University Library,gurukul Kangri Vishwavidyalaya
बहुविवाहवादः
Front matter
बहुविवाहवादः। गवर्णमेण्टसंस्कृतविद्यालयाध्यापक- श्रीतारानाथ-तर्कवाचस्पति-भट्टाचार्येण- विरचितः, तेनेव संस्कृतः । १६१६ संवत्सरे कलिकातारानधान्याम् सिमुलिया-हरिपालस्य रथ्यायां ७ संख्यभवने काव्यप्रकाशयन्त्रे श्रीकालीकुमार-चक्रवर्तिना सुद्रितः । .
बहुविवाचवाद हुस्तकालय रुकुल कांगड़ी १ मत्वा दर्य सेन वेदादिशास्त्रमामतः । एकस्य कामतोऽनेकसवर्णापाणिपीडनम् । धर्मतत्त्व बभत्सूनां बोधनायव मवृतिः । तेनैव कृतकृत्योऽस्मिन जिगीषास्ति लेशतः ॥ .. तत्रादौ विवाहपदार्थो निरूप्यते । विवाहो नाम विजा- तीयसंस्कारप्रयोजकं ग्रहणम् । ग्रहणञ्च ममेयमिति स्वस्व - त्वास्पदीभूततया ज्ञानं स्वत्वञ्च प्रतिग्रहादिजन्यम् । सति स प्रतिग्रहादिना स्वत्वे विजातीयसंस्कारकरणयोग्यत्वात्, असति च स्वत्वे तदसम्मवादित्यन्वयव्यतिरेकाभ्यां खत्वस्यैव संस्कार. हेतुत्वे तदुपायप्रतिग्रहादीनां ताशसंस्कारप्रयोजकत्वम् । संस्कारः पाण्यादिग्रहणपूर्बकतहिहितमन्त्रावधि सप्तपदोगमनविहितमन्त्रान्तमन्त्रसमुदायकरणकक्रियाकलापः तज्जन्यादृष्टविशेषो वा मतो गुणान्तराधानस्यैव संस्कारपदार्थ- तया तादृशक्रियाकलापस्य तमन्यादृष्टविशेषस्य वा प्रकते . कारपदार्थ त्वौचित्यात् । पानिपहषिका मन्त्रा नियत दारलक्षणम् । तेषां मिष्ठात विजेया विद्भिः सप्तमे पदे । इति मनुना च तथैव प्रतिपादितम्, (मन्त्राः) मन्त्रकरण- २ बहुविवाहवादः। क्रियाकलापाः तज्जन्यादृष्टविशेषा वा श्रायुवै तमित्यादि- वदुपचारात्, अन्यथा मन्त्राणां शब्दरूपतया श्राकाशमात्र- गुणत्वेन दारलक्षणत्वानुपत्तेः । पाणियहणसंस्कार: सवर्णावपदिश्यते इति । पाणिग्रहणसंस्कार इति वदता च मनुना विवाहस्य संस्काररूपत्वं प्रकटीकृतम् । प्रकटीकतञ्च- - विवाहमाल संस्कारं शूद्रोऽपि लभते सदेति मृत्यन्तरेण विवाहस्य संस्काररूपत्वम् । खपिटभ्यः पिता दद्यात् सुतसंस्कारकर्मणि । जिण्डानोहहनातेषां तदभावेऽपि तत्क्रमादिति ।। उहाहतत्वएतच्छन्दोगपरिशिष्टवचने श्रोहहनादित्युक्तः उदाहस्य संस्काररूपत्वम् भङ्ग वाकम् । तथा हि मंस्कारकर्म- ण्येव पित्वादेः श्राइविधानात् विवाहस्य संस्काररूपत्वाभावे कथकारं तदभिविधिकथनं सङ्गच्छेत । अतएव दशविधसंस्कार- मध्ये विवाहगणनम् । अत्र वचने सुतसंस्कारकम्मोत्युक्त . सा प्रशस्ता हिजातोनां दारकर्मणि मैथुने । इति मनुवचने दारत्वसंपादके कर्मणीत्युक्तेश्च विवाहस्य क्रियाकलापरूपत्वं सुव्यक्तमेव । एवञ्च अतः परं समावृतः कुर्याहारपरिपहमित्यादि ।
बहुविवाहवादः। याज्ञवल्कास्मृतौ विवाहे अप्राप्तप्रापकत्वरूपोत्पत्तिविधि- त्वम् ग्रहणमात्रस्य विवाहरूपत्वे तस्य च रागत एष प्राप्त- त्वेन तदंशे उत्पतिविधित्वासम्भवेन तत्र ग्रहणस्य प्राप्त- बेऽपि प्रागुकसंस्कारस्याप्राप्तत्वेन तदंश एव विधित्वसम्भवः "मविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामतः मति विशेष्ये बाधे इति न्यायस्य जागरूकत्वात् । अत एव दांना जुहोतीत्यादि श्रुतौ होमस्य प्राप्तत्वेन तदंशे उत्पत्तिविधित्वा- सम्भवेन दधिकरणकत्वमात्रांश उत्पत्तिविधित्वं मीमांमाया- मुररीकृतम् उररीकृतञ्च "अरुणया पिजाच्या एकहायन्या गवा सोमं क्रीणाति” इत्यादौ गोविशेषणीभूतारुण्यादेविशेष्य- द्वारा क्रयसाधनत्वेन गुणविधित्वम् । किञ्च ताह संस्कारप्रागभावसहकृतग्रहणादेरेव हेतुत्वं न तु तद्विहीनस्य। खत्व- द बलादपहृता कन्या मन्त्रयदि न संस्कता । अन्यमै विधिवद्देया यथा कन्या तथैव सेसि ।। पराशरभाष्यादितकात्यायनवचनेन राक्षसादौ अप- हरणमात्रे, अनिीचा प्रदत्तायां म्रियेतोड़ वरो यदि । न च मन्त्रोपनीता तु कुमारी पितुरेव सेति ॥ उद्दाहतत्त्वतवशिष्ठवचनेन वाड्मात्रदाने उदकपूर्बकदाने वा मन्त्रसंस्काराभावे अन्यस्मै देयेति, यथैव कन्या (पिटसम्ब- ४ बहुविवाहवादः। यवती)इति चोक्तः, प्रतिग्रहीतुः स्वत्वानुत्पत्तभंङ्ग प्राक्तश्च । (मन्त्रो- पनीता) मन्त्रकरणकसंस्कारवतीत्यर्थ इति रघुनन्दनः । एकञ्च प्रदानं वाग्यकारणमिति । संवत् कन्या प्रदीयते॥ इत्यादिमन्वादिवचने प्रशब्दखरमात् ताशसंस्कारप्रागभाव- सहकतदानस्यैव स्वत्वहेतुत्वमङ्गीकार्य सर्वसामञ्जस्यात् । अनु- त्पद्यमानस्य तु प्रागभावानगीकारात् न दानमात्रात् स्वत्वम् । किञ्च ग्रहणमावस्य विवाहत्वे गृहीतद्रव्यस्य दानविसर्गा- दिना खत्वनाशस्यैवोचित न मिश्कयविसर्गाभ्यां भर्तुर्भार्या वियुज्यते इति । स्मृतौ विक्रयदानादिना स्वत्वनिवृत्तिविरहस्योक्तिरनुचिता स्यात्। संस्काररूपत्वे च भार्थ्यात्वस्य यावदाश्रयमनुत्तेः न क्रयादिना तस्य निवृत्तिरित्युचितमेव । अपर ग्रहण- मात्रस्य यथा कथञ्चित् स्वत्वाधायकत्वेऽपि न समपुण्यापुण्य फल- भागित्वोपपादकत्वम् संस्कारविशेषस्यैव दम्पत्योरेकहृदयत्वा- पादकत्वेन तथात्वस्यौचित्यात् । स्मर्य्यते च भार्थ्यायाः पुण्या- पुण्यतुख्यत्वम् । शरीराई मनता जाया पुण्यापुण्य फले समेति । अस्थिभिरखीमि मांसमोसानि त्वचा स्वमित्यादि । दायभागादितिश्रुत्यादिना च दम्पत्योरेकशरीराधायक- त्वेन संस्कारस्य कल्पनात् तथात्वौचित्यम् । सच सस्कारः दम्पतिनिष्ठः, एकस्यापि संस्कारस्य जाते.
बहुविवाहवादः। ५ श्यादि न्यायेन उभयनिष्ठत्वाभ्युपगमात् यथा एकेनैव जातेश्यादि कर्मणा पुत्त्रस्य संस्कारः, कर्तुः पित्रादेरदृष्टविशेषश्च, यथा वा एकेन श्रावकर्मणा पित्रादिप्तिफलकादृष्ट, कर्त निष्ठा- दृष्टविशेषश्च जन्यते एवमत्रापति मीमांसासरणिरनुसरणीया । भाय्याशब्दस्य पतिशब्दस्य च प्रवृत्तिनिमित्तमपि ताण- संस्कार एव नोदकेन नवासा च कन्यायाः पतिरुच्यते । पाणियहणसंकारात् पतिव सप्तमे पदे ॥ निर्णयसिन्धूवाहतत्त्वादियतवचनेन तथैवोके: पानिपहन जायावं, काहि जायापतित्व सप्तमे पदे इति । उहाहतत्वरतलघुहारीतवचनेन तथोक्तच एतदभिप्रेत्येव रघुनन्दनेम उदाहतत्त्वशेषे “भार्थ्याशब्दो हि यूपाहवनीयादिवदलौकिकाङ्गमछेनालौकिकसंस्कारयुक्रस्त्री वचन" इत्युक्तम् यथा काष्ठमात्रस्य न यूपशब्दवाच्यता न वा वहिमावस्याहवनीयशब्दवाच्यता किन्तु अलौकिकमन्त्रकरण- संस्कारवत्त्वेनैव तत्तच्छब्दवाच्यता एवं भार्थ्याशब्दस्थापीति निकर्षः। अत एव भार्थ्याः कार्याः सजातीयाः सर्वेषां श्रेयसः सपरिति । दायभागतपैठीनसिवचने भार्यायाः कार्य्यत्वासम्मवेऽपि सविशेषणे होत्यादि न्यायेन भार्थ्यात्वस्य कार्यत्वसम्भवेन तथोक्तिः सङ्गच्छते। एवं सिद्धान्ते स्थिते क्वचित् विवाहm, बहुविवाहवादः। शब्दस्य सोऽय देवदत्त इत्यादिवत् जहदजहतस्वार्थल ार्थलक्षणया विशेष्यमानपरत्वमवसेयम् तदभिप्रायेणैव हरिवंशे त्रिशङ्ग- पाख्याने- - पाणियहणमन्त्राणां विघ्न चक्र सुटुर्मतिः । येन भा• हता पूर्व कतीद्धाहा परस्य वै ॥ इत्युक्तम् एवमेव रघुनन्दनभट्टाचार्याणामाशयः । तथा च विधिसमभिव्याहतस्थले सर्वत्र भार्यादिशब्दानां विवाहशब्दस्य च संखाररूपविशेषणपरत्वम् अनुवादाख्यायि- कादिस्थले तु ग्रहणपरत्वमिति विवेकः । एवञ्च विशेष्यीभूतग्रहणस्यैव ब्राह्माद्यष्टविधदानादिप्रयो- ज्यवादष्टविधत्वं संस्कारस्य तु सर्ववैव समानत्वम् । अत एव प्रागुते बलादपवृता कन्येत्यादिवचने व्यतिरेकमखेन मखार- स्यैव विवाहरूपत्वं व्यक्तमुक्तम् । गन्धर्वादिविवाहेषु शुभो वैवाहिको विधिः । कर्तव्यश्च लिभिर्वण: समर्थै शाग्निसाचिक इति ॥ निर्णयसिन्धपराशरभाष्यादितदेवलवचने तु स्पष्ट तथोक्तम् । अव त्रिभिरिति विशेषणात् विप्रस्य न तत्राधिकार इति विशेषः । गन्धवासरपैशाचा विवाहा राक्षसच यः । पूर्व परिश्रय स्तन पश्चाडोमो विधीयते ॥ इति निर्णयसिन्धुपराशरभाष्यतच्छन्दोगपरिशिष्ट वचने च तथैव सुव्यक्तमुक्तम् ।
