Sanmati Library, Jaipur
Shreejainstotrasangrahsya Volume - Ii
Front matter
No text on this page.
प्रथमावृत्तिनी प्रस्तावनाः। प्राचीन स्तवनोनी शोधखोलना तेमज तेने छपावी प्रसिद्ध करवाना दुर्घट कार्यने पसार करी, अमारी अत्यन्त महेनतनुं परिणाम दुनियानी दृष्टि सन्मुख उपस्थित करता, अमारो वास्तविक हर्ष जाहेर करवानी स्वाभाविक लोगणी रोकी शकता नथी. एक समय एवो पण हतो के जे वखते संस्कृत भाषामां कहोके देववाणीमां रचायेला, जिनेन्द्र भगवानना मधुर स्तवनोथी, समस्त भारतवर्पना दरेके दरेक शहरमांना देव मंदिरो-देरासरो गुंजी उठतां हतां, परन्तु पंचम कालना दोषमय प्रभावना कालक्रमे करीने धीमे धीमे संस्कृत भापार्नु ज्ञान ओर्छ थवा लाग्यु, अने भाषामां स्तवनो रचावा लाग्या, तेभोनी साथे आजकालना स्तवनोनो मुकावलो करी पांच- नाराओना हृदयने दुःखित नहीं करीए. परन्तु स्पष्ट थवा एटलुं तो जरूर कहेशुं के संस्कृत स्तवनो तरफ जन समूहनी एवी तो उपेक्षा बुद्धि एटले मूधी वधवा लागी के हस्त लिखित प्रतोना पानाओ भंडारमांने भंडारमा सडवा लाग्या. आवीज बुरी दशा जो थोडो वखत चालया करशे तो जैनोना अखुट ज्ञानभंडारमाथी कहोके महासागरमाथी घणुं दुःखदायक परिणाम वहार आवशे, एमधारी संस्कृत साहित्वनी अथवा तो जैन वाणीनी सेवा माटेज, कोइ पण प्रकारनी मुस्केलीनी दरकार कर्या विना आज वीजो भाग (आज मृधीमां नत्र ग्रन्थो) प्रसिद्ध करवा अमे शक्तिमान यया छीए. अमारी तो अन्तर्गत एज अभिलाषा छे के, उधेडमां खवाइ जता, प्राचीन स्तोत्रो तेमज अन्य उत्तमोत्तम ग्रन्यो .
(२) पण आवीरीते दिन प्रतिदिन प्रकाशमां आवो? के जेथी "अन्यस्य दुःखोत्पादनं हिंसा" एटले मूधी अहिंसा धर्मन पालन करवा मजबूत रीते हीमायत करनार सर्वज्ञ कथित जैन शास्त्रनी पवित्रता, प्राचीनता तथा सद् देवतत्व संबंधी विचार करवा जन समूह आकर्षाय!! केटलीएक प्रतोनी फकत एकज नकल, ते पण लख ना- रनी कालजीने लीधे एवी तो अशुद्धमय हती के तेना उपरथी अर्थनो अनर्थ थतो हतो, छतां महा मुशीवते शक्त्य- नुसार शुद्ध करी प्रगट करेल छे. तो पप जो कोई अशुद्धी देखवामां आवे तो विवकी वांचनाराओनी क्षमा याची; अमने लखी जणावा साग्रह विनवी छी. आ ग्रन्थमा दाखल करवामां आवेला स्तोत्रो, चैत्यवन्दनो तथा स्तुतीओमांधी केवा उत्तम प्रकारना भक्तिरस बहेछे, तेनुं वर्णन करवू ते तओनी कलमने अपमान पहोंचाडवा जेवू होवाथी, तेनी कीमत करवानुं वांचनारानेज सोपी छी. आ ग्रन्थ माटे हस्तलिखित प्रतो मोकलवा माटे पन्यासजी श्रीगम्भीरविजयगणिजी, तथा मुनिराज श्रीहंसविजयजी तथा मुनिराज श्री कर्पूरविजयादिनो तेमज विशेष करीने मुनिराज श्रीभक्तिविजयजीनो अमे अन्तःकरण पूर्वक आभार मानी छीओ. आ पाठशालाना उत्पादक मुनिराज श्रीधर्मविजयजी विरचित, शान्तमूर्तिमुनिवर्य श्रीवृद्धिचन्द्रजी महाराजनुं स्तु- तिरूप अष्टक, अन्यत्र दृष्टिगोचर थशे. जे पूज्यपाद् गुरु महाराजजीनी अनुपम ज्ञान तेमज कृपानी प्रासादी वडे, मुनि राज श्री धर्मविजयजी आज आ पाठशालाने कहोके भविष्यमां अनेक, जैन प्रवीण संस्कृत स्कॉलरोने उत्पन्न करनार देवीने, हैयातीमा लावी शक्या छे. ते. गुरुमहाराजश्रीनुं यशोगान अर्पण करवा उपरान्त भव्य जीवोने दर्शनार्थ तेओनी एक ( ३ ) पवित्र शान्त मूर्ति पण भेट कराओ ली. आशातना न करवा माटे वांचकोनुं खास ध्यान खेंची विरमी छी. ॥ शान्तिः ॥ द्वितीयावृत्तिनी प्रस्तावना । अमे अमने धन्य गणीए छीए के आज स्तोत्रसंग्रहना द्वितीय भागनी द्वितीयात्तिने प्रकट करवा अमारा ग्राहको. ए अमने तक आपी छे. आ वीजी आवृत्ति अमे सुधारा साथे छपाची छे अने आ स्तोत्रोना वहोला प्रसार माटे तेनु मुल्य- पण अल्प राख्यु छे. प्रकाशक।
जैनस्तोत्रसंग्रहद्वितीयभागस्यानुक्रमणिका । " पृष्ठ १ म. म. साधुराजगणिकृतभोज्यादिनामगर्भितसटीक- जिनस्तुतिः ! १५ श्रीजिनस्तुतयः। २१ श्रीजिनसुन्दरमरिकृतं श्रीसोमन्धरस्वामिस्तवनम् । २५ श्रीजिनसुन्दरमरिकृतं श्रीपार्श्वनाथम्तवनम् । २८ श्रीजिनसुन्दरमरिकृतः श्रीऋषभस्तवः । ३० साधारणजिनस्तवः। ३१ सर्वसाधारणजिनस्तवनम् । ३२ सर्वजिनस्तवनम् । ३३ सोमतिलकमूरिविरचितं टीकासहितं सर्वज्ञस्तोत्रम् । ३५ टीकासहितं श्रीपार्वजिनाष्टकम् । ४१ श्रीगौतमाष्टकम् । पुद्गलसङ्ख्यास्तवनम् ४३ श्रीमुनिसुन्दरमूरिविरचितः श्रीजिनस्तोत्ररत्नकोशः। १२७ श्रीगुणविजयगणिविरचितश्चतुर्विंशतिभवजिनस्तवः । १३१ श्रीमहावीरजिनस्तवः। १३३ श्रीद्वीपवन्दिरनवमजिनस्तवनम् । १३४ श्रीजैनयशोविजयवनारसपाठशालोत्पादक- शान्तमूर्ति श्रीमद्विजयधर्ममूरिविरचितं प्रथम पार्श्वनाथाष्टकम् । १३५ द्वितीय श्रीशद्वेश्वरपार्श्वनाथाष्टकम् । "
॥ अहम् ॥
शान्तमूर्तिश्रीवृद्धिचन्द्रसद्गुर्वष्टकं स्तुतिरूपम् ।
वाचं वाचं प्रभुगुणगणं लब्धकीतिर्जने यो
वोधं वोधं विषमविवुधं जातपूज्यप्रभावः ।
वेदं वेदं सकलसमयं प्राप्तसान्तस्वभाव:
वर्गस्थोऽसौ विलसति सुखं मद्गुरुद्धिचन्द्रः ॥१॥
स्नायं स्नायं सुपवितवपुः सार्ववाचाऽमृतेन
हाय हायं कुमतकपटं विश्ववन्यप्रतापः ।
यात घातं सुभटपदवी प्राप दुष्कर्मवन्दं
खर्गस्थोऽसौ विलसति सुखं मद्गुरुर्बुद्धिचन्द्रः ॥२॥
पाचं पावं मुनिजनपथं कृत्यकार्येपु लीन:
स्तावं स्तावं गुणिगुणगणं शुद्धसम्यक्त्वधारी ।
नावं नावं जिनवरवरं नीतपुण्यप्रकर्षः
खर्गस्थोऽसौ विलसति सुखं मद्गुरुर्ब्रद्धिचन्द्रः ॥३॥
दायं दायं स्वऽभयमतुलं प्राणिपु प्रीतिपुञ्ज
घायं धायं सुमतिमहिलां क्लुप्तकल्याणपोतः।
भायं भायं प्रवचनवचो वीरदेवाभिमान:
खर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः ॥४॥
मारं मारं रतिपतिभटं त्यक्तमोहादिदोपो
धारं धारं यतिपतिपदं कृत्तकर्मादिवर्गः ।
वारं वारं कुपथगमनं जैनराद्धान्तरक्तः
वर्गस्थोऽसौ विलसति सुखं मद्गुरुद्धिचन्द्रः ॥५॥
(२) द्वेष द्वेषं कपटपटक निहत्रं न्यायमुक्तं पेपं पेषं कुशलविकलं कर्मवारं प्रभूतम् । पोपं पोषं विमलकमलं चित्तरूपं महात्मा खर्गस्थोऽसौ विलसति सुखं पद्गुरुद्धिचन्द्रः ॥६॥ शोषं शोपं कलुपजलधि ध्वस्तपापादिपङ्क: प्लोपं प्लोपं सकलमशुभं शुद्धधीध्यानमग्नः । तोपं तोपं भविजनयनो जैनतत्त्वादिभिर्यः खर्गस्थोऽसौं विलसति सुखं मद्गुरुर्बुद्धिचन्द्रः ॥७॥ सिद्धान्तोदधिमन्यनोत्यविमलज्ञानादिरत्नत्रज शिष्येभ्यो वितरन् समाधिसहितः संप्राप नाकं शुभम् । सोऽयं मद्गुरुरन्वहं विजयतां श्रीवृद्धिचन्द्रो मुनि- स्तस्यैव स्तुतिरुपमष्टकमिदं भव्याः पठन्तु प्रगे ||८|| इति शान्तमूर्तिश्रीमबृद्धिचन्द्रचञ्चरीकायमाण- विजयधर्मसूरिबिरचितं स्वगुर्वष्टकम् ।
9.38-80-84983-3-38-3*.xxx. शान्तमूर्तिश्रीद्धिचन्द्रजीमहाराज । .xax.ka-Kadam.os.comxxxxxsex** xxx**XXXXXXX*************** .APah वृद्धिसिद्धिप्रदाने य-द्धिष्ण्यशक्तिः प्रशस्यते । चन्द्रतुल्यः स शान्तात्मा द्रष्टाऽयं जगतो गुरुः ॥ १ ॥ धर्माभ्युदय प्रेस अनारस सिटी । 3-X-3-28.XXXXXx..xxx.x- -
No text on this page.
अहम् ॥ महामहापाध्यायसाधुराजमणिकृताः भोज्यादिनामगर्भिता स्वोपज्ञटीकासहिता जिनस्तुतिः। श्रीमहावीरमानस्य किश्चिद् वृत्तिर्विधीयते । खोपज्ञचित्रकृत्स्तोत्रे क्रीडामात्राय धीमताम् ॥ १॥ तस्य चेदमादिपद्यम् , आम्बा ॥शा अत्र स्तुती सन्तोऽप्य- नुस्वारा अर्थानुकूल्यान गण्यन्ते लकारस्थाने डकारा डकार- स्थाने च लकारास्तथा कारस्थाने वकारा वकारस्थाने च वकारा अर्थानुकूल्यादेव गण्यन्ते चित्रकृतश्लिष्टकाव्यत्वात् । उक्तं च- "यमक-श्लेप-चित्रेषु वयोर्डलयोन भित् । नानुस्खारविसर्गों च चित्रभङ्गाय संपतो" ॥१॥ ॥ श्रीसर्वविदे नमः ।। आम्बारायण सेलडी खडहडीकेलांमती राङ्गभं चञ्चद्दाडिमदाऽखखारिक रसात्त्वां साकुची खाजलाम् । लाडूषाण्ढखजूरसारखढवूजांकूरदालिप्रभो नौमि श्रीजिनमुद्रसाकरमहं श्रीपानसत्फोऽफलम् ॥१॥ [आम्ब ! अरायण ! सेलडी खलहलीकेलामतिः रागभं चञ्चद्दालिमद्र ! अखखारिक ! रसावां साकुची खानडाम्। लालूपाण्डख ! जूरासारखलन् ! ऊजाकदालिप्रभो! नौमि श्रीजिन ! मुद्रसाकरमहं श्रीपानसत्फोऽफलम् ॥ १॥]
२ श्रीसाधुराजीयजिनस्तुतिः- अस्य व्याख्या ।। हे श्रीजिन ! श्रीवीतराग रसात् म्ययपः कर्माधारे" ॥२।२१७४॥ इति पञ्चमी विभक्तिरसमासे चेत्यर्थः ।। त्वां भवन्तमहं नौमि स्तौमीति संटकः॥ आम्ब ! आ- म्वादीनि पदानि श्रीजिनरूपमुख्यामन्त्रणविशेषणानि । अयुत् रबुङ शब्द इत्यस्य धातोरवनं अम्बः, भावे धन्, शब्दो वाणीति यावत् । तत आ समन्ताद् विश्वव्यापी अम्बः शब्दो यस्य स तथा, विश्वव्यापित्वं च भगवद्वाण्या घटन एवार्थतो भगवता प्रणीतस्य द्वादशाङ्गस्य विश्वव्यापित्वात् तस्यामन्त्रणम् । तथा हे अरायण ! मैं गैं ( शब्द इति धातो रायतेऽनेनेति बाहु- लकात्करणे घनि, रायो वचनम् , न विद्यते रायो वचनम् "णः प्रकटे निष्फले च प्रस्तुते ज्ञानबन्धयोः" इति निघण्टुवचनाद् णश्च बन्धो यस्य सोरायणस्तस्यामन्त्रणमुपलक्षणत्वाच- नाभावेन मनःकाययोरप्यभावो गम्यते । परमात्मस्तुतिहेतो; मध्यग्रहणे आद्यन्तयोरपि ग्रहणमिति न्यायाद्वा ततोऽयोगिगु- णस्थानावस्थायामविद्यमानमनोवचनकायकर्मवन्ध इत्यर्थः । अहं कथंभूतः सेलडी "इ. कामे" इत्येकाक्षरनाममालावचनाद् इ. कामस्ततः सह इना वर्त्तते या सा सेः सकामा योपिदित्यर्थः, तस्यां लडन्ति स्वेच्छया विलसन्तीति सेलडानि इन्द्रियाणि सेलडं मनो वा निन्दितानि तानि तद्वा विद्यन्तेऽस्य असौ सेलडी निन्दायां मत्वर्थी इन् । तथाचाहुबैंयाकरणमिश्राः। "भूम-निन्दा-प्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां प्रायो मत्वादयो मता"॥शा इति उन्मार्गप्रवर्तकेन्द्रियमनःपरतन्त्र इत्यर्थः। अहं पुनः कथं. भूतः खलहलीकेलामतिः खलाः कर्णेजपा हलिनश्च कृपीव- लास्तेपाम् , ई लक्ष्मी शोभामित्यर्थः, कायति स्वस्मिन्निवासा- याऽऽयति कैं धातोः “आतो डोऽद्धा-" ॥५।११७६।। इति ड- . : . ...
, -स्वोपन-टीकासहिता। प्रत्यये खलहलीको दुर्जनवदसद्वाक्यः कृपीवलवनिःश्रीकश्चे- त्यर्थः, ईडिक् स्तुतावित्यस्माद्धातोः “क्तेटो गुरोर्व्यञ्जनात् " ॥५।३।१०६।। इति अप्रत्यये ईडा स्तुतिस्तत्र मतिरभिप्रायो यस्य स तथा वैयधिकरण्येऽपि गमकत्वादुष्ट्रमुखादित्वात् समा- सः । एवमन्यत्रापि ज्ञेयम् । ततश्च खलहलीकश्चासौ ईडामति- श्चेति विशेषणकर्मधारयः। त्वां पुनः कथंभूतं रागभम् "र: कामे" इति वचनाद् रो मन्मथः स च कविसमये सुरूपो वर्ण्यते। अङ्गं वपुस्तस्य भा दीप्तिरङ्गभा रस्येव अङ्गमा यस्य स तथा तं स्मर- वत् सुभगिमलवणिमाञ्चितमित्यर्थः। पुनरप्यामन्त्रयते, हे चञ्चद्दा- डिमद!"दो दाने" इत्येकाक्षरनिघण्टुवचनात् , वा दाम, दानानि तेषामालयः श्रेणयो मद्राणि च मङ्गलानि ततस्तत्पुरुपगर्भ द्वन्द्वे दालिमद्राणि चञ्चन्ति उल्लसन्ति दालिमद्राणि यस्य स तथा तस्यं संबोधनम् , तथा हे अखखारिक ! "खमिन्द्रिय-स्व- र्ग-शून्य-भूपा-ऽऽकाश-सुखेपु च" इति वचनात् प्रथमखशब्दः सु- खार्थः, द्वितीयस्त्विन्द्रियार्थस्ततो न विद्यते खं सुखं येषां तेऽखाः, खानि इन्द्रियाण्येवारयः खारयः, अखाः खारयो यस्य स समासान्ते काच अखखारिको दान्तेन्द्रियशत्रुरित्यर्थः, तस्याम- न्त्रणम् , पुनरई कथंभूतः साकुची कुचौ स्तनौ तद्धारणया लक्षणया हृदयमपि तथा ततश्च न विद्यते कुचो येषां तेऽनुचा असहृदया मूर्खा इत्यर्थः सहाकुविद्यते यः स साकुचः, मृर्खाचारो मुर्खवाग्विलासो ज्ञानाभावो वाऽन्यो वा यः कश्चि- न्मूर्खगुणः स विधतेऽस्मिन्निति साकुची । तथा हे खाजलाम् ! खमाकाशमजडाश्च ज्ञानमयत्वेनात्मान उपलक्षणत्वाद्धर्माधर्म- कलिपुद्गला अपि तान् अमति गच्छति "सर्वे गत्यर्या ज्ञानार्थाः इति न्यायाज्जाराति "मन्वनकनिवि कचित् ।।५।१२१४७॥ इति विचि खाजलाम् तस्य सम्बोधनम् । यद्वा खा भूपा अज- डाश्च विद्वांसस्तेषु अमति गच्छति आराध्यतयेति खाजलाम् ।
20
श्रीसाधुराजीयजिनस्तुति:-
अथवा खं शून्यवादस्तस्याजः क्षेपस्तल्लातीति डे खाजलम् ,
अमति जानातीति अम् विच् , ज्ञानमित्यर्थः । ततः खाजलमम्
ज्ञानं यस्य स तथा तस्य सम्बोधनम् । तथा हे लालपाण्डख !
"ला आदाने" इत्यकाक्षरनिघण्टुवचनाल्ला आदनम् , आदानं च
क्रियारूपं क्रिया च तदनुकूलाभिप्रायाविनाभूता, ततश्च ला
इति कोऽर्थो लोभः, लूश्च छेदनं हिंसेत्यर्थः, तावेव उपा रजनी
तस्यामण्डमिव अण्डं वृत्तः परिपूर्णश्चेत्यर्थः, "खश्च भास्करे"
इति वचनात् खः सूर्यः ततश्च अण्डं चासौ खश्च अण्डखस्ततः
सप्तमीतत्पुरुषः सूर्यस्याण्डोपमया उपरागायुपप्लुतत्वाभावो
गम्यते तत आमन्त्रणं हे लालूपाऽण्डख । तथा हे जूर-
सारखडव् ! जूरैचि जरायामिति धातोर्घनि जूरो जरा,
मैं गताविति धातोः सारणं गमनं भवान्तर इति भावे घनि
सारः, ताभ्यां चाऽविनाभूतत्वेन जन्माप्याक्षिप्यते ततश्च
जूरसारौ खलति, खल सञ्चये चेति धातोः सञ्चयार्थ-
त्वात्सश्चिनोतीति जूरसारखल् संसारः किए तस्मादवति
रक्षति जूरसारखलव् , विच् प्रत्ययः किपि तु रिति स्यात्
तस्यामन्त्रणे ॥ तथा हे उजाङ्करदालिप्रभो ! इच्छार्थस्यावते-
रवनम् , ऊः किप इच्छा तस्याः सकाशाजायते स्मेति ऊजः
सङ्कल्पयोनिः स्मरस्तस्य येऽङ्करा अभिलापविशेपास्तेषां दलब्
विदारणे इत्यस्मात् "इकिश्ति स्वरूपार्थे" ॥५।३।१३८॥ इति
सूत्रेण धात्वर्थे इप्रत्यये दालिविंदारणं तत्र प्रभुः समर्थस्तस्या-
मन्त्रणा | त्वां पुनः कथंभूतं मुद्रसाकर मुद् हर्षः स एव
रसस्तस्याकर इवाकरः खानितुल्यस्तं यथाऽऽकराद्रसादि वस्तु
सञ्जायते तथाऽऽनन्दरसः सर्वोऽपि त्वत्त इत्यर्थः । तथाऽहं
कथंभूतः श्रीपानसत्फः श्रियो लक्ष्म्याः पानं रक्षणं तस्मै सदु-
त्तमपुरुषान् भवाशान् फण कण रण गताविति धातोः फणा-
मि आराधनाय गच्छामीति श्रीपानसत्फः "कचित् " ॥५॥१॥
स्वोपज्ञ-टीकासहिता। १७१।। इति डे साधुः । त्वां पुनः कयंभूतमफलं दलत्रिफला विशरणे इत्यतो न फलति न विशीर्यतेऽनन्तचतुष्टयमयस्वस्व- रूपाद् न भ्रश्यतीति यावदित्यफलः, अच् । यद्वा, न विद्यते फलं प्रयोजन साध्यं यस्य अफलः संसिद्धसर्वकार्य इत्यर्थः। इति प्रथमवृत्तार्थः । अस्यां च व्याख्यायां काव्यवर्णानुपूव्यव प्रायो विशेषणानि व्याख्यातान्यसंमोहाथै न तु कर्दविशेषणानि कर्मविशेषणानि सम्बोधनपदानि च पृथक् पृथगेकपरिपाट्या स्तुतौ च स्तुत्यगुणवर्णनं स्वस्वरूपनिरूपणं च द्वयं विधेयम् , अहमपि कर्तृविशेषणः सर्वैः स्वरूपनिवेदनं सम्बोधनस्त्वामिति कर्मविशेषणैश्च भगवद्गुणवर्णनं चक्रे । खलहलीकेलामतिरित्यत्र हलीकेत्यशेन कृषीवलवयदि निःश्रीकस्तर्हि श्रीपानसत्फ इत्यत्र कथं श्रियः पानाय सत्फ इति । अनयोर्विशेषणयोरसङ्गतिर्न चिन्त्या, यतः कृषीवलचनिःश्रीक इनि निसोऽल्पार्थवाद- ल्पश्रीक इत्यर्थः । यथा ह्यनुदरा कन्या इत्युक्ते कन्याया उदराभावो न ख्याप्यते किन्तु अस्याः क्षामोदरत्वमित्येवमत्रापि भगवत्स्तुतौ प्रवृत्तिमत्त्वाच्च श्रीरपि संपत्स्यत इति तामागमि- पन्ती सम्भाव्य तत्वालनाय सतां परिचरणं नानुचितमिति न कोऽपि दोपः ॥ १॥ श्रीजंबीरमपास्य मोचकरणान् नारंगरक्ताधरा- प्यास्ताचायमगुंदसेवकदहीनाघेनगोक्षीरगुम् । चारोलीनसुरांहिपङ्कजरगोजात्यस्तजावूनदं स्तौमि त्वां सुगुणाकरं बुधनतं पूडाभलांचूरिमाम् ॥२॥ [श्रीजं वीरमपास्य मोचक ! रणान् नारङ्गरक्ताधर ! अप्यस्तावायमगुंद!सेवकद हीन! अयेन गोक्षीरगुम् । चारो ! लीनसुरांहिपङ्कज ! रगोजात्यस्तजाम्बून स्तौमि त्वां सुगुणाऽऽकरं बुधनतं पूलाम! डाञ्चरिमाम् २] ६ श्रीसाधुराजीयजिनस्तुतिः- श्रीजम्बीर० ॥२॥ व्याख्या ॥ अत्रापि काव्यवर्णानु- पृयव पायो व्याख्याऽसम्मोहार्थमेव । एवमग्रतोऽपि ज्ञेयम् । है लीनसुरहिपङ्कज ! लीनाः सेवायै चित्तैकाग्यं प्राप्ताः सुरा देवा यत्र एवंविधर्महिपङ्कजं पादकमलं यस्य स तथा तस्य सम्बोधनम् । तथा हे चारो! भुवनत्रयीसुन्दर त्वां स्तीमि । अस्मदर्थक्रियायोगादहमिति लभ्यते इति सम्बन्धः । तथा श्रीजं मन्मथं वीरं सुभटमपास्य निराकृत्य । हे मोचक ! अप- सारक | कस्मादित्याह रणाद् युद्धात् । श्रीवीतरागस्तवप्रस्ता- वात् कामविपयाद् भव्यानामिति गम्यम् । सकलभावारिमुख्य- कामभटापासनाद् भव्यानां रणादपसारणं यौक्तिकमेव ॥ तथा हे नारङ्गरक्ताधर ! नारङ्ग ताम्रफलविशेपस्तद्वद्रक्तावधरी ऑप्टो यस्य स तथा तस्यामन्त्रणम् । अंपिः समुच्चये, स च सम्बोधनानि समुच्चिनोति । त्वां कथंभूतमस्तावयमगुं| अस्तः क्षयङ्गतोऽव अपकृष्टोऽयमोऽसंयमो यस्याः सा तथा एवंविधागौर्वाणी यस्य स तथा तम् , "गोश्चान्ते इस्व-" २।४।९६।। इत्ति हस्खः। तथा हे द! दायक सांवत्सरिकदाने भगवतो दायकत्वं प्रसिद्धमेव । तथा सेवकान् उपासकान् दयते पालंयतीति “ आतो-१५/१७६|| इति डे सेवकदस्तस्यामन्त्रण हे सेवकद तथा हे हीन! रहित । केनेत्याह, अघेन पापेन । त्वां पुनः कथंभूतं गोक्षीरगुं गोक्षीरं सुरभीपयस्तद्वदुज्ज्वचत्वादिगुणैस्तत्समाने “गौर्वाणी-भू-रश्मि- वज्र-स्वर्गा-ऽक्षि-वारिषु" इति निघण्टुवचनादगावौ अक्षिणी य- स्य स तथा तम् । त्वां पुनः कथंभूतं रगोजात्यस्तजाम्बूनदम् । "रस्तीक्ष्णे" इति वचनाद् रास्तीक्ष्णा लक्षणया दीप्ता ये गावो रश्मयः शरीरश्च तेषां जातिः समूहस्तयाऽस्तं निराकृतं जाम्बू- नदं काञ्चनं येन स तथा तम् । त्वां पुनः कथंभूतं । सुगुणाकरं शोभनगुणोत्पत्तिस्थानम् । पुनः कथंभूतम् । वुधनतं विद्वन्नमस्कृ- तम्। तथा हे पूलाभ,पवनं पू: त्रिवप् पवित्रतां लभते इति पूलाभः ७ 'खोपज्ञ-टीकासहिता।" "कर्मणोऽण" ॥५।११७२ ॥ आन्तरमलक्षयेण विशुद्धिप्रकर्ष लभमानः; यद्वा पू: पावित्र्यं तस्य लाभो.यस्मादाल्लोकाना- मिति व्यधिकरणबहुव्रीहिरिति, वस्यामन्त्रणम् । तथा हे लाचू- रिमाम् "डो वृषाङ्क" इति "अः पुंलिङ्गः शाधारिणि" इति "विरिञ्चावॉश्च" इति वचनाद् ड ईश्वरः अः कृष्णः आ ब्रह्मा तान् चूरयति लक्षणया दर्शनमात्रात् खण्डितानिव करोतीत्येवंशीला या. मा भगवतः श्रीमदपमहापातिहार्यादिलक्ष्मीस्ताममति प्रामोतीति विचि, डाचूरिमाम् । यद्वा । ला लौल्यं चूरिश्च वि- नाशस्तयोर्मा समृद्धिस्तामामयति रुजति अमण रोग इत्यस्य धातोरुजार्थत्वादिनि, लाचूरिमाम् किए, “णेरनिटि" |४|३|- ८३।। इति ओर्लक् , तस्य सम्बोधनम् । अत्र पूर्वत्र च काव्येs- स्वराणां क्वचित् पाठे सानुनासिकत्वम् , अर्थसङ्गत्या च निर- नुनासिकत्वं ज्ञेयम् । न च तथा दोषः, विचित्रनामकरम्बितत्वेन चित्रकाव्यत्वात् । एवमग्रतोऽपि भाव्यम् । इति द्वितीयकाव्य- वृत्तार्थः ॥ २॥ खसखसमुरुकीपोली माण्डामाण्डी लघीयसीघोडाम् । वं साकुलीः सुहाली टोठाधाणीचणाऽऽच्छिन्धि ॥३॥ [खसख ! समुरुकीपोली मालामाली लघीयसी घोलाम् । त्वं साकुलीः सुहाली टोठाधाणी इचण! आच्छिन्धि ॥३॥ खसखस० व्याख्या ॥ हे खसख ! "खं चिदि शून्ये च" इत्यादिवचनात् खं ज्ञानं तस्य सखा खसखः, "राजन्सखे" ।। ७।३।१०६॥ इत्यद् समासान्तः। तस्यामन्त्रणा । त्वं सुहाली सु अतिशयेन नन्ति जन्तुनुपद्रवन्ति सुहानि पापानि किप, तेषामाली श्रेणीम्, आच्छिन्धि समन्ततो विनाशयेनि संटङघटना । वं कथंभूतः समुरुकीपोली । सम् सामस्त्येन उरूणि गुरूणि यानि कानि सुखानि तानि अतिशयेन विद्यन्ते .
८ श्रीसाधुरानीयजिनस्तुति:- एयु मत्वर्थी ये इनि समुरुकीनि ज्ञानादिरत्नानि ज्ञानादीनां मुखातिशयकारणत्वात्तैरेव स्वर्गापवर्गादिवस्तुवर्गप्राप्तः, तन एव च तेषां महासुखवत्ता यौक्तिकी । तेपाम् ईम् लक्ष्मी पुल महत्ये इत्यतः पोलयति महती करांति इत्येवंशीलः शीलार्थ णिनि समुरुकीपोली । ज्ञानदर्शनचारित्रलक्ष्मीपोपविधायक इत्यर्थः। त्वं पुनः कथंभूनो मालापाली । मालाः पुष्पसजो- किलोकोपढौकिता मलते धारयतीत्यवंशीलो मालामाली भोज्यनामत्वं तु सानुनासिकोच्चारस प्रागेव ज्ञापितः मांडामांडी इति । कथंभूनां सुहाली लघीयसी सर्वलोकनिन्धत्वनाति- लाघवमापन्नाम् । त्वं पुनः कथंभूनः घोलाम् । घुटत् पति- घाने इत्यस्य णिगन्तस्य घोट्यन्ति प्रतियातयन्तीति किपि घोटा: कर्माणि तेपामाम् पीडनं यस्माद्यस्य वा स तथा। आमिति अमण रोग इत्यस्य किवन्तस्य "अहन्पश्चमस्य" ॥४११।१०७॥ इति दीर्घरूपम् । न च "स्वरस्य परे प्राविधा॥७४११०॥ इति स्थानित्वेन णिजा व्यवधानेन कथं दीर्घत्वमिति वाच्यम् , "न सन्धिङीयक्तिद्विदीर्घा-७५.११शा इति परिभाषया दीर्घ- विधौ णिज्लुकः स्थानित्वप्रतिषेधात् । यद्वा, णिजि उपान्त्य- द्धावेव आमिति सिद्धम् । ननु कथम् “मो नोम्बोश्च" ॥२।०६७॥ इति मस्य नत्वं न स्यात् , उच्यते, मस्य नत्वं प्राविधौ कर्तव्यं णिज्लुकः स्थानित्वाद् मकारस्य पदत्वस्यैवाभिषेधेन नत्वप्राप्तेरे- वाभावात् । त्वं पुनः कथं० साकुली । सायां लक्ष्म्यां न कुत्सितं लीयते इति क्विपि साकुलीः । यद्वा, न को पृथिव्यां लीयन्ते इति अकुल्यो देवास्तैः सह परिवृतः समवसरणादौ वर्चते यः स साकुलीः । त्वं पुनः कथंभूतः टोगधाणी | "ट: पृथिव्याम्" इति वचनात् टस्य पृथिव्याः पृथिवीस्थजीवानामित्यर्थः । ॐ रक्षणम् । “उस्तु घटे शून्ये वृहद्ध्वनौ" इति वाक्यात्तस्या यः टो.वृद्ध्वनिरुद्धोपणादिरूपस्तत्र तस्मै वा.आ. समन्ततो. धण .
