्ति । ताने बहिः कृत्वा चक्षु- भैवान्तरे भुवोः कृत्वेत्यनुषज्यते ॥ २० ॥ पतेन्द्रियमनोबुद्धिर्मनिोक्षपरायणः । बिगतेच्छाभयकोपो यः सदा मुक्त एव सः ॥ २८ ॥ यतेन्द्रियमनोवियतानीभित्रयाणि पनो मुद्रित क्यस. योन्द्रियमनोबुद्धिः । मक्यान्मुनिः संन्यासी । मोक्षपरायणो मोक्ष एव परमयनं परा. गतिर्यस्य स मोक्ष- परातो मुनियेत् । विगच्छाभयकोषः । इच्छा च मयं च क्रोधश्वेच्छामयकोषाः। निपाण्याभयकोमा यस्य सः। य एवं वर्तते संन्यासी स. सदा मुक्त एव । न तस्य मोक्षादन्यः कर्तव्योऽस्ति ॥२८॥ एवंसमाहितचित्तेन किंचिज्ज्ञेयमुच्यते-- भोकारं यासपमा सबलोकमरेषा सुहदं सर्वभूनाना हास्य मा शान्तिएच्छति ॥ २९ ॥ इति श्रीमापार या संहितायां केवासी भीमशमीक्षाभूपनिषत्सु प्राषिधावां बोगसामील नसंवादे संन्यासयोगो नाम पायोऽध्यायः॥ यज्ञानां तपसां च कर्तुरूपेण देवतारूपेण च मोक्तारं सर्वलोकमहेश्वरं सर्वलोकाना महान्तमांश्चरं सर्वलोकमहेश्वरम् । सुखदं सर्वभूतानां सर्वप्राणिमा माकुमकारनिरपेक्षत- योपकारिणं सर्वभूतदयेशे सर्वकर्मफलाध्यक्ष सर्वप्रत्ययसाक्षिणं सकलमेकलीन मूर्त सदा शुद्धरूपमत्यन्तसुविमलं ज्योतिषां परमात्मानं नारायण माज्ञात्वा शान्ति संता- रोपरतिमृच्छति प्राप्नोति ॥ २९ ॥ प्रति श्रीमतनुमद्विरचिते. पैशाचमाषयनामके श्रीमद्भगवद्गीताव्याख्याने - पञ्चमोध्यायः ॥ (मादितः श्लोकाना समध्य-२३) Intea.१-१] श्रीमद्भगवद्गीता। स (अथ षष्ठोऽध्यायः)। MALAIAA योगस्य सम्यग्दर्शनं प्रत्यन्तरङ्गस्य ध्यानस्य सूत्रमा स्वर्भयाका यहि नित्यादय उपदिष्टास्तेषां वृत्तिस्थानीयोऽयं षष्ठोऽध्याय बार माते- भीषगमाबुवाच मश्रिना कर्षफलं कार्य कर्म करोति का। ससंन्यासी च योगी च न निरमिन चाक्रियः ॥१॥ माश्रितः कर्मफलमिस्यादि । ४ स संन्यासी चानाश्रितो, नाऽऽति की तृपया न प्रयुष्यत इत्यर्षः । कार्य कर्म कर्तव्यं नित्यं कग्निहोत्रादि करोति या स.संन्यासी च योगी च । योगाङ्गत्वेन कर्मानुष्ठानात् । न केवलमनग्निरशिप एव पर- मार्थमन्यासी, योगी चेति मन्तव्यः ॥ १ ॥ कर्मकरमाकर्मयोपित्वं तावत्सिद्धं संन्यासित्वं तु साग्नौ सक्रिमे नैव सिद्ध लोक ति. तसंपादयति भावान् --- यं संन्यासमिति प्राहुयोगं तं विद्धि पाण्डव । बसंन्यस्तसंकल्पो योगी भवति कश्चन ॥ २ ॥ यं संन्यासमिति प्राहुलौकिका योगं कर्मयोग तं विद्धि विजानीहि पाण्डव, । अनि हि तस्मिनिभनिनाऽक्रियेण परमार्थसंन्यासिना साम्यम् । किं तदित्यत्राऽऽह-परमार्थ- संन्यासी भूतभविष्यवर्तमानेषु सर्वविषयसंकल्पं संन्यस्यति । अयं च कर्मी न वसं. त्यानसंकल्पो योगी भवति कर्मा च स उच्यते । कश्चन कश्चिदपि संन्यासी नोमाने ध्यानयोगस्य बहिषं कर्मेति यावश्यानयोगारोहणसमर्थस्तावद्गृहस्थेनाधिकवेन कर्म कर्तव्यमतः स्तौति भगवान् । ननु किमर्थं ध्यानयोगारोहणसीमाकरणं यतोऽ. नुष्ठेयमेव विहितं कर्म यावज्जीव नेतत् - आरुरुक्षोर्मुनेयोग कर्म कारणमुच्यते । योगारूतस्य वस्यैव शमः कारणमुच्यते ॥ ३ ॥ बोगमारुतोरारोदुमिच्छोर्मुनेः कर्म कारणं साध्यसाधनमुच्यते । योमासदम्य तस्यैव भगा शम उपशमः सर्वकर्मभ्यो निवृत्ति. कारणं योगारूढस्य साधनमुच्यतावस्यः । आरुरुक्षो नेयोंग कर्म कारणमुच्यत इति विशेषणादारूढस्य च शमेनैव संपन्धकर. x'स संन्यासी च ' इत्यधिकम् । क. स. ग... 'नात्मनोन।

६२ हनुमद्विरचितपैशाचभाष्यसहिता [म०६-लो..] गात् । भारतक्षोराहतस्य च शमः कर्म चोमयं कर्तव्यत्वेनाभितं चेत्पुनस्तदारुरुक्षो. राबदस्य ति विशेषणं विमागकरणं चोपपयत एवेति चेत्। न । तस्यैवेति वचनास्पुन- धोगग्रहणाच । योगारूढस्येति, य आसीत्पूर्वमेवाऽऽरुरक्षुस्तस्यैवाऽऽरूढरय शम एव कर्तव्य कारणं योगफलं प्रत्युच्यत इति । अतो न यावज्जीवं कर्तव्यत्वप्राप्तिस्तस्यापि कार्मिणः। योगभ्रष्टादिवचनाच । गृहस्थस्य चेत्कर्मयोगो विहितः षष्ठेऽध्याये स योगभ्रष्टः कर्मगति कर्मफलं प्राप्नोतीति तस्य नाशाशङ्काऽनुपपन्ना स्यात् । अवश्य कृतं कर्म काम्यं नित्यं वा मोक्षस्य नित्यत्वादनारम्यत्वेन स्वं फलमारभते । एवं नित्यस्य च कर्मणो वेदप्रमाणावबुद्धत्वात्फलेन भवितव्यमित्यवोचामान्यथा वेदस्याss- नक्यप्रसङ्गादिति । न च कर्मणि सन्युभयभ्रष्टवचनमर्थवत्कर्मणो विभ्रंशकरा- (रस्वा)नुपपत्तेः। कर्म कृतमीश्वरे संन्यस्यत्यतः करि कर्मफलं नाऽऽरभत इति चेत् । न । ईश्वरे संन्यासस्याधिकारफलहेतत्वोपपत्तेः । मोक्षायैवेति चेत्स्व+कर्मणा कृतानामीश्वरे संन्यासो मोक्षायव न फलान्तराय । योगसहितो योगाच भ्रष्ट इत्यतस्तं प्रति नाशाशका युक्तैवेति चेन्न । " एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ " प्रमचारिखते स्थितः " इति च गृहस्थवानप्रस्थयोः कर्मसंन्यासविधानात् । न पात्र ध्यानकाले स्त्रीसहायाशा येनकाकित्वं विधीयते । न च गृहस्थस्य निराशी- परिग्रह इति वचनमनुकूलम् । “ विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः" " सर्वारम्मपरित्यागी" नेताशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः ॥ इति तत्र तत्र वषनानि दर्शितानि । तैर्षिरुध्यते चतुर्थाश्रमप्रतिषेधः । तस्मा- न्मनेयोगमारुरुक्षोः प्रपन्नगाहस्थ्यस्याग्निहोत्रादि फलनिरपेक्षमनुष्ठीयमानं ध्यानयो- गारोहणसाधना सत्त्वशुद्धिद्वारेण प्रतिपद्यत इति संन्यासी च योगी चेति स्तूयते ॥ ३॥ अप तयोगी कदा योगारूढो भवतीत्युच्यते- यदा हि नेन्द्रियार्येषु न कर्मस्वनुषज्जते । सर्वसंकल्पसंन्यासी योगारुढस्तदोच्यते ॥४॥ यदा समाधानचित्तो योगी हि यस्मादिन्द्रियार्योध्वन्द्रियाणामाः शब्दादयस्तेष्वि. न्द्रिया । कर्मसु नित्यनैमित्तिककाम्यतिषिद्धेषु प्रयोजनामावबुद्धया नानुषजते । अनु- +स्वकर्मणामित्यादीति चेदित्यन्त पूर्वोकस्यैव मोक्षायैवेस्यादेविवरणमिति भाति । १२. 'भ्यस्येस।२ म. 'स्यतेऽतः।क. ख. ग. घ.. 'ति स्वक' । ४ ख. ग. 'गोगेन यो।

: कामा वै १ [01-लो०५-] श्रीमद्भगवदीवा। ५ पर कर्तव्यताबुद्धिं न करोतीत्यर्थः । सर्वसंकश्मसंन्यासी सर्वान्संकल्पानिहामुत्रार्यका- महेतून्संन्यासितुं शीलं यस्य स सर्पसंकल्पसन्यासी। योगारूढःप्रापयोग इत्येतत् । तदा तस्मिन्काल उच्यते सर्वसंकल्पसंन्यासीति । मगवदूचनासन्किामानसर्वाणि कर्मागि च संन्यसेदित्यर्थः । संकल्पमूला हि सर्वे कामा। संकल्पमूलाः यज्ञाः संकल्पसंभवाः । काम जाना.म ते मूलं संकल्पास्किल जायसे ।। न त्वां संकल्पयिष्यामि समूलो विनशिष्यास ॥ इति स्मृतेः। सर्वसंकल्पपरित्यागे सर्वकर्मपरित्यागः सिद्धो भवति । स यथाकामो भवति तत्क्रतुर्भवति तत्कर्म कुरुते " इत्यादिश्रुतिभ्यः । " यद्यद्धि कुरुते कर्म तसस्का- मस्य चेष्टितम् " इति स्मृतिभ्यश्च । न्यायाच्च । सर्वसंकल्पसंन्यासे न हि कधि- स्पन्दितुमपि शक्तः। तस्मात्सर्वसंकल्पसंन्यासवचनासन्किामान्सर्वाणि च कर्माणि त्यानयति च मगवान् ॥ ४ ॥ यदेवं योगारूढस्तदाऽऽत्माऽऽत्मनौद्धृतो भवति संसारादनपदादयम्- उद्धरेदात्मनाऽऽत्मानं नाऽऽत्मानमवसादयेत् । आत्मैव यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५॥ उद्धरेत्संसारसागरे निमग्नमात्मानमात्मना तत ऊर्ष हरेद्योगारूढतामापादयेदि- स्यर्थः । नाऽऽत्मानमवसादयेनाधो नयेत् । आत्मैव हि यस्मादात्मनो गन्धुः संसा- रमुक्तये भवति । बन्धुरपि तावन्मोक्षं प्रति प्रतिकूल एव मेहनिबन्धनायतनस्यात् । तस्माद्युक्तमवधारणमात्मैव ह्यात्मनो बन्धुरिति । आत्मव रिपुः शत्रुर्योऽन्योऽपकारी बाह्यः शत्रुः सोऽ( त्रुस्तद्भावोऽ )प्यात्मनि युक्त एवेति युक्तमवधारणमात्मैव रिपुरा- स्मन इत्युक्तम् ॥ १ ॥ तत्र किंलक्षण आत्मनो बन्धुः किंरक्षगो वा रिपुरात्मन इत्यत्रोच्यते- बन्धुरारमाऽऽत्मनस्तस्य येनाऽऽत्पेषाऽऽत्मना जितः । अनात्मनस्तु अधुत्वे वर्तताऽऽमेव शत्रुवद ॥ ६ ॥ पन्धुरात्माऽऽत्मनस्तस्याऽऽत्मा तस्याऽऽस्मनो बन्धुः । येनाऽऽस्मेवाSSस्मना जित आत्मा कार्यकरणसंघातः कार्य शरीरं करणानीन्द्रियाणि । ये स्वीकृतो जितेन्द्रिय इत्यर्थः । अनात्मनस्त शत्रुभाषे वर्तेताऽऽत्मैव शत्रुत् । यथा शत्रुरात्मनोऽकारी तथाऽऽस्माऽऽत्मनोऽपकारे वर्ततेत्यर्थः ॥१॥ जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ७ ॥ १. बलतर्भपति । ३. येनास्ती :

हनुमद्विरचितपैशावास्यसहिता- को-११]
नितानः प्रशानस्य कार्यकरणसंघात आत्मा जितो येनस निमा ल्य
मितालनः प्रशन्तस्य परमात्मा समाहितः साक्षादात्मभावेन वर्तत इत्यर्षकिंव
Hariमुखदुःखेषु तथा मानापमानयोः पूजापरिभक्योः सपत्य ॥ ७॥
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इस्युच्यते योगी समलोष्टाशकाचः ॥८॥
ज्ञानं शास्त्रोक्तपदार्थानां परिज्ञान विज्ञानं विशेषतो ज्ञान स्वानुभवकरणं ताम्या
तृतात्मा कूटस्थोऽप्रकम्प्यो भवतीत्यर्थः । विजितेन्द्रियश्चेशी युक्तः समाहितः स
उच्यते समलोष्टाश्मकाञ्चनः ॥ ८॥
सुहृन्मित्रायुदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुण्यपि च 'पापेषु सपबुद्धिर्विशिष्यते ॥९॥
लोकार्धमेकं पदम । सुहृदिति प्रत्युपकारमनपेक्ष्योपकर्ता । मित्र नेहवान् । मरिः
शत्रुः । उदासीनो न कस्यचित्पलं मनते । मध्यस्थो विरुद्धयोरुभयोहितैषी । वेष्य
आत्मनोऽप्रियः । बन्धुः संबन्धीत्येतेषु साधुषु शास्त्रार्यानुवर्तिध्वपि च पापेषु प्रतिषि-
दकारिषु सर्वेष्वेतेषु समबुद्धिः कः किं कर्मत्यव्यापृतबुद्धिरित्यर्थः। विशिष्यते यो-
गरिाना सर्वेषां युकतम इत्यर्थः ॥ ९ ॥
अत एवायमुक्तफलप्राप्तये-
योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
'एकाकी यतचित्तारमा निराशीरपरिग्रहः॥१०॥
योगी स्वाध्यायी युजीत समादध्यात्सततमात्मानमन्तःकरणम् । रहसि स्थित एका.
न्ते गिरिगुहादी स्थितः सन् । एकाक्यसहायः । एकाकीति विशेषगात्संन्यास कृत्ये-
त्यर्थः । यतचित्तात्मा निराशीवितृष्णोऽपरिग्रहश्च परिग्रहरहितः । संन्यासित्वेऽपि
स्यकसर्वपरिग्रहः सन्युञ्जीतेत्यर्थः ।। १० ।।
'अपेदानीं 'योगं युञानस्याऽऽहारादीनां योगसाधनस्येन नियमो पकया। साम्योगस्य
ल फलं चेल्यादि वक्तव्यमित्येतदारम्यते । तत्राऽऽसनमेव तावप्रथममुख्यते-
'शुचौ देशे प्रतिष्ठाप्य स्थिस्मासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं लाजिनकुशोत्तम् ॥ ११ ॥
शुची विविक्ते स्वभावतः संस्कारतो वा देशे स्थाने प्रतिष्ठाप्य स्थिरमलमास्मन
मासनं नास्युचित नातिनीचं तच्च चैलानिनकुशोत्तरं चैलमजिनं कुशाश्चोत्तरा पस्मि.
नासने तदासनं चेलानिनकुशोत्तरम् । विपरीतकम: ॥ १९ ॥

१५ EmotiatiN] श्रीपालीवा। काजिशोतरं प्रतिक्षाच्या किम्- सेबैकाग्रं मला कुत्वा पतचिन्द्रियक्रियः । उपविश्याऽऽसने युज्यायोगमात्मविशुद्धये ॥ १२॥ तत्र तस्मिन्नासन उपविश्य योगं युज्यात् । कथं, सर्पविषयेम्य उपसंहृत्येकाचं मनः कृत्वा यतचित्तेन्द्रियक्रियः । स किमयं योगं युज्यादिस्यत्राऽऽह-आत्मविशुद्धये । अन्ताकरणस्य विशुदधमित्येतत् ॥ १२ ॥ बासमासमभुकमधुना शरीरधारणमुच्यते- समं कायशिरोग्रीवं धारयनचकं स्थिरः । संपेक्ष्य नासिकाग्रंवं दिशश्चानवलोकयन् ॥ १३ ॥ समं कायशिरोनीवामिति । कायश्च शिरच ग्रीवा च कायशिरोपीयम् । तत्सम भधारयन् । अवलं समं धारवतोऽपि चलन मातीत्यतो विशिनधि-अचमिति स्थिरः स्थिरो भवेत्यर्थः । संप्रेक्ष्य सम्यकप्रेक्षणं संदर्शनं कृत्वेवेतीवशब्दो लुप्तो द्रष्टव्यः । स्वनासिकामपंप्रेक्षणमिह न विधीयते किं तर्हि चक्षुषोईष्टिसनिपातः । स चान्तःकर- जसमाधानापेक्षो विवक्षितः । संप्रेक्षणमेव चेद्विवक्षितं तहिं मनस्तत्रैव समाधीयत । आत्मनि हि मन:समाधानं वक्ष्यति--आत्मसंस्थं मनः कृत्येति । तस्मादिवशब्दको- पस्तनागोईष्टिपात एव संवेदयेत्युच्यते । दिशश्चानवलोकयन् । दिशा नावलोकन पुनिस्येतत् ॥ १६॥ प्रशान्तास्मा विगतभीब्रह्मचारिखते स्थितः । मनः संयम्य मचित्तो युक्त श्रासीत मस्परः ॥ १४ ॥ प्रशान्तात्मा विगतभागितमयो ब्रह्मचारिखते स्थितो ब्रह्मचारिणां व्रतं ब्रह्मचर्य- मुलामणमिलानुक्स्यादि सस्मिस्थितस्तदनुष्ठाता भोदित्यर्थः । किंच मनः संयम्य सनसो वृतिमुपसंहस्य मचित्तो. मथि परमेधरे चित्तं यस्य सोऽयं मखितः । युक्तः लसमाहिता सविशेत् । मस्परः कश्चित्रागी स्त्रीत्रित्तोऽपि न खिमेव परवेन गृह्णति । कि तहिं राजानं महादेवं वा । अयं तु चित्तो मत्परयः॥१४॥ अपेदानी योगफलमुच्यते- पुजय सदाऽऽस्मान योगी नियतमानसः । 'पान्ति निर्वाणपरमा पसंस्थामधिगच्छति ॥१५॥ 'जन्मन:समाधान कुको योन प्रकारेण योगी नियतमानसोनिक्त संगतं १.ग. प्रेक्षया-दि।

६६
हनुमदिरचितपैशाचभाष्यसहिता- [अ०६ श्लो०१६-१९]
मानसं यस्य स शान्तिमुपरति निर्वाणपरमां निर्वाणं मोक्षः परमा निष्ठा यस्याः शा.
तेस्ता निर्वाणपरमां मसंस्था मदीनामाधिगच्छति प्राप्नोति ॥ १५ ॥
योगिन आहारादिनियम उच्यते-
नात्यननम्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ।
नात्यमतः । आत्मसंमितमन्नमतीत्यामतः । "अत्याशनादतीपानाद्यच्च उग्रात्पति-
महात् " इति श्रुतेः । तस्माद्योगी नाऽऽत्मसंमितादधिकं न्यून वाऽश्नीयात् । अथवा
योगिनो योगशास्त्रपरिमितादनपरिमाणादतिमात्रमनतो योगो नास्तीत्युक्तम् ।
अर्धमन्नस्य सव्यञ्जनस्य तृतीयमुदकस्य तु ।
वायोः संचरणार्थ तु चतुर्थमवशेषयेत् ।।
इत्यादि परिमाणम् । तथा न चातिनशीलस्य योगो भवति चार्जुन ॥ १६ ॥
कथं पुनर्योगो मवतीत्युच्यते-
युक्ताहारविहारस्य युक्त चेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भरति दुखिहा ॥ १७ ॥
युक्ताहारविहारस्य । अहियत इस्याहारेऽनं विहरणं विहारः पादक्रमस्तो युक्ती
नियतपरिमाणावहारविहारी यस्य । तथा नियता चेष्टा यस्य कर्मभु । युक्तस्वप्नावनो-
धस्य योगिनो योगो भाति दुःखहा । सर्वसं पारदुःखक्षयकृयोगो मवतीत्यर्थः ॥१७॥
भयाधुना कदा युक्तो भातीत्यत्रोच्यते-
यदा विनियत चित्तमात्मन्येवावतिष्ठने ।
नि:स्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥
पदा विनियतमिति । यदा विनियतं विशेषेण नियत संयतमेकाग्रतामापनं चितं
हित्वा बारमात्मन्येव केवलमवतिष्ठते । स्वात्मनि स्थिति लभत इत्यर्थः । निःस्पृहः
सर्वकामेभ्यो निर्गता स्पृहा दृष्टादृष्टविषयम्यस्तृष्णा यस्य योगिनः स युक्तः समा-
हित इत्युच्यते तदा ॥ १८ ॥
योगिनः समाहितस्योपमोच्यते-
यथा दीपो निवातस्यो नेइन्ते सोपमा स्मना ।
योगिनो यतचित्तस्य युञ्जतो योगपात्मनः ॥ १९ ।।
यथा दीपो निवतस्थः। निवाते वातयनित देशे स्थितो नेते न चति । सोपमा ।
उपमीयतेऽनयेत्युपमा . स्मृता योगश्चित्तप्रकारदर्शिभिश्चिन्तिता । योगिनो यतचित्तस्य
संयनान्त:करणस्य युञ्जतो योग समाधिमनुतिष्ठत इत्यर्थः ॥ १९ ॥

[अ०१ श्लो०२०-२१] भीमनगदीना।
१७
यत्रीपरमते चित्तं निरुदं योगसेवया।
यत्र चैवाऽऽत्मनात्मानं पश्यनात्मनि तुष्यति ॥२०॥
एवं योगाभ्यासबलादेकाग्रीमतं निवातप्रदीप इव यत्र यस्मिन्काल उपरमते पित्त-
मुपरति गच्छति । निरुद्धं सर्वतो निवारितप्रचारम् । योगसेवया योगानुष्ठानेन ।
यत्र चैव यस्मिश्च काल आत्मनाऽऽस्मानं परं चैतन्यं ज्योतिःस्वरूपं पश्यनुपलम-
मानः स्व एवाऽऽत्मनि तुष्यति तुस्टि भजते ॥ २० ॥
किंच-
सुखपात्यन्तिकं यत्त दिग्राममतीन्द्रियम् ।
वेत्ति यत्र न चैवाय स्थितश्चलति तत्वतः ॥ २१ ॥
सुखमात्यन्तिकमत्यन्तमेव भवतीत्यात्यन्तिकमत्यन्तमित्यर्थः । यत्तद्बुद्धचैवेन्द्रिय-
निरपेक्षया गृह्यत इति बुद्धिग्राह्यमतीन्द्रियमिन्द्रियगोचरातीतं तदविषयजनितमित्यर्थः ।
वेत्ति तादृशं सुखमनुमवति यत्र यस्मिन्काले । न चैवाय विद्वानात्मम्वरूपे स्थितस्तम्माच.
लति तत्त्वतस्तत्वस्वरूपात च्यवत इत्यर्थः ॥ २१ ॥
किंच-
यं लब्ध्वा चापरं लाभ मन्यते नाषिकं
यस्मिनिस्यतो न दुःखेन गुरुणापि विचारयते ॥ २२ ॥
यमात्मानं लब्ध्वा प्राप्यापरं लामं न मन्यते लाभान्तरं न मन्यते न चिन्तयति ।
किंच यस्मिन्नात्मकत्वे स्थितो दुःखेन शत्रपातादिलक्षणेन गुरुणाऽपि गरीयसाऽपि
न विचाल्यते ॥ २२ ॥
स्त्रोपरमत इत्यारभ्य यावद्भिविशेषणविशिष्ट आत्मावस्थाविशेष उक:-
सं विद्याद्दुःखसंयोगवियोग योगसंब्रितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ २३ ॥
तं विद्याददुःखसंयोगवियोगम् । दुःखेन संयोगो दुःखसंयोगस्तेनासंयोगो दुःखसंयोग-
वियोगस्तं दुःखसंयोगवियोगं योग इत्येव संज्ञितं विपरीतं विद्यादित्यर्थः । योगफल-
मुपसंहृत्य पुनरन्वारम्भेण कर्तव्यतोच्यते निश्चयानिदयोः साधनत्वविधानार्थम् । स
यथोक्तफलो योगो निश्चयनाध्यवसायेन योक्तभ्यः । अनिविष्णचेतसा । न निविण्णम-
निर्षिणं किं तच्चेतस्तेन निदरहितेन चितेनेत्ययः ॥ २५ ॥
किंच-
संकल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसेवेन्द्रियग्रा विनियम्य समन्ततः ॥ २४ ॥

। .. हनुमदिरचिकामाप्यसाहिता- [.taman-M संकल्पः प्रभवो येषां कामानां ते संमसभा कामास्वपरित्यज्य सर्वा. नशेषतो निः निपम् । किन मनसैव विक्रय केनर इन्द्रिामासमिन्द्रियसमुदाय विनिमय नियत्रं कृत्वा-समन्ततः समन्तात्.॥ २५ ॥ बने कमरमेदगुपयाधुतिगृहीता। आयसंस्मन वा नविदामि किये। शनैः शनैर्न सहसोपरमेदुपरति कुर्यात् । केन, बुद्धया धृतिगृहीतया ययुको त्यर्थः । आत्मसंस्थमात्मनि स्थितमात्मैव सर्व न ततोऽन्यत्किचिदस्तीत्येवमामा मनः कृत्वा न किंचिदपि चिन्तयेत् । एक योगश्य परमोडबधिः । तत्रैवाऽऽत्मसंस्थ' मनः कृत्वा प्रवृत्तो योगी- यतों यतो निवराति मनश्चलमस्थिरम् । संतस्तो नियम्यतदारमन्येव वशं नये ॥४॥ २६ ॥ यतो यतो यस्माद्यस्मानिमित्ताच्छब्दादेनिश्चल(राति निर्गच्छति स्वभावदोषदितन्मनः मचलमत एवास्पिरं ततस्ततस्तस्मास्तस्माच्छब्दादेनिमित्तानिय पैतानिमित्तयाथात्म्य. निरूपणेनामावीकृत्य वैराग्यभावनयाँ वाऽऽत्मन्येव वशमेति (शं नयेत् )। तपाss. (पा)[सति त्मन्येव प्रशाम्यति ॥ २६ ॥ प्रशान्तमनसंचन योमिनं सुखमुत्तमम् । उप्रेति. शान्तरजसं-प्रमभूतमकल्मषम् ॥ २७ ॥. प्रशान्तं मनो यस्य स प्रशान्तमनास्तं प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमं निर- तिशयमुपेत्युपगच्छति । शान्तरजसं प्रक्षीणमोहादिक्केशारजसमित्यर्थः । ब्रह्मभूतं जीव. मुक्तं ब्रह्मैव सर्वमित्येव सर्वनिश्चयं ब्रह्मभूतमकल्मषमधर्मवनितम् ॥ २७ ॥ मुचनेनं. समाऽऽत्मानं योगी विगतकल्मषा। मुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥ युझव यथोन. क्रमेण सदाऽऽस्मानं योगी विगतकल्मषो विगतपा मुखेनाना- यासन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥ इदानी योगसाफल्यं ब्रह्मकत्यदर्शनं प्रदश्यते सर्वभूतस्यमात्मानं सर्वभूतानि चाऽऽत्माने । क्षिते योगयुक्तास्मा सर्वत्रसमदर्शनः ॥ २९ ॥ ११. षादात्मन' । देष त । ३क: ख... 'मित या 'मिताया। ४ क., ब.... "या बाईsम"।