बहुविवाहवादः । तथा। तत्राय विशेषः सवर्णायाः पाणग्रहणेन संस्कारः, अस- वर्णानां तु क्षत्रियादीनां विप्रेण शरादेग्रहणेनेति । पाणिग्रहणसंस्कारः सवर्णावपदिश्यते इति । शरः क्षचियया याह्यः प्रतोदो वैश्य कन्ययेति च ॥ मनुना तथैव प्रतिपादनात्। स च विवाहः धनाजनादिवत् पुरुषार्थ एव न क्रत्वर्थः क्रत्व- र्थ त्वे यूपादिसंस्काराणामिव प्रतिकर्मावृत्तिप्रसङ्गः । पुरुषार्थत्वेन विहितस्यापि तस्य पत्नीकत काज्यावेक्षणादिरूपाङ्गसम्पादन- द्वारा क्रतूपकारकत्वं न स्वतः, यथा धनार्जनस्य पुरुषार्थत्वे- न विहितस्यापि क्रतुसाधनद्रव्यमम्पादनदारा क्रतूपकारकत्वं एवञ्च विवाहस्य धर्मार्थत्वोक्तिः प्राज्यावेक्षणादि- संस्काररूपाङ्गसम्पादकत्व नैव, न स्वतः, तस्य पुरुषार्थत्वेनैव विधानादिव्यररीकार्यम्-व्यक्तीभविष्यति चेदमुपरिष्टात् । सच विवाहः त्रिविधः पुत्त्रार्थों धर्मार्थः रत्यर्थश्च तत्र रति- सुखस्य रागप्राप्तौ तदुपाथस्य स्त्रीगमनस्थापि रागप्राप्तौ सत्यां खदारनिरतः सदेति । मानववचनस्य परदारान् न गच्छेदिति परिसङ्ख्यापरतायाः मः स्वीकारेण परदारगमननिषेधात तहुपदासेन अनिषिद्ध- स्त्रीगमन शास्त्रविहितस्त्रीसंस्कार विनानुपपन्न मिति अनि- पिवताप्रयोजकः संखार श्राक्षिप्यते । आक्षिप्यते च “औरम- पुत्त्रोत्पत्तिः अनिषिद्धस्त्रीगमन विनानुपपन्ना" इति औरस- पुत्रोत्पत्त्यन्यथानुपत्त्या शास्त्रविहितः संखारः । अत एव 1. बहुविवाहवादः । सवयो संस्कृतायां खयास्पादयेत्तु यम् । औरसतविजानीयामिति ॥ स्म तावौरमशब्दनिव्वं चनाय संस्कृतायामित्युक्तम् अपत्य धर्मकार्याणि शुषा रतिरुत्तमा । दाराधीनस्तथा वर्गः पितृणामात्मनश्च ह- इति मनुना च अपत्यादेर्दाराधीनत्व प्रतिपादितम् तेन विवाहस्य अपत्याद्यर्थत्वलाभः । तत्र- - पुनानो नरकायमात् पितरं लायते सतः । तस्मात पुच्च इति प्रोक रत्यादि दायभागवतवचनेन पुन्नामकनरकनिस्तारकत्वेन पुत्त्र- शब्दनिर्वचनात् पुत्वस्य नरकरूपदःखतिवृत्तिरूपस्य स्वतः- प्रयोजनस्य साधनत्वेन पुरुषार्थत्वम् 'परदारान् न गच्छेत्' इत्यादिशास्त्रण परदागमनस्य निषेधेन तत्परिहारेण स्वाभिगमसाध्या पुत्त्रोत्पत्तिः भायात्वरूपसंस्कारं विनानु- पन्नेत्यनुपपत्तिज्ञानसहकारेण पुत्वादेर्दाराधीनत्वं कल्पाम् । यस्त्रीको धर्ममाचरेदित्यादिशास्त्रेण धर्मकार्येषु दम्पत्योः सहाधिकारप्रतिपादनेन धर्मकार्याणां दाराधीनत्वम् तच धनवान् सुखोत्यादौ विशिष्टवैशिष्ट्यावगाहिबोधमदिया विशेषणीभूतधनादीनां यथा प्रयोज्यतया सुखादावन्वयसथैव दाराणां धर्म प्रयोज्यतयाऽन्वयेन धर्मादेर्दारप्रयोज्यता- लाभ: । गार्हस्थोचितधर्ममात्राणां फलवकथनाय धर्मकार्या.
बहुविवाहवादः। 2 णीत्युक्तम् । दुःखामभिन्नसु खख रूपवर्गस्य मुख्यप्रयोजनतया तदुपायभूतधर्मादेः पुरुषार्थत्वम् । एवमलौकिक संस्काररूप- भार्यलस्य अलौकिकादृष्टद्वारा मुख्यप्रयोजनदयार्थत्वमभि- धाय लौकिकसुखसम्पादकस्य शुश्रूषादेस्तत्फलवमन्तेऽभि- हितम् । तत्रापि शुश्रूषायाः असंस्कृतदासादिसाध्यतया अनेकान्तिकत्वात् न विवाहफलत्वम् किन्तु रतेरेव, तथा च रतिफलोद्देशेनैव कृते विवाहे नान्तरीयकविधया शुश्रूषादि- सम्भवः इति विवाहस्य न तदर्थत्वम् । किञ्च विवाहजन्यसं- स्कारस्य दम्पतिनिष्ठतया दम्पतिगतयोरेवापत्यधर्मकार्ययो. यथा विवाहप्रयोजनत्वम् एवमुभयनिष्ठरतिसुखमाधनत्वेन रतेरेव विवाहार्थत्व युक्तम् न श षाजन्यसुखस्य, तस्य पति- मात्रनिष्ठत्वादैकान्याभावाच इति दम्पतिनिष्ठसंस्कारस्य न तत्प्रयोजनलम् । इत्थं लौकिकसुखमाधनस्य रतेरेव विवाह- प्रयोजन त्वमुक्तम् । तच्च अनिषिद्ध स्वाभिगमजन्य रतिसुखं विवाहसंस्कार विनानुपपत्रमित्यनुपपत्तिज्ञानसहकारेण कल्प्यते । यद्यपि धर्मार्थविवाहेनैव स्त्रियाः संस्कृतत्वात् तद- भिगमनस्यानिषिद्धत्वात् अनिषिद्धस्त्रीगमनसिद्धेः विवाहस्य रतिफलत्वकल्पनमनुचितम् तथापि रतिरुत्तमेति विशेषणात् उत्कृष्टरतेश्च बहुस्त्रीसाध्यतया बहुस्त्रीविवाहस्थ उत्कृष्ट रति- साधनतया तत्फलत्वम् । इत्येवं विवाहस्य अपत्यादित्रितयप्रयोजन त्व' प्रथमार्द्ध दर्शितम् । उत्तराई त धर्मकार्याणां वर्गहारव, अपत्यस्य १० बहुविवाहवादः। प्रयोजनत्वम्- - पितृणामात्मनश्च स्वर्गसाधनस्वेनैव विवाहप्रयोजन त्वमित्येव दर्शितम् न तु वर्गस्य पृथक अपत्याद्यर्थत्वकथ- नेनैव गतार्थत्वात् । अपत्यस्य स्वर्गसाधनत्यन्तु पुत्र ण लोकान् जयति पौत्रेणानन्तामश्रुते इत्यादिना लोकानन्ता दिव: प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । इत्यादियाज्ञवल्कावचनेन च प्रतिपादितम् तस्यैवेदम् । एवं स्थिते विवाहस्य त्रिविधफलत्वे असपिण्डा च या मातरसगोत्रा च या पितुः । सा प्रशस्ता विजातीनां दारकर्मणि मैथुने इति मनुवचने मैथुन इति पदेन प्रागुक्तत्रितयफलग्रहणम् मैथने (स्त्रीपुमरूपमिथुनसाध्ये) अग्नमाधानपुत्त्रोत्पत्तिरति- रूपफलत्रये न तु योगरूढ्या लोकप्रसिद्धरतिमात्रे । व्याख्या- तञ्च स्मार्तभट्टाचार्येणापि उदाहतत्त्वे तथैव । अपत्यधर्मकार्या दीनां येषामेव स्वयं विवाहफलत्वं सन्दर्शितम् तेषामेव मैथुन- शब्द वाच्यता युक्तेत्येवमवसीयते सप्तमी निमित्तार्थे मैथुननिमित्ते दारकर्मणीत्यर्थः । एतत् सर्वमभिमन्धाय विज्ञानेश्वरेण मिताक्षरायामाचा- राध्याये रतिपुत्रधर्मार्थत्व न विवाहस्त्रिविध इत्युक्तम् । मनुवचने विवाहफलकथने रतेरन्ते निवेशेऽपि तत्र रति- शब्दस्य पूर्वनिर्देशः हरिहरावित्यादौ हरेरिव रतिशब्दस्य ध्यन्तत्वात, कुशकाशमित्यादाविव लघुक्षरत्वाधा समर्थनीयः ।
बहुविवाहवादः। ११ ततश्च रतिशब्दस्य हन्ई पूर्बनिहशेऽपि विधिकाले मन्तेि परामर्श इति न काचिदनुपपत्तिः । इत्येवमर्थवादोल्लिखितफलत्रयानुसारेण पुत्वकामो विव. हेत, धर्मकामो विवहेत्, रतिकामी विवहेत् इत्येवं विधि त्रयं कल्य यद्यपि मनुवचने समुचितपुत्लादिफलश्रुतेः समुच्चित- फलार्थतया एक एव विधिः कल्पयितुं यतः तथापि पुत्त्रार्थे क्रियते भार्थी पुत्रः पिण्ड प्रयोजन इति वचने लोकानन्त्र दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । यमात् तस्मात् स्त्रियः सेव्या भर्तव्याश्च सरचिता इति । याज्ञवल्क्य वचने च प्रत्येकफलश्रुतेः प्रत्येकफलार्थत्वेनापि वियन्तरकल्पनावश्यकी। कल्पितेषु च तेषु विध्यन्तरेषु न समुच्चितफलार्थ त्वेन विशिष्टविधिकल्पना निष्पयोजनस्वात अत एव यः पशुकाम इत्यादिना प्रतिपदादिषु एकैकफल- कतया तत्तयागं विधाय सर्वेभ्यो दर्शपौर्णमामावित्यादिना प्रतिपदादिषु पश्वादिफलकत्वेन विहितानामपि मुवंशब्देन प्रत्येकरूपेणैव परामर्शात समुचितरूपेण न तत्र तत्तत्फलार्थ- त्वेन दर्शदेविधानम् अपि तु प्रत्येकफलार्थत्वेन तत्तत्कामना- सहकारेण च दर्शादेः प्रयोगभेदेनैव तत्तत्फलसिद्धिरिति योगसिद्धिार्थस्योत्पत्सायोगित्वादिति जैमिनिना योगसिद्यधिकरणे सिद्धान्तितं तदनुसारेणा- त्रापि प्रत्येकफलार्थत्वेन विधित्रयकल्पना। तत्र सर्वेभ्य इति सर्वशब्दस्येव १२ बहुविवाथवादः। तथा हि महितः सर्वान् पुरुषार्थान् समनुते । इनि भट्टभाष्यतस्मृतौ सर्वानिति सर्वभब्दस्य वणा- विशेषात् । पुरुषस्य इष्टार्थाः मन्वाद्युका एष अपत्यादयः इह ग्राह्याः नतु धर्मार्थकामरूपाः, स्त्रिया अर्थसाधनत्वस्य क्वचिदप्यनुक्तः अर्थस्य विवाहफलत्वाभावात् । तत्र क्वचित् अपत्य, क्वचित धर्मः, क्वचिच्च उत्कृष्टरतिः फलत्वेन श्रुतम् तदेव सर्वशब्देन परामरं, मनुना तु तानि समुच्चित्य एकत्र दर्शितानीति विशेषः । वस्तुतः तत्रापि प्रत्येकवाक्येन प्रत्येकस्य फलत्वमुक्त न तु समदितानामिति न समुच्चितफलकत्वमिति तत्तत्फल- कामनैव तत्तदधिकारप्रयोजिका । इयांस्तु विशेषः यदि कामनान्तरविरहस्तदा धर्मार्थविवाहेनैव स्त्रियाः संखारा. पादनात तत्र अनिषिड्वरतेः, तदधीनपुत्वोत्पत्तेश्च नान्तरीय कविधया उभयफलमिवौ न तदर्थ विवाहकरणावश्यकता धर्मविवाहेनैव सकलफललाभान तत्र प्रवृत्तिः । एव्या बहवः पुचा यद्यप्येको गयां बजेदिति पराशरभाष्यरतपुराणवचनात् गौण मुख्यबहुपुत्त्रेच्छायां, विशिष्टरतिकामनायाश्च तत्तत्कामनचापि विवाहान्तरं कर्तुं शक्यते एव उपपादयिष्यते चैतद परिष्टात् । एवं विविधफलार्थत्वेन विवाहविथे मन्वादिशास्त्रादि- बोधिते विज्ञानेश्वरादिभिरनुमोदितेत च स्थिते विख्यातकीर्तिना कल्याणभाजनेन विद्यासागरेण नित्यनैमित्तककाम्यभेदेन वधुविवाहवादः। १३ विवाहवैविध्य यदभिहितं तत् किं मन्वादिशास्त्रोपलब्धम् ? उत स्वनीपलब्धम् ? अथ स्वशेमुषीप्रतिभासलब्ध ? वा तत्र नित्यं नमित्तिक कास्य विविध ज्ञान मिध्यते इति । स्नानस्य यथा त्रैविध्यप्रतिपादकशास्त्रमुपलभ्यते एवं शास्त्रो- पल्लम्भाभावान्नाद्यः, न च तथा शास्त्रं दृश्यते न वा तेनाप्युपल- धम्। 