• स्वोपज्ञ-टीकासहिता। है डाम- शब्द इति धातोर्धणति शब्दायते इत्येवंशीलः शीले णिनि टोठाघाणी; जगजन्तुजातरक्षणोद्धोपणोपदेशक इत्यर्थः ॥ तथा हे इचण ! इ. कामस्तं चिन्वन्ति पुष्णन्तीति डे, इचा विषया- स्ते "णः प्रकटे निष्फले च" इति वचनाद् णा निष्फला यस्मिन् स इचणः, निष्फलविषयपराक्रम इत्यर्थः, तस्यामन्त्रणा ।। इति तार्तीयीकवृत्तार्थः ॥ ३॥ कोठीभ डामरनेश पापडक्षाब्जभञ्जने । साले वडाञ्चिते भक्त्या तिठस्ते न सुखावडी ॥४॥ [ कोठी इभ ! डामरघ्न ! ईश ! पापलक्षाब्जभञ्जने । साले वलाञ्चिते भक्त्या तिष्ठस्ते न सुखावली ॥ ४॥] कोठीभ० व्याख्या । हे ईश ! स्वामिन् ! । तथा रघ्न ! डामराण्यशिवानि हन्ति विनाशयतीति ब्रह्मादित्वात् टकि डामरघ्नस्तस्यामन्त्रणा । तथा हे इभ ! गज ! | केत्याह, पापडक्षाब्जभञ्जने | अंहःसंहतिकमलमर्दने । सुखावलिमिच्छति सुखावलीयति सुखावलीयतीति किपि “ अतः" ॥४३६८२।। इत्यलुकि, “य्वोः प्वय्-" ॥ ४ । ४ । १२१॥ इति ग्लुकि च सुखावलीः सुखश्रेणिमिच्छुः पुमान् ते तब साले समवसरण- प्राकारे बलाश्चिते त्रिभुवनवाणसामर्थ्यान्विते भक्त्या तिष्ठन्नव- स्थितिं कुर्वन् कोठी न स्यात् । “कोठस्तु मण्डलम्" इति नामचि- न्तामणिवचनाद् मण्डलाकारं कुष्ठं कोठः सोऽस्यास्तीति.कोठी। कुष्ठस्य महारोगत्वात्तद्रहितत्वज्ञापनेन तदपरसकलरोगरहि- तत्वं सुतरां ज्ञापितं भवति । भक्तामर-भयहरादिस्तवेपु तथेत्र ज्ञापितत्वात् । भगवत्समवसरणभूमि पुनः प्राप्तानां सर्वरोग- रहितत्वे किमुच्यते । इति चतुर्थवृत्तार्थः ॥ ४ ॥ कंकोडायनमारस्य ददतं कर्मदाहकम् । काकडीभिचकारेलाविषयं नो जिनं जनः ।।५।। . २ १० श्रीसाधुराजीयजिनस्तुतिः- [कं कोडायनमारस्य ददतं कर्मदाहकम् । काकलीभिश्चकार ईडाविपयं नो जिनं जनः ॥ ५॥] कबोडा० ॥ व्याख्या ॥ कं सुखं ददतं ददानम् । आरस्य अरिसमूहस्य डायनमुड्डायनकारक सन्त्रासकमित्यर्थः । तथा कर्मदाहकमष्टविधकर्मणां दाहकारकं जिनं श्रीवीतरागम् , को जनः प्राणी काकलीभिर्मधुरमुक्ष्मस्वरविशेपैः कृत्वा ईडावि- पयं स्तुतिगोचरं नो चकार नाकापीत् । अपि तु सर्वोऽपि स्तुतवानित्यर्थः ॥ इति पञ्चमवृत्तार्थः ॥ ५ ॥ रसांगरीत्या त्ववाणीः कइरम्यं जहत्यघम् । मानबाउलियापीय आमलांग जिनेश नो ॥६॥ [रसागरीत्या त्वद्वाणीः क इरम्यं जहत्ययम् । मानवा उ लियाऽऽपीय आमलाङ्ग! जिनेश ! नो ॥६॥] रसाङ्ग० ॥ ६॥ व्याख्या ॥ हे जिनेश ! तथा हे आम- लाङ्ग! आ समन्ततोऽमलमङ्गं यस्य तस्यामन्त्रणा। रसाङ्ग- रीत्या रसाङ्गयुक्त्या त्वद्वाणीस्तव गिरश्चापीय श्रुतिपुरैः पीत्वा के मानवा मनुष्या एं: कामस्य पक्षभूतत्वाद्रम्यं मनोहरं इरम्यं अघं पापं न जहति अपि तु सर्वेऽपि पापरोगापसारणे रसाङ्गसमास्त्वद्वाणीनिपीय पापरोगं त्यजन्तीत्यर्थः । उ इति कोमलामन्त्रणे | आपीय कयेत्याह । लिया, लयेन चित्तैका- ग्यविशेषेणेति यावत् | आपीय आमलाङ्गेत्यत्र विरामविवक्षया सन्ध्यभावः । इति पष्ठसत्तार्थः ॥६॥ घटींडूराञ्चितारस्य डोडिकान्तकचस्यते । लोकं कुठवडीतप्तमकर्पटाङ्गतर्पयेत् ॥ ७ ॥ · [घटीं लूराश्चितारस्य डोऽलिकान्तकचस्य ते । लोकं कुठ-वलीतप्तं अकर्पट ! अङ्ग ! तर्पयेत् ।। ७ ॥]
स्वोपज्ञ-टीकासहिता। ११ घटी० ॥ व्याख्या ॥ अङ्गेति कोमलामन्त्रणे । हे अक- पंटं नास्ति कर्पटं वस्त्रं यस्य सोऽकर्पटोवस्त्राभावेन शेपनिश्शेष- परिग्रहस्याप्यभावोऽवगम्यते । यदुक्तम्- "वपुर्विरूपाक्षमलक्षितं जन- दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्वालमृगाक्षि! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने !?" ॥१॥ इति तस्यामन्त्रणा । ते तव डो ध्वनिर्लोकं जनं तर्पयेत् प्रीणयेत् । तव कथंभूतस्य घटीमपि व्याप्य लूराश्चितारस्य लू: छेदनं तां रातीति लूरं मरणं तद् अश्चितं प्राप्तमारमरिसमूहो यस्य स तथा तस्य स्वल्पकालमध्ये समूलकाकपितद्विपद्वर्गस्येत्यर्थः । पुनस्ते कथंभूनस्य अलिकान्तकचस्य अलिर्भमरस्तद्वत् कान्ताऽतिशयेन कान्ताः कमनीयाः कचाश्चिकुरा यस्य तस्य । लोकं कथंभूतं कुठवडीतप्तं कुत्सितः ठो रुद्र उपलक्षणत्वाच्छेपा अपि तथावि- धसुराः, वली च जरालक्षणम् , लक्षणेन च लक्ष्यं ध्वन्यते, ततश्च पलीशब्देन जरा कथ्यते, तैस्तप्तं सन्तापितं कुदेव-जरा- दिसन्तापितमित्यर्थः ।। इति सप्तमवृत्तार्थः ।। ७ ।। आयुःपूरणमारस्य निरमाः शुभसूरणम् । दुःखांडमीशाकुरुथाः खंडशः सवडाङ्गकः ॥८॥ [आयुःपूरणम् आरस्य निरमाः शुभमू : रणम् । दुःखाण्डम् ईश ! अकुरुथाः खण्डशः सबलाद्गाकः ।।८] आयुः ॥ व्याख्या ।। हे ईश ! त्वं शुभमूर्मगलजनयिता आरस्य आन्तरारिसमूहस्यायुःपूरणं जीवितकालसमापकं रण- मायोधन निरमाः अकापीः। त्वं कथंभूतः सबलाको बलिष्ट- देहः । तथा त्वं दुःखाण्डं दुःखमेवाण्ड खण्डशश्चूर्णमकरुयाः अकापीः । इत्यष्टमहत्तार्थः ।। ८॥
. १२ श्रीसाधुराजीयजिनस्तुतिः- रावडीलासुधामस्येद्रंभांजंघारडीनते । दृढोऽकलांतनार्थते यस्तस्येशनबाकला ॥ ९ ॥ [रावलीला सुधामस्येद् रम्भां जवाऽऽरलीन ! ते । दृढोऽकलान्त ! न अर्थे ते यस्तस्येश! नवा कला ॥९॥] रावडी० ॥ व्याख्या० ॥९॥ हे ईश । हे अकलान्त ! अकला अविज्ञानानि अन्तयति विनाशयतीति अकलान्तस्त- स्यामन्त्रणा । ते तव रावलीला वचनललितं सुधाममृतमस्येत् माधुर्यातिशयेन निराकुर्यात् । तथा ते तव जडन प्रसिद्धा सौकुपार्यातिशयेन रम्भादलीमस्येद् । तथा हे आरलीन आ. समन्ताद् अरणमारोऽलप्रत्ययः; "सर्वे गत्यार्थ ज्ञानार्थाः" इति न्यायाद् ज्ञानमित्यर्थः, तत्र लीनः प्रसक्त इत्यर्थस्तस्य संबो- धनम् । तथा यस्ते तवाऽर्थे पूजने न दृढोऽस्थिरधीभवति तस्य पुरुषस्य नवा कला अपूर्व विज्ञानमित्यर्थः । नवाकलेतिविप- रीतलक्षणयोपहासः प्रकाश्यते । इति नवमवृत्तार्थः ।। ९॥ कइरीधनभारस्य नादुस्तेशकटींडसाम् । शुचीभडांछन खामिन् प्राप्याबालहलिस्तुत॥१॥ क इरीन्धनमारस्य नादुस्ते शकटीं डसाम् । शुचि इंभलाञ्छन ! स्वामिन् ! प्राप्य अवाल! हलिस्तुत ! १०] कइरी० ॥ व्याख्या ।। हे स्वामिन् ! तथा हे अवाल ! विदुषाम्बर तथा हे हलिस्तुत ! वलदेवेन स्तुत उपलक्षणत्वा- दुपेन्द्रमहेन्द्रचक्रवर्त्यादिभिरपि । इ: कायस्तस्य री वा गतिरे- पणयोरितिधानोः विवन्तस्य हिंसापरपर्याये रेपणार्थे प्रयुज्य- मानस्य रीयत इति रीः किए हिंसा तल्लक्षणस्येन्धनभारस्य पूधःसमूहस्य शकटीमङ्गारशकटी नादुर्न दत्तवन्तः ॥ अङ्गार- शकटीति नाम्नि सत्यपि "ते.लुग्या" .॥३३२।१०८॥ इति.पूर्व- स्वोपज्ञ-टीकासहिता। १३. पदलुकि शकटी, यथा सत्याभामेत्यत्र भामेति । किं कृत्वा ते तव डस्य बनेः सां लक्ष्मी शुचि यथा . भवत्येवं प्राप्य । तथा हे इभलाञ्छन ! द्वात्रिंशल्लक्षणमध्ये य इभो गजः स लाञ्छनं यस्य स तथा तस्यामन्त्रणम् । इति दशमहत्तार्थः ॥ १० ॥ जनः कल्याणभाजी स्यात् सकडोडीनधीः पदे तेबोरुभक्तिमान् देवसुलापीलूनदुर्मतिः॥१॥ [जनः कल्याणभाजी स्यात् सकलो लीनधीः पदे । ते बोरुभक्तिमान् देव ! सुलापी लनदुर्गतिः ।। ११ ।। जनः क० ॥ व्याख्या ।। हे देव ! तव पदे क्रमकमले लीनधीरासक्तबुद्धिः सकलो जनः कल्याणानि भजते इत्ये- वंशीलः कल्याणभाजी । केवलाद् भजतेस्तु घिनणि थागीत्येव स्यात् तेन संयुक्तमेव वाक्यं क्रियते, स्याद् भवेत् । जनः कथं- भूत उरुभक्तिमान् उरुश्चासौ भक्तिश्च सा विद्यतेऽस्येति उरु- भक्तिमान् । अत्र बहुव्रीहेः प्रसङ्गेऽपि मतुर्भवति । तथा। "आकै- लासाद्विसकिसलयच्छेदपाथेयवन्तः" इति "गौरखरवदरण्यम्" इति वा । सुष्टु माधुर्यादिगुणैः शोभनं यथा स्यादेवं लपति वक्ति इत्येवंशीलः सुलापी । माधुर्यसारस्यादिगुणप्रगुणवाणीक इत्यर्थः तथा लूनदुर्मतिः, लूना छिन्ना दुर्मतिर्मिथ्यावुद्धिर्येन स तथा । एतेन जिनमतैकभक्तिक इत्युक्तम् । इति एकादशस्त्तार्थः ।।११।। एवं स्तुतिः शुभवतो भवतः प्रसिद्ध- सद्भोज्य शाकवरनामविराजिमध्या । खामिन् । परार्थघटनापटुराशु कर्तु- निर्दम्भमाभ्युदायिकी वितनोति लक्ष्मीम् ।।१२।। ॥ श्रीजिनस्तुतिर्विपमार्था ।। भोज्यादिनामभिर्गर्भिनमिदं स्तवनं संपूर्णम् ।
श्रीसाधुराजीयजिनस्तुति:- एवं स्तुतिः ॥ व्याख्या ।। हे स्वामिन् ! एवमुक्तमकारेण शुभवतः कल्याणभाजो भवतस्तव स्तुतिः स्तवनं कर्तुः स्तोतु- रित्यर्थः निर्दम्भ निर्व्याजमाशु शीघ्रं यशःप्रमोदसुखपुण्यसम- ड्यादिरूपां लक्ष्मी वितनोति विशेषेण विस्तारयति । कथंभूता स्तुतिः। सन्ति प्रधानानि च तानि भोज्यानि च सद्भोज्यानि शाकेषु वराणि शाकवराणि ततो द्वन्द्वस्तेषां नामानि प्रसिद्धानि लोकमतीतानि च तानि सद्भोज्यशाकवरनामानि च तैर्विराजि विराजनशीलं मध्यं यस्याः सा तथा । पुनः कथंभूता । परार्थ- घटनापटुः परे प्रतीयमानेभ्योऽन्ये येऽर्थास्तेषां या घटना यो- जना तत्र पटुश्चतुरा । अथवा परः प्रकृष्टो योऽर्थः सिद्धिल- क्षणस्तस्य घटना मेलनम् । अथवा परार्थः परकार्य परोपकार- घटना तत्र पटुः । परोत्र स्तोता इति । अस्यां च स्तुती वहवोऽप्यर्थी उदयन्ते, अपरेऽपि, ते तु कुशाग्रीयबुद्धिभिः स्वय- मवधार्याः । एतयाख्याया दिग्मात्रप्रकाशकत्वादिति द्वादश- वृत्तार्थः ।। १२॥ इति विवुधश्रुतसागरकौतुकहेतोरिमा स्तुतिं विदधे । वृत्तिं च देवसुन्दरगुरुशिष्यः साधुराजगणिः ॥१॥ महामहोपाध्यायश्रीसाधुराजगणिकृते स्तुतिवृत्तिः ॥ LEVA ॥ अहेम् ॥ ॥ ॐ नमः ॥ भक्तामरमणतमौलिमणिप्रभाणा- मुद्दीपकं जिन ! पदाम्बुजयामलं ते । स्तोष्ये मुदाऽहमनिशं किल मारुदेव ! दुष्टाष्टकर्मारिपुमण्डलभित्सुधीर ! ॥१॥ श्रीमजिनेश्वरकलापमहं स्तुवेमु- इयोतकं दलितपापतमोवितानम् । भव्याम्बुजातदिननाथनिभं स्तबीमि भक्त्या नमस्कृतममर्त्य नराधिराजैः॥२॥ वर्या जिनक्षितिपतेत्रिपदीमनाप्य गच्छेश्वरैः प्रकटिता किल वाग मुदा या । सम्यक् प्रणम्य जिनपादयुगं युगादा- वेवं शुभार्थनिकरैर्भुवि साऽस्तु लक्ष्य ।। ३ ।। यक्षेश्वरस्तव जिनेश्वर !गोमुखाइः सेवां व्यधत्त कुशलक्षितिभृत्पयोदः । त्वत्पादपङ्कजमधुव्रततां दधाना- वालम्बनं भवजले पततां जनानाम् ॥ ४ ॥ इति ऋपभदेवजिनस्तुतयः ॥ १ ॥ . ॥ अहम् ॥ कल्याणमन्दिरमुदारमवद्यभेदि दुष्कर्मवारणविदारणपञ्चवक्त्रम् । यत्पादपद्मयुगलं प्रणमन्ति शक्राः स्तोप्य मुदा जिनवरं जिनौशलेयम् ।। १ ।।
१६ - . श्रीजिनस्तुतयः। मीणाष्टकर्मनिकरस्य नमोऽस्तु नित्यं भीताभयप्रदमनिन्दितमहिपाम् । इष्टार्थमण्डलसुसर्जनदेववृक्ष नित्योदयं दलिततीव्रकपायमुक्तम् ॥ २ ॥ जैनागमं दिशतु सर्वसुखैकदारं श्रीनन्दनक्षितिजहव्यहतिप्रकारम् । संसारसागरनिमज्जदशेषजन्तु- वोहित्थसन्निभमभीष्टदमाशु मुग्धम् ।। ३ ।। मातङ्गयक्षरमलां प्रकरोति सेवां पूर्वान्तमारसमभीप्सितदं विशालम् । उत्पत्तिविस्तरनदीशपतज्जनानां पोतायमानमभिनम्य जिनेश्वरस्य ॥ ४ ॥ इति श्रीवीरजिनस्तुतयः ॥ २ ॥ ॥ अहम् ॥ सकलकुशलवल्लीपुष्करावर्त्तमेघो मदनसदृशरूपः पूर्णराकेन्दुवक्त्रः । प्रथयतु मृगलक्ष्मा शान्तिनाथो जनानां प्रसृतभुवनकीर्तिः कामितं कम्रकान्तिः ॥१॥ जिनपतिसमुदायो दायकोऽभीप्सितानां दुरिततिमिरभानुः कल्पवृक्षोपमानः। रचयतु शिवशान्ति प्रातिहार्यश्रियं यो विकटविषमभूमीजातदत्तिं विभर्ति ॥२॥ प्रथयतु भविकानां ज्ञानसंपत्समूह समय इह जगत्यामाप्तवक्त्रप्रसूतः। भवजलनिधिपोतः सर्वसम्पत्तिहेतुः ..
। श्रीजिनस्तुतयः। १७ प्रथितघनघटायां सर्पकान्तप्रकारः ॥ ३॥ . जयविजयमनीपामन्दिरं ब्रह्मशान्तिः सुरगिरिसमधीरः पूजितो न्यक्षयः। हरतु सकलविघ्नं यो जने चिन्त्यमानः स भवतु सततं वः श्रेयसे शान्तिनाथः ॥ ४ ॥ इति शान्तिजिनम्तुतयः ॥ ३ ॥ - ॥ अहम् ।। श्रेयाश्रियां मङ्गलकोलिसद्म! श्रीयुक्तचिन्तामणिपार्श्वनाय !। दुर्वारसंसारभयाच रक्ष मोक्षस्य मार्गे वरसार्थवाह ! जिनेश्वराणां निकरे क्षमायां नरेन्द्र-देवेन्द्रनतांहिपद्म !। कुरुष्व निर्वाणसुखं क्षमाभृत् ! सत्केवलज्ञानरमां दधान !||२|| कैवल्यवामाहृदयैकहार ! क्षमासरवद्रजनीशतुल्य !। '.सर्वज्ञ! सर्वातिशयप्रधान ! तनोतु ते वाग्जिनराज ! सौख्यम्॥३॥ श्रीपार्श्वनाथक्रमणाम्बुजातसारङ्गतुल्यः कलधौतकान्तिः । श्रीयक्षराजो गरुडाभिधानः चिरञ्जय ज्ञानकलानिधान! ॥४॥ इति पार्श्वजिनस्तुतयः ॥ ४ ॥ r ॥ अहम् ॥ कमलबल्लपनं तव राजते जिनपते ! भुवनेश ! शिवात्मज !। मुकुरवदिमलं क्षणदावशाद् हृदयनायकवत् सुमनोहरम् ।।१।। सकलपारगताः प्रभवन्तु मे शिवसुखाय कुकर्मविदारकाः । रुचिरमङ्गलवल्लिबने बनाः दश तुरगमगारयशोधराः ॥२॥ मदन-मान-जरा-निधनोज्झिता जिनपते ! तव वागमनोरमा । भवभृतां भवताच्छिवशर्मणे भवपयोधिपतज्जनतारका ||शा जिनपपादपयोरुहहंसिका दिशतु शासननिर्जरकामिनी । ३ १८ श्रीजिनस्तुतयः। सकलदेहभृताममलं सुखं मुखविभाभरनिर्जितभाधिपा ॥४॥ इति नेमिजिनस्तुतयः ॥ ५ ॥ ॥ अहम् ।। ज्ञात्वा प्रश्नं तदर्थ गणधरमनसं प्राग्ववीरदेवः अर्हत्सिद्धार्यसाधुप्रभृतिनवपदान सिद्धचक्रस्वरूपान् । ये भुच्याश्रित्य धिष्णं प्रतिदिनमधिकं संजपन्ते स्वभक्त्या ते स्युः श्रीपालवच्च क्षितिवरपतयः सिद्धचक्रप्रसादात् ।।१।। दुस्तीर्ण निस्तरीतुं भवजलनिधिकं पाणियुग्मे गृहीत्वा यानेकान् कोटिकुम्भान् कनकमणिमयान् पष्टिलक्षाभियुक्तान् । गङ्गासिन्धुहूदानां जलनिधितटतस्तीर्थतोयेन भृत्वा सत्सर्वाधीश्वराणां सुरपतिनिकरा जन्मकृत्यं प्रचक्रुः ॥२॥ कुर्युर्देवास्त्रिवर्ण रजतमणिमयं स्वर्णकान्त्याऽभिरामे स्थित्वा स्थाने सुवाक्यं जिनवरपतयः प्रावदन् यां च नीत्यम् । तां वाचं कर्णकूपे सुनिपुणमतयः श्राद्धयो ये पिवन्ति ते भव्याः शैवमार्गागमविधिकुशला मोक्षमाशु प्रयान्ति ॥३॥ देवी चक्रेश्वरी सग्दधति च हृदये पत्तने देवकाख्ये कामे मोदाभिकीर्ण विमलपदयुजैः सिद्धचक्रस्य बीजे । श्रीमद्वर्षादियुक्तैर्विजयप्रभवरैर्यरूपैर्मुनीन्द्रः स्तुत्या नित्यैः सुलक्ष्मीविजयपदधृतैः प्रेमपूर्णे प्रसन्ना ॥४॥ इति श्रीसिद्धचक्रस्तुतयः । ॥ अहम् ।। शैवेयः शङ्खकेतुः कलितजनमनःसंशयः सर्वकालं विश्वेशः सौवदेहातिविजितघनः कर्मधर्मामृतांशुः । क्षान्त्यान्यः कष्टदुष्टक्षयकरणपरो रैवतोत्तंसतुल्यः कल्याणं पञ्चमीसत्तपसि..वितनुतां पञ्चमज्ञानवान् वः ॥१॥ ..
.
श्रीजिनस्तुतयः।
१९
नाभेयत्रैशलेयमथमचरमकश्चन्द्रबच्चारुचश्चन्-
मूर्तिः स्फूर्ति दधानः प्रथयति कुमुदं यो वुधाहादहेतुः ।
पोद्दामश्छद्मपद्माविकचकरकरः सत्कलावान्मनोज्ञो
ज्ञानं पुष्याज्जिनौघः स तपसि भविनां पश्चमीवासरस्य ॥२॥
गीर्वाणाधीशपुंसांपंतिकुसुममिदं पुण्यभाजो मनुष्या
निर्वाणामेयसौख्यमवलफलमथो यत्मसादालभन्ते ।
श्रीसाईप्रौढशुद्धागमधरणिरुहः सिद्धिदानैकरक्त-
स्तत्पञ्चम्यास्तपस्युद्यतविशदधियां भाविनामस्तु नित्यम् ॥३॥
संपूर्णा पूर्णिमेन्दुप्रभसुभगगुणैर्दत्तदेवेन्द्रनाना-
प्रोद्यद्न्धद्विपेन्द्रमचुरमदहरैणाधिपे राजमाना ।
श्रीअर्हद्भक्तिभावा विमलकजकरा भाखदम्बाभिधाना
पञ्चम्यहस्तपोथै वितरतु कुशलं धीमतां सावधाना ॥४॥
इति ज्ञानपञ्चमीस्तुतयः ।
॥ अहम् ।।
स्फुर्जद्भक्तिनतेन्द्रशीर्पविलसत्कोटीररवावली-
रङ्गत्कान्तिकरम्विताद्भुतनखश्रेणीसमुज्जृम्भितम् ।
सिद्धार्थाबरुहस्य कीर्तितगुणस्याहिद्वयं पातु व:
स्नातस्याप्रतिमस्य मेरुशिखरे शच्या विभोः शैशवे ॥१॥
श्रेयःशर्मकृते भवन्तु भवतां सर्वेऽपि तीर्थाधिपा
येपां जन्ममहः कृतः सुरगिरी वृन्दारकैः सादरैः।
पौलोमीस्तनगर्वखण्डनपरैः कुम्भैः सुवर्णोद्भवै-
ईसांसाहतपझरेणुकपिशक्षीरार्णवाम्भोभृतः ॥२॥
सेवे सिद्धान्तमुद्यत्सकलमुनिजनमार्थिताम_रत्नं
गर्जद्वाचाटवादिद्विरदयनयटादर्पकण्ठीरवाभम् ।
मिथ्याधर्मान्धकारे स्फुटविकटकरादित्यमल्पमभं नो
अद्वक्त्रप्रमूतं गणधररचितं द्वादशाझं विशालम् ॥३॥
श्रीजिनस्तुतयः। दक्षो यक्षाधिराजो महिमगुणनिधिश्चण्डदोर्दण्डधारी सर्व सर्वानुभूतिर्विदलयतु मुदा सङ्घविघ्नं महौजाः। अध्यारूढो द्विपेन्द्रं वरभवनगतस्तम्भहस्तोत्कटास्यं निष्पङ्कव्योमनीलद्युतिमलसदृशं वालचन्द्राभदंष्ट्रम् ।। ४ ॥. इति श्रीवीरजिनस्तुतयः ।। . - ॥ अहम् ।। नमेन्द्रमौलिप्रपतत्परागपुञ्ज- स्फुरत्कर्बुरितक्रमान्जम् । वीरं भजे निर्जितमोहवीरं संसारदावानलदाहनीरम् ॥ १॥ पुष्पौघपद्मदलसौरभगुण्डितानि स्वर्णाम्बुजैः सुरकृतैः परिमण्डितानि । वन्देऽर्हतां वरपदानि नतान्यजेन भावावनामसुरदानवमानवेन ॥ २ ॥ नानारत्नैः सुभगमतुलप्रौढसादृश्यपाठे- . विज्ञज्ञातैहुनयभरैः सत्तर रुपेतम् । युक्त्या जैन समयमुदधि कीर्चयाम्यस्मि कार्म बोधागाधं सुपदपदचीनीरपूराभिरामम् ॥ ३ । श्रीमद्वीरक्रमाम्भोरुहरसिकमना राजहंसीव रम्या सिद्धा सिद्धाविरुद्धा विशदगुणलसद्भक्तहृत्पनरुद्धा । या धत्ते स्वीयकण्ठे घनसुरभिरसां पुष्पमालां विशाला- मामूलालोलधूलीबहलपरिमलालीढलोलालिमालाम् ॥४॥ इति श्रीजिनस्तुतयः ।
॥ अहम् ॥ श्रीजिनसुन्दरसूरिकृतम् । श्रीसीमन्धरस्वामिस्तवनम् । . श्रीमन्तमहन्तमनन्तचिन्मयं त्वां भक्तितो नाथ ! यथार्थवाङ्मयम् । सीमन्धरश्रीजिनमस्तदूषणं स्तवीम्यहं पूर्व विदेहभूपणम् ॥ १ ॥ रक्तो गुणैः किं नतनाकिराज ते सेवां श्रितोऽशोकतरुः सुराजते ? | आजानुनानाविधवर्णवन्धुरः पुष्पव्रजोऽप्यद्भुतसौरभोधुरः ।। २ ।। सर्वाङ्गभानां प्रतिवोधकारक- स्तव ध्वनिः शान्तरसावतारकः । चञ्चञ्चलच्चामरराजिरुज्वला पार्थेषु ते चन्द्रमरीचिमन्जुला ॥ ३ ॥ तथांशुजालैटिलं तवासनं सिंहाश्चितं भाति तमोनिरासनम् । भामण्डलं भासितभूमिमण्डलं वभस्ति पृष्ठं जितभानुमण्डलम् ।। ४ ॥ सदुन्दुभिस्ते दिवि विस्मयप्रदो नदन्न केपां ददते च संमदम् । छत्रत्रयं कुन्दवरेन्दुसुन्दरं विश्वाधिपत्यं तव मृचयत्यरम् ।। ५॥ स्फुरज्ज्ञानसन्तानलक्ष्मीनिधानं २२ श्रीजिनसुन्दरमरिकृतं : भजन्तेऽत्र ये ते पदाव्जं प्रधानम् । अरं तेप्वमेया रमन्ते विरामं : सहर्ष विशेषा रमाया निकामम् ॥ ६॥ अवाप्य प्रजा भूरिभाग्यकलभ्यं भजन्ते भवन्तं विभो ! शर्पलभ्यम् । किमु स्थूललक्षं लसत्कल्पवृक्ष लभन्ते न लब्ध्वा नरा मङ्घ सौख्यम् ॥ ७ ॥ लसत्केवलज्ञाननव्यांशुमाली मरालावलीमञ्जुलश्लोकशाली। धराधीश! सीमन्धर! त्वं लुनीषे जननांसि यस्मान्न कं के पुनीपे? ॥ ८ ॥ प्रभो! प्रातरुत्थाय यो नन्नमीति भवन्तं न सोऽङ्गी भवे वम्भ्रमीति । त्वदुक्तेषु येषां मनो ररमीति भयेनैव तेभ्यो भयं दन्द्रमीति ॥९॥ अविश्रामपेयलावण्यगेहं भवन्तं निभाल्य प्रभो! हेमदेहम् । कृतार्थानि कुर्वन्ति ये नित्यमेव स्वनेत्राणि धन्यास्त एवेह देव! ॥१०॥ महाश्चर्यमैश्वर्यमीश! त्वदीयं प्रमोमुद्यतेऽवेक्ष्य चेतो यदीयम् । न केषां भवेयुस्तमां माननीया. घनश्लोकभाजश्च ते श्लाघनीयाः? ॥ ११॥ : आपत्तापादक्षितारं क्षितारं भव्यत्रातं विश्वविश्वेशितारम् । सेवन्ते त्वां के न मा अमा मृर्त धर्म नाथ! मुक्तान्यकृलाः ॥ १२ ।। ।
श्रीसीमन्धरस्वामिस्तवनम् । २३ नीरागोऽपि त्रामरागं गृणासि सन्मायोऽपि व्यक्तमायां मृणासि । निस्वैगुण्यः सद्गुणोघं च धत्से कस्याश्चर्य तेन नेतन दत्से ॥ १३ ॥ सीमातीतां विश्वहर्षप्रणाली कोऽन्यस्तेऽलं स्तोतुमास्ते गुणालीम् । लोकालोकाकाशसर्वप्रदेशा- नीष्टे ज्ञातुं को विना श्रीजिनेशात् ॥ १४ ॥ भावारिभ्यो भूरिभीत्याऽवसन्ना देवाः सर्वे यस्य सेवां प्रपन्नाः । दीन दीनं देव ! सीमन्धराख्य ! स त्वं रक्षादक्ष ! मां रक्ष रक्ष ।। १५ ।। प्रत्यूपे त्वां नन्नमन्नाकिनार्थ क्षोणिख्यातं केवलश्रीसनाथम् । के के धन्या नैव मिथ्यात्वमार्थ संसेवन्ते सन्ततं तीर्थनाथम् ? ॥ १६ ॥ इति सुधमधुरत्वोऽमन्दमानन्ददायी सुरनरवरतिर्यक्सर्वभापानुयायी । वसति मनसि नेतर्ध्वस्तमोहममाद- स्तव कृतसुकृतानां देशनाया निनादः ॥ १७ ॥ अमरनरगणानां संशयान् संहरन्ती शिवपुरवरमार्ग देहिनां व्याहरन्ती। भवति शरणहेतुः कस्यं नो नाथ ! वाणी भवभवभयभाजस्तेऽवल्लीकृपाणी? ॥ १८ ॥ असुरसुरतिरश्चां यत्र रोपशान्तिः स्फुरति हदि वरिष्ठाऽऽनन्दचित्तमशान्तिः । समवसरणभूमिविश्वविश्वासभूमि-
.
२
४
.
२४
श्रीजिनसुन्दरमूरिकृतं
जंगति जनशरण्या तेऽस्त्यघानामभूमिः ॥ १९ ॥
अनुसरति तपोऽर्थ काननं वा धनं वा
त्यजति सृजति जन्तुः संयमोघं घनं वा।
तव वचनविलासैर्यद्विना देवदेव !
भवति जिनपते ! यन्निष्फलं सर्वमेव ॥ २० ॥
भक्तिप्रवत्रिदशविसरं घोरसंसारसिन्धु
भ्रान्त्वा प्रापं शरणमधुना त्वामहं विश्ववन्धुम् ।
श्रीमन् ! सीमन्धर ! जिन ! तथा तत्प्रसीद त्वमेव
यद्दीनः पुनरिह भवे नो विपीदामि देव ! ।।२१ ॥
दुःस्थावस्थास्थपुटितभवापारवन्यां विहीन:
सम्यग्मार्गाद् भ्रमणवशतो दुर्दशां देव ! दीनः ।
नाऽऽसः कां कामिह पुनरवाप्तेऽपि गन्तुं प्रमाद-
स्तस्मिन् दत्ते न मम हृदये तेन नेतर्विषादः ॥२२॥
सेवं सेवं तव पदयुगं स्यां कृतार्थः कदाऽहं
पीत्वा वाक्यामृतरसमहं व क्षिपे कर्मदाहम् ।
इत्येवं मे सदभिरुचितं देवपादप्रसादात्
पूर्वीथीमनुसरतु ते दत्तदुःखावसादात् ॥ २३ ॥
राज्यैराऽऽज्यरिव विषयुतैर्नार्थना विश्वनेत-
भॊगैरोगैरिव मम मृतं सर्वदोषापनेतः !
दिष्ट्या दृष्ट्या तब परपदाम्भोजयुग्मं कृतार्थः
प्रेक्ष्य प्रेक्ष्य क्षपितदुरतिः स्यां नु लब्धार्थसार्थः ॥२४॥
एवं निर्भरभक्तिसंभृतहदा नोऽतिक्रियाकर्मतां
नीतः स्फीततमप्रभावभवनं त्वं नाथ ! सीमन्धर!।
तद्वत्तन्मम देव ! सुन्दरतरं कुर्याः प्रसादं यथा.
भूयासं भवदुक्तशासनवराऽऽसेवाविधौ सोद्यमः ॥२५॥
इति श्रीसीमन्धरस्वामिस्तवनं श्रीजिनसुन्दरसूरिकृतम् ॥ १॥
॥ अहम् ॥ श्रीजिनसुन्दरसूरिकृतं श्रीपार्श्वनाथस्तवनम् । विश्वव्यापियशःप्रभावविभवं सद्भूतभक्त्याऽऽनत- वातानल्पविकल्पजल्पकमलासङ्कल्पकल्पद्रुमम् । स्फूर्जत्कज्जलमजुलच्छवितर्नु श्रीपादेवं स्तुवे जीरापल्लिपयोधिनेमिमहिलामालस्थलालङ्कृतिम् ।।१।। पद्मोल्लासकरस्तमोभरहरः प्रध्वस्तपकोत्करः स्फूर्जद्भाःप्रसरः पदार्थविसरमोद्भासने तत्परः । नित्यं क्लुप्तसुवासरः क्षितदरः प्रौढप्रभावाकरः पुण्यविश्वपते ! स्फुरदिनकरः प्राप्तोऽसि दृग्गोचरः ॥२॥ दारियं गतमय देव ! दुरितं दूरं व्युदस्तं दितं दैन्यं घोरविपद्धटा विघटिता विघ्नबना जन्निरे । भाग्यैर्जागरितं शुभैर्विकसितं श्रेयोभिरुज्जृम्भितं पादाम्भोजनिभालनं तव विभो ! जज्ञेऽधुना येन मे ॥३॥ ध्वस्तोपाधिविशुद्धसंयमतपःकारुण्यसाम्यश्रियः सद्यः सात्म्यमुपागतास्तव यथा स्वामिन् ! स्वभावादपि । एतासामनुभावतो वत ! यथा जाता जगन्यापिनी चेतः कस्य चमत्करोति विभुतास्फूतिर्महिम्नश्च न ? ॥४॥ कल्पक्षोणिरुहो न यत्र मणयो नो कामकुम्भाः फलं यच्छन्ति महतानुभावनिवहा देवा न सेवाकृताम् । देवाऽभङ्गुरजागरूकमहिमाकाले कराले कलो जीरापल्लिजिनेश ! तत्र नमतां दत्से मनोवाञ्छिनम् ।।५।। न ध्यातेजिन ! मन्त्रतन्त्रनिकरों देवनाराधन- श्रीजिनसुन्दरमरिकृतं नों विद्याभिरूपासिताभिरनिशं नो विक्रमोपक्रमः । तीबेर्नापि तपोभिरीश ! यदनुष्ठान चावाप्यते सन्तस्तत्तव नाममात्रजपतोऽभीष्टं लभन्ते फलम् ॥६॥ देव ! त्वत्पदवन्दनकमनसामेकाकिनामङ्गिना मार्गे संसरतां हरन्ति विपमे क्रूरा न चौरा धनम् । दुष्टाकुतभृतोऽप्यटन्ति निकटे व्याघ्रा न शीघ्रागमा यत्तत्पाई ! तब प्रतापमहिमा प्रोज्जागरो जृम्भते ॥ ७ ॥ कास-श्वास-शिरोति कुष्ठ-पिटक-श्लेप्मोरुकण्ड-ज्वरो- दावर्त्त-क्षय-शोफ-मण्डलमुखे रोगैरलं पीडिताः । देव ! त्वचरणाम्बुजन्मशरणं प्रप्ताः प्रतिज्ञान्विता ध्वस्ताऽशेषरुजावजा हि मनुजाः सज्जा भवन्त्यञ्जसा ॥८॥ निःसत्त्व-व्यसनोध-विघ्न-विषमव्याधि-व्यथाविद्दला विश्वाधीश ! तब प्रसादवशतो निमन्तवो जन्तवः । वेगादेव गताखिलानभिमता वीतापदः सम्पदः सबः स्युः प्रतिपद्य हुयमुदयं चानन्दमेदस्विनः ॥ ९ ॥ लक्ष्मीराज्यभिलापिणोऽधिकरमा भोगान् सुभोगार्थिन: पुत्रान् पुत्रकृतस्पृहा बहुगजं राज्यं च राज्यच्युताः । नेतश्चक्षुरचक्षुपो निरुपमं रूपं कुरूपा नरा- स्त्वत्तः स्तुत्यकलाः कलापत्रिकला दिव्यं बलं दुबलाः ॥१०॥ नव्या काव्यकलां सदाऽप्यकवयोऽजल्पाश्च जल्पाकतां प्रागल्भ्यं भृशमप्रगल्भमनसो विद्यामविद्यान्विताः । तत्त्वज्ञानमताविका यदाखिलाभीष्ट लभन्ते ततो देवः कामिततीर्थमित्थमखिले ख्यातं गतो भूतले ॥ ११ ॥ नाथ ! त्वत्पदपनयोर्नतिमतां वाधाविधानाय नो भूत-प्रेत-पिशाच-किन्नरगणा रक्षो न यक्षोरगाः। व्याला हालहलानला न मरको वेतालमालाः खला भव्यानां प्रभवन्ति कार्मणमुखक्षुद्रामयोपद्रवाः ।।१२।।
श्रीपार्श्वनाथस्तनवम् । २७ ध्यायन्तस्तव नाममन्त्रमनघं क्षेमादविना जना लब्धार्था विपमे जलस्थलपथे गेहे समाजाच्छति । नासत्यं शपथं प्रतापचकिताः कुर्वन्ति दिव्यं नरा दुष्टा धृपदोऽपि चौरचरटा भञ्जन्ति नाज्ञां तव ।।१३।। विघ्नध्वंसकृतैः खलास्त्वपि पलायन्ते प्रतापानल- ज्वालाभिज्वलिता दिशो दिशमिलापालाः शृगाला इव । दुष्टा धृष्टहदो हादपि लुठन्त्यही तथा त्वाऽञ्जसा वादे वरिगणे महारणभरे नेतर्लभन्ते जयम् ॥ १४ ।। प्राकाम्यं महिमाऽणिमा च लघिमा कामावसायित्वयुक् । माप्तीशत्ववशत्वमेवमतुला अष्टी महासिद्धयः । त्वत्पादाब्जजुपां भवन्ति भविनां किं वा न सम्पद्यते प्राप्ते कल्पतरौ जिनेप्सितततिप्रत्यर्पणप्रत्यले ॥१५॥ मोहं द्रोहपरं निवारयतमा मारि महारिं हर क्रोधं रोधपरं न योधय विभो ! क्षोभं च लोभ नय । दम्भ देव ! निशुम्भ लम्भय भयं वंसं शुचं संहर स्तम्भं स्तम्भय मे मथान कुनयं मिथ्यात्वदोपद्विपम् ॥१६॥ पूर्वोपात्तमचं विघट्टय विभो ! भ्रान्ति प्रभो । भ्रंशय विश्वव्यंसकतामकान्तविपदं मादं प्रमादं क्षिप । अज्ञानं विनिवर्तयेरविरतं त्वं त्याजयासंमतं प्रत्यादेशय पेशलेतरपथप्रस्थानमन्तर्द्धय ॥ १७ ॥ खामुज्जृम्भय भूरिभक्तिमनिभा बोधि विशोधि नय खान्ते सीमशमं निवेशय विभो ! पुण्यां निजाज्ञां च मे । दैन्यं मर्दय संविदं विशदयाऽऽनन्दं प्रयच्छोन्मदं सम्यग्दर्शनदर्पणं विदलिनार्कयोनमुद्योतय ॥१८॥ धर्म निश्चलतामवापय भवच्छेदं दिश छेकना- मर्थित्वं सुकृतेषु मेऽतनु सृज श्रेयस्तति विस्तृनाम् । संवेगे ढरङ्गमङ्गय मना नीरागतासङ्गानि
२८
श्रीजिनसुन्दरमूरिकृतः
तन्या नाथ ! तथा रति जिनमते कुर्याः सुमार्गे धृतिम् १९
लक्ष्म्याकर्पणशृङ्खला शिवपदप्रासादनिःश्रेणिका
श्रेयःसन्ततिहेतुरतिदलनादोपोदयाद्युतिः ।
आपत्तापभरे समीरलहरी श्रीपार्श्व ! विश्वेश! ते
संसारार्णवलड्ने घनतरी भक्तिः स्थिरा मे हृदि ॥२०॥
मिथ्यात्वद्विषताकदर्थितमिमं दुष्कर्मभिर्दुःखितं
ग्रस्तं रागमहोरगेण विपयस्तेनोत्कटैलुण्टितम् ।
अज्ञानेन वृतं तमाकवचितं भावारिभिर्भापित
हीनं दीनमुपागतं स्वशरणं मां रक्ष रक्ष प्रभो ! ॥२१॥
द्रष्टव्यस्त्वमसि प्रभो ! त्रिभुवने वन्योऽभिवन्धस्तुतः
सेव्यः स्तुत्यगुणः शरण्यचरणो ध्येयो निधेयो हृदि ।
श्रेयःस्थेयमतिः प्रशस्यमहिमानेयो न नेयोऽर्थिना.
