Bharti Bhawan Library, Allahabad
Savivaran Sriraamayanbharatsaar
Front matter
EKITUTY
मत
4K
ॐ
CROSSONG
सविवरणम्
श्रीरामायणभारतसार
संग्रहस्तोत्रद्वयम्
PROIRO
--
JOHOR
श्रीमद्वैतविदनाचार्य श्रीमदप्पय
दीक्षितकृतं
श्रीमत्परमहंसपरिव्राजक श्रीब्रह्मानन्द
तीर्थकृत
ठिप्पणीसमेतम्
निग्रहाएकञ्च
OfoR
इंड्यन्यन्त्रालये स्वीये प्रयागक्षेत्रसंस्थिते
श्रीचिन्तामणिघोषेण मुद्रयित्वा प्रकाशितम्
विक्रमात्सिंवत् १८५३ शके १८१४ फाल्गुन
(अयं अन्य राजनियमानुसार राजपटारूढीकृतः)
( All rights reserved. )
मूल्यं ॥
EARNERATESTRA.re
No text on this page.
प्रसिद्धार्थबोधकपत्रम् । ॐ इह खलु श्रुतिस्मृतीतिहासपुराणादिषुपरशिवस्य परब्रह्मत्वं सुप्रसिद्धम् । स्कान्दतु, “मायाबलेनैवहरि शिवेन समानमाहुः पुरुषाधमाश्च । मोहेन केचिन्मम साम्यमाहुर्मायातुशैवीखलुदुस्तरेयम् ॥ खयोता यदि चण्डभानुसदृशस्तुल्योहरिः शम्भुना, किम्पाका यदि चन्दनेन सदृशस्तुल्योहमीशेनच॥ अज्ञानं यदि वेदनेन सदृशं देवेन तुल्या जनाः, किं वक्ष्ये सुरपुंगवा अहमहो मोहस्य दुश्चेष्टितमित्यादिसूतसंहितान्तर्गतब्रह्मगीता- स्थब्रह्मवाक्यैर्विष्णादीनांशिवसाम्यत्वकथनमपि माया मोहकृतमिति स्पष्टीकृतम्,तच्चत्रीनीलकण्ठाचार्यब्रह्म सूत्राणि शिवपरतया व्याख्याय दृढीकृतं,ततः श्रीभार- द्वाजकुलकलशजलधिराकासुधाकरैः पदवाक्यप्रमाण पारावारगाम्भीर्यकूलंकषविमर्शपरिवृद्धैः शिवपारम्य प्रतिपादकशिवतत्वविवेकशिवकर्णामृतादिनिजप्रबंध নিহায়ালিমিনানগালিমালি- रितचिरन्तनमलत्रयनिर्मलहृदयमुकुरप्रतिभाननिरूढ - शिवात्मभावनासिद्धवैदिकशैवजनपरमाचार्यरुभयनि- गमान्ताचार्यश्चतुरधिकशतप्रबन्धनिर्वाहकैः सर्वतंत्रस्त्र तंत्रर्विश्वजिझाजिश्रीरंगराजयायजूकशिखामणिभाग धेयैर्महानतयाजिभिःश्रीशिवावतारैःश्रीमदप्पयदीक्षितैः श्रीनीलकण्ठभाष्यरत्नाकरनिगूढतत्वार्थरत्नावलीसमुत्ते- जननिकोंपलन्यायमालाभरितशिवार्कमणिदीपि काम mahanmusementmaniramimiteROURISMETAIMAHMINIMUHIROmmaiteHARSauratnewmomsunawwatSanwRAMERAINIDweateESTERNATImetrimyanamUHARRODAMAmanemalee बन्धनिर्माणेन रामानुजभाष्यं सम्यगाभासीकृत्य तदेव श्रुत्यादिप्रसिद्धंपरशिवस्यपरब्रह्मत्वंस्थूणानिधनन्यायेन पुनर्दृढीकृतम्, येषांतु पुनः परशिवस्य परब्रह्मत्वमसह- मानानामयमभिमानः महामुनिप्रणीतरामायणभारता- दिषु विष्णोरेवपरब्रह्मत्वं प्रतिपादितं न शिवस्येति,तेषां दुरहंकारदुरभिमानदुर्बुद्धिविध्वंसनाय तत्रापि तस्यैव परशिवस्य परब्रह्मत्वं प्रतिपादितमिति प्रख्यापनाय च तैरेवोक्तविशेषणविशिष्टैः श्रीमदप्पयदीक्षितैर्लीलान्या- येन निर्मितं व्यंग्यार्थसंप्रदायरहस्यनिधानब्रह्मर्षिवर्य श्रीवाल्मीकिकृष्णद्वैपायनमहामनिवदनारविन्दनिस्सृत श्रीमद्रामायणादिकाव्यभारतेतिहासरत्नतत्वार्थसार- शिवतत्वप्रकाशकं रामायणसारसंग्रहभारतसारसंग्रहा- ख्यं सविवरणं स्तोत्रद्वयं, तच्च तैलङ्गाक्षरस्थं मया दक्षिणदेशादानीयश्रीविद्वच्छिरोमणिभूतेभ्यो जम्बूरा- ज्यनिवासिभ्यः श्रीगंगाधरशास्त्रिभ्यो नागराक्षरैर्विले- खनाय दत्तं,ततस्तैः परहितैकतानतया तथैव विलिख्य दत्तञ्च मह्यम्,ततस्तदिदं स्तोत्रद्वयं स्वकीयस्वल्पटिप्प- ण्यासंयोज्यपरोपकाराय संस्करणार्थपरहितैकपरायण मनीषयैव प्रतिष्ठापितेण्डियन्यंत्रालयाधीशाय श्रीचि- न्तामणिघोषवर्मणे प्रयागक्षेत्रनिवासिने दत्तम, तेनच निजद्रव्यव्ययेन निजेण्डियन्यंत्रालये परहितायाऽङ्कयि- त्वाप्रकाशितमितिशिवम् ॥ स्वामी ब्रह्मानन्दतीर्थः, दाक्षिणात्यः॥
. श्रीरामायणसारसंग्रह स्तोत्रविवरणम्॥ ॐ श्रीगणेशायनमः॥ इह खलु भगवान् प्राचेतसः कमलासनवरलब्ध- सकलार्थवेदनः श्रीरामचन्द्रचरितवर्णनात्मक नीरामा- यणाख्यंमहदादिकाव्यं निर्ममे तनिर्मिमाण तत्र तत्र निबद्वैः श्रीरामचन्द्रवचनैस्तच्चरितकाव्यान्त- रवचनैः स्ववचनैश्च सकलदेवतालिशायिनं शिवस्यम- हिमातिशयं व्यञ्जयामासेत्येतदर्थप्रतिपादक शिवस्तोत्र मारभमाणस्तत्प्रतिपाहामर्थ तावनतिजानी वाल्मी- किरिति:- वाल्मीकि रादिकविरा डखिलार्थदर्शी। साक्षा हिरिश्च इव संप्रतिपन्नभावः । विश्वेशविष्णु मधिकृत्य कृते प्रबन्धे । MAntaweTINE १ श्रीरामचन्द्र मुद्दिश्य । २ रामायणाख्ये ग्रन्थे ।
रामायणसारसहस्तोत्रविवरणम् । व्यक्त्या तवैव निवबन्ध परंपरत्वम् ॥ १॥ व्यक्त्या, व्यञ्जनाख्यया ध्वनिवृत्त्या ॥१॥ तत्र ताव दगस्त्यात्रामप्रवेशसमये श्रीरामचन्द्रवचनैःकविवचन- श्च शिवमहिमातिशयद्योतन माविष्करोति रामायण इति:- रामायणे हि कलशप्रभवाश्रमस्था। देवादयोपि तमु पासत इत्युदीर्य । स्थानानिचात्र मधुजिन्म घव न्मुखानां । तस्याश्रमे निगदितानि न ते कपर्दिन्।॥२॥ अगस्त्यात्रामाभ्याशे लक्ष्मणप्रति श्रीरामचन्द्रवच- नानि "अत्रदेवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । अग- स्त्यं नियताहारं सततं पर्युपासते ॥ अत्र देवाश्च यक्षाश्च नागाश्च पतगैःसह । वसन्ति नियताहारा धर्म माराधयिष्णवः” इति ॥ अगस्त्यानमप्रवेशान- न्तरं कविवचनानि "स तत्र ब्रह्मणःस्थान मग्ने स्थानं तथैव च । विष्णोः स्थान तथेन्द्रस्य स्थान उचैव वि- वस्वतः ॥ सोमस्थानं भगस्थानं स्थानं कौवेर मेवच। हे शम्भो तवैव। २ निरतिशयोत्कर्षत्वम् । ३ अगस्त्यम् । रामायणे। ও অ্যাম্বুল। # লাক্ষী কিলালি। ।
CATra रामायणसारसङ्गहस्तानविवरणम् । ॥ धातुर्विधातुः स्थाने च वायो स्थानं तथैव च ॥ स्था- नञ्च पाशहस्तस्य वरुणस्य महात्मनः । स्थानं तथैव गायत्र्या वसूनां स्थान मेव च ॥ स्थान व नागराजस्य ह्यनन्तस्य महात्मनः । कार्तिकेयस्य च स्थानं धर्म- स्थानञ्च पश्यतीति" ॥ एवं देवोपास्यत्ववचनानां स्था- नवर्णनवचनाना च वक्तृभेदेपि काव्यप्रबंधु रेकत्वा दुदोर्येति निर्देशः । अत्र ब्रह्मादीना मगस्त्य मुपासितु मागतानां स्थाना न्युक्तानि तथैव प्रागुपक्रान्तत्वा- त्। उत्तररामायणे शंबुकवधानन्तरं श्रीरामचन्द्र द्रष्टुं स्वर्गाद्विमानै रागतानाम् “अगस्त्यस्याश्रमपदं द्रक्ष्याम” स्तं महाशय मित्यादिकं वचनजात मुपन्यस्य तथैव तदभिवादनार्थं तेषा भगस्त्यानमगमनोक्त्या तत्रैव श्वेतनामानं राजानं क्षत्पिपासारूपं महाव्याधे रवधिं पृष्टवन्तं प्रति अगस्त्यदर्शनेन "स हि तार- यितुं शक्तः सौम्यः सुरगणानपि। किं पुन स्त्वां महा- बाहो क्षत्पिपासासमन्वित मिति” वचनोपन्यासेन च अगस्त्यस्य सकलदेवतापास्यतायाः स्फुटीकरणाच्च। अगस्त्यस्यो पासनार्थं तदाश्रमे निवसतां ब्रह्मादिदे- वाना मिव तत्र शिवस्य स्थानं नोक्तम् तस्मात् ब्रह्मवि- घण्वादय एवागस्त्योपासका नतु शिव इति द्योतनेन शिवस्य तदतिशायी महिमा व्यञ्जितः ॥२॥ AHINEKHAKES रामायणसारसङ्गहस्तोत्रविवरणम् । de न केवल मेतावता किन्तु प्रकारान्तरेणापि व्यजित इत्याह तेनेति :- तेन त्वमेव ननु सिद्यसि पारिशेष्यात्। तस्येन्दुशेखर ! तपोनिकरै रुपास्यः। तस्या प्युपासकतया विनिवेशितेभ्य। स्तेभ्य स्तव त्वतितरांमहिमा प्रसिद्ध्येत्॥३॥ शिवं विना सकलै देवै रुपास्यमानस्यागस्त्यस्य त- पोनिकरैराराधनीयःशिव एवेति पारिशेष्यात् सिद्धाति। ततरच इतर देवानां शिवोपासकत्वसिद्धेस्तेभ्यः शिव- स्यातितरा मुत्कर्षः प्रसिद्धनती त्यर्थः ॥३॥ किञ्च लवणवधार्थ शत्रुघ्न प्रेषयता श्रीरामचन्द्रेण तद्वधार्थ हरिमूर्तिरूपं किंचिदलं दत्वा तत्प्रभावो वर्णितः “नायं मया शरः पूर्व रावणस्यवधार्थिना। मुक्तः शत्रुधू ! भूतानां महा स्वासो भविष्यतीति" ॥ तथैव शत्रुघ्न क्रियमाणे तस्य शरस्य सन्धाने सकलभूतत्रास- कत्वात्त्रासेन समागतान् देवान् प्रति ब्रह्मणो वचने- नापि तस्य शरस्य महामहिमा प्रपंचितः “एषोहि पूर्व- १ शिवेतरविण्वादिसकलदेवाना मगस्त्योपासकत्त्वप्रदर्शनहेतुना । २ अगस्त्यस्य । ३ अगस्त्यस्यापि । ४ विष्ण्वादिदेवेभ्यः ॥ MARDAN रामायणसारसङ्गहस्तोत्रविवरणम् । देवस्य लोककर्तुः सनातनः । शरस्तेजोमयो ह्येषः येन वो भय मागतम् ॥ एष वै कैटभस्यार्थे मधुनश्च महाशरः। सृष्टी महात्मना तेन वधार्थ दैत्ययो स्तयोः॥ एव मेव प्रजानीध्वं विष्णोस्तेजोमयं शरं । एषा ਚੋ तनुः पू. व विष्णो स्तस्य महात्मनः" इति ॥ एवं भूतं शरं प्रयच्छतापि श्रीरामचन्द्रेण यदा शिवेन स्वशूला द्वि- निकृष्य दत्तं शूलं लवणस्य हस्ते स्थितं तदा येन केना प्युपायेन स जेतु न शक्य इति हस्ते शूलाभावस- मये सन्निरुद्धा अनेन शरेण हन्तव्य इति उपदिश्य तदुपपादनार्थ मुक्तम् "श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रम" मिति ॥ अनेनापि शिवस्य निरतिश- योत्कर्षसिद्धि माह अत्यन्तेति:- अत्यन्तपूज्यविषयं किल यत्प्रसिद्धम् श्रीमाहिशेषण मिदं हरिमूर्तिरूपात् । अस्त्रा त्त्वदाप्त मधिकं किमपित्रिशूलम्। व्यक्तं त्वयाऽवन परत्र निवेशितं तत्॥४॥ वैष्णवमूर्तिरूपेणा प्यस्त्रेण हरदत्त शूलाभावसमयं प्रतीक्ष्य हन्तव्य इति वचनेन तदुपपादनार्थेन शिवा- १ श्रीमतःशितिकण्ठस्येति ।२ त्वत्सकाशा लवणासुरेण प्राप्तम् । ३ हेरक्षक ॥ 171 SARAISAR रामायणसारङ्गहस्तोत्रविवणम् । ज्ञाया दुरतिक्रमत्ववचनेन च शिवस्य निरतिशयम- हिमा स्पष्ट एव, श्रीमद्विशेषणेनापि तदभिव्यक्ति रुच्यते अत्र हीदं विशेषणं श्रीमाँ ज्छत्रुनिबर्हणः षड- ईनयनः श्रीमानित्यादा विव कान्त्यतिशयादिवर्ण- नया नान्यथा सिद्धम् ततो दुरतिक्रमत्वोपपादनासि- द्वेः किन्त्वत्यन्तपूज्यविषयम् इत्थम्भूत मिदं विशेषणं शिव इव नान्यत्र प्रयुक्तमिति तेनापि तस्य निरतिशयो त्कर्षसिद्धिः ॥४॥ कुम्भोद्भवस्य सुरेसं सदुपास्यता च । श्रीमद्विशेषण मिदञ्च तवेन्दुमौले ! श्रीरामचन्द्रवचनेष्विति तन्निबन्ध । स्तस्यापि भक्ति मधिकां भवति व्यनक्ति॥५॥ अथ श्रीरामचन्द्रवचनान्तरेणापि तस्य शिवे भ- क्त्यतिशयव्यक्तिं दर्शयति यस्यास्तिहीति:- यस्यास्ति हिस्म शिबिरंशिवदक्षिणाये। कुकिंगते जलनिधे नलसेतु कृप्त्यै। १ देवतासमुदायैस्सेव्यता । २ तस्य रामचन्द्रस्य प्रतिपादको रामा- यणाख्यो ग्रन्थः। ३ रामचन्द्रस्यापि । ४ रामचन्द्रस्य । वेशस्थानम् । ६ रामेश्वरदक्षिणभागे। ७मैनाके ५ सेनानि- C C रामायणसारसंग्रहस्तोत्रविवरणम् । ७ - ॥ तस्मिन् जगद्विदित भूमनि सेतुबन्धे । पूर्व प्रसन्न इति च त्वयि भक्ति मूचे ॥६॥ प्रतिप्रयाण समये सीतां प्रति श्रीरामचन्द्रवचना- नि "एत तु दृश्यते तीर्थ सागरस्य वरानने । यत्र सागर मुत्तीर्य तां रात्रि मुषिता वयम् ॥ एष सेतु मया बद्धः सागरे सलिलार्णवे। तव हेता विशालाक्षि नल सेतुः सुदुष्करः ॥ पश्य सागर मक्षोभ्यं वैदेहि वरु- णालयम् । अपार मभिगर्जन्तं शङ्खशुक्तिनिषेवितम् ॥ हिररायनाभं शैलेन्द्र काउचनं पश्य मैथिलि । विश्रा- मार्थं हनुमतो भित्वा सागर मुत्थितम् ॥ एत त्कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् । एत तु दृश्यते ती- थं सागरस्य महात्मनः ॥ सेतुबन्ध इति ख्यातं त्रैलो- क्येना भिपूजितम् । एतत्पवित्र मतुलं महापातकना- शनम् ॥ अत्र पूर्व महादेवः प्रसाद मकरो त्प्रभुः । अत्र राक्षसराजोय माजगाम विभीषण" इति । अत्रा- दाश्लोकेन सागरतरणानन्तरं यत्र परपारे समुद्रज- लावतारप्रदेशे सेनानिवेश आसीत्स प्रदेश उक्तः। तत खिभिः श्लोकः स्वकारितो नलसेतुः सागरो मैनाक- ३च प्रदर्शितः । तदनन्तर मर्दैन यत्र नलसेतु बन्धना- १ रामचन्द्रे। २ शिवः प्रसन्नोऽभूत् । ३ इति हेतोः ॥
रामायणसारसंग्रहस्तोत्रविवरणम् । 6 थं सेनानिवेश आसीत्स प्रदेश उत्तः । नच तेन मै- नाक एव लंकावत्समुद्रमध्यगतदुर्गरूप उक्त इति शङ्कनीयम् समुद्रमध्ये निमज्य स्थितस्य तस्य प्राग् दुर्गत्वोक्त्ययोगात् अनन्तरमपि केनचित्तमेव दुर्ग- मानित्य स्थीयत इति प्रसिद्धनभावात् दुर्गं कर्तुं श- क्यमित्यर्थकल्पनस्य चातिक्लिष्टत्वात् "यन सागर मु- त्तीर्य तांरात्रि मुषिता वय” मिति सागरोत्तरणानन्तर- स्येव तत्प्राचीनस्यापि स्कन्धावारनिवेशनस्यैव प्रदर्शने तत्स्वारस्या च्च एवञ्च तस्य समुद्रकुक्षिगतत्वोक्तिः सेतुबन्धाख्यवक्ष्यमाणसेतुदक्षिणाग्रप्रदेशत्वाभिप्रायेण योजनीया। अन्यथा समुद्रजलमध्ये याव बलसे- तुबन्धनं पञ्चरात्रपर्यन्तं सेनानिवेशायोगात् । ततः सार्दुश्लोकेन सेतुबंधाख्यः सकलजगत्पूजितः सकलम- हापातकनिवर्तकश्च सेतुरुक्तः तस्य सेतोस्तथाभूतमहि- महेतु स्तत्र रामेण प्रतिष्ठापितस्य तथा वरं दत्तवतः शिवस्य प्रसादस्तदनन्तर मदुर्धनोक्त स्तेनादुर्धन संक्षि- प्त श्चार्थः कूर्मपुराणे नारायणोपाख्याने रावणवधा नन्तरं प्रतिप्रयाणवृत्तान्तकथने विवृतः । “सेतुमध्ये महादेव मीशानं कृत्तिवाससं। सामिसोमलसत्फालं स्थापयामास राघवः॥ तस्य देवो महादेवः पार्वत्या सह शंकरः। प्रत्यक्ष एव भगवान्दत्तवा न्वर मुत्तमम् ॥ येत्व रामायणसारसङ्गहस्तोत्रविवरणम् । या स्थापितं लिङ्गं द्रक्ष्यन्ति मनुजर्षभाः। महापातकनि- मुक्ता स्ते यान्ति परमांगतिम् ॥ अन्यानि चैव पापानि स्नातस्यात्र महोदधौ। दर्शनादेव लिंगस्य नाशं यान्ति न संशयः॥ यावत्स्थास्यन्ति गिरयो यावदेव च मेदिनी यावत्सेतुश्च तावच्च स्थास्थाम्यत्र तिरोहितः ॥ स्नानं दानं तपः श्राद्धं भविष्यत्यक्षयं फलम् । स्मरणादेव लिङ्गस्य दिनपापं प्रणश्यति" इति वाल्मीकीयं वर्तमा- नश्वेतवराहकल्पावतारवृत्तान्तप्रतिपादकमिति तत्प्रा चीनलक्ष्मीकल्पवृत्तान्तप्रतिपादककूर्मपुराणवर्णितस्या र्थस्य अत्र पूर्वमित्यनुवादो युक्त एव । अत्र पूर्व प्रसन्नः शिवइत्युक्त्या शिवे रामचन्द्रस्य अनादिसिद्धी अक्त्यतिशय आविष्कृतः । एवञ्च सेतुबन्धाख्यः रोतुः पूर्वं यत्र प्रसन्नः शिवः तत्र तस्य दिव्यमन्दिरनिर्मा- णार्थं तत्सेवायै समागच्छतांगमनागमनसौकर्थिनव टङ्कभेदविनिर्मितचतुरस्त्राकारैः पाषाणैरेव निर्मितः न- लसेतो तत्संज्ञाभेदात् पूर्वमारभ्य ख्यातत्वपूजितत्व- वचना त्तत्रैव पूर्व शिवस्य प्रसन्नत्ववचनाच्च शिवालय- निर्माणार्थ समुद्रकुक्षौ किंचिदूरं प्रविष्टा नलसेतो रन्यः प्राक् सिद्धः सेतु रुक्त इति प्रतिभाति । नलसेतु- हि न नवटङ्कच्छिन्नाभि नापि केवलं शिलाभिः कृतः किन्तु तरुगुल्मलतादिसहित गिरिशिखरै गण्डपाषाणै रामायणसारसंग्रहस्तोत्रविवर्णम् ॥ PANESEAR ॥ श्च । उक्तं हि तत्रैव "तता विसृष्टा रामेण सर्वता हरि- यूथपाः । अभिपेतु महारण्यं हृष्टाः शतसहस्त्रशः ॥ ते नगा बगसंकाशाः शाखामृगगणर्षभाः। बभंजु नि- रास्तत्र प्रचकर्षश्च सागरम् ॥ ते सालैः साश्वकर्ण श्च तथा वंशैश्च वानराः । कुटजै रर्जुनस्तालै स्ति- लकै स्तिमिशैरपि।बिल्वकैः सप्तपर्णश्च कर्णिकार श्च पुष्पितैः । मुक्त श्चाशोकवृक्षश्च सागरं समपूर- यन् ॥ पुष्पिताना न्समूलारच पादपान् हरिसत्तमाः। इन्द्रकेतूनिवोद्यम्य प्रजहुर्हरयस्तरून् ॥ सालान् दाडि- मवृक्षाश्च नारिकेला विभीतकान् । वकुला न्ककुमा निम्बा समाजहु रितस्ततः॥ मेघाभैः पर्वतायैश्च तृणैः काष्ठै बंबन्धिरे । पुष्पितायैश्च तरुभिः सेतु बध्नन्ति वानरा” इति ॥ एवं पादपादिसहितैः पाषाणैः कृतः सेतु स्तात्कालिकसंचारमानोपयोगी न चिरंसिन्धो रुपरि स्थायीति नलसेतुतः सेतुबन्धोन्य इति स्फुटम्प्रति- भातीति विमर्शनीयं विद्वदिः । ननुकूर्मपुराणे सेतोःस्था- यित्वं दर्शितम् तथा स्कान्दे नागरखण्डेपि तत्र हि “यदि कश्चित्समायाति मनुष्योऽत्र कथंचन । मत्का- रणा न हन्तव्यः सर्वैरेव निशाचरैः ॥ तथा निशाचरा स्सर्व त्वया वाऱ्या विभीषण। मम सेतुं समुल्लंघ्यन ग- न्तव्यंधरातल" इतिश्रीरामचन्द्रवचनम्। “भविष्यन्ति रामायणसारसंग्रहस्तोत्रविवर्णम् । Altra । कलौ काले दरिद्रा नृप मानवाः । तत्र स्वर्णस्य लाभेन देवतादर्शनाय च ॥ नित्यञ्चैवा गमिष्यन्ति त्यक्ता रक्षः कृतं भयम् । तेषां यदि वधं कश्चिद्राक्षसः प्रा- पयिष्यति ॥ भविष्यति च मे दोषः प्रभुद्रोहाडवः प्र।तस्मात्किञ्चिदुपायन्त्वचिन्तयत्व यथा मम ॥ आज्ञाभंगकृतं पापंजायते न सुरोत्तम इति विभीषणस्य प्रतिवचनं प्रदयं "तस्य तद्वचनं श्रुत्वा तत्तः स रघु- सत्तमः। बाढमित्येव चोक्काथ चापं सज्जीचकार सः॥ ततस्तं कीर्तिरूपञ्चमध्यदेशे रघूत्तमः । अच्छिनत्सु- शितै णि देशयोजनविस्तृतम्"॥ इति मनुष्याणांद्रव्य- लोभा ल्लङ्कापर्यन्तगमनं माभूदित्येतदर्थं रघुनाथेनैव मध्यभागे सेतुच्छेदः कृत इति वर्णितम् । सत्यम्, कूर्म- पुराणोक्तं तावत्कल्पान्तरवृत्तान्तविषय मित्युक्तम् । नागरखण्डोक्तमपि कल्पान्तरवृत्तान्तविषयमेव । तत्र हि वैकुण्ठयात्रार्थं समाहानाय देवदूतागमनानन्तरं स्वयं वैकुण्ठयात्रां करिष्यता श्रीरामचन्द्रेण पुष्पक मारुह्य किष्किन्धामार्गेण सुग्रीवेण सह लङ्कां गत्वा तत्र दशरात्रिमुषित्वा प्रतिनिवृत्तिसमये सेतोरादि- मध्यान्तेषु रामेश्वराख्यं लिंगत्रयंप्रतिष्ठाप्य तत्रविभी- षणायेयं बुद्धिरुपदिष्टेति वर्णितम् । अतः कथाभेदा त्तदपि कल्पान्तरवृत्तान्तविषयमेव । कल्पान्तरसेतु ३२ रामायणसारसङ्गहस्तोत्रविवरणम् । । वित्प्रलयस्थायीति पुनः प्रवृत्ते कल्पे सेत्वन्तरनि- र्माणमुपपाते। शिवमन्दिरनिर्माणार्थं किञ्चिद्रं कृतः सेतुबन्धस्तु शिवाज्ञया कल्पान्तरेपि तिष्ठतीत्ये- तदुपपात इति न कश्चिद्वाविरोधः । “अबढ़पूर्व मितरै बध्वासेतुं महोदधौ । वृतोवानरकाठीभिः समु- त्तीर्य महार्णवम्" इतिभारतवचने सेतो रितरैः पूर्वम- बद्धत्वोक्तिस्तु पूर्वमपि रघुनाथेनैव कृतो नत्वितरै रित्येतदभिप्रायेणोपपदाते । अध्यात्मरामायणकृता तु "सेतुमारभमाणस्तु तत्र रामेश्वर शिवम् । संस्था- प्य पूजयामास रामा लोकहिताय च ॥ प्रणमेत्से- तुबन्धं यो दृष्टा रामेश्वरं शिवम् । ब्रह्महत्यादि- पापेभ्यो मुच्यते तदनुग्रहात्" इति नलसेत्वारम्भसमये रामेश्वरप्रतिष्ठा वर्णिता । प्रतिप्रयाणसमये च "एष सेतु र्मया बटुः सागरे सलिलार्णवे । एतत्तु दृश्यते तीर्थ सागरस्य महात्मनः ॥ सेतुबन्ध इति ख्यातं त्रै- लोक्येन च पूजितम् । एतत्पवित्रं परमं दर्शनात्पा- तकापहम् ॥ अत्र रामेश्वरी देवो मया शम्भुः प्रति- ष्ठितः" इति सीतां प्रति श्रीरामचन्द्रोक्तिवर्णनेन च तद्रुढीकृतम् । तदित्थं पुराणान्तरं दृष्ट्रा वर्णितम् । सेतुबन्ध इति ख्यातं त्रैलोक्येनाभि पूजितमित्यादि- वाल्मीकीयरामायणवचनसन्दर्भाभिप्रायमित्थमुन्नीय । Appy
रामायणसारसहस्तोत्रविवणम् ।
१३
वर्णितंवेति न विनः । उदाहृतवाल्मीकीयरामायण-
वचनसन्दर्भस्यापि नलसेतुनिर्माणारम्भसमये रामे-
श्वरप्रतिष्ठा कृतेत्यभिप्रायकल्पने सेतुबन्धनिर्माणपू-
र्वकं तत्ररामेश्वरं प्रतिष्ठाप्य सेतुबन्धरामेश्वरदर्शने
महाफलत्त्वञ्च नोरामचन्द्रेण नियतमिति ततः प्रभृति
महापातकनाशनमिदन्तीर्थ त्रैलोक्येनाभिपूजितम् इह
रामेश्वरश्च रावणवधसिध्यर्थं प्रसन्नोभूदित्येतदर्थतया
स्वारस्यं भजत एव । अस्मिन्पक्षे रामेश्वरदिव्यम-
न्दिरपर्यन्तं सेवार्थिनां गतागतसौकर्याय ठङ्कच्छिन्न-
पाषाणैः स्थायिन सेतुबन्धं निर्माय स तदने स्कन्धा-
वारं निवेश्य ततः प्रभूति तात्कालिकस्वसेनागता-
गतोपयुक्तं सेतुं तरुगुल्मादिसहितैश्शैलशिखरादिभि
नलेन कारयामासेति योजनीयम् । वाल्मीकीये हि
रामायणे प्राचीनवृत्तान्तस्य पश्चादुद्घाटन मन्यत्रापि
दृश्यते यथा काकवृत्तान्तस्य यथा वा रावणगृहा-
षितसीतार्थपायसप्रेषणवृत्तान्तस्य यथा वा अन्धमु-
निकृतदशरथशापवृत्तान्तस्य एवं सेतुबन्धनिर्माण-
वृत्तान्तस्यापि भविष्यतीति न काचिदनुपपत्तिः । सेतु-
बन्धसाधारण्येन नलसेतुत्वव्यवहारस्तु पश्चादुभयो
रेकीकरणानलसेतुभागभून्नोपपद्यते ॥६॥
रामायणसारसङ्गहस्तोत्रविवरणम् । श्रीरामचन्द्रचरितविशेषैस्तस्य शिवे भक्त्यतिशया- भिव्यक्तिमावि-कर्तुं तानेव-चरितविशेषान् श्लोक- त्रयेण निबध्नानि श्रान्तरसुदीर्घत्यादिना- श्रान्तः सुदीर्घसमरेण रघुप्रवीरः । चिन्ताकुलः कलशयोनिकृतोपदेशः। ब्रह्माच्युतविणयनेश भैवत्स्वरूपम् स्तोत्रेण यद्रिपुजयाय रविं प्रपन्नः॥७॥ रक्षोधिपो निहत एव दिवं प्रयाहि । कार्य कृतं खलु न इत्युदिते विधात्रा। राज्यस्थितः कुरु तुरङ्गममेधयज्ञम् । इत्युक्तिमेव जगृहे तव यच्च शम्भो ॥८॥ इक्ष्वाकु वंश भवराज्य पदे निविष्ट । स्त्वामेव यच्च सुचिरं हयमेधकृप्त्या। ईजे कथान्तरगिरा शिव ते न चैकी। यष्टव्य इत्यवरजस्य निरस्य भावम् ॥९॥ १ बहुकालयुद्धेन । २ रामचंद्रः। ३ अगस्त्येन कतः आदित्यहृद- योपदेशो यस्य । ४ त्रिमूर्त्यधिपतिशिवशरीररूपम् । ५ आदित्य- हृदयाख्येन । ६ रावणः । ७ दुःखनिवृत्तरूपं कार्यम्। ८ अस्माकं ब्रह्मादिदेवानाम् । इत्थमुक्ते सत्यपि। १० ब्रह्मणा । मेधयज्ञम् । १२ विष्णः। १३ लक्ष्मणस्य ॥ । - रामायणसारसङ्गहस्तोत्रविवरणम् । FAIRS । रावणयुद्धसमये "ततो युद्धपरित्रान्तं समरे चिन्त- यास्थितम् । रावणचाग्रतो दृष्टा युद्धाय समुप- स्थितम् ॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद्राममगस्त्योभगवानृषिः” इत्युपक्रम्या अगस्त्यकृतादित्यहृदयोपदेशं प्रदर्य श्रीरामचन्द्रस्त- दुपदिष्टादित्यहृदयस्तोत्रं जप्त्वा तद्विश्वासेन चिन्तां विहाय हर्षेण रावणवधोयुक्त आसीदिति प्रपउिच- तम् । आदित्यहृदयच शिवविषयम । "ब्रह्मेशाना- च्युतेशाय सूर्यायादित्यवर्चसे। भास्वते सर्वभक्षाय रौद्राय वपुषेनम"इत्यादित्यस्य त्रिमूर्त्यधिपतित्वमुक्ता तदुपपादनाय रौद्राय वपुष इति स्तोत्रस्यादित्यान्त- र्यामि शिवपर्यन्तत्वाविष्करणात् । “नमो हिरण्य- बाहवे हिरण्यपतयेम्बिकापतय उमापतये नमो नमः॥ प्रसौयस्ताम्रो अरुण उतबभ्रुः सुमङ्गलः ॥ नमोहमायन् महाई यमोहमायेत्यादित्योपासनार्थवैदिकमन्त्रभा- गानामादित्यान्तर्यामि शिवपर्यन्तत्वदर्शनेन वेदेोप- वृंहणार्थ रामायणे पठितस्यादित्यहृदयस्यापि तत्प- यन्तत्वावश्यंभावाच्च । रावणवधानन्तर मग्निप्र- वेशितां सीतां ग्राहयितु समागतेषु देवेषु ब्रह्मणा प्रति- पादितम्"तदिदंनाकृतं कार्य त्वया धर्मभृतांवर। निह- तोरावणीराम प्रहृष्टो दिवमाक्रम"इति तदनन्तरंशिवेन १६ रामायणसारसंग्रहस्तोत्रविवर्णम् । तु। “प्राप्य राज्यमयोध्यायां सान्त्वयित्वा सुहृज्जनम्। इक्ष्वाकूणां कुले राज्य स्थापयित्वा महाबल ॥ इष्ट्वा तुरगमेधेन प्राप्यचानुत्तमं यशः । ब्राह्मणेभ्योधनं द- त्वा त्रिदिवं गन्तुमर्हसि” इत्युक्तम् ॥ तत्र ब्रह्मवचन- मनादृत्य शिववचनमेवाङ्गीकृतं । तदडीकृत्यायोध्यां प्राप्य राज्यं परिपालयता च शिवोपदेशं मनसि नि- धायाश्वमेधः कृतः । अश्वमेधेन शिव एवाराधितः कथमिदं ज्ञायते शिव एवाराधित इति ॥ अश्वमे- धोद्योगसमये प्रागश्वमेधेन विष्णु राराधित इति प्रा- चीन कथोपन्यासेन लक्ष्मणस्य चिकीर्षितेनाश्वमेधेन विष्णु राराधनीय इति भावं विदित्वा तेन शिव प्रा. राधित इति रघुनाथः कथान्तरोपन्यासेन "नान्यं पश्यामि भैषज्य मन्तरेण वृषध्वजम् । नाश्वमेधात्प- रो यज्ञः प्रियश्चैव महात्मन" इति कथान्तर्गतवचनो- पन्यासेन च स्वयमश्वमेधेन च शिव आराधनीय इति स्वाशयमाविश्चकार । तथैव ऋत्विग्भिरपि शिवप्रीत्यर्थमेवाश्वमेधः कारित इत्येतत् । ते तु राम- वचः श्रुत्वा नमस्कृत्य वृषध्वजम् । अश्वमेधंद्विजाः सर्व पूजयन्तिस्म नित्यश" इतिश्लोकेन व्यज्जितम् । अतः श्रीरामचन्द्रःशिवमेवाराधितवानिति ज्ञायते ॥९॥ एतैश्चरितविशेषैः श्रीरामचन्द्रस्य शिवे दृढाभक्ति रामायणसारसंग्रहस्तोत्रविवरणम्। १७ राविष्कृतेत्युक्तिपूर्वकं कवेरपि शिवस्य महिमातिशये तात्पर्य तदीयवचनार्थलिङ्गेन दर्शयति एतैरिति । एतै स्त्वयि प्रकटिता रघुनन्दनस्य। भक्तिः स्थिरा परतरत्वमतिश्च नित्या। सुव्यक्तमौदि कविना स्वयमात्मनश्च । रुद्रस्स विष्णुरिवचेत्युपमोक्ति भंग्या॥१०॥ कृताभिषेकः स रराज रामः सीताद्वितीयः सह लक्ष्मणेन । कृताभिषेको गिरिराजपुत्र्या रुद्रःसविष्णु- भगवानिवेश इत्युपमानिबन्धनेन कविरपि स्वयं शि- वः सर्वातिशायिमहिमाशालीति स्वतात्पर्यमाविश्च- कारेत्यर्थः ॥ १०॥ अथ कवेः शिव एव सर्वजगन्नियन्ते त्यत्र तात्पर्य हेतुभिराविष्कतुं ततावत्प्रतिजानीते संवत्सरमिति ॥ संवत्सरं वरद वासयितुं प्रसत्तः। सीता दशाननगृहे जगतांनियन्तुः। संकल्प एव तव तहसते रबोधे । रामस्य हेतुरिति भावममुष्य मन्ये ॥११॥ १ पूर्वोक्त हेतुभिः । २ वाल्मीकिना। ३ शिवस। ৪ নিস্তান। ५ वाहनीकः ॥
रामायणसारसंग्रहस्तोत्रविवरणम् ॥ DHAND सीतारामयोर्विप्रयोगं संवत्सरमनवर्त्तयिषोरीश्व- रस्य सङ्कल्प एव रामस्य रावणवसत्यबांधे हेतुर्वाल्मी- केराशयस्थित इत्येतत्कुतो ज्ञायत इत्याशंक्य, अवश्य जिज्ञासितं रावणनिलयमेव रघुनाथेन सादरंपृष्टैस्त- ज्जानद्विरत्याप्तैरपि जटायुकबन्धसुग्रीवैरनुक्तत्वात रामस्य तन्जिलयावबोधे संवत्सरविप्रयोगाऽनिर्वाहा- च्चेति श्लोकद्वयेनाह सीतेत्यादिना ॥ सीतापहार मवलोक्य रघूत्तमाय । युनजात्विति मुनिर्विदितत्वदाज्ञः । पृष्टोयदस्य रघुचन्द्रमसा निवास । मुक्तागतः खंगपतिः कियदन्यदन्यत्॥१२॥ संसूच्यवक्ष्य इति नाह कबन्ध ऐत। दज्ञानमभ्यनय दत्र च सूर्यसूनुः । उक्तं हि तत्र भगवन्ननिमित्त मन्य । संकल्प एव भवतःशिव तस्य दृष्टिः॥१३॥ ज्ञाते रिपुं रघुपति लघु संजिहीर्षे । द्यः क्रोधतः समजिहीर्षदशेषलोकान्। १रावणस्य। २ रामचन्द्रण। ३ जटायुः। ४ वादये इति सूचनं कृत्वा। ५ रावणनिलयं । ६ रामचन्द्रप्रश्नविषये। ७ सुग्रीवः॥
रामायणसारसंग्रहस्तोत्रविवरणम् । १९ मोघो भवेच्छिव तदा निहते रिपौते। संकल्प एव सहते तु तदीयबाणः ॥ १४॥ जटायुसमागमे तावदेवं प्रश्नोत्तरे । जटायो यदि शक्रोषि वाक्यं व्याहरितुं पुनः ॥ सीतामाख्याहि भद्रं- न्ते वधमाख्याहि चात्मनः । किं निमित्तं हरेत्सीतां रावणस्तस्य किं मया ॥ अपराहन्तु यदृष्ट्रा रावणेन हृता प्रिया। कथन्तञ्चन्द्रसंकाशं मुखमासी न्मनोह- रम् । सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम। कथं वीर्यः कथं रूपः किं कर्मा स च राक्षसः। क चास्य भवनन्तात ब्रूहि मे परिपृच्छतः। तमुदीक्ष्याथदीनात्मा विलपन्तमनाथवत् ॥ वाचातिसन्नयारामं जटायुरिद मब्रवीत् । साहृताराक्षसेन्द्रेण रावणेन विहायसा।माया मास्थाय विपुलां वातदुनिसंकुलाम् । परिवान्तस्य मे तात पक्षौच्छित्वाच राक्षसः। सीतामादाय वैदेही प्रया- तो दक्षिणां दिशम् । उपरुध्यन्ति मे प्राणा दृष्टिर्भमति राघव। पश्यामि वृक्षान्सौवर्णानुशीरकृतमूढजान्॥ येन- यातिमुहूर्तेन सीतामादाय रावणः। विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपाते। विन्दो नाम मुहूर्तीयं स च काकु- स्थ नाबुधत्॥ भषवबडिशंगृह्य क्षिप्रमेव विनश्यति । व्यर्थः । २ रामचन्द्रस्य बाणः ॥
२०
रामायणसारसङ्गहस्तोत्रविवरणम् ।
।
॥
न च त्वया व्यथा कार्या जनकस्य सुतां प्रति । वैदेह्यारं
स्यसे क्षिप्रं हत्वा तं राक्षसं रणे। असंमूढस्य गृध्रस्य राम
प्रत्यनुभाषतः। आस्यात्सुखाव रुधिरं म्रियमाणस्य सा-
मिषम् । पुत्रो विश्रवसःसाक्षाददाता वैश्रवणस्य च ।
इत्युक्ता दुर्लभान्प्राणान्मुमोच पतगेश्वरः॥ ब्रूहिब्रूहीति
रामस्य वाणस्य कृताञ्जलेरिति ॥ कबन्धसमागमे तु
"रावणेन हृताभार्या ममसोता यशस्विनी। निष्कांतस्य
जनस्थाना सहभ्रात्रा यथासुखम्। नाममात्रन्तु जा-
नामिन रूपन्तस्य रक्षसः । निवासं वा प्रभाव वा वयं
तस्य न विद्महे। शोकार्तानामनाथानामेवं विपरिधा-
वताम्। कारुण्यञ्चेदृशं कर्तुमुपकारे च वर्तताम् । का-
ष्ठान्यानीय शुकाणि काले भग्नानि कुज्जरैः।धक्ष्या-
मस्त्वा महाभाग श्वझे महति कल्पिते। सत्वं सीतां
समाचक्ष्व यत्र वा येन वा हृता। कुरु कल्याणमत्यर्थं
यदि जानासि तत्वतः ॥ इति प्रश्नः । तत्र कबन्धस्यो-
त्तरम् "दिव्यमस्तिनमे ज्ञानं नहि जानामि मैथिलीम् ।
यस्ता ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः ।
अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रओ। राक्षसं
तमहावीर्य सीता येन हृता तव । विज्ञानं हि महदभ्रष्ट
शापदेोषेण राघव । स्वकृतेन मया प्राप्तं रूपं लोकवि-
गर्हितम्। किन्तु यावन्नयात्यस्तं सविता श्रान्तवाहनः।
।
।