'ग्रन्थो भवति पण्डित' इत्युक्तिमनुसृत्य संस्कृतपाठशालातो गृहोतशकटभारपुस्तकेनापि तेन यदि किञ्चित् प्रमाणमद्रक्ष्यत तदा निरदेच्यत न च निरदेशि। नापि तत्र कस्यचित् मन्दर्भस्य सम्मतिरस्ति । अतः प्रमाणोपन्यासमन्तरेण तवचन- मात्रे विश्वासमाज: संकृतानभिज्ञजनान् प्रत्येव तच्छोभते न तु प्रमाणपरतन्त्रान् तान्त्रिकान् प्रति । अथ स्वप्नीपलब्धं तदा आशामोद कवत् तस्यैव मोदाय, नान्येषां ज्ञातसिद्धान्तानाम् । अतोऽसहायं वशेषीप्रतिभासमानमवशिष्यते तचाप्यनु. युज्यते सोऽयं तस्य शेमुषोप्रतिभामः किं युक्तिमवलम्बा ? तदन- वलम्बा खेच्छामात्रेण ? वा न तावत् युक्तानुमारी । तथा हि विवाहस्य वैविध्यं यत् प्रतिज्ञातम् तत् कस्मात् हेतोः ? किं विवाहखरूपनिर्वाहककारणभेदात् ? फन्नभेदात् ? आहोस्वित् धर्मभेदात् ? नाद्यः ब्राह्माद्यष्टविधविवाहाङ्गदा- नक्रयापहरणादिवत् ताहशत्रयस्य कारणभेदाभावात् । नायि द्वितीयः अस्मत्प्रतिदर्शितफलभेदवत् तदुक्तवैविध्ये फल- उत २ १४ बहुविवाहवादः। भेदाभावात् । न हतीयः धर्मभेदमात्रेण भेदस्वीकार प्रमेयत्ववाचत्वादिना अनन्तभेदापत्ती: । अथ परस्परव्यावृत्त धर्मभेदात् तथा कल्पनमित्युररीक्रियते इति चेत् तथापि न निस्तारः सर्व विवाहानां काम्यत्वस्य व्यवस्थापनेन तदङ्गी. कतनित्य विवापि काम्यत्वानिवृत्त: पनीमरणनिमत्तक- विधाहे च नैमित्तिकत्वानपायात् परस्परव्याहत्तधर्मत्वाभावात् । यथा च विवाहमावस्य काम्यत्वं तथा प्रतिपादित पुर. स्तात् । किञ्च अविशुन ब्रह्मचर्यो यमिच्छत्त तमावसेदिति । मिताक्षरातवाक्यात् ब्रह्मचर्यातिरिक्ताश्रममावस्यैव रागप्रयुक्तत्वात् गृहस्थाश्रमस्यापि रागप्रयुक्ततया तदधौन- प्रवृत्तिकविवाहस्थापि रागप्रयुक्तत्वेन काम्यत्वस्यैवोचित त्वम् । इत्यमसौ तस्य शेमुषीप्रतिभाम: तहाक्ये विश्वासभाजः संस्कृतभाषापरिचयशून्यान् जनान् भ्रमयनपि अस्मत्तचने निपतितः भृशमनुयोगदण्डेन भ्राम्यमाण: न कचित् विश्रा- न्तिमामादयिष्यति उपयास्यति च दुर्गमे अतिगभौरे शास्त्र- जलाशये अस्मत्तकविष्टम्मेन सातिशयरयशालिमलिलावत्तेन परिवय॑मानोलपवत बम्नम्यमाणभावम्, नास्यति च तलं कूलं वा, आपत्स्यते चास्मत्प्रदर्शितया प्रमाणानुसारिण्या युक्त्या वात्यया धर्णायमानधूलिचक्रमिव निरालम्बपथम् । अतः कूल- कलनाय उपदेशकान्तरकर्णधारालम्बनेन सद्युक्तितरबिरनु- बहुविवाहवादः। १५ मरणीयाऽवलम्बातां वा विश्रान्त्यै अवलम्बान्तरम् । अथ युक्त्य- नादरेण खेच्छया तथा बड्विप्रतिभासश्चत् स्खे छाचारिणामेव समादराय प्रभवन्नपि न प्रमाणपदवीमवगाहते। अथ विवाहम्य वैविध्यावान्तरभेदेषु नित्यत्व यदुररी- कृतम् तत् कस्मात् ? हेतोः, कि तदिना विवाहस्वरूपासिद्दे ? उत विवाहफलासिद्धेः ? उत शास्त्र प्रमाणानुमारित्वात् ? नाद्य- द्वितीयौ नित्यत्व विनापि विवाहस्वरूपफलानां सिद्धेः, न हि नित्यत्व विवाहस्वरूपनिर्वाहकं केनाप्युररीक्रियते फलासिद्धि- प्रयोजकत्व तु सुदूरपराहतं नित्यकर्मणः फलने यत्याभावात् । हतीयः पक्षः परिशिव्यते तत्वापीदमुच्यते प्रतिज्ञामात्रेण साध्य- सिवेरनभ्युपगमात् हेतुभूतप्रमाणस्य तवानिर्देशान्न तस्य माध्यसाधकत्वम् । अथ प्रकरणे प्रत्यवायानुबन्धित्वमेव नित्यत्व हेतुरुच्यते । श्रकरणे प्रत्यवायानुबन्धित्वनिर्णयस्यापि बल- वदागमसाध्यत्वात् आगमस्य च तवानिर्देशात् कथङ्कारं तादृश हेतुना माध्यमितिः निश्चितहेतोरेव माध्यसिद्धेः प्रयोजकत्वात् प्रत्यन यदहरेव विरज्येत तदहरेव प्रव्रजेटु अझ चर्याहा म्टहाहा वमाद्देति । गृहस्थाश्रमस्य शुन्या वैराग्यमावत: प्रव्रज्याया उक्त्या नित्यत्वबाधनात् अविनुत ब्रह्मचर्यो यमिच्छत्तु तमावसेदिति । प्रागुक्त वचनेन गृहन्याश्रमादेः इच्छाधीनत्वोक्तः, नैष्ठिक- १६ बहुविवाहवादः। : ब्रह्मचारिणश्च गृहस्थाश्रमाभावस्य सर्वसम्मतत्वाच्च । एवं तन्नि- त्यत्वाभावे तदधीनप्रवृत्तिकस्य विवाहस्य कथं नित्यत्वं स्यात् । अनाश्रमी म तिछेत्तु दिनमेकमपि विजः । ग्राश्रमेण विना तिष्ठन प्रायश्चित्तीयते हि मः ॥ इति दक्षवचने तु दिजानामाश्रममावस्यैव प्रकरणे प्रत्य- यानुबन्धित्वकथनेऽपि गृहस्थाश्रममावस्य नित्यत्वाप्राप्तेः अत्र च द्दिजपदस्थोपलक्षणपरत्वं यदभिहित तदपि प्रमाणसापे- क्षित्वात् प्रमाणस्य चानुपन्या सादुपेक्ष्यमेव । न च अन्यतमाश्रमस्य नित्यत्वे गृहस्थाश्रमस्यापि नित्यत्व सत्स्यति इति वाच्य ब्रह्मचर्याश्रमस्य सकलमम्मतस्यैव नित्यत्वेन तद्भिन्नस्य रागप्राप्तत्वेन काम्यत्वात् । वस्तुतः ब्रह्मचर्यभिन्ना श्रमस्य यथाकथञ्चित् नित्य काम्यत्वसिहावपि विवाहस्थ केवल- नित्यत्व कथं सेत्स्यति ? । न च नित्याङ्गस्य नित्य त्वमर्थसिद्ध- मिति नियमोऽस्ति तथा सति अहरहः सन्ध्यामुपासीतेति श्रुतौ ! सदोपवीतिमा भाव्यमिति । N स्मृतौ च नित्यत्वख्यापकवीमासदादिपदादिवैयर्थ्यांपत्तेः नित्याश्रमाङ्गतयैव तयोः नित्यत्व प्राप्तः । अथ नित्याग्निहोत्रा- दिषु पत्नयाज्यावेक्षणादेनित्यत्व न पत्नीत्व' च विवाहमारा न सम्भवतीति विवाहस्य नित्यत्वमिति चेन्न खादिरयूपस्य यज्ञान- तथा संस्कारविधानात् 'प्रतिप्रधानं गुण आवर्तते' इति न्यायेन वहुविवाहवादः। १७ प्रतियज्ञ यथा यूपसंस्कार श्रावय॑ते एव विवाहस्थापि प्रति- यज्ञम् आत्तिप्रसङ्गात् । तथाकल्पने च बहुविवाह निषेध- तस्तस्य अनन्तविवाहविधानप्रसङ्गः मषिकभिया पलायमानस्य भजङ्गममुखषत नमनु हरति अनुहरति च घट्टकटीप्रभात- वृत्तान्तम्, यथा शुकदानभिया विपथेन धावमानस्य दुष्ट- वणिजः घट्टकुटीसमोपे प्रभाते जाते अायामवेयर्थम् एवं विप- थेन धावमानस्य पुनर्बहुविवाहप्रसङ्गात् श्रायासवैफल्यम् । अतः उभयतः पाशाबन्धन कथमुत्तीर्यत । अथ अमाधाननित्यत्वात्तस्य चैकत्वात तदङ्गतया नित्यत्व- मिति न प्रतिकमात्तिप्रसङ्ग इति चेत् तथापि न निस्तारः श्रमौ नटे दष्टे वा पुनरप्याधानस्य विधानेन तदर्थ पुनर्विवाह- प्रसङ्गात् तथाच बहुविवाह निषेधन रिक्त स्यात् । अथ विवा- हज यसंस्कारस्य दम्पतिनिष्ठतया प्राधानादिकत्व पतिनिष्ठ त्वा- नपायात् न प्रतिकर्मात्तिप्रसङ्गः 'कसंस्कारकाङ्गानां प्रति- कर्मनिवर्त्तनम्' इत्यभियुक्तोक्लेरिति चेन्न “साधारणासाधारण- योर्मयामाधारणे कार्यसंप्रत्यय” इति न्यायेन कई मात्र निष्टा. नामेत्र स्नानाचमनादीनां प्रतिकर्मनिवर्तन सिद्धान्तात् विवा- हजन्य संस्कार य तु कर्ट मात्रनिष्ठत्वाभावात् । अथ गृहस्था: श्रमस्य नित्यकाम्यत्वेन नित्य खानपायात् न ग्टह ग्टहमित्याह टहिणी ग्टहमुच्यते ।। तया हि सहितः सचान पुरुषार्थान् समते इति थायवल्क्य वचनेन गृहिण्या एव गृह शब्दार्थत्व प्रतिपादनात १८ बहुविवाहवादः। कतविवाहस्व गृहस्थ शब्दार्थत्वप्राप्तौ विवाहस्यैव गृहस्थाश्रम- त्वान्नित्यत्वमिति चेत् न 'न गृहमित्यादिवाक्यस्य प्रशंसार्थवाद- परत या स्वार्थे तात्पर्य्याभावेन गौणत्वात् अत एव तया हीति हिशब्देन तम्याः पुरुषार्थहेतुत्वे न गृहशब्दस्योपचारः प्रदर्शितः । असति तथात्वे तया होत्यादि नारभ्येत । अत एव द्वितीयमायुषो भागं कृतदारोग्टहं वसेदिति । मनुना दारकर्भगृहवासयोर्भेदेनोत्कीर्तनम् । गृहस्थाश्रमसाधनत्वेन तस्य नित्यत्व स्यादिति चेन्न गृहस्थाश्रम- साधनभूतानां धनार्जनादीनामपि नित्यत्वापत्त: उभयेषा- मपि पुरुषार्थत्वाविशेषात् अथ नापुलस्य लोकोऽस्तीति अलोकतापरिहारार्थत्वेन पुत्रोत्पत्ते नित्यतया तदङ्गत्वम विवाहस्य नित्यत्वमिति चेन्न नित्याङ्गमात्रम्य नित्यत्वप्रत्या- ख्यानात् अन्यथा पुत्रेष्टियागादेरपि निला त्वापत्त: । वस्तुतः नित्यकर्म प्रयोगान्तभूताङ्गानामेव नित्यत्वं न तु तदहिभूतानां, विवाहस्य तु अनयाधानादिगृहस्थधम्मानन्तर्गतत्वात् न तदङ्ग- खेन नित्य त्वम् । किञ्च भवतु नाम साग्निकस्य कथञ्चित् विवाहस्य नित्य- काम्यत्वं केवलनित्यत्व तु सर्वथा न सेत्स्यति तथा च काम्य- वेन सह सायर्यात् न विभाजकोपाधित्वम् । यदपि विभाजकोपाधितथा नैमित्तिकत्वमुररीकतं तत्रे. दमुच्यते। विमिदं नैमित्तिकत्वम् ? किं निमित्ताधीनत्वम् ?