मभ्यर्थ्यः प्रभुरद्भुतोदयपदं श्रीदेव ! नन्याश्विरम् ॥२२॥
इत्यानन्दवशंवदात्ममनसा प्रज्ञां विनाऽपि स्तुतः
श्रीपार्च ! श्रितभव्यवत्सलमतिः सद्यः प्रभो'
भक्ति निर्मलसोमसुन्दरगुणश्रेणीसखीशालिनी
स्वां भृत्यस्य भवे भवेऽभ्युदयिनी देवेच्छतो यच्छ मे॥२३॥
इति श्रीजिनसुन्दरसूरिकृतं श्रीपार्श्वनाथस्तवनम् ।
॥ अहम् ॥
श्रीजिनसुन्दरसूरिकृतः
श्रीऋषभस्तवः।
श्रेयोलतापल्लवनैकनीरदं
त्वां देहिनां देव ! भवाब्धितीरदम् ।
आदिप्रभो! भक्तिभरेण भूरिणा
स्तवीमि सेव्यं पुरहूतसूरिणा॥ १ ॥
श्रीऋपभस्तवः। २९ मूर्तिस्तवेनेन्दुकलाविलासिनी विलासिनी मुक्तकुमुन्महोदयम् । महोदयं वादिशते वितन्वती वितन्वती वा शुभमत्र पावनी ॥२॥ त्रपावनीमापितवान् हिमालयं हिमालयं शुभ्रयशोवितानतः । वितानतः स्वर्गिगणिः कलाधरः कलाधरस्तारय मां भवापदः॥ ३ ॥ भवापद प्राणिहितासदाऽऽपदा सदा पदाम्भोजनमनराऽमरः । नराऽमरस्यालकदुःखतापनः खतापनः शर्मकनप्रवाधने ॥४॥ प्रबोधनेतस्तव दीप्रशासन प्रशासनं प्राप्य कुवादिनो दयम् । दिनोदयं मोहनिशि प्रभो ! भर्व प्रभोऽभवं सिद्धसमाहितोऽधुना ।। ५ ।। हितो धुनानो जगतो दुरापदं दुरापदम्भद्विपतो विमोहन !! विमोह ! नम्रामर ! हे विभो ! भवे विभो ! भवेन्मे शरणं सदा भवान् ।। ६ ।। सदा भवान्ताहितशंमयाऽमुना मयाऽमुना त्वं स्तुतिमापितः प्रगे। पितः ! प्रगेयोरुगुणरमाऽममा रमा ममाधेहि महोदयोद्भवाः ॥ ७॥ इति श्रीऋपभस्तवः समाप्तः ।
३० श्रीजिनसुन्दरमरिकृतः ॥ अहम् ।। सर्वज्ञ ! सर्वामरराजपूजितं त्रिलोकनेत्राम्बुरुहेप्वहर्षतिम् । अगम्यपुण्योदयहेतुदर्शन त्वां स्तोमि भक्त्याऽस्तकुवादिदर्शनम् ॥ १ ॥ जगत्रयीवर्ति 'हृचतु- स्त्रिंशद्विशिष्टातिशयैरलङ्कृता। मूर्तिर्विशां भाविसमृद्धिशंसिनी पुण्यस्पृशां याति तवेश ! हपथम् ।। २ ।। भवत्क्रमालोकनकर्मकार्मण- प्रयोगतो यः सुभगत्वमग्नुते । तमुज्ज्वलाऽऽलिङ्गति मङ्गालावलिः पदं विदध्युर्विविधाश्च सम्पदः ॥३॥ जगन्मनोवृन्दविनोदमेदिनी- स्वभावकर्मक्षयदेवसम्भवाम् । त्वत्यातिहार्यातिशयश्रियं परां समीक्ष्य साक्षाजिन ! को न मोदते ? ॥ ४ ॥ यं दातुमीशाः सुरमेदिनीरुहो न कामकुम्भा नु न कामधेनवः । तस्योपलम्भे प्रतिभूर्भवन् भवान् शुभोदयस्यास्ति विभो ! तदुत्तमः ॥ ५ ॥ जिन ! त्वदालोकनवन्दनोद्भवं सुखं महत् स्वर्गसमृद्धिभोगतः। मन्ये यतोऽमी तदतुच्छवाञ्च्छया सुधाभुजोऽपि त्वदुपान्तमे(ए)यूति ॥ ६ ॥ निरत्यया सा सुकृतस्य संहति- जगत्पते ! स्फातिमियतुं मेऽन्वहम् ।
श्रीऋपभस्तवः। प्रभुर्य याऽनन्तगुणात्मवान् भवान् विश्वकबन्धुर्भगवन्नवाप्यते ॥ ७ ॥ इति स्तुतस्तीर्थपते ! प्रमोदतः प्रसीद सद्यो जगदेकवत्सल!! तथा यथा मे सकलद्धिसिद्धिदा भवत्पदाम्भोरुहभृङ्गता भवेत् ॥ ८॥ इति साधारणजिनस्तवः श्रीजिनमुन्दरसूरिकृतः ।। ।। अहम् ।। जयश्रियां हेतुरमर्त्यपूजित ! प्रज्ञातविज्ञेय ! वरेण्य ! वाङ्मय !! जगद्गुरुर्गेयगुणौघगौरवः सर्वज्ञ ! सर्वज्ञनमस्कृतक्रम ! ॥ १ ॥ विघ्नाग्निमेघ ! त्वममोघसंयमः कृतार्थशक्तिः प्रकृतद्विपत्क्षयः । निस्सीमसाम्यः श्रितशीलसङ्गतिर्लोकपृणस्तीर्णतमोपहार्णवः ।।२।। चैत्यद्रु-दिव्यध्वनि-देवदुन्दुभि-च्छत्रत्रयी-चामर-पुष्पवर्पणः । भामण्डलस्वर्णमयाऽऽसनान्वितैःश्रीप्रातिहायजयराजितो जिनः॥३॥ अनावृतज्ञानविशालदर्शनः प्रकीर्णपुण्यश्रयणीयशासनः । धामन् ! महिम्नां महतांत्वमहतो दृशा खया मां कुरु मुक्तकल्मपम्॥४॥ अनुत्तरज्ञानधरस्तमोभर- प्रभाकरः क्लेशहरः शिवङ्करः। सुखाकरः प्रौढनरः श्रितामरः क्षिप्तस्मरः सिद्धिवरः श्रियम्भरः ॥५॥ परार्थवृत्तिः पृथुतत्चपद्धतिः । कृतेष्टपूर्तिः प्रथितानिसन्मतिः । सर्वज्ञ! सर्वाभ्युदयकहेतुना स्वभक्तिदानेन सदा प्रसीद मे ॥ ६ ॥ इति सर्वसाधारणलवनं श्रीजिनमुन्दरमरिविरचितम् । -TEACerer- ३२ श्रीजिनसुन्दरमरिकृतः नमः सर्वज्ञाय । श्रेयांसि विश्राणयितारमश्रम स्वामिन् ! श्रितानां श्रयणीयशासन !। स्तुवन् भवन्तं भववैरिभञ्जन कुर्वे कृतार्थी स्वगिरं निरञ्जनम् ।। १ ।। विघ्नैः समं सङ्घमघस्य निन्नतः खदर्शनादेव तृदेवदुर्लभाः। सम्पादयन्नापदपेतसम्पद- स्त्वमेकमित्रं जगतोऽपि वर्त्तसे ॥२॥ मनीपिणः शैवसुखाभिलापिणो भवन्तमेकं तदुपायमाश्रिताः। नेतर्यतो हेतुपथप्रवर्त्तने फलस्य सिद्धिः सुलभेव भाविनाम् ॥ ३॥ सुनोपि सौख्यं विकृणोपि कल्मपं करोपि लक्ष्मी वितनोपि सन्मतिम् । धुनोपि दोपांश्च मिनोपि विप्रियं प्रभोऽङ्गिनां लोचनगोचरं गतः ॥ ४ ॥ स्वामीयति श्रेयसि शासकीयति स्थामीयति स्वीयति सेवधीयति । गुरूयति स्वर्गितरूयति स्वरू- पति द्विपामीश ! भवन्ति मार्यधीः ।। ५॥ इति स्तुतेस्त्वं पथि संस्थितः कृतः प्रसीद सीदत्तमसेवकसके । सद्बुद्धिवोधिस्वपदाब्जभृङ्गता- मदोषतां चानु""मय्यभीष्टव ॥ ६ ॥ इति सर्वजिनस्तवनं श्रीजिनसुन्दरसूरिकृतम् ।
॥ अहम् ।। श्रीसोमतिलकसूरिविरचितं सर्वज्ञस्तोत्रम् । शुभभावानतः स्तौमि सर्वज्ञ ! त्वां तमन्वहम् । यो जिगाय भवान् मोहं सदानवसुराऽजितम् ॥२॥ सह दानवैश्च ये सुरा देवास्तैरजितं यं मोहं तं भवान् विजिग्ये ॥१॥ कस्य न स्यान्महानन्दः प्रभो! वां वीक्ष्य विस्मयात् । अध्रिन्यासेन प पु सदा नवसु राजितम् ? ॥ २ ॥ पादन्यासेन नवसु सौवर्णकमलेषु शोभितम् ॥ २ ॥ भवन्तं नौति यो भूरिभक्त्या तं नौति नित्यशः । विश्वमर्थितया नाथ ! सदानवसुराजितम् ॥ ३ ॥ दानसहितं वसु धनं तद्रूपा राजिता लक्ष्मीर्यस्य ।। ३ ।। नाथ! जन्ममहे विश्वसुखे त्वां वीक्ष्य मन्दरे । केनाऽऽमोदि खगेन घुसदा न वसुराजि तम् ॥४॥ विद्याधरेण देवेन च न आमोदि न हर्पितमपि तु हर्षि- तमेव । फिविशिष्टे मेरौ स्वर्णरत्नशोभिनि, तं त्वां वक्ष्य- माणम् ॥४॥ मया कल्मपमक्षालि पुण्यं चाऽगण्यमर्जितम् । त्वां प्रतीक्ष्य ! निरीक्ष्याऽद्य सदाऽऽनवसुराजितम् ॥५॥ सतः शिष्टान् आनयन्ति आश्वासयन्ति आलादयन्नीनि सदानाः । “अन चसक्. प्राणने "कर्मणोऽण् ।।५।१।७२।।
.. ३४ श्रीसोमतिलकसरिविरचित हात वचनात् । सदानाश्च ता वसुराजयो वपुपः किरणश्रेणय- स्तास्तनोषि विस्तारयसि ।। ५ ।। अद्य देव ! जगजैत्रं भाववैरिबलं मया । भवत्यालोकिते श्रेयोऽसदानवसुरा जितम् ॥६॥ "दानी खण्डने" इति धातुना सह दानेन सदानाः, न सदाना असदाना अखण्डा श्रेयांस्येव असदानाश्च ते वसवो वृक्षाश्च तत्पल्लवनाय रामेघाः "राः स्वर्णे जलदे धनदे" इति प्रामाण्यात् । जितमिति क्रिया । यद्भाववैरिवलं मया जितम् ॥ ६ ॥ न के जिन! निगृह्णन्ति कामाख्यं विश्वमोहिनम् ? : त्वय्याश्रिते शुभोदर्क ! सदाऽऽनव ! सुराजि तम् ॥७॥ शुभोदर्क ! शुभफलप्रधान ! आ सामस्त्येन नवः स्तवो यस्य त्वयि सुराजि सुस्वामिनि आश्रिते सति कामनामंक चौरं तम् । जाने तस्करक्रोडपुच्छपोऽतस्ता पुनः श्रियामिति वचनात् ॥७॥ मदं वईयते तत्त्वमूढताऽऽशु तथाऽङ्गिनाम् । यथा पीतेश ! चैतन्यासदानवसुराजितम् ॥८॥ अदाना सती चैतन्यनिरासदायिनी मदिराऽऽजिः कलह ततः "तुस इस इस शब्दे" इति धातुना आणि कलहं तोस- तीति शब्दयतीति आजितम् ।। ८ ।। कचटतपनतेजः पञ्चमुष्ट्युद्धृतौद्यत् कच टतपसमानः प्रौढपापौघपङ्के । कचटतपकरस्त्वं देव रागादिदस्यून् कचटतपसुरेन्द्रैर्वन्द्यपादारविन्दः ॥९॥ कच बधान, द्वितीयपदादौ क्रियेयम् । ललाटतप! सूर्य- प्रताप ! । कचट केशकलाप । "ट उपलेपकलापसीमासु" इति .
श्रीपार्थ जिनाष्टकम् । ३५ चचनात् । तपसमो ग्रीष्मतुल्यः । कः मूर्यश्चश्चन्द्रः टतपा राजानः, "तपि एश्वर्ये" टि पृथिव्यां तपतीति एभिः सुरेन्द्रश्च ।।९।। एवं श्रीजिनपुङ्गवं शमरमारम्यं विशालच्छविं राकासोमसमास्यमुत्तमगुणं सन्नम्रनाकप्रभुम् । सिंहं मन्मथमत्तइन्तिमथने श्रेयःसरस्सुरविं यःस्तौति प्रयतोऽश्नुते स मतिमानत्यन्तहारिश्रियम् १०॥ इति श्रीसोमतिलकसरिविरिचितं सर्वशस्तोत्रम् स्वनाम दर्शयन्नाह । एवं श्रीजिनपुङ्गवामित्यादिश्लोकेन सम्बन्धः ॥१०॥ इति सर्वज्ञस्तोत्रावचूरिः संपूर्णा । ॥ अहम् ।। श्रीपार्श्वजिनाष्टकम् । लक्ष्मीमहस्तुत्य ! सती सती सती प्रवृद्धकालो विरतोऽरतोरतो । जरारुजापन्महताऽहता हता पार्श्व फणे रामगिरौ गिरौ गिरौ ॥१॥ लक्ष्मी इत्यादि । हे मित्र ! पार्ध फण गच्छ । तत्र यात्रां कुरु, इ इति सम्बोधने । क रामगिरी रामगिरिनामपर्वत, कयंभून- स्त्वं गिरि उपलक्षितः, उ इति निश्चये अव्ययानामसंख्याथैवान, एतावति कृते किं स्यात् , जरा रुजा आपत् त्वया हना किं.- विशिष्टेन त्वया महता किंभूना जरा रुना आपद् अहना पूर्व- - श्रीपार्श्वजिनाष्टकम् । मविनाशिता | किंविशिष्टस्त्वं प्रवृद्धकालः प्रवृद्धे के सुखे आल उद्यमो यस्य स पुनः किंविशिष्टो विरतः सर्वचिरतः अरतोरत अरतं ब्रह्मचर्य तस्य उ रक्षा तत्र रतः । हे पुरुषलक्ष्मीः सति पुरुषे, सती उत्तमा भवति । हे महस्तुत्य उत्सववर्णनीय किं० लक्ष्मीः सती उत्तमा खरूपेण, ई इति सम्बोधने तस्माद्वाची लक्ष्म्याश्च फलं जिघृक्षुः श्रीपार्थयात्रां रामगिरौ कुरु इति सम्बन्धः॥१॥ अर्चयमाचं भुवि नाविना विना यत्सर्वदेशे सुमना मनामना. समस्तविज्ञानमयो मयोमयो पार्श्व फणे रामगिरौ गिरौ गिरौ ॥ २॥ अर्चयमित्यादि । आद्यं पार्श्व अर्चेयं क भुवि पृथिव्यां नावि नं ज्ञानमेकाक्षरनाममालायां नं ज्ञानमवतीत्येवंशील: स चासौ ना च एवं विधोऽहम् । किं. अहं पुनः, विना विशि- पुरुषः सर्वविरतत्वाद् यद्यस्मात्कारणादहं सर्वदेशे सुमनाः प्रसन्नहृदयः किं० मनामना मन्यन्ते जानन्तीति मना विद्वांस- स्तेषाममो गमनं तेन उपलक्षितो ना किं० पुनरहं सम- स्तविज्ञानमयः समस्तं सम्यग निराकृतं विज्ञानं येन स स- मस्तविज्ञानो नास्तिकस्तं मिनाति हिनस्तीति समस्तविज्ञान- मयः, अच् लिहादिभ्यश्च पुनः किं० मया उपलक्षितः! सम्य- क्वलक्षणया श्रिया उपलक्षितः पुनः किं० उमयः ऊ जीवरक्षा तन्मयः सकृपः कर्मधारय० । अ इति सम्बोधन हे मित्र : पार्थ फण इत्यादि तदेव ॥ २॥ अज्ञानसत्काऽमलतालतालतां यदीयसहावनता नता नता।
. श्रीपार्श्वजिनाष्टकम् । ३७ निर्वाणसौख्यं सुगता ! गता गता पार्श्व फणे रामगिरौ गिरौ गिरौ ॥ ३ ॥ यदीयसद्भावनता तस्य पार्श्वस्य सद्भावेन योगलक्षणेन सती अज्ञानसत्का मलता कोऽर्थः मलो रागादिस्तस्य तालः प्रतिष्ठा, "तलण प्रतिष्ठायां", चिरस्थायित्वं तातालयोरक्यं ता "तलण् आघाते" तालयोरक्यं तालयतीति तालो माराङ्गस्तस्य भावो मलतालता रागद्वेषादीनां प्रतिष्ठा तथा माराङ्कता नता नम्रनाता तथा भव्यानुद्दिश्य हे सुगताः सुज्ञानाः पुमांसो यस्य प्रसादाद् निर्वाणसौख्यं गताः सुगतागतः अः कृष्णो यस्मात् तस्य संबोधनं हे कृष्णभक्तिवर्जित ! पार्थ फणे- त्यादि माग्वदविशेपेण ज्ञातव्यम् ।। ३ ।। व्यनेष्ट जन्तोः शरणं रणं रणं क्षमादितो यः कमळं मटं मठम् । नरामराऽऽरामक्रम क्रम क्रम पार्श्व फणे रामगिरौ गिरौ गिरौ ॥ ४ ॥ व्यनेष्टेत्यादि । यः पार्थो जन्तोः प्राणिनः शरणं तथा यः पार्थो रणं संग्रामं व्यनेष्ट व्यपाजीगमत् तथा च रणं : भाषणं व्यनेष्ट, छद्मस्थावस्थायां यो भगवान् कमठं व्यनेष्टकि० -भगवान् क्षमादितः क्षमा अदन्त्येवंशीलाः कोपना ये तान् तस्यति उपक्षिणोति यत् क्षमापरे हि क्रोधनाः स्वयमेवोपशाम्य- -न्ति किं. कमळं मठं मठं अटन्तमित्याध्याहारः, ऋपित्वादि स्थाने स्थाने मठेवस्थात् पुनः किं० कमर्ट नरामराक्रम नरमधाना अमरमधानाश्च ये आरामास्तेषु क्रामतीति अच् लिहादिभ्यश्च तथा हे मित्र! वं पार्थ गच्छन् क्रम क्रम फण गच्छ अयतना- परत्वेन यात्रां मा विधाः, इसिमिते वयात्रात्तात् ।। ४ ॥ .
' (३८ श्रीपार्श्वजिनाष्टकम् । यद्विश्वलोकैकगुरुं गुरुं गुरुं विराजिताऽये न वरं वरं वरम् । तमालनीलाङ्गभरं भरं भरं पार्श्व फणे रामगिरौ गिरौ गिरौ ॥ ५॥ यद्विश्वेत्यादि । यद्यस्मात्कारणाद् विश्वलोकगुरुं तथाऽ समत्वादलघु गुरुं गुरुर्वक्रो भवति स्वाम्यपि कर्मारीन् प्रति वक्रस्ततो गुरुम् , अहमये गच्छामि सेवे न वरमुत्तमं "गट चरणे" वृणोतीति मुक्तिश्रियमिति वरस्तमये भवदपेक्षया आचार्यत्वादुत्तमोऽहं सेवे तस्मात्त्वं पार्थ फण गच्छ इति 'भस्तुते योज्यम् । हे विराजित ! लोकेषु तैस्तैर्गुणैः शोभित किं० पार्श्व तमालनीलाङ्गभरं, तथा भरं दशविधधर्मस्य पोपकम् , अच् लिहदिभ्यः तथा भरं भरति भुवनं गुणैर्भरः, अच्- प्रत्ययः ॥ ५ ॥ विवादिसाशेषविधिविधिर्विधि- बभूव सावहरीहरीहरी । त्रिज्ञानसंज्ञानमयोमयोमयो पार्श्व फणे रामगिरौ गिरौ गिरौ ॥६॥ विवादिसेत्यादि । पार्थ फणे इत्यादि प्राग्वत् पार्थ फण गच्छ इत्यादि न विस्मार्यम् । विवादिसाशेषविधिः, विवादिनां पर- तीर्थ्यानां या सा लक्ष्मीस्तस्याः शेषस्य शेषमात्रस्य विधिः स्रष्टा परतीथिकातिशयखल्पीकरणक्षमः पुनः किं० विधिः साक्षादा- चाररूप आचारो हि जिनपतिदर्शित एव लभ्यते पुनः किं. विधिः, "पिंत धारणे" तुदादिविंगतो धिर्धारणं परिग्रहग्रहो यस्य पार्श्वस्य स विधिस्तथा यः पार्थः सवहरी हरी बभूव । सर्प- मवतीति सवः सर्पो हि कमठठानिदंदह्यमानो भगवता. उद्धार्य . ,
aiiinq7།
:
གg•rysis si :༔ ཨཱji •ན;, yས :: +rs
:#t 4}t ༼ཙt; 3if : ས༔ མྨ * :: 4ལ
ཀi si:༣ ལ: +++F
ནསྶ༔ བྦཔr +༩༠ བ་
ཀ :Ti༨ +ni༣:iirit ༔ , ff ང; ; :. :
xingq;j1: 1:1r: ;
+iann: 1:: • ttཀཱབ༔ ༔ : , ༣ ༔ ཤཱཀྐ st
uriinཀ་ བྷཱཝrit ga༔ པཱནp::7: : : ཝཔr:1-
fi༣ ཙ23} སྨཁxt»༔ མྨ ; :
ཀit iཀཱ༑ ཙྪ ནྣ
frfiq། » :
གཟུ༣
qi;r:
:: { }: :
iབཙst , ༔ ༔ ༔ པ ཨཱ་༔ ༔ ། བཙྩ བྷཱf;
ཙ ' i; :ji '༔ སུཾ. ; མ•
སྨrrt ༣:༣:༣:; fri•}24འུ • སྶ '; :;༌* :
ཨe : པ :: ༑ ༔ : fr: 3:::; ༣.
ཀ༌བསྶ z; •; * :༔ »y; ;; ཨཱ་;; ༽
ཀྑ * : 3:3ཝཱ t: 4: བྱཱ4:བསྒྱུ, :: ༡ པ :: );
s; ཡ: སྶf : སྶ པ ས ས 24
;, ༣ [E;! སྣp:– སྨ: :::༈ བྱt,
པས༔ f;; ༽བཙ ན པ ༔ ༔ : ,༔ ༔
ཀ དུr: ::g: འབུ : ཎ ལ::;
ཀ ་ པ :: zལ: མཧཱུྃ ཡ ཐཱ༔ ཧྥཐ་•སྶ པ:
•:: དུས་ 4 བྦ– : • བྱཱ ཨཱ ཙ ་ པ :
༔ ༔ : ཝ:: པ ཝཡ''ས, མསྶ – ཨ པ བ༔
བ ,
४ १ ४० श्रीपार्श्वजिनाष्टकम् । ममार कृष्णोऽवृजिनो जिनो जिनोः। सहारपूज्यं वृषभासभासभा- ऽपार्श्व फणे रामगिरौ गिरौ गिरौ ॥ ८॥ रराजेत्यादि । हे मित्र! त्वं पार्थ फणेत्यादि प्राग्वत् । कि० सहारपूज्यं सह हारैर्वर्तन्ते सहाराः श्रीमन्तो देवनरदेवादय- स्तैः पूज्यं हे वृषभासभासभ ! वृषेण अनडुहा भासते वृषभासो रुद्रस्तद्वद्दीप्यते भा कान्तिर्यस्य हे वृषभासभासभ । आ अति- शयेन उत्तरार्द्धगतो यो भगवान् स नित्यं रराज किं० भगवान् पार्थः । अमारकृष्णः सुगमम् । सकलाकलाम् । सकलः स, प्रभावोऽकलो रागद्वेषादिकलामुक्तः, अकं दुःखं कुष्ठादिप्रभवं लान्तीति अकलास्तानामयति “अम द्रम हम्म गतौ" आत्म- पार्थ.. गमयति य अनन्तात् किए सकलश्चासावकलश्चेत्यादि- कर्मधारयः। किंविशिष्टो भगवान् अजिनो निष्पापः । पुन: किंविशिष्टो भगवान् जिनस्तीर्थकृत, पुनः किंविशिष्टो भगवान् जिनोर्जिनं कृष्णमप्यवति रक्षति जिनोः शंखेश्वरसैन्यमरक श्रीशङ्खेश्वरपार्श्वस्नपनजलाभिषेकेन न्यषेधत् ततश्च जिन: कृष्णो जयः श्रीमान् पार्थो ररक्ष इत्यादि ॥८॥ तर्के व्याकरणे च नाटकचये काव्याकुले कौशले विख्यातो भुवि पद्मनन्दिमुनिपस्तत्वस्य कोशं निधिः।. गम्भीरं यमकाष्टकं भणति यः शं भूयसा लभ्यते श्रीपद्मप्रभदेवनिर्मितमिदं स्तोत्रं जगन्मङ्गलम् ॥ ९॥ इति पार्श्वजिनाष्टकम् ॥ अथ नामकं दर्शयन् सन् तर्केतिश्लोकेनाऽऽह ।। ९॥ अथ टीकाकारः स्वनामकमनुष्टुपेनाऽऽह । श्रीराजशेखरगुरोश्चातुर्विद्योपजीविकः। अत्र स्तवे व्यधाट्टीको मूरिः श्रीमुनिशेखरः॥१॥ इति श्रीपार्श्वनाथस्तवनावचूर्णिः समाप्ता । . --
ནུབྱཱ ཙ
#rit=mi24.9 1
• •
fr{ ཀE བདr*༩ ti s, ༉ fi+s Frr;
• པར : : ༠༣: g༄༅༔ བ ལ བ ས 41: * 3
ཀia:ཝཱ janitཀ༩• • ཡཔr:» ཙཱ། |:ཀྐ །
yif yfi ག: * : *༔ ཨ༔ སྣ༌ས༔ : { ;
3:༈ riis a ni gr trip ; s: ༔
nn fནi: * :: 1:4t ལ y;: : E:2:
ས༔ | ན •it :'' r : ༣ •tཡ པ #* :
ft, f,༣:༣༡ ན :: + :; ཎ ན བྱཱ ཙ ;; : {I
git ༣ - ༣ སྶ it :༣༣ ཀ༔ ༥ * }
[ཝཙ• བས:ཀ : ་ , , ;;༈ •
ཡཱ trཙྩ བ བ ;ཎ ;
irs::•rig :: g: 4: པཉྩ༔ ༔ :: •
* སྦས༔ ;; • – ༣༩; .
ཡྻ སྶ༔ ཨཱ :: • • • : : ས བ པ
fs༔ n༔ it ::: པ སྶ༔; :པ :
ཅ1 ༔ ༔ ::: དུཔར པ མཱ: ; ,་ ,
ཋ 3:ཙཔའཝ :: : ༔ ཨ: ས : ;
•
ཝཱ ཙ : ༌ ; དྷ ཎ ::བའ: རྒྱུ ༔
"
४२ पुद्गलसङ्ख्यास्तवनं । मोहमरोहरोहान्नट इव भवरङ्गसङ्गतः स्वामिन् ।। कालमनन्ताऽनन्तं भ्रान्तः षटकायकृतकायः॥२॥ औदारिकवेक्रियतैजसभापाप्राणचित्तकर्मतया । सर्वाणुपरिणतैम स्थूलोऽभूत्पुद्गलावतः ॥ ३ ॥ तत्सप्तकैककेन च समस्तपरमाणुपरिणतर्यस्य । संसारे संसरतः सूक्ष्मो मे जिन ! तदावतः ॥४॥ निःशेषलोकदेशान् भवे भचे पूर्वसम्भवैमरणैः। स्पृशतः क्रमाक्रमाभ्यां क्षेत्रे स्थूलस्तदावर्त्तः ॥ ५ ॥ प्राग् मृत्युभिः क्रमेण च लोकाकाशः प्रदेशसंस्पृशतः। मम यो जिन ! सर्वः खामिन् ! क्षेत्रे मूक्ष्मस्तदावः ॥ ६ ॥ मम सकलकालसमयान संस्पृशतोऽतीतमृत्युभिर्नाथ ! । अक्रमतः क्रमतश्च स्थूलः काले तदावर्त्तः ॥ ७ ॥ क्रमणस्थानेच समान् प्राग्भूतैर्मृत्युभिः प्रभूतैर्मे । संस्पृशतः मूक्ष्मोऽईन् ! कालगतः पुद्गलावतः ॥८॥ अनुभागवन्धहेतून् सङ्ख्यालोकाभ्रदेशपरिसङ्घयान् । म्रियता क्रमोक्रमाभ्यां भावे स्थूलस्तदावः ।।९।। प्राग मरणः सर्वेषाममि तेषां यः क्रमेण संक्लेशः । भावे सूक्ष्मः सोऽभूजिनेश ! विश्वत्रयाधीश ! ॥ १० ॥ नानापुद्गलपुद्गलावलिपरावर्त्ताननन्तानहं पूरं पूरमियचिरात्कियदिशं वाढं दृढ़ नोढवान् । दृष्टाऽदृष्टचरं भवन्तमधुना भक्त्याऽर्थयामि प्रभो ! तस्मान्मोचय रोचय स्वचरणं श्रेय:श्रियं प्रापय ॥ ११ ॥ इति पुद्गलसङ्ख्यास्तवनं समाप्तम् । .
॥ अहम् ॥ श्रीमुनिसुन्दरसूरिविरचितः श्रीजिनस्तोत्ररत्नकोशः। h जयंश्रियं ज्ञानतपस्क्रियाऽऽयुधै- रवाप्य दुरितराऽऽन्तरद्विषाम् । पदं यदाऽऽपुः किल ये तदाप्तये जिनांश्चतुर्विंशतिमानुवामि तान् ।। १ ।। श्रीमानादिविभुः क्षमाधरकुले जातः सुवंशावली- वायो मौक्तिकसंपदेऽस्तु स सतां शाखाशतभ्राजितः। धर्मादिस्थितियष्टयो यदुदिताः स्फूर्जप्रभावाः सदा- ऽभूवन् मोहजनार्दितस्य जगतोऽप्याधारभूताः पराः ॥ २ ॥ ईशानः पुरुषोत्तमो जिनपतिर्ब्रह्मेति मुक्त्यर्थिभिः कल्पद्रुमरुतां घटः सुरमणिश्चैवं धनाधर्थिभिः । वन्धुत्राणमयं पिताऽथ जननी चैवं हिताद्यार्थिभि- यो ध्यातस्तनुतात् सुखाकृतजगज्जन्तुः श्रियं सोजितः ॥२॥ श्रीशंभवः स जीयात् प्रापयितुं शिवपुरं जवाद्भव्यान् । : विभ्रत्सार्थाऽधिपतां धत्ते योऽङ्कच्छलादश्वम् ॥ ४ ॥ चनाति चेतांसि गुणैत्रिलोक्या मत्तोऽव्यय जित्वरचापलानि । इतीच भीत्यावनिमादुपास्ते यं वा नरः पात्वभिनन्दनोऽयम् ।।५।। कल्याणावलिमातनोतु भवतां निस्सीममाहात्म्यभृ- देवानामपि देवता स सुमतिः श्रीतीर्थलक्ष्मीपतिः ।। रूपं यस्य हरिः क्षमो न दशभिश्चक्षुःशतैर्वीक्षितुं विंशत्या रसनाशतैरपि धृतैर्वक्तुं गुणांचा हिराट् ॥ ६ ॥ त्यत्वा वारिरुहं जलाशयरति सेवां यदहिस्फुर- ल्लावण्यामृतपालस्य :कुरुते नित्यं यदकच्छलात् ।
४४ श्रीजिनस्तोत्ररत्नकोशः। तत्पुण्येन लभेत तत्सुरनराधीशोत्तमाङ्गेष्वव- स्थानं मुक्तिपदप्रदोऽस्तु भवतां श्रीमान् स पद्मप्रभः ॥ ७ ॥ स्फुरत्तरस्फारफणालिरूपिणी रत्नांशुजालैर्दधदिद्धपल्लवाः। यः पञ्चशाखाः समभूत्सुरद्रुमः स चिन्तितं रातु सुपार्श्वतीर्थकृत् ।। ८॥ नैवाऽमृतं प्रदददप्यजरामरत्वदाने क्षमोऽस्मि विभुरेष जिनस्त्विहाऽपि । ध्यात्वेति यावत इवांहिगतोऽयमिन्दु- स्तच्छक्तिमस्तु विधुलक्ष्मजिनः स भूत्यै ॥९॥ देवानामवधिः स्फुरद्गुणनिधिः शुष्यद्भवाम्भोनिधि- दुष्कर्मारिमधिर्जने हितविधिधा विमुक्तोपधिः । पातु श्रीसुविधिः सुरैर्वरविधिस्तुत्यप्रभावोदधि- येनोद्यत्सुखाधिक्रियाकृदवधि क्रोधः सयोधो युधि ॥१०॥ नराऽमरा विभ्रति भृङ्गभूयं यस्मिन् सदा योगिमनस्सरःस्थे । तनोत्वयं शीतलपादपद्मः संसारतापप्रचयप्रणाशम् ।। ११ ।। श्रेयाश्रेणिमयं तनोतु भगवान् निःश्रेयसश्रीप्रभु- निर्विश्रामसुरेशसंस्तुतपदः श्रेयांसनामा जिनः । संपत्कम्पपराङ्मुखा त्रिजगतो विश्रामभूश्चेतसां यन्नामस्मृतिमात्रतोऽपि भविनां पाणौ स्फुरत्यञ्जसा॥१२॥ सेवागतामरनरावलिपापवैरि- प्रध्वंसनप्रगुणिता इव यस्य भान्ति । आग्नेयशस्त्रनिवहास्तनुकान्तिरूपाः पायाद्भवात्स भवतः प्रभुवासुपूज्यः॥ १३ ॥ को नार्या जनितो विनाऽपि हि पति कस्मिन् भवेश्चन्दनं का मान्या गृहिणां स्फुटा यदभिधा प्रश्नादिवर्णैर्भवेत् । कीहग ध्यानतपाश्रुतैर्जिनमतैः प्राणी भवत्यञ्जसे-
श्रीमुनिसुन्दरसूरिविरचितः
४५
येवं च प्रतनोतु वः स भगवान्नामानुरूपां धियम् ॥१४॥
नेत्रश्रीजलराशिगूढविलसत्कााथरत्नोच्चयान्
योऽभूदर्शयितुं पुरात्र विवुधवातस्य धत्ते च यः ।
पृथ्वी कीर्तितति तथा सदऽमृतप्राप्तिर्यदाज्ञावशा
पायाभोगिकुलोद्भवः स विशदः श्रीमाननन्तः प्रभुः ॥१५॥
मङ्गलं प्रवितनोतु भाविनां धर्मतीर्थपतिरामरद्रुमः ।
यत्मसादमहिमाणुजम्भितं चक्रिशक्रशिवशर्मसम्पदः ॥ १६ ॥
चिरस्य पीतेन्दुसुधानुवादं संवीक्षितुं यद्वचनामृतेन |
सुधारुचेर्लक्ष्ममृगोऽङ्कदम्भाय सेवते शान्तिरयं शिवाय ॥१७॥
यः सूरजातोऽपि हि जीवमैत्र्यभाग मेषाश्रितोऽप्याश्रयते महोचताम् ।
श्रीनन्दनश्चाप्यकरोद्भवक्षयं स कुन्थुनाथः पृथुसंपदे सताम् ।।१८॥
ध्वस्ताऽज्ञानभरः स्मरज्वरहरः सर्वेष्टसौख्याकरः
क्षीणाऽशेषदरः क्रमानतनरप्रेयःशिवश्रीकरः।
ब्रह्माद्वैतधरः समाश्रितपरत्रैलोक्यरक्षाऽऽदर:
कुर्यात् श्रीमदरः सतां गुरुतरश्रेयांसि तीर्थङ्करः ॥१९॥
मल्लिजिनोऽसौ श्रियमातनोतु
श्रितः पदौ यस्य घटः सुराणाम् ।
अङ्गं मिषन् सर्वमनोव्यतीत-
प्रदानशक्तिं किल याचमानः ॥२०॥
पूर्व कूर्मपतिश्चकार चलनोपास्ति क्षमाभृद्गुरो-
यस्योद्धर्तुमिमां क्षमामभिलपस्तच्छक्तिपाठाय नु ।
दृष्टश्चैष तथाकृतिष्वपि जनैश्चक्रेऽधुनाऽपीक्ष्यते
श्रेयः श्रीमुनिसुव्रतः स तनुताद्वः कूर्मलक्ष्मा प्रभुः ॥२१॥
स्थेयाश्रीभरदानशक्तिमतुलां यस्येक्षमाणं सदा
स्वमिश्चापलपङ्कगर्हिततमा निन्दद्वसन्ती रमाम् ।
स्थेष्ठां तां किल याचते पदयुगासेवाकृदङ्कच्छलाद्
नीलाम्भोजमयं तनोतु भविनां मुक्तिश्रियं श्रीनमिः ॥२॥
४६ श्रीजिनस्तोत्ररत्नकोशः। विश्वाऽहङ्कारभारज्वरहरणमहाभेषजैः काममुख्यै- र्योधै रुद्धोपकण्ठं सवलमपि चिरं मोहभूपं वसन्तम् । निर्धाट्याप्येक एवोत्कटभटमुकुटो यः प्रविश्यौग्रसेनी- चित्तोर्वीराजधान्याः स्वयमपित इह श्रेयसे सोऽस्तु नेमिः॥२३॥ वितरतु भवतां श्रीपार्श्वनाथः स मुक्ति फणिपतिफणमालाश्लिष्टपादारविन्दः। कमठहठविमुक्ताऽवारवारिप्रवाहै- रपि सपदि यदीयो दिद्युते ध्यानवह्निः ॥२४॥ यो वेदार्थविचारणायुधगणैर्हत्वा गणेशोल्लस- न्मानप्रोन्नतचित्तदुर्गनिवहे संदेहशत्रून् स्थितान् । पागेव महतस्य मोहनृपतेर्मल्लानिव प्रोन्मदान् खान् सद्बोधनृपान् न्यवीविशदयं वः पातु वीरप्रभुः ॥२५॥ एवं निर्णिक्तभक्त्या भरतभुवि चतुर्विंशत्तिर्वर्तमानाः संसारक्लेशभीतत्रिभुवनजनताबाणदुर्गापमानाः। नूता मुग्धस्तवेन त्रिदशपतिनुतास्तीर्थराजा ददन्तां तां शुद्धां बोधिलक्ष्मी लसति मयि यतः केवलानन्दलीला ॥२६॥ एवं यो मतिमान् स्तुते जिनवरान् भक्त्यां चतुर्विंशति शक्रालीमुनिसुन्दरस्तवगणैनूतक्रमाम्भोरुहान् । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्नत्प्रमोदाद्धयो मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२७॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसा- गरसूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जय- श्यके श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे चतुर्विशतिश्रीजि- नाशीर्वादरूपं स्तोत्ररत्नं प्रथमम् । : ॥अहम् ।।. जयश्रियं प्राप्य कुकर्मविद्विषां सङ्ख्याव्यतीता मुनयः समासदन्।
श्रीमुनिसुन्दरसूरिविरचितः -- यस्मिन्महानन्दपदे मंगोत्तमे शत्रुञ्जयेऽस्मिन् जिनमादिमं स्तुवे ॥१॥ प्रभूयते यत्र न वासवैरपि स्तुतौ कुतस्तत्र मम प्रगल्भता । तथापि नाभेय वदनिमां तव स्वशत्यशक्ती न विचारयाम्यहम्॥२॥ यतोर्चनं ते न न दर्शनं वा न संस्तुतिर्वाऽपि शिवस्य हेतुः । किन्त्वद्धता भक्तिरियं तु मेस्ति शक्तेः प्रवृत्त्यैव च सा कृताथी ॥३॥ ततः स्वशक्तेरनुसारतोऽयमपि प्रवृत्तो भविता कृतार्थः । न सक्रिया ते स्तुतितः परा यच्छिवाय लेशोऽपि च सत्क्रियाया॥४॥ पुराणमीशं परमार्थदर्शकं परात्मरूपं परमेष्ठिनां परम् । युगादिदेवं विमलाचले स्तुषन् भवेत्रिलोक्याः स्तवनीयतापदम् ।।५।। अनाद्यनन्तं मुनिभिः पुरातनैमितिव्यतीतैरभितः पवित्रितम् । यदेव तीर्थ भरतोत्तमं परं शक्राय सीमन्धरतीर्थकृज्जगौ ॥६॥ सङ्घाऽधिपत्यं विधिवत्मपद्य यस्मिन् युगादीशजिनं सुभावात् । प्रणम्य भव्यो जिननायकत्वाऽवधिप्रतिष्ठां लभते कृतार्थः ॥७॥ असङ्ख्यतीर्थेश्वरपादपूतं सिद्धेः पथं मङ्गललक्ष्मिसम । समग्रपापक्षयकृत्मणौमि शत्रुञ्जयाह तदनादितीर्थम् ॥ ८॥ चिरादवाचं सुवहं चकार कैवल्यमार्ग प्रथमं परं या । विश्वत्रयात्यद्भुतपुत्रऋद्ध्या द्विधा महानन्दसुखं प्रपन्ना ॥९॥ . शक्तिं परां तां परमात्मरूपामरूपिणी विष्टपकल्पवल्लीम् । अम्बां त्रिलोक्या मरुदेविनाम्नी युगादिनेतुर्जननी प्रणौमि ॥१०॥ (युग्मम् ) अधर्मकालोनिदाघतापितं जगत्सुखाकर्तुमिहोत्तरोन्नतिः । ववर्ष तत्त्वामृतपूरमादिमं दयाम्बुधेरम्बुदवज्जगत्पतिः॥ ११ ॥ कृत्वा कृतार्थानि जगन्ति यो विभुर्नीत्या पुमर्थत्रितयस्य शिक्षणात् । प्रसाधयामास चतुर्थमप्यतुं महामुनि नतपस्क्रियाफलम् ॥ १२ ॥ अतास्थपद्यस्य च शुद्धरत्नैर्विनिर्मितं लेप्यमयं च विम्वम् । शैलेऽत्र चक्री भरतः स्तवीमि तमादिमं तीर्थपति प्रणम्रः ॥१३॥ 1. :(त्रिभिर्विशेषकम् ) .... ..