रामायणसारसहस्तोत्रविवरणम् । तावन्मामवटे क्षिप्त्वा दह राम यथाविधि । दग्धस्त्व- याहमवटे न्यायेन रघुनन्दन। वक्ष्यामि तंमहावीर यस्तं ज्ञास्यति राक्षसं । तेन सख्यञ्च कर्त्तव्यं न्यायवृत्तेन राघव । कल्पयिष्यति ते वीर साहाय्यं लघुविक्रमः । नहि तस्यत्वविज्ञातं त्रिषुलोकेषु राघव। सर्वान्परिसृतो लोकान् पुरावैकारणान्तरे, इति ॥ ततो राक्षसदेहदा- हानन्तरं शापमुक्तेन प्राचीनं स्वरूपमास्थाय विमान- मधिरुह्य गतेन तेन “घूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः ॥ इत्युपक्रम्य तस्य चरित्रमप्युपन्यस्थ "स ते सहायो मित्रचसीतायाः परिमार्गण। भविष्यति हि तेराम माचशीके मनः कृथाः। भवितव्यं हि यच्चापि न तच्छक्यमिहान्यथा। कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः। गच्छशीधुमितावीर सुग्रीवं त्वं महाबलं। वयस्यं तं कुरु क्षिप्रमितोगत्वाद्य राघव । इत्यादीनिचो- क्ला “स हि स्थानानि सर्वाणि कात्स्न्यैन कपिपुङ्गवः । न तस्य विदितं लोकेकिञ्चिदस्ति हि राघव। यावत्सूर्यः प्रतपति सहस्त्रांशुररिन्दम। इति प्रागुक्तार्थ एवाऽनूदि- तः। सुग्रीवसमागमेतु “कवा वसति तद्रक्षो महवपसनदं ममा यन्निमित्तमहं सर्वान्मारयिष्यामि राक्षसान्। हरता मैथिली येन माजरोषयता भृशम् । आत्मनो जीविता- न्ताय मृत्युद्वारमपावृतम्। इति प्रश्नः, ततः सुग्रीवस्य २२ रामायणसारसङ्गहस्तोत्रविवरणम् । DMATOETRO प्रत्युत्तरम् “न जाने निलयं तस्य सर्वधा पापरक्षसः। सामर्थ्य विक्रमं वापि दौष्कुलेयस्य वा कुलमिति । इह जटायुर्बाह्याभ्यन्तर चिन्हः क्षणान्तरेपि स्वस्य जीवनानुवृत्तर्लिभ्यं संभावयन् व्याहरणशक्तिकाल एव रावणवधे त्वरितस्य नोरामचन्द्रस्य, प्रश्नविषयेषु, अवश्यजिज्ञासितरावणनिलयप्रश्नस्यैव प्रथममुत्तरं वक्तव्यमिति स्वयमेव ज्ञातुं शक्तोपि तद्वतुमिवोपक्रम्य तदपृष्टं दर्शनादिकमन्यदन्यदेवाह ॥ ततो विश्रान्ति समये "पुत्रो वित्रवसः साक्षादाता वैश्रवणस्य चेत्ये- तावदेवोक्तूा, इतः परं रावणनिलयवचनं प्राप्तकाल- मासीदिति चिन्तयत्यपि राघवे दिष्टं गतः॥ कबन्धोपि सीतां रावणनिलयं च पृष्टः प्राग्दिव्यरूपेण सञ्चार काले सकलदेवगन्धर्वादिप्रसिद्ध रावणं जानन तद्विभा- वनाय विशेषतो नाभिजानामि मैथिलीमित्युक्ता रावणं तु जानामीति विभावयन् ॥ अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो। राक्षसं तं महावीर्य सीता येन हृता तव ॥ विज्ञानं हि महद्दष्टं शापदोषेण राघव" इत्युक्तिभंग्या दहनेन शापमोक्षं पूर्वविज्ञानं च प्राप्य तदनन्तरं रावणं तन्जिलयउच वक्ष्यामीति सूचयित्वा पुनस्तदैव "वक्ष्यामि तं महावीर यस्तंज्ञास्यति राक्षस मिति स्वयं रावणंन वक्ष्यामि तज्ज्ञातारमन्यं वक्ष्यामीति रामायणसारसङ्गहस्तोत्रविवरणम् । २३ पूर्वसूचितार्थ मुता, सुग्रीवमेव तज्ज्ञातारं तेन यत्र क्वचिन्निवेशितायाःसीताया मार्गणे समर्थं च सामान्यतो विशेषतश्च प्रपञ्चेन जगाद ॥ सुग्रीवस्तु पृष्ठः सर्व प्रकारेणापि रावणं तन्निलयं च जानन्नव कथमपि न जानामीति ज्ञानमपललाप ॥ स जानातीत्येतचच कबन्धवचनैः सुविदितमेव ॥ चतसृष्वपि दिक्षु मार्गि- तव्यान् पुरगिरिसागरादीनुपदिश्य, “अभास्करमम- Uदन्न जानीमस्ततः परमिति तद्वचनेन च विदितम् उत्तररामायणे हि सुग्रीवस्य रावणतत्प्रभावतन्निल- यादिदृढपरिज्ञानसद्भावः स्पष्टीकृतः ॥ तत्र हि, अग- स्त्येन रघुनाथम्प्रति वालिना बलादगृहीत्वा कि- ष्किन्धाभ्याशं नीतस्य रावणस्य बालिनासहाऽग्नि साक्षिकसख्यप्राप्तिमुक्ता ह्युक्तम् ॥ अन्योन्यलंबित- करौ ततस्तौ हरिराक्षसौ ॥ किष्किन्धां विशतो हृष्टी सिंहौ गिरिगुहामिव ॥ स तत्र युषितो मासं सुग्रीव इव राक्षसः॥ अमात्यैरागतै तस्त्रिलोक्युत्सादनार्थिभिः॥ एवमेतत्पुरा वृत्तं वालिना रावणः प्रमओ। धर्षितश्च कृतश्चापि भ्राता पावकसन्निधौ” इति ॥ एवं युव- राजः सुग्रीव इव वालिनो बहुमानपात्रतया मास- मात्रं सहस्थितः, ततस्त्रैलोक्यविजयार्थममात्यैः- तश्च ॥ तस्य स्थानविक्रमादिकं सुग्रीवो न जानाती रामायणसारसहस्तोत्रविवरणम् । ॥ त्येतदत्यन्ताऽसंभावितमेव ॥ तेन सर्वधा न जानामि किञ्चिज्जानामीत्यर्थ इति शंकापि निरस्ता॥ अति सौहृदेन परिचये सर्वप्रकारेणापि ज्ञानस्याऽवश्यम्भा- वात् ॥ तदर्थकल्पनेपि यावज्जानाति तावतस्तदेव व- क्तव्यत्वापत्तैश्च ॥ यत्तुहनुमदादीन् दक्षिणसमुद्रं प्रेष- यता दक्षिणस्यां दिशि सीतान्वेषणाय तत्रत्यान्वेष- णीयस्थानान्युपदिशता लङ्कामतीत्यस्थितं गव- त्यादिकं वदतापि विशिष्यलङ्का नोक्ता तत्प्राकृतस्व ज्ञानापलापनिर्वाहाय, चतसृष्वपि दिक्षु सीतान्वे- षणार्थमप्रसिद्धान्यपि स्थानान्युपन्यस्यन्, अति प्रसि- द्वो लडां न जानातीत्यत्यन्ताऽसंभावितमेतत् ॥ अतएव युक्तापलापनिर्वाहाय वालिसामर्थ्य रामेण पृष्टः सुग्रीवस्सर्वविधमपि वालिनः पराक्रमं प्रपंचेन वर्णयन्त्र पिवालिना गृहीत्वा किष्किन्धों नीत इत्यमुमंशंनोक्त- वान् ॥ एवं सर्वात्मना स्वस्य रावणनिलयादिज्ञानं गूहमानापि दक्षिणस्यां दिशि हनुमदादिप्रेषणसमये इदानीमपि गृहिते मित्रकार्य न सिध्येदिति स्वज्ञान- माविश्चकार ॥ तत्र हि दक्षिणसमुद्रवर्णनानन्तरमुक्तं "द्वीपस्तस्य परे पारे शतयोजनविस्तृतः ॥ अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः॥ तत्र सर्वात्मनासीता मार्गितव्या विशेषतः । स हि देशस्तु वध्यस्य रावणस्य
रामायणसारसङ्गहस्तोत्रविवरणम् ।
२
दुरात्मनः ॥ राक्षसाधिपतेर्वासः सहलाक्षसमधुतेः ।
इति ॥ अत्र पूर्व स्वज्ञानं गृहितमिति वीडया रावण
वासस्य लड्डेति नाममात्र नोक्तम् ॥ एवं च यद्गृध
राजः स्वयं दशरथस्थानीयोपि प्रथमवक्तव्यं व्याहरण
शक्तिकाले नावदत् ॥ यच्च कबन्धसुग्रीवौ कृतकरिष्य
माणमहोपकारौ तनावदताम् ॥ तत्र दृष्टः कश्चन
हेतुरस्तिचेत्कविनाऽवश्यमुच्येत, तदनुक्त्या तदभावं
निश्चित्य परमेश्वरसंकल्प एव तत्र हेतुर्विवक्षित इति
सहृदयाःस्वयमेव ज्ञास्यन्तीत्यभिप्रेत्य तेषामवचनमात्रं
कविर्निवबन्धेति निश्वीयते॥ न च तेषां रावणनिलया-
दीनामधिगमेपि सेतुबन्धादिकार्येषु सहायान्वेषणार्थ
कालविलम्बो भवेदिति तत एवान्यथासिद्धः कथं तेषा
मवचनं परमेश्वरसंकल्पैकायत्तं सहृदया निश्चिनुयु
रिति शंकनीयम् ॥ एतच्छंकावारणार्थमेव कविना जन
स्थाने सीतामन्वेषमाणस्य रामस्य तेन गन्धर्वादिषु
सीतां केपि न प्रदर्शयन्ति न प्रयच्छन्ति चेति महता
क्रोधेन कृत्स्नस्थापि त्रैलोक्यस्य खिलीकरणार्थ शर
सन्धानपर्यन्तं व्यापारमुक्ता ततो लक्ष्मणकृतेन प्रसा-
दनेन “एकस्य नापराधेन ल कान्हन्तुं त्वमहसीत्युक्त्या
तस्य ततो निवृत्तिरुक्ता ॥ अनेनाऽऽकर्णितेन सहृदयाः
श्रीरामो रावणवधे सहकार्यतरं नेच्छेदित्यवगमादुक्त
HTANTRAAMANE
Ramailo
Mig
OP0
२६ रामायणसारसहस्तोत्रविवरणम् । Tatai शंकारहिताः सन्तस्तेषामवश्यमुनिवचनविरोधे परमे- श्वरसंकल्पमेव हेतुं विवक्षितं ज्ञास्यन्तीति ॥ अनेन साक्षान्नारायणस्यैव लक्ष्मीविप्रयोग चिरमनुवर्तयितुं कृतसंकल्पः परमेश्वरीनारायणादन्योऽभवत॥पूर्वापर सन्दर्भेषु नारायणादप्यधिकमहिमेति व्यजितः शिव एव विवक्ष्यत इति ज्ञास्यन्तीति कवेराशय इत्यर्थः ॥ ननु परमेश्वरः किमर्थं रावणगृहे सीतां संवत्सरं वासयितुं संकल्पयामासेति चेत्, उच्यते, महता तपसा युक्तस्तपोवीर्यभ्रंशं कारयित्वा रघुनाथमुखेन हन्तव्यः, तत्तपोवीर्यभ्रंशश्च चिरं तत्र सीता वासनेनैव लभ्यते, तद्वासे हि तस्यां निरन्तरं मोहितात्मा सर्व तप- स्त्यजेत्, तदानीं रघुनाथेन हन्तुं शक्यो भवति नान्य- थेत्येतदभिप्रायेणैव भगवता वाल्मीकिना जटायु वधानन्तरं, "तां लतामिव वेष्टन्तीमालिकती महा- द्रुमान् ॥ मुञ्च मुञ्चेति बहुशः प्रबदन् राक्षसेश्वरः ॥ कोशन्ती राम रामेति रामेण रहितां वने ॥ जीवि- तान्ताय केशेषु जग्राहान्तकसनिमः । इति, रावणेन प्रसह्य सीतायाः केशग्रहणं कृतमित्युत्ता दृष्ट्वा सीता परामृष्टां दीनां दिव्येन चक्षुषा । कृतं कार्यमिति श्रीमान् व्याजहार पितामहः । इति, तदानीन्तनकेश ग्रहणानन्तरमेव रावणवधेन देवकार्य सिद्धं ब्रह्मा रामायणसारसङ्गहस्तोत्रविवरणम् । २७ निश्चिकायेत्युक्तम् यदा प्रथमं पर्णशालायां केश ग्रहणादि कृतं तदा स निश्किायेति नोक्तम् ॥ तत्रापि केशग्रहणादिर्महान मानभङ्ग उक्तः ॥ अभिगम्य प्रह- ष्टात्मा राक्षसः काममोहितः । जग्राह रावणः सीतां ग्रहः खे रोहिणीमिव । बामेन सीतां पद्माक्षी मूईजेषु करेण सः ॥ ऊर्वास्तु दक्षिणेनैव परिजग्राह पाणिना, इति ॥ तदानों ब्रह्मणो देवकार्यसिद्धिनिश्चयमनुक्ता जटायुवधानन्तरं केशग्रहणं दृष्टा तस्य तन्निश्चय मुक्तवन्तः कवेराशयः, यद्यप्यायेन महता महिषीमान भनैवातिक्रुद्धस्य रामचन्द्रस्य रावणजिघांसा भवेत तथापि तपोबलसमन्वितस्य तस्य सीतायास्तगृहे वासनेनैव तपो नाशो भविष्यति “सीताञ्च तात रक्षिष्ये त्वयि याते स लक्ष्मण इति, यदि जटायुना रावणमार्ग वसता रावणं जित्वा सीता मोचिता स्यात् तदा राव- णगृहे तन्निवासालाभात्सकृत्कृतेन महिषी मानभङ्गेन पुनरपि कदाचिनिजसन्निधानाभावे मायया समागत्य सीतामपहरेदिति शंकया राघवस्य सर्वात्मना रावण वधार्थविज़म्भणसंभवेपि तपोबलसमन्विते तस्मिन् तद्विजृम्भणं न भवेदिति प्रारब्रह्मणस्तन्निश्चयो न जातः । जटायुप्रयुक्तविधूनिवृत्तौ जात इति ॥ एवं तपोबलसमन्विता रावणस्तदुगृहे सीतावासनेन MEDIAS OTES aroMORNO COMGOD
२८
रामायणसारसंग्रहस्तोत्रविवरणम् ।
natured
WALL
MOONAMENT
तभ्रंशनं विना हन्तुं न शक्य इति स्वान्दे केदारखण्डे
स्पष्टीकृतम् ॥ तत्रोवमुपाख्यायते, रावणेन निर्जि-
ताः सर्वे देवास्तधोपायं मन्त्रयामासुः, तदाभगवा
नारायणस्तदीयं स्वमू पहारपर्यन्तशिवाराधनरूपं
तपःप्रभावं वर्णयित्या भवदिस्ततीधिकं तपः कृत्वा
सजेतव्य इत्युवाच, तेपि तथा भूतं तपः कर्तुमशकुवन्तः
शिवं प्रसादयितुं शिवलोकं जग्मुः, तत्र शिवराजधा-
नीपूरःस्थितेन नन्दिकेश्वरेण । क यूयं क शिवः
शम्भुस्तपसा परमेण हि॥ द्रष्टव्यो यदि मध्यस्थः सो
स द्रष्टुं न पार्यते । यावभावा अनेकाश्च इन्द्रि-
यार्थास्तथैव च ॥ यावच्च ममताभावस्तावदीशोपि
दुर्लभ इति शिवदर्शननैराश्य बाधिताः। ततो
रावणवधोपायं नन्दिकेश्वरः स्वयमुवाच । अपहासपरं
वाक्यं पौलस्त्यस्य श्रुतं यदा । तदा मया च शप्तोसौ
रावणो लोकरावणः । ईदृशान्येव वक्त्राणि संभवि-
यन्ति येषुवै ॥ तैः समेतो महान् कापि नरवों महा-
तपाः ॥ मां पुरस्कृत्य सहसा हनिष्यति न संशयः ॥
एवं शप्तो मया ब्रह्मन् रावणो लोककण्टकः ॥ अर्चितं
केवलं लिङ्गं परमेण समाधिना । पिंडिकारूपसंस्थान
विना तेन सुरोत्तमाः ॥ विष्णुना हि महाभागाः स
वः सर्व विधास्यति । देवदेवो महादेवो विष्णुरूपी
THURSHAHIRENERNATISPres
JASTRARESHEETAITA HARImeaneamARMANEERIOSeemaramananesamanarmewani
বালাঅামায়ামমতা। २९ सर्व देवानों महेश्वरः । सबै यूयं प्रार्थयध्वं विष्णुं सर्वगुहाशयम् ॥ अहं च पुरोवर्ती भवामि व इति ॥ ततस्तथैव नन्दिकेश्वरसमन्विता देवा वैकुंण्ठं गत्वा भगवन्तं प्रार्थयामासुः, तान्प्रति भगवानेवमुवाच ॥ शैलादि च पुरस्कृत्य सर्व यूयं त्वरान्विताः ॥ अवता- रान्प्रकुर्वन्तु वानरीन्तनुमाश्रिताः ॥ अहं च मानुषो भूत्वा अज्ञानेन समन्वितः ॥ संभविष्याम्ययोध्यायां गृहे दशरथस्य च । ब्रह्मविदा सहायोहं भवतां कार्य सिद्धये॥ जनकस्य गृहे साक्षादब्रह्मविया जनिष्यते । भत्तो हि रावणः साक्षाच्छिवध्यानपरायणः ॥ तपसा महता युक्तो ब्रह्मविझां यदेच्छति ॥ तदा तदुभयचष्टं रक्षा भवति तत्क्षणात् ॥ सर्वेश्वरे न भक्तः स्यान्तस्या वीक्षणतत्पर इति ॥ ततः सर्वे सुरगणा अवतारपरा भवन् । वालिरिन्द्रांशसंभूतः सुग्रीवो भास्वतः सुतः ॥ तथा ब्रह्मांशसंभूतो जाम्बवान् कपिकुञ्जरः॥ शिलाद तनयो नन्दी शिवस्यानुचरः प्रियः। एकांशेन महाभागो हनुमान् स महाकपिः । अवतीर्णाः सहायार्थ विष्णो रमिततेजसः, इति च । अतः परमेश्वरः स्वानुचर नन्दिप्रतिज्ञापरिपालनार्थं रावणवधोपायमुपदिष्टवतः पश्चादज्ञानं परिगृय रघुनाथरूपेणावतीर्णवतः स्व-: मूत्यैकरूपस्य नारायणप्रतिज्ञापरिपालनार्थञ्च चिरं ZAMINORITERTISARONUPPtuacawwaHAPuwwwsANIKETPSRAELOmammaNIKAnaamRGANIEOSHINETIREMENDHAR STARTwwwmasTHANEVERememmmmmswammaNARIHARANI SAHAN 825ARMPAESARMANISHORE रामायणसारसङ्कहस्तोत्रविवरणम् । रावणगृहे सीताया वासनं संकल्पयामासेति युक्तमेव ॥ एवञ्च श्रीरामचन्द्रोऽवबुध्यतेचेत् तदानीमेव रावण संजिहीर्षयाबाणान् संदध्यात् तेन रावणवधनिर्वृत्ती स्वसंकल्पवैतथ्यं तदनिवृत्तौ रामबाणस्य मोघतेति दोषद्वयस्यापि परिहारार्थं तदवबोधद्वाराणि परमेश्वर एव निरुरोधेति तात्पर्यम् ॥ १४ ॥ अथ हेत्वन्तरेणापि शिवस्य सर्वनियन्तृत्त्वे कवे- स्तात्पर्यमाविष्करोति तत्रेति ॥ तत्रोद्यते सकलसंहरणाय भीत्या। सद्यो दशाननवधोस्त्वितिवाञ्छया च ॥ यन्नाह रोपितशरं तमुपेत्यदेव । स्तंत्रापि सर्वजगदीश स एव हेतुः ॥१५॥ रघुनाथे क्रुधा देवासुरमानुषादिसकलत्रैलोक्यसं- हरणाय कृतबाणसन्धाने देवासुरादीनां सर्वेषामपि महतीभीतिरुत्पतेव । तस्य हि क्रोधस्वैलोक्यसंह- रणप्रतिज्ञा तदर्थ बाणसन्धानञ्चैवं वर्णितानि । न धर्मस्त्रायते सीतां हियमाणां महावने । भक्षितायांह वैदेह्यां हृतायामपि लक्ष्मण ॥ के हि लोके प्रियं कर्तुं १ रामचन्द्रं । २ देवानामनुक्तिविषयेपि । ३ ईश्वरसंकल्प एव ।
रामायणसारसङ्गहस्तोत्रविवरणम् । शक्ताः सौम्य ममेश्वराः। कर्तारमपि लोकानांशूरं करुण वेदिनम् । अज्ञानादेवमन्येरन् सर्वभूतानि लक्ष्मण । मृदुं लोकहिते युक्त दान्तं करुणवेदिनम् ॥ निर्वीर्य इति मन्येरन्नूनं मांत्रिदशेश्वराः । मां प्राप्य हिगुणो दोषः संवृत्तः पश्य लक्ष्मण ॥ अद्यैव सर्वभूतानां रक्षसां विल- याय च । संहृत्यैव शशिज्योत्स्ना महान्सूर्य इवोदितः ॥ संहृत्यैव गुणान्सर्वान्मम तेजः प्रकाश्यते । नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः ॥ किन्नरा वा मनु- प्या वा सुखं प्राप्स्यति लक्ष्मण । ममास्त्रवाणसंपू- र्णमाकाशं पश्य लक्ष्मण । निःसंपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् । सन्निरुद्धग्रहगणमावारित निशाचरम् ॥ विप्रणष्ठाखिलमरुदभारकरधुति व- जितम् । विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् ॥ ध्वस्तद्रुमलता गुल्म विप्रणाशितसागरम्। त्रैलोक्यन्तु करिष्यामि संयुक्तं कालधर्मणा ॥ न तांकुशलिनी सीता प्रदास्यन्ति सुरेश्वराः । अस्मिन्मुहूर्ते सौमित्रे मम- द्रत्यन्ति विक्रमम् ॥ नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण । आकर्णपूर्णैरिषुभिर्जीवलोकं निरन्तरैः ॥ क- रिष्ये मैथिलीहेतोरपिशाचमराक्षसम् । ममरोषप्रयु- क्तानां सायकानां बलं सुराः॥द्रक्ष्यन्त्यद्यविमुक्तानामति दूरातिगामिनाम् । नैव देवा न दैतेया न पिशाच areilADSENSEENaktars । REPARTNERS ARRESSESIRAHARANASPATTERNEERINSamap-PERPANESHARRHEATENSE 2010 BitoranION MEDIO RERNMENTAMAN ३२ रामायणसारसंग्रहस्तोत्रविवरणम् ॥ LETTER न राक्षसाः। भविष्यन्ति मम कोधात्रैलोक्ये विप्रणा- शिते । देवदानवयक्षाणां लोका ये रक्षसामपि ॥ बहुधा निपतिष्यन्ति बाणौधैः शकलीकृताः । निर्म- यादानिमाल्लोकान्करिष्याम्य सायकैः। हृतां मृतांबा सौमित्रन दाल्यन्ति ममेश्वराः । तथा रूपांहि वैदैहीं न दास्यन्ति यदि प्रियाम् । नाशयामि जगत्सव - लोक्यं सचराचरम् । इत्युक्त्वा रोपतानाक्षो रामो नि- पीडा कार्मुकम् ॥ शरमादाय संदीप्तं चोरमाशीवि- पोपमम् । संदधे धनुषा श्रीमान् रामः परपुरंजयः ।। युगान्ताग्निरिव क्रुद्धा निःश्वसन्निदमब्रवीत् । यथा जरा यथा मृत्युर्यथा कालो यथा विधिः ॥ नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण । तथा कोषसंयुक्तो न निवार्योस्न्यसंशयम् ॥ पुरैवमे चारुदतोमनिन्दितां दिशन्ति सीतां यदि नाय मैथिलीम् । सदेवगन्धर्व मनुष्यगुह्यकं जगत्स सशैलं परिवर्तयान्यहमिति॥ एवम- तिकुधे रघुवीरे सकलत्रैलोक्यसंहरणोद्यते त्रैलो- क्यवर्तिबु भूतेषु कस्य भीति!त्पछत । सागरमात्र संहरणोद्यते हि तस्मिन सर्वभूतत्रासे वर्णितः । एवं भूते समये लोकसंरक्षणाय शादिषु केनापि देवे- नागत्य सकलैरपि देवैर्दुईर्षण रावणेन प्रसह्य हृता सीता तेन लङ्कां नीता जीवतीति रामे प्रति वक्तव्यं, dimasammtamanna লাঘাষাৰজাৰাগাৰৰল। ३३ - CRIMELI Jo- न च रावणभयात्तदनुक्तिरिति शङ्कनीयम् । रावणं हन्तुं समर्थस्य तदर्थं संभवतः कस्यचिदलाने हि रावणात् भेतव्यम्, अस्मिन् वृत्तान्ते रघुवीरबैलोक्य संहरणाय संहितं शरं रावण एव सकलराक्षस सहिते प्रयुंजीत । तेन तदानीमेव तस्य सपुत्रबान्ध- वस्य वधोस्त्वितीच्छया देवेषु केनचिदागत्य वक्तमेवो चितम्। रावणवधे सन्नद्धं रघुवीरमालक्ष्य शक्रेण तस्य युद्धसमये समारुह्यावस्थानार्थ मातलिः सारथिः स्वकीय रथोपिकिल प्रेषितः,न चास्मिन्समयेपि तथोक्तम्, प्र- तस्तदवचने प्रागुक्तः परमेश्वरसङ्कल्प एव हेतुः कवि- ना विवक्षित इत्यर्थः ॥ महाभारते हि साल्ववधार्थ कृतशरसन्धानः प्रद्युम्नो देवैः साल्वस्य कृष्णवध्यत्व विषयेश्वरसंकल्पवचनेन निवारित इति वर्णितम् । "नैष वध्यस्त्वया वीर साल्वराजः कथंचन। संहरस्व पु- नर्वाणं न बध्योयं त्वया रणे॥ एतस्य हि शरस्याजो न वध्योस्ति पुमान्क्वचित् । मृत्युरस्य महाबाहो रणे दे- वकिनन्दनः ॥ कृष्णाः संकल्पिता धात्रा तन्नमिथ्या भ- वेदिह, इति तत्तुल्यसरणिरयं सन्दर्भः ॥ १५ ॥ एवं कवेस्तनोक्तिभंग्या शिवमहिमाविष्करणं प्रपञ्चितम्, अथ कविनिबटुस्य वक्तुर्विश्वामित्रस्य . ॥ । RANTrainipreeDEMIRMIREONESENTERIMMITY ANSFETES MHARATI रामायणसारसंग्रहस्तोत्रविवरणम् । AHMEIN वचनभंग्यापि तदाविष्करणं दर्शयति गति- गङ्गा शिवे शिरसि ते पतनेन पुण्या। पापाऽपनोदनविनोदपटीयसीति । देवादयोपि वसुधातलवासमाप्ताः। स्नातास्तथेति स वचोनिबबन्धचार्षम्॥१६॥ तत्रतावत् भगीरथं प्रति तपसा प्रीतस्य ब्रह्मणी वचनं पठितम्, "गायाः पतनं राजन् पृथिवी न सहि- ध्यते । तां वै धारयितुंबीर नान्यं पश्यामि शूलिन इति, महाभारते तु तपसा प्रसादितया गद्येत्थमुक्तं पठि- तम्, “करिष्यामि महाभाग वचस्ते नात्र संशयः । वेग- न्तु मम दुर्धाय पतन्त्या गगनाचच्युतम् ॥ नक्षमस्त्रिषु लोकेषु कश्चिद्वारयितुं नृप । अन्यत्र विबुधष्ठान्नी- लकंठा-महेश्वरात्, इति॥ ततस्तेन तपसा प्रसादितस्य शिवस्य परममले परम पावने मूर्ध्नि गङ्गायाः पतनं शिवेन कृतं तदवलेपनिषूननमित्यादिकं ॥ आकाशाद पतद्राम शिवे शिवशिरस्युत । अचिन्तयच्च सा देवी गडा परमदुर्धरा ॥ विशाम्यहं हि पातालं स्त्रोतसा- गृह्य शङ्करं । तस्याऽवलेपनं ज्ञात्वा कुद्धस्तु भगवान् हरः। तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा । सा त- स्मिन्पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि ॥ हिमवत्प्रtreamericnmometeuTSEMINISTRATISHTEENERSAREE रामायणसारसहस्तोत्रविवरणम् । तिमे राम जठामण्डलभास्वरे । इत्यादि संदर्भणोक्ता तदनन्तरमुक्तम्, “तत्र देवर्षि गन्धर्वा वसुधातलवासि- नः ॥ भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ॥ शापा- त्प्रपतिता ये च गगनाद्वसुधातलम् । कृत्वा तत्राभि- षेकं ते बभूवुर्गतकल्म मषाः ॥ धूतपापाः पुनस्तेन तोये- नाऽथसुभास्वता । कृताभिवेको गङ्गायां बभूव विगत- क्लम इति, तस्सर्वमेतेन श्लोकेन संगृहीतम् ॥ १६ ॥ एवं शिवमहिमातिशयप्रतिपादनं बहुषु स्थलेषु प्रविततमुदाहृत्य तन्निकर्षप्रतिपादनछायापनस्य च- पलोक्तिनिभस्य परशुरामवाक्य संदर्भस्य प्रतीयमानार्थ- तात्पर्यमाह नारायणस्येति- नारायणस्य धनुषस्तव भीम चापा। दुत्कृष्टतां गणयतः किल भार्गवस्य ॥ यन्मेनिरे त्वदधिकं तमितीह वाक्यं । ताधितञ्च वंचनेन रघूहहस्य ॥१७॥ श्रीरामचन्द्रेण जनकगृहे शैवन्धनुस्समारोपयता भग्नमित्याकार्य तथाविधं क्षत्रियोत्कर्षमसहमानो भार्गवः पथि समागतः स्वहस्तेस्थितं वैष्णवं धनुः २ नारायणम् । ३ रामायणे । रूपादस्वाच्छि वदत्तशूलस्योत्कर्षत्वबोधकरामचन्द्रवचनेन ॥ १परशुरामस्य । NING ANOR ViDiaria LICEMATKARE रामायणसारसङ्गहस्तोत्रविवरणम् । शैवाहनुषोऽधिकं मन्वानः श्रीरामचन्द्रं प्रति, इदं धनुः समारोप्य तत्र शरसंधानं कुरु ततस्तव मया सह युद्ध- योग्यतामालक्ष्य त्वया योद्धास्मीत्युक्तिसमये, इदमुपा- ख्यानमाह, पुरा शिवनारायणयार्बलतारतम्य जिज्ञा- समानैर्देवैः प्रार्थितेन कमलभुवा तेन तयोः केनचिटु- पायेन विरोध उत्पादित विश्वकर्मणा निर्माय दत्त- मिदन्धनुर्द्वयं गहीत्वा ताभ्यां प्रवृत्ते युद्धे शिवो नारा यणेन निजिता देवाश्च तदा नारायणमधिकं मेनिरे, इति, तस्य स्वार्थ न तात्पर्यम, तयोर्मध्ये शिवस्य बलो- त्कर्ष नारायणमूर्तिरूपादनाच्छिवदत्तस्य कस्यचिच्छू- लस्योत्कर्षञ्च प्रतिपादयता श्रीरामचन्द्रवचनेन बा- धितत्वात् ॥ १७॥ ननुकथाद्वयमपि रामायणगतं कुतस्तयोर्बलाबल- विवेक इत्याशंक्याह टुप्तस्येति- हप्तस्य कोपैकलुषस्य वचः किलाद्यं । धर्मस्य विग्रहवतस्तु वचो द्वितीयम् । युद्धे कचित् त्वदधिकत्वमरेर्वचञ्च । त्वदत्तसत्यवरनिर्वहणाय युक्तम् ॥१८॥ १ क्रोधाकुलितचित्तस्य परशुरामस्येतिशेषः । २ धर्ममूर्तिरूपस्य रामचन्द्रस्येति शेषः ॥ namaAMTTransitHEEMARATHIMINANTHANICATNEEMERASNANASHLESHSHRA Tree WiseD रामायणसारसङ्गहस्तोत्रविवरणम् । ३७ काव्यवक्तैक्येन वक्तगुणाऽनुगुणबलाऽबलविभाग- माश्रित्यावश्यसमाधेयविरोधसमाधानासंभवे कवि निबटुवगुणदोषानुसारिणा बलाबलविभागेन वा स समाधातुमुचितः ॥ इहचादझोपाख्यानस्य वक्ता भार्गवोऽतिदृप्तः प्रसिद्धस्तदानीज्च क्रोधान्ध इति, स्वय क्षत्रियवधादुपरति शस्त्रसन्यासउच्च परित्यज्य चपल इति विदितः ॥ द्वितीयोपाख्यानवक्ता श्रीराम- चन्द्रस्तु “धर्मो विग्रहवान् राम इत्यादि कविवचनैः "विद्धि मामृषिभिस्तुल्यं केवलं धर्ममात्रितमित्यादि स्ववचनैश्च "रामाद्विाभिभाषते, इत्यादि वचनैःस्वव- चनस्य सूनततया च धर्मेकनिरतः सत्यसन्ध इति प्रसि- दुः॥ अतस्तद्वचनेन तद्विरोधिनो भार्गववचनस्य बा- धनं युक्तं ॥ एतेन "ब्रह्मा स्वयम्भू चतुराननो वा रुद्र- स्त्रिनेत्रस्त्रिपुरान्तका वा। इन्द्रो महेन्द्रः सुरनायका वा त्रातुं न शक्ता युधिरामवध्यम्, इति रावणं प्रति हनुम- द्वचनमपि व्याख्यातम् ॥ तदपि हि रावणभयोत्पा- दनार्थत्वेनान्यथा सिद्धं वचनान्तरविरुद्धं न स्वार्थ बोधयितुमीष्टे॥ यथा “मत्तः प्रत्यवरः कश्चिन्नास्ति सु- ग्रीवसन्निधौ। अहं तावदिह प्राप्तः किं पुनस्ते महा- बलाः ॥ नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते होतरे जना इति, सीतां प्रति हनुमतो वचनं सीताश्वासनार्थत्वे HTAKARATISHTHANTERATE DIA ANTACINDIA SERIESERVESTINATHPASARALIATSAPPROATUMHARAMHernrepHA RATNAAM Awesomhimaintamannani...
३८ रामायणसारसहस्तोत्रविवरणम् । नाऽन्यथासिदधं । एतादृशान्यथासिद्धिरहितन्तु “ए- तदनबलं दिव्यं मम वा त्र्यम्बक त्य वा, इति, श्रीराम- चन्द्रवचनं शिवस्य तदपेक्षया बलात्कर्ष व्यनक्ति ॥ अत्र हि शिववर्णनं दीपकालङ्कारद्योत्यायामुपमायां शिवस्योपमानत्वसिध्यर्थः, उपमेयादधिकगुणमेवोप- मानं भवतीति कविसमयो मुखचन्द्रादौ प्रसिद्धः ॥ एवं प्रमाणबलाबलपर्यालोचनया बाध्यबाधकमाव उक्तः ॥ अथ प्रमाण पर्यालोचनया भार्गववर्णितो. पाख्यानस्याऽन्यथासिद्धिरुच्यते ॥ शिवनारायणेन निर्जित इति खल्वस्मिन्नुपाख्याने वर्णितम्, सोयमर्थः शिवेन कदाचिन्नारायणाय स्वदत्तं वरं परिपालयितु- मभिनीतः स्वस्य पराजयः । कथं । भारते हि द्रोण- पर्वणि द्रोणवधानन्तरमतिकुपितेनाश्वत्थाम्ना, अ- ज्र्जुनं प्रति स्वप्रहितं नारायणास्त्रे भगवता कृष्णन वितथीकृतमालक्ष्य वीडितेन धिग्धिगिति शस्त्रं परि- त्यज्य दक्षिणां दिशं प्रति प्रस्थितेन मध्येमागे मिलि- ताद्वेदव्यासादाकर्णितं यदुपाख्यानं पुरानारायणाय षष्टिं वर्षसहस्राणि मैनाके महता तपसा शिवमारा- धितवते शिवेन बलवीर्यपराक्रमादिकं सर्वत्राऽप्रतिहतं दत्तमिति, तत्रेदं वरान्तरमपि शिवेन तस्मैदत्तमिति व- र्णितम्॥अपिचेत्समरं प्राप्य भविष्यसि ममाधिक इति, रामायणसारसङ्गहस्तोत्रविवरणम् । ALSINAaru हरिवंशेच पारिजातहरणसिध्यर्थं शिवमाराध्यस्तुवते कृष्णाय, अयमेव पुरादत्तो वरः स्मारित इति वर्णितं ॥ इतिसंस्तूयमानस्तु भगवान् गोवृषध्वजः। प्रसार्य दक्षि गंहस्तं वासुदेवमथाब्रवीत्॥ मनीषितानामर्थानां प्रा- प्तिस्तेस्तुसुरोत्तम । पारिजातंतु हर्तासि माभूत्ते मनसो व्यथा । पुरामैनाकमाश्रित्य तपस्त्वमकरोयंदा । तदा मम वचः कृष्णा संस्मृत्य स्थैर्यमाप्नुहि। अवध्यस्त्वम मजे यस्त्वं मत्तःशूरतरस्तथा। भवितासोत्यवोचं यत्तत्तथा न तदन्यथा, इति ॥ तस्मादन्यथासिरचिन तदुपाख्या नेऽभिनिवेशः कार्य इति ॥ १८॥ एवं श्रीरामायणे सर्वत्र शिवमहिमप्रख्यापनस- त्त्वात् क्वचिद्विरोध्यभावाच्च शिवमहिमातिशय एव तस्य प्रधान प्रतिपाझ इत्याह इत्थमिति- इत्थं तव श्रृंतिशतप्रथितं परत्वं । प्राधान्यतः स्मरहर प्रतिपादनीयम् ॥ द्वारन्तु रामचरितं कविना गृहीतं। रामायणे महितमुत्तमकाव्यरत्ने ॥ १९॥ उत्तमकाव्यं हि तदुच्येते यत् धुन्यमानार्थप्रधानं १ श्रुतिसहस्रेषु तत्प्रमाविषयत्वेन प्रसिद्ध । २ निरतिशयोत्कर्ष। NIWAR MO ditorate ४० रामायणसारसंग्रहस्तोत्रविवरणम् ॥ मतदभिव्यजनसमर्थोत्तमनायकचरितनिबन्धनरू पञ्च, तदिह त्रीरामचन्द्र काव्यनायकं कृत्वा तच्चरितनि- बन्धनद्वाराशिवस्यपरभावःकविनाध्वन्यध्वन्यध्वन्येन प्रख्यापितः इत्यर्थः ॥ ननु “स तु मेधाविनी दृष्टा वेदेषु परिनिष्ठितौ। वेदेोपबृंहणार्थाय तावग्राहयत प्रभुः, इति शोरामायणस्य वेदापबृंहणत्वमुचितम्, तन्तु सिध्येत यदि प्रधानप्रतिपादयत्वाभिमतस्य शिवपरभावस्य वेद- प्रमितत्व स्यादित्याशवयाविशेषितं, ऋतिशतप्रतिपन्न- मिति, सर्वमिदं ब्रह्मविष्णुरुरेन्द्रास्तेसंप्रसूयन्तेसर्वाणि चेन्द्रियाणि सह भूतैः न कारणं कारणानां धाता ध्याता, कारणं ध्येयः सर्वैश्वर्यसंपन्नः सर्वेश्वरः शंभुरा- काशमध्ये क्षण मेकं तं लब्या ऋतुशतस्यापि चतुः सप्तत्या यत्फलं तदवाप्नोति शिव एका ध्येयः शिवं करः सर्वमन्यत्परित्यज्य समाप्ताऽथर्वशिखा । इत्यथर्व- शिखोपनिषदि “यस्मात्सर्वमिदं ब्रह्म विष्णुरुद्रेन्द्रपू. वकम् ॥ सहभूतेन्द्रियैः सर्वैः प्रथमं संप्रसूयते ॥ कार- णानांच यो धाता ध्याता परमकारणम् ॥ न संप्रसू- यतेऽन्यस्मात्कुतश्चन कदाचन ॥ स सर्वैश्वर्यसंपन्नो नाम्ना सर्वेश्वरः स्वयम् ॥ सर्वैर्मुमुक्षुभिर्येयः शम्भु- राकाशमध्यमः ॥ सर्वमन्यत्परित्यज्य शिव एव शिवं करः॥ परेशध्येयोऽथ देवेशः समाप्ताऽथर्वणीश्रुतिरित्या- तु UNCATTA ENTERVIEATMEETESHPRASHANTIPATRIOSISTANTS isaeraatiaNAEROPHP TKADIGAalka Gali NOT HOMMER W ITRA रामायणसारसङ्गहस्तोत्रविवरणम् । - दिशिवपुराणोपहितायामन्यासुचाथर्वशिरःश्वेताश्व- तरकैवल्योपनिषदादिषु बहुपुराणवचनप्रपञ्चोपबृंहि- तासु प्रसिद्धः शिवस्य परभावः। किचनीरामायणं सा- वित्रीमन्त्रगर्भ चतुर्विंशतिसहलेषु सहस्त्रस्य सहस्त्रस्या- दौ क्रमनिवेशितसावित्रीवर्णचतुर्विंशतिकमिति पूर्व पूर्वेभ्योवच एतदूचुरित्यादिन्यायेन तदभियुक्तपरम्परा संप्रदायसिहं,तेन साविध्यर्थप्रधान श्रीरामायणमिति ज्ञायते, तदर्थः सवितुर्वरेण्यः शिव एवेति सवितृमण्डल विदयादिषु सुप्रसिद्धमेव। श्रीरामायण एव चादित्यहृदये सवितुर्वरेण्यस्त्रिमूर्युत्तीर्णः शिव एवेति भावितम् ॥ ततापि शिवमहिमप्रख्यापनपरतयैव श्रीरामायणस्य वेदोपहणत्वं समर्थितमित्यलं पल्लवितेन ॥१९॥ केचित्तु वैष्णवाभिमानिनो वदन्ति भगवत्प्रपदनं भरन्यासविदया, साऽत्रसकृदनुष्ठिता स्वानुष्ठानदेहाव- सान एवाऽन्तिमस्मृतिमप्यनपेक्ष्यमुक्तिप्रदा,तस्मादय- मुपायान्तरेभ्यःयान्मुक्त्युपायः, तदेवेहन्यासविद्या- रूपं भगवत्प्रपदनं मुमुक्षोर्विभीषणस्य प्रपदनप्रपञ्चे- नोपहितं, तदेवास्य प्रधानं प्रतिपाद्यमिति, तन्मत- मनूदा निरस्यति केचिदिति- कैचिद्विभीषणसमाचरितं प्रधानं । कोणेश्रुतं प्रपदनं प्रतिपाद्यमाहुः । मायाamrat BUDIES ANTAR ४२ रामायणसारसङ्गहस्तोत्रविवरणम् । प्राधान्यमंत्र कथमुत्तमनाम्नि काव्ये । वाच्यातिशायिविषयार्थितदश्नुवीत ॥२०॥ त्रिविधंहि काव्यमुत्तममध्यमाऽधमभेदात् । यत्र वाच्यातिशायि व्यंग्यं तदुत्तमं ॥ यत्र व्यंग्यं वाच्यस्य गुणीभूतं तन्मध्यमम्। यत्र व्यंग्यमेव नास्ति तदधमम्। काव्यस्य ह्यात्मा धनिः, शब्दार्थो वपुः स्थानीयौ, इति सहृदयानां मर्यादा। तत्र व्यंग्यरहितं काव्यं निरात्मक वपुर्मात्ररूपमित्यधर्म, चार्वाकमतपक्षपातित्वात् । व- स्तुतो गुणप्रधानभावाहयोर्वाच्यव्यङ्गयोस्तद्वैपरीत्या- दुगुणीभूतव्यङ्गय मध्यमं, ये वस्तुतो गुणप्रधानभूतयो- दहात्मनाः कदाचिन्मम शरीरमित्यादिबुध्या विविच्य जानन्तोपि देहात्मभ्रमप्राचुर्यण देहप्रधाना लौकिका- स्तदनुसारित्वात्, तथाभूतमिदं व्यासप्रभृतीनां महा- कवीनां पुरस्तादगणनीयेन महाकविना भगवता प्रा- चेतसेन कृतं काव्यं न भवति, किन्तूत्तमंकाव्यमित्येव महनीयं, सम्मतञ्च सहृदयानां सर्वेषामपि तथैव, अतोऽत्र धनिप्राधान्यमपहाय वाच्यप्राधान्यमुच्यमा- नमुपहासायैव कल्पत इति ॥ २० ॥ अथ काव्यमर्यादामपहाय फलगौरवेणास्य प्रपद- नस्य प्राधान्यमुच्येत तदपि नास्तीत्याह स्याच्चेदिति- रामायणसारसङ्गहस्तोत्रविवरणम् । ४३ स्थान्चेत्तैदीश फलगौरवतः प्रधानम् । इक्ष्वाकुनायकसमाचरितंतथास्यात् । तच्चापि वायसकृतं धनलाभतोपि । दारात्मलाभमधिकं हि बुधा वदन्ति ॥२१॥ राज्ययोगेप्सया विभीषणेन प्रपदनकृतम्, दारे- प्सया श्रीरामचन्द्रेण सुग्रीवप्रपदनं कृतं, "सुग्रीवं शरणं गत इतिबहुधामेडितत्वात्, वायसेनतु तन्मुक्तास्त्रेणाऽऽ त्मनाशमाशंक्य तत्प्रतिष्ठानरूपलाभार्थ तस्यैव प्रप- दनं कृतं, तदपि "त्रीन् लोकान् संपरिक्रम्य तमेवशरणं गत इति कविना दर्शितं, तत्र धनदारात्मलाभफलानां प्रपदनानां मध्ये कस्य फलमधिकमितित्वमेव विमृश, "राजानं प्रथम विन्देनतोभाया ततो धनमित्यात्मप- रित्राणार्थ राजन्वती भूःप्रथममेष्टव्या, तत्र गृहं कृत्वा वासा) भार्या समेष्टव्या, ततस्तदरणार्थ धनमेष्टव्य मिति धनदारात्मनामुत्तरोत्तरस्य पूर्वपूर्वशेषिभावे- नोत्कर्षा नीतिशास्त्रेष्वन्वयमुखेन दर्शितः। आपदर्थं धनं रक्षेद्वाराबद्धनैरपि । प्रात्मानं सततं रक्षेद्दारै- रपि धनैरपि, इति व्यतिरेकमुखेनाप्ययमों दर्शितः । तस्मात् फलभूम्ना प्राधान्याचेत् श्रीरामचन्द्रकृतस्य २ रामचन्द्रसमाचरितम् । ३ जयन्तकृतम् ॥ १ प्रपदनम्।
रामायणसारसंग्रहस्तोत्रविवरणम् । वायसकृतस्यैववाप्रपदनस्यप्राधान्यंप्रसज्येतेत्यर्थः॥२१॥ ननु विभीषणकृतं प्रपदनं मुक्तार्थमिति फलगौ- रवेण वाच्यस्यैव तस्य प्राधान्यमुक्तम्, न काव्यमर्यादा सिद्धं प्राधान्यमित्याशङ्कयाह तच्चेदिति- तंचेद्विमुक्तिफलकं फलगौरवं स्यात् । राज्येप्सयैव तु कृतंतैदिति प्रसिद्धम् । श्रीरामचन्द्रपवनात्मजयोश्चसूक्त्या। साक्षाच तस्य वचनेन विभीषणस्य ॥२२॥ न मुक्तार्थ विभीषणेन प्रपदनं कृतं, किन्तु राज्यभी- गार्थ तदेतत्पवनात्मजादिवचनैः स्पष्ठम्, तत्त्र विभी- पणागमनसमये पवनात्मजवचनम्, उद्योगं तवसंप्रेक्ष्य मिथ्यावृत्तच रावणम् । वालिनं च हृतं श्रुत्वा सुग्रीवं चाऽभिषेचितम्। राज्यं प्रार्थयमानस्तुबुद्धिपूर्वमिहागतः, इति । तत्रैव सुग्रीवादीन् प्रति श्रीरामचन्द्रवचनम्, "न वयं तत्कुलीनाश्व राज्याकांक्षीच राक्षसः । पंडिता हि भविष्यंति तस्मादग्राह्योविभीषणः, इति । तथा नागपा- शवन्धेपि श्रीरामचन्द्रवचनम, “यन्मया न कृतोराजा राक्षसानां विभीषणः। मिथ्या प्रलापिनं माञ्च प्रवक्ष्य- न्ति न संशयः, इति ॥ तत्रैव शोकार्तस्य विभीषणस्य । - १ विभीषणकृतं प्रपदनम् । २ प्रपदनम् ॥