बहुविवाहवादः। १६ निमित्तनिश्चयाव्याहितोत्तरकर्तव्यत्वं ? वा, न तावदाद्यः कार्यामात्रस्य कारगासाध्यतया सवस्यैव नैमित्तिकत्वापत्तेः एवञ्च तदभिमत नित्य विवाहस्यापि दानादिप्रयोज्यतया निमित्ताधीनत्वेन नैमित्तिकत्वापत्तिः। न द्वितीयः पत्नी- मरणनिश्चयाधीनस्य तन्मते नित्यस्य द्वितीयविध्यनुसारिविवाह- स्यापि नैमित्तिकत्वापत्तेः तस्य प्रशौचादेरिव मरगनिमित्त. निश्चयाधीनत्वात् । किञ्च तन्मते हतीयविध्यनुसारिविवाहस्य नैमित्तिकस्यापि नैमित्तिकत्वानुपपत्तिः तस्य शुद्धकालप्रती- क्षाधीनतया वक्ष्यमाणावर्षादिकालप्रतीक्षामद्भावेन च नि- मित्तनिश्चयाव्यवहितोत्तर क्रियमाणत्वाभावात् । अन्यच्च .. नैमित्तिकानि काम्यानि निपतन्ति यथा यथा । तथा तथैव कार्याणि न काल स्तु विधीयते ॥ इत्युक्तेः नुनसंवत्सरमलमास शुक्राद्यस्तत्वाद्यशुद्धकालेऽपि हतीयविध्यनुसारिणो नैमित्तिकस्य कर्तव्यतापत्ति: नैमित्तिके जातेष्टपादौ अशोचादेः शुद्धकालस्य च प्रतीक्षाभावस्य सर्व सम्मतत्वात् तत्प्रतीक्षणामावापत्तेदं स्तरत्वात् । मन्वादिभिश्च वन्धमाष्टमेऽधिवेत्तव्या दशमे स्त्री मतप्रजा । एकादशे स्त्रीजननी इत्यादिना । अष्टवर्षादिकाल प्रतीक्षां वदद्भिः प्रदर्शितनैमित्तिकत्व तस्य प्रत्याख्यातम् । इत्थ विवाहस्य केवल नित्यत्वं केवल नैमित्तिकावच वैवि- २० बहुविवाहवादः। थविभाजकोपाधितया तेन यत् प्रमाणमन्तरेणैव कल्पित तत् प्रतिक्षिप्तं तच्च विश कटपुस्तकभाराहरणेन उपदेशसहस्रानु- सरणेन वा तेन समाधेयम् । एवं विपक्षपक्षप्रतिक्षेपेण स्वपक्षसमर्थनेन च रतिधर्म- पुत्रार्थ तया तत्तत्कामनाभेदेन विवाहविध्ये स्थेमानमामा- दिते सम्पति प्रागुक्तविधित्रयशेषतया विवाहक्रियाकर्मविशेष- तहतसंख्याविशेषयोश्चावधारणार्थमुत्तरो ग्रन्थ श्रारभ्यते । तत्र रत्यादिकामो विवदित्यादौ विधित्रये हि "का विवह. दिति ?" (कति वा विवहेदिति) च ? भवत्यपेक्षा, तदपेक्षायाञ्च तस्मादे को बहीविन्दतेति श्रतिः । तमाटेकस्य बयो जाया भवन्ति नै कस्य बहवः सह पतय इति त्रुतिः। .. भायाः कार्याः सजातीयाः सर्वेषां श्रेयस्यः स्य रिति : दायभागवतपैठीनसिम्म तिश्च विवाहक्रियाकर्मगतसंख्या- विशेषबहुत्वं ख्यापयन्ती एकस्यानेकविवाहं प्रतिपादयति । तत्र द्वितीय श्रुतौ नैकस्यै बहवः सह पतय इति सहशब्दोत्- कोर्सनेन पुरुषस्य बहुजायाविधानपक्षेपि सहशब्दस्याकर्षणौ- चित्यात् सह बयो जाया भवतीत्यर्थ लाभेन एकदापि बहु- जायासम्भवः, सहशब्दाकर्षगाभावे तु कालभेदेन बहुविवाहस्से- ष्टत्वे स्त्रीपक्षेऽपि विधवाविवाहवादिनस्तस्य मते इष्टतया वलक्षण्या- भावात् अतः स्त्रिया यहिषयकबहुविवाह निषेधः तहिषय एव पुरुषस्य बहुविवाह इत्येवं वैलक्षण्यसम्पादनाय सह शब्दाकर्षण PAN 20 विविवारवादः । १ ३४,०१६ मवश्यं कर्तव्यम् । एवञ्च कालभेदेन बहुविवाहसमर्थनम् उत्तरवाक्यस्थसहशब्दभमाकर्षणाभावमूलम् तथा सति च उभयोवाक्ययोयुगपदिषयकत्वेन पुरुषात् खिया वैलक्षण्याभि- धान सङ्गत स्यात् । असति च तत्समाकर्षणे एकविषयकवा- भावेन वैलक्षण्याभिधानमसङ्गत स्यात् । अत एव अथ यदि ग्टहस्थो हे भार्य विन्देत कथ कुर्यादिति গায়া। यसिन काले विन्देतोभावग्नी परिचरेदियुपक्रम्य हयोर्भार्ययोरन्वारब्धयोर्यजमान इति विधानपरिजातयतबौधायनसूत्रेण युगपदाव्हयं तदनु गुणमग्निदयञ्च विहितं इयो: पनीरचारअयोरिति वदता चाग्निये युगपत् तयोर्होमादिसम्बन्धप्रतीतेर्युगपदिवाह. इयं स्पष्टमेव प्रतीयते तत्रापि विपद बहुत्वस्याप्युपन्तक्षणं पूर्वोक्त श्रुतौ बहुत्वश्रवणात नै कयापि विना कार्यमाधानं भार्यया विजैः । अकतं तद्विजानीयात् मवाभिनीरभेत यदिति ॥ पराशरभाष्यतकात्यायनवचनेन, तदु लिखितेन “एककृत- मकृतमेवेति" न्यायेन च व्यतिरेकेण सर्वाभिः सहाधानविधा- नेन युगपदबहुपत्नीसम्बन्धप्रतीतः । एकै कामेवासा संनद्यादे कैका गार्हपत्य मोक्षयेत् । एकै कामाज्यमवेक्षयेदिति ।
२२ बहुविवाहवादः। पराशरभाव्यतबौधायनमो बहीनां मथे एकैकवारा सनहनादिविधानात भार्याणां बहुत्वप्रतीतेश्च । यदे कस्मिन् यूपे दे रशने परिवति । तसादे को ह भार्य विन्दतेति । श्रुतिवाक्यस्थाप्येतद्विषयकत्वम् । एवञ्च तस्य कालभेदेन बध्यत्वादिकारणाधीनविवाहविषयकत्वकल्पनं साहसमात्रम् बौधायनसत्वे यगपटूयोर्भार्ययोबिधानात् । किञ्च स्मृतिवा- क्येन श्रुतिसङ्कोचस्य कल्पने स्वस्यैव विमृष्यकारिता व्याहन्येत । तेनैव विधवाविवाहद्वितीयपुस्तके १८८ पृष्ठे सरतेवेदविरोधे तु परित्यागो यथा भवेदिति प्रयोगपारिजातस्मृतिवाक्यस्य, प्रथमपुस्तके १३ पृष्ठे च श्रुतिस्मृति पुराणाना विरोधो यत्र विद्यते । तल औत प्रमाण तु तयो धे मतिरेति ॥ व्यासवाक्यस्य च स्वयं वहस्तितत्वन इदानों स्वाभीष्ट- मिड्वये तहिवार्थकल्पने कथङ्गार विमृष्यकारितामात्मनः परिरक्षेत्। श्रत एव बलाबलाधिकरण विरोधे वन पेक्षममति धनुमानमिति स्तूण जैमिनिना श्रुतिविरोध स्मृतेरननुष्ठानलक्षणमप्रामाण्य व्यवस्थापितम् ।
बहुविवाहवादः। २३ एवञ्च श्रुतौ तदनुसारिपैटीनसिम्म,तौ च बहुभार्थ्या- विधानात् तन्मूलके एकस्य व या विहिता महिष्यः कुरुमन्दन । नै कस्या यहवः पुंसः श्रूयन्ने पतयः कचिदिति । महाभारतवाक्ये श्रूयन्ते इत्यनेन एकस्य बहुभार्याणां श्रौतत्वेन कीर्तनम् । एतामेव श्रुतिमनुरुन्धानैव : .. लोकानन्ता दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकः । यस्मात्तस्मात् स्त्रियः सेव्या भर्तव्याश्च सुरक्षिताः॥ ट इति याज्ञवल्काम्म तिः स्त्रिय इति बहुवचनं निरदिक्षत् निरदिक्षच पैठानमिस्म ति: भार्या कार्याः सजातीयाः सव्वेषां अयस्य इति । भार्थ्या इति वचनम्। न च प्रत्येकवर्णाभिप्रायेण बहुवचनमुपात्तमिति शङ्कयम् प्रत्येकवर्णाभिप्रायकत्व सवय द्विजातीनां प्रशस्ता दारकर्मयोति । मानववचन इव भाऱ्या कार्ये येकवचन निर्देशे नैव तथा. विगतौ बहुवचननिर्देशवेयर्थ्यापत्तेः। श्रुतौ एकस्य बहु- भा-विधानस्योकतया तदेकवाक्यत्वस्योचितत्वात्। एतेन प्रायुक्त श्रुतिस्म ती सवर्णासवर्णागतबहुत्वविषयिके बन्ध्यत्वादिकारणाधीनबहुत्वविषयिके वेति कल्पनमप्ययास्तम् पैठीनमिवचने सजातीया इत्यनेन सवर्णागतबहुत्वस्यैव प्रतिपाद- २४ बहुविवाहवादः। 7 नात् प्रागुक्तेन बौधायनसूत्रेण च इयोः पनीरचारब्धयो- रित्यनेन अग्नप्राधाने हयोः पत्नयोः महाधिकार प्रतिपादय- ता सवर्णागतबहुत्वस्यैव प्रतिपादनात्, अग्निहोत्रादिशुश्रूषां बहुभार्यः सवर्णया कारयेत्तबद्धत्व च ज्येष्ठया गर्हिता न चेत् । इति पराशरभाष्यादिशतकात्यायनवचनेन सवर्णाया एवाग्निहोत्रादावधिकारस्य प्रतिपादनेन सवर्णया एवात्राधि- कारेण बौधायनवचनस्य सवर्णामात्रविषयकवौचित्याल, श्रम- वर्णायाश्च : भर्त्त : शरीर शुश्रूषां धर्म कार्यञ्च नैयिकम् । स्वाख व कुर्यात् सर्वेषां नामजातिः कदाचन ॥ इति मनुना धर्मकार्य मात्रेऽनधिकारस्य प्रतिपादनेन असवर्णागतवहुत्वविषयकस्यानुचितत्वात् प्रागुक्तेन "नैकयापि विना कार्यम्” इति कात्यायनवचनेन एकदा बहीभिः साई- मग्नमाधानविधानेन कालोन्तरभाविबन्ध्यवादिकतबहुत्वविष- यकलाया अनुचितत्वाञ्च । किञ्च "कारयेत्तबहुत्वे चेति कात्यायनवचने सवर्णागतब हुत्वे मति ज्येष्ठयति" निर्देशन सवर्णामात्रगतमेव बहुत्व प्रतीयते न तु सवर्णासवर्णागतं, कालान्तरे बन्ध्यत्वादिकारण कृतसवर्णा- विवाहविषयकत्वं वा "नै कयापि विना कुआँदित्यादिप्रागुक्त- कात्ययनवचने सर्वाभिः सहैव युगपदग्नग्राधानादेविधानात् अान्याधानस्य च सवर्णामात्र विषयकत्वात् ।