४८ श्रीजिनस्तोत्ररत्नकोशः। यः पञ्चकोटीमितसाधुवृन्दैः समन्वितः केवलवोधमाप्य । चैत्रस्य राकादिवसे प्रपन्नः शिवश्रियं श्रीविमलाचलेऽत्र ॥१४॥ आदिप्रभोरादिमपुत्रपुत्रं गणाधिराज प्रथमं प्रथाऽऽन्यम् । जगत्प्रणम्यक्रमपुण्डरीकं श्रीपुण्डरीकं मुनिमानमामि ॥ १५॥ (युमग्म् ) यस्मिन् युगादीशजिनं स्मरन्तः स्वःशर्म भेजुः पशवोऽपि हिंसाः। मयूरनागप्रमुखा भजे तत् स्वपापपिष्ट्यै विमलाद्रितीर्थम् ॥१६।। इमं गरीयांसमपि क्षितिजं भव्याङ्गिनः खे हृदये दधानाः । तरन्ति संसारमहोदधि द्रागहो ! अचिन्त्यो महतां प्रभावः ॥१७॥ जलधिर्न यथा दवाग्निभिन तमोभिश्च दिनेशमण्डलम् । विमलादिमुपागतो भवी न तथा पापभरैः प्रलिप्यते ॥१८॥ न भियो भवशत्रुसम्भवाः खलु तस्य प्रभवन्ति भाविनः । विमलाचलमौलिमण्डनं श्रयते यः शरणं जगत्मभुम् ।। १९ ।।. तव नाथ ! गुणान्न कोऽप्यलं गदितुं संसृतिपारदायिनः । तदपीष्टसुखाप्तिहेतुके स्तवने ते रमतां मतिर्मम ॥ २० ॥ शस्यः क्षणोऽयं दिवसः कृतार्थः श्लाध्वःस पक्षःसफलश्च मासः। स हायनः पुण्यपदं जिनेन्द्र ! यस्मिन् भवेद्वन्दनमङ्गलं ते॥२१॥. अभ्यर्थये तं दिवसं क्षणं वा संसारवासं जगदेकनाथ !! स्याद्यत्र सद्भक्तिरसोर्मिघौतस्त्वद्वन्दनान्दमहोत्सवो मे ।। २२ ।। त्रिलोकपूज्यौ भवभीतजन्तुत्राणैकदुर्गों सुलभापवर्गों। जगत्रयीवाञ्छितकल्पवृक्षौ पादौ जिनेन्द्रस्य मुदा प्रणौमि॥२३॥ इमं स्तुवे चैत्यतरं प्रियालु सङ्घाधिपे दर्शितदुग्धवर्षम् । छायां सृजन् यो जिनपद्युगस्य चिरं कृतां वक्त्यधुनाऽपि सेवाम्।२४। श्रीमयुगादीशपदाब्जभक्तः श्रीसङ्घरक्षाकरणाभियुक्तः । सम्यग्दृशां मौलिमणिर्विमुद्रं यक्षः कपर्दी वितनोतु भद्रम् ॥२५॥ एवमानुत ! युगादिजिन ! श्रीदेवसुन्दरतरान्तरभक्क्या। देहि वोधिकमलां विमलां मे स्याद्यतः सकलवैरिजयश्रीः ॥२६॥ .
श्रीजिनस्तोत्ररत्नकोशः।
एवं श्रीवृषभमभुं जिनवरं शत्रुञ्जयालकति
शक्रालीमुनिसुन्दरस्तवगणैनक्रमं यः स्तुते ।
सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाऽद्वयो
मोहद्वेषि जयश्रिया स लभते श्रेयाऽचिराच्छाश्वतम् ॥२७॥
इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर-
सूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के
श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीशत्रुञ्जयमण्डनश्रीआदि-
नाथस्तवरूपं स्तोत्ररतं द्वितीयम् ।
॥ अहम् ।।
जयश्रियं विश्वजितं स्मरद्विषं पराभिभूयाजननादवाप यः।
श्रीनेमिनं तं सुरराजपूजितं जगत्ममुं रैवतदैवतं स्तुवे ॥१॥
स्तुतिं विधातुं तव यां न शक्तो नेमे ! सुरेन्द्रोऽप्यहकं कथं ताम् ।
तथापि तत्सम्भविसत्फलस्य लिप्सैव मां प्रेरयतीह वालम् ॥२॥
यस्मिन् बभूवुस्तव नाथ ! नेमे ! दीक्षाऽत्रवाधावपुनर्भवश्च ।
तं रैवतं दैवतकोटिशस्य स्तवीमि दिव्यार्थनिर्षि गिरीन्द्रम् ।।३।।
न वाह्यमात्रैररिभिः प्रतापिताः किन्त्वान्तरैरप्यखिलैरघात्मभिः।
इमं सनाथं प्रभुणा त्वया गिरिं श्रिता जना निर्वृतिमाश्रयन्त्यहो॥४॥
कोटाकोव्यो विंशतिर्यस्य मूर्तेरम्भोधीनां जज्ञिरे वज्रमय्याः।
सृष्टायाः श्रीब्रह्मनाकाधिपेन श्रीनेमि तं रैवतशं प्रणौमि ॥५॥
विश्वत्रयस्याऽपि तु दिक्चतुष्के हन्तुं प्रसर्पद्भवदुःखचक्रम् ।
विनिर्मितद्वादशमूर्तिमीडे नेमि विकल्याणकचैत्यसंस्थम् ॥ ६ ॥
स मङ्गलं रैवतशैलशेखरः श्रीनेमिनेता वितनोतु भाविनाम् ।
पादा यदीया दधते सुरद्रुतां जगत्रयीवाञ्छितसौख्यदायिनः ॥७॥
भास्वद्विभूतिगणनायकाश्रितो विलासपात्रीकृतसर्वमङ्गलः।
रातु श्रियं शम्बरवैरिघातकृन्नेमिर्जिनो वो जगदेकशङ्करः ॥८॥
श्रीमुनिसुन्दरमूरिविरचितः मां रूपाभिरति त्वदेकशरणां नव्यप्रभा भूपजाम् स्फूज़ंद्रागवशां चिरं परिचितां त्यक्त्वा सुधाकीर्गिरम् । मुक्तिं रूपविवर्जितां बहुतरै ग्यां चिरत्नां कथं निस्स्वामिच्छसि रागसंस्तवमुचं वाग्योगहीनां प्रभो ॥९॥ इत्तीरितो यो नरनाथपुच्या चिरानुरागाचितराजमत्या । जगाम मोहं भगवान् वशी न स नेमिनेता शिवतातिरस्तु ॥१०॥ येनाञ्जनश्यामरुचाऽपि राजीमतीमनस्तन्मयभावमाप्तम् । रक्तं तदन्वत्यवदातमासीत्तं नेमिनेतारमहं प्रणोमि ॥ ११ ॥ यस्य प्रतापज्वलने वभूवुर्मदाः पतङ्गा इव विष्टपानाम् । तमप्यरि कामभटं जिगाय यो नेमिनाथं शरणं श्रये तम् ॥१२॥ नेमे ! वभासे युतिमण्डलं ते तनोः शितिम्निग्धतमं प्रसर्पद । महार्णवाभं वरदेशनायां फेनायितं यत्र रदप्रभाभिः ॥१३॥ तेपां मुधा क्लेशकरं जनन्या जन्माऽङ्गिनां भारकरं धरिच्याः। जानन्ति दुष्कर्माहता भवन्तं न ये भवन्तं प्रणमन्ति चेशम् ॥१४॥ संसारदुःखामयनाशनाय त्वमेव वैद्योऽसि जगत्रयेऽपि । त्वत्सङ्गमोपायजडाः कथं ही प्राप्स्यन्ति तन्नितिशर्म तीर्थ्याः॥१५|| चंभ्रम्यमाणेन गतिष्वनारतं मया समग्रास्वपि चित्ररूपिणा । दुःखान्यनन्तान्यनुभूय विभ्यता- ऽधुना प्रपन्नोऽसि विभुस्ततोऽच माम् ॥ १६ ॥ पुनः पुनःर दिवसः स पक्षो मासो मुहर्तोऽस्तु स वत्सरश्च । त्वदर्शनं यत्र भवेद्विभो ! मे सर्वेष्टसौख्यपदवन्द्यसेवा ।। १७ ।। अर्थी शिवस्याहममुष्य दाता त्वमेव तेनाऽस्मि भवन्तमेव । : नेमे ! शरण्यं शरणं प्रपन्नः प्रभूचितं तन् कुरु मे प्रसन्नः ॥१८॥ श्रीपुण्डरीकाऽचलमण्डनाय युगादिदेवाय नमोऽस्तु तस्मै । ... नैःश्रेयसश्रीरपि किङ्करीव सदा यदाज्ञावशतां दधाति ॥१९॥ १ रूपातिरतिमिति त्र पाठः ।
: श्रीजिनस्तोत्ररत्नकोशः। ५१ वन्दे चतुर्विंशतिमहतोऽष्टापदावतारे ऋषभेश्वरादीन् । जगत्रयाभीष्टसुखप्रदानैः सुरद्रुमा ये भरते वभूवुः ।। २० ॥ प्रणौमि संमेतगिरीन्द्रतीर्थावतारचैत्येऽजितनाथमुख्यान् । जिनेश्वरान् विंशतिमक्षरश्रीशृङ्गारहारान् सुरनायकाया॑न् ॥२१॥ : गच्छन् निर्वृतिमाजुहूः प्रियतमामेत्योग्रसेनौकसो द्वारे वीक्ष्य विवाहडम्बरमिषान्मोहारिभूभृद्धलम् । भीतोऽरण्यसुयत्नमोचितपशुर्मन्ये प्रियां वान्धवां- स्त्यक्त्वा पूत्कृतिकारिणो गिरिशिर श्रीनेमिनाथोऽगमत् ॥२२॥ मत्वैतद्धवनातिशायिसुभटी खं देवरं च द्विषो मोहाघातु विमोच्य सङ्गतवती तत्रैव पत्यात्मनः । भेजे तेन सहैव नितिरमां नित्यां परानन्दभाग् बन्दे राजमती सदा भगवती तां विश्ववन्यक्रमाम् ॥२३॥ यो भ्रातृजायातिनेमिवैद्योदितौषधैर्मोहगरं निरस्य । स्फुरत्सवोधः समता खवन्धोलेंभे स्तुवे तं रथनेमिसिद्धम् ॥२४॥ श्रीनेमिसाधुक्रमभक्तिलब्धदिव्यदिरिद्धातिशयप्रभावा । 'श्रीसङ्गुरक्षा विहितावधाना श्रेयोऽम्बिका यच्छतु सिंहयाना ॥२५॥ यत्रावलोक्य प्रभुणोजयन्तः पूतोऽभितो यं विदधे गिरीन्द्रः । शृङ्गेऽतितुङ्गेत्र पवित्रमूर्ति प्रणौमि नेमेरवलोकनाख्ये ॥ २६ ॥ तनूद्भवं श्रीहरिजाम्बवत्योर्नेमेविनेयं जगदग्यसत्त्वम् । श्रीरैवताद्रेः शिखरेत्र लब्धशिवं मुदा शाम्बमुनि नमामि ॥२७॥ अध्युष्टकोटीषु कुमारकाणां प्रभुर्यदूनां प्रति दैत्यशत्रोः। द्विधाऽपि यो वैरिगणं जिगाय प्रद्युम्नसिद्धं प्रणमाम्यहं तम् ॥२८॥ यस्तीर्थभक्क्या गतपापराशिश्चौरोऽपि देवश्रियमाप रम्याम् । निर्वाणमागामिभवे गमी स देयात्सुखं सिद्धविनायको मे ॥२९॥ कपर्दिसझेन्दुसहस्रविन्दुगुहेभकुण्डप्रमुखाः परेऽपि । सहस्रलक्षाऽऽम्रवणादयश्च तीर्थप्रदेशाः सुखदा जयन्ति ॥३०॥ सर्ववस्तुकलनैकनदीष्ण ! ज्ञानसागरगुरो ! त्रिजगत्याः।
५२ श्रीमुनिसुन्दरसूरिविरचितः उज्जयन्तगिरिशेखर ! नेमें ! विश्वरक्षणचणाय नमस्ते ॥३१॥ एवं रैवनशैलमौलिमुकुटश्रीनेमिनेतर्जग- त्सर्वाभीष्टकरः स्तुत्तोऽपि मयका मुग्धस्तवेनाधुना। कारुण्यामृतवारिधे ! मम कृपापात्रस्य वोधिश्रियं शुद्धां देहि जयश्रिया भवरिपोः स्याद् ब्रह्मलक्ष्मीर्यतः॥३२॥ एवं नेमिजिनं जगत्रयपतिं श्रीरैवतालड्कृति शक्रालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाऽट्यो मोहदूषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥३३॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर- सूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्ररत्रकोशे प्रथमप्रस्तावे श्रीगिरिनारमौलिमण्डनश्रीने- मिनाथस्तवनरूपं स्तोत्ररत्नं तृतीयम् । संवत् ११७६ वर्षे, एतत् स्तवनद्वयमपि, सं०-देवराज सं०-हेमराज सं० घडसिंहसङ्घस्य सौवर्णकलशच्छत्रचामाराद्युपशोभितप्रौढ- श्रीजिनालयत्रयादिसामग्रीसमुपेतस्य सार्थेन कृतं तैर्देवान् वन्दमानरेव । ॥ अहम् ।। जयश्रीसङ्गिनः पृथव्यां यस्याऽऽसीत्पूतमंहिभिः । तीर्थ सोपारकं तत्र तं. स्तुवे वृषभप्रभुम् ॥ १ ॥ पुरेव चैत्ये भरतेश्वरः प्रभो! खकारिते स्वर्णमये तवाकृतिम् । अतिष्ठिपज्जीवत एव यस्य तं स्तुवन्निहामुत्र च संश्रये शिवम् ॥ २ ॥ .
श्रीजिनस्तोत्ररत्नकोशः ५३ विभाति काव्यं न सतामलंकृती- बिनाऽथ चासामुपमैव वीजति । न चास्ति सा नाथ ! जगत्रयेऽपि ते तव स्तुतौ कः कवितागुणस्ततः १ ॥३॥ तव स्वरूपं न विकल्पयोनयः स्पृशन्ति शब्दास्तु विकल्पनाऽतिगम् । अबोधृभिस्तस्य कथं कृतिः स्तुते- ने वीतरागः स्तुतिभिश्च तुष्यसि ।।४।। तथाऽपि नाथौपयिकं न्यगाद्यदो हितस्य सम्यग् मुनिभिहिनैषिणाम् निषेव्य चैतत्फलमप्यलम्भि तैः फलानुवादेन च हेतवे स्पृहा ।।५।। हितार्थिपकावयमप्यतो जनः प्रभो ! निषीदन् पथमेनमादृतः । सुनिश्चितार्थेऽनुगते च पूर्वजैः पथि प्रवृत्तिनं विचारमर्हति ॥६॥ मनांसि केषामपि न स्पृशन्ति ते स्वरूपमेषा सुधियां मृषा नु गीः । अनन्तशर्मात्मनि यत्वयि स्थितान्यमून्यमूशि भवन्ति भाविनाम्॥७॥ पुरेऽत्र नूनं सरसां मितिद्विषामधीयतेऽम्बृनि सरोरुहाणि च । यशःसमूहाद्विमलत्वमंशशः प्रभो ! गुणेभ्यस्तव सौरभं पुनः॥८॥ त्वदीयभक्तेः फलदानकौशलं समीहमाना विविधा लता द्रुमाः। ध्रुवं तदभ्यासकृते फलान्यविश्रमं जनेभ्यो वितरन्त्यनेकधा॥९॥ पतन्ति न क्षुद्रतनूभृतोत्र यत् पुरे स्वयोनिष्वपि कीटकादयः । इति प्रभो ! तेऽतिशयान्मितेतरान् न कोऽपि मूर्तेरपि वक्तुमीश्वरः॥१०॥ श्रीवजशिष्यात्किल वनसेनान्नागेन्द्रचन्द्रादिकुलपतिष्ठा । बभूव यस्मिन् भगवन् ! पुरस्ते सोपारकं नन्दतु तीर्थमेतत् ॥११॥ यथेष्टसंवत्सरदानकाले कल्पगुरत्न त्रिदशादिकेभ्यः । यमंशशोऽदा महिमानमुच्चैरेते तमद्यापि निदर्शयन्ति ।। १२ ।। मुग्धोऽसि नो तुष्यसि तीथिकेभ्यः ५४ श्रीमुनिसुन्दरमरिविरचितः प्रोलैः स्तुवद्भ्यश्चरितैर्हरादीन् । ते वैजयस्तम्भनिभास्त्रिलोकी- जैत्रस्य मोहस्य स चापि तेऽर्हन् ! ॥ १३ ॥ त्यजन्नपि त्वां खलु गौरवं श्रियां पदं परं प्रापयते मुनीश ! यः। सदा भजन्नप्यपरांश्च लाघवं कलाऽस्य मोहस्य विमृश्यतांप्रभो ! ॥ १४ ॥ त्वयाऽपमानं गमितोऽपि मोह- राट् वभूव हेतुः शिवसम्पदाप्तये । भवार्तिजाताय परैस्तु सेवितोऽ प्यहो! खलानां विपरीतत्तिता ।। १५॥ कृपैकधर्मे वदसेऽङ्गिनोऽसुभि- वियोजयस्येव वुधैश्च सेन्यसे । यथार्थवक्ताथ यथोक्तकृच्छुत- स्तथापि विज्ञानमिदं तवाद्भुतम् ॥ १६ ॥ भजन्ति देवान् दितिजादिहिंसयो- न्मदान् गुरुंश्च स्वकुलाभिमानिनः । स्वपक्षसिद्ध्यै विविधागमांश्च ये शिवार्थिनस्तेऽपि न कस्य नर्मणे ? ॥ १७ ॥ भवाननाथोऽपि करोति निर्भयान प्रभृत्रिलोक्याश्च जिन ! स्वभाक्तिकान् । परे सुनाथा अपि मोहतो जग- जयोन्मदा नित्यभयान सुदुर्गतान् ॥ १८॥ भजन्ति यत्साम्यसमाधिज सुर्ख प्रशान्तादोषास्तव सेवका अपि । निजादिजानुग्रहविग्रहाहैः सुदुःस्थिता नैतदपि.प्रभो ! परे ॥१९ ।। .
श्रीजिनस्तोत्ररत्नकोशः। ५५ कृपाङ्गभाजः सृजतां न दुःखिता- न कर्मसापेक्षतया महेशता । न सक्रियत्वेन विमुक्तिरप्यतो मुधाऽभिमानानिपतन्त्यधः परे ॥ २० ॥ न यस्य तस्यापि सृजन् जनुर्मती विमुच्यते कश्चिददृष्टवन्धनात् विधस्त्वदन्यो जगतोऽपि ते कथं विमुक्तिकृत्स्वस्य परस्य वा ततः १ ॥ २१ ॥ ययाऽन्वकम्पि त्रिजगत्वया प्रभो! न्यद्यानि भावारिगणश्च तज्जयी। विनैव तां साम्यकलां तव श्रियं न विश्वसृष्टयादिभिरप्यगुः परे ॥ २२ ॥ सचेतसोऽपि स्तुतिकारिणो निजान् शिवं प्रदायाऽपि करोष्यचेतसः। स्तुवन्ति युक्तं तत एव ते मुने! पुनर्भवन्तं न परं च कञ्चन ।। २३ ॥ तथाऽप्यसाधारणसद्गुणस्तुती रसेन भक्तस्त्वमसि स्तुतो मया । न चैव तुष्यामि फलादतस्त्वहं खभावमेनं च न हातुमर्हसि ।। २४ ।। श्रीसोपारकतीर्थभूषणमणे! श्रीमयुगादिप्रभो ! भक्त्यैवं मुनिसुन्दरामरगुरुस्तुत्या मयाऽपि स्तुतः। व कर्मारिजयश्रिया मम परं श्रेयः प्रयच्छाऽचिरा- नित्यानन्दरमाविलाससुभगं विश्वष्टकल्पद्रुमः ॥ २५ ॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञान- सागरसूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीसोपारक- तीर्थनाथश्रीऋषभदेवस्तवरूपं स्तोत्ररत्नं चतुर्थम् ।
५६
श्रीमुनिसुन्दरमरिविरचिनः
॥ अहम् ॥
जयश्रियाऽऽन्यो भरताधिनेता यस्यादिमो लेप्यमयी मतोत्र ।
प्रातिष्ठिपज्जीवत एव मृर्तिमादिप्रभुं वृद्धपुरे स्तुवे तम् ॥ १ ॥
व्युत्पत्ति-मेधा-प्रतिभादयो गुणा न हेतवस्ते व्यभिचारिणःस्तुतेः।
भक्तिस्तु हेतुस्तदतः प्रवृत्तिमान्न मागप्यत्र विभोऽपराध्यति ॥२॥
आनन्त्यभाजामपि ते गुणानां स्तुतावशक्तिं न च नाथ ! मन्ये ।
अनन्तविज्ञानवलस्वरूपी धत्से स्वयं येन हुदा ममक्यम् ||३||
यदस्ति गम्यं तदचेतनं न चेत्समोहमन्यच पथे न चेतसः ।
अमोहविज्ञानमयस्ततः कथं स्तुतेः पथं यासि स मोहसंविदः ॥४॥
तथापि भक्त्या स्तुतयस्त्वयीरिना
भवन्त्यभीष्टार्थफलाय भाविनाम् ।
पयोदवृन्दान्तरितेऽपि भास्वति
प्रजाभिरर्याञ्जलयः कृता इव ॥ ५॥
अनन्तकालप्रभवरनन्तरपीश! शब्दैन हि वाच्यरूपः ।
स्तुत्योऽसि विश्वैरपि चेति वाच्याऽवाच्यं वरूपं भवतो गृणन्ति ।।६।।
समग्रतीर्थातिशयर्द्धिवृद्धात्तीर्थात्तवेदं पुरमन्विताहम् ।
चतुर्युगेऽप्याचमनाद्यवर्णैः ख्यातं चतुर्भिर्भुवि नामभिर्यत् ॥७॥
स्तुवे पुरस्यास्य भुवं त्वदंहिसंस्पर्शपूतां किल यत्र धम्मैम् ।
उपादिशश्चत्यपदे युगादौ त्वं देशनाधान्नि कृते सुरेन्द्रः ॥८॥
संस्थापितायास्तव नाथ ! मृत॑रिहाऽभवत्सागरकोटिकोटिः ।
चिरत्नतीर्थ तदिदं न कांस्कान् स्वसेवकांस्तारयते भवाब्धेः॥९॥
मूर्तिस्तत्रान्तर्गतसारकाष्ठा वहिः सलेपाऽपि हरत्यजस्रम् ।
दुष्कर्मलेपं भविनामियं तद्वाह्याद्वलीयान् विधिरन्तरङ्गः ॥१०॥
वीरात्रिनन्दाङ्कशरद्य ९९३ चीकरत्
त्वचैत्यपूते ध्रुवसेनभूपतिः ।
यस्मिन् महैः संसदि कल्पवाचना-
मायां तदानन्दपुरं न का स्तुते ॥ ११ ॥
५७ श्रीजिनस्तोत्ररत्नकोशः। स्तुवेऽनुकम्पां तव सर्वगोचर प्रसूतिहेतुं सकलेटशर्मणाम् । सर्वार्थसिद्धिं स्वयमास्थितोऽपि सन् ययाऽत्र विश्वोपचिकीरवातरः ॥ १२ ॥ सनाभिरिन्द्रस्य स नाभिभूपतिः कथं भवेद् यत्प्रभवस्य तेऽर्हतः । विडौजसः सर्वसुराऽसुरान्विता दधुश्चतुष्पष्टिरपीश ! दासताम् ।। १३ ।। अदीपयस्तास्त्रिजगत्प्रकाशिनी- विभो ! युगादाविह वाणिदीपिकाः । असलयकालप्रचितं तमोऽभितो निरस्य या धर्मपथानपुस्फुटन् ॥ १४ ॥ स्वमांसदानैरपि मोहविप्लुता- शयैर्विधातुं शकिता न या परैः । त्वयोपदेशैरपि सर्वजन्तुषु व्यधायि सर्वार्थविदा कृपा परा ॥ १५ ॥ अथवा - . क्लेशान्विचित्रान् जननादिकान् परैः वयं प्रपद्यापि न यत्सुखाकृतम् । तदव्ययब्रह्मसमाहितात्मना गिराऽपि चक्रे सुखितं त्वया जगत् ।। १६ ।। न नित्यरूपे जननायुपाधयः कुतः कृतार्थस्य कषायविप्लवः । न विश्वतः कर्मवंशो विशिष्यते समञ्जसाऽन्येषु न कल्पनाऽपि तत् ॥ १७ ॥ तथापि धर्मार्थ्यपि ते मतं त्यजत् प्रवर्त्तते यत् कुपथेष्विदं जगत् । न तत्र हेतुस्विजगद्विडम्बनानिवद्धसन्धात् खलु मोहतः परम् ॥१८॥ ८ ५८ श्रीमुनिसुन्दरमरिविरचितः दधत्परब्रह्ममयैकरूपतामपि त्वमेको बहुधा प्रकल्पितः । श्रितोसि रूपैरपि नामाभिः पररिवाब्दवाः पजलाापाधिभिः॥१९॥ चिरादविज्ञानतमस्तिरोहित निसर्गदोपत्रजगतदुर्गमम् । विना त्वया सर्यशा प्रभो ! पर्थ शिवस्य सम्यग् न हि कोऽप्यदीदृशत् ।। २० ॥ प्रकाशिते केवलभावता त्वया जगत्यशेपेऽपि समं गवां गणः । उदीयतेऽद्यापि यदिन्दुभानुभि- स्तदीश ! तत्तेऽभ्यसितुं नु कौशलम् ॥ २१ ॥ कलिस्त्वदाज्ञावशवर्तिनां सतां न धर्मलक्ष्मी जिन ! हर्तुमीश्वरः । यतो नदीमातृकदेशवर्तिना- मवग्रहः सस्यरमां न शोपयेत् ।। २२ ।। जगत्वदाज्ञां व्यजहात्कुकर्मभि: स्त्वयीश ! माध्यस्थ्यमुपास्थिते ततः । अनीश्वरं दुर्मततस्करैः कलौ कदर्थ्यते तद्भवचारकस्थितम् ॥ २३ ॥ विभेमि तन्नाथ ! समीक्ष्य सांप्रतं ततो निलीनोऽस्मि तवैव शासने । तदाश्रितं पालय मां निजं भव- भ्रमोद्भवक्लेशततेः कृपां कुरु ॥ २४ ॥ अनादिमध्यान्तमगम्यमभ्रम यदर्थयन्ते मुनयः समाहिताः। स्वदेकनिष्ठं परमीश ! तन्मह- 'स्तवैव तेनोक्तिषु सुस्थिता बुधाः ॥२५॥ — एवं श्रीऋषभेश ! वृद्धनगरालङ्कारचूडामणे !
श्रीजिनस्तोत्ररत्नकोशः। स्तुत्वा त्वां गुरुसोमसुन्दरयशस्त्रैलोक्यकुक्षिभरे। ज्ञानादित्रयशुद्धिमेव ! भगवन् याचे यतोऽन्तषि- चक्रस्यामजयश्रिया तव समां लक्ष्मी लभेयाचिरात् ॥२६॥ एवं यो मतिमान् स्तुते जिनवरं श्रीमयुगादिप्रभु शक्रालीमुनिसुन्दरस्तवगणैर्नूतक्रमाम्भोरुहम् । सर्वाभीष्टसुखोच्चौरविरतं स्फूर्जत्प्रमोदाऽयो- मोहद्वेपि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२७॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर- सूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीवृद्धनगरालकार- श्रीऋषभदेवस्तोत्ररत्नं पञ्चमम् । ॥ अहम् ।। श्रेय श्रेणिनिदानं भवरिपुविजयश्रियाऽऽसशिवसौख्यम् । अर्बुदगिरिवरमुकुटं श्रीऋषभं प्रभुमहं स्तोष्ये ।।.१ ॥ स्तोत्रमईति गुणी न कल्पितैर्नापि सद्भिरपरैः सभैर्गुणैः । किन्तु सद्भिरसमैः स तु त्वमेवेति वीवभवभूयसे मया ॥ २ ॥ सोद्यमैः प्रकृतितस्तव स्तुतिः सर्ववाञ्छितकरीति सूत्र्यते । तां विधाय च करोति कोऽपि नो कस्यचित् पुनरतोऽलसैरपि ।।३।। वेनि गौरवकृतो महर्षिभिर्न स्तुतस्य तव मादृशोक्तयः । तोष्यते ह्यपि कराहतैः शिशोरम्विकेति सफलस्त्वयं श्रमः ॥४॥ कोऽप्यरोपि जिनधर्मपादपो दुःषमावधिजयी त्वया विभो ! । वाञ्छितोपनतया फलश्रिया यः सुखाकरति विष्टपत्रयम् ।।५।। भीतिमवुदमिमं क्षमाभृतं संश्रिता न दधतेऽरिचक्रतः । खां तदेतदुपरि क्षमाभृतं संश्रितस्य मम का भवारिभीः ? ॥६॥ शक्तितो दितिसुतादिघातकर्षित्कृता सकलदैवतान्तरैः ।
? ६० श्रीमुनिसुन्दरमूरिविरचितः यत्वदेकशरणाऽभवत्कृपा त्वां कृपैकविपयः श्रितोऽस्मि तत् ॥७॥ स्पर्द्धते महिमतस्त्वयान यः पातयन्ति तमधः स्मरादयः । त्वं तु तानपि निहंसि निर्ममो नाथ ! केयमकृतज्ञता तव ? ||८|| निर्वहन्ति भचिनो यतोऽखिला मोहमेनमपि हंसि सेवकम् । धर्ममेककरुणं च भापसे विश्वसन्ति वहवो न तत्त्वयि ॥ ९ ॥ न स्पृशन्ति तव शासनं भिया बालिशास्तदिति नातिचित्रकृत् । साधवोऽपि मदनादिसेवकान् नन्ति यत्र जगतां प्रियानपि ॥१०॥ इति वा पाठः। श्लाघ्यते स विमलोऽर्बुदाधिपो योऽम्बिकावरमवाप्य सन्मतिः। भाविनीमवगणय्य सन्ततिं त्वद्विहारमिममाश्वचीकरत् ॥ ११ ॥ लल्ल एप कलिमल्लजित्वरः कस्य न स्तुपिदं स वीजडः । उद्धरन् स्वमित्र यो भवावटाच्चैत्यमेतदुद्दीधरत्तव ॥ १२ ॥ स्तौमि तान् जिनपते ! मृगानपि श्रीमदर्बुदागिरीन्द्रवासिनः । ये दरीपु रममाणकिन्नरीगीतमुज्ज्वलयशः पिवन्ति ते ।। १३ ।। पक्षिणोऽपि जिन ! संस्तवीमि तानबुंदाद्रिशिखरप्रचारिणः । भव्यलोचनचकोरचन्द्रिका ये पिबन्ति तव मूर्तिमक्षिभिः ॥१४॥ यः समत्सरमतिस्त्वयि प्रभौ श्रेयसां न सविलासमीक्षते । यस्य भास्वदुदये तमोदृशोनॆषयज्जलरुहां विकाशम् ॥ १५ ॥ रोपकल्मपमधारि न त्वया नापि शस्त्रकटकादिडम्बरम् । किङ्करीकृतजगत्त्रयस्तथाऽप्यान्तरो रिपुगणो न्यहन्यत ॥१६॥ त्वन्मते तमवला अपि स्थिता घ्नन्ति मोहनृपति समाहिताः । यो विडम्व्य हरि-शंभु-वेधसो दैवतत्वपदतो व्यदृरयत् ।। १७ ॥ नाऽवधीः कमपि दानवादिकं रोपतोपवित्रशोऽपि नाऽभवः । आज्ञयैव त्रिजगत् सुखाकृतं यत्त्वयेति विभुता तबाद्भुता ॥१८॥ यासु नाथ ! पतयोऽपि नाकिनां कम्पमेव दधते हतौजसः। ता जनिव्ययजरादिकापदस्त्वत्परों न हि निहन्तुमीश्वरः॥१९॥ ताभिराहितभृशव्यथस्ततस्त्वां श्रितोऽस्मि शरणं जगत्प्रभुम् ।
श्रीजिनस्तोत्ररत्नकोशः। ६१ तत्प्रसीद भगवंस्तथा द्रुतं हन्मि ताःस्व-परयोर्यथाऽखिलाः॥२०॥ त्वां विहाय जगतां हितं परान् ये भजन्ति कुधियः शिवश्रिये । स्नान्त्यतीत्य जिन ! मानसं सरः शुद्धये मरुमरीचिकासु ते॥२१॥ त्रैधदुःखविषमामयोच्चयो येन शाम्यति भवोद्भवोऽखिलः । तत्त्वदागमरसायनं मम श्रीजिनाऽस्तु सुलभं भवावधि ॥ २२ ॥ श्रेयसामसि निधिः किलाक्षऽयो भाविनामुपचिकीरिह स्थितः । तान्यसंख्यभविनां प्रणेमुषां यद्ददासि न च हानिमियूति ॥२३॥ सर्वप्रशस्यफलदः परमोनतिश्री: सदशभूः श्रितवतामविताऽरिचक्रात् । तीर्थोत्तमः प्रहतपङ्कसरस्वतीको जीयाजिनादिम! भवानवमव॒दश्च ॥ २४ ॥ एवं श्रीमुनिसुन्दरस्तुतिपदं त्वां श्रीयुगादिप्रभो! स्तुत्वा भूधरनायकार्बुदशिरश्चूडामणेऽभ्यर्थये । मोहारातिजयश्रियाऽतिसुभगां श्रेयोरमां तां मम ब्रह्माद्वैतमयीं प्रदेह्यनुभवो यस्यास्तवैवाहतः ॥ २५ ॥ इति युगप्रधानावतारबृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसा- गरसूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे अर्बुद- गिरिश्रीऋषभस्तोत्ररत्नं षष्ठम् । ॥ अहम् ॥ जयश्रियं सर्वरिपून जिगीषतां स्तुता यदाख्याऽपि तनोति मन्त्रवत् । . स्तवीमि तं पार्श्वजिनं शिवश्रिये श्रीजीरिकापल्लिवतंसमिष्टदम् ॥ १ ॥ प्रसद्य मातः ! कुरु भारति ! स्थिरां.