+ [MOE tor३३] श्रीमद्भगवद्गीता। १९. सर्वभूतस्थं सर्वेषु मतेषु स्थितं स्वात्मानं सर्वभूतानि च ब्रह्मादीन्यात्मकता गवानी. क्षते पश्यति । योगयुक्तात्मा समाहितान्त:करणः सर्वत्रसमदर्शमः:11.२९ ।। तस्येकात्मकत्वदर्शनस्य फलमुच्यते- यो मा.पश्यति सर्वत्र सर्व च मयि पश्यति । तस्याईन प्रणश्यामि स.च मे न प्रणश्यति ॥ ३०॥ यो मां. वासुदेव सर्वत्र सर्वभूतेषु सर्वं च ब्रह्मादिभूतमातं मयि सर्वात्मनि पश्यति, तस्येवमात्मकत्वदर्शिनोऽहमीश्वगे न प्रणश्यामि न परोक्षनां गमिष्यामि । स च में न प्रणश्यति न परोक्षी भवति । तस्य च मम चैकात्मकत्वात् । स्वात्मा हि-नामाs त्मनः प्रकाश एव भवति । यस्माच्च हमेव सर्वकात्मकत्वदीत्येतत् ॥ ३० ॥ पूर्वश्ले'कार्य सम्यग्दर्श नमनुध तत्फलं मोक्षोऽभिधीयते- सर्वभूतस्थित यो मां भजत्येकत्वमास्थिता। सर्वम वर्तमानोऽपि स योगी माय वर्तते ॥ ३१ ॥ सर्वभूतस्थितमित्यादिना । सर्वथा सर्वप्रकारैर्वर्तमानोऽपिः सम्यग् योगी मकि विष्णो परदेवते वर्तते नित्ययुक्त एव सः । न मोक्ष प्रति केनचित्रतिषिध्या इत्यर्थः ॥ ३१ ॥ किंच- आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ३२ ॥ आत्मा स्वयमेवोपमा तद्भाव आत्मौपम्यं तेनाऽऽत्मौपम्येन सर्वत्र सर्वभूतेषु समं तुल्य पश्यति योऽर्जुन । किं पश्यतीत्यत्रोच्यते--यथा मम मुखमिष्ट तथा प्राणिनां सुख- मनुकूलम् । वाशब्दश्चार्ये । यदि वा यथा च दुःखं मम प्रतिकूलमनिष्टं तथा तर प्राणिनामनिष्टं पतिकूलमित्येवं स्वौपम्येन मुखदुःखे चानुकूलपतिकूले तुल्यतया सर्क भूतेषु समं पश्यति न कस्यचित्प्रतिकुलमाचरति । अहिंसक इत्यर्षः । एवमाहिंसा: सम्यग्दर्शननिष्ठः स योगी परम उत्कृष्टो मतोऽभिमतश्चिन्तित इत्यर्थः ॥ १२॥ सर्वयोगिना( णा )मेतस्य यथोक्तस्य समदर्शनलक्षणस्य योगस्य दुःसंपादता- माक्ष्य शुषस्तत्प्राप्त्युपायमर्जुन उवाच- अर्जुन उवाच-- योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एसम्यान पश्यामि चञ्चलत्वात्म्यिनि स्थिराम् ॥ ३३॥ योऽयं योगस्वया प्रोक्तः साम्येन । एतस्य योगस्याहं न पश्यामि नोलने परवा-मनसः स्थिति स्पिरामचलाम् ॥ ३३ ॥ ११ सर्वस्याऽऽस्मानं स' । २ क. ख ग. घ. इ. मोक्षममि । कप: - सर्वथा।

७. हनुमद्विरचितपेशाचमाध्यसाईवा- [अ०१-छो०३४-३ ॥ प्रसिद्ध मेतत्-- चवळ हिमनः कृष्ण प्रमाथि बलवदम् । तस्याहं निग्रहं मन्ये वायोरिव मुष्करम् ॥ ३४ ॥ कृष्णेति कर्षविलेखनार्थस्य । योगिमक्तननपापादिदोषकर्षणाकृष्ण । न केव समत्यर्थं चचलं मनः प्रमाथि च प्रमथनशीलम् । प्रमध्नाति शरीरमिन्द्रियाणि च विक्षिपति नरं वशी करोति । किंच बलवन्न केनचिनियन्तुं शक्यम् । किंच दृढ़ तन्तुमागवत् । तस्यवंभूतस्य मनसोऽहं निग्रहं निराधं मन्ये व.योरिव सुदुष्करम् । पथा वायोर्तुष्करो निग्रह तथा दुष्करं मन्य इत्यभिप्रायः ॥ ३४ ॥ श्रीभगवानुवाच-- असंशयं महाबाहो मनो दुनिग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥ xअसंशयं नास्ति संशयो मनो दुर्निग्रहं चलमित्यत्र । किं त्वभ्यासेन । अभ्यासो नाम चिसभूमो कस्यचित्तमानप्रत्यया वृत्तिः । वैराग्यं दृष्टादृष्टमोगेषु दोषदर्शनाम्या- साद्वैतृष्ण्यं तेन वैराग्येण च गृह्यते विक्षेपरूपपकारश्चित्तस्य । एवं तन्मनो गृह्यते निरुध्यत इत्यर्थः ॥ १५॥ यः पुनरसंयतास्मा तेन- असंयतात्पना योगो दुष्पाप इति मे मतिः । वश्यात्मना तु यतता शक्योऽनाप्तुमुपायतः ॥ ३६ ॥ अभ्यासवेराग्याम्यामसंयतान्तःकरणोऽयतात्मा तेनासंयतात्मना योगो दुष्प्रापो दु.खसंपाप्य इति मे मतिः । यस्तु पुनश्यात्मा तेन वश्यात्मनाऽभ्यासवैराग्याम्या वश्यस्वमुपपादित आत्मा मनो यस्य सोऽयं तेन वश्यात्मना तु यतता भूयोऽपि प्रयत्न कुर्वता शक्योऽवाप्तुं योग उपायतो यथोक्कादुपायात् ॥ ३६ ॥ तत्र योगाभ्यासासीकारेण परलोकेहलोकप्राधिनिमित्तानि कर्माणि संन्यस्तानि । योगस्य फलं च मोक्षसाधनं सम्यग्दर्शनं न प्राप्तमिति योगी योगमार्गान्मरणकाले पतिपित्त इति तस्य नाशमाशङ्कयाऽऽहार्जुन:-- अर्जुन उवाच- अयविः प्रयोपतो योगाचलितमानसः । अप्राप्य योगसंसिद्धि को गति कृष्ण गच्छति ॥ ३७ ॥ भयविरिति । अपयत्नवान्योगमार्गे श्रद्धयाऽऽस्तिक्यबुद्ध्या चोपेतो योगादन्त- काले पठित मानसं मनो यस्य स चलितमानसो नष्टस्मृतिरमाप्य योगसंसिद्धि योग. फवं सम्यर्शन का गति कृष्ण गछति ॥ ३७ ॥ ४ एतस्मात्प्राकू " भगवानुवाच " इत्यधिकं . पुस्तके । - [सं० श्लो०३८-४१] श्रीमद्भगवद्रीता। ७१ कश्चिमोभयविभ्रष्ट श्छमाभ्रमिव नश्यति । अपतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ३८॥ कच्चिदुमयविभ्रष्टः कर्ममार्गायोगमार्गाश्च विभ्रष्टश्छिन्नाभ्रमिव न नश्यति । कि- चाप्रतिष्ठो निराश्रयो हे महाबाहो विमूढो ब्रह्मणः पथि ब्रह्मप्राधिमार्गे ॥ ३८ ॥ एतन्मे संशयं कृष्ण च्छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य च्छेचा न छुपपयते ।। ३९ ॥ एतन्मे= संशयं कृष्ण च्छेत्तुमर्हसि । अशेषतस्त्वदन्यस्त्वत्तोऽन्य ऋषि देवो वा छेत्ता नाशयिता संशयस्यास्य न हि यस्मादुपपद्यते । नास्तीत्यर्थः ॥ ३९ ॥ श्रीभगवानुवाच- पार्थ नैवेह नामुत्र विनाशस्वस्य विद्यते । न हि कल्याणकत्कश्चिदुर्गति ताव गच्छति ॥४॥ xपार्थ नैवेह लोके नामुत्र परस्मिल्लोके वा विनाशस्तस्य विद्यते नास्ति । नाशो नाम पूर्वस्माद्धीनजन्मप्राधिः । स योगभ्रष्टे नास्तीति । न हि यस्मात्कल्याणकृच्छु- भकृत्कश्चिदुर्गति कुत्सितां गतिं हे तात तारपिताऽऽत्मानं पुत्ररूपेणेति पिता तात उच्यते । पितेव पुत्र इति पुत्रोऽपि तात उच्यते । गछति प्राप्नोति ॥१०॥ कि तस्व भवति, योगमार्ग प्रवृत्तः संन्यासी- प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती: सपा। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ।। ४१ ॥ सामर्थात्प्राप्य गत्वा पुण्यकृतामग्निष्टोमादियाजिनां लोकांस्तत्र घोषित्वा पासम. नुभूय शाश्वतीनित्याः समाः संवत्सरास्तद्भोगक्षये शुचीनां ययोककारिणां श्रीमतां गेहे विभूतिमतां गृहे योगभ्रष्टोऽभिजायते ॥११॥ अथवा योगिनामेव कुले भवति धीमताम् । एतदि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥ अथवा श्रीमतां कुलादन्यस्मिन्यौगिनामेव दरिद्राणां कुले मह(मव) त जायते धीम. ताम् । एतद्धि जन्म दरिद्राणां योगिनां कुले दुर्लभतरं पूर्वमपेक्ष्य लोके जन्म यदीशं यथोक्तविशेषणे कुले ।। ४२ ॥ यस्माच- तत्र बुद्धिसंयोग लभते पौर्षदेहिकम् । यतते च ततो भूयः संसिद्धी कुरुनन्दन ॥ ४३ ॥ = अत्राऽऽर्ष कोबस्वम् । ४ एतस्मात्प्राक् " भगव नुवाच " इत्यधिक ग. . पुस्तकयो ।

हनुपद्विरचितपैशाचमा यसाहिता- ०-लो०४४-४७) तर योगिनां कुछे । बुद्धिसंयोगं लभते । पौर्वदेहिकं पूर्वदेहभवं पौर्वदेहिक बुद्धिसं. योगं लभते । यतते च यत्न करोति च । ततस्तस्मात्पूर्वकृतीसंस्काराद्भूयो बहुतरं सिलीसिद्रिनिमित्तं कुरुनन्दन ॥ १३.॥ पूर्वाभ्यासेन तेनैव हिगते अवशोऽपि सः । जिज्ञासुरपि मेगस्य शब्दब्रह्माविवर्तते ॥४४॥ पूर्वजम्मान कृतोऽभ्यासस्तेन पूर्वाम्यासेन बच्चता तेनैव हियते हि यस्मात्प्राप्यते विसंयोग प्रत्यक्शोऽपि स योगभ्राटः । किंच जिज्ञासुर्योगस्य ज्ञातुमिच्छया योगमार्गे प्रवृत्तः संन्यासी सामर्थात्सोऽपि शब्दब्रह्म वेदोक्तं केवलं कर्मानुष्ठातुमति- वर्तते । योगजिज्ञासाऽपि केवलात्कर्मणो गुरुतरेत्यभिप्रायः । किमुत बुढ्या योगनि. छाम्यासं कुर्वन् ॥ ४ ॥ अब योगिस्वं श्रेय इति [प्रतिपादयति]- अवस्नायवमानस्तु योगी संशुद्धकिल्विषः । अनेकजन्मसिद्धस्ततो याति पर गतिम् ।। १५ ।। यस्मादपिक प्रयतमान इत्यर्थः । ततो योगी विद्वान्संशुद्धकिल्विषः संशुद्धपा. पोऽनेकेषु मन्मसु किंचिरिकचित्संशुद्धसंस्क.रजातमुपचिस्य तेनोपचितेन संस्कारेणा- नेकजन्मकृतेन संसिद्धोऽनेकजन्मसिद्धः। ततो लब्धसम्यग्दर्शनः संन्यासी याति परां प्रकृष्ट गतिम् ॥१५॥ यस्मादेवं तस्मात्- उपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥४६ ॥ तपस्विभ्योऽधिको योगी । ज्ञानमत्र शास्त्रपाण्डित्यं तद्वज्ज्ञानिभ्योऽपि मतो झानि- भ्योऽधिक इति. कर्मियोऽग्निहोत्रादिकार्निभ्यस्तद्वत्तेभ्योऽधिको योगी । तस्माद्योगी मवार्जुन ॥४॥ 'योमिनामपि सर्वेषां मद्नेनान्तरात्मना । दावान्भजते यो मांस में युक्ततमो मतः ॥ ४७ ॥ इति श्रीमहाभारते शतसाहच्या संहितायां यासक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णा- र्जुनसंवादे ध्यानयोगो नाम षष्ठोऽध्यायः ॥ ६ ॥ १. तात्मसंस्कार' । २ ग. बुन्दा ।

[भ०७-लो०१-२] श्रीमद्भगवद्गीता। ७३ योगिनामपि सर्वेषां रुद्रादित्यादिपराणां मद्गतेन वासुदेवे मयि समागतेनान्तरात्म- नाऽन्तःकरणेन च श्रद्धावान्भनते यो मां स मे युक्तमोऽतिशयेन युक्तो मतोऽभिप्रेत इति ॥ १७ ॥ इति श्रीमद्धनुमद्विरचिते पैशाचभाष्यनामके श्रीमद्भगवद्गीताब्याख्याने षष्ठोऽध्यायः ॥ ६ ॥ ( आदितः श्लोकानां समष्टयङ्काः-२८०)। ( अथ सप्तमोऽध्यायः)। - योगिनामित्यादिश्लोकेन प्रश्नबीजमुपन्यस्य स्वयमेवेदृशं मदीयं तत्त्वं मद्तान्तरा- स्मा स्यादित्येतद्विवक्षुर्भगवानुवाच - श्रीभगवानुवाच- मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः। असंशयं समग्रं मां यथा नास्यसि तच्छृणु ॥ १ ॥ मच्यासक्तमनाः पार्थेत्यादि । मयि वक्ष्यमाणाविशेषणे परमेश्वर आसक्तं मनो यस्य स मय्यासक्तमनाः । पार्थ योगं युञ्जन्मनःसमाधानं कुर्वन्मदाश्रयोऽहमेव परमेश्वर आश्रयो यस्य स मदाश्रयः । योगी पुरुषार्थेन केनचिदर्थी तत्साधनं कर्माग्निहोत्रादि तपो दानं वा किंचिदाश्रयं प्रतिपद्यते । अयं तु योगी मामेकमाश्रयं प्रतिपद्यते । हित्वाऽ- + न्यसाधनान्तरं मय्येवाऽऽसक्तभना भाति । यस्त्वेवंभूतः सोऽसंशयं समग्रं सम. स्तविभूतिबलशक्त्यश्वर्यादिगुणसंपन्नं [ मां ] यथा यत्प्रकारेणैवमेवायं भगवानिति ज्ञास्यसि तच्छृण्वथ वक्ष्यमाणं मया ॥१॥ तच्च महिषयम् - ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ञातव्यमवशिष्यते ॥२॥ ज्ञानं ते तुभ्यमहं सविज्ञानं विज्ञानसहितं स्वानुभवयुक्तमिदं वक्ष्याम्यशेषतः । तज्ज्ञानं विवक्षित स्तौति श्रोतुरभिमुखीकरणाय । यज्ज्ञात्वा यज्ज्ञानं ज्ञात्वा नेह भूयः पुनातव्यमवशिष्यते । तत्त्वज्ञो यः स सर्वज्ञो भातीत्यर्थः । ततो विशिष्टफल- स्वादुर्लभं ज्ञानम् ।। २ ॥ ॥ + अन्यत्साधममिति पठि युक्तम् । १ ग. "मिति लो। १० ६४ हनुमद्विरचितपैशाचभाष्यसाहिता [अ०७श्लो०३-७] कथमित्यत्रोच्यते- मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३ ॥ मनुष्याणां मध्ये सहस्रेष्वनेकेषु कश्चिद्यतति सिद्धये सिद्धयर्थम् । तेषां यततामपि सिद्धानां सिद्धा एव हि ते ये मोक्षाय यतन्ते । तेषां कश्चिदेव मां वेत्ति तत्त्वतो यथावत् ॥ ३ ॥ श्रोतारं परोचनेनाभिमुखीकृत्याऽऽह-- भूमिरापोऽनलो वायु: ख मनो बुदिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥ ममिर्गन्धतन्मात्रमापो रसतन्मात्रमनलो रूपतन्मात्रं वायुः स्पर्शतन्मात्रं खं शब्द- तन्मात्र । । मन इति मनसः कारणमहकारो बुद्धिमहान्बुद्धिरित्यहंकारो महानह. कारोऽव्यक्तमहंकार इत्यविद्यासंयुक्तमित्यव्यक्तम् । ननु प्रसिद्धं भूम्यादिशब्दमहा- भूतानां ग्रहणं युक्तम् । मनःशब्देनापीन्द्रियस्य । बुद्ध्यहंकारशब्दाम्यामध्यवसायवृत्ते. रभिमानवृत्तेश्च ग्रहणम् । नैवमुपपद्यते । प्रकृतिरिति च दक्ष्यमाणत्वात् । इतीयं मे ममेश्वरस्य शक्तिमूत ऽविद्यात्मिका मिन्ना विभक्ता प्रकृतिः कारणमष्टपकारम् ॥४॥ अपरेयमितस्त्वन्यां प्रकृति विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ।। ५ ।। अपरा निकृष्टाऽशुद्धो बन्धामिकेत्यर्थः । इयं यथोक्ता । इतोऽध्या अन्या- न्तिरामान्तरभूतो मे ममेश्वरस्य परां प्रकृष्टां जीवभूतामात्मभूतां महाबाहो यदेदं धार्यतेऽन्तःप्रविष्टया जगत् ॥ ५ ॥ एवद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं.कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥६॥ एषा परापरत्वेन विभक्ता प्रकृतियोनिः कारणं येषां तान्येतद्योनीनि भूतानि सर्वा- णीन्युपधारयावगच्छ । अतः परं(र)प्रकृतिरूपेण स्थितोऽहं विश्वस्य जगतः प्रभव उत्पत्तिस्थानं प्रलयस्तथा ॥ ६ ॥ मत्तः परवरं नान्यत्किचिदस्ति धनंजय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इच ।। ७ ।। मत्तः परमेश्वरात्पर तर] मन्यत्किचिन्नास्ति । धनंजय मयि सर्वाधारे सर्वमिदं पोतं स्यूतं सूत्रे मणिगणा इव ॥ ७ ॥ ॥ १ घ. द्धारिम । २ . 'न्तर।

[भ०७श्लो०८-११] श्रीमद्भगवद्वीता। रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शधिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८॥ रसो माधुर्यमहमप्सु कौन्तेय । प्रभा प्रकाशोऽस्म्यहं भवामि शशिसूर्ययोः । प्रणव ओंकारः सर्ववेदेषु । शब्दः ख आकाशे। पौरुषं पुंस्त्वं पुबुद्धिषु पुरुषेषु ॥८॥ पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसो । जीवनं सर्वभूनेषु तपश्चास्मि तपस्विषु ॥ ९ ॥ पुण्यो गन्धः सुरभिः पृथिव्यां च । तेनो दीप्तिश्चास्मि विभावसौ वहौ । जीवनं प्राणः सर्वभूतेषु । तपश्च स्वधर्म(मश्चा) चास्मि तपस्विषु ॥ ९ ॥ बीज मां सर्वभूतानां विद्धि पार्य सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १० ॥ बजि प्ररोहणसमर्थं मां सर्वभूतानां विद्धि । पार्थ सनातनं चिरंतनम् । बुद्धिर्बुद्धिमता. मस्मि । तेजः प्रागल्भ्यं तेजस्विनामहम् ॥ १० ॥ बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥ कामरागविवर्जितम् । कामश्च रागश्च ताम्यां विवर्जितम् । कामो दृश्यमानेषु तृष्णा, स्मर्यमाणेषु राग इति विशेषः । धर्माविरुद्धो भूतेषु प्राणिषु कामोऽस्मि भरतर्षम ॥११॥ ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न स्वहं तेषु ते मयि ॥ १२ ।। ये चैव सात्त्विकाः सत्त्वगुणनिवृत्ता भावाः प्राणिनो राजसा रजोगुणनिर्वृत्तास्ता- मसास्तमोगुणनिर्वृत्ताश्चैते मत्त एवेश्वराज्जातास्तान्विद्धि । यद्यप्येवं न त्वहं तेषु तद्वशोऽहं न भवामि । ते मयि मदशा इत्यर्थः ॥ १२ ॥ त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ १३ ॥ त्रिमिर्गुणमयैः सत्त्वरजस्तमोमयैर्भावैः प्राणिमिरेभिः सर्वमिदं जगद्वर्तते । मम मा- यया मोहितं नामिजानाति मामेभ्यो गुणेभ्यः परं कारणत्वेन स्थितमव्ययम् ॥ १३ ॥ देवी श्रेषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥ देवस्य ममेश्वरस्य विष्णोः स्वभावभूता देव्यप्राकृता । हि यस्मादेषा गुणमयी गुणात्मिका मम माया दुस्त्यया दुस्तरा तस्मान्मामेव ये प्रपद्यन्ते शरणं गच्छन्ति मायामेतां तन्ति ते ॥ १४ ॥ .. .. ..

:
मूढाः
७६ हनुमदिरचितपैशाचभाष्यसहिता- [भ०७ लो०१५-२२]
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः।
माययाऽपहृतवाना आसुरं भावमाश्रिताः ॥१५॥
न मां दुष्कृतिनः पापकर्माणो प्रपद्यन्ते न शरणं गच्छन्ति नराधमा मायया
मदीययाऽपहृतज्ञाना अपहृतं तिरोहितं ज्ञानं येषां तेऽपहृतज्ञाना आसुरं भाव-
माश्रिताः ॥ १५ ॥
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आतो जिज्ञामुरार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥
चतुर्विधाश्चतुष्प्रकारा मजन्ते मां जनाः सुकृतिनोऽर्जुन। आततॊ दुःखी । ज्ञातुमि-
च्छुजिज्ञासुः । अर्थार्थी । ज्ञानी, आत्मवित् । भरतर्षभ ॥ १६ ॥
तेषां बानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमई स च मम प्रियः॥ १७ ॥
तेषां मध्ये ज्ञानी नित्ययुक्त एकमक्तिर्विशिष्यते श्रेयान् । प्रियो हि ज्ञानिनोऽ.
त्यर्थमतिशयेनाहं, स च मम प्रियः ॥ १७ ॥
उदारा सर्व एवैते ज्ञानी स्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमा गतिम् ॥ १८ ॥
उदारा उत्कृष्टाः सर्व एवैत आर्तादयः । ज्ञानी स्वात्माऽहमेवेत्यभिप्रायः ।
भास्थितः संपाप्तः । स हि ज्ञानी युक्तात्मैकाग्रचित्तो मामेवानुत्तमां गतिम् ॥ १८ ॥
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ।। १९ ॥
बहना जन्मनामन्तेऽवसाने ज्ञानवान्मां प्रपद्यते वासुदेवः सर्वमिति प्रतिपद्यमानः ।
स च महात्मा सुदुर्लभः ॥ १९ ॥
कामैस्तैस्त हतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
वंतं नियममास्थाय प्रकृत्या नियताः स्वया ॥ २०॥
कामेहुविधैरपहृतज्ञानाः प्रपद्यन्त आश्रयन्तेऽन्यदेवता मद्वयतिरिक्ताः। तं तं नियम
प्रतमास्थायाऽऽश्रित्य प्रकृत्या स्वभावेन नियता वशीकृताः स्वयाऽऽत्मीयया ॥२०॥
यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति ।
तस्य तस्याचला श्रद्धा तामेव विदधाम्यहम् ॥ २१ ॥
यो यो यां यां तनुं देवताविग्रहं श्रद्धयाऽर्चितुमिच्छति तम्य तस्याचलां निश्चल
श्रद्धा तामेव तद्विषयां विदधामि करोम्यहम् ॥ २१ ॥
स तया श्रद्धया युक्तस्तस्याऽऽराधनमीहते ।
लभोच ततः कामान्मयैव विहितान्हितान् ॥ २२ ॥

[१०७-लो०१३-२८] श्रीमद्भगवद्गीता।
स तया विहितया श्रद्धया युक्तस्तद्देवनाविशेषस्याऽऽराधनमीहते करोति । लभते
च तत आराधनास्कामानीप्सितान्मयैव विहितान्हितान्मयैव दत्ताननुकूलान् ॥ २२ ।।
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ २३ ॥
अन्तवत्वन्तो विनाशो विद्यते यस्य तदन्तवत्फलं तु तेषां देवतान्तरपूजकानाम-
रूपमेधसामरपबुद्धीनाम् । देवानभिमतान्देवान्यजन्तीति देवयजो यान्ति गच्छति ।
मयि भक्ता मद्भक्ता यान्ति मामपि । तस्मादनन्त(न्तं) पूजाफलम् ॥ १३ ॥
किंनिमित्तं भगवन्तं विहाय देवतान्तरं यजन्तीयर्जुनवचनमाशङ्कयाऽऽह-
अव्यक्तं व्यक्तिमापनं मन्यन्ते मामबुद्धयः ।
परं भावमजानम्तो ममाव्ययमनुत्तमम् ॥ २४ ॥
अव्यक्तमविद्यमानव्यक्तिमावमिमं संसारिपुरुषवदा(द्वय)[क्तिमा]पन्नं प्राप्त मन्यन्ते
जानन्ति मामबुद्धयोऽविवेकिनो लौकिका जनाः । मम परं प्रकृष्टं परमात्ममावमनान-
न्तोऽचिन्तयन्तोऽव्ययमविनाशिनमनुत्तमं निरुत्तमम् । तं (अतो) मां विहाय देवता-
न्तरं पूजयन्ति ॥ २४ ॥
नाहं प्रकाश: सर्वस्व योगमायासमातृतः।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥
नाहं प्रकाशः सर्वस्य लोकस्य केषांचिदेव मद्भक्तानां प्रकाशोऽहमित्यभिप्रायः ।
गुणैयोग एव माया, योगमायासमावृतो मूढोऽयमविवेकी लोको नाभिनानाति माम-
जमव्ययमुत्पत्तिविनाशरहितम् ॥ २५ ॥
बेदाई समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥
वेद भानाम्यहं समतीतान्यतिक्रान्तानि वर्तमानानि चार्जुन । भविष्याणि भावीनि
च भूतानि पदार्यान्मां तु वेद विजानाति न कश्चन न कोऽपीति ॥ २६ ॥
इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥ २७ ॥
इच्छाद्वेषसमुत्थेन प्रकाशितेन द्वंद्वमोहेन सुखं मे स्यादुःख मे मा भूदित्येवमर्थ.
रूपेण द्वंद्वमोहेन सर्वाणि भूतानि संमोहं भ्रमं सर्गे सृष्टौ यान्ति परंतप ॥ १७ ॥
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वंद्वमोहनिमुक्ता भजन्ते मा दृढव्रताः ।। २८ ॥
येषां त्वतगतं पापं दुष्कृतं जनानां पुण्यकर्मणां । पुण्यकर्माणो द्वंद्वमोहनिर्मुक्ता
द्वंद्वभ्रमरहिता भजन्ते सेवन्ते मां दृढव्रता दृढपंकल्पाः ॥ २८ ॥

हनुमद्विरचितपैशाचभाग्यसहिता- [अ०८ श्लो०१-
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्म कर्म चाखिलम् ॥ २९ ॥
जरामरणमोक्षाय मामाश्रित्य यतन्ति प्रयतन्ते ये ते ब्रह्म तद्विदुर्विजानन्ति कृत
मध्यात्ममध्यात्ममूतं प्रत्यगात्मभूतं कर्म चाखिलं समस्तम् ॥ २९ ॥
साधिभूताधिदेवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ३०॥
इति श्रीमहाभारते शससाहरच्यां संहितायां वैयासक्या भीष्मपर्वणि
श्रीमद्भगवद्गीतासपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णा-
र्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७ ॥
साविभूताधिदेवमधिभूताधिदेवेः सहित साधियज्ञं यज्ञसहितं च ये विदुर्विनाननि
प्रयाणकाले मरणकाले चापि मा ते विदुर्विजानन्ति युक्तचेतस इति ॥ ३० ॥
इति श्रीमद्धनुमद्विरचिते पैशाचभाष्यनामके श्रीमद्भगवद्गीताव्याख्याने
सप्तमोऽध्यायः ॥ ७ ॥
( आदितः श्लोकानां समष्टयङ्काः-३१०)।
(अथाष्टमोऽध्यायः)।
-
ते ब्रह्म तद्विदुः कृत्स्नमित्यादिना भगवताऽर्जुनस्य प्रश्नवीजान्युपक्षिप्तान्यतस्तत
भार्थमर्जुन उवाच-
भर्जुन उवाच-
किं हम किमध्यात्म किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥
अघियतः कथं कोऽत्र देहेऽस्मिन्मधुसदन ।
प्रयाणकाले च कथं बेयोऽसि नियतात्मभिः ॥ २ ॥
किं तवामेत्यादिना ॥ १ ॥२॥
एषां प्रश्नानां निर्णयार्थ भगवानुवाच-
श्रीभगवानुवाच-
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥

[अ० श्लो०१-८] श्रीमद्भगवद्वीता। अक्षरं न क्षरतीत्यक्षरं परमात्मरूपं तद्ब्रह्मत्युच्यते । " एतस्य वा अक्षरस्य प्रशा. सने गार्गि" इत्येषा श्रुतिः । तस्यैवास्य ब्रह्मणः प्रतिदेहं प्रत्यगात्ममावोऽध्यात्ममु- च्यते । आत्मानं देहमधिकृत्य प्रत्यगात्मतया प्रवृत्तमध्यात्मशब्देनोच्यत इत्यर्थः। भूतानां प्राणिनां मावो भूतमावस्तस्योद्भवमुत्पत्तिं करोतीति भूतमावोद्भक्करः । विसों यागो देवतोद्देशेन द्रव्यत्यागरूपत्वात् । स यागः कर्मसंज्ञितस्तस्य भूतभावोनवार- त्वम् "अग्नी प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते" इत्यादिस्मृतः ॥ ३ ॥ अधिभूत क्षरो भावः पुरुषश्वाधिदेवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥ अधिभूतं प्राणिजातमधिकृत्य मवतीति । तदेव दर्शयति-सरो भावः । शरति विनश्यतीति क्षरो भावो वस्तु । विनाशि वास्त्वित्यर्थः । पुरुषः पूर्णमनेन सर्वमिति पुरि शयनाद्वाऽऽदित्यान्तर्गतो हिरण्यगर्भः सर्वप्राणिकरणानुग्राहकः । स एवंभूतः पुरुषोड धिदेवतमित्युच्यते । अधियज्ञः सर्वयज्ञाभिमानिनी देवता विष्ण्याख्या | " यज्ञो विष्णुः" इति श्रुतेः । अत्र देहे कर्ममये शरीरे देहभृतां वर ॥ ४ ॥ अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्स्यत्र संशयः ॥ ५॥ अन्तकाले मरणकाले च मामेव विष्ण्वाख्यं स्मरन्मुक्त्वा परित्यज्य कळेवरं शरीरं यः प्रयाति नियते स मद्भाव विष्णुभावं वैष्णवं पदं यातीत्यत्र संशयो नास्ति यं यं वाऽपि स्मरन्मावं त्यजत्यन्ते कलेवरम् । । तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥ यं यं वाऽपि स्मरम्भावं पदार्थ तेन भावन मावितः ॥१॥ तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यार्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः॥ ७ ॥ तस्मात्सर्वेषु कालेष्विति । स्पष्टोऽर्थः ॥ ७ ॥ अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥ अभ्यासयोगयुक्तेनेति । अभ्यस्यत इत्यभ्यासः । अभ्यासश्चासौ योगधेय. म्यासयोगस्तेन युक्तेनाभ्यासयोगयुक्तेन परमं श्रेष्ठतमं दिव्यमपाकृतं पार्थानुचिन्तय- न्याति तं नान्यगतिमित्यर्थः ॥ ८॥ कवि पुराणमनुशासितार- मणोरणीयांसमनुस्मरेद्यः । - १ क. ख. घ. . "स्मस्वभा'।

८..
हनुमद्विरचितपेशाचभाष्यसहिता- [अ०८ लो०९-१४]
सर्वस्य धातारमचिन्त्यरूप.
मादित्यवर्ण तमसः परस्तात् ॥ ९॥
कविं क्रान्तदर्शिनं सर्वज्ञ पुराणं पुरातनमनुशासितारं सर्वप्राणिनां स्वधर्मस्थितिनि-
मित्तमणोरणीयांसं मूक्ष्मादपि सूक्ष्मतरमनुस्मरेद्यः सर्वस्य धातारमचिन्त्यरूपमचिन्त्य
रूपं यस्य तमादित्यवर्ण प्रकाशरूपं तमसः परस्तात्परतो वर्तमानम् ॥९॥
प्रयाणकाले मनसाऽचलेन
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये पाणमावेश्व सम्ब-
क्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥
प्रयाणकाले मनसाऽचलेन । चलनवर्जितेन भक्त्या युक्तो योगवलेन चैव योगस्य
बलं योगबलं तेन भ्रुवोर्मध्ये प्राणमावेश्य व्यवस्थाप्य सम्पग्ययाशास्त्रं स तं परं ब्रह्म
पुरुषमात्मानं दिव्यमुपैति ॥ १० ॥
यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्य चरन्ति
तचे पदं संग्रहेण प्रवक्ष्ये ।। ११ ।।
अक्षरं न क्षरतीत्यक्षरम् । एतस्य वा अक्षरस्य प्रशासने गार्गि" इति श्रुतेः ।
वेदविदो वदन्ति विशन्ति प्रविशन्ति ब्रह्मचर्य ब्रह्मचारिव्रतं चरन्त्यनुतिष्ठन्ति । संग्रहेण
संक्षेपेण प्रवक्ष्ये ॥ ११ ॥
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मून्याधायाऽऽत्मनः प्राणमास्थितो योगधारणाम् ॥ १२ ।।
सर्वद्वाराणि नव द्वाराणि संयम्य सम्यग्वशीकृत्य हृदि हत्पुण्डरीके मूाधायाss-
स्मनः प्राणमास्थितः प्रवृत्ती योगधारणां योगाभ्यास धारयितुं तत्रैव धारयेत् ॥१२॥
ओमित्येकाक्षरं ब्रह्म बाहरन्मामनुस्परन् ।
यः प्रयाति त्यजन्देहं स याति परम गतिम् ॥ १३ ।।
भोमित्येकाक्षरं प्रधानाक्षरमित्यर्थः । ब्रह्म ब्रह्मत्राप्तिहेतुत्वाद्वयाहरनुच्चारयन्मामनु-
स्मरन्प्रयाति प्रतीक्ष्य (म्रियते त्यजन्देहं परमां गतिं याति ॥ १३ ॥
अनन्यचेता। सततं यो मा स्मरति नित्यशः।
तस्याहं सुलमा पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥
अनन्यचेता यो मां स्मरति नित्यशः । सुलभः सुखेन लम्यः । नित्ययुक्तस्य नित्य
युक्तो नित्ययुक्तस्तस्य योगिनः ॥ १४ ॥

८१ • लो०१५-२२] श्रीमद्भगवद्गीता मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाऽऽप्नुवन्ति महात्मानः संसिदि परमां गताः ॥ १५ ॥ संसिद्धिं परमा मोक्षम् ॥ १५ ॥ आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥ सहस्रयुगपर्यन्तमहर्यमगो विदुः । रात्रि युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ १७ ॥ सहस्रयुगपर्यन्तं युगसहस्रप्रमाणं ब्रह्मणो बदहस्तयुगसहस्त्रपमाणं विदुः । ब्रह्मणो रात्रिमपि युगपहनान्तामहोरात्रविदो जना ज्ञानिन एवं विदुः ॥ १७ ॥ अव्यक्तायक्तयः सर्वाः प्रभवन्त्पहरागमे । राध्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंबके ।। १८ ॥ अध्यक्तात्प्रकृतेर्व्यक्तयो महदाद्याः प्रभवन्ति-अहनि अहि संमायन्ते । राध्यागमे रात्री प्रलीयन्ते लयं गच्छन्ति तत्रैवाव्यक्तसंज्ञके प्रकृती ॥ १८ ॥ भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते । राध्यागमेऽवशः पार्थ भवत्यहराममे ॥ १९ ॥ भूतग्रामो भूनसमूहः । भूत्वा भूत्वा प्रलीयत उत्पद्योत्पद्य विनश्यति । अवशः परवशः प्रमवत्युत्पद्यते । अहरागमोऽह्न आगमः ॥ १९ ॥ परस्तस्मात्तु भावोऽन्यो व्यक्तोऽव्यक्तासनातनः। यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥ पर उत्कृष्टः । तस्माद्भूतग्रामात् । मावः पदार्थः । व्यक्तो नित्यसिद्धः । अव्यक्ता- प्रकृतेः । सनातनो नित्यः । यो मावः सर्वेषु भूतेषु नशत्सु न विनश्यति ॥ २० ॥ अव्यक्तोऽक्षर इत्युक्तरतमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥ अन्यक्तः प्रत्यक्षादिप्रमाणागोचरः । अक्षर इत्युक्तस्तमव्यक्तमाहुः । ये भावं प्राप्य न निवर्तन्ते संसारमवतरन्ति । तत्परमं धाम मम ।। २१ ॥ पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तास्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥ १ ख. 'न्ते न सं। १ ८२ हनुमदिरचितपैशाचभाष्यसहिता- [अ०८-श्लो०२५-२९) यस्यान्तःस्थानि भूतानि, अन्तस्तिष्ठन्तीत्यन्तःस्थानि । येनाव्यकतेनेदं सर्वं ततं व्याप्तम् ॥ २२ ॥ यत्र काळे त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥ यत्र काले वनावृत्तिमपुनरागमनमावृत्तिं पुनरागमनं यान्ति तं कालं वक्ष्यामि भरतर्षम ।। २३ ॥ अग्निज्योतिरहः शुक्ला पपासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ २४ ॥ अग्निज्योतिरहार्दता शुक्लः पूर्वपक्षः । षण्मासा उत्तरायणाख्याः। तत्र तस्मि- न्मार्गे प्रयाताः शरीरं त्यक्त्वा गच्छन्ति ब्रह्म ब्रह्माणम् । ब्रह्मविदो हिरण्यगर्भोपा. सकाः । अग्निज्योतिब्रह्मलोकाभिमुखस्याऽऽतिवाहकदेवतोच्यते , अहरित्यहरभिमानिनी देवता । असावातिवाहिक्योः परमतिवहति । शुक्लाक्षाभिमानिनी देवता साहा(हः) परमतिवहति । उत्तरायणामिमानिनी देवता सा शुक्लपक्षात्परमतिवहति । उत्तरायण- मेव योगिनं ब्रह्म प्रापयति ॥ २४ ॥ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतियोगी प्राप्य निवर्तते ॥ २५ ॥ धुमो रात्रिश्चन्द्रलोकाभिमुखस्य कर्मिणः स्वर्ग प्रापयति साऽऽतिवाहिकी देवतोच्यते । धुमो धूमाभिमानिनी देवता । रात्री राज्याभिमानिनी देवता । साऽप्यातिवाहिकी धूमा- स्परमतिवहति । तथा कृष्णपक्षाभिमानिनी देवता रात्रेः परमतिवहति । षण्मासा दक्षि- गायनमातिवाहिकी देवता कृष्णपक्षात्परमतिवहति । गृहीत्वा गच्छतीत्यर्थः । तत्र प्रयाताः कृष्णकर्माणः चन्द्रमस इदं चान्द्रमसं ज्योतिः कर्मणा योगी प्राप्य निवर्तते । पुनः शरीरान्तरं मनुष्यलोके गृह्णातीत्यर्थः ॥ २५ ॥ शुक्लकृष्णे गती ोते जगतः शाश्ववे मते । एकया यात्यनावृतिमन्ययाऽऽवर्तते पुनः ॥ २६ ॥ शुक्ला च कृष्णा च शुक्लकृष्णे गती मार्गी । ज्ञानप्रकाशयुक्तस्य योगिनः शुक्लपक्षो गतिः । ज्ञानप्रकाशरहितस्य कर्मिणः कृष्णपक्षो गतिः । जगत इति योगिनः कर्मि: जश्वोच्यन्ते । शाश्वते नित्ये प्रवाहनित्यत्वात् । एकया यात्यनावृत्तिमपुरावृत्ति ब्रह्मलोकस्थितिमन्ययाऽऽवति पुनरागच्छति मनुष्यलोके । तत्र प्रयाता गच्छन्ति [ब्रह्मेत्यत्र] परमेव कथं न गृह्यते तत्र परस्मिम्ब्रह्मणि प्रयाणनिषेधात् । “अथाकामय- मानो योऽकामो निष्काम आत्मकाम आतकामो न तस्य प्राणा उत्क्रामन्ति । अत्रैव [म. (-९ श्लो ०२७-२८1१] श्रीमद्भगवद्गीता । ८३ समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति" इति श्रुतेः । " तद्वै तत्पश्यनृषिर्वामदेवः प्रति. पेदे, अहं मनुरभवं सूर्यश्च" इति ।। २६ ॥ नैते मृती पार्थ जानन्योगी मुद्धति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥ नेते सृती मार्गों जाननवगच्छन्योन्युपासकः कश्चन कोऽपि मुह्यति क्रमादपिरादि- मार्गेण ब्रह्मलोकमुत धूमादिमार्गेण पितृलोकमि(मे)ति ॥ २७ ।। शृणु योगस्य माहात्म्यम्- वेदेषु यजेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाऽऽद्यम् ॥ २८ ॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासक्यां भीष्मपर्वणि श्रीमद्भगवद्गीता सूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु. नसंवादे तारकब्रह्मयोगो नामाष्टमोऽध्यायः ॥ ८॥ वेदेषु सम्यगधीतेषु यज्ञेषु यथावदनुष्ठितेषु तपःसु चान्द्रायणादिषु तत्रेषु दानेषु च यत्पुण्याख्यं फलमुपदिष्टमत्येत्यतिवर्तते तत्सर्वमिदं विदित्वा सप्रश्ननिर्णयद्वारेणोक्त. मर्थनातं योगी परं प्रकृष्टं स्थानमुपैति प्राप्नोति चाऽऽद्यमादो मवं परं ब्रह्मे. त्यर्थः ॥ २८ ॥ इति श्रीमद्धनुमद्विरचिते पैशाचभाष्यनामके श्रीमद्भगवद्गीताव्याख्यानेऽ. मोऽध्यायः ॥ ८॥ ( आदितः श्लोकानां समष्टयकाः-३३८)। ( अथ नवमोऽध्यायः)। सप्तप्रश्ननिर्णयानन्तरमर्जुनार्य (सं)पत्यष्टममप्यर्थमुपदेष्टुं भगवानुवाच- श्रीभगवानुवाच- इदं तु ते गुह्यतमं प्रवक्ष्याम्यनमयवे । जानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १ ॥ , ख. ग. 'सको न क । २ क. ग, घ. इ. 'य यत्प्रत्य। ३ क. ख. ग. 'मप्य।

८४ हनुमद्विरचितपैशाचभाष्यसहिता [अ०९ श्लो०२-१
इदं वक्ष्यमाणं तव गुह्यतमं रहस्यतमं प्रवक्ष्यामि । अनसूयवे । गुणेषु दोषाविष्क-
रणमसूया । ज्ञानमवोधं विज्ञानसहितमनुमवयुक्तम् । यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१॥
राजविद्या राजगुहां पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगर्म धर्म्य सुसुखं कर्तुमव्ययम् ॥ २ ॥
विधानां राजा राजविद्येयं ब्रह्मविद्या । राजगुह्यं विवस्वदादिमी राजभी रक्षितत्वात् ।
पवित्रं पावनं प्रत्यक्षावगमं स्वानुभवं धय धर्मादनपेतं सुमुखं कर्तुं मुखेनानुष्ठेयमन्य-
यमविनाशि ॥ २॥
अश्राधानाः पुरुषा धर्मस्यास्य परंतप ।
अपाप्य मां निवर्तन्ते मृत्युसंसारवमनि ॥ ३ ॥
अश्रद्दधानाः श्रद्धारहिताः पुरुषा धर्मस्यास्य ज्ञानलक्षणस्यानुष्ठानेऽश्रद्दधाना इति
संबन्धः। अप्राप्य मां परमात्मानं निवर्तन्ते प्रत्यागच्छन्ति । मृत्युयुक्तसंसार एव वर्म
तत्र मृत्युसंसारवमनि ॥ ३ ॥
मया ततमिदं सर्व जगदव्यक्तमूर्तिना।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ४॥
मया ततं व्याप्तमिदं सर्वं जगत् । अव्यक्ता मूर्तिर्यस्य सोऽव्यकमूर्तिस्तेन मयेश्व-
रेणेन्द्रियागोचरस्वरूपेणेत्यर्थः । मत्स्थानि सर्वभूतानि सर्वप्राणिनः । न चाहं तेषु भू.
तेषु व्यवस्थितः ॥ १॥
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतमन्न च भूतस्थो ममाऽऽत्मा भूतभावनः ॥ ५ ॥
न च मत्स्थानि भूतानि । मयि तिष्ठन्तीति मत्स्थानि । न चेमानि भूतानि
मत्स्थानि । “असङ्गो न हि सज्जते " इति श्रुतेः । पश्याऽऽलोकय मे योगमेश्वरमी-
श्वरसंपन्धिनम् । भूतानि विमतीति भूतभृत् । न च भूतस्थो न च भूतेषु [तिष्ठति ।
ममेश्वरस्याऽऽत्मा भूतमावनो भूतान्युत्पादयतीति भूतभावनः ॥ ५ ॥
ययाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥
यथाऽयं दृष्टान्त भाकाशस्थितोऽचलो नित्यं सर्वकालं
वायुः
सर्वत्रगो
महान्महा.
परिमाणः सर्वभूताधारत्वेन तथा तद्वत्सर्वाणि भूनानि मत्स्थानि मयि स्थितानीत्युपधा.
रयावगच्छ ॥१॥
सर्वभूतानि कौन्तेय प्रकृति यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ ७ ॥

- [अ०९-लो०८-१२] श्रीमद्भगवद्गीता। ६५ सर्वभूतानि कौन्तेय मामिकां प्रकृति प्रसवधर्मिणी यान्ति गच्छन्ति । तत्र लीयन्त इत्यर्थः । कल्पक्षये कल्प्यते सुज्यत इति कल्पो महदादिपञ्चस्तस्य क्षयो महाप्रल. यस्तत्र । पुनस्तानि भूतानि कल्पान्तरादौ विसृजामि ॥ ७ ॥ प्रकृति स्वामवष्टभ्य विसृजामि पुनः पुनः। भूतग्राममिमं कृत्स्नपक्शं प्रकृतेर्वश्चात् ।। ८ ॥ प्रकृति स्वामवष्टम्याऽऽश्रित्य विसृजामि पुनः पुनर्भूयो भूयः । अवशं परवणं प्रकृतेर्वशात्प्राधान्यात् ॥ ८॥ किंचान्यत्- न च मा तानि कर्माणि निवघ्नन्ति धनंजय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥९॥ न च मां तानि कर्माणि निबध्नन्ति । नेति प्रकृतेन संबन्धः । धनंजय । जगदुत्प- त्तिस्थापनसंहारकर्माणि बन्धहेतवो न भवन्तीत्यर्थः । कुत इत्यत्राऽऽह-उदासीन उपेक्षकस्तद्धदासीनमपक्षपातेनाऽऽसीनमसक्तं फलसङ्गरहितं तेषु सृष्टिस्थितिसंहारेषु कर्मसु । अतोऽवगम्यते फलासङ्गरहितं कर्माणि न निवघ्नन्तीति ॥९॥ आत्मन उदासीनत्वं दर्शयितुमाह- मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ।' हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥ मयाऽध्यक्षेण साक्षिणा प्रकृतिः सूयते सचराचरं स्थावरजङ्गममतसहितम् । हेतुना निमित्तमात्रेणानेनेश्वरेण जगद्विपरिवर्तते सत्यज्यते (संप्रवर्तते(१) ) संहियते वेत्यर्थः ॥ १० ॥ अवजानन्ति मां मूढा मानुषी सनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ।। भवनानन्ति मां मूढा अज्ञा मानुषी मनुष्योचितां तनुं शरीरमाश्रितमधिष्ठितं परं प्रकृष्टं भावमनुमावमनानन्तोऽनवगच्छन्तो ममेश्वरस्य भूतमहेश्वरं भूतानि प्राणिनस्तेषा महान्तमीश्वरम् ॥ ११॥ कथंभूतास्तेऽनानन्त इत्यत्राऽऽह- मोघाचा मोधकर्माणो मोघजाना विचेनसः । राक्षसीमासुरी चैव प्रकृति मोहिनी बिताः ॥ १२ ॥ मोषा आशा येषां ते मोघाशा मोघप्रार्थना मृगतृष्णाजलपिपासा(सु)वत् । मोघानि -- १ ख. ग. प्रसवस्त।

. ८६ इनुमद्विरचितपैशाचभाष्यसहिता- [भ०९ लो०१३-१६ कर्माणि येषां ते मोधकर्माणो मृगतृष्णोदकपानार्थगन्तृवत् । मोघं ज्ञानं येषां ते मोघ. ज्ञाना मृगतृष्णाजलज्ञातृवत् । विचेतसो विगतविवेकाः । रक्षसामियं राक्षसी प्रक- तिस्तामसी । असुराणामियमामुरी प्रकृती राजसी । राक्षसीमासुरीं चैव प्रकृति मोहिनी श्रिताः ॥ १२॥ महात्मानस्तु मां पार्थ दैवी प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ १३ ॥ महात्मानोऽक्षुद्रान्तःकरणा मामीश्वरं पार्थ । देवानामियं देवी सात्त्विकी तामा श्रिता भजन्ति सेवन्ते । अनन्यमनसः । न विद्यत ईश्वरादन्यत्र मनो येषां तेऽनन्य- मनसो ज्ञात्वोऽवगत्य भूतादि मां सकलभूतान्तःकरणमव्ययं विनाशरहितम् ॥ १३॥ सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥ सततं सर्वकालं कीर्तयन्तो भाषमाणा यतन्तो यतमाना दृढव्रता दृढं व्रतं येषां दृढव्रता नमस्यन्तो नमस्कार कुर्वन्तो मामीश्वरं भक्त्या प्रीत्या नित्ययुक्ता उपासते सेवन्त इत्यर्थः ॥ १४॥ ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥ ज्ञानयज्ञेन ज्ञानमेवेश्वरविषयं यज्ञस्तेन यज्ञेन च । अन्येऽपरे जन्तवो यजन्तः पूजयन्तो मामीश्वरमुपासते सेवन्ते । एकत्वेनकमेव परं ब्रह्मेति । पृथक्त्वेनेन्द्रमित्रव- रुणादित्यादिरूपेण । बहुधा बहुपकारैर्व्यवस्थितम् । तथा विश्वरूपेण विश्वतोमुखं तथा विश्वरूपधरं विश्वतोमुखम् ॥ १५ ॥ कथमेकस्यैव भगवतो बहुविषत्ववचनमित्याशङ्कयाऽऽत्मनो बहुविधत्वं दर्शयि. तुमाह- अहं ऋतुरहं यज्ञः स्वधाऽहमहमौषधम् । मन्त्रोऽहमहमवाऽऽज्यमहमग्निरहं हुतम् ॥ १६ ॥ अहं क्रतुः सोमयागपभेदोऽग्निष्टोमादिः । अहं यज्ञोऽहरहः क्रियमाणो देवयज्ञा- दिः । अहं स्वधा पितृपूजात्मको यज्ञः स्वधेत्युच्यते पितृयज्ञादिः। अहमौषधं यद्वया- ध्यादिनिवृत्यर्थमुपयुज्यते तदोषदं हरीतक्यादि । मन्त्रोऽहं येन देवेभ्यो हविर्दीयते यजुरादिः स मन्त्रः । अहमेवाऽऽज्यं घृतम् । अहमग्निः, यत्र हविर्हृयते स आह. वनीयादिः । अहं हुतं होमस्तदप्यहम् ॥ १९ ॥ .. १ क. स. इ. स्वाऽऽनुग' । ग. 'त्वाऽऽनुगम्य भू।

[अ०९ श्लो०१७-२१] श्रीमद्भगवद्गीता। .. पिताऽहमस्य जगतो माता धाता पितामहः। वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥ १७ ॥ पिता जनकोऽहमस्य जगतः । माता चाहं धाता दाता कर्मफलस्य प्राणिभ्यः । पितामहः पितु: पिता । वेद्यं वेदितव्यम् । पवित्रं पावनम् । ओंकारः । ओमिति ब्रह्मेति श्रुतेः । ऋमन्त्रविशेषः । साम मन्त्रविशेषः । एवं यजुर्मन्त्रविशेषः ॥१७॥ गतिर्भती प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयः स्थानं निधानं बीजमन्ययम् ॥ १८ ॥ गतिः कर्मफलम् । भर्ता पोष्टा । प्रभुः स्वामी । साक्षी पाणिनां शुमाशुभस्य कर्मणः । निवासो यस्मिन्प्राणिनो निवसन्ति । शरणं प्राणिनामातिहरम् । सुहस्पत्युपका- रानपेक्ष उपकारी। किंच प्रभव उत्पत्तिस्थानं जगतः । प्रलयो यस्मिन्नलीयते सोs. हम् । जगत्तिष्ठत्यस्मिन्निति स्थानमहम् । निधानं जगतो यत्कालान्तरोपभोगाय निधीयते तदहमिति । बीजं जगतः प्ररोहणसमर्थपव्ययं बीजमिति संबन्धः ॥१८॥ तपाम्यहमहं वर्ष निगृह्णाम्पुत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥ तपाम्यादित्यो भूत्वा कैश्चिद्रश्मिभिरष्टो मासान्वर्ष निगृह्णामि । पुनश्च कश्चिद्र- दिमभिश्चतुरो मासानु सृजाम्यहम् । अमृतमेवाहं देवानाम् । मृत्युश्च मानाम् । यस्य यत्संबन्धितया विद्यमान तत्स(त)द्विपरीतमसन्न पुनरत्यन्तमेवासत्कार्यकारणे सदसती ॥ १९॥ विद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गति प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोक- मश्नन्ति दिव्यान्दिवि देवभोगान् ॥ २०॥ विद्या ऋग्यजुःसामविदो मां सर्वेश्वरं सोमपाः सोमयानिनः पूतपापाः क्षालित- कल्मषा यज्ञैरग्निष्टोमादिभिरिष्ट्वाऽऽराध्य स्वर्गतिं स्वर्गल कपाप्तिं प्रार्थयन्त आशासते। ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति भुञ्जते दिव्यानप्राकृतान्देवभोगान् ॥ २० ॥ ते तं भुक्त्वा स्वर्गलोक विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुषपना गतागतं कामकामा लभन्ते ॥ २१ ॥ ते स्वर्गिणो विशालं विस्तीर्ण क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं ययोकेन ८८ हनुमद्विरचितपैशाचभाष्यसहिता- [अ०९ श्लो०१२-१७) प्रकारेण त्रयीधर्ममृग्यमःसामवेदोक्तधर्ममनुप्रपन्ना आश्रिता गतागतं गमनागमनं विष- यान्कामान्कामयन्त इति कामकामा छमन्ते प्राप्नुवन्ति ॥ २१ ॥ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥ म विद्यते मत्त ईश्वरादन्य उपास्यो येषां तेऽनन्याश्चिन्तयन्तो ये नराः पर्युपासते तेषां मयीश्वरे नित्याभियुक्तानां योगश्च क्षेमश्च योगक्षेमं वहामि विभर्म्यहम् ॥२२॥ येऽप्यन्यदेवताभक्ता यजन्ते श्रदयाऽन्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ।। २३ ।। ये पुरुषा अन्यदेवतामक्ता अन्यस्यां देवतायां मक्ता यजन्ते तेऽपि मां परमेश्वर- मेव पूजयन्ति । अविधिपूर्वकमज्ञानपूर्वकमिति ॥ २३ ॥ अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिमानन्ति तत्त्वेनातश्च्यवन्ति ते ॥२४॥ अहं वासुदेवः सर्वेषां यज्ञानां भोक्ता च प्रभुः स्वाम्येव च । न तु मामभिजानन्ति तस्वेन परमार्थतः । अतः कारणाच्च्यवन्ति च्यवन्ते फलाद्रश्यन्ति ते यस्विनः॥२४॥ यान्ति देवव्रता देवान्पितन्यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥ देवेषु व्रतं येषां ते देवव्रता देवान्यान्तीति प्रकृतेन संबन्धः । पितृनग्निष्वात्तादिवर्हि - पदादीन् । पितृप्रतापितृषु व्रतं यज्ञो येषां ते पितृवताः । भूतानि मद्रकालीप्रभृतीनि : यान्ति । भूतेष्विज्या येषां ते भूतेज्याः । मद्यानिनो मां परमेश्वरं यष्टुं शीलं येषां ते मद्याजिनः । तेऽपि मां यान्तीति संबन्धः ॥ २५ ॥ पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । सदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ २६ ॥ मक्त्या प्रयच्छति ददाति तदहं मक्त्या दत्तमश्नामि मुन्छे । प्रयतात्मनः प्रयतः शुद्ध आत्मा यस्य तस्य प्रयतात्मनो भक्तस्य संबन्धि पत्रादि द्रव्यं मम प्रीतये भव. तीत्यर्थः ॥ २६ । यत्करोषि यदनासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ २७ ॥ यत्करोषि यल्लौकिक वैदिकं वा कर्म करोषि यदश्नास्योदनादि भुले यदाज्यादि अहोषि देवतायें यद्धिरण्यादिकं ददासि यत्कृच्छ्रे चान्द्रायणादिकं तपश्चरसि तत्सर्व कौन्तेय कुरुष्व मदर्पण मदाराधनम् ।। २७ ।।