रामायणसारसङ्कहस्तानविवरणम् । SANLINE वचनम,“ययोर्वीय समाश्रित्य प्रतिष्ठा कांक्षिता मया। तावुभौ देहनाशाय प्रसुप्तौपुरुषर्षभौ इति॥ एतेनेयमपि शङ्का निरस्ता, राज्यलाभमान्तरालिकं प्रयोजनं कृत्वा मोक्षार्थं विभीषणः प्रपन्न इति, रामे विष्णुत्वबुद्वी सत्यामेव मोक्षार्थ तत्प्रपदनमिति कल्प्येतापि,न तत्र सा बुद्धिस्तस्यास्ति, तथासति नागपाशबन्धेन मूर्छितौ रामलक्ष्मणौ दृष्ट्वा एवं प्रलापानिपपत्तेः, न विष्णोरि- स्थमापत्कदाचिदपि प्रसज्यते, अभिनयमात्रमिदं कि- चित्कालमित्याश्वासोपपत्तेः ॥ २२ ॥ ननु विभीषणप्रपदनं मुक्तार्थ न भवतीतिचेतू प्रपदनानन्तरं “परित्यक्ता मया लंका मित्राणि च धना- निचेति वचनं न स्यात्, नामुमुक्षोरविरक्तस्य सर्वत्याग वचनं संभाव्यत इत्याशंक्याह लङ्केति- लंकासुहृदनसुखाऽनुभवादिसर्वम् । त्यक्तं मयेति तु वचो न ततोविरक्त्या । श्रीरामचन्द्रकरुणाकटाक्षलब्धे । तत्रैव रागपिशुनः खलु वाक्यशेषः॥२३॥ "भवद्गतं मे राज्यञ्च जीवितञ्च सुखानिचेति तदुत्तरार्द्धरूपो वाक्यशेषस्तत्रैव लंकाराज्यादी राम- १ लंकादेः । २ लंकादौ ॥
रामायणसारसंग्रहस्तोत्रविवरणम् ॥ चन्द्रप्रसादलब्धे रागं व्यञ्जयति, अतो लंकादे स्वरूप- तस्त्यागविषयं पूर्वार्द्धम्, किन्तु रामचन्द्रप्रसादाऽलब्ध तन्माभूदित्येतदभिप्रायं, तेन लंकाधिपत्यादिकं त्वया मह्यं दातव्यमिति व्यज्यते ॥ २३ ॥ अवैव गमकत्वेन विभीषणवचनानन्तरं प्रवृत्तं श्रीरामचन्द्रव्यापारमुदाहरति ज्ञात्वेति- ज्ञात्वा तदीप्सितमितोऽथ रघुप्रवीर। स्तेनैव रावणबलादि च वाचयित्वा । कृत्वा च रावणतदिष्टवधप्रतिज्ञां। राज्याधिपत्यमददादभिषेकपूर्वम् ॥ २४॥ श्रीरामचन्द्रो विभीषणस्येदं वचनमाकर्ण्य तदभि- प्रायं बुधातत्र किया केवलमुत्तरमिति तदानीमेवाऽभि- पेकपूर्वक लंकाराज्याधिपत्यं तस्मै ददौ, कथमिदानी- मन्यदीयतया स्थितस्य राज्यस्य तस्मै दानमिति पश्य- तामऽस्थाने व्यापारीयमिति शंकावारणार्थम्। अहत्वा रावणं संख्ये सपुत्रं सह बान्धवम् । अयोध्यां न प्रवे- क्ष्यामि त्रिभिस्तै दृभिः शपे। इत्यभिषेकात्प्रागेव रावणतदीयपरिवारवधप्रतिज्ञा कृता। प्रतिपक्षबलम- ज्ञात्वा हठात्कियमाणेयं प्रतिज्ञाप्यस्थान इति तेषा- १ विभीषणेप्सितम् । २ विभीषणमुखेनैव ॥ ।
रामायणसारसङ्गहस्तोत्रविवरणम् । मेव शंकावारणाय प्रतिज्ञायाः प्राग्विभीषणवचनना- वणानन्तरमेव “आख्याहिमम तत्वेन राक्षसानां बला बलमिति” विभीषणं प्रति पृष्ट्वा तन्मुखेन रावणस्य सर्व मपि बलं वाचितम्, आख्याहीत्यस्य प्रश्नस्य करिष्य- माणाभिषेकापयोगाभिप्राया न वयेते चेत् विभीषणेन यत्प्रार्थितं तत्रोत्तरं किमप्यनुक्ता रामेणान्यदेव पृष्ट- मिति वैयधिकरण्यं स्यात्, तस्माद्विभीषणोक्त्यनन्तरं श्रीरामचन्द्रव्यापारपालोचनयापि विभीषणोक्तिः केवलं रामचन्द्रप्रसादलभ्यराज्यप्रार्थनाऽर्थति निश्ची- यत इत्यर्थः । अतः केवलं राज्य प्रेप्सयैव रामचन्द्र- प्रपदनम् । रामचन्द्रस्यापि राज्यप्रदानमात्रविषया प्रतिज्ञा। अतएव नागपाशबहुस्य रामस्य विभीषणाय प्रतिज्ञातराज्यं नदत्तमित्येवाऽऽर्तवचनं, रावणवधान- न्तरमभिषेकपूर्वकं विभीषणाय लंकाराज्यप्रदानेनैव रामस्थ विभीषणविषये कृतकृत्यत्वबुध्या प्रमोदा बा- लरामायणे कथितः। अभिषिच्य च लंकायां राक्षसेन्द्रं विभीषणं । कृतकृत्यस्तदा रामो विज्वरः प्रमुमोदह, इति । तस्माद्विभीषणप्रपदनस्य फलगौरवकृतं पारि- भाषिकमपि प्रधानप्रतिपादनत्वं न संभवतीति पूर्वोक्त रीत्या रामायणे प्रायः सर्वत्रधुन्यमानं शिवपारम्यमेव तस्य प्रधानप्रतिपाद्यमिति सिटुं । यद्यपि धून्यमान- रामायणसारसंग्रहस्तोत्रविवरणम् । स्वाऽविशेषाद्रामायणे तत्र तत्र व्यञ्जितः शृङ्गारवीरकरु- णाद्भुतरौद्रादिको रसा देवतागुरुनृपपिटपुत्रादिविषय- रतिरूपो भावोपि प्राधान्यमर्हति, तथापि रामायणे सर्वत्र प्रविततः शिवपारम्यरूपो वस्तुधनिः प्राधान्य- मश्नुत इत्यत्र नास्ति विमत्यवकाशः । अतो रामायणं शिवमहिमप्रख्यापनप्रधानं भवत्येवेति सिद्धम् ॥२४॥ अथ स्तोत्रस्य प्रचयगमनार्थ समाप्ती नमस्कार रूपं मङ्गलं क्रियते प्राचेतसायेति- प्राचेतसाय कवये प्रथमाय तस्मै। तत्काव्यहारतरलाय च राघवाय। विश्वात्मने तदुभयस्थिरभावलक्ष्य । मुख्यास्पदाय विभवे च नमः शिवाय ॥२५॥ इति श्रीमद्वारद्वाज कुलजलधिकौस्तुभ श्रीमद्वैतविद्या चार्य श्री विश्वजियाजि श्री रंगराजाध्वरिवर सूनोरप्पयदीक्षित कृतिः श्रीरामायण- सारसंग्रहस्तोत्रविवरणम् सम्पूर्णम् ॥
निग्रहाष्टकम् । मार्गे सहायं भगवन्तमेव । विश्वस्य विश्वाधिक निर्गतोस्मि। शास्त्रं प्रमाणं यदि सा विपत्सा। त्तस्यैव मन्दो मयि यां चिकीत् ॥ १॥ कांतारेप्रांतरेवामदकुशलकृतौसांतरं सांतरंगम्। मह्यं द्रुह्यंतमंतं गमयतु भगवानंतकस्यांतकारी क्षिप्रंविप्राधमस्यक्षिपतु तदुदरस्येवमायाविवर्ता। ना न्बंधूनबंधूनिवममशिशिराभ्यंतरान्संतनोतु॥ सहस्रं वर्ततां पथिपथि परे सहसकृतम् । प्रवर्ततां बाधं मयि विविधमप्यारचयितुम् । न लक्षीकुहं नलिनजलिपि प्राप्तमपितम् । मम स्वामी चामीकरशिखरिचापोस्तिपुरतः॥३॥ संकल्प्यस्थाणुशास्त्रप्रचरणविहतिः स्वन कार्याभुवीति श्मश्रूणि स्वैरमश्रूण्यपि खलु महतां स्पर्या वर्द्धयंतम् । क्षुद्रं विद्रावयेयुर्झटिति- वृषपति क्रोधनिश्वासलेशाः शास्त्रं शैलादभृत्या स्तनुयुरखिलभूमंडलव्याप्तमेतत् ॥४॥ क्वचिदवयवे दग्धुं कश्चिदुलादनुचिंतयन् । निरसनमितोदेशात्कर्तु महेश्वरमाश्रितान् ।
निग्रहाष्टकम् । प्रमथपरिषद्रोधैर्दग्धाऽखिलावयवःस्वयम् । निरसन मितोलोकादेवक्षणेनसमश्नुताम् ॥५॥ कालप्रतीक्षा हि न तस्य कार्या । पुलस्त्यपुत्राऽऽदिवदन्तकारे । त्वदाश्रितद्रोहकृतोद्यमानां। सद्यःपतेदेव हि मूर्ध्नि दंडः ॥६॥ कण्ठे रुद्राक्षमालां भसितमतिसितं फालदेशे च पश्यन् नश्यन्नेव क्रुधं यस्तदुपहतमति स्सत्सुकुर्वीत गुर्वी। तत्फालात्तूर्णमायुर्लिखित मसुगणञ्चापि तत्कण्ठदेशात् कुर्दास्ते युद्ध रेयुर्निजपदकमलांगुष्ठलीलाविलासात्॥७॥ सकलभुवनकर्ता साम्बमूर्तिः शिवश्चेत् । सकलमपि पुराणं सागमं चेत्प्रमाणम् ॥ यदि भवति महत्वं भस्मरुद्राक्षभाजाम्। किमितिनमृतिरस्मद्रोहिणस्स्यादकाण्डे॥८॥ इतित्रीभारद्वाजकुल जलधिकौस्तुभश्रीमदवैतविद्याचार्य श्रीमदप्ययदीक्षितकृतं चकांकितनिग्रहाष्टक संपूर्णम् । श्रीरस्तु । शुभमस्तु ॥ ॥
श्री गणेशोविजयते। श्री भारतसारसंग्रह स्तोत्रविवरणम्। अथ श्रीमहाभारतस्य शिवपारम्यप्रख्यापनपरता माविष्कतुं कृतस्यस्त्रोत्रस्यायमाद्यः श्लोकः- श्रीबादरायणमुनिःस्वयमेव विष्णुः । पार्थच्छलात्तमधिकृत्य कृते प्रबन्धे। तस्यापि नित्यमहितं शशिभूषण त्वा । माघेडयन्गुरुरदर्शयदादितत्वम् ॥ १॥ श्रीबादरायणनामा प्रसिद्धोमुनिः स्वयमेव विष्णुः । कृष्णद्वैपायनं व्यासं विद्धि नारायणं स्वयम् । काह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेदिति वचनात्, न च श्रीमहाभारताख्यं प्रबन्धं पार्थचरितवर्णनात्मकं, तद- १ वेदव्यासः । २ अर्जुनादिव्याजेन । ३ कृष्ण मुद्दिश्य। ४ भारते ५ कृष्णस्यापि। ६ कृष्णेन सदा पूज्यमानम् । पुनःपुनःकथयन् । ८ वेदव्यासः। ल तव परब्रह्मतत्वम् ।। ७ ५० भारतसारसङ्गहस्तोत्रविवरणम् । नुषक्तश्रीकृष्णचरितान्तर्गततन्माहात्म्यवर्णनात्मकं च निर्ममे। वासुदेवस्य माहात्म्यम् पाण्डवानाञ्च सत्यता म्। दुष्टतां धार्तराष्ट्राणामुक्तवान्भगवानृषिरिति वच- नात्, अत्र च प्रबन्धे पार्थानां नायकीकरणं व्याजमात्र, तत्संरक्षणजागरूकत्रीकृष्णमाहात्म्यवर्णनात्मकमेव त- त्प्रवृत्तं, तबाहुल्यात्तदधीनत्वाच्च पार्थानां राज्यला- भस्य भारतस्यादा। नमाभगवते तस्मै व्यासायामि- ततेजसे । यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्। इति सूतवचने त्रीमहाभारतस्य नारायणकथेत्येव व्यव हृतत्वाच्च, एवं भूतं श्रीमहाभारतं कुर्वाणः सर्वेषां ब्रह्म- विदां गुरुभगवान् व्यासः श्रीकृष्णमाहात्म्यवर्णनद्वारा शिव एव परब्रह्मेति शिष्येभ्यः परं तत्वं दर्शयामास । किंकुर्वन्, तस्य श्रीकृष्णस्यापि नित्यमहितं नित्यं पूजितं तेनापि कृष्णेन कृष्णावताररूपेण प्राक् परिगृहीतैः पूर्व पूर्वरूपैः परवासुदेवात्मकमूलरूपेण च सदा पूज्यमा- नमिति यावत्, एवं भूतं शिवमामेडयन पुनः पुनः कथ- यन्सन प्रायः सर्वत्रापि हि महाभारते श्रीकृष्णस्य शिवपूजानिष्ठत्वं तत्प्रसादलब्धसकलप्रभाववत्वञ्च वयेते, तत्र तावत् सौप्तिके, अश्वत्थामा प्रति शिव वचनम् । सत्यशौचार्जवत्यागैस्तपसा नियमेन च । क्षान्त्या भक्त्या च धृत्या च कर्मणा मनसा गिरा। अहं - भारतसारसङ्गहस्तोत्रविवरणम् । ॥ यद्वताराध्यः कृष्णेनाक्लिष्टकर्मणा । तस्मादिष्टतमः कृष्णादन्योममन विद्यतइति ॥ आदिपर्वणि च सुभद्रा- परिणयवर्णनप्रस्तावे समुद्रमध्ये क्वचिद्वीपविशेषे कृष्णे- न शिवस्य पूजार्थं प्रवर्तितेा महोत्सवः प्रपउिचतः । उपमन्यूपदेशेन श्रीकृष्णस्यापि द्वादशाब्दावधि पाशु- पतव्रतानुष्ठानं केलासयात्रायामन्यत्र च तत्र पूजा स्तुतितपोभिः कृष्णेन शिवप्रीणनमेव कृतमिति प्रप- उचेन वर्णितम् ॥ गोणपर्वणि द्रोणवधानन्तरं क्रोधेन स्वप्रहितं कृष्णार्जुनयोर्वितथीभूतमाग्नेयास्त्रं दृष्ट्वा ब्रोडयाधिग्धिगिति शस्त्रं परित्यज्य दक्षिणान्दिशंप्रति प्रस्थितमश्वत्थामानं प्रति मार्गसमागतस्यत्रीवेदव्या- सस्य तवोडापनयनार्थ वचनम् । देवदेव स्त्वचिन्त्या- त्मा अजेयो विष्णुरव्ययः । सत्वरूपं भवं ज्ञात्वा लि- ङ्गेऽर्चयति यःप्रभुम् ॥ तस्मिन्नभ्यधिकां प्रीति करोति वृषभध्वजे ॥ इति ॥ तत्रैव कृष्णार्जुनौ पर्व नर- नारायणावृषी, ताभ्यां च लिङ्गेऽर्चनया षष्टिवर्षसह- स्त्राणि शिवमाराधितवदभ्यां शिवेन अतुलबलवीर्य पराक्रमादयो बहवो वरा दत्ता इति वेदव्यासेन क- थिते, अहं किन्न शिवपूजक इति कृतानुयोगमश्वत्था मानं प्रति तस्यैव वचनम् । जन्मकर्मतपोयोगास्तयो स्तव च पुष्कलाः । ताभ्यां लिङ्गेऽर्चितो देवस्त्वयाऽर्चा ।
भारतसारसंग्रहस्तोत्रविवरणम्। यां युगे युग इति ॥ इदं च मैनाके श्रीकृष्णस्य त- पश्चरणं बहुवरलाभश्चेत्युभयं पारिजातजिहीर्षया शिवं संपूज्य स्तुवन् कृष्णः शिवेनैव स्मारितः॥ इति संस्तूयमानस्तु भगवान् गोवृषध्वजः । प्रसार्य दक्षिणं बाहुं वासुदेवमथाब्रवीत् ॥ मनीषितानामर्थानां प्रा- प्तिस्तेस्तु सुरोत्तम । पारिजातञ्च हर्तासि माभूत्ते मनसो व्यथा॥ पुरा मैनाकमाश्रित्य तपस्त्वमकरोर्यदा। तदा मम वचः कृष्ण संस्मृत्य स्थैर्यमामु हि ॥ अवध्य- स्त्वमजेयस्त्वं मत्तः शूरतरस्तथा। भवितासीत्यवोचं यत्तत्तथा न तदन्यथा, इति॥ एवं श्रीकृष्णस्य स्वरूप पूर्वगृहीतरूपैः कृते शिवाराधने अनेकानि वचनान्यु- दाहृतानि, तस्य मूलरूपेण कृतं शिवस्याराधनं ततो वरलाभश्चेत्युभयमारण्यपर्वणि तीर्थयात्राविधौ दर्शि- तम् । ततो गच्छेत्सुपर्णाख्यं त्रिषु लोकेषु विश्रुतम् । यत्र विष्णुः प्रसादार्थ शिवमाराधयन्पुरा ॥ वराश्च सुबहूँल्लेझे देवैरपि सुदुर्लभान् । दत्ताश्च त्रिपुरघ्नेन परितुष्टेन भारत ॥ अपि चान्यैः प्रियतमो लोके कृष्ण भविष्यसि । त्वन्मुखञ्च जगत्सर्वं भविष्यति न संशय इति ॥ अन्यैः प्राचीनत्वच्चरितेभ्योऽन्यैः मद्वर- दानलब्धसामयन करिष्यमाणैः देवमनुण्यादिकण्ट- कासुरराक्षसादिवधैः लोके भूभ्यन्तरिक्षस्वर्गादौ सर्वत्र :
भारतसारसङ्गहस्तोत्रविवरणम् । प्रियतमो देवमनुष्यादीनां प्रीति विषयो भविष्यसि । अतएव जगत्सर्वं त्वन्मुखं त्वत्प्रधानञ्च भविष्यती- त्यर्थः ॥ एवं देवादिकण्ठकवधेन संभावितस्य दोषस्य प्रायश्चित्तमपि शिवाराधनरूपमेव भगवता कृतमिति तीर्थयात्राविधाने पठनते । “तीर्थ कुरुकुलश्रेष्ठ त्रिषु लोकेषु विश्रुतम् । प्रमीति नान्ना विख्यातं सर्वपाप विमोचनम्॥ यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम्। तत्र स्नात्वाऽर्चयित्वा च रुद्रं देवगणेश्वरम् ॥ जन्मप्र- भूति पापानि कृतानि तुदते नरः। देवी यत्र नरश्रेष्ठ सर्वदेवैरभिष्टुता॥ तत्र स्नात्वा नरव्याघ्र हयमेधमवा- मुयात्। जित्वा यत्र महाम्राज्ञ विष्णुना प्रभविष्णुना ॥ पुरा शौचं कृतं राजन् हत्वा दैवतकण्टकान् ॥ इति ॥ अत्र शौचशब्देन शिवाराधनमेव प्रायश्चित्तमुक्तम् । यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरमिति सन्निधान- पाठात् । तीर्थयात्रा विधावेव नारायणादिसहितस्य हिरण्यगर्भस्य शिवभक्ताराधनोक्त्या कैमुतिकन्यायेन शिवाराधकत्वमपि भगवतो नारायणस्य विभावितम्। ततो गच्छेत राजेन्द्र तीर्थ शतसहस्त्रकम् । सहस्त्रकञ्च तत्रैव वतीर्थे लोकविश्रुते। उभयोहि नरः स्नात्वा गो- सहस्त्रफलं लभेत् ॥ अत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते । अन्वास्यते कुरुश्येष्ठ नारायणपुरोगमैः । - भारतसारसंग्रहस्तोत्रविवरणम् । सान्निध्यं तत्र राजेन्द्र रुद्रपत्न्याः कुरूद्वह । अर्चयित्वातु तां देवीं न दुर्गतिमवाप्नुयात् ॥ अत्र क्षेत्रे देवीसान्नि- ध्यस्य तदर्चनतत्फलयोश्च वचनेन संभूय स्थितैर्ना- रायणादिभिर्देवैः सर्वैरन्वास्यमानस्य ब्रह्मणोऽवस्थान देव्याराधनार्थमित्याशय उन्नीयते॥आनुशासनिके च। यस्थ ब्रह्मा च विष्णुश्च त्वञ्च शक्र सहामरैः। अर्च- यध्वं सदा लिङ्गं तस्मात्पूज्यतरो हि कः॥ इत्युपमन्युव- चनेन ब्रह्मविष्णादीनां नित्यमेव शिवाराधकत्वमुक्तम् ॥ एवं सौप्तिकादिष्ववताररूपस्य परवासुदेवरूपस्य श्रीकृष्णस्य शिवपूजनेन सकलबरलाभोक्त्या भारत साक्षात्मतिपादितनिरतिशयप्रभावशालिनः साक्षात्प- रब्रहोति संभाव्यमानात् ततोपि तत्पूज्यस्य शिवस्य यत्पारम्यं व्यञ्जनावृत्त्या प्रतीयते तदेव श्रीमहाभारतस्य वाच्यनारायणचरितद्वारा व्यज्यमानं श्रीमहाभारतस्य प्रधान प्रतिपाद्यं ॥ श्रीनहाभारतं हि महदत्युत्कृष्टं काव्यं, कृतं मयेदं भगवन्काव्यं परममिति ब्रह्माणं प्रति व्यासवचनात, ब्रह्मणा च "त्वया च काव्यमित्युक्तं तस्मात्काव्यं भविष्यतीत्युक्त्या काव्यस्य सतःकीद- काव्यत्वमाशास्यत इत्याकांक्षायां ॥ अस्य काव्यस्य कवयो नसमर्था विशेषणे। विशेषणे गृहस्थस्य शेषास्त्रय इवानमा इति तदनन्तरमेतदतिशायि काव्यं कापि न भारतसारसङ्गहस्तोत्रविवरणम् । ५५ । 66 करिष्यतीत्यस्यैव यत्सर्वातिशायिकाव्यत्वं तदाशास्यत इति विभावनाच्च । सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति। पर्जन्य इव भूतानामक्षयोभारतद्रुम इति, तदनन्तरं भारतस्य करिष्यमाणसर्वकाव्योपजीव्यत्व- वचनाच्च । अस्योत्कृष्टस्यचोत्तमकाव्यस्य वाच्याति- शायि यव्यंग्यमस्ति तदेव प्रधानं,नतु वाच्यम्। यथाहुः "प्रतीयमानं वस्त्वस्ति वाणीषु महाकवीनां आभाति लावण्यमिवाङ्गनासु, इति । इहतुवाच्यः परब्रह्मत्वसं- भावनावहानारायणस्य निरतिशयमहिमा । तस्यापि पूज्यतया सर्वत्र निबद्धस्य शिवस्य महिमा, तदतिशा- यिसगुणपरब्रह्मभावरूपो महिमा व्यज्यमानः, अयमेव वस्तुध्वनिरूपः, सहितत्र व्यज्यमानैर्भावरसालङ्कार- ध्वनिभिरुपस्कृतः प्रधानतया प्रबन्धुराशयस्थित उन्नी- यत इति भावः ॥ १॥ अथ विधान्तरेणापि भारते शिवस्य परब्रह्मभा- वमाविष्करोति मोहेति- मोहाभिभूतमखिलं जगदाविरञ्च । त्वामेकमेव भगवन् रहितञ्च तेनै । १ ब्रह्मपर्यन्तम् । २ मोहेन ॥