६२ श्रीमुनिसुन्दरमरिविरचितः हृदि स्थिति मे कविकल्पधेनुके !! विधाय यत्पार्कजिनस्य संस्तुती- जनो लभेतायमपीप्सितं फलम् ।। २ ।। इहाप्यहीन्द्रो धरणः प्रसत्तिभाग यया तनोतीष्टसुखानि सप्रियः । परत्र चाप्याः शिवसम्पदोऽपि तां न कः स्तुति पार्थविभोविधित्सति ? ॥ ३॥ गुणाननन्तान् क्रमवर्तिवाग् न ते भवाम्यलं स्तोतुमितीश ! वेम्यहम् । तथापि ते भक्तिरसैकवेदन ! वेद्यान्तरं पार्श्व ! विचारमस्यति ॥ ४॥ अपारयन् वक्तुमयं जनः प्रभो ! सतोऽपि तेऽनन्ततयोज्ज्वलान् गुणान् । कथं परेषु स्तुबतोऽसतोऽपि तान् कुतीथिकांश्चित्रकृतो न वन्दते ॥ ५॥ अथवा- अशेपतो नाथ ! ममैव न स्तवै- न भूयसे किन्तु सुयोगिनामपि । न पूर्यते यः किल धृमरीकणे- स्तथैव सिन्धुः स सरिगणैरपि ॥ ६ ॥ अथ स्वबोधाववि ते स्तुतिं वद- नवाच्य एपोऽपि जनस्तदा तथा । यथेच्छमाक्रामतु खं सुपर्णमू- बलानुरूपं मशकोऽपि का क्षितिः १ ॥ ७ ॥ ततः कृता या तव दिव्यदृष्टिभि- महर्षि भिब्रह्ममुखैश्च संस्तुतिः । तनोमि तामप्यहमल्पधीधनः श्रीजिनस्तोत्ररत्नकोशः। ६३ स्वशक्यपेक्षा हि फलार्थिनां क्रिया ॥ ८॥ अथास्त्यपि द्वारमिदं फलाय य- लवोऽध्यलं ते महिमाऽम्बुधेः स्तुतः । महाऽऽमयान् विन्दुरपि प्रहन्ति वा न किं सुधाया विधिनोपयोगभाग १ ॥९॥ खशक्त्यशक्योरथवौचिती न मे विचारणे भक्तिवशस्य ते स्तुतौ । वयं भवान् भक्तजनेऽस्ति यत्प्रभुः समग्रचिन्तास्पददानदीक्षितः॥१०॥ भवन्ति सर्वेष्टरमा वुवूर्षवो जिहासवो दूरमुपद्रवाश्च यम् । स्पृहाऽपि तस्यैव तव स्तवे भवेत् फलाय सत्कर्ममनोरथोऽपि यत् ॥-११ ।। सवोधिकारोग्यमुपेयमिच्छता स्तुति तवैवोपयिक जगुर्बुधाः । इति प्रयत्नोऽत्र ममाप्ययं भवन् कृतार्थतामृच्छतु ते प्रसादतः ॥ १२ ॥. भवत्यसाराऽपि हि गीरनन्तस- द्गुणे प्रयुक्ता मम विस्तरीष्यते । सरित्पतिं प्राप्य भवेत् प्रसारिणी सरित्तनीयस्यपि नाऽभितः किमु ॥ १३ ॥ सुसम्पदस्ताः शुभशक्तयोऽपि वा त्वदेकभक्त्यव्यभिचारिहेतुकाः।.. ममापि सैषोऽनुभवः स्फुरन् कथं भिनत्ति ते पार्थ ! नुतौ न मन्दताम् ॥ १४ ॥ महाऽऽमयाद्याऽखिलविघ्नभेदनात् प्रमाणमारोहति ते स्तुतिः स्वयम् । .
६४ श्रीमुनिसुन्दरसूरिविरचितः विभिन्दती तीक्ष्णमुखेन यत्पर्ट करोति सूच्येव हि मार्गमात्मनः ॥ १५ ॥ प्रयत्नभाजामपि ते स्तवेऽग्रतः प्रवृत्तये स्युर्भवदिष्टसिद्धयः। सुखाकृताः शीतलवायुनाऽपि हि श्रयन्ति तृष्णातरलाः स्वयं सरः ॥ १६ ॥ विभिद्य वाह्यान्तरविघ्नसंमिल- कपाटयुग्मं परशुस्तव स्तवः । मनीषिणः केवलगोपुरे शिवा- लये ध्रुवानन्दमये प्रवेशयेत् ।। १७ ॥ पदं महिम्नां तब संस्तुतिं दध- न दूयते दुःखभरैर्भवोद्भवैः । भृतां जलैः किं सरसी समाश्रितः प्रदह्यतेऽरण्यभवैर्दवाग्निभिः ।। १८॥: तपांसि पुंसां ददते न तत्फलं न यन्त्र-मन्त्रा न च योगसाधनाः। न चाऽपि देवान्तरपर्युपासना- स्तनोति यत्ते स्तवनं मनोऽतिगम् ।। १९ ।। महोन्नता शुद्धपदस्थितिपदा- ऽवदातसोपानततिमनिर्मिता। दधाति निःश्रेणितुलां तव स्तुतिः शिवालयारोहकरी मनस्विनाम् ॥२०॥ स्तुमस्तमेकं धरणं फणीश्वरं तवानुकम्पाफलभोगशालिनम् । भवान्तरे यं परमेष्ठिमन्त्रदः स्वयं भवानन्वशिषज्जगद्गुरुः ।। २१ ॥ दधाति लोलावसः स विंशति श्रीजिनस्तोत्ररत्नकोशः शतानि चक्षुःश्रुतिराट् ततः किल । गणांस्तव स्तोतुमवेक्षितुं श्रियं प्रभावमाकर्णयितुं च सर्वतः ॥ २२ ॥ पद्मावतीयुक् त्वदुपास्तिलालसो व्यनक्ति संप्रत्यपि तत्कृतज्ञताम् । तवोग्रभक्तिं च स भक्तपालनात् फलानुमेया हि निदानशुद्धयः ॥ २३ ॥ भयानि रोगोरग-वह्नि-विद्विषां सदुर्जनानां प्रभवन्ति तेषु न । स्तुतिस्त्वदीया किल यैविधीयते वृत्तिर्बुधैः स्वस्य जिनेश ! पालनी ॥ २४ ॥ अकृत्रिमा बद्धगुणा स्तुतिस्तवा- ऽनुभूयमाना खदतेऽधिकाधिकम् । न चर्यमाणा भजतेऽधिकाधिक किमिक्षुयष्टिः प्रसरद्रसात्मताम् ॥२५॥ कृता परेषां तु विकल्पितैर्गुणै- विचार्यमाणा विशरारुरेव सा । किमन्तरन्तः कदली प्रदर्शयेत् समीक्ष्यमाणा न निजामसारताम् ॥ २६ ॥ जडा गुरुकृत्य परान् स्तुवन्ति यै- जगज्जनिस्थमवधादिकद्गुणैः । वदन्ति तैरेव विडम्बकानमून् मतत्वदाज्ञाः स्तवनाहतामुचः ॥ २७ ।। गतास्त्वदन्ये स्तवनीयतां गुणे- न कल्पितैौरवमापिता अपि । न वायुभिमूर्द्धसु भूभृतां गता- न्यपि त्यजन्तीह रजांसि लाघवम् ॥ २८ ।। १ ६६ श्रीमुनिसुन्दरमूरिविरचितः मृगास्त्वदन्येपु मरुस्थलेविव स्फुरद्गुणाम्भोभ्रमविप्लुताशयाः। हहा! तमोग्रीष्मखरातऽऽपार्दिता तथैव ताम्पन्ति शिवाशयाः स्तवैः ॥ २९ ।। तव स्तवान्मुक्तिरमाऽप्यवाप्यते प्रयास एव त्वपरस्य सर्वतः । ददाति रत्नाकरवन्मणिश्रियं न चित्रनुत्याऽपि जलाशयान्तरम् ।। ३० ॥ स्तुतिस्रजं ते सुमनोमतामिमां दधाति यः खे गुणगुम्फितां हृदि । स जीरिकापल्लिविभो । विमुच्यते कुकर्मभिः पार्थ! सुखैकभाजनम् ॥ ३१ ॥ एतज्जाति-भया-SSमयादिविविधक्लेशैर्जगद् व्याकुलम् तैरेव व्यथितैन शक्यमवितुं श्रीपार्थ ! देवान्तरैः । त्वामेवेति बुधाः श्रयन्त्ययमपि स्तोतुं प्रवृत्तो जनः सर्वेष्टा लभतां त्वदेकशरणः श्रेयःश्रियः शाश्वतीः ॥३२॥ जीरापल्लिविभूषणं जिनमिति श्रीपार्श्वनाथं मुदा शक्रालीमुनिसुन्दरस्तवगणैनूतक्रम. यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाऽदयो मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥३३॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसा- सागरसूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिमिविरचिते जयश्यले श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीजीरा- पल्लीश्रीपार्श्वस्तोत्ररत्नं सप्तमम् । 1 ' - 'श्रीजिनस्तोत्ररत्रकोशः। ॥ अहम् ॥ जय श्रीस्तम्भनाधीश ! श्रीमत्पार्थ! जगत्मभो!। तव स्तवनतः कुर्वे सर्वश्रेयाश्रियो वशाः ॥१॥ आरभ्येच्छामपि शुभफले ते स्तवे साभियोगा मुक्त्यै सर्वेऽप्यमलसरसीवाम्बुने नाऽद्भुतं तत् । त्रैकाल्येऽपि ह्यपरनुतिषु क्लेशमात्रपदासू- युक्तास्ती• इव रविरुचिष्वर्णसेऽस्यै तु चित्रम् ॥ २ ॥ कुशलः प्रकरोति कर्म तत् प्रतिभात्यायतिसुन्दरं हि यत् । इति कस्य भवत्परान् प्रभो ! स्तुवतो नर्मपदं न कौशलम् ॥३॥ शिवसुखं ह्यपरे भवसङ्गताः स्तुतिशतैरपि नो ददितुं क्षमाः। स्पृहयतोऽस्य तदेव तथैव तत् समुचिता नुतिरर्थितदायिनः ॥४॥ चित्रं न देवेषु परं प्रबुद्धाः स्तुवन्ति मत्वोषु सूरवत्वाम् । केऽप्याद्रियन्तेऽर्कधियेव भानि देवान्तराण्याप्ततया नु चित्रम् ॥५॥ विघ्नान् विनिघ्नन् स्वयमेव कर्तृन् शिवार्थिनः प्रेरयति स्तवस्ते.! प्रीता न किं सौरभतोऽपि तापार्दिता द्रुमं चन्दनमाश्रयन्ति ॥६॥ • इहाप्यमुत्रापि च पार्श्वनेतः! श्रेयःसुखश्रीप्रतिभूः स्तवस्ते । जनाः परोक्तौपयिकान्तरैस्तद् वृथैव ताम्यन्ति तदर्थिनः किम् ॥७॥ : प्रभुत्वसीमा ममतोद्धतैः परैनियोजिता येषु, हरादिषु प्रभो। व्यडम्बयचान्मदनस्त्वमेव तं.जघन्य तत्ते प्रभुताऽस्तसीमका ॥८॥ मनांसि धावन्ति समग्रदेहिनां प्रभो! ग्रहीतुं कुशलानि सर्वतः । स्तुवे जिनैतान् कुशलांस्तु कांश्चन त्वदागमाये तदुपायवेदिनः ॥ ९ ॥ सुनिश्चितानन्तहितं विहाय त्वदीरितानुष्ठितिकर्म केचित् । सुनिश्चितानन्तभवानिदेषु मिथ्यात्वकर्मस्खपि धिग् यन्तते ॥१॥ कथं रमन्ते न परेषु ते प्रभो! प्रकल्पिताणुप्रभुतागुणेष्वपि । तवोपदेशासहना विकल्पनोद्भवेषु संसारसुखेषु ये रताः ॥११।। . .
६८ श्रीमुनिसुन्दरमूरिविरचितः यथा निजानुष्ठित्तिसाधुकल्पिता जिनेन्द्र ! मुक्तिः कणभक्षशिप्यकः । भवद्गुणद्वेषभवार्तिपातिनां न वच्मि तेषां सुलभां तु तामपि ॥ १२ ॥ स्वसेवकानेव भवाम्धुराशावईन् ! परे मज्जयितुं समर्थाः । प्रभुस्त्वतस्तारयितुं त्वमेनानेवेति तेभ्योऽधिकताऽस्तु का ते॥१३॥ निरखनाव्यक्तमगम्यमेकं तीर्थ्याः स्वरूपं तव माऽनुभूवन् । श्रुत्वाऽपि ते नाथ! गुणानतुल्यान देव! तत्त्वं तु विदन्ति चित्रम्॥१४॥ जानासि विश्वं न च ते परोऽस्ति ज्ञाताय॑से त्वं जगतान तेऽर्थ्यः। त्वमर्थ्यसे मुक्तिसुखं सुरेन्द्ररप्यर्थ्यमास्ते न हि तेन चार्थ्यः॥१५॥ मनोदकं मोहमलाविलं मे न केवल श्रीपरिभोगयोग्यम् । त्वद्ध्यानधीकातकचूर्णयोगात्परां विशुद्धिं तदुपैतु नेतः! ॥१६॥ अनन्तसङ्ख्यस्य भवद्गुणाधे स्वपापराशेश्च न यामि पारम् । तत्तो जगन्नाथ ! तथा प्रसीद यथा तयोकि तमुपैमि सम्यग् ॥१७॥ अनन्तपापैः पततो भवे मे त्राता न कोप्यस्ति ततोऽतिखिये। आराध्यसे यैस्तु यथावदेपामेकोऽसि पातेति मनाक् प्रमोदे॥१८॥ विभेमि घोराद्वदुःखराशेर्मोहं च तद्धेतुमलं न हातुम् । त्रातुं ततोऽनन्यगति प्रभुौ पार्थ! त्वमेकोऽसि कुरूचितं तत् ॥१९॥ शरीरवप्रेषु मनोगृहेषु प्रविश्य मोहारिकुलानि जीवान् । गृह्णासि कैवल्यपुरेऽत्र हेतुस्तबारिपर्गमुचः कृपैव ।। २० ।। चित्रं न तद्वर्णयितुं प्रभावस्तवामरेन्द्ररपि यन्न शक्यः। अनन्तमेतं यदनन्तशक्तिःशक्नोति वक्तुं न जिनोऽपि पार्थ ॥२१॥ तव प्रभावाक्षयसेवधेर्नु लवान् गृहीत्वाऽम्बुनिधेरिबाब्दाः । खर्धेनु-रब-द्रु-घटादयोऽर्थाः प्रीणन्ति विश्वानि यथेष्टदानः ॥२२॥ चोरेऽधुना पार्थ! कलौ निदाघे विघ्नातपा नि सतां मनांसि । कथं शमाप्स्यंस्तव मूर्तिरेषा न चेत्सुधाकुण्डनिभाऽभविष्यत् ।।२।। स्तवीम्यधिष्ठायकवर्गमेतं नागाधिराट्तद्दयित्ताऽऽद्यमीश!।
श्रीजिनस्तोत्ररत्नकोशः।
ताहिमक्तव्यसनापहारे साहायक यः सततं तनोति ॥२४ ।।
इत्थं स्तम्भनकावतंस! भगवन् श्रीपार्थ! विश्वप्रभो!
स्तुत्वा त्वां मुनिसुन्दरस्तव पदं याचेर्थिकल्पद्रुमम् ।
सप्ताप्याशु भयान्यपास्य सकलान्यत्राप्यमुत्राखिल-
क्लेशातीतमनन्तमव्ययपरानन्दं पदं देहि मे ।। २५.।।
इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर-
सूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के
श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीस्तम्भनकावतंस-
श्रीपार्श्वस्तोत्ररत्नमष्टमम् ।
॥ अहम् ॥
जयश्रीमन्दिरे सिद्धपुरे श्रीज्ञातनन्दनम् ।
चतूरूपं जिन राजविहारालङ्कृति स्तुवे ॥१॥
जाने स्वरूप न तव स्पृशन्ति गिरः स्तुतिस्तेन कथं गुणानाम् ।
तथापि यत्नोत्रन माशोऽपि विरुध्यते सोऽपि यतः फलाय ॥२॥
अयं च भावः सम एव योगिना-
मपि प्रवृत्ताश्च न तेऽपि चात्र न ।
गतां महद्भिः पदवीं भजन् फलं
जिनेष कोऽप्याप्स्यति तद्वदेव तत् १ ॥ ३ ॥
अनुग्रहं वा कुरुतेऽपि माश-
स्तबैकभक्तिमविलोकनग्रहः ।
स्तुतौ यदि स्याद् गुणदोपहर भवान्
कुतस्तदाऽऽशाऽपि फलस्य सम्भवेत् ? ॥ ४ ॥
सुखार्थिनः सर्वजनाः सुखं पुन-
न वै विशुद्धं व्यतिरिच्य नितिम् ।
विनाऽवसानौपयिकान्यथैचिदं
परं सुसाधं च तदत्र यत्यते ॥ ५ ॥
७० श्रीमुनिसुन्दरमूरिविरचितः द्विषन्नपि त्वां स्पृहयन् पदं परं स्तवीति देवान्तरमीश ! यः कविः । तदस्य दूरे न विशीर्यते त्वयं यदाशु देवास्तदहो ! प्रमादिनः ॥ ६ ॥ शिवश्रियो याः परमा भजन्ति ता- स्त्वदंहिभक्तेजिन ! किङ्करीपदम् । नरामरेन्द्रादिरमास्तु तद्वशाः श्रयन्ति तस्याः किमिवेति वेद कः ? ॥ ७ ॥ दधासि तोपं न न रोपविप्लवं करोपि चिन्तामपि नैव कस्य चित् । विभर्पि चाऽऽत्मैकगुणांस्तथापि ते कथं प्रसादं स्पृहयन्ति पण्डिताः ॥८॥ त्रसन्ति युक्तं भवतः कुतीथिका हरादिकानां खलु ते हि सेवकाः । इमेऽपि मोहस्य जगद्विडम्बना- पटीयसः सोऽपि यतस्त्वदनसत् ।। ९ ॥ वपुर्द्धनायुःस्वजनाङ्गगनादिकान् भवे पदार्थानखिलान् प्रदर्शयेत् । असारभूतानपि सारताजुपः खसेवकान् योऽद्भुतसौचशक्तितः ॥१०॥ उपासितारोऽस्य विमोहमायिनो धृवं त्वदन्ये तदधीतशक्तयः । अतत्वरूपानपि तात्त्विकानिव प्रदर्शयन्तेऽर्थगणानिजाश्रवैः ॥११॥ ( अर्थतो युग्मम् ) भजेत ययेन जिनास्वतन्त्रता तदीशता तद्विजयानुयायिनी।
श्रीजिनस्तोत्ररत्नकोशः। स्फुटे तवान्यस्य च मोहराड्जया जयार्पिते तजगदीशतेतरे ॥ १२ ॥ सुता विनया अपि वीरसम्भवा भवन्ति वीरा इति सर्वसम्मतम् । गिरोऽपि चीरस्य नु तेऽतिवीरतां भजन्ति विश्वाजितमोहनिर्जयात् ।। १३ ।। निरायुधः प्रोज्झितविग्रहः सभी- भवद्विषो युक्तमगाः शिवं पदम् । जयं तु मोहस्य जगत्रयीजित- स्त्वया कृतं वक्ति तवोक्तिरेव चेत् ॥ १४ ॥ सुधां त्वदीया व्यतियाय सूक्तयः स्थिता रसैरत्र न कस्य संमतिः । निपीय ता यद्विवुधाः सुधाशनां दिवं न वाञ्छन्ति शिवकचेतसः ॥ ५॥ श्रुतोऽपि धर्मः कुरुते धृतिं सतां त्वयेरितोऽन्यैस्तु भयातुरां धियम् । किमीक्षितोऽप्यातनुते जलाशयो न शीतिमानं ज्वलनश्च संज्वरम् ॥ १६ ॥ त्वयैव सत्तत्वरमा वशीकृताः पर्यहच्छाग्रहिलैडिम्बिताः! वसस्यतो यत्र हृदि त्वमेव ता वसन्ति तत्रैव विभो ! किमद्भुतम् ॥१७॥ सतां भवक्लेशरुजां क्षयात् परं न वै शुभानुष्ठितिषु प्रयोजनम् । रसायनं तत्र तवैव चागम- स्तदाऽऽभवं मेऽस्तु स एव सङ्गतः ॥ १८ ॥ स्तुवे मनः खं तदधीतनैपुणं ७२ .. श्रीमुनिसुन्दरमरिविरचितः गुरोर्लवादयतुलागमस्य ते । भवासुहगीतिनिपातकातरं भवन्तमेवोपजगाम यत्प्रभुम् ।। १२ ।। इदं चर्तुद्वारविशालमण्डपं निरीक्ष्य चैलं तव भारतोत्तमम् । इमानि नन्दीश्वरकुण्डलादिगा- न्यपीक्षितानीव विभावयेद् बुधः ।। २० ॥ चतुःपुमर्थाद्धतशर्मसाधनं स्तुतं चतुर्ज्ञानसमृद्विवन्धुरैः । चतुर्गतिक्लेशविनाशहेतवे चतुर्मुखं त्वां भगवन् ! प्रभुं भजे ॥ २१ ॥ भवान् यया पश्यति संविदा जग- द्भवत्स्वरूपं. हि तयैव गम्यते । तया समृद्धो भवतश्च नो पृथक ततो भवानेव भवद्गुणानचैत् ॥ २२ ॥ कथं तदज्ञस्य भवद्गुणा गिरां स्तवात्मिकानां विषयीभवन्तु मे ? ! तथाऽपि वाञ्छन् मणिमेव तत्मभा- स्वपि प्रवृत्तः फलभाग् यथा भवेत् ॥ २३ ॥ अयं तथाऽर्थेषु गुणानुयायिषु प्रवृत्तिमान् केष्वपि ते स्तुति सृजन् । यथावदाप्ताऽपि गुणान् परं स्तुते- स्तदा न कर्तेत्ययतेऽधुनाऽत्र तत् ॥ २४ ॥ (युग्मम् ) एवं सिद्धपुरप्रसिद्धनगरालङ्कार ! वीर! प्रभो! भक्त्योद्यन्मुनिसुन्दरस्तवगणं स्तुत्वा स्वशक्त्या जिनम् ।
श्रीजिनस्तोत्ररत्नकोशः। ७३ याचे त्वां जगदिष्टसाधनपटो...त्यक्तं भयैः सप्तभिः श्रेयः शर्ममयं भवारिविजयश्रीसङ्गमान्मां कुरु ॥२५॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर- सूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्न्यके श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे सिद्धपुरस्थश्रीराजविहारम- ण्डनश्रीवर्द्धमानस्तोत्ररत्नं नवमम् । ॥ अर्हम् ॥ जय श्रीमन्नाभिप्रभव ! भुवनत्राणशरण ! प्रदेलपाकारक्षितिधरशिरोमौलिभवन | प्रभो! भक्त्यायत्तीकृतशिवपदानन्दमहस- स्तव स्तोत्रे यत्नं किमपि विदधे भक्तिविवशः ॥१॥ गुणानामानन्त्यात्क्रमनियमतश्चापि वचसां न शक्ताः स्तोतुं त्वामपि हरि-हर-ब्रह्म-गुरवः । अवमीति स्तुत्यां तव तदपि यत्नोऽयमुचितो विचारं भक्तानां तिरयति विभौ भक्तिरिह यत् ॥२॥ मम ज्ञानं नास्ते करणरहितं त्वं च किमपि खरूपं धत्सेऽईन् ! वृषभ ! करणातीतममलम् । कथाऽपीति स्तुत्यां क तव तदपि स्तोत्रपदवीं लभे यस्या भक्तेरहमपि नवीमीशितरिमाम् ॥३॥ भवापायैस्तप्तं स्पृहयति जगन्नितिपदं समग्रापायानां व्यपहृतिपटुश्वासि जगतः । फलावाप्ति रे तदपि किल यामेव हि विना भवत्वेका सैव प्रथमजिन ! भक्तिस्त्वयि मम ॥ ४॥ विशुद्धा चेद्भक्तिर्भवति भवति प्रेष्ठफलकृत तदा किं स्यात्कृत्यं यम-नियम-दानप्रभृतिभिः । तृणां चिन्तारत्ने करतलगते नो यदुचिता ७४ श्रीमुनिसुन्दरमूरिविरचितः धनप्राप्त्यै नानौपयिकजनितक्लेशनिवहाः ॥५॥ योगाभ्यासे निविडजडिमा धीप्रवेशो न शाब्दे ब्रह्मण्यात्मन्यपि न च लयो नानुभूतिस्तपस्सु । येपां दानाद्यपि न विदितं त्वत्पदद्वन्दुभत्या तेऽपि ज्योतिर्जिनवर ! परानन्दरूपं लभन्ते ॥ ६ ॥ त्वद्भक्त्या यद्भवति भविनां मर्त्यनाथामरेन्द्रा- द्यैश्वर्याप्तिः स्पृशति हृदयं कस्य नेतस्तदेतत् । ज्योतिः किञ्चित्परममुनयोऽप्यर्थयन्ते तपोभि- यद्योगाचैरपि तदपि यत्स्यात्करप्राप्तमस्याः ॥७॥ कुमारो भूपोऽभूजगदनुपमप्रौढिचरितो भवेनेकेनैवामृतपदगमी यत्सुरभवात् । अणोरेकस्यैतत्तव जिन! विभो ! भक्तिनिचये न केपामाश्चर्य जनयति फलं विश्वविदितम् ।। ८॥ अरीनिर्जित्योदध्यवधि भुवमात्मैकपतिका निवार्यानार्येष्वप्यखिलतनुमातमनघाम् । मणीचैत्यैरुधैः सुभगवपुपं च व्यसनहृत् स राजा त्वद्भक्त्याधिगतविभवो नाथ ! कृतवान् ।।९।। स गोविन्दः सङ्घाधिपतिरमलैश्वर्यविभवो न केपां श्लाघाया व्रजति विपयं शुद्धमनसाम् । तव प्रासादस्योदृतिकृतिमिपायेन कृतिना समुद्दधे स्वात्मा भवजलधिपातोद्भवभयात् ॥१०॥ परं श्रेयः प्राप्य त्वमसि कृतकृत्यः स्वयमिदं परेपां दातुं.च.प्रभवसि तदाश्च कृतिनः। भजन्तेऽतस्ते त्वां मुदितमनसः स्वार्थरसिका जिनोपेयं शुद्धौपयिकवशतः स्थाद्विसद सत् ॥ ११ ॥ प्रगल्भन्ते दोपैः कलुपमतयः सिद्धिविभवं न भोक्तुं दातुं वा न च विरहितस्तैस्त्वदपरः ।
श्रीजिनस्तोत्ररत्नकोशः ७५ वृथा तत् क्लिश्यन्ते स्तवनविधिभिस्तस्य कुधियः फलं नेष्टं यत्स्यात्सुलभमनुपायप्रणयिनाम् ॥ १२ ॥ परानन्दास्वादे रसिकमनसः शुद्धमतयः स चादृष्टप्लोषादयमपि च तच्चाधिगमतः । स सम्यक् सिद्धान्तादयमुदभवच्चाखिलविद- स्त्वमेवाद्यश्चैषामिति तव नुतौ वोधिद ! यते ॥ १३ ॥ जगत्माणियासाऽऽतुरवदनमृत्योर्भयजुषां परब्रह्मानन्दामृतरससतृष्णकमनसाम् । व्यतीतक्लेशोधः परमपुरुषार्थाधिगतिदान सतामेकस्त्राणं त्वमसि शरणं चापि भगवन् ! ॥ १४ ॥ परं ज्योतिः किश्चित्सकलविषयव्यापृतिमुचो भवक्लेशावेशापरममतयः प्राप्तधृतयः । विकल्पातीतं यत्परममुनयो ध्यानपदवीं नयन्त्यस्मिन् रूपे तव जिन ! धियो मेऽस्त्वनुभवः॥१५॥ जगन्नानाऽवस्थास्थपुटितमिदं यत्परिणते- रुदग्रक्लेशानां सहति भववासावधि ततीः । निहत्यादृष्टारिव्रजमिममवापि त्रिभुवन- प्रभुत्वश्रीस्त्रातस्त्रिजगदुपचक्रे च भवता ॥ १६ ॥ प्रभुत्वं यत्पृथव्याः स्फुरति गतशत्रुन्यतिकरं यदिन्द्राद्यैश्वर्यं यदपि शिवशावधि फलम् । तदेतत्सर्वं ते क्रमयुगसपर्या प्रददती स्पृहां स्वस्मिन् केषां सृजति न यतीनामपि विभो ॥१७॥ कृपैव श्रेयाश्रीसमधिगतिकृत्तत्र न च सा भवेद्यत्रारम्भोऽनुचरति स च ग्रन्थमुभयम् । ततो युक्तं त्यक्त्वा जलधिरसनां राज्यकमलां अपनो ग्रन्थ्याश्रमममलधीस्त्वं शिवमगाः ॥ १८ ॥ हरि-ब्रह्मेशेन्द्रादिषु. विजयिनो यस्य विशिखा- . .
७६ श्रीमुनिसुन्दरमूरिविरचितः गताः कुण्ठत्वं नो न च समभवन्नेष्टफलिनः । विपदल्लीकन्दस्त्रिभुवनजनत्रासजनको हतो मोहः साम्यादपि रिपुरयं नाथ! वभता ॥१९॥ समामयेन्द्र जगदपि नयद् ग्रासविपर्य मम स्वामिन् ! भीतिं जनयति कृतान्तस्य वदनम् । त्वमेवातस्त्राता त्रिभुवनगुरुस्तेन शरणं श्रितस्त्वामेवाहं कुरु गतभयं मां करुणया ।। २० ।। अनादौ संसारे बहुलतमसा लुप्तमतिना मया निन्द्यं कर्म व्यरचि बहुधा क्लेशजननम् । इदं तत्सर्वं मे ऋपभ ऋपभेतीश ! जपतः प्रणाशं यातु द्राक् शिवपदरमा च श्रयतु माम् ॥२१॥ न कामः कल्पद्रौ न च सुरमणौ नाऽमरघटे न विद्यायां मन्त्रे न हि न च सुराऽऽराधनविधौ । त्वमेवैकस्त्राणं त्वमसि शरणं त्वं गुरुरतो भवापायत्रस्ते मयि कुरु कृपाः जिन ! दृशम् ।।२२॥ नमस्तुभ्यं देवा-ऽसुर-मनुजनेत्राब्जरवये नमो लोकालोकाकलनकुशलज्ञाननिधये । नमस्तुभ्यं सर्वेहितसुखकृतिप्रीतिजगते नमो विश्वापायव्यपनयविधिव्यग्रमनसे ॥ २३ ॥ स्तुत्वेत्यादिमदेव ! सुन्दरतरां भक्तिं दधत् त्वां मुदा श्रीज्ञानाम्बुधिसूरिभिः स्तुतपदं ज्ञानाणुनाऽप्यन्वितः । याचेऽहं गुरुसोमसुन्दरगुणव्याप्तत्रिलोकोदर- द्वैधद्वेषिजयश्रिया जिनपते ! श्रेयःश्रियः शाखतीः ॥२४॥ एवं श्रीइलदुर्गभूपणमाणिं श्रीमागादीश्वरं शक्रालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्ममोदाऽद्वयो
श्रीजिनस्तोत्ररत्नकोशः।
F
७७
ORIES
मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२५॥
इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर-
सूरिश्रीसोमसुन्दरसूििशष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के
श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे इलदुर्गालङ्कारश्रीऋषभ-
देवस्तोत्ररत्नं दशमम् ।
॥ अहम् ।।
जयश्रीगंगे मातुर्यत्राभूक्षदेवने ।
तिष्ठापयिषिते चात्र श्रीचौलुक्यमहीपतेः ॥ १॥
श्रीमचारणदुर्गस्थ श्रीमन्तमजितं जिनम् ।
जगजैत्रेण मोहेनाजितं तं संस्तुवै मुदा ॥२॥ (युग्मम् )
अशक्तपतौ तव नाथ ! संस्तवे
सुरेश्वराया अपि नूनमासते ।
न तेऽपि कुर्वन्ति न तं स्वशक्तितः
शिवाशयेतीह ममापि सूद्यमः ॥ ३॥ .
विधीयमाना भगवन् ! गुणानां
स्तुतिस्तवाल्पाऽपि ददात्यभीष्टम् ।
सुधा यदल्पाऽपि निपीयमाना
नीरोगतां प्राणभृतां तनोति ॥४॥
अनन्तं ते ज्ञानं न पथि वचसां नापि च सुखं
न गम्यं ते रूपं न तव चरितस्याप्युपमितिः ।
गुणास्तेऽनन्तत्वान्जिन ! न विषया वाङ्मनसयो-
नं शक्यं स्तोत्रं तत्तव तदपि यत्नोऽत्र फलवान् ।।५।।
न विश्वासः प्रोक्तेऽह्यनिखिलविदा शुद्धमनसां
भवेन्मोहग्रस्तो न पुनरखिलं वेदितुमलम् ।
त्वदन्यो नामोहः प्रभवति तवैवागमनिधि
भजन्ते याथात्म्यात्फलमपि लभन्ते च कृतिनः ॥६॥
७८ श्रीमुनिसुन्दरमरिविरचितः नेकोऽपि दृश्येत सुरान्तरेषु यः स्फुरन्त्यनन्ता अपि ते गुणास्त्वयि । सुरद्रुमा ये बहवोऽपि नन्दने भवन्ति सैकोऽपि मरौ किमाप्यते ? ॥ ७॥ न शस्यते कैः स कुमारभूपति- स्तवात्र तीर्थामरवृक्षरोपणात् । सतां भवक्लेशजदुःस्थताभयं जहार यो मुक्तिगमी भवदयात् ॥८॥ कुमारपालस्य कथं न मित्रं गोविन्दसङ्घाधिपतिर्भवेत्सः । ग्रीष्मे कलौ म्लेच्छदवागिताप- स्तन्यस्तविम्बापगमेन शुष्कम् ॥ ९॥ पुण्यद्गुमं तस्य नवत्वदेत- द्विम्वप्रतिष्ठापनतस्तदर्थैः। जलप्रवाहैः किल योऽभिपिच्य प्रभोऽधुना पल्लवयाञ्चकार ।। १० । (युग्मम् ) श्रीहेमचन्द्रगुरुमिद्धगुणैः परं न श्रीसोमसुन्दरगुरुप्रभवोऽनुकुर्युः । किं तु त्वदीयनवविम्बमहाप्रतिष्ठा- कृत्यैरपीश ! दलितोग्रकलिप्रभावैः ॥११॥ प्रभो ! तवैतैर्विविधैः प्रतिष्ठामहोत्सधैर्नत्रपथं प्रपन्नः । जनित्रतज्ञानमहान् पुराणान् प्रत्येति कस्तान स चेतनोऽपि ॥१२॥ भवाम्बुधेस्तारणतो द्विधाऽरिभीतिक्षितेस्तारणदुर्ग एपः। संसर्गतस्ते त्वमिवाजितेश! नगोऽपि जज्ञे किल सान्वयाहः ॥१३॥ संसारतृष्णोरकपायतापचिराजितादृष्टमलप्रणाशैः। अर्थैत्रिभिर्नायकभावतीर्थमाराधितं मुक्तिमिदं तनोति ॥१४॥ १ गणेति पाठान्तरम् ।
श्रीजिनस्तोत्ररत्नकोशः। ७९ द्विधाऽपि शत्रून् जितशत्रुजन्मा जित्वा भवान्नितिमाप युक्तम् । ख्यातस्तु चित्रं विजयाङ्गजोऽपि भक्तेषु.भूमिर्विजयोद्भवस्य॥१५॥ कथं नु सम्यक् तव दर्शनाय वुधा यतन्तेऽपि तपस्क्रियाऽऽथैः । जातं हि तद्यस्य न तस्य रूपं विलोकते कश्चन लोचनाभ्याम् ॥१६॥ अनादिमिथ्यात्वतमःमणाशतः सुतत्त्वरत्नप्रकरप्रकाशतः । शिवप्रदं तात! जगत्सुखाकर त्वमागमं दीपमदीदिपः स्थिरम्॥१७॥ अनन्तमोहप्रभवं निरस्य विकल्पजालं भवपातहेतुम् । त्वदागमार्थाऽमृतपानशर्मलीनं मनो मेऽस्तु तव प्रसादात् ॥१८॥ स्थेष्ठेऽदृष्टप्रतिभुवि विभौ शक्नुयां नातिगन्तुं मोहस्याज्ञां स च तनुमतामर्दनैकस्वभावः । औदासीन्यं भजसि भगवंश्चेत्तदाऽऽज्ञावशेऽत्रा- नन्यत्राणे त्रिजगति कथं तद्भविष्याम्यहं ही ॥१९॥ भक्ता यद्यपि सन्ति तेज बहवः प्रौढाः सुरेशादयो रकं न्यस्य तथापि मामपि विभौ पाल्यत्वचिन्ताऽध्वनि । भीष्मग्रीष्मखरातपादिततनूनासारतोऽद्रीन् यथा शैत्यं प्रापयतेऽम्बुदः किमु तथा नो वालुकायः कणान् ? ॥२०॥ मोहेनास्मि वशीकृतो जिन ! भजे मम्यक् तवाज्ञां न चेत् को दोषो मम तत्तवैव महिमा ह्येवं कलङ्घ श्रयेत् । भूतेन ग्रहिलीकृतो न कुरुते तत्सेवकः कोऽपि चे- दत्चाज्ञां किल दूषणं सुमहतस्तन्मान्त्रिकस्यैव यत् ॥ २१ ॥ तत्त्वं श्रीअजित ! प्रसीद तमरि निर्जित्य मोहं तत- स्तायिन्मोचय मां पदं नय निजं खं सेवकं भाक्तिकम् । किं तस्य प्रभुता प्रभोर्न ददते भक्तस्य यो वाञ्छितं युक्ता तेहविचारणा ननु. जगत्राणैकसन्धाभृतः ॥ २२ ॥ किं भक्तः स नयः प्रभुं वशयितुं शक्नोति भक्त्याऽऽत्मनः १.] ॥ पाठान्तरम् ।। तदर्थये तात मुहुर्मुहुस्त्वां त्रैलोक्यचिन्तामणिमेकमेवम् ।
श्रीमुनिसुन्दरत्रिविरचितः प्रदेहि किञ्चिन्मम तत्पुनर्न येनार्थये त्वामपरं च नाथ! ॥ २३ ।। न कः स्तुते तारणदेवि! भक्तविपत्सरिचारणकर्मटे ! त्वाम् । पासि प्रतीता रणनिर्जितारिा तीर्थमेतन्जिनभक्तिकांच ॥२४॥ एवं तारणदुर्गभूपणमणेः कृत्वा स्तवं ते मुदा दृष्ट्वा प्राग्मुनिसुन्दरस्तुतिततीर्वालस्वभावादहम् । याचे श्रीअजितमभो! भवरिपुक्षेपाज्जयश्रीपदा शुद्धां वोधिरमामनन्तमचिराच्छ्यो लभेऽहं यया ॥ २५ ॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवमुन्दरसूरिश्रीज्ञानसा- सागरमूरिश्रीसोममुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचित जयश्यङ्के श्रीजिनम्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीतारण- दुर्गालङ्कारश्रीअजितखामिस्तोत्ररत्नं एकादशम् । ॥ अहम् ।। जय श्रीमन्नागहदपुरवरालकृतिमणे ! जिनेन्द्र ! श्रीपार्थ! त्रिभुवननुतानन्तमहिमन् ! | तब स्तोत्रं कुर्वे फणिफणमणीद्योतितपद ! प्रभो! पद्मावत्यार्चित ! शिवफलं प्राप्तुममलम् ॥ १॥ सृजन्ति यं दिव्यदृशो महर्पय स्तवं विभो ! तेऽहमपीममाद्रिये । तिमिशिलाद्या यमुपासतेऽम्बुधिं भजेत यत्पूतरकोऽपि तं न किम् ? ॥२॥ गुणांस्तवैतान् भगवन्ननन्तान् न मन्यते का सुविमर्शदी ? | . कालं ह्यनन्तं न बुधेरनन्तै- गृह्यमाणा अपि यान्ति हानिम् ॥ ३॥ गुणाननन्तानपि ते यथा यथा गृह्णन्त्यभिज्ञा निदधत्ययो हृदि । ये श्रीजिनस्तोत्ररत्नकोशः। ८१ तथा तथा निर्गुणतां भजन्यहो ! स्वस्यापि सत्वादिगुणत्रयोज्झनात् ॥ ४ ॥ ध्रुवं गुणैस्ते युगपत्रिलोकी भृता समग्रा कथमन्यथाऽमी। लभ्या लसन्तो नृसुराऽसुराणां हत्कर्णवक्त्रे परितः सदाऽर्हन् ! ॥ ५ ॥ उरीकृताः साधु निराश्रयास्त्वया गुणा ह्यनन्ता अपि तायिनाऽखिलाः । यस्यास्पदं विश्वकृतो हरादय- श्चिन्ता पुनर्दोषगणस्य तस्य का ? ॥६॥ स्तुतः शिवायाऽपि भवान् भदन्त ! भवेन्न चार्थाय परोऽणवेऽपि । सर्वे हितायाऽपि तरुः सुराणां सिक्तः फलायाऽपि न चाऽवकेशी ॥७॥ बुधा भवादिभ्यति ये जनि-स्थिति- क्षयैः कथं नाथ ! तदेककर्मणः। भजन्ति तेर्हन् ! विधि-विष्णु-भैरवा न तत्त्रयस्तत् शरणं त्वमेव नः ॥ ८॥ मूर्तिः प्रभो ! ते नवखण्डरूपा सुखश्रियो यजनयत्यखण्डाः । नताः स्मृता वा महितेति हेतोः कार्ये गुणक्रान्तिमतं भिनत्ति ॥९॥ धित्से परानन्दमयं किलैक रूपं त्वमर्हनिह को विवादः । तेनैकतां येन हृदा दधाना बुधाः परानन्दमया भवन्ति ॥१०॥ अन्तःकषायज्वलनेन देवाः
८२
श्रीमुनिसुन्दरमरिविरचितः
?