-- वि.सीट-1] श्रीमद्भगवडीता। शुभाशुभफरेवं मोक्ष्यसें कर्मवन्धनैः। संन्यासयोगयुक्तात्मा विमुक्तो मायुपैयर्सि' २८ ।। एवं मदर्पणानुष्ठाने सति शुभाशुभफलैः पुण्यपापफलैमयिस मुको मविष्यसि कर्माण्येव बन्धनानि तैः कर्मबन्धनैः । सन्यासयोमयुक्तात्मा संन्यास एवं योगस्तेन युतात्मा स्पतफलासङ्ग इत्यर्थः । कर्मबन्धनैर्विमुक्तो मां नित्यमुक्तं वासुदेवमुपैष्यसि प्राप्स्यसि ॥ २८ ॥ सपोरं सर्वभूतेषु न में वेश्योऽस्ति न पियः । ये भजन्ति तु मां भक्त्या मयि ते सेषु. चाप्यहम् ॥ २९ ।। समातुस्पचिसोऽहं वासुदेवः सर्वभूतेषु सर्वप्राणिषु मम द्वेष्यो नास्तीति प्रकृतेन सबन्धन प्रिय: प्रियोऽपि नास्तीति । ये तु मां भजन्ति सेवन्ते मामीश्वरं भक्त्या प्रीत्वा मयीश्वरे ते निवसन्ति । अहमपि तेषु वसामि ॥ २९ ॥ अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेष स मन्तव्यः सभ्यम्म्यवसितो हि सः । ३० ॥ मुराचारोऽपि मामीश्वरं भनते चेदन्यं न ममतीत्यनन्यमाक्साधुरेव धार्मिक एवं स मन्तव्यो बोदव्यः । हि यस्मादर्थे । सम्यक्शोभनं व्यवसितो निश्चितस्तस्माद्धार्मिक एव स मन्तव्य इत्यभिप्रायः ॥ ३० ॥ सि भवति धर्मात्मा शश्वच्छानित निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ३१ ॥ सिंधी भवति जायते । धर्मात्मा धर्मस्वरूपः । शश्वन्नित्या शान्ति मोललक्षणा निगध्याति प्रांनोति ॥ ३१ ।। मां हि पार्य व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्वेऽपि यान्ति परी गतिम् ।। ३२॥ [मां] हि यस्मात्पार्य व्यपाश्रित्य येऽपि स्युभवेयुः पापयोनयः पापिष्ठमन्मानः । त्रियो वैश्याश्च शूद्राश्च तेऽपि यान्ति परां गतिं मोक्षम् ॥ ३२ ।। किं पुनर्वासणा पुण्या भक्ता राजर्षयस्तथा । अनित्यम्मुख लोकमिम पाप्य मजस्व माम् ॥ ३३ ॥" किं पुनर्वक्तव्यं ब्राह्मणा: पुण्या धर्मात्मानो मक्ता ईश्वरं प्रपमा : राजर्षयः परां गति यान्तीत्यत्र किमु वक्तव्यमित्यभिप्रायः । तस्मादनित्यमसुखं सुखरहितं लोके पुलासाधनामने मानुषं प्राप्याधिगम्य' मगस्त सेवस्व मामीश्वरम् ॥ १६ ॥ ।

. नुमद्विरचितपैशाचभाष्यसाहिता- [अ०९-१० श्लो०३४।१-२] मन्मना भव मद्भको मयाजी मां नमस्कुरु । मामेवग्यसि युक्त्दैवमात्मानं मत्परायणः ॥ ३४ ॥ इति श्रीमहाभारते शसाहस्यां संहितायां यासक्यां भीष्मपर्वणि भीमद्भगवदीवासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णा- र्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥९॥ मन्मना मयि मनो यस्य स मन्मना भव जायस्व । मयि भक्तिर्यस्य स मद्भक्तः । मां यष्टुं शीलं यस्येति स मधानी भवेति संबन्धः । मामीश्वरं नमस्कुरु वन्दस्व । एवं मन्मना भूत्वा मामेवेष्यसि प्राप्स्यसि । युक्त्वा समाधाय । एवमुक्तेन प्रकारेणाss- स्मानम् । मत्परायणः । अहमेव वासुदेवः परमयनमाश्रयो यस्य स मत्परायणः । एवमात्मानं युक्त्वा मत्परायणश्च भूत्वा मामेवेष्यसीति संबन्धः ।। ३४ ।। इति श्रीमद्धनुमबिराचते पैशाचभाष्यनामके श्रीमद्भगवद्गीताव्याख्याने नवमोऽध्यायः ॥ ९ ॥ ( आदितः श्लोकानां समष्टयङ्काः-३७२)। : (अथ दशमोऽध्यायः)। - एवम नाय विज्ञानसहितं ज्ञानं साक्षान्मोक्षसाधनमुपदिश्येदानी येषु भावेषु चिन्त- नीयो भगवास्ते भावा भगवतत्त्वं च प्रागुक्तमपि दुर्विज्ञानत्वात्पुर्वक्तव्यमिति कृत्वा भगवानुवाच- श्रीभगवानुवाच- भूय एव महाबाहो शृणु मे परमं वचः। यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥ भूय एव भूयोऽपि महाबाहो शृण्वा कर्णय । मे मम परमं श्रेष्ठं वचनम् । यद्वचस्ते तुम्यं प्रीयमाणाय तर्यमाणाय वक्ष्याम्यभिधास्यामि । हितकाम्यया हितेच्छया ॥ १ ॥ न मे विदुः सुरगणाः प्रभवं न महर्षयः । महमादिहि देवानां महर्षीणां च सर्वशः ॥२॥ म मे विदुर्विजानन्ति सुरगणाः प्रमवमुत्पत्तिं न महर्षयः । ममोत्पत्ति सुरगणा । १. लो०१-५] श्रीमद्भगवद्गीता। ११ महर्षयश्च न जानन्तीत्यर्थः । अहमादिः कारणे हि यस्माद्देवानां महषीणां च सर्वशः सवाम् । यस्माद्देवानां सर्वेषां महर्षीणां चाहमादिः कारणं तस्मादेवा महर्षवन्ध ममोत्पत्ति न जानन्तीत्यर्थः ॥ २॥ यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढः स मत्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥ यो मां परमेश्वरं जन्मरहितं च वेत्ति विजानाति लोकमहेश्वरं लोकानां महान्तमी- श्वरमसंमूहः संमोहर हितः स मत्र्येषु मनुष्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥ बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥ बुद्धि. सूक्ष्मावबोधसामर्थ्यम् । ज्ञान पदार्थावबोधः । असंमोह उपस्थितप्रतिपति. सामर्थ्यम् । क्षमाऽऽक्रुष्टस्य ताडितस्य वाऽविकृतचित्तता । सत्यं यथादृष्टश्रुतार्थप्रति. पादनम् । दमः कर्मेन्द्रियोपरतिः । शमोऽन्तःकरणोपरतिः । सुखमाहलादः । दुःख तापः । भव उद्भवः । अभावस्तद्विपर्ययः । मयं त्रासः । अमयं तद्विपर्ययः ॥ १॥ अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः। भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥५॥ अहिंसा पीडा प्राणिनाम् । समता समचित्तता । तुष्टिः संतोषः । तप इन्द्रियनि- ग्रहपूर्वकः कायक्लेशः । दानं यथाशक्ति संविभागः । यशो धर्मनिमित्ता कीर्तिः । अय. शोऽधर्मनिमित्ताऽकीर्तिः । भवन्ति जायन्ते । भावाः पदार्थाः । भूतानां प्राणिनाम् । मत्तः परमेश्वरान । एवावधारणे । नान्येम्प इत्यभिप्रायः । पृथग्विधाः पृथक्प्र- काराः ॥ ५ ॥ किंच- महर्षयः सप्त पूर्वं चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमा: प्रजाः ॥६॥ महर्षयो भृग्वादयः । पूर्व पूर्वकालसंबन्धिनः । चत्वारो मनवः सावर्णिकादयः । मत्तः सद्भावो येषां ते मद्भावा मच्छक्त्यात्मानः । मनसि भवा मानसा । येषां महर्षीणां मनूनां च सृष्टिजा लोक इमाः प्रजाः स्थावरजङ्गमलक्षणाः ॥१॥ एतां विभूति योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः॥७॥ एतां विभूति विस्तारं योगं च विभूतिहेतुभूनं मदीयं यो वेत्ति तत्त्वतो यथावत्सो- विकम्पेन योगेन समाधिना युज्यते ।। ७ ॥

९१ हनुमद्विरचितमेवाचमाध्यामहवा- [.kase-RN मा मानव प्रमो महा सर्व प्राईवे । पति प्रत्या भजन्ते मा बुधा भावसमम्बिताः॥८॥ प्रभव उत्पत्तिकारणम् । मत्तः परमेश्वरास्सर्वं क्रियाकारकफकार गायक इत्येवं मत्वा भजन्ते सेवन्दे मां बुध अवगतपरमार्थतत्त्वार्षा। भावातत्त्वार्यामिनि- वेशस्तेन समन्विताः संयुक्का इत्यर्थः ॥ ८ ॥ मषिचा मदतमामा बोधयन्वः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रसन्ति ॥१॥ मचित्ता मदतचित्ता मद्तप्राणा मयि व्यवस्थितप्राणा मदतनीयता बोधयन्तोs- न्योन्यं कथयन्तो मामीश्वरं निरतिशयज्ञानवलवायसंपन्न रमन्ति व प्रियसंगमेनेवा। तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । दापि घुद्धियोगं तं येन मामुपयान्ति ते ॥१०॥ मां सततयुक्तानां नित्याभियुक्तानां प्रीतिपूर्वक स्नेहपूर्वकं मजताम् । मुद्धियोग तं येन बुद्धियोगेन मामीश्वरमुपयान्ति ॥ १० ॥ तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥११॥ मज्ञानजमविक तमो मिथ्यापत्त्यरूपमात्मभावस्थो ज्ञानदीपेन ज्ञानमेव दीको ज्ञानदीमस्तेन भास्वता [ नाशयामि ] ॥ ११ ॥ भक्तानामन्तःकरणस्यो मास्वता ज्ञानदीपेन विवेकमिथ्यापत्ययरूपं तमो नाश. यामीति भगद्वचनं श्रुत्वा महान्तमनुग्रहमात्मनि मन्यमानोऽन्यमप्यमिमतमर्थ मम वक्ष्यतीति मत्वा प्रष्टुकामोऽर्जुन उवाच-- अर्जुन उवाच परं प्रम परं घास पवित्रं परमं भवान् । पुरुष प्राश्ववं दिव्यमादिदेवमजं विभुष ॥ १२ ॥ परं ब्रह्म भवान् । परं धाम परमं तेजो भवान् । परमं पवित्रं पावनं मसान्। आहुस्त्वामृषयः सर्वे देवर्षि रदस्खथा। असितो देवलो व्यासः स्वयं चेव अवीषि मे ॥ १३ ॥ स्वयं चैवात्मानं ते) ॥ १३॥ .

wetomot-११] श्रीमदमबद्रीया। ९७ सबम्येयमा बदसि केशव म भगवन्ध्याति विदुर्देवा न दाना १४॥ वचनात्तत्त्ववचन बयोक्तं सर्वमृतं सत्यं मन्ये । व्यक्तिमत्पत्तिम् ॥ १५॥ स्वयमेवात्मनात्मानं वेत्व त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥ स्वयमेवाऽऽत्मनैव । भूतानि भावयतीति भूतभावनस्तस्य संबोधनम् ॥१५॥ बहुमर्हस्योषेण दिव्या यात्मविभूतयः । यामिविभूतिभिलाकानिमारत्वं व्याप्य तिष्ठसि ॥ १६ ॥ आत्मविभूतयो दिव्या अप्राकृतास्तस्मात्स्वयमेव वक्तुमर्हति ॥ १६ ॥ कर्य विद्यापहं योगिस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥ कथं विद्या विजानीयाम् । भावेषु पदार्थेषु ॥ १७ ॥ विस्तरेणाऽऽत्मनो योग विभूति च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥ विस्तरेणाऽऽत्मनो योगं विभूति विस्तरम् । अमृतं [ शृण्वतः ] ॥ १८ ॥ श्रीभगवानुवाच- श्रीभगवानुवाच- हन्त ते कथयिष्यामि दिव्या यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्व मे ॥ १९ ॥ हन्तति । हन्त ते प्राधान्यतः प्राधान्यात् ॥ १९ ॥ अहमात्मा गुडाकेश सर्वभूताशयः स्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ।। गुडाः पिण्डीकृताः केशा यस्य स गुडाकेशः । सर्वाणि भूतान्याशयो क्सस सर्वभूताशयः ॥ २० ॥ आदित्यानामहं विष्णुज्योतिषां रविरंशुमानू । मरीचिमकतामस्मि नक्षत्राणामहं शशी ॥ २१॥ द्वादशादित्यानां मध्ये विष्णुरहम् । तेजमा मध्ये रविरहम् । मरुतां देवानां मध्ये मरीचिरहम् । नक्षत्राणां मध्येऽहं शशी । ननु नक्षत्राणां मध्ये शशिनो निर्धारण नोपपयते । कस्मात, अनक्षत्ररूपत्वात् । नैतदेवम् । शशी च नक्षत्रमेव । कथम् । इह घ... 'नाच यथो।

हनुमद्विरचितपैशाचभाष्यसहिवा- [अ०१०-लो०१२-११] गण्यतः फलभोगार्थममुं लोकं नक्षत्रं ते ( नक्षन्ति ) गच्छन्तीति नक्षत्रम् । तया हि श्रुति:-"यो वा इह यजमानोऽमुं लोकं नक्षते तन्नक्षत्राणां नक्षत्रत्वम्" इति ॥२१॥ वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनचास्मि भूतानामस्मि चेतना ॥ २२ ॥ वेदानां सामवेदोऽस्मि । भूतानां कार्यकारणसंघानां संबन्धिनी चेतना ॥ २२ ॥ रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ २३ ॥ रुद्राणामेकादशानां शंकरश्चास्मि । वित्तेशी वैश्रवणः । वसूनां मध्ये पाव कोऽस्मि ॥१३॥ पुरोधां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ २४ ॥ पुरोषसां च मुख्य मा बृहस्पति सुरगुरुम् । २४ ।। महर्षीणां भंगुरहं गिरामस्म्येकपक्षरम् । यज्ञान जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ २५ ॥ महपानी भृगुरहम् । गिरां वाचां मध्य एकमक्षरं प्रणवोऽस्मि ॥ २५ ॥ अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः। गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥ उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥ ॥ २९ ॥ २७॥ आयुधानामहं वजं नूनामस्मि कामधुंक् । प्रजनश्चास्मि कंदर्पः सर्पाणामस्मि वासुकिः ॥ २८ ॥ प्रजना प्रजनयिता ॥ २८ ॥ अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितृणामर्यमा चास्मि यमः संयमतामहम् ॥ २९ ॥ यादसा जलौकसाम् । संयमता संयमनं कुर्वताम् ॥ २९ ॥ प्रहादचास्मि दैत्यानां कालः कलयतामहम् । मुगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३०॥ कलयता विच्छेत्तृणाम् ॥ १०॥ पवनः पर्वतामस्मि रामः शस्त्रभृतामहम् । झपाणां मकरचास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥ ॥

९५ [सं०१० श्लो०१२-३०] श्रीमद्भगवद्गीता। पवता गच्छताम् । रामो दाशरथिरहम् । झषा हिंस्रजलचराः ॥११॥ सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां बादः प्रवदतामहम् ॥ ३२ ॥ सर्गाणां सृष्टीनामादिरन्तश्च मध्यं च सृष्टिस्थितिसंहाराः । प्रवदतां संबन्धी वादोऽहम् । प्रमाणतर्कसाधनोपालम्भसिद्धान्ताविरुद्धः पञ्चाक्यवस्वोपपनपक्षप्रतिपक्षप- रिग्रहो वादः ॥ ३२॥ अक्षराणामकारोऽस्मि द्वंद्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ॥ ३३ ॥ समासे भवः सामासिको द्वंद्वः । धाता कर्मफलभावनाई ईश्वरः। विश्वतोमुखो विश्वरूपः ॥ ३३ ॥ मृत्युः सर्वहरचाहमुद्भवश्च भविष्यताम् । कीतिः श्रीचि नारीणां स्मृतिमेंघा धृतिः क्षमा ॥ ३४ ॥ पर एवेश्वरः सर्वहरो मृत्युरुच्यते । प्रलये सर्वहरणात् । भविष्यतामु भूषतामुद्र- वोऽभ्युदयोऽहम् । स्वरूपेण कथनं कीर्तिः । श्रीलक्ष्मीः । वाक्सरस्वती । स्मृतिः स्मरणशक्तिः । मेधा धारणाशक्तिः । धृतिर्यम् । क्षुत्पिपासादिसहनं क्षमा । अ-क्रुष्टोऽभिहतो वाऽपि नाऽऽक्रोनेशैव ताडयेत् । अदुष्टो वाङ्मनःकायः सा क्षमा परिकीर्तिता ॥ एता उत्तमाः त्रियोऽहं, यासामामासमात्रसंबन्धेन लोकः कृतार्थमात्मानं मन्यते ॥ ३४ ॥ बृहत्साम तथा सान्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरा ॥ ३५ ॥ बृहत्साम नाम साम्नां प्रधानं साम । गायत्री छन्दोविशिष्टानामृचां गायब्यूगहम् । कुसुमाकरो वसन्तर्तुः ॥ ३५ ॥ घृतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ ३६॥ छलयतां छद्मगतीनां धूतमस्मि । नेतृणां जयोऽस्मि । व्यवसायिनां व्यवसायोs. स्मि । सत्त्ववता सात्त्विकानां सत्त्वमहमस्मि । ३६ ॥ कृष्णानां वासुदेवोऽस्मि पाण्डवानां धनंजयः। मुनीनामप्य व्यास: कवीनामुशना कविः ॥ ३७॥ वृष्णीनां वासुदेकोऽस्मि । मुनीनां मननशीलानां सकलपदार्थतत्वज्ञानिनो, कवीनां क्रान्तदर्शि नाम् ॥ ३७ ।।

हनुमदिरचिवपैशावभाष्यसहिसा- [अ०१०-११-लो०१८-17)
दण्डो दमयत्तामस्मि नीतिरस्मि जिगीपत्ताम् ।
मौन चैवास्मि गुशाना ब्रानं ज्ञानवतापहम् ॥ ३८ ॥
दमयिता संबन्धी दण्डोऽस्मि, अदान्तानां दमनकारणम् । निंगीषता जिगीषूणा
नातिरस्मि । नीतिः षाड्गुण्यम् । गुह्यानां गोप्वानां गुप्तिहेतुर्मीनमस्मि ॥ १८ ॥
यचापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९॥
बीज प्ररोहकारणम् । न तदिति संक्षेपमाह । मया विना यत्स्याचराचरं चरमचरं
पा न तदस्ति ॥ ३९ ॥
नान्तोऽस्ति मम दिव्यानां विभूनीनां परंतप ।
एष तूरेशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥
॥ १० ॥
यद्यद्विभूतिमत्सत्त्वं श्रीपदूर्जितमेव वा ।
सचदेवावगच्छ त्वं मम तेजोशसंभवम् ॥ ४१ ।।
तेजोऽशस्तेमोशः। [स] संभवः कारणं यस्य तत्तेजोशसंभवम् ॥ ११॥
अथवा बहुनैोन किं ज्ञातेन तत्रार्जुन ।
विष्टभ्याइमिदं कृत्स्नपेकांचन स्थितो जगत् ॥ ४२ ॥
इति श्रीमहाभारते शतसाहसपा संहितायां वैयासक्या भीष्मपर्वणि
श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु-
नसंवादे विभूतियोगो नाम दशमोऽध्यायः ॥१०॥
अथवा बहुनैतेनैवमादिना किं ज्ञातेन तवार्जुन स्यात्सावशेषेण । अषेशतस्त्वमिदं
पूण । अहमेकेन सूक्ष्मांशेनेदं कृत्स्नं जगद्विष्टभ्य व्याप्य स्थित इति मन्तव्यम्॥४२॥
इति श्रीमदनमद्विरचिते पैशाचभाष्यनामके श्रीमद्भगवद्गीताव्याख्याने
दशमोऽध्यायः ॥ १०॥
(मादितः श्लोकानां समष्टयङ्काः-४१४)।
अथैकादशोऽध्यायः)।
एवं भगवन्मुखारसंक्षेपविस्तराम्यां विभूति श्रुत्वा पररूपं द्रष्टुकामोऽर्जुन उवाच-
अर्जुन उवाच-
मदनुग्रहाय परमं गुखमध्यात्मसंज्ञितम् ।
यत्वयोक्तं वचस्वेन मोहोऽयं विगतो मम ॥ १ ॥

भ०११ली०१-५] श्रीमद्भगवद्रीता। ९७ अध्यात्मसंज्ञितमध्यात्मप्रतिपादकं वचनमप्युपचारेणाध्यात्मसंजितमित्युच्यते ॥१॥ भवाप्ययौ हि भूतानां श्रुती विस्तरशो मया । स्वतः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥ मवाप्ययानुत्पत्तिप्रख्यो ।॥ २॥ एवमेतद्यथाऽस्थ त्वमात्मानं परमेश्वरम् । द्रष्टुमिच्छामि ले रूपमेश्वरं पुरुषोत्तम ॥ ३ ॥ ईश्वरस्वेदमेश्वरम् ॥ ३॥ मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयाऽऽस्मानमव्ययम् । ४॥ योगशब्दात्समाधिवचनादर्शआदित्वादच्प्रत्ययः । योगो विद्यते स ते योगाः । योगानामीश्वरो योगिनामीश्वरो योगेश्वरस्तस्य संबोधनम् ॥ ४॥ एवमर्जुनेन स्वरूपदर्शनं प्रार्थितं तद्दर्शयितुकामो भगवानुवाच - श्रीभगवानुवाच- पश्य ये पार्थ रूपाणि शतशोऽथ सहस्रशः। नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥५॥ शतशः शतानि । सहस्रशः सहस्राणि । नानावर्णाकृतीनि नानाविधवर्णसंस्था- [ना]नि ॥ ५॥ पश्याऽऽदित्यान्वसूरुद्रानधिनी.मरुतस्ता । बहून्यदृष्टपूर्वाणि पश्याऽऽश्चर्याणि भारत ॥ ६ ॥ इहैकस्मिञ्जगत्कृत्स्नं पश्याध सचराचरम् । मम देहे गुडाकेश यच्चान्यद्रष्टुमिच्छसि ।। ७ ।। इह मम देहे । गुडाका निद्रा । तस्या ईश्वरः स्वामी गुडाकेशः । जितनिद्र इत्यर्थः ॥ ७॥ न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि से चक्षुः पश्य मे योममेश्वरम् ॥८॥ ॥८॥ संजय उवाच- संजय उवाच- एवमुक्त्वा तो राजन्महायोगेश्वरो हरिः। दर्शयामास पार्याय पर रूपमैश्वरम् ॥ ५ ॥ १३ ९८ हनुमद्विचितपेशाचभाष्यसहिता- [अ० ११ श्लो०१०-११] एवमुक्त्वेति । राजनिति धृतराष्ट्रम्य संबोधनम् । योगो विद्यते थेषां ते योगा। महायोगानामीश्वरो हरिः ॥९॥ अनेकवक्त्रनयनमनेका तदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥ दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यपयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥ अनेकवक्त्रनयनमनेकानि वक्त्राणि नयनानि च यस्मिनरूपे तदनेकवक्त्रनयनम् । भनेकानि च यान्यद्भुतान्यनेकाद्भुतानां दर्शनमुपलब्धिर्यत्र रूपे तद्रूपमनेकाद्भुत- दर्शनम् । दिव्यान्यनेकान्युद्यतान्यायुधानि यत्र रूपे तद्दिव्यानेकोद्यतायुधम् ॥१०॥ ॥ ११ ॥ दिवि सूर्यसहस्रस्य भवेयुगपदुत्थिता । यदि भा: सहशी सा स्याद्भासस्तस्य महात्मनः ॥ १२ ॥ ॥ १२ ॥ तत्रकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यदेवदेवस्य शरीरे पाण्डवस्तदा ।। १३ ॥ तत्र देवस्य शरीरे कृत्स्नं जगदनेकधा प्रविभक्तमकस्थमपश्यदिति व्यवहितेन परि ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥ अर्जुन उवाच- पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंघान् । ब्रह्माणमीशं कमलासनस्थ मपीच सर्वानुरगांथ दिव्यान् ॥ १५ ॥ अनेकबाहदरवक्त्रनेत्रं पश्यामि त्वा सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवाऽऽदि पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥ ॥ १४ ॥ १५ ॥ १६ ॥ किरीटिनं गदिम चक्रिणं च तेजोराशि सर्वतोदीप्तिमन्तम् । १. घ. अनन्तबा । २ घ. खां।

[भ०११श्लो ९९ ०१७ ७-२३] श्रीमद्भगवद्गीता। पश्यामि यो दुनिरीक्ष्यं समन्ता- हीप्तानलार्कद्युतिमपमेयम् ॥ १७ ॥ त्वमक्षरं परमं वेदितव्यं स्वमस्य विश्वस्य परं निघानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ १८॥ अनादिमध्यान्तमनन्तवीर्य- मनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥ द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमुग्रं तवेद लोकत्रयं व्यथितं महात्मन् ॥ २० ॥ अमी हि त्वां सुरसंघा विशन्ति केचिद्भीताः पाञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ २१ ॥ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसंघा वीक्षन्ते त्वा विस्मिताश्चैव सर्वे ॥ २२ ॥ रुद्रादित्येति । विश्वे हि विश्वे देवाः। ऊष्मपाः पितरः ॥ २२ ॥ रूपं महत्ते बहुवकत्रनेत्रं महाबाहो बहुबाहूरूपादम् । बहूदरं बहुदंष्ट्राकराल दृष्ट्वा लोका: व्यथितास्वथाऽहम् ॥ २३ ॥ ॥ २३ ॥ १ घ. स्वा । २ क घ. 'रीक्षं स । २ घ, त्वा । ४ घ. स्वां। ५. स्वां।

- १.. हनुमदिरचितपेशाचमाष्यसहिता- [१०१९खो०२०-३०) नमास्पृशं दीप्तमनेकवर्ण व्याचाननं दीप्तविशालनेत्रम् । दृष्टा हि त्वी प्रव्ययितान्तरात्मा धृति न विन्दामि शमं च विष्णो ॥ २४ ॥ नम इति । व्यात्ताननं व्यात्तानि विवृतान्याननानि यस्यासौ व्यात्ताननः ॥२॥ दंष्ट्राकरालानि च ते मुखानि दृष्ट्व काळानल संनिभान । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगनिवास ॥ २५ ॥ शर्म सुखम् ॥ २५ ॥ अमी च त्वा धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंधैः। भीष्मो द्रोणः सूतपुत्रस्तयाऽसौ सहास्मदीयैरपि-योषमुख्यैः ॥ २६ ॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलमा दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाः ॥ २७ ॥ यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥ यथा प्रदीप्तं ज्वलनं पतङ्गन विशन्ति नाशाय समृद्धवेगाः। तयैव नाशाय विशन्ति लोका- स्तवापि वक्त्रामि समृद्धवेगाः ॥ २९ ॥ ॥ २१ ॥ २७ ॥ २८ ॥ २९ ॥ लेलिबसे असमानः समन्ता- ल्लोकान्सपनाम्वदललद्धिः। तेजोभिरापूर्व जगत्समग्रं भासम्तवोत्राः प्रतपन्ति विष्णो ॥३०॥ १.त्वा। २ य. स्वा।

[011०३१-१५] श्रीमद्भगवदीक्षा। १ जियोऽस्मास्वादयसि ॥ ३० ॥ आख्याहि मे को भकानुग्ररूपों नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाचं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥ ॥ ११ ॥ अर्जुनस्य वचनं श्रुत्वा तस्योत्तरं श्रीभगवानुवाच- श्रीभगवानुवाच- कालोऽस्मि लोकक्षयकृत्पवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥ काकोऽस्मीति । लोकानिह मच्छरीरे समाहत पिण्डीकर्तुं प्रवृत्तः । ऋोऽपि [त्वा वामन्तरेणापि न भविष्यन्ति ॥ ३२ ॥ तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्मुक्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ।। ३३ ।। ॥ १३ ॥ द्रोणं च भीष्मं च जयद्रथं च कर्ण तथाऽन्यानपि योधवीरान् । मया इसस्त्विं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥ द्रोणं चेति । नहि व्यापादय । मा व्यविष्ठा मा शविष्ठाः । मयचलचे मा काषी- रित्यर्थः । तासि जेष्यसि ॥ ३४ ॥ संजय उवाच- ॥ एतच्छुत्वा वचनं केशवस्य कृताञ्जलिउपमानः किरीटी । नमस्कृत्वा भूय एवाऽऽह कृष्णं सगद्गदं भीतभीत: प्रणम्य ॥ ३५ ॥ १. स्वां।

१०१ हनुमदिरचितपैशाचभाष्यसहिता- [अ० ११ श्लो० ३१-१०] वेपमानः कम्पमानः । किरीट्यर्जुनः । सगद्गदं भीतभीतः प्रकारम्(१) ॥ ३५ ॥ एवं प्रणामपूर्वकं भगवन्तमर्नुन उवाच- अर्जुन उवाच- स्थाने हृषीकेश तब प्रकीया जगत्महृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः ॥ ३६ ।। स्थाने युक्तम् । प्रकाया प्रकर्षेण कीयेत्यर्थः ॥ ३६ ।। कस्माच ते न नमेरन्महात्म- गरीयसे ब्रह्मणोऽप्यादिकरें। अनन्त देवेश जगनिवास त्वमक्षरं सदसत्तत्परं यद ॥ ३७ ।। न नमेरन नमस्युः । भक्षरं ब्रह्म । सञ्चासच्च सदसत्, सदसदात्मकमित्यर्थः । ताम्यां सदसम्यां परं यत्तदपि त्वम् ॥ ३७ ॥ स्वमादिदेवः पुरुषः पुराण- स्त्वमस्य विश्वस्य परं निधानम् । वेत्ताऽसि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥ निधीयतेऽस्मिन्निति निधानम् । वेत्ताऽसि वेदिताऽसि । धाम तेनः । ततं व्याप्तम् ॥३८॥ वायुर्यमोऽग्निवरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्व: पुनश्च भूयोऽपि. नमो नमस्ते ॥ ३९ ॥ प्रजापतिर्दक्षः। पितामहो ब्रह्मा। तस्य पिता प्रपितामहः ॥ ३९ ॥ नमः पुरस्तादय पृष्ठसस्ते नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्व समाप्नोषि ततोऽसि सर्वः ॥ ४० ॥ पुरस्तादप्रतः । पृष्ठतः पश्चात् । सर्वतः पुरस्तात्पार्श्वतः पश्चाच्च । हे सर्व । अनन्त १ क. घ. इ. २ त परं यः ।