५६ भारतसारसंग्रहस्तोत्रविवरणम् । - - विख्याप्य मंकणकदिव्यकथानुषक्त्या । त्वां ब्रह्म तेन च मुनिः स्फुटयाम्बभूव ॥२॥ प्रारण्यपर्वणि तीर्थयात्वाविधौ सप्तसारस्वततीर्थप्रसङ्गे यत्रमणकःसिद्ध इत्युपक्रम्प दर्भक्षतात्तस्य करतः शाक- रसखुतिमुक्ता पठितम् । सबै शाकरसं दृष्ट्वा हर्षाविष्टोम- हातपाः। प्रवृत्तः किल विप्रर्पिविस्मयोत्फुल्ललोचनः ॥ ततस्तस्मिन् प्रनृत्ते वै स्थावरं जङ्गमं जगत् । प्रनृत्त- मुभयं वीर तेजसा तस्य मोहितम् ॥ ब्रह्मादिभिः सुरै- राजनपिभिश्चतपोधनैः। विज्ञप्ताव महातेजा ऋषेरर्थ नराधिप॥ यथा न नृत्यते विप्रस्तथा त्वं कर्तुमर्हसि। ततःप्रनृत्तमासाद्य हर्षाविष्टेन चेतसा ॥ सुराणां हित- कामार्थमुपिन्देवोभ्यभाषत । विओमहर्षे धर्मज्ञ किमर्थ नृत्यते भवान् ॥ हर्षस्थानं किमर्थ वा तवाद्य मुनि- पुङ्गव । ऋषिः। किन्न पश्यसि मे देव कराच्छाकरस त्रुतिम् । यां दृष्टाहं प्रनृत्तोवै हर्षेण महतान्वितः ॥ तं प्रहस्याब्रवीद्वेवो मुनिं रागेण मोहितम्। अहं वैविस्मयं विप्र दर्शयास्यत्रपश्यमाम् एवमुक्ता नरकोष्ठ म- हादेवेन वै तदा । अङ्गुष्ठाग्रेण राजेन्द्र स्वाङ्गुलिस्ता- डिताभवत्॥ तताभस्मक्षताद्वाजनिर्गतं हिमसन्निभम्। । १ मोहामावकारणेन । २ वेदव्यासः ॥ WITHERHI140 भारतसारसङ्गहस्तात्र विवरणम् । HTRADIT तदृष्टा ब्रीडितोराजन्समुनिःपादयोर्गतः, इति । अत्र ब्रह्मादिस्थावरान्तस्य सकलस्य जगता मङ्कणकनृत्येन मोह उक्तः, मोहवन्माणकवदवशान्नृत्यतां ब्रह्मादीनां प्रार्थनया शिवेन मङ्कणकनृत्यविरामः कारित इत्युक्त्या शिवस्य ब्रह्मादिवन्मोहानास्तीति व्यज्जितम् । अन्य- था स्वयन्ततामोहवशंगतस्य तद्विरामकरणसामर्थ्या ऽसंभवेन शिव प्रति देवानां तद्विरामकरणप्रार्थनाऽनुप- पत्ते,देवाः सर्व मोहवशताः ब्रह्मैकं मोहानभिभूतमिति सर्व संप्रतिपन्नम्। अतामोहतदभावकृताद्विशेषाद्देवाः सर्वे जीवाः । शिव एव परब्रह्मेति वेदव्यासाविभाव- यामासेत्यर्थः ॥ २॥ अत्र स्वदृढगमकन्वेन तद्वाक्यशेषलब्धमर्थं गृह्णाति तस्मादिति- तस्माच मोहतदभावकृताद्विशेषात् । जन्मस्थितिप्रलयभागखिलं त्वदन्यत् । तकर्तृवस्तु परमं त्वमिति प्रबोधम् । जातं विभावयति तस्य तदीयवाचा ॥३॥ शिवस्य पादयोः प्रणिपातानन्तरमिदं मंकणवचनं १ त्वत्तोऽन्यदखिलं जगत् । २ जगत्कारणं वस्तु । ४ मङ्कणक मुनिवचनेन ॥ ३ परब्रह्म। Daye भारतसारसङ्गहस्तोत्रविवरणम् । पठितम् । नान्यं देवमहं मन्ये रुद्रात्परतरं महत् । सुरासुरस्य जगतोगतिस्त्वमसि शूलधृत् ॥ त्वया सृष्ट मिदं सर्व त्रैलोक्यं सचराचरम् । त्वामेव भगवन्सर्व प्रविशन्ति युगक्षये ॥ देवैरपि न शक्यंते परं ज्ञातुं कु- तोमया। त्वयि सर्वपि दृश्यन्ते सुराब्रह्मादयोऽनघ । सर्वस्त्वमसि लेाकानां कर्ता कारयिता चह। त्वत्प्रसा- दात्सुराः सर्वे निवसन्त्यकृतो भया इति । अत्र शिवस्य सकलजगत्सर्गप्रलयावधिसार्वात्म्यायुक्त्या शिव एव परं ब्रह्मेति निश्चिकाय मकणक इत्युनीयते, तन्निश्यश्व न भस्मनिर्गमनकृतः, शाकरसनिर्गमनवद्विस्मयहेत्वार्ष वृत्तत्वेनान्यथासिद्धः। किन्तु मम नुत्तन्दृष्ट्वा सर्वस्मिन्नपि जगति आहिरण्यगर्भ मोहिते नृत्यत्यपि शिवोमोह- राहित्यानृत्यरहित एव स्वयं मत्समीपमागत्य मन्नू- त्योपरतिमचीकरदित्येवं शिवस्य मोहाभावनिश्चय कृतः । अतो मंकणकवचनमुखेनापि शिव एव परं ब्रह्मेति विभावयामासेत्यर्थः । अत्र पूर्वश्लोकप्रकृतो मुनिः कर्ता ॥३॥ एवं मंकणककथोदाहरणेन शिवस्य परब्रह्मभावा भिव्यक्तिराविष्कृता, क्वचित्कृष्णवृत्तान्तादाहरणेनापि तामाविष्करोति कैलासेति- भारतसारसंग्रहस्तोत्रविवरणम् । ५९ । कैलासशैलशिखरे हरिपार्थदृष्टम् । त्वां ब्रह्म नाथ परमं समुदीर्य साक्षात् । तल्लक्षणत्वयंमनन्यतदीयधर्म। क्रांते कियञ्च भवति स्फुटमाचचक्षे॥४॥ कृष्णार्जुनौ पाशुपतास्त्रसंधानप्रकारविशेषाभिज्ञा- नाय यदा कैलासंगतौ तदा तन्महिमवर्णनमेवं कविना कृतम्। स्तूयमानं स्तवैर्दिव्यै ऋषिभिब्रह्मवादिभिः । गोप्तारं सर्वलोकानामिष्वा स परमच्युतम् ॥ वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् । पार्थन सह धर्मात्मा गणन्ब्रह्मसनातनम् ॥ ॥ लोकादि विश्वकर्माणमृषिमी- शानमव्ययम् । तमसः परमं ज्योतिः खवायुज्योतिषां गतिम्॥ स्त्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम्। देवदानवयक्षाणां मनुष्याणां च शासकम् ॥ योगिनां परमब्रह्म व्यक्तं वेदविदा निधिम्। परावरस्य स्वष्टारं प्रतिहारमेव च ॥ कालकेयं महात्मानं शक्रसूर्यगुणो- दयम् । ववन्दतुस्तदा कृष्णौ वाङ्मनो बुद्धिकर्मभिः ॥ यं प्रपश्यन्ति विद्वांसः सूक्ष्माऽध्यात्मनिदर्शनात्। तमजं कारणात्मानं जग्मतुः शरणं भवमिति॥ अत्र योगिनां १ कृष्णार्जुनाभ्यां दृष्टम् । २ ब्रह्मलक्षणम् । ४ अन्यत्रासंभाव्यमानब्रह्मधर्माकान्ते । ३ वेदव्यासः । a ६० भारतसारसंग्रहस्तोत्रविवरणम् । ALTKARAN परमं ब्रह्मेति कण्ठतः शिवस्य परब्रह्मभाव उक्तः । तदुपासनार्थ परमानन्दरूपत्वं ब्रह्मणः स्वरूपलक्षणं तत्र व्यक्तं वेदविदां निधिमित्यनेन दर्शितम् । अति दरिद्रस्य पुरस्तादकस्मादाविर्भावो हि महानिधिस्सा- क्षात्कृतस्य निरतिशयब्रह्मानन्दस्योपमानतया वक्तुमु- चितः, वस्तुतस्तस्य निधेरुपमेयापेक्षया हीनत्वेपि लोक दृष्टया तदपेक्षया अधिकाभावात् । आकाशवत्सर्व- गतश्च नित्य इतिवटुपमानतया निवेशनं युक्तमिति तदात्मतया ब्रह्मानन्दस्थ निरूपणम । तमसः परमं ज्योतिरिति श्लोकेन नित्यमुक्तस्वरूपब्रह्मधर्मप्रदर्शन पूर्वकं "आत्मन आकाश इत्यादि श्रुतिसिद्धं वियदादि कारणत्वरूपं तटस्थलक्षणं तत्र दर्शितम् । अन्ये चाऽ- ध्यात्मविददृश्यमानत्वगोप्तृत्वशासकत्वादयः परब्रह्म धर्मा वर्णिताः । ब्रह्मसनातनमिति शिव एवोक्तः। यद्वा प्रणवः, उभयथापि परब्रह्मरूपत्वं तद्धर्मः प्रण- वार्थत्वं वा तेन दर्शितम् ॥ ४ ॥ अथ प्रदेशांतरेपि कृष्णवृत्तांतेन तदभिव्यक्ति माविष्करोति नारायणस्येति- नारायणस्य सुचिरं त्वदुपासकस्य । यद्ब्रह्मभावमवदत्तवभावनाप्तम् । appany भारतसारसङ्गहस्तोत्रविवरणम् । यत्ते स्तुतिन्तंदुदितां पैरभावगर्भाम् । त्वां ब्रह्म तेन च मुंनिःस्फुटयाञ्चकार ॥५॥ द्रोणपर्वणि नारायणस्य मैनाके तपश्चर्योक्ता,"ऊर्ध्व बाहुमहातेजा ज्वलनादित्यसन्निभः। षष्टिवर्षसहस्त्राणि तावन्त्येव शतानि च ॥ व्यशोषयत्तदात्मानं वायुभ- क्षोम्बुजेक्षणः । अथापरं तपस्तप्त्वा द्विस्ततान्यत्यु- नर्महत् ॥ झावापृथिव्योर्विवरं तेजसा समपूरयत् । स तेन तपसा तत्र ब्रह्मभूतोयथाऽभवेदिति ॥ अत्र तपश्चर्याकाले शिवं ध्यायतोनारायणस्य शिवाभाव- भावनाभावितः शिवभाव एव ब्रह्मभूत इत्यनेनोक्तः । ततेान्यस्य तेन प्राप्यस्य ब्रह्मभावस्याऽभावातू, अत एव तपसा प्रसन्ने शिवे प्रत्यक्षे सति नारायणेन बहुधा परब्रह्मधर्मः स्तवः कृतः। स जानुभ्यां महीं गत्वा कृत्त्वा शिरसि चाज्जलिम्। पद्माक्षस्तं विरूपाक्षमभि- तुष्टाव भक्तिमान् ॥ त्वता वै भूतकृतावरेण्य गो- प्ताराये भुवनस्याऽत्य गोपाः । प्रविश्येमां धरणीं ये ह्यरक्षन् पुरा पुराणी तव देव सृष्टिः । शक्त्या लोका यांति यथा पृथक्त्वं ताभिश्चैवयं संक्षये यान्ति भूयः १ नारायणोदिताम् । २ परब्रह्मभावार्थपूर्णाम् । ३ कारणेन । । ४बादरायणः ।।
भारतसारसंग्रहस्तोत्रविवरणम् । एवं विद्वान्प्रभवञ्चाव्ययञ्च त्वत्संभूतं तव सायुज्यमेति। भूतं भव्यं भावि यच्चाप्या दृष्टं त्वत्संभूताः सप्त इमे हि लोकाः॥ भक्तञ्च मांभजमानंमजस्व प्रीत्या मां वैलो कपितर्महेश, इति । एवं नारायणं शिवाहंभावभा- वनाभावितशिवभावं व्यज्जितवानित्यर्थः ॥ ५ ॥ अथ शिवे निरुपपदब्रह्मपदप्रयोगकृतान्तस्य पर- ब्रह्मभावाभिव्यक्तिमाविष्करोति मूलमिति- मूलं कृष्णोब्रीच ब्राह्मणाश्चे। त्यादावेवं ब्रह्मभावं महेश। पार्थानान्ते नित्यसंरक्षकस्य । व्यासस्तत्रोद्घाटयामास शंभो ॥६॥ भारतापक्रमे "युधिष्ठिरोधर्ममयोमहाद्रुमः स्क- न्धोऽर्जुनाभीमसेनोऽस्य शाखा । माद्रीसुतौ पुष्पफले समृद्धे मूलंकृष्णो ब्रह्मच ब्राह्मणाश्च, इति । युधिष्ठिर- स्य द्रुमत्वरूपणे कृष्णाबद्राह्मणवचच ब्रह्मपदेनोक्तः कश्चिन्मूलत्वेन निरूपितः, कृष्णस्य ब्राह्मणानांच मूल त्वनिरूपणे युधिष्ठिरराजभावहेतुत्वं निमित्रम्, त- च सर्वविधसाहाय्यकादिना तदीयराज्यप्राप्तिहेतोः १ अनब्रह्मशब्दवाच्यः शिव इतिज्ञेयः । २ युधिष्ठिरादीनाम् ॥
भारतसारसङ्ग्रहस्तोत्रविवरणम् । श्रीकृष्णास्य सुप्रसिद्धमेव । ब्राह्मणानान्तु जयाशिषा तत्प्रसिद्धम् । आरण्यपर्वण्यरण्यंप्रस्थिते युधिष्ठि- रे तमनुव्रजतः अग्निहोत्रादिसहितान् भोजयितुमश- तया निवर्तध्वमिति तेन प्रार्थितानां ब्राह्मणानां । स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम । अनुध्या- नेन जप्येन विधास्यामः शिवन्तवेति वचनेन तथैवा नुवजनेन पश्चादादित्यात्ताम्रपात्रं लब्धा तत्रापाक- तः समृद्धमन्नं प्रतिलभ्य तेषां सर्वेषां भरणवचनेन प्री- यमाणानां तज्जयमाशासानानां तेषां। ब्राह्मणानां सह- स्राणि स्नातकानां महात्मनां। दशमोक्षविदां तद्वद्यान् विभर्ति युधिष्ठिर इति, तदुपरितनाध्यायान्तरगत संख्यावचनेन व्यक्तीकृतमेतत् ॥ एवमेव ब्रह्मपदोक्त- नापि ब्रह्मपदाहेण तद्राज्यप्राप्तिकारिणा भवितव्यम्, वेदतपसी यापि राज्यप्राप्तिहेतुधर्मानुष्ठानप्रमिति द्वारेण अपूर्वद्वारेण च तदाज्यप्राप्तिकारिणी। तथापि चेतनमध्यपाठानाचेतनयायुक्तः, प्रायपाठविरोधात् । अतस्तत्र शिवएव ब्रह्मपदेनोक्तो ज्ञायते, तस्य हीत- रापेक्षयाऽप्यधिकं सकलशत्रुवधद्वारा तदीयराज्य- प्राप्तिहेतुत्वं भारत एवारण्यपर्वणि किरातार्जुनीये, द्रोणपर्वणि कैलासगमने, तवैव शतरुद्रीये, सौप्तिके पर्वणि शान्तिपर्वणि, आश्वमेधिकपर्वणि, अन्यत्रापि भारतसारसंग्रहस्तोत्रविवरणम् । तत्र तत्र च सुप्रसिद्धम्, तानि च वचनानि ब्रह्मतर्क- स्तवविवरणे समुदाहृतानि द्रष्टव्यानि, एतेन ब्रह्मचेति कृष्णस्यैव विशेषणमस्त्वित्याशङ्कापि निरस्ता, कृष्णा- दप्यधिकतरं पाण्डवसंरक्षकस्य शिवस्य मूलत्वनिरू- पणे ग्रहणावश्यं भावात् ॥६॥ अथ शिवस्य ब्रह्मविष्णादिसृष्टिप्रलयकर्तृत्ववचनै रपि तस्य परब्रह्मभावाभिव्यक्तिमाविष्कराति ब्रह्मोति- ब्रह्मा विष्णुः शंकरश्चेति देवाः। कारोये संर्गरक्षालयानाम् । तेषां सृष्टिं संहतिञ्च त्वदिच्छा। धीनामूचे द्योतयन्ब्रह्म तत्त्वाम् ॥७॥ शिवस्य त्रिमूर्तिस्त्रष्टुत्वमानुशासनिके प्रतिपा- दितम् । सएष भगवानीशः सर्वतत्वादिरव्ययः । सर्व तत्वविधानज्ञः प्रधानपुरुषेश्वरः । सोसृजद्दक्षिणादङ्गा- ब्रह्माणं लोकसंभवम् । वामपाश्र्वात्तथाविष्णुं लोकर- क्षार्थमीश्वरः ॥ युगान्ते चैव संप्राप्ते रुद्रं प्रभुरथा- सृजदिति ॥ किञ्च तेषामापन्निवारणादिना शिव- स्य तत्संरक्षकत्वं शान्तिपर्वणि प्रतिपादितम् । यं । १ सृष्टिस्थितिप्रलयानाम् । २ ब्रह्मादीनाम् ॥ न भारतसारसंग्रहस्तोत्रविवरणम् । ६५ विष्णुरिन्द्रः शंभुश्च ब्रह्मा लोकपितामहः। स्तुवन्ति वि- विधैः स्तोत्रैर्देवदेवं महेश्वरम् ॥ तमर्चयन्ति ये शश्वत् दुईण्यतितरन्तित इति ॥ अत्र शिवाराधनस्य दुर्गाति तरणोपायत्वोत्तया विष्णादीनां स्तोत्रमपि तदर्थमि- त्यवसायात्, स्तुतिभिः प्रीतस्य तस्य शिवस्य तत्संरक्ष- कत्वं विवक्षितमित्यवसीयते ॥ शिवस्य तत्संहईत्य- मपि शान्तिपर्वण्युक्तम्, “ईश्वरश्चेतनः कर्ता पुरुषःका- रणं शिवः। विष्णुब्रह्माशशीसूर्यः शक्रो देवाश्च सान्व- याः॥ सृज्यते ग्रस्यते चैव तमोभूतमिदं यदा। अप्रज्ञातं जगत्सवं तदा धेको महेश्वर इति ॥ अत्र संहार- रुद्रस्यापि ग्रासे विवक्षितः, तदाह्येको महेश्वर इति वाक्यशेषात् । मूलश्लोके सृष्टिं संहृतिञ्चेति चका- रेण रक्षा सूचिता। एवं ब्रह्मविष्णुरुद्राणामपि सृष्टि- स्थितिप्रलयकर्ता कैमुतिकन्यायेन सर्वस्य जगतस्त- "यतो वा इमानि भूतानीत्यादि- लक्षणलक्षितं ब्रह्म शिव एवेत्यर्थात्सिद्धरतीति तद्यो तनार्थं तदुक्तवानित्यर्थः । द्योतयन्निति हेतौ शतृप्र- त्ययः ॥७॥ ननु भारते क्वचिवचिच्छिवस्य विरिञ्चान्नारा- यणाच्चापकर्णापि प्रतिपादितो दृश्यते कथं तदुपप- त्तिरित्याशंक्याह विशालाक्ष इति- कतैति सिद्धेः, तत् NANGAIN भारतसारसंग्रहस्तोत्रविवरणम् । विशालाक्षःस्थाणु हिणतनयः संहरणकृत् । सरोजाक्षक्रोधप्रभव इति वैशेषिकपदम् । विभूतित्वज्ञप्त्ये किमपि न हितन्नाथ नियतं । निकर्षोक्तिस्ताभ्यां भवतइतिबुद्धि निरसितुम् ८ संति त्रिमूर्तिकाणस्य मायाधिष्ठातृसगुणब्रह्मरू- पस्य नीसाम्बशिवस्य विभूतिविशेषरूपा रुद्राः, यथा संहाररुद्रो लोकसृष्ट्यर्थ लोकरक्षार्थंच विरिखचात्स्वे- च्छया प्रादुर्भूतस्सदवताररूपः। अवान्तरकल्पेषु सं- हारा) हरिक्रोधात्स्वेच्छया प्रादुर्भूतश्च तदवतार रूपारुद्रः । अन्येच नीललोहितो लोकपाल इत्यादयो रुद्राः। अत्र ब्रह्माइसंभूतारुद्रोमहाभारते दर्शितः । अनादिनिधनादेवश्चेतन्यादिसमन्वितः । ज्ञानानि च वशे यस्य तारकादीन्यशेषतः ॥ अणिमादिगुणो- पेतमैश्वर्यं न च कृत्रिमम् । सुष्ट्यर्थं ब्रह्मणः पुत्री ललाटादुत्थितः प्रभुः, इति ॥ हरिक्रोधप्रभवःकोम शिववचनेन दर्शितः। अहं च भवतोवक्तात् कल्पांते घोररूपधृत् । शूलपाणिर्भविष्यामि क्रोधजस्तवपुत्र- कः, इति ॥ नीललोहितनामा कश्चिद्रुद्रो महाभारते कृष्णार्जुनयोः कैलासगमनप्रस्तावे कैलासे शिवपार्श्व २ विष्णुक्रोधजः। ३ त्वदीयविभूतिज्ञापनाय ॥ । १ ब्रह्मपुत्रः।