सन्ति ध्रुवं तापमयास्त्वदन्ये ।
संस्पर्शमात्रादपि येन तेषां
सतां लभन्ते हृदयानि तापम् ॥ ११ ॥
मुखं नु लावण्यसुधासरस्ते
विश्वोपकाराय चकार वेधाः ।
दशस्त्रिलोक्या अपि यत्र मनाः
शैत्यं सदाऽऽनन्दमयं श्रयन्ति ।। १२ ।।
अक्षय्यकोशस्त्वमनन्तशर्मश्रियां ध्रुवं विश्वजनोपकारी ।
दत्से त्रिलोक्याः स्मृति-वन्दनायैः सदैव ताः स्वेन च हीयसेन॥१३॥
त्वदर्शनेन प्रभवन्ति येपां नेत्रेपु हाश्रुजलप्रवाहाः ।
तेषां प्रशाम्येद्भवदुखदावः कल्याणवल्ल्यश्च जिनोल्लसन्ति ॥१४॥
त्वदर्शनं नाथ ! कथं गृणन्ति मनीषिणोऽभीष्टफलपदायि ।
लब्धे हि तस्मिन् सुधियां फलं स्यात् सानिष्टसर्वेष्टनिवृत्तिरेव ॥१५॥
जज्ञेऽश्वसेनाधिपतेरपीश ! युक्तं सुरेन्द्रैः स्तुतता पितुस्ते ।
क्षारोऽपि रत्नव्रजजन्मनाऽब्धिः स्तूयेत रत्नाकर इत्यमत्यैः ॥१६॥
योपा सुरेखा त्रिदशेश्वरैः स्तुता
वामाऽप्यवामा जगतोऽपि साऽभवत् ।
प्रसूय या त्वां जिन ! विश्ववोधक
रविं दिगैन्द्रीव सुखाचकार तत् ।। १७ ।।
अचिन्त्यदानलंविमानमहन् !
नीतास्तथा कल्पनगास्त्वयाऽत्र ।
यथा किलोत्पाट्य समीरणेन
क्षिप्ता रजोवन्निखिलाः सुमेरौ ॥१८॥
चलाचलत्वं भविनो भजन्ते
यात्राकृते पार्श्वविभो ! तवाईन् ! ।
सुखश्रियस्ते त्वचला लभन्ते
गुणाय दोषोऽपि हि ते प्रभावात् ॥१९॥
श्रीजिनस्तोत्ररत्नकोशः। ૮૩ खस्योदरे वा शिरसि स्थितान् वा क्षमाभूतो मान्ति परेऽरिभीरून् । हृदि प्रविष्टः शिरसा धृतो वा त्वं पासि तान् नाथ ! नवः क्षमाभृत् ॥ २०॥ तव त्रिलोक्यां महिमा चकास्ति य- स्तदर्पिताकर्षवशात्समारति । समन्ततः पार्थ! नरा-ऽमरा-ऽसुरा- स्त्वदर्चनार्थं भगवन्निहानिशम् ॥२१॥ • न सम्पतिं तं नृपतिं स्तवीति कः सुखाकृते येन जगज्जनाः सदा । श्रीपार्थ ! विश्वहितशर्मदायक ! वत्तीर्थकल्पद्रुमरोपणादिह ॥ २२ ॥ स्तभ्नात्याज्ञा तब हरि-करि-व्याल-वह्नयर्णवादीन् । स्तोत्रं किं तद्वहति मघवाऽप्युत्तमाङ्गे यदेताम् । शम्भुर्धत्ते शिरसि सरितं जझुजां यां किमस्या माहात्म्योक्तिः शिशुगणपदोल्लङ्घनाशक्यतायाम् ॥२३॥ एवं त्वं नुतपादपम ! मयका श्रीपार्श्वनाथार्थ्यसे नागेन्द्रस्तुतसोमसुन्दरयशाः पद्मावतीपूजित ! । नाम्ना यन्मुनिसुन्दरत्वमविदां ताक् तदेवाऽऽतनु स्याद्भावारिजयश्रिया मम यतः श्रेयोऽचिराच्छाश्वतम् ॥२४॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर- सूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे नागहूदभूषण- श्रीपार्श्वजिनस्तोत्ररत्नं द्वादशम् । .. ..
८४
श्रीमुनिसुन्दरमरिविरचितः
॥ अहम् ॥
जयश्रीः संश्रयेद् यस्य स्तोतॄन् द्वेषापरिनिर्जयात् ।
तं श्रीपार्श्वममुं स्तौमि फलवाड़ि विभूपणम् ॥ १॥
आरोग्या-ऽऽयु-विभव-विभुता-भोग-सबुद्धि-रूप-
श्रेयाश्रेणि-प्रणय-विनयाद्याठ्यपुत्रादिलाभा ।
यत्पूजा स्वर्ऋततिजनुषां वर्णिका स्यात्फलाना-
मत्राप्याप्या स भवतु सतामिष्टकृत्पादेवः ॥ २ ॥
साम्राज्यश्रीर्गतरिपुभया चक्रिणो वा समृद्धि-
देवन्द्रादित्रिदशपदवी साऽपि चाहन्त्यलक्ष्मीः।
सम्पन्मुक्तेरपि च सुलभा ध्यायतो यत्पदानं
स श्रीपार्श्वः सृजतु हृदये मे निवासं सदाऽपि ।। ३ ।।
दत्सेत्रापि त्रिभुवनविभुस्त्वं पुमर्थत्रयाप्ति
प्रेत्य त्रैध हरसि कृतिनां सर्वसंसारदुःखम् ।
तेन त्राणं सकलजगतां त्वां त्रियोंगीविशुद्ध्या
क्लेशव्यहव्यपगमकृते नाथमेकं प्रपद्ये ॥ ४ ॥
भूम्यन्तर्गतवर्यदेवकुलिकासंस्थां सवन्तीं पयो
दृष्ट्वा स्वां सुरभि चमत्कृतमना ज्ञात्वा सुराऽऽदेशतः ।
श्राद्धो यत्प्रतिमां फणालिरुचिरां प्राचीकटद्धान्धलः
स श्रीमान् फणवर्द्धिभूषणमणिः पार्थप्रमुः पातु माम्॥५॥
देवादेशात्तव जिनपते ! कार्यमाणेऽत्र चैत्ये
श्राद्धागण्या शिवकरयुजा तेन चाल्पर्द्धिनाऽपि ।
निष्पन्नेऽस्यादिमवरमहामण्डपेऽथाग्रतस्त-
सिद्ध्यै यावद् द्रविणविरहाज्जग्मतुस्तौ विषादम् ।।६।।
तावत्मातर्जिन ! तव पुरः स्वस्तिकं रूपकाणां
वीक्ष्यादायाऽमरवरगिरा प्रत्यहं चैवमस्मात् ।
द्रव्यादतौ सकलमतुलं मण्डपैः पञ्चभिस्तं
प्रासादं ते कतिपयंदिनैः कारयामासतुर्दाक् ॥७॥
श्रीजिनस्तोत्ररत्नकोशः ८५ -- तत्पुत्रैः स्वागमनविषयोत्पन्नसन्देहचित्र- :श्छन्नालोकादथ च विदिते तत्वरूपे तदादि । कालं ज्ञात्वा न धनममराः पूरयामासुरेवं प्रासादोऽहंस्तवं स तदियानेव तस्थौ विराजन् ।।८।। (विशेषकम् ) एकादशस्वब्दशतेष्वशीत्या:- धिके ११८०वतीतेष्वथ विक्रमाात् । प्रतिष्ठितं चैत्यमिदं यदीयं प्रभुः स जीयात्फलवर्द्धिपार्श्वः ॥९॥ वाहीकान्तरवैरिवारविजयी निस्सीममाहात्म्यभृ- निर्वाणावधिसर्ववाञ्छितसुखश्रीदानदीक्षाचणः । खामिनिष्प्रतिविम्ब एव चरितैरकोऽसि विश्वेऽप्यतो नाधिष्ठायकदेवता इह परं विम्ब सहन्ते किल ॥१०॥ : श्रान्तः कामितदानतः सुरगणः कल्पद्रुवर्गोऽपि वा नेशुर्यत्र पुनः प्रभावविभवा मन्त्रौषधानामपि । एकोऽसीप्सितदस्त्वमेव भगवंस्तस्मिंश्चतुर्थे युगे ग्रीष्मे शुष्यति यजलाशयततिर्वाद्धिः पुनर्गर्जति ॥११॥ धन्योऽहं जिन ! मे फलेग्रहि जनुः श्लाघ्या निशेषैव च खल्पीयोऽपि तपो जपादि च निजं मन्ये सदुच्चैःफलम् । मूर्ति नीलमणीमयीं दधदभूर्यत्सप्रसादोदितः साक्षात्वं फलवर्द्धिमण्डन ! ममं श्रीपार्श्व नेत्रोत्सवः ॥१२॥ त्वं मूर्ति विमलां दधनिशि यथा व मे प्रसन्नः प्रभुः साक्षाद्भाग्यवशादभूर्विजयितां मे भाविनीमादिशन् । अध्यक्षानुभवास्पदं भव तथा सधः प्रसधाधुना निर्देहोऽपि चजागरेऽपि भगवन् ! श्रेयःपदं स्यां यथा ॥१३॥ देवानां किल कुम्भपादपमणींस्त्वन्मूर्तिकार्य सृजन श्रीमत्पार्थविभो! चकार विशदोपादानहेतून् विधिः। .
८६ श्रीमुनिसुन्दरमरिविरचितः दृश्यन्तेऽत्र समग्रवाञ्छितमहादानादयस्तद्गुणा- स्ते च कापि न साम्प्रतं नयनयोर्यद्गोचरं विभ्रते ॥१४॥ सौख्यं नैरयिकेष्वपि स्वजनुपा कृत्वा तथाऽब्दं भुव- स्त्वं दारिद्यमपास्य वाञ्छितमाणि-स्वर्णादिवः पुरा । प्रव्रज्योदितकेवलस्त्रिजगतो हृत्वोपदेशैर्भवा- पायान् प्राप्तशिवोऽधुनाऽपि ददसे पार्वहितानि स्मृतः ।।१५।। विना ! नश्यत दूरमेव लघु रे रोगबज ! त्वं ब्रज क्षीणाऽस्याशु दरिद्र ! तेऽद्य विलयं यातोऽसि दुःखोचय !! हे संसार ! तवाय पारमगमं कर्मोघ ! ते मोघता यजजे त्रिजगत्मियाकृतिचणः पार्थोऽद्य नेत्रातिथिः ॥१६॥ नागेन्द्रस्तनुते सुखानि धरणः पद्मावतीसम्पदो वैरोच्या हरते च विघ्ननिचयं सर्वेऽनुकूला ग्रहाः । स्युर्देवाः सकलाः प्रसादविशदा दुष्टाः प्रणष्टौजसो ध्यानाधस्य मनोऽधितिष्ठतु स मे श्रीपार्थ ! विश्वेशिता ॥१७॥ ये शक्ता न तपो विधातुमतुलं शीलं न धर्तु तथा नो योगे प्रभविष्णवो वितरणे नो न व्रतादिष्वपि । तेषामप्यभिवाञ्छतां शिवसुखं भाग्यैहृदि त्वं स्थित- स्तदाने प्रतिभूपदं प्रदधसे श्रीपार्थ ! विश्वप्रभो ! ॥१८॥ ते धन्या भुवनेषु संस्तुतिपदं तेषां जनुजीविते सर्वास्ते स्ववशा व्यधुः सुखरमाः पारत्रिकीरैहिकीः । नूनं तं च कटाक्षिताः परमया कैवल्यशर्मश्रिया श्रीपाइँश ! तव क्रमाम्बुजयुगं यन्मानसे तिष्ठति ॥ १९ ।। : यन्माहात्म्यमहानिधेः कतिपयांस्त्रैलोक्यकुक्षिभरे- रादायेव लवान् सुरा-ऽमर-मणि-स्वर्धेनु-कुम्भादयः। पाथोदा इव वारिधेर्जलभरान् विश्वं प्रियाकुर्वते रातु श्रीफलवर्द्धिसंस्थितिरयं श्रेयांसि पार्श्वप्रभुः ॥ २० ॥. तं श्रीपार्थविभुं भजे त्रिभुवनाभ्याहिपकेरुह श्रीजिनस्तोत्ररत्नकोशः। ८७ शीर्षे यस्य फणाः प्रभामणिकरोन्मिश्राः प्रसर्पन्ति खे । कर्मेधांसि जगत्रयस्य दहतः सेवाऽऽगतप्राणिनां धूम्यायास्तुलयन्ति या हुतवहज्वालोज्ज्वलायाः श्रियम् ॥२१॥ पत्ते कल्पलताः स्वमूर्तिशिरसि प्रोद्यन्मणीपल्लवाः सप्ताहीन्द्रफणाच्छलात्रिजगतीभीतीः क्षिपन् सप्तधा । सप्तद्वीपसमियदङ्गिनिकराभीष्टार्थदानाय यः संसाराम्बुधिसेतवेऽस्तु विभवे पार्थाय तस्मै नमः ।। २२ ॥ शब्दातीतमनन्तसद्गुणमयं व्यावृत्तिमाद्विश्वतो यत्वे तत्त्वमनक्षषट्कविषयं देव ! प्रतिष्ठाचणम् । यत्तद्विपलपत्रिह स्तुतिधिया न स्यां कथं वातकी पूर्वाप्तानुगमात्तथाऽप्ययतिषि स्वामिन् ! फलार्थादिति ॥ २३ ॥ स्तुत्वेति पार्थ ! फलवर्द्धिविभूषणस्य पादद्वयं प्रणतसन्मुनिसुन्दरं ते । याचे भवारिविजयश्रियमोश ! यस्यां स्यां नित्यविस्फुरदनन्तसुखोदयात्मा ॥ २४ ॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर- सूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचितें जयश्यके श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीफलवर्द्धिमण्डनश्रीपार्श्व- नाथस्तोत्ररत्नं त्रयोदशम् । ॥ अहम् ।। जयश्रीविलासालयं सर्वदेवा- सुराधीशसंसेव्यपादारविन्दम् । जगन्नायकं दायकं ब्रह्मलक्ष्म्याः स्तुचे श्रीजिनं वर्द्धमानाभिधानम् ॥१॥ १ समागतेति च पाठः ।
८८ श्रीमुनिसुन्दरमूरिविरचितः प्रभो ! मङ्गलं शाश्वतं संस्तवस्ते समाकर्पणं सम्पदा सर्वनोऽईन् ! । धृतिः कान्ति-कीती महत्त्वं प्रतिष्ठा सुखं चेति तस्मिन् प्रयत्नं विध्याम् ॥ २॥ युगेऽस्मिन्निशीथेऽपि मोहापनोदात् प्रकाशाय मोक्षाध्वनोऽदीदिपद्यः । स्थिरं विश्वविद्योतिसिद्धान्तदीपं नमो वर्द्धमानाय तस्मै जिनाय ॥ ३ ॥ अभीष्टं त्वदीयागमार्थक्षणाना- मुपेयं परानन्दशर्मंच नेतः। उपायस्तु तस्य त्वदाज्ञैव सम्यक् प्रदेहीति तामेव शुद्धां ममार्हन् ! ॥४॥ ध्यायन्ति ये नाथ ! पदद्वयं ते पदद्वयं ते सुधियो लभन्ते । । महोदयं वा सुमनोमनो वा सदेव दाता हि पदं ददाति ॥ ५ ॥ जमत्रयत्राणचणे प्रभो मे त्वयि प्रपन्ने न भयं कुतोऽपि । विश्वप्रकाशमवणे रवौ य- न सेव्यमाने तमसोऽवकाशः ॥ ६॥ अतिशीतिसमृद्धिरद्भुता तव संविद्विभवश्च सर्वगः । भुवनोपकृतौ प्रगल्भसे कृतकृत्यः खंयमीश! तत्सुखम् ॥ ७ ॥ न च रुष्यसि नापि तुष्यसि प्रभुता काऽपि तथाऽपि तेऽद्भुता। अपि सर्वसुरासुरेश्वरा न यदाज्ञां तव लङ्घयन्त्यहो! ॥८॥ त्रिजगनिजजन्मनाऽप्यहो युगपत्त्वं यदलम्भयः सुखम् । अतिभक्तिभृतेऽपि तोषितैर्ददितुं तन्न परैः प्रगल्भ्यते ॥९॥ यदनन्तमुपाधिमुक् परं भवतो ब्रह्म न तत्र साक्षिणः ।
श्रीजिनस्तोत्ररत्नकोशः। ८९ यदिह त्वयि लीनचेतसामनुभूतौ तदपि त्रिलोकजित् ॥ १० ॥ जिनेश! यैश्वर्यरमा हरादिषु.प्रकल्पिता सा मघवादिषु त्वणुः । पतिस्त्रिलोक्याश्च परो न वर्त्तते तया तवैवेत्युपमोपमेयता ॥१२॥ त्वया परब्रह्मरसः प्रदर्शितः स कोऽपि सिद्धान्तसरोवरे प्रभो ।। मनोझषाणां सुधियां यमश्नतां सुखं भ्रमो भाति सुधाभुजामपि ॥ १२ ॥ कृतापराधेष्वपि यास्तवाऽभवन् विभोऽनुकम्पारससंभृता दृशः । प्रयच्छ ता एव. मयीयतैव यत् करस्थितां वेमि जगत्रयेशताम् ॥ १३ ।। कुवोध-दुष्कर्म-विपद्वियोजनात् समाहिताशेषसमृद्धियोजनात् । जगत्मभो ! धर्मसुरगुरोपणात् त्वया कलावप्यनुकम्पितं जगत् ॥ १४ ॥ तावकं पावकं यस्य पादाम्बुर्ज वा समासादयत्यङ्गभानो हृदि । . तस्य सौरभ्यलुभ्यद्विरेफा इव श्रीभरास्तं जहत्येव नो कर्हिचित् ॥ १५ ॥ त्वां त्रिलोकीजनत्राणदीक्षागुरुं शाश्वतश्रीमदं ये भजन्ते विभो !। तानुपद्रोतुमीशा द्विधा नारयः पद्ममंशोः करस्थं तुषारा इव ॥ १६ ॥ स्तूयमानास्त्वदन्ये गुणैः कल्पितै- नँव दातुं क्षमन्ते शिवं प्राणिनाम् । दुह्यमानाः प्रयत्नेन किं धेनवो लेप्यमय्यः प्रयच्छन्ति दुग्धं प्रभो!? ॥ १७ ॥ १२ ९० श्रीमुनिसुन्दरमरिविरचितः ध्यातमात्रोऽपि विश्राणयस्येव तु वं फलं वाञ्छितं मोक्षसांख्यावधि । याचितः कल्पवृक्षोऽपि दत्त न य- द्वस्तु विश्वे तदप्यस्ति किं किञ्चन ? ॥ १८ ॥ अस्ति ते मुखसमृद्धिरनन्ता तां च सेवकगणाय ददासि । त्वामजसमिति सवितुमीहे रोधकं तु हर मेत्र कुकर्म ॥ १९ ॥ यस्य जन्मनि जगत्रितयस्या- प्युत्सवाद्वयमयं दिनमासीत् । सारमायुपि तदेव समग्रे वं स पाहि भगवन् ! भवतो माम् ॥ २० ॥ चेकपायकलुपे मम चित्ते त्वं करोपि विमलो न हि वासम् । तत्करोतु तदिमं त्वयि नित्यं सिद्धमिष्टमियतापि ममेश ! ॥ २१ ॥ सन्ति नाथ ! बहवोऽपि मदाद्या नाग येऽत्र दधतेऽन्वयशून्यम् । वर्द्धमान ! भव सान्वयनामा देहि मे तदनुरूपसुखानि ॥२२॥ त्वत्समोऽस्ति न परोऽत्र कृपालु- मत्समश्च न कृपाऽऽस्पदमन्यः । द्वाविमौ च मिलितौ मम पुण्य- रग्रतो यदुचितं तदवेहि ॥ २३ ॥ एवं मया स्तुत ! जगत्ममदार्णवैक ! श्रीसोमसुन्दरतमर्द्धिद ! बर्द्धमान !। देयाः पदं नतमहामुनिसुन्दरं मे-
श्रीजिनस्तोत्ररत्नकोशः।
९१
ऽनन्तैः सुखैर्जिन ! भवारिजयश्रियाऽऽप्यम् ॥२४॥
इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर-
रिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के
श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीमहाबोरमङ्गलशब्दार्थस्तो-
त्रमष्टम्यादौ मङ्गलार्थ भणनीयं स्तोत्ररत्नं चतुर्दशम् ।
।। अहम् ॥
जयश्रियं यः सकलान्तरारिजयैषिणां भावभृतां तनोति ।
नवीमि तं वीरजिनं मुदाऽहं महोदयानन्तसुखैकहेतुम् ॥ १ ॥
समीहिताशेषसुखौधकारी करोषि वासं हृदि मे यदीश!।
अहो! तदेषोऽपि जनो दधाति वीराधिकारं विनुतौ तवाऽपि ॥२॥
विभेति यो घोरभवाम्बुराशिदः
समीहते वा शिवसातसम्पदः ।
लभेत नोपायमयं परं यतो
भवन्तमेवेति निषेवते सुधीः ॥३॥
लसन्ति पुंसां सुखसम्पदोऽखिला
भजन्ति नाशं सकला भियः पुनः
तवैव पादाम्बुजवन्दने रतः
को नेहते तानि कृती कलावपि ।। ४ ।।
हितानि वाञ्छन्ति तंदककारणं
भवन्तमीशं न भजन्ति चाहताः।
उपायहीनाः सदुपेयरागिणो
वृषा विषीदन्ति जडा इहा! परे ॥ ५॥
तपांसि तेषां खलु देहदण्डनं
वृथैव योगागमसङ्गमादराः।
शुभाय नैवापि कुदेवसेवना
भवन्तमीशं किल ये न जानते.॥६॥
९२ श्रीमुनिसुन्दरमूरिविरचितः भवन्ति वै तावदमी भवामया महालया देव ! भयाय देहिनाम् । रसायनाभानि वचांसि ते मुने ! भजन्ति नो यावदिमे कृतादरः ॥ ७ ॥ अपारयन्तो भवदागमोदित विधि विधातुं विपयाभिलापिणः । मनोऽनुकूलं कुमतानि ये गिरा परे भजन्ते कुधियां शिवाशया ॥ ८॥ विरागभाजी भिषजोदिते कटौ महौषधौघे मधुरैकरागिणः । ते लान्ति किम्पाकफलानि मोहिता रिपूपदेशेन निरामतेहया ॥९॥ मनोहरानन्तसुखौघसम्पदा तवैव सेवा दधते निदानताम् । परेऽपि जानन्ति विचारणादिदं तदेव तेषां हरते तु मूढता ॥ १० ॥ तनोति नो भाविशिवेन्दिराणां विना भवन्तं किल कोऽपि मोदम् । ऋते निदेशं कमलाकराणां विवोधमाधातुमलं नु को वा ॥ ११ ॥ वाणी नृणां वीर! विभो ! तवैव मोहान्धकारं नंयते विनाशम् । न जाङ्गुलीजापमृते महाहि- गरो विलीयेत जनाङ्गासगी ।। १२ ।। तमो यदन्तं न हि नेतुमीशते विधोः करा नापि दिनेशितू रुचः । शरीरभाजां तदपीदमान्तरं -श्रीजिनस्तोत्ररत्नकोशः। ९३ '- जिनेश ! वाचो लघु नाशयन्ति ते ॥ १३ ।। भजन्ति ते वीर ! विभो ! कथं गिरः सुधारसेनोपमिति मनीषिताः । भवाघतापं मरणं जरां च या हरन्ति चेतोविषयीकृता अपि ॥ १४ ॥ स कोऽपि दीपो भवताऽऽगमानवा- नदीपि नैकान्तमतावलम्बनः । पतङ्गसबैरिव लडिन्तुं हि यः परैरहो ! शाशकितो न कैरपि ।। १५ ।। तवाननेन्दितगोततिः सतां करोति तं कश्चन शीतिमोदयम् । सुरासुराऽवारिततापसम्भवाः कषायदावा अपि यं हरन्ति न ॥ १६ ॥ गोसङ्गभाजा भवता महाद्वषो वृषाधिपाजानि सकोऽपि भारते । एकोऽपि यो लङ्घयितुं वहूनलं संसारकान्तारमनन्तमङ्गिनः ॥ १७ ॥ विभो ! नवाहो! तव वीरतेह गणाधिपानां हृदये निलीनम् । जघन्थ सन्देहमहारिजातं सुवाणिवाणैरपि रूपहीनम् ॥ १८ ॥ तवांगमालोचनचारिचेतसः करोति मे वीर ! भयं भवोदधिः। तनोति मोहः कुमति तथापि तां... यया भजे वाणितरी न तेऽनिशम् ॥ १९ ॥ इमं रिपुं नाशय नाथ ! तेन मे विवाधक ही बहुधा कदाशयैः । ..
श्रीमुनिसुन्दरमूरिविरचितः पराभवो यः किल सेवके रिपो- रयं धुनीते विभुतागुणं विभोः ॥ २० ॥ जना दिपीदन्ति सुरान्तरार्चनैः समीया भूपतिसम्पदामपि । नुतेरनन्तो महिमा स कोऽपि ते- बहीलना तासु ययापि ते फले ॥२१॥ तवागमागाधसुधासरोवरे निलीयतां मेज ! तथा मनोझपः । यथा भवापायदवानलोदितं न विन्दते तापभरं मनागपि ।। २२ ॥ भवन्तु नूनं सुकृतानि तानि मे सदा मनो हे भुवनैकवान्धव !! इदं निलीनं तव पादपङ्कजे दृढानुवन्धं चलतां जहाति यः ॥ १३ ॥ समीहमानः शिवमेव कोविदो यतेत संसारसुखाणवे न तु । परैरनेनैव च वञ्चिता जना मतो भवानेव गतिः स देहिनः ।। २४ ।। न दातुमीशा मरुतां महीरुहा न यां घटा नो मणयो न धेनवः । अनन्तसातोदयिनी ददाति ता- मपीश ! पुंसां कमलां तवानतिः ॥ २५ ॥ अपारसंसारविकारभेदिने सदा परानन्दचिदेकयोगिने । समीहिताऽशेषसुखौषदायिने नमो नमो वीरजिनाय तायिने ।। २६ ॥ मङ्गलानि विलंसन्ति समन्ता- . श्रीजिनस्तोत्ररत्नकोशः ९५ दानमन्ति रिपवो जिन ! पुंसाम् । सम्पदः सममिहापि सुखौधैः सम्भवन्ति भवतो नुवतो वै ॥ २७ ॥ एवं वीर ! जिनामुनाऽपि मयका मुग्धस्तवेन स्तुतो दृब्धेनेश सुकेवलाक्षरपदैर्भक्त्या कृपावारिधे ।। आरोग्योत्तमबोधिवीजविभवं दत्त्वा प्रसबाशु देयान्निर्मलकेवलाक्षरपदं प्रोद्यजयश्रीभरम् ॥ २८॥ एवं वीरजिनं जगत्रयपतिं श्रेयोविलासालयं शक्रालीमुनिसुन्दरस्तवगणैनूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जामोदाद्धयो मोहद्वेषि जयश्रिया स लभते श्रेयोचिराच्छाश्वतम् ॥२९॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर- सूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यके केवलाक्षरपदं स्तोत्ररतं पञ्चदशम् । ॥ अहम् ॥ जयश्रीनिलयं यस्य पदाम्भोज भजन भवी । भवतेऽभीप्सितं श्रेयः श्रीवीरं तं स्तुवे विभुम् ॥ १॥ न शब्दव्युत्पत्तौ मम चतुरता नापि कविता गुणो नार्थोत्पत्तिः स्फुरति पटुता नो भणितिषु । प्रयत्नः स्तोतुं त्वां तदपि यदयं हेतुरिह मे विभोऽनन्योपाये शिवसुखफले गाढरुचिता ॥२॥ नये. पात्रं मैत्र्या न वशकरणा नोयचरणा न शीलाढ्या नो वा दमितमनसो नोग्रतपसः। दधानरेतेष्वप्यतुलकरुणामेष जगदे शिवस्योपायोऽर्हन् ! मुनिभिरिति ते संस्तुतिरियम् ॥३॥ नयैरेकैकांशग्रहणनिपुणैर्नाथ ! न गुणा- ९६ श्रीमुनिसुन्दरमरिविरचितः स्तवाऽनन्ताः शक्याः स्तवयितुमनन्तैरपि युगैः । प्रमावाक्यं तत्तान् जिन ! सममनन्तानभिदधम् स्तुवन्ति स्तोतारस्तव मतविदो वादिन इव ।। ४ ।। पुनर्जन्माभावोऽखिलजनहितकार्थकरणं न वैलव्यं कार्य क्वचिदपि न चौत्सुक्यमपि यत् । कदाऽप्यस्वास्थ्य नेत्यनुपमत्तयैवाभवपरान्, स्वरूपं ते देवानधरयति मुग्धाशयमुषः ॥ ५॥ महानन्दप्राप्तौ न भवति रतिः संसृतिसुखे गतेऽत्यन्ताभावं वपुपि खलु जन्माऽस्ति न पुनः । समनैश्वर्याप्तौ प्रभवति न मित्रेतरमति- वुधमन्यैरन्ये कथमनुसृतास्तच्छिवधिया ॥ ६॥ विमुक्तो रागाचैः प्रथयति फलं नो तदुचितं विनाऽमी नादृष्ट न च तदुदये निवृतिसुखम् । स्वयं नामाप्तस्तत्प्रभवति परेभ्यो वितरितुं त्वदन्यं सेवन्ते कथमिव परे तेन कुधियः ? ॥ ७ ॥ अमेयास्ते वाणा भुवनजयिनः शम्बररिपोः कपायास्ते योधा हतनर-सुराधीश्वरमदाः । .. अयं मोहस्तेषां प्रभुरपि भटत्वे स्तुतिपदं विभो ! तावद्यावन्न तव चरितं संस्पृशति हृत् ॥ ८॥ उपादित्सोपेक्षा प्रभवति जिहासाऽपि च यतः प्रमाणं तद् ज्ञानं व्यपगतविवाद मम परैः । उपागामि ज्ञानं स्वमपि न तथा कैश्वन नु य- स्कृतोपेक्षं त्वय्यप्यफलमिति नाऽसाधु तदापि ।। ९ ।। . वदन्तो याथात्म्यात्ममितिविपर्य वस्तु सकलं त्वयाऽईन् ! ये भङ्गा निखिलविदुषा सप्त गदिताः । . न वादीन्द्राः केचिद्बहुविधकुतर्कोद्धरगिरो- १ अमोघा इति पाठान्तरम् । .