म. ला०४९-४१) श्रामद्भगवद्राता । १०३ वीर्य यस्य सोऽनन्तवीर्यम्तस्य संबोधनम् । अमितोऽपरिच्छिनो विक्रमः पराक्रमो यस्य सोऽमितविक्रमः । सर्व व्याप्नोषि ततः सर्वो भवसि ॥ १० ॥ सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात्मणयेन पाऽपि ॥ ४१ ॥ सखेति । प्रसभम् । तथा हे सखेत्यत्र* परलोपो द्रष्टव्यः । तवेदं तवेद(म) मित्यर्थः ॥ ४१ । यचाबहासार्थमसत्कृतोऽसि विहारशथ्यासनभोजनेषु । एकोऽथवाऽप्यच्युत तत्समक्ष तत्क्षामये त्वामहपप्रमेयम् ॥ ४२ ॥ विहारः क्रीडा । एकोऽसहायो बहुजनप्रत्यक्ष क्षामये प्रसादये ॥ १२॥.. पिताऽसि लोकस्य चराचरस्थ त्वमस्य पूज्यश्च गुरुगरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यतिमप्रभावः ।। ४३ ॥ ।।४३ । तस्मात्प्रणम्य प्रणिधाय काय प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायाहसि देव सोदुम् । ४४ ॥ तस्मादिति । प्रणिधाय प्रकण नीचैईण्डवद्भूमौ कायं निपात्य । सोम- पचारान् ॥ ४४। अदृष्टपूर्व हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे। तदेव मे दर्शय देव रूपं प्रसीद देवेश जगनिवास ।। ४५॥ हृषितो हटरोमा ।। ४५ ॥ * सखे इतीत्यवस्थायामितिशब्दस्थ इकारः परशब्देन प्रायः । तस्य लोपः परलोपः ।

हनुमद्विरचितपैश्चाचभाष्यसहिता- म०११-लो-40 किरीटिनं गदिनं चक्रहस्त- मिच्छामि त्वां द्रष्टुमहं तयैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ।। ४६ ॥ यथा पूर्व दृष्टवानहं तव संयुक्तो भव ॥ ४६ ॥ एलदर्जुनस्य वचनं श्रुत्वा श्रीभगवानुवाच -- श्रीभगवानुवाच- मया प्रसभेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाचं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ।। मात्मयोगादास्मस्वरूपेण योगस्तस्मात् ॥ १७ ॥ न वेदयताध्ययनैर्न दान- न च क्रियाभिन वपोभिरुः। एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुपचीर ॥ ४८ ।। अध्ययनरशाध्ययनैः । न च क्रियाभिर्गुरुपरिचर्या दि]मिः ॥ १८ ॥ मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीङ् ममेदम् । व्यपेतभी पीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥ ॥१९॥ संजय उवाच- इत्यर्जुनं वासुदेवस्तयोक्त्वा स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥ ॥१०॥ - 14. ११लो.५१-५५] श्रीमद्भगवद्गीता। १०५ अर्जुन उवाच- - दृष्टेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ५१ ॥ इदं परमपदप्राधिकारणम् ॥ ११ ॥ भीभगवानुवाच-- सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाक्षिणः॥ ५२ ।। नाहं वेदैन तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानास मां यथा ॥ ५३ ।। भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । वातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ ५४ ॥ ॥५२॥ १३ ॥ ५ ॥ मत्कर्मकुन्मत्परमो मद्भक्तः सङ्गवर्जिकः । निरः सर्वभनेषु यः स मामेति पाण्डव ॥ ५५ ।। इति श्रीमहाभारते शवसाहत्यां संहितायां वैयासक्या भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु. नसंवादे विश्वरूपदर्शनं नामैकादशोऽध्यायः ॥ ११ ॥ अहं वासुदेवः परमं प्रधानं यस्य स मत्परमः ।। ५५ ।। इति श्रीमद्धनुमद्विराषिते पैशाचमाध्यनामके श्रीमद्भगवद्गीताब्याख्यान एकादशोऽध्यायः ॥ ११ ॥ (आदितःलोकानां समापा:-४६९)। (अथ द्वादशोऽध्यायः)। एवं सुदर्शनं भावद्रूपं प्रत्यक्षेणोपलभ्य तस्योपास्यत्वं च भगवद्वचनादेव श्रुत्वा किमेवं साकारं मावद्रुपमुमास्थमाहोस्पिदव्यकं ब्रह्मरूपमुपास्यमिति संशयानस्तनिर्ण. यार्यमर्जुन उवाच- ये हनुमद्विरचितपेशाचभाष्यसहिता- [अ० १२ श्लो०१-११ अर्जुन उवाच- एवं सततयुक्ता भक्तास्त्वां पर्युपासते। ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥१॥ सततयुक्ताः साकारध्याननिष्ठाः । योगवित्तमाः परमात्मवित्तमाः ॥१॥ श्रीभगवानुवाच- मय्यावश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मता ॥२॥ मयि भगवति साकारे विश्वरूपे ॥२॥ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ।। ३ ।। संनियम्येन्द्रियग्राम सर्वत्र समबुद्धयः । से प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ ४ ॥ अनिर्देश्यमीदृशं तदिति निर्देष्टुमयोग्यमव्यक्तं प्रत्यक्षादिप्रमाणैरप्रतीयमानम् । कूटस्थं कूटः पर्वतस्तद्वत्तिष्ठतीति कटस्थम् ॥ ३ ॥ ४ ॥ क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ ५॥ अव्यक्ता गतिरव्यक्तं ज्ञानम् ॥ ५ ॥ येत सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनेव योगेन मां ध्यायन्त उपासते ॥६॥ तेषामहं समुद्धा मृत्युसंसारसागरात् । भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७॥ अनन्यो न विद्यतेऽन्यद्यस्मिन्योगे सोऽनन्यः ॥ १ ॥ ७ ॥ मय्येव मन आषराव मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्व न संशयः ॥ ८॥ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाऽऽप्तुं धनंजय ॥९॥ अभ्यासेऽप्यसमयोऽसि मत्कर्षपरमो भव । मदर्थमपि कर्माणि कुर्वसिद्धिमवाप्स्यसि ॥ १० ॥ अयेतदप्यशक्तोऽसि कतु मयोगमाश्रितः । सर्वकर्मफल यागं ततः कुरु यतात्मवान् ।। ११ ॥ ॥८॥९॥ १० ॥ ११ ।।

[भ०१२-लो०१२-२०] श्रीमद्भगवद्वीता। १०७ श्रेयो हि ज्ञानमभ्यासाज्ज्ञानादयानं विशिष्यते । ध्यानाकर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥ ॥ १२ ॥ अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहंकारः समदुःखसुखः क्षमी ।। १३ ॥ संतुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धियों मद्भक्तः स मे प्रियः ॥ १४ ॥ करुणा यस्यास्ति स करुणः । अर्शआदिभ्योऽच् ॥ १३ ॥ १४ ॥ र स्मामोदिजते लोको लोकामोद्विजते च यः। हर्षामर्षभयोद्वंगर्मुक्तो यः स च मे प्रियः ॥ १५ ॥ उद्वेग छचित्तता । अमर्षः क्रोधः ॥ १५ ॥ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ।। १६ । यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ।। १७ ॥ समः शत्रौ च मित्रे च तथा मानापमानयोः। शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥ ॥ १६ ॥ १७ ॥ १८ ॥ तुल्यनिन्दास्तुनिर्मानी संतुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे पियो नरः ॥ १९ ॥ अनिकेतोऽगृहः ॥ १९॥ ये तु धामृतमिदं यथोक्तं पर्युपासते । श्रदधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः । २० ॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैथासक्या भष्मिपर्वाण श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु. नसंवादे भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२ ॥ धर्मादनपेतं धर्म्यममृतमिवोक्तमिदम् । व्याघ्रादित्वात्समासः ॥ २० ॥ इति श्रीमद्धनुमद्विरचिते पैशाचभाष्यनामके श्रीमद्भगवद्गीताव्याख्याने द्वादशोऽध्यायः ॥ १२ ॥ ( आदितः श्लोकानां समष्टयङ्काः-४८९)।

१०४ हनुमादिरचितपेशाचभाष्यसाहिवा- [अ०१३-१-4] (अप प्रयोदशोऽध्यायः)। १ भूम्याधष्टविधा प्रकृतिरित्यपरेश्वरस्य शक्तिरूपा पुरा प्रतिपादिता-भूमिराप इत्या- दिना ग्रन्थेन । तथेश्वरस्य स्वरूपभूता जीवभूता च परा प्रकृतिः प्रतिपादिता-अप- रेयमितस्त्वन्यामित्यादिना ग्रन्थेन । तत्र तत्प्रकृतिद्वयं क्षेत्रक्षेत्रज्ञरूपमीश्वरस्य स्वरूपा- वयोधार्यमेव यथावदर्जुनाय वक्ष्यामीति [भगवानुवाच- श्रीभगवानुवाच-- इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतयो वेत्ति तं प्राहुः क्षेत्रन इति तद्विदः ॥१॥ सर्वम् (१)॥ १ ॥ क्षेत्रनं चापि मां विदि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रनयोनि यत्तज्ज्ञानं मतं मम ॥२॥ ॥ २ ॥ क्षेत्रं यच्च याक्च यद्विकारि यतश्च यत् । स च यो यत्मभावश्च तत्समासेन मे शृणु ॥ ३॥ तविति प्रकृतं क्षेत्र निर्दिशति । यद्यदात्मकम् । चशब्दः समुचये । याहग्यावं स्वकीयधर्मः । चशब्दः पूर्ववत् । यद्विकारि विकारोऽस्यास्तीति विकारि । येन विकार । सह सुपेति योगविभागात्समासः । यथा यत्कार्यमुपपयत इति वाक्यशेषः । पशब्दः पूर्ववत् । तत्समासेन मे शृणु ॥ ३ ॥ ऋषिभिर्षहुधा गीत छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदेशेव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥ ऋषिमिवसिष्ठादिमिः । गाच्यादीनि च्छदासि । तन्मन्त्रविविध नाप्रकारः पृष- विवेकावीतं दर्शितम् । किंच ब्रह्मणः प्रतिपादकानि सत्राणि पदानि । पचते गम्यत एभिरिति ॥ ४ ॥ महाभूतान्यहंकारो बुदिरव्यक्तमेव च । इन्द्रियाणि दशेकं च पञ्च चेन्द्रियगोचराः ॥५॥ अहंकारो महाभूतकारणं तत्कारणमव्यक्तमीश्वरशक्तिः । मम माया दुरत्ययेत्युः क्तम् । पञ्च बुद्धयुत्पादकत्वानिवर्तकत्वात् । पञ्च बुद्धीन्द्रयाणि मनश्च (१) पञ्च १२. ख. ग. ह. क्षेत्रमं नि'। २ ख. 'रिस'। ३ क. ग. उ. 'न यो। ४. 'रयेनेति । ५. यतो।क.ख. घ... पद्यन्ते । ७ क. ख. प. स.गम्यन्त ।

[१०१२-०-१२] श्रीमद्भगवाहीना। पेन्द्रियगोचराः शब्दस्पर्शलपरसगन्धाः । तान्येतानि सांख्याश्चतुर्विधति(ति) तत्त्वा. न्याचक्षते ॥५॥ इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः । एतत्क्षेत्र समासेन सविकारमुदाहृतम् ॥६॥ अदानीमात्मगुणा इति यानाचक्षते वैशेषिकास्तेऽपि क्षेत्रधर्मा एव न तु क्षेत्रा- स्वेत्याह भगवान् । संघातः कार्यकरणसंघातात्मकं शरीरम् । चेतमा शरीरस्थ नित्य- सिद्धात्मचैतन्यप्रकाशः । धृतिरुत्साहः । एतदिति सर्वान्तःकरणधोपसणार्थम् । सविकारं विकारसहितम् । विकारा इन्द्रियाणि ॥१॥ अमानित्वमदम्भिस्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः । ७॥ मान आत्मश्लायित्वं तदभावोऽमानित्वम् । दम्मो धाविष्करणं तदमावोऽदम्भि- त्वम् । शान्तिः क्षमा । आर्जवमृजुभावः । शुचित्वं शौचं शारीरमलशोधनम् । स्थैर्य स्थिरत्वम् । आत्मविनिग्रहः शरीरस्य प्रवृत्तिनियमः ॥ ७ ॥ इन्द्रियार्येषु वैराग्यमनकार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥ वैराग्यं शब्दादिविषयेषु । अनहंकारोऽहंकारामावः । एवं च जन्मादिदोषदर्श. नम् ॥८॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ ९ ॥ असतिः सनाभावः । अनभिष्वङ्गोऽभिष्वङ्गोऽन्यस्मिन्नहबुद्धिः ।९॥ माय चानन्ययोगेन भक्तिरव्यभिचारिणी। विविक्तदेशसवित्वमरतिर्जनसंसदि ॥१०॥ विविक्तदेशसेवित्वं रहस्यदेशसेवित्वम् ॥ १०॥ अध्यात्मवाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एवज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥ नेयं यत्सत्यवक्ष्यामि यज्ञात्वाऽमृतमश्नुते । अनादि मत्परं ब्रह्म न सत्तभासदुच्यते ॥ १२॥ मस्परं मदात्मकम् ॥ १२ ॥ १ ख. ग. क. प्रकृतिनि ।

हनुमद्विरचितपैशाचभाष्यसहिवा- [अ०१३-लो०१३-१९] सर्वतः पाणिपादं तत्सर्वतोशिशिरोमुखम् । सर्वताश्रुतिमल्लोके सर्वमात्य तिष्ठति ॥ १३ ।। ॥१३॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृश्चैव निर्गुणं गुणभोक्तृ च ।। १४ ॥ सर्वेन्द्रियन्यापारीणामाभासं(स:) प्रतिमासमात्रं यस्मिस्तस्सवेन्द्रियगुणामासम् । भसकमसंबद्धं सर्वभ्रान्त्यधिष्ठानम्। निर्गुणं सत्त्वादिगुणरहितम् । गुणभोक्तृ च शब्दा- दिगुणविकाराणां शब्दादिविषयाणां भोक्त च ॥ १४ ॥ बहिरन्तश्च भूतानामचरं चरमेव च । ममत्वाचदविज्ञेयं दूरस्थं चान्तिके च तद ॥ १५ ॥ बहिः शरीरादन्तश्च शरीरस्य ॥ १५ ॥ अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं असिष्णु प्रभविष्णु च ।। १६ ॥ अविभक्कममिन्नमाकाशवत् । भूतभर्तृ स्थितिकाले । असिष्णु प्रलयकाले । प्रभविष्णू. त्पत्तिकाले ॥ ११ ॥ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठिनम् ॥ १७ ॥ तमसोऽज्ञानात्परमसंम्पृष्टम् । ज्ञानममानित्वादि । ज्ञेयमनादि मत्परं ब्रह्मेत्यादि । ज्ञेयं ज्ञानगम्यं प्राप्यं फलमित्यर्थः । ज्ञानेन गम्यं ज्ञानगम्यं फलम् । तत्रितयमपि हृदि बुद्धी सर्वम्य प्राणिजातस्य विष्ठिनं विशेषेण स्थितम् ॥ १७ ॥ इति क्षेत्र तथा ज्ञानं ज्ञेयं चोकं समासनः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥ [मदावाय] मम भावायोपपद्यते मोक्षं गच्छति ।। १८ ।। प्रकृति पुरुष चैव विद्धधनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ १९ ।। प्रकृतिमन्यक्कं पुरुष क्षेत्रज्ञम् । विकारान्बुद्धयहकारतन्मात्रा देहेन्द्रियादींश्च । [गुणान् ] सत्वादीन्सुखदुःखमोहाकारपरिणतान् । तत्रैव हि त्रयं विभाव्यते । यथा- योपसंहारार्थोऽयं श्लोक आरम्यते-विद्धि प्रकृतिसंभवानिति ॥ १९ ॥ १. 'राणां मायाभा' । २ ख. घ. 'मायाभा । ३ क. ग. घ. . . यत् । ४ घ. 'काराक्षातृगान्देहे । ५ क. ख, ग, घ, ङ. 'वान् । ते । ६ ग. 'ति । १९॥ का।

[१० १३ लो०२०-२५] श्रीमद्भगवद्वीता। कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुष; सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥ तेषां कार्यकारणकर्तृत्वे भोक्र्तृत्व उपलक्ष्यते ॥ २० ॥ पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसयोनिजन्मसु । २१ ।। पुरुषः प्रकृतिस्थो हि । २१ ॥ उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ।. २२ ॥ उपद्रष्टा शरीरेन्द्रियेषु स्वविषयाभिव्याप्तेषु तद्विलक्षणस्तस्य कर्मणः समीपस्थ उपद्रष्टा । अनुमन्ता कार्यकरणप्रवृत्तिषु स्वयमप्रवृत्तोऽपि प्रवृत्त इव तदनुकूलो विमा- व्यते । मर्ता देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्यात्मपरस्यार्थेन निमित्तीमतेन चेत. न्यामासानां यत्स्वरूपं तच्चैतन्यात्मकपेवेति भर्नाऽऽत्मेत्युच्यते । भोकाऽग्न्युष्णवनि. त्यचैतन्यस्वरूपेण बुद्धेः सुखदुःखमोहात्मकाः प्रत्ययाश्चैतन्यप्रस्ता इव जायमाना विभक्ता इव विभाव्यन्त इति भक्काऽऽत्मेत्युच्यते । महानीश्वरो महेश्वरः । परमश्चा. सावात्मेति परमात्मा । देहेऽस्मिन्नव्यक्तात्परः पुरुषः ॥ २२ ॥ य एवं वेत्ति पुरुष प्रकृति च गुणैः सह । सर्वया वर्तमानोऽपि न स भूयोऽभिजायते ।। २३ ।। गुणैर्विकारः ॥ २३॥ ध्यानेनाऽऽत्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये सांख्येन योगेन कर्मयोगेन(ण) चापरे ।। २४ ।। चित्तस्याविच्छेदेनेकप्रकारता ध्यानं तेन । सांख्येन साक्षी नित्यो विलक्षण आत्मेति चिन्तनेन । योगेनाने चिन्तनेन । कर्मयोगेने(णे)श्वरार्पितेनानुष्ठीयमानेन कर्मणा ॥२४॥ अन्ये वाजानन्तः श्रुत्वाऽन्येभ्य उपासवे । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ २५ ॥ श्रुत्वाऽन्येभ्य उपासते यथाश्रुतं श्रुतिपरायणाः ॥ २५ ॥ १ स. "तस्वभो । २ ख. 'कृत्वोपलक्ष्यते। ३ ग. ॥ २०॥ २१॥ ४ . 'पर्य प्रति भ्या'। ५ क. स्व. र्यकार' ख. 'प्रकृतिषु । ७ क. स. घ... 'दीनाम क. ' नि।

हेनुमदिरचितपैशाचमाध्यसहिता- [अ०१५-ली०11-11)
यावत्संजायते किंचित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रासंयोगात्सद्विद्धि भरतर्षम ॥ २६ ॥
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विण्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥२७॥
॥ २९ ॥ २७॥
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनाऽऽत्मानं ततो याति पर गतिम् ॥ २८॥
न हिनस्ति न व्यापादयति ।। २८ ॥
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः।
यः पश्यति तथाऽऽत्मानपकार स पश्यति ॥ २१ ॥
प्रकृल्याऽविद्यया । सर्वशः सर्वप्रकारैः ॥ २९ ॥
पुनरपि सम्यग्दर्शनं शब्दान्तरेण प्रपच्यते--
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ ३०॥
यदेति । एकस्थमेकरिमन्त्रात्मनि स्थितम् । विस्तारं विकासम् ॥ ३० ॥
अनादित्वानिर्गुण वात्परमात्माऽयमव्ययः।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥
शरीरस्थः शरीर उपलम्यमानः ।। ३१ ।।
यथा सर्वगवं सौम्यादाकाशं नोपलिप्यते ।
सर्वधावस्थितो देहे तथाऽऽत्मा नोपलिप्यते ॥ ३२ ॥
धूमषारादिमिनोपालप्यते ॥ ३२ ॥
स्था प्रकाशयत्येकः कृत्स्नं लोकपिमं रविः।
क्षेत्र क्षेत्री तथा इरल प्रकाशयति भारत ॥ ३३ ॥
ते
क्षेत्रक्षेत्रनयोरेवमन्तरं ज्ञानचक्षुषा ।
भूवकृतिमोक्षं च ये विदुन्ति ते परम् ॥ ३४ ॥
इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासक्यों भीष्मपर्वणि
भीमनगवद्गीतामुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसं-
पादे प्रकृतिपुरविवेकयोगो नाम प्रयोदशोऽध्यायः ॥ १३ ॥

(०१५.१-५] श्रीमद्भगवद्गीता। मतपकृतिर्माया तस्या मोक्षो भूतप्रकृतिमोक्षस्तम् ॥ १४॥ इति श्रीमद्धनुमद्विरचिते पैशाचभ ष्यनामके श्रीमद्भगवद्गीतान्याख्याने त्रयोदशोऽध्यायः ॥ १३ ॥ ( आदितः श्लोकानां समष्टयाः-५२३)। (अथ चतुर्दशोऽध्यायः)। स्वतन्त्रपरन्त्रयोः क्षेत्रक्षेत्रज्ञयोजगत्कारण[गत्व न तु सांख्यानामिव(१) गुणेषु च सकः संसारकारणमित्युक्तम् । गुणेषु कथं सङ्गः के वा गुणाः कथं बध्नन्ति गुणेभ्यश्च मोक्षणं कथं स्यादित्येतत्प्रतिपादनार्थमुक्तलक्षणं वक्तव्यमित्येतमयं च मग. वानुवाच-- श्रीभगवानुवाप- परं भूयः प्रवक्ष्यामि ज्ञानानो बानपुत्पम् । यज्ञात्वा मुनयः सर्वे पगं सिद्धिमितो गताः ॥ १॥ परं प्रकृष्टं भूयः पुनरपि ज्ञानाना[ मुत्तम मितो देहबन्धनात् । १ ॥ इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सगेऽपि नोपजायन्। प्रलये न व्ययन्ति च ॥२॥ पमेश्वरस्य साधय सधर्मताम् । न व्ययन्ति न चलन्ति ॥२॥ मम योनिर्मम तस्मिन्गर्भ दधाम्यहम् । संभवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥ मम मस्संबन्धिनी । [ योनिः ] प्रकृतिः । सर्वकार्यापेक्षया वर्धमानाच( नत्वाच) महत्वात् ] महद्ब्रह्मेति योनिरेव विशि( से )ध्यते । गर्भ हिरण्यगर्भस्य बीनं वीर्य क्षेत्रक्षेत्रक्षाकृतिद्वयशक्तिमानीश्वरोऽहं दधामि । क्षेत्रनं क्षेत्रेण संयोजयामीत्यर्थः । संभव उत्पत्तिः सर्वभूतानां हिरण्यगर्योत्पत्तिद्वारेणेत्यर्थः । ३ ॥ सर्वयोनिषु कौन्वेय मूर्तयः संभवन्ति या। वासां ब्रह्म महद्योनिरहे बीजादा पिता ॥ ४ ॥ सर्वयोनिषु देवाद्या मूर्तयः संस्थानानि विशिष्टानि भूतानि तासां ब्रह्म महयो- निरहं वासुदेवः॥४॥ १८. ख. प. अ. को वा गुणः क । क. व. घ. क. पनाति!

१४ हनुमद्विरचितपेशाचमाग्यसहिता [अ०१४ श्लो०५-१२] के गुणाः कथं वा बध्नन्तीत्यत्रोच्यते- सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥ सत्त्वमिति । प्रकृतिसंभवा अविद्यासंभवाः । निबध्नन्ति नियच्छन्ति । अव्यय. मविनाशिनम् ॥५॥ तंत्रतेषु सत्त्वादिगुणेषु सत्त्वस्य लक्षणमुच्यते- तत्र सत्वं निर्मलत्वात्प्रकाशकमनामयम् । मुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥६॥ सति । निर्मलत्वात्स्फटिकमगिरिव प्रकाशकम् । अनामयं निरुपद्वमित्यर्थः । सुखसकेन सुखेच्छया ॥१॥ रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥ रजो रागात्मकमिच्छात्मकम् । तृष्णाऽप्रामामिलापः । आसङ्गः प्रातविषये मनसः प्रीतिः । तृष्णासङ्गसमुद्भवं तृष्णासङ्गकारणम् । कर्मसङ्गेन कर्मपरतया ।। ७ ।। तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तभिवध्नाति भारत ॥ ८ ॥ अज्ञानजमज्ञानजातम् । मोहनं मोहकारणमविवेककारणमित्यर्थः । प्रमादालस्य. निद्राभिर्देहिन तमो निबध्नाति ।।८।। सत्त्वं सुखे संजयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ॥ ९ ॥ कमणि क्रियायाम्। ज्ञानमावृत्य ज्ञानमाच्छाद्य । तमः प्रमादे प्राप्ताप्रांतपत्तों ॥९॥ रजस्तमश्वाभिभूय सत्त्वं भवति भारत | रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १० ॥ अभिभूयान्यद्भाव्यं (य न्यग्मावयित्वा(?) भवति ॥ १० ॥ सर्वद्वारेषु देहेऽस्मिन्मकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥ सर्वद्वारेषु सर्वेन्द्रियेषु प्रकाशो ज्ञानं प्रकाशशब्दवाच्यम् ॥ ११ ॥ लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्ध भरतर्षभ ।। १२ ॥ १७. तत्र ते । २ क, ख, ग, घ, 'ते । नि। १ [अ०१४ श्लो० १३-१९] श्रीमद्भगवद्रीता। ११५ कोभ इति । शास्त्रण प्राप्तत्यागानामत्यागः । तथा शाखण निषिवपरिग्रहण- परिग्रहश्च । प्रवृत्तिः प्रकर्षेण वर्तनं चेष्टा स्वमावतः आरम्भा कर्मणां लौकिकवैदि- कानाम् । अशमः शम.] क्रोधहर्षादिसाम्यं तदमावः । स्पृहेच्छा ॥ १२ ॥ अप्रकाशोऽभवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्ध कुरुनन्दन ॥ १३ ।। अप्रकाशोऽज्ञानम् । अप्रवृत्तिरालम्यम् । प्रमादः प्राधाप्रतिपत्तिः । मोहोड- विवेकः ॥ १३॥ यदा सत्त्वे प्रवृद्ध तु मलयं याति देहभृत् । तदोत्तमविदा लोकानमलान्पतिपद्यते ॥ १४ ॥ प्रलयं मरणम् । उत्तमविदां महदादितत्त्वस्वरूपविदाम् ॥ १४ ॥ रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा मलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥ रजसि प्रवृद्ध कर्मसङ्गिषु जायते । प्रलीनो मृतस्तमसि प्रवृद्धे मूढयोनिषु तिर्यक्षु ॥ १५ ॥ कर्मणः सुकृतस्याऽऽहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं नमसः फलम् ॥ १६ ॥ सुकृतस्य पुण्यस्य फलं सात्विकं सत्त्वप्रधानं निर्मलं शुद्धं सुखस्वरूपम् । रमसो राजसस्य कर्मणः । अज्ञानं मोहानुविद्धमित्यर्थः ॥ १६ ॥ सवात्संजायते ज्ञान रजसो लोभ एव च । प्रमादमोही तमसो भवतोऽज्ञानमेव च ॥ १७ ।। ॥ १७॥ ऊर्ध्व गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तिस्था अघो गच्छन्ति तामसाः ॥ १८ ॥ सात्त्विका देहं त्यक्त्वा स्वकर्मफलभोगार्थमूर्ध्व देवलोकादीन्गच्छन्ति । राजसाः स्वकर्मफलभोगार्थ मनुष्यलोके तिष्ठन्ति । जघन्यगुणस्तमोगुणः । जघन्यगुणप्रवृत्ता जघन्यगुणवृत्तिस्थास्तामसाः पुरुषा जघन्यगुणवृत्तिस्था मोहनिष्ठा अघो गच्छ- न्तीत्यर्थः ॥१८॥ नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥ १ क. ग. घ. . हणं प'।

हनुमदिरचितपेशाचभाष्यसहिता- [म.१४ को०२०-२१] बष्टा विद्वान् । गुणेभ्यः परं गुणव्यापारसाक्षिभूतम् मनावमीश्वरभावम् ॥ १९ ॥ गुणानेतानतीत्य श्रीन्देहे देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ २०॥ देहसमुन्नवान्देहस्य कारणभूतान् ॥ २० ॥ अर्जुन उवाच- कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो । किमाचारः कयं चैतीखीन्गुणानतिवर्तते ॥ २१ ॥ निश्चिनैरतीतोऽतिक्रान्तः ॥ २१ ॥ श्रीभगवानुवाच- प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि कास्मति ॥ २२ ॥ ॥ २२ ॥ उदासीनवदासीनो गुणयों न विचाल्यते । गुणा वर्तन्त इत्येव योऽवसिष्ठति नेङ्गन्ते ॥ २३ ॥ नेते न चाल्यते । कार्यकारणसंघातविषयरूपपरिणता गुणेषु वर्तन्त इति योऽन. तिष्ठति यः प्रतिपद्यते स न चलति ॥ २३ ॥ समदुःखसुखः स्वस्थः समलोटाइपकाचनः । तुल्यमियापियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥ स्वस्मिन्नात्मनि. तिष्ठतीति स्वस्थः । धीरो धीमान् ॥ २४ ॥ कि मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ २५ ॥ देहेन्द्रियविषयाकारपरिणतान्गुणानतीतोऽतिक्रान्तस्तेषु निःस्पृहः ॥ २१ ॥ मां च योऽव्यभिचारेण भक्तियोगेन सेवते स गुणान्समतीत्यैतान्ब्रमभूयाय कल्पते ॥ २६ ॥ मक्तिरेव योगो भक्तियोगः । ब्रह्मभूयाय । ब्रह्ममावाय कल्पते समर्थो भवति ॥२९॥ घ. 'त्येवं यो।