भारतसारसङ्कहस्तोत्रविवरणम् । स्थिता वर्णितः । ततःपाश्र्व वृषांकस्य ब्रह्मचारी व्यव- द्वैत । पिङ्गाक्षस्तपसा श्रेष्ठोबलवानीललोहितः, इति ॥ लोकपालरुद्रः प्रागुदीच्यां दिशि वसन् कौर्मपुराणे दर्शितः । तत्रेशानस्य भवनं रुद्राधष्ठतनाः शुभम् । गणेश्वरस्य विपुलं तत्रास्ते स गणैर्वृतः, इति ॥ एतेषु ब्रह्माङ्गभवस्य रुद्रस्य स्थाणुर्विशालाक्ष इति वैशे- षिकनामनी । तत्र ब्रह्मणा सृष्ट्यर्थं नियुक्तस्य जरा- मरणरहितान्स्वात्मतुल्यान् असंख्यातान् रुद्रान सृष्ठ- वतो जरामरणयुक्तान् सृजेति बहाणीवचनंश्रुत्वा नैवं विधविशेषसृष्टिर्मया क्रियत इत्युक्तवतः तदनन्तरं ब्रह्मणा सृष्टिव्यापाराव्यावर्तितस्य निर्व्यापारतयाव- स्थान स्थाणुशब्दप्रवृत्ती निमित्तं पुराणेषु दर्शितम् । स्वात्मजेरेव तैरुदैनिवृत्तात्माव्यतिण्ठत। स्थाणुत्वं तेन तस्यासीदेवदेवस्य शूलिनः ॥ ततः प्रभूति विश्वात्मा न प्रसूते शुभाःप्रजाः । स्थाणुवन्निश्चलो यस्मास्थितः स्थाणुरतःस्मृतः, इति ॥ एतस्य विशालाक्ष इति नामतु महाभारत एव राजधर्म ब्रह्मप्रणीतं नीतिशास्त्रं प्रस्तुत्य "ततस्तांभगवानीतिं पूर्व जग्राह शंकरः । बहुरूपोवि- शालाक्षः शिवः स्थाणुरुम पतिः॥ स एव सर्वभूतात्म महादेवः सनातनः । असंख्यातसहस्त्राणां रुद्राणां स्था नमव्ययम् ॥ युगानामायुषोहासं विज्ञाय भगवाञ्छि- भारतसारसङ्गहस्तोत्रविवरणम् । वः । संचिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम् ॥ वैशालाक्षमितिप्रोक्तं तदिन्द्रः प्रतिपदयात, इति । स्था णुशब्दिते तस्मिन्विशालाक्षपदप्रयोगेण तत्कृते नीति शास्त्रे वैशालाक्षनामकीर्तनेन च महाभारत एव तस्य शिवोपासकेषुशिवनियम्येषु च परिगणनेन व्यावर्तिता, तत्र सभापर्वणि, भीष्मपर्वणि च । यत्र भूतानि संसृष्ट्वा सर्वलोकमहेश्वरः । उपास्यते तिग्मतेजा वृताभूतैः सह- स्वशः, इत्युपास्यस्य शिवस्य मैनाके सन्निधानमुक्त्वा, "नरनारायणौ ब्रह्मा यमपिस्थाणुश्च पञ्चमः । उपा- सते यत्र परं सहस्त्रयुगपर्यये, इति, तदुपासकेषु परि- गणनं कृतम् । राजधर्मे । भूयः स भगवान् ध्यात्वा चिरं शूलवरायुधः । तस्यतस्य निकायस्य चकारेकैक मीश्वरम् ॥ देवानामधिपं चक्रे देवं दशशतेक्षणम् । इत्युपक्रम्य। रुद्राणामपि चेशानं गोप्तारं विदधे प्रनुः। महादेवं महात्मानं विशालाक्षं सनातनम् ।। इति, शिवनियम्येषु परिगणनं कृतम्। एवं च सृष्ट्यर्थ ब्रह्मललाटादुत्थितं तमभिप्रेत्य "ब्रह्मा सुरगुरुःस्थाणु मनुश्च परमेष्ठिजः। इत्यारभ्य “एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः। इति, प्रजापतिषु परिगणनं कृतम्। तस्यैवच ब्रह्मसभायां तदुपसर्जनतयाऽवस्थानमादि पर्वण्युक्तं, तत्र हि “तत्र विष्णुमहादेवस्तत्राग्निर्वा- भारतसारसहस्तोत्रविवरणम् । ६९ युनासह। ऋषयस्सर्व एवैते पितामहमुपासते ॥ इत्युक्तम् । तदपिस्थाणुविषयमिति तत्रैव ब्रह्मसदसि- देवान् प्रदक्षिणीकुर्वाणां तिलोत्तमा परितोदष्टुं तेन मुखचतुष्टयं सृमित्यग्रिमवचने स्थाणुशब्देनैव स्प- ष्टीकृतम् । एवञ्चतुर्मुखःस्थाणुर्महादेवोभवत्पुरा । इति । यत्त द्रोणपर्वणि ब्रह्माणं प्रति शिववचनम्, "भवताहि नियुक्तोहं प्रजानां परिपालन इत्यादि,तदपि- स्थाणुविषयमित्येतत् “ततोहराजटीस्थाणुरित्युपक्रमे- ण प्रकाशितं मोक्षधर्मषु । एतौ द्वौ विबुधष्ठौ प्रसाद क्रोधजो मम। मया दर्शितपन्यानो लुष्टिसंहारकारको। इत्यादि नारायणवचने शिवस्य तन्नियम्यत्ववचनमपि विभूति विषयमित्येतत् क्रोधजत्वविशेषणेन दर्शितम् । एवमन्यत्रापि तत्र तत्र निकर्षवचने विभूतिविषयत्व ज्ञापकब्रह्मपुत्रत्वादिविशेषणं प्रयुक्तं द्रष्टव्यं । एवं भारते क्वचिक्वचित् शिवनिकर्षवचनानां तद्विभूति विषयत्वस्य तत्र तत्र प्रयुक्तैशेषिकपदैः सूचितत्वा बकश्चिद्विरोध इति ॥८॥ यत्रतु क्वचिकचिदेतादृशं वैशेषिकपदं नास्ति, यथा पञ्चेन्द्रोपाख्याने पञ्चेन्द्रान् असुरावताररूप कर्णदुर्योधनादिवधार्थ मनुष्यलोके जायध्वमिति नि- ७०. भारतसारसंग्रहस्तोत्रविवरणम्। युक्तवतः शिवस्य नारायणोप्यंशेनावतीर्य तेषां सा- हाय्यकं करोत्वित्यभिप्रायेण नारायणोपसर्पणमुक्तम्, एवमादिषु गतिमाह यत्रेति- यवेदृशं नास्ति विभूति रुद्रता। विज्ञापकं नाथ विशेषिकं पदम् । सापि स्वधर्मग्रहमानवैशसा । सर्वेश्वरं त्वां न निकर्षगीः स्पृशेत् ॥ ९॥ श्रीमहाभारते खलु नीसांबशिवत्रिमूर्वृत्तीर्णस्त्रिमू- यादेः कृत्स्नस्यापि चराचरस्य प्रपंचत्य स्रष्टा पाता नियन्ता संहर्ता समाराधनीयश्च प्रतिपन्त्रः ॥ आरत शेषे हरिवंशेच शकठपरिवृत्या भीतेन नन्दगोपेन कृष्णरक्षायै प्रयुक्ते कवचे "विष्णुस्ते पूर्वतः पातु रुद्रो रक्षतु दक्षिणम् । ब्रह्माच पश्चिमं पायात् स्कन्दार- क्षत्वथोत्तरम् ॥ उपरिष्टात्तथा सूर्यः पात्त्वधश्चापि वासुकिः । पायाच्चत्वामथोवत्स शिष्टाः काष्ठाःस- मोरणः । स्वस्तिं करोतु भगवान् पिनाकी वृषभध्वजः। गावोरक्षन्तु सर्वत्र भूमिपातु सदाशिवः । इति ब्रह्म विष्णुरुद्रेभ्यः शिवः पर इति प्रतिपादितः, तथाभूतं निकर्षगीः कापि नस्पृशेत्, किन्तु बहुषु निकर्षवचनेषु १ विशालाक्ष इत्यादि। ।। २ निकृष्टोक्तिः॥
भारतसारसहस्तोत्रविवरणम् । ७१ विभूतिविषयत्त्वज्ञापकस्थाणुविशालाक्षादिशब्दसत्वा दौचित्याच्च तत्तद्विभूतिविशेषानेवावलंबत इत्यर्थः॥९॥ ननु गीतासु श्रीकृष्णेन स्वस्यैव परब्रह्मभावचिन्ह- मधिकं माहात्म्यं बहुधा प्रपंचितम्, तद्विरोधपरिहारः कथमित्याकांक्षायामाह गीतास्विति---- गीतासु गूढमुदितं भवतः परत्वं । नैवस्फुटन्तदतएव हि सव्यसाची । गीतार्थमेव सहसा पुनरप्यपृच्छत् । तबोधनार्थमुदिता हरिणाऽनुगीता ॥१०॥ आश्वमेधिके पर्वणि अनुगीतापक्रमे। विदितन्ते महाबाहो संग्रामे समुपस्थिते । माहात्म्यं देवकीपुत्र तच्च तेरूपमेश्वरम् ॥ यत्तु तदवता प्रोक्तं तदाकेशव सौहृदात्। तत्सर्व पुरुषव्याघ नष्टं मे व्यग्रचेतसः ॥ मम कौतूहलं त्वस्ति तेवर्थेषु पनः पुनः । भवांश्च द्वारकांगन्ता न चिरादेव केशव ॥ इत्यर्जुनस्य प्रश्ने भगवताऽनुगीतोपदेशः कृतः, तस्यायमनुवादः ॥ १० ॥ ननुगीतासु श्रीकृष्णेन शिवस्य पारम्यं प्रतिपादितं, तदनन्तरं सम्यगर्जुनेन गृहीतमिति पनस्तद्विषयः १ परब्रह्मरूपत्वं । २ अस्फुटत्वादेव । ३ भवतः परत्वावबोधनार्थ ॥
भारतसारसंग्रहस्तोत्रविवरणम् । प्रश्नायमित्युदाहृतप्रश्नाभिप्रायकथनं पूर्वश्लोक कृतं न युज्यते । अर्जुनेन हि, युद्धारंभसमये त्वयोपदिष्टं तव माहात्म्यं तदा विदितमिति खलु प्रश्नोपक्रमे पार्थेनोक्ता तद्विस्मृतमिति श्रीकृष्णं प्रति पुनः पृष्टमि- त्याशंक्य पार्थस्य गीताश्रवणसमये संशयहेतुमुदघाट्य स्वाभिमतं प्रश्नाभिप्रायमाविष्करोति तमेवेति- तमेव चायं पुरुषं प्रपद्य इ। त्युदीरितं यन्मधुकैटभद्विषा। तमेव सर्वान्भ्रमयन्तमीश्वरं। महाफलाप्त्यै शरणं व्रजेतियत् ॥११॥ एतेन कृष्णस्य समं मुमुक्षुणा। स्वाराधनीयः प्रतिभासते परः॥ सर्वस्याहं हृदि सन्निविष्ट है। त्यायैस्तु विष्णुस्तदुदेति संशयः ॥ १२॥ गीतासु । ततःपदं तत्परिमार्गितव्यं यस्मिन्गता ननिवर्तति भूयः । तमेवचाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी, इति, श्रीकृष्णवचनं दृश्यत्ते । अत्र । । १ शिवम् । २ श्रीकृष्णेन । ३ मोक्षप्राप्त्यै ॥ ४ कारणेन । ५ शंभुः। ६ कृष्णः । ७ तस्मादुत्पद्यते संशयः ॥ न भारतसारसंग्रहस्तोत्रविवरणम् । ७३ HERE उत्तमःपुरुषस्त्वन्यः परमात्मेत्युदाहृतः। योलोकत्रय- माविश्य बिभर्त्यव्यय ईश्वरः, इति प्राज्ञ ईश्वरः पुरुष इत्युक्तः सर्वस्य प्रपदनीय इत्युक्तमिति प्रतीयते, तमेव मया शरणीकृतमीश्वरं त्वमपिशरणं भजेत्येवमर्जुन प्रति । ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रा- मयन्सर्वभूतानि यन्त्रारूढानि मायया। तमेव शरणं गच्छ सर्वभावेन भारत। तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् । इत्यनेनोपदिष्टमिति प्रतीयते। यस्मिन्गता न निवर्तन्ति भूयः॥ स्थान प्राप्स्यसि शा- श्वतमिति फलोपदेशात् । उत्तमः पुरुषस्त्वन्य इति श्लोके समानाधिकरणयोः, शब्दयोः एकत्र पुरुषशब्दोऽ न्यत्रेश्वरशब्द इति, अनयोरकार्यप्रतीतेश्च। एवं ताव- कृष्णेन गीतासु निरतिशयमहिमाशालितयोक्तस्य स्व- स्थापि प्रपदनीयत्वेन वर्णितः "शिष्यस्तेहंशाधिमामि- त्युक्तवन्तमर्जुनं प्रत्यपि मोक्षार्थं प्रपदनीयत्वेनोपदि- ष्टः, ईश्वरनाम्ना पुरुषान्तरस्पर्शरहितेन धिया मानितः शिवएव परंब्रह्मेति विवक्षितः प्रतीयते, गीतासु कृष्णेन सर्वकारणत्वसर्वान्तर्यामित्वादीनि बहूनि ब्रह्मलिङ्गानि स्वस्मिन्वर्णितानीति स्वयमेव परब्रह्मेत्युपदिष्टः, एवं कोठिद्वयोत्थानात्संशय एवात्रोचितः ॥ नचकृत्स्नगीता श्रवणानन्तरं "स्थितास्मि गतसन्देहः करिष्ये वचनन्त- भारतसारसंग्रहस्तोत्रविवरणम् । । वेत्युक्तवतोऽर्जुनस्य कथं संशय उच्यतइत्याशंकनीयम्। तस्य स्वकीयैर्युद्धं कर्तुमुचितमनुचितं वेतिसन्देहनिवृत्या युटुं करिष्य इत्येतदर्थकत्वात्, अन्यथा सर्वधर्मान्परि- त्यज्य मामेकं शरणं ब्रजेति कृष्णवाक्यसमनन्तरमेव । स्थितास्मि गतसन्देहः करिष्ये वचनन्तवेत्युक्त्यनन्तर- मप्यर्जुनस्य यावज्जीवं शिवपूजानिष्ठत्वात्। एवं च अनुगीतारम्भगताऽर्जुनप्रश्नोपकमे, “विदितन्ते महा- बाहा संग्रामे समुपस्थिते। माहात्म्यं देवकीपुत्र तच्चते रूपमैश्वरमिति गीतोपदेशेन कृष्णास्य परभावरूपं मा- हात्म्यं विदितमिति यदुक्तं, तत्तदा नगृहीतमिति गुरुं प्रत्यभियोक्तुं पुनः प्रश्नावतरणार्थमगृहीतमेव विस्मृ- तमिति नष्ठशब्देनोक्तमितियोजनीयमितिभावः ॥१२॥ गीतोपदिष्टार्थनिश्चयः प्रागर्जुनस्य नासीदित्येतत्, उदाहृतप्रश्नोत्तरेण नोकृष्णवाक्येनाप्यवसीयत इत्याह इत्थमिति ॥ इत्थमस्य यदि संशयोभवे। दन्यथाग्रहणमेव वा पुनः॥ नाग्रहीन्मदुपदिष्टमेष इ। त्यग्रहं हरिरवोचदुर्तरे ॥ १३॥ १ पूर्वादाहृतप्रश्नोत्तरे॥
भारतसारसंग्रहस्तोत्रविवरणम् । ॥ इत्थं हि तत्रोत्तरारंभः॥ प्रावितस्त्वं मया गुह्यं ज्ञा- पितश्च सनातनम्। धर्मस्वरूपिणं पार्थ सर्वान लोकाश्च शाश्वतान् ॥ अबुध्या यन्त्र गृह्णीथास्तन्मे सुमहदप्रि- यम् ॥ नूनमन्त्रद्दधानासि दुर्मेधश्चासि पांडव । सहि- धर्मः सुपर्याप्तोब्रह्मणः पदवेदन इति । अत्र गृहीतं नष्टमित्यर्जुनस्य वाचा गृहीतत्वविस्मृतत्वोक्तिं श्रु- स्वापि यत् “अबुध्या या गृहीथा इति कृष्णेन तस्याऽ ग्रहणमेवोन, तस्यायमभिप्रायः, गीतापदिष्टमर्थरहस्यं तदा ग्रहीतुमशक्त एव स्वस्मिन्नुपदेशायोग्यत्वप्रतीति- भवेदिति भीत्या विदितमित्युक्त्वा पुनः प्रश्नावसरार्थं नष्टमित्याह, तस्य यदि संशयः, यदिवा मामेवाह परंब्रह्मोपदिशामीति तस्य मतिः, उभयथापि मदुपदि- ष्टार्थतत्वग्रहणं नास्तीति ॥ तत्र च युद्वारम्भवैयग्रम कृतोबुध्यैकाग्रमाभावामूलम्, तदभावेच सर्वधर्वहे श्री- कृष्णे स्थिते मम किमर्थं वैयग्रामिति तद्वैयपाविरोधि श्रीकृष्णविषयविश्वासरूपश्रद्धाभावः स्वयमेव सर्व- धूर्वह इति दुरहंकारकृता दुर्बुद्धिश्चमूलम् ॥ १३ ॥ एवमितः पुनरुपदेक्ष्यमाणापि तस्याग्रहणं माभू- दिति कोपमभिनीय तस्य सुखबोधनार्थं चातुर्यशा- लिन्यैवोक्तिमया गीतोपदिष्टः सर्वोपि परब्रह्मभा- ७६ भारतसारसहस्तोत्रविवरणम् । Ravanama उक्ताचेति- वाऽऽवेदको महिमा न मदीय उक्तः, किन्तु मया यः शरणीकृता मदुपास्यश्च तदीय इति कृष्णेन व्यजित- मित्याह उक्त्वा च संशयविपर्याययोर्निरासं। चक्रे हरिश्चतुरया द्रुतमुक्तिभङ्गया। शक्यं तैदा न मया भणितुं यथोक्तं । योगाधिरूढमनसा न बहिर्डशेति ॥ १४॥ सहिधर्मः सुपर्याप्ता ब्रह्मणः पदवेदने, इत्येतत्प- य॑न्तोक्त्यनन्तरं कृष्णस्येदं वचनं "न शक्यन्तन्मयाभूय स्तथावक्तुमशेषतः ॥ परं हि धर्म कथितं योगयुक्तेन तन्मया, इति ॥ अत्र योगारूढेन अबहिर्मनसा मया तदा तदुक्तं। इदानीं बहिर्मनसा मया वक्तं नशक्यमि- त्युक्तिभङ्गया गीतोपदिष्टः सकलोपि महिमा न स्वकीयः, किन्त्वन्यदीय इति स्पष्टीकृतम । स्वयमेव नित्यस- वज्ञं परं ब्रह्मेति कथने योगयत्नानपेक्षणात् ॥ योगयु- क्तत्वोक्त्यैव योगमार्गण शिवाहंभावमास्थाय तदीयः सर्वोपि महिमा मदीयत्वेनोक्त इत्यपि व्यज्जितम् ॥ नबहिर्दृशेति नशब्देन समासः ॥ १४ ॥ १ यत् गीताशास्त्र पूर्वमुक्तं तत् । २ इदानीम् । ३ वक्तुम् । ४ यथा मया पूर्वमुक्तं तथा। ५ शिवाहंभावभावनामावितेन मनसा ॥ RADHEPRENERAENIMIMARAT भारतसारसङ्गहस्तोत्रविवरणम् । ७७ एवं योगविना वक्तुं न शक्यमित्युक्त्यनन्तरमपि सौ हृदस्मरणात्पुनरप्युपदेशेनास्य संशयादिकं सम्यनि- रसनीयमित्यालोच्य केनचित् सिद्धपुरुषेण काश्यपाय प्राक् तुभ्यं मदुक्तार्थ एवोपदिष्टः, स मया श्रुतः, तम- हं वक्ष्यामीति प्रतिज्ञाय काश्यपसिद्धपुरुषसंवादरूपेति हासेन वैराग्यार्थ पूर्वदेहपरित्यागदेहान्तरपरिग्रहप्र- कारं, इह परत्र च संसारिणो दुःखबाहुल्यं, वैराग्यदृढी करणार्थभावनाविशेषान, विरक्तस्य संसारान्मोक्षोपाय योगडचोपदिश्य, “कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्र चेतसा ॥ न तथापि रथस्थः किं श्रुतवानेतदेव हि, इति, भगवानु पसज्जहार, तदर्थं संगृह्णाति अधुनेति ॥ अधुना तदुपास्यसंशया। द्यपगच्छत्विति सौहदं स्मरन् । इति होक्तमिह श्रुतं मये। त्युपदेश्ये कियदाह तत्र संः ॥ १५॥ एवमेकदेशद्वारा कृष्णेन स्वस्य श्रवणकर्तृत्वोत्या तत्प्रतिपादाबहिर्भावादर्शितः ॥ १५ ॥ १ अर्जुनस्य स्वोपास्य संशयादि । २ सुहृद्भावम् । ३ यत्पूर्व रथ- स्याय तुभ्य मुक्तं मया तदेवार्थ जातं के नचित्सिद्धपुरुषेण काश्यपायोपदिष्टं श्रुतम्। ४ कृष्णः॥
७८ भारतसारसङ्गहस्तोत्रविवरणम् । SUSHMANDIDNEINDIAN अथ तत्रमननकर्तृत्वोत्यापि तदर्शयति तस्येति- तस्य स्थिरीकरणमात्मनि सर्वउत्तम् । स्वस्यैव बुद्धिमनसी द्विजदंपती च । कृत्वाऽनुयोजनतदुत्तरयोरनुक्त्वा । विख्याप्य तद्विवरणञ्च चकार शौरिः॥१६॥ पूर्वतिहासकल्पनया परिनिष्पन्नमर्थजातं मनसा सर्वमालोच्य इदमित्थमेवेति तस्य स्वबुद्धौ स्थिरी करणं पूर्व स्वेन कृतं कयाचित्कल्पनाभना दर्शितवान्, साचेयं कल्पनामङ्गी, यत्स्वकीयबुद्धिमनसी द्विजदम्प- ती कल्पयित्वा। ब्राह्माणी ब्राह्मणं कञ्चित ज्ञानवि- ज्ञानपारगम् । दृष्ट्वा विविक्त आसीनं माझें भर्तारमन्न- वीत्, इत्यादिना ब्राह्मण्याः प्रश्नमवतार्य तदुक्तिना- ह्मणोक्त्योः प्राचीनेतिहासार्थ सर्व निवेश्य तदवधा- रणानन्तरं "यदिदं ब्रह्मणोलिङ्ग क्षेत्रज्ञ इति कीर्तितम् ॥ ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तद्वद, इति श्लोकेन बंधमुक्तिफलभाजः शरीरातिरिक्तस्य क्षेत्रज्ञस्य ग्रहणो पायं वदेति ब्राह्मण्याः पुनः प्रश्नान्तरमवतार्य ब्राह्मणे नोक्तस्तदुपायोपि दर्शितः, तदनन्तरं "क्कनुसा ब्राह्म- पूर्वोक्तं काश्यपसिद्धपुरुषसंवादश्रवणेन प्राप्तार्थतत्वस्य । 6 २ प्रश्नप्रतिवचनयाः । ३ कृष्णः ॥