बछुविवाहवादः। २५ एवञ्च श्रुतौ तन्मूलकस्मृतौ च सवर्णागतबहुत्वावगतो तदेक- वाक्यतया बहोत दिजो भाय सवी लक्षणान्विताम् । इति मानववचने एकत्वमुद्देश्यगतत्वेनाविवक्षितम् । यथा- ग्रहं संमार्टोत्यादौ माजनरूपसंस्कारोद्देश्यतया पात्रविशेष रूपग्रहगतसंख्याया अविवचितत्वमेवं विवाहरूपसंखारोद्देश्य- तया सवर्णागतकत्वसंख्याया अविवक्षितत्वमिति मीमामा- सिद्धान्तमरणिरनुसरणीया। तत्र “दश यहान् गृहाति" इत्यादिश्रुत्यन्सरवत् “तस्मादेको बहीन्देित" इति श्रुत्यन्त- रस्य सत्त्वेन तुल्यरूपत्वात् । यथा च याजनाध्यापनप्रतियहाहाको धनमर्जयेदिति अत्र उपार्जनकम्मेधनगतैकत्वसंख्याया अविवक्षितत्वमेव पुरुषार्थतया धनाजनतुल्यविवाहकर्मगतयोषिगतैकत्व संख्या- या अविवक्षितत्वम् । अत एवान कपिञ्चलाधिकरणन्यायेन न बहवं त्रिलपर्यवसायि विवाहस्य पुरुषार्थत्वेन क्रत्वर्थत्वाभावा- ततो लक्षण्यात् । तत्र हि पालम्भनकर्मकपिञ्जलगतबहुत्वस्य वित्वावधिपरान्तिविश्रान्तलेन कतिभिः क्रतुमिद्धिः स्यादिति ? अनध्यवसायात् बहुत्वं त्रित्वपर्यवसायीति स्थिरीकृत स्थिरी- कमा च.तत्र कपिञ्जलयालम्भनेऽपि क्रतुमिद्धिरिति । तु विवाहस्य पुरुषार्थतया यावदिच्छं विधानसम्भवेनानध्यव- साथाभावान तथाकस्पन मिति विशेषः। वक्ष्यमाणेन २६ बहुविवाहवादः। चतुर्थादिविवाहार्थ हतीयेऽर्क समुहेदिति मत्स्यपुराणवचनेन चतुरादिविवाहस्य विधानेन न बहुत्वं त्रित्वपर्यवसायीति निर्णीयते । शिष्टाचारोऽपि श्रुतिस्मृत्योः वर्णितविषयत्वमुहोल यति । तथा च ते हि शिष्टाः दर्शितविषयकत्वमेव श्रुतिस्मृत्योरवधार्य युगपबहुभार्थ्या वेदने प्रत्ता इति पुराणादौ उपलभ्यते । ददौ स दश धर्माय कश्य पाय त्रयोदश । इति मानवे महाभारते च दक्षप्रजापतेरेकदैव कश्यपा- दिभ्यो बहुकन्यादानप्रतिपादनेन तद्दानाधीनविवाहस्थात् बहुत्वस्थ प्रतिपादनात् । यदि कश्यपादयः स्वयं स्मृतिप्रणेतारः बहुभा-वेदनमशास्त्रीयमिति जानीयुः कथं तत्र प्रवर्तेरन् ? अतस्तेषामाचारदर्शनेनैव उपदर्शितप्रकार एव शास्त्रार्थः नान्यथेत्यवधार्यते। एतेन स्मृतिविरोधेन शिष्टाचारस्य न प्रामाण्यमित्यवष्टम्भेन विद्यासागरस्य प्रत्यवस्थानमपि परास्तम् । यदि वयं शिष्टाचारमेव तादृशधर्म प्रमाणमाचक्ष्महि भवेदेवं तदा तस्य स्मृतिविरोधेन शिष्टाचारस्याप्रामाण्योपन्यासः तदेव नास्ति । किन्तु श्रुत्यादिभिरेवावधारिते बहुसवर्णायुगप- विवाहे परिहत्वबहुसम्मत त्वख्यापनायैव शिष्टाचारस्य समुत्- कीर्तनं, यथा च बागमो निष्फलस्तत्र भक्तिः स्तोकापि यत्र मो। इत्यत्र भोगसहितागमस्य भुकिरहितागमापेक्षया प्राब- बहुविवाहवादः । २० त्यम् एवमाचारानुमोदितस्यैव शास्त्रार्थनिश्चयस्य प्रामाण्य- मित्येव ज्ञापयितुं तथोत्कीर्तनम् । एतेन कश्यपादीनामाचारस्य विगीतत्वेनोत्कीर्तनेन तेजीयस्लेन दोषराहित्योत्या च तस्य प्रत्यवस्थानमप्यपास्तम् श्राचारस्य विगीततायाः शास्त्रनिषिडतानतिवृत्तेः बहुविवाह- निषेधस्य क्वाप्यनुपलश्वेः । किञ्च तदुक्तरीत्या यदि दोषत्रय ग्रस्तपरिसंख्यापरतां मानववचनस्य ते अध्यगमिष्यन् तदा ते बहुविवाहकरणे नैव प्रावर्तियन्त । न च तेषां तादृशी बुद्धि- शक्तिरामीत् यया दोषत्रयग्रस्तपरिसंख्यापरत्वकल्पनेनाभि- नवार्थमध्यवस्येयुः न वा विद्यासागरमन्निभः जीवनिभः धी- सचिवस्तरासादि येन मानववचनस्य परिसंख्यापरत्वं विज्ञाप्य अधर्मभीरवस्ते अधर्मपथात् न्यवारयिषत । यथा च मनुवचनस्य न परिमंख्यापरत्वं तथा सविस्तर- मभिधावते । नचान्यत् किञ्चित् बहुविवाहनिषेकं वचनमस्ति येन बहुविवाहस्य विगीतत्वं स्यात्। न च एकैव भार्या स्वीकार्या धर्मकोपयोगिनी। प्रार्थने चातिरागे च याह्यानेकापि च द्विज !॥ इति पुराणवचने एकैवेति एकसंख्यानिधारणेन बहुभा-- निषेध इति शङ्कयम् एतद्दचनस्य समूलत्वे एकाशब्दस्य मुख्या- वाचितया सवर्णापरत्वात् । तदुत्तरमेकवचनन्तु प्रागुक्तमानव- वचन इवाविवक्षितम् अन्यथा पुराणवाक्येन श्रुतिस्मृतिसङ्कोचे तस्य विमृष्यकारिता व्याहन्येत तच्च पूर्वमेव दर्शितम् ।
बधुविधास्वादः। किन्न पत्र एकाशब्दस्य मुख्यापरत्वमवश्यं स्वीकयं न तु मंख्यापरत्वमुत्तरार्द्ध अनेकामब्दस्य एकवचनान्ततया निर्देश- स्यैव तत्र लिङ्गत्वात् सति हि संख्यापरत्वे उत्तराद्धे अनेका- शब्दस्य "श्रमेके सेवन्ते भवधिकगीर्वाणनिवहान्" इत्यत्वेव "पतन्यनेके जलधेरिवोर्मयः” इत्यत्रेव च बहुवचनान्ततया निद्देशापत्तिः। एतेन ग्राह्यानेका अपि दिजेति अनेकाशब्दस्य बहुवचनान्तताकल्पनमप्यपास्तम् तथात्वे तविशेषणस्य ग्राह्या- भब्दस्थापि बहुवचनान्ततापत्तेः एवञ्च ग्राह्या अनेका श्रपीति स्थात् अतोऽत्र विमृष्यकारिणा विमर्षपूर्वकं पाठसमर्थनं कर्त युक्त तच्च न कृतमित्यतीव नः खेदाय। वचनार्थस्तु अर्थतेऽनेनेति अर्थनमभिलाषः तस्मिन् प्रकर्ष- णाभिलाषे, कस्येत्यपेक्षायां प्रागुक्तमनुवचनोपात्तविवाहफलत्रय- मथे धर्मस्य पूर्बादै उक्तः प्रतिरागे इत्यनेन रतेश्वोक्त: परि- शेषात् पुत्त्रस्यैव कर्मतया तत्रान्वयः तथा च बहुपुत्वेच्छायां विशिष्टरतीच्छायाश्च अनेका असवर्णा अपिशब्दात् सवर्णा ग्राह्या इति । अत्रापि एकत्वमविवक्षितं तुल्ययुक्तः। एतच्च सवये विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तामामिमाः स्यु : क्रमशो वराति ॥ मानववचनसमानार्थकम् । एवमेकदा बहुसवर्णाविवाहपक्षे श्रुत्यादिभिः समवधारिते इदानीं क्रमशोऽपि बहुवर्णाविवाहपक्षो व्यवस्थाप्यते । बाधायां विद्यमानावां हिनीयासह यदि । ..
बहुविवाचवादः। २६ तदा वैवाहिकं कर्म कुर्यादापमयेऽग्निमान् ॥ इति निर्णयमिन्धुरतत्रिकाण्डमण्डनवाक्येन । सदारोऽन्यान पुनहरातहो? कारणान्तरात् यदीच्छदग्निमान् कश्चित् क होमोऽस्य विधीयते खेग्नायव भवेदोमो लौकिके न कदाचनेति माधवाचार्य विधानपारिजातादितिकात्यायनस्मत्या च विद्यमानभाय्यस्यापि भार्यान्तर' विहितं तच सवर्णामात्र- विषयम् अग्न्याधाने सवर्णाया एवाधिकारितायाः पूर्व प्रति- पादनात् । अत एवं अथाग्नपोह्ययोर्योगं सपत्नीभेदजातयोः । सहाधिकारसिद्धार्थमहं वक्ष्यामि शौनकः॥ इति निर्णयसिन्धतशौनकवचने सहाधिकारमिवये इयोरग्न्योरेकल समाधानमुक्तम् । अन्ते च पत्योरेका यदि म्हता दग्धाने नैव तां पुनः । मादधीतान्यया माईमाधानविधिना टहीति ॥ द्वयोः पत्नयोर्मध्ये एकस्यामरणे (अनेनैव) उभयसञ्चारि. तेन वजिना (तां दग्धा) (अन्यया) वर्तमानया सह श्रादधीतेति पुनराधानं विहितम् । एवञ्च विद्यमानायामेव सवर्णायां स्त्रियां पुनर्विवाहान्तरकरणं प्रतीयते । तत्र कात्यायनवचने कारणा- न्तरादित्यस्य उद्देश्यान्तरादित्यर्थः यदीच्छेदिति पदखारस्थात् मति हि उद्देश्ये इच्छोदयात् । एवञ्चान्तरवचनं सार्थकं स्यात् भवति च धमाद्देशेन कतविवाहस्यापि पुनः पुत्तरतिरूपो.