[२०१४-१५ लो०२४१-२] श्रीमद्भगवद्गीता । कुत इति चेत्- ब्रह्मणो हि प्रतिष्ठाऽहममृतस्य व्ययस्य च । शाश्वतस्य च धर्मस्य मुखस्यैकान्तिकस्य च ॥ २७ ॥ इति श्रीमहाभारते शससाहरूयां संहितायां यासक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्ने श्रीकृष्णा- जुनसंवादे गुणत्रयविभागयोगी नाम चतुर्दशोऽध्यायः ॥ १४ ॥ ब्रह्मणः परमात्मनः । हि यस्मात् । प्रतिष्ठा प्रतिष्ठते गच्छति क्षेत्रज्ञोऽभिमुखमने. नेति प्रतिष्ठा । महमीश्वरः । अमृतस्याव्ययस्याविनाशिनः शाश्वतस्य नित्यस्य धर्मस्य मोतसाधनस्य सुखस्य ब्रह्मानन्दस्य चैकान्तिकस्याव्यभिचारिणः । तस्मान्मामव्यभिचारेण भक्तियोगेन यः सेवते स त्रीन्गुणासमतीत्य ब्रह्मभूयाय कल्पते समर्थो भवति।.२७॥ इति श्रीमद्धनुमद्विराषिते पैशाचभाष्यनामके श्रीमद्भगवद्गीतान्याख्याने चतुर्दशोऽध्यायः ॥ १४ ॥ (भादितः श्लोकानां समश्यकाः-५०)। (अथ पञ्चदशोऽध्यायः)। श्रीभगवानुवाच- ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १॥ यत्सर्वेषां लोकानामुपरिष्टाद्वर्तमानं सत्यलोकनिवासिहिरण्यगर्भान्तःकरणामिन्यक सर्वस्य जगतः सृष्टिस्थितिसंहारहेतुभूतमव्यक्तात्मकं ब्रह्मो(म तद् ) [तन्मूळ] कारणं यस्य स ऊर्ध्वमूलः संसारवृक्षः । अश्वत्थः श्वो न तिष्ठतीति । अधाशाखं तस्मात्स. त्यलोकादधोभूतलोकान्तर्वासिशाखमश्वत्थं पाहुः पण्डिताः । अन्ययमविनाशिनम् । अन्दासि वेदाः पर्णानि । आवरणरूपत्वात् । सोऽश्वत्थस्तं क्षणध्वंसिनमश्वत्यं यस्तं (यो) वेद स वेदविद्वेदाविदित्यर्थः । १ ॥ अपचोर्व प्रसृतास्वस्य शाखा गुणप्रवृद्धा विषयवाला। मषश्च मूलान्यनुसंतवानि कर्मानुवर्धानि मनुष्यलोके ।।२।।

.. हनुमद्विरचितपैशाचभाष्यसहिता- [अ०१५-लो०३-५] अपश्चोय महर्लोकप्रभृत्यूय जनलोके प्रमृताः प्रसूति गतास्तस्य शाखाः कर्म- ज्ञानवासनारूपाः शरीरेन्द्रियविषयरूपाः कर्मफलभूताः । गुणप्रवृद्धा गुणैः सत्वरज- स्तमीभिरुपादानकारणमतः प्रवृद्धाः। विषयप्रवाला विषयाः शब्दस्पर्शरूपरसगन्धाः प्रवाला इव यासां शाखानां ताः । अधश्च महर्लोकप्रभृति मूलानि निवृत्तधर्माणि तदु- पकरणानि चानुसंततान्यनुसतानि कर्मानुबन्धीनि कर्मनिमित्तानि । मनुष्यलोकन. हणमुपलक्षणार्थम् । २ ॥ न रूपमस्येह तथोपळभ्यते नान्तो न चाऽऽदिर्न च संप्रतिष्ठा । अश्वत्थमेनं सुविरूढमूल- मसङ्गशस्त्रेण दृढेन च्छित्वा ॥ ३ ॥ अस्थ संसारवृक्षस्य यथोपवर्णितस्य यथोक्तं रूपं नोपलभ्यते । नान्तो न चाव- सानमुपलभ्यते । न चाऽऽदिः । आदिरिदंप्रथमतया प्रवृत्तिरस्य संसारवृक्षस्य नोपल- भ्यते। न च संप्रतिष्ठा मध्यम् । मायामरीच्युदकगन्धर्वनगरद्विचन्द्रदिङमोहादिस्वरूप- त्वात् । अश्वत्यमेनं यथोकं सुविरूढमूलमसङ्गशस्त्रेण सङ्गम्याभावोऽसङ्गः शस्त्रमिव शत्रं तेन दृढेन परमार्थनिश्चयदृढीकृतेन च्छित्त्वा संसारवृक्षं समूलमुद्धृत्य ॥ ३ ॥ ततः पदं तत्परिमार्गितव्यं यस्मिन्मता न निर्वान्ति भूयः । तमेव चाऽऽधं पुरुष प्रपये यतः प्रतिः प्रसूता पुराणी ॥ ४ ॥ ततः पश्चात्तत्पदं वैष्णवं परिमागिंतव्यमन्वेष्टव्यं ज्ञातव्यमित्यर्थः । कथं परिमा- गितन्यमित्यत्राऽऽह-तमेव विष्णुमाघमादी भवं पुरुषं जगत्पूर्वकं प्रपद्ये शरणं गच्छामि । यतो यस्मात्संसारमायावृक्षस्य प्रवृत्तिराविर्भावः । प्रसृता निःसृता पुराणी नित्यति॥१॥ निर्मानमोहा जितसङ्गन्दोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वंद्वविमुक्ताः सुखदुःखसंह गच्छन्त्यमूढाः पदमव्ययं तत् ॥५॥ कृतचेतस्कतयों जितसक्दोषाः । सको विषयसंकल्पः स एव दोषो जितः सङ्गदोषो येस्ते मितसक्दोषाः । विषयसंकल्पराहिता इत्यर्थः । अध्यात्मनित्या आत्मज्ञाननि- .. प... 'षयाः क । २ ग. 'नि । ३. या वशीकृतचेतस्कतया नि ।

[१० १५ श्लो .१-११] श्रीमद्भगवदीवा। ११५ रताः । विनिवृत्तकामास्त्यक्तकामाः । द्वंद्वविमुक्ताः सुखदुःखसंतः मुखादिशब्द- वाच्यः । गच्छन्ति प्राप्नुवन्ति । अमूढा विवेकिनः । तद्वैष्णवं पदम( स्पयन) .० विनाशि ॥५॥ : न तद्भासयते स्यों न शशाङ्कने न पावकः । यदत्वा न निवर्तन्ते तदाम परमं मम ॥ ६ ॥ यन्मम परमं धाम तत्सूर्यो न भासयते । नापि शशादः । नापि पावकः । यद्गत्वा योगिनो न निवर्तन्ते नहि पुनरागच्छन्तीत्यर्थः ॥ ६ ॥ ममैवांशी जावलोके जीवभूतः सनातनः । मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥७॥ ममेवांश एकदेशो जीवलोके प्राणिसमूहे जीवभूतः क्षेत्रज्ञः सनातनो मनः कई येषां तानि मन.षष्ठानीन्द्रियाणि प्रकृती कारणे मायारूपे तिष्ठन्तीति प्रकृतिस्थानि तानि शब्दादिविषयोपलम्भार्थं तदभिमुखं कर्षत्याकर्षति श्रोत्रादीनीन्द्रियाणि शब्दादि- भिर्विषयः संयोजयतीत्यर्थः ॥ ७ ॥ शरीरं यदवामोति यच्चाप्युत्क्रामवीश्वरः। गृहीत्वैतानि संयाति वायुर्गन्धानिवाऽऽशयात् ॥ ८॥ शरीरं यदवाप्नोति प्राप्नोति । यच्चापि यदा च शत उत्क्रामति निर्गच्छतश्विरः पुरस्वामी क्षेत्रज्ञस्तदेतानि वक्ष्यमाणानीन्द्रियाणि गृहीत्वा संयाति वायुराशयागन्धा. निव ॥८॥ तानि. श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनचायं विषयानुपसेवते ॥ ९ ॥ अधिष्ठायाऽऽश्रित्य मनश्चायं क्षेत्रज्ञो विषयाादादीनुषसवत उपलभते ॥९ उत्तामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् । विमुढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥ १० ॥ उत्क्रामन्तं शरीरादुद्गच्छन्तं स्थितं वाऽपि शरीरे भुजानं या विषयानुपलममा गुणान्वितं गुणैः सत्वरजस्तमीभिर्बुद्धयायाकारपरिणतेरन्वितं विमूढाः कार्यकरणसं. घात भात्मत्वदर्शिनो नानुपश्यन्ति नोपलभन्ते । ज्ञानं चक्षुषी ते ज्ञानचक्षुषः । ज्ञानचक्षुषो भूत्वा किं तु पश्यन्तीत्यर्थः ॥ १० ॥ यतन्तो योगिनश्चेनं पपनस्यास्मन्यवस्थितम् । यसन्तोऽयकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ।। १क ख.घ, अ.न।

हनुमद्विरचितपैशाचमाष्यसहिता- [अ०१५-लो०१२-१५) पतन्तो यमनियमादियोगानुष्ठानेन प्रयत्नं कुर्वाणा यतमाना योगिनो योगः सम्य. झानं तत्र प्रवृत्ता एनमात्मानं पश्यन्त्युपलभन्त आत्मनि शरीरे । यतन्तो योगानु- छाने प्रयतमाना अध्यकृतात्मानोऽभ्यासवैराग्याम्यामसंस्कृतान्तःकरणा नैनं पश्यनस्य- तसोऽविवेकिनः ॥ ११ ॥ अतो यतमाना अज्ञानचक्षुषो नैनं पश्यन्त्यपि । अहमात्माऽनेकयत्नात्मसंस्कार. साध्यत्वादुर्विज्ञेयस्तत्रा(था5)पि सकललोक प्रसिद्धोऽहमित्याह - बदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चानो सत्तेजो विदि मामकम् ॥ १२ ॥ यदादित्यगतं तेजः प्रकाशोऽखिलं जाद्भासयते यच्चन्द्रमसि तेजो यच्चानौ तत्तेको विद्धि मामकम् । तथा च श्रुति:-" येन सूर्यस्तपति तेजसेद्धः " " तदई ज्योतिः" इति ॥ १२ ॥ किंचान्यत- गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधी सर्वाः सोमो भूत्वा रसात्पकः ॥ १३ ॥ गां पृथिवीमाविश्य भूतानि स्थावरजङ्गमात्मकानि धारयामि विमर्मि । अहमात्मा। मोजसा बलेन । किंचान्यत् । पुष्णामि सरसा: करोमि । रसात्मको रसाधार. भूतः ॥ १३ ॥ किंच- अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । माणापानसमायुक्तः पचाम्यनं चतुर्विधम् ॥ १४ ॥ वैश्वानरो भूत्वादयोऽग्निभूत्वा । प्राणश्चापानश्च प्राणापानी ताभ्यां समायुक्त संधुति- तश्चतुर्विधमशितं खादितं पीतं लीढम् ॥ १४ ॥ किं विशिष्याभिधीयते-- सर्वस्य चाई हृदि संनिविष्टो मत्तः स्मृतिर्जानमपोहनं च । बेदैश्च सबरहमेव वेद्यो वेदान्तवेदविदेव चाहम् ॥ १५ ॥ सर्वस्य प्राणिजातस्य हृदि हृत्पुण्डरीके संनिविष्टः । अपोहनं हेयबुद्धिस्तस्योपळ- सणार्थत्वेनोपादेयबुद्धिश्च । वेदान्तकृनिश्चयकृत् । तथा च श्रुति:-"यो ब्रमाणं विद- क. स.घ... 'वातदु।

[4.१५.११-१९] श्रीमद्भगवंद्वीता। १२१ धाति पूर्व यो वै वेदांश्च पहिणोति तस्मै " इति । पहिणोति ददाति । उपदिशती- त्यर्थः । वेदं वेत्तीति वेदविद्वेदार्थ विदित्यर्थः । तस्मादहं सर्वलोकमसिद्धः ।। १५ ।। किंचान्यत्- द्वाविमौ पुरुषी लोके क्षरश्चाक्षर एव च । सरा सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥ र एकोऽपरोऽक्षरः । तत्र क्षरं दर्शयति-क्षरः सर्वाणि भूतानि प्राणिनः । मक्षरः पुरुषः कूटस्थोऽवलोऽव्याकृतात्मा सोऽक्षर उच्यते ॥ १६ ॥ पुरुषान्तरं दर्शयितुमाह- उत्तमः पुरुषस्त्वन्या परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥ उत्तमः प्रकृष्टतमः। पुरुषः पूर्णममेन जगदिति परमात्मेत्युदाहृत उको वेदान्तेषु । विशिष्टि-यः पुरुषो लोकत्रयं पृथिवीमन्तरिक्ष स्वर्गमाविश्य विमति बलेन धारयति । तथा च श्रुति:-"येन द्यौरुमा पृथिवी च दृढा येन स्वः स्तभितं येन नांकः" इति । ईश्वरः स्वामी ।। १७ ॥ तनामनिर्वचनार्थमाह- यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रयितः पुरुषोत्तमः ॥ १८ ॥ पस्माक्षरं पुरुषमतीतोऽतिक्रम्य स्थितः । अक्षरादपि पुरुषादुरकृष्टतमः । सर्वेभ्यः पाप्मभ्य उदितत्वात् । तथा च श्रुतिः "उदितिनाम स एव सर्वेभ्यः पाप्मम्य उदितः " इति । अतो हेतोरस्मिल्ल के वेदे च पुरुषोत्तम इति प्रथितस्तस्मादहं सर्वलोकप्रसिद्ध इत्यर्थः ॥ १८ ॥ अयेदानी यः पुरुषोत्तमनामानं पुरुष वेद तस्य फलमुच्यते - यो मामेवम संमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वमावेन भारत ॥ १९ ॥ यो मां परमेश्वरमेवममंमूढो निश्चितबुद्धित्ति पुरुषोत्तमम् । नामकर्म स्वरूपबलवीर्य तेजोभिरित्यर्थः ॥ १९ ॥ ११. ख.ग. F. 'म् न ।

१२२
हनुमद्विरचिवपैशाचभाग्यसाहिता- [अ०१५-१६श्लो०२०।१-२१
इति गुखत्म शास्त्रमिदमुक्तं मयाऽनघ ।
एतबुद्ध्वा धुदिमानस्यात्कृतकृत्यश्च भारत ॥२०॥
इति श्रीमहाभारते शसाहस्प्या संहितायां वैयासक्यां भीष्मपर्वणि
श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीक.
प्णार्जुनसंवादे पुरुषोत्तमयोगो नाम
पञ्चदशोऽध्यायः ॥ १५ ॥
इत्थं गुह्यतमं शास्त्रं शासनात्राणनाच्च । उक्तमभिहितमेतच्छास्त्रं बुद्ध्वा बुद्धिमा-
ब्रह्मवित्स्यास्कृतकृत्यश्च । कृतं कृत्यं येन स कृतकृत्यः ॥ २० ॥
इति श्रीमद्धनुमद्विरचिते पैशाचभाष्यनामके श्रीमद्भगवद्गीताव्याख्याने
पञ्चदशोऽध्यायः ॥ १५ ॥
(मादितः श्लोकानां समष्टयङ्काः- ५७० ।
( अथ षोडशोऽध्यायः)।
नवमेऽध्याये दैव्यासुरी राक्षसी चेति प्राणिनां प्रकृतय उक्ता [अधुना ता एव
विस्तरेण प्रतिपादयितुमध्याय आरम्यते-
श्रीभगवानुवाच-
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥
अभयमभीरुता । सत्वसंशुद्धिरवञ्चनम् । ज्ञानं शास्त्राचार्योपदेशेनाऽऽत्मादिपदार्था-
वगमः । अवगतानां योगानुष्ठानेन साक्षात्करणं योगः । ज्ञानं च योगश्च ज्ञानयोगी
तयोर्व्यवस्थितिः । दानमर्थिभ्यः स्वद्रव्यसमर्पणम् । दमोऽन्तकरणोपरतिः। यज्ञः
स्मार्ताः पञ्च महायज्ञाः श्रौता अग्निष्टोमादयः । स्वाध्यायो वेदाम्यासः । तपस्त्रिविध
कायिकं वाचिक मानसं चेति । आर्जवमवक्रता ॥ १ ॥
किंच-
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं हीरचापलम् ॥ २ ॥
अहिंसा प्राणिनामपीडा । अक्रोधः प्रसक्तस्य क्रोधस्य त्यागः । शान्तिर्बाह्येन्द्रि-
योपसतिः । अशुन पररन्ध्रपच्छादनम् । दया भूतेषु रक्षितव्यबुद्धिः । अलोलुप्त्वमि-
न्द्रियाणां विषयसंनिधावविक्रिया : मार्दवमकोयम् । अचापलं व्यर्थचेष्टावर्जनम् ॥२॥

-- [अ० १९ श्लो०३-८] श्रीमद्भगवद्रीता। १२३ तेजः क्षमा धृतिः चाचपद्रोहो नातिमानिता । भवन्ति संपदं देवीपभिजातस्य पाण्डव ॥३॥ तेजः प्रतापः । क्षमा क्रोधकारणेषु सत्सु चित्तस्याविक्रिया । धृतिः क्षुपिपासा. दिसहनम् । शौच मलशोधनम् । अद्रोहः परजिघांसाभावः । नातिमानिताऽऽस्मनः पूज्यताप्रतिपत्तिः । एतेऽभयादयो भवन्ति जायन्ते । संपदं लाभम् । देवानामियं देवी ताममिलक्ष्य जातस्य । संपदं लब्ध्वा जातस्येत्यर्थः ॥ ३ ॥ दम्भो दोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥ ४ ॥ दम्मो धर्मध्वज. । दो धनादिनिमित्तश्चित्तोत्सेकः । अभिमान आत्मनः पूज्यता- प्रतिपत्तिः । क्रोधः कोपः । पारुष्यं क्रौर्यम् । अज्ञानमनवबोधः। असुराणामियं संपदासुरी ॥ ४ ॥ अनयोः संपदोः फलमाह- दैवी संपद्विमोक्षाय निबन्धायाऽऽसुरी मता। मा शुचः संपदं देवीमभिजातोऽसि पाण्डव ॥ ५॥ विमोक्षाय संसारविमोक्षाय । निबन्धोऽविद्याकामकर्मनिबन्धः । मा शुचः शोकं मा कार्षीः ॥ ५ ॥ दौ भूतसौं लोकेऽस्मिन्दव आसुर एव च । देवो विस्तरशः पोक्त आसुरं पार्थ मे शृणु ॥ ६ ॥ सर्गः सृष्टिः । देवानामयं देवः । असुराणामयमासुरः । देवः सर्गः । विस्तरशो विस्तरेण ॥६॥ प्रवृत्तिं च नितिं च जना न विदुगमुराः । न शौचं नापि चाऽऽचारो न सत्यं तेषु विद्यते ॥७॥ प्रवृत्तिं कर्तव्यानुष्ठानं न विदुर्न जानन्ति । आसुरीं संपदं प्राता आसुराः । आचारः शिष्टाचरणम् । सत्यमवितथवचनम् ॥ ७ ॥ असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहेतुकम् ॥ ८ ॥ असत्यं धर्माधर्मों [ यस्य न विद्यते । न यतोऽस्य प्रतिष्ठा तदपतिष्ठम् । ईश्वरः] स्वामी यस्य न विद्यते तदनीश्वरम् । स्त्रीपुंसयोमैथुनं संयोगस्तेन संभूतमपस्परसंभू- तम् । कामहेतुरेव कामहेतुकम् ॥ ८ ॥ १ क. ख. घ... 'प: । एतेन भयादयो भवन्ति ।पा।

१२४ हनुमद्विरचितपैशाचपाण्यसहिता- [अ०१५लो०९-१ एतां दृष्टिमयष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽदिताः ॥ ९ ॥ एता दृष्टिं लोकायतदर्शनमवष्टभ्याऽऽश्रित्य नष्टात्मानोऽल्पबुद्धयो विषयेषु भोग्य- मोक्तमतिमात्रयुक्ताः प्रभवन्ति जायन्ते । उग्रकर्माणो वधवन्धादिकर्मनिरताः । क्षयाय जगतः प्रभवन्तीति संबन्धः । अहिता आपत्कराः ॥९ । काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्गृहीत्वाऽसद्ग्राहान्मवर्तन्तेऽशुचिव्रताः ॥ १० ॥ दुष्पूरमशक्यपूरणम् । दम्भश्च मानश्च मदश्च तैरन्विताः । दम्भो धर्मध्वजो धार्मि: कत्वख्यापनम् । मान आत्मनि संभावनम् । मदो दर्पः । मोहादविवेकाहीस्वोपादा- यासद्ग्राहानशुभविश्वासान्मवर्तन्ते लोकेऽशुचीनि व्रतानि येषां तेऽशुचित्रताः क्षपणका. दिवतानुसारिणः ॥ १० ॥ चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः। कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥ अपरिमेयामवच्छेदरहितां प्रलयान्तामुपाश्रिताः सदा चिन्तापरा इत्यर्थः । कामो- पभोगपरमा विषयोपभोगप्रधानाः । एतावदिति निश्चिता एतावान्पुरुषायी यदुत शब्दा- दिविषयोपभोग इति निश्चिताः कृताध्यवसायाः ॥ ११ ॥ आशापाशशर्वदाः कामक्रोधपरायणाः। हिन्वे कामभोगार्थमन्यायेनार्यसंचयान् ॥ १२ ॥ पाश इव पाशः । बद्धा आकृष्यमाणाः । कामक्रोधौ परमयनं येषां ते कामको. धपरायणाः। कामक्रोधवशा इत्यर्थः । ईहन्त आर्जयन्ति कामभोगप्रयोजनार्षमन्याये. नाशास्त्रविहितोपायरर्थसंचयान्द्रव्यसंचयान् ॥ १२ ॥ इदमघ मया लन्धमिमं प्रापस्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥ इदं द्रव्यं सुवर्णाद्यस्मिन्नहनि प्राप्तम् । इमं मनोरथं प्राप्स्येऽहम् । मनोरथमामि. मतविषयम् । इदं धनमस्ति । इदमपि धनं भविष्यति ॥ ११ ॥ असौ मथा हतः शत्रुहनिष्ये चापरानपि । ईश्वरोऽहमई भोगी सिद्धोऽहं बलवान्सुखी ॥ १४ ॥ ईश्वरोऽहं सर्वप्रकारेण वरः। भोगी विषयोपभोगवान्सिद्धः संपनी बलवान्यक- संपन्नः ॥ १४ ॥ ११. प्रतिपत्तिमा । २ ख. ग. मेयां विच्छे । ३ इ. 'मविच्छे । ४ स. धोपाव ।

१.१५ लो०१५-२२] श्रीमद्भगवद्गीता । १२५ आयोऽभिजनवानस्मि कोऽन्योऽस्ति सहशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १५ ॥ अमिजनवाबन्धुजनवान् । दास्यामि गोभूहिरण्यार्थिभ्यो वितरिष्यामि । मोदिष्ये हर्षातिशयं च प्राप्स्यामीत्येवमज्ञानविमोहिता अविवेकेन विमोहिताः सन्तः ॥१५॥ अनेकचित्तविभ्रान्ता मोहजालसमावृताः। प्रसक्ताः कामभोगेण पतन्ति नरकेशुचौ ॥ १६ ॥ अनेकचित्तविभ्रान्ता अनवस्थिताः । [ मोहो ] जाल इ( लमि ) जालं मोहजालम् । पतन्ति निषीदन्ति ॥ ११ ॥ आत्मसंभाषिताः स्तब्धा धनमानमदान्विताः। यजन्त मामयजेस्ते दम्भेनाविधिपूर्वकम् ॥ १७ ॥ भात्मना समाविताः पूजिताः । स्तब्धा गुरुदेवते अप्यप्रणताः । धननिमित्तो मानो धनमानो धनमानश्च मदश्च धनमानमदौ । ताम्यामन्विता यजन्ते पूजयन्ति । नाम- यो मप्रधानयज्ञैः । दम्भेन धार्मिकत्वख्यापनेनाविधिपूर्वकम् ॥ १७ ॥ अहंकारं बलं दर्प कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १८ ॥ अविद्यमानरपि गुणैरात्मन्यध्यारोपितरप्यहं गुणवानिति प्रतिपत्तिरहंकारस्तमा- श्रिता मामीश्वरमात्मपरदेहेषु व्यवस्थितं प्रद्विषन्तोऽसहमाना अभ्यसूयका आत्मपरदे. हेषु व्यवस्थित ईश्वरेऽप्यन्यवद्गुणदोषानाविष्कुर्वन्तः ॥ १८ ॥ तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजसमशुभानासुरीष्वेव योनिषु ॥ १९ ॥ आसुरीषु सिंहव्याघ्रवराहादिषु ।। १९ ।। आसरी योनिमापना मुढा जन्मनि जन्मनि । माममाप्येव कौन्तेय ततो यान्त्यधमा गतिम् ॥ २०॥ आपन्नाः प्राप्ताः । मां सर्वज्ञमीश्वरम् । अधमां निकृष्ट नरकमित्यर्थः ॥२०॥ त्रिविष नरकस्येदं द्वारं नाशनमात्मनः । काम क्रोधस्तथा लोमस्तस्मादेतपयं त्यजेत् ॥ २१ ॥ त्रिविधं त्रिप्रकारम् । द्वार पन्थाः । आत्मनो नाशकारणमेतत्रयं जयात् ॥ २१॥ एतत्रयत्यागे किं फलमित्यत्राऽऽह-- एवैर्विमुक्तः कौन्तेय तमोदारैत्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति पर गतिम् ॥ २२ ॥ १क. ख. घ. उ. व मोहः । कामभोगेषु ।

१२६ नुमदिरचितपैशाचभाष्यसहिता-[अ०१६-१७ श्लो०२३-२४१-२] एतेस्तमोवार्नरकद्वारविमुक्त आचरति [ अनु तिष्ठत्यनुगच्छति ॥ २२ ॥ या पास्त्रविषिमुन्मुज्य वर्तते कामकारतः । न स सिदिमवामोति न सुखं न पगं गतिम् ।। २३ ।। सिदि पुरुषार्थप्राप्तियोग्यताम् । सुखं स्वर्गम् । परां गतिं मोक्षम् ॥ २३ ॥ तस्माच्छालं प्रमाणे ते कार्याकार्यव्यवस्थितौ। ज्ञात्वा शाखविधानो कर्म कर्तुपिहाईसि ॥ २४ ॥ इति श्रीमहाभारते शसाहस्य संहितायां वैषासस्या भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्स ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुः मसंबादे देवासुरसंपद्विभागयोगो नाम षोडशोऽध्यायः ॥ १६ ॥ तस्माच्छाचं प्रमाणं ते तव [ कार्याकार्यव्यवस्थितौ कार्याकार्य व्यवस्थायाम् । शास्त्राविधानोक्तं विधानं विधिः शास्त्रमेव विधानं तेनोक्तं कर्म क्रियाम् । इह संसारेड हेसि योग्योऽसि ॥ २४ ॥ इति श्रीमद्धनुमद्विरचिते पैशाचमाध्यनामके श्रीमद्भगवद्गीताव्याख्याने षोडशोऽध्यायः ॥ १६ ॥ (आदितः श्लोकानां समष्टयङ्का:-५९४)। (अथ सप्तदशोऽध्यायः)। .. ज्ञास्या शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसीति भगवद्वचनं श्रुत्वाऽर्जुन उवाच- अर्जुन उवाच- ये शास्त्रविधिमुम्सृज्य यजन्ते श्रद्धयाऽन्विताः। तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १॥ शासविधानमनवेक्ष्य ये देवताः पूजयन्ति तेषां निष्ठा स्थितिः सत्त्वमथवा रज भाहो तम इस्वर्जुनस्य प्रश्नः ॥ १ ॥ तस्य प्रतिवचनं श्रीभगवानुवाच- श्रीभगवानुवाच- विविधा भवति भदा देहिनां सा स्वभावजा । साविकी राजसी चैव तामसी चेति न शृणु ॥ २ ॥ - भ०१७श्लो०३-७] श्रीमद्भगवद्रीता। १२७ श्रद्धाऽऽस्तिक्यबुद्धिः । स्वभावजा जन्मान्तरानुष्ठितपुण्यपापसंस्कारो मरणकालेऽ. भिव्यक्तः स्वभाव उच्यते । सा च सत्त्वे भवा माविकी ॥ २ ॥ सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धापयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ ३ ॥ सत्त्वानुरूपा स्वभावानुरूग श्रद्धा प्राचुर्येण यस्मिन्पुरुषे [स श्रद्धामयः श्रद्धा या धर्मादावस्तीति बुद्धिः । श्रद्धा था यस्य सात्त्विकी राजसी तामसी वास यच्छू द्धः । स पुरुषः स एव सेव श्रद्धा, [तच्छृद्धा]नुरूपकर्मफलमाक् । नन्वे तया वै (स एव) सेति वक्तव्यम् । कथं स एव स इति । नाय दोषः । सर्वनाम्नाऽ(म्रो)भि. धेयवदनूद्यत्वादिभिवयतया विवक्षित पुरुषव लिङ्गवचना(न)पावात् ॥ ३ ॥ । तदेव दर्शयति- यजन्ते सात्त्विका देवाम्यक्षरक्षांसि राजसाः। प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः । ४ ॥ यजन्ते पूजयन्ति : सात्त्विकाः श्रद्धोपेताः ॥ ४ ॥ अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः। दम्भाईकारसंयुक्ताः कामरागबलान्विताः॥५॥ कर्शयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तःशरीरस्थं तान्विद्धयासुरनिश्चयान् ॥६॥ कर्शयन्तस्तनकुर्वन्तः । भूतग्रामं पृथिव्यादिसंघातम् । शरीरान्तरस्थं मां शयन्त इति । आसुरो निश्चयो येषां त आसुरनिश्चयास्तामसा इत्यर्थः ॥ ६ ॥ इदानी सात्त्विकराजसतामसानां प्राणिनामाहारं दर्शयितुमाह- आहारस्वपि सर्वस्य त्रिविधी भवति प्रियः। यजस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ ७ ॥ आहियत इत्याहारोऽम्यवहार्थम् । [ सर्वस्य ] सात्त्विकराजसतामसस्य प्राणि- नस्त्रिविधस्त्रिप्रकारः सात्त्विको राजसस्तामसश्चेति मवति जायते प्रियोऽमिमतः । तथा तद्वत्रिविधस्य प्राणिनस्त्रिविधः सात्त्विको राजसस्तामसो यज्ञः प्रियो भवति । तथा तपस्तथा दानं तेषामाहारयज्ञतपोदानानां भेदमिमं सात्त्विकराजसतामसलक्षणं शृण्वाकर्णय ॥ ७ ॥ १. कर्षय । २ क ख. ग... कर्षय । ३ ख. ग...कर्षय'।