श्रीजिनस्तोत्ररत्नकोशः। : प्यतिक्रान्त्यै तेषां दधति जलधीनामिव बलम् ॥ १०॥ नया मिथो मत्सररीणगोचरा यशो लभन्ते गगनाम्बुजस्य ये । त एव तत्त्वार्थमया वचस्तव प्रपद्य मैत्रीं दधतेऽङ्गिसङ्गवत् ॥ ११ ॥ निवर्तते नैव कुदेवकुग्रहो विनां त्वदुक्तावगमायथायथम् । न तन्निवृत्तिं च विना स तत्परे कथं निरस्यं वितरेतराश्रयम् ॥१२॥ न दृष्टिरागी भजते त्वदागमं न वेत्ति तत्त्वं भवतश्च तं विना। न दृष्टिरागं च जहाति तज्जडो हताः कुतीर्थ्या न्विति चक्रकेण ही ॥१३॥ एकैकधर्मावधिबुद्धयः परे कयं लभन्तेऽर्थमनन्तधर्मकम् । एकैककूपोदरदर्शिनः पति सरखतीनामिव दरार्भकाः ॥१४॥ अतो भवानेव समस्तदृग् जगौ स्वरूपजस्याऽवितथं तथा विदन् । परो मरालालभते हि वैधसा- न्न चै जगत्सर्वजलाश्रयात्मकम् ॥ १५ ॥ खरूपवोधेऽप्यविदग्धवुद्धय- स्त्वदीरिते वस्तुनि तीथिका मुधा। गृणन्ति दोषान् खलु काचकामलो- पलिप्तनेत्रा इव शुद्धनाटके ॥ १६ ॥ जिन ! स्वरूपं तव यन्निरावृति स्फुटीभवेत्तादृश एव संविदः। . १३ श्रीमुनिसुन्दरमरिविरचिताः उदीर्णमोहमतिरोधकेक्षणाः समीक्षितुं तत् प्रभवः कथं परं ? ॥ १७ ॥ गिरा प्रपद्यापि भवन्तमीश्वरं भवन्ति केचित्कुधियो भवास्पदाः । जगजिगीपाऽऽतुरविक्रमः परं न तीथिकस्तुप्यति माहवर्ययम् ॥ १८ ॥ त्वां प्रत्यजं विप्रतिपन्नचेतसः कथं न शांच्या भगवन् ! कुतीथिकाः । मतास्तथैवाप्रतिपन्नका अपि ध्रुवं प्रपद्यापि विराधकाश्च यत् ।। १९ ।। त्वयि प्रपन्नेऽपि विभौ किमङ्ग ! मे सृजन्ति रागादिरिपुत्रजा व्ययाम् ? । अहो ! विशुद्धिर्मनसः सकर्मणां सुदुर्लभाऽमी प्रभवन्ति यां विना ॥२०॥ कुज्ञानदर्शनकपाटयुगेऽभविष्यद् दुर्लक्षता तब विभो ! यदि नार्गलेयम् । मोहोचदुर्गमतिगत्य सुदर्शनाप्ति- द्वारेण के शिवपुरं न तदाऽध्ययास्यन् ?॥ २१ ॥ निर्दोपे ते भुवनविदितेऽप्यद्वितीये चरित्र मुह्यन्नईन्नपि शिवगमी तीथिकः सङ्गतोऽङ्गी । छन्नः काचैरिव वरमणियों विनेष्टार्थभानो सामग्री तामभवफलदां देहि यत्स्यां कृतार्थः ॥२२॥ दानं चारु न मे न शीलमतुलं नोग्रं तपो नो स्थिरो भावो नाऽतिदया क्रियासु न रुचिर्नान्योऽपि कश्चिद् गुणः। भावि ब्रह्म तथाऽप्यतः स्तवनतः सम्बन्धमात्रेण ते तुच्छादप्यमवैवमस्मि मुदितश्चिन्ता तवैवाग्रतः ।। २३ ।। देवसुन्दर ! मुदेवमनन्तज्ञानसागर ! मयाऽपि नुतोऽईन् !।
श्रीजिनस्तोत्ररत्नकोशः। ९९ सोमसुन्दरतरां कुरु वोधि स्याद्यतो मम भवारिजयश्रीः ॥२४॥ एवं वीरजिनं जगत्रयपति श्रेयोविलासालयं शक्रालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्यमोदाऽद्वयो मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ।।२५।। इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर- सूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीवर्द्धमानजिनस्तोत्ररत्नं पोडशम् । ॥ अहम् ॥ जयश्रीदायकं विश्वनायकं मोहजित्वरम् । अनन्तमहिमाम्भोधि श्रीजिनं श्रेयसे स्तुचे ॥१॥ जिन ! स्तवं यं तव वासवादयः सृजन्ति भक्तेर्विदधेऽहमप्यमुम् । महाम्बुदा यत्किल भुञ्जते पयः किमम्बुधेस्तच्छफरार्भकोऽपि न ॥२॥ फलं यदा पश्चमकल्पसम्पदं परे लभन्ते परमैर्यमादिभिः । स्तुतेर्लवस्यापि तवानुषङ्गिक तदाऽऽमनन्तः सुधियोऽत्र केऽलसाः ॥ ३ ॥ तथा न शस्यं हरिपूज्यतादि ते यथा मुने ! मुक्तिपथप्रकाशनम् । न दानलुभ्यद् भ्रमरादि दिग्गजे तथा महत्त्वाय यथा क्षमोद्धृतिः॥४॥ विधन्ति दृष्टेष्विह वालिशाः स्पृहां ददासि तत्त्वं तु किमप्युपासितः।
श्रीमुनिसुन्दरमरिविरचिताः
यदीक्षितं कापि न चेक्ष्यतेऽपि ते-
भजन्ति न त्वामिति युक्तीश ! ते ॥५॥
स्वजातिवात्सल्यवशादिवाजिनः
सकर्मकरव मिलन्ति देवतः।
अलक्ष्यस्पं त्रिजगद्विलक्षण-
स्थिति भवन्तं ननु के श्रयन्तु तत् ? ॥ ६॥
स्वतन्त्रमुज्जासयता रिपूकृता-
स्त्वया स्मरावाश्चिरसेवका अपि ।
उपारतं त्वामिति विनयन्ति ते
जनं त्वदन्यांस्तु बहुं प्रयुञ्जते ॥७॥
त्वया निरास्यन्त चिरत्नसेवकाः
स्मरादयो इंसि च तत्पदान्यपि ।
भजन्ति तत्वां वहवो भियेव ना-
गिनोऽन्यथाचारवतः परान् श्रिताः ॥ ८॥
परेषु मोहाः प्रमदादिभिः स्फुट-
स्तदन्विते ज्ञानमशेषगं न च ।
न तद्विना वस्तु यथायथं वद-
त्यतः परोक्तैः किमु वञ्च्यते जगत् ? ॥९॥
विध्य तेऽध्वानमशेषवेदिन-
स्तपस्क्रियाऽनुष्ठितयः परेषु याः ।
स्फरन्ति मोहस्य विडम्बनाऽम्बुधे-
ध्रुवं विभो ! ता अपि काश्चिम॒यः॥ १० ॥
लवो महिम्नां जिन ! कोऽपि वर्ण्यते
परेपु मोहग्लपितेषु यो जडैः।
निवन्धनं क्लेशततेरमीप्वयं
सतां कुंपायै स्थविमेव शोफजः ॥ ११ ॥
श्रीजिनस्तोत्ररत्नकोशः। - अथवा- स्तुवन्ति यदैत्यजयादिभिर्गुणै- जडाः प्रभुत्वं भगवन् ! परेष्वपि कपायदास्थाजगतां स धर्माणा ऽभ्युदेति हास्यं चरितेन तेन नः ।। १२ ।। विभो ! कुशास्त्रैयहिला यथा यथा परे यतन्ते गतये शिवाध्वनि । भवन्ति दूरेण ततस्तथा तथा पुरात्पराश्चोऽभिमताद् भ्रमादिव ॥ १३ ॥ त्वयीश ! रत्नत्रयमानुभूतिकं शिवश्रियामौपयिकं वदत्यपि । जडैः सतृष्णैर्मृगतृष्णिकाखपि प्रपाययन्तोऽम्बु किमाश्रिताः परे ? ॥ १४ ।। त्वया पिशाचो जिन ! मोहनामक- स्तिरस्कृतो यः शिवशर्मकाक्षिणा । स नूनमाराधनतः श्रितः परै- वलेन चाऽस्य ग्रहिलीकृतं जगत् ॥ १५ ॥ 'तवेश ! देवान्तरतो वदन्ति ये- ऽधिकत्वमेतानपि निन्दकान् वदे । स्तुतिः किमाधिक्यविवर्णने भवे- न्महाम्बुराशेमंगवृष्णिकाऽम्बुतः ॥ १६ ।। भयं न तेषां भवदुःखसम्भवं विडम्बना मोहपिशाचजापि च शशाम नो शाम्यति वा शमिष्यति . प्रभुन येषां शरणं त्वमङ्गिनाम् ॥ १७ ॥ यथा भवापायनिदानमाश्रवाः शिवश्रियो हेतुरनाश्रवास्तथा ।
१०२ श्रीमुनिसुन्दरसूरिविरचिताः त्वमेव तान् सम्यगवग् न मत्मभो ! परं शिवस्यौपयिकं त्वदीरितात् ॥ १८ ॥ स्वदंहिसंस्पृष्टरजस्यपीश ! यः स्फुरेत्मभावः स सुरान्तरेषु न । उपान्तदारुण्यपि चन्दनस्य यत् क सौरभं तत्फलदान्तरेषु वा ।। १९ ॥ परे ददन्ते भवचारके जनि- स्थिति-क्षयांश्चित्रमहाब्यथेऽङ्गिनाम् । अचिन्त्यसौख्यं च महोदये भवा- नतन्त्रयश्चैत्य इतो विशेष्यसे ॥ २० ॥ विवेचयन् यश्चरितहरादिकान् निजान् भवन्तं विजहच्च दूरतः। अलम्भयवामिति मादृशानपि प्रभु स मोहः किल वान्धवः परः ।। २१ ।। तव स्वरूपं सुगतो विचारयं- स्तदन्यवत्सु व्यतिवृत्तिमेव यत् । त्वत्तां च तद्वत्सु ददर्श धीनिधि- हित्यभेदाविति तत्त्वमास्थितः ॥ २२ ॥ विलोकते देव ! तवागमाञ्जना- निसर्गचिद्दर्शनलोचनोपगम् । अनाद्यविद्यातिमिरं निरस्य यः स एव किश्चित्तव रूपमीक्षते ॥ २३॥ . समः प्रभोऽर्थः खलु देशतोऽपि ते विचेतनो नो न परोऽपि मोहयुक् । सचेतनो मोहविवर्जितश्च यः स तु त्वमेवेत्युपमां न गाहसे ।। २४ ॥: कथं स मेयो महिमा तव प्रभो !
श्रीजिनस्तोत्ररत्नकोशः। १०३ . विहारकल्याणकपञ्चकादिभिः । यतस्त्वदाप्सा वनोपकारिता द्रव्यादयोऽर्था दधते परेऽप्यहो ! ॥२५॥ तनोषि तत्सप्तसु नाथ ! रज्जुषु स्थितोऽपि चेजन्मनि नारकाङ्गिनाम् । हृदि स्थितस्तस्कृतिनां सुखाद्वयं यदव्ययं त्वं ददसे किमद्भुतम् ? ॥ २६ ॥ अवाप्य रागादिकसेवकान् परै- वशीकृतं नाथ ! यथा त्रयं जगत् । निरस्य चैतान तथा त्वया न तत् खसेवकं मामवमन्तुमर्हसि ॥ २७ ॥ ददासि चेवं खसमाधिवारिधे- ममैककं विन्दुमपीश ! तोपतः। ततः स्मराधा मम केऽरयः कुतो- ऽथवा भयं किं सुलभं न शर्म वा ? ॥२८॥ तदर्थये त्वां प्रभुमुद्विजो भवा- दवाप्य रागाधरिभिः कर्थितः समाधियोगं मम देहि तं द्रुतं यतो विमुच्ये जिन ! भावशात्रवात् ॥ २९ ॥ जिनवर ! भवतैव दर्शितोऽयं निज इह धर्मकल्पवृक्षः। निरवधि लभते शुभानि यस्मात् त्रिजगदपीष्टफलान्यनाघनन्तात् ॥ ३० ॥ बहुविधमभिवीक्ष्य सर्वदेवां- स्तदुदिततत्वगुणांश्च तर्कनेत्रैः। शरणमगमकं तवैव पादा- ववितथतत्त्वनिधि च पाहि तन्माम् ॥ ३१ ॥ कोऽपि स १०४ श्रीमुनिसुन्दरसूरिविरचिताः श्रीसोमसुन्दरगुरुक्रमसेविनार्हन् दृब्धान्मयेति मुनिसुन्दरसूरिणाऽस्मात् । स्तोत्रान्ममान्यसुधियामपि देहि किञ्चि- तयेन विस्फुरति मोहभिदे जयश्रीः ।। ३२ ॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर- सूरिश्रीसोमसुन्दरसूरिशिप्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते ज़यश्यङ्के श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीजनपतिमहार्थ- द्वात्रिंशकास्तोत्ररत्नं सप्तदशम् । ." -- ।। अहम् ।। जयश्रिये शाखतशर्यहेतवे कल्याणकैः स्तौमि जिनांस्तिथिक्रमात् । श्रीशंभवः केवलमाप कार्तिके सितेतरे. वाणमिते तिथौ ५ जिनः ॥ १॥ नेमेश्च्युतिर्भानुमिते १२ जनुः पुनः पद्मप्रभे विश्वमिते १३ च तद्वतम् ।। वीरे शिवं दर्शतिथा १५ वथार्जुना- ऽभवत्तृतीया सुविधेर्मतिपदा ।। २॥ द्वादश्यरे केवलदाऽथ मार्गे कृष्णे शरे ५ऽभूत्सुविधेः सुजन्म । तपोऽस्य षष्ठयां दिशि१-वीरदीक्षा रुद्रे११ च पद्मप्रभनितिश्रीः॥३॥ शुक्ले दशम्या१०मरजन्मसिद्धी हरे११नमिज्ञानमरव्रतं च । जन्मत्रतज्ञानलमा च मल्ले- चतुर्दशी सम्भवजन्मनेऽभूत् ॥ ४ ॥ तस्यैव राका१५तपसेऽथ पौषे.. 7 : श्रीजिनस्तोत्ररत्नकोशः। १०५ श्यामे च वामेयजनिर्दशम्याम् । एकादशी पार्श्वतपादाः १२ जन्मेन्दुलक्ष्माऽऽप तपोऽस्य विश्वे १३ ॥५॥ मनौ १४ मतिं पाप च शीतलोऽथ शुभेऽभजत् तां विमलो रसे ६ ऽहन् । शान्तिनवम्यामजितश्च शम्भौ ११ रत्ने १४ ऽभिनन्दश्च तिथौ १५ च धर्मः॥६॥ माघेऽथ पद्माभजिनोऽसिते रसे ६ च्युतो रवौ १२ जन्मतपश्च शीतले । विश्वे १३ शिवं श्रीकृषभोऽभजन्मति श्रेयानमायां च १५ सितेऽथ पक्षके ॥ ७ ॥ युग्मे२ऽभिनन्दनजनुर्वसुपूज्यसूनो- निं च धर्मविमलोद्भवकृत्तृतीया। अब्धौ व्रतं च विमलेजितजन्म सर्प ८ नन्देऽजितव्रतमिने१२त्वभिनन्ददीक्षा ।।८।। 'यक्षे १३ धर्मो दीक्षितः फाल्गुनेऽथ श्यामे षष्ठयां ज्ञानमापत्सुपार्श्वः । सिद्धिं चावेऽसौ मतिं चेन्दुलक्ष्मा नन्दे९चासीत्पुष्पदन्तावतारः ॥९॥ आदीश ईशे ११ मतिमाप सूर्ये १२ श्रेयान् जनि केवलितां मुनिश्च । यक्षे १३ तपःश्रेयसि वासुपूज्ये जनुर्मनौ१४ तस्य तपः कुहौ १५ च.।। १० ।। सितेक्षिरवेदा४ हिपुटचावतारा जिनारमल्लिप्रभुशम्भवानाम् । प्रभापतौ१२ सुव्रतसव्रताप्ति- मुक्तिश्च मल्लेरसितेऽथ चैत्रे ॥१२॥ . १४ श्रीमुनिसुन्दरमरिविरचितः पार्थच्युतिज्ञानलभा चतुर्थी वाणे५ऽवतारः शशिलाञ्छनस्य । वसौटयुगादीशजनुश्चरित्रे शुभेऽथ कुन्धोरनले३ऽववोधः ।। ।। १२ इपा५वनन्ताजितशम्भवेषु सिद्धिनिधौ९सा सुमतेश्च रुद्रे ११ । वोधोऽस्य विश्वे १३ जननं च वीरे पद्मप्रभौ ज्ञानकरी च राका ॥ १३॥ राधेऽय कृष्णे प्रतिपद्विमुक्त्यै कुन्थोद्वितीयाऽजनि शीतलस्य । सिद्ध्यै शरे ५ प्रव्रजनं च कुन्योः श्रीशीतलस्यात्रतरश्च तर्के ६॥ १४ ॥ नमः शिवं दिश्यु१०दभूदनन्तो यक्षे१३मना१४चास्य चरित्रवाघौ। जनिश्च कुन्धोविंशदेऽभिनन्दो वेदेवच्युतोऽश्वेऽवततार धर्मः ॥ १५ ॥ फणभृत्य८भिनन्दनितिः सुमतेर्जन्म च तत्तपोनिधौ९ । दिशिं१०वीरमती रवो१२ च्युति- बिमले विश्चतिथि१३च्युतोऽजितः॥१६॥ ज्येष्ठे तु कृष्णे च्युतये रसोऽभूतु श्रेयांसनेतुर्मुनिजन्म नागे ८ । निधौ९स सिद्धो जनिनिती श्री- शान्तेस्तु यक्षे१३भुवने१४तपोऽस्य ॥ १७ ॥ सिते शरे५धर्मशिवं नवम्यां श्रीवासुपूज्यावतरः सुपार्थः।। जातो रवौ १२विश्वदिने१३तपोऽस्या- श्रीजिनस्तोत्ररत्नकोशः।। १०७. पाढे शितौ श्रीकृषभश्च्युतोऽब्धौ ४ ॥ १८ ॥ इयेऽपवर्गो विमले निधौ ९ श्री- नमेस्तपस्या धवले तु पट्याम् । वीरश्च्युतो दन्तिनिटनेमिमोक्षो रत्ने१४विमुक्तो वसुपूज्यजन्मा ॥ १९ ॥ श्रावणे श्यामलेऽनौरशिवं श्रेयसो- ऽनन्तनाथाऽवतारेऽभवत् सप्तमी। अष्टमी श्रीनमर्जन्मने सेवधौ ९ विच्युतः कुन्थुनाथोऽथ पक्षेऽर्जुने ॥ २० ॥ नयनेरसुमतिच्युतिः शरे ५ नेमेर्जन्म रसे६ऽस्य तु व्रतम् । भुजगे ८ वामेयनिती राकायां समवातरन्मुनिः ॥ २१ ॥ श्याम नभस्ये तुरगेऽपवर्गश्चन्द्राभनेतुश्च्यवनं च शान्तः। वसौ८सुपार्थावतरोऽथ शुद्धे निधौ९शिवं श्रीसुविधेश्च जज्ञे॥२२॥ दर्श१५त्वाश्वयुजे शिवासुतमती राका१५दिने श्रीनमे- जज्ञे चाऽवतरो मयेति विनुताः कल्याणकैः श्रीजिनाः। कल्याणौघकराः प्रयोधमतुलं तत्त्वं त्वनन्तं स्फुर- नित्यानन्दमयी यतो मम भवेदुधज्जयश्रीः परा ।। २३ ।। एवं सर्वजिनेश्वरांस्त्रिजगतीश्रेयोविलासपदान् शक्रालीमुनिसुन्दरस्तवगणैर्नूतक्रमान् यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्लमोदाऽद्वयो मोहदेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२४॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर- सुरिश्रीसोमसुन्दरसूरिशिप्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यके श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे चतुर्विशतिश्रीजिन- कल्याणकस्तोत्ररत्नमष्टादशम् ।
श्रीमुनिसुन्दरसूरिविरचितः ॥ अहम् ॥ जयश्रिया मोहरिपोरवाप्त- त्रिलोकसाम्राज्यरमाभिरामम् । विदेहभूमण्डलमण्डनं श्री- सीमन्धरं स्वामिनमानुवामि ॥१॥ सृजन्ति यं दिव्यदृशः सुयोगिन- स्तव स्तवं तं विदधे जडोऽप्यहम् । पिवेद् गजो वारिसरस्यजोऽपि वा खतुन्दिपूरं समता फले पुनः ॥२॥ भवन्ति ये सिद्धरसास्तव स्तवै- रिवौषधैर्भावितधातवः प्रभो ।। तेषां सदा शीलितयोगसम्पदः स्फुरन्ति कल्याणसमृद्धयः पराः॥३॥ प्लवङ्गवञ्चितमिदं समन्ता- पारिप्लवं मे विषयेषु लुभ्यत् । गुणैर्निबद्धं स्तवयोजितैस्ते स्थिरीभवत्साम्यजशर्मणेऽस्तु ॥ ४॥ सर्वज्ञ ! देशान्तरितोऽपि पूजा- स्तवादिभक्तीमम संप्रतीच्छ । भवन्ति नाऽभ्रान्तरितेऽपि भानौ नृणां किमञ्जिलयः कृतार्थाः ? ॥ ५॥ विजयं जिन ! पुष्कलावती विनुमः पूर्व विदेहभूषणम् । नगरीमपि पुण्डरीकिणी त्वमभूर्यत्र जगत्तपःफलम् ॥ ६॥ श्रीकुन्धुनाथारजिनान्तरे त्वं जातः शिवादन्वथ सुव्रतस्य । अलावतं रामपितुश्च राज्ये .... . .
श्रीजिनस्तोत्ररत्नकोशः। शिवंगमी भाव्युदयाहतोऽनु ॥७॥ तपांसि तान्येव तपांसि मन्ये तानेव योगानपि तात! योगान् येषां महिम्ना नयनातिथित्वं सतां शिवश्रीप्रतिभूः प्रयासि ॥८॥ श्लाघ्या ग्रहा भ्रान्तिजुषोऽपि तेऽमी ये तात ! पश्यन्ति दिनान्तरे त्वाम् । गतभ्रमोऽपि त्वयि विश्ववन्धा- वहं त्वधन्यस्तव दूरवर्ती ॥ ९ ॥ स्तवीमि सीमन्धर ! पक्षिणोऽपि पश्यन्ति ये पक्षवलादिनं त्वाम् । अहं तु पापस्तव दर्शनार्थ- मनोरथैरेव सदा कदथें ॥ १० ॥ मनोरथा अप्यथवा भवन्तु सदा भवदर्शनगोचरा मे। ध्यातोऽपि यत्पूजितबद्ददासि त्वमीप्सितं सर्वमिति प्रमोदे ॥ ११ ॥ स्तवीमि कर्माणि मुनीन्द्र ! तानि बभूव येभ्यो मनसः प्रसूतिः । ध्यानेन साक्षादिव येन कृत्वा त्वां दैवतं स्यां भगवन् ! कृतार्थः ॥ १२ ॥ दूरेऽपि भक्त्या विमलेऽसि चित्ते सङ्क्रान्तिभाग मे हर तत्तमोऽन्तः । किं दर्पणान्तः प्रतिविम्वितोऽपि रविः प्रकाशं न तनोति गेहे ? ॥१३॥ त्वं सर्वसर्वेष्टहितोपकारी रेऽपि मां बोधय विश्ववन्धो!1.
श्रीमुनिसुन्दरमरिविरचितः
• .
करोति किं नो गगने स्थितोऽपि
सुधामयूषः कुमुदे भवोधम् ? ॥ १४ ॥
दुर्गाद्रिनयन्तरितोऽपि नेत-
रुल्लासयस्येव गुणस्त्रिलोकीम् ।
किं काचकुम्भान्तरितोऽपि दीपः
प्रकाशयत्येव करने वेश्म ? ।। १५ ।।
अनाद्यविद्योदरपाशवद्धं
मां मोचय त्रातरिहापि सन्तम् ।
पयोजग प्रतिपन्नरोध
भृङ्गं यथा दूरतरोऽपि भानुः ।। १६ ।।
जगन्ति पश्यन्नपि किं कपाय-
मी पीडितं पश्यसि न वभक्तम् ।।
दृष्टस्त्वया यन्न हि पीड्यते तै-
रुरीकृतो वजिजितेव सः ॥ १७ ॥
यथेच्छदानैरवृणीकृते त्वया
जगत्यशेषेऽपि ऋणादितोऽस्मि किम् ।
कम्र्मोत्तमणैर्भवगुप्तितो न य-
नमुच्ये जिनाद्यापि ऋणाद्भवस्थितेः ।। १८ ॥
सुयोगविद्याविधिसम्मयोगत-
स्तन्मामपि प्रापय तत्वशेवधीन् ।
येनानृणाभूय निरस्य रोधका-
ननन्तधामा विलसामि मुक्तिभाक् ॥ १९ ॥
त्वां यत्र चित्ते विनिवेश्य मोदे
रागादयो देव ! दहन्त्यदोऽपि ।
ततो जगद्रक्षणदक्षिणोऽपि
कथं विभो ! रक्षसि नाश्रयं स्वम् ? ॥२०॥
श्रीजिनस्तोत्ररत्नकोशः।
१११
-
अथवा-
रागादयो यद्विजितास्त्वयैते
वैरेण तेनैव जिनेन्द्र ! मन्ये ।
करोषि चित्ते मम यत्र वासं
दहन्त्यमी तत्चदुपेक्षसे किम् ॥२१॥
विधूय रागादिभवान् विकारान्
दधासि रूपं निरुपाधिकं यव
त्रिलोकपूज्ये भवतः प्रसादा-
न्ममापि तत्रानुभवोऽस्तु सम्यक् ॥ २२ ॥
अशेषतः सर्वविदोऽपि भक्तान सीमन्धर ! प्रापयतः शिवं ते ।
किं विस्मृतोऽहं यदि दूरगत्वात्तत्ते न युक्तं ह्यसिं दूरदर्शी ॥२३॥
वृषाङ्कितोऽसीति वृषाङ्कितं मां कुरुष्व सम्यक् कृपया प्रसध ।
भवामि युक्तं तव सेवको यद्देयाः खसाम्यं च ममाग्रतोऽपि ॥२४॥
श्रीसीमन्धर ! तीर्थनाथ ! मयका स्तुत्वैवमभ्यर्थ्यसे
नाम्नाऽहं मुनिसुन्दरोऽभवमथो कुर्याः प्रसादं तथा ।
स्यां सर्वज्ञ ! यथार्थतोऽपि विशदज्ञानादिरत्नत्रया-
लब्ध्वा कर्मजयश्रियं शिवपुरे राज्यं लभे चाऽचिरात् ॥२५॥
इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर-
सूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्न्यक्के
श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीसीमन्धरस्वामि-
स्तोत्ररत्न मेकोनविंशतिमम् ।
.
॥ अहम् ॥
आनन्दं यः परं पाप रागाधरिजयश्रिया।
तं श्रीजिनपतिं स्तौमि सिद्धानन्तचतुष्टयम् ॥१॥
प्रभो ! त्वया मुक्तिसुखं न दूरे यदेव वाञ्छन्ति भवोद्विजोज्ञाः ।
अपायुपायोऽस्य तु संयमो यो विशुद्धिरेतस्य दुरासदा मे ॥२॥
११२ श्रीमुनिसुन्दरमूरिविरचिताः हातुं यदीशे न रसेपु लौल्यं न गन्धगर्दै न हि शब्दरागम् । वाञ्छं न च स्पर्शसुखे न रूपेऽप्युद्यत्कपायः सति ते श्रुतऽपि ॥२॥ महाव्रतानां न हि मे विशुद्धिर्नास्मि प्रगल्भः समिधीश्च धर्तुम् । गुप्तीस्तथा पालयितुं प्रमादैर्ध्यातुं च सद्ध्यानमसद्विकल्पः ॥४॥ (युग्मम् ) भीतस्ततोऽर्हन् ! भवदुःखराशेरितश्च मुक्तेविमृशन्नु पातान् । स्तवेष्वसारेष्वपि ते यतेऽस्यामानायमानाय कुतश्चिदेतम् ।।५।। मां कद्वदं निर्गुणमप्यमुं तद्रक्ष प्रभो ! त्वं दययैव दीनम् । शक्यं न चेनिर्गुणपालनं तद् गुणान् ददखेत्यपि ते हि वश्यम् ॥३॥ ज्ञानं न मेऽस्ति प्रचुरस्तु गर्वः क्रोधोऽस्ति भूयान् न तपश्च तीव्रम् । न सस्क्रियाऽऽस्ते बहुलातु माया वस्त्रादिलोभोऽस्ति न संयमस्तुण॥ सन्तीश ! शिष्या न च शुद्धशिष्या आडम्बराः सन्ति न सुक्रियास्तु । वाग्डिण्डिमोऽस्ति प्रशमस्तु नान्तः सत्पुस्तकाः सन्ति न चार्थवोधः ।। ८॥ एवं समग्रा अपि सन्ति दोषा गुणाः पुनों मयि लेशतोऽपि । विभेमि दोषप्रभवात् फलातु लुभ्यामि तस्मिन् गुणसंभवे तु ॥ ९॥ उपायहीनं तदुपेयसक्त मां किञ्चिदीशोपयिकं प्रशाधि । यतो जिनैषोऽपि गुणानवाप्य लभेत तेषां फलमप्यभीष्टम् ।।१०॥ ( अर्थतश्चतुर्मिः कलापकम् ) गण मे ज्ञानमंपाक्रियेत ध्यानं च सत्कुविकल्पंजालैः। ' चारित्रलेशोऽपि न सत्कषायैः क्रियाकलापश्च सदा प्रमादैः॥११॥ इत्यान्तरैर्मे हियते द्विषद्भिः प्रसह्य सर्वस्वमिदं मदोगः ।
श्रीजिनस्तोत्ररत्नकोशः। ११३ एषां विजेताऽस्ति न च त्वदन्यस्तत्ते पुरोनायक! पूत्करोमि ॥१२॥ विश्वत्रयैश्वर्यरमालयोऽस्ति कृपालुरेकश्च कृपाऽऽस्पदेषु । इति प्रसिद्धिर्जयिनी तवैव सम्यक् ततो मां जिन! तां च रक्ष ॥१३॥ अजस्रदुानकदर्थितं मे लगत्यनुष्ठानविधौ मनो न । फलाय चाऽयं न मनो विना स्यात् प्रयासमात्रं तदसौहहा ! मे ॥१४ किमस्म्यभव्यः किमवश्यभावी दुःखार्णवानन्तभवभ्रमो मे १ । तदुर्विकल्पैहि मनोर्जतीदमपं यदहन हि वक्तुमीशे ॥ १५ ॥ स्वामेव नाथं शरणं प्रपद्ये सदाऽप्यधीये भवदागमं च । स्मरामि ते नाममयांश्च मन्त्रांस्तेपामधिष्ठायकदेवताश्च ॥ १६ ॥ विभमि पापाजिन ! दुर्गतेश्च याचे च सर्वान् भवपातरक्षाम् । ईहे च सद्ध्यानमदुर्विकल्पं मनःशुभालम्बनयन्त्रणेन ॥ १७ ॥ भावारिवर्गस्य मिलत्तथापि मनो दुरन्तं न निषेडमीशे ।। तच्छिक्षितैश्चैतदसद्विकल्पैर्मा दुर्गतौ पातयतीति रक्ष ॥ १८ ॥ त्वयि प्रभौ सत्यपि विश्वताते मनोरिपुर्मा वहुदुर्विकल्पैः । कदर्थयित्वा नरकाग्निपाकयोग्य कचित्क्षेप्स्यति तन्न जाने ॥१९॥ उच्चैर्गुणस्थानकमारुरुक्षुर्यावच्छुभध्यानकृते यतेऽहम् । वावन्मनोऽरि: कुविकल्पपाशैविध्य मां ही क्षिपतेऽध एव ॥२०॥ न खेलनं श्वाऽर्हति पूतिकों यथा न कुष्ठी ललनादिभोगम् । न चातिसारी घृतपानमेवं नाहामि मुक्तिं कुमनोहतो ही ॥ २१ ॥ कृपां कृपालो ! मयि धेहि तत्पदे प्रदेहि मे शक्तिभिमां ययानिशम् । वशीभवेन्मानसकं भवाम्बुधौ क्षिपेन यन्मां कुविकल्पजालतः ॥२२॥ त्वामनन्यगतिकः प्रभुमेक संश्रितोऽस्मि शरणं भवभीरुः । ५ ११४ . .. श्रीमुनिसुन्दरसूरिविरचितः तत्तथा गुरू यथा कुविकल्पा न क्षिपन्ति रिपत्रों नरके माम् ।। २३ ॥ वाङ्-मनो-जनितं मम पाप द्रव्यतोऽपि भवतः स्तवनाये। नाशमागु लभतां शिवता ते तेऽप्यलं यदिह नाथ ! तवैव ॥ २४ ॥ संकृतेन मनसा महर्पयो येन निर्देतिमनन्तंशोऽप्यगुः । मां तदेव कुविकल्पभृद्भवा- म्भोनिधौ क्षिपति ही करोमि किम् ? ॥२५॥ प्रभो ! निपीयापि तवागमामृता- न्यवाप्य चारित्ररसायनान्यपि । सहे प्रमादादिगदैः कदर्थनां श्रयामि तत्कं शरणं हतोऽस्मि ही १ ॥२६॥ दुानतो मे विरमेन चित्तं । विभेमि पापानरकपदाच । स्वयं रिपुः स्वस्य तदित्यनन्य- गतिस्तवाग्रे बिलपामिनाथ ! ॥२७॥ कृपाऽऽस्पदं मां तदुपेक्षसे किं... न हंसि मेऽद्यापि दुरापदं यत् । ... कृपा न किंवा त्वरयत्यधीशा भ्यासीहंदों मे किमुताऽकृपत्वम् ? ॥ २८ ॥ भवद्विषः पासि सुराऽसुरानपि प्रभुस्ततस्त्वां शरणं.श्रयन्ति ते 1.. दीनं श्रित पासि न मां नु तत्त्वं, मवेक्ष्य वक्त्रं तिलकं करोषि किम् ? ॥ २९॥ अकारि कि देंव मया कुकर्म श्रीजिनस्तोत्ररत्नकोशः। ११५ M . - .. ममेदशी, धिग् यदनहताऽभूत् ? ।- जगत्रयेशोऽपि न पासि यन्मां शोचामि हा! हा! हतकः स्वमेव ॥ ३०॥ यद्यप्यद्रष्टव्यमुखोऽस्मि पाप्मभिः प्रसीद हे. नाथ ! तथापि मय्यपि । स्वदर्शनं देहि विधेहि मेहता यतो भवेत्साऽपि तव प्रसादतः॥३१ ।। प्रार्थये शिवममुष्य कारणं संयमस्तु विषमस्त्वयोदितः ।. न प्रमादरिपवस्त्यजन्ति मां किं करोमि भवभीभृत्तस्ततः ॥३२॥ सचेतनाऽचेतनवस्तुजातेष्ववाप्तसाम्यास्तकपायपङ्कम् । मनः सदा मे गतदुर्विकल्प भूयात्मभो ! त्वद्गुणवामिग्नम् ॥३३॥ जगज्जनानन्दि हितोपकारानवद्यहृद्यायतिकृत्मवृत्ति । . : भवद्गुणस्तोमकथैकवृत्ति वचोऽस्तु मे नाथ! शिवानुवृत्ति॥३॥ विश्वाङ्गिपीडापरिवर्जनालप्रमादमुक संयमयोगशुद्धिः। तव प्रसादान्मम सिद्ध्युपायस्त्वदानतिव्यापृतिरस्तु कायः॥३५॥ : त्रातुस्ते निजदुःखसन्ततिमिति स्तोत्राजिनेन्द्राऽवर्द । शकालीमुनिसुन्दरस्तवपदत्रैलोक्यरक्षाप्रभोः । :, कारुण्यामृतवारिधे! यदि कृपापात्रे कृपां गाइसे तदुःखप्रतिकारमाशु कुरु मा सर्वैः सुखैर्योजयन् ॥३६॥ :' इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर- सूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचित जयश्यके श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे स्वसांसारिकदुःखप्रकटनदुःखप्रतिकारवि- : ज्ञप्तिरूप स्तोत्ररलं विंशम् । . ॥ अहम् ॥ जयश्रियां सेवधिमेधमानसमग्रलब्धिहदिनीनदीशम् ।
श्रीयुनिसुन्दरमूरिविरचितः सुरासुरेन्द्रालिविधीयमानक्रमाम्बुजोपासनभासमानम् ||२|| सहसपत्राद्भुतहेमपञ पद्मासनासीनमदीनमेधम् । जगत्त्रयकप्रभुतापभावप्रभाऽभिरामं मुनिराजिराजम् ॥ २॥ अनुत्तरब्रह्ममयं निरङ्कमृगाङ्कविम्बोज्ज्वलकायकान्तिम् । श्रीवर्द्धमानादिमशिष्यनाथं श्रीगौतमस्वामिनमानुवामि ॥३॥ (विशेषकम् ) निदेशतो वीरजिनेश्वरस्य दरममश्लोकमितं व्यधाद्यः । श्रीमरिमन्त्रं त्रिजगद्धितैषी स गौतमो रातु ममेष्टसिद्धिम् ॥४॥ सरस्वती विश्वहितावधाना सूरीश्वरध्यानपदप्रभावा । सहस्रहस्तमथिता त्रिलोकस्वामिन्यपि प्रार्थितशस्तदात्री ॥५॥ श्रीर्देवता विश्वविमोहनी चासुरेन्द्रवर्गस्तवनीयरूपा । यक्षाधिपो विंशतिशस्तहस्तस्फुरज्जगज्जैत्रपराक्रमश्च ॥ ६ ॥ इन्द्राश्चतुःपष्टिरभीष्टदाश्च त्रिलोकरक्षाप्रभवत्प्रभावाः । यक्षाश्चतुर्विंशतिराहतांहिसेवापवित्रीक्रियमाणगात्राः ॥ ७॥ देव्योऽपि दिव्याव्ययशक्तियुक्ता भक्ता जिनेष्वाईतभद्रसक्ताः । उपासते यं गणधारिमन्त्राधिष्ठायिका नित्यमचिन्त्यभक्त्या ॥८॥ यन्नाममन्त्रोऽपि जयत्यचिन्त्यशक्तिर्मरुत्कुम्भ-मणि दुमादीन् । तं सर्वचिन्तातिगशमहेतुं श्रीगौतमं नौमि भवाब्धिसेतुम् ॥९॥ पदं यथाऽब्धिस्तटिनीतटीनां खं तारकाणां विटपी लतानाम् । तथा विभो ! गौतम ! सर्वलब्धिप्रभामहिम्नां भगवंस्त्वमेव ॥१०॥ मुक्तिं ब्रजस्त्वं न्यदधाः खनाम्नि सश्रीसखी थ ! निजानुलब्धीः । वसत्यदो यत्र नरे गणेन्द्र ! वसन्ति यत्ता अपि तत्र सर्वाः ॥ ११ ॥ कान्ताः शिवाप्तौ तव लब्धयस्त्वां दुःखाद् भ्रमन्त्यः किल वीक्ष्यमाणाः । नामापि शृण्वन्ति तवेश ! यत्र. .