बधुविवाहवादः। द्देश्यभेदात् विवाहेच्छा। न च कारण शब्दस्य हेतुपरत्वं भयम्, तथात्वे कारणादित्येव ब्रयात् धर्मार्थविवाहे निमि- त्ताभावेन ततो भिन्नार्थकान्तरपदलभ्यार्थस्य प्रकृतेऽभावात् । एवञ्च विद्यमानायां स्त्रियां विवाहकरगामधिवेदनं तच्च विविधं पुत्वार्थ रत्यर्थञ्च । तत्र पुत्वार्थे अधिवेदने बन्ध्यवा- दीनि निमित्तानि, अपेक्षितानि तनिमित्तसम्पत्तौ च तत्तत्- कालातिकमे पूर्बोढ़ायाः शयनादौ परिहारपूर्वक द्वितीय विवाहकरणम् अप्रजा दशमे वर्षे स्त्रीप्रजा हाद त्यजेत् । मृतपना पञ्चदशे सद्यस्वप्रियवादिनीम् ॥ इति निर्णयसिन्धुरतसंग्रहवाक्येन दशमादिवर्षे पूर्बोढायाः शयनादौ परित्यागविधानात् । एवञ्च पुत्वार्थाधिवेदने बन्ध्य- वाद्यावेदककालः अपेक्षितः तत्कालोत्तरं तु तां परित्यज्य इतरां वोढ़ शक्नोति। रत्यर्थे तु विवाहे न कालविशेषः प्राट्रियते किन्तु पूर्वोढाया: धनादिना तोषणमात्रमपेक्षित मित्येव विशेषः एकामुढा तु कामार्थमन्यां वो य इच्छति । समर्थस्तोषयित्वाथैः पूछाडामपरा बहेत् ॥ इति मदनपारिजातस्तस्मृतेः। पराशरभाचे विधान- पारिजातादौ च एकामुत्क्रम्येति पाठः । अत्रैव मनुना अधिविना तु या नारी निर्गच्छे द्रोषिता ग्टहात् । सा सद्यस्तु निरोडव्या त्याच्या या कलमविधी। रति बहुविवाहवादः। अधिवेदन कारणसत्वे तत्तत्कालाधिवेदने तोषमन्तरेण गृहानिर्गतौ च परित्यागो विहितः । ततश्चायमेव विशेषः यत् पुत्त्रार्थाधिवेदने बन्ध्य त्वादिकारणे अनुमतिमन्तरेणापि, कामार्थे तु अनुमत्येति। एवञ्च मनुयाज्ञवल्क्यादिस्मृतिषु बन्धात्वनिमित्तककाल प्रतीक्षावश्यकताकथनं तदूर्द्धमन्तरेणाप्यनु. मतिं तां परित्यज्य इतरां वोढु शक्यते इत्येवमर्थम्, तत्परत- यैव तत्तचनानां भार्थको नैमित्तिकविवाहान्तरकल्पनं नि- मूलमेव एवमेव चतुर्वेदव्याख्यानमाधवाचार्येण पराशरभाथे व्यवस्थापितम् । न च उहद्रतिसिद्धार्थ पृतीयां न कदाचन । मोहादसानतो वापि यदि गच्छतु मानुषीम् ॥ मन्यत्येव न सन्देहो गर्गस्य वचनं यथेति । निर्णयसिन्धुटतमत्स्यपुराणवचने रत्यर्थ कटतीयविवाह- निषेधः शङ्खयः, तस्थाविवाहस्तावकत्वेन अर्कविवाहविधा- नानुसारेण हतीयस्यापि चतुर्थतासम्पादनपरत्वात् । अवेद बोधम् । बपाकस्य पञ्चार्ष लक्षण्या स्त्रियसवाहेत् । इत्युपक्रम्य पुत्रपौत्रादिसम्पन्नः कुटम्बी साम्निको बिजः । उहहेतिसितार्थ हतीयां म कदाचन । मोहादज्ञानतो वापि यदि गच्छत्तु मानुषीम् । मायस्येव म सन्देहो गर्गस्य वचनं यथा । रति बहुविवारवादः । विधानपारिजातादिश्ते मत्स्यपुराणे कश्यपवचने च पुत्रपौत्वादिसम्पन्नस्य साग्निकस्य कुटुम्बवतः दिजस्य रति सिद्ध्यर्थ हतीयविवाहे मानुष्या निषेधेन ताहशाधिकारिण एव रत्यर्थकटतीविवाहनिषेधात् अन्यस्य रत्यर्थवतीयविवाहस्य न निषेध इति गम्यते विशेषणमार्थक्यात् शौनकेन तु तादृशा- धिकारि गोऽपि दोषपरिहारार्थ होमादिपूबैकार्कविवाहकर- णानन्तरं चतुर्थविवाहोऽभिहितः । हतीयस्त्रीविवाहे तु संप्राप्ने पुरुषस्य तु । धर्क विवाहं वच्यामि शौनकोऽहं विधानत इत्य पक्रस्य विसृज्य होम्यमग्निञ्च विधिना मानुषी पराम् । उहहेदन्यथा नैव पुत्रपौत्रादिद्धिमान् । विसृज्याग्निं कङ्कणञ्च मानुषीमुहहेत् पराम् । अनेन विधिना यस्तु कुर्यादविवाहकम् । पुत्रपौत्रादिसम्पत्ति: चतुर्थी लभते नरः । इत्यन्तेन तेनोपसंहारात् । एवञ्च पुत्त्रपौत्रादिमतः रत्यर्थ हतीवविवाहं चिकीर्षोरर्क विवाहं कृत्वैव चतुर्थविवाहः कर्त्तव्यः नान्यथेति प्रतीयते न तु ढतीयविवाहमात्र निषियते इत्य त्रैव सकलवचनतात्पर्यम् । चतुर्थादिविवाहाटतीय समुहहेदिति । विधानपारिजातनिर्णयसिन्धुटतसंग्रहवाक्येन स्पष्टं तथैवोक्त- न्वात् । एतेन पुत्रपौत्रादिमतः मासिकस्य कुटुम्बरूपजाया- वतश्च रत्यर्थ हतीयविवाहेच्छाथाम् अविवाहपर्बकं चतुर्थ- बहुविवाहबादः। एतेन चतु- विवाहस्य विधानात् स्पष्ट क्रमशोऽपि बहुविवाहपक्षः सुपपन्नः । अविवाहप्रकारस्तु विधानपारिजाते विस्तरेणोकतत्रैव द्रष्टव्यः । अत्र चतुर्थादिविवाहार्थमित्युक्तेश्च बहुत्वं न त्रित्व- पर्यवसायीति यदुक्त तदृढीकृतं वेदितव्यम् । र्थादिविवाहस्य बन्ध्यपत्नीकविषयकत्वस्य क्रमश: मृतपत्नीक- विषयकत्वस्य वा कल्पनमप्यपास्तम्। साग्निकत्वविशेषणेन स्त्रि- था विद्यमानताप्रतीतेः पुत्त्रपौत्रादिमत्त्व विशेषणेन च बन्ध्य- स्त्रीविषकत्वासम्भवात् । इदानों क्रमशो बहुविवाहे कालविशेषो निमित्तविशेष- चाभिधीयते। तत्र मनुना जायाथै पूर्वमारिण्यै दप्त्याम्नीमन्त्यकर्मणि । पुन:रक्रिया कुर्यात् पुनराधानमेव च ॥ इति दारमरगारूपः एकः कालः अभिहितः । अत्र विशेषयति विधानपारिजातशतबौधायनसूत्रम् । धर्ममजासम्पन्नेऽदारे मान्या कुबीन अन्यतराभावे काय प्रागग्न्याधेयेति । दाराणामभाव: पदारम् अर्थाभावेऽव्ययीभावः ततः सप्तम्या बहुलमलुक् । सम्पन्न सम्पत्तिः भावे क्तः। धर्मस्य अग्निहोत्रादिकस्य गृहस्थकर्मव्यस्य यावद्धर्मस्थ, प्रनायाश्च सम्पत्ती सत्या दाराभावे अन्यां स्त्रियं न कुर्वीत नान्या- मुदहेदित्यर्थः । किन्तु वनं मोक्षं वाश्रयेत् सालयमपाकस्य मनोमोशे निवेशयेत् इति ३४ बहुविवाहवादः। मनुना ऋण थापाकरणे मोक्षाधिकारित्वमुचनात् जायमानो वै पुरुषस्त्रिभिकरणो भवति ब्रह्मचर्येण ऋषिभ्यः, यतेन देवेभ्यः, प्रजया पिटभ्य इति ऋष्यादिवयर्णस्य वेदाध्ययनाग्निहोत्रादियागपुत्रोत्पत्ति- भिरपाकारणात् यावद्गृहस्थकर्त्तव्य करणाच न दारान्तरकरणं तत्फलस्य धम्मै पुत्वादेः कृतत्वात्। किन्तु यदि न रागनि- वृत्तिस्तदा तत्फलार्थ विवाहकरण भयो कम्। धर्मप्रति विशेषणाच रतिफलविवाहस्य तदा कर्त्तव्यतेति गम्यते अन्यथा धर्मप्रजेति नाभिदध्यात् तथाच ऋणत्रयशोधने अनुपयोगितया तत्तत्फलमुद्दिश्य न विवाहान्तरकरणमिति सिद्धम् । (अन्य- तराभावे) धर्म प्रजयोर्मथे एकतराभावे धर्माभावे पुत्त्राभावे वा (श्रन्या कार्या) प्राग्वत् अग्निराधेयो यया तथा कार्येत्यर्थः । एवञ्च मनुना द्वितीयविवाहे यद्दारमरणकालः उक्तः तस्य अन्यतरामावविषयकत्वं न तु जायामरणमात्रे एव जायान्तर- करणविषयकत्वम् । ततश्च मनुवचनेन जायामरणे जायान्तर- करण यत् प्राप्त तत्धर्मप्रजासम्पत्तौ निषिध्यते "प्राप्त हि प्रतिषिध्यते” इति न्यायात् तथा च मनुवचनस्य अवकाशविशेष- दानार्थमेव अन्यतराभावे इत्यादि प्रतीकं प्रवृत्तम्। एतेन धर्माप्रजासम्पन्ने दारे नान्यां कुर्वीतति प्रतीकमात्रं त्वा उत्तर- प्रतीकं निगुह्य यत् धर्मप्रजासम्पन्नयुक्तदारसत्त्वे दारान्तर- करणनिषेधकतया कल्पनं तदतीव अयुक्तिकं दारेषु सत्सु दारान्तरकरणं यदि तन्मते क्वचित् प्राप्त स्यात् तदा तत् प्रति- बहुविवाहवादः। ३५ उभय- षिध्येत । प्रागग्न्याधेयेति वचनाचैतहचनस्य सवर्णाविषयकत्वे स्थिते कामतः प्रवृत्तविवाहविषयकत्वेन न प्राप्तिसम्भवः तन्मते कामती विवाहस्य असवर्णामात्रपरत्वात् । किञ्च धम्मप्रजा- सम्पन इत्युक्त्या तदर्थविवाहमात्रविषयकत्वावगमेन रत्यर्थ- विवाहविषयकत्वकल्पनमप्ययुक्रिकं तत्पदवैयर्थ्यापत्तेः फलसिदा दारसत्त्वे दारान्तरकरणं निषिध्य, तदेकतराभावे धर्माभावे पुत्त्राभावे च दारसत्त्वे दारान्तरकरणं कथमेकमात्र- विवाहवादिमते सङ्गतं स्यात् । तन्मते पुत्त्राभावे दारसत्त्वे दारान्तरकरणस्य विहितत्वेऽपि अग्निहोत्रादियावत्कर्त्तव्य- धर्माभावेऽपि पुत्रसत्वे च दारान्तरकरणस्य निषिद्धत्वात् एतेन मति च अदारे इति देनैव सर्वमामञ्जस्ये “दाराक्षतलाजानां बह त्वं च” इति पुंस्वाधिकारीयं पाणिनीयं लिङ्गानुशासन- मुल्ला दारशब्दस्य एकवचनान्तताखोकार: अगतिकगति- तया हय एव । न च रत्यर्थकस्सासवर्णामालविवाहस्य प्राप्ततया धर्म- प्रजासम्पत्तौ नान्यामित्यनेन निषेधः, रत्यर्थविवाहस्य असवर्णा- मात्र विषयकत्वे प्रामागाभात् बाधकमन्तरेण सवर्णाविषयकत्व- स्थापि सम्भवात्। किञ्चोत्सर्गापवादयोरेकविषयकत्वेन अप- वादस्य अन्यतराभावे प्राम्बदग्न्याधानपूर्बकस्य दारकरणस्य सवर्णामात्र विषयकत्वापत्त : उत्सर्गस्यापि नान्यामिति निषेध. स्थापि सवर्णमात्रविषयक त्वौचित्यम् । ततश्च प्रधानन्याययोोग सपत्नीभेदजासयोः।