१२८ हनुमद्विरचितपैशाचभाष्यसहिता [अ०१७-लो०४-१४]
आयु:सस्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहारा: सात्त्विकामिया: ॥८॥
आयुजीवनकालः । सत्त्वं प्रकृतिः पूर्वसंस्कारः । बलं प्राणवायोः स्थैर्यम् । सुख-
मानन्दः । संतोषः प्रीतिस्तषां विवर्धनाः । रस्या मधुराः । निग्धाः स्नेहवन्तः ।
स्थिरा दीर्घकालपरिणामिनः । या दर्शनमात्रेग प्रीतिहेतवः । एवंभूता आहारा:
स्वयं सास्विकाः सात्त्विकस्य प्रिया भवन्ति ।। ८॥
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयपदाः ॥ ९ ॥
कट्वाललवणा रसविशेषाः । अतिशब्द उष्णादिभिः प्रेत्यकममिसंबध्यते । एते
कट्वादय आहारा दुःखशोकामयप्रदा रानसस्य पुरुषस्येष्टा अमिमताः स्वयमपि
राजसाः॥९॥
यातयाम गतरसं पति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसपियम् ॥१०॥
यातयाम गतरसं गतवीर्य पूति क्लिनं विरसं पर्युषितं पक्कमुषसाऽतिकान्तमुच्छिष्टं
मुक्तावशिष्टम् । अपि चेति समुच्चये । अमेध्यमयज्ञाहै तामसानां प्रियं तामसप्रियं
स्वयमपि तामसम् ॥ १० ॥
अफलाकामिभिर्यत्रो विधिदृष्टो य इज्यते ।
याध्यमेवेति मनः समाधाय स सात्त्विकः ॥ ११ ॥
यष्टव्यमेवेति मनः कृत्वा यज्ञः सात्तिकः ॥ ११ ॥
अभिसंधाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञ विद्धि राजसम् ।। १२ ।।
अमिसंधाय तु फलमेतत्फलं मे स्यादित्यामिसंधाय संकल्प्य दम्मार्थमपि चैव
यद्धार्मिकस्वरूयापनार्थमेव यो यज्ञ इज्यते निर्वस्यते तं यज्ञ राजसं विद्धि ॥ १२ ॥
विधिहीनममृष्टानं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥
विविहीनमशास्त्रचोदितम् । असृष्टान्नमन्नदानादिरहितम् । मन्त्रहीन मन्त्रयनितम्
भदक्षिणं दक्षिणारहित यज्ञं तामसं परिचक्षते कथयन्ति ॥ १३ ॥
इदानी विविधं तपः कायिकादि दर्शयितुमाह -
देवद्विजगुरुमानपूजनं शौचमार्जवम् ।
अमचर्षमाहिसा च शारीर तप उच्यते ॥ १४ ॥

: ०१.श्लो-१५-२०] श्रीमद्भगवद्रीता। १२९ देवाय द्विमाश्व गुरवश्व प्राज्ञाश्च देवद्विजगुरुपाज्ञाः । देवा अन्यादयः । प्राज्ञा- स्तत्त्वविदः । तेषां पूजनम् । शोचं मृजलादिसाध्यम् । आर्जवमवक्रचित्तता । ब्रह्मचर्य सीमोलयनितत्वम् । आहिंसाऽपीडनं प्राणिनां शरीरसाध्यं तपो विधीयते ॥ १७ ॥ अनुढेगकर वाक्यं सत्यं पियहितं च यत् । स्वाध्यायाभ्यसनं चैव वायं तप उच्यते ॥ १५ ॥ उद्वेगो दुःखं नोद्वेगकरम् | सत्यमवितथम् । प्रियं च हितं च प्रियहितम् । स्वा- ध्यायो वेदस्तस्य सदा पाठः स्वाध्यायाम्यसनम् । इत्येतद्वाङ्मयं वाचा निर्वय॑म् ॥१९॥ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येत्तपो पानसमुच्यते ॥ १६ ॥ मनःप्रसादो मनःस्वच्छता । सौम्यत्वं * सौमनस्यता मुखादिप्रसादकारिण्यन्तःक- रणवृत्तिः । मौनं वाक्संयमः । आत्मविनिग्रहो मनसो निरोधः । मावसंशुद्धिरवचन- विस्थेतन्मानसं तप उच्यते । ११॥ भदया परया तसं वपस्तविविध नरैः । अफलाकाक्षिभिर्युक्तेः सात्त्विक परिचक्षते ॥ १७ ॥ श्रद्धयाऽऽस्तिक्यबुद्धया परया प्रकृष्टया तप्ठमार्जितं त्रिविधं तपः कायिकादि नरैः पुरुषः फलनिरपेक्षेर्युक्तः सात्त्विकमित्यभिधीयते ॥ १७ ॥ सत्कारमानपूजार्य तपो दम्भेन चैव यत् । क्रिगते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १८ ॥ सस्कारच मानश्च पूजा च सत्कारमानपूजाः । सस्कारः साधुरयं तपस्वीति प्रत्ययः । मानः प्रत्युत्थानाभिवादनादिः । पूजा पादप्रक्षालनार्चनादिः ॥ १८ ॥ मूढग्राहेणाऽऽत्मनो यत्पीडया क्रियते तपः। परस्योत्सादनार्थ वा तत्तामसमुदाहृतम् ।। १९ ॥ मूढमाहेणाविवेकनिश्चयेनाऽऽत्मनः स्वस्य पीडया यत्तपः क्रियते परस्यान्यस्यो- सादनार्थ विमाशार्थ वा तसामसमुदाहृतमुक्तमित्यर्थः ।। १९ ॥ दातव्यमिति यहानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तहानं सास्विकं स्मृतम् ॥ २० ॥ दातव्यमिति यहानं दीयते हिरण्याद्यनुपकारिणेऽनुपकाराय । देशे पुण्यदेशे । काळेऽयनसंक्रान्त्यादौ । पात्रे षडङ्गवेदविदादौ । तदानं सात्त्विकं स्मृतम् ॥ २० ॥ * सौमनस्यमिति युक्तम् । १. ख. घ... 'हेण विजयनि' । २ ख. घ... वय आत्म !

१३. हनुमद्विरचितपेचाचभाष्यसहिता- [अ०१७ श्लो०२१-२६] यत्तु प्रत्युपकारार्य फळमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तदानं राजसं स्मृतम् ॥ २१ ॥ दीयते प्रत्युपकारार्थमुपकृतवानुपकरिष्यतीति प्रत्युपकार फलं स्वर्गादिफलमुहिश्य वा । परिक्लिष्टं क्लेशयुक्तं तहानं राजसं स्मृतम् ॥ २१ ॥ अदेशकाले यहानमपात्रेभ्यश्च दीयते । असत्कृतमवजातं तत्तामसमुदाहृतम् ॥ २२ ॥ अदेशकाले पुण्यदेशकालावनपेक्ष्यापात्रेभ्यश्च दीयते । आत्र : संप्रदानं चासत्कृत प्रियवचनपूजारहितं संप्रदानसंप्रदेययोरवज्ञायुक्तं यदेवं दानं तत्तामसमुदाहृतम् ॥२२॥ ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३ ॥ निर्दिश्यतेऽनेनेति निर्देशः । ब्रह्मणः परमात्मनः स्मृतो ब्रह्मविद्भिरोमिति तदिति सदिति त्रिविधो ब्रह्मणो निर्देशोऽभिधानं स्मृतमित्यर्थः । तेन त्रिविधन निर्दे शेन ब्राह्मणा वेदिनच वेदाश्च यज्ञाश्च विहिताः सृष्टाः पुरा पूर्वस्मिन्काले सृष्टिकाले सकलजगत्स्रष्ट्रा हिरण्यगर्भेण ॥ २३ ॥ तस्मादोमित्युदाहृत्य यज्ञदानवपाक्रिया:। प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ।। २४ । तस्मादोमित्युदाहृत्य प्रवन्ति इत्यस्योदाहृत्य ,प्रवर्तयितव्याः कर्तव्या इत्यर्थः । विधानोक्ताः शास्त्रोक्ताः । सततं ब्रह्मवादिनां ब्रह्मवादिभिरित्यर्थः ॥ २४ ॥ तदित्यनभिसंधाय फलं यत्रतपाक्रियाः। दानक्रियाश्च विविधाः क्रियन्ते मोक्षकातिभिः ॥ २५ ॥ क्रियन्ते कति क्रियाः। दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाक्षिभिः । तदिति ॐ सिदिन्युपलक्षणार्थम् । ॐ तत्सदिति ब्रह्मम्वरूपं प्रतिपाय यज्ञदानतपःक्रियाणां फलं चानभिसधायश्वराणबुद्धया यज्ञदानतपःक्रिया मुमुक्षुभिः क्रियन्ते कर्वेत्यर्थः । दानक्रियाश्च विविधा गोभ हिरण्यादिविषयाः। दानक्रियाश्च विविधा इति पुनः क्रिया- ग्रहणं दानस्य मोक्ष प्रति प्रकृष्टोपकारकत्वदर्शनार्थम् ।। २५ ।। किं चान्यत्- सद्भावे साधुभावे च सदित्येतस्मयुज्यते । प्रशससे कर्मणि तथा सच्छन्दः पार्थ युज्यते ॥ २६ ॥ .. १ ग. कारः फ। २ क. ख. प. उ. 'लं स्पर्शादि' । ३ ख. ग. 'श्व यहाच वि। ४. क. घ, उच्यते।

[२०१७ लो०२७-२८] श्रीमद्भगवद्रीता। सद्भावेऽसतः पुत्रादेरुत्पादने कर्तव्ये तथा साधुभावेऽसत एव सद्वृत्तस्य सङ्घ- ततायां कर्तव्यायामों तत्सदिति ब्रह्मणो निर्देशत्रयं प्रयुज्यते । प्रयोक्तव्यमित्यर्थः । प्रशस्ते कर्मणि तथा मङ्गले कर्मणि पुरुषार्थरूपे वा भावे तत्पदत्रयं ब्रह्मध्यानसाधन- स्वेन प्रयोक्तव्यमित्यर्थः ॥ २१॥ किंचान्यत- यन्ने तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ।। २७ ॥ -जे-तपसि दाने च स्थितिनैर-तर्येण प्रवृत्तिः । सा यदा साध्या मवति तदो- तत्सदितिपदत्रयेण ब्रह्मोच्यते । नरन्तर्येण निर्देष्टव्यमित्यर्थः । कर्म चैव तदीयं कर्म यज्ञदानतपःस्वाध्यायलक्षणं तदर्थीयं तदर्थ स्वार्थ ईयप्रत्ययः । तदर्थीयं यदा क्रियते तदाऽनेन पदत्रयेण ब्रह्माभिधीयतेऽभिधातव्यमित्यर्थः ॥ २७ ॥ अश्रद्धया हुतं दत्तं तपस्नतं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २८ ॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतास्पनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जु- नसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽ- ध्यायः ॥ १७॥ अश्रद्धया नास्तिक्यबुद्धचा हुतं दत्तं तपस्तप्तं कृतं च यत्स्वाध्यायादि तदसदित्यु- च्यते तदाराधनमप्यसन्न सदसत्तदाराधनं तेन न भवतीत्युच्यते ब्रह्मवादिभिः । किं तदित्यत्राऽऽह-न च तत्प्रेत्य न खलु परलोके स्थितस्योपकारकं नो इह । तस्माद- दृष्टं दानतपःस्वाध्यायादिलक्षणं कर्म फलसङ्गं त्यक्त्वा प्रकृतपदनयनिर्देशेन ब्रह्म- स्वरूपं 'ध्यात्वा महत्या श्रद्धया तदाराधनत्वेन कर्तव्यं मोक्षार्थिभिरित्यर्थः ॥ २८ ॥ इति श्रीमद्भनुमद्विरचिते पैशाचभाष्यनामके श्रीमद्भगवद्गीतान्याख्याने सप्तदशोऽध्यायः ॥ १७ ॥ ( आदितः श्लोकानां समष्टयङ्काः-६२२)। १ घ. एवास । २ क. "ङ्गलक ।

१३२ हनुमद्विरचितपैशाचभाग्यमाहिता- [म.१०१-१ ( अथाष्टादशोऽध्यायः)। सर्वेष्वध्यायेषु भगवता बहुशः संन्यासरत्यागोऽपि निर्दिष्टोऽतो विवकेन तयोः स्वरूपबुभुत्सयाऽर्जुन उवाच- अर्जुन उवाच- संन्यासस्य महाबाहो तत्त्वमिच्छामि घेदितम् । त्यागस्य च हृषीकेश पृय केशिनिषूदन ॥ १ ॥ संन्यासलक्षणस्यार्थस्य तत्त्वं तद्भाव वेदितुमिच्छामि । पृथक्त्यायस्वकपब्यावृत्तम् । त्यागस्यापि स्वरूप वेदितुमिच्छामि । केशी नाम कश्चिद्धयच्छद्माऽसुरस्तं निषूदितवा. वासुदेवस्तस्य संबोधनम् ॥ १॥ अर्चनेन बुभुत्सितमर्थ यथावद्वक्तुकामः श्रीभगवानुवाच- श्रीभगवानुवाच-- काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं माहुस्त्यागं विचक्षणाः ॥२॥ काम्यानां कमनीयफलानां कर्मणां कर्तव्यतया प्राप्तानां शास्त्रतो रामतो वा न्यासं संन्यासं विदुर्विजानन्ति कवयः पण्डिताः । ननु काम्यानामिति विशेषणमनाईक याव- ज्जीवमग्निहोत्रं जुहुयादित्यादिश्रुतिचोदितानां व्यावृत्त्यमिति चेन्न । तेषामपि कमनी. यफलत्वेन काम्यत्वात् । “अथ त्रयो लोका वे लोकानी श्रेष्ठाः श्रेष्ठतमास्तस्माद्रियां प्रशंसन्ति" इति श्रुतेः । तथा सर्ववर्णानां स्वधर्मे वर्तमानानां परमिति श्रुतं सुखमिति स्मृतेश्च । तथेहेव वक्ष्यति भगवान्-'अनिष्टमिष्टं मिधं च विविध कर्मणः फलम् ' इति । तस्मारकमनीयफलवाकर्तव्यतया प्रामानि नित्यनैमित्तिककाम्यप्रतिषितानि कर्माणि काम्यान्येवातः कर्तब्य तया प्राप्तानां कर्मणां काम्यानामिति स्वरूपानुवादः । सर्वाणि च तानि कर्माणि नित्यनैमित्तिकसंज्ञितानि तेषां फलस्यागमिदं मे फलं स्या- विति संकल्पत्यागं त्यागं प्राहुविचक्षणाः पण्डिताः । सर्वग्रहणेन काम्पकर्मग्रहण करमान स्याकाम्यकर्मत्यागेन तत्फलत्यागस्य सिद्धत्वाच्याग[संन्यासयोः सांकर्य. प्रसकात् । तस्मात्तेन नित्यनैमित्तिकफलत्यागः ॥ २ ॥ त्याज्यं दोषवदित्येके कर्म पाहुर्मनीषिणः। यादानतपाकर्म न त्याज्यामिति चापरे ॥३॥ १ क. प. सत्यागोनि । २ ख. ग.. 'गो नि।३ क. जुहोतीला'। ४ क. स. प... 'मा श्रेष्ठतमस्त।

[२०१८को १-१] श्रीप्रमबद्रीवा। स्पाय त्यतम्य दोषवत्कर्म तस्मान्धहेतुत्वात्याज्यमित्येके मनीषिणः प्राहुः । माया बोपशब्देन रागद्वेषा उच्यन्ते । दोषवद्रागद्वेषवत्ताम्या तुल्यं कर्म स्याज्यं मेर- मायकवादित्येके मनीषिणः प्राहुः । नित्वं यज्ञदानतपःकर्म न स्याज्यमिति स्वकर्मणा तमम्यर्च्य सिद्धि विन्दति मानवः" इति वचनान्मोक्षार्थिनामपि न त्याज्यविस्वः।। तस्माद्वैविध्यत्यागमतमेदाच- निश्वयं भृशु मे सत्र मागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संपकीर्वितः ॥४॥ तत्र त्यागे मम निश्चयं शृणु ॥ ४ ॥ पत्रदानतप.कर्म न त्याज्य कार्यमेव तत् । यतो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५॥ यज्ञदानतपःकर्म न स्याज्यं सत्त्वशुद्धयर्थमीश्वराराधनार्थं च कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनान्युपात्तदुरितक्षयार्थानि मनीषिणां ज्ञानिनाम् । यस्मानित्यानि यज्ञदानतपास्युपात्तदुरितक्षयाय तस्मात्कार्याण्येवेत्यभिप्रायः ॥ ५॥ एवं तु कर्तव्यानि , कथम्- एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥६॥ एतानि कर्माणि यज्ञादीनि सङ्गं फलस्पृहां फलानि च त्यक्त्वा कर्तव्यानीति मितिमसंदिग्धमुत्तमं श्रेष्ठम् ।। १ ।। काम्यकर्मणस्त्यागोऽस्तु- नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहातस्य परित्यागस्वामसः परिकीर्तितः ॥ ७॥ नियतस्य नित्यस्य कर्मणस्त्यागो नोपपद्यते । सत्त्वशुद्धयर्थ मुमुक्षणां कर्तृत्वम् । मोहादज्ञानात्तस्य नियतस्य कर्मणस्ल्यागस्तामसः परिकीर्तितः ॥ ७॥ दुःखमित्येव पत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८॥ यत्कर्म कायक्लेशभयाद्दुःखं दुःखतरमिति त्यजेन्स राजसं रमसि मवं स्वार्ग कृपा ने ज्ञानपूर्वत्यागफलं मोक्षं लभेत् ।। ८ ।। कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्ग त्यक्त्वा फलं चैव स त्यागः सात्त्विको मता ॥९॥ . क. प. क. मत (तो)। स. मतं ।

१३४ हनुमद्विरचितपैशाचभाष्यसहिता- [अ०१८ श्लो०१०-१४ कार्य कर्म कर्तव्यमित्येव यद्यज्ञादि नियतं नित्यं क्रियते निर्वस्य॑ते । सर फले. च्छाम् । तदा विद्यमानसशफलत्यागः सात्त्विकः सत्त्वनिवृत्तः । नियतं नित्यं कर्म सबै त्यक्त्वा फलानि च त्यक्त्वा यदा क्रियत (१) इतीश्वरवचनान्नित्यकर्मणां सफलत्वं सिद्धम् ॥९॥ न द्वेष्टयकुशलं कर्म कुशले नानुषजते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥१०॥ न द्वेष्टि न क्रुध्यति अकुशलं दुःखसाधनं कर्म हेमन्ते प्रातःस्नानम् । कुशले सुख- साधनेऽपि तम्मिन्नेव कालेऽग्निसेवादी नानुषज्जते । त्यागी कर्मफलानां सत्त्वसमाविष्टः सात्विको मेधावी विवेकी । अत एव च्छिन्नसंशयः । सत्त्वशुद्ध्यर्थ नित्यानि कर्तव्या. नीति निश्चयात् ॥१०॥ न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ॥ देहं विभीति देह मृदविद्यावान्देहात्मदर्शी तेन देहभृता कर्माण्यशेषतस्त्यक्तुं न शक्यम् । यस्ता विद्यया सत्त्वशुद्धयर्थ कर्माणि कुर्वकर्मफलत्यागी स कर्मसंन्यासीति स्तृयते ॥ ११ ॥ अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यस्यागिनां प्रेत्य न तु संन्यासिनां कचित् ॥ १२ ॥ अनिष्टं देष्यमिष्टमिष्यमाणं मिश्रमुभयात्मकमिष्टानिष्टकर्मणः फलं फल्गुतया लीयत इति फलम् । तच त्रिविधं त्रिप्रकारं मवति जायतेऽत्यागिनामज्ञानां कर्मिणाम् । पर- मार्थसन्यासिनो केवलज्ञाननिष्ठानां तु कृतसर्वकर्मसन्यासान्न तु भवतीति प्रकृतेन संब- न्धः । इति कर्मानुष्ठानेन फलाभिसंधिरहितेन प्रामसत्त्वशुद्धीनां सकल कर्मसंन्यासो विधीयते ॥ १२ ॥ पञ्चैतानि महाबाहो कारणानि निबोध मे। सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ १३ ॥ सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणां सांख्ये कृतान्ते पुरुषार्थ इति सांख्यो वेदः स एव सांख्यम् । स्वार्थेऽप्रत्ययः । कृतो निश्चयो यत्र तत्कृतान्तं तत्र कृतान्ते प्रोकानि निश्चयायोकानि कथितानि। निश्चिताय वेदे प्रोक्तानीत्यर्थः । सिद्धये निष्प- त्तये । सर्मकर्मणां शारीरादीनाम् ॥ १३ ॥ तानि कानीत्यत्रोच्यते- अधिष्ठान तथा कर्ता करणं च पृथग्विधम् । विविधा च पृथक्चेष्टा देवं चैवात्र पश्चमम् ॥ १४ ॥ ..

[अ०१८-श्लो०११-१८] श्रीमद्भगवद्गीता। अधिष्ठानं शरीरं तथा कर्ता योऽहमीश्वरोऽस्मीति मन्यते । करणं च श्रोत्रादी- न्द्रियं पृथग्विधं पञ्चधा । विविधा नानाप्रकारा पृथक्चेष्टा प्राणादिवायूनां प्रवृत्तिः । अत्र कारणवों पश्चानां पुरणं देवम् ॥ १४ ॥ शरीरवाइमनोभियत्कर्म प्रारभवे नरा। न्याय्यं वा विपरीत वा पञ्चेते तस्य हेतवः ॥ १५ ॥ शरीरं च वाक्च मनश्च शरीरवाङ्मनांसि । तैर्यत्कर्म क्रियारूपं प्रारमते नरो न्याय वा शास्त्रीयं वा ( विपरीत वाऽशास्त्रीय वा)। तस्य कर्मण एते पश्च हेतवः ॥ १५ ॥ तवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धिवान स पश्यति दुर्मतिः ॥ १६ ॥ तत्र कर्मण एवं सति कर्तारं क्रियानिवृत्तिकारणं प्रत्यग्बोधरूपं केवलमसहायं तु यः पश्यति यो जानाति । अकृतबुद्धित्वाच्छःस्त्राचार्य पदेशासंस्कृतबुद्धिवान । न स पश्यति न स जानाति दुर्मतिः । तस्याऽऽत्मनः कर्तृत्वमवियाकृतं न वास्तवं कर्तृत्वमा स्तीति । आत्मानं नित्यशुद्धबुद्धमुक्तस्वरूपं प्रतिपद्यमानस्य सांस्यज्ञाननिष्ठस्य योगिनः सकलकर्मसंन्यास एवेत्याभिप्रायः ।। १६ ॥ न केवलं तस्य योगिनः सकलकर्मसंन्यास एव-- यस्य नाहंकृतो भावो बुद्धिर्थस्य न लिप्यते । हत्त्वाऽपि स इमाँल्लोकान हन्ति न निबध्यते ॥ १७॥ यस्य शास्त्राचार्योपदेशन्यायः संस्कृतास्मनोऽहं कत्येवंभूतो मावः प्रत्ययो ने मव. त्येत एषाधिष्ठानादयोऽधिष्ठानक र्तृकरणचेष्टादेवानि सर्वकर्मणां कारणान्यविद्यया चैत्र कस्पितानि सर्वकर्मणां कर्तारो नाहमहं तु तद्व्यापाराणां साक्षिभूत इति पश्यतीति, बुद्धिनिश्चयो यस्य नानुशोचितो भवति तदहमकर्ष तेन नरकं गमिष्यामीति न लिप्यते । हत्वाऽपि स इमाहोकामाणिनो न हन्ति न च हननेककर्मणा निवध्यते । ननु हत्वाऽपि न हन्ति न निबध्यत इत्येतद्वचनं विरुद्धम् । नैष दोषः । लौकिकपार. मार्थिकदृष्ट्यपेक्षया तदुपपत्तेः । तस्माद्युक्तं न हन्ति न निवध्यत इति ॥ १७ ॥ ज्ञान नेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कति त्रिविधः कर्मसंग्रहः ॥१८॥ ज्ञायतेऽनेनेति ज्ञानं प्रकाशनम् । ज्ञायत इति ज्ञेयं ज्ञानक्रियाणां कर्मभूतम् । पार. ज्ञाता ज्ञानक्रियाकर्ताऽविद्याकरिपतः। एतत्रिविधं कर्मणः क्रियायाश्चोदना प्रवर्तिका । एतत्रितयसंनिधौ प्रवृत्तो दृश्यतेऽत इयं कर्मचोदना ज्ञानज्ञेयपरिज्ञानामिका । क्रिय- तेऽनेनेति करणं श्रोत्रादि बुद्धीन्द्रियं वागादि कर्मेन्द्रियं च । कर्म कर्तुः क्रियया:- अमिष्टतमम् । कर्ता योऽहं करोमीति प्रतीयते । एतत्रितयं कर्मसंग्रहः कर्म क्रियाल.