भारतसारसंग्रहस्तोत्रविवरणम् । A ७९ T णी कृष्ण क्वचासी ब्राहाणामः ॥ याभ्यां सिद्धिरिय प्राप्ता तावुभौ बदम्नेच्युत, इत्यर्जुनेन पृष्टस्य कृष्ण- स्थातरमुपवर्णितम् । मनाने ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् ॥ क्षेत्रज्ञ इति यश्चोक्तः साहमेव धनहुयेति ॥ १६ ॥ एवं भगवता कृष्णन स्वस्थ गीतापदिष्टपरब्रह्म विषयकवणमननवत्वामुपाख्यानढयकल्पनेन प्रपञ्चि- तम् ॥ अथ तेन स्वस्य श्रुते मते च परब्रह्माणि मनो नियमनं तदुपयुक्तभक्तिस्थैर्यार्थ मनसा परब्रह्मभाव- लिङ्गभूतनिखिलतन्महिमावधारणं तस्य श्रुतिसिद्ध ब्रह्मलक्षणभूतजगत्कारणताशालित्य स्वस्यापि तत्सं- सृष्टत्वं कर्मानुष्ठानसहितया तदुपासनया स्वस्य हृदयग्रन्धिविप्रमोक्ष इत्येतत्सर्वमर्जुनभवगमयितुं यत् गुरुशिष्यसंवादरूपमुपाख्यानान्तरं कल्पितं, यच्च तो गुरुशिष्यौ अहं मम मनश्चेति पश्चात्तद्विवरणं कृतम्, तदर्थं संगृह्णाति अग्रे तत्वमिति । अग्रेतत्वं परं किं त्वसहमपिकुतः सर्वभूतानि चेति प्रष्ने शिष्यस्य तस्मै गुरुकृतमखिलं ब्रह्मत- त्वोपदेशं । मोक्षशिष्यस्यचोक्त्वा पुनरपि विज- १ शिष्यस्यार्जुनस्यप्रश्ने । २ शिष्यायार्जुनाय। ३ अर्जुनेन ॥
भारतसारसंग्रहस्तोत्रविवरणम् । थेनानुयुक्तोगुरुः कः शिष्योवेति स्वमेवेश्वर गुरुम वदत्स्वस्थ चित्तं स्वशिष्यम् ॥ १७॥ एवं कृष्णकल्पितोपाख्यानद्वयाभिप्राय सर्वमवधारि तवतार्जुनस्य । ब्रह्म यत्परमंवेद्यं तन्मे व्याख्यातुमर्हसि भवताहि प्रसादेन सुसूक्ष्मे रमते मतिः, इति प्रश्नानन्तरं परब्रह्मस्वरूपमुपदेष्टुकामेन कृष्णेन शिष्याचार्य संवादरूपः कश्चन कल्पितेतिहासःप्रवर्तितः॥ कंचिद्रा- ह्मणमासीनमाचर्य संशितव्रतम् । शिष्यः पप्रच्छ मे- धावी किंस्वित्परतरं तव ॥ इत्युपक्रम्य कुतश्चाहं कुत- श्चत्वं तत्सर्वं ब्रूहि यत्परम् । कुतो जातानि भूतानि स्थावराणि चराणि च । केन जीवन्ति भूतानितेषां स्या- त्कुत्र वा लयः। इत्यादिना शिष्यकृताः केचन प्रश्ना उप- न्यस्ताः, तेषामुत्तरं वक्तुकामस्याचार्यस्य । ब्रह्मप्रोक्त मिदंधर्ममृषिप्रवरसेवितम् । वेदविद्यासमावाप्तं त- त्त्वभूतार्थभावनम् ॥ भूतभव्यभविष्यादि धर्मकामार्थ निश्चयम् । सिद्धसंघपरिज्ञातं पुराकल्पं सनातनम् ॥ प्रवक्ष्यामि महाप्राज्ञ पदमुत्तममद्य ते। बुधवा यदिह- सन्दिग्धा भविष्यन्ति मनीषिणः ॥ इति तदुत्तरोक्ति प्रतिज्ञामुपन्यस्य तत्र श्रोतुरत्यादरसिद्धये महर्षीणां ।
भारतसारसङ्ग्रहस्तोत्रविवरणम् । ८१ ALLERS चतुर्मुखस्यच च संवादरूपमनविषये महदुपाख्यानमा- चार्यणोपदिष्टमिति तदुपाख्यानमुखेन शिष्यप्रश्नवि षयसकलार्थोपदेशः तन्मध्ये यत्स्वस्य विष्णोश्च महि- मवर्णनपरं देवर्षीन्प्रति ब्रह्मवचनम् ॥ सर्वेषामपि भूतानामहं ब्रह्ममयोमहान्। भूतं परतरं मत्तो विष्णो रपिन वियते ॥ राजाधिराजः सर्वेषां विष्णुर्ब्रह्ममयो- महान् । ईश्वरं तं विजानीमः सविभुः स प्रजापतिः ॥ देवदानवभूतानां पिशाचोरगरक्षसाम् । नरकिन्नरय- क्षाणां सर्वेषामीश्वरः प्रभुः । आदिविश्वस्य जगतो विष्णुर्ब्रह्ममयोमहान् । इति ॥ तेन कुतश्चाहं कुतश्च त्वमिति प्रश्नस्योत्तरं निर्गतम् ॥ ब्रह्ममय इति मयटा अभ्यस्तेन ब्रह्मकार्यत्वं विष्णोरुक्तं । सएव च भग- वान् कृष्णः । न च तत्र मयटः स्वरूपार्थकत्वं युक्तम्, अधिकार्थाऽभावे वैयर्थ्यप्रसङ्गात, चतुर्मुखे प्रयुक्तस्य ब्रह्ममयशब्दस्य ब्रह्मकार्यार्थतया तत्प्रायपाठविरोधाप- तेश्च । एवं ब्रह्मदेवर्षिसंवादरूपोपाख्यानोपन्यासान- न्तरंगुरोः शिष्यप्रति वचनं, “त्वमप्येवं महाआग यथोक्तं ब्रह्मणो वचः। सम्यगाचर शुद्धात्मन् ततः सिद्धिमवा- मुहि । इत्युक्तः स तदा शिध्यो गुरुणा धर्ममुत्तमम् । च कार सर्व कौन्तेय ततोमोक्षमवाप्तवान् । कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह । तत्पदं समनुप्राप्तो यत्र ।
भारतसारसङ्गहस्तोत्रविवरणम् । "कान्वसौ ब्राह्मणः गत्वा न शोचति, इति । तदनन्तरं कृषा कः स्विच्छिष्यो जनाईन । श्रोतव्यं यन्मयैतद्वै तन्ममाचक्ष्व हेविनो। इत्यर्जुन प्रश्ने श्रीकृष्णावचनम्, "अहं गुरुर्महाबाहो मनःशिष्यंच विद्धि मे। त्वत्प्रीत्या गह्यमेत कथितं ते धनंजय। मयि चेदस्ति ते प्रीति- नित्यं कुरुकुलोद्वह । अध्यात्ममेत्तच्छ्रुत्वा त्वं सम्य- गाचर सुवृत्त । ततस्त्वं सम्यगाचीणे धर्मेऽस्मिन्कुरुन- न्दन । सर्वकामविशुद्धात्मा मोक्ष प्राप्स्यसि केवलम्, इति ॥ एतदर्थः सर्वोप्यत्र संगृहीतः ॥ १७ ॥ एवं पार्थं मागगृहीतं गीतार्थमिदानीन्तनविवरणा नुसारेण गृह्णास्थित्यभिप्रेत्य कृष्णेनाऽनुगीतासु गीता शयविवरणं कृतमित्येतत्त कृतविवरणानुसारेण परि- निध्यनङ्गीतार्थ प्रदर्शयताह ब्राह्मणीति- ब्रह्मण्येवं स्वचेतोनियमनसमुपस्थायि तंत्र- थिमोक्षं स्वेनैवोक्तं विश्य प्रपदनवचनं तत्प्र- तीतार्थनिष्ठम् । यत्तत्सर्वस्यचाहं हदिमुखवचनं तत्पुनः शास्त्रदृष्येत्येवं पार्थोवगच्छेदिति विट- तिरकार्यत्र गीताशयस्य ॥१८॥ १ हृदयग्रंथि भेदनम्। २ कृष्णेनैवोक्तं । ३ तमेवचाद्यं पुरुषं प्रपद्य इति वचनन् । ४ तस्मिन् श्लोके प्रतीयमानार्थनिष्ठम् । ५ सर्वस्य चाहं हृदि सन्निविमित्यादि वचनम् । ६ अहंमनुरभसूर्यश्वेत्यादिवत् । ७ अनुगीतासु॥
भारतसारसङ्गहस्तोत्रविवरणम् । । अनुगीतातावत् गीताशयविवरणार्थति स्पष्टम, तथैव तदुपक्रमात् । पूर्वमप्येतदेवोक्तं युद्धकाल उप- स्थिते। मया तव महाबाहो तस्मादत्रमनः कुरु, इति। तदुपसंहाराच्च । तत्र च गुरुशिष्योपाख्यानव्याजेन स्वस्यपरब्रह्मप्रपदनादेव हृदयग्रन्थिविप्रमोक्षपूर्विका सिद्धिर्जातेति स्पष्ठमेवोक्तम्, अतस्तदनुसारेण"तमेव चाद्यं पुरुषं प्रपद्य इत्येतदेव स्वार्थनिष्ठम्॥ कृष्णोन अहं- भावेन यो ब्रह्मोपदेशः कृतः स सर्वोपिशास्त्रदृष्टया "प्रा- गोस्मि प्रज्ञात्मा तं मामायुस्मृतमित्युपास्वेति प्रतर्दना- येन्द्रकृतस्वात्मब्रह्मावोपदेशवत् ब्रह्माहंभावभावनाम- युक्तः, नस्वात्मब्रह्मभावाशयप्रयुक्त इति । यदापितमेव चाद्यं पुरुष प्रपा इत्येकं वचनमनुरुध्य श्रीकृष्णस्य ब्रह्माहंभाववचनानामन्यथानयनमयुक्तमिव, तथापि श्रीकृष्णेनैवाऽनुगीतासु प्रपञ्चेन कृतं गीताशयविवरण- मनुरुध्य युक्तमेवेतिभावः ॥ १८ ॥ एवं गीताप्रपञ्जित बहुमहिमशालिनः कृष्णस्यापि समाश्रयणीयत्वेनतस्यां प्रतिपादितं यत् ब्रह्म तत्परम शिवएवेत्युपसंहरन् तत्र शङ्कास्पदं विरोधं परिहरति तच्चेति- तच्च ब्रह्म प्रपत्यास्पदमंसुररिपोरीश्वरत्वं न १ त्रिपुरान्तकस्य ॥ Antigunya भारतसारसङ्गहस्तात्रविवरणम् । चान्यो नाहं कञ्चित्प्रपद्ये विबुधमितिवचः श्रोतुरु त्कृष्टबुध्यै। सेवन्ते नीलकण्ठं परिमितफलदं न प्रबुद्धा इतीदं ब्रह्मैक्यध्यातृविद्वद्विषयमितरथा नास्ति भूयोऽनुरोधः ॥ १९॥ तमेवचाद्यं पुरुषं प्रपद्य इत्यत्र प्रपदनीयपरब्रह्म परस्य पुरुषशब्दस्य बिभर्त्यव्यय ईश्वरः, ईश्वरः सर्व भूतानामितीश्वरनाम्नोपस्थिते शिव एव प्रत्येतव्ये- तु । रुद्रं समाश्रिता देवा रुद्रोब्रह्माणमाश्रितः । ब्रह्मा- मामानितोराजन्नाहङ्कञ्चिदुपाश्रये । इति युधिष्ठिरं प्रति कृष्णवचनेन तस्य समाश्रयणीय एवं नास्तीति प्र- तिपन्नं मोक्षधर्म, "ब्रह्माणं नीलकण्ठंच याश्चान्या दे- वताः स्मृताः । प्रतिबुद्धा न सेवन्ते यस्मात्परिमितं- फलम्, इति फलसामान्यतः शिवस्य प्रतिबुद्धसेव्यत्वं निवारितम् ॥ कथं कृष्णेन शिवस्य समात्रयणीयत्व मुच्यते, इत्यत्रेदमुत्तरम्, 'नाहं कञ्चि दुपाश्रय इति कृष्णवचनं प्रागेव स्वभक्तं वैष्णवैरनुष्ठेयान् वैष्णवध मान् पृष्टवन्तं युधिष्ठिरं प्रति तद्धर्मनिरूपणार्थमेव २ युधिष्ठिरस्य स्वस्निम्भक्त्यतिशथाभिवृध्यै। ३ परिच्छिन्न फलदं। ६ अनुगीतागतबहुवचनसमन्वयो नास्ति नभवेदित्यर्थः ॥ - भारतसारसंग्रहस्तोत्रविवरणम् । प्रवर्तितस्य वैष्णवधर्मशास्त्रस्याऽवसाने खलु, इदं श्रूयते, अतो "न बुद्धिभेदं जनयेदिति न्यायेन स्वस्मिन्युधि- ष्ठिरस्य प्राक सिधभक्तरभिवृद्धये तत्प्ररोचनार्थ "नाहं कञ्चिदुपाश्रय इति वचनं। ब्रह्माणं नीलक- ण्ठंचेत्यादि बचनन्तु, अहंब्रह्मोपासनानिष्ठविद्वट्वि- षयम् । प्रतिमास्वल्पबुद्धीनामित्यादिवचनैकार्थ्या- त, शेषत्वानुसन्धानगर्भायाः सेवाया ऐक्यानुसन्धान विराधित्वाच्च। एवमर्थकत्वएवानयोर्वचनयोभूयोवच- नाऽनुराधो भवति । भूयोनुग्रहएव च न्याय्यः ॥ भूयां सि खल्वनुगीतावचनानि “तमेवचाचं पुरुषं प्रपदो, इत्यस्य प्रतीतार्थपरत्वव्यवस्थापकानि । भूयांसि च भारतपर्वसु हरिवंशे च विष्णोः शिवाराधकत्वप्रति- पादकानि । ननु कर्णपर्वणि, "विष्णुरात्मा भगवतो भवस्यामिततेजसः । तस्मादुना संस्पर्श सविशेषा महेशितुः, इति त्रिपुरविजयोपाख्यानगतवचनेन। य- स्त्यान्दृष्टि स मान्द्वेष्टि यस्त्वामनु स मामनु । आव- योरन्तरन्नास्ति शब्दरथैर्जगत्पते। नामानि तव गोवि- न्द यानिलाके महान्ति च । तान्येव मम नामानि नात्र कार्या विचारणा, इति हरिवंशे कृष्णं प्रति शिववचनेन, अन्यैश्चैवंभूतवचनैः परब्रह्मभूतशिवाभिन्नतया नि- त्यावाप्तसमस्तकाम इति त्वयाप्येष्टव्यम् । तथा च ।
भारतसारसंग्रहस्तोत्रविवरणम् । । कथमस्य, "भक्तं हि मां भजमानं भजस्व, तमेवचाचं पुरुषं प्रपद्ये, इत्यादिवचनमनुसृत्याऽभ्युदयनिःश्रेय- सार्थ शिवप्रपदनमुख्यत इतिचेत्, सत्यम् तथापि, अन्येषामभ्युदयनिःश्रेयसार्थं प्रपदनं स्वस्यापि मूल- मूर्तिः शिव इति तन्महिमातिशयमख्यापनार्थं च लोकानुजिघृक्षोः सकलधर्मप्रवर्तकस्य विष्णोः शिवन- पदनमेष्टव्यमेव । तथैव हि मोक्षधर्म कौम च श्रीकृष्ण वचनन , “मया प्रमाणं हि कृतं लोकस्तदनुवर्तते । नहि देवोस्ति कश्चिन्मे परः पाण्डवनन्दन । इति सञ्चि- न्त्य मनसा पुराहं विश्वमीश्वरम ॥ पुत्रार्थमाराधित वानहमात्मानमात्मना, इति । नैव पश्यन्ति तन्देवं मोहिता मम मायया । तताहं स्वात्मनो मूलं ज्ञापय- पूजयामितम्, इति च । तस्मात् “नाहं कञ्चिदुपात्रय इत्यस्य उक्ताभिप्राय एवाऽन्वेष्टव्यः । तथा आश्वमे- धिके पर्वणि वैष्णवधर्मानेव दृष्टवन्तं युधिष्ठिरं प्रति तानेवोपदेष्टुं प्रवर्तिते वैष्पावधर्मशास्त्रे "कथं वैखा- नसा ब्रूयुः कथं वै पाञ्चरात्रिका इत्यादिना केवलवैष्णव धर्मानेव पुनः पुनः पृच्छरमानेनापि तस्यशिवस्य चारा- धनं तुल्यविकल्पतया तुल्यफलतयैव च दर्शितम् ॥ यथा,"निवेशयति मन्मूर्त्या आत्मानं मां नरः शुचिः । रुद्रं दक्षिणमूर्त्या वा चतुर्दश्यां विशेषतः। सिधैर्ब्रह्म- ।
भारतसारसंग्रहस्तोत्रविवरणम् । ८७ र्षिभिश्चैव देवलोकैस्सु पूजितः । गन्धर्वैर्भूतसंधैश्च गीयमानामहातपाः । प्रविशेत्समहातेजा मां वा शङ्क- रमेव वा। नस्यात्पुनर्भवोराजन्नात्र कार्या विचारणा । विषुवे स्नपनं यस्तु मम कुर्याद्धरस्य वा। अर्चनञ्च यथा- न्यायं तस्य पुण्यफलं शृणु। दशजन्मकृतं पापं तस्य स- घोविनश्यति । दशानामश्वमेधानामिष्टानां लभते- फलम्। विमानन्दिव्यमारूढः कामरूपीयथासुखं । दिव्य- वर्षसहस्त्राणां काठिमेकां प्रमोदते । ततश्चापि च्युतः- कालादिहलोके द्विजोत्तमः ॥ चतुर्णामपि वेदानां पार- गोब्रह्मविद्धवेत् । चन्द्रसूर्यग्रहे धाग्नि मम वा शङ्करस्य- वा। गायत्री मामिकांवापि जपेद्यःशङ्करस्यवा। शहतू- यनिनादैश्च कांस्यघण्टास्वनैरपि । कारयेत्तु ध्वनि- भक्त्या तस्य पुण्यफलं शृणु । सगच्छेद्दक्षिणामूर्ति मां वा नात्रविचारणा, इति, एवं स्वभक्तं युधिष्टिरं प्रति स्व- भजनशिवभजनयोः साम्यमुक्त्वापि वस्तुवृत्तमनुरुध्य शिवभजनस्याधिक्यं सूचितं,तत्र हि"विशेषतीर्थं सर्वेषा- मशक्तानामनुग्रहात्। भक्तानान्तारणार्थ वै सिधर्मतः, इति । भगवत्सेवां कर्तुमशक्तानां भक्तानां- तदनुकल्पतया सेवनीयं तीर्थ किमिति प्रश्ने तस्य प्रति- वचने । सत्यस्य वचनं तीर्थमहिंसातीर्थमुच्यते। तप- स्तीर्थ दयातीर्थ शीलं तीर्थ युधिष्ठिर। मदक्तःसतत- वक्तुमर्ह- ८८ প্ৰাহৰক্ষাৰয়ামমিনু। 6 noteaser तीर्थ शङ्करस्य विशेषतः, इति, स्वभक्तापेक्षयापि शि- वभक्तस्यविष्णुभक्तान्प्रत्यधिकतीर्थत्वमुक्तम्। पारण्य- पर्वणि च तीर्थयात्राविधौ केषुचिच्छिवक्षेत्रेषु शिवा- र्चनस्या, “गाणापत्यमवायुयादिति महाभ्युदयहेतुत्वमु- तम् ,केषुचित्तदर्चनस्य "परमांगतिमाप्नुयादिति निःो. यसहेतुत्वमुक्तम् ॥ एवं विध भूयोवचनानुग्रहात "ब्रह्मा- णं नीलकंठं चेति वचनस्थाप्युक्त एवाभिप्रायोन्वेष्टव्यः । तस्य नारायणातिरिक्तदेवताभजनं परिमितफलमिति- ज्ञातारस्तान्नसेवन्त इत्यर्थकत्येपि नारायणसेवाप्ररी- चनार्थं तदिति नेतव्यं, भूयोवचनानुरोधमनादृत्य यथा- त्रुतार्थग्रहणे च। गोप्रतारं ततोगच्छेत्सरय्वास्तीर्थमुत्त- मम् । यत्र रामोगतःस्वर्ग सभृत्यबलवाहनः॥ देहन्त्य- क्त्वा दिवं यातः स्थास्यतीन्द्रस्य वैभवादिति । गोप्र- तारतीर्थमहिन्ना श्रीरामचन्द्रस्य स्वर्गप्राप्तिवचनात् । सभापर्वणि यमसमावर्णने । तस्यां राजर्षयःपुण्यास्तथा देवर्षयोऽमराः॥ यमं वैवस्वतंतात प्रहृष्टाः पर्युपासते। ययातिनहुषःपूरुर्मान्धाता सोमकानूगः,इत्यारभ्य स्वर्ग- प्राप्त्यनन्तरं यमसभायामवस्थाय तमुपासोनानां रा- जर्षीणां परिगणने "रामोदाशरथिश्चैव लक्ष्मणश्च प्र- तर्द्धनः, इति परिगणनेन च सोपि कर्माधीनलोकप्रा- प्तिको जीवविशेषः स्यात्, “ततःशाइन्धनुःश्रोष्ठं करा- भारतसारसङ्गहस्तोत्रविवरणम् । ८९ ग्रात्प्रापतन्मम । मोहात्पन्नस्तु कौन्तेय रथोपस्थउपा विशम् , इत्यारण्यपर्वणि साल्वयुद्धे श्रीकृष्णस्य मा- हाऽज्ञानवचनेनापि जीवविशेषः स्यात् ॥ तस्मात्कृत्स्न- मपि भारतं गीताऽनगीतामाक्षधर्मवैष्णवधर्मशाखस- हितं विशेषध्वनिवृत्या शिवपारम्यविनान्तं, तत्प्रधा नमेव भगवता श्रीवेदव्यासेन कृतमित्येतत्सुप्रतिष्ठित मिति सर्व समजसम् ॥ १९ ॥ अथकृतस्यस्तोत्रस्य प्रचयगमनार्थं "मङ्गलादनी- त्याप्तवाक्यप्रामाण्यात् स्तोत्रसमाप्तौ शिवपारभ्यो- पदेष्टुगुरुनमस्काररूपं महलमाचरति इस्थमिति ॥ इत्थं चके भारतं यः प्रबन्ध व्यक्त्या व्यासः शाम्भवोत्कर्षवर्षि ॥ ध्वन्यध्वन्यध्वन्यमूर्धन्यधन्यः । तं शौरि तत्साक्षिणञ्चानतोस्मि ॥२०॥ इति श्रीमद्वारद्वाजकुलजलधिकौस्तुभश्रीमदवैतविदा- चार्यश्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनो रप्पयदीक्षितस्य कृतिः, भारतसारसङ्गह स्तोत्रविवरणं सम्पूर्णम् ॥ 9 एवं प्रकारेण । २ व्यंजनया वृत्या । ३ परशिवस्य परब्रह्मत्व प्रबोधकम् । ४ तस्य कृष्णस्य साक्षिणं सदाशिवमूर्तिम् ॥
९० भारतसारसङ्गहस्तोत्रविवरणम् । BAR श्रीप्रतापेन्द्रसिंहाख्याज्जम्बूकाश्मीरयोःप्रभोः। महाराजाल्लब्धटत्तिस्तस्य जंबूपुरे वसन् ॥१॥ श्रीब्रह्मानन्दतीर्थाख्य द्रविडस्वामिनांमुदे ॥ इमङ्गङ्गाधरोलेखीत्तैलङ्गाक्षरपुस्तकात् ॥२॥ चन्द्रवाणांकविधुभि (१९५१)र्मितेविक्रमवत्सरे॥ आषाढश्रुक्के पूर्णायां तिथौ श्रीराममन्दिरे ॥३॥ यस्यगोकुलचन्द्राख्यस्तातोविन्नृपार्चितः॥ श्रुतिव्याकृतिगोऽभ्यासोभ्रातातुजगदीश्वरः।४। निग्रहाष्टके तृतीयश्लोके प्रथमपादे साहसकृतमि- ति पाठस्य सहसकृतमिति प्रमादादशुद्धतया मुद्रण मभूदिति ज्ञेयम् ॥ पृ० ७९ पं० १८ अशुद्धः प्रध्ने, शुद्धः प्रश्ने, इति च ॥ अथ मुखविलासः मानेजर MANAGER, INDIAN PRESS. "इण्डियन प्रेस कटरा, इलाहाबाद।