३६ बहुविवाहवादः। इत्यादि प्रागुननिर्णयसिन्धुरतशौनकवचनेन क्रमशः ऊहायाः सहाधिकारसियर्थमन्न्याधानविधानेन अग्न्याधाने च सवर्णावा एवाधिकारेण क्रमशः सवर्णविवाहः कर्म शक्यते इति स्पष्ट प्रतीयते, प्रतीयते च प्रागुतविधानपारिजातश्ते पुत्रपौत्रादिसम्पनः कुटुम्बी साम्मिको दिन इत्यादि वचने पुत्रपौत्रादिमतः मायावतश्च तृतीयविवाहनिषे- धेन दितीयविवाहः । तविषये एव प्रागुकशौनकवचने रत्य- र्थम् अविवाहपूर्वकं चतुर्थादिविवाहः कर्तुं शक्यते इति च स्पष्टमवगम्यते। ततश्च बहीनां सवर्णानामपि क्रमशी विवाहः शास्त्र सिद्ध इति सिहम् । तदयं निगलतोऽर्थः। क्रमशः धर्मार्थे दितीयविवाह गृहस्थोचितमर्वधर्माभावे पानीमरणकालः एकः । पुत्रार्थ- विवाहे तु पत्ताभावसहकृतपत्नीमरणकालः एकः । पत्नीबन्ध्य - वादिकालः द्वितीयः । तत्रापि तदवधारणे तदनुमतिमन्त- रेणापि तां परित्यज्य विवाह इति विशेषः। रत्यर्थ- विवाहे तु पनान्तरसत्त्वे पुत्त्रपौत्रादिसत्त्वेऽपि इच्छाकाल: एकस्तत्वापि द्वितीयमात्र विवाहः कर्तुं शक्यते हतीयादि- विवाहकरणेच्छायान्तु तत्समये अर्कविवाह कवा चतुर्थादि- विवाहः कर्तुं शक्यते इति तत्र तु पूर्वोडपत्नीमन्मत्यपेक्षेति विशेषः । रत्यर्थविवाहस्सु मवर्णाविषयः असवर्णाविषयश्चेति । तदेवं सवर्णामात्र विषयक कविवाहमात्र पक्षस्य विपक्षमा- तस्य प्रपाकरणेन “कति विवत्" इत्यपेक्षायां बतौः युगपत् बहुविवाहवादः। ३७ क्रमशी वा विवहेत् इत्याकाङ्क्षापूरणेन सपक्षे स्थिरीकृते इदानों का विवहे दित्याकाङ्क्षापरिपूरणार्थमभिधीयते । सवर्णाये विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिमाः स्यु क्रमशो वराः ॥ शूदव भार्या शूद्रस्य सा च सा च विशः स्मृते । तेच खा चैव राच नाच खा चाग्रअन्मनः ॥ ईति मनुवचनम् (ग्रे) खोक्तधर्मरतिपुत्त्र रूपविवाह- फलत्रयमध्ये श्रेष्ठे धर्मे इत्यर्थः निमित्तार्थ सप्तमी तथा च धर्मनिमित्ते (दारकर्मणि) दारत्वसम्पादके संखाररूपे क्रिया- कलापे (दिजातीनां सवर्णा प्रशस्ता) मुनिभिर्विहिता (त) पुनः (कामतः) रतिकामत: बहुपुत्रकामतश्च (प्रत्तामाम्) तदुपायसाधनार्थ यत्नवतां दारकर्माणीत्यनुषज्यते (दमाः) वक्ष्यमाणाः सवर्णादयः (क्रमश:) वर्णक्रमेण (वराः) विहित. त्वेन श्रेष्ठा इत्येवमर्थपरम् । तासां च वरत्वं पिण्डदानयोग्य- धनविशेषहारिपुत्त्रोत्पत्तिसाधनत्वात् तथा च सवर्णाया अलाभे अनमरवणीम्, तस्या अप्यलाभे तदनन्तरवणां विवहे- दिति समुदितार्थः । अत्राप्येकत्वमविवक्षितं प्रागुक्तयुक्तः, इच्छाया निरङ्गशत्वाच यावदिच्छ तावहिवाहयोचितत्वात् । एतदभिप्रायेणेव एतत्समानार्थकस्य भार्याः कार्याः स्वजातीयाः सर्वेषां श्रेयस्थः स्यु रिति मुख्यः कल्लस्तदनुकल्पस्तु चतस्रो ब्राह्मणस्य तिनो राजन्यख, व वैश्यस्येति ।
३८ बहुविवाहवादः। पैठीनसिवचनस्य सात्पर्य्यावद्योतनार्थ दायभागकृता चतुरादिसंख्या जात्यवच्छेदेनेत्युक्तम् चतुर्जात्यवच्छिन्नतथा विवाहं व्यवस्थापयता च तेन एकैकवर्णाया अपि पञ्चादि- संख्या न विरुधेति द्योसितं तच्च इच्छायानिरङ्कुशत्वेनैव प्रागुतवचनमातेन विवाहबहुत्वप्रतिपादनेन च मुक्तमित्युत् पनामः । प्रार्थने चातिरागे च पायानेकापि च हिज ! । इति प्रागुक्कपुराणवचनेनापि धर्मकार्यार्थ सवर्णा विवाह्या बहुपुत्त्रेच्छायामतिरागे च असवर्णा श्रपि विवा- ह्येप्ति प्रतिपादितम् । अवैकानेकाशब्दयोर्यथा सवर्णासवणा- परत्वं तथा दर्शितं प्राक् । रत्यर्थ पुत्रपौत्रादिमतः जायावतश्च चतुर्थादिविवाहसियर्थमविवाहं प्रतिपादयता च प्रागुकेन शौनकवचनेन चतुर्थादिपदात् बहुविवाहस्यापि विहितत्वमव- गम्यते । तत्र एकत्वमविवक्षितमिव्य प्युक्तम् । अत एव पुत्त्रकामेण सौभरिणा एकदैव बहाः क्षत्रिया व्यूढा इति पुराणनिर्देशः । सोऽप्यतानुग्राहकः । इत्येवं रतिकामस्य बहुपुत्त्रकामस्य च सवर्णासवर्णागत- बहुत्व विषयके विवाहे व्यवस्थापिते प्रतिवादिना यत् मनुवच- नम् परिसंख्यापरत्वेन कल्पितं तत् प्रतिकलव्यम् । तथा हि मानववचनस्य यत् परिसंख्यापरत्वं कल्यते तत् कस्थ हेतोः ? न तावत् तस्य परिसंख्याकल्पकं किञ्चित् वच:
बहुविवाहबादः। ३६ नान्तरमस्ति, नापि यक्तिः, न वा प्राचीनसन्दर्भसम्मतिः । तथा च असति परिसंख्याकल्पकवचनयुक्त्यादौ दोषत्रयग्रस्तां परिसंख्यां स्वीकृत्य मानववचनस्य यत् दोषत्रयकलङ्गपड़े निक्षेपणां कृतं तत् केवलं वाभीष्टसिदिमनीषयैव । पारि- संख्यायां हि श्रुतार्थस्य परित्यागात् अवतार्थस्य कल्पनात् । प्राप्तस्य बाधादित्येवं परिसंख्या विदोषिका इति ॥ श्रुतार्थत्यागाश्रुतार्थकल्पनप्राप्तबाध रूपं मीमांसाशास्त्रमिदं दोषत्रयं स्वीकार्य तस्य च सति गत्यन्तरे नेवाङ्गीकार्यता । तत्र प्राप्तिश्च शास्त्रतो रागतो वा नियता। एवञ्च प्रागुक्त रीत्या मानववचनस्य अप्राप्तिप्रापकत्वरूपोत्पत्तिविधिपरतयै- वोपपत्तौ न परिसंख्यापरत्वम् । न च सवर्णाविवाहस्य प्राप्तत्वेन तदंशेऽनुवादापत्तिः, धर्मकामस्य सवर्णविवाहस्य प्राप्तत्वेपि विशिष्टरतिपुत्त्र कामयोरप्राप्ततया तत्तत्कामना- वतश्च तत्तत्फलसिद्धये प्रवृत्त्यौपयिकत्वेनोत्पत्तिविधित्वसम्भ- वात् यया "खादिरे पाणु बध्नाति" इत्यादिवाक्येन नित्यया- गाङ्ग तथा प्राप्तस्यापि यूपस्य “खादिरं वीर्यकामस्य यूपं कुर्बीत" इति वीर्यकामवतः खादिरत्वविधानमेवं विशिष्टफलस्य अप्राप्त तदंशे उत्पत्तिविधित्वं सम्भवत् केन वार्यत । विधिरत्यन्तम प्राप्तो नियमः पाक्षिके सबि । वत्र चान्यत्र च प्राप्तौ परिसंख्य ति गीयते ।
४० बहुविवाहदावः। - इति भट्टोक्तस्य परिसंख्याहेतुभूतस्य तत्तदन्ययोः पक्षयोः प्राप्तिरूपस्य न चात्र सम्मवोऽस्ति । तथा हि (सत्र) श्रुतपदार्थ (अन्यत्र) अश्रुतपदार्थे च प्राप्तेः केनचित् ? शास्त्रेण सम्भवो- ऽस्ति । येन तस्यां सत्यां श्रुतार्थत्यागः, अश्रुतार्थकल्पनम्, रागतः शास्त्रतो घा प्राप्तस्य बाध इत्येवं दोषत्रयं स्वीकार्य तच्च गत्यन्तरे नैवाङ्गीकार्यमित्युक्तम् । प्रकृते च श्रुता सवर्णां असवर्णा च विवाहकर्मत्वेन, दमा इति इदमः पुरोवर्तिनीना. मेव निर्देशकत्वेन अग्रिमवचने च सवर्णाया असवर्णायाश्च स्वस्व- पदेन निर्देशेन च तासामेव विवाहकर्मत्वावगमात् । ततश्चात्र विहितं सवर्णागतम् असवर्णागतच्च विवाहकर्मत्वं कस्मिन् ? शास्त्रान्तरेऽवगतम् कस्मिन् ? वा सवर्णसवर्ण भिन्नानां सङ्कीर्ण- वर्णानां विवाहकर्मत्व प्राप्त येन मानववचनस्य विवाहकर्म- तया प्राप्तिमम्भवकथनेन इतरनिवर्तकपरिसंख्यापरत्वं कल्यते। यथा “इमामगृह्णन् रशनामृतस्य” इत्यादौ यज्ञान- पश्वालम्भने गर्दभाश्वादेः रशनाग्रहगा प्राप्तौ प्रवृत्तेन “इत्य- श्वाभिधानीमादत्त" इत्यादिवाक्येन अश्वाभिधानीरूपाश्व- बन्धनरज्जुग्रहणं विधात न शक्यते प्राप्तत्वात् । अतः श्रुतविषये अश्रुतविषये च प्राप्तौ श्रुतार्थपरित्यागेन अथुतार्थकल्पनेन प्राप्तस्थापि बाधेन इतरनिषेधस्तत्र कल्यते । तथा हि "अखाभिधानीमादत्त" इति वाक्यस्य स्वार्थ- परत्वे “इमामगृहन् रशनातस्य" इति शास्त्रेण तस्य यज्ञान- पशी: रशनाग्रहणस्य प्राप्तत्वेन विधित्वासम्भवः । अतस्तवाक्य बहुविवाहवादः। ४१ न चात्र अश्वाभिधानोपदम् अश्वातिरिकगईभादिरशनायाम, श्रादत्ते इति पदं च ग्रहणाभावे लाक्षणिक, तथा च अखातिरिक रशनां न गृहीयादिति वाक्यार्थः सम्पद्यते। एवं च स्वार्थ- परित्यागेन अन्यार्थकल्पनेन सामान्यप्रास्त्रेण प्राप्तस्य गर्दभा- दिरशनाग्रहणख बाधेन परिसंख्यापरत्वमगत्या कल्यते । नवमत्र उक्तदोषत्रयग्रस्तायाः परिसंख्यायाः सति गत्यन्तरे ग्राह्यतायां वीनमस्ति येनामत्या तत्वीकारः । विशिष्टपुत्त्रकामस्य विशिष्टरतिकामस्य च सवर्णया असवर्णया वा विवाहावेदकं किञ्चित् मास्त्रमस्ति । नापि रागतः प्राप्ति यथा “पञ्च पञ्चनवान् भुनीत" इति वाक्येन रागतः प्राप्तस्य पञ्चननभोजनस्य विधानासम्भवेन पञ्चनख- पदं शशादिपञ्चनखभिन्ने, भुञ्जीतेति पदच्च न भुञ्जीतेति भोजनाभाय च लाक्षणिकमेवञ्च शशादिपञ्चकभिन्न पञ्चनखान् न भजीतेति तत्र वाक्यार्थः सम्पद्यते तत्र च श्रतार्थस्य पश्च- नखपञ्चक रूप प्य परित्यागेन, अवतार्थस्य तदतिरिक्तभोज- नाभावस्य कल्पनेन, रागप्राप्तस्य शशादिभिन्न पञ्चनखभोज- नस्व वाधेन च परिसंख्या दोषत्रयग्रस्ताप्यगत्या स्वीक्रियते । मेवमात्र सम्भवति, सवर्णाया असवर्णाया वा विवाहस्य प्राग- दर्शितशास्त्रादिभ्यः अलौकिकसंस्कारापादकरूपतया शास्त्र - मन्तरेण रागतः प्राप्तभावात्। ततश्च तत्तदन्ययोः प्राप्ति- रूपस्य परिमंख्यावीजस्य प्रकृतेऽसम्भवात् कथाकारं मानव. वचनस्थ परिसंख्यापरत्वं स्यात् ।