१३६
हनुमद्विरचितपेशाचभाष्यसहिता- [१० १८लो. १९-२४]
क्षणं संगृह्यत आत्मनि व्यवस्थाप्यतेऽनेनेति संग्रहः । करणकर्मकर्तृषु हि सर्व कर्म
समवेतमतोऽयं त्रिविधः कर्मसंग्रह इत्युच्यते ॥ १८ ॥
अथदानी क्रियाकारक.फलानां सर्वेषां सत्त्वरजस्तमआत्मकत्वात्रविध्यमुच्यते-
ज्ञानं कर्म च कर्ता च त्रिदेव गुणभेदतः ।
पोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥ १९ ॥
ज्ञानं पूर्वोक्तम् । कर्म कियारूपम् । कर्ता ज्ञाता नितयिता च । त्रिधा विकारा
गुणमेदतः प्रोच्यते कथ्यते गुणसंख्याने गुणप्रतिपादके शाने यथावद्याथातथ्येन
तान्यपि ज्ञानादीन्यपि ॥ १९ ॥
सर्वभूतेषु येनकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ २० ॥
अन्यकादिस्थावरान्तेषु येन ज्ञानेनेकं भावम् । मावशब्दो वस्तुवाची । एकमा.
मनस्तत्त्वमित्यर्थः । ईक्षते पश्यति । येन ज्ञानेन । कथंभूतं भावमविभक्तमभिन्न
ब्रह्मादिस्थावरान्तेषु भूतेषु देहमेदेषु व्योमवन्निरन्तरं साधुज्ञानं विद्धि सात्विकं सत्व.
निर्वृत्तम् ।। २० ॥
पृथक्त्वेन तु यज्जानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विदि राजसम् ॥ २१ ॥
पृथक्त्वेन भेदेन नानाभावापृथग्विास्निप्रकारान्वेत्ति जानाति । करणं कर्तृत्वेनो.
पर्यते । सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ २१ ॥
रत्तु कृत्स्नवदेकस्मिन्काय सक्तमहेतुकम् ।
अतत्वार्थवदल्पं च तत्तामसमुदाहृतम् ।। २२ ।।
यज्ञान कृस्त्रवत्सष्वेवैकस्मिन्कायें देहे प्रतिमादौ वा सक्तं निविष्टं नातः परम.
स्तीति । अहेतुकमयुक्तिनिर्मितमतत्वार्थवदल्पं चापरमार्थविषयम चाल्पस्वादपवि.
षयत्वादल्पफलं वा तज्ज्ञानं तामसं तमःप्रभयमुदाहृतमुक्तम् । तामसानो हि प्राणि-
नामविवेकिनामीशं ज्ञानं दृश्यते ॥ २२ ॥
नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलपेप्सुना कर्म यत्तत्सात्तिकमुच्यते ॥ २३ ॥
नियतं नित्यं सतरहितं फलेच्छावर्जितमरागद्वेषतः कृतं शास्त्रचोदितमित्यर्थः ।
मफलप्रेप्सुना कळ कृतं कर्म यत्तत्सात्विकमुच्यते ॥ २३ ।।
यतु कामेप्सुना कर्म साइंकारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥

14.१८०२५-३०] श्रीमद्भगवद्गीतां । यत्तु कामेप्सुना फलार्षिना साहंकारेण कृतात्मसंभावनेनापरमार्थज्ञान बहुलायासं तद्रामसम्॥२१॥ अनुबन्ध क्षयं हिंसामनवेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्ततामसमुच्यते ॥ २५ ॥ अनुषध्यत इत्यनुबन्धः । कर्मणि क्रियमाणे' येन संबध्यते सोऽनुबम्धस्तपनपेक्ष्य कर्ममिमित्तां हिंसा पुरुषकारं वाऽनवेक्ष्य मोहादज्ञानादारभ्यते तत्तामसम् ॥ २५ ॥ मुक्तसङ्गोऽनईवादी धृत्युत्साहसमन्वितः । सिदयसिद्धयोनिर्विकारः कर्ना सात्त्विक उच्यते ॥ २६ ॥ मकसको मुक्तफलतृष्णः । अन हवादी य आत्मानं संभावितं न वदति।धृतिरात्मनः संधारणमुत्साहः प्रयत्नस्ताभ्यां समन्वितो धृत्युत्साहप्तमन्वितः । सिद्धिश्चासिद्धिश्च सिद्धचसिद्धी । तयोनिर्विकारो हर्षविषादरहितः कर्ता सात्त्विकः ॥ २१ ॥ रागी कर्मफलोप्मुलुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ना राजसः परिकीर्तितः ॥ २७ ॥ रागोऽस्यास्तीति रागी । लुब्धो दक्षिणात्यागवर्मितः । हर्षशोकाम्यामन्वितो हर्ष- शोकान्वितः । एवंभूतः कर्ता राजसः ।। २७ ।। अयुक्ता प्राकृतः स्तमः शठो नैष्कृतिकोऽलसः। विषादी दीर्घसूत्री च कर्मा तामस उच्यते ॥ २८ ॥ अयुक्तोऽसमाहितः । प्राकृतोऽपंस्कृतबुद्धिः। स्तब्धोऽप्रमाणशीलः । शठो वचः। निष्कृत्या चरतीति नैष्कृतिकः क्रूरः । अलसोऽप्रवृत्तिशीलः । विषादी दीर्घसूत्री चिरकारी यः प्रारं कर्म दीर्धेग कालेन निवर्तयति स तामसः ॥ २८ ॥ बुदे दं धृतेश्चैव गुणतस्त्रिविध शणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ।। २९ ॥ बुद्धर्ज्ञानस्य धृतर्यस्य चैव गुणतो गुणैः पृथक्त्वेन विवेकेनासंकरेण ॥ २९ ॥ प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्ध मोक्षं च या पति बुद्धिा सा पार्थ सात्त्विकी ॥३०॥ प्रवृत्तिः प्रवर्तनं मोक्षार्थ निवृत्तिः संन्यासः । कार्याकार्ये कार्य कर्तव्यमकार्य तद. भावः । भयाभये मयं संसारोऽभयं तदभावरूपो मोक्षः । बन्धो बन्धनं मोक्षो मुक्तिः। एतान्सर्वान्या बुद्धिति सा सात्त्विकी ॥ ३० ॥ । ॥ १५. 'णे यनियमेन ।

समा- १३८ हनुपद्विरचितपैशाचभाष्यसाहिता- [अ० १८.श्लो०.३९-१८ यया धर्ममधर्म च कार्य चाकार्यमेव च । अयथावत्मजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥ यया बुद्धया धर्मं श्रेयःसाधनं कार्यमधर्ममकार्य चायथावत्प्रजानात्यन्यथा प्रजानाति सा राजसी ॥ ३१ ॥ अधर्म धर्ममिति या मन्यते तमसाऽऽवृता । सर्वार्थाविपरीतांश्च धतिः सा पार्थ तामसी ॥ ३२ ॥ अधर्ममश्रेयस्करं धर्ममिति धर्मस्वरूपेण । विपरीताविपर्यस्तान्सा तामसी॥३२॥ धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ ३ ॥ धृत्या धैर्येण धारयति विमति प्राणा असतस्तेषां क्रिया व्यापारान् । योगेन धिना । अन्यभिचारिण्या नित्ययों सा धृतिः सात्त्विकी ॥ ३३ ॥ यया तु धर्मकामार्था धृत्या धारयतेऽर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजपी ॥ ३४ ॥ यया तु धर्मकामार्थान्धारयते बिभर्ति प्रसङ्गेन प्रसक्त्या न वनित्यमित्यर्थः॥३४॥ यया स्वमं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तापसी ॥ ३५ ॥ तामसी तमाप्रमवा ॥ ३५ ॥ सुखं विदानी विविध शृणु में भरतर्षभ। अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ ३६ ॥ सुखं शर्म । अभ्यासादावृत्त्या । रमते रतिं गच्छति । दुःखान्तं दुःखावसानं गच्छति प्राप्नोति ।।.३६ ।। यत्तदने विषमिव परिणामेऽमृतोपमम् । तत्सुखं साविक पोक्तमात्मबुद्धिप्रसादजम् ॥ ३ ॥ यत्तत्सुखमने प्रथमम् । [ परिणाम ] उत्तरकालमम(लेऽम)तापमम् । आत्मबुद्धि. प्रसादनं स्वबुद्धिप्रसादादन्तःकरणप्रसादाजातं तत्साविकम् ॥ ३७ ।। विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ ३८ ।। विषयेन्द्रियसंयोगाच्छोत्रादीनां शब्दादिभिः संयोगाद्यत्सुख पग्रेऽमृतोपमं परिणाम कालान्तरे विषमिव तद्राजसम् ।। ३८ ॥ १ क ख. प. उ. या पुस्ता सा सा।

- : [N०८.१९-४६] श्रीमद्भगवद्रीना। यदले चानुबन्धे च मुखं मोहनपात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहनम् ॥ ३९ ॥ यदग्रेऽवसाने च मोहनकर निद्रालस्यप्रमादोत्यं तत्तामसं सुखम् ॥ ३९ ॥ न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्रिभिर्गुणैः ॥ ४० ॥ मतदस्ति पृथिव्यां वा दिव्यन्तरिक्ष देवेषु देवरिन्द्रादिभिरुपलक्षिते स्वर्ग वा । सत्त्वं वस्तु । एभिः प्रकृतिजैर्गुणैः सत्वरजस्तमोभिर्विना यत्स्यात्सर्वं सत्त्वं वस्तुजातं सत्त्वरजस्तमोगुणमयमेवेत्यर्थः ॥ ४ ० ।। ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ।। ४१ ।। ब्राह्मणश्च क्षत्रियश्च विट् च गाणात्रियविशस्तेषां शूद्राणां च कर्माणि कर्तव्यानि पविभक्तानि । स्वभावो वक्तव्यं (वोऽव्यक्त) 'कृतिस्तद्धनैः सत्त्वरजस्तमोभिर्गुणैः॥४१॥ शमो दमस्तपः शौचं क्षान्तिराजवमेन च । ज्ञान विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ ४२ ॥ तपः स्वधर्मवृत्तिः । शोचं शुर्भावः । क्षान्तिः क्षमा । आर्जवमुजोर्भावः । ज्ञान- मात्मप्रबोधः । विज्ञानममत्वा(आस्तिक्यमागमा)दिपदार्यध्वस्तित्वबुद्धिः । ब्रह्मकर्म ब्राह्मणस्येदं स्वभाव प्रकृतिमवम् ॥ ४२ ॥ शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ ४३ ॥ शौर्य मरणनिर्भयत्वम् । तेनः प्रतापः । धृतिर्यम् । दाक्ष्यं निपुणता । अपलायनं शत्रूणामभिमुखावस्थानम् । दानं हिरण्यादेः पात्रे समर्पणम् । क्षत्रियस्येदं क्षात्रम् । स्वभाव प्रकृतिभवम् ।। ४३ ।। कृषिगौरक्ष्यवाणिज्य वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूदस्यापि स्वभावजम् ।। ४४ ॥ गवां रक्षा रक्षणं गौरक्ष्यम् । वणिक् क्रयविक्रगी तस्य भावो वाणिज्यम् । एतद्देश्यस्य स्वभावजम् ॥ ४४ ॥ स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ।। ४५ ॥ स्वकीय कर्मण्यभिरतः सिद्धि यथा विन्दति तच्छृणु ॥ ४५ ॥ यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा समपर्य सिद्धिं विन्दति मानवः ।। ४६ ॥

१४० हनुमदिरचितपैशाचमाष्यसहिता- [अ०१८०१७-10] यतो यस्मात्प्रवृत्तिरुत्पत्तिर्मतानां पृथिव्यादीनाम् । येन सर्वमिदं ततं न्यायम् । भास्मीय कर्मणा तमीश्वरमभ्यया॑ऽऽराध्य सिद्धि मोक्ष विन्दति लभते । मानयो मनुष्यः ॥ ४६॥ श्रेयास्वधर्मो विगुमः परधर्मात्मनुष्ठितात् । स्वभावनियतं कर्म नामोवि किल्विषम् ॥ १७॥ श्रेयान्प्रशस्यतरः । विगुणो गुणरहितः । बोमन समग्रपनुष्ठितो यस्तस्मात्परधर्मा- स्वधर्मो विगुणोऽपि श्रेयान् । स्वमावनियां कर्म कुर्वन्नाऽऽमोति किलि पापम् । तस्य दोषाव न भवति । विषनातस्य इमेः सहन विषं न मरणाय भवति ॥ १॥ किंचान्यत्-- सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनापिरिषाऽऽवृक्षाः॥४८॥ आरभ्यन्त इत्यारम्माः सर्वारम्माः सर्वाणि कर्माणि हि यस्मात्रिगुणत्याहोषेणाss- वृता धूमदोषेणाग्निरिवाऽऽवृताः । तस्मात्सदोषमपि स्वधर्म त्यक्त्वा परधर्मानुष्ठानेऽपि तस्यानुष्ठीयमानस्य तामसदोषयुक्तत्वादोषान्न मुच्यते ॥ १८ ॥ असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । नैष्कसिद्धि परमां संन्यासेनाधिगच्छति ॥ ४९ ॥ इदं नष्टं चेन्नष्टोऽहमिति सक्ता निषण्णा बुद्धिर्यस्य नास्ति सोऽसक्तनुदिः। सर्वत्र कर्मसु तत्फलेषु पुत्रमित्रकालत्रादिषु चासक्तबुद्धिः । निर्गतानि कर्माणि यस्मा- मायामरीच्युदकगन्धर्षनगरद्विचन्द्रदिङ्मोहादिषु शुखबुद्धमुक्तस्वमावपरमात्मस्वरूप- लामात्मा निष्कर्मा । तस्य मावो नैष्कर्म्यम् । तस्म निष्क्रियात्मस्वरूपावस्थानलक्षणस्य सिद्धिं निष्पति परमा प्रकृष्ट पुत्रमित्रकलत्रादिवाझेभ्यः । तथा च श्रुतिः- आत्मानं चेद्विजानीयादयमस्मीति पुरुषः । किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ॥ इति । आत्मलामान परं विद्यते ' इति स्मृतिः । अतस्तां सिदि संन्यासेनापि .. . गच्छति ॥ १९॥ सिद्धि प्राप्तो यथा ब्रह्म तथाऽनोति नियोष मे। समासेनेव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥ यथा सिद्धि प्रातो ब्रह्म नैष्कर्म्यमानोति तथा निबोधावगच्छ । मे ममेश्वरस्य मतं समासेनेव मंक्षेपेणेव । तथा निष्ठा स्थिति नस्य या परा प्रकृष्टा तां निबोधेस्यपः ॥१०॥ १ घ. 'म स्वभावसिक्किम कु।२ क. प. 'रमष' ।

[म.१८ लो०११-११] श्रीमद्भगवद्वीवा। पुदधा विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च । पम्दादीविपर्यास्त्यक्त्वा रागदेषी व्युदस्य च ॥५१॥ बुद्धयाऽध्यवसायात्मिकया विशुद्धया सात्विक्या युक्तो धृत्या धैर्येण तयार पिशुद्धयाऽऽत्मानं कार्यकारणसंघात नियम्य स्थापविस्वा शब्दादीविषयांस्स्यक्त्वा रागद्वेषो न्युदस्य चापनीय ॥ ११ ॥ विविक्त सेवी लघ्वाशी यतवाकायमानसः। ध्यानयोगपरो नित्यं वैराग्यं समुपाभितः ॥ ५२ ।। विविकं योगविरोधिवस्त्वनाधिष्ठितं स्थानं तत्सवितुं शीकं यस्य स विविकसेवी । घु हितं मितं पथ्यमशितुं शीलं यस्य स लवासी । ध्यानयोगपरो नित्यम् । ध्यानं चित्तस्यैकाग्रता योगस्तस्याऽऽत्मनि स्थापनं ध्यानं च योगश्च ध्यानयोगी [ती) पर (परी) निष्ठा यस्य स ध्यानयोगपरः । नित्यं सर्वकालम् । वैराग्यं विगतो रागो यस्मादसौ विरागोऽस्य मावो वैराग्यं समुपाश्रितो रागद्वेषधियुक इत्यर्थः ।। ५२ ॥ अहंकारं बळ दर्प काम क्रोधं परिग्रहम् । विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ ५३ ।। देहादिष्वात्मबुदिरहंकारः बलं सामर्थ्य कामरागसंयुक्तं नेतरदेहादिसामर्थ्यम्। तस्य स्वामाविकत्वेन त्यक्तुमशक्यत्वात् । ततः केवलशब्दयुक्ततापनादि बलशब्देनोच्यते । दो हर्षः । कामो रागः । क्रोधो द्वेषः । परिग्रहो ममेदमित्यर्थानां वशीकरणम् । एतदहंकारादि विमुच्य निर्ममः शरीरस्थितिसाधनेऽपि वस्तुनि ममत्वबुद्धिरहितोऽत एव उपरतान्तःकरणो ब्रह्मभूयाय कल्पत इत्युक्तम् ॥ १३ ॥ इदानीं ब्रह्ममूतस्य रक्षणमुच्यते- ब्रह्मभूतः प्रसमात्मा न शोचति न काङ्गाति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ ५४॥ ब्रह्मैव भूतो ब्रह्ममूतः । प्रसन्नः स्वच्छ आत्मा यस्य स प्रसन्नात्मा । रागद्वेषाभ्या- मनाकृष्यमाणहृदय इत्यर्थः । न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु प्राणिषु । एकमेव परमात्मानमात्मत्वेनावस्थितं पश्यन्स एवंमतो तद्भक्तिमीश्वरमक्ति मजन तादात्म्यं परामुत्कृष्ट लभत इत्यर्थः ॥ ५४॥ इदानी ब्रह्मस्वरूपावगती प्रत्यास कारणमाह- भक्त्या माममिजानावि यावान्यश्चास्मि तत्त्वतः वतो मां नवगे ज्ञात्वा विक्षते तदनन्तरम् ॥ ५५ ॥ भक्त्या भजनेन मा सर्वेश्वरममिजानात्यवगच्छति । यावानहमुपाधिकृतभिन्नप्रपञ्च. स्वरूपेण यथास्मीत्ववादसमस्तोपाधिस्वरूपेणेति च तत्त्वतः परमार्थतः। एवं ततो मा शान्त

..
१५३ हनुमद्विरचितपैशाचभाष्यसहिता- [अ०१८लो०५१-६
तत्त्वतो ज्ञात्वा तदनन्तरं विशतेः प्रविशति । ब्रह्मैव सर्व प्रतिमयत इत्यर्थः । चतु-
ध्याय उदाराः सर्व एवैते ज्ञानी स्वात्मैव मे मतमित्युक्तत्वात् ॥ १५ ॥
सर्वकर्माण्यपि सदा कुर्वाणो मद्यपाश्रयः ।
मत्पसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ ५६ ।।
सर्वकर्माणि सर्वाणि कर्माणि प्रतिषिद्धान्यपि सदा कुर्वाणोऽहमात्मा . व्यपाश्रयो
यस्य स मद्यपाश्रयः । ईश्वरमेव'हं शरणं प्रपन्नः स एव मम योगक्षेमनिर्वाहक इत्य.
भिनिवेशवानित्यर्थः । मत्प्रसादादवाप्नोति शाश्वतं पदमनादिमव्ययमनन्तं विष्णोः
प्राप्नोतीत्यर्थः ॥ ५९॥
चेवसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
बुदियोगमुपाश्रित्य मञ्चित्तः सततं भव ॥ ५७ ॥
सर्वलोकाध्यक्षः सकलकर्मफलमोक्ता वासुदेवो मे शरणमित्यनेन सर्वकर्माणि ममेश्व-
रस्याऽराधनमिति मयि संन्यस्य समर्प्य मत्परोऽहं वासुदेवः परः प्रधानं यस्यासी
मत्परः । बुद्धियोगमुपाश्रित्योक्तया बुद्धया योगमाश्रित्य प्राप्य मयीश्वरे चितं यस्य
स मञ्चित्तः सततं सर्वकालं भव जायस्व ॥ १७ ॥
माञ्चित्तः सर्वदुर्गाणि मत्मसादात्तरिष्यसि ।
अथ चेत्वमहंकारान्न श्रोष्यसि विनश्यसि ।। ५८ ॥
सर्वदुर्गानि सर्वाणि दुःखानि मत्प्रसादान्मम प्रसादात्तरिष्यसि । अथ त्वमहंकारा-
दहमेव सर्वशास्त्रविदिति बुद्धया न श्रोष्यसि चेन्नाऽऽकर्णयसि चेद्विनक्ष्यसि. विनाश
गमिष्यति ।। ५८॥
यदहंकारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्येष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ।। ५९ ॥
यदहंकारमाश्रित्य मदचनमवज्ञायाहमेव सर्वशास्त्रविदिति मत्वा न योत्स्य इति
मन्यसे मिध्यष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति तवैष निश्चयो मिथ्या वितथी-
भूतो यतः प्रकृतिः स्वमावस्त्वां नियोक्ष्यति ॥ १९ ॥
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कतु नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ।। ६० ।।
स्वभावजेन स्वभावसिद्धेन निवद्धो नियोगतो बद्धः सन्स्वेनाऽऽत्मीयेन कर्मणा
क्रियया कर्तुं निवर्तयितुं नेच्छसि त्वं यत्स्वभावसिद्धं कर्म ॥ १० ॥
ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यबारूढानि मायया ॥ ६१ ॥

भ०१८ श्लो०१२-६७] श्रीमद्भगवद्गीता। १४: ईश्वरो वासुदेवः सर्वभूतानां सर्वप्राणिनां हृदेश हृदयपुण्डरीके । अर्जुन शुलं निर्मः लमन्तःकरणं यस्य सोऽपि तत्संबन्धादर्जुनः । हेऽर्जुन तिष्ठति संनिधत्ते । यथा कथि: स्कुशलो दारुच कयन्त्रारूढान्भ्रामयत्येवं सर्वप्राणिनोऽहं शयानोऽहमासीनोऽहं स्थितोऽहं जातोऽहं क्षीणोऽहमित्येवंपत्ययः शरीराख्यं यन्त्रमारूढानि ब्रामय- स्तिष्ठतीति विप्रकृष्टेन संचयः ॥ ६१ ॥ तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्ति स्थान प्राप्स्यसि शाश्वतम् ॥ ६२ ॥ तमेव शरणं सकलदुःखनिवारणमाश्रयं गच्छ भजस्व । सर्वभावेन सर्वैः संकल्पैरय मम चास्ति स्वाम्ययं मम पोषकोऽयमेवाऽऽचार्य इत्येवमादिमिः । तत्मसादात्तस्य शर- णागतवत्सलम्यानुग्रहात्परां प्रकृष्टां शान्तिमुपरतिमधिगम्य स्थानं वैष्णवं प्राप्स्यसि गमिष्यसि । शाश्वतं नित्यम् ।। ६२ ।। इति ते ज्ञानमाख्यातं गुह्याद्रुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥ इतीत्थं ते तव ज्ञानं ब्रह्मसंबोधलक्षणमाख्यातं कथितम् । गुह्यतरं रहस्यतरं वि. मृश्य विचार्यंतदशेषेण साकल्येन यथेच्छसि तथा कुरु ॥ १३ ॥ सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ ६४ ॥ सर्वगुह्यतमं सर्वरहस्यतमं भूयः पुनरपि शृणु मे परमं वचः । ततस्तस्मात् । हितं कुशलम् ॥१४॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने पियोऽसि मे ॥ ६५ ।। मन्मना मद्तमनाः । मद्यानी मत्पूनकः । मामीश्वरं सकलगुरुं नमस्कुरु । तत्फल- माह-मामेव वासुदेवारूयं परमेश्वरमष्यामि । प्रतिमान उपदिशामि ॥ १५ ॥ सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।। ६६ ।। सर्वधर्माश्रुतिस्मृत्याचारसिद्वान्परित्यज्य मां न रायणाख्यमाश्रयं बन गच्छ । अहं पुनः संज्ञ. सर्वशक्तिर्वासुदेवस्त्वां सर्वपापेभ्यो मोक्षयिष्यामि । मा शुचो मा शोकं कार्षीः ॥ ६६ ॥ इदं ते नापस्काय नाभक्तांग कदाचन । न चाशुश्रूषवे वाच्यं न च मा योऽभ्यसूयति ॥ ६७ ॥ .

१४५ हनुमद्विरचितपैशाचमा यसाहिता [अ०१८लो०६८-७२] इदं शास्त्रं तव हिताय मयोक्तं संसारविच्छितये । न विद्यते तपः स्वधर्मवृत्तिक- क्षणं यस्यासावतपरकस्तस्मै । न विद्यते मयि भक्तिर्भननं सेवा यस्यासावमकस्तस्मै । कदाचन कदाचिदपि । न चाशुश्रूषवे यो गुरोरशुश्रूषस्तस्मै । न च मामीश्वरं सर्वपा- णिसहदं योऽभ्यसूयति द्वेष्टि । इदं शास्त्रं स्वयाऽतपस्कायाशिष्याय न वाच्यं तपेश्व- रेऽमकाय न वाच्यं मां यो द्वेष्टि तस्मै न वाच्यम् ॥ १७ ॥ य इदं परमं गुवं मद्भक्ते ध्वमिधास्यति । भक्ति मयि परां कृत्वा मामेवेष्यत्यसंशयः॥ ६८ ॥ य इदमावयोः संवादरूपं परममुत्कृष्टं श्रेयःसाधनवादगोप्यं मद्भक्तेषु मयि परमे. श्वरे पक्तिमत्स्वभिधास्यति वक्ष्यति । मथि परमेश्वरे परी भक्ति कृत्वा विधाय । तस्येदं फलमुच्यते-मामेवेष्यत्यसंशयः ॥१८॥ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकुत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुधि ॥ ६९ ।। न च तस्माच्छात्रसंप्रदायकृतो मनुष्येषु मध्ये कश्चिन्मे प्रियकृत्तमोऽतिशयेन प्रियकृत् । अन्यो नास्तीति प्रकृतेन संबन्धः । न च भविता तस्मादन्यः प्रियतरो मुवि भूमौ ॥ १९॥ अध्येष्यते च य इमं धर्म्य संवादमावयो।। बानयनेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ७० ॥ अध्येष्यते पठिष्यति । य इममावयोः संवादं धर्य धर्मादनपेतम् । तेन पाठकेन ज्ञान- यज्ञेन द्रव्यजपोपांशुयज्ञेभ्यः फले. सहस्रगुणेभ्यो विशिष्टतमेनाहमिष्टः पूजितः स्या मवेयमिति मे मतिनिश्चयः ॥ ७० ॥ श्रदायाननसूयश्च शृणुयादपि यो नरः। सोऽपि मुक्तः शुभाल्लोकान्माप्नुयात्पुण्यकर्मणाम् ॥ ७१ ॥ श्रद्धावान्कर्मणां श्रद्धा विद्यते यस्यासौ श्रद्धावान् । अनसूयोऽसूयारहितोऽध्येतार । शृणुयादपि किं पुनरर्थस्य प्रतिपत्तौ । सोऽपि श्रोता मुक्तो निर्गतोऽस्माच्छरीरात्प्रत्ये. त्यर्थः । शुभान्पुण्यालोकान्प्राप्नुयात्पुण्यकर्मणाम् । तेषां लोकानिति संबन्धः ।।७१॥ कञ्चिदेतच्छुतं पार्य स्वयेकाग्रेण चेतसा । कश्चिदवानसंमोहा मनस्वे धनंजय ॥ ७२ ॥ कचिदिति प्रभे । यथोक्तं श्रुतमिति संबन्धः । अज्ञानमनिश्चयस्तनिमित्तः संशया संमोहः स कचिस्पना ॥ २ ॥ ..

.. [१०१८-लो१५६-७८) श्रीमद्भगवद्वीता । एवं सो भगवताऽर्जुन उवाच- अर्जुन उवाच- नष्टो मोहः स्मृतिर्लब्धा त्वत्पसादामयाऽच्युत । स्थितोऽस्मि गतसंदेहः करिष्ये वचनं बर।। ७३ ।। नोमोह इति । नष्टो मोहो नष्टः संशयो यः पूर्वमासीदुरुपुत्रमित्रादयो हन्त- व्या आहोस्विन्न हन्तव्या इति । स्मृतिर्लब्धा स्मृतिः सम्यम्ज्ञानं सा च प्राप्ता । त्वत्प्र- सादात्तव प्रसादमाश्रित्य तेन मया । अच्युत स्वरूपात्कथमपि न च्यवन इत्युक्त- म् । स्थितोऽस्म्युत्थितोऽस्मि । करिष्ये वचनमाज्ञाम् ॥ ७३ ॥ संजय उवाच- इत्याई वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममौषमद्भुतं रोमहर्षणम् ॥ ७४ । इमं यथोकम् ॥ ७४ ।। व्यासप्रसादाच्छुतवानेतद्गुह्यमहं परम् । योगं योगेश्वरात्कृष्णासाक्षात्कथयतः स्वयम् ।। ७५ ॥ व्यासो भगवान्कृष्णद्वैपायनः । परं. प्रकृ; परमात्मविषयत्वात् । योगं सम्यग्ज्ञानम् । गोगेश्वरायोमा योगिनस्तेषामीश्वरात् । साक्षात्प्रत्यक्षं कथयतः स्वयं स्वमुखेन ॥७॥ राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ ७६ ॥ संस्मृत्य पुण्यं पापहारं हृष्यामि च तुष्यामि च मुहुर्मुहुर्भूयो भूयः ॥ ७६ ॥ बच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महाराजन्हृष्यामि च पुनः पुनः ॥ ७७ ।। तच रूपं विग्रहमत्यद्भुतम् । हरेनारायणस्य । विस्मयः कुतूहलम् ॥ ७७ ॥ यत्र योगेश्वरः कृष्णो यत्र पार्थों धनुर्धरः । तत्र श्रीजियो भूतिधुवा नीतिमतिर्मम ॥ इति ॥ ७८ ॥ इति श्रीमहाभारते शसाहस्यां संहितायां वैयासक्या भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसं- वादे मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः।। १८ ।। .. १ क. स. प. छ. उद्यतोऽ! 8 १४६ हनुपरिरचितपेशाचभाष्यसहिता भीमनगबहीवा। किं बहुना यत्र यस्मिन्नक्षे योगेश्वरः कृष्णः स्थितः । यत्र पार्यों धनुर्धर उपत. गाण्डीपः । तत्र तस्मिन्पक्षे । श्रीदेवता विजयार्थी । विजयः शत्रूणां धर्षणम् । मूतिरेश्वर्यम् । नीतिर्मयः प्रज्ञा जयसाधिका । इतीत्यं मतिनिश्चयः । इतिकरणं मीताशास्त्रपरिसमाप्त्यर्थम् ॥ ७८ ॥ इति श्रीमदनमद्विरचिते पैशाचमान्यनामके श्रीमद्भगवद्वीताब्याख्यानेs. टादशोऽध्यायः ॥ १८॥ ( आदितः श्लोकानां समष्टया:-.. )। समातेयं श्रीमछुनुमद्विरचितपैशाचायनामकव्या. ख्यानसमेता श्रीमद्भगवद्गीता । * एतदनेक पुस्तके- भाष्यं भगवद्गीतायाः पिशाचेन विनिर्मितम् । मात्मानः प्रकृति प्राप्त विश्वनाथेन लेखितम् ॥ इत्यधिकम् । १ क, ख, ग. 'यार्थो वि।

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Shrii Madabhgavadagiitaa Grantha 44

Author
Aapat'e Vinayaka Gand-esha
Title
Shrii Madabhgavadagiitaa Grantha 44
File name
Shrii Madabhgavadagiitaa Grantha 44
Text
OCR done
Citation
1933
Published
2005-11-19
Publisher
Aanandaashramamudrand-aalaye
Language
Sanskrit
Pages
161
Classification
Religion. Theology
DLI number
369211
Barcode
2030020016030.00
Scanning centre
RMSC, IIIT-H
Digital publisher
Digital Library Of India
Rights
IN_COPYRIGHT
VMLT id
CT4nRYV5wGv
Download PDF

Shrii Madabhgavadagiitaa Grantha 44