श्रीजिनस्तोत्ररत्नकोशः। ११७ सूत्कण्ठयेवानुसरन्ति तं द्राग् ॥ १२॥ तवाऽऽतपस्यासमयात्कराब्जे जज्ञे निलीना खलु केवलश्रीः । दीक्षामिषाद्यन्न्यदधा यदीय- शिरस्सु तं ते द्रुतमापुरताम् ॥ १३ ॥ त्वयाऽऽत्मनो वीरजिनाधिपेना- ऽभेदस्तथाध्यायि वशेन भक्तः । अनन्तचिदर्शनवीर्यसौख्य- लाभात्तदात्मैव विभो ! यथाऽभूः ॥ १४ ॥ शिवश्रियः कोऽपि दृढोऽनुराग- स्त्वयीश ! सौभाग्यरमात्मकेऽहो!। नामापि यत्ते जपतः प्रयुद्धा- नेपाऽखिलान् प्रापयतेश ! शर्म ॥ १५॥ त्वदीयभक्तेः शिवशर्मलक्षम्या मैत्री प्रभो ! कापि परा नवीना। खाधारकान् भव्यजनान् गुणाढ्यां- स्तस्यै पतीन् सा हि ददात्येशपान् ॥ १६ ॥ न के पदार्था वहवो महान्त- स्तव प्रभावे तु विचिन्त्यमाने । पृथ्वी न पृथ्वी न गिरिगरीयान् नाब्धिर्महीयान नभोऽप्यदभ्रम् ।। १७ ।। विदन्ति मानं जलधे वो वा केचित्कथंचिन्नमसोऽपि विज्ञाः । न ते प्रभावे पुनरस्ति मानं भवन्त्यमाना अपि किं तदार्थाः १ ॥॥१८॥ ब्रह्मास्पदं वा कमलापदं वा वदन्तु पद्मं तव पादयोस्तु ।
११८ श्रीमुनिसुन्दरमूरिविरचिताः अनाप्य माहात्म्यरमा नु तस्यै निषेवतेऽम्बूनि सदा तपस्वी ? ।। १९ ।। भो भोः श्रिये किं व्यवहारखंदै- राराधितैः किं बहुमन्त्र-तन्त्रैः। किं दैवतोपासनकर्मभिश्च श्रीगौतमं ध्यायत नाथमेकम् ? ॥ २० ॥ पुरा यथा गौतम ! तापप्तादिकान् मिथ्यामतादुद्धरंसि स्फुरत्कृपः । तपस्क्रिया-संयम-योगदुर्वलं . भवावटान्मामपि तद्वदुद्धर ।। २१ ॥ भवाद्विभेम्युत्कटदुःखराशे- धर्तु द्विधेशे न च योगशुद्धिम् । गतिनै मेऽन्यास्ति ततः शिवेच्छो- स्त्वमेव तद्धेहि कृपां मयीश ! ॥ २२ ॥ भावद्विषो ये निहतास्त्वयेश ! ते व्यन्तरीभूय भवद्रुपेत्र । निरौजसं त्वत्कुल समीक्ष्य मां पीड़यन्तीति मुनीन्द्र ! रक्ष.॥.२३ ।। गणिवर ! तव सद्गुणैकलीनं भवतु मना मम गौतमाऽविरामम् । विजहतु तदिमे कषायमुख्या रिपुनिकराश्च मयीति 'सुप्रसीद ॥२४॥ एवं श्रीगणनाथ ! गौतमगुरो! स्तुत्वा मयाऽभ्यर्थ्यसे नाम्नाऽहं मुनिसुन्दरोऽभवमथो कुर्याः प्रसादं तथा । स्यां सर्वज्ञ ! यथार्थतोऽपि विशदज्ञानादिरत्नत्रया-
श्रीजिनस्तोत्ररत्नकोशः।
लब्ध्वा कर्मजयश्रियं शिवपुरे राज्यं लभे चाचिरात् ॥२५॥
इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर-
सूरिश्रीसोमसुन्दरसूरिशिप्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्न्यङ्के
श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीगौतमस्तोत्ररत्नमेकविंशम् ।
॥ अहम् ॥
जयश्रिया प्राप्तसुखप्रकर्षा लसन्ति यद्भक्तिभृतः सहर्षाः ।
प्रहादराजपथितप्रतिष्ठं स्तवीमि तं पार्थविभुं गरिष्ठम् ॥ १ ॥
तव स्तुति या विभयो विधातुं न निर्जराणां प्रभवोऽपि पार्थ!।
करोति यत्तामपि मादृशोऽत्र हेतुः प्रसत्तिर्भगवस्तवैव ॥२॥
प्रहादभूपालविहारचूडा-
मणिस्तुतिस्ते क जडाक हाऽहम् ।।
अर्हामि यत्रं तदपीह यचा
कृत्वा लभन्ते पशवोऽप्यभीष्टम् ॥ ३ ॥
जनं सुरास्त्रातुमलं न तोपिता
अपि स्तवैर्नाथ ! भवाद्भवस्थिताः ।
न तोष्यसे त्वं त्वभवोऽप्यरागधी-
स्ततो. गतिः का ननु विभ्युपां भवात् १ ॥ ४ ॥
"स्तवैन तुष्टा अपि पातुमीशते
। सुरा भवाद् दुःखमयाद्भवस्थिताः।
न तुष्यसि त्वं त्वभवोऽप्यरागधी-
स्ततो मतिः का ननु विभ्युपां भवात् ? ॥५॥"
॥ इति वा पाठः ॥
अरोपतोपोऽप्यथवा त्वमेव मां
कृतार्थयिष्यस्यत एव नूयसे ।
अरोपतोपा अपि नार्थितप्रदाः
किमर्थिनां स्युस्त्रिदशद्रुमादयः १ ॥६॥
१२० श्रीमुनिसुन्दरमरिविरचित स्तुवन्ति मोहाऽस्तधियोऽत्र के न कान् जिनेन्द्र ! देवान् विविधातिशान्तये । अयं त्वदुक्ताञ्जनशुद्धतत्वहन स्तवीति विश्वाच॑ ! भवन्तमेव तु ।। ७ ।। यदुग्रपित्ताशुपपितक्षणा- स्तृपा प्रधावन्ति मरीचिकाः प्रति । विशुद्धेनत्रास्तु महाजलाशयान् प्रतीति भेदो गुणदोपजो यवम् ॥ ८॥ अभ्यस्यते यत्सुलभं भवे भवं भवेत्तदेतत्कथमस्तु वास्तवम् । स्तुति तवाभ्यस्य न यत् पुनर्बुधाः सृजन्ति कस्याऽपि गतास्त्वदात्मताम् ॥९॥ तव स्तुतिर्वन्दनऽमर्चनादि वा सुखाय मुक्तरिति वेद एव नः। इयं हि ते मूर्तिरपीक्षिता सतां प्रदर्शयत्येव तदीयवर्णिकाम् ॥ १० ॥ न शस्यते कैर्धरणोरगांधिराइ निधिमहिम्नां स विशुद्धदर्शनः । तवोपकारानृणतां प्रयाति य. स्त्वद्भक्ति-विघ्नाऽपहृतीष्टदानतः॥ ११ ॥ पद्मावती खं तव पार्थ ! भक्त्या पवित्रयन्ती शिवदायशक्त्या । त्वदाश्रितान् शर्म परं नयन्ती श्लाध्येत शक्रैरपि युक्तमेतत् ॥ १२ ॥ तवाहिसेवां सतत सृजन्त्या वैरोख्यया शासनपालनेन । यदय॑ते पुण्यमनेन तस्याः श्रीजिनस्तोत्ररत्नकोशः। १२१ शिवन्दिरा वेनि करे लुठन्तीम् ॥ १३ ।। जगत्पतीक्ष ! प्रतिपक्षतां तव श्रितः श्रयन्ते प्रतिपक्षतां श्रियाम् । अतीतसंसारशमां पदं वंशं पदाम्बुजं ते दधतः स्वमानसे ॥ १४ ॥ "अतीतसंसारशमां च शर्मणां पदं पदौ ते दधतः स्वमानसे" ॥ ॥ इति वोत्तरार्द्धपाठः ॥ मुधैव देवद्रुमरत्नकुम्भाः कलौ न सन्तीति वदन्ति मुग्धाः । तवैव मूत्तौं खलु ते निलेल्यु- स्तदा न कार्य हि करोति सैव ॥ १५ ॥ मितंपचत्वं किमिदं तव प्रभो! ममाथवा काऽप्यतुलाऽस्त्यनहता । यदक्षरानन्तसुखश्रियां निधेः सतोऽशमप्यातनुपे न मेऽर्थिनः ।। १६ ॥ मितंपचत्वं घटते न ते निधि तमर्थिनां यद्वितरस्यविश्रमम् । अनर्हता मे यदि तक्षिपस्व तां प्रसव सद्योऽत्र विभुस्त्वमेव हि ॥ १७ ॥ सपञ्चविंशे जिन ! योजने शते गदादिपीडा विनिहंसि योऽङ्गिनाम् । स हंसि किं हृद्यपि मे स्थितो न ताः कुकर्मभिश्चेक्षिप तानि ताश्च तत् ॥१८॥ त्वयैव धत्ते त्रिजगत् सनाथता- मनाथयं त्वामहमप्यतोऽर्तिभाग । सुदुर्गदौषो द्विविधस्तथापि चे- . १२२ श्रीमुनिसुन्दरसूरिविरचितः .: त्ततो हताशस्य ममास्तु कोऽविता ॥१९॥ प्रभाववाडौं तव मे मनो झपं निमग्नमप्याः ! कुविकल्पजालकैः। कदर्थयेत पार्थ ! विमोहधीवर- स्तदस्मि दुःखी विमनास्ततोऽव माम् ॥ २०॥ मया प्रपन्नोऽसि समग्रवाञ्छित- प्रदस्त्वमेव प्रभुराप्तशेखरः। खसेवकं चेदुरुरीकरोपि मां त्वमप्यवाप्नोमि तुलां तवैव तत् ॥ २१ ॥ त्वदहिभक्तिं भगवन् दधज्जनः श्रीपार्थ ! दुःखैस्विविधैर्विमुच्यते । इत्तीश ! शास्त्रश्रुतमानुभौतिक कुरुष्व मे चेधसे कृपालुताम् ।। २२॥ अशुभायतिकर्मकारिणी मतिमत्वं ह्यविगानमेति नो। भवभीतिकरान् परान् स्तुवं- स्त्वदभक्तिः सदधीश ! किं सुधीः ? ॥ २३॥ ज्ञानमानधनदानद्धयः कान्तिकीर्तिधृतिबुद्धिसिद्धयः । सम्भवन्ति भविनामिह स्तवात् सर्ववस्तुषु तवैव वास्तवात् ॥२४॥ ततः स्तुति श्रीजगदीश ! पार्श्व ! व्यधामिमां मुग्धधियाऽपि तेऽर्हन् । समीहितं देवनयाऽपि मे द्राग् कृपा कृपालो ! विदितेति हि स्यात् ॥ २५॥ एवं पार्थजिनस्य ये विदधते प्रहादनाऽऽहे पुरे श्रीप्रसादविहारभूषणमणेः सद्भक्तियुक्ताः स्तुतिम् ।
श्रीजिनस्तोत्ररत्नकोशः। १२३ प्राप्यते मुनिसुन्दरस्तवमयी ज्ञानादिऋद्धिं परां द्वैधपिजयश्रिया शिवपुरे राज्यश्रियं प्राप्नुयुः ।। २६ ।। इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञानसागर- सूरिश्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिमुन्दरसूरिभिर्विरचितेजयश्यके श्रीजिनस्तोत्ररतकोशे प्रथमप्रस्तावे प्रह्लादनपुरमण्डनप्रहादन- विहारश्रीपार्श्वजिनस्तवनं द्वाविंशम् । ॥ अहम् ॥ जयश्रिया द्वैधरिपूत्कराणां जगत्प्रसपत्लभुताप्रतापम् । श्रीमयुगादीशजिनेन्द्रचन्द्र स्तवीम्यहं देलउलापुरस्थम् ॥ १॥ त्वयि प्रभौ चेतसि संस्थिते स्यु- ने रोगशोका दुरुपद्रवाश्च । नो भीतयो व्याधय आधयो वा तनूमतां दुःखकृतः कदाचित् ॥ २॥ विचित्रदुष्टज्वरकुष्ठकास- श्वासाक्षिशीर्पोदरकर्णरोगाः। भगन्दरायाश्च गदाः समग्रा- स्त्वन्नाममन्त्रात् प्रलयं प्रयान्ति ॥ ३॥ ग्रहाः प्रसतिं दधते समग्राः सुराश्च सुर्यश्च वरपदाः स्युः। वशा नृपायाः प्रहताः खलाथ श्रीमयुगादीश ! तवांहिभक्त्या ॥४॥ भूतमेतव्यन्तरक्षेत्रपालाः सीकोतर्यः शाकिनी डाकिनी वा। व्यन्तर्याद्या अप्यधीश क्षमन्ते .
१२४ श्रीमुनिसुन्दरसूरिविरचितः त्वद्भक्तं नो वाधितुं लेशतोऽपि ॥ ५॥ तवाहिभत्यार्थितदारसार- समृद्धिपुत्राद्भुतराज्यलक्ष्म्यः। द्विषज्जयः सन्ततभोगयोगा जिनेश ! पुण्यैः सुभगा नृणां स्युः ॥ ६ ॥ निरन्तरारोग्यमहप्रताप- यशःप्रतिष्ठाप्रभुतोजितानि । सुदीर्घमायुःसुभगत्वसार- कला लभन्ते जिन ! तेहिभक्ताः ।। ७ ।। इहाप्यभीष्टानि सुखानि भुक्त्वा युगादिनेतर्भवतोऽर्चनायैः । भव्या भवन्ते किल चक्रिशका- ऽहमिन्द्रदेवालयशमलक्ष्मीः ।। ८ रणे जयं सम्पदमाशु दुस्था बद्धा द्रुतं बन्धनमोक्षमीश! नृपावरुद्धाश्च नृपावदानं भक्ता लभन्ते ऋषभप्रभो ! ते ॥९॥ द्विधाऽऽमयैर्नाथ ! कथितस्य मे द्विधा च दोषैः सकलातिलोलवैः । त्वमेव नेता जगतां पिता हिता- ऽऽवहः शरण्यः शरणं भवाधुना ॥ १०॥ नवप्रभावेषु सुरान्तरेष्वहो! त्वमेव गर्जस्यतिशीतिभिः कलौ । ग्रीष्मे हि शुष्यन्ति जलाशयाः परे प्रवर्द्धते वारिनिधिस्तु वारिभिः ।। ११ ।। जगत्रयीरक्षणदक्षिणे प्रभौ त्वयि प्रपन्ने शरणं शरीरिणाम् ।
'श्रीजिनस्तोत्ररत्नकोशः। १२५ यह नश्यन्ति भियो द्विपां त्रिधा परत्र सांसारिकदुःखजास्तथा ॥ १२ अयं जनः कैरपि कर्मभिः कृतैः पराभिभूतो भवते पदे पदे । ततो विपन्नोऽप्यमितातिभिः प्रभो ! प्रमोदते त्वामधिगत्य तायिनम् ।। १३ ॥ दुष्पक्षदुःखाइयगर्तपातिनो देवान्तराद्यात्मकुशावलम्विनः। अयं तवाज्ञापवियष्टिमाश्रितः खमक्षरं श्रीपद एव मन्यते ॥ १४ ॥ विचित्रदुःखानलतापिताः परे श्रयन्ति का नौपयिकेन तृष्णिकाः । अयं तु ते ध्यानसरोऽधिगत्य तान् समीहिताऽऽप्त्या मुदितोऽनुकम्पताम् ॥ १५ ॥ यथाऽसि देवान्तरदूरितानां ज्ञानादिकानां शरणं गुणानाम् । समग्ररोगादिभयाकुलाना- मपीशं ! नाभेय ! तथा त्वमेव ॥ १६ ॥ देवान्तरापास्तनया गुणानां ज्ञानादिकानां शरणं यथाऽहन् । समग्ररोगादिविपत्प्लुतानां त्राता तथैवासि विभुस्त्वमेव ॥ १७ ॥ स्वयि प्रभो ! देलउलापुरेशे यथाऽर्चिते दाग विपदः क्षयन्ति । नानाभवोपार्जितसम्भवानि तथैव कर्माण्यपि नाभिमूनो ! ।। १८ ।। संवर्मितानां भवदाज्ञया यथा श्रीमुनिसुन्दरमरिविरचितः जगद्विपो न प्रभवन्त्युपद्रवाः । तथा कपायादिभटोत्कटौजसः शरीरिणां पापमहारयोऽपि च ॥ १९ ॥ किं कामकुम्भैर्मणिभिः सुराणां मरुद्गवीभिः सुमनोद्रुमैर्वा । हृदि स्थिति देलउलावतंसः सतां यदि श्रीऋपभो विधत्ते ॥ २० ॥ अनन्तचिद्दर्शनवीर्यशर्मणे जगद्विपयाहन ककर्मणे । युगादिदेवाय हताखिलाये नमो नमो देलउलार्यमूर्तये ॥ २१ ॥ समग्रभक्तेहितशर्मदायिने समग्रभीत्या जगदेकातायिने । स्थितिप्रदायांहिजुपोऽपुनर्भवे नमोऽस्तु मे श्रीऋपभाय शम्भवे ।। २२ ॥ वशीकृतिर्वाञ्छितसर्वसम्पदा- मुदग्रमुच्चाटनमापदां ततः। प्रवासदात्री निखिलाहसां द्रुतं ममास्तु भक्तिपभप्रभौ परा ॥ २३ ॥ तरीमिवाश्रित्य तरन्ति वारिधि- भवादयं ये नृसुरासुरादयः । भजेयमाज्ञामृपभप्रभोरिमां भवन्तु पुण्यानि च मे तदाऽऽप्तये ॥ २४ ॥ बहुविधवहुकर्मजैः कुतकै- निहतिधियां कति नैव दैवतानि । निरुपधिसमताविचारिणां तु त्वमसि विभो ! ऋपभैक एव देवः ।। २५ ।। .
चतुर्विंशतिजिनभवस्तवः। १२७ एवं देलउलापुरे सुविदितं श्रीमयुगादिममुं शक्रालीमुनिसुन्दरस्तवगगैनूतक्रमं यः स्तुते । सर्वाभीष्टसुखोचौरविरतिस्फूर्जत्प्रमोदाद्वयो मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२६॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरिश्रीज्ञान- सागरसूरिश्रीसोमसुन्दरमूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यङ्के श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे देउलाविभू- पणश्रीऋषभजिनस्तवनरलं त्रयोविंशम् । ग्रन्थसंख्या १०६३। ॥ अहम् ।। श्रीगुणविजयगणिविरचित- चतुर्विंशतिजिनभवस्तवः। नत्वाऽऽदौ विधिवद्गुरोः क्रमकजद्वन्द्वं गरीयः श्रियो- गेहस्य प्रकटप्रभावकलितस्याधारमूर्नुदा । श्रीमन्नाभिनरेन्द्रनन्दनमुखस्याद्वादिनामादरा. दिग्मातङ्गजगन्निशाकरमितान् वक्ष्ये भवान् भक्तितः ॥१॥ पूर्व यो धनसार्थराद् युगलिकः सौधर्मन्दारको विद्याभृच्च महावलो नरपतिः कल्पे द्वितीये मरुत् । भूपालो युगलीसुरः प्रथमके कल्पे भिषक् द्वादशे देवश्चक्रधरः समग्रविबुधोत्तंसो वृपाङ्कः श्रिये ॥२॥ जम्बूद्वीपविदेहवच्छविजयाभूभामिनीभूपणं भूपश्रीविमलादिवाहन इति प्रौढप्रतिष्ठाऽऽस्पदम् । गीर्वाणो विजयाभिधानविपुलस्फूर्जद्विमानेऽभवत् १२८ श्रीगुणविजयगणिविरचित- भूयाभूरिविभूतयेऽजितजिनः सोऽयं सतामन्वहम् ॥३॥ विश्वेशो विपुलादलो बलवतामाधोऽनवयो भुवि प्रख्यातः प्रथितोदयः सुरवरो ग्रैवेयके सप्तमे । श्रीसेनाङ्गभवो भवोद्भवमहाकटेकविध्वंसको जीयाजन्मजरादिदुःखरहितो भास्वधशा जन्मिनाम् ।।४।। रत्नं रत्नपुरेश उज्वलतरश्रेयःश्रियामाश्रयो विश्वव्यापिमहामहावलनृपो वर्यावदातो महान् । लब्धाऽनेकजयो जयन्तविबुधः श्रीसंवरक्ष्मापतेः मनुः श्रीअभिनन्दनो मतिमतामानन्दतात् मानसम् ॥५॥ उवाशोऽतिवलो विदेहवसुधासारङ्गसीमन्तिनी- सारङ्गः सकलार्थसिद्धिकलितो लीलाविलासालयः । आराध्य व्रतमद्भुतं च दिविषज्जातो जयन्ते श्रियं चेषीष्टाङ्गिततिप्रदत्तसुमतिः श्रीमङ्गलानन्दनः ॥६॥ यो नीरेश्वरमेखलाप्रियतमो गाम्भीर्यनीरेश्वर- स्तेजखिन्नपराजितेत्यभिधया धीधाम धामोल्वणः । शान्ताहानरसं विभाव्य नवमे ग्रैवेयके निर्जरः सञ्जातो जयताज्जयर्दिनिवहः श्रीसुप्रभः केवली ॥ ७ ॥ श्रीनन्दिर्वसुधाधवो नयनिधिमुख्येभवेऽत्यद्भुतः प्रष्ठे श्रेष्ठमतिः परद्धिविजुषि ग्रैवेयको दैवतः । : संसाराम्बुनिधौ पतन्तममिते खं किंकरं तीर्थराट पायात्पावनकीर्त्तिकान्तिनिचितः स श्रीसुपाचप्रभुः ॥८॥ श्रीवर्मक्षितिपोऽथ निर्जरवरः सौधर्मवासी ततः सञ्जज्ञे जितसेननामनिपुणः श्रीसार्वभौमोत्तमः । देवेन्द्रोऽच्युतगश्च पद्मनृपतिः श्रीवैजयन्ते मरुत् चन्द्राङ्कः कुरुतात् शिवानि शिवकृत् स प्रीतिमान् पाणिनाम्॥९॥ श्रीमत्पुष्करपुण्यभूमिषु महापद्माभिधक्ष्माधवः खं राज्यं चिरकालमुज्वलयशा योऽपालयद्धीधनः ..
: .. -चतुर्विशतिजिनभवस्तवः। १२९ गीर्वाणत्रिदिवेऽजनिष्ट दशमे निर्वाणशर्मस्पृहः सुग्रीवक्षितिपात्मभूर्भवभिदे श्रीपुष्पदन्तो जिनः ॥१०॥ । विद्ववर्ण्यविदेहवच्छविजयाविश्वम्भराविश्रुतः पद्माक्षः क्षितिपालमौलिमुकुटः श्रीपद्मपृथ्वीपतिः। ' श्रीमत्माणतवासिनाकिनिकरालङ्कारचूडामणि- लेखोऽथ प्रभुशीतलः प्रथयतात् सिद्धिं सुवर्णप्रभः ॥ ११ ॥ आसीन्यायशुभानगर्यधिपतिर्दासीकृतारिद्रजो नीतिज्ञो नलिनादिगुल्मनृपतिश्चञ्चन्मतिः सद्गतिः । आदाय व्रतमच्युतेऽमृतभुजां मुख्यो गुरुः श्रेयसे श्रीश्रेयांसजिनादितेयरमणः वर्धेनुतुल्यः सताम् ॥१२॥ 1. पद्माभक्रमपाणिरिन्दुवदनः पद्मोत्तरमापतिः पुंरत्नं विमलादिवोधसचियः पोद्दामधामा स्फुटम् । . कल्पे प्राणतनाम्नि चारुधिपणो देवाधिराजस्ततो देयाद्वासवपूज्यपादकमलः श्रीवासुपूज्यः शिवम् ॥१३॥ [' भूभूषासुमहापुरीनरपतिः श्रीपद्मसेनाभियो निःशेषाऽवनिपालपालितयशाः सामन्तवन्धक्रमः । लात्वा देक्ष्यमवातरद्दमयुतो देवः सहस्रारके श्यामायास्तनुजस्तनोतु नियतं सौख्यानि भव्याङ्गिनाम् १४॥ राजा पद्मरथः स्वकीयधिषणागीर्वाणभट्टारकः संजातः सकलार्थसाधनपटुव्वर्ण्यमुख्य भवे । देवः प्राणतकल्पगः सुरवधृनेत्रत्रिभागातिथि- दिश्यावः कुशलं सुकृत्यकुशलः श्रीमाननन्तोऽन्वहम् ॥१५॥ : भूभा भरताऽवनों दृढरथः श्रीभदिलाधीश्वरो दुर्नीतिस्थितिभिनयी च विजये वाहाऽशनः सुन्दरः । स्तादस्ताघभवाब्धितारणविधौ सत्कर्णधारः प्रभु- मच्चत्तोजलवालकाचलविलासी धर्मदन्तावलः ॥१६॥ श्रीपेणाभिधभूपतिमिथुनिकः सौधर्मकल्पे मरुत् १३० श्रीगुणविजयगणिविरचितः- खेटेशोऽमिततेज इन्दुविमलः श्रीप्राणते निर्जरः। सौरी द्वादशकल्पदैवतपतिर्वज्रायुधश्चक्रभृद् ग्रेवये त्रिदशो नृपश्च विवुधः शान्त्यै स शान्तिजिनः ॥१७॥ सिंहो द्विस्ततिकुम्भिकुम्भदलने सिंहावहः काश्यपी-' कान्तः कान्तगुणोघरत्नजलधिः सर्वार्थसिद्धी सुरः। श्रीमुरक्षितिपालवंशतिलकः श्रेयोऽम्बुजाहर्मणिः मच्चेतः सदने विशत्वविरतं श्रीकुन्थुतीर्थाधिपः॥ १८ ॥ लब्धश्लोकवनो नृपो धनपतिविद्वपिदन्तित्रने विभ्राणः स्फुटपाटवं पटुगतिर्मातङ्गविद्वेपिणः । धर्माराधनतत्परः श्रुतिमतिः सर्वार्थसिद्धो मरुद् यो जातः शिवतातिरस्तु भविनः स्याद्वादिसौदर्शनः ॥१९॥ पण्मात्रेर्मुदितो महावल इति क्षोणीरमामाधवः लोणीशस्त्रिदशाधिराजसदृशः श्रीयुग जयन्ते सुरः । कौंघद्रुमइस्तिमल्लकराणिः श्रीमल्लिरिष्ठाप्तये सेव्यः सज्जनचारुचिचजलधौ स्पष्ट मृगाकोपमः ॥२०॥ भूपालंः शिवकेतुकः सुरवरः कल्पेऽथ सौधर्मके च्युत्वाऽभृच्च कुवरदत्त उदितस्तुर्ये सुपर्वाऽग्रणीः । पश्चाद्भूपतिवज्रकुण्डल इति श्रीब्रह्मकल्प मरुद् वर्माहक्षितिपः सुधाऽशनवरः श्रीसुव्रतः पातु वः ॥२१॥ कौशाम्बीललनाऽऽस्यमण्डनमलं कारुण्यपाथोनिधिः सिद्धार्थक्षितिभुक सुपर्वमुकुटः श्रीपाणते प्रीतिभाक् । वपाकुक्षिसरोमरालविलसल्लालायितं योऽधर- भूत्यै वो भगवाननगरहितः श्रीतीर्थनाथो नमिः ।। २२ ॥ जम्बूद्वीपगते पुरेऽचलपुरे श्रीमद्धनक्षोणिराट सौधर्मे त्रिदशोऽथ चित्रगतिकः खेटश्चतुर्थे मरुत् । भूनेना रणनिर्जरो नरवरः शङ्खच लेखस्ततः पालेयाचलचन्द्रनिर्मलयशा नेमिर्मनोमोदकृत् ।। २३ ।।
श्रीमहावीरजिनस्तवः ।। १३१ भूदेवो मरुभूतिकश्च करटी देवोऽहमे खेचरो मर्त्यः क्षोणिपतिः सुरः समजनि. श्रीसार्वभौमे महान् । अस्वप्नस्त्रिदिवे वभूव दशमे प्रोद्यत्प्रभापेशल: श्रीपार्यों भुजगेन्द्रचर्चितपद: पुण्यानि पुष्णातु वः ॥२४॥ ग्रामस्वाम्यमरी मरीचिरमृताहारः परिव्राजकः पोढा चामृऽतभुम् भवोऽतिवहुलः श्रीविश्वभूतिमरुत् । विष्णु रयिको. हरिश्च नरके भ्रान्तिर्भवान्तर्वहु- श्चक्री नाकिवरोऽथ नन्दननृपः स्वर्गेऽवतात्रैशलः ॥२५॥ इत्थं श्रीपभाकचन्द्रजिनपश्रीशान्तिकूर्मध्वज- श्रीकम्युध्वजपार्थवीरविजयाजातमभृत्यहनाम् । विश्वक्ष्मामुनिभानुनन्दनिधिदिग्वीपाक्षधूमध्वजाः प्रौढप्रीतिमतां भवन्तु भवतां प्रोक्ता भवाः सिद्धये ॥२६॥ वर्षे व्योममतङ्गजतुकुमिते राजादनीवन्दिरे नाभेयादिजिना इति स्तुतिपथं नीताश्चतुर्विंशतिः। प्राग्भारेण मुदो गुणादिविजये प्रोद्भूतसद्भावतो देयासुर्विविधश्रियः सुभगतामानन्दकन्दाम्बुदाः ॥२७॥ इति श्री२४जिनभव १३८स्तवः । ॥ अहम् ।। श्रीमहावीरज़िनस्तवः । चन्द्रादित्यमरालदन्तिपवनैः सिंहक्षमाभृद्धनैः वीणाकम्बुरमासमुद्भवरसाकर्पूरशर्वादकैः । लक्ष्मीकान्तकुठारखगकुसुमैदीपापगाकार्मुक- निर्ग्रन्थालिपयोरुहागुरुपियश्वकार्तस्वरैः ॥१॥ रमणचित्रकलोचनकज्जलेवदनचित्रभुजङ्गमचन्दनः । कुलसुवासमहोदधिनन्दनीप्रमदसममदैर्वनिविथुतैः ॥ २ ॥ श्यामाभेकरथाङ्गरनगरुडैः कीरप्लवङ्गोज्ज्वल-
-
१३२ श्रीगुणविजयगणिविरचितः-
प्रेडदर्णनभोऽम्वुपैः सुफलबदाक्सारिकाखञ्जनैः ।
वेणीरागकुरङ्गकुर्कुटलसद्वंशस्फुरद्वाहन-
स्थैवीरविभुं नभोरस ६० मितैः सारङ्गजैः संस्तुवे ॥३॥
'भविककुमुदबोधनसारङ्ग कोविदकोकनयनसारङ्गम् ।
सुकृतसरोवरतटसारङ्गं दुष्कृततरुभञ्जनसारङ्गम् ।।४।।
कुनयरजोहरणे सारङ्गं कितचकरटिदारणसारङ्गम् ।
निश्चलतानिर्जितसारङ्गं कुगतिदहनतर्जनसारङ्गम् ।। ५ ।।
मुखरतावर्जितसारङ्गं चारुनिरञ्जनतासारङ्गम् ।
सुन्दररूपविजितसारङ्गं सर्वसहनगुणतासारङ्गम् ॥ ६॥
श्वासपराजितवरसारङ्गं दुर्मदविधिवदने सारङ्गम् ।
दुरितमलापनयनसारङ्ग मन्मथभस्मकरणसारङ्गम् ।। ७ ॥
कुमतिलतालबने सारङ्गं करपङ्कजसमतासारङ्गम् ।
समवसरणसञ्चितसारङ्ग त्रिभुवनभवनसुभगसारङ्गम् ।। ८ ।।
निर्मलतागङ्गासारङ्ग भ्रमञ्जुलताजितसारङ्गम् ।
शमरसरत्नाकरसारङ्गं सज्जनमनपङ्कजसारङ्गम् ॥९॥
अद्भुतपरिमलसुखसारङ्ग देवसमुद्गाहितसारङ्गम् ।
कण्ठचमत्कृतकलसारङ्ग दुर्नयवित्ततगहनसारङ्गम् ॥१०॥
दमितकरणचञ्चलसारङ्ग मुक्तरजतमणिगणसारङ्गम् ।
नितिमृगनयनासारङ्गं कुमतकुरङ्गहननसारङ्गम् ।। ११ ॥
त्रिभुवनवर्तिसुजनसारङ्ग सिद्धिचधूलोचनसारङ्गम् ।
शशिसोदरसुन्दरसारङ्गं सौवरमादर्शितसारङ्गम् ।। १२ ।।
कीलितकोपविषमसारङ्गं वाणीशीतलतासारङ्गम् ।
पावितनिजनिरुपमसारङ्गं मृगमदजैत्रबदनसारङ्गम् ॥ १३ ॥
निजवशनिर्मितमतिसारङ्गं सुरपतिभिर्विनुतं सारङ्गम् ।
विदलितमोहविपुलसारङ्गं देवीकृतवापीसारङ्गम् ।। १४ ॥
गगनचलितगुरुषसारङ्गं ज्ञातकुले निर्जरसारङ्गम् ।
रोपभुजङ्गदमनसारङ्गं ज्ञानमहाभूरुहसारङ्गम् ॥ १५ ॥
श्रीद्वीपवन्दिरनवमजिनस्तवनम् । १३३
स्वीयवंशीकृतमनसारङ्ग लेश्यागुणगालितसारङ्गम् ।
दानावंर्जितभविसारङ्ग निगदितनियतनिपुणसारङ्गम् ।।१६।।
केलिंकृते रक्षितसारङ्ग जनरञ्जनलोचनसारङ्गम् ।
लुश्चितभुजगसदृशसारङ्ग धर्मकथालापितसारङ्गम् ।। १७ ॥
अङ्गरजोमृगमदसारङ्ग मोहरजनिवोधनसारङ्गम् ।
स्वरमाधुर्यमथितसारङ्गं वीरं भजत सुकृतसारङ्गम् ॥ १८ ॥
इत्थं वीरजिनः स्तुतो नवनवैः सारङ्गशब्दोद्भवैः
सद्भावैः सनयं गुणादिविजयेनानन्दरोमोद्गमम् ।
होत्कर्पवशेन पेशलतरै वैः सुरैः संनत-
श्चित्तप्रीतिकरं परं पदमयं दद्यान्मुदा देहिनाम् ॥१९॥
इति श्रीमहावीरजिनस्तवः ।
..
.
॥ अहम् ॥
श्रीद्वीपबन्दिरनवमजिनस्तवनम् ।
नवमश्रमणपवरममरव्रजपरमशमक्षमसकलबदनकज !।
गतमलममदमसमजनगतमन! भज नरभवभयहरणमचलधन!॥
ध्वस्तक्षय! मदमदनशमरकर! कमलदलप्रभनयनयमलधर!!
चरणकरणकलवरतरसदन! भव मकरध्वजपरपदददन ! ॥२॥
मकरध्वजतवपदयममघहमस्तश्रम ! हस्तद्वयमजकर!।
अक्षरपदप्रद ! हतमद! गतभव ! नवलक्षप्रकटप्रवरस्तव ! ॥३॥
मतमतमकरध्वजसरलच्छल! गजशरवक्त्रक्षतमनभवदल!।
घनकश्मलजलधरशम ! मम भवमप्रभहर ! जनवत्सल घनरव181
"मप्रभदमय सबलकलघनरव!" ॥ पाठान्तरम् ।।
अमरक्रमणपशमवनजलधर! रजतप्रद ! बलवत्तरमहधर!।
त्यक्तकलत्रतनयधनभवन! रचय शमव्यय! मन्मथमथन! |५||
गतभवकपट! मदनजलधरजल! पवनसमघमपहर मम घनवल!।
अकलजनन-मरणस्मय! मदगदपन्नग! हलधरसहजचटनपद !॥७॥
१३४ शान्तमूर्तिश्रीमद्विजयधर्मसूरिविरचित सबरणयजलचरमकर! प्रमददलक्षणसत्वरहतदर । भव्यशरण! रक्षक! रतदमन ! जय जय मनरममदगलगमन ! १७॥ इत्थं गुणेनाऽतिमुदा बुशनामेकखराच्चित्रकरस्तवोऽयम् । श्रीपुष्पदन्ताख्यजिनेश्वरस्य दृब्धो भवत्वङ्गभृतां शिवाय |८|| इति श्रीद्वीपबन्दिरनवमजिनस्तवनम् । ॥ अहम श्रीयशोविजयवनारसजेनपाठशालोत्पादक- शास्त्रविशारदजैनाचार्यश्रीमद्विजयधर्मसूरिविरचितं- प्रथमं श्रीपार्श्वनाथाष्टकम् । विभोऽगिनां सौख्यतति मतिं गतिं शुभां प्रशस्तां सुमनोहरां त्वरम् । तनोपि भो! लासि ददासि सर्वदा मयाऽपराधस्तव कीदृशः कृतः ॥ १॥ प्रभो ! मया भावविमुक्तशालिना कृतं न कार्य शुभभावसंयुतम् । समस्तसाध्वादिसुसाध्यसाध्यके भवे भवेयं सुखभाक् कदापि न ।। २॥ कृपा कृपानाथ ! सदा विलोक्यते कतापराधेन जनेन नित्यशः कृपाकृपाणः खलु यस्य सङ्गत: कृतं हि तेनांहसनाशनं मुदा ॥३॥ दयां दयाधीश ! विधाय सत्वरं भवोदधेस्तारय मां हि सागसम् । महाऽपराधेषु नतौ सुवत्सला भवन्ति तत्वेषु सुतत्त्वदृष्टयः ।। ४ ।। + श्रीशद्धेश्वराष्टकम् । भगोस्तव ध्यानपरम्परा वरा कृताऽमराद्यैः शुभभावभावितैः । उपासना पापविनाशकारिणी प्रसिद्धसिद्धान्तजलोकसारिणी ॥५॥ अनाथके नाथ! तथा प्रसाद्यतां प्रयान्ति कामाधरयो दरिद्रताम् । मयूरयुक्तं गहने बनेऽप्यहो! न नागकानां भ्रमणं विभाव्यते ॥६॥ अहो! अहो ! मोहविचेष्टितं महन् ममास्ति गाढं भगवन् ! हि दुर्मदम्। विदह्यते सर्वसुकर्मसञ्चितं खसेवकं रक्ष सुपार्श्वपार्श्वक !॥ ७ ॥ अपारसंसारसमुद्रयानके जिने सदा भक्तिरतिं तनोतु भोः ।। सुबुद्धिधर्मःशुभभावनाभवः करोतु कल्याणपरम्परां शुभाम् ॥८॥ इति श्रीपार्श्वनाथाष्टकं प्रथमम् । ॥ अहम् ।। द्वितीयं श्रीशङ्केश्वरपार्श्वनाथाष्टकम् । श्रेयापति श्रीनरदेवपारगं सदा सदाचारविचारपारगम् । भत्या जनानां सुखदानतत्परं नमामि शङ्खश्वरधामसंस्थितम् ॥ १॥ कृतोपसर्ग कमठेन कर्म तथापि निश्चिन्तनिवाघमानसम् । विधृतदुःखं शमतासरोवरं नमामि शह्येश्वरधामसंस्थितम् ॥ २ ॥ भवाटवीं वम्भ्रमता मया नुतं भवाब्धिपोतं सुविशाललोचनम् । सदा प्रसन्नं सुखशान्तिकारक शान्तमूर्तिश्रीमद्विजयधर्मसरिविरचितं नमामि शकेश्वरधामसंस्थितम् ॥ ३ ॥ अगाधसिद्धान्तपयोधिशेवधि- मनाथनाथं सततं सुवोधिदम् । कृतापराधेषु जनेषु शान्तिदं नमामि शद्धेश्वरधामसंस्थितम् ॥ ४ ॥ कपायवर्गे निकपायचित्तकं सुसाधुसङ्घ विकथादिवारकम् । अज्ञानमृढे सुकृतादिदेशकं नमामि शङ्खश्वरधामसंस्थितम् ॥५॥ कपायदावानलदाहनीरदं कुसङ्गसङ्गादिविपाहिमन्त्रदम् । अनादिसंसारविकारजायूदं नमामि शर्केश्वरधामसंस्थितम् ।। ६ ।। सदागमादेर्नितरां प्ररूप कुवासनादेः प्रवलं विडम्बकम् । अनेकविघ्रालिविपत्तिनाशक नमामि शङ्खश्वरधामसंस्थितम् ।। ७॥ यस्य प्रसादेन जगजनाना- मनादिजन्यं क्षयमति पापम् । तं देववन्ध्र सुरराजसेव्यं नमामि शक्त्या प्रभुपार्श्वदेवम् ।। ८॥. इति श्रीयशोविजयबनारसजैनपाठशालोत्पादकशान्तिसागरा- ऽनगारगणाग्रणीश्रीमद्विजयधर्मसूरिविरचितं द्वितीय श्रीशङ्केश्वरपार्श्वनाथाष्टकम् । इति जैनस्तोत्रसंग्रहस्य द्वितीयो भागः।
No text on this page.