४२ बहुविवाचवादः। किच्च विवाहस्य रागप्राप्तत्वाङ्गीकार प्रथमविवाहस्थापि रागप्राप्ततया । . सवां स्त्रियसबइदित्यादि । मनुवचनस्यापि परिसंख्खापरत्वापतिः दुोरैव । खोक्क तञ्च विद्यासागरेणाप्यस्य वाक्यस्योत्पत्तिविधित्वमत: खोक्का- विरुहतया प्रत्यवस्थाने तस्य विमृष्यकारिता कथद्वारं तिछेत् यथा प विवाहस्य अलौकसंखारापादकलेन न रागप्राप्तत्व तथा प्रतिपादित' पुरस्तात् । किञ्च परिसंख्यायामितर- नित्तिरेष विहिता विधिप्रत्ययार्थाश्रयत्वस्यैव विधितत्वात् "अश्वाभिधानीमादते” इत्यादौ च प्रवातिरिक्तरशनाग्रहणा- भाव इष्टसाधनं तानग्रहणाभावेन दृष्ट भावयेदिति वा, “पञ्च पञ्चनखान् भुच्चीत" इत्यादौ च शशादिपञ्चकभिन्नपञ्चनख- भोजनं न दृष्टसाधनम् इति तत्र तल विध्यर्थः फलितः तत्र च अश्वरशनाग्रहणे शशादिभोजने च तत्तहिधेरौदासीन्य- मेवेत्येवं परिसंख्यामरणौ स्थितायां मानववचनेऽपि सवर्णाया असवर्गाथा वा विवाहे विधेरौदासीन्यमेव वाच्यं, केवलं तदति- रिलविवाहाभाव एव विहितः स्यात् तथा च क्षत्रियादीनाम् अमवर्णनां कथं विवाहमिद्धिर्भवेत् । ततश्च क्षत्रियादिविवा- इस्थाविहितत्वेन तगर्भजातसन्तानस्यानौरमत्वापत्तिः। किञ्च चत्वियादिगर्भजातपुत्त्राणां विभागकथनादेव तहिषासस्य विहितत्व मनोरभिमतमिति प्रतिभाति । तद्विरोधेन तेन पत्तियाधम्रवर्णाविवाहविधानस्य परिसंख्यापरत्वं कथं कल्यात बहुविवादवादः। ४२ यदि स्वाश्च पराश्चय विन्देरन् योषितो विजाः । तासां वर्णक्रमेणैव ग्टहं पूजा च वेश्म च वेश्म चेति मनुना सवर्णानामिवासवर्णानां "विन्देरन्” इत्यादिना विवाहानुवादेन गृहादिविशेषविधानात् श्रमवर्णनां विवाह एव मनीरभिमतः न तु तदतिरिक्तविवाहाभावः । तथात्वे तासां विवाहावेदकशास्त्राभावेन कथङ्कारं विन्देरनिति निर्दिश्येत । सत्त्येव क्षत्वियादिविवाहस्य विहितत्वे तदनुवादेन पूजादि- विशेषविधानं सङ्गच्छते नेतरथा । तथा एतद्दचनस्य स्वार्थ- परत्वे एव क्रमश इति पदमपि सार्थकं न अवार्थपरत्वे, तस्य असवर्णारिक्तां न विवहेदित्येवं परत्वेन तत्र क्रमशः इत्युक्ति- रनधिकैव । अत एवाक्रमोढ़ासन्तानस्यांशहारित्वाभावः स्मृत्य- मरे दर्शितः । न च परिसंख्यायां खार्थपरत्वमपि केनचिदु. पेयते अवरशमाग्रहणस्य तु “इमामगृहन्” इत्यादिशास्त्रेणैव प्राप्तत्वात् “इत्यखाभिधानीमादत्ते” इत्यादिवाक्यस्य स्वार्थ- परत्वाभावात् स्वार्थपरत्वे परिसंख्यायाः स्वरूपानिष्पत्तेश्च । तथा च कचिदन्यदृष्टचकरी ईदृशी परिसंख्यानिशाचरी तामस- प्रियाणामेव मोदायालमपि नैव मौमांसासरणितरणिदीधिति- निःसारिततमस्तोमानां समुन्मीलितनेत्राणामालोड़िततन्त्रा- साम् । किञ्च मनुना इमाश्चेति इदमा पुरोवर्तिनीनामेव दार- कर्मगि वणक्रमेण वरत्वमुक्तं पुरोवर्तिन्यश्च ब्राह्मणस्व सवर्णा चत्त्रियादयस्तिनश्च, क्षत्रियस्य सवर्णा वैश्या ट्रे च, वैश्यस्य न हि ४४ बहुविवाहवादः। सवर्ण सदा च, शूद्रस्य ट्रैवेति । तस्य च परिमंख्या परत्व- कल्पने श्रुताभ्यः एव सवर्णसवर्णाभ्यः अतिरिक्तविवाहनिषेध परत्वं वाच्य ततश्च कथङ्कारम् असवर्णतिरिक्तमानं निषेध्येत । तथा च तथा कल्पनम् अवैजरतीयन्यायमनुहरति । शशकः शल्लको गोधा खड्गी कूर्मश्च पञ्चमः । भच्यान पञ्चनखेष्वाहु । इति मनुवचने श्रुतात् शशादिपञ्चकादतिरिक्तपञ्चनख. भोजनस्थ निषेधके तन्मध्ये कस्यचिदे कस्यैव निषेधः कल्पयित प्रकाते। एवमिहापि इमा इति पदेन परामृष्टानां मध्ये एकस्था एव परिसंख्याविषयत्वमयुक्तमेव । किञ्च श्रुतयोः सवर्णासवर्णाविवाहबोर्माथे कि सवर्णाविवाहस्य परिसंख्या- परत्वम् आहोखित् असवर्णाविवाहस्य ? न तावदाद्यः रति- कामानां सवर्णातिरिकविवाहस्व निधे क्षत्तियादीनामसवर्ण- तया तद्विवाहस्थापि निषेधापत्त्या तदनिष्टापातात नापि द्वितीयः अमवर्णातिरिकविवाहनिषेधे बन्ध्यत्वादिनिमित्तेनापि सवर्णविवाहनिषेधापत्तेः । अमति च शास्त्रान्तरे तनिषेधपरत्वं कल्यते इति चेत् तदा सवर्णाविवाहस्यापि अस्मिन्नेव मनुवचने विधानेन एतस्यैव शास्त्रान्तरतया जागरूकत्वात् तनिषेधानुप- पत्तेः। एतेन मानववचन स्थं खेति पदं निगु र अमवर्णा- विवाहस्य परिसंख्यापरत्वकल्पनं नियुक्तिकमसङ्गतञ्च। ततश्च असवर्णाविवाहस्य क्वचिदपि मास्त्र प्राप्ततया तस्योत्पत्ति विधि- त्वौचित्ये स्थिते तदंशे परिसंख्यापरत्वकल्प नमतीव प्रामादिकम् ।
बदविवारवादः। ४५ किञ्च कामनावाचकपदममभिव्याहारे विधेः परिसंख्या- परत्वं कथञ्चिदपि न सम्भवति । तथा हि "स्वर्गकामो धजेत" इत्यादिना विधिप्रत्ययार्थम् इष्टसाधनत्वं यागे बोधयता कामना- विषय एवं दृष्टं बोध्यते तथा च यागः स्वर्गसाधनं वागेन वर्ग साधयदिति वा तत्र वाक्यार्थः । परिसंख्यायाश्च इतर- निवृत्तिपरत्वेन कामनाविषयफलस्य कस्मिन् विषये साधनवं शास्त्रं बोधयेत् ? तथा च “पुत्रकामो रतिकामो वा विष हेत्" इति वाक्येन विवाहेन पुत्र रतिं वा साधयेत् विभहो वा तत्तत्फलस्य साधनमिति बोध्यते तत्र विधे: परिसंख्यापरत्वे असवर्णाविवाहो नेटमाधममिति बोधे ननयितये विवाइस पुचरतिमाधनवं नावगम्यते किन्तु तदतिरिक्तविवाहे अनिष्ट- साधनत्वमावं ततश्च तत्तत् कामनावत: न तत्र प्रवृत्तिः। विधे- श्वेष ष स्वभावः यत् स्वविषये समभिव्याहतपदोपस्थाग्यकामनावि- पवफलमाधनतां बोधयन् तत्तत्कामनाविशिष्टं नियोज्यं पुरुषं “खविषये प्रवर्त्तयति। प्रकृते च असवर्णातिरिक्तविवाहस्य निषेध- परत्वे कथाकारं तत्तत् फलकामनया तत्र प्रवृत्तिः सम्भवेत् । इत्येवं परिसंख्यापरत्वरूपाभिनवार्थकल्प नया स्वाभीष्ट. सिद्धये असवर्णातिरिक्तविवाहनिषेधपरत्वं यत् व्यवस्थापितं तनिर्मलं नियुक्तिक स्व कपोलकल्पितं प्राचीनसन्दीसम्मतं परि- संख्यासरण्य ननुस्मृतं बहुविरोधग्रस्तञ्च प्रमाणपरतन्वैस्तान्त्रिक रश्रद्धेयमेव । तस्य निवारणार्थ यद्यपि प्रवास एवानुचितः तथापि पण्डितम्मन्यस्य स्वाभीष्टसिद्दये नत्राग्रहवतः परि- ४६ बहुविवाहवादः। संखारूपार्थकल्पनरूपावलेपवतश्च तस्थावलेपखण्ड नेन तदाक्ये विश्वासवतां संस्कृतपरिचयन्यानाम् तदुद्भावितपदव्या बहु- लदोषग्रस्तताबोधनायैव प्रयत्नः कृतः। परिशेषे इदमपि खेदेन प्रकाश्यते "चत् ईदृशपरिसंख्याकल्पनायाः निरासाय लेखनी व्यापारमासादयति, तादृशार्थकल्पने च शास्त्रीयतया विश्वासः” अहो वैदग्धी प्रज्ञावती विद्यासागरस्य “धत् अकि- श्चित्कराभिनवार्थप्रकाशनेन बहवो लोका व्यामोहिता इति" इत्यलमकिश्चितकरपरिसंख्याकल्पनापोहार्थमनल्पनल्पनेन । तथा च रतिकामः बहुपुत्त्रकामश्च सवर्णा असवर्णाश्च बही बिन्देतेति सकलवचनतात्पर्य्यार्थ इति सिद्धम् । श्री तत्मम् शिवम् । इति श्रीतारानाथतर्कवाचसतिभट्टाचार्यविरचितः बहुविवाहवादः समाप्तः । संवत् ११३८ ।
No text